Library
The Madhvamukhalankara
Front matter
PRINCESS OF WALES
131
SARASWATI BHAVANA TEXTS
No. 68
tartoon
THE
MADHVAMUKHALANKARA
GOVERNMENT SANSKRIT LIBRARY,
BENARES
1936
Prige, Rs. 1-8-0]
Baleable at bail of the printed price
No text on this page.
THË
PRINCESS OF WASES
SARASVATI BHAVANA TEXTS
No, 68
EDITED BY
Mahamahopadhyaya
GOPINATH KAVIRAJ, M. A.
THE
MADHVAMUKHĀLANKĀRA
Printed by M. R. Kale,
at Shri Lakshmi Narayan Press, Benares City,
1936
Baleable at half of the printed prine.
No text on this page.
श्रीः श्रीमद्वनमालिमिश्रविरचित मध्वमुखालङ्कार श्रीमद्वैष्णवद्वैतसिद्धान्तप्रतिष्ठापनाचार्याणां श्रीमत्परमहंसपरिव्राजकाचार्य- त्वाद्यनेकगुणगणालङ्कृतानां श्रीमदुत्तरादिमठाधीश श्री श्री १०८ श्रीमत्सत्यध्यानतीर्थ श्रीचरणानामन्तेवासिना वाराणसीस्थ- राजकीयमहाविद्यालयद्वैतवेदान्ताध्यापकेन पण्डितशिरोमणि वरखेड नरसिंहाचार्येण संशोधितः। THE MADHVAMUKHÅLANKARA BY VANAMĀLI MIŠRA Edited with Introduction BY NARASINHACHARYA VARKHEDKAR Asstt. Professor, Govt. Sanskrit College, Benares. . 1936
No text on this page.
FOREWORD Thanks are due to His Holiness Swami Satyadhana Tirtha of the Uttaradi Matha for placing at the disposal of the Govt. Sanskrit College Benares funds for publication of useful and interesting philosophical works bearing upon the Madhva system of Vedanta, of which a chair has already been opened through his munificence in the same College. The pages which are herewith being given out to the world represent the Sanskrit text of a work, called Madhvamukhalankara, ascribed to the well-known author Vanamali Misra, whose reputation as a polemical writer of great abilities is recognised in the history of dualistic vedanta. Vanamali is credited with the authorship of several treatises, almost all of which are said to bear upon them the impress of his great literary power. The names of the works, known from different catalogues of Mss., are the following: 1. Nyayamrità Saugandhya (or Saurabha ), commentary on Nyayamrita of Vyasatirtha. This work too is in course of publication in this very series and is expected to out shortly. 2. Nyayaratnakara (Hultzsch, 1936, p. 129. See No. 1540 also ). 3. Advaita Siddhi Khandana (Bhandarkar's Report, 1882, p. 108). This is an attempt to refute Madhusudana's as come
( 2 )
famous work on dialectical
on dialectical monism, which
attacked the Nyāyamrita of Vyasatirtha and to
re-establish the metaphysical position of the
Madhva School.
4. Bhaktiratnakara ( Bhandarkar, 1882, p. 111 )
5. Maruta mandana (Bhandarkar, 1882, p. 113)
6. Sruti Siddhanta (Bhandarkar, 1884, p. 73).
7. Jivesabhedadhikkāra (Benares Sanskrit College
Library, Mahidhara Collection).
8. Pramanasamgraha (Benares Sanskrit College
Library, Mahidhara Collection).
9. Brahmasutra Siddhanta Muktavali (Benares
Sanskrit College Library, Mahidhara Collection).
10. Visnutattva prakasa (Benares Sanskrit College
Library, Mahidhara Collection).
11. Vedāntadipikā (Benares Sanskrit College
Library, Mahidhara Collection).
12. Vedānta Siddhanta Samgraha (Benares Sanskrit
College Library, Mahidhara Collection).
13. Nyayamrita tarangini kantakoddhāra (Benares
Sanskrit College Library, Mahidhara Collection).
14. Abhinava Parimala (Benares Sanskrit College
Library, Mahidhara Collection).
15. Vedānta Siddhanta Muktavali (Benares Sanskrit
College Library, Mahidhara Collection).
16. Madhvamukhalankara (the work under notice).
In the present work Vahămali referš, to Nyayasudha (or Sudha) (pp. 24, 45 105, 107), to Tantraratna (p. 67 ), to Anuvyakhyana (p. 47'), to Chandrika (p. 45 ), to Brahmatarka (ppi 104, 105 ), to Vasistha Ramayana (p. 127) and to Magha Kavya (p. 118). Of these Nyayasudha is evidently the Commentary of the same name by Jayatirtha on Ananda Tirtha's Brahma Sutra Anuvyakhyana. The Chandrikā stands for Tātparya Chandrikā, which is a commentary by Vyasa Tirtha on Jaya Tirtha's Brahma Sutra Tattvaprakasika. Anuvyakhyana is certainly the work of Ananda Tirtha himself. The names of Vasistha Ramayana and Magha present no difficulties. But Brahmatarka is not precisely known. There is a work bearing this title ascribed to Appayya Diksita. Pandit Narasinhacharya, to whom the editing of the text was entrusted, is to be sincerely congratulated on having accomplished his task with much care and thoroughness. GOVERNMENT SANSKRIT COLLEGE, Gopinath Kaviraj, BENARES.
No text on this page.
प्रास्ताविकं किञ्चित् श्री हनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मक श्रीलक्ष्मीहयग्रीवाय नमः । विधूयाऽन्यमतध्वान्तं द्वैततत्वं प्रकाशयन् । श्रीसत्यध्यानचण्डांशुर्दद्यान्मे विमलां दृशम् ।। न किल परोक्षमिदं प्रेक्षावतां यद् विरुद्धयोर्द्वयोर्मतयोर्यन्मततत्वा न्युभयसम्मतप्रमाणभावैः वचनैः सिद्ध्यन्ति, यन्मततत्वज्ञानेन च वादिप्रतिवादिनावुभावपि अनिष्टक्षयमिष्टप्राप्तिं चाङ्गीकुरुतः, तदेवाविश- ङ्कितमुपादेयं नान्यत् । तथाभूतं च मतं द्वैतमतमेव अतएव "श्रीमन्म- ध्वमते हरिः परतरः सत्यंजगत्तत्त्वतो भेदः' इत्यादि संग्रहश्लोकोक्तानि गुणपूर्णनारायणसर्वोत्तमत्ववेदतदुक्तधर्मतत्फलभूतलोकादिसर्वजगत्स त्यत्त्वजीवेश्वरभेदादिरूपाणि तत्त्वान्येव श्रुतिगीतासूत्ररूपप्रस्थान- त्रयप्रतिपाद्यानि नेतराणीति तथा द्वैततत्वज्ञानिनां सगुणशरणानां न पुनरावृत्तिः इति “न च पुनरावर्तते" इत्यादिश्रुतिभिरुपपादितमनावृत्ति- श्शद्वादिति सूत्रे इति शाङ्करभाष्यभावगाम्भीर्यनिर्णयकारावर्णयन्ति, यथोक्तम्- शास्त्राणां भेद एव श्रुतिशिखरगिरामागमानाञ्च निष्ठा साकं सर्वैः प्रमाणैः स्मृतिनिकरमहाभारतादिप्रबन्धैः । तत्रैव व्याससूत्राण्यकुटिलविधया भांति तात्पर्यवन्ति प्रत्नराचार्यरत्नैरपि परिजगृहे शङ्करायः स चापि ॥ इत्यादिना यथा च द्वैतस्यैव सर्वप्रमाणप्रतिपाद्यत्वं तथा सुनिपुणमुपपादितं श्रीमद्भिर्गुरुचरणैः प्रस्थानत्रयसारसङ्ग्रहादिप्रबन्धेष्विति । एवं वस्तुस्थितावप्यपेय्यदीक्षितमहाभागाः, एतत्सिद्धान्ताग्राह्यत्व- साधनाय, च प्रबन्धाः ( २ ) तथाप्यानन्दतीर्थीयमतमग्राह्यमेव नः । यत्र वैदिकमर्यादा भूयस्याकुलतां गता ।। इत्यारभ्य- आद्रियध्वमिदमध्वदर्शनं व्यध्वगं त्यजत मध्वदर्शनम् । शांकरं भजत शाश्वतं मतं साधवः स इह साक्ष्युमाधवः॥ इत्यन्तं, (मध्वमतमुखमर्दनं ) नाम प्रबन्धमरचयन् यस्य प्रतिपदखण्डनरूपाः श्रीमत्सत्यनाथतीर्थकृता अभिनवगदा, श्रीमद्विजयीन्द्रतीर्थकृता अपेयकपोलचपेटिका, मध्वाध्वकण्टकोद्धारः, नारायणपण्डिताचार्यविरचितः अद्वैतकालानलः इत्यादयोऽनेके दक्षिणदेशे पठनपाठनप्रणाल्यां विराजन्ते । कदाचित् काशीस्थराजकीयसरस्वतीभवने तदध्यक्षाणामस्मत्प्रियसुहृदां साहित्य- वारिधीनां खिस्ते इत्युपाव्हपण्डितवरनारायणशास्त्रिमहोदयाना- मनुमत्या वेदभाष्यकृतां पण्डितमहीधरमहोदयानां पुस्तकाल- यात्संगृहीतं द्वैतसिद्धान्तग्रन्थग्रन्थिमुन्मुच्य तत्रत्यानि पुस्तकान्य- द्राक्षम् येषु प्रायः श्रीवनमालिदासविरचिताः, केचन महीधरवं- शजैः प्रणीताः प्रबन्धाश्चासन् , तदर्शनक्षण एव उत्तरभारते द्वैत- सिद्धान्तस्य नासीत्प्रचार इति भ्रमो मे विगलितः। यद्यभविष्यदुत्तर- भारते द्वैतसिद्धान्तप्रचारस्तदा अवश्यमेव उत्तरभारतीयैर्विरचिताः द्वैतसिद्धान्तग्रन्था उपलब्धा अभविष्यन् इति परकीयकोलाहलशान्तये पुनरवश्यं मुद्रापणीया एते ग्रन्था इति समुदभूद्विचारो मे मनसि । एवं विचाराकुले मयि भाग्यवशादिव तत्रभवद्भिः राजकीयविद्यालयप्रधाना- ध्यक्षैः सकलदर्शनसारज्ञैः महामहोपाध्यायैः पण्डितमान्य- श्रीगोपीनाथकविराजमहोदयैः सरस्वतीभवनतः प्रकाश्यमानानां द्वैतसिद्धान्तानुयायिनां ग्रन्थानां संशोधनकार्यं भवता सम्पादनीय- मित्याज्ञप्तः प्राक्कदाऽप्यकृतसंशोधनकर्माप्युत्साहातिरेकात्तत्र प्रवृत्तोऽ- भूवम्। तेषु च प्रथमं वनमालिदासप्रणीतप्रबन्धा एव मुद्रणाय स्वीकृताः। तत्राऽपि न्यायामृतसौगन्ध्यस्य त्रुटिततया आदौ संपूर्णस्य "मध्य- मुखालङ्कारस्यैव मुद्रापणमुपक्रान्तम् । अयं च ग्रन्थः अपेयदीक्षितकृत- मध्वशास्त्रमुखमर्दनाभिधग्रन्थस्य-खण्डनरूपः ।
अत्र प्रथमतः- सदसच्छास्त्रतत्प्रवर्तकविचारः १ जिज्ञासान्यायवनम् २ जन्मादिन्यायवर्णनम् ३ शास्त्रयोनित्वन्यायवर्णनम् ४ समत्वय न्यायवर्णनम् ५ ईक्षतिन्यायवर्णनम् ६ शेषब्रह्ममीमांसातात्पर्य वर्णनम् ७ । इति सप्तप्रकरणानि । तत्र प्रथमप्रकरणे- चूतस्य नापराधोस्ति ाष्ट्रो दूराद्यदुझ्झति । सौभाग्यं नैव निम्बस्य यदादत्तेऽनुरागतः ।। इदमेवोत्तरं तस्य मन्दबुद्धेः सुरद्विषः । विष्णुद्वेषा वाणस्य ह्युत्तरं नास्ति चापरम् ।। इत्यादिना- अद्वैतसिद्धान्तस्य तामसजनमोहाथ भगवच्छंङ्करोपदिष्टत्वं तन्मो- हितमणिमत्प्रवर्तितत्वं च प्रसिद्धपुराणवचनोपन्यासेन समर्थितम् , तथा अद्वैतमते सामान्यदूषणान्युपवर्ण्य अपेयदीक्षितोद्भावितानि द्वैत- सिद्धान्तसामान्यदूषणानि सुदूरमुत्सारितानि श्रीमतोमध्वस्य वाय्ववता- रत्वे च पुराणतदुपबृंहितश्रुतिवचनान्युदाहृतानि- यथा श्रीमच्छबरशङ्करश्रीकण्ठरामानुजादीनां “ऊर्ज पशूनाप्नोत्यू- |ऽवरुध्या" "यथाह्ययं ज्योतिरात्मा विवस्वान्" "यश्च शिव इति वाचं वदेत् तेन सह संवसेत्" "इन्द्रः शचीपतिर्बलेन पीडितः" इत्याद्यप्र- सिद्धश्रुत्युदाहरणं न दोषाय किन्तु सर्वज्ञत्वसम्पादनेन भूषणायैव तथा आचार्यमध्वस्याप्यप्रसिद्धश्रुत्युदाहरणमलङ्कार एव न दोषः । यथा च श्रीमत्छङ्कराचार्याणां "नन्वजाशदश्छाग्यां रूढः” १४८ ब्र० सू० शां० इत्यादौ श्रीमत्पाणिनीयादिप्रसिद्धव्याकरणविरुद्धशब्द- प्रयोगः, श्रीमतःकालिदासस्य च "त्रियम्बकं संयमिनं ददर्श" इत्यादी वैदिकशब्दप्रयोगः न दोषाय; तथा मध्वगुरोरपि प्रसिद्धव्याकरणविरुद्ध- शब्दप्रयोगो वैदिकशब्दप्रयोगश्च न दोषाय, किन्तु पाणिन्याद्यनधिगत- महाव्याकरणाभिज्ञत्ववैदिकोत्तमत्वसाधनेन भूषणायैव । यदि "न वा- एकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्याम्” इति श्रुत्या वृत्तान्यथाभावो न दोषः तदा "रामं लक्ष्मणपूर्वजं रघुवरमित्यादिरामायणपद्यानुसारिणः ( ४ ) भिन्नभिन्नवृत्तयुक्ताऽर्धद्वयोपेतस्य' "पान्त्वस्मान्पुरुहूतवैरिबलवन्" इत्यादिपद्यस्य निर्माणमपि न दोषः, किन्तु आदिकविसम्प्रदायप्रवर्तकत्वं साधयन् मन्डनायैवेत्यादि समर्थितम् । द्वितीयप्रकरणे- आत्मा ब्रह्मेत्यधीतः श्रुतिशिखरगणैः निर्विशेषश्वसर्वैः । किं तत्रस्वप्रकाशे गुणलवरहिते वस्तुशास्त्रेण चिंत्यम् । इत्याक्षेपो गुरूणां नतिशतविषये स्वाप्रणम्यत्ववादः । श्रुत्यन्तानां निरूप्यः सयदिजडमते केन शास्त्रस्य न स्यान् ॥ १॥ इत्यपेय्यदीक्षितकृताक्षेपपद्यस्य प्रत्युत्तररूपयोः- आत्मा ब्रह्मेतिपूर्वानुभणतिरिह ते पूर्वपक्षे न पूर्वा । पूर्वाचार्येण पूर्वाधिकरणविषये सर्वथानोर्यकारि । तस्मान्माध्यागमाध्वावगमविकलते निग्रहस्थानमेवै । तत्तावत्तन्निरासेऽन्यदपिनिरनुयोज्यानुयोगश्छलं च ॥१॥ ऐक्यं जीवेशयोस्तत्वमसिमुखरवैरुच्यमानं विरोधात् । सिद्धत्वात्प्रत्यगात्माऽप्यविषय इति नो शास्त्रमारम्भणीयम् ।। इत्याक्षेपे स्वकीये गुरुनतिविषये स्वाप्रणम्यत्ववादं । स्वीकृत्याऽस्मान्प्रतीत्थं भवसि जडमते व्याहतिस्स्यान्न किं ते ॥२॥ इत्यद्वैतकालानलपद्ययोस्ताप्तय गद्यरूपेणोपवर्णितम् । सुधायां "ज्योतिषां स्तोमोहि ज्योतिष्टोमः” इत्यत्र यद्यपि अन्यैः सुधाव्याख्यातृभिः "एतानि वावतानि ज्योतींषिय एतस्य स्तोमाः" इति वाक्यशेषप्रदर्शितविग्रहातिरिक्तविग्रहप्रदर्शनम् , “ज्योतिरायुषोः स्तोमः" इति सूत्रव्याख्यातृभिः प्राचीनवैय्याकरणैः जरन्मीमांसकैश्च "समा- से किम्" इत्यादिना प्रदर्शितस्य षष्ठीतत्पुरुषविग्रहस्येतरोपलक्षणाया- ऽनुवादमात्रमित्याद्यभिहितम् ; तथाऽप्यत्र “यथा" "अथातो धर्म- जिज्ञासा" इति सूत्रभाष्ये "धर्माय जिज्ञासेतिविग्रहप्रदर्शनमिव भाति, न तु तथा, प्रकृतिविकृतिभावावानुपपत्तेः, किंत्वार्थिकार्थकथन तत्, समासस्तु षष्ठीतत्पुरुष एवेति व्याख्यातं वार्तिककृता; तथा प्रकृतेऽपि “यत्र" इति शेषः वृत्तिपदार्थमात्रप्रदर्शनपरतया अन्य- , पदार्थाप्रदर्शनस्थादोषत्वात् , इत्यादिना बहुव्रीहिसमासीयार्थिकार्थ- प्रदर्शनपरं सुधावाक्यमिति सूचितम् । अत्र श्रीमदपय्यदीक्षितैः "ये वै चत्वारः स्तोमाः" इत्यनुवाकस्थात् त्रिवृत्पञ्चदशः सप्तदश एकविंशः एतानि वावतानि ज्योतींषि य एतस्य- स्तोमा इति वाक्यात् त्रिवृत्-पञ्चदश, सप्तदश, एकविंशरूपस्तोस- चतुष्टयवत्वरूपोऽर्थः प्रतीयते एतेषां चतुर्णामेव ज्योतिशब्दवाच्यत्वम् सत्यप्येवं ब्रह्मसूत्रशाङ्करभाष्यरत्नप्रभायामीक्षत्यधिकरणे त्रिवृत्पञ्चदशे- त्यादिवाक्यस्थत्रिवृच्छदस्य पञ्चदशसप्तदशैकविशेषु प्रत्येकं सम्ब- न्धाभिप्रायेण त्रिवृत्पञ्चदशः त्रिवृत्सप्तदशः त्रिवृदेकविंश इत्येते स्तोमाः तदर्थप्रकाशकत्वेनेत्याद्यभिहितम् , तत्र त्रिवृच्छब्दस्य स्तोत्रीयऋक्सं- ख्याप्रकाशकस्य ऋङ्नवकपरत्वेन पञ्चदशादिशब्दैः सामानाधिकरण्यं- कथमुपपद्यतामिति मनागप्यावमृश्य केवलं परपक्षंदूषणान्वेषणायैव प्रयतितमिति केचिद्वर्णयन्ति । तृतीयप्रकरणे- यतो वेत्याधुक्तिः कथमिव च जीवे न घटते । यतस्तद्ब्रह्मेतिश्रुीतरपसरेद्रूढिविषयात् ।। जगत्स्रष्टुं सर्वं प्रभवति खलु ध्यानविषयः । समस्तोऽयं मानोरथिकमपि जीवस्तव मते ।। इति श्रीमदपेयदीक्षितकृताक्षेपप्रतिक्षेपार्थस्य- यतो वेत्याधुक्तिः कथमिव नृशृंगे न घटते । यतोऽसद्ब्रह्मेति श्रुतिरपसरेद्रूढिविषयात् ॥ अनिर्वाच्यं द्रष्टा प्रभवति जगत्स्रष्टुमखिले । नृशंगं तन्मानोरथिकमपि सर्वं तव मते ॥ इत्यद्वैतकालानलीयश्लोकसंगृहीतोऽर्थो विशदीकृतः । चतुर्थप्रकरणे- "सर्वे वेदायत्पदमामनन्ति" (का० उ०) "तावा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषाः" (ऐ० उ०) "वेदैश्च सर्वैरहमेव वेद्यः” (गीता) ( ६ ) वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ॥ (हरिवंशे) वेदाक्षराणि यावान्त कथितानि द्विजातिभिः । तावन्ति हरिनामानि कीर्तितानि न संशयः॥ ( शौनकीयऋग्विधाने ) इत्यादिवचनैः श्रीविष्णोः वैदिकसर्व- वर्णवाच्यत्ववर्णनेन कैमुत्यन्यायप्राप्तं तस्य वैदिकवसन्तादिपदवाच्यत्वं यदाचार्यचरणैरुपवर्णितं तेन तेषामितरभाष्यकारानधिगत श्रुतिस्मृति- तात्पर्यनिर्णयनैपुण्यमेव सिद्ध्यति । एतेन एकस्यैव "वसन्ते' इत्यस्य कर्माङ्गकालपरतायां सप्तम्यन्तत्वं, श्रीविष्णुपरतायां च सम्बुध्यन्तत्वं, कर्मपरतायां ज्योतिषा इनि तृतीया- न्वत्वम् , श्रीविष्णुपरतायां "ज्योतिष" इति सम्बुध्यन्तत्वं, "आयजेत" इत्यस्य कर्मपरत्वे क्रियापदत्वं, विष्णुपरत्वे सम्बोधनरूपत्वं, वैदिकम- यादाविरुद्धमित्यर्वाचीनानामाक्षेपः सुदूरपराहतः यतस्तथासति भवि- ष्योत्तरपुराणान्तर्गत-आदित्यहृदये । ध्येयः सदा सवितृमण्डलमध्य- वर्ती नारायणः सरसिजासनसन्निविष्टः । इत्युपक्रम्य अग्निमीळेनमस्तुभ्याभिषेत्वोर्जेस्वरूपिणे । अग्नआयाहिवीतस्त्वं नमस्ते ज्योतिषांपते । शन्नोदेविनमस्तुभ्यं जगच्चक्षुर्नमोस्तुते ॥ इत्यत्र ऋग्वेदादिभागस्य- "अग्निमीळे" इत्यस्य एकपदत्वसम्बोधनरूपत्वे । यजुर्वेदादिभागस्य- "इषेत्वोर्जे" इत्यस्यैकपदत्वप्रथमान्तत्वे । सामवेदादिभागे- "अग्न आयाहिवीत ये' इत्यत्र "अग्नआयाहिवीत" "ये" इति पदछेदेन अग्नआयाहिवीत इति सम्बोधनम् । अथर्ववेदादिभागे- "शन्नोदेवीरभिष्टये” इत्यत्र “शन्नोदेवीत्यस्य एकपदत्वसम्बो- धनरूपत्वे स्फुटमभिधाय एवमेव “वसन्ते” इत्यादिपदानामपि सम्बो- D - ( ७ ) धनरूपतां सूचयन भगवान् पुराणाचार्यों वेदव्यासोऽपि वैदिकमर्यादा- ऽनभिज्ञः स्यात् । तथा च वेदव्यासस्येव तच्छिष्यस्याप्याचार्यमध्वस्य सकलवैद्रिक- 1 पदानां विष्णुसम्बोधनरूपत्ववर्णनं भूषणमेवेत्यादिसूचितम । षञ्चमप्रकरणे- स्फारात्तत्तत्पुराणागमवचनशतप्रापितायान्यांनन्दा । तत्तद्भक्त्यादिसिध्यै स्तवनविरचने सा भवेद्वारमात्रम् । कर्मानुष्ठापनार्थ किमु निरतिशयां ब्रह्मसंस्थादिनिंदा- मापस्तम्बादिवाक्ये न कलयसि ततः काऽस्य हानिस्तबेष्टा । इत्यपेयदीक्षितश्लोकखण्डनार्थस्य- अथ यदि न हि निन्दान्यायमालम्ज्य सव । परिहरसि विरोधं वस्तुतत्वार्थवाचाम् ।। तदिह विधिनिषेधोच्छेदनं किञ्च तन्त्र- द्वयमपि वितथं स्यादेवमेवाविरोधात् ।। इत्याद्यद्वैतकालानलीय संग्रहश्लोकभावार्थो विस्तरेण वर्णितः- षष्ठप्रकरणे- न ध्येयं ब्रह्म नेदं यदिदमितिगिरा ह्यभ्युपेतं त्वयाऽतो। ध्येयार्थानां श्रुतीनां कचिदपि न च तद्वाच्यमित्यभ्युपेयम् ।। नोचेन्नध्येयमेतत्कथमितिभवती स्यादवार्येवशङ्का । यद्वाचेतिश्रुतिश्च क्षिपतितदसनायैव वाच्यत्वमस्य ।। इतीक्षतिनयाक्षेपपद्यनिराकरणपरस्य- वेदान्तैरुक्त आत्मा श्रुतिमतिनियतध्यानसाक्षात्क्रियाणां । साक्षात्संवेदनीयस्तदिह तदनुपास्यत्वशङ्का भृशङ्का ॥ अव्यक्तस्याकृतिर्यत् स्फुरति मनसि तद्ध्येयता सृष्टिवाक्यै- वाच्यस्यावाच्यताऽप्यद्भुतगुणगरिमत्वादि नैवोपपन्ना ।। इत्यद्वैतकालानलीयपद्यस्यार्थः संगृहीतः । - ( ८ ) सप्तमे प्रकरणे- आनन्दमयोऽभ्यासादित्यारभ्य "अनावृत्तिः शब्दादनावृत्तिः" शब्दादित्यन्तस्य सकलब्रह्ममीमांसाशास्त्रस्य तात्पर्यमुपवर्णितम् । एतद्ग्रन्थकाराः श्रीवनमालिमिश्राः कं देशं जन्मना मण्डयामासुः कश्चैतेषामवस्थितिसमय इत्यत्र नास्माभिः प्रभूततमं निर्णायकमुप- लब्धमद्यापि तथाऽपि (श्रीमन्मध्वमुखालङ्कारस्य) एतद्ग्रन्थस्या- न्तिमश्लोके श्री० गोकुलक्षेत्रतः प्राग्दिशि नातिदूरवर्ती कश्चन इति ब्रह्मानन्दविरचितलघुचन्द्रिकाखण्डनात्मकन्यायामृतसौ- गन्ध्यप्रणयनात् विक्रमीयसप्तदशशताब्यामेते आसन्निति च सिध्यति, अधिकं चैतेषां चरितं न्यायामृतसौगन्ध्यभूमिकायां प्रकाशयिष्यामः । मध्वमुखालङ्कारस्य आदर्शपुस्तकान्तराऽलाभात् प्रायोमूलदृष्टाः पाठाः यथावदेवाऽवस्थापिताः । शुद्धिपत्रं चान्ते संयोजितम्- संशोधनापरिचयान्मानुषस्वभावसुलभात्प्रमादाच्चावशिष्टानां दो- बाप्पां संशोधने सहृदयाः सदया भवन्तु इति साञ्जलिबन्ध- मभ्यर्थयते। ग्राम - विदुषां वशंवदः वरखेडोपाहो नरसिंहाचार्यः ।
मध्वमुखालङ्कारः। श्रीवनमालिदासकृतः । श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मक- श्रीलक्ष्मीहयग्रीवाय नमः। समितगुणसिन्धुः सर्ववेदाभिधेयो विगतविमतिधामा हेयशून्यो रमेशः । विधिशिवसुरराजैः सेव्यमानाधिका: स्फुरतु मनसि मे स श्रीहयास्यो मुकुन्दः॥१॥ श्रीमन्मारुतमाचार्य मायिमर्दनतत्परम् । मुनीन्द्रोपास्यपादाब्जं ज्ञानसिन्धुं नमाम्यहम् ॥२॥ तान्त्रिकाणां गुरुं वन्दे जयतीर्थ मुनीश्वरम् । कुमतध्वान्तचण्डांशुं व्यासतीर्थ धियां निधिम् ॥३॥ निरस्ता दूषणाभासास्सन्न्यायमहतां पुरा । तानेव श्रावयेऽथापि स्वश्रुतस्य शुशुत्सया ॥ ४ ॥ श्रीमन्मध्वमुखस्यायं श्राव्यते वनमालिना। अलङ्कारोऽसतां यस्माझ्यथा स्यान्मोद्नं सताम् ॥५॥ तत्र सदनन्तगुणे सत्याशेषविश्वोदयादिकर्तरि विष्णु- रूपे परब्रह्मणि ब्रह्मसूत्रयोजनं यत्तदेव सकलश्रुत्यनु- कूलत्वात्प्रामाणिकैरङ्गीकार्यम् । न तु प्रत्यगभिन्ननिर्वि- शेषचिन्मात्रे मायिकृतं योजनम् , तादृशे ब्रह्मणि माना- भावात् । धर्मिज्ञानसाध्यसप्रकारकसंशयनिवर्तकैक- २ मध्वमुखालङ्कार कोटिप्रकारकनिश्चयजनकानां वेदान्तानां सगुणब्रह्मपर- त्वावगमात् । शब्दस्य प्रमाणमात्रस्य वा विशिष्टार्थबोध- कत्वस्वाभाव्यात् । न च लक्षणया वेदान्तानां चिन्मात्रे तात्पर्यम् , चिन्मात्रस्याध्यस्ताधिष्ठानतयाऽज्ञानादिसा- क्षितया सदाभासमानत्वेन तत्र तात्पर्यासम्भवात् । 'सर्वप्रत्ययवेये च ब्रह्मरूपे व्यवस्थिते इति वदता परेण सर्वज्ञानविषयत्वाङ्गीकारात् । न च विशिष्टमेव सर्व- प्रत्ययवेद्यम् , शुद्धं चौपनिषमिति वाच्यम्, अधिकस्य भानेऽपि श्रुतिवेद्यस्य भानावश्यकत्वात् । न हि दण्डिनि भाते पुरुषो न भासते । अन्यथा विश्वाधिष्ठानस्य शुद्ध- स्याभाने जगदानध्यापत्तेः । सत्यब्रह्मादिपलक्ष्यस्य गङ्गापदलक्ष्यतीरस्यागङ्गात्वबदसत्यत्वाब्रह्मत्वाद्यापत्तेः । न च तत्र जहत्स्वार्था लक्षणा, तस्मात्तथात्वम्; इह स्वजहत्स्वार्थेति कथमसत्यत्वाद्यापत्तिरिति वाच्यम् , काकेभ्यो दधि रक्ष्यतामित्यत्र हि यथा काकत्वस्य काक- पदशक्यस्य त्यागो व्यक्तेरत्याग इति जहदजहल्लक्षणा- यामशक्यस्य मार्जारालाभस्तथा असत्यत्वादिलाभ आवश्यकः। अन्यथा लक्षणावैयर्थ्यम् । न हि शक्यैकदेशे लक्षणा सार्थिका क्यापि दृष्टा । अतोऽचिन्त्यानन्तस- गुणालये ब्रह्मण्येव सूत्रयोजनं युक्तम् । केचिदत्र वदन्ति-यद्यप्यन्यदीयानि सगुणयोजना- न्युपादेयानि, तथाप्यानन्दतीर्थीययोजनमनुपादेयमेव । अन्यदीयेषु हि योजनेषु सगुणनिर्गुणभेदाभेदादिविषय- तया कतिपयेष्वेव सूत्रेषु प्रकारभेदः। अन्येषु सूत्रेषु कचित्क्वचित् पूर्वपक्षसिद्धान्तरचनाभीभेदेऽपि फलतो म विवादः। आनन्दतीर्थीययोजने प्रायः सर्वत्रैव प्रकार- सदसच्छास्त्रतत्प्रवर्तकनिर्णयः। भेदः, सोऽप्यन्येषामसंप्रतिपन्नः, तेषु स्वमात्रकल्पिते. वर्थेषु चतुरकमठमाठरकोण्ठरव्यकौण्डिन्यमाण्डव्यमा- कण्डेयमौद्गल्यपौष्यायणपौत्रायणसौत्रायणपाराशायण . माध्यन्दिनायनकापारवकोषारवकोषायणबृहदुद्दालकायन- कौशिकसौपर्णवत्सगौपवनभाल्लचेयाग्निवेश्यचतुर्वेदसंहि- ताचतुर्वेदशिखेन्द्रद्युम्नपरम श्रुत्यादिवचनानि, तदनुसा- रीण्यध्यात्मनारायणसंहिताबृहत्संहितामहासंहितानारा- यणतन्त्रब्रह्मतन्त्रपुरुषोत्तमतन्त्रमायावैभवब्रह्मवैवर्तब्रह्म- तर्कभविष्यत्पादिवचनानीति चात्यन्ताप्रसिद्धानामेव वचनानां साक्षितयोपन्यासः । तदुपन्यासप्रसक्तस्वानासत्वशङ्काव्युदासाय हनुम- ड्रीमसेनक्रमेण वायोः स्वयं तृतीयावतार इत्युद्घोषः । तत्र च साक्षितया- प्रथमो हनुमानाम द्वितीयो भीमसेनकः । पूर्णप्रज्ञस्तृतीयस्तु भगवत्कार्यसाधकः ॥ इति स्मृतिवचनमस्तीति स्वयमेवोदाहृतवान् । "बळित्था तद्वपुषे धायि दर्शतम्" इत्याग्वेदमन्त्रस्य स्वकल्पितवाय्ववतारवयपरतया प्रदर्शनमित्यादि तु प्रामाणिकमर्यादोल्लङ्घनं भूयसा दृश्यते; तथापि युक्तियुक्त वचो ग्राह्यं न तु पुरुषगौरवमिति न्यायेन तन्मतं श्रद्द- धीमहि, यदि तत्रोपपन्नं किंचिदाकलयेम। नचैवं प्रायेण हि तन्मते स्वमात्रहृदयारूढानि वचनान्येवोपजीवितानि न तु न्यायाः। ये तु न्यायाः प्रदर्शितास्तेऽप्यत्यन्तशिथिला एव क्वचित्क्वचिदाश्रिताः । पूर्वमीमांसकमर्यादाऽप्य- सामञ्जस्येनैव नीता। प्रायेण चासाधुभिरेव शब्दैव्यं- मध्वमुखालङ्कारे वहारः। श्लोकरचनायां त्वन्वयासंभवो वृत्तान्यथाभाव- श्वाधिकः । सर्वमेतत्तदीयभाष्यानुव्याख्यानभारतता- त्पर्यनिर्णयादिग्रन्थदर्शिनां स्पष्टमतोऽनुपादेयमेव तन्म- तमिति । अन्त्रोच्यते- सर्वथाऽऽनन्दतीर्थस्यानुपादेयं मतं हि नः। स्वीकार्याण्यविरोधाचेतराणीत्याह यः किल ॥ चूतस्य नापराधोऽस्ति युष्ट्रो दूराद्यदुज्झति । सौभाग्यं नैव निम्बस्य यदादत्तेऽनुरागतः ॥ इदमेवोत्तरं तस्य मन्दबुद्धेः सुरद्विषः । विष्णुद्वेषाद्ब्रुवाणस्य ड्युत्तरं नास्ति चापरम् ॥ यदुक्तमन्ययोजनेषु काचित्को भेदः, आनन्दतीर्थीय- योजने प्रायः सर्वत्रैव प्रकारभेद इति, तत् शोभते, सार्व- त्रिकप्रकारभेदस्य दर्शनान्तरत्वोपपादकत्वात् । अन्यथा त्वदीयविवरणवाचस्पतिवत्काचित्कभेदोपपत्त्या दर्शना. न्तरत्वं न स्यात् । दैवात्काचित्कप्रकारैक्येऽपि प्रायः प्रकारभेद एव हि दर्शनभेदे बीजम् । न तावदप्रसिद्ध- श्रुत्युदाहरणं दोषः, श्रौतस्मातकर्मविधायकानां तत्त- न्मन्त्राणां च खिलानामेव प्रायेणापस्तम्बादिभिः स्वख- सूत्रेषूदाहरणात् । ऋषीणां सर्वज्ञत्वात्सत्तच्छ्रुतिदर्शि- त्वात्तदुपपद्यत इति चेन्न, सर्वज्ञत्वस्यास्मदाचार्येऽपि दण्डेनानिवारणात् । त्वदीयश्रद्धाजाज्यस्थानुपादेयत्वात्। कथमन्यथा गौडपादशंकरादेः सर्वज्ञत्वादिकमङ्गीकु- रुषे ? प्रत्युत- मायावादमसच्छास्त्रं प्रच्छन्नं . बौद्धमुच्यते । मयैव कथितं देवि कलौ ब्राह्मणरूपिणा ॥
स HinymrunMAN देवर्विज्ञापितो सदसच्छास्त्रतत्प्रवर्तकनिर्णयः। इति पाद्मवचनेन त्वन्मतस्यैव बौद्धत्वमुच्यते । चतुर्भिः सहितः शिष्यैः शंकरोऽवतरिष्यति । इति त्वदुदाहृतवचनं तु विप्रलिप्सामूलत्वेनोपपन्न- मिति न तबलात्वन्मतस्य प्रेक्षावदुपादेयत्वम् । त्वन्म- तस्य च मोहशास्त्रत्वं पुराणेषु स्पष्टमावेद्यते । यथा कौम श्रीमुष्णमाहात्म्ये पञ्चमेऽध्याये- पुरा भागीरथीतीरे नियन्ता पृष्टवान् मुनिम् । नष्टा भागवता धर्माः सच्छास्त्राणि कलौ युगे। इति श्रुतं मया पूर्व तीर्थयात्राप्रसंगतः । कथं नष्टा भविष्यन्ति पुनः स्थास्यन्ति वै कथम् ॥ वद विद्वन्महाबाहो को वोद्धारं करिष्यति । वामदेव उवाच- चतुःसहस्रे द्विशते गते सौगन्धिके वने । निहता भीमसेनेन द्वापरान्ते नृपोत्तम ॥ सौगन्धिकाख्ये निहतास्ते' खला दैत्यपुङ्गवाः । रुद्रेण निहता ये च त्रैपुराश्च कलौ युगे ॥ चतुःसहस्रेदशते गते मणिमदादयः । जनिष्यन्ति ब्रम्हयोनौ दैत्याः सत्कर्मदूषकाः ॥ मिथ्यावादमसच्छास्त्रं करिष्यन्ति कलौ युगे। गोपयिष्यन्ति सद्धमान सच्छास्त्रपरिपन्थिनः॥ एवं धर्मेषु नष्टेषु शास्त्रेषु च कलौ युगे । उद्धरस्व महाबाहो मम धर्मान्सनातनान् । इत्याज्ञप्तो भगवता कलौ वायुभविष्यति ॥ १ एवं क्रोधवशाः खलाः इत्यपि पाठः । २ चतुःसहस्रे निशते इत्यपि पाठः ।
६ im मध्वमुखालङ्कारे मध्वनाम्नायतिरसौ सच्छास्त्राणि करिष्यति । निरसिष्यति पाषण्डान् दुःशास्त्राणि महामतिः॥ स्थापयिष्यति सद्धर्मान्सच्छास्त्रं व्याकरिष्यति । श्रोष्यन्ति मुनयः सर्वे शुकाद्या देवरूपिणः ॥ इति । तथा स्कान्दे श्रीमुष्णमाहात्म्ये नवमेऽध्याये कलौ पाषण्डभूयिष्ठे पाषण्डभूयिष्ठे धर्मलेशविवर्जिते । वैवस्वतेऽन्तरे प्राप्ते ह्यष्टाविंशयुगे कलौ ।। त्रैपुरा भारते युद्धे निहता राक्षसा भुवि । यदा प्रवर्तयिष्यन्ति मार्ग पाषण्डगोचरम् ।। तदा संप्रार्थितो देवैर्भगवान् हरिरीश्वरः। तत्कर्मकरणे दक्षं मातरिश्वानमादिशत् ॥ वायुस्तु यतिरूपेण जनिष्यति कलौ युगे । कृत्वा सच्छास्त्रसन्दर्भ स्थापयिष्यति सत्पथम् ।। एवमेव महादेवि नारायणपरायणाः। इत्यादि । नन्वेवं. केनचित्स्वमनीषया वैदिकविरुद्धमार्गान्तरं परिकल्प्य तत्र प्रमाणत्वेन स्वकल्पितवेदवाक्यमुदाहतु शक्यम् इति सर्वधर्माव्यिवस्था नष्टा स्यादिति चेन्न, अस्मदाचार्योदाहृतखिलश्रुतीनां प्रत्यक्षश्रुतिसमानार्थक- त्वेनाविरोधितया व्यवस्थानाशासंभवात् । किंच पूर्वमीमां- सायां तत्र तत्र "ऊर्ज पशूनाप्नोत्यूर्जीऽवरुध्या” इत्याद्याः खिलश्रुतय एवोदाहृताः। शंकरभाष्ये "अत एव चोपमा. सूर्यकादिवत्" इति सूत्रे "यथा ह्ययं ज्योतिरात्मा विव. स्वान्" इत्यादिखिलश्रुतिरुदाहृता । - तथा रामानुज- भाष्येऽपि "ज्योतिश्चरणाभिधानात्" इति सूत्रे "इन्द्रः शचीपतिबलेन पीडितः। दुश्च्यवनो वृषा समुत्ससा- सहि” इति खिलैव चतुष्पात् गायत्र्युदाहृता। तथा सदसच्छास्त्रतत्प्रवर्तकनिर्णयः। atkar श्रीकण्ठभाष्येऽपि--"यश्च शिव इति वाचं वदेत् तेन सह संवसेत् तेन सह संवदेत् तेन सह भुञ्जीत” इत्यादि- खिलश्रुतिरुदाहृता । स्वल्पखिलश्रुत्युदाहरणवद्वहुखिल- श्रुत्युदाहरणस्थाप्यदोषत्वात् । न ह्यस्मदाचार्यैः खिल- श्रुतिभिरेव प्रक्रिया कल्पिता; किन्तु प्रसिद्धश्रुत्यनुसारि- प्रक्रियायां स्वबहुज्ञत्वज्ञापनाय प्रसिद्धश्रुतिसमानार्थ- कखिलश्रुत्युदाहरणं कृतम् । एतेन संहितोदाहरणमपि व्याख्यातम् । एतेनाप्रसिद्धश्रुत्युदाहरणप्रसक्तानाप्त- त्वशङ्कानिरासाय स्वयं वायोस्तृतीयोऽवतार इत्युद्घोष इत्यादिकं निरस्तम् । पुराणवचनैरेव परमाप्तताया अस्मदाचार्यस्योक्तत्वात् । शिष्यानुग्रहेच्छया स्वेन स्वमाहात्म्यवर्णनस्थ न्याय्यत्वात् । अन्यथा- को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत् । इत्यादौ भारतकर्तुळसस्य नारायणांशत्वं सिद्धयेत् । श्रीमध्वाचार्याणां वाय्ववतारत्वं तु ब्राह्मे क्षेत्रकाण्डे वेङ्कटमाहात्म्ये तृतीयेऽध्याये- त्वं चापि गच्छ शैलेन्द्रं पूर्व स्वर्णमुखीतटम् । यत्र ब्रह्मशिला नाम सर्वमध्येऽवतिष्ठते ॥ अगस्त्यतपसः पश्चात् गयासांनिध्यमत्र वै । पादा ईशानविष्ण्वादिदेवानां तत्र सन्ति हि ॥ यतिरूपो मातरिश्वा अष्टाविंशतिमे कलौ । अवतीर्य वसत्यत् मध्वनामा वरे विभो । स वायुस्तफ्सा पुण्यप्रीत्या चागस्त्ययोगिनः । १ सरिन्मध्ये इत्यपि पाठः । २ यजन् स्वयंभुवस्तन मध्वनामापरं विभुमित्यपि पाठः ।
