Bharti Bhawan Library Allahabad
The Sahridayananda Of Krishnananda
Front matter
KAVYAMÂLÂ. 32.
THE
SAHRIDAYÂNANDA
OF
KRISHNÂNANDA.
EDITED BY
MAHÂMAHOPADHYAYA PANDIT DURGAPRASAD
AND
WASUDEVA LAXMAN SHASTRI PAŅASHIKAR.
Second Edition.
PUBLISHED
BY
» PRESS.
TUKÂRÂM JAVAJÍ,
PROPRIETOR “ NIRNAYA-SAGAR
BOMBAY.
PRINTED BY B R. GHÂNEKAR AT THE "NIRNAYA-SAGAR" PRESS,
FOR THE PUBLISHER,
1910.
Price 10 Arras,
वि भूत यः ।
परोपका
राय
1यसता
नं०"०?
भारतीभवन प्रयाग।
तकदाता का नाम/yor
zि
पालनाश
HOMRANEReal
*/-/12
(Registered according to act XXV of 1867.) (All rights reserved by the Publisher.)
काव्यमाला ३२. कृष्णानन्दविरचितं सहृदयानन्दम्। जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना महामहोपाध्याय- पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिपणशीकरोपाह्वय- लक्ष्मणात्मजवासुदेवशर्मणा च संशोधितम् । (द्वितीयावृत्तिः) मुंबय्यां तुकाराम जावजी इत्येतेषां कृते तेषामेव निर्णयसागराख्ययन्त्रालये बालकृष्ण रामचन्द्र घाणेकर इत्यनेन मुद्रयित्वा प्रकाशितम् । शाकः १८३२, ख्रिस्ताब्दः १९१०. ( अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते. रेवाधिकारः।) मूल्यं १० आणकाः।
No text on this page.
कृष्णानन्दः। वैदर्भोक्तिविभ्रमजन्मभूमिः कपिञ्जलकुलकुमुदिनीकलानिधिः सांधिविग्रहिको महा- पात्रः श्रीकृष्णानन्दमहाकविः कस्मिन्काले समुत्पन्न इति न ज्ञायते । परं चन्द्रशेखरक- विसूनोविश्वनाथात्प्राचीनस्तदनुवन्धी चेति निर्विकल्पमवसीयते । यतो विश्वनाथरचित- साहित्यदर्पणस्याष्टमपरिच्छेदे ‘सूचीमुखेन सकृदेव कृतव्रणस्त्वम्-' इति सहृदयानन्दस्थ- श्लोक उदाहृतः । अथास्य विश्वनाथस्य च सांधिविग्रहिक-महापात्रेति विशेषणद्वयं समानम् । तत्र सांधिविग्रहिक इति राज्याधिकारिसूचकः पदविशेषः । संधिविग्रहे भवः सांधिविग्रहिकः । एतत्पदं ब्राह्मणादिसाधारणम् , न ब्राह्मणमात्रविषयकम् । तथाहि- "तन्मातुलेन तद्रोषाद्वीरनाथेन योगिना । सांधिविग्रहिकेनाथ स स्वेनैव न्यगृह्यत ॥ इति राजतरङ्गिणी ६११११ । -लिखितं संधिविग्रहाधिकृत-दिविर-पतिवत्र महिना' इति इण्डियन् आण्टिक्केरी १४।१८८५ । अत्र दिविर इति कायस्थस्य पर्यायान्तरम् । 'विना मद्यं विना मांसं परखहरणं विना । विना परापकारेण दिविरो दिवि रोदिति ॥' इति लक्ष्यान्तरं च । महापात्र इति राजमन्त्रिसंज्ञान्तरमिति केचित् । तन्न । सर्वप्रधानाधि- कारभाजः सांधिविग्रहिक इति कथनानौचित्यात् । ब्राह्मणसंज्ञान्तरमित्यपरे । सामा- न्योपनामान्तरमितीतरे । अयं च जगन्नाथपुर्यामासीत् । एतनिर्मितस्य सहृदयानन्दका- व्यस्य तत्र प्रसिद्धिरप्यास्ते । अमुष्य काव्यरत्नस्योत्कललिपिसमुल्लसितं स्थलविशेषे सटिप्पणीकं सपादवर्षशतोदृङ्कित- मिवोपलक्ष्यमाणमेकं तालपत्रपुस्तकं भगवतः श्रीजगदीश्वरस्यार्चकान्मदनमोहनच्छात्र- शिरोमणेरासाद्य तत्प्रतिरूपकं देवाक्षरैः संपाद्य च श्रीमन्तो विद्वन्मुकुटमणयो रायपुरीय- हायस्कूल्पाठकसत्तमाः सुगृहीतनामधेयाः 'वामन दाजी ओक' इत्याख्या महाशयवर्याः काव्यमालार्थमस्मभ्यं दत्तवन्त इति तेषां सौजन्यामृततरङ्गितान्तःकरणानामन्तर्वाणिवरे- ग्यानामुपकारं सप्रश्रयमुररीकुर्महे । अर्थतत्कविप्रणीता काचन नैषधीयचरितटीकापि वर्तत इति तनयेभ्यः श्रूयते । प- रमद्यावधि सा लोचनगोचरतां नागता । एवं सति नैषधीयचरितकर्तुः श्रीश्रीहर्षकवेरी- चीनः साहित्यदर्पणप्रणेतुः प्राचीनोऽयं कृष्णानन्दकविरिति परिणमति । श्रीहर्षस्तु भगवतः श्रीशंकराचार्यादर्वाचीनः पृथ्वीराजमहीपतेः प्राचीनः । यतोऽयं कविः स्वकीये खण्डनखण्डखाद्यनामके अन्थे भगवत्पादस्य स्मरति, एनं च पृथ्वीराज- सामन्तश्चन्दकविः स्वीये 'पृथ्वीराजरासा संज्ञे निबन्धे स्तौति । १. 'भगवत्पादेन वा बादरायणीयेषु सूत्रेषु भाष्यं नाभाषि' इति 'भगवत्पादेन शंकरा- चार्यपादेन । बादरायणो व्यासः' इति तत्र शंकरमिश्रव्याख्यानम्. ।
जयसलमेरमहीपालचरितरूपस्य सुदर्शनचम्पूकाव्यस्य निर्माता कृष्णानन्दकविस्त्व- स्माद्भिन्नो नवीनश्च । हा हन्त तत्तद्गन्थसहस्ररत्नपटलीशाणायितशेमुषीके महामहोपाध्यायपदभाजि पण्डि- तश्रीदुर्गाप्रसादे सुधर्माप्रणयितां गते द्वित्रमासपर्यन्तं प्रकृतग्रन्थसंपादने वैयाकरणपण्डित- श्रीशिवदत्तशमणा यः श्रमोऽकारि स धन्यवादपुरःसरं मुहुः स्मयते ।
..
काव्यमाला।
महाकविश्रीकृष्णानन्दप्रणीतं
सहृदयानन्दम्।
प्रथमः सर्गः ।
यदिन्द्रियाणां विषयत्वमेति लोकेषु यत्तत्त्वमतीन्द्रियं च ।
कृत्स्नस्य तस्य प्रतिपत्तिहेतुर्वाग्देवता सा मयि संनिधत्ताम् ॥ १॥
दैत्येन्द्रमेकं करजैरनेकैर्विदारयन्त्रीडमिव प्रपन्नः ।
खच्छेषु मुक्तेष्वनुबिम्बदम्भात्कुर्वन्ननेकं जयतां नृसिंहः ॥ २ ॥
दोषोदये तोषमपि प्रपन्नः खलस्तुलामेति न कौशिकस्य ।
पूर्वस्य सर्वत्र विपक्षतास्ति निसर्गतोऽन्यस्य सपक्षतैव ॥ ३ ॥
धात्रा खलानां च सतां च किंचिद्विवेचनार्थ क्रियते न चिह्नम् ।
परस्य दोषेषु गुणेषु चामी प्रमोदलाभात्प्रकटीभवन्ति ॥ ४ ॥
रत्नस्य काव्यस्य च नूतनस्य तुल्यः खभावः प्रतिभासते मे ।
मृजाभिरेते निपुणैः कृताभिः समभुवाते हि गुणान्तराणि ॥ ५ ॥
ता एव नूनं सफलोदयाः स्युर्मुक्ताः प्रसन्नाः कविसूक्तयश्च ।
गुणोपपत्त्या कमनीयगुम्फाः कण्ठे सतां याः पदमामुवन्ति ॥ ६ ॥
अत्रेतिवृत्ते रचितप्रबन्धे क्रुद्धो मुधा मास्तु कविः पुराणः ।
न स्पर्धया व्योम्नि सहस्रधाम्नः खद्योतकः खां द्युतिमातनोति ॥ ७ ॥
आसीदसीम्ना सहजेन धाम्ना निषिद्धशत्रुर्निषधेप्वधीशः ।
अनन्यसाधारणवीरसेनं यं वीरसेनं सुधियो वदन्ति ॥ ८ ॥
मध्यंदिने म्लायति कृष्णवां दिनावसाने रविरस्तमेति ।
यस्य प्रतापः प्रतिपार्थिवानां दिवानिशं दुर्विषहो बभूव ॥ ९ ॥
काव्यमाला। शरन्निशानाथमरीचिगौर्विसृत्वरैर्यस्य यशःप्रवाहैः । प्रक्षाल्यमानेऽपि जगत्यरीणां मलीमसान्येव मुखान्यभूवन् ॥ १० ॥ युगान्तवातैस्तरलीकृतोमिलामतिकामति तोयराशिः । द्विषां जयैरुन्नतिमागतोऽपि न लढयामास नृपः स्थितिं यः ॥ ११ ॥ दोर्दण्डदर्पस्तपनो यदीयस्तमो निरस्यन्नपि लोकवृत्ति । प्रत्यर्थिपृथ्वीपतिमण्डलस्य निमीलयामास मुखाम्बुजानि ॥ १२ ॥ क्वचिन्न या रज्यति भुज्यमाना गाढानुरागैरपि मेदिनीन्द्रैः । सैव क्षितिर्य पतिमभ्युपेत्य पतिव्रतानां व्रतमन्वतिष्ठत् ॥ १३ ॥ निजेन धाम्ना जगतोऽखिलस्य दोषापनोदाय समुद्यतस्य । द्वीपेषु सप्तस्वपि निर्विशेषः करोदयो यस्य रवेरिवासीत् ॥ १४ ॥ अपि प्रभुः शास्त्रनियन्त्रितत्वाद्धर्मार्थकामानिव तुल्यवृत्तिः । पौरानसौ जानपदांश्च नित्यमन्योन्यबाधारहितं बभार ॥ १५ ॥ दिशामधीशैः पुरुहूतमुत्यैरपि प्रकामं स्पृहणीयलक्ष्मीः । ततः क्षितीन्द्रात्तनयोऽधिजज्ञे क्षीराम्बुराशेरिव कल्पवृक्षः ॥ १६ ॥ तस्मिन्क्षणे प्राङ्गणसीन्नि राज्ञः प्रसूनवृष्टिर्नमसः पपात । नीरन्ध्रमासादितया समन्ताद्यया हसन्तीव मही विरेजे ॥ १७ ॥ वसुंधरे सागरमेखलां त्वामनन्यसाधारणमेष भोक्ता । इतीव नादैः प्रथयांबभूवुर्वृन्दानि वृन्दारकदुन्दुभीनाम् ॥ १८ ॥ तदा कुमारोदयमङ्गलश्रीरास्थानभाजः पृथिवीश्वरस्य । न्यवेदि पूर्व सुरपुष्पवोषिन्नियुक्तैश्चरमं तु चारैः ॥ १९ ॥ दुःखैरसंभिन्नगुरुप्रमोदा दोषेऽप्यनास्वादितदण्डभीतिः । संकल्पमात्रोपनतार्थसिद्धिस्तदाभवद्दयौरिव राजधानी ॥२०॥ अन्तःपुरस्थोऽपि नरेन्द्रसूनुरानन्दयामास विशां मनांसि । पूर्वाद्रिशृङ्गान्तरितोऽपि भावान्प्रसादयत्येव दिशां मुखानि ॥ २१ ॥ ततो नियोगादवनीश्वरस्य पुरोधसा निर्मितजातकर्मा । स राजसूनुः सुतरां विरेजे नीहारनिर्मुक्त इवोष्णरश्मिः ॥ २२ ॥ १. वर्ग इव.
१ सर्गः] सहृदयानन्दम् । . विलोकमानः कमनीयरूपं कुमारमारोप्य तमङ्कदेशे। निमेषचेष्टामपि पक्ष्मपतयोश्चिरं विसस्मार महीमहेन्द्रः ॥ २३ ॥ लब्धार्थकामार्जनकोविदत्वमयं न लीयेत कदापि पापे । इतीव निश्चित्य गुरुनिमित्तैश्चकार नाना नलमात्मजं तम् ॥२४॥ तस्यानिमित्तसितचन्द्रिकाभिर्यथा यथा जृम्भितमर्भकस्य । तथा तथासीदवनीश्वरस्य प्रमोदवारांनिधिरुत्तरङ्गः ॥२५॥ पन्यां हरिद्रारसरञ्जिताभ्यां स्पृष्टा मही यत्कमलाङ्किताभूत् । तेनैव तसिन्कमलोद्भवायाः सांनिध्यमुच्चैः प्रथयांबभूव ॥ २६ ॥ बाल्यादनाविष्कृतवर्णभेदैर्वचोभिर/चरितैस्तदीयैः । राज्ञः प्रमोदः प्रथमं व्यधायि लिङ्गैस्तु पश्चात्कथितस्तदर्थः ॥ २७ ॥ निर्मीयमाणा निपुणैर्नृपस्य नेपथ्यलक्ष्मीन तथा प्रियासीत् । यथा यदृच्छारसिकस्य तस्य विलुप्यमाना करपल्लवेन ॥ २८ ॥ संस्पर्धमानेव नराधिपस्य प्रमोदलक्ष्मी मुहुरुल्लसन्तीम् । दिने दिने तस्य शरीरयष्टिर्नवां नवां वृद्धिमुपारुरोह ॥ २९ ॥ अभ्यासहेतोः क्षिपतः पृषत्काड्यावृष्टिजन्मा ध्वनिरस्य योऽभूत् । तेनैव दर्पः प्रतिपार्थिवानां धनुर्भृतां दूरतरं निरस्तः ॥ ३० ॥ न केवलं लोचनवर्त्मवर्ति शराः शरव्यं जगृहुस्तदीयाः । शब्देन दूरादनुमीयमानं विचिन्त्यमानं मनसापि भेजुः ॥ ३१ ॥ आतिथ्यमक्ष्णोः क्षणमभ्युपैति सौदामनी व्योम्नि विजृम्भमाणा । कृपाणपाणेघृतचर्मणस्तु नलस्य नालक्षि गतिर्जनेन ॥ ३२॥ विद्यासु सर्वासु तथा चकार परिश्रमं राजसुतः क्रमेण । निश्चायकं संशयितेऽर्थतत्त्वे मेने यथैनं निवहो गुरूणाम् ॥ ३३ ॥ अथौषधिः कान्तिविशेषवृद्धेः : साम्राज्यलक्ष्मीः स्मरपार्थिवस्य । नीराजना विक्रमकुञ्जरस्य नलं सिषेवे नवयौनवश्रीः ॥ ३४ ॥ पीयूषरश्मेरपहाय मध्यं भजेदुपान्तं यदि प(लक्ष्मलेखा । नवोदितश्मश्रुलताभिरामं तदोपमीयेत मुखं नलस्य ॥ ३५॥ .
काव्यमाला। .. महीभुजां संयति निर्जितानां श्रियः करिष्यन्ति निवासमस्मिन् । इतीब निश्चित्य विधिश्चकार प्रकामविस्तीर्णममुष्य वक्षः ॥ ३६ ॥ नरेन्द्रसूनुः क्रशिमातिरेकात्परं न मध्येन जिगाय सिंहान् । दृप्तारिवीरद्विपदारणेन नैसर्गिकेणापि पराक्रमेण ॥ ३७॥ मौर्वीकिणश्यामिकया कृताङ्कमाजानु दीर्घ भुजयुग्ममस्य । विलोकमानः परिपन्थिलोकः खे भाविनि श्रेयसि निःस्पृहोऽभूत्॥३८॥ गाम्भीर्यमब्धि स्थिरता नगेन्द्रं प्रभा दिनेशं कमनीयतेन्दुम् । अप्येकमेनं निखिलो गुणौषः परस्परस्पर्धितयेव भेजे ॥ ३९ ॥ ततः खदोर्दैर्घ्यपरीक्षणाय कदाचिदभ्याशजुषां मुखेन । शस्त्रेण साध्यं पृथिवीन्द्रसूनुः किंचिद्विधेयं पितरं ययाचे ॥ ४० ॥ अथ क्षितिं वीक्ष्य जितामशेषां खेनैव धाम्ना निषधाधिनाथः । दोर्दण्डकण्डूमपनोदयिष्यन्दिदेश सूनोम॑गयाविहारम् ॥ ४१ ॥ आपांसुकेलि प्रतिपन्नसख्यरुपात्तशस्त्रैः सह मन्त्रिपुत्रैः । बिभ्रद्धनुः पार्थनिषक्ततूणः स वाहमारुह्य वनं प्रतस्थे ॥ ४२ ॥ पतिः पृथिव्यास्तमनु प्रयातुं चमूचरानाटविकान्दिदेश । स केवलं तान्पितृगौरवेण न कार्यबुद्ध्यानुचरांश्चकार ॥ ४३ ॥ नेत्राञ्चलैरेव मृगेक्षणानां निपीयमानाननचन्द्रलक्ष्मीः । पुरीमतिक्रम्य नगोपकण्ठे खेलत्कुरङ्गं स्थलमाससाद ॥ ४४ ॥ तथा स चक्रे भुवि मण्डलानि सव्यापसव्यानि तुरंगमेण । यथा मृगैरप्यनवाप्य मार्ग तन्मध्य एव भ्रमता व्यधायि ॥ ४५ ॥ विहाय तेषां सरणिं स भूयो हयं तथा तीव्ररयं चकार । दूरं प्रयातानपि तानतीत्य यथा निवृत्तेषुभिराजधान ॥ ४६ ॥ इतस्ततो विद्वतां मृगाणां येषां विषाणानि नलश्चकर्त । संरोप्यमाणैर्विशिखैः शिरःसु पुनः सशृङ्गानिव तांश्चकार ॥ ४७ ।। ततस्तुरंगोद्धतधूलिचक्रं स्थलं परिक्षीणमृगं विहाय । अग्रेसरैः कैश्चन कृष्णसारैरादिष्टवत्र्मेव वनं स भेजे ॥ ४८॥ ..
सहृदयानन्दम् ।
..
:
कुरङ्गकैः कीर्णनिकुञ्जगर्भ भुजंगमैः शंसितभूमिरन्ध्रम् ।
शाखामृगैर्लचिततुङ्गशाखं खगैः समासादितपादपाग्रम् ॥ ४९ ॥
सिंहः समानान्तदरी विशेष तरक्षुभिः काङ्कितसान्द्रकक्षम् ।
विगाह्यमानं परितो नलेन विनीतवत्काननमाबभासे ॥ ५० ॥ (युग्मम्)
प्रतिखनाक्रान्तदिगन्तरेण ज्याकृष्टिघोषेण गणो मृगाणाम् ।
तमेव सर्वत्र विशङ्कमानः पाशैविना बद्ध इवावतस्थे ।। ५१ ॥
प्रवेणुकामानिव भीतिवेगात्क्षितिं मुखैरुलिखतो वराहान् ।
फूत्कारघोषेण निवेद्यमानान्ददर्श दूरादवनीन्द्रसूनुः ॥ ५२ ॥
तरविना तेन नृपात्मजेन विकृष्य चापं कुतुकाद्विमुक्तैः ।
नीरन्ध्रमङ्गेषु शरैनिखातैः प्रापुः श्रियं शल्लकिनां वराहाः ।। ५३ ।।
धनु ता तेन शरो विमुक्तः शिक्षाविशेषादविशीर्णवेगः ।
प्रदीर्घपङ्गिः क्वचिदेकपद्यामेकोऽपि यूथं बिभिदे मृगाणाम् ॥ ५४॥
वाह द्विषां निष्पततां पुरस्ताद्विषाणचक्रं स तथा चकर्त ।
अभ्याशभाजोऽपि विलोक्य वाहान्द्वेषं यथते सफलं न कुर्युः ॥ ५५ ॥
स बाणवर्त्मन्यपि वर्तमानान्कपीनमुञ्चत्करुणाईचेताः ।
संरक्षतः खावयवानुपेक्ष्य कण्ठेषु डिम्भानवलम्बमानान् ॥ ५६ ॥
निकुञ्जलीनः क्षुधितस्तरक्षुर्विक्रम्य जग्राह मृगं न यावत् ।
नृपात्मजस्तावदुपेत्य वेगादुद्दथ्य कुन्तेन तमुद्दभार ॥ ५७ ॥
अलक्षितः क्वापि जवातिरेकाच्चमूचरैः सान्द्रमहीरुहेषु ।
भ्रमन्वनान्तेषु मृगानुसारी पद्माकर कंचिदसौ ददर्श ॥ ५८ ॥
किंचिन्निपीतक्लमवारिबिन्दुः सरोजसंसर्गवतानिलेन ।
स तस्य तीरे सुखसुप्तहंसे नरेन्द्रसूनुः सुचिरं चचार ॥ ५९ ॥
मुखे प्रियायाः प्रणयानुबन्धाद्वालं मृणालाङ्कुरमर्पयन्तम् ।
सरोजिनीपत्रनिषण्णमेकं हिरण्मयं हंसमसौ ददर्श ॥६०॥
तं धारयिष्यन्नविपन्नमेव संमोहनास्त्रं स समाददे च ।
लताश्रितानां वनदेवतानां शुश्राव वाक्यं च मनोज्ञमेतत् ॥ ६१॥
काव्यमाला। चापादपाकृष्य नरेन्द्रसूनो शिलीमुखं तूणमुखे निधेहि । संपादयिष्यत्ययमीप्सितं यत्तवानुरूपं तनुरूपलक्ष्म्याः ॥ ६२ ।। ततस्तदाकर्ण्य वचः कुमारः सविस्मयं तद्विदधे तथैव । उपेत्य हंसः सुविदूर एव निषेदिवानित्थमुदाजहार ॥ ६३ ॥ मधुद्विषो नाभिसरोजजन्मा निर्माणशिल्पी जगतां त्रयाणाम् । त्रयीलतोन्मीलनमूलकन्दः करोतु देवरतब मङ्गलानि ।। ६४ ॥ त्रैलोक्यमर्तुः कमलासनस्य विमानधुर्याधिपतित्वलामात् । सयक्षरक्षःसुरकिंनरेषु लोकेषु पूज्या मम तातपादाः ॥ ६५ ॥ खकर्म मां शिक्षयता विमाने पित्रा नियुक्तं क्षणमप्यवेक्ष्य । निजासनाम्भोरुह केसरैमें श्रमापनोदं कुरुते विरिश्चिः ॥ ६६ ॥ खानोन्मुखीनां सुरसुन्दरीणां काश्मीरपक्कैः परिपिञ्जरेषु । अदूरमन्दारतरुपसूनैः समीरमुक्तैः सुरभीकृतेषु ॥ ६७॥ दिक्कुञ्जराणामविरामपातैर्मदाम्बुभिः कर्बुरितोदरेषु । चरामि साधै सहचारिणीभिः स्वर्गापगायाः पुलिनान्तरेषु ॥६८॥(युग्मम्) कौमारमारभ्य सुताः सुराणां जयन्तमुख्या अपि बद्धसख्याः । तथापि भूयास्तव दर्शनोत्थश्चित्तेऽपि संमाति न मे प्रमोदः ॥ ६९ ॥ मानसे नैव सुमेरुशृङ्गे न नन्दने नापि गृहे विरिञ्चेः । न क्वापि गन्तुं वलते मनो मे त्वया सनाथामवनीं विहाय ॥ ७० ॥ सख्यं त्वया साधयितुं ततो मां स्पृहातिरेकस्तरलीकरोति । पुष्पेषुपुष्पाकरयोरिवास्तु तदावयोः स्याद्यदि कौतुकं ते ॥ ७१ ।। ततः समास्थाय स मौनबन्ध मन्दाकिनीपुष्करगन्धभाजा । अमार्जयत्पक्षपुटानिलेन तदङ्गलग्नानि रजांसि हंसः ॥ ७२ ॥ भवादृशानां मनुजेषु सख्यं मनोरथानामपि दूरवर्ति । तदद्य संपादयतो विधातुरहेतुकोऽयं मयि पक्षपातः ॥ ७३ ।। मृगार्थमित्थं भ्रमतो बनेषु दैवादभूधस्त्वयि सत्यबन्धः । स एष पाषाणकणाजिघृक्षोः करोदरे मौक्तिकपुञ्जपातः ॥ ७४ ।।
१ सर्गः]
सहृदयानन्दम् ।
अद्य प्रभृत्येव सखा त्वमेकः प्रेमास्पदं स्वादपि जीवितान्मे ।
इति ब्रुवन्नेव नरेन्द्रसूनुः करेण कण्ठे खगमाममर्श ॥ ७५ ॥
इत्थं प्रसादाभिमुखेन धात्रा निर्यनमावर्जितसख्यबन्धौ ।
तौ तस्थतस्तत्र मुहूर्तमानं परस्पराभाषणकौतुकेन ॥ ७६ ॥
खस्त्यस्तु ते संप्रति साधयामि निवेदितं यद्वनदेवताभिः ।
संतर्पयिष्यामि दृशौ वयस्य भूयस्तवालोकरसायनेन ॥ ७७ ॥
जाता दिनश्रीर्जरती तदेष गृहानुपैतुं समयस्तवापि ।
इत्थं वचः कर्णपथाभिराममुदीर्य हंसो वियदुत्पपात ॥ ७८ ॥
अतीतदृग्वम॑नि हेमहंसे क्रमादुपेतेषु चमूचरेषु ।
शरीरमात्रेण पुरं प्रतस्थे नलोऽन्वगच्छन्मनसा तमेव ॥ ७९ ॥
प्रेम्णावयन्तीमिव दीर्घदीर्धेः प्रदोषशङ्खध्वनिभिर्विदूरात् ।
संध्यांशुदम्भादनुबद्धरागां नलः प्रपेदे कुलराजधानीम् ॥ ८० ॥
तदद्भुतं तस्य वनान्तवृत्तं सुहृत्सु शंसत्सु परस्परेण ।
स्मरन्मुहुः खर्णविहंगमस्य निशामनैषीन्निषधेन्द्रसूनुः ॥ ८१ ॥
वनेषु तस्याचरितं चरेण विज्ञाय राज्ञो भृशमुत्सुकस्य ।
प्रत्यूषकृत्यं विधिवद्विधाय मूर्धा ववन्दे चरणौ कुमारः ॥ ८२ ।।
अथाभिनन्द्यात्मजमादरेण दोभ्यो परिप्वज्य पतिः पृथिव्याः ।
मौलेष्वमात्येषु दृशौ निवेश्य प्रमोदबाष्पाकुलमित्युवाच ॥ ८३ ॥
गुणैरुदारैर्विनयावतंसैनिरस्तसाम्येन भुजौजसा च ।
आरोपितोऽहं धुरि पुत्रभाजां वत्स त्वयाविष्कृतपौरुषेण ॥ ८४ ॥
अद्य प्रभृत्येव नरेन्द्रलक्ष्मीर्मयानुशिष्टास्तु वशंवदा ते ।
श्रेयस्तपःसाधनमेव राज्ञां ज्ञातानुभावेषु तनूद्भवेषु ॥ ८ ॥
तदेष रक्षाविधये प्रजानां नक्तंदिवं जाग्रदवाप्तखेदः ।
धुरं धरित्र्यास्त्वयि संनिवेश्य चिराय विश्राम्यतु वीरसेनः ॥ ८६ ।।
निवार्यमाणोऽपि मुहुः प्रणम्य नलेन बद्धाञ्जलिसंपुटेन ।
निवेश्य तस्मिन्नवनीन्द्रलक्ष्मीमुपाददे लक्ष्म तपोधनानाम् ॥ ८७ ॥
काव्यमाला।
स बाप्पमोक्षैरपि न क्षमोऽभूपितुः समारम्भनिवर्तनाय ।
विपर्ययं नैति महात्मनां हि प्रतिश्रुतोऽर्थः प्रतिबन्धकेन ।। ८८ ॥
अनुप्रयातः सह पौरवगैर्नलेन पर्यश्रुविलोचनेन ।
चिरावृतः मातिलकः प्रतस्थे तपोवनं निर्विषयाभिलाषः ।। ८९ ॥
शोकाग्निवेगं वचनामृतेन चिरान्मृदूकृत्य नृपः सुतस्य ।
तं पौरमुख्यैः खपुरं प्रवेश्य चकार वश्येन शरीरवृत्तिम् ॥ ९ ॥
वैखानसैर्मुनिजनैरभिनन्द्यमानः
संसिद्धिमाप तपसः किल वीरसेनः ।
भेजे नलस्त्वखिलपार्थिवमौलिरत्नै-
नीराज्यमानचरणः पृथिवीन्द्रलक्ष्मीम् ॥ ९१ ।।
इति श्रीसांधिविग्रहिकमहापात्र श्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये नलचरिते
नलसाम्राज्यलाभो नाम प्रथमः सर्गः ।
द्वितीयः सर्गः ।
ततोऽभ्यषिञ्चन्विधिवन्नलं द्विजाः सतां प्रमोदात्तरलं मनोऽभवत् ।
चकार लक्ष्मीः पदमस्य वक्षसि प्रपेदिरे संपदमूर्जितां प्रजाः ॥ १॥
नरेन्द्रलक्ष्म्याः परिरम्भसंभवां तथा न भेजे मुदमूर्जितां नलः ।
पितुः सपर्याविरहेण संभृतां यथोपलेभे परितापसंपदम् ॥ २ ॥
अपि स्वयं पार्थिवनीतिपारगः स मन्त्रिणां संमतिमन्ववर्तत ।
विधूदयासादितवृद्धिरम्बुधिर्न जातु वेलामभिलङ्घय गच्छति ॥ ३ ॥
धृतोदये सीदति कैरवं रवौ तुषारभानौ कमलं निमीलति ।
अशेषमुच्चैर्मुदमाददे जगन्निषेव्यमाणे तु नले नृपश्रिया ॥ ४ ॥
नवोदयेनेव सहस्रभानुना खमण्डलं तेन समन्वरज्यत ।
अमुष्य तेजस्तु विसारि सर्वतः परं द्विषामेव बभूव दुःसहम् ॥ ५॥
शरीरभाजां करणीयसाक्षिणः परेषु मित्रेषु च तुल्यवृत्तयः ।
विचेरुरेतस्य दिने दिने चराः करास्तुषारेतरदीधितेरिव ॥ ६॥
प्रविश्य रन्ध्राणि तनून्यपि द्विषामुदीरयामास स वृत्तिमौरगीम् ।
शिरांसि तुङ्गान्युपनीय नम्रतां वितेनिरे तत्र परे तु वैतसीम् ॥ ७॥
२ सर्गः
सहृदयानन्दम् ।
२
अपि त्रिलोकी बिजहार लीलया निरर्गलं दोविणार्जितं यशः ।
अमुप्य मन्त्रस्तु कदाचिदाययौ न कर्णमूलान्यपि पार्श्ववर्तिनाम् ॥ ८॥
यथेन्द्रियाणां निवहो निजं निजं विहाय नान्यं विषयं निषेवते ।
तथा जनस्तेन कृतानुशासनः पथः स्वकीयादपरं न शिश्रिये ॥ ९ ॥
निरूपिते वर्त्मनि शास्त्रचक्षुषा पदं वितन्वन्नकृताङ्गपीडनः ।
अणीयसोऽपि प्रकटीकृताङ्करानलुण्ठयक्ष्मातिलकः स कण्टकान् ॥१०॥
निरर्गलं शैलवनाभिगामिनीमपीडयन्नेव करेण गामसौ ।
वृषं पुरस्कृत्य समीहितं दुहन्नदृष्टपूर्वी स्फुटमाप गोपताम् ॥ ११ ॥
न केवलं दण्डभयाजनोऽखिलस्तदाभवत्तत्करतापसंमुखः ।
अभून्न तादृग्विषयोऽपि देहिनां मनोरथो येन जगाम वन्ध्यताम् ॥१२॥
निरङ्कुशस्तस्य यशोमतङ्गजः प्रतापसिन्दूररजोरुणाननः ।
निरस्य यन्तारमितस्ततश्चरन्नरिद्विपानां समशोषयन्मदम् ॥ १३ ॥
इति व्यपास्य व्यसनान्यनारतं प्रपास्यतस्तस्य महीं महीभुजः ।
उपायनीकर्तुमिवावनीरुहां प्रसूनकोषादुदभून्नवो मधुः ॥ १४ ॥
शरीरभाजां जनयिष्यते मुदं निदेशलाभादिव मेदिनीपतेः ।
न वासरस्तीव्रतरातपोऽभवन्निशापि नातीव तुषारदूषिता ॥ १५ ॥
अनु प्रतस्थे मलयाद्रिमारुतस्त्विषांपतिं प्रस्थितमुत्तरां दिशम् ।
विहाय मार्ग महनीयतेजसां निजेच्छया चेष्टितुमुत्सहेत कः ॥ १६ ॥
सरोरुहाणां सुहृदां पराभवादवाप्तविद्वेष इवानुवासरम् ।
क्रमेण संपादितपाटवैः करैर्जहार नीहारपरम्परां रविः ॥ १७ ॥
विलोक्य रत्नाकरमेखला भुवं खवंशकेतावनुरागिणी नलः ।
प्रमोदलाभादिव शीतदीधितिः प्रसादसंपत्तिमवाप कामपि ॥ १८ ॥
हितं प्रजानां सततं विधित्सतः क्षणप्रदानार्थमिवास्य भूपतेः ।
निरस्य रात्रेः परिणाहसंपदं रविर्दिनं द्रापयितुं प्रचक्रमे ॥ १९ ॥
लताः परीरम्भमवाप्य निर्भर नभखतश्चन्दनशैलजन्मनः ।
समुल्लसन्नूतनपल्लवच्छलाधजृम्भयन्रागमिवान्तरं बहिः ॥ २०॥
काव्यमाला। . विचुम्बनेऽपि क्षमतामनागता वितन्वती केवलमुत्सवं दृशोः । बभूव मुग्धा सहकारमञ्जरी पिकस्य मौनव्रतभञ्जने पटुः ॥ २१ ॥ मयैव कृत्यं जगदद्य निर्जितं वयस्य दूरेऽस्तु शरव्ययस्तव । इतीव पुंस्कोकिलकूजितच्छलादुदीरयामास मधुर्मनोभवम् ॥ २२ ॥ प्रसूनसौरभ्यहरं समीरणं नियन्तुमभ्युत्सुकतामुपागताः। विलोलपुष्पंधयमण्डलीमिषादुदक्षिपन्पाशमिवायसं द्रुमाः ।। २३ ॥ परागपूरैः करिकेसरोद्भवैः पिशङ्गिताङ्गः समदो मधुव्रतः । चिरं वितन्वन्नपि चाटुचातुरी विमृश्य दीर्घ प्रिययान्वगम्यत ।। २४ लताः परिष्वज्य हठान्नभखता विमुच्यमानाः प्रतिलोलपल्लवाः । मधुव्रतौधैश्चपलैविरेजिरे विमर्दमुक्तैः कबरीभरैरिव ॥ २५ ॥ परिप्लवा मूर्ध्नि लवङ्गवीरुधः शिलीमुखालिः सुतरां व्यराजत । नभखता चन्दनशैलतश्चिरादुपेत्य मुक्ता किमु वेणिरायता ॥ २६ ॥ निसर्गशोणैर्ललितः स पल्लवैर्नवैरशोकः स्तबकैरशोभत । निचीयमानः श्वसितैर्वियोगिनां मनोभवाग्निः किमु राशितां गतः॥२७॥ निराकृतः कण्टकमालया बहिः समाहृतः सौरभसंपदान्तिकम् । बभूव रोलम्बयुवा न चुम्बितुं प्रभुर्विमोक्तुं च सुवर्णकेतकीम् ॥ २८ ॥ इति प्रगल्भे सुरभौ निरङ्कशं पिकखनैर्गायति मन्मथस्तवम् । हिरण्मयं पत्रिणमेव तं स्मरन्नरस्त भावेषु न केषुचिन्नलः ॥ २९॥ अपाकरिष्यन्नथ मानसीं रुजं नृपः कदाचिद्गृहदीर्घिकां ययौ । जवातिरेकादवितर्कितागतिः स चोपतस्थे पतगोत्तमः पुरः ॥ ३०॥ ससंभ्रमं तौ नयनातिथीकृतौ परस्परं कल्पितबन्धुसक्रियौ । मिथः कथालापरसायनैरुभौ निषेदतुः कापि निकुञ्जमन्दिरे ॥ ३१ ॥ सुरापगाशीकरसङ्गशीतल पतंगमुत्सङ्गतले निवेशयन् । विशांपतिः प्रेमवशाद्विसाङ्कुरं करेण तस्याधिमुखं न्यवेशयत् ॥ ३२ ॥ अनन्तरं स्मेरसरोजसोदरे मुखे नरेन्द्रस्य निवेश्य लोचने । सुधारसस्यन्दि मनोहरं क्षणादवोचदित्थं वचन विहंगमः ॥ ३३ ॥ ..
