Donar

Grantharatnamaalaa

2005/09/3

PDF Proofread

Front matter

No text on this page.

शेषाद्रीशंस्य नित्यं वदनविधुकनच्चन्द्रिकासान्द्ररोचि- दत्वा साम्राज्यलक्ष्मी स्मितमिह रघुनाथाख्यभूपालमौलिम्।।१।। काप्यागच्छति मामकीनभवनं त्रैलोक्यसंमोहिनी- मेना द्वाार न मुञ्चतात्र विदितं गोपीविटत्वं हरेः ।। श्रुत्वेत्थं गदितं श्रिया प्रतिसखीर्यन्मोहिनीरूपभाक् चक्रे तद्रधुनाथभूपमवतां नित्यं मुरारेः स्मितम् ॥ २ ॥ शुम्भत्संरम्भसम्भावितदितिजमदारम्भकुम्भीन्द्रकुम्भा- लम्भारम्भोगदम्भः कटुविकटरदस्तम्भसम्भूतजृम्भः ॥ संमिन्नस्तम्भसीमासुरभयमहरद्यः कृपाकेलिसीमा भीमानीरातटाकस्थितिरिह रघुनाथक्षितीन्द्रं स पायात् ३ कन्तु, व गतोद्य सक्मिाण हरे हृद्येव जागर्त्यसौ सत्यं ते वचमं यदद्य हृदि ते जागर्ति कन्तुद्वयम् ॥ . मन्तमटर ग्रन्थरत्नमाला। गृह्णन्नित्यचिराकुचद्वयमये कामो हृदीतीरितं मैवं भूरत एव चेष्टितमिति श्लिप्यन्सतां पातु वः ॥ ४ ॥ कलानाथं संमानयति रघुनाथावनिपतिः स्वमृति प्रायो निजचरण भक्तस्य चरितम् ॥ स्फुटीकतुं विभ्रच्छिरसि शशिनं शेखरमणि प्रियो दाक्षायण्याः श्रियमिह विधत्तां कृतिपतिः ॥५॥ सदानन्दीडयधीरजतधरमद्मा मुमनसां प्रमोदार्थ हेमाचलमभिदधच्चापमनवम् ।। कुमार श्रीवीक्षामुदित इह जैवाकशिरो- मणिः पायापं सपदि रघुनाथं स्वसदृशम् ॥ ६ ॥ श्रीवानब्रह्मतन्त्रादिमपदपरकालार्थवर्यानवाङ्क्षि. दृन्दावानुग्रहानप्रतिपदविविधग्रन्थनिर्माणशक्तिः ।। श्रीम-प्रत्यग्रदुर्गस्थितिरिह तनुते संमतं सन्मतीनां नव्यं काव्यं सुमव्यं मितमतिललितं कृष्णनामाकवीन्द्र: ५ श्रीमन्तः परिपूर्ण मद्गुणगणाः प्रख्यातवादन्यिका भूपा विलमन्ति नान्यदि कविः संवर्णयके चन ।। निन्दन्त्वेनममयया नरमयं स्तौतीति तत्रोत्तरं ना विष्णुः पृथिवीशितति वचनं तत्स्यात्कथं नृस्तुतिः ।। तादृशकविताभावात्सुकवेः कवितां विनिन्दतात्कुकविः ॥ निन्दतु कुरु पंजानिः परवनितां सुन्दरी क्षतिः कास्याः।९। १ कलानाथं कवित्वकलायुक्तं चन्द्रं च । २ शङ्करः ।३ जवातृकश्चन्द्रः र पिद्ध कथावत्तार: इन्यर्थः । ५ कुरूपा जाया यस्यैतादृशः ।

रघुनाथांवजयचम्पः । m निर्व्याजवत्सलहृदामुव्या द्विगुणापि लाल्यतामात ।। कृतिवर्याणां कृतिरियमतिबालोक्तिहि लाल्यते सर्वेः । १० ॥ पञ्चवटीनिकटे भुवि चञ्चलनयना विहारजनिभूमिः ।। विञ्चरभिधा विलसति चञ्चलक्ष्मीः पुरी निरीतिलैवा ।। यम्यां सदा पुरि महच्छविदेहलीला- लाल्या रवृत्तममती तुलनां नितान्तम् ।। गहावलिश्च दधते टलनाश्च साच्या वैतानभूषिततया च मनोहरानाः ॥ १२ ॥ यत्र मनोजवयचं दयंत राजन्यममुदयाः पुल्यान : आजीनया रुचिरा दटना अपि यौवनारुटाः ।। १३ चत्र सीगांमध्यमं मध्यमन्त्र न्य तप्यायः शिर स्वंटलाभम् । अत्राप्यालं खेदतः कार्यमाप जायो न स्याहौरवं मध्यमानाम् ॥ १४ ॥ यद्राजावसथानभूमिषु नरैर्निद्रालमर्यामिके राध्यां मार्गवशागवाक्षविवरे गच्छन्कदाचिद्धि तुः ।। घण्टायांशयिकैदृढं प्रतिहतो दण्डेन नूनं न चे- कस्मान्मण्डलमध्यभव्यतितरां धत्ते किणं श्यामला, १ नितरां गतिलवो नीतिर्यस्यां । २ मनोजो मदनत्तस्य तमत्वं वमतिः अधपक्षं मनोजवसत्त्वं मनीगतिवेगवलम् । 3 कुलीनाः उत्तम जात्युत्पन्नाच अवाः । ४.मध्यस्थितानाम् ।

CO ग्रन्थरत्नमाला। - यत्कान्ताकान्तिचौयोदितकुतुकतया जालरन्ध्रप्रविष्टो रात्रौ सौधे प्रबुद्धैः सपदि निगलितासौविदैलैः मुधांशुः ॥ आदातुं या अशक्तो निजरिपुललनावक्रवीक्षात्तभीति. स्तत्रात्याक्षीन्न मुक्ता इति हि दधति ता नाम ताराम्नदेव ॥१६॥ नामिह रघुनाथनृपः पालयति गुणैर्गरीयसी नगरीम् ॥ तेन पुरी मायोध्याभिख्यां न वहेत कथमिह धरि याम॥१७॥ पञ्चवटीरभ्यत्वं स्मृत्वास्मृत्वाधुना स तत्रैव ।। नगरी निर्माय निजामास्ते रघुनाथ इतीयमभिदधत !! ' ८ !! नत्तादृक्षमहादशाननकथादिकारविश्राणना प्रागल्भ्याल्लभिताग्विलायसुमनोहपा लसद्धर्मभाक ।। उल्हाम इवती मदा मनभि वैदह्याति काऊर्णन व्यनि मा ग्वनाथनाममहिता न स्यात्कथं वा भुवि १८ यम्य च सहधर्मचरी थिगत्मनानात्यनगणभमा । जनकान्वयमादकरी जयनितगं जानकीदेवी ॥ २० ॥ चन्द्रशंग्वरधर्माभिवर्धनं पतिमीयुपी । जानकी बनाथं भ्यानमानन्तात्मजा कथम् ।।२।। अमिलानन्दलहरीसंदायिगुणभूपिता ।। श्रातयिंग्रगा लोके यैपा विजयतेतराम् ॥ २२ ॥ . ५ भृगः ‘भालदार' इन्यान्यातैः । २ रघुनाथपक्षं वे देहीतिच्छंदः । : जनक: पिता जनकगजा च । ४ अनन्ता जानकीपितृनाम पक्ष अनन्ता पृ जी । ५ अमलोतिशयंन । लक्ष्मणस्त्री च ।६ श्रुताःकीर्तयों यामां तामामग्रगा धार कीर्तनीया । श्रुतकीतिः शत्रुघ्नस्त्री।

रघुनाथविजयचम्पू: । सिद्धार्थों विजयान्वितश्च सचिवो दृष्टयन्वितोयन्मुंदं पुष्णाति प्रचुरामशोकलितः सन्मन्त्रपालः सदा ॥ बुद्धिः श्लाघ्यमुमन्त्रदत्तहृदयो नित्यं जयन्तं पुरः कुर्वन भूतलमर्थसाधकहितो यः पालयन्नेधते ॥२३॥ खरपणपासप्यासहनं च श्लान्यता जनस्थाने ।। अपि च जलभ्युद्वन्धनचातुर्य नाद्भुतं विभोरस्य ॥ २४ ॥ सक्ता विष्णुपदे यदीयजननी संसिद्वितः पावनी- यां प्रीतिं दधतीं च शंतनुमतां प्राहुर्घनाः सज्जनाः ।। या रक्तां च सरस्वती परिचिनोत्यादित्यजातादरा गङ्गाम्बा स हि भीष्म एव ममरे न स्यात्कथं भूपतिः २, यद्यपि गङ्गातनुजस्तदपि विशेपोम्ति यदिह राज्यमुखम् ।। यह धर्मिण्या माकं स महीपालो भनक्तीति ।। २६ ।। मप्राप्तचन्द्रभागो यशसा यः पुण्डरीकबग्द इति ।। ख्यातः स विठ्ठलमहीनेता यम्याऽभवत्तातः ॥२७ ।। बहशस्तं भजतामिह कलयुतमतिश्रियं ददन्ति जनाः ॥ यस्य पितामहमवनौ नरसिंहेन्द्र इतिमार्थनामानम् ॥ २८ ! मत्स्याद्यवतारेषु श्रीरघुनाथानुजन्मता विदिता ।। कृष्णस्येति स्फुटयति नूनं यस्यानुजश्च कृष्णविभुः ॥ २९ ॥ .. १ खराणि तीक्ष्णानि दृषणानि तेषां पारुष्यं कटोरत्वम् । पक्षं खरदपणी रक्षसी । २ जनस्थाने लोकेषु । पक्षे जनस्थानं खरदृषनिवासस्थानविशेष: ३ विष्णुपदे आकाशे विष्णोः पदे च । ४ कमलानन्ददः । पर्थ विलभक्त विशेषः ।

ग्रन्थरत्नमाला। . श्रीमान्पोपितधर्मजातविजयो नित्यानिरुहाधिका(क:). प्रद्युम्नंप्रचुरोधिकंसरसहृदेवः सुभद्रहितः ।। विख्यातो वसुदेवनन्दनतया सत्कामपालादरः कृष्णाख्यां न कथं वहेत नितरामरसेव्यो विभुः ३०॥ नवनीतहृन्महापलभावशकटकादिदाननिपुणपदः ॥ माधवविभारिति सार्थाभिख्यो यस्यानुजोस्त्यन्यः ॥ ३१ ॥ वाचस्पतिरिव वक्ता सभासु यश्चोत्तरोत्तरायुक्तीः ।। चित्रमिदं मौनान्वयसमाश्रितः सर्वदैष राजेति ॥ ३२ । अपि चास्मिन्विस्मापनीयचरितनिरतविविधनरपतिकुलतिल- कमुकुटलसदरुणमाणपटलगलदमलघुणिममृणितमुखदिनविगमम- मयभवदरुणरुचिपिहितलसदुडुचयसदृशनखमणिरमणीयचरणकु- शेशयानुशयवान्धव इव वमुवितरणानन्दितद्विजराजे द्विजरा- ज इव रत्नाकरवृद्धिदानचतुरे चतुरानन इव सदागमानुकूलवैभवे भव इव राजकलाभिरामे राम इव दानवारिसम्पत्करे करेणुका- न्त इव कर्णोद्दननजनितस्पर्शनविताने वितानपावक इव मदा- ज्यागमसम्भृतानन्द नन्दनन्दन इव दिव्यसौन्दर्यगोप्यन्तःकर- १ धर्मजातविजयः धर्मः जयश्च । पक्ष धर्मगजोऽर्जुनश्च । २ अनिरुद्धः म्वतन्त्रः । ३ प्रद्युम्नप्रचुर: अधिककान्तिमान् पर्श प्रद्युम्नः कृष्णपुत्रः । अधिकामिति कृष्णाख्यानुजपक्षे अधिकम-सहत् इति कृष्णपक्षे । ५ सुष्टुक- व्याणयुक्तः पझे सुभद्रा श्रीकृष्णभगिनी । ६ अकरसेव्या ऋग्जनैरसंव्यः । पक्षे अकर: प्रसिद्धः। ७ नवनतिवन्मृदुमना: पक्षे नवतीतहत् हेयंगवीन चारः । ८ महोपलवत् जडाः शकटादयो सुगस्तंषां दानमवखण्डनं पक्ष र. नादिदाता । ९ मौनं मकत्वं च भौनान्वयः मुनिवंशः ब्राह्मणकुलमित्यर्थः ।।

