University Library,gurukul Kangri Vishwavidyalaya

संस्कृत प्रवेश

Vaasudev · 2006/03/24

PDF Proofread

Front matter

COMPILER Silआगत सं० तिथि००/- गहरूमपाल संस्कृत- CHECKED -- -::::: Initial पण्डित-वासुदेव-विरचितः श्रीयुत पण्डित हरप्रसादशर्मणः (वकील) पद- स्थायिन प्राजानुसारम् क (मेरठ) स्वामियन्त्रालय सामवेदभाष्यकारस्य वेदप्रकाशसंपादकस्य तुलसीराम स्वामिनः प्रबन्धेन, मुद्रापितः फर्वरी ९९ ई० प्रथम वारम् ५०० मूल्यम् विज्ञापन FO सामवेदमौष्य-हमारा अनुवादित ४० पेज पर अच्छे कागज़ में प्रतिमाम छपता है वैदिकों के लिये यह अपूर्व अलभ्य लाभ है ३२० पृष्ठ छप चुके हैं प्रथम मन्त्रों को गणना मन्त्रगान की रीति षड्जादिस्वरों की व्याख्या लिखी है और उन २ शङ्कात्रों का निवारण किया जाता है जो जो प्रायः लोगों को उठती हैं। ऊपर वेदमन्त्र, नीचे पदपाठ, पुनः प्रमाणपूर्वक संकृतभाष्य, नीचे स्पष्ट भा. षार्थ व तात्पर्य भी लिखा जाता है। इतने काम पर भी मल्य बहुत थोड़ा अर्थात् ३) स० वार्षिक है अनुमान २ वर्ष के पूरा होगा परन्तु एक वार ही ७) ९० अग्रिम देने से सम्पूर्ण भाष्य क्रमशः प्रतिमास मिलेगा। वेद- विद्या के रसिकों परममान्य धर्मग्रन्थ के उत्साहियों को पत्र भेजना और ग्राहक होना चाहिये ।)॥ भेजने से न- मनामिलेगा जो ग्राहक होने पर ।) कम लिया जायगा। पता-पं० तुलसीराम स्वामी सामवेदभाष्यकार ०।२। ९९ स्वामियन्त्रालय-मेरठ ओ३म् अथ संस्कृत-प्रवेशः १ ४ बोधो ज्ञानम्। ब्राह्मणबालकयोः १ अर्भकै बालकैः । २ कुलजीविकाम् । ५ अमुञ्चत् अत्यजत्। ३ श्रुत्वा ६ विद्वांसौ पण्डितो। कस्मिंश्चिन्नगरे विद्यासागरमामा ब्राह्मण प्रासीत् । तस्य च एकोविधुभूषणः द्वितीयश्च शशिभूषणः दावेव निजमातुर्गर्भादेकदा जायमानी बालको भवतः तौ स- मानावस्थैः (१) अर्भकैः परस्परं क्रीडन्तौ समयं गम- याञ्चक्रतुः । निजहास्यमधुरभाषणैश्च मातृपित्रोरानन्द- दायको प्रास्ताम् । एवं गच्छति काले तौ च विद्याध्य- यनयोग्यौ जाती । तदा च तयोः पित्रा सुन्दरतिथि- नक्षत्रसंयुक्त दिनं विचार्य तौ सुतौ प्रति विद्यासागरेण उक्तम् । हे शुभलक्षणसंयुक्तौ विधभूषणशशिभूषणौ ! अधुना युधां विद्याऽध्ययनशक्तौ जातौ । तदद्य निज (२) कुलपो- षिणी विद्यां पठतम् । इत्यं पितुर्वाणी श्रुत्वा पूर्व विधु- भूषण उवाच । भो पितः! मम इच्छा त वेदपठने भवति ।

(२) । तत्पश्चाच्छशिभूषणोऽवदत्। मम तु यथाशीघ्रं संस्कृतज्ञानं भवतु तथैवास्ति । स एवं तयोर्यालकयोर्वचनं समाक- रयं (३) निजमनसि मशोचत् । किं किं कस्मै कस्मै पाठयम् इति । एवं विचिन्त्य निश्चितवान् आभ्यां प्रथमं व्याकर- णम् पठनीयम् । येन शीघ्र हि संस्कृतबोधो (४) भविष्यति इत्यं विधार्य तौ बालको गुरु समर्पयामास । अथ तौ प्र- तिदिन प्रातः प्रातरुत्थाय अध्ययनार्थ पाठशालायाम् अगमिष्यताम् । एवं गच्छति समये एकस्मिन्दिवसे स्व- पिति शशिभूषणे सर्य उदितः । मात्रा जागरितोपि न निद्राम् अमुञ्चत् (५) एतदन्तरेणैव भन्ये तत्पाठशालायां पठनवम्तीबालकास्तम् पाहूयनाथ गुरुणा प्रेषिताः । तैः परस्परं बलादाकृष्यमाणः शशिभूषणः पाठशालायां गतः गुरुणासंताडितश्च । भोःशशिभूषण ! एतदालस्येन विद्या. याः संचयो न भवति । तद्यदि एवं पुनरागमिष्यसि एतदिनादप्यधिक दण्डं प्राप्स्यसि । शशिभूषणोऽपि ता. वदारभ्य भानूदयात्मागेव उत्थाय शौचादिक्रियां कृ. स्वा पठनार्थमगमिष्यत् । अथ कियत्कालेन विधुभूषण- शशिभूषणो विद्वांसी (६) जातौ । उक्तहि- ।

