Bb Library Allahabad
Sankhayakarika
Front matter
શ્રી ગુરુમંડળ સંસ્થાપકાચાર્ય નિખિલશાસ્ત્ર નિષ્ણાત પૂજ્યપાદ
સ્વામિત્રી ૧૦૮ બલરામદાસીન
વિહ્ય સં. ૧૯૬૩,
પ્રાદુર્ભાવ સં. ૧૯૧૨.
.*
મ
mninm mmm A है १०००८ साङ्ख्यकारिका vanga महामुश्विरकृष्णविरचिता श्रीगुरुमण्डल- संस्थापकाचार्यनिखिलशास्त्रनिष्णातपूज्यपादस्वामि श्री १०८ बालरामोदासीनविरचिताभ्यां विद्वत्तोषिणीव्याख्यातत्कृत- टिप्पणीभ्यां समलङ्कृतया निखिलतन्त्रस्वतन्त्रप्रतिभश्रीमद्भाचस्पतिमिश्चविरचितया साङ्ख्यतत्त्वकौमुद्या विभूषिता सेयं गयायां स्वाम्यात्मस्वरूपोदासीनः श्रीरामामुद्रणयन्त्रालय मुद्रयित्वा प्रकाशिता । शके १८५२, संबत् १९८७. an wiwown * १०,००८ अस्यायमुपोहात:- विजयते खलु सर्वविद्वजनमुखकमलमाध्वीकायिताऽऽस्तिकषड्दर्श नान्तर्गतं वेदशिरोलालनीयं श्रीमता परमर्षिणा कपिलाचार्येण श्रीमहा- विष्णोरपरावतारेण कृतं भूतानां सृष्टिस्थितिलयप्रतिपादनद्वारा प्रकृति- पुरुषविवेकज्ञानसम्पादनक्षम- "प्रधानास्तित्वमेकत्वमर्थवत्त्वमथान्यथा । पारार्थ्यं च तथाऽऽनैवयं वियोगो योग एव च ॥ शेषवृत्तिरकर्तृत्वं मौलिकार्थाः स्मृता दश । विपर्ययः पञ्चविधस्तथोक्ता नव तुष्टयः । करणानामसामर्थ्यप्रष्टाविंशतिधा मतम् । इति षष्टिः पदार्थानामष्टभिः सह सिद्धिभिः” ॥ इति-- पष्टिपदार्थीप्रतिपादकं साङ्ख्यशास्त्रम्। तच्च तत्रभवान्परमकारुणिको- महामुनिः कपिलाचार्यः सकललोकक्षेमकामनया श्रासुरिनाम्ने सुनये स्वशिष्यायोपदिदेश । तेन च पञ्चशिखाचार्यायेत्येवं शिप्यपरम्परा- क्रमेण रवेनापि सम्प्राप्तमतिविस्तृतं दीर्घकालसापेक्षमतिक्लेशसाध्य चेत्यादिकं पर्यालोच्य तच्छास्त्रपारदृश्वना दीनजनोद्धरणकपापरि- पूर्णान्तरङ्गेणाधीतषष्टितन्त्रेण श्रीमतेश्वरकृष्णमहाविदुपासाङ्ख्यकारिका- नामकनिवन्धेन [द्वासप्ततिकारिकात्मना] सिताक्षरंणासिताशयेन सर्वमुमुक्षुजनहान्धितमसनिर्णाशनपटीयसा सञ्चिक्षिपे आर्थमतिना कोविदापण्या । ततः कालवशात्तदध्ययने तत्प्रवचनेऽपि केशवाहुल्यं विद्रासा- दिवशात्सम्प्राप्तं परिपश्यता मूलशास्त्रकृतो महाविशववतारादन्येन महर्षिणा कपिलाचार्येण [१]-हेयहानत छेतुव्यूहाख्यार्थचतुष्टयवत्प्रथाप्लो- ध्यायः, [२]-प्रधानकार्यभूतसप्तदशात्मकलिङ्गदेहगतवस्तुप्रकाशप्रति- पादकद्वितीयाध्यायः, [३]-परवैराग्यसाधनीभूतपुरुषाविषयाव्याक्त- सम्बन्ध्यत्यन्तलयान्तकार्यप्रतिपादकतृतीयाध्यायः, [४]-प्राशुवताध्याय- त्रितयगतविवेकान्तरङ्गप्रतिपादकचतुर्थाध्यायः, [५]-वसिद्धान्तदी- करणसमर्थार्थप्रतिपादकपञ्चमाध्यायः, [६]-मुख्यार्थविस्तृतिपरिशिष्ट- वाक्यार्थप्रतिपादकपष्टाध्यायश्चेत्येवं पञ्चविंशतितप्रकाशनद्वारा मुमुक्षुलोकस्य हितप्राप्तयेऽहितनिवृत्तये च पडध्यायात्मकं सायशानं उपोद्घातः कृत्प्रवृद्धः निर्माय स्वशिष्यायोपदिदेश, तथा सप्तविंशतिसूत्रात्मकमपरमपि संक्षित तदिदं शास्त्रं यच्छ्री पद्विद्यारण्यस्वामिभिक्रयातं मुद्रितं सत्प्रकाशते इत्यन्यत् । तदुपतं स्मृतिकर्त मिर्महामुनिमिः- "एतन्मे जन्म लोकेस्मिन्मुमुक्षूणां दुराशयात् । प्रसङ्ख्यानाथ तत्वाना स्वमतीयात्मदर्शनम्' इति । एतेन महाविष्णववतारभिन्न- नाग्यवतारंण कपिलाचार्येण व्यरचि, तदाह स्मृतिकृत्- 'अग्निः स कपिलौ नाम सायशास्त्रप्रवर्तकः” इति परास्तम् । मुन्यन्तरकल्पनायां गौरवाच्च । पलमुखगौरवस्यादोषत्वं यदि ब्रूयात्तहिं त्वद्वचनेऽग्नि- शब्दोऽग्न्याख्यशक्त्यावेशादेव प्रयुषतः यथा-"कालोऽस्मि लोक.क्षय- इति श्रीभगवद्गीतायां . श्रीभगवद्वाक्ये कालशब्द: कालशक्त्यावेशादिति । सेयं न्यायकणिका, तत्त्वसमीक्षा, तत्वविन्दुस्तथा योगतत्वशारद्या- ख्ययोगसायटीका, श्री. छाङ्करमाप्यव्यारया भामती, उद्योतकर- कृतन्यायवार्तिकतात्पर्यटीका चेत्येवं श्रीमद्वाचस्पतिमिशेण घड्दर्शन- व्याख्यात्रा [द्वादशदर्शनव्याख्यात्रा] साथ्यकारिका व्याख्याता । यञ्च व्याख्यानं तत्त्वकौमुदीनाना लोके प्रसिद्धम् । तामेतां श्रीमहाराणस्यादिगतपण्डितजनहृदयाह्लादिनीं न सर्वजन- प्रवेशसुलमा विचिन्त्य वाराणस्यां काञ्चित्सभामलङ्कुर्वाण महामहो- पाध्याय- श्रीमच्छिवकुमारसिश्र-महामहोपाध्याय-श्रीमद्गङ्गाधरशास्त्रि- जि. सि. ऐ, यस् प्रभृतिपशिडताखण्डलेयाख्यातुं प्रो साहितेन सर्वतन्त्र स्वतन्त्रेण परमहंसपरिव्राजकाचार्येण दिग तविश्रान्तशारद- ज्योत्स्नासक्षकीर्तिविशदीकृतदिगन्तरालेन निरन्तरक्षितिपतिकुल- सेवासमय समुन्मिषित पदारविन्दमध्यास्वादनप्रज्वलन्नखमयूखनिकयो- ल्लिखितरत्नप्रभाभासुरकिरीटसहस्रपरिशोभितभारतमण्डलेन 'विद्ध- तोषिणी' नाम व्याख्या मूलव्याख्यादिषु क्वचित्त्वचिट्टिप्पणी च व्यरचि । येयं व्याख्या केवलं लोकोपकारद्वारा भगव प्रीत्ये लिखितुमारब्धाप्यति- प्रवल विघ्नव्यूहेन साङ्ख्यतत्वकौटुद्यास्त्रयस्त्रिंशत्तमश्लोकव्याख्यासम्ब- न्धिनोः "अन्तर्गडुना कालेन" इत्येतत्पदयोरियोत्तरं “केचित्तु क्षणस्तु वस्तुपतित इत्युत्तरभाप्यानुरोधाक्ष" इत्यन्तैवासीन्न तदूर्ध्वम् । यतः-
उपोद्भातः
'हा हाऽयं गुरुमण्डलस्य पुरतस्तत्पादपद्माम्बुजद्वन्द्वं चिन्तयतो-
विहाय वत कैवल्यं विदेहं गतः। कालेस्मिन्गुरुकुम्भयोगमहिते क्षेत्रे
प्रयागे निशिवका हि शके हराहय (१८२८) मिते शुक्रे तपस्येऽसिते॥१॥
...
तदेतज्जन्मादिचरितमुखेन स्पष्टीकृतं श्रीपाण्डेयश्रीकान्तशर्मभि-
विद्वद्भिः मित्रगोष्ठीपत्रिकानानि मासिकसस्कृतपत्रे । तथाहि--
"श्रासीनिखिलशास्त्रपारावारपारदृश्या विश्वविश्रुतयशोराशि-
विषयभीषणाशीविषदष्टमानुपजनविश्वेद्यो हृद्यानवद्यगुणरत्नाकरोऽश्रा-
न्तोपस्थितमहीपतिगणाहम्पूविकाप्रणतमूर्धतिरोहितचरणारविन्द उदा-
सीनो महात्मा स्वामिश्रीवालरामो नाम । अयं खळु क्रमशः--
पितुः प्रियः प्राप्तसमग्र संस्कृतिः कृती जनानन्द करः स्वभावतः ।
प्रभावशाली धिषणाप्रकर्षतः प्रवीणतां वर्णगणेधिजभिवान् ॥ १॥
अत्यल्पकालात्सकलान्यधीत्य श्रुतेः षडङ्गानि परिश्रमेण ।
विचक्षणादीक्षितवैद्यनाथात्तथेतरेभ्यो नियतो गुरुभ्यः ॥ २॥
काश्यामचीयाय महामहोपाध्यायादसौ कोविदरामसिश्रात् ।
वेदान्तशास्त्राणि नितान्तसक्तो भक्तो परब्रह्मण उत्कचित्तः॥३॥ [युग्मम्]
ततो नवद्वीपपुर प्रयातोऽधीते स्म शेषाध्यपि दर्शनानि ।
अभ्यस्य भूयो रसनावीन्यमूनि कृत्वा भृशमाप तोषम् ॥ ४ ॥
अथ भ्रमन् देशविशेषशोभां पश्यन्गुरुभ्यो बहुशोऽधिगच्छन् ।
शास्त्राणि लोकैरभितोय॑मानः पराभवचादिकुल तथासीत् ॥५॥
दाक्षिण्यवान्दक्षिणदिग्गतोसौ विचक्षणानेक्षत सक्षणस्तान् ।
क्षणादवाकृष्यत यैर्मनोऽस्य वैलक्ष्यमापे भृशमीक्षितश्च ॥ ६॥
मूर्धा गतः दमां विनयेन युक्तः परीक्षितोनुक्षणमेभिरेषः । .
क्षीणः क्षुधाम्नायवाऽक्षयां हि तृप्तिं प्रपेदे श्रुतिशिक्षयाप्ताम् ॥७॥ .
तेन श्रुतिक्षौद्रबुभुक्षितेन गृहीतदीक्षण समीक्षितानि ।
क्षौद्रेक्षवक्षीरसुधादिकानि क्षाराणि रूक्षाणि गतक्षणानि ॥ ८ ॥
समाप्य वेदाध्ययन विधायोपाध्यायवर्गाभिसरोजरंणान् ।
निजोत्तमाङ्गस्य विभूषणानि तीर्थानं कर्तुमियेष भूयः ॥ ६ ॥
४ उपोद्धातः कुर्वन्पवित्रान्पृथिवीप्रदेशान्महात्मनां सङ्गतिमीप्समानः । प्रायः प्रयाति स्म सतां समाजो यात्राप्रसङ्गाद्भवति स्म यत्र ॥१०॥ क्षमामण्डलस्याखिललब्धवर्णवर्गे दधत्प्रेत परं सदाऽयम् । वाराणसीवासिमनीषिवृन्दे महद्गुरुत्वं कलयाञ्चकार ॥ ११ ॥ विधाय पातञ्जलदर्शनस्य व्याख्यां कवीनां रुचिरा चिराय । स्थिरां तनुं कीर्तिमयीभीप्सुस्तत्पुस्तकान्यर्पितवान्बुधेभ्यः ॥ १२ ॥ अभ्यर्थितः शिष्टजनैश्च पातञ्जलप्रकाशं सरलं स्फुटार्थम् । हिन्दी गिरा दर्शनशास्त्रसारं लोकोपकाराय चकार शीघ्रम् ॥ १३ ॥ अथयेन श्रौतसर्वस्वं (पिण्डपितृयज्ञमीमांसा), गङ्गास्थितिमीमांसा, अवोधध्वान्तमार्तण्डः, अमूल्यरत्नमित्यादयोन्येप्यनेके ग्रन्थास्तत्रभवता भवतापवतां जनानामुपकरिष्णुना प्राणायिषत, प्रास्थायि चोदग्दिग्गत- जनपदाम्पदारविन्दरजोभिः पवित्रयितुम् । यः प्रागेवास्यापूर्व प्रभावमा- कातिसमुत्कण्टितचेतसा सत्सम्भावनस्वभावेन छपरानगरीवास्तव्येन श्रीमता देवकुमारसिंहेनाभ्यर्थितः सनाथयाम्बभूव तद्भवनं चरणलरसी- रुहरेणुभिः । सततपरिभ्रमणशीलेनापि भावभूरिलेन तस्मै प्रत्यहं ज्ञान- मार्गमुपदिशता व्यलम्बि तस्यैवालये वर्षद्वयम् । ततःप्रस्थितो वङ्गदेशीया- ऑल विद्यालयानामध्यक्षेण (इन्स्पेक्टर आफ स्कूलम्बेङ्गाल) श्रीमता सूदेव- चन्द्रमुखोपाध्यायेन दर्शनशास्त्राध्ययनाय स्वस्योपाध्यायपदवी प्रापितः। उत्तरपाराभूमिपतिना श्रीमता रासविहारिमहोदयेनापि दर्शनशास्त्रस्य महाऽदर्शभूतः स्वसझनो भूषणीचक्रे वर्षद्वयावधि । एवमेव जगति ज्ञानमार्ग प्रकाशयता भूमण्डलमार्तण्डन जनालादका- रिणा क्षयरहितचन्द्रमसा मनीषितवर्षिणा जङ्गमकल्पतरुणा करुणावरुणा- लयेन वर्तमान एव संवत्सरे (श. १८२७) कुम्भमहोत्सवे त्रिवेणी स्नातुं प्रयागतीर्थ गतवता शमवता साधुगणानवता सर्वदर्शिनापि स्वानुचर- वर्गास्फुटमकथितवतैव ससम्भ्रममीश्वराहूतेन वा पापीयसामस्माकं सङ्गतिं त्वरया परिजिहीर्षता वा देवैः स्वेषामधःस्थितलोके तस्य वास- मनुचितं मन्यमानैविमानद्भिरपि तस्मिन्वहुमानवद्भिर्मानवजना- दृश्यतेनेवोपरिलोकं तपोनिधिना तपोमासे कृष्णप्रियेण कृष्णपक्षे- उद्भुतप्रभावपूर्णेन पूर्णाङ्कतिथौ (नवमीतिथौ) यशःशुक्लेन शुक्रवासरे उपोद्धात सेवकजनक्षणदेन क्षणदायां महात्मनामग्रगण्येनाये यामे भूमिवलये- ऽभिनवं शोकसुद्भावयता नवस्यां घण्टायामस्मिल्लोके सचेतनमानस्य नेत्नाभ्यामश्रुवेणीः प्रवाहयता शोकसागरमग्ने प्वपि सर्वेषु परमप्रियशिष्यं श्रीस्वाम्यात्मस्वरूपशास्त्रिणं, ज्योतिर्विदं श्रीरामचन्द्रो- पाध्यायं च निरवलम्वमेव त्यजता त्रिवेणीतटे निजपाञ्चभौतिकशरीर- शून्यं मर्त्यभुवनं व्यधायि । अधुना श्रीस्वाम्यात्मस्वरूपशास्त्रिणा श्री १०८ स्वामिवालरामो- दासीनत्तत्रभवद्भिः परमकृपाळुभिः स्थापितेन गुरुमण्डलेन तदधि- प्टानाधिकारेऽभ्यर्थितपूर्वेण निजशोकमूनयित्वा तन्मण्डलं स्विमात्रशरणं यथापूर्व पालयितुं प्रवृत्तेन भूयतामित्याशास्ते । पाण्डेयश्रीकान्तशमा ।" ।
AR ANANDEASE उपोद्घातः ततस्तत्र तन्मुख्य शिष्येणात्मस्वरूपोदासीनेन यथाविधि सर्व कृत्यं त्रिवेण्यास्तीरे निर्वयं कृतार्थीकृतो ह्यात्मा । ततस्तत्साङ्ख्यतत्त्वकौमुदीव्याख्यायास्तद्धस्ताक्षरमन्तिम तयार चिन्त्य चिरं दुःखान्यनुभूय पारमपारयता तेन परं यत्नमास्थाय तस्य ग्रन्थस्य व्याख्यारूपस्य प्राचीनतदुक्तिगतविचित्रावगम-सुखसम्पादन- मिक्षोरिव तत्समाप्य तन्मुद्रणोत्तरं तदिदं साधयितुं शक्यं नान्यथेति निश्चित्यावशिष्टभागव्याख्यां श्रीरामावतारसाहित्याचार्यद्वारा कारयित्वा मुद्राप्य स ग्रन्थ प्रकटीकृतस्तदर्शनगततत्त्वज्ञानसम्पत्तिसम्पित्सुजनमनः- कुतूहलाभिवृद्धये, तथा श्री १०८ स्वाम्यात्मस्वरूपशास्त्रिणा श्री १०८ स्वामिवालरामोदासीनवयस्तत्रभवद्भिःपरमकृपापरिपूर्णान्तरङ्गैः स्थापिते गुरुमण्डले प्रविष्टेर्विद्वद्भिः साधुभिरभ्यर्थितेन तदधिष्ठिताधिकारस्वी- काराय, तन्मण्डलगतसाधुजनमानसिकशोकापनोदाय च, तमधिकार- मधिष्ठाय तन्मण्डलं यथापूर्व पालयितुं प्रवृत्तेन समर्पितमिमं ग्रन्थ सफलीकुर्वन्तु तत्रभवन्तो भवन्त इत्यभ्यर्थयते इति शम् । काशीशेपश्रीव्यङ्कटाचलशास्त्री, विद्वत्कृपाभिलाषी. -:0: instrumentwity ปาฯ साङ्ख्यतत्त्वकौमुदी 0400 1 ओम् नमोऽन्तर्यामिणे. यो भावः सर्वभावेषु स्वनुस्यूतो विभाव्यते । भावये तं भवं देवं भवाभावाय केवलम् ॥ १ ॥ बम्भ्रमीति यया बद्धो मुक्तस्तिष्ठति कूटवत् । त्रिगुणाऽलौकिकी रज्जुर्मया दृष्टा जहातु माम् ॥२॥ यद्वचोऽमृतमापीय प्राकृतामृतनिस्पृहः । संवृत्तस्तं समालम्बे देशिकं नानकं परम् ॥ ३ ॥ इह खलु प्रनविद्वत्सामन्तशिरोरत्नायमानो निखिलदर्शनासाधारणधि पण आचार्यवाचस्पतिमिश्रः साङ्ख्यकारिकासप्ततिं व्याचिख्यासुरारब्धपरि- समाप्त्यरातिप्रत्यूहव्यूहापोहासाधारणकारणमविंगीतशिष्टाचरिततर्कितस्मृत्य- नुमितश्रुतिज्ञापितानुष्ठेयताकं मङ्गलाचरणमुपशिक्षयन् प्रकृततन्त्राभिधेयाभि- धित्सया प्रकृततन्त्रमूलभूतां श्वेताश्वतरश्रुतिं किञ्चिद् व्यत्ययेने निबध्नन् प्रकृति (१) एतेन “शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं मङ्गलम्" इत्येवंविधा ये तत्र तत्राधुनिकानां लेखा उपलभ्यन्ते तेऽविचारप्रभवा इति सूचितम्- अयम्भावः-यथाऽसति विरोधे स्मृत्या तन्मूलभूता श्रुतिरनुमीयते नैवं शिष्टाचा- रेण साक्षात्सानुमीयते किन्तर्हि शिष्टाचारेण स्मृतिस्तया च श्रुति रिति, तथाचाहुः कुमारिलखामिनः “आचारात्तु स्मृतिं ज्ञात्वा श्रुतिर्विज्ञायतेततः” इति, स्पष्टं चैतत् प्रथमाध्यायतृतीयपादे तन्त्रवार्तिक इति तत्रैव कणेहत्य निरीक्षणीयम् । (२) मन्त्रद्वितीयपादान्ते 'सरूपा' इत्यस्य स्थाने 'नमाम' इति व्यत्यस्तं, 'अजो टेको जुषमाणोनुशेते' इति तृतीयपादस्थाने 'अजा ये तां जुषमाणां भ- जन्त' इति व्यत्यस्तं, 'जहात्येनां भुक्तभोगामजोन्य' इति तुरीयपादस्थाने 'जह- त्येनां भुक्तभोगां नुमस्तान्' इति व्यत्यस्तमिति शेयं, नच 'मन्त्रः खरतो हीनो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह, स. वाग्वज्रो यजमानं हिनस्ति" इति मि- थ्याप्रयोगस्य वाग्वज्रतुल्यत्वाभिधानेनानावहत्वाक्तोः कथमत्र व्यत्ययीकरणमिति वाच्यं, यजमानम् इत्युपादानेन यागाङ्गभूते मन्त्र एव. व्यत्ययीकरणस्यानर्थावह- वाभ्युपगमादिति दिक् ।