रघुनाथविजयचम्पूः । णमोहनइतिप्रथाजनके जनक इव सुधन्वारातिक्षपणदक्षे दक्ष इव महाहवशरणागतार्याधिक्षेपणोत्सुकमानसे मानससरोवर इव राजहंसाश्रितघनसारसवनाञ्चितानिमिषकुले रणधूर्वहगर्वो- त्पतदुर्वीश्वरखवैतरगर्वानलनिर्वापणवार्वाहसुपर्वाधिपगुर्वायुधसर्वो- नतिपर्वकपाखण्डचण्डिममण्डलामखण्डितरिपुमण्डले प्रत्युप्तप्रत्न- रत्नचित्रभित्तिकनिकाय्यनिर्यत्ननिर्यत्प्रपरिरब्धशुद्धशातकुम्भस्त- म्भसम्भृतजम्भारिमणितुलासम्भाराभ्यर्णसमुत्कीर्णमुकुरनिकुरम्ब- विम्बितजाम्बूनदाप्रतिमप्रतिमानुपसुपमावलोकनसमाकलितरमा- कृतारूतिनिसंदोहसंदेहकन्दलितहृदयारविन्दपुरन्दरसुन्दरी. न्दसभत्त्यामुक्तमन्दारदामसंदेहदाननिदानवितानावलम्बमानस्व- च्छमुक्तासरगुच्छविसरपरिशोभितविविधकौतुकस्थानकलितास्थ- मनीपिकदम्बसम्भृतमोदावहवादाहवकोलाहललीलाकर्णनसमुदी- र्णकर्णहर्षे प्रतिदिनसमुदग्रसौधाग्रसभापर्यन्तनिरन्तराकलितचटुल. नटनवारसारङ्गीगङ्गीतसङ्गीतभङ्गीविवशान्तरङ्गीकृतस्वरङ्गण- तराङ्गिणीरङ्गडत्तुङ्गतरङ्गमालिकादोलिकाकेलिकासक्तमरालिकाया- लिकासविलासग्रहणकौतुकसञ्चरच्छम्बायुधपुरनितम्बिनीकदम्ब- पदाम्बुरुहावलम्बिम मञ्जमञ्जीरसिञ्जितस्वसजातिरसितभ्रमप- रिभ्रमद्भमरपक्षविक्षेपविकीर्णसौवर्णोजराजिविशङ्काकलननिपुण- निजदर्शनार्थनिविडितानन्तसामन्तक्षमाकान्तसंततिदुर्वारसंमर्दप- रस्परघर्षणोत्कर्षविच्युतकाश्मीराङ्गरागपरागपरावर्तितधूलीसमुत्क्षे- १ इन्द्रनामकदशराजः । पक्षे स्पष्टम । २ निकाय्या.निलयाः ।

८ ग्रन्थरत्नमाला। पणकेलीभरमदाकुलमदावलपदाघननिप्पिष्टरङ्गवल्लीमतल्लीमौ- तिकततिप्रतीहाराग्रजाग्रञ्चत्वरसत्वरविसृत्वरभटपटलप्रतिक्षणावे- द्यमानविविधविषयवृत्तान्ते मौनमुनिगोत्रकलशाम्बुधिनिशाकान्ते दान्ते रघुनाथक्षमाकान्ते परिपालयति प्राज्यं राज्यं चोरश- ब्दः कविप्रशंसायामेव धूर्तविचारो महीरूहेप्वेव चपलांसानिर्ज- लधरेप्वेव पद्मिनीषणं पद्मिकुलेप्वेव पार्थिवप्रतारणविचारो व- सरप्वेव निरलंकृतित्वं कुकविकृतिप्वेव वक्रता कदाचन ग्रहे वेव हृद्रोगप्राचुर्य शनैश्चरस्येवेति रचितव्यवस्थं निखिलजने वितीर्ण- राजदीप्तिसौभाग्यं समुल्लपतितरणिमण्डलमिव धरणिमण्डलम् । विरचितरक्षोबाधाविधूननो लक्ष्मणाग्रणी राजा ॥ रघुनाथः पञ्चवटी जानक्या साकमतनुत समोदाम॥३३॥ श्रीनव्यदुर्गनिलयः कृष्णः कविसावभीमविरूदादयः ।। प्रथमविलामं विदधे जवेन रघुनाथविजयेस्मिन् ।। ३४ ।। इतिकविकृष्णविरचिताया रघुनाथविजयचम्प्वाः प्रथमो विलासः ॥ १ ॥ द्वितीयो विलासः । एकदा तस्य विविधतीर्थसार्थयात्रासक्तस्य रक्ताक्षिवत्सरवि. जयदशम्यां विजयदशम्याकलनकुतुकसरभसपरिभ्रमददभ्रकरितु- १ धूर्तो धत्तरसंज्ञको वृक्षः पक्षे धृतः शठः । २ चपला स्त्री विष्णुश्च । । पार्थिवाराजा वा पूजनमर्तिः पार्थिवनामा संवत्सरश्च । ४ बिरुदं पदम् ।

९ रघुनाथविजयचम्पूः। रङ्गरथनिकरायां रघुनाथमहाराजस्य दुर्लक्षाज्ञापथजाङ्घिकतया मुच्यमानतुरङ्गाणां बध्यमानपल्याणानां न्यस्यमानखलीनानां भू- प्यमाणमदावलानां उद्रियमाणनलकानां प्रविश्यमानकञ्चुकानां प्रतिगच्यमानसारसनानामुच्यमानौवेयकाणामुक्षिप्यमाणकौले- यंकाणां गृह्यमाणासिधेनुकानां नह्यमानशिरस्त्राणानामारुह्यमाण- रथानामुह्यमानखेटकानां नर्त्यमानघोटकानां सजीक्रियमाणोष्ट्रा- णां नुद्यमानरथानां उत्कम्प्यमानकुन्तानामुद्रूयमानोत्कम्पवसनानां क्रियमाणसिंहनादानां कार्यमाणकरिगर्जितानां चाल्यमानकशा- नो बल्यमानाजानेयानां निरुद्यमानवनायुजीनामास्फोटयमानर- नानामाव-यमानजयदुन्दुभीनामाच्छोट्यमानह स्तानाम-यमान- काम्बोजानामावेष्टयमानशपिण्यपटानां विचेष्टयमानकलभानां उन्नयमानक्रमेलकानां एहि याहि देहि धेहि विधेहि निधेहि बाहि पाहि जानीहि हरस्व विहरस्व परिहर स्त्र प्रहरस्व आहर- स्व मोदस्व दयस्व कुत्र यासि निष्ठ कदा महाराजो बहिनिर्ग- मिप्यति किं करोति कुत्रास्ते निर्गत एवेदानी नास्त्यवकाश इति जल्पता प्रतीक्षमाणानां तद्दर्शनं धिकृतप्रतिभटकरटिघटानामुज- म्भितप्रतापच्छटानां युद्धरङ्गोन्नटानां बहुधैर्यस्फुटानां दुरिसंमदो- कटानां यशोविमलितदिक्तटानां मदारुणान्तदृक्पुटानामत्युद्- टानां भटानां पटलैश्चटुलैर्निबिडमभूद्दर्शनार्थसंचरत्काञ्चनाङ्गीच- ञ्चलापाङ्गबन्दनमालिकाञ्चितविञ्चूरपुरमाञ्चताखिलश्रीभरम् । १ पल्याणं 'पलाण, इति प्रसिद्धम् । २ कोक्षयकोसिः । ३ असिधेनुका 'जंबीया' इात प्रसिद्धा । ४ खेटकं चर्म ‘टाल' इति प्रसिद्धम् । ५ 'युज्य- मान'इति वा पाठः । ६ वनायुजो देशविशेषोत्पन्नो घोटकः ।

१० ग्रन्थरत्नमाला। रक्ताक्षिवत्सरेस्मिन्कस्मादुन्दुभिरुपागत इतीत ॥ रोषभरान्मौहुर्तिकमतेन जत्रुर्भटा जयार्थ तम् ॥ १ ॥ अतिनिर्दयजनमर्दितवनमर्दलनर्दनार्दनोर्दण्डतरम् (?) ।। मददुर्दिनबहुदुर्दमरिपुकर्दमतर्दनार्ककुर्दनकलितम् ॥२॥ वहुमुन्दरघनदुन्दुभिनिनदं धुरि मन्दराद्रिकन्दरदलनम् ॥ पटुपटहपटलचटुरवघटितं शुश्राव भूपतिश्रेष्ठः ॥ ३॥ तावदेव भावजपरिभावव्यापारलोलरूपानन्दितनिखिलजन. न्दो मन्दमन्दं वसुन्धराधुरंधरः समुत्थाय सिंहसंहननसिंहास- नादीयमानहस्तावलम्बोल्लम्बमानवाहुना करतलकलितसुकुमारव- मनन परिजनेन सविनयं निवेद्यमानमार्गः पदेपदे रक्षिवगैक्षि- मार्गप्रविष्टमात्रान्मानयमयमेवेति जानानोपि मानाधिकगाम्भी- र्यादप्रकाशितकुतृहलो यथा मर्यादमा-स्तांस्तान सम्भावयमानः मगोग्वमन्मद्वंशललामभूतस्य रघुनाथस्य विभर्ति नामधेयमेष राजे- त्यादरान्मूर्धानमुपाघ्रातुमुपर्युपरि मकुटि लम्बमानेन सौकुमार्यमौन्द- यांवेलाकनांववामितहृदयतया लाङ्गतुमदःप्रसारितैफतरभुजदण्डन मार्तण्डनेव बुधानुगतेन सौवर्णदण्डानाधिष्ठितेन मरकतकलशक लितेन कनकगुणरचितातपत्रेण विभूषितमकुटीतटस्तत्तादृशसौन्द- विमानिततया जितोस्मीत्युपहारकते कन्दर्पणार्पितेस्तुरीयवाण- नवमल्लिकामतल्लिकापुजैरिव चामरैर्वीज्यमानो निर्गत्यास्थाना- दग्रतः सजीकृतान मुहुर्मड: करपुष्कराञ्चलनीरन्ध्रनिष्ठीव्यमान- जलशीकरनिकरतया पदेपदे निपादिकरकलितनिरङ्कशाङ्कशव- इनवेदनासहनतया निजजन्मभुवमपि पारत्यज्य कुत्रापि यातुं

११
रघुनाथविजयचम्पूः ।
नासिकाविवरान्निर्गतान्मौक्तिपुञ्जानिवात्मजवत्सलतया राजसमी-
पं यातेत्युक्तिरतो गनवरान्विलोकयन्विन्यस्य पञ्चषानि
पदानि जयार्विचनपूर्वकं द्विजव्रतप्रदत्तान् करकञ्जमञ्जुलाकञ्ज-
ल्कपुआनिव अक्षतनयानक्षतचयान् संगृह्णानो विनयविनमितो-
त्तमाङ्गतया वदनचन्द्रातिमात्रसन्निधानात्तक्षणं सङ्कुचितेन भक्त्यु-
नमितेनाञ्जलिपझेन यथोचितं मानयन् तांस्तान्समीक्षमाणोध्य-
क्षानखिलान् सैनिकांश्च निजविरोधिगजराजसाध्वसादिव प्राप्तस-
कोचानां तुङ्गरङ्गतुरङ्गतरङ्गसङ्गतवाहिनीसमुन्मेलदम्बुजकुष्मलाना-
मिव तदुदश्चितानामञ्जलिपुञ्जानां निजवदनचन्द्रकटाक्षचन्द्रिकाप्र-
मारणेन चिरस्याप्यप्रदत्तविकासः सादरं परिजनदत्तकरावलम्ब
आरुरोह निजजवविजितविहङ्गमं तुरङ्गमम् ॥ ३ ॥
तावब्रह्माण्डमाण्डत्रुटनपटुतरोद्दण्डदण्डप्रचण्डा-
घातस्फीताविगीतास्फुटपटहसटाभेरिकाधीरनादैः ॥
हेपाघोपात्तहस्तोइटकरटिघटागर्जिताढ्यार्जितात्ति-
स्थैर्येश्वर्येभृशमखिलदिशां दन्तुराण्यन्तराणि ॥ ४ ॥
हेधा मध्यमवर्ण तुरङ्गमारुह्य चलति निखिलबले ॥
रघुनाथमहीपालो राञ्जतलोकः पुरान्निरगात् ॥ ५ ॥
कटुतरचण्डभानुकरतापभरं सह तेन
हि मम पालकोयमिति सादरया धरया ।
विपुलमुदाञ्चितं दिवि वितानमिवातिघनं
व्रज उद्जम्भताश्वखुरदारुणदारणजम् ॥ ६ ॥