(३) गुरूपदेशं योध्यात्वा वारं वारं विचार्य च । यत्करोति नरः कर्मसाफल्याय जयाय च ॥१॥ ८ प्रवाप जगाम । ब्राह्मणकाष्ठविक्रयकयोः १ अविद्यः विद्याहीनः । ६ अन्वधावत् अनुभगच्छत् । २ असत्कृतः भादरहीनः । ७स्फुटमस्तकः विदारितशिराः। ३ अलङ्कृतं शोभितम् । ४ प्राणायात्रा जीवननिर्वाह: अजातव्रणः व्रणरहितः । ५ प्राणत्राणं जीवरक्षाम् । अथै कस्मिन ग्रामे गुरुदत्तशर्मा नाम ब्राह्मणः प्रति- वसतिस्म । सोऽविद्योनिर्धनश्च आसीत् । ग्रामवासिभिर् असत्कृतः (२) येन केन प्रकारेण भाजीविकाम् अकरोत् । तेन एकदा विचारितम् । अहोअस्मद्भागवतादिग्रन्थेषु लिखितं तपःकरणेन प्रसन्ना देवा वरं ददति। अतो मया पि वने गत्वा कश्चिद्देवः प्रसादनीयः । इत्यं विचार्य वनं गच्छति ब्राह्मणे मार्ग कश्चित्काष्ठविक्रयकोमिलितः । तेन ब्राह्मणेन सह मित्रता कृता । उक्च-भोः काष्ठविक्रय- क! आवयोअधुना मित्रताजाता तदने सुखेन वत्स्या- ( ४ ) त- वः । त्वं मदीयम् अहं त्वदीयम् सहायं करिष्यामि इत्थं मिथोविचिन्त्य तो सुघासैः सुक्षैः सहकारकदम्बार्जु- नादिभिरलङ्कृतं (३) शुकसारिकादिपक्षिविशेषैरभि- शब्दायमानं च, सुवापितडागैरूपशोभितं च, पोऽभिलाषिनां नयनाऽनन्दजनकं च वनं जग्मतुः । तत्र गत्वा गुरुदत्तशर्मा तु तपसि लग्नः कन्दमन फलाहा- रैश्च प्राणयात्रा (४) मकरोत् । काष्ठविक्रयकश्च वनात् सुशुष्ककाष्ठभारमानीय निकटवर्तिनगरेषु काष्ठविक्रयं कृत्वा, तन्मौल्येनान्नादिकं गृहीत्वा वने निवमन् तपस्त- पन्तं गुरुदत्तं सेवमानोदिनानि व्यतीयाय । एकस्मिन्दिने तपस्तपति गुरुदत्ते तस्य कुटीनिकटे दैववशात् कुतश्चि- त्सिंहः समागतः । तं विलोक्य गुरुदत्तशर्मा निजमित्रमु- वाच । भोमित्र ! अयं वनजीवशत्रुः उद्घतस्कन्धः प्रसा- रितकेशरश्च बुभुक्षित इव कुतश्चित्ममायातः । तदस्मा- केनचित्प्रकारेण प्राणत्राणं (५) कुर्वः । एवं वदति गुरुदत्ते केशरी बलात् उपेत्य तम् उत्थाप्य सघनं वनं विवेश। का- ष्ठविक्रय कोपि कुठारहस्तस्तमन्धधावत् (६) । गत्वा ध सिंहमस्तकेतितीक्षणधारः कुठारःप्रहृतः। सिंहश्च स्फुट- (५) (७)मस्तकोमत्युमवाप(८) । तदनन्तरम् अजातव्रणो गुरुदत्त- शर्माऽपि काष्ठविक्रयकोऽपि वने निवसन्तौ कालोपं चक्रतुः नैकः प्रपद्यताध्वानम् सुखमिच्छन् हि मानवः । :**:- इत्यमन्यत । व्याधकच्छपयोः अडीदई हि गृहीयाद्यन्मिलेत्सुखपूर्वकम् । अर्द्ध त्यजन् लोभवशात् व्याधवच्छोकमाप्नुयात्। १ अनुदिनं प्रतिवारम् । ५ अंगीचकार इत्थंकरोमि २ पुरोभवति अग्रेभवति । ३ निस्सृत्य बहिरागत्य। ६ कर्मे कच्छपे। ४ नयनगोचरः प्रत्यक्षः। १ मरालीहंसः । कस्मिंश्चिन्न गरे एकोव्याधः प्रतिवसतिस्भ । स इत- स्ततोऽनुदिनं (१) तड़ागनदीप्रतिभ्यो मत्स्यादीन् समा- हत्य उत वनचरान् मृगशशकादीन् शुकसारिकाखंज. रोटादीन् वा समानीय तेषां मौल्येन भक्षणेन वा निज- कुटुम्बपालनां चकार । एकस्मिन्दिने भ्रमन् जीवादीन अभिलषन् न वापि कञ्चिजीवं प्राप्तवान् । ततः. स (६ ) ..N v~~ कस्यचित्तडागस्य तीरे तिष्ठन् व्यचिन्तयत् । अहो म जाने अद्यप्रातःकाले उत्थाय कस्य दुर्भाग्यस्य दर्शनं जातं, यत् तस्य फलमिदं (२)पुरोभवति । एवं विचिन्तयति तस्मि- कोहंसः समागत्य तडागतीरेऽतिष्ठत् । व्याधोऽपि तं हंसं विलोक्प प्रानन्दं जगाम। प्रवदच्च । “सर्वत्र भागी ल. भते हि भाग्यम् "अहो दयालुना ईश्वरेण हंस एव मत्प- रिवारक्षुधानिवारणाय प्रेषितः । तदस्योपरि जालं प्रसार्य इमं बद्ध्वा गृहं नेष्यामि । नीत्वा च बालकान् दर्शयि- प्यामि कथयिष्यामि च । रे बालकाः ! एष हंसोऽस्ति अद्य पर्यन्तं न कदापि एतादृशः पक्षी दृष्टोभवद्भिः न मया. नीतश्च । इति विचार्य जालं क्षिप्त्वा हंसोबद्धः । तदैव कश्चित्कच्छपोमुखे मणिं गृहीत्वा धर्मसेवनार्थं तडागान्नि- स्मृत्य (३) तटे उपविष्टः । तस्य व्याधोऽपि नयनगोचरो (४) जातश्च । हंसहस्तं व्याधं कच्छप उवाच-भोव्याध ! त्वम् इमं पक्षिदीनं हंसं मञ्च । एतत्प्रतीकारम् इमं मणिं गहाण । येन ते जीवनपर्यन्तं परिवाहीभविष्यति । इत्थं श्रुत्वा व्याधोऽप्यङ्गीचकार (५) प्रकथयत् च ।भो देहि मणिं तव मित्रं हंसं मुञ्चामि परं पूर्व मणिं देहि पश्चात् त्य- ( 9 ) जामि । तथा कृते कर्मे (६) व्याधस्तं मणिं गृहीत्वा पुनः कच्छपमुवाच । जलचर! एतत्सहोदरमणिमन्यं देहि तदा मुञ्चामि । नोचेत् मणिं हंसं च गृहं नेष्यामि । इत्थं श्रुत्वा कच्छपोविचचार । हहो बहूनर्थतरोजातः । यदस्मै दुष्टाय मणिदत्तः पूर्व मरालो (७) न मोचयितः । एवं विचार्य कच्छपः प्रोवाच । भोमित्र ! सत्यमुक्तं भवता देहि मणिं यदनेन मार्द्ध द्वितीयं मणिं समानेष्यामि । इत्थं व्याधी द्वितीयमणिमिलनोत्साहन मणिं कच्छ- पाय ददौ । कालपोमणिं लब्ध्वा उवाच । भोमित्र ! या- बदहं द्वितीयं मणिं तडागतलात् प्रानयामि । तावत् त्वम् इमं हंसं मुञ्च । नोचेत्मणिद्वयं न दास्यामि । इति कथ- यित्वा कूर्मोजले निमग्नः । तेन मणिद्वयलोभचित्तेन व्या- धेन हंसोमुक्तः । जलस्थेनैव कच्छपेन मुक्तोहंसो दृष्टः । तदा निर्विघ्नमनाः कच्छपः जलाद् उद्धृतग्रीवोव्याधमु- वाच । भो! गच्छ गृहम् ॥ (शटं प्रति शाठयं कुर्यात्) :**:- (८) वकमरालयोः १श्लाघावचः यशोवाणीः इति ५ विकसित प्रफुल्लित । २ सत्वरं ब्रूहि शीघ्रं कथय ६ आह्लाद श्रानन्दः । ३ संसर्गेण संमिलनेन । 9 साम्प्रतम् अद्य । ४ कुलायो गृहम् । ८ अद्मि भक्षयामि। ९ कर्णीकृतं श्रुतम् । कस्यचित् सरोवरस्य तटे कृतमन्दिरी वक प्रासीत् । स प्रतिदिनं तस्मादेव सरोवरात् मत्स्यान् समाहत्य उ. दरपूरणं कृतवान् । एवं कुर्वतस्तस्य कियान्कालोव्य- तीतः । अथ कदाचित् आकाशमार्गेण गच्छता हंसेन प्रफुल्लितकमलः सरोवरी दृष्टः । स च तद्दर्शनोत्सुकः त- तीरे समागतः । प्रागत्य च सरस्तीरे धास्तव्यतया मत- स्यसंहरणाय एकचरणेन स्थितं तपस्तपन्तमिव वर्क ददर्श । हंस उवाच । भोः कस्त्वं पक्षिविशेषः तपश्चारी। अद्यावधि तु मया कोऽपि न पक्षी तपश्चरन् दृष्टः । प्र- धुनैव जातं यत् अस्मत्कुलेऽपि तपश्चारिणः सन्ति । तर्हि प्रसन्नीभूतेन ईश्वरेण भवद्दर्शनास्कृतार्थीकतु मामत्र प्रेषितः । धन्योहं भवदर्शनेन । एवं स्वात्म (१) माघावचः ..