२ सर्गः]
सहृदयानन्दम् ।
अवाप नूनं परिपाकसंपदं वसुंधरायाश्चिरसंचितं तपः ।
पुरंदरं द्यौरिव येयमीश्वरं सखे भवन्तं समुपस्थिता स्वयम् ॥ ३४ ॥
दिने दिने किंनरसुन्दरीजनैः सुखोषितैः कल्पमहीरुहामधः ।
अनन्यसामान्यतया सकौतुकं सुधांशुशुभ्रं तव गीयते यशः ॥ ३५॥
कथाप्रसङ्गेन वयस्य भूभुजां गुणोत्तरं पृच्छति वृत्रवैरिणि ।
उदाहरन्ति प्रथमं सकौतुकाः पुनः पुनस्त्वां सुरसिद्धचारणाः ॥ ३६ ।।
अहं च साम्राज्यसुखेऽपि निःस्पृहं मनस्त्वदीयं मयि दूरवर्तिनि ।
विदन्नपि त्वामपहाय यचिरं चरामि दूरे शृणु तत्र कारणम् ॥ ३७ ।।
यदैव पूर्व वनदेवतामुखैर्यवेदयं साधयितुं त्वदीप्सितम् ।
तदेव लोकोत्तररूपशालिनी तवोपनेतुं महिषीमचिन्तयम् ॥ ३८ ॥
ततोऽनुरूपां तव रूपसंपदः पुरंदरस्यापि पुरे मृगीदृशम् ।
अपश्यतः खीकृतभङ्गशकिनः कृतं पदं चेतसि चिन्तया मम ॥ ३९ ।।
कदापि सेवावसरे दिवौकसां मनोभवं प्राञ्जलिमग्रतः स्थितम् ।
उपास्यमानः सुरसुन्दरीजनैः कुतूहलादित्थमुवाच वासवः ॥ ४० ॥
जगत्रयेऽस्मिन्नितरेतराधिकाः सहस्रशः सन्ति मनोरमाः स्त्रियः ।
वशंवदं विश्वममूर्वितन्वते त्वयोपदिष्टैस्तु किलासचेष्टितैः ॥ ४१ ॥
ततः प्रसूनाशुग वामचक्षुषां विशेषितत्वं त्वमवैषि केवलम् ।
निरस्य दाक्षिण्यमुदाहरख तां गुणैः खरूपेण च या विशिष्यते ॥४२॥
निजेषु रूपातिशयेषु संशयं प्रयाति वृन्दारकसुन्दरीजने ।
कुतूहलेनोत्तरलेषु नाकिनां गणेष्वनङ्गः शतमन्युमब्रवीत् ॥ ४३ ॥
जगत्रये किंचिदपीह विद्यते न ते सहस्राक्ष परोक्षतां गतम् ।
तथापि यन्मामनुयोक्तुमीहसे विधेयतां मे सफलीकरोषि तत् ॥ ४४ ॥
पुरी विदर्भा विदितैव ते विभो निजैर्गुणैर्या विजिगीषते दिवम् ।
भुनक्ति तां वैरिषु भीमविक्रमः प्रभु वो भीम इति प्रथां गतः ॥४५॥
सुतां स लेभे कमनीयविग्रहां प्रसाद्य भक्त्या दमनाह्वयं मुनिम् ।
अतोऽस्य नाम्नैव कृतोपलक्षणा जनेन सामूद्दमन्त्युदीरिता ॥ ४६॥
१२ काव्यमाला। असौ जगन्नेत्रचकोरचन्द्रिका विसारिलावण्यतरङ्गदीपिका । अलंकृता नातिचिरात्कृशोदरी वयोविशेषेण मदेकबन्धुना ॥ १७ ॥ कुतूहलेनोत्तरलो यदा विधिः शिरीषपुष्पादपकृष्य मार्दवम् । करिष्यते काञ्चनयष्टिगोचरं वपुस्तदास्यास्तुलनामुपैष्यति ॥ १८ ॥ निसर्गसौरभ्यदरिद्रतां यदा कलापिनः पिच्छभर विमोक्ष्यति । मृगीदृशोऽस्याश्चिकुरोत्करश्रियस्तदोपमानं सुलभं भविष्यति ॥ ४९ ।। सुधामयूखेऽपि कलङ्कदूषिते प्रदोषसंकोचिषु पङ्कजेष्वपि । विलज्जितः शिल्पमदोद्धरो विधिय॑धत्त तस्याः कमनीयमाननम् ॥५०॥ शरैर्मदीयैरपि कुण्ठता श्रिता वशीकृतान्तःकरणेषु केषुचित् । मृगीदृशोऽस्यास्तु दृगन्तविभ्रमः करोति तेषामपि धैर्यविच्युतिम् ॥५१॥ कुरङ्गमुत्सङ्गशयं शरद्विधुर्विधूय धत्ते यदि तदृशौ परम् । मृगेक्षणायाश्चटुलाक्षमाननं तदा निकामं तुलनामुपैष्यति ॥ ५२ ॥ निमीलयन्त्यारुणरत्नदीधितिं विलज्जयन्त्या नवपल्लवश्रियम् । समुल्लसन्त्याधरकान्तिसंपदा विकासिबन्धूकमधः करोति सा ॥ ५३ ॥ मृदू निर्भरमस्मि कर्कशं स्थितिः सहाभ्यां मम नैव सांप्रतम् । इतीव तस्याः परिणाहसंपदा भुजौ विदूरं नुदति स्तनद्वयम् ॥ ५४ ॥ तदीयमालोहितपाणिपल्लवं शिरीषमालामृदुलं भुजद्वयम् । विडम्बयन्माति मृणालकाण्डयोरधोमुखस्मेरसरोजयोः श्रियम् ॥ ५५ ॥ विधाय मध्यं सुतनोस्तथा तनुं बभूव तद्भङ्गभयाकुलो विधिः । यदेष पश्चात्रिवलीमिषादमुं चकार हैमैर्वलयैर्वृतं त्रिभिः ॥ ५६ ॥ परस्परस्यास्पदलङ्घनैषिणोर्निवारणाय स्तनयोर्मगीदृशः । तनूरुहश्रेणिमिषान्नवं वयः करोति सीमानमिवानयोरधः ॥ ५७ ॥ किमुच्यतेऽस्याः प्रथिमा नितम्बयोर्यदत्र दृष्टिः पतिता विलासिनाम् । चिरं परिश्रम्य कुतूहलादृशं श्रमादिवान्यत्र न गन्तुमिच्छति ॥ ५८ निरस्तरम्भातरुरामणीयकं तदीयमूरुद्वितयं विचिन्तयन् । अनादरोऽहं विषयान्तरे मुहुः करोम्यसूयाकुटिलेक्षणां रतिम् ॥ ५९॥ विकखरैलोहितपङ्कजैस्तुलां विलोक्य पादद्वितयं दमखसुः । गुणाधिकं कर्तुमिदं समुत्सुकश्चकार धाता नखमु(मौ)क्तिकाङ्कितम् ६० इमौ २ सर्गः] सहृदयानन्दम् । अशेषलावण्यनिधानभाजनं जगत्रयीमोहनसिद्धभेषजम् । प्रजासृजः शिल्पमहीरुहः फलं वपुस्तदीयं प्रतिभाति मे हृदि ॥ ६१ ॥ इति स्वयं तां स्मृतिजन्मना स्तुतां विचिन्तयन्तः पृथिवीन्द्रनन्दिनीम् । खधैर्यबन्धेष्वभवन्ननीश्वराः पुरंदराद्याः ककुभामधीश्वराः ॥ ६२ ॥ तथागतांस्तानवलोक्य दिक्पतीन्विमृश्य वाक्यं रतिवल्लभस्य च । परस्परस्यापि मुखावलोकने विलजमानाः सुरसुभ्रुवोऽभवन् । ६३ ।। शरत्तुषारद्युतिबिम्बसोदरं तिलोत्तमायास्तमसा वृतं मुखम् । खदेहसौन्दर्य विशेषसंभृतो मदालसायाः शिथिलोऽभवन्मदः ॥ ६४ ॥ अभूदभिध्यानपरेव निश्चला सुलोचना मुद्रितलोचनोत्पला । प्रदीर्घनिःश्वासविधूसराधरा स्थिता सखीमध्यगता सुमध्यमा ॥ ६५ ॥ अपि त्रिलोकीबहुँमानभाजनं न मेनकामानयदात्मनो वपुः । निवेश्य नेत्रद्वितयं खपादयोरलम्बुसालम्वत पार्श्वगां सखीम् ॥ ६६ ॥ अनिन्ददाशु त्रिदशाभिनन्दितं कलावती केलिकलासु कौशलम् । अशेषवृन्दारकदृष्टिबन्धनं सुविभ्रमा विस्मरति म विश्रमम् ॥ ६७ ।। कपोलबिम्बं परिघूर्णितालकं निधाय पङ्केरुहसोदरे करे । चिराय चित्रार्पितयेव निश्चलं स्थितं सखीसंसदि चित्रलेखया ॥६८॥ निरायताभिःश्वसितानिलोमिभिर्विधुन्वती केलिसरोरुह मुहुः । हृतेव कासारजलात्कुमुद्रती शशिप्रभासीत्तरसैव निष्प्रभा ॥ ६९ ॥ अधारयद्वासवधैर्यलोपिनी न जीवितेऽपि स्मरजीविता मनः । अहारयत्र्यम्बकचित्तहारिणी विदग्धतां गीतिषु म गीतिका ॥ ७० ॥ लास्येष्वप्सरसां निरस्य कुतुकं संचिन्त्य भैमी मुहुः' खं खं धाम पुरंदरप्रभृतयः सर्वे ययुर्निर्जराः । त्वत्कार्य हृदये निधाय सपदि प्राप्तस्त्वरां भूयसी क्षोणीन्द्र त्रिदिवादवातरमहं रम्यां विदर्भामनु ।। ७१ ॥ इति श्रीसांधिविग्रहिकमहापात्र श्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये नलचरिते हंसदर्शनो नाम द्वितीयः सर्गः । १ काव्यमाला। तृतीयः सर्गः। तास्तास्ततो दिविषदामवगाह्य वीथी: पाथोमुचामपि पथस्तरसावतीर्य । सौधैः सुधांशुधवलैस्त्रिदिवं हसन्ती दृष्टा मया नरपते नगरी विदर्भा ॥ १ ॥ भैमीविलोकनसमुत्सुकमानसेन तस्यां मया विचरता क्वचिदप्यदर्शि । मध्ये विलाससरसः स्फटिकावनद्धं नातिप्रभूतपरिचारमगारमेकम् ॥२॥ आकल्पशून्यवषुषं मणिभूषणेषु विद्वेषिणी प्रियसखीभिरुपाहृतेषु ।। आलेख्यवफलकमेव निरीक्षमाणां तां तत्र भीमनृपतेस्तनयामपश्यम् ॥ ३॥ आकर्णिताधिकगुणामवलोक्य भैमी भूषां विनापि नयनोत्सवमावहन्तीम् । संभावितं हृदि मया मदनस्य जाड्यं लावण्यवर्णनविधौ वरवर्णिनीनाम् ॥ ४ ॥ किंचिद्विषण्णवदनामिव तां विभाव्य तद्भावमिङ्गितलवैरवधारयिष्यन् । आसन्नपङ्कजवनेषु निबद्धनीडैः प्रक्रीडितोऽस्मि सह तत्र विलासहंसैः ॥ ५ ॥ मन्दादरा मधुरभाषिणि केलिकीरे निष्कौतुका कलरुताखपि सारिकासु । आसाद्य मां वचसि मानुषनिर्विशेष किंचित्कुतूहलवती मयि सा तदासीत् ॥ ६ ॥ अत्रान्तरे सरभसं समुपेत्य काचि- दन्तर्विजृम्भितविषादवशंवदायाः । :
र्गः]
सहृदयानन्दम् ।
:
तस्याः क्षितीन्द्रदुहितुः सविधं प्रपन्ना
प्रेमानुबन्धमधुरां गिरमित्यवादीत् ॥ ७ ॥
शून्या कुरङ्गमदपत्रविशेषण
गण्डस्थली परिणमल्लवलीविपाण्डुः ।
नैषा कथं विषहते विरहं कृशानि
शोणारविन्दसुहृदः करपल्लवस्य ॥ ८॥
आवर्जितैर्निजकरेण सखि त्वदीयै-
भृङ्गारवारिभिरभूदभिवर्धिता या ।
उज्जृम्भमाणमुकुला नरमालिकापि
नैषा कथं वितनुते नयनोत्सवं ते ॥९॥
आलक्ष्यमुग्धमुकुलां सहकारशाखां
तन्वी निपीडयति निष्करुणः पिकोऽयम् ।
व्यालोलमझुवलयखनमांसलाभि-
नैनं निवारयसि किं करतालिकाभिः ॥१०॥
आमोदलोलुपतया परिहृत्य पुष्पं
पुष्पंधयाः सरभसं समुपेत्य दूरात् ।
पर्याकुलाः पुनरमी विनिवर्तमानाः
संसूचयन्ति तव निःश्वसितेषु तापम् ॥११॥
उत्तंसितेप्वपि तमालदलेषु लोल-
मालोक्य यं सखि कुतूहलमातनोषि ।
त्वां वीक्ष्य खिन्नहृदयां निहितं मुखेऽपि
दर्भाङ्कुरं त्यजत एष कुरङ्गशावः ॥ १२ ॥
कौतूहलात्करतले विनिवेश्य मुग्धं
वैदग्ध्यभङ्गिषु गिरां सखि यं व्यनैषीः ।
त्वां मौनमास्थितवतीमवलोक्य सोऽयं
क्रीडाशुकोऽपि नवबद्ध इवास्ति मूकः ॥ १३ ॥
काव्यमाला। उत्कूजितेन मधुरेण समाह्वयन्ती- मग्रे गतां सहचरीमपि नानुयाति । चञ्चूपुटे तव करेण समर्म्यमाणं मुग्धे मृणालमभिकाङ्क्षति केलिहंसः ॥ १४ ॥ नैसर्गिकी कनकचम्पकसोदरी ते कान्ति विलुम्पति कुतः सखि पाण्डुतेयम् । तन्धि त्वमेषि पुनरेव कुतस्तनुत्वं कुल्येव भानुकिरणैः कलिता निदाघे ॥१५॥ इत्थं तया निगदिते शतशोऽपि सख्या नाख्यायि किंचिदपि तत्र नरेन्द्रपुच्या । अन्या तु भावमुपलब्धवती तदीयं काचिन्यवेदयदिदं वचनं वयस्या ॥ १६ ॥ रूपादिभिर्गुणगणैरनुरूपमस्या- स्तातश्चिराय विमृशन्वरमात्मजायाः । आलेख्यकर्मकुशलैः फलकेषु कृत्स्ना- नालेखयत्क्षितिभुजः प्रथितान्ववायान् ॥ १७ ॥ कौतूहलेन फलकेषु मयाहृतेषु क्षोणीभृतो विलिखितान्निपुर्ण निरूप्य । आसीदियं त्रिजगतामभिनन्दनीये कुत्रापि यूनि विनिवेशितचित्तवृत्ति ॥ १८ ॥ खेदोज्झितामपि तनूमवसादयन्ती विश्वं निरावरणमेव तिरोधाना। निद्रां विनापि नयने विनिमीलयन्ती चिन्ता पदं कृतवती हृदये ततोऽस्याः ॥ १९ ॥ एणीदृशः प्रबलतापभयादिवास्याः श्वासानिलाः प्रतिमुहुः प्रसरन्ति दूरम् ।
३ सर्गः]
सहृदयानन्दम् ।
बाप्पाम्बुवीचिषु निमजनकातरेव
निद्रा दृशोर्न सविधेऽपि पदं विधत्ते ॥ २० ॥
उज्जृम्भते भृशमुशीरविलेपनेन
धत्ते रुष कमलिनीदलमारुतेन ।
अन्तःस्थमेव सुभगं सततं सरन्त्याः
संताप एष सुतनोर्बत दुर्निवारः ॥ २१ ॥
ज्योत्स्नीषु चन्द्रमवलोकितुमक्षमेयं
लोलेक्षणा नयनयुग्ममवाञ्चयन्ती ।
वीक्ष्याननं स्तनतटे प्रतिबिम्बितं खं
तच्छङ्कया सपदि वेपथुमातनोति ॥ २२ ॥
एषा निसर्गसुकुमारतनूविशेषा-
रक्षामा स्मरेण विषहेत कथं भरं मे ।
इत्थं विचिन्त्य किमु निर्गलितं कराभ्यां
क्षोणीतले लुठति कङ्कणयुग्ममस्याः ॥ २३ ॥
नीरन्ध्रमावृणुत कैरविणीं समेताः
क्षौमाञ्चलैः सरभसं समुपेत्य सख्यः ।
एषापि नाहमिव दाहवशंवदास्तु
संप्रत्यपि प्रणयिनी हतचन्द्रिकासु ॥ २४ ॥
पानाय चन्द्रमहसामसकृद्विलोल:
चञ्चूपुटस्तव
चकोर पुरेव मा भूत् ।
एतेषु संप्रति सुधामपसार्य सद्यः
प्राणापहारि गरलं हि विधिय॑धत्त ॥ २५ ॥
मुञ्चन्ति मुर्मुरकणान्मरुतस्त एव
तान्येव कोकिलरुतानि तुदन्ति कौँ ।
सख्यः किमेतदिति निःसहमालपन्ती
निद्रां न विन्दति नरेन्द्रसुता निशासु ॥ २६ ॥
१८ काव्यमाला। स्मेरेषु चन्द्रकिरणैर्वलभीगृहेषु धौतेषु चन्दनरसैमणिकुट्टिमेषु । आरामसीमसु घनद्रुमशीतलासु कुत्रापि निर्वृतिरभून्न विदर्भजायाः ॥ २७ ॥ इत्थं रहस्यमभिधाय शनैर्वयस्या तत्कालयोग्यमुपचारविधि विधित्सुः । आहृत्य केलिसरसः सरसम्रदिष्टः पाथोजिनीकिसलयैः शयनं व्यधत्त ॥ २८ ॥ तस्मिन्निसर्गशिशिरेऽपि मृगीदृशोऽस्याः पाथोजिनीकिसलयास्तरणे लुठन्त्याः । आसीन्न निर्वृतिलवः शफराङ्गनायाः ___ कुल्याम्भसीव रविदीधितिदीपितायाः ॥ २९ ॥ सान्द्रा मृणाललतिका स्मरविक्लवाया- स्तस्याः सखीभिरधिकण्ठतटं न्यधायि । श्यामीकृता सपदि तापभरेण सापि स्निग्धेन्द्रनीलमणिहारतुलामयासीत् ॥ ३०॥ इत्थं सखीविरचितैः शिशिरोपचारै- १ारतापरभसामवलोक्य बालाम् । संवीजयन्किमपि पक्षपुटाञ्चलेन तामित्यवादिषमहं मृदुना स्वरेण ॥ ३१ ॥ एकः स एव तरुणः स्पृहणीयजन्मा तस्यैव पुण्यनिवहः परिणाहशाली । चेतोभुवस्त्रिजगतीजयवैजयन्ति यः प्रेम पल्लवयितुं निपुणस्तवासीत् ॥ ३२ ॥ तन्वन्ति ये त्वयि तनूदरि भावबन्धं धन्यास्त एव भुवनत्रितये युवानः । :
३ सर्गः] सहृदयानन्दम्। ९ किं नाम तेऽपि मधुपाः स्मितलेशभाज सायंतनीमनुसरन्ति न मल्लिकां ये ।। ३३ ॥ वं श्लाघ्यसे शतमखप्रमुखैरमः कीदृग्विधेषु मनुजेषु मृगायताक्षि । अभ्यर्थितस्तु तव सुन्दरि दुर्लभो यः सोऽयं न कस्य हृदि विस्मयमातनोति ॥ ३४॥ मध्ये विलासविपिनं मणिमन्दिरेषु मन्दारदामभिरलंकृतकुट्टिमेषु । शच्यापि सार्धममराधिपतिर्विहर्तु मन्दादरो भवति सुन्दरि चिन्तया ते ॥ ३५ ॥ दाक्षिण्यतः सुरमहीरुहमञ्जरीमि- रापिञ्जराभिरवतंसयितुं प्रियायाः । अर्धप्रसारितकरोऽप्यमराधिनाथ- स्त्वच्चिन्तया सुमुखि मन्थरतामुपैति ॥ ३६॥ मध्येऽपि दुग्धजलधेः कलिताधिवासः संवाह्यमानचरणोऽपि तरङ्गिणीभिः । अन्तर्विचिन्त्य भवतीमवनीन्द्रपुत्रि तापोत्तरं वपुरपामधिपो बिभर्ति ।। ३७॥ तन्वि त्वदर्थमनिशं परिपीड्यमानः पञ्चेषुणा धनपतिर्विनिमीलिताक्षः । सख्युः सकाशमवसर्पति चन्द्रमौले- स्तन्मौलिचन्द्रमहसः परिशङ्कमानः ॥ ३८॥ त्वां भावयन्कनककेतकगर्भगौरि मन्दादरः प्रणयिनिष्वपि पार्श्वगासु । पञ्चाशुगेन सुहृदापि शिलीमुखानां लक्षीकृतः खमपि निन्दति रोचिरिन्दुः ।। ३९ ।। ..
२० काव्यमाला न्यस्तेक्षणस्तव तनौ स्तनबन्धुराशि रागान्ध्यमेत्य भगवानरविन्दबन्धुः । प्राम्यन्मुहुः कनकभूधरमेखलाया- मानेडितानि वितनोति गतागतेषु ॥ ४० ॥ सव्याधतामुपगतां गिरिशस्य वीक्ष्य क्षोणीधरेन्द्रतनयामवनीन्द्रपुत्रि । स्पर्धावती त्वमसि चेद्वद निर्विशङ्कं त्वां दक्षिणार्धमहमस्य करोमि सद्यः ॥ ४१ ॥ किं विस्तरेण वचसामपरेण भूय- स्त्वं चेत्कुतूहलवती तरलायताक्षि । क्षीराम्बुराशितनयामपरामिव त्वां नारायणस्य हृदये विनिवेशयामि ॥ ४२ ॥ एते मया मखभुजः कथिताः पुरस्ते ये दुर्लभास्त्रिषु जगत्सु विलासिनीभिः । अग्रेसरत्वमुपनेष्यति भाग्यभाजां त्वत्पाणिपीडनविधिः कतमं तदेषु ॥ १३ ॥ कर्णाभिराममिह मां बहु भाषमाणं त्वं केलिकीरमिव सुन्दरि मावमंस्थाः । वैमानिकोऽस्मि कमलप्रभवस्य तन्मे लोकेषु सप्तसु न दुष्करमस्ति किंचित् ॥ १४ ॥ इत्थं मया निगदिता बहुधा मृगाक्षी सा निश्चयं कृतवती वचने मदीये । यत्रावलोकितवती तव देहलक्ष्मी भूयोऽपि तत्फलकमेव हृदि न्यधत्त ॥ ४५ ॥ तस्मिन्सखे लिखितया तव देहलक्ष्म्या त्वय्येकतानहृदयामवलोक्य बालाम् । :
३ सर्गः] सहृदयानन्दम् । २१ आत्मानमाकलयता सफलप्रयासं भैमी प्रमोदतरलेन मयाभ्यधायि ॥ ४६॥ त्वं माधवी मधुरसौ जगदेकवीर- स्त्वं कौमुदी कुमुदबन्धुरयं नरेन्द्रः । आस्तां निरस्तसदृशान्तरयोश्चिराय संबन्ध एष युवयोरभिनन्दनीयः ॥ १७ ॥ आश्वास्यतामिति वचोभिरह दिदृक्षु- स्त्वां यावदम्बरपथं न समुत्पतामि । तावत्तया स्तनतटादपकृष्य हारः खेनैव पाणिकमलेन समर्पितोऽयम् ॥ १८ ॥ द्राधीयसी हिमरुचेरपि निर्मलेयं वक्षोजकुङ्कुमरजोभिरुदीर्णरागा। तस्याः सखे हृदयवृत्तिरिव द्वितीया मुक्तालता हृदि तवास्पदमातनोतु ॥ ४९ ।। मुक्ताकलापमथ तेन समर्प्यमाणं पश्चान्नलः करतले कलयांचकार । खेदोदबिन्दुचयदन्तुरितं समन्ता- त्यागेव तस्य वपुरुत्पुलकं बभूव ॥ ५० ॥ तेनोरसि प्रियसखेन निवेश्यमान- मापिञ्जरं मृगदृशः कुचकुङ्कमेन । हारं निरीक्ष्य कलितः कुसुमेषुबाणै- रन्तर्व्यचिन्तयदिदं सुचिरं नरेन्द्रः ॥ ५१ ॥ सूचीमुखेन सकृदेव कृतव्रणस्त्वं मुक्ताकलाप लुठसि स्तनयोः प्रियायाः । बाणैः समरस्य शतशोऽपि निकृत्तमर्मा खम्मेऽपि तां कथमहं न विलोकयामि ॥ ५२ ॥ १. उदाहृतोऽयं श्लोकः साहित्यदर्पणे.