१२ ग्रन्थरत्नमाला । माद्यद्वन्धुरगन्धसिन्धुरचलत्यादातपादाहति- शुण्णक्षोणितलोच्चलद्वहुरजःप्रोदिन्नदिम्भित्तिका ॥ हेषाघोषविचूर्णिताहितचमूयोधाधिनाथोद्भटा नृत्यत्तुङ्गतुरङ्गपुङ्गवघनारङ्गीच्छुभाङ्गी चमूः ॥ ७ !! स्तुत्वा सर्वसहति प्रतिपदमखिलास्ताडयन्ते पदैमा यस्या लोके क्षमावांस्तमखिलमनुजाः केशयन्ति ह्यजत्रम् ।। स्तुत्येषां किं ममेति क्षितिरतिकुपिता सर्वलोकोपरिष्टा- दारुढे वा बिभासे बलचलितमहाधुलिकापालिकाग्रे ॥८॥ बहुचत्वराभिरामासमदीश्चतमत्तवारणोन्नासाः ।। रथ्या विविशुः पुरता विलसितमुग्वलीनगन्धवाः ॥ ९ ॥ पटुतरकोणताण्डवविजृमित कुम्भिवर- स्थितघनदुन्दुभिप्रचुरभांकतिसंश्रवणान् ॥ मम शिशवः शिशुर्मम कुत्र गता इति जननीजनैर्ममृगिरे धुरि माणवकाः ॥ १० ॥ मत्ते देहि ममावकाशमवले तिष्ठात्र मुग्धे मना- गुन्नम्याननमत्र पश्य ललिते त्वं तिष्ट दष्टं मया ।। मन्दे तत्र नृपोत्र पश्यसि किमु स्निग्धे तवापि स्थिते- रत्रास्तेन्तरमम्ब किञ्चिदपि मे द्रष्टुं न हृत्स्येन्तरम् ११ हित्वा सर्वां समृद्धि वनभुवमदिशज्जानकीलक्ष्मणाभ्या- मेवं प्रागद्य मत्वा नगरततिमयीं सर्ववन्यां च धन्याम् ।। १ दुन्दुमिशब्दानुकरणमेतत् ।

१३ रघुनाथविजयचम्पः । द्रष्टुं संजातहर्पश्चलति बलयुतः प्राज्यसाम्राज्यपूज्यः जानक्या साकमालोकयसपरिजनी लक्ष्मणान्वीयमानः १२ मा स्प्राक्षीरिति जल्पसि प्रतिपदं कस्मादिहास्यागता सन्धे त्वं नियमस्थिता यदि पुनः कस्मादिक्षा तव ।। इत्थं सौधतलेषु पौरललना भूपालदत्तेक्षणा लज्जाहासविलासमञ्जुलतमा अद्राक्षुराराच्चमूम् ॥१.३ . माधानास्थितललना वाहुलतानान्नृपालशिरमि तदा ।। दरदलितकुमला इव लाजा जगलर्मुहर्मुहुर्विमलाः ॥ १.४ ।। एतत्मदृशं ललनाकुचयुगलभूषितं कनकचौलैः ।। इति कुतुकान्कनकपटीभूषितकुम्भा ववल्गुरिख डिम्भाः ।, वयमित्र मैंधव एप क्षमामहे नन्दुमवमूर्ध्वम्थम । इति तं पातयितुं ध्रुवमुदग्रचरणा हयास्तदारिन ।। १६ ।। निवर्त्य चानुव्रजतः प्रजाबजाननुजादीन महाराजान द्विजांश भूतिजा राजा विसृत्वरत्वरा यावद्दिव्यक्षेत्रयात्राकुनुहृलमुन्मन्त- कयति स्वयं तावदुद्बलायद्रिस्तुरङ्गमान् प्रेड्डयादिः क्रमलकान्ना- दद्विारणान्वादयद्भिादित्राणि जृम्भयद्भिदुन्दुभिभाङ्कागनाज्ञा पयादिः सरभसगमनं उत्कम्पितकेतनमुच्चालित चामरमुन्नतितजाल- कानपत्रमुन्मस्तकघण्टारवमुन्नीतधूलिपालिकमुद्दामषाघोपमुहृता- लत्यमुदञ्चितान्दोलिकावहनधुरीणजनविविधमादमनन्यमानसेः मैं- न्यैरतिक्रान्तबहुदूरवर्मा धर्मात्माग्रतस्तत्रतत्र सलिलक्रीडाम- कयौवनोहतमुग्धसिग्धवधूकुचकनककलशचर्चितममृणघसृणपङ्क- १ लक्ष्मणा गजचिंद्रनयुक्तः । २ हस्तिबालकाः । ३ केतुवस्त्रम । ४ हपः ! २ १४ ग्रन्थरत्नमाला । क्षालनपाटलैकदेशतया तदअनक्षालनातमेचकिमैकदेशतया च वृद्धगङ्गेयमावयोः पूज्या सखीति प्रेमातिशयेन समागताभ्यां स- रस्वतीकलिन्दनन्दिनीभ्यामिव कृतपरिरम्भा क्वचिन्मृदुलतरपु- लिनग्वेलदतिमुकमारलक्ष्मणाविक्षणकलकलरववाचालितया निज- तटविरचितविहारः पुरा पुनरिदानी स एव जानक्या साकमा- कलितलोकानन्दो रघुनाथभूमीन्द्रः समागत इति मुखागमनवा- मिव एच्छन्ती निरीक्षितचरी गोदावरीमतीत्य सत्यसंधो वि- गचितनिखिलजनमुखासिकां नासिका नाम नगरी प्राविक्षीत् ||३|| प्रद्यकोधेन यत्राग्रजमनुसरता लक्ष्मणेन प्रलूना नामा रक्षोभगिन्या रघुकुलपतिना यत्र धीरानगेण || नाहक्षरवृत्तसामतमुरपातप्रष्टलोकाधिपाला पौलस्त्याज्ञाधुरीणाः सपदि विदलिता भीपणा दृषणाद्याः १७|| मदनमदहारिरूपो भूपो जात्वप्यनात्तगन्धोपि ॥ आत्मानं पश्यन्तीमानन्दयदेप नामिकां चित्रम् ।। ८ ।। गोकन्याक्षितिगन्धसिन्धुरमहावाहालिगेहादिमा- संख्यात प्रतिपादनाञ्चितबुधोप्येष क्षमावल्लभः ।। गोदातीर्थनिपेवणादननुतात्मानं धुताचं बत प्रायोतिदूरगाः क्षितितले मन्तो महान्तो जनाः १९ श्रीमन्नवदुर्गस्थः कृष्णकविः सार्वभौमविरुदाव्यः ।। द्वैतीयिक विलासं विदधे रघुनाथविजयेऽस्मिन् ।। २० ।। इति कविकृष्णविरचिताया रघुनाथविजयाख्यचम्प्वा द्वितीयो विलासः ॥ २ ॥ १ खामिक सखस्थानम रघुनाथविजयचम्पूः । तृतीयो विलासः। तदनु यथाक्रमं कृतनिमज्जनो निखिलमङ्गलतुङ्गाधारे गङ्गाद्वार आरचिताप्लवः समुन्नतशिलातलावनजनिताळशावते कुशावर्ती अङ्गीकृताभिषेकः मकरन्दतुन्दिलहलके बिल्वक निर्वतितानुष्टानः परिवृतनिखिलकलिकल्मषाभीलगविते नीलपर्वते उरीकृतस्नान पाविनजनकुले कनग्वले च तीर्थ परार्थे भूतलावतीर्णत्र्यम्बक- पदाम्बुजसेवाभिलाषसमागतपुरन्दरपुरसुन्दरीवृन्दरीतिहरणनि गुण- रमणीजनशरणीकृतमणिविमानसमानलसमानकूलरत्नसौधयूथनि- विडिनत्य हृद्यनिषद्यानलप्रसारितशस्तकस्तृरिकादिनिस्तुलवस्तुपर. भि दत्परिमलकृतनिगलपुष्पंधयशुरन्धरवृन्दनीरन्ध्रतया निजाब- नाथं त्र्यम्बकमनकर्तुं नागाजिनेनेत्र रचितावगुण्ठनस्य य. कक्षेत्रत्य निरुपमाल द्वारव मणि निम्नत्रयाधावतन्य- नच्छयेव त्रिधावतीर्ण त्र्यम्बकं नाम भगवन्त मुमाकान्तं स. मेव्य सानन्दवाप्प इत्थमन्तौपीत ॥ १ ॥ भगवंस्यम्बक इति किल निगमान्तैर्गीयंत भवान सततम् ।। नदपि समदृष्टिसि यश्चित्रमिदं किं ब्रवीमि तव चरितम् ? :: त्वं त्र्यम्बकोपि चित्रं पचावकमथनछतमुखोसि विभो । नहि साधनसम्पात्तेः फलाय तद्वद्यथा तेजः ।। २ ॥ त्वं नीलकण्ठ एव श्रीमन् सन्मानसे कथं नित्यम् || १ कृतस्नान: । २ अम्भमांत्रमः । ३ मध्याविकासित ताम्रकमलम । ४ आभीलं भयंकरं । ५ शास्त्रसिद्धान्तः । ६ पञ्चाम्बको मदनः ।

