Tibetian Institute Sarnath Varanasi

Shrutbodh

Braj Ratna Bhattacharyen · 16.01.06

PDF Proofread

Front matter

॥ श्रीः॥
श्रीमन्महाकविकालिदासप्रणीतः
श्रुतबोधः।
श्रीयुतनारायणपण्डितेन प्रणीतया
संस्कृतटीकया सन्दर्भितः
मुरादाबादनिवासिना
बजरत्नभट्टाचार्येण
प्रणीतया रत्नप्रभाख्यया हिन्दीव्याख्यया
समलङ्कृतश्च ।
(सप्तमावृत्तिः)
मुम्बय्यां
पाण्डुरङ्ग जावजी इत्येतैः
खीये निर्णयसागराख्यमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशितः।
शकाब्दाः १८६१, सनाब्दाः १९३९.
मूल्यं ३ आणकाः।

॥श्रीः॥ समर्पणम् । स्वर्गसुखप्राप्तेभ्यो मृत्योः प्रागसामान्यपाण्डित्याभिमानिभ्यः श्रीमज्योतिर्विद् ज्वालानाथपण्डितेभ्य इयं रत्न- प्रभारूपकुसुमाञ्जलिः सवहुमानपुरःसरं समर्पितास्ति- तेपामौरसपुत्रेण ब्रजरनभट्टाचार्येण [ टीकाकारेण]

Published by Pandurang Jawaji and Printed by Ramchandra
Yesu Shedge, at the " Nirnaya-sagar" Press,
26-28, Kolbhat Street, Bombay.

॥ श्रीः॥ श्रुतबोधे प्रश्नाः। A. मणिबन्धस्यान्ते एकगुरुयोजने किं छन्दो भवति । B. आद्यास्त्रयः अष्टमः दशमः द्वादशत्रयोदशौ च यस्मिन् वृत्त गुरवः तस्य किं नाम। C. श्रुतबोध इति नामान्वर्थ अनन्वर्थ वा? । अन्वर्थ चेत् कथम् ? “पादान्तस्थं विकल्पेन" इत्येतत् साध्याहारं व्याख्यातामुदा- हियतां च । D. लक्ष्यन्तामुदाहियन्ता चाधोविन्यस्तछन्दांसिः-शालिनी, मन्दाक्रान्ता, शिखरिणी, स्रग्धरा, उपेन्द्रवज्रा चेति । E. पृथ्वीहरिण्योः कस्मिन् विषये भेदः? कमिश्चामेवः, सलक्षणमुत्तरणीयम् । F. "स स्तादम्बुमदम्बुदालिगलरुग्देवो मुदे वो मृडा" "कनककुण्डलमण्डितगण्डया जघनदेशनिवेशितवीणया। अमरराजपुरे सुरकन्यया तव यशो विमलं परिगीयते ॥१॥" "द्वन्द्वो द्विगुरपि चाहं मद्गहे नित्यमव्ययीभावः । तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥" "कथमयमपि कालश्चारुचन्द्रावतंसः" एषु कानि छन्दांसि । ब्रजरत्नभट्टाचार्य: पटुवरगंज, मुरादाबाद- ,

भूमिका ।
"नागर नन्दकिशोर, मुरलीधरन मधुरछवि।
चाहत चित्तचकोर, कृष्णचन्द्रमुखचंद्रको" ॥१॥
प्रिय वाचकवर्ग!
यह छन्दःशास्त्रभी वेदका अङ्ग है, परन्तु छन्द दो प्रका-
रके होते हैं एक वैदिक, दूसरे लौकिक. वैदिक छन्दोंका ग्रन्थ
शेषकृत पिङ्गल इस समय दुष्प्राप्य है. और लौकिक छन्दोंके
दो ग्रन्थ इस समय प्रसिद्ध हैं, एक तौ श्रीकालिदासकृत
'श्रुतबोध', दूसरा श्रीकेदारभट्टप्रणीत 'वृत्तरत्नाकर'. इनमेंभी
'वृत्तरत्नाकर' 'श्रुतबोध' की अपेक्षा कठिन और न्यून प्रचार
है. यह 'श्रुतबोध' बनारस कालिजकी प्रथम परीक्षा आदि
औरभी परीक्षाओंमें नियत है. प्रियवर ! लीजिये आज उस
(श्रुतबोध ) की भी भाषाटीका आपकी भेट है, ग्रन्थकारने
इसमें प्रसिद्ध २ चालीस छन्दोंके लक्षण लिखे ह, विशेष
१ शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः । ज्योतिषामयनं
चैव वेदाङ्गानि षडेव तु ॥१॥

२
चातुर्य इसमें यह है कि जिस छन्दका लक्षण लिखा है
वोह लक्षण उसी छन्दोबद्ध श्लोकमें लिखा है ॥
यद्यपि 'कालिदास' नामके अनेक कविवर हुए हैं
तथापि उनमेंसे यह परिचय देकर इस लघु ग्रन्थको गौरव
नहीं देता है की कौनसे कालिदासका निर्मित यह
अनुपम ग्रन्थ है।
परीक्ष्य विद्यार्थियोंको इस ग्रन्थसे बहुत कार्य पडता है,
अतएव उनके उपकासर्थ मैनें इसके ऊपर 'रत्नप्रभा' नामक
भाषाटीका बनायी है. यदि इसके पढनेसे छात्रवर्गको
कुछभी लाभ पहुंचेगा तो परिश्रम सफल माना जायगा ।
वैशाख
कृष्ण १९५२, व्ररत्नभट्टाचार्यः
मोहल्ला-पटुवरगंज,
मुरादाबाद.
२
गुरुवार.
१ बहुत सुप्रसिद्ध महापण्डित महाशयोंका यह कथन है कि-रघु-
वंशके कर्ता कालिदासका यह ग्रन्थ नहीं है, उनके 'रघुवंश-शाकु-
न्तल-विक्रमोर्वशी' निर्मित यह तीनही प्रन्थ विदित होते हैं, कारण
कि औरोंकी रचना भिन्न २ ज्ञात होती है यदि येही कथन प्रमाण
माना जाय तब तो "विक्रमोर्वशीय' भी उक्त कालिदासका निर्मित नहीं
जाना जाता क्योंकी उसमें दो-तीन स्थानों में स्वयं कालिदासने नाम
लिखा है 'शकुन्तला' के निर्माता कालिदासको यह प्रणाली नही
कि-वोह खयं नाम लिखें, जो हो सो हो इस विवादसे यहां कोई
लाभ नहीं ॥

॥ श्रीः॥ श्रुतबोधः सटीकः रत्नप्रभाख्यभाषाटीकासंवलितश्च । ग्रन्थप्रतिज्ञा। छन्दसां लक्षणं येन श्रुतमात्रेण बुध्यते ॥ तमहं संप्रवक्ष्यामि श्रुतबोधमविस्तरम् ॥ १॥ श्रीमत्सारस्वत धाम नत्वा स्तुत्वा च सद्गुरुम् । टीका श्रीश्रुतबोधस्य छन्दसः क्रियते मया ॥ छन्दसामिति ॥ अहं तं श्रुतंबोधं नाम छन्दःशास्त्रं संप्रवक्ष्यामि । कीदृशं तत् । अविस्तरं न विद्यते विस्तरो यस्मिन् सोऽविस्तरस्तदविलरम् । येन श्रुतमात्रेण प्रस्तारा- दिविनैव छन्दसामार्यानुष्टुवादीनां लक्षणं गुरुलघुवर्णमात्रा- गणादिस्वरूपं बुध्यते ज्ञायत इत्यन्वयः ॥ १ ॥ "करहु कृपाकी कोर, कालीमर्दन नन्दसुत । चित बहु हमरीओर, कंसनिकन्दन ब्रजरतन ॥ १॥" जिसके श्रवणमात्रहीसे कतिपय छन्दोंके लक्षण विदित हो जाते हैं, तिस स्वल्पविस्तारवाले श्रुतबोधनामक ग्रन्थको मैं वर्णन करूंगा? परिभाषा। संयुक्ताचं दीर्घ सानुस्खारं विसर्गसंमिश्रम् । विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन ॥२॥ अथ छन्दोलक्षणस्य लघुगुरुज्ञानमन्तरेण दुर्मज्ञेयत्वा- लघुगुरुलक्षणमाह । संयुक्ताद्यमिति । एतादृशमक्षरं गुरु ज्ञेयम् । कीदृशमक्षरम् । संयुक्ताद्यं संयुक्तस्य संयोगीभूत- २ श्रुतबोधः सटीकः। १ स्याद्यमादिभवम् । पुनः कीदृशम् । दीर्घ द्विमात्रकम् । सानुस्वारमनुस्वारेण सह वर्तमानम् । पुनः विसर्गसंमिश्रं विसर्गेण संमिश्र विसर्गसहितम् । पादान्तस्थमक्षरं विकल्पे- न गुरु लघु विज्ञेयम् । पादान्ते गुरुरपि लघुः स्यात्कुत्रचि- लघुरपि गुरुः स्यात् । तथा चोक्तं ग्रन्थान्तरे- 'वा पादान्ते त्वसौ वक्रो ज्ञेयोऽन्यो मात्रको लघुः ॥ २ ॥ संभोगी वर्णसे प्रथम रहनेवाला अक्षर और दीर्घ (द्विमा- त्रिक) तथा अनुस्वारसहित और विसर्गसमन्वित अक्षर दी होता है और श्लोकके चरणान्तके अक्षरको विकल्पसे दीर्घ जानना चाहिये ॥२॥ गणलक्षणम्। आदिमध्यावसानेषु भजसा यान्ति गौरवम् । यरता लाघवं यान्ति मनौ तु गुरुलाघवम् ॥ ३॥ श्लोकादौ कस्मिंश्चिद्गणे पतिते शुभं कस्मिंश्चिद्गणे पतिते चाशुभं भवतीत्यष्टगणानां लक्षणमाह । आदिमध्या- वसानेष्विति । भजसाः भगण-जगण-सगणाः आदिमध्या- वसानेषु गौरवं गुरुतां यान्ति, आदिश्च मध्यं च अवसानं च तानि तेषु । तथाहि-आदिगुरुभंगणः, मध्यगुरुर्जगणः, अन्त्यगुरुः सगणः । यरताः यगण-रगण-तगणाः आदिम- ध्यावसानेषु लाघवं लघुतां यान्ति । तथापि आदिलघुर्य- १. पादके अन्तका अक्षर दीर्घ हो वा ह्रस्व हो परन्तु-वोह विक- ल्पसे दीर्घ माना जाताहै । यह क्रम द्वितीय और चतुर्थ पादमें होता है, और प्रथम तथा तृतीयपाद में तौ 'वसन्ततिलका' आदिहीमें होता है ॥ २. एतच्छोकस्थाने “एकमात्रो भवेद्रखो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् ॥ ३ ॥" अयं श्लोकः कचिदुपलभ्यते ।