(6) । अहं तु श्रुत्वा वको न उवाच । पूर्वस्मादपि दृढतरं समाधि च- कार । पुनः मरालोऽवदत् । भो भ्रातर् यदि एतादृशी मतिस्ते भगवट्याने भवति तत्तु समीचीनं परम् भवद्गेहेऽतिथित्वेन प्राप्तः । तत् कञ्चित्कालं मत्तः वाती कृत्वा पुनान परायणोभव । एवं श्रुत्वा तु बकेन नयने उद्घाट्य दृष्टः कश्चित् हंसस्तिष्ठति । तं प्रेक्ष्य वक उवाच भोःकस्वं कस्मादागतः कस्य मरसस्तीरे वमसि कि नाम च ते किमर्थमागतः । मत्वरं ब्रूहि (२) यतस्तवातिथ्यं क- रोमि । हमेनोक्त, भोमित्र! हंसनामा पक्षी अहं पृथिवीत. लविख्यातकीर्तिः । यस्य चञ्चुसंसर्गेण (३) दुग्धपानीययोः पृथक्करणं भवति । भो अद्याहं मानससरोवरात् आग- च्छामि । यत्र बहुरङ्गा मुक्ता लुठन्ति । यमाश्रित्य मुखं प्राप्नुवन्ति। यं दृष्ट्वा अन्यमशेवरदर्शनेच्छा मनसि न उत्ति- ष्ठते । तस्मादायामि। तस्यैव तटे वटवृक्षशाखायां मम (४) कुलायोऽस्ति । निजनाम च पूर्वनुक्रमेव । भूमिवि- लोकनौत्सुक्येन भ्रमामि । अत्र विकमित (५)मनोहरक- मलं ते सरो मया दृष्टं तन्मनसि प्रासादो (६) जातः । एतद्दर्शनार्थमहमागतः । अद्य गच्छामि प्रलं तवाति- ( १० ) ध्यसत्कारेण । धके नोनं मम प्रवृतिमतु (७) साम्प्रतम् ऋषिप्रवृत्तिरिव भवति । तत्केनाऽहं तवातिथ्यं कुर्याम् । अहं तु प्रातरारभ्य सूर्यास्तान्तम् एकेन पदेन तिष्ठन् निनग्रीव ईश्वराराधनं करोमि । यत्किंचिद्भोज्यं देवव- शाद् आमिलति तदेव अद्मि (८) । स हंसोऽपि कदाचिद् वकानां श्रुतनामा आसीत्। तेषामेकपदेन स्थैर्य मत्स्यानां संहरणचापि श्रुतम् । तत् तेन तदा स्मृतम् । अहो यद- कानां लक्षणं मया कर्णीकृत (ब) तत्सर्वमस्य कथने सग. र्मितमेवास्ति इति निश्चित्य हंसोड्डीयत ।। बुद्धिमन्तो हि पश्यन्ति छद्मिनां छद्मजं वचः । तेषां छ अवचोज्ञात्वा सङ्गं मुञ्चन्ति हंसवत् १ चतुणी बालानाम् । १ भ्रातरः । प्रतिस्नेहाद् ५ विरराम मौनीबभूवा धातरङ्गतिवचनम् २ साई सह। ६ भणितंकथितम् । ३ त्यागं निर्गमम् । 9 जल्पितं उक्तम् ।