ग्रन्थरत्नमाला । विहरसि विचित्रमेतच्चरितं तव कुमुदबन्धुमौलिमणे ॥३॥ ये वृषवन्तो धरणौ. तेषां मुलभोमि देव पुरवैरिन् ।। वृषमुत्सृज्य पदं वा न चलसि वृषवाह यम्मान्त्वम् ॥ ४ ॥ दोपाकरमापि शिरसा दवदान्तं भवन्तमिह भजतम् ।। दोपाणि धुनोपि विभो वृत्तिस्ते नयनवद्विपया ।। ५ ।। अत्रिनयनप्रियोपि त्रिनयनमुकुटेन किमिति ते श्लाघ्यः ।। इन्दुर्हिमसम्बन्धादथ वा हिमवत्मुताकान्तः ॥ ६ ॥ आचरसि हि भिक्षाटनमथापि सम्पत्तिमाद वामि नृणाम् ।। परमेश्वरोप्ति कस्माद्दिगम्बरोमीति शिक्षकः कम्ते ।।५।। पञ्चाननः षडाननमहितोमि विचित्रमन्यदेतञ्च ।। त्र्यम्बक महम्न नयनाञ्चितोमि नित्यं यदप त्वम् ॥ ८ ॥ इत्यभित्य हृष्टमानमः स महीपालमाणिांचरतरं महानट. जटाजूटकोटिकोटरतटनिवामजनितविरहरूशशशाङ्कपरिरम्भार- म्भवम्भ्रमवितरणार्थावतीर्णतागवलीत्रान्तिदन्तुगेकरणनिपणन्म- गनघमुकाहारावली: ज्योतिःस्वरूपायं त्र्यम्बकेश्वर इति तत्रै क्यमुपगन्तुमागता विद्युल्लता इव दिव्यकनकपटीश्च पटीयन्या भत्त्या समर्थ्य तस्मै चिरतरं किमपि किमपि मनाम महारथी- त्सवादिपरिष्कारनिष्कर्ष निकासितसंशयं विचिन्त्य यावन - दिव्यालयान्निर्गच्छति तावदताडयन्त दुन्दुभीनमर्दयन्त मर्दलानु- देग्यन्त तर्याण्युदघोषयन्त जयजयशब्दाननर्तयन्त वारववृष्टि- ५ चन्द्रम् । २ अ: नयनं तयोः प्रियः । 3 इन्द्रपतिः रघुनाथविजयचम्पः । १ काव्यसयन्त धवलान्तपत्राण्याकम्पयन्त चामरायचालयन्त कुन्तानवल्गयन्त तुरङ्गानद्रावयन्त शताङ्गानगर्नयन्त मातङ्गान- चारयन्त पदातीननादयन्त काहलानवादयन्त पटहाद्यवाग्रान- तर्जयन्त क्रियामन्दान क्वचिदृष्यन्तो घुष्यन्तो हसन्तः पराय तन्ता नि वसन्तो ब्रुवन्तस्तूर्णं यातेति धृन्वन्तः शिरांसि तन्त्र - न्तो अलीनमुञ्चत आनन्दवाप्पान सिञ्चन्तश्चन्दनवारिभिर्जनान में निकांथा स्वकृत्यमजीभृता एवं यावद्भवन्ति तावद्यथापुरं प्रवि. श्य नैनोपकार्यामार्याणां यथामर्यादमपर्याप्तं वितीर्य धनं महीपाल वयों निर्गत्य तम्मान्नगरादतिक्रम्य रम्यान्प्रदेशानगणितशृङ्गाम- ङ्गलेऽपि सप्तशृङ्गनर धामे भूमिधरे पुराणरिव पुरातनवाणीमष्टाद- शभिगश्लिष्टां भुजैरजय्यैः संमेव्य भव्यां देवी प्रदाय प्रमदाहु- दारोऽवदातातिर्यथेष्टं तुष्टचिनो वित्तं तत्तदनुगुणे महाजनभ्यः विहाय तदपि स्थलमैलनदीपरिसरभुवि ज्योतिर्मयमभिवन्द्यारिज नभीष्मं बुमेश्वरं पुरस्कृत्यापि तं पश्चात्कृत्य गोदाः प्रायण प्र. वरामङ्गदत्तचित्ता भवन्तीति सूचयितुमिव जगतां प्रवराख्यनदी- सङ्गमनुभवन्त्याः मकलजगच्छ्रीदायाः गोदायास्तटभुवमधिवर- नं गोदाश्रिताः प्रवराश्रिता वा पुंसिद्धाः भवन्तीति निदर्शयितमि व मिश्वराभिख्या प्रख्यापयन्तं हैमवतीकान्तं प्रणम्य सम्य विमृज्य तं च प्रदशं निखिलजगत्सम्पन्निवासं निवासं नाम प्रवि. श्य पवित्रं क्षेत्रं प्रणम्य मोहिनीरूपं भगवन्तं रमाकान्तमतिक- म्य तत्क्षेत्र भीमानदीजनिभूमौ डाकिनीवने नीपवने घने निग्वि- १ गोदानकर्तारः । २ प्राप्तपुरुषार्थाः । 3 'नेवास' इति प्रसिद्धम् ग्रन्थरत्नमाला। लपुरस्तोमातङ्कहरं भीमाशङ्करं निखिलनयनमात्रज्योतिःस्वरू- पोयमिति न्यूनतामपहर्तुमिव शुद्धज्योतिःस्वरूपं नयनपदवीजङ्घा- लमारचय्य विरहय्य तामपि स्थलीमन्यत्र कृचिन्निखिलजनाद- Vडाज्ञानमण्डलविपतरूखण्डखण्डनप्रचण्डदात्रे मार्तण्डक्षेत्रे निर्म लजलहरितीर्थनिकटगावसन्तं नित्यतेजानिधि त्रयीतनूमपि मां नम्त्व प्रथिव्याद्यष्टमूर्तिता प्रकटिता त्वया को मेतिशयः प्रति- पादित इति कुपितं मात माश्वानयि तुमिव विमृटान्यनामवि- चारमाश्रित्तन्नामयोपदं ईश्वरमभिवन्द्यानन्तरं च कविरना- कम रभवे गिपत्य निखिलजादभयदायक विनायकमितर व गिग विलीय प्रबर्षित जगदुत्मवारम्भं शभु महादेवमः ली विवेकयन विविधविलाभिजनविहरणाभिरामानारामान विपुलव- नरमीत्र अनुराकानपि पहनाकरान तत्रतत्र चितहा- मिवाशिनी समन यमदिनमाल मृदङ्गधिधिमिधानव घुगण मिन्गजवसुन्धराधरनन्दनारमणमणिमन्दिराणि च पुरतः पार्थद्व- यनिता शशिकान्तमणिकान्तनिशान्तबाहिरूपान्तसन्ततसंवर्षि नारिकेन्ट पान्टिकी बालकन्टका समय राजदाजहतर नीरानरहि परंभावित ॥२॥ भीमामङ्गममग यत्र ममिन्धभिाषितपदा ।। पाचालीव नितान्तं नीरावनी धन अयासक्रिम् ॥ ९ ॥ -पकल्पान्तकालीविटनिटिलतटीप्रस्फुटद्वझिलोल- ज्वालाभीलात्मलीलाभरिपुष्टतनाध्यक्षविक्षोभदक्षः ।। : दृक्षम्यानं पक्ष प्रपदं द्रोपई पिता रघुनाथविजयचम्पः । १२ स्तम्भादुन्नम्भमाणः पुरहरमुरराट् प्रस्तुतो ध्वस्ततोषा-' विश्वानाश्वास्य शश्वद्वसतिपुरनरान् धिकृतां हा नृसिंहः १०॥ मञ्जुलवानीरायां नीरायां विरचिताप्लवोसी मोदात् ॥ ग्वेदान परिधुन्वन्तं तन्वन्तं श्रियमियेष देवं द्रष्टुम् ॥११॥ तावन्निजागमनविचारनिशमनजनितनवर्नरहरिपरिवारजनैः म्यादं माजी अतैरत इति नीयमानो मानवपतिरप्रतो जाग्रतो पिकवलोकान्ताउचमानभरीकैर्नाद्यमानवीणैर्वाद्यमानवादित्र- बादामान रापाद्यमानहन्ततालैनुद्यमानोत्कम्पवसनैर्भिद्यमान- नारकलोद्यमानदिव्याम्वविद्यमानभगवद्दिव्यगुणैस्तुद्यमानजद- जनैर्विमानफरायमैवद्यमाननरहरिनामघयैरामाचमानानन्दैरा- मानपरस्परैर अमाननाम्गनियमानतदनैरुत्साद्यमानननम- * मानिागोपनारेमदीरमाणतानर्विचार्यमाणशास्त्राथैदीर्य- माणानन्याः प्रामाणनिर्गमयोपैरुद्धार्यमाणपुराणैविस्फार्य- माणलोचनै डार्यमाणा अलिपटी कार्यमाणभ्वस्वजनैरापूर्यमाणभ- किभित्रमाणाव मुमैग्वार्यमाणपुलकैगम्मर्यमाणहिरण्यकशिपुम- अनकथाविशेरीविनार्यमाणमान: परिस्तीर्यमाणवसनविकीर्यमाण- लाजाजलिमित्वर्यमाणपत्रीजनैत्रियमाणाभरणैः क्रियमाणप्रणा- मैगद्रियमाणभागवतै:ज्यमाननामरस्त्यजमानान्यविचारैरनुभुज्य- मानभगवदिव्यविहमौन्दर्भसेवनै उज्यमानहृदयैः परिप्वज्यमान- मित्रैः सृज्यमानस्वम्वविद्याकौशलैरुत्तेज्यमानप्रदीपैविभज्यमानगो- टीकैः सज्ज्यमानचन्दनैः प्रसज्यमानपटवासकैस्तय॑मानशब्दैन- १ मजुला वानस: तीवृक्षा यस्यां २० ग्रन्धरत्नमाला। यज्यमाननीचजनौराज्यमानभावञ्चरणारविन्दैर्धाज्यमानप्रदी- पैश्चानेकविधजानपदचातुर्वर्ण्यजनैः सर्पपप्रदेशस्याप्यप्रदत्तावकाश कचिन्निरन्तरसान्द्रचन्द्रशालाजालाग्रविसरदसशपद्मरागपुञ्जम- जुलमयूखरेखाविलोकनजनितया समुदयदरुणकिरणकिरणमन्द- यमनीषया क्षपास्वप्यपरित्यक्तप्रियतमाश्लेषैः सन्तोषैश्चक्रवाकैर. लंकृतविटङ्कां क्वचिदुदग्रसौधाग्रयूथायगवाक्षलक्षनिर्यत्ननिर्वत्तता- दृशमुक्तावत्रमणिघृणिदर्शनसमुद्भुतया शिशिरकरकरनिकरधिषण- या दिवापि लेलिह्यमानरसनैश्चकोरनिकुरुम्वैः परिप्कृतदेहली कां क्वचिदन्तरान्तराग्वचितसौवर्णलतावितानबलरिपुनीलपौधशानवि- लोकनोदश्चितहृद्यविद्युल्लशलाश्चि तसद्यःसमुद्भवदम्बुधरकदम्बद्धि- नया वारसमयेपि निरन्तरकृतताण्डवैः शिखण्डिमा दुरीम नोहरां श्रीनृहरिदिव्यालयाभ्यर्णगेहवीथीं कथंचिदतिक्रम्य - विश्य भगवद्दिव्यालयं पुरतः सकललोकलांचनभागश्यामित्र मूर्तिमूर्तिभृतं विनताखिलजनताधिकवनतापहवनतादृशमादावह पादाम्बुजयुगलगदगणितततमितमुक्तामणियुक्ताद्भुतहंसकरमहं-- मकयुतमतिकृतिपतिमतिततिभृति जहालमुजवायुगममलाननकमन्ना श्चितकारवरकरनिभशुभविभवोरूलगदरुज्ज्वलहेमाम्बरधामाधि- कवृणिमणिगणझणझणझणदश्चितवनकाञ्चनमयकाञ्चिकमतिराह- पमबाहुल्लमदरिदरवरमरिदरकरमरसाचितसरसीरुहनिलयं धृत- वलय सुरनुतमङ्गदोल्लसितमधिकं गदाल्लसितमरुणकरकिरण- समतरुणमणिसरणिसरसुन्दरतरं हृदयमन्दिरतलालसितशस्ततर- रघुनाथविजयचम्पूः । २१ मचिकलितकौस्तुभमणिं सततमिन्दुसुन्दररुचि दयानिधिममन्द- सान्द्ररुचिसरससरसिरुहरुचिररुचिनिचयगिरिमभरमथनदक्षिणे- क्ष शमनुक्षणक्षपितरूक्षराक्षसकुलं विकटमुकुटतटखचितरुचिरत- र दलितवलमथनमणिघृणशवालतनिजदिव्यावग्रहकान्ति भगवन्तं प्रणत परसिजननिपुरहरं नरहरि निज कुलदैवतं भावितहषों- कर्पनसमरपुलकोद्गमो विलोक्य नयनयोर्महोत्सववितरणेन सम्पा- दितानृण्यः पुण्यकर्मणामग्रग मग्रगण्य इत्थमभितुष्टाव । स्फूर्जत्पर्जन्यगर्जाप्रसरणरभसोतर्जनात्यूजितैः स्वै- सत्कृष्टैरट्टहासैदिशिदिशि चलितैः साध्वसं साध्वनन्तम् ॥ चक्रे शक्रेशमुख्या दितिसुतनिकरस्यापि सोयं कथं वा शश्वद्विश्वप्रपञ्चाभयद इति भवान् गीयते गेयतेजाः २|| त्वं स्तम्भभदपूर्वकमुदितो भजतां समस्तमनुजानाम् ।। प्रहादजीवनौषध विरचयमि स्तम्भभेदनं युक्तम् ॥१.३॥ यदि च निवसेत्प्रह्लादस्यापरः सदृशः सुतो भवति हि तदानिप्पपेस्य प्रमोदभरो महान || इति मृगयितुं नूनं शत्रोबिभेद भवान् हरे जठरमचिरानोचेद्रोपानलस्य कियान स ते ॥१४॥ तादृशरोषेपि हरे लक्ष्मीदर्शनलवात्प्रसन्नोसि ॥ अतिचण्डोपि धरियां जायानिकटे प्रसन्न एव जनः ॥१५॥ एवं स्तुवन् स्वकुलदैवतमात्मवंश्य- राजर्षिमिः शुभगुणैदृढभक्तिकृप्ताः ॥ १ जहीमावनाशनम् ।