साङ्ख्यतत्त्वकौमुदी। अजामेकां लोहितशुक्लकृष्णां . agille पुरुषांश्च प्रणमति “अजामेकाम्" इत्यादिना, न जायत इत्यजा जनिविकारवि- धुरा मूलप्रकृतिः, (१) तां नमाम इति संबन्धः । "तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम" इत्यादीनि वाक्यानि तु अजाम्'- इत्यादिश्रुतिविरोधेन न प्रकृत्युत्पा त्तिपराणि किन्तर्हि चितिसन्निधानाद् गुण- अयक्षोभपुरस्सरसर्गोन्मुखतारूपगुणवैषम्यदशापत्तिरूपाभिव्यक्तिपराणि, ॥ एवं यत्र क्वचिच्छ्रयमाणं पुरुषेऽव्यक्तलयाभिधानमपि गुणसाम्यदशारूप- कार्याक्षमतारूपानभिव्यक्तिपरतया नेयम् ॥ एवमेव 'अजो नित्य' इति श्रुतिविरोधाद् “यतः प्रधानपुरुषौ” “प्रधानं पुरुषश्चैव लीयेते परमात्मनि” इति श्रूयमाणौ पुरुषस्योत्पत्तिप्रलयावष्युपचा- रेण नेयौ ॥ "संयोगलक्षणोत्पत्तिः कथ्यते कर्मजानयोः” वियोजयत्य- न्योन्यं प्रधानपुरुषावुभौ, प्रधानपुंसोरनयोरेष संहार ईरितः” इति मात्स्य कौमं च वच उपन्यसन्तः पुम्प्रकृत्योः संयोग एव तयोरुत्पत्तिर्वियोग एव च तयोर्लय इत्येवं व्यवस्थापयन्ति ॥ १ अत्राध्यात्मविद्याप्रस्तावाद अजा-पदं योगेन प्रकृतावेव नेयं न समुदायप्र- सिमा छाग्यां, रूपककल्पनया तु समुदायप्रसिद्धिखीकारेऽपि नासङ्गतिरित्यवधेयम् । रूपककल्पनाप्रकारश्च 'यथा हि लोके यदृच्छया काचिदजा रोहित शुक्लकृष्णवर्णा स्यांद् बहुवर्करा सरूपवर्करा च, तां च कश्चिदजो जुषमाणोनुशयीत कश्चि- चैनां भुक्तभोगां जह्याद्, एवमियमपि प्रकृतिस्त्रिवर्णा बहु सरूपं विकारजातं जनयति, अविदुषा च क्षेत्रशेनोपभुज्यते विदुषा च परित्यज्यत' इत्येवं शारी- रकीये भाष्ये प्रदर्शितः (अ० १ पा० ४ सू० १०) २ महाभारतशान्तिपर्वमोक्षधर्मे अ० ३३ श्लो० ३१. ३ 'अव्यक्तं पुरुषे ब्रह्मन् निष्कले सम्प्रलीयते' इति विष्णुपुराणादिषु श्रूयमाणम् ,/ ४ गुणवैषम्यदशायाम्प्राकृतगुणसङ्गादुदासीनस्यापि पुंस...औपाधिक्री भो- क्तत्वापत्तिरुत्पत्तिः. गुणसाम्यदशायां च विकारासंसर्गिणस्तस्याविक्रियखरूपेऽव- स्थानं लय इत्येवमुपचारेणेत्यर्थः ५ 'जन्माद्यस्य यतः' इति ब्रह्मसूत्रविवरणे विज्ञानामृते विज्ञानभिक्षवः.
. E ऽनेकत्वावगतेर, 'अजाम्' इत्येकवचनमननुगुणमित्याशङ्कापनोदायाऽऽह “ए .. र सम्" इति । सजातीयद्वितीयरहितामित्यर्थः ॥ साङ्ख्यतत्त्वकौमुदी । बह्वीः प्रजाः सृजमानां नमामः । ननु “मायान्तु प्रकृतिं विद्यात्” “सत्त्वं रजस्तम इति प्राकृतं तु गुणत्रयम्, एतन्मयी च प्रकृतिर्माया या वैष्णवी मता" इति श्रुतिस्मृत्योर्मायाप्रकृत्योः पर्यायत्वावगमाद् मायायाश्च “इन्द्रो मायाभिः पुरुरूप ईयत" इति श्रुत्या- साजात्यं चात्र विकृतित्वानधिकरणत्वे सति तत्त्वान्तरोपादानरूपत्वमभि- मतं, तेनाविकृतित्वेन त्रिगुणत्वेन वा साजात्यमादाय न दोषोन्मेषः ॥ 'मायाभिर्' इति बहुवचनन्तु प्रकृतिगतानन्तज्ञानक्रियासर्गस्थितिप्रभृति- रूपशक्तिभेदाभिप्रायेण, प्रकृत्यात्मकगुणत्रयभेदाभित्रायेण वा सुयोज्यमिति न प्रकृत्येकत्वबाधैः॥ यत्तु गर्भोपनिषदि "अष्टौ प्रकृतयः षोडश विकाराः" इति श्रुतं यच्च "भिन्ना प्रकृतिरष्टधा” इति भगवता गीतं तत्तु महदादीनां विकृतीनामप्य- हङ्कारादीनां प्रकृतित्वेनैकांशसाम्यमादाय महदहंकारपञ्चतन्मात्राण्यपि संक- लय्याभिहितं नतु मूलप्रकृत्यभिप्रायेणानेकत्वाभिधानमिति ध्येयम् ॥ एवंविधायाः प्रकृतेः श्रुतिसिद्धत्वेपि दाढाय कार्यलिङ्गकानुमानं सूच. यितुमाह "बह्वीः प्रजाः सृजमानाम्” इति, प्रकर्षण व्यक्तरूपेण जायन्ते= आविर्भवन्तीति प्रजाः=महदादयो विकाराः, ताश्च प्रजाः सुखदुःखमोहात्म- त्वेनानेकविधा इति बह्वयश्च, ता अनेकविधाः प्रजाः सृजमानाम् आविर्भाव- यन्तीम्, अनेकविधविकाराकारेण परिणममानामित्यर्थः ॥ १. विष्णोः-व्यापकस्य पुरुषस्य संबन्धिनी, पौरुषेयभोगापवर्गापादिनीति यावद. २. पुरुषस्य महदादेश्च द्वितीयस्य सद्भावात्कथं द्वितीयरहितत्वमित्याशङ्काश- मनाय सजातीयेति विशेषणम् . ३. नन्वविकृतित्वेन पुरुषस्य प्रकृत्या साजालान् त्रिगुणत्वेन च महदादेरपि तत्साजात्यात्कथं सजातीयद्वितीयराहित्यमित्यत आह-"साजासं चात्र' इति. ४. 'अजामेकाम्' इति श्रौतश्रुया मायाभिरिति लैङ्गिकस्य बहुत्वस्य बाधान्न प्रकृत्यनेकत्वकल्पना शोभनेति भावः. ५. एवं “माया चाविद्या च स्वयमेव भवति'' इति तापनीयश्रुतिरपि स्वयं मिति पदमुपाददती वास्तवमनेकत्वमपद्बुवाना सती प्रकृत्येकत्वेऽनुकूलेति ज्ञेयम् । .. " साङ्खथतन्यकौमुदी। : अजा ये तां जुषमाणां भजन्ते समा , नन्वेकस्याः प्रकृतेः कथं विभिन्नरूपमहदादिप्रपञ्चोपादानत्वम् , एकरू- पाद्धि खलु कारणादेकरूपेणैव कार्येण भवितव्यमितरथा कार्यगतवैचित्र्य- स्याकस्मिकत्वप्रसङ्गेन स्वभाववादपादाभिवादापत्तेरित्याशङ्कामपनिनीषुः प्र- कृतेस्त्रिगुणात्मिकतामाह "लोहितशुक्लकृष्णाम्” इति ॥ लोहिता चासौ शुक्ला चेति लोहितशुक्ला, सा चासौ कृष्णा चेति लो. हितशुक्लकृष्णा, इत्येवं कर्मधारयाश्रयणेन पूर्वयोः पुंवर्भावः, तां लोहितशुक्लकृष्णां, तत्र लोहितं रक्तं रजः, शुक्लं श्वेतं सत्त्वं, कृष्णं नीलं तम इति, तदात्मिकां-रजःसत्वतमोगुणात्मिकामित्यर्थः ॥ यद्यपि लोहितत्वादयो वर्णा न रजःप्रभृतिषु गुणेष्वद्धा विद्यन्ते तथापि यथा लोहितं महारजनादि वसनं रञ्जयति तथा रजोऽपि प्रवृत्त्या मनो रञ्ज- यतीति लोहितं रजः, एवं यथा शुक्लं सलिलं विमलयति तथा सत्त्वमपि ज्ञानादिना मनो विमलयतीति शुक्लं सत्त्वम् , एवं यथा नीलं घनपटलमावृ- णोति तथा तमोपि ज्ञानमावृणोतीति कृष्णं तम, इत्येवमुपचारेण गुणानां लोहितत्वादिकमुन्नेयम् ॥ अवयवधमैर्व्यपदेशोच्च गुणसाम्यावस्था प्रकृतिरपि लोहितशुक्लकृष्णेति न प्रकृतानर्देशानुपपत्तिः॥ एतेन प्रधानमेव जगदुपादानमित्यपि. सूचितं, तथा हि ये हि भावा येन रूपेण समन्वीयन्ते ते. तदुपादानका उपलब्धा यथा घटकटकादयो मृत्सुवर्णा " १ प्रथमसमासे लोहितेत्यस्य द्वितीयसमासे लोहितशुक्लेत्यस्य पुंवद्भावः, कर्मधारयसमासाश्रयणेनैतद् दर्शयति न गुणेभ्यस्तत्त्वान्तरं प्रधानमपि तु गुणा एव साम्यावस्थापन्नाः प्रधानपदव्यपदेश्या इति. व्यक्तं चैतत् "प्रकाशशीलं सत्त्वं क्रियाशीलं रजः, स्थितिशीलं तम, इत्येते. गुणाः प्रधानशब्दवाच्याः भवन्ति' इति योगभाष्ये, लोहितं शुक्लं कृष्णं यस्यामिति बहुव्रीह्याश्रयणे. तु गुणेभ्योऽर्थान्तरं गुणिरूपं प्रधान संसिभेत् तच्चानिष्टमिति कर्मधारय एवाश्रितः. २ नन्वेवमुपचाराश्रयणेपि लोहितत्वादयो, गुणधर्माः एवायान्ति नाजापदा- भिधेयप्रधानधर्मास्तत्कथं प्रकृतेर्लोहितत्वादिव्यपदेश इत्याकाङ्क्षाशमनायाह-"अव- यवधमैर्" इति, अवयवाः प्रधानस्यावयविन एकदेशरूपा रजस्सत्त्वतसांसि, तेषां धर्माः लोहितत्वादयस्तैरवयविनः प्रधानस्य व्यपदेशादित्यर्थः,. - एवमवयविरूपप्र- कृतिगतस्त्रीत्वमादायः लोहितेत्यादि स्त्रीत्वेनः व्यपदेशः इत्यपि: बोध्यम् ।
साङ्ख्यतत्त्वकौमुदी। जहत्येनां भुक्तभोगां नुमस्तान् ॥१॥ L न्वितास्तदुपादानकाः, तथाचेमे भावाः सुखदुःखमोहात्मनान्वीयमाना उपल- भ्यन्ते तस्मात्तेपि सुखदुःखमोहात्मसामान्योपादानका भवितुमर्हन्ति, तादृशं च गुणत्रयात्मकत्वेन प्रधानमिति तदेव जगदुपादानं नान्यत् ॥ तत्र येयं प्रधानस्य सुखात्मता तत्सत्त्वं, या च दुःखात्मता तद्रजः, या च मोहात्मता तत् तम इति त्रिगुणात्मकत्वेन प्रधानस्य सुखाद्यात्मकत्वसि- द्धिरिति ॥ कस्य हेतोरियं विचित्रविकाराकारेण परिणमत इत्याशय पौरुषेयभोगा- पवर्गसम्पादनरूपपुरुषार्थाख्यस्वभावत एवेयं प्रवर्तते नान्येन केनचित्प्रवर्त्यते इति परिहारं मनसि निधाय येषां पुरुषाणां भोगापवर्गलक्षणमर्थ साधयितुं नैसर्गिक्यस्याः प्रवृत्तिस्तान् पुरुषान् प्रणमति “अजा ये ताम्" इत्यादिना ॥ ये अहंप्रत्ययविषयत्वेन प्रसिद्धाः, अजाः=अनादिनः पुरुषाः, तां प्रकृति, भजन्ते प्रकृतितत्त्वादात्मनोऽन्यतामबुध्यमानाः प्रकृतिगतसुखित्वादिकमा- त्मन्यभिमन्यमानाः सुखिनो दुःखिनो मूढा वयमित्येवमभिनिविशन्ते तान् बद्धानविवेकिनः पुरुषान् वयं नुमः, ये चाजाः प्राप्तप्रकृतिपुरुषान्यताप्रत्ययाः पुरुषाः, तां प्रकृतिं जहति अनात्मत्वेन परित्यजन्ति तान् विवेकिनोपि षान् वयं नुम इत्यर्थः ॥ किंविधाम्प्रकृतिमविवेकिनो जना भंजन्त इत्याकाङ्क्षायां हेतुगर्भित विशे- १. यथा च सर्वेषां भावानां सुखाद्यात्मकत्वं तथा 'अनया स्त्रिया सर्वे भावा व्याख्याताः' इत्यग्रे ( १३ का० ) व्यक्तम् । २ सर्वे भावाः सुखाद्यात्मकोपादानोपादेयाः सुखाद्यन्वितत्वाद् यद् यदन्वितं तत् तदुपादानकं यथा मृत्कनकान्वितं घटकटकादिकं, तथा चेमे, तस्मात् तथेति चात्र प्रयोगः. ३ एतच्च "पुरुषार्थ एव हेतुः" ( ३१ का० ) इत्यत्र व्यक्तीभविष्यति. ४ भोगस्य सिद्धत्वेनापवर्गस्यैवावशिष्टत्वादपवर्गयोग्यतया बद्धा अपि पुरुषा मुक्तवन्नन्तव्या एवेत्याशयेनोभयेषां पुरुषाणां नमनमिति बोध्यम् । ५. यतो हेतोर्जुषमाणा भोगप्रदानेन पुरुषान् प्रीणयति ततो हेतोस्तां ते भजन्ते= अनुसरन्तीतिभावः.
MARRIAL साङ्घयतत्वकौमुदी। कपिलाय महामुनये षणमाह-"जुषमाणाम्" इति, शब्दाधुपभोगप्रदानेन पुरुष सेवमानां सुखाद्यात्मकशब्दादिरूपपरिणामेन पौरुषेयभोग साधयन्तीमिति यावद् ॥ किंविधां च तां विवेकिनः परित्यजन्तीत्याकाङ्क्षायां हेतुर्भित विशेषण- माह “भुक्तभोगाम्” इति, भोगपदम् अपवर्गस्याप्युपलक्षकं, तत्र शब्दाद्युप- लब्धिर्भोगः, प्रकृतिपुरुषान्यताख्यातिश्चापवर्गः, भुक्तः निष्पादितः भोगो यया सा भुक्तभोगा तां=सम्पादितपौरुषेयभोगापवर्गत्वेन समाप्ताधिकारा- मित्यर्थः ॥ इदमत्रावधेयं तावदेव हि प्रकृतितत्वं विचेष्टते न यावद् भोगं वाऽपवर्ग वा सम्पादयति निष्पादितभोगापवर्गा तु कृतकृत्या सती स्वयमेव निवर्तते पुरुषाणाञ्चाऽऽनन्त्याद् यं प्रति कृतकार्या तं प्रत्येव निवर्तते नान्यान् प्रति, एवं च नैकस्मिन् विवेकिनि सति प्राकृतपरिणामविरामः, तथा चाहुः- "कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वाद्” इति ॥ एतेन (गुणत्रयात्मिका प्रकृतिरेव की, पुरुषार्थ एव च तस्याः प्रवृत्ते- हेतुः, पौरुषेयभोगापवर्गनिष्पादनमेव च तत्कृत्यं, पुरुषस्तूदासीनोपि प्राकृ- तगुणसङ्गादविवेकाद् भोक्तृभावेन बध्यते, विवेकख्यात्या चाऽसङ्गत्वभावनया मुच्यते) इत्ययं प्रकृतशास्त्राभिधेय इत्यपि सूचितम् ॥ १ ॥ इदानी प्रकृतशास्त्रप्रवर्तकसङ्ग्राहकाचार्याननुक्रमेणोद्दिश्य प्रणमति "कपिलाय” इत्यादिना ॥ 'नमस्याम' इत्युत्तमपुरुषानुरोधेन 'एते' इत्यत्र वयमित्यध्याहार्यम् , एते वयं कपिलाय नमस्याम इत्यन्वयः ॥ - .. १ यद्यपि भोगादयो विकाराश्चित्तस्यैव वृत्तिविशेषरूपा धर्मास्तथापि चितिचित्त- योर्जपाकुसुमस्कटिकयोरिव सन्निधानादभेदग्रहे चित्तवृत्तीः स्वस्मिन्नारोप्य शा- न्तोस्मि दुःखितोस्मि मूढोस्मीत्यध्यवस्यति पुरुषः, यथा विमले वा मलिने वा दर्पणतले प्रतिबिम्बिते वदने दर्पणतलीयवैमल्यं मालिन्यं चारोप्य कमनीयं मलिनं च वदनमध्यवस्यतीति, एवं च चित्तवृत्तिसारूप्यात्पुरुषस्यौपाधिको भोगो भवतीति शेयं, व्यक्तं चैतत् "वृत्तिसारूप्यमितरत्र'' इत्यत्र पातञ्जले पा० १ सू० ४. २ यतो भुक्तभोगा=निप्पादितकल्या ततस्तां परित्यजन्तीति यावद्. ३ अपवृज्यते केवलीभवति मुच्यते येन विवेकज्ञानेन सोऽपवर्ग इत्यर्थः. ४ योग सू० २२ पा० २.