( ११ ) । ४ वाढम्एवंकरिष्यामिइति। ८ वसुना धनेन । विश्वसेत् विश्वासं कुर्यात्। अथैकस्मिन्नगरे ब्राह्मणाक्षत्रियवैश्यशद्राणां यथाक्र- मेण चत्वारो बाल का आसन् । तेषामन्योन्यं परा मैत्री चाभूत् । अथैकस्मिन् दिने चतुर्भिर्मिलित्वा चिन्तितम् अहो मित्राणि अस्माभिः कश्चित्सुखसाधनोपायो न कृतः । तर्हि इदानीं चत्वारो भ्रातरो (१) मिलित्वा दे- शान्तरं गत्वा कञ्चित्सुखसाधनोपायं विधास्यामः । रात्रौ एतन्मतं मन्त्रितं तैः । तत्र दैववशात् कश्चिच्छली तेषां पर- देशगमनविधायकं तद्वचः श्रुतवान् । तेन विचारितम् अ. हो इमे चत्वारोधनोपार्जनाय परदेशं गमिष्यन्ति । अहमपि एतेषु भृत्यभावेन पञ्जमोभूत्वा एतेषां परिचर्या कुर्वन् एभिरूपार्जितं द्रव्यं गृहीत्वा देशान्तरं गच्छामि वा स्वदेशमागमिष्यामि । सोऽपि एवं निश्चित्य अग्रिमे दिने चतुर्यु मिनेषु ब्राह्मण पुत्रस्य पार्श्व परदेशगमनप्र- शनार्थ गतः । भो अहं द्रव्यसंपादनार्थं गन्तुकामोऽस्मि त. सिर्विघ्नयात्राकरणाय मुमहतं कथय । ब्राह्मणसुतेन पृष्टं कदा गमनेच्छा वर्तते । तेनोक्तं भो अहम् एकाकी एवा- (१२) ऽस्मि । परदेशगमनाबिभेम्यपि परं देशान्तरं द्रष्टुं मनउत्सहते अतएव सुमुहूतं पृच्छामि । एतद्विकल्पा- स्मक मनोभवति । एतस्योपायो यद्यस्ति तदा वक्तव्यः केन साकं मदीया यात्रा भविष्यति । तच्छ्रुत्वा ब्राह्मण- बालकोऽवदत् । भोस्त्यज भयम् । अहमपि निजमित्रः साई (२) द्रव्योत्पादनार्थ परदेशं गमिष्यामि। यदि ता- वकी माकांक्षा स्यात् तदा त्वयापि गन्तव्यम् । एतत्म- माकर्य मसि हर्षमुदहन शोचत् । अहो ईश्वरेण कार्य- पूर्तिस्तु सम्यक्तया कृता परं यदि कार्यम्भूयात् । इत्थं संचिन्त्य प्रवदत् । भो अहम् अपि युष्माकं सेवां कुर्वन् पर- देशे कालं क्षपयामि । यत्किंचिद्भवतां साहाय्येन वित्तं मिलिष्यति तदई युष्मभ्यं दास्यामि । इति निर्णयं कृत्वा प्रश्नभरं तदुपरि क्षिप्त्वा गृहं प्रति निवृत्तः । तेश्च साकं स्वदेशत्यागं ( ३ ) कृतवान् । तैरपि स मित्रभावेन वर्ति- तः । रितस्त तो यन केन प्रकारेण वित्तमासादितम् । अ- थ तेन पञ्चम चिन्तितम् । अहो ! अद्य बहुवित्तमुपार्जितम् एभिः । तदिमान् केनचित्प्रकारेण वञ्चयित्वा सर्व धन- महं नेष्यामि। स्वस्त्रीपुत्रान् सुखं दास्यामि । इति विचा- ( १३ ) । र्य तेन कथितं हेप्रियवराः ! यदिदं वित्तमुपार्जितं भवद्भिः तद्गृहे प्रेषणीयं यतः कुटुम्बिनः क्लेशविमुक्ताः भवेयुः । तैः कथितं वाढं(४) परं मित्र । कोऽस्माकं धन गृह प्रापयिष्यति। एवं श्रुत्वा तेन उक्त, भो अहं भृत्यभावेन भवद्भिः साकं कि- मर्थम् आगतः। यत्किञ्चित्तावकं कार्य भवति तदहं हर्षचित्तः करिष्यामि। तेन विहाय चिन्तां मत्तः कथनीयम् । इति कथ- यित्वा स विरराम (५) एवं श्रुत्वा द्विगबालेन स्वप्रियैःसह संमन्त्रितं। भोप्रिया ! अयम् अस्मत्सु पञ्चमः किञ्चित्सुकथनं ब्रूते । वदति अयं भो यदिदं वित्तं भवद्भिर्बहुदिनैरुपा- जितं तद्गृहे प्रेषणीयं यतः पुत्रादयः सुखभुजःस्युः । तन्मया तु समीचीनं मन्यते युष्माकं मनसि यद्भवति तद्विधेयम् । एतच्छुत्वा वणिक्पुत्रेण भणितम् (६) अहं तु गृहदानाय निजभागं न प्रयच्छामि । युष्माकं मतिः स्वा- ज्नु कला । तच्छ्रुत्वा क्षत्रिय उवाच । भोः किमयं चौरोऽस्ति यतस्त्वं नाऽस्य विश्वासं कुरुषे । न इत्थं शोचनीयं । वैश्य उवाच । भो विज्ञापयतु परम् अहं कदापि निज- मागं न ददामि । न द्विवारं वक्तव्यं मत्तः । यदि भवतां मतिःस्यात्तदा कुत्रचित्प्रेषणाय त्रिभिरूपार्जितं द्रव्यं दे- ( १४ ) यमस्मै । क्षत्रियेणोक्त मा देहि भोः वयं तु दास्यामः । एवं बहुधा विमृश्य तस्य कपटभावमजानन्तस् तं स्वकीयं स्वकीयं द्रव्यं सर्व ददुः। अकथयंश्च । भोअस्माकं सर्वेषां गृहे नैरोग्यक्षेमं च वाच्यम् भवता । तेन जल्पितं (७) भोयुग्माकं सर्वेषां गृहे वदिष्यामि परं नास्य वणिक्पु- अस्य । तैरुक्तम् चेदिच्छा तावकी । एवं तेषां सर्वस्वं धनं संगृह्य गृहं प्रतिनिवृत्तः । मार्ग आगत्य तेन चिन्तितम् वित्तं तु सर्व मे हस्तगतं भवति इदानीं। तत्केन प्रका. रेण मदीयमेव भूयात् इत्युपायो विधेयः । इति सञ्चिन्त्य कियदूरमग्रे गत्वाऽचिन्तयत् अहो एषा सुजला सर- स्वती वहति । एतस्यां गतं खनित्या वसुना (८)प्रपर्य ग- पछामि समये प्राप्ते पुनरागत्य लप्स्यामि । निजप्रत्ययार्थ किञ्चित्किञ्चित्तेषां गृहे दास्यामि । यतोजनाः न निन्देयुः । तेन तथा कृतं । गते धनं धृत्वा मृत्तिकया भाच्छादितम् । किञ्चितिकञ्चित्तपित्रे दत्तम् ।। कुमित्रे नहि विश्वसेत् (१) -* ( १५ ) १ राजबालकयोः कनिष्ठः लघुभ्राता २तदन्तरम् अवसरम्। अथै कस्मिन्पत्तने हिमांशु म राजा प्रतिवसतिस्म। सस्य पुत्रद्वयम् आसीत्।एकः सुधांशुनामा द्वितीयश्चन्द्रांशु- रिति । तौ च एकदा परस्परं क्रीडन्तौ नदीतीरं गतौ तत्र गत्वा ताभ्यां किं दृष्टम् । एकः सिंहः प्रसारितकेशरः उद्- धृतस्कन्धो बुभुक्षित इव सघने धनेविचरति । अकस्मात् तं विलोक्य विभ्रान्तलोचनौ प्रभूताम् । कनिष्ठ(१)श्चन्द्रांशुः प्रोवाच । भोः सुधांशो! कथमस्मात् प्राणत्राणं कुर्वः । प्रायां तु बालो अज्ञातधनुर्विद्यौ अपरं च राजकुलोत्पा- त्वात् सुकुमारी। यदि अयं स्वयमेव आवाम् अदृष्ट्वैव या- यात् तदा आवयोः प्राणरक्षा भवेत्। नान्यथा। एवं चि- न्तयतोस्तयोर एकोहस्ती समायातः । इस्तिसिंह- योः परस्परं युद्धमभूत् । तौ च तयोयुद्धे बलाऽवलदर्श- नोत्सुकचित्तौ तत्रैव स्थितौ । तयोर्खालकयोः पश्यतोः सिंहेन हस्ती महितः। तदृष्टा सुधांशुः प्रोवाच । भौश्च- न्द्राशी! पश्य। हस्तिनस्कृतीयभागवपुषा सिंहेन एतादृशः स्थलतरोहस्ती मर्दितः । तदित्यं जातं मया। यम्मघुत- ( १६ ) रोऽपि जीवः स्यात् परं गुणबुद्धियुतः स्यात् तदा न्यून- प्रयासेनैव परदमनकर्ता भवति । अतो भद्र ! आवामपि ल- घुतरौ गुणबुद्धिही नौ राजकुमारौ स्वः। तदन्तरं (२) लब्ध्वा पितरं वृद्धं च विज्ञाय कश्चित् रिपुरावयोःराज्यं बलादा. हरिष्यति । तद् भ्रातः ! यदि तस्योपायं अद्यैव करिष्याव. स्तदैव सुखेन राज्यं भोदयावः । वाल्यावस्थासंचिता ए- व विद्या सुखदा भवति।इत्यं मियो विचिन्त्य गृहमाजग्म- तुः। आगत्य च एकः पण्डितः स्वपठनार्थ रक्षितः । त- स्मात् तो व्याकरण मारभ्य न्यायान्तानि शास्त्राणि अधी- तवन्तौ । अतएवोक्त लोके दृष्टान्तः। सहायास्तादृशाः सर्व यादृशी भवितव्यता कुक्करश गालयोः १ पललं मांसम् । ७ पुराणवैरी प्राचीनशत्रुः । २ अन्वधावत् अन्वगच्छत् । ८ परुषवचः दुर्वचनम् । ३ शृगालबन्दः शृगालसमहः । पौरुषेण बलेन । ४ सारमेयः श्वा। १० वाचि शब्दे। ५ भीषणरवं भयंकरशब्दम् । ११ उपहारः वलिः । ६ तीक्षण दशन तीव्रदन्त ।