रत्नप्रभाख्यभाषाटीकासंवलितः । ३ , गणः । मध्यलघू रगणः । अन्त्यलघुस्तगणस्तु पुनः मनी मगण-नगणौ आदिमध्यावसानेषु गुरुलाघवं गुरुतां लघुतां च यातः। तथा च सर्वगुरुर्मगणः, सर्वलघुर्नगणः भवतीति । एतेषां देवताः फलानि च ग्रन्थान्तरे-'मो भूमिः श्रिय- मातनोति य जलं वृद्धि र वह्निर्मृति, सो वायुः परदेशदूर- गमनं त व्योम शून्यं फलम् ॥ जः सूर्यो भयमादधाति विपुलं भेन्दुर्यशो निर्मलं, नो नाकश्च सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः' ॥३॥ भगण जगण और सगण क्रमसे आदि मध्य और अन्तमें गुरु [ दीर्घ ] होते हैं, और यगण रगण और तगण क्रमसे आदि मध्य और अन्तमें लघु ह्रस्व ] होते हैं, तथा मगण और नगण यथाक्रमसे गुरु और लघु होते हैं; अर्थात्-जिसके आदिमें गुरुवर्ण हो सो भगण, जिसके मध्यमें गुरुवर्ण हो सो जगण, और जिसके अन्तमें गुरुवर्ण हो सो सगण कहाता है । और जिसके आदिमें लघुवर्ण हो सो यगण, जिसके मध्यमें लघु हो सो रगण, और जिसके अन्तमें लघु हो सो तगण कहता हैं, और मगणमें तीनों ( आदि-मध्य-अन्त्य) वर्ण गुरु होते हैं, तथा नगणमें तीनों वर्ण लघु होते हैं ॥ ४ ॥ भार्याछन्दः। यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश साऽर्या ॥४॥ यस्याः प्रथम इति।सा आर्या भवति । साका । यस्याः प्रथमे पादे द्वादश मात्राः स्युः । तृतीये तथा द्वादश मात्रा भवन्ति । द्वितीयेऽष्टादश मात्रा भवन्ति । चतुर्थो पञ्चदश मात्रा भवन्ति । सा आर्या ॥ ४ ॥ आर्याचरणेषु क्रमा- न्मात्राः-१२, १८, १२, १५ ॥

श्रुतबोधः सटीकः। जिसके प्रथम और तृतीय चरण बारह २ तथा द्वितीय चरणमें अठारह और चतुर्थ चरणमें पन्दरह मात्रा हों वोह आर्या छन्द कहाता है ॥ ४॥ गीतिः (आर्या)। आर्यापूर्वार्धसमं द्वितीयमपि भवति यत्र हंसगते। छन्दोविदस्तदानीं गीति ताममृतवाणि! भाषन्ते ५ आर्यापूर्वार्धसममिति। हे अमृतवाणि! छन्दोविदस्तदानीं तां गीति भाषन्ते ब्रुवते । हे हंसगते ! यत्रार्यापूर्वार्धसमं द्वितीयमपि उत्तरार्धमपि भवति । पूर्वार्धस्य प्रथमे द्वादश मात्राः, द्वितीयेऽष्टादश, तृतीये द्वादश, चतुर्थकेऽष्टादश, संकलनया षष्टिमात्रा इत्यर्थः। अमृतमिव वाणी वाक् यस्याः साऽमृतवाणी तस्याः संबुद्धिः। छन्दांसि विदन्ति जानन्तीति छन्दोविदः शास्त्रज्ञा इत्यर्थः । हंसस्य गतिर्गमनमिव गमनं यस्याः सा हंसगता तस्याः संबुद्धौ हे हंसगते इत्यर्थः ॥५॥ गीतिचरणेषु क्रमान्मात्राः -१२, १८, १२, १८ ॥ हे हंसकी सदृश गतिवाली प्रिये ! जिसका पूर्वार्ध और उत्त- रार्ध आर्या छन्दके पूर्वार्धकी समान हो हे मधुरभाषिणि ! ति- सको छन्दःशास्त्रज्ञ पण्डित गीति छन्द कहते हैं, अर्थात्-जिसके प्रथम चरणमें बारह और द्वितीयमें अठारह तथा तृतीयमें बारह और चतुर्थमें अठारह मात्रा हो सो गीति छन्द कहता है ॥५॥ उपगीतिः (आर्या)। आर्योत्तरार्धतुल्यं प्रथमाधमपि प्रयुक्तं चेत् । कामिनि ! तामुपगीतिं प्रकाशयन्ते महाकवयः॥६॥ आर्योत्तरार्धतुल्यमिति ॥ हे कामिनि ! महाकवयस्तामपि १. एक हख अक्षरकी एकहीं मात्रा होती है। ..

रत्नप्रभाख्यभाषाटीकासंवलितः ।
५
गीतिं प्रकाशयन्ते । उपगीतिसंज्ञकां प्रकटीकुर्वते इत्यर्थः ।
यदि आर्योत्तरार्धतुल्यं प्रथमार्धमपि प्रयुक्तं चेत्प्रयोगीकृतं
भवति । उत्तरार्धेन द्वादशमात्रिकेण तुल्यं समानं भवति ।
प्रथमे द्वादश मात्रा,
द्वितीये पश्चदश, तृतीये द्वादश, चतुर्थे
पञ्चदश, संकलनया ५४ चतुष्पञ्चाशन्मात्रेत्यर्थः। कामो
विद्यते यस्याः सा कामिनी तस्याः संबुद्धौ । महान्तश्च ते
कवयंश्चेति कर्मधारयः। तथा चोक्तं ग्रन्थान्तरे-.-"आर्या-
द्वितीयकेऽर्धे यद्गदितं लक्षणं तत्स्यात् ॥ यद्युभयोरपि
दलयोरुपगीतिं तां मुनिब्रूते” ॥ ६॥ उपगीतिः चरणेषु
क्रमान्मात्राः १२, १५, १२, १३ ॥
हे कामिनि ! जिसका प्रथमाघभी आर्या छन्दके उत्तरार्धकी
तुल्य प्रयोग किया जाय उस छन्दको बडे बडे कवीश्वर उपगीति
छन्द कहते हैं, अर्थात्-जिसके प्रथम चरणमें बारह और द्विती.
यमें पन्दरह तथा तृतीयमें बारह और चतुर्थमें पन्दरह मात्रा हो
वोह उपगीति छन्द कहाता है ॥६॥
अक्षरपतिछन्दः।
आधचतुर्थं पञ्चमकं चेत् ।
यत्र गुरु स्यात्साऽक्षरपतिः॥७॥
आद्यचतुर्थमिति ॥ यत्र यस्यां वृत्तौ आद्यं प्रथमं चतुर्थ
पञ्चमकं गुरु स्यात्साऽक्षरपङ्क्तिः ज्ञेया । अक्षरशब्दः पाद-
पूरणार्थः, छन्दस्तु पतिः 'प्रतिचरणे इदं लक्षणम्' । तथा
चोक्तं रत्नाकरे.-"भोगाविति पतिः”॥ ७॥ अक्षरपतिः
चरणाक्षराणि ५ ग० भ, गु, गु ॥
जिस छन्दमें प्रथम चतुर्थ और पंचम वर्ण गुरु [ दीर्घ ] हो
उसे अक्षरपंक्ति (पंक्ति) छन्द कहते हैं ॥ ७ ॥

६ श्रुतबोधः सटीकः। शशिवदनाछन्दः। अगुरु चतुष्कं भवति गुरू द्वौ । धनकुचयुग्मे ! शशिवदनासौ ॥ ८॥ अगुर्विति। हे घनकुचयुग्मे ! यत्राद्यं चतुष्कं वर्णचतुष्टयं अगुरु स्याञ्चत्वारो वर्णा लघवः सन्ति ततो द्वौ पञ्चमषष्ठौ गुरू दीर्थों भवतस्तदा शशिवदना चरणचतुष्टयेष्विदं लक्षणं असाविति संबन्धः। घनं कठिनं कुचयुग्मं यस्याः सा धनकु- चयुग्मा तस्याः संबुद्धौ । तथा चोक्तं रत्नाकरे-"शशिव- दना न्यौ”॥८॥ शशिवदना । चरणाक्ष० ६, ग० न, य ॥ हे सघनउरोजवति ! जिसमें पहिले चार अक्षर लघु और तदनन्तर पांचवें और छठे यह दो अक्षर दीर्घ हो उसको शशि- वदना छन्द कहते हैं ॥ ८॥ मदलेखाछन्दः। तुर्य पञ्चमकं चेद्यत्र स्याल्लघु बाले ! । विद्वद्भिर्मगनेत्रे ! प्रोक्ता सा मदलेखा ॥९॥ सप्ताक्षरजातौ मदलेखालक्षणमाह-तुर्यमिति ॥ हे मृगनेत्रे ! यदि तुर्य चतुर्थं पञ्चमकं पञ्चमं लघु स्यात् हे बाले नवयौवने ! विद्वद्भिः पण्डितैः सा मदलेखा प्रोक्ता । मृगस्य नेत्रे इव नेत्रे यस्याः सा मृगनेत्रा तस्याः संबुद्धौ । उक्तं रत्नाकरे-"मसौ गः स्यान्मदलेखा" ॥ ९॥ मद्- लेखा । चरणाक्ष० ७ ग० म, स, ग ॥ हे मृगनयने ! तरुणि ! यदि चतुर्थ और पञ्चमवर्ण लघु हों तौ विद्वानोंद्वारा मदलेखा छन्द कहाजाता है ॥ ९ ॥ .

रत्नप्रभाख्यभाषाटीकासंवलितः ।
७
भष्टाक्षरजाति (अनुष्टुवादि) छन्दः ।
श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम् ।
द्विचतुष्पादयोहखं सप्तमं दीर्घमन्ययोः ॥१०॥
अष्टाक्षरजातौ पद्यलक्षणमाह-श्लोक इति ॥ अन्ययोः
प्रथमतृतीयपादयोः सप्तममक्षरं गुरु द्विमात्रकं भवति ।
सर्वत्र चतुर्वपि चरणेषु पञ्चममक्षरं लघु स्यात् । षष्ठं गुरु
स्यात्। द्विचतुष्पादयोर्द्वितीयचतुर्थचरणयोः सप्तममक्षरं ह्रस्वं
ज्ञेयम् ॥ ईदृग्विधे श्लोके पद्येऽनुष्टुबादयो भवन्ति ॥१०॥
जिसके अन्य (प्रथम-तृतीय) चरणमें सप्तम वर्ण गुरु हो,
और चारों चरणों में छठा अक्षर गुरु तथा पांचवा लघु हो और
द्वितीय तथा चतुर्थ चरणमें सप्तम वर्ण लघु हो उसे श्लोक
(अनुष्टुप् ) आदिक जानना ॥ १० ॥
पद्यछन्दोलक्षणम् ।
पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः।
षष्ठं गुरु विजानीयादेतत्पद्यस्य लक्षणम् ॥११॥
अथ पद्यलक्षणमाह-पञ्चममिति ॥ एतत्पद्यस्य लक्षणं
विजानीयात् । यत्र सर्वत्र चरणेषु पञ्चमं लघु भवति ।
द्विचतुर्थचरणयोः द्वितीयचतुर्थचरणयोः सप्तममक्षरं लघु
भवति । सर्वत्र चरणेषु षष्ठं अक्षरं गुरु भवति ॥११॥
पद्यं । चरणाक्ष० ८, गणनियमो नास्ति ।
जिसके चारों चरणोंमें पञ्चम वर्ण तौ (ह्रस्व ) हो और दूसरे
तथा चौथे चरणमें सातमा अक्षर लघु (ह्रख) हो, और चारों
पादोंमें छठा अक्षर गुरु हो उसे पद्य जानना चाहिये ॥ ११ ॥
माणवकं छन्दः।
आदिगतं तुर्यगतं पञ्चमकं चान्त्यगतम् ।
साद्गुरु चेत्तत्कथितं माणवकाक्रीडमिदम् ॥१२॥

श्रुतबोधः सटीकः । , माणवकाक्रीडलक्षणमाह-आदिगतमिति ॥ तदिदं माणवकाक्रीडं कथितं कविभिरित्यध्याहार्यम् । आदिगतं प्रथमं तुर्यगतं चतुर्थं पञ्चमकं पञ्चमं अन्त्यगतं अन्त्य- स्थितमष्टमं गुरु स्यात्तदिदं माणवकाक्रीडं बुधा वदन्ति । तथा चोक्तं रत्नाकरे-"माणवकं भस्तलगः ॥ १२ ॥ माणवकं । चरणाक्ष० ८ ग० भ, त, ल, ग ॥ जिसमें प्रथम चतुर्थ और पंचम तथा अन्त्य ( अष्टम ) अक्षर गुरु हो उसको माणवकाक्रीड छन्द कहते हैं ॥ १२ ॥ प्रमाणिका, नगस्वरूपिणी । द्वितुर्यषष्ठमष्टमं गुरु प्रयोजितं यदा । तदा निवेदयन्ति तां बुधा नगस्वरूपिणीम् ॥१३॥ अथ नगवरूपिणीलक्षणमाह-द्वितुर्येति ॥ बुधाः पण्डिताः तदानीं नगस्वरूपिणी निवेदयन्ति । तदा कदा । यदा द्वितीयं तुर्य चतुर्थ षष्ठं अष्टमं चाक्षरं गुरु प्रयोजितं गुरुसंज्ञकं भवति, एतादृशीं तां नगस्वरूपिणी निवेदयन्ति । तथा चोक्तं रत्नाकरे--"प्रमाणिका जरौ लगौ” ॥ १३ ॥ प्रमाणिका, नगस्वरूपिणीति वा । च० अ० ८, ग० ज, र, ल, ग॥ जब द्वितीय चतुर्थ छठा और आठवा अक्षर गुरु प्रयोग किया जाता है, तब उसको पण्डित महाशय नगस्वरूपिणी कहते हैं॥१३॥ विद्युन्मालाछन्दः। सर्वे वर्णा दीर्घा यस्यां विश्रामः स्याद्वेदैर्वेदैः । विद्वद्वृन्दैर्वाणावाणि! व्याख्याता सा विद्युन्माला॥१४॥ अथ विद्युन्मालालक्षणमाह-सर्वे वर्णा इति। हे वीणा- वाणि! विद्वद्वन्दैः पण्डितसमूहैः सा विद्युन्माला व्याख्याता, -

रत्नप्रभाख्यभाषाटीकासंवलितः ।
.९
वीणायाः वाणीव वाणी यस्याः सा वीणावाणी तस्याः
संबुद्धौ । विदुषां पण्डितानां वृन्दानि समूहास्तैः । सा का।
यस्यां सर्वे वर्णा दीर्घाः गुरुभूता भवन्ति, वेदैदैश्चतु-
भिश्चतुर्भिर्विश्रामो भवतीति सा विद्युन्माला । तथा चोक्तं
रत्नाकरे-"मो मो गो गो विद्युन्माला" ॥ १४ ॥ विद्यु-
न्माला । च० अ० ८,ग० म, म; ग, ग,
यतिः
४,४,॥
जिसमें सबही वर्ण दीर्घ हों और चार चार अक्षरोंके ऊपर
विराम ( स्थिति ) हो, हे मृदुभाषिणि ! पण्डितसमाजोंने उसको
विद्युन्मालानामसे व्याख्यान किया है ॥ १४ ॥
चम्पकमालाछन्दः ।
तन्वि! गुरु स्यादाद्यचतुर्थं पञ्चमषष्ठं चान्त्यमुपान्त्यम् ।
इन्द्रियबाणैर्यत्र विरामः सा कथनीया चम्पकमाला १५
अथ दशाक्षरजातौ चम्पकमालालक्षणमाह-तन्वीति ।।
हे तन्वि तन्वङ्गि ! सा चम्पकमाला कथनीया । सा का ।
यत्र यस्यां आद्यचतुर्थं प्रथमं चतुर्थ पञ्चमषष्ठं अन्त्यं दशमं
उपान्त्यं नवमं एते गुरुवो भवन्ति । यत्र इन्द्रियबाणैः
पञ्चभिः पञ्चभिरक्षविरामो विश्रामः । सा चम्पकमाला
कथनीया । आद्यचतुर्थं पञ्चमषष्ठं इत्येकत्वे द्विगुद्वन्द्वौ ।
इन्द्रियाणि च बाणाश्च इन्द्रियबाणास्तैः । तथा चोक्तं रत्ना-
करे-"चम्पकमाला चेद्भमसागः ॥१५॥ चम्पकमाला ।
चरणाक्ष० १०, ग० भ, म, स, ग; यतिः ५, ५ ॥
हे तन्वनि ! जिसमें प्रथम और चतुर्थ पञ्चम और षष्ठ तथा
उपान्त्य (नवम ) अक्षर गुरु हो और पांच पांच वर्णोंपर जिसमें
विराम हो उसको चम्पकमाला कहना चाहिये ॥ १५ ॥

श्रुतबोधः सटीकः । मणिबन्धछन्दः। चम्पकमाला यत्र भवेदन्त्यविहीना प्रेमनिधे!। छन्दसि दक्षा ये कवयस्तन्मणिबन्धं ते ब्रुवते ॥१६॥ अथ नवाक्षरजातौ मणिबन्धनलक्षणमाह-चम्पक- मालेति ॥ हे प्रेमनिधे! छन्दसि छन्दोग्रन्थे ये दक्षाः कुश- लास्ते कवयस्तन्मणिबन्धसंज्ञकं ब्रुवते । यत्रान्त्यविहीना चम्पकमाला भवेत् । चम्पकमाला तु दशाक्षरा । इदं नवाक्षरं भवेत् । लक्षणं तु तदेव चम्पकमालागतमेव तन्मणिबन्धम् । प्रेम्णः निधिरिव निधिः तस्याः संबुद्धौ । अन्त्यविहीनः अन्ते भवोऽन्त्यो वर्णः तेन विहीना त्यक्ता भवेत् । तदुक्तं रत्नाकरे-"म्भौ सयुक्तौ रुक्मवती" ॥१६॥ मणिबन्धम् ॥ च० अ० ९, ग० भ, म, स; यतिः ५।४ हे प्रिये ! जिसमें अन्त्यवर्णरहित चम्पकमालाका लक्षण हो उसको छन्दःशास्त्रमें निपुणजन मणिबंधसंज्ञक छन्द कहते हैं ॥ १६ ॥ शालिनीछन्दः। हस्त्रो वर्णो जायते यत्र षष्ठः कम्बुग्रीवे ! तद्वदेवाष्टमान्त्यः । विश्रामः सात्तन्वि वेदैस्तुरङ्गै- स्तां भाषन्ते शालिनी छान्दसीयाः ॥१७॥ एकादशाक्षरजातौ शालिनीमाह-हस्व इति ॥ हे तन्वि कृशागि छन्दसीयाः छन्दसि कुशलास्तां शालिनी भाषन्ते । तां कां । हे कम्बुग्रीवे! यत्र यस्यां षष्ठो वर्णो ह्रखः तद्वदृष्ट- मान्त्यः नवमः हस्खो जायते । यत्र वेदैश्चतुर्भिस्तुरङ्गैः सप्त- रत्नप्रभाख्यभाषाटीकासंवलितः । भिर्विश्रामस्तां शालिनी भाषन्ते ब्रुवते । कम्बोः शङ्खस्य ग्रीवावगीवा यस्याः सा तत्संबुद्धौ । 'कम्बुग्रीवा त्रिरेखा स्यात्' इत्यमरः। तदुक्तं रत्नाकरे-"शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः" ॥ १७ ॥ शालिनी । चर० अ० ११ ग० म, त, त, ग, ग; यतिः ४, ७ ॥ हे सूक्ष्माङ्गि ! जिसमें छठा अष्टमान्त्य (नवम) अक्षर ह्रस्व हो, तथा हे मंजुकण्ठि ! चार और सात अक्षरोंके ऊपर विराम हो उसको पण्डितजन शालिनी छन्द कहते हैं ॥ १७ ॥ मन्दाक्रान्ताछन्दः। चत्वारः प्राक्सुतनु ! गुरवो द्वादशैकादशौ चे- न्मुग्धे ! वर्णौ तदनु कुमुदामोदिनि! द्वादशान्त्यौ। तद्वचान्त्यौ युगरसहयैर्यत्र कान्ते विरामो मन्दाक्रान्तां प्रवरकवयस्तन्वि! तां संगिरन्ते॥१८॥ चत्वार इति॥हे सुतनु सुष्टु तनुः कायो यस्याः सा तस्याः संबोधनं हे सुतनु ! प्रवरकवयः श्रेष्ठकवयः तां मन्दाक्रान्तां वदन्ति । तां काम् । चेद्यदि यत्र यस्यां प्रागादौ चत्वारो वर्णा गुरवो भवन्ति । हे मुग्धे ! च पुनः द्वादशैकादशौ वर्णी गुरू भवतः। हे कुमुदामोदिनि ! च पुनः तद्नु द्वादशान्यौ त्रयो- दशचतुर्दशौ वर्णी गुरू भवतः। च पुनः अन्त्यौ तद्वद्भवतः हे कान्ते ! च पुनः युगरसहयैश्चतुःषट्सप्तभिः क्रमेण विरामो भवति । प्रवरकवयस्तद्विदः॥१८॥ मन्दाक्रान्ता । च० अ० १७, ग० म, भ, न, त, त; ग, ग; यतिः४, ६, ७॥ हे सुभगे ! जिसमें पहिले चार अक्षर गुरु हों, तदनन्तर हे मुग्धे ! बारहवें और ग्यारहवें दो अक्षर गुरु हों पुनः हे कुमु- !

१२ श्रुतबोधः सटीकः । दवासिनि ! तेरहवां और चौदहवां यह दो अक्षर गुरु हों, तथा हे कान्ता ! अन्त्यके दो अक्षर मी गुरु हों, और चार-छै तथा सात सात वर्गों के ऊपर विराम हो, हे तन्वङ्गि! श्रेष्ठ कवीश्वर उसे मन्दाक्रान्ता कहते हैं ॥ १८ ॥ हंसीछन्दः। मन्दाक्रान्तान्त्ययतिरहिता सालङ्कारे! भवति यदि सा । तद्विद्वद्भिर्बुवमभिहिता ज्ञेया हंसी कमलवदने ! ॥१९॥ हंस्या लक्षणमाह-मन्दाक्रान्तेति ॥ हे कमलवदने ! तत्तदा ध्रुवं निश्चयेन हंसी ज्ञेया ज्ञातव्या। कमलवत्सौन्दर्य सौरभादिगुणैः कमलसदृशं वदनं मुखं यस्याः सा तत्संबो- धनम् । कथंभूता हंसी । विद्वद्भिः पण्डितैरभिहिता कथिता । तदा कदा । हे सालङ्कारे! यदि मन्दाक्रान्ता अन्त्ययतिरहिता अन्ते भवा अन्या मन्दाक्रान्तायां युगरसहयैः विश्रामः सान्त्यरहिता दशवर्णात्मिका सा हंसी ज्ञेया। लक्षणं मन्दा- क्रान्ताया एव । अलङ्कारेण आभूषणेन सह वर्तमाना सालङ्कारा तस्याः संबोधनं हे सालङ्कारे! ॥१९॥ हंसी। च० अ० १०, ग० म, भ, न, ग; यतिः ४, ६ ॥ हे अलङ्कारवति ! जब मन्दाक्रान्ताही अन्त्यवर्णरहित हो तो हे कमलमुखि, उसको विद्वानोंद्वारा कहा हुवा निश्चय हंसीछन्द जानो, अर्थात्-मन्दाक्रान्ता विराम चार छै और सात अक्षरके ऊपर होता है, परंतु-इसके प्रतिपादनमें विरामके अर्थ सप्तम वर्ण नहिं होता, शेष संपूर्ण मन्दाक्रान्ताका लक्षण होता है ॥ १९ ॥ दोधकवृत्तम् । आधचतुर्थमहीननितम्बे ! सप्तमकं दशमंच तथान्त्यम् । यत्र गुरु प्रकटसरसारे! तत्कथितं ननु दोधकवृत्तम् २० रत्नप्रभाख्यभाषाटीकासंवलितः। १३ , अथ दोधकवृत्तलक्षणमाह-आद्यचतुर्थमिति। हे प्रक- टस्मरसारे ! कविभिः तत् ननु दोधकवृत्तं कथितम् । प्रकटः स्मरसारः कामबलं यस्याः सा तस्याः संबोधनम् । हे अही- ननितम्बे ! अहीनौ स्थूलौ नितम्बौ कटिपश्चाद्भागौ यस्याः सा तत्संबुद्धौ । यत्र यस्मिन् आद्यचतुर्थं प्रथमं चतुर्थ सप्तमकं सप्तमं दशमं तथा अन्त्यं एकादशं एतानि अक्षराणि गुरूणि सन्ति। तदुक्तं रत्नाकरे- "दोधकवृत्तमिदं भभभागैः" २० दोधकं । च० अ० ११, ग० भ, भ, भ, ग, ग ॥ हे पुष्टनितम्बे ! जिसमें प्रथम चतुर्थ तथा सप्तम दशम और अन्त्य ( ग्यारहवां ) यह अक्षर गुरु हों, हे स्फुटकामवति । उसको निश्चय दोधकवृत्त ( छन्द ) कहते हैं ॥ २० ॥ इन्द्रवज्राछन्दः । यस्यां त्रिषट्सप्तममक्षरं स्याद्रखं सुज ! नवमं च तद्वत् । गत्या विलजीकृतहंसकान्ते तामिन्द्रवज्रां ब्रुवते कवींद्राः अथेन्द्रवज्रालक्षणमाह-यस्यामिति ॥ हे गत्या विलज्जी- कृतहंसकान्ते ! कवीन्द्रास्तामिन्द्रवज्रां ब्रुवते । गत्या गमनेन विलज्जीकृता हंसस्य कान्तिः शोभा यया सा तस्याः संबोध- नम् । तां कां । यस्याः त्रिषट्सप्तममक्षरं ह्रखं स्यात् तद्वन्नवमं हस्खं स्यात् । हे सुजङ्ग्रे ! तामिति संबन्धः। एतादृशीं इन्द्रवज्रां ब्रुवते । सुष्टु शोभने जो यस्याः सा तत्संबुद्धौ । कवीनां कविषु वा इन्द्राः पूज्या बृहस्पत्यादयः । तदुक्तं रत्नाकरे- "स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥२१॥ इन्द्रवजाच० अ० ११, ग० त, त, ज, ग, ग; यतिः ५, ६॥ हे सुभगजघने ! जिसमें तीसरा छठा और सातवां ताथ -- श्रुतबोधः सटीकः । नववां अक्षर ह्रस्व हों, हे मत्तगामिनि ! कविवर उसको इन्द्र वज्रा छन्द कहते हैं ॥ २१ ॥ उपेन्द्रवज्रा। यदीन्द्रवज्राचरणेषु पूर्वे भवन्ति वर्णा लघवः सुवर्णे । अमन्दमाद्यन्मदने ! तदानीमुपेन्द्रवज्रा कथिता कवीन्द्रैः अथोपेन्द्रवज्रालक्षणमाह-यदीति ॥ हे अमन्दमाद्य- न्मदने ! तदानीं कवीन्द्रैः यदीन्द्रवज्राचरणेषु पूर्व वर्णा लघवः सन्ति शेषमिन्द्रवज्रावत् आद्यवर्णं ह्रस्वमेवेति शेषः । चतुर्वपि पादेषु आद्यो ह्रस्वः। हे सुवर्णे ! सा उपेन्द्रवज्रा कथिता । अमन्दं बहुलं माद्यन् हर्ष कुर्वन्मदनो यस्यां सा तत्संबुद्धौ । तथा चोक्तं रत्नाकरे । उपेन्द्रवज्रा जतजा- स्ततौ गौ ॥ २२ ॥ उपेन्द्रवज्रा । च० अ० ११, ग० ज, त, ज, ग, ग; यतिः ५, ६॥ हे गौराङ्गि ! यदि इन्द्रवज्राहीके चारों पादों [ चरणों ] में पहिले अक्षर लघु [ ह्रस्व ] हों, हे विशेष कामके हर्षवाली वोह कवीश्वरोंद्वारा उपेन्द्रवज्रा छन्द कहा जाताहै ( इसका लक्षण इन्द्रवज्राही जानो ) ॥ २२ ॥ उपजातिः। यत्र द्वयोरप्यनयोस्तु पादा भवन्ति सीमन्तिनि! चन्द्रकान्ते ।। विद्वद्भिराद्यैः परिकीर्तिता सा प्रयुज्यतामित्युपजातिरेषा ॥ २३ ॥ उपजातिलक्षणमाह-योति ॥ हे चन्द्रकान्ते ! सा एषा उपजातिरिति प्रयुज्यताम् । कथंभूतासा। आद्यैः पुरा- रत्नप्रभाख्यभाषाटीकासंवलितः । तनैर्विद्वद्भिः पण्डितैः परिकीर्तिता कथिता । सा का। हे सीमन्तिनि ! यत्र द्वयोरनयोरिन्द्रवज्रोपेन्द्रवज्रयोरपि पादाः यथाक्रमेण भवन्ति । प्रथमे तृतीये च इन्द्रवज्रालक्षणं द्वितीये चतुर्थे च उपेन्द्रवज्रालक्षणम् । सीमन्तः केशवेशो विद्यते तस्याः सा तत्संबुद्धौ । चन्द्रवत्कान्तिर्यस्याः सा तत्संबुद्धौ, पक्षे चन्द्रवत्कान्ता कमनीया या सा तत्संबुद्धौ । तदुक्तं रत्नाकरे-"अनन्तरोदीरितलक्ष्मभाजौ पादौ यदी- यावुपजातयस्ताः" ॥ २३ ॥ उपजातिः । च० अ० ११ प्रथमे तृतीये च चरणे इन्द्रवजा द्वितीये चतुर्थे चोपेन्द्र- ववेत्यर्थः॥ हे सुकेशि ! जिसमें उक्त दोनों (इन्द्रवज्रा और उपेन्द्रवज्रा) छन्दोंके चरण हों पहिले और तीसरेमें इन्द्रवज्राके, दूसरे और चौथेमें उपेन्द्रवज्राके चरण हो उसको हे चन्द्रकान्ते ! प्राचीन विद्वानोंद्वारा कहाहुवा उपजाति छन्द जानो ॥ २३ ॥ आख्यानकीछन्दः । आख्यानकी स्यात्प्रकटीकृतार्थे ! यदीन्द्रवज्राचरणः पुरस्तात् । उपेन्द्रवज्राचरणास्त्रयोऽन्ये मनीषिणोक्ता विपरीतपूर्वा ॥ २४ ॥ अथाख्यानकीलक्षणमाह-आख्यानकीति॥हे प्रकटी- कृतार्थे ! मनीषिणा विदुषा यदि इन्द्रवज्रावत्प्रथमचरणः स्यात् । अन्ये प्रयश्चरणा उपेन्द्रवज्रावस्सन्ति तदा विपरीत- पूर्वाख्यानकी विपरीताख्यानकीत्यर्थः । प्रकटीकृतोऽर्थः कामलक्षणो यया सा तत्संबुद्धौ । इयं वृत्तरत्नाकरे नोक्ता श्रुतबोधः सटीकः । तथापि पिङ्गलादिभिराचार्यैहलायुधादावुक्तैव ॥ २४ ॥ आख्यानकी। च० अ० ११, प्रथमचरण इन्द्रवज्रावत् अन्ये उपेन्द्रवज्रावत् ॥ हे कामिनि ! यदि प्रथम चरण तौ इन्द्रवज्राका हो और अन्य तीन चरण उपेन्द्रवज्रा छन्दके हों, उसको विद्वानोंद्वारा कहा- हुआ विपरीतपूर्वा अर्थात्-विपरीताख्यानकी छन्द जानो ॥२४॥ रथोद्धताछन्दः। आधमक्षरमतस्तृतीयकं सप्तमं च नवमं तथान्तिमम् । दीर्घमिन्दुमुखि ! यत्र जायते तां वदन्ति कवयो रथोद्धताम् ॥ २५ ॥ अथ रथोद्धतालक्षणमाह-आद्यमिति॥हे इन्दुमुखि! कवयः तां रथोद्धतां वदन्ति । कां यत्राद्यमक्षरमतस्तृतीयकं सप्तमं नवमं तथान्तिमं एकादशं एते वर्णा दीर्घा द्विमा- त्रका जायन्ते । इन्दुवन्मुखं यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे.-'रानराविह रथोद्धता लगौ” ॥२५॥ रथोद्धता। च० अ० ११, ग० र, न, र, ल, ग; यतिः ७, ४ ॥ हे चन्द्रमुखि ! जिसमें पहिला-तीसरा सातवां और नौवां तथा अन्तका (ग्यारहवां ) यह अक्षर दीर्घ हों कवीश्वर महाशय उसको रथोद्धता छन्द कहते हैं ॥ २५ ॥ १ इसका लक्षण श्रीकेदारभट्टने वृत्तरत्नाकर में नहीं लिखा, परन्तु विपरीतपूर्वाका लक्षण तो श्रीकेदारभट्टने वृत्तरत्नाकरमें और श्रीचिरजीव भट्टाचार्यने वृत्तरत्नावली में समानही लिखाहै ॥