साङ्ख्यतत्त्वकौमुदी। मुनये शिष्याय तस्य चासुरये । वयमित्यनुक्त्वा 'एत' इति कथनन्तु स्वीयौद्धत्यापोहाय, बहुवचनन्तु सपरिवारस्य सशिष्यस्य वा स्वस्य विनेयत्वाख्यापनाय ॥ 'एते' इति कर्तृपदमादाय "शेषे प्रथमः” इति प्रथमपुरुषप्रयोगस्तु नापाद- नीयः, वयमित्यस्मदः प्रयुक्तत्वेन ततोऽन्यत्वरूपशेषत्वस्याभावाद् अत एव त्वं च देवदत्तश्च पचथ इत्यादिप्रयोगसाधुत्वाय प्रवृत्तं 'युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधो वक्तव्य' इति वार्तिकं 'नहि शेषश्चान्यश्च शेषग्रहणेन गृह्यत' इत्यास्थाय प्रत्याख्यातं महाभाष्ये । ननु कपिलायेत्यत्र कथं चतुर्थी, नच "नमःस्वस्तिस्वाहा” इत्यनेन सेति वाच्यम्, अत्र नमःशब्दयोगाभावाद्, नच नमस्यशब्दे नमःशब्दस्य सद्- भावात् तद्योगसद्भाव इति साम्प्रतं,वृत्तावेकार्थीभावाङ्गीकारेण पृथगर्था- सत्त्वात्समुदायस्यैव नमस्यशब्दस्यात्रार्थवत्त्वेन नम इत्यस्यार्थवत्त्वाभावात् तदुक्तं महाभाष्यकृता "अर्थवतो नमःशब्दस्य ग्रहण नच नमस्यशब्दे नमः- शब्दोऽर्थवान्" इति, इति चेदै , अत्राहुः--कपिलाय इत्यस्य कपिलं प्रीणयितुम् अनुकूलयितुं वा नमस्याम इत्यर्थमादाय "क्रियार्थोपपदस्य च कर्मणि स्था- निनेः' इत्यनेन चतुर्थाः साधुत्वाश्रयणेन प्रकृतप्रयोगसङ्गतिरिति ॥ कपिलशब्दस्य बहुष्वर्थेषु साधारणवृत्तित्वाद् असाधारणाभिमताभिधेय- स्योपादेयत्वाय विशिनष्टि "महामुनये" इति, मुनित्वं ज्ञानवत्त्वम् , महत्त्वं १. उपयुक्तादन्यो हि शेषत्वेनाभिमन्यतेऽत्र. चोपयुक्तस्य वयमित्यस्य स- त्त्वान्न ततोऽन्यत्वमिति कथमत्र शेषत्वमिति भाव:- २ अत एव नमस्यति देवानित्यस्यैव साधुत्वमास्थितं महाभाष्ये न चतुर्थ्य- न्तस्येत्यपि ज्ञेयम्, ३ क्रियार्था क्रियोपपदं यस्य तस्य स्थानिनः अप्रयुज्यमानस्य तुमुन्नन्तस्य कर्मणि चतुर्थी स्याद् इति सूत्रार्थः, फलेभ्यो याति, फलान्याहर्तुं यातीति च तदुदाहरणम् . '. ४ विष्णुरपि. कपिलो यथा “सनात् सनातनतमः कपिलः कपिरव्ययः" इति, महादेवोपि कपिलो यथा “कपिलः कपिशः शम्भुः,” इति, नागविशेषोपि कपिलो यथा. “शङ्खश्च शङ्खपालश्च कपिलो वामनस्तथा' इति, दानवविशेषोपि कपिलो यथा “अयोमुखः शंबरश्च कपिलो वामनस्तथा'' इति, मुनिविशेषोपि कपिलो यथा "सिद्धानां कपिलो मुनिर्' इति.. ..
साङ्ख्यतत्त्वकौमुदी। पञ्चशिखाय तथेश्वरकृष्णायैते नमस्यामः ॥२॥ .. चाप्रतिहतानौपदेशिकत्वं, तच्च मुनिपदार्थतावच्छेदके ज्ञानेऽन्वितम्, एवं / चाप्रतिहतानौपदोशकज्ञानशीलाय कपिलायेत्यर्थः ॥ यद्वा निखिलवेदविषयत्वरूपं महत्त्वं ज्ञाने ज्ञेयं, तथाहुर्विष्णुसहस्रनाम- भाष्ये शङ्कराचार्याः 'महर्षिः कपिलाचार्य इति सविशेषणमेकं नाम महांश्चा- सावृपिश्चेति महर्षिः कृत्स्नस्य वेदस्य दर्शनाद् अन्ये तु वेदैकदर्शनादू ऋषयः' इति ॥ यद्यपि "ऋषि प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति" "महर्षिः कपिलाचा- र्यः" इति श्रुतिस्मृतिभ्यां कपिलस्यर्षित्वमेव प्रतीयते न मुनित्वं तथाप्य- न्यत्रासाङ्कयेणे मुनित्वर्षित्वयोवृत्तावप्यन्न कपिले द्विविधधर्मसद्भावादुभय व्यपदेशसम्भवेन न मुनित्वाभिधानहानिः ॥ एवं प्रथमसावयाचार्य प्रणम्य “पञ्चमे कपिलो नाम सिद्धेशः कालवि- प्लुतं, प्रोवाचासुरये साङ्खयं तत्त्वग्रामविनिर्णयमें" इत्यभिहितं द्वितीयाचा- र्यमासुरिं नमति "मुनये शिष्याय तस्य चासुरये” इति ॥ यथानौपदेशिकज्ञानशीलत्वेन कपिलो महामुनि वमासुरिरपि त्वौपदेशि- कज्ञानवत्त्वेन मुनिरयमित्याह-"मुनये” इति, औपदेशिकज्ञानवत्त्वमेवास्य स्फुटयितुं विशिनष्टि-"तस्य शिष्याय” इति, कपिलादाप्ततत्त्वज्ञानत्वेन क- पिलशिष्यायेत्यर्थः तदुक्तं पञ्चशिखाचार्येण "आदिविद्वान् निर्माणचित्तमधिष्ठाय कारुण्याद् भगवान् परमर्षिरासुरये जिज्ञासमानाय तन्त्र प्रोवाच” इति ॥ " १ तच्च महत्त्वञ्च. २ 'ऋषिर्दर्शनाद' इति यास्कोक्तेः . ऋषन्ति जानन्ति, एतदर्थकैतन्मन्त्रयु- /क्तादेतस्मात्कर्मणोऽमुना प्रकारेणैतत्फलमित्येवमभ्यूहन्तीति. ऋषय इति निर्व- चनाच्च मन्त्रद्रष्टत्वमृषिवं,. तच्च वशिष्ठवामदेवादिषु वर्तते, मननशीलत्वं मु- नित्वं तच्च शौनकादिषु वर्तते, इत्येवमृषित्वमुनित्वयोरन्यत्रासाङ्कर्येण वृत्तावप्यत्र भगवदवतारे कपिले मन्त्रद्रष्टुत्वज्ञानवत्त्वरूपयोरुभयोरपि धर्मयोः सद्भावाद् ऋषि प्रसूतम्' इत्यत्रर्षित्वेन . व्यपदेशः, “सिद्धानां कपिलो मुनिर्' इत्यत्र च मुनित्वेन व्यपदेश इति न कपिलस्य मुनित्वोक्तयसङ्गतिरिति भावः. ३ भागवत प्र० स्कं० अ०३ श्लो० १०. RAMA २ साङ्ख्यतत्त्वकौमुदी । विजय प्राय (1) देने वाला इह खलु प्रतिपित्सितमर्थ प्रतिपादयन् प्रतिपादयिताऽवधेयुवचनों भवति पेक्षावताम् पपानकाय इदानीम् “आसुरेः प्रथम शिष्यं यमाहुश्चिरजीविनं, पञ्चस्रोतसि निष्णातः पञ्चरात्रविशारदः, पञ्चजः पञ्चकृत् पञ्चगुणः पञ्चशिखः स्मृतः” इत्युक्तल. क्षणं "जटा वह्निशिखारूपा पन्च सन्ति च मस्तके, तपस्तेजोभवा यस्य स च पञ्चशिखः स्मृतः" इत्युक्तनिर्वचनं वा तृतीयाचार्य प्रणमति, “पञ्चशि- खाय” इति ॥ पूर्वोक्तप्रकारेण आसुरिशिष्याय • पन्चशिखाय मुनये नम इति यावत्, समुच्चयार्थों वा तथा-शब्दः ॥ सम्प्रति प्रकृतसाङ्ख्या-सप्ततिनिर्मातारं प्रणमति-"ईश्वरकृष्णाय" : इति, एतेन सिद्ध शिरोमणिमहामुनिकपिलादिप्रवर्तितत्वेनायं तत्त्वग्रामविनि- र्णयः सूपादेय इति बोधितं भवति ॥ २॥ एवं तत्त्वज्ञाचार्य्यनामनिर्देशपुरस्सरनमनेन प्रकृतशास्त्रोपादेयतां शिष्टा- चारानुसरणं च प्रदर्य साम्प्रतमुपादेयताहेतुभूतां प्रकृतशास्त्रस्यानन्यसा- धारणाभिधेयवत्ता प्रेक्षावदपेक्षितां समर्थयितुं प्रकृतशास्मारब्धुश्च परीक्षकत्वं जापयितुं कारिकापीठिकामारचयति-"इह खलु” इत्यादिना ॥ - १ महाभा० पर्व० १२ अ० २१८ श्लो० १२, ‘पञ्च स्रोतांसि विषयकेदा- रप्रणालिका यस्य तस्मिन् मनसि निष्णातः ऊहापोहकौशलवान्, पञ्चरात्रो नाम विष्णुत्वंप्रापकः क्रतुः 'पुरुषो हवै नारायणोऽकामयतांऽत्यतिष्ठेयं सर्वाणि भूतान्य- हमेवेदं सर्व स्यामिति स एतं पञ्चरात्रं पुरुषमेधं ऋतुमपश्यद्" इति शतपथोक्तः, तत्र विशारदः अनुष्ठिताखिलकर्मेत्यर्थः, पञ्च अन्नमयादीन् कोशान् मिथ आत्मनश्च विविक्तान् जानातीति पञ्चज्ञः, अत एव पञ्चकृत्-पञ्च तद्विषयाण्यु- पासनानि भृगुवै वारुणिर् ' इत्यस्यामुपनिषदि ‘स तपस्तप्त्वाऽन्नं ब्रह्मेति व्यं- जानाद्' इत्यादिविहितानि करोतीति पञ्चंकृत्, पञ्च-शान्तो दान्तं उपरत- स्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येद्' इति श्रुताः शान्त्यादयो गुणा यस्मिन् स पञ्चगुणः, पञ्चभ्योऽतिरिच्यमानत्वात् शिखेवेति पञ्चशिखं पुच्छं, ब्रह्म तज्ज्ञत्वान्मुनिरपि पञ्च शिख इत्यर्थ इति तंव्याख्यायां नीलकण्ठः -: २. ब्रह्म वै० ब. खं० अ० २२ श्लो० १६. ३ अयं च न साक्षात्पञ्चशिखान्तेवासी किन्वर्वाचीन एव ततः कश्चित्सा- अयतत्त्ववेत्ता, एतच्च "शिष्यपरम्परयागतम्' इत्यत्रान्ते. व्यक्तम् .. . ...
- १० साङ्घयतत्त्वकौमुदी। अप्रतिपित्सितं तु प्रतिपादयन् नायं लौकिको नापि परीक्षक इति प्रेक्षावद्भिरुन्मत्तवदुपेक्ष्येत, इह व्यवहारभूमौ-परीक्षकज़नसंसदि वा, खलु इत्यव्ययमवधारणे, वा- क्यालङ्कारे वा, प्रतिपित्सितं प्रतिपत्तुम्-अवगन्तुम् इष्टम् अभिलषितं सन्दिग्धत्वेन सप्रयोजनत्वेन च जिज्ञासागोचरम्, अर्थम् अभिधेयं वस्तु- तत्वं प्रतिपादयन् वाग्व्यवहारेण स्वमनोगतं परत्र संक्रामयन, प्रतिपादयिता बोधयितोपदेष्टा, अवधेयवचनः समादरपुरस्सरश्रवणीयवचनो.... भवति, किं सर्वेषां; नेत्याह "प्रेक्षावताम्" इति, हेयोपादेयविवेकनिपुणधिषणाति- शयवतामित्यर्थः॥ यद्यपि 'प्रतिपित्सितं प्रतिपादयन्नवधेयवचनो भवति इत्येतावतैव नि- वाहे 'प्रतिपादयिता' इत्यनावश्यकं 'तथापि स एव प्रतिपादयिता प्रेक्षावता- मवधेयवचनो भवति यः खलु प्रतिपित्सितं प्रतिपादयन् वर्तते' इत्येवं वचो- वैचित्र्यबोधनायेदमभिहितम् ॥ एतद्विपरीतस्तु प्रतिपादथिता नावधेयवचनो भवत्यपि तूपेक्षाह इत्याह- "अप्रतिपित्सितं तु" इति ॥ पूर्वोक्तवैपरीत्यद्योतनाय तु-शब्दः, अप्रतिपित्सितम्=असन्दिग्धत्वेनाप्र- । योजनत्वेन च जिज्ञासानहमर्थं प्रतिपादयन् वर्तमानस्तु जनः प्रेक्षावद्भिर उपेक्ष्येत त्यज्येत-श्रद्धेयवचनतया न गृह्यतेत्यर्थः, उपेक्ष्यत-इति पाठे तु त्यज्यत इत्यर्थः, किं ज्ञात्वासाबुपेक्ष्येत इत्यत्राह-"नायं लौकिको नापि परीक्षक इति" इति, । लौकिकपरीक्षकजनविलक्षणोयं मतिविप्लवशील इति ज्ञात्वेत्यर्थः, तदेवाह----"उन्मत्तवद्” इति ॥ तत्र लोके-सामान्यजनसमवाय एव यो भवः सत्तावान् न विद्वद्गो- ष्टयामुपवेष्टुमर्हस्सलौकिकः-सांसारिककुटुम्बभरणयविक्रयादिव्यवहारच- तुरः शास्त्रीयसंस्कारविधुरो नर इति यावद् परितः सर्वतः-प्रमाणैस्तर्केण च य ईक्षते-पश्यति. वस्तुतत्वं निश्चि- नोति स परीक्षकः, पारमार्थिकविचारचतुरः शास्त्रीयसंस्कास्वान्नर इत्यर्थः ॥ ।.१ निति निष्प्रयोजने च जिज्ञासानुदयादिति भावः. . २ अवधानं परत्र चित्तवृत्तिसंचारवैधुर्यपुरस्सरं प्रकृतार्थाकर्णनौत्कण्ठ्यम् , अवधातुमर्हमवधेयं श्रद्धेयमिति यावद् एवंविवं वचनं यस्य स तथा, तदेवाह- 'समादर' इत्यादिना. ३ इति इति कृत्वा, ज्ञात्वेसध्याहारो वा., . १ - celiar ras 157 पथ. . सावयतत्त्वकौमुदी। ११ स चैषां प्रतिपित्सितोऽर्थो यो ज्ञातः सन् परमपुरुषार्थाय कल्पत, इति प्रारिप्सितशास्त्रविषयज्ञानस्य परमपुरुषार्थसाध- नहेतुत्वात् तद्विषयजिज्ञासामवतारयति “दुःखत्रयाभिघाताद्" इति ॥ दुःखत्रयाभिघाताज् जिज्ञासा तदपघातके हेतौ । दृष्टे साऽपार्था चेन् नैकान्तात्यन्ततोऽभावाद् ॥ १॥ तदुक्तं पक्षिलस्वामिना-“लोकसाम्यमनतीता लौकिका नैसर्गिकं वैन- यिकं बुअतिशयमप्राप्ताः, तद्विपरीता: परीक्षकास्तर्केण प्रमाणैरथ परीक्षि- तुमर्हन्ति" इति ॥ कोऽसावर्थः यत्प्रतिपादनेनावधेयवचनो भवति यश्च प्रेक्षावजिज्ञासागो- चर इत्याकाङ्क्षायामाह-“स चैषाम्” इति ॥ चोऽवधारणे, योऽर्थो ज्ञातः सन् मननद्वारा परमपुरुषार्थाय दुःखात्य- न्तोच्छेदाय, कल्पते समर्थों भवति स एवार्थ एषाम्=प्रेक्षावतां प्रतिपित्सितः= जिज्ञासागोचर, इति यत एवमतः तद्विर्धप्रकृतशास्त्रविषयजिज्ञासामवतार- यतीत्यन्वयः प्रकृतशास्त्रविषयस्य कथं पुरुषार्थसमर्थत्वं येन तस्य जिज्ञासागोचरत्वमि- त्यत्राह'प्रारिप्सित' इत्यादि, प्रारब्धुमभिलषितं यच्छास्त्रं तस्य यो वि- षयः पञ्चविंशतितत्त्वविनिर्णयात्मकः, तद्गोचरज्ञानस्य परमपुरुषार्थसाधन- हेतुत्वाद् दुःखात्यन्तोपरमरूपपरमपुरुषार्थस्य साधनं यद्विवेकज्ञानं तस्य हेतुत्वादित्यर्थः ॥ - जिज्ञासा समर्थयितुं सम्भावनामूलकान् विकल्पान् प्रकल्प्य तन्निराकरणेन कारिका योजयितुमुपक्रमते-“एवं हि" इत्यादिना, उत्तरत्रः यदीत्यनुरोधाद् . १ न्यायदर्शनभाष्यकारवात्स्यायन मुनिना, अ० १ आ० १ सूं० २५. । २. नैसर्गिक प्राक्तनसंस्कारजन्यं, वैनयिकम्=ऐहिकं .....शास्त्राभ्यासपरिशीलन- जन्यं, प्रज्ञोद्रेकमप्राप्ता इत्यर्थः ३ नैसर्गिकवैनयिकमत्यतिशयसम्पन्ना इत्यर्थः. । ४ तद्विधप्रकृतशास्त्रविषयजिज्ञासां परमपुरुषार्थसमर्थविवेकज्ञानसाधनतत्त्वग्रा मविनिर्णयात्मकप्रकृतशास्त्रविषयज्ञानेच्छामित्यर्थः, एवं च प्रकृतशास्त्रार्थो ज्ञातः सन् परमपुरुषार्थसमर्थो यतोऽतो भवत्यस्यार्थस्य . प्रतिपित्सितत्वमिति बोधितम् । प्रमा नियल १२ साङ्ख्यतत्त्वकौमुदी। एवं हि शास्त्रविषयो न जिज्ञास्येत यदि दुःखं नाम जगति न स्यात्, सद्वा न जिहासितं, जिहासितं वाऽशक्यसमुच्छे- दम्, अशक्यसमुच्छेदता च द्वेधा दुःखस्यनित्यत्वाद्वा तदुच्छेदो- पायापरिज्ञानाद्वा, शक्यसमुच्छेदत्वेपि च शास्त्रविषयस्य ज्ञान- स्यानुपायत्वाद्वा सुकरस्योपायान्तरस्य सद्भावाद् वा । 