२२
काव्यमाला ।
प्रत्यक्षरं क्षरदिवामृतनिझरौघ-
माकर्ण्य कर्णमधुरं वचनं खगस्य ।
तं मौनभाजमसकृत्परिरभ्य दोर्ध्या-
मानन्दमन्थरमिदं नृपतिर्बभाषे ॥ ५३ ।।
अभ्यर्थितं फलति कल्पतरुः प्रकामं
चिन्तामणिर्दिशति चिन्ततमेव भूयः ।
अप्रार्थितानि वितरन्ति वि(निह) चिन्तितानि
कीर्ति तयोरपि भवानधरीकरोति ॥ ५४ ॥
अत्रान्तरे वियदशोभयदंशुपूरैः
पूर्णेन्दुसुन्दरमुखी दिवसान्तलक्ष्मीः ।
लब्धोदयैस्त्रिषु जगत्यु गुणैरुदारै-
भैमीव तस्य हृदयं पृथिवीश्वरस्य ॥ ५५ ॥
अथ सुहृदि सरोषे वैरसेनि जिघांसौ
विदधति विषमेषौ चापमारोपितज्यम् ।
प्रथयितुमिव भूयस्तस्य साहाय्यमिन्दुः
ककुभि बलभिदः खं बिम्बमाविश्चकार ॥ ५६ ॥
इति श्रीसांधिविग्रहिकमहापात्र श्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये
नलचरिते हंससंदेशो नाम तृतीयः सर्गः ।
चतुर्थः सर्गः।
सुरपतेरसहाय दिशं विधुर्विशदतां क्रमशः समुपाययौ ।
मनसि तां विनिवेश्य मृगीदृशं कलयति म नलस्त्वनुरागिताम् ॥ १ ॥
बहिरुदश्चति कैरवबान्धवे स्फुरति चेतसि मुग्धदृशो मुखे ।
समवलम्ब्य बलं सुहृदोद्वयोरभिजघान शरैस्तमनन्यजः ॥२॥
विचकिलैः स्मितशालि विकखरैः सुरभितं कुमुदैः क्षणदामुखम् ।
दुरवलोकमभूदवनीभुजः स्मरशरज्वरकातरचेतसः ॥ ३ ॥
अपि निमीलितमहि निशामुखे कुमुदमुल्लसितश्रियमानशे ।
हृदयमस्य तदैव महीभुजः समधिकं विधुरत्वमुपाददे ॥ ४ ॥
४ सर्गः]
सहृदयानन्दम् ।
२३
स्थितिमतां प्रथमोऽपि महाशयः पतिरपां रजनीरमणत्विषा ।
अवनिवासवसंभवया तया नल इवोत्तरलत्वमुपाययौ ॥ ५॥
अपकिरन्नमृतं परितः करैः प्रसृमरैरमृतद्युतिरुज्ज्वलैः ।
मुदमुदञ्चयितुं पृथिवीभुजः सरसिजस्य च नाभवदीश्वरः ॥ ६ ॥
किसलयान्तरसंधिषु पुञ्जितैः शशभृतः किरणैरपि भूरुहाम् ।
असमयेऽपि कथंचिदुदश्चितैः सुमनसां स्तबकैरिव रेजिरे ॥ ७ ॥
शशिरुचः परिपीय मुहुर्मुहुः सपदि तुन्दिलतां समुपेयुषी ।
गृहचकोरवधूर्निजपञ्जरे पृथुतरेऽपि चिराय न संममौ ॥ ८ ॥
शशिरुचा शशिकान्तगृहाङ्गने प्रसरदम्बुभरे सरसीयति ।
उडुगणैः परितः प्रतिविम्बितैरुपहृतः कुमुदोत्करविनमः ॥९॥
उपहसचिव हंसकदम्बकं विचकिलं कलयन्निव निष्प्रभम् ।
अपहरन्निव हारलताश्रियं शशिरुचां निचयः समरोचत ।।१०।।
कतिचिदम्बर एव तिरोधे निजकरैरपराः परिषखजे ।
अभिससार परा अपि तारकाः सितरुचिर्विकिरन्वसुसंपदम् ॥ ११ ॥
विकचकैरवसौरभलोलुपैस्तत इतः कलगुञ्जितकैतवात् ।
स्मृतिभुवस्त्रिजगद्विजयार्जितं यश इव भ्रमरैरुदगीयत ॥ १२ ॥
अथ हृदि प्रसभं विहितास्पदैः स्मरशरैरिव लम्बितशङ्कया ।
सहजया स च धीरतयोज्झितः खगमिदं निजगाद नरेश्वरः ॥ १३ ॥
तव निपीय सखे वचनामृतं श्रवणयुग्ममभून्मम शीतलम् ।
तदवधिप्रसभं दहतीब मे हृदयमर्म कथं स्मरमुर्मुरः ॥ १४ ॥
दहतु नाम सखे मलयानिलः कवलनात्फणिनां विषदूषितः ।
अमृतदीधितिरेष सुधामयैरपि करैर्दहतीति महाद्भुतम् ॥ १५ ॥
ध्रुवमियं मलयानिलचारिणां फणभृतां श्वसितोर्मिपरम्परा ।
न पुनरेष स दक्षिणमारुतस्तनुभृतां वितनोति सुखानि यः ॥ १६ ॥
दहति मे हृदयं हिमदीधितिस्तुदति चन्दनशैलसमीरणः ।
दलयति प्रसमं पिकपञ्चमः किमवलम्ब्य सखेऽस्तु सुखोदयः॥ १७ ॥
काव्यमाला।
..
.
:
ज्वलति शीतरुचिर्वियदङ्गने तपति दिक्षु मरुन्मलयोद्भवः ।
किरति मर्मसु पञ्चशरः शरान्सुखलवोऽपि सखे मम दुर्लभः ॥ १८ ॥
स्मृतिभुवो यदि पञ्च शिलीमुखा यदि च ते कुसुमैरुपपादिताः ।
अविरतं निपतन्ति सहस्रशः कथममी हृदयं दलयन्ति च ।। १९ ।।
हिमरुचिर्दहतीति किमद्भुतं वहिरसौ विशदः कलुषो हृदि ।
अबुध एष जनस्तु यदीदृशादपि सुखाधिगमाय समुत्सुकः ।। २० ।।
तव सखे रचितोऽद्य मयाञ्जलिः शशधरः स तथा प्रतिबोध्यताम् ।
समधिरुह्य निजाङ्कमृगं क्षणादयमुपैति यथास्तमहीधरम् ॥ २१ ॥
शशिनमंसतटे निविवेश्य वा नय सखे चरमाचलकंदरम् ।
तव विरञ्चिविमानकधुर्यतामुपगतस्य भविष्यति कः श्रमः ।। २२ ।।
उदयमद्रिमधिश्रयितुं सखे त्वरय संप्रति वा दिनवल्लभम् ।
वसुसमृद्धिमदं शमयन्विघोविरहिणां स भवत्ववलम्बनम् ।। २३ ।।
कथय किं नु कदापकृतं मया कुलगुरोरपि चन्द्रमसः सखे ।
मयि निरस्तकृपः कथमन्यथा किरति जीवितहारि विष करैः ॥ २४ ॥
इदमुदीरयतः पृथिवीपतेः कथमपि प्रतिपद्य पदं दृशोः ।
सकृपयेव तदा किल निद्रया क्षणमदर्शि नरेन्द्रसुता पुरः ॥ २५ ॥
अथ नल: प्रतिबुध्य ससंभ्रमं तत इतो विनिवेश्य विलोचने ।
प्रियतमा सविधे न विलोकयन्निदमुवाच मनोभवकातरः ॥ २६ ॥
मम कृते मृदुलागि दवीयसी सरणिमाशु विलङ्घय यदागतम् ।
तदिदमाचरितं सुदति त्वया समुचितं प्रणयस्य गरीयसः ॥ २७ ।।
अपकृतं त्वमुना मम निर्भरं भुजयुगेन वृथा परिणाहिना ।
वलयतां समुपेत्य निजान्तरे त्वमसि यन्न चिराय निवेशिता ॥२८॥
मितविकखरया दशनश्रिया किमपि कन्दलिताधरपल्लवम् ।
पुनरुपैष्यति लोचनगोचरं मम कदा तव सुन्दरि तन्मुखम् ॥ २९॥
घृतकुरङ्गनदप्लुततूलिकं मम कर मकरी लिखनोन्मुखम् ।
तव कपोलतले पुलकोद्मः सुमुखि नेष्यति मन्थरतां कदा ॥ ३० ॥
४ सर्गः]
सहृदयानन्दम् ।
२५
स्मरविमर्दविशृङ्खलबन्धनं लुलितमंसतटे शिथिलस्रजम् ।
तव कदा सुतनो कबरीभरं निगडयिप्यति पाणियुगं मम ॥ ३१ ॥
कृतकरोषजुषस्तव यावके चरणयोर्नमता शिरसाहते ।
विरचयन्परिकर्म सवेपथुर्मम कदा सुकृती भविता करः ॥ ३२ ॥
नयनयुग्म जनुस्तव निष्फलं प्रणयिनी न चिराय यदीक्षसे ।
त्वमसि मानस पुण्यतमं यतः शशिमुखी सततं त्वयि खेलति ॥ ३३ ॥
तव कपोलतले विमलत्विषि प्रतिफलन्नविभावितमण्डल: ।
विलसदङ्कमृगस्तनुते शशी मृगमदद्रवपत्रविशेषताम् ॥ ३४ ॥
ध्रुवमसि त्वमिहैव तिरोहिता बिरहपाण्डवपुः शशिरोचिषा ।
इदमिदं तव नूपुरशिञ्जितं श्रवणयोः सविधे मम जृम्भते ॥ ३५ ॥
क ते शिरीषाधिककोमलं वपुः क्व लङ्घनं तन्वि दवीयसः पथः ।
निषीद तन्मे क्षणमङ्कसीमनि क्लमं कराभ्यां विनयामि पादयोः ॥ ३६ ॥
अध्वक्लान्त्या मुकुलितमिदं द्वन्द्वमुन्मीलयाक्ष्णो-
भूयो भूयः कुवलयमयी दिश्यतां दिक्षु वृष्टिः ।
ब्रीडाननं क्षणमपि नयोन्नम्रतामेतदास्य
व्योम्नि स्मेरं भवतु कमलं पश्यतः शीतभानोः ॥ ३७ ॥
कथं कथं मामपहाय भाविनि त्वरावती त्वं पुनरेव गच्छसि ।
निरागसि प्रेयसि केन हेतुना मयि क्षणं दक्षिणतां न रक्षसि ॥ ३८ ॥
तथातिभूमि भवतैव लम्बितं कथं सखे सौहृदमाशु विस्मृतम् ।
इतः प्रयान्ती मम जीवनेश्वरी प्रसाद्य यन्नैव निवर्त्यते त्वया ॥ ३९ ॥
इतः प्रयाता पदवी दवीयसीमहश्यतां यास्यति जीवितेश्वरी ।
अनुव्रजन्नाशु निवर्तयामि तां सखे क्षणं पक्षयुगं प्रयच्छ मे ॥ ४० ॥
आश्वासनार्थमिव मे कमले विधौ च
लक्ष्मीलवं तव मुखस्य विधिळधत्त ।
निद्राति पूर्वमनयोरपरस्तु जाग्र-
न्मर्माणि हन्त मम कृन्तति किं करोमि ॥ ४१ ॥
काव्यमाला।
..
.
[इति] प्र(वि)लपितमस्य मेदिनीन्दोः स्मरविधुरीकृतचेतसो निशम्य ।
प्रतिपदममृतद्रवं विमुञ्चन्वचनमुवाच दशोचितं विहंगः ॥ ४२ ॥
कुवलयशि तस्यामेष भावानुबन्ध-
स्तव निषधनरेद्र प्रीतये कस्य न स्यात् ।
भवति हि मधुलक्ष्म्याः साहचर्य प्रपन्नः
समधिकमभिनन्द्यश्चन्दनाद्रेः समीरः ।। ४३ ॥
धैर्य निधाय मनसि प्रतिपालयेदं
क्ष्मावल्लभ क्षणमिव क्षणदावसानम् ।
प्रत्यूष एव भवतोऽभिमतार्थसिद्धे-
द्वार भविष्यति विसंघटितापिधानम् ॥ ४४ ॥
इति वचनमुदीर्य मेदिनीन्द्रं विरमति तत्र विरञ्चियानधुर्ये ।
अनुव(ग)दितुमिवास्य वाचमुच्चैरुदचरदाशु निशान्तशङ्खनादः ॥ ४५॥
इति श्रीसांधिविग्रहिकमहापात्रश्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये
नलचरिते नलोन्मादो नाम चतुर्थः सर्गः ।
पञ्चमः सर्गः
बहिर्विहाराय विशीर्णसक्थिनी निषेदुषी गर्भगृहोदरेषु ।
नभस्तुषारांशुमुखं दधाना क्रमेण रात्रिर्जरती बभूव ॥ १ ॥
समुत्सुकः प्राप्नुमिवास्य लक्ष्मी नलस्य पञ्चेषुशराकुलस्य ।
विगाहमानः ककुभं प्रतीची बभूव चन्द्रः सविशेषपाण्डुः ॥ २ ॥
अनुद्यते भाखति मन्दभासि विधौ किमप्याविरभूत्तमिस्रम् ।
आसाद्य रन्ध्र महनीयधाम्नां मलीमसः संपदमातनोति ॥ ३ ॥
निद्रां विमुञ्चत्सु सरोरुहेषु सौरभ्यलोलैर्निवहैरलीनाम् ।
स्तोकावशेषोऽपि बभूव सान्द्रः पद्माकरेषु क्षणमन्धकारः ॥ ४ ॥
संस्पृश्यमानैव बलाजहार वसूनि सर्वाण्यपि पश्चिमाशा ।
इन्दोः प्रकृत्या विमलस्य जातस्तथापि तस्यामनुरागबन्धः ॥ ५ ॥
दिशं प्रतीची परिरभ्य चन्द्रे दरीगृहं गच्छति पश्चिमाद्रेः ।
बभार बालारुणरश्मिशोणं प्राची मुखं कोपकषायितेव ॥ ६ ॥
५ सर्गः]
सहृदयानन्दम्।
२७
अर्धप्रबुद्धेषु सरोरुहेषु नातिप्रसुप्तेषु च कैरवेषु ।
करम्बितं सौरभमाददानः प्रालेयशीतः पवनश्चचार ॥ ७॥
तथाविधां तस्य दशां नृपस्य निरीक्षितुं कातरतामुपेत्य ।
निद्राविरामध्वनिभिः खगानामाहूय चन्द्रं रजनी जगाम ॥ ८॥
पूर्वापरायोः शिखरानभाजी द्वावेव माणिक्यमणिप्रकाशौ ।
परस्परस्य प्रतिबिम्बलक्ष्मी क्षणं प्रपन्नाविव पुष्पवन्तौ ॥ ९॥
सुतैरिव खैरुडुभिः सहैव नभोगणे यामवतीमतीत्य ।
विहर्तुकामश्वरमाद्रिवेलां शनैः प्रपेदे तुहिनांशुहंसः ॥ १० ॥
वितीर्णरागः कुसुमोत्करश्रीयॊत्स्लाविपाण्डुश्छदनान्यपास्य ।
बभार बालारुणरश्मिदम्भान्नभरतरुनूतनपल्लवानि ॥ ११ ॥
उपैष्यतश्चण्डरुचेर्मयूखैर्निरस्यमानेऽपि धनान्धकारे ।
नलस्य भैमीविरहाग्निजन्मा जगाम वृद्धिं मदनान्धकारः ॥ १२ ॥
विकासलक्ष्मीः कमलं जगाम संकोचमुद्रा कुमुदं प्रपेदे।
संपद्विपद्वापि निसर्गलोला कुत्रापि न स्थैर्यमुरीकरोति ॥ १३ ॥
मधूनि पीत्वा क्षणदामिदानीमदक्षिणोऽयं नलिनीमुपैति ।
इतीव सेा निजकोषमध्ये कुमुद्बती कापि बबन्ध भृङ्गम् ॥ १४ ॥
कथंचिदास्थाय स धैर्यबन्धं प्रत्यूषसंध्याविधिमन्वतिष्ठत् ।
महात्मनां हि व्यसनातिभारः क्रियाविलोपे प्रभुतां न याति ॥ १५ ॥
दशां तवेमां विनिवेद्य भैमीमाश्वासयिष्यामि निकामखिन्नाम् ।
श्रुतोऽपि खेदं शिथिलीकरोति प्रियानुरागः प्रमदाजनस्य ॥ १६ ॥
तदेष गच्छामि नराधिनाथ मुहूर्तमात्रेण पुरी विदर्भाम् ।
विलोकयिष्यामि दिनैः कियद्भिभैमीसनाथस्य मुखाम्बुजं ते ॥ १७ ॥
इति ब्रुवन्नेव नरेश्वरेण दोा परिष्वज्य खगो विमुक्तः ।
लिम्पन्नभः काञ्चनपक्षकान्त्या क्षिप्रं विदर्भाभिमुखो जगाम ॥ १८ ॥
अत्रान्तरे दूतमुखेन भीमः स्वयंवरार्थ खतनूभवायाः ।
प्राप्त विदर्भामवनीन्द्रवृन्दे तं प्रीतिपूर्व नलमाजुहाव ॥ १९ ॥
२८
काव्यमाला।
ततः समासाद्य शुभ मुहूर्त पुरोधसा संभृतमङ्गलश्रीः ।
निमित्तसंसूचितकार्यसिद्धिर्नलः प्रतस्थे नगरी विदर्भाम् ॥ २० ॥
अधश्चमूरेणुभरस्य रेजे श्वेतातपत्रं निषधेश्वरस्य ।
विलङ्घय मेघान्निजवंशकेतुं तं वीक्षितुं प्राप्त इवामृतांशुः ॥ २१ ॥
अमुष्य हस्ताम्बुजमभ्युपेत्य भैमी ध्रुवं मे भविता सपत्नी।
इतीव तस्य ध्वजिनीभरेण विश्वंभरा वेपथुमुद्दभार ॥ २२ ॥
मद्वंशजातान्नृपतीनतीत्य गुणेन भैमीमुपलप्स्यतेऽसौ ।
इतीव लज्जाविधुरो विवखानन्तर्दधे तस्य चमूरजोभिः ॥ २३ ॥
मतङ्गजानां मदवारिसेकैः पराभवासादनशङ्कयेव ।
अमुष्य नासीरतटे तुरः क्षुण्णं रजः खं सहसोत्पपात ॥ २४ ॥
आभोगलक्ष्म्या पदवीप्व........ विसृत्वरैर्विश्वममुष्य सेना ।
वर्षाम्बुपूरेण विभिन्नसेतुः स्रोतखती वृद्धिमतीव रेजे ॥ २५ ॥
तस्य प्रयातुः पृतनाभरेण नीरन्ध्रतां वर्म तथा जगाम ।
यथा रजोऽप्यस्य खुरावकीर्ण न चक्षमे व्योमविलङ्घनाय ॥ २६ ॥
दृशः......"निन्दति न क्षितीन्दुर्नेत्रश्रियं वीक्ष्य विदर्भजायाः ।
इतीव संचिन्त्य ययुर्विदूरं मृग्योऽध्वकुलेषु सुखं निषण्णाः ॥ २७ ॥
उपायनान्यस्य तथोपनिन्ये पदे पदे जानपदो जनौधः ।
कृतोपयोगान्यपि तानि सैन्यैर्यथा न संख्याविषयत्वमीयुः ॥ २८ ॥
मार्गेप्वखिन्नोऽपि चमूचराणां विश्रामहेतोर्वसतीः स भेजे ।
तथाविधानां चरितं न जातु श्रमातिरेकाय समाश्रितानाम् ॥ २९ ॥
जवादविज्ञातविलचिताध्या संचिन्तयन्नैव गुणान्प्रियायाः ।
विदर्भराजस्य पुरोपकण्ठे बबन्ध सेनाशिबिरं नरेन्द्रः ॥ ३० ॥
अत्रान्तरे क्षोणितलादुपेत्य कलिप्रियः कामचरो महर्षिः ।
निवेदयामास विदर्भजायाः स्वयंवरस्यावसरं सुरेभ्यः ॥ ३१ ॥
प्रागेव तस्यामनुबद्धभावाः पुरंदराद्याः ककुभामधीशाः ।
पुरःसरीकृत्य मुनि तमेव प्रतस्थिरे तां नगरी विदर्भाम् ॥ ३२ ॥
५ सर्ग:]
सहृदयानन्दम् ।
लावण्यलक्ष्मीजितपञ्चबाणं विलोक्य ते वर्मनि वैरसेनिम् ।
विदर्भजायां शिथिलीकृताशाः परस्परं मन्त्रमिमं व्यतेनुः ।। ३३ ॥
उज्जृम्भते चेतसि तावदेव यूनां मदः कान्तिविशेषजन्मा।
न यावदक्ष्णोर्विषयत्वमेति विश्वंभरालंकृतिरेष वीरः ॥ ३४ ॥
अस्माभिरेतैरविमृष्य नूनमङ्गीकृतः साहसिकत्वदोषः ।
मोहादनाहत्य नरेन्द्रमेनं भैमीविलोलं यदकारि चेतः ॥ ३५॥
अभ्यर्थनाभङ्गपराभवेण नवावतारेण विलजमानान् ।
प्रतिप्रयाताननवाप्य भैमी वक्ष्यन्ति किं किं सुरसुभ्रुवो नः ॥ ३६ ॥
अस्माकमप्यत्र यदृच्छयैव निपत्य दृष्टियदि नान्यमेति ।
गुणातिरेकोऽभिनिवेशवत्यास्तदा किमुच्येत विदर्भजायाः ॥ ३७॥
अस्माभिरभ्यर्थ्य तदेष एव दमखसुर्दूतपदे विधेयः ।
अस्मान्स्तुवन्नेनमपास्य नूनमन्यो हि लज्जाजडतामुपेयात् ॥ ३८ ॥
इत्थं विनिश्चित्य दिवौकसस्ते पृथक्पृथग्व्यञ्जितरूपचिह्नाः ।
आशीर्भिरानन्ध मुहुः प्रणम्य बद्धाञ्जलिं नैषधमित्यवोचन् ।॥ ३९ ॥
तथा प्रसन्नैरपि नांशुपूरैर्मालिन्यमिन्दुर्जगतां क्षिणोति ।
कुलावतंसत्वमुपेयुषस्ते यथा विशुद्धैर्यशसां बितानैः ॥ ४०॥
आसाद्य पूर्वानपि पार्थिवांस्ते न कश्चिदर्थी विमुखः प्रयातः ।
यशस्त्वसामान्यमिदं त्वदीयं यदर्थिमावं वयमभ्युपेताः ॥ ११ ॥
कुलानुसारी सुरकार्यसिद्धौ भवादृशानां भवति प्रयत्नः ।
तेनाद्य कुत्रापि समीहितेऽर्थे नियोक्तुमिच्छन्ति दिवौकसस्त्वाम् ।।४२॥
भीमात्मजायाः सविधे तथा त्वमस्मानुपश्लोकय लोकवीर ।
अलंकरोति त्रिदिवं यथेयमेकस्य नः कस्यचिदेत्य हस्तम् ॥ ४३ ॥
तदर्थमर्थी विदितोऽसि वत्स विस्रम्भभूमिस्तदपि त्वमेव ।
निजार्थसिद्धिष्वपि निर्व्यपेक्षाः श्रेयः परेषां घटयन्ति सन्तः ॥ ४४ ॥
प्रतिश्रुतं चेद्भवता तदेवमसंशयं सेत्स्यति वाञ्छितं नः ।
संपाद्यमानं हि. महानुभावैः स्पृशन्ति न प्रार्थितमन्तरायाः ॥ ४५ ॥
काव्यमाला। विधेर्वशात्कार्यविपर्ययेऽपि न तेऽपराधः परिशङ्कनीयः । प्रभुर्नियोगापनये नियोक्तुराशास्यसिद्धेः प्रतिभून दूतः ॥ ४६ ।। नलः सखेदोऽपि गिरं सुराणां सत्त्वातिरेकाद्विदधे तथैव । अमुष्य यत्नेन विदर्भजा तु सा निश्चयाद्वारयितुं न शेके ॥ ४७ ॥ सुरास्तु तां निश्चितचित्तवृत्तिं विशुद्धवृत्तं निषधेश्वरं च । वरैरुभौ प्रत्यभिनन्ध भूयो दिवं ययुर्लानमुखप्रकाशाः ॥ ४८ ।। अथात्मजा नैषधसक्तचित्तां निशम्य शश्वन्मुदितोऽपि भीमः । दाक्षिण्यमात्रेण नरेश्वराणां खयंवरं वर्तयितुं शशास ॥ १९॥ अतो नियुक्तैः प्रभुणा समन्या(?)दलंकृता सा नगरी विदर्भा। मरुद्विलोलैर्निवहैर्ध्वजानां खयंवरायाहृयतीव राज्ञः ॥ ५० ॥ अथानुकूलेऽहनि तत्र मश्चानास्थाय तस्थुः शतशः क्षितीशाः । अनुद्रुता बन्धुवधूजनेन भैमी च तं देशमुपाजगाम ॥ ५१ ॥ अभ्याशभाजोऽपि नृपानपास्य सा नैषधे केवलमुत्सुकासीत् । ग्रहेषु सत्वप्यपरेषु नूनं विलोकते चन्द्रमसं चकोरी ॥ ५२ ॥ तामन्तिकारतरं प्रयान्तीं न केवलं दृष्टिरनुप्रयाता । श्वासोष्मणा म्लानमुखप्रभाणां नैसर्गिकी श्रीरपि पार्थिवानाम् ।। ५३ ।। नेदीयसो यान्नृपतीनमुञ्चद्वसन्तलक्ष्मीरिव सा कुमारी । तेषां तरूणामिव कान्तिरुच्चैरन्तर्निदाघेन जगाम शोषम् ॥ ५४॥ आरोप्यमाणा रभसातिरेकाद्गुणेन कर्णान्तिकमांगतेन । इषुः शरव्यं सुभटोज्झितेव जगाम दृष्टिर्नलमेव तस्याः ॥ ५५ ॥ धात्री कापि विदर्भराजदुहितुर्बेलीलया व्याप्ता पौष्यं दाम विजृम्भमाणपुलके कण्ठे नलस्यार्पयत् । अन्येषां तु महीभृतां प्रति मुहुः श्वासोत्तरं ताम्यतां तापोत्सेकमधत्त चेतसि शरश्रेणी मनोजन्मनः ॥ ५६ ॥ चूडाने पुरविद्विषः समुचित विन्यस्य लेखां विधो- लब्धां कीर्तिमवृद्ध तां खलु विधिभैमी नलायार्पयन् ।
१६ ६ सर्गः सहृदयानन्दम् । एतस्याः समवाप्तये प्रणयितां संपाद्य भूमीभुजा- मन्येषां विषमायुधस्त्वसदृशारम्भापवादं ययौ ॥ ५७ ॥ पौराणामिति वचनं निशम्य हृप्यन्प्रासादं निषधपतिः शनैर्जगाम । वैदाः परिणयमङ्गलाय भीमः संभारं रचयितुमुत्सुको बभूव ॥५८॥ इति श्रीसांधिविग्रहिकमहापात्र श्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये नलचरिते दमयन्तीस्वयंवरो नाम पञ्चमः सर्गः । षष्टः सर्गः । अथावरोधेषु विदर्भभूपतेर्वृतं कुमार्या निषधेश्वरं पतिम् । निवेदयन्त्यः परिवारसुभ्रवः समीहितादप्यधिकं प्रपेदिरे ॥ १ ॥ नलेन संबन्धमुपाश्रितं नृपः कुलं स मेने सविशेषमुज्ज्वलम् । महार्णवं क्षीरमयं घनात्यये करेण संस्पृष्टमिवामृतद्युतेः ॥ २ ॥ प्रकामगुर्वीमपि संपदं नृपस्तदा स मेने नितरामणीयसीम् । नवं हि जामातरमर्चयिष्यतां समृद्धिभाजामपि शङ्कते मनः ॥ ३ ॥ भविष्यतीयं महिषी महीपतेर्नलस्य लोकत्रयविश्रुतौजसः । विचिन्तयन्नित्थमपश्यदात्मजां स गौरवस्नेहकरम्वितं तदा ॥ ४ ॥ पुरोहितेनाथ समं द्विजातिभिर्विवाहलग्ने विनिवेदिते शुभे । दमखसुर्माङ्गलिकेषु कर्मसु न्ययोजयद्वन्धुवधूजनं नृपः ॥ ५ ॥ गृहे गृहे न्यस्तनवीनतोरणा पदे पदेऽलंकृतराजपद्धतिः। मुहुर्मुहुर्मूर्छिततूर्यनिःखना श्रियं ययौ कामपि सा पुरी तदा ॥ ६ ॥ ततः कुलाचारविदा पुरोधसा कृताधिवासां तनयां महीपतेः । विधाय संगीतकमङ्गलं स्त्रियः समेत्य तामनपयन्यथाविधि ॥ ७ ॥ निसर्गतः काञ्चनयष्टिसच्छविर्वितन्वती स्वानविधि नृपात्मजा । नलेन काश्मीररसेन रञ्जिता न्यवेदि सौरभ्यभरैर्न तु श्रिया ॥ ८ ॥ ततोऽङ्गनाः क्षौमसमावृतैः करैर्यथायथाम्भःपृषतान्यमार्जयन् । तथातथास्याः परिणाहशालिनी बभूव लावण्यमयी तरङ्गिणी ॥ ९ ॥ विडम्बयन्ती कनकं तनुश्रिया स्मितेन मुक्तामधरेण विद्रुमम् । कराङ्गुलीभिः कुरुविन्दमञ्जरीं बभूव भूपान्तरनिःस्पृहेव सा॥१०॥ .