(१७) AnA कस्मिंशिवदधिष्ठा केनचिदेकः कुक्करः पालितः । त- स्य कुक्कुरस्य भांसभक्षणस्य व्यसनं पतितम् । तस्य स्वा- मिनःपललं (१) दुर्लभम् आसीत्। तदर्थं स वनं गत्वा क- ञ्चिज्जीवं व्यापाद्य स्वोदरपरणं विधाय स्वामिद्वारमा- गमिष्यत् । एकस्मिन्दिने स कुक्कुरः वनं गत्वा कस्यचित् कृषिकारस्य अर्द्ध पक्यवक्षेत्रे कस्यचिज्जीवस्य मारणार्थम् अन्धधावत् (२) तदैव एकः शृगालबन्दः (३) समायातः । तेन च सः श्खा समन्तादवरोधितः । उवाच च । भोः सारमेय ! (४) शृणु यदस्माकं नगरे गतानां पश्चात् त्वं जने- भ्योऽस्मद्गमनं निवेदयन् भीषणरवं (५) कुर्वन्धावति स्म । तस्य प्रतीकारमधुना प्राप्स्यामः । तीक्षणदशन (६) धा- राभिश्च विदारयिष्यामः । अस्थिमात्रस्यापि चर्वणं करिष्यामः। यत् त्वं अस्मत् पुराणवैरी (9) । तत् क्रि- यतां निजप्राणरक्षाया उपायः। स कुक्कुरः तेषामेवं परुषष- चः श्रुत्वा निजपुच्छं चालयन् प्रशोचत्। हन्त कथमेभ्यः जी. वरक्षां करिष्यामि। यतः इमे बहुतराः, अहम् एकए बाउस्मि। तद् इदानीं मर्वेषां जम्बू कानामग्रे मया प्रणतिर्विधेया। इ- स्थम् अवधार्य सः श्वा सविनयंप्रोवाच । भोभ्रातरः! अहं २ MAR .../NAA NA...~r. Jion.. अस्य वाक्यस्य समस्तव्य. ( १८) युष्माकं लघुभ्राता शिष्यश्च । वस्थाबोधक वृत्तान्तं निबोधत । भोःकस्यचिच्छ गालरा- जस्य मम माता युष्माकं च माता द्वे कन्ये प्रास्ताम् । एक- स्मिन्दिने मम मातुर्य माकं च मातुः कस्मिंश्चिद्विषये वि- रोधः सज्जातः । युष्मन्मात्रा निजशरीरपौरुषेण (९) मम माता नगरे पलायिता । तावदारभ्य एतत्काल पर्यन्तं युष्मन्मातुर्भयेन वनं नाऽगच्छत् । अतो यूयं निर्भयावने पर्यटथ । अहं सभयो नगरे विचरामि । अनेन भ्राता अहं युष्माकम् । भवतां मम च वाचि (१०) कोऽपि न भेदः । यूयं गानकुशलाः शिक्षितस्वरा इव बेथ । अहं वाक त्रुटिं विध य अशिक्षित छ व ब्रवीमि परं वागेकैघ । अधुना युष्मत्सकाशात् गानस्वरशिक्षा ग्रहीतं समागतोऽहम् । पर तु निर्विघ्नतया स्वरशिक्षासमाप्त्यर्थं मङ्गलमयं वस्तु किमपि न पानीतम् । यद्गुरोरगं निवेद्य शिक्षारम्भं क- रिष्यामि । तद्विचार्य शशकोऽयं भवतामुपहार (११) प्र- दानाय यवक्षेत्रे ते च मारितः । शुना इत्थं कथयित्वा ते वञ्चिताः । तेच तद चनं श्रुत्वा को गुरुभविष्यति अस्य इति विचेरुः । तदन्तरेणैव अहं गुरुभवामि अहं गुरुर्भ.