'एवं हि' इति तीत्यर्थकं यदि दुःखं नाम जगति न विथेत तर्हि शास्त्रवि- यो न जिज्ञास्येतेत्यन्वयः ॥ द्वितीयं विकल्पमाह-"सद् वा” इति, विद्यमानमपि तद् दुःखं यदि त्यक्तुमभिलषितं न स्यात् तद्यपि शास्त्रविषयो न जिज्ञास्येतेत्यर्थः ॥ तृतीयं विकल्पमाह-"जिहासितं वा इति, त्यक्तुमभीष्टमपि तद् दुःखं यदि पौरुषेण यत्नेन नापनेयं स्यात् तद्यपि शास्त्रविषयो न जिज्ञास्येतेत्यर्थः ।। दुःखस्य पौरुषेण यत्नेनानपनेयत्त्वे काल्पनिकं साधकमाह-“दुःखस्य नित्यत्वाद्” इति, “नाभावो विद्यते सत" इत्युक्तेर्दुःखस्य नाशाप्रतियोगि- वेन न यत्नापनेयत्वमित्यर्थः, साधकान्तरमाह---"तदुच्छेदोपायापरिज्ञा- नाद्वा" इति, कूटस्थनित्यत्वाभावेनापनेतुमर्हत्वेपि तदपनयमसाधनापरिज्ञा- नाद्वाऽनपनेयत्वमित्यर्थः ॥ * तुरीयं, विकल्पमाह-"शक्यसमुच्छेदत्वेपि” इति, अपनयनोपायपरि चयादू दुःखस्यापनंतु शक्यत्वेपि प्रकृतशास्त्रविषयज्ञानस्य तदपनयनासाधन- स्वाद् यदि विवेकज्ञानं साधनं न स्यात् तद्यपि शास्त्रविषयो न जिज्ञास्ये तेत्यर्थः ॥ । . पञ्चमं विकल्पमाह-"सुकरस्य” इति,। विवेकज्ञानापेक्षया सुकरस्ये- तरस्योपायान्तरस्य विद्यमानत्वेन यदि विवेकानमन्यथासिद्धं स्यात् त- यपि शास्त्रविषयो न जिज्ञास्येतेत्यर्थः ॥ न १ नाम इति प्रसिद्धार्थकम्-पीडापरपर्यायं प्रत्यात्मप्रतिकूलवेदनीयमित्यर्थः, 1 २ दुःखत्रयात्यन्तविघटकविवेकज्ञानजनकप्रकृतशास्त्रप्रतिपाद्यतत्त्वग्रामनिर्णयः, ३ यद्यापे सद्वाऽजिहासितं, जिहासितं वाऽशक्यसमुच्छेदम् इत्यादिपूर्वलेखानु- रोधेन शास्त्रविषयज्ञानस्यानुपायलं, सुकरस्योपायान्तरस्य सत्त्वं वेति प्रथमान्तपाठ एवोचितस्तथापि यथाश्रुतपाठोप्यध्याहृय योजयितुं शक्यत इत्याशयेनाध्याहृत्य योजयति "यदि विवेकज्ञानम्" इत्यादिना. Raane ४ साङ्ख्यतत्त्वकौमुदी। १३ तत्र न तावद् दुःखं नास्ति, नाप्यजिहासितम् इति; अत उक्तं “दुःखत्रयाभिघाताद्" इति, दुःखानां त्रयं दुःखत्रयं, तत् खलु आध्यात्मिकमाधिभौतिकमाधिदैविकं च । तत्राध्यात्मिकं द्विविधं शारीरं मानसं च, शारीरं वात- पित्तश्लेष्मणां वैषम्यनिमित्तं, मानसं कामक्रोधलोभमोहभये- याविषादविषयविशेषादर्शननिबन्धनं । सर्वं चैतद् आन्तरोपायसाध्यत्वादाध्यात्मिकं दुःखं, आदिमं विकल्पद्वयमसङ्गतयितुं कारिकांशं पातयति-"तत्र न तावद्”. इत्यादिना ॥ कायिकमानसिकदुःखयोरेकीकरणेन दुःखत्रयाभिधानमित्याशयेनाध्या- त्मिकं विभजते "तत्राध्यात्मिकम्" इति, आत्मानंदेहम् अधिकृत्य जायमानं यन्नैसर्गिकमशनायादिकं यच्च धातुप्रकोपजन्यं ज्वरातीसारादि, यच्चात्मानम् अन्तः करणमधिकृत्य जायमानं कामादिनिबन्धनं दुःख तत्सर्वमाध्यात्मिक- मित्यर्थः, तदेवाह "शारीरं मानसं च” इति, "कामक्रोध' इति, कामः= इष्टविषयाभिलाषः, क्रोधः अनिष्टविषयद्वेषः, लोभः सत्यपि धने तदादा- नेच्छा, मोहः हानोपादानविवेचनासामर्थम्, भयम् अनिष्टदर्शनजन्यस्त्रासः, ईर्ष्या=परसम्पदुत्कर्षासहिष्णुता, विषाद: स्नेहास्पदपदार्थविच्छेदनिमित्तो व्याकुलीभावः, विषयविशेषादर्शनम् अनवधारणात्मकमनेककोटिकं ज्ञानं, संशय इत्यर्थः, एते सर्वे विकारा मनस्येवाविभूतास्सन्तो नरं दुःखयन्तीत्ये- तन्निबन्धनं दुःख मानसमित्युच्यत इत्यर्थः ॥ यद्यपि निखिलमपि दुःख मनोधर्मत्वेन तजन्यत्वान्मानसमेव तथापि यन्मनोमात्रजन्यं तन्मानसं, यच्च बाह्यनिमित्तसापेक्ष मनोजन्यं तदितरदित्येवं, विभज्यवचनेन विभाग उन्नेयः ॥ एतयोराध्यात्मिकत्वे प्रवृत्तिनिमित्तमाह "सर्वं चैतद्” इति, शारीरं मा- नसं चेत्यर्थः । आन्तरोपायसाध्यत्वाद=साध्यशब्दोऽत्र निवर्तनीयपर्यायः, आसाध्योयं रोग इत्यादौ तथा दर्शनाद्, एवं च आन्तराः शरीराभ्यन्तरे वा- ऽन्तःकरणे वा भवाः सत्तावन्तो य उपायाः अन्नाम्बुभेषजदमदयादानविवेच- १ असाध्योऽयं रोग इत्यादौ निवर्तयितुमशक्योयं रोग इत्यर्थदर्शनात् साधू- धातोरत्र नियच्यर्थकत्वमिति भावः. -n दैविकं च साङ्ख्यतत्वकौमुदी। बाह्योपायसाध्यं च दुःखं द्वेधा, आधिभौतिकम् आधि- तत्राधिभौतिक-मानुषपशुसरीसृपस्थावरनिमित्तम्, आधि- दैविकं यक्षराक्षासविनायकग्रहावेशनिवन्धनम् ।। नादयः साधनविशेषास्तैः साध्यत्वाद् निवर्तनीयत्वाद् दुःखमप्युपचारादा- न्तरं सदाध्यात्मिकमित्युच्यते ॥ यथाऽऽन्तरं दुःखं द्विविधं तथा वाह्यमपि द्विविधमित्याह-"बाह्योपाय- साध्यं च दुःखं द्वेधा इति ॥ शरीराद्वहिर्भवा ये दण्डच्छत्रमणिमन्त्रादयः साधनविशेषास्ते बाह्योपा- यास्तैर्निवर्तनीयं दुःखं बाह्यमित्युच्यते, तच द्विप्रकारमित्यर्थः ॥ प्रकारद्वयमुद्दिशति-"आधिभौतिकम्” इत्यादिना, तत्र भूतानि-जरा- युजाऽण्डजस्वेदजोनिजरूपाणि चौरवैरिकुकुरसिंहव्याघ्रमहिषपक्षिसर्पयूका- दंशमशकवृश्चिकनक्रमकरवृक्षशिलाप्रभृतीनि चराचरजातीयानि अधिकृत्य निमित्तीकृत्य जायमानं यदुःखं तदाधिभौतिकं, यञ्च देवान् यक्षादीन् दिवःप्रभवान् वातवर्षातपशीतोष्णादीन् वा निमित्तीकृत्य जायते तदाधिदै- विकमित्यर्थः, तदेवाह-"मानुष' इत्यादिना ॥ ननु भवतु मानसं दुःखमान्तरोपायनिवर्त्य शारीरं तु ज्वरादि न तथा नहि भेषजादय आन्तरा अपितु बाह्या इति कथमान्तरोपायसाध्यत्वं शारी- रस्य दुःखस्य, यद्यभिधीयेत बाह्या अपि भेषजादयः शरीरसंसर्गेणान्तरा इति . तर्हि बाह्या मणिदण्डादयोपि कथं नान्तराः, तेपि हि शरीरसंसर्गिण एवं सन्तो दुःखं शमयन्ति न यत्र तत्र स्थिता इति चेत्, अन्रोच्यते-उपायानां बाह्यत्वाविशेषेऽप्यन्तःप्रवेशाप्रवेशकृतविशेषमादाय भेदोऽवसेयः ॥ अयंझावः सत्यं भेषजादयो बाह्यास्तथापि यथाऽन्तःप्रविष्टास्ते ज्वरादिकं शमयन्ति न तथा मणिदण्डादयोन्तःप्रविश्य तथा कुर्वन्त्यापितु बहिरवस्थिता एव तत्तदुःखमपनयन्तीत्यस्ति विशेषः ॥ १ अन्नमन्तर्भवं सदशनायां शमयति, अम्बु चान्तर्गतं सत्पिपासामपनयति, भेषजं चान्तरं ज्वरादि नाशयति, दमश्च कामं शिथिलीकरोति, द्रया च क्रोधम- पनयति, दानञ्च लोभमुच्छिनत्ति, विवेचनञ्च मोहमुन्मूलयति, इत्येवमेते सर्व सन्तस्तत्तद् दुःखमपनयन्तीत्यान्तरोपायनिवर्तनीयत्वादान्तरं सदाध्या- त्मिकमित्युच्यत इति भावः, २ दण्डादिना कुकुरव्याघ्रादिजन्याधिभौतिकदुःखस्य निवृत्तिः, छत्रेणातपादि- जन्यस्य मणिना च यक्षादिजन्यस्याधिदैविकदुःखस्य निवृत्तिरित्यर्थः । - .. आन्तराः i .. साङ्क्षचतत्वकौमुदी। १५ तदेतत्प्रत्यात्मवेदनीयं दुःखं. रजःपरिणामभेदो न शक्यते प्रत्याख्यातुम् तदनेन दुःखत्रिकेणाऽन्तःकरणवर्तिना चेतनाशक्तेः प्रतिकू- लतयाऽभिसंबन्धोऽभिघात इति एतावता प्रतिकूलवेदनीयत्वं जिहासाहेतुरुक्तः, वस्तुतस्तु आन्तरोपायसाध्यत्वाद् इत्यत्र साध्यशब्दो जन्यपर्यायः, तथा च शरीराभ्यन्तरे मनसि वा भवा ये धातुवैषम्यादयः कामादयो वा निमि- त्तविशेषास्तैः साध्यत्वाद् जन्यत्वात् शारीरं मानसं चान्तरमित्युच्यते, श- रीरमनोबहिर्भूतसिंहव्याघ्रवर्षातपादिनिमित्तविशेषजन्यत्वाच्चाधिभौतिकादि बाह्यमित्युच्यत इत्यर्थोऽत्र बोध्यः, यदुक्तं प्राङ् 'न तावद् दुःख नास्ति' इति, तत्सुस्थिरमित्याह--"तदेतद्” इति, बुद्धितत्त्ववर्तिरजोगुणपरिणामविशेषात्मकं निखिलजनानुभववेदनीयं तदेतत् त्रिविधं दुःखं प्रत्याख्यातुं न शक्यते-दुःखं नास्तीत्येवं निराकर्तुं न शक्यतेऽनुभवसिद्धस्यापलापायोगादित्यर्थः, एतेन प्रथमविकल्पो निराकृतः ॥ द्वितीयं विकल्पं निराकर्तुमभिघातपदं व्याचष्टे-"तदनेन" इति ॥ तदनेन=अनन्तराभिहितेनानुभवसिद्धेन दुःखत्रिकेण सह यः चेतनाशक्तेः दृक्शक्तेश्चेतनस्य पुरुषस्यानिष्टतयाऽसह्यः संबन्धः सोऽभिघात इत्यर्थः, ॥ दुःखस्य चेतनधर्मत्वं वारयितुमाह-“अन्तःकरणवर्तिना' इति, । कथन्तर्हि चेतनस्य तेन संबन्ध इति चेद्, बुद्धि तत्त्वप्रतिबिम्बितत्वेन तत्सा- रूपयापत्त्येत्यैवेहि ॥ एतेन दुःखमजिहासितमिति कल्पना शिथिलीकृतेत्याह-"एतावता" इति, एतावता=अभिघातपदेन दुःखसंबन्धस्यासह्यत्वाख्यानेन, स्ववृत्ति- तयेष्यमाणत्वाभावरूपं प्रतिकूलवेदनीयत्वं जिहासाहेतुरुक्तः अभिघाताद् इति हेतुपञ्चम्या यतो दुःखसंबन्धोऽनिष्टोऽतस्तज् जिहासितमित्युक्तमित्यर्थः । १ ननु यथाऽन्तरप्रविश्यैव मणिदण्डादयस्तत्तद् दुःखमपनयन्ति तथा मनोज्ञा- ङ्गनालिङ्गनमप्यन्तरप्रविश्यैव कामं शमयति, एवमपामार्गरूपो भेषजविशेषोपि हस्ते वद्धः सन्नन्तरप्रविश्यैव ज्वरादि शमयतीति न त्वदुक्ता व्यवस्थाऽनुगतेत्या- शय जलाहरणादिकं घटसाध्यम् इत्यत्रेव साध्धातोर्जन्यार्थकत्वमादायाऽर्थान्त- रमाह-"वस्तुतस्तु" इति । २ दुःखं नाम जगति नास्तीत्यात्मकः, ३ सद्वाऽजिहासितमित्याकारम् . ४ विशदीकृतं चैतद्-अजा ये ताम्-इत्यस्य व्याख्याने प्रागत्रैव, -- L. Credit 5 १६ साङ्ख्यतत्वकौमुदी। यद्यपि न सन्निरुध्यते दुःखं तथापि तदभिभवः शक्यः कर्तुमित्युपरिष्टानिवेदयिष्यते, ननु भवतु जिहासा तथापि न शक्यनिरोधं तत् साङ्खयनये नासत उत्पादो न वा सतो निरोध इति सत्कार्यवादाङ्गीकारेण सतो दुःखस्यो- च्छेत्तुमशक्यत्वादित्याशङ्य समाधत्ते “यद्यपि न" इति, यद्यपि दुःखं न सन्निरुध्यते=समूलमुच्छेत्तुं न पार्यते तथापि तदभिभवः शान्तावस्था- पादनेन स्थूलस्वरूपप्राप्तियोग्यताविरहरूपोऽनाविर्भावः कर्तुं शक्य इत्यर्थः, एतच्चाने विशदयिष्यत इत्याह-"इत्युपरिष्टाद्' इति, एतेन सहेतुकस्तृतीयविकल्पोपि निराकृत इति बोध्यम् , अयम्भावः-यथा तार्किकैरुत्पत्तेः प्राग् भावस्य कारणे प्रागभावः, ना- शकसामग्र्या च सतो. भावस्य कारणे प्रध्वंसाभाव इत्यभ्युपेयते न तथा कापिलपातञ्जलैरपितूत्पत्तेः प्राक् सूक्ष्मावस्थया कारणे सन्नेव भावोऽना- गतावस्थावान् अव्यपदेश्य इत्याख्यायते, कारणव्यापारेण च स्थूलावस्था- मापन्नः सन् वर्तमानावस्थावान् उदित इत्युच्यते, नाशकसामग्र्या च कारणरूपतामापन्नः सन् अतीतावस्थावान् शान्त इत्युच्यते, तथा च दुःख- स्यातीतावस्थीकरणमेवात्र दुःखोच्छेदो नात्यन्तनाशः, नचैवं तर्कयितव्यं-य- थाऽनागतावस्थं सूक्ष्मं कार्य व्यापारेण पुनर्वर्तमानावस्थमापद्यते तथाती- तावस्थमपि सूक्ष्मत्वाविशेषात्कथं न पुनः स्थूलावस्थमापद्यत इति, उप- लम्भाभावाद, यद्यतीतमपि कार्य पुनर्वर्तमानं स्यात् तदा तदेवेदमिति कदाचित् प्रत्यभिज्ञायमानमुपलभ्येत नोपलभ्यते चातो योग्यानुपलब्ध्याऽती- तव्यक्तेरनुन्मजनमेव निश्चीयते, यदाहुः कृष्णद्वैपायना:-"यथानागतवर्तमानयोः पूर्वपश्चिमता, नैवमती- तस्य तस्मान्नातीतस्यास्ति समनन्तर” इति, १ केचित्तु- सन्निरुध्यत इत्यत्र न सम् इत्युपसर्गः किन्तर्हि दुःखविशेषणं सद् इति तथाच यतो दुःखं सद् सत्तावद्-नियमिति यावद्, अतो “नामावो विद्यते सत'' इत्युक्तेर्न निरोढुं शक्यम् इत्यर्थमाहुः,- २ नित्यत्वेन दुःखमशक्यसमुच्छेदमित्याकारो विकल्प इत्यर्थः । ३ अग्रे क्वापि विस्पष्टमेतस्यार्थस्यानिवेदितत्वादत्रैव विस्पष्टयितुमाह-"अयं भाव' इत्यादिना- ४ शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी, पा. ३ १४ इति योगसूत्रव्या- ख्याने भाष्यकारा इत्यर्थः । ५. समनन्तर-इत्यत्र वर्तमान इति शेषः, . . . सू.