३२
३
२
काव्यमाला।
अनन्तरं स्नानविधेर्नृपात्मजा पिनद्धबालार्कनिभांशुका बभौ
घनाम्बुवर्षेण कृताभिषेचना लतेव नीरन्ध्रमुदीर्णपल्लवा ॥ ११ ॥
रराज कालागुरुधूपलिप्सया विधुन्वती कुन्तलभारमायतम् ।
हिरण्मयी मन्मथकेतुयष्टिका मरुच्चलन्नीलनिचोलिकेव सा ।। १२ ।।
विनिर्मिमाणा करयोर्युगेन सा मनोभिरामां कबरी कृशोदरी ।
करम्ब्यमाणां करजांशुभिर्निजैरयत्नमेनां विदधे सगर्भकाम् ॥ १३ ॥
खभावतः कोकनदानुकारिणौ प्रसाधयन्त्यश्चरणौ दमवसुः ।
अलक्तकं वीक्ष्य जितं तयोः श्रिया क्षणं प्रपन्नाः करणीयमुग्धताम् १४
चकार कालाञ्जनलेखयाञ्चिते विलोचने यत्पृथिवीन्द्रनन्दिनी ।
ततस्तयोः श्रीरवतंसताजुषोनिरास नीलाम्बुजयोस्तुलाकथाम् ॥१५॥
चकार कस्तूरिकया सकौतुकं वधूमुखे यत्तिलकं प्रसाधिका ।
जिगाय तत्कान्तिविशेषसंपदा मधुव्रतं निश्चलमम्बुजे स्थितम् ॥ १६ ॥
ततः कुमारी मुकुरेऽनुबिम्बितं विलोकयामास सकृन्निजं मुखम् ।
मुहुर्मुहुः प्रेक्षत नैषधं तु सा निवेशितं चेतसि मन्मथेषुभिः ॥ १७ ।।
वधूः सदूर्वाङ्कुरमार्द्रकुङ्कुमं करेण यत्कौतुकसूत्रमग्रहीत् ।
हिरण्मयैः खैः किरणैर्विराजितं तुलां दधे काश्चनकङ्कणेन तत् ॥ १८॥
वधूर्विवाहोचितवेषपेशलं प्रसाधिता कौतुकसूत्रधारिणी ।
अमन्यतान्तःपुरसुन्दरीजनैरुपस्थिता मङ्गलदेवतेव सा ॥ १९॥
अथ प्रयुक्तं निपुणैः प्रसाधकैर्नलोऽपि यं वेषविशेषमग्रहीत् ।
अवर्धयत्तस्य स कान्तिसंपदं तुषारभानोः शरदेव संगमः ॥२०॥
निसर्गतो यस्तनुरूपसंपदा बभूव लोकस्य विलोचनोत्सवः ।
दमखसुः पाणिपरिग्रहोचिता प्रसाधनश्रीः किमिवास्य वर्ण्यते ॥ २१ ॥
ततो विदर्भाधिपतेः प्रशासनादमात्यमुख्याः सदसि स्थितं नलम् ।
विभो प्रभुनः सहितः सुहृजनैः प्रतीक्षते त्वामिति संन्यवेदयन् ॥२२॥
अथायमासन्नसमीहितोदयः पुरोधसा संभृतमङ्गलक्रियः ।
समन्ततो बन्धुजनैः समावृतः प्रभुर्विदर्भाधिपतेर्गृहं ययौ ॥ २३ ॥
३
६ सर्गः]
सहृदयानन्दम्।
३३
सलीलमारुह्य मतङ्गजं नलः खदेहलीमेव न यावदत्यगात् ।
अमुष्य तावत्पृतनाग्रसारणी विदर्भराजस्य गृहानपूजयत् ॥ २४ ॥
विलोकमानाः पथि नैषधं जनाः परस्परं पीडितदेहयष्टयः ।
अशक्नुवन्तश्चलितुं पदात्पदं हृदा च दृग्भ्यां च परं तमन्वयुः ॥२५॥
स्तनैनितम्बैश्च नितान्तपीवनिवार्यमाणेषु समीपवर्तिषु ।
न मध्यभागे तनुमध्यमाः परं निपीडिताः पौरजनावृते पथि ।। २६॥
नरेश्वरे गच्छति राजवर्त्मना वपुःश्रियावर्जितविश्वलोचने।
इति व्यचेष्टन्त मनोभवाज्ञया निरस्तनारीसुलभत्रपाः स्त्रियः ॥ २७॥
पथि प्रयान्तं निषधेन्द्रमीक्षितुं समुत्सुका दृष्टिमधःप्रसारिणीम् ।
तिरोदधत्तुङ्गमुरोजयोर्युगं निनिन्द काचिठ्ठलभीगता वधूः ॥ २८ ॥
सह स्थिता जीवितबन्धुना परा निरीक्षितुं निर्भरमक्षमा नलम् ।
तदीयदेहप्रतिमाकितं निजं मुहुर्मुहुः प्रेक्षत रनकङ्कणम् ॥ २९ ॥
नलस्य कान्त्या हृतमानसापरा वधूर्विधित्सुर्मकरी कपोलयोः ।
तमेव शश्वल्लिखती ससंभ्रमं सखीजनैः पार्श्वगतयषिध्यत ॥ ३०॥
कयापि मुग्धाङ्गनया नरेश्वरे प्रयाति वातायनसंमुखात्पथः ।
अपाङ्गयोरुत्पलपत्रदीर्घयोरशिक्षि तिर्यक्चलनेषु चातुरी ॥ ३१ ॥
मृगेक्षणा काचन भावनावशाद्विलोकयन्ती निषधेश्वरं पुरः ।
गतेऽपि तस्मिन्परिलङ्घय दृक्पथं चिराय नैव खगृहं न्यवर्तत ॥ ३२ ॥
वधूदृशौ रञ्जयितुं समुत्सका निवेश्य कालाञ्जनमङ्गुलीमुखे ।
त्वरावशान्तः परिलिप्य गण्डयोर्बहिर्गता कापि जनानहासयत् ॥३३॥
ततः सुधालेपसितं निवेशनं विवेश भीमस्य नलः सुहृद्वृतः ।
ग्रहैः समन्तादुदितैरनुद्रुतं तुषारधामेव शरडूलाहकम् ॥ ३४ ॥
अथोपयन्तुः प्रणयाभिवृद्धये ननाम कन्या गिरिजां गुरोगिरा ।
प्रसाद्य तामेव भृशं समश्नुते वधूजनः श्लाघ्यगुणोऽपि काङ्कितम् ॥३५॥
कुलाङ्गनानामभजद्विधेयतां नलस्तदा माङ्गलिकेषु कर्मसु ।
सतां समाचारमवारितं श्रुतौ श्रुतं प्रपन्ना अपि नोज्झितुं क्षमाः ॥३६॥
काव्यमाला। ततो गतः कौतुकवेदिकान्तरं विदर्भराजेन नलः कृतार्चनः । समाहितान्तःकरणं समादधे हुताशनं तत्र विवाहसाक्षिणम् ॥ ३७ ॥ नलस्य पाणौ विधिवद्वधूकर विधाय यावन्न ददौ जलं गुरुः । परस्परस्पर्शवशात्तदैव तौ बभूवतुः स्वेदजलैः परिप्लुतौ ॥ ३८ ॥ ततो नलस्य प्रतिपादितः करे विदर्भराजेन दमस्वसुः करः । निनिन्द कान्त्या नितरां मनोज्ञया नभखतावर्जितमम्बुजेऽम्बुजम् ॥३९॥ हुताशनस्तावुपशिक्षयन्निव प्रदक्षिणप्रक्रमणं वधूवरौ । भृशं तथैवाभ्रमयन्मुहुर्मुहुर्निजां शिखां लाजहविर्भिरर्चितः ॥ ४० ॥ वधूर्विवाहानलधूमविक्लवा निमीलयन्ती क्षणमीक्षणद्वयम् । चकार कर्णार्पितयोरयत्नतः सपत्नशून्यामसिताजयोः श्रियम् ॥११॥ नरेश्वरे सप्तपदीविधित्सया करेण मैम्याश्चरणं जिघृक्षति । निरीक्ष्य साकूततरङ्गितेक्षणं सखीजनं नम्रमुखी बभूव सा ॥ ४२ ॥ ततः कुमारी गुरुणाभ्युदीरिता समुन्नताक्षी ध्रुवमैक्षताम्बरे । नलस्तु तस्या वदनं विभावयन्नमन्यताभ्याशगतं सुधानिधिम् ॥ ४३ ॥ ततो महार्हासनमेकमास्थितौ वितीर्णदायौ कृतमङ्गलाशिषौ । विलोक्य जामातरमात्मजां च तां मुदं विदर्भाधिपतिः परां ययौ॥४४॥ विदर्भराजात्मजयान्तिकस्थया नलः श्रियं सातिशयामधारयत् । विधुः खभावादपि नेत्रदोहदात्किमुच्यते पौर्णिमया समागतः ॥४५॥ जगुर्यदुच्चैः परिहासपेशलं विलोकयन्त्योऽपि गुरोः कुलाङ्गनाः । ततोऽभिशङ्के निषधेन्द्रमीक्षितुं हियोऽपि तासां हृदयावहिर्गताः॥४६॥ ततः समादाय रविर्दिनश्रियं प्रवृद्धरागश्वरमाचलं ययौ नलश्च पयप्तिमनोरथोदयः प्रियासखः कौतुकमन्दिरोदरम् ॥ ४७ ॥ गिरां विशेषैः परिहासगर्मितैविचेष्टितैश्च सरदर्पदीपनैः । क्रमान्मृद्भावितलज्जया तया निशामनैषीप्रियया समं नलः ॥ ४८ ॥ पुरीं विदर्भामधिसंश्रितं जनं निजैश्चरित्रैरनिशं प्रमोदयन् । उवास तत्रैव दिनानि कानिचिद्दमखसुः प्रेमवशंवदो नलः ॥ ४९ ॥ -
:
रथं समारुह्य
..
७ सर्गः]
सहृदयानन्दम् ।
अथायमामन्त्र्य विदर्यमूभुजं प्रियासहायः शिरसा प्रणम्य च ।
समग्रसैनिकः : पुरं प्रतस्थे पृथिवीपुरंदरः ॥ ५० ॥
पथि पथि स पुराण्यतीत्य गच्छन्व्यतनुत शून्यतराणि तानि पौरैः ।
खविषय""मथिदूर"मेते नहि विदु""तदनुप्रयाणलोलाः ॥ ५१ ॥
भैमीविलोकनमहोत्सवसंभ्रमेण
स्रस्तांशुकैः स्तनभरैमंगलोचनानाम् ।
रथ्यान्तरेषु पुनरुक्तसुवर्णकुम्भ
शीतांशुवंशतिलकः खपुरं विवेश ।। ५२ ॥
इति श्रीसांधिविग्रहिकमहापात्र श्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये नलचरिते
दमयन्तीपरिणयो नाम षष्टः सर्गः।
सप्तमः सर्गः ।
तत्र नैषधमनाहतेन्द्रया भीमराजसुतया सहागतम् ।
मेनिरे गुणविशेषभाजनं नीतियुक्तमिव विक्रमं प्रजाः ॥ १ ॥
अन्वहं नवनवैर्गुणान्तरैस्तावुभौ जनितविस्मयौ मिथः ।
खेलती(?)कुसुमकार्मुकाविव प्रेमवृद्धिमधिकामवापतुः ॥२॥
चापयष्टिरिव शुद्धवंशजा सा गुणेन युयुजे यथा यथा ।
प्रेयसी नरपतेर्दिने दिने नम्रतामुपययौ तथा तथा ॥ ३ ॥
तं कदाचिदुपगम्य भूभुजं भीमराजसुतया सह स्थितम् ।
आयतिं हृदि चिराय चिन्तयन्नित्युवाच वचनं सितच्छदः ॥ ४ ॥
त्वं बृहस्पतिरिवापरः सखे नीतितत्त्वविदुषां पुरःसरः ।
सौहृदं तु मुखरीकरोति मां तेन किंचिदनुशास्मि ते हितम् ॥ ५॥
वारवामनयनामिवावनी रागिताः कति न भुञ्जते नृपाः ।
एक एव निपुणः स गीयते रागिणी भवति यत्र सा पुनः ॥ ६ ॥
स्वेषु शर्मसु समुज्झितस्पृहाः साधवः परहितानि तन्वते ।
मूर्ध्नि धारयति केन हेतुना मेदिनीमनुदिनं फणीश्वरः ॥ ७॥
संपदामधिगमाय कौशलं कस्यचिद्भवति भाग्यशालिनः ।
तादृशः प्रविरलोदयः कृती यस्तु भोक्तुमपि ताश्चिरं क्षमः ॥ ८॥
काव्यमाला। .. मा स्म गाः क्षणमपि प्रमादितां दुर्बलेष्वपि नरेन्द्र वैरिषु । ते हि मत्सरवशंवदीकृताः कैतवेन किल जेतुमीशते ॥ ९ ॥ संपदां समुदयाय भूयसे बीजतां व्रजति रञ्जनं विशाम् । तेन तत्र सततं कृतोद्यमः श्रेयसां भवति भाजनं नृपः ॥ १० ॥ देहिनां सुकृतिनां न दुर्लभाः स्वर्णदीपरिसरेषु केलयः । त्वादृशेन सुहृदा तु संगतिमद्विना जगति केन लभ्यते ॥ ११ ॥ यद्भवेन्न विषयस्तपखिनां यज्वनां च यदतीव दूरतः । प्रीतये मम न तत्पदं विधेर्यत्र नास्ति भवता समागमः ।। १२ ।। किं तु भीरुदयतेऽनुजीविनां खं नियोगमधिगम्य तिष्ठताम् । तेन वोढुमहमम्बुजोद्भवं गन्तुमुत्सुक इवास्मि संप्रति ॥ १३ ॥ तत्र तत्र सुरसिद्धचारणैर्गीयमानममलं यशस्तव । मामक किमपि नोदयिष्यति त्वद्वियोगजनितं मनोज्वरम् ॥ १४ ॥ इत्युदीर्य कृतमौनबन्धनं वाग्भिरेनमभिनन्द्य नैषधः । दोर्युगेण परिषखजे स खं निर्जगाम तदनुज्ञया खगः ॥ १५ ॥ निर्गते सुहृदि खिन्नमानसं तं विनोदयितुमुत्सुकादिव । व्यञ्जयन्निजगुणान्तुस्तदा प्रादुरास सुरभेरनन्तरः ॥ १६ ॥ वीक्ष्य चण्डकिरणस्य रश्मिभिः शुष्यतः क्षितिरुहो निजाश्रयान् । झंकृतेन बहुलेन झिल्लिका मुक्तकण्ठमरुदन्मुहुर्मुहुः ॥ १७ ॥ चञ्चरीकपरिसंनिवेशितैः खैः प्रसूननिकरैर्निरन्तरा । पाटली विगलितच्छदावलिर्नीललोहितमधारयद्वपुः ॥ १८ ॥ मद्भयावहिरलब्धसंश्रयं शैत्यमत्र किल वासरे स्थितम् । इत्यवाप्य किमु रोषमूष्मणा गर्भवेश्म रजनीषु जग्रसे ॥ १९ ॥ शङ्कमान इव तिग्मदीधितेर्दुःसहेन महसा पराभवम् । नोदभार तरसा नवाङ्करं पाटलिश्युतपुरातनच्छदः ॥ २० ॥ वासरे विरतिभाजि मल्लिका किंचिदुच्छसितकुमलानना । सुप्तमातपमयादिव सरं झंकृतैर्मधुलिहामबोधयत् ॥ २१ ॥ १. 'परिषनिषेवितैः' इति पाठः समुचितः. ..
१७ . ७ सर्गः] सहृदयानन्दम् । खेदबिन्दुनिवहैद्विधोदितैरूप्मणः प्रणयिनश्च संनिधेः । आर्द्रतां न विजहौ मृगीदृशामङ्गकेषु धनसारकर्दमः ॥ २२ ॥ अङ्गना इव वियोगविक्लवाः खिद्यमानकमलाननश्रियः । भेजिरे भवनदीषिकास्तदा तानवं नवनवं दिने दिने ॥ २३ ॥ वल्लभैः सह विहारयोग्यतां सुभ्रुवां समुपगन्तुमुत्सुकाः। दीर्घिकाश्चपलमीनराजयो जज्ञिरे तनुतराम्बुसंपदः ॥ २४ ॥ तत्र धर्मसमये विगाढतां याति दुःसहदिनेशरोचिषि । भीमराजसुतया सहाभवत्पार्थिवोऽम्भसि विहर्तुमुत्सुकः ॥ २५॥ नैषधोऽथ जलकेलिकौतुकाद्भूषणैस्तदुचितैः प्रसाधितः । निम्नगामनतिदूरवर्तिनी कांचिदच्छसलिलां जगाम सः ।। २६ ॥ दर्शयन्त्य इव नूतनोदयं सर्गमन्यमबलामयं विधेः । भीमराजतनयापुरोगमास्तं प्रयान्तमनुजग्मुरङ्गनाः ॥ २७ ॥ प्राप्तसैनिकवृतां विदूरतस्तीरयोरुपवनैमनोरमाम् । सैकतेषु मणिहर्म्यगर्भितामाससाद सरितं नरेश्वरः ॥ २८ ॥ अम्बुकेलिरकरोद्यथा यथा मन्दतां वपुषि तापसंपदः । वृद्धिरेव समभूत्तथा तथा सुभ्रुवां मनसि मन्मथोष्मणः ।। २९ ॥ श्लिष्टसूक्ष्मवसनेषु निर्भरं वीचिभिर्विगलितांशुकेषु च । व्यक्तकान्तिषु न किंचिदन्तरं योषितां स्तनतटेवलक्ष्यत ॥ ३०॥ अम्बुकेलिभिरपास्तभूषणाः क्षालिताञ्जनतयारुणेक्षणाः । रेजिरे विलुलितालकाः स्त्रियो मानवृद्धिविधुरीकृता इव ॥ ३१ ॥ कर्णधारतरुणीभिरास्थितं नौविशेषमधिरुह्य कौतुकात् । अन्यभू(अन्वभूत् प्रणयिनीसखः प्रभुस्तत्र वारिणि विहारसंभ्रमम् ३२ वीक्ष्य वीक्ष्य परितस्तरङ्गिणीरामणीयकमनल्पकौतुकः । अन्तरम्बु मणिमण्डपे स्थितः प्रेयसीमिदमिदं जगाद सः ॥ ३३ ॥ भूयोभूयस्तिग्मभानोर्मयूखैरतापोत्सेकं दुःसहं प्राप्य खिन्नाः । छायादम्भादम्बु नादेयमेतद्गाहन्तेऽमी तीरजाः क्षमारुहोऽपि ॥३४॥ ..
काव्यमाला। एतासां तव परिवारसुन्दरीणां सौरभ्यं श्वसितसमुद्भवं पिबन्तः । रोलम्बाः कमलवने नवावतारं वैरस्यं शशिमुखि निर्भरं भजन्ते ॥३५॥ आसां विहाररभसेन परिप्लवानां वामझुवां स्तनतटेषु विचूर्णितोर्मिः । एषा सरित्तव विलोकनमङ्गलाय लाजानिवोरिक्षपति सुन्दरि वारिबिन्दून् ॥ ३६ ॥ आरादस्मत्रासनकूजत्पृथुकण्ठं चक्रद्वन्द्वं चञ्चपुटन्यस्तबिसायम् । लक्ष्म्या लेशेनानुसरत्यत्र तवेदं गाढाश्लेषात्रोटितहारं स्तनयुग्मम् ॥ ३७ ।। गतिं त्वदीयामवलोक्य मुग्धे विलज्जमाना इव राजहंसाः । संबाधमम्भो मदिरेक्षणाभिर्विहाय दूरं तरसा प्रयान्ति ॥ ३८ ॥ मणितानुकारचतुराणि पत्रिणां विरुतानि तीरतरुनीडशायिनाम् । समुदीरयत्यविरला कपोलयोः पुलकावलिः सुमुखि वारयोषिताम् ॥३९॥ तरङ्गवातेन विकीर्यमाणैरम्भःपृषद्भिर्मुषितार्कतापाः। अध्यास्य वानीरनिकुञ्जगभै वैदर्भि कूजन्ति शकुन्तयोषाः ॥ ४० ॥ गगनैकदेशमयमास्थितश्चिरं स्थिरदृष्टिरम्भसि निमज्य सत्वरः । तव सुश्रु लोचनविलासतस्करं शफरं मुखेन दधदुत्थितः खगः ॥४१॥ इयमिह गलदङ्गरागदृश्यं करजपदं स्तनयोस्तिरोदधाना । प्रविशति पयसि वकण्ठ(दने) प्रतरणनैपुणशालिनीव बाला ॥ ४२ ॥ वसुसंपदा नियतमन्त्र विक्रियां तमसः परोऽपि पुरुषः प्रपद्यते अरविन्दबन्धुरपि बन्धुराङ्गि यद्बहतीव गाढमरविन्दमंशुभिः॥ ४३ ॥ आपिञ्जरोभयतटा मृगलोचनाना- मङ्गच्युतेन धनकुङ्कमकर्दमेन । जम्बूरसेन कनकीकृतकूलभागां जम्बूनदीमनुकरोति तरङ्गिणीनाम् ॥ १४ ॥ ।
AL
२
८ सर्गः]
सहृदयानन्दम् ।
मध्ये व्योम्नः क्रीडतश्चण्डभानोर्भासा विश्व(विष्वङ्)मूर्छितेषु च्छदेषु ।
छायां दीर्घा मण्डलीकृत्य मूलं संरक्षन्ति क्षमारुहस्तीरजाताः ॥ ४५ ॥
प्रतिपदमुपदिश्यमानमार्गः क्षितितिलका प्रतिहारपालिकाभिः ।
मणिमयमपहाय केलिहम्य व्यहरत वारिणि भीमजासहायः ॥ ४६॥
अथ मण्डलबन्धनाभिरामं परिवत्रुः परितः प्रभु मृगाक्ष्यः ।
स च मध्यगतो रराज तासां परिवेषान्तरमास्थितः शशीव ॥ ४७॥
श्थांशुके वीचिविघट्टनेन वक्षोजयुग्मे परिणद्धरागम् ।
भैमी मुहुस्तोयलवाभिषेकैय॑मीलयन्नेत्रयुगं नलस्य ॥ ४८ ॥
परस्परं कुङ्कुमवारिसेचनैर्न केवलं तन्मिथुनं शरीरयोः ।
अमोघपातैः कुसुमेषुसायकैः पुपोष रोष (तोष) निबिडं हृदोरपि ॥ १९ ।।
अथ भाखति कुङ्कुमारुणाभे चरमक्ष्माधरचूडचुम्बिबिम्बे ।
अधिरुह्य नलः प्रतीरयं कृतनेपथ्यविधिः पुरं प्रतखे ॥ ५० ॥
अतीत्य सर्वान्नृपतीनुपेतया दिने दिने प्रौढतरानुरागया ।
अरस्त सोऽत्यर्थमनन्यपूर्वया भुवा विदर्भेन्द्रभुवा च नैषधः ॥ ५१॥
आज्ञामप्रतिघातिनीमनुदिनं द्वीपेषु सप्तखपि
प्राज्यं राज्यमनभ्रशीतकिरणज्योत्स्नावदातं यशः।
वैदा सह विभ्रमं त्रिजग ती] यूनां मदोच्छेदिनं
पश्यन्नन्तरसूयया कलुषतां भेजे कलिनैषधे ॥५२॥
पुरंदरपुरःसरेष्वपि सुरेप्वपास्यादरं
खयंवरमहोत्सवे तमवृणोद्यदा भीमजा ।
ततः प्रभृति निर्भरं स हि बभार तस्मिनुषं
परोन्नतिषु मत्सरः सहज एव पापात्मनाम् ॥ ५३ ॥
इति श्रीसांधिविग्रहिकमहापात्र श्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये
नलचरिते निदाघवर्णनो नाम सप्तमः सर्गः ।
अष्टमः सर्गः ।
सहस्राक्षमुखैर्देवैर्निषिद्धोऽपि सहस्रधा ।
पुपोष नैषधे रोष कलिः कलुषिताशयः ॥ १ ॥
काव्यमाला।
अथ तस्यापकाराय निकारं हृदि चिन्तयन् ।
समाधिव्याजमास्थाय किंचिन्मीलितलोचनः ॥ २॥
दग्धस्थाणुरिव श्यामः कृष्णाजिनपरिच्छदः ।
प्राप्तः शरीरसंबन्धं साक्षादिव तमोगुणः ॥ ३ ॥
ज्वालाः क्रोधानलस्येव हृदयान्निर्गता बहिः ।
पद्मकिंजल्कपिङ्गाभाः शिरसा धारयञ्जटाः ॥ ४ ॥
सहायं द्वापरं कृत्वा कलिस्तापसवेषधृक् ।
भ्रातरं निषधेन्द्रस्य प्रपेदे पुष्करं नृपम् ॥ ५॥ (कालापकम्)
इयेष सफलां कर्तुं स तेनैव निजां रुषम् ।
आमयो वैरबन्धश्च कुलजः किल दारुणः ॥६॥
यथाविधि तमभ्यर्च्य पुष्करश्छद्मतापसम् ।
निषण्णमासने वाक्यं विनयादिदमब्रवीत् ॥ ७ ॥
अवैमि पूतमात्मानं दर्शनानुग्रहात्तव ।
न खल्वक्षीणपापानां त्वादृशैः सह संगतिः ॥ ८॥
भगवन्कृतकृत्योऽस्मि त्वत्पादपरिचर्यया ।
तथापि श्रेयसे किंचिन्नियोगं प्रार्थयामि ते ॥ ९ ॥
भूयः प्रणम्य शिरसा रचिताञ्जलिबन्धनः ।
स मुनेः पुरतस्तस्थौ विनयो मूर्तिमानिव ॥ १० ॥
दन्तांशुच्छद्मनान्तःस्थं हर्षमुन्मीलयन्निव ।
पुनः प्रत्यभिनन्द्यैनमाशिषेदमुदाहरत् ॥ ११ ॥
इमां विश्वंभरां देवीं चतुरम्भोधिमेखलाम् ।
अनन्यशासनं शाधि मलप्रसादेन मा चिरम् ॥ १२ ॥
तव सिंहासनस्थस्य पादपीठ दिने दिने ।
नीराजयन्तु राजानचूडामणिमरीचिमिः ॥ १३ ॥
अधमर्णमिवावर्णस्तावद्दषयतीव माम् ।
त्वद्भक्तेः सदृशीं लक्ष्मी यावन्नावर्जयामि ताम् ॥ १४ ॥
८ सर्गः]
सहृदयानन्दम्।
४१
किं तु दोर्दण्डदर्पण निर्जित्य पृथिवीभुजः ।
भुनक्ति पृथिवीं कृत्लामेक एवाद्य नैषधः ॥ १५ ॥
नक्षत्राणीव तिग्मांशोः क्षत्राण्येतस्य तेजसा ।
अन्तरेण रणारम्भं निश्चिनुप्वात्मवैभवम् ॥ १६ ॥
निर्जित्य मदुपायेन निरपायेन नैषधम् ।
दुरासदां समासाद्य श्रियं श्रेयान्कुले भव ।। १७ ॥
पुरा पुरारिमाराध्य प्रसादाभिमुखं ततः ।
विद्याक्षहृदयं नाम मया लब्धा गृहाण ताम् ।। १८ ॥
तदक्षहृदयं नाम विद्धि संपादनं श्रियः ।
विदित्वैतेन दीव्यन्तः संसेव्यन्ते खयं श्रिया ॥ १९ ॥
मादृशानां प्रसादस्य नास्ति पुष्कर दुस्तरम् ।
तथापि पौरुषं किंचिद्राजुल्लक्ष्मीरपेक्षते ॥ २० ॥
इत्युदीर्याभवन्मौनी मुनिवेषाश्रितः कलिः ।
पुष्करस्तु प्रणम्यैनमिदमूचे कृताञ्जलिः ॥ २१ ॥
भगवन्भागधेयानि फलबन्धोन्मुखानि मे।
त्वाहशस्तपसां राशेः प्रसादो यदभून्मयि ॥ २२ ॥
यन्मे स्फुरति कार्येऽस्मिंस्तदायेंणावधार्यताम् ।
नापैति सहसा बुद्धिर्गहना नीतिवर्मनः ॥ २३ ॥
क्षेमं नाक्षविनोदेन निषधेन्द्रस्य वञ्चनम् ।
मृणालेन मदान्धस्य सिन्धुरस्येव बन्धनम् ॥ २४ ॥
धुरि च्छागो महोक्षस्य बालिशेन नियोजितः ।
नैव क्षमेत तां वोढुं केवलं क्षीयते स्वयम् ॥ २५ ॥
फणीन्द्रस्य फणारनं मांसमास्यस्थितं हरेः ।
साम्राज्यं निषधेन्द्रस्य को जिहीर्षति कैतवात् ॥ २६ ॥
मादृशः कैतवेनापि नैषधं यदि जेष्यति ।
तदात्येप्यति दर्पण मृगेन्द्रं मृगवञ्चकः ॥ २७ ॥
४२
काव्यमाला।
..