२२ ग्रन्थरत्नमाला। गृह्णानमेष कृपया सकलाः सपर्या- पर्यायतः कमपि मोदमथादुदार ॥ १६ ॥ तदनुहृद्यान्तरुज्जृम्भमाणकुतूहलनिराकरणोनिशोवनीशः पु- नरप्येष मम भागधेयमेष मम नयनानन्दकन्द एप ममासस्ट- टव्यामोहः पिता माता भ्राता एष मम चिरतरमुकृतसुरतरुफ- लमेष मम सकलमनोरथनिर्वहणबीजमेष परात्पर इति ध्यायं- ध्यायं निमीलितनयनः पुनरपि प्रोत्फुल्ललोचनः पुरतः सिंह- स्थितिर्मम दीप्तिकारणमिति हर्षानुपागत्य प्रकाशमानेन दिनक- रेणेव रत्नमुकुटेन हिमाचलमिव भानुमण्डलेन परिमण्डितं निर- गेलविसमरप्रतापप्रवाहमध्यावर्ताभ्यामित पतरङ्गाभ्यां कुटिलतर- भूलनावृत्ताभ्यां वर्तुलापाटलाभ्यां नयनाभ्यां रिपजनहृदयक्षेत्रष्टं करयन्तं साध्वमवीजानि द्विजराजतामात्मनः स्फटीकर्तुं वदन माग द्वेधा जायमानेन बालचन्द्रणेव दंष्ट्राधुगलेन कोरकितकरालबद- नं मयसिंहमप्यमसिहं यावत्संमेव्यापर्याप्ताश्चर्यो भवति ताव- त्रियामात्पवेषु निवर्तितेषु सर्वेषु यथामादं शय्यामनापणाय सूत्रवतीमखो भगवन्तमित्थमभितुष्टाव । आसूर्योदयमम्बुजाक्षरचिता आगत्रि ये वा मया देवेशप्रचुरोपचारकपटादद्यापचाराः शतम् ॥ तां स्वं माधव दैत्यबालवरद क्षाम्यन् कृपाभारतः पाह्येनं त्वदुदारपादयुगलीनित्यप्रपन्नं जनम् ॥१७ ॥ इतश्च । सर्वे सजीक्रियतां मृगमदविलसञ्चन्दनस्त्रकप्रदीपा रघुनाथविजयचम्पूः । दीप्यन्तां मञ्जुलारार्तिकवरनिचयाश्चन्द्रमुख्यः समन्ता- द्यान्कालोतियातो भवति हरिरयं याति चैकान्तलीलाम्। १८॥ भोभो चण्डप्रचण्डौ शृणुतमिह वचो मामानं नितान्तं भ्रान्तः कान्तो रमायाः कमपि जनमिह द्वारि मा मुञ्चतं वा ।। शास्ति श्रीमसिंहप्रभुरिति निखिलायात नैजान्निकेतान्- देवा मात्र नातः परमिह भगवानद्य सेवा प्रदत्ते ॥ १९ ॥ दिक्पाला इन्द्रमुख्या इह भुवनतले सर्वतो रक्षत श्री- कान्तं नीरानृसिंहप्रभुमखिलजगद्रक्षकं पङ्कजाक्षम् ।। शेने लक्ष्म्या सहासावधिकमवहिता यूयमेते प्रभाते मेवार्था यात नृणां सकरुणहृदया दर्शयध्वं यथावत् ॥२०॥ भो भो नारदतुम्बरुप्रभृतयः मन्दमन्दमुदश्चयन्तु मधुरं गीतं भवन्तः पुरा ॥ वीणामात्रकलारवेण सहितं देवो मुदा भार्गवी- हस्ताश्लिष्टकरो भनत्यतितरामेकान्तसेवां हरिः ॥२१॥ मन्दं वीजय चामरं मुविमले सानुग्रहेनुग्रहे शीतं मञ्जुलतालवृन्तमनघं व्यालोलय त्वं मनाक् ।। अत्युद्वेल्लितबाहुवल्लिविलसद्रत्नोल्लसत्किङ्किणी- दीव्यत्सिञ्जितपुञ्जलो नरहरेनिद्राविभङ्गो भवेत् ॥ २२ ॥ इतश्च पुनः साञ्जलिबन्धं भगवन्तं प्रति । स्वामिन् भजस्व रमणीयवितानशालि- मल्लीसुमातिसुरभीकतशुभ्रचेलम् ॥ सर्वैरिदं श्रूयतां 1 महीमुमं मल्लीपुष्पम् ।

ग्रन्थरत्नमाला। मञ्च नितान्तमृदुलं परितः प्रजाग्र- द्वालाकरोल्लसितचामरचाररूपम् ॥२३॥ अम्ब भार्गवि मर्त्यसिंहविभोर्महाद्यपदाम्बुन- द्वन्द्वसंवहनं मृदु प्रविधाय कोमलहस्ततः ॥ तत्र देवपदाम्बुजेर्पितसर्वपूजनसत्फला- संघमञ्जुलकोमलाम्बर मांसले शयनोत्तमे ।। ४ । इत्थं विप्वक्सेनवाक्यैः प्रहृष्टः श्रीमान्यावदाति नीरानृसिंहः ॥ तावन्मदं मन्दमात्तापसर्वः प्रायादृपालोपि नैनोपकार्याम् ।। २५ ।। अन्याः । रमालफलशङ्कया ग्रहणसंमुखीनैमिथः प्रबुध्य कलहैसपैः प्रचुरपुच्छविच्छोटनात् ।। महामणिरिवोदधेवियति दूरमुट्टड्वितः शुशाभ तरणिस्तदा समुदयन् बलारेदिशि ।।२६, ! कृतनिखिलाह्निकाः स्मृतबहुश्रुतिशास्त्रगणा- भृतशुभभक्कयस्ततमहार्घगुणा निपुणाः ।। नरहरिसन्निधेधुरिघृताञ्जलयः सुधियः परिचरणानि तस्य परितः परितस्तरिरे ॥ २७ ॥ अजिज्ञयंश्चैवम् ।

१५
रघुनाथविजयचम्पूः ।
श्रीदेवदेवकरुणाजलधे मुरारे
प्राभातिकाम्बुजमदापहनेत्रकान्ते ।।
नीरातटात्तनियतालयरम्यमूर्ते
श्रीमन्नृसिंह भगवंस्तव सुप्रभातम् ॥ २८ ।।
हरिहरिहरिरिति मजुभाषितं
द्विजावलेः सपदि निशम्य कौतुकात् ॥
द्विनवजोप्यनुवदतीव कूजितैः
कृपानिधेच्युत नृहरे प्रजागृहि ॥ २९ ॥
अन्तर्हिता लसति धामनिधौ प्रकाश-
मत्यन्तमेत्य जनयञ्जगतां प्रबोधम् ।।
प्राचीप्रदेश इह देशिकवद्विभाति
नीरासिंह भगवंस्तव सुप्रभातम् ।। ३० ॥
गाढा विद्येव रात्रिविगलति न चिराज्ज्ञानवद्भानुतेजः-
प्रोन्मीलत्यब्जबन्धुर्जलजनयनवदृक्पथं याति मन्दम् ।
आनन्दं याति सान्द्रं मुनिवरकुलवदेव सर्व जगन्च
श्रीमन्नीरानृसिंह प्रभुवर नयने किञ्चिदुन्मीलयम्व ॥३॥
काहलडिण्डिममण्डलझर्झरपणवाद्यहृद्यवाद्यानाम् ॥
संस्पर्धयेव निनदा जृम्भन्ते सुप्रभातमच्युत ते ।। ३२ ।।
इत्यभिष्टुत्यापितान्तैः सत्यधीभिः श्रियः पतिः ॥
पूजां यावत्सगृह्णाति राजा तावदगान्मुदा ॥ १३ ॥
संसेव्य निर्जरगुणोत्तंसं दितिसूनुहिंसनं देवम् ।।
धन्यात्मावनिपालो निन्ये स सुखं दिनं तत्र ॥ ३४ ॥

२६ ग्रन्थरत्नमाला। श्रीशैलवंशतिलकः कृष्णः कविसार्वभौमबिरुदाव्यः ।। तार्तीयिक विलासं विदधे रघुनाथविजयस्मिन् ।।३१।। इति कविकृष्णविरचिताया रघुनाथविजयच- म्वास्तृतीयो विलासः ॥ ३ ॥ - चतुर्थो विलासः। कतिचन दिनानि तत्र क्षितिपालो व्युष्य हृष्यदनघमनाः ।। अगणितविभवस्तस्मान्नगरात्प्रस्थानमतनुत बलेन ॥ १ ॥ अताडयन्त दुन्दुभीनमर्दयन्त मर्दला- ननादयन्त काहलानसज्जयन्त वारणान् ।। अवल्गयन्त घोटकानधारयन्त खेटका- नहेषयन्त सैन्धवांस्तदा मुदा जना घनाः ॥ २ ॥ बालं कञ्चन मामकान्वयमणि बनौति चित्ते भवा- नामाख्यं नहि मञ्चसि क्षणमपि त्वं कस्य हेतोरिति ॥ प्रष्टुं किं समुपागतेव रविणा छत्रेण हैमात्मना कान्तश्रीरधिरूढतुङ्गतुरगः श्रीपाण्डुरङ्गं ययौ ॥ ३ ॥ उन्निद्राक्षैनितान्तं कृतपटुनटनै रुक्मिणीविहलेति श्रीमन्नामोचरद्भिः कटिघटितपटैर्हस्ततालप्रशस्तैः ॥ हस्ताग्रात्तप्रदीपै(तदुरितचयैर्देवदिव्याङ्कपाली- प्राप्त्या भक्तैः समन्तादपि निबिडतमं सन्ततं यत्समिन्धे ।

रघुनाथविजयचम्पूः । २७ प्राप्तायं हृदयाम्बुजं चिरतपोभ्यासात्समुन्मीलना- दीपल्लोचनयोर्गमिष्यति बहिर्लब्धाय नः श्रीपतिः ।। इत्यामील्य दृढं विलोचनयुगं ध्यायन्ति यत्राच्युतं सानन्दं मुनयो भवन्ति मनुजाः कृच्छ्रार्जिते सादराः॥७॥ यद्दीक्षालवलेशलेशकणिकालाभाजनाः केचन स्वर्गशानपि निर्भरं विदधते भिक्षाककोटौ क्षणात् ।। तां लक्ष्मी विदधद्वशेपि भगवान्यः पाण्डुरङ्गस्थली त्यक्तुं जात्वपि नेच्छतीह बत तं राजा ददर्शाच्युतम्॥ ६ ॥ एवमस्तौषीत्साञ्जलिबन्धम् । सायन्तनकुवलयमदहरणचगस्निग्धमुग्धदिव्याङ्गम् ।। ध्यायन्ति यं मुनीन्द्राः सोसौसाक्षात्कृतः सरोजाक्षः ॥७॥ सपुलकाञ्जलिबन्धम् । वेदान्ताभरणे श्रयामि चरणे उरू तथोरुश्रिया बाहू चापि बहुज्ज्वलौ हृदि भने वक्षश्च लक्ष्मीयुतम् ।। वन्दे चन्दिरसुन्दरं च वदनं फालं च कस्तूरिका- नीलं कुन्तलजालचुम्बितकनन्मूलं च मौलिं भजे ॥ ८ ॥ अपि च । वृत्तिरसङ्गतिरिव तव भगवन् सर्वार्थदानहेतोस्ते ।। अवतारस्तदपि त्वं न कदाचित्त्यजास पाण्डुरङ्गमपि।।९।। देवेश चन्द्रभागाञ्चितो विधुश्चासि तदपि यद्गवन् ।। श्रीपुण्डरीकवरदाभिख्यां वहसे तदेतदतिचित्रम् ॥१० !! अन्यच्च ।