साङ्ख्यतत्त्वकौमुदी । १७ तस्मादुपपन्नं तदपघातके हेतौ' इति, तस्य दुःखत्रयस्यापघातकस्तदपघातकः, उपसर्जनस्यापि बुद्धया सन्निकृष्टस्य तदा परामर्शः, ननु यज् जिहासितं दुःखं तत् कीदृगिति विवेचनीयं न तावदतीतम्, उपभोगेनातिवाहित्वाद्, नापि वर्तमानं क्षणान्तरे स्वयमेव नङ्ग्यमाण- त्वाद्, नाप्यनागतं तत्सत्त्वे मानाभावाद् इति चेद् अत्राहुः सूत्रकाराः "हेयं दुःखमनागतम्" इति, न च तत्सत्त्वे मानाभाव इति वाच्यं, याव- चित्तकालावस्थायिकायेजननशक्त्या यावञ्चित्तमनागतदुःखानुमानात् स्वष्टं चैतत्-‘सर्व सर्वात्मकम्' इत्यादिना योगभाष्य इति तत्रैव निरीक्षणीयम्, उपसंहरति-"तस्मादुपपन्नम्' इति यतो दुःखस्याभिभवः कर्तुं श- क्योऽतः तदवघातके दुःखत्रयाभिभावके हेतौ पुरुषाणां जिज्ञासा जायत इंति यत्कारिकायामभिहितं तद् युक्तमित्यर्थः, ननु तदवघातक इत्यत्र तच्छब्देन कथं दुःखत्रयस्य परामर्शः, समास एं: कार्थीभावसत्त्वेनोत्तरपदार्थसंसृष्टस्यैव पूर्वपदार्थस्योपस्थितिविषयत्वाभ्युपग- मेन केवलस्य पूर्वपदार्थस्य पृथगुपस्थितिविषयत्वाभावाद् दुःखत्रयाभिघात- रूपसमासैकदेशस्य दुःखत्रयस्य परामर्शायोगादित्याशक्य समाधत्ते-“उपस- जनस्यापि" इति, उपसर्जनस्य-समासे विशेषणीभूतत्वेन स्वातन्त्र्येणोप- स्थित्यविषयस्यापि दुःखत्रयस्य, तदा तदवघातकेत्यत्रत्यसर्वनामतच्छन्देन, परामर्शः उन्नयनम्-अध्याहार इत्यर्थः, ॥ ननु सर्वनाम्नामुत्सर्गतः प्रधानपरामर्शित्वनियमात्कथं गुणीभूतस्य दुःख- त्रयस्य परामर्श इत्याकाङ्कामपनेतुमाह-"बुद्ध्या सन्निकृष्टस्य" इति, बुद्ध्या=मानस्या कल्पनया समाकृष्टस्य ज्ञानारूढस्येत्यर्थः ॥ एतदुक्तं भवति-न तच्छब्देनात्र पूर्वाभिहितं दुःखत्रयं परामृश्यतेऽपितु १ योगसू. १६ पा. २ २ चित्ततत्त्वमनागतदुःखसत्तावद् भवितुमर्हति यावञ्चित्तावस्थायिकायंजन- ... नशक्तिमत्वात् वहिवद् इत्यनुमानादित्यर्थः । ३ तृतीयपादे १४ सूत्रे- ४ 'पृथगानामेकार्थीभावः सामर्थ्य क्व पृथगानि क्व वैकार्थानि, वाक्ये पृथ गर्थानि समास एकार्थानि' इति समर्थसूत्रे महाभाष्योक्तेः पृथगर्थानां विशेषण- विशेभ्यभावापन्नानामेकोपस्थितिविषयत्वमेका भावत्वमित्यभ्युपगमाद्, . mins ३ १८ साङ्ख्यतत्त्वकौमुदी। अवघातकश्च हेतुः शास्त्रप्रतिपाद्यो नान्य इत्याशयः । अत्राऽऽशङ्कते-"दृष्टे साऽपार्था चेद्' इति, अयमर्थः-अस्तु दुःखत्रयं, जिहासितं च तद् भवतु, भवतु च तत् शक्यहानं, सहतां च शास्त्रगम्यं उपायस्तदुच्छेत्तुं तथाप्यत्र प्रेक्षावतां न युक्ता जिज्ञासा, बुद्ध्याकृष्टत्वेन ज्ञानारूढं यद् दुःखत्रयं तदेव परामृश्यते एवंविधस्थले एवंविधाया एव रीतेरौत्सर्गिकत्वनियमाद्, यथाहुः प्रदीपकारा:-"उत्तर पदार्थान्तर्गतस्याऽपि पूर्वपदार्थस्य बुद्ध्या अविभागात प्रत्यवमर्शों यथा राजपुरुषोयमित्युक्ते कस्य राज्ञ इति" ॥ ननु भवतु दुःखत्रयोच्छेदके हेतौ जिज्ञासा तथापि कथं प्रकृतशास्त्रविष- यजिज्ञासेत्याशङ्कय. तुरीयविकल्प निराकुर्वन् समाधत्ते–'अवघातकश्च' इति, चोऽवधारणे भिन्नक्रमचे प्रकृतशास्त्रप्रतिपाद्यस्तत्त्वविवेक एव दुःखो- च्छेदको. हेतुरिति युक्ता तत्र जिज्ञासेत्यर्थः, ॥ पञ्चमं विकल्पं निराकुर्वन्नेवकारव्यावर्त्यमाह-"नान्य' इति, ॥ नान्य इत्येव दृढीकर्तुमाशङ्कामुत्थापयति-"अनाशङ्कते” इति, अत्र-नान्यो दुःखोच्छेदक उपाय इत्यशे, कारिकांशमवतारयन् शङ्कास्वरूपमाह-"दृष्टे साऽऽपार्था चेद् इति" इति, दृष्ट लोकप्रसिद्ध सुकरे भेषजादौ दुःखोच्छेदके हेतौ सुलभे सति, सा=दु- करे दुर्लभे विवेके जिज्ञासा, अपार्था निरर्थिका इत्यर्थः, ॥ एतदेव स्पष्टयितुमाह-"अयमर्थ" इति, दृष्टे साऽपार्था इति ग्रन्थस्या- यमभिप्राय इत्यर्थः, १ अपघातकावघातकशब्दयोः पर्यायत्वात् अपघातक इति पाठेपि नार्थ- मेद इति शेयम् । २ तच्छन्दस्य सामर्थ्यद्वयं - पूर्वाभिहितवस्तुपरामर्शकत्वं; ज्ञानाऽरूढपरामर्श- कत्वं च तथाचात्र न तच्छब्दः पूर्ववस्तुपरामर्शकोपितु बुद्ध्याकृष्टज्ञानारूढदुःखत्र- यपरामर्शक इति ध्येयम्। ३ अंथशब्दानुशासनमितिप्रस्तावे केषांशब्दानामिति महाभाष्यमुपादाय कय्य- टोक्तिरियम्, ४शास्त्रविषयज्ञानस्यानुपायत्वाद्वैत्याकारम्, ५ यत्सन्निधौ श्रुतं तं विहाय यत्रापेक्षितं तत्र योजनीयमित्यर्थः । यद्वा चेति वाक्यंशोभायां, सर्व वाक्यं सावधारणमिति न्यायेन चैवकाराध्याहार इति, ६ सुकरस्योपायान्तरस्य सद्भावाद्वैत्याकारम्, ..
.. . साङ्ख्यतत्वकौमुदी। १९ दृष्टस्यैवोपायस्य तदुच्छेदकस्य सुकरस्य विद्यमानत्वाद्, तथाच लौकिकानामाभाणकः-"अर्के चेन्मधु विन्देत कि- मर्थं पर्वतं व्रजेद्, इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्न- माचरेद्" इति सन्ति चोपायाः शतशः शारीरदुःखप्रतीकारायेषत्करा भिषजां वरैरुपदिष्टाः मानसस्यापि सन्तापस्य प्रतीकाराय मनोज्ञस्त्रीपानभोजन- विलेपनवस्त्रालङ्कारादिविषयप्राप्तिरुपायः सुकरः, तमेवाभिप्रायमाह-"अस्तु” इत्यादिना, विद्यतां दुखत्रयं भवतु च तद् हानेच्छागोचरः, संभवतु तत् शक्यहानं शक्यसमुच्छेदं, सहतां च शास्त्रगम्य उपायस्तदुच्छेत्तुं समर्थश्च भवतु शास्त्रप्रतिपाद्यो विवेकस्तदुच्छेदाय तथापि नात्र विवेके जिज्ञासा युक्तेत्यर्थः, विवेकविषयजिज्ञासाया अंयुक्तत्वेऽन्यथासिद्धत्वरूपं हेतुमाह-" टस्यैव” इति, लोकप्रसिद्धस्य सुरकस्य दुःखनाशकस्य भेषजादेरुपायस्य सवादित्यर्थः, सुकरमुक्ष्म दुष्कराचरणं न योग्यमिति लोकसंवादेनापि सिद्धमित्याह- "तथा च" इति, लौकिकानां लोकव्यवहारविदां प्राकृतानां जनानाम्,- आमाणकः प्रसिद्धप्रवाद इत्यर्थः, तमेवाऽऽमाणकमाह -"अर्के” इति, । यथा मधुकामस्तदन्वेषणाय पर्वत प्रस्थितः सन् यदि मार्ग एव अर्कवृक्षे मधु विन्देत तर्हि पर्वतं किमर्थं किन्निमित्तं गच्छेतापि तु न गच्छति, एवम् इष्टस्यार्थस्य अभिलषितवस्तुनः सांसद्धौ अनायासेन निष्पत्तौ सत्यां पुनस्तन्निष्पत्यर्थमायाससाध्यं यत्नं को विद्वाननुतिष्टेन कोपीत्यर्थः, विवेकापेक्षया के सुकरा उपाया इत्याकाङ्क्षायां सुकरान् दृष्टोपायानाह- "सन्ति' इति, भिषजांवरैः–वैद्यधौरेयैश्चिकित्साकुशलैर्धन्वन्तरिचरकप्रमुखैः शारीरदुःखापनोदायोपदिष्टा अनेक उपाया ईषत्करा=अनायाससंपाद्या:-सु- करा विद्यन्त इत्यर्थः,। शारीरदुःखप्रतीकारकरं सुकरमुपायमभिधाय मानसता- पंप्रतीकारकरं सुकरमुपायमाह-"मानसस्यापि” इति, तत्तदभिलषि- १ अके-इति पाठे तु-समीपे-गृहकोणे, इति वार्थो बोध्यः, वस्तुतस्तु जै- मिनीयसूत्रभाष्ये शबरस्वामिभिः पाये जातेथें मधूत्सृज्य तेनैव पथा यथा- मध्वर्थिनः पर्वतं न गच्छेयुरित्यभिधाय 'अर्के चेन्मधु विन्देत' इत्येवमुपन्यासाद् अर्के-इत्येव पाठः साधीयान्,- । .. D""" . २० साङ्ख्यतत्वकौमुदी। एवमाधिभौतिकस्य दुःखस्य नीतिशास्त्राभ्यासकुशलता- निरत्ययस्थानाध्यासनादिः प्रतीकारहेतुरीपत्करः. तथाऽऽधिदैविकस्यापि दुःखस्य मणिमन्त्रौषधाधुपयोगः सुकरः प्रतीकारोपाय इति, ॥ निराकरोति-"न" इति, कुतः-'एकान्तात्यन्ततोभावाद् तवनिताऽऽलिङ्गनासवपानसदन्नाशनचन्दनविलेपनवसनभूपणात्मकविषयप्रा- प्तिरूप उपायो मानससन्तापापहारायालमित्यर्थः, ॥ व्याघ्राद्युत्थदुःखप्रतीकारकरमुपायमाह-"एवम्" इति, आधिभौतिकस्य दुःखस्य प्रतीकारहेतुः नीतिशास्त्राभ्याशकुशलता=दंष्ट्रिणः शृङ्गिणो दूरतः परियाः, "नादण्डो बहिर्गच्छेद,' इत्यादिबार्हस्पत्यौशनसकामन्दकीयनीति- शास्त्राभ्यासनिपुणता, तथा निरत्ययस्थानाध्यासनादिः निर्बाधनिरुपद्रवप- रिखोपेतमणियन्त्राद्यन्तर्हितगिरिदुर्गादिरूपस्थानावलम्बनादिरुपायः सुकर इत्यर्थः, ॥ यक्षाधुपद्रवविद्रावकमुपायमाह-"तथा" इति मणिमन्त्रौषधाधुपयोगः "दोषोपसर्गप्रभवाश्च ये ते नोपद्रवास्तं समभिदवन्ति, गुणैः समुख्यैः सक- लैरुपेतं यः पद्मरागं प्रयतो बिमति" इत्यादिना मणिप्रकरणे मणिधारणस्य तत्तदुपद्वविद्रावकत्वस्मरणाद् मन्त्रानुष्ठानस्य च तत्तच्छास्त्र उपद्रवापनो- दकत्वप्रसिद्धत्वाच्च "कृष्णामरीचसिन्धूत्थमधुगोरोचनाकृतम् । अञ्जनं सर्व- देवादिकृतोन्मादहरं परम्' इत्यादिनौषधस्यापि तत्तदुपद्वविद्रावकत्वाभि- धानाच्च मणिमन्त्रौषधाधुपयोग आधिदैविकदुःखस्य प्रतीकारहेतुरित्यर्थः, ॥ लौकिकेनोपायेन नाभिलषितदुःखनिवृत्तिः सिद्ध्यतीत्याशयेन 'नं' इति करिकांशमवतारयति-"निराकरोति न इति" इति, ! 'न' इति पदेन 'साऽपार्था' इत्याशङ्कामपनुदतीत्यर्थः, ॥ लौकिकोपायनिराकरणे हेतुं पृच्छति 'कुत' इति, न दुःखनिवृत्तिमानमभिलषितमपि त्वैकान्तिकात्यन्तिकदुःखनिवृत्तिः, सा च दृष्टोपायान्न लभ्येत्याशयेन कारिकागतं हेतुमाह"एकान्तात्यन्त- तोभावाद्" इति, दुःखनिवृत्तावेकान्तत्वम् उपायानुष्ठानानन्तरं नियमेन भवनशीलत्वम् अत्यन्तत्वं च भविष्यद्दुःखाासहवर्तित्वं तथा च-दृष्टा- दुपायाद् एकान्तात्यन्तदुःखोच्छेदाभावन्न दृष्टे हेतौ जिज्ञासा कार्येत्यर्थः, १ दृष्ट उपायेः नियमेन दुःखनिवर्तकत्वरूपसेकान्तत्वं नास्ति, दृष्टोपायजन्य- दुःखनिवृत्तौ च मविष्यदुःखासहबतित्वरूपमत्यन्तत्वं नास्तीत्यपि शेयम् । W . साङ्ख्यतत्त्वकौमुदी । २१ एकान्तः दुःखनिवृत्तेरवश्यम्भावः, अत्यन्तः निवृत्तस्य दुः- खस्य पुनरनुत्पादः, तयोरेकान्तात्यन्तयोरभाव एकान्तात्य- न्ततोऽभाव इति, षष्ठीस्थाने सार्वविभक्तिकस्तसिः, एतदुक्तं भवति यथाविधिरसायनादिकामिनीनीतिशा- स्वाभ्यासमन्त्राद्युपयोगेपि तस्य तस्याध्यात्मिकादेदुःखस्य निवृत्तेरदर्शनादनैकान्तिकत्वं, निवृत्तस्यापि पुनरुत्पत्तिदर्श- नादनात्यन्तिकत्वम, इति सुकरोप्यैकान्तिकात्यन्तिकदुःख- निवृत्तेन दृष्ट उपाय इति नापार्था जिज्ञासेत्यर्थः, यद्यपि दुःखममङ्गलं तथापि तत्परिहारार्थत्वेन तदवघातो मङ्गलमेवेति युक्तं शास्त्रादौ तत्कीर्तनमिति ॥१॥ एतदेवैकान्तात्यन्तपदार्थाख्यानविग्रहाभिधानद्वारा दर्शयति-'एकान्त' इत्यादिना, फलितमाह-"एतदुक्तं भवति" इत्यादिना, 'रसायनादि' इति, 'यज् जराव्याधिविध्वंसि भेषजं तद्रसायनम्” इति वैद्यकशास्त्राद्सायनपदेन भेषजं गृह्यतेऽन्यत्प्राग्व्याख्यातम्, । उप सं हरति-"इति सुकरोपि” इति; इतिशब्दो हत्वर्थे, यत एवमतः सुकरोपि दृष्ट उपायस्तथाप्यैकान्तिकात्यन्तिकदुःखनिवृत्तेर्न स उपाय इत्यत- : स्तमुपेक्ष्य विवेके जिज्ञासा न निरर्थिकेत्यर्थः । एतेन 'न दृष्टात्तैत्सिद्धिर्निवृत्तेप्यनुवृत्तिदर्शनात्' इति साङ्ख्यसूत्रार्थः संगृहीतः ॥ ननु “मङ्गलाचरणं शिष्टाचारात्फलदर्शनाच्छ्रुतितश्च” इति साङ्ख्यसूत्रा- च्छास्त्रादौ मङ्गलाचरणस्यावश्यकत्वात् "प्रशस्ताचरणं नित्यमप्रशस्तविवर्ज- नम्, एतद्धि सङ्गलं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिर्" इतिवचनेनं प्रशस्ताचर- णस्यैव मङ्गलपदार्थत्वादत्र शास्त्रादौ दुःखेत्यप्रशस्तोच्चारणं तद्विरुद्धं कथ- माचरितमित्याशङ्कामपाकरोति---"यद्यपि” इत्यादिना ॥ १ ॥ १ नात्र तसिल प्रत्ययः किमादिपञ्चम्यन्तत्वाभावात् अपि अपि तु आद्यादेराकृति- गणत्वात् 'आद्यादिभ्य उपसंख्यानम्' ५ । ४ । ४४ । इत्यनेन षष्ठयन्तात् तु- सिरिति भावः, २ अहो विमलं जलं नद्याः कूले महिषश्चरति—इत्यत्र नद्या इव उपायपदमा- वर्त्य व्याख्येयमित्याशयेन पुनरुपायपदं प्रयुङ्क्ते “स उपाय'' इति,- ३ (अ. १ सू. २) ४ (अ. ५ सू. १) , २२ साक्ष्यतत्त्वकौमुदी । स्थादेतद्-मा भूदृष्ट उपायो वैदिकस्तु ज्योतिष्टोमादिः संवत्सरपय॑न्तः कर्मकलापस्तापत्रयमेकान्तमत्यन्तं चापनेष्यति श्रूयते हि 'स्वर्गकामो यजेत' इति । स्वर्गश्च- "यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम्, दुष्टवदिति द्वितीयकारिकामवतारयितुं मीमांसकाशङ्कामुत्थापयति--- "स्यादेतद्" इति, दृष्ट उपायो दुःखनिवृत्तेर्हेतुर्माभूत् नास्ति इति यदभि- हितमेतत्स्या भवतु नाम वैदिकस्तूपायोऽवश्यं दुःखत्रयमत्यन्तम् अपने- यति दूरीकरिष्यतीति पुनरपि विवेके जिज्ञासाऽपार्था इत्यर्थः ॥ विवेकापेक्षया वैदिकस्य सुकरत्वमाह-'संवत्सरपर्यन्त' इति, अनेक जन्माभ्यासपरम्परासाध्यविवेकापेक्षयाऽल्पकालसाध्य इत्यर्थः. वैदिककर्मकलापस्य तापत्रयापनोदकत्वे प्रमाणमाह--"श्रूयते हि स्वर्ग- कामो यजेत" इति ॥ ननु स्वर्गविषयाभिलाषवान् यागेनेष्टं स्वर्ग संपादयदित्येव श्रुत्या बोध्यते नतु यागेनात्यन्तिकी दुःखनिवृत्तिं संपादयेदित्याम्नायते तत्कथमेतत्प्रकृतार्थे प्रमाणमित्याशङ्कयतादृशदुःखनिवृत्तेरेव नामान्तरं स्वर्ग, इत्याशयेन स्वर्ग लक्षयति-"स्वर्गश्च" इति, स्वर्गश्च इति इति श्रुत्याभिहितो दुःखविरोधी सुख- विशेष इत्यग्रिमेणान्वयः । एतादृशसुखविशेषस्य स्वर्गपदार्थत्व इतिपदसूचितामर्थवादरूपां श्रुति- माह--"यन्न दुःखेन सम्भिन्नम्" इति, दुःखेन न सम्भिनं दुःखसम्प- फैविधुरं-दुःखासम्मिश्रमिति, ननु किमिदं दुःखासम्मिश्रत्वं, न तावदुःखासामानाधिकरण्यम्-अ. सम्भवाद्, नहि स्वर्गप्राप्तेरर्वाग् यदुःखाधिकरणमात्मान्तःकरणं वा त- तोऽधिकरणान्तरं स्वर्गस्येति सम्भवः, नापि दुःखासमानकालिकत्वं तद्, १ यद्वा पूर्वोक्तं मा भूद् एतद् वक्ष्यमाणं तु स्यादित्यर्थोऽत्रावसेयः,। २ 'यन्न दुःखेन संभिन्नम्' इति भट्टवार्तिकमिति केचित्, स्मृतिरिय मिति वि- शान भिक्षवः, परिमलादिषु प्रामाणिकग्रन्थेषु श्रुतित्वेन व्यवहारादर्थवादरूपा श्रुतिरियमिति मादृशाः। ३ नैयायिकादिमत आत्मा दुःखाधिकरणं, साङ्ख्यादिमतेऽन्तःकरणमधि- करणमित्यर्थः, १ २३ साङ्ख्यतत्त्वकौमुदी। अभिलाषोपनीतं च तत्सुखं खःपदास्पदम्" इति दुःख विरोधी सुखविशेषः, : --- असदादिसुखस्यापि तथात्वेनै विशेषाभावाद् नहि नः सुखं दुःखकाले सद् येनेदं ततो विशिष्येत इति चेद्, अनोच्यते-इतरविशेषणसहकारेण लौकिकसुखविलक्षणमोक्षसलक्षणसुखविशेषस्यैवानेनाभिधानेनेकदोषाभा- वात्, तथाहि-यथा लौकिकं सुखं स्वसमयेऽन्यसुखाप्राप्तिनिबन्धनविषान देनानुषक्तं न तथेदम् अपितु-'दुःखेन न संभिन्नम्' इति, वर्तमानकालि- कान्याभिलषिताप्राप्तिनिबन्धनदुःखासम्मिश्रमित्यर्थः, किञ्च लौकिकं सुखं यथा सुखसाधनस्त्रक्चन्दनादिसंपादनायासरूपप्रा. कालिकदुःखानुषतं तथा नेदं किन्तु "अभिलाषोपनीतम्” इति, संकल्प मात्रेणैवोपनीतं सामीप्यमाप्तं नतु साधनसम्पादनायासाधीनमित्यर्थः ॥ किञ्च यथा लौकिक सुखमन्तराऽन्तरा तिरोभूय विरलप्रवाहशीलं भवति नेदं तथाविधमपितु-'अनन्तरम्' इति, व्यवधानहीनम् अविरल- संलग्नप्रवाहशीलत्वेन चिरकालस्थाथित्वादुत्तरकालिकदुःखासम्मिश्रमित्यर्थः । किञ्च यथा सार्वभौमादिसुखं लौकिकं चिरकालस्थाय्यप्यन्ते अस्तं भवति न तथेदं प्रस्तमपि तु "नच प्रस्तम्” इति, नाशाप्रतियोगी-अक्षयि इति यावद् एवंविधं यत् त्रैकालिकदुःखासम्मिश्रं सुख तत् स्व:पदास्पद-स्वर्गपदाभि. धेयमित्यर्थः ॥ तन्त्रवार्तिके कुमारिलभद्वैरपि 'स्वर्गशब्देनापि नक्षत्रदेशो वा वैदिकप्रवा- दपौराणिकयाज्ञिकदर्शनेनोच्यते, यथा हि वेदे 'ये हि जनाः पुण्यकृतः स्वर्ग लोकं यान्ति तेषामेतानि ज्योतींषि नक्षत्राणि' तथा 'यथैष ज्योतिष्मन्तं पुण्य. लोकं जयति' इति, यदि वेतिहासपुराणोपपन्नं भेरुपृष्ठम् इति मतान्तरेण स्वर्गपदार्थमभिधाय 'अथवाऽन्वयव्यतिरेकाभ्यां विभक्तं केवलमेव सुखं यस्संवत्सरादिष्वनुभूयमानं दुःखसाधनशीतोष्णक्षुत्पिपासादिसमस्तद्वन्द्वरहि- . १ तथात्वेन-दुःखसमानकालासत्त्वेन । २ इदं = स्वर्गपदाभिधेयं सुखम् । ३ अन्तर-शब्दो व्यवधानवाची, निर् =नास्ति-अन्तरो व्यवधानं यस्मिन् तदनन्तरमिति, तदेवाह-'व्यवधानहीनम्' इति, प्रथमतः सुखं तदव्यवहितो- तरक्षणे किञ्चिदुःखं, तदनु पुनः सुखमित्येवंविच्छेदराहित्येनाऽविच्छिन्नमित्यर्थः । ७ "" . साङ्ख्यतत्त्वकौमुदी। स च स्वसत्तया समूलघातमपहन्ति दुःखं नचैष क्षपी, तथाहि श्रूयते "अपाम सोमममृता अभूम', इति, तम्' इत्यादिनेदृग्विध एव स्वर्गपदार्थोभिहितः, अत्र यदन्यद्वचनीयं तदे- तत्पूर्वपक्षसमाधानावसरेऽभिधास्यते ॥ वैदिकेनोपायेनेदृग्विधे स्वर्गेऽवाप्ते सत्यात्यन्तिकी दुःखनिवृत्तिरर्थात् सिद्धा भवतीत्याश्येनाह-"स च" इति, सच स्वर्गः स्वसत्तया स्वीयोदारावस्थया समूलघातं-मूलेन कारणेनाधर्माख्येन दुरदृष्टेन सह दुःख हन्तीति न पुन- दुःखोद्भवशङ्केत्यर्थः ॥ ननु "तद् यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयत" इति श्रुत्या कर्मजन्यस्वर्गस्य क्षयित्वश्रवणेन कथं 'नच प्रस्तम्' इत्यनेनाक्षयित्वाभिधानमित्याशङ्का प्रतिक्षिपति-"नचैष क्षयी" इति, क्षयित्वाभावे प्रमाणमाह-"अपाम सोमम्' इति, "अपाम सोमममृता अभूमाऽगन्म ज्योतिरविदाम देवान् , किन्नूनमस्मान् कृणवदरातिः किमु धूर्तिरमृतमय॑स्य" इति हि समग्रो मन्त्रः, इयं च श्रु- तिर्भगवता गौडपादाचार्येणेत्थं व्याख्याता (कदाचिदिन्द्रादीनां देवानां कल्प आसीत् कथं वयममृता अभूमेति, विचार्य यस्माद्वयम् अपाम सो- मम्=पीतवन्तः सोमं तस्माद् अमृता अभूम अमरा भूतवन्त इत्यर्थः, किंच १ अ. १ पा. ३. अधि. २६ । वैदिकेन प्रकृष्टेन स्पष्टेन वादेन, तन्मूलेन च पौराणिकानां मातल्यर्जुनसंवादादिगतेन दर्शनेन, याशिकानां 'धाइ स्तुवः संज्योतिषा भूमा' इत्यादिप्रोत्साहनमन्त्रनुसंधानरूपण दर्शनेनेत्यर्थः, वैदि- कप्रवादद्वयं ( यथावेद ) इत्युपक्रम्योदाहृतम्' इत्येतदर्थ इति न्यायसुधाकारः सोमेश्वरभट्टः, २ 'यंन्न दुःखेन' इत्यनेन नाकपृष्ठविशेषः स्वर्गपदार्थत्वेनाभिहित उताहो मोक्षरूपसुखविशेष इत्याकाङ्क्षायामाह-"अत्र यद्' इत्यादिना, ३ इह-लोके कर्मचितः-कृषिव्यापारादिकर्मणा संपादितः लोकः-धान्यधनादिः क्षीयते तद्यथाऽयं दृष्टान्त एवमेव अमुत्र-लोकान्तरेपि, यागादिजन्यपुण्यसंपा- दितः सुधापानाप्सरोरमणादिरूपो भोगोपि क्षीयत इति श्रुत्यर्थः, “यत्कृतकं तद- नित्यम्' इति व्याप्तिमूलेयं श्रुतिरिति भावः, ४ कल्पः-समाजः-सभेति यावत्. गन्म १ साङ्ख्यतत्त्व कौमुदी । २५ तत्प्रक्षय कुतोऽस्यामृतत्वसम्भवः, तस्माद वैदिकस्योपायस तापत्रयप्रतीकारहेतोर्मुहूर्तयामाहो- रात्रमाससंवत्सरादिनिर्वर्तनीयस्यानेकजन्मपरम्परायाससम्पा- दनीयाद्विवेकज्ञानादीपत्करत्वात्पुनरपि व्यर्थी जिज्ञासेत्या- शङ्कयाह- ---- - अगन्म=गतवन्तो-लब्धवन्तो ज्योतिः स्वर्गमिति, अविदाम देवान्-दि- व्यान् विदितवन्तः, एवं च 'किन्नूनमस्मॉन्कृणवदरातिः' नूनं निश्चितं किम् अरातिः शत्रुरस्मान् तृणवत्कर्तेति, 'किमु धूर्तिरमृतमर्त्यस्य' धूर्तिः जरा हिंसा वा किं करिष्यति अमृतमय॑स्येति, नन्वनया श्रुत्या स्वर्गिणाममृतत्वमेवाभिहितं न स्वर्गस्याक्षयित्व मित्यत आह-"तत्प्रक्षये" इति, स्वर्गस्य प्रक्षये सति अमृतत्वासम्भवाद् अमृत- त्वश्रुत्यन्यथानुपपत्या स्वर्गस्याक्षयित्वं कल्पनीयमित्यर्थः, एवं चामृतत्वश्रुतिविरोधात् "तद्यथेह" इत्यादिश्रुतिर्न स्वार्थपराऽपि तु विधेयसंन्यासपुरस्सरज्ञानफलप्रशंसायै निन्दार्थवादरूपेति बोधितम्,- कर्ममीमांसकाशङ्कामुपसंहरति-"तसाद्" इति, तस्माद् उपदर्शिताद् हेतोः वैदिकस्योपायस्य तापत्रयनिराकरणकारणस्य विवेकज्ञानरूपादुपायात्सु. करत्वात्पुनरपि विवेकज्ञाने जिज्ञासा व्यथैत्यन्वयः, वैदिकस्य सुकरत्वे हेतुमाह-"मुहूर्त' इति, तत्र मुहूर्तमात्रनिर्वर्तनीयं सन्ध्योपासनादि, यामनिर्वर्तनीयं पिण्डपितृयज्ञादि, मासनिर्वर्तनीयं मासा. ग्निहोत्रादि, संवत्सरनिर्वर्तनीयं ज्योतिष्टोमादि, इत्यर्थः, विवेकज्ञानस्य दुष्करत्वे हेतुगर्भितं विशेषणमाह-"अनेकजन्मपरम्प- रायाससम्पादनीयादै” इति, -3 .. १ तत्क्षते- इति, तदपक्षये—इति च पाटान्तरमपि सम्यकू, ./ २: मर्त्यशब्दोऽत्र शरीरवाची व्यत्ययेन च बहुत्व एकवचनं, तथाच--मरण- रहितशरीरवतामस्माकं जरादि नास्तीत्यर्थः, ३: अनेकजन्मपरम्परायां यो ज्ञानसाधनानुष्ठानाभ्यासरूप आयासस्तन सम्पा. दनीयादिय॑थः - .. .. LAथ साङ्ख्यतच्चकौमुदी। दृष्टवदानुश्रविकः, स वविशुद्धिक्षयातिशययुक्तः, तद्विपरीतः श्रेयान्, व्यक्ताव्यक्तज्ञविज्ञानाद् ॥ २ ॥ गुरुपाठादनुश्रूयत इत्यनुश्रवो वेदः, एतदुक्तं भवति-श्रूयत एवं परं न केनापि क्रियत इति, तत्र भव आनुश्रविक इति, तत्र प्राप्तो ज्ञात इति यावत्, अनुश्रविकोपि कर्मकलापो दृष्टेन तुल्यो वर्तत इति, ऐकान्तिकाऽऽत्यन्तिकदुःखप्रतीकारानुपायत्वस्योभयत्रापि तुल्यत्वात्, आनुश्रविकशब्दस्य योगार्थ प्रतिपिपादयिषुरानन्तर्यार्थकानूपसर्गापेक्षि- तावध्याकाङ्क्षां शमयति “गुरुपाठाद्" इति, गुरुकर्तृकोच्चारणानन्तरमित्यर्थः, तदेव स्पष्टयति-"एतदुक्तम्” इत्यादिना, विद्यासम्प्रदायप्रवर्तकब्रह्मा- दिगुरुपरम्परया श्रूयत एव यः स वेद इत्यर्थः, एवकारव्यावर्त्यमाह-"न केनापि क्रियत" इति, भारतादिवन्न केनापि निर्मित इत्यर्थः, तत्र भव इत्यत्र भवपदस्य जन्यार्थकत्वं वारयितुमाह- "तत्र प्राप्त" इति, वेद उपलब्ध इति यावद्, तदेवाह - "तत्र ज्ञात" इति, वेदबो- धित इत्यर्थः, किमखिल एव वेदबोधित--उपाय अनुश्रविकशब्देन गृह्यते, नेत्याह- "कर्मकलाप" इति, ज्योतिष्टोमप्रमुखयागसमूहो य अनुश्रविकः सोऽपि लौकिकेनोपायेन सम इत्यर्थः, कनांशेन साम्यमित्यपेक्षायामाह--"ऐकान्तिक" इत्यादिना, समूल- दुःखोपरमसाधनत्वाभावस्य उभयत्रापि लौकिके वैदिके चोपाये तुल्यत्वा- दित्यर्थः, ॥ एतेन "अविशेषश्चोभयोः" इति साङ्ख्यसूत्रार्थो दर्शितः । १ अनु श्रूयत इत्यत्र 'अनु' इत्युपसर्ग आनन्तर्यार्थकः, आनन्तयं चावधि- सापेक्षं भवति 'कस्मादनु' इति, तदेतदपेक्षां पूरयितुं 'गुरुपाठाद्' 'इति पञ्चम्यन्त- मध्याहृतमित्यर्थः, २ गुरुमुखाद् इति पाठान्तरमपि सम्यक्, (३) अ. प्र. सू. ६ उभयोः लौकिकवैदिकोपाययोः, अत्यन्तदुःखनिवृश्यसाध- कत्वे अविशेषः-साम्यमित्यर्थः, २७ साङ्घयतत्वकौमुदी। यद्यपि चाऽऽनुश्रविक इति सामान्येनाभिहितं तथापि क- मकलापाभिप्रायं द्रष्टव्यं विवेकज्ञानस्याप्यानुश्रविकत्वात्, तथा च श्रूयते---"आत्मा वा अरे द्रष्टव्यः" ( प्रकृतितो विवेक्तव्यः ) "न स पुनरावर्तत" इति, ननु 'दृष्टवदानुश्रविक' इत्यनेन साधारण्येन वैदिकोपायमात्रस्य दृष्टसाम्या- भिधानेन कथं तद् विहाय तदेकदेशकर्मकलापोपायपरतया व्याख्यातमि- त्याशङ्कय समाधत्ते---"यद्यपि" इति, आनुश्रविकपदेनात्र कर्मकलापग्रहण एव वक्तुस्तात्पर्य न वैदिकोपायमात्रग्रहण इत्यर्थः, आनुश्रविकोपायमात्रग्रहणे दोषमाह-"विवेकज्ञानस्याप्यानुश्रविकत्वाद्, इति, साधारण्येन ग्रहणे हि विवेकज्ञानस्यापि वैदिकोपायत्वात् तस्यापि दृष्टोपायसाम्यमभिहितं स्यात् , तच्चानिष्टमित्यर्थः, विवेकज्ञानस्य वैदिकत्वे श्रुतिः प्रमाणमित्याह-"तथाच श्रूयते" इति, द्रष्टव्य इति श्रौतं पदं व्याचष्टे-“प्रकृतित" इति, ननु भवतु विवेकज्ञानस्य वैदिकत्वमस्तु च तस्यापि दृष्टोपायतुल्यत्वं किमेतावता वश्छिन्नमिति शङ्कायामाह-"न स पुनरावर्तत" इति, सः अ- हङ्ग्रहोपासनादिना ब्रह्मलोकं गत उपासकः पुनस्ततोऽवरुह्य जन्मान्तरं नानु- भवत्यपि तु तल्लोकाधिष्ठातृणा ब्रह्मणा सह परं पदं प्रविशतीत्यर्थः, एषा श्रुतिः कैमुतिकन्यायेनात्रोपन्यस्ता प्रकृतोपयोगिन्यस्तु "तमेब विदित्वातिमृत्युमेति" "तमेवं विद्वानमृत इह भवति" "तरति शोकमात्म- विद्" इत्यादय उदाहार्यः; तथाच विवेकज्ञानस्य दृष्टोपायसाम्याभ्युपगमे तस्यामृतहेतुत्वं श्रूयमाणं विरुध्येतातः सामान्येनाभिधानेपि कर्मकलापाभिप्रायेण व्याख्येयमिति भावः, १ अनुश्रविक इत्यभिधानं कर्मकलापाभिप्रायमित्यर्थः, 'कर्मकलापाभिप्राय' इति पुल्लिंगपाठे तु ‘आनुश्रविक इति प्रयोगः कर्मकलापाभिप्राय' इत्येवं योज्यम्, २ कर्मोपास्तिज्ञानात्मकस्योपायसमुदायस्येत्यर्थः, ३ उपासकदशानिरूपिकायाः 'न स पुनरावर्तत' इति श्रुतेः प्रकृते विवेकज्ञाने क उपयोग इत्याशङ्कायामाह 'कैमुतिक' इति, यदा किलाविद्यावतामपि ब्रह्मो- पासकानामपुनरावृत्तिस्तदा विध्वस्ताविद्यावतां. ब्रह्मज्ञानिनामपुनरावृत्तिर्भवतीति किमु वक्तव्यमिति न्यायेनेत्यर्थः, .