( १९ ) -~.. । वामि इति विषये तेषु परस्परं विरोधोऽभवत् । श्वा उ- वाच ।भो न युद्धयत यूयम्। अहम् एकं न्यायं जानामि। यथा- न्यायं करिष्यामि च । ते ऊचुः । भो यदि यथान्यायं करि- ष्यति भवान् तदा क्रियतां न्यायः। कस्ते गुरुर्भवितुं योग्यो ऽस्ति । तेन कथितं भो अहं स्वेच्छया कञ्चिदेव गुरु करि- ष्यामि । यूयं मा युद्ध कुरुत । इति कथयित्वा तेन शुमा यूथाऽधिपोवृद्धः शृगालोगुरुः कृतः। तेनैव साई मैत्री च कृता । स च निमित्तमात्रं गुरु विधाय स्वामिद्वारमाज. । स्वकार्य साधयेद्रीमान् कार्यभ्रं शोहि मूर्वता। अथैकस्मिंन्दिने पुनः सपललादनचित्तः कुक्कुरो वनं जगाम । दैववशात् स पुराकृतगुरुः शृगालयथाऽधिपोऽपि तत्र मिलितः । तेनोक्तं भोः शिष्य ! एतावत्कालपर्यन्तम् अनध्यायः कथं कृतः । यतः पठनार्थ मागतः । शुना विचारितं, यदि अस्य विरोधिवचनं वदिष्यामि तदा तु अयं हूहू इति रवं कृत्वा सजातीयानाहूय मच्छरीरवि. द्रावणम् अवश्यमेव कारयिष्यति। इति निश्चित्य अवदत्। भोगुरो! मम स्वामिना गले रज्जु बद्ध्वा रक्षितोऽहम् । त- ( २० ) -: दनध्ययनकारणं भवति । तत् क्षन्तव्यं भवता । पागम्यताम् अद्य तु कञ्चिज्जीवं व्यापाद्य भक्षयावः । पुनरध्ययनं क- रिष्यामि । तेनोक्तं सुकथितं भवता अद्य मयाऽपि प्रात- रारभ्य अमशनमिव कृतम् । चल तर्हि दर्शय कञ्चित्क्षुद्र जन्तुम् । येनाऽवयोः सम्यक्प्राणयात्रा भवितुमर्हति । इति मियो मन्त्रयित्वा कञ्चिज्जीवमन्वेषणार्थविधरि. तवन्तौ । तत्र विचरद्भ्यां ताभ्याम् एको मृगशावः सुघा- सम् अदन् दृष्टः। तं विलोक्य शृगाल उवाच । पश्य भोः- प्रसन्नीभूतेन देवेन भावयोर्भक्षयार्थम् एकोमृगबालः प्रे. षितः। सुतृणविभूषिते क्षेत्रे अकुतोभयो विचरति । तर्हि तस्य निकटे तथा गन्तव्यं यथा स न जानातु । अन्यथा पलायमानोऽयम आवाभ्यां ग्रहीतुमशक्यो भविष्यति । स्वयूथे मिलिष्यति च । तत् सावधानीभूतेन त्वया एषः पन्था रक्षणीयः मया च द्वितीयः । ताभ्यां तथैव कृत्वा मृगबालो यूविगलितः दर्शनसुन्दरः अपरतश्च यथार्थ पलायनक्रियायाअनभिज्ञः तीक्षणधाराभिदंष्ट्राभिहीतो विदारितश्च ॥ ।

+ هما न A ( २१ ) 32, एकस्मिन् लिप्यमानो हि सर्वतोदृष्टिमाहरन् अजानन पीतमदवन्मृगात्मा इव नश्यति १ : भागः। द्विजसुतवियोगिन्योः १ प्रादुर्भूतः उत्पतितः । ६ आविर्भतम् निकलितम् २ न्यस्तकुम्भा धनघटा। 9 भास्करतेजोहतनता । ३ समाययौ आजगाम । सूर्यतेजमा मूर्छिता लता ४ चिबुकः अधरोष्ठानिम्न- ८ सा चोरीचकार । सा अङ्गीकृतवती। ५ भालपट्टे मस्तके। एकस्मिन्न गरे धनंजयशर्मा नाम ब्राह्मण प्रासीत् । तस्य वृद्धावस्थायाम् एकः सुतः प्रादुर्भूतः (१) । धनंज- यशर्मा तस्य पुत्रस्य इन्द्रदत्त इति नाम चकार । तमति- मोहेन पालयामास घ । स लघुकालेनैव विद्याऽध्यय- नयोग्योजातः । धनंजयशर्मणा पठनार्थम् काश्याम् प्रे. षितः । स च काशीं गतः। गत्वा च शास्त्राऽध्ययने लग्न: बहूनि शास्त्राणि अवलोकितानि अधीतानि च तेन । क्षिप्रकालेनैत्र विद्या उपार्जिता तेन । स एकदा स्ववयस्यै.

( २२ ) श्लानः सार्द्धम् भागीरच्याम् स्नानार्थम् गतः। अन्ये त. सहचारिणः शीघ्रम् स्नात्वा पाठशालायाम् समागताः । स तत्रैव तटे स्थित्वा सन्ध्योपासनादिकं कर्म अकरोत् । एतदन्तरेणैव काचिद् बाला नवयौवना मस्तके न्यस्तकु- म्भा (२) कटीं कुटिल यन्ती, निजचञ्चलनयनैर् इतस्ततोज- नान् मूर्छयन्ती, गत्या च हंसमपि निन्दन्ती, कान्त्या च चन्द्रम् हमन्ती, समाययौ (३) । तयाऽपि घटे उदकपूरणं तु विस्मृतम् उत चिबुककृतहस्ता काञ्चित्प्रियवाती शोधि- तवती । अहो विधिना कान्तवियोगो मम भाल पहेलि- खितः । यदद्य ऋतुराजे वसन्तसमये पत्युः पृथक कृता दुःखम् भजामि । हन्त मे दयितो निर्दयोऽस्ति । यत् तेन जात्वैवाहम् पृथक कृताऽस्मि । अद्य मां क्षणमपि घर्ष इव याति । मम पातिव्रतधर्मपालने ईश्वरः सहायो भ. विष्यति न वा । तदधुना इन्धनसञ्चयम् कृत्वा, चितां प्रज्वाल्य शरीरम् दहामि । एवं शोचन्त्यास्तस्याः मु- खात् हठात् रोदनम् आविर्भूतं (६) स चरोदनशब्दः इ- न्द्रदत्तस्य कर्णे गतः। इन्द्रदत्तोऽपि अकस्मात् तम् शब्दम् श्रुत्वा विधान्तनयनोऽभूत् । तस्याश्च समीपम् जगाम ।