मध्वमुखालकारे तत्स्थापितालये पुण्ये चातुर्मास्यं करिष्यति ॥ शुकः श्रोष्यति सच्छास्त्रं पद्मतीर्थादिहागतः। इति प्रसिद्धपुराणवचनानुसारेण ऋग्वेदमन्त्रस्य तत्परत्वं युक्तम् । इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । इति स्मृतेः। एतेन प्रायेण हि तन्मते खमात्र- हृदयारूढानि वचनान्येवोपजीवितानि न तु न्यायाः प्रद- र्शिता इत्यादिकं निरस्तम् । पुराणवचनोपबृंहणतया तदनुसारेण वेदस्य व्याख्येयत्वात् । अत एव ब्रह्ममी. मांसायां तत्र तत्र स्मृतेश्च 'अपि स्मयते' इत्यादिवचना- न्युदाह्रियन्ते। अस्मदाचार्योदाहृतवचनानि स्वमात्रहृद- यारूढानि इति वदन् कूपमण्डूक एव । अस्मदाचार्यो- दाहृतन्यायदाह्य पूर्वमीमांसास्वारस्यं च तात्पर्यचन्द्रि- कावलोकिनां स्पष्टम् । एतेनासाधुभिरेव शब्दैर्व्यवहारः, श्लोकरचनायामन्वयासंभवो वृत्तान्यथाभावश्चेति निर- स्तम्, श्रुतिस्मृतिपुराणाभ्यासपाटवेनाचार्यैः कचिदार्ष- प्रयोगैर्व्यवहृतत्वात्। श्रतिस्मृतिगतच्छान्दसशब्दानुकर- णेनादोषत्वाच्च । “त्रियंबकं संयमिनं ददर्श इत्यादिषु कालिदासादेरपि तथा व्यवहारदर्शनाच्च । “न वा एके नाक्षरेण छन्दांसि वियन्ति न द्वाभ्याम्" इत्यादिश्रुत्या वृत्तान्यथाभावस्थादोषत्वोक्तेः । अन्वयासंभवोक्तिश्चा- ज्ञानादेव । सूत्रेष्विव भाष्येऽप्यनुषङ्गाध्याहारादिना विवक्षितान्वयस्य वक्तव्यत्वादिति । इति वनमालिदासकृते मध्वमुखालङ्कारे सदसच्छास्त्रतत्प्रवर्तकनिर्णयः।
९ तन्त्र सदसच्छास्त्रतत्प्रवर्तकनिर्णयः। नन्विदमनुपपन्नम् , त्वन्मते सर्वत्र तत्तत्पूर्वपक्ष- सिद्धान्तानामनुपपन्नत्वात् । प्रथमाधिकरण- पूर्वपक्षस्तावदयुक्तः । तथा हि ब्रह्ममीमांसाशास्त्र- मिदमनारम्भणीयम्, निर्विषयत्वात् । न तावदस्य सविशेष विषयः, तत्र मानाभावात् । वेदान्तानां निर्विशेषजीवस्वरूपमात्रपरत्वात् । न च जीव एव ब्रह्मेति स एव विषयः, तस्य स्वप्रकाशत्वेन अह- मिति सर्वानुभवसिद्धत्वात् । निर्विशेषे च तत्र निरूप. णीयधर्माणामभावादिति । तत्र निर्विशेषजीवरूपस्य ब्रह्मणः श्रुत्यन्तनिरूप्यत्वमङ्गीकृत्य शास्त्रनिरूप्यत्वा- संभवपूर्वपक्षो गुरूणां प्रणतिपरम्पराया विषये महापुरुष तच्छिष्योचितस्वप्रमाणानहत्ववादमनुकरोति । प्रमाणशिखामणयो हि वेदान्ताः नितान्तमनधिगत- मर्थमन्विच्छन्ति । पौरुषेयाणि तु शास्त्राणि उपायान्तरे- णावगन्तुं शक्येष्वर्थेषु श्रोतृबुद्धिसौकर्यार्थ · प्रवृत्तानि स्वोक्तमप्यर्थमविस्मरणार्थमानेडयन्ति न तथाऽनधिगता- र्थमन्विच्छन्ति । यदि वेदान्ता अपि स्वप्रकाशजीवस्वरूप- मात्रे कर्तृत्वभोत्कृत्वरहिते अकर्मकशेषे स्वातन्त्र्येण पर्य- वस्यन्ति तदा शास्त्रस्य पर्यवसाने काऽनुपपत्तिरिति चेन्न, अस्मद्ग्रन्थार्थानवबोधात् । न ह्यस्मत्पूर्वपक्षिणा वेदान्तानामनधिग्रतार्थकत्वं स्वीकृत्य मीमांसानारम्भ उच्यते । किन्त्वज्ञातविषयाभावादनुवादका वेदान्ता जपार्था वा पूर्वकाण्डस्य तु कर्मबोधकत्वमित्यनारभ्या ब्रह्ममीमासेत्युच्यते । न च "स्वाध्यायोऽध्येतव्यः” इति स्वाध्यायविधेर्निरर्थकवेदान्ताशे वैयर्थ्यमिति वाच्यम् ; विषनिहरणमन्त्रवछेदान्ताध्ययनस्यापि सार्थक्यात्।
मध्वमुखालङ्कारे उक्तं हि चन्द्रिकायाम्-"सिद्धचैतन्यबोधने श्रुतेर- नुवादकत्वं वायुक्षेपिष्ठादिवाक्यवद्विवद्वाक्यवच्च न्याय- प्राप्तत्वात्सह्यं वेदान्ताध्ययनं तु जपार्थमस्तु ।" एवं च यथा-अर्थवादाधिकरणेऽपौरुषेयत्वेऽप्यर्थ- वादानामक्रियार्थत्वेन विध्येकवाक्यत्वाभावादानर्थक्य- मिति भामते पूर्वपक्षः, प्रभाकरमते चार्थवादानां विध्येकवाक्यत्वात् । यतो वायुदेवताकं कर्म शीघ्रफल- दमतोऽप्यनुष्ठेयमित्यादिहेतोः “वायुर्वै क्षेपिष्ठा"इत्या- द्यर्थवादबोधितस्यार्थस्य रक्तपटन्यायेनोत्थाप्याका- ङ्क्षया विधीनामपेक्षितत्वान्न निरपेक्षबोधकत्व- रूपप्रामाण्यं चोदनानामिति पूर्वपक्षः। यथा च परमते शास्त्रयोनिसूत्रे कारणवाक्यमनुमानप्राप्तकारणत्वानु- वादि, ईक्षत्यधिकरणे च सांख्यस्मृतिप्राप्तकारणत्वानुवा- दीति पूर्वपक्षः। तथेहापि स्वतःसिद्धप्रत्यगात्मानुवा- दका वेदान्ता न विचार्या इति पूर्वपक्ष इति । वेदान्ता- नामनधिगतार्थकत्वमङ्गीकृत्य त्वदीयपूर्वपक्षस्याप्यसंभव एव । कर्तृत्वभोक्तृत्वादिरहितं कर्माशेषभूतं चैतन्यं तु अस्मत्पूर्वपक्षिणा नोपेयत एव । प्रमाणशिखामणित्वं तु वेदान्तानामधिगतार्थपरत्वेऽपि यथार्थज्ञानजनकत्वेनाप्यु- पपन्नम् । ननु त्वन्मते मीमांसारम्भात्प्रागेव वेदान्तानां प्रामाण्यं सिद्धम् । तथा हि--विष्णुना नारायणरूपेण विस्तरेण कृतं पुनासरूपेण च संक्षिप्तं ब्रह्मतकाभिधानं शास्त्रम् । तच तर्कशास्त्रं मीमांसाशास्त्रस्याङ्गम् । इदं हि सर्वेषां कर्म ब्रह्मकाण्डरूपवेदानां सकलगुणपूर्णो भग- वानेव मुख्यार्थ इति निर्णयाय प्रवृत्तम् । तत्वेतन्निर्णया- सदसच्छास्त्रतत्प्रवर्तकनिर्णयः। ११ र्थानां वेदानां तदर्थनिर्णायकानां प्रत्यक्षादीनामुपक्रमादीनां श्रुतिलिङ्गादीनां स्वरूपप्रामाण्यतबलाबलनिर्णाय- कत्वेनैवैतस्थापेक्षितमिति तदुक्तमनुव्याख्याने- प्रमाणन्यायमीमांसा क्रियते तर्कशास्त्रतः। मानन्यायैस्तु तत्सिद्धर्मीमांसामेयशोधनम् ॥ ब्रह्म तक च भगवान् स एव कृतवान्प्रभुः। पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ॥ उद्धृत्य पञ्चसाहस्रं कृतवान्वादरायणः ॥ इति । एवं च यदि वेदान्तानामखण्डजीवस्वरूपपरत्वे मा- नान्तरसिद्धतत्स्वरूपानुवादमात्रपर्यवसायित्वेन प्रामाण्यं न निर्वहेत्तदा तन्निहाय तेषामुपक्रमादिस्वारस्याचगत- मपि तद्विषयकत्वं परित्यज्य मानान्तरानधिगतसगुण- ब्रह्मविषयतैव पूर्वपक्षिणाप्यंगीकर्तव्या स्यात् । न हि सिद्धप्रामाण्यानां वेदवाक्यानामनधिगतार्थपर्यवसान- विरोधे क्वचिदपि वाक्यस्वारस्यानुरोधोऽस्ति । "त्रेधा तण्डुलान् विभजेत्”, “सृष्टीरुपद्धाति" "कपालेषु अपयति" इत्यादिषु तत्तत्स्वारस्थोपस्थितानप्यन्यतः प्राप्तिमतोऽर्थान्परित्यज्य लक्षणया प्रत्यक्षविध्यन्तरद्वारा- कल्प्यविध्यन्तरद्वारा वाऽनधिगत एवार्थे पर्यवसान- स्याङ्गीकृतत्वादिति चेन्न, अनवबोधात् तथा हि अज्ञात- मेयाभावात्प्रधानमूतस्य मीमांसाशास्त्रस्यानारम्भं ब्रुवता पूर्वपक्षिणैतदङ्गतर्कशास्त्रानारम्भस्य सुतरां वाच्यत्वात् । न हि मेयशोधकमीमांसानैरपेक्ष्येणैतदपोक्षितन्यायादि- समर्पकतर्कशास्त्रेणानधिगतार्थकत्वरूपं प्रामाण्यं वेदा- न्तानां सिद्धम् । किंच ब्रह्मतर्केण वेदान्तानां याथा- मध्वमुखालङ्कारे ादिलक्षणप्रामाण्यस्थ सिद्धावपि मीमांसारंभबीज- स्थानधिगतार्थकत्वरूपप्रामाण्यस्यासिद्धेः । एवं चेत्याद्य- युक्तम्, अस्मत्पूर्वपक्षिणा वेदान्तानामनधिगतार्थकत्व- रूपप्रामाण्यानङ्गीकारात् । सगुणे ब्रह्मणि मानाभावेन तत्परतया सार्थक्यासंभवात् । वस्तुतस्तु शब्दमात्र- तात्पर्यनिर्णयस्य ब्रह्ममीमांसाधीनत्वान्न ब्रह्मतर्केण वेदान्तानां किमपि प्रामाण्यं मीमांसारम्भात्प्राक् सिद्धम् । मीमांसाङ्गत्वं च तदपक्षितयत्किंचिन्न्यायादिव्युत्पाद- कत्वेनाप्युपपन्नम् । किंचानाधिगतार्थकत्वरूपप्रामाण्यं ह्यज्ञातविषयबोधकेनैव वेदान्तानां प्रतिपाद्यम् । अज्ञातो विषयस्त्वनन्तगुणालयो हरिरेव । न च स ब्रह्मतर्केण योध्यते। न वा मीमांसां विना तदुपबृंहितवेदान्तैर्बोध्यते। बोधने च मीमांसावैयापत्तिः । अत एव न हीत्याद्यपि निरस्तम् । "अयमात्मा ब्रह्म' इत्यादिवाक्यस्वारस्यानु- रोधस्यैव सिद्धप्रामाण्यानामपि वेदवाक्यानामनधि- गतार्थपर्यवसाने विरोधिनः सत्वात् । "त्रेधा तण्डुलान्" इत्यादिषु स्वरसोपस्थितमानान्तरप्राप्तं परित्यज्य लक्षणा- दिनाऽनधिगतार्थपर्यवसाने विरोधिनोऽसत्त्वात् । ननु त्वन्मते साक्षी सर्वप्रमाणाधिकः, नित्यत्वेना- प्रामाण्यहेतुदोषजन्यत्वाभावात् । साक्षिविषये सुख- दुःखेच्छाद्वेषादौ संशयविपर्यययोरदर्शनाच्च । दूरसंजात- जलादिज्ञानप्रामाण्यपरीक्षाधारायामन्ततो जलावगाह- नादिप्रयुक्तसुखादिग्राहकं साक्षिणमासाद्यैव विश्रान्तेश्च । अतः साक्ष्यनुभवविरुद्धेऽर्थे श्रुतिरपि न प्रमाणम् । साक्षिणों बलवत्त्वं च तव ब्रह्मतर्क एव सिद्धम् । अतोऽत्र साक्ष्यनुभवविरुद्धं घेदान्तानां सुखदुःखादिरहित- ३ सदसच्छास्त्रतत्प्रवर्तकनिर्णयः। निर्विशेषजीवस्वरूपमात्रपरत्वमपेक्ष्य पूर्वपश्वो न युज्यते इति चेन्न अनवबोधात् । तथा हि-साक्षिणा मुख- दुःखादिविशिष्टं गृह्यते, श्रुत्या च धर्मिमात्रमित्यविरोध- मवलम्ब्य पूर्वपक्षप्रवृत्तेः । न हि घटवद्भूतलमिदं भूतल- मित्यनयोर्विरोधोऽस्ति । न वा वेदान्तानां दुःखादि- निखिलाभावविशिष्टजीवस्वरूपपरत्वमुपेत्यास्मत्पूर्वपक्षः प्रवृत्तः । निखिलाभावस्याप्रत्यक्षत्वेन पूर्वपक्षासंभवात् । वस्तुतस्तु प्रत्यक्षसिद्धविशेषातिरिक्तविशेषाभाव एव निर्विशेषपदार्थ इति न कोऽपि दोषः। ननु त्वदिष्टं प्रमाण- बलाबलं ब्रह्मतर्क एव सिद्धम् , अतो वाक्यार्थनिर्णये प्रमाणानामुपक्रमादीनामुपक्रमादुपसंहारो बलीयानित्या- दिरूपस्त्वदिष्टो मतान्तरविलक्षणबलाबलविभागोऽपि तत्रैव सिद्धः। उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम् । श्रुत्यादौ पूर्वपूर्व च ब्रह्मतर्कविनिर्णयात् ।। इत्यनुव्याख्यानोक्तेः। त्वदभिमतोपक्रमादिबलाबला- नुसारी सर्ववेदानामर्थश्च त्वन्मते विचारात्प्रागेव गुरु- मुखाद्वगन्तव्यः । यावच्छक्तिसकलवेदाध्ययनपूर्वकं प्रतिवाक्यमस्यायमर्थ इति सर्वेषां वेदवाक्यानां गुरुमुखा- दर्थग्रहणं श्रवणम् , तच यावदज्ञाननिवृत्ति सम्यगावर्त- नीयम् । एवं श्रवणावृत्तिलब्धस्य वाक्यार्थग्रहणस्य स्थै- यार्थ न्यायविचारात्मकं युत्त्यनुसंधानं मननम् । विचार- शास्त्रं च मननविधिमूलकं न श्रवणविधिमूलकमिति हि स्वन्मतम् , तथा च निर्विशेषनिःप्रपञ्चजीवाभेदवाक्या- नामपि सगुणसप्रपश्चजीवभिन्नस्वाभिमतब्रह्मपरत्वम- - १४ मध्वमुखालङ्कारे वबोधयतां स्वगुरूणां सकाशात् बहुधावर्तितश्रवण- लब्धवाक्यार्थनिर्धारणस्तदनुगुणप्रमाणस्वरूपतलाब- लव्यवस्थापकब्रह्मविचारशास्त्रेतिकर्तव्यतर्कशास्त्राभ्या- सेन लब्धश्रवणसंवादस्तदनन्तरं तदर्थमननात्मके विचारे प्रवर्तमानः शिष्यः प्रत्यक्षादेः तर्कशास्त्राभ्यास- लब्धप्रमाणबलाबलस्याप्यनुगुणमर्थ त्यत्तवा सर्ववेदा- न्तानां निर्विशेषजीवस्वरूपमात्रमेवार्थ इति सर्वविरुद्धं कथमाशङ्केत । आशङ्काभावे वा कथं पूर्वपक्ष इति चेदु- च्यते; यथाश्रुतवाक्यार्थग्रहणरूपश्रवणेन धर्म्यज्ञाननिवृ- त्तावपि मनननिवर्तनीयायुक्तत्वादि शङ्काप्रयुक्तनिःप्रपञ्च- त्वादि कोटिंकसंशयसंभवेन पूर्वपक्षसंभवात् । निर्विशे- षादिवाक्यानां सविशेषादिपरत्वस्य गुरुभिर्विचारं विना बोधयितुमशक्यत्वात् । विचारात्प्राक् श्रवणमात्रेण वाक्यार्थनिर्णयो ह्यसिद्धः। मीमांसानारम्भे तद्ब्रह्म- तर्काभ्यासस्यैवासंभवेन श्रवणसंवादोक्तरयुक्तत्वात् । एतेन शिष्यस्य प्राक् अवगतार्थेन प्रतिबंधुमशक्यतयोदेतुं योग्याशङ्कव हि वादकथारूपे शास्त्रे पूर्वपक्षो नाम अतो- ऽत्र प्राक् संजातेन श्रवणेनाङ्गविद्याभ्यासेन च प्रतिबन्धुं शक्या शङ्का नोदेतुमर्हतीति निरस्तम् । विचारात्प्राक् श्रवणवृत्तिजन्यधर्मिज्ञानस्य निःप्रपञ्च- त्वादि शङ्का विरोधित्वाभावात् । न्यायानुसन्धानरूप- मननात् प्राक् निर्णये मननवैयापत्तेश्च । न च संशय- साधारणजानस्य साङ्गाध्ययनकाल एव संभवेन श्रवण. वैयर्थ्यम् सागाध्ययनेनापि तत्तदैः पवर्णस्वरादिना ब्रह्मापातप्रतीत्यनुदयेन तदर्थं श्रवणस्यावश्यकत्वात् । तदुक्तं न्यायामृते-"न हि कर्मकाण्डादिना ब्रह्मकाण्डेऽप्य- ७ सदसच्छास्त्रतत्प्रवर्तकनिर्णयः। वान्तरकारणादिवाक्येन पदवाक्यरूपाणां ब्रह्मरिस्ती"ति श्रवणेन सर्ववेदानां वर्णस्वरपदवाक्यरूपाणां ब्रह्मपरत्व- मापाततोऽवगतं न्यायानुसंधानरूपमनननामकविचारेण च निर्णय इति तत्त्वम् । ननु तथापि त्वत्पूर्वपक्षोऽनुपपन्नः । तथा हि सर्वेषां वेदान्तवाक्यानां निर्विशेषजीवस्वरूप- परत्वं प्रबलन्यायैः प्रतिष्ठापयच्छास्त्रमिष्यते न वा ? न चेत् प्रत्यक्षादिविरुद्धं सविशेषत्वादिविषयानेकावान्तर- वाक्यकृतान्तःकलहप्रतिरुद्धं च तेषां तत्परत्वं न सि- द्धयेदिति तत्सिद्धिसापेक्षानारम्भपूर्वपक्षोत्थानं न स्यात्। इष्यते चेत्तदारंभमपेक्ष्य विषयाभावेन तदनारंभः समर्थ्यत इति व्याघातः स्यादिति चेन्न । अनारम्भे हि निर्विशेषजीवस्वरूपमात्रपरत्वं न हेतुर्येन शास्त्रारम्भा- नारंभाभ्यां व्याघातासिद्धी स्याताम् । किन्तु निर्विषयत्व- मेव तत्र हेतुः। निर्विषयत्वं तु जीवस्य प्रत्यक्षसिद्धत्वात्, तद्भिन्नेश्वरे, प्रत्यक्षासिद्धजीवधर्मे च मानाभावात् । उक्तं हि न्यायसुधायां न तावदनात्मविषयेयं जिज्ञासा तस्य तृणादिलक्षणस्य प्रत्यक्षादिनैव निश्चितत्वात् धर्मादि- लक्षणस्त्वनात्मा शास्त्रान्तरादिनैव निर्णीतः आत्मा तु शरीरेन्द्रियादिसंघातव्यतिरिक्तो नास्त्येव । शरीरा- दिकं च यथायथं प्रत्यक्षादिभिर्निर्णीतं नन्वात्मा शरीराद्यतिरिक्तोऽहमित्यसंदिग्धाविपर्यस्तसाक्षात्प्रती- त्यैव निश्चयिते इति चेत्, तर्हि तत जिज्ञास्यः। अत एवानादितः तदीयतत्वज्ञाने विद्यमानेऽपीष्टानि- ष्टप्राप्तिपरिहारयोरदर्शनानासौ जिज्ञासितः कस्यचित्प्र- योजनस्येष्टे ईश्वरविषया जिज्ञासा भविष्यतीति चेन्न एव मध्वमुखालङ्कारे तस्यैवाभावात् न चैवमीश्वरादिपदानामानर्थक्येनाप- दत्वप्रसंग इति वाच्यम् । तेषां कथंचिज्जीवविषय- स्वोपपत्तेः । सोऽपि हि स्वशरीरेन्द्रियादीनामीष्ट इति । एको लाघवाख्यो न्यायोऽस्मत्पूर्वपक्षिणाऽपि स्वीक्रियते। तेन प्रत्यक्षसिद्धजीवातिरिक्तचैतन्याभावसिद्धथा ईश्व- रादिपदानां यथाकथंचिजीव एव पर्यवसानम् । उक्तं हि न्यायसुधायाम्-"प्रतीतार्थत्वोपपत्तावप्रतीतार्थकल्प- नायां गौरवप्रसंगात्" इति । प्रत्युत त्वदीयवाचस्प- तिविवरणपूर्वपक्षयोरेव व्याघातः । वाचस्पतिमते हि प्रत्यगात्मन एव ब्रह्मत्वात्तस्य चाहामिति प्रकाशमान- त्वात्तज्ज्ञानाय न शास्त्रमारंभणीयमिति पूर्वपक्षः । विव- रणमते तु प्रत्यग्ब्रह्मैक्यस्य विषयत्वेनाभिमतत्वात्प्रत्य- ग्ब्रह्मणोश्च विरुद्धस्वभावयोरैक्यासिद्धेस्तद्विचारार्थ शास्त्रं नारम्भणीयमिति पूर्वपक्षः । न च प्रत्यगात्मन एव ब्रह्मत्वं प्रत्यग्ब्रह्मणोरैक्यं च शास्त्रं विना सिद्धयति, येन व्याघातो न स्यात् । ननु प्रत्यगात्मन एव ब्रह्मतया विषयत्वं प्रत्यक् ब्रह्मणोरैक्यस्य च विषयत्वं च सिद्धान्त्यभिमतमेवानूद्य तयोरेकस्य सिद्धत्वेनान्यस्यासिद्धत्वेन विषयत्वासंभवः इति तो पूर्वपक्षी प्रवृत्तौ तत्र कुतः प्रत्यगात्मैव ब्रह्मेति वा कुतः प्रत्यग्ब्रह्मणोरक्यमिति वा पूर्वपक्षिणं प्रति सिद्धान्तिनो हेत्वाकाङ्क्षा न भवति । सिद्धान्त्यभि- मतस्यैव तयोविषयत्वस्य पूर्वपक्षिणाऽनूदितत्वात् । विषयोपपादकशास्त्रारम्भमनपेक्ष्य तदना- रम्भपूर्वपक्षप्रवृत्तेन व्याघात इति चेन्न, यदि शास्त्रं प्रत्यक्षसिद्धजीवब्रह्मैक्यादिपरं स्यात्तद्यनारम्भणीयं ततस्तन्त्र सदसच्छास्त्रतत्प्रवर्तकनिर्णयः। स्यात् । अनारम्भणीयं तु न भवति, अत उक्तैक्यादिपरं न भवतीति हि त्वदीयपूर्वपक्षः स्यात् । तथा चापाद्य- व्यतिरेकनिर्णयस्यापत्तिं प्रति हेतुत्वेन शास्त्रारम्भः पूर्वपक्षिणोऽप्यावश्यकः। तथा चासंगत एव पूर्वपक्षः। न युक्तैक्यादिप्रतिपादनायेदमधिकरणं प्रवृत्तं येन तत्खण्ड- नाय पूर्वपक्षः प्रवर्तेत । एतेन त्वन्मते तु निर्विशेषजीवचिन्मात्ररूपं ब्रह्मेति सिद्धान्त्यनभिमत एवार्थे विषयत्वमापाद्य पूर्वपक्षप्रवृत्ति- रिति तस्मिन्नर्थे सिद्धान्तिनो हेत्वाकाङ्क्षोदयेन तदुप- पादकशास्त्रारम्भस्य त्वत्पूर्वपक्षिणापेक्षणीयत्वाद्या- घात इति निरस्तम्, निर्विशेषजीवचिन्मात्रपरत्वबोधक- शुक्रशास्त्राभ्युपगमेन प्रेक्षावदनुपादेयत्वरूपानारम्भपूर्व- पक्षप्रवृत्तेः । किन्त्वनारम्भे विषयाभावस्यैव हेतुत्वे- नोक्तेः । निर्विशेषजीवस्वरूपमात्रपरत्वस्य तत्र हेतु- त्वानुक्तेश्च । किं च सिद्धान्त्यनभिमतमर्थ स्वीकृत्य शास्त्रानारम्भपूर्वपक्षे तदुपपादनाय शास्त्रारम्भोऽपेक्षित इति व्याघातश्चेत्पूर्वमीमांसाद्यधिकरणपूर्वपक्षेऽपि व्या- घातः स्यात्। स खल्वेवं प्रवृत्तः-अध्ययनविधिना विश्व- जिन्न्यायावेदाध्ययनस्य स्वर्गार्थताऽवबोधकेनार्थज्ञानेतर- फलार्थ नीयमानानां वेदानां विषनिहरणमन्त्राणामि- वार्थविवक्षाग्राहकं प्रमाण नास्तीति वेदवाक्यान्यापाततो परिपूर्णानुपपन्नार्थानि लक्षणानुषङ्गाध्याहारव्यवधा- रणकल्पनार्थिकार्थकल्पनादिभिरवश्यमुपपादनीयानीत्यत्र नियामकाभावादनुपपत्तिशङ्कोकलुषितं वेदार्थविचारा- त्मकं शास्त्रं नारम्भणीयमिति तत्रापि स्वाध्यायाध्य- यनस्य स्वर्गाद्यर्थत्वं सिद्धान्त्यनभिमतमेव पूर्वपक्षिणो- १८ मध्वमुखालङ्कारे पपाद्यमिति तदुपपादकविश्वजिन्न्यायादिप्रतिपादकशा- स्त्रारंभापेश्वाऽस्त्येव । ननु धर्मजिज्ञासासूत्रेऽध्ययनवाक्यमेकमेव विचार्यम् तस्य सिद्धान्त्यभिमतदृष्टफलरूपार्थजानार्थत्वे वैयर्थ्य- प्रसंगात्सर्वापेक्षितस्वर्गार्थत्वं वाच्यमिति शंक्यम् पूर्वपक्ष एव किंचिन्न्यायोपपादनमिति तदर्थ न शास्त्रारम्भा- पेक्षेति चेन, अध्ययनविधिद्वारा तदुपात्तानां सर्वेषामेव वाक्यानां विचार्यत्वेन शास्त्रारम्भापेक्षावश्यकत्वात् । ननु तेषां वाक्यानामविवक्षितार्थत्वे पूर्वपक्षिणोपपाद- नीये विषनिहरणादिमन्त्रवदन्यार्थ नीयमानत्वमेक एव न्यायः। सोऽपि पूर्वपक्ष एव व्युत्पादयितुं शक्य इति तदर्थमपि न शास्त्रारम्भापेक्षा । न हि कियन्तमपि न्यायमप्रय पूर्वपक्षः क्रियत इति चेन्न, अत्माकमपि लाघवाख्यन्यायेनेश्वराभावसिद्धया जीव एव पर्यवसानेन तस्य प्रत्यक्षसिद्धत्वादनारभ्यं शास्त्रमिति पूर्वपक्षसंभवात्। एतेन त्वन्मते नैकमेव वेदान्तवाक्यं विषयः, तस्यैकस्य 'केनचिन्न्यायेन पूर्वपक्ष एव व्युत्पादितेन निर्विशेषचि- न्मानपरत्वसिद्धावपि वाक्यान्तराणां सगुणब्रह्मपरत्वा- निवारणेन तद्विचारार्थ शास्त्रस्यारभ्यत्वप्रसंगात् । अतः पूर्वपक्षिणा सर्वेषामेव वेदान्तानां निर्विशेषचिन्मात्र- परत्वव्यवस्थापनेन सिद्धान्त्यभिमते सगुणब्रह्मणि प्रमा- णाभावात्तद्विचारार्थमपि शास्त्रं नारभ्यमिति वाच्यम् । त्वदभिमतं च न सर्वेषां वेदान्तानां निर्विशेषजीव- चिन्मानपरत्वे सार्वत्रिक एको न्यायोऽस्ति, उपक्रमादीनां श्रुतिलिङ्गादीनां परस्परवाध्यवाधकभावप्रकार- शास्त्र- सदसच्छास्त्रतत्प्रवर्तकनिर्णयः शालिनां तत्र व्यवस्थापितत्वात् । न च तेषां स- र्वेषामेकस्मिन्नेवात्र पूर्वपक्षे व्युत्पादनं युक्तम् , तथा सति सर्वस्थापि शास्त्रस्यैकाधिकरण्यकल्पनाप्रसंगात् । तस्मात्तावतां न्यायानां व्युत्पादकमेकं शास्त्रमिहापेक्षित- मित्यत्रैव व्याघातो न धर्ममीमांसारम्भपूर्वपक्ष इति निरस्तम् । प्रत्यक्षाद्यप्रतीतेश्वराभावसाधकलाघवादि यत्किश्चिन्यायस्यास्मत्पूर्वपक्षिणाऽप्यारभ्यत्वेन तेनेश्वर- परवाक्यानां यथा कथंचित्प्रत्यक्षसिद्धजीवपरत्वोपपत्ती शास्त्रस्यारभ्यत्वात् । वेदान्तानां निर्विशेषचिन्मानपरत्वे एकस्य न्यायस्यासत्त्वेऽपीश्वराभावसिद्धौ जीव एव हि पर्यवसानम् । च त्वत्पूर्वपक्षिणोऽतीन्द्रियधर्मादिकमपि न सिद्धयेदिति वाच्यम् , जीवभिन्नेश्वरे "अयमात्मा ब्रह्म" इत्यादीनां विरोधिनां वाक्यानामिव धर्मबोधकवाक्ये विरोधिनोऽसत्त्वात् । प्रत्युत त्वदीये वाचस्पतिपूर्वपक्ष प्रत्यगात्मन इदानीमहमिति प्रकाशमानरूपमध्यासपरि- निष्पन्नं तदिह न विचार्यम् । किं तु संसारदशायामना- विर्भूतं निर्विशेषं तस्य तात्त्विकरूपमस्ति श्रुतिप्रसिद्धम् , तद्विचारणाय च बहूनां निर्विशेषवाक्यानामभेदवाक्यानां चान्यपरत्वं वाच्यमिति तदुपपादकशास्त्रारम्भावश्यक- त्वेन व्याघातः। न चैकयैव प्रत्यक्षादिविरोधयुक्त्या तेषामन्यपरत्वकल्पनेति वाच्यम्, अखण्डार्थकाना- मैक्यादिवाक्यानां धर्मिमात्रपरत्वेन प्रत्यक्षाद्यविरो- धित्वात् । न हि धर्मिमात्रग्राहकमानस्य तत्राधिकधर्मा- दिबोधकेन मानेन न वाधोऽस्ति । अत ऐक्यादि- २० मध्वमुखालङ्कार वाक्यानां गत्यर्थं त्वत्पूर्वपक्षिणः शास्त्रारम्भापेक्षाऽस्त्ये- वेति सुस्थो व्याघातः। ननु स्वप्रकाशस्यापि जीवस्य शास्त्रविषयत्वे च न काऽप्यनुपपत्तिः । सिद्धान्तेऽपि सत्यस्यानादे- र्जीवाश्रितस्थ तं प्रति तदीयानन्दादिकं ब्रह्मस्व- रूपं तद्गुणगणादिकं चावृण्वतो मायाविद्याप्रकृ- त्यादिशब्दवाच्यद्रव्यरूपस्य ज्ञानविरोधिनो भावरूप- स्याज्ञानस्य"अनादिमायया सुप्तो यदा जीवः प्रबुध्यते" "विश्वमायानिवृत्ति"रित्यादिवाक्यसिद्धस्येष्यमाणत्वात्। अन्यथा मुक्तिसंसारयोरविशेषः स्यात् । सिद्धान्ते हि नित्यज्ञानानन्दस्वरूप एव जीवः । विकाररूपाणां धर्माणां मुक्तावभावान्मुक्तौ पुरुषार्थरूपस्य नित्यानन्दप्रकाशस्ये- दानीमपि सत्त्वात् । अत ईश्वरापरोक्षज्ञानेनाज्ञाननिवृत्ती प्राक् सत एवानन्दस्य बाल्येऽपि सतः पुंस्त्वादेयौवन इव मुक्तावभिव्यक्तिः। सुषुप्त्यादौ तत्सत्त्वेऽपि काम- कर्मादिवृत्त्यभावाभिव्याक्तिः। तस्यानादित्वेन स्वोपा- दानगतोत्तरावस्थारूपनिवृत्त्यसंभवेऽपि प्रमाणसिद्ध- निवर्तकोपनिपातबलात् स्वरूपप्रध्वंसरूपा निवृत्तिरिति सर्वोऽप्ययमर्थः पुंस्त्वाद्यधिकरणे स्थितः। अनिर्वचनीय. त्वादिकं परं तस्य नेष्यते । तथा च यस्त्वया संसार- दशायां प्रकाशमानस्यैव जीवस्य स्वरूपभूत अानन्दस्त- दानीमावृत इष्यते, स एव श्रुतीनां जीवपरत्वपक्षेऽन- धिगतो विषय इति न तस्मिन् पक्षे विषयाभावसिद्धि- रिति चेन्न, नाहं पूर्णानन्द इति पूर्णानन्दत्वाभावग्राहक- प्रत्यक्षेणायोग्यतानिर्णयादागमेन जीवे पूर्णानन्दत्वादिकस्य बोधयितुमशक्यत्वात् । यदीश्वराचिन्त्यशक्त्याऽना- P सदसच्छास्त्रतत्प्रवर्तकनिर्णयः । २१ वृतस्यापि जीवस्यावृतत्वं सिद्धान्तिनोपेयते । तदीश्वर- स्यैव लाघवादिना पूर्वपक्षिणा निराकृतत्वात् । प्रकाश- मानस्यावरणासंभवाच्च । सुषुप्तावपि सुखरूपत्वमेवानु- भूयते न तु पूर्णानन्दत्वादिकमपि पुंस्त्वाद्यधिकरणोक्त- न्यायादिकमाच्छाद्य पूर्वपक्षोदयात् । न हि सिद्धान्तीयाः सर्वे न्यायाः पूर्वपक्षिणारभ्यन्ते । तथात्वे हि कुत्रापि शास्त्रे पूर्वपक्षोदयो न स्यात् । ननु जीवतदानन्दयोरभेदेऽपि गुणगुणिभावनिर्वाह- कस्य भेदप्रतिनिधेर्विशेषस्य सत्त्वात्स्वप्रकाशजीवस्व- रूपानावरणेऽप्यानन्दस्यावरणं युक्तम् । अखण्डजीव- पक्षे जीवतदानन्दयोर्विशेषाभावादयुक्तमित्यशुद्धम् । अखण्डपक्षे आविद्यामहिम्ना प्रकाशमानस्यैवाप्रकाशो- पपत्तेः। सा ह्यघटघटनापटीयसी ब्रह्मशक्तिः, तस्या- स्तादृशो महिमा नेष्यते चेत्सविशेषाभेदपक्षेऽप्ययं विरोधो दुष्परिहरः । न हि विशेषोऽस्तीत्येतावता तत्प्रकाशस्याविद्यावरणेन किंचिदपनीयते । कुड्यावरणेन तत्संनिकर्षप्रतिबन्धवत्पटशौक्ल्यस्य महा- रजनावरणेन तज्ज्ञानप्रतिबन्धवच्चानानन्दस्य संनिकृष्ट- त्वप्रतिबन्धस्य तत्प्रकाशोत्पत्तिप्रतिबन्धस्य च वक्तुमा शक्यत्वात् । नित्यस्य जीवचैतन्यस्यैव तत्प्रकाशतया तदुत्पत्तेस्तत्कारणेन्द्रियसंनिकर्षस्य चानपेक्षणात् । छत्रा- द्यावरणेनालोकस्य विषयसम्बन्धजीवचैतन्यस्यानन्द- संबन्धप्रतिबन्धस्यापि वक्तुमशक्यत्वाच तयोर्विषय- विषयिभावसंबन्धस्यागन्तुकस्यासत्त्वात् स्वरूपाभिन्न- धर्मत्वात् । न चानन्दजीवचैतन्ययोर्विषयविषयीभावः सदा तयाऽत्मना स्थितोऽपि मुक्तौ व्यक्तात्मतापद्यत घटस्य २२ मध्वमुखालङ्कारे इति तदानीमेवानन्दप्रकाशो न प्रागिति वाच्यम् । व्यक्तेरपि नित्यत्वाभ्युपगमे मुक्तौ जीवस्य सविकारत्वा- पत्तेर्नित्यानित्ययोः शक्तिव्यत्त्योदप्रसंगाच्चेति- "न विशेषात्मता चेयमनित्या शक्तिरूपता । सैव यत्सविशेषा स्थाद्विशेषोऽन्यो न चाप्ययम् ।" इत्यनुव्याख्याने व्यक्तः शत्तयभिन्नत्वेनानित्यत्वनिषेधाच इदानीमप्यानन्दप्रकाशप्रयुक्तस्य स्वात्मनि प्रेम्णोऽनु- भवाच । तस्मात्त्वद्रीत्या लोकानुभवेन जीवानन्दे प्रकाश- मान एवाप्रकाशत्वं वाच्यम् । तच्चाविद्यामहिम्नैवोपपाद- नीयम् । तथैवोपपादितं च सुधायाम्-"अतः परमेश्वर एव सत्त्वादिगुणमय्याविद्याविरोधित्वेनाविद्यया स्वाधीन- प्रकृत्याख्ययाऽचिन्त्ययाऽभुतया स्वशत्तया जीवस्य स्वप्रकाशमपिस्वरूपचैतन्यमाच्छादयतीति युक्तम्" इति । तत्र विशेषोऽकिंचित्कर इति चेन्न, विशेषो हि वस्तु- स्वभावरूपः, अतो न तेनाविद्याया अविद्यया वा तस्या- न्यथासिद्धिः। अविद्या च सिद्धान्ते स्वीक्रियत एव । तामादाय त्वयाऽस्मत्पूर्वपक्षो दूष्यते, सिद्धान्तो वा? नाद्या, प्रत्यक्षगृहीतातिरिक्तधर्मान् लाघवादनङ्गीकुर्वता- ऽस्मत्पूर्वपक्षिणा जीवे आवरणनिरासात् । सिद्धान्त- न्यायानामनाच्छादने कुत्रापि पूर्वपक्षासंभवाच । अस्म- सिद्धान्तयुक्त्या पूर्वपक्षखण्डनस्य त्वया वक्तुमनहत्वाच्च । जीवभिन्नमीश्वरमनङ्गीकुर्वाणमस्मत्पूर्वपक्षिणं प्रति प्रका- शमानेऽपीश्वराचिन्त्यशत्त्यावरणोक्तेर्मोहमूलकत्वाच्च । नान्त्यः, सिद्धान्तोपपत्तेर्वक्ष्यमाणत्वात् । यत्तु जीवस्य ब्रह्मणः सकाशान्मुख्यो भेदः सन्नपि ब्रह्मदर्शनं यदा निरोधुं न शक्नोति तदा जीवस्य २३ . सदसच्छास्त्रतत्प्रवर्तकनिर्णयः। स्वानन्दाद्विशेषो भेदप्रतिनिधिः तद्दर्शनं निरोदुधुं न शक्नोतीति किं वाच्यम् ? न चाव्यक्तखभावत्वाद्ब्रह्म णस्तदप्रकाशोपपत्तिरिति वाच्यम्, तथा सति ब्रह्मणः प्रकाशप्रसत्यभावेन जीवाश्रितमज्ञानं ब्रह्मतद्धर्मविषय. मानन्दपारतन्त्र्यादिखधर्मविषयं चेति कल्पनावैयर्थ्यप्रसं- गात् । उपासनान्तरभावेऽप्यप्रकाशापातेन मोक्षशास्त्र- वैयर्थ्यप्रसंगाच्च । न चाव्यक्तखभावमपि ब्रह्मोपासनया प्रसन्नं सत् खशक्त्यैवापरोक्षीभवति। तचापरोक्षज्ञान- मन्तःकरणवृत्तिरूपमिति तेनैव मोक्षः, अतः स्वरूप- चैतन्यस्य कदाचिदपि ब्रह्म न विषय इति वाच्यम् , त्वया तदेव मे"यः पुत्रात्स यो वित्तात्" इति श्रुत्या ब्रह्म परमप्रेमास्पदतयोक्तमिति मुक्तौ स्वरूपानन्दानु- भववत्तदनुभवस्थापि पुरुषार्थतयाङ्गीकारात् । मुक्ती माहात्म्यग्रहणपूर्वकलेहरूपाया भक्तरुपासनायाश्च त्वयाङ्गीकृतत्वाच । तस्मान्मुक्तौ स्वरूपचैतन्यातिरिक्त- ज्ञानाभावात्स्वरूपचैतन्यस्य च तदानीमागन्तुकविष- विषयीभावासंभवादनादिकालमारभ्यैव ब्रह्मणस्तद्गुण- गणस्य च मुक्तियोग्यानां स्वरूपचैतन्यप्रकाशनं वक्तव्य- मेव । स्वीकृतं च तथा त्वया "स्थानविशेषात्प्रकाशा- दिवत्"इति सूत्रे । तत्र हि चतुर्मुखादिजीवानन्दानां ब्रह्मानन्दप्रतिबिम्बत्वेऽपि बिम्बावैचिच्याद्वैचित्र्यानुप- पत्तिमाशङ्कय तत्तज्जीवगतानादिभत्त्यादिगुणवैचित्र्या- त्तदानन्दानामनादिवैचित्र्यमुपपद्यते इत्युक्तम् । उदाहृतं च त्वया- ऐश्वर्यात्परमाद्विष्णोर्भक्त्यादीनामनादितः । ब्रह्मादीनां सूपपन्ना ह्यानन्दादेर्विचित्रता ॥ इति ।
तत्तत्कालानाम- तव मध्वमुखालङ्कारे युक्तं चातीतानागतपदार्थानां व्याकृताकाशस्य तदंशानां व्यवहितानां प्राच्यादीनां दिशां मनसः परमाणूनां तदन्वयपरंपराणां च साक्षि- प्रत्यक्षविषयत्वमङ्गीकुर्वतः ब्रह्मणस्तद्विषयत्वं न्याय्यम् । एवं ब्रह्मणस्तद्गुणानां च प्रकाशमानत्वेऽपि त्वयाऽस्य शास्त्रस्य निर्विषयत्वनिरासायाप्रकाशमान- त्वमप्यविद्यामहिम्नवोपपादनीयम्, तथैवोपपादितं च सुधायाम्- "यद्यपि जीवचैतन्यं ब्रह्मस्वधर्मप्रकाशात्मकं तथापि परमेश्वराचिन्त्याद्भुतशक्त्युपबृंहिताविद्याव- शान्न तथा संसारे प्रकाशयतीति तत्तुच्छम् , ईश्वरतद्धर्म- स्वपूर्णानन्दत्वादिविषयकज्ञानरूपो हि जीवः संसार- दशायां न तत् प्रकाशयति संबन्धाभावात् । न हि स्वासंबद्धं ज्ञानं प्रकाशयति । न च स्वरूपातिरिक्तो विषयतादिसम्बंधी नास्त्येवेति वाच्यम्, नियमोपगृही- तवेदान्तश्रवणमनननिदिध्यासनादिजन्यस्वयोग्याशेष - भगवद्विशेषविषयकापरोक्षान्तःकरणवृत्तिप्रागभावध्वं- सस्यैव वृत्तितदुध्वंसान्यतररूपस्येश्वरतद्धर्मजीवरूपज्ञा- नयोः संबन्धत्वस्वीकारात् । उक्तप्रागभावध्वंस एव हि नित्यस्येश्वरजानादिविशेषस्य जीवपूर्णानन्दाच्छादकावि- द्यानिवर्तकस्येश्वरमहाप्रसादस्य जीवे सम्बन्धः । ईश्वर- महाप्रसादेनैव जीवपूर्णानन्दत्वाच्छादकाविद्यानिवृत्तिः । सैव च जीवपूर्णानन्दत्वस्वरूपभूतज्ञानयोः सम्बन्धः यथा मायिनां वृत्तिश्चिदुपरागार्थति मते व्यापकस्यापि चैत- न्यस्य वृत्तिद्वारैव सम्बन्धः, यथा च तार्किकाणां सर्व- गतस्य गोत्वादेः सास्नादिमत्येव सम्बन्धो न केशरादि- ૨૫ HER मायालयः BHA SAMSHODHAN जिज्ञासान्यायवर्णनम् r मयक्तौ तथाऽस्माकमपि अविस्वरूपज्ञानस्येश्वरप्रसाद स्य चेश्वरे जीवे चोक्तवृत्तिनाराभावध्वंसादिरेव सम्बन्ध- घटकः सम्बन्ध एव वास्तु, ईश्वरमहाप्रसाद एव जीवस्य मोक्षे हेतुः । “यमेवैष वृणुते तेन लभ्यः" इत्यादिश्रुतेः। "मत्प्रसादावाप्नोति शाश्वतं पद्मव्ययम् । तस्मिन्प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते । समाश्रिताद्ब्रह्मतरोरनन्तानिःश्रेयसं पक्वफलं प्रयात ॥ एवं ज्ञातोहि भगवाननादिः पुरुषोत्तमः। प्रसीदत्यच्युतस्तस्मिन् प्रसन्ने क्लेशसंक्षयः॥" इत्यादिस्मृतेश्च न च "दृष्टैव तं मुच्यते” इत्यादि- श्रुत्या ज्ञानस्यैव मोचकत्वमिति वाच्यम्, दण्डेनैव घटा, शंखः पाण्डुर एवेत्यादिवदेवकारेण. मोक्षे ज्ञाना- योगव्यवच्छेदबोधनात् । न च तावता प्रसादस्याहेतु- त्वम् , “व्रीहिभिर्यजत"इत्यादौ पुरोडाशद्वारा बीहीणा- मिव प्रसादद्वारा ज्ञानस्यापि मोक्षहेतुत्वोपपत्तेः । तादृश- ज्ञानं तु विचारादिति कर्तव्यः शास्त्रविचार इत्यस्म- सिद्धान्तः । प्रागस्फुरन्तोऽपि षड्जादयो गान्धर्वशास्त्र- वासितश्रवणे. स्फुरन्ति यथा तथा अव्यक्तस्वभावो भगवान् स्नेहपूर्वकश्रवणमनननिदिध्यासादिना वासिते मनसि प्रसन्नः सन्नपरोक्षोभवति। "आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" "मनसैवानुद्रष्टव्यं दृश्यते त्वग्रंया बुद्धया इत्यादिश्रुतेः। “यन्मनसा न मनुते"इत्यादिश्रुतिस्त्वसंस्कृतमनोऽभिप्राया। अतो न मोक्षशास्त्रवैयर्यम् । सुखस्वरूपजीवस्य सदा भानेऽपि तनिष्ठपूर्णत्वम् शास्त्रविचारप्रयोज्यभगवदापरोक्ष्यहेतुक- प्रसादजन्याविद्याध्वंसे सत्यवभासते । ततः पूर्व ४ मध्वमुखालङ्कारे स्वरूपभूतज्ञानस्य तत्संबन्धाभावात् । पूर्णत्वं च स्व- प्रयोजकाविद्यावत्त्वसम्बन्धावच्छिन्नप्रतियोगिताकसमाना. धिकरणदुःखप्रागभावासमानकालीनदुःखत्वावच्छिन्ना- भाववत्त्वम् । अत एव स्वरूपचैतन्यस्य च तदानीमा. गन्तुकविषयविषयिभावाभावादित्यादिप्रलापोऽपि नि- रस्तः । स्वीकृतं चेत्यादिकं शोभते । ब्रह्मादिजीवा- नन्दानामीश्वरानन्दप्रतिबिम्बत्वं हि तद्धीनत्वे सति तत्सदृशत्वम् । वैचित्र्यमपि तस्य स्वरूपत एव । स्वस्व- योग्यतानुसारेण साधनसम्पत्तिस्तया तारताम्येनैव स्वयोग्याशेषभगवद्विशेषापरोक्ष्यम् , तेन च तारतम्येनैव जीवेषु हरिप्रसादसम्बन्धस्तेन स्वभावतस्तारतम्ययुक्तानां जीवानन्दानामाविर्भावः । अनादिरपि स्वरूपाभूता भक्तिरुक्तान्तःकरणवृत्त्यैव आविर्भवति । बाह्यतत्तदि- न्द्रियहीनानामपि दिक्कालादिव्यवहारेण दिक्कालादेः सदा साक्षिवेद्यत्वेऽपीश्वरस्य संसारदशायां साक्षिवेद्यत्वे मानाभावः । अन्यथा तत्र विप्रतिपत्तिर्न स्यात् । अविद्ययैव जीवस्य स्वपूर्णत्वादिधर्मेश्वरतद्धर्मेषु सम्बन्ध- विघटकतया संसारदशायामप्रकाशोत्पत्तावपीश्वराचिन्त्य- शत्त्युपबृंहितेत्युक्तिस्त्वविद्यादिबन्धस्येशाधीनत्वसूचना. यैव । एतेन परमते- सविशेषानन्दस्येवात्यन्तभिन्नस्य ब्रह्मण इव चात्यन्ताभिन्नस्याखण्डानन्दस्य प्रकाशमान- स्याप्यप्रकाशमानत्वमविद्यामहिम्नैव ममास्त्विति निर- स्तम् । प्रकाशमाने आवरणस्यास्माभिरनङ्गीकारात् । भगवत्प्रसादरहितस्य स्वरूपज्ञानस्याविद्याऽविरोधि- त्वाच । न च मन्मतेऽपि वेदान्तजन्यवृत्तिरेवाज्ञानविरो- धिनी । सा चेदानीं नास्तीति वाच्यम्, तस्याप्यधिष्ठा- न जिज्ञासान्यायवर्णनम् नापरोक्षत्वेनैव त्वयाज्ञानादिविरोधित्वस्य स्वीकार्य- त्वात् । ब्रह्मणः सर्वप्रत्ययवेद्यत्वमङ्गीकुर्वतस्ते अधिष्ठान- ज्ञानस्य सदैव सत्त्वात् । वेदान्तजन्यज्ञानत्वेन निवर्तक- त्वाङ्गीकारे द्वेषादिनिवत्यैच्छादिवङ्कन्धस्य सत्यत्वापत्तेः, दृष्टान्तासिद्धेश्च । न हि शुक्तिरूप्यादिकं तत्विज्ञानं वा वेदान्तजन्यवृत्तिनिवर्त्यम् । न च वेदान्तजन्य- वृत्तेर्विशिष्टावगाहिन्या भ्रमरूपत्वेन नाज्ञानादिनिवर्त- कत्वम्, भ्रमस्याप्यधिष्ठानांशेऽज्ञानविरोधित्वात् । च ब्रह्मान्याविषयकं ब्रह्मज्ञानं तदज्ञाननिवर्तक- मिति वाच्यम् , घटपटज्ञानेन घटाज्ञानस्य दण्डिपुरुषज्ञानेन पुरुषाज्ञानस्य च निवृत्त्यनापत्तेः (निवर्तकत्वानापत्तेः)। ननु त्वदुक्तोऽर्थः क इति न जानामि दूरे जलमिव भासमानं किमिति न जानामीति प्रत्यक्षतः शब्दतश्चाव- गतमप्यर्थं साकल्येनानूद्य तत्रैव प्रश्नो ज्ञानानुभवश्च दृश्यते । अतो बाह्येऽपि विषये प्रकाशमानस्याप्रकाशमा- नत्वं प्रसिद्धमेवेति चेन्न, न जानामीत्यहमर्थनिष्ठतया प्रतीयमानस्य त्वन्मतेऽनादिभावरूपाज्ञानत्वासम्भवाद- हमर्थस्याजानकल्पितत्वात् । साक्ष्यवेद्य सुखदुःखा- ज्ञानादौ प्रातीतिके च भावरूपाज्ञानाभावेन सुखादिकं न जानामि शुक्तिरूप्यं न जानामीत्यादेर्जानाभाव- विषयत्वे त्वदुक्तमर्थं न जानामीत्यादेरपि तथात्वाच्च । अतः सामान्यतोऽज्ञातस्यापि विशेषत एवाज्ञानप्रश्नादि- विषयत्वं वाच्यम्। अन्वयव्यतिरेकाभ्यां विशेषप्रश्ने सामान्यज्ञानमेव तन्त्रम् । विशेषाज्ञानानुभवे च सामा. न्यमेवावच्छेदकम् । न च सामान्यविशेषभावस्य व्या- ज्यव्यापकभावातिरिक्तस्याभावेनाज्ञातधूमस्यापि ज्ञात- २८ मध्वमुखालङ्कारे वहिकस्य धूमप्रश्नप्रसङ्गो धूमाज्ञानस्य वहि न जानामीति वयवच्छेदेनानुभवप्रसंगश्चेति वाच्यम् , स्वरूपेणैवेतर- व्यावर्तकयोपरञ्जकतया वोपस्थितयोर्वस्तुतोऽव्याप्यव्या- पकयोः सामान्यविशेषत्वात्। वह्निधूमयोस्तु वह्नित्व. धूमत्वेनोपस्थितत्वेन सामान्यादिव्यवहाराभावात् । न च न हि घटवान् प्रमेयवानित्यत्र घटप्रमेययोः, घटत्ववान् प्रमेयत्ववानित्यत्र घटत्वप्रमेयत्वयोश्च सामान्यविशेष- भावोऽस्ति । नन्वनुमितिहेतुज्ञानविषयव्याप्तिप्रश्नादिस्थले विशि- त्वभिमतसकलविशेषणविशिष्टं व्याप्यादिकं जानत एव प्रश्नार्थ तदप्रकाशस्त्वयाऽवश्यं वाच्यः, अन्यथा प्रष्टुस्तद्वगमाभावे तस्य प्राक्तनवहयाद्यनु- मानविलोप: स्यात्तद्वगमं विनापि तदा तस्यानुमित्य- ङ्गीकारे तत्रैव व्यभिचारेण त्वदभिमतव्याप्तिज्ञानस्या- नुमितिकरणत्वं न स्यादिति चेन्न, अशेषं जानतः प्रश्न- स्यालीकत्वात् । लक्ष्यविशेषनिष्ठतया व्याप्त्यादिकं जानतोऽपि लक्ष्यान्तरनिष्ठत्वस्यैवाज्ञातस्य हि प्रश्नविषय- त्वं यनिष्ठतया सकलविशेषणविशिष्टं व्याप्त्यादिकं गृह्णाति । तत्र प्रश्नस्यालीकत्वाच्च। एवं दूरे जलमि- "वाभासमानं किमिति न जानामीत्यत्रापि न ज्ञातस्या- ज्ञानविषयत्वं पुरोवर्तिनि जलस्वरूपे भासमाने हि नाज्ञा- नप्रश्नादिकं तन्निष्ठफेनबुबुद्तरंगाद्यसाधारणधर्माज्ञानेन प्रश्नाद्युपपतिः । एतेनास्मिन् ज्योतिर्मण्डले · कश्चन्द्र इत्यादिश्चक्षुषा चन्द्रमण्डलादिकं पश्यत एवं प्रश्नोऽपि चक्षुर्गम्यचन्द्रत्वधर्मस्योपदेशात् प्राक्चन्द्रनिष्ठत्वेना- ज्ञानात् । किं चास्मन्मते अज्ञानस्य सत्यत्वात्तेनेशतद्ध- जिज्ञासान्यायवर्णनम् । मंजीवपूर्णानन्दत्वाभानं जीवस्य युक्तम् । त्वन्मते ज्ञानस्थ मृषात्वान्न युक्तम् । न चापवरके प्रविशता पुंसा तदानीं कल्पितस्य तमसस्तदप्रकाशोपपादकत्वं दृष्टमिति वा- च्यम्, विद्युदादितेजसेव सौरादितेजसा चक्षुषः प्रति- हतत्वात्पुनः समाधानात्प्रागप्रकाशोपपत्त्या मृषान्धकारे मानाभावात् । न हि रोगाद्युपहतचक्षुषा रूपाद्यदर्शने कल्पितोऽन्धकारोऽस्ति । यत्त्वेवं निर्गुणस्थानधिगतत्वेन विचार्यत्वेऽपि यदि तत्र विचिकित्सा तर्हि सगुणब्रह्म- विषयतयैव त्वत्पूर्वपक्षिणा शास्त्रमारभ्यामिति, तन्न, जीवातिरिक्त ब्रह्मणि मानाभावस्योक्तत्वात् । एवं हि जीवस्यैव ब्रह्मत्वे जीवब्रह्मणोरक्ये वा प्रत्यक्षसिद्धे शास्त्रारम्भासम्भवे जीवभिन्नानन्तगुणेश्वरविषयतया त्वत्पूर्वपक्षिणाऽपि शास्त्रमारभ्यं स्यात् । जविभिन्नश्वरे मानं पूर्वपक्षे च नास्ति नः । अज्ञातविषयाभावान्नारभ्यं मननं ततः ।। अतोऽज्ञातविषयाभावादनारभ्यं शास्त्रमिति प्राप्ते तद्विजिज्ञासस्व तद्ब्रह्मेति जिज्ञास्ये वस्तुनि श्रूयमाणो ब्रह्मशब्दः प्रत्यक्षसिद्धादल्पगुणाजीवात्पूर्णानन्तगुणं विषयं बोधयति । सार्वज्ञाद्यनन्तगुणबोधकवाक्यानां जीवेऽन्वयासंभवेन तैरपि जीवभिन्नेश्वरसिद्धिः । अत्र वदन्ति-सर्वेषां वेदान्तानां सजातीयविजा- तीयस्वगतभेदशून्ये निर्विशेषे जीवरूपे ब्रह्मणि तात्पर्य स्वीकृत्य प्रवृत्तस्य पूर्वपक्षस्य निरासाय सर्ववेदान्तप्रति- भटत्वेन विचारविधिवाक्यगतब्रह्मशब्दस्त्वया स्थापितः। न चायं गुणपूर्तिनिमित्तः सन्नपि सर्वानपि वेदान्तानुप- क्रमादिन्यायनिर्णीताद्वैततात्पर्यात्मच्यावयितुं शक्तः, A मध्वमुखालङ्कारे प्रत्युत स्वयमेव तद्गुणभूतत्वात्तदनुगुणमेवाद्वैतवाद्य- भिमतत्रिविधपरिच्छेदराहित्यरूपमर्थमावेदयेत् । दर्शित- श्वायं न्यायस्त्वयाऽपि "न स्थानतोऽपि"इति सूत्रे- तत्र हि-कार्यकारणबद्धौ ताविष्येते विश्वतैजसो । प्राज्ञः कारणबद्धस्तु हौ तु तुर्ये न सिध्यतः ॥ इत्यादिश्रुतिवाक्याद्विश्वतैजसप्राज्ञादिरूपस्येशस्यापि बद्धत्वादिदोषोऽस्त्वित्याशङ्क्योक्तमनुव्याख्याने- सर्वत्राशेषदोषोझपूर्णकल्याणचिद्गुणः। तद्विरुद्धं तु यत्तत्र मानं नैव भवेत्क्वचित् । महातात्पर्यरोधे तु कथं तन्मानमत्र तु ॥ इति । सुधायां चोक्तम्-सकलश्रुतिस्मृतीतिहासपुराणानां परमेश्वरस्याशेषदोषविधुरत्वे समस्तगुणपरिपूर्णत्वे च यत् महातात्पर्य तद्विरोधेन तद्वाक्यमत्र भगवतो दोषित्वादौ कथं मानं भवेत् ? दृष्टं हि निर्णीतमहावाक्यविरुद्धस्थ तवान्तरवाक्यस्य तत्राप्रामाण्यं यथा स्वर्गप्रयोजना- ग्निहोत्रपरमहावाक्यार्थविरुद्धस्य "यद्यमुष्मिन् लोके- ऽस्ति वा न वा” इत्यादेस्तदवान्तरवाक्यस्य 'महा. वाक्यं हि प्रधानमनन्यार्थत्वात् , अप्रधानं त्ववान्तरवाक्यं तदर्थप्रतिपत्तिहेतुत्वात्' इति । तस्मादिहातिदर्शितो- पक्रमादिभिया॑यैः सर्ववेदान्तानां सगुणे ब्रह्मणि महातात्पर्य प्रसाध्यते चेदेवं कृतपूर्वपक्षनिरासो भवेत्, न तु ब्रह्मशक्तिप्रदर्शनमात्रेणेति चेत् ? अत्रोच्यते-सजातीयादिराहित्यपरत्वमाश्रित्य नास्माकं पूर्वपक्षः प्रवृत्तः, किन्तु लाघचादिसहकृतम् "आत्मा ब्रह्म” इत्यादिकंवाक्यमाश्रित्य । तेन जीव- भिन्नेश्वराभावे सिद्ध जीवस्य प्रत्यक्षत्वेनाजातविषया न जिज्ञासान्यायवर्णनम् । भावाच्छास्त्रानारम्भः पूर्वपक्षिणोक्तः । द्वितीयाभावादेः स्वरूपभिन्नत्वे तस्य प्रत्यक्षासिद्धत्वेन तत्परशास्त्र. स्थानारम्भोत्ययोगः स्वरूपाभिन्नत्वे गुणपूर्तिबोधक- ब्रह्मशब्दस्थ सर्ववेदान्तप्रतिभटत्वोक्तिर्निरर्थिकैव । हि धर्मिमात्रबोधकमानस्थ तन्निष्ठधर्मबोधकमानेन सह मात्रयाऽपि विरोधोऽस्ति । मुमुक्षुज्ञेयगुणपूर्तिवाचकब्र. ह्मादिशब्दानां गौणत्वासंभवात् । तस्मादिहति शोभते । प्रबलतरन्यायैरेव सगुणे ब्रह्मणि समन्वयप्रतिपादनात् । किं च जीवातिरिक्त ब्रह्मणि प्रमाणं नास्तीति प्रत्यवति- ठमानं पूर्वपक्षिणं प्रति तत्र प्रमाणतयोपन्यस्तं ब्रह्मपदं तस्याज्ञातस्य ज्ञापकमुत्पत्तिवाक्यस्थानीयमिति तत्प्रति- पादितं गुणपूर्णत्वविशिष्टं तेन जीवातिरिक्त ब्रह्मणि सिद्ध वेदान्तेषु सर्वैरपि ब्रह्मप्रकरणैस्तत्रैव वर्तितव्यमिति तत्प्र- तिपादितानि निर्गुणत्वजीवाभिन्नत्वादीन्युत्पन्नशिष्टानि अत उत्पत्तिशिष्टप्राबल्यमर्यादया ब्रह्मादिपदस्य सर्ववे. दान्तेभ्यः प्राबल्यम् । ननु स्यादेवं यदि "तद्ब्रह्म” इत्यत्रत्यं ब्रह्मपदम- ज्ञातस्य ब्रह्मणो ज्ञापकं स्यात्, नत्वेवम् , तस्य “यतो वा इमानि" इति यदुपबन्धबलेन जगत्कारणतया सह- प्राप्तस्य धर्मिणोऽनुवादकत्वोपगमात् । ततश्च "सदेव सौम्येदमग्र आसीत्" "अात्मा वा इदमेक एवाग्र श्रा- सीत्" इत्यादि कारणवाक्यमेव तत्प्रापकं वक्तव्यम् । तत्र च सजातीयविजातीयस्वगतभेदनिषेधः स्वरसतः प्रतीयत इति स एवोत्पत्तिशिष्टो न तु गुणपूर्णत्व- मिति विपरीतमेव बलाबलमिति चेन्न, जिज्ञा- स्यत्वज्ञेयत्वाद्यर्थ ब्रह्मपदेन गुणपूर्तिविधानात् ।
३२ मध्वमुखालङ्कारे अन्यथा “यतो वा” इत्यादिवाक्यस्य वैयर्थ्यांपत्तेः, , “यदुपयन्धवलेन” इत्युक्तिस्तु तुच्छैव, “अधीहि भगवो ब्रह्म' इति ब्रह्मप्रश्नोत्तरस्य “यतो वा” इत्यादिवाक्यस्य यदुपबन्धेऽप्यज्ञातब्रह्मबोधकत्वावश्यकत्वेन “यदाग्नेयोऽ- ष्टाकपालो भवति" इत्यादिवदुत्पत्तिशिष्टत्वात् । किंच “यतो वा” इत्यादौ विश्वोदयादिकर्तुरेव हि यत्पदेन तत्कर्तृत्वप्रसिद्धिरेव द्योत्यते । न तु ब्रह्मपदार्थस्य ब्रह्मपदसमभिव्याहाराभावात् । हि त्रितय- कर्तृत्वमात्रं ब्रह्मपदार्थः । किंतु गुणपूर्तिरेव । न च त्रित- यकर्तृत्वान्यथानुपपत्या गुणपूर्तिराक्षेप्तव्या, सार्वज्यचि- की कृतिमत्त्वादेरेव तदुपपादकस्याक्षेपात् सजातीया- दिभेदनिषेधस्य ब्रह्माभिन्नत्वे गुणपूर्तिबोधविरोधाभा- वात् । भिन्नत्वे तेनैव सद्वितीयत्वापत्तेः । बेदान्तानाम- खण्डार्थकत्वहानेश्च अद्वितीयपदेनैव द्वितीयमात्रस्य नि- षेधकेन भेदत्रयनिषेधोपपत्तौ पदान्तरवैयर्थ्याच्च, काला- दिदैतबोधकाग्रादिपविरोधार्च । अग्रे सृष्टेः प्रागिदं सर्व सदेव निर्विकारमेवासीत्, एकं मुख्यमद्वितीयम- सहायम् । एवकारो मुख्यत्वासहायत्वाद्ययोगव्यच्छेद- परः, विशेषणसंगतत्वात् ; शंखः पाण्डुर एवेतिवत्, न हि विशेष्यब्रह्मसंगतोऽत्रैवकारोऽस्ति । धनुर्धरः इतिवदन्ययोगो व्यवच्छिद्येत । किंच ब्रह्मपदं लक्ष्यार्थकमपि न लक्षणीभूतविश्वोदयादिहेतुत्ववद्व्य- क्तिपरम् , किंतु लक्षणीभूतजगत्कारणत्वादिधर्मशून्यपर- मित्यस्य व्याहतत्वेन यौगिकत्वेन प्रापकापेक्षाया अस- त्वेन भिन्नप्रकरणस्थं सदेवेत्यादिप्रापकं तत्र प्रतीतमद्धि- तीयत्वादिकं चोत्पत्तिशिष्टमित्यस्य व्याहतत्वात् । येन पार्थः एव जिज्ञासान्यायवर्णनम् । नन्वस्तु ब्रह्मपदमज्ञातज्ञापकम् तथापि नात्रोत्पत्ति- शिष्टन्यायावतार: उत्पत्तिशिष्ठमपि .हि न भूरिबाधाय प्रभवति । अत एव "अग्नीषोमीयं पशुमालभेत" इत्यु- स्पत्तिवाक्ये देवतासंबन्धेन ज्ञातं पशोहविष्टंपशुं वि- शास्ति हृदयस्याग्रेऽवद्यती"त्यादि हृदयादिहविष्टबोधका- नेकवाक्यविरोधात्त्यक्तम्, इह "बृहंतोह्यस्मिन्गुणाः” इति श्रुत्यन्तरं सहायमस्तीति तेन पशोहविष्टेऽपि "जुष्टं देवानामिदमस्तु हव्यं” इति तदुपाकरणमन्त्रस- हायकमस्ति । तथापि बह्ववदानवाक्यविरोधात्तद्धविवं त्यक्तं चेदुगुणपूर्णत्वमप्यनेकाद्वैतवाक्यविरोधात्किमिति नत्याज्यमितिचेन्न, बहुतरसगुणसप्रपञ्चवाक्यान्तर्गत- स्याद्वितीयादिपदस्यैवोपांशुयाजन्यायेन । विष्ण्वादि- वाक्यवत्पूर्वोत्तरानुसारेण व्याख्येयत्वात् । उक्तोदा- हरणे अवदानवाक्यादेव हि पशोहविष्टुंत्यक्तं न तु बहुत्वात् । वेदत्वेनैवोभयोः प्रामाण्येन बहुत्वस्या- किञ्चित्करत्वात् । यद्यवदानबोधकमेकमेव वाक्यं स्यात्तथापि परम्परया सावकाशस्य पशुपदस्यार्थाद्ध- विष्टुंत्यक्तमेव स्थात् ; अन्यथाऽवदानवाक्यवैय्यर्थ्यांपत्तेः। योगेऽपि यत्पदस्य स्याद्यदाग्नेयकपालवत् । श्रुतित्वतो बलीयांसः प्रणवाद्याश्च वाक्यतः ॥२४॥ किश्च ब्रह्मपदस्य श्रुतिरूपत्वेन निर्गुणत्वादि प्रतिपाद- कवाक्येभ्यः प्राबल्यम् । न च प्रथमोपस्थितिप्रयुक्तबला- ब्दहुत्वप्रयुक्तबलस्यैवाधिक्यं विप्रतिषिद्धधर्माणां सम- वाये भूयसा स्यात्स्वधर्मत्वमिति न्यायादिति वाच्यम् , बहुत्वस्य वैपरीत्यात् । न हि ब्रह्मपदमात्रमेवास्मिन्नुप- मध्वमुखालङ्कारे न्यस्यते, किन्तु गुणानन्त्यबोधका यावन्तः शब्दास्तदे- कवाक्यतापन्नमेव ब्रह्मपदं तथात्वेनोपन्यस्यते । न च गुणबृहत्त्वस्य गुणिशब्दप्रवृत्तिनिमित्तत्त्वं न युक्तम् ; अन्यथा रूपत्वरसत्वादीनि निमित्तीकृत्य घटेऽपि रूपा- दिशब्दप्रयोग इति वाच्यम् , बृहंतो ह्यस्मिन् गुणा इत्या- दिना बृहद्गुणवत्त्वस्यैव ब्रह्मपदप्रवृत्तिनिमित्तताया बोध- नात् । एतेनोक्तदोषाद्ब्रह्मशब्दो न गुणबृहत्वनिमित्तः, किन्तु परब्रह्मण्यदैत्यभिमतत्रिविधपरिच्छेदाहित्यनि- मित्त एव । वृहंतो ह्यस्मिन्गुणा इत्यादिकं व्यावहारिक- गुणविशिष्टसगुणब्रह्माणि कथं चित्स्तुतिपरतया नेयम् । अद्वैतिभिरपि "स्याचैकस्य ब्रह्मशब्दवत्" इति सूत्रे ब्रह्मशब्दस्य निर्गुण इव सगुणेऽपि वृत्तेरङ्गीकारादिति निरस्तम् । त्रिविधपरिच्छेदाहित्यस्य स्वरूपभिन्नत्वे वेदान्तानो सखण्डार्थकत्वापत्तेः। अभिन्नत्वे स्वरूपस्या- ज्ञानाद्यधिष्ठानतयावान्तरवाक्येन च ज्ञानान्महावाक्य- वैय्यर्थ्यांपत्तेः त्रिविधपरिच्छेदाहित्ये ब्रह्मपदयोगरूढ्यो- रभावाच । सगुणनिर्गुणवाक्ययोर्व्यावहारिकपारमार्थि- कनिषेधपरतयागतिकरणे हि. ग्रहणं व्यावहारिक अग्रहणं परिमार्थिकमिति षोडशिग्रहणाग्रहणवाक्ययोरपि गतिः स्यात्, किन्तु । सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः। इत्यादिस्मृत्यनुसारान्निर्गुणवाक्यं प्राकृतगुणनिषेध- परम् अप्राकृतालौकिकगुणविधानपरं सगुणवाक्यम् । वेदे भूरिप्रयोगाच गुणयोगाच शाझिणि । तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने ।
जिज्ञासान्यायवर्णनम् । ३५ यस्मिन्प्रयुज्यमाने तु गुणयोगः सुपुष्कलः। तत्रैव मुख्यवृत्तोऽयमन्यत्र युपचारतः ।। इति गारुडोक्तिविरोधेन निर्गुणब्रह्मवृत्युक्तेस्तुच्छत्वात् । नन्वीश्वरस्य गुणबृहत्वं नाम तद्गुणानामानन्दादीनां भूमानिरतिशयत्वरूप उत्कर्ष इति जीवब्रह्माभेदे तादृश- गुणवत्त्वं जीवे स्यात्तथैवानुभवश्च स्यात्तथा चाल्पगुण- तानुभवो न स्यात् इति हि विरोध उच्यते; स चायुक्ता, जीवानांमुक्तिसमयभोग्यानन्दज्ञानबलाद्युत्कर्षमङ्गी कृत्य स्वया तस्य संसारे किञ्चित्प्रकाशमानस्यापि सर्वात्मना प्रकाशे मुक्तिसंसारयोरविशेषः स्यादिति तत्परिहारार्थ- मविद्यावरणस्योपपादितत्वेन तत एवतस्मिन्परमेश्वर- गुणपूर्तिसत्त्वेपि तद्ननुभवस्याल्पगुणत्वानुभवस्य च सम्भवात्स्वकीयमुक्तियोग्यानन्दाद्युत्कर्ष एवं पारमेश्वर- गुणभूमेति वक्तुं शक्यत्वाच । अविद्यावरणनिवृत्तिरूप- मुत्त्यनन्तरमपि हि केषाञ्चिपरमेश्वरापरोक्षज्ञानानन्तरं सत्कर्माननुष्ठानविकर्मानुष्ठानदोषेण परमेश्वरेच्छावशा- स्वरूपानन्दस्य किश्चिदनभिव्यक्तिमगांकुरुषे स्तुतयेऽनु- मतिर्वत्यधिकरणे निरूपितत्वात् । पारमेश्वरस्यचानन्दा- दिभूनो निरतिशयस्वरूपस्याप्यतीतलक्षणानन्त्यवन्न्यू- नाधिक भाववदसवय नानाविशेषशालिनः कश्चिद्- कश्चिद्विशेषएव मुक्तान्प्रति यथाधिकारंभासते इति विशेषान्तराणां पुरुषभेदेना नभिव्यक्तिभङ्गीकुरुष नाना- शब्दादिभेदादितिसूत्रे तथानिरूपितत्वात् पारमश्वेरस्य आनन्दादिभूम्नो जीवेऽपि सत्त्वे तस्य संसारदशायां विद्यमानेनाविद्यावरणेनाप्रकाशे काऽनुपपत्तिरितिचेन्न, मध्वमुखालङ्कारे नित्यानावृतपूर्णानन्दादिगुणकेश्वरात् वास्तवभेदेनैव संसारदशायां जीवस्य पूर्णानन्दाद्यावरणोपपत्तावपि श्रुतिप्रतिपादितनित्यासंकुचितसार्वज्ञकेश्वराभेदस्वीकारे गुणपूय॑ननुभवाल्पगुणतानुभवयोरनुपपत्तेः।न यस्माभिः सदाऽनावृतपूर्णानन्देश्वराभेदं जीवे स्वीकृत्य पूर्णानन्दा वरणं स्वीक्रियते, येन तहन्नित्यसर्वज्ञेश्वराभिन्नजीवे आवृतं सार्वज्यमापाद्येत । न च नाऽहं पूर्णानन्द इतिवन्नाहं सर्वज्ञो नाहमीश्वर इत्यादिप्रतीतेरपि भ्रान्तित्वेन नेश्वर भेदसाधकत्वमिति वाच्यम्, स्वरूपभूतज्ञानस्य संसार- दशायां पूर्णानन्दादिविषयकत्वाभावात् । न च सार्वज्ञ- मपि नेदानीं सर्वविषयकम् एवं सति नाहं सर्वज्ञ इत्या- दिज्ञानस्य भ्रान्तित्वोत्ययोगात् । ईश्वरज्ञानादी भूमत्त्वं निरतिशयनित्यसर्वविषयकत्वादिकमेवेश्वरस्य मोक्षयोःशास्त्रविरुद्धत्वेन स्वीयेत्युक्तेस्तुच्छत्वात् । कर्मा- धिकारिणो दुष्कर्मादिनामानन्दानभिव्यक्तिसंभवेऽपि नित्यनिवृत्तसर्वकर्माधिकारतया श्रुतिसिद्धस्य स्वतन्त्र- स्येश्वरस्यानन्दानभिव्यक्तरसंभवात् । ईश्वरीयविशेषस्य तदयोग्यं जीवं प्रतिभानसामध्यभावेनाभानेपि निरति- शयसार्वज्ञस्य जीवे भानासंभवात् । अतो नाहं सर्वज्ञ इति प्रत्यक्षेणापि जीवेश्वरभेसिद्धिः। श्रस्त्यन्यो भूतात्मा स ए वा एषोऽभिभूतः प्राकृतैर्गुणैरित्यथाभिभूतत्वात्संमूढः संमूढत्वादात्मस्थं प्रभुम् । भगवन्तंकारयितारं नापश्य- दिति मैत्रायणीयश्रुतिविरोधापत्तेश्च । न चेयं भेदश्रुति- रनुवादिका, प्रत्यक्षस्य वर्तमानमात्रग्राहित्वन श्रुत्या न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम बन्ध- भगवत जिज्ञासान्यायवर्णनम् ३७ इत्यादिस्मृत्युपबृंहितया त्रैकालिकभेद बोधनेनाननुवाद- कत्वात् । नन्वल्पगुणबहुगुणत्वरूपविरुद्धधर्मसमावेशेन जीवेश्वरभेदसिद्धिरिति त्वया वक्तुं न युक्तम्, त्वन्मते एकत्वानेकत्वशरीरित्वाशरीरित्वावयवत्वाव- यवित्वादिविरुद्धानेकधर्मसमावेशस्वीकारेण तद्वदज्ञत्वादे रप्यचिन्त्येश्वरशक्त्या समावेशोपपत्त्या विरुद्धधर्मेण भेदासिद्धेरिति चेन्न, अवतार्यवतारादिनैकत्वानेकत्व- योरप्राकृतशरीरप्राकृतशरीराभावयोरवयवावयिनोरभेदे- नावयवित्वावयवत्वयोरेकत्र सर्वज्ञत्वासर्वज्ञत्ववदविरुद्ध- त्वात् , असावयवदविरोधोपपादकैश्वर्याविरोधित्वाच । एतेन “नेह नाना” इत्यादि स्वगतभेदनिषेधश्रुति- वलादेव हरोवकत्वानेकत्वादि विरुद्धधर्मसमावेशाय विशेषणमगीकृत्यस्वयमेकोपिपरमेश्वरो विशेषबलादने- कमित्यादिकं कल्पयसि त्वंयथा, तथाजीवब्रह्मभेद- निषेधश्रुतिवलात्तयोर्विरुद्धधर्म समावेशाय भेदस्थाने विशेषमङ्गीकृत्य परमेश्वर विशेषबलाद्विविध जीवभावेन संसरतीति किमिति न कल्पयसि ? ईश्वरभेद जीवेश्वरभेदनिषेध श्रुत्योर्विशेषाभावादिति निरस्तम्। यत्र ह्यभेदे भेदनिषेधे बोध्यमानेन प्रबलप्रमाण- विरोधो भेदव्यवहारश्च भवति, तत्र भेदप्रतिनिधि- विशेषोऽङ्गीक्रियते । यत्र तु भेदनिषेधादिबोधे प्रबलमान विरोधस्तत्र भेद एक न तु विशेषः। अस्ति हि जीवभेद- निषेधादिबोधेनाह सर्वज्ञो नाहमीश्वर इति साक्षिप्रत्यक्ष विरोधः। ननु त्वङ्गीकृतो विशेषो व्यर्थः, ईश्वरशक्ते- रेवविरोधभञ्जकत्वेनावश्यमङ्गीकार्यत्वात् । अन्यथा जीव- एव न चैक- {૮ मध्वमुखालकार स्य स्वतन्त्रकर्तृत्वे कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपोवा स्यादिति त्वदुक्तदूषणमलग्नं स्यात् । तथा हि यदि जीवः स्वतन्त्रकर्ता स्यात्तदा तस्य सिद्धान्ते तत्स्वरू- पातिरिक्तकार्यानुसारितारतम्यवत्कृतिरूपगुणानङ्गीकारा- स्वयमेव प्रवृत्तिशक्तिरूपस्य तस्य तृणादानादिष्वपि कृत्स्न- शक्त्या प्रवृत्तिः प्रसज्येतेत्यनुभवविरोधः। देशेन प्रवृत्तिः, तस्य निरंशत्वात् ; अन्यथा निरवय- वत्वशब्दव्याकोपात् । न च व्यतिरेकोगन्धवदितिसूत्रेण सांशताया वक्ष्यमाणत्वेनांशानां बहुत्वेनांशविशेषैः । कार्यानुसारितारतम्येन तस्य कर्तृत्वोपपत्तिः । बहुत्वस्य भेदव्याप्तत्वेन भेदस्यापि प्रसत्त्याभिन्नांशराहित्यरूप- निरवयवत्वशब्दव्याकोपतावस्थ्यात् । न च विशेष- बलेन बहुत्वोपपत्तिः। भेदेनोपपादनीयस्यांशांशिबहुत्व- स्य चेतने विशेषेणोपपादने घटाद्यचेतनेऽपि तस्य तेनैवो- पपादनप्रसङ्गादिति दूषणान्तरं प्रदर्य तस्मादचिन्त्य- शक्तिरीश्वर एव परस्परविरुद्धमप्यभेदमंशांशिकृत- बहुत्वं च चेतनेषु विशेषेणैव निमित्तेन समावेश्याभेदेन निरवयवत्वशब्दव्याकोपबहुत्वेन कृत्लप्रसक्तिं च निरा- कृत्य कार्यानुरूपं जीवेन कारयतीत्यङ्गीकार्यम् । अत्रे- श्वरशक्तिमनपेक्ष्य विशेषेणैवाभेदे बहुत्वयोर्विरुद्धयोः समावेश समर्थने कृत्स्नप्रसत्त्यादिदूषणनलगेत् । तद्- पेक्षायां तु सैव पर्याप्ता किं विशेषेणेति चेन्न, वस्तु- स्वभावपर्यवसन्नस्य विशेषस्य धर्मिग्राहक मानसिद्धस्ये- श्वरशक्त्या प्रतिक्षेपासंभवात् । ह्यचिन्त्यशक्ति- रपीश्वरः साधनान्तरमनपेक्ष्यैव किंचित्करोति कार- वैषम्याद्यापत्तेः । साधनान्तरमनपेक्ष्यापि न यति वा, जिज्ञासान्यायवर्णनम् । सर्व कर्तुमकर्तुमन्यथाकतुं समर्थोऽपि न तत्करोति, कारुणिकत्वात्समत्वाच्च । अन्यथा प्रकृत्यदृष्टाद्यपेक्षापि न स्यात् । न च प्रकृत्यादौ श्रुतिरिव विशेषे मानं नास्ति, अनुपपत्त्यादेरेव मानत्वात् । एतेनैक एव विष्णु- जर्जाग्रदवस्थानियामकविश्वाख्येन रूपेण समग्रेणैवानेकत्र स्थितः । यथा नाना देशस्थितानशेषपुरुषान्प्रति सतता. भिमुखेन समग्रेण रविस्तत्तदूर्ध्व देशे स्थितः । नतु घटसंभृताम्भोवत्तत्तदक्षिस्थानस्थितस्वरूपतः शरीरतो वा भिन्नः, नापि बहुतृणाग्रप्रसारितपटवत्तत्तदधिकरणे- प्वकदेशन स्थित इति त्वयागीकृतम् । तथाप्यणुरेव विष्णुः सर्वव्यापकश्च, सूक्ष्मतया दृश्यमान एव कृष्णस्य मुखे गीकृतब्रह्माण्डत्वस्य यशोदाया दृष्टस्यैकेन दाम्ना बन्धनानुभवाच । सूक्ष्म एव तदुदरे बहूनामपि दाम्नां बन्धुमपर्याप्तत्वस्य चमहत्वलिङ्गस्य सत्त्वात् । "अणोरणीयान् महतो महीयान्"त्यादिश्रुतेश्चत्यक्षरा- धिकरणे स्थापितम् । दहराधिकरणे च दहराकाशान्त:- स्थस्य परिच्छिन्नस्यैवब्रह्माकाशस्य यावान्वाअयमाका- शस्तावानिति श्रुत्यर्थतया बहिब्रह्माकाशवयाप्तत्वं त्वयाऽङ्गीकृतम् । तत्रैव परिच्छिन्नस्य व्याप्तत्वास- म्भवमाशङ्कयाऽन्यत्राप्येषमआत्माऽन्तर्हृदयेणीयान्त्रीहेर्वा यवाद्वाश्यामाकाद्वाश्यामाकतण्डुलादेत्यणीयस्त्वेन श्रुत- स्यैवान्तर्हृदयस्थितस्य ब्रह्माकाशस्यैषमआत्माs- न्तहृदयेज्यायान्पृथिव्याज्यायानन्तरिक्षाज्ज्यायान् दिवो- ज्यायानेभ्यो लोकेभ्य इति सर्वतो श्रवणात्तददिहाप्युपपद्यत इत्युपपादितम् । अत्र सर्व- त्रापि केवलं यस्येश्वरस्य खशक्त्यैवैकत्वप्रत्येकपर्या- ज्यायस्त्व- मध्वमुखालङ्कारे सानेकवृत्तित्वयोरणुत्वमहत्त्वयोश्च समावेश उपपाद्यः । न विशेषस्योपयोगोऽस्ति । विशेषो हि तव भेदप्रतिनि- धिरेकस्यवानेकत्वमापाद्य धर्माधर्मावसाङ्कर्येण निवेश- येत् । न चात्र द्विविधेऽपि विरुद्धधर्मसमावेशोदाहरणेनै- कत्वापादनमस्ति । अतः एतादृशस्थले त्वयाऽपि केवलमी- श्वरशक्तिरेव निर्वाहकत्वेनाश्रिताऽतोऽन्यत्रापि सैवास्तीति विशेषोव्यर्थः । ईश्वर एकासन्ननेकस्तनुमानवयवोऽवयवी चेत्यादिविरुद्धधर्मसमावेशस्यावश्यकेश्वरशक्त्यैव निर्चा- होपपत्तेरिति निरस्तम् । उक्तोदाहरणेषु विशेषानङ्गीकारे क्षतेरभावेऽपि मानान्तरसिद्धभेदाभावे तत्प्रतिनिध्य- नङ्गीकारे च भेदकार्यस्याकस्मिकत्वापत्तेः। न हि दृष्टसा- मय्यभावेऽदृष्टरूपयेश्वरशक्त्यैव कार्योत्पत्तिः । सर्वत्र दृष्प्रकारणापलापापत्तेः । ईश्वरशक्तिस्तु सविशेषनिर्वि- शेषसाधारण्येन कार्यनिर्वाहिका । नन्वयं विशेषो नार्थसाधकत्वेन त्वयाऽङ्गीकार्य, किन्तु यत्र भेदाभावेऽपि भेदाधीनो व्यवहारो दृश्यते, यथा लोके 'सुगन्धि महदुत्पलं' इत्यादौ, वेदे "सत्यं ज्ञानमनन्तं ब्रह्मे"त्यादौ च नीलगन्धादीनां ज्ञाना- नन्दादीनां च धर्मिणः परस्पराच्च भेदाभावे ऽप्यपर्याय- शब्दैरुक्तिरित्यादिस्तन्मात्रं निर्वोढुं कल्प्यते । भेदाभावे ऽपि तत्प्रतिनिधिना विशेषेणापर्यायशब्दप्रयोगादिकं नि- वय॑तेऽतो नाऽनेकत्वैकत्वादिविरुद्धधर्मसमावेशरूपा- थनिर्वाहः । यदि व्यवहारस्येव भेदाधीनस्यार्थस्यापि निर्वाहकोऽयमङ्गीक्रियते तदा गुणगुणिनां घटस्य नील- वर्णो ब्रह्मण आनन्द इत्यादि धर्मधर्मिभावव्यवहारमू- लप्रतीतिगोचरसंवन्धोऽपि तद्विरोधिनि सत्यप्यभेदे जिज्ञासान्यायवर्णनम् । विशेषबलात्कल्प्येत सत्सु तन्तुषु पटाद्यसत्वनिर्वाहाय भेदश्च न कल्येत तन्तूनामवयवानां पटाद्यवयविनां चाभेदेऽपि विशेषवलादेव सत्वासत्वविरुद्धधर्मसमा. वेशोपपत्तेः । न चोभयनेष्टापत्तिः। अस्मत्पक्षे गुणाद्याश्च तदन्तो हि विशेषतः। अनन्यत्वान्नानवस्थाभेदो नाशे भवेत्तथा ॥ इत्यनुव्याख्यानविरोधात् । अत्र हि "तद्वन्तो हि विशेषतः" इत्यस्य व्याख्यानसमये 'भेदसम्बन्धकार्य- करो हि विशेषः' इति न्यायसुधायां तदभिप्रायो वर्णितः। तेन विशेषो यथा भेदस्य प्रतिनिधिः पट: शुक्ल इति सामानाधिकरण्यं भेदनिर्वाह्य निर्वतयति तथा पट: शुक्ल गुणवानित्यादौ सम्बन्धप्रतिनिधिः सम्बन्धव्यवहारं निर्वतयतीति गुणगुण्यादिषु सम्बन्धानङ्गीकारः स्पष्टी- अत एव समवायनिराकरणस्थलेऽपि गुणगुण्या- दीनां सम्बन्धो नास्तीति व्यवस्थापितम् , स्वाभिमत- सम्बन्धान्तरं च नोक्तम् । ब्रह्मतद्धर्माणामभेदे धर्मधर्मि- भावो न युक्त इत्याशङ्कापरिहाराय अहिकुण्डलाधि- करणे विशेष एव समर्थितो न तु तद्धीनः कश्चन संबंध इति चेन्न, गुणगुणिनोः समवायानङ्गीकारेण संयोगा- संभवेन च स्वरूपाभिन्नविशेषस्यैव तत्र सम्बन्धत्वात् । सति सोमे पूतीकानामिव सत्सु तन्तुषु पटासत्त्वोपपादक- भेदे सति प्रतिनिधिविशेषस्यानङ्गीकारात् । न हि संभ- वति मुख्ये प्रतिनिधिरुपादातुमुचितः । आश्रयाश्रयिभाव एव धर्मधर्मिभावात्मा गुणगुण्यादीनां सम्बन्धः । न च तस्वाद्विष्ठत्वात् सम्बन्धत्वानुपपत्तिः । अस्मन्मते संयोग- स्थाप्यद्विष्ठत्वात् । ननु त्वन्मते ययोरभेदस्तयोधर्मधर्मि- कृतः। ६ मध्वमुखालङ्कारे त्वव्यवहारे सत्यपि वस्तुतः आश्रयाश्रयित्वं नोपेयते, अत एव अयं पटः एतत्तन्तुसंबद्धः एतदाश्रितस्वादेतदा- श्रितरूपवदिति । समवायसाधकानुमानस्य तन्तुपदयोरा- श्रयाश्रयिभावासिद्धेरिति सुधायां स्वरूपासिद्धिरुक्ता; एवं च गुणगुण्यादीनां विशेषाधीनसम्बन्धान्तरसिद्धि- प्रसंगोऽनिष्ट इति स्थितम् , तथा तन्तुपटादीनां भेदा- सिद्धिप्रसंगोप्यनिष्ट एवेति चेन्न, खरूपातिरिक्ताश्रया- श्रयित्वस्यैव सुधायामसिद्धेरुक्तत्वात् विशेषेणैव गुण- ण्यादिभावनिर्वाहे तदधीनसम्बन्धाङ्गीकारस्य निरर्थक- स्वात् । प्रमाणेन भेदसिद्धौ विशेषानङ्गीकाराच्च । सत्सु तन्तुषु विनश्यतां पटादीनामभेदवङ्गेदोऽप्यस्त्येव । स्यादेतद्यथा भेदसाधकानां व्यपदेशभेदादीनांविशेषा- श्रयणेनैवान्यथासिद्विरुक्ता । तथा सति तस्मिन्नसत्त्व स्यापि विशेषेणैव निर्वाहः क्रियतां किं भेदाभ्युपगमेनति चेन्न, विशेषस्य भेदकार्यव्यवहारमात्रनिर्वाहकत्वेनासत्त्वं प्रत्यनिर्वाहकत्वात् । सकलभेदकार्यकारित्वे विशेषो भेद एव न तु तत्प्रतिनिधिरित्याशङ्कासमाधानाभ्यां सुधायां स्पष्टम् । अतो यत्र भेदः सम्बन्धश्च प्रमाणसिद्धस्तत्र विशेषो नोपयते । यत्र च तयोरभाव एव प्रमाण- सिद्धस्तनिमित्तककार्य च जायते तत्र विशेष उपेयते । ईश्वरे च जीवस्य न सविशेषाभेदो न वा निर्विशेषाभेदः दुःखादिकलुषितत्वापत्तेः। ननु दुःखादेरन्तःकरणोंपादेयत्वेन जीवे दुःखाद्य- भावात्कथं तदभिन्न ईश्वरो दुःखादिकलुषितः स्यात् ? न च वृक्षोत्पन्नदण्डेन संयोगादिना पुरुषस्थ दण्डित्वं क्षेत्रोत्पन्नधनेन स्वस्वामित्वसंबन्धेन पुरुषस्य धनित्वं ग्रथा, जिज्ञासान्यायवणनम् । तथाऽन्तःकरणोत्पन्नदुःखेन स्वस्वामित्वसंबन्धेन जीवस्य दुःखित्वम् ईश्वरश्च तदभिन्नः स्यात्तर्हि दुःखी स्यादेवोत युक्तम् परमश्वरएवान्तःकरणस्येन्द्रियवर्गस्य च स्वामी नान्य इति त्वयोपेयतेऽतस्तस्यैव दुःखादिकं स्यात् । ज्योतिरायधिष्ठानं तु तदामननादित्यधिकरणे करणा- नामीश्वरस्यैव स्वामित्वमङ्गीकृतं जीवकरणत्वव्यवहारस्त- थाभिमानश्च स्वामिनः कुठारैस्तत्प्रेरितेषु भृत्येषु छिन्दत्सु- तत्तभृत्यकुठारत्वव्यवहारदर्शनात्परकीयेऽपि बहुकाल- संबंधिनि तदीयतोपचारदर्शनात्तथाभिमानदर्शनाचेति व्यवस्थापितत्वात् । स्वामिनः फलश्रुतरित्यात्रेय इत्यधि- करणे मनुष्यादीनां स्वखेन्द्रियजन्यज्ञानकर्मास्वामित्व. मुररीकृत्यैव सिद्धान्तप्रदर्शनाच । इत्थं हि तद्धिकरणं ज्ञानकर्मादिफलमिन्द्रियप्रेरक- देवानामेव, तेषां हरिप्रसादलब्धतत्तदिन्द्रियजन्यज्ञानकर्मा दिखामित्वात् लोके स्वामिन एव फलदर्शनाच । कर्मादेः क्षेत्रफलादर्शनात्। “यदु किं चेमाः प्रजाः शुभमाचरन्ति देवा एव तदाचरन्ति । यदु किंचेमाः प्रजा विजानते देवानां ह्येतद्भवति स्वामी हि फलमश्नुते नास्वामी कर्म कुर्वाणः” इति प्राप्ते अयजमानानामष्यत्विजां सत्रयाग- फलमिवास्वामिनामपि कर्तृणां ज्ञानकर्मफलमुपपद्यते; देवैस्तदर्थ कर्मादेः क्रियमाणत्वात् । यथा च गुरुणा शिष्यार्थमेव क्रियमास्य व्याख्यानस्य फलं गुरोरेव, शिष्याणां त्वल्पम् । यथा राज्ञा प्रजार्थ क्रियमाणस्य तत्पालनस्य राज्ञ एवं प्रजावतो मुख्यं फलम् , प्रजानां तु तत्सहकारित्वमात्रत्वादल्पम् । अल्पफल- स्वादेव प्रजानामफलत्वश्रुतिरिति चेन्न, अविद्यासहकृत- मध्वमुखालङ्कार स्वामित्वस्यैवाह दुःखीत्यादिप्रतीतिनियामकत्वेना- विद्यावतो जीवस्यैवाहं दुःखीत्यनुभव इति सिद्धान्ते त्वत्प्रलापस्य निरर्थकत्वात् । ईश्वरस्य जीवन्मुक्तस्य च दुःखादिस्वामित्वेऽप्यविद्याभावान्न दुःखाद्यनुभवः । ईश्व- रस्य देवानां च स्वामित्वेऽपि जीवस्थापि स्वामित्वमस्त्येव अस्वामित्वोक्तिस्त्वल्पस्वामित्वाभिप्रायात् । देवानां च प्रजाजानफलमाविभूतस्वसुखमेव, न तु जन्यम् , तत्सं- बन्धनियामकाविद्याया निवृत्तत्वात् । अत एव तेषां न प्रजाकर्मादिनिमित्तकदुःखानुभवः । अविद्यासहकृतस्वाश्र- यसंयुक्तत्वं चाऽन्तःकरणोत्पन्नस्य दुःखादे वे संवन्धः। तथा चेश्वरस्थाविद्यावतो जीभेदे स्यादेव दुःखादि- कलुषितत्वम् । न चाविद्यानिवृत्त्युत्तरमभेदः शङ्क्या, निर्विकारस्य द्रब्यस्यान्यस्यान्यात्मत्वासंभवात् । यथा सत्रे ऋत्विजां यजमानत्वेऽपि यत्किंचिद्यजमानक्रिया- कर्तृत्वाभावादयजमानता तथा स्वामिनामपि कर्तृणां मनुष्याणामस्वामिता न्याय्यति दृष्टान्तार्थ अयजमानानां फलमित्युक्तिः साधुतमा । आत्विज्याधिकरणे स्वामित्व- सामान्यं निषिध्यत इति ते भ्रमा, भ्रमः, स्वातन्त्र्यस्यैव निषेधात् । श्रवणगुरुप्रदानयोः प्रधानेतिकर्तव्यतारूपयो गुरुप्रदानं प्रबलं नचेतिकर्तव्यतात्वेन दौर्बल्यं यज्ञिय- हिंसायामितिकर्तव्यतायाः प्रावल्यदर्शनादित्यत्र प्रावल्य- मवश्यानुष्ठेयत्वम् । “दादशाह बदुभयविधंवादरायणोऽत" इति सूत्रे द्वादशाहाक्रत्वात्मकः सत्रात्मकश्चेतिभाष्यम् । तत्र तुपदमहीने लाक्षणिकम् । भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयतीति सूत्रे यथा दीक्षणीयोदयनीयसवन- अयावभृथात्मकस्य क्रतोः सर्वाङ्गष्वनुवर्तत एव साफल्य- जिज्ञासान्यायवर्णनम् मन्यथा वैफल्यं ततो ज्यायस्त्वं ततश्च सर्वैः कर्तव्यत्वं तथा भूमत्वस्यापि सर्वत्रानन्दादिषु सहभावेनोपासन एवेष्टसिद्धेः। उपास्यानन्दादिविशेषणतया भूमत्वस्याज्या- यस्त्वेऽपि सर्वोपासनानुगतत्वाद्युक्तं ज्यायस्त्वम् । दृश्यते हि । प्रायणीयादीनां ज्योतिष्टोमविकृतियागानुगतत्वेन ज्यायस्त्वमित्यर्थः। जिज्ञासासूत्रावयवस्याप्योंकारस्या- संहिततया पाठ उत्तरसूत्रेषूहार्थः । न चाग्रिमसूत्रेषु स्थानिनोभावादग्निस्थाने सूर्यस्येवात्रोहासंभवः । उह्यते इत्यूहस्तकः अनुषंगादिरिति हि तदर्थः । सुधायां ज्यो- तिषां स्तोमो हि ज्योतिष्टोम इत्यत्र ज्योतिषां स्तोमो यत्रेति शेषः। वृत्तिपदार्थमात्रप्रदर्शनपरतयान्यपदार्था- प्रदर्शनस्यादोषत्वात् । न च त्वद्ग्रन्धेषु सर्वत्रैवाऽन्य- थाभावः। काचित्कान्यथाभावे हि समाधानमुचितं न तु सार्वत्रिकान्यथाभावे । चन्द्रिकादौ सर्वत्र मीमांसक- मर्यादयैव सम्यग्भाष्याभिप्रायस्य वर्णितत्वात् । तदु- दाहृतविरोधस्य काचित्कत्वेन समाधातुमुचितत्वात् । ननु तम्मतमित्यन्यथाऽनुवादः, यथा- अङ्गीकृतत्वादपि तैः पदार्थानां पृथक् पृथक् । क्रियापदेनान्वयस्य वाक्यभेदाद्धि दूषणम् ॥ इति सत्यज्ञातादिवाक्येषु ब्रह्मानुवादेन सत्यत्वाद्य- नेकविधाने वाक्यभेदः स्यादिति शङ्काम्- पृथगेव च वाक्यत्वं पृथगेवान्वयो भवेत् । अवान्तरत्वादाक्यानां वाक्यभेदो न दूषणम् ॥ इत्यभ्युपगमेन परिहृत्य मीमांसकमतेपीदं समान- मित्यनेन श्लोकेनोच्यत इति न्यायसुधायां व्याख्यातम् । तैर्मीमांसकैरपि "अरुणयैकहायन्या पिङ्गाक्ष्या गवा सांमं ४६ UPER मध्वमुखालङ्कार क्रीणाति" इत्यादावरुणादिपदानां क्रियापदेन पृथक्पृथग- न्वयस्याङ्गीकृतत्वात्तेषामपि वाक्यभेदो दूषणं प्रसज्येत। तत्रैतावद्वक्तव्यम् महावाक्यभेद एव दूषणं न त्ववान्तर- वाक्यभेद इति तदस्माकमपि समानमिति तत्र न प्रसिद्ध- मीमांसकमतेऽवान्तरभेदः, क्रयभावनाया प्रारुण्याद्यनेक- विशेषणविशिष्टाया विधेयत्वेनैकवाक्यताया एव तैः स्वीकृतत्वादिति चेन्न, विशिष्टविधिपक्षेऽपि भामत्युक्त रीत्या वाक्यभेदरूपदोषस्य दुर्वारतया मीमांसकैरपि पृथगन्वयस्याङ्गीकृतत्वादित्युक्तेस्तैरपि तथाङ्गीकर्तव्यमि- त्येतत्परत्वात् । इत्थं हि भामत्यां देवताधिकरणे विशिष्ट- विधिप्रतिबन्द्या देवताविग्रहादिसिद्धिरुपपादिता, तथा सति अनधिगतविग्रहादिप्रतिपादकवाक्यं भिद्यतेति चेत् ? अथ भिन्नमेवैतद्वाक्यम् । तथा सति तात्पर्यभेदोऽपि इति चेन्न, द्वारतोऽपि तवगतो तात्पर्यान्तरकल्पनाया अयो- गात् । न च यत्र यस्य न तात्पर्य तत्र तस्थाप्रामाण्यम् , तथा सति विशिष्टपरं वाक्यं विशेषणेष्वप्रमाणमिति विशिष्टपरमपि न स्यात् , विशेषणाविषयत्वात् । विशिष्ट- विषयत्वेन तु तदाक्षेपे परस्पराश्रयत्वम्, आक्षेपादिशे- षणप्रतिपत्तौ सत्यां विशिष्टविषयत्वम् , विशिष्टविषय- स्वाच्च तदाक्षेप इति । तस्माद्रिविष्टप्रत्ययपरेभ्योऽपि यदेभ्यो देवताविग्रहादयः प्रतीयमाना असति प्रमाणान्त- राविरोधे न युक्ता अङ्गीकर्तुमिति । एतावांस्तु विशेषः- भामत्यां विशिष्टविधिस्थले तात्पर्यभेदाभावेऽपि वाक्य- भेदादितरोऽङ्गीकारितः । सुधायां तु तात्पर्यभेदमङ्गी- कृत्यैव तद्भेदोऽङ्गीकारितः। वस्तुतस्तु न भवान् प्रति वाक्यभेद् अापाद्यते, किन्तु जिज्ञासान्यायवर्णनम् । प्राभाकरान्प्रति; तैरन्वयभेदे वाक्यभेदाभ्युपगमात् । यथाऽऽहु:-अन्वितपदात्मकं हि वाक्यं तच्च कथं नान्वये भिन्ने भिद्येतेति । अतो जीवस्यावान्तरस्वामित्वेऽपि न दोषः। किश्चान्तःकरणोत्पन्नदुःखादेरविद्यासहकृतस्वामि- त्वमेव सम्बन्धः। न च जपानिष्ठलौहित्यस्य स्फटिकादा- चिवान्तःकरणनिष्ठदुःखादेराध्यासिक एव सम्बन्धोऽस्त्वि- ति वाच्यम् , सोपाधिकाध्यासत्वे जपास्फटिकयोलौहित्य- स्येवात्ममनसोरुभयत्र युगपद्दुःखादिप्रतीत्यापत्तेः। निरुपा- धिकाध्यासस्य ज्ञाताज्ञातविभागहीने निर्विशेषेऽसंभवात् । सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषवत्त्वस्याधिष्ठानत्वे तन्त्रस्य निर्विशेषवादेऽसंभवाच्च । अत एव मिथ्यास्वमाकरे दूषितम् । सुखदुःखादिग्राहिसाक्षिणो निर्दोषत्वादिना याथार्थ्यनियमश्च प्रतिपादितः । जीवस्य तस्स्वामित्वमी- श्वरदत्तमविद्यासहकृतमित्यपकृष्टमित्येव विशेषः। अत एव सांख्याधिकरणेऽनुव्याख्याने । वैविध्येऽपि तु कामादेः कुतः स्वामित्वमात्मनः । साक्षादनुभवारूढं शक्यतेऽपोहतुं क्वचित् ॥ इति कामादिस्वामित्वस्याप्रत्याख्येयत्वमुक्त्वा तद्- नन्तरश्लोके तस्यापकृष्टत्वमुक्तम् । न्यायसुधायां चास्य- न्तवश्यत्वरहितगवादिस्वामित्वदृष्टान्तेन. तस्यापकर्षः समर्थितः। ननु निर्विशेषादेऽध्यासासें भवेऽपि स्वन्मते दुःखा- द्यनुभवस्याध्यासरूषत्वमावश्यकम् । उक्तं ह्यानन्द- मयाधिकरणे स्वद्भाष्ये "प्रमादात्मकत्वाद्वन्धस्य विमु- क्तस्वमुच्यते” इति संसारिणोऽपि विमुक्तत्वश्रव- णात्तदन्यथाऽनुपपत्या तस्य परब्रह्मस्वसिद्धेस्तद्विरोधो ४८ मध्वमुखालङ्कारे भेदव्यपदेशस्येति शङ्कानिराकरणार्थस्वेनोदाहृतं भाष्य- मवतार्य तस्याओं वर्णितः । जीवस्य परब्रह्मत्वाभा- वेऽपि विमुक्तत्वोक्तियुज्यते, बन्धस्याज्ञानमूलत्वेना. स्वाभाविकत्वादिति । यत्वनुव्याख्याने बन्धस्याध्या- सात्मकत्वनिरसनं तदभिप्रायो बर्णितो न्यायसुधा- याम्-सर्वोऽपि बंधो वुद्धीन्द्रियशरीरविषयतद्धर्मलक्ष- णोऽस्माभिरप्यात्मन्यारोपित एवाङ्गीक्रियते । .यथोक्तं भाष्यकृता "प्रमादास्मकत्वाधस्य” इति। अतः किं निवन्धनो बन्धमिथ्यात्वनिरसननिर्बन्ध इत्याशङ्कां कृत्वा, सत्यम् बुद्धीन्द्रियविषयाः स्वरूपसन्त एवेश्वरपरवशा अप्य विद्यादिवशादास्मीयतयाऽध्यस्यन्ते, तांश्चास्मनोऽपि विविक्तानपि विस्पष्टतयानुपलभमानस्तद्धर्मान् दुःखादीन सस्थानेवात्मस्वेन पश्यंस्तत्कृते नीचोच्चत्वलक्षणे विकृती सत्ये एव प्रतिपद्यन्ते इत्यादिवाक्यैः स्वमतस्थितिप्रति- पादनेन मायावादिनस्तु दुःखादिकं स्वरूपेणापि मिथ्येति मन्यन्ते । तन्निराकरणनिबन्धो युक्त इत्यद्वतिमतनिरा. कार्याशनिष्कर्षेण च स्पष्टीकृतः। यत्तु साक्षिणो याथार्थ्यनियमान्न साक्षिरूपस्य दु:खि- स्वाद्यनुभवस्याध्यासत्वं युक्तमिति, तन्न, ईश्वरपरतन्त्रस्य जीवस्य स्वातन्त्र्यग्रहणे प्रमाणाप्रमाणज्ञानयोरप्रामाण्य- ग्रहे च तस्य याथार्थ्यपरित्यागात् । यदि [मानसे दर्शने दोषाः स्युन वै साक्षिदर्शन] इति यत्किञ्चिद्वयभिचारि स्या- दर्शनं मानसं हि तदिति चानुव्याख्यानदर्शनात्स्वातन्त्र्या- दिग्रहणं मनोवृत्तिरूपं न तु साक्षिरूपमितीष्यते, तदा दुःखित्वाद्यनुभवोऽपि स्वत्सिद्धान्तसिद्धाध्यासस्वनिर्वा- हाय मनोवृत्तिरूप एव । यदि चैवं सति दुःखाद्यंशेऽपि जिज्ञासान्यायवर्णनम् । मनोवृत्तिविषयतैव स्यात्,-दुःखित्वाद्यनुभवव्यतिरेकेण दुःखादिमात्रविषयानुभवाभावात्। ततश्च दुःखादेःसाक्षि- विषयत्वं न सिद्धयेदित्याशयः तदा दु:खित्वाद्यनु- भवरूपसाक्षिणः अात्मीयत्वांशेऽध्यासरूपत्वं स्वीकार्यम् त्वयाऽपि सर्वेषां साक्ष्यनुभवानांयाथार्थ्यनियमो नेष्यते । असुराणां साक्षिणो यथार्थत्वाभावस्य मनुष्याणां सा- क्षिणो मिश्रत्वस्य चाङ्गीकारात् । एवं त्वत्सिद्धान्तिना तेषां सुनिश्चितेऽध्यासरूपत्वे पदन्यत्र प्रपञ्चमिथ्यात्व- निराकरणप्रस्तावे- 'सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् । साक्षिसिद्धस्य न कापि वाध्यत्वं तदोषतः ।। इत्यादि साक्षिणो याथार्थ्यकथनम् , यच सांख्यमतदूषण- प्रस्तावे कामादिस्वामित्वकथनं तत्र न त्वयाभिनिवेष्ट- व्यम् । किन्तु परमतदूषणलोभेन दुराग्रहकृतमौट्येन वा स्वसिद्धान्तविरुद्धभाषिणः स्वीया इत्येव शोचनीयाः। याननुसृत्याधुनिका अपि त्वदीयाः परमतसिद्धा- विद्यादूषणादिप्रस्तावेष्वनादिभावस्य निवय॑त्वमयुक्त- मित्यादिस्वसिद्धान्तविरुद्धमेव जल्पन्ति त्वन्मतेऽनादि. भावरूपमज्ञानं ज्ञाननिवयं च तथा च परमेश्वरस्याप्य- ध्यस्तदुःखित्वादिरूपजीवत्वं युक्तमिति । अत्रोच्यते-जीवे दुःखित्वाद्यारोपः सोपाधिको निरु- पाधिको वा ? नाद्यः, लौहित्यस्य पुष्पस्फटिकयोरिव जीवमनसोरुभयत्र प्रतीत्यापत्तेः । नान्त्यः, शास्त्रीय- निःखित्वादिज्ञानेन सद्यो निवृत्त्यापत्तेः। जीवे दु:खि- स्वादिधीस्त्वविद्यासहकृतस्वामित्वादिसम्बन्धेन प्रमैव । दुःखादी पारतन्त्र्याभावस्वातन्त्र्ययोभ्रंमः शास्त्रीयपारत- ५० मध्वमुखालङ्कारे न्यज्ञानान्निवय॑त एव । वाध एव हि भ्रमत्वे मानम् । न हि दुःखादी विद्यमाने उपदेशसहस्रणापि 'नाहं दुःखी' 'मयिदुःखं नास्ति' इत्यादिधीर्भवति । शास्त्रीयोक्तपार- तन्न्यविषयकत्किंचिज्ज्ञानप्रागभावनाश एव हि साक्षि- दुःखादिनिष्ठपारतन्त्र्यादिषु विषयतानियामकः । साक्षि. रूपज्ञानस्य नित्यत्वेऽपि विषयत्वस्य विशेषणस्याभावेन विशिष्टस्याभावः 'शिखी ध्वस्तः' इति वदुपपद्यते । बन्धस्य प्रमादात्मकत्वोक्तिः प्रमादोऽविद्यातत्सहितस्वामि- त्वमेव दुःखित्वादिसंमृतिनियामकमित्यविद्यानियम्य- स्वाभिप्रायात् । अविद्याया दुःखित्वादिसम्बन्धघटकत्वा- देवाज्ञानमूलत्वोक्तिः। आत्मनो जीवस्य सुखमिच्छतो दुःखमनिच्छतोऽपि सुखाभावदुःखयोरेव दर्शनेन पर- तन्त्रतया विविक्तान्सुप्रसिद्धानपि विस्पष्टमसंभावनादि- रहितमनुपलभमानस्तान् धर्मानात्मीयत्वेन पश्यन्नीचो- चत्वे तिर्यग्देवादिसंसारे प्रतिपद्यते । अन्तःकरणोपादेय- धर्मेषु स्वयोग्येषु साक्षिणो याथार्थ्यनियमः। दुःखादि- स्वातन्त्र्यादिकं च नान्तःकरणोपादेयम् । वस्तुतस्तु दुःखादिनिष्ठस्वातन्त्र्यादिज्ञानं मनोवृत्तिरेव । न च दु:खित्वाद्यनुभवोऽपि मानसः स्यात् । दुःखित्वा- द्यनुभवस्याध्यासत्वाभावेन मानसत्वकल्पनायां माना- भावात् । दोषाजन्यस्य साक्षिणो भ्रमत्वासंभवात् । दोषाजन्यस्यापि भ्रमत्वे ह्यप्रामाण्यस्य स्वतस्त्वं स्यात् । दुःखादीनां मानसवृत्तिवेद्यत्वाङ्गीकारे क्षणमज्ञातत्वा- पत्तिदोषवत्स्वातन्त्र्यादेर्मानसवृत्तिविषयत्वाङ्गीकारे दोषा- भावात् असुरमनुष्ययोरप्यन्तःकरणोपादेयधर्मेषु याथार्थ्यमस्त्येव । मुक्तियोग्यानां पूर्णानन्दत्वस्येवासुरा- देर्दुःखादिस्वरूपस्याविद्ययाऽऽवृतत्वादेवायाथार्योक्तेः ।
. अतः जिशासान्यायवणनम् । J१ तयाऽऽवरणं तु स्वरूपभूतज्ञानस्य विषयताप्रतिबंध एवे- त्युक्तम् । 'मम शरीरम्', 'ममेन्द्रियाणि', 'मम मनः', 'मम दुःस्वम्' इत्यादिप्रतीतिरप्यात्मीयत्वांशे भ्रमरूपा मनोवृत्तिरेव । प्रपञ्चमिथ्यात्वखण्डनप्रस्तावे साक्षिणो याथार्थ्यवर्णनं साध्वेव । नित्यस्य दोषजन्यस्य भ्रमत्वासंभवात् । आत्मनः कामादिस्वामित्वकथने दोषो मूढ़ेन त्वया नोक्त एव । अनादिभावस्य निवपत्व- खण्डनं तु दृष्टविधया निवृत्तिमङ्गीकुर्वतस्तव मत एव । अस्माकं स्वीश्वरप्रसादेनवादृष्टविधयानिवृत्तिमङ्गीकुर्वतां न कोऽपि दोषः। 'तस्मिन्प्रसन्ने क्लेशसंक्षय' इत्यादि स्मृत्या तथा बोधनात् । अतो न कुत्राप्यस्मदीयानां स्वसिद्धान्त- विरुद्धोक्तिः। किन्तु त्वदीयानामेव विरुद्धभाषित्वम् । तथा हि 'आत्मैकत्वविद्याप्रतिपत्तय' इति भाष्यकारेण प्रत्यग्ब्रह्मैक्यं शास्त्रविषय इत्युक्तम् । भामत्यां च ब्रह्मैव- शास्त्रविषयमित्युक्तमिति विरोधः। एवं भाष्यकारेणैव समन्वयाधिकरणे वेदान्तेषु विधिरेष नास्तीत्युक्तम् । "सहकार्यन्तरविधिः” इति सूत्रे तु विधिरङ्गीकृतः । एव- मन्यत्रापि विरोधो द्रष्टव्यः । तस्मादीश्वरस्य जीवाभेदे दुःखित्वमवर्जनीयमिति तयोर्वास्तवभेद् एव युक्तः। अस्तु वा केवलं स्वामित्वमेव दु:खित्वम् । तच्चेश्वर- स्यैव । तावन्मानं च न हेयं किन्तु तत्प्रयुक्तं नीचत्वम् । नरकेऽपि वसनीशो नासौ दुःखभुगुच्यतेः । नीचोच्चता हि दुःखादेर्भोग इत्यनुमीयते ॥ नासौ नीचोच्चतां याति, पश्यत्येव सदा प्रभुः। इति भाष्योदाहृतवचनानुसारात् । दुःखादीन् सत्यानेवात्मीयतया पश्यन् तत्कृते नीचोच्चत्वलक्षणे .५२ मध्वमुखालङ्कारे विकृती सत्ये एव प्रतिपद्यत इति न्यायसुधावाक्या नुसाराच। ननु दुःखिस्वप्रयुक्तनीचत्त्वमेव हेयमित्ययुक्तम् , नीच त्वस्यैव दुर्बचत्वात् । न च दुःखहेतुकमाक्रन्दादिकमेव तदिति वाच्यम् । तस्यापि देहेन्द्रियविकाररूपतया जीवानाश्रितत्वात् । ईश्वरस्यैव तत्स्वामित्वाच । किंचा क्रन्दादिकं न सार्वत्रिकं लोके मानिनो धीरोदात्तस्य तापसादेव महति दुःखेऽपि रोदनाक्रन्दनादेरदर्शनात् अन्यस्य देहन्द्रियविकारस्याप्यदर्शनात् । तदपायार्थमितर प्रार्थनादैन्यादेरदर्शनाच्च । कापालिकादिश्च भिक्षुकः स्वाङ्ग च्छेदकंटककर्दमतप्तबालुकाशयनादिभिः दुःखभनुभव न्नपि न तत्प्रयुक्तं नैच्यमनुभवति । किन्तु याचनाप्रयुक्त मेवति तस्थापि तद्दुःखं हेयं न स्यात् । न च जगति यावत्किंचित् दुःखादिकार्य तत्सर्वं नैच्यमेव । धीरादी- नामपि दुःखानुभवादिप्रयुक्तविकारनिरोधप्रयत्नतदप- नयनोपायचिन्तादि यत्किंचित्कार्यमस्त्येवेति वाच्यम् । परमेश्वरेऽपि नानाविधजगद्व्यापारस्य दुःखादिप्रयुक्ततया कल्पयितुं शक्यत्वेन तत्र नैच्याभावासिद्धिप्रसंगात् । स्वया ह्यानन्दमयाधिकरणे चतुर्विधाः पुंसां प्रवृत्तिः सुखार्था दुःखनिवृत्त्यर्था सुखोद्रेकप्रयुक्ता दुःखोद्रेक- प्रयुक्ता चेति । तत्र प्रवृत्तित्रयस्येश्वरेऽनुपपन्नत्वात्सुखो- द्रेकप्रयुक्तैवेतिनिरूपितम्। तत्तदेव शोभेत यदि तस्य दुःखित्वं न स्यात् । तत्सत्त्वे तु जगद्व्यापारो दुःखोद्रेक- प्रयुक्तः कुतो न स्यात् । न च तथा पुनरपि दुःखोद्रेक- हेतुं जगद्व्यापारं न कुर्यादिति वाच्यम् । दुःखोद्रेकाद्रोदना- दिषु प्रवृत्तेरभिसंधिपूर्वकस्वाभावात् । प्रत्युत शिरोऽक्षि- जिज्ञासान्यायवर्णनम् रोगादिदुःखोद्रेकात्पुनरपि तदुद्रेकहेतव एवाक्रन्दशिरस्ता- डनाश्रुविमोचनादिप्रवृत्तयो दृश्यन्ते । ईश्वरस्य दुःखि- स्वादेः श्रुतिविरुद्धत्वात्तद्व्यापाराणां तत्प्रयुक्तत्वं कल्प- यितुं न शक्यत इति परिशेषात्सुखोद्रेकप्रयुक्तस्वमिति चेन्न । स्वद्रीत्या श्रुतिविरुद्धस्यापि दुःखित्वस्थापातात् । न च दुःखित्वप्रयुक्तकार्य तत्र न भवतीति वाच्यम् । तत्र मुखिस्वप्रयुक्तकार्याभ्युपगमे तदेव दुःखिस्वसत्वे तत्प्रयुक्तकार्यस्यापि दुर्वारस्वात् । अन्यथा सुखोद्रेककार्य- मपि न स्यादिति चेन्न । स्वप्रयोजकाविद्यावत्त्वसंबन्धेन दुःखानुभवितृत्वस्वरूपस्य दुःखभोक्तृत्वस्य नैच्यस्य हेय- स्वात् । सदा निरविद्यस्य दुःखादिस्वामिनोऽपीश्वरस्य तत्स्वामित्वरूपदुःखित्वप्रयुक्तनैच्यस्याभावात् । अविद्यया देहतत्कर्मादिष्वहं ममेत्यभिमानस्ततो देहकर्माद्यन्तरं ततो दुःखादिसन्ततिरित्यविद्यायाः दुःखा- दिप्रयोजकत्वं सुप्रसिद्धम् । 'को ह्येवान्यात्कः प्राण्या द्यदेष आकाश आनन्दो न स्यात्' इत्यादिश्रुत्या जगद्व्या- पारस्यानन्दोद्रेकप्रयुक्तत्वसिद्धावपि दुःखप्रयुक्तत्वे माना- भावेनापादयितुमशक्यत्वात् । नित्यदुःखे मानाभावेन सृष्टयादावीश्वरस्य दुःस्त्रोद्रेकाभावेन प्रवृत्त्यनुपपत्तेः । स्वरूपानन्दनित्यतायास्तवापि सम्मतत्वात् । दुःखोद्रे- कस्यापि स्वप्रयोजकाविद्यावत्वसम्बन्धेनैव प्रवृत्त्यादिहेतु- त्वाच । न च सुखोद्रेकोऽपि तेनैव सम्बन्धेन प्रवृत्तिहेतुः स्यात् नित्यनिरवियस्येश्वरस्य निवृत्ताविद्यस्य जीवन्मुक्त- स्य च प्रवृत्तिदर्शनेन तथा कल्पयितुमशक्यत्वात् । एतेन दुःखकार्यमेव हेयं नै दुःखमित्यङ्गीकारे न्यायसाम्यात्सुख- कार्यमेवोपादेयं न तु सुखमित्यप्यङ्गीकार्य स्यादिति निरस्तम् मध्वमुखालङ्कारे उक्तदुःखानुभवितृत्वरूपस्य दुःखहेतुकनैच्यस्यैव हेय त्वोक्तः।' 'को ह्येवान्यात्कःप्राण्याद्यदेष आकाश आनन्द न स्यात् । यदा वै सुखं लभते अथ करोति नासुरु लब्ध्वा करोति सुखमेव लब्ध्वा करोतीत्यादिभिरीश्वर व्यापारस्य सुखोद्रेकहेतुकत्वोक्तेः। एतेन सुखदुःखे निरुपधीच्छाद्वेषविषयतया पुरुषार्थापुरुषार्थरूपे सकलानु भवसिद्धे न तस्कार्ये, एवमनुभवविरोधमविगणय्य सुख दुःखकार्ययोरेव पुरुषार्थत्वापुरुषार्थत्वे अभ्युपगम्यते चेर स्वाभ्युपगमानुसारेण त्वदीयसुखादेः पुरुषार्थपर्यवसा यितानिहाय सुखानुभवकालेषु सर्वेषु यत्किंचिनृत्त गीतादिकार्य कुर्वाणेनैव त्वया स्थातव्यं स्यात् । तच्च लोकानुभवविरुद्धम् । तद्विरोधाय सुखदुःखयोरेव पुरुषार्थापुरुषार्थरूपत्वं स्वीकार्यमिति निरस्तम् । स्वप्र- योजकाविद्यावत्त्वसंबन्धेन दुःखस्य स्वप्रयोजकाविद्याव. स्वतादात्म्यान्यतरसंबन्धेन च सुखस्यापुरुषार्थत्वपुरुषा र्थत्वयोः स्वीकारात् दु:खित्वकार्यशब्देनोक्तसम्बन्धेन दुःखवत्त्वस्यैव व्यवहृतत्वात् । केवलस्वामित्वसम्बन्धेनैव तयोस्तभावोक्तेः। तस्मादीश्वरात् जीवोऽत्यन्तहेय इति गुणपूर्तिवाचिना ब्रह्मशब्देन जीवेश्वरभेदसाधनं सूपपन्नम् । नन्वेवमुत्तरत्र जीवेश्वरभेदसाधनं न स्यात् । प्रथमाधिकरण एव तत्सिद्धेरिति चेन्न ब्रह्मशब्देनैवान्न- भेदस्य प्रतिपादनात् । सकलदैतश्रुतिप्राबल्यचिन्तया सर्वप्रकारेणाप्युत्तरत्र जीवेश्वरभेदप्रतिपादनाच । अस्म- न्मते हि प्राधान्येन जीवेश्वरभेदसाधनं पृथगुपदेशादि- स्यायधिकरणकृत्यम्। अप्राधान्येन तत्साधनमपि किंचि- त्भेद्वाक्यमवलम्ब्य तत्र तत्रास्ति । अतएवानन्द- ५५ जिज्ञासान्यायवर्णनम् । मयाधिकरणे जिज्ञासासूत्रेण भेदव्यपदेशाचेति सूत्रस्य पौनरुत्त्यमाशंक्य 'न जीवभेदसूत्राणां शंक्यात्र पुन- रुक्ता । वाक्यान्तरद्योतकत्वात् पृथगित्यत्र पूर्णते'त्यत्र पूर्णतेत्यनुव्याख्यानश्लोकं व्याचक्षाणेन न्यायसुधाकृतो- क्तम् । अत्र शास्त्रे तत्र तत्र प्रकरणे टैक्यविवक्षायां चोदितायां तद्गतभेदवाक्यद्योतनेन हि सूत्रेषु भेदसम- थनं क्रियते । अतस्तात्पर्यभेदान्न पुनरुक्ताशंका । तथा हि जिज्ञासावाक्ये अभेदशंकायां तद्गतब्रह्मशब्देनैव भेद- समर्थनं जिज्ञास्यस्य जीवत्वे शंकिते तत्पूर्ववाक्योक्त- लक्षणेन भेदसाधनं एवमेव 'भेदव्यपदेशाच्चान्य' इत्यादा- वपि पुनरुक्ततादोषः परिहरणीय इति । अत्र वदन्ति । अन्नमपादिशब्दा विकारार्थमयट्प्रत्ययानुरोधेनजीवा- दिवाचिनः तेषु ब्रह्मशब्दप्रयोगस्तु ब्रह्माभेदविवक्ष- येति शंकिते तत्प्रकरणगतेन 'स यश्चायं पुरुष' इति भेद- व्यपदेशेन प्रत्यवस्थानमित्यादि संगच्छते । इह तु जिज्ञासावाक्येष्वेव जिज्ञास्यब्रह्मनिर्विशेष जीवचैतन्य- रूपमितीत्थं शंकाहेतोरभावात्सर्ववेदान्तानामखंडजीव- परत्वेन सगुणे ब्रह्मणि मानं नास्तीत्येव त्वया पूर्वपक्ष- प्रदर्शनात् । सर्ववेदान्तालंबनेन पूर्वपक्षे जिज्ञासावाक्य- गतैनैकेन ब्रह्मशब्देन प्रत्यवस्थानायोगाचेहैव सकलद्वैताद्वै- तश्रुतिप्राबल्यदौर्बल्यचिन्तया सर्वप्रकारेणापि भेदसाधनं कर्तव्यमिति पृथगुपदेशादित्यधिकरणमन्यत्र तत्साधनं च निष्फलमिति तन्न । 'आत्मावारे द्रष्टव्यः श्रोतव्योमन्तव्यो निदिध्यासितव्यः' इत्यादिविषयवाक्येषूपक्रमानुसारा- दात्मपदस्य तदैकार्थकब्रह्मपदस्य च रुड्या जीवपरत्वे शंकिते योगरूढिभ्यां ब्रह्मपदेन निरासोपपत्तेः । जीव- ५६ मध्वमुखालङ्कारे स्याप्यदृष्टद्वारा कथंचिजगद्धेतुत्वशंकया ब्रह्माभेदशंका- संभवाच । सर्ववेदान्तावलंबनेन कृतस्यापि पूर्वपक्षस्यो त्पत्तिशिष्टादिन्यायेन निराकरणस्योक्तत्वात् । 'नाहमी श्वरो नाहं सर्वज्ञ' इत्यादि प्रत्यक्षं च जीवेश्वरभेदे मानम् न चानवगतस्येश्वरस्य भेदो न प्रत्यक्षोऽभावज्ञाने प्रति योगिप्रत्यक्षस्य हेतुत्वादिति वाच्यम् । पिशाचस्याप्रत्य क्षत्वेऽपि स्तंभः पिशाचो नेति पिशाचभेदस्य स्तम्भे प्रत्यक्षत्वात् । योग्यप्रतियोगिकत्वं संसर्गाभावे योग्यधर्मावच्छिन्न- प्रतियोगिताकत्वमन्योन्याभावे योग्यत्वं अतएव न स्तंभे पिशाचत्वान्योन्याभावग्रहः । पिशाचोन्या. न्याभावग्रहप्रतियोगितावच्छेदकपिशाचत्वजातयोग्य- स्वात् । महत्त्वोदुभूतरूपवयक्त्यवृत्तित्वान्न प्रत्यक्षम् । प्रकृते प्रतियोगितावच्छेदकमीश्वरत्वं सर्वविषयकज्ञान- वत्वं तच्च योग्यमेव । अभावप्रत्यक्ष प्रतियोगिता- वच्छेदप्रकारकज्ञानं हेतुः। तथा च शास्त्रीयलक्षणज्ञान- साचिव्येन रत्नतत्त्वसाक्षात्कार इव शास्त्रीयेश्वरज्ञान- साचिव्येन स्वात्मनि तद्भेदसाक्षात्कार: सूपपन्नः । एवं प्रत्यक्षावगतेन जीवेश्वरयोर्विरुद्धगुणवत्त्वेन दहनतुहिन- वदानुमानमपि सुस्थम् । तथा भिन्नोऽचिंत्यः परमोजीवसंघात् । पूर्णः परो जीवसंघोह्यपूर्णः ।। यतस्त्वसौ नित्य मुक्तोह्ययं च । बन्धान्मोक्षं, तत एवाभिगच्छेत् ॥ इति पूर्णापूर्णादिविरुद्धधर्मवत्त्वोपपत्तिमुख प्रवृत्ता श्रुतिरपि मानम् । न चेयमप्रसिद्धा । ज्ञाज्ञो द्वावजावी- ५७ जिज्ञासान्यायवर्णनम् । शानीशौ' । 'तयोरन्यः पिप्पलं स्वादत्यनश्नन्नन्योs भिचाकशीतीत्यादिश्रुतिम् 'य अात्मनि तिष्ठन्नि- स्यन्तर्यामिब्राह्मणं च प्रसिद्धं गृहाण । भेदबोधकपदाभावः आमनमस्यामनस्य देवा- स्तिस्त्र आहुती होतीत्यत्रेव द्विस्वसंख्याया एव भेदकत्वात् । 'शारीरश्चोभयेऽपि हि भेदेननमधीयत' इति सूत्रकृताऽतर्यामिब्राह्मणस्य भेदपरत्वेन व्याख्या- तत्वात् । न च श्रुतिर्व्यावहारिकभेदपरा । 'एतमन्न- मयमात्मानमुपसंक्रम्य' 'निरंजनः परमं साम्यमुपैति' 'स एतान् ब्रह्म गमयतीतिश्रुतिषु मुक्तावपि प्राष्यप्राप्तृत्व- सादृश्यप्रतियोग्यनुयोगिस्वनेतृत्वनेतब्यस्वादिविरुद्धगुण- वत्त्ववर्णनेन तद्भेदसिद्धेः। न चाभेदश्रुतिविरोधाद- न्यथानेयेयं श्रुतिः। भेदश्रुतीनां प्रत्यक्षानुगृहीतत्वेन प्राबल्यादभेदश्रुतेः प्रत्यक्षेण बाधाच । किंच तत्त्वमस्या- द्यभेदश्रुत्या स्वरूपातिरिक्तोऽभेदो बोध्यते न वा ? आद्ये वाक्यस्याखंडार्थकत्वहानिः द्वितीये स्वरूपमात्र- ज्ञानस्य भेदज्ञानाविरोधित्वेन भेदस्य पारमार्थिकत्व- सिद्धिः । किंच भेदबाधकेन मानेन स्वभिन्नतया विषयीकृतस्यैव भेदस्य बाध्यत्वं वाच्यमतो भेद- मात्रबाधकत्वं स्वव्याहतम् , न हि व्यावृत्तिमविषयी. कुर्वज्ज्ञानं कस्यचिबिरोधि । नन्वेतावता भेदप्रमाणं सर्वविरुद्धगुणवत्वोप- जीवकमुपन्यस्तमिति विरुद्धगुणाक्रांतिरेक एव तव भेद- साधको न्यायः पर्यवसितः। सोऽनुपपन्नस्त्वन्मते जीवे सतामपि पूर्णानन्दादीनामावरणेनाल्पानंदत्वाद्यनुभवस्य स्वयांगीकृततया तन्न्यायेन ब्रह्मगुणानां निरतिशयसर्व- ८ - - मध्वमुखालङ्कारे ज्ञत्वसर्वशक्तिकत्वादीनां जीवे सतामेव संसारदशा- यामावरणेनाल्पज्ञत्वाल्पशक्तित्वाद्यनुभवसंभवाजीवे- तत्सत्वानभ्युपगमेऽपि ब्रह्मण्यैश्वर्यवशादणुस्वमहत्त्वाद्य- विरोधस्य च त्वयांगीकृततया तन्न्यायेनाधिकगुणस्यैव ब्रह्मणोऽल्पगुणजीवभावसंभवाज्जीवब्रह्मणोविरुद्धगुणव- त्वमसिद्धम् । एवं रत्नशास्त्रजलक्षणज्ञानस्य किंचिद्रत्न- लक्षणे तदन्यरत्नलक्षणत्वविषयतया भ्रमत्वे तन्मूलस्य रत्ने विशेषप्रत्यक्षस्येव जीवब्रह्मणोविरुद्धगुणवत्वा- सिद्धया तज्ज्ञानस्य भ्रमत्वे तन्मूलस्य भेदप्रत्यक्षस्य भ्रमत्वावश्यंभावान्न प्रत्यक्ष भेदे मानम् । हेस्वसिद्धय- प्रयोजकत्वादिभिर्नोऽनुमानं मानम् । जीवेऽपूर्णत्व- बद्धत्वयोरसिद्धया पूर्णापूर्णत्वयोबद्धमुक्तत्वयोश्चा- विरोधासिद्धया विरुद्धतदुभयवत्त्वोपपत्तिमुखेन भेदप्रतिपादने श्रुतेस्तात्पर्य कल्पयितुं न युक्तमिति श्रुतिरपि तत्र न मानम् 'भिन्नोऽचिन्त्य' इत्यस्याः श्रुतेर. भेद एव तात्पर्य सुवचम् । परमो जीवसंघाद्भिन्नो न चिंत्यः किं त्वभिन्न एव चिन्त्य इति । 'अपूर्णः पर' इत्या. द्यपि भेदे चिन्तननिषेधापेक्षितनिषेध्यप्रसक्तिपरतया योज्यम् । जीवब्रह्मणोहि प्रत्यक्षागमाभ्यामपूर्णत्वपूर्णत्वे बद्धनित्यमुक्तत्वे येऽवगम्यते ते च लोकतो विरुद्धत्वेन प्रतीयेते तन्मूलेन भेदभ्रमेण भेदानुचिन्तनं प्रसक्तमिति । किंच विरुद्धगुणसमावेशो न भेदसाधकः। विरुद्धगुणशा- लिनामप्यर्जुनेन्द्रादीनां त्वया भेदाभावस्येष्यमाणत्वात् । स्वया ह्येक आत्मनः शरीरेऽभावादित्यधिकरणे इन्द्रा- र्जुनादीनामन्योन्यानभिमतखांडवदहनप्रशमनादिकृतव - तामाराधकाराध्यत्वादिविषमगुणशालिनामपि निर्भेदत्वं वा जिज्ञासान्यायवर्णनम् । व्यवस्थापितम् । इन्द्रायशिनोऽर्जुनाद्या अंशाः पृथग्भूय संसारदशायामप्यशिना सहाभिन्नाःपूर्ववत्पुनरपि तेनैक्यं च प्रतिपद्यन्त इति तत्सम्मतम् । एतेन जीवेशयोरभेदे ब्रह्मभोगानां जीवेऽप्यनुसंधानं स्यादिति निरस्तम् । स्वन्मते भेदाभावेऽप्यर्जुनगतेन्द्रभोगाननुसंधानवजीव- गतब्रह्मभोगाननुसंधानोपपत्तेः। इन्द्रभोगादीनामर्जुनादीनां यदननुसंधानं तद्भेदा- भावेऽपि भूम्याद्यपकृष्टदेशावस्थानगर्भप्रवेशमानुषान्नोप- भोगादिकं निमित्तीकृत्याचिन्त्याऽप्रतिहतशक्तिकेन परमे- श्वरेण क्रियते इति त्वयोक्तम् । एवं देहविशेषप्राप्त्यादिकं निभित्तीकृत्याचिन्त्यशक्तिकेनेश्वरेण जीवे पारमेश्वरस्य जीवान्तरगतस्य च भोगस्याननुसंधानं क्रियत इति किमि- ति त्वया वक्तुमशक्यम् । यत्तु परमेश्वरस्य जीवाभिन्नत्वे तस्यैश्वर्यमेव न भवेत्, यो जीवाभिन्नो नासावचिन्त्य- शक्तिकतारूपैश्वर्यवान्यथा देवदत्त इति व्यासेरिति तन्न । योऽसौ जीवभिन्नो नासावैश्वर्यवान्यथा घट इतिवदप्रयो- जकत्वादिति । अत्रोच्यते- अन्योन्यं विरसा गुणा जगति ये निघ्नन्ति नैव प्रभो- विष्णोरीश्वरताभवेत्सुरसता तेषां सदैश्वर्यतः ॥ अज्ञस्वादिसमागमे प्रतिहतं स्यादीश्वरत्वं हरे- मानं नास्ति गुणान्तरेष्विव हरेरल्पज्ञतायां स्फुटम् ।। सदानावृतेश्वरपूर्णानन्दात्तत्त्वतो भिन्नस्यावरणावि- रोधिनो जीवपूर्णानन्दस्यावरणेऽपि सर्वार्थप्रकाशात्मकस्य सार्वज्ञस्य सदानावृतेश्वरसार्वज्ञावस्तुतो भिन्नस्याज्ञान- विरोधिस्वभावस्यावरणासंभवात् । न च सदानावृते- श्वरसार्वज्ञाद्भिनमेवावृतं जीवसार्वज्यमस्तु सार्वज्ञनाना.
६० मध्वमुखालकार स्वस्यैकमेवाद्वितीयमित्यादिश्रुतिविरुद्धत्वात् । पूर्ण- स्वस्य च करकघटतडागसमुद्रादीनामिव स्वयोग्यता- नुसारेण बहूनामपि संभवात् । ईश्वरेऽज्ञानांगीकारे नित्यनिरवद्यत्वनित्यमुक्तत्वादिश्रुतिविरोधापत्तेश्च । च मृषाज्ञानसंसारादेर्विद्यमानत्वेऽपि वास्तवतभा- वाभिप्राया नित्यमुक्तत्वादिश्रुतिः । त्वन्मते वास्तव- बंधाऽप्रसिद्धेदृशो बंधो ज्ञानेनोच्छेत्तव्यस्तभाव एव हि नित्यमुक्तश्रुत्यर्थः। एवं चेत्याद्ययुक्तम् । अतल्लक्षणं तल्लक्षणतया विषयीकुर्वता शास्त्रजन्ये- नाप्रमाभूतेन ‘जन्यस्य तत्समानविषयकस्य प्रत्यक्षस्या प्रामाण्येऽपि प्रतियोगिज्ञानविधया शास्त्रीयज्ञानजन्यस्य नाहमीश्वर इत्यादिप्रत्यक्षस्य भ्रमत्वे बीजाभावात् । नह्यत्र जीवे परेशत्वाभावबोधकशास्त्रजन्यज्ञानं भेद- प्रत्यक्षे हेतुः । येन त्वदीयक्षुद्राशंकाभासः संभाव्येतापि। कल्पितभेदवतो योगिनः कायव्यूहे दुःखाद्यनुसन्धानदर्श- नेन वास्तवभेदस्यैवाननुसंधानादिप्रयोजकत्वात् । जीवे अपूर्णत्वादेःप्रत्यक्षसिद्धत्वात्। बद्धत्वमुक्तत्वयोस्त्वंधका- रालोकयोरिव सुप्रसिद्ध एव विरोधः । अन्यथोभयोःसदै- कत्रावस्थानापत्त्या मुक्तेरपुमर्थत्वापत्तेः । 'भिन्नो चिन्त्य' इत्यादिश्रुतेविपरीतयोजनं तु नाहमीश्वर इति प्रत्यक्ष- विरुद्धम् , 'पृथगात्मानं प्रेरितारं च मत्त्वा जुष्टस्ततस्तेनाम तत्त्वमेतीत्यादिश्रुत्या पृथत्त्वज्ञानस्य मोचकत्वोत्या भेद- चिन्तननिषेधोक्तिवृथाप्रलाप एव । एकत्र लोके विरुद्धयोः पूर्णापूर्णत्वयोर्मुक्तस्वामुक्तत्वयोश्च निर्दुष्टवेदप्रत्यक्षाभ्यां- जन्यस्य ज्ञानस्य भ्रमत्वासंभवः । भेदादिबोधकश्रुतेरप्रामाण्ये तदृष्टान्तेन वेदमात्र- जिज्ञासान्यायवर्णनम् स्थाप्रामाण्यापत्त्या सौगतमतप्रवेशः स्यात् । खांडवदहन- शमनयोः कर्तृत्वं युगपदप्येकस्य न विरुद्धम् । एकेन हस्तेन दहनानुकूल्यस्यापरेण शमनानुकूल्यस्यैकस्मिन्नपि पुरुषे संभवात् । एकेन हस्तेनान्यस्मिन् हस्ते चन्दनार्चन- वदेकस्याराधकाराध्यत्वाद्युपपत्तिः। सुप्रसिद्धो हि श्रीकृ- ष्णश्रीव्यासयोरक्येऽपि पूज्यपूजकभावः । जीवानां केषां चित् सांशत्वं सामर्थ्यविशेषवत्त्वं व्यवहितविप्रकृष्टदेहे- ध्वणोरपि सुखदुःखाद्यनुभवितृत्वादिरूपम् । अल्पशक्ते- रप्रकृष्टपरिमाणस्य जीवस्यार्जुनदेहावच्छेदेन भूसंनिकर्षा- दिना स्वर्गभोगप्रतिवन्धसंभवेपि सर्वदाप्रतिवद्धानन्त- शक्तेः नित्याप्रतिबद्धसार्वज्ञस्येश्वरस्य जीवाभेदे जीवदे- हावच्छेदेन दुःखानुसंधानसुखाननुसंधानयोरानुकूल्यस्य स्वस्मिन्नेवाचरितत्वापातात् । न हि कोऽपि प्रेक्षावाननु- न्मत्तः स्वस्मिन् दुःखानुसंधानं सुखाननुसंधानं चच्छति। योऽसावित्याद्ययुक्तम् खुखदुःखयोरेकक्षणावच्छेदेनका. धिकरणवृत्तित्वस्य तदनुसंधानस्य चासंभवेन दुःखानु- भवितृजीवाभेदस्येश्वरेंगीकारे निर्दुःखत्वस्य दुःखानु- भवस्वरूपायोग्यत्वस्य श्रुतिशिखरसिद्धस्य हान्यापत्तेः। दुःख्यभेदस्य निर्दुःखत्वविरोधवजीवभेदस्यानैश्वर्या- व्याप्तत्वात् । किं चाभेदस्यानुसंधानमात्रं व्यापकं न तु सर्वानुसंधानमर्जुनादीनामाखण्डलादिगताल्पविषयभो- गाननुसंधानेऽपि तद्गतोपासनाफलाद्यनुसंधानमस्त्येव । एवं च जीवब्रह्मणोर्जीवानां चाभेदे देवदत्तस्य ब्रह्मगत जीवान्तरगतयत्किंचिद्भोगानुसंधानं दुर्वारम् । ननु यद्यभेदे सत्यप्यननुसंधाने एकस्मिन्नेवाननुसधानमनुसं- धानं च विरुद्धं प्रसज्येतेत्यनुकूलतर्कमुपजीव्यानुसंधान- 8 ६२ मध्वमुखालङ्कार स्थाभेव्यापकत्वं गृहाते। तदा सर्वानुसंधानमेव व्यापक कस्यचिदप्यननुसंधाने तद्विरोधसमाधानालाभात् । यदि त्वभेदेऽपि कस्यचिदननुसंधानं संभवति तदी- याचिन्त्यशक्तिबलेनानुसंधानाननुसंधानविरोधविधूनना. दिति सर्वानुसंधानस्य च व्यापकत्वं नेष्यते, तदानु- संधानमात्रमपि न व्यापकं तहलेनैव क्वचिन्न कस्याप्य- नुसंधानमित्यपि वक्तुं शक्यत्वादिति चेन्न । इन्द्रार्जुन- योरभेदे सर्वसम्मते सत्यपि सर्वानुसंधानाभावेन व्यभिचारात् । सर्वानुसन्धानापादकाभावाच । इन्द्रा- नुसंधेयसर्वानुसंधानस्यार्जुने इष्टापत्तेश्च । न चार्जुनस्य स्वर्गभोगानुसंधाने क्षुद्रे मानुषभोगे प्रवृत्तिनं स्यात् । श्रीरामकृष्णादिवल्लीलया तदुपपत्तेः। मनुष्यानु- करणेनैव स्वर्गभोगादिग्रहणेऽपि तदुपपत्तेश्च । न चैवं जीवेशानुसंधानादिसांकर्येऽपीष्टापत्तिः। 'तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप' इत्यादि स्मृतिविरोधात् । जीवस्य स्वतंत्रसर्वज्ञाभेदे स्वहिताकरणाहितकर- णादी प्रवृत्त्यनुपपत्तेश्च सार्वज्ञानुभवापत्तेश्च । ननु 'तयो- रन्यः पिप्पलं स्वाबत्त्यनश्नन्नन्यो अभिचाकशीति, "अन्यश्च परमो राजस्तथान्यः पंचविंशकः” 'भेव्यप- देशाचान्यः' इत्यादिश्रुतिसूत्रेष्वन्यत्वव्यपदेशो भेद- साधक इति न युक्तम् । त्वन्मते ब्रह्मण्यन्यत्वव्यपदेशस्य भेदासाधकत्वात् । स्वयान्नमयादीनां पंचानामपि ब्रह्म- स्वमभ्युपगच्छतान्नमयाद्यभिन्नेष्वेव प्राणमयादिष्वन्यो- न्तर आत्मेति व्यपदेश इतीष्यमाणत्वात् । 'अनन्योऽप्यन्यशब्देन तथैकोवहरूपवान् । प्रोच्यते भगवान् विष्णुरैश्वर्यात्पुरुषोत्तमः ॥
NIVANEmapanerywhenews जिज्ञासान्यायवर्णनम् । ६३ इति वचनमुदाहृत्य तस्य निर्वहणाच । जीवे ब्रह्मान्यत्ववचनस्यापि तदेवैश्वर्यान्निर्वहणसंभवाचेति चेत् । सर्वशब्दानां स्वार्थ वृत्तिरोत्सर्गिकी अन्य- शब्दस्य भिन्नत्वमेव मुख्योऽर्थः। तथाप्यानन्दवल्ल्यां- अन्नमयादिपर्यायेषु पंचस्वपि 'येऽन्नं ब्रह्मोपासते ये प्राणं ब्रह्मोपासते 'प्रानन्दं ब्रह्मणो विद्वान्' 'विज्ञानं ब्रह्म चेवेद। 'अस्ति ब्रह्मेति चेद्वेदेति ब्रह्मशब्दाम्नानेन । 'एतमन्नमय- मात्मानमुपसंक्रामतीत्यादिपर्यायेषु मुक्तप्राप्यत्वलिङ्गा- स्मशब्दयोः सत्त्वेन चान्नमयादीनां पंचानामपि ब्रह्म- स्वावधारणाद्ब्रह्मणश्चैकमेवाद्वितीयमित्यादिभिरेकत्वा वधारणात्प्राणमयादिपर्यायेष्वन्योऽतर आत्मेत्यन्यश- व्दानां मुख्योऽर्थः परित्यज्यते । न च जीवब्रह्मणोरन्य- स्वव्यपदेशे वाधकमस्ति । ब्रह्मण्यणुस्वमहत्त्वादीनां च तदुपपादकैश्वर्याविरोधिनां लोके विरुद्धानामपि समा- वेशोऽस्तु नतु सर्वज्ञत्वाल्पज्ञत्वयोरैश्वर्यविरोधित्वात् । नन्वेकमेवाद्वितीयं नेह नानास्ति किंचनेत्याद्यभेदश्रुतीनां भेदश्रुतितः प्राबल्यं तवापि सम्मतमेव । अन्यथा अन्यो- न्तर आत्मेति भेदश्रुत्यनुसारेणान्नमयादी भेदो दुर्वारः। न चाभेदश्रुतीनां ब्रह्मभेदश्रुतिभ्य एव प्रावल्यं न वत्त्वस्य लाघवस्य च प्रावल्यहेतोरुभयत्र तुल्यत्वादिति चेन्न । भेदाभेदश्रुतित्वादिना प्राबल्यस्यास्माभिरनुक्त- स्वात् । मानान्तराद्यविरुद्धऽर्थे 'श्रुतेस्तात्पर्यात् । जीवे- शयोरभेदो ब्रह्मणो भेदश्च सर्वमानविरुद्ध इति स्यादेव तत्परतयापाततः प्रतीयमानश्रुत्योरन्यायकत्वं । किं च ६४ A मध्वमुखालङ्कारे नाभेदश्रुतीनां प्राबल्याद्ब्रह्मभेदश्रुतीनां मुख्यार्थत्यागः। किन्तु सर्वश्रुतिमहत्तात्पर्यानुरोधात् । तथा हि सर्व- श्रुतिनां मोक्ष एव प्रधान प्रयोजनम् 'तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते' इति वचनात् । मोक्षस्य तत्प्रयोजनत्वं न साक्षात्तत्साध्यतया तस्यानेकश्रुतिस्मृतिभिरीशप्रसादजन्यत्वनिश्चयात् किन्तु यज्ज्ञानेन मोक्षहेतुभगवत्प्रसादः संपद्यते तस्पति- पादनद्वारेति वाच्यम् । तत्प्रसादश्च तदीयनिर्दोषगुणो- स्कर्षज्ञानाद्भवतीति लोकतः 'प्रियोऽहं ज्ञानिनोऽत्यर्थमहं स च मम प्रियः इत्याद्यागमैश्वावधारितम् । अतः सर्व- वेदानां भगवतो निर्दोषाशेषगुणत्व एव महातात्पर्य तद्विरुध्यते । ब्रह्मभेदश्रुतीनां स्वार्थपरत्वे भिन्नानां गुण- तारतम्यानुग्राह्यानुग्राहकभावादिदर्शनेन ब्रह्मरूपेष्वपि तत्प्रसस्या निर्दोषाशेषगुणवत्त्वासिद्धेः । जीवेश्वर भेद- श्रुतिनां स्वार्थपरत्वे तु तन्न विरुध्यते । तत्परत्व एव विरुध्यते । जीवब्रह्माभेदे जीवदोषेण ब्रह्मणोऽपि सदोषत्वापत्तेः। अतो ब्रह्मभेदश्रुतीनामेव स्वार्थत्यागो न जीवब्रह्मभेदश्रुतीनामिति विशेषो युक्तः। नन्वन्नमयादीनां विश्वतेजसादीनां ब्रह्मरूपाणां भेदश्रुत्य- नुसारेण विरुद्धगुणवत्त्वानुसारेण च भेदे सत्यपि भग- वश्वयंवदेव निर्दोषाशेषगुणपूर्णतोपपत्तिः । न हि भग- वानशेषमपि स्वेच्छया कर्तुमकर्तुमन्यथाकर्तुमपि शक्त इति वदतस्तव लीलया भिन्नो भवन्नप्यहं निर्दोषाशेष- गुणपूर्णः स्यामिति स्वसंकल्पेन भेदमास्थाय क्रीडितुं न शक्त इति वक्तुं शक्यमिति चेन्न । ब्रह्मभेदश्रुतीनां सयुक्तिकब्रह्मैक्यश्रुतिविरोधेनातत्परत्वात् । अणुत्व- प्रत्युत तासां ६५ जिशालान्यायवर्णनम् । महत्त्वादिधर्माणां स्वसमावेशोपपादकैश्वर्याविरोधित्वाद- ल्पज्ञत्वादेस्तद्विरोधित्वाच । सप्रज्ञस्य स्वानिष्टसंकल्पा- संभवाच्च । एतेन भेदश्रुत्या विरुद्धधर्माक्रान्त्या चान्नमया- दीनां विश्वादीनां च स्वतः प्राप्तस्य भेदस्यापवादकाभा- वे तस्यावश्यं तथा संकल्पः कल्प्य इति निरस्तम् । जीवे- शाभेदे बाधकस्य प्रत्यक्षादेरुक्तत्वात् । जीवस्य प्रयोज- काविद्यावत्वादिसंबन्धेन दुःखित्वम् ईश्वरस्य तत्संब- न्धेनैव निर्दुःखित्वमित्युक्तस्वाच्च । किंच धर्ममीमांसायां व्युत्पादितः शब्दान्तरादिप्रमाणैर्जीवब्रह्मणोर्मेंदः सि- द्धयति । अस्ति हि 'एष एव जीवं प्रबोधयति । एतस्मा- ज्जीव उत्तिष्ठतीति' विरुद्धार्थकधातुनिष्पन्नाख्यातरूपं- शब्दांतरं 'नित्यः परो नित्यो जीव' इत्यप्रत्यभिज्ञायमान- पुनःश्रुतिरूपोऽभ्यासः, द्वासुपर्णेत्यादिसंख्या, अनश्न- नित्यादिभेदको गुणः, यतो वाचो निवर्तन्त इत्यादि- प्रकरणान्तरं जीवेशावितिनामधेयभेदश्चति । ननु तथापि शब्दान्तरादिभिर्न पारमार्थिको भेदः सिद्धथति। कर्ममीमांसकैः शब्दान्तरादीनां मुख्यभेदे प्रमाणतयानुपन्यासात् । न हि तैः शब्दान्तरादिकं प्रोपपाद्यमानस्तभावं प्रापोद्यमानश्च कर्म- भेदः शास्त्रभेदो वान्योन्याभावरूपो मुख्यो भेदः । 'सप्तदश प्राजापत्यान्पशूनालभत इत्यत्र 'दधिमधु- घृतपयोधानाः करंभास्तंडुलास्तत्संमृष्टं मित्यत्र, 'ऐन्द्रं दध्यमावस्यायामित्यत्र च पशूनां प्राजापत्यद्रव्यादीनामैन्द्रधिपयसोश्च प्रदानयोग- पद्येन प्रजापत्यायुद्देशेन तत्तद्रव्यविषयसंकल्परूपाणां प्राजापत्य- प्राजापत्य- मध्वमुखालङ्कारे यागानामेकैकत्वेऽपि सप्तदश प्राजापत्ययागाः सप्त ध्या- दियागाः द्वौ दधिपयोयागौ इति भेदोपपादनात् । सोमेन- यजेतेस्यत्र इन्द्रवाय्वायुद्देशेन तत्रत्यात्रस्थितसोमरस- संकल्परूपाणां यागानां भिन्नत्वेऽपि, अग्निहोत्रं जुहु. यादित्यत्राहवनीयादिषु हविःप्रक्षेपरूपाणां होमानां भिन्नत्वेऽपि भेदनिरासात् । सप्तदश प्राजापत्यानिति- वाक्यरूपस्य शास्त्रस्यैकत्वेऽपि भेदोपपादनात् । ब्रीहि. भिर्यजेत ब्रीहीनवहतीत्यादिवाक्यरूपाणां शास्त्राणां भिन्नत्वेऽपि भेनिरासाच्च । यद्यपि कर्मापि गोस्वादियदेकमेव नित्यमनेकानुगतं नत्वाश्रयभेदेन तद्भेदोऽस्ति । अयं चलत्ययमपि चलतीत्यादिप्रत्यभिज्ञया तदैक्यसिद्धेः । तद्भेदबुद्धे- राश्रयभेदादुपपत्तेः। सन्तताऽनुपलव्धेश्च शब्दवव्यं- जनाभावेनोपपत्तेः। एवमन्यत्रापि कमैक्येऽपि यत्र शब्दान्तरादिभेदकमस्ति तत्र कर्मभेदोऽङ्गीक्रियतेऽत: शब्दान्तरादिप्रमाणषट्कावधिः कर्मभेदः, ततःपरन्तु तभेद इति कौमारिलानां कचित्पक्षे 'सोमेन यजेत' 'अग्निहोत्रं जुहुयादित्यत्र शब्दान्तराद्यभावान्न याग- होमभेदः । किंत्वेकस्यैव यागस्य होमस्य च देवताभेदे- नाधिकरणभेदेन चाभ्यासमात्रमिति मुख्यो भेद् उपपा- दयितुं शक्यते । तथापि सप्तदश प्राजापत्यानित्यादिषु तस्मिन्नपि मुख्यभेद् उपपादयितुं शक्यत एव । अत- एवास्वारस्यात् सर्वलोकसिद्धभेदप्रत्यक्षतोऽपि बलवती प्रत्यभिज्ञा शब्दान्तरादितः कथं वलवती न स्यादित्य स्वारस्याच्च स सर्वत्र कमैक्यपक्षे शव्दान्तरादिस्थलेऽ- प्यमुख्यभेद एव कौमारिलैराश्रितः । शब्दान्तरे कर्मभेद जिज्ञासान्यायवर्णनम् । ६७ इत्यादिसूत्रस्वारस्याय स्वप्रौढ्या समर्थयितुं परं शब्दान्त- रादिस्थले मुख्यः कर्मभेद इति कश्चित्पक्ष उपन्यस्तः। अतोऽनुष्ठानविशेषोपयोग्यपूर्वभेदाशुपाधिकः काल्प- निको भेदः शब्दान्तराद्यवसेय इत्येव सर्वेषां कर्ममीमांस- कानां मतम् । उक्तम् हि तंत्ररत्ने-क्रियाणामाश्रितत्वाद्- द्रव्यान्तरे विभागः स्यादित्यधिकरणे । अथापि नाम सर्वत्रैलोक्यवर्तिन्येकैव कर्मव्यक्तिरनुष्ठानमात्रंतुभिद्यते याबदेकापूर्वानुबंधनमेकेन शास्त्रेण विषयीकृतं तावदेकं कर्म, तदन्यत्क्षुभिद्यत इति भेदाभेदव्यवहारसिद्धिरिति। उक्तं च वरदराजीये शब्दान्तराधिकरणे भिन्नापूर्वानुबंध- प्रतिपादनयोग्यताज्ञानं यत्तदेव शास्त्रभेदज्ञानमित्युच्यत इति । तत्रैव संख्याधिकरणेऽप्युक्तम् । न च सप्तदश प्राजापत्यानितिवाक्यस्यैकत्वान्न शास्त्रभेदः। न वाक्यभे- दःशास्त्रभेदे तत्रम्, निरपेक्षभिन्नालौकिकार्थत्वमेव तत्, तचेहाप्यस्तीति। एवं च यथा पूर्वतंत्रे शब्दान्तरादेवस्तुतो भेदरहितेऽपि काल्पनिकभेदविषयतयैव चारितार्थ्यमेव- मिहापि जीवब्रह्मणोर्वास्तवभेदाभावेऽपि काल्पनिकभेद- विषयतया चारितार्थ्य संभवतीति चेत् । अत्रोच्यते । सप्तदशप्राजापत्यादिषु संप्रतिपन्नदेवता कत्वेन कर्मसौकर्याय प्रदानैक्येऽपि तत्तदुद्देशेन तत्तद्रव्य- विषयकयागापरपर्यायसंकल्परूपाणां भेद आवश्यकः । अन्यथाऽपूर्वभेदो न स्यात् । नहि सामग्रीभेदं विनाs- दृष्टभेदः कल्पयितुं शक्यः। संकल्परूपयागैक्ये सप्तदश- त्वादिसंख्यानन्वयः स्यात् । एकत्वभिन्नसंख्यायाः स्वसम- सत्ताकेन खाश्रयभेदेन सह सामानाधिकरण्यनियमात् । सोमेन यजेताग्निहोत्रं जुहुयादित्यत्र च शब्दान्तराद्य- . मध्वमुनालङ्कार भावान्न भेदः। किंत्वेकस्य सोमस्य देवताभेदेनाधि- करणभेदेन चाभ्यासमात्रम् । न तु संकल्पादिरूप- यागभेदः । अतः शास्त्रयागयोर्भेदाभ्यासयोः शब्दान्त- रादितभावावेव मानम् , प्रत्यभिज्ञात्वयं दंडी अयं दंडी घटो रूपी पटो रूपी घटो ध्वस्तः पटो ध्वस्त इत्यादि क्रिया- भेदेऽप्युपपद्यते । देशकालकत्रादिभेदेन क्रियाव्यक्तयो भि. द्यते । शब्दान्तरादिभिश्चाग्नेयत्वादिजातय एव भिद्यन्ते। जगतीतलवस्येकैव क्रियाब्यक्तिः शब्दवत्तस्या एव साम- ग्या अभिव्यक्तिरित्यशुद्धम् । अपूर्वस्यापलापापत्तेः। तस्याभिव्यक्तिजन्यत्वे च यजिपदे लक्षणापत्तेः। घटपटा- दीनामप्येकैकव्यक्तिकत्वापत्तेः। अयं दंडी अयं दंडीति चायं चलत्ययं चलतीति प्रत्यभिज्ञायाः क्रियाभेदेऽपि सूपपन्नत्वेन तद्विरोधाभावाच । शब्दान्तरादितो मुख्य- एव भेदः सिद्धयति । सूत्रस्वारस्याच शब्दान्तरादि- स्थले मुख्यो भेद इतिपक्ष एव मुख्यतयाऽभिप्रेतः। यागा- भेदपक्ष एव प्रौढिः तस्पक्षस्यैव तंत्ररत्ने 'अथापि नामे- त्यादिना प्रौढित्वोक्तेः। यागैकपक्षस्य मानान्तरविरुद्ध- स्यैव प्रौद्युक्तेाय्यत्वाच । अतो यत्र शब्दान्तरादि- आंदकं प्रमाणं तत्र यागभेदस्ततोऽपूर्वभेदः । कार्यभेदस्य सामग्रीभेदाधीनत्वात् । अग्निहोत्रसोमादौ च शब्दान्त- राद्यभावाच न यागहोमभेदः। किंत्वेकस्यैवाभ्यासोऽतो- नापूर्वभेदः। किं च जीवेशभेदस्य काल्पनिकत्वेऽर्जुना- दीन्प्रति सर्वज्ञकर्तृकोपदेशानुपपत्तिः। न हि मायिकस्य भेदस्य मायामोहं विना दर्शनं संभवतीति । न वा मायामोहितस्येश्वरत्वे मानमस्ति । न चास्वाप्निकगुरु- शिष्यवदुपपत्तिः । स्वाप्तिकगुर्वादेः स्वस्य शिष्यस्य च जिज्ञासान्यायवर्णनम् कल्पितत्वमजानतो भ्रान्तस्योपदेशकस्वादिसंभवेऽपि सर्वस्य कल्पितत्त्वं जानतस्तदसंभवात् । न चैन्द्रजालि- कवदीश्वरस्य कल्पितदर्शनोपपत्तिः। स्वमायामोहरहित- स्यैन्द्रजालिकस्य कल्पितदर्शनासंभवात् । यथा हि वैद्यः शास्त्रगुरूपदेशादिज्ञातौषधप्रभाव इदमौषधमिमं रोग- माशु नाशयति पश्यन्त्विति वदति तथा गुरूपदेशादि- नाऽनेन मंत्रादिप्रयोगेनेत्थं लोको भ्राम्यतीति ज्ञातमंत्रादि- प्रभाव इममापश्यंस्विति तदापरोक्ष्याभावेऽपि वद- त्यैन्द्रजालिकः। ननु तथापि शब्दान्तरादिना न भेद- सिद्धिः। शब्दान्तरादिसत्त्वेऽपि विद्याभेदाऽनंगीकारात् । सर्वविद्यानातानां सर्वेषां गुणानामुपसंहारः कार्य इति न विद्याभेदेन गुणानां प्रतिकरणं व्यवस्था किन्तु मानु- षाद्या हिरण्यगर्भान्ता मुक्त्यधिकारिणः फलतारत- म्येन मुक्तिभाज इत्यधिकारिभेदेनैव तत्र हिरण्यगर्भः सर्वोत्कृष्टमुक्त्यहतया कर्मकाण्डस्थसकलगुणोपसंहार- योग्यः। अन्ये तु स्वस्वभाविमुक्त्यनुसारिगुणोपसंहार- योग्याः। यद्यप्यस्मदादिभिर्मुक्त्यधिकारिभिरुपासना- रम्भसमये खखभाविमुक्तिखरूपं प्रतिपुरुषमनादियोग्य- तानुसारेण व्यवस्थिततारतभ्यमजानद्भिः स्वस्वोपासना योग्या गुणा निश्चेतुं न शक्यन्ते तथापि स्वस्वगुरोरन्य- स्माचा सर्वज्ञात्तान् गुणान्निीय तदुपसंहारः कार्यः। ब्रह्मणोपसंहर्तव्यानां सर्वगुणानामाम्नानस्यैकस्यां विद्या- यामभावादिति शब्दान्तरादीनां भेदकत्वं स्पष्टं त्यक्त- मिति चेत्, एकत्र बाधकाच्यागेऽपि सर्वत्र स्यागे वीजा- भावात् । यत्तु शब्दान्तरायः कर्मभेदकाः सन्तु न वा ब्रह्मणि तु भेदका न भवन्त्येव। तथा हि 'एषह्येव जीवं स्या- ७० मध्वमुखालङ्कार प्रबोधयति एतस्माज्जीव उत्तिष्ठतीति विरुद्धार्थधातुनिष्प नाख्यातरूपस्य शब्दान्तरस्य भेदकत्वं तद्बोकत्वावच्छि. नस्योहोध्यत्वावच्छेदो विरुद्धः इत्यतो विरोधमूलमेव वाच्यम् । न च तद्युक्तम् । त्वया ब्रह्मणि विरुद्धधर्म- समावेशांगीकारात् । 'नित्यः परो नित्यो जीव' इति नित्यत्वाभ्यासस्य परजीवयोरेकस्वे परनित्यत्वश्रुत्यैव जीवस्यापि नित्यत्वसिद्धेस्तत्पुनःश्रुतिरनर्थिका दिति पुनःश्रुत्यानर्थक्यं मूलं वाच्यम् । तदपि न युक्तम् । कार्यकारणाभेद्वादिना शक्तिव्यत्यभेदवादिना स्वया नित्यत्वानित्यत्वादिसांकर्यस्य स्वीकारेण तत्तथैव परनित्यत्वेऽपि जीवानित्यत्वशंकावारणेन सार्थकत्वात् । संख्याया गुणस्य च भेदकत्वं यस्मिन् 'पंच पंच जना' 'अणोरणीयान्महतो महीयान् इत्यादी त्वयैव प्रतिषिद्धम् । प्रकरणभेदोन भेदक इति स्पष्टमेव । भारतादिषु रामकृष्णादिचरितप्रतिपादकप्रकरणभेदेऽप्य- भेदानपायात् । सृष्टिसंहारादिप्रकरणभेदेऽपि स्वया सृष्टिसंहारादिक्रियाणामभेदस्यांगीकाराच । एतेन जीवे. शाविति नामभेदस्यापि भेदकत्वमिति निरस्तम् । तस्मात्परस्परविरुद्धधर्मादिमतामवतारादीनामिव जीवा- नामप्यभेदश्रुत्यनुसारेण तदत्यन्ताभिन्नवासुदेवांशत्वं स्वया विचारयितुं न शक्यत इति । तत्तुच्छम् । बोध्य- बोधकस्वयोः सामानाधिकरण्यस्यैश्वर्यविरोधिनोऽस्मा- भिरनंगीकारात् । न हि निस्याप्रतिहतबोधस्येश्वरस्या- बोधादिकं संभवति प्रधानत्वेन नित्यत्वं महत्तत्त्वादिना चानित्यत्वमिति व्यवस्थयैव नित्यत्वादिसांकर्यस्वी- कारात् । महत्तत्त्वाद्यो ह्यवस्थाविशेषाः कारणकलापैर-
जिज्ञासान्यायवर्णनम् ।
भिव्यज्यन्ते । परनित्यत्वज्ञानेऽपि जीवस्यानित्यत्वशं-
कायाः परजीवभेदज्ञानं विनाऽनुपपत्तेः। यत्र संख्यान्वय-
बोधात्प्रागेवाभेदसिद्धिः तत्र संख्या न भेदिका। यथा
विराट्संपन्नमग्निहोत्रं जुहोति । एकादश प्रयाजान्यजती-
त्यत्राग्निहोत्रैकत्वस्य प्रयाजपंचत्त्वस्य च प्रागेव निर्णयान्न
संख्यया भेदः । किन्त्वावृत्त्यैवैकादशत्वादिसम्पादनम् ।
तथा "प्राणस्य प्राणश्चतुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्न
स्यान्नं मनसो मन” इत्यादिनियामकस्यैकत्वानश्चयाद्यस्मि-
पंच पंच जना इत्यादि संख्या न भेदिका । किन्तु पाशा-
धिकरणन्यायेनैकत्रैवान्वयः। ज्ञाज्ञाविस्यादौ तु प्राक्तद्-
निर्णयात्स्यादेव संख्या भेदिका। प्रकरणमप्यसति वाधक-
एव भेदकं रामकृष्णयोर्मेंदे वाधकवजीवेशयोर्भदे वाधक
नास्ति जीवेशावितिनाम्नोर्मेंदेकत्वं सुस्पष्टमेव । जीवस्य
वासुदेवावतारत्वे तं प्रत्युपदेशोऽसंगत एव । न हि
रामकृष्णमत्स्यकूर्मादीनां परस्परमुपदेशोऽस्ति ।
इत्थं जीवब्रह्मभेदे मुसिद्धे
शास्त्रारंभः सार्थको नः सुसिद्धः ।
जीवब्रह्माभेदवादे समोघो
ज्ञानाभावात्स्यादपार्थो विचारः ॥४३॥
मंडने मध्वतंत्रस्य खंडने च सुरद्रुहाम् ।
वनमालिकृतं भाति जिज्ञासान्यायवर्णनम् ॥६॥
र्थितः। जन्मादिन्यायवर्णनम् श्रीवेदव्यासायनमः। जन्माद्यस्य यतः। पूर्वाधि- करणे ब्रह्मशब्देन जीवब्रह्मभेदमुपपाद्य शास्त्रारंभः सम- अत्र प्रकारान्तरेण तदेवाक्षिप्य समाधत्ते । यदुक्तं 'तद्विजिज्ञासस्व तद्ब्रह्मति विचारविधिवाक्ये ब्रह्मपदेनात्र जीवविलक्षणस्य ब्रह्मणोविचार्यस्य समर्प- णास्सविषयमिदं शास्त्रमिति । तन्नयुक्तम् तत्र ब्रह्मः शब्दस्य जीवपरस्वात् । तथा हि ब्रह्मशब्दस्तावजीक- स्यापि वाचकः। बृहि बृंहि वृद्धावितिधातोरिव जातिजीव- बोधकत्वं रूल्यैव जीवे गुणपूादियोगासंभवात् । परब्रह्मवाचकत्वं तु योगेन, ततश्च रूढयोगतो बलवत्त्वा- दिह ब्रह्मशब्दस्य जीवपरत्वमेव युक्तमिति प्राप्ते सत्यम् रूढिबलीयसी इह त्वस्या योगो वाधकः । 'यतो वा इमाः निभूतानि जायन्त' इत्यादिश्रुतौ हि ब्रह्मपदं निर्दोषस्य वस्तुनो जगजन्मादिकारणत्वं बोधयति तद्विष्ण्वेकनिष्ठ तल्लक्षणमिति श्रुतिस्मृतिपुराणादिभ्योऽवगतम् । अत: तदनुसारेण योगतः परिपूर्णगुणविष्णुपर एवायं ब्रह्मशब्द इति। वेदे भूरि प्रयोगाच्च गुणायोगाच शाहिणि । तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने ।। यस्मिन् प्रयुज्यमाने तु गुणयोगः सुपुष्कलः । तत्रैव मुख्यवृत्तोऽयमन्यत्र ह्युपचारतः ॥ इति गारुडे । ब्रह्मशब्दस्य हरौ मुख्यत्वमन्यत्रामु- ख्यत्वं स्पष्टम् । ननु ब्रह्मशब्दस्यः जीवे रूढिरसिद्धा ।
o No. जन्मादिन्याय Ray शरीरवृंहकत्वात प्रवृत्त्युपपत्त धात्वंतरस्य चाप्रामाणिकत्वाक्षित चेत् । किमेवं वक्ता ब्रह्मशब्दस्य जीवे रूढौ प्रमाणमेच नास्तीत्यभिप्रेतम् , किंवा क्लुप्तावयवशत्तयैव तत्र प्रवृत्युषपसौ रूढिोंगी. कार्येति? नाद्यः "वृहि बंहि वृद्धाविस्यादिना योगस्येव बृहज्जातिजीवकमलासनशब्दाशिस्वित्यभिधानेन तत्र जीवेऽपि रूढिसिद्धेः । न च बृंहि वृद्धाविस्थादेरिव बृह- जातिजीवेत्यादेन प्रसिद्धिः । शक्तिग्राहकाभिधानानाम- नेकत्वेनार्वाचीनानां तदभावनिर्धारणासंभवात् । अन्य था 'बृहि बंहि वृद्धावित्यादेष्यप्रामाणिकत्वापत्तेः। अभि- युक्तप्रदर्शितत्वेन तेषां प्रामाणिकत्वे च किमनेनापरा. द्धम् ? तस्याप्यभियुक्ततमोदाहृतत्वात् । स्वभिमता एवाभियुक्ततमा नास्मभिमता इत्युक्तेषमात्रमूल- स्वात् । अन्यथा बृंहहेत्यादिरप्याधुनिकेन प्रक्षिप्त इत्युक्तौ का प्रत्याशा । न द्वितीयः। देहबृंहकत्वादि- मात्रस्य तदनवयवार्थत्वात् । श्रुतिस्मृत्याद्यनुसारेण गुणपूतैरेव तदवयवार्थस्वाच्च । ननु तथापि सिद्धान्तोऽनुपपन्नः । तथा हि यदि जगत्कर्तृत्वानुवादस्य जीवे पर्यवसानायोगाद्विचार- विधिवाक्यगतस्य ब्रह्मशब्दस्य रूढार्थोऽपि जीव: परित्यज्यते । तदा अन्नप्राणमनोविज्ञानानन्देषु ब्रह्म- शब्दस्य बृत्तिस्त्वया त्यक्ता स्यात् । जीव इव जग- स्कारणत्वादेः पर्यवसानासंभवस्य तेष्वपि तुल्यत्वात् । त्वया "एतन्नानावताराणों निधानं, वीजमव्ययम्" इत्यादिस्मृत्यनुसारेण । मूलरूपेणैव । हरेश्चतुर्मुखादि- सकलजगत्कारणत्वमुपेयते। न तु प्रतिशरीरं तत्तत्को- ७४ मध्वमुखालङ्कारे शमात्राधिष्ठानतयाऽभिव्यक्तैरनादिरूपैरिति तेष्वप्य- नुवादयुक्तिस्तुल्यैव । यद्यपि त्वन्मते सर्वाणि भग वद्रूपाणि सविशेषाभिन्नानि तथापि तत्तस्कृत्यानि व्यवस्थितान्येव । न हि रावणवधादिकं शिशुपालवधा. दिवत्कृष्णचरित्रमध्ये वर्ण्यत इति चेन्न । रूढ्या मूला- भेदृष्ट्याऽन्नमयादिष्वपि जगत्कर्तृत्ववर्णने वाधका- भावात् । रावणवधादीनां तत्तद्रूपपुरस्कारेण प्रवृत्त्या मूलरूपेणाप्रवृत्त्या च युक्तं श्रीकृष्णचरित्रप्रस्तावे रावण. वधाद्यवर्णनम्, मूलाभेददृष्ट्या च रूपान्तराविष्कृतो माहिमा रूपान्तरे वर्णयितुं युक्त एव । मयाध्यक्षण प्रकृतिः सूयते सचराचरम् । अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते ॥ इति श्रीकृष्णवाक्यात् । रावणवधादेः कृष्णरूपा- विष्कृतचरित्रमात्रसंग्रहप्रस्तावेष्ववर्णनेऽपि सर्वरूपा- भिन्नपरब्रह्मस्वरूपतया कृष्णवर्णनप्रस्तावेषु कृष्णेऽपि वर्णनदर्शनाच्च । अतो मूलाभेदृष्ट्याउन्नमयादिप्वपि जगत्कर्तृत्वानुवादो युक्त एव । नन्वेवं जीववर्गेऽपि विश्वकर्तृत्वानुवादो युक्त एव । ज्ञानानंदादिब्रह्मगुणशालितया ब्रह्माभिन्नो जीव इति त्व- याऽङ्गीकारात् । “तत्त्वमसि' इति जीवे प्रकृतजगत्कर्तृ- भावपरामार्शतस्पदोक्तब्रह्माभेदप्रतिपादनस्य, ज्ञानानंदा- दिगुणैकरूप्यप्रयुक्ताभेदविषयतया "सर्व खल्विदं ब्रह्म" इति ब्रह्मणि सर्वप्रपंचाभेदप्रतिपादनस्य, सर्वभूतगुणै- युक्तम्" इतिस्मृतेः पृथिव्यादिगताऽऽधारत्वादिगुणा ब्रह्मणि सन्तीति तद्गुणैकरूप्यप्रयुक्तपृथिव्यायभेदविषय जन्मादिन्यायवर्णनम् । तया च स्वया “तुद्गुणसारत्वात्तु तव्यपदेशः प्राज्ञवदिति सूने व्यवस्थापितत्वाचेति चेन्न । सिंहो देवदत्त इत्यादि वद्गौणाभेदस्यैव तद्गणेत्यादिसूत्रेस्वीकारात् । प्रत्यक्षादि- विरोधेन तत्र गौणार्थस्वीकारेऽपि ब्रह्मशब्दस्य मुख्यार्थे वाधकाभावेन गौणार्थकत्वानङ्गीकारात् । नान्नमयादिषु मूलरूपस्य गौणोऽभेदः मुख्याऽभेदे बाधकाभावात् । "अन्नं ब्रह्मति व्यजानात् । अन्नाद्धयेव खल्विमानि भूतानि जायन्ते" इत्यादिश्रुत्याऽन्नादिरूपेष्वपि जगत्कर्तृत्वोक्तेश्च । अन्नप्राणमनोविज्ञानानन्देषु पंचस्वपि ब्रह्मशब्दस्य जगत्कर्तृत्वलक्षणस्य च दर्शनास्पंचापि भगवद्रूपाण्येव । एकं रूपं श्रुत्वा मत्वा साक्षात्कृत्य च रूपान्तराऽऽप- रोक्ष्यार्थ भृगोवरुणनिकटे पुनः पुनरुपसत्तिः। ननु साक्षादेव जीवे विश्वकर्तृत्वानुवादो युक्तः । इत्थं ते मतं स्वमध्यानमनोराज्येष्वनुभूयमानाः सरि- समुद्रगिरिनरतुरगादयो न बहिः सन्तः, नापि भ्रान्ति- मात्रविषयाः किन्तु स्वप्नादिद्रष्ट्रपुरुषान्तःकरणगता- नादिकालप्रवृत्ततद्विषयानुभवजन्यवासनोपादानास्तदा- नीमेवान्तरुत्पन्नाः । ध्यानमनोरथविषयाः पुरुषप्रयत्ननिर्वा न तु स्वमविषयाः। इयांस्तु विशेषः मनोरथादौ प्रयत्नपूर्विका पदार्थसृष्टिः स्वप्ने पुनरीश्वरे- च्छाधीनैवेति । एवं ध्यानमनोरथयोरसंभावितविषयः कोऽपि नास्तीति तद्विषयसर्वस्रष्टरि जीवे साक्षादप्यनु- वादो युक्त एवेति चेन्न । स्थूलबाह्यप्रपंचस्रष्ट्टत्वस्य जीवेष्वसत्त्वेन सर्वस्रष्टुत्वानुबादानुपपत्तेः । ध्यानादिहे. त्वन्तःकरणादे वे कर्तृत्वासंभवाच्च । सर्वजगद्विषय- कध्यानादेरसर्वज्ञे जीवे एकस्मिन्कुत्राप्यसंभवाच ।
मध्वमुखालङ्कार ननु स्थूलप्रपंचस्रष्टृस्वमपि जीवस्य संभवति तस्य चिरन्तनहिरण्यगर्भादिजीवध्यानमनोरथप्रभवस्वोपपत्ते- रिति चेन्न । सर्वध्यानमनोरथादिनाप्यान्तरपदार्था- नामेव सर्जनात् । अन्यध्यानादिनोस्पादितानां पदार्था- नामन्यस्याऽऽपरोक्ष्याऽसंभवात् । अर्थक्रियाकारित्वाऽसं- भवाच । एतेनातिसूक्ष्मवासनोपादानत्वेऽपि स्वमध्यान- मनोरथविषयाणां भूगोलमहार्णवादीनामतिमहत्त्वं तेषां च स्वल्पशरीरान्तःस्थानं मूहूर्तमात्रावस्थितेषु स्वाम- ध्यानमनोराज्येषु नैकशतवर्षावस्थानमित्यादेरतिदुर्घ- टस्थ दर्शनेन तदेव ध्यानमनोरथप्रभवे प्रपंचेऽपि सर्वा- परोक्ष्याद्युपपत्तिरिति निरस्तम् । स्वामिकादीनामनु- भूतगुणकानां महतामप्यन्तःसमावेशोपपत्तेः मुहूर्त- मात्रस्थितानां बहुकालस्थायित्वबुद्धेर्धमत्वेनाप्युपपत्तेः। अन्यसृष्टानां स्वाप्निकानां मानोरथिकानामन्यं प्रत्यापरो- क्षस्यार्थक्रियाकारित्वस्य चादर्शनेनाघटघटनाकल्पनायां मानाभावात् । स्वामिकादिसृष्टेस्तवापि सम्मतत्वाच्च । सत्यत्वं परं त्वया नेष्यते "यत्प्रयन्त्यभिसंविशंतीति मुक्तप्राप्तिरूपसंवेशस्य सर्वजडजीवात्मकप्रपंचलयस्य जी- वेऽनुवादस्यानुपपत्तेः । स्वयमलीनस्य सर्वलयाधिकरणस्य च जीवत्वासंभवात् । हिरण्यगर्भादीनां नानास्वेन जीवान्तरध्यानविषये जीवान्तरस्यास्रष्दृत्वात् । किं च ब्रह्मपदस्य जीवपरत्वे जीवपरयोरभेदो म- हावाक्यार्थः । स च जगजन्मादिकारणत्वजीवत्वा- पन्नयोमुख्यः। स न संभवति । ताभ्यां रूपाभ्यां तयो- भैदाङ्गीकारात् । अभेदस्य प्रत्यक्षादिवाधितस्वाञ्च । ज्ञानानंदत्वादिना गौणाभेस्य "तद्गुणेत्यादिसूत्रोक्तस्य जन्मादिन्यायवर्णनम् त्वयानङ्गीकारात् । ममेष्टापत्तेश्च । तद्ब्रह्मेत्यादौ गौणार्थ- ग्रहणे मानाभावाच । एतेनोक्तप्रकारद्वयानङ्गीकारेऽनु- वादब्रह्मपदस्वारस्यविषययोर्जीवपरयाविरुद्धधर्मवत्तया- ताभ्यामुपस्थापितयोरपि "यतो वेत्यादि महावाक्यप्रामा- ण्यादस्यन्ताभेदः संभवति । विरुद्धधर्मवत्त्वस्य तयोर- भेदाविरोधिताया आद्याधिरणे समर्थनादिति निरस्तम् । ब्रह्मपदस्य जीवपरेशाभेदे स्वारस्यस्य स्वदाशामात्रत्वात्। सर्वज्ञत्वाल्पज्ञत्वादीनां भेदकानां सत्त्वाच्च । एतेन यदि विरुद्धधर्मस्याभेदविरोधित्वं तदा विधेयानुवाद्यरूपतया जीवब्रह्मसमर्पकस्य भागद्वयस्य महावाक्यार्थभूताभेदे विरोधिधर्मद्वयोपस्थापकतया विरोधे सत्यविरोधाय कस्य- चिदुभागस्यार्थबाधेकर्तव्ये विधेयभागस्य तात्पर्यवत्तया प्रबलत्वात् , न विधौ परः शब्दार्थ इत्यनुवादमुख्यत्वाय विधावमुख्यार्थपरिग्रहस्य न्यायविद्भिनिराकृतत्वाच, अ- नुवाभागस्यैवार्थवाधः प्राप्नुवन्जीवगतध्यानादिविष- यस्रष्टत्वगोचरत्वलक्षणस्य संकोचरूपबाधस्य स्वदसंम- ततया गत्यन्तराभावाद्ब्रह्मण्येवानुवाद्ये जीवाभेदवि. रोधिजगत्कारणत्वोपमात्मा वाधः प्राप्नोति। दृष्टश्च पूर्व- तंत्रेऽप्यनुवाद्यधर्मस्य विधेयविरोधेनोपमर्दः । झुक्थ्याग्निष्टोमस्तुतशस्त्रं स्यात्सति हि संस्थान्यत्व- मित्यधिकरणे, 'अप्यग्निष्टोमेराजन्यस्य गृहीयादप्युक्थ इति राजकर्तृकयोरुक्थ्याग्निष्टोमयोर्विधीयमानः षोडशि- ग्रहः स्तुतशस्त्ररहितः स्यात्तद्वत्त्वे षोडशिसंस्थतयोक्थ्या- ग्निष्टोमसंस्थाभंगप्रसंगेनोक्थ्यस्याग्निष्टोमस्य च षोडशिग्रहविध्ययोगादिति प्राप्ते सिद्धान्तितम् , स्तुतश- स्त्रवत्वेन नितिषोडशिग्रहोऽत्र विधीयमानस्तथैव तन्त्र सतः मध्वमुखालङ्कार प्राप्नोति । न च संस्थाभंगो दोषः। पूर्वसंस्थोपमर्दन संस्थान्तरविध्युपपत्तेः। उक्थ्यसंस्थो हि यः प्राप्तस्तथाग्निष्टोमसंस्थकः । राजन्यस्य तथा नासौ किंतु षोडशसंस्थकः ।। इत्येव विधेः पर्यवसानादिति। एवं षोडशिग्रहवि- ध्यर्थं प्राप्तेनापि स्तोत्रशस्त्रेण यदा तद्विरोधिनोरनुवा द्ययोरुक्थ्याग्निष्टोमसंस्थयोरुपमर्दस्तदा किमु वक्तव्यं साक्षाद्विधीयमानेन जीवत्वेन तद्विरुद्धस्यानुवाद्यस्य जगत्कारणत्वस्योपमर्द इति । एवं च पूर्वोक्तप्रकारया- नंगीकारे जीवपरयोरत्यन्ताभेदप्रसत्या त्वदभिमतभेद- हानाद्विरुद्धधर्मवतोरत्यन्ताभेदो न संभवतीस्यनुशये ब्रह्मणो जगत्कारणत्वस्यापि हानाच त्वन्मतस्य हानिरे- वेति निरस्तम् । विरुद्धधर्मवतोरभेदासंभवात् । उक्त- न्यायवैषम्याच्च । तथा हि राजन्ये प्राप्तयोरुक्थ्याग्निष्टोम- संस्थयोर्वाधेऽपि न तदनुबंधिविधीनामस्यन्तबाधो धर्म्य. न्तरे चरितार्थत्वात्। ब्रह्मणि जगत्कारणत्वबाधे तु मृष्टि- प्रलयादिवाक्यानामत्यन्तबाधः स्याद्विषयान्तराभावात् तस्मात् “आनर्थक्यप्रतिहतानां विपरीतमेव बलाबल- मिति न्यायाद्विरोधे परस्यापि ब्रह्मशब्दस्य रूढित्यागात् । ब्रह्मपदस्य पूर्णानन्दगुणवत्परत्वेन ब्रह्मपदार्थत्वसर्व- जगत्कारणत्वयोरविरोधोपपत्तौ ब्रह्मपदस्य जीवे रूढ़ि- मंगीकृत्यानेकश्रुतिविरुद्धस्येश्वराकारणत्वस्यांगीकारा- नौचित्यात् । यथा हि हृदो वह्निमान् इत्यादिशब्दा- र्थस्य वहिहदसंसर्गस्य बाधेन वहिहदान्यतरपदलक्षणया वाक्यार्थोपपत्तिस्तथानान्यतरपदस्य मुख्यार्थ विहायो- पपत्तिः" कार्या। तत्र जगत्कारणादिशब्दार्थत्यागे. उप- ७६ जन्मादिन्यायवर्णनम् । देशो व्यर्थः। जगत्कारणान्यज्ञानस्य मोक्षाहेतुत्वात् । "तमेव विदिस्वातिमृत्युमेतीत्यादिश्रुतेः । अतो ब्रह्मपदस्य रूढिं त्यत्तवा यौगिकार्थमादाय वाक्यार्थोपपत्तिः कार्या। यत्तु सृष्टयादिवाक्यानां विषयान्तराभावो न दोषः। ब्रह्मणो ऽद्वितीयत्वसिद्धयर्थमध्यारोपापवादापेक्षितारोप- मात्रेण चारितार्थ्यम् । दृष्टं च अग्निचयनेऽग्निहोत्रे च जर्ति- -लयवाग्वादिविधिषु तद्वदिहापीति । तत्तुच्छम् । आद्वितीया- दिशब्दैद्वितीयमात्रनिषेधासंभवात् । तथा हि तैईितीया- भाव उपलक्षणतया विशेषणतया वा बोध्यते चिन्मानं वा । आये द्वितीयाभावेनैव सद्वितीयत्वम्, न चाभावो- मिथ्या । प्रतियोगिनः सत्यत्वापत्तेः। न चाभावस्यापि द्वितीयत्वान्निषेधः। मे माता वंध्येस्यादिवत्स्वविहितस्य निषेधस्य निषेधे श्रुतेाघातापत्तेः । न चाभावो भिन्नः स्वीक्रियते अभावत्वाधेयत्वाधिकरणत्वसप्रतियोगिक- स्वादेर्भावस्यः सत्त्वेनाद्वैतहाने । अद्वितीयपदस्य संकोचा- घश्यकत्वे स्वतंत्रद्वैतनिषेधपरत्वेन संकोचापत्तेश्च वेदा- न्तानामखंडार्थकत्वहानेश्च । चाभावोऽधिकरण- स्वरूप एवास्तु निरपेक्षसापेक्षयोभ्रमकालनिश्चितानिश्चि- तयोब्रह्मद्वितीयाभावयोरैक्यासंभवात् । न चाभा- वत्वेन सापेक्षत्वादिकं स्वरूपेण निरपेक्षत्वादिकमिति वाच्यम् । स्वरूपातिरिकाभावत्वांगीकारे तेनैवाईत. हानेः । नान्त्या चिन्मात्रबोधस्य द्वैताविरोधस्वात् । नहि धर्मिभूतलादिमात्रज्ञानं घटतदभावान्यतर- वत्ताज्ञानविरोधि । अज्ञानाद्यधिष्ठानतया चिन्मात्रस्य सदा भानाच्छास्त्रस्य वैयर्थ्यांपत्तेश्च । जर्तिलाद्यर्थः वादानां स्तावकानां प्राशस्त्यलक्षणया विध्येकवाक्य, न वा मध्वमुखालङ्कारे स्वेन सार्थक्येऽपि सृष्टिवाक्यादीनां चयापत्तेः न. हि सगुणसप्रपंचपृष्टयादिप्रकरणे नियमेन तन्नि- षेधकं वाक्यमस्ति । किं चेश्वरनिष्ठस्य व्यावहारि- कस्यापि जगत्कर्तृत्वादेरसिद्धयापत्तेः । न हि जर्तिला दीनां व्यावहारिकं होमकरणत्वं प्रतीयते । तीरतास्पर्यकगंगापदेन प्रवाहबोधो भवति । किं च शास्त्रप्रसक्तस्य न सर्वथा निषेधः। अतिरात्रे षोड. शिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णातीत्यत्रापि षोड. शिग्रहणस्य नित्यनिषेधापत्तेः। “न तो पशौ करोतीस्यत्र विकल्पानुपपत्तेश्च । दर्शपूर्णमासप्रकरणेऽभिहितस्य न तावित्यादिना पशावाज्यभागनिषेधस्य प्रसक्तिरपेक्ष्यते सा च शास्त्रादेव शास्त्रप्राप्तस्य सर्वथा निषेधासंभवा- दाज्यभागयोर्विकल्प एव पशौ स न स्यादित्यर्थः । अतः प्रसक्तार्थानुमितशास्त्रप्राप्तस्य यदा न सर्वथा बाधस्तदा प्रत्यक्षश्रुतिप्राप्तं न बाध्यते इति किमु वाच्यम् ? किञ्च 'असा इदमग्र आसी'दित्यादिब्रह्मसत्ता- निषेधाय 'तत्सत्यं' 'सदेवसोम्येत्यादिवाक्यमारोपपरं किं न स्यात् । अत एकस्य ब्रह्मपदस्य रूढिपालनाय 'यतो वेत्याद्यनुवादस्यानेकसृष्टयादिवाक्यानां चोपमर्दनं न युक्तम् । नन्वेकानुरोधेन बहूनामुपमर्दो न युक्त इति; सत्यम् , परन्तु स न्यायस्त्वया तब्रम्हेत्यत्र ब्रम्ह- शब्दे त्यक्तः। त्वया हि पूर्वाधिकरणे ब्रह्मशब्दस्य जीवब्रह्मभेदसाधकत्वमंगीकृत्य तेनैकेन पूर्वपक्ष्यभिमत- सकलाद्वैतश्रुतीनां वाधो वर्णितः। तद्रीत्यवान वक्तुं शक्यम् । तेनैव शब्देन जीवे रूढिन्यायतः प्राप्तेन जग- कारणब्रह्माभेदबोधनपर्यन्तेन 'सृष्टिवाक्यादिसर्वदैत- जन्मादिन्यायवर्णनम्। श्रुतीनामुपमर्द इति न ह्ययं ब्रह्मशब्दो यौगिकत्वे वलवान्न तु रूढत्व इति वक्तुं युक्तमिति चेन्न । भेदग्राहकश्रुति. प्रत्यक्षाद्यनुग्रहेणोत्पत्तिशिष्टन्यायादिना ब्रह्मशब्दस्य जीवशभदसाधकत्वोक्तः। पूर्वपक्ष्यभिमतचिन्मानपर- वाक्यैब्रह्मपदार्थगुणपूर्तेरविरोधाच । 'हे ब्रह्मणी वेदि- तव्ये 'तदेव ब्रह्म परमं कवीनाम्' 'परं ब्रह्म परं धामेत्य- त्रोक्तविददि भगवति ब्रह्मपदस्यांगीकृत्य सिद्धान्त- प्रवृत्तेश्च । मुमुत्तुज्ञेयगुणपूर्तिबोधकत्वेन ब्रह्मपदे यौगि- कत्वस्यैवोचितत्वाच्च । अतो यौगिकत्वे ब्रह्मशब्दो बलवान्न तु रूढत्व इत्यपि युक्तम् । ननु परमते जीवब्रह्मणोर्विरुद्धधर्मवतोरप्यभेदबोधने लौकिकदृष्टिन विरोधिनी तन्मते परमेश्वराचिन्त्याद्भुत- शक्तिमहिना विरोधाभावादिति चेन्न । विरोधोपपादकै- श्वर्यविरोधिनोऽसर्वज्ञाऽभेदस्यैश्चर्येणोपपादयितुमशक्य- स्वात् । यत्तु श्रोत्रैकगम्ये शब्दे रसनेंद्रियस्येव वेदैक- गम्ये ब्रह्मणि मानान्तरस्य साधकत्ववब्दाधकत्वमपि नास्तीति स्वन्मतं 'श्रुतेस्तु शब्दमूलस्वादित्यधिकरणे दर्शितम् । इत्थं हि तदधिकरणम्-ईश्वरो जगकर्ता चेत् तुद्र कार्येषु कृत्स्नप्रसत्त्या प्रवर्तते तदेकदेशेन वा, नाद्यः स्वल्पकार्ये कृत्स्नप्रसत्त्या प्रवृत्तौ प्रेक्षावत्वहानि- प्रसङ्गात् । न द्वितीयः। तस्य निरवयवत्वात् । तस्मा- ज्जीवस्य स्वतंत्रकर्तृत्वे कृत्स्नप्रसत्यादिदूषणं यदुक्तं तदीश्वरेऽपि स्यादिति प्राप्ते, ब्रह्मणि यथाश्रुति यस्य कस्य- चिदर्थस्याङ्गीकारे लौकिकाः शुष्कतको न प्रतिभटा भवि- तुमीशते । न हि श्रौत्रैकगम्ये शब्दे चक्षुरादिकं साधकं बाधकं वा भवितुमर्हति । अत एव “योऽसौ विरुद्धो- मध्वमुखालङ्कारे ऽविरुद्धो मनुरमनुर्वागवागिंद्रोऽनिंद्रः प्रवृत्तिरप्रवृत्तिरपरः परमात्मेति श्रुतिरेव लोकदृष्टया विरुद्धानामपि धर्माणां परमात्मन्यविरोधं बोधयति । तस्मान्मानान्तरगम्यस्य जीवस्य स्वतंत्रकर्तृत्वाङ्गीकार एव कृत्स्नप्रसक्त्यादिलौकि- कतीः प्रसज्येरन् नेश्वरस्येति । यथाश्रुति निरबय- वोऽपि परमेश्वरः कार्यानुरूपमेकदेशेन जगन्निर्माणे प्रवर्तते जीवेनापि निरवयवेनैव कार्यानुरूपमेकदेशेन कृत्स्नप्रसत्त्या वा कारयतीत्यभ्युपगतौ न कश्चिद्दोषः। एवमीश्वरस्य तर्कागोचरत्वं विस्मरसीति तन्न । ईश्वरस्य नित्यनिरवद्यत्वादिबोधकनिर्दुष्टागमानुरोधेनैवासर्वज्ञस्वा- दिगुणकजीवाभेदानङ्गीकारात् । केवलतर्केणैव भेदा- नङ्गीकाराच्च । नहीश्वरेऽज्ञत्वसमावेशे श्रुत्यादिविरोध वदुक्तधर्मसमावेशे श्रुस्यादिविरोधोऽस्ति । ननु जीवब्रह्मभेदश्रुत्यनुग्राहकत्वेन त्वदभिमतानां विसद्धधर्मवत्त्वादितर्काणामपवादकत्वेन तभेदश्रुति- प्राबल्यापादका जीवे प्रत्यक्षसिद्धस्य कर्मकर्तृत्वस्य ब्रह्मणि श्रुतिप्राप्तसृष्टिपालनसंहारादिकत्वस्य प्रतिक्षेपकतया कर्तृत्वविशेषतदनुबंधिगुणरूपान् जीव- ब्रह्मणोः सर्वानपि धर्मान् विचाराऽसहान्मिथ्याभूता- न्कुर्वन्तः कृत्लप्रसत्यादितर्का एव श्रुत्यनुग्राहका इत्यु- पादेयाः। विरुद्धधर्मवस्वमूलतर्कास्तद्पोदिततया श्रुत्य- ननुग्राहकाः शुष्कतको उपेक्षणीया इति चेन्न । त्वद- भिमतजीवेशाभेदश्रुतीनां हि स्वरूपातिरिक्ताभेदपर- त्वेऽद्वैतहानेः । स्वरूपाभिन्नाभेदपरत्वे स्वरूपस्य नित्य- सिद्धत्वेनोपदेशवैयर्थ्यम् । स्वरूपज्ञानस्थ भेदज्ञाना- विरोधाच 1. कर्तृत्वादिधर्माणां मिथ्यात्वे तद्बोधक- LA ८३ जन्मादिन्यायवर्णनम् । श्रुतीनामप्रामाण्यापत्तेः। तर्कहतानां व्यावहारिकत्वस्य व्यावहारिकाणामव्यवस्थायाश्च त्वयानङ्गीकारेण कर्तृ- स्वादेयावहारिकत्वस्यापि हान्यापत्तेः श्रुतौ ब्रह्मणो- ऽवरत्कादिनिर्देशस्तु तस्यावरत्वादर्नियामकत्वादया- पकत्वाच्चोपपद्यते । 'सर्व समाप्नोषि ततोऽसि सर्व इत्यादिस्मृत्यनुसारात् । अतो जीवेशभेदश्रुत्यनुग्राहकाः विरुद्धधर्मवत्त्वादिताः सत्तास्तद्गोचरत्वं ब्रह्मणः स्वीक्रियते । जीवेशाभेदश्रुत्यनुग्राहकास्तकर्काः प्रत्यक्ष- वाधिता: विरुद्धधर्मसमावेशोपपादकैश्वर्यविरुद्धाश्चा- सत्ताः। मण्डने मध्वतन्त्रस्य खण्डने च सुरद्रुहाम् । वनमालिकृतं भाति जन्मादिन्यायवर्णनम् ॥१॥ इति श्रीमद्वनमालिविरचिते मध्वमुखालङ्कारे जन्मादिन्यायवर्णनं समाप्तम् .
अथ शास्त्रयोनित्वन्यायवर्णनम् श्रीकृष्णायनमः । मुमुक्षुज्ञेयजगदुत्पादादिकर्तृत्वं ब्रह्मणोऽसाधारणं लक्षणमुक्तवा तत्र प्रमाणमाह शास्त्रयोनित्वादिति । ननु जगदनेककर्तृकं महाकार्य- त्वात् , शिवो जगत्कर्ता सर्वज्ञत्वादत एव ब्रह्मापि जगत्कर्तेति कथं विष्णुरेव जगत्कर्तेति प्राप्ते जगत्कारणं धर्मादिवच्छास्त्रैकप्रमाणकमेव नत्वनुमानादिगम्यम् । अनुमानस्योपाध्यादिदोषसंभवात् । शास्त्रेण तु विष्ण्वे- कनिष्ठमेव कारणत्वं प्रतिपाद्यते । ननु त्वन्मते शिवादेर्जगत्कर्तृत्वं दुर्वारम् । जगतः सामान्यतोऽनेककर्तृकत्वसाधकानुमानेन विशिष्य शिवा- दिकर्तृकानुमानेन च तात्पर्यनिर्णायकोपपत्यादिलिंग- श्वानुगृहीतानां 'सदेव सोम्ये त्यादिवाक्यानामनेकस्रष्ट- परत्वसंभवात् । त्वन्मते हि श्रुतिवाक्यस्यैक एवार्थ इति नियमो नास्ति । 'ज्योतिरुपक्रमातु तथा ह्यधीयत एक' इत्यधिकरणे हि तावत्कृत्लकर्मकाण्डस्त्वया कर्मब्रह्मो भयपरतया व्याख्यातः। तथाहि-तत्र वसन्तवाक्येषु यथा वसतीति वसः "पचाद्यच्” । तनोतीतितिः औणा- दिडिप्रत्ययः । पूर्वपदस्य च नकारागमः। वसंश्चासौ तिश्च वसन्तिः। सर्वत्र व्याप्तो वर्तमानो जगत्कर्ता चेत्यर्थः। तत्र संबुद्धिर्वसन्ते द्विरुक्तिरादरार्थी, जिजातं पूर्ववजने- डिप्रत्ययः ओति ओतं अवतःक्तिः जातं जगत्। श्रोतं प्रविष्टं यस्मिन्स ज्योतिः, षः प्राणः वेष्टकत्वात् “षकार: प्राण आत्मेतिश्रुतेः । ज्योतिश्चासौ पश्चेति ज्योतिषः ८५ शास्त्रयोनित्वन्यायवर्णनम् तस्य संबुद्धिज्योतिषति। आयजेतेत्यपि संवुद्धिः आसम- न्तात् यजैः यज्वभिः। इत प्राप्त्यर्थः। यजेधार्थे कविधानमिति कप्रत्ययः संप्रसारणाभावश्च्छान्दसः। इन्द्रागच्छेत्यत्र इन्द्र इति अ इति गच्छ इति संबोध- नानि गमेछदेश्च डप्रत्यये सति गं गतं छं छादनं यस्मा- दसौ गच्छः निरवद्य इत्यर्थः । स्वाहाशब्दे स्वमात्मीयं- यज्ञादिषु दत्तं हविरादि अाहरति स्वीकुरूत इति स्वाहा हिजो डप्रत्ययः। तदनन्तरं अइतिविष्णुनाम तयोः समासे सम्बुद्धिः नमःशढे नमतेरधिकरणार्थेऽसुन्प्रत्ययः। नमंति नियमेनास्मिन् वर्तन्ते कल्याणगुणा इत्यर्थः इति । तथोपनिषत्स्वपि अब्रह्मवाचिशब्दा ब्रह्मस्वार्थोभयपर- तया व्याकृताः । तद्यथा प्राणो वा प्राशाया भूयानिति- प्रकरणे प्राणशब्दो मूमाधिकरणे ब्रह्मपरतया व्यतीहारा- धिकरणे च मुख्यप्राणपरतया व्याख्यातः इत्येवमन्यत्रा- पीति चेत् 'नामानि सर्वाणि यमाविशन्ति' 'सर्वे वेदा यत्पदमामनन्तीत्यादि श्रुतेः 'वेदैश्च सर्वैरहमेव वेद्या इत्यादिस्मृतेश्चानुसारेण ज्योतिरादिशब्दानामन्यपरतया प्रसिद्धानां योगादिना भगवत्परत्वेन वर्णनेऽपि कारण- वाचकानां 'सदेव सोम्येद्मग्र आसीत् 'ब्रह्म वा इद्मग्र आसीदित्यादिमृष्टिवाक्यगतानां सद्ब्रह्मादिशब्दा- नामन्यपरत्ववर्णनं न युक्तं बीजाभावात् ।' न च श्रुतीनामनेकार्थपरत्वं मन्वानस्य तवान्य- परत्वशंका स्यादेवेति वाच्यम् ? "एको ह वै नारायण आसीन्न ब्रह्मा न च शंकर' इत्यादिविशेषवचनैर्वि- रोधेनोक्तशङ्कानुयात् । लोकादितोऽन्यत्र प्रसिद्धानां शब्दानां भगवति सर्वशब्दसमन्वयाय योगादिना मध्वमुखालङ्कारे भगवत्परत्ववर्णनेऽपि भगवदेकनिष्ठतया प्रसिद्धाना- मन्यपरतया वर्णने बीजाभावात् । अत एव भगव- देकवाचकतया सुप्रसिद्धानां नारायणादिशब्दानां सम- न्वयो न कीर्तित आकरे । किंचास्तु सृष्टिवाक्यगत. सदादिशब्दानामनेकार्थकत्वं तथापि तथापि नानेककर्तृणां सिद्धिः। न हि हादिपवाच्यस्य मण्डूकादेः सिंहत्वं सिद्धयति । एकमेव जगत्कारणत्वादिरूपं धर्म निमि- त्तीकृत्यानेकत्र प्रकृती चानेकार्थकत्वहानिः घटादि- पद्तुल्यत्वात् । किं च सृष्टिवाक्यादिप्रतिपाद्या बहवः कारः परब्रह्मरूपाः स्युस्तदैतेषां पराऽस्य शक्तिर्विविधैव श्रूयते' इति श्रुतिबलात् प्रत्येकमचिन्त्यापरिमितशक्ति- मतां तेषां सम्भूय कृत्वकल्पनमयुक्तम् । लोके प्राकारा- दिषु शिल्प्यादीनां संभूयकारित्वस्याशक्तिनिबंधनत्वात्। अतः सृष्टिवाक्यानामेकस्मिन्नेव स्रष्टरि पर्यवसानावश्यं- भावे विशेषवचनबलान्नारायणपर्यवसानम् । अनेकेषां सर्वनियामकत्वस्य परमस्वातन्त्र्यस्य चासंभवात् । ननु त्वन्मते चेश्वेरस्य जगत्सृष्टौ नियमेन प्रकृत्यादिकमपेक्षमाणस्य तत्रापि प्रकृतिमुपादान- त्वेनैव कालादिकं निमित्तत्वेनैवापेक्ष्य प्रकृत्यैव महान्तं महतैवाहंकारमित्यादिक्रमनियम वापेक्ष्य मृजतः किं नाम स्वातळ्यम् ? स्वातन्त्र्ये सति कदा- चिस्प्रकृत्यादिकमनपेक्ष्य निमित्तोपादानकार्यक्रमादिकं व्युदस्य सृष्टिप्रसङ्गादिति चेन्न । प्रकृत्यादीनां तद्धी- नानां तत्स्वातन्त्र्याविरोधित्वात् । तन्नियामकत्वेनैश्वर्या- धिक्यसिद्धेश्च । स्वयमेव गन्तुं शक्तस्यापि गमनसमये लीलया दण्डावष्टंभवत्स्वेच्छामात्रेण प्रकृत्यादिकं स्वा- शास्त्रयोनित्वन्यायवर्णनम् । धीनं जगत्सृष्टयादौ स्वीकुर्वतः स्वातन्त्र्याविरोधात् । न चैवं प्रत्येकमखिलजगत्मृष्टिशक्ता अपि परमेश्वराः केवलं लीलया संभूय जगत्सृजन्तीति वक्तुं शक्यमिति वाच्यम्। अनेकेषां परमस्वातन्त्र्यासंभवेन तादृशलीलाया असंभवात् । 'तद्धेदं तद्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियते । तस्मान्मायी सृजते विश्वमेतदित्यादिश्रुतेः। 'मयाऽध्यक्षेणप्रकृतिः सूयते सचराचरम् । प्रकृतिं पुरुषं चापि प्रविश्यात्मेच्छया हरिः। क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ ॥ इत्यादिस्मृतेश्चानुरोधेनेशाधीनप्रकृतिपुरुषयोरंगीका- रेपि नानेश्वरांगीकारे मानाभावात् । 'द्यावाभूमी जन- यन्देव एक' इत्यादिश्रुतिविरोधाच । न च क.क्य- श्रुतिब्रह्मविष्णुशिवानां मध्ये एकैकस्यैव कर्तुः 'तदक्षत बहुस्यां प्रजायेय' इत्यादिषु श्रुतैर्षहुभवनमुखैरुपस्था- पिताया भेदप्रसक्तेर्निवारणेनार्थवतीति वाच्यम् । भवन- कर्तृनिष्ठबहुत्वशंकाया भवनप्रयोजककर्तृनिष्ठकत्वज्ञान- नाविरोधात् । नह्येक एव कुलालो घटं जनयति स्वयं न बहुभवतीत्यत्रविरोधगंधोऽस्ति । ईश्वरीयबहुभवन- मात्रनिषेधपरतया संकोचे मानाभावाच । ननु तथापि न त्वन्मते परमेश्वरैक्यसिद्धिः- तथाहि 'यो वै भूमा तत्सुखमित्यादिश्रुती भूमशब्दस्तवापि ब्रह्मपरः । तत्रायं त्वन्मते विशेषः बहोर्लोपो भूचबहोरिति भावे निष्पन्नोऽपि भूमशब्दो 'यो वै भूमा तदमृतमित्यादिषु धर्मिण्येव. प्रयोगाद्धर्मिण्येव रूढः। तस्य च परब्रह्मणि धर्मिणि बैकुंठे प्रवृत्ती निमित्तं अवधिविशेषगणनानिरपेक्षपूर्णत्वं नत्व- मध्वमुखालङ्कारे स्मादेवायं पूर्ण इति प्रतियोगिविशेषापेक्षम् । प्रकर- णोपपदादिसंकोचकाभावात् । नामवागाद्युत्तरोत्तरो- स्कृष्टनिरूपणे चरमकक्षापन्नत्वान्नाल्पे सुखमस्तीति- निरुपपदेनाल्पपदेन सर्वस्याप्यल्पस्य प्रतियोगित्वेन निर्देशाच्च । तच्च निरवधिकं पूर्णत्वं न धर्मिण एव परममहत्वरूपं किन्तु तत्तद्गुणानामानंदादीनां निरति- शयत्वरूपम् । 'वाग्वाव नाम्नो भूयसीत्यादौ वैपुल्य- रहितेषु वाक्संकल्पध्यानादिष्वपि तत्र प्रकरणे भूम- शब्दसमानार्थकभूयाशब्ददर्शनेनात्रापि तदैकरूप्याय गुणतो वैपुल्यस्यैव तदर्थतौचित्यात्। तच्च पूर्णत्वं सर्वेषामधिकारिणां नैकप्रकारेण श्रवणमननध्यानसाक्षा- स्कारेषु प्रतीयते, किन्तु तत्तद्योग्यतानुसारिणा तार- तम्येन । न च पूर्णत्वे तारतम्यस्यासंभवः । क्षणा- नन्त्य इव तदुपपत्तेः । अस्ति हि पूर्वोत्तरकल्पापेक्षयाऽ- तीतक्षणेषु सतोरानन्त्ययोस्तारतम्यमिति तदेतद्भू- माधिकरणादौ स्पष्टम् । तत्रेदमुच्यते । इयत्तापरिच्छेदराहित्यमात्ररूपं संभवति तारतम्यमानन्त्ये। न तु निरतिशयत्वसर्वो- त्तमत्वसर्वोत्कृष्टत्वापरपर्यायतया तेष्वधिकरणेषु स्वयो- दुघोषिते भूमब्रह्मशब्दयोः प्रवृत्तिनिमित्ततया स्वदभि- मते ब्रह्मानन्दादीनां पूर्णत्वे निरतिशयत्वस्य व्याधा- तात् । नहिये तारतम्यशालिनस्ते निरतिशयाः सर्वोत्तमा इति च युज्यते तेषु यस्य यदपेक्षया निकर्ष- स्तस्य तेन सातिशयस्योत्तमत्वस्य चावर्जनीयत्वात् । याच्येत परमेश्वराचिन्त्यशक्तिमहिम्ना तदानंदादिवि- शेषाणां परस्परतारतम्यवतामपि निरतिशयत्वादि संभ- क ८६ TER ANDHRAMय इति तस्य स्फुरतीति शास्त्रयोनित्वन्यायवर्णनम् । वतीति तदा परमेश्वराणामचिंत्यशक्तिमहिम्ना परस्परं भिन्नानामप्येकत्वं संभवतीति किमिति वक्तुं न शक्यम् ? तस्मात्परब्रह्मानन्दैकदेशात्सातिशयत्वेन भूम्न एव भूमरूपतया तत्तदधिकारिणं प्रति भूमशब्दः प्रतिपादयतीति त्वया वक्तव्यमिति । अत्रोच्यते । परब्रह्मानंदादेर्भूमशब्देन तारतम्येना- धिकारिणं प्रति बोधनेऽपि न सातिशयत्वाद्यापत्तिः तस्यैक्यात्तदेकदेशिनोरभेदात् । ब्रह्मानंदादेरुस्कृष्टत्वं तु जीवानन्दाद्यपेक्षया । तच तत्तदधिकारिभिज्ञेयं सर्व- देशेषु प्रत्येकमपि सर्वघटादिषु घटस्वादिवत्पर्याप्तम् । एकस्य घटस्य तदेकदेशस्य वा दृष्टे स्पृष्टे च घटत्वं दृष्टं स्पृष्टं यथा तथा ब्रह्मानन्दायेकदेशे ज्ञाते प्राप्ते वोत्कृष्टं ज्ञातं प्राप्तं च भवत्येव । भूमब्रह्मादिशब्दैः सर्वानधिकारिणः प्रति पूर्णत्वप्रकारक एव बोधो जन्यते तारतम्यन्तु संसर्गविधया भासते तद्बोधकषदाभावात् । किंच लोके परस्परतारतम्यवतामपि शरावकरकघट- तडागसमुद्रादीनां पूर्णत्वब्यवहारोऽपि दृश्यते । एतादृशपूर्णत्वं तु जीवेष्वेव नतु ब्रह्मानन्दादिषु, तेषा- मभिन्नत्वात् भूमादिशब्दैः पूर्णत्वेनैव बोधनात् । एतेनेश्वराणां मध्ये यदुपासने यस्य पुरुषस्यानादियों- तत्तदधिकारिवुद्धिविषयं तमेवार्थ तस्याधिकारिणः श्रवणकर्तुवुद्धिभेदेन भिन्न भिन्नं कक्यश्रुतिरनुवद- तीत्येव वा तनिर्वाहोऽस्तु । न च श्रुतीनामनेकार्थक- स्वसंप्रतिपत्तावपि श्रोतृभेदेन भिन्नभिन्नार्थबोधकत्वं न संप्रतिपन्नमिति वाच्यम् ? 'आस्मेत्येवोपासीत' इति. १२ VAAL ६०. मध्वमुखालबारे विधौ तव तत्संप्रतिपत्तेः। इत्थं हि तव मतं ब्रह्मो- पासनायामधिकारिणस्तावदुपास्यगुणभेदेन त्रिविधाः । सत्यज्ञानानन्दादिभिरल्पैर्गुणैमाः संभृतिाव्याप्त्या- दिभिः सहितैर्भूयोभिर्गुणैरिन्द्रादिदेवाः अखिलैर्गुणश्च- तुर्मुखादयः देवेषु मत्र्येषु च स्वस्वभाविमुक्त्यर्थोपास- नीयगुणविशेषोपसंहारानुपसंहाराभ्यां गुणभूयस्वाल्प. स्वावान्तरभेदैस्त्वतिबहवोऽधिकारिणः सर्वान्प्रति त्तत्त- द्योग्यगुणविशिष्टब्रह्मोपासनाभेदानां विधायकं 'आत्मे- स्येवोपासीत' इत्यादि वाक्यम् , तत्र देवेषु मत्र्येषु च यावद्गुणोपासने योग्यता तं प्रति तावदुगुणविशिष्टं ब्रह्म आत्मशब्दोभिधत्ते एवकारस्तदयोग्यगुणव्यवच्छे- दकः । चतुर्मुखादीन्प्रति सर्वगुणविशिष्टं ब्रह्माभिधत्ते । एवकारस्तद्योगव्यवच्छेदक इति निरस्तम् । उपासनाविधिवाक्यस्य पुरुषभेदेन विरुद्धानेकार्थ- प्रतिपादकत्वं हि युक्तम् । अनुष्ठाने विकल्पसंभवात् । नतु वस्तुपरस्य कारणवाक्यस्य विरुद्धानेकार्थकत्वं वस्तुनि विकल्पाभावात् । उपासनावाक्यस्य हि तत्त. स्पुरुषं प्रति तत्तद्योग्यगुणविशिष्टमेव ब्रह्मोपासनीयं नायोग्यगुणविशिष्टमिति वोधकत्वे च न प्रामाण्य हीयते, हीयते तु 'सदेव सोम्येदम्' इति वस्तुपरवाक्यस्य । तत्तत्पुरुषं प्रति शिव एव जगस्कर्ता नान्य इत्यादि- बोधकत्वे पुरुषभेदेनानुष्ठानभेदवद्वस्तुभेदासंभवात् । यत्तु त्वया पुराणेषु रामकृष्णाद्यवताररूपाणां भेद- श्रवणं लौकिकैान्त्या गृहीतस्य भेदस्यानुवादक- मित्युक्तत्वेन तयैव कत्रैक्यश्रुतेरनुवादकत्वोपपत्ति- रिति । तत्तुच्छम् । अवतारेषु तत्कालवर्तिनां लौकि- Dn शास्त्रयोनित्वन्यायवर्णनम् । कानां केषांचिद्भेदृष्टिसंभवेनान्येषां च बहुत्वलिंगा- भासेन भेद्धीसंभवेनानुवादकत्वसंभवेऽपि जगत्क…- क्यस्य श्रुतिं विना प्राप्त्यभावेन तदैक्यश्रुतेरनुवादकत्वा सम्भवात् । ननु स्वया पुरुषाणां योग्यतावन्माहात्म्यज्ञानपूर्वक- लेहरूपा भक्तिरप्यनादिरिति, "स्थानविशेषात्प्रका- शादिवत्" "अनुवन्धादिभ्य" इत्यधिकरणयोरुक्तत्वेन शिवादिभत्त्यन्तर्गतस्य शिव एव जगस्कर्ता नान्य इत्या- दिरूपेण तत्तन्माहात्म्यज्ञानस्याप्यनादित्वं सर्वेषां मता- नामनादिस्वस्योक्ततया तत्तन्मताहितमाहात्म्यज्ञानपरं- परानादित्वसंभवाच्चेति चेन्न । मोक्षेऽपि विद्यमानाया अविनाशिन्या उक्तभक्तेरनादित्वेऽपि शिव एव जग- स्कर्ता नान्य इति ज्ञानस्यानादित्वे मानाभावात् शिवो- त्पत्यादिबोधकवाक्यविरोधाच्च । श्रुतिविरुद्धानामनादी- नामपि मतानामर्थासाधकत्वाच्च । यत्तु- यदा तमस्तत्र दिवा न रात्रि- न सन्नचाऽसच्छिव एव केवलः । तदक्षरं तत्सवितुर्वरेण्यं प्रजा च तस्मात्प्रमृता पुराणी ॥ "प्रजापतिर्वा इदमेक आस नाहरासीन्न रात्रिरासीत् सोऽस्मिन्नन्धे तमसि प्रासपदित्यादीनि शिवविरिंचयो- रपि जगत्कर्तृत्वमावेदयन्तीति कथं विष्णोरेव जगत्कर्तृ- स्वमिति । तत्तुच्छम् । ब्रह्मणो रात्री त्रिलोकीप्रलय- रूपायां शिवादेरवरस्थानेनावान्तरकल्पाभिप्रायेणोक्त- श्रुत्युपपत्तेः। - मध्वमुखालद्वारे प्रकृति पुरुषं चापि प्रविश्यात्मेच्छया हरिः। क्षोभयामास संप्राप्ते सर्गकाले व्ययाव्ययौ ॥ प्रकृतियां मया ख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाऽप्युभावेतौ लीयेते परमात्मनि ॥ परमात्मा च सर्वेषामाचारः पुरुषोत्तमः। स विष्णुनामा वेदेषु वेदान्तेषु च गीयते ॥ मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् । बुद्धिर्मनो महदायुस्तेजोंऽतः ख मही च या ॥ चतुर्विधं च यद्भतं सर्व कृष्णे प्रतिष्ठितम् । चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः ।। प्रभवश्च स सर्वेषां निधन च युधिष्ठिर । अहं कृत्लस्य जगतः प्रभवः प्रलयस्तथा ॥ इत्यादौ हरेः प्रकृतिक्षोभकत्वसर्वजगल्लयाश्रयस्व- सर्वभूतोस्पादकत्वादिप्रसिद्धरेव वेदेतिहाससात्विक- पुराणादिषु शिवविरिंचादौ तथा प्रसिद्धरलीकत्वात् । "यो ब्रह्माणं विराति” “यस्य अक्षात् शूलपाणिरजा- यत” "नारायणाद्रुद्रो जायत” इत्यादी ब्रह्माद्युत्पत्ति- वत्सृष्टिप्रकरणे वेदेतिहाससाविकपुराणेषु विष्णो- रुत्पत्यश्रवणाच । कचिद्रुद्रादेः संहारकत्वोक्तिस्तु तत्प्र- विष्टनारायणाभिप्राया। सर्गस्थितिविनाशांस्तु भगवान्मधुसूदनः। तैस्तै रूपैरचिन्त्यात्मा करोत्यव्याहतान्विभुः॥ जुषन्रजोगुणं तत्र स्वयं विश्वेश्वरो हरिः। ब्रह्मा भूत्वाऽस्य जगतो विमृष्टौ सम्प्रवर्तते ॥
शाखयोनित्वन्यायवर्णनम् ।
मृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना ।
सत्वभुरभगवान्विष्णुरप्रमेयपराक्रमः॥
तमोद्रेकाच कल्पान्ते रुद्ररूपी जनार्दनः ।
मैत्रेयाखिलभूतानि भक्षयत्यतिभीषणः॥
इत्यादिस्मृत्या पृथ्व्यादाविव रुद्रादौ हरेरंशावेश
उक्तः अतस्त्वदुदाहृतश्रुतिनिष्ठशिवपदं कल्याणादिकं
निमित्तीकृत्य विष्णुपरमेवातः सुसिद्धं जगदुदयादिकर्ता
विष्णुरेव नान्य इति ।
मण्डने मध्वतन्त्रस्य खण्डने च सुरद्रुहाम् ।
वनमालिकृतं भाति शास्त्रयोनिनिरूपणम् ॥
इति श्रीमदनमालिविरचिते मध्वमुखालंकारे
शास्त्रयोनित्वन्यायनिरूपणं समाप्तम् ।
१०-
।
अथ समन्वयन्यायनिरूपणम् श्रीकृष्णाय नमः ॥ तत्तु समन्वयात् । ननु कारण- त्वस्य शास्त्रयोनित्वेऽप्यतिव्याप्तिः । शैवाद्यागमाबेद- व्याख्यानरूपाद्रुद्रादरपि तत्सम्भवादिति प्राप्ते, व्याख्या- तृवचनानां यैर्लिङ्रुपक्रमादिभिस्तात्पर्यनिर्णयस्तैरेव श्रुतीनामपि । ननु यद्यप्युपक्रमादयो विष्णौ व्यवस्था- पिताः स्युस्तथापि ते श्रुतीनां विष्णुपरत्वावगमनमेव कृयुनं तु शिवविरिंचपरतानिवारणमपि । अनेकार्थ- सहिष्णोस्तव मते विरोधाभावेन शिवविरिश्चपरत्व. स्यापि संभवात् । नहि प्रबलं प्रबलमित्येव दुर्बलस्य वाधकमपि तु सति विरोध इति चेन्न। "वेदैश्च सर्वैरह- मेव वेद्य” इत्याद्यनुसारेणान्यपरतया लोके प्रतीयमानानां शब्दानां विष्णुपरस्ववर्णनेऽपि सृष्टिवाक्यानां "द्यावा- भूमी जनयन्देव एक" इत्येकस्रष्टमात्रपरतया निश्चिता- नामनेकार्थकत्वे मानाभावात् । उक्तश्रुतिबिरोधाच । श्रुतीनां शिवविरिश्चादिपरत्वे तदेकवाक्यतापन्नोपक्र- मादीनां विष्णो व्यवस्थितानामन्वयानापत्तेश्च । ननु माभूत्तेषां विष्णावन्वयः । नहि त्वन्मते कचि- दर्थे यावतामेकवाक्यता तावतामर्थान्तरेऽप्येकवाक्यते- तिनियमोऽस्ति। श्येनादिपदानां ब्रह्मपरत्वे प्रसिद्धश्येन- सादृश्यप्रतिपादकवाक्यशेषान्वयाभावादिति चेत् । न । असतिवाधक एकान्वयस्य त्यागानौचित्यात् । वाक्य. शेषस्यापि ब्रह्मपरत्वेन तदेकवाक्यतासम्भवाच्च । नच कर्मकाण्डस्थपदानां पदधियैव ब्रह्मणि समन्वयो न ५ समन्वयन्यायनिरूपणम् वाक्यविधयोति वाक्यान्वयसूत्रे त्वया वर्णितत्वादिति वाच्यम् । पदविधया वाक्यशेषस्य ब्रह्मणि समन्वयेs- प्येकार्थकस्वरूपैकवाक्यताया अविघातात् । ननूपक्रमादीनां विष्णौ व्यवस्थितस्वमप्यसिद्धम् । शैवादयोपि ह्युपक्रमादीनेवालम्ब्य श्रुतीनां शिवादि. परत्वं वर्णयन्ति । उपपादयन्ति चोपक्रमादीनां शिवा- दिविषयत्वं तद्गतपदशक्त्यादिप्रदर्शनेनेतिचेत् । उच्यते । शैवाः शिव एवोपक्रमो न विरिश्च चेति वर्णयन्ति । एवं वैष्णवादयः परपक्षप्रतिक्षेपेण वदन्ति । नचैतानि- मतानि परस्परविरुद्धानि सर्वाण्यपि ग्राह्याणि । अतो- ऽत्रबलाबलविचारावश्यंभावाहलवद्भिायरुपक्रमादीनां विष्णौ व्यवस्थितत्वसिद्धिः । यत्तु यथा भूमशब्दस्त- वाऽशेषविशेषसहितब्रह्मानंदवाचकोऽपि तत्तदधिकारिणं प्रति योग्यतानुसारेण किंचित्किंचिद्ब्रह्मानन्दांशमेव बोधयति । तथा सृष्ट्यादिश्रुतयस्तदुपक्रमादयश्च नैक- कर्तृपरा अपि तत्तद्योग्यतानुसारेणैकैकमेव कारं बोधयन्ति, श्रुतिवाक्येभ्यस्तेषां कन्तरबोधानुदद्यात्तु श्रुतिवाक्यानां कर्ज़न्तरपरत्वाभावाभिमान इत्युपपत्तेः। तस्मादुपक्रमादिवलान्न सृष्टिवाक्यानां विष्णौ व्यवस्थि- तत्वमिति । तत्तुच्छम् । भूमशब्दो हि सर्वोत्कृष्टत्वा- परपर्यायपूर्णत्ववाचकः पूर्णत्वेनैव सर्वान्प्रत्यानन्दान्वो- धयति । यस्य स्वयोग्यतानुसारेणानन्दायो भासन्ते तस्योत्कृष्टत्वेनैव नत्वपकृष्टत्वेन, भगवद्गुणस्यानन्दा- देरैक्यनोत्कर्षापकर्षाऽसम्भवात् । किश्च वैष्णवशैवादि- पुराणादौ शिवादीनां परस्परसृज्यत्वसंहार्यस्वाऽऽराध्य- स्वाऽऽराधकत्वादिना भूयसी निकषोंक्तिदृश्यमाना ६ मध्वमुखलङ्कारे सर्वेषां समानकक्षतया जगत्कर्तृत्वानुपपत्या बलाबल- विचारं विना ,न व्यवतिष्ठते । तद्विचारे च वैष्णव- पुराणादेः सात्विकस्वाहलवत्वात्तदनुसारेणोपक्रमादि- सहितानां सृष्टिस्थित्यादीनां विष्णौ व्यवस्थितत्वं सिद्धयेत। ननु परस्परनिंदावचनानि "नहि निन्दा निन्य निन्दितुं प्रवर्ततेऽपि तु स्तुत्यं स्तोतुम्" इतिन्यायेनोदि. तानुदितहोमनिन्दादिषु दृष्टेन तत्तद्देवताविषयनिश्चल- भक्तिसिद्धिप्रयोजने स्तुतिविरचने द्वारमात्रत्वेनो- पपन्नानि अथैककालिको वाहमेकैकस्मिन्दिनक्षये । चरन्भैक्ष्यं मुहुर्मुहुःक्षपयिष्ये कलेवरम् ॥ इत्युक्तवन्तं ज्ञातिवधनिर्वेदात्संन्यासोद्यम कुर्वन्तं युधिष्ठिरं प्रति तदुभ्रातृणां मुनीनां श्रीकृष्णस्य च संन्यासनिन्दावचनानि... गार्हस्थ्र्योत्कर्षवचनानि भारते दृश्यन्ते । त्वया तु गार्हस्थ्यात्संन्यासस्यैवोत्कर्षः स्वीक्रियते । अतो युधिष्ठिरं संन्यासोद्योगान्निवारयितु- मेव तानि वचनानि गार्हस्थ्यप्ररोचनापराणि । एवं पुराणादिषु तत्तदेवताराधनोपासनाद्यनुष्ठापनार्थ प्रवृत्तेषु तत्परोचनार्थदेवतान्तरनिकर्षों वर्ण्यते । अङ्गीकृतं च त्वयापि द्वेषाच्चैद्यादयो नृपा' इत्यादी भगवतः कृपालु- स्वातिशयतात्पर्येण द्वेषान्मुक्तिवर्णनं नतु नरकसाधनेन भगवदुबेषेण मुक्तिरस्तीति वदता पुराणेष्वन्यार्थतास्पर्ये- णासदर्थकथनमितिचेन्न । स्यादेवं विष्णुं शिवं विरिचं च प्रतिपादयितुमसाधारण्येन प्रवृत्तानां .. पुराणानां गतिः । साधारणतया प्रवृत्तस्य सर्वेश्वरं बोधयितुं का
-
समन्वयन्यायनिरूपणम् ।
सर्वेश्वर इति सामान्यतः प्रश्नो विशिष्योत्तरमितिरीत्या
प्रवृत्तस्य भारतस्य तथागत्यसंभवात् । तथाहि-
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः ।
यदीच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः ।।
कुतो ह्यस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम् ।
विधिना केन जुहुयाद्देवं पित्र्यं तथैव च ॥
मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः ।
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः ॥
देवतानां च को देवः पितॄणां च पिता तथा ।
तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह ॥
इति सामान्यतः प्रश्नानन्तरं विष्णुरेव सर्वेश्वर इति
निर्धारणेन नारायणीयाख्यानप्रवृत्तेः । तथाहि-
सिद्धां ह्येते महाभागाः पुरा ह्येकान्तिनोऽभवन् ।
तमोरजोभिर्निमुक्ता मां प्रवेक्ष्यन्त्यसंशयम् ॥
न दृश्यश्चतुषा योऽसौ न स्पृश्यः स्पर्शनेन च ।
न घेयश्चैव गन्धेन रसेन च विवर्जितः ॥
सत्वं रजस्तमश्चैव न गुणास्तं भजति वै ।
यश्च सर्वगतः साक्षी लोकस्यात्मोति कथ्यते ॥
पुरुषो निष्क्रियश्चैव
ज्ञानदृश्यश्च कथ्यते।
यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तमाः ॥
स वासुदेवो विज्ञेयः परमात्मा सनातनः।
नच जीवं विना ब्रह्मन्वायवश्चेष्टयन्त्युत ॥
स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः ।
यस्मिंश्च सर्वभूतानि प्रलयं यान्ति संक्षये ॥
स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते ।
तस्मात्प्रमूतो यः कर्ता कारणं कार्यमेव च ॥
मध्वमुखालङ्कारे तस्मात्सर्व सम्भवति जगत्स्थावरजंगमम् । सोऽनिरुद्धः स ईशानोव्यक्तः सर्वेषु कर्मसु ॥ यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः । ज्ञेयः स एवं राजेन्द्र जीवः संकर्षणः प्रभुः। सकर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते । प्रद्युम्नाचानिरूद्धः स ईश्वरः परिकथ्यते ॥ ललाटाच्चैव मे रुद्रो देवः क्रोधाद्विनिःसृतः । मया सृष्टः पुरा ब्रह्मा मां यज्ञमयजत्स्वयम् ॥ ततस्तस्मिन्वरान्प्रीतो दत्तवानस्म्यनुत्तमान् । त्वया कृतां च मर्यादा नातिक्रस्यति कश्चन ॥ त्वं चैव वरदो ब्रह्मन्वरेच्छूनां भविष्यसि । विविधानां च भूतानां त्वमुपास्यो भविष्यसि ॥ प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा। अनुशास्यस्त्वया ब्रह्मन् नियोज्यश्च सुतो यथा ॥ एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे । अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम् ।। अस्मिन्मूर्तिश्चतुर्थी या साऽमृजच्छेषमव्ययम् । स हि संकर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत् ॥ प्रद्युम्नानिरुद्धोऽहं सर्गो मम पुनः अनिरुद्धात्तथा ब्रह्मा तन्नाभिकमलोद्भवः ॥ इत्यादिवचनैनारदं प्रति श्रीनारायणेन स्वस्य सर्वो- त्तमत्वं स्वयमुक्तम् । अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः । ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः ॥ प्रसादात्प्रादुरभवत्पा पद्मनिभेक्षणात् । ब्रह्मा समभवद्वत्स स तस्यैव प्रसादजः ॥ पुनः। N
तावत्र
समन्वयन्यायनिरूपणम्
अन्हः क्षये ललाटाच सुतो देवस्य वै तदा ।
क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः ॥
एतौ दो विवुधश्रेष्ठौ प्रसादक्रोधजावुभौ ।
तदादेशितपन्धानी सृष्टिसंहारकारको ॥
निमित्तमात्रं
सर्वप्राणिवरप्रदौ ॥
तथा रुद्रं प्रति ब्रह्मोक्तिः-
अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे ।
स्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः ॥
मया च साधं वरदं विबुधैश्च महर्षिभिः ।
प्रसादयाशु लोकानां शान्तिर्भवतु मा चिरम् ॥
ब्रह्मणा चैवमुक्तस्तु रूद्रः क्रोधाग्निमुत्सृजन् ।
प्रसाद्यामास ततो देवं नारायणं प्रभुम् ॥
शरणं च जगामाद्यं वरेण्यं वरदं प्रभुम् ।
अहो नारायणं तेजो दुर्दर्श द्विजसत्तमाः।
यत्राविशति कल्पान्ते सर्वे ब्रह्मादयः सुराः ॥
मुक्तानां हरिरेव प्राप्य इत्याह--
ये हि निष्कलुषा लोके पुण्यपापविवर्जिताः।
तेषां वै क्षेममध्वानं गच्छतां द्विज सत्तम ।
सर्वलोकतमो हन्ता आदित्यो द्वारमुच्यते ॥
आदित्यदग्धसागा अदृश्याः केन चित् कचित् ।
परमाणुभूता भूत्वा तं देवं प्रविशन्त्युत ।
तस्मादाप विनिमुक्ता अनिरूद्धतनौ स्थिताः।
मनोभूतास्ततो गत्वा प्रद्युम्नं प्रविशंस्युत ।
प्रद्युम्नादपि निर्मुक्ता जीवं संकर्षणं ततः।
विशन्ति विप्रप्रवराः सांख्या भागवतैः सह ॥
- मध्वमुखालकारे ततस्त्रैगुण्यहीनास्ते परमात्मानमंजसा । प्रविशन्ति द्विजश्रेष्ठाः क्षेत्रज्ञं निगुणात्मकम् ॥ सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्वतः । समाहितमनस्काश्च नियताः प्रयतेंद्रियाः ॥ एकान्तभावोपगता वासुदेवं विशंति ते । इति॥ सात्विकस्यैव मुमुक्षोर्विष्णोराराधने मतिन तामसादे- रिस्याह--जनमेजय उवाच-- एवं बहुविधं धर्म प्रतिवुद्धनिषेवितम् । न कुर्वन्ति कथं विप्रा अन्यनानाव्रते स्थिताः॥ वैशंपायन उवाच-- तिनः प्रकृतयो राजन्देहबन्धेषु निर्मिताः। सात्विकी राजसी चैव तामसी चैव भारत ॥ देहबन्धेषु श्रेष्ठः कुरूकुलोद्रह । सात्विकः पुरुषव्याघ्र भवेन्मोक्षाय निश्चितः॥ अत्रापि स विजानाति पुरुषं ब्रह्मवित्तमम् । नारायणपरो मोक्षस्ततो वै सात्विकः स्मृतः ।। इति श्रीनारायणपरायणस्यैव मोक्ष इत्युक्तम् । हरिमोहितानां हरौ भक्तिन भवतीत्याह-- इत्थं हि दुश्चले धर्म एष पार्थिवसत्तम । यथैव त्वं तथैवान्ये भवन्तीह विमोहिताः॥ कृष्ण एव हि लोकानां भावनो मोहनस्तथा । तथा संहारकश्चैव कारणं च विशांपते ॥ इति॥ तथा स्थलान्तरे सामान्यतः प्रश्नानन्तरं विशिष्य हरेरेव सर्वेश्वरत्ववर्णनम् । तथाहि जनमेजय उवाच- बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु। को ह्यत्र पुरुषश्रेष्ठः का वा योनिरिहोच्यते ॥
समन्वयन्यायनिरूपणम् । १०१ वैशम्पायन उवाच- बहूनां पुरुषाणां च यथैका योनिरुच्यते । तथा तं पुरुषव्याघ्र व्याख्यास्यामिगुणाधिकम् ॥ इति प्रतिज्ञाय रुद्रसंवादेन सर्वकारणं निरूपयति । एकदा क्षीरोदमध्ये वैजयन्तपर्वते समाधि कुर्वाणं ब्रह्माणं प्राप्य रूद्रो नमस्कृत्य तेनाभिनन्दित उवाच-- वहवः पुरुषा ब्रह्मस्त्वया सृष्टाः स्वयंभुवा । मृज्यन्ते चापरे ब्रह्मन्स वै कः पुरुषो विराट् ॥ कोऽसौ विचिन्त्यते ब्रह्मंस्त्वयैकः पुरुषोत्तमः । एतं मे संशयं छिन्धि महत्कौतूहलं हि मे ॥ ब्रह्मोवाच-- वहवः पुरुषाः पुत्र ये त्वया समुदाहृताः । एवमेतदतिक्रान्तं नैवमित्यपि ॥ शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः । अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते ॥ स न शक्यस्त्वया द्रष्टुं मयान्यापि सत्तम । सगुणैर्निर्गुणैर्विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ॥ एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः । एकात्मानं तथात्मानमपरे ज्ञानचिन्तकाः ॥ तत्र यः परमात्मा हिं स नित्यो निर्गुणः स्मृतः। स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः॥ न लिप्यते फलश्चापि पद्मपत्रमिवाम्भसा । कर्मात्मा स्वपरो योऽसौ मोक्षबन्धैः स युज्यते ॥ इति निर्गुणत्वं प्राकृतसत्वादिगुणराहित्येन "सत्वा- दयो न सन्तीशे प्राकृता गुणाः" इति वैष्णवोक्तेः। द्रष्टव्यं
१०२
मध्वमुखालङ्कार
ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु ।
पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन ॥
सांख्ये च योगशास्त्रे च आयुर्वेदे तथैव च ।
बहूनि मम नामानि कीर्तितानि महर्षिभिः॥
इति भगवदचनेन;
वेदे रामायणे चैव पुराणे भारते तथा ।
आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ॥
इति हरिवंशवचनेन च वेदादीनामुपक्रमोपसंहारा-
दीनि तात्पर्यलिंगानि विष्णावेवेति सिद्धम् ।
यत्तु श्रीकृष्णेनावतारांतरेण च रुद्रः पूज्यते तत्तु
पृथ्वादाविव तत्र जीवविशेष स्वांशावेशाभिप्रायेण,
शिवादेः कचिन्नारायणाभेदोक्तिरपि तदभिप्राया। पुत्रा-
दीनि फलानि कामयमानान्जनान्रुद्रादिपूजायां प्रवर्तयितुं
च कचित्पूज्यते । एतदेवाह भगवान्--
अहमात्मा हि लोकानां विश्वानां पाण्डुनन्दन ।
तस्मादात्मानमेवाग्रे रुद्रं संपूजयाम्यहम् ॥
यद्यहं नार्चयेयं वै ईशानं वरदं शिवम् ।
आस्मानं नार्चयेत्कश्चिदिति मे भावितं मनः ॥
मया प्रमाणं हि कृतं लोकः समनुवर्तते ।
प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम् ॥
नहि विष्णुः प्रणमति कस्मैचिद्विबुधाय च ।
ऋते अात्मानमेवेति ततो रुद्रं भजाम्यहम् ॥
सब्रह्मकाः सरुद्राश्च सेंद्रा देवाः सहर्षिभिः ।
अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् ॥
भविष्यतां वर्ततां च भूतानां चैव भारत ।
सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः ॥इति।
समन्वयन्यायनिरूपणम् १०३ अतोऽसाधारण्येन प्रवृत्तानां पुराणादीनां नहि निन्दे- त्यादिन्यायविषयत्वेऽपि साधारणतया सामान्यप्रश्न- विशेषोत्तराम्यां प्रवृत्तस्य भारतस्य न तन्न्यायविषयः त्वम् । अन्यथा त्वदभिमतनिर्गुणविद्यादेरपि तन्न्याय- विषयत्वापत्तेरिति ॥ मण्डने मध्वतन्त्रस्य खण्डने च सुरद्रुहाम् वनमालिकृतं भाति समन्वयनिरूपणम् ॥ च । इति श्रीमदनमालिविरचिते मध्वमुखालंकारे समन्वयनिरूपणं समाप्तम् ।
नन्ववा- अथेक्षतिन्यायवर्णनम् श्रीकृष्णाय नमः। ईक्षते ऽशब्दम् । च्यमेव ब्रह्मेति कथं तत्र समन्वयः? 'यतो वाचो निव- तन्ते' इति श्रुतेरिति प्राप्ते । ब्रह्माऽशब्दं शब्दावाच्यं न । 'परात्परं पुरिशयं पुरुषमीक्षते'इति तद्विषयकेक्षणश्रव. णात् । तच्चौपनिषदस्य ब्रह्मणो वेदेनैवेति । ननु त्वन्मतेऽष्यवाच्यत्वं ब्राह्मणः स्यात् । तथाहि- यथा जीवानन्दादेरन्यद्ब्रह्म तथोपासनाकाले प्रती. तादष्यन्यदेवेति त्वयांगीकृतम् । “यन्मनसा न मनुते येनार्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमु. पासते' इति श्रुतौ ब्रह्मण उपास्यत्वप्रतिषेधात् । जीवा- नंदादिष्वल्पत्वस्येवोपासनाकाले प्रतीते व्यक्तत्वादेहेतोः व्यक्तत्वं , ब्रह्मणस्त्वया 'तथान्यनिषेधा- दित्यधिकरणे निराकृतम् । तस्मादुपासकानां हृदयेषु ब्रह्मणः प्रतिबिंबविशेष एवोपासनालम्बनम् । तदु. पासनयैव च प्रतिमोपासनयेव तद्गतं ब्रह्म प्रसन्नं सद- व्यक्तमप्यचिन्त्यापरिमितस्वशक्तिबलादपरोक्षीभवती- ति युक्तम् । तथैव ब्रह्मतर्कवचनम्-- पश्यन्ति परमं ब्रह्म चित्ते यत्प्रतिबिंबितम् । ब्रह्मैव प्रतिबिम्बे यदतस्तेषां फलप्रदम् ॥ तदुपासनं च भवति प्रतिमोपासनं यथा । दृश्यते त्वपरोक्षेण ज्ञानेनैव परं पदम् । इति ॥ एवमनुपास्यं ब्रह्मेत्यङ्गीकुर्वता त्वयोपासनाविधि- प्रकरणेषूपास्यसमर्पकाणां श्रुतिवचनानां तद्वाच्यं न सत्वाच्च।
१०५ अर्थक्षतिन्यायवर्णनम् भवतीत्यङ्गीकार्यम् । तद्वाच्यत्वाङ्गीकारे कथं तदनुपास्य- स्वमितिचेत् । अत्रोच्यते । यद्यच्छवणजनितवासनया मनोमय. वस्तुनोऽवलोकनं तत्तस्य ध्यानमिति हि नः सिद्धान्तः । 'श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मन- साऽवलोकनं ध्यान' मिति न्यायसुधोक्तेः । उक्तध्यानस्य गुरुमुखादाक्यार्थग्रहणरूपश्रवणघटितस्वन श्रवणस्य तु ब्रह्मणो वाच्यत्वं विनाऽसंभवेन तस्य वाच्यत्वसिद्धिः । यथा प्रतिमायां क्रियमाणार्चा तस्थतया चिन्त्यमानस्य देवस्यैव न तु प्रतिमायास्तथोक्तध्यानं बिम्बत्यैव न तु मनसा कल्पितवस्तुनः, अतो न श्रवणमनननिध्यिास- नानां भिन्नविषयकत्वं नवा प्रतिबिंबे शास्त्रसमन्वय- शंका । 'आस्मानमुपासीतेत्यादिश्रुतेस्त्वात्मश्रवणजनि- तमनोमयवस्स्ववलोकनं कुर्यादित्यर्थः । इदं श्रवणजनि- तमनोमयवस्तु यदुपासतेऽवलोकन्ते तद्ब्रह्म न, किन्तु यच्छुत्वा तत्सदृशमनोमयमूर्तिः कल्प्यते तदेव ब्रह्म त्वं विद्वीति श्रुस्यर्थः। ध्यातारो यचित्ते प्रतिबिंवितं यदीया प्रतिमा चित्ते कल्पिता तत्परमं ब्रह्म पश्यन्ति प्रसादेना. परोक्षीकुर्वन्ति यद्यतः प्रतिबिंबे आविर्भूय ब्रह्मैव तेषां ध्यातॄणां फलप्रदमतस्तस्योपासनं भवति प्रतिमाया- मुपासनं यथा तद्वत् । तत्प्रसादयुतेनापरोक्षेण पश्यन्तीति ब्रह्मतर्कवाक्यार्थः। विजातीयप्रत्ययानन्तरितसजातीय-: प्रत्ययप्रवाहो निदिध्यासनापरपर्यायो ध्यानम् । प्रतिबिंबांशे मानसापरोक्षम् , बिंबांशे स्मरणम् । 'यन्म- नसा न मनुते' इत्यादिश्रुत्या ध्यानकालिकमानसवृत्य- विषयत्वम् 'मनसैवानुद्रष्टव्यम्' - इत्याद्यया च तच १०६ मध्वमुखालङ्कारे ध्यानपरिपाके सतीश्वरप्रसादेन मानसवृत्तिविषयत्वं बोध्यते । यत्तु “यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव. ब्रह्म त्वं विद्धि नेदं यदिदमुपासते” इतिमंत्रान्तरं ब्रह्मणो वाच्यत्वं प्रतिक्षिपतीति । तन्न । यदादिपदा- चाच्यत्वे उद्देश्यज्ञानासंभवेन तत्र वाच्यत्वाभाववि- धानासंभवात् । तदेवेस्यादेाघाताच । सर्वशब्दा- वाच्यस्य लक्षणाया प्रदर्शनान लक्षणयापि तद्बोधः । अवाच्यलक्ष्यादिपलक्ष्यत्वे गंगापदलक्ष्यतीरादेरगंगात्व. वद्वाच्यत्वादिकमेव स्यात् । तद्वाच्यत्वे त्वागतमेव वाच्यत्वम् । यत्तु स्त्रष्टुत्वादिप्रतिपादकानां श्रुतिपुराणेतिहासा- गमादीनां सर्वेषामप्युपास्यत्वेन त्वभिमते प्रतिबिंब- विशेष एव पर्यवसानं स्यादिति तत्रैव वाक्यशेषादि- भि!पाहवनीयादिन्यायेन ग्राह्मव्युत्पत्तिकानां ब्रह्म नारायणादिपदानां शक्तिः स्यादिति । तत्तुच्छम् । जीवतः कवेराशयस्यावर्णनीयत्वात् । अस्माभिः प्रति- बिंबपदार्थस्य परब्रह्मभिन्नत्वस्यानुपास्यत्वस्य च स्वीका. रात् । किंचैवं 'तदेव ब्रह्म त्वं विद्धीत्यादिष्वपि ब्रह्म पदादेरब्रह्मविषयत्वापत्तेः । नच प्रतिबिंबवाचकानां ब्रह्मादिपदानां विभूतब्रह्मलक्षकत्वोपपत्तिरिति वा- च्यम् ? गंगापदलक्ष्यस्य तीरादेरगंगात्ववद्ब्रह्मपदल- क्ष्यस्याब्रह्मताया दुर्वारस्वात् । प्रतिबिंबस्यैव मुख्य- ब्रह्मत्वापत्तेश्च । एतेनेत्थमत्र तव मतं पर्यवस्येत वाम- नसपथातीतं नित्याव्यक्तमुपासनानन्तरं मुच्यमानानां मुक्तानां च साक्षात्कारस्यैव विषयभूतं परं ब्रह्म 'तदेव .
अथेक्षतिन्यायनर्णनम् १०७ ब्रह्म स्वं विद्धीत्यादिभिः कैश्चिदेव वचनलक्षणया प्रति- पाद्यं तस्य प्रतिबिंबविशेषस्तु जीववदनादिः कर्तृत्वा- दिमानुपासकहृदयेषूपास्यरूपेणाभिव्यक्तिशाली श्रुस्यादि- भिस्तदनुसारिपुराणादिभिश्च शतया प्रतिपाद्यत इति निरस्तम् । जीवत्कवेराशयस्य स्वादशेनैव वर्णनीय- स्वात्, अस्माभिःसदनन्तगुणालयस्य विश्वोदयादिकर्तुरेव परब्रह्मरूपस्यैवेयत्तयोपासनायां भानानङ्गीकारात् । स्वयोग्यान्सर्वगुणान्श्रुत्वा तेषां परोक्षज्ञानधारा सम्पाद्य ध्यानं कार्यम् । ध्याने तु चित्तस्वच्छतानुसारेण कति. पयगुणानां भानम् , स्वयोग्याशेषगुणभानं तु तत्प्रसा- दादापरोक्ष्य एवति नः सिद्धान्तात् । उक्तं हि न्याय- सुधायां 'जीवशत्यापरोक्षव्यक्तोऽपि स्वशक्त्यैव दृश्यत' इति । मण्डने मध्वतन्त्रस्य खण्डने च सुरगृहाम् वनमालिकृत भाति हीक्षतिन्यायवर्णनम् ।। इति श्रीमद्वनमालिकृते मध्वमुखालङ्कारे ईक्षतिन्यायवर्णनं समाप्तम् ।
अथ शेषब्रह्ममीमांसातात्पर्यवर्णनम् श्रीकृष्णाय नमः। पंच न्यायाः समीचीनं वर्णिता वनमालिना । मायावादिमुखं भत्तवा मध्वतंत्रस्य मण्डने ॥ शेषग्रन्थस्य तात्पर्य समासेन निरूप्यते । मायावादिमुखध्वंसः प्रसङ्गाद्धरितुष्टये ॥ "त"समन्वयादित्यनेनोपक्रमादितात्पलिंगमुख्य वृत्या समन्वयः सिद्धवदुपन्यस्तो नतु तत्रोपक्रमादि- विष्णावेव व्यवस्थित इति न्यायैः स्थापितम् , तद्यावद्वा- क्यविशेषानुपहृत्य पूर्वोत्तरपक्षग्रथनेन समन्वयो न प्रपंच्यते तावदयमनुपन्न्यस्तप्राय एव । अन्यथा शैवा- दयोऽपि समन्वयादित्येव सिद्धवदुपन्यस्य शिवादीनां शास्त्रगम्यत्वं प्रसाधयेयुरतः समन्वयविभागेन तत्प्र- पंचनार्थमध्यायशेष आरभ्यते । यचूपरितनेष्वधिकरणेषु विष्णौ समन्वयप्रपंचन- रूप: सिद्धान्तः सृष्ट्यादिवाक्यरूपशास्त्रप्रतिपाद्यत्वं विष्णोर्न संभवतीति पंचमाधिकरणदूषणेन ग्रस्तो नोन्म- जनमहतीति तत्तुच्छम् । सदनन्तगुणालयस्य विश्वोदयादिकर्तुः परब्रह्मण एवोपास्यत्वस्य सृष्टयादि- वाक्यगतपद्वाच्यत्वस्य व्यवस्थापितत्वात् । एतेन तत्तद्वाक्यानां तत्तद्धिकरणपूर्वपक्षोपपादितदेवतान्तर- परत्वस्थ निराकरणमण्यनुपपन्नम् । विष्णौ समन्विता- नामपि तत्तद्वाक्यानां तृतीयचतुर्थाधिकरणदृषणोक्त- रीत्या देवतान्तरपरत्वस्यापि सम्भवादिति निरस्तम् ।
शेषब्रह्ममीमांसातात्पर्यवर्णनम् १०॥ तुल्यवृत्या विष्णावन्यत्र चान्वयाभावात् । अन्यत्र व्यवहाराय यथाकथंचिन्धितानामपि मुख्यवृत्या विष्णौ समन्वयस्य समर्थनीयत्वात् । तस्यैव समन्व- यसूत्रे संशब्देन प्रतिज्ञातत्वात् । तत्तदधिकरणविषय- वाक्येषूपक्रमोपसंहारादिगतानां विष्णुविषयकश्रुतिलिं- गानां निरवकाशत्वेन प्राबल्यम् । देवतान्तरविषय. श्रुतिलिंगानां विख्या महायोगेन प्रवृत्तिनिमित्तता- धीन्येन तत्तदन्तर्यामिगतत्वेन च विष्णौ सावकाश- त्वेन दौर्बल्यं चेति हि तत्तदधिकरणेषूपपाद्यम् । देव- तान्तरविषयश्रुतीनां विट्यादिभिर्विष्णौ परममुख्य- तया प्राबल्यम्, प्रसिद्धार्थेष्वज्ञरूड्या केवलयोगेन प्रवृत्ति- निमित्ताश्रयत्वेन मुख्यमात्रतया दौर्बल्यं चोपपाद्यम् । न च श्रुतेरनेकार्थकत्वं वदतस्तव विरोध एव नास्तीति वाच्यम् । तुल्यवृत्याऽनेकार्थकत्वस्यानङ्गीकारात् । अन्य- त्र योगेन हरौ महायोगेनान्यत्राज्ञरूट्या विष्णौ विद्व- दूड्याऽन्यत्रोपचाराद्धरौ मुख्यतयेति ह्यस्माकं रीतिः। ननु विख्यादयस्तव विष्णौ कुतो व्यवस्थिताः? येन देवतान्तरविषयश्रुत्यादीनां हरौ सावकाशता, येन प्रसिद्धेषु स्वार्थेषु परममुख्यत्वाभावेन च दौर्बल्यं भवेत् । विष्णुरेव जगत्कर्तृ परं ब्रह्मेत्यवधारणाधीनं हि तव्यवस्थितस्वम् । अन्यथा विरिंच एव विद्वद्रूट्याय इतिवक्तारं को वारयेदिति चेत् । न । “यो ब्रह्माणं विद्धाति" "हिरण्यगर्भः समवर्तताग्रे” “तस्य लला- टाच्छूलपाणिरजायत" इत्यादिश्रुत्या विरिंचादेरुत्पत्ते रुक्त्या सर्वेश्वरत्वासंभवेनोपक्रमाद्यविषयत्वात् । “पान- न्दमयोऽभ्यासात्" इत्यत्र जगत्कर्तृत्वादिना प्रतिपादि- मध्वमुखालङ्कार तोऽन्नमयादिर्विष्णुरेवेति साध्यं ब्रह्मशब्दाभ्यास हेतूकृत्य, ब्रह्मशब्दस्य यद्यप्यन्यत्राप्यज्ञरूढ़िस्तथापि तस्य विष्णौ "तदेव ब्रह्म परमं कवीनाम्' इतिश्रुत्योपर्शिता विद्वद्रूढ़िः प्रवलेति सैव निर्णयहेतुः । नच तदेव ब्रह्मेतिश्रुतिर्विष्ण्वेकपरोति कुतोऽवसेया? "यमन्तःसमुद्रे कवयो वयन्ति” इति प्रसिद्धतल्लिगात् । ननु “प्रजापतिश्चरति गर्ने अन्तः" "हिरण्यगर्भ इत्यष्टौ" इतिहिरण्यगर्भप्रजापतिश्रुतिभ्यां विरिंचैकपरा सा कुतो नावसेया ? कुतश्च 'हिरण्यगर्भ इत्यष्टावित्यनेन गृही- तात् “य ईशे अस्य द्विपदश्चतुष्पदः” इति पशुपतित्व लिंगात् "पुरुषस्थ विद्महे सहस्राक्षस्य महादेवस्य धीमही” स्याद्युपसंहाराच सा शिवैकपरा वा नाव. सेयेति चेन्न । "परमं यो महब्रम्ह परमं यः परायणम् । पवित्राणां पवित्रं यो मंगलानां च मंगलम् ॥ दैवतं देवतानां च भूतानां योऽव्ययः पिता । यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ तस्य लोकप्रधानस्थ जगन्नाथस्य भूपतेः । विष्णोः” इत्यादिस्मृत्युपबृंहितया 'तदेवेति श्रुत्या ब्रह्मपदस्य- विष्णाववे विद्रूढ़िसिद्धः। नचेयं स्मृतिर्विष्णुस्तुत्यर्था । को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ।। इति सामान्यतः प्रश्नोत्तरतयाऽस्याः प्रवृत्तेः। एवं सामान्यतः प्रश्नोत्तरस्य विशेषेण शिवादीश्वरत्ववोध- कवचनस्य भारते दुर्लभत्वात् । किञ्च तत्तद्वाक्यगत- शेषब्रह्ममीमांसातात्पर्यवर्णनम् ब्रह्मशब्दानामप्यनेकार्थकत्वे तदेव ब्रह्म परम मित्य- वधारणासंगतिः स्यात् । न च तस्य त्वन्मते भूमशह- रीत्या पुरुषभेदेन व्यवस्थितार्थबोधकत्वसंभवः। ब्रह्मा- दिशब्दैः शिवादेः पूर्णत्वसर्वोत्कृष्टत्वादिरूपब्रह्मत्वादि- बोधने शिवाद्युत्पत्तिलयादिवोधकश्रुतिस्मृतीतिहासादि- विरोधवद्भुमशब्दन ब्रह्मानंदादीनामधिकारिभेदेन तारतम्येन बोधने बाधकाभावात् । किंच न प्रजापतिब्रह्म- शब्दार्थः । "ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्द” इतिब्रह्मप्रजापत्योरानन्दोत्कर्षापकर्षश्रवणात् । नच "ब्रह्म पुच्छं प्रतिष्ठा" इति ब्रह्मानन्दयोरवयवावय- वित्वश्रवणेऽप्यानन्दमयस्येव प्रजापतेरपि ब्रह्मत्वोप- पत्तिः, त्वया ब्रह्मानन्द एव तारतम्यवदत्यन्तविशेषवस्व- स्याङ्गीकृतस्वेनैकस्मिन्नुत्कृष्टापकृष्टानन्दवत्त्वं न भवतीति वक्तुं न शक्यमिति वाच्यम् । अवयवावयवित्वस्य सर्वेषां मते विवक्षितत्वात् । प्रजापत्यानन्दोत्कर्षादेर्वि- वक्षितत्वाच्च । अवयवावयविनोरभेदस्यावाभ्यां स्वीकृत. त्वात्त्वया च विषमसत्ताको भेदो मया भेदप्रतिनिधिरव- यवावयविनोः स्वीक्रियते । अधिकारिभिः स्वयोग्यतानु- सारात्तारतम्येन ब्रह्मानन्दादेग्रहणेऽपि तस्यैक्येनोस्कर्षा- पकर्षयोरसत्वात् । न च 'अन्योऽन्तर आत्मा प्राणमयः” इत्यादिसा- क्षा दश्रवणमविगणय्यान्नमयादीनामभेदमंगाकुर्वतस्तव भेदश्रवणस्यात्यन्तमनादरणीयत्वं स्यादिति वाच्यम् । अन्नमयादीनां ब्रह्माभेदसाधकस्य ब्रह्मसमभिव्याहारस्य "एतमन्नमयमात्मानमुपसंक्रम्य” इतिमुक्तप्राप्यत्वादेश्च सत्वेन श्रूयमाणभेदत्यागेऽपिब्रह्मप्रजापत्योरभेदसाधका- वाक्यस्य ११२ मध्वमुखलङ्कारे भावेन श्रूयमाणभेदत्यागानौचिस्यात् । एवमग्रिमाधिक- रणविषयवाक्यस्य तत्तद्देवतानिराकरणमपि साधु संगच्छते । नच स्वन्मतेऽन्नमयादिष्विव ब्रह्मानन्दमय- घोरिव च भेदभेदकव्यपदेशयोरुपपन्नत्वेन तत्तद्देवता विषयप्रसिद्धश्रुतिलिंगादिस्वारस्थानुरोधेन तत्तद्विषय- पूर्वपक्ष्यभिमततत्तद्देवतापरत्वमनिवामिति वाच्यम् । "अन्नाद्धयेव खल्विमानि भूतानि जायन्ते'' "एतमानंदमयमात्मानमुपसंक्रम्य" इत्यादेरन्नमयादी ब्रह्मा ऽभेदबोधकमुक्तप्राप्यत्वाद्यसाधारणब्रह्मालिंगादिना विष्णुपरत्ववद्देवतान्तरस्य ब्रह्मणा सहाऽभेदबोधकमाना. भावात् । किंच सर्वेष्वधिकरणेषु साधारणेन ब्रह्मलिंगादिना विष्णुपरत्वनिर्णयः पूर्वपक्ष्यभिमततत्तद्देवताविषयश्रुति- लिंगानां प्रवृत्तिनिमित्तताद्धीन्यादिभिः सावकाशत्वेन निराकरणम् , दृश्यते च यथा 'अाकाशस्तल्लिंगादित्यधि- करणे। 'अस्य लोकस्य का गतिरित्याकाश इति होवाच' इत्यादिविषयवाक्यस्य . 'स एष परोऽवरीयानुद्गीथः स एषोऽनन्त' इत्यादिवाक्यश्रुतपरोवरीयस्त्वाद्यसाधा- रणब्रह्मलिंगेन विष्णुपरत्वनिर्णयः । आकाशश्रुतस्तत्म- वृत्तिनिमित्तताधीन्यादिना विष्णुवाचकत्वसम्भवेन सावकाशतयाऽन्यपरत्वनिराकरणं च तथा 'ज्योतिश्च- रणाभिधाना' दित्यधिकरणे "विमे कर्णापतयतो विचक्षु- वींदं ज्योतिर्हिदय आहितं यदि ति मंत्रस्य कर्णादि- विरुद्धचरणन कर्णाद्यपरिच्छेद्यत्ववैभवस्वरूपेणासाधार- णेन ब्रह्मलिंगेन विष्णुपरस्वनिर्णयः । तन्मंत्रगत- ज्योतिः, श्रुतज्योति प्रकरणसम्पादकतत्पूर्वीपरमन्त्रगत शेषब्रह्ममीमांसातात्पर्यवर्णनम् श्रूतीनां च पूर्ववद्विष्णौ सावकाशतया निराकरणं 'छन्दोऽभिधानादित्यधिकरणे । 'गायत्री वा इदं सर्व भूत' मित्यादिविषयवाक्यगतस्य गायत्रीशब्दस्य गानत्राणकर्तृत्वाद्यसाधारणब्रह्मलिंगादिभिर्विष्णुपरत्वनि- र्णयः। गायत्रीश्रुतेः पूर्ववद्विष्णौ सावकाशस्वेन निरा- करणम् । 'प्राणस्तथानुगमादित्यधिकरणे "ता वा एताः शीर्षच्छ्रिताश्चक्षुः श्रोत्रं मनो वाक्प्राण” इत्यायैतरेय- ब्राह्मणे श्रुतस्य प्राणशब्दस्य "तं देवाः प्रणयन्तं भूरिति तं देवा उपासां चकिर” इत्यादिश्रुतेर्देवोपास्यत्वादिब्रह्म- लिंगैर्विष्णुपरत्वनिर्णयः। तत्र यन्मुख्यप्राणलिंगम् "ता अहिंसन्ताहमुक्थमस्मीति प्राण उक्रामदित्यादौ श्रुत- मिंद्रियैः सह कलह उस्क्रमणं प्रवेशः इत्यादि, यच्च तत्र 'त्वामेव विजानीयामिति पृष्टवन्तं विश्वामित्रं प्रति प्राणो वाहमस्मीति इन्दुवचनं तस्सर्वमन्तर्यामिविषय- तया सावकाशमिति निराकरणम् । एवं द्वितीयपादाद्य- धिकरणेष्वपि तत्तद्विषयवाक्यानां ब्रह्मलिंगादिभिर्वि- ष्णुपरत्वनिर्णयः। अन्यविधेयकश्रुतिलिंगानां सावका- शतया निराकरणमिति सिद्धान्ते विष्णोरेव सर्ववैदिक- शब्दसमन्वयः। नन्विदमद्याप्यसिद्धं शिवादिविषयत्वमपि संभव. तीतिशंकाग्रस्तत्वात् । तन्निराकरणार्थमेव त्वया प्रथ- माध्यायशेषस्यारब्धत्वादिति चेन्न । विष्णुरेव विश्वोद- यादिकर्ता सर्वेश्वरो न शिवाय इत्यस्य शास्त्रयोन्य- धिरणसमन्वयाधिकरणाभ्यामेव सिद्धस्वात् । ध्यायशेषेण श्रुतिलिंगादिना जीवादिविशेषपरत्वेन प्रतीयमानानां शब्दानामुपक्रमादिलिंगैः सावकाशत्व- १५ प्रथमा- मध्वमुखालङ्कारे निरवकाशत्वादिन्यायैश्च जीवपरत्वं निराकृत्येश्वरपर. त्वस्य प्रतिपादनात् । ननु द्विनेष्वधिकरणेषु त्वया विष्णुश्रुतिलिंगानि- सन्तीति लिखित्वा तैर्निर्णयः कृतोऽपि दृश्यते यथा 'अन्तस्तद्धर्मोपदेशा' दित्यधिकरणे- अन्तः प्रविष्टं कारमेत- मन्तश्चन्द्रमसि मनसा चरन्तम् । सदैव सन्तं न विजानन्ति देवा- इन्द्रस्यात्मानं शतधा चरन्तम् ॥ इत्यादिमन्त्रगतस्यान्तःप्रविष्टत्वस्य विष्णुपरस्वे "अन्तः समुद्रे मनसा चरन्तं यस्याण्डकोशं शुष्ममाहुः प्राणमुल्वम्" इति समुद्रशायित्वब्रह्माण्डवीयत्वरूपं विष्णुलिंगमस्तीति यथा वा 'त एव प्राण' इत्यधिकरणे "तद्वै स्वं प्राणोऽभवः महाभोगः प्रजापतेः भुजः करिष्य- माणः यद्देवान्प्राणयो न वेति प्राणशब्दस्य विष्णुप- रत्वे "श्रीश्च ते लक्ष्मीश्च पस्न्या" विति तत्पूर्वा- नुवाकश्रुतं लक्ष्मीपतित्वलिंगमस्तीति । "शब्दादेव प्रमित" इत्यधिकरणे "अङ्गुष्ठमात्रः पुरुषो मध्य आस्मनि तिष्ठति । ईशानो भूतभव्यस्य स एवाद्यः स उ श्वः” इति मन्त्रगताङ्गुष्ठमात्रशब्दस्य विष्णुपरवे- "ऊवं प्राणमुन्नयति अपानं प्रत्यगस्यति । मध्ये वामनमासानं विश्वे देवा उपासते ॥ इति मन्त्रश्रुतवामनश्रुतिरस्तीति- अभावो रुद्रादेः प्रलयसमये वेदशिखरै- रभाणि श्रीशस्य प्रथितवचन व गदितः ॥ यथा शेषब्रह्ममामांसातात्पर्यवर्णनम् ११५ जनिकुण्ठेशाविशदमुदिता स्मृष्टिसमये रमेशादन्योऽतः कथमिह परेशः खलु भवेत् ॥ समुद्रशायित्वादिविष्णुलिंगप्रतिद्वंद्वि"अन्तश्चन्द्रम- सि मनसा चरन्तमन्तरादित्ये मनसा चरन्त" मित्यष्टमूर्तेः शिवस्यापि लिंगमस्तीति विष्णुपरस्व- परिपंथिनी "प्रजापतिश्चरति गर्ने अन्तरिति प्रजापति- श्रुतिरस्ति । वामनश्रुतिप्रतिद्वन्द्वि "भूतभव्यस्य ईशान" इति शिवश्रुतिरस्तीति कथमुदाहृतश्रुतिलिंगै- विष्ण्वेकपरत्वनिर्णय इति चेत् । अत्रोच्यते । शिवादेरीश्वरस्व "मेको वै नारायण बासीन्न ब्रह्मा न च शङ्कर” इति श्रुत्या- ममान्तरात्मा तव च ये चान्ये देहिसंज्ञिताः । सर्वेषांसाक्षिभूतोऽसौ न ग्राह्यः केनचित्कचित् ।। इत्यादीतिहासोपबृंहितया निराकृतम् । अन्तर्या- म्यन्तरधिष्ठितस्य जीवविशेषस्य शिवाजीवविशेष- चन्द्राद्यन्तश्चरणस्य तन्नियामकस्वरूपस्यासम्भवात् । प्रजानां निरतिशयपतित्वस्य विष्णावेव सम्भवात् । "ज्येष्ठः श्रेष्ठः प्रजापति'रिति प्रजापतिशब्दस्य विष्णा- वेव विद्रूढेः सत्वाच्च । भूतभव्येशानत्वस्यापि जवि. विशेषे निरवकाशत्वन विष्णावेव सावकाशत्वाच । "ईशानः प्राणदः प्राणः” इतीशानपदस्य विद्वद्र्ढे. विष्णावेव सत्वाच्च । भूतभव्यशब्दसमभिव्याहारेणे- शानपदस्य शिवे रूट्यसंभवाच । नचैवं वामनशब्दो- ऽपि प्राणापानमध्यस्थतोक्त्या पूर्वापरमन्त्रेषु बहु- धाङ्गुष्ठमात्रतोत्या. च हस्वत्वपरो न तु विष्णौ रूढि- RE मध्वमुखालंकार मानिति स्वभिमतश्रुतेरपि हानिः स्थादिति वाच्यम् । भूतभव्यत्येति षष्ठया भूतभव्यकर्मकेशनकर्तृत्वबोधव- त्प्राणापानमध्यस्थत्वोक्त्याऽङ्गुष्ठमात्रत्वोक्त्या नियमेन हस्वत्वधीः । 'उपेन्द्रो. वामनः प्रांशु'रिति- स्मृतेरायप्रसिद्धीमनशब्दो विष्णौ रूढः। एवं च यथा "यद्योन्यां तदुत्तरयोर्गायतीत्यत्रोत्तराशब्द उत्तराग्रन्थे संज्ञारूपो निरपेक्ष इति तत्पर एव न तु योनि- ऋग्रूपप्रतियोगिसापेक्षोत्तरऋक्परस्तथा वामनशब्दोऽपि रूड्या विष्णुपरो न तु दीर्घप्रतियोगिहस्वत्वपर इति । अंगुष्ठमात्रत्वं च मूर्तिविशेषस्य व्यक्त्यात्मनांगुष्ठ मात्रस्थानस्य हृदयस्य तद्गते ब्रह्मण्युपचाराद्वा युक्तम् । किंच यस्य शब्दस्य प्रवृत्तिनिमित्तं यदाश्रितं तस्यै- वार्थस्य स शब्दो वाचक इति न नियमः । किन्तु यस्य शब्दस्य प्रवृत्तिनिमित्तमाश्रितत्वेन यथेष्टविनियोक्तृत्व- रूपस्वातन्त्र्यविषयत्वेन वा यद्धीनं तस्यार्थस्य स शब्दो वाचक इति । अत एव भृत्यगतस्य विजयस्य राजाधीनाश्रितत्वेऽपि तदधीनत्वमात्रेण राजा जयती- त्यपि प्रयोगः । न चैवं सति रिपुगतदुःखबंधमरणादीनां राजाधीनस्वमात्रेण राजा दुःस्वी बद्धो मृत इत्यादि- प्रयोगप्रसंगः। तत्प्रयोजकत्वसत्वेऽपि राज्ञोऽपि दुःखा- दियोग्यतया राज्ञि सदेव दुःखादिकमुच्यत इति वा राज्ञि तदानीं दुःखाद्यभावनिश्चयेऽपि तस्मिन्दुःखा- दिकमसदेवारोप्य राजविरुद्धेनोच्यते हति संशयापाद- कत्वादमंगलतया स्वस्थादिशब्दवत्तदप्रयोगोपपत्तेः । यद्वा स्वातंत्र्यमानं शब्दप्रवृत्तौ न प्रयोजकं किन्तु स्वगतत्वयोग्यत्वविशिष्टदोषस्वरहितं प्रति स्वातत्र्यम् ।
वाचकाः । शेषब्रह्ममीमांसातात्पर्यवर्णनम् एवं च जयस्य राजगतत्वयोग्यत्वेऽपि दोषत्वराहिस्यात् प्रति राज्ञः स्वातन्त्र्यं जयशब्दप्रवृत्तौ प्रयोजकम् । दुःखबन्धादीनां राजगतत्वयोग्यत्वादोषत्वाच तानि प्रति तस्य स्वातन्त्र्यं दुःखिबद्धादिशब्दप्रवृत्ती प्रयोजक, तेषां विष्णुगतत्वायोग्यत्वाद्दोषत्वेऽपि तानि विष्ण्वपेक्षयाश्रयत्वयोग्यत्वविशिष्टदोषत्वरहितानि भव- न्तीति तानि प्रति तस्य स्वातन्त्र्यं दुःखिवद्धादिशब्द- प्रवृत्तौ प्रयोजकमेव । आश्रयत्वमपि न तन्मात्रप्रयोजक धनवोढरि भृत्ये धनीत्यप्रयोगात् । एवं च जीवा एव तु दुःखिनः । कार्यकारणबद्धौ तावित्यादिश्रुतिगतदुःखि- बद्धादिशब्दा जीवगतदुःखबन्धादिस्वतन्त्रस्य विष्णोरेव न तु लोके दुःखिवद्धादिशब्दा रिपुगत- दुःखबन्धादिस्वतन्त्रस्य राज्ञो वाचका इति । नन्वेतद्युक्तम् । विविधकृष्णादिप्रतिमानिर्माण- चतुरे शिल्पिनि तत्तत्प्रतिमासु कृष्णादिशब्दप्रवृत्ति- निमित्तं कृष्णाद्याकारं प्रति स्वातन्त्र्ये सत्यपि तस्मि- कृष्णादिशब्दप्रयोगादर्शनात् । प्रतिमासु कृष्णादिशब्दाः कृष्णाद्याकारसादृश्येन गौणा एव न तु वाचका इति न तासु कृष्णाद्याकारः कृष्णादि- शब्दप्रवृत्तिनिमित्तमिति वाच्यम् । । 'इवे प्रतिकृता' वित्यधिकारे विहितस्य कन्प्रत्ययस्य जीविकार्थे वा पण्य इति लुपि कृते कृष्णादिशब्दानां कृष्णादिसदृशा- कारप्रतिमावाचकत्वात् । न च प्रवृत्तिनिमित्ताश्रयत्वे सत्यपि धनवोढरि भृत्ये धनीतिप्रयोगादर्शनात्तदपि प्रयोजकं न प्रवृत्तिनिमित्तस्वातन्त्र्यस्यापि शब्दप्रयोजकत्वाभावे भृत्ये जयिनि राजन्यपि शब्द- स्यात्, मध्वमुखालङ्कार प्रयोगश्च न स्यादिति वाच्यम् । यतस्तदस्यास्त्यस्मि- नित्यर्थे विहिता मत्वर्थीयाः प्रत्ययाः स्वभावात्केभ्य- श्चित्प्रातिपदिकेभ्योऽस्यास्तीति षष्ठ्यर्थ एव भवंति केभ्य- श्चिदस्मिन्नस्तीति सप्तम्यर्थ एव । षष्ठ्या अपि एकशतं संबन्धाः सन्ति । तेभ्यस्तेभ्यः प्रातिपदिकेभ्यस्तत्त- त्सम्बन्धविशेष एव भवंति । केभ्यश्चित्षष्ठ्यर्थे सप्त- म्यर्थे च भवन्ति । इयं च व्यवस्था प्रयोगानुसारा- ल्लभ्यत इति लाघवार्थं तदस्यास्स्यस्मिन्निति सामा- न्येन विधानम् । यथा पाठ्यसान्नाव्यनिकाय्यधा- व्यामानहविर्निवाससामिधेनीष्वित्यादिसूत्रेषु हविः सामिधेनीविशेषादिवाचकानामपि सान्नाय्यादिशब्दानां सामान्येन हविराद्यर्थेषु विधानम् । एवं च धनप्रातिपदिकान्मत्वर्थीयाः षष्ठ्यर्थी एव तत्रापि स्वस्वामिभाव एव भवन्तीति न वोढरि धनीति- प्रत्ययप्रसङ्गः। जयप्रातिपादकात्तु ते स्वस्वामिभावरूपे षष्ठ्यर्थे आश्रयरूपे सप्तम्यर्थे च भवन्तीति न राज्ञि भृत्ये च जयिशब्दप्रयोगानुपपत्तिः। यहा यदा तत्फल- भाजि राजन्युपचारेण जयिशब्दप्रयोगोऽस्तु । एव माघकाव्ये दृश्यते- विजयस्त्वयि सेनायाः साक्षिमात्रेण दिश्यताम् । फलभाजि समीक्ष्योक्तेर्बुद्धर्भोग इवात्मनि ॥ इति ॥ अतः सर्वेषामपि रूढानां यौगिकानां च शब्दानां प्रवृत्तिनिमित्ताश्रयत्वं तत्स्वातन्त्र्यं चेत्युभयमपि वाचकताप्रयोजकमिति रिक्तं वचः। नहि स्वस्थादि- शब्दानामारोग्यादिमत्सु वाचकत्वे सत्यपि स्वर्ग: स्थत्वाद्यर्थान्तरप्रत्यायकत्वेनामङ्गलत्वादप्रयोग इतिवद्रिः प्रत शेषब्रह्ममीमांसातात्पर्यवर्णनम् पूणां मारके राज्ञि मृतशब्दस्य वाचकत्वे सत्यप्य. मङ्गलत्वादेवाप्रयोग इति कश्चिदपि मन्यत इति । अत्रोच्यते। प्रतिमागताकारं प्रति शिल्पिनो न स्वातन्त्र्यं तदाकारस्य शिक्षाद्यधीनत्वात् । शिक्षा तू. पदेष्टपरम्परयाऽनवस्थिता । किंञ्च प्रतिमायां कृष्णा. दिशब्द उपचारादेव वर्तते न वाचकः, उक्तं हि मनो. रमायाम्-अश्वक इत्यत्राश्वशब्दोऽश्व एव वर्तते, कन्प्रत्ययस्तु प्रतिकृतिरूपे सदृशे इत्येके । अन्ये तु गौर्वाहीक इतिवश्वशब्दः सादृश्यनिबंधनादभेदोप- चारात्प्रतिकृतौ वर्तते कन्प्रत्यस्तु औपचारित्वद्योतक इत्याहुरिति । कृष्ण इत्यादौ लुप्तोऽपि कन्प्रत्यय औपचारिकत्वं द्योतयति। युक्तं चैतत् । कृष्णादि- शब्दानां प्रतिमासु योगरूढ्योरभावात् । नहि श्रीपा- णिन्यादिनाऽस्मिन्नर्थेऽयं प्रत्ययोऽस्मिन्नर्थे च प्रत्ययलु- वित्तयुक्तेऽपि सोऽर्थोऽस्य शब्दस्य वाच्य इतिधीः संभवति। औपचारिकत्वादिनापि तदर्थतोपपत्तेः। किचारोपे सति निमित्तानुसरणं न तु निमित्तमस्ती- त्यारोप इति शिल्पिनि कृष्णादिशब्दप्रयोगापादना- सम्भवात् । नहि पंकजशब्दप्रवृत्तिनिमित्तस्य पंकज- निकर्तृत्वस्य कुमुदशृङ्गाटकादौ सत्वेऽपि पंकजशब्द- प्रयोग आपाद्यते, किन्तु पूर्वपूर्वप्रयोगानुसारेणोत्तरो- त्तरप्रयोगः कुमुदादौ वार्यते पद्मरूढिी कल्प्यते । जयी धनीत्यादिशब्दानामुक्तरीत्या कथंचिदुपपादनेऽपि राजा जयति जेता जयशीलः राज्ञा जितम्, प्रायः सम्पन्न इत्यादिप्रयोगाणामस्मद्रीतिं विनानुपपत्तिरेव । किंच साक्षात्सम्बन्धेन स्वगतत्वयोग्यत्वेन १२० मध्वमुखालङ्कारे विशिष्टं यद्दोषत्वं तद्रहितं स्वामित्वसम्बन्धेन स्वगतं यत्तदपि क्वचिच्छब्दप्रवृत्ती निमित्तं भवति । दु:खिन बद्धादिशब्दानां प्रयोगस्य हरौ दर्शनेन तथा कल्प- नात् । माघोक्तिस्तु जयस्य स्वामित्वसंबंधेन . राज्ञि उग्रसेन एव विद्यमानत्वेन श्रीकृष्णस्य राजत्वाभावेन तेन सम्बन्धेन तत्र जयस्याभाव इत्यभिप्रायः। मृत. त्वस्य साक्षात्संबंधेन मारकराजगतत्वयोग्यत्वाद्दोष. त्वाच्च न राजवाचकत्वम् । यत्तु पश्चाधिकरणीदूषणार्थ दर्शितयैव स्वन्मत. मोदया समन्वयाध्यायगताधिकरणानां शैथिल्येन त्वदभिमतस्य विष्णौ व्यवस्थितस्य समन्वयस्यासि- द्धौ तदस्मिन्सम्भावितयुक्त्यादिविरोधनिराकरणार्थानि द्वितीयाध्यायगताधिकरणान्यभित्तिचित्रायमाणान्यचि. न्त्याभुतमहिम्नि तर्कागोचरे च परमेश्वरे युक्ति- विरोधादिकं न परिपन्थीति वदतस्तव मते तान्य- काण्डताण्डवरूपाणि; तेषां तदुपजीवनेन प्रवृत्तानां साधनफलाध्यायगताधिकरणानां च शैथिल्यं स्पष्टमेव । यदि त्वदेकदृश्यैर्वाक्यैरेव समर्थनीयान्यधिकरणानि तदालं न्यायचिन्तनया । प्रत्यधिकरणं तव न्यायव्यु- त्पादनमपि नास्ति, "संभृतिाव्याप्त्यपि चात" इत्याद्य- धिकरणानां वचनमात्रालम्बनानामपि त्वन्मते दर्शनात् संभृत्यधिकरणे हि सर्वगुणानामानन्दो ज्ञानं निर्दोष- त्वरूपं सत्वं चेति त्रयो गुणा नियमेनोपास्याः प्रधान- फलसिद्धये, प्रधानफलस्य मोक्षस्य निर्दोषज्ञानानन्द- रूपतया तं यथायथोपासते इत्यनुसारेण फलानुसारि- गुणोपसंहारावश्यंभावादित्यानन्दादयः प्रधानस्येत्य- १२१ एव सर्वे शेषब्रह्ममीमांसातात्पर्यवर्णनम् धिकरणप्रतिपाद्यत्वेन तवाभिमतमत्त मुमुक्षूपास्याः इत्याद्ययुक्तम् “उक्षा स द्यावापृथिवी विभर्ति” “एष हि सर्वेषु लोकेषु भाती" ति श्रुतयः संभृतिङ्कव्याप्त्योरपि सर्वमुमुक्षूपास्यत्वान्मोक्षे स्वाध: ममरणस्य प्रकाशव्याश्च सर्वापेक्षितत्वेन तयोरपि तस्क्रतुन्यायविषयत्वादित्याक्षिप्य यद्यप्येवं तथापि न ते सर्वोपास्ये। देवादीनामुपास्यास्तु भृतिव्याप्स्यायो गुणाः । आनन्दाद्यास्तु सर्वेषामन्यथाऽनर्थकृद्भवेत् ॥ इतिवचनादिति किंचिदचनमेव लिखित्वा सिद्धा- न्तितमिति । तत्तुच्छम् । पंचाधिकरणीदूषणाभास- निराकरणेन समन्वयाध्यायगतैढन्यायैर्विष्णौ सम- वयस्य सुसिद्धत्वेन तत्र संभावितयुत्त्यादिविरोध. निरासाय द्वितीयाध्यायारम्भस्य साधुत्वात् । अद्भुता. चिन्त्यशक्तौ हरौ वास्तवयुक्त्यादिविरोधाभावेऽपि तद्विरोधभ्रान्तिनिरासाय तत्तदधिकरणानामारंभस्य सार्थक्यात् । वास्तवविरोधस्य न्यायसहस्रेणापि निरा- कर्तुमशक्यत्वात् । न हि तत्र विरोधशंकैव नावत. रतीत्यस्माभिः कायुक्तम् । न वा तवेवास्माकं प्रमा- णागम्यं ब्रह्मास्ति । संभृतिसूत्रे च 'अत इति सूत्र- कृद्भिरेव न्यायस्योक्तत्वात् । अत एव योग्यताविशे- षादिति भगवत्पादैरपि विवृतत्वात् । अतः योग्यता- विशेषादेव संभृतिाव्याप्ती अपि देवादीनामेवोपसंह- तव्ये तेषां तत्र योग्यत्वात् । "यथा ऋतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवतीति सर्वसम्प्रतिपन्न- सयुक्तिकश्रुतेः। यच्च प्रकाशाद्यपेक्षितं तत्तु भगवदूप- १२२ मध्वमुस्खालबारे प्रतीत्यविनाभूतप्रकाशादिनैव लभ्यमिति टीकाकृदादि. भियाख्यातस्वाच्च । स्वैकदृष्टवचनमात्रावलम्बनेनै- वाधिकरणप्रवृत्तिन न्यायालम्बनेनापीत्यादिदूषणोक्तिस्तु मोहादेव । यत्तु ब्रह्मानन्दो मैत्रजीवानन्दान्न भिद्यते तं प्रत्य- नादिभावावृतत्वात्तद्भोग्यत्वाच्च मैत्रजीवानन्दवत् । घटादीनां मैत्रं प्रति कुख्यादिभावावृतत्वेऽपि ज्ञान- प्रागभावरूपानाद्यभावावृतत्वेऽप्यनादिभावावृतत्वं ना. स्तीति न तेषु व्यभिचारः, अनादिभावश्चाविद्यारूप: संसारदशायां जीवानन्दस्य ब्रह्मानन्दस्य च तं प्रत्या- धारकस्तवापि संमतोऽस्तीति न पक्षे हेत्वसिद्धिर्नवा दृष्टान्ते साधनवैकल्यम् । जीवानन्दवदुब्रह्मानन्दोऽपि मुक्तिदशायामभिव्यक्तो मुक्तानां भोग्य इति तदे. तत् "प्रेयः पुत्रादिति श्रुतिं ब्रह्मविषयां वदतस्त- बापि संमतमिति न द्वितीयहेतोरप्यसिद्धिः। मन्मते यद्यपि संसारदशायामावृतो जीवानन्द एव नन्दस्तथापि तत्र साध्यनिश्चयादुदृष्टान्तत्वमुचितम् । साध्यनिश्चयो हि दृष्टान्तत्वे तन्त्रं न तु पक्षादन्यस्व- मपि। यहा ब्रह्मजीवानन्दयोर्बिम्बप्रतिबिम्बभावेन व्यावहारिकभेदसत्वात्पक्षदृष्टान्तभावः । प्रतिबिम्बे च चैतन्यांश एवानावृतः आनन्दांशस्त्वावृत इत्य- भ्युपगमान्न साधनवैकल्यामिति । तत्तुच्छम् । आविद्या- निवृत्यनंतरमैत्रीयस्वरूपज्ञानविषयेष्वीश्वरीयलोकपार्षदा- दिष्वन्येषु चातीतानागतादिवस्तुषु चैत्रादिजीचा- न्तरेषु संसारदशायां मैत्रं प्रत्यनांदिभावावृतेषु ततो- भिन्नेषु व्यभिचारात् । संसारदशायामावृतो जीवा- ब्रह्मा- १२३ शेषब्रह्ममीमांसातात्पर्यवर्णनम् नन्द एव ब्रह्मानंदश्चेति सिद्धथैवानुमितेः प्रतिबंधात् पक्षे साध्यनिश्चयं ब्रुवाणोऽनुमानं प्रयुंजानश्चाद्भुत एव, ब्रह्मप्रतिबिम्बस्य मैत्रादेरविद्याकल्पितस्याविद्यावृत- त्वासम्भवेन दृष्टान्तस्य साधनवैकल्यात् । “आश्रय- स्वविषयत्वभागिनी निर्विशेषचितिरेव केवला" इति त्वदीयोक्तः । अज्ञानस्य स्वकल्पितावषयकत्वेऽना. धकल्पिताधिष्ठानस्यासिद्धयापत्तेः । प्रतिबिम्बे अान- न्दांशे आवरणोक्तिस्तु स्वसिद्धान्ताज्ञानादेव, प्रति- बिम्बस्य तदीयांशस्य चाविद्याकल्पितत्वेनाज्ञाना- विषयत्वात् । अज्ञानकल्पितस्याज्ञानविषयत्वेऽन्योन्या- श्रयाद्यापत्तेश्च । अनादित्वादुत्पत्तौ ज्ञप्तौ चान्योन्या- श्रयाद्यभावेऽप्यपेक्षायां तत्सत्वात् । अन्यथाऽज्ञान- मपि स्वाश्रयं स्वकल्पितब्रह्माश्रयं वा स्थादित्यज्ञान- विषयतया ब्रह्मणोऽपि सस्यत्वं न सिद्धयेत् । न च पररीत्यैव परो बोध्यते, अस्मद्रीत्या व्यभिचारस्योक्त- त्वात् । ब्रह्मानन्दस्य स्वविषयकापरोक्षात्तत्प्रयोज्येश्वर- प्रसाद्वारा स्वानन्दानुभवरूपभोगं प्रति प्रयोजकत्वेन- मैत्रानन्दस्य च साक्षाद्भोग्यत्वेन पक्षदृष्टान्तसाधारण- स्य हेतोरभावात् । पुत्राद्यपेक्षयातिप्रियत्वोक्तिस्तु पुत्रा- द्यपेक्षयाधिकानन्दानुभवहेतुत्वादेव, दुःखवत्त्वस्योक्त- हेतू मैत्राभेव्यभिचारिणौ दुःखवत्त्वव्यभिचारित्वात् , घटत्वादिवदिति व्यभिचारोन्नायकस्योपाधित्वात् । दुःख- वत्त्वं तु स्वप्रयोजकाविद्यावत्त्वसबन्धनाविद्यासहकृत- स्वामित्वसम्बन्धेन . वास्ति मैत्रस्वरूपानन्दे, नास्ति ब्रह्मानन्द इत्यस्ति साध्यव्यापकत्वं साधनाव्यापकत्वं चेति । ब्रह्मानन्दो मैत्रानन्दाद्भिद्यते दुःखासमानाधि- मध्वमुखलङ्कार करणत्वात् घटत्वादिवदिति सत्प्रतिपक्षाच । दुःखा- सामानाधिकरण्यं चोक्तसम्बन्धेनैव । किंचाभेदस्य ब्रह्मभिन्नत्वे सत्यत्वे चादैतहानिर्मिथ्यात्वे भेदस्य सत्य- त्वापत्तिः। ब्रह्मभिन्नत्वे त्वभेदत्वहानिः। प्रतियोग्या- दिसापेक्षस्य भेदाभावरूपाभेदस्य भ्रमकाले निश्चितस्य निरपेक्षभ्रंमकालनिश्चितनिर्विशेषब्रह्मरूपत्वासंभवात् । यत्तु ब्रह्म जीवाभिन्नं निर्दुःखत्वे सति सुखवत्वात् । निर्विकारत्वे सति ज्ञानवत्त्वाजीववत्, मतदयेऽपि ब्रह्मणि जीवेऽपि जीवेऽपि स्वरूपसुखस्य स्वरूपज्ञानस्य धम्यभिन्नत्वेऽपि विशेषबलादविद्यावशाद्वा धर्मत्वमप्य. स्तीति न पक्षदृष्टान्तयोर्विशेष्यासिद्धिर्नापि विशेषणा- सिद्धिः मतदयेऽप्यन्तःकरणस्यैव दुःखादिसकलविका राश्रयत्वात् । यद्यप्याध्यासिकविकाराश्रयत्वं जीवस्य प्रपंचाश्रयत्वं च तदुपादानस्य ब्रह्मणोऽस्ति तथापि वस्तुतो निर्दुःखत्वं निर्विकारत्वं च विशेषणं तच धर्मि- समसत्ताकदुःखविकारशून्यस्वरूपम् । वैषयिकमुखाश्रये वृत्तिज्ञानाश्रये चान्तःकरणे व्यभिचारवारणाय रूपा- दिषु तद्वारणाय हेतुद्रयेऽपि विशेष्यभाग इति । तत्तु- च्छम् । ब्रह्म धर्मिज्ञानाबाध्यजीवत्वावच्छिन्नप्रतियोगि- ताकभेदवत्, सर्वज्ञत्वाजगत्कर्तृत्वावयतिरेकेण जीववत् । ब्रह्म जीवप्रतियोगिकवैशिष्ट्यव्यासज्ज्यवृत्तिधर्मानव- च्छिन्नप्रतियोगिताकस्वज्ञानाबाध्यभेदवत्, दुःखाभाव- वत्त्वात् सुखाभाववत्त्वानिरविद्यत्वादसंसारित्वाद्धटा- दिवदित्यादिसत्प्रतिपक्षात् । दुःखादिकं मनोवृत्तिरूपं तभावश्च स्वप्रयोजकाविद्यावत्त्वसम्बन्धेन । अनेन सम्बन्धेन दुःखादिकं यत्रास्ति स एव दुःखीति व्यव.
शेषब्रह्ममीमांसातात्पर्यवर्णनम् १२५ हियते । अस्ति च जीवेऽनेन सम्बधेन नास्ति च ब्रह्मणि । अप्रयोजकं च न हि ब्रह्माभेदं विना निर्दुःख- त्वादिकमनुपपन्नम् । ब्रह्मभिन्नानामेवमुक्तजीवानां नि- दुःखत्वादिसंभवात् । यत्तु ब्रह्म देवदत्तजीवाभिन्नं . तत्कर्मफलभोक्त्र- भिन्नत्वाद्देवदत्तजीववत्, त्वया ब्रह्मणो जीवगतपुण्य- फलभोक्तृत्वस्य गुहाधिकरणे उक्तत्वेन स्वत्मते तस्य कर्मफलभोक्त्रभिन्नत्वात् । मन्मते. तथाभूतेन जीवे. नाभिन्नत्वाच मतद्वये नासिद्धिरिति । तनुच्छम् । जीवे तत्कर्मफलभोक्तृत्वं हि तत्प्रयोजकाविद्यावत्त्वा- दिसंबंधेन सुखदुःखादिमस्वम् । तत्सम्बन्धेनाहं सुखी दुःखीति दुःखाद्यनुभवितृत्वं वा । ब्रह्मणि तु सुकृतस्य भक्ताप्तिस्य स्वीकारमात्रम् । सर्वथा जीवविलक्षण- मेव भोक्तृत्वमन्यथा “तयोरन्यः पिप्पलं स्वादत्यन- भन्नन्योऽभिचाकशीति" इतिश्रुतिविरोधः स्यात्, अतः पक्षदृष्टान्तयोरेकरूपेण हेतुरसिद्धः । ब्रह्म जीवाद्भि- द्यते दुःखाधिकरणत्वाभावाद्धटवत्, दुःखाधिकरणत्वं च स्वप्रयोजकाविद्यावत्त्वसंबंधेन । ब्रह्म देवदत्तजीवा- द्भिद्यते तत्पापफलभोक्तृत्वाभावात् घटवत् । न च तत्पापफलेत्यसिद्धिवारकत्वाद्ध्यर्थम् ? केवलभोक्तः स्वाभावात् तत्पापफलभोक्तृत्वाभावस्य भिन्नत्वेन धर्मिभेदेन वैयर्थ्याभावात् । एकस्य कर्मणः फलस्य विलक्षणभोक्तस्वयं जीवेश्वरयोभैदेनाध्युपपद्यत इत्यप्रयोजको हेतुः। नटेकमेवैकरूपं वा भोक्तृत्वं जीवेशयोरस्ति । यत्तु हिरण्यगर्भादिजीवा ब्रह्माभिन्ना- स्तदीयदिव्यदेहेन्द्रियै क्त्रभिन्नत्वाद् ब्रह्मवत् ।
१२६ मध्वमुस्खालङ्कारे "ब्राह्मण जैमिनिरूपन्यासादिभ्य” इत्यधिकरणे त्वया आदत्ते हरिहस्तेन हरिदृष्ट्यव पश्यति । गच्छेच्च हरिपादाभ्यां मुक्तस्यैषा स्थितिर्भवेत् ॥ इत्यादिवाक्यं लिखित्वा सायुज्यमुक्तिगता हिरण्यगर्भादयो, ब्रह्मणो देहं प्रविष्टास्तदेहेंद्रियरेव भुञ्जत इत्युक्तत्वात् न त्वन्मते हेस्वसिद्धिः। मयापि पर्यकविद्यादिप्रतिपादितया रीत्या ब्रह्मणो देहेन्द्रि- याणां भोगस्य च स्वीकृतदेहेंद्रिय क्त्रा ब्रह्मणा हिरण्यगर्भादीनामभेदस्याङ्गीकारात् ममापि पूर्ववद्वि- शेषभेदेन हेतुसाध्ययोर्भेद इति । तत्तुच्छम् । हिरण्यगर्भा- दयो जीवा ब्रह्मप्रतियोगिकस्वज्ञानाबाध्यभेदवन्तः, असर्वज्ञस्वाज्जगदकर्तृत्वादुघटादिवदिस्यादिप्रतिरोधात् । न चाज्ञत्वादकर्तृस्वादित्येवास्तु । शेषस्यासिद्धिवार- कत्वेन वैयादिति वाच्यम् । ज्ञत्वकर्तृत्वाभावाभ्यां सर्वज्ञस्वजगत्कर्तृत्वाभावयोर्भिन्नत्वेन धर्मिभेदेन वैय- याभावात् । जीबान्तरदेहप्रविष्टस्य पिशाचादेस्तदेहा- दिना भोगं कुर्वाणस्येव भेदे सत्यपि हिरण्यगर्भादे- (गोपपत्या हेतोरप्रयोजकत्वाच । यदपि जीवा ब्रह्माभिन्नास्तदिन्द्रियैर्भोक्त्रभिन्नत्वादाकाशादिप्रपंच स्त्र- कृस्वाहह्मवत् । यद्यपि मुक्तहिरण्यगर्भादीनामिव सर्वेषां जीवनां ब्रह्मदेहगतेन्द्रियैर्भोक्तृत्वं नास्ति । तथाप्यस्मदादिदेहगतान्यपीन्द्रियाणि ब्रह्मण करणानि । अस्मदादीनां तु स्वामिनः कुठारै त्याना- मिव ब्रह्मकरणैरेव व्यवहार इति त्वया “ज्योतिराद्य- धिष्ठानं स्वित्यधिकरणे व्यवस्थापितत्वात् त्वन्मते नाद्यहेतोरसिद्धिः । नापि द्वितीयहेतोरसिद्धिः, मनोरा- एव १२७ शेषब्रह्ममीमांसातात्पर्यवर्णनम् ज्यविषयप्रपंचेषु जीवानां स्रष्टत्वस्य स्वयाङ्गीकृत- स्वादहमेव जगत्स्रष्ट ब्रह्मेति जीवनां ध्यानादिसंभ. बाच्च । वासिष्ठरामायणे ऐन्दवोपाख्याने- अन्तस्थेनैव मनसा चिन्तयामासुराहताः । ब्रह्माहं जगतां स्रष्टा कर्ता भोक्ता महेश्वरः ॥ लोकपालसुरैः साध//भुवनानि चतुर्दश । निर्मितानि मयैतानि तेषामन्तरहं स्थितः ॥ इतीन्दुनामकब्राह्मणपुत्राणां तथा ध्यानप्रतिपाद- नाच । मन्मते तु पूर्ववद्धतोरसिद्धिसाध्यावैशिष्टय- निरास इति । तत्तुच्छम् । जीवाः स्वज्ञानाबाध्यब्रह्म- प्रतियोगिकभेदवन्तस्तन्नियम्पत्वाजडवदित्यादिप्रतिरो- धात् । जीवानां ब्रह्मनियम्यत्वं च “य आत्मानमन्तरो यमयति" इत्याद्यन्तर्यामिब्राह्मणेन सिद्धमिति नासिद्धिः । इन्द्रियोक्तुर्विशिष्टस्य दृश्यत्वादिना त्वन्मते मिथ्यात्वेनास्मन्मतेऽसर्वज्ञत्वेन च ब्रह्माभेदा- सम्भवेनाद्यहेतोरसिद्धः ब्रह्माधीनसत्ताकैरिन्द्रियैर्जीव- भोगो न तु नित्यानावृताप्रतिवद्धसार्वज्ञवतो ब्रह्मण इति दृष्टन्तस्य साधनवैकल्यात् । इन्द्रियाधीनविषय- भोगवतः परतन्त्रस्येश्वरत्वे मानाभावात् । नहीश्व- राधीनयरिन्द्रियजीवस्य भोगस्तैरन्यैर्वेन्द्रियैरीश्वरस्य भोग इत्यस्माभिः स्वीक्रियते । जीवेष्वसर्वज्ञेषु शुद्ध ब्रह्मणि च त्वन्मते जगत्त्रकृत्वाभावात्पक्षदृष्टान्तयो- हेतोरभावात् । विशिष्टस्य तवातिरिक्तत्वान्मिथ्या- त्वाच । मायाद्यवच्छिन्नस्य जगत्स्रष्टरविद्याद्यवच्छिन्नस्य जीवस्य च भेदस्य त्वयाप्यङ्गीकारेण बाधाच । जीवानां मनोराज्यादिविषयप्रपञ्चस्रष्टत्वेऽपि स्थूलबाह्यसर्व १२८ मध्वमुखालङ्कार प्रपञ्चस्रष्तृत्वाभावेनास्मन्मते द्वितीयहेतोः पक्षेऽभावात् । विश्वामित्रादेरिव यत्किञ्चित्प्रपञ्चस्रष्टर्जीवस्य "सर्वम- सृजत" इत्यादिश्रुतिसिद्धेन सर्वस्रष्ट्रेश्वरेणाभेदं विनापि हेतोरूपपत्याऽप्रयोजकत्वात् । “अहं सर्वस्य प्रभव" इत्यादिस्मृतेश्च । वाशिष्ठरामायणस्य प्रामाण्ये तु तदुक्तध्यानस्य भ्रान्तिमूलकत्वेन विसंवादिनोऽर्थासा- धकत्वात् । तत्साधकत्वेऽप्यान्तरमेव हि तत्सर्व जग- दन्तरं तेन सृष्टं न तु बाह्यम् । बाह्यदेहेन्द्रियादीनां तथा ध्यानादिहेतूनां तेनासृष्टत्वात् । न च ध्यानादिना जीवसृष्टेष्वीश्वरस्याप्यस्रष्टत्वेन सोऽपि स्रष्टति वाच्यम् ? कुलालादिवदीश्वरप्रेरितस्यैव तत्र जीवस्य स्रष्कृत्वेनेश्वरस्य सर्वस्रष्टत्वोपपत्तेः । ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया । इतिस्मृतेः। किञ्च ब्रह्मजीवयोर्गुणोत्कर्षापकर्षसत्वाद्विरुद्धगुणा- क्रान्त्यापि भेदः सिद्ध यति । ननु ब्रह्मगतगुणोत्कर्षस्य तद्भिन्नजीवसाधारण्येऽपि जीवे त्वभिमतस्य ज्ञान- बलानन्दोत्कर्षस्येव संसारदशायामावृतत्वेनाप्रकाशस- म्भवस्य त्वम्मते ब्रह्मणोऽचिन्त्याद्भुतशक्तिमहिम्ना तस्य तर्कागोचरत्वमहिन्ना च विरुद्धगुणाकान्तेस्तद्भेदासाध- कत्वस्य चोक्तत्वादिति चेन्न । नित्यस्य सदाप्रतिबद्ध- स्यानावृतस्येशगतस्य सार्वज्ञादेरेव जीवे स्वीकारे तत्प्र- काशस्य दुर्वारत्वात् । नटेक एव गुणः कचिदधि- करणेऽनावृतः कचित्त्वावृत इति युक्तम् । जीवानन्दा- देः खाधिकरणे सदा स्फुरद्रुपेभ्य ईश्वरानन्दादिभ्यो १२६ शेषब्रह्ममीमांसातात्पर्यवर्णनम् भिन्नत्वादावरणोपपत्तेः । यत्तु त्वन्मतेऽस्मिन् शास्त्रे विशुद्धं ब्रह्म न विचार्य तस्यानुपास्यत्वात्, किन्तु तत्प्रतिबिम्बभूतमेवोपास्यम् । अतः सृष्टयादिवाक्य- मन्यच्च सर्व सगुणवाक्यमुपास्यप्रतिबिम्बपरमेव न तु विशुद्धब्रह्मपरम् । विशुद्धं तु ब्रह्म "यतो वाचो निवर्तन्ते” “यद्वाचानभ्युदितम्" इत्यादिभिः कैश्चि- देवास्मभिमतनिगुणवाक्यलक्षणया प्रतिपाद्यमिति न विशुद्धे ब्रह्माण जगत्कर्तृत्वादिविरुद्धगुणसिद्धिः । येन तस्य जविाद्भेदः शंक्यतेति । तत्तुच्छम् । प्रतिमास्था- नीयमनोनिर्मितमूर्तिगतस्य विशुद्धस्य ब्रह्मणो विश्वो- दयादिकर्तुरेवास्माभिरूपास्यत्वाङ्गीकारात् । "तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते" इत्यस्य तदेव विश्वोदयादिकत सदनन्तगुणमुपासनाख्यमनोवृत्ति- निर्मितमूर्तिगतं ब्रह्म विद्धि । यदिदमुपासते उपासना- ख्यमनोवृत्या योगिनो निर्मिमते तदिदंरूपं ब्रह्म न किन्तु प्रतिमावत्तदधिष्ठानमित्यर्थः । नहि प्रतिमैव ब्रह्मत्वेनोपास्यते किन्तु तद्गतं ब्रह्म । अतोऽस्मद्रीत्य- ज्ञानमेवैतादृशप्रलापे बीजम् । किश्चैवं सत्याकाशादि- प्रपञ्चस्रष्ठत्वादिना जीवब्रह्माभेदसाधकानुमानानां दृष्टान्ते साधनवैकल्यंपक्षे हेत्वसिद्धिर्वा स्यात् । न च परमर्यादया पराभ्युपगन्तव्यार्थविरुद्धस्थापि पराभ्युपगम- मात्रमनुमृत्य हेतूकरणसम्भवादिति वाच्यम् । परा- र्थानुमानस्य स्वार्थानुमानपूर्वकत्वात् । यत्वर्जुनेन्द्रादीनां सुखादिवैचित्र्ये सत्यपि त्वदी- याऽभेदाभ्युपगमप्रदर्शनेन त्वन्मते ब्रह्मशत्यादिमहिना विरुद्धगुणवत्त्वस्य भेदासाधकत्वव्यवस्थापनेन विरुद्धगुण- मध्वमुखालङ्कारे योरपि जीवेशयोरभेदसिद्धिरिति तत्तुच्छम् । एकस्यैव कायव्यूहवतो योगिनो देहभेदेन सुखादिवैचित्र्यवद्- जुनेन्द्रयोरभेदेऽपि देहदेशादिभेदेन सुखादिवैचित्र्योप- पत्तावपि सर्वज्ञत्वासर्वज्ञत्वयोरेककालावच्छेदेनैकत्रानु- पपत्तेः। न च "यथा ह्ययं ज्योतिरात्मा विवस्वानपा भिन्ना वहुधैकोऽनुगच्छन् उपाधिना क्रियते भेदरूपो देवक्षेत्रेष्वयमजोऽयमात्मा” इत्यादिश्रुतिभिर्जीवब्रह्मा- भेदसिद्धिरिति वाच्यम् । प्रतिजीवमन्तर्यामितया ब्रह्मणो बहुभावस्योक्तत्वात् । उपाधिनैकदेशोऽवच्छि- द्यते कृत्लं वा? आद्ये सदेशत्वाद्वितीये कृत्स्नस्य- जीवत्वाद्यापत्योपाधेर्भेदकत्वासम्भवात् । प्रतिबिम्बस्य बिम्बान्यूनसत्ताकोपाधावेव सम्भवेन पारमार्थिक- ब्रह्मणः स्वन्यूनसत्ताकाविद्यादौ प्रतिबिम्बासम्भवात् । तादृशनियमाभावे मरीचिकाजलादावपि सूर्यादिप्रति- बिम्बापत्तेः । जीवेशयोरेकत्रस्थितिप्रतिपादकान्तर्यामि- ब्राह्मणविरोधस्य मतद्वयेऽपि सत्वात् । किञ्च त्वन्मते जीवाभिन्नमखण्डं त्वदभिमतं ब्रह्म श्रुतिभिर्न सिध्यति । वाक्यानां च तत्तत्पदार्थसंसर्गपरतायास्तदन्तर्गतप. दानां प्रवृत्तिनिमित्तसंगर्गपरत्वस्य वक्तव्यतया सखण्ड- विषयत्वावश्यम्भावात् । ननु त्वया जीवे ब्रह्माणि च निर्विकारे गुणक्रिया- दीनां नित्यत्वेन धभिन्नत्वेन समवायाश्रयाश्रयिभा- वादिसंसर्गरहितत्वेन चाम्युपगतत्वेन त्वन्मते श्रुतीनां तत्संसर्गविषयत्वं न सम्भवतीति चेन्न । अहिकुण्डला. धिकरणन्यायेन प्रमेयत्वं प्रमेयं घटाभावे घटो नास्ती- त्यादिवचाभेदेऽपि धर्मधर्मिभावनिर्वाहस्य वस्तुस्वभाव- शेषब्रह्ममोमांसातात्पर्यवर्णनम् रूपस्य विशेषस्यास्माभिः स्वीकारात्त्वयानङ्गीकारात् । महावाक्यमपि तव व्यर्थम् । अतिरिक्तैक्यादेहि बोधने सखण्डार्थकत्वापत्तिरद्वैतहानिश्च । अबोधने स्वरूपस्या- ज्ञानाद्यधिष्ठानतयाऽवान्तरवाक्यादिना च ज्ञातत्वेन महावाक्यवैयर्थ्यम् । न च धर्मिण एव संसर्गविधया प्रतीतिश्वेत्तावताद्वैतापत्यभावेनाविरोध इति वाच्यम् । अभेदेऽपि वस्तुस्वभावाद्धर्मधर्मिभावस्वीकारेऽस्मन्मते प्रवेशापत्तेः। एतेन त्वदीयतत्तदधिकरणमर्यादालोचन- यैव सविशेषाभिन्नमहातात्पर्यवेद्यं सच्चिदानन्दैकरसम- द्वितीयं ब्रह्म सिद्धयत्त्वया निवारयितुं न शक्यत इति निरस्तम् । विविधविचित्रसत्याशेषविश्वस्य कर्तुर्निय- न्तुर्नित्यनिरवद्यस्य नित्याप्रतिबद्धानावृतसार्वज्ञकस्येश्व. रस्थ जीवेऽल्पज्ञत्वादिगुणविशिष्टे सत्यस्य भेदस्योप- पादितत्वेनास्मीतिमनुसृत्य जीवेशाभेदप्रलापस्य निर- र्थकत्वात् । भुक्त्वा श्यामाकमुष्टिं विपदमदमयद्दीनबन्धुर्दिजाते- दत्वा भूतीः पराः स्वा धृतकर इति मा देहिमां पद्मया यः॥ द्रौपद्याः शाकलेशात्रि भुवनमपुषद्यज्वना दुःप्रसाध्यः । स्थित्वान्तःकारितत्वाद् वै मम यदुवरो ग्रन्थतः प्रीयतां सः ।।
१३२
मध्वमुखालकारे
श्रीगोविन्दाबहारभूषितभुवः श्रीगोकुलाप्राग्दिशि
क्रोशानां त्रियुगे पुरे द्विजवरा वंशे भरद्वाजतः ।
श्रीसन्नाहमुचो वसन्ति विबुधो वर्णी कुलेऽभूत्ततः
ग्रन्थो मारुतमण्डनेऽस्ति परितः पूर्णः कृतोऽविघ्नतः ।
विश्वोदयादिकर्तारं भर्तारं हि श्रियः सताम् ।
भवसन्तापहार वन्दे श्रीहयकन्धरम् ॥
भगवतोधिकञ्जस्य श्रीगोपालस्य रेणवः ।
क्रियासुवैभवं वाचामघराशेश्च
शोधनम् ॥
इति श्रीमदनमालिविरचितो मध्वमुखालङ्कारः समाप्तः।
शुद्धिपत्रम् पत्रे पं० अशुद्धम् शुद्धम् प्रणामा अकर्मको मुणयो प्रमाणा अकर्मकशे गुणायो प्रकृतो मुहुर्मुहुः ग्राम्ह ८६ प्रवृत्तौ मुनिमुण्डः. प्राह्य am- ९ पन्न्य ब्रह्म प्रबले ल्लिंगा झूम " ब्रह्म प्रवले ल्लिगा द्रुम श्रुतज्यो श्रू शीर्ष श्रिता प्राणयन्तंभूरितितं श्रुतेः ज्यो ७ श्रु शीर्षछूियः श्रिता प्राणयन्ततंभूतिरिति ३ सदैव वात परवे समुद्र न्तरधि भव्यत्येति हति इत्यति जीवन सहैव वा अत परत्वे ननु समुद्र न्तराधि भव्यस्येति इति २३ १२३ इत्यस्ति स्वानपा देवक्षे चाम्युप हस्य बैमम जीवानां स्वानपो देवंक्षे चाभ्युप हकस्य
No text on this page.