माद्यन्तः पक्षलाभेन संप्राप्य पदमुन्नतम् ।
क्षुद्राः क्षिप्रं विनश्यन्ति प्रावृषीव पिपीलिकाः ॥ २८ ॥
साहसे वर्तमानस्य विपदः स्युः पदे पदे ।
सदृशं चेष्टमानस्य खयं लक्ष्मीः प्रसीदति ॥ २९ ॥
समारभेत यो वैरं वैरशून्ये बलीयसि ।
सुखसुप्तं स पारीन्द्रं पादाघातैः प्रबोधयेत् ॥ ३० ॥
सिद्धिर्दैववराधीना कर्मणां तत्र कः प्रभुः ।
पश्यन्नप्यसतां मार्ग पुरुषस्त्वेति वाच्यताम् ॥ ३१ ॥
इति निष्पौरुषोन्मेषं प्रेक्षमाणः स पुष्करम् ।
कलिः कलितसंरोधः प्रत्यवोचदिदं वचः ॥ ३२ ॥
नीत्याचक्षुष्मतां याति दृष्ट्यान्धः सरणिं सताम् ।
नीयमानोऽपि बुद्ध्यान्धः संमुह्यति पदे पदे ॥ ३३ ॥
साध्या श्रीः साधनं क्रीडा सिद्ध्यै च प्रतिभूरहम् ।
तथापि तव कातर्यमाश्चर्यं वितनोति मे ॥ ३४ ॥
राजन्यापसदाः केचिद्भवन्ति युधि भीरवः ।
खयं प्राप्तां श्रियं भोक्तुं भीरुरेको भवान्भुवि ॥ ३५ ॥
इत्थमुत्साहशून्येऽपि श्रीस्त्वयि प्रणयोन्मुखी ।
वधूर्बद्धानुरागेव क्लीबे यास्यति हास्यताम् ॥ ३६ ॥
अपि तेजखिनां तेजो वर्धते नोद्यम विना ।
आरूढस्योदयं शैलं रवेः प्रसरति प्रभा ॥ ३७॥
खीकारे मत्प्रसादस्य दुर्लभस्य जगत्रये ।
कुतर्मत्सरीभूय मौर्व्यमाविष्कृतं त्वया ॥ ३८ ॥
मम तोषश्च रोषश्च संकल्पे कल्पभूरुहः ।
सद्य एव फलं धत्ते न कामं(कालं) क्षेप्तुमीश्वरः ॥ ३९ ॥
अदश्चराचरं विश्वं विनिवर्तयितुं क्षमाम् ।
विद्धि मा देवतां कांचिन्नाहं साधारणो मुनिः ॥ ४० ॥
८ सर्गः] सहृदयानन्दम् । : रत्नानामिव पाथोधि गुणानामाकरं परम् । अपथे नैषधं नेतुं मद्विना कस्य साहसम् ॥ ४१ ।। धीराः कीरा इवाम्नायं शृण्वन्ति च पठन्ति च । संमुह्यन्ति मया क्लिष्टास्तदादिष्टानुवर्तने ॥ १२ ॥ शृण्वन्तोऽपि न शृण्वन्ति हितमुक्तं हितैषिभिः । पश्यन्तोऽपि न पश्यन्ति मयाविष्टाः स्थितिं सताम् ॥ ४३ ॥ अहं हृदयमाविश्य निषधानामधीशितुः । तथा संमोहयिष्यामि यथा स्यात्त्वद्वशंवदः ॥ ४ ॥ महान्तोऽपि पराधीनाः श्रेयसः स्युः पराङ्मुखाः । आलानं स्वस्य बन्धाय खयमर्पयति द्विपः ॥ ४५ ॥ तवाभिशरणौत्सुक्यात्प्रहिता विजयश्रिया । दृतिकेवाक्षशारीयं चरिष्यति गृहे गृहे ॥ ४६ ॥ निरुद्धा ताडिताप्येषा तावद्भवति न स्थिरा । सा त्वदीयं करं प्राप्य यावन्नायाति निर्वृतिम् ॥ ४७ ॥ सुहृन्मे द्वापरो नाम कृशानोरिव मारुतः । अक्षानेतानधिष्ठाय श्रेयस्ते साधयिष्यति ॥ १८ ॥ इति व्याहृत्य सहसा रूपं कलिरदर्शयत् । असंस्पृष्टमहीपृष्ठो निरुन्मेषनिमेषदृक् ॥४९॥ तं प्रणम्य कलिं साक्षादक्षांश्चादाय पुष्करः । प्रतस्थे निषधेन्द्रस्य मन्दिरं देवनोत्सुकः ॥ ५० ॥ लुठतां पादयोर्मूले निर्जितानां महीभुजाम् । उपदाः प्रतिगृह्णन्तं दृगन्तक्षेपलीलया ॥ ५१ ॥ बन्दिभिर्गीयमानासु निजकीर्तिप्रशस्तिषु । किंचिन्मीलितपक्ष्मालिं नम्रीकृतमुखाम्बुजम् ॥ ५२ ।। परस्परं जिगीषद्भिविद्वद्भिर्वादकेलिषु । संदेहग्रन्थिभेदाय प्रार्थितावसरं मुहुः ॥ ५३ ।।
काव्यमाला। युधि प्रत्यर्थिवीराणां प्रापितानां सुरालयम् । सचिवैरुपनीतेषु सुतेषु सदयेक्षणम् ॥ ५४ ॥ विध्वस्तविविधाबाधैः पौरैर्जानपदैरपि । उपश्लोकितचारित्रं त्रिदशैरिव वासवम् ॥ ५५ ॥ सेवावसरमासाद्य दौवारिकनिवेदितः । अध्यासीनं सभासद्म नलं प्रेक्षत पुष्करः ॥ ५६ ॥ स्मरतोऽपि कलेराज्ञां प्रसादक्रोधगर्भिताम् । आतन्त्रतोऽपि निकृति पुष्करस्य समुद्यमः ॥ ५७ ॥ अपि प्राप्योन्नतिं दूरादभ्याशे निषधेशितुः । तरङ्ग इव पाथोधेर्बलोद्देशे व्यशीर्यत ॥ ५८ ।। प्रणम्य चरणौ मूर्ना निषधेन्द्रस्य पुष्करः । उपाहरत्तु पाणिभ्यां शारी रत्नविनिर्मिताम् ॥ ५९॥ दृष्टिर्निषधराजस्य रत्नसारीमवाप्य ताम् । वागुरामिव सारङ्गी चलितुं नामवत्प्रभुः ।। ६०॥ इदमन्तरमासाद्य कलिराविश्य नैषधम् । निन्ये विधेयतां सद्यः सादीवारुह्य वाजिनम् ॥ ६१ ॥ कलिनात्मनिविष्टेन निरस्तविनयाङ्कशः । अपथे गन्तुमारेभे मदेनेव करी नलः ॥ ६२ ॥ वार्षिकेणाम्बुपूरेण कासार इव नैषधः । संदूषिताशयस्तेन प्रसादं सहजं जहौ ॥ १३ ॥ प्रभामिव सहस्रांशोश्चरमः पृथिवीश्वरः । निश्चकर्ष कलिस्तस्य बुद्धिं नैसर्गिकीमपि ॥ ६४ ॥ अर्थव्यापार्यकार्येषु सचिवानुचितान्नलः । देवनायोद्यम चक्रे पुष्करेण समं रहः ॥ ६॥ पारं यान्तीव नौरक्तिीरं प्रति नभवता । कलिना पुष्करं निन्ये जयश्री३षधोन्मुखी ॥ ६६ ॥ :
८ सर्गः]
सहृदयानन्दम्।
भैमी च देहयष्टिश्च शून्या भूषणसंपदा ।
दे परं समशिष्येतां निषधेन्द्रस्य दीव्यतः ॥ ६७ ॥
करेणुरिव बद्धैव वारिगर्ने भृशाकुला ।
हृतो छूतेन राजर्षिनिवासं पुष्करेऽकरोत् ॥ ६८ ॥
दोर्दण्डलीलया लक्ष्मी प्रत्याहर्तुमपि क्षमः ।
नैषधः समयाकाङ्क्षी न चक्रे विक्रमोदयम् ॥ ६९ ॥
पुष्करेण जितामूर्ती स्रजं मूर्ध्नच्युतामिव ।
पञ्यामपि न संस्पष्टुमुत्सेहे निषधेश्वरः ॥ ७० ॥
भुवं पुष्करसात्कृत्वा प्रतस्थे काननं नलः ।
न रज्यति मनः प्रायः सतां परपरिग्रहे ॥ ७१ ॥
अद्य निश्चीयतेऽस्माभित्रीडाशून्यं विधेर्मनः ।
यदेष निषधेन्द्रस्य पदेऽर्पयति पुष्करम् ॥ ७२ ।।
गुणानां स्पृहणीयत्वं भजतेऽद्य विपर्ययम् ।
यदस्यैते समेत्यापि न स्थिरां कुर्वते श्रियम् ।। ७३ ।।
योषित्प्रोषितनाथेव जीवनं वोज्झिता तनुः ।
तैस्तैरङ्गैः समग्रापि नगरी नाद्य शोभते ॥ ७४ ॥
नितरामापद्धि नः "कष्टं द्राधीयसायुषा।
यदद्य निषधेन्द्रस्य विरहोऽपि सहिष्यते ॥ ७५ ॥
समभ्युन्नतदण्डेऽपि न्यस्यन्ति पुष्करे पदम् ।
धरित्री सह तेनैव भृशं भङ्गमुपैष्यति ॥ ७६ ॥
प्रत्यग्रा मालतीमाला शुनः कण्ठ इवार्पिता ।
श्रीरियं निषधेन्द्रस्य पुष्करे शोच्यतां गता ॥ ७७॥
नलस्य निर्जितारातेयुधि द्यूते पराजयः ।
जनस्य लचिताम्भोधे!ष्पदे मजनोद्यमः ॥ ७८ ।।
यस्य बाहुतरुच्छायां जगदाश्रित्य जीवति ।
स कथं श्रयतु च्छायां कानने कस्यचित्तरोः ॥ ७९ ॥
४६ काव्यमाला। मृगत्वमपि मृग्यं न तत्र तत्र वनान्तरे । भ्रमणं यत्र यत्रास्य सुलभं स्यादुपासनम् ॥ ८०॥ इत्थं वाचः सचिवनिवहैर्विक्लवैरुच्यमानाः श्रावश्राव सह दयितया निर्गतः सौधमध्यात् । पौरस्त्रीणां नयनगलितैर्निर्भर बाष्पबाणं धारासारैः शमितरजसं राजमार्ग स भेजे ॥ ८१ ॥ इति श्रीसांधिविग्रहिकमहापात्रश्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये नलचरिते निषधेन्द्रवनगमनो नामाष्टमः सर्गः । नवमः सर्गः। ततः समृद्धश्रियमप्यपास्य वनं प्रयास्यन्न शुचं स लेभे । दैवादुपेताखविशेषवृत्ति सतां हि संपत्सु विपत्सु चेतः ॥ १ ॥ तथोन्नतां स्वां पदवीं विहाय वनप्रवेशाय निबद्धरागम् । दिनस्य लक्ष्मीरिव तिग्मभानुं विदर्भजा नैषधमन्वयासीत् ॥२॥ अमुञ्चतां तौ मणिभूषणानि नैसर्गिकी श्रीस्तु न तौ मुमोच । नोपाधिमन्विच्छति यस्तु बाह्यं प्रेम्णां स एव प्रथिमा समग्रः ॥ ३ ॥ निवार्यमाणोऽप्यनुजीविलोकः सिषेविषुः प्रागिव तं प्रपेदे । गुणातिरेकेण वशीकृतानां विपर्ययं याति न जातु चेतः ॥ ४ ॥ राजोचितं वेषमपास्य कृत्स्नमादित्समानौ वनवासयोग्यम् । तौ दंपती वीक्षितुमक्षमेव दृष्टिर्जनस्याश्रुभिरावृतासीत् ॥ ५॥ नीराज्यते यद्विकचांशुपूरैः किरीटरनैर्नमतां नृपाणाम् । रथ्यारजोभिः परुषीकृतं तत्तवाङ्गि-युग्मं तनुते शुचं नः ॥ ६ ॥ अद्य प्रसादः कुलदेवतानां विपर्ययं कस्य कृते प्रयाति । स्पृशन्ति मोघत्वमलब्धपूर्वमाशंसितान्यद्य कथं द्विजानाम् ॥ ७ ॥ मनीषिणां दैवविदां वचःसु विपद्यसे संप्रति संप्रतीतः । विलक्षतां बिभ्रति लक्षितानि शुभाशुभानामपि लक्षणानि ॥ ८ ॥ १. 'सिसेविषुः' इत्युचितम् . 'स्तौतिण्योरेव-' इति षत्वनियमात. ..
..
९ सर्गः]
सहृदयानन्दम् ।
४७
पुण्यक्रियाणां परिणामभाजि फलानि नो काङ्क्षति कोऽद्य हर्तुम् ।
अनन्यभाजोऽपि जनानपास्य त्वं नाथ येनाद्य वनं प्रयासि ॥ ९ ॥
त्वत्पाणिना पालनलालनानामन्तः सरन्तः परिहीनदानाः ।
विषादमेते विनिवेदयन्ति विघूर्णमाननेयनैर्गजेन्द्राः ॥ १० ॥
उदीर्णकर्णाः परिमुक्तशप्पाः क्षितिं खुराग्रेण मुहुलिखन्तः ।
प्रत्याह्वयन्तीव वनं प्रयान्तं द्वेषाखनैस्त्वां निषधेन्द्र वाहाः ॥ ११ ॥
प्रतिष्ठमानं वनवासहेतोस्त्वां वीक्षितुं पौरजनैः समेतैः ।
आकीर्यमाणाप्यभितः पुरीयं शून्येव नाथ प्रतिभासते नः ॥ १२ ॥
कथं त्वमप्यस्य निसर्गजातं वात्सल्यमस्मासु निराकरोषि ।
अस्मानिहोत्सृज्य वनं प्रयान्तमन्त्रेषि यन्निकरुणं नरेन्द्रम् ॥ १३ ॥
तथा तथा कुण्ठय कण्टकानामग्राणि तीक्ष्णानि वनस्थलि त्वम् ।
त्वयि भ्रमन्ती निषधेन्द्रपत्नीं यथा यथा न व्यथयन्ति तानि ॥ १४ ॥
नूनं पुनः पास्यसि नाथ नस्त्वं न दीयतेऽद्यापि हि तेऽनुभावः ।
प्रायोऽशुमानस्तमुदेति भूयः क्षीणोऽपि बृद्धिं लभते सुधांशुः ॥ १५॥
इत्थं गिरः पौरजनैः समेतैर्बाष्पोद्गमव्याकुलमुच्यमानाः ।
यथाभितापाय तयोर्बभूवुरभूत्तथा नाध्वपरिश्रमोऽपि ॥ १६ ॥
आश्वास्य सम्यग्वचनैरुदारैरुदअशोकान्विनिवर्य पौरान् ।
स प्रान्तरं प्राप समं महिष्या रविश्च मध्यं नभसः प्रपेदे ॥ १७ ॥
रवेः करैस्तापजुषां जनानां तापापनोदाय न मेऽस्ति शक्तिः ।
इतीव लज्जाविधुरा तरूणां छाया भृशं संकुचिता बभूव ॥ १८ ॥
अन्तःपुरस्था निषधेन्द्रपत्नी न प्रागियं मा सकृदप्यपश्यत् ।
इतीव जातानुशयो विवखान्भैमी बबाधेऽग्यधिक मयूखैः ॥ १९ ॥
यतो यतश्चण्डरुचिर्मयूखैस्तताप गात्राणि नरेश्वरस्य ।
ततस्ततः खेदवशंवदापि चकार भैमी करमातपत्रम् ॥ २० ॥
उन्मीलयन्तीषु निसर्गरागं विदर्भजायाश्चरणाङ्गुलीषु ।
पथि प्रमृष्टापि भृशं रजोभिरलक्तकश्रीः पुनराविरासीत् ॥ २१ ॥
४८.
काव्यमाला।
।
-
ततो रवेरातपसंभृतैस्तौ धर्मोदबिन्दुस्तबकैश्चिताको
परस्परं वीक्ष्य निकामखिन्नौ निषेदतुः वापि निकुञ्जगहें ॥ २२ ॥
स तत्र भैमीमतिमात्रखिन्नां प्रकामदुर्गामटवीं च वीक्ष्य ।
तां प्रापयिष्यन्नगरी विदर्भामिदं बभाषे वचनं नरेन्द्रः ॥ २३ ॥
शरीरयष्टिर्भवती च नूनमालम्बनं मे हतजीवितस्य ।
तयोस्तु दुःखानुभवाय योग्या पूर्वैव शातोदरि न द्वितीया ॥ २४ ॥
उपस्थिता दुःखपरम्परा मां चिरेण सेवावसरं निरूप्य ।
अद्यापि चेन्मामनुवर्तसे त्वं बाधिष्यते रोषवतीव सा त्वाम् ॥ २५ ॥
वैदर्भि दूर्वाङ्कुरदुर्गमासु पन्यां श्रमन्ती विपिनस्थलीषु ।
त्वं मा कृथाः काननदेवतानां बाप्पाम्बुमोक्षे प्रथमोपदेशम् ॥ २६ ॥
कृतं श्रिया साधु मयानुविष्टा यन्मां परित्यज्य तदैव याता।
वने वने मामनुवर्तमाना त्वं खिद्यसे सुन्दरि कस्य हेतोः ॥ २७ ॥
जातासि वैदर्भि तदैव शोच्या यदावृणोर्मा त्रिदशानपास्य ।
कल्पद्रुमेभ्यो विमुखी लतेव समाश्रिता तीरतरून्स्रवन्त्याः ॥ २८ ॥
वपुस्तवेदं वनवासकष्टैः शिरीषपुष्पं च रवेर्मयूखैः ।
भृशं परिक्लेशयतोर्विधातुरलक्षि चेतः करुणादरिद्रम् ॥ २९॥
तनुस्तवेयं रुचिरा विधातुः स्त्रीसृष्टिशिल्पं सफलीकरोतु ।
इत्थं पुनः क्लेशविशेषयोगाच्चिरार्जितं तस्य यशः क्षिणोति ॥ ३० ॥
चित्रार्पितेभ्योऽपि बिभेषि पूर्व वनेचरेभ्यो दमयन्ति येभ्यः ।
तैरेव साध विहरिष्यसि त्वं कथं पुलिन्दीव वनस्थलीषु ॥ ३१ ॥
सोपानपक्षिप्वपि खेदिनी या मदंसविन्यस्तभुजं प्रयासि ।
सा त्वं कथं मार्गरुधां गिरीणामुल्लङ्घनायोद्यममातनोषि ॥ ३२ ॥
कुतूहलादङ्गनमल्लिकानामुच्छिद्य पुष्पाण्यपि खिद्यते यः ।
फलं च मूलं च वनेषु हर्तुं स एव पाणिः क्षमतां कथं ते ॥ ३३ ॥
वनस्थलीयं मृगयाविहारे सहस्रकृत्वः परिशीलिता मे ।
निरूपितं यन्न मया पुरासीन्न कमप्यत्र पदं तदस्ति ॥ ३४ ॥
९ सर्गः]
सहृदयानन्दम् ।
पुरश्चकोराक्षि विलोकय त्वं य एष दीर्घः सरलश्च पन्थाः ।
सिप्रातरङ्गैः परिरभ्यमाणां पुण्यामवन्तीमयमभ्युपैति ॥ ३५ ॥
तस्यां महाकालकृतास्पदस्य देहार्धतां शूलभृतः प्रपन्नाम् ।
आराध्य गौरी ब्रज दक्षिणाशां दिदृक्षसे चेद्विरिमृक्षवन्तम् ॥ ३६ ॥
खर्वीकृतं कुम्भसमुद्भवेन विलय रेवाप्रभवं नगेन्द्रम् ।
विगाह्य वैदर्भि पयः पयोष्ण्यास्त्वमुष्णमध्वश्रमजं जहीहि ॥ ३७॥
ततः प्रिये नातिदवीयसीषु क्वचित्कचित्काननगर्भितासु ।
स्थलीषु नेत्रातिथितां नयख खुराग्रचिह्नानि तुरंगमाणाम् ॥ ३८ ॥
विषाणिनश्छिन्नविषाणकोणाः शिखण्डिनः खण्डितपुच्छभागाः ।
गोत्रे वराहाः कलितव्रणाश्च यास्यन्ति ते लोचनगोचरत्वम् ।। ३९ ॥
भित्त्वापि सत्त्वान्यविमुच्य वेगं स्कन्धे निमग्नानवनीरुहाणाम् ।
शिलीमुखान्काञ्चनचित्रपुडान्वीक्षख मुग्धे मुखमुन्नमय्य ॥ ४० ॥
पुङ्गेषु तेषां कनकद्रवेण न्यस्ताक्षरं नाम तवाग्रजस्य ।
निवर्तयन्ती वरवर्णिनि त्वं नेदीयसी विद्धि पुरीं विदर्भाम् ॥ ४१ ॥
ततस्तनूकृत्य मनोभितापं पुरीं प्रयान्त्याः कतिचित्पदानि ।
अभ्यर्णमायास्यति कर्णयोस्ते मञ्जीरशिञ्जामधुरो निनादः ॥ ४२ ॥
जिज्ञासमाना प्रभवं तदीयं व्यापारयन्ती नयने समन्तात् ।
खच्छन्दकूजत्कलहंसमालां सरोवरां द्रक्ष्यसि सुभ्र तापीम् ॥ ४३ ॥
तस्याश्च तीरादविदूर एव तपखिनामाश्रमसंनिवेशः ।
संपर्कमासाद्य परस्परं ये खं पावनत्वं परिवर्धयन्ति ।। ४४ ॥
तानभ्युपेत्य प्रयतान्प्रयत्नात्तपोधनानां प्रणिपत्य पादान् ।
प्रत्यचिता तैः कतिचिदिनानि चिरं पथः क्लान्तिमपाकुरुष्व ।। १५॥
त्वां वीक्ष्य वैदर्भि विशुद्धवृत्तां तपखिनस्ते करुणोपपन्नाः ।
संप्रापयिप्यन्ति पुरीं विदी दोभ्या पितुस्ते परिरक्ष्यमाणाम् ॥ ४६॥
अहं तु तीर्थेषु विशुद्धदेहः प्रसाद्य देवं विपरीतवृत्ति ।
कालान्तरे नातिविलम्बभाजि भूयः प्रपत्स्ये भवतीं श्रियं च ॥ ४७ ॥
काव्यमाला। तैस्तैर्गुणैः संवरणाधृतेन त्वत्प्रेमसूत्रेण विकृष्यमाणम् । दुरस्थितस्यापि विधेर्वशान्मे मनस्तु मुग्धाक्षि न मोक्ष्यति त्वाम् ॥४८॥ इत्थं नरेन्द्रस्य गिरो निशम्य निजाभिमूले विनिवेशिताक्षी। बाष्पाम्बुभिः क्लिन्नकपोलपाली विदर्भजा प्राञ्जलिरित्यवादीत् ।। ४९ ॥ धिगस्तु मां वेत्सि नरेन्द्र यस्यास्त्वत्तोऽपि गाढं प्रणयं शरीरे । इत्थं न चेदिच्छसि कस्य हेतोगुहेषु भीमस्य निवासनं मे ॥ ५० ॥ अयि त्वदाज्ञापरिमोक्षजन्मा धुनोतु मामेष नवापवादः । एकाकिनः काननमाश्रितस्य नाराधनं ते परिमोक्तुमीशे ॥ ५१ ॥ पुरार्जितानां बत दुष्कृतानां सुदुष्करं नाम न किंचिदस्ति । वक्ता त्वमासीर्वचसां यदेषामाकर्णयन्ती हतजीविताहम् ॥ ५२ ॥ इति ब्रुवाणैव नरेन्द्रपत्नी विलुप्तसंज्ञा निपपात भूमौ । ततो गिरः शुश्रुविरे समन्तात्कृपावतीनां वनदेवतानाम् ॥ ५३ ॥ नूनं जनः स्वां मतिमुजहाति क्लेशातिभारैरपि पीड्यमानः । वंसद्धनान्तेषु यतस्त्वमीश भैमीवियोगे कृतसाहसोऽसि ॥ ५४ ॥ नब्यो नृपश्रीपरिभोगभङ्गस्ततोऽप्यसह्यो वनवासखेदः । तत्रापि चेद्वा भविता वियोगः सोऽयं क्षते क्षाररजोनिपातः ॥ ५५ ॥ त्वया विना नैषध भीमजेयं कथं प्रपद्येत पुरीं विदर्भाम् । न चन्द्रिका चन्द्रमसं विहाय विहायसि द्योतितुमुत्सहेत ॥ ५६ ।। खदेहयष्टरुपलालनार्थ कथं नु संत्यक्ष्यति भीमजा त्वाम् । को नाम शुक्तेः परिरक्षणाय चिन्तामणिं पादगतं जहाति ॥ ५७ ॥ विपद्तं त्वामपहाय भैमी कथं विदर्भी पुरमभ्युपैतु । काश्मीरमुत्सृज्य निदाघतप्तं छायां तरोः किं शफरी प्रयाति ॥ ५८ ॥ त्वया नराधीश निराकृतापि न मुञ्चतीयं चरणान्तिकं ते । श्रीखण्डभूमीधरमन्तरेण क दृश्यतेऽन्यत्र पटीरवल्ली ॥ ५९॥ १. 'वसन्' इति स्यात्. २. 'काश्मीरं पुष्परमूलम्' इति तु व्यक्तम्.