- २८ साहयतत्वकौमुदी । अस्यांप्रतिज्ञायांहेतुमाह-"सह्यविशुद्धिक्षयातिशययुक्तः" अविशुद्धिः सोमादियागस्य पशुबीजादिवधसाधनता, वैदिकस्योपायस्य दृष्टोपायसाम्यसाधकं कारिकागतं हेतुमवतारयति- "अस्यां प्रतिज्ञायाम्' इति, वैदिकोप्युपायो लौकिकोपायवन्नामृतत्वसाधक इत्यभ्युपगमे साधकमाहेत्यर्थः, तदेव साधकमाह-“स ह्यविशुद्धिक्षयातिशययुक्त" इति, हि-यतः सः वैदिक उपायोऽविशुद्धिक्षयातिशययुक्तोतो दृष्टवदित्यर्थः, तत्राविशुद्धिशब्दार्थमाह-"अविशुद्धिर्' इति, साध्यसोमादियागनि- रूपिता या पशुबीजादिवधनिष्टा साधनता=कारणता सैवान्नाविशुद्धिरित्यर्थः । एतदुक्तं भवति-होमदेवपूजनदक्षिणाप्रदानादिरूपपुण्यजनककर्मसा- ध्यस्य सोमयागादेर्यत् पशुहिंसनबीजवधादिरूपपापजनककर्मसाध्यत्वं तदेव सोमयागादेरविशुद्धियुक्तत्वम्, योगभाष्ये भगवता व्यासदेवेनापि "शुक्लकृष्णा बहिःसाधनसाध्या तत्र परपीडानुग्रहद्वारेण कर्माशयमचय” इत्येवं यागस्याऽविशुद्धियुक्तत्वमभि. हितम्, १ सोमादियागस्येत्यत्र निरूपितत्वं षष्ठयर्थ इत्यर्थः, २ चतुष्टयी खलु कर्मजातिः तत्र तमोमूला दुःखमात्रफलिका ब्रह्महत्यादिरूपा कृष्णा, रजोमूला दुःखोपसर्जनसुखकलिका यागादिरूपा शुक्लकृष्णा, सत्त्वमूला सुखमात्र कलिका सन्ध्योपासनप्रणवजपादिरूपा शुक्ला, गुगाहेतुका निजानन्दफलिका सम्प्रज्ञातसमाध्यादिरूपाऽशुक्लकृष्णा, तथाच सूत्रं "कर्माशुक्लकृष्णं योगिनलि- विधभितरेषाम्'' पा. ४ सू- १। एवं च यागस्य शुक्लकृष्णकर्मरूपत्वेनाविशुद्धि- युक्तत्वं स्पष्टमिति बोध्यम्, ३ 'यद् यावद् बहिःसाधनसाध्यं तत्र सर्वत्रास्ति कस्यचित् पीडा नहि बी. ह्यादिसाधनेपि यागादिकर्मणि परपीडा नास्ति अवघातादिसमये पिपीलिकादिवध- सम्भवाद् अन्ततो बीजादिवधेन स्तम्बादिभेदोत्पत्तिप्रतिबन्धाद, अनुग्रहश्च दक्षि- णादिना ब्राह्मणादेः' इत्येतदभाष्यार्थ इति वाचस्पतिमिश्राः, "शारीरजैः कर्मदोषैर्याति स्थावरतां नर" इति मानवरवाद् ब्राह्यादिबीजा- नामपि प्राणित्वाविशेषान्. तत्पीडनमपि हिंसन मेत्र, अत एव तत्तद्वीजपीडकानां तैलिकशौण्डिकानां सौनिकसाम्यमभिहितं मनुना . "दशसूनाजमश्चक्री दशचक्रसमो ध्वजी" इत्यादिनेति भावः । ४ यथा दक्षिणाप्रदानादिपुण्यकर्मयोगेन शुक्लात्मत्वादः यागादेविशुद्धियुक्तत्वं तथा पशुवधादिपापकर्मयोगेन कृष्णात्मत्वादविशुद्धियुक्तत्वमभिहितमित्यर्थः, . .. ..
साङ्खथतत्त्वकौमुदी। २९ यथाह रस भगवान् पश्चशिखाचार्यः एवं च यथा यागाङ्गभूतदीक्षणीयादिदक्षिणावसानयुण्यकर्मणामुत्र सुखं जन्यत एवं यागाङ्गभूतपशुबीजादिवथपापकर्मणा दुःखमपि जन्येत तथा च यथा लौकिकोपायस्य दुःखसंमिश्रसुखजनकत्वं तथा वैदिकोपायस्यापि दुःख- सम्भिन्नसुखजनकत्वमिति सोपि दृष्टवदिति भावः । यागादेरविशुद्धियुक्तत्वे पञ्चशिखाचार्यवचनं प्रमाण यति-"यथाह" इत्यादिना, योगभाष्ये तीव्रसंवेगेनानुष्ठितस्य कर्मणो दृष्टजन्मवेदनीयत्वमभिधाया- न्यस्यादृष्टजन्मवेदनीयस्यानियतफलस्य कर्मणस्तिस्रो गतयोऽभिहिताः “कृ- तस्याविपक्कस्य नाश" इत्येको “प्रधानकर्मण्यावापगमनम्” इति द्वितीया "नियतविपाकप्रधानकर्मणाभिभूतस्य वा चिरमवस्थानम्" इति तृतीया- १ अविशुद्धियुक्तत्वकथनेन कथं दृष्टसाम्यं नहि दृष्टे मणिन्त्रादिरूप उपाये- ऽविशुद्धियोगः कश्चित्प्रतीयत इत्याकाङ्क्षायां तात्पर्येण दृष्टसाम्यमाह-एवं च" इत्यादिना- (२) पा. २ सू. १३ अत्युग्रपुण्यपापरूपकर्मण इहैव सद्यः फलप्रदातृत्वात् दृष्ट जन्मवेदनीयत्त्रम्, इतरस्य च परत्र फलप्रदत्वेनाऽदृष्ट जन्मवेदनीयत्वं, तबाह- ष्टजन्मवेदनीयकर्मणो नियतफलकालनिर्धारणासत्त्वेन तस्य विस्रो गतयो. भव- न्तीत्युक्तमित्यर्थः। ३ अदत्तफलस्य कस्यचित्पापकर्मणः प्रायश्चित्तादिना नाश इत्येका गतिरित्यर्थः । ४ प्रधाने कर्मणि ज्योतिष्टोमादिके तदङ्गस्य पशुहिंसादेरावापगमनं, द्वे खलु हिंसादेः कार्ये प्रधानाङ्गतया विधानाद् यागोपकारः 'न हिंस्याद्' इति निषिद्ध- त्वादनर्थश्च, तत्र प्रधानाङ्गतयाऽनुष्ठानादप्रधानतैवेत्यतो न द्रागित्येव प्रधान निर- पेक्षा सती स्वफलमनर्थ प्रसोतुमर्हति किन्वारब्धविपाके प्रधाने साहायकमाचर- न्ती व्यवतिष्टते, प्रधान साहायकमाचरन्त्याश्च तस्याः स्वकार्ये बीजमात्रतयाव- स्थानं प्रधाने कर्मण्यावापगमन मिति तदर्थ इति वाचस्पतिमिश्राः, अयंभावः यथा धान्यबीजैः सहोत्पन्नानां तृण्वीजानां तैः सहैव कुसूलम- ध्यस्थापितानां वपनसमये धान्यबीजैः सहैव. वपनप्राप्तिर्न वातन्त्र्येण. तद्वत् प्रधानयागाङ्गतयाऽनुष्टि तस्य पशुहिंसादेर्यत् खातन्त्र्येण फलदानासामर्थ्य प्रधान- कर्मविपाकसमये च फलदानोन्मुखत्वं तदेवाऽऽबापगमनमिति, ५ नियतविपाकेन बलीयसा कर्मान्तरेण प्रतिबद्धस्य बलीयःकर्मभोगपर्यन्तं बहुकालमवस्थानमित्यर्थः, तथा च स्मर्य्यते--"कदाचित्सुकृतं कर्म कूटस्थमिह. तिष्ठति, मञ्जमानस्य संसारे यावद् दु:खाद्विमुच्यते'' इति । .. .. ४ - सामयतत्व कौमुदी । "स्वल्पः सङ्करः सपरिहारः सप्रत्यवमर्प" इति । स्वल्पः सङ्करः---ज्योतिष्टोमादिजन्मनः प्रधानापूर्वस्य पशुहिंसादि- जन्मनाऽनर्थहेतुनाऽपूर्वेण, सपरिहारः-कियतापि प्रायश्चित्तेन परिहर्तुं शक्यः अथ प्रभादतः प्रायश्चित्तमपि नाचरितं प्रधानकर्मविपा- कसमये स विपच्यते तथापि यावदसावनथ सूते तावत् सन- त्यघमर्षः---प्रत्यवमर्पण-सहिष्णुतया सह वर्तत इति, तत्र प्रधानकर्मण्यावापगमने प्रमाणतया स्यात् स्वल्पः सङ्करः सपरिहारः सप्रत्यवमर्षः कुशलस्य नापकर्षायालं कस्मात्, कुशलं हि मे बह्वन्यदस्ति यत्रायमावापं गतः स्वर्गेप्यपकर्षमल्पं करिष्यति' इत्ययं पञ्चशिखग्रन्थ उद्धृतः तत्रत्यं प्रकृतोपयुक्तं भागमत्र प्रमाणतयोद्धरति--"स्वल्पः सङ्करः” इति । केन कस्य सङ्कर इत्याकाङ्क्षी पूरथन् सङ्करशब्दार्थमाह- "स्वल्पः सङ्करः- ज्योतिष्टोमादिः" इति, ज्योतिष्टोसजन्यस्य प्रधानीभूतधर्मस्य यः पशुहिंसादि- जन्ये नाप्रधानीभूताधर्मेण सह समानाधिकरण्येन सहावस्थानरूपः संसर्गः स सङ्कर इत्यर्थः, पुण्यापेक्षयाऽल्पत्वेन च स स्वल्पः, यागे हिंसाजन्यः स्वल्पः सङ्कराख्यः प्रत्यवायो विद्यत इत्यर्थः । सङ्करस्याल्पत्वेनैबालपेनैव प्रायश्चित्तेन सोऽपनेय इत्याशयेन सपरि- हारपदं व्याचष्टे-"कियतापि" इति, अल्पेनापि इत्यर्थः । सप्रत्यवमर्षपदं व्याचष्टे-"अथ" इति, अथ यदि ग्रंमादतः आल- स्यात् प्रायश्चित्तमपि नानुष्टितं 'तर्हि' प्रधानकर्मविपाकसमये-ज्योतिष्टो- सफलभूतस्वर्गभोगकाले सः सङ्कराख्यः प्रत्यवायः विपच्यते फलोन्मुखी- भवति तथापि एवं सति, असौ हिंसाजन्योऽधर्मः यावत् यत्पर्यन्तम् १ “यत् पशुर्मायुमकृतोरो वा पद्भिराहते, अग्निर्मा तस्मादेनसो विश्वान् मुञ्चत्वंहसः" इत्यादिमन्त्रवर्णबोधितेनाल्पेन प्रायश्चित्तेनेत्यर्थः । २ ‘यावन्तमसावन) सूते तावान् सप्रलमर्ष' इति-पाठान्तरे तु 'असौ हिं- साजन्योऽधर्मः यावन्तमनर्थ वृत्रासुरा दिजन्यं भयं सूते जनयति तावाननर्थ : सप्रत्यवमर्ष :=अवश्यं सहनीय इत्यों बोध्य :, परन्त्वेवं सति सप्रत्यवमर्ष इति अनर्थविशेषणमिसायाति. तथाच सङ्कर : सप्रत्यवमर्ष इति श्रूयमाणं सामानाधि- करण्यं व्यकुप्यतेति मूलधृतपाठ एवा साधीयान्,- t .
' सामयतच्चकौमुदी। ३१ मृष्यन्ते हि पुण्यसम्भारोपनीतस्वर्गसुधामहाहदावगाहिनः कुशलाः पापमात्रोपपादितां दुःखवाहिकणिकाम् । न च “मा हिंस्यात्सर्वाभूतानि” इति सामान्यशास्त्रं वि- शेषशास्त्रेण "अग्नीपोमीयं पशुमालभेत" इत्यनेन वाध्यत इति युक्तं, अनर्थ स्वफलं वृत्रासुरादिभयरूपं सूते उत्पादयति तावत् तत्पर्यन्तं सू- प्रत्यवमर्पः अवश्यं सहनीयः, सङ्करजन्यं दुःखमवश्यं भोक्तव्यमित्यर्थ।। तदे- वाख्यातुं सप्रत्यवमर्षपदं विगृह्णाति-"प्रत्यवमर्पण' इति, एतदेव स्पष्टयति -"मृष्यन्तेहि" इति, हि-शब्दः वैदिकपौराणिकग्रसि- द्विद्योतनार्थः, पुण्यपुञोपनतस्वख्यमुखसयामृतसरोवरावगाहनशीला: कु- शला य इन्द्रादग्रस्ते हिंसाजन्य स्वल्पपापेन जनितां देवासुरसंग्रामादिरूपां दुःखबतिकणिकां मृष्यन्ते सहन्ते हि-प्रसिद्ध मेतदित्यर्थः । यद्यवश्यं सङ्कर जन्यं दुःखं सहनीयं तत् त्यज्यतां यागानुष्टानमित्यपे- क्षायाम् "कुशलस्य नापकर्षायालं कसात्, कुशलं हि मे बह्वन्यदस्ति यत्रा- यभावापं गतः स्वर्गप्यपकर्षमल्पं करिष्यति' इत्यग्रिमपञ्चशिखग्रन्थ इति बोध्यम्, अस्य चायमर्थः-अयं स्वल्पः सङ्करः कुशलस्य महतः पुण्यकर्मण अपकर्षाय= प्रक्षगाय न अलं पर्याप्तः, कस्मात् हि-यतः मे यागानुष्टातुः कुशलं-पुण्यात्मकं कर्म दीक्षणीयादिदक्षिणावलानं बहु विद्यते यत्र प्रधान कर्मणि अयं स्वल्पः सङ्करोऽन्तर्भूतः सन् स्वर्गेपि स्वर्गादल्पं दुःखसंभेदं क- रिष्यतीति । एवं चाल्पदुःखभयेन महत्सुखं न त्याज्यमिति याज्ञिकाशायः। यागादेरविशुद्धियुक्तत्वमऋष्यमाणस्य कर्मसीमांसकस्याशङ्कामुत्थाप्य नि- राकरोति - "न च मा हिंस्याद्' इति शङ्ककमीमांसकस्यायमाशयः-सामान्य शास्त्रं हि विधेयसामान्यद्वारा विशेषमुपसर्पतीति बिलम्बेन प्रवृत्तत्वाद्, दुर्बलं तद्, विशेषशास्त्रं तु साक्षा- देव विशेषमुपसर्पतीत्याशुतरप्रवृत्तत्वात्प्रबलं तद्, एवं च यथा प्रबलेन "अश्वस्य पदे जुहोति" इति विशेषशास्वेगाश्वपदाधिकरणकहोमविधानप- १ अश्वमेधप्रकरणे तुरङ्गमविमोचनोत्तरं खैरं विचरन्तमश्वं दशममासादूर्वा रथकारगृहे समानीय बवा तस्य चतुर्यु परेघु 'इह धृतिः खाहा' इत्याचाहुतिचतु. प्टयं जुह्वति चत्वार ऋत्विज इति याज्ञिकसम्प्रदायः ।
R - विरोधाभावाद्, ३२ साङ्ख्यतत्त्वकौमुदी । विरोधे हि बलीयसा दुर्बलं बाध्यते न चहास्ति कश्चिद् विरोधः भिन्नाविषयत्वात् तथा हि 'न हिंस्याद्' इति निषेधेन हिंसाया अनर्थहेतु- भावो ज्ञाप्यते न त्वक्रत्वर्थत्वमपि 'अग्नीपोमीयं पशुमालभेत' इत्यनेन वाक्येन च पशुहिंसायाः क्रत्वर्थत्वमुच्यते नानर्थहेतु- त्वाभावः, तथासति वाक्यभेदप्रसङ्गाद् , रेण “आहवनीये जुहोति' इति होममात्रस्याहवनीयाधारत्वविधायकस्य सामान्यशास्त्रस्य बाधात् सामान्यशास्त्रस्य तदितरपरत्वेन संकोचः तथाऽग्नी- पोमीयपशुहिंसाविषयेण विशेषशास्त्रेण हिंसानिषेधपरस्य सामान्यशास्त्रस्य बाधात् सामान्यशास्त्रस्य यागीयहिंसातिरिक्तहिंसाविषयत्वेन संकोच आ- स्थेय एतन्मूलकमेव सामान्यशास्त्राद्विशेषशास्त्रं प्रबलमिति न्याय इति । न च युक्तमित्युक्तौ हेतुमाह-~"विरोधाभावाद्' इति, नहि प्रबलमि- त्येतावता दुर्बलं बाध्यते किन्तु सति तिरोधे नचेहास्ति कश्चिद् विरोधो भिन्नगोचरचारित्वादुभयोरित्यर्थः भिन्नविषयत्वमेव स्पष्टयति-"तथाहि" इति निषेधेन हि 'हिंसा पु- रुषानर्थकरी' इत्येव बोध्यते नतु 'हिंसा यागोपकारिणी न' इत्येवमपि, एवं पशुमालभेतेतिवाक्येनापि “हिंसा यागोपकारिणी" इत्येव ज्ञाप्यते नतु हिंसा नानर्थकरी' इत्येवमपि, एवं च भिन्नविषयत्वान्न विरोध इत्यर्थः । ननु न हिंस्यादित्यस्यार्थद्वयं हिंसानर्थहेतुरित्येकः अक्रत्वा च सेत्यपरः एवम् 'अग्नीषोमीयं पशुमालभेत' इत्यस्याप्यर्थद्वयं पश्वालम्भनं ऋत्वर्थमि- त्येकः, इदं चालम्भनं नानर्थहेतुरित्यपरः, एवं च सामान्य शास्त्रबोधितयोरन- थहेतुत्वाकत्वर्थत्वयोर्विशेषशास्त्रबोधितानाहेतुत्वक्रत्वर्थत्वाभ्यां विरोधात्कथं विरोधाभावः इत्याशङ्याह--"तथासति" इति, तथासति अर्थयस्वी- कारे सति, अन्याय्यश्वानेकार्थ, इति न्यायेन वाक्यभेदस्य मीमांसकैर्दुष्टत्व- स्थापनादित्यर्थः । ~ १ अयमेव चोत्सर्गापवादन्यायः तथाचाहुः शङ्कराचार्या:-'उत्सर्गस्तु स:, अयं चापवादोऽग्नीषोमीयं पशुमालभेत' इति–ब्रह्मसू. अ. ३ सू. १३ ।
साङ्ख्यतत्वकौमुदी। नचाऽनर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिद् विरोधोस्ति, हिंसा हि पुरुषस्य दोषमावक्ष्यति तोचोपकरिष्यतीति, यथाश्रुतैकार्थत्व स्वीकारे तु न कश्चिद् विरोध इत्याह-"नचानर्थहेतुत्व” इति विरोधाभावायोभयोः समावेशमाह"हिंसा हि" इति, दोषम् आ- वक्ष्यति सम्पादयिष्यतीत्यर्थः । एतदुक्तं भवति-ऋतुप्रकरणे समान्नातं पश्वालम्भनं क्रत्वर्थतासेवास्य गमयति नत्यपनयति निषेधापादितं हिंसायाः पुरुपं प्रत्यनर्थहेतुत्वं तेनास्तु निषेधात्पुरुपं प्रत्यनर्थहेतुता विधेश्च ऋत्वर्थता को नाम विरोधावकाशः । अयं भावः-यथा "आमतकं कोटे कर्फ हन्ति" इति वाक्यस्येष्टसाध- नत्वं विषयः "कण्ठे च तत् तक्रं कर्फ करोति" इति वाक्यस्यानिष्टसाधनत्वं विषय इति विषयभेदादुभयोरविरोधस्तथा निषेधवाक्यस्यानर्थहेतुत्वं विषयः पश्वालम्भनवाक्यस्य च ऋतूपकारकत्वं विषय इति विषयभेदादुभयोर- विरोध इति । नेनु वैधपश्वालम्भनस्यानिटजनकत्ये आलभेतेत्यन्त्र बलवदनिष्टाननुबन्धी- टसाधनत्वरूपस्त्र विध्यर्थस्य कथमक्षतिरिति चेद्-- अत्राहुः साङ्ख्यप्रवचनाप्यकारा विज्ञानभिक्षयः--"वैधहिंसाजन्या- निष्टस्येष्टोत्पत्तिनान्तरीयकत्वेनेष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखाजनकत्वरू- १ ननु माभूद 'न हिंस्यात्' इति निषेधवाक्यस्यार्थद्वयं पशुमालभेत इतिवाक्यस्य त्वर्थद्वयं दुर्वारम् आलभेत इत्यत्र विधिप्रत्ययेन वलवदनिष्टाजनकत्वेष्टसाधनत्व- रूपार्थद्वयस्य बोधनादित्याशयेन शङ्कते–'ननु वैध'' इति (२) अ.१ सू. ७ । ३ अन्तरा-इत्यव्ययं विनार्थकम् अन्तरा==विना भवम् अन्तरीयं गहादि- त्वाच्छ:, नान्तरीयं नान्तरीयकम्, इष्टोत्पादकयत्नानुनिष्पादनीयं, युद विनेष्टोत्पत्तिर्न भवत्येवंविधं यदिष्टोत्पत्त्यविनाभूतमिष्टोत्पत्तिसहभूतं वा दु:खं तदितरदु:खा- जनकत्वमेव बलबइनिष्टाजनकत्वमित्यर्थः, युक्तं चैतद् अन्यथा लौकिकपाकादिक- मंगो धूमादिप्रयुकदु:खजनकत्वान्, स्वर्गप्रापककर्मणश्च मरणपानभयाध:पातादि- दुःखजनकत्वात्, राज्यप्रापककर्मणश्च गर्भवासादिदु:खनकत्वात्, कुत्रापि दु:खा- जनकत्वं न स्यात् । एवं हिंसाजन्यग्रत्यवायफलीभूतस्याल्पदुःखस्येप्टस्वर्ग:त्पत्त्यविनाभूतत्वेन तदुख जनकत्वेपि तदितरदुःखाजनकत्वाद्भवति यागादेर्बलवद निष्टाजनकत्व मिति, न विध्यर्थक्षतिः। . च . ..