२८ ग्रन्थरत्नमाला। तप्त्वानघ तप इह चिरात् प्रार्थितं यन्मुनीन्द्र रुक्मिण्या अप्यमुलभतमं दिव्यमालिङनं ते ।। धन्या एतेऽनुदिनमपि तत्प्राप्य हर्ष भजन्ते मालापिष्टातककरतलाः किं ब्रुवे धन्यतां ताम् ॥ ११ ।। कथयन्ति विठ्ठलविभोरात्मज इति मां ममावनभरोपि । न स्यात्कथं तव हरे तनुजं को वा न पालयेल्लोके ।। १२ ॥ कि बहुना । नित्यं भक्तजनावनेन च नृणामालिङ्गनस्तादृशै- लक्ष्मीकान्त निपीडितोसि न यदि त्वं पाण्डुरङ्ग प्रभो ॥ कल्यां न्यस्तकरः सदापि कुरुषे संवाहनं हा कुतः पाह्यस्मानपि ते विचारयति कः श्रान्तिं कथं वाप्यसे। ३।। इत्यभिष्टुत्य गृहीततत्प्रसाद उषित्वा तत्र दिनानि कानिचि- नावसमुदयति घनतरोप्मयुवकामिनीकचकनककलशपरिरम्भसं- भ्रमसमात्त धैर्यतरुणसमुदये हेमन्तसमये स्वाधिकतरागस्त्यमहा- मुनिमहामहभरावधूततयेव मन्दीभूततेजस्याश्रितदाक्षिणायने ती- क्ष्णभानौ शीतकरायमाणे धामनिधिमण्डलविधुरायां नितान्तरता. न्तपरिश्रान्तिजनितधर्मजलनिर्मष्टतिलकायामिवान्ध्रललनायां दि- शायां धनदगोपायितायां दुःसाध्यतरमानिनीमानमहापिशाच- दूरोच्चाटनहेमन्तमान्त्रिकमन्दानिलफूष्कृतोदृङ्कितविभूतिभ्रमावह- हिमानीसमानीतधूसरिमभारे दशदिशाभ्यन्तरे निर्भरविजृम्भमाण- यौवनोप्मनिजस्तनयुगलाविरलाश्लेषदूरीकतहिमोद्वेगसरागहृदयत- . रघुनाथविजयचम्पूः । २९ करस्फीतमारुतव्रणिताधराणां जनानां वचनीयतामनुपगतामु मु- ग्धवनितासु अजातनिर्मलहाग्रभागशयनमनुद्घटितगवाक्षमघ- नसारचन्दनचर्चनमकुसुमहारोपहारमलामजिकतालवृन्तवीजनं के- वलकस्तूरीचन्दनलेपनमतिमात्रताम्बूलचर्वणं राङ्कवैकवसनं गाढालि- ङ्गनमात्रसारमनुभवन्तीषु सर्वरात्रं कामिनीषु कामुकैः सह रतो- त्सवमेवमतिक्रान्तेषु तहतुदिनेषु विसृज्य तां नगरीमवाप्य कोला- पुरी तत्र भागधेयं भगवतो नारायणस्य भगवन्निवासकृतार्थम- स्म्यधुनातहर्मदाराणामपि निलयीभूय सेवया कृतार्थयामि जन्मे- ति निश्चित्य दलात्मना परिणतेन किरणसहश्रेणिदेदीप्यमाने चण्डकरमण्डल इव सुवर्णसहस्रपत्रे समासीनां शरणागतजनह- दयादपहृतं रागातिरेकमिव प्रकाशयद्यां अरुणारुणाभ्यां चर- णाभ्यामुगासमानां जननी स्नेहदर्शनकुतूहलपरिरम्भमाणविबुध- तरङ्गिणीसंशयधत्तहस्तदुकूलभूषिताङ्गी दिव्यावग्रहलावण्यमन्दा- किनीमध्याशीर्षानमग्नयौवनरावतकुम्भाभ्यामिवोर्ध्वप्रकाशमाना- भ्यां कुचाभ्यां प्रकटितोत्तमस्त्रीलक्षणां निजमहिमानमनुकुर्वद्भ्या- मिव श्रुत्यन्तप्रणयिभ्यां नयनाभ्यामानन्दितमुकुन्दहृदयां निजा- न्तेवासिनः प्रति दयालु कारयितुं समाश्रयता शुक्रेणेव वज्रति- लकेन विभासुरफालतलां पुरस्थितनासाचम्पकसौरभीचकिततया पश्चादावमानया यौवनाराममधुकरमालिकयेव वेणीलतया परि- प्कृतां भगवतीं भवाब्धिनौकां राकाशशिवदनां कुन्दकुमलरद- नां जगजननीमनीनयदाक्षिपथम् । १ मालीमवत्रम । २ विभासूरं प्रकाशमानम् ।

३० ग्रन्थरलमाला। अथ नुतिवाक्समार्जितनिरङ्कशतत्करुम- पुरमापे तद्विसृज्य नगराणे नदीश्च गिरीन् ।। कतिपयवासरैरतिपतन् द्विरदैस्तुरगैः सह पथि कृष्णवेण्यभिधशैवलिनीमभजत् ॥ १४ ॥ दत्तात्रयं सोभिवाद्याथ तत्र श्रीमांस्ती; धृतकृष्णां च कृष्णाम् ॥ सूर्यासक्तां तां सदामन्दसेव्यां छायाभिख्यां देवतामक्षतासौ ॥ १५ ॥ महाभाचारकुशलद्विजराजनिपवितम् ॥ कनकाचलनामानं ग्रामं भेने तता नृपः ।। १६ ॥ सुरालय इति प्रथां भगवदाश्रयादात्मनो व्यपाहि तुमना निजार निमपोह्य लजाभरात् ॥ पुरारुतिमुपादधे धरणिसीनि मेरुन च- कुनोस्य विदिता भवेत्कनकागभिख्या पुरः ॥१७॥ तत्र च भगवन्तमखिलजगदुत्पत्तिस्थितिावेलयकारणं दुस्तर- भवजलनिधिमहावर्तपरिवर्तनावेवशार्तजनदूरार्तिलताकर्तनप्रहरणं प्रणमदमरपरिवृढमुकुटतटलुठदरुणाम्बुजप्रतिस्पाईचरणं त्यक्तबहु- चितभववृत्तिपटुभक्तिरसपिक्तनिनचित्तभवमुक्तजनमनस्सौधनिरा. बाधविहरणं महस्ततिनिस्तुलरमास्तनस्तबकवास्तव्यकस्तूरिकामो- दप्रशस्तिसौवा स्तककौस्तुभाभरणं रमालोचनचकोरहरिणकिरणं क्षमाचित्तसरोजषट्चरणं नीलाविलासविहरणशरणं शरणागतज- . रघुनाथविजयचम्पः । नभरणायत्तकरुणं कनकगिरिपुरसरसिजारुणं निखिलमुनिजनप. रायणं नारायणमवलम्बितनृसिंहरूपमगणितमहामहिमाटोपं संस- व्यबहुतरं स्वायत्तीकृततदनुग्रहः निर्गत्य तस्मात्पुरादतिलवय विरचितनिखिलजनतुङ्गमद्रां तुङ्गभद्रामतिक्रम्य गव्यूतिद्वयमात्रं मार्ग चण्डचण्डपुण्डेसुकोदण्डभुजदण्डहिण्डमानकोदण्डमण्डलीस- मीरितनिशितमुखशिलीमुखविकलीकृततरुणमिथुनकलितविविध- लीलालालितम निकुञ्जपुञ्जरञ्जितोपान्तवनिकावनिकान्तकान्त- जनतान्तनिरन्तरकन्दलितसन्तानसन्तानसरलबकुलक्रमकमुखवि- विधविटपिचटुलविटपपटलाञ्चलचञ्चलचञ्चरीकसञ्चयसञ्चलितम- अराजरीनृम्भदमन्दमकरन्दबिन्दुसन्दोहसन्ततविहरमाणशुकको- किलमुखविहगकुलत्र.टीपुटकोटीकुट्टनपरिपाटीपाटितनारिकेलरसा. लम वविशालतररसालफलजालनीरन्ध्रनिष्यन्दमानसरसतररसधा- रामारामेडितमाधुर्यगाम्भीर्यमङ्गलतरतरङ्गतुङ्गभद्रान्तरपरस्परपरि- रम्भारम्भनृम्भितसारसलक्ष्मणापक्षविक्षोभदरविदलदविरलदशश- तदलमुकुलगर्भनिर्भादाविर्भवनिर्भरसौरभकरम्भितमन्दानिलसेवाप- रवशयुवजननिबिडान्तरं त्रैलोक्यपावनतुङ्गभद्रान्तरङ्गनिमज्जनकुतु- कावतीर्णसुरनिकरतटभूस्थापितासमानलसमानविमानसंशयाशांस- देवालयशतकोटिसहस्रनिबिडितं प्रविश्य हेमकूटगिरितटघटित- वसतिविरूपाक्षक्षेत्र नाम किंचन पवित्रं स्थानं तत्र दिव्यालयम- ध्यभुवि परमेश्वरनित्यनिवाससौभाग्यकलितमदावेलासकैलासवैशि- ट्याक्षमतया तत्सादृश्यावलम्बनाय समागतमिव सुमेरुगिरिमुत्तुङ्ग- ९ तातिशयोन भद्रं शमम । २ रसभारतानि ।

३२ ग्रन्थरलमाला। कनकपीठमधिवसन्तं गिरिराजतनुजायामपि तत्प्रीतिरधिकेति रुषा जटाजूटाटवीमध्यमावसन्तीसिद्धस्रवन्तीमाश्वासयितुं त्वमे- कैव मम प्रियेत्यात्मना घटिकाखण्डलिखितामिवैकत्वबोधकान्ध्रव- र्णरेखां सितकैररेखामुत्तंसयन्तं किरीटतटलुठदमरतटिनीतटस- मुन्मीलितलताप्रतानेनेव जटाजूटेन कामपि कान्ति बिभ्राणमद- भ्रां शिरसि मानितोनेनेन्दीवरबन्धुरतनन्धय इतीर्ण्यया तत्सादृश्या- श्रयणाय तन्निकटजायमानेन बालसूर्येणेव तेजोमयेन निटिललो- चनेन कल्पितानल्पाकल्पं बलरिपुमणिमदविधुतिनिपुणनीलकण्ठ- तया लालयति नित्यं प्रियतमां मम सखी शिरसा स्वरङ्गणतरङ्गी- णीमप्यस्य प्रिया भवामीति कण्ठाश्लेषमातन्वन्त्या कालिन्द्येव क- लिनं विरञ्चिपञ्चायुधपञ्चाननास्त्रयो वयमिह त्रिजगत्प्रख्यातवैभ- वा इति सूचनायेव त्रिशूलं दधानं निधानं निखिलसम्पदां नटा- जुटवटितस्य निनाधिनाथस्य कलानाथस्य कार्य वीक्ष्याश्रयान्त- राभावकातर्यप्रपन्नमैन्दवमिव कंचन कुरङ्गबालकं कालयन्तं कर- नलेन समाश्लिष्टं गौर्या विद्युतेव शारदाभ्रं मुश्चास्मल्लभं कुतो ब- नामि कपर्द इति प्रार्थयितुमुपागताभिस्तारावलीभिरिव मुक्ताहा- रावलीभिरलंकृतं चन्द्रिकयेव परिपूर्णचन्द्रं हिमोन्येव हिमवन्त- मात्मोद्भूतस्फटिककान्त्यैव रजताचलं इन्द्रवज्रप्रभयेवैरावतं विभ- त्या समुद्धूलितविग्रहं विरचितकुसुमायुधनिग्रहं दक्षाध्वरध्वंसद- क्षं विरूपाक्ष चिरतरमभिवीक्ष्य प्रणम्यप्रणम्यानन्दसिन्धुजल- मानुषायमाणमानसोभूत् । १ चन्द्रलखाम् । २ देवनदी । ३ भालनेत्रेण । ४ जटाजूटः । ५ हिमम- मुदयः । ६ शङ्करम् ।

रघनाथविजयचम्पूः । निशम्य तत्रत्य जनेन वर्णितां सहस्तिकोणाख्यपुरस्य रम्यताम् ॥ तत्रैव तप्तुं तप आत्तकौतुको विनिर्ययौ श्रीरघुनाथभूपतिः ।।१८।। अविदूरे च क्षेत्रस्य तस्य चक्रतीर्थपरिसरे । सुन्दासुरेन्द्रसुतसन्दारणस्फुरदमन्दाग्रदोर्बलवरं सन्दानितत्रिदशवृन्दाग्र्यपङ्क्तिमुखनिन्दावहस्वचारितम् ॥ वन्दारुकाग्रसरवृन्दारकेशसुरवृन्दानतिक्षणगल- 'मन्दारकल्पवरकुन्दादिसत्सुममरेन्दाभिषिक्तचरणम् १९॥ आतारकधूतानघभूताधिपचापं सूतादिमगीताद्भुतपूतात्मचारीत्रम् ।। भीताखिलभताभयदातारमनस्त्रं सीतापरिणेतारमुदीतादुतहर्षम् २ वरं सुकुमारं जितमारं निजलक्ष्म्या- धीरं गुणनीरन्ध्रमुदारं क्षितिपालः ॥ कामं सुरसामन्तविभीमं प्रमदात्तं भूमण्डलसोमं धुरि रामं स ददर्श ।। २१ ।। दशरथगृहदुग्धाब्धो यस्मिंश्चन्द्रे कृतोदये जगति कुमुदानन्दः शान्तश्चित्रं निशिचरभयं च संजातम् २२॥ वृषधर्षणानुकूला बभौ यदीषा समुद्धृतापात् ।। सीतानुषक्तमनसा येनानघकर्षकेण साऽहल्या ।।२३।। निजचरितानीव मुहुर्बहुतेजस्सोमरहितानि ॥ युद्धानि यस्य तद्वद्यच्छत्रुखरादियातुवदनानि ॥२४॥ तिष्ठायाति दशाननाद्य भवता प्रोक्तं तथैवास्तु ते देवानांप्रिय युक्तमेतदपि मे नालुक्समासं पदम्।। १ मरन्दः पुष्परसः । २ अलुक्समासे देवानांप्रियो मर्खः ।

ग्रन्थरत्नमाला। तूर्णं दर्शय मे स्वसारमथ तां या लक्ष्मणेन क्षणा- द्विग्राभूदिति रावणोक्तमखिलं योखण्डयद्वाग्भरैः ।।२५।। लङ्का विभीषणेनाधिगता यदनुग्रहेण तज्ज्यायान् ॥ विपरीतवर्णलावाच्यं यस्याग्रहेण समवाप ॥२६॥ श्रीमानशेषभुवनत्रेता नेता विदेहतनुजायाः ॥ मङ्गलमुत्तुङ्गतरं तरङ्गयतु नः कृपानिधी रामः ॥२७ ।। इत्यभिष्टुत्य नृपतिः प्रत्यास्मै समर्हणाः ॥ यन्त्रोद्धारकनामानं मानयामास मारुतिम् ॥ २८ ॥ लङ्कालंकृतिसीम्नि दैवतचमूहृद्दारणे तोरणे यः श्रीमान्टतनापतीनगमयत्पश्चापि यत्पञ्चताम् ।। तद्युक्तं खलु राक्षसानपि तथा सत्यापि सत्यार्चिषा तुल्यान् द्रागतनोदिदं वत तयाशीति सहस्राण्यपि ॥२९॥ श्रीमन्नवदुर्गस्थः कृष्णः कविसार्वभौमविरुदाढ्यः ॥ तुर्यविलासं विदधे जवेन रघुनाथविजयेस्मिन् ॥ २ ॥ इति कविकृष्णविरचिताया रघुनाथांवजयचम्प्या- चतुर्थो विलासः ॥ ४ ॥ पञ्चमो विलासः। तदनु प्रणम्य तं लोकोत्तरतदीयसौन्दर्यसंदर्शनकन्दलितान- न्दो रघुनाथवरीमहेन्द्रः किञ्चिदन्तरमीशानोपासनासक्तस्य ममै- AMAVAH रघुनाथविजयचम्पः । ३५ तदुचितमतीव तदिशाभिमुखमुपसृत्य सर्वोत्तरतपःसिद्धये समाश्र- यितव्या तादृश्येव दिशेतीवोत्तराभिमुखमुच्चलन् नितान्त- समुन्मिषद्वसन्तकालागमोद्वेल्लदेलालवङ्गतरुमालासुपुष्यद्रसालाव- लानक्तमालाग्रदीव्यत्तमालातिपल्लवितपालाशभूमिरुहजालामिता- शोकसालालिमेदुरतमेलाद्भुतोपवनमालासमुन्मिषितदोलाविशेषशु- भलीलाविनोदभरलोलान्तरङ्गघननीलालकौघपुरबालामणीमधुरता- लालिवीणाकलालापमूर्छनद्रवीभूतसन्निहितकलाधरणिशिलासमुद- यतनामितोदितविमलविमलाम्बुनिर्झरपरिमेलनद्विस्त्रिरुक्तधवलिम- निजभङ्गभद्रां तुङ्गभद्रां सघुर्धरारवमुत्तानकर्णयुगलमुर्तम्भितग्रीवं प्रे- तोरैकदत्तदृष्टितीर्णे तुरङ्गमेषु सफूत्कारं कराग्रसमुत्कीर्णशीकर- निकरं मन्दं मन्दतरसुशस्ततरेषु हस्तिवरेषु संतीर्य स्वयमप्युत्तरतटे विद्यानगरकारिकोणपुरपर्यायनामधेयां समृद्धसर्वापणानुबन्धां प्र- विनयं किष्किन्धां सत्यसंधो वसुन्धराधुरन्धरोयं प्रत्युद्गतस्तत्र समेधमानै राजवंश्यजनैनिखिलजगच्छ्राध्यरामणीयकं तत्र क्वचन तुङ्गभद्रातरङ्गमन्दानिलदत्तसपर्याविशेष कलिततोषं चिन्तामणी- श्वरक्षेत्रापरनामधेयं कपिलाश्रमं नाम प्रदेशं विविधदेवालयनिबि- डिबसदेशं प्रविश्य विलोकयन् कमलपालिकामधुरमधूलिकापान- केलिकामुदितभं भरततिनम्भितझंकृतिवाचालतया निराबाधवि- हरमाणमहामत्स्यपुच्छविघटनचलाचलकहारतया च सचाटुव- चनं साशरःकम्पं सन्निहितचिन्तामणिक्षेत्ररामणीयकं श्लाघमाना- १चिरबिल्वः । २ प्रतीरं तटम् । ३ पारतटे।

३६ प्रन्धरत्नमाला । भिरिव सौगन्धिकलताभिरभिशोभितां प्रथितभङ्गमुद्रामप्यप्रथि- तभङ्गमद्रां तुङ्गभद्रां न पुराय न राष्ट्राय न परिजनेभ्यो न बा- न्धवेभ्यः स्टहयांबभूव चन्द्रशेखरसपर्याचर्यादत्तचित्तसंवद्धिततुल- सीकुसुमारामः सगुणाभिरामः सरामोनयन्वसन्तसमभं विविधशु- कपिककुसुमोदन्तमयम् । मौनव्रतप्रदाता वनप्रियेभ्यः सदेदमुचितमिति ॥ उदयाय तपःकालस्त्वरयन्निव तमेनमवनिपतिम् ॥ १ ॥ तापोधके खरकरस्य मरुत्प्रचार- वार्तालवेन रहितेषु दिगन्तरेषु ॥ श्रान्ता अनूरुगमितास्तुरगा बभूवु- र्भानोस्ततोहरजनिष्ट नितान्तदीर्घम् ॥ २ ॥ शुचिरेष नृपालमखिलस्तपस्यतीत्यात्ततदवलोकारथः ॥ कलिततपःशुचिरिति भुवि मासः ख्यांतः समभ्युदायिष्ट॥३॥ किष्किन्धादिमरम्यदेशविभवो नासीन्मया लोकितो द्रष्टव्योह्यधुनेति जातकुतुकां संलालयानकीम् ।। प्राप्त श्री रघुनाथ एष चतुरो मासान्वसेद्भूपतिः साम्राज्यं कलयन् मुदात्र पुर इत्यासीत्प्रवादो नृणाम्।।४।। शुचिमासे झुचिपक्षे शुचिचरितो धरणिपालवयोयम् ॥ शुचिकिरणशेखरं हरमुपासितुमुपक्रमं व्यधायुक्तम् ॥ ५ ॥ विरचितनियमो राजा विरजोम्बरभूषणो जिगायं तदा ॥ भूम्युद्गतनिबिडरजःकलुषाम्बरभूषणं स राजानम् ।। ६ ।।

रघुनाथविजयचम्पः। ३७ एकादश्यां नियमानुपासितुं चन्द्रशेखरं नमयन् ।। उपचक्रमे विनानन् युक्तं तद्रूपसंख्यदिनमेतदिति ॥ ॥ स्वन्ति मय्यात्तनिमजनानामेवं हि पापान्यखिलान्यपीति ।। निदर्शयन्त्यामिव तुङ्गभद्राभिधस्त्रवन्त्यां नियमात्स सस्नौ॥८॥ रचिताहिकः स राजा मौनौन्वयमात्मनः स्फुटीकर्तुम् ।। मौनान्वयकलितश्विरमनपत्पञ्चाक्षरीतिदिव्यमनुम् ॥९॥ स्मारयति त्र्यम्बकामह सैषामियं(?) च तद्ध्याने ।। द्रष्टव्येतीव विभुः स नासिकाग्रे दधौ दृष्टिम् ॥ १० ॥ चिरमेवं विधाय सुधाकरशेखरचरणनलिनध्यानमाराध्य तं वि- रचितमहासंहितादिपरायणः निर्वर्तितमाध्याहिक उपात्ततुलसी- कुसुमसम्भारः कल्पितनियमालवः परिचिततात्कालिकजपकत्यः रुत्यविदामग्रणीरग्रतश्चन्द्रशेखरसपर्यायामेकेन वपुषा पर्याप्ति- ममन्यमानतया निजकिरणसंख्याकानि वपूंषि स्वीकृत्य समाग- तेन सहस्रभानुनेव बहुधतरखचितपात्रनिकुंरुम्बेण रमणीयपुरोभागं रत्नपीठमधिवसन्तं रघुनाथमहाराजमनुगृहीतुं धरणीतलमवती- र्णमात्मानमभ्यर्हयितुं रजतधरणिधरेण प्रेषितमिव स्वकिशोरकं निजाधिनाथचन्द्रशेखरसारूप्यावलिलम्बायषयेव शिरोभागन्यस्ते- नार्धचन्द्रेणेव शेखरितं शृङ्गद्वयेन अष्टमूर्तिपदाग्रपरिचरणधुरीण- तामात्मनः स्फुटीकर्तुमिव प्रत्येकं खुरद्वयकलितैश्चतुर्भिः पदै रम- णीयं स्फिग्देशालवालनिरङ्कशोजृम्भितान्तःसत्वविशेषलताशङ्काक- रेण स्वच्छेन पुच्छेन मनोहरं वृषवरं निखिलजगदानन्दिनं नन्दिन- १ एकादशसंख्याकम् । २ नवन्ती नदी । ३ मुनिवंशम् । ४ जप्याक्षरयु. शिवमन्त्रम । ६ नासिकक्षेत्रे नासाग्रे च । ७ निकरुम्बः समहः ।

ग्रन्थरत्नमाला। मधितिष्ठतो निजशेखरशशिकरलक्ष्मीदर्शनासहनमेतदिति रोपादा- त्मनाथीकृतस्येव तामरस्य(?) हेममयस्य कर्णिकामलङ्कर्वाणं नि- र्वाणदाननिपुणं गीर्वाणपरिवृढविनुतगुणं राजहंसमिक मानसता. मरसमनोहरं मया किलायं कृतचूडामाणिः परमेश्वर इति सं- जातमदावष्टम्भे कुमुदवान्धवडिम्भे तद्गर्वनिर्वापणाय स्वयमेव परिपूर्णचन्द्ररूपमिवाश्रयन्तं चिरन्तनं सरस्वतीमुकुटाग्रभूषणमहा- वज्रमाणिमिव विद्योतमानं लिङ्गारुति सान्द्रधीकरं चन्द्रशेखरं नयनेन्दीवरानन्ददं विरचय्याभ्यर्च्य विविधोपचारैरनुदिनमपि व- मणदिगङ्गनानान्तः पुरान्तरचारिणि पूपण्याचरितसायन्तननियमो- भ्यवहरनियमवशाव्यभव्यमेव दिव्यमन्नमनुदिनमपि निजाभ्य- धनया प्रवर्तने सत्रमुग्वे दत्तमुखे निवडकटितटैरास्तीर्णपणैय॑स्य- मानपत्रामत्रैर प्रमादैः सप्रमोदैविप्रसूदैः कृतेषु करिष्यमाणेषु क्रि- यमाणेषु समस्तवस्तुपरिवेषणेषु इतोपि किञ्चिदधिकं परिवेप्यतां घृतं किं त्वयापार्जितं नश्यति वा त्वत्पित्राजित भ्रश्यति वा आनी- यतां सूपो यथेष्टं वयमप्यौत्तराहा न दाक्षिणात्या इति जल्पत्सु के- पुचित्सादरं सतयुगपदापोशनेषु सर्वेषु मतत्रितयप्रवृत्तेषु शुभवृ- तेषु द्विजवरेषु कोटिशः सन्धीभूतान् भोजनकृते द्विजराजान् वि- लोक्य द्विजराजनामधेयमात्र जनितचापलस्तत्ताहशतत्रत्यभक्ष्यभी- ज्यलेह्यचोप्यादिवस्तुकोटिरसश्लाघनमेकेन मया कर्तुमशक्यमि- समागतोयं सुधाकर एव शर्करालड्डुका- व्याजेन आहोस्विद्भूसुराणामपि सुधास्वादानन्दं सम्पादयितुं रघु- नाथभूपाले विरचितानुग्रहेण निवासक्षेत्रकलितनियतनिवासेन मोहिनीरूपेण भगवता प्रेरिताः स्युरमृतकलशान चेदमीषां क त्यसंख्यरूपाण्यालय १ ताटङ्कम् ।