( २३ ) गत्वा च ईन्द्रदत्तेन सा पृष्टा । भो वाले ! का त्वम् कस्य सुवंशे जाता कस्य कुलोद्धारिणी सुवधः । यदद्य गङ्गातीरे भास्करतेजो(७) हतलता इव कान्तवियोगिनी इव चि. बुकम् करे धृत्वा शोचसि मईसि च । तदद्य मां प्रति स्व. दुःख कारणम् वद । यटिकञ्चिन्मत्तम् ते दुःखनिवर्तनम् भविष्यति तत्करिष्यामि। तदुखम् त्यत्का कारणम् श्रा- वय । यत् तस्योपायम् शीघ्रम् विदधामि । सा इन्द्रदत्तस्य तां वाणी श्रुत्वा अश्रुप्रवा हैर् धरातलं मिञ्चन्ती वस्त्रेण नयनयोर्जलम् अपवारयन्ती किञ्चित्किञ्चिद् रुदन्ती यवाद भो द्विजवंशभूषण ! कस्त्वम् कुतः समायातः किम् ममो- परि दयां कर्तु कामः समागतः । भगवन् ! यथा भवांसत्य- कभार्यो वसन्तसमये विरहिणि दुःखजनके पत्र काश्याम् निश्चिन्तो दिनानि गमयति । प्रिय ! तथैव मे भर्ताऽपि गृहाद् रुष्ट्वा परदेशम् गतः। न जाने स क्व वसन्तस- मयम् यापयति । मां च एकाकिनी पतिवियोगिनीम् विरहकर्षिताम अबलां दृष्ट्वा ऋतुराजः प्रहरति । अतो ऽहं गङ्गातीरमासाद्य प्रियवार्ताम् चिन्तयन्ती दिनानि ( २४ ) ...... गमयामि । एतद्दुस्तरकालस्य अपनयाय उपायम शो. चामि येनाऽयम् समयः सुखं गच्छतु । यदि एतस्य मम दुःखवारणस्य उपायम् जानासि तर्हि दयां कृत्वा कथय । अहं त्वत्त एव कृतकृत्या भविष्यामि । इन्द्रदत्तोऽपृच्छत् । भोः सुमुखि! कीदृग्यपुर्वर्ण बलोपेतस्ते कान्तः। यत् चिन्ह म् अनुभय तमन्वेषणार्थम् गच्छामि। तच्छुत्वा सा प्रफुल्लित. मुखपङ्कजा इन्द्र दत्ताय आशिषो ददौ। तेनोक्तंभोः तव भर्तु विरोधकारणं किं कस्माद् रुष्टस् त्वत्तावा अन्यस्मात्। तया कथितं भी मत्तः। त्वत्तः कथम् । भी एकस्मिन्दिवसे तस्य प्राज्ञा मया न पालिता। इन्द्रदत्त उवाच-अतःपु- नरागमिष्यति यदि तदा न तस्माद्वेषः कार्यः सा चोरी- कार (5) सन्तुष्टोभार्यया भी भर्ना भार्या तथैव च । यस्मिन्नेव कुले नित्यं कल्यागं तत्र वै ध्रुवम् । मनः ॥१॥ -- ( २५ ) .. ब्राह्मणक्षत्रिययोः १ आवेदनीयम् कथनीयम् । ४ ममयानुकलं शीतोष्णी. २ समाधाय सावधानं कृत्वा। षधीनां विचारं कृत्वेति । ३ बबलस्य करीलस्य । अथ कस्मिंश्चिदधिष्ठाने कुवेरदत्तमामा ब्राह्मणो ब- भूव । स प्रतिदिनं ब्राह्म मुहूर्ते निशाऽवसाने उत्थाय खेष्टदेवतामारराध । एवं गच्छति काले तत्रैव कदाचित् कश्चिन्मदनपालनामा क्षत्रियः ममायातः । तेन उक्त, भो ब्राह्मण! अस्मिन् सशीते माघमासे तदपि रात्रिशंषे प्रा. तः काल उत्थाय किमर्थम् एतादृशं क्लेशं सहसे ! तद् य. दि किञ्चित्सुखदायकम् एतत् क्लेशमहनं स्यात् तर्हि मह्य- मप्यावेदनीयम् (१)। अहमपि विधास्यामि । इति श्री. श्रीकृत्य कुवेरदत्तोऽवदत् । भोः क्षत्रियकुलदीपक ! अ. हं समग्रां दिनचर्या करोमि । मदनोऽवदत् । भोः का माम दिनचर्या। कुवेरदत्तोऽकथयत् । भोः प्रातरारभ्य सायंकालान्तं मनुष्येण किं करणीयं सायमारभ्य प्रक्षा- तान्तं किं विधेयमिति नाम दिनचर्या । मदनपाल उवाच । भोः किं फलं तस्याः करण न किञ्च विपरीतेन । कुवेरद- ( २६ ) तो जजल्प। भोः शरीरे प्रारोग्यं बुद्धा निर्मलत्वं मनसि अचाञ्चल्यं च तस्याः करण न संजायते। एतद्विपरीतं न करणेन । मदनपाल उवाच। भोः कदाचित् २ कार्या इयं सर्वदा वा इति वक्तव्यम्। कुवेरदत्ताह। भोः सर्वदा। म- दनपाल उवाच । भो यद्येवं सुफलदा सा तदा मह्यमपि वाच्या । प्रातरारभ्य सायान्तं किं किमनुष्ठेयम् । कुवेर दत्त प्राह । शृणु भो मनः समाधाय (२)। सुश्रते-नुत्था- योत्थाय सततं स्वस्येनारोग्यमिच्छता। धीमता यद- नुष्ठेयं तत्सर्व संप्रवचम्यहम् ॥१॥ प्रथमं तु प्रातःकाले उत्था- य खट्वास्थ एव परमेश्वरस्य स्मरणं कुर्यात् स्वेष्टदेवस्य वा । तदन जीवितमातृपितृणाम् अभिवादनं च कुर्या- त् । तदनु विट् त्याज्यः । तदनु मृत्तिकया सप्तवारं दश. वारं वा यथा शुटुमतिः हस्तौ प्रक्षाल्य पादावेकवारंच। तदनन्तरं दन्तधावनार्थ यतेत । तत्प्रमाणेन द्वादशांगुलं स्यात् प्रायोबब्बनस्य च (३) । तचगलताल्वोष्ठजि- हामुखपाककामश्वासहिकावद्भिर्वजनीयम् । एतत्करगोन दन्तादिषु प्रारोग्यं भवति । मुखञ्च दौर्गन्ध्यहीनं जायते अनाभिरूधिश्च वईते। तत्पश्चाच्छीतलजलेम मुखधावनं का- य॑म्। चक्षुप्तेजःप्रबर्द्धनाय नगनयोरञ्जनं च देयात् । तदनु स- -- ( २७ ) मयाउनु कलम् (४) ओषधिसंमिलितैः निरौषधीभूतैर्वा तैलैः सशिरों गाभ्यङ्गःकार्यः । जलसिकस्य बर्द्वन्ते यथा मले- । कुरास्तरोः ॥ तथा धातुविवृद्धिर्हि स्नेहसिकस्य जायते ॥१॥ तत्पश्चात् यथाशरीरबलेन व्यायामो विधेयः । श्लो- काः । न च व्यायामिनं मयं मयन्त्यरयो भयात् । न चैनं सहसाक्रम्य जरा समधिरोहति ॥१॥ स्थिरीभवति मांसश्च व्यायामाऽभिरतस्य च ॥ व्याधयो नोपसर्पन्ति सिहं क्षुद्र- मृगा इव ॥२॥ वयोरूपगुणै हीनमपि कुर्यात्सुदर्शनम् ॥ विदग्धमविदग्धं वा भोजनं तस्य पच्यते ॥३॥ व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम् ॥ स घ शीते वस- न्ते च तेषां पथ्यतमः स्मृतः॥४॥ भो प्रिय ! एवं बहुगुणो व्यायामः । परन्तु अतिव्यायाम नाचरेत् । तदनु व्याया- मोत्थित पवनं स्थिरीकृत्य कञ्चित्कालं स्थित्वा शीतसमये उष्णेन उष्णे च शीतेन स्वप्रकृतिसात्म्येन वा पानीयेन स्नायात् । तच्च स्नानं आयुः कीर्तिप्रीत्यो गोबलवर्द्धनम् । तच्च स्नानम् प्रतीमारज्वरितकर्णशल वाय्वयोमाना- रोचकाजीर्ण भुक्तवत्सु गर्हितम् भवति। न तैः करणीय- मिति । येषां स्नानस्य निषेध उक्तः तेषां चन्दनस्यापि । ।

