Library

Kaavyamaalaa Shashht'ho Guchchhaka

Durgaprasada~ Pandita~ · 2005-11-30

PDF Proofread

Front matter

THE BOOK WAS DRENCHED

UNIVERSAL
LIBRARY
OU_184444
LIBRARY
UNIVERSAL

No text on this page.

TyarwarivarE
OSMANIA UNIVERSITY LIBRARY
Call No.S 88|D3skesion No. S12.67
दुर्गाप्रसाद
Tile काव्यमाला ||१3०
Author
सभापरब का.पा.
This book should be returned on or before the date
last marked beloss.

No text on this page.

KAVYAMALA.
A collection of old and rare Sanskrit Kâvyas,
Nâtakas, Champûs, Bhâņas, Prahasanas,
Chhandas, Alankâras &c.
PART VI
EDITED BY
PAŅDIT DURGAPRASAD
AND
KÂSÎNÂTH PÂNDURANG PARAB
REVISED BY
WASUDEV LAXMAN S'ASTRÎ PANSÎKAR.
Second Edition.
PUBLISHED
. BY
PÂNDURANG JAWAJÍ,
PROPRIETOR OF THE NIRNAYA SAGAR' PRESS,
BOMBAY.
1930.
Price 1 Rupee.

[ All rights reserved by the publisher. ]
PUBLISHER:-Pandurang Jawaji,
'Nirnaya-sagar' Press,
PRINTER:-Ramchandra Yesu Shedge, 26-28, Kolbbat Lane, Bombay,
Par sem seldarane Neve Shedge. } 28-29 Kobe ne bombay
.

काव्यमाला नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन- च्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः। षष्ठो गुच्छकः। . पण्डित-दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह्वपाण्डुरङ्गात्मज- काशीनाथशर्मणा, पणशीकरोपाह्वलक्ष्मणात्मज- वासुदेवशर्मणा च सुसंस्कृतः । द्वितीयं संस्करणम् । सच मुम्बय्यां पाण्डुरङ्ग जावजी श्रेष्ठिभिः खीये निर्णयसागराख्ययन्त्रालये मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः। शाकः १८५२, ख्रिस्ताब्दः १९३०. मूल्यमेको

No text on this page.

अनुक्रमणिका ।
पृष्टम् ।
२.
८
"
१२
२१
१. शंकराचार्यकृतं शिवपादादिकेशान्तवर्णनस्तोत्रम्
शिवकेशादिपादान्तवर्णनस्तोत्रम्
३. नीलकण्ठदीक्षितविरचितः शान्तिविलासः
४. लोष्टकनिर्मितं दीनाक्रन्दनस्तोत्रम्
५. श्रीकृष्णवल्लभप्रणीतं काव्यभूषणशतकम्
६. श्रीनिवासाचार्यविरचितं जानकीचरणचामरम्...
७. क्षेमेन्द्रविरचितं दर्पदलनम्
८. शिवरामत्रिपाठिप्रणीतो रसरत्नहारः (सटीकः)
९. नीलकण्ठदीक्षितप्रणीतम् अन्यापदेशशतकम् ...
३१
४७
६६
११८
१४३

No text on this page.

काव्यमाला। श्रीशंकराचार्यकृतं शिवपादादिकेशान्तवर्णनस्तोत्रम् । कल्याणं वो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज- क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रावदानः। तारैहेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी कैलासः शर्वनिर्वृत्यभिजनकपदं सर्वदा पर्वतेन्द्रः ॥ १ ॥ यस्य प्राहुः खरूपं सकलदिविषदां सारसर्वस्खयोगं यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः । मौर्वी दकिराणामपि च परिवृढः पूस्त्रयी सा च लक्ष्य सोऽव्यादव्याजमस्मानशुभभिदनिशं नाकिनां श्रीपिनाकः ॥ २ ॥ आतङ्कावेगहारी सकलदिविषदामङ्क्षिपद्माश्रयाणां मातङ्गाधुग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः । क्रूरः शूरायुधानामपि च परिभवं खीयभासा वितन्व- घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥ ३ ॥ कालारातः कराग्रे कृतवसतिरुरःशाणशातो रिपूणां काले काले कुलाद्रिप्रवरतनयया कल्पितलेहलेपः । पायाद्वः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तं शूलः श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥ ४ ॥ देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार- प्रस्तारानत्युदारान्पिपठिषुरिव यो नित्यमत्यादरेण । आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदं सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥ ५ ॥ १. 'रङ्गत्कुरङ्गः' इति पाठः.

२ काव्यमाला। कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः कण्ठारावैरकुण्ठैरपि भरितजगच्चकवालान्तरालः । चण्डप्रोद्दण्डशृङ्गः ककुदकवलितोत्तुङ्गकैलासशृङ्गः कण्ठेकालस्य वाहः शमयतु शमलं शाश्वतः शाकरेन्द्रः ॥ ६ ॥ निर्यदानाम्बुधारापरिमलतरलीभूतरोलम्बपाली- झंकारैः शंकराद्रेः शिखरशतदरीः पूरयन्भूरिघोषैः । शार्वः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ता शर्वाण्याः पूर्वसूनुः स भवतु भवतां खस्तिदो हस्तिवत्रः ॥ ७ ॥ यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यबीजैकमत्या- द्यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते । भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रोश्चशैलः संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥ ८ ॥ आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं चेलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः । रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता कुर्वन्नाखेटलीलां परिलसतु मनःकानने मामकीने ॥९॥ नृत्तारम्भेषु हस्ताहतमुरजधिमिद्धिकतैरत्युदारै- श्चित्तानन्दं विधत्ते सदसि भगवतः संततं यस्य नन्दी । चण्डीशाद्यास्तथान्ये चतुरगुणगणप्रीणितखामिसत्का- रोत्कर्षोद्यत्प्रसादाः प्रमथपरिवृढाः पान्तु संतोषिणो वः ॥ १० ॥ अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै- बिम्बेनेन्दोश्च कम्बोपरि विलसता विद्रुमेणोत्पलाभ्याम् । अम्भोदेनापि संभावितमुपजनिताडम्बरं शम्बरारेः शंभोः संभोगयोग्यं किमपि धनमिदं संभवेत्संपदे नः ॥ ११ ॥ १. शाक्करो वृषभः. २. 'चण्डकोदण्ड' इति पाठः. २. 'चण्डकोदण्ड' इति पाठः. ३. शास्ता नाम शिवस्य तृतीयः पुत्रस्त त्रप्रसिद्धः. तत्वरूपवर्णनमेतत्, शिवपादादिकेशान्तवर्णनस्तोत्रम् । ३ वेणीसौभाग्यविस्मापिततपनसुताचारवेणीविलासा- न्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् । एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे शोणान्प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलेः ॥ १२ ॥ मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं प्रत्युप्तानर्धरलैर्दिशि दिशि भवनैः कल्पितं दिक्पतीनाम् । उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं हृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम चन्द्रार्धमौलेः ॥ १३ ॥ स्तम्भैर्जम्भारिरत्नप्रकरविरचितैः संभृतोपान्तभागं शुम्भत्सोपानमार्ग शुचिमणिनिचयैर्गुम्फितानल्पशिल्पम् । कुम्भैः संपूर्णशोभं शिरसि सुघटितैः शातकौम्भैरकम्पैः शंभोः संभावनीयं सकलमुनिजनैः «स्तिदं स्यात्सदो नः ॥ १४ ॥ न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो हृद्यः पादैश्चतुभिः कनकमणिमयैरुज्ज्वलैरुज्ज्वलात्मा । वासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्रीः पीठः पीडाभरं नः शमयतु शिवयोः खैरसंवासयोग्यः ॥ १५॥ आसीनस्याधिपीठं त्रिजगदधिपतेरङ्ग्रिपीठानुषक्तौ पाथोजाभोगभाजौ परिमृदुलतरोल्लासिपद्मादिरेखौ । पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर- श्रेणीशोणायमानोन्नतमखदशकोद्भासमानौ समानौ ॥ १६ ॥ यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु- लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे । शंभोः संभावनीये पदकमलसमासनतस्तुङ्गशोभे मङ्गल्यं नः समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥ १७ ॥ १. वेणी केशपाशो नदीप्रवाहश्च. २. 'प्रवरपरिचितैः' इति पाठः. ३. 'शुभं दीप्तौ'. ४. 'शातदं' इति पाठः, ५. 'उच्चकैः' इति पाठः, ४ काव्यमाला । : अङ्गे श्रृङ्गारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमेतत्पदाये। इत्थं शङ्कां नतानाममरपरिषदामन्तरङ्करयत्त- संघातं चारुजङ्घायुगमखिलपतेरंहसः संहरेन्नः ॥ १८ ॥ जानुद्वन्द्वेन मीनध्वजनृवरसमुद्गोपमानेन साकं राजन्तौ राजरम्भाकरिकरकनकस्तम्भसंभावनीयौ ऊरू गौरीकराम्भोरुहसरससमामर्दनानन्दभाजो चारू दूरीक्रियेतां दुरितमुपचितं जन्मजन्मान्तरे नः ॥ १९ ॥ आमुक्तानघरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची- दाम्ना बद्धेन दुग्धधुतिनिचयमुषा चीनपट्टाम्बरेण । संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बे नित्यं न तु चित्तं मम निखिलजगत्खामिनः सोममौलेः ॥ २० ॥ संध्याकालानुरज्यदिनकरसरुचा कालधौतेन गाढं व्यानद्धः स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन । उद्दीप्रैः स्वप्रकाशैरुपचितमहिमा मन्मथारेरुदारो मध्यो मिथ्यार्थसध्यङ्मम दिशतु सदा संगतिं मङ्गलानाम् ॥ २१॥ नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता- दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती । श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं सा मा सोमार्धमौलेः सुखयतु नितरां रोमवल्लीमतल्ली ॥ २२ ॥ आश्लेषेप्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क- व्यासङ्गादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम् । दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं वक्षो विक्षोभिताचं सततनतिजुषां रक्षतादक्षतं नः ॥ २३ ॥ १.कामस्य. २. 'किमग्रे' इति पाठः. ३. कल्याणं सुवर्णम्, शिवपादादिकेशान्तवर्णनस्तोत्रम् । वामाके विस्फुरन्त्या करतलविलसच्चारुरक्तोत्पलायाः कान्ताया वामवक्षोरुहभरशिखरामर्दनव्यग्रमेकम् । अन्यांस्त्रीनप्युदारान्वरपरशुमृगालंकृतानिन्दुमौले- बर्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ।। २४ ।। संभ्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा- संविग्नस्यापि विष्णोः सरभसमुभयोारणप्रेरणाभ्याम् । मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा सोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः ॥ २५॥ हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री- रुद्योतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या । मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानः सद्योजातस्य दद्यादधरमणिरसौ संपदां संचयं नः ॥ २६ ॥ कर्णालंकारनानामणिनिचयरुचां संचयैरञ्चितायां वायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासंनिभायाम् । पद्धत्यां प्राणवायोः प्रणतजनहृदम्भोजवासस्य शंभो- नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ॥ २७ ॥ अत्यन्तं भासमाने रुचिरतररुचां संगमात्सन्मणीना- मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टावदाने । भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे भक्तालीभालसज्जजनिमरणलिपेः कुण्डले कुण्डले ते ॥ २८ ॥ याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां येषामाहुः खरूपं जगति मुनिवरा देवतानां त्रयीं ताम् । रुद्राणीवक्रपङ्केरुहसततविहारोत्सुकेन्दिन्दिरेभ्य- स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥ २९ ॥ १. 'भयात्' इति पाठः. २. 'विगलतू' इति पाठः. निरासार्थ कुण्डलाकारं चिह्न क्रियते. ३. पुस्तकस्थाधिकलिपि- w काव्यमाला। वामं वामाङ्कगाया वदनसरसिजव्यालगद्वल्लभाया व्याननेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम् । भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥ ३० ॥ यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौ काश्मीरक्षोदसंकल्पितमिव रुचिरं चित्रकं भाति नेत्रम् । तस्मिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे कालारेः फालदेशे विहरतु हृदयं वीतचिन्तान्तरं नः ॥ ३१ ॥ खामिन्गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्ती धन्यां कन्यां खरांशोः शिरसि वहति किं न्वेष कारुण्यशाली । इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ- च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसे नः ॥ ३२ ॥ शृङ्गाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः सूनैराबद्धमालावलिपरिविगलत्सौरभाकृष्टभङ्गम् । तुझं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृङ्गं संघं नः संकटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥ ३३ ॥ वक्राकारः कलङ्की जडतनुरहमप्यभिसेवानुभावा- दुत्तंसत्वं प्रयातः सुलभतरघृणास्यन्दिनश्चन्द्रमौलेः । तत्सेवन्तां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणं वन्दे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम् ॥ ३४ ॥ कान्त्या संफुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज- न्वृत्ताकारो वितन्वन्मुहुरपि च परां निवृतिं पादभाजाम् । सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमानः पुरारेः श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥ ३५ ॥ १. 'भूयोऽतिमोदात्' इति पाठः. २. 'द्युतितिमिर' इति पाठः. ३. चिल्ली भ्रूः. ४. 'नताना' इति पाठः. ५. कङ्कटीकः शिवः, शिवपादादिकेशान्तवर्णनस्तोत्रम् । दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां रुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैरञ्चितानाम् । उद्वेलद्वाहुवल्लीविवलनसमये चामरान्दोलिनीना- मुद्भूतः कङ्कणालीवलनकलकलो वारयेदापदो नः ॥ ३६ ॥ खर्गीकःसुन्दरीणां सुललितवपुषां स्वामिसेवापराणां वल्गद्भूषाणि वक्राम्बुजपरिविगलन्मुग्धगीतामृतानि । नित्यं नृत्यान्युपासे भुजविधुतिपदन्यासभावावलोक- प्रत्युद्यत्प्रीतिमाद्यत्प्रमथनटनटीदत्तसंभावनानि ॥ ३७॥ स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्म वीणा- खानावच्छिन्नतालक्रमममृतमिवाखाद्यमानं शिवाभ्याम् । नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ॥ ३८ ॥ चेतोजातप्रमोदं सपदि विदधती प्राणिनां वाणिनीनां पाणिद्वन्द्वाग्रजाग्रत्सुललितरणितवर्णतालानुकूला । खीयारावेण पाथोधररवपटुना नादयन्ती मयूरी मायूरी मन्दभावं मणिमुरवभवा मार्जना मार्जयेन्नः ॥ ३९ ॥ देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यः साध्येभ्यश्चारणेभ्यो मनुजपशुपतजातिकीटादिकेभ्यः । श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यः सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥ ४० ॥ ध्यायनित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात् । संपज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वं संप्राप्यायुःशतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥ ४१ ॥ इति श्रीमच्छंकराचार्यविरचितं शिवपादादिकेशान्तवर्णनस्तोत्रं समाप्तम् । १. 'उद्वल्गत्' इति पाठः. २. नारदस्य. ३. नर्तकीनाम्. ४. 'मायूरी मदयति मार्जना मनांसि' इति मालविकाग्निमित्रम् , प्रथमोऽङ्कः. ५. मार्जना मुरजध्वनिः. ६. 'इत्थं ध्यायन्' इति पाठः, २५० गु०

८
काव्यमाला।
श्रीशंकराचार्यविरचितं
शिवकेशादिपादान्तवर्णनस्तोत्रम् ।
देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य-
प्रांशुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः ।
दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता
घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥१॥
कुर्वनिर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां
शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम् ।
अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य-
जाह्नव्यानं मृडानीकमितुरुडुपरुक्पाण्डुरं वस्त्रिपुण्ड्रम् ॥ २ ॥
क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्ठसंक्रान्तलाक्षा-
बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मनमाणिक्यशोभम् ।
मूर्युद्यदिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्ता-
दस्तोकापत्तिकृत्त्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि ॥ ३ ॥
भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुम्बिम्बयोः स्निग्धवर्णो
दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति ।
सर्गस्थित्यन्तवृत्तिर्मयि समुपगतेऽतीव निर्वृत्तगर्व
शर्वाणीभर्तुरुच्चैर्युगलमथ दधद्विभ्रमं तद्भुवोर्वः ॥ ४ ॥
युग्मे रुक्माजपिङ्गे ग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा
शैलस्य ध्वान्तनीलाम्बररचितबृहत्कञ्चुकोऽभूत्प्रपञ्चः ।
ते नेत्रे पवित्रे त्रिदशवरघटामित्रजैत्रोग्रशस्त्रे
नेत्रे नेत्रे भवेतां द्रुतमिह भवतामिन्द्रियाश्वान्नियन्तुम् ॥ ५ ॥
चण्डीवार्पणेच्छोस्तदनु भगवतः पाण्डुरुक्पाण्डुगण्ड-
प्रोद्यत्कण्डूं विनेतुं वितनुत इव ये रत्नकोणैर्विघृष्टिम् ।
चण्डार्चिर्मण्डलाभे सततनतजगद्धान्तखण्डातिशौण्डे
चाण्डीशे ते श्रिये स्तामधिकमवनताखण्डले कुण्डले वः ॥ ६ ॥

शिवकेशादिपादान्तवर्णनस्तोत्रम् । १ खटानोदप्रपाणेः स्फुटविकटपुटो वक्ररन्ध्रप्रवेश- प्रेप्सूदञ्चत्कणोरुश्वसदतिधवलाहीन्द्रशङ्कां दधानः । युष्माकं कम्रवक्राम्बुरुहपरिलसत्कर्णिकाकारशोमः शश्वत्राणाय भूयादलमतिविमलोत्तुङ्गकोणः स घोणः ॥ ७ ॥ क्रुध्यत्यद्धा ययोः खां तनुमतिलसतोर्बिम्बितां लक्षयन्ती भर्ने स्पर्धातिनिघ्ना मुहुरितरवधूशङ्कया शैलकन्या । युष्मांस्तौ शश्वदुच्चैरबहुलदशमीशर्वरीशातिशुभ्रा- वव्यास्तां दिव्यसिन्धोः कमितुरखनमल्लोकपालौ कपोलौ ॥ ८ ॥ यो भासा भात्युपान्तस्थित इव निभृतं कौस्तुभो द्रष्टुमिच्छ- न्सोत्थस्नेहान्नितान्तं गलगतगरलं पत्रुच्चैः पशूनाम् । प्रोद्यत्प्रेम्णा यमाः पिबति गिरिसुता संपदः सातिरेका लोकाः शोणीकृतान्ता यदधरमहसा सोऽधरो वो विधत्ताम् ॥ ९॥ अत्यर्थ राजते या वदनशशधरादुद्गलच्चारुवाणी- पीयूषाम्भःप्रवाहप्रसरपरिलसत्फेनबिन्द्वावलीव । देयात्सा दन्तपतिश्चिरमिह दैनुदायाददौवारिकस्य द्युत्या दीप्तेन्दुकुन्दच्छविरमलतरप्रोन्नताया मुदं वः ॥ १० ॥ न्यक्कुर्वन्नुर्वराभृन्निभघनसमयोद्धष्टमेघौघघोषं स्फूर्जद्वार्युत्थितोरुध्वनितमपि परब्रह्मभूतो गभीरः । सुव्यक्तो व्यक्तमूर्तेः प्रकटितकरणः प्राणनाथस्य सत्याः प्रीत्या वः संविदध्यात्फलविकलमलं जन्मनादः स नादः॥ ११ ॥ भासा यस्य त्रिलोकी लसति परिलसत्फेनबिन्द्वर्णवान्त- ाममेवातिगौरस्तुलितसुरसरिद्वारिपूरप्रसारः । पीनात्मा दन्तभाभि शमहहहकारातिभीमः सदेष्टां पुष्टां तुष्टिं कृषीष्ट स्फुटमिह भवतामट्टहासोऽष्टमूर्तेः ॥ १२ ॥ १. बाणासुरद्वारपालस्य शिवस्य. २. अदो वो जन्म फलविकलं स नादो न संविध्यात्. सफलं जन्म कुर्यादिति भावः.

१० काव्यमाला। सद्योजाताख्यमाप्यं यदुविमलमुदग्वृत्ति यद्वामदेवं नाम्ना हेम्ना सदृक्षं जलदनिभमघोराह्वयं दक्षिणं यत् । यद्बालार्कप्रभं तत्पुरुषनिगदितं पूर्वमीशानसंज्ञं यदिव्यं तानि शंभोर्भवदभिलषितं पञ्च दद्युमुखानि ॥ १३ ॥ आत्मप्रेम्णो भवान्याः खयमिव रचिताः सादरं सोवनन्या मष्या तिस्रः सुनीलाञ्जननिभगररेखाः समाभान्ति यस्याम् । आकल्पानल्पभासा भृशरुचिरतरा कम्बकल्पाम्बिकायाः पत्युः सात्यन्तमन्तर्विलसतु सततं मन्थरा कंधरा वः ॥ १४ ॥ वक्रेन्दोर्दन्तलक्ष्म्याश्चिरमधरमहाकौस्तुभस्याप्युपान्ते सोत्थानां प्रार्थयन्यः स्थितिमचलभुवे वारयन्त्यै निवेशम् । प्रायुङ्क्तेवाशिषो यः प्रतिपदममृतत्वे स्थितः कालशत्रोः कालं कुर्वन्गलं वो हृदयमलमलं क्षालयेत्कालकूटः ॥ १५ ॥ प्रौढप्रेमाकुलाया दृढतरपरिरम्भेषु पर्वेन्दुमुख्याः पार्वत्याश्चारुचामीकरवलयपदैरङ्कितं कान्तिशालि । रजन्नागाङ्गदाढ्यं संततमविहितं कर्म निर्मूलयेत्त- होर्मूलं निर्मलं यद्धृदि दुरितमपास्यार्जितं धूर्जटेर्वः ॥ १६ ॥ कण्ठाश्लेषार्थमाप्ता दिव इव कमितुः स्वर्गसिन्धोः प्रवाहाः क्रान्त्यै संसारसिन्धोः स्फटिकमणिमहासंक्रमाकारदीर्घाः । तिर्यग्विष्कम्भभूतास्त्रिभुवनवसतेर्भिन्नदैत्येभदेहा बौहा वस्ता हरस्य द्रुतमिह निवहानंहसां संहरन्तु ॥ १७ ॥ वक्षो दक्षद्विषोऽलं स्मरभरविनमद्दक्षजाक्षीणवक्षो- जान्तर्निक्षिप्तशुम्भन्मलयजमिलितोद्भासि भस्मोक्षितं यत् । क्षिप्रं तद्रूक्षचक्षुः श्रुतिगणफणरत्नौघमाभीक्ष्णशोभं युष्माकं शश्वदेनः स्फटिकमणिशिलामण्डलाभं क्षिणोतु ॥ १८ ॥ १. उविमलं मुक्ताफलशुभ्रम्. उशब्दो मुक्ताफलवाचकः. २. वशीकारिण्या संवननं वशीकरणम्. ३. मनोहरा. ४. 'प्रतिपति' इति पाठः. ५. 'रिङ्गन्' इति पाठः ६. 'प्रसभं' इति पाठः. ७. भुजाः.

शिवकेशादिपादान्तवर्णनस्तोत्रम् । ११ मुक्तामुक्ते विचित्राकुलवलिलहरीजालशालिन्यवाञ्च- नाभ्यावर्ते विलोठद्भुजगवरयुते कालशत्रोविशाले । युष्मचित्तत्रिधामा प्रतिनवरुचिरे मन्दिरे कान्तिलक्ष्म्याः शेतां शीतांशुगौरे चिरतरमुदरक्षीरसिन्धौ सलीलम् ॥ १९ ॥ वैयाघ्री यत्र कृत्तिः स्फुरति हिमगिरेविस्तृतोपत्यकान्तः सान्द्रावश्यायमिश्रा परित इव वृता नीलजीमूतमाला । आबद्धाहीन्द्रकाञ्चीगुणमतिपृथुलं शैलजाक्रीडभूमि- स्तद्वो निःश्रेयसे स्याजघनमतिघनं बालशीतांशुमौलेः ॥ २० ।। पुष्टावष्टम्भभूतौ पृथुतरजघनस्यापि नित्यं त्रिलोक्याः सम्यग्वृत्तौ सुरेन्द्रद्विरदवरकरोदारकान्तिं दधानौ । सारावूरू पुरारेः प्रसभमरिघटाघस्मरौ भस्मशुनौ भक्तैरत्याचित्तैरधिकमवनतौ वाञ्छितं वो विधत्ताम् ॥ २१ ॥ आनन्दायेन्दुकान्तोपलरचितसमुद्गायिते ये मुनीनां चित्तादर्श निधातुं विदधति चरणे ताण्डवाकुञ्चनानि । काञ्चीभोगीन्द्रमूर्ती प्रतिमुहुरुपधानायमाने क्षणं ते कान्ते स्तामन्तकारे तिविजितसुधाभानुनी जानुनी वः ॥ २२ ।। मञ्जीरीभूतभोगिप्रवरगणफणामण्डलान्तर्नितान्त- व्यादीर्घानर्धरत्नद्युतिकिसलयिते स्तूयमाने घुसद्भिः । बिभ्रत्यौ विभ्रमं वः स्फटिकमणिबृहद्दण्डवद्भासिते ये जड़े शकेन्दुशुभ्रे भृशमिह भवतां मानसे शूलपाणेः ॥ २३ ॥ अस्तोकस्तोमंशस्त्रैरपचितिममलां भूरिभावोपहारैः कुर्वद्भिः सर्वदोच्चैः सततमभिवृतौ ब्रह्मविद्देवलाद्यैः । सम्यक्संपूज्यमानाविह हृदि सरसीवानिशं युष्मदीये शर्वस्य क्रीडतां तौ प्रपदवरबृहत्कच्छपावच्छभासौ ॥ २४ ॥ याः खस्यैकांशपातादतिबहलगलद्रक्तवकं प्रणुन्न- प्राणं प्राक्रोशयन्प्राङिजमचलवरं चालयन्तं दशास्यम् । १. भवदीयचेतोविष्णुः. २. स्तोमसंज्ञकाः शस्त्राख्याच केचन साममन्त्राः.

१२ काव्यमाला। पादाङ्गुल्यो दिशन्तु द्रुतमयुगदृशः कल्मषप्लोषकल्याः कल्याणं फुल्लमाल्यप्रकरविलसिता वः प्रणद्धाहिवल्लयः ॥ २५ ॥ प्रहप्राचीनबर्हिप्रमुखसुरवरप्रस्फुरन्मौलिसक्त- ज्यायोरेनोत्करोखैरविरतममला भूरिनीराजिता या । प्रोदनाग्रा प्रदेयात्ततिरिव रुचिरा नारकाणां नितान्तं नीलग्रीवस्य पादाम्बुरुहविलसिता सा नखाली सुखं वः ॥ २६ ॥ सत्याः सत्याननेन्दावपि सविधगते ये विकासं दधाते खान्ते खां ते लभन्ते श्रियमिह सरसीवामरा ये दधानाः । लोलं लोलम्बकानां कुलमिव सुधियां सेवते ये सदास्तां भूत्यै भूत्यैणपाणेर्विमलतररुचस्ते पदाम्भोरुहे वः ॥ २७ ॥ येषां रागादिदोषाक्षतमति यतयो यान्ति मुक्तिं प्रसादा- धे वा नम्रात्ममूर्तिद्युसदृषिपरिषन्मूर्ध्नि शेषायमाणाः । श्रीकण्ठस्यारुणोद्यच्चरणसरसिजप्रोत्थितास्ते परागा युष्मान्संतारयेयुश्चिरतरवितताज्जन्मसंसारपारात् ।। २८ ॥ भूम्ना यस्यास्तभूम्ना भुवनमनुसृतं यत्परं धाम धाम्नां साम्नामाम्नायतत्त्वं यदपि च परमं यद्गुणातीतमाद्यम् । यच्चाहोह निरीहं गहनमिति मुहुः प्राहुरुच्चैर्महान्तो माहेशं तन्महो मे महितमहरहर्मोहरोहं निहन्तु ॥ २९ ॥ इति श्रीमच्छंकराचार्यविरचितं शिवकेशादिपादान्तवर्णनस्तोत्रं समाप्तम् । श्रीनीलकण्ठदीक्षितविरचितः शान्तिविलासः। वंशे कस्मिन्नजनिषि कयोः पुत्रतामग्रहीषं कत्यश्रीषं तदपि कतिधा तच्च सन्यः कतिभ्यः । किं नाद्राक्षं व्यसनमपि वा किं सुखं नान्वभूवं नोपारंसीत्तदपि हृदयं कीदृशो मे विपाकः ॥ १ ॥ १. प्राचीनबर्हिरिन्द्रः. २. रत्नसमूहकिरणैः. ३. शेषा प्रसाददत्तं माल्यम्.

शान्तिविलासः। १३ : पादौ मे स्तः परमचतुरौ कीकटानेव गन्तुं वागप्यास्ते निभृतमनृतान्येव वक्तुं वचांसि । मीमांसन्ते मम च मतयो दोषदृष्टौ परेषां पॉर्मूकः पशुरपि भवाम्यात्मनीने तु कृत्ये ॥ २ ॥ यामाराटुं न गणितमिदं जीवितं वा धनं वा यस्याः प्रीतिर्मनसि कलिता ज्यायसी मोक्षतोऽपि । सैवेदानी वयसि चलिते संपहीणे च वित्ते तूलायापि त्रिपुरहर मां मन्यते नैव भार्या ॥ ३ ॥ कृत्वा पापान्यपि खलु मया पोषिताः शैशवे ये निद्राहारावपि विजहता शिक्षिता ये कलासु । प्रादुर्भूताः खयमिव हि ते प्राक्तनादृष्टलब्ध- प्रज्ञोन्मेषा इव च तनया न स्मरन्त्यात्मनोऽपि ॥ ४ ॥ दाराः पुत्राः परमसुहृदो बान्धवाः किंकरा वा खप्नावस्थाखपि च विरहं ये मया न क्षमन्ते । अद्यासन्ने तपनतनयस्याज्ञया दूतवर्गे तेप्वेकोऽपि स्मरहर न मे गन्तुमन्वस्ति जन्तुः ।। ५॥ राज्ञो भृत्या यदि परिचिता देशिकस्यैष लाभो राजद्वारे यदि खलु गतं नैमिषं तत्प्रविष्टम् । राजा दृष्टोऽथ च यदि परं ब्रह्म साक्षात्कृतं तत् त्यक्तो देहो यदि नृपकुले मादृशां सोऽपवर्गः ॥ ६ ॥ यत्तीर्थानामटनमथ यत्पूजनं देवताना- मिष्टापूर्तव्यसनमपि यद्यच्च दाक्ष्यं कलासु । अर्थप्राप्त्यौपयिकमखिलं जायते मादृशां तत् ते चाप्यर्था धरणिशरणा भूमिभृत्सात्कृता वा ॥ ७ ॥ आ कौमाराद्गुरुचरणशुश्रूषया ब्रह्मविद्या- खास्थायास्थामहह महतीमर्जितं कौशलं यत् । १. सद्गुरोः.

काव्यमाला।
निद्राहेतोर्निशि निशि कथाः शृण्वतां पार्थिवानां
कालक्षेपौपयिकमिदमप्याः कथं पर्यणंसीत् ॥ ८ ॥
छाया तोयं वसतिरशनं वाहनं दीपिका वा
केतुं यस्मिन्किल न सुलभं किंचिदप्यत्र मत्यैः ।
तस्मिन्दूरे पथि तनुभृतां सर्वथैवाभिगम्ये
प्रस्थानाह कमपि तु विधिं घस्मरा न स्मरामः ॥ ९ ॥
आकर्ण्यन्ते तपनतनयग्रामसंलापघोषा
मन्दं मन्दं ग्रसति नियतः कालपाशोऽपि कण्ठे।
आपृच्छ्यन्ते कृतजिगमिषासंभ्रमाः प्राणवाता
नैवेदानीमपि विषयवैमुख्यमभ्येति चेतः ॥ १० ॥
चक्षुष्यन्धे चलति दशने श्मश्रुणि श्वेतमाने
सीदत्यङ्गे मनसि कलुषे कम्पमाने कराग्रे ।
दूतैरेतैर्दिनकरभुवः शश्वदुबोध्यमाना-
स्त्रातुं देहं तदपि भिषजामेव सान्त्वं वदामः ॥ ११ ॥
शान्तो वहिर्जठरपिठरे संस्थिता कामवार्ता
धावं धावं दिशि दिशि शनैरिन्द्रियाश्वा निपेतुः ।
एवं दैवादुपरममगादेष मे वैरिवर्ग-
श्चेतस्त्वेकं न वशमयते किं करोमि क यामि ॥ १२ ॥
नानोपायैर्दिशि दिशि धनान्यर्जयित्वा व्ययित्वा
सम्यक्संपादितमिदमिह स्थौल्यमेकं शरीरे ।
श्रुत्वा श्रुत्वा बहुजनमुखादायुषैतावतापि
प्राप्तं दर्शावधितिमिरवद्गाढमज्ञानमेकम् ॥ १३ ।।
केक्षन्ते मां कचन शयितं किंकरा दण्डपाणे-
रीक्षन्तां वा तदपि मयि किं कुर्युरुद्दामवृत्ते ।
कुर्युः किंचित्प्रसभमपि वा घातयिष्यामि राज्ञे-
त्यन्तधैर्य परमिह वहन्नन्तकं न स्मरामि ॥ १४ ॥

शान्तिविलासः। १५. .. वेदा वा स्युर्वितथवचना विस्मरेदीश्वरो वा धर्माधर्मस्थितिविरचनामन्तको वा मृषा स्यात् । नित्यो वा स्यामहमिति बहूनुल्लिखन्तः समाधी- न्मेदोवृद्ध्या मुदितमनसः सर्वतो निर्वृताः स्मः ॥ १५॥ यामे यामे गलति वपुष् संसते संधिबन्धः श्वासे श्वासेऽपि च विचलति क्षीयते दीर्घमायुः । भुक्ते भुक्तेऽपि च सुखलवे लुप्यते पुण्यराशिः कृत्ये कृत्ये निरवधि पुनर्वर्धते पातकं नः ॥ १६ ॥ गन्तव्योऽध्वा सकलदुरवस्थानसंपातभूमि- र्गत्वा दृश्यस्त्रिभुवनजनापुष्कलान्तः कृतान्तः । दृष्ट्वा लभ्या निरयजनिता यातनानेकभेदा विस्मृत्येदं निखिलमपि तु व्यर्थमायुर्नयामः ॥ १७ ॥ काले काले न किमुपनतं भुञ्जते भोज्यजातं गृह्णन्त्यम्भो न किमथ न किं संविशन्ति क्षपासु । पुष्णन्ति खान्न किमु पृथुकान्स्त्रीषु किं नो रमन्ते कृत्याकृत्यव्यपगतधियां कस्तिरश्चां च भेदः ॥ १८ ॥ कृच्छ्राल्लब्धं धनमपि शतांशाधिकप्राप्तिलोभा- त्पत्रे किंचिल्लिखितमुपलभ्यैव सर्वं त्यजामः । शास्त्रैः सिद्धे बहुशतगुणाधिक्यलाभे परत्र व्यर्थ शङ्काकलुषमनसो नोत्सृजामोऽर्थलेशम् ॥ १९ ॥ जीर्णे रुग्णे विकलकरणे शत्रुभिर्वा गृहीते खस्मिन्कोऽर्थो भवति सुखदः कश्च कामप्रसङ्गः । मा भूदेतत्सकलमथवा खायुषः किं प्रमाणं निश्चित्यैवं दुरितनिचयश्चीयते निर्विशकैः ॥ २० ॥ आयान्त्यग्रे ननु तनुभवा उत्तमर्णा इवेमे शय्यालग्नाः फणभृत इवाभान्ति दारा इदानीम् । :

१६
काव्यमाला।
कारागेहप्रतिममधुना मन्दिरं दृश्यते मे
तत्र स्थातुं प्रसजति मनो न क्षणं न क्षणार्धम् ॥ २१ ॥
जातं जातं गतमपि गतं बाल्यतो लौल्यतो वा
नेतः स्थेयं क्षणमपि गृहे मुञ्चतः को मुहूर्तः ।
इत्यत्यन्तव्यवसितधियो निःसरन्तोऽपि गेहा-
दावर्तन्ते झटिति रुदतां सान्त्वहेतोः शिशूनाम् ॥ २२ ॥
नैव ब्रूमो वयमतिथयोऽभ्यागता बन्धुवर्गा
दीनानाथाः सुहृद इति ये तेषु कार्या दयेति ।
यं त्वं पोष्यं मनसि कुरुषे नित्यमात्मानमेकं
जन्मन्यस्मिन्निव बिभृहि तं सर्वदेत्युल्लपामः ॥ २३ ॥
को नु व्यासः क इव स मनुः को न्वसौ याज्ञवल्क्यो
यैरुद्धुष्टं हितमसकृदस्मासु पित्रेव पुत्रे ।
पश्यामस्तान्निरुपधिकृपासागराँल्लोकबन्धू-
न्पश्यामोऽस्मान्निरवधितमःक्ष्माधरान्ब्रह्मबन्धून् ॥ २४ ॥
यत्तामिस्र नरककुहरे यहूहिश्चक्रवाला-
द्यत्पाताले यदपि धरणौ वार्षिकीषु क्षपासु ।
रूढं गाढं तम इति समस्तं च तच्चिन्त्यमानं
नास्माकान्तःकरणतमसो दासभावेऽपि योग्यम् ॥ २५ ॥
सर्वानर्थप्रथमकरणे सर्वभावैर्जिहास्ये
देहे मोहो यदि परिणतः पोषणीयो मयेति ।
आस्तामेवं वपुरिदमिवागामि चास्माकमेवे-
त्येषाप्यास्तां मतिरिति परं धर्मशास्त्रेषु घोषः ॥ २६ ॥
कामी कामव्रणपरिगतः कामिनीरेव हित्वा
भुङ्क्ते पश्चादपगतभयं कामिनीनां सहस्रम् ।
इत्थंकारं विषयसुखभोगैकतानैर्नररै-
प्यस्मिन्देहे कतिपयदिनान्येष भोगो विवर्यः ॥ २७ ॥

शान्तिविलासः। १७ न्याय्यादर्थादपि किमधिकं लभ्यमुन्मार्गवृत्त्या वैधादन्नादपि किमधिकं पर्युदस्तेषु भोज्यम् । भार्याभोगादपि भवति कः पण्यकान्तासु लाभः प्रायो नेतिश्रुतिविषयता विश्वमाधुर्यहेतुः ॥ २८ ॥ आस्तिक्यं चेद्धनमखिलमप्यर्थिसात्कर्तुमर्ह नास्तिक्यं चेत्तदपि सुतरां भोगहेतोरपास्यम् । अस्पृष्ट्वापि स्वयमतिरहः स्थाप्यते यत्तदन्त- स्तस्मिन्हेतुः क इति निभृतं तर्कयामो न विद्मः ॥ २९ ॥ श्वानः पुच्छाञ्चलकुटिलतां सूकराः कुक्षिपोषं कीशा दन्तप्रकटनविधि गर्दभा रूक्षघोषम् । मां वक्षःश्ववथुमपि च स्त्रीषु दृष्ट्वा रमन्ते तत्सौन्दर्य किमिति फलितं तत्तदज्ञानतोऽन्यत् ॥ ३० ॥ रन्तुं प्राप्तो दशति दशनैराननं चेत्प्रियाया भोक्तुं प्राप्तः किमिति न दशेदग्रहस्तं प्रदातुः । इत्थं व्यक्ते हृदयजनुषः पामरोन्मादकत्वे हातुं सद्यः प्रभवति न कोऽप्यन्ततो लज्जितुं वा ॥ ३१ ॥ दाराः पुत्राः शयनमशनं भूषणाच्छादने वा यच्चेदृक्षं पुमभिलषितं तेषु माशब्दिकः कः । किं त्वेतेषां भवति नियमः सेवने कोऽपि कोऽपि द्वेषस्तस्मिन्नपि यदि भवेत्तत्र वक्ता कृतान्तः ॥ ३२ ॥ वेदाभ्यासव्यसनरसिकैः स्थीयते तावता किं सूक्ष्मा बुद्धिः श्रुतमिव विशत्यश्रुतं तावता किम् । जल्पारम्भे जयति नियतं वादिनस्तावता किं निर्वेदात न यदि हृदयं शान्तिमभ्येति पुंसः ॥ ३३ ॥ यस्त्वत्यन्तव्यवसितमतिः संजिघृक्षेत धर्म खटाङ्गादेरिव न किमलं तस्य यामार्धमायुः । १. खटाङ्गो नाम कश्चन सूर्यवंशोद्भवो भूपः.

१८ काव्यमाला। दुष्पाण्डित्यादपहृतमतिर्यः पुनः संशयात्मा कस्सै तस्य प्रभवतु वृथा काकवद्दीर्घमायुः ॥ ३४ ॥ अर्था न स्युर्यदि विजहिमो धर्ममर्थैकसाध्यं कायक्लेशैः कतिकतिविधः साधनीयो न धर्मः । कायः श्रान्तो यदि भवति कस्तावता धर्मलोप- श्चित्तं दत्त्वा सकृदिव शिवे चिन्तितं साधयामः ॥ ३५ ॥ खेनैवोक्तं निगमवचसा बोधनीयास्तु जीवा जीवैरेवेत्यपि च मुनिभिः कारितं धर्मशास्त्रम् । उत्पश्यन्तु खयमिति भवो दारुणश्चाल्यतेऽसा- वद्यापि स्मो यदि खलु जडाः किं विधत्तां शिवोऽपि ॥ ३६ ॥ येनाचान्ताः सलिलनिधयो येनं सृष्टा प्रतिद्यौः शस्त्राण्यस्त्राण्यपि कवलितान्येकया यस्य यष्ट्या । कस्तादृक्षः प्रभवतु जनो देवभूदेववर्गे कालः कीटानिव कवलयामास तानप्ययनम् ॥ ३७ ॥ कायस्थैर्य करणपटुतां बन्धुसंपत्तिमर्थ चातुर्य वा किमिव हि बलं बिभ्रतो निर्भराः स्मः । अन्त्यः श्वासः किमयमथवोपान्त्य इत्यामृशन्तो विस्मृत्येशं निमिषमपि किं वर्तितुं पारयामः ॥ ३८ ॥ अभ्यस्यादौ श्रुतिमथ गृहं प्राप्य लब्ध्वा महार्था- निष्ट्वा यज्ञैर्जनिततनयः प्रव्रजेदायुषोऽन्ते । इत्याचष्टे य इह स मनुर्याज्ञवल्क्योऽपि वा मे तावत्कालं प्रतिभवति चेदायुषस्तत्प्रमाणम् ॥ ३९ ॥ अन्नं धान्यं वसु वसुमतीत्युत्तरेणोत्तरेण व्याकृप्यन्ते परमकृपणाः पामरा यद्वदित्थम् । १. अगस्त्येन. २. विश्वामित्रेण. ३. वसिष्ठस्य. ४. प्रतिभूर्भवति चेत्.

शान्तिविलासः। १९ भूमिः खं चौटुंहिणगृहमित्युत्तरेणोत्तरेण व्यामोहन्ते विमलमतयोऽप्यस्थिरेणैव धाम्ना ॥ १०॥ 'प्रायश्चित्तं सकृदुपनते वा प्रमादात्कृते वा भूयो भूयोऽप्यवहिततरैः साधिते कः समाधिः । कारुण्याब्धिर्यदि पुरहरः सत्सु कामं दयेत भ्रष्टे मादृश्यपि स दयते चेत्क्षतो धर्मसेतुः ॥ ११ ॥ साध्या शंभोः कथमपि दयेत्यप्यसाध्योपदेशः कोपं तस्य प्रथममपनुद्यैव साध्यः प्रसादः । को वा वर्णाश्रमनियमिताचारनिर्लङ्घनोत्थं शान्ति नेयः स कथमधुनाप्यव्यवस्थाप्रवृत्तेः ॥ ४२ ॥ इष्टापूर्तेर्निगमपठनैः कृच्छ्चान्द्रायणाद्यैः खामिन्नन्यैरपि तव मनः काममावर्जयेम । मध्ये मध्ये यदि न निपतेत्कर्मणां चोदितानां ज्ञानं श्रद्धेत्युभयमपि नो जातिवैर्यर्गलेव ॥ ४३ ॥ निर्मर्यादः परमचपलो निःसमाज्ञानराशि- ाहक्षोऽन्यः क इति भुवने मार्गणीयस्त्वयैव । ईदृक्षेऽपि क्वचिदपि दयेयेति कौतूहलं चे- स्वामिन्विश्वेश्वर तव भवं निस्तरेयं तदाहम् ॥ १४ ॥ पश्चाचप्ताः कथमपि विधेः किंकरीभूय कुर्मः सेवां शंभोरिति च नियमं वापि संकल्पयामः । आयुः किं मे किमिव करणं दुस्तरे संकटेऽस्मि- खामिन्गौरीरमण शरणं नस्त्वमेव त्वमेव ।। ४५॥ सम्यङ्युक्तास्त्रिभिरपि मैलैश्चिद्विकासकरूपा- स्त्वन्निध्यानप्रवणमनसः सूरयस्त्वत्पुरे ये। १. आणवमायीयकामः ३ष० गु० २० काव्यमाला। तेषां संदर्शयितुमपरिज्ञातपूर्व कदाचि- जन्तुं मुग्धं शिव नयसि किं विश्वपारं पुरं माम् ॥ १६ ॥ दिष्ट्या लब्धं द्विजवरकुले जन्म तत्रापि दिष्ट्या धर्माधर्मस्थितिरवगतैव प्रसादाद्गुरूणाम् । जन्मन्यस्मिन्नपि यदि न मे संभवेदास्तिकत्वं निस्तारः किं निरयभवनात्सर्वमोक्षेऽपि लभ्यः ॥ ४७ ॥ भव्ये देहे पटुषु करणेष्वालये श्रीसमृद्धे कौमारान्ते वयसि कथमप्यप्रवृत्ते च दुःखे । प्रत्यक्पुष्पीप्रसवविधया यस्य पुंसो निसर्गा- प्रत्यग्वकं भवति हृदयं कस्ततोऽप्यस्ति धन्यः ॥ १८ ॥ नाहं याचे पदमुडपतेर्नाधिकारं मघोनो नापि ब्राह्मीं भुवनगुरुतां का कथान्यप्रपञ्चे । अन्यस्यान्यः श्रियमभिलषन्नस्तु कस्तस्य लोको मह्यं शंभो दिश मसृणितं मामकानन्दमेव ॥ ४९ ॥ आ गर्भादा कुलपरिवृढादा चतुर्वक्त्रतोऽपि त्वत्पादाजप्रपदनपरान्वेत्सि नश्चन्द्रमौले । मायायाश्च प्रपदनपरेष्वप्रवृत्तिं त्वमात्थ खामिन्नेवं सति यदुचितं तत्र देवः प्रमाणम् ॥ ५० ॥ दण्डं धत्ते सकलजगतां दक्षिणो यः कृतान्तो नामाप्यस्य प्रतिभयतनोनॊपगृहीमहीति । प्राप्ताः स्मस्तं निगमवचसामुत्तरो यः कृतान्तो यद्वा तद्वा भवतु न पुनस्तस्य पश्येम वक्त्रम् ॥ ५१ ॥ इति श्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन कृतः शान्तिविलासः । १. प्रत्यक्पुष्पी अपामार्गः.

दीनाक्रन्दनस्तोत्रम् । २१ महाकविश्रीलोष्टकनिर्मित दीनाक्रन्दनस्तोत्रम् । चुण्ठीजलैरिव मुखैः परिणामदुःखै- राखादितैरपि मनागविलुप्ततृष्णः । श्रान्तोऽस्मि हा भवमरौ सुचिरं चरित्वा तच्छायया चरणयोः शिव मां भजेथाः ॥१॥ दुरसंसृतिरुजा भृशकांदिशीक- स्त्वामोषधीपतिभृतं सुकृतैरवाप्य । आवेदयामि यदहं तव तन्निदानं तत्रावघेहि मृड मा कुरु मय्यवज्ञाम् ॥ २॥ दुर्वासनाशतवशादशुचित्वमीक्ष्य या मे हठात्कृतवती मनसि प्रवेशम् । १. अयं रम्यदेवसूनुर्लाष्टककविः कश्मीरेषु ख्रिस्ताब्दीयद्वादशशतकपूर्वार्ध आसीत्, यतस्तत्कालोद्भुतेन श्रीमान श्रीकण्ठचरितस्यान्तिमे सर्ग रम्यदेवलोष्टदेवयोवर्णनं कृत- मस्ति । एतत्स्तोत्रमपहायान्यः कोऽपि ग्रन्थोऽस्य कवेरयापि नोपलब्धः. श्रीकण्ठच- रितान्तिमसर्ग एव कतिचन श्लोका लोष्टदेवप्रणीताः समुपलभ्यन्ते. अथ च तत्रैक लोष्टदेववर्णने 'वाग्देवतालिनीलीलाधुतपक्षतिचातुरीम् । वदनाम्बुरुहे यस्य भाषाः षड- विशेरते ॥ खलानां यत्प्रबन्धेषु दृढव्युत्पत्तिवर्मसु । प्रोद्यचोद्यमया दूरे कुण्ठिता इव पत्रिणः ॥' इति पद्यद्वयमस्ति. एतेन सन्ति केचन प्रबन्धा लोष्टदेवप्रणीता इति प्रतीयते. जहणसंकलितसूक्तिमुक्तावलौ च 'प्रकृत्यैवातिवक्रेण गुणदेयं वितन्वता । मया शरासनेनेव बाणो दूर निरस्यते ॥ अयं श्लोको लोष्टदेवनाम्ना समुद्धृतो वर्तते. अन्ति- मावस्थायामयं कविाराणस्यां गला यतित्वं स्वीकृतवान्. प्रणीतांश्च तत्रैवेदं दीना- क्रन्दनस्तोत्र मिति स्तोत्रसमाप्तौ स्फुटमस्ति. .अस्य दीनाक्रन्दनस्तोत्रस्य पुस्तकद्वयं पुण्यपत्तनतो विद्वन्मूर्धन्यभाण्डारकरोपाहश्रीरामकृष्णशर्ममिः कृपयास्मभ्यं प्रहितम्. तदाधारेणैतन्मुद्रणमारभ्यते. तत्र प्रथम नागराक्षरलिखित पञ्चपत्रात्मकं क-चिहि- तम्. अपरं शारदालिपिसमुल्लसितं विंशतिपत्रात्मकं ख-चिह्नितम्. पुस्तकद्वयमपि नवीनं काश्मीरलिखितं चास्ति. ख-पुस्तके विंशतिश्लोकपर्यन्तं खल्पं टिप्पणमप्यस्ति. २. लतावितानसंछनःधिलाकीर्णोऽकृत्रिमो जलाशयक्षुण्ठी. ३ 'ओषधीपतिशिखाम- गिमाश्रितोऽस्मि' इति क-पाठः. ..

२२ काव्यमाला। सानेकजन्ममरणावटपातनेन मां राक्षसीव बहु नाथ तुदत्यविद्या ॥३॥ घोरे क्षणं विनिपतन्नरके क्षणं च पुण्यं पदं दिविषदां सहसाधिरोहन् । मोहेन कन्दुकदशामिव नीयमानः खामिन्सहे किमवधीनि गतागतानि ॥ ४ ॥ का मे गतिर्विशति नैव मनो विवेकः खप्नेऽपि पक्कणमिव प्रवरो द्विजानाम् । रुद्धेऽपि तत्र न स रोढुमलं मुहूर्त विश्वेश मौक्तिकमिवोपरि दर्पणस्य ॥५॥ पित्रोर्जघन्यरसबिन्दुयुगं गृहीत्वा हन्तासकृत्पतितवानधिगर्भवासम् । तदुःखमन्वभवमीश गभीरकुम्भी- पाको वराक इति यस्य पुरो गृणन्ति ॥ ६ ॥ तत्र स्थितस्तदनु तत्तदनेकपूर्व- जन्मान्तरस्मरणविस्मयदुःखितात्मा । अस्मानिसृत्य पुनरुद्भवभङ्गहेतो- श्वेतो विधास्य इति चाकरवं प्रतिज्ञाम् ॥ ७ ॥ तेनाध्वनाथ निसृतोऽस्मि ततः स्मृतेऽपि यस्मिन्निकाममभिमानधनास्त्रपन्ते । संस्पर्शतस्तु शतशः शितिकर्मवायोः प्रायो निगूढदृढमूढदशामवापम् ॥ ८॥ तिर्यग्दशामिव शनैरविवेकसेका- द्वर्षाण्यवाप्य परमेश्वर पञ्चषाणि । १. 'शित' इति क-पाठः. २. 'गतोऽस्म्य विवेकसेकात्' इति क-पाठः, दीनाक्रन्दनस्तोत्रम् । २३ : तत्तत्कृतं पतदपि स्मृतिसीन्नि यद्य- सद्यो हियं जडधियोऽपि हृदि प्रसूते ॥ ९॥ आसाद्य यौवनमथो बहुभिः प्रकारैः शृङ्गारभङ्ग्यनुगुणैर्गुणिताविवेकः । जातोऽस्मि घोरनरकावहकर्मयोगा- द्भोगाशया प्रशमितोभयलोकशुद्धिः ॥ १० ॥ मोहात्कृतः परिणयोऽप्यनयो महीया- न्मूलं समस्तभवबन्धनदुर्गतीनाम् । यस्मादुपेत्य दुरपत्यजनेन सृष्ट- स्नेहोऽस्मि वेष्टित इवोत्कटनागपाशैः ॥ ११ ॥ तत्पोषणाय विदुषापि मया समस्त- मौचित्यमुज्झितवतात्तवता कुकृत्यम् । द्वारि श्ववल्लडितमेव कदीश्वराणां सोढावमानशतविक्लवमानसेन ॥ १२ ॥ प्राणाधिकैरथ वियोगमवाप्य तैस्तै- रिष्टैररुंतुदविषादवशंवदेन । स्त्रीवन्मया विलपितं विहितं न किंचि- त्कृत्यं सतां समुचितं हहहा हतोऽस्मि ॥ १३ ॥ सांसारिकेषु विषयेषु निपत्य राग- द्वेषैकनिष्ठहृदयो भगवन्नभूवम् । आसीददन्तकभयप्रतिकूलवृत्ति किंचिन्मया न रचितं विदितं न वापि ॥ १४ ॥ इत्थं न किं व्यवहृतं न किमुक्तमात्तं किं वा न किं न कलितं ललितं न वापि । १. 'विकारैः' इति क-पाठः. २. 'समुचितमहहा' इति ख-पाठः. ३. 'मया विर- चितं' इति ख-पाठः. ४. 'वलितं' इति क-पाठः.

२४ काव्यमाला। सर्वत्र तत्र शरणं कृपणस्य मे त्व- मोहि देहि चरणं शिरसीन्दुमौले ॥ १५॥ याः प्रोत्कटा भृकुटयो यमकिंकराणां पीडाश्च या नवनवा नरकावनीषु । ताश्चिन्तिता अपि भयाय ममाधुनैव सोढास्मि ताः कथमहो विषमो विषादः ॥ १६ ॥ मीतोऽस्मि दुर्गततमोऽस्मि कदर्थितोऽस्मि पापोऽस्मि विस्मृतसदध्वपरिग्रहोऽस्मि । तत्केन केन न पथास्मि कृपास्पदं ते मत्वेति शंकर यथोचितमाचरेथाः ॥ १७ ॥ नो यत्र बन्धुरथ नैव पिता न माता नो वा सुहृद्धृतिमुपेत्य विधातुमीष्टे । ताखेत्य नाथ मम नारकभूषु कुर्या- स्त्राणं त्वमेव हि जगत्सु दयाईचेताः ॥ १८॥ भ्रष्टोऽसि यद्यपि सतां चरितात्तथापि मां त्रातुमर्हसि कृतान्तभिया श्रयन्तम् । प्रहेषु विहलतया शरणागतेषु नो साधवो विदधते सदसद्विवेकम् ॥ १९ ॥ येष्वन्धकारनिकरण करालिता भू- यंत्र ज्वलन्ति नरकेष्वनिशं हुताशाः। धामत्रयीनयन निर्जरसिन्धुमूर्ध- स्तत्रेतरस्त्वमिव कः शरणं नराणाम् ॥ २० ॥ प्राग्यावदिन्द्रियगणः पटुशक्तिरासी- त्खामिन्स तावदगमद्विषयेषु निष्ठाम् । १. 'प्रोत्कटभ्रुकुटयो' इति क-पाठः. इति ख-पाठः. २. 'मां' इति क-पाठः, ३. 'कृतान्तभियं' दीनाक्रन्दनस्तोत्रम् । २५ शक्तिक्षयेऽद्य स कथं भजते भवन्तं जन्मेति मे विफलमीश किमाः करोमि ॥ २१ ॥ नादायि दानमथ नैव तपो व्यधायि नासेवि तीर्थदिगसाध्यतरः समाधिः । तत्का परत्र गतिरस्त्यनवाप्तपुण्य- ज्ञानस्य मे भव भवत्स्मृतिमन्तरेण ॥ २२ ॥ कालान मे भयमथो कनके न लिप्सा नैवामि शैशववशेन पयःपिपासुः । त्वदर्शनाय तु शिव स्पृहयामि लोभा- तत्रापि किं तव न वा सुकरः प्रकारः ॥ २३ ॥ यजन्म दुर्लभमुशन्ति मनुष्यलोके तत्प्राप्तमप्यतनुपूर्वशुभप्रभावात् । जातं वृथैव मम यत्र मुहुः कदापि नैवान्वभावि भवदर्चनभक्तिसौख्यम् ॥ २४ ॥ जातिमहेश्वर भुजंगमपुंगवानां स्तुत्या वरं भवदलंकृतिवाहकृत्यैः । मानुष्यकं तु मम पिकलया कयापि यन्नोपयोगमगमत्त्वयि मच्छरीरम् ॥ २५॥ शश्वदृशव्यसनितामपि मेऽवधार्य धत्से कथं परमकारुणिकोऽप्यवज्ञाम् । १. अयं श्लोकः सुभाषितावलौ कर्तृनामरहितो वल्लभदेवेन समुदतः. २. 'तीर्थदि- गसाधि न वा समाधिः' इति क-पाठः. ३. 'भावस्य' इति कापाठः. ४. श्वेताख्य- राजर्षिवत्. स च कृतान्तभयात्परमेश्वरेण मोचितः. ५. मरुत्तपतिवत्. मरुत्तत- पस्तुष्टेन श्रीशिवेन सप्तदिनपर्यन्तं तत्पुरे सुवर्णवर्षणमकारि. ६. उपमन्युवत्. परम- शिवभकायोपमन्युनाने मुनिकुमाराय दुग्धं पिपासते परमकारुणिकेन भगवता क्षीरा- धिरेव समर्पितः. ७. सर्पाणां वृषभस्य च. ८. 'धिकलयापि शंभो' इति क-पाठः. ९. 'यत्रोपयोगमगमत्त्वयि नो शरीरम्' इति पाठः, २६ काव्यमाला। किं नाथ पश्यसि न यत्परिहृत्य शहां लग्नोऽनिशं शिव शिवेति मम प्रलापः ॥ २६॥ रक्ताचर्मवसनाय महाश्मशान- धाम्नेऽस्थिभूषणवते फणिकङ्कणाय । रक्षःपिशाचसचिवाय बलिं प्रयामो रूपाय ते हर युगान्तनिशाचराय ॥ २७ ॥ दिव्योत्तरीयभृति कौस्तुभरत्नभाजि देवेडेपरे दधतु लुब्धधियोऽनुबन्धम् । रूपं दिगम्बरमखण्डनृमुण्डचूडं भावत्कमेव तु बतेश मम स्पृहायै ॥ २८ ॥ जीवामि चेदथ पृथुप्रियविप्रयोग- रोगादयो नरकदुःखभियोऽन्यथापि । घ्नन्त्येव मामुभयथाप्यसुखोऽहमित्थ- मनोचितं हर चरख कृपालुतायाः ॥२९॥ यत्रेन्द्रियाणि विरमन्ति निजक्रियाभ्यो यात्यान्तरोऽपि करणप्रसरोऽवसादम् । प्राणास्त्रुटन्ति च समस्तनिराशभूतं मामेत्य शंकर कुतोऽपि तदा दयेथाः ॥ ३० ॥ खाशेषपूर्वदुरितस्मरणादुदेति यत्रासमं भयमसुप्रशमप्रसङ्गे। कः कांदिशीकमनसः शरणं तदा मे खामिंस्तवैव समयः स कृपालुतायाः ॥ ३१ ॥ अद्यैव यामि शरणं परमेश्वर त्वां शक्ष्यामि किं ननु तदा हतसर्वशक्तिः । १. 'भूषणमृते' इति ख-पाठः. २. विष्णौ. ३. 'भावत्कमेव भवतीश' इति क- पाठः. ४. मरणेऽपि. ५. 'तदापि कुतो' इति ख-पाठः. ६. 'शक्यामि' इति क-पाठ:.

२७ दीनाक्रन्दनस्तोत्रम् । मृत्युर्यदा मम भयाय पैतत्यकस्सा- दन्धस्य वक्र इव हस्ततलाहारः ॥ ३२॥ आतिक्षणे सपदि विस्मर तात मात- रित्यादिकं च विफलं कृपणप्रलापम् । शर्वेश शंकर शिवेति नुतिं भैजख जिहे यतो विघटतेऽखिलदुःखभारः ॥ ३३ ॥ खास्थ्ये मदात्कति न दुश्चरितानि नाम नाथ व्यधां गतविवेकतया विशङ्कः । संस्मृत्य मृत्युभयमद्य तु विह्वलोऽस्मि श्रीकण्ठ भोक्तुमपि येन न पारयामि ॥ ३४ ॥ पूर्व न चेद्विरचिता तव देव सेवा "तेनैव नैव दयसे श्रयतो ममातिम् । किं प्रागसंस्तुत इति प्रतिपन्नमूल. च्छायं गतश्रमरुजं न तरुः करोति ॥ ३५ ॥ ज्ञानप्रकाशसुलभं शिव दर्शनं ते जात्यन्धतैव च परं मम तद्वियोगात् । तत्तां त्वमेव किल कामपि देहि युक्तिं व्यक्तिं येयष्यसि मम श्रममन्तरेण ॥ ३६ ॥ प्राप्येहशीमपि मनुष्यदशां न पुण्ये ज्ञानेऽथवा विधिहतोऽप्यगमं प्रतिष्ठाम् । सामग्र्यसावथ कुतः पुनरप्यतो मां खामिन्नधन्यमनुकम्पितुमर्हसि त्वम् ॥ ३७ ॥ १. 'पतेदकस्मा' इति क-पाठः. २. 'रित्यादिकोक्तिविफलं' इति क-पाठः. ३. 'मुखर- प्रलापम्' इति ख-पाठः. ४. 'श्रयख' इति क-पाठः. ५. 'नादशतानि नाम' इति क-पाठः, ६. 'वयि' इति क-पाठः. ७. 'किं तेन नैव' इति क-पाठः. ८. 'देहयुक्ति' इति क-पाठः. ९. 'यथैष्यति' इति क-पाठः.

२८ काव्यमाला। लीनेन भूरिविषयाध्वनि सौख्यलोभा- नामापि मोहितधिया कलितं न मृत्योः । आसीदतः सपदि तद्भयतो मया कि शक्यं विधातुमहहा महदाकुलोऽस्मि ॥ ३८ ॥ या विक्रिया यमभट कुटिच्छटानां पीडोश्च या नवनवा नरकावनीषु । ता निर्विशन्भव कथं भवितास्म्यमुत्र कुत्र ब्रजामि शरणं कैतरं प्रपद्ये ॥ ३९ ॥ स्मृत्वाप्यहो रविजकिंकृतहुंकृतीनां मुखामि यामि विलयं भयविह्वलात्मा । आसन्नमेवमहहा विषमं पुरस्ता- तत्का गतिर्मम कुकर्मनिममवृत्तेः ॥ १० ॥ आसन्नपापशतसंभृतघोरपीडः क्रन्दाम्यनन्यगतिकत्ववशात्पुरस्ते । तस्मात्कथं न दयसे त्वरितं कुतश्चि- दागत्य विश्वमय सान्त्वय मां वराकम् ॥ ११ ॥ पश्यन्समानवयसोऽपि यवीयसोऽपि नक्तंदिवं यमभटैरपि नीयमानान् । आत्मन्यभूवमजरामरताभिमानी यद्विप्लवादकरवं न शुभं कदाचित् ॥ ४२ ॥ द्वारे लुठामि करुणं प्रलपामि शंभो वाञ्छामि चुम्बितुमथो परिरभ्य च त्वाम् । E १. 'विधेयमहहा' इति ख-पाठः, २. 'या यातनाश्च विषमा नरकावनीषु' इति क-पाठः. ३. 'कतरत्' इति क-पाठः. ४. 'टुक्रियाणां' इति क-पाठः. ५. 'निमम- मूर्तेः' इति क-पाठः. ६. 'उद्गत्य' इति क-पाठः, ७. 'यमभटैरपनीयमानान्' इति ख-पाठ.

दीनाक्रन्दनस्तोत्रम् । २९ चातूलतामुपगतोऽसि तवानुरागा- द्धा दुःसहस्त्वयि ममैष दृढोऽनुरागः ॥ १३ ॥ कण्ठेऽर्पयत्युरगपाशमसूयया मे यामिन्यधीशशिख यत्समये कृतान्तः । नूनं तदा मुहुरुपैमि फणीन्द्रहार त्वत्तुल्यतामिति भजे मरणेऽपि हर्षम् ॥ १४ ॥ चित्तं न पारदमिव क्षणमुज्झतीदं चाश्चल्यविप्लवमयुक्तिविदः प्रभो मे । तस्मात्कथं भवति भक्तिरसस्य सिद्धिः कस्तां विना च भव घोरविपद्विनाशः ॥ ४५ ॥ खामिन्ननुद्तविवेकलवोऽकृतात्मा तिर्यग्वदेव दिवसानतिवाहयामि । नेता क्षणाच्च वशमन्तकसौनिको मा- माशैव तन्मम कुतः सुगतिप्रसक्त्यै ॥ ४६ ॥ दुःखम एव विषमो भवदुःखनामा खामिन्कथं त्यजति मां विगतप्रबोधम् । यस्मान्ममानवरतश्रुतभूरिशास्त्र- तूर्यस्खनैरपि न शाम्यति मोहनिद्रा ॥ १७ ॥ कृत्वा पापमसावपोष्यत निजः कायो न दीनो जनो वैवश्याल्लुठितं चिरं चरणयोः स्त्रीणां गुरूणां न तु । लोभोऽकारि मया धने न सुकृते तेनानुतप्ये मह- किं शक्यं मम तंत्र कर्तुमधुना नाथ त्वमेका गतिः ॥ ४८ ॥ १. 'वातूलतामिव गतोऽस्मि' इति ख-पाठः, २. 'बत्तुल्यतामिव' इति क-पाठः. ३. 'पारतमिव' इति पुस्तकद्वयेऽपि पाठः, काश्मीरकाः 'पारद' इत्यस्य स्थाने 'पारत' इत्येव सर्वत्र पठन्ति. .४, 'कस्वां' इति क-पाठः. ५. विरामः' इति क-पाठः. ६. 'खगति', इति ख-पाठः. ५. 'वैवश्याल्लडित' इति क-पाठः. 6. 'तत्र संप्रति पुनर्नाथ' इति क:पाठः ३० काव्यमाला। अहं पापी पापक्षपणनिपुणः शंकर भवा- नहं भीतो भीताभयवितरणे ते व्यसनिता। अहं दीनो दीनोद्धरणविधिसज्जस्त्वमितर- न जानेऽहं वक्तुं कुरु सकलशोच्ये मयि दयाम् ॥ ४९ ।। इति परिहृतवान्खकाव्यशिल्पप्रकटनमाकुलितो भवव्यथाभिः । व्यधित गिरिश रेम्यदेवजन्मा तव पुरतो हठदैन्यतः प्रलापान् ॥ ५० ॥ एतत्तीवं व्रतमुपचितं सैकते सिद्धसिन्धो- राणस्यां शमदमदृशोरेष गाढोऽनुवन्धः । दीनाक्रन्दं प्रति पशुपतेरुद्यमश्चाटुकानि त्यक्त्वा राज्ञां बत मम शुभैस्तन्यते धन्यतेयम् ।। ५१ ॥ अभ्रंशे जन्म वंशे सुमहति विहितो वाङ्मयाब्धौ हनूम- संरम्भो दानभोगौ तदनु च रचितौ किंचिदौचित्यरीत्या । ज्ञात्वा तत्त्वं यतित्वं श्रितमथ मथिता संसृतिर्दुर्निवारा वाराणस्यां प्रसन्ना स्थितिरिति कृतिनः किं न मे नाम सिद्धम् ॥५२॥ ईर्ष्यायै परवादिनां कविकलाकान्ता यतिं मामियं यचुम्बत्यधुनापि तन्मयि भवत्यब्रह्मचर्य न किम् । एतावत्स्खलितं क्षमख भगवन्भूयोऽपि तुभ्यं शपे श्रीविश्वेश्वर देव नैव भवितास्म्यस्या रहस्यातिथिः ॥ ५३ ॥ नासत्यव्यतिरेकतोऽक्षरमपि प्रायुक्त यद्भारती नैवान्यत्परबाधतो यदसकृत्संचिन्तितं चेतसा । नाकृत्यादितरत्र गात्रमतनोचेष्टां यथेष्टां च य- सर्वत्रापि मया त्वमेव शरणं तंत्राश्रितो धूर्जटे ॥ ५४ ॥ इति लोष्टीकभट्टविरचितं दीनाक्रन्दनस्तोत्रं समाप्तम् । १. ख-पुस्तकेऽस्य श्लोकस्याप्रिमस्य च पौर्वापर्यमस्ति. २. 'देवरम्यजन्मा' इति ख-पाठः, ३. 'प्रलापम्' इति ख-पाठः, ४. 'एतत्तीवव्रत' इति क-पाठः. ५. 'शमद- मदिशो' इति ख-पाठः. ६. ख-पुस्तकेऽस्य श्लोकस्याप्रिमस्य च पौर्वापर्यमस्ति. ७. 'प्र- सिद्धा' इति ख-पाठः, ८. 'नु' इति क-पाठः. ९. 'नौचित्यादितरत्र' इति क.पाठः. १० 'तत्राधिता जाहवी' इति ख-पाठः, ११. 'पण्डितभट्टलोष्टकविरचितं' इति क-पाठः, काव्यभूषणशतकम् । ३१ भट्टश्रीकृष्णवल्लभकविप्रणीतं काव्यभूषणशतकम् । हेरम्बस्य कपोलसीम्नि मलिनां मालामलीनां घना- मालोक्य प्रतिबिम्बितां हरशिरोगङ्गातरङ्गोपरि । न्यस्तानेन कलिन्दजापि शिरसीताकुलाया मरु- द्वल्गत्कोकनदच्छदच्छविभृतो देव्या दृशः पान्तु वः ॥ १ ॥ श्रीकृष्णे सत्यभामाकुचकलशभुवि स्फीतमातङ्गकुम्भो- तुङ्गायां पारिजातस्रजमुपनयति प्रेमभाजा करेण । तस्मिञ्जम्भाभियातिद्विरदकरधिया विस्मृतेारसाया रुक्मिण्याः क्लान्तभङ्गावलिललितरुचः पान्तु दृग्भङ्गयो वः ॥ २ ॥ नालीकस्य प्रणाली कलयति नयनं निहते चान्द्रमस्याः शोभायाः सान्द्रमस्या वदनमपि मदं गोधिरर्धेन्दुरोधी । संबिभ्राते ध्रुवावप्यसमशरधनुर्विभ्रमं भासि भव्या सौमेरव्याः स्तनश्रीनवजलदलतापेशलः केशपाशः ॥ ३ ॥ तत्पाणिप्रतिषिध्यमानरभसाक्षेपस्खलन्मत्कर- व्यापारप्रथमानकङ्कणझणत्काराभिरामोदयः। आविर्भावलवोल्लसत्कुचरुचिप्रस्तारविस्तारित- प्रस्तावव्यतिरेक विद्युदुदयो लभ्येत सभ्यः क्षणः ॥ ४ ॥ श्रीखण्डान्वयभाजि वाति मरुति प्रत्यङ्गनाभिः समं पश्यन्तीषु सखीषु दैववशतो नेदीयसि प्रेयसि । उदाहोर्ग्रहणेच्छया सुमनसां वामभ्रवः संभ्रमा- द्वक्षोजावरणस्य यत्प्रकरणं तत्किं गिरां गोचरः ॥ ५॥ पर्यञ्चत्केशपाशं चलदलकलतं मन्दविस्पन्दतारं खेदाम्भोबिन्दुजालस्तबकितपुलकोच्छासिताम्यत्कपोलम् । १. इन्द्रहस्ती. २. ललाटम्. .४ ष० गु० ३२ काव्यमाला। श्वासावेगानुवारोच्छुसितकुचतटव्यस्तहस्तं जिघृक्षा- भूमीभूतोत्तरीयं वरयुवतिवपुर्धन्यमात्रानुभाव्यम् ॥ ६ ॥ नाभौ स्थितिस्पृशि महासरसीसनाभौ मुक्तावलावपि सुपर्वतरङ्गवत्याम् । लावण्यसारजलधौ कलधौतगात्रि चक्षुस्तृषां मम मृषा न कृशां करोषि ॥ ७ ॥ दृम्भङ्गे श्रवणेन साकमरुणे योगं समासेदुषि प्रत्यामृष्टदरस्फुटत्पुटकिनीपत्रान्तरालेऽनिले। यो वेणीमवगाहते वरतनोः सर्वात्मना श्रेयसां तस्य व्याहरणे बिलेशेयपतिः किं लेशतोऽपि क्षमः ॥ ८ ॥ मधौ सन्माधुर्ये तरुणि विपिने फुल्लतरुणि प्रसूनैः सामोदे मरुति रुतिमातन्वति पिके । प्रशस्ते प्रस्तावे रतिरमणबाणत्रणगण- प्रणेये प्राणेशे नमति परुषा मा भव रुषा ॥ ९॥ तादात्म्यानुभवात्स्तनस्तबकयोः सौहित्यमप्राप्नुव- न्मुक्तादामनि मेरुरेष सरसं ग्रीवां समालिङ्गति । रत्यावेश विवर्तविभ्रमवशाद्वक्षोजमालिङ्गति व्यक्तं नायकसंगतादवयवादन्यत्र संयुज्यते ॥ १० ॥ बालामुक्ताकलापग्रथनगुणशिखोपाग्रयुग्मस्य योग- ग्रन्थौ गारुत्मतोऽयं मणिररुणगुणोदग्रगुच्छश्चकास्ति । धम्मिल्लव्यालहालाहलगरलसमास्वादनास्वादितेन प्रादुर्भूतेन तापज्वलदनलशिखाजालकेनेव युक्तः ॥ ११ ॥ तव श्रवणभूषणं कुवलयं विहाय क्षणा- दतिश्वसितसौरभं व्यवसितः समासादितुम् । प्रमोदभरमन्थरः प्रियतमाधरद्वारक- त्वदीयनयनाञ्जनच्छलमलिः समालम्बते ॥ १२ ॥ १. गङ्गायाम्. २. शेषनागः. ..

काव्यभूषणशतकम् । ३३ ज्योत्स्नी कुन्तलभारबन्धघटनामुक्ताफलस्रक्छला- च्छ्यामां न्यस्य विभावरी च कबरीभारापदेशात्त्वयि । सर्वखेऽपहृते सुपर्वभिरयं क्षीणः कलानां निधि- स्त्वद्वऋद्युतिसंचयादवयवं गृह्णाति संपूर्तये ॥ १३ ॥ राजीवस्य विधीयते रुचिभरैराजीवनं शोचत- स्ताराजीवितवल्लभस्य महसां राजी पराजीयते । मालिन्याकृतिसंविदर्पणविधावानीयते दर्पणः कंदर्पः क्रियते त्रिलोकविजये दर्पस्पृगास्येन ते ॥ १४ ॥ पुष्पेषोर्धनुषि ध्रुवोर्द्वयमसामञ्जस्यमासञ्जय- त्यङ्गीकारयति प्रथां च वितथा भङ्गिदृशोराशुगाम् । वेणी सुन्दरि चञ्चरीकमदसंकोचं चरीकर्त्यसा- वालापः पिकपञ्चमस्य नयते लोपं चमत्कारिताम् ॥ १५ ॥ कामोत्तप्तं मरकतमहाग्रावहारो गभीरे ममं नाभीसरसि हृदयं जग्रसेऽनेकपं मे । लीलावेशप्रचलितकरः कोऽप्यहीनारिकेतु- स्तद्भङ्गेन प्रतिविधिमिहैवानुरूपं व्यतानीत् ॥ १६ ॥ पादाङ्गुष्ठशिखैकसंश्रितधरं प्रत्युल्लसद्वेपथु ग्रीवाग्रोन्नमनप्रयत्नबहलक्षामायमाणत्रिकम् । दोरुत्क्षेपणजायमानवलयकाणं कुरङ्गीदृशो माकन्दाग्रिममञ्जरीग्रहदशासंस्थानमत्यद्भुतम् ॥ १७ ॥ प्रत्यग्राभासि भाखरसुभगमुभयतो लग्नलम्बालकाग्रं बालाभालान्तराले विलसति तिलकं नागरे नागरेणोः (१) । खर्भानोः केशभारात्कवलितगलितं मण्डलं चण्डरश्मे- भूयस्तत्रैव संवेशयितुमभिमतं सूत्रयन्त्रानुषङ्गात् ॥ १८ ॥ कपोलव्यालोलश्रवणनवमाकन्दकलिका- मरन्दव्यामिश्रास्तव वरतनु खेदपृषतः ।

३१
काव्यमाला।
रतिव्यत्यासस्य श्रममपलपेयुर्यदि भवे.
दभेदोपक्रान्तकणितरशनादाम जघनम् ॥ १९ ॥
प्रभायामध्वर्यो रतिदयित आवाति पवने
गृहीत्वा होतारं भ्रमरकलमुद्गातरि पिके ।
सति प्राणाभीष्टे सुरुचिरतदीक्षे वलयज-
प्रणादः पुण्याहध्वनिमिव तरुण्या विहितवान् ॥ २० ॥
अङ्गं रङ्गस्थलं ते कुवलयनयने मन्मथः सूत्रधारो
हीभारः स्थापकोऽयं तरलितवलयकाणभङ्गिश्च नान्दी ।
द्रष्टा केलिप्रदीपस्तरुणिमललितं नाटनीयं वसन्तः
सध्यङ् व्यस्यन्नुरोजावरणजवनिकां नायकोऽयं प्रविष्टः ॥ २१ ॥
केलीभिः कलहायमानवलयं सारावहारावलि
प्रेकच्छृङ्खलमेखलाकलकलं शिञ्जानमञ्जीरकम् ।
व्यालोलालकमव्यलीकपुलकं खेदाम्भसा जालकै-
रामीलत्तिलकं कलेवरमलंकारायते केवलम् ॥ २२ ॥
निःश्वासानिलसंगमाविलचलन्नासाग्रमुक्ताफलं
लीलाविच्छुरणक्रमप्रचुरतापन्नकणन्नूपुरम् ।
मुक्तादामलतानिकामजनितप्रक्षोभवक्षोरुहं
बालेऽङ्गं किल ते विलक्षणमिलत्कौतूहलं केलिभिः ॥ २३ ॥
स्तने बृहतिकारणहतिकाञ्चलेनावृते
भृशं मम दृशि स्पृहास्पृशि वरोरु जाता रुजा ।
विलेखविषयीभवद्विचकिले तु मन्दानिले
समुत्थितमुदारया बत मुदा रयापन्नया ॥ २४ ॥
दलानां विश्लेषं कुवलयकुलानामनुवनं
सृजन्तः कोकानां ध्रुवमवयवानां रतिसुवः ।
नभवन्तोऽत्यन्तं निधुवनपरिक्लान्तयुवती-
जनखेदोद्भेदोपहतिषु वहन्ति प्रतिभुवः ॥ २५॥

काव्यभूषणशतकम् । ३५ हेलाविध्वस्तमध्वाकुलबकुलकुलाश्चम्पकोत्कम्पकोष- प्रत्यामर्शाप्ततर्षाः परिमिलितदलन्मल्लिकावल्लिकायाः। कुन्दावस्कन्दमन्दा बहुविहितपरिस्यन्दमाकन्दवृन्दाः खेदाम्भोबिन्दुसान्द्रं तव नवपवना देहमाहादयन्तु ।। २६ ॥ भुजो बिसचये नवे किसलये च बिम्बाधरो वरोरु हसितं विधो रुचि सरोरुहे लोचनम् । ध्रुवौ मदनकार्मुके रजनिकामुके ते मुखं दिशन्ति कुसुमे घृणामवयवाः सुमेरौ कुचौ ।। २७ ।। माकन्दप्रसवोल्लसत्परिमलप्रस्यन्दिमन्दानिल. व्यस्तैकाञ्चलयापि कञ्चलिकया विस्रस्तसंदानितौ । त्वद्वक्षोरुहजातरूपकलशौ रम्भोरु संभावितौ साकल्येन विलोकनादपि चमत्कारं दधाते दृशोः ॥ २८ ॥ बिभ्राणे विभ्रमेणोद्वलितललिततामञ्जनासञ्जनेन व्यञ्जाने खञ्जनादप्यधिकमधुरतां कञ्जवन्म भूते । मय्युत्खेदे निदाघात्प्रतियुवतिरतिभ्रान्तिभाराद्भजन्त्या भुग्नीभावं ध्रुवा ते वरतनु नयने कौतुकं मे सुवाते ॥ २९ ॥ दृगञ्चलवशंवदः कमल (?) शम्बरद्वेषिणो गुणत्वपदशालिनः पुनरिहोभयत्रालिनः । कचैरसुवचैः समं तव तुलार्थिनो वातुला- श्चिरेण मदिरेक्षणे जगदिरे द्विरेफा इति ॥ ३० ।। त्वदोष्ठे वर्तिष्णावरुणिमनि मैत्रावरुणिना- प्यवाच्या बिम्बामा तरुणिममहस्युत्तरुणिते । गिरा जीवस्यापि प्रचरति पराजीवनकृता तुला सम्राजीव क तव दृशि राजीवसमता ।। ३१ ।। धारावाहिकबाह्यनिर्गतरसं दृग्युग्ममभ्यन्तरा- वच्छिन्नामिशिखान्वयं च हृदयं दूरं भवत्यागते ।

३६ काव्यमाला। कः स्नातो राजसूयावभृथजलभरैः किं वा पल्लवयामि वाचमधुना वामभ्रुवो जीवित- श्वासाभ्यामपि कण्ठहृद्गततया स्थानं विपर्यासितम् ॥ ३२ ॥ अगुच्छरुचिरौ कुचौ पदमसत्तुलाकोटिकं विभाति जघनस्थलं न रशनाध्वनेर्गोचरः । निरूपणपथातिगं निरुपमत्वमाजानिक भवद्विरहतो भवत्यवयवेषु तस्याः स्फुटम् ॥ ३३ ।। कोऽहं त्वत्पक्षपातं भृगुभुवि रचयन्यासि यत्पक्षपातं खं कोऽताप्सीत्कृशानूनभि यदमिलनात्त्वं कृशा नूनमेवम् । साभ्यसूयासि यस्मि- न्केनाराद्धः कपाली तव समधिगता तन्वि येनाकपाली ॥ ३४ ॥ को वा भीष्मंसुवं व्यगाढ हृदयं यद्भव्यगाढक्रम पादात्को नु धरां चलं सुतनु ते नेत्राञ्चलं यं प्रति । कः स्नातोऽमरकण्टकाम्भसि यदाशिश्लिक्षया कण्टकाः केनाराधि स राधिकापतिरसि स्मेराधिकारे यतः ।। ३५ ।। मुखं तावदाकाकुमुदसुहृदो दर्पदलनं स्तनौ हेमनावद्युतिमदसमग्रावनतिदौ । परीक्षायामूरू करिकरचमूरूपजयिनौ दृशोभङ्गी दुग्धोदधिलहरिरुग्धोरणिनिधिः ॥ ३६ ॥ कुचौ जम्भारातिद्विपकरटसंभाव्यसुषमौ मतावूरू रम्भारुचिनिचयदम्भापहतया । प्रशस्तप्रारम्भाभ्यधिकसुभगंभावुकतया मृगाक्षि त्वं रम्भावयवपरिरम्भादरहरी ॥ ३७ ।। माणिक्याभरणं चकोरशिशुके कर्षत्यलातभ्रमा. हिम्बभ्रान्तिवशेन दन्तवसनं केलीशुके चुम्बति । आकारोऽयमभिन्नवत्तव हशोर्नासाग्रविन्यस्तयो- राचष्टे हृदयस्य बाह्यविषयव्यावृत्तिमात्यन्तिकीम् ॥ ३८ ॥ १. आलिङ्गनम्. २. गङ्गाम्. ३. नर्मदोद्गमस्थले शिवक्षेत्र विशेषः.

काव्यभूषणशतकम् । ३७ कर्पूरायितसैकताय शिशिरक्षोदायमानातप- व्यूहाय व्यजनानिलायितमहाझञ्झामरुद्रंहसे । अस्मै तन्वि निदाघवासरवयोमध्याभिसारक्रमो- त्साहात्युत्सवसाहसाय महते सौहार्दमीहामहे ॥ ३९ ॥ निंसाने सरसं कपोलफलकं बिम्बाधरं बाधय- त्याश्लिष्यत्यपि संमति विमतिमप्याहत्य नैव व्यनक् । नीवीं जीवितवल्लभे शिथिलयत्युद्रीविकां तन्वती सध्रीची जनरूपणाय मृगदृक्प्रत्यग्रमन्वग्रहीत् ॥ ४० ॥ रागस्तादृश एव दन्तवसने तादृक्स्तने स्थासको धम्मिल्लोऽपि तथाविधो विसदृशं नो वा दृशोरञ्जनम् । किं त्वन्तः प्रचलायितं दरचलच्छोणाज संवर्तिका- कारं चक्षुरनक्ति वल्लभसमास्वादावतीर्णामिमाम् ॥ ४१ ॥ आदाय खयमेतदीयविषयं नासाग्रदेशं दृशौ तन्मुक्ताफलकं कपोलफलके पर्यस्यदश्रुच्छलात् । सोऽप्येवं परिगृह्य पाणिशिखरं वामभ्रुवो विभ्रमा- तन्मुद्रागतपद्मरागमनयोरेवोपरि न्यस्तवान् ॥ ४२ ॥ अत्याक्षीत्करमाशु कम्बुवलयो जातं विहस्तं मन- स्तत्कामेन शरैः क्षतं नयनयोरासीत्पुनः सास्रता । ते वान्तर्गतमञ्जनं व्यजहतां काञ्ची बभूवाध्वनिः सा प्रौज्झज्जघनं बभावजघनस्तापस्तु तस्यास्तनौ ।। ४३ ।। वक्षोजद्वयकुम्भसीम्नि करयोदूंनोर्विसंवादिनो- भग्ने दामनि पद्मरागगुलिका व्याकीर्यमाणा बभुः । आचार्यप्रवरेण नव्यवयसा सूत्रेण गर्भीकृता नीता भाष्यकृता स्मरेण बहुतां हृद्रागभावा इव ॥ ४४ ॥ नवतरुणिमा सोद्रेकोष्मा महांस्तपवासरः कचमयतनुर्धम्मिल्लोऽसावकालबलाहकः । :

१८ काव्यमाला। . अभिमतमरुध्याधूतोऽयं विमुञ्चति मल्लिका- मुकुलकरका दृष्टिद्रोणीदलप्रसरच्छिदः ॥ ४५ ॥ तावत्सारघधीप्रसारघटना तावन्मिलिक्षा बला- दीक्षावस्तु (१) वितायतामथ सिताखादेऽपि तावद्रहः । तावद्भातु सुधारसेऽपि बहुधा जन्मस्पृहां वीरुधां (2) यावत्तावक एष बाधरहितं बिम्बाधरः पीयते ॥ ४६ ॥ अरुणदरुणः खस्यायोगं रसेन मधुद्विषा स्थितमविरतं सक्तं यस्मिन्दधाति मनोभवः । अजनि जनभृच्छोभा मुक्ताफलेन सुधारुचा वद दिविषदः कस्याकाङ्कास्पदं न रदच्छदः ॥ ४७ ॥ भृतायां सिन्दूरैस्तव तरुणि सीमन्तसरणा- वियं वल्ली कापि स्फुरति नवमुक्ताफलमयी । निपीतार्काभीषावुदरभुवि धम्मिल्लतमसो रुचीनां चान्द्रीणामुपरि पतयालुस्ततिरिव ॥ ४८ ॥ भवन्ति करका इमा यदि पयोधरौ तौ खयं द्विपेन्द्रकरटौ यदि खयममूस्तदा मुक्तिकाः । मरन्दमयविप्रुषो यदि सरोजगुच्छावमू वरोरु यदि भूधरौ तदुदबिन्दवो नैझराः ॥ ४९ ॥ गात्राणामनुलेपनायवहितः स्वाभाविकः श्रीभरो विन्यासेन विभूषणस्य विहतं साकल्यतो दर्शनम् । आमुक्तैरथ दामभिः सुमनसां तत्सौरभं मिश्रितं प्रावारेण तनूरुचां प्रसरणं किंचिद्विपर्यासितम् ॥ ५० ।। वदनं करतोययावरुद्धं नयनं च स्थितिमाप नासिकायाम् । न तनुर्विषयग्रहं व्यतानीदविमुक्तैकसरःस्थितस्तदात्मा ॥ ५१ ।। तत्कालापहृतारुणांशुकतया जाताकुला पद्मिनी व्यक्तिं प्राप तमिस्रमुल्लसिततां लेभे सुधादीधितिः । १. निपीतसूर्यकिरणे.

काव्यभूषणशतकम् ।
३९
सद्योऽकम्पत कोकयोर्युगमभूद्विस्फारभृत्तारको
भेजे का कुमुदावली न हसितं........
॥ ५२ ॥
रागस्यातिशयोऽन्तरुच्छसितता ग्लानिर्बहिर्मात्रभूः
संभोगे सति वल्लभस्य युगपबिम्बाधरे त्वय्यपि ।
मानस्यातिशयोदये कठिनता वक्षोजयो रम्भया
सादृश्यं पुनरूरुसीनि सरसीभावोऽभिनाभि स्थितः ॥ ५३ ।।
भूमीभृत्सुतनुः स्तनस्तव वरारोहा त्वमुद्गीयसे
मध्यं ते गगनं कलावति महामानं पुनस्ते मनः ।
रम्भारूपभृदूरुरिन्दुवदने सारालकेशोद्भव-
प्रीतिर्मूर्धनि भाति साभ्रमलिकं कान्ते नुतोयान्वयः (१) ॥ ५४ ॥
आभोगः स्तनयोर्महत्यतिमहान्मुक्तास्रजं भासुरो
माहात्म्यावहितप्रभूतसुमनोबाणोऽपि तेऽन्तः स्थितः ।
भालं स्वच्छविरोचनं बलिरसावप्यास्त एवोदरे
रोम्णां विक्रियया युवत्वभवया विन्ध्यावली वर्तते ॥ ५५ ॥
प्रतीतेयं नाभीसरसि तव शैवाललतिका
वलग्ने त्वाकाशे नवजलदलेखा विलसति ।
स्तने मेरौ जम्बूरसलहरिका रोमवितति-
झरी कालिन्द्यास्तु स्फुरति मधुरायां त्वयि भृशम् ॥ ५६ ॥
स्तनः प्रभवितस्तया यदि वितस्तया रेवया
मुखं विहितसेवयाप्यबहिरेव यात्यन्वयम् ।
तनौ भवति गोदया सह मिलत्तरङ्गोदया
सदारुणसुतासुदारुणतया रुणद्धि ज्वरम् ॥ ५७ ॥
अलिन्दे चेत्कालिन्द्यवसरयुता द्वारि सरयूः
कपोलान्तर्गोलाप्युरसि सुरसिन्धुः स्फुरति चेत् ।
वितस्ता विन्यस्ता हृदि कुचभरे वा विनिहिता
भवेद्रेवा जह्याद्रुजमियमसह्यामपि तदा ॥ ५८ ॥

काव्यमाला। पूरो वैवखतस्य स्खसुरुरसिशयः सर्वदैव खतः स्या- प्राप्तामोदा वरीवर्त्यपि च यदि तनूसीम्नि गोदावरी सा । संजज्ञे भीष्मसूर्यद्यवयवनिचये ग्रीष्मसूर्यप्रभास्त- तापाः संतानवन्तस्तव परविरहो यात्यलं तानवं तत् ॥ ५९ ॥ भिनत्ति जलनीलिका नवपिपीलिकापनिव- द्विभाति हिमवालुकाप्यहिमवालुकायोगवत् । करालति मृणालकं बहलजालहालाहलं निशाकरकरावली वहति हा पिशाचीदशाम् ॥ ६० ॥ अभिनववधूरीषन्मानं हृदाविवरीषया परिशिथिलितं यावत्प्रावारकं समुदीक्षते । सरभसतरं तावत्तिर्यङिवर्तनयन्त्रण- द्रुतविदलितग्रन्थौ कूसिके विजितं मया ॥ ६१ ॥ विदूरे शिश्लिक्षा शयननिविविक्षां न तनुते विहारस्यागाराज्जिगमिषति कान्तेऽपि मिषति । करस्पर्शेऽपीन्दोरिव मम निकोचं रचयति प्रसूनाकाराणामियमवयवानां कमलिनी ॥ ६२ ॥ संप्रेरिता कुसुमसायकवैभवेन वीडेन नूतनवधूर्विनिवर्त्यमाना। अन्योन्यसंमुखविसृत्वरतुल्यवेग- वातद्वयान्तरगता नलिनीव भाति ॥ ६३ ॥ करयोः कलहायमानयोरुभयोरेव पयोधरोपरि। वलयावलयो बलाबलं बहुवेलं पतयालवो जगुः ॥ ६४ ॥ व्यापारप्रचयः पयोधरतिरोधानानुकूलो मृगी- नेत्रायाः करयोयं (2) प्रियकरं रोद्धं न पर्याप्तिमान् । इच्छां खस्य फलोपधानमवधीकृत्याप्यनास्वादित- खात्मानं गमयन्ब्रवीति मदनापेक्षां हियो हीनताम् ॥ ६५ ।। . १. कर्पूरम्.

काव्यभूषणशतकम् । आकाशमानस विगाहनराजहंसं नारीजनग्रहिलतानलिनीमहेभम् । आघ्रायमानरतिनायकसंप्रदाय- दीक्षागुरुं दृशि निवेशय सुन्दरीन्दुम् ॥ ६६ ॥ कुसुमविशिखप्राजापत्यक्रतुर्युवतीजना- न्तरकरणभूर्मानग्रन्थेविमोचनकार्मणम् । नवरतिकलानाट्यप्रस्तावनाकुसुमाञ्जलिः कुमुदसुहृदो देवस्यासावुदेति रुचां चयः ॥ ६७ ।। सर्वखं भुवनस्य विभ्रमततेरुज्जीवनं भावना- वल्लीनां प्रमदावनं निधुवनक्रीडासमालम्बनम् । आयुष्यं सवनं स्मरस्य ललितस्योद्भावनं कामिना- मेकं संवननं दृशां विजयते वामभ्रुवो यौवनम् ॥ ६८ ॥ किमप्याविर्भूते वयसि परिचुम्बत्यवयवा- प्रियाया राजीवस्तबककमनीयं कुचयुगम् । उपन्यस्तः सज्जन्नुपरि परिकर्मप्रकरणे मुखावच्छेदेन स्पृशति सुकृती नायककरः ॥ ६९ ।। आरव्या किमु केतकीकिसलयैर्माला किमायामिनी- कर्पूरस्य परम्परा मलयजक्षोदस्य लेखाथवा । धारा वैबुधसैन्धवी नु विसयत्याहो हिमानीमयी वृष्टिः पञ्चशरस्य तावकहशोर्मङ्गी कथं गीयते ॥ ७० ॥ ज्योत्स्नाभिः स्त्रप्यमानाः सुरभिरजनयः कोकिलानां कलापः केलीकोलाहलेनाकुलयति ककुभो जाग्रदेवास्त्यनङ्गः । दृग्भङ्गानुग्रहाय स्पृहयति दयितः काकुवश्या वयस्याः सध्रीचीने नवीने वयसि नयसि किं त्वं वृथा वासराणि ।। ७१ ।। श्लथीभूतं नैव स्तनमयमिदं पद्ममुकुलं दृशौ मुग्धे रोमावलितिमिरवीथी प्रसरति ।

४२ काव्यमाला । सविस्तारं ताराललितमवलग्नेऽतितनुता मृगाक्षि त्वं श्यामा मनसिजनिदाघस्य घटसे ॥ ७२ ।। अयं जयति खञ्जनोपमदृशः समासञ्जय- मृगीमदनिषद्वरः स्तनभुवोऽभितः श्यामताम् । स्फुरत्कनककुण्डलभ्रमभयादहंपूर्विका- वशायुगपदापतन्निव मधुब्रतानां व्रजः ॥ ७३ ॥ सामस्त्येन विधीयमानघुसृणालेपे भवत्याः स्तने तद्रूपेण चकास्ति चूचुकगतं रूपं पराभूतवत् । कस्तूरीभिरुपस्कृते तु सहसा विस्तारिणा तद्भुवा रूपेणैव तदीयरूपमुदितव्यत्यासमाभासते ॥ ७४ ॥ संयोगे यत्र साध्ये सति बहुगणनं द्रव्यमेवास्ति पक्षो बाहुकिं(?)प्रमाया घटितविषयतासाधनं कंचिदर्थम् । किं चासौजन्यरूपं गमयति सरसंवृत्त्यसामान्यधर्मः सा व्याप्तिप्रक्रियेव भ्रमयति हृदयं भूयसा वारसुभूः ॥ ७५ ॥ यन्नीहारकलङ्कितोत्पलदलावस्थानदुःस्थे दृशौ श्वासो वेपथुमातनोति कुचयोरन्तर्निरुद्धो बलात् । यस्तम्बेरममृद्यमाननलिनीतुल्या दशेयं तनो- स्तकल्याणि किमीरयाणि हृदयं कान्तः समाक्रान्तवान् ॥ ७६ ।। खाभोगेन मलीमसत्वमतुलं कृत्वा विहाय स्तनौ विस्रस्तापघने रसत्यपि मनाक्श्रोत्रप्रियंभावुकम् । म्लानेयं रजसापि संस्कृतिमनापन्ना तनुस्तावकी बाले नोज्झति वालवायजदृषल्लेखेव सोल्लासताम् ॥ ७७ ॥ किमञ्जनशलाकया जितबलाकया मौक्तिक- स्रजाप्यलमथानया रशनया फलं किं भवेत् । रुचां न पदमास्पदं किमु विना तुलाकोटिना मधूनि मधुरान्तरैः (१) कथमुपक्रियेरन्प्रिये ॥ ७८ ॥ १. रात्रिः. २. कस्तूरीकर्दमः. ३. वैदूर्यशलाकेव.

काव्यभूषणशतकम् । ४३ आयातेऽर्थिनि गोत्रभिद्यभिमते कर्णोऽमुचत्कुण्डलं कामास्त्रं किल भूरिलोचनयुगं तस्मिन्समासज्जताम् । नन्वेतत्कुरुनायकस्य हृदयं तस्मात्समाधीयतां संभूतस्तपसोऽत्र यो रतिरसो मापार्थतो हीयताम् ॥ ७९ एकेयं रसना न शब्दमभजङ्ग्रेजेऽनुवार परा नेत्रं किंचिदनूरुसङ्गमभवज्जातोरुसङ्गं परम् । रागः कश्चन निर्जगाम हृदयात्तस्थौ तथैवापरो बाह्ये सत्पुलकोऽन्तरे विपुलको जातोऽङ्कभूसंभ्रमः ॥ ८० ॥ पश्यामि द्विजराजमश्रुतिमितं खर्भानुमास्थान्वितं चन्द्र प्रत्यरुचिं चकोरमलिनैर्माणिक्यमुम्लानकम् । चन्द्रं हस्तगमालिराशिविहितामोदं सुमेरुं पुनः कौसुम्भावरणेन हीनमधुना किं स्यादिति त्रस्यते ॥ ८१ ॥ यत्तित्याजयिषांबभूव सहसा विन्ध्याचलो बन्धुना पद्मानां विहितं परिक्रमममुं तत्सत्यताशङ्कया । यत्रासीत्रपया मलीमसमुखो मेरुस्तिरश्चीनतां तत्कालीनमवैमि तं तव कुचावामेचकचूचुकौ (2) ॥ ८२ ।। उल्लासोऽधरपल्लवस्य तनुते पर्याप्तमस्याः स्मिते विन्यासो नयनाञ्चलस्य गमयत्युत्साहवत्साहसम् । रत्यागारपथामुखीनगमकं वैजात्यकक्षावधिः पर्यके पदरोपणं पुनरपर्यन्ता विपर्यस्तता ।। ८३ ॥ प्रिये तस्या नेदीयसि दृगुपरागोऽप्यसुकरो भुजावीरुद्वन्धं नयति वलयादप्यतिनयम् । प्रसह्य प्रावारं हरति रुचिरप्यङ्गरुचिरो रहस्याविख्याता विलिखति न सख्यामपि पदम् ।। ८४ ॥ बन्धं त्यक्तवती विशेषकबरी श्यामा खयं न त्वियं हारात्मास्थितनायको न तु ततोऽप्येषा विहारस्थितात् । ५ष० गु० काव्यमाला। १ चित्रं प्रास्थत भाग्यवैभवभुवो भालान्न हृवल्लभा- व्यत्यासं रतिराससाद सुदृशो बाबैव नाभ्यन्तरी ॥ ८५ ॥ सद्वक्षोजा मनोजो वरतनुरतनुर्मीनदृङ्मीनकेतु- जन्मस्थानं रतीनां रतिपतिरसमा जिह्मगाः पञ्चबाणाः । रम्भोरू रम्भयोरुमधुरमधुभुवं बिभ्रती तद्वयस्यो वामाक्षि त्वं च कामोऽपि च कथय कथं सर्वदैवानुकूलौ ॥ ८६ ॥ नीतं प्रागितरेतराभिमततामुद्दिश्य कुञ्जस्थलं संप्राप्यावसरं चिरेण रजनावागच्छतोः कामिनोः । आशङ्काशतशालिनोविधिवशान्मध्येऽध्वनि श्लिष्यतो- र्जातोऽर्कद्रुम एव शैलगमनोद्युक्तस्य मध्वागमः ॥ ८७ ॥ मध्येकञ्चलिकं करं प्रियतमे विन्यस्यति त्रस्यति ग्रन्थि तस्य विधित्सति श्लथमथ व्यायन्तुमायस्यति । वक्षोज स्पृशतीवदव्यवनम(१)त्युन्मुद्रति द्राग्दशौ सुभ्रूर्मुद्रयति क्षतं वितरति व्यतेऽभितः कण्टकान् ॥ ८८ ॥ अन्वञ्चद्विटपाय सज्जदसितप्रावारकोपान्तकं रोलम्बैरभिचुम्ब्यमानसिकतं कस्तूरिकासौरभात् । भ्रश्यत्कौसुमदामशङ्खवलयच्छेदैरदो मिश्रितं श्रेयःपुञ्जविजृम्भितस्य गमकं यूनोर्निकुञ्जस्थलम् ॥ ८९॥ आसन्ना नन्दिनी वा पतिरतिगृहभूरस्तु दैनंदिनी वा निर्वाहं मैहिकं वा परिहरतु महो मैहिकाभावनं वा घूत्कारानम्बुकाकाः सहचरि परितस्तन्वतां जम्बुका वा साक्ष्ये मे पद्मिनी वा भवतु कुमुदिनी संभ्रमादमि नीतिम् ॥९०॥ संरब्धं बहु मालयेन मरुता प्रोद्घाटितं पाटवं भूयः पाटलया कदम्बकुसुमैराडम्बरश्चुम्बितः । मध्येपद्मवनं मरालयुवभिनतंदिवं क्रन्दितं नैवं सत्यपि किं नृशंसहृदये योगं प्रति स्नेहवान् ॥ ९१ ॥ १. 'अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेतू'. २. मलयसंबन्धिना. : 1 काव्यभूषणशतकम्। ४५ कृत्वा शान्तनवावगाहरभसं प्राग्ज्योतिषे भाखतो दत्त्वा निग्रहमोजसां द्विजपतेराधाय हानि गुरोः । अत्युद्दामपृषत्कवृष्टिनिवहैराधेय भूयो मदं निर्मायापिहितं पयोदविजयो जेता न शल्यं कुतः ॥ ९२ ॥ दैवात्सत्यपि विप्रिये तव समालोके न यामि प्रिये तस्यामेव न लज्जसे तव कथं कामं तदा वर्तयन् । किं कुर्मो हतवेधसा त्वयि परा सीमा गुणानां परं मत्सख्यामधिका न्यधीयत तया सार्धं विशेषज्ञता ॥ ९३ ॥ मलयजरजोजालास्फालाविलो गमितोऽनिलो- ऽनुमतसुमनोगुम्फाः शेफालिका विनिभालिताः । वृतमपि घनस्तोमैव्योमेक्षितं विषमच्छद- द्रुमकुसुममप्यालिख्यन्तां किमालि मनोरथाः ॥ ९४ ॥ बध्नाति गन्धफलिकोत्कलिकोपबन्धं शेफालिकां शबलयन्ति सखि द्विरेफाः । उल्लाघयत्यतिभिदाघनतां निदाघ- श्चन्द्रानने रचय तन्मिलने रुचं द्राक् ॥ ९५ ॥ नैवातप्यत किं चतुर्भिरनलैन्तिद्विषत्पञ्चमै- न सान्द्रीयत वृष्टिभिः किमु कृशश्चान्द्रायणैः किं न सः । यस्मिन्ससितमाननं विदधती दृग्भङ्गिभङ्गीकृतं श्रोत्रोत्तंससहस्रपत्रमहसं व्यापारयस्यादरात् ॥ ९६ ॥ उद्यत्तारुण्यवारुण्यतिशयितमदोच्छासचारुण्यतीव प्रोदश्चत्पञ्चबाणप्रचुररुचिरहक्चञ्चरीकप्रपञ्चे । मन्दश्रीश्चन्द्रमास्ते सति सुतनु मुखे प्रोच्छृसत्तन्द्रमास्ते हीनं शोभाभिरम्भोरुहमपि रजनौ नैति रम्भोरु हासम् ॥ ९७ ॥ १. चम्पककलिका.

४६ काव्यमाला। लीला कापि न शीलिताथ न मनाविभ्राजते विभ्रमो नो किंचित्किलकिञ्चितं परिचितं वेला विलासस्य का। उल्लासेन कुशेशयस्य कलिकां संभावितां भाविनो रोलम्बा इव निर्विलम्बितमिमां चुम्बन्ति यूनां दृशः ॥ ९८ ।। बलादाली कालीयकमुपदधाति स्तनभुवि प्रभूतायामम्भोरुहमुकुलदम्भोलि भिदि । खरूपेणाजेयः स किल वनितायाः स्तनभुवा सरोजाताभाया हृदयदयिते नखपनयः (१) ॥ ९९ ॥ आलिङ्गन्नतिसौरभानवयवान्बिम्बाधरं पाटलं चुम्बन्नाकलयन्पयोधरतटीं शृण्वन्रुतं हांसकम् । पश्यन्वानिशमायतां दृशमुपस्कुर्वल्लवङ्गीरसं बालायां सकलर्तुसंगमसुखं धन्यः परं मन्यते ॥ १०० ।। अहानि प्रोल्लासं दधुरतिघना नन्वपधना बभूवुः सर्वाशा हिमकरकराप्यायमिलिताः । दृगनश्रीबन्धुः श्रवणमतिचक्राम नितरां भवत्यामासन्नः कुसुमसमयो वामनयने ॥ १०१॥ अर्धेन्दुः क्षतमर्दितस्तमकृत प्रस्थानकस्थासकं विश्लिष्टावरणं रदवणगणैः साबाधबिम्बाधरम् । खेदाम्भःपृषताभिमृष्टतिलकं सस्तोरुयुग्मं जय- त्यामीलन्नयनाञ्चलं परिगलद्धम्मिल्लकं तद्वपुः ॥ १०२ ॥ विद्वद्वन्दकमौलिभूषणलसत्पाण्डित्यलीलाञ्चित- श्रीमच्छ्रीधरभट्टसूनुरमलप्रज्ञाधराराधितः । भट्टश्रीयुतकृष्णवल्लभसुधीर्वर्षे शरेष्वष्टभू (१८५५)- माने काव्यविभूषणाभिधमिदं काव्यं व्यधादद्भुतम् ॥ १०३ ॥ इति श्रीकृष्णवल्लभकविविरचितं काव्यभूषणशतकम् ।

जानकीचरणचामरम् । ४७ श्रीश्रीनिवासाचार्यविरचितं जानकीचरणचामरम् । मुक्तावल्लिमतल्लितारकततिश्रीलक्ष्मवक्षःस्थली- सुत्रामोपलदर्पणप्रतिफलत्सीतास्यशीतद्युतिः । अङ्कालंकृतिमैथिलीस्मितसमुन्मीलत्कपोलस्थली- रत्नादर्शविशत्प्रसन्नवदनो देवः प्रसन्नोऽस्तु वः ॥ १ ॥ आयान्ती स्फुरदङ्गुलीयकहरिन्माणिक्यरश्मिच्छटा. दूर्वाचर्वणजातकौतुकमृगीपोतानुकम्पाकुला । मन्दस्मेरमुखाजलुब्धमधुकृजम्बूफलाकर्षिणा खेलन्ती मणिबन्धकीरशिशुना सीता कदा लक्ष्यते ॥ २ ॥ खर्बालाञ्जलिमुक्तमौक्तिकफलैर्जातालवालां सुधा- संपृक्तैः सुरसिन्धुनिर्झरशतैः सिक्ताङ्खिमूलामहो । अश्रान्तं सरयूतटीसुरतरोरके कृतालंकृति कांचित्काञ्चनकल्पवल्लिमवनेरुन्मीलितामाश्रये ॥ ३॥ मेरेन्दीवरसुन्दरां परिवृतामस्तोककोकश्रिया राजच्छैवलमञ्जरी जलरुहैरालोहितैमोहिनीम् । इन्दूत्तुन्दिलदुग्धसिन्धुविहरन्माधुर्यसिन्धून्मुखीं कामप्याकलये निरङ्कुशदयाकैवल्यकल्लोलिनीम् ॥ ४ ॥ उन्मीलकमलोपरिस्थकमलश्रीविभ्रमं बिभ्रती हंसोत्सवतंसहंसकचमत्कारेण चेतोहराम् । १. अयं श्रीनिवासाचार्यः कश्चन रामानुजो द्रविडोऽर्वाचीनश्च भवति. एतत्प्रणीतस्या- स्य जानकीचरणचामरस्यैकं सटीकं पुस्तकं प्रायः शुद्धं नवीनं सप्तपञ्चाशत्पत्रात्मकं वा- राणसीतः पण्डितश्रीविजयानन्दशर्मभिः प्रहितम् . तत्र सारखतभूसुरकुलमण्डनायमानसु. प्रसिद्धदिलारामात्मजरामकृष्णापरनामकाकारामपण्डितैः १९०४ मिते विक्रमाब्दे प्रणीता टीकास्ति. अस्माभिस्तु नात्युपयुक्तबाटीकामुद्रणमुपेक्ष्य टिप्पणमात्रमेव तत उद्धृतम्. २. श्रीवत्सचिह्नम्. ३. माधुर्यसिन्धुः श्रीरामः. ४. मुखकमलोपरि नयनक- मले. श्रीरपि हस्तकमले कमलं धारयति.

काव्यमाला। गङ्गासंगतगङ्गया कृतपरिष्वङ्गैस्तरङ्गैः स्थिरां क्रामत्तामरसोल्लसदसधुनी कामप्यवेक्षामहे ॥ ५॥ अकोन्मुक्तमृगाङ्कमण्डलगलत्पीयूषपानव्रतं हित्वा यस्य रसं रसज्ञतिलकाः खैरं धिया गृह्यते । कौशल्यासुकृतेक्षुपाकसचिवः सर्वसहावर्गवी पुण्यक्षीरविपाक एष भजते जीवस्य जीवातुताम् ॥ ६ ॥ यसिशैलसुतालिकेन्दुकलिका कल्याणमाल्यायते वाग्देवीकबरीविभूषणमणिग्रामः फलस्तोमति । नासामौक्तिकरश्मयः स्मरसरोजाक्ष्यास्तुषारन्त्यहो मैथिल्याश्चरणांशुपल्लवचयः शय्यास्तु मच्चेतसः ॥ ७ ॥ मन्दाकिन्यवगाहनामलसुरीवन्दारुमौलिस्खल- न्मन्दारादिमधूनि यस्य पदयोरिच्छन्ति मन्दानिलम् । विन्दानीति स वक्ति यं प्रति रसाद्धातारविन्दासनः किंदास्येन लभेऽरविन्दनिलयापादारविन्दासवम् ॥ ८ ॥ नमद्वाणीन्द्राणीप्रमुखसुमुखीनां शिरसि यं सुपूरं सिन्दूरं कतिचन विदू रङ्गरसिकाः । अवन्या नन्दिन्यास्त्रिभुवनजनन्याश्चरणयोः परागो मे रागोदयकृतपरागो विधुनुताम् ॥ ९ ॥ रुचिं तावचिन्तामणिसदसि चिन्ताध्वनि गता धुनीते ध्येया या मुनिभिरभिधेया श्रुतिशतैः । मया सानायासापरिणतधिया साधु गदितुं न शक्या जानक्याश्चरणनखमाणिक्यसुषमा ॥ १० ॥ खभाले बालेन्दुं यदकलयदेकस्त्रिनयन- स्तदन्येषां तेषामपि तदभिलाषः प्रववृधे । १. कस्य दास्येन. २. लक्ष्मीरूपायाः सीतायाः. ३. रङ्गो भक्तिसंज्ञः प्रेमा. ४. पर- मुत्कृष्टमागोऽपराधः.

जानकीचरणचामरम् । ४९ . तदानीं जानीमो जनकतनयापन्नखशिखा- स्तदालीभिनाः किल तिलकयन्ति स्म निटिले ॥ ११ ॥ विराजन्ते चिन्तामणिसदसि लक्ष्मीपदनख- प्रतिच्छायाच्छायापतय इव दर्शेन्दुसहिताः । प्रजल्पेदल्पज्ञस्तव कविरिमामस्मदुपमां तदा मन्तुः क्षन्तुं समुचित इति क्षोणिलुठिताः ॥ १२ ।। सकारुण्यारुण्या नखमणय एते चरणयो- हरन्तोऽपि ध्वान्तं न खमणय इत्थं व्यवसिताः । पुरस्तादेतेषामनिमिषदृगम्भोजपरिष- निमेषादुन्मेषं कथमितरथा मुञ्चति रमे ॥ १३ ॥ चकोराणां प्राणान्यदवति नवेन्दुच्छविमति वितन्वन्कोकानामपि निशि नवीनातपधियम् । मिलिन्दानां हेमाम्बुजघनरजःप्रेम पदयो- नखानामारुण्यं तव जननि केषां न शरणम् ॥ १४ ॥ उदञ्चन्मन्दारस्खलितकुरुविन्दाक्तितमुखै- रपूर्वखर्वापीकनकनलिनापीडितदलैः । सवर्णां सौवर्णाम्बुजहृदि निषण्णां कथममी वयं विद्मः पद्मानुपमपदपद्माङ्गुलिततिम् ॥ १५ ॥ मृणालश्रेणीयं म्रदिममहिमालोचनपथे शिलाशीला लीलानलिनमेलिनः कण्टकसमम् । नवोन्नीतं पङ्कीभवति नवनीतं तदतुलं परामर्शादर्शे प्रतिफलतु लक्ष्मीपदतलम् ॥ १६ ॥ नखश्रेणीमेणीदृश उपनिषद्विश्रुतिजुष- स्तव क्षोणीशोणीकरणकुशलामप्यविकलाः। यदेता लाक्षाभिः स्मरजननि साक्षात्पिदधते तदुत्प्रेक्षालक्ष्यीकृतनयनदोषापहृतये ॥ १७ ॥ १. सूर्याः. २. भ्रमरस्य.

५० काव्यमाला। न मृद्वी माणिक्यावलिरपि सरोजं न विरज- श्चिरं के कल्लेस्तरुणरुचयः पल्लवचयाः । किमु स्यादेतस्याश्चरणसदृशं पद्मवसते- रिति प्रेक्षे यावत्तदनुफलनं तावदमृशम् ॥ १८ ॥ त्वमेव त्वन्मूर्ति मृदुभिरभिनिर्माय जैनकैः कलाकारहीरैर्मुखजटितमाणिक्यशकलैः । पदाङ्गुल्यावल्योर्नखदशकमस्याः सृजसि चे- तदोदन्वत्कन्ये तुलितमिव मन्ये तव नखम् ।। १९ ।। चतुर्णा वर्णानां वरदमिदमेव स्मृतमहो चतुर्णा वेदानां विशदमिदमेव स्तुतिपदम् । चतुर्णामर्थानां प्रकटमिदमेवार्पकमिति ध्रुवं ब्रूते राकाविधुमुखि पैताका तव पदे ॥ २० ॥ उपासाभिः कश्चित्कलयतु विलासाय निमा- दिमाः सिद्धीः सिद्धीभवतु मितबुद्धेरपि पुरः । अनङ्के सृण्यङ्कस्तव स पदपथेरुहतले समाजः सिद्धीनां तव चरण एवेति वदति ॥ २१ ॥ विलोक्य त्रैलोक्यस्थितललितमाणिक्यमखिलं परिश्रान्तो मातर्मुनिशरणयोस्त्वचरणयोः । अपश्यन्सादृश्यं कचिदपि न दृश्यं मम तदा तयोरेवान्योन्यं समजनि समत्वव्यवसितिः ॥ २२ ॥ स्थली चुम्बच्चम्पाचटुलमुकुलश्रेणियुगली- मुपान्ते निष्क्रान्ता निभृतविदलद्दाडिमदलात् । भजेबीजश्रेणी यदि रंसमुखी तत्प्रियसखी भवेदुर्वीजाते तव पदसरोजाङ्गुलिततिः ॥ २३ ॥ १. अशोकस्य. २. तदीयप्रतिबिम्बमेव. ३. शरीरारम्भकैः. ४. निर्मलाकारैः. ५. सामुद्रिकप्रसिद्धश्चिह्नविशेषः. ६. अणिमाद्याः. ७. हे निर्दोषे. ८. अङ्कुशचिह्नम्. ९. रक्तवर्णा.

जानकीचरणचामरम् । ५१ पदाम्भोजे भोजे तव कुलिशचिह्नस्य मिषेतः सदोंकारद्वन्द्वं कमलदलमृद्वङ्गि निवसत् । श्रुतीनामाद्यन्तस्थितमभिमुखं वाङ्मयमुखं किमासां सर्वासामिह वदति तात्पर्यमिति नो ॥ २४ ॥ दशेमाः प्रेमाप्त्यै त्वदमलपदाग्रे श्रुतिशिखा निमग्ना जानीमः किल नखशिखापतिमिषतः । नकारोऽयं काकुं ध्वनयति खकारस्तु खगुणं शिखाशब्दः शीर्ष कविरिति परंतु स्मरतु मे ॥ २५ ॥ समाजैः सम्राजां स्मृतमजरसां सर्वभुवना- म्बुजानां साम्राज्यं भजदुपनतच्छत्रललितम् । अलंकुर्यात्तन्मे हृदयकमलं तेऽशिकमले ललामं यत्कामं कमलनयनार्धाङ्गि कमलम् ॥ २६ ॥ सकम्पा शम्पा न त्यजति जलदालीजवनिका न संध्यान्तर्धानादुचितमपरं ध्यायति पुनः । विमुञ्चन्त्यारुण्यं तरणिकिरणास्तूर्णमनघे तवालोक्य श्लोक्याश्चरणनखचिन्तामणिरुचः ॥ २७ ॥ सदाशास्ते यस्त्वत्परिचरणशीलाचरणतः प्रहारं प्राग्भारं कमपि कुसुमानां कलयितुम् । अशोकस्य स्तोकोद्गत किसलयं तस्य विदुषां रसज्ञा सर्वज्ञे कथयतु कथं त्वत्पदसमम् ॥ २८ ॥ सुधोदयोदश्चद्रससुरतरोश्चित्किसलये सुमस्तोमे प्रेमात्मनि यदि कलङ्केन विकलाः। कलाः प्रालेयांशोः किल मधुलिहस्त्वत्पदपुन- भवानां दृष्टान्तं दधतु वसुधानन्दिनि तदा ॥ २९ ॥ १. रुक्मिणीरूपेण भोजवंश्ये. २. व्याजेन. ३. दशोपनिषदः. ४. शब्दम्. वेदमिति यावत्. खशिखा वेदशीर्षाण्युपनिषदः किं न, अपि तु सन्येव. ५. चिदम्. ६. छत्रा- कारचिह्नसहितं कमलाकारं चिह्नम्. ७. जन्मान्तरे खदाराधनेन लब्धसौन्दर्यादिगुणा युवतिस्तस्याश्चरणतः पादेन. ८. चिदात्मकदलविशिष्टे.

५२ काव्यमाला । मणीमुद्रोद्गच्छत्किरणपटलच्छत्रविशदः प्रदेशिन्या श्लिष्टः शैशिवदनया रोगघनया । धनुष्पाणेः प्राणेश्वरि भवतु ते(2) राजति भव- त्पदाङ्गुष्ठो जुष्टश्चतुरमुनिभिः प्राणचमरैः ॥ ३० ॥ कृपारूपे चापायुधविधुमुखि त्वत्पदनखा- त्कृपास्रोतश्चोद्यात्यनिशमिदमुद्दयोतकपटात् । जितेन्दुर्यविन्दुः सृजति सुखसिन्धून्सपदि ता- न्यदूर्मों निर्मजन्त्यहह निखिला मुक्तिमहिलाः ॥ ३१ ॥ चकोरश्चन्द्रांशु चुलकयति चिद्रूपिणि यथा तथा चन्द्रोऽपि त्वच्चरणनखचन्द्रांशुनिचयम् । चकासत्त्वचिन्ताचरणचणचण्डीशचिकुरे क्षयाचान्तोऽप्यञ्चत्ययमुपचयं तेन चतुरः ॥ ३२ ॥ यदम्भोदम्भोलिर्दुरितगिरिदर्पोपशमने शिरः शंभोरम्भोरुहनयनरम्भोरु भजते । सदङ्गा सा गङ्गा त्वदिनसमरङ्गासनतला- नुषङ्गात्त्वत्तुङ्गाङ्ग्रिजरुचितरङ्गान्वहति के ॥ ३३ ॥ करं डिम्भः शंभोरमरसरिदम्भोरुहधिया सुधास्रोतःप्रोतस्मृतिरहिपतिः सर्वरसनाः । विरश्चेर्विश्चञ्चु बिसचयरसाच्चञ्चलयति त्विषां पूरे दूरादमृतनिधिपुत्रीपदरुहाम् ॥ ३४ ॥ युगङ्गागाङ्गेयाम्बुजगणरजःपिञ्जरतनू- प्रवालास्थैरालम्बितनखेमृणालाङ्कुरलवान् । १. राजमहिषीतुल्ययेति भावः, २. नखश्वेत्येन. ३. लौहित्येनानुरागेण च. ४. रा- जवदाचरति. ५. सालोक्यादिमुक्तिरूपाः. ६. खदीयध्यानेन प्रसिद्धस्य महादेवस्य मस्तके. ७. वदीयमिनसमरङ्ग रत्नप्रभया सूर्यसमं यदासनं सिंहासनं तस्य तलेनानु- षङ्गात्संबन्धात्. ८. जले. ९. विः पक्षी. हंस इति यावत्. १०. सुवर्णकमलसमूहरजसा. ११. विद्रुमतुल्यैर्मुखैः. १२. नखतुल्यानां मृणालानामङ्कुरलेशान्, जानकीचरणचामरम् । मरालानां बालाननुसरति किं तावकपदा- मुलीनां मालेयं गतिजितमरालेऽजनिलये ॥ ३५ ॥ इयं लाक्षा साक्षात्कृतसुकृतकल्पद्रुमफला शिलापट्टे पिष्टा ज्वलदनलकल्लोलितजले । परिक्षिप्ता व्यक्तीभवदतुलरक्तिः श्रुतिशिरो- विमृग्यं सौभाग्येश्वरि तव पदं रञ्जयति या ॥ ३६ ॥ सखीपक्ष्मप्रक्षालितभवदलक्ताभिसलिलं दयाक्लिन्ने क्लिन्नां विरचयति यां कामपि महीम् । अहं तस्याः पांसुः कथमहह भूयासमथवा कुतो न स्यां मत्रैयदि कुलिशपत्रैश्च दलनम् ।। ३७ ॥ सुरैर्मुक्ता मुक्तास्तबकनिकरास्त्वच्चरणयोः पुरः सोमस्तोमा इव सपदि तत्तद्भुवनतः । उपेतास्त्वामेते शरणममले त्वत्पदसुहृ- त्सरोजानामोजःक्षपणकृतमागः क्षपयितुम् ॥ ३८ ॥ किमेतौ लौहित्याम्बुधिसमुदितौ विद्रुमतरू प्रवालावाहोखिल्लवणिमरसालस्य सरसौ । प्रसत्तिखर्वापीकमलमुकुलौ किंखिदतुलौ हरेराहादिन्याः किमुत चरणौ सर्वकरुणौ ॥ ३९ ॥ यदने प्रत्यग्रं जलजमंजतामेव रसना- प्रसिद्धः संनद्धो नवकिसलयः पल्लवतया । यदस्यैतस्यैवरसमपि तवैकापि न तुला तदप्येतल्लप्यं कथमपि तुलाकोटिकलितम् ॥ ४० ॥ स्पेशन्ती यां शक्रोपलशकलचक्रांशुलहरी- सवर्णेयं वेणी कलयति वलच्छैवलरुचिम् । १. गच्छताम्. बहुवारं पश्यतामिति यावत्. २. उपमानीभवितुमुद्यतः. ३. पद: पादस्य लवतया लेशत्वेन रसनाप्रसिद्धो जिह्वारूढः. ४. एवंरसमेवंविधम्. ५. 'वेणी दीर्घा प्रशस्यते' इत्युक्तः पाणि स्पृशन्तीत्युक्तम्.

५४ काव्यमाला। स्पृशन्त्यकं प्रेमातितविरचितं कुङ्कुममयं प्रिये विष्णोः पाणिः कनकनलिनीकन्द इव ते ॥ ११ ॥ मदने माध्वीकत्रजमदरवः किं पिकवधू- कलः किं वल्लक्याः क्वणितमपि किं पङ्कजदृशाम् । क्वणन्त्येवं देवि ध्वनयितुमिमाः सर्वनमतां शरण्ये किङ्किण्यस्तव चरणयोः किंकिमिति किम् ॥ ४२ ॥ त्रयीचूडाक्रीडत्रिदशतटिनीवर्णनलिनी- सभोत्तंसो हंसः स्पृशति न शुचिं त्वत्पदगतिम् । मदान्धोऽयं पुष्पंधयनिचयसंबन्धमलिनः स्पृशेदम्बे स्तम्बरमकुलमणिस्तां तव कथम् ॥ ४३ ।। बहिभरि द्वैमातुरसुरपतिप्रख्यमखभु- कदम्बे संबद्धाञ्जलिवलितमौलि स्थितवति । चकोरीभूयाँसौ किमवनिकिशोरीचरणयो- नखेन्दूनामंशून्रसयतु वसन्दूरमजिरात् ।। ४४ ॥ महःसिन्धू पङ्केरुहकुमुदबन्धू त्रिभुवन- प्रदीपौ यद्दीप्तौ भवत इव खद्योतपृथुको । अशेषस्थानेषु ध्रुवसुखविशेषं विदधती विचित्रोर्वीपुत्रीपदरुहततिर्मङ्गलमयी ॥ ४५ ॥ सुधाफेनच्छायाखचितसिचयेन प्रियसखी- शतैर्या पर्यकान्तिकमुपसृता केसरधियम् । स्पृशन्ती मेरं ते वदनमवलोक्यानमति सा पदे रेखाराजी तव जयति राजीवनयने ॥ ४६॥ १. विष्णोरकं स्पृशन्तीति पाणिविशेषणम्. २. प्रेमाङ्कितानि प्रेमलिखितचित्ररू- पाणि विरचितानि यस्मिन्नथे. ३. केसरद्रवव्याप्तम्. ४. माध्वीका भ्रमराः. ५. किं किमिति किङ्किणीशब्दानुकरणम्. ६. त्रयी वेदः शंभुरूपस्तचूडायाम्. ७. परोक्षतामा- पन्नो मज्जीवः. ८. भवतीति शेषः. ९. उपनीता. महतां पादन्यासाय पादस्थाने उत्तम- जातीयवस्त्रं निदधति तद्भताः. १०. प्रणामसदृशीमधोगतिं भजते.

जानकीचरणचामरम् । त्रपावश्या पश्यंस्त्यजति ननु गीः कोशलपते. रैसूर्यपश्यायाः पदकिसलयस्नानसलिलम् । भवेद्योगे नद्यो हिमवदहिमांशुप्रभवयो- निलीना सेदानीमपि न पदवीं रोहति दृशोः ॥ १७ ॥ स्फुटः स्यां चेद्याचेद्वितरणगुणं खं मणिगणः खयं वर्गों वर्गः कुलमपि सुपर्वक्षितिरुहाम् । कविर्वा कुर्वीत प्रतिममितरैर्मामिति भृशं विमृश्यादृश्यत्वं तव भजति गुल्फः किमु रमे ।। ४८ ॥ मिलिन्दत्वं विन्दे यदि वसुमतीनन्दिनि तदा त्वदीयाच्छिायार्पितसरसमाल्यस्य रजसा । परिष्वक्तः शश्वद्गतिरहह यां यां दिशमिया- दहं तस्यां तस्यां दिशि तदनुगः स्यामनुयुगम् ॥ ४९ ॥ पटीरः स्यां कस्यामपि भुवि यदि क्षीरधिसुते तदा केचिद्धन्याः शुभपरशुभिः खण्डश इमम् । सृजेयुर्मा धर्मावृति दृषदि मज्जेयुरपरे दधीरन्वा धीरं तव पदरुहे केऽपि कृतिनः ॥ ५० ॥ निलिम्पस्त्रीहस्ताङ्गुलिकलितशक्राश्मशकलो- मिकालोकस्तोकेतरमधुपसंपर्कमधुरम् । विहारक्ष्माहीरच्छविकुलसुधापल्वलनिभं मदीयं वैदेहीचरणनलिनद्वन्द्वमखिलम् ॥ ५१ ॥ यदुन्मेषे भूषास्त्यजति गिरिजाजानिरुडुपः कलङ्क पर्यत नलिननयनः पत्रमनिलः । १. जानक्या गीर्वाणी पश्यन्ती परादिवाग्मेदेषु द्वितीया भवति. सा च चरणप्रक्षा- लनजलमजति गच्छति. तत्र प्रविशतीति यावत्. इत्थं त्रपावश्यतायाः परम्परागम. नात्प्रयागे तिरोहिता सरखती भवेत्. प्रयुञ्जते हि लोकाः-अयं तत्र लजया जलभावं गत इति. गङ्गायमुनयोर्मध्ये जानकी वाणीरूपा सरखती लजया तिरोहिता विष्ठतीति भावः. २. वायुः. ३. धर्मस्य यागहोमादेरावृदनुष्ठानं तस्यां योजयेयुः. ४. सर्वखभूतम्. ५. सर्परूपाणि भूषणानि तद्भनिश्रवणलोमेन क्षुब्धानि धारयितुं न शक्नोति. ६. मृग- रूपम्. ७. शेषनागरूपम्. ८. मृगरूपं वाहनम्. ६५० गु० ५६ काव्यमाला। स मञ्जीयान्संजीवयतु जगतां मातुरुषसि व्रजन्त्या मञ्जीरध्वनिरशरणं जीवहरिणम् ॥ ५२ ।। भ्रमन्त्यास्त्वचिन्तामणिगृहसमन्ताद्यदुदये विपञ्ची खं चोलं प्रविशति विरञ्चेर्मुगदृशः । शुकोऽप्यस्याः पश्यत्यभिमुखमहो पञ्जरमुखं जगन्मातुः(तः) प्रातः स जयति भवन्नूपुररवः ॥ ५३ ॥ यदप्याशाधीशास्तव दश लभन्तेऽझिजशिखाः शनैनूनं लूनास्तदपि वरुणस्तत्र करुणः । दिशि स्वस्यां यस्ता प्रमुदितसमस्तां प्रकटय- त्यपूर्वेन्दं सर्वेऽप्यभिदधति यां निर्वृतिमयीम् ॥ ५४ ॥ मणीनेकैकस्यां दशदश फणीशो वहति य- फणायां विच्छायीकृतनवदिनेशानवनिजे । नखानां ध्यानाय प्रतिफणमयं तत्प्रतिकृतीः प्रतीमः सप्रेमा कलयत इमास्त्वच्चरणयोः ॥ ५५ ॥ तपःस्फूर्जन्नू खलनखकुलं तेऽशिकमलं मुनिः कश्चित्सञ्चिन्मयि शिरसि दध्यौ प्रतिपलम् । स एष श्रीशेषः शिरसि शिरसि त्वचरणयोः प्रपेदे सारूप्यं दश दश मणीन्बिभ्रति शुभान् ॥ ५६ ।। विवाहे वैदेह्याः पदरुहमहःपाटलकलाः कृशानौ संक्रान्तास्तदवधि किलायं दशकलः । प्रविश्यामुं क्षामच्छविरपि रविर्घाम लभते नवीनं दीनेन्दुः खमिदमनुसृत्य प्रसरति ॥ ५७ ।। तृणंमन्यश्चिन्तामणिमपि मुनिर्यः कलयति प्रियं प्राणात्पृथ्वीदुहितरिदम स्तव नखम् । १. अतिशयेन मञ्जः. २. दीनो बालो यथा फलविशेषं लब्ध्वा तं सर्वेभ्यो दर्शयति तथा. ३. वहेर्दश रवेर्द्वादश चन्द्रस्य षोडश कलाः सन्तीति तात्रिकाः. ४. अमिप्रवे. शमकुर्वाणोऽत एव दीनस्तेजोहीनो विधुः खमनुसृत्याकाशतुल्यवर्णो भूला धावति. 3 जानकीचरणचामरम् । कथं तन्माणिक्यप्रमित(तिम)मिति शक्यं कथयितुं किमारोपस्थानी घुमणिरपि यस्यैककिरणे ॥ ५८ ॥ ससंकोचाः सिञ्चन्त्यमरललनाः कुङ्कुमरसै- नमच्छंचं संभावयति च कुसुम्भाक्तसिचयैः । पिधत्ते या पिष्टातकपटलतो दिङ्मुखमियं श्रियं दिश्यालक्ष्मीचरणरुहलौहित्यलहरी ॥ ५९ ॥ विरिश्चाचैरच्य॒ तव चरणयोरर्चनकृते शुभैः पुष्पैः शोभाजुषि मरकताकाशचषके । चकास्तीदं चन्द्रोज्ज्वलनमखिलामोदजनकं ससंकोचं नो चेत्कथममुकयोः स्पर्धि कमलम् ॥ ६०॥ कुरुक्षेत्रं क्षेत्रं कुरु चरणयोः सच्चरणयोः सरखत्या कान्त्याङ्गुलिवलयशकोपलरुचा । समुद्यत्कालिन्द्याजनजननि वृन्दावनमिदं मखाग्रप्रत्यप्रद्युतिगगनधुन्या सुखवनम् ॥ ६१ ॥ दरोन्मीलत्कल्पद्रुमकुसुमसौरभ्यलहरी- धुरीणैर्धम्मिल्लैः सुरयुवतिभिर्धूतरजसी । त्रिलोकीनिःशोकीकरणनिपुणे रामरमणी- पदत्राणे प्राणेशितुरिव रतेनौमि शरधी ॥ ६२ ॥ स्फुरामि धुखामिप्रमुखहृदयान्तर्बुवमहं मदन्तः सीतायाः स्फुरति वसुमत्याः पदमिदम् । अमुष्यान्तः किं किं न सुखमिति किङ्किण्यनुरण- कृतैरैभित्राणं भणति धरिणीनन्दिनि तव ॥ ६३ ॥ वनं म्लानीकर्तुं विमृशति हिमानी वनरुहा- मियं सेना तेषां खलु मधुलिहामम्बुजधिया । झटित्यावां धावेदिति किमु पदाभ्यां तव धृते पदावन्यावन्यादृशमणिधरे प्रेयसि हरेः ॥ ६४ ॥ १. चन्द्रशब्दः कर्पूरवासकोऽपि. २. आनन्दवनं वाराणसीरूपम्. ३. उपानतू.

५८ काव्यमाला। प्रणामं कुर्वाणः पदकमलयोस्ते विमलयो- स्त्रयाणां त्राणाय प्रभवति मनोजाम्ब जगताम् । . प्रवीणे तत्राणे नमयति शिरो यः कृतिवरः स कां सिद्धिं विद्यादिह बहुतरां मुह्यति मनः ॥६५॥ पदखेदामोदप्रसरणसमाहूतमधुपे विमुक्ते मञ्चस्याक्रमणसमये भूमिसुतया । पदत्रे सुत्रामद्रुमकिसलयप्रश्लथनव- प्रसूने केनेमे शिरसि सरसं न प्रणिहिते ॥ ६६ ॥ न साक्षादस्पाक्षीन्गरिपुमृगाक्षीपदयुगं तदप्येतां चिन्तां वरमकृत चिन्तामणिकुलम् । विना याच्यां वाचामविषयफलं दातुमुचिते यदासक्तं नक्तंदिवमवनिजापत्रयुगले ॥ ६७ ॥ खशोणिम्ना निम्नानमरमणिमौलीन्विदधती सुखोद्योते हेतू बत नयनयोरभ्युदयदे । जगद्वन्धे संध्ये इव सकुरुविन्दे त्रिजगतः सवित्रि त्वत्पत्रे परमनुसृते तारकवरैः ॥ ६८ ॥ अमी नूनं चामीकरतनुगुणैः पूर्णनिपुणैः प्रणीताः पत्राणे तव नवतराः कल्पतरवः । प्रयच्छन्तो वाञ्छोपरि विदधते लाञ्छनधुरं पुराणं गीर्वाणद्रुमगणमलिवातकपटात् ॥ ६९॥ मृशामः सुत्रामधुमणिवरुणास्त्वत्पंदवनी समर्थाः स्प्रष्टुं न व्यवसितपुमर्यास्तदपि ते । वसन्त्योतप्रोता यदिह मिथिलाधीशतनये शचीशग्रावाणस्तरणिमणयो मौक्तिकगणाः ॥ ७० ॥ १. कल्पवृक्षपुष्पार्चिते. २. मृगो मारीचस्तद्रिपू रामः. ३. पादत्राणयुग्मे. ४. कल- भारसहितम्. ५. पादत्राणिकाम्.

जानकीचरणचामरम् । त्रिवेणीयं चित्रा त्वदमलपदत्राणजटिता- रुणश्वेताश्वेताद्भुतमणिमयूखैः परिणता । गिरां देवी यस्यामपि सुरसरिद्भास्करसुता जनानां धुन्वाना सकलशमलं मजतितराम् ॥ ७१ ॥ यदीहन्ते हन्त श्रवणकुहरेऽनाहतरुता- नुसंधानं हित्वाद्भुतसुखनिधानं शमधनाः । दिवो गव्याः स्तव्यं सुरमणिरणनूपुरनुतं मम प्राणः क्षोणीदुहितृचरणत्राणरणनम् ॥ ७२ ।। दयानन्ते चिन्तामणिमपि पैदस्यावनि मृदु- खनैः कर्णे कुर्वन्त्यमृतरससर्वखमधुना । सखीहस्तन्यस्तोभयकरतलां स्निग्धतरलां दृशोरध्वानं मे गमय कमलामात्तकमलाम् ॥ ७३ ॥ दयाशीले लीलापरिषदि शुकः स्यां तव तदा चलच्चञ्चुश्चुम्बन्पदकवचयोस्ते कवचितम् । मणिग्रामं कामं विदलविदलद्दाडिमधिया करोमि मेरां त्वां सह सहचरीभिर्मुहुरहम् ॥ ७४ ॥ अये रामक्षामोदरि मयि कृपां कल्पय तथा सदासौ त्वत्सौधावनिषु हरिणीभूय विहरन् । यथा दूर्वापूर्वाङ्कुरचयधिया चुम्बति भव- त्पदत्राणप्रोतत्रिदशपतिमाणिक्यकिरणान् ॥ ७५ ।। पदाङ्गुल्यस्तुल्यांस्तव कुसुमशस्त्रस्य विशिखा- अगजिष्णूञ्जेतुं कथमकलयन्वज्रकवचम् । अनायासावासं स्मृतिमयमैयं वर्म कलय- न्सुजिह्मब्रह्मास्त्राण्यपि विफलयत्यम्ब शतशः ॥ ७६ ॥ १. अन्तर्भवति. २. हे पादरक्षिके. ३. तव भकः.

६० काव्यमाला। ईलालीलोन्मीलत्कुतुकलतिकापत्रजरजः कृपावीरः कश्चिद्वितरति समीरः सकृदपि । विमुक्तिक्षामाङ्गीवदनकमलामोदलहरी- मुरीकर्तुं को वा स्पृहयतु तदा श्वेडलहरीम् ॥ ७७ ।। पदत्रेऽस्मिन्मुक्ताखिलकलुषमुक्ताफलमिषा- कविर्देहव्यूही निवसति बलेरेष सचिवः । कथं नो चेद्वैरोचनिरनिमिषाधीशनगरी- मुरीकुर्याद्भूयो दनुजदमनप्राणदयिते ॥ ७८ ॥ कृती वंशोत्तंसः स किल नलिनाक्षस्य महिले- ऽखिलैर्मुक्तेत्युक्ता कवचयति यत्संततिरियम् । चिरं चित्ते चिन्त्यं चरणकवचं तेऽभिदधती नियुक्तं मुक्तानामपि सुखविधानेष्विदमिति ॥ ७९ ॥ कृपायुक्ते मुक्तामयभवदुपानत्प्रसृमर- प्रभापूरक्षीराम्बुधिरयमगम्यो मम गिराम् । लभन्ते ध्यायन्तोऽप्यमितममृतं यं सकृदपि श्रियोऽसंख्याः संख्यावदभिमतदिव्या अधिगवीः ॥ ८० ॥ परित्यज्य प्राज्यानपि मखभुजो मय्यवनिजा पदाभ्यामभ्यस्या वसतिरिति पद्गाहिनि मदम् । जहीहि त्रायेथामिति कथयतः क्वापि सभये न किं हित्वापि त्वां मम वसतिमायास्यत इमे ।। ८१ ।। द्विजोत्तंसहसैरविरतमुपास्याम्बुधिसुता- पदावन्यावेते कनककमलिन्यावनुपमे । यदुद्दामेन्द्राश्मद्युतिविततनालेषु दिविष- द्विशालाक्षीरिङ्गत्करकमललक्षं विजयते ॥ ८२ ।। १. भूमिसुतापादत्राणसमुद्भूतं रजः. २. भृगुः. ३. मुक्ताफलोत्पत्तिस्थानं वेणुश्रेष्ठः. ४. गोभ्यः कामधेनुभ्योऽधिकाः.

६१ r जानकीचरणचामरम् । विदूराद्वन्दारुत्रिदशवरकोटीरशिखर- स्फुरद्धीरक्षीरोज्ज्वलकरसहस्रधुसरितः । यदिन्द्राश्मश्रेणीकिरणवरुणागारशरणा विराजन्ते सन्तः स्मरत तदिलाजानिकवचम् ॥ ८३ ॥ मुखब्रह्मब्रह्मप्रमुखसुरकोटीरशिखर- स्फुरद्धीरक्षीरच्छविहरमहःपूरनिवहः । यदिन्द्राश्मश्रेणीकिरणनिकरे सागर इव प्रवाहः खेप्यास्तदवतु सवित्र्यद्धिकवचम् ॥ ८४ ॥ समुद्रान्तर्निद्राप्रवणभगवच्चन्द्रवदना- पदाधारोद्धारी स्फुटपुरटपीठोद्भवतटात् । पटुप्रेमप्रहामरकमुकुटोद्धृष्टकटका- दुदञ्चद्भिः पुजैः कनकरजसां पिञ्जरमुखः ।। ८५ ॥ पदावन्योर्धन्ये तव वितरणं वेत्यनिमिष- द्रुमाली त्वल्लीलावनमुपगता नन्दनवनात् । भवत्यां खेलन्त्यामुपवनसरस्यां यदनयो- स्तलस्थेये प्रेम्णा सृजति कुसुमैरर्चनमियम् ॥ ८६ ॥ अजस्रं यः संसत्यभिनवभवत्पत्कवचयोः समन्तात्सीमन्ताभरणनवसिन्दूरशबलः । तमेव खर्वामासुरभिकबरीमाल्यरजसां कदम्ब हेरम्बः शिरसि कुरुते लेम्बकरतः ॥ ८७ ।। पिधत्तस्त्वत्पत्रे चरणशतपत्रे तव जग- प्रसिद्ध सिद्धीशे सुरतरुसुमौघः पुनरिमे । इमं तावद्भावग्रहिलविबुधोत्वंसमहिला- कबर्यस्ता एताश्चतुरमधुकर्यः पिदधते ॥ ८८॥ १. मुखे ब्रह्म वेदो येषाम्. २. गङ्गायाः. ३. भक्तो भवतीति शेषः. ४. सुरनुमाधो- देशस्थिती सत्याम्. ५. शुण्डादण्डेनादाय. ६. भवदीयपादत्राणे. ७. पादत्राणे.

३२ काव्यमाला। जगद्योगक्षेमौ जनकजगतीजानितनये त्वदीये पादाजे वहत ईमके रत्नकवचे। मम प्रेमप्राणावपि वहत एते पुनरहं वहाम्येतौ तस्मादिह मम समानोऽस्तु कतमः ॥ ८१ ॥ बहिर्मुक्ते लीलागृहगमनवेलासु वसुधा- दुहित्रेत्यभित्रे निजविफलतां मा कलयताम् । विना वां किं वास्याः पदकिसलयौ द्रष्टुमधिको- त्सुकानां लोकानां जनयतु विनोदं नयनयोः ॥ ९० ॥ परिष्वक्ते मुक्तावलिभिरभितस्तेऽद्धिकवचे नमन्तो दूरेण प्रणयरसपूरेण तरलाः । सुपर्वाणः के नो पशुतरुविशेषान्यतरतां स्तुवन्तो निन्दन्ति त्रिदशपदवीं रामदयिते ॥ ९१ ।। उषस्तीरोत्तीर्णत्रिदशपुरपूर्णेन्दुवदना- अलिस्रस्तवर्णाम्बुजनवरजस्वर्णवसुते । त्वदचिस्पृक्पीठाविषु परिधिभूते ऍणिरयं लुठित्वा तद्रागं जगति सविभागं वितरति ॥ ९२ ॥ पुरःपश्चात्पार्थे प्रणमदमरान्तर्गतगजा- ननापर्णापर्णारमणतिलकार्धेन्दुकिरणैः । चतुःस्रोतःपूर्ण तव संविधुरत्नासनमये सवर्ण वर्णाद्रेः स्रवदमरसिन्धोः प्रतिदिशम् ।। ९३ ॥ पुरो नम्रान्कम्रोत्तमरमणपत्पद्मसुषमा- समुद्राममं ते स्पृशतु हृदयं मा स्पृशतु वा । परं त्वेतानन्तस्तव चरणपीठं मणिमयं स्पृशत्येव स्तुत्ये प्रसरदनुरागोमिनिकरम् ॥ ९४ ।। १. इमे पादाब्जे. २. युवां विना किं वस्तु विनोदं जनयतु. ३. सूर्यः. ४. चन्द्रका- न्तखचितम्.

जानकीचरणचामरम् । ६३ दरोदश्चत्पञ्चद्रुमसुमचयो यच्चरणयो- नं सीन्नि स्थेमानं वहति सहसोनीत इतरैः । सुनासानां तासामपि शयपुटैश्चुम्बितरुचो , जयन्त्यु-जाते तव चरणपीठस्य चरणाः ॥ ९५ ॥ तपस्तप्तं पझैः पयसि गलितं केवलहिमे दुरापा तत्प्राप्ता सुरपुरवधूपाणिपदवी । सुरद्रूणां पुष्पैरहह सहवासश्च विहितः पुटीभूतैः स्पृष्टास्तदुपरि भवत्पीठचरणाः ॥ ९६ ॥ श्रियो लीलाहात्पदकमल उन्मीलति मना- ङिमीलत्यालीनामुषसि करनालीकनिकरः । निमीला कीलालाशयशतदलैर्यत्कुवलयै- द्रुतं मुक्ता युक्तं तदपि शशिकृत्यं विमृशताम् ॥ ९७ ।। समस्तो विन्यस्तस्तव चरणयोः प्रेमरसिकै- भरोऽमूभ्यां मूल्योज्झितमणिनिषद्योपरि पुनः । तयात्मीयाम्नायाभिषु च त इमे दुर्वहतमं पुमर्थानां भारं ददति नमतो मूर्धनि बलात् ॥ ९८ ॥ अयः स्पर्शस्पर्शात्कनकमिव मुक्ताकवचितं पदस्पर्शात्पीठं तव भवति माणिक्यमनघम् । विमुक्तं यन्मुक्तामयमिव पुनर्भाति स भव- त्पदाभ्यां विश्लेषाद्धवलिमविशेषोऽस्य वरदे ॥ ९९ ॥ सहस्रणाप्यक्ष्णां तव चरणयोर्वीक्षणविधा- वतृप्तः संसद्यामिनरमणि ईक्संभवति ते । महेन्द्रो मायाभिः पुरुवपुरभूद्धृत्सु च वहं- स्त्वदनी संक्रान्तौ बहिरपि गिरां पश्यति बहिः ।। १०० ।। १. दूरीकृतः. २. पुष्पार्पकभिन्नैः सेवकैः. ३. ताः कराञ्जलीकुर्वन्तीत्यर्थः. ४. सिं. हासनोपरि. ५. स्पर्शो नाम पाषाणविशेषो यत्स्पर्शालोहस्य सुवर्णभावः. ६. सभायाम्. ७. इनः प्रभू रामः, ८. इन्द्रो नेत्ररूपो भवति.

६४ काव्यमाला। सुमोल्लोचस्यूतायतसितसहस्रच्छदलता- सहस्रं संक्रान्तं मणिमयभवन्मण्डपभुवि । सहस्रं शेषाणामिव धरणिमूलोन्नतशिरः- सहस्राणां स्तोतुं तव पदमिदं कौतुकनिधे ॥ १.१॥ अहो पूर्वापूर्वामरगुरुयुगं तेऽनियुगलं न शक्नोति स्तोतुं कलियुगजनेः कात्र गणना । प्रलापं श्रुत्वा मे तदपि नखकोटीन्दुशकल- प्रभाजालव्याजाद्धसति मुदितं वत्सलमिदम् ॥ १०२॥ मनोभूवामाक्षीमयहरमृगाक्षीपरिषदो दृशः सक्ता नक्तंदिवमवनिजे त्वत्प्रियदृशोः । तयोस्तावद्भावस्तव नयनयोस्त्वन्नयनयो- स्तवैवाङ्योस्तस्मान्मम हृदयमत्रैव रमते ॥ १०३ ॥ चिदानन्दा मन्दस्मितदमितराकेन्दुशतकां मुकुन्दाके लमां घुसूणरसममाम्बरधराम् । स्फुरन्नासामुक्तामुरसि नवहारेण मधुरां तडित्काञ्ची काञ्चित्स्मरत चतुराश्चारुचरणाम् ॥ १०४ ॥ दुकूलेनाचूडामणि पिहितमानूपुरमहि खरूपं तेऽनन्ते चरणयुगलं मुक्तमतुलम् । नखज्योतिःस्रोतः सुरमुकुटरत्नांशुनिकरा- त्परावृत्तं रत्नांशुकमिव विधत्ते पुनरिदम् ॥ १०५ ॥ शरज्योत्स्नाजालोज्वलमपि दुकूलं विजयते यदङ्गानां सङ्गात्सपदि रंजनीरञ्जितमपि । पुनर्यस्या हास्यैरॅमृतसरसीकेन सदृशं श्रियः पश्याम्यस्याश्चरणकिरणैर्विश्वमरुणम् ॥ १०६ ॥ १. सुमोल्लोचः पुष्पमयवितानम्. २. मुक्तालतासहसमित्यर्थः. ३. पूर्वामरा दैत्याः, अपूर्वामरा देवाः. ४. रामचन्द्रनयनयोः. ५. रामनयनयोः. ६. हरिद्रा. ७. चन्द्रेण.

जानकीचरणचामरम् । सुधावीचीनीचीकरणनिपुणापानकरुणा- तरजैरुत्तुङ्गैश्चरणशरणं सिश्च कृपणम् । मम प्रज्ञावापीप्रभवनवकाव्याम्बुजवने पदन्यासं कुर्याः सरसिजनिवासव्यसनिनि ॥ १०७ ॥ वितानाधस्तानाः शतदशकमुक्तामयलताः सभायामाभान्ति त्रिदशसरिदोघा इव तव । प्रभाभिर्वीचीभिस्तव नखमयूखामृतनिधे- विलोलैः कल्लोलैः सह परिमिलन्त्यो रसनिधे ॥ १०८॥ सुराः सर्वे खर्वास्तव चरणमूले सुरतरो- स्त्वमासीना मूलेऽनुचितमिति मत्वा सुरतरुः । भवन्मश्चाधस्ताद्भवि विविधरत्नेषु बहुधा विशन्प्रायश्चित्तं चरति बहुरूपैः परतरे ॥ १०९ ॥ कपिद्वारा वारामुपरि जलधेः सेतुतरणि- यथोदारा धाराधरसुरुचिरामेण रचिता । मैया द्वारा नारायणविधुमुखीपन्नतिरियं भवोद्धारा साराश्रयहृदयरामेण विहिता ॥ ११० ॥ प्रकृत्या भृत्योऽहं श्वसन इह सामन्ततिलको मनश्छत्रं पीठं हृदयशतपत्र विकसितम् । सुमानां सम्राजोर्जगदहमहंपूर्वमवतो- र्वचः स्फीतं सीतारुणचरणयोश्चामरमिदम् ॥ १११ ॥ प्रेमरत्नरचिताक्षरहैमदण्डमण्डितमुपासकगृखैः । गृह्यतां दशमुखप्रतिमल्लवल्लभाचरणचामरमेतत् ॥ ११२ ॥ इति श्रीमद्रामचरणचन्द्रिकाचकोरायमाणश्रीमारुतिसिद्धान्तविहरमाणविद्वदुरीण- कौन्तेयाचार्यसूनुश्रीनिवासाचार्यविरचितं सीताचरणचामरस्त्रोत्रम् ॥ १. मां द्वारीकृत्य. २. सकलबलाश्रयेण हृदये स्थितेन ब. ३. पमानामित्या ६६ काव्यमाला। महाकविश्रीक्षेमेन्द्रविरचितं दर्पदलनम्। प्रथमो विचारः। प्रशान्ताशेषविघ्नाय दर्पसपसर्पणात् । सत्यामृतनिधानाय खप्रकाशविकासिने ॥१॥ संसारव्यतिरेकाय हृतोत्सेकाय चेतसः । प्रशमामृतसेकाय विवेकाय नमो नमः ॥ २ ॥ (युग्मम्) क्षेमेन्द्रः सुहृदां प्रीत्या दर्पदोषचिकित्सकः । खास्थ्याय कुरुते यत्नं मधुरैः सूक्तिभेषजैः ॥ ३ ॥ कुलं वित्तं श्रुतं रूपं शौर्य दानं तपस्तथा । प्राधान्येन मनुष्याणां सप्तैते मदहेतवः ॥ ४ ॥ अहंकाराभिभूतानां भूतानामिव देहिनाम् । हिताय दर्पदलनं क्रियते मोहशान्तये ॥ ५ ॥ कुलं कुलं कलयतां मोहान्मिथ्याभिमानिनाम् । लनः कोऽयं न जानीमः स्तब्धग्रीवाग्रहग्रहः ॥ ६ ॥ कुलस्य कमलस्येव मूलमन्विष्यते यदि । दोषपङ्कप्रसक्तान्तस्तदावश्यं प्रकाशते ॥ ७ ॥ यथा जात्यतुरंगस्य न शक्यज्जात्य(?)मुच्यते । तथा गुणवतः सूनुर्निर्गुणस्तत्कुलोद्भवः ॥ ८॥ १. पुस्तकद्वयमस्य दर्पदलनस्य कश्मीरमहाराजाश्रितैरस्मत्सुहृत्तमैयोतिर्वित्तमश्री- विश्वेश्वरशर्मभिः प्रहितम्. पुस्तकद्वयमपि काश्मीरलिखितं नवीनं नातिशुद्धं च. तत्र प्रथमं ३४ पत्रात्मकं क-संज्ञकम् , द्वितीयं ३३ पत्रात्मकं-ख-संज्ञकं ज्ञेयम्. तृतीयमपि पुस्तकं जयपुर एव राजगुरुभट्टलक्ष्मीदत्तसूनुभश्रीदत्तसंग्रहादुपलब्धम्. तत्तु त्रुटितप्र- थमपत्रं तृतीयविचारपर्यन्तमेव वर्तते. मध्ये मध्ये च जलादिदोषेण शीर्णतामुपगत- मस्ति. तत्तु ग-संज्ञकम्. अत्र क-पुस्तके सर्वत्र विचारान्ते 'नीतिपद्धतौ' इति प्रन्थस्य नामोपलभ्यते. स्त्र-ग-पुस्तकयोस्तु दर्पदलनमिति. २. 'नमः शमनिधानाय' ख. ३. 'प्राधान्यतः' ख.४. 'नीतिपदवी' क. ५. 'मिथ्यामोहाभिमानिनाम् क. ६. 'दोष- पानसकन्तोतदा' क, 'दोषः पङ्कप्रसङ्गोन्ता...दा' ख. ७. 'प्रदृश्यते' ख. 4. 'मा- क्यज्ञातमुच्यते क... 'तदुणोद्वतः' ख.

१ विचारः] दर्पदलनम् । ६७ : .. एकश्चेत्पूर्वपुरुषः कुले यज्वा बहुश्रुतः । अपरः पापकृन्मूर्खः कुलं कस्यानुवर्तताम् ॥ ९॥ लोके कुलं कुलं तावद्यावत्पूर्वसमन्वयः । गुणप्रभावे विच्छिन्ने समाप्तं सकलं कुलम् ॥ १० ॥ कुलाभिमानः कस्तेषां जघन्यस्थानजन्मनाम् । कुलकूलंकषा येषां जनन्यो निम्नगाः स्त्रियः ॥ ११ ।। कुलीनस्य कुलीनस्य नवदारिद्यलजया । किं कुलेनाकुलीनाग्रे याच्नादैन्यप्रलापिनः ॥ १२ ॥ गुणवत्कुलजातोऽपि निर्गुणः केन पूज्यते । दोग्ध्रीकुलोद्भवा धेनुर्वन्ध्या कस्योपयुज्यते ॥ १३ ॥ खयं कुलकृतस्तस्माद्विचार्य त्यज्यतां मदः । गुणाधीनं कुलं ज्ञात्वा गुणेष्वाधीयतां मतिः ॥ १४ ॥ मूलान्वेषणचिन्त्यमानमनिशं नास्त्येव पुंसां कुलं स्त्रीणां यत्र परम्परैव तनुते संतानतन्तुक्रमम् । एतासां कृतकप्रपञ्चरचनालज्जावतीनां पुरः संसक्तस्मररूढगूढचरितं तत्त्वेन जानाति कः ॥ १५ ॥ कुलाभिमानाभरणस्य माता पितामही वा प्रपितामही वा । योषित्वभावेन यदि प्रदुष्टा तदेष दोषः कुलमूलघातः ॥ १६ ॥ सूर्यवंशे त्रिशङ्कर्यश्चण्डालोऽभून्महीपतिः । दिलीपरघुरामाद्याः क्षितिपास्तत्कुलोद्भवाः ॥ १७ ॥ भूभुजां सोमवंश्यानां यः पूर्वपुरुषो बुधः । गुरुतल्पे स चन्द्रस्य जातो जगति विश्रुतः ॥ १८ ॥ कन्यायास्तनयः कर्णः क्षेत्रजाः पाण्डुनन्दनाः । सामान्यकुलचर्चाभिः किमन्याभिः प्रयोजनम् ॥ १९ ॥ १. 'सूनुश्च पापकृत्' ख. २. 'जनानां स्थान' ख. ३. भूमौ लीनस्य. ४. 'पर- स्परैव' क-ख. ५. संसक्ता स्मररूढरूढ' ख. ६. कुलाभिमानिन इत्यर्थः. ७. 'यत्' क. ७ष० गु० ६८ काव्यमाला। मथुरायामभूत्पूर्व ब्राह्मणः श्रीमतां वरः । यज्वा श्रुतनिधिर्नाम श्रुतिमान्विश्रुतश्रुतः ॥ २० ॥ तस्य मुक्तालता नाम प्रांशुवंशसमुद्भवा । बभूव वल्लभा पत्नी लावण्यललिताकृतिः ॥ २१ ॥ तस्यां तस्याभवत्कान्तः सुवृत्तः सगुणाग्रणीः । पुत्रस्तेजोनिधिर्नाम विद्याविमलदर्पणः ॥ २२ ॥ स धीमान्वेदविद्वादी कविः सर्वकलालयः । सभासु विर्दुषां चक्रे लज्जयावनतं शिरः ॥ २३ ॥ तं दर्पदोषज्वरितं ग्रीवास्तम्भयुतं रहः । प्रशमाय पिता स्नेहात्पथ्यं वक्तुं प्रचक्रमे ॥ २४ ॥ पुत्र मिथ्याभिमानेन किं प्रयातोऽसि मूढताम् । यन्मदद्विरदारूढः : पूज्यपूजासु लजसे ॥ २५ ॥ नास्त्युपायः स संसारे दर्पश्वभ्रनिपातिनाम् । मूढानां क्रियते येन क्षणं हस्तावलम्बनम् ॥ २६ ॥ कष्टं केनोपदिष्टस्ते विनष्टविनयस्मृतेः । मदः साधुजनानिष्टः कुलविद्याधनोद्भवः ॥ २७ ॥ अस्थिरः कुलसंबन्धः सदा विद्याविवादिनी । मंदो मोहाय मिथ्यैव मुहूर्तनिधनं धनम् ॥ २८ ॥ एतदेव कुलीनत्वमेतदेव गुंणार्जनम् । यत्सदैव सतां सत्सु विनयावनतं शिरः ॥ २९ ॥ देयैव विदिता विद्या सत्यमेवाक्षयं धनम् । अकलङ्कविवेकानां शीलमेवामलं कुलम् ॥ ३० ॥ १. 'समभवत्' ख. २. 'सुगुणाग्रणीः' क. ३. 'विपुल' ख. ४. 'सर्वगुणनिर्वादी' ख. ५. 'कलामयः' ख. ६. 'विद्विषां चक्रे लजापुजानतं' क. ७. 'कष्टः' क. ८. 'प्रगल्भोऽयं कुलोद्भवः' क. ९. 'सुचिरः' क, 'सुशिरः' ख. १०. 'इदमुत्तरार्ध' क- पुस्तके नास्ति. ११. 'कुलार्जनम्' क. १२. 'कथैव' ख.

१ विचारः] दर्पदलनम् । ६९ अभोगसुभगा भूतिरदैन्यधवलं कुलम् । अदर्पविशदा विद्या भवत्युन्नतचेतसाम् ॥ ३१ ॥ द्वेषः कस्य न दोषाय प्रीतिः कस्य न भूतये । दर्पः कस्य न पाताय नोन्नत्यै कस्य नम्रता ॥ ३२ ॥ त्यागिना किं दरिद्रेण किं कुलीनेन पापिना । तुष्टेन किं कदर्येण दर्पान्धेन बुधेन किम् ॥ ३३ ॥ वैरायते सुहृद्भावः प्रदानं हरणायते । दर्पभूताभिभूतस्य विद्या मौर्व्यशतायते ॥ ३४ ॥ गुणिनां मत्सरः शत्रुर्लुब्धानामतियाचकः । सर्व एव सदर्पाणां न कश्चित्प्रियवादिनाम् ॥ ३५॥ तस्मात्कार्यस्त्वया पुत्र नाहंकारः कदाचन । दर्पोद्रीवः किलोग्रेण मोहग्राहेण गृह्यते ॥ ३६ ॥ वंशेनोन्नतिशालिना गुणगणेनान्तश्चमत्कारिणा रूपेणातिमनोहरेण महता वित्तेने वृत्तेन वा । रोहन्मोहमहातरुर्मदमयः संजायते यः सदा तस्यादौ दृढरूढमूलदलने कार्योऽभियोगस्त्वया ॥ ३७ ॥ गुणेष्वनादरं पुत्र प्राप्तश्रीरपि मा कृथाः । संपूर्णोऽपि घटः कूपाद्गुणच्छिन्नः पतत्यधः ॥ ३८ ॥ कुलाभिमानं त्यज संताग्रं धनाभिमानं त्यज दृष्टनष्टम् । विद्याभिमानं त्यज पण्यरूपं रूपाभिमानं त्यज काललेह्यम् ॥ ३९ ।। पुत्र प्रयत्नेन विबोधितोऽसि न मुञ्चसि त्वं यदि दर्पमोहम् । तदेष ते यास्यति शल्यभावं तीव्राभितापप्रसवोऽभिमानः ॥ ४० ॥ विभूतिनलिनीगजः सुजनमानभङ्गाशनि- निपातपथदैशिकः सुकृतचित्रधूमोद्गमः । १. 'सौख्यं शिखायते' क. २. 'वृत्तेन वित्तेन' क. ३. अयं श्लोकः क-पुस्तके नास्ति. ४. 'संवृतायं' क, 'संवृताङ्ग ख.

काव्यमाला। पैराशयनवज्वरश्चरितचन्द्रबिम्बाम्बुदः सदा समदचेतसां गुणविनाशहेतुर्मदः ॥ ११॥ अनित्यतेयं यदि नित्यता स्यात्सर्वं न पाके विरसं यदि स्यात् । कुलार्थविद्यादिकृतोऽभिमानस्तदेष ते स्यान्न विडम्बनीयः ॥ ४२ ॥ अहं वादी विद्यापरिचयगुरुः सर्वविदुषा- महं मानी वाणीप्रसरपरिपाकेन सुकविः । अहं लीलाहंसः कुवलयदृशां मानसचरः करोत्यन्तः पुंसामिति मदपिशाचः परिचयम् ॥ ४३ ॥ लक्ष्मीः क्षणक्षयवती परिरक्षितापि कायोऽप्यपायनिचयस्य निकाय एव । संभोगयोगसुखसंगतिरप्यतथ्या मिथ्याभिमानकलनाघन एष शापः ॥ ४४ ॥ इत्युक्तोऽप्यसकृत्पित्रा लीलामीलितलोचनः । स ययौ मत्तहस्तीव वेगादगणिताङ्कुशः ॥ ४५ ॥ पादेन क्षितिमालिखन्ति समदाः कोपोष्णनिःश्वासिन. स्तिर्यग्जिानिरीक्षणैर्विदधति भ्रूभङ्गभीमं मुखम् । सखेदाङ्गुलिकन्दलीनिकषणैस्ताम्यल्ललाटत्वचः कम्पन्ते हितमन्त्रवादसमये भूताभिभूता इव ॥ ४६ ॥ स कदाचिद्वराश्वेषु स्थितेषु जवकौतुकात् । प्रतस्थे खरमारुह्य वयस्यगृहमुत्सवे ॥ ४७ ॥ तेन तीक्ष्णप्रतोदेन चोद्यमानः पुनः पुनः । खरस्तीव्रव्यथार्तोऽभूत्प्रक्षरत्क्षतजोक्षितः ॥ ४८ ॥ खेताश्रुः कथितक्लेशः वखनोचितसंज्ञया । सोऽवदत्संमुखायातां गर्दभी जननी निजाम् ॥ १९ ॥ ४. 'हि- १. अयं पादः ख-पुस्तके त्रुटितः. २. 'हेलाहंसः' क. ३. 'सद्गतिः' ख. तवादमत्र' क. ५. 'खुतासः' क, 'मुखानुः' ख. ६. 'खखरोचित' क.

१ विचारः] दर्पदलनम् । ७१ माताह्मणपुत्रोऽयं पश्य मामधमाशयः । विदारयन्प्रतोदेन वहन्तं हन्तुमुद्यतः ॥ ५० ॥ किं करोमि यमेनाहं लब्धोऽनेन दुरात्मना । अवटे पातयाम्येनं तनुं श्वभ्रे क्षिपामि वा ॥ ५१ ॥ इत्यार्तराविणं पुत्रं साश्रुनेत्राथ गर्दभी । तमुवाच संसंतापं स्नेहसंक्रान्ततळ्यथा ॥ ५२ ।। वहैनं दुर्मदं पुत्र सहख विषमां व्यथाम् । अस्य नास्त्येव हृदये दारुणे करुणाकणः ।। ५३ ।। रौद्रः शूद्रेण जातोऽयं ब्राह्मण्यां ब्रह्मवर्जितः । परदुःखं न जानाति चण्डं चण्डालचेष्टितः ॥ ५४ ।। दयादरिद्रं हृदयं वचः क्रकचकर्कशम् । योनिसंकरजातानामेतत्प्रत्यक्षलक्षणम् ॥ ५५ ॥ नवनीतोपमा वाणी करुणाकोमलं मनः । एकबीजपँजातानां भवत्यवनतं शिरः ॥ ५६ ॥ रटति कटुकाटोपं कोपादकारणवैरवा- स्पृशति न दयां दैन्यापन्ने विजातितया शठः । क्षणरसिकतालोलः सेवाश्रितानवमन्यते गुणिषु कुरुते गॅर्वोद्गारानखर्वगलः खलः ।। ५७ ॥ इति दुःसहमाकर्ण्य गर्दभीवचनं द्विजः । सर्वप्राणिस्वनाभिज्ञः संमोहाभिहतोऽपतत् ॥ ५८ ॥ स लब्धसंज्ञः सुचिरान्मशृङ्गादिव च्युतः । तत्याज सहसा दर्प नष्टाखिलकुलोन्नतिः ॥ ५९ ।। संमूच्छितो विषेणेव स गत्वा मातुरन्तिकम् । यथाश्रुतं निवेद्यास्यै सर्व पप्रच्छ तां रहः ॥ ६० ॥ १. 'विहन्तुं' ख. २. 'ससंतापा' क. ३. 'एतद्भवति' क. ४. 'प्रसूतानां भवत्येव' ख. ५. 'खर्वोद्गर्जदखर्वकलः' क. ६. 'मोहराङ्गात्' ख.

७२ काव्यमाला। तनुत्यागप्रवृत्तेन पृष्टा सा तेन शापिता। अधोमुखी तमवदद्वैलक्ष्यलंलिताक्षरैः ॥ ६१ ।। लज्जाकरमसत्कर्म कथं तत्कथयामि ते । संसारादपि साश्चर्य गहनं स्त्रीविचेष्टितम् ॥ १२ ॥ अपि कुञ्जरकर्णाग्रादपि पिप्पलपल्लवात् । अपि विद्युद्विलसिताद्विलोलं ललनामनः ॥ ६३ ।। न बाध्यन्ते गुणैः पत्युन लक्ष्यन्ते परीक्षकैः । न धनेन निवार्यन्ते शीलत्यागोद्यताः स्त्रियः ॥ ६४ ॥ धनयौवनसंजातदर्पकालुष्यविप्लवाः । केनोन्नतपरिभ्रष्टा वार्यन्ते निम्नगाः स्त्रियः ।। ६५ ॥ देहप्रदाः प्राणहरा नराणां भीरुखभावाः प्रविशन्ति वह्निम् । क्रूराः परं पल्लवपेशलाग्यो मुग्धा विदग्धानपि वञ्चयन्ति ।। ६६ ।। अहं पुरा रजःस्नाता काले कुसुमलाञ्छने । एकाकिनी पुष्पवने यौवनोन्मादिनी स्थिता ॥ ६७ ॥ व्रतदीक्षापरे पत्यौ सेयेव विनतानना । उन्नतस्तनविन्यस्तहस्ता चिरमचिन्तयम् ॥ ६८॥ एताः श्वसनसोत्कम्पाः सजृम्भाः षट्पदखनैः । सोत्कण्ठमिव गायन्ति लताः पुष्परजखलाः ॥ ६९ ॥ उद्भिन्नयौवनाक्रान्ता प्रियभोगवियोगिनी । व्रतशेषजुषः पत्युर्दोषेणैवास्मि निष्फला ॥ ७० ॥ इति चिन्ताक्षणे तस्मिल्लमाभिमुखदर्पणः । नापितः परिहासाख्यः शीलशत्रुरिवाययौ ।। ७१ ।। स मामेकाकिनी दृष्ट्वा नष्टसंवृतिकातराम् । पस्पर्शोत्कम्पिनी पादनखग्रहणलीलया ॥ ७२ ।। १. 'ललिताक्षरैः' क. २. 'विदार्यन्ते' क. ३. अयं श्लोकः ख-पुस्तके नास्ति. ४. 'सोत्कण्ठा इव' क. ५. 'ममाभिमुखमाययौ' क. ६. 'शीलपाशः' क. ७. 'दुष्टः पादग्रहणहेलया' क.

२ विचारः] दर्पदलनम् । तत्राहं वृत्तकर्तव्या नीचसंगमलज्जया । अधोमुखी च्युतं शीलं वीक्षमाणेव मूछिता ॥ ७३ ॥ अविदूरे चरन्ती सा खरी सर्व ददर्श तत् । गूढगर्भप्रदं चैतत्कर्म मे कुलपातकम् ।। ७४ ।। आस्तां किमनया पुत्र गुप्तवृत्तान्तचर्चया । संवृतान्येव शोभन्ते शरीराणि कुलानि च ॥ ७५ ।। इति मातुर्वचः श्रुत्वा यातः स संहसान्धताम् । जातिमानावपतनान्निर्जीवित इवाभवत् ॥ ७६ ॥ अथ गत्वा निराहारः स कैलासाट्टहासिनीम् । आशां ब्राह्मण्यबद्धाशश्चचार सुचिरं तपः ॥ ७७ ॥ तस्योग्रतपसा तुष्टः स्वयमेव शतक्रतुः । ब्राह्मण्यं याचमानस्य न ददौ दुर्लभं भुवि ।। ७८ ।। पुनः पुनः स तपसा संतापितजगत्रयः । सहस्राक्षवरात्प्राप देवत्वं न तु विप्रताम् ॥ ७२ ।। छन्दोदेवाभिधानोऽथ सोऽभवद्भुवि विश्रुतः । प्रत्यब्दमेकदिवसे ह्यर्चनीयो मृगीदृशाम् ॥ ८० ।। संमोहपातालविशालसर्पस्तस्मान्न कार्यः कुलजातिदर्पः । शमक्षमादानदयाश्रयाणां शीलं विशालं कुलमामनन्ति ।। ८१ ॥ माता न यस्यास्त्यविवेकराशिः पुनर्भवाब्धिर्जनको न यस्य । यस्य प्रसक्ता दयिता न तृष्णा स एंव लोके कुशली कुलीनः ।। ८२॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने कुलविचारः प्रथमः । द्वितीयो विचारः। धनेन दर्पः किमयं नराणां लक्ष्मीकटाक्षाञ्चलचञ्चलेन । यत्कंधराबद्धमपि प्रयाति नैकं पदं कालगतस्य पश्चात् ॥ १॥ १. 'सहसान्यताम्' ख-ग. २. 'यस्यास्ति विवेकराशेः' क. ३. 'इति नीतिपद्धती कुलविचारः प्रथमः' क. ४. 'बन्धमपि' क.

७४ काव्यमाला। सुरक्षितं तिष्ठति निर्निमित्तमरक्षितं तिष्ठति दैवयोगात् । स्थितं कदर्यस्य न चोपयुक्तमुन्मत्तनृत्तोपममेव वित्तम् ॥ २ ॥ कर्मोक्तिनमनिर्माणैः प्रातः प्रातः प्रधावताम् । धनं धनं प्रलपतां निधनं विस्मृतं नृणाम् ॥ ३ ॥ विच्छाययोनिय॑ययोः कष्टक्लिष्टकलत्रयोः । विशेषः क्लेशदोषस्य कः कदर्यदरिद्रयोः ॥ ४ ॥ ये धनादानसंनद्धा नेक्षन्ते निधनावधिम् । निन्दन्तो लुब्धतां तेषामन्तेऽन्ये भुञ्जते धनम् ॥ ५॥ उक्तं परस्यामिषतामनुक्तं यात्यदृश्यताम् । हृदये शल्यतां धत्ते निधने धनिनां धनम् ॥ ६ ॥ धनेन जीवितेनेव कण्ठस्थेन निरीक्षते । पर्यन्तेऽप्यप्रकाशेन बन्धूनां मुखमातुरः ॥ ७ ॥ यदर्जितं परिक्लेशैरर्जितं यन्न भुज्यते । विभज्यते यदन्तेऽन्यः कस्यचिन्मास्तु तद्धनम् ॥ ८॥ विद्या विवादाय धनं मदाय प्रज्ञाप्रकर्षः परवञ्चनाय । अत्युन्नतिलोकपराभवाय येषां प्रकाशस्तिमिरं हि तेषाम् ।। ९ ।। अशान्तान्तस्तृष्णा धनलवणवारिव्यतिकरै- र्गतच्छायः कायश्चिरविरसरूक्षाशनतया । अनिद्रा मन्दोऽग्निर्नृपसलिलचौरानलभया. कदर्याणां कष्टं स्फुटमधनकष्टादपि परम् ॥ १० ॥ श्रावस्त्यां सार्थवाहोऽभूदर्थनाथ इवापरः । नन्दो नाम निरानन्दः कीर्तनेनार्थिनामपि ॥ ११ ॥ स कदर्यः सदा सर्वजनस्योद्वेगदुःसहः । मूर्धशायी निधानानां कालव्याल इवाभवत् ॥ १२ ॥ १. 'मर्म' ख. २. इतःप्रभृति श्लोकत्रयं ग-पुस्तके नास्ति. ३. 'तिमिराय तेषाम्' क-ख. ४. अयं श्लोको ग-पुस्तके नास्ति. ५. 'इति श्रुतः क.

२ विचारः] दर्पदलनम् । ७५ कृत्वा समस्तं दिवसं धनानां निधानकुम्भीगणना विधानम् । स लाजपेयांपलमानशीलमश्नाति रात्रावुदरं सशूलम् (1) ॥ १३ ॥ निर्व्यञ्जनं निर्लवणं विनष्टममृष्टपाकं विनिविष्टकष्टम् । अदृष्टहासं व्ययसंनिरोधात्तस्याभवद्वेश्म संशोकमूकम् ॥ १४ ॥ विच्छायं निःसुखानन्दं निर्दीपं जलवर्जितम् । तस्य कष्टं कदर्यस्य परलोकमभूगृहम् ॥ १५॥ सं भक्तसंचये नित्यमभक्तः संततामयैः । सुवर्णवान्विवर्णोऽभूत्संपूर्णश्चिन्तया कृशः ॥ १६ ॥ पुण्यप्राप्या मतिर्नाम धनर्द्धिरिव रूपिणी । भार्याभूतदयोग्यस्य तस्य दैवविपर्ययात् ॥ १७ ॥ सदा प्रच्छाद्य सा भर्तुश्चकारातिथिसक्रियाम् । तेन व्ययविवादेषु शोषिता कलहामिना ॥ १८ ॥ तस्यां तस्याभवत्सूनुः सगुणश्चन्दनाभिधः । पित्रा लोभान्धकारेण नीतः पद्म इवान्यताम् ॥ १९ ॥ कदाचित्वगृहद्वारि दृष्ट्वा लब्धान्नमर्थिनम् । चकार कलहं नन्दः पत्न्या शोणितपातनम् ॥ २०॥ सोऽवदत्कोपदष्टौष्ठः श्वसन्भार्यामधोमुखीम् । तत्स्पर्शपापं स्तनयोः क्षालयन्तीमिवाश्रुभिः ॥ २१ ॥ मम दास्यति को भिक्षां त्वत्पाणिक्षीणसंपदः । दारिद्यजननी यस्य स्थिता त्वं दुर्भगा गृहे ॥ २२ ।। स्त्रियो यत्र प्रगल्भन्ते भर्तुराच्छाद्य कर्तृताम् । गृहं भवत्यवश्यं तदास्पदं परमापदाम् ॥ २३ ॥ गृहमेकं गृहस्थस्य गृहाणां शतमर्थिनः । भार्याभर्जितवित्तस्य नष्टा गृहपतेर्गतिः ॥ २४ ॥ १. 'पलपारशीलं मृद्राति' क. २. 'उदरे' ग. ३. 'अपृष्टपाकं' क; 'असृष्टपाक' ख. ४. 'सशोकशूलम्' क. ५. 'असुखानन्द' ख. ६. अयं श्लोकः क-पुस्तके नास्ति. ७. 'इवाल्पताम्' क, 'इवान्धताम्' ग. ८ 'तद्दयित' क.

७६ काव्यमाला। तृप्तिदं दर्शनेनापि जन्तोर्जीवितजीवितम् । द्रविणं येन रक्षन्ति खकायं भक्षयन्ति ते ॥ २५ ॥ जीवन्नप्यक्रियो निःखः शवोऽप्यर्थेन सक्रियः । दारिद्यं मरणं लोके धनमायुः शरीरिणाम् ॥ २६ ॥ एतदेवार्थसामर्थ्य प्रत्यक्षेणोपलक्ष्यते । यत्स्कन्धबन्धे जीवद्भिः शवः शिबिकयोह्यते ॥ २७ ॥ प्रयच्छसि किमर्थिभ्यस्त्वमन्नं क्लेशसंचितम् । दीयते यत्किल प्राप्त्यै तत्प्राप्तं किं न रक्ष्यते ॥ २८ ॥ पुत्रदारादिसंबन्धः पुंसां धननिबन्धनः । क्षीणात्पुत्राः पलायन्ते दारा गच्छन्ति चान्यतः ॥ २९ ॥ पण्डिताः कवयः शूराः कलावन्तस्तपखिनः । वैद्यस्येव सवित्तस्य वीक्षन्ते मुखमातुराः ॥ ३० ॥ इति तस्य वचः श्रुत्वा कृपणस्यार्थनिष्कृपम् । सा तमूचे समुचितं सत्त्वस्याभिजनस्य च ॥ ३१ ॥ सन्तः कुर्वन्ति यत्नेन धर्मस्यार्थे धनार्जनम् । धर्माचारविहीनानां द्रविणं मलसंचयः ॥ ३२ ॥ यत्करोत्यरुचिं क्लेशं तृष्णां मोहं प्रजागरम् । न तद्धनं कदर्याणां हृदयव्याधिरेव तत् ॥ ३३ ॥ वर्धते यो धनव्याधिः सुखभोगवियोगकृत् । तस्याशु शमनं पथ्यं राजवैद्यचिकित्सया ॥ ३४ ॥ लोभान्नाभूगृहे यस्य कदाचित्कश्चिदुत्सवः । नृत्यन्ति पटहैस्तस्य निधने धनभागिनः ॥ ३५ ॥ कणाचामतुषाङ्गारान्यत्नेन परिरक्षसि । मूषकापहृतं कोषे रत्नराशिं न पश्यसि ॥ ३६ ॥ POROR १. एतत्पद्यद्वयं ग-पुस्तके नास्ति. २. क्षीणाः' ख-ग. ३. 'पत्न्यः' ख. ४. अयं श्लोको ग-पुस्तके नास्त्रि. ५. 'सः' क. ६. 'गमनं' ख. ७. अयं श्लोको ग-पुस्तके नास्ति.

२ विचारः] दर्पदलनम् । ७७ धनेन दर्पः को नाम यत्क्षणेन विनश्यति । रक्ष्यमाणं व्ययेनैव भक्ष्यमाणमुपप्लवैः ॥ ३७ ॥ विचार्यमाणस्तत्त्वेन दैवाधीनतया नृणाम् । न कस्यांचिदवस्थायां धनलोभः प्रंशस्यते ॥ ३८ ॥ कलौ काले खले मित्रे पुत्रे दुर्व्यसनान्विते । तस्करेषु प्रवृद्धेषु लुब्धे राज्ञि धनेन किम् ॥ ३९ ॥ ऋणिकैः कलहैर्नित्यमच्छिन्नगणनागतेः । दानद्विषोऽनपत्यस्य मन्दामेश्च धनेन किम् ॥ ४० ॥ सहसासादितार्थस्य राजद्रोहादिपातकैः । भयादव्ययशीलस्य शल्येनेव धनेन किम् ॥ ४१ ॥ घोरप्रतिग्रहग्रामग्रस्तोदग्रगुणौजसः । तद्विभागानभिज्ञस्य धूर्ताप्तस्य धनेन किम् ॥ ४२ ॥ रात्रिसेवाव॑सन्नस्य शीतवातातपस्थितेः । प्रभुदृष्टिप्रहृष्टस्य कष्टाहस्य धनेन किम् ।। ४३ ॥ प्रेभूतलाभलोभेन प्रयुक्तार्थस्य सर्वतः । भूर्जदृष्टेन तुष्टस्य नष्टबुद्धेर्धनेन किम् ॥ ४४ ॥ मलशीलस्य वणिजस्थूत्कृतस्य जुगुप्सया । लशुनस्याशुचेः पाकगन्धेनेव धनेन किम् ॥ ४५ ॥ कौडितेनाप्यलब्धेन भोगाहें नवयौवने । जराजीर्णशरीरस्य भारेणेव धनेन किम् ॥ ४६॥ प्रव्रज्यात्यक्तगेहस्य जनगौरवपूजया । धनसंघटितार्थस्य बन्धेनेव धनेन किम् ॥ १७ ॥ १. 'भक्ष्यमाणं व्ययेनैव रक्ष्यमाणं' क-ख. २. अयं श्लोको ग-पुस्तके नास्ति. ३. 'प्रशाम्यति' क. ४. 'पिशुनेषु' क. ५. अयं श्लोकः क-पुस्तके नास्ति. ६. 'क- लहः' ग. ७. अयं श्लोकः क-पुस्तके नास्ति. ८. 'वसक्तस्य' क-ग. ९. इतः प्रभृति श्लोकपञ्चकं ग-पुस्तके नास्ति, गणनापत्रमाने विलोकितेनायेनेति भावः. १०. 'मानशी. लस्य' क. ११. 'सीत्कृतस्य क. १२. 'पूज्यया' क. १३. 'बन्धनेन' ख.

काव्यमाला। 3 शिशोरङ्कुशशून्यस्य पातितस्यापथे विटैः । क्षणक्षयोपयोगेनं स्वमेनेव धनेन किम् ॥ ४८॥ भार्यया खैरचारिण्या ग्रामस्थस्य नियोगिनः । प्रसभं भुज्यमानेन पापाप्तेन धनेन किम् ।। ४९ ॥ शिष्यसंपादिताशेषभोगवस्त्रादिसंपदः । गुरोर्दम्भेन सिद्धस्य संचितेन धनेन किम् ॥ ५० ॥ राजकोषनियुक्तस्य चौर्यचिह्नन केवलम् व्ययेन शङ्कनीयस्य वधेनेव धनेन किम् ॥ ५१ ॥ अज्ञातभाविचौरादिदोषनित्यविनाशिना । हास्यैकहेतुना लोके गणकस्य धनेन किम् ॥ ५२ ।। पिटकस्येव पूर्णस्य पीडनीयस्य भूभुजा । निष्पाकशाकभोज्यस्य ग्रामीणस्य धनेन किम् ।। ५३ ।। कलमाक्रान्तविश्वस्य मषीकृष्णस्य भोगिनः । आसन्नबन्धनस्यान्ते दिविरस्य धनेन किम् ।। ५४ ॥ गृहिणीविग्रहोगस्य मुँहुस्तृण उपेक्षया (?) । कोपोपवासनिःश्वाससंतप्तस्य धनेन किम् ॥ ५५ ॥ मलिनस्य कुवस्त्रस्य खल्पाशनपरस्य च । दारिद्याधिककष्टस्य कदर्यस्य धनेन किम् ॥ ५६ ।। निर्धनाः सुखिनो दृष्टाः सधनाश्वातिदुःखिताः । सुखदुःखोदये जन्तोर्दैवाधीने धनेन किम् ॥ ५७ ॥ समानेषु व्यतीतेषु खजने शून्यचेतसः । विरसासारसंसारविरक्तस्य धनेन किम् ॥ ५८ ।। यथावाप्तोपयुक्तार्थनिश्चिन्तस्य विपश्चितः । अत्यल्पपरितुष्टस्य संतुष्टस्य धनेन किम् ॥ ५९ ।। १. 'भोग्येन' क. २. 'पापान्तन' ख. ३. 'चोर' क. ४. "विशेषशाकभोगस्य क. ५. रोगिणः क. ६. कायस्थस्येत्यर्थः. ७. 'मुहुस्त्यजनुपेक्षया' क. ८. 'संतापित' ख. ९. 'जनेषु' क. १०. विविग्नस्य' क. ११.'अथवा क. १२. 'अल्पाल्प'क, 'अलौल्य' १२ ख.

२ विचार दर्पदलनम् । ७९ बालस्तृणे च कनके च समानदृष्टि- रिष्टं न वेत्ति विषयेष्वविशेषबुद्धिः । वित्तेन कोषपरिपोषसहेन तस्मि- काले विवेकविकलो वद किं करोति ।। ६० ।। प्राणाधिकस्य सुहृदस्तरुणीजनस्य पुत्रस्य वा गुणनिधेः सहसा वियोगे । शोकेन शोचति यदा विवशः शरीरी रत्नाचलैरपि तदा वद किं करोति ।। ६१ ॥ 'नार्थ शृणोति न पुनः स्थितिमीहते वा स्पर्श न वेत्ति न रसं न तथाधिवासम् । वृद्धः प्रयाति पवनेन यदा जडत्वं भोगैर्धनेन च तदा वद किं करोति ॥ ६२ ।। रोगार्दितः स्पृशति नैव दृशापि भोज्यं तीव्रव्यथः स्पृहयते मरणाय जन्तुः । सर्वोषधेषु विफलेषु यदा विरौति धान्यैर्धनेन च तदा वद किं करोति ।। ६३ ।। निद्राच्छेदसखेदबान्धवजनः सोद्वेगवैद्योज्झितः पाककाथकंदर्थितः परिजनैस्तन्द्रीभयात्क्षोभितः । भमखास्थ्यमनोरथः प्रियतमावष्टब्धपादद्वयः पर्यन्ते वपुषः करोति पुरुषः किं शल्यतुल्यैर्धनैः ॥ ६४ ॥ अलंकृतः काञ्चनकोटिमूल्यैर्महाहरगजवाजिवाहैः । निमेषमात्रं लभते न जीवं कालेन काले शिखया गृहीतः ॥६५॥ निश्चेतनः काष्ठसमानकायस्त्यक्तः क्षणात्पुत्र कलत्रमित्रैः । शुभाशुभप्राक्तनकर्मभागी यत्नाप्तरनैर्वद किं करोति ॥ ६६ ॥ .. १. 'विषयेषु समान' क. २. 'कथार्दितः' ख. ३. 'प्रपतनावष्टब्ध' ख. ४. 'वि. वशः' क. ५. 'विवशः' ख. ६. यत्नात्तु' क. ८ ष० गु० काव्यमाला। तस्मात्प्रभूतविभवोद्भवविभ्रमण भूताभिभूत इव मा भव साभिमानः । एताः श्रियः प्रबललोभघनान्धकार- विद्युल्लतापरिचिताः सहसैव यान्ति ॥ ६७ ॥ नष्टे लज्जितवित्तनाथविभवे साम्राज्यभोगे पुरा श्रूयन्ते नलरामपाण्डुतनयाः कष्टं प्रविष्टा वनम् । शक्रः श्रीविरहे विवेश नलिनीनालान्तरालं हिया कस्यास्था विविधावधानविधिना निःसंनिधाने धने ॥ ६८ ॥ इत्युक्तोऽप्यसकृत्पल्या खलोमान्न चचाल सः । खभावः सर्वभूतानां सहजः केन वार्यते ॥ ६९ ॥ ततः स काले लोभेन भिषग्भैषज्यवर्जितः। कोषे निधानकुम्भेषु लीनेपृष्ठो व्यपद्यत ॥ ७० ॥ अदत्तभुक्तमुत्सृज्य धनं सुचिररक्षितम् । मूषका इव गच्छन्ति कदर्याः स्वक्षये क्षयम् ॥ ७१ ।। तस्य यातस्य निरयं निनाय नृपतिर्धनम् । पर्यन्ते राजगामिन्यो लुब्धानां धनसंपदः ॥ ७२ ॥ तत्सूनोश्चन्दनस्याथ शेषार्थेनापि भूयसा । बभूव भूरिसंभार भोगव्ययमहोत्सवः ॥ ७३ ॥ माँ कश्चिन्नाम नन्दस्य मन्दाग्नेरिह भाषताम् । भोगभङ्गभयेनेति प्रातस्तत्राब्रवीजनः ॥ ७४ ।। धिग्धिग्धनं कुनिधनं नन्दस्येवात्मबाधनम् । दीयतां भुज्यतां सर्वमित्यूचुः पुरवासिनः ।। ७५ ।। ततः काले मते बाह्यकोष्ठद्वारान्तवासिनी । वृद्धान्धा सुषुवे पुत्रं चण्डाली खण्डिकाभिधा ॥ ७६ ॥ १. 'साम्राज्यदीनाः' क. २. 'लीनः पृष्ठे' ख. ३. 'भूरिसंभारः' ख. ४. 'सा काचित्' ग. ५. 'इति तत्रावदजनः' क. ६. 'गोष्ठ' ख.

८१ २ विचारः] दर्पदलनम् । अन्धः कुजः कृशः खञ्जः कुष्ठी स्थूलगलग्रहः । समूह इव दुःखानां स तस्यास्तनयोऽभवत् ।। ७७ ।। तदपुण्यैः परिक्षीणे मातुः क्षीरे स निश्चलः । कृपया बान्धवस्त्रीभिः शुनीक्षीरेण वर्धितः ॥ ७८ ॥ एतदेव विरुद्धानां वैचित्र्यं पूर्वकर्मणाम् । कृच्छावसन्ना जीवन्ति विपद्यन्ते यदीश्वराः ॥ ७९ ॥ व्रणैः स पूतिकलिलक्लाम्यत्कृमिकुलैर्वृतः । पक्कणे कुणपाकारस्तस्थौ क्लिन्नतॄणास्तरे ॥ ८० ॥ तस्मिन्नप्यतिवात्सल्यात्पुत्रास्थां जननी स्थिराम् । बबन्ध वासनालीनः स्नेहमोहो हि दुःसहः ॥ ८१ ॥ स वर्धमानः शनकैः स्मशानाङ्गारधूसरः । पक्कणोग्रपिशाचानामप्युद्वेगकरोऽभवत् ॥ ८२ ॥ यष्टीनिषण्णगमनः कुष्ठक्लेदजुगुप्सितः । स जगाम पथा येन प्रययौ तेन नापरः ॥ ८३ ॥ अत्रान्तरे चन्दनस्य पितुः श्राद्धदिने महान् । बभूवार्थिसमूहान्नदाने कलकलखनः ॥ ८४ ।। ततः कर्परमादाय स चण्डालशिशुः शनैः । आचामयाचकः कृच्छाहाराप्रभुवमाययौ ॥ ८५ ॥ तं दृष्ट्वा चन्दनः सौधाद्विप्राणां मार्गदूषणम् । निवार्यतामयं प्राप्तस्तूर्णमित्यवदत्क्रुधा ॥ ८६ ॥ प्रभुभ्रूभङ्गभीतेन लगुडेनाहतस्ततः । द्वारपालेन सावर्तः स कपोत इवाभवत् ॥ ८७ ॥ स निर्भिन्नललाटास्थिप्रक्षरत्क्षतजोक्षितः । क्षणं संमूच्छितः प्राप क्लेशभोगाय जीवितम् ॥ ८८ ॥ अदूरवर्तिनी श्रुत्वा चण्डाली तयथारवम् । उपसृत्य शुशोचार्ता स्पृशन्ती तस्य शोणितम् ॥ ८९ ॥ .. १. 'स्थूलमूलगलग्रहः ख. २. 'तृणान्तरे' ख. ३. आचामो मण्डः. ४. 'कोपतः क.

८२ काव्यमाला। केन निष्करुणेनेदं दर्शितं बैत पौरुषम् । प्रक्लिन्नकायविकले येनामिन्सुभटायितम् ॥ ९० ॥ कायापापमयीं दुःखदशां दृष्ट्वास्य दुःसहाम् । वैराग्यावसरे केन क्रौर्यमेवंविधं कृतम् ॥ ९१ ॥ आर्तिमेवंविधामस्य हृदयक्लेदिनीमिमाम् । विलोक्य कुर्यात्कः पापं पापं हि पदमापदाम् ॥ ९२ ॥ यद्यनेन महत्पापं न कृतं पूर्वजन्मनि । तदुच्यतां स्फुरत्कष्टा दृष्टा कस्येदृशी दशा ॥ ९३ ॥ ये दृश्यन्ते विपत्क्लेशविशेषविषमव्यथाः । त एव गुरवः पापवापस्य (?) करणे नृणाम् ॥ ९४ ॥ करुणाहेषु शूराणामुंपकारिषु वैरिणाम् । वञ्चकानामपापेषु पापसंख्यां करोति कः ॥ ९५ ॥ तारं रोदिषि किं पुत्र सहखाघातजां रुजम् । अशर्मकर्मनिर्माणं मर्मच्छेदि शरीरिणाम् ॥ ९६ ॥ इति तस्यां प्रलापिन्यां प्रेक्षवाप्ते जने जिनः । अनाथबन्धुः करुणासिन्धुस्तेनाययौ पथा ॥ ९७ ॥ भवभ्रमासक्तपरिश्रमाणां रागादिदोषैरुपतापितानाम् । आश्वासनेनामृतसोदरेण लिम्पन्निव द्यां द्युतिचन्दनेन ॥ ९८ ॥ दृष्ट्वा तमापद्तमुग्ररोगर्भनं निमग्नं व्यसने विविमम् । व्यलम्बताः करुणारसेन तत्तापशान्त्यै भगवाञ्जिनेन्द्रः ॥ ९९ ॥ तत्संनिधानेन मुहूर्तमात्रं स निय॑थः स्वास्थ्यमिवाससाद । निहन्ति पापं कुशलं प्रसूते संदर्शनं सत्त्वहिताशयानाम् ॥१०॥ ज्ञात्वाथ चन्दनः प्राप्तं भगवन्तं तथागतम् । विकसत्कुसुमस्मेरां पूजामादाय निर्ययौ ॥ १०१ ॥ १. 'तव' ग. २. 'पापवापकखकरे' क. ३. 'अपकारिषु' ख. ४. 'जिनः वयम्' ग. ५. 'द्युतिसोदरेण' ग. ६. 'भिन्न-विलग्नम्' ग. ७. 'मयाशयानाम्' ख-ग.

२ विचारः] दर्पदलनम् । ८३ भगवानपि साश्चर्यप्रभावादुद्गतं भुवः । हैमं कमलमारुह्य तस्थौ पर्यङ्कलीलया ॥ १०२ ॥ प्रणतं चरणालीनं पूजाव्यग्रकरं पुरः। बभाषे भगवान्प्रीतो भिक्षुसंसदि चन्दनम् ॥ १०३ ।। किमयं याचमानोऽपि वराकस्ताडितः क्रुधा । कृतं न कृपणे कस्मात्करुणाकोमलं मनः ॥ १०४ ।। दयार्द्राः सर्वसत्त्वेषु भवन्ति विमलाशयाः । एवंविधानां दुःखानां कारणं कलुषं मनः ॥ १०५ ॥ कृतक्रूरापकारेषु विद्वेषपरुषेष्वपि । भवन्ति सन्तः क्लेशोष्मशोषितेषु न कर्कशाः ॥ १०६ ॥ क्लिष्टः कष्टं कदर्योऽयं लोभेनापरजन्मनि । अप्रदानोद्यतेनाद्य कायक्लेशेन पीडितः ॥ १०७ ॥ एष नन्दस्तव पिता पूर्णार्थमलसंचयात् । आवृतः पापरोगेण चण्डालत्वमुपागतः ॥ १०८ ।। जन्मान्तरेऽप्यतोऽन्यस्मिन्रोगयोगान्मुमूर्षणा । सुवर्ण दत्तमेतेन तेनायं सधनोऽभवत् ॥ १०९ ॥ अन्त्यक्लेशदशायां यन्मुमूर्षुः संप्रयच्छति । तँच्चाभोग्यं भवत्यस्य लोभादन्येषु जन्मसु(?) ॥ ११० ॥ दत्तं न वित्तं करुणानिमित्तं लोभप्रवृत्तं कृतमेव चित्तम् । यैः संचयोत्साहरसैः प्रनृत्तं शोचन्ति ते पातकमात्मवृत्तम् ॥१११॥ इत्युक्त्वा भगवान्पुण्यां विदधे धर्मदेशनाम् । यया क्लेशप्रहाणाहमहत्त्वं प्राप चन्दनः ॥ ११२ ।। तस्मान्न दर्पः पुरुषेण कार्यः प्रवर्धमानेन धनोदयेन । अदानभोगोपहतं हि वित्तं पुंसां परत्रेह च दुर्निमित्तम् ॥ ११३ ।। इति श्रीव्यासदासापरात्यक्षेमेन्द्रविहिते पैदलने धनविचारो द्वितीयः । ४. 'तदभोग्यं क. १. 'प्रीत्या' क. २. 'क्लिष्टकष्टः' ख. ३. 'मुमुक्षुणा' क. ५. 'रसात्' क. ६. 'नीतिपद्धती' क.

८४ काव्यमाला। तृतीयो विचारः। संसारदोषप्रशमैकहेतुः करोति विद्या यदि दर्पमोहम् । तदन्धकाराय भवत्यवश्यं साभ्रे नभस्यंशुमतोंऽशुमाला ॥१॥ शिक्षाभ्यासेन सुव्यक्तं पठन्त्यपि विहंगमाः । क एष विद्यया दर्पः कष्टप्राप्तैकदेशया ॥२॥ सा विद्या या मदं हन्ति सा श्रीर्यार्थिषु वर्षति । धर्मानुसारिणी या च सा बुद्धिरभिधीयते ॥ ३ ॥ यो विद्यागुरुरायाति लघुतां शीलविप्लवात् । तस्मै पण्डितमूर्खाय विपरीतात्मने नमः ॥ ४ ॥ विद्यां प्राप्य कृतं येन विद्वेषकलुषं मनः । तेनात्मा हेन्त मूर्खेण स्नात्वा पांसूत्करैर्वृतः ॥ ५ ॥ विद्या श्रीरिव लोभेन द्वेषेणायाति निन्द्यताम् । भाति नम्रतयैवैषा लज्जयेव कुलाङ्गना ॥ ६ ॥ स्पृहणीया सतां तावद्विद्या संतोषशालिनी यावन्न पार्थिवास्थानपण्यस्थाने प्रसारिता ॥ ७ ॥ सद्गुणाः शुचयस्तावद्यावद्वादेन शोधेकैः । प्रक्षाल्य न परीक्ष्यन्ते खलै पालसंसदि ॥ ८ ॥ अश्माप्यहृदयो यस्य गुणसारं परीक्षते । उचितैव सुवर्णस्य तस्याग्निपतने रुचिः ॥ ९॥ कविभिपसेवासु चित्रालंकारहारिणी । वाणी वेश्येव लोभेन परोपकरणीकृता ॥ १० ॥ वादिभिः कलहोदर्कतर्कसंपर्ककर्कशा। वाणी क्रकचधारेव धर्ममूले निपातिता ॥ ११ ॥ साधुतेजोवधायैव तार्किकैः कर्कशीकृता । वाणी विवादिभिः क्रूरैः सौनिकैरिव कर्तरी ॥ १२ ॥ १. 'अंशुमदंशुमाला' क. २. 'हस्तिमूर्खण' क. ३. 'चोदकैः' क. ४. 'परोपका- रिणी' ख-ग. ५. 'कलुषोदर्क' क-ग. ६. अयं श्लोकः ख-ग-पुस्तकयो स्ति.

३ विचारः] दर्पदलनम् । ८५ शीलं नैव बिभर्ति कीर्तिविमले धत्ते न धौ धियं मात्सर्येण मनीषिणां प्रतनुते पारुष्यदोषं गिरा । तर्कोक्त्या परलोककर्म नयति प्रायेण संदिग्धतां यस्तैस्याफलशास्त्रपाटनपटोर्मूढस्य किं विद्यया ॥ १३ ॥ ये संसत्सु विवादिनः परयशःशल्येन शूलाकुलाः कुर्वन्ति स्वगुणस्तवेन गुणिनां यत्नाद्गुणाच्छादनम् । तेषां रोषकषायितोदरदृशां द्वेषोष्णनिःश्वासिनां दीप्ता रत्नशिखेव कृष्णफणिनां विद्या जनोद्वेगभूः ॥ १४ ॥ शोच्यतां यात्यशीलेन विद्वेषेणापवित्रताम् । दर्पशापहता विद्या नश्यत्येव सहायुषा ॥ १५ ॥ तपोवने मुनिवरौ मान्यौ मुनिमनीषिणाम् । पुरा रैभ्यभरद्वाजौ सुहृदौ चक्रतुः स्थितिम् ॥ १६ ॥ पुत्रावभूतां रैभ्यस्य विद्याविमलदर्पणौ । स्पृहणीयौ गुणज्ञानां सर्वावसुपरावसू ।। १७ ।। भरद्वाजस्य पुत्रोऽभूधवक्रीताभिधः सुताः । भवन्त्यविद्याः प्रायेण पितृप्रणयलालिताः ॥ १८ ॥ स युवा रैभ्यतनयौ सर्वत्र श्रुतिविश्रुतौ । पश्यन्नात्मनि सासूयः पश्चात्तापाकुलोऽभवत् ॥ १९ ॥ स गत्वा जाह्नवीतीरं निराहारकृशश्चिरम् । चचार निश्चलतनुस्तीनं विद्याप्तये तपः ॥ २० ॥ तं तपस्तापितात्मानं खयमेत्य शतक्रतुः । उवाच मिथ्यानिर्बन्धः कोऽयं ते मुनिपुत्रक ।। २१ ।। अनधीता गुरुमुखात्कथं विद्याधिगम्यते । अनभ्यासेन पाण्डित्यं नभःकुसुमशेखरः ॥ २२ ॥ अधुना विद्यया किं ते विद्यार्ह शैशवं गतम् । यत्फलं किल विद्यायास्तस्मिन्नवहितो भव ॥ २३ ॥ १. 'कीर्ति विमला' क. २. 'तस्याः' क-ख-ग. ३. 'गुणज्ञानात्' ग.

काव्यमाला। १ शीलं परहितासक्तिरनुत्सेकः क्षमा धृतिः । अलोभश्चेति विद्यायाः परिपाकोज्ज्वलं फलम् ॥ २४ ॥ विवेकरहिता विद्या द्वेषरोषोष्मशोषिता । दोशनिनिपातेन हता वल्लीव निष्फला ॥ २५ ॥ एतदर्थं श्रुते बुद्धिं करोति द्वेषदूषितः । यद्विवादैः करिष्यामि मानम्लानिं मनीषिणाम् ॥ २६ ॥ त्यक्त्वा प्रशमसंतोषौ विद्यायाः प्रथमं फलम् । नानाविपर्ययपथैर्गच्छन्त्यर्थफलार्थिनः ॥ २७ ॥ उपकाराय या पुंसां न परस्य न चात्मनः । पत्रसंचयसंभारैः किं तया भारविद्यया ॥ २८ ॥ अन्यायः प्रौढवादेन नीयते न्यायतां यया । न्यायश्चान्यायतां लोभाकिं तया क्षुद्रविद्यया ॥ २९॥ खजिह्वास्तुतिभिर्नित्यं पत्नीवोद्घाटितांशुका । क्रियते या सभामध्ये किं तया धृष्टविद्यया ॥ ३० ॥ अनुष्ठानेन रहिता पाठमात्रेण केवलम् । रञ्जयत्येव या लोकं किं तया शुकविद्यया ॥ ३१ ॥ गोप्यते या श्रुतज्ञस्य मूर्खस्याग्रे प्रकाश्यते । न दीयते च शिष्येभ्यः किं तया शठविद्यया ॥ ३२ ॥ परोत्कर्ष समाच्छाद्य विक्रयाय प्रसार्यते । या मुहुर्धनिनामग्रे किं तया पण्यविद्यया ॥ ३३ ॥ न तीर्यते यया घोरः संसारमकराकरः । नित्यं चित्तानुबन्धिन्या किं तया मोहविद्यया ॥ ३४ ॥ नित्याभ्यासप्रयासेन जीवितं क्षीयते यया । त्रिवर्गस्योपरोधेन किं तया कष्टविद्यया ॥ ३५॥ १. 'दोषोष्म' क. २. 'अन्य' क. ३. 'अन्यायाः' ग. ४. 'नीयन्ते' ग. ५. 'कष्ट' क-ख, 'दृष्ट' ग. ६. 'लोकान्' ग. ७. 'शाठ्य' ग.८. 'मकरालयः' ग. ९. इतःप्रमृति श्लोकद्वयं क-पुस्तके नास्ति. १०. 'प्रसङ्गेन' ग.

३ विचारः] दर्पदलनम् । न विवेकोचितां बुद्धिं न वैराग्यमयं मनः । संपादयति या पुंसां किं तया जडविद्यया ॥ ३६ ॥ शौचाशौचविवादेन त्यक्ता (2) श्रोत्रियता यया । मिथ्याभिमानयोगिन्या किं तया दम्भविद्यया ॥ ३७ ॥ परमात्सर्यशल्येन व्यथा संजायते यया । सुखनिद्रापहारिण्या किं तया शूलविद्यया ॥ ३८ ॥ परसूक्तापहारेण खसृभाषितादिना । उत्कर्षः ख्याप्यते यस्याः किं तया चौरविद्यया ॥ ३९ ॥ अनभ्यासहतोत्साहा परेण परिभूयते । या लज्जाजननी जाड्याक्किं तया मन्दविद्यया ॥ ४० ॥ लोभः प्रभूतवित्तस्य रागः प्रव्रजितस्य च । न यया शान्तिमायाति किं तयालीकविद्यया ॥ ११ ॥ यया भूपतिमाश्रित्य परेषां गुणनिन्दकः । दानमानोन्नति हन्ति किं तया दोषविद्यया ॥ ४२ ॥ गृहे धाराधिरूढापि सभायां न प्रवर्तते । प्रतिभाभङ्गसङ्गाद्या किं तया मूकविद्यया ॥ ४३ ॥ चण्डं पिण्डार्थिनां द्वेषपिशुनानां शुनामिव । यया संजायते युद्धं किं तया वधविद्यया ॥ ४४ ॥ विस्मृता यावलिप्तस्य कण्ठे कृतगतागता । जीववृत्तिरिव क्षीणा किं तया मृतविद्यया ॥ ४५ ॥ रसायनी जराजीर्णश्चिररोगी यया भिषक् । धातुवादी दरिद्रश्च किं तया हास्यविद्यया ॥ ४६ ॥ १. अयं श्लोको ग-पुस्तके नास्ति. २. 'वादिनः' ख-ग. ३. 'प्राप्यते' क. ४. 'दाराभिरूपापि' क. ,५. 'मूढ' क. ६. अयं श्लोकः ख-ग-पुस्तकयो स्ति. ७. अयं श्लोको ग-पुस्तके नास्ति. ८. 'धर्मवादी' क.

काव्यमाला। यया मुग्धमृगाः कूटैः पीड्यन्ते तीव्रमार्गणैः । ओशापाशावलम्बिन्या किं तया लुब्धविद्यया ॥ ४७ ॥ परोपतापः क्रियते वैश्यादिकुहकैर्यया । यन्त्रतन्त्रानुसारिण्या किं तया व्याजविद्यया ।। ४८ ॥ गुरुर्गत्किविद्वेषाद्यति गपरिग्रहात् । नृपः पापाद्विजः क्रोधात्सा विद्या वार्यते यया ॥ १९ ॥ विद्यागुणास्ते विदुषां ये विवेकनिबन्धनम् । खल्पशिल्पकलातुल्याः शेषा जीवितहेतवः ॥ ५० ॥ वीणेव श्रोत्रहीनस्य लोलाक्षीव विचक्षुषः । व्यसोः कुसुममालेव विद्या स्तब्धस्य निष्फला ॥ ५१ ॥ द्वेषदर्पहता विद्या कामक्रोधहता मतिः । लोभमोहहता वृत्तिर्येषां तेषां किमायुषा ॥ ५२ ।। दूरे व्याकरणं कुरुष्व विषमं धातुक्षयक्षोभितं मीमांसा विरसा न शोषयति किं तर्केरलं कर्कशैः । न क्षीवः पतति स्मरभ्रमकरैः किं नव्यकाव्यासवै- स्तस्मान्नित्यहिताय शान्तमनसां वैराग्यमारोग्यदम् ॥ ५३ ॥ इत्युक्तः सुरराजेन निश्चयान्न चचाल सः । अभिमानगृहीतानां दुर्निवारो हि दुर्ग्रहः ॥ ५४ ॥ अथ वृद्धद्विजो भूत्वा सिकतामुष्टिभिः शनैः शक्रः प्रचक्रमे कर्तुं गङ्गायां सेतुबन्धनम् ॥ ५५ ॥ तं दृष्ट्वा निष्फलक्लेशविफलोद्योगनिश्चलम् । मुनिसूनुः कृपाविष्टः पप्रच्छाभ्येत्य सस्मितः ॥ ५६ ॥ ब्रह्मन्क एष निर्बन्धस्तव वन्ध्यसमुद्यमे । निष्फलं विपुलायासं न प्राज्ञाः कर्म कुर्वते ॥ ५७ ॥ १ 'यत्र मार्गणे' ख. २. अयं श्लोको ग-पुस्तके नास्ति. ३. 'वेश्यादि' क.

३ विचारः] दर्पदलनम् । . अस्मिन्कुटिलकल्लोलदोलाविक्षोभितेऽम्भसि । हास्यहेतुः कथं सेतुः सिकतामुष्टिभिर्भवेत् ।। ५८ ॥ इत्युक्ते मुनिपुत्रेण ब्राह्मणस्तमभाषत । अहो परोपदेशेषु सर्वो भवति पण्डितः ।। ५९ ॥ अनधीतां बलाद्विद्यां तपसा प्राप्तुमिच्छसि । यथा त्वं निष्फलारम्भस्तथाहमपरो जडः ॥ ६० ॥ एतद्विजवचः श्रुत्वा यथार्थ स्थगितोत्तरः । तथापि दृढसंकल्पः खकृत्यान्न चचाल सः ॥ ६१ ॥ अथास्य तीव्रतपसा शक्रः प्रादाद्वरं वरम् । सर्वविद्यानिधिर्येन सहसैव बभूव सः ॥ ६२ ।। प्राप्तविद्यः स सोत्साहस्तूर्णं गत्वा खमाश्रमम् । निजां तपःफलावाप्तिकथां पित्रे न्यवेदयत् ॥ ६३ ॥ तं मैदाक्रान्तमश्रान्तवृत्तसंस्कृतवादिनम् । भरद्वाजः प्रमोदेऽपि खेदाकुल इवावदत् ॥ ६४ ॥ पुत्र प्राप्ता त्वया विद्या तपस्तापाकिमुच्यते । किं त्वागामिभयादेतन्न युक्तं प्रतिभाति मे ॥ ६५ ॥ इतः समीपे रैभ्यस्य कोपनस्य तपोवनम् । विद्यामदान्धौ तत्पुत्रावर्वावसुपरावसू ॥ ६६ ।। तावश्रान्तश्रुतोन्मादौ त्वं चाभिनवपण्डितः । तत्संगमे द्वेषमयः सदा संनिहितः कलिः ॥ ६७ ।। ग्रीवास्तम्भभृतः परोन्नतिकथामात्रे शिरःशूलिनः सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः । अन्तद्वेषविषप्रवेशविषमक्रोघोष्णनिःश्वासिनः कष्टा नूतनपण्डितस्य विकृतिर्भीमज्वरारम्भभूः ॥ ६८ ।। १. 'यथात्वं' क-ग. २. 'सदाक्रान्तविश्रान्तवृत्तसंस्थित' क. ३. 'भाषिणम्' ग. ४. 'नूनमपण्डितस्य' इति शार्ङ्गधरपद्धतिधृतः पाठः.

९० काव्यमाला। तव तत्र प्रयातस्य युक्तायुक्तविवादिनः । भविष्यति मुनेः शापादवश्यं मदनिग्रहः ॥ ६९ ।। शुक्तिकारजतज्ञाननीलपीतादिदर्शनैः । उन्मादं जनयत्येव विद्यादर्पपिशाचिका ॥ ७० ॥ एष विद्योपदेशेन विनाशः प्रार्थितस्त्वया । रैभ्याश्रमो न गन्तव्यः कर्तव्यं यदि मद्वचः ॥ ७१ ।। इत्युक्तोऽप्यसकृत्पित्रा स गत्वा रैभ्यपुत्रयोः । व्यधाद्विवादनिर्वेदैः सदा विद्यामदक्षितिम् ॥ ७२ ॥ तं दर्पमत्तं साकोपभीमभ्रूभङ्गदुर्मुखौ । तावूचतुर्मनःसक्तविद्याविद्वेषशूलिनौ ।। ७३ ।। कनीयानावयोर्यस्माद्वयसा त्वं श्रुतेन च । करोषि वादैराक्षेपं तस्मादायुःक्षयोऽस्तु ते ॥ ७४ ।। इत्युक्तोऽपि क्रुधा ताभ्यां न दर्पाद्विरराम सः । न प्रसन्नं न च क्रुद्धं गणयन्ति मदोद्धताः ॥ ७५ ॥ अत्रान्तरे भ्रमद्भुङ्गमालाभ्रूभङ्गविभ्रमः । कालः प्रोषितकान्तानां पुष्पकालः समाययौ ॥ ७६ ।। क्षिप्तपत्राः सुमनसां रजःकलुषितेक्षणाः । सद्वेषा इव विद्वांसश्चेरुमलयमारुताः ॥ ७७ ।। माधुर्यललितोदारवाणीविलसितैर्मुहुः । कवीनामिव संघर्षः कोकिलानामजायत ॥ ७८ ॥ रैभ्ये प्रयाते पुत्राभ्यां सह लातुं सरित्तटम् । भरद्वाजात्मजोऽभ्येत्य प्रविवेश तदाश्रमम् ॥ ७९ ॥ तत्र पुष्पोच्चयव्यग्रां धर्मपत्नी परावसोः । सोऽपश्यत्सुप्रभा नाम रूपदर्पापहां रतेः ॥ ८० ॥ उटजाङ्गनसक्तानां हरिणीनां विलोकने । विलासदीक्षां कुर्वाणां तरलापाङ्गभङ्गिभिः ॥ ८१ ।। १. 'चेलुः' ख.

३ विचारः) दर्पदलनम् । ९१ तां दृष्ट्वा चन्द्रवदनां मदनानन्ददेवताम् । बभूवोत्क्रान्तमर्यादः सहसैव मुनेः सुतः ।। ८२ ।। स ब्रह्मचारी कामेन नवेन तरलीकृतः । अभिलाषोचितं वक्तुमनभिज्ञोऽप्युवाच ताम् ॥ ८३ ।। उन्मादनमिदं रूपमनुरूपं मनोभुवः । समुसिक्तमिवासक्तं करोति मम मानसम् ।। ८४ ॥ विद्याविनयमुत्सृज्य संत्यज्य गुरुयन्त्रणाम् । त्वयि प्रवृत्तं चित्तं मे प्राग्जन्मप्रेमबन्धनम् ।। ८५ ।। जानामि यत्कृतस्यास्य विपाके कर्मणः : फलम् । तथाप्यभिमतं धर्तुं न शक्नोमि करोमि किम् ॥ ८६ ॥ न श्रुतेन न वित्तेनं न वृत्तेन न कर्मणा । प्रवृत्तं शक्यते रोढुं मनोभवपथे मनः ॥ ८७ ॥ इत्युक्त्वा तां भयोद्धान्तनयनामाश्रमोन्मुखीम् । गन्तुं प्रवृत्तां सोऽभ्येत्य जग्राहांशुकपल्लवे ॥ ८८ ॥ कदली कुञ्जरेणेव तरसा तेन निर्जने । कृष्यमाणा तमवदत्सा निषेधचलाङ्गुलिः ॥ ८९ ॥ मा मा मलिनय खच्छं शीलं मम तथात्मनः । विद्याया निरवद्यायाः किमेतदुचितं फलम् ॥ ९० ॥ शीलशुक्लांशुकां त्यक्त्वा लजां निजवधूमिव । गृह्णासि परनारीणां पाणिना पटपल्लवम् ॥ ९१ ।। किमेतदित्यनुचितं दृष्ट्वा नूनं कमण्डलुः । उग्रीवः कौतुकेनेव मुखं तव निरीक्षते ॥ ९२ ॥ बिभ्रतोऽन्तर्गतरसां कुसुमेषुरुचिं नवाम् । जटावल्कलभारस्ते तरोरिव न शान्तये ॥ ९३ ॥ पापसंकल्पमात्रेण त्रपयाधोमुखी तव । पतिता स्पर्शभीत्येव कम्पलोलाक्षमालिका ॥ ९४ ॥ १. 'वृत्तेन निवृत्तेन' क. १ ष० गु० ९२ काव्यमाला। आसनाले सरखत्या जपलोलरदच्छदे। दुर्नयोक्तिर्न युक्तेयं मुखे तव मनीषिणः ॥ ९५ ॥ इयं तपोवनमही विवेकजननी कथम् । जनयत्यभिलाषं ते जननीवाजितात्मनः ॥ ९६ ॥ दुर्मदो(दुर्दमो) यौवनभरस्तुरङ्ग इव हारकः । सर्वथा शिथिलात्मानमवटे क्षिपति क्षणात् ॥ ९७ ।। धिग्धियं किं विवेकेन दूरे विश्राम्यतु श्रुतम् । धार्यते यैर्न संसारविकारस्खलितं मनः ॥ ९८ ॥ क विद्या विदिताशेषकार्याकार्यविमर्शधीः । मूढता क च दुष्कर्ममहापापकुटुम्बिनी ॥ ९९ ॥ इत्युच्यमानोऽपि यदा न स तत्याज दुर्ग्रहम् । शीलापहारसंत्रस्ता सा तदा समचिन्तयत् ॥ १०० ॥ किं करोम्यजने लब्धा विवशाहं प्रमादिना । उत्सृष्टधर्मनियमाः किं न कुर्वन्त्यवारिताः ॥ १०१ ।। अयं स्मरातुरस्तावद्वचसा न निवर्तते । वञ्चयन्ते सान्त्ववादेन कामक्रोधमदोद्धताः ॥ १०२ ।। इति ध्यात्वा तमवदत्सा शनैर्मृदुवादिनी । गच्छ त्वं खयमेष्यामि निशि शून्यलतागृहे ॥ १०३ ॥ स्नात्वा सपुत्रः कालेऽस्मिन्नायाति श्वशुरो मम । ज्वलज्ज्वलनतुल्यस्य तस्याग्रे किं करिष्यसि ॥ १०४ ॥ इत्युक्तः स तया प्रायात्सत्यं विज्ञाय तद्वचः । दुष्प्रापमपि मन्यन्ते सुलभं काममोहिताः ॥ १०५ ।। रैभ्यं ततः समायातमन्यागाराग्रतः स्थितम् । स्नुषा प्रोवाच कोपामिधूमेनेवाश्रुवर्षिणी ॥ १०६ ॥ भरद्वाजात्मजस्तात पापस्तव सुहृत्सुतः । ममाद्य विजने शीलविप्लवेऽभ्यर्थितां गतः ॥ १०७ ।। १. 'वार्यते' क. २. 'दुष्कर्ममाता' क, 'दुष्कर्ष' ख. ३. 'भाषिणी' ग.

३ विचारः] दर्पदलनम् । स मया दुर्घहग्रस्तः समेष्यामीति वञ्चितः । विमुच्ये नान्यथा हस्तात्तस्य खस्तिमती सती ॥ १०८ ॥ एतदाकर्ण्य सहसा प्रज्वलन्मन्युना मुनिः । बभूव दुनिमित्तोल्कापातक्रूर इवांशुमान् ॥ १०९ ॥ विद्यावतां स्फुरत्यन्तर्विवेकः स्वस्थचेतसाम् । विकारकाले संमोहश्चित्ते विद्या च पुस्तके ॥ ११० ।। स निःश्वसन्नथ क्रोधज्वरारम्भारुणेक्षणः । अभिचारजपेनेव कम्पमानाधरोऽभ्यधात् ॥ १११ ।। 'अहो बत भरद्वाजः पुत्रस्याध्ययने व्यधात् । धर्मोपदेशं यत्नेन नमीकतुं पराङ्गनाः ॥ ११२ ॥ इत्युक्त्वामर्षसंरम्भादपरं वक्तुमक्षमः । स प्रविश्याग्निसदनं प्रतीकारपरोऽभवत् ॥ ११३ ॥ उत्पाट्य विकटाटोपकोपः प्रौढामिपिङ्गलाम् । स जुहाव जटां वही क्रूरक्रोधसटामिव ॥ ११४ ॥ द्वितीयायां हुतायां च शूलभृद्धोरराक्षसः । कृत्यासखः समुद्भूतः प्रोवाच प्रणतो मुनिम् ॥ ११५ ॥ किं करोमि मुने कस्य विनाशायास्मि निर्मितः । त्रैलोक्यमपि निर्दधुं संनद्धोऽहं त्वदाज्ञया ॥ ११६ ॥ इति ब्रुवाणं तं रैभ्यः क्रूराकारमभाषत । भरद्वाजसुतं गच्छ केवलीकुर्वपण्डितम् ॥ ११७ ॥ इति तेन समादिष्टः स व्रजन्कम्पितावनिः । अर्धशौचं मुनिसुतं दृष्ट्वा दूरात्समाद्रवत् ॥ ११८ ॥ तस्मिन्नभिद्रुते वेगादीप्तशूले निशाचरे । भयभन्नगतिः प्राप शरणं न मुनेः सुतः ॥ ११९ ॥ २. 'अग्नौ' क. ३. 'द्वितीयस्यां' क. ४. 'संदग्धु' ग. १. 'ऽम्यधातू' ख-ग. ५. 'शकलीकुरु' ख-ग.

९४ काव्यमाला। 3 पलायमानः संप्राप्तः स जवात्पितुराश्रमम् । अग्यागारं विशन्रुद्धः शूदेणाशौचदूषितः ॥ १२० ॥ दासस्पृष्टः स निःशौचः पतितः संभ्रमाक्षितौ । रक्षः शूलहतः पश्चात्सहसा भस्मसादभूत् ॥ १२१ ।। अत्रान्तरे भरद्वाजः प्रविशन्निजमाश्रमम् । विध्वस्तच्छायमालोक्य सोद्वेगः समचिन्तयत् ॥ १२२ ॥ मम पुष्पफलादानप्रत्यावृत्तस्य वह्नयः । सदोत्तिष्ठन्ति पुरतस्तेऽद्य किं निश्चला इव ॥ १२३ ॥ इति संचिन्त्य दृष्ट्वाग्रे भस्मीभूतं सुतं मुनिः । श्रुत्वा च दासकथितं वृत्तान्तं न्यपतद्भुवि ॥ १२४ ॥ स लब्धसंज्ञः शनकैरवदद्वाष्पगद्गदम् । रैभ्योऽपि विद्वान्कालेन प्राप्नोतु खसुताद्वधम् ॥ १२५ ॥ हा पुत्र रक्षितेनापि क्षणक्षयनिपातिना। न जीवामि सदोषेण कायेनेव त्वया विना ॥ १२६ ॥ इत्युक्त्वा पुत्रशोकेन चिताग्निमविशन्मुनिः। महत्वपि नवोत्सेकादभग्नप्रसराः शुचः ॥ १२७ ॥ अथ याते शनैः काले बृहद्युम्नस्य भूपतेः । याजको जग्मतुर्गेहमर्वावसुपरावसू ॥ १२८ ॥ प्रवृत्ते विधिवत्तस्य दीर्घसने पृथुश्रियः । दानमानोदयः कोऽपि तयोर्याजकयोरभूत् ॥ १२९ ॥ कदाचिदिनपर्यन्तसंध्यायां निजमाश्रमम् । परावसुः समागच्छन्दृष्ट्वा पितरमग्रतः ॥ १३०॥ कृष्णाजिनोत्तरासङ्गं दण्डेन मृगशङ्कया। 'जघान शापविवशः स तेनाभूद्विचेतनः ॥ १३१ ॥ ४. 'सोद्वेगं' क. १. 'क्रुद्धः'. ख-ग. २. 'शूलेन' क-ग. ३. निश्चेष्टः' क. ५. 'तृष्णया' ख-ग.

३ विचारः] दर्पदलनम् । ९५ . जनक हतमालोक्य ब्रह्महत्याभयाकुलः । गत्वा यज्ञभुवं भ्रात्रे स तमर्थं न्यवेदयत् ॥ १३२ ।। अर्वावसुस्तमवदद्भातः किं क्रियते विधेः । भवन्ति यस्य संकल्पादेवंरूपा विपर्ययाः ॥ १३३ ।। धर्मार्थी पापमाप्नोति शीलार्थी शीलविप्लवम् । विधौ विधुरतां याते द्रविणार्थी दरिद्रताम् ॥ १३४ ॥ ब्रह्महत्याव्रतं तीनं भवतोऽर्थे चराम्यहम् । त्वमस्य कुरु भूभर्तुः संपूर्णा याजनक्रियाम् ।। १३५ ।। उक्त्वेत्यर्वावसुर्धातुः पापशान्त्यै धृतव्रतः । चकार सर्वतीर्थेषु तीव्रनिष्कृतिपारणम् ॥ १३६ ॥ तं समाप्तव्रतं प्राप्तं राज्ञो यज्ञवसुंधराम् । दूरात्परावसुर्ज्ञात्वा पिढ्नः समचिन्तयत् ॥ १३७ ॥ अयं मे दक्षिणाकाले भागहर्ता समागतः । मदभाग्यैश्चिरं तीव्रतक्लिष्टोऽपि जीवति ।। १३८ ।। इति संचिन्त्य सोऽभ्येत्य प्रोवाच पृथिवीपतिम् । लोभमात्सर्ययोरङ्के पतितः पातकेच्छया ॥ १३९ ।। राजन्यज्ञमहीमेष किल्बिषी ब्रह्महत्यया । प्रविशत्यविकल्पेन मद्भाता वार्यतामितः ॥ १० ॥ इत्युक्तस्तेन नृपतिः कृतघ्नेन विपर्ययात् । तस्य प्रवेशमज्ञानान्निष्पापस्य न्यवारयत् ॥ १४१ ।। अन्धा इव न पश्यन्ति योग्यायोग्यं हिताहितम् । पथा तेनैव गच्छन्ति नीयन्ते येन पार्थिवाः ॥ १४२ ॥ मिथ्यापवाददानेन नैव प्रात्रे चुकोप सः । निकारे कारणं दैवं मन्यन्ते हि मनीषिणः ॥ १४३ ।। तेन तस्यानृशंस्येन निर्विकारतया तया । तुष्टाः ऋतुसमासीनास्तमूचुस्त्रिदिवौकसः ॥ १४४ ॥ १. 'विपत्तयः' क. २. 'चाचर' क. ३. 'कृतघ्नः' क. ४. 'विकारें ख.

९६ काव्यमाला। प्रशमेन तवानेन प्रसन्नास्ते वयं मुने । वराहोंऽसि वराचार गृह्यतां प्रवरो वरः ॥ १४५ ॥ इत्युक्तः स सुरैः प्रीत्या तानुवाच कृताञ्जलिः । यदि युष्मद्वरार्होऽहं दीयतां यन्ममेप्सितम् ।। १४६ ॥ मत्पित्रा योऽभिचारेण भरद्वाजात्मजो हतः । स जीवत्वस्मृतक्रूरनिकारः स च तत्पिता ॥ १४७ ।। अस्मत्पिता मृगधिया यः परावसुना हतः । सोऽपि विस्मृततत्कोपः स्वस्थः प्रामोतु जीवितम् ॥ १४८ ॥ इत्यर्थिते वरे तेन तथेत्याख्यायि तैः सुरैः । यवक्रीतभरद्वाजरैभ्याः प्रापुः खजीवितम् ॥ १४९ ॥ इत्येते मुनयोऽपि दर्पविफले याते श्रुते शोच्यता क्रोधान्ध्येन पुनः प्रनष्टविमलालोके विवेके च्युते । शीले रागमहोष्मणा विगलिते द्वेषेणे नाशं गताः कस्यान्यस्य धनाभिमानमलिना विद्या विधत्ते गुणम् ॥ १५० ॥ चेतः शान्त्यै द्वेषदर्पोज्झितेन यत्नः कार्यः सर्वथा पण्डितेन । विद्यादीपः कामकोपाकुलाक्ष्णां दर्पान्धानां निष्फलालोक एव ॥१५१॥ अलोभः परमं वित्तमहिंसा परमं तपः । अमाया परमा विद्या निरवद्या मनीषिणाम् ।। १५२ ।। शुक्रस्य विद्या धनदार्थहर्तुर्मायाप्रपञ्चोपचितस्य शोच्या । कचस्य वाचस्पतिजन्मनोऽपि व्याजेन विद्या विफलीबभूव ।।१५३॥ स्पृशति मति नहि तेषां द्वेषविषः कलिसर्पः । यदि शमविमलमतीनां खमनसि भवति न दर्पः ॥ १५४ ।। इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने विद्याविचारस्तृतीयः । .. १. 'विफलालोके' ग. २. 'अशीलेन' ख-ग. ३. 'शान्यै तस्माद्धेष' क. ४. 'यदि विमलतममतीनां' ख-ग. ५. 'गुणिनां न भवति' क.

४ विचारः] दर्पदलनम् । चतुर्थों विचारः। पद्मोपमानां दिनसुन्दराणां कोऽयं नृणामस्थिररूपदर्पः । रूपेण कान्तिः क्षणिकैव येषां हारिद्ररागेण यथांशुकानाम् ।। १॥ पर्यन्तरेखाङ्गविभागहीनचित्रोपमं बालवपुः प्रकृत्या । तद्यौवनेनैव विकासमेति चैत्रोत्सवेनेव शिरीषपुष्पम् ॥ २ ॥ अलोमशं पूर्णशशाङ्कशोभं मुखं तु यूनां कतिचिद्दिनानि । जाते ततः श्मश्रुविशालजाले शेवाललीनाजतुलां बिभर्ति ॥ ३ ॥ धूमेन चित्रं तुहिनेन पद्मं तमिस्रपक्षेण सुधांशुबिम्बम् । शीतं निदाघेन न भाति तोयं जरावतारेण च चारुरूपम् ॥ ४ ॥ रूपं क्षणखीकृतरक्तमांसग्रासप्रसक्ताकृतकामदोषा । केशग्रहेणैव जरा जनानां वेश्येव वित्तं कवलीकरोति ॥ ५॥ पाकक्रमेणैव विचित्रकर्मा प्रतिक्षणं देहभृतामलक्ष्यः । करोति कालः परिणामशक्त्या रूपं विरूपं चतुरप्रवाहः ॥ ६ ॥ न लक्ष्यते कालगतिः संवेगचक्रभ्रमभ्रान्तिविनायिनीयम् । ह्यो यः शिशुः स स्फुटयौवनोऽद्य प्रातर्जराजीर्णतनुः स एव ॥७॥ पुंसामवस्थात्रितयत्रिभागे रूपप्रदं यौवनमेव नान्यत् । तस्मिन्मदोन्मादगदाङ्गभङ्गव्यङ्ग्यादिदोषोपहते क रूपम् ।। ८ ।। यदा नरः शोचति दुःखतप्तस्त्यक्ताशनः शोकविवर्णवक्रः । न नाति नोत्तिष्ठति नैव शेते तदा क रूपं क च यौवनश्रीः ॥९॥ यदा स्थितः प्रेत इवास्थिशेषः कारागृहे धूसरितोर्ध्वकेशः । प्रकीर्णयूकामलकालकायस्तदा व रूपस्य गतोऽभिमानः ॥ १० ॥ यदा सदाङ्गीकृतदैन्यदुःखसेवाप्रवासेन विनष्टकायः । नित्यप्रवासभ्रमभमजानुर्न रूपलुब्धस्य तदास्ति रूपम् ॥ ११ ॥ ९ १. 'शोभि' ग. २. 'तमालजाले' क. ३. 'जरावतारे न च' ख-ग. ४. 'भोगग्र- हेणैव' ख. ५. 'पापक्रमेण' ख-ग. ६. 'चतुरं' क. ७. 'कालमतिः' ग. एता- वत्पर्यन्तमेव ग-पुस्तकं वर्तते. ८. 'स्म वेग' क. ९. 'जीर्णशरीर एव' ख. १०. 'त्य. ताशयः' ख. ११. 'नैवाति न चैव' ख.

९८ काव्यमाला। यदा प्रहारैर्दलिताखिलाङ्गः खण्डोष्ठनासः स्फुटिताक्षिदन्तः । युवा पिशाचत्वमिवोपयाति तदापि रूपं विगतवरूपम् ॥ १२ ॥ यदा न धीमानरिषु प्रमाथी न वाक्पटुश्चित्रमनुष्यतुल्यः । तदा सुरूपादविचाररम्याद्वरं विरूपः स्पृहणीयरूपः ॥ १३ ॥ यदा दरिद्रः परिधानहीनस्त्रपानिलीनः कुरुतेऽतियाच्जाम् । कपोलसंजातवलीविकारस्तदा सुरूपोऽपि परं विरूपः ॥ १४ ॥ विद्वत्संसदि वादिभिः कविवरैर्भाषानभिज्ञः परं मूर्खः शंकरवाहनस्तुतिपदैर्यः संज्ञया हस्यते । विक्रीतः परदेशपण्यसदने धूर्तरिवानुत्तरः पुंसश्चित्रमयूरचारुवपुषः किं तस्य रूपश्रिया ॥ १५ ॥ कालं मुहूर्ताङ्गुलिमेण्डलेन दिनत्रियामाञ्जलिना पिबन्तम् । रूपं विलोक्यैव वपुश्च केषां भङ्गेन नाङ्गान्यलसीभवन्ति ॥ १६ ॥ रूपं वयः शौर्यमनङ्गभोगं प्रज्ञाप्रभावं विभवं वपुश्च । अभाति कालभ्रमरः समन्तात्पुंसां हि किंजल्कमिवाम्बुजानाम्॥१७॥ कदाचित्सह गन्धर्वैः सभास्थाने शचीपतिम् । नृत्तेनाप्सरसः सर्वा गीतेन च सिषेविरे ॥ १८ ।। तासां मध्ये बभौ कान्ता वृत्तीनामिव कैशिकी । उर्वशी खमुखे मैत्री वदन्तीवेन्दुपद्मयोः ॥ १९ ॥ शक्रसेवागतास्तत्र तां दृष्ट्वेन्दुमुखीं सुराः । मेनिरे धन्यमात्मानं शृङ्गारस्याङ्गतां गतम् ॥ २० ॥ नृत्यन्ती सा बभौ हारमध्यरत्नेषु बिम्बिता । युगपत्प्रविशन्तीव हृदयानि दिवौकसाम् ॥ २१ ॥ लीना देवविमानेषु हंसास्तद्गतिनिर्जिताः । तत्कटाक्षजितश्चक्रे निद्रां चन्द्रे मृगः क्षणम् ॥ २२ ॥ १. 'शंकरवाहनः' क. शंकरवाहनो वृषभः. २. 'मण्डनेन' ख. ३. 'कौशिकी' क. ४. 'लज्जिताः' क. ५. 'चन्द्रमृगः' ख.

४ विचारः] दर्पदलनम् । ९९ तस्याः सेाप्सरोनेत्रमालेव पतिता बभौ । स्तनयोः शेखरसस्ता नीलोत्पलदलावली ॥ २३ ॥ उत्साहोद्धतविभ्रमभ्रमरकव्यावृत्तहारान्तर- त्रुट्यत्सूत्रविमुक्तमौक्तिकभरः सक्तः स्तनोत्सङ्गयोः । वक्रेन्दुच्युतसंततामृतकणाकारश्चकार क्षणं तस्या नृत्तरसश्रमोदितघनखेदाम्बुबिम्बश्रियम् ॥ २४ ॥ तस्या नृत्तविलोकने पुलकितं दृष्ट्वा रतिर्मन्मथं निःश्वासाञ्चितचारुरूप(?)रजसा चक्रे पुरस्तात्पटम् । उद्वीक्ष्याक्षिपरम्परामपि हरेस्तत्रावसन्ना शची कोपान्दोलितकेलिपद्ममधुपैर्मध्येऽन्धकारं व्यधात् ॥ २५ ॥ विघ्नं न चक्रुर्ननु नृत्तलीलासंदर्शने पुण्यवतां नराणाम् । तत्रोर्वशीरूपवशीकृतानां निमेषशून्यानि विलोचनानि ॥ २६ ॥ देवयोरश्विनोस्तत्र रूपमाधुर्यधुर्ययोः । मिथः कथा समभवत्तद्गुणाकृष्टचित्तयोः ॥ २७ ॥ एकोऽब्रवीदहो रूपमस्यास्तरलचक्षुषः । निमीलन्नियमा येन मुनयोऽप्याकुलीकृताः ॥ २८ ॥ अस्यां संसदि कस्यास्ये पतन्त्येताः सुजन्मनः । स्मरसंभोगसंवादलज्जाकुटिलिता दृशः ॥ २९ ॥ वृत्तसंगमयोरेव परस्परविलोकने । न्यासं शृङ्गारसर्वखमनङ्गेनार्पितं रहः ॥ ३० ॥ रणोत्सृष्टतनोः कण्ठे सोत्कण्ठा भुजबन्धनम् । कस्येयं तरलापाङ्गा रङ्गोत्तीर्णा करिष्यति ॥ ३१ ॥ इति ब्रुवाणमपरः सस्मितस्तमभाषत । अहो नु विस्मृतः किं ते भूतलेन्दुः पुरूरवाः ॥ ३२ ॥ विक्रमाभरणं दिक्षु लावण्यतिलकं भुवः । उर्वशीभोगसुभगं यस्यैतद्गीयते यशः ॥ ३३ ॥ " १. 'भ्रमकर' क. २. 'चुतरजसा' ख. ३. 'नृत्त' क.

१०० काव्यमाला। तेन रूपगुणोत्साहैरुवंशीयं वशीकृता । पुरः स्थितापि शक्रस्य मनसा तत्र तिष्ठति ॥ ३४ ॥ रूपसाम्येन शीतांशुवंशे जातः स लज्जते । न करोति रतेर तत्कथां मत्सरी स्मरः ॥ ३५ ॥ न जाने बेत हेवाकः कोऽयं कुसुमधन्वनः । नैवार्पयति यत्पाणौ तस्यैव शरपञ्चकम् ॥ ३६ ॥ भुवः समस्ताम्बुधिमेखलाया वोढारमाजानुविलम्बिबाहुम् । लीलागुरुं तं हृदये वहन्ती तन्वी कथं नृत्यति नैव विद्मः ॥ ३७॥ द्रष्टव्यः स नृपस्तावदप्रस्तावेऽपि यत्नतः । को वेत्ति तद्विधं रत्नं पुण्यैरास्ते कियच्चिरम् ॥ ३८ ॥ इत्युक्त्वा तौ कृतक्षोणीपतिदर्शननिश्चयौ । नृत्ते निवृत्ते जम्भारिं प्रणम्य ययतुर्भुवम् ॥ ३९ ॥ राजधानी समासाद्य तौ पुरूरवसः क्षणात् । अवारितौ विविशतुर्वेत्रिभिः सुरगौरवात् ॥ ४० ॥ तौ तं ददृशतुः स्नानविहिताभ्यङ्गसंगमम् । पीयूषनवनीतेन लैंग्नस्नेहमिवोडपम् ॥ ४१ ॥ खानोत्तारितकेयूरमहार्हमणिकंकणम् । लावण्याभरणं तस्य विरराजोर्जितं वपुः ॥ ४२ ॥ शून्यश्रवणपाशस्य तस्य कण्ठः समाययौ । निर्भूषणनिवेशोऽपि विशेषरमणीयताम् ॥ ४३ ॥ विचार्य तस्या मर्यादं सौन्दयोंदार्यमश्विनौ । प्रशशंसतुराश्चर्यनिर्माणातिशयं विधेः ॥ ४४ ॥ स तौ कृताञ्जलिः प्रीत्या कृतासनपरिग्रहौ । पप्रच्छ खच्छहृदयस्त्वरागमनकारणम् ॥ ४५ ॥ २. 'वृत्त' ख. .३. 'क्षीरस्नेह' क. १. 'शीतांशोर्वशे जातो महीपतिः' क. ४. 'विशेषोऽपि' क.

४ विचारः] दर्पदलनम् । १०१ . . तावूचतुः क्षितिपते महीकुसुमधन्वनः । त्रैलोक्याभरणं रूपं तवावां द्रष्टुमागतौ ॥ १६ ॥ निसर्गेण जगत्सर्गनिरर्गलगुणादरात् । कौतुकालोकसारेव दृष्टा सृष्टिः प्रजापतेः ॥ १७ ॥ विलोकितस्त्वं वसुधासुधांशुः पूर्णमण्डलः । रूपपीयूषपानेन प्राप्ता प्रीतिः किमुच्यते ॥ ४८ ।। इत्युक्तः प्रणयात्ताभ्यां किंचित्कुसुमितस्मितः । तावूचे नृपतिर्मान्यमानेनाभ्यधिकादरः ॥ ४९ ॥ भवत्संदर्शनेनाहमस्म्यनुग्रहभाजनम् । द्रष्टव्या द्रष्टुमायान्ति पुण्यपुण्येन केवलम् ॥ ५० ॥ तीर्थाप्तिः साधुसंपर्कः पूज्यपूजामहोत्सवः । अस्मिन्विरसनिःसारे संसारे सारसंग्रहः ॥ ५१ ।। स्नानाभ्यक्तेन न मया युवयोरुचितः कृतः । पुण्यसाफल्यनिःशल्यकल्याणायार्चनादरः ॥ ५२ ॥ अन्यागारान्तरे तावन्मुहूर्त क्रियतां स्थितिः । कृतस्नानः समेष्यामि पूजाप्रणयपात्रताम् ॥ ५३ ।। इत्युक्तौ तेन ययतुस्तौ हुताशनमन्दिरम् । स्नातं विभूषितं भूपं द्रक्ष्याव इति कौतुकात् ।। ५४ ।। अथ राजा कृतस्नानः सर्वाभरणभूषितः । पुरोहितेन सहितस्तत्समीपमुपाययौ ॥ ५५ ॥ तौ दृष्ट्वा पृथिवीपालं तारहारं किरीटिनम् । क्षणं नैवोचतुः किंचिद्विषण्णौ विनताननौ ॥ ५६ ॥ कृतार्चने नरपतौ तौ पप्रच्छ पुरोहितः । अकस्माधुवयोः कस्मादप्रसाद इवेक्ष्यते ।। ५७ ।। १. 'निसर्गजगदुत्सर्ग' क. २. 'दृष्टिसृष्टिः' क, 'दृष्टा दृष्टिः' ख. ३. 'भवन्यां दर्शनेनाहं विहितानुग्रहः स्वयम्' क.

१०२ काव्यमाला। विनयातिक्रमोऽस्माकं यातः कच्चिन्न हेतुताम् । पृष्टौ पुरोहितेनेति तौ शनैस्तमभाषताम् ॥ ५८ ।। आवयो प्रसन्नत्वं न युष्माकमतिक्रमः । किं तु कालगलत्सर्वभावालोकनविस्मयः ॥ ५९ ।। अधुनैव नरेन्द्रोऽयं दृष्टोऽभ्यङ्गेऽपि यादृशः । क्षणपाकेन कालस्य दृश्यते नैव तादृशः ॥ ६० ॥ दिनेन्धनवने नित्यं दह्यमानेऽवह्निना । नीयते कालधूमेन रूपचित्रमचित्रताम् ॥ ६१ ॥ निश्चित्य सर्वभावानां नित्यमेतामनित्यताम् । रूपेऽभिमानं कः कुर्यात्खनचित्रपटोपमे ॥ ६२ ॥ जराजीर्णानि रूपाणि रोगार्तानि वपूंषि च । आयूंषि काललीढानि दृष्ट्वा कस्य भवेन्मदः ॥ ६३ ॥ योऽयं विलोक्यते लोकः स्फाराकारविकारवान् । उच्छूनतामुपगतास्त एते शुक्रबिन्दवः ॥ ६४ ॥ अहो कालस्य सूक्ष्मोऽयं कोऽप्यलक्ष्यक्रमः क्रमः । यत्पाकपरिणामेन सर्व यात्यन्यरूपताम् ॥ ६५ ॥ राज्ञः स्नानक्षणे याभूल्लावण्यलहरी तनोः । पीता क्षणेन सा तेन प्रवृत्तान्यक्षणोचिता ॥ ६६ ॥ संपूर्णस्यायुषो मात्रा रूपस्य विभवस्य च । होरायन्नाम्बुधारेव गलत्येवानिशं नृणाम् ॥ ६७ ॥ कलाकाष्ठामुहूर्तानां कालस्य व्रजतां जवात् । न लक्ष्यते विभागेन दीपस्येवार्चिषां गतिः ॥ ६८ ॥ बालः प्रभाते मध्याह्ने तरुणः स्थविरोऽस्तगः । दिने दिने दिनेशोऽपि क्रियते काललीलया ॥ ६९ ॥ शुष्यन्त्यम्बुधयस्तरङ्गगहनैरालिङ्गिताशाङ्गना गच्छन्त्युद्गततुङ्गशृङ्गमुकुटोदना गिरीन्द्राः क्षयम् । १. 'हननैः' क.

५ विचारः] दर्पदलनम् । १०३ भ्रश्यत्येव वसुंधरापि सहिता दिग्दन्तिभिर्यदशा- सर्वाशी सततं प्रधावति महाकालः स कोऽप्याकुलः ॥ ७० ॥ इत्युक्त्वा नृपमामत्र्य दिवं जग्मतुरश्विनौ । नृपश्च तद्वचश्चिन्ताशान्तरूपमदोऽभवत् ॥ ७१ ॥ तस्मान्न कार्यः सुधिया विचार्य साश्चर्यसौन्दर्यविलासदर्पः । संसारमोहप्रसरे धनेऽस्मिन्विद्युल्लताविस्फुरितं हि रूपम् ॥ ७२ ॥ प्रातर्बालतरोऽथ कुङ्मलतया कान्ताकुचाभः शनै- हेलाहासविकाससुन्दररुचिः संपूर्णकोषस्ततः । पश्चान्म्लानवपुर्विलोलशिथिलः पद्मः प्रकीर्णोऽनिलै- स्तस्मिन्नेव दिने स पङ्ककलिलक्लिन्नस्तटे शुष्यति ॥ ७३ ॥ वैरूप्यं सहजं जराहृतरुचिर्यातो ययातिः पुरा कान्त्या तर्जितकामकीर्तिरभवदुर्दर्शमूर्तिनलः । सौदासस्य मनोहरं वपुरभूत्संत्रासनं देहिनां रूपे कस्य भविष्यति प्रतिदिनम्लायिन्यनित्ये धृतिः ॥ ७४ ॥ तस्मादस्थिररूपं विचार्य रूपं भवखरूपं च । अनुरूपमदनशमनं स्थिरपदसंप्राप्तये सुधियाम् ॥ ७५ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने रूपविचारश्चतुर्थः । .. पञ्चमो विचारः। अहं शूरः क्रूरप्रतिभटघटापाटनपटु- स्तरखी सेनायां हयगजघटानामधिपतिः। इति प्रौढः पुंसां निजभुजबलाक्रान्तजगतां भवत्यन्तर्दपः परिभवपदं कालगलितः ॥ १ ॥ शौर्येण दर्पः पुरुषस्य कोऽयं दृष्टस्तिरश्चामपि शूरभावः । औचित्यहीनं विनयव्यपेतं दयादरिद्रं न वदन्ति शौर्यम् ॥ २ ॥ १. 'दिक्संधिभिः' ख. २. 'भूपं' क. ३. 'लीलाहंसविलास' ख. ४. 'सहसा' क. ५. 'पदवीप्राप्तये' क. ६. 'गजरथानां' ख. ७. 'अन्ते' ख. १० ष. गु० १०४ काव्यमाला। बालस्य शौर्य कुसुमोपमस्य मातुः प्रहारे प्रणयस्मितेषु । वृद्धस्य शौर्य शिथिलाङ्गसंधेः खश्लाघया पूर्वकथापथेषु ॥ ३ ॥ वयस्त्रिभागे तरुणस्य शौर्यं यदेव दर्पप्रभवाभिभूतम् । तच्चित्तवृत्तेविविधस्वभावात्पर्यायशो यात्यतिवैपरीत्यम् ॥ ४ ॥ ..............। चित्तस्य जात्यांनिलचञ्चलस्य नानागुणत्वास्क्रियते किमस्य ॥५॥ ह्यो येन भन्नाः पुरतोऽरिसेना भीतः स एवाद्य भवत्यधीरः । वृत्रेण शक्रः समरे निगीर्णः फेनेन शक्रः स जघान वृत्रम् ॥ ६ ॥ ............। एकं समालिङ्गति दर्पलोला क्षीबेव वेश्या नहि राजलक्ष्मीः ॥ ७ ॥ यः कार्तवीर्यस्य च दोःसहस्रं चिच्छेद वीरो युधि जामदग्न्यः । स सायके रामकराधिरूढे ब्राह्मण्यदैन्यप्रणयी बभूव ॥ ८ ॥ रामोऽपि साहायकलाभलोभाचक्रे कपेः संश्रयदैन्यसेवाम् । शूरप्रतापः शिशिरर्तुनेव कालेन लीढस्तनुतामुपैति ॥ ९ ॥ वाली प्रसह्य प्लवगः करेण सोल्लासकैलाससहं दशास्यम् । निक्षिप्य कक्षाञ्चलसंधिबन्धे सप्ताब्धिसंध्याविधिमन्वतिष्ठत् ॥१०॥ युद्धोद्धता भूपतयः प्रसिद्धा बद्धा जरासंघनृपेण पूर्वम् । सभीमसेनेन भुजायुधेन द्विधा कृतः संधिविदारणेन ॥ ११ ॥ भीमोऽपि कर्णेन विकीर्णधैर्यः प्रमूढशक्तिः कृपया विमुक्तः । कर्णोऽर्जुनस्याततकार्मुकस्य क्षणात्क्षणं याचकता प्रयातः ॥ १२ ॥ त्यक्त्वार्जुनः कृष्णकलत्रवर्ग जगाम गोपालबलाभिभूतः । न ज्ञायते दैवपथानुयाता शौर्यस्य वृत्तिः करिकर्णलोला ॥ १३ ॥ भीरुः शूरत्वमायाति शूरोऽप्यायाति भीरुताम् । न क्वचिच्चपलस्यास्य शौर्यस्य नियता स्थितिः ॥ १४ ॥ बाणस्यक्षेण कंसारिचक्रधारापथातिथिः । आजन्मभक्तिप्रणयी रक्षणा) न रक्षितः ॥ १५॥ १. 'पवनोपमस्य' ख. २. 'संध्याविधये चचार' ख. ३. 'क्षणक्षमा' ख. ४. 'बाण- श्चक्रेण कंसारेश्चक्रे' क. ५. 'रक्षितो न तु शक्तिः' ख.

५ विचारः] दर्पदलनम् । १०५ वेगाप्ते कालयवने मुचुकुन्दमशिश्रियत् । शौरिः शयनपर्यङ्कतलसंकुचिताकृतिः ॥ १६ ॥ शिशुपालस्य शिरसि च्छिन्ने चक्रेण चक्रिणा । दृष्टिः कृता न चापेषु नृपैस्तत्पक्षपातिभिः ॥ १७ ॥ भीमनिष्पीयमाणासृग्दृष्टो दुर्योधनानुजः । अशस्त्राभिरिव स्त्रीभिर्दोणकर्णकृपादिभिः ॥ १८ ॥ स्फाराजगरसंरुद्धभुजद्वन्द्वो वृकोदरः । जननीकरुणाक्रन्दनिनादमुखरोऽभवत् ॥ १९ ॥ महतामपि पूर्वेषामेवंरूपा मदक्षितिः । सामान्यविक्रमोदामश्लाघा केनाभिनन्द्यते ॥ २० ॥ अशक्ते रौद्रतातैक्ष्ण्यं तीव्रपापेषु धीरता । छद्मधीर्वाचि पारुष्यं नीचानां शौर्यमीदृशम् ॥२१॥ निष्कारणनृशंसस्य शौर्य हिंस्रत्वमुच्यते । यः सर्प इव संनद्धः प्राणबाधाय देहिनाम् ॥ २२ ॥ एतदेव परं शौर्यं यत्परप्राणरक्षणम् । नहि प्राणहरः शूरः शूरः प्राणप्रदोऽर्थिनाम् ॥ २३ ॥ न कश्चिद्बुद्धिहीनस्य शौर्येण क्रियते गुणः । पर्जन्यर्जितामर्षी श्वभ्रे पतति केसरी ॥ २४ ॥ किं शौर्येण सरागस्य मदक्षीबस्य दन्तिनः । बन्धकीलाभलोभेन यः क्षिपत्यवटे तनुम् ॥ २५ ॥ शौर्य विक्रीतकायस्य सेवकस्य किमद्भुतम् । मेषस्येव वधो यस्य सूनाबद्धस्य निश्चितः ॥ २६ ॥ न दर्पविकृतं शौर्य न मायामलिनं मनः । न द्वेषोष्णं श्रुतं येषां गण्यन्ते तद्गुणा बुधैः ॥ २७ ॥ कुलं कुतनयेनेव लोभेनेव गुणोदयः । ऐश्वर्य दुर्नयेनेव शौर्य दर्पण नश्यति ॥ २८ ॥ १. 'आसका' क. २. 'यशः' ख. ३. 'गुणाः' ख.

१०६ काव्यमाला। प्रभावभवनस्तम्भ इव दम्भोद्भवोऽभवत् । सप्ताब्धिपरिखालेखामेखलायाः प्रभुर्भुवः ॥ २९ ॥ तस्य निःशेषितारातेः सदा युद्धमनोरथः । अप्राप्तप्रतिमल्लस्य ययौ हृदयशल्यताम् ॥ ३० ॥ स सुरासुरयुद्धाप्तदर्पदर्पितमानसः । कः कोऽस्ति शूरः संरम्भादित्यपृच्छत्सदाजनम् ॥ ३१ ॥ दर्पकण्डूलदोर्दण्डं पृच्छन्तं रभसेन तम् । सर्वावमानसंनद्वं जगादाभ्येत्य नारदः ॥ ३२ ॥ नास्ति त्वत्सदृशः शूरस्त्रैलोक्ये सत्यमुच्यते । किं तु जाने रणार्थी ते नरनारायणावृषी ॥ ३३ ॥ बदर्याश्रमसंसक्तौ तीव्र तपसि निष्ठितौ । युद्धेच्छौ तौ यदि स्यातां तत्पूर्णस्ते मनोरथः ॥ ३४ ॥ नारदेनेत्यभिहिते स बदर्याश्रमं ययौ । विलोकयन्निजभुजौ प्रत्यासन्नरणोत्सवौ ॥ ३५ ॥ दृष्ट्वा तेजोनिधी तत्र नरनारायणौ नृपः । मनोरथपथाभ्यस्तं ययाचे युद्धमुद्धतः ॥ ३६ ॥ तं युद्धकामुकं तिर्यग्दृशा गम्भीरधीरया । विलोक्योवाच सावज्ञस्मितदिग्धाधरं नरः ॥ ३७ ॥ महीपते निवर्तख वयं युद्धकोविदाः । युक्तस्तैरेव सङ्ग्रामस्तव ये भूम्यनन्तराः ॥ ३८ ॥ इत्युक्तोऽपि यदा राजा न चचाल रणादरात् । तदा तं दृप्तमैषीकनिशितास्त्रैरपूरयत् ॥ ३९ ॥ प्रदीप्तज्वलनाकारैः शरैराकीर्णविग्रहः । विनष्टविग्रहरुचिर्नुपस्तत्याज धीरताम् ॥ ४० ॥ न १. 'तापित' क. २. 'सर्वावसान' ख. ३. 'सर्वज्ञः स्मितलीलाधरो नरः' ख. ४. 'ऐशीकनिस्सृतार्थरपूजयत्' क.

६ विचारः] दर्पदलनम् । १०७ अकाण्डखण्डितोच्चण्डदर्पज्वरभरो नृपः । कृपणः प्राणरक्षायै तमेव शरणं ययौ ॥ ११ ॥ वारितास्त्रस्ततस्तेन भनमानमनोरथः । लज्जाविकुण्ठकण्ठः खां राजधानी ययौ नृपः ॥ १२ ॥ इति मानस्य महतामपि घोराशनिर्मदः । लोहस्य वमलेनेव क्षयो दर्पण तेजसः ॥ ४३ ॥ तस्मात्सदा मानधनेन पुंसा दर्पः प्रयत्नेन निवारणीयः । दोग्रवत्रस्य सुहृज्जनोऽपि सर्वात्मना तीव्रनिपातसज्जः ।। ४४ ॥ अदर्पशौर्यस्पृहणीयसत्त्वा गोविप्ररक्षाक्षपितस्वदेहाः । प्रयान्ति वीरीः सुकृतामृतार्यशःशरीररैजरामरत्वम् ।। ४५ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने शौर्यविचारः पञ्चमः । षष्ठो विचारः। जगत्येको भद्रद्विरद इव दानार्द्रसरणि- यशस्वी निःस्खानामहमैभिमताशाफलतरुः । इति त्यागोदग्रं वहति किल दर्प मनसि य- स्तदुद्भूतं सर्व सुकृतमपहाय व्रजति सः ॥ १॥ खर्गादिसंभोगफलाभिलाषात्पात्राय पूजां प्रतिपद्यते यः । धर्मार्थपण्यक्रयविक्रयोऽसौ कस्तेन दानप्रभवोऽभिमानः ॥ २॥ यद्विद्यादिगुणोत्कर्षविशेषपरितोषितैः । दीयते प्रीतिधनयोः स पण्यक्रयविक्रयः ॥ ३ ॥ लोकप्रसिद्धिसिद्ध्यै यः प्रयच्छति गुणस्तवैः । करोति वित्तयशसोः स सदा क्रयविक्रयम् ॥ ४ ॥ अवमानहतं यच्च दत्तमश्रद्धया धनम् । ऊपरे निष्फलं बीजं क्षिप्तमक्षिप्तमेव तत् ॥ ५॥ १. 'लोकस्य' क.२. 'धीराः' ख. ३. 'अभिमतानां' ख. ४. 'पूर्ण प्रतिपाद्यते यत्' ख.

१०८ काव्यमाला। त्यागिनोऽन्यस्य संघर्षे कीयुत्कर्षजिगीषया । दत्तं कारणभूतस्य तस्यैवान्ते फलप्रदम् ॥ ६॥ परार्तिशमनं वित्तमज्ञातमनुदीरितम् । अफलाकाङ्क्षया युक्तं प्रयात्यल्पमनल्पताम् ॥ ७ ॥ कुरुक्षेत्रादिदेशेषु कालेष्वर्कग्रहादिषु । आत्मोपकारमात्रेण पात्रे दानेन किं मदः ॥ ८॥ देशकालक्रियापात्राण्यविचार्यैव केवलम् । परेषामार्तिशमनं दयाई दानमुच्यते ॥ ९॥ रक्षायै संपदां पुत्रकलत्रसुखसिद्धये । दीयते यत्प्रयत्नेन लोभदानेन तेन किम् ॥ १० ॥ वादे खलैः खलीकृत्य वेधद्रुतपरीक्षया । दीयते यच्चिरक्लिष्टं कष्टदानेन तेन किम् ॥ ११ ॥ त्यक्त्वाशागतसत्पात्रं पूर्णायाभ्यर्थ्य दीयते । यत्तदुच्छाससंतप्तं दग्धदानेन तेन किम् ॥ १२ ॥ अन्यदाभाषितं पूर्व दत्तमन्यत्ततोऽल्पकम् । यत्सदोषमयोग्यं वा कूटदानेन तेन किम् ॥ १३ ॥ चिरसेवानुरोधेन लोभकृच्छ्रादनिच्छया । अप्रसादेन यद्दत्तं बलादानेन तेन किम् ॥ १४ ॥ यत्पुष्पधूपतिलकप्रतिपत्तिप्रदर्शितम् । दत्तमत्यल्पनिःसारं दम्भदानेन तेन किम् ॥ १५॥ प्रेभूतभारसंभारं राजचौरादिविप्लवे । दत्त्वा यदुष्टमुद्रुष्टं शल्यदानेन तेन किम् ॥ १६ ॥ अनाखाद्यमविक्रेयमनादेयमनीप्सितम् । दत्तं निरुपकारं यद्वन्ध्यदानेन तेन किम् ॥ १७ ॥ ऋणवचिरसंशोध्यं वचसा प्रतिपादितम् । यन्नित्ययाचनद्वेषं याच्यदानेन तेन किम् ॥ १८ ॥ १. 'सन्निहत्यादिदेशेषु' क. २. अयं श्लोकः क-पुस्तके नास्ति. ३. 'वश्यदानेन' क.

६ विचारः] दर्पदलनम् । एकसै पूर्णमन्यस्मै कृशं तुल्यगुणोदये । भेदाद्यदर्पितं रागद्वेषदानेन तेन किम् ॥ १९ ॥ ऋणदैः खजनैः पुत्रैर्लब्धक्षामप्रतिग्रहः । नित्यमायास्यते येन कलिदानेन तेन किम् ॥ २० ॥ न परस्यार्तिशमनं नात्मनः पुण्यकारणम् । दत्ताल्पमूल्येनाप्तं यत्स्वल्पदानेन तेन किम् ।। २१ ॥ दुर्घहेषु विरुद्धेषु दशापाकेऽतिदारुणे । दीयते दोषशान्त्यै यद्भयदानेन तेन किम् ॥ २२ ॥ मुमूर्षुस्त्यक्तसर्वाशः शयनस्थो ददाति यत् । मू स्थानेन मनसा मोहदानेन तेन किम् ॥ २३ ॥ दत्तं प्रियवियोगोग्रशोकशल्यार्तचेतसा । यत्पश्चात्तापजननं बाष्पदानेन तेन किम् ॥ २४ ॥ पुरोहिताय गुरवे शान्तिस्वस्तिविधायिने । दीयते यत्प्रसङ्गेन भृतिदानेन तेन किम् ॥ २५ ॥ यत्संत्यक्तफलस्पृहं यदुचितं सर्वखभूतं च य- नान्यायेन यदर्जितं परधनस्पर्शेन शप्तं न यत् । दत्त्वा दुःखशतं न यत्ववचसा पश्चान्न यद्गण्यते तदानं धनबीजवापनिपुणः शेषः प्रकारः कृषः ॥ २६ ॥ प्राप्तुं खर्गवराङ्गनास्तनतटस्पर्शातिरिक्तं सुखं दत्तो मेरुरपि प्रयाति तृणतामात्मोपकारेच्छया । आपन्नार्तिविलोकने करुणया श्रद्धासुधापूरितं सत्त्वोत्साहसमन्वितं तृणमपि त्रैलोक्यदानाधिकम् ॥ २७ ॥ युधिष्ठिरस्य भूभर्तुः पुरा कनकवर्षिणः । अश्वमेधे विधानेन वर्तमाने महाकतौ ॥ २८ ॥ १. 'दत्त्वाल्पमूल्येनाल्प' ख. २. 'भृत्यदानेन' क. ३. 'स्पर्शाभिषिक्तं' क. ४. 'नि- धानाप्तां' क.

काव्यमाला। सज्जासु राजभोज्यासु विविधावन्नपालिषु । अनिशं रत्नपात्रेषु भुञ्जानेषु द्विजन्मसु ॥ २९ ॥ विप्रेषं पूर्यमाणेषु मणिकाञ्चनशासनैः । उच्छिष्टभूमिं नकुलः खबिलात्समुपाययौ ॥ ३० ॥ दीप्तकाञ्चनवर्णेन पावेनैकेन शोभितः । अपरेणासुवर्णेन वितीर्णजनकौतुकः ॥ ३१ ॥ सोऽभ्येत्य तूर्णमुच्छिष्टहेमपात्रच्युतेऽम्भसि । लुलोठ शफरोत्फालपरिवर्तविवर्तनैः ॥ ३२ ॥ सुवर्णपाय नकुलं दृष्ट्वा सर्वे कुतूहलात् । मज्जन्तमुच्छिष्टजले क्षितिपाय न्यवेदयन् ॥ ३३ ॥ प्राप्तेन भूभुजा दृष्ट्वा दृष्ट्या पृष्ट इवेष्टया । सोऽवदद्विस्मयभुवा सुस्पष्टाक्षरया गिरा ॥ ३४ ॥ राजन्नस्यातिदानस्य न पश्याम्युचितं फलम् । अस्मात्प्रभूतसंभारासक्तुपात्रं वरं परम् ॥ ३५ ॥ प्रवृत्तेऽस्मिन्महादाने महतस्ते महीपते । वित्ते वृत्ते च चित्ते च शुद्धिं को वेत्ति तत्त्वतः ॥ ३६ ॥ संभारोऽयं भुवनभवनव्याप्तिपर्याप्तभोगः सर्वाशासु प्रततजनतापूरणेऽत्यन्ततुच्छः । आपन्नार्तिप्रशमनविधौ सत्त्वशुद्धिप्रदाने संनद्धानामपि तृणकणः काञ्चनाद्रित्वमेति ॥ ३७ ॥ श्रूयतां यन्मया दृष्टं भूपते खयमद्भुतम् । उदेत्युदीरिते यस्मिन्काये रोमाञ्चकञ्चकः ॥ ३८ ॥ शिलोच्छवृत्तिना पूर्व विप्रेण क्षेत्रचारिणा । उपवासकृशेनाप्तं यवस्तोकं कलत्रिणा ॥ ३९ ॥ १. विविधाखादशालिघु' क. २. 'भुक्तवत्सु द्विजातिषु' ख. ३. 'भुक्तवत्सु च विप्रेषु पूर्यमाणेषु काश्चनैः' क. ४. 'पृष्टो दृष्ट्या मुष्ट इवेष्टया' क. ५. 'सुव्यक्तक्षरया' ख. ६. 'सक्तुमानं वरं वरम्' ख.

६ विचारः] दर्पदलनम् । १११ सक्तुपात्रे ततः सिद्धे कृतदेवपितृक्रियः । जायापुत्रविभागेन खं भागं भोक्तुमुद्ययौ ॥ ४० ॥ स प्राणाहुतितोयार्थी ददर्शातिथिमागतम् । क्षुत्क्षामकुक्षि संक्षिप्तसर्वाङ्गशिथिलाकृतिम् ॥ ४१ ॥ तस्मै विहितसत्कारः सप्रसादेन चेतसा । श्रद्धासुधावसिक्तं तत्स ददौ निजभोजनम् ॥ ४२ ॥ निगीणेऽतिथिना तस्मिन्नक्षीणक्षुद्विकारिणा । तद्भार्याप्यादरवती तस्मै स्वमशनं ददौ ॥ ४३ ॥ तेनाप्यतृप्तिमालोक्य तत्सूनुः श्रद्धयातिथिम् । खभोजनेन विदधे संपूर्णाशननिर्वृतम् ॥ ४४ ॥ गते भुक्त्वातिथौ तस्मिन्नुपवासकृशो द्विजः । सत्त्वोत्साहयुतस्तस्थौ क्लान्तोऽपि निशि निय॑थः ॥ ४५ ॥ अथाहं सक्तुगन्धेन निर्गतः क्षुधितो बिलात् । प्राप्तस्तत्पर्णकुटिकामुत्सृष्टोच्छिष्टवर्तिनीम् ॥ ४६॥ तत्राचमनतोयेन स्पृष्टमात्रस्य मे नृप । पश्य मे दक्षिणं पार्श्व जातं हेममयच्छवि ॥ ४७ ॥ ततोऽहं वामपार्श्वस्य हेमच्छायाप्तये सदा। निर्निद्रश्चिन्तया यातः कृशतामेव केवलम् ॥ ४८॥ यद्यत्प्राप्नोति पुरुषः कर्मयोगात्समीहितम् । तत्तत्संपूरणायैव याति चिन्ताविधेयताम् ॥ १९ ॥ अधुना वर्तमानेऽस्मिन्नश्वमेधे तव तौ । हेमपाशियायातो विप्रोच्छिष्टामहीमहम् ॥ ५० ॥ रत्नकाञ्चनपात्राम्बुसिक्तस्य लुठतश्विरम् । मम कान्तिलवोऽप्यने न कश्चिदिह दृश्यते ॥ ५१ ॥ सर्वथा सत्त्वशुद्धाय दानायातिलघीयसे । नमो महाफलायैव न भोगाङ्गप्रसङ्गिने ॥ ५२ ॥ १. 'मात्रे' क. २. 'कुक्षिस्तं' क. ३. 'तस्मिन्क्षणेन' क. ४. 'सिक्तासूलुठतः' क.

काव्यमाला। १ इत्युक्त्वा नकुले याते तत्तथेति युधिष्ठिरः । विचिन्त्य 'संततोच्छासः क्षणं स्तिमिततां ययौ ॥ ५३ ॥ तस्मात्सुवर्णाम्बररत्नभूमिदानैर्न दर्पः पुरुषेण कार्यः । भवत्युदारं करुणाईसत्त्वं दानं सदा कस्यचिदेव पुण्यैः ॥ ५४ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने दानविचारः षष्ठः । सप्तमो विचारः। तपः सदा रागधनाभिमानमोहप्रहाणाय सतामभीष्टम् । तेनैव दों यदि किं वृथैव त्यक्तो निकायः क्षपितश्च कायः ॥ १॥ सर्वात्मना शुद्धधिया विधेयः संसारदोषप्रशमाय यत्नः । कोपोपतप्तं धनरागदिग्धं करोति तीव्र न तपः प्रशान्तिम् ॥ २ ॥ चित्तं विरक्तं यदि किं तपोभिश्चित्तं सरागं यदि किं तपोभिः । चित्तं प्रसन्नं यदि किं तपोभिश्चित्तं सकोपं यदि किं तपोभिः ।। ३ ।। कोपेन शापस्फुरिताधराणां कामेन कम्पस्फुरिताधराणाम् । खेदाम्भसा तुस्यसमुद्भवेन निस्तेजसां किं तपसा मुनीनाम् ॥ ४ ॥ भार्याप्यहल्या किल गौतमस्य क्रुद्धस्य शापेन शिला बभूव । नीतो वसिष्ठेन रुषाभिशप्तश्चण्डालतां भूमिपतिस्त्रिशङ्कः ॥ ५ ॥ भूमममूर्तिर्वररत्नलोभाद्विपाटयन्ती नयने सुकन्याम् । तत्पाणिसंस्पर्शसुखादरेण सेहे निकारं च्यवनः सरागः ॥ ६॥ पाण्डुः प्रियाकण्ठविलम्बिबाहुर्ययौ स्तनन्यस्ततनुर्यदस्तम् । दग्धः परीक्षित्कणिफूत्कृतैर्यत्तपखिकोपस्य विजृम्भितं तत् ॥ ७ ॥ विसारसंसारतरोन येन निःशेषमुन्मूलितमेव मूलम् । शापोपतापप्रभुणा परेषां किं तेन मिथ्यातपसा मुनीनाम् ॥ ८॥ न राजसेवारजसा विलुप्तं न भूमिविद्यादिविवादतप्तम् । न दम्भदीक्षाकुहकाकुलं यत्कल्याणमित्रं विमलं व्रतं तत् ॥९॥ ससंचयं गुप्तकलत्रपुत्रं पुनर्गृहीतव्यवहारभारम् । दम्भाभिमानोद्भवकष्टभूतं मिथ्याव्रतं जीवितवृत्त्युपायः ॥ १० ॥ १. 'प्रततोच्छास' क. २. 'विलम' ख.

७ विचारः] दर्पदलनम् । ११३ सरागरोगं बहुलप्रमोहं सरोगसंभारमखर्वगर्वम् । प्रद्वेषदोषोष्णममेयमायं संसारचिह्नं व्रतमेतदग्र्यम् ॥ ११ ॥ जटाक्षसूत्राजिनयोगपट्टकन्थादृढप्रन्थिनिपीड्यमानम् । विवेकहीनं विरतप्रकाशं व्रतं बृहद्वन्धनमामनन्ति ॥ १२ ॥ सरागकाषायकषायचित्तं शीलांशुकत्यागदिगम्बरं वा । लौल्योद्भवद्भसभैरप्रहासं व्रतं न वेषोद्भटतुल्यवृत्तम् ॥ १३ ॥ निःसङ्गयोगं घनभोगसङ्गं विलम्बिकङ्कालकपालमालम् । कोपाकुलं स्पर्शविवर्जनीयं भारव्रतं तत्कथयन्ति पापम् ॥ १४ ॥ बालस्तपस्वी किमतोऽस्ति हास्यं युवा वनैषी किमतोऽस्त्ययोग्यम् । वृद्धः सरागः किमतोऽस्ति निन्धं मूर्खः प्रमाता किमतोऽस्ति शोच्यम् १५ क्षमा शमः शासनमिन्द्रियाणां मनः प्रसिक्तं करुणामृतेन । तपोऽहमेतत्सजने वने वा कायस्य संशोषणमन्यदाहुः ॥ १६ ॥ हिमाचले श्यामलदेवदारुवने पुरा निर्झरचारुहास्ये । तपस्यतां शोषजुषां मुनीनां कालो ययौ वर्षसहस्रसंख्यः ॥ १७ ॥ ततः कदाचिद्भगवान्भवार्तिहारी विहाराय नमःपथेन । समं भवान्या वृषभाधिरूढः समाययौ शीतमयूखमौलिः ॥ १८ ॥ तस्योदितानां वदनप्रभाणां दीर्घाकृतानेकशशिप्रभाणाम् । विलासहास्येन नभो बभूव विभक्तिसंसक्तसितोत्तरीयम् ॥ १९ ॥ देवी विलोक्याथ तपःप्रयत्नतीव्रप्रयासप्रकटास्थिशेषान् । मुनीन्कृपावेशविषण्णचित्ता शशाङ्कलेखाभरणं बभाषे ॥ २० ॥ देव त्वदाराधननिश्चलानां संत्यक्तसर्वाग्रहनिहाणाम् । तपःक्रियाशोषितविग्रहाणां नाद्यापि मुक्तिः किमहो मुनीनाम् ॥ २१ ॥ कस्मादमी वर्षसहस्रलमक्लेशावलमास्तनुशोषमनाः । भवत्पदं नित्यसुखाय नैव निरामयं तन्मुनयः प्रयान्ति ॥ २२ ॥ १. 'निषेव्यमाणः' ख. २. 'नीलांशुक' क. ३. 'भयप्रयासं व्रतं नवोद्धकवृत्तितुल्यम्' ख. ४. 'स्पर्शविवर्जितं' यत् ख. ५. 'शापम्' ख. ६. 'प्रसव्या' क. ७. दीर्घ क. ८. 'मरीचि' ख. ९. 'छवीनाम्' ख. १०. 'विभक्तसंसिक्त' क. ११. 'विग्रहाणाम्' क. १० ११४ काव्यमाला। . पृथुः प्रसादः प्रथमागतेषु निरादरत्वं चिरसंश्रितेषु । खाच्छन्द्यलीलाविपुलावलेपादेषु स्वभावः सुलभः प्रभूणाम् ॥ २३ ॥ इति प्रियायाः प्रणयोपपन्नमाकर्ण्य वाक्यं गिरिशोऽब्रवीत्ताम् । कुर्वन्विपश्यामलकण्ठकान्ति दन्तप्रभाभिः प्रतिभाविहीनाम् ॥ २४ ॥ देवि त्वयोक्तं दयया मुनीनां भक्तानुरोधादुचितं ममैतत् । एषां भवोल्लङ्घनविघ्नभूतौ शान्ति गतौ किं तु न कामकोपौ ॥ २५ ॥ वनप्रवेशैर्नियमैरशेषैः क्रियाविशेषैः कृतकायशोषैः । न निर्विकारं पदमाप्नुवन्ति कोपेन कामेन च कृष्यमाणाः ।। २६ ॥ प्रत्यक्षमेषां मनसो विकारं संदेर्शयाम्येष निषक्तमन्तः । तीव्रतैः शुष्यति काय एव न वासनालीनघनप्रमोहः ।। २७ ।। संत्यक्तभोगाः स्पृहया विमुक्ताः स्नेहेऽप्यरागाः सुजनेऽप्यसङ्गाः । भेजन्त्यविक्लेशतपःप्रसक्ता युक्ताः प्रकामं पदमव्ययं तत् ॥ २८ ॥ उक्त्वेति शंभुर्वृषभात्सलीलं गिरेरिवायादवतीय भूमिम् । क्षणादभूदद्भुतरूपराशिर्नमवतः कान्तिसुधावदातः ॥ २९ ॥ तस्यामराधीशकिरीटरत्नशोणप्रभाविव पादपद्मौ । प्रचक्रतुर्विद्रुमबालवल्लीनवप्ररोहाद्भुतगर्वमुाम् ॥ ३० ॥ सुस्पष्टजानु प्रचितोरुशोभि नाभिहदावर्तविभक्तमध्यम् । तत्तस्य रूपं प्रविलम्बिबाहोः पीनांसमासीन्मुखपूर्णचन्द्रम् ॥ ३१ ॥ अनन्यलावण्यसुधाब्धिमध्यस्नातैरिवाङ्गैः स्फटिकावदातैः । चक्रे दशाशाः स पृथुप्रकाशा दिगम्बरत्वादिव जातहासाः ।। ३२ ॥ पाणिस्थितश्याममयूरपिच्छच्छायाच्छटाविच्छरितोऽस्य कण्ठः । रराज लीनान्तरकालकूटमिषाग्मिनेवार्पितधूमलेखः ॥ ३३ ॥ स लोचनाभ्यां पृथुपक्ष्मलाभ्यामारक्तपर्यन्तमनोहराभ्याम् । व्यधादिानगनवाङ्गसङ्गे दिगङ्गनानामनुरागदीक्षाम् ॥ ३४ ॥ १. 'च यथा' ख. २. 'कोपकामौ' ख. ३. 'हृत' ख. ४. 'संदर्शयिष्यामि' ख. ५. 'विशन्ति' क. ६. 'यस्य' क. ७. 'रेखः' ख. ८. 'अनङ्गमनासो' क.

७ विचारः] दर्पदलनम् । दृष्ट्वा त्रिलोकीकलिताभिलाषं वपुः स्मरारेर्जनितस्मरं तत् । पूर्वापकारस्मृतिजातलजं चक्षुः क्षणं कापि ययौ तृतीयम् ॥ ३५ ॥ बभौ स कान्तः कुटिलासितेन स्कन्धस्पृशा कुन्तलसंचयेन । अन्वेष्टुमिष्टां मुकुटेन्दुलेखां निशीगणेनेव समागतेन ॥ ३६ ।। लतावधूपल्लवपाणिमुक्तैः स्मितावदातैर्विबभौ स पुष्पैः ।। रूपान्तरे निद्भुतजझुकन्याफेनावशेषैरिव कीर्णकेशः ॥ ३७ ॥ तेनान्यरूपेण कृता नवैव कान्तिश्चकाशे निजरूपगुप्त्यै । जूटादिवेन्दुर्मुदितः कराभ्यां सर्वाङ्गमभ्यङ्गपदे नियुक्तः ॥ ३८ ॥ रूपं विरूपीकृतमन्मथस्य तत्तस्य कान्त्या कमनीयमासीत् । लज्जापहाराद्वनदेवतानां सविस्मयो येन नवाभिलाषः ॥ ३९ ॥ विवाससस्तस्य ससङ्गमङ्गे लज्जावतींनां स्पृहयैव पेतुः । नेत्राणि विद्याधरसुन्दरीणां लीलारविन्दार्धतिरस्कृतानि ॥ ४० ॥ नभःस्थितानां त्रिदशाङ्गनानां तद्गात्रसौन्दर्यवशीकृतानाम् । प्रकम्पशिञ्जानविभूषणानां नेत्रोत्सवोऽभूगतिविघ्नभूतः ॥ ४१ ॥ सुसिद्धकन्याञ्जलिपल्लवाप्रविमुक्तनीलोत्पलपुष्पकुञ्जम् । अङ्गे जगल्लोचनवर्गमस्य सौन्दर्यसंसक्तमिवाबभासे ॥ ४२ ॥ तदर्शने कौतुकनिश्चलानां कर्णावतंसीकृतलोचनानाम् । मृगाङ्गनानामपि सस्पृहाभून्नितान्तमन्तःकरणप्रवृत्तिः ॥ ४३ ।। तस्य प्रवेशे वदनाधिवासलोभभ्रमद्धृङ्गगणाश्चितानाम् । अभूत्सजृम्भश्वसनाकुलानां मुहुर्लतानां कुसुमेषु कम्पः ॥ ४४ ॥ शनैः शनैराश्रमसंनिकर्ष तं यौवनं मूर्तमिवापतन्तम् । विलोक्य कान्तं मुनिकामिनीनां मनः प्रहर्षोच्छलितं बभूव ॥ ४५ ॥ तासां तदालोकननिर्निमेषा दृष्टिः परं कर्णपथप्रविष्टा । उत्सृष्टलज्जाविपुलाभिलाषादसूचयन्मुग्धमृगीविलासम् ॥ ४६ ॥ तासां तदारभसोत्थितानां स्रस्तांशुकोत्कम्पिधनस्तनीनाम् । नवेन कामेन खलीकृतानां जृम्भाभवोऽभूगुजयोर्विलासः ॥ ४७ ॥ १. 'पूर्वापराधादिव' ख. २. 'निशाघनेनेव' ख. ३. 'पत्र' ख. ४. 'प्रदेशे' क. . ११ ष० गु०

काव्यमाला।
तासां बभौ रोमलता मुखेन्दुभीता तमाश्रीः स्तनरक्षितेव ।
रागाग्निधूमप्रसरात्र्यलेखा तनीयसी नाभिविनिर्गतेव ॥ १८ ॥
तस्याधरे चुम्बनलालसेव कण्ठे हठालिङ्गनसस्पृहेव ।
हृदि स्तनन्याससमुत्सुकेव पपात दृष्टिः सहसैव तासाम् ॥ १९ ॥
भृङ्गखनैराहितहुंकृताभिः पुष्प्यत्प्रसूनैः प्रसृतस्मिताभिः ।
वाताञ्चितैः पल्लवपाणिभिस्ता निवार्यमाणा इव मञ्जरीभिः ॥ ५० ॥
संतय॑माना इव होमधूमलेखावलीभ्रूभ्रमणेन दिग्भिः ।
तस्यान्तिके शीलदुकूलमुक्तिसज्जा विलज्जाः प्रसभं बभूवुः ।। ५१ ॥
निःश्वासिनीनां स्मरबाणपुङ्खपक्षान्तवातैरिव कम्पितानाम् ।
तासां विलोक्यैव मनोविकारं भ्रूभङ्गभीमा मुनिपर्षदासीत् ॥ ५२ ॥
कोपोत्कटव्याघ्रविदीर्यमाणक्षमामृगीरक्तचितेव तेषाम् ।
आसन्नदोषागमवासरान्तसंध्यानिभाभूत्सहसैव दृष्टिः ।। ५३ ॥
दष्टाधराः कम्पविघूर्णमानाः खेदाईदेहा विषमं श्वसन्तः ।
ते भेजिरे रागसमुद्गतेाः कोपाकुलाः कामुकवृत्तमेव ॥ ५४ ॥
अन्तर्वलत्कोपकृशानुधूमसंकाशकृष्णाजिनबद्धकक्षः ।
त्रिदण्डमुद्यम्य जवेन कश्चिदभ्याद्रवन्नमतनुं वृषाङ्कम् ॥ ५५ ॥
बृसी समुत्क्षिप्य सकम्पबाहुश्चिक्षेप कश्चित्क्षमया विहीनः ।
येनासनात्क्ष्माविरहादिवाशु मोहे निरालम्बतनुः पपात ॥ ५६ ॥
कमण्डलु कश्चिदकाण्डचण्डसंरम्भपिण्डीकृतकोपतुल्यम् ।
आदाय मोहेन पिनाकपाणेः पुरः प्रहाराभिमुखो बभूव ॥ ५७ ॥
तेषाममर्षादृशमक्षमाणां सोढुं निकारं क्षणमक्षमाणाम् ।
प्रापुः प्रयाताः क्षितिमक्षमाला भ्रूभङ्गतां तस्य तपोवनस्य ॥ ५८ ॥
तत्संभ्रमादाश्रममञ्जरीणां कम्पाकुलानां कुसुमान्तरोत्थैः ।
आसीत्प्रमोहप्रतिमोऽन्धकारः शापाक्षराभैर्ऋमरैभ्रमद्भिः ॥ ५९ ।।
ते प्रापुरीpपदमन्धकारि वक्रं शशाङ्कोपममीक्षमाणाः ।
कण्ठस्थलालोकनकालकूटसंपूरिताक्षा इव मोहमूर्छाम् ॥ ६० ॥

७ विचारः] दर्पदलनम् । ११७ ते तं मितप्रस्फुरिताधरापमुदअलावण्यविशेषतर्षाः । पत्नीविकारोगनिकारमूचुः कण्ठान्तरश्वासविकीर्णवर्णाः ॥ ६१ ॥ कोऽयं विजातिर्विगुणः कलावान्नमो वृषाङ्कः प्रविशत्यलजः । प्रदूषिता येन महर्षिजुष्टा गङ्गेव शुद्धा ललनावलीयम् ॥ ६२ ॥ अनेन संसूचयता निगूढरूपेण दर्पादकुलीनभावम् । नीता पवित्रत्वमियं मुनीनां कापालिकेनेव वनान्तभूमिः ॥ ६३ ।। अहो बतास्य प्रतिभा प्रसह्य सतीसमालिङ्गनसस्पृहस्य । केनापि कामात्कुहकक्रमेण कान्तं कृतं रूपमनेन नूनम् ॥ ६४ ॥ उक्त्वेति तस्मै ससृजुः सकोपास्ते दण्डपाषाणबृसीशतानि । द्वेषावृताक्ष्णामविवेकजन्मा मोहः प्रमादे गुरुतामुपैति ।। ६५ ॥ दूरे भवत्यथ शनैः शिशिरांशुमौलौ तेषां प्रकोपविपुलानलतापितानाम् । तद्दर्शनानुसरणप्रसृतस्य यत्नः पत्नीजनस्य सुतरां विनिवर्तनेऽभूत् ॥ ६६ ॥ अथ स भगवान्भर्गः स्वर्गापगापृथुनिझर- प्रसृतहसितस्तस्माद्देशात्क्रमेण तिरोहितः । प्रशमविमलं व्योम व्याप्य प्रियामवदत्मय- स्मितसितमुखीं दृष्टं देवि त्वया मुनिचेष्टितम् ॥ ६७ ॥ भस्मस्मेरशरीरता पृथुजटाबन्धः शिरोमुण्डनं कुण्डी दण्डकमण्डलुप्रणयिता चर्माक्षसूत्रग्रहः । काषायव्यसनं निरम्बररुचिः कङ्कालमालाधृतिः कामक्रोधवशाद्विशेषरुचिरं सर्वं वृथैव व्रतम् ॥ ६८ ॥ दर्पाकोपात्परिणतजटासूत्रबन्धाच मोहा- दन्तःसीदत्सरसविषयावादसंवादसङ्गात् । आशापाशव्यसननिचयाद्वासनालीनदोषा- नैषां मुक्तिर्भवति तपसा कायसंशोषणेन ॥ ६९ ॥ १. 'विषयासङ्गभङ्गादनत्वात्' ख.

११८ काव्यमाला। इत्युक्तं त्रिपुरारिणा गिरिसुता श्रुत्वा यथार्थ वचो निश्चित्य व्रतमप्रशान्तमनसां मिथ्यैव कायक्षयम् । संसारोपरमाय मोहरजसः शान्त्यै मुनीनां परं रागद्वेषविमुक्तये चै दयया चक्रे हरस्यार्थनाम् ॥ ७० ॥ देव्यार्थितोऽथ भगवान्कृपया स्मरारि- स्तेषामनुग्रहमयेन विलोकनेन । चक्रे मितस्त्रपितदिग्वदनो मुमीनां लीनस्य मोहरजसः सहसैव शान्तिम् ॥ ७१ ॥ तपोविशेषैर्निशितप्रयत्नस्तस्मान्न कार्यः पृथुमोहदर्पः । द्वेषेण रागेण महोदयेन तपः क्षयं याति सह मयेन ॥ ७२ ॥ प्रशान्तोऽन्तस्तृष्णाविषमपरितापः शमजलै- रशेषः संतोषामृतविसरपानेन वपुषः । असङ्गः संभोगः कमलदलकीलालतुलया भवारण्ये पुंसां परहितमुदारं खेलु तपः ॥ ७३ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने तपोविचारः सप्तमः । समाप्तोऽयं ग्रन्थः। श्रीत्रिपाठिशिवरामप्रणीतो रसरत्नहारः। तत्प्रणीतयैव लक्ष्मीविहाराख्यटीकया समेतः । सीताकराब्जमृदुलालितपादपद्मस्तस्या मुखं जलजसुन्दरमीक्षमाणः । रत्यन्वितस्य मदनस्य रुचिं दधानः श्रीमान्रघुप्रभववंशपतिविरेजे ॥ ग्रन्थादौ कृतं मङ्गलं शिष्यशिक्षायै निबध्नाति- निरीक्ष्य विष्णोश्चरणारविन्दनखेषु लक्ष्मीः प्रतिबिम्बमस्मात् । दशावतारादपि मन्यमाना खाधिक्यमास्ताद्विदुषां सुखाय ॥ १॥ १. 'बत तथा' क. २. 'सुदृशैव' ख. ३. 'च विस्मयेन' ख. ४. 'परमिदं' ख. ५. 'सुखतमः' क. ६. पुस्तकद्वयमस्य रसरत्नहारस्यास्माभिः समासादितम्. तत्र प्रथम डॉक्टर् पीट पीटर्सन्महाशयेन मथुरातः समानीतमष्टादशपत्रात्मकं सटीकं प्रायः शुद्धं क-संज्ञकम्. द्वितीयं जयपुर एव नारायणशास्त्रिसंग्रहादधिगतम् , तदपि सटीकं नातिशुद्धं विशतिपत्रात्मकं ख-संज्ञकं ज्ञेयम्.

रसरत्नहारः। ११९ .. विष्णोश्चरणारविन्दनखेषु खीयं प्रतिबिम्ब निरीक्ष्य दशावतारादप्यस्माद्विष्णोःखाधिक्यं मन्यमाना लक्ष्मीर्विदुषां सुखाय आ साकल्यन स्ताद्भवतु । विष्णोः पादसेवनं कुर्वाणा लक्ष्मीः पादनखेषु दशसु खीयं प्रतिबिम्बमीक्षमाणा । एकादशमात्मानं ज्ञासा विष्णोराधिक्यं मन्यमानेति भावः । स्त्रीखभावादियत्येव धीः समुत्पन्ना न साम्यपर्यन्तम् । यद्वा भगवता तिर्यगादिषु योनिषु जन्म विडम्बयता दशावतारता संपादिता । मया तु वक्षस्थलस्थितयैव स्वरूपादप्रच्युतया चेति खाधिक्यं मन्यमानेति भावः ॥ उदथ्यते सर्वविचक्षणानां प्रीत्यै मयायं रसरत्नहारः । गुणैरुपेतोऽखिललब्धवर्णकण्ठस्थितः स्याद्विदितो दिगन्ते ॥ २ ॥ सर्वविचक्षणानां प्रीत्यै मयायं रसरत्नहार उद्थ्यते । गुणैरुपेतः । अखिललब्धवर्णक- ण्ठस्थितो दिगन्ते विदितः स्यात् । आशीरलंकारः । 'आशीर्नामाभिलषिते वस्तुन्याशं- सनं यथा' इति दण्डी ॥ स्यात्स्थायिभावोऽत्र रसो विभावैस्तथानुभावैर्व्यभिचारिभिश्च । आरोप्यमाणः क्रमशः प्रकर्ष यथोचितैः सात्त्विकसंयुतैश्च ॥ ३ ॥ स्थायी चासौ भावश्च स्थायिभावः । 'भावो विकारश्चित्ते स्यान्निर्विकल्पे य आदिमः' इति । अमरसिंहोऽपि 'विकारो मानसो भावः' इति । विभावैरनुभावैर्व्यभिचारिभिर्यथा. योग्यैः सात्त्विकैश्च संयुतैः क्रमशः प्रकर्षमारोप्यमाणो रसः स्यात् । तथा च भरतसूत्रम्- 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति । 'विभावैरनुभावैश्व सात्त्विकळभि- चारिभिः । आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः॥' इति । वक्ष्यमाणखभा- वैर्विभावानुभावव्यभिचारिसात्त्विकैः काव्योपात्तैरभिनयोपदर्शितैर्वा श्रोतृप्रेक्षकाणामन्त- विपरिवर्तमानो रत्यादिर्वक्ष्यमाणलक्षणः स्थायी खादगोचरतां नीयमानो रसः । तेन रसिकाः सामाजिकाः । काव्यं तु तथाविधानन्दसंविदुन्मीलनहेतुभावेन रसवत् । 'आयु- घृतम्' इत्यादि व्यपदेशवत् । स्थायिलक्षणं दशरूपके-'विरुद्धैरविरुवा भावैर्विच्छिद्यते न यः। आत्मभावं नयत्यन्यान्स स्थायी लवणाकरः॥ इति । यदुक्तम्-'विरुद्धा अविरुद्धा वा यं तिरोधातुमक्षमाः । आनन्दाकुरकन्दोऽसौ भावः स्थायिपदास्पदम् ॥ इति ॥ तटस्थ उद्दीपयते रसं य उद्दीपनाख्यः स भवेद्विभावः । रसस्य कार्य ह्यनुभावसंज्ञं ज्ञेयाः सहाया व्यभिचारिणोऽत्र ॥ ४ ॥ 'अनुभावो विकारस्तु भावसंसूचनात्मकः ।' स्थायिभावाननुभावयन्तः सामाजिका- न्धूक्षेपकटाक्षादयो रसपोषकारिणोऽनुभावा व्यभिचारिणः । विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः । स्थायिन्युन्मन्ननिर्मग्नाः कल्लोला इव वारिधौ ॥' यथा वारिधी सत्येव कल्लोला उद्भवन्ति विलीयन्ते च तद्वदेव रत्यादौ स्थायिनि सत्येवाविर्भावतिरोभा- १. 'उद्दीपनाख्योऽथ' क.

१२० काव्यमाला। वाभ्यामाभिमुख्येन चरन्तो वर्तमाना निर्वेदादयो व्यभिचारिणो भावाः ॥” इति दशरूपके ॥ शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः। रौद्रबीभत्सशान्ताख्याः काव्ये नव रसाः स्मृताः ॥ ५ ॥ ननु नव रसा इत्यनुपपन्नम् । शृङ्गारस्य लोके आखाद्यतायाः सर्वानुभवसिद्धत्वा- काव्ये गुणालंकारयोगेनाधिकारवादगोचरतया रसत्वं युक्तम् , नेतरेषामिति केषांचित्सि- द्धान्त एव । तद्भिन्नमतेनेयं संख्योक्तिः । नन्वेवमपि नवरसा इत्यनुपपन्नम् । भक्तिवा- त्सल्यश्रद्धाख्यस्त्रिभिः सह द्वादशसंख्यात्वात् । तत्र भक्तिर्भगवति प्रसिद्धा । श्रद्धाप्या- स्तिक्यनिश्चयात्मिका वेदशास्त्रार्थविषया शिष्टानां प्रसिद्धैव । वात्सल्यं पुत्रादौ स्नेहाभि- धानमिति चेत्, न । भक्तिवात्सल्ययोर्भावान्तर्भावात् , श्रद्धायाश्च सुखात्मकत्वाच्चमत्का- रानुत्पादान्तरसत्त्वमिति नवसंख्योक्तिर्न विरुद्धा । दशरूपके–'प्रीतिभक्त्यादयो भावा मृगयाक्षादयो रसाः । हर्षोत्साहादिषु स्पष्टमन्तर्भावान कीर्तिताः ॥ इति । नन्वेवमपि नवरसत्वं विरुद्धम् । नास्त्येव शान्तो रसः । आचार्येण विभावाद्यप्रतिपादनात् । अन्ये तु अनादिकालप्रवाहायातरागद्वेषयोरुच्छेदस्याशक्यत्वात् (अन्य तु) वीरबीभत्सादावन्त- र्भावं वर्णयन्ति । अमरसिंहोऽपि-'शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । बीभत्सरौद्रौ च रसाः' इति चेत्, सत्यम् । मतान्तररीत्या नवसंख्येति बोध्यम् । 'निर्वेदस्थायि- भावोऽस्ति शान्तोऽपि नवमो रसः।' इति काव्यप्रकाशे । 'सम्यग्ज्ञानसमुत्थानः शान्तो निःस्पृहनायकः।' इति वाग्भटालंकारे ॥ स्त्रीपुंसयोमिथो रागवृद्धिः शृङ्गार उच्यते । संभोगो विप्रलम्भश्चेत्येष स्याद्विविधो द्वयोः ॥ ६ ॥ उक्तं च-'अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स संभोगो मुदान्वितौ ॥ भावो यदा रतिर्नाम प्रकर्षमधिगच्छति । नाधिगच्छति चाभीष्टं विप्रल- म्भस्तदोच्यते ॥ मनोनुकूलेष्वर्थेषु सुखसंवेदनं रतिः।' इति रसलक्षणम् ॥ संयुक्तयोः स्यात्संभोगो विप्रलम्भो वियुक्तयोः । प्रच्छन्नश्च प्रकाशश्च पुनरेष द्विधा मतः ॥ ७ ॥ [स्पष्टम् ॥]] खीये नायिकादिवर्णनप्रकरणे रसमञ्जरीव्यवहारो भानुना कृतश्चिन्त्य एव । नहि केवलमालम्बनेन रसव्यवहारः । 'विभावानुभाव-' इत्यादिभरतसूत्रविरोधात् । 'आल- म्बनविभावत्वेन तावन्नायिका निरूप्यन्ते' इति सोऽपि चिन्त्य एव । आलम्बनविभावस्य नायिकानायकयोस्तुल्यखात् । किं च, 'पूर्व रक्का भवेन्नारी पुमान्पश्चात्तदिङ्गितैः' इति नियमादादौ नायक(नायिका)वर्णनमुचितम् । स्वकृतौ लिमं दोषं परिहरनाह- - १. 'स्मृतः' ख.

रसरत्नहारः। १२.१ स्त्रीपुंसाविति निर्देशान्नायिका वर्ण्यते पुरा । खीया च परकीया च सामान्येति त्रिधा स्त्रियः ॥ ८॥ खकीयात्रोत्तमाचारा पतिमात्रानुरागिणी । मुग्धा मध्या प्रगल्भेति त्रिधाङ्कुरितयौवना ॥ ९ ॥ उदाहरणम्-'अन्तरास्यं हास्यमक्ष्णोः सतीनां प्रपदे गतिः । प्रीत्यङ्कुशेन स्वप्नेऽपि रोषवारणवारणम् ॥' यत्तु रसमञ्जर्याम्-'गतागतकुतूहलं-' इत्याद्युदाहरणं तत्रापाङ्गप्रे- क्षणस्य परकीयाया अपि धर्मखाच्चिन्त्यम् ॥ ताखाद्या सा द्विधाज्ञातयौवना ज्ञातयौवना । नवोढा सैव सुरतप्रतिरोधकलज्जया ॥ १० ॥ स्याद्विश्रब्धनवोढा च मनाङ्मन्दाक्षमान्यतः । आद्या मुग्धा। 'मुग्धा नववयःकामा रतौ वामामृदुः क्रुधि' इति दशरूपके । सा द्विधा- अज्ञातयौवना ज्ञातयौवना च । आद्योदाहरणम्-'दिने दिने दर्पणमीक्षमाणा कान्ति मुखेन्दोरुपचीयमानाम् । निरीक्ष्य नेत्राम्बुजयोर्विकासं पप्रच्छ बाला मुकुरेऽभवत्किम् ॥' 'नीरात्तीरमुपागता' इत्यत्र नेत्रस्य स्वतो दर्शनमसंभवि । तथा च सुबन्धुः-'गुणिना- मपि निजरूपप्रतिपत्तिः परत एव संभवति । स्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते यस्मात् ॥' अतस्तदुदाहरणं चिन्त्यम् । ज्ञातयौवना यथा-'बभूव किंखित्तव नो वयस्ये नवे वयस्येवमिति प्रलप्य । नताननेन्दुः क्षणमाजहार दिशः श्रियं पाशधरस्य मुग्धा ॥' यत्तु रसमञ्जर्याम्-'अम्भोजलोचन-' इत्यत्र ज्ञातयौवनवज्ञानार्थमर्थान्तरं कल्पयन्ति सा कुकल्पनैव । नवोढा यथा-'पत्या सनाथममलं भवनं निरीक्ष्य बाला शशाक सहसा त्रपया न यातुम् । यातापि नाप शयने शरदभ्रशुभ्रे विद्युल्लतेव कनकाभतनुः स्थिरत्वम् ॥' हीकामसाम्ये मध्या स्या?ये सागसि नायके ॥ ११ ॥ वक्रोक्तिस्तद्वैपरीत्ये भवेत्परुषवाग्रुषा । 'मध्योद्यद्यौवनानङ्गा मोहान्तसुरतक्षमा' इति दशरूपके । 'संप्राप्ततारुण्यकामा' इति च दशरूपके ॥ प्रौढा ह्यधिककंदर्पा पत्यावखिलकेलिकृत् ॥ १२ ॥ रतिप्रीतियथा-वक्रेण वक्रमरविन्दविशालनेत्रा संयोज्य कापि हृदयं हृदयेन शेते। कण्ठं भुजेन दयितस्य तदूरुयुग्ममूरुद्वयेन वचनं वचनैः सहासम् ॥' यत्तु रसमञ्जर्याम्- 'श्रवणयोनीलोत्पलं निहुते' इति, तच्चिन्त्यम् । भन्नकमलकुमुदयोर्विकासादर्शनात् । 'यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके । विलीयमानेवानन्दाद्रतारम्मेऽप्यचेतना ॥' १. 'मृषा' क.

१२२ काव्यमाला। रतारम्मेऽचेतना यथा-'धन्यासि या कथयसि प्रियसंगमेऽपि, विश्रब्धचाटुकशतानि रतान्तरेषु। नीवी प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि ॥' एषा ज्येष्ठा कनिष्ठेति द्वेधा स्नेहैकभाजनम् । भर्तुर्या सा भवेज्येष्ठा कनिष्ठा तु ततोऽवरा ॥ १३ ॥ ज्येष्ठाकनिष्ठे यथा-'दृष्ट्वैकासनसंगते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । ईषद्वक्रितकंधरः सपुलकः प्रेमोल्लसत्साध्वसा(मानसा)मन्त- हासलसत्कपोलफलको धूर्तोऽपरां चुम्बति ॥' यत्तु रसमञ्जर्याम्-'धैर्य-' इत्युदाहरणं तदसंभवि । मुग्धायास्तदसंभवात् । 'कोपे मार्दवम्' इति मुग्धाचेष्टोक्तेः । 'पुष्पस्याव- चयाय नम्रवदनाम्' इत्यत्र स्पष्टमेव मुग्धालप्रतीतेः ॥ धीराधीरा तथा धीराधीरेति त्रिविधे स्त्रियौ । मध्याप्रगल्भिके मानावस्थायामुदिते बुधैः ॥ १४ ॥ धीराधीरे क्रमाद्ययाव्यङ्ग्यकोपप्रकाशिके । धीराधीरा क्रमाययाव्यङ्ग्यकोपप्रकाशिका ॥ १५ ॥ प्रियं सोत्पासवक्रोक्त्या मध्याधीरा दहेद्रुषा । अधीरा परुषोक्त्याथ धीराधीरा तु रोदनैः ॥ १६ ॥ प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा । उदास्ते सुरते तत्र दर्शयन्त्यादरान्बहिः ॥ १७ ॥ धीराधीराथ सोल्लुण्ठभाषितैः खेदयेद्धवम् । तर्जयेत्ताडयदन्येत्युक्तं साहित्यदर्पणे ॥ १८ ॥ धीरादिभेदाः खीयाया इति प्राचीनलेखनम् । नव्यैस्तु परकीयाया अपि ते स्युरितीरितम् ॥ १९ ॥ 'धीरा सोत्प्रासवक्रोक्त्या मध्या साश्रु कृतागसम् । खेदयेद्दयितं कोपादधीरा परुषा- क्षरम् ॥' यथा-'हीविषाणभरभुग्नशिरा मां हन्तुमेति कमितृषभ एषः । सख्यनाथ इति बन्धनमाशु प्रापणीय इतरज्ज्वलगोष्ठे ॥' प्रौढायाश्चेष्टा यथा-'सावहित्थादरो- दास्ते रतौ धीरेतरा क्रुधा । संतय॑ ताडयेत्कान्तं मध्याधीरेव तां वदेत् ॥' तर्जनता- डनोदाहरणं यथा-'कोपात्कोमललोलबाहुलतिकापाशेन बवा दृढं नीला चात्मनिके- तनं दयितया सायं सखीनां पुरः । भूयोऽप्येवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निहुतिपरः प्रेयान्रुदत्या हसन् ॥' यत्तु रसमजर्याम्-'प्रतिफल- इति तदसंगतम् । देव विषये तथावर्णनस्यायोग्यत्वात् ॥ १. 'कमितृ+ऋषभ' इति संधिः. कामुकश्रेष्ठ इत्यर्थः.

रसरत्नहारः। १२३ खानूढा खानुरक्ता स्त्री परकीया निगद्यते । उत्तमाधमभेदाभ्यां द्विविधा द्विविधा मता ॥ २० ॥ अलक्षितानुरागैषा खीयाकल्पोत्तमा भवेत् । तद्भिन्ना त्वधमा ज्ञेया विदग्धाद्यास्तु तद्भिदाः ॥ २१ ॥ खशब्देन वर्ण्यः । यत्तु रसमचर्याम् । 'अप्रकट-' इति लक्षणं तत्र कन्यकायाः पत्युरभावात्परपुरुषानुरागस्यासंभवः । यदि भाविनं पतिमादाय परलं तर्हि तथैव परो. ढाखमेवास्तु किं भेदद्वयवर्णनेन । यदि पित्राधीनतया परकीयात्वमिति, तदपि न । लक्षणवाक्ये तस्यानुपयोगात् । अथ संज्ञायाः परस्येयं परकीयेत्यत्रोपयोग इति चेत्तर्हि 'अप्रकट-' इत्याद्यनुपयुक्तम् । तद्भिदा इति 'षिद्भिदादिभ्योऽङ्' ।। परोढाकन्यकाभेदाद्विविधैषा पराङ्गना । चेष्टैवास्या न प्रसिद्धोऽनुरागः कविभिः स्तुतः ॥ २२ ॥ परकीया यथा-'मूर्ति मुरारेः शिल्पस्य सीमानं निजनिर्मिताम् । अनन्यजवशाडूती प्रियां प्रादर्शयन्सात् ॥' अप्रकटानुरागा यथा-'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं नीरन्ध्राः पुन(तनु)रालिखन्तु जरठच्छेदा नलग्रन्थयः ॥' कन्यकोदाहरणं तु शाकुन्तलमालतीमाधवयोः स्पष्टम् ॥ विदग्धा मुदिता चैषानुशयानाथ लक्षिता । गुप्ता च कुलटा चेति षट्प्रकारोदिता बुधैः ॥ २३ ॥ विदग्धा वाकियाहेतुवैदग्ध्याभ्यां द्विधेष्यते । भाविवाभीष्टबोधेन प्रहृष्टा मुदितोच्यते ॥ २४ ॥ क्रियाविदग्धा यथा-'श्वश्रूनिरुद्धोर्ध्वगतिर्विदग्धा मिषेण विक्षालितकेशहस्ता । स्तनावधि स्वच्छनिबद्धवस्त्रा गौरी जगामोर्ध्वमपश्यदिष्टम् ॥' नाशात्संकेतस्थलस्य भाविनोऽभावशङ्कया । खहीनप्रिययातस्य बोधाच्चानुशयस्त्रिधा ॥ २५ ॥ खद्दीनप्रिययातस्येति 'गत्यर्थाकर्मक-' इति भावे कः । प्रियस्य यातं गमनं तस्य बोधात् । यथा-'सा वार्षिकोत्सवदिने सरसीरुहाक्षी मात्रा प्रसाधनमिषेण गृहे निरुद्धा । नद्याः समागतमवेक्ष्य गृहीतपद्मं कान्तं मुखं द्रुतमधत्त दिनेन्दुतुल्यम् ॥' यत्तु रसमजर्याम्-'कर्णकल्पित-' इति, तच्चिन्त्यम् । 'निष्पतनयनवारिधारया' इत्यनेन चेष्टायाः स्पष्टत्वात्परकीयालासंभवः । न च सति खीयात्वे का क्षतिः । गुप्तादीनां पर- कीयायामेवान्तर्भावोतः। १. 'चानुशया त्रिधा' क.

१२४ काव्यमाला । लक्षिता सा तु विज्ञेया या जनैख़तरागिका । या गोपायति सा गुप्ता भूतं भावि भवद्रतम् ॥ २६ ॥ (गुप्ता यथा) भूतसुरतगोपना यथा-'गृह्णन्त्या निष्कुटे श्रीफलदलमसकृदृक्षमूले भ्रमन्त्या पूजायै शंकरस्य श्रमजलमखिले वर्मणि स्तम्भ ऊर्वोः । स्तुत्या किंचिद्विलम्बः क्षतमजनि कुचे, कण्टकेनैव तस्य तत्पूजास्रग्धराहं हतसकलजनैरन्यथैव व्यतर्कि ॥' वर्तमानसुरतगोपना यथा-'आराममाब्दिकदिनोचितदेवपूजाहेतोर्विचित्रकुसुमानयनाय यान्त्या । अत्रान्तरे महति मेऽनवधानभाजो भ्रष्टाङ्गदं मृगयते सखि साधुरेषः ॥' अपि च-'धृतराष्ट्रः कथं भीमं बभजायसमित्यसौ । मया पृष्टो दर्शयति साधुः सर्वपुराणवित् ॥' भाविसुरतगोपना यथा-निन्दन्तु पापमतयः सखि मानवा मां जानातु किंचिदपि चेतसि वल्लभश्च । गात्रं गतिश्रमभरालसमेतदस्तु यास्यामि किं न बैत दैवतपूजनाय ॥' यत्तु रस- मञ्जर्याम्-'त्रितयमपि-' इत्यादि तत्तत्र श्लोके वृत्तवर्तिष्यमाणयोरेवं प्रतीतेश्चिन्त्यम् ॥ कुलटा बहुपुंरागा वेश्यादेश्या प्रकाशतः । लोभेन सर्वपुंरागा सामान्या कथिता बुधैः ॥ २७ ॥ कुलटा यथा-'कांश्चिद्वचो वदति पश्यति काश्चनेयं कांश्चिच दर्शयति संवृतमात्म- नोऽङ्गम् । कांश्चि(कंचि)द्रतेन च सुखं नयतेऽद्वितीयं नैकत्र हि प्रणयिता कुलटाज- नस्य ॥' लोभेनेति । यथा-'आ दर्शनादर्थहरां वेश्यामर्थविशेषकैः । महाजननां स्तु- वतां साहस को न वर्णयेत् ॥' साधारणस्त्री गणिका कलाप्रगल्भा धौर्त्ययुक् । 'छन्नका- मसुखार्थाज्ञस्वतन्त्रायुपण्डकान् । रकेव रजयेदेतानिःखान्मात्रा विमोचयेत् ॥' छन्नं कामयन्ते छन्नकामाः श्रोत्रियवर्णिलिशिप्रभृतयः । सुखार्थोऽप्रयासावाप्तधनः सुखप्रयो- जनो वा अज्ञो मूर्खः। खतन्त्रो निरङ्कुशः । अहंयुरहंकृतः । पण्डको वातपण्डादिः । एतान्बहुवित्तान्रक्तेव रञ्जयेदर्थार्थम् । तत्प्रधानखात्तद्वृत्तेः । गृहीतार्थान्कुट्टन्या निष्कासयेत् ॥ गर्विता चान्यसंभोगदुःखिता मानिनीस्त्रियः । गर्विता द्विविधा हेत्वोः प्रेमसौन्दर्ययोभिदा ॥ २८ ॥ तत्राद्या यथा-'रात्रौ प्रियावियोगस्य धन्यः कोकोऽस्ति सासहिः । मामपश्यन्क्षण- मपि प्रियो यदुर्मनायते ॥' यत्तु रसमञ्जर्याम्-‘एताः षोडशापि-' इति, तयाख्यानं व्यङ्ग्यार्थकौमुद्याम्-'मध्याप्रगल्भयो/रादिषड्भेदानां ज्येष्ठाकनिष्ठाभ्यां द्वादश भेदाः । मुग्धा एकैव । एवं त्रयोदश । द्विधा परकीया । एका सामान्या । एवं षोडश ।' इति, तचिन्त्यम् । भानूक्तज्येष्ठाकनिष्ठालक्षणस्य मुग्धायामपि सत्त्वात् । तस्या द्विविधलाच ॥ मानः कोपः स तु द्वेधा प्रणयेोत्थभेदतः । द्वयोः प्रणयमानः स्यात्कोपो यः कारणं विना ॥ २९॥ १. 'निज' ख.

रसरत्नहारः। १२५ यत्तु रसमजर्याम्-'प्रियापराधसूचिका चेष्टा मानः।' इति, ता । 'वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् । मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य ॥' इत्यत्र दोषात् । नहि तत्र सीताया मानः । चेष्टा तु न केवलं शरीरव्यापारः किं तूतिरपि । 'मानोऽन्यवनितासङ्गादाविकृतिरुच्यते' इति वाग्भ- टालंकारे ॥ पत्युरन्यप्रियासने दृष्टेऽप्यनुमिते श्रुते । ईर्ष्या मानो भवेत्स्त्रीणां तत्र त्वनुमितिस्त्रिधा ॥ ३० ॥ त(उ)त्स्वप्नायितभोगाङ्कगोत्रस्वलनतो भवेत् । साम भेदोऽथ दानं च नत्युपेक्षे रसान्तरम् ॥ ३१ ॥ तद्भङ्गाय पतिः कुर्यात्षडुपायानिमान्क्रमात् । तत्र प्रियवचः साम भेदः सख्युपरञ्जनम् ॥ ३२ ॥ दानं व्याजेन भूषादेः पादयोः पतनं नतिः । सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम् ॥ ३३ ॥ रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् । इति मानविचारस्तु कृतः साहित्यदर्पणे ॥ ३४ ॥ मानो लघुर्मध्यमश्च गुरुश्चेति त्रिधा भवेत् । असाध्यस्तु रसाभास इति भानुकृतौ स्थितम् ॥ ३५॥ अपरस्त्रीदर्शनोत्थो गोत्रस्खलनजस्तथा । अन्यस्त्रीसङ्गजनितः क्रमेण त्रिविधो भवेत् ॥ ३६ ॥ रसान्तरं यथा-'समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः । त्रस. तुषाराद्रिसुताससंभ्रमखयंग्रहा श्लेषसुखेन निष्क्रयम् ॥' विशेषा नायिकानां स्युः स्वाधीनपतिकादयः । अन्यत्र पौर्वापर्योक्तौ हेतुरूह्यो मनीषिभिः ॥ ३७ ।। स्वाधीनपतिकादय इति, 'आसन्नायत्तरमणा हृष्टा स्वाधीनभर्तृका । मुदा वासकसजा खं मण्डयत्येष्यति प्रिये ॥ चिरयत्यव्यलीके तु विरहोत्कण्ठिता मता । उक्लेति शेषः । ज्ञातेऽन्यासजविकृते खण्डितेासमाकुला ॥ कलहान्तरितामर्षाद्विधूतानुनयार्तियुक् । विप्रलब्धोक्तसमयमप्राप्तेऽतिविमानिता ॥ दूरदेशान्तरस्थे तु कार्यतः प्रोषितप्रिया । कामार्ताभिसरेत्कान्तं सारयेद्वाभिसारिका ॥' इति दशरूपके ॥

१२६ काव्यमाला। खाधीनः स्यात्पतिर्यस्याः खाधीनपतिका हि सा । सुरतोचितवारज्ञा सुरतस्योपयोगिनीम् ॥ ३८ ॥ संपादयति सामग्री या सा वासकसज्जिका । सोका ध्यायति या भर्तुरनागमनकारणम् ॥ ३९ ॥ रतार्थिनी तु संकेतं याति या साभिसारिका । विप्रलब्धा प्रियं तत्रादृष्ट्वा संतापसंकुला ॥ ४० ॥ खण्डिता रतिचिहान्यो यस्या आयाति नायकः । कलहान्तरिता तप्ता यावमत्य प्रियं भवेत् ॥ ११ ॥ प्रवासिनि प्रिये तप्ता ज्ञेया प्रोषितभर्तृका । प्रवत्स्यति प्रिये तप्ता प्रवत्स्यत्पतिकेष्यते ॥ ४२ ॥ कुर्वतोऽप्यहितं भर्तुर्हितकृद्योत्तमा हि सा । हिताहितं या चरति प्रियवन्मध्यमा च सा ।। ४३ ।। कुर्वत्यपि हितं पत्यावहितं कुरुतेऽधमा । इति तास्त्रिविधा ज्ञेयाः खभावप्रभवैर्गुणैः ॥ १४ ॥ स्वाधीनपतिका यथा-'क विधेयो मया मानः स विधेयोऽस्ति मे यतः । सविधे वर्तते मे यः स विधेर्मय्यनुग्रहः ॥' वासकसज्जा यथा-'अनल्पं तल्पमाकल्प्य चेटिका वीटिकां स्रजम् । निवेश्य तस्य सविधे विधेयमभिकाडति ॥' उत्का यथा-'कार्यान्त- रासक्ततया किमद्य नार्यन्तरासक्ततयाथवा माम् । न जीवितेशः स्मरतीति मला न जीवि- तेशः स्मरतीति मन्ये ॥' अभिसारिका यथा-'बिभ्राणा नाङ्गनाङ्गेषु भूषणं चन्दनं स्रजम् । अनङ्गाभिसरा रात्री दिवेवायाति कानने ॥' ज्योत्स्नाभिसारिका यथा-'ओष्ठ- हस्तपदारुण्यादाज्ञाय शयने प्रियाम् । चन्द्रिकायां निर्ववार मुक्ताकृतविभूषणाम् ॥' विप्र- लब्धा यथा-'पापीयसा प्रेयसाद्य विप्रलब्धा न केवलम् । लपता लाभमित्याह गणिका गणकेन च ॥' खण्डिता यथा-'अधरे रदनक्षतं कपोले प्रिय पत्रावलिमणि रक्तिमा- नम् । अपनेतुमसि प्रभुर्न सद्यः परिवर्त्यांशुकमागतो न किं स्याः ॥' कलहान्तरिता यथा-'याते सरोषे दयिते तु मात तः परं कश्चन दुःखहेतुः । स्थिरं न चेतो नयने न शुष्क श्वासो न शीतोऽस्त्यधरो न चाः ॥' प्रोषितभर्तृका यथा-'कुसुमानि न केशेषु चन्दनं न कलेवरे । वरे विदेशे तन्वद्या व्यङ्ग्यहीनं सुभाषितम् ॥' प्रवत्स्यत्पतिका यथा-'अष्टिं प्रकुर्वाणां बाणासनकरो नरः । वर्षां प्रवेक्ष्य (1) न ययावतिरम्यप- योधराम् ॥'

रसरतहारः। १२५ विश्वासपात्रं विश्रामकारिणी पार्श्वचारिणी । सखी तस्याः कर्मशिक्षाभूषोपालम्भपूर्वकम् ॥ ४५ ॥ परिहासश्च दंपत्योमिथः सख्या कृतस्तथा । दूतव्यापारनिपुणा दूती संयोगकारिणी ॥ १६ ॥ विरहादेापिका च 'दूती दासी सखी कारर्धात्रेयी प्रातिवेशिका । लिङ्गिनी शिल्पिनी खं च नेतृमित्रगु- णान्विताः ॥' दासी परिचारिका । सखी स्नेहनिबद्धा । कारू रजकीप्रभृतिः । धात्रेयी धात्रीपुत्री । प्रातिवेशिका समीपगृहवर्तिनी । लिङ्गिनी भिक्षुक्यादिः । शिल्पिनी चित्र- कारादित्री। स्वयं चेति दूतीविशेषाः । नायकमित्राणां पीठमर्दादीनां निसृष्टार्थखादिना गुणेन युक्तः। तथा च मालतीमाधवे कामन्दकी प्रति-शास्त्रे च निष्ठा सहजश्व बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी । कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु ॥' तत्र सखी यथा-'मृगशिशुदृशस्तस्यास्तापं कथं कथयामि ते दहनपतिता दृष्टा मूर्तिर्मया नहि वैधवी । इति तु विदितं नारीरूपः स लोकदृशां सुधा तव शठतया शिल्पोत्कर्षो विधेर्विघटिष्यते ॥ यथा च–'उपेक्षिता सा भवता नताशी न तां समु- द्दिश्य वदामि किंचित् । रागं तदीयं तव निर्दयवं स्तोष्यन्ति लोका इति मे विषादः ॥' 'सच्चं जाणइ दर्ड्स सरिसम्मि जणम्मि जुजए आरो । मरउ न तुमं भणिस्सं मरणंपि सलाहणिज्ज से ॥' खयंदूती यथा-'प्रामोऽतिदूरे रविरस्तमेति प्रयासि चेद्याहि चिराय किं स्यात् । एकाकिनी खां कथमुत्सृजेयमेवं मतिश्चेन्मदनः सहायः ॥' दशरूपके सखी- कृतो नायिकापारेहासो यथा-'नखक्षतं वीक्ष्य पयोधरान्ते सख्यैवमुक्ता स्मयते स्म बाला । अघित्यकायां समुदेति चन्द्रो नोपत्यकायां किमिदं वधूटि ॥' पूर्वोत्तमेदाति- रिक्तो गुरुजनभीतामेदः । स यथा-'आयाति याति महारि सखि वारिजलोचनः । एनं वद पराधीने दीने को वा तवाग्रहः ॥' भुजंगभीतामेदोऽपि यथा-'आरामे भ्रमतः कीशात्पुंसा रक्ष्याबला बलात् । इति श्रुखा द्रुतं यातो हीनवक्रप्रभः प्रभुः ॥' वर्ण्यन्ते नायका अतः । पतिश्योपपतिश्चैव वैशिकश्च क्रमात्रयः ॥ ४७ ।। वोढा पतिः स्मृतो रक्तो नित्यं वेश्यासु वैशिकः । अन्यो वोदुश्चोपपतेर्यः स्त्रीणामाश्रयो रतेः ॥ १८ ॥ रक्तानुरक्तोऽनुकूलः समः सर्वासु दक्षिणः । धृष्टः स्पष्टापराधोऽपि प्रिययापि निराकृतः ॥ १९ ॥ १२५० गु० - १२८ काव्यमाला। पटुः। निर्लज्जोऽस्यां समासक्तः शठः स्त्रीकपटे यथासंभवमेतेषां भेदा ज्ञेया मनीषिभिः ॥ ५० ॥ मानी च चतुरश्चोभौ शठभेदौ प्रकीर्तितौ । 'नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचिर्वाग्ग्मी रूढवंशः स्थिरो युवा ॥ बुद्धयुत्साहस्मृतिप्रज्ञाकलाज्ञानसमन्वितः । शूरो दृढश्च तेजखी शास्त्रचक्षुश्च धार्मिकः ॥' नेता नायकः । मधुरः प्रियदर्शनः । त्यागी सर्वखदायकः । दक्षः क्षिप्र- कारी । स्थिरो वाट्यनःक्रियाभिरचञ्चलः । बुद्धिानम् । प्रज्ञा गृहीतविशेषकारिणी । 'मेदैश्चतुर्धा ललितशान्तोदात्तोद्धतैरयम् । निश्चिन्तो धीरललितः कलासक्तः सुखी मृदुः ॥' मृदुः सुकुमारसत्त्वाचारः । 'सामान्यगुणयुक्तश्च धीरशान्तो द्विजादिकः ।' सामान्यगुणा विनयादयः। द्विजादिक इति विप्रवणिक्सचिवाधुपलक्षणम् । 'महास- त्त्वोऽतिगम्भीरः क्षमावान विकत्थनः । स्थिरो निगूढाहंकारी धीरोदात्तो दृढव्रतः ॥' महासत्त्वः क्रोधाद्यनभिभूतः । अविकत्थनोऽनात्मश्लाघनः । दृढव्रतोऽजीकृतनिर्वाहकः । 'दर्पमात्सर्यभूयिष्ठो मायाछद्मपरायणः । धीरोद्धतस्वहंकारी चलश्चण्डो विकत्थनः ॥' 'स दक्षिणः शठो धृष्टा पूर्वी प्रत्यन्यया हृतः।' पूर्वी नायिका प्रत्यन्यया नायिकयापहृत- चित्तः । 'दक्षिणोऽस्यां सहृदयः' अस्यां ज्येष्ठायां हृदयेन सह व्यवहरति । 'गूढविधि- यकृच्छठः । व्यक्ताङ्गवैकृतो धृष्टोऽनुकूलस्वेकनायिकः ॥' इति दशरूपके ॥ वाक्चेष्टाव्यङ्गयसंयोगनिपुणश्चतुरो मतः ॥ ५१ ॥ तेषां च नर्मसचिवः पीठमों विटस्तथा । चेटो विदूषक इति चतुर्धा भानुनोदितः ॥ ५२ ॥ पीठमर्दः प्रकुपितस्त्रीप्रसादक उच्यते । विटः कामकलाभिज्ञश्चेटः संधानदक्षिणः ॥ ५३ ।। अङ्गवाग्वेषवैकृत्यहास्यकारी विदूषकः । तेषां नायकानां नर्मसचिवः क्रीडासहायः। 'मन्त्री सहायः सचिवः' इत्यमरः कानायकस्त्वन्यः पीठमर्दो विचक्षणः ।' प्रागुक्तप्रासङ्गिकेतिवृत्तविशेषः पताका । तन्ना- यकः पीठमदः प्रधानेतिवृत्तनायकस्य सहायः । (यथा) रामायणे सुप्रीवः । मालतीमा- धवे मकरन्दः । 'एकविद्यो विटश्चान्यो हास्यकृच्च विदूषकः ।' गीतादिविद्यानां नायको- 'पयोगिनीनामेकस्या विद्याया वेदिता विटः । इति दशरूपके । पीठमर्दो यथा-'अध. रयोः करयोः सखि पादयोररुणता विधिना रचितोचिता । समुचिता न च भामिनि सा दृशोरविधिकर्म न यच्छति सत्फलम् ॥' चेटो यथा-'मनो मनोभवस्वस्य मुदत्य- चितुदत्यहो । मा नोऽमानोऽस्ति ते याच्मामुररीकुरुते न कः ।' विदूषको यथा- रसरबहारः। १२९ .- 'न नमनं मनसस्तव तोषकृन्मम मनोऽपहृतं च न यच्छसि । इति निगद्य चुकूर्द विदूषकः प्रमदया कृतवि(सु)स्मितया हतः॥' आद्यानुरागमानात्मप्रवातकरुणात्मकः ।। ५४ ॥ चतुर्घा विप्रलम्भः स्यात्पूर्वपूर्वो ह्ययं गुरुः । नवावलोकादंपत्योः कामवर्धितरागयोः ॥ ५५ ॥ पूर्वानुरागो विज्ञेयो ह्यपूर्णस्पृहयोर्दशा । मानप्रवासावुदितौ पञ्चत्वे करुणस्तयोः ॥ ५६ ॥ एकस्य तत्र वृत्तस्य वर्णनं क्रियते बुधैः । [स्पष्टम् ॥] अथ स्त्रीणामलंकारा वर्ण्यन्ते शास्त्रदर्शिताः ॥ ५७ ॥ यौवने सत्त्वजास्तासामष्टाविंशतिरीरिताः । अलंकारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः ॥ ५८ ॥ शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता । औदार्य धैर्यमित्येते सप्तैव स्युरयत्नजाः ॥ ५९ ।। लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम् । मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥ ६०॥ विहृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् । हसितं चकितं केलिरित्यष्टादशसंख्यकाः ।। ६१ ।। खभावजाः स्युर्भावाद्या दश पुंसां भवन्त्यमी । 'यौवने सत्त्वजाः स्त्रीणामलंकाराश्च विंशतिः।' सत्त्वोद्भूता विंशतिरलंकाराः स्त्रीणां भवन्ति । तत्र भावहावहेलास्त्रयोऽरजाः । शोभा कान्तिप्तिर्माधुर्य प्रागल्भ्यमौदार्य धैर्यमित्ययनजाः सप्त । लीला विलासो विच्छित्तिविभ्रमः किलकिश्चितं मोडायितं कुमितं विव्वोको ललितं विहृतमिति स्वाभाविका दश । [इति दशरूपके] ॥ भाव:- भावो विकारश्चित्ते स्यान्निर्विकल्पे य आदिमः ॥ १२ ॥ 'निर्विकारात्मकात्सत्त्वाद्भावस्तत्राद्यविक्रिया ।' तत्र विकारहेती सत्यप्यविकारकर सत्त्वम् । यथा-'श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव ।' तस्मादवि. काररूपात्सत्त्वादावः प्रथमो यो विकारो भवति स बीजस्योच्छूनतेव भावः ॥

१३० काव्यमाला। हाव:- नेत्रादिविकृतियोतो भावो हावो रतीच्छिकः । 'अल्पालापः सशृङ्गारो हावोऽक्षिभ्रूविकारकृत् ।' प्रतिनियताविकारी शृङ्गारखभाव- विशेषो हावः॥ हेला-. हेलात्यन्तसमालक्ष्यो हाव एवोदितः क्रमात् ॥ ६३ ॥ 'स एव हेला सुव्यक्तशृङ्गाररससूचिका।' शोभा- रूपयौवनभोगाद्यैः शोभा स्यादङ्गभूषणे । 'रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम् ।' यथा-'तां प्राङ्मुखीं तत्र निवेश्य बालां क्षणं व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभाहियमाणनेत्राः प्रसाधने संनिहि- तेऽपि नार्यः ॥' कान्तिः- मन्मथोन्मेषणा सैव विस्तृता कान्तिरुच्यते ॥ ६ ॥ 'मन्मथाध्यासिता छाया सैव कान्तिरिति स्मृता ।' शोभैव रागावतारघनीकृता कान्तिः । यथा-'उन्मीलद्वदनेन्दुदीप्तिविसरैर्दूरे समुत्सारितं भिनं पीनकुचस्थलस्य च रुचा हस्तप्रभाभिहतम् । एतस्याः कलविङ्ककण्ठकदलीकल्पं मिलत्कौतुकादप्राप्ताङ्गमुखं रुषेव सहसा केशेषु लग्नं तमः ॥' दीप्तिः- कान्तिरेवातिप्रकाशाद्दीप्तिरित्यभिधीयते । 'दिप्तिः कान्तेश्च विस्तृतिः। यथा-'देआ पसिअ णिअत्तसु मुहससिजोलाविलु- ततमणिवहे । अहिसारिआण विग्घं करेसि अण्णाण विहदासे ॥' माधुर्यम्- सर्वावस्थाविशेषेषु माधुर्य रमणीयता ।। ६५ ।। 'अनुल्बणवं माधुर्यम् ।' यथा-'सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमां- शोलक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ प्रागल्भ्यम्- निःसाध्वसत्वं प्रागल्भ्यं 'निःसाध्वसवं प्रागल्भ्यं' क्षोभपूर्वकोऽजसादः साध्वसं तदभावः प्रागल्भ्यम् । यथा-'तथा ब्रीडाविधेयापि तथा मुग्धापि सुन्दरी । कलाप्रयोगचातुर्ये सभाखाचार्य गता ॥

रसरलहारः ।. १३.१ औदार्यम्- औदार्य विनयः सदा । 'औदार्य प्रश्रयः सदा।' धैर्यम्- मुक्तात्मश्लाघना धैर्य मनोवृत्तिरचञ्चला ॥ ६६ ॥ 'चापलाविहता धैर्य चिद्वृत्तिरविकत्थना' । चापलानुपहता मनोवृत्तिरात्मगुणाना- ख्यायिका धैर्यम् । यथा-'ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुल- ममलिनं न खेवायं जनो न च जीवितम् ॥' लीला- अङ्गैर्वेषैरलंकारैः प्रेमाभिवचनैरपि । प्रतिप्रयोजितैर्लीलां प्रियस्यानुकृतिं विदुः ॥ ६७ ।। 'प्रियानुकरणं लीला मधुराङ्गविचेष्टितैः । यथा-'तेनोदितं वदति याति यथात थासौ-' इत्यादि । भागवतेऽपि दशमस्कन्धे त्रिंशत्तमेऽध्याये-'गत्यानुराग- इत्यादिना ॥ विलासः- यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् । विशेषस्तु विलासः स्यादिष्टसंदर्शनादिना ॥ ६८॥ 'तात्कालिको विशेषस्तु विलासोऽक्रियादिषु ।' दयितावलोकनादिकालेड क्रियायां वचने च सातिशयं विशेषोत्पत्तिविलासः । यथा-'अत्रान्तरे किमपि वाग्विभवा- तिवृत्तवैचित्र्यमुल्लसितविभ्रममुत्पलाक्ष्याः । तरिसात्त्विकविकारविशेषरम्यमाचार्यक विजयि मान्मथमाविरासीत् ॥' विच्छित्तिः- स्तोका माल्यादिरचना विच्छित्तिः कान्तिपोषकृत् । 'आकल्परचनाल्पापि विच्छित्तिः कान्तिपोषकृत् ।' यथा-'कर्णार्पितो रोधकषा- यरूक्षे गोरोचनामेदनितान्तगौरे । तस्याः कपोले परभागलामाद्वबन्ध चढूंषि यवप्र- रोहः ॥' रघुवंशे त्रयोदशे सर्गे-'अयं सुजातोऽनुगिरं तमाल:-' इत्यादि । विव्वोकः- विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ॥ ६९ ।। 'गर्वाभिमानादिष्टेऽपि विव्योकोऽनादरक्रिया ।' यथा-'सव्याज तिलकालकानवि- १. 'प्रेमभिः' ख.

१३२ काव्यमाला। रलं लोलाङ्गुलिः संस्पृशन्वारंवारमुदश्चयन्कुचयुगे प्रोदश्चिनीलाञ्चलम् । यद्भूभङ्गतरक्षि- ताञ्चितदृशा सावज्ञमालोकितस्तद्र्वादवधीरितोऽस्मि न पुनः कान्ते कृतार्थीकृतः ॥' यत्तु माघः-'किं तावत्सरसि सरोजमेतदारादाहोखिन्मुखमवभासते युवत्याः । संशय्य क्षणमिति निश्चिकाय कश्चिद्विव्वोकर्बकसहवासिना परोक्षः ॥ तन्न । विव्वोकस्य केवलं मुखवर्तिवाभावात् । यत्त्वमरसिंहः-'स्त्रीणां विलासविव्वोकविभ्रमा ललितं तथा । हेलालीलेल्यमी हावाः क्रियाः क्षारभावजाः ॥ इति तदपि न । आचार्यः सर्वेषां मेदवर्णनात् । 'माघो बभ्राम विव्वोके तत्रैवामरनामकः । ताभ्यां समो मया दृष्टः श्रीहर्षः किलकिञ्चिते ॥ किलकिश्चितम्- क्रोधश्रमत्रासहासशुष्करोदनसंकरम् । अभीष्टसंगजाद्धर्षादुदेति किलकिञ्चितम् ॥ ७० ॥ 'क्रोधाश्रुहर्षभीत्यादेः संकरः किलकिश्चितम् ।' 'रतिक्रीडाद्यूते कथमपि समासाद्य समयं मया लब्धे तस्याः क्वणितकलकण्ठार्धमधुरम् । कृतभ्रूभङ्गासौ प्रकटितविल- क्षार्धरुदितस्मितकुद्धोद्धान्तं पुनरपि विदध्यान्मयि मुखम् ॥' यत्तु श्रीहर्षः-'लयि वीर विराजते परं दमयन्तीकिलकिञ्चितं किल । तरुणीस्तन एव दीप्यते मणिहाराव- लिरामणीयकम् ॥' इति तन । सङ्गाभावात् । भविष्यत्सामीप्ये वर्तमानवद्भाव इति वदसि चेदृष्टान्तानुपपत्तिः। मोडायितम्- तद्भावभाविते चित्ते वल्लभस्य कथादिषु । मोडायितमिति प्राहुः कर्णकण्डूयनादिकम् ॥ ७१ ॥ 'मोहायितं तु तद्भावभावनेष्टकथादिषु ।' प्रियतमानुरागेण भावितान्तःकरणवम् । "चित्रवर्तिन्यपि नृपे तत्त्वावेशेन चेतसि । ब्रीडार्धवलितं चके मुखेन्दुमवशैव सा ॥' कुमितम्- केशस्तनाधरादीनां ग्रहे हर्षेऽपि संभ्रमात् । आहुः कुट्टमितं नेति शिरःकरविधूननम् ॥ ७२ ॥ 'सानन्दान्तः कुट्टमितं कुप्येत्केशाधरग्रहे ।' 'दष्टेऽधरे प्रणयिना विधुताप्रपाणे: सीत्कारशुष्करुदितानि जयन्ति नार्याः ॥' विभ्रमः- त्वरया रागहर्षादेर्दयितागमनादिषु । अस्थाने भूषणादीनां विन्यासो विभ्रमो मतः ॥ ७३ ।। विभ्रमस्वरया काले भूषास्थानविपर्ययः ।' यथा 'अभ्युद्गते शविनि कोमलकान्त- रसरबहारः। दूतीसंलापसंवलितलोचनमानसाभिः । अग्राहि मण्डनविधिविपरीतभूषाविन्यासहासित- सखीजनमानाभिः ॥' भागवतेऽपि दशमस्कन्धे-व्यत्यस्तवस्त्राभरणाः' इति ॥ ललितम्- सुकुमारतयाङ्गानां विन्यासो ललितं विदुः । 'सुकुमारोऽङ्गविन्यासो मसृणो ललितं भवेत् ।' यथा-'सभ्रूभङ्गं करकिसलयावर्त- नैरालपन्ती सा पश्यन्ती ललितललितं यौवनस्याञ्चलेन । विन्यस्यन्ती चरणकमले लीलया खैरपातैनिःसंगीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ॥' मदः- मदो विकारः सौभाग्ययौवनाद्यवलेपजः ॥ ७४ ॥ विरु(ह)तम्- वक्तव्यकालेऽप्यवचो वीडया विरु(ह)तं मतम् । 'प्राप्तकालं न यद्याद्रीडया विहृतं हि तत् ।' 'पादाङ्गुष्ठेन भूमि किसलयरुचिना सापदेशं लिखन्ती भूयो भूयः क्षिपन्ती मयि सितशबले लोचने लोलतारे । वक्र हीन- प्रमीषत्स्फुरदधरपुटं वाक्यगर्भ दधाना यन्मां नोवाच किंचित्स्थितमपि हृदये मानस तडुनोति ॥ तपनम्- तपनं प्रियविच्छेदे स्मरावेगोत्थचेष्टितम् ॥ ७५ ॥ मौरध्यम्- अज्ञानादिव संपृच्छा प्रतीतस्यापि वस्तुनः । दयितस्य पुरः प्रोक्तं मौग्ध्यं तत्तत्त्ववेदिभिः ॥ ७६ ॥ विक्षेपः- भूषाणामर्धरचना वृथा विष्वगवेक्षणम् । रहस्याख्यानमीषच्च विक्षेपो दयितान्तिके ॥ ७७ ।। कुतूहलम्- रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम् । यथा-रघुवंशे-'करेण वातायनलम्वितेन स्पृष्टस्त्रया चण्डि कुतूहलिन्या । आमु- ञ्चतीवाभरणं द्वितीयमुद्भिनविद्युबलयो घनस्ते ॥' इति ॥ हसितम्- हसितं तु वृथा हासो यौवनोद्भेदसंभवः ॥ ७८ ॥ चकितम्- कुतोऽपि दयितस्याग्रे चकितं भयसंभ्रमः ।

१३४ काव्यमाला। यथा-'त्रस्यन्ती चलशफरी विघहितोरूर्वामोरूरतिशयमाप विभ्रमस्य । क्षुभ्यन्ति प्रसभमहो विनापि हेतोलीलामिः किमु सति कारणे रमण्यः ॥' इति ॥ केलि:- विहारे सह कान्तेन क्रीडनं केलिरुच्यते ॥ ७९ ॥ त्रयस्त्रिंशयभिचारिण आह- निवेदो ग्लानिशके च मदोऽसूया श्रमोऽपि च । चिन्ता स्मृतिधृतिर्मोहो व्रीडालस्यं च दीनता ।। ८० ॥ चापल्यं हर्ष आवेगो विषादो जडता तथा । औत्सुक्यनिद्रागर्वाश्च वितर्कोऽपस्मृतिस्तथा ॥ ८१ ॥ सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । व्याधिर्मतिस्तथोन्मादो मरणं त्रास एव च ॥ ८२ ।। 'तत्त्वज्ञानापदादेनिर्वेदः खावमाननम् । तत्र चिन्ताश्रुनिःश्वासवैवोच्छ्वासदी- नताः ॥' तत्त्वज्ञानानिदो यथा-'प्राप्ताः श्रियः सकलकामदुधास्ततः किं न्यस्तं पदं चिरसि विद्विषतां ततः किम् । संप्रीणिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनु- मृतां तनुभिस्ततः किम् ॥' आपदा यथा-'राज्ञो विपद्धन्धुवियोगदुःखं देशच्युतिर्दुर्ग- ममार्गखेदः । आखाद्यतेऽस्याः कटुनिष्फलायाः फलं मयैतश्चिरजीवितायाः ॥' ईर्ष्यातो यथा-'न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । घिग्धिक्छकजितं प्रबोधितवता किं कुम्भकर्णेन वा वर्गग्रामटिका- विलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥' वीरवारयोर्व्यभिचारी निर्वेदो यथा-'ये बाहवो युधि न वैरिकठोरकण्ठपीठोच्छलद्रुधिरराजिविराजिताशाः। नापि प्रियापृथुपयोधरपत्रभङ्ग- संक्रान्तकुडमरसाः खलु निष्फलास्ते ॥' आत्मानुरूपं रिपुं तरुणीजनं वालभमानस्य निर्वेदादियमुक्तिः । एवं रसान्तराणामप्याभाव उदाहार्यः । रसानहः खतन्त्रो निर्वेदो थथा-'कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्माद्यतः श्रूयताम् । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे ॥' विभावानुभावरसाजानझमेदादने. कशाखो निर्वेदो दर्शनीयः । अथ ग्लानिः-रत्याद्यायासतृक्षुद्भिर्लानिनिष्प्राणतेह च । वैवर्ण्यकम्पामुत्साहक्षामाजवमनक्रियाः ॥' निधुवनकलाभ्यासादिश्रमतृषाक्षुद्गमनादिभि- निष्प्राणतारूपा ग्लानिः । अस्यां च वैवर्ण्यकम्पादयोऽनुभावाः । यथा-'लुलितनयन- ताराः क्षामवकेन्दुबिम्बा रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः । तिमिरमिव दधानाः संसिनः केशपाशानवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥' शेषं निर्वेदक्दूह्यम् । अथ शङ्का-'अनर्थप्रतिमा शङ्का परक्रौर्यात्खदुर्नयात् । कम्पशोकाभिवीक्षादिस्त्र वर्णखरा. न्यता ॥' तत्र परक्रौर्यायथा-हिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोदृष्ट्वालापं ..

रसरबहारः। १३५ कलयति कथामात्मविषयाम् । सखीषु मेरासु प्रथयति च बैलक्ष्यमसमं प्रिया प्रायेणास्ते हृदयनिहितातऋविधुरम् ॥' खदुर्नयाद्यथा-'दूराहवीयो धरणीधरामं यहाटकेवं तृणव- सधूनोत् । हन्ता सुबाहोरपि ताटकारिः स राजपुत्रो हृदि बाधते माम् ॥' अनया दिशान्य- दनुसतव्यम् । अथ मदः-'हर्षोत्कर्षो मदः पानात्स्खलदावचोगतिः । निया हासोज रुदितं ज्येष्ठमध्याधमादिषु ॥' यथा-'हावहारि हसितं वचनानां कौशलं हशि विकार- विशेषाः । बक्रिरे भृशमजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥' इत्यादि । अथासूया- 'परोत्कर्षाक्षमासूया गर्वदौर्जन्यमन्युजा । दोषोक्त्यवज्ञाभ्रुकुटिमन्युक्रोधेषितानि च ॥' गर्वजा यथा-'अर्थिले प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोरप्युत बुद्धन्दाशरथिविरुद्धचरितो युकस्तया कन्यया । उत्कर्ष च परस्य मानयशसोर्विासनं चात्मनः स्त्रीरत्नं च जगत्पतिर्द. शमुखो दृप्तः कथं मृष्यते ॥' दौर्जन्यजा यथा-'यदि परगुणा न क्षम्यन्ते यतख गुणार्जने नहि परयशो निन्दाव्याजैरलं परिमार्जितुम् । विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथो दिनकरकरान्पाणिच्छत्रैर्नुदश्रममेष्यसि ॥' मन्युजा यथा-'पुरस्तन्व्या गोत्रस्खलनच- कितोऽहं नतमुखः प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः । स्फुटो रेखान्यासः कथमपि स ताक्परिणतो गता येन व्याकं पुनरवयवैः सैव तरुणी ॥ ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मनखिन्या कोपप्रणयरभसाद्द्दगिरा । अहो चित्रं चित्रं स्फुट- मिति निगद्याश्रुकलुषं रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥' अथ श्रमः- 'श्रमः खेदोऽध्वरत्यादेः खेदोऽस्मिन्मर्दनादयः।' अध्वतो यथा-'अलमलुलितमुग्धा- न्यध्वसंपातखेदादशिथिलपरिरम्भैर्दत्तसंवाहनानि । परिमृदितमृणालीदुर्बलान्याकानि खमुरसि मम कृला यत्र निद्रामवाप्ता ॥' रतिश्रमो यथा-'प्राप्य मन्मथरसादतिभूमि दुर्वहस्तनभराः सुरतस्य । शश्रमुः श्रमजलाईललाटश्लिष्टकेशमसितायतकेश्यः ॥' इत्या- द्युत्प्रेक्ष्यम् । अथ चिन्ता-'ध्यानं चित्तेहितानाप्तेः शून्यताश्वासतापकृत् ।' यथा- 'पक्ष्माप्रप्रथिताश्रुबिन्दुनिकरैर्मुक्ताफलस्पर्धिभिः कुर्वत्या हरहासहारिहृदये हारावली. भूषणम् । बाले वालमृणालनालवलयालंकारकान्ते करे विन्यस्याननमायताक्षि सुकृती कोऽयं खया स्मर्यते ॥ यथा वा-'अस्तमितविषयसङ्गा मुकुलितनयनोत्पला बहुश्व- सिता । ध्यायति किमप्यलक्ष्यं बाला योगाभियुक्तेव ॥' अथ स्मृतिः-'सदृशज्ञान- चिन्तायैः संस्कारः स्मृतिरत्र च । ज्ञानलेनावभासिन्या भ्रूसमुनयनादयः ॥' यथा- 'मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वापतनाशीतो महेन्द्रादपि । तायः सोऽपि समं निजेन विभुना जानाति वा रावण मां शादं स जटायुरेष जरसा क्लिष्टो बधं वाञ्छति ॥' यथा माधवः [मालतीमाधवे]-'मम हि प्राकनोपलम्भसंभावितात्मजन्मनः संस्कारस्यानवरतप्रबोधात्प्रतीयमानखद्विसदशैः प्रत्ययान्तरैरतिरस्कृतप्रवाहः . प्रियतमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोत्यन्त- वृत्ति सारूप्यतश्चैतन्यम् । 'लीनेव प्रतिबिम्बितेव लिखितेव-' इत्यादि । अथ धृतिः-'संतोषो ज्ञानशक्त्यादे तिरव्यप्रभोगकृत् ।' ज्ञानाद्यथा-'वयमिह परितुष्टा काव्यमाला। बल्कलैस्वं च लक्ष्म्या सम इह परितोषो निर्विशेषो विशेषः । स च भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान्को दखिः ॥' शक्तितो यथा-'राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः सम्यग्लालनपालिता प्रशमिताशेषोप- सर्गाः प्रजाः । प्रयोतस्य सुता वसन्तसमयस्त्वं चेति नाम्ना धृतिं कामः काममुपैवयं मम पुनर्मन्ये महानुत्सवः ॥' इत्याद्यूयम् । अथ मोहः-'मोहो विचित्तता भीतिदुः- खावेशानुचिन्तनैः । तत्राज्ञानभ्रमाघातघूर्णतादर्शनादयः ॥' यथा-'तीव्राभिषाप्रभ- वेन वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रति- बभूव ॥' यथा च-'विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रबोधो निद्रा वा किमु विषविसर्पः किमु मदः । तव स्पर्शे स्पर्श मम हि परिमूढेन्द्रियगणो विकारश्चै. तन्यं भ्रमयति च संमीलयति च ॥' अथ व्रीडा-'दुराचारादिभित्रीडा धाष्टोभावस्त- मुनयेत् । साचीकृताङ्गवरणवैवाधोमुखादिभिः ॥' यथा-'पटीलग्ने पत्यौ नमयति मुखं जातविनया हठाछेषं वाल्छत्यपहरति गात्राणि निभृतम् । न शक्नोल्याख्यातुं स्मितमुखसखीदत्तनयना हिया ताम्यत्यन्तः प्रथमपरिभोगे नववधूः ॥' अथालस्यम्- 'आलस्यं श्रमगर्भादे हयं जृम्भासितादिमत् ।' यथा-'चलति कथंचित्पृष्टा यच्छति वचनं कथंचिदालीनाम् । आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥' अथ दीनता-'दौर्गत्याद्यैरनौजस्यं दैन्यं कार्ष्यामृजादिमत् ।' दारिद्यन्यक्कारादिविभावैरनोज- चेतसो दैन्यम् । तत्र च कृष्णतामलिनवसनदर्शनादानादयोऽनुभावाः । यथा- 'वृद्धोऽन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहं कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो । यत्नात्संचिततैलबिन्दुघटिका भनेति पर्याकुला दृष्ट्वा गर्भभरालसा निज- वधूं श्वश्रूश्चिरं रोदिति ॥' शेषं पूर्ववत् । अथ चापलम्-'मात्सर्यद्वेषरागादेश्वापलं बन- बस्थितिः। तत्र भर्त्सनपारुष्यखच्छन्दाचरणादयः ॥' यथा-'अन्यासु तावदुपमर्द- सहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु । बालामजातरजसं कलिकामकाले व्यर्थ कदर्थयसि किं नवमालिकायाः ॥' यथा वा-'विनिकषणरणत्कठोरदंष्ट्राककच- विशङ्कटकंदरोदराणि । अहमहमिकया पतन्तु कोपात्सममधुनैव किमत्र मन्मुखानि ॥' अथ वा प्रस्तुतमेतावत्सुन्दरि हितं करिष्ये । अथ हर्षः-'प्रसत्तिरुत्सवादिभ्यो हर्षोऽश्रु- खेदगद्दाः।' प्रियागमनपुत्रजननोत्सवादिविभावैश्चेतःप्रसादो हर्षः । तत्र चाश्रुखेदाद- योऽनुभावाः । यथा-'आयाते दयिते मरुस्थलभुवां संचिन्त्य दुर्लच्या गेहिन्या परि- तोषबाष्पकलिलामासज्य दृष्टिं मुखे । दत्त्वा पीलुशमीकरीरकवलान्वस्त्राश्चलेनादरादुन्मृष्टं करभस्य केसरसटाभाराप्रलमं रजः ॥' निर्वेदवदन्यदुन्नेयम् । अथावेगः-'आवेगः संभ्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगे वात्सायां सूर्यदिग्धस्वरितपदगतिवर्षजे पिण्डिताः । उत्पातात्मस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा वढेधूमाकुलास्यः करिम- नुजभये स्तम्भकम्पापसाराः ॥' अभिसरो राजद्विड्वराहादिस्त तुरावेगः । यथा- 'आगच्छागच्छ सजं कुरु वरतुरगं संनिधेहि द्रुतं मे खगः कासौ कृपाणीमुपनय धनुषा किं रसरत्नहारः। १३७ किमङ्गस्थितेन । संरम्भोचिदिप्तानां क्षितिमृति गहनेऽन्योन्यमेवं प्रतीत्थं नादः खप्नाभि- दृष्टे खयि चकितधियां विद्विषामाविरासीत् ॥ यथा च-'प्रारब्धां तरुपुत्रकेषु सहसा संत्यज्य सेकक्रियामेतास्वापसकन्यकाः किमिदमित्यालोकयन्याकुलाः । आरोहन्त्युटज- द्रुमांश्च वटवो वाचंयमाः सखरं सद्योमुक्तसमाधयो निजवृसीष्वेवोचपादं स्थिताः ॥' वात्या- वेगो यथा-'वाताहतं वसनमाकुलमुत्तरीयं' इत्यादि । वर्षजो यथा-'देवे वर्षयशन- पचनव्यामृता वहिहेतोर्गेहाद्नेहं फलकनिचितैः सेतुभिः कम्पभीताः । नीध्रप्रान्तानविर- लजलान्पाणिभिस्ताडयित्वा शूर्पच्छत्रस्थगितधिरसो योषितः संचरन्ति ॥' उत्पातजो यथा-'पौलस्त्यपीनभुजसंपदुरस्यमानकैलाससंभ्रमविलोलशः प्रियायाः । श्रेयांसि वो दिशतु निहतकोपचिह्नमालिङ्गनोत्पुलकमासितमिन्दुमौलेः ॥' अहितकृतस्त्वनिष्टदर्शन- श्रवणाभ्याम् । तद्यथोदात्तराघवे-'चित्रमायः-(ससंभ्रमम् ।) भगवन्कुलपते रामभद्र, परित्रायताम् । (इत्याकुलतां नाटयति।) पुनश्चित्रमायः-मृगरूपं परित्यज्य विधाय विकटं वपुः । नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ॥ रामः-वत्सस्याभयवारिधेः प्रतिभयं मन्ये कथं राक्षसात्रस्तश्चैष मुनिर्विरौति न पुनश्चास्त्येव मे संभ्रमः । मा हासीर्ज- नकात्मजामिति मुहुः स्नेहाद्गुरुाचते न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ॥' इत्यनेनानिष्टप्राप्तिकृतः संभ्रमः । इष्टप्राप्तिकृतो यथात्रैव-(प्रविश्य पटीक्षेपेण संभ्रान्तः) वानरः-'महाराअ, एदं खु पवणणन्दणागमणपरिहस-' इत्यादि 'देवस्स हिदआणन्द- जणणविलुलिदं महुवणम्' इत्यन्तम् । यथा वीरचरिते- 'एयेहि वत्स रघुनन्दन पूर्ण- चन्द्र-' इत्यादि । वह्निजो यथा-'क्षिप्तो हस्तावलमः प्रसभमभिहतोऽप्याददानोंऽशु- कान्तं' इत्यादि । यथा च-विरम विरम वढे' इत्यादि । करिजो यथा-'स च्छिनबन्ध- द्रुतयुग्यशून्य भन्नाक्षपर्यस्तरथं क्षणेन । रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ।' करिग्रहणं व्यालोपलक्षणार्थम् । तेन व्याघ्रसूकरवानरादिप्रभवा आवेगा व्याख्याताः। अथ विषादः-'प्रारब्धकार्यासिद्धयादेविषादः सत्त्वसंक्षयः । निःश्वासोच्छ्वासहृत्तापसहा- यान्वेषणादिकृत् ॥' यथाह-'आर्ये ताडके, किं हि नामैतत् । अम्बुनि मजन्य- लाबूनि प्रावाणः प्लवन्ते । नन्वेष राक्षसपतेः स्खलितः प्रतापः प्राप्तोऽद्भुतः परिभवो हि मनुष्यपोतात् । दृष्टः स्थितेन च मया खजनप्रमाथो दूत्यं जरा च निरुणद्धि कथं करोमि ॥' यथा वा-'अर्थिले प्रकटीकृतेऽपि-' इत्यादि । अथ जडता-'अप्र. तिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णीभावादयस्तत्र ।' इष्टदर्शनाद्यथा-'एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति । सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ॥' अनिष्टश्रवणाद्यथा उदात्तरा- घवे-'राक्षसः-तावन्तस्ते महात्मानो निहताः केन राक्षसाः । येषां नायकतां प्राप्ता- निशिरःखरदूषणाः ॥ द्वितीयः-गृहीतधनुषा रामहतकेन । प्रथमः-किमेकाकि- नैव । द्वितीयः-अदृष्ट्वा कः प्रत्येति । पश्य तावतोऽस्मदलस्य सद्यश्छिन्नविरःश्वभ्र- मजककुलाकुलाः । कबन्धाः केवलं जातास्तालोत्ताला रणागणे ॥ प्रथमः- ययेवं तदहमेवंविधः किं करोमि ॥' अथौत्सुक्यम्-'कालाक्षमखमौत्सुक्यं रम्येच्छा- १३८ काव्यमाला। रतिसंभ्रमैः । तत्रोच्चासत्वराश्वासहृत्तापखेदविभ्रमाः ॥' यथा-'आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी । हरोपयाने खरिता बभूव स्त्रीणां प्रियालोक- फलो हि वेषः ॥' अथ निद्रा-'मनःसंमीलनं निद्रा चिन्तालस्यक्लमादिभिः । तत्र जम्भाङ्गभङ्गाक्षिमीलनोत्खपनादयः ॥ यथा-'निद्रार्धमीलितदृशो मदमन्थराणि नाप्य- थवन्ति न च यानि निरर्थकानि । अद्यापि मे मृगदृशो मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ यथा च-'प्रहरकमपनीय खं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केन- विजागृहीति । मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुध्यते नो मनुष्यः ॥' अथ गर्वः-'गर्वोऽभिजनलावण्यबलेश्वर्यादिभिर्मदः । करास्यघर्षणावज्ञा सविलासाझवीक्षणम् ॥' यथा-'मुनिरयमथ वीरस्तादृशस्तप्रियं मे विरमतु परिकम्पः कातरे क्षत्रियासि । तपसि विततकीर्तेईप्तकण्डूलदोष्णः परिचरणसमर्थो राघवः क्षत्रि- योऽहम् ॥' यथा वा-'ब्राह्मणातिक्रमत्यागो भवतामेव भूतये । जामदग्न्यस्तु वो मित्र- मन्यथा दुर्मनायते ॥' अथ वितर्क:-'तर्को विचारः संदेहाशिरोडलिनर्तकः ।' यथा-कि लोमेन विलचितः स भरतो येनैतदेवं कृतं सद्यः स्त्रीलघुतां गता किमथवा मातैव सा मध्यमा । मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरुर्माता तातकलत्र- मित्यनुचितं मन्ये विधात्रा कृतम् ॥' अथवा 'कः समुचिताभिषेकादायं प्रच्यावयेद्गुणज्ये- छम् । मन्ये ममैव पुण्यैः सेवावसरः कृतो विधिना ॥' अथापस्मृतिः-'आवेशो ग्रहदुः- खाद्यैरपस्मारो यथाविधः । भूपातकम्पाप्रखेदलालाफेलोद्गमादयः ॥' यथा-'आश्लि- ष्टभूमि रसितारमुचैर्लोलढुजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मा. रिणमाशश? ॥' अथ सुप्तम्-'सुप्तं निद्रोद्भवं तत्र श्वासोच्छ्वासक्रियाकरम् ।' यथा- 'लघुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालस्रस्तरे सोपधाने । परिहरति सुषुप्तं हालिकद्वन्दमारात्कुचकलशमहोष्माबद्धरेखस्तुषारः ॥' अथ विबोधः-'विबोधः परि- णामादेतत्र जृम्भाक्षिमर्दने । यथा-'चिररतपरिखेदप्राप्तनिद्रासुखानां चरममपि शयिता पूर्वमेव प्रबुद्धाः । अपरिचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचक्राश्लेष- मेदं तरुण्यः ॥' अथामर्षः-'अधिक्षेपापमानादेरमर्षोऽभिनिविष्टता । तत्र खेदशिरः- कम्पतर्जनाताडनादयः॥' यथा-'प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात् । न खेव दूषयिष्यामि शस्त्रप्रहमहाव्रतम् ॥' यथा च-'युष्मच्छासनलकनाम्भसि मया ममेन नाम स्थितं प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि । क्रोधोलासि- तशोणितारुणगदस्योच्छिन्दतः कौरवानद्यैकं दिवस ममासि न गुरुनाहं विधेयस्तव ॥' अथावहित्यम्-'लज्जाद्यैर्विक्रियागुप्ताववहित्याङ्गविक्रिया ।' यथा-‘एवंवादिनि देवर्षों पार्श्वे पितुरधोमुखी। लीलाकमलपत्राणि गणयामास पार्वती ॥' अथोप्रता-'दुष्टेऽप- गधदौर्मुख्यचौर्यैश्चण्डलमुप्रता । तत्र खेदशिर कम्पतर्जनाताडनादयः॥' यथा जाम- दन्यः-'उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषादुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंश्यान् । पित्र्यं तद्रतपूर्ण हदसवनमहानन्दमन्दायमानं क्रोधार्मि रसरत्नहारः। १३९ कुर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः ॥' अथ व्याधिः-'व्याधयः संनि- पाताद्यास्तेषामन्यत्र विस्तरः ।' दिल्यानं यथा-'अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुभ्योऽर्पिता दत्तं दैन्यमशेषतः परिजने तापः सखिष्वाहितः । अयश्वः पर- निर्वृतिं व्रजति सा श्वासैः परं खेद्यते विस्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥' अथ मतिः-'भ्रान्तिच्छेदोपदेशाभ्यां शास्त्रादेस्तत्त्वधीमतिः । यथा- 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुण- लुब्धाः खयमेव संपदः ॥' तथा च-'न पण्डिताः साहसिका भवन्ति श्रुखापि ते संतुलयन्ति तत्त्वम् । तत्त्वं समादाय समाचरन्ति स्वार्थ च कुर्वन्ति परस्य चार्थम् ॥' अथोन्मादः-'अप्रेक्षाकारितोन्मादः संनिपातग्रहादिभिः । तस्मिन्नस्थानरुदितगीतहा- सासितादयः ॥' यथा--'आः क्षुद्र राक्षस, तिष्ठ । क्व मे प्रियतमामादाय गच्छसि' इत्यु- पक्रमे 'कष्टम्; नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम् । अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ॥' इत्यादि । अथ मरणम्-'मरणं तु प्रसिद्धत्वादनर्थत्वाच नोच्यते । वीरादा- वुच्यते यद्वा शृङ्गारेभ्यवसायि वा ॥ यथा-'संप्राप्तेऽवधिवासरे क्षणमनु वद्वम॑वातायनं वारंवारमुपेत्य निष्क्रियतया निश्चित्य किंचिच्चिरम्। संप्रत्येव निवेद्य केलिकुररीः सास्रं सखी- भ्यः शिशोधिव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ॥' इत्यादिवच्छृङ्गाराश्रयाल- म्बनलेन मरणाध्यवसायमात्रमुपनिबन्धनीयम् । अन्यत्र कामचारः । यथा-'पश्यन्तु भवन्तस्ताटकाम्, 'हृन्मर्मभेदिपतदुत्कटकङ्कपत्रसंवेगतत्क्षणकृतस्फुरदशभङ्गा । नासाकु- टीरकुहरद्वयतुल्यनिर्यदुहृदुदध्वनदसूक्प्रसरा मृतैव ॥' अथ त्रासः-'गर्जितादेर्मनःक्षो- भस्त्रासोऽत्रोत्कम्पनादयः। यथा-'त्रस्यन्ति चलशफरीः' इत्यादि । स्तभः खेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः ॥ ८३ ॥ प्रथमे त्वभिलाषः स्याद्वितीये चिन्तनं भवेत् । तृतीये तु स्मृतिः प्रोक्ता चतुर्थे गुणकीर्तनम् ॥ ८४ ॥ उद्वेगः पञ्चमे प्रोक्तो विलासः षष्ठ उच्यते । उन्मादः सप्तमे प्रोक्तो भवेद्याधिस्तथाष्टमे ।। ८५ ॥ नवमे जडता प्रोक्ता दशमे मरणं भवेत् । बृहत्समासा गौडी स्याद्रौद्रे वीरे हसे रसे ॥ ८६ ॥ द्वित्रिपदयुक्समासा वैदर्भी रीतिराख्याता । शृङ्गारवीरकरुणबीभत्सभयानके योज्या ॥ ८७ ॥ [स्पष्टम् । ] १३ ष० गु० १४० काव्यमाला । - .. उत्साहजो भवेद्वीरस्त्रेधा धर्माजिदानतः । श्लाध्यैः सर्वगुणैर्युक्तो नायकस्तत्र वर्ण्यते ॥ ८८ ॥ 'कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते ।' 'वीरः प्रतापविनयाध्यवसायसत्त्वमो. हाविषादनयविस्मयविक्रमाद्यैः । उत्साहभूः स च दयारणदानयोगात्रेधा किलात्र मतिग- वैधृतिप्रहर्षाः ॥' प्रतापविनयादिभिर्विभावितः करुणायुद्धदानाद्यैरनुभावितः गर्वधृति- हर्षामर्षस्मृतिगतिवितर्कप्रभृतिभिर्भावित उत्साहः स्थायी खदते भावकमनोविस्तारान- न्दाय प्रभवत्येष वीरः । दयावीरो यथा नागानन्दे जीमूतवाहनः । युद्धवीरो यथा 'हतानरीन्वीक्ष्य न संतुतोष यथा स तान्प्रेक्ष्य पुरो नभःस्थान् । अमर्त्यभावेऽपि पुनर्ममै- षामभूतपूर्वा भविता रणोऽग्रे ॥' दानवीरो यथा-'त्रिलोकीराज्यविभ्रंशचिन्तामाच्छाद्य दानभूः । उत्सवो ववृधे विष्णोः शरीरेण समं बलेः ॥' प्रखेदरक्तनयनवदनादिक्रोधानु. भावरहितो वीरः । अन्यथा रौद्रः । विवेकसत्त्वाभ्यां विशेषो वीररौद्रयोः ॥ शोकजः करुणो ज्ञेयस्तत्र भूपातरोदने । मोहवैवर्ण्यनिर्वेदप्रलापाश्रूणि वर्णयेत् ॥ ८९ ॥ 'इष्टनाशादिभिश्चतोवैक्लव्यं शोकशब्दभाक् । इष्टनाशादनिष्टाप्ती शोकात्मा करुणो मतः ॥' निःश्वासोच्छ्रासरुदितस्तम्भप्रलपितादयः । स्वापापस्मारदैन्याधिमरणालस्यसं- भ्रमाः ॥ विषादजननोन्मादचिन्ताद्या व्यभिचारिणः ॥ इष्टबन्धुप्रभृतेर्विनाशादनिष्टस्य बन्धनादेः प्राप्तौ शोकप्रकर्षजः करुणः । इष्टनाशात्करुणो यथा-'अयि जीवितनाथ जीवसीयभिधायोत्थितया तया पुरः । ददृशे पुरुषाकृतिः क्षितौ हरकोपानलभस्म केव- लम् ॥' अनिष्टावाप्ते रत्नावल्यां सागरिकाबन्धने ॥ हासजन्मा समाख्यातो हास्यनामा रसो बुधैः । चेष्टाङ्गवेषवैकृत्याद्वाच्यो हास्यस्य संभवः ॥ ९० ॥ 'न्यङ्गवीडादिभिश्चेतीविकासो हास उच्यते ।' न्यङ्गं वैकृतम् । 'विकृताकृतिवाग्वेधै- रात्मनोऽथ परस्य वा । हासः स्यात्परिपोषोऽस्य हास्यस्त्रिप्रकृतिः स्मृतः ॥ आत्म- स्थान्विकृतवेषभाषादीन्परस्थान्वा विभावानवलम्बमानो हासस्तत्परिपोषात्मा हास्यो यधिष्ठान उत्तममध्यमाधमप्रकृतिभेदात्षड्डिधो भवति । आत्मस्थो यथा-'जातं मे परु- षेण भस्मरजसा यच्चन्दनोद्भूलनं हारो वक्षसि यज्ञसूत्रमुचितं क्लिष्टा जटाः कुन्तलाः । रुद्राक्षैः सकलैः सरत्नवलयं चित्रांशुकं वल्कलं सीतालोचनहारि कल्पितमहो रम्यं वपुः कामिना ॥' परस्थो यथा-'खिन्नोऽसि मुञ्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः । भरभुग्नविततबाहुषु गोपेषु हसन्हरिर्जयति ॥' स्मितमिह विकासिनयनं किंचिल्लक्ष्यद्विज हसितम् । मधुरखर विहसितं सास्रशिरःकम्पमुपहसितम् ॥ अपहसितं सास्राक्षं विक्षि. प्ताङ्ग भवत्यतिहसितम् । द्वे द्वे हसिते चैषां ज्येष्ठे मध्येऽधमे क्रमशः ॥ उत्तमस्य खपर- रसरत्नहारः। १४१ विकारदर्शनास्मितहसिते । विहसितापहसिते मध्यमस्य । अपहसितातिहसितेऽधमस्य । व्यभिचारिणश्चास्य-निद्रालस्यक्लमग्लानिमूर्छास्तु सहचारिणः।' विस्मयोत्थोऽद्भुतो ज्ञेयः स चासंभाव्यवस्तुनः । दर्शनाच्छ्वणाद्वापि देहिनामुपजायते ॥ ९१ ॥ नेत्रप्रकाराः पुलकः खेदो निस्पन्दता तथा । अनुभावा ह्यद्भुतस्य वाणी स्यादत्र गद्गदा ॥ ९२ ॥ 'विस्मयश्चित्तविस्तारो वस्तुमाहात्म्यदर्शनात् । अतिलोकैः पदाथैः स्याद्विस्मयात्माद्भुतो रसः ॥ कर्मास्य साधुवादाश्रुवमथुखेदगद्दाः । हर्षावेगधृतिप्राया भवन्ति व्यभि- चारिणः ॥' लोकसीमातिवृत्तपदार्थवर्णनादिविभावितः साधुवादाद्यनुभावपरिपुष्टो विस्मय- स्थायिभावो हर्षवेगादिव्यभिचारिभावितो रसोऽद्भुतः । यथा-'कराग्रस्थापितगिरि हरिं निर्निमिषेक्षणाः । अपश्यन्गोपिका दन्तदष्टजिह्वा मुदान्विताः ॥ घोरवस्त्ववलोकेन भीतिजन्मा भयानकः । वनितानीचबालेषु बहुधा वर्णयन्त्यमुम् ॥ ९३ ॥ दिग्दर्शनं चास्यशोषो गद्गदा गीश्च संभ्रमः । कम्पस्त्रासश्च वैवण्य संमोहोऽप्यत्र वर्ण्यते ॥ ९४ ॥ रौद्रशक्त्या तु जनितं चित्तवैक्लव्यदं भयम् । विकृतवरसत्त्वादेर्भयभावो भयानकः ॥ सर्वाङ्गवेपथुखेदशोषवैचित्यलक्षणः । दैन्यसंभ्रममोहादित्रासादिस्तस्य सोदरः ॥' रौद्र. खरश्रवणाद्रौद्रसत्त्वदर्शनाच्च भयस्थायिभावप्रभवो भयानको रसः । तत्र सर्वाङ्गवेपथुप्र. भृतयो दैन्यादयश्च व्यभिचारिणः । यथा-'ग्रीवाभङ्गाभिरामं-' इत्यादि शकुन्तलायाम् ॥ रौद्रः क्रोधात्मको ज्ञेयः कोपः परपराभवात् । भीष्मक्रियो भवेदुनः सामर्षस्तत्र नायकः ॥ ९५ ॥ भुजाघातः खप्रशंसा शस्त्रोत्क्षेपोऽथ भ्रूकुटिः । आक्षेपो दलनं शत्रोर्वर्णयन्ति कवीश्वराः ॥ ९६ ॥ 'प्रतिकूलेषु तैक्ष्ण्यस्य प्रबोधः क्रोध उच्यते ।' क्रोधो मत्सरवैरिवैकृतमयैः पोषोऽस्य रौद्रो मुहुः क्षोभः खाधरदंशकम्पभृकुटिखेदास्यरागैर्युतः । युद्धोल्लासविकत्थनांसधरणी- घातप्रतिज्ञाग्रहैरत्रामर्षमदौस्मृतिश्चपलतासूयोग्यवेगादयः॥' मात्सर्यविभावो रोद्रो यथा- 'वं ब्रह्मवर्चसधरो यदि वर्तमानो यद्वा खजातिसमयेन धनुर्धरः स्याः । उग्रेण भोस्तव तपस्तपसा दहामि पक्षान्तरस्य 'सदृशं परशुः करोतु ॥ वैरिकृतादिविभावो यथा- 'लाक्षागृहानलविषानसभाप्रवेशः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य । आकृष्य पाण्डवव- धूपरिधानकेशान्खस्था भवन्तु मयि जीवति धार्तराष्ट्राः ॥' इत्येवमादिविभावैः प्रखेद- .. - १४२ काव्यमाला। - नयनारुणताद्यनुभावैरमर्षा दिव्यभिचारिभिः क्रोधपरिपोषो रौद्रः । परशुरामभीमसेनदु- योधनादिव्यवहारेषु वीरचरितवेणीसंहारादाववगन्तव्यः । जुगुप्सात्माथ बीभत्सः स्यादहृयश्रुतीक्षणैः । निष्ठीवनास्यभङ्गादि महतां नात्र वर्ण्यते ॥ ९७ ॥ 'जुगुप्सा गर्हणा वा दोषमाहात्म्यदर्शनात् ।' 'बीभत्सः कृमिपूतिगन्धिकलिलप्रायै- जुगुप्सकभूरुद्वेगी रुधिरान्त्रकीकसवसानाय्वादिभिः क्षोभणः । वैराग्याजघनस्तनादिषु घृणायुक्तो विभावैर्वृतो नासावऋविकूणनादिभिरिहावेगार्तिशङ्कादयः ॥' अत्यन्ताहृद्यकृमि- पूतिगन्धिप्रायविभावोद्भूतजुगुप्सास्थायिभावपरिपोषलक्षण उद्वेगी बीभत्सः । यथा- 'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छूनभूयांसि मांसान्यंसस्फिक्पृष्ठपिण्डाद्यवयवसु. लभान्युग्रपूतीनि जग्ध्वा । आर्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्कादकस्थाद- स्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ रुधिरान्त्रकीकसवसामांसादिविभावः क्षोभणो बीभत्सो यथा-'अन्नप्रोतबृहत्कपालनलकक्रूरक्कणकङ्कणप्रेतद्भरिविभूषणारवभरैराघो- षयन्त्यम्बरम् । पीतच्छदितरक्तकर्दमघनप्राग्भारपोरोल्लसद्यालोलस्तनभारबन्धुरवपुर्बद्धा- दरं धावति ॥' रम्येष्वपि रमणीजघनस्तनादिषु घृणायुक्तो बीभत्सो यथा-'लालां वासवं वेत्ति मांसपिण्डौ पयोधरौ । मांसास्थिकूटं जघनं जनः कामाग्रहातुरः ॥' न चायं शान्त एव । विरक्तोक्तेः । यतो बीभत्समानो विरज्यते ॥ सम्यग्ज्ञानसमुद्भूतः शान्तो निःस्पृहनायकः । रागद्वेषपरित्यागात्सम्यग्ज्ञानसमुद्भवः ॥ ९८ ।। इदं वाग्भटालंकाररीत्या । काव्यप्रकाशे तु–'निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः।' दशरूपके तु–'रत्युत्साहजुगुप्साः क्रोधोत्साहौ स्मयो भयं शोकः । शममपि केचित्पाहुः पुष्टि व्येषु नैतस्य ॥' इति । अत एवोकं मूले-'काव्ये' इति । 'कश्चित्सदम्भो दम्भोलिसदृशं वक्ति चेद्वचः। तथापि नैति विकृति शान्तः सागरधीरधीः॥' स्निग्धा हृष्टा तथा दीना क्रुद्धा दृप्ता भयान्विता । जुगुप्सिता विस्मिता च शान्तेति रसदृष्टयः ॥ ९९ ॥ जगति यद्यपि संन्ति परःशता गुरुतमा रचना बुधबुद्धये । ननु तथापि मया न वृथा कृतागुरुतमा रचनाबुधबुद्धये ॥१०० ॥ शतात्परे परःशताः । 'परःशताद्यास्ते येषां परा संख्या शतादिकात्' इत्यमरः । नन्विति वाक्यालंकारे । अगुरुतमा रचना अबुधबुद्धये बालबोधाय ॥ गुरुपादाम्बुजद्वन्द्वप्रसादावाप्तसन्मतिः । त्रिपाठी शिवरामाख्यो हारं पूरितवानमुम् ॥ १०१ ॥ इति श्रीमच्छिवरामत्रिपाठिकृतो लक्ष्मीविहाराख्यटीकासमेतो रसरत्नहारः ।

: अन्यापदेशशतकम् । १४३ श्रीनीलकण्ठदीक्षितप्रणीतम् अन्यापदेशशतकम् । छायावृक्षमुपाश्रयन्ति पथिषु श्रान्ता हि पान्थाः समं तेष्वेकोऽस्य शुभं शुभेन मनसा हृष्यन्ननुध्यायति । अन्यो हर्तुमपेक्षतेऽस्य विटपानाधारयष्टेः कृते कश्चिन्निश्चिनुते कवाटफलकं कर्तुं तमेव क्षणात् ॥ १॥ श्वानः सन्त्यभितोऽपि दन्तमुकुलव्यावर्तनोद्घाटित- खैरोत्तानितविडाहपृथुकाः किं तैः स्थितैर्वा मृतैः । वस्तव्यं गिरिराजमौलिषु विहर्तव्यं पुनः खेच्छया हन्तव्याः करिणो मृगेन्द्र इति च प्राप्तव्यमुच्चैर्यशः ॥२॥ किं पुष्णासि मृगान्मृगादनकुलाकिं वा परं त्रायसे त्वद्भाग्येन तथाप्यमी वनभुवि खैरं चरित्वा तृणम् । त्वां राजानमुपासितुं यदि किल श्रद्धां निबध्नन्ति त- कि पारीन्द्र गुहागृहादपि विनिर्गन्तुं तवैष श्रमः ॥ ३ ॥ उन्मुच्य वजनानुपेक्ष्य तृणवत्प्राणानपि प्रेयस- स्ती| दुस्तरमर्णवं च वणिजः प्राप्ताः पेंटीराशया । श्वासैस्ते विनिवर्तिताः प्रतिभयैः खस्थो भवातःपरं त्वं वा केवलमङ्गमङ्गमुरग व्यालिम्प गन्धवैः ॥ ४ ॥ भ्रान्त्वा दिग्वलभीविचित्य विपिनान्यासाद्य दैवादिह कापि क्वापि मुखेन केवलमथैकैकां शलाकां हरन् । कृत्वा नीडकुटी चिरात्तरुशिरस्यध्यास्त यावन्नतां काकस्तावदहो तदेव विपिनं दग्धं दवज्वालया ॥ ५॥ नाम्भोजाय शशी न चापि शशिने यद्रोचतेऽम्भोरुहं किं तेन क्षतमस्ति किंचन जगत्येतस्य वा तस्य वा । १.हे सिंह. २. चन्दनाशया.

१४४
काव्यमाला।
लोकानन्दकयोः परं त्विह तयोः प्रेम्णैव भाव्यं मिथ-
स्तच्चेन्नाजनि तत्प्ररूढमयशः स्फारं विधेः केवलम् ॥ ६ ॥
अस्तप्रत्युपकारगन्धमकृतस्वप्रार्थनापेक्षम-
प्यम्भोभिर्भुवमार्द्रयन्ति जलदा जीवन्त्यमी जन्तवः ।
दैवज्ञः पुनरस्ति वृष्टिरिति वागेका मयोक्तेति य-
द्विश्वं क्रीतमिवाधिगच्छति तदेवाघूर्णते मर्मणि ॥ ७ ॥
अस्ति खादुफलं किमस्ति किमथाघ्रातुं क्षमः कोरक-
स्तद्विश्राम्यतु नाम भोक्तुमुचितं पत्रं किमस्त्यन्ततः ।
सेव्यो हन्त यदीडशोऽपि मनुजैर्वृक्षाधमः पिप्पलो
दुःखातत्र्यमिदं विधेः कथय तत्कस्याग्रतो रुद्यताम् ॥ ८ ॥
सर्वासां सरितां पतिः खलु यदि व्याप्तः समस्ता दिशः
कल्पान्तेष्वपि वा न शुष्यति यदि खैरं तदङ्गीकृतम् ।
अम्भः खादु पिपासतः पथि परिश्रान्तस्य पान्थस्य किं
तेन स्यात्फलमर्णवोऽयमिति चेदिन्दुग्रहे स्नास्यते ॥९॥
स्थित्वा तीरभुवि प्रसार्य सरसि खैरं कराग्रं पयः
पातव्यं पिब तावता न विरमेद्दन्तीन्द्र किं ते तृषा ।
उन्मृद्गासि तटीरपः कलुषयस्युन्मूलयस्यजिनी
हानिः कस्य तवैव मृग्यमुदकं भ्रातः पुनस्तृष्यतः ॥ १० ॥
को दोषः परितो गते मधुकरे क्रीतः किमेष त्वया
क्रीतेनापि किमास्यते क्वचिदपि ग्लानोदरेण क्षणम् ।
जानास्येवमथापि चेत्क्षिपति तं कर्णानिलैर्दूरतो
दुर्धर्षोऽसि निरङ्कुशोऽसि भवतो मत्तेभ वार्तव का ॥ ११ ॥
नेतव्यः समयः कियानिह सखे काक त्वया भ्राम्यता
हंसीभूय सुखेन भुक्ष्व नलिनीनालानि पद्माकरे ।
व्यावर्तव्यमिहास्ति किं विमलता किंचित्तु कार्या तनो-
हँसत्वे यदि ते जनो विवदते दण्ड्योऽहमस्म्यग्रतः ॥ १२ ॥

अन्यापदेशशतकम् । १४५ किं त्वं दोहदमीहसे किमुदकैः सिक्तोऽसि कि केनचि- हृद्धस्ते सकृदालवालवलयः किं ते मही संस्कृता । द्विस्त्रिः पुष्प्यसि वासरे ह्यनुगुणं धुस्तूर ते निहवे दुर्गन्धो न भवेदियान्यदि ततस्त्वं पारिजातोऽसि न ॥ १३ ॥ गन्तव्यं जलमध्य एव गतवन्मन्तव्यमेतद्वपुः क्षन्तव्या लवणानिला इति कृतं निर्विद्य सांयात्रिक । अन्तर्वेश्मनि हंसतूलशयने सुप्त्वा सुखं जाग्रतो हस्ताग्रे धनमेष्यति खयमिति प्रातः किमास्ते हृदि ॥ १४ ॥ आसीनः सुखमापणे यदि वणिक्श्रद्धालुभिः प्रार्थितः किंचिच्छंसति पञ्चकं शतकमित्येतन्न तस्याद्भुतम् । आपातालविघूर्णिताम्भसि चलत्यौत्पातिके मारुते मज्जन्त्यामपि नावि मुञ्चति न यस्तामेव मूल्यस्थितिम् ॥ १५ ॥ विद्धं मर्मसु येन येन गरलोन्मिश्रा गिरः श्राविता जज्वाल ज्वलनास्त्रवन्निशि निशि क्रूरैः करैर्यः सदा । सर्वे ते सुहृदो बभूवुरधुना सङ्गे मिथः कामिनो. दोर्जन्यस्य विभावनात्परिणतौ दूती परं दूषिता ॥ १६ ॥ संनद्धेषु पयोधरेषु चलितेऽमन्दं पुरो मारुते कादम्बे कमलाकरस्थितिमपि त्यक्त्वा सरः प्रस्थिते । मिथ्यारोपितपौरुषैर्मधुकरैर्मुग्धैर्यदध्यासितं तस्येदं फलमम्भसा प्रवहता सैवाजिनी मन्जिता ॥ १७ ॥ संत्यक्ता यदि केतकी त्रिभुवनश्लाघ्या पुरद्रोहिणा तस्मिन्नेव हि पर्यवस्यति ततो वस्तुष्वसारज्ञता । किं वेणीषु न तां वहन्ति सुदृशः किं सा न विक्रीयते किं नेमामुपलालयन्ति रसिकाः क्षोणीभुजो मौलिभिः ॥ १८ ॥ कोणे क्वाप्यवतीर्य गात्रमभितः सिक्त्वा पयःशीकरै- रास्वाद्योदकमागतोऽस्मि पुनरित्यास्ते गजस्याशये ।

१४६
काव्यमाला।
कासारस्य दशा त्वसौ कलुषितान्यम्भांसि ममास्तटा
प्रध्वस्ता नलिनी किमत्र बहुना खातव्यमास्ते पुनः ॥ १९ ॥
द्यौरित्थं क्षितिरित्थमित्थमुदधेर्मुद्रेति कृत्वा स्थिति
विश्वस्याहनि विश्रमाय शयितुं प्रारम्भि धात्रा यदा ।
दग्धं चण्डकरैस्तदेव पवनैरौत्पातिकैः शोषितं
मेधैः प्लावितमद्भुतैरपि जगत्स्रष्टव्यमासीत्पुनः ॥ २० ॥
खस्ति खागतमास्यते सुखममी जाताः कुतः पल्लवाः
सन्तः सत्कुसुमान्यपीह किमतो माध्वी च तत्रेक्ष्यते ।
किं भृङ्गा अपि सन्ति साधु शिरसि न्यस्तं पदं शाखिनां
धुस्तूरास्ति न दुर्लभं किमपि ते यावद्वसन्तः सुखी ॥ २१ ॥
दृष्टाश्चन्द्रसमुद्गमाः शतमतिक्रान्ताः शतं प्रावृषः
सीमामेष न जात्वलङ्घत किलेत्यब्धिर्न विश्वस्यताम् ।
योऽसौ शेत इवायमेव विधिना वामेन चेच्चाल्यते
का सीमेति तदास्ति के जनपदाः का मेदिनी का दिशः ॥ २२ ॥
सर्वत्र स्रवतोऽस्य किंचिदुदकं दिष्ट्या मुहूर्ते कचि.
च्छुक्तीनामुदरेषु मौक्तिकमभूत्काले कदाचित्किल ।
अद्यत्वे च तथा करोतु पटुता यद्यस्ति तद्रतः
शुष्कैरेव तु गर्जितैर्व्यथयति श्रोत्राणि धाराधरः ॥ २३ ॥
आयुस्ते कियदस्ति तत्र च कियत्तारुण्यमत्रापि वा-
प्यध निर्गलितं निशात्मकतया यत्रास्ति सङ्गो न ते ।
शेषाः सन्ति कतिक्षणाः प्रणयजस्तत्रापि कोपो यदि
व्यर्थ निश्चिनु चक्रवाकि जननं कस्ते हितं वक्ष्यति ॥ २४ ॥
सर्वेषां विदिताः सुधाकरकराः साक्षात्सुधारूपिणः
संदेहोऽपि न तद्भुजः सुमनसो जाता न मल् इति ।
तानेव ह्युपभुञ्जते प्रतिनिशं दीनाचकोरा इमे
क्षीयन्ते तृणवच्च को नु गहनां जानातु धातुर्गतिम् ॥ २५ ॥

अन्यापदेशशतकम् । १४७ अर्चामः सततं गणाधिपमथाप्याखून्निहन्मः शतं ध्यायामो हृदि भैरवं तदपि तु प्रोत्सारयामः शुनः । भूतेशं प्रणुमस्तथापि शतशो भूतान्निगृह्णीमहे नोकस्य गुणः परस्य महतो दोषानपि प्रोणुते ॥ २६ ॥ अम्बुक्षोभकृतः कतीह तिमयः कत्युच्छ्रिताः पर्वताः कीहक्चान्तरबिन्धनो हुतवहः कीहक्च नौकागतिः । आगच्छत्प्रतिगच्छदुच्चलदुपाश्लिष्यत्प्रधावत्यत- कल्लोलारभटीभिरेव जलधेः सर्वं तदाच्छाद्यते ॥ २७ ॥ जामाता कमलाक्ष एव गृहिणी गङ्गा जगत्पावनी शीतांशुप्रमुखाः सुता भगवती श्रीरेव कन्या खयम् । ईदृक्ते गृहमेधिता त्रिभुवनाधारस्य वारांनिधे कः शक्नोति जनो मनोरथपथेऽप्येतावदुप्रेक्षितुम् ॥ २८ ॥ यन्मूले निखिलागमानुपदिशंस्तत्त्वं परं शंकरो यत्पर्णे जगतां निधिः स तु वटो नाम्नापि न खीकृतः । यच्छाखानिचयः पिशाचनिलयो यन्मूलगाः पन्नगा- स्तस्याश्वत्थतरोः पुनः कति नमस्काराः कति प्रार्थनाः ॥ २९ ॥ आगच्छन्त्यवगुण्ठयन्त्यथ पुनः पश्यन्ति जिघ्रन्ति च खारब्धं मधुमक्षिकां न कणमप्यस्य वयं भुञ्जते । धन्यस्त्वन्य उपेत्य निर्भयममूरुत्सारयन्दूरतः खादंखादमिदं स्वसंभृतमिव खच्छन्दमानन्दति ॥ ३० ॥ आसन्नो मधुरागतं वनभुवः साम्राज्यमित्यद्भुताः श्रूयन्ते गिर एष तत्त्वमिह न ज्ञातुं विधातुः क्षमः । यत्पर्णैस्त्रुटितं यदप्युपरतं पुष्पोद्गमैः शाखिनां यद्ग्लानं विटपैरिदं पुनरिह प्रत्यक्षमालक्ष्यते ॥ ३१ ॥ १. आच्छादयति.

१४८ काव्यमाला। उत्सन्नो मधुरस्ति कोकिलरवैरुत्सन्नमस्त्येतद- प्युत्सन्नं मलयानिलैरिदमपि प्रागेव जानीमहे । पान्थास्तुष्यथ तावतैव किमिति भ्रान्ता यदि प्राणिति स्तोकेनापि मनोभवो विगलतु प्राणेषु शुष्को ग्रहः ॥ ३२ ॥ तिक्तास्ते विटपास्त्वचो यदि ततोऽप्यासंस्ततोऽपि च्छदा- स्तेभ्योऽपि प्रसवास्ततोऽपि च फलान्येवं न दृष्टं क्वचित् । स्तौमि त्वामथवा न निम्ब भवतोऽप्यासीद्यतः संभवः श्रीमत्तत्किल निम्बबीजमधुना स्तुत्यं वचःशालिनाम् ॥ ३३ ॥ चूताः पल्लवमुद्रिन्ति वितरन्त्येतपिकेभ्यस्तत- स्तेऽप्येतेन कुहूः कुहूरिति कलं कुर्वन्ति कूजामिति । निम्बोऽपि स्वयमुद्विरन्फलमनेनाराधयन्वायसा- किचित्तेषु ततो रटत्सु सफलं जन्म स्वयं मन्यते ॥ ३४ ॥ भोज्यं खादु पयः स्थितं मणिगणैरापिञ्जरे पञ्जरे दूरे चिन्तयितुं च दंशमशकाः पारे गिरां लालनम् । सत्यं सर्वमथापि काननभुवि खाच्छन्द्यमव्याहतं ध्यायन्ती विमना मनागपि शुकी नालम्बते निर्वृतिम् ॥ ३५ ॥ प्राङ्मेधैः कियदम्बु पीतमुदधेः पीतेऽपि वृष्टिः क्वचि- हृष्टे चापि कियत्प्रलीनमवनौ पीतं कियत्प्राणिभिः । नेदं कश्चन वेदयत्तु किमपि प्रापावशिष्टं पुन- धर्मान्ते सरितां मुखेन तदभूदास्पदं पश्यताम् ॥ ३६ ॥ मेघं द्वारतया विधाय भुवनान्याप्लावयस्यम्भसा चन्द्रं द्वारतया विधाय सवितः पुष्णासि सर्वोषधीः । यत्त्वीषत्तपसीव तत्तु कुरुषे खेनैव तेनाधुना दातृत्वं घनचन्द्रयोः परिणतं क्रौर्य तु शिष्टं त्वयि ॥ ३७ द्वारं न प्रजहातु जातु नियतं जागर्नु रात्रीरपि खल्पेनापि मुदं प्रयातु किमतः श्वा श्वैव तावानपि ।

अन्यापदेशशतकम् ।
संपाद्यो महता धनेन सततं भोज्यश्च सान्त्वैरिति
त्यक्त्वा मत्तगजं पदेऽस्य महतः स्थाप्यः किमेतावता ॥ ३८॥
उत्पन्नाः सरितां ह्रदेषु सुचिरं तत्रैव पुष्टास्ततः
प्राप्ताः प्रावृषि सागरं जलचरास्तासां मुखादेव ये ।
द्वित्रैरेव दिनैस्तिमिगिलकुलस्यासाद्य कूटस्थतां
मृप्यन्त्यद्य न ते रहस्यपि कृतां नादेयतासंकथाम् ॥ ३९ ॥
पन्था कर्दमितः पयः कलुषितं हंसाः कृता दूरतः
पीड्यन्ते च यदेवमर्थिन इति क्रूरारवैश्चातकाः ।
सोढाहे तव हे पयोद सकलं शक्नोषि दातुं स्वतः
किं त्वं शीकरमेकमप्युदधिना लोभो यदि स्वीकृतः ॥ ४० ॥
सर्वज्ञो यदि शंकरो यदि महादेवो यदि प्रायशो
देवानामपि दैवतं यदि तदप्यास्तामिदं दूरतः ।
धुस्तूरैः फणिभिः कपालवलयैरन्यैश्च ते संगति-
चूडाचन्द्रकले न तावदुचिता याचे बहिर्गम्यताम् ॥ ४१ ॥
अस्यां प्रावृषि चातकैर्जलकणा लब्धा न चेकिं ततो
भाविप्रावृषि दास्यते द्विगुणमित्यभ्र त्वया गम्यते ।
एतेऽद्यैव लयं व्रजन्ति पृथुकैरेतत्कुलीनो न चे-
देकः प्राणिति तावतैव कृतमस्त्यत्रैव नः संशयः ॥ ४२ ॥
वर्णस्तेऽतिमनोरमः शिरसि ते वासो मृडानीपतेः
प्रत्येतव्यतरं च काञ्चनमिति प्रौढं पुनर्नाम ते ।
किं कर्तव्यमितःपरं च भवता धुस्तूर लोकाः पुन-
न क्रीणन्ति न च स्पृशन्ति न च वा पश्यन्ति गन्धप्रियाः ॥४३॥
राज्यं येन कृतं न तस्य शृणुमः कामस्य नामाधुना
येषामेव गिरः पुरा परभृतैस्तैरद्य मौनं धृतम् ।
व्याप्ता येन दिशो न सांप्रतमसौ मन्दानिलः स्यन्दते
किं ब्रूमो नितरां निदाघहतको विश्वं नवं निर्ममे ॥ ४४ ॥

१५० काव्यमाला। पीयन्तां तमसा दिशो विदधतां नीचाः पिशाचाः स्मयं व्याक्रोशन्तु शिवाः कियच्चिरमसौ कालः सखे स्थास्यति । अद्योदेष्यति भानुरेष्यति दिशामद्य प्रसादो मुखे- प्वद्य खां प्रकृतिं गमिष्यति मही कोक त्वया क्षम्यताम् ॥ ४५ ॥ मेघा इत्यवतीर्य केऽपि नभसः सर्वं पयो गृह्णते यादांसीति समागतास्तत इतोऽप्यन्ये रमन्ते सुखम् । यस्तु खान्तिक एव तस्य महतस्तालस्य कालाहोः शुष्कस्यापि हि नोपयोगकणिकां पश्यामि तेनाब्धिना ॥ ४६॥ आक्रामन्तु तमेव चूतमपि च क्रोशन्तु रेफोत्तरं डिम्भोऽस्माकमपीति वाभिदधतां काका वराकाः स्वयम् । गन्तव्यं क ततोऽन्यतः परभृत क्षन्तव्यमेतावद- प्यग्रे कस्य निवेद्यतामिदमतिक्रान्तो वसन्तोऽधुना ॥ ४७ ॥ गन्तव्यं शिशिरेण नाम भवितव्यं नाम चूताङ्कुरै- स्तानाखाद्य पिकः करिष्यति तदा नाम स्वयं पञ्चमम् । आस्तामेष तथाविधस्त्वमसि किं काक खतन्त्रस्य ते कालोऽयं स्वर एष भोज्यमिदमित्येषा कुतो यन्त्रणा ॥४८॥ काका मूर्ध्नि सुखं वसन्ति शतशः शाखासु शाखामृगा घूकाः कोटरगह्वरेषु मशकैदशैश्च सान्द्रं दलम् । आधारः कियतामसि स्थिरतरं शुद्धं च लब्धं यशः पान्था नोपसरन्ति चेत्क्षतमितः किं वृक्षराजस्य ते ॥ १९ ॥ स्निग्धश्यामलकोमलं दलमतिप्रच्छायशीतं तलं भूपर्यन्तविलम्बिजम्भलफलस्थूलं च वृत्तं फलम् । संपश्यन्विजने वने व्यवसितस्तत्रैव वस्तुं सुखं पान्थः पान्थमुखाद्विषद्रुमममुं दैवादवेत्य द्रुतः ॥ ५० ॥ वर्षन्त्यम्बुमुचस्तपन्तु तपना मथ्नन्तु देवासुरा बघ्नन्तु प्लवगाः पतन्तु सरितो गङ्गादिमाः सर्वतः ।

अन्यापदेशशतकम् । १५१ पुष्णातूत्पलबान्धवः प्रतिनिशं मुष्णातु वा वाडवो नाब्धिः क्षुभ्यति न प्रसीदति ततो न क्षीयते नैधते ॥ ५१ ॥ वापीकूपतडागपल्वसरःस्रोतखिनीसारणी- तोयाभ्युद्गमनिर्झरहदजलाधारोदपानप्रपाः । संपना उपजीव्य यस्य विभवं साक्षात्प्रणाल्योऽपि वा तस्मै जीवन जीवनाय सरितामीशाय तुभ्यं नमः ।। ५२ ।। न [ष्णो न च शीतलो जलनिधिलब्धप्रतिष्ठोऽपि स. न्कस्त्वस्याः प्रकृतेरभु चलयितुं शक्तस्त्रिलोकेष्वपि । अद्यापि ज्वलतान्तरेव विहितं किं तावदौर्वामिना सायंसायमुदित्वरेण शशिना तत्रैव वा किं कृतम् ॥ ५३ ।। राजा विप्रकुलस्य यस्य तनयः सोमः स वारांनिधे- यः सर्वाश्रयणीयपादकमलस्तस्याश्रयोऽयं हरेः । आनीतश्चुलुकं स एव चलुकेऽप्यन्तः प्रवेश्येत चे- स्कः संवेदितुमीहते भगवतः कालस्य लीलायितम् ॥ ५४ ॥ दुग्धं खादु रसादपीह मधुनो दग्धं विषैर्वासुकेः संवर्तव्रतसाक्षिणो जलचरा मन्थाद्रिणा मारिताः । प्राणेभ्योऽप्यधिकाः : सुरद्रुममुखाः प्राप्ताः समस्ता व्ययं किंचिद्रक्षितुमिच्छतामृतमिह क्षीराब्धिना नाशितम् ॥ ५५ ॥ लब्धा श्रीर्मुरवैरिणा पुरभिदा लब्धः स्वयं चन्द्रमा देवैरप्सरसो मणिद्विपहयास्तत्खामिनैवाहृताः । एकस्मै स्वयमेकमेव वितरत्येतेषु चेत्सागर- त्रैलोक्यं वशयेजडस्तु स वृथा विक्रम्य तैलुण्ठितः ।। ५६ ॥ कत्यश्वाः कति धेनवः कति गजाः कत्यद्भुताः पादपाः सुन्दर्यः कति सुभ्रवः कति महारत्नान्यनाण्यपि । जातका फिल कन्यका जलनिधेर्दातुं प्रसक्ता यदा सर्व तव्ययितं तदा परिणतौ नामैकमुच्छेषितम् ॥ ५७ ॥ - १५२ काव्यमाला । . प्रागभ्यागतया किलाभ्रसरिता संप्लावयन्त्या मही- मम्भोधिः खयमप्यपूर्यत सकृत्तत्तजलाधारवत् । आस्तेऽयं कथमक्षयो निधिरपां ते ते कथं वासते निर्व्याजाम्बुधराम्बुदानसुकृतं सिद्धं तदित्थं पुनः ॥ ५८ ॥ खातं शीतलवारिवारिदकुलश्यामाभिरामद्रुमं पान्थश्रान्तिहरं सरः पथि हृतं दुर्भिक्षमप्यम्भसाम् । ये त्वेते भुवि चातका इति कदाप्यज्ञातभौमोदका- स्ते गृहन्ति न चेदिहाम्बु किमतो दैवेन ते वञ्चिताः ॥ ५९॥ भूमिष्ठा अतिपावनीः सुरभिलाः स्वाद्वीरपः संत्यज- न्याचत्यम्बुदमम्बु चातकगणो यत्तेन किं साध्यते । किं तस्मै द्विगुणं प्रवर्षति घनः किंवा तपः साध्यते प्राग्जन्मन्यवितीर्णवारिकणिकः पापी स इत्यूह्यते ॥ ६० ॥ खादून्येव फलानि सन्ति सुरभीण्येव प्रसूनानि च खान्तं चाप्युपकर्तुमर्हति जने साध्यं वनस्थेन किम् भाग्यं ह्येतदतर्कितं वनतरोः पान्थो यदा तापस- च्छायामस्य यहच्छया फलवतीमध्यास्त गन्धोत्तराम् ॥ ६१ ॥ पान्थेषु व्ययितं फलं पथिषु यैनः सदा पादपै- यैरप्युन्नतमौलिगोपितफलैः कोणे निलीय स्थितम् । दावेन ज्वलता द्वयेऽपि खलु ते निःशेषिताः सांप्रतं पुण्यं पापमिति स्थितं द्वयमिदं तेषां द्वयानां पृथक् ॥ ६२ ॥ अध्वन्याः किल मूलगर्तमधुनाप्यापूरयन्त्यश्रुभि- ाक्रोशन्त्यधुना सबान्धवकुलाः सायं मुहूर्त द्विजाः । इत्थं यावदिमानि बिभ्रति शुचं भूतान्यपि त्वत्कृते तावत्त्वं न गतोऽसि पादप चिरं कीात्मना वर्तसे ॥ ६३ ।। जायन्ते विजने वने क्षितिरुहो यद्यप्यमी दुर्भगाः सर्वे ते बटुभिस्तयापि (१) न तथा बोर्बु क्षमास्तुल्यवत् । :

अन्यापदेशशतकम् ।
१५३
आक्रान्तेष्वपि तेषु केषुचिदतिक्रूरक्रियैः श्वापदै-
गुह्यन्ते कतिचिद्यतः शमधनैब्रह्मर्षिभिः पावनैः ॥ ६४ ॥
निद्रालस्यशरीरसादवमनान्नद्वेषकासज्वर-
श्वासश्वेतिमहिकिकाप्रभृतयो मासेषु मातुर्बुवाः ।
जातस्तत्क्षणमेव नश्यतु शतं वर्षाणि वा जीवतु
खर्गे वा पितरौ दधातु नरके वा पातयत्वञ्जसा ॥६५॥
निघ्नन्तोऽशनिभिस्तडिद्विलसितैश्चक्षुहरन्तो नृणां
धिध्यन्तश्च शिलाशतैः परिचिताः प्रायेण धाराधराः ।
वर्षन्तो निभृताश्चिरं च समये दृष्टाश्च केचिद्धना
यैरव्याजपरोपकारनिरतैर्जात्या यशः स्थापितम् ॥ ६६ ॥
नाक्ष्णोर्गच्छसि गोचरं बहुतिथान्मासान्नभस्ये पुनः
संघीभूय समेत्य वर्षसि निरुच्छासं समन्तादपः ।
कालं कालमनुव्रजन्मितमिता मुञ्चस्यपश्चेत्ततः
किं जीमूत तव प्रणश्यति कियत्प्राणन्त्वतः प्राणिनः ॥ ६७ ॥
भग्नं भित्तिभिरालयैर्निपतितं स्रोतोभिराप्लावितं
विध्वस्तं पशुभिश्च संघश इति कोशन्ति वृष्टे त्वया ।
त्वय्युगृति वारि वारिद जना नश्यन्त्यवश्यं क्षणा-
कीर्ति चिन्तय दुर्लभां न गणय क्षुद्रान्गुणान्मादृशाम् ॥६८॥
उत्पत्तिर्मलये समुद्रनिलये पन्था वृतो राक्षसै-
स्तत्रत्यानपि हन्त चन्दनतरूंश्छिदन्ति सांयात्रिकाः ।
वर्तन्ते सविधस्थिताश्च सुखिनः शाखोटमुख्यद्रुमा-
स्तन्मन्ये कृतिनस्तु ते तरुकुले ये नोपयोगक्षमाः ॥ ६९ ।।
गृह्यन्तां करिणः प्रसह्य विनिहन्यन्तां वराहा वृका
भल्लूकाश्च तरक्षवश्च पथिकाः सन्तु त्वया निर्भयाः।
आखून्कङ्कखराञ्छशाननिमिषान्कीटान्पतझानपि
ग्राहंग्राहमहो कियत्प्रकटयस्याखेटके पाटवम् ॥ ७० ॥

१५४ काव्यमाला। यादोभिवंडवामिना जलनिधेर्यावत्पयो गृह्यते किं तावत्युपयुज्यते शततमोऽप्यंशः पयोद त्वया । सौजन्यं किमिति ब्रवीमि भवतः सर्वस्वमित्वं त्यज- ख्यातः ख्यापयसे पयोधिमपि तं सर्वोपयोगक्षमम् ॥ ७१ ॥ मेघः कश्चिदचेतनः कियदपि खीकृत्य सिन्धोः पयः कीर्ति तस्य समुच्चिनोति कियती धर्म कियच्छाश्वतम् । ब्रह्मज्ञस्तपसां निधिस्त्रिभुवनख्यातश्च कुम्भोद्भवः सर्वखं विनियुज्य तस्य किमिव श्रेयः समापादयत् ॥ ७२ ॥ यच्छैलेषु यदर्णवेषु यदपि ग्रामाटवीजाङ्गल- प्रायासु क्षितिषु क्षिपन्ति बहुशस्तोयं वृथा तोयदाः । दृष्टिस्तत्र न दीयतां यदि गुणग्राही भवान्यत्पुन- मेषूपवनेषु वा सकृदमी वर्षन्ति तद्गृह्यताम् ॥ ७३ ।। प्रामेष्वेव सुवृष्टयो विनयवत्वेव श्रियः पुष्कला धीमत्वेव कलागमव्यसनिता गोप्वेव दुग्धस्थितिः । वाग्मिष्वेव विवक्षुतेति च जगत्प्रार्थ्यां व्यवस्थामिमां किं वेधा विदधे पुरेति शृणुमो रामेऽपि राज्यस्थितिः ॥ ७४ । उन्भीलन्ति कियन्ति वा न कुसुमान्युष्णद्युतेरुद्गमे तत्त्वेतावति बन्धुरित्यतिसखीत्यादित्यकान्तेति च । कीर्ति दत्तवतां त्रिलोकविदितामेवं कवीनामृणं किं कृत्वेयमपाकरोतु जनुषां कोट्यापि नालीकिनी ॥ ७५ ॥ विद्धं साधु न साध्विव प्लुतमिदं रेरे कथं विध्यसी- त्याख्यातुं रणकौशलं वयमपि प्रौढाः स्थिता दूरतः । आक्रामन्रणमेदिनीमपि वहन्खङ्गं विकोषं करे वेत्ति खं च परं च यद्यवहितो विक्रान्तिरेषैव नः ॥ ७६ ॥ अम्भोजेष्वतिकोमलेषु विहरन्नन्तर्जले संविश- नज्ञातातपवातवर्षमनयत्कालं चिरं यः सुखम् ।

अन्यापदेशशतकम् । १५५ सोऽद्य प्रावृषि केतकीमधिवसन्भृङ्गः क्षतः कण्टकै- राविद्धः करकोपलैरभिहतो वातैः कथं वर्तते ॥ ७७ ।। ब्रूते खागतभीक्षते कृशममुं श्रुत्वा कथाः खिद्यते पक्षाभ्यामसकृत्प्रमार्टि रचयत्युच्चावचाश्वाशिषः :। उच्छिन्नप्रसवात्तरोरुपगते भृङ्गे क्षुधा ताम्यति प्रस्तौति भ्रमरस्तु पूर्णजठरो नाहारवार्तामपि ॥ ७८ ॥ ये मृष्यति सहासिकामपि बकैर्जात्या न हंसाः खत- स्तेष्वेको जरसा विलुप्तगमनस्त्यक्तः स्वकैः प्रावृषि । तानेवानुसरन्बकान्बहुतरं तच्चेष्टितानि स्तुवं- स्तज्जात्यै स्पृहयन्कियत्कियदहो जाति निजां निन्दति ॥ ७९ ॥ शुद्धिं खामनुचिन्त्य मीननिवहैः पूर्णेऽपि पद्माकरे खेनैवोपनतैर्मृणालवलयैर्जीवन्ति हंसाः सुखम् । ये त्वेते विमलास्ततोऽपि च बका ध्यानैकनिष्ठाः सदा निर्द्वन्द्वा निभृताश्च बिभ्रति न ते यादोभिरेवोदरम् ॥ ८०॥ यैर्जीवन्ति सितच्छदा न दुरितं कस्यापि यत्संग्रहे रोचन्ते नहि ते मृणालवलयाः कस्यै प्रभूता अमी । अप्या सायमुपोष्य मीनपृथुकैर्युक्त्वा महत्यार्जितै- 'रेकद्वैरपि तृप्तिमेति परमां हिंसोपलब्धैर्बकः ॥ ८१ ॥ अस्पृश्योऽस्तु मलीमसोऽस्त्वनियताहारोऽस्त्वतोऽप्युद्भटै- र्दोषैरस्तु परःशतैः परिवृतः काकस्ततः का क्षतिः । मुझे भोज्यमुपस्थितं समुपहूयैव खयं बान्धवा- न्यः सीदन्क्षुधया विचिन्तय ततो धन्यश्च पुण्यश्च कः ॥ ८२ ॥ भृत्यास्ते बिभृमस्तु तान्वयमिमे झुद्रा बृहन्तो वयं जातौ पक्षवताममी तु कलकण्ठाः कालकण्ठा वयम् । इत्युद्भावयसे कुहूमुखकुलादुत्कर्षमेवात्मनः कण्ठे पातयिता कदा खलु भवान्काक खरं पश्चमम् ॥ ८३ ।।

१५६ काव्यमाला। केनाध्यापितमास्थितं क नु कदाधीतं क वा वर्तितं तद्विश्राम्यतु कुत्र जातमथ कैः पुष्टं तदालोच्यताम् । काले सोऽपि कुहूमुखो यदि जगत्कर्णामृतं कूजति प्राग्जन्मार्जितभाग्यवैभवमिदं कः स्तोतुमीष्टे कविः ॥ ८४॥ कीटः कश्चन वृश्चिकः कियदयं प्राणी कियच्चेष्टते को भारो हननेऽस्य जीवति स वा कालं कियन्तं पुनः । नाम्नोऽप्यस्य कियबिभेति जनता दूरे कियद्धावते किं ब्रूमो गरलस्य दुर्विषहतां पुच्छाग्रशूकस्पृशः॥ ८५ ॥ किं चन्द्रो न पुरा बभूव किमिमे वृक्षाः पुरा नाभव- कि सृष्टा अधुना पिका मधुकरा अद्योदपद्यन्त किम् । साहंकारममुं प्रपञ्चमखिलं भोक्तुं यदा प्राणिनां प्रासीदद्रुहिणस्तदा समुदभूदाश्चर्यचर्यो मधुः ॥ ८६ ॥ आयासानविचिन्तयन्नगणयल्लाभं ततः किंचिद- प्यम्भो मुञ्चति कीर्तिमात्रशरणो धाराधरः सर्वतः । तद्यत्नादुपयुज्य वर्धयतु वा दातुर्यशः शाश्वतं मौढ्यादेतदुपेक्ष्य नाशयतु वा लोकः प्रमाणं ततः ।। ८७ ॥ वृत्तिं वर्तयितुं निजां विषहरा गृह्णन्तु सर्वान्नरा गृहन्तु क्षुधितास्तदेकविहिताहारा मयूराश्च वा । नाजिघ्रन्ति च ये कदापि नकुलास्ते हन्त किं कारणं दर्श दर्शमनुद्रवन्ति भुजगान्वेंधा च विच्छिन्दते ॥ ८८ ॥ खादन्ति क्षुधितास्तृणानि तृषिता गृहन्त्यपो निर्झरे सीदन्तो गिरिकंदरासु हरिणा येऽमी कचिच्छेरते । व्याधव्याघ्रदवानलप्रभृतयस्तेष्वेव संनाहिन- तद्वा तिष्ठतु घातयन्ति मुनयोऽप्येतान्कथं चर्मणि ॥ ८९ ।। अन्त्येकत्र तरक्षवो मृगकुलं दावा दहन्त्यन्यतो व्याषा वीतभयाः परत्र शतशो विध्यन्ति गृहन्ति च ।

अन्यापदेशशतकम् । १५७ किं त्वं वेत्सि कथामिमां मृगपते निद्रासि कोणे कचि. द्दिष्ट्या चेदवबुध्यसे शमयसि द्वित्रान्वृथा दन्तिनः ॥ ९० ॥ दुर्धर्षोऽसि वनेचरोऽसि क इदं नेत्याह किं तु खतो जानीषे न हिताहितं न खलु तजिज्ञाससे वान्यतः । तद्वन्ति नियन्त्रयन्ति निगलैस्त्वां ताडयन्त्यङ्कुशै- रारोहन्ति च वारणेन्द्र मशकमाया मनुष्या अपि ॥ ९१ ॥ अहस्त्रिश्चतुरम्बुभिः सपयसि खं पुष्करावर्जितै- भुझे मेध्यतराणि भद्र तरुणान्यश्वत्थपत्राणि च । पुण्यारण्यचरोऽसि न प्रविशसि ग्रामं सकृत्कुञ्जर ज्ञानं चेत्कियदप्युदेति न समा ब्रह्मर्षयोऽपि त्वया ॥ ९२ ॥ हन्यन्ते कति जन्तवो वनचरैर्नित्यं कति श्वापदै- गुह्यन्ते कति कूटयन्त्ररचनैः क्षोणीभृतां प्रीतये । एतावत्यपि विप्लवे न भजसे कस्यापि दृग्गोचरं खच्छन्दश्च सृगाल खेलसि पुनस्तुल्यं वनग्रामयोः ॥ ९३ ॥ अस्ति स्वर्णमयोऽधिरस्ति विषयः क्षुत्तडरावर्जितः सन्ति क्षीरघृताकरा जलधयः सन्ति द्रुमाः कामदाः । किं नस्तचरिताद्भुतश्रवणतः साध्यं क्षुधा ताम्यतां दृष्टं यत्सविधे विधेहि सुमते तत्रैव सर्वं श्रमम् ॥ ९४ ॥ अस्त्यत्रैव किलार्णवे तदमृतं तत्रैव .हालाहलः सन्त्यस्मिन्मलये पटीरतरवस्तत्रैव वाताशनाः। यद्यद्वस्त्वभिजातमस्ति सविधे तत्तहुरापं नृणां प्राप्तव्यं रसनाञ्चले करतले भाले च वेधा न्यधात् ॥ ९५ ॥ तावचैघितमेधितव्यमवनौ यावन्महद्भिर्दुभै- च्छायाभिः कुसुमैः फलैश्च पथिकाः शक्त्या समाराधिताः । कालोऽयं मम जीर्यतः पतितुमित्यास्ते तरोराशये पान्थानां च पतत्रिणां च हृदये जातोऽयमस्मिन्क्षणे ॥ ९६ ॥ ..

१५८ काव्यमाला। दृष्टिघ्राणविषान्फणाधरपतीनष्टापि दृष्ट्या स्वयं रोद्धं द्रावयितुं विनाशयितुमप्यव्याहतप्रक्रमः । मार्जारान्नकुलांश्च किं खगपतिः साधे वृणोत्यात्मनः किं प्रत्यर्थिकुलस्य वृत्तिद इति प्रद्वेष्टि वा मारुतम् ॥ ९७ ॥ अध्वन्यान्कति रुन्धते कति दृढान्भिन्दन्ति तोयाकरा- न्केदारान्कति मज्जयन्ति कति च व्यापाटयन्ति दुमान् । वाहिन्यः क्षणलुप्तवारिविभवा वन्या अवन्यामिमा यः सिन्धुः सकलाश्रयः स तु पुनः कुत्रेति न ज्ञायते ॥ ९८ ॥ का द्यौः किं बलसद्म का वसुमती स्यात्सर्वमेतद्यदि प्रत्यक्षं न भवेत्कदाचिदपि किं ते सर्वसंदर्शिनः । भ्राम्यन्तः प्रलपन्तु नाम विदितं मण्डूक सम्यक्त्वया मुक्त्वेमं परमं कुकूपमितरत्किं नाम संभाव्यते ॥ ९९ ॥ त्वद्गर्भे सुखमासते फणिपतिश्रीकूर्मदिग्दन्तिनः प्रत्यक्षा कुलभूभृतां स्थितिरपि त्वय्यम्व सर्वसहे । ये त्वेते बिभृमो वयं भुवमिति खं ख्यापयन्ते यशो निःशकं निरपत्रपं च तदिदं नः कर्णशूलायते ॥ १० ॥ भूतानां प्रभवस्थितिप्रविलयास्त्वय्येव विश्वंभरे त्वद्र्भ ननु ते रसातलजुषो दैत्याः फणीन्द्राश्च ये। त्वं सर्वैरुपजीव्यसे दिविचरैस्त्वत्तोऽपि किंचित्परं न स्यात्स्यादपि तनिरस्त विषयं ब्रह्म त्वमेवासि नः ॥ १०१॥ इति श्रीभरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध- निर्वाहकश्रीमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदचादीक्षितपौत्रण श्रीनारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठ- दीक्षितेन विरचितमन्यापदेशशतकम् ॥

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

विक्रेयसंस्कृतिपुस्तकानि । ब्रह्मसूत्रकरभाष्यम् । भामती-कल्पतरु-परिमरच्या गरहितम् । ब्रह्मस्वरूपर..... “प्रहलवाद्यथाभिधानानि लसूत्राणि खरसतः पालोच्यमानानावावममयान्त । तत्पर वेदं का यं प्रसन्नगम्भीर नेतरैयाख्या लथा कास्ते यथा भामत्या। यस्या हे । रमलानन्द ..ासीक तिरतितरामानन्दमलं प्रेक्षकाणामादधाति विवरणं च परिमलाभिधानं कल्पतरोः कल्पत ... मादिबिह- दाहिताप्पन प्रणीतं .. दयाशाप्रक्रियाप्रचुरे विदुषाम- सन्तमानन्दमावहती.. .f र । तेशमेषामेकत्र समावेशेन सदृदय- हृदयाहादकरी मिमां पr:. भीगकाशयारः । मूल्य रु., मार्ग. १॥ रु. . hwaytm - वेदस्तुतिः। अद्भागवतदशमस्कंधगता) लोके व्यशनि जन्मादासोनिको क ... "प..... कृर पाख्याहितश्री जग व्या। श्रीमद्भाते वेदलत्यादयो निधि विपर: खिलवेधा गभीरार्थाश्चेति रोहितं विदु..., : विषयगाम्भी राव्याध्यापि दुहवासीदिति कणकधमाधिकारः काहीना अध्याय प्रणीनया.. श्रीधरी यया सह मुद्रितास्ति। मूल्यं १२ आणका, मार्ग. ४ ॐ. । पातञ्जलयोगपूर मा.न.पोतील रत्तितारतम् । योगशा तिखाःकरणप्रन्थोऽयम् । अस्य १ समाधिपादः, २ सा। 'दा, ३ विभूतिपादः, ४ कैवल्य पादश्चेति चत्वारि प्रकरणानि खनामभिव 'यविषयमाविष्र्वन्ति । निर्दिष्टव्याख्यायमप्यर्थस्पष्टीकरणायातिसुलभ मुल्य १४ आ.,मार्ग. ४ आणका. पाण्डुरङ्ग जावजी, निर्णयसागरमुद्रणालयाधिपतिः

Kaavyamaalaa Shashht'ho Guchchhaka

Author
Durgaprasada~ Pandita~
Title
Kaavyamaalaa Shashht'ho Guchchhaka
File name
Kaavyamaalaa Shashht'ho Guchchhaka
Text
OCR done
Citation
1930
Published
2005-11-30
Publisher
Nira~naya Saagara~ Presa~
Language
Sanskrit
Pages
175
Classification
Geography. Biography. History
DLI number
369629
Barcode
2030020016449.00
Scanning centre
RMSC, IIIT-H
Digital publisher
Digital Library Of India
Rights
IN_COPYRIGHT
VMLT id
0T9hSl8IORb
Download PDF

Kaavyamaalaa Shashht'ho Guchchhaka