रघुनाथविजयचम्पूः । ३९ तावदीदृशी माधुरीतेि स्वछन्दं श्लाघमानेषु केषुचित्सुगुणोसि त्वं मह्यं यथामनोरथं विश्राणय खण्डलड्डुकानिति कुशले पृच्छति क- स्मिंश्चिदाजन्ममनवलोकितैकाक्षरशिरस्कतया सूदपर्यायनामधेय- मिति गुणशब्दमजानता तावतैव प्रमोदोच्छूनभुजेनौदनिकेन सादर यथेष्टं तस्मै दीयमानेषु नैकविद्धमृद्वीकाखरखण्डशर्करामचु- रेषु विविधभक्ष्येषु नवनीतं देहीति पृच्छत्यज्ञे कस्मिंश्चिदिदं नव- नीतमेवोष्णतरं वर्तते न हि पुरानीतं स्वाद्यतामिति पायसप्र- दानेनान्यथयति तद्याच्यां कस्मिंश्चन धूर्ते दयालुना राजनिग्रहभी- तेन केनचिदानीय दत्वं नवनीतं शर्करामसृणितमेलासुरभितमास्या- दयति तस्मिन्निमे दाधिका एते चूर्लिनोपूपा एते लवणा इमे मौ- गा इमे शार्करा इति न्यस्य गच्छत्सु सूदेषु भक्ष्याणि प्राज्य- दध्याज्यदुग्धनदीमातृकायमाणेषु चिन्तामण्याश्रमपरिसरेषु ज- ग्वार्धकवलोननग्धकवलांश्चर्वितमनोहरामनाघ्रातमोदकानस्मृत- चिञ्चान्नानपेक्ष्यमाणाज्यान् काम्यमानलड्डुकान् परिमृश्यमान- जठरभाण्डान् क्रियमाणसुरभिलजलपानानाद्रियमाणमुगन्धित- क्रान् स्तूयमानभक्ष्यरुचीन् पट्यमानभोजगद्यान् स्वस्त्यस्तु राक्षे रघुनाथाय न वयं निजनिकेतनानि स्टहयामहै निष्ठन्तु कूपकूर्मा इवानुदितकुतहला जना गृहप्वेव न वयं तथा पश्चादेतस्य गन्तव्य- मेवास्माभिरिति कोटिशः कृतप्रशंसान् सुहितहृदयान् दर्शदर्श दृष्टदृष्टान्तरङ्गो मन्दमन्दमितश्चन्दनमितः पुष्पसरा इतः पटवास- क इतश्चन्दनतैलमितः पुष्कलकसीमगन्ध इतोक्षता इतो दक्षि. णा इतः ताम्बूलानीतः शुक्लाम्बराणीतो राङ्कवाणीति वदत्सु परि- १ हैयंग वीनम् । २ नवं नीतम् । ३ तृप्तमनसः । ४ पुष्पमाला: 1 ५ क- स्तुरीगन्धः।

ग्रन्थरत्नमाला। जनेषु तद्विरचिता आशिषस्साक्षताः संगृहानः क्षणं तत्कथा- लापदत्तान्तरङ्गो निषसाद । चिन्तामणाविवास्मिन्वितरति सर्वार्थमागतार्थिभ्यः ॥ चिन्तामण्याश्रम इति सार्थ तस्य स्थलस्य नामासीत् १९॥ तत्र कवय एनमित्थं मस्तुवन् । तत्र कश्चित् । प्रदर्शयति राङ्कवं प्रथमतः स राजांशुकैः प्रमोदयति नृनथापहरते स्वदत्तां श्रियम् ॥ न दर्शयति किञ्चिदप्यथ ददाति चेच्छाधिक नं चाहरति सच्छूियं बत स एष राजापरः ॥ १२ ॥ इतरत्र। भवान्निष्कपटो दाता वयं निष्कपटार्थिनः ॥ दातृप्रतिगृहीतॄणां समा रोतिरहो इयम् ॥ १३ ॥ अपरत्र। दर्पश्चेन्न दया दया यदि भवेन्नौदार्यमेतच्च चे- नैव स्यात्सरसत्वमेतदपि चेन्नो सत्यसन्धा भवेत् ॥ सर्वत्रापि जने समग्रसुगुणं न त्वादृशं कंचन श्रीविञ्चूरधिनाथशेखरमणे कुत्रापि नेक्षामहे ॥१४॥ अन्यत्र । कामः मुन्दर इत्ययं विजयते लोकप्रवादो महान् किं तेनास्ति यदि क्षितौ प्रकटितं तत्सुन्दरत्वं भवेत् ॥ तेनानङ्गतया जितं सुललितं लोकस्य संमोहनं रूपं श्रीरघुनाथभूपतिमणावन्यादृशं विभ्रति ॥ १५ ॥ इतरत्र । . सत्यप्रतिज्ञा।

रघुनाथविजयचम्पः । यस्त्वं पटं घटयसे विदुषामिह साम्प्रतम् ॥ नैय्यायिकाश्चरित्रं ते चित्रमाहुस्ततो नृप ॥१६॥ अन्यस्तावत्कवीन्द्रो रत्नावल्या स्तौति । निविष्कम्भमिहादधासि कविषु प्रीतिं त्वयायुष्मता सौभाग्यं बहुशोभनं च दधता स्थेयं रिपूणां तव ॥ नित्यं स्यादतिगण्ड एव यदभूः श्रीमान्सुकर्मा भवां- स्तत्ताडग्धृतिमान् दृढं ध्रुवमितस्त्वं शूलपाण्यर्चने ॥१०॥ संपत्ति भजतां त्वदीक्षणवशात्सुस्मेरगण्डाननां वृद्धि प्राप्य वधूभ्रुवं तव जगत्प्रीतिप्रदा जानकी ॥ निर्व्याघातबुधालिहर्षणविभो वज्राढ्यभूषाञ्चितां संसिद्धिव्यतिपातलेशरहितां सर्वत्र सम्पादय ॥१८॥ वरीयांस्त्वं नित्यं परिघनिभबाहुः शिवतमः प्रसिद्धः साध्यं ते किमिह शुभमन्यद्विजयते ॥ समिन्धे शुक्लं ते यश इह हि सद्ब्रह्मनिरत- स्त्वमैन्द्रश्रीभूयाश्चिरममुहृदां वैधृतिहरः ॥ १९ ॥ अन्यस्तावत् । श्रीविठ्ठलेन्द्रवरपुत्र भवन्महार्य दानाम्बुभिर्भवति सन्ततमूर्वरा भूः॥ नो चेदनेन कटुगनितभीकरण मेघेन हन्त विषदेन भुवः किमु स्यात् ॥ २० ॥ अथ यथाक्रममेव हरिततरकदलिकापत्रमरकतसिंहासनाधि- रूढेन शाणोलीढवज्ररेखास्मेरया धृतधारया सह धर्मचर्यापरि- १ निष्कपटम् । २ रोगः । ३ धैर्यहारी । ४ सर्वसस्यपूर्णा ।

रघुनाथविजयचम्पूः। योधेप्वबाधेषु दीपेषु जाग्रत्स्वरूपेषु अतुल्येषु भल्लेषु फुल्लेषु सर्वत्र कल्यैश्च निर्लक्ष्यमुल्लोलकल्लोलमुत्काल्यमानेषु समर्दहानाय वेत्रव्र- जैस्तत्रतत्राथ विरचितनीरानृसिंहसंदर्शनोत्सवः समारुह्य हूण- विरचितधूमशकटमतिमनोजवं दिनाभ्यां द्वाभ्यां सम्प्राप्य नासि- का प्रवर्तितत्र्यम्बकेश्वरमहारथोत्सवः प्रविश्य विञ्चूरपुरं सुखे. न साम्राज्यमनुभवन्विजयतेतरा ॥ ३ ॥ नीरानृसिंहकरुणाभारारघुनाथभूपतेर्नित्यम् ॥ साम्राज्यायुस्तनुभवसम्पत्तिः सुचिरमेधिषीष्ट भुवि।।२१।। आनेडदिक्षितीन्द्रात्तिरुमलनृपतेः प्राप्तसन्मानवृत्तिः श्रीमछ्रीसजया(?)र्याभिधगुरुणा प्राप्तविद्याविलासः ।। कृष्णां गोदावरीसंवलयितवनपाख्यपुण्याग्रगण्य- श्रीमद्रामेश्वराख्यक्षितिपतितिलकास्थानकव्यग्रगण्यः २२ तत्तादृक्षात्मकरू (पो)त्तमपुरवसतेर्मुक्कराख्यान्वयेन्दोः श्रीसीतारामभूमीपतिमकुटमणेस्तादृशास्थानभागे॥ सन्धीभूतैःकवीन्द्रैःसमदकविघटागण्डभीरूढनाम्ना- हूतःश्रीशैलताताभिधकृतितनुजो नून्नदुर्गात्तवासः ॥२३॥ कविसार्वभौमबिरुदाकलितः श्रीवेङ्कटार्यसहजातः ।। रघुनाथविजयमेनं व्यतनोदिनमेकमेव कृष्णाख्यः ॥२४॥ गिरिकैरिगिरिविधुसम्मितिभाजि श्रीशालिवाहनस्य शके ॥ क्रोधनमर्षाश्विनसितदशमे रघुनाथविजय एष कृतः ॥२५॥ कविवाक्यम। १ सिद्धैः । २ सुवासिकद्रव्यैः । शके १७८७.

रघुनाथविजयचम्पू: । ४३ योधेप्वबाधेषु दीपेषु जाग्रत्स्वरूपेषु अतुल्येषु भल्लेषु फुल्लेषु सर्वत्र कल्यैश्च निर्लक्ष्यमुल्लोलकल्लोलमुत्काल्यमानेषु समर्दहानाय वेत्रव्र- जैस्तत्रतत्राथ विरचितनीरानृसिंहसंदर्शनोत्सवः समारुह्य हूण- विरचितधूमशकटमतिमनोजवं दिनाभ्यां द्वाभ्यां सम्प्राप्य नासि- का प्रवर्तितत्र्यम्बकेश्वरमहारथोत्सवः प्रविश्य विञ्चूरपुरं सुखे. न साम्राज्यमनुभवन्विजयतेतरा ॥ ३ ।। नीरानृसिंहकरुणाभारारघुनाथभूपतेनित्यम् ॥ साम्राज्यायुस्तनुभवसम्पत्तिः सुचिरमेधिषीष्ट भुवि।।२१।। आनेङ्गुदिक्षितीन्द्रात्तिरुमलनृपतेः प्राप्तसन्मानवृत्तिः श्रीमछ्रीसन्जया(?)र्याभिधगुरुणा प्राप्तविद्याविलासः ।। कृष्णां गोदावरीसंवलयितवनपाख्यपुण्याग्रगण्य- श्रीमद्रामेश्वराख्यक्षितिपतितिलकास्थानकव्यग्रगण्यः २२ तत्तादृक्षात्मकरू (पो)त्तमपुरवसतेर्मुक्कराख्यान्वयेन्दोः श्रीसीतारामभूमीपतिमकुटमणेस्तादृशास्थानभागे॥ सन्धीभूतैःकवीन्द्रःसमदकविघटागण्डभीरूढनाम्ना- हूतःश्रीशैलताताभिधकृतितनुजो नून्नदुर्गात्तवासः ॥२३॥ कविसार्वभौमबिरुदाकलितः श्रीवेङ्कटार्यसहजातः ।। रघुनाथविजयमेनं व्यतनोद्दिनमेकमेव कृष्णाख्यः ॥२४॥ गिरिकैरिगिरिविधुसम्मितिभाजि श्रीशालिवाहनस्य शके ॥ क्रोधनमर्षाश्विनसितदशमे रघुनाथविजय एष कृतः ।।२५।। कविवाक्यम् । १ सिद्धैः । २ सुवासिकद्रव्यैः । शके १७८७.

ग्रम्भरलमाला। यत्कविना कर्तव्यं वह त्वत्कीतिभूषण राचतम् ।। रघुनाथविभो कविवरविभूषणं तु त्वदायत्तम् ।।२६ ॥ इति कविकृष्णविरचिताया रघुनाथविजयचम्प्वाः पञ्चमो विलासः ॥ ५॥ अधिकत्रिंशश्लोका गद्यं वेकं विलासके प्रथमे ॥ हैतीयिके च गद्यत्रितयं चैकोनविंशतिः श्लोकाः ॥ १ ॥ गद्यान्यत्र तृतीये चत्वारिश्लोककाश्चतुस्त्रिंशत् ।। गये द्वे चैकोनत्रिशल्लोकास्तथा तुयें ॥ २ ॥ गद्यत्रितयं श्लोकाः षड्रिंशतिरत्र पञ्चमे कथितम् ।। नवदुर्गकृष्णकविना जवेन रघुनाथविजयस्मिन् ॥ ३ ॥ इतिश्रीशैलकुलतिलकवेडूटार्यवर्यपौत्रनवीन- दुर्गपुरस्थिततावार्यवर्यविद्वचूडामणिद्वितीयतनूभुवः कृष्णकविसार्वभौमस्य कृतिषु रघुनाथविजयाख्यच- म्पूप्रबन्धः समाप्तः॥ प्रतितमोतन्माम्नया मेघालनारायणजनतया स्वकीय महालये

Grantharatnamaalaa

Author
Not Available
Title
Grantharatnamaalaa
File name
Grantharatnamaalaa
Text
OCR done
Published
2005/09/3
Publisher
Not Available
Language
Sanskrit
Pages
45
Library
Donar
Classification
Poetry. Poems. Verse
Keywords
Grantha Rathna Mala
DLI number
495835
Barcode
2990100072918.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
Digital Library Of India
VMLT id
0S7CfsPcnwu
Download PDF

Grantharatnamaalaa