रत्नप्रभाख्यभाषाटीकासंवलितः। स्वागताछन्दः। अक्षरं च नवमं दशमं चेयत्ययाद्भवति यत्र विनीते॥ प्रोक्तमेणनयने! यदि सैव स्वागतेति कविभिः कथितासौ स्वागताया लक्षणमाह -अक्षरमिति॥हे एणनयने! सैषा रथोद्धता तदा कविभिः स्वागतेति कथिता । हे विनीते नम्रीभूते ! यदि यत्र यस्यां व्यत्ययाद्वैपरीत्येन नवममक्षरं दशमवदशमं नवमवत् नवमोलघुः दशमो गुरुः। द्वौ चकारी विपरीतार्थसूचकौ । एणस्य नयने इव नयने यस्याः सा तस्याः संबुद्धौ । अयमर्थः -रथोद्धतायां नवमं अक्षरं गुरु भवति, दशमं चाक्षरं लघु भवति । स्वागतायां तु नवम- मक्षरं लघु दशमं चाक्षरं गुरु भवतीति भावः । तदुक्तं रत्नाकरे-"स्वागतेति रनभाद्गुरुयुग्मम्" ॥२६॥ स्वागता। च० अ० ११, ग० र, न, भ, ग, ग; यतिः ७, ४ ॥ हे विनयवति ! जिस [ रथोद्धता ] में विपरीततासे नवम और दशम अक्षर लघु और गुरु हों, हे हरिणनयने ! पण्डितोंने उसका स्वागता नाम कहाहै ॥ २६॥ वैश्वदेवीछन्दः। हस्खो वर्णः स्यात्सप्तमो यत्र बाले! तद्वद्धिम्बोष्ठि ! न्यस्त एकादशाद्यः॥ बाणैर्विश्रामस्तत्र चेद्वा तुरडै- नाम्ना निर्दिष्टा सुभ्र! सा वैश्वदेवी ॥२७॥ १ रथोद्धता छन्दमें नवम अक्षर गुरु और दशम लघु होता है, खागतामें नवम लघु और दशम गुरु होता है । ३ १८ श्रुतबोधः सटीकः । अथ वैश्वदेवीलक्षणमाह-हस्व इति ॥ यत्र सप्तमो वर्णो ह्रस्वः स्यात्।हे बाले षोडशवर्षाभ्यन्तरवयस्के ! तद्वत् पूर्वोक्तप्रकारवत् । हे बिम्बोष्ठि ! एकादशाद्यो दशमो वर्णो हस्वः स्यात् । एवं न्यस्तः निक्षिप्तः स्याचेद्यदि तत्र बाणैः पञ्चभिस्तुरङ्गैः सप्तभिश्च विश्रामः स्यात् । हे सुभ्र ! सा नाम्ना वैश्वदेवी निर्दिष्टा कथिता । सुष्टु ध्रुवौ यस्याः सा तस्याः संबुद्धौ । बिम्बवदोष्ठौ यस्याः सा । एकादशादौ जात एकादशाधः॥ तदुक्तं रत्नाकरे-“पञ्चाश्वैश्छिन्ना वैश्वदेवी मौ यौ" ॥२७॥ वैश्वदेवी । च० अ० १२; ग० म, म; य, य, यतिः ५, ७,॥ हे बाले ! जिसमें सप्तम और दशम यह दो अक्षर ह्रस्व हों, और हे बिम्बोष्ठि ! पांच वा सात अक्षरके ऊपर विश्राम हों, उसको वैश्वदेवी छन्द कहाहै ॥ २७ ॥ तोटकवृत्तम् । सतृतीयकषष्ठमनन्तरते! नवमं विरतिप्रभवं गुरु चेत् ॥ घनपीनपयोधरभारनते ! ननुतोटकवृत्तमिदं कथितं २८ द्वादशाक्षरजातौ तोटकलक्षणमाह-सतृतीयकेति ॥ हे घनपीनपयोधरभारनते ! ननु इह निश्चितं तोटकवृत्तं कथितं वर्णितम् । चेद्यदि हे अनन्तरते! सतृतीयकं षष्ठं नवमं स्यात्तृतीयं षष्ठं च तृतीयषष्ठे ताभ्यां सह वर्तत इति । कीदृशम् । विरतिप्रभवं अन्यं द्वादशं गुरु स्यात् । अनन्ता अपरिमिता रतिर्यस्याः सा अनन्तरता तत्संबुद्धौ । घनौ च पीनौ च घनपीनौ कठिननिबिडौ पयोधरौ च तयोर्भारः

रत्नप्रभाख्यभाषाटीकासंवलितः। १९
आधिक्यं तेन नता नम्रीभूता या सा तत्संबुद्धौ । विरते
प्रभव उत्पत्तिर्यस्य तत्तथोक्तम् । तदुक्तं रत्नाकरे-"इह
तोटकमंबुधिसैः कथितम्" ।।२८॥ तोटकम् । च० अ०
१२, ग० स, स, स, स; यतिः ६, ६, ॥
हे अत्यन्तप्यारी! जिसमें तीसरा छठा और नववाँ तथा
अन्त्यका [ बारहवाँ ] यह अक्षर दीर्घ हों हे सघन और पुष्ट
उरोजोंके भारसे नम्र हुईवाले ! उसको तोटकवृत्त कहते हैं ॥२८॥
भुजङ्गप्रयातं छन्दः।
यदाद्यं चतुर्थं तथा सप्तमं चे-
त्तथैवाक्षरं ह्रस्वमेकादशाद्यम् ॥
शरचन्द्रविद्वेषिवक्रारविन्दे !
तदुक्तं कवीन्द्रैर्भुजङ्गप्रयातम् ॥ २९ ॥
भुजङ्गप्रयातलक्षणमाह-यदाद्यमिति ॥ हे शरच्चन्द्रवि-
द्वेषिवक्रारविन्दे ! कवीन्द्रैस्तच्छन्दो भुजङ्गप्रयातमुक्तं कथि-
तम् । किंभूतम् । चेद्यदा आद्यं प्रथमं तथा चतुर्थं तथा सप्तमं
एव निश्चितं एकादशाचं एकादशस्यादिभूतं दशममक्षरं ह्रखं
स्यादिति संबन्धः। शरदः चन्द्रः शरच्चन्द्रः तस्य विद्वेषि
वक्रमेवारविन्दं यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे-
"भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः" ॥ २९ ॥ भुजङ्गप्रयातम् ।
च० अ० १२, ग० य, य, य, य; यतिः ६, ६, ॥
हे प्रसन्नमुखि ! [कमलवदने ] जहां प्रथम चतुर्थ तथा
सप्तम और दशम यह अक्षर हव हों उसको कवीश्वरोंने भुज-
गप्रयात छन्द कहाहै ॥ २९॥