( २८) तदनु श्राहारो विधेयः । आहारः प्रीणमः सद्योबलकुद्देह- धारकः ॥ श्रायुस्तेजःसमुत्साहस्मृत्योजोऽग्निविधईनः ॥१॥ भक्का च पादप्रक्षालनं कुर्वीत । अग्रे सदिवारजनी- काम समासतः कथयामि । स्वप्न जागरण शयनाशन स्थान चंक्रमण यान वाहन प्रधावन लङ्घन प्लवन प्रतरण हास्य भाष्य व्यवाय व्यायामादीन् उचितान् अपि अति न सेवेत॥ शवलपोड़ाहायो कस्मिंश्चित्पत्तने कश्चिदीश्वरदत्तशर्मा ब्राह्मण आसीत् सस्य कदाचित् स्वभार्यया साकं विरोधः आसीत् । स तस्या रुष्ट्वा परदेशं गतः । तत्र गत्वा तेन तपस्तप्तम् तत्र ईश्वरवरप्रसादाद् एकः शंखोलब्धः । स च मनो- भिलाषपूर्तिकरणगुणविशिष्टः आसीत् । ब्राह्मणस्तं गृ. हीत्वा गृहमागन्तुकामो मार्ग स्वयजमानस्य गृहे रात्रि- मात्रां वसतिं चकार । तेन यजमानेन शङ्खान्मनोऽभिलाष- मभिलषन् ब्राह्मणः श्रुतः । यजमानो विचचार। अहोश- डोऽयं मनोभिलाषं पूरयति। तदा चोरयितव्योऽयं शङ्खः ।।

( २ ) APvt. मदीया निर्धनता दूरीभविष्यति । इति विचार्य अवस्थि- तः । ब्राह्मणो यदा भोजनं कर्तुमारेभे पश्चाद्यजमानेन श. वश्चोरितः। द्वितीयो धृतस्तत्रैव । ब्राह्मणस्त मेव जानन स्वभवनमाजगाम । गृहे आगत्य अर्थितः शङ्खः किमपि न ददातिस्म । तदा तेन विना विचारितम् अहो प्रतिनिधिः शङ्खोऽयं समर्पिती मम यजमानेन । स तेन छद्ममाऽपहृतः। तत्केन सपायेन प्राप्स्यति । स विधेयः । इति संचिन्त्य पुनस्तत्रैव बने तपस्तनुम् प्रापेदे । पुनरीश्वरेण लपोडश- सनामा शङ्खोदत्तस्तस्मै । स तं शङ्खलब्ध्वा पुनस्तत्रैव यज- मानस्य गृहे आगत्य स्थानं कृतवान् । पुनर्ब्राह्मणेन शङ्खो- ऽभ्यर्थितः । शङ्खः सहस्र शतं ददामि इति ब्रुवन् श्रुतो यजमानेन । मनसि अशोचत् । अहो अयं ततोऽपिवरिष्ठः। यत् सहस्र शतं वा ददाति । स तु मुद्रापञ्चकमेवादिदात् । तर्हि पञ्चमुद्रादायकम् अस्यैव पोदृस्यां धृत्वा, सहस्त्र. शतदायकं हरिष्यामि । एवमुद्दिश्य पूर्वचोरितः शङ्खो धु- तः द्वितीयश्चोरितः। ब्राह्मणास्तं लब्ध्वा स्वगृहमाजगाम । पश्चाद् यजमानेन शङ्काद् अभ्यर्थितम् । शङ्खोऽवदत् गृहाण मुद्रासहस्रं शतकं वा यावती इच्छा भवेत्तावकी । ववाद -

( ३० )
एवं केवलम् । परं ददाति किमपि न स्म । यजमानो
व, भोः केवलं वदति एवं ददाति किमर्थम् न । शङ्खो
जजल्प ।भीः-
अहं ददामि वामात्रं न च प्रत्ययकारकम् ॥
सत्यं लपोडशवोऽस्मि न ददाम्याहरामि ना।
स्तकालय
ल कांगड़ी
कथानां सूची
१ ब्राह्मणबालकयोः ।
२ ब्राह्मणकाष्ठविक्रयकयोः ।
३ व्याधकच्छपयोः।
४ वकमरालयो।
५ चतुर्णामबालानाम्
६ राजबालकयोः।
७ कुक्कुरगालयोः ।
८ द्विजसुतवियोगिन्योः।
ब्राह्मणक्षत्रिययोः ।
१० शङ्खलपोडशङ्खयोः ।

No text on this page.

संस्कृत प्रवेश

Author
Vaasudev
Title
Sanskrxt Pravesh
File name
संस्कृत प्रवेश
Text
OCR done
Citation
1919
Published
2006/03/24
Publisher
Svaamii Yantraalay, Meratha
Language
Sanskrit
Pages
33
Library
University Library,gurukul Kangri Vishwavidyalaya
Classification
LANGUAGE LINGUISTICS LITERATURE
DLI number
477395
Barcode
99999990173252.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
VMLT id
08maQeJETFd
Download PDF

संस्कृत प्रवेश