९ सर्गः] सहृदयानन्दम् । .. तदेषु मास्मद्वचनेषु राजन्ननादरो भूत्सविधेऽस्त्वियं ते । विलोकनेनापि परस्परस्य शोकोर्मयो वां मसृणीभवन्तु ।। ६० ॥ ततो नलः खांशुकपल्लवेन संवीज्य बाप्पाम्बुतरङ्गिताक्षः। क्रमेण संज्ञामुपजग्मुषी तामारोपयन्न इदं बभाषे ॥ ६१ ॥ असह्यमप्यत्र मया यदुक्तं त्वं विद्धि वैदर्भि न मे तदागः । इयं तब क्लेशपरम्परैवं व्यधत्त मौखर्यमिदं त्वदीयम् ॥ १२ ॥ जहासि चेन्नाभिनिवेशमित्थं प्रतिश्रुतं चण्डि तदीप्सितं ते । खमेऽपि नावाभवितुं प्रभुर्मे भीरु त्वदिच्छापरिपन्थिभावः ॥ ६३ ॥ कुलानुरागिण्यपि राजलक्ष्मीनिष्कासिता निष्करुणेन येन । शठः कथं नाम विधिः स एव मैदन्तकस्थां विसहिष्यते त्वाम् ॥६॥ तथापि निर्बन्धवती यदि त्वं मनोरथस्ते सफलस्तदास्तु । अकाण्डचण्डानलनिर्विशेषाः प्रत्यर्थिनः स्युर्यदि नान्तरायाः ॥ ६५ ॥ इत्थं नलस्तामनुशास्स बालामस्ताचलं याति दिनाधिनाथे। आसाद्य शीतं गिरिनिर्झराम्बु दिनान्तसंध्यां विधिवद्यधत्त ॥ ६६ ॥ गुञ्जास्रजः कण्ठतटीजुषोऽपि संगोपयन्ती शबराङ्गनानाम् । विजृम्भयन्ती पिशिताशनानामनभ्रमं बारिषु निर्मलेषु ॥ ६७ ।। निकृन्ततीवोन्मदसारसानां शिरांसि कासारतटाश्रितानाम् । विचूर्णयन्तीव शुकाबलीनां चञ्चूः कुलायदुमसंमुखीनाम् ॥ ६८ ॥ शृङ्गारयन्तीव मतङ्गजानां मुखानि सिन्दूररजोभरेण । पाण्डुच्छदानामिव पल्लचौघमुल्लासयन्तीव महीरुहाणाम् ।। ६९ ।। प्रसूयमानेव जवाप्रसूनैः संवर्धमानेव मुखैः कपीनाम् । बालप्रवालप्रतिमल्लरोचिर्दिनान्तसंध्या जगतीमरुद्ध ॥ ७० ॥ (कालापकम्) कुजेभ्यः शतशो निपत्य पृषतराच्छन्नमूर्वीतलं संध्यासु प्रसृतारुणाभ्रमुडभिः किमीरितं व्योम च। १. 'मदीयम्' इति स्यात्. २. पराभवं दातुम्. ३. 'मदन्तिकस्थाम्' इति तुचितम्, काव्यमाला। काले तत्र दिनक्षपाविरहिते तुल्यामवस्थां गतं वैदा सह नेत्रयोर्विषयतां निन्ये विशामीश्वरः ॥ ७१।। अथ समजनि संध्या भिद्यमाना तमिसै- दरपरिणतजम्बूराजिनीलारुणश्रीः । अविरलमुदयद्भिस्तारकाचक्रवालैः सपदि गगनलक्ष्मीश्चित्रितेवोल्ललास ॥ ७२ ॥ इति श्रीसांधिविग्रहिकमहापात्र श्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये नलचरिते वनपरिभ्रमणो नाम नवमः सर्गः । दशमः सर्गः। अत्रान्तरे धनतमालनिकुञ्जलीनै- निष्पीड्यमानमवलोक्य नभस्तमोभिः । प्राग्वासनावशतया वनवासखेदं विस्मृत्य संभ्रमवतीदमुवाच भैमी ॥ १ ॥ सख्यः कथं कथमहो शशिदीर्घिकाभि- निःस्मारयन्ति मम केलिनिकेतनानि । एतानि कोकिलकदम्बमलीमसानि लुम्पन्तु लोचनपथं परितस्तमांसि ॥२॥ संपादयन्त्वगुरुधूपपरम्पराभिः क्रीडागृहाण्यसितकाण्डपटावृतानि । किं चाम्बरें मणिमयाभरणांशुजालै- रुज्जृम्भितैविरचयन्तु वितानलक्ष्मीम् ॥ ३ ॥ आच्छादयन्तु रजसा घनसारजेन केलीसरःपरिसरं रभसा वयस्याः । अस्मिन्भविष्यति यथा शिशिराबदातै- श्चन्द्रांशुभिः परिचयः पुनरुच्यमानः ॥ ४ ॥ सिञ्चन्तु चन्दनरसैरनुधूपवासं रङ्गाङ्गनानि परितः परिचारयोषाः ।
१० सर्गः]
सहृदयानन्दम् ।
संगीतमङ्गलविधेरवत्तारणाय
सज्जीभवन्तु तरसा निपुणास्तरुण्यः ॥ ५ ॥
इत्थं दिनान्तविधिषु त्वरितां विलोक्य
प्रासादभाजमिव तत्र नरेन्द्रपलीम् ।
अर्चिमिषात्तत इतः स्फुरदोषधीनां
शोकानलं वनभुवः प्रथयांबभूवुः ॥ ६ ॥
इन्दुस्ततोऽन्धतमसाम्बुनिधौ निमग्नं
विष्वक्करैः प्रसृमरैर्जगदुज्जहार ।
भैन्यास्तथा भ्रममुदीर्णमपाचिकीर्षु-
स्तां नैषधश्च गिरमित्थमुदाजहार ॥ ७ ॥
नैसर्गिकं मनसि भैमि निधेहि धैर्य-
मित्थं प्रलापविधुरा पुनरेव मा भूः ।
आरोपितं श्रुतिपथे विपदाकुलानां
मर्माणि कृन्तति सुखं हि पुरानुभूतम् ।। ८ ॥
आमोदसंपदिव चन्दनपादपस्य
शाखाकरैर्दिनकृतः परिपीतसारम् ।
त्वां देवि दुःखनिवहैरभितप्यमानां
नाद्यापि मुञ्चति कथं ननु वासनेयम् ॥ ९॥
अन्तर्दधत्स्फुरदसारकुरङ्गलक्ष्म
बिम्बं विधोः स्फुरति वारिणि निर्झरेऽस्मिन् ।
मध्ये निवेशितकुरङ्गमदाम्बु मुग्धे
ज्योतीरसाश्म रचितं ननु भाजनं ते ॥ १० ॥
श्वेतीकृता सितरुचः किरणैरदूरे
संदृश्यते शिखरिणः शिखरस्थलीयम् ।
सायंतनैर्विचकिलैः परितः प्रकीर्णा
नैषा प्रिये नवसुधा तव चन्द्रशाला ॥ ११ ॥
५४ काव्यमाला। एताः पुलिन्दवनिताः प्रतिजातिपल्ली- राखेटकप्रणयिभिर्दयितैर्नियुक्ताः । वीक्ष्य क्षणं समुचितं परिकर्मणस्ते प्राप्ताः ससंभ्रमपदं न पुनर्वयस्याः ।। १२ ॥ संगीतसद्मसु विभावितरागभेदं नोदीयते सरभसं तव गीतिकाभिः । एष ध्वनिस्तु तलिनोदरि कीचकानां संमूर्छितः श्रवणयोरुपकण्ठमेति ॥ १३ ॥ आकीर्यते सुमनसां विपिनोद्भवाना- मामोद एष मदिराक्षि समीरणेन । आलीजनैस्तव निषिद्धमधुव्रतानां क्रीडागृहाङ्गनभुवां न तु मल्लिकानाम् ॥ १४ ॥ इत्थं वचोभिरसकृत्प्रतिपाद्यमानै- #मी प्रबोधमुपलभ्य न किंचिदृचे । सा केवलं किसलयैर्मृदुलैस्तरूणा- मातस्तरे वसुमती शयनाय राज्ञः ॥ १५ ॥ आपूर्य गर्जितभरेण निकुञ्जगी- नाविर्भवत्यभिमृगं क्षुधिते तरक्षौ । सत्त्वं किमेतदिति भीमजयाभिपृष्टः प्रत्युत्तरार्पणविधौ नृपति डोऽभूत् ॥ १६ ॥ कुर्वत्सु भैरवरवात्तथ फेरवेषु प्रादुर्भवत्सु च पुरः पिशिताशनेषु । कर्णौ च लोचनयुगं च विदर्भजायाः सव्याजमाशु रुरुधे नृपतिः कराभ्याम् ॥ १७ ॥ निद्राविघूर्णितदृशः परिमण्डलानि देहैविधाय परिपुजितपश्चिमार्धे ।
१० सर्गः] .. सहृदयानन्दम् । सौहित्यसंभृतमुदः सुषुपुः स्थलीषु रोमन्थमन्थरचलद्वदनाः कुरङ्गाः॥ १८ ॥ आलोक्य तन्मिथुनमास्थितदौर्मनस्य निश्चित्य निष्फलमिव स्वगुणप्रकर्षम् । अर्थोपभुक्तमधुभिर्मधुपैः सहैव शेफालिकाः सपदि भूमितले निपेतुः ॥ १९ ॥ वाचालिताः प्रति मुहुर्वयसां विरावैः खद्योतराजरुचिभिः कलितप्रदीपाः । तस्मिन्वने प्रतिभये रजनीमशेषा- मारक्षकत्वमनयोरभजनिकुञ्जाः ॥ २० ॥ शून्यं वनोदरमिदं वनितासहायः क्ष्मावल्लभोऽयमिह नाभ्युचितस्य सेवा । इत्थं विचिन्तनपरेव दृशोनलस्य निद्रा निशिक्षणमपि प्रणयं न भेजे ॥ २१ ॥ क्लान्तासि काननभुवः परिलङ्घय भैमि नेत्रे निमीलय मुहूर्तमुपैतु निद्रा । वेत्सि त्वमेव निषधेश्वर यत्किलैषा त्वामेव पूर्वमुपसर्पति मां न जातु ॥ २२ ॥ इत्थं तयोः किसलयास्तरणेऽनुवेल- मभ्यर्थनं विदधतोरितरेतरस्य । दीर्घ प्रजागरमुदीक्षितुमक्षमेव द्रागेव सा परिणति रजनी जगाम ॥ २३ ॥ अत्रान्तरे किसलयास्तरणं विहाय प्रत्यूषकृत्यमखिलं विधिवद्विधाय । क्षोणीपतिर्विमनसं वनवासखेदै- #मी विनोदयितुमित्थमुदाजहार ॥ २४ ॥ ur ५६ काव्यमाला। आलोकमण्डलनिरस्तधनान्धकारं दिक्चक्रवालमवलोक्य पतत्रिणोऽमी। खेच्छाविहारतरलाः परितः प्रयातुं गच्छन्ति कूजितमिषेण कुलायवृक्षात् ॥ २५ ॥ खिन्नानि रात्रिमखिलां विरहज्वरेण प्रातः परस्परविलोकनलालसानि । एतानि चक्रमिथुनानि बिसाङ्कुराग्रं नास्वादयन्ति न पिबन्ति च निर्झराम्भः ॥ २६॥ एतानि सुन्दरि तुषारपृषन्ति भान्ति भानोः करैरभिनवैररुणीकृतानि । गुञ्जाधियाङ्गुलिमुखं विनिवेश्य येषु वैलक्ष्यमाशु कलयन्ति पुलिन्दयोषाः ॥ २७ ॥ एतेऽधिरुह्य शिखराणि महीरुहाणां बालातपग्रहणलोलधियो मयूराः । प्रालेयबिन्दुजटिलान्परिवर्त्य कण्ठां- श्चञ्चपुटैर्विरलयन्ति कलापभारान् ॥ २८ ॥ बालातपे वलितपृष्ठमितः कपीनां कण्डूयनं विदधतामितरेतरस्य । लाङ्कलयष्टिभिरधः परिलम्बिताभि- रेताः प्ररोहजटिला इव भान्ति शाखाः ॥ २९ ॥ पानाय निर्झरजलान्यशनाय काले मूलानि कान्यपि फलानि च पादपानाम् । पत्राणि तल्पविषये दिवसावसाने तौ दंपती जगृहतुर्विपिनोदरेषु ॥ ३० ॥ इत्थं तयोर्विदधतोरितरेतरस्य संभावनैः शिथिलितादशुचोः क्रमेण । :
१० सर्गः] सहृदयानन्दम् । ५७ जग्मुर्दिनानि कतिचित्कुपितः कलिस्तु नैतावतापि परिपूर्णमनोरथोऽभूत् ॥ ३१ ॥ शून्यं तडागमिव तोयसमुद्गमेन वन्ध्यं महिरुहमिव प्रसवोदयेन । खं मत्सरं कलिरनर्थकमेव मेने भैमीसखे चरति राजनि काननेऽपि ॥ ३२ ॥ स द्वापरेण सुहृदा सह मन्त्रयित्वा भेजे विहङ्गतनुमञ्चितहेमपक्षम् । तस्यानुरूपमपरोऽपि वपुः प्रपेदे सख्यं हि तुल्यचरितेषु चिरानुबन्धि ॥ ३३ ॥ तौ पत्रिणी मरकतेन कृतोत्तमाडौ काश्मीरजासुपरिकल्पितकण्ठभागौ । मुक्ताप्रवालमणिनिर्मितपृष्ठपक्षी स्निग्धेन्द्रनीलशकलाङ्कितपुच्छगुच्छौ ॥ ३४ ॥ चञ्चूपुटं च कुरुविन्दमयं दधानौ शेषं वपुः कनककर्बुरितं वहन्तौ । संचेरतुस्तरुषु लोचनगोचरेषु विश्लेषणाय रसिकौ मिथुनस्य तस्य ॥ ३५ ॥ निष्पन्दलोचनमुदञ्चितकर्णशुक्ति स्तोकावलीढनवपल्लवगर्भितास्यम् । तस्थुर्निकुञ्जगहनेषु परिप्लवाङ्ग- माकर्ण्य केलिरसितानि तयोः कुरङ्गाः ॥ ३६ ॥ कौतूहलाद्विहरतोरनयोर्विधूय वेगातिरेकजनितं मरुतोऽपि दर्पम् । पक्षप्रभाभिरभितः परिजृम्भिताभि- राविर्बभूव गगने सुरकार्मुकश्रीः ।। ३७ ।।
काव्यमाला। उत्पत्य दूरमसकृत्परितो दिनेशं लक्ष्य विधाय मणिचित्रपतन्त्रकान्त्या। यद्विम्बमाविरभवत्तदुदीक्ष्य मेने व्योमागनं सपरिवेषमिव क्षितीशः ॥ ३८ ॥ आलोक्य रत्नखचितौ सविधे शकुन्तौ कौतूहलोत्तरलिता महिषी नलस्य । नीवारमुष्टिमवकीर्य तयोः पुरस्ता- दासीदपास्तहृदया विषयान्तरेभ्यः ॥ ३९ ॥ आपातमात्ररुचिरं परिणामभीमं पत्रिच्छलाद्विरचित बडिशद्वयं तत् । धाता प्रसार्य करुणाविमुखः क्षणेन क्षोणीपतेर्नयनमीनयुगं जहार ॥ ४०॥ उत्पश्यतः खगयुगं पृथिवीश्वरस्य वामं विलोचनमधः स्फुरितं व्यधत्त । उत्पत्स्यमानमशुभं च शुभं च नूनं दैवं निवेदयति पुण्यविशेषभाजाम् ॥ ४१ ॥ आप्तेन काञ्चनमयेन विहंगमेन संपादिताभिलषितार्थविशेषकेण । मायामये मणिविहंगयुगे च तस्मि- श्चेतस्तयोरजनि सान्द्रतरानुरागम् ॥ ४२ ॥ आदर्शयोर्विधुतयोः प्रतिबिम्बितस्य भानोः प्रभाव्यतिकराविव चञ्चलागौ । व्योम्नि द्रुमेषु सविधेषु मुहुश्चरन्तौ तौ न ग्रहीतुमवनीतिलकः शशाक ॥ ४३ ॥ कुत्रापि हस्तविषयत्वमिव प्रपन्ना- वन्यत्र किंचिदिव दूरमुपेयिवांसौ ।
११ सर्गः]
सहृदयानन्दम् ।
तौ निन्यतुर्वसुमतीतिलकं सदारं
वन्यान्तरान्यपरिभावितसंचराणि ।। ४४ ॥
इत्थं प्रतार्य नृपतिं च विदर्भजां च
संपन्नकल्पमवधारयतोः खमर्थम् ।
एकस्तयोर्बलभिदः ककुभं प्रपेदे
प्राचेतसीं दिशमगादपरः पतत्री ॥ १५॥
अथ मणिमयपत्रे पक्षिणि न्यस्तनेत्रा
कियदपि दमयन्ती दरमुल्लङ्घय खिन्ना ।
कचिदपि तरुमूले विश्रमार्थ निषण्णा
दयितमनवलोक्य प्राप संभ्रान्तिमन्तः ॥ ४६॥
तस्मिन्मायाविहंगे नयनविषयतः क्षिप्रमन्तर्दधाने
वैदर्भीजीवितेशस्तदनुगमनजं खेदमाशय मोघम् ।
विष्वग्यापार्य नेत्रद्वयमथ सविधे प्रेयसी तामपश्य-
न्मेने चिन्तानिमग्नः सपदि निजवपुर्जीवितेनैव शून्यम् ॥ १७ ॥
इति श्रीसांधिविग्रहिकमहापात्र श्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये
नलचरिते दमयन्तीविप्रलम्भो नाम दशमः सर्गः ।
एकादशः सर्गः ।
अथ सा पथि खेदनिःसहा दमयन्ती चलितुं न चक्षमे ।
प्रियमीक्षितुमिच्छती परं प्रजिघायाशु दृशं दिशो दश ॥१॥
अधुनैव समेष्यति प्रभो(भुः) मणिचित्रं परिगृह्य पत्रिणम् ।
स हि मद्विरहेण दुःसहं क्षणमात्रं मनुते समाशतम् ॥ २ ॥
इति तत्र नरेन्द्रनन्दिनी हृदि निश्चित्य भृशं न विव्यथे।
न विवेद तथातिनिष्ठुरं परिणामं हतधातुरात्मनि ॥ ३॥
निषधाधिपतिस्तु सत्वरं परितः प्रेरितदृष्टिराकुलः ।
परिमार्गयितुं प्रचक्रमे वनराजीषु नरेन्द्रनन्दिनीम् ॥ ४ ॥
किमियं पुरतः प्रयाति मे शकुनेस्तस्य विलोकनेच्छया ।
अथवा स्तनभारपीडिता नितरां पृष्ठत एव तिष्ठति ॥ ५ ॥
काव्यमाला।
यदि वा परिगृह्य तं खगं वचन क्रीडति मत्प्रतीक्षया ।
इति चेतसि चिन्तयंश्चिरं न विनिश्चेतुमभूदलं नलः ॥ ६॥
गगने चरतः पतत्रिणः स्पृह्या यद्दयितामहारयम् ।
किमतोऽप्यधिकं प्रथिष्यते हतभाग्यस्य नलस्य दुर्यशः ॥ ७ ॥
क नु तां विचिनोमि शाखिनां विटपैदृष्टिपथोऽपि मे हृतः ।
पदपतिरपीह नेक्ष्यते तृणगूढासु वनान्तभूमिषु ॥ ८॥
इह केन पथाहमागतः क पुनः संप्रति गन्तुमुत्सुकः ।
इति वेदितुमप्यकोविदः कथमेनां मृगये मृगेक्षणाम् ॥ ९ ॥
मृगयापरिशीलिनोऽप्यलं यदि संमोहवतीह मे मतिः ।
वनवम॑नि तत्कथं नु सा विनिवृत्योटजमागमिष्यति ॥ १० ॥
पशवः प्रतिवक्तुमक्षमास्तरवोऽमी सुतरामचेतनाः ।
कथयिष्यति हन्त कोऽत्र मे पदवीं तां दयिता यया ययौ ॥११॥
इह चेत्परिपालयामि तामपथज्ञा कथमेष्यति खयम् ।
यदि यामि यदृच्छया कचित्कथमेषा नयनातिथिर्भवेत् ॥ १२ ॥
इति तत्र वनोदरे नलः प्रबलश्वासविधूसराधरः ।
सुचिरं परिचिन्तयन्नपि प्रतिपेदे न विधेयनिश्चयम् ॥ १३ ॥
अथ निर्झरशीकरस्पृशा पवमानेन मृदूकृतश्रमा ।
अवलम्ब्य लता शनैः शनैर्विचरन्तीदमुवाच भीमजा ॥ १४ ॥
परिगृह्य पतत्रिणावुभौ त्वमसीति प्रतिपन्नमेव मे।
अनयोः कथमेकमप्यहो दमयन्त्यै ननु न प्रयच्छसि ॥ १५॥
पुर एव नरेन्द्र दृश्यसे विनिगूढार्धवपुलतान्तरे ।
इह दृग्विषये स्थितोऽपि मे प्रतिवाचं न कथं प्रयच्छसि ॥ १६ ॥
अलमेभिरकाण्डकौतुकैरतरुमूलेऽत्र निषीद नैषध ।
चरणौ पथि खेदनिःसहौ तव संवाहयितुं समुत्सहे. ॥ १७ ॥
रजसा परिघूसरीकृतं तुहिनेनेव वपुः सुधानिधेः ।
परिमाटुंमनाः शनैः प्रभो वदनं तावकमेष मे करः ॥ १८ ॥
६
..
११ सर्गः]
सहृदयानन्दम् ।
रविरम्बरमध्यमाश्रितः क्रमशस्ते वलितक्लमं वपुः ।
इदमम्बु गृहाण शीतलं नलिनीपत्रपुटे मया हृतम् ॥ १९ ॥
अधिकुञ्जमिदं शिलातलं शिशिर निर्झरवारिशीकरैः ।
इह ते श्रमशान्तये मया शयनीयं नवपल्लवैः कृतम् ॥ २० ॥
परिहासकुतूहलेन मां यतसे वासयितुं कियचिरम् ।
ननु वञ्चनयानया कथं दयिता सा समया भविष्यति ॥ २१ ॥
यदि वान्यवधूचितं भयं नृपते त्वन्महिषीमपि स्पृशेत् ।
अवधारय लोकवीर तद्भविता तेन विलजसेऽत्र कः ॥ २२ ॥
इति तत्र गिरः पदेपदे निगदन्ती विपिनं विगाह्य तत् ।
कचिदप्यविलोक्य वल्लभं दमयन्ती विललाप विक्लवा ॥ २३ ।।
विपिने चरतोः पतत्रिणोरपराधः कतमः कृतो मया ।
यदिमौ नितरां प्रतार्य मां दयितं मे तिरयांबभूवतुः ॥ २४ ॥
अपि सप्तसमुद्रमुद्रिता वसुधा यस्य भुजेन रक्षिता ।
वनवाससखीमपि प्रियां स कथं रक्षितुमक्षमायते ॥ २५ ॥
कृतवानसि नाथ सांप्रतं हतभाग्यामिह मां यदत्यजः ।
असवस्तु नितान्तनिष्कृपाः प्रतिमुञ्चन्ति न मामकं वपुः ॥ २६ ॥
महतीह विपन्मयेऽम्बुधौ तरिरासीत्त्वदुपासनैव मे ।
विधिनाद्य वियोजिता तया विनिमग्नास्मि वने निराश्रया ॥२७॥
इह मां त्वदधीनजीवितां कथमुत्सृज्य गतोऽसि नैषध ।
करुणापि पणीकृता ध्रुवं नृपलक्ष्मीरिव दीव्यता त्वया ॥ २८ ॥
अपि वीक्षितुमक्षमा परैस्त्वदभिन्नैव पुरा विदर्भजा ।
फणिना त्वगिव त्वयोज्झिता शिशुनाप्यद्य पराभविष्यते ॥ २९ ॥
इह धन्यतमा परं मही कचिदास्ते सहितैव या त्वया ।
भवता रहिता दमखसा नृपलक्ष्मीश्च गताद्य शोच्यताम् ॥ ३० ॥
वसुधे विदधामि तेऽञ्जलिं न सपत्नीति रुषं कुरुष्व मे
कथय प्रभुरशिमुद्रया भवतीं यत्र तनोत्यलंकृताम् ॥ ३१ ॥
१२ काव्यमाला। .. अविषयविपाककजृम्भितं दमयन्त्या किल दुष्कृतं कृतम् । अपि काननवासविक्लवं दयितं सा परिहाय जीवति ॥ ३२ ॥ अयि पाणिग्रहणेन मां प्रियां गमयित्वा सुखिनीषु मुख्यताम् । कथमाशु तपखिनीष्वपि प्रथमोदाहरणत्वमानयः ॥ ३३ ॥ सुकृतं दुरितं च भूपते मम लोकोत्तरमेव दृश्यते । यदहं दयिता तवाभवं परिमुक्ता च वने यतस्त्वया ॥ ३४ ॥ हृदयं मम निर्ममे विधिः कुलिशेनेति मया विनिश्चितम् । यदिदं शतधा न भिद्यते दयित त्वद्विरहामितापितम् ॥ ३५ ॥ परलोकजुषोऽपि वल्लभाननुगच्छन्ति कुलोद्भवाः स्त्रियः । हृदयेश्वरमन्तिके स्थितं महतेऽन्या कतमा विहास्यति ।। ३६ ॥ मम पाणिपरिग्रहः परं समभूत्ते विपदां निबन्धनम् । असते खल सिंहिकासुतस्तपनं दर्शतिथेः समागमे ॥ ३७ ॥ 'तेजसा" 'खलु तिग्मदीधितिः। चरमाद्रिदरीमिवाद्य मां कथमासाद्य गतोऽस्यदृश्यताम् ॥ ३८ ॥ अथ सा नयनाम्बुवीचिभिः प्रसृताभिर्विनिगूढसंचरा । पुनरेव नरेन्द्रनन्दिनी परितस्तद्विचचार काननम् ॥ ३९॥ इतरेतरयुद्धसंभ्रमैमहिषैः क्वापि विकर्दितक्षितिः । विटपैरवनीरुहां कचिद्गजभन्नैः प्रतिरुद्धपद्धतिः ॥ ४०॥ असमाविशीर्णफेरवं जठरेणाजगरेण कुत्रचित् । क्षुधितेन तरक्षुणा कचित्प्रसभं क्रान्तकुरङ्गशावकम् ॥ ११ ॥ क्षुभितर्भमुखोज्झितैरपां पृषतैः क्वापि विकीर्णकुज्झटिः । दवपावकधूममण्डलैः क्वचिदाविष्कृतमेघडम्बरम् ॥ ४२ ॥ मृगराजचपेटताडितैः करिभिः क्वापि विमुक्तचीत्कृतिः । धरणीविवरार्धनिर्गतैः फणिनिर्मोकचयश्चितं पदम् ॥ ४३ ।। इति तत्र भयंकरे वने न भयं प्राप भृशं विदर्भजा । हृदये नवशोकविक्लवे नहि भावान्तरमर्पयेत्पदम् ॥ ४४ ॥ : ..
११ सर्गः]
सहृदयानन्दम् ।
अनिशं प्रियदर्शनेच्छया विचरन्ती परिखेदिनीमपि ।
सदया इव विश्रमाय तां रुरुधुः काननवीरुधः क्वचित् ॥ ४५ ॥
कृतकेशचयग्रहा कचित्कचिदाकृष्टनिचोलपल्लवा।
क च दुर्ललितस्तनान्तरा कुटिलैः काननकुञ्जकण्टकैः ॥ ४६ ।।
पृषतीभिरिवोपशिक्षिता वनराजीश्चरितुं निरन्तराः ।
भ्रमितुं धरणीभृतां दरी जगानामिव शिष्यतां गता ॥ ४७ ।।
अवगाहितुमद्रिनिम्नगाः शफरीणामिव सख्यमाश्रिता ।
जलदाम्बुहिमातपग्रहे प्रतिपन्नेव लतासु बन्धुताम् ॥ ४८॥
फणिभिश्चरणाग्रपीडनादधिगुल्फ वलयत्वमागतैः ।
प्रतिमुक्तपदाङ्गदैव सा विलपन्ती व्यचरत्वचित्कचित् ॥ १९॥
अथ भीमसुतां शठो विधिर्विचरन्ती विपिने यदृच्छया।
महताजगरेण कुत्रचित्प्रतिरुद्ध पथि संन्ययोजयत् ॥ ५० ॥
द्रवतामपसार्य वेधसा कठिनत्वं यमुनेव लम्भिता।
नभसः स्खलितेव कालिका तनुरेतस्य तया व्यलोक्यत ॥ ५१ ॥
अतिदीर्घतया बनेचरैरसमग्रेक्षितभोगवैभवम् ।
महिषौघविषाणतामितैः सुदृढेरप्यकृतव्रता कचित् ॥ ५२ ॥
......."रधिपृष्ठमाचितं रचितं सेतुमिवासितोपलैः ।
समुपाश्रितपार्थभित्तिकं शयनागारधिया करेणुभिः ॥ ५३ ॥
उदरे दरभिन्नकञ्चके परितश्छिद्रसितैर्निरन्तरे ।
वृकशल्लकिजम्बुकैश्चिरं सकुटुम्बैर्गमितं निवासताम् ॥ ५४ ॥
अवलोकयति स्म केवलं पृथुदीर्घाङ्गमुखं विदर्भजा ।
भुजगत्वममुप्य सा पुनर्न विवेदान्तिकमप्युपागता ॥ ५५ ॥
विधिना निधनाय देहिनां विहितं यन्त्रमिवातिदारुणम् ।
सहसा यमसद्मयायिनां विवृतं द्वारमिवागलोज्झितम् ॥ ५६ ॥
विगलद्रलान्धकारितं पवमानग्रहणाय जृम्भितम् ।
अवनीधरकंदरभ्रमा दमयन्ती प्रविवेश तन्मुखम् ॥ ५७ ॥
६४
काव्यमाला।
अथ मृगयुभिरेकः काल्यमानः कुरङ्गः
प्रतिपदमनुयद्भिस्त्रासितः सारमेयैः ।
इषुविहतविशीर्णैः शोणितैः कीर्णवा
पृथुनि वदनरन्ध्र प्राविशत्पन्नगस्य ॥ ५८ ॥
तदनु शोणितबिन्दुभिरङ्कितामनुसृताः सरणिं हरिणस्य ते ।
कलितकर्णशराः सशरासनाः सरभसं शबराः शतशोऽभ्ययुः ॥ ५९ ।।
हा नाथ कुत्र गतवानसि मां विहाय
भूयः करिष्यसि कदा नयनोत्सवं मे ।
इत्थं गिरः प्रतिपदं प्रतिपादयन्ती
भैमी चचार भुजगस्य मुखान्तरेऽपि ॥ ६० ॥
समन्तादाम्यन्ती पृथुलमुरगस्यास्यविवरं
न यावद्वैदर्भी समभजत कण्ठान्तिकमपि ।
किराताः पीनत्वादविचलतनुं तावदपि तं
द्विधा मध्ये चक्रुस्तरुमिव निशातैः परशुभिः ॥ ६१ ॥
इति श्रीसांधिविग्रहिकमहापात्रश्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये नलचरिते
दमयन्तीविलापो नामैकादशः सर्गः ।
द्वादशः सर्गः।
तदनु ते भुजगस्य मुखे स्थितां किमपि लक्ष्यतर्नु सहजश्रिया।
प्रतनुनीलघनान्तरचारिणीं ददृशुरिन्दुकलामिव सुन्दरीम् ॥ १ ॥
समपकृष्य ततस्तलिनोदरी गरलदाहवशागतचेतनाम् ।
व्यपगतासुमिव प्रतिपद्य तां मृगयवोऽपि विषादमुपाययुः ॥ २ ॥
शिशिरनिर्झरशीकरसेचनैः प्रतिमुहुर्विहितैरपि संभ्रमात् ।
चिरतरं रचितैरपि यत्नतः शिखिशिखण्डकदम्बकवीजनैः ॥ ३ ॥
अपि च मन्त्रपदैर्विषहारिभिः शशिमुखीमनुपागतचेतनाम् ।
समपहाय यथागतमेव ते प्रतिययुर्मंगबन्धनलालसाः ॥ ४॥
तदनु कोऽपि तपोनिधिराययौ स्थलमिदं समिदाहरणोत्सुकः ।
अयमलोकत तां पृथिवीपतेः प्रणयिनी पतितामवनीतले ॥ ५॥
१२ सर्गः]
सहृदयानन्दम् ।
यदि परासुरियं वपुषः श्रिया रुचिरया न कथं परिहीयते ।
श्वसिति वा न कथं यदि निद्रया निबिडया परिमुद्रितलोचना ॥ ६ ॥
वपुरिदं भुवनत्रयमोहनं सुहृदिदं मदनस्य नवं वयः।
किमुत घोरतरे विपिनान्तरे निपतितेयमितस्तलिनोदरी ॥ ७॥