२० श्रुतबोधः सटीकः। द्रुतविलम्बितं छन्दः । अयि कुशोदरि ! यत्र चतुर्थकं गुरु च सप्तमकं दशमं तथा ॥ विरतिगं च तथैव विचक्षण- द्रुतविलम्बितमित्युपदिश्यते ॥ ३०॥ द्रुतविलम्बितलक्षणमाह-अयि कृशोदरीति ॥ अयि इति कोमलालापे । विचक्षणैः पण्डितैर्दुतविलम्बितमित्युप. दिश्यते । इति किम् । हे कृशोदरि ! यत्र चतुर्थकं चेत्स- तमकं तथा दशमं इमान्यक्षराणि गुरूणि सन्ति । विरतिगं अन्त्यं द्वादशं गुरु स्यादित्यर्थः । कृशमुदरं यस्याः सा कृशोदरी तत्संबुद्धौ । तदुक्तं रत्नाकरे-“द्रुतविलम्बितमाह नभौ भरौं" ॥ ३० ॥ द्रुतविलम्बितम् च० अ० १२, ग० न, भ, भ, र ॥ अयि कृशोदरि ! जिसमें चतुर्थ सप्तम तथा दशम और अन्त्यज (बारहवाँ ) यह अक्षर गुरु (दीर्घ ) हों, उसको पण्डि- तलोग द्रुतविलम्बित छन्द कहते हैं ॥ ३० ॥ प्रमिताक्षराछन्दः। यदि तोटकस्य गुरु पञ्चमकं विहितं विलासिनि ! तदक्षरकम् ॥ रससंख्यकं गुरु न चेदबले ! प्रमिताक्षरेति कविभिः कथिता ॥३१॥ प्रमिताक्षरालक्षणमाह-यदि तोटकस्येति ॥ हे अबले! कविभिः प्रमिताक्षरा इति कथिता । किम् । हे रत्नप्रभाख्यभाषाटीकासंवलितः। विलासिनि ! यदि तोटकस्य उक्तलक्षणकस्य पञ्चमकं वर्ण गुरु विहितं स्यात् । रससंख्यकं षष्ठं गुरु न चेत् गुरु तु पञ्चममेव सा प्रमिताक्षरेत्यर्थः । विलासो विभ्रमो यस्याः सा विलासिनी तत्संबुद्धौ । तदुक्तं रत्नाकरे-"प्रमिताक्षरा सजससैरुदिता" ॥ ३१ ॥ प्रमिताक्षरा ॥ च० अ० १२, ग० स, ज, स, स । हे विभ्रमवति ! यदि तोटक छन्दका पंचम वर्ण गुरु हो, और छठा अक्षर लघु हो, हे अबले ! उसको प्रमिताक्षरा छन्द कहाहै ॥ ३१॥ हरिणीप्लुताछन्दः। प्रथमाक्षरमाद्यतृतीययो- द्रुतविलम्बितकस्य च पादयोः॥ यदि चेन तदा कमलेक्षणे ! भवति सुन्दरि ! सा हरिणीप्लुता ॥ ३२ ॥ अथ हरिणीप्लुतालक्षणमाह-प्रथमाक्षरमिति॥हे कम- लेक्षणे ! सुकविभिः तदेयं हरिणीप्लुता कथिता, यदि द्रुत- विलम्बितकस्य छन्दसः आद्यतृतीययोः पादयोः प्रथमाक्षरं चेत् एकादशाक्षरमेवं विषमपादयोः तदेयं हरिणीप्लुता । कमलवदीक्षणे यस्याः साः तत्संबुद्धौ हे सुन्दरि शुभाङ्गे !। तदुक्तं रत्नाकरे । १, ३; सौ स्लौ गः। २, ४; न्भौ भ्रौ । पक्षे हरिणीप्लुता ॥ ३२ ॥ हरिणीप्लुता ॥ ०१, ३; अ० ११, ग० स, स, स, ल, ग॥ २, ४, अ० १२, ग० न, भ, भ, र॥

२२ श्रुतबोधः सटीकः। हे कमलनयने ! जिसमें द्रुतविलम्बित छन्दके प्रथम और तृतीयपादके [प्रथम-तृतीयपादमें-] आदिका अक्षर हो, तो हे सुन्दरि ! उसको हरिणीप्लुता कहते हैं ॥ ३२ ॥ वंशस्थं वृत्तम् । उपेन्द्रवज्राचरणेषु सन्ति चे- दुपान्त्यवर्णा लघवः कृता यदा ॥ मदोल्लसद्भुजितकामकार्मुके! वदन्ति वंशस्थमिदं बुधास्तदा ॥ ३३ ॥ वंशस्थलक्षणमाह-उपेन्द्रवज्रेति ॥ हे मदोल्लसद्भूजि. तकामकार्मुके ! तदा बुधा इदं वंशस्थं वदन्ति । तदा कदा। यदा उपेन्द्रवज्राचरणेषु उपान्त्यवर्णाः अन्त्यसमीपस्था वर्णा एकादशसंज्ञका लघवः सन्ति प्रतिचरणे एकादशो वर्णो लघुस्तदा वंशस्थम् । मदेन उल्लसन्तौ भ्रुवौ ताभ्यां जितं कामकार्मुकं मदनधनुर्यया सा तत्संबुद्धौ । अन्त्यस्य समीपमुपान्त्यम् । उपान्ये भवा उपान्त्याः । उपान्त्याश्च ते वर्णाश्चेति । तदुक्तं रत्नाकरे-"जतौ तु वंशस्थमुदीरितं जरौं” ॥ ३३ ॥ वंशस्थम् ॥ च० अ० १२, ग० ज, त, ज, र, यतिः ५, ७॥ हे तिझै चितवनवाली ! यदि उपेन्द्रवज्रा छन्दके चारों चर- णोंमें ग्यारहवें अक्षर लघु हों, तब उसको पण्डितजन वंशस्थ- वृत्त ( छन्द) कहतेहैं ॥ ३३ ॥ इन्द्रवंशाछन्दः । यस्यामशोकाङ्करपाणिपल्लवे! वंशस्थपादा गुरुपूर्ववर्णकाः ॥

रत्नप्रभाख्यभाषाटीकासंवलितः । तारुण्यहेलारतिरङ्गलालसे! तामिन्द्रवंशां कवयः प्रचक्षते ॥ ३४ ॥ इन्द्रवंशालक्षणमाह-यस्यामशोकेति ॥ हे तारुण्यहे. जारतिरङ्गलालसे ! कवयो यस्यां वंशस्थपादा गुरुपूर्ववर्णका भवन्ति । हे अशोकाङ्करपाणिपल्लवे ! तामिन्द्रवंशां प्रचक्षते त्रुवते । अशोकाङ्कुराविव पाणिपल्लवौ यस्याः सा । तारुण्यस्य हेलास्ताभी रतिरङ्गे लालसा अभिलाषो यस्याः सा तत्सं- बुद्धौ । तदुक्तं रत्नाकरे-"स्यादिन्द्रवंशा तौ नौ” ॥ ३४ ॥ इन्द्रवंशा॥ च० अ० १२, ग० त, त, ज,र; यतिः ५, ७॥ हे अशोकवृक्षके पल्लवोंके समान पाणिपल्लववाली वल्लभे! जिसमें वंशस्थवृत्तके पादोंके प्रथम वर्ण गुरु हों उसे हे विला- सिनि ! कवीश्वर इन्द्रवंशा कहते हैं ॥ ३४ ॥ प्रभावतीछन्दः। यस्यां प्रिये ! प्रथमकमक्षरद्वयं तुर्य तथा गुरु नवमं दशान्तिकम् ॥ सान्त्यं भवेद्यतिविरतियुगग्रहैः सा लक्षिता एमृतलते ! प्रभावती॥३५॥ त्रयोदशाक्षरजातौ प्रभावतीलक्षणमाह-यस्यामिति ॥ हे अमृतलते ! यस्यां प्रथममक्षरद्वयं तुर्य तथा चतुर्थं तथा नवमं दशान्तिकं दशसहितं त्रयोदशं वर्ण युगग्रहैश्चतुर्भिर्न- वभिश्चाक्षविरतिः सा प्रभावती लक्षिता कथिता। अमृतस्य लतेव लता या सा तत्संबुद्धौ ॥ ३५ ॥ प्रभावती । च० अ० १३, ग० ज, भ, स, ज, ग; यतिः ४, ९॥ हे प्रिये ! जिसमें आदिके दो अक्षर और चतुर्थ नवम और २४ श्रुतबोधः सटीकः । . दशम तथा तेरहवां अक्षर दीर्घ हों, हे सुधाबेलि ! और तथा नवम अक्षरके ऊपर विराम हो उसको प्रभावती छन्द कहते हैं ३५ प्रहर्षिणीछन्दः। आद्यं चेत्रितयमथाष्टमं नवान्त्यं द्वे चान्त्ये गुरुविरतौ सुभाषिते ! स्यात् ॥ विश्रामो भवति महेशनेत्रदिग्भि- विज्ञेया ननु सुदति ! प्रहर्षिणी सा ॥ ३६॥ अथ प्रहर्षिणीलक्षणमाह-आद्यमिति॥हे सुदति ! ननु इति निश्चितं आद्यं त्रितयं प्रथमतः वर्णत्रयं अथाऽष्टमं नवान्त्यं दशमं चान्त्ये द्वे द्वादशत्रयोदशाख्ये एते गुरवो भवन्ति । हे सुभाषिते ! महेशनेत्रैर्वर्णत्रयानन्तरं दिग्भिर्दश- वर्णानन्तरं च विश्रामः स्यात् सा प्रहर्षिणी विज्ञेया ज्ञातव्या। सु शोभनं भाषणं यस्याः सा । सुशोभना दन्ता यस्याः सा सुदती तत्संबुद्धौ । तदुक्तं रत्नाकरे-नौ नौ गस्त्रिदशयतिः प्रहर्षिणीयम्" ॥ ३६ ॥ प्रहर्षिणी ॥ च० अ० १३, ग० म, न, ज, र, ग; यतिः ३, १० ॥ हे मृदुभाषिणि ! जिसकी आदिके तीन अक्षर अनन्तर अष्टम तथा दशम और बारहवें तेरहवें यह अक्षर गुरु हों, और जिसमें तीन और दश अक्षरोंके पीछे विश्राम हो, उसको निश्चय प्रहर्षिणी छन्द जानना चाहिये ॥ ३६ ॥ वसन्ततिलकाछन्दः। आद्यं द्वितीयमपि चेद्गुरु तचतुर्थं यत्राष्टमं च दशमान्त्यमुपान्त्यमन्त्यम् ॥ कीमाङ्कुशाङ्कशितकामिमतङ्गजेन्द्रे ! कान्ते वसन्ततिलकां किल तां वदन्ति ॥३७॥ १ पाठा० 'अष्टाभिरिन्दुवदने ! विरतिश्च षड्भिः ॥ , रत्नप्रभाख्यभाषाटीकासंवलितः । २५ चतुर्दशाक्षरजातौ वसन्ततिलकालक्षणमाह-आद्यमिति । हे कामाङ्कुशाङ्कुशितकामिमतङ्गजेन्द्रे ! यत्र आद्यं प्रथम द्वितीयमपि गुरु चतुर्थं दशमान्त्यं एकादशमुपान्त्यं त्रयोदशं अन्त्यं चतुर्दशं एते गुरवः स्युः।हे कान्ते ! बुधास्तां वसन्त- तिलकां वदन्ति । काम एवाङ्कुशस्तेनाङ्कुशिता वशीकृताः कामिन एव मतङ्गजेन्द्रा यया सा तत्संबुद्धौ । तदुक्तं रत्नाकरे-"उक्ता वसन्ततिलका तभजा जगौ गः" ॥३७॥ वसन्ततिलका॥च० अ०१४, ग० त, भ, ज, ज, ग, ग॥ हे कामिनि ! यदि प्रथम और द्वितीय तथा चतुर्थ और अष्टम, ग्यारहवां और चौदहवां यह अक्षर गुरु हों, हे कान्ते ! पण्डितवर्य उसको वसन्ततिलका छन्द कहतेहैं ॥ ३७॥ मालिनीछन्दः। प्रथममगुरुषट्कं विद्यते यत्र कान्ते ! तदनु च दशमं चेदक्षरं द्वादशान्त्यम् ।। करिभिरथ तुरङ्गैर्यत्र कान्ते ! विराम: सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा ॥३८॥ पञ्चदशाक्षरजातौ मालिनीलक्षणमाह ॥प्रथममिति॥हे कान्ते ! यत्र प्रथम षट्कमगुरु लघवेव भवति द्वादशान्त्यं त्रयोदशं च लघु । करिभिरथ तुरङ्गैरष्टभिः सप्तभिश्च विरामस्तदा सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा कृता । तदुक्तं रत्नाकरे-"ननमयययुतेयं मालिनी भोगिलोकैः” ॥३८॥ मालिनी ॥ च० अ० १५, ग० न, न, म, य, य; यतिः ८, ७ ॥ हे कान्ते ! जिसकी आदिके छै अक्षर हृख हों, तदनन्तर दशम और तेरहवां यह अक्षर लघु हों, हे सुन्दरि, और सात तदनु दशमं २६ श्रुतबोधः सटीकः । तथा आठ अक्षरोंके ऊपर विराम हो, श्रेष्ठकवीश्वरोंके मनका हरनेवाला बोध छन्द मालिनीनामसे प्रसिद्ध है ॥३८॥ हरिणीछन्दः। सुमुखि ! लघवः पञ्च प्राच्यास्ततो दशमान्तिकं तदनु ललितालापे वर्णौ ! यदि त्रिचतुर्दशौ ॥ प्रभवति पुनर्यत्रोपान्त्यः स्फुरत्करकङ्कणे ! यतिरपि रसैर्वेदैरश्वैः स्मृता हरिणीति सा॥३९॥ सप्तदशाक्षरजातौ हरिणीलक्षणमाह-सुमुखीति ॥ हे स्फुरत्करकङ्कणे ! यत्र प्राच्याः प्रथमाः पञ्च वर्णा लघवः सन्ति । ततो दशमान्तिक एकादशः हे ललितालापे ! यदि त्रिचतुर्दशौ त्रयोदशचतुर्दशौ लघू स्यातां उपान्त्यः षोड- शोऽपि लघुः । रसैः षभिर्वेदैश्चतुर्भिरश्वैः सप्तभिश्च विरामः स्यात्तदा सा हरिणी स्मृता । स्फुरन्ति करयोः कङ्कणानि यस्याः सा । ललित आलापो यस्याः सा । उक्तं च रत्नाकरे-"रसयुगहयैन्सौँ म्रौ स्लौ गो यदा हरिणी तदा" ॥३९॥ च० अ० १७, ग० न, स, म, र, स, ल, ग; यतिः ६, ४, ७ ॥ हे सुमुखि ! जिसकी आदिके पांच वर्ण ह्रस्व हों, तत्पश्चात् एकादश तेरहवां और चौदहवां तथा सोलहवां यह अक्षर लघु हों, और हे मंजुभाषिणि ! जिसमें छै चार और सात अक्षरों के ऊपर विरति ( विराम ) हो, हे स्फुरायमाण करकङ्कणवाली ! वो छन्द हरिणी नामसे कहा गयाहै ॥ ३९ ॥ शिखरिणी छन्दः। येदा धूर्त हवः कमलनयने षष्ठकपरा- स्ततो वर्णाः पञ्च प्रकृतिसुकुमाराङ्गि! लघवः ॥ १ पाठा० 'तृतीयचतुर्थको'। २ 'यदि प्राच्यो' । ३ 'पञ्च गुरवः'।