- . ३४ साङ्ख्यतत्वकौमुदी। 1 पस्य बलवदनिष्टाननुबन्धित्वस्य विध्यंशस्थाक्षतेः यत्तु वैधहिंसातिरिक्त- हिंसाया एव पापजनकत्वमिति, तदसत्, सङ्कोचे प्रमाणाभावाद्, युधि- ष्टिरादीनां स्वधर्मेपि युद्धादौ ज्ञातिवधादिप्रत्यवायपरिहाराय प्रायश्चित- श्रवणाच, 'तस्माद् यास्याम्यहं तात दृष्ट्वेसं दुःखसन्निभं, त्रयीधर्ममधर्माढ्यं किम्पाकफलसन्निभम्' इति मार्कण्डेयवचनाच, 'अहिंसन् सवाणि भूतान्य- न्यत्र तीर्थेभ्य' इति श्रुतिस्तु वैधातिरिक्तहिंसानिवृत्तेरिष्टसाधनत्वमेव वक्ति नतु वैधहिंसाया अनिष्टसाधनत्वाभावमपीत्यादिकं योगवार्तिके देठव्यमिति दिक्” इति । किञ्च-इष्टस्वर्गापेक्षया हिंसाजन्यानिष्टस्याल्पत्वेन बलवदनिष्टाजनकत्वरू- पविध्यर्थस्वाक्षते व विध्यर्थस्यानुपपत्तिरिति । वस्तुतस्तु-अङ्गविधीनां विनियोगमावतात्पर्यकत्वेन बलबदनिष्टाननु- बन्धित्वबोधने तात्पर्याभावान्न काचिदत्रापत्तिरिति । अयं भावः-यो हि पुरुषप्रतकः प्रधानविधिस्तेन स्वप्रवृत्तिसिद्धये बल- वदनिष्टाननुबन्धित्वमपि तात्पर्थतो बोध्यते 'अग्नीपोमीयं पशुभालभेत' इत्याद्यङ्गविधयस्तु न पुरुषप्रवर्तका अपि त्वङ्गानां प्रधानविनियोगतात्प- र्यकाः तत्सिद्धये, चेष्टसाधनत्वमेव तात्पर्यगत्या तैः प्रतिपादनीयं तस्मिन् प्रतिपादिते किं तदिष्टमित्याकाङ्क्षायामुपस्थितत्वात्ऋतूपकार एवेत्यवगम्यते नत्व नहेतुत्वाभावोषि, एवं चानर्थहेतुत्वाभावस्य विधिनाऽस्पृष्टत्वाद् वि. धिस्पृष्टे निषेधानवतार' इति न्यायावतारोप्यत्र न भवतीति बोधाम् । नन्वेवं क्रत्वन्तर्गता हिंसापि निषेधविषयत्वेनानर्थहेतुरित्यायातं तथा च यागमध्ये निषिद्धानुष्टानेन कथं न क्रतोवैगुण्यमिति चेद्- अत्र ब्रूमः-यथा 'न कलशं भैक्षयेद्' इति कलाभक्षणप्रतिषेधस्य ऋतु- (१) पा. २ सू. ३४ । कार्यत्त्रमिष्टसाधनत्वं वा विध्यर्थो न पुनरनिष्टाननु- बन्धित्वमपि, राजत्वादिप्रापकर्मणां गर्भवासजन्याद्यनर्थहेतुताया: सर्वसंमत- नच बलवदनिष्टाननुवन्वित्वमपि विध्यर्थो वक्तुं शक्यते, अनिष्टेषु पुरुषाणां बलबद्वेषस्याव्यवस्थितेः, दुःखमेव सर्व विवेकिन इत्युक्तत्वात्, किंच बलवदनि- ष्टाननुबन्धित्वस्य विग्रंथत्वेपि यज्ञादिनान्तरीयकहिंसाया: सामान्यतोनिष्टजनक- त्वश्रुत्यविरोध' इत्यादिना योगवार्तिकेऽयमेव मार्ग उपदिष्ट इति बोध्यम् । २ विषाक्तास्त्रहतमृगपक्षिसंवन्धिमांस: कलज इति त्रिकाण्डशेषः, कचित्तु वि- प्णुसिद्धान्तसारावल्यमिधाने वैद्यकग्रन्थे धूमपणीधूमपानगुणवर्णनं प्रतिज्ञाय ‘क. लञ्जसंवेष्टनधूमपानात्स्यादन्तशुद्धिर्मुखरोगहानिर' इत्यभिधानात्कलञपदं कूटवाचकमपीलाहु: । ताम्रकूट:=तमाकू इति लोकप्रसिद्धः क्षुषविशेषः । वात्, ताम्र- साङ्ख्यतत्त्वकौमुदी । प्रकरणेऽनाम्नानात् ऋतुशेषत्वाभावेन यजमानकर्तृककलाभक्षणेन न क्रतो. वैगुण्यं तथा हिंसानिषेधस्यापि क्रतुशेपत्वाभावेन हिंसयापि न तो_गुप्यं, तथा चाहुर्भपादाः 'यो नाम ऋतुमध्यस्थः कलादीनि भूक्षयेद्, न कतोस्तन वैगुण्यं तथाोदितसिद्वितः, इति, । नचैकबेष्ट हेतुत्वानिष्टहेतुत्वयोवृत्तौ विरोधाद् नै यागीयहिंसाऽनिष्टहेतुरिति वाच्यम् मधुविषसंपृक्तभोजने परकीयकमनीयरसणीरमणे चोभयोः समावेश- दर्शनेन विरोधाभावाद् । ननु यागीयहिंसाया अनिष्टहेतुत्वे तत्र कथमास्तिकानां प्रवृत्तिरिति चेद् अत्रोच्यते-यथा सत्यध्याभिचारस्यानिष्टहेतुत्वे तदोषसहिगोरेव को- धान्धस्य श्येनयागादौ प्रवृत्तिनेंतरस्य तथानापि तद्दोपसहिष्णो रागान्ध- स्यैव प्रवृत्तिर्नेतरस्येति न प्रवृत्तिविरहः । केचित्तु यथा मरणरूपमहानिष्टसाधने सहर्गमनवेणीप्रवेशनादावात्माहु- . १ तन्त्रवार्तिके अ. ३ पा. ४ सू. १३ कुमारिलखामिन :, २ कंलजभक्षणादिनिषेधानां पुरुषार्थत्वात् तदतिक्रमे पुरुषस्यैव प्रत्यवायों न क्रतोत्रैगुण्यं यथाविहितस्य तस्य सिद्धेः, नहि ऋतुशेष ; प्रतिषेधो यतस्तदतीलङ्घ- नात्क्रतोत्रैगुण्यं स्यादिति भट्टोक्तेरर्थ, इति भामतीव्याख्याने कल्पतरकारः । ३ आलभेत इत्यत्र विविप्रत्ययेन हिंसाया इष्टहेतुत्वं बोध्यते न हिंस्यात् इति निषेधेन च हिंसाया अनिष्टहेतुत्वं बोध्यते तथा चैकत्र हिंसायामुभयवर्तनं विरु- द्धमित्यर्थः। ४ विषसंपृक्तज्ञानेसति तत्र न प्रवर्तत इत्यत आह 'परकीय' इति, ५ उभयोः इष्टहेतुत्वानिष्टहेतुत्वयोंः । ६ अभिचार:-श्येनयागादिना शत्रुमारणं, 'गोंवधोऽयाज्यसंयाज्यपारदार्यात्मविक्रय' इत्युपक्रम्य अभिचारो मूअकर्म च' इति मध्ये पठित्वाऽन्ते नास्तिक्यं चोपपातकम्' इत्येवं याज्ञवल्क्येनोपसंहाराद्- भिचारस्योपपातकत्वेनानिष्टहेतुत्वस्य स्पष्टत्वादिति भावः, ७ बृहद्वैयाकरणभूषणकाराः कोण्डभट्टा इत्यर्थः, ८ सहगमनं =पत्न्याः पत्या सहैकचित्यारोहणं, वेणीप्रवेशनं अनशनादिना मञ्जनेन वा प्रयागमरणम्, आदिना हिमालयगमनरूपमहाप्रस्थान गमनम्, आ- त्माहुत्यङ्गकसर्वखारयज्ञस्तु---एकाहसाध्यः खर्गकामस्य विहितः ऋतुविशेषः, तत्र हि आर्भवस्तोत्रकाले 'ब्राह्मणाः समापयत मे यज्ञम्' इति प्रैषमृविग्भ्यः प्रदाय यजमानेनात्माहुतिप्रदानेन मर्तव्यमिति विहितम्, एतच 'सर्वखारस्य दिष्टगतो . साङ्ख्यतत्त्वकौमुदी। त्यङ्गके सर्वस्वारयज्ञे चोत्कटफलेच्छावशात्प्रवृत्तिस्तथानाप्युत्कटफलरागवशात्प्र. वृत्तिरित्याहुः । अन्ये तु यथा द्रव्य व्ययादिना यागादीनामनिष्टफलकत्वेपि यागजनित- फले रागवशात्प्रवर्तते तथा हिंसायाः प्रत्यवायकरत्वेपि यागफलेऽत्यन्तराग- वशात्प्रवर्तते, इयाँस्तु विशेषः-द्रव्य व्ययादिना प्राप्तमनिष्टं प्रत्यक्षप्रमाणकं, हिंसादौ तु प्रत्यवायकरता न हिंस्यात् इति शास्त्रप्रमाणिकेत्याहुः । (स्वर्गसुखापेक्षया हिंसाजन्यदुःखस्याल्पत्वज्ञानेन यागादौ प्रवृत्तिरिति तत्त्वम्, एतच्च 'कुशलस्य नापकर्षायालम्' इत्यत्र पञ्चशिखाचार्यवचनेन पूवत्र व्यक्तीकृतम् । न योहि ऋतुप्रकरणे समानातः स ऋतुशेपत्वेन ऋत्वर्थ इत्याख्यायते यस्तु कस्य चित् क्रतोःप्रकरणेऽनाम्नातत्वेनाऽनारभ्याधीतः स पुरुषार्थ इत्यभिधीयत इति हि सीमांसकसमयः, तथा च न हिंस्यादिति निषेध- स्यानारभ्याधीतत्वेन पुरुषार्थत्वात् 'यदर्थो निषेधस्तदर्थमेब निषेध्यम्' इति नियमेन पुरुषार्था एव हिंसा, अनेन निषेध्या न क्रत्वर्था, अत एव 'नानृतं वदेत्' इति स्मातेऽनृतवदननिषेधे पुरुषार्थरूपे सत्यपि पुनदर्शपौर्णमास- प्रकरणे 'नानृतं वदेत्' इति क्रत्वर्थतया पुन: समानांतं संगच्छते, यदि हि पुरुषार्थोपि निषेधः क्रत्वर्थों भवेत् तोकेनैव निषेधेनालं किं पुनराम्नानेन, स्पष्टं चैतत् 'पुरुपाया एव हिंसाया न हिंस्यादिति प्रतिषेधात्' इति भामृतीग्रन्थमुपादाय कल्पतरौ परिमले च, तथा च न यागीयहिंसाविषयत्वं निषेधस्येति चेत् । अब बूमः-भवेदेतदेवं यदि 'यदों निषेधस्तदर्थमेव निपेध्यम्' इति नियमः सुस्थिरो भवेत्, तदेव तु न स्त्र्युपगमनमांसभक्षणादिप्रतिषेधस्य पुरुषार्थस्यापि क्रत्वर्थत्वदर्शनानियमस्य व्यभिचरितत्वात्, यदाहुः-स्च्युपा- यमांसभक्षादिपुरुषार्थमपि श्रितः, प्रतिषेधः क्रतोरङ्गमिष्टःप्रकरणाश्रयात् इति. समापनं न विद्यते कर्मणो जीवसंयोगात्' अ. १० पा. २ । इति द्वाविंशेधिक- रणे जैमिनीये व्यक्तम् । १ ब्रह्मविद्याभरणकारा अद्वैतानन्दाः, २ प्रभाकरोक्तप्रकारमालम्ब्य शङ्कामुत्थापयति 'ननु योहि इति, ३ येन दृष्टान्तोपन्यासेन भामतीकल्पतरुब्रह्मविद्याभरणकारैमीमांसकसाहाय- कमाचरितं त दृष्टान्तोपन्यासेन प्रभाकरोक्तं द्रढयति 'अत एव' इत्य दिना, t- !
साङ्ख्यतत्त्वकौमुदी। "आत्मज्ञानं हि संयोगपृथक्त्वात्क्रत्वर्थपुरुषार्थत्वेन ज्ञायते” इत्यादिना तन्त्रवार्तिक आत्मज्ञानस्योभयार्थत्वोपगमाच, स्वर्थहिंसाया अपि परम्परया पुरुषोपकारकत्वेन पुरुषार्थत्वसंभववाच्च, किञ्च-यदि 'न हिंस्याद्' इति निषेधस्य क्रत्वर्थहिंसाविषयत्वं नाभिम- न्येत मीमांसकैस्तहि ('पशुमालभेत' इति विधेर्विशेषविषयत्वात् सामान्य- विपयो निषेधस्तद्विरोधाद् हिंसान्तराण्यवलम्बते) ईति, "न हिंस्यादि- त्युत्सर्गः 'अग्नीपोमीयं पशुमालभेत' इति चापवाद्” इति च तेषामभि- धानं कथं सङ्गच्छेत, नहि सामान्य शास्त्रस्य विशेषशास्त्र विषयाननुप्रवेशे वाधो दृष्टचरो नाम । अयं भावः-यत्र हि सामान्य विधिना विशेषविहितस्यार्थस्थाऽपि विष- यीकरणं तत्र हि बाध्य बाधकभावो भवति यथा 'आहवनीये जुहोति' इति सामान्यविधिना होममात्र स्याहवनीयान्वयविधानपरेण पदहोमस्यापि विषयीकरणाद् 'अश्वस्य पदे जुहोति' इति पदहोमान्वयविशेषविधिना सा- मान्यविधेर्बाधः इह तु भवन्मते न हिंस्यादिति निषेधेन त्वर्थहिंसाया अविषयीकरणेन कथं तयोर्बाध्यबाधकभावाभिधानम् तसिद्ध सेतद्-नं हिंस्यादितिनिषेधः क्रत्वर्थहिंसामपि विषयीकरोतीति । सत्यप्यनयोः सामान्य विशेषभावे विषयभेदान्न विरोध इति न बाध्य बाधकभाव इत्यभिहितं प्रागिति नान्न किञ्चिद्वचनीयम्- । - / - .. १ अ.प्र. पा. ३ सू. २५ । २ ननु 'एकस्य तूभयत्वे संयोगपृथक्त्वम्' अ. ४. पा. ३ सू. ५ इति जैमि- नीय एकस्य वस्तुनः क्रत्वर्थत्व पुरुषार्थत्वे विनियोजकवाक्यभेदस्य नियामकत्व- कथनान्न सर्वत्रोभयार्थतेत्याशङ्कमानं प्रत्याह "कवर्थहिंसाया" इति । वस्तुतस्तु ब्राह्मणहननसुरापादि निषेधानामुभयार्थत्वोपगमेन 'दीक्षितो न ददाति न जुहोति' इत्यादी प्रतिषेधस्य क्रत्वर्थत्वेपि प्रतिषेध्यानां दानादीनां पुरुषार्थत्वाभ्युपगमेन च प्रतिषेधप्रतिषेध्ययोः समानविषयकत्वनियमः न सार्वत्रिक इति बोध्यम् । (३) अ. प्र. सू. २ शास्त्रदीपिकाकारोक्तिरियम्- (४) अ. ३ पा. १ सू. २५ शङ्कराचार्योक्तिरियम्- ५ यत्र हि सामान्यशास्त्रं विशेषशास्त्र विषयं क्रोडीकरोति यथा---'आद गुण' इति सामान्य शास्त्रं वृद्धिरेचि' इति विशेषशास्त्रविषयं गङ्गौघ इति, तत्रैव बाध्य बाधकमावो नान्यत्रेत्यर्थः । ६ नन्वेवं सामान्यविशेषभावसत्त्वात्कथं न बाध्यबाधकभाव इत्याशङ्कयाह “स- त्यपि' इति, यथा सत्यपि सामान्यविशेषभावे लिङ: सीयुटो न “सुट तिथोर' इति साङ्ख्यतत्त्वकौमुदी । यत्तु नानृतं वदेद् इति पुनराम्नातं तत्तु 'यथा क्रतुमध्ये निपिद्धकल- अभक्षणेन न क्रतोवैकल्यमपि तु पुरुपस्यैव प्रत्यवायस्तथा निषिद्वानृत- वदनेपि न क्रतोद्वैगुण्यमिति न मन्तव्यमपि त्वत्रानृतवदने दर्शपौर्णमा- सापूर्वमेव वैगुण्यान्न स्यादित्यवश्यमन्त्र वर्जनीयमनृतवदनम्' इत्यर्थकं, न तु 'