Canegie Mellon Univeristy
Aar^ya Dhar^ma Prakashika
Front matter
No text on this page.
पीठिका. क्षोणीमण्डलमण्डनायितमाहीशैराभिधावरपुरे। श्रीमच्चाममहीपतिर्विजयते सिहासनाधीश्वरः ॥ यस्स्वीयैर्मधुरैर्गुणैस्सह जगत्कर्णेषु नित्याटनात् । कर्णाटक्षितिपालइयभिहित स्सर्वैस्सदाश्लाघ्यते॥१॥ यस्यारम्भः प्रकृतिमहितस्सयमाणकतानो । यस्यक्षान्तिर्भवति महतांयोगिनामप्यलभ्या ॥ चेतोयस्य धमरतिसदा पादप मुरारे- यस्योत्साहश्श्रुतिविहितसत्संप्रदायाभिवृद्धौ ॥२॥ तस्यखलु महाराजाधिराजस्य श्रीमतश्वामराजेन्द्रस्य शासनानुसारेण द्विगुणितोत्साहैः कैश्चिल्लौकिकैवैदिकैश्च महद्भिर्विद्भिः-संसदिसमालोच्य, इदानीकिलकाले स्वयमितरविद्यासंप्रदायादीनामतिप्रचारतया वेदशास्त्रवि- हितसंप्रदायमार्गाणांविरळप्रचारतयाच कालक्रमेण स्व- यमार्यमतसंप्रदायाः श्रुतिमात्रगोचरीभवेयुः, अतस्तद- भिवर्धनोपायः परिचिन्तनीयः, इदंखलु महाराजपरि- पाल्यमानमास्थानं, अत्रकिल बहवः प्रबन्धवितारःप्रबो- धयितारःप्रचारयितारःप्रोत्साहयितारच मकारान्ते, तद- त्रायमारम्भः प्रथमतः किंचित्प्रवर्तितश्चेत् तत्रतत्रदेशा- न्तरेपि तेतेमहान्तः स्वयमितोप्यतिशयेन प्रबन्धयन्तः il प्रबोधयन्तःप्रचारयन्तःप्रोत्साहयन्तश्च प्रवर्तेरन् , ततश्च स्वयमार्यमतसंप्रदायाः प्रचुरप्रचाराः प्रवर्धरन् , अतस्त- दनुकूलमार्गनिश्चिचीषुभिरस्माभिरिदानी नानाविधप्रभेद- शालिनांतत्तदार्यमतानां परस्पराविरुद्धमार्गेण सर्वजना- भिमतं निखिलधर्ममार्गज्ञानमार्गप्रदर्शकं दृढतरमभ्यस्य- तामार्यबालानां स्वतस्तत्तदुद्ग्रंथसमवलोकनपाटवोत्पादकं सुललितमखिलशास्वतत्वाभिव्यंजकं निखिलसंशयरंजक सकलहृदयानुरंजकंच कंचिद्थं कारयित्वा तत्तद्भाषा- न्तरेण परिवर्तयित्वा तत्रतत्रपाठयित्वाच प्रचारः परि- कल्पनीयः, इतिनिरणायि. तदनुग्रन्थकरणाय श्री- मन्महाराजानुज्ञया समक्षावि. ततः- श्रीमच्चाममहीन्द्रमन्त्रिमणिना शेषाव्यभिख्यावता। दर्बार्बक्षिपदांकितेन नरसिह्मार्येणचोत्साहितः ॥ तेस्सभ्यैश्च तदा प्रचोदितमतिश्श्रीरामनामाकवि- लानामुपयोगिनं वितनुते तत्तावबोधोद्यमं ॥ ३ ॥ श्रुतिस्मृतिपुराणेतिहासाद्यर्थान् सुविस्तृतान् । सोहं संगृह्य रचयाम्यार्यधर्मप्रकाशका ॥ ४ ॥ अत्रखथुप्रन्थे-मवृत्तिधर्मविषयान्पूर्वागत्वेन नि- वृत्तिधर्मविषयानुतरमागत्वेनच विभज्य तत्तत्प्रकरणानि तदन्तराळनिरूपणानिचेति तेतेविषयाः सूचीपत्रे सम- सूचिषत तेचसर्वेविषयाः विस्तृतोद्दामेषु श्रुतिस्मृति- - in पुराणादिषु तत्तझाष्यतदिवरणादिषु तत्तन्निबन्धनग्रन्था- दिषुच विप्रकीर्णतया दुरवगाहाअपि सुललितमेकत्र सप्रमाणारसमग्राहिषत. तानिचप्रमाणानि प्रसन्नग- म्भीराणि सर्वाण्यार्षाप्येव संगृल क्वचित्वचित्तत्तद्रून्थ- स्थितानुपूर्व्यश्च समगृह्यन्त. तदेतत्सर्वमपि तत्तत्पु- टयन्थमधो-धः तदनुरूपकुसुमरेखाचिनै समसूचि. एषचग्रन्थः तैनरसिमार्याद्यैः तत्तन्महाजनाभिप्रायबु- भुत्सया प्रथमतः कतिचिदेवपुस्तकानि मुद्रापयित्वा भा. रतवर्षभूषणीभूततत्तन्महाजनोपकण्ठमनीयत. ततःका- शीक्षेत्रवासिनः ब्रह्मश्रीविराजमानाः कैलासभहाचार्याः राममिश्रशास्त्रिणः गंगाधरशास्त्रिणश्च, तत्रत्यपाठशाला- ध्यक्षप्रभृतयश्च, चन्नपुरीस्थिताः राजश्रीविराजमाना: पण्डितभाष्याचार्याः शेषगिरिशास्त्रिगः दिवानबहळू- घुनाथरायाः शिवशंकरपाण्ड्यप्रमुखाश्च, कल्याणपु- रीस्थिताः ब्रह्मश्रीविराजमानाः गोपालशास्त्रिणः वा- सुदेवशास्त्रिणः रायबह(श्रीनिवासाचार्यप्रमुखाश्च, गो- कर्णक्षेत्रस्थितब्रह्मश्रीगणेशसुब्रायशास्त्रिप्रभृतयश्च, त- दन्येचतेतेमहान्तः, स्वयममुग्रन्थमामूलाग्रमालोक्य स- एषग्रन्थस्सर्वजनसम्मत स्सकलजनोपकारक्षमश्वेत्यादि- स्वाभिप्रायान् तत्रतत्रयोजनीयांशांश्च केचिदनुमोदपत्रि काप्रदानमुखेन केचित्कुशलपत्रिकामुखेन केचिहृन्ता- न्तपत्रिकामुखेनच-प्राचीकटन्. ताश्चपत्रिकाः कति चित् एतत्पुस्तकान्तिमपत्रेषु प्रकाशयिष्यन्ते.
iv ततश्च-श्रीमन्महीशूरमहाराजसदा-स्थानभूषणाय- मानाः ब्रह्मश्रीविराजमानाः धर्माधिकारिणः काशीरा- मशास्त्रिणः ध० चक्रवर्यय्यंगार्याः ध० नरसिमशा- स्त्रिणः सुंदरशास्त्रिणः व्यासकृष्णाचार्याः सीतारामशा- स्त्रिणः : वासुदेवशास्त्रिणश्चेति तएतेआस्थानपंडिताः, श्रीमन्महाराजानुज्ञया स्वकीयपारमार्थिकधियाच स- मुत्साहिताः इमामार्यधर्मप्रकाशिकां तत्रतत्रपरिशोध्य सकललोकोपकारक्षमीचक्रुः तत्तन्महाजनाभिप्रायानुसारेण साधुपरिशोध्य द्विती- यमुद्रणामापादितोयंग्रन्थः आर्यमततत्तुजिज्ञासूनां उप- युक्तरस्यादेवेति प्रत्येमि. एतत्पुस्तकसमीकरणविषये महीशूरपुरीस्थितराज- कीयहौणविद्यानिलयोपाध्याय बि ये मक्लारिरायप्रमु- खाश्च महान्तः बहुधासाहाय्यकमकार्षुः. न्महाजनविषये सुतरां कृतज्ञतामनुवर्ते. अस्मिन्पुस्तके महुद्धिप्रमादवशान्मुद्रणप्रमादवशा- हा यःकोपिदोषस्संदृश्यतेचेत् तदिदंपुस्तकमालोकयन्तो- महान्तः तंसमीकत्यबोधयन्तो मम दयेरनिति भूयोभू- यस्संप्रार्थये. मंडिकलरामशास्त्री, मैसूरु शारदाविलासपाठशालाध्यक्षः. अतस्तत्त- विषयसूचिका. पुटसंख्या. १ .. .. . .. .. .. .. .. ३ .. पूर्व भा गे. पुरुषार्थनिरूपणप्रकरणं धर्मनिरूपणं अर्थनिरूपणं कामनिरूपणं मोक्षनिरूपणं भगवत्स्वरूपनिरूपणप्रकरणं सकलनियामकत्वनिरूपणं सर्वज्ञत्वनिरूपणं सर्वव्यापकत्वनिरूपणं परमकारुणिकत्वनिरूपणं महामहिमत्वनिरूपणं प्रमाणनिरूपणं प्रत्यक्षनिरूपण अनुमाननिरूपणं आगमनिरूपणं स्मृतिनिरूपणं पुराणनिरूपणं भगवदवतारनिरूपणं .. १२ . .. .. १४ १५ .. .. .. .. २१ २२ ..
VI पुटसंख्या, ३६ .. ४१ .. .. . प्रवृत्तिधर्मप्रकरणं साधारणधर्मनिरूपणं पुंधर्माः स्त्रीधाः विशेषधर्मनिरूपणं ब्राह्मणधर्माः क्षत्रियधर्माः वैश्यधर्माः शूदधर्माः वर्णधर्मप्रयोजन ब्रह्मचर्य गार्हस्थ्यं वानप्रस्थं संन्यासः विशेषधर्मप्रयोजन .. .. ४९ .. .. .. ५१ .. .. .. ५५ ६१ ६२ .. .. .. ७३ . उत्तर भा गे. निवृत्तिधर्मप्रकरणं नास्तिकमतविचार: चार्वाकमतं सौत्रान्तिकमतं वैभाषिकमतं माध्यमिकमतं . -- 4. ७९ .. ।
rii पुटसंख्या. ८१ 3. .. ८८ .. ८९ ९२ ९२ .. . .. .. १३ .. .. ९७ .. .. .. ९८ योगाचारमतं जैनमतं आस्तिकमतविचारः वैशेषिकदर्शनं नेयायिकदर्शनं मीमांसकदर्शनं सांख्यदर्शनं योगदर्शनं वेदान्तदर्शनं सृष्टिप्रकरणं प्राकृतसृष्टिः वैकृतसृष्टिः प्रळयप्रकरणं योगप्रकरण मतप्रकरणं अद्वैतनिरूपणं वैष्णवविशिष्टाद्वैतनिरूपणं द्वैतनिरूपणं शैवविशिष्टाद्वैतनिरूपणं शुद्धाद्वैतनिरूपणं . तत्तन्मतभेदकारणप्रदर्शन फलितार्थकथनं ११५ ११९ .. .. १४९ .. १५८ .. ..
No text on this page.
श्रीरस्तु. आर्यधर्मप्रकाशिका. पूर्वभागः. पुरुषार्थनिरूपणप्रकरणं. भ्यस्मादिदं जगदजायत यत्रतिष्ठ- त्यन्तेसमस्तमिदमस्तमुपैति यत्र । तस्मै नमस्सदसदादिविकल्पशून्य- चैतन्यमात्रवपुषे पुरुषोत्तमाय ॥ श्रुतिस्मृतिपुराणेतिहासायर्थान् सुविस्तृतान् । तांस्तान संगृह रचयाम्यार्यधर्मप्रकाशिकाम् ॥ इह खलु चराचरात्मके प्रपंचे दुर्लभं मानुषजन्म समासादितवतां तादृशजन्मप्रयोजनापादकविवेकसम्पा दनमावश्यक. अन्यथा पशुपक्ष्यादितिर्यग्जन्तुजालवद- विवेकित्वादात्मघातुकत्वं स्फुटीभवेदेव. उक्तंच- प्राप्यचाप्युत्तमं जन्म लब्ध्वाचेन्द्रियसौष्ठवं । न वेक्त्यात्महितं यस्तु स भवेदात्मघातुकः इति ।। अविष्णुपुराणे अं. १, अ. १. भारते शांतिपर्वणि अ. १७५. t
२
-
तच प्रयोजनं स्वानुकूलतया वेदनीयं फलं. सएव
पुरुषार्थ इत्युच्यते.
सूत्रयतेहि-
*फलंचपुरुषार्थइति.
सच पुरुषार्थश्चतुर्विधः धर्मार्थकाममोक्षाइति.
धर्मनिरूपणम्.
तत्र धर्मोनाम भगवदाराधनरूपः. भगवदाराधनन्तु
सत्कार्यानुवर्तनासत्कार्यनिवर्तनात्मकमेव.
पठ्यतेहि-
यत्तु पृच्छसि भूपाल कथमाराध्यते हरिः।
तदहं सकलं तुभ्यं कथयामि निबोध मे ॥
ब्राह्मणः क्षत्रियोवैश्यश्शूद्रश्च पृथिवीपते ।
स्वधर्मतत्परो विष्णुमाराधयति नान्यथा ॥
परापवाद पैशुन्यमनृतंच नभाषते ।
अन्योदेगकरं वापि तोष्यते तेन केशवः ।।
परदारपरद्रव्यपरहिंसासु योरति ।
नकरोति पुमान् भूप तोष्यते तेन केशवः ।।
मिनिसूत्रे अ, ४.
विष्णुपुराणे अं. ३, अ. ८.
३ यथात्मनि च पुत्रेच सर्वभूतेषु यस्तथा । हितकामो हरिस्तेन सर्वदा तोष्यते सुखम् ॥ यस्य रागादिदोषेण नदुष्टं नृप मानसं । विशुद्धचेतसा विष्णुस्तोष्यते तेन सर्वदा ।। वर्णाश्रमेषु येधर्माश्शास्त्रोक्ता मुनिसत्तम । तेषुतिष्ठन्नरोविष्णुमाराधयति नान्यथेति ॥ अर्थनिरूपणम्. अर्थस्तु विद्याधनपुत्रमिबकळत्रादिवस्तुसमृद्धिः साच सद्धर्मसाधिकाचेजन्मसाफल्यापादिका भवति. अन्यथा बाधिका भवति. कामनिरूपणम् काम्यतेजनैरिति कामस्स्वयमनित्यसुखरूपंफलं. लदेव श्रेयोभ्युदयादिशब्दैर्व्यवह्रियते. तच्चसुखंहिविधं ऐहिकमामुष्मिकंचेति. तत्रैहिकं अत्रत्यविषयोपभोग- जन्यंसुखं. आमुष्मिकंस्वर्गादि. मोक्षनिरूपणम्. मोक्षोनाम मुचल्मोक्षणइत्यस्माद्धातोः भावार्थकसप्र- स्ययान्तपदबोध्यो-यं आध्यात्मिकाधिभौतिकाधिदैवि- कानां त्रिविधदुःखानामात्यन्तिकोनिवृतिः, ४ श्रूयतेहि- *दुःखेनात्यन्तं विमुक्तश्चरति. अशरीरंवाव सन्तं नप्रि- या-प्रिये स्पृशतः. +तरतिशोकमात्मविदितिच. सूत्रितञ्च सांख्याचार्यैः- अथत्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थइति. अनुमन्यतेच नैयायिकैरप्येकविंशतिदुःखध्वंसो मोक्ष इति. अंङ्गीक्रियतेचैवमेव सर्वैस्तत्तन्मतानुसारि- भिरपि. तत्र जरामरणक्षुत्पिपासाद्याधयो व्याधयश्चाध्या- त्मिका दुःखविशेषाः. चोरव्याघ्रशत्रुसदिजन्या अपाया आधिभौतिकाः. अशनिनिपातादिजन्या विपद आधि- दैविकाः. एतादृशदुःखनिवृत्तिरेव नित्यानन्दरूपेणाव- स्थाने पर्यवस्यन्ती मुक्तिकैवल्यनिर्वाणश्रेयोनिश्श्रेयसा- मृतादिशब्दैवर्चवहियते. स एष मोक्षएव सर्वैस्सम्पा- दनीयः नित्यः परमपुरुषार्थः- श्रूयतेहि तन्नित्यत्वं न स पुनरावर्ततइति. एवं धर्मार्थकाममोक्षाश्चत्वारःपुरुषार्थाः. एष्वन्ति मयोईयोस्साक्षात्सुखरूपत्वात्स्वतःपुरुषार्थत्वं. धर्मार्थ गादाधयाँ मुक्तिवादे उदाहृतं. सांख्यसूत्रे अ, १. छान्दोग्ये प्र, ७. ख, १. निरालंबोपनिषदि.
योस्तु स्वतस्सुखरूपत्वाभावेपि तत्साधनत्वादेव पुरुषार्थ- त्वव्यपदेशः. अर्थकाममोक्षेषु त्रिष्वपिसाधनत्वात् धर्म- स्याद्यपुरुषार्थत्वं. अर्थस्यतु धर्महारैवामुष्मिकसुखसा- धनत्वात् द्वितीयपुरुषार्थत्वमित्यादिज्ञेयं. अभिधीयतेचधर्मस्य पुरुषार्थत्वरीतिर्माधवाचार्यैः- * अभिमतफलसाधनत्वंहि धर्मस्य हितत्वमिति. अभिमतफलसाधनत्वन्तुधर्मस्यश्रूयतेहि- धर्मोविश्वस्यजगतःप्रतिष्टा लोकेधर्मिष्टं प्रजाउपस पन्ति धर्मेणपापमपनुदति धर्मेसर्वप्रतिष्ठितं तस्माद्धर्म परमंवदन्तीति. धर्मपरिपन्थयधर्मः. तावेव धर्माधौं अदृष्टं सुकृतदुष्कृते दैवं दिष्टं भागधेयं भाग्यंनियतिर्विधिरि- सादिशब्दैर्व्यवहियेते. तयोश्च धर्माधर्मयोर्वैषम्यं न चक्षुरादिबाटेन्द्रियैर्गुसते किन्तु सुखदुःखादितत्तत्फल- वैषम्यवशात् अवगम्यते. धर्माधर्मयोश्चफलं भगवंतंपरमात्मानमन्तरा नस- म्भवति. लोके यथा कश्चिद्राजा सदसस्कर्मकारिणो- स्तत्तत्कर्माणि निमित्तीकृत्य तत्तदनुरूपं फलं ददास्येवं भगवानपि ददातोति ज्ञेयं. इति पुरुषार्थनिरूपणम्. * पराशरमाधवीये अ, १. तित्तरीयांभस्य पन्ने ख. ८९.
६ 3- अगवत्स्वरूपनिरूपणप्रकरणम्, सच भगवान्निरूप्यते. लोकेहि नामरूपादिविशिष्टं यद्यदृश्यते श्रूयतेच तत्तत्प्रपंचसृष्टेः पूर्वमपि विद्यमान- मखण्डानन्दात्मकं यच्चैतन्यं तदेव भगवत्स्वरूपं. श्रूयतेहि- *इदंवा अग्रेनैव किञ्चनासीत. सदेव सोम्येदमय आसीत्. विज्ञानमानन्दंब्रह्मोते. आत्मावा इद- मेकएवाग्रआसीत् नान्यत्किञ्चन मिषदित्यादिच. तच्च स्वरूपमेव ब्रह्मपरब्रह्मात्मपरमात्मविष्णु- शिवसदाशिवज्योतिस्तेजोधाममहइत्यादिशब्दैः व्यप- दिश्यते. तथाच सच्चिदानन्दात्मकःपरमात्मेतिज्ञेयं. तस्य परमात्मनस्सर्वतःपरिपूर्णत्वात् गगनस्येवाग्रेभागः पश्चाद्भागः पार्श्वभागइत्यादिदिगृयवस्थानास्ति. अभू. दस्तिभविष्यतीति कालव्यवस्थापि नास्ति. किंचायमात्मा घटादिवदवास्तिनास्तीति चक्षुरा- दिभिगोचरयितुं नशक्यते. यथाहि लोके भोजनेसति भ्याजुषब्राह्मणे अष्टक २. पन्न २. छान्दोग्ये प्र. ६, ख. २. बृहदारण्ये ५, ब्रा. ९. ऐतरेये अ, ६. ख, १.
जायमानातृप्तिः नदृश्यते नस्पृश्यते नाघ्रायतेच किन्तु स्वस्वानुभवमात्रवेद्या भवति तथैव ब्रह्मापीति ज्ञेयं श्रूयतेहि- *यत्तदद्रेश्यमग्राममगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणि- पादं । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनि परिपश्यन्ति धीरा इति. तस्य परमात्मनोनिरवयवतया निर्गुणतया च निय- त्वं ज्ञायते. गीयतेहि- अनादित्वान्निर्गुणत्वात्परमात्मायमव्यय इति. तस्य परमात्मनः पावकस्योष्णतेवोष्णांशोर्दिधिति- रिव चन्द्रस्य चन्द्रिकेव कदाप्यनपायिनी स्वभावप्रभाव- माहात्मयादिपर्यायपदबोध्याच. (१) काचिच्छक्तिर्वर्तते. तादृशशक्तियुक्तः परमात्मा स्वयं निर्गुणोपि निरञ्जनोपि सकलजगदधीश्वरइति. (२) जोघुष्यमाणः प्रभायु- कस्सूर्यः प्रकाशकतामिव पत्नीयुक्तःपुमान् प्रजोत्पाद- कतामिव सकलजगत्कर्तृत्वादिकं (३) अभिप्रपय केशकर्मविपाकाशयादिभिर्गुणैरपरामृष्टः (४) सकलहेय- *मुंडके ख, १. गीता १३.
प्रत्यनीकानन्तकल्याण (५) गुणैकतानश्चेति जगति सकलैनर्जेगीयते. श्रूयतेहि यथाक्रम- *(१) नतस्यकार्य करणञ्चविद्यते नतत्समश्चाभ्यधि- कश्च दृश्यते । परास्यशक्तिर्विविधैवभूयते स्वाभाविकी ज्ञानबलक्रियाच, (२) मायान्तु प्रकृति विद्यात् मायिनन्तु महेश्वरं. (३) एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणिचाखवा- युजर्कोतिरापःपृथिवी विश्वस्य धारिणी. s(e) यआत्माअपहतपाप्माविजरोविमृत्युर्विशोको- विजिघत्सो-पिपासः (५) सत्यकामस्सत्यसंकल्पस्सो. न्वेष्टव्यः सविजिज्ञासितव्यः इति. एवं- *अपाणिपादो जवनोगृहीता पश्यत्यचक्षुस्सशृणो- स्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्रयं पुरुषं महान्तमित्यादिच. स एवंभूतःपरमात्मा स्वयमेकोपि गगनवत्सर्व- व्यापकः सकलान्तर्यामीच सन् अस्मदादीनां कायिकान् श्वेताश्वतरे अ, ६. श्वेताश्वतरे अ, ४. द्वितीयमुंडके ख, १ शिंदोग्ये प्र, ८. ख, ७.
९ वाचिकान्मानसिकांश्च गुणदोषात्मकव्यापारानाखेलानपि साक्षाल्गुणस्साक्षीचसन् विद्योतते. श्रूयतेहि- *एकोदेवस्सर्वभूतेषु गूढस्सर्वव्यापी सर्वभूतान्तरात्मा। कर्माध्यक्षस्सर्वभूताधिवासः साक्षीचेता केवलोनिर्गुण- श्वेति. तथाच-(१) स सकलभुवनकर्ता (२) सकल- भुवनभर्ता (३) सकलभुवनहर्ता (४) सर्वनियामकः (५) सर्वज्ञः (६) सर्वव्यापकः (७) परमकारुणिकः (८) सर्वातिशायिमहिमाच परमात्मा स्वयमेकोपि तत्तत्कार्यवशात् बहुधाच अभिधीयते. श्रूयतेहि- एकमेवाद्वितीयं ब्रह्म. सिएकधाभवति विधा भवति पञ्चधाभवति सप्तधाभवति नवधाभवती- स्यादि. एवं.- इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यस्ससुपर्णो- गरुत्मान् । एकं सविप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वा- *छान्दोग्ये प्र. ७, ख. २६. छान्दोग्ये प्र, ६. ख, २३. छान्दोग्ये प्र. ६.ख. २. ऋग्वेद अ, २. अ, ३. व, २२.. B नमाहुः, सुपर्ण विप्राः कवयोवचोभिरेकं संतं बहुधा कल्पयन्ति. इतिच. पठ्यतेच- सृष्टिस्थित्यन्तकरणात् ब्रह्मविष्णुशिवात्मिकां । स संज्ञां याति भगवान् एकएव जनार्दन इति ॥ किंच- कटकमकुटकर्णिकादिभेदैः कनकमभेदमपीष्यते यथैकं । सुरपशुमनुजादिकल्पनाभिः हरिरखिलाभिरुदीर्यते तथैकः इतिच ॥ तदेतत्सर्वं सृष्टिप्रकरणे विशेषतः व्यक्तीभविष्यति. तस्य भगवतोवासुदेवस्य सकलजगत्कर्तृत्वादिवयं श्रूयतेहि- (१)यतोवा इमानि भूतानि जायन्ते. (२) येनजातानिजीवन्ति. (३) यत्प्रयन्त्यभिसंविशन्ति तहिजिज्ञासस्व तद्ब्रह्मेति. एवं-सकलभुवननियामकत्वादिकं तैस्तैः कारणैर- ऋग्वेद अ,८. अ, ६.व, १६. विष्णुपु अ, १. अ, २. विष्णुपु अ, ३. अ, ६. तैत्तरीयेभृगुवल्ल्यांअनु, १ - , .
- प्यवगम्यते. तथाहि- (४) सकलनियामकत्वनिरूपणं. दृश्यमानमिदं जगत् राज्यवत् कस्यचिन्नियामकस्य अधीनं सदेव प्रवर्तते. अन्यथा न भूमण्डलं ध्रियेत, न नद्यस्स्यन्देरन्, न समुद्रस्सकलभूकबळ्नादिरमेत्, न सूर्यः प्रभायात्, न वायुः प्रवायात्, न पर्जन्यः प्रवर्षेत्, तस्माद्भगवन्नियमनवशादेव एतत्सर्वं सम्भवतीति असं दिग्धमवगन्तव्यमेव. श्रूयतेच- *भीषास्मादातःपवते भीषोदेति सूर्यः भीषास्मादग्नि- श्वेन्द्रश्च मृत्युर्धावति पंचमः इति. एतस्यवा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृतेतिष्ठतइत्यादिच. (५) सर्वज्ञत्वनिरूपणं. पश्यत लोके कस्यचित्पदार्थस्य निर्माणकर्ता प्रथमतः तत्स्वरूपमखिलं जानाति, तत इच्छति, ततः प्रयतते, तथैव जगदिधाता भगवानपीति स सकलजगत्स्वरू- पज्ञानवानिति परिज्ञायते. अपरंच-यथावा सक- तैत्तरीयआनन्दवल्ल्यां अनु, ८.
१२ - - लशब्दशास्त्रमर्यादाकूलंकपाष्टाध्यायीनिर्माणकर्ता भगवा- न्पाणिनिः तद्गततत्तविषयविशेषज्ञानवान् तदधिकज्ञा- नवांश्चेति निश्चीयते तथा स्थावरजंगमात्मकनानावि- धप्रभेदप्रपंचितप्रपंचस्वरूपनिरूपकवेदप्रथमप्रकाशन- कर्ता भगवान्परमेश्वरोपि सकलजगद्दिषयकज्ञानवान् वेदाधिकज्ञानवांश्चेति निश्चीयते. तदेव तस्य सर्वज्ञत्व- मिति सकलैर्जनस्समुधुष्यते. श्रूयतेच- यस्सर्वज्ञस्सर्वविदिति. गीयतेच- +वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चनेति ॥ (६) सर्वव्यापकत्वनिरूपणं. एवं-यथाहि पुष्पेगन्धः यथाचेक्षुरसेमाधुर्यं यथाच पयसिधावळ्यं यथैवाग्नावुष्णता यथैव वाय्वाकाशादिर- स्मासु तथैव भगवान् सकलं जगत् व्याप्यावतिष्ठते. भूयतेहि- सर्वाननशिरोग्रीवस्सर्वभूतगुहाशयः । सर्वव्यापी स भगवान् तस्मात्सर्वगतशिवःइति. द्वित्तीयमुंडके ख. २. गीता अ. ७. श्वेताश्वतरे अ, ३ १३ यञ्च किञ्चिज्जगत्सर्वं दृश्यते भूयतेपिवा। अन्तर्बहि- श्च तत्सर्वं व्याप्य नारायणस्स्थित इतिच. मीयतेच-- विष्टभ्याहमिदंकृत्स्नमेकांशेन स्थितोजगदिति । परमकारुणिकत्वनिरूपणं. एवं-पश्यतेदं उर्वरादौ बीजाद्यावापपर्यन्तमेव अस्मदा- दिषु स्वातन्त्रचं ततोमिषत्स्वेवास्मासु दुष्प्रापाण्यपि पयांसि परिकल्प्य तैस्तानि शिशूनिव मन्दमन्दमासि- ञ्चन् तानिबीजानि अंकुरितीकस्य हिदळितीकस्य पल्लवितीकस्य पुष्पितीकस्य फलितीकृत्य भगवानस्म- दुपयोगाय कल्पयति, तेनचान्नेन मेदोमज्जास्थिमां- सादीनि वर्धयन् तत्तत्कार्यसाधकं शरीरमुपकल्पयति. किंच-द्रष्टुं दृष्टी श्रोतुं श्रवणे रसयितुं रसनां मंतुं मनः बोर्बु बुद्धिं कर्तुं करौ पत्तुं पादौ पातुं पितरौ त्रातुं पुत्रान् रंजयितुं राजानं वेदयितुं वेदान् शासयितुं शास्त्राणिचेति सर्वसाधनानि दत्वा अस्माननुगृणहाति स सर्वेश्वरः. एतादृशे भगवति कोवा कृतघ्नापि परमकारुणिकत्वं नानुमन्येत. श्यजुर्वेदे अंभस्थपन्ने अनु, १३. गीतायां अ, १०.
१४ (८) महामहिमत्वनिरूपणं. आलोचयतेदं-कतिवागिरयः कतिवा तरवः कतिवा मरवः कतिवा नद्यः कतिवा समुद्राः कतिवा जलचराः कतिवा भूचराः कतिवा खेचराः कतिवा पुरुषाः कतिवा परुषाः कतिवा चतुराः कतिवा-चतुराः तानिसर्वाणि भिन्नभिन्नजातीयानि भिन्नभिन्नाकाराणि भिन्नभिन्न- गुणान्वितानि परस्परोपयोगीनिच कृत्वा सर्वाण्यपि सफलान्येवारचय्य जगदिन्द्रजालमिव दर्शयन् हरि: महामहिमशालीति स्फुटीभवस्येव. गीयतेच- *आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवदति तथैव चान्यः । आश्चर्यवञ्चैनमन्यश्श्रुणोति श्रुत्वाप्येनं वेद न चैव कश्चिदिति ॥ एवंभूतस्सभगवान् स्वभक्तानुग्रहमेव परमप्रयोजन मन्वानः तत्तगजनानुरूपं फलं ददा। गीयतेहि भगवता- ये यथा मां प्रपद्यन्ते तांस्तस्यैव भजाम्यहं ॥ गीता अ, २. गीता अ. ४.
*अनन्याश्चिन्तयन्तोमां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहमिति ॥ तस्मादस्माभिरेतादृशे भगवति कृतज्ञैर्विधेयैः भक्ति- मदिर्भजनशीलैः तदेकायत्तचित्तैस्तदनुग्रहसम्पादनकपरैः तदाज्ञापरिपालनैकजागरूकैस्सत्यमार्गानुवर्तिभिश्च भ- वितव्यं. तदेतत्सर्वं विस्मृत्य वयमन्यथाप्रवर्तामहेयदि वयमेव क्लेशभाजनानि भवेम; न तु भगवतः कोपि अका रुणिकत्वादिशंकाकळंकावकाशोपीतिज्ञेयं. सच भगवान् तत्तत्प्रमाणानुसारतस्तत्तजनैः निरन्त- राभ्यस्तदृढतरध्यानयोगैरवगम्यते. नेतरैर्बादैः प्रयत्नश- तैरपि. श्रूयतेहि- निचक्षुषागृह्यते नापिवाचा नान्यैर्देवैस्तपसा कर्मणा- वा ।ज्ञानप्रसादेन विशुद्धसत्वस्ततस्तु तं पश्यति निष्कळं ध्यायमानइति. प्रमाणनिरूपणं. तत्र प्रमाकरणं प्रमाणं. अत्रहि प्रत्यक्षमनुमानमागम- श्थेति त्रिविधमेव प्रमाणं निरूप्यते. *गीता अ. ९. मुंडके, ख. १.
(प्रत्यक्षनिरूपणं). तत्र प्रत्यक्षज्ञानजनकं प्रत्यक्षं. इदं नीलं इदं मधुरं इदं सुरभि इत्यादिज्ञानप्रति चक्षुरादीनां चक्षुस्संयोगादि व्यापारद्वारा कारणत्वाञ्चक्षुरादितत्तदिन्द्रियं प्रत्यक्षप्रमा- णमित्युच्यते. तज्जन्यंतादृशज्ञानमपि प्रत्यक्षमि- त्युच्यते. अनुमाननिरूपणं. *[अनुमितिकरणमनुमानं अनुमितिश्च व्याप्तिज्ञानत्वे- नव्याप्तिज्ञानजन्या. व्याप्तिज्ञानजन्यानुव्यवसायादे- स्तत्वेन तज्जन्यत्वाभावान्नानुमितित्वं. अनुमितिकरणंच व्याप्तिज्ञानं. तत्संस्कारोवांतरव्यापारः. व्याप्तिश्च हेतुव्यापकसाध्यसामानाधिकरण्यरूपा तद्रहश्च धू- मोवन्हिव्याप्यइत्याद्याकारकः] सचग्रहः महानसमंदु- राचत्वरादौ यत्रयवधूमस्तत्रतत्रवन्हिरिति तयोस्सा- हचर्यप्रत्यक्षवशात्संजायते. ततः पर्वतोयंवन्हिमान्वा नवेतिसंदिहानस्यपुरुषस्य वियत्पथविसरडूसरधूमरेखा- दर्शनेसति धूमोवन्हिव्याप्यइतिव्याप्तिसंस्कारउबुद्धोभ- वति. ततः पर्वतोवन्हिमानितिनिश्चयस्संजायते. सै श्वेदान्तपरिभाषाया मनुमानखण्डे.
१७ वानुमितिरित्युच्यते. तथाच तादृशानुमितिहेतुर्व्याप्ति- ज्ञानमिति तदेवानुमानप्रमाणमित्युच्यते? तादृशमनु- मानंतावत् यथाहिलोके गृहतटाकादिकं सकर्तृकं जन्य- त्वात् एवं वियदादिकृत्स्नं जगदपि सकर्तृकमित्यायनु- मितावुपयुज्यते. एवंच अस्मदादीनां निखिलजगत्कर्तृ- त्वासंभवेन सकतॆव सकलजगदधीश्वरःपरमात्माभ- वितुमर्हति इत्यादिनिश्चयोपयुक्तं भवतीत्यादिज्ञेयं. आगमनिरूपणं. आगमोनाम आगमयति प्रत्यक्षानुमानादिभिरगम्य- मर्थ वेदयतीति भगवदाज्ञारूपोवेदः. सच वेदोमन्त्रबा- ह्मणात्मकशब्दराशिरूपः. सूत्रयतेहि- *मंत्रब्राह्मणयोर्वेदनामधेयं. इति. स चतुर्विधः ऋग्वेदोयजुर्वेदस्सामवेदो-थर्ववेदश्वेति. तत्र होतृक्रियाबाहुल्यवान् ऋग्वेदः. अध्वर्युक्रियाबाहु- ळ्यवान् यजुर्वेदः. उद्गातृक्रियावाहुळ्यवान् सामवेदः. प्रोच्यन्तेहि तत्तत्विजांक्रियाः- क्यदेनमृग्भिश्शंसन्ति,यजुर्भिर्यजन्ते, सामभिस्तुवन्तीति. *आपस्तंबसूत्रे अ, १. निरुक्ते उत्तरषटके, चत्वारिशृंगेतिमन्त्रव्याख्यानावसरे. - C १८ राज्ञां शान्तिकपौष्टिकाभिचारिकादिकत्यबाहुळ्यवा- नथर्ववेदः, तेषुत्रव्येव यज्ञसाधनत्वाहिशेषेणधर्मसाधनं. पाः. सूत्रितंच- श्यज्ञव्याख्यास्यामस्सविभिदैर्विधीयतइति. अन्यस्तु अतथात्वात् क्वचित्तत्रतत्र वेदानां प्रस्तावेषु नगण्यते. तेषु वेदेषु केचिद्भागाः कर्मस्वरूपप्रतिपाद- काः केचिदुपासनास्वरूपप्रतिपादकाः. केचिद्ब्रह्म- स्वरूपप्रतिपादकाश्चभवन्ति. तेचवेदाः केचिन्मंत्ररू- केचिदिधिरूपाः. केचिन्निषेधरूपाः. के- चिदर्थवादरूपाः. जपहोमस्तुतिदानाराधनयज्ञादिका- लेषु पठनोपयोगिनः कामोकार्पोन्मन्युरकार्षादित्यादयः मन्त्ररूपाः. सत्कार्यप्रवर्तने नियामकाः सत्यंवद धर्म- चर अहरहस्संध्यामुपासीत यावज्जीवमग्निहोत्रंजुहोति यावज्जीवं दर्शपूर्णमासाभ्यांयजेत स्वाध्यायोध्येतव्यः इत्यादयोविधिरूपाः. दुष्कार्यनिवर्तनेनियामकाः नानृ- तंवदेत् नकळंजभक्षयेत् नसुरांपिबेत् नपरदारानगछे तू अनधीयानावास्याभवन्ति इत्यादयोनिषेधरूपाः.स्ववा- च्याथैतात्पर्यविहाय विधिनिषेधयोः प्राशस्त्याप्राशस्त्यबो- *ौनेसामान्यसूत्रे ख, १.
१९ काः धकाः अर्थवादरूपाः. तथाच श्रद्धयादेयमित्यादिविधि- परिपोषकाः दानेसर्वप्रतिष्टितं तस्माद्दानंपरमंवदंतीत्याद- यो विध्यर्थवादाः नानृतंवदेदित्यादिनिषेधाप्राशस्त्यबोध- समूलोवाएषपरिशुष्यतियोनृतमभिवदतीसादयो निषेधार्थवादाश्चबोध्याः. तेषांवेदानां आयप्रकाशनकर्ता भगवान परमात्मैव. *श्रूयतेहि- अस्यमहतोभूतस्यनिश्वसितमेतत् यदृग्वेदोयजुर्वेदस्सा- मवेदोथर्वेत्यादि. ऋचस्सामानि जज्ञिरेछन्दांसि जज्ञिरे तस्मात् यजुस्तस्मादजायतेत्यादिच. तादशवेदार्थप्रतिपत्तये शिक्षाव्याकरणछन्दोनिरुक्त- ज्योतिषकल्पाश्चेति षट् वेदाङ्गानि शास्त्राणि तेस्तैमह- र्षिभिः प्रणीतानि. शिक्षानाम तत्तवर्णस्थानप्रयत्नादिनिर्णयानुकूलं शास्त्रं. व्याकरणंनाम प्रकृतिप्रत्ययादिविवेचनपूर्वकसाधुशब्दप्र- योगज्ञानानुकूलं शास्त्रं. छन्दोनाम मात्रावर्णपादादिनियमनानां तत्तल्लक्षणा- *बृहदारण्ये अ. ४. ऋग्वेदे अष्टक ८.अ४. १८..
२० नांच प्रतिपादकं शास्त्रं. निरुक्तंनाम वेदार्थतत्पर्यायपदादीनां प्रदर्शकंशास्त्रं. ज्योतिषनाम तत्तत्सत्कर्मानुष्ठानयोग्यतत्तकालस्व- रूपनिरूपकं शास्त्रं. कल्पोनाम श्रौतस्मार्तप्रयोगस्वरूपप्रतिपादक शास्त्रं. एतानि षडङ्गानि वैदिकशब्दार्थादिकमन्यांश्चविषयान सन्दिग्धं अवगमयन्ति. तथापि तत्रतत्र वाक्यार्थादिविरो- धशंकायां मीमांसादिशास्त्राणि तत्तन्नयायान्परिदर्श्य तत्त- हिरोधधान्तिपरिहाराय जागरूकाणि भवन्ति. तथाहि एकएवरुद्रोनहितीयोवतस्थे इत्येकत्र सहस्रा- णि सहस्रशो येरुद्रा अधिभूम्यामित्यन्यत्रचेति एकोविरो- धः, किंच अचक्षुश्श्रोत्रं तदपाणिपादमित्येकत्र सहस्र- शीर्षा पुरुषस्सहस्राक्षस्सहस्रपान इत्यन्यत्रचेत्यन्योविरो- धः; इत्यादौ प्राप्ने एकस्यापि रुद्रस्य नानामूर्तिस्वीकारण- तिरस्तीतिद्योतनार्थं सहस्रत्वादिवर्णनमिति प्रथमविरोध- परिहारः चक्षुरायवयवरहितस्यापिजगदीशितुरकर्मजम- औतिकमैच्छिकमौपाधिकंवा सहस्रशीर्षवत्वादिकं प्रति- पायतइति द्वितीयविरोधपरिहारः. इत्यादीनि बहुधावि- वेचितानि.
२१ श्रुतिमूलकतया स्मृतीनां पुराणादीनांच प्रामाण्यं बोध्यं. मुतिस्मृतिपुराणादीनां परस्परविरुद्धार्थशंकायां श्रुत्य- नुसारेण स्मृतिपुराणादयोनेयाः. स्मृतिनिरूपणं. स्मृतिर्नाम स्मर्यते वेदार्थः अनयेति वेदोदिताचार- व्यवहारप्रायश्चित्तादिकर्मस्वरूपप्रतिपादकं ब्रह्मस्वरूप- प्रतिपादकंच शास्त्रं. स्मृतयश्चाष्टादश मनुस्मृतिपराशरस्मृतिप्रभृतयः. ताश्चस्मृतयः श्रुतीनां दुरूहार्थप्रचिकासयिषुभिः परम- कारुणिकैः मनुपराशरयाज्ञवल्क्यादिभिःप्रणीताः. स्मर्यन्तेहि स्मृतिकारः- *मनुर्वृहस्पतिर्दक्षोगौतमोथ यमोंगिराः। योगीश्वरः प्रचेताश्च शातातपपराशरौ ॥ संवतॊशनसौ शंखलिखितावविरेवच । विष्णापस्तंबहारीताः धर्मशास्त्रप्रवर्तकाः ॥ एतेष्टादशमोक्ताः मुनयोनियतव्रताइति । एषु मानवधर्मशास्त्र अतीव मुख्यं भवति. *वैद्यनाथीये परिच्छेदः, १.
- + २२ *श्रूयतेहि.-यदकिञ्च मनुरवदत्तड्रेषजमिति. स्मयतेच- वेदार्थोपनिबन्दृत्वात् प्राधान्यं हि मनोस्स्मृतं । मन्वर्थविपरीतातु या स्मृतिस्सा न शस्यते ॥ इति. एतदन्यैश्चमहर्षिभिः उपस्मृतपश्चाष्टादश प्रणीताः. तेचोपस्मृतिकर्तारः जाबालि: नाचिकेतः स्कंदः लौगाक्षिः कश्यपः व्यासः सनत्कुमारः शन्तनुः जनकः व्याघ्रः का- यायनः जातूकर्णिः कपिंजलः कणादः बौधायनः वि- श्वामित्रः पैठीनसिः गोबिलश्चेत्यष्टादश ज्ञातव्याः. सर्वासामासां स्मृतीनां मध्ये कलौ पाराशरीस्मृति- मुख्याभवति. स्मर्यतेहि- कतेतु मानवाधर्मास्त्रेतायां गौतमास्स्मृताः । हापरे शांखलिखिताः कलौपाराशराः स्मृताइति॥ पुराणनिरूपणं. पुराणनाम सर्गश्च प्रतिसर्गश्च वंशोमन्वन्तराणि च वंशानुचरितं चेति प्रकरणपंचकं यत् तत्प्रतिपादकः श्रुत्य- यजुर्वेदे कांड २. पन्न १. अनु ११. बार्हस्पतस्मृति: कुल्लूकभीये अ, १. उदाहृता. परागरस्मृतौ अ. १.
. वामनं २४, २३ र्थनिर्णायको ग्रन्थविशेषः. तञ्चपुराणमष्टादशविधं. ब्राह्म १०, पाझं ५५, वैष्णवं ८, वायवीयं २४, भागवतं १८, नारदीयं २५, मार्कंडेयं ३२, आग्नेयं ८, भविष्यत् ३१,ब्रह्मकैवर्त १२, लैंगं ११, वाराहं २४, स्कान्दं १००. कौम ६, मात्स्यं १४, गारुडं १६, ब्रह्माण्डं १२ चेति. अनायं पुराणानां नामसंग्रहश्लोकः- +महयं भयं चैव त्रयं वचतुष्टयं । अनापलिंगकूस्कानि पुराणानि पृथक्पृथक्॥ चतुर्मुखमुखचतुष्टयादिसृष्टानां वेदानां विभजना- त्पूर्वमेव प्रणीतत्वात् एषां पुराणसंज्ञा. तत्प्रणेता तु व्यासः, व्यासोनाम व्यस्यति वेदाविभजते इति वेदविभाग- कर्ता महर्षिः. वेदव्यासइतिच व्यवहियते. तादृशाः व्यासाश्चाष्टाविंशतिः ब्रह्ममनुशुक्रबृहस्पतिसूर्ययमेन्द्रव- सिष्ठ सारस्वत विधामत्रिशिखभरदाजान्तरिक्षवर्णित्रय्या- रुणिधनंजयक्रतुंजयजयगौतमोत्तरवाजश्रवस्सोमशुष्का- यणतृणबिंदक्षवाल्मीकिशक्तिपराशरपाराशर्याइति. *ब्राझं १० दशसहस्रग्रन्थमित्यादिसंख्याविष्णुपुराणरोत्याबोध्या. देवीभागवते स्कं, १. अ, २.
२४ - आततान. अत्रेदंबोध्यं- *कल्पादौ चतुर्मुखस्सकलवेदप्रकाशनात्पूर्वं तदर्थान् संगृह्य सुखबोधाय शतकोटियन्थसंख्याकं कंचित्प्रबन्ध स एव ब्राह्मपुराणसंज्ञामयासीत्. ततः कस्मिंश्चिद्युगान्तरे तच्च पुराणं ब्राह्मादिभेदेन अष्टादशधा विभज्य वेदानपि चतुर्धा विबभाज तत- स्तत्तयुगेषु मन्वादयोव्यासाः तत्तदोबुद्धिशक्त्यनुसारेण ताएव वेदानुपूर्वीः तानेव पुराणार्थांश्च संक्षिप्यसंक्षिप्य कांडवर्गाध्यायादिविभागपूर्वकं पर्यकल्पयन्. अतीतहाप- रान्ते भगवान् पाराशरिः कृष्णद्वैपायनस्तु अनन्तशाखास. मुदायरूपेणास्थितं वेदं चतुर्धा विभज्य क्रमात्पैलवैशं- पायनजैमिनिसुमन्तून शिष्यान् बोधयामास. ततस्तश्छिष्यैस्तश्छिष्यैस्तश्छिष्यप्रशिष्यादिक्रमेणच उपदिष्टोयं वेदतरुः काठककौथुमतैत्तरीयाद्यनेकशाखा- वान् समुल्ललास. वेदविभागानन्तरं सभगवानसात्वतेयः सुविस्तरं पु. राणमालोच्य चतुर्लक्षग्रन्थसंख्यात्मना संक्षिप्य शिष्येभ्य- स्तमानसोल्लासं बुबोधयिषुः श्रुत्युक्तधर्मपर्यवसायिनः दे- वर्षिराजर्षिचरित्ररूपान् कांश्चिदृष्टांशान् कांश्चित् श्रुतां- *श्रीधरीय विष्णुचित्तीयतृतीयांशषष्टाध्यायात् चरणव्यूहादिभ्य- श्व संगृहीतं.
- २५ शांश्च प्रकाश्य इदानीमुपलभ्यमानपाद्माद्यष्टादशपुराणा- न्यारचय्य तानि सूतनामकं स्वशिष्यं ग्राहयामास. किञ्च-स महर्षिरनेकोपाख्यानतरंगतरंगितं सकल- लोकशास्त्रसंप्रदायविज्ञानलक्ष्मीजन्मगेहं महार्णवमिवा- मृतप्रदं च भारतनाम पंचमवेद मवतारयामास. ततस्समुनिरेव संसारपंकनिर्मग्नानुद्दिधीर्षुःब्रह्मसूत्रा- णि निर्माय बोधयामास. तेषां ब्रह्मसूत्राणां श्रीम- च्छंकरभगवत्पादाचार्यैः श्रीमद्रामानुजभगवत्पादाचार्यैः श्रीमदानन्दतीर्थभगवत्पादाचार्यैः श्रीमन्नीलकंठाचार्या- दिभिश्च भाषितानि भाष्याणि भगवतः केळीसौशि- खरसोपानानीव विराजन्ते-इत्यादि. तथाच सएषव्यासः पाराशरिरेव अष्टादशपुराणानां कर्ता सत्यवतीसुतः इतिश्लाध्यते. एतेषु पुराणेषु स्कान्दशैवलैङ्गकौमवामनवाराह- भविष्यन्मात्स्यमार्कंडेयब्रह्मांडानीति दश शिवमाहा- म्यप्रतिपादकानि. नारदीयभागवतगारुडवैष्णवानीति चत्वारि विष्णुमाहात्म्यप्रतिपादकानि.ब्राह्मपा हे ब्रह्म- माहात्म्यप्रतिपादके. ब्रह्मकैवर्तमेकं सूर्यमाहात्म्यमति- पादकं. आग्नेयमेकमग्नि माहात्म्यप्रतिपादकमिति ज्ञेयं.
२६ अन्यैश्च महर्षिभिरुपपुराणानि कानिचित् प्रणीतानि. तानिच सनत्कुमारीयं नारसिंह नन्दीयं शिवधर्मः दौ- वासं नारदीयं कापिलं मानवं औशनसं ब्रह्मांडं वारुणं काळीयं वासिष्टं लैङ्ग माहेश्वरं साम्बं सौरं पाराशरं मारीचं भार्गवं चेत्यादीनि ज्ञातव्यानि. तथाचभारतादीनामितिहासानां ब्राह्मादीनांपुराणा- नांच वेदार्थनिर्णायकत्वेन प्रामाण्यं बोध्यं. पठ्यतेहि- *इतिहासपुराणाभ्यां वेदंसमुपबृह्मयेत् ॥ वेदाः प्रमाणप्रथमं स्वतएव ततःपरं । स्मृतयश्चपुराणानि भारतमुनिपुंगवाः ॥ इत्यादि. एवं शैवपाशुपतपांचरात्राद्यागमानां शिल्पायुर्वेद गांधर्वादीनां सर्वेषामपि वेदार्थोपबृह्मणतया वेदाविरु- द्धांशएव प्रामाण्यं बोध्यं. - अगवदवतारनिरूपणं. एभिःप्रत्यक्षानुमानादिभिः प्रमाणैःश्रवणमननादिक- मनुतिष्टता पुरुषेण सक्षात्कारविषयीकरणीयः परमका- रुणिकः सभगवास्तदातदा स्वाज्ञोल्लंघनेन दुष्कृत्यकारि- *स्कान्दे सूनसंहितायां अ, १ - णामसतां शिक्षणाय सतां रक्षणायच स्वांशैः देवतिर्य- मनुष्यादिरूपैः पावनान्यसाध्यान्याश्चर्याणि च कार्या- णि कुर्वन् स्वक्रियादृष्टांतेन जनान् सद्धर्मे प्रवर्तयन् लोकव्यवस्थां करोति. गीयतेहि- *यदायदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहं ।। परित्राणाय साधूनां विनाशाय च दुष्कृतां । धर्मसंस्थापनार्थाय संभवामियुगेयुगे । इति. तथाहि-पुरा खलु स परमात्मा वासुदेवः सकललो- ककंटकं अपहृतवेदं सोमकनामकमसुरं उन्मूलयितुं आलंब्य मात्स्यं रूपं तरसा रसातलमवगाल महोदधि- जलमध्यमध्यासीनं तमपसधिनमपहत्य समानयन् वे दान् सनिर्वेदं महीतले अनिर्वेदं आरचयन् प्रवर्तयामास सकलान् धमांन. अथापरस्मिन् काले स कैटभारिः कौम रूपमालं- व्य मेदरमुद्दहन् सुधापानोयतान् अनुजग्राह देवगणान्. अथकास्मंश्चिचतुर्मुखदिवसावसाने सहरिर्वाराहं देह- मवलंब्य महाजलमध्यविलीनं अवनीतलमुन्नमयन् अंकूरयामास सकलं जगत्. गीता अ, ४.
२८
अन्यस्मिन्ननेहास हिरण्यरक्षसा विक्षोभिते क्षोणी-
तले प्रकंपितेषु साधुषु विक्रान्तेषु क्रूरेषु विध्वस्तेषु
धर्ममार्गेषु प्रभीतप्रहलादसमाङ्लादनाय भगवान् भयं-
करं सैम्हं वेषमाश्रित्य स्तम्भात्संभवन निहत्य तं राक्षसं
आनन्दयन्नखिलभक्तवृन्दं प्रकाशयामास निजं वात्सल्यं
एकदा तु भगवान् अखिलासुरबलोद्रेकमसहमानैः
दीनैर्देवैस्संप्रार्थितः स्वयमदितेर्वा मनीभूयावतरन् यजमानं
बलिं असुरेशं अंघ्रित्रयपरिमितां वसुधां भिक्षित्वा त्रिवि-
क्रमीभूय प्रवृद्धः पादेनैकेन यां अन्येन गामपरेण च
तमाक्रम्य तदायतनं पाताळमुपनयन तत्प्रार्थितस्तद्दौ-
कारिकइव तत्सन्निहितस्तमनुगृह्णन् व्यक्तीचकार स्वी-
यांनतपराधीनतां.
ततःकदाचित्सभगवान् जामदग्नयीभूय कठोरकुठार
पाणिः उन्मत्तदुर्वृत्तक्षत्रवर्गसर्गप्रळयपावकीभवन् परि-
भ्रष्टान् धर्मान् स्थापयामास.
अनंतरमस्मिन्नेव युगे रावणे रक्षसि निष्पीडयति
साधून निष्प्रचारयति धर्मान् निष्पादयति भुवनबाधां
भ्रमवान् दाशरथिर्भूत्वा काननगमनात् पितृनियोगगौरवं
प्रकटयन् सीतैकायत्ततया एकपत्नीव्रतक्रममुपदिशन्
निलीयवालिवधात् मित्रकार्यैकमुख्यतामवबोधयन् सुग्रीव
२९ संग्रहाद्दीनबंधुतां प्रकाशयन् विभीषणसंग्रहणात् शर- णागतभरणोद्यममवबोधयन् रावणकुंभकर्णादिरक्षोगण- विक्षोभणात् दुष्कृत्यकारिणामिदमेव फलमिति घोषयन् सीताग्रहणेन संकल्पितकार्यफलमेवं समीक्ष्य संग्रहणीय- मित्यादिधर्मान् लोकानबूबुधत् अत्रैते श्लोकाः भवन्ति. *बहुदारग्रहणाहोम्येकां पत्नी समुहहन्धीरः। अनवरतमेकपत्नीव्रतकलनाक्रममुपादिशद्रामः॥ काननगमनात्पित्रोराज्ञानुसृतिर्बभूव यदुपज्ञं । आचूडमानखायं सत्यैकमयं स्मरामि रघुवीरं ॥ मित्रव्यसनासहन स्समुद्धतंवालिनं प्रहरन् । सुग्रिवमग्रहीय स्सहिदेवो दीनबंधुरवतानः ॥ हिषदनुजमपिच दनुजें सहजसमानं ररक्ष योदेवः। शरणागतभरमगुणप्रथमोदाहरणमेनमवलंबे ॥ दुष्कृत्यकारिणी भुवि विषमं फलमेवमेवभवतीति। रक्षोगणविक्षोभणकरिं कमपि देवमाकलये ।। सीतामनलानीतां स्वीकुर्वन्नुपदिदेश लोकानां । संकल्पितकार्यफलं संग्रहणीयं समीक्ष्य चैवमिति इयंसप्तश्लोक्यस्मद्विरचिता.
३० कस्याप्यनार्यवाक्यात्स्वार्ध पत्नी त्यजन्नबोधयत । लोकापवादभीरोस्स्याज्या तु तनुर्नमानितेयेषः॥ इति. तदनुतदन्यस्मिन् हापरे युगे स्वांशीभूतशेषांशेन स्वां- शेन च बलभद्ररूपतामेत्य प्रलंबादिदुष्टन्निहत्य तीर्थया- त्रायपदेशेन सत्कर्मावश्यकत्वादिकमुपदिदेश सकल- जनानां. अथ तस्मिन्नेव काले स भगवान् श्रीकृष्णरूपेण निखिलभक्तानां धर्मार्थकाममोक्षाख्यं फलं प्रयच्छन् भू- भारावतरणपदेशेन अस्मदादीनामपि समाश्रयणीयत्वा- य अवतीर्योा सकलमनुजनयनविषयतां गतः परावर- निखिलजनमनोहारिदिव्यचेष्टितानि कुर्वन् पूतनाशकट- यमळार्जुनारिष्टप्रलंबधेनुककाळियकेशिकुवलयापाड--- चाणूरमुष्टिककौसलकंसादीन् निहत्य अनवधिकदया- सौहार्दानुरागगर्भावलोकनालापामृतेः विश्वमाप्याययन् निरतिशयसौन्दर्यसौशील्यादिगुणगणाविष्कारेण अक्रूर- मालाकारादीन् परमभागवतान् कृत्वा पांडुतनययुद्ध- प्रोत्साहनव्याजेन परमपुरुषार्थलक्षणमाक्षसाधनतया वे- दान्तोदितं स्वविषयं ज्ञानकर्मानुगृहीतं भक्तियोगमव- तारयामास. *रामानुजीयगीताभाष्यपीटिकायां.
- ३१ ततः कलियुगे तदन्तेच कलिमलप्रध्वंसनाय प्रबुद्ध- बुद्धरूपः कुहनातुरङ्गमुखतरंगितात्मा च परमात्मा स्वयमविज्ञातवेदशास्त्रादितत्वानपि अविचारित धर्म- सौक्षम्यानपि पंडितंमन्यान् वेदमार्गविनिन्दकान् अतू- यकान्फ्रान्कुटिलान्कृतघ्नांश्च निहत्य यथापुरं व्यवस्था- पयेदेव देवोधर्ममार्गान्. अनायसंग्रहश्लोकः- *मत्स्यः कूर्मों वराहश्च नरसिंह्मश्च वामनः । रामो रामौच कृष्णश्च बुद्धः कल्किश्च पातुनः ।। अत्रायं विशेषः बलभद्रावतारः श्रीकृष्णावतारण सहकीभवतीति बोध्यं. किंच एषामवताराणां लोकानु- ग्रहार्थं भगवता स्वीकृतमूर्तरूपत्वात् अपारमितानन्त- महामहिमशालित्वात् श्रुतिस्मृत्यादेप्रतिपादितोपास्यरू- पत्वाञ्च न प्राकृतप्राणिसादृश्यं भवितुमर्हति. किन्तु-यथाहि वन्हिस्सत्वान् दहन्नपि न पातकीति परित्यज्यते गृहादिकं दहनपि न शत्रुरिति दिष्यते पाकादिक्रियाभिम्पकर्तापि न मित्रमिति परिष्वज्यते तमोनिवारकोपि न गुरुरिति पदयोस्स्पृश्यते अशुचि- स्पृष्टोपि नाशुचिरिति दूरीक्रियते *प्राचीनःप्रणीत:.
३२ किन्तु यच्चकार्यं यददृष्टाधीनं तत् तदुपभोगं साक्षा- त्परंपरया वा जनयत्येव-इत्यंगीक्रियते तथा भगवा- नपि तत्तज्जनीयादृष्टवशात् तत्तत्कार्यकारी भक्तीति न तस्य सत्कार्यासत्कार्यप्रयुक्त पुण्यपापगन्धसंबन्धोपीति ज्ञेयं. गीयतेहि- प्रकृति स्वामवष्टभ्य विसृजामि पुनःपुनः । भूतग्राममिमं कृत्स्नं अक्शं प्रकृतेर्वशात् ।। न च मां तानि काणि निवनति धनंजय । +न मां काणि लिंपन्ति न च कर्मफले स्पृहा । *अवजानन्ति मां मूढा मानुषी तनुमाश्रितं । परं भावमजानन्तो ममभूतमहेश्वरम् ॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरों चैव प्रकृति मोहिनीं श्रिताः ।। महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः । भजन्त्यनन्यभावेन ज्ञात्वा भूतादिमव्ययं ॥इति. एवंच निर्गुणमशरीरं ब्रह्म गगनवड्यातुमशक्य- मिति उपासनासौलभ्यार्थं इंद्रादिदेवतारूपेण वा राम- +गीता अ. ४. - गीता अ. ९.
. ३३ कृष्णावताररूपेणवा शिलादारुलोहादिमयविग्रहादिरू- पेण वा भगवान् विश्वमूर्तिः परमात्मा तावत् तत्तदु- पासकधारणाशक्त्यनुसारेण उपासनीयोभवति. नतु तत्तदुपाधिमात्रमितिज्ञेयं. भूयतेहि- चिन्मयस्याद्वितीयस्य निष्कळस्याशरीरिणः । उपासकानां कार्यार्थ ब्रह्मणोरूपकल्पना॥इति. गीयतेच. +योयो यांयां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धांतामेव विदधाम्यहं॥ इति. प्रोच्यतेच- अग्नौ क्रियावतां देवो रवौ देवो मनीषिणां । प्रतिमास्वल्पबुद्धीनां योगिनां हृदये हरिः॥इति. पठ्यतेच- यच्च मूर्त हरेरूपं यादृक्किन्यं नराधिप । तच्छूयतामपाधारा धारणानोपपद्यते । प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणं । सुकपोलं सुविस्तीर्णललाटफलकोज्वलं ॥ रामतापनीये प्रथमोपनिषदि. गीत अ, ७. आग्नेयपुराणे विष्णुपुराणे अं, ६. अ, ७. R 20 समकर्णान्तविन्यस्तचारकुंडलभूषणं । प्रलंबाष्टभुजं विष्णुमथवापि चतुर्भुजं ।। शार्डशंखगदाखड्गचक्राक्षवलयान्वितं । वरदाभयहस्तं च मुद्रिकारत्नभूषितं ।। चिन्तयेत्तन्मयोयोगी समाधायात्ममानसं । तावद्यावदृढीभूता तत्रैव नृप धारणा ॥ बजतस्तिष्ठतोयहा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चित्तात् सिद्धां मन्येत तां तदा॥ ततश्शंखगदाचक्र शादिरहितं बुधः । चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकं ।। सा यदा धारणा तददवस्थानवती ततः । किरीटकेयूरमुखैर्भूषणैरहितं स्मरेत् ॥ इत्यादि. तथाच यथाहि लोके पंडितीभविष्यतोबालकस्य प्रथमतः तत्तद्रेखास्वक्षरज्ञानं ततोहितीयतृतीयादिपुरखक- पठनं तदनु व्याकरणादितत्तच्छास्त्रपरिशीलनमिति तत्तत्क क्ष्यानुसारेण सादरं विद्योपासनीया भवति ततस्तदातदा पुनःपुनश्श्रवणचर्चनचिन्तनादिवशात् तत्तच्छास्त्रगत- विषयज्ञाने सति तत्तदज्ञानावस्थया निर्मुच्यमानः सप- ण्डितइत्यभिधीयते तथैव कृतार्थीभविष्यतोजनस्यापि - प्रथमतः पार्थिवरूपेष्वात्मनोध्यानं अथो विधिहरिहरे. न्द्रसूर्यगणपत्यादिदिव्यमूर्तिष्वनुसन्धानं तदन्वन्नमयादि तत्वकोशपरिशीलनं इत्यादितत्तदुपासनानुसारेण सभ- क्तिप्रकर्ष परमात्मा उपासनीयोभवति ततस्तदातदा पुनः पुनश्श्रवणमनननिदिध्यासनादिवशात् तत्तकोशगतवि- षयस्वरूपज्ञाने सति तत्तदज्ञानावस्थया निर्मुच्यमानःस- कृतार्थइत्यभिधीयते. इत्यादिज्ञेयं. तदेतत्सर्वयोगप्रकरणे समाधिस्वरूपनिरूपणावसरे- व्यक्तीभविष्यति. एवमादिभिरन्यैश्च तत्तदनुरूपविभूतिभिरनन्तैः ली. लावतारैर्भगवान परमकारुणिकः सकलभक्तजननयन- गोचरतां प्रतिपद्य तैस्तैस्सल्लापितसंपूजितस्संचिन्तित- स्सुलभमार्गेण तेषामुत्तमंफलमुपनयन भूभारमपनयन् सफलतामेवापादयति सकलान् धर्मान. इतिभगवत्स्वरूपनिरूपणं.
प्रवृत्तिधर्मप्रकरणं. सचधर्मोहिविधः प्रवृत्तिधर्मोनिवृत्तिधर्मश्चेति. एता- वेवाभ्युदयधर्मनिश्रेयसधर्माविति कर्मयोगज्ञानयोगाविति चोच्येते. तत्र तत्तदभ्युदयोद्देश्यकप्रवृत्तेर्जायमानोधर्मः प्रवृत्तिधर्मः. प्रवृत्तिधर्मोदिविधः साधारणधर्मोविशेष- धर्मश्चेति. साधारणधर्मनिरूपणं. तत्र स्त्रीपुंसात्मकसकलमानवसाधारण्येन विधीय- मानोधर्मस्साधारणधर्मः. तएतेसाधारणधर्माः शास्त्रत- स्संगृह्य सनिषेधाःप्रदर्श्यन्ते. तथाहि- १ सयंवद.* ८ प्रातःप्रातस्स्नायात्.* ९ धौतेवस्त्रे परिदध्यात्. ३ कल्याणकर्म कुर्यात, १० नकच्चरं धारयेत्.* ४ प्रागुदयात्प्रबुध्येत. ११ मातरपितरावभिवन्देत. ५ भगवंतमभिद्ध्यायेत्. १२ तदभिमतेपथि वर्तेत. १३ नतयोराज्ञामतिवर्तेत. ७ तन्नाम कीर्तयेत्. १४ विद्यागुरुषुविनयेत. एतचिन्हानि विधिवाक्यानि श्रुतिस्मृत्यादिभ्यस्संगृहीतानि. तदन्यानि कानिचिदस्मसंकलितानिच, * २ धर्मचर.* ६ तद्गुणान् स्मरेत.
३७ १५ सर्वानपिस्त्रीपुंसान सो-३२ प्रियंच नानृतंब्रूयात्.. दरीसोदरवत्संभावयेत्.३३ नाश्लीलं कीर्तयेत. १६ राजनि कृतज्ञतामधि-३४ नान्यदोषानुदीरयेत्.* गच्छेत्. ३५ नकलहंजनयेत्. १७ नपरोत्कर्षायासूयेत.* ३६ नकेनापि विवदेत. १८ नक्षुद्रमैत्रींकुर्यात्. ३७ नैवात्मानं विकत्थयेत्. १९ साधुषु स्निोत्. ३८ नदत्तं पुनरादद्यात्.* २. पापिषूदासीत. ३९ नवृथाशां जनयेत्. २१ सुखिषु मोदेत. ४० नाशुचिर्भुजीत.* २२ दीनेषु दयेत. ४१ नपङ्क्तिभेदं जनयेत्. २३ आत्मवत्सर्वभूतानि- ४२ नपर्युषितं भुंजीतान्य- जानीयात् * त्रफलमूलादिभ्यः.* २४ नकिंचित्परस्वं हरेत. ४३ नदिवा स्वपेत्. २५ नकस्मैचिढुझेत. ४४ नयूतंचरेत्.* २६ नकस्मैचित्क्रुध्येत्. ४५ नवृथाकालमतिवाहयेत् ४६ सड्यासंगैर्दिननयत्. २७ नलोकमर्यादामतिवर्तेत ४७ सर्वदासर्वतोप्यप्रमत्त- २८ नकंचनजनमवमन्येत. तामनुवर्तेत. २९ मृदुमधुरं भाषेत. ४८ मनसावाचाकर्मणाच ३० मितंबूयाद्वितंब्रूयात.* विनिर्मलतरमवतिष्ठेत. ३१ नानृतं वदेत्. इत्यादिज्ञेयं. * ३८ स्मयतेच- *अहिंसयैव भूतानां कार्यश्रेयोनुशासनं । वाक्कैव मधुराश्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥ नारुन्तुदस्स्यादाापि नपरद्रोहकर्मधीः । ययानोहिजतेवाचा नालोक्यांतामुदीरयेत् ॥ यस्यवाङ्मनसी शुद्धे सम्यग्गुप्तेच सर्वदा। सवैसर्वमवाप्नोति वेदान्तोपगतंफलं ॥ किंचित्परस्वंनहरेन्नाल्पमप्यप्रियंवदेत् । प्रियंचनानृतंब्रूयान्नान्यदोषानुदीरयेत् ।। पापेप्यपापःपुरुषेयभिधत्ते प्रियाणि यः। मैत्रीरुदन्तःकरणस्तस्यमुक्तिः करेस्थिता ।। ये कामक्रोधलोनानां वीतरागा नगोचरे। सदाचारस्थितास्तेषामनुभावैधुता मही ॥ यईर्षुःपरवित्तेषु रूपेवीर्येकुलेट-न्वये। सुखसौभाग्यसत्कारे तस्यव्याधिरनन्तकः ।। एवं- हिंसास्तेयान्यथाकामपैशुन्यपरुषार नृतं । सम्भिन्नलापं व्यापदमभिध्यां दृग्विपर्ययं ।। अनुस्मृचौ अ, २. विष्णुपुराणे अं. ३, अ. १२. बाहटे भ. २. उदाहृतं. A ३९ पापकर्मेतिदशधा कायवाङ्मानसैस्त्यजेत् । अवृत्तिव्याधिशोकार्ता ननुमन्येतशक्तितः ॥ *यदानकुरुतेपापंसर्वभूतेषुकर्हिचित् । कर्मणामनसावाचा ब्रह्मसम्पद्यतेतदा ॥ इत्यादिज्ञेयं. (पुंधर्माः). पोष्यवर्गार्थसिद्धयर्थ न्यायवर्तीतुबुद्धिमान् । न्यायोपार्जितवित्तेन कर्तव्ययात्मरक्षणं ।। वृद्धौचपितरौपुत्रीस्सोदरीश्च प्रजावतीः । अशक्तीभ्रातरौचापि प्रीणयेत्कुलवर्धनः ।। उपाध्यायं पितरंमातरं वा येद्रुह्यन्तिमनसाकर्मणावा। तेषांपापं भ्रूणहत्याविशिष्टं नान्यस्तेभ्यःपापरुद- स्तिलोके ॥ परदारान्नगच्छेत्तु मनसापिकथंचन । परदारादरःपुंसामुभयत्रापि भीतिदः ।। विद्यागमार्थपुत्रस्यवृत्यर्थच यतेत यः । पुत्रसदा साधुशास्ति प्रीतिकृत्सपिता-नृणी ! भारते अरण्यपर्वणि अ. २४९. पराशरस्मृतौ भ. १२. वैद्यनाथीये कांडः १. व्यासमनुदक्षयमादीनां वचनानुवादः. शुक्रवचनं.
*पितृवत्पालयेत्पुत्रान् ज्येष्टोधाता यवीयसः ।
पुत्रवच्चापि वर्तेरन् ज्येष्टधातरि धर्मतः ।।
प्रजनार्थ महाभागाःपूजार्हागृहदप्तियः ।
स्त्रियश्श्रियश्चगेहेषु नविशेषोस्ति कश्चन ॥
अर्थस्यसंग्रहेचैनां व्ययेचैव नियोजयेत् ।
शौचेधर्मेनपतौच पारिणश्वस्य चेक्षणे ॥
विधायवृत्तिभार्यायाः प्रवसेत्कार्यवान्नरः ।
अवृत्तिकर्शिताहिस्त्री प्रदुष्येतस्थितिमत्यपि ॥
यारोगिणी स्यात्तु हिता संपन्नाचैवशीलतः ।
सा-नुज्ञाप्याधिवेत्तव्या नावमान्याच कहिचित्।।
येत्यजन्ति स्विकांक्षा- मूढाः पंडितमानिनः ।
तेयान्तिनरकंघोरं तामिस्त्रं नात्रसंशयः ॥
पितृभिर्भातृभिश्चैताः पतिभिर्देवरैस्तथा ।
पूज्याभूषयितव्याश्च बहुकल्याणमीप्सुभिः ।
यत्रनार्यस्तु पूज्यन्ते रमन्तेतत्रदेवताः ।
यत्रतास्तु नपूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥
इत्यादिज्ञेयं.
वैद्यनाथीये कां १. मन्वादीनां वचनानुवादः.
पारिणचं गृहोपस्करः
(स्रीधर्माः),
*साभार्या यापतिप्राणा साभार्या याप्रजावती।
मनोवाक्कर्मभिशुद्धा पत्यादेशानुवर्तिनी ॥
च्छायेवानुगता स्वच्छा सखीव हितकर्मसु ।
सदाप्रहृष्टया भाव्यं गृहकार्येषु दक्षया ।।
नकेनचिदिवदेव अप्रलापविलापिनी।
नचातिव्ययशीलास्यान्नधर्मार्थविरोधिनी ।।
पतिप्रियहिते युक्ता स्वाचारा संयतेन्द्रिया ।
इहकीर्तिमवाप्नोति प्रेत्यचानुपमंसुखं ॥
भर्तारं श्वशुरं श्वश्रू भावुकं देवरादिकान् ।
आर्यान्समर्चयेद्यातु सैवप्रोक्ता पतिव्रता ।।
कुरूपोवा कुवृत्तोवा दुस्स्वभावोथवा पतिः ।
रौद्रोवाथ दरिद्रोवा कदर्यः कुत्सितोपिवा ।
सततं देववत्पूज्यस्साध्व्या वाक्कायकर्मभिः ।
संयता गुप्तधान्याच सुसंमृष्टनिवेशना ।
गुरूणां पुत्रमित्राणां बन्धूनां कर्मकारिणां ।
आहूतानांच भृत्यानां दासीदासजनस्यच ।
मनु अ. ६.
वैद्यनाथीये कां १. व्यासमनुदक्षादीनां
वचनानुवादः
४२
अतिथ्यभ्यागतानांच भिक्षुकाणांच लिंगिना ॥
आसने भोजने दाने सम्माने प्रियभाषणे ।
तत्तद्गुणानुसारेण प्राप्तकाले यथोचितं ॥
दक्षया सर्वदाभाव्यं भार्यया गृहमुख्यया ।
गृहव्ययाय यतूद्रव्यं दिशेत्पन्याःकरे पतिः।
निवर्त्यगृहकार्य सा किंचिदुध्या-वशेषयेत् ।।
दानार्थमर्पितेद्रव्ये लोभाकिचिन्नधारयेत् ।
भर्तुराज्ञांविना नैवस्वबन्धुभ्योदिशेद्धनं ॥
सकामवीक्षिताप्यन्यैः प्रियैाक्यैःप्रलोभिता।
स्पृष्टावा जनसम्मः नविकारमुपैतिया।
पुरुषंसेवतेनान्यं मनोवाकायकर्मभिः ।
लोभितापि परेणार्थं स्सासती लोकभूषणा ।।
नव्रतेनोपवासेन धर्मेणविधिनानच ।
नारीस्वर्गमवाप्नोति प्राप्नोति पतिपूजनात् ।।
स्त्रीणामार्यस्वभावानां परमंदैवतं पतिः ।
पतिशुश्रूषणानार्यास्तपोनान्यविधीयते ॥
कामाद्रोषान्मत्सराहा भर्तारं या-वमन्यते ।
सा सप्तजन्मकंयावन्नारकीस्यान्नसंशयः ।।
- *मृतेभर्तरि सावीत्री ब्रह्मचर्यवते स्थिता । स्वर्ग गच्छत्यपुत्रापि यथातेब्रह्मचारिणः ।। अन्यच्चस्मर्यते- +अनुक्तागृहान्निर्गच्छेन्नानुत्तरीया. नत्वरितंबजेत्. नप. रपुरुषमभिभाषेतान्यत्रवणिक्प्रवजितवृद्धवैद्येभ्यः. आ- गुल्फंवासःपरिदध्यात्. नहसेदपावृतं. भर्तारंतह- न्धूंश्च नदूषयेत्. नगणिकाधूर्ताभिसारिणीदुश्शीलादि- भिस्सहैकत्र तिष्ठेत. संसर्गेणहि चारित्रं दुष्यति. इत्यादि. एवंच- तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ। यथा नातिचरेतान्तौ वियुक्तावितरेतरं ।। अन्योन्यस्याव्यभिचारो भवेदामरणान्तिकः । एप धर्मस्समासेन ज्ञेयस्स्त्रीपुंसयोः परः ।। तथाच- यश्च जनः प्रतिपादितसत्यवचनादिसद्धमैकप्रवृत्तो भवति सस्वयं तीर्णः परान् तारयतीतिन्यायेन स्वस्य परेषां च आनुकूल्यमेव संपादयति, यस्त्वनृतवचनपर- *मनु अ, ५. विज्ञानेश्वरीये अ, विवाहप्रकरणे शंखसूत्रानुवादः मनु अ, १. - स्वापहरणायधर्मप्रवृत्तोभवति स स्वयंनष्टःपरान्नाशय- तीतिन्यायेन स्वस्य परेषां च प्रातिकूल्यमेव संपादयति. इत्यादिज्ञेयं. विशेषधर्मनिरूपणं. वर्णाश्रमादिमत्तत्तजनविशेषानुद्दिश्य विधीयमानोध- मों विशेषधर्मः. संपंचविधः वर्णधर्मः आश्रमधर्मः वर्णाश्रमधर्मः गुणधर्मः निमित्तधर्मश्चेति. तत्रवर्णयो- ग्योधर्मों वर्णधर्मः. वर्णोनाम ब्राह्मणायन्यतमः. वर्णश्चतुर्विधः ब्राह्मणः क्षत्रियो वैश्यश्शूद्रश्चति. श्रूयतेहि- प्रजापतिर्यज्ञमसृजत. यज्ञंसृष्टमनु ब्रह्मक्षत्रेअसृज्ये- तामित्यादि. एवमन्यत्रापि श्रूयतेहि चातुर्वर्ण्यसंम्भवादिक्रमः प्रजापतिरकामयत प्रजायेयेति. समुखतस्त्रिवृतं निर- मिमीत. तमग्निर्देवतान्वसृज्यत. गायत्रीच्छन्दोर- थन्तरगंसाम ब्राह्मणोमनुष्याणामजःपशूनां. तस्मात्तेमु- ख्यामुखतोय़सृज्यन्त. उरसाबाहुभ्यां पंचदशं निर- मिमीत. तमिन्द्रोदेवता-विसृज्यत. बिष्टुप्छन्दोबृहत् भगैतरेयब्राह्मणे पंचिका ७. अ ४. +यजुर्वेदे, कांड:. ७. पन्नं. १. अनुवाकः. १.
साम राजन्योमनुष्याणामविःपशूना. तस्मात्ते वीयां- वन्तो वीर्याध्यसृज्यन्त. मध्यतस्सप्तदशं निरमिमीत. तविश्वेदेवादेवताअन्वसृज्यन्त. जगतीच्छन्दो वैरूप- गंसाम वैश्योमनुष्याणां गावःपशूनां. तस्मात्तआया अन्नधानाध्यसृज्यन्त. तस्मायागंसो-न्येभ्यो भूयि- ष्ठाहिदेवताअन्वसृज्यन्त. पत्तएकविंग्शं निरमिमीत तमनुष्टुप्छन्दो-न्वसृज्यत वैराजगंसाम शूद्रोमनुष्या- णामश्व पशूनां. तस्मात्तौभूतसंक्रामिणावश्वश्चशूद्रश्च. तस्माच्छूद्रो यज्ञे-नवलप्तः. नहिदेवताअन्वसृज्यत. तस्मात्पादाउपजीवतः पत्तोरसृज्यतां इत्यादि. गीयतेच. *चातुर्वर्ण्य मयासृष्टं गुणकर्मविभागशः इति. तेचब्राह्मणादयश्चत्वारोवर्णाः वक्ष्यमाणतत्तत्कर्माहा इतिबोध्यं. स्मर्यन्तेहि तत्तत्कर्माणि- (ब्राह्मणधर्माः). अध्यापनं चाध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ गीतायां अ. ४. वैद्यनाथीये परिच्छेदः १. मनुपराशरादीनामनुवादः.
४६
पण्णांतु कर्मणामस्य त्रीणिकर्माणि जीविका ।
याजनाध्यापनेचैव विशुद्धाच्च प्रतिग्रहः ।।
शमोदमस्तपश्शौचं क्षान्तिरार्जवमेवच ।
ज्ञानविज्ञानमास्तिक्यं ब्राह्मकर्म स्वभावजं ।।
मिंत्रार्थज्ञोजपन्जुवन् तथैवाध्यापयन्दिजः ।
स्वर्गलोकमवाप्नोति नरकन्तु विपर्यये ॥
नलोकवृत्तं वर्तेत वृत्तिहेतोः कदाचन ।
अजिह्मामशठांशुद्धा जीवेद्दाह्मणजीविकां ॥
अजीवस्तु यथोक्तेन ब्राह्मणस्स्वेनकर्मणा।
जीवेतक्षत्रियधर्मेण सशस्यप्रत्यनन्तरः ।।
उाभ्यामप्यजीवस्तु कथंस्यादितिचेद्भवेत् ।
कृषिगोरक्षमास्थाय जीवेद्देश्यस्य जीविका ।।
कुसीदकृषिवाणिज्यं प्रकुर्वीतास्वयंस्तं ।
आपत्कालेस्वयंकुन्नैिनसा युज्यतेहिजः ।।
फलोपलक्षौमसोममनुष्यापूपवीरुधः ।
तिलौदनरसक्षारदधिक्षीरं जलंघृतं ॥
अगीतायां भ. १८.
पराशरमाधवीये वैद्यनाथीयेच मन्वादीनांबचनानुवादः
शस्त्रासवं मधूच्छिष्टं मधुलाक्षाच बर्हिषः । मृचमपुष्पकुतुपकेशतक्रविषं क्षितिः ॥ कौशेयगन्धलवणमांसैकशफसीसकान् । शाकाद्यौषधिपिण्याकपशुगन्धांस्तथैवच । वैश्यवृत्तयापि जीवन्नोविक्रीणीत कदाचन ॥ कृषिशिल्पंभृतिर्विद्या कुसीदं शकटं गिरिः । सेवानपोक्षचर्यमापत्तौजीवनानितु ॥ इत्यादिज्ञेयं. (क्षत्रियधर्माः). *प्रजानां रक्षणं दानमिज्याध्ययनमेवच । विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः॥ यथाहि मालाकारः आरामे यदायदा यद्यत्पुष्पं विक- सति तदातदा तहिचिनोति न तु पुष्पलतामुन्मूलयति तथा प्रजाभ्यः करमाददानो राजा यथोदयं षष्टनागं गृण्हीयात् अंगारकारकस्तु यथावृक्षमुन्मूल्य सर्वा- स्मना दहति न तु तथा प्रजाः पीडयेत्. *मनु अ. १. पराशरमाधवीये अ.१
*मासानष्टौ यथा सूर्यस्तोयंहरति रश्मिभिः।
सूक्ष्मेनैवाभ्युपायेन तथा शुल्कादिकं नृपः ।।
कयविक्रयमध्वानं भक्तं च सपरिव्ययं ।
योगक्षेमं च संप्रेक्ष्य वणिजो दापयेस्करान् ।।
अलब्धमीहेदुर्मेण लब्धं यत्नेनपालयेत् ।
पालितंवर्धयेन्नीत्या वृद्ध पाषुनिक्षिपेत् ॥
यस्मिन्देशे यआचारो व्यवहारः कुलस्थितिः।
तथैव परिपाल्योसौ यदावशमुपागतः ।
कुलानि जातीश्श्रेणीश्च गणान् जानपदानपि ।
स्वधर्माचलितान् राजा विनीय स्थापयेत्पथि ॥
योयोवर्णो-पहीयेत यश्चोद्रेकमनुवजेत् ।
तंतंदृष्ट्वा स्वतोमार्गाच्युतं स्थापयेत्पथि ।।
अदंड्यान्दन्डयन राजा दंड्यांश्चैवाप्यदण्डयन् ।
अयशोमहदाप्नोति नरकं चाधिगच्छति ॥
इनबिभेतिरणद्योवै संग्रामेप्यपराङ्मुखः ।
धर्मयुद्धे मृतोवापि तेनलोकत्रयं जितं ।
-पराशरमाधवीये अ. १. मन्वादीनामनुवादः:
+याज्ञवल्क्यस्मृतौ का. १.
पराशरमाधवीये अ १. नारदादिवचनानुवादः.
हुमहानिर्वाणे अ. ८.
*अदीर्घसूत्रस्स्मृतिमानक्षुद्रोपरुषस्तथा ।
धार्मिको-व्यसनश्चैव प्राज्ञश्शूरो रहस्यवित् ॥
ब्राह्मणेषुक्षमी स्निग्धेष्वजिह्मः क्रोधनोरिषु ॥
स्याद्राजा भृत्यवर्गेषुप्रजासुच यथापिता ॥
महोत्साहस्स्थूललक्षः कृतज्ञो वृद्धसेवकः
विनीतस्सत्वसंपन्नः कुलीनस्सत्यवाक्शुचिः ।।
पुण्यषड्भागमादत्ते न्यायेनपरिपालयन् ।
सर्वदानाधिकं यस्मात्प्रजानांपरिपालनं ।।
दुष्टानांशासनाद्राजा शिष्टानांपरिपालनात् ।
प्राप्नोत्यभिमतान्लोकान् वर्णसंस्थाःकरोतियः॥
इत्यादिज्ञेयं.
(वैश्यधर्माः).
पशूनां रक्षणं दानं इज्याध्ययनमेवच ।
वणिक्पथंकुसीदंच वैश्यस्य कृषिमेवच ॥
मणिमुक्ताप्रवाळानां लोहानां तान्तवस्यच ।
मन्धानां च रसानां च विद्यादर्घबलाबलं ।।
भ्याजवल्क्यस्मृतौ, का. १. विष्णुपुराणे अं.
पराशरमाधवीयेमन्वादिवचनानुवादः.
३. अ.८.
G
५०
धर्मेण च द्रव्यवृद्धावातिष्ठेयत्नमास्थितः।
यः करोति जडान साधून वणिकर्मणि वंचितान् ।।
स याति नरकं घोरं घनं तस्यापि हीयते ।
इत्यादिज्ञेयं.
(शूद्रधर्माः)
*एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत्
एतेषामेव वर्णानां शुश्रूषामनसूयया ॥
शूद्रस्य हिजशुश्रूषा परमो धर्म उच्यते ।
अन्यथाकुरुतेकिंचित् तद्भवेत्तस्यनिष्फलं ॥
पुत्रदारात्ययंप्राप्तोजीवेल्कारुककर्मभिः।
यैःकर्मभिस्सुचरितैश्शुश्रूष्यंते हिजातयः॥
अतएव-कर्षणपशुपालनमारोहहनपण्यव्यवहरणचि
त्रकर्मनृत्तगीतवीणावेणुमृदंगवादनादीनि च शूद्रधर्माः.
लवणं मधु तैलंच दधि तक्रं घृतं पयः ।
नदुष्येच्छूद्रजातीनां कुर्यात्सर्वेषुविक्रयं ॥
विक्रीणन् मद्यमांसानि सभक्ष्यस्यचभक्षणं ।
अगम्यागमनकुर्वन् शूद्रःपतति तत्क्षणात् ॥
मनु. अ. १. पराशरमाधवीये अ. १. विज्ञानेश्वरीये अ. १.
*स्वाहाकारनमस्कारमानं शूद्रे विधीयचे । ताभ्यां शूद्रः पाकयज्ञैः यजेत ब्राह्मणान्स्वयं ।। नमस्कारेण मंत्रण पंचयज्ञानहापयेत् । नमस्कारमन्त्रस्तु-नमशब्दमात्रमितिकचिदन्ति. अन्येतु- *देवताभ्यः पितृभ्यश्च महायोगिभ्यएवच । नमस्स्वधायै स्वाहायै नित्यमेव नमोनमः ॥ इति वदन्ति. इत्यादिज्ञेयं. (वर्णधर्मप्रयोजन) एताभिः वर्णधर्मव्यवस्थाभिः बहूनि प्रयोजनानि सन्दृश्यन्ते. तथाहि- एवं तत्तहर्णधर्मव्यवस्थासत्वे खलु मयेयं विद्या- वश्यमभ्यसनीया मयेयंवृत्तिरवश्यमनुसरणीया अन्यथा प्रत्यवायी स्यामिति निश्चितमतिस्तत्तजनः अस्यायास- साध्येप्यल्पफलेपि स्वस्वकर्मण्येव सादरप्रवर्तेत. तथा सति सपि विशेषतः तत्तत्कार्यतत्वानुभवशालिनश्च भवेयुः. अथ तदपेक्षया तत्सुतास्तदपेक्षया वत्सुता स्तदपेक्षया तत्सुतादयश्चेति क्रमेण प्रवृत्तास्सर्वेपि तत्त- M- श्पराशरमाधवीये, अ. १. मनुयाज्ञवल्क्याद्यनुवादः ५२ कार्येष्वतीव प्रागल्भ्यमुपलभरनू. अनुभूयते हि लोके योयजन्यः स तद्वत्तौ तहियादिषु वा यथा सुललितं प्रवर्तेत यथा च चातुर्यातिशयमवाप्नुयात् तदन्यस्स्वय- माबाल्यात्तत्संगवानपि न तथेति. तथाचएवमेवाशे- षाणां संप्रवृत्तौ लोके तत्र तत्र सर्वाश्च विद्याः प्रवर्धेरन्. सकलाश्च धर्माः श्रूयेरन्. समस्तप्रजायोगक्षेमाः समु- लसेयुः, निखिलान्यपि पण्यानि निरीक्ष्येरन्. अखि- लान्यपि सस्यफलान्युत्पद्येरन्. समग्राणि शिल्पानि सन्दृश्येरन्. सांकर्यच नावेतू, एवं क्रमेण लोकमर्यादाभिवृद्धचा प्रजानां सर्वधा प्यहिकामुष्मिकानुकूल्यमेव संभवेत. एवंवर्णधर्मव्यवस्था भावे तु सर्वाणि कर्माणि सर्व- साधारणानीति ज्ञानवशात् मया एवमेव प्रवर्तनीय- मिति कस्यापिनियन्धाभावेनच पैत्रीमपि वृत्तिं परित्यज्य या च वृत्तिस्सुप्रापा झडित्यर्थप्रदा च तामेव सर्वेप्यनुस- रेयुः. एवमेव तत्पुत्रपौत्रादिक्रमेण सर्वेषां प्रवृत्तौ ऐहि- कामुष्मिकोपयोगिन्योपि कष्टसाध्याइति. तैस्तैः परि- सज्यमानाः काश्चिविद्याः केचिन्नयायविचाराः कानि चिहाणिज्यानि कानिचित् शिल्पादीनि च विनश्येयुः.
- ५३ एवंक्रमेण लोकमर्यादाहानौ प्रजानामानुकूल्यं हीयेतैव. इत्यादिगुणदोषौ समालोच्य- सर्वस्यास्यहि सर्गस्य गुप्त्यर्थं स महाद्युतिः । मुखबाहूरुपज्जानां पृथक्कर्माण्यकल्पयत् ॥ इत्यादिज्ञेयं. तथाच येच जनाः स्वधर्मममुंचन्तः परधर्म विमुं- चन्तः प्रवर्तन्ते तेषामैहिकामुष्मिकफलं सिध्यति. भगवदनुग्रहश्चसंभवति. अन्यथा प्रवर्तन्ते चेत् इतो भ्रष्टास्ततोभ्रष्टाश्च भवन्ति. गीयतेहि- +श्रेयान् स्वधर्मोविगुणः परधर्मात्स्वनुष्ठितात् । स्वभावविहितं कर्म कुर्वन्नाप्नोति किल्बिषं ।। सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततं । स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः।। इति. प्रतिपायतेच भगवता- वर्णानामाश्रमाणांच यामर्यादामयाकता। तां ये समनुवर्तन्ते प्रसादस्तेषु संभवेत् ॥इत्यादिज्ञेयं. श्मनु अ. १. +गीता अ. १८. वैद्यनाथीये आचारप्रशंसायामुदाहृतं. - ५४ आश्रमयोग्योधर्मः आश्रमधर्मः आश्रमोनाम तत्व- ज्ञानप्रयोजकवतविशेषः. आश्रमश्चतुर्विधः ब्रह्मचर्य- गार्हस्थ्यवानप्रस्थसन्यासभेदात्. प्रतिपाद्यन्ते हि तन- इर्माः- (ब्रह्मचर्य), *बालःकृतोपनयनो वेदाहरणतत्परः । गुरुगेहे वसेप ब्रह्मचारी समाहितः । शौचाचारवता तत्र कार्य शुश्रूषणं गुरोः । एवं- उपनीतोहिजोवेदमधीयीत समाहितः। दंडं यज्ञोपवीतंच मेखलांच तथैवच ॥ कृष्णाजिनंच काषायं शुक्लंवावस्त्रमुत्तमं । धारयेन्मंत्रतोविहान् स्वसूत्रोक्तैकमार्गतः ।। भिक्षाहारोयथाकामं गुरुशुश्रूषणे रतः । धारयेद्वैल्वपालाशौ दंडौ केशान्तिको हिजः ।। अग्निहोत्रं तथाकुर्यात्सायंप्रातस्स्वसूत्रतः । नित्यनैमित्तिकंकर्म मोक्षकामनयाथवा । विध्युक्तमितिबुंध्यावा शांतोभूत्वा समाचरेत् ।। *विष्णु अं. ३. अ. ९. स्कान्देसूतसंहितायां अ. ३३.
५५ अन्यच्च- *अष्टमे वर्षे ब्राह्मणमुपनयेत्. गर्भाष्टमेवा. एकादशे क्षत्रियस्य. हादशे वैश्यस्य. आषोडशाहाह्मणस्यानतीतः कालः, आहाविंशात् क्षत्रियस्य. आचतुर्विशाहेश्यस्य अतऊर्ध्वपतितसावित्रीकाः भवन्ति. इत्यादिज्ञेयं. (गार्हस्थ्य). अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुबहेत् ॥ त्रिंशदोदशाब्दान्तु भार्यां विन्देत नग्निकां । एकविंशतिवर्षोवा सप्तवर्षामवाप्नयात् ।। त्रयष्टवर्षोष्टवर्षी वा धर्मे सीदति तत्परः॥ विधिनावाप्तदारस्स्तु धन प्राप्य स्वकर्मणा ! गृहस्थकार्यमखिलं कुर्याद्भूपाल शक्तितः॥ निवापेन पितृनर्चन् यज्ञैर्देवान् तथातिथीन् । अन्नैः मुनींश्चस्वाध्यायैःअपत्यनप्रजापतिं । 'भूतानिबलिभिश्चैव वात्सल्येनाखिल जगत् ॥ प्राप्नोतिलोकान्पुरुषो निजकर्मसमार्जितान् ॥ *आश्वलायनगृह्यसूत्रे अ. १. ख. १९. याज्ञवल्क्यस्मृतौ अ १. पराशरमाधवीये अ. १. मन्वादीना मनुवादः. विष्णुपुराणे अं. ३. अ. ९.
५६
देवान् ऋषीन मनुष्यांश्च पितॄन् गृह्याश्च देवताः ।
पूजयित्वा ततःपश्चात् गृहस्थश्शेषभुग्भवेत् ।।
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणं ।
होमो दैवो बलिभीमो नृयज्ञोतिथिपूजनं ॥
पंचतान्योमहायज्ञानहापयति शक्तितः।
सगृहेपि वसन्नित्यं सूनादोषैर्नलिप्यते ॥ इति.
ते च सूनादोषाः मुसलोलूखलघरदृचुलीजलकुम्भशूर्प
मार्जन्यायुपयोगकाले प्रमादाज्जायमानप्राणिहिंसारूपाः
एवं-
नित्यादिकर्मकुर्वाणस्तीर्थयात्रापरायणः ।
पुष्यन् पोष्यगणं साधु साधयेत्परमां गातें ॥
पोष्यवर्गस्तु-
माता पिता गुरुर्भार्या प्रजा दीनस्समाश्रितः।
अभ्यागतोतिथिश्चाग्निःपोष्यवर्गउदाहृतः॥इति.
एवमनृणोयः पुत्री यज्वा ब्रह्मचारी वासीवेत्यादयो-
पिज्ञेयाः.
देवैश्चैवमनुष्यैश्च तिर्यग्भिश्योपजीव्यते ।
गृहस्थःप्रत्यहंयस्मात्तस्मा यानगृहाश्नमी ॥
*मनुस्मृतौ अ.३.
स्कांदवचनं.
पराशरमाधवीये बार्हस्पतादिवचनानुवादः.
- ५७ अत्रेदमवधेयं- यानिचवक्षयमाणानि कर्माणि दिनेदिनेकर्तव्यानीति वीप्सया अकरणे प्रत्यवायश्रवणेन करणे भ्युदयश्रवणे नच नित्यानीयवगम्यन्ते तान्येतानि सर्वैदिजैर्यावज्जीव- मवश्यमनुष्ठेयान्येव. एतावतामपिकर्मणामनुष्ठानविषये स्वयमलसाश्चेत् तेचजनाः पातित्यमुपेत्य स्वयमधोगति- मेवापोरन. स्मयतेहितदेतत्सर्व- *यथाकथंचिन्नित्यानि शक्तयवस्थानुरूपतः। येनकेनापि कार्याणि नैवनित्यानि लोपयेत् ॥ +सन्ध्यास्नानं जपो होमो देवतानांचपूजनं । आतिथ्यं वैश्वदेवंच षकर्माणि दिनदिने । *सततं प्रातरुत्याय दन्तधावनपूर्वकं । आचरेदुषसिस्नानं तर्पयेद्देवमानुषान् ॥ उषस्युषसि यत्स्नानं सन्ध्यायामुदितपिवा । प्राजापत्येनतनुल्यं सर्वपापप्रणाशनं ॥ पराशरमाधवीये अ. यमदक्षगोबिलादिवचनानुवाद:. पराशरस्मृतौ अ. १. १. H
५८
सर्वमर्हति शुद्धात्मा प्रातस्स्नायी जपादिकं ।
अस्नात्वा नाचरेत्कर्म जपहोमादिकंचयत् ।।
प्रातर्मध्यानयोस्स्नानं वानप्रस्थगृहस्थयोः ।
यतेस्त्रिषवणस्नानं सकच्चब्रह्मचारिणः ॥
सन्धौ सन्ध्यामुपासीत नास्तगेनोद्गते रवी।
सन्ध्यात्रयन्तु कर्तव्यं द्विजेनात्मविदा सदा ॥
अध्यर्धयाममासायं सन्ध्या माध्यानकीष्यते ।
गायत्रों शिरसासार्धं जपेड्याहृतिपूर्विकां ॥
सहस्रपरमादेवीं शतमध्यां दशावरां ।
गायत्रींतु जपेन्नित्य सर्वपापप्रणाशनी ।।
नभिन्नांप्रतिपद्येत गायत्री ब्रह्मणासह ।
प्रतिग्रहादन्नदोषात्पातकादुपपातकात् ।
गायत्रीप्रोच्यते तस्मादायन्तंत्रायतेयतः ॥
लोकवार्तादिकंश्रुत्वा दृष्टवास्पृष्ट्वा प्रभाषितं ।
संख्यांविनाच यज्जप्तं तत्सर्वं निष्फलं भवेत् ॥
संध्यामुपासतेयेतु सततं संशितव्रताः।
विधूतपापास्तेयान्ति ब्रह्मलोकं सनातनं ॥
यदलात्कुरुतेपाषं कर्मणा मनसा गिरा।
आसीनः पश्चिमांसन्ध्यां प्राणायामैस्तु हन्ति तत्।।
यद्रात्रयात्कुरुतेपापं कर्मणा मनसा गिरा ।
पूर्वसन्ध्या मुपासीनः प्राणायामैळपोहवि ।।
ऋषयोदीर्घसंधिवात्सर्वमायुरुपाययुः ।
प्रज्ञां यशश्च कीर्तिच ब्रह्मवर्चसमेववा ।।
उपतिष्ठन्ति वै सन्ध्यां ये नपूर्वां नपश्चिमां ।
व्रजन्तितेदुरात्मानस्तामिस्रं नरकं नृप ।।
सन्ध्याहीनोशुचिनित्यमनहस्सर्वकर्मसु ।
यदन्यत्कुरुते कर्म नतस्य फलक्षाग्भवेत् ॥
सन्ध्या येननविज्ञाता सन्ध्यायेनानुपासिता ।
जीवमानोभवेच्छूद्रो मृतश्शानोभिजायत ॥
अनार्तश्चोत्सृजेद्यस्तु सविप्रशूद्रसम्मितः ।
प्रायश्चित्तीभवेश्चैव लोकेभवति निन्दितः ।।
सूतकेमृतकेचैव सन्ध्याकर्म नसन्यजेत् ।
मनसोचारयेन्मन्त्रान् प्राणायाममृते हिजः ॥
नत्यजेत्सूतकेवापि यजन् गच्छत्यधोगतिं ।
एतहिदित्वा यस्सन्ध्यामुपास्ते संशितव्रतः ।
दीर्घमायुस्सविंदेत सर्वपापैःप्रमुच्यते ॥
येनास्तिकानिष्क्रियाश्च गुरुशास्त्रातिलंघिनः ।
अधर्मज्ञादुराचारास्तेभवन्ति गतायुषः ॥
६०
भ्रष्टोयस्त्वाश्रमाचारात् पतितस्सोभिधीयते ।
वेदोवा हरिभक्तिर्वा भक्तिर्वापि महेश्वरे ।
स्वाचारात्पतितंमूढं नपुनाति हिजोत्तमं ।
यस्मिन्देशे यआचारो न्यायदृष्टस्तुकल्पितः ।
सतस्मिन्नेव कर्तव्योदेशाचारस्स्मृतोभृगोः ।।
अनुष्ठितंचयद्देवैर्मुनिभिर्यदनुष्ठितं ।
नानुष्ठेयं मनुष्यैस्तदुक्तंकर्म समाचरेत् ॥
+नास्तिक्यंवेदनिंदांच देवतानांच कुत्सनं ।
इषं दंभंच मानंच क्रोधं तैक्षण्यंच वर्जयेत् ॥
धीमान् ह्रीमान् क्षमायुक्तः आस्तिको विनयान्वितः।
विद्याभिजनवृद्धानां यातिलोकाननुत्तमान् ।।
यथेचहेतोस्सलिलं निषेवितं तृणानिवलीरपिच प्रसिं-
चति।
एवंनरो धर्मपथेन वर्तयन् यशश्वकामांश्च वसूनि-
सोश्नुते ॥ इत्यादि.
पराशरमाधवीये अ. १. +मनु अ. ४.
विष्णुपुराणेअं ३, अ १२. हुवैद्यनाथीयेभाचारप्रशंसायामुदाहृतः
- गीयतेचभगवता- कर्मणैवर्हि संसिद्धिमास्थिताजनकादयः । लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि ।। नमेपास्तिकर्तव्यं त्रिषुलोकेषुकिंचन । नानवाप्तमवाप्तव्यं वर्तएवच कर्मणि ॥ नबुद्धिभेदंजनयेदज्ञानांकर्मसंगिनां । जोषयेत्सर्वकर्माणि विहान् युक्तस्समाचरन् ।। इत्यादिज्ञेयं. (वानप्रस्थं) द्वितीयमायुषोभाग मुषित्वातु गृहे हिजः। तृतीयमायुषोभागं गृहमेधी वनेवसेत् ॥ सन्त्यज्य ग्राम्यमाहारं सर्वचैतत्परिच्छदं । पुत्रेषु भायाँनिक्षिप्य वनंगछेत्सहैववा ॥ मुन्यन्नैर्विविधैर्मेध्यैश्शाकमूलफलेनवा । एतैरेव महायज्ञान् निर्वपहिधिपूर्वकं ॥ अत्राप्याश्रमे सकलसांसारिकधर्मपरित्यागपूर्वकमर- ण्याश्रयादिविधानात् चित्तोपशान्तरानुकूल्यं भवेदेवेत्यु- परितनोयंपन्थाः. इत्यादिज्ञेयं. वैद्यनाथीयेमन्वाद्यनुवादः. गीता अ.३ ६२ (सन्यासः). *अधीत्यविधिववेदान् पुत्रांश्चोत्पाद्य धर्मतः । इष्ट्याच शक्तितोयज्ञैर्मनोमोक्षेनिवेशयेत् ॥ वनेषुतु विहृत्यैवं तृतीयंभाग मायुषः । चतुर्थमायुषोभागं गत्वा संगान्परित्यजेत् ।। अग्नीनात्मनि संस्थाप्य दिजः प्रवजितोभवेत् । योगाभ्यासरतश्शान्तो ब्रह्मविद्यापरायणः । एकरात्रं वसेद्गामे नगरे पंचरात्रकं । वर्षाभ्योन्यत्र वर्षासुमासांश्चचतुरो वसेत् ।। शिखाज्ञानमयी यस्य उपवीतंतु तन्मयं । ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदोविदुः॥ अस्मिन्नाश्रमे सर्वसंगपरित्यागपूर्वकं ब्रह्मविचारस्यै- व प्राधान्येन विधानात् साक्षान्मोक्षोपयोगित्वं संभवती- ति ऊर्ध्वतरोयंसोपानपथः. एषुचतुर्वाश्रमेषु ब्रह्मचर्याश्रमः सर्वेषांदिजानां नि- यतोभवति. अन्यथा हिजत्वासिध्या तत्तत्कर्मानुष्ठान- योग्यताभावस्स्यात्. गार्हस्थ्यादयस्तु सकामनानां श्वराशरमाधवीये अ. १. मन्वादिवचनानुवादः ६३ - यथाक्रमणाश्रयणीयाःभवन्ति. विरक्तश्चेत् यत्रविर- क्तिस्ततएवाश्रमात्प्रव्रजेत. श्रूयतेहि- 'ब्रह्मचर्यपरिसमाप्य गृहीभवेत् गृहीभूत्वावनीभवेत् वनीभूत्वाप्रबजेत् यदिवेतरधा ब्रह्मचर्यादेवप्रव्रजेद्गृहाहा वनाहा. इति. एवं एषुगार्हस्थ्यब्रह्मचर्यवानप्रस्थसन्यासक्रमेण- चित्वारोबामणस्योक्ता आश्रमाश्श्रुतिचोदिताः। क्षत्रियस्य त्रयःप्रोकाः हावेकोवैश्यशूद्रयोः॥ इत्यादिज्ञेयं. अत्रायविशेषः- एषांचतुर्णामप्याश्रमाणामेकैकस्य चातुर्विध्यात् आ- श्रमापोडशधाभवंति. तथाहि-तत्र ब्रह्मचारिणश्च- तुर्विधाभवंति मायनोब्राह्मःप्राजापत्योबृहन्निति. उप- नयनादूर्वत्रिरात्नमक्षारलवणाशी गायत्रीमधीते सगा- यत्रः. अष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्यचरेत् प्रतिवे- दंडादशहादशवा यावद्गृहणांतवावेदस्य सब्राह्मः. स्वदार- निरतः ऋतुकालाभिगामी सदापरदारवर्जितस्सप्राजा- पत्यः आप्रायणाद्गुरोरपरित्यागी सनैष्ठिकोबृहन्निति. नाबाल श्रुनिः पराशरमाधवीये अ २.
६४ - .. गृहस्थाअपि चतुर्विधाभवंति-वार्ताकवृत्तयश्शा- लीनवृत्तयो यायावराघोरसन्यासिकाश्चेति. तत्रवार्ता- कवृत्तयः कृषिगोरक्षवाणिज्यमगर्हितमुपयुंजाना शत- संवत्सराभिक्रियाभिर्यजतः आत्मानंप्रार्थयंते. शालीन- वृत्तयोयजतोनयाजयंतः अधीयानानाध्यापर्यतः ददतोन- प्रतिगृह्णतः शतसंवत्सराभिःक्रियाभिर्यजतः आत्मा- नंप्रार्थयंते. यायावराःयजंतोधीयाना अध्यापयंतोददतः प्रतिगृह्णत श्शतसंवत्सराभिःक्रियाभिर्यजतः आत्मानं- प्रार्थयते. घोरसन्यासिका उद्धृतपरिपूताभिरदिःकार्य कुर्वतःप्रतिदिवसमास्तृतोंछवृत्तिमुपयुंजाना शतसंवत्स- राभिःक्रियाभिर्यजतः आत्मानंप्रार्थयंते. वानप्रस्थाअपि चतुर्विधाभवंति–वैखानसा औदुं- बरा वालखिल्याः फेनपाश्चेति. तत्रवैखानसाः अकृष्टप- च्यौषधिवनस्पतिभिर्यामबहिष्कृतिभिः अग्निपरिचरणं- कृत्वा पंचमहायज्ञान्निवर्तयतः आत्माप्रार्थयंते. औदु- बराः बदरनीवारश्यामाकैरग्निपरिचरणंकृत्वा पंचमहाय- ज्ञक्रियां निर्वर्तयंतः आत्मानंप्रार्थयंते. वालखिल्याः जटाधराश्चीरचर्मवल्कलपरिवृताः कार्तिक्यांपौर्णमास्यां पूर्वफलमुत्सृजंतः शेषानष्टौमासान वृत्युपार्जनकृत्वा--- ग्निपरिचरणकृत्वा पंचमहायज्ञक्रियां निर्वत यंतआत्मानं- ६५ प्रार्थयंते. फेनपाः जीर्णपर्णफलभोजिनोयत्रतत्रवा- वसन्तः. परिव्राजकाअपि चतुर्विधाभवंति-कुटीचका ब- हूदका हंसाः परमहंसाश्चेति. वत्रकुटीचकाः स्वपुत्रगृ- हेषु भैक्षचाँचरंतः आत्मानंप्रार्थयते. बहूदकारिखदं- डकमंडुलुजलपवित्रपादुकासनशिखायज्ञोपवीतकाषायवे- पधारिणः साधुवृत्तेषु ब्राह्मणकुलेषु भैक्षंचरतः आत्मा- नंप्रार्थयंते. हंसाः एकदंडधराश्शिखायज्ञोपवीतधारिणः कमंडुलुहस्ताग्रामैकरात्रवासिनोनगरे तीर्थे- ष्टौचपंचरा- वसंतः एकरात्रं हिरानं कळूचांद्रायणादिचरंतःआत्मानं- प्रार्थयते. परमहंसानाम एकदंडधराः कथाकौपीनवा- ससोव्यक्ताव्यक्तलिंगाअनुन्मत्ता उन्मत्तवदाचरंतः त्रिदंड- कमंडुलुशिक्यपद्मजलपवित्रपादुकासन शिखायज्ञोपवीत स्यागिनः शून्यागारदेवगृहवासिनः. नतेषां धर्मोनाधर्मः, नसत्यं नापिचानृतं. सर्वसहास्सर्वसमास्समलोष्टाश्मां- चनायथोपपन्नक्षचाँचरंतः आत्मानं मोक्षयंते. तेषामुपशमोधर्मोनियमोवनवासिनां । दानमेकंगृहस्थानांशिभूषाब्रह्मचारिणां ॥ इत्यादिज्ञेयमित्याश्रमधर्मः पराशरमाधवीयद्वितीयाध्यायांते. I वर्णश्रमोभयानुगतोधर्मोवर्णाश्रमधर्मः. सचधर्मस्मयतेहि- *ब्राह्मणोबैल्वपालाशौ क्षत्रियोवाटखादिरौ । पैलवौदुंबरौवैश्योदंडानहतिधर्मतः॥ इत्यादिज्ञेयं. गुणधर्मशास्त्रीयाभिषेकादियुक्तस्यराज्ञः प्रजापरिपा- लनादिः, प्रतिज्ञातार्थपरिपालनरूपइत्यादिज्ञेयं. निमित्तधर्मस्तु ग्रहणसंक्रमादिनिमित्तेसति कर्तव्य स्नानतर्पणादिरूपः. कृतेपातके तत्परिहारनिमित्क- र्तव्यप्रायश्चित्तादिरूपश्च. पातकन्तु अपरुष्टजन्माति- मौढ्यापयशोदारियनरकादिप्रापकनिषिद्धकर्माचरणरूपं. तचपातकंत्रिविधं महापातकं समपातकं उपपातकंचेति. तत्रब्रह्महत्यासुरापानस्वर्णस्तेयगुरुदाराभिगमनानि तह- तस्संसर्गश्चेतिपंच महापातकानि. स्मयतेहिसमपातकोपपातकानि- गुरूणामध्यधिक्षेपो वेदनिन्दा सुहृद्दधः । ब्रह्महत्यासमं ज्ञेयं अधीतस्य च नाशनं ।। निषिद्धभक्षणं जैह्मचं कूटसाक्ष्यं वचोनृतं । रजस्वलामुखास्वादः सुरापानसमानि तु || *मनु अ, १. याज्ञवल्क्यस्मृतौ अ. ३. - अश्वरत्नमनुष्यस्त्रीभूधेनुहरणंतथा । निक्षेपस्य च सर्वं हि तुवर्णस्तेयसम्मितं ।। सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च । सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतं ॥ इतिसमपातकानि ज्ञेयानि. गोवधो वास्यता स्तेयमृणानां चानपक्रिया। स्वीशूद्रविक्षत्रवधोनिन्दितार्थोपजीवनं ।। नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः । पितृमातृसुतस्यागस्तटाकारामविक्रयः ।। तथैवानाश्रमेवासः परान्नपरिपुष्टता । असच्छास्त्राधिगमनमाकरेष्वधिकारिता । भार्यायाविक्रयश्वेषामेकैकमुपपातकं ॥ इत्यादिज्ञेयं अत्रेदमवगन्तव्यं- जायमानस्यहिद्दिजस्य चत्वारिंशत्संस्काराः विधी- यन्ते. तेचसंस्काराः गर्भाधानं पुंसवनं सीमन्तः जा- तकर्म नामकरणमन्नप्राशनं चौल मुपनयनं चत्वारिवे- दब्रतानि स्नानं विवाहः पंचयज्ञानुष्ठान अष्टकादिसप्त- पाकयज्ञाः सप्तहविर्यज्ञाः सप्तसोमसंस्थाश्चेति चत्वारिंश- संख्याकाः. एषु गर्भाधानादयःपूर्वसंस्काराइति ब्राह्म- - संस्काराइतिच व्यवहियन्ते. अष्टकादयस्तु उत्तरसं- स्काराइति देवसंस्काराइतिच प्रतिपाद्यते. एतेषु ग- र्भाधानायुपनयनान्तास्सर्वैईिजैरवश्यमनुष्ठेयाएव. तद- नन्तरास्तु यस्य ब्रह्मचर्यएवप्रबजितुमिच्छा तस्यानाव- श्यकाः. तदन्येषामावश्यकाएव. शूद्रस्यतु अमन्त्र- कास्सविवाहाश्चौलावधिकारसंस्काराविहिताः. इत्यादि. (विशेषधर्मप्रयोजन). एतैस्संस्कृतस्यफलविशेषस्स्मर्यतेहि- ब्राह्मणसंस्कारेण संस्कृतः ऋषीणां समानतांसायुज्यं गच्छति दैवेनोत्तरेणसंस्कृतोदेवानां समानतां सलोक- तां सायुज्यं गच्छतीति. एवं- सिंस्कारैस्संस्कृतःपूर्वं रुत्तरैरपि संस्कृतः । नित्यमष्टगुणैर्युक्तः ब्रह्मणोब्राह्मलौकिकं ॥ ब्राह्मपदमवाप्नोति यस्मान्नच्यवतेपुनः ॥ इतिच. तेचगुणाः भूतदया क्षान्ति रनसूया शौच मनायासो में- गळ मकार्पण्य मस्पृहेतिच अष्टविधाः. तएतेगुणाः यस्य मसन्ति स तैरसंस्कारैस्संस्कृतोपि नतत्फलमवा- प्रोति. अहारीलसूत्रं. शंखस्मृतिः ६९ सूत्रयतेहि- श्यस्यैते चत्वारिंशत्संस्काराः नचाष्टावात्मगुणाः नस- ब्रह्मण स्सायुज्यं सालोक्यं गच्छति. इति. तथाच-साधारणधर्माणां विशेषधर्माणांच अप्रमा- दमनुष्टानेसति तेचजनाः स्वयमैहिकमामुष्मिकंच श्रेयः- फलमनुभवंतः क्रमेणपरांसिद्धिमुपयास्यन्ति. स्मर्यतेहि- धर्मात्सुखंच ज्ञानंच ज्ञानान्मोक्षोधिगम्यतइति ॥ अन्यच- एवंसर्वदापि पुमान् सद्धर्माचरणकप्रवृत्तश्चेत् अभ्या- सवशात्तस्यमनस्सर्वदाप सात्विक्यामेववृत्तौ प्रवर्तते. साचवृत्तिदिनक्रमेण प्ररूढासती अन्तकालेपि सात्वि- कभावनामेवोपजनयति. तयाच सपुमान् सद्गतिमे- वाप्नोति. अन्यथाप्रवर्ततेचेदन्यथैव भवति. गीयतेहि- यदासत्वे प्रवृद्धेतु प्रळयं यातिदेहभृत् । तदोत्तमविदां लोकानमलान् प्रतिपद्यते ॥ रजसिप्रळयंगत्वा कर्मसंगिषुजायते । तथाप्रलीनस्तमसि मूढयोनिषुजायते ॥ इत्यादि. गौतमसूत्रं. पराशरमाधवीये अ. १. गीतायां भ. १४.
अपरंच- सामान्यतः कर्मतावत्रिविधं नित्यनैमित्तिकं काम्यं चेति. तत्र नित्यानांसन्ध्यावन्दनादीनां नैमित्तिकानां ग्रहणस्नानादीनांच अकरणेप्रत्यवायस्संभवति. करणेतु स्वोपात्तदुरितक्षयद्वारा भगवत्प्रीतिश्चित्तशुद्धिश्चफलं भव- ति नतदन्यत्फलमितिज्ञेयं. काम्यानान्तु पौडरीकादी- नां केषांचितादीनांच अकरणेप्रत्यवायोनास्ति' करणेतु फलविशेषःप्राप्यतएव. एवमेव जपहोमश्राद्धदानारा- धनादीनांसर्वेषामपि फलंज्ञेयं. तथाच येचयेच निष्कामनया कर्मकुर्वाणाःभगवंत- माराधयन्ति तेतेजनास्तत्वज्ञानसाधनसंपत्तिमन्तोभव- न्ति. श्रूयतेहि- *तमेतंवेदानुवचनेन ब्राह्मणाविविदिषंति यज्ञेनदानेन तपसानाशकेनइत्यादि. येचपुनःफलाकांक्षया तत्तत्कर्मकुर्वतः परमात्मानमा- राधयन्ति तेपिजनास्तत्तत्कर्मफलमनुभूय पुनरावर्तते. गीयतेहि- विद्यामांसोमपाःपूतपापाःयज्ञैरिष्ठा स्वर्गतिंप्रार्थयन्ते । तेपुण्यमासाद्यसुरेंद्रलोकमश्नन्तिदिव्यादिविदेवभोगान्॥ बृहदारण्ये अ ६, ब्रा ४. गीताणं अ, ९.
- तेतंभुक्त्वास्वर्गलोकविशालं क्षीणेपुण्ये मर्यलोकविशन्ति। एवं त्रयीधर्ममनुप्रपन्नाःगतागतं कामकामा लभन्ते॥इति. एवंच कृतानां कर्मणां लोकान्तरप्राप्तिर्जन्मान्तरप्रा- प्तिश्चेति देधा फलं भवतीति बोध्यं. भाष्यतेहि- *वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेस कर्मफलमनु- भूय ततश्शेषेण विशिष्टदेशकुलजातिरूपायुश्श्रुतवृत्तवि- सुखमेधसो जन्म प्रतिपद्यन्तइतीति. श्रूयतेच- तियइह रमणीयचरणाः-रमणीयां योनिमापोरन् ब्राह्मणयोनि वा क्षत्रिययोनि वा वैश्ययोनि वा. अथ येइह कपूयचरणः-कपूां योनिमापोरन् श्वयोनि वा सूकरयोनि वा चंडालयोनि वेतिच. यथाहि कश्चित्सार्वभौमः यथानिदेशं सत्कार्यकारिणी जनानू तत्तदधिकारिमुखेन बहुमानयन् उत्तमं पदमापादय ति स्वाज्ञामतीय असत्कार्यकारिणस्तु कारागारादिमुखेन शिक्षयन् अधमं पदमापादयति एवं भगवानपि यथा- शास्त्रं सद्धर्माचरणशीलानिन्द्रादिरूपेण संप्रीणयन् उत्तम जन्म प्रापयति. शास्त्रमतिक्रम्य पापकर्मप्रवृत्तांस्तु नर- कादिभिशिक्षयन् अधमं जन्म प्रापयतीत्यादिज्ञेयं, *शांकरसूत्रभाष्ये अ. ३. पा, १. अधि, २. स्मृत्यर्थानुवाद:. +छान्दोग्येप्र ५. ख, १०. तथाच- ७२ तदेतच्च सामान्यतोपि गीयते- "ऊर्ध्वं गच्छन्ति सत्वस्थाः मध्येतिष्ठन्तिराजसाः। जघन्यगुणवृत्तिस्थाः अधोगच्छंतितामसाः॥ इति. एवंच-पुण्याधिक्ये स्वर्गाद्युत्तमफलानुरूपं देवता- जन्म भवति. पापाधिक्ये नरकायधमफलानुरूपं- स्थावरतिर्यगादिजन्म भवति. साम्ये मध्यमफलानुरूपं मानव जन्म भवतीति ज्ञेयं. एवं-चक्रनेमिक्रमेण ऊर्ध्वाधो भ्रमतां संसारसाग- रावर्तगर्तेषु निपत्य निमज्जनोन्मजनायासमनुभवतां तत्तद्धर्मानुष्ठानक्षपितान्तःकरणकळंकामामपिजनानां श्र- वणमननादिसाधनसंपत्यां सत्यामेव नित्यानन्दानुभवस्य प्रकाश्यमानतया सर्वैस्सर्वाश्चित्तवृत्तयः सर्वतः प्रवृत्ते- निवर्स निवृत्तिधर्मे प्रवर्तयितव्याः. इत्यादिज्ञेयमिति विशेषधर्माः. इति प्रवृत्तिधर्मनिरूपणं. पूर्वभागस्समाप्त. गीतायां अ,१४.
आर्यधर्मप्रकाशिका. उत्तरआगप्रारम्भः. - नित्तिधर्मप्रकरणम्. निवृत्तिधर्मशमदमवैराग्यादयः. तेच तत्वज्ञान- साधनानि भवन्ति. श्रूयतेहि- *शान्तोदान्तउपरतस्तितिक्षुस्समाहितोभूत्वा आत्म- न्येवात्मानं पश्यतीति. गीयन्तेहि तत्तत्साधनानि भगवता- अिमानित्वमदम्भित्वमाहिंसा शान्तिरार्जवं । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ।। इन्द्रियार्थेषु वैराग्यमनहंकारएव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं ॥ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ।। *बृहदारण्ये अ, ६, ब्रा, ४. गीता अ, १३. K मयि चानन्ययोगेन भक्तिरव्यभिचारिणी। विविक्तदेशसेवित्वमरतिर्जनसंसदि । अध्यात्मज्ञाननित्यत्वं तत्वज्ञानार्थदर्शनं । इति. एतेचधर्माः तत्वज्ञानद्वारा मोक्षसाधकाः. तत्वज्ञा- नन्तु साक्षान्मोक्षकारणं भवति. श्रूयतेहि- *ज्ञात्वा तं मृत्युमस्येति नान्यः पन्थाः विमुक्तये इति. ब्रह्मविदाप्नोति परमित्यादिच. तत्वज्ञानसाधकमुख्यकारणानि च त्रीणि श्रवणमनन- निदिध्यासनानीति. श्रूयतेहि- अित्मा वा अरे द्रष्टव्यश्श्रोतव्योमन्तव्योनिदिध्या- सितव्यः इति. प्रतिपाद्यतेच- आगमेनानुमानेन ध्यानाभ्यासरसेन च । विधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमं ॥ इति. तत्रश्रवणंनाम गुरुमुखाद्देदान्तवाक्यतात्पर्यावधारणं. कैवल्योपनिषदि. बृहदारण्ये अ. ६. ब्रा. ५. गादाधर्षी मुक्तिवादे वासिष्ठवचनानुबादः, गुरुर्नाम तत्वानुभवशाली सिद्धःपुरुषः. श्रूयतेहि- *तविज्ञानार्थं स गुरुमेवाभिगच्छेत्. समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठमिति. वेदान्तवाक्यानितु-प्रज्ञानंब्रह्म. सदेवसोम्येदमग्र आसीत्. सत्यंज्ञानमनन्तं ब्रह्म. इत्यादीनि. मननं नाम तत्तत्सन्दर्भसमन्वयानुकूलशास्त्रीययुक्ति- परिशीलनपूर्वकं गुरुमुखादवगतार्थानामनुचिन्तनं. निदिध्यासनं नाम विगळितवेद्यान्तरं भगवतः पर- मात्मनोध्यानाभ्यासः. तानि च श्रवणमनननिदिध्या- सनानि पुनःपुनः क्रियमाणानि सन्ति व्रीमभिघाताश्शु- द्धान्तण्डुलानिव आवरणं परिहत्य विनिर्मलं भगवत्स्व- रूपमभिदर्शयन्ति. न तु सदाचरणमात्रादिति ज्ञेयं. (ध्यानं नाम शब्दादिभ्योविषयेभ्यः श्रोत्रादीनि कर- णानि मनस्युपसंहृत्य प्रत्यक्वेतयितरि एकाग्रचिन्तनात्म- कस्तैलधारावत्सन्तताविच्छिन्नप्रत्ययः). तथाच- श्रवणमनननिदिध्यासनेषु-यश्चपुमान्समधिगततत्त- *प्रथममुंडके ख. २. शांकरगीताभाप्ये अ. १३.
विद्यः समनुष्ठिततत्तद्धर्मः नितान्तनिर्मलस्वान्तः नित्या- नित्यवस्तुविवेकवान् ऐहिकामुष्मिकानित्यफलविरक्तःश- मादिषट्कसंपन्नश्चमुमुक्षुः-सएवाधिकारीतिज्ञेयं, *(शमादिषयकं च शमदमोपरतितितिक्षासमाधान- श्रद्धाः. तत्र शमोनाम बाह्यविषयेभ्योन्तरिन्द्रियनिग्रहः दमोनाम तेभ्यश्चक्षुरादिबहिरिन्द्रियनिग्रहः, उपरतिर्नाम निगृहीतानामिन्द्रियाणां पुनर्विषयेष्वप्रवेशनं. तितिक्षा नाम स्वभावतः शीतोष्णादिद्दन्दसहिष्णुता. समाधानं नाम निगृहीतस्य मनसः श्रवणमननाद्यनुरूपविषयेष्वेव निरन्तरप्रवर्तनं. श्रद्धा नाम गुरुवेदान्तवाक्येषु विश्वासः). एतैर्गुणैस्संपन्नःभगवदनुग्रहपात्रीभूतोभवति. तथाच- (येचाविवेकिनः सुखमात्रलिप्सवोदुःखानुविद्धसुख- मात्रमुद्दिश्य शिरोमदीयं यदियाति यात्वितिरुत्वा पर- दारपरद्रव्यादिषु प्रवर्तमानाः नात्राधिकारिण:. येचवि- वेकिनः अस्मिन्संसारकांतारे कियन्तिदुःखदुर्दिनानि कियतीवा सुखखयोतिकेति कुपितफणिफणामण्डल- च्छायाप्रतिममिदमिति मन्यमानाः सुखमपि हातुमि- च्छन्ति ते-त्राधिकारिणः) इतिज्ञेयं, श्वेदान्तसारे, +गादावाँमुक्तिवादे.
तत्र चार्वा- एवंच-श्रवणमनननिदिध्यासनैस्तत्वज्ञानं तत्वज्ञा- नात्परमपुरुषार्थरूपोमोक्षस्संभवतीति सर्वांनुगतःपन्याः, तत्र तत्वविषये बहवोवादिनोविप्रतिपद्यन्ते. तेचवा- दिनोदिविधाः नास्तिका आस्तिकाश्चेति. *(नास्तिकमतविचारः). तत्र नास्ति वेदप्रामाण्यमिति ब्रुवाणाः नास्तिकाः. ते त्रिविधाः चार्वाकाबौद्धाआर्हताश्चेति. काएव लौकायतिकाइति प्रतिपाद्यन्ते. बौद्धास्ताव- सौगतास्तथागताश्चेति व्यवहीयन्ते. आर्हतारताव- द्दिगम्बराजैनाइति च प्रोच्यन्ते. यद्यपि भगवान् बुद्धस्स्वयमेकएव बोधयिता तथापि तच्छिष्याः बौद्धास्तावत् स्वस्वभावनाभेदाच्चतुर्विधास्सं- जाताः सौत्रान्तिकाः वैभाषिकाः माध्यमिकाः योगा- चाराश्चेति. तथाचैवं सामान्यतोनास्तिकाष्षड्विधाः. अन्ये चावान्तरभेदास्सन्ति. (चार्वाकमतम्). तत्र चार्वाकीये मते-पृथिव्यप्तेजोवायवइति चत्वारि भूतानि. तेभ्यएव देहाकारपरिणतेभ्यः किण्वादिभ्यो- *अयंविचार: बौद्धाधिकारात्सर्वदर्शनसंग्रहात् शांकरसूत्रभाप्यात रामानन्दीयवाचस्पत्यकल्पतरुपरिमळादिभ्यश्च संगृहीतः.
मदशक्तिवचैतन्यमुपजायते. तेषु विनष्टेषुसत्सु तत्स्वयं विनश्यति अतश्चैतन्यविशिष्टदेहएवात्मा तदतिरिक्ता- त्मनि प्रमाणाभावात्. किंच प्रत्यक्षमेकं प्रमाणं. न चा- नुमानं नैव च श्रुतिः. न विशेषधर्मः. नपारलौकिकः पुरुषार्थः. किन्तु अंगनालिंगनादिजन्यं सुखमेव पुरु- पार्थः. तादृशस्य सुखस्य दुःखसंकीर्णत्वेपि अवर्जनी- यतयाप्राप्तस्य दुःखस्य परिहारेण सुखमात्रस्य भोक्तव्य- त्वात् अनुकूलवेदनीयरूपपुरुषार्थत्वं न विरुध्यते. यथाहि-धान्यार्थी सपलालानि सतुषाणि सशूकानि च धान्यान्याहरति. स तावद्यावदादेयं तावदादाय निवर्तते. तहदित्यादिवाचोयुक्तिवादानातिष्ठन्ते. प्रोच्यतेच तैः- *त्याज्यं सुखं विषयसंगमजन्म पुंसां । दुःखोपसृष्टमिति मूर्खविचारणैषा ॥ वीहीन जिहासति सितोत्तमतण्डुलाढ्यान् । कोनाम भोस्तुषकणोपहितान् हितार्थी ॥ नस्वर्गोनापवर्गोवा नैवात्मा पारलौकिकः । नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः॥ *सर्वदर्शनसंग्रहीयचार्वाकदर्शने.
यावज्जीवेत्सुखं जीवेणं कृत्वा घृतंपिबेत् । भस्मीभूतस्य देहस्य पुनरागमनंकुतः ॥ इत्यादिशेयमितिचार्वाकाः. (सौत्रांतिकमत) बौद्धीये मते तत्र पूर्वस्मिन् सौत्रांतिकीये सर्वेषां पदा- र्थानाक्षणिकत्वमभ्युपगम्य तेचपदार्थाः बाह्याःआभ्यन्त. राश्चेति देधाविभज्यन्ते. तत्र बाह्मास्तावत्कठिनस्निग्धती- क्ष्णचंचलस्वभावयुक्ताः पृथिव्यादिचतुष्टयपरमाणवः.तेच सर्गादौ स्वयमेव संघातीभूय पृथिव्यादिमहाभूतचतुष्ट- यात्मना रूपादिविषयात्मना चक्षुरादीन्द्रियात्मना च परिज्ञायन्ते. न त्वतिरिक्तः कश्चिदग्यवी दरीदृश्यते. आन्तरास्तावत् रूपस्कन्धविज्ञानस्कन्धवेदनास्कन्धसं- ज्ञास्कन्धसंस्कारस्कन्धाइति पंचधा विभज्यन्ते. तत्र भौ- तिकानि सविषयाणीन्द्रियाणि रूपस्कन्धः. आलयविज्ञा- नप्रवृत्तिविज्ञानप्रवाहोविज्ञानस्कन्धः, तत्र अहं सुखी दुःखी कर्ता कारयितेस्याग्रहमास्पदमालयविज्ञानं इदं नीलमिदं पीतमित्यादितचत्पदार्थावगाहि प्रवृत्तिविज्ञान- मिति बोध्यं. सुखदुःखायनुभवोवेदनास्कन्धः. गौरश्वः पुरुषः इत्येवं नामविशिष्टसविकल्पकप्रत्ययस्संज्ञास्कन्धः, रागद्देषमोहधर्माधर्मास्संस्कारस्कन्धः. अत्र आलय- विज्ञानं चित्तमात्मेति च व्यवह्रियते. अन्येचत्वार- स्स्कन्धाओत्ताःभवन्ति. प्रवृत्तिविज्ञानमेव सकलबाझार्थ- प्रकाशकारणं भवति. जातानामेषां स्कन्धानां परिपाकोजरा. स्कन्ध- नाशोमरणमित्यायुच्यते- तथाचैषांपरमाणूनां स्कन्धानां च संघातस्सकल- जगदात्मना परिवर्तमानस्सकललोकयात्रानिर्वाहकोभव- ति. अत्रतावदवयविनामनंगीकारात्पर्यवसाने अवयवा- स्मना परिशिष्यमाणाः बालाः पदार्थाः भूतभौतिकरूपाः नप्रत्यक्षविषयीक्रियन्ते. किन्त्वनुमेयाभवन्तीत्यगीरुत्य यत्सत्तक्षणिकं यथा विद्युजलधरपटलं इत्यायनुमानं च प्रमाणीकस्य सर्वेषां पदार्थानां क्षणिकत्वं च अंगी- क्रियते. अन्यत्सर्वं चार्वाकवदित्यादि ज्ञेयमिति सौत्रा- न्तिकाः. (वैभाषिकमतम) द्वितीये बाह्य वस्तु प्रत्यक्षमेव. अन्यत्सर्वं पूर्ववदित्या दिशेयमिति वैभाषिकाः. (माध्यमिकमतम्). तृतीये बासमाभ्यन्तरं चेति सर्वमपि शून्यशून्यमेव यथाहि- परिवारकामुकशुनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्यं इति तिस्रोविकल्पनाः ।। ताश्चविकल्पनास्तत्तत्पदार्थाभावेपि तत्तदभावानेवा- वलम्ब्य तत्तत्पदाकारेण परिवर्तन्ते विलीयन्तेच त- इच्छून्यत्वमात्रावलम्बिनी काचिद्भावना तत्तज्जगदाकारण परिवर्तमाना तत्तदाकारनिवृत्तो परनिर्वाणात्मकशून्यरू- पतया अवशिष्यते. अन्यत्सर्व पूर्ववदित्यादि ज्ञेयमिति माध्यमिकाः. (योगाचारमतम्). तुरीये बाह्यमाभ्यन्तरं च सकलं वस्तु क्षणिकविज्ञा- नात्मकमेव. नातिरिक्तं वस्तु किंचिदस्ति. *(यथाहि स्वप्नमायामरीच्युदकगन्धर्वनगरादिप्रत्ययाः विनैववाटेना- र्थेन ग्राह्यग्राहकाकाराः भवन्ति एवं जागरितगोचरा अपि स्तंभादिप्रत्ययाः भवितुमर्हन्ति). किंच (अनादि- सन्तानान्तर्गतं पूर्वपूर्वविज्ञानमेव वासनेत्युच्यते. साचो- त्तरोत्तरविज्ञाने संक्रान्ता भवति. तहशादेवानेकक्षणव्य. वधानेपि नीलपीताद्याकारकज्ञानवचित्रयं भवति. यथा- हि बीजवासनया कासरतत्वं) तदित्यादिवदन्ति. *शांकरसूत्रभाप्ये अ. २. पा, २. रामानन्दीये अ. २. पा. २, L ८२ तथाच-यथाहि प्रदीपः स्वयंप्रकाशकःप्रकाश्यश्च भ- वति तहत् ग्रामग्राहकोभयात्मिका बुद्धिरेकैव अनादि- वासनावशादनेकाकारा वभासते सर्वमपि क्षणिक क्षणिकं इत्यादिसन्तताविच्छिन्नभावनावशात् निखि- लभावनोच्छेदरसम्भवति ततश्च विगळितविविधविष- याकारं विशुद्धविज्ञानमुदेति सएवमहोदयइति मोक्ष- इतिच अभिधीयतइतिबोध्यं. अन्यत्सर्वं पूर्ववदित्यादि ज्ञेयमिति योगाचाराः. अत्रेदं बोध्यं- एषु चतुर्षु बौद्धेषु येच केचित्प्राथमिकाः तेता- वत्-भगवन्तं बुद्धप्रति सकलदुःखनिरोधः विमल- विज्ञानोदयोवामुक्तिः. दुःखनिरोधमार्गस्तत्वज्ञानं. तच्च तावत् सकलमिदं दुःखं दुःखायतनं दुःखसाधनं चेत्या- दिप्राचीनभावनावशात्संजायते इति परमं रहस्य सूत्र- स्यान्तंपप्रच्छुः. अतस्तेषां भगवदाज्ञयैव सौत्रान्तिक- संज्ञासंजाता. अन्येच येच केचिद्वितीयास्तेतावत्-बालेष्वाभ्यन्तरेषु च पदार्थेषुसत्सु भगवान् बुद्धः प्राथमिकान् प्रति विजे- यमनुमेयमिति तृतीयान् प्रति सर्व शून्यमिति तुरीयान ८३ प्रति क्षणिकं विज्ञानमेकं सदिति च कथमचीकथतू. सेयविरुद्धाभाषेति-वर्णयामासुः. अतस्ते वैभाषिका- ख्यया ख्याताः. अपरे च ये च केचित्तृतीयास्ते तावत्-सर्वं शून्य- शून्यं दुःखदुःखमित्यादिभावनावशात् निखिलवासना- निवृत्तौ परनिर्वाणं शून्यरूपं सेत्स्यतीति वयंकृतार्थाः नास्माकमुपदेश्यं किंचिदस्तीति गुरूक्तार्थं परमंगीकृत्य बाह्यमाभ्यन्तरंच जगत्सर्वं कथं वा शून्यं भवेदिति त- त्वार्थाधि गमानुकूलपृच्छारूपं योगं-नचक्रुः. तथाच गुरूक्तार्थांगीकरणरूपाचारस्य करणादुत्तमाः. योगस्या- करणादधमाश्च अतस्ते माध्यमिकाइति प्रथिताः. एके च ये च केचित्तुरीयास्ते तावत् योगस्याचारस्य च करणाद्योगाचाराइति प्रथामापुः इत्यादि. संगृह्म प्रतिपाद्यतेच बौद्धमततत्वमित्थं- *चौद्धानांसुगतोदेवःविश्वंचक्षणभंगुरं । आत्मात्मीयस्वभावाख्यः सस्यात्समुदयः पुनः॥ क्षणिकास्सर्वसंस्कारा इति या वासना स्थिरा । समार्गइति विज्ञेयस्सच मोक्षोभिधीयते ॥ *सर्वदर्शनसंग्रहीयबौद्धदर्शने. विवेकविलासवचनानुवादः.
८४
अर्थानुपाय॑ बहुशो हादशायतनानि वै ।
परितःपूजनीयानि किमन्यैरिह पूजनैः ।।
ज्ञानेन्द्रियाणि पंचैव पंच कर्मेन्द्रियाणि च ।
मनोबुद्धिरिति प्रोक्तं हादशायतनं बुधैः ।।
प्रत्यक्षमनुमानं च प्रमाणहितयं तथा ।
चतुःप्रस्थानिका बौद्धाः ख्याता वैभाषिकादयः ।।
अर्थोज्ञानान्वितो वैभाषिकेण बहुमन्यते ।
सौत्रान्तिकेन प्रत्यक्षाग्राझोर्थो न बहिर्मतः।।
आकारसहिता बुद्धिर्योगाचारस्य सम्मता ।
केवलां संविदं स्वस्थां मन्वते मध्यमाः पुनः ।।
रामादिज्ञानसन्तानवासनाच्छेदसम्भवा ।
चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥
कृत्तिःकमंडुलुमौंण्ड्यं चीरंपूर्वाणहभोजनं ।
सङ्घोरक्ताम्बरत्वं चशिश्रिये बौद्ध भिक्षुभिरिति ।।
इसादिशेयमितिबौद्धाः,
(जैनमतम्)
आर्हतीये मते-पदार्थाद्विविधाः जीवाः अजीवाश्चेति.
तत्र जीवास्तावचेतनालक्षणाः गजतुरगमनुजमशकादि-
तत्तद्देहेषु तत्तद्देहपरिमितपरिमाणाश्च भवन्ति. तेच
८५ जीवास्त्रिविधाः नित्यसिद्धः सांप्रतिकमुक्ताः बद्धाश्चेति. तत्र नित्यसिद्धस्तावदाईतमुख्यो जिनइत्युच्यते. सांप्र- तिकमुक्तास्तु कर्मपाशानतीय मुक्तिमार्गमारूढाः. बद्धा- स्तावत् कर्मपाशनियन्त्रितास्संसारिणः मानवादयः. अजीवास्तावत् पुद्गलधर्माधर्माकाशकर्ममोक्षा इति षड्विधाः. तत्र पृथिव्यप्तेजोवायवइति गुणक्रियादिस्व- भाववन्ति चत्वारि भूतानि स्थावरजंगमात्मकस्थूलकार्य- इयं च पुद्गलाइत्युच्यते. अहिंसादिसत्कार्यप्रवृत्यनुमेयोधर्मः. स चाहिंसादि- रूपः. ऊर्ध्वगमनशीलस्य जीवस्य देहे स्थितिहेतुरधर्मः: स तु प्राणिहिंसनरात्रिभोजनादिरूपः. यथाहि-मृत्तिका- दिलेपवदलाबु जले मज्जति लेपनाशे सत्युद्गच्छति तह- दात्मापि कर्मलेपवशादेहे अवतिष्ठते. लेपनाशेसत्यू- ध्वंदेशंगच्छति. आवरणाभावआकाशः. स हिविधः लोकाकाशः अलोकाकाशश्वेति. तत्र सर्वैस्संसारिभिरुपलभ्यमानो लोकाकाशः. मुक्तानामाश्रयस्थानमलोकाकाशः. ज्ञानक्रियान्यतरात्मकं कर्म. तत हिविधं बन्धकम- बन्धकं चेति.
तत्र जन्मापादक बन्धकं. तदपि विविध घातिक- माघातिकर्म चेति. तत्र श्रेयःप्राप्तिप्रतिकूलं घाति. घातिकर्म चतुर्विधं ज्ञानावरणीयं दर्शनावरणीयं मोह- नीयं आन्तरायिकं चेति. तेषु तत्वज्ञानान्नमुक्तिरिति ज्ञानज्ञानावरणीयं. आईततन्त्रश्रवणान्नमुक्तिरिति ज्ञानं दर्शनावरणीयं. बहुतीर्थकरप्रदर्शितेषु मोक्षमार्गेषु विशे- षानवधारणं मोहनीयं. मोक्षमार्गप्रवृत्तिविघ्नकरमन्त- रायिकं. तच्चाष्टादशविधं. प्रतिपाद्यतेहि- *बलभोगोपभोगाना मुभयोनिलाभयोः । अन्तरायस्तथा निद्रा भीरज्ञानं जुगुप्सितं ।। हिंसा रत्यरती रागवेषौ रतिरतिस्मरः । शोकोमिथ्यात्वमेतेष्टादश दोषा न यस्य सः॥इति. तत्ववेदनानुकूलमघातिकर्म. तच्चतुर्विधं वेदनीयं नामिकं गोत्रिकमायुष्कमिति. मम वेदनीयं तत्वम- स्तीत्यभिमानो वेदनीयं. एतन्नामाहमस्मीत्यभिमानो नामिकं. अहमत्रभवतोदेशिकस्य अर्हतशिष्यवंशे प्रविष्टोस्मीत्यभिमानो गोत्रिकं. शरीरस्थिस्यर्थ क्रिय. माणस्नानभोजनकृषिवाणिज्यादिकमायुष्कं. *सर्वदर्शन संग्रहीय भाईतदर्शने जिनदत्तसूरिवचनानुवाद:
अबन्धकं द्विविधं संवरोनिर्जरश्चेति. तत्र विषया- भिमुखीमिन्द्रियवृत्तिं संवृणोतीति संवरा यमनियमादिः. निर्जरयति नाशयति संसारबीजभूतं कल्मषमिति नि- र्जरस्तप्तशिलारोहणकेशोच्छनादिकं तपः. हावेतौ मोक्ष- साधकौ धौं. - प्रपंच्यतेहि- *लोकातिवाहिते मागें चुम्बिते भास्वदंशुभिः । जन्तुरक्षार्थमालोक्य गतिरीर्ष्या मता सतां ॥ आपद्यतागतस्सर्वजनीनं मितभाषणं ॥ इत्यारभ्य- ज्ञानदर्शनचारित्राण्यपवर्गस्य वर्तनी. सरजोहरणा भैक्षभुजो लुंछितमूर्धजाः । श्वेताम्बराः क्षमाशीलाः निस्संगा जैनसाधवः ।। लुंछिताः पिंछिकाहस्ताः पाणिपात्रादिगंबराः । ऊर्धाशिनो गृहे दातुः द्वितीयास्स्युर्जिनर्षयः ।। इत्यादयो मोक्षधर्माः-प्रतिपादिताः मोक्षोनाम धारयघात्यात्मकाष्टविधकर्मपाशनाशे स- ति अलोकाकाशं प्रविष्टस्य सततोर्ध्वगमनं. *सर्वदर्शन संग्रहीय आहेतदर्शने, हेमचन्द्राचार्यवचनानुवादः.
- तथाच अनादिसिद्धो-हन्मुनिः. अन्येतु मुक्तिहेत्व- नुष्टानान्मुच्यते. बन्धककर्मानुष्ठानाध्यते. अधर्मा- नुष्टानात्तिर्यगायधर्म जन्म प्राप्नुवंतीति वदन्ति. किंचैवंनिरूपितः पदार्थस्सर्वोप्पस्तीति विवक्षाया- मस्ति. नास्तीति विवक्षायां नास्ति. अस्तिच नास्तिचेति- विवक्षायां अस्तिच नास्तिचेयादि च वदन्ति. अन्य- त्सर्वं पूर्ववदित्यादि ज्ञेयमितिजैनाः, एवमेषां षण्णां नास्तिकमतानां पूर्वपूर्वापेक्षया प्रबु- दुत्वादुत्तरोत्तरस्योत्कृष्टत्वं ज्ञेयमितिनास्तिकाः. यद्यप्यत्र नास्तिकमतविचारस्य नास्त्येव साक्षात वेदान्तोपयोगित्वं तथापि तत्तदोब्बुद्धिविकासाय तन्नि- रूपणमित्यवधेयं. (आस्तिकमतविचारः). अस्ति वेदप्रामाण्यमिति ब्रुवाणाः आस्तिकाः. तेष- विधाः वैशेषिकाः नैयायिकाः मीमांसकाः सांख्याः योगिनः वेदान्तिनश्चेति. तेषां शास्त्राण्येव षड्दर्शनानी- त्युच्यन्ते. पोच्यतेहि- *पतंजलेजैमिनेश्च व्यासस्य कपिलस्यच । कणादस्याक्षपादस्य दर्शनानि षडेवहि ॥ इति. *अभियुक्तवचनं ८९ तत्र काणादं वैशेषिकशास्त्रं. गौतमीयं न्यायशास्त्रं. जैमिनीयं मीमांसाशास्त्रं. कापिलं सांख्यशास्त्रं. पातं- जलं योगशास्त्रं वैयासकं वेदान्तशास्त्र एषु सांख्ययोगवेदान्तास्वयः प्रस्थानत्रयमित्युच्यन्ते. किंच सभाष्याणि गीतोपनिषच्छारीरकब्रह्मसूत्राणि च तथा व्यवह्रियन्ते. प्रस्थाननाम तत्वज्ञानानुकूलमार्ग- प्रदर्शकोग्रन्थविशेषः. पाणिनेजैमिनेश्चैवेत्यपि क्वचि- कारिकापाठइतिज्ञेयं. (वैशेषिकदर्शन). तत्र वैशेषिकं नाम विशेषेण तत्तत्पदार्थप्रतिपादनार्थ प्रवृत्तं शास्त्रं. विशेषाख्यपदार्थप्रतिपादकं वा. वैशेषिकीये मते- द्रव्यगुणकर्मसामान्यविशेषसमवायाभावास्सप्त पदार्थाः. तत्र पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनां. सीति नव द्रव्याणि रूपरसगन्धस्पर्शसंख्यापरिमाणपृ- थक्तसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धि- तुखदुःखेच्छाहेषप्रयत्नधर्माधर्मसंस्कारभेदाच्चतुर्विशतिगु- उत्क्षेपणापक्षेपणाकुंचनप्रसारणगमनभेदात्प- ञ्चकर्माणि, परमपरं चेति दिविधं सामान्यं. *तर्कसंग्रहीयवचनानि. णाः. - M ९० परं सत्ता. अपरं द्रव्यत्वादि. एतेतावद्दव्यगुणकर्म- अयमात्रवृत्तिनीभवतः. नित्यद्रव्यवृत्तयोविशेषास्त्वनन्ता- एव. पृथिव्यादिचतुष्टयपरमाणवः आकाशादिपंचकं- च नित्यद्रव्याणीतिज्ञेयानि. समवायस्त्वेकएव. अभा- घश्चतुर्विधः प्रागभावः प्रध्वंसाभावः अस्यन्ताभापः अन्योन्याभावश्चेति. अत्रेदशेयं- जालसूर्यमरीचिस्थं सर्वतस्सूक्ष्मतमं यद्दव्यमुपलभ्यते तदेव म्यणुकमित्युच्यते. तदीयष्षष्ठोभागः परमाणुरि- त्युच्यते. तदेव जायमानसकलजगदायकारणद्रव्यमि- स्युच्यते. सचनित्यः. परमाणुमारभ्यैव जायमानजग- दुत्पत्तिः. तथाहि- ईश्वरीयसिसृक्षावशात्परमाणुषु क्रिया जायते. परमाणुइयं संयुज्य ह्यणुकं भवति. ह्यणुकत्रय संयुज्य वयणुकं भवति. त्यणुकचतुष्टयं संयुज्य चतु- स्णुकं भवति. एवं पंचाणुकदशाणुकशताणुकसहस्त्रा- णुकादिक्रमेण कपालः भवति. कपालयसंयोगेन घटोभवति. एवंक्रमेणैव महती पृथिवी महज्जलं मह- तेजः महान्वायुः तत्तच्छरीरावयवशरीरादिकं चेति सकलं जगदुत्पद्यते.
९१ अथ ईश्वरीयसंजिहीर्षावशात् तत्तदवयवनाशे तत्तद- वयविनाशः इतिक्रमेण सकलप्रळयः, तथाच-परमाणूनां परस्परसंयोगेन जगत्सृष्टिः. प- रस्परवियोगेन पुनः परमाणुरूपावस्थानं प्रळयः तौच सृष्टिप्रळयौ भगवदायत्तौ भवतः. स च भगवानीश्वरस्तु नित्यज्ञानाद्याश्रयः एकोनित्य- स्सकलजीवानुग्राहकश्च. जीवस्तु अनित्यज्ञानसुखदु:- खाद्याश्रयः प्रतिशरीरं भिन्नोविभुर्नित्यश्च. द्रव्यादिसक- लपदार्थतत्वज्ञानं तावत् दुःखात्यन्तोच्छेदलक्षणमोक्ष- साधनं भवति. सूबचते हि- सकलपदार्थानां तत्तुज्ञानान्निश्रेयसाधिगमइति. दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदन- न्तराभावादपवर्गइतिच. तानिच दुःखानि -शरीरं षडिंद्रियाणि षड्विषयाः पड्बुद्धयः सुखं दुःखं चेत्येकविंशतिरिति ज्ञेयानि. तत्त- स्सुकृतदुष्कृतानुरूपस्वर्गनरकनिरूपणादिकं अन्यत्सर्व वेदान्तिवदिति वैशेषिकाः न्यायसूत्रे, अ. १. आन्हिकं. १. - .
(नैय्यायिकदर्शन) न्यायोनाम पर्वते वद्रिस्ति धर्मात्सुखं भवति पापा- हुःखं भवति इत्याधर्थबोधनानुकूलं परार्थानुमानं. ता- दृशन्यायप्रपञ्चं प्रधानीकृत्य प्रवृत्तमिदं शास्त्रं न्याय- शास्त्रमिति व्यपदिश्यते. नैयायकीये मते--द्रव्यादयस्सप्तपदार्थाएव प्रमाणप्र- मेयेत्यादिना षोडशधा प्रतिपादिताः आमनिक्षिप्ते घटे तेजस्संयोगवशात् पुरातनरूपरसगन्धस्पर्शनाशे सति नवीनरूपायापादकतेजस्संयोगवशात् रूपादिकं जायते. नतुवैशेषिकवत्परमाणुपर्यन्तं घटेविनष्टे तेषु पीलुष्वेव तज्जायते. इत्यादि किंचिदैलक्षण्यं. अन्यत्सर्व वैशेषि- कवदिति गौतमीयाः (मीमांसकदर्शन) मीमांसा नाम तत्तत्कर्मस्वरूपप्रतिपादकतया कर्म- काण्डाभिधस्य श्रुतिपूर्वभागस्य अर्थतत्वविचारानुकूलं शास्त्रं. मीमांसकीये मते-सादृश्यमतिरिक्तः पदार्थः तमो दशमं द्रव्य. प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्ध- यइति षट् प्रमाणानि. वेदानुसारेण क्रियमाणकमैंव अभिमतफलसाधकं भवति. तथाच तत्तत्कर्मवशा- देव स्वर्गनरकादिसम्भवात्कर्मातिरिक्तः कश्चित् भोक्तुः फलदातास्तीति नांगीक्रियतइति बोध्यं. भोक्ता नाम ज्ञानसुखदुःखाद्याश्रयश्शरीरी पुरुषः. स- एव जीवइत्युच्यते. तस्य च जीवस्य हिताहितबो- घने तावत् अनादिर्वेदरस्वतएव प्रमाणं भवति. अधर्मासं- कीर्णोत्कटसत्कर्मकारिणामेव दुःखलेशासम्भिन्नस्वर्गा- त्मकनित्यसुखप्राप्तिः. नब्रह्मादयो नेन्द्रादयोवा देवा- सन्ति शरीरिणः. किन्तु श्रुतिघटकीभूतेन्द्रादिशब्दा एव इन्द्रादिदेवताइति व्यवहियन्ते. सुरासुरयुद्धवज्रधा- रणवृत्रहननवरप्रदानादिशरीरिव्यापारावबोधकानां श्रुति- भागानां अर्थवादरूपत्वमित्यादिज्ञेयं. अन्यत्सर्वं वेदान्ति- वदिति मीमांसका. (सांख्यदर्शनं). सांख्यं नाम संख्यायन्ते परिगण्यन्ते तत्तत्तत्तात्मकप- दार्थाः अनेनेति तादृशं शास्त्र. सांख्यीये मते-जडः अजडश्चेति दौ पदार्थों. तत्र जडस्तावत् प्रकृतिःमहत्तत्तुं अहंकारः एकादशे- न्द्रियाणि पञ्चतन्मात्राणि पञ्चमहाभूतानि चीत चतुर्विशतितत्तात्मकोभवति. अजडः पुरुषः सएव पंचविंशतत्तात्मकइति ज्ञेयं. तत्रप्रकृतिस्विगुणसाम्यावस्थात्मिका सकलजगदा- द्यावस्थारूपा स्वयमनादिश्च भवति. सैव मूलप्रकृतिः प्रधानमव्यक्तमजेत्यादिशब्दैर्व्यवहियते. सा च जडात्मि- कापि पुरुषार्थसिद्धये स्वभावेनैव सकलजगद्रूपेण परिण- ममाना भवति यथाहि गोभुक्ततृणमचेतनं स्वभावे- नैव लोकोपकाराय दुग्धदधिनवनीतसर्पिरादिरूपेण परि- णमते यथावा जलमचेतनं स्वभावेनैव तरंगबुडुद- फेनहिमकरकादिरूपेण बहुधा भवति तहदिति बोध्यं. सेयं प्रकृतिः सकलजगदुत्पादनप्रथमकारणत्वात् स्वोत्पादककारणान्तराभावाच केवला प्रकृतिरित्युच्यते. महत्तत्ताहंकारपंचतन्मात्राणि सप्त उत्तरोत्तरोत्पाद- कत्वात्प्रकृतिरूपाणि पूर्वपूर्वजन्यत्वादिकतिरूपाणि चेति प्रकृतिविकृतिशब्देन प्रतिपाद्यन्ते पंचज्ञानन्द्रियपंचकर्मेन्द्रियमनोरूपैकादशेन्द्रियाणि पंचमहाभूतानि चेत्येतानि षोडश अहंकारपंचतन्मात्र- जन्यत्वात् विजातीयतत्वान्तरानुत्पादकत्वाच केवलवि- कृतयइति व्यपदिश्यन्ते.
पुरुषस्तु चेतनात्मकः प्रकृतिविकृतिविलक्षणोभवति. प्रतिपाद्यतेहि तदेतत्सर्व- *मूलप्रकृतिरविकृतिर्महदायाः प्रकृतिविकृतयस्सप्त । षोडशकश्च विकारोन प्रकृतिनविरुतिः पुरुषः॥ इति. सचपुरुषः पुष्करपलाशवन्निर्लिप्तोपि प्रकृतिसन्निधा- नमात्रादेव तदीयगुणपरिपाकरूपान् सुखदुःखाद्यन्तःक- रणधर्माननुभवन्निव भवति. यथाहि-विनिर्मलतरस्स्फ- टिकमणिजपाकुसुमसन्निधानमात्रादेव लोहितायते त- ददिति ज्ञेयं. गीयतेहि- +प्रकृतेःक्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥ इति. एवमुदासीनतया स्वाभाविककर्तृत्वादिव्यापाररहित- स्यापि पुरुषस्य सन्निधानमात्रादेव सापिप्रकृतिःसकलप्र- पंचप्रकाशनक भवति. (यथा निर्व्यापारस्याप्यय- स्कान्तस्य सन्निधानेन लोहस्य व्यापारः तथा निर्व्या- पारस्य पुरुषस्य सन्निधानेन प्रधानस्य व्यापारो युज्यते) इतिज्ञेयं. *सांख्यसप्तत्या. गीतायां अ, ३. सर्वदर्शनसंग्रहीयसांख्यदर्शने.
तथाच-भोक्ता पुरुषः भोग्यं प्रकृतिरिति तदुभयं मिळित्वैव सकलजगद्यात्रानिर्वाहकमिति ज्ञेयं. गीयतेहि- *प्रकृतिं पुरुषं चैव विद्धयनादी उभावपि । कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते ॥ पुरुषस्सुखदुःखानां भोक्तृत्वे हेतुरुच्यते । पुरुषः प्रकृतिस्थोहि भुङ्क्ते प्रकृतिजान् गुणान् ।। कारणं गुणसंगोस्य सदसद्योनिजन्मसु । यावत्संजायते किंचित्सत्वं स्थावरजंगमं ।। क्षेत्रक्षेत्रज्ञसंयोगात्तहिद्धि भरतर्षभ ॥ इत्यादि. तथाच चिरतरोपार्जितसमग्रज्ञानसामग्रीकस्य कस्य चित्पुरुषधौरेयस्य प्रकतेविलक्षणोहमिति स्वस्वरूपज्ञान- वशात् प्रकृतिसम्बन्धमूलकत्रिविधदुःखनिवृत्तौ स्वरूप- मात्रेणावस्थानं कैवल्यं. अन्यत्सर्व वेदान्तिवदित्यादि ज्ञेयमितिसांख्याः. (योगदर्शन), योगोनाम भगवति परमात्मनि मनस्स्थिरीकरणं. तादृशं योगं तत्साधनानि च प्रतिपादयितुं प्रवृत्तमिदं शास्त्रं योगशास्त्रमिति व्यवहियते. *गीतायां अ,१३.
योगीये मते-क्लेशादिगुणरहितः कश्चिदपरिमिताल्मी- यमहिमा ईश्वरोस्तीत्यंगीक्रियते. तदनुग्रहवशात्पुरुषस्य कैवल्यं अन्यत्सर्वं सांख्यवत्, इदमेव सेश्वरं सांख्यं. पूर्वन्तु निरीश्वरं सांख्यमि- त्युच्यते. इत्यादि ज्ञेयं. इति योगिनः. (वेदान्तदर्शनं), वेदान्तोनाम वेदानामन्तः वेदान्तइतिव्युत्पत्या उप- निषदः, तत्तात्पर्यावबोधक शारीरकमीमांसादिशास्त्र- मपि वेदान्तशास्त्रमिति व्यवह्रियते. वेदान्तीये मते- सच्चिदानन्दात्मकः परमात्मा स्वयमेकएव सकलजग- इयवहारनिर्वाहिकया कयाचिच्छन्या युक्तस्सकलजग- सृष्टिस्थितिलयव्यापाराश्रयइति समुद्दष्यते. ते च सृष्टयादयोनिरूप्यन्ते. सृष्टिप्रकरणं. तत्र सृष्टिमि सृजविसर्गइतिधातोर्भावार्थकक्तिन्प्रत्य- यान्तपदबोध्योयं निर्माणब्यापारः. स च व्यापारः स्थि- तस्यैव वस्तुनः प्रकारान्तरेण प्रकाशीकरणे पर्यवस्थति. साचसृष्टिदिविधा प्रारुतसृष्टिकतसृष्टिश्चेति. तत्रप्रक- तीनां सूक्ष्मभूतादीनां सृष्टिः प्राकृतीसृष्टिः, विरुतीनां ९८ स्थावरतिर्यग्देवमानुषाणां सृष्टिवैकतीसृष्टिः, तदेतत्स. मुपपादयामः. तथाहि- (प्रारुतसृष्टिः). साचभागवतीशक्तिईिविधा चिच्छक्तिर्जडशक्तिश्चेति. तत्रचिच्छक्तिवेतनारूपा. जडशक्तिर्जडात्मिका भ- वति. यथाचायस्कान्तगता यश्चालनशक्तिः अयस्का- न्तात्मिकैव नातिरिक्ता तथा भगवचिच्छक्तिरपि भगव- दात्मिकैव नातिरिक्तति ज्ञेयं. सैवात्मचैतन्यरूपा चिच्छक्तिः परमपदपरब्रह्मपरत- त्वादिपदैःश्रीविद्यादेवीत्यादिशब्दैश्च श्रूयमाणासकलैईि- जैः कालेकाले दैवीगायत्रीत्यनुसन्दधानः देवस्य सवितु- वरेण्यं तद्भर्गोधीमहीति सकलधीप्रकाशकस्य तस्य भग- वतस्सर्वान्तर्यामितेजोरूपेणोपास्यते. न तु दृश्यमानज- डात्मकसूर्यबिम्बस्यातपादिमात्रं, इति ज्ञेयं. जडात्मिका तु द्वितीया शक्तिस्त्रिगुणात्मिका भवति. सैषा शक्तिः प्रकतिर्मूलप्रकृतिर्मायाप्रधानमव्यक्तमाकाश- मक्षरमविद्या विमर्शोजडमज्ञानमजा तपस्तमइत्यादिश- दैर्व्यवहियते. सैषा शक्तिस्सकलजगदायावस्थारूपेति ज्ञेया.
. किंच-सेयं शक्ति ब्रह्मात्मिका भवति. नापि श- शशृगायते. किन्तु तदुभयविलक्षणा भवति. तथाहि-सपरमात्मा निर्गुणः सातु गुणमयी. स ज्ञानरूपस्सा जडरूपा, सस्वयमपरिणामी सापरिणा- मिनी. इत्यादिनाब्रह्मविलक्षणा भवति. शशशृङ्गादिकन्तु कुत्रापि सुतरामविद्यमानं इयन्तु जगद्रूपेण दृश्यमानेति तहिलक्षणा च. एवं तदुभयवि- लक्षणा भवति. तथाच-वेदान्तिमते आत्मा अनात्मा चेति हौ पदार्थों. तावेव तत्त्रतत्र चेतनाचेतनौ दृग्दृश्यौ भोकभोग्यौ तत्वातत्ते चिदचितौ स्वतन्त्रास्वतन्त्रौ पुरुषः प्रकृतिश्चे- त्यादिशब्दैर्व्यवहियेते. सैषा प्रकृयात्मिका शक्तिः भगवदधीनीभूय सकल- जगड्यापारनिर्वाहिका भवति. तादृशशक्तियुक्तः पर- मात्मापि प्रभायुक्तस्सूर्यः प्रकाशकतामिव सकलजग- जन्मादिकारणतामभिप्रपद्यमानस्सन् (एषसर्वेश्वरए- पसर्वज्ञएषोन्तर्याम्येषयोनिस्सर्वस्य प्रभवाप्ययौ हि भू- तानां) इति संस्तूयते *मांडूक्पोपनिषन्, श्रूयतेहि यथोर्णनाभिस्सृजते गृह्यते च यथा पृथिव्यामो- षधयस्सम्भवन्ति । यथासतःपुरुषाकेशलोमानि तथा- क्षरात्सम्भवतीह विश्वं ॥ इत्यादि. एवंच यथाहि केनचिचेतनेनाधिष्टितं शरीरं रथादि- यन्त्रं वा तत्तकार्यकारिभवति एवमेव भगवदधिष्टिता सा प्रकृतिरपि तत्तत्प्रपंचरूपण परिणममाना भवति. तथाहि- संप्राप्लेच सृष्टिकल्पायकाले सभगवान् परमेश्वरः सृज्यमानसकलप्रपंचवैचित्रयहेतुभूतप्राणिकर्मसहकता- परिमितानिरूपितमायाशक्तिविशिष्टस्सन नामरूपात्मकं निखिलं प्रपंचं बुद्धावाकलय्य इदं करिष्यामीति संकल्प- यति. श्रूयते हि- तिदैवत बहु स्यां प्रजायेयेति. इसोकामयत बहु स्यां प्रजायेयेत्यादि च तथाच यथाहि सुप्तः पुरुषः पूर्वसंस्कारवशादहर्मुखे जागर्ति तहत्परमात्मापिकालकर्मसंस्कारवशात् तत्तत्प्रा. *मुंडकोपनिषदि. ख. १. छान्दोग्ये. प्र.६.ख. २. त्तिरीये. आनन्दवल्लयां. अनु. ६.
- णिनां तत्तत्कर्मफलभोगसमयेप्राप्ते प्रळयरूपस्वापावस्था- तोजागर्तीति ज्ञेयं. अतीतप्रळये केवलसच्चिदानन्दात्मनि परमात्मनि सुषुप्तौव्यवहारवत् क्षीरे नीरवहा निलीना सृज्यमा- नसकलप्राणिनां तददृष्टादीनांच निलयनस्थानभूता च सा प्रकस्यात्मिका दैवीशक्तिः तादृशभगवदिच्छावशात् भूतभौतिकादिरूपेण बहुधा भवति. यथाहि धरणी- जलसंयोमादिकारणवशात् बीजमुच्छूनं सत् अंकुरिती- भूय हिदळितीभूय पल्लवितीभूय पत्रशाखादिरूपेण बहुधा विस्तृतं भवति तहदिति ज्ञेयं. एवंच अनादिमायाशक्तिप्रसारणात्मकस्सृष्टिव्यापारः परमात्मनस्स्वयमनादिस्वभावरूपइति बोध्यं. प्रोच्यते हि- *भोमार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैषस्वभावोयमाप्तकामस्य का स्पृहा। इति, तत्रादौ शब्दैकगुणमाकाशतन्मात्रं. तस्माच्छब्द- स्पर्शोभयगुणोगयुः. तस्माच्छब्दस्पर्शरूपगुणकं तेजः, तस्माच्छब्दस्पर्शरूपरसगुणकं जलं. तस्माच्छब्दस्पर्श- रूपरसगन्धगुणा पृथिवी. गौडपादाचार्यकृतमांडूक्योपनिषत्कारिका.
१०२ श्रूयतेहि- *तस्मादा एतस्मादात्मनआकाशस्सम्भूतः आका- शाहायुः वायोरग्निः अग्नेरापः अझ्यः पृथिवीति. एतानि वायादिचत्वारि सूक्ष्मभूतान्येव तार्किकैः परमाणवइति पीलवइति च प्रोच्यन्ते, तेषां सूक्ष्मभूतानां प्रत्येकं स्वस्वसत्वांशैः क्रमात् श्रो- वत्वक्चक्षुर्जिवाघ्राणाख्यानि पंचज्ञानेन्द्रियाणि जायन्ते. तेषामेव सूक्ष्मभूतानां परस्परं मिळितैस्सत्वांशैरन्तःक- रणमेकं जायते. तच्चमनोबुद्धिचित्ताहंकाराइति वृत्ति- भेदात् चतुर्धाभवति. अथ तेषामेव भूतानां स्वस्व- रजोंशैः क्रमात वाक्पादपाणिपायूपस्थाख्यानि पंच कर्मेन्द्रियाणि जायन्ते. तेषामेव सूक्ष्मभूतानां परस्परं मिळितैरजोंशैःप्राणस्संजायते. स च तत्तत्स्थानभेदात् प्राणापानव्यानोदानसमानाइति पंच संज्ञाः लभते. पठ्यतेहि तदेतत्सर्व- पंचभूतस्थसत्वांशः श्रोत्रादीनां समुद्भवः । ज्ञानेन्द्रियाणां राजेन्द्रप्रत्येक)मिळितैस्तु तैः ।। अन्तःकरणमेकं स्यादृत्तिभेदाच्चतुर्विधं । तैत्तरीये, आनन्दवल्लपां. अनु. १. देवीभागवते. स्कं. ७. अ. ३२.
१०३ यदा तु संकल्पविकल्पकत्यंतदा भवेत्तन्मनइत्यभिख्या स्याहुद्धिसंज्ञंच यदा प्रवेत्ति सुनिश्चितं संशयहीनरूप। अनुसंधानमा तच्चित्तं च परिकीर्तितं । अहंकृत्यात्मवृत्त्या तु तदहंकारतां गतं ॥ तेषां रजोशैर्जातानि क्रमाकर्मेंद्रियाणितु । प्रत्येक) मिळितैस्तैस्तुप्राणोभवति पंचधा ॥ इत्यादि. अस्मिन् सृष्टिक्रमे-त्रिगुणात्मकादहंकारतत्तादेव इ. न्द्रियाणां तन्मात्राणांचोत्पत्तिरित्यादिच तत्र तत्र प्रति- पादितमितिज्ञेयं. एतानि पंचज्ञानेन्द्रियाणि पंचकर्मेन्द्रियाणि पंचप्रा- णाः मनोबुद्धिश्चेतिसप्तदशानां समुदायः सूक्ष्मशरीरमिति लिंगशरीरमिति च प्रोच्यते. प्रतिपाद्यते हि- * पंचप्राणमनोबुद्धिदशेन्द्रियसमन्वितं । अपंचीकृतभूतोत्थं सूक्ष्माग भोगसाधनं ॥ इति. इदमेवपरकायप्रवेशलोकान्तरयात्रायनुकूलं शरीरं. अथच भगवदिच्छया तान्येव सूक्ष्मभूतानि पंची. करणविधया परस्परं मिळित्वा महाभूतरूपेण परिण- मन्ते. तथाहि- *आत्मबोधे, एवं सभगवान् संकल्पमात्रादेव सूक्ष्मभूतानि सृष्टवा एकैकं भूतं द्विधा कृत्वा इयोभीगयोरेकं भागं चतुर्धा विभज्य चतुर्षु भूतार्धभागेषु योजयति. एवंसर्वेषु क्रि- यमाणेषु एकैकस्य भूतस्य अर्ध स्वभाग: अर्घान्तरन्तु चतुर्णा स्वेतरभूतानांभागसमुच्चयोभवति. तथाच स्वभा. गस्य भूयस्त्वात् परभागस्याल्पीयस्त्वाच्च पृथिव्यादिव्यप- देशोभवति. एवक्रमेण पृथिव्यादिपंचमहाभूतानि सम्भ- कन्ति. तेभ्यः पञ्चमहाभूतेभ्यएव चतुर्दशभुवनपरि. मण्डितब्रह्माण्डकटाहस्संजायते. तदेव स्थूलशरीरमि- त्युच्यते. तादृशब्रह्माण्डकटाहात्मकस्थूलशरीरस्य अ- घिष्ठानात्मा परमात्मा विराडिति प्रतिपाद्यते. श्रूयतेहि तदीयं स्वरूपं- *सहस्रशीर्षापुरुषस्सहस्राक्षस्सहस्रपात् इत्यादि. एवं-नमोस्त्वनन्तायसहस्रमूर्तये सहस्रपादाक्षिशिरो- रुबाहवे। सहस्रनाम्ने पुरुषाय शासते सहस्रकोटियुगधा- रिणे नमः इत्यादि च. अत्रेदं ज्ञेयं- सएषः अपरिमितानन्तविचित्रमायाशक्तियुक्तः परमा. स्मा तावत् स्वीयां राजसी प्रतिमालम्ब्य चतुर्मुखरूपेण चराचरात्मकस्थूलजगत्सृष्टिमारभमाणस्सन् शारदा- ऋग्वेदे अष्टकं. ८. भ. ४. ब. १६. - १०५ सनकसनन्दनादिभिस्संसेव्यमानः ब्रह्मात्मभूस्सुरज्येष्टः परमेष्ठी पितामहः इत्यादिशब्दैः व्यवह्रियमाणश्च भूत्वा सकलं जगत्प्रकाशयति. किंच स विशुद्धविज्ञानात्मा परमात्मैव स्वकीयां सात्तिकी प्रकृतिमालम्ब्य विष्णुरूपेण चराचरात्मक- सकलजगद्रक्षणोन्मुखस्सन् श्रीभूनीळानन्तगरुडविष्व- क्सेनादिपरिवारपरिवृतः शंखचकादिसाधनसमन्वित- स्सन् विष्णुारायणः कृष्णोवैकुण्ठोविष्टरश्रवाः इस्या- दिशब्दैर्व्यवडियमाणश्च भूत्वा सकलंजगदनुगृण्हाति. अथच सएव परमात्मा स्वीयां तामसी प्रकृतिमा- श्रित्य रुद्ररूपेण सकलजगदिनाशनोन्मुखस्सन् गिरिजा- गजमुखवीरभद्रादिभिः भुंग्यादिभिश्च गणैरसंसेवितः शम्भुरीशः पशुपतिश्शिवश्शूली महेश्वरइत्यादिशब्दैः व्यवह्रियमाणश्च भूत्वा सकलं जगदात्मन्येव विलीनयति. अत्रेदं बोध्यं- ब्रह्मविष्णुशिवरूपेणेत्यत्र तत्तत्स्वरूपेणेयेके वदन्ति. अन्येतु-विष्णुरूपेणेत्यत्र तत्स्वरूपेणेति ब्रह्मशिवरूपेणे- स्यत्रतु तत्तदन्तर्यामिरूपेणेतिच-वदन्ति. इति. पठ्यतेहि त्रिमूर्तिस्वरूपतत्वं- १०६ *जुषन् रजोगुणं तत्र स्वयं विश्वेश्वरोहरिः। ब्रह्मा भूत्वास्य जगतोविसृष्टौ सम्प्रवर्तते ।। सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना । सत्तभृगगवान्विष्णुरप्रमेयपराक्रमः॥ तमोद्रेकी च कल्पान्ते रुद्ररूपी जनार्दनः । मैत्रेयाखिलभूतानि भक्षयत्यतिभीषणः ।। स्तम्भयित्वा-शु भूतानि जगत्येकार्णवीकृते । नागपर्यकशयने शेते सौ परमेश्वरः ।। प्रबुद्धश्च पुनस्सृष्टिं करोति ब्रह्मरूपधृत् । तृष्टिस्थित्यन्तकरणात् ब्रह्मविष्णुशिवात्मिकां । स संज्ञां याति भगवानेकएव जनार्दनः ।। इत्यादि ज्ञेयं. इति प्राकृत सृष्टिः. (वैकृतसृष्टिः). सैवत्रिगुणात्मिका प्रकृतिः सत्तोपसर्जनरजः सत्तो- पसर्जनतमः रजउपसर्जनसत्तुं रजउपसर्जनतमः तम- उपसर्जनसत्तुं तमउपसर्जनरजः इत्यादिभेदेन बहुधा भवति. यथाहि हिचत्वारिंशदक्षरात्मिका पतिः जातजायमानजनिष्यमाणानुपूर्वीरूपेण बहुधा भवति *विष्णुपुराणे अंशः. १. अध्यायः. २.
तहदिति ज्ञेयं. सेयं गुणमयी मायाशक्तिरेव जीवस्य शरीरसंयोगवियोगात्मकजननमरणरूपान् संसारबन्धा- नातनोति. तत्र जीवोनाम स्वयंसच्चिदानन्दस्वरूपः सदसत्कर्मा विद्यावशादल्पप्रकाशश्च शरीरी. सएव क्षेत्रज्ञआत्मा पुरुषइत्यादिशब्दैर्व्यवहियते. तथाच स्थावरादिहिरण्यगर्भान्ताः सर्वेप्यात्मानः क्षेत्रज्ञाइत्युच्यमानाः स्वस्वशक्त्यनुरूपं अधिकारस्वात- न्यादिकमापद्यन्ते. तत्र चतुर्मुखस्सकललोकसर्जनै- कप्रवृत्नोभवति. स भगवान् चतुर्मुखः परमेश्वरप्रका- शितवेदानुसारेण समालोच्य तान्येव पंचभूतानि प्रका- रान्तरेण योजयन् भावनामात्रादेव स्थूलशरीराणिकल्पयन् क्रमेण स्थावरतिर्यग्देवमानवान् सृष्ट्या तत्तत्कर्मानुरूप- भोग्यशोगोपकरणान्वितानि तत्तत्स्थानानि तत्तल्लोकान- तत्तल्लोकाधिपतिपदानिचति सकलं जगत्सृजति. यथाहि कश्चिच्छिल्पी केनचिद्गृहपतिना समुपदिष्टः तत्संपादितान्येव शिलादारुलोहलोष्टेष्टकादीनि संगृह्य स्तम्भ दारु कवाट वलभिप्रासाद प्राकारादिरूपमापाद- यन् गृहं निर्माति तदिति ज्ञेयं,
१०८
श्रूयतेहि-
'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयद्दिवं च पृथि-
वींचान्तरिक्षमथो सुवः इत्यादि.
तत्रसृष्टयादौ केषांचित् स्थावरतिर्यगादिभावे केषां-
चिद्देवमानवादिभावेच तेषामेव अनादिकर्मवासनासु
याया तादृशफलोन्मुखी सैव सैव कारणमिति बोध्यं.
तत्र मानुषाणां सृष्टिक्रमः पठ्यतेहि-
रिजोमात्रात्मिकामन्यां जगृहे स तनुं ततः।
रजो मात्रोत्कटा जाताः मनुष्या हिजसत्तम ।
प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्वर्ण्य व्यवस्थिताः।
सम्यक्श्रद्धासमाचारप्रवणा मुनिसत्तम ।।
यथेच्छावासनिरतास्सर्वबाधाविवर्जिताः।
शुद्धान्तःकरणाश्शुद्धास्सत्तानुष्ठाननिर्मलाः ॥
रसोल्लासादयश्चान्यास्सिद्धयोष्टौ भवन्ति याः ।
रिसोक्लासाख्या सा सिद्धिस्तया हन्ति क्षुधं नरः ॥
स्त्रयादीनां नैरपेक्ष्येण सदा तृप्ताः प्रजास्तदा ।
हितीया सिद्धिरुद्दिष्टा सा तृप्तिर्मुनिसत्तमैः ।।
अत्तरीये नारायणपन्ने. प्र. ६. वा. ३८.
+विष्णुपुराणे अं. १. अ. ५. विष्णुपुराणे. अं. १, अ. ६.
विष्णुपुराणश्रीधरीये. अं. १. अ. ६. स्कान्दवचनानुवादः.
१०९ अधमोत्तमनिर्मुक्तिस्सा तृतीयाभिधीयते । चतुर्थी तुल्यता तासां अयुषस्सुखरूपयोः॥ एकान्तबलबाहुळ्यं विशोका नाम पञ्चमी । परमात्मपरत्वेन तपोध्यानादिनिष्ठता ॥ षष्ठीच कामचारित्वंसप्तमीसिद्धिरुच्यते । अष्टमी च यथाप्रोक्ता यत्र कचन शायिता॥ इत्यादि. एवमष्टाभिस्सिद्धिभिरुपतास्ते सर्वेपि सुखैकप्रधाना अभूवन्, अथच कालक्रमेण स्वयमविद्यापिशाचिका- क्रान्तस्वान्ताश्शनैश्शनैः कामक्रोधाद्यरिषड्वर्गतरुमार- स सुखदुःखमयं फलमास्वादयन्तः परमपकृष्टतामुपगम्य संसारमागैंकसंप्रवृत्ताः बभूवुः. पठ्यतेहि- *अधर्मबीजमुद्भूतं तमोलोभसमुद्भवं । प्रजासु तासु मैत्रेय रागादिकमसाधक। ततस्सा सहजा सिद्धिस्तासां नातीवजायते । तासु क्षीणास्वशेषासु वर्धमानेचपातके ॥ इंदाभिभवदुःखास्सिंभवन्ति ततः प्रजाः। ततोदुर्गाणि ताश्चक्रुः वाक्ष पार्वतमौदकं ॥ विष्णूपुराणे, अं१. अ, ६.
११०
कृत्रिमं च तथादुर्ग पुरं * खर्वटकादिकं ।
गृहाणि च यथान्यायं तेषु चक्रुः पुरादिषु ।।
शीतातपादिवाधानां प्रशमाय महामुने ॥
प्रतीकारमिमं कृत्वा शीतादेस्ताःप्रजाः पुनः ।
वातॊपायं ततश्चक्रुः हस्तसिद्धिं च कर्मजां ।।
ब्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः ।
प्रियंगवो दाराश्च कोरदूषास्सतीनकाः ।।
माषा मुद्दा मसूराश्च निष्पावास्तु कुळुत्थकाः ।
आढक्यश्चणकाश्चैव शणास्सप्तदश स्मृताः ।।
परापरविदः प्राज्ञास्ततोयज्ञान्वितन्वते ।
येषां तु कालपृष्टोसौ पापबन्धुर्महामुने ॥
चेतस्सु ववृधे चकुस्ते न यज्ञेष मानसं ।
प्रवृत्तिमार्गब्युच्छित्तिकारिणोवेदनिन्दकाः ।।
दुरास्मानोदुराचाराः बभूवुः कुटिलाशयाः ।
संसिद्धायान्तु वार्तायां प्रजास्सृष्टवा प्रजापतिः॥
मर्यादां स्थापयामास यथास्थानं यथागुणं ।
वर्णानामाश्रमाणां च धर्मान् धर्मभृतां वर ॥
नगरप्रामयोर्मध्यगतं नदीगिरिसमाश्रितंस्थानं खर्वटकं.
१११ लोकांश्च सर्ववर्णानां सम्यग्धर्मानुवर्तिनां । प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावतां ॥ स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वनिवर्तिनां । वैश्यानां मारुतं स्थानं स्वधर्मनिरतात्मनां ।। गान्धर्व शूद्रजातीनां परिचर्यानुवर्तिनां । प्राजापत्यं गृहस्थानां ब्राह्म सन्यासिनां स्मृतं ॥ योगिनाममृतं स्थानं तद्दिष्णोः परमं पदं। किंच- तामिस्रमन्धतामिस्रं महारौरवरौरवौ ॥ असिपत्रवनं घोरं कालसूत्रमवीचिमत् । विनिन्दकानां वेदस्य यज्ञव्यासेधकारिणां ॥ स्थानमेतत्सदा2 ख्यातं स्वधर्मस्यागिनश्च ये। इत्यादि ज्ञेयं. तथाच येच येच जीवाः स्वस्वकर्मानुसारेण यादृशं यादशं शरीरमाविशन्ति तेते तत्तच्छरीरानुरूपसुखदुःखा- दिकमनुभवन्ति. तत्र मानुषशरीरकतानामेव कर्मणां सदसत्फलदातृत्वशक्तिस्सम्भवति. नेतरशरीरकताना- मितिज्ञेयं. तत्र शरीरं नाम जीवात्मनस्सुखदुःखाद्यनुभवसाध- नीभूत भूतेन्द्रियादिसमष्टिरूपं द्रव्यं. तदेव क्षेत्रमित्यपि प्रतिपाद्यते.
११२ गीयते हि- *महाभूतान्यहंकारोबुद्धिरव्यक्तमेवच । इन्द्रियाणि दशैकंच पंच चेन्द्रियगोचराः ॥ इच्छा देषस्सुखं दुःखं संघातश्चेतना धृतिः । एतत् क्षेत्र समासेन सविकारमुदाहृतं॥ इति तच्च शरीरं चतुर्विधं जरायुजमंडजं स्वेदजमुद्भिज्ज चेति. तत्र जरायोर्गर्भावरकचर्मविशेषाजातं जरायुज मनुष्यपश्वादीनां शरीरं. अण्डाजातभण्डजं पक्षिपन्न गादीनां शरीरं. स्वेदाज्जातं स्वेदजं यूकमशकादीनां शरीरं. भूमिमुद्भिय जातमुनिजं तरुगुल्मादीनां श- रीरं. एषु केषांचित् स्थावरतिर्यगादीनां करचरणादितत्त- दवयवराहित्यप्रतिभाशक्तिराहित्यादिकमपि दृश्यते तच सर्व तत्तत्कर्मनिमित्तकमेवेति ज्ञेयं. तथाच सकलजगदधीश्वरस्सपरमात्मा स्वयमेकएव तत्तच्छरीराण्यधिष्टाय तत्तभोग्यभोगोपकरणानि संप्र- कल्पयन तत्तत्कारणरूपेण तानितानि भूतानि उत्पा- दयन्नभिवर्धयन्नपहरंश्च भूत्वा सकलजगदात्मकइति जेगीयते. गीतायां अ,१३.
११३ श्रूयते हि- *सएषब्रह्मा एषइन्द्रः एषप्रजापतिः एतेसर्वेदेवाः इमानिपंचमहाभूतानि पृथिवीवायुराकाशआपोज्योती- षीत्येतानि इमानिच क्षुद्रमिश्राणीवबीजानि इतराणिच अण्डजानिच जारुजानिच स्वेदजानिचोद्विजानिच अश्वा गावः पुरुषा हस्तिनो यत्किचेदंप्राणि जंगमंच पतत्रिच यच्चस्थावरं सर्वतत्प्रज्ञानेत्रं प्रज्ञाने प्रतिक्षित प्रज्ञानेत्रोलोकः प्रज्ञाप्रतिष्ठा प्रज्ञानं ब्रह्म इति. एवं-सतपस्तप्त्वा इदग्सर्वमसृजत यदिदंकिंच तत्सृष्टवा तदेवानुप्राविशत् तदनुप्रविश्य सच्चत्यच्चानव- दित्यादिच. गीयते च भगवताः भूमिरापोनलोवायुः ख मनोबुद्धिरेव च । अहंकारइतीयं मे भिन्ना प्रतिरष्टधा ॥ अपरेयं इतस्त्वन्यांप्रकृतिविद्धि मे परां । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ एतधोनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्यजगतः प्रभवः प्रळयस्तथा ॥ *ऐतरेये. अ. ३. तैित्तरीये, आनन्दवल्लयां अनु. ६. गीतायां अध्याय:. ७.
११४ मत्तः परतरं नान्यत्किंचिदस्ति धनंजय । मयिसर्वमिदं प्रोतं सूत्रे मणिगणाइव ।। इति. पठ्यते च- *चतुर्विभागरसंसृष्टी चतुर्धा संस्थितस्स्थितौ । प्रळयंच करोस्यन्ते चतुर्भेदोजनार्दनः ॥ ब्रह्मा दक्षादयः कालः तथैवाखिलजन्तवः । विभूतयोहरेरेते जगतस्सृष्टिहेतवः ।। विष्णुमन्वादयःकालः सर्वभूतानिच हिज । स्थितर्निमित्तभूतस्य विष्णोरेते विभूतयः ।। रुद्रः कालान्तकाद्याश्च समस्ताश्चैवजन्तवः । चतुर्धा प्रळयायैते जनार्दनविभूतयः॥इत्यादि. तथाच-यथाहि लोके मधुररसाभिव्याप्तगुडविका- ररूपमखिलमपि वस्तु मधुरमित्येव परिज्ञायते एवमेव ब्रह्मचैतन्याधिष्टितप्रकृतिपरिणामरूपं जगत् सर्वखल्विदं ब्रह्मति ज्ञेयं. इतिसृष्टिनिरूपणं. *विष्णुपुराणे अ. १. अ. २२.
- ११५ प्रळयप्रकरणं. प्रलयोनाम प्रकर्षेणलयःप्रलयइतिव्युत्पत्तया जगदि- नाशः. स च प्रळयश्चतुर्विधः नित्यः नैमित्तिकः प्राकृतिकः आत्यन्तिकश्चेति. तत्र प्रतिदिनमिह दृश्यमानमर्त्यप- शुपक्षिकीटादिप्राणिनां सुषुप्तिरूपोनित्यःप्रळयः. ब्रह्मणोनि येच चतुर्दशमनवः सप्तर्षयश्शकादयश्च स्वस्वानुरूपस्थानेषु विद्यमानाः भवेयुः चतुर्मुखदि- वसावसाने तेषां सर्वेषां सपरिवाराणां दिव्यानां मां- दीनां च विनाशो नैमित्तिकःप्रळयः अयमेव अवा- न्तरप्रळयइति दैनन्दिनप्रळयइतिच प्रोच्यते. तदानीं सर्वेपि समुद्रास्स्वयमेकीभूय त्रिलोकीमात्मसात्कुर्वन्ति. तत्र महाजलमध्ये स परमेष्ठिरूपःपरमात्मा शेषशायी- भूय योगनिद्रामातन्वानः सर्वैस्सत्यलोकलोकैस्संस्तूयते. ते च सुरासुरमानवादयःप्राणिनः सर्गान्तरबीजभूतस्व- स्वकर्मवासनाभिस्सह तदुदरमाविशन्ति. तथाच यथाहि लोके कश्चित्पुमान् प्रतिदिनं प्रत्यूष- मारभ्य तत्तत्कार्येषुप्रवर्तमानः शर्वरी सुखमधिशेतेतदा- नों तदीयज्ञानेच्छाक्रियात्मकास्सर्वेपिव्यापाराः तस्मि- न्नेव प्रलीनाभवन्ति तहदेव अहःकल्पकाले सकलं प्रकाश्य विरतव्यापारे परमात्मन्येव चेतनाचत- नात्मकं सकलं त्रैलोक्यं रात्रिकल्पकाले विलीयतइति ज्ञेयं. अत्रेदंबोध्यं- कालश्चकलाकाष्ठामुहूर्तयामाहोरात्रपक्षमासायनवत्सर- युगकल्पादिरूपः. तब मनुष्यमानेन मासः पितॄणां दिनं. अमावास्या वेषां मध्यान्हं. पूर्णिमा निशीधः मनुष्यमानन सं- वत्सरोदेवानां दिन, उत्तरायणं तेषामहः, दक्षिणायनं रात्रिः, तेनदेवमानन हादशसहस्रवर्षात्मकः काल: दैवंयुगमित्युच्यते. तदेव मनुष्याणां चतुर्युगं भवति. तत्र मनुष्यमानेन अष्टाविंशतिसहस्राधिकसप्तदशल- क्षवर्षपरिमितं कृतयुगं. षण्णवतिसहस्राधिकहादश- लक्षवर्षपरिमितं त्रेतायुगं. चतुष्पष्टिसहस्राधिकाष्टल- क्षवर्षपरिमितं हापरयुगं. हात्रिंशत्सहस्राधिकचतुर्लक्ष- वर्षपरिमितं कलियुगं. एषां चतुर्णामपि युगानां सह- स्त्रावृत्तौ हात्रिंशत्कोट्युत्तरचतुश्शतकोटिनृवर्षात्मकः का- चतुर्मुखस्यैकं दिनं भवति. तस्य रात्रिरपि तावती ज्ञेया. तदेवब्राह्मअहः मनुष्याणां सृष्टिकल्पइत्युच्यते.
सैवब्राह्मीरात्रिः क्षयकल्पइत्युच्यते. एवमेव क्रमेण तस्य चतुर्मुखस्य माससंवत्सरादिकमपि ज्ञेयं. इति ब्रह्मणश्शतायुःपरिमाणात्मके महाकल्परूपे मनुष्य- वर्षैः चतुरर्बुदाधिकैकखर्वोत्तरैकमहाखर्वोपस्कृतपद्मत्रया- त्मके (३१ १०४ ० ० ० ० ० ० ० ० ० ०) काले मूलप्रकृति- पर्यन्तसकलप्रपञ्चनाशः प्राकृतिक प्रळयः. सएव महाप्रळयइतिच प्रोच्यते. तदानी भगवान् चतुर्मुखः स्वसन्निहितैः परिवारैस्सह अप्राकृत परमपदमनुप्रवि- शति. सूत्रचतेहि भगवता बादरायणेन- श्यावदधिकारमवस्थितिराधिकारिकाणामिति. तथाच-येच साधवस्स्वकतसुकृतविशेषरूर्ध्वमूर्ध्व- मारूढाः संसारसागरतरणतरणौ भगवति न्यस्तात्मा- नो ब्रह्मलोकमधिवसन्ति तेपिमहाभाग्यशालिनः कार्या- सये तदध्यक्षेण ब्रह्मणा सह मुक्ता भवन्ति. स्मर्यतेहि- ब्रह्मणा सह ते सर्वे संप्राप्त प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदं॥ इति. ब्रह्मसूत्रे अ. ४. पा. ४. शांकरब्रह्मसूत्रमाप्ये अ. ४. पा. ४. उदाहृतेयं स्मृतिः.
११८ - इयमेव क्रममुक्तिरित्युच्यते. पठ्यतहि प्राकृतप्रळयप्रकारः- *जगत्प्रतिष्ठादेवर्षे पृथिव्यप्सुप्रलीयते । तेजस्याप प्रलीयन्ते तेजोवायौप्रलीयते ।। वायुश्चलीयतेव्योम्नि तच्चाव्यक्ते प्रलीयते । अव्यक्तंपुरुषेब्रह्मन् निष्कळे संप्रलीयते ॥ इति. गीयतेच- सर्वभूतानि कौन्तेय प्रकृति यान्ति मामिकां । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यह।। इति. तथाच-स परमेश्वरः पुनःपुनस्स्वीयांशक्ति एवमेव प्रसारयन्नन्तरयंश्च सृष्टिस्थितिलयव्यापारैर्निरन्तरं चि- क्रीडति चिरन्तनःपुमानिति ज्ञेयं. योगिनां तत्वसाक्षात्काराज्जायमानः परमात्मनिलयः आत्यन्तिकःप्रळयः. अयमात्यन्तिकप्रळयप्रकारः सर्वोपि निर्विकल्पकसमाधिनिरूपणावसरे व्यक्तीभविष्यति. इतिप्रळयनिरूपणं. इत्यादि ज्ञेयं इतिवेदान्तिनः. *विष्णुपुराणवचनं वे. परिभाषायामुदाहृतं. गीतायां अ. ९,
११९
एवं तत्तच्छास्त्राणि विचारयतःपुरुषस्य मननव्यु-
पत्तयां सत्यां-
अनन्तशास्त्रं बहु वेदितव्यं अल्पश्च कालोबहवोहि
विघ्नाः।
यत्सारभूतं तदुपासितव्यं हंसोयथा क्षीरमिवाम्बु-
मिश्रं ॥
इत्यालोच्य मुमुक्षुणा निदिध्यासनात्मकयोगाभ्यासे
मनः प्रवर्तयितव्यं.
योगप्रकरणं.
तत्त्रयोगश्चित्तवृत्तिनिरोधः. अभ्यासवैराग्याभ्यां तन्नि-
रोधः. तत्र विषयदोषदर्शनजेन वैराग्येण तदैमुख्यमुत्पा-
यते अभ्यासेन च दृढं स्थैर्यमुत्पद्यतइति आभ्यां भवति
चित्तवृत्तिनिरोधः.
गीयतेहि-
*असंशयं महाबाहो मनोदुर्निग्रहं चलं ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥इति.
*गीतायां अ. ५.
१२० तत्र तादृशस्य योगस्य सुलभसाधनोपायान्तरभूतानि यम- नियमासन प्राणायाम प्रत्याहार धारणाध्यानसमाधयइति अष्टावंगानि. तेष्वहिंसासस्यास्तेयब्रह्मचर्यापरिग्रहाः यमः. प्राणवियोगप्रयोजनव्यापारः हिंसा. सा च सर्वानर्थहतुः तदभावः अहिंसा सत्यं वाङ्मनसयोर्यथार्थत्वं. स्तेयं परस्वापहरणं तदभावो-स्तेयं. ब्रह्मचर्य स्मरविकार- निरोधः अपरिग्रहश्शरीरयात्रासाधनातिरिक्तभोगसाधना- नामस्वीकरणं. तएते-हिंसादयः पंच यमशब्दवाच्याः योगांगत्वेननिर्दिष्टाः शौचसन्तोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमः. तत्र शौचं दिविधं बाह्यमाभ्यन्तरंच. बाह्यं मृजलादिभिः कायप्रक्षाळनं. आभ्यन्तरं मैत्रयादिभिश्चित्तमलप्रक्षाळनं. तत्र पुण्यकृत्सुमैत्री दुःखिषुकरुणा सुखिषुमुदिता पापि- धूपेक्षाचेति चतस्रश्चित्तवृत्तयः चित्तन्नैर्मल्यापादकतया मनःप्रसादनानीत्युच्यन्ते. सन्तोषस्तुष्टिः तपश्शास्त्रान्तरोपदिष्टं कृच्छ्चान्द्राय. णादि. स्वाध्यायःप्रणवपूर्वाणां मन्त्राणां जपः. ईश्व- रप्रणिधानं तस्मिन्परमात्मनि सर्वक्रियाणां फलनिरपे- १२१ क्षतया समर्पणं. एषु तपस्स्वाध्यायेश्वरप्रणिधानानि क्रियायोगइति व्यवहियन्ते. एषां यमनियमानां प्रतिपक्षभूताः हिंसनासत्यस्तेया- दयोलोभक्रोधादिवशायत्किंचित्कृताः कारिताअनुमोदि- तावा दुःखाज्ञानाद्यनन्तफलदाभवेयुः इत्यालोच्य ते परि- हर्तव्याः. ततस्तत्परिपन्थ्यहिंसादयः प्ररूढास्सन्तः पर- मात्मनः ध्यानानुकूलं चित्तनैर्मल्यमुपजनयन्तीति ज्ञेयं. अपरंच- यत्सन्निधाने अहिनकुलादयः शाश्वतिकवैरादिराज- सतामसविकारान् विहाय सात्तिकमार्गे प्रवृत्ता भवेयुः तस्य अहिंसासिद्धितिति ज्ञेयं. आस्यते अनेनेत्यासनं पद्मासनवीरासनस्वस्तिका- सनभद्रासनादिकं. श्रूयतेहि तत्तदासनलक्षणं- *ऊर्वोरुपरि वै धत्ते सदा पादतले उभे । पद्मासनं भवेदेतत् सर्वव्याधिविषापहं ॥ एक चरणमन्यस्मिन्नूरावारोप्य निश्चलः । आस्तेयदिदमेनोन्नं वीरासनमुदीरितं ।। *त्रिशिखिबामणोपनिषदि अ. १. - १२२ स्वस्तिकं पादतलयोरुभयोरपि । पूर्वोत्तरे जानुनी हे रुत्वासनमुदीरितं ॥ पद्मासनं तु संस्थाप्य जानूऊरन्तरे करौ । निवेश्य भूमावातिष्ठेत् व्योमस्थः कुक्कुटासनः । कुक्कुटासनबन्धस्थोदो| सम्बध्यकन्धरां । शेते कूर्मवदुत्तान एतदुत्तानकूर्मकं ॥ अवष्टभ्य धरां सम्यक् तलाभ्यां हस्तयोईयोः । कूर्पकानाभिपाचेतु स्थापयित्वा मयूरवत् ॥ समुन्नतशिरःपादं मयूरासनमिष्यते । इत्यादि. तादृशमासनं यदा स्थिरं निष्कम्पं सुखमनुइजनीय च भवति तदा तत् योगांगतां भजते. तस्मिन्नासनजये सति इंदैश्शीतोष्णक्षुत्पिपासादिभिः योगी नाभिहन्यते इतिज्ञेयं. तत्तदासनजयपूर्वकः शास्त्रक्रमाच्छ्वासप्रश्वासयोगति. निरोधःप्राणायामः. स त्रिविधः रेचकः पूरकः कुम्भ- कश्चेति. तत्र नासाबिलात् षोडशमात्राकालिकश्श्वा- सत्यागोरेचकः. द्वात्रिंशन्मात्राकालिकश्श्वासग्रहः पूरकः. चतुष्पष्टिमात्राकालिकश्वासधारणात्मकः कुम्भकः. एषां- १२३ त्रयाणांआचरणं एकःप्राणायामः. तादृशाःप्राणायामाः कालेकाले दशवा षोडशवा शतंवा सहस्त्रंवा यथाशक्ति समभ्यस्ताश्चेत् चित्तस्य सात्तुिकांशस्य यदावरणं तत्प- रिहत्य एकत्रधारणास्थैर्यमापादयन्तीत्यादि ज्ञेयं. प्रत्याहारोनाम चक्षुरादीनीन्द्रियाणि रूपादिभ्योविष- येभ्यः प्रतिनिवर्त्य स्वरूपमात्रे अवस्थापनाभ्यासः तस्मि- न्सति चित्तस्वरूपमात्रानुकारीणीन्द्रियाणि मधुकरराज- मिव मधुमक्षिकाश्चित्तमनुवर्तमानानि भवन्ति. तत- रसपुमान्कमाज्जितेन्द्रियतामुपगच्छतीत्यादि ज्ञेयं. धारणानाम विषयान्तरपरिहारपूर्वकं नाभीचकादौ चित्तस्य स्थिरीकरणं. श्रूयतेहि तत्तन्नाभिचकादिकं- *मूलाधारत्रिकोणस्था सुषुम्ना हादशान्तगा। मूलार्धच्छिन्नवंशाभा ब्रह्मनाडीति सा स्मृता ।। इडाच पिंगळाचैव तस्याः पार्श्वद्दयस्थिते । विलम्धिन्यामनुस्यूते नासिकान्तमुपागते ।। इडायां सोमरूपेण वायुस्सोमेन गच्छति । पिंगळायान्तु सूर्यात्मा याति दक्षिणपार्श्वतः ॥ विलम्बिनीति या नाडी व्यक्ता नाश्तौ प्रतिष्ठिता- - *योगशिखोपनिषदि अ. ५.
१२४
तत्र नाड्यस्समुत्पन्नास्तिर्यगूधूमधोमुखाः ॥
तन्नाभिचक्रमित्युक्तं कुक्कुटाण्डमिवस्थितं ।
गान्धारी हस्तिजिह्वा च तस्मान्नेत्रदयं गते ।।
पूषा चालम्बुसा चैव श्रोत्रयमुपागते ।
शूरानाम महानाडी तस्माहूमध्यमाश्रिता ।
विश्वोदरीतु या नाडी सा भुङ्क्तेन्नं चतुर्विधं ।
सरस्वती तु या नाडी पीत्वा तु सलिलं क्षणात् ॥
क्षुतमुत्पादयेद्घाणे श्लेष्माणं सचिनोति च ।
कण्ठकूपोद्भवा नाडी शखिन्याख्या अधोमुखी॥
अन्नसारं समादाय मूर्ध्नि सञ्चिनुते सदा ।
नाभेरधोगतास्तिस्रोनाडयस्स्युरधोमुखाः ।।
मलं त्यजेत्कुहूर्नाडी मूत्रं मुञ्चति वारुणी ।
चित्राख्या सीविनी नाडी शुक्कमोचनकारिणी॥इति.
एवमपरंच तत्रैवश्रूयते-
*(कटेरधःप्रदेशस्थं) मूलाधारत्रिकोणकं ।
तदेतत्कामकूटाख्यं पीठं कामफलप्रदं ॥
स्वाधिष्ठानाढयंचक्र (जघनाधः) षडश्रकं ।
नाभिदेशस्थितं चक्रं दशारं मणिपूरकं ॥
*() एतच्चिन्हमध्यगतं आनुपूर्वीद्वयं विक्षिप्तं.
१२५ हादशारं महाचक्रं हृदयेचाप्यनाहतं । तदेतत्पूर्णगिर्याख्यं पीठं कमलसम्भव ।। कण्ठकूटे विशुद्धाख्यं यच्चक्रं षोडशाश्रकं । पीठं जालन्धरं नाम तिष्ठत्यत्र चतुर्मुख ॥ आज्ञानाम ध्रुवोर्मध्ये विदळं चक्रमुत्तमं । उढ्याणाख्यं महापीठं उपरिष्टात्प्रतिष्ठितं ।। स्थानान्येतानि देहेस्मिन शक्तिरूपं प्रकाशते । इति. एवं- *पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखं अधो निष्टया वितस्त्यान्तु नाभ्यामुपरितिष्ठति. ज्वालमालाकुलं भाति विश्वस्यायतनंमहत् सन्ततगंसिराभिस्तु लम्बत्या-को- शसन्निभं. तस्यान्ते सुपिरग्सूक्ष्म. तस्मिन्सर्वप्रति- ष्ठितं. तस्य मध्ये माहानग्निर्विश्वाचिर्विश्वतोमुखः. सोग- भुग्विभजन् तिष्ठन्नाहारमजरः कविः सन्तापयति स्वंदे- हमापादतलमस्तकं. तस्य मध्ये वह्निशिखा अणीयो- व्यिवस्थितः नीलतोयदमध्यस्था विद्युक्लेखेव भास्वरा नीवारशूकवत्तन्वी पीताभास्यात्तनूपमा. तस्याशि- खायामध्ये परमात्मा व्यवस्थितः. इत्यादिच. *नारायणपन्ने प्रश्नः ६. अनु ११. निष्टचा प्रीवाबन्धात.
:
१२६
अनेन योगकौशलेन महामहिमशालिभिर्योगिभिः
अधोमुखतया विद्यमानं हृदयपुंडरीकं रेचकप्राणायामे-
नोर्द्धमुखं कृत्वा तत्रवा तत्तन्नाभीचक्रादिषु वा भगवति
परमात्मनि यथाभिमतदेवतारूपध्यानगोचरीक्रियमाणे
सति तेच योगिनः परमानन्दरसमरन्दास्वादमिळन्मि-
ळिन्दायमानमानसाः भवन्तीत्यादि ज्ञेयं.
ध्यानन्तु शब्दादिभ्योविषयेभ्यइत्यादिना प्रतिपादि-
तपूर्वमेव.
गीयतेहि ध्यानाभ्यासप्रकार:-
+योगी युंजीत सततमात्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ।।
शुचौदेशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युछितं नातिनीचं चेलाजिनकुशोत्तरं ॥
तत्रैकायं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युंज्याद्योगमात्मविशुद्धये ॥
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
संप्रेक्ष्य नासिकायं स्वं दिशश्चानवलोकयन् ॥
प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः ।
मनस्संयम्य मच्चित्तोयुक्तआसीतमत्परः ।।
*अस्मिन्पुस्तके पुटं. ७५.
गीतावचनानि.
१२७
संकल्पप्रभवान् कामान्यक्त्वासर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ।।
शनैश्शनैरुपरमेहध्या धृतिगृहीतया ।
आत्मसस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥
यदाहि चेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसंकल्पसन्यासी योगारूढस्तदोच्यते ।।
उदासीनवदासीनोगुणैर्यो नविचाल्यते ।
गुणावर्तन्तइत्येव योवतिष्ठति नेगते ।।
समदुःखसुखस्स्वस्थस्समलोष्टाश्मकांचनः ।
तुल्यप्रियाप्रियोधीरस्तुल्यनिन्दात्मसंस्तुतिः ।।
मानावमानयोस्तुल्यस्तुल्योमित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतस्सउच्यते ॥
उद्धरेदात्मनात्मानमात्मानं नावसादयेत् ।
आत्मैवह्यात्मनोबन्धुरात्मैवरिपुरात्मनः ॥
जितात्मनःप्रशान्तस्य परमात्मा समाहितः। इत्यादि.
समाधिर्नामचित्तस्य ध्येयमात्रावस्थापनरूपोभावना-
विशेषः. सहिविधः सम्प्रज्ञातोसम्प्रज्ञातश्चेति. तावेव
सबीजयोगनि/जयोगाविति सालम्बयोगनिरालम्बयोगा-
विति समनस्कयोगामनस्कयोगाविति हठयोगराजयोगा-
विति सविकल्पकसमाधिनिर्विकल्पकसमाधीइति चो-
१२८ च्येते. तत्रदीर्घकालं ध्येयातिरिक्तसकलवृत्तिनिरोधस्सं- प्रज्ञातः. सचाष्टविधः सवितकोंनिर्वितर्कस्सविचारोनि- विचारस्सानन्दआनन्दस्सास्मितोस्मिताचेति. तत्र अभिमतदेवताविग्रहादिमहाभूतानि चक्षुरादी- न्द्रियाणिचेति स्थूलानि ध्येयीकृत्य तत्तत्कार्यकारणभा- ववाच्यवाचकभावाद्युल्लेखनपूर्वको भावनाविशेषस्सवि- तर्कः. तादृगुल्लेखनरहितश्चेन्निर्वितर्कः. पञ्चतन्मात्राण्यन्तःकरणंचेति सूक्ष्माणि ध्येयीकृत्य तत्तदीयप्रकाशास्तमयाद्यनुकूलदेशकालादिविचारपूर्वको- भावनाविशेषस्सविचारः. तादग्विचाररहितश्चेन्निर्वि- चारः. एवंपर्यन्तस्समाधिर्गाह्मसमापत्तिरित्युच्यते. रजस्तमोलेशानुविद्धेप्यन्तःकरणे सुखप्रकाशमयस- त्वांशमा विषयीकस्य तदुद्रेकस्फूर्तिपूर्वकोभावनाविशेष- स्सानन्दः. तादृशस्फूर्तिरहितश्वेदानन्दः. अस्मिन्नेव- समाधौ ये बद्धधृतयः तत्तान्तरं प्रकृतिपुरुषरूपं नपश्यन्ति ते विगतदेहाहंकारत्वात् विदेहशब्दवाच्याः. इयमेव ग्रह- णसमापत्तिरित्युच्यते. रजस्तमोलेशानभिभूतमन्तर्मुखमान्तरं शुद्धसत्त- मालम्बनीकृत्य तादृशसत्तांशावशेषस्फूर्तिपूर्वकोभावना- १२९ विशेषस्सास्मितः, तादृशस्फूर्तिरहितश्चेदस्मितेत्युच्यते. अस्मिन्नेव समाधौ ये कृतपरितोषाः परमात्मानं पुरुषं न पश्यन्ति तेषां चेतसि स्वकारणे लयमुपगते ते प्रकृति- लयाइत्युच्यन्ते. येतु परंपुरुषं ज्ञात्वाभावनायां प्रवर्तन्ते तेषामियं विवेकख्यातिगृहीतृसमापत्तिरितिच प्रोच्यते. एतेष्वष्टसुसमाधिषु पूर्वपूर्वस्य सिद्धौसत्यामेव उत्त- रोत्तरस्य सिद्धिसम्भवात्पूर्वपूर्वापेक्षया उत्तरोत्तरस्य उप- युपरिसोपानरूपता ज्ञेया. तथाच यथाहि प्राथमिकोधानुष्कः प्रथमं स्थूलंलक्ष्य विध्यति ततः क्रमात्सूक्ष्मं सूक्ष्मतरं सूक्ष्मतमंच तह- देवषसमाधिक्रमोपीति ज्ञेयं. अत्रेदं बोध्यं-- योगांगभूताःयमादयःपंच सम्प्रज्ञातस्य बहिरंगाणि. धारणाध्यानसमाधयःअन्तरंगाणि. एतत्त्रयं वक्ष्यमाणा- सम्प्रज्ञातस्य बहिरंग. तत्त्रयमेकविषयकंचेत्संयमइति व्यवहियते. तादृशस्य संयमस्य अभ्यासेन स्थिरी- करणात् परमाण्वादिसूक्ष्मवस्तुदर्शनशक्तिः दूरान्तर्हि- तवस्तुदर्शनशक्तिः परचित्तवेदनशक्तिः अन्तर्धानशक्तिः अनेकगजसिह्मादिबलसम्पादनशक्तिः आकाशगमन- R १३० शक्तिः परकायप्रवेशशक्तिः अणिमाद्यष्टसिद्धयश्चेति तास्तास्सिद्धयस्सम्पत्स्यन्ते. तास्सर्वाः परिगृणहतापि विघ्नरूपास्ताइति मत्वा पुष्करपलाशवन्निर्लिप्तेन योगिना व्याधिसंशयप्रमादालस्योपेक्षाचांचल्यादीनन्तरायान् अ- वधीर्य परवैराग्येण क्रमादसंप्रज्ञातसमाधिस्थिरीकरणे प्रयतितव्यं इति. ध्येयस्फूर्तिरहितोसम्प्रज्ञातः. स हिविधः भवहेतुकः उपायहेतुकश्चेति. तत्र भवोनाम अतस्मिन् तबुद्धिरूपा- ज्ञानविजृम्भितमेव. तन्मूलकः प्रथमः. तथाच-येचा- नात्मभूतेषु तत्तग्रिहादिमहाभूतेन्द्रियतन्मात्राहङ्कार- महदव्यक्तेषु आत्मभावनया विलीनचित्ताः तेषांचित्तं एतत्समाधिसिद्धावपि सुप्तचित्तवत्पुनरुत्थाय संस्कारव- शात्संसारे पतति. अतस्तेषां फलमनियमेव भवति. पठ्यतेहि- *दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्ण सहस्रं त्वाभिमानिकाः॥ बौद्धादशसहस्राणि तिष्ठन्ति विगतज्वराः । पूर्णं शतसहस्रन्तु तिष्ठन्त्यव्यक्तचिन्तकाः । पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते॥इति. *वायबीयवचनं मणिप्रभाख्ययोगसूत्रव्याख्यायां प्रथमपादे एको- नविंशसूचविवरणावसरे उदाहृतं.
१३१ मन्वन्तरंनाम ब्रह्मणोद्गश्चतुर्दशोभागः. निर्गुण- पुरुषप्राप्तिप्रकारस्तु अनुपदमेव प्रदर्शयिष्यते. एवंच यो. गाभासरूपत्वादमुं समाधि परित्यज्य मुमुक्षुभिरुपायहेतु- कसमाधिस्थिरीकरणे प्रयतितव्यं. तत्तदुपायैर्जायमानः परमप्रयोजनात्मककैवल्यकार- णभूतश्च यस्सहितीयस्समाधिः. तेचोपायाः श्रद्धासमु- त्साहवैराग्यभक्तिभावनादयएव ज्ञेयाः. इतियोगनिरूपणं. - मतप्रकरणं. एतावत्पर्यन्तं प्रतिपादितास्सर्वेपिविषयाः सर्वसाधा- रणाएव भवन्ति. तएते भक्तिभावनायुपायास्तावत् तत्र- तत्र भिन्नभिन्नप्रकारासंदृश्यन्ते. अतस्तत्तन्मतानु- सारक्रमात् अत्रैतेपन्थानो भवन्ति. तथाहि- (अद्वैतनिरूपणं). येचयेच-शमदमतितिक्षासमाधानश्रद्धासु बद्धादराः, अमानित्वादम्भित्वादिकमत्यजन्तः, यमनियमासनप्राणा- यामादीन् स्मृतिपथमारोपयन्तः, प्रणवैकपरायणाः. विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ! शुनि चैव श्वपाकेच पण्डितास्समदर्शिनः ।। इत्यर्थमनुसरन्तः, किंच- *गीतायां अ. ५.
१३२ नाविरतो दुश्चरितातू ना-शान्तो नासमाहितः। ना-शान्तमानसोवापि प्रज्ञानेननमाप्नुयात् ।। इत्यवगंतारः, +जाग्रत्स्वप्नसुषुप्तिषुस्फुटतरा यासंविदुज्जम्भते । या ब्रह्मादिपिपीलिकान्ततनुष प्रोता जगत्साक्षिणी॥ सैवाहं नचदृश्यवस्त्विति दृढाप्रज्ञैव यस्यास्तिचेत् । चण्डालोस्तु सतु हिजोस्तु गुरुरित्येषा मनीषा मम ।। इत्यवधारयन्तः, सवितर्कनिर्वितर्कादिभिः कस्मि- श्चिदक्षिमतेवस्तुनि सोहमित्येकतचाभ्यासमाचरन्तः, प- रमवैराग्यपदव्याः परांकोटिमारूढाः, यथाहि स्वप्नाव- स्थायामनुभूयमानाः सर्वेपिपदार्थाः सत्यवदेव प्रति- भान्ति जागरेसति तच्चसर्वं ऐन्द्रजालिकव्यापार- वदन्तर्हितीभवति तदा स्वात्मैवकेवलमवशिष्यते तह- देव व्यवहारावस्थायां सर्वजगत् सत्यमिवोपलभ्यते पर- मार्थतस्तु प्रत्यस्तमितभेदयत्सत्तामात्रमगोचरं तदेकमेव वस्त्ववभासते इत्यालोच्य दृष्टे श्रुते भुक्ते त्यक्ते अग्रे पश्चात् दिक्षु विदिक्षुचेति सर्वत्र वासुदेवस्सर्वमिति भगवन्तमेवभावयन्तः; किंच- *कठोपनिषदिवल्ली २. मनीषापञ्चके.
१३३ यथैकस्मिन्घटाकाशे रजोधूमादिभिर्युते । नसर्वे सम्प्रयुज्यन्ते तहज्जीवास्सुखादिभिः ।। घटादिषु प्रलीनेषु घटाकाशादयोयथा । आकाशे सम्प्रलीयन्ते तबज्जीवाइहात्मनि ।। इति विमर्शयन्तः, किंच- तत्तमसि अहंब्रह्मास्मि ब्रह्मविद्लवभवति मृत्यो- स्समृत्युमाप्नोति यइहनानेवपश्यतीत्यादि निश्चिन्वानाः, किंच- छिन्न-विद्यारूपपटेनैवच विश्वं । यत्राध्यस्तं जीवपरेशत्वमपीदं ॥ भानो नुष्वम्बुवदस्ताखिलभेदं । तंप्रत्यञ्चं दक्षिणवक्तं कलयामि ॥ इतिब्रह्मैक्यमनुसन्दधानाश्च भवन्ति-तेषामेवहि ब्रह्मनिष्ठानां सकलजगदाद्यकारणध्यानात्मकसन्ततावि- च्छिन्नप्रत्ययवशात् तदानी प्रकस्यादिधरण्यन्तस्सर्वोपिप्र- पञ्चः दुःखमयः जडः अनित्यश्च एतहिलक्षणोयरसच्चि- दानन्दरूपःपरमात्मा सोहमस्मीति काचिदपरोक्षानुभू- *गौडपादाचार्यकृतमाण्डूक्योपनिषत्कारिका. +शंकरभगवत्पादाचार्यकृत दक्षिणामूर्तिस्तवे.
१३४ तिर्जायते. सैव तत्तत्साधनवशात्समुत्पन्नतत्वज्ञान- मिति अलौकिकप्रत्यक्षमितिच प्रतिपाद्यते. विशेषत- स्तदाकारतल्लक्षणादिकन्तु तदानीं तैरेव ज्ञेयम्भवति. एतादृशतत्तसाक्षात्कारे समुत्पन्ने तदनुपदमेव अहं कर्ता कारयिता भोक्ता भोजयिता सुखी दुःखीत्याद्यस्मिता- रूपो-भिमानः प्रचण्डतरमार्ताण्डमण्डलप्रभाखण्डितत- माकाण्डइव निवर्तते. सोभिमानऐव हृदयग्रन्थिरित्यु- च्यते. किञ्च सर्वेचसंशयाः खरतरखरकिरणकिरण- स्पृष्टनीहारवन्निलीयन्ते. सञ्चितागामिप्रारब्धानीति- त्रिविधानि कर्माणि स्वयमतिदूरीभवन्ति. श्रूयतेहि- अभिद्यतेहृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे॥इति. गीयतेचकर्मनिवृत्तिः- +यथेधांसि समिद्धोग्निर्भस्मसात्कुरुतेर्जुन । ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा।।इति. एवमेवान्येपि रागद्वेषाभिनिवेशायविद्याग्रन्थिरूपा- सर्वेपि दोषाः गगनकमलिनीतटीसुमवाटीषु विश्रान्ति- सुखमनुभवन्ति. तथाच तदानीं तेषांमहात्मनां क्वचिद- *द्वितीयमुंडके ख. २. गीतायां अ. ४. - १३५ पिकार्ये प्रवृत्ति भवति. तदभावाजन्मकारणभूतधर्मा- धौं नभवतः. तदभावात्पुनर्जन्म नभजन्ते. परन्तु निर्दग्धनिखिलकर्मतया प्रारब्धकर्मपरिपाकरूपं देहमपि अंगीकर्तुमनंगीकर्तुमन्यथाकर्तुच प्रभवन्तः, वसिष्ठादिव- नारदादिवत्सनकादिवच्च दग्धपटन्यायेनविद्यमानान्तः- करणमात्रावशेषाश्च भूल्ला स्वयमविद्यया निर्मुच्यमानतया आध्यात्मिकादिसकलदुःखान्यतीत्य कृतार्थाइति अन्त- मुखाइति आत्मारामाइति जीवन्मुक्ताइतिच प्रोच्यमा- नास्सन्तः. सप्तमी ज्ञानभूमिकामधिरूढतया सुषुप्ताइव स्वरूपमात्रेणावतिष्ठन्ते. तदानींहि- *(नभूमिर्नतोयं नतेजोनवायु- नखं नेन्द्रियंवा न तेषां समूहः ॥ अनेकान्तिकत्वात्सुषुप्तैकसिद्ध- स्तदेको-वशिष्टशिवः केवलोहं ।। न वर्णा नवर्णाश्रमाचारधर्माः । न मे धारणाध्यानयोगादयोपि ॥ अनात्माश्रयाहंममाध्यासहाना- तदेको-वशिष्टशिवः केवलोहं ॥ - *शंकरभगवत्पादाचार्यकृतदशश्लोक्यां.
१३६
नसांख्यं नशैवं नसत्पांचरात्रं ।
नजैनं न मीमांसकादेर्मतं वा ।।
विशिष्टानुभूया विशुद्धात्मकत्वा-
तदेको-वशिष्टशिवः केवलोहं ।)
नशास्तानशास्त्रं नशिष्योनशिक्षा ।
नचत्वंनचाहं नचायंप्रपंचः॥
स्वरूपावबोधो विकल्पासहत्वा-
तदेको-वशिष्टशिवः केवलोहं ।।
प्रतिपाद्यन्तेहि सप्तज्ञानभूमिकाप्रकाराः-
*ज्ञानभूमिश्शुभेच्छाख्या प्रथमा समुदाहृता ।
विचारणाद्वितीयातु तृतीया तनुमानसा॥
सत्तापत्तिश्चतुर्थो स्यात् ततोसंसक्तिनामिका ।
पदार्थाभाविनीषष्ठी सप्तमीतुर्यगास्मृता ॥
स्थितः किंमूढएवास्मि प्रेक्षहं शास्त्रसज्जनैः ।
वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः ।
शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकं ।
सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥
*ज्ञानवासिष्ठे. उत्पत्तिप्रकरणे. सर्गः ११८.
१३७
विचारणाशुभेच्छाभ्यामिन्द्रियार्थेष्वसक्तता ।
या-त्र सा तनुताभावात् प्रोच्यते तनुमानसा ॥
भूमिकात्रितयाभ्यासात चित्तेर्थे विरतेर्वशात् ।
सत्यात्मनि स्थितिश्शुद्धे सत्तापत्तिरुदाहृता ॥
दशाचतुष्टयाभ्यासादसंसंगफलेनच ।
रूढसत्तचमत्कारात् प्रोक्का-संसक्तिनामिका ॥
भूमिकापंचकाभ्यासात् स्वात्मारामतयादृढं ।
आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥
परप्रयुक्तेन चिरंप्रयत्नेनार्थभावनात् ।
पदार्थाभावनानाम्नी षष्ठी संजायते गतिः॥
भूमिषट्कचिराभ्यासात् भेदस्यानुपलम्भतः ।
यत्स्वभावैकनिष्ठत्वं साज्ञेया तुर्यगा गतिः॥इति.
इयमेव निर्विकल्पकसमाधिसिद्धिरित्युच्यते. एवमेव
केषांचित्सिद्धानांयोगिनां सदावस्थानं भवतीति ज्ञेयं.
यदातैस्तादृशी वासनातनुः त्यक्तव्या भवति तदानीं
ते शुद्धचित्स्वरूपाः परमात्मरूपेपरमपदे प्रविश्य प्रदी-
पनिर्वाणवद्धटाकाशवञ्च निवृत्तिमुपगम्य शुद्धब्रह्मरूपा-
एव भवन्ति. तथाच यथोदकं शुद्धेशुद्धमासितं ताडगेव
भवति तेषां स्वरूपमिति ज्ञेयं.
S
१३८ श्रूयतेहि- *वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगायतयश्शु- दसत्ताः। ते ब्रह्मलोकेषु परान्वकाले परामृताः परिमुच्य- न्ति सर्वे ॥ +यदासर्व प्रमुच्यन्ते कामा येस्य हृदि श्रिताः। अथ मो-मृतोभवति अत्र ब्रह्म समश्नुते ॥ एवं- *स योहवै तत्परमब्रह्मवेद ब्रह्मैव भवति. भ्यथा नद्यस्स्यन्दमानास्समुद्रे अस्तंगच्छन्ति नामरूपे विहाय । तथाविहान्नामरूपादिमुक्तः परात्परंपुरुषमुपैति दिव्यं ॥ इत्यादिच. स्मयतेच- शिकुनीनामिवाकाशे जले वारिचरस्य च । पदं यथा नदृश्येत तथा ज्ञानविदां गतिः ॥इति. इयमेव परमार्थमुक्तिरित्युच्यते. *तृतीयमुंडके. ख. २. कठोपनिषदि वल्ली. ६. शांकरतृतीयमुंडकोपनिषद्भाष्ये खं. २. - प्रोच्यतेहि परमार्थतस्तुमुक्तस्सर्वेशत्वादिधर्मनिर्मुक्तं । विगळितसकलविकल्पं विमलंब्रह्मैव केवलं भवति॥ इति. संगृह्मप्रतिपाद्यतेच तदेतत्सर्व- तत्र या प्रकृतिः प्रोक्ता सा राजन् द्विविधा स्मृता। सवात्मिकातु मायास्यात् अविद्या गुणमिश्रिता । स्वाश्रयं यातु संरक्षेत्सामायेति निगद्यते । तस्यां यत्प्रतिबिम्ब स्यात् बिम्बभूतस्य चेशितुः॥ स ईश्वरस्समाख्यातस्स्वाश्रयज्ञानवान परः। सर्वज्ञस्सर्वकर्ताच सर्वानुग्रहकारकः ।। अविद्यायान्तु यत्किंचित्प्रतिबिम्ब नगाधिप । तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः ।। इयोरपीह संप्रोक्तं देहत्रयमविद्यया । देहत्रयाभिमानाच्च अभून्नामत्रयं पुनः॥ प्राज्ञस्तुकारणात्मास्यात्सूक्ष्मदेहीतु तैजसः। स्थूलदेहीतु विश्वाख्यस्त्रिविधः परिकीर्तितः॥ एवमीशोपि संप्रोक्तः ईशसूत्रविराय्पदैः। प्रथमोव्यष्टिरूपस्तु समष्टयात्मापरस्स्मृतः॥ सिद्धान्तकल्पतरौ. देवीभागवते. स्कं ७. अध्या. ३२-३३॥
सहिसर्वेश्वरस्साक्षाजीवानुग्रहकाम्यया ।
करोति विविधं विश्वं नानाभोगाश्रयं पुनः ॥
घठाकाशमहाकाशविभागः कल्पितोयथा ।
तथैव कल्पितोभेदो जीवात्मपरमात्मनोः ।
यथाजीवबहुत्वंच माययैव नतु स्वतः ।
तथेश्वरबहुत्वंच मायया नस्वभावतः ।।
रज्जुर्यथा सर्पमालाभेदैरेका विभातिहि ।
तथैवेशादिरूपेण भाम्यहं नात्रसंशयः ॥
व्यवहारदशा सेयं मायाविद्येति विश्रुता।
तत्तदृष्टयातु नास्त्येव तत्तुमेवास्ति केवलं ॥
अधिष्ठानातिरेकेण कल्पितं तन्नभासते ।
तस्मान्मत्सत्तयैवैतत्सत्तावन्नान्यथा भवेत् ॥
इत्यादिज्ञेयं.
(वैष्णवविशिष्टाद्वैतनिरूपणं)
अन्येच येचयेच-अमानित्वादम्भित्वादिकमत्यजन्तः,
यमनियमादियोगसाधनसमन्विताः, प्रणवैकपरायणाः,
निष्कामनया यथाशक्ति पंचमहायज्ञायनुष्ठानतत्पराः,
वासुदेवस्सर्वमिति सर्वत्र भगवन्तमनुसन्दधानाः,
१४१ श्रवणं कीर्तनं विष्णोस्स्मरणं पादसेवनं । अर्चनं वन्दनं दास्यं सख्य मात्मनिवेदनं ।। इतिनवविधा भक्तिमतिद्रढयन्तः, भगवदाज्ञानुज्ञाकैंकर्यादितत्पराः, भगवद्भागवताप- चारांश्च वर्जयन्तः, किंच-- (परमपदव्योमाकाशाप्रा- कृतलोकानन्दलोकवैकुंठायोध्यादिशब्दवाच्यायां भगव- विभूती वैकुंठनामनगरं. तत्रानन्दनामकोदिव्यालयः, तदन्तः रत्नमयानेकस्तम्भसहविराजिता महामणिमं- टपाख्या सभा. तस्यां सहस्रफणामणितेजोविराजितो- नन्तः तस्मिन् धर्मादिमयंदिव्यसिद्मासनं. तदुपरि चामर- हस्ताभिर्विमलादिभिस्सेव्यमानं अष्टदळात्मकंपनं. तदु- परि प्रकृष्टविज्ञानधामा शेषः. तदुपरि वाचःपरं मह- भूतं). तदेव सूक्ष्मचिदचिदिशिष्टं कारणं भवति. स्थूलचिदचिहिशिष्टं कार्य. स सकलव्यापकः नित्य- निरवद्य निरतिशयौज्वल्यसौन्दर्यसौकुमार्यादिगुणयुक्तदि- व्यमंगळविग्रहधरः श्रीमन्नारायणाख्यः परमात्मैव भक्ति प्रपत्तिमतां संसारसागरतरणतरणिर्भवति. इत्यनुस- न्दधानाः, परमवैराग्यपदव्याः परांकोटिमारूढाः, भग- वदनुग्रहवशात्परमभक्त्यैकपरायणाश्च भवन्ति–तेपि श्यतीन्द्रमतदीपिकापां.
-- महात्मानः, सकलजगदयतिरिक्तात्मस्वरूपसाक्षात्कारम- धिगम्य सकलबन्धविनिर्मुक्ताः, परमात्मसन्निधिमेत्य कर्तृत्वभोक्तत्वादिकं वर्जयित्वा तदितस्सकलभोगसम. न्विताः, परमपुरुषवदेव नित्यानन्दमनुभवन्ति. श्रूयतेहि- *यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुष- ब्रह्मयोनिं । तदा विहान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ इत्यादि. प्रतिपाद्यतेचमुक्तस्वरूपं- +मुकोनाम-उपायपरिग्रहानन्तरं नित्यनैमित्तिकभ- मवदाज्ञानुज्ञाकैकर्यरूपाणि कर्माणि स्वयंप्रयोजनतया कुर्वन्, भगवद्भागवताचार्यापचरांश्च वर्जयन्, देहावसाने सुरुतदुष्कृते मित्रामित्रयोनिक्षिपन्, वाङ्मनसीत्यादि- प्रकारेण हार्देपरमात्मनि विश्रम्य मुक्तिदारभूतसुषुम्ना- नाडौं प्रविश्य तया ब्रह्मरन्ध्रान्निष्कम्य हार्देनसाकं सूर्य- किरणद्वारा अग्निलोकं गत्वा दिनपूर्वपक्षोत्तरायणसंव- सरायभिमानदेवताभिः वायुनाच सत्कृतः, सूर्य- मण्डलं भित्वा रथचक्रहारा भद्दाराच सूर्यलोकं गत्वा अनन्तरं चन्द्रविद्युहरुणेन्द्रप्रजापतिभिर्मार्गदर्शिभिःआ- *सृनीयमुंडके ख. १. यतीन्द्रमतदीपिकायां. पथि - १४३ तिवाहिकैगजैस्सह सोपचारं तत्तक्कोकानतीय प्रकृतिवैकुं- ठसीमापरिच्छेदिकां विरजां तीर्खा सूक्ष्मशरीरं विहाय अमानवकरस्पर्शादप्राकृतदिब्यविग्रहयुक्तः, चतुर्भुजः, ब- झालंकारेणालंकृतः, इन्द्रप्रजापतिसंज्ञिकनगरपालाभ्यनु- ज्ञया श्रीवैकुंठदिव्यनगरं प्रविश्य पताकालतदीर्घप्रा- कारसहितगोपुरमतीत्य ऐरम्मदारख्यामृतसरः सोमसव- नाख्याश्वत्थंच दृष्टवाशतमालाहस्ताइत्यायुक्तपंचशवाप्स- रोगणैरुपचरितः, ब्रह्मगन्धादिभिरलंकृतः, तत्रत्यानन्त- गरुडविष्वक्सेनादीन्प्रणम्य तैर्बहुमतः, महामणिमंटपमा- साद्यपर्यङ्कसमीपे स्वाचार्यान्प्रणम्य पर्यकसमीपंग- त्वा तत्रधर्मादिपीठोपरिकमले अनन्तेविमलादिभिस्सेव्य- मानं श्रीभूनीळासमेतं शङ्खचक्रादिदिव्यायुधोपेतं जा- ज्वल्यमानकिरीटमकुटचूडावतंसमकरकुंडलौवेयकहार- केयूरकटकश्रीवत्सकौस्तुभमुक्तादामोदरबन्धनपीताम्ब- रकांचीगुणनूपुराद्यपरिमितदिव्यभूषणैर्भूषितं अपरिमि- तगुणोदारसागरं भगवन्तं दृष्ट्वा पादेन पर्यंकमारुह्य तेन स्वाङ्केस्थापितः, कोसीतिपृष्टः, ब्रह्मप्रकारोस्मी- त्युक्त्वा तेनकटाक्षितः, तदनुभवजनितहर्षप्रकर्षात् सर्वदे- शसर्वकालसर्वावस्थोचितसर्वकैङ्ककरतिः, आविर्भू- तगुणाष्टकः, उत्तरावधिरहितब्रह्मानुभववान् स मुक्तइत्यु- - - च्यते. तस्य नानात्वं सर्वलोकसंचरणं च सम्भवति. इति संगृह्मप्रतिपाद्यतेच तदेतत्सर्व- ईश्वरश्चिदचिच्चेति पदार्थत्रितयं हरिः । वासुदेवः परब्रह्म कल्याणगुणसंयुतः । भुवनानामुपादानं कर्ता जीवनियामकः ॥ वालायशतभागस्यशतधाकल्पितस्यच । भागोजीवस्सविज्ञेयः सचानन्त्यायकल्पते ।। वासुदेवस्स्वभक्तेषु वात्सल्यात्तत्तदीप्सितं । अधिकार्यानुगुण्येन प्रयच्छति फलं बहु ।। उपासकानुगुण्येन भजतेमूर्तिपंचकं । तदर्चाविनवव्यूहसुक्ष्मान्तर्यामिसंज्ञकं ॥ प्रतिमादिकमर्चास्यात् अवतारास्तु वैभवाः । संकर्षणो वासुदेवः प्रद्युम्न श्वानिरुद्धकः ।। व्यूहश्चतुर्विधोज्ञेयः सूक्ष्म सम्पूर्णसद्गुणं । तदेव वासुदेवाख्यं परब्रह्म निगयते ।। अन्तर्यामी जीवसंस्थो जीवप्रेरकईरितः पूर्वपूर्वोदितोपास्तिविशेषक्षीणकल्मषः ॥ *सर्वदर्शनसंग्रहीयरामानुजदर्शने. पांचरात्ररहस्यादिग्रन्थानु- वाद:
१४५ उत्तरोत्तरमूर्तीनामुपास्त्यधिकतोभवेत् । एवंझहरहश्श्रौतस्मार्तधर्मानुसारतः ।। उकोपासनया पुंसां वासुदेवः प्रसीदति । अविद्यां कर्मसंघातरूपां सद्योनिवर्तयेत् ॥ ततस्स्वाभाविकाः पुंसां ते संसारतिरोहिताः । आविर्भवन्ति कल्याणास्सर्वज्ञत्वादयोगुणाः ।। एवंगुणास्समानास्युः मुक्तानामीश्वरस्यच । सर्वकर्तृत्वमेवैकं तेभ्योदेवे विशिष्यते ॥ मुक्तास्तु शेषिणि ब्रह्मण्यशेषे शेषरूपिणः । सर्वानश्नुवतेकामान् सहतेन विपश्चिता ॥ इत्यादिज्ञेयं. (हैतनिरूपणं) अपरेच येचयेच शमदमादिसम्पन्नाः, अमानित्वाद- म्भित्वादिकमत्यजन्तः, यमनियमाद्यष्टांगयोगनिष्ठागरि- ष्ठाः, प्रणवैकपरायणाः, भारतीरमणमुख्यप्राणादितत्त- द्देवतान्तर्गतोयं विष्णुः परमः इतिभगवति न्यस्तात्मा- नः, तत्कथाश्रवणतन्नामकीर्तनतदाराधनादिभिः भगवद- नुग्रहमुपार्जयन्तः, जीवाणुत्वदासत्वपांचरात्रोपजीव्यत्व- प्रपञ्चभेदसत्यत्वादिकं वैष्णवविशिष्टाद्वैतिनइव स्वय- मप्यङ्गीकुर्वाणाः किञ्च- T बळित्यातहपुषेधायिदर्शितं देवस्य भर्गस्सहसो यतो- जनि. इतिश्रुत्यवगम्यमानेषु रूपेषु- *प्रथमस्तु हनूमात्स्याद्वितीयो भीमएवच । पूर्णप्रज्ञस्तृतीयश्च भगवत्कार्यसाधकः ॥ इति तत्तद्रूपानुसन्धानैः भगवडूतवन्दनसदाचार्यसंसे- वनादिभिश्च भगवति भक्तिप्रकर्षमतिद्रढयन्तः, दृढतरध्या- नयोगैः वासुदेवस्सर्वमिति सर्वत्र भगवन्तमेव भावय- न्तश्च भवन्ति, तेच परमभागवताः, सकलजगदतिरि- तमात्मतत्तुं साक्षात्कृत्य भगवदनुग्रहवशात् सकलब- न्धविनिर्मुक्ताः, भगवत्सान्निध्यमधिगम्य तत्तद्दिव्यभोग- समन्विताः, तत्तत्तारतम्यानुसारेणनित्यानन्दमनुभवन्ति. अत्रापि मुक्तस्वरूपं प्रायशः वैष्णव विशिष्टाहैतव- देवबोध्यं. श्रूयतेलानन्दतारतम्यप्रकारः- +सैषा-नन्दस्य मीमागंसाभवति. युवास्यात्साधुयुवा- ध्यायिकः आशिष्ठोद्रढिष्ठोबलिष्ठः. तस्येयंपृथिवीसर्वावि- त्तस्यपूर्णा स्यात् सएकोमानुषआनन्दः. (श्रोत्रियस्यचा- कामहतस्य) तेयेशतंमानुषाआनन्दाःसएकोमनुष्यगन्ध- *सर्वदर्शनसंग्रहीयपूर्णप्रज्ञदर्शने. तैत्तरीये अ. २. अनु. ९.
१४७ र्वाणामानन्दः, (श्रो०) तेयेशतंमनुष्यगंधर्वाणामानन्दाः सएकोदेवगंधर्वाणामानन्दः. (श्रो०) तेयेशतंदेवगंधर्वा- णामानंदाः सएकः पितृणांचिरलोकलोकानामानन्दः. (श्रो.) तेयेशतंपितृणांचिरलोकलोकानामानन्दाः सए- कआजानजानांदेवानामानन्दः. (श्रो०) तेयेशतमा- जानजानांदेवानामानन्दाः सएकःकर्मदेवानांदेवानामा- नन्दः. येकर्मणादेवानपियन्ति. (श्रो०) तेयेशतं कर्मदेवानां देवानामानन्दाः सएकोदेवानामानन्दः. (श्रो०) तेयेशतंदेवानामानन्दाः सएकइन्द्रस्यानन्दः. (श्रो०) तेयेशतमिन्द्रस्यानन्दाः सएकोबृहस्पतेरानन्दः. (श्रो०) तेयेशतंबृहस्पतेरानन्दाः सएकःप्रजापतेरानन्दः. (श्रो०) तेयेशतप्रजापतेरानन्दाः सएकोब्रह्मणआनन्दः. (श्रो०) सयश्चायपुरुषे यश्चासावादिये सएकः सयएवं. वित् अस्माल्लोकात्प्रेस एतमन्नमयमास्मानमुपसका- मति. एतंप्राणमयमात्मानमुपसंक्रामति. एमिनो- मयमात्मानमुपसंक्रामति. एतविज्ञानमयमात्मानमुप- संक्रामति. एतमानन्दमयमात्मानमुपसंक्रामति. तद- प्येषश्लोकोभवति- यतोवाचोनिवर्तन्ते अप्राप्यमनसासह । आनन्दंब्रह्मणोविद्वान् नबिभेतिकुतश्चन ॥ इति.
संगृह्मप्रतिपद्यतेच तदेतत्सर्व- *स्वतन्त्रमस्वतन्त्रंच दिविधं तत्तमिष्यते । स्वतन्त्रोभगवान विष्णुः निर्दोषोशेषसद्गुणः।। यथा पक्षीच सूत्रंच नानावृक्षरसा यथा ! यथा नद्यरसमुद्राश्च शुद्धोदलवणौ यथा ॥ चारापहायौ च यथा यथाऍविषयावपि । तथा जीवेश्वरी भिन्नौ सर्वदैव विलक्षणौ ॥ जीवस्य परमैक्यंच बुद्धिसारूप्यमेववा । एकस्थाननिवासोवा व्यक्तिस्थानमपेक्ष्यवा ।। नस्वरूपैकता तस्य मुक्तस्यापि निरूपतः । अतत्तमितिवा च्छेदस्तेनैक्यं सुनिरारुतं ॥ तथापि सूक्ष्मरूपत्वान्नजीवात्परमोहरिः । भेदेन मन्ददृष्टीनां दृश्यते प्रेरकोपिसन् । वैलक्षण्यं तयोात्वा मुच्यते बध्यते-न्यथा । ब्रह्मा शिवस्सुराद्याश्च शरीरक्षरणात् क्षराः ॥ लक्ष्मीरक्षरदेहत्वादक्षरा-तःपरोहरिः। स्वातन्त्रयशक्तिविज्ञानसुखाद्यैरखिलैर्गुणैः ॥ निस्सीमत्वेन तेसर्वे तदशास्सर्वदेवताः । विष्णुं सर्वगुणैःपूर्ण ज्ञात्वा संसारवर्जितः ॥ *सर्वदर्शनसंग्रहीयपूर्णप्रज्ञदर्शने.
१४९ निर्दुःखानन्द नित्यं तत्समीपे स मोदते। इति अन्यश्चसंग्रहश्लोकः-- *श्रीमन्मद्धमते हरिःपरतर स्सत्यंजग तत्ततो- भेदो जीवगणाहरेरनुचरानीचोच्चभावगताः ॥ मुक्तिनजसुखानुभूति रमलाभक्तिश्चतत्साधनं । रक्षादित्रितयंप्रमाण मखिलाम्नायैकवेद्योहारिः।। इत्यादिज्ञेयं. (शैवविशिष्टातिनिरूपणं) इतरेच येचयेच-अमानित्वादम्भित्वादिकमत्यजन्तः, शिवार्चनैकवतिनः, शिवकपरायणाः, शिवएव सकल- कारणं सर्व शिवमयंजगदित्याद्यनुसन्दधानाः, श्रवणं कीर्तनं शम्भोस्स्मरणं पादसेवनं । अर्चनं वन्दनं दास्यं सख्य मात्मनिवेदनं ।। इतिनवविधांभक्ति अतिद्रढयन्तः, किंच- शैवशास्त्रीयचर्यापादानुसारेण च निष्कामनयाश्रौत- स्मार्तनित्यनैमित्तिकादिकर्मानुष्ठाननिष्णाताः; योगपादा- नुसारेण यमनियमादियोगसरणिसंचरणजंघालाः, कि- यापादानुसारेण यथाविधि साङ्गशैवदीक्षाक्रमात् पर- *श्रीमदचासराजाचार्यप्रणीत: +शंकरसंहितायां उत्तरभागे.
१५० मात्मानं प्रसादयन्तः, विद्यापादानुसारेण पतिपशुपा. शमन्त्रमन्त्रेश्वरस्वरूपमाहात्म्यादितत्तदिषयज्ञानमुपार्ज- यन्तः, परमवैराग्यपदव्याः परांकोटिमारूढाश्चभवन्ति, तेचशिवभागवताः सकलसंसारपाशानतीय शिवसारू- प्यमेय परमपदे विहरमाणाः भवन्ति. प्रोच्यतेहिभगवता- *पाशबदोभवेज्जीवः पाशमुक्तस्सदाशिवः एवं- *मयाक्रीडन्ति तेसर्वे मुक्ता मनावमाश्रिताः । मत्साम्येन चिदानन्दपूर्णा मन्मूर्तिमूर्तयः ॥ इत्यादि. संगृह्मप्रतिपाद्यतेहि शैवमतसरणिरित्थं- पतिः पशुः पाशश्चेति त्रिविधःपदार्थः. तत्र पति- नाम सर्वज्ञत्वसर्वकर्तृत्वादिसकलशनि युक्तः परमेश्वरः, सचेश्वरस्स्वभक्तानुजिघृक्षया कर्ममलायसंस्पृष्टाप्राकृता- निरूपितदिव्यमंगळविग्रहविशिष्टस्सन् सद्योजातवामदे- वाघोरतत्पुरुषेशानाइतिपंचधा भूला क्रमात् सृष्टिस्थि- तिलयतिरोभावानुग्रहात्मककृत्यपंचकं कलयति. पशु म क्षेत्रज्ञादिपदवेदनीयो जीवात्मा. सचाणु- रूपोभवति. यथहिचन्दनबिन्दुः शरीरैकदेशस्थोपि स- *शंकरसंहितायां उत्तरभागे.
१५१ तिनुमालादयति एवमयमात्मा स्वयमणुरूपेण दहर- कुहरान्तर्गतोपि ज्ञानशक्त्या सर्व व्याप्नोति. ताडशा- चाणवोबहवोभवन्ति. तत्तत्स्वरूपादिकमनुपदमेव प्र. दर्शयिष्यते. पाशोनाम साक्षात्परशिवत्वप्राप्तिप्रतिबन्धकपदार्थ- रूपः. सच पाशश्चतुर्विधः रोधशक्तिमलमायाकर्मा- णीति. तत्र रोधशक्तिर्नाम सर्वजीवानुग्राहिणीशिव- शक्तिः. मलोनाम जीवस्य स्वरूपतिरोधानेन कर्तृत्व- भोक्तृत्वादिसकलसंसारबन्धाननुभावयित्री आवरणशक्तिः इयमेवोपनिषत्सु अविद्येत्युच्यते. तथाच इयंशक्तिः ता- म्राश्रितकालिकादोषवत् जीवाश्रितस्वाभाविकाशुद्धिदो- षरूपतिज्ञेयं. मायानाम मात्यस्यांसकलंजगदिति स- कलजगत्प्रकाशास्तमयायनुकूलमूलकारणरूपा जडत्वप- रिणामित्वादिमती शैवीशक्तिः. कर्मनाम क्रियतेफला- थिभिरिति सदसत्प्रवृत्तिजन्यानादिधर्माधर्मरूपं. तथाच येच विज्ञानयोगसंन्यास गेनवा सकल- कर्मक्षयेसति कस्यापिभोगबन्धस्याभावात् स्वाभाविक- मलैकावशेषाः समाप्नेतरसकलकलुषाश्च भवन्ति, तान्पु- रुषधौरेयान् अधिकारयोग्याननुगृह्म परमेश्वरः अनन्ता- दिवियेश्वराष्टकपदं प्रापयति.
१५२ निर्दिश्यन्तेष्टविधाश्च ते विद्येश्वराः- *अनन्तश्चैव सूक्ष्मश्च तथैवचशिवोत्तमः । एकनेत्र स्तथैवैकरुद्रश्चापि त्रिमूर्तिकः ।। श्रीकंठश्च शिखंडीच प्रोत्साविद्येश्वराइमे । इति. येषान्तु सकलकर्मक्षयेपि कालुष्यमसमाप्तं ताननु- गृह्य परमेश्वरः सप्तकोटिमहामन्त्रात्मकानातनोति. प्रतिपाद्यतेहि- आद्याननुगृह्म शिवो विद्येशत्वे नियोजयति । मन्त्रांश्चकरोत्यपरान् तेचोकाः कोटयस्सप्त ॥ इति. वएवे समाप्तकलुषा असमाप्तकलुषाश्चेति हिविधा- अपि विज्ञानाकलाइतिज्ञेयाः- येषांच पशूनां स्वकृतसुकृतविशेषैः योगेन दीक्षयाच कर्ममलात्मकपाशयं यदा पक्कं भवति तदानीं ते सक- लसंसारबन्धविनिर्मुक्तासन्तः शिवपदप्राप्तिरूपां मुक्ति मुपयान्ति. येषां तादृशकर्ममलात्मकपाशदयं यावदपक्क- मेव वर्तते तावत्पर्यन्तमपि ते जनाः मोक्षपर्यन्तावस्था- यिसूक्ष्मदेहात्मकपुर्यष्टकयुतास्सन्तः स्वस्वकर्मानुरूपं स्थावरतिपग्देवमानवादिजन्मप्राप्नुवानाः खिद्यन्ते. तएते *एतत्प्रमाणादि शैवमतविषयाः सर्वदर्शनसंग्रहीयशैवदर्शनासं- गृहीताः.
१५३ पक्कपाशहयाअपक्वपाशहयाश्चेति हिविधाअपि प्रलया. कलाइतिज्ञेयाः- येषामणूनां यथाविधिशिवदीक्षादिवशात् मलमाया- कर्मात्मकपाशत्रयमपि यदा पक्कं भवति तदानों पर- मेश्वरस्ताननुगृह्य मंडल्यायष्टादशमन्वेश्वरपदं वितरति, प्रदर्श्यन्तेहि तेमन्त्रेश्वराः- तत्राष्टौमण्डलिनः क्रोधाद्या स्तत्समाश्च वीरेशः । श्रीकण्ठ शतरुद्रा शतमित्यष्टादशाभ्यधिकं ।। इति. येषान्तु तादृशमलमायाकत्मिकपाशवयं अपक्कमे- ववर्तते ताननुगृह्य परमेश्वरः तत्तत्कर्मानुरूपान् दिव्यान् भोगान् अनुभावयति. प्रोच्यतेहि- बद्धानशेषानपरान् विनियुक्त भोगभुक्तये पुंसः । तत्कर्मणामनुगमादित्येवं कीर्तिताःपशवः ॥ इति. तएते पक्कपाशवयाअपक्कपाशत्रयाश्चेति द्विविधाअ- पि सकलाइति ज्ञेयाः, इत्यादिशेयं. (शुद्धाद्वैतनिरूपणं). एकेच येचयेच अमानित्वादम्भित्वादिकमस्यजन्तः, यमनियमादिसाधनसमन्विताः, श्रीकृष्णःपरमात्मैव स- V १५४ कलजगदायकारणं निमित्तकारणंचेति निश्चिन्वानाः, किञ्च- एतेचांशकलाः पुसः कृष्णस्तु भगवान्स्वयं । इत्यादिवचनानुसारेण श्रीकृष्णस्यांशित्वमवधार्य गो- पीभिः (स्वरूपदर्शनमात्रार्थं प्रार्थितेनभगवता यहृन्दा- वनादि दर्शितं तेन बृन्दावनादियुक्तसामग्रीविशिष्टमेव सदा भगवद्रूपं) इत्यनुसन्दधानाः, श्रीमन्मधुराधीश्वर- चरणसरसिजमधुकरायमाणमानसाः, तत्कथाश्रवणत- नामकीर्तनतदाराधनादिभिः दृढतरभक्तिमार्गप्रवर्धनैक- प्रवीणाः, श्रीकृष्णश्शरणंममेत्यावर्तयन्तः, कर्मणा मनसा वाचा श्रीकृष्णंहि भजन्ति ये। सम्प्रदायिगुरोर्वाक्या तेविष्णोर्नकलेनराः॥ यस्य देवे पराभक्तिः यथादेवे तथागुरौ । तस्यैते कथितार्थाः प्रकाशन्ते महात्मनः ॥ इत्यादिवचनानुसारेण श्रीमहल्लभाचार्यवर्यवंशमौक्ति- कायमानेषु स्वगुरुषु भगवतिपरमात्मनीव परमभक्तिभा- वेन धनंमनस्तनूमपि समर्पयन्तः, प्राभंजने. उत्तरभागे. पुट. १९१. ११९३. प्राभंजने पूर्वभागे. पु. २०. स्कान्दवचनं. श्वेताश्वतरोपनिषदि.अ.६.
१५५ %3D *नज्ञानं नचवैराग्यं प्रायश्श्रेयो भवेदिह । भक्त्याहमेकया ग्रासः ब्रिह्मभूतःप्रसन्नात्मा नशोचति नकांक्षति । समस्सर्वेषुभूतेषु मद्भक्तिं लभते परां ॥ इत्यादिवचननिचयमुख्यत्वानुसारेण तत्वज्ञानवैरा- ग्याभ्यां मुमुक्षुर्वीतशोकीभूय ब्रह्मभावमाप्नोति ततः पराभक्तिर्जायत ततः पुरुषोत्तमे प्रवेशरूपामुक्तिर्भवति अतस्तत्तुज्ञानस्यापि परंपरयैव मोक्षकारणत्वमिति मन्य- मानाः, कामाद्गोप्यो भयात्कंसो देषाच्चैयादयोनृपाः । सम्बन्धादृष्णय स्स्नेहायूयं भक्त्यावयं नृप ।। इत्यादिवचनानुसारेण भगवहिषयकसकलभावाना- मपि मोक्षसाधकत्वमवगम्य पुष्टिमार्गेणच तत्तगोगान- नुभवन्तः, वासुदेवस्सर्वमिति सर्वत्र श्रीकृष्णमेव भाव- यन्तश्च भवन्ति, तेच राजयोगिनः, सकलसांसारिक- दुःखविनिर्मुच्यमानतया ब्रह्मभूतास्सन्तः, दिव्यगोवर्धन- परिसरपरिशोभितं दिव्ययमुनाझरीपरीतं दिव्यगोबृन्द- *प्राभंजने. पूर्वभागे. पु. १२८. +गीतायां. अ. १८, युधिष्ठिरंपतिनारदवचनं शिशुपालवधे अन्तिमसर्गे अन्तिम- श्लोकव्याख्याने लिखितं. A - १५६ वृन्दावनादिसमयसामग्रीसमुद्भासितं गोकुलवैकुंठादि- पदवेदनीयंच भगवत्स्वरूपभूतं अप्राकृतं परमपदमुपेत्य श्रीकृष्णमनुप्रविश्य परममुक्ताःगोप्यइव तेनपुरुषोत्तमेन सह विहरमाणाश्चभूत्वा परमपुरुषवदेव नित्यानन्दम- नुभवन्ति. इत्यादि ज्ञेयं. प्रतिपाद्यतेहि मुक्तस्वरूप- *(सर्वात्मभावानन्तरं ब्रह्मस्वरूपप्राप्तिः. सच गो- पीनामेव मुख्यः. तासां भगवत्प्रेम्णा सर्वस्मिन् भगवत. एव भानात्. ततश्च सोश्नुतेसर्वानकामान्सहब्रह्मणा- विपश्चितेतिश्रुतिप्रतिपादितः पुरुषोत्तमनश्रीकृष्णेनसह सर्वकामभोगइति.) अन्यत्सर्व प्रायशः वैष्णवविशिष्टादतवदेवबोध्यं. एवमन्येचकेचित् भक्त्यैकप्रधानाः वैष्णवविशिष्टाद्वैत- भेदाः शैवविशिष्टाद्वैतभेदाः दैतभेदाश्च ज्ञेयाः तथाच अहैतं विशिष्टादैतं दैतंचेति त्रिविधमेवमतं प्राधान्येन दरीदृश्यते अद्वैतंनाम योर्भावः हिता हितैवतं नविद्यतेतं सजातीयोविजातीयस्स्वगतोवा भेदः यस्य तददैतं शुद्धबु- प्राभंजने उत्तरभागे पुट. १९२.
१५७ दमुक्तस्वरूपंब्रह्मेत्यर्थः. श्रूयतेहि- एकमेवाद्वितीयमि- स्यादि. तथाच यथाहि वृक्षस्य सजातीयंवृक्षान्तरम- स्ति विजातीयंघटपटादिकमस्ति स्वात्मकंपनशाखादि- कमस्ति तथा सकलजगदात्मकस्यब्रह्मणः सजातीयंवि- जातीयस्वात्मकंवा द्वितीयमतिरिक्तवस्तु नास्तीतिज्ञेयं. तादृशमतंब्रह्मतावत् सर्वत्र सर्वदा परिपूर्णत्वेनविद्यमा- नत्वात् अद्वितीयत्वाच देशकालवस्त्वपरिच्छिन्नमिति त्रिविधपरिच्छेदशून्यमिति ध्वंसात्यन्ताभावान्योन्याना- वात्मकाभावजयरहितमितिच प्रतिपावते. तादृशब- ह्मविषयकंमतमपि अतिमिति व्यपदिश्यते. विशिष्टाईतनाम विशिष्टयोरहैतं विशिष्टाद्वैतमितिव्यु- त्पत्तचा सूक्ष्मचिदचिहिशिष्टस्य स्थूलचिदचिहिशिष्टस्य. च वासुदेवस्य एकत्वेनाभेदः. चिदचितौनाम चेतना- चेतनात्मकौशेयौ. तथाच चेतनाचेतनात्मकस्य सर्वस्या- पिप्रपंचस्य भगवच्छरीरभूततया सृष्टेःपूर्व भगवान्धासु- देवः सूक्ष्मचिदचिहिशिष्टोभवति सृष्टौपुनः स्थूलचि- दचिहिशिष्टोभवति अतः बाल्यतनुविशिष्टस्य यौवनश- रीरविशिष्टस्यच चैत्रस्य एकत्वेन यथाअभेदः तददि- तिज्ञेयं. शैवविशिष्टाद्वैतरीतिरपि प्रायशःएवमेवबोध्या. *छान्दोग्ये प्र.६.ख. २.
१५८ इतनाम योर्भावः द्विता हितैववैतमितिव्युत्पत्तचा जीवेश्वरयोः जडेश्वरयोः जडजीवयोः तत्तज्जीवानां तत्त- ज्जडानाच परस्परभेदः. प्रोच्यतेहि- *जीवेश्वरभिदाचैव जडेश्वरभिदातथा । जीवभेदोमिथश्चैव जडजीवभिदातथा ॥ मिथश्चजडझेदोयः प्रपंचोभेदपंचकः । इति. (तत्तन्मतभेदकारणप्रदर्शन). अत्रेदंबोध्यं- एतेकिल दृश्यमानाः सर्वेपि ब्राह्मणाः श्रौतस्मातक- मानुष्ठानशीलतया एकविधाएव. तेषुयेच शिवभक्ताः ते- तावत् शैवाइत्युच्यन्ते. येचविष्णोभक्ताः तेतावत् वैष्ण- वाइत्यभिधीयन्ते. येचउभयदेवतासाम्यभाविनः तेता- वत् तथाउभयथापि विशेषव्यवहारान् नप्राप्नुवन्ति. एषांसर्वेषामपि श्रुतिस्मृतिपुराणादिग्रन्थाः एकविधाएव- भवन्ति. तत्तुज्ञानोपयोगीभूतगीतोपनिषद्ब्रह्मसूत्रात्म कप्रस्थानत्रयमपि एकविधमेव वर्तते. एवंस्थिते- एकशतोनहिसहस्रवर्षेभ्यःपूर्वं श्रीमच्छंकरभगवत्पा- दाचार्याः श्रुतिस्मृतिपुराणाद्यर्थान् संगृह्म ब्रह्मसूत्रादि- *महाभारततात्पर्यनिर्णये. अ. १. - १५९ भाष्याणिविधाय, श्रीमत्कुमारिलाख्यभट्टपादाचायः कब- ळितावशिष्टान्यंकुरितानिच श्रुतिविरुद्धसंप्रदायानुसारी- णि नास्तिकपाषंडादीनां मतानि खंडयित्वा शैवविशि- ष्टाद्वैतसंप्रदायादिप्रवर्तकान् नीलकण्ठभाष्याचार्यादीनपि निर्जित्य तदानीन्तनान् सर्वानपि अद्वैतसिद्धान्तबद्धाद- रानकार्युः. अष्टशतवर्षेभ्यःपूर्व श्रीमद्रामानुजाचार्यवर्यास्तावत् शंकरभगवत्पादाचार्यप्रदर्शितार्थापेक्षया विभिन्नेनप्रका- रेण श्रुतिस्मृतिपुराणादीनां अर्थान् प्रकाश्य पांचरात्रा- गमाद्यांश्च संगृह्य ब्रह्मसूत्रादिभाष्याणि विधाय अवशि- ष्टान्यंकूरितानिच बौद्धजैनादिमतानि खंडयित्वा कांश्चि- जनान् वैष्णवविशिष्टाद्वैतसिद्धान्तबद्धादरानकुर्वन्. सप्तशतवर्षेभ्यःपूर्व श्रीमदानन्दतीर्थभगवत्पादाचार्याः तदुभयप्रकाशितार्थापेक्षया अपरेणप्रकारेण श्रुतिस्मृति- पुराणादीनां अर्थान् प्रकाश्य पांचरात्रागमायर्थांश्च संगृ- ब्रह्मसूत्रादिभाष्याणि विधाय कांश्चिजनान् दैतसिद्धा- न्तबहादरानतानिषुः. चतुश्शतवर्षेभ्यःपूर्वं श्रीमहल्लभाचार्याः श्रुतिस्मृत्या- दीनामितरेणप्रकारेण अर्थानप्रकाश्यब्रह्मसूत्रादिभाष्याणि विधाय कांश्चिजनान् शुद्धाद्वैतसिद्धान्तबद्धादरानतानिषुः शुद्धाहेतनाम शुद्धयोः अविद्योपाधिरहितजीवस्य मायो- पाधिरहित श्रीकृष्णरूपब्रह्मणश्च अदैतमत्यन्तसादृश्यरू- पाभेदः. एवमन्येचकेचित्केचिद्भाष्यकाराः तत्तद्भाष्याणि त- तन्मतानिच सन्ति संभवेयुश्च. तत्तत्कालेषु अन्येच येचयेच क्षत्रियादयस्त्रयोवर्णाः तेपि पूर्वोक्तानि तत्तन्मतान्येव यथाभिलषितं अनुसनुः तथाच तत्तद्भक्तिभावनायुपायानुसारतः तत्तद्भाष्य- कारभाषितभाष्ययन्त्रनियन्त्रितोयं तत्तन्मतभेदप्रकारः. इत्यादिज्ञेयं. (फलितार्थकथन). तथाच येचयेच भगवन्तं परमात्मानं यथायथोपासते तैस्तैः स्वस्वभावनाबलात् तादृशंतादृशं फलमवाप्यते. तत्रापि येचयेच कष्टतरैरुपासनैः भगवत्स्वरूपमभिजा- नन्ति तेतेजनाः स्वयमनिर्वचनीयं पदमुपेत्य न पुनराव- र्तन्ते. येचपुनः तादृशकष्टतरोपासनायामसमर्थास्सन्तः प्रकारान्तरेण भगवन्तमाराधयन्ति तेपिजनाः तत्तत्सुक- तफलमनुभवन्तएक्सन्तः भगवदनुग्रहवशात् कालक्रमेण परांसिद्धिमुपयास्यन्त्येव. ..
१६१
-
गीयतेहि तदेतत्सर्वमपिभगवता-
*ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये सांख्येनयोगेन कर्मयोगेन चापरे ॥
+अन्येत्वेवमजानन्तश्श्रुत्वान्येभ्यउपासते ।
एकत्वेन पृथक्वेन बहुधा विश्वतोमुखं ॥
येत्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
तेप्राप्नुवन्ति मामेव सर्वभूतहिते रताः ।।
क्लेशोधिकतरस्तेषामव्यक्तासक्तचतसां ।
अव्यक्ताहि गतिर्दुःख देहवद्भिरवाप्यते ।।
येतु सर्वाणिकर्माणि मयिसंन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि नचिरात्पार्थ मय्यावेशितचेतसां ।।
मय्येव मनआधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अतऊर्ध्व नसंशयः ॥
इयोयो यांयां तर्नु भक्तः श्रद्धयार्चितुमिच्छति ।
तस्यतस्याचलांश्रद्धांतामेव विदधाम्यहं ॥
पामांच यो व्यभिचारेण भक्तियोगेन सेवते ।
स गुणान् समतीत्यैतान ब्रह्मभूयाय कल्पते ॥
*गीतायां अ. १३.
1९.
७.
*१२.
T१४.
w
*अभ्यासयोगयुक्तेन चेतसा-नन्यगामिना ।
परमपुरुषंदिव्यं याति पार्थानुचिन्तयन् ॥
+नहि कल्याणकृत्कश्चिदुर्गतिं तात गच्छति ।
प्राप्यपुण्यकतानुलोका नुषित्वा शाश्वतीस्समाः॥
शुचीनां श्रीमतां गेहे योगभ्रष्टो-भिजायते ।
पूर्वाभ्यासेन तेनैव ह्रियते लवशोपि सन् ॥
अनेकजन्मसंसिद्धस्ततोयाति परांगतिं । इति.
तस्मात् योयोजनःभगवदर्पितचित्तः तदाराधनतत्परः
तदाज्ञामनुपालयन् अधर्मान्विमुचन स्वधर्मानमुंचन्
सन्मार्गकप्रवृत्तोभवति स संसारसागरनिमग्नोपि क्रमेण
भगवदनुग्रहपात्रीभूय कृतकृत्योभवति कृतकृत्योभवतीति
सर्वमनवयं.
रथीतर सगोत्रस्य राम नाम कवे वचः।
सम्मोदयतुचेतांसिसाधुवासाधुवा सतां॥
इतिनिवृत्तिधर्मनिरूपणं.
समाप्तोयंग्रन्थः.
ओतत्सत्.
गीतायां * अ. ८.
१६
अनुमोदपत्रिकाः. आर्यधर्मप्रकाशिकायां श्रुतिस्मृतीतिहासपुराणेभ्यो- +नार्षनाटकचंपूप्रभृतिसंदर्भभ्यश्च प्रमाणमुद्रया निदर्श- नमुद्रयोपदेशमुद्रयाच विषयानादाय बालोपलालनाय समग्राहिषत कठिनाअप्यास्सारल्येन. आस्तिकद- र्शनानांनास्तिकदर्शनानामपि चेहास्ति सर्वदर्शनसंग्रहरी- त्या परमसंकुचितार्थनिरूपण: यदल्पज्ञानामपि कथं- चिदर्थावगतिसंभवः, आधुनिकानांवैदेशिकविद्यानुरा- गिणां देशान्तरीणोपदेशशैलीनिबद्धमहासमादराणां स- वत्रापि लोकदृष्टरीयैवार्थतत्तुं जिज्ञासमानानाम् अर्वाग्दृ- शा मवाङ्मनसगोचरेषु शास्त्रकसमधिगम्येषु स्वर्गाप- वर्गादृष्टदेवताविग्रहालौकिकसामर्थ्याद्यर्थेषु व्यामोहेना- विश्वासवतां चैतद्देशीयबालानां संग्रहायच अलौकि- काअप्यर्थाः लौकिकहितहेतुतया प्रादर्शिषतान. पंच- षस्थलेषुपर मिर्यबालसंग्रहशैली " नपाखण्डीनहैतुकः " इतिमनूक्तिमनुमन्यमानेभ्यो धर्म सुगूढवम॑ना गोपाय- ड्यो नातीवरोचते. नहिबाल्येसर्वधर्माणां लौकिक- हितहेतुतामवधार्य पुनरनुष्ठानादर विश्वमतिवैश्वरूप्येण एकेन लौकिकहितहेतुतयोपदिष्टानामप्यर्थानां परेण पर- मानर्थनिदानतयावगतानां तेषां दूरतएव परिहर्तव्यत्वा- २ पातात्. तदत्रोपदेष्टव्यानामर्थाना मार्षरीत्यैवोपदेशः श्रेयसेस्यादल्पमेधसां नान्यथेति. तान्यवश्यं शोध्या- न्येवस्थलानीति. यथादृष्यातू (४०पुं०) विनश्यरन (४७पुं०) इत्यादावापाततोदृष्टे पदाशुद्धिः. तत्तत्कर्मव- ज्जन्यस्तत्तत्कर्मश्चेित्यत्र तत्तजातिमज्जन्यइति पूरणीय- मित्यादि शुद्धिपत्रेहितीयसंस्करणेवा परिवर्तनीयमिति. काशिकराजकीयसंस्कृतपाठशालायां कैलासभट्टाचार्यः. राममिश्रशास्त्री. गंगाधरशास्त्री. 3rd September 1889. A. VENIS, M. A., (O.con), Principal, Sanskrit College, Banares. " Trae copy " HINDU THEOLOGICAL HIGH SCHOOL, MADRAS, 18th February 1889. To M. Ráma Sastri, Mysore. DEAR SIR, I have carefully read through your (manuscript) book entitled “ Aryádharmaprakásika," and bave great pleasure to inform you that it is based on a very good plan, is quite unsectarian, and is sure to be very useful, as a text-book of Aryan morality and religion, for Hindu Schools and Colleges. It is the result of deep study of and careful researches into, our ancient and sacred books. I congratulate you and those who have encouraged you on the production of such a nice little book, I am ready to introduce it as a text-book in one of the higher classes of the Hindu Theological High School Yours sincerely, R. SIVASANKARA PANDIYAJI, B. A., F. T. S.
३ आर्यधर्मप्रकाशाख्य ग्रंथोयं रामशर्मणा । विदुषा सर्वसिद्धांतसारसंग्रहरूपतः बालानामुपकाराय विदुषांतोषणायच । श्रुतिस्मृत्यादिमानाना मविरोधेन निर्मितः॥२॥ आमूलाग्र मयंसम्य ड्मया दृष्टःपुनःपुनः । एषलोकोपकाराय प्रभवेदिति मेमतिः ।। ॥ ३ ॥ ५-१०-८९. पळमनेरि सुंदरशास्त्रियार, अयमार्यधर्मप्रकाशिकाख्योग्रंथः देवनागराक्षरैर्मुद्रि- तपुस्तके मया स्वयमामूलाग्रमालोकितः. अयंग्रथः सक- लमतसाधारणस्सर्वशास्त्रसंमतश्च. किंच व्युत्पित्सूनां व्यु- त्पन्नानांच नितरामुपयोगजनकः. एवंसुललितेन निर्दुष्टे- मच मार्गेण संगृह्य दुरवगाहान्श्रुतिस्मृत्याद्यर्थान् प्रका- शितवंतो।। वे०॥ मंडिकल रामशास्त्रिणश्च तत्प्रेरकाश्च श्रीमन्तःसकललोकोपकारकारिणस्संतीति निश्चित्य सु- तरामनुमोदामहे. श्रुतिस्मृत्यायुक्ताः परमपुरुषार्थस्यपदवी। रबुध्वाव्यध्वे ये पदमिहनिधित्संति मनुजाः॥ यदीमांलोकंते सकदापि कृति तेकुमतिभिः । प्रतार्यतेनैतेकथमपि वयं निश्चिनुमहे ॥१॥ मैसूर् श्रीमन्महाराज चामराजेंद्रस्य आस्थानपंडिताः २०-११-८९. बें॥सीतारामशास्त्रिणः.
: कल ४ वेदमूर्ति मैसूरु शारदाविलासपाठशालाध्यक्षैः मंडि- रामशास्त्रिभिः निर्मितमार्यधर्मप्रकाशिकाख्यंग्रंथं वयं आद्यन्तं सामस्त्येन सम्यगालोक्य, एषग्रंथः दैताद्वैत विशिष्टाद्वैताख्यमतत्रयानुगण्येनवर्तते, श्रुतिस्मृतिपुराणा- धविरुद्धश्च, पिपठिपूर्णाबालानां पिपाठयिषणां पडिता- नांच प्रमोदावहतया सकलजनोपादेय इति दृढमा- कलय्यच, सुतरां संतुष्यामः श्रीमन्महाराज चामराजेद्रसार्वभौमसभास्थानपंडित १५-२-९०. व्यासकृष्णाचार्याः - . To K. SESHADRI IYER, EsQ,CSI, Dervan of Mysore. Sii,-We respectfully beg to enclose for your kind perusal a copy of the proceedings of a special meeting held on the 12th instant, at the Srinivasa Mandıran Library, and in doing so we beg leave to state, that the Hindu Students are labouing under a great disadvantago at present foi want of a religious and inoral instruction in Public Schools, and good text books on the subject are also not available To supply this long-telt want, one Rama. Sastil, a Pandit of Mysore, has wiitten a book in Sanskırt, a copy of which we beg to forward herewith, We further beg to inform you that we called a special meeting on the 12th instant in Bangalore, for the purpose of examining the merits of the book, and as will be seerr from the enclosed copy of the Proceedings, the members assembled on the occasion were almost unanimously ot opinion that the book with slight modifications will answer the purpose very well. We therefore request that you will be so kind as to have this book examined by competent Sanskrit Pandits, and if approved it may be ordered to be in tıoduced into all Sanskrit and other schools in the Prorince We beg leave to remain, Sur, Bangalore Your most obedient Servants, (Signed) Messrs A Gopalachailu, S C Rangasamı Iyer, S Srl nivasa Chari, M Nairain Rao, A Siinivasac harlu, Pandits Gopala Sastıral, Visweswara Sastrial, Gu Sastriar, and Narasımha Sastilai, and Suman Kuppanna Iyengai भोभोआर्यधर्मप्रकाशिकाप्रणेतारः! लोकसुहृदश्च स- शिरोजलिपुटं मदर्पितमिदमस्तु वः संविदितमुत्तरं. य- दसंस्तुतमपिमां पात्रभूतमाकलय्य स्वप्रणीतमत्युपयुक्त- विषयोपवृह्मिनंपुस्तकं श्रीमद्भिःप्राहीयत, तत् प्रीति- मतामया कृतज्ञतापूर्वकं शिरसासम्मान्यसंगृहीतं. अव- लोकितंच भूयोभूयस्समग्रमक्षरशः. इदंपुस्तकं सांगो- पांगस्यसनिमित्तस्यचार्यधर्मस्य निधानपेटिकेवास्ति. य- तोस्मिन्-लोकमर्यादापालनहेतोःअस्य प्रमाणनिमित्ता- द्यारभ्य अल्पैरेवाक्षरैः तदीयप्रवृत्त्याद्यवान्तरभेदानधिका- रिणः प्रयोजनानिच सम्यग्विविच्य अन्तेप्रस्थानभेदाअपि उद्देशतोलक्षणतश्च-संक्षिप्यव्यत्रियन्त. तथैव शांकरम- ध्वरामानुजादिमतानि परस्परविमताधिकारविषयाण्यपि परस्परक्षोदपराहतिवर्जमेव युक्न्याकिंचिदिवविवृत्य अन्ते सर्वाविरुद्धफलितार्थकथनेनोपसंहृतं. अतश्चेदं सर्वेषा- मार्यधर्माभिमानिमां विदुषांजिज्ञासूनांच संग्रहपात्रभूत- मित्यभिप्रेमि. यतोविदुषामपि महतोप्यार्यधर्मसमुद्र- स्यातिदीर्घाकरव्यापिनः क्षिप्रबुध्यारोहाय तरंगानुक्रम- ६ णिकयेव आरत्येवप्रयोजनमनया. किंच घोरेस्मिन्कलि. कुसे अश्याववितस्य धर्मतोवर्णतश्च विभिन्नानामितो-ति- दूरवर्तिनामांगलभौमानां नीतिमनुवर्तमानयाविक्टोरि- याचक्रवर्तिन्यासज्यरक्षणिकयाच स्वायत्तीकृतत्वात् तथैव पाश्चात्यनीतिभाषांकलाश्च शिक्षमाणानांशिक्षितानां तत्त- त्पदवीधारिणांतामेवचानुवर्तमानानां संख्यायाः अनुदि- नमेधमानतया स्वाधिकारे भ्यासेवाव्यापूतानांतेषां स्व- धर्माकरग्रंथसमालोकने अप्राप्तावसरतयाच स्वधर्मज्ञान- वैधुर्येण कालक्रमेणानहतानुरोधेन वरमल्पग्नन्थस्यबड्वर्थ- स्यच निबंधस्यास्य अवलोकनेन स्वधर्मज्ञानसंपादनमि- ति, तेषामपि तदौपयिकतया अवश्यंजिघृक्षाविषयएवायं. यद्यप्येतादृशनव्यग्रन्थेषु एतत्कालानुरोधेन आयुर्वेदा- भिप्रायानुगुणधर्मशास्त्रमूलकबालविवाहपरिवर्जनादेःयूत मद्यादिव्यसनपरिहारस्यच इतोप्यधिकंनिरूपणं इष्टत- मंस्थितं, तथापि ग्रन्थविस्तरभीत्यनुरोधेन अत्युपयुक्त- स्थापितादृशविषयस्य स्थलदाने एतद्न्थरुतां निरुपायतां विचित्य तोष्टव्यं. सर्वथाप्येतद्न्थस्य सर्वसंग्रहपात्रतां भूयोभूयस्समु- दुष्य सर्वानार्यान् एतत्पुस्तकावलोकने यावच्छक्तिप्रो- त्साह्यच विरमामइतिशिवं. २५-१-९०. गणेशसुब्रायशास्त्री, गोकर्णसंस्कृतशालामुख्याध्यापकः
No text on this page.
No text on this page.