रत्नप्रभाख्यभाषाटीकासंवलितः। २७ त्रयोऽन्ये चोपान्त्याः सुतनु जघनाभोगसुभगे! रसै रुद्रेयस्यां भवति विरतिः सा शिखरिणी॥४०॥ अथ शिखरिणीलक्षणमाह-यदा पूर्वो ह्रस्व इति ॥ हे सुतनुजघनाभोगसुभगे ! यदा पूर्वो वर्णो ह्रस्वो भवति । हे प्रकृतिसुकुमाराङ्गि ! ततः षष्ठकपराः षष्ठतः पञ्च वर्णाः सप्तमाष्टमनवमदशमैकादशा लघवः सन्ति । अन्ये उपा- न्यास्त्रयो वर्णाश्चतुर्दशपञ्चदशषोडशा लघवो भवन्ति । यस्यां रसैः षड्भी रुद्रैरेकादशैविरतिर्भवेत् । हे सुतनु ! सा शिखरिणी कथिता । कमलवन्नयने यस्याः सा । प्रकृत्या खभावेन सुकुमाराण्यङ्गानि यस्याः । जघनयोराभोगस्तेन सुभगा सुशोभना तनुर्यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे-"रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी" ॥४०॥ शिखरिणी । च० १७, ग० य, म, न, स, भ, ल, ग; यतिः ६, ११ ॥ हे कमलनयने ! जब प्रथम वर्ण लघु हो, तदनु सात आठ नव दश ग्यारह यह पांच अक्षर-हख हों, तथा हे स्वभावको- मलाङ्गि ! चौदह पन्द्रह सोलह यह तीन अक्षर लघु हों, और हे शोभनाङ्गि ! हे कामिनि ! छै और ग्यारह अक्षरके उपर विश्राम हों, उसको शिखरिणी छन्द कहतेहैं ॥ ४० ॥ पृथ्वीछन्दः। द्वितीयमलिकुन्तले ! यदि षडष्टमं द्वादशं चतुर्दशमथ प्रिये ! गुरु गभीरनाभिहदे ॥ सपञ्चदशमन्तिकं तदनु यत्र कान्ते ! यति- गिरीन्द्रफणिभृत्कुलैर्भवति सुभ्र ! पृथ्वी हि सा ४१ २८ श्रुतबोधः सटीकः। , पृथ्वीलक्षणमाह-द्वितीयमिति॥हे सुभ्र! यदि द्वितीय- संख्याकं गुरु स्यात् हे अलिकुन्तले ! षष्ठमष्टमं च गुरु हे प्रिये ! द्वादशमथ चतुर्दशं गुरु हे गभीरनाभिदे ! पञ्चद- शेन सहितमन्तिमं गुरु स्यात् । हे कान्ते ! यत्र गिरीन्द्र- रष्टभिः फणिभृत्कुलैवभिश्च यतिः स्यात्सा पृथ्वीनामकं वृत्तं भवति । अलिव मरवच्छयामाः कुन्तला अलका यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे-"जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः”॥४१॥ पृथ्वी । च० अ० १७, ग० ज, स, ज, स, य, ल, ग; यतिः ८, ९॥ हे श्यामचूडावाली कान्ते ! यदि द्वितीय छठा और अष्टम तथा बारहवां और चौदहवां यह अक्षर गुरु हो, तदनन्तर पन्द्रहवां और अन्त्य यह अक्षरभी गुरु हो, हे गम्भीरनाभि- वति प्रिये ! यदि आठ और नव अक्षरके ऊपर विराम हो, हे कमानकी समान भ्रुकुटिवाली! उसको पृथ्वीछन्द कहते हैं ॥४१॥ मन्दाक्रान्तावृत्तम्। चत्वारः प्राक् सुतनु गुरखो द्वादशैकादशौ चे- न्मुग्धे! वौँ तदनु कुमुदामोदिनि ! द्वादशान्त्यौ ।। तद्वच्चान्त्यौ युगरसहयैर्यत्र कान्ते ! विरामो मन्दाक्रान्तां प्रवरकवयस्तन्वि! तां संगिरन्ते ॥४२॥ मन्दाक्रान्तालक्षणमाह-चत्वार इति॥हे तन्वि! प्रव- रकवयो यत्र प्राक् चत्वारो वर्णा गुरवः स्युः हे कुमुदामो. दिनि । चेद्वर्णों द्वादशैकादशौ गुरू स्तः हे मुग्धे ! द्वादशा- न्यौ द्वादशस्यान्त्यस्थितौ त्रयोदशचतुर्दशौ गुरू स्यातां अन्यौ षोडशसप्तदशौ तद्वद्गुरू युगरसहयैर्विरामः एतादृशीं रत्नप्रभाख्यभाषाटीकासंवलितः । तां मन्दाक्रान्तां संगिरन्ते । कुमुदवदामोदः सुगन्धिर्यस्याः सा। तथोक्तं रत्नाकरे-"मन्दाक्रान्ता जलधिषडगैम्भॊ नतो ताद्गुरू चेत् ॥ ४२ ॥ मन्दाक्रान्ता । च० अ० १७, ग० म, भ, न, त, त; ग, ग; यतिः ४, ६, ७, ॥ है हमारी प्यारी ! जिसकी आदिके तीन अक्षर गुरु हों, त- त्पश्चात्-छठा और आठमा यह अक्षर दीर्घ हों, तदनु-बारह तेरह और चौदह तथा सोलह और सत्रहवां यह अक्षरभी गुरु हों, और हे मयङ्कमुखि ! बारह तथा सात अक्षरके ऊपर विश्राम हो, काव्यरसिक जन उसको मन्दाक्रान्ता छन्द कहते हैं । शार्दूलविक्रीडितं छन्दः। आद्याश्चेद्गुरवस्त्रयः प्रियतमे ! षष्ठस्तथा चाष्टमो नन्वेकादशतस्त्रयस्तदनु चेदष्टादशाद्यौ ततः॥ मार्तण्डैर्मुनिभिश्च यत्र विरतिः पूर्णेन्दुबिम्बानने ! तद्वृत्तं प्रवदन्ति काव्यरसिकाः शार्दूलविक्रीडितम् ।। एकोनविंशतिजातौ शार्दूलविक्रीडितमाह-आद्या इति॥हे पूर्णेन्दुबिम्बानने! काव्यरसिकास्तद्वृत्तं शार्दूलविक्रीडितमिति वदन्ति । यत्राद्यास्त्रयो गुरवः षष्ठस्तथाऽष्टमः गुरुः । ननु एकादशतस्त्रयः द्वादशत्रयोदशचतुर्दशा गुरवः । ततश्चेद- ष्टादशस्यादौ षोडशसप्तदशौ गुरू स्याताम् । यत्र मार्तण्डै- मुनिभिर्द्वादशसप्तभिर्विरतिः हे प्रियतमे ! तदेतच्छार्दूलवि- क्रीडितम् । पूर्णश्वासाविन्दुश्च पूर्णेन्दुस्तस्य बिम्बवदाननं यस्याः सा, अतिशयेन प्रिया प्रियतमा तस्याः संबुद्धौ । तदुक्तं रत्नाकरे-"सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलवि- ३ श्रुतबोधः सटीकः । क्रीडितम् ॥ ४३ ॥ शार्दूलविक्रीडितम् । च० अ० १९, ग० म, स, ज, स, त, त; ग, यतिः १२, ७ ॥ स्त्रग्धरा वृत्तम्। चत्वारो यत्र वर्णाः प्रथममलघवः षष्ठतः सप्तमोऽपि द्वौ तद्वत्षोडशाद्यौ मृगमदमुदिते षोडशान्त्यौ तथान्त्यौ रम्भास्तम्भोरुकान्ते मुनिमुनिमुनिभिदृश्यते चेद्विरामो बाले ! वन्द्यैः कवीन्द्रैः सुतनु ! निगदिता स्रग्धरा सा प्रसिद्धा ॥४४॥ इति श्रीकविकालिदासकृतः श्रुतबोध- नामकश्छन्दोग्रन्थः समाप्तः ॥ एकविक्षत्यक्षरजातौ स्रग्धरालक्षणमाह-चत्वार इति । हे सुतनु वन्द्यैः पूज्यैः कवीन्द्रैः प्रसिद्धा इयं स्रग्धरा गदिता । यत्र प्रथमं चत्वारो वर्णा अलघवो गुरवः सन्ति षष्ठकः सप्तमोऽपि तद्वद्गुरुः । षोडशाद्यौ चतुर्दशपञ्चदशौ तथान्त्यौ सप्तदशाष्टादशौ गुरू स्याताम् । मुनिमुनिमुनिभिर्विरामः । हे रम्भास्तम्भोरुकान्ते हे बाले ! इयं स्रग्धरा प्रसिद्धा मृगस्य मदेन । मुदिता या सा । रम्भायाः स्तम्भवदूर्वोः कान्ति- यस्याः सा । सुशोभना दन्ता यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे-"म्रौ नौ यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्" ॥ ४४ ॥ इति श्रीश्रुतबोधनामकस्य छन्दोग्रन्थस्य व्याख्या समाप्ता ॥ स्रग्धरा । च० अ० २१, ग० म, र, भ, न, य, य, य; यतिः ७, ७, ७॥ हे मृगमदसौरभवासिनि ! जिसकी आदिमें चार अक्षर गुरु हो, हे रम्भोरु ! तथा छठा और सातवां चौदहवां तथा पन्द्र- गणदेवतारूपदेशफलादिज्ञापक यन्त्र सख्या गणनाम देवता नक्षत्र राशि जन्मवार जाति, मास पक्ष । तिथि वर्ण देश पुरी पर्वत मित्रादि । फल स्त्री मन्त्र १ मगण पृथ्वी । रोहिणी वृप । शनि पौष शह शुक्ल १० मिश्रित जालंधर । खर्ग शैलाधि लक्ष्मी मित्र कमला ॐ मं-मगणाय नमः॥१॥ -- -- । २ यगण ISS जल ज्येष्ठा वृश्चिक चन्द्र वेश्य आषाढ शुक्ल १२ । श्याम, कोशल विपुला वंशकवत आयु ; दास शुभ | ब्रह्माणी ॐ यं-यगणाय नमः ॥ २॥ ३ रगण SIS अग्नि --- अश्विनी । मेष रवि क्षत्री पौष रक्त महेंद्र मकरन्द मलयाचल दाह । शत्रु अशुभ, खधा ॐ रं-रंगणाय नमः ॥ ३ ॥ । सगण IS पवन पूर्वाभाद्रपदा कुम्भ बुध | वश्य । कार्तिक ! शुक्र ६ नील विडम्बर कंकर सेतुबन्ध परदेश शत्रु अशुभ गारुडी ॐ सं-सगणाय नमः ॥ ४ ॥ तगण SSI आकाश रेवती | मीन । भौम शूद्र । चैत्र ३ । धूम्र कुन्तल चम्पावती कर्णागिरि शून्य. उदासीन समान शून्य ॐतं-तगणाय नमः ॥ ५ ॥ ६ | IST सूर्य श्रवण । मकर शुक्र ब्राह्मण मार्गशिर • शुक्ल ' ५ चित्रपुरी उदयाचल रोग उदासीन अशुभ आतपा ॐ ज-जगणाय नमः ॥ ६ ॥ - भगण SI चन्द्रमा रेवती मीन गुरु देवता आश्विन शुक्ल १३ श्वेत प्रभावतीपुरी मिमारगिरि यश दास शुभ ॐ भं-भगणाय नमः ॥ ७ ॥ ८ नगण स्वर्ग अनुराधा वृश्चिक बुध क्षत्री ज्येष्ठ । शुक्ल . १५ गोर ! क्रौच काञ्चीपुरी चन्द्रगिरि सुख मित्र - शुभ संजीविनी ॐ नं-जगणाय नमः ॥८॥ ता-११११११८९५ रुहेलखण्ड. बजरत्नभट्टाचार्य, मुरादाबाद, मोहल्ला-पटुवरगञ्ज.

३ श्रुतबोधः सटीकः । गणदेवतारूपदेशफलादिज्ञापक यन्त्र. मास पक्ष तिथि वर्ण देश पुरी पर्वत पौष १० मिश्रित जालंधर स्वर्ग शैलाश आषाढ १२ श्याम कोशल विपुला वंशकैवता पौष शुक्ल ९ रक्त महेंद्र मकरन्द मलयाचदा कार्तिक नील विडम्बर कंकेर सेतुबन्ध चैत्र शुक्ल ३ । धूम्र कुन्तल चम्पावती कर्णागिरि मार्गशिर शुक्ल प्रबल चित्रपुरी उदयाचल आश्विन शुक्ल १३ श्वेत शुक्ल प्रभावतीपुरी मिमारगिरि ज्येष्ठ १५ गौर कौंच काञ्चीपुरी चन्द्रगिरि ताद रत्नप्रभाख्यभाषाटीकासंवलितः । फल मित्रादि स्त्री मन्त्र लक्ष्मी मित्र शुभ कमला ॐ मं-मगणाय नमः ॥१॥ आयु दास शुभ ब्रह्माणी ॐ यं-यगणाय नमः ॥ २ ॥ दाह शत्रु | अशुभ खधा ॐ रं-रगणाय नमः ॥ ३ ॥ परदेश शत्रु अशुभ गारुडी ॐ सं-सगणाय नमः ॥ ४ ॥ शून्य उदासीन समान शून्य ॐ तं-तगणाय नमः ॥ ५॥ रोग उदासीन अशुभ आतपा ॐ जं-जगणाय नमः ॥ ६ ॥ यश दास शुभ शुक्ला ॐ भं-भगणाय नमः ॥ ७ ॥ सुख मित्र शुभ संजीविनी ॐ नं-नगणाय नमः ॥ ८ ॥ -११1१1१८९५ रुहेलखण्ड. व्रजरत्नभट्टाच चार्य, मुरादाबाद, मोहल्ला-पटुवरगञ्ज.

रत्नप्रभाख्यभाषाटीकासंवलितः । हवां, सत्तरह और अठारहवां और वीस तथा इक्कीसवां यह अक्षर गुरु हों, हे बाले ! सात २ वर्गों के ऊपर विश्राम हो, हे सुतनु ! सुप्रसिद्ध उस छन्दका वन्दनीय कवि गुरुओंने स्रग्धरा नाम कहा है ॥ ४३॥ इति श्रीसर्व विद्याविशारदश्रीपण्डितवर्य्यज्वालानाथसूनुव्रजरत्न- भट्टाचार्यमुरादाबादनिवासिप्रणीतहिन्दीभाषानुवादः संपूर्णः ॥ शुभं भवतु मंगलमस्तु श्रीरस्तु ॥ भो भूमिः श्रियमातनोति य जलं वृद्धि र चाग्निर्मृति सो वायुः परदेशदूरगमनं त व्योम शून्यं फलम् ॥ जः सूर्यो रुजमाददाति विपुलं भेन्दुर्यशो निर्मलं नो नाकश्च सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः १ अथ गणसंख्यानामरूपदेवताफलादिज्ञापकं यत्रम् ।। गणनामदेवताफलानि । संख्या गणनाम रूपम् देवता | फलम मित्रादि | शुभाशुभे १ मगणः sss मही लक्ष्मीः मित्रम् शुभम् २ यगणः ISS जलम् आयुः दासः शुभम् रगणः Sts | अग्निः दाहः शत्रुः अशुभम् ४ सगणः us वायुः विदेशः शत्रुः अशुभम् तगण: SSI नभः शून्यम् उदासः समम् ६ जगणः ISI रविः रोगः । उदासः अशुभम् भगणः ॥ शशी यशः दासः शुभम् ८ नगणः स्वर्गः सुखम् मित्रम् शुभम् केन्द्रीय उच्च तिब्बती शिक्षा संस्थान सारनाथ, वाराणसी ( स्नातकोत्तर अध्यापन एवं शोध ) ग्रथाल य भेन्दुर्यशो निर्मलम् 'या इय सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः ॥१ अनुवाद-~~-मगणका भूमि देवता है, वोह लक्ष्मीका विस्त करत है; यगणका जलदेवता है वोह आयु देता है, रगणद: देवता अग्नि है, वोह दाह देता है, सगणका वायु देवता है, वो परदेश वा दूरगमन करता तगणका आकाश देवता औ शून्य फल है, जगणका सूर्य देवता है, वोह रोग देता है। भग णका चन्द्रमा देवता है, वोह निर्मल यश देता है। नगणर स्वर्ग देवता है, वोह सुख देता है इस उक्तप्रकारसें पण्डि महोदय गणोंका फल वर्णन करते हैं ॥ १ ॥ गणदेवतारूपादिज्ञापक यन्त्र sho संख्या गणनाम रूप देवता फल मित्रादि शुभाशुभ १ मगणः sss पृथ्वी लक्ष्मी मित्र शुभ यगण ISS आयु दास शुभ ३ रगण sis अग्नि दाह शत्रु অয়ম ४ सगण 15 पवन परदेश যন্তু अशुभ ५ तगण SSआकाश शून्य उदास सम ६ जगण II सूर्य रोग उदास अशुभ भगण SI यश शुभ नगण वर्ग सुख मित्र शुभ

Shrutbodh

Author
Braj Ratna Bhattacharyen
Other authors
Printed By Ramchandra Yesu Shedge -nirnaya Sagar Press Bombay
Title
Shrutbodh
File name
Shrutbodh
Text
OCR done
Citation
1939
Published
16.01.06
Publisher
Pandurangaya Jawaji Eteyatai Bombay
Language
Sanskrit
Pages
41
Library
Tibetian Institute Sarnath Varanasi
Classification
literature
DLI number
477565
Barcode
5990010152573.00
Scanning centre
IIIT, Allahabad
Rights
In Public Domain
VMLT id
0JljCVB7m8P
Download PDF

Shrutbodh