यदि तु मोहयितुं यमिनां मनः सुरवधूः प्रहिता हरिणा दिवः ।
विरहिता ललितैः स्मरविभ्रमैरियमुपैति दशां कथमीदृशीम् ॥ ८॥
अपहृता कुटिलैः क्षणदाचरैत्रिदिवतो यदि कापि सुराङ्गना ।
न खलु तैमिलिताकृतिरीदृशी व्यपगतासुरपीह विमुच्यते ॥९॥
पुररिपोर्नयनार्चिषि भस्मतां गतवतो दयितस्य शुचाकुला ।
त्रिषु जगत्सु परिभ्रमणश्रमा वमियं पतिता स्मरवल्लभा ॥ १० ॥
नहि नहि धुसदा करुणावशात्पुनरवाप्तवता रुचिरं वपुः ।
प्रणयिना सह सा भुवनत्रये विहरतीति वदन्ति पुराविदः ॥ ११ ॥
इति वितर्कशतं परिवर्तयन्नपि न तां स मुनिर्निरधारयत् ।
क्रमवशाद्विशदैरथ लक्षणैः किमपि निश्वसितं समभावयत् ॥ १२ ॥
कृतरुषा कलिना हृतसंपदा तत इतश्चरता विपिनोदरे ।
विरहितां दयितेन नलेन तां विषधरस्य विषेण विचेतनाम् ॥ १३ ॥
समधिगम्य समाधिबलान्मुनिर्मनसि खेदमबाप मुहुर्मुहुः ।
परगतामपि दुःखपरम्परां कृतधियो हि निजामिव मन्यते ॥ १४ ॥
पुनरवेक्ष्य तथा पतितां भुवि प्रियतमा महिषीं निषधेशितुः ।
विधिमपास्तकृपं परिभर्स्यन्मुनिरिदं मनसा समचिन्तयत् ॥ १५ ॥
विपदि भग्नमवेक्ष्य जनं जनः प्रभुरपि प्रतिकर्तुमनुद्यतः ।
कुमतिराशु करोति मलीमसं निजकुलं यशसापि समुज्वलम् ॥ १६ ॥
तपसि राज्यसुखेऽपि समाहिते विविधविघ्नकृतां विनिवारणैः ।
नृपतयो मुनयश्च परस्परं विनिमयेन भजन्त्युपकारिताम् ॥ १७ ॥
इति विचिन्त्य मुनिपतेः प्रियामभिषिषेच जलैरभिमन्त्रितैः ।
तदनु चेतनया च शुचा च सा युगपदेव बभूव समन्विता ॥ १८ ॥
काव्यमाला।
चरणयोः प्रणतां स विदर्भजां समभिनन्ध तपोनिधिराशिषा ।
विगलदस्रुतरङ्गितलोचनामिदमुवाच सुधामधुरं वचः ॥ १९ ॥
अयि कुरुष्व कृशोदरि मा शुचं विधिरभूत्करुणासुमुखस्त्वयि ।
विचरतोऽपि वने हि यदृच्छया त्वमसि यन्मम दृक्पथमागता ।। २० ॥
त्वमसि यस्य तनूदरि वल्लभा वनमिदं च यथागतवत्यसि ।
समधिगम्य समाधिबलादिदं मम मनः सुतरां परिदूयते ॥ २१ ॥
तदिह मेऽस्ति तपश्चिरसंचितं किमपि तेन नलः सुलभोऽस्तु ते ।
क्षितिमिमां च समुद्धृतकण्टकां समनुशास्तु चिरं मुदितस्त्वया ॥ २२ ॥
अनुपलब्धपदं विविधैर्भयैः सुलभमूलफलं विमलोदकम् ।
कमभृतां क्लमभेदनमाश्रमं समवलोकय मामकमग्रतः ।। २३ ।।
इह दिनानि कियन्त्यपि विश्रमं विदधती भवतीमवनीन्द्रजे ।
सकरुणैर्मुनिभिः कृतशासनाः परिचरन्तु तपोनिधिकन्यकाः ॥ २४ ॥
इति मुनेर्वचसापि नृपात्मजा न हृदयं विदधे किल विश्रमे ।
सुखिनि दुःखिनि वा दयिते दशां तदुचितामनुयान्ति पतिव्रताः॥२५॥
अवितथं परिचिन्त्य वचो मुनेर्निजमवेक्ष्य च भाग्यविपर्ययम् ।
किमपि कन्दलितां दलितां पुनर्निजमनोरथसिद्धिममस्त सा ॥ २६ ॥
अथ मुनिं प्रणिपत्य विदर्भजा विदधती विपिनेषु विगाहनम् ।
पथिषु यद्यदवैक्षत विक्लवा सपदि तत्तदुपेत्य जगाद सा ॥ २७ ॥
स्थगयति त्रिदिवं शिखरोन्नतिर्धरणिमावृणुते परिणाहिता ।
स्पृशति मूलमधोभुवनं ततः किमपि नाविदितं त्रिजगत्सु ते ॥ २८ ॥
स्थिरतया स्थितिहेतुतया भुवः प्रथितवंशतयोन्नतिमत्तया ।
अमितसत्त्वतयाप्यनुयासि यं क्षितिधरेन्द्र वद क स नैषधः ॥ २९ ॥
अपि मनःशिलया घटितं गिरे तव वपुर्विषमं कठिनं च यत् ।
विफलमेव करिष्यसि तन्मम प्रियतमस्य निवेदनमीप्सितम् ॥ ३०॥
यदपि मामवलोक्य गिरेस्तटादिह समागमवत्यसि निम्नगे ।
तदपि सेत्स्यति मे त्वयि नेप्सितं न खलु वाक्पटुतास्ति जडात्मनाम्॥३१॥
१२ सर्गः] सहृदयानन्दम् । ६७ ............ गिरितटादिह संप्रति निम्नगे ध्रुवमुपागतवत्यसि मत्कृते । तदपि मे प्रथयिष्यसि न प्रियं प्रकृतिवक्रगते करुणा कुतः ॥ ३२ ॥ अयि मृगेन्द्र निवेदय मे प्रभु ""। सपदि वा यदि वा जननान्तरे परिचरामि पुनर्निषधेश्वरम् ॥ ३३ ॥ हरिण मां दयितं परिपृच्छतीमपि कथं प्रतिवक्षि न किंचन । ध्रुवमिमं मृगयत्सु कृतागसं स्मरसि तेन मनः कलुषं तव ॥ ३४ ॥ जनपदेषु विहृत्य विहंगमानुपगतान्निशि पृच्छत मे पतिम् । यदि न ते कथयन्ति तदाशु तान्विटपतो विनिपातयत द्रुमाः ॥३५॥ त्वमनुरागसमृद्धिमिमां परं वहसि कीर मुखे न तु चेतसि । परुषवागपि नोत्सहसे यतः स्फुटमुदन्तमुदीरयितुं प्रभोः ।। ३६ ॥ इति प्रलापानसकृद्वितन्वती विगाह्य शैलांश्च वनोदराणि च । दिनावसाने कृतविश्रमं कचिद्ददर्श साथै वणिजां विदर्भजा ॥ ३७ ॥ जनतां विलोक्य सुचिरेण तत्र सा नयने निवेश्य दयितेक्षणाशया । अविदूर एकतरुभिस्तिरोहिता निषसाद भीमतनयावनीतले ॥ ३८ ॥ अथास्तसंस्थे मृदुधाम्नि भानौ निरन्तरे तन्न वने निकुञ्जे । अदृष्टपारस्तिमिराम्चुराशिर्वेलामतिकाम्य समुज्जजृम्भे ॥ ३९ ॥ आलोकसंपत्तिरुवास तुङ्गे चकार निम्ने पदमन्धकारः । परस्परस्पर्धितया तदानीमकारि ताभ्यां जगतो विभागः ॥ ४० ॥ दरीषु येषामवनीधराणां लब्धोदयस्तानपि जनसे यत् । तेनैव कृत्वं चरितं खलानां गाढोऽन्धकारस्तुलयांबभूव ॥ ११ ॥ रन्ध्रषु प्रथमं प्रविश्य तदनु प्राप्य स्थलीषु स्थिति छिद्राण्याशु तिरोदधत्कवलयत्तुङ्गांस्ततः क्ष्मामृतः । विष्वक्प्रौढतमं तमो जगदिदं स्मर्तव्यतां प्रापय- व्याचक्रे चरितं युगान्तसमयोटेलस्य वारांनिधेः ।। ४२ ।। विधिरतनुत सृष्टिं दृष्टिशून्यां किमन्यां व्यरचयदथवैनां रूपसंपत्तिहीनाम् ।
काव्यमाला। .. इति जगति विवेक्तुं कोविदः कोऽपि नासी- दलिकुलमलिनाभैरुन्मिषद्भिस्तमोभिः ॥ ४३ ॥ भूयोभूयो वर्मसंबाधखेदा जे निद्रां दुःसहः पान्थसार्थः । शोकोर्मीभिर्बोध्यमानानुवेलं निर्निद्रासीत्केवलं राजपत्नी ॥ ४४ ॥ नीलाम्भोरुहिणीकलिन्दतनयातोयप्रसूनैरिव खैरङ्गैर्मलिनैस्तदन्धतमसं संम्लापयन्ती भृशम् । उत्क्षिप्तः क्षितिरेणुभिः कलुषतां संप्रापयन्ती नभः स्पर्शनारुजती तरून्करिघटा वात्येव तत्राययौ ॥४५॥ अभ्यर्णे कुलमवलोक्य कुञ्जराणां क्रोशन्त्यामसकृदपि क्षितीन्द्रपन्याम् । अध्वन्याः कतिपय एव बोधमापुर्दुर्वारं विधिविहितं हि देहभाजाम् ॥४६॥ असंयमितमूर्धजानविशदखरान्निद्रया स्खलच्चरणपल्लवान्विकृतवेषमुत्तिष्ठतः । विलोक्य पथिकानिभाः सभयरोषमुजम्मितै- यधुः सपदि चीत्कृतैः क्षुभितसत्त्वमाराद्वनम् ॥ ४७ ॥ अध्वक्लान्त्या निःसहाङ्गं प्रसुप्तास्ते वैदा सत्वरं बोध्यमानाः। यात्रा यत्नेनाशु संप्रेर्यमाणैर्निद्रां दीर्घा प्रापिताः केऽपि नागैः ॥ १८॥ रोषोत्सेकवशादुरांसि चरणैराक्रम्य केषामपि प्रोच्छिद्याग्रकरे शिरांसि करिणो दूरं समुच्चिक्षिपुः । शाखासंधिषु लमकेशनिचयैरस्रच्छटाभिप्लुतै- रासन्परिणामिभिः फलभरैः पूर्णा इवोरुिहः ।। १९॥ पान्थाः केचिद्दलितवपुषः कुञ्जराणां विषाणै- रस्रोदारं सपदि मुमुचुर्जीवितैः सार्धमेव । भूयो भूयः सरभसपदाक्रान्तिभिश्चर्णपेषं निष्पिष्टानाः कतिचिदपरे भेजिरे पेचकत्वम् ॥ ५० ॥ निद्रयाथ तमसा च विक्लवाः केचिदन्धितदृशः पदेपदे । क्वापि विश्रमपदं न भेजिरे कुञ्जकुञ्जरविचेतनाक्षमाः ॥ ५१ ॥ - १३ सर्गः] सहृदयानन्दम् । छिन्नार्धाङ्गान्पल्लवैः पादपानामुत्तुङ्गानामग्रशाखासु लीनान् । त्रासान्मौनं संश्रितानध्यगच्छन्निश्चित्यान्ये वानरा वा नरा वा ॥ ५२ ॥ इत्थं तत्पथिककुलं प्रमथ्य यूथे नागानां गतवति ये हतावशिष्टाः । प्रातस्ते विपदि तथा कृतोपकारां वैदर्भी प्रणतिभिरर्जयांबभूवुः ॥५३॥ अथ सुचिरमसौ परिभ्रमन्ती वनभुवि कान्तमवीक्ष्य खिद्यमाना । पथि पथि पथिकाननुप्रयान्ती पुरमविशत्पृथिवीपतेः सुबाहोः ॥ ५४॥ अथ तत्र पुरे परिभ्रमन्ती जननी प्राप्तदया नृपस्य तस्य । शुभलक्षणलक्षितानुभावां तनयां खामिव पालयांबभूव ॥ ५५ ॥ अथ चरैर्विनिवेदितलक्षणां विरहवेदनया विधुरां सुताम् । द्रुतमुपेत्य विदर्भमहीपतिर्गमयति स निकेतनमात्मनः ॥ ५६ ॥ लावण्यमात्रपरिशिष्टवपुः प्रयत्नादृष्टापि सा विरहिता निषधेश्वरेण । अन्त्या कलेव शशिनस्तिमिरं समग्रं शोकं पितुः शमयितुं क्षमतां न भेजे॥५॥ अन्वेषणाय निषधाधिपतेः समन्ता- हृतान्यतीतवचसः प्रजिघाय भीमः । भैमी तु तस्य भवने खजनैर्वृतापि बन्दीव बाष्पकलुषा दिवसाननैषीत् ।। ५८ ॥ चिरं चरन्नपि विपिने न विव्यथे विदर्भजां सविधगतां विलोकयन् । तया पुनर्विरहमवाप्य जीवितं क्षणार्धमप्यमनुत निष्फलं नलः ॥ ५९॥ इति श्रीसांधिविग्रहिकमहापात्रश्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये नलचरिते वैदर्भीविदर्भानुप्रवेशो नाम द्वादशः सर्गः समाप्तः । त्रयोदशः सर्गः। अथ चेतसि शोकवेगभाजि स्थगिते दृष्टियुगे च बाष्पपूरैः । श्रुतवानपि नैषधश्चिराय प्रतिपेदे करणीयमूढभावम् ॥ १ ॥ बहु तत्र विलप्य बाष्पवारां पृषतैनिष्पतितैर्वनस्थलीषु । नवमेघजलाभिषेकतः प्रागपि सौरभ्यमुदैरयन्नरेन्द्रः ॥ २ ॥ अथ तत्र कदापि वाति वाते रविरश्मिप्रकरैः प्रकामतप्ते । उदभूद्विपिने मिथस्तरूणां विटपाघट्टनसंभवः कृशानुः॥ ३ ॥ imes काव्यमाला। .. अनतिप्रसृतेऽभितः कृशानौ गगनाअस्पृशि धूमचकवाले । ननृतुः क्षणमुन्मदाः सकेकं नवमेघोदयशङ्किनो मयूराः ॥ ४ ॥ विटपानवनीरुहां कृशानोः स्पृशतीष्वग्रशिखासु लोहितासु । सुरभेरुदयं विनापि वन्या परितः पुष्पितकिंशुकेव रेजे ॥ ५ ॥ कुसुमान्यपहाय पादपानां भ्रमरैर्धूमसमाकुलैः पतद्भिः। तरसैव शिखाङ्कुराः कृशानोरसकृन्निर्गलदञ्जना इवासन् ॥ ६ ॥ लिलिहुर्विरला मुखैश्चकोराः पततोऽङ्गेषु समन्ततः स्फुलिङ्गान् । अपरे त्वभिपत्य संहतास्तान्कृतरोषा इव भस्मसाद्वितेनुः ॥ ७ ॥ रुरुधुर्गगनं शिखाः कृशानोरुपरि व्याततसान्द्रधूमसंघाः। अवलीढधनानि काञ्चनाद्रेः शिखराणि द्युतिभिर्विडम्बयन्त्यः ॥ ८॥ अपहाय कुलायकुञ्जगर्भान्पततामुत्पततां दिधक्षयेव । सह धूमचरैर्विजृम्भमाणा सपदि व्योम ललविरे दवोल्काः ॥९॥ भृशमाकुलतामुपेत्य धूमैर्विविशुः क्ष्माधरकंदरेषु सिंहाः । अपि तेषु हविर्भुजि प्रविष्टे पुटपाकं झटिति प्रपेदिरे ते ॥ १० ॥ विवरैरुपसृत्य कंदरायां ज्वलति ज्वालिनि तत्र चित्रभानौ । घनघूममये महान्धकारे गिरिरुल्कामुखवञ्चलोकि कैश्चित् ॥ ११ ॥ चमरान्परिधावतः समन्ताद्वनवीथीषु नितान्तमार्तिभाजः । सरलायतचामरप्रसङ्गाननुधावन्निव पावकश्चकाशे ॥ १२ ॥ अपि तीर्णवतां रयातिरेकाद्वनराजिः परितः प्रदह्यमाना । परिणाहिषु चामरेषु लग्ना चमराणामनलः सुदुस्तरोऽभूत् ॥ १३ ॥ परितः पवनेन कीर्यमाणान्क्षपयन्तः करशीकरैः स्फुलिङ्गान् । अभितापभृतोऽपि वारणेन्द्राः क्षणमासन्वनचारिणां शरण्याः ॥ १४ ॥ सहसा द्रवणाक्षमांस्तनूजांश्चरणैः खैः परिवार्य गोपयन्त्यः । पृषतीः परिमन्थरं वजन्तीः सह तैरेव ददाह कृष्णवा ॥ १५॥ अधिभूधरसानु विद्रुतानां परितः शल्लकिनां शरीरलमः । प्रतिशल्लकशेखरं प्रसर्पन्नपि सप्तार्चिरसंख्यकार्चिरासीत् ॥ १६ ॥ .
१३ सर्गः]
'सहृदयानन्दम् ।
निजपल्लवभक्षणापराध परिचिन्त्येव महीरुहः सरोषाः।
प्रतिरुध्य लताभिरग्रशृङ्गे पृषतानुत्पति(त)तोऽनये वितेरुः ॥ १७ ॥
न शरीरभृतां परं कृशानुः प्रसरन्नाशु जहार जीवनानि ।
सरसां सरितां च तीरकक्षे परिसर्पन्क्रमशस्तथैव चक्रे ॥ १८ ॥
सरितामविभावनीयरूपं सहसाविश्य जहार जीवनं यत् ।
अतएव बभार काननामिः समदाभूतपदाभिधां यथार्थाम् ।। १९ ।।
अपि पल्वलमुल्बणं सषौघं परितापातिशयं तथा जगाम ।
इह कोलकुलं विविग्नमग्नेर्बिलमनं न प(य)थोजगाम जीवत् ॥ २० ॥
दरदग्धवराहदेहजातैः परिदिग्धानि भृशं वसाप्रवाहैः ।
विपिनानि समश्नु(भ)तः कृशानोरुपदंशत्वमगुः पुलिन्दपल्यः ॥ २१॥
सविधे परिधावतः कुरङ्गान्न किराताः शरलक्ष्मतामनेषुः ।
दवपावकजातसंभ्रमाणां शबरीणां परिरक्षणैकतानाम् ॥ २२ ॥
धवलीकृतमूर्तयः समन्तादवकीर्णैः पवनेन भस्मजालैः ।
गिरयोऽस्थिचया इवावशिष्टाः समभूवन्परिदग्धकानना[ना]म् ॥ २३ ॥
इति तत्र चिराय दह्यमाने विपिने भूमिपतिर्विगाढशोकः ।
विललाप विदर्भसंभवायामपराद्धं ज्वलनस्य शङ्कमानः ॥२४॥
अवलोक्य शिखाशतैः करालं प्रसरन्तं परितः कृशानुराशिम् ।
दमयन्ति मया शठेन मुक्ता कमरण्येषु करिष्यसे शरण्यम् ।। २५ ।।
ज्वलनस्य विवाहसाक्षिणोऽपि भ्रमणेनासि पुरा नितान्तखिन्ना ।
मृदुलाङ्गि कथं नु संप्रति त्वं वनवढेर्विषहिष्यसेऽभितापम् ॥ २६ ॥
दयिते तव विप्रयोगजन्मा ज्वलनो मां प्रबलश्चिरादधाक्षीत् ।
अधुनाभ्यधिकं करिष्यतेऽसौ किमिवा[यं] वनपादपप्रसूतः ॥ २७ ॥
तव सुन्दरि विप्रयोगजन्मा हृदि योऽयं मम जृम्भतेऽनुवेलम् ।
उपगन्तुमपि स्फुलिङ्गभावं शिखिनस्तस्य शिखी न कल्पतेऽसौ ॥२८॥
विपिनानल धन्यतामुपैषि क्षणमात्रेण दहर्नान्यमूनि ।
घिगिमं विरहानलं वपुर्मे ग्लपयत्येव निनीपते न निष्ठाम् ॥ २९ ॥
७२
काव्यमाला।
इति मात्रमुपेयुषा समीपं विधिदोषानितरान्दवीयसोऽपि ।
अनलेन नलेन वाद्य बाले नियतं जीवितसंशयं गतासि ॥ ३० ॥
दमयन्ति मया विचुम्बनादि सरलीलावसरेषु यान्यकार्षीः ।
प्रथयिष्यसि तानि सीत्कृतानि त्वमिदानी बत पीडिता स्फुलिङ्गैः॥३१॥
मुकुलीकृतदीर्घपक्ष्मलाक्षं स्मरसंदर्भभुवा परिश्रमेण ।
श्रमवारिलवाभिषिक्तभालं स्मरणीयं बत तन्मुखं तवासीत् ॥ ३२ ॥
अभिरूषितहेमकुम्भकान्त्योः परिणाहिस्तनयोः परिस्फुरन्ती ।
अवलोक्य हुताशनस्य हेतीध्रुवमायास्यसि संभ्रमातिरेकम् ॥ ३३ ॥
विपुलस्तनभारपीडितापि क्षणमुत्सृज्य मतिं निसर्गमन्दाम् ।
व्रज सुन्दरि सत्वराज्रिपातं प्रसरत्येष समन्ततः कृशानुः ॥ ३४ ॥
स्खलदनि विशीर्णकेशबन्धं परितः प्रेरितदृष्टि विद्रवन्ती ।
वनराजिषु वीक्ष्य वीक्ष्य वहि दयिते यास्यसि कीदृशीमवस्थाम् ॥३५॥
यदि सत्यगिरो दिवौकसः स्युर्यदि चेतो मम तेषु निर्विकारम् ।
खमनोरथलङ्घनापराधं दमयन्त्याः स्मरतात्तदेष नामिः ॥ ३६ ॥
इति तत्र वनोदरे नरेन्द्रं विलपन्तं मुनिशापबद्धदेहः ।
मनुजोचितया गिरा बभाषे भुजगः कोऽपि दवाग्नितापखिन्नः ॥ ३७॥
अविषातमेन दह्यमानं मुनिशापेन दवाग्मितेजसैव ।
अभिरक्षतु मां महीसुधांशो तव कारुण्यमयः सुधाभिषेकः ॥ ३८ ॥
अकृतोपकृतावपि क्षितीन्दो त्वयि दृष्टे मम कोऽप्यभूत्प्रमोदः ।
अविसृष्टजलेऽपि वारिवाहे जगदाश्वासमुपैति धर्मतप्तम् ॥ ३९ ॥
इति वाचमनुव्रजन्नरेन्द्रः फणिनं मण्डलितं क्षितौ ददर्श ।
कर विच्युतककणोपमानं वनलक्ष्म्याः शिखिशङ्कया द्रवन्त्याः ॥ ४० ॥
अथ देशभयादिवापमुक्तः सविधेऽपि ज्वलता हुताशनेन ।
सदयं परिपृष्टशापहेतुं पृथिवीन्द्रं पुनराह पन्नगेन्द्रः ॥ ४१ ॥
चतुराननसंभवो महर्षिर्मयि रोपं कृतवान्कुतोऽपि हेतोः ।
इह मामरुजगिरा स तावत्तव राजन्न करान्स्पृशामि यावत् ॥ ४२ ॥
.. १३ सर्गः] सहृदयानन्दम् । क्रमशः परिहीयमाणकान्तेः स्फुटतीवैशम[णिः] फणागतो में । अभितापमवाप्य दाववहेरसवः कण्ठतटान्तरे लुठन्ति ॥ ४३ ।। प्रतिसंगरसीम्नि वैरलक्ष्म्याः प्रसभाकर्षणकर्मकर्मठेन । नय मां गणयन्पदानि राजन्नरुणाम्भोरुहचारुणा करेण ॥ ४४ ॥ अहमसि पतिर्महोरगाणामिह कर्कोटक इत्युदीर्यते यः । दशमे तु पदे नरेन्द्र नूनं भवतः श्रेयसि निर्भरं यतिष्ये ॥ १५॥ गणनां विदधन्नलः पदानां स्फुटवणे यदसौ दशेत्यवादीत् । अवलम्ब्य तदेव दन्दशूकः करमेतस्य ददंश दक्षिणं सः ॥ ४६ ॥ नृपतिर्भुजगेन दष्टमात्रः कमनीयां सहजामपास्य कान्तिम् । उपरक्त इवामृतांशुरासीत्तरसैव प्रतिपन्नवर्णभेदः ॥ १७ ॥ अथ वीक्ष्य तनोस्तथा विकार परिदंशं च विचिन्त्य निर्निमित्तम् । नलमास्थितवैमनस्यमूचे वपुरासाद्य स दिव्यमाशु नागः ॥ ४८॥ इदमप्रियवन्मया कृतं यन्नृपते यास्यति तत्तव प्रियत्वम् । प्रथमं कटु भेषजं निपीतं परिणामे हि सुधारसत्वमेति ॥ १९ ॥ नगरे नगरे क्षितीश्वराणां निषधाधीश चिरं चरिष्यसि त्वम् । तदमी युधि निर्जिताः कथं त्वां विषहेरन्नवलोक्य निःसहायम् ॥५०॥ अवलम्ब्य नयं गुरुप्रणीतं सततं रन्ध्रनिरूपणप्रवीणाः । प्रभवन्ति परे पराभवाय प्रबलानामपि दुर्बलाः क्षितीन्द्राः ॥ ५१ ॥ अधुना तु रिपूंस्त्वमेक एवं युधि जेतुं सहितानपि क्षमोऽसि । न भजेः परिपन्थितां यदा ते दमयन्तीविरहानलो बलीयान् ।। ५२ ।। इति चिन्तयता मया चिमुक्तं विषमेतत्त्वचमेव संस्पृशंस्ते । असितागुरुलेपनिर्विशेषां वपुषः श्यामलतामिमां व्यधत्त ।। ५३ ॥ अपि नीतिविदं नरेश्वर त्वां कितवं यस्त्रिदशाधमश्चकार । अधुनापि शरीरमाविशन्तं गरलं वक्ष्यति मामकं तमेव ।। ५४ ।। अधुना त्वचि भाव्यपूर्वरूपः सविधस्थैः खजनैरपि त्वमासीः । ब्रज़ निष्प्रतिबन्धमाशु राजन्नृतुपर्णस्य नृपस्य संनिकर्षम् ॥ ५५ ।।
काव्यमाला। भुवनत्रयलुण्ठनापराधाद्दशकण्ठं रणलीलया जिघांसुः । जगतः प्रभवोऽपि यस्य वंशे प्रभवं खस्य हरिः पुरा व्यधत्त ।। ५६ ॥ कृतमस्य गुणान्तराविधानैस्तव सख्योचित एष राजचन्द्रः। उपगन्तुममुष्य सारथित्वं सहसा याहि विभो पुरीमयोध्याम् ॥ ५७ ॥ अवलोक्य कलासु कौशलं ते निजदेहादधिकं स मंस्यते त्वाम् । निवसनिह मेदिनीसुधांशो दमयन्तीमचिरेण लप्स्यसे त्वम् ।। ५८ ।। उपयास्यति लोचनातिथित्वं पृथिवीनाथ विदर्भजा यदा ते । अपहातुमिमं वपुर्विकारं परिधेहि त्रिदशांशुके तदैते ॥ ५९ ॥ इति वाचमुदीर्य नागराजः सुरयोग्यं वसनद्वयं वितीर्य । अनुभावबशान्निजं शरीरं तिरयामास नलस्य पश्यतोऽपि ॥ ६० ! इति दर्शितशोकसागरान्तः फणिराजेन पतिर्विदर्भजायाः । स च तेन विमुक्तशापबन्धः प्रतिनन्धोपकृति मिथः प्रयाती॥ ६१ ॥ सूते यद्विषमेव जीवितहरं कर्कोटकस्याननं तस्मादेव वचश्छलाद्विगलितः पीयूषपूरो नवः । प्रत्यङ्ग कवलीकृतस्य दयिताविशेषजेनामिना जीवातुर्जगतीपतेर्यदभवत्तच्चित्रतामाययौ ॥ ६२ ॥ नरपतिरथ सारं सारं वचांसि फणीशितुः किमपि किमपि प्राप्ताश्वासः समीहितसिद्धये । दिनकरकुलोत्तंसेनाधिष्ठितां नगरौं ब्रज- न्नपि गिरिसरिहर्गान्मार्गानमंस्त न दुर्गमान् ॥ ६३ ॥ इति श्रीसांधिविग्रहिकमहापात्र श्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये नलचरिते कर्कोटकदर्शनो नाम त्रयोदशः सर्गः समाप्तः । चतुर्दशः सर्गः । अथाश्रितां कुम्भसमुद्भवेन क्रमेण कृत्स्नां ककुभं विहाय । .."मप्यतिवाह्य किंचिन्नलः प्रपेदे नगरीमयोध्याम् ॥ १॥ प्रदातुमध्ये सरयूजलानां पृषद्भिरम्भोरुहगन्धगभैः । क्रमादयोध्योपवनं वजन्तं प्रत्युद्ययौ तं शिशिरः समीरः ॥ २ ॥ ...............
१४ सर्गः] सहृदयानन्दम् । ৩৭ एकैकशो निर्जितनामधेयैऍपच्छलाद्रोधसि संनिविष्टैः । इक्ष्वाकुवंशप्रभवैः क्षितीन्द्रराराध्यमानां सरयूं स भेजे ॥ ३ ॥ अतीत्य कृत्यं वनवासखेदं समागतं वीक्ष्य नलं नदी सा। सितच्छदानां ध्वनिकैतवेन मुहुर्मुहुः स्वागतमन्वयुत ॥ ४ ॥ तस्यां मिथः प्रेमवशंवदानि रथाङ्गनाम्नो मिथुनानि वीक्ष्य । विहाय भैमीमभितश्चरन्तमात्मानमन्तर्नृपतिर्निनिन्द ॥ ५ ॥ अनीतियुक्तानपि नीतिभाज: 'संख्यावतोऽपि खगुणैरसंख्यान् । विलासिनोऽप्युन्नतसौधसंस्थान्गोष्ठीषु पौरानभिनन्दयन्ति(न्तीम्)॥६॥ प्रकामदुर्गा सुखसंचरां च निकामकान्तामपि कामकान्ताम् । राजन्वती वीक्ष्य पुरीमयोध्यो चिरोज्झितां खां नगरी स दध्यौ ॥ ७॥ नलेति नाम प्रथितं विहाय स बाहुकेति प्रथयांबभूव । दशानुरूपां रचयन्ति चेष्टामासाद्य सिद्धिं त्वभियोगभाजः ॥ ८ ॥ कलिस्तु देहे निवसन्नलस्य लेभे भुजङ्गस्य विषेण दाहम् । अनागसि द्रोहकृतः सुजिमान्कियच्चिरं न असते विपत्तिः ॥९॥ अवापतुस्तापमतुल्यहेतुं समास्थितौ तौ वपुरेकमेव । भैमीवियोगेन नलः कलिस्तु विषेण तीव्रण भुजङ्गभर्तुः ॥ १० ॥ रूपान्तरेणैव तिरोहितोऽपि गुणेन लोकोत्तर इत्यशंसि । आमोदपूरेण निवेद्यते हि कुञ्जेन गूढापि पटीरशाखा ॥ ११ ॥ भाङ्गासरेः कर्णपुटोपकण्ठं निन्ये चरैस्तस्य गुणप्रकर्षः । क्रमेण निम्नैः पथिभिः समुद्रं प्रविश्यते प्रावृषि वारिपूरः॥ १२ ॥ वृत्तं च विद्यां च दवीयसोऽपि विवेद भानासरिरस्य सर्वम् । चक्षुर्नृपाणां हि चराभिधानं गृह्णन्ति भावानपि विप्रकृष्टान् ॥ १३ ॥ स मन्त्रितां मन्त्रविनिश्चयेषु क्रीडारहस्येषु वयस्यभावम् । गजाश्वशास्त्रेषु विनेतृतां च जगाम तिग्मांशुकुलध्वजस्य ॥ १४ ॥ १. नीतिरहितान् , ईतिरहितांश्च. २. गणनायोग्यान , पण्डितानपि. ३. विवरस्था- यिनः, विलासयुक्तानपि. ४. न कामवन्मनोहराम् , निकामं कान्ताम्. 'नि स्यात्क्षेपे भृशार्थे च नित्यार्थे दानकर्मणि' इति हैमः. ५. भामसरितुपर्णो राजा.
७६ काव्यमाला। यथा पुरा दोर्द्रविणप्रभावादभूदयोध्यापतिरस्य वश्यः । रूपान्तरेणापि तिरोहितस्य गुणप्रकर्षादभवत्तथैव ॥ १५ ॥ शीलेन वृत्तेन च सख्यभाजोः प्रीतिस्तयोः प्राप तथाभिवृद्धिम् । अमात्यलोकोऽपि यथोपभेजे शरीरमात्रेण पृथक्कृतौ तौ ॥ १६॥ ततो निदाघेन नितान्तखिन्नं विलोक्य लोकं करुणावतीव । तिरोदधाना किरणान्खरांशोराविर्बभूवाम्बुधरागमश्रीः ॥ १७ ॥ खमौलिरत्नद्युतिचित्रभासः सुरायुधाख्यस्यं भुजंगमस्य । वल्मीकरन्ध्राहहिरुद्दतस्य भेजे फणत्वं तनुमेव चक्रम् ॥ १८ ॥ अमुक्ततोयं प्रतिरुद्धभानु परस्पर' "चित्रदण्डम् । अभून्नवाम्भोधरचक्रवालं लोकस्य साधारणमातपत्रम् ।। १९ ।। समाश्रितैः सानुषु वारिवाहैः समीरणान्दोलनया विलोलैः । प्रसार्यमाणैर्गगने विहाँ पक्षैरिव क्षोणिभृतो विरेजुः ॥ २० ॥ मया विसृष्टानि पयांसि नूनं विशोषयत्येष मयूखजालैः । इतीब गर्भाश्रितदीर्घरोषा कादम्बिनी चण्डरुचं रुरोध ॥ २१॥ लोकस्य संतापनिरासजन्यां संपद्यते कीर्तिमसौ मदीयाम् । इतीव रोषेण सुधाकरस्य ज्योत्स्नां समग्रामपिबत्पयोदः ॥ २२ ॥ यस्यां न सूर्यो न च चन्द्रतारं विभाति यत्रास्ति न कोऽपि भेदः । तां प्राप सिद्धिं पवमानयोगादम्भोदसंघः स्तिमितो बभूव ॥ २३ ॥ जम्बूवने पक्कफलापदेशाद्रोलम्बदम्भान्नवमालतीषु । रुद्ध धरिणि तिग्मभानौ खैरं तमः प्रादुरभूद्दिनेऽपि ॥ २४ ॥ विनातपत्रं पदवी न सेव्या दिनेषु संनद्धबलाहकेषु । इतीव नृत्यावसरे मयूराः कलापचक्र व्यधुरातपत्रम् ॥ २५ ॥ मुदं प्रपन्नेषु विषादवन्तः केकाविलासैर्मुखरेषु मूकाः । लास्यैर्विलोलेषु जडत्वभाजः पान्था बभूवुः शिखिनां गणेषु ॥ २६ ॥ १. शक्रधनुषः, १४ सर्गः] सहृदयानन्दम् । ७७ समीरयोगात्परिघट्टितस्य धनाम्बुराशेरिव फेनलेखा । नभस्तले कामपि कान्तिमापुराबद्धमालाः परितो बलाकाः ॥ २७ ॥ प्रचण्डभानोः किरणान् [सुतीक्ष्णान् ] अन्तर्भृशं तापयतः पयोदः । निजोदराम्भःपरिशोषशङ्की सौदामिनीपुञ्जमिषाद्ववाम ॥२८॥ मया विना नैष घनश्चकास्ति विलोक्य मां ताम्यति नैषधश्च । इतीव विद्युत्परिचिन्तयन्ती मुहुश्चकासे च तिरोदधे च ॥ २९ ॥ कोपार्जनं नीपमहीरुहाणामसुव्ययं चैव वियोगभाजाम् । विद्युल्लतालास्यविलासरङ्गं पयोदसङ्घः सममेव चक्रे ॥ ३० ॥ भैमी च भीमस्य गृहेषु खिन्नां भाङ्गासरेवेश्मनि नैषधं च । मुहुर्मुहुर्रेष्टुमिवाततान सौदामिनी व्योन्नि गतागतानि ॥ ३१ ॥ आसारसेकेन शमं प्रपेदे क्षोणीभृतामङ्कगतो दवामिः । नलस्य भैम्याश्च जगाम वृद्धिं वियोगजन्मा हृदि मन्मथाग्निः ॥ ३२ ॥ कृतापराधेष्वपि वल्लभेषु रोषं वधूनामपसारयन्तः । विश्रान्तिमीयुर्न मुहूर्तमात्रं कुजेषु दात्यूहसमूहकूजाः ॥ ३३ ॥ घनाम्बुव(भिषिच्यमाना पौरस्त्यवातेन च वीज्यमाना । रोमाञ्चमुच्चैः प्रथयांबभूव तृणाङ्कुरोन्मेषमिषेण भूमिः ॥ ३४ ॥ अथोपपन्नप्रणयेषु दैवाइरं प्रयातेषु सितच्छदेषु । शोकातिभारादिव पद्मिनीभिर्नवाम्बुपूरे सरसां न्यमजि ॥ ३५ ॥ मानग्रहे वृद्धिमुपागतेऽपि सरित्पतिं वधूविरुद्धं सरितश्चरित्रं तेनैव नूनं प्रथयांबभूवुः ॥ ३६ ॥ आस्कन्धमनाः सलिलेषु वृक्षाः कृतार्तनादाः खगकूजितेन । शाखाकरैर्वायुवशाद्विलोलैमिथः समुद्धर्तुमिवाह्वयन्ति ॥ ३७ ।। विभिद्य सेतूनभितः स्थलानि समनुवानेषु सरिजलेषु । निगूढपादाः पृथिवीरहोऽपि तदा बभूवुः प्लवमानकल्पाः ॥ ३८ ॥ । । १. कुमलसंपादनम् ७८ काव्यमाला। मया कृतं निर्गमनं मदीयैरम्भोभरैर्निर्वसुध व्यधायि । इतीव दर्प प्रथयन्पयोदः प्रतिक्षणं तारतरं जगर्न ।। ३९ ।। इत्थं क्रमादम्बुधरागमश्रीर्यथा यथा यौवनमाससाद । तथा तथा दुर्विषहा बभूवुः शोकोर्मयो भीमतनूभवायाः ॥ ४० ॥ समृद्धकामापि पुरी विदर्भा शोकेन भैम्याः समवाप खेदम् । अप्येकवीरुत्प्रभवः कृशानुः कृत्स्ना दहत्येव वनीं निदावे ॥ ४१ ॥ ततः समुत्कर्षवतीर्विलोक्य वर्षाः कुलायेष्ववसन्विहंगाः । भीमस्य चारास्तु तदापि चेरुर्जामातरं मार्गयितुं नियुक्ताः ।। ४२ ।। नलं विना यानि न वेद कश्चिद्रहस्यसंकेतपदानि भैम्याः । उदैरयस्तानि परिस्फुटार्थ गोष्ठीषु गोष्ठीषु गृहे गृहे ते ॥ ४३ ॥ वनेषु शैलेषु सरित्तटेषु स्थलेष्वनूपेषु पुरेषु राज्ञाम् । निरूपयन्तोऽप्यनिशं प्रयत्नाड्यालोकयन्क्वापि न नैषधं ते ॥ ४४ ॥ निवृत्य भेजुर्नगरी विदर्भा नलस्य वृत्तान्तमविन्दमानाः । भीमस्य दूताः स्मृतिमागतेन शोकेन भैम्याः प्रतिरुध्यमानाः ॥४५॥ अथेगिताभ्यूहनलब्धवर्णः कश्चिच्चरः प्राप्य पुरीमयोध्याम् । नलं समासाद्य रहस्यवादीदमूनि संकेतपदानि भैम्याः ॥ ४६॥ नमस्तले संचरता यथेच्छं विहंगडिम्मेन विलोक्यमानः । एकाकिनी काननसीम्नि मुग्धामनागसं मुञ्चति कः सुचेताः ॥ ४७ ॥ दया च लज्जा च मतिश्च नूनं सर्वाश्रयोऽयं परिचारवर्गः । जनः कुलीनोऽप्यनया विहीनस्ताभिः प्रकामं परिहीयते यत् ॥ १८ ॥ मनांसि पुंसां परिणामवद्भिस्तुल्यानि किं पाकफलैर्भवन्ति । अन्तः प्रकृत्या विरसान्यमूनि बहिर्बहिर्ये प्रथयन्ति रागम् ॥ ४९ ॥ इत्थं वचो दूतमुखान्निशम्य प्रागेव संस्मृत्य विचेष्टितं खम् । निगृह्य बाप्पप्रसरं कथंचिदिदं बभाषे निषधाधिनाथः ॥ ५० ॥ १. प्रौढिम्. २. अलभमानाः. ३. अचीकथत. ४. दयादिभिः.
१४ सर्गः सहृदयानन्दम् । प्रतिक्षणं तापयता शरीरं शोकानलेन स्वयमजितेन । विलुप्तसंज्ञं कितवं विनान्यः प्रागेश्वरी मुञ्चति कानने कः ॥ ५१ ॥ नूनं रथाङ्गौ विगमे रजन्याः श्रेयः समासंश्रितम वाते । न जीवितं तो परिमुञ्चतश्चेदसामासाद्य वियोगखेदम् ।। ५२ ॥ श्रुत्वा वचः कैतवबाहुकस्य पुरीं विदर्भी सहसा स भेजे । विदर्भजायाः सविधे च सर्व शशंस राज्ञा विहिताभ्यनुज्ञः ॥ ५३ ॥ सा बाहुकेनोदितमाकलय्य चरोपनीतं किमपि प्रहृष्य । निशम्य तस्याकृतिवपरीत्यं भूयोऽपि शोकाम्बुनिधौ ममज्ज ।। ५४ ।। अत्रान्तरे निषधभर्तुरवेक्षणाय क्षोणीतलं तत इतः सुचिरं विगाह्म । सूतोऽस्य कश्चन पथि श्रमनोदनार्थ- मिक्ष्वाकुवंशतिलकस्य पुरं प्रपेदे ॥ ५५ ॥ आसन्नसंगतिमहोत्सवशंसनाय विश्रब्धदूतमिव तं प्रहितं खलक्ष्म्या । पश्यन्नपि प्रथयति स निजं न रूपं रुद्धः फणीन्द्रवचसा निषधाधिनाथः ।। ५६ ॥ आकारभेदपिहितेऽपि नलेऽन्तिकस्थे सूतस्य चित्तमभजत्कमपि प्रमोदम् । पूर्वाद्रिशृङ्गजुषि वारिधरावृतेऽपि धर्मद्युतौ सरसिजं स्मितमातनोति ॥ ५७ ॥ तं शुद्धभावमधिगत्य नलः स चैनं लोकोत्तरैर्गुणगणैरभिनन्दनीयम् । सौहार्दबन्धमतिमात्रमुपेयिवांसौ तावश्विनाविव सदा सहितावभूताम् ॥ ५८ ॥ ज्योनासारैः स्नपयति जगद्यामिनीजीवितेशे मन्दं मन्दं वहति कुसुमामोदमित्रे समीरे ।
काव्यमाला॥
.
स्मारं सारं वनभुवि तथा विक्लवां प्रेयसी खां
सायं सायं व्यतनुत नलस्त्यक्तधैर्यः प्रलापम् ॥ ५९ ॥
वैरिण्यः क्षणदाः शशाङ्ककिरणैर्मर्मच्छिदो वासराः
स्मेराम्भोरुहसौरभैर्वनभुवः सप्तच्छदैर्दुस्तराः ।
कासाराः कलहंसकेलिरसितैः ....... कूलंकषा
जीवातुस्तव जीवितेश्वरि मया कुत्रापि न प्रेक्ष्यते ॥ ६० ॥
तिर्यञ्चोऽपि सितच्छदाः कमलिनी संभावयन्त्यागताः
संत्यज्यापि धनाधिनाथदयितं"
"सरः।
तां बालामनुयायिनीं प्रियतमामेकाकिनी कानने
भ्राम्यन्तीमपहाय जीवितशठः कस्मादयं नैषधः ॥ ६१ ॥
सैवेयं शरदम्बुवाहविषमा निस्तन्द्रचन्द्रद्युतिः
प्रालेयाम्बुलयाभिषेकशिशिरः सोऽयं निषिद्धानिलः ।
एतत्तन्मधुपव्रजैरनुसृतं शेफालिकासौरभं
सोऽयं निष्करुणो नल: शशिमुखी सा केवलं नेक्षते ॥ ६२॥
इत्थं वाचमुदीर्य भीमतनयाविश्लेषखिन्नं वपुः
पर्य के परिवर्तनव्यतिकरैर्निर्निद्रमायासयन् ।
आपृष्टः प्रथितादरेण सुहृदा सुतेन तेनैकदा
तं दाक्षिण्यवशादुवाच रहसि व्याजोत्तरं बाहुकः ॥ ६३ ॥
देवख्यम्बकमौलिलब्धवसतिर्यगोत्रवृद्धे विधुः
कैलासाधिपतेस्तुलामुपययौ यः प्राज्यया संपदा ।
देवेन्द्रेऽपि निरादरा वृणुत यं वैदर्भराजात्मजा
सोऽयं ते श्रुतिगोचरीकृतचरः कच्चिन्नृपो नैषधः ॥ ६४ ।।
अविनयपथे सक्तस्त्यक्तः कथंचिदयं श्रिया
सह दयितया भ्राम्यन्विन्ध्याटवीषु मयेक्षितः ।
तदनु विधुरस्यास्य प्राणेश्वरी विरहाग्निना
प्रलपितमिदं स्मारं स्मारं विषीदति मे मनः ॥ ६५ ॥
१४ सर्गः] सहृदयानन्दम् । ८१ अथ तस्य वाक्यपवनोगतार्चिषा चिरसंचितेन निजशोकवह्निना । परिदह्यमानहृदयो मुहुर्मुहुः श्वसितं विमुच्य निजगाद सारथिः ॥ ६६ ॥ धन्योऽसि बाहुक विनैव परिश्रमेण यन्नैषधं नयनगोचरतामनैषीः । नैनं व्यलोकयमहं पुनरल्पभाग्या- स्कृनां समुद्रवसनामपि गाहमानः ॥ ६७ ॥ वैदर्भी तु वने श्रमन्त्यजगरस्यास्यं प्रविष्टा ततः कृच्छ्रान्निर्गमिता विधेः करुणया नीता निकेतं पितुः । भूयो नैषधसंगमाय मुनिना केनापि दत्ते वरे विश्रम्भात्तरसा न मुञ्चति शुचा क्लिष्टामपि खां तनूम् ॥ ६८ ॥ हस्तन्यस्तकपोलपालिविगलवाष्माम्बुधौतस्तनं निःश्वासोष्मनिपीडिताधरपुटं व्याघूर्णितार्धक्षणम् । ध्यायन्त्याश्युतचापलेन मनसा नक्तंदिवं नैषधं वैदाः कवलीकरोति बलवानङ्गानि शोकानलः ॥ ६९ ॥ बाप्पाम्भस्तटिनीरयेष्वनुदिनं गण्डस्थले मज्जतः पक्ष्मोन्मेषनिमेषयोरपि दृशोर्वा लास्यमभ्यस्यतः । बाहू बालमृणाकतन्तुतुलनामादातुमाकाङ्क्षतः संतापश्वसितानिलौ तु सुतनोनिानिमन्विच्छतः ॥ ७० ॥ वारं वारं निषधनृपतेश्चिन्तयोजृम्भमाणे- रुष्णोन्मेषैः प्रसूमरतटे तत्क्षणं क्षीयमाणः । प्रत्यासन्नैरपि सहचरीमण्डलै!पलक्ष्यः सारङ्गाक्ष्याः श्रवणपुलिने निष्पतन्बाष्पपूरः ॥ ७१ ॥ मुकुलितनयनापि प्रेक्षते वैरिसेनि सुरभिमपि निदाघं श्वासमाविष्करोति ।
८२ काव्यमाला। कथयति हृदि खेदं मौनमभ्याश्रयन्ती कुवलयनयनायाश्चेष्टितं चित्रमास्ते ॥ ७२ ॥ प्राप्तां दैववशाद्विदर्भनगरी तत्रापि शोकामिना भैमी जीवितसंशयं गतवती निश्चित्य सूतोक्तिभिः । आनन्दाङ्कुरमग्रिमं कलयता तीव्र च खेदोच्चयं बाप्पाम्भःपिहितेक्षणेन गमिता सा बाहुकेन क्षपा ॥ ७३ ॥ भासुिरिस्तदनु बन्दिजनोदिताभि- भोगावलीभिरपसारितशेषनिद्रः । प्रातस्तनेषु विधिषु त्वरमाणचेताः शय्यानिकेतनमपास्य बहिर्जगाम ।। ७४ ॥ इति श्रीसांधिविग्रहिकमहापात्रश्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये नलचरिते दमयन्तीवृत्तान्तलाभो नाम चतुर्दशः सर्गः । पञ्चदशः सर्गः । ततः समाहूय स बाहुकं नृपः सदः समासाद्य समेत्य मन्त्रिभिः । पृथक्पृथग्वर्णविशेषचारिणां गिरश्चराणां स्मृतिगोचरेऽकरोत् ॥ १ ॥ अरात्युदासीनसपक्षताजुषां दिनेदिने ययवसायवेदनम् । जिगीषतां दोर्बलशालिनामपि क्षितीश्वराणां प्रथमो ह्ययं नयः ॥२॥ ततश्चरः कश्चन कुण्डिनाह्वयात्पुरादुपेतः क्षितिपं प्रणम्य तम् । निजांशुकान्तेन समावृताननः कृताञ्जलिर्वाचमुदैरयद्रहः ॥ ३॥ श्रुतं त्वया नाथ यथागतः पुरात्पुरा वनं कापि नलो न लक्षितः । अमुष्य पत्नी तु विदर्भनन्दिनी यदृच्छया प्राप पितुनिकेतनम् ॥ ४ ॥ मुहुर्मुहुर्दुःसहतामुपेयुषा चिराय शोकेन हता तपखिनी । भवान्तरेऽपि प्रियदर्शनाशया जुहूषतीयं ज्वलने निजं वपुः ॥ ५॥ तपखिना केनचिदर्पितं वरं प्रतीक्ष्य निन्ये दिवसान्यमून्यपि । परेधुरेषा गमयिष्यति ध्रुवं निजां तनूमिन्धनतां हविर्भुजः ॥ ६ ॥ १. स्ववसनाञ्चलेन. २. होतुमिच्छति.
१५ सर्गः सहृदयानन्दम् । सुतां निजां निश्चिततीव्रसाहसां विलोक्य भीमः सह पौरबन्धुभिः । निमज्य शोकाम्बुनिधी सुदुस्तरे तरी विधातुं न किमप्यवेक्षते ॥ ७ ॥ प्रभो पुरस्ते विनिवेदितुं मया श्रुतं विदर्भाधिपतेर्गृहेषु यत् । अनन्तरं यत्तु विधेयमीक्षसे प्रमाणतां तत्र मनस्तवाहति ॥ ८ ॥ निवेद्य वृत्तान्तमिमं चरे गते नरेश्वरः प्रेक्ष्य मुखानि मन्त्रिणाम् । पुरं प्रयास्यन्नचिरेण कुण्डिणं निजासनार्धस्थितमाह बाहुकम् ॥ ९ ॥ सतां विपत्तीरसतां च संपदः समीक्ष्य को नाम भृशं न दूयते । विशेषतः सत्यपि राजमण्डले विदर्भराजस्त्वमिहापरः सुहृत् ॥ १० ॥ इतस्तु गव्यूतिशतद्वयं परं यियासुरेकेन दिनेन कुण्डिनम् । अजातपक्षेण खमुत्पतिप्यता शकुन्तशावेन गतोऽस्मि तुल्यताम् ॥ ११ ॥ तदद्य शोकेन विमूढचेतसं विलोकितुं तं सहृदं समुत्सहे । तदेव सौहार्दमकृत्रिमं विदुर्न विक्रियां यद्विपदि प्रपद्यते ॥ १२ ॥ रथस्थितं नेतुमिदं तु मां पुरं दिनेन दाक्ष्यं यदि लक्ष्यते तव । ऋतेऽरुणं कोऽन्वहमंशुमालिनं सुमेरुमावर्तयितुं प्रगल्भते ॥ १३ ॥ कलासु लोकोत्तरकौशलो भवान्भवादशोऽन्योऽस्ति न कोऽपि सारथिः । न दुष्करं कर्म किमप्यभू" "त्वया सनाथ' इति ब्रुवाणस्य नृपस्य मन्त्रिणः समाहरस्ते तुरगैर्युतं रथम् । व्यतर्कयद्यानबलोक्य बाहुकः पुरी विदी पुरतः स्थितामिव ॥ १५ ॥ स बाहुकेनोपगृहीतरश्मिभिस्तुरंगमैरूढधुरं रथं स्थितः । पुरोधसा संभृतमङ्गलक्रियः पुरी विदर्भामतिसत्वरं ययौ ॥१६॥ तथा प्रणुन्नाः पथि बाहुकेन ते रयातिरेकं तुरगाः प्रपेदिरे। यथा तदीया अपि नेत्ररश्मयः पुरः प्रसतु प्रभुतां न लेभिरे ॥ १७ ॥ स बाहुकं स्यन्दनबाहने तथा विलोक्य लोकोत्तरपौरुषं नृपः । तमक्षलीलाहृदयं व्यचिन्तयत्ततः प्रपेदेऽश्वरयस्थ वेदिताम् ॥ १८ ॥ ततोऽक्षलीलाहृदयं परीक्षितुं यदेव चक्रे पथि निश्चयं नलः । कलिस्तदैवास्य बिहाय विग्रहं कृताञ्जलिर्वाचमिमामुदैरयत् ॥ १९ ॥ ........ --
काव्यमाला
सुखोचितौ शोकमहार्णवे चिरं न्यमज्जयत्तां च विदर्भजां च यः ।
महीपते पापकृतां पुरःसरं सुराधमं मां निगृहाण तं कलिम् ॥ २० ॥
इति ब्रुवाणं करुणानिधिर्नलः कलिं समाश्वासयदुक्तिवैभवैः ।
वरैरभीष्टैः प्रतिनन्द्य तं च स प्रसन्नतास्त्रिदशालयं ययौ ॥ २१ ॥
नलस्तु ...""समं रथं मुहूर्तविश्रान्तयं समाश्रितः ।
विदर्भजालोचनमङ्गलोदयं समर्थसंपन्नमिव द्रुतं ययौ ॥ २२ ॥
विलयन्वर्म यथा यथा त्वया पदे पदे सातिशयं रयं श्रितः ।
तथा तथौत्सुक्यवशादमन्यत प्रकामदूरं नगरं स कुण्डिनम् ।। २३ ॥
अथास्तशैलोदरभाजि भास्करे सबाहुकस्तामविशत्पुरी नृपः ।
दमखसुः शोकतरङ्गिणीरयं प्रकाशयन्ती जनलोचनाम्बुभिः ॥ २४ ॥
विदर्भराजस्तु शुचापि विक्लवस्तमर्चयामास गृहानुपागतम् ।
सतां सपर्यासु परिक्षतादरं न जातु जायेत महात्मनां मनः ॥ २५ ॥
ध्वनियंदा बाहुकबाह्यवाजिनो रथस्य भैम्याः श्रुतिगोचरं ययौ ।
तदैव तं प्रत्यभिजानती चिरादभून्नलोपागमशकिनी च सा ॥ २६ ॥
ततः कथंचिद्धृतधैर्यबन्धना निवार्य बाप्पाम्बुतरङ्गिणीरयम् ।
सुखे च दुःखे च निजे निरन्तरां रहः सखीमित्थमुवाच भीमजा ॥२७॥
अनुक्षणं केशिनि दक्षिणेतरं यथेक्षणं स्पन्दितमातनोत्यधः ।
अतीत्य शोकाग्निरयं दुरत्ययं तथा मनो मे किमपि प्रसीदति ॥ २८ ॥
तथाभिशङ्के फलबन्धनोन्मुखं मुनेः प्रसादं करुणाईचेतसः ।
विमृश्य भाग्यं तु मदीयमीदृशं हियं सुभाविष्वपि हन्त संश्रये ॥ २९ ॥
तथापि मन्ये नलमत्र सारथिं रथे ध्वनिर्यस्य भृशं विजृम्भते ।
मरीचिजालेऽपि निदाघदीधितेर्विशङ्कते वारि मरुस्थलीमृगी ॥ ३० ॥
तदाशु केशिन्युपगम्य सारथिः क एष कस्येत्यवधार्यतां रहः ।
इदं वयस्ये हतजीवितं मम त्वदुक्तवार्तार्थविवेचनावधि ॥ ३१ ॥
विनिश्चयार्थ निषधेशितुस्ततः शशंस तस्यै पृथिवीन्द्रनन्दिनी ।
अनन्यसामान्यममुष्य कौशलं कलासु वृत्तं च वने यदप्यभूत् ॥ ३२ ॥
: १५ सर्गः] सहृदयानन्दम् । निशम्य संकेतगिरं दमखसुनितान्ततीवं च विचिन्त्य साहसम् । अनुद्रवन्ती रथघोषमायतं ददर्श सा कैतवबाहुकं नलम् ॥ ३३ ॥ तथा तमाकारविकारशालिनं विलोकयन्त्याः कुशलं कलासु च । सरिजलावर्तवशंवदेव नौमतिस्तदास्याः सपदि भ्रमं ययौ ॥ ३४ ॥ ततोऽभ्युपायैर्विविधैः परीक्षितं नलं विनिश्चेतुमलब्धवर्णया । निशम्य सख्याभिहितं रहोगतां विदर्भजा तां पुनरिथमब्रवीत् ॥ ३५ ॥ अहो विधातुः प्रतिकूलवर्तिता मयि प्रशान्ति भजते न जात्वपि । यदेष भूयः प्रियसंगमाय मां दुराशया योजयितुं समीहते ॥ ३६ ॥ मलीमसेयं दुरितैः क भीमजा क चैष लोकैकललाम नैषधः । न लक्ष्यते संगतिरेतयोः पुनः कुहूनिशाशीतमयूखयोरिव ॥ ३७॥ कुतोऽपि हेतोः कृतरूपवैकृतः कथं च न स्याद्यदि नैषधोऽप्ययम् । कृपापराधीनतयापि मां ध्रुवं तदा चितामेर्विनिवारयिष्यति ॥ ३८ ॥ अदक्षिणत्वं मयि संश्रितं.""तदाप्यदः साहसमेव मे हितम् । प्रियेषु सौभाग्यसमुन्नतिच्युतिः कुलाङ्गनानामपरा परासुता ॥ ३९ ॥ तदद्य शोकाग्निरयः सुदुःसहश्चिताग्निनापि प्रशमं प्रयातु मे । अतीतमन्त्रौषधिवीर्यमूर्जितं विषं विषेणैव हि शान्तिमृच्छति ॥ ४०॥ अलं विलम्बेन निशावसीयते हुताशनं दीपय दीपयेन्धनैः । नलोपलाभाय भवान्तरेऽपि मे भवन्तु भृत्याः सखि तस्य हेतयः ॥ ४१ ।। सखि त्वमम्बा नृपतिः परोऽपि यः समीहितं मे प्रतिहन्तुमीहते । स केवलं द्रक्ष्यति पञ्चतां मम प्रपत्स्यते नेप्सितसिद्धिमात्मनः ॥ ४२ ॥ "वचनं दमखसुर्विकृष्य तामप्यनिवार्यसाहसाम् । सबाहुके पश्यति पौरमण्डले हुताशनं दीपयति म केशिनी ॥ १३ ॥ कृतप्रयत्नोऽपि विदर्भभूपतिः सुतां निषेढुं न शशाक निश्चयात् । परासुतानैषधविप्रयोगयोर्द्वितीयमेषा हि विवेद दुःसहम् ॥ ४४ ॥ ....... १. ज्वाला
काव्यमाला।
विलोलधम्मिल्लमपास्तभूषणं विलुप्तमुक्तावलि लोचनाम्बुभिः ।
शुचोऽतिभारेण निपातिताः क्षितौ विमुक्तकण्ठं रुरुदुः पुराङ्गनाः ॥ ४५ ॥
अनारतं निर्गलदम्बुबिन्दुभिर्विलोचने खर्पित........... ।
तथाविधां वीक्ष्य दशां दमखसुर्वभूवुरन्याः सुदृशो विचेतसः ॥ ४६॥
ततः प्रणम्याग्निमुदञ्चितार्चिषं प्रदक्षिणं कर्तुमियं प्रचक्रमे ।
अतीत्य हाहेति रवं पुरौकसामिदं वचः प्रादुरभूच नाकिनाम् ॥ ४७ ।।
अलं नलप्रेयसि साहसेन ते सुदुष्करणाशुविनाशकारिणा ।
अनन्तरेऽस्मिन्क्षण एव ते प्रियः प्रहीणशोकां भवतीं करिष्यति ॥ ४८ ॥
उदेयता नैषधतिग्मतेजसा विपन्मयी सा रजनी निराकृता ।
विजृम्भितामोदभरं चिराय ते विकासपभ्येतु मनःसरोरुहम् ॥ ४९ ॥
पुरः पुरंध्रीकथनेन कीर्त्यतां प्रपन्नया खैश्चरितैरनाविलैः ।
दिने दिने भीमजयाभिनन्दितश्चिराचरं नैषध शाधि मेदिनीम् ॥ ५० ॥
त्वया सुधादीधितिवंशकेतन क्षितिं सनाथाममिवीक्ष्य निर्वृताम् ।
द्विजाः पुनर्निष्प्रतिबन्धभीतयो मखैर्वितन्वन्तु मुदं दिवौकसाम् ॥ ५१ ॥
इदं निशम्य त्रिदशैरुदीरितं क्षणं बभूव स्तिमितेव भीमजा ।
पिनद्धनागेन्द्रनिवेदिताम्बरः खरूपतः प्रादुरभूच्च नैषधः ।। ५२ ।।
ततः प्रमोदोत्तरलैः सुरैः कृते प्रसूनवर्षे नभसः पतत्यधः ।
विजृम्भमाणो दिवि दुन्दुभिध्वनिर्नवाम्बुवाहस्तनितैस्तुलां ययौ ।। ५३ ।।
उपेयुषोर्लोचनगोचरं चिरात्प्रमोदजा बाष्पतरङ्गिणी तयोः ।
प्रवृद्धमन्तर्निरवासयहृतं परस्परावीक्षणशोकपावकम् ॥ ५४॥
ततो निदाघप्लवितेब मेदिनी नवाम्बुवाहैर्विहिताभिषेचना ।
प्रशान्तसंतापभरा सुमध्यमा प्रमोदजालं विदधे विदर्भजा ॥ ५५ ॥
अथ कथमपि दैवात्तीर्णदुःखार्णवं तं
पुनरपि दमयन्त्या संगतं वैरसेनिम् ।
शशिनमिव समेतं ज्योत्स्नया राहुमुक्तं
चिरतरमपि पश्यन्प्राप तृप्तिं न लोकः ॥ ५६ ॥
१५ सर्गः] सहृदयानन्दम् । तदनु भुजगदष्टं बाहुकत्वं विहाय प्रकटितनिजरूपं नैषधं प्रेक्ष्य हृष्टः । द्रुततरमृतुपर्णस्तत्र सख्यं ययाचे सहविहरणकाङ्की सोऽपि तं प्रत्यनन्दत् ॥ ५७ ॥ वैदर्भराजसुतया सह वैरसेनि- स्तत्रापि कान्यपि दिनानि मुदाध्युवास । मौलैः क्रमादुपगतैः सचिवैः स्वकीयैः संख्यायमानसरणिनिषधान्प्रपेदे ।। ५८ ॥ मण्डलं निखिलमन्वरञ्जयत्तापसंपदमुदाच्छिनद्भुवः । नैषधेन्दुरुदयन्विकखरं पुष्करं तु सपदि न्यमीलयत् ॥ ५९ ।। इत्थं निस्तीर्य कृत्ला विपदमुपगतं खां पुरं वैरसेनि साध वृद्धैरमात्यैः प्रणतपदयुगं हीमता पुष्करेण । निष्प्रत्यूहं प्रजानां मुदमुदयवतीमन्वहं निर्मिमाणं भैमी सान्द्रानुरागोत्तरलितहृदयां राजलक्ष्मी च भेजे ॥६०॥ लक्ष्मीर्यावदलंकरोति हृदयं विष्णोर्नृसिंहाकृते- र्यावद्विष्णुपदी च धूर्जटिजटाजूटान्तरे क्रीडती। कृष्णानन्दकवेः कपिञ्जलकुलक्षीरोदशीतयुते- स्तावत्काव्यमिदं तनोतु कृतिनामन्तःप्रमोदोदयम् ॥ ६१ ॥ इति श्रीसांधिविग्रहिकमहापात्र श्रीकृष्णानन्दकृतौ सहृदयानन्दे महाकाव्ये नलचरिते निषधेन्द्रद्वितीयसाम्राज्यलाभो नाम पञ्चदशः सर्गः । समाप्तोऽयं ग्रन्थः। १. स्वभ्रातरम् ; (पक्षे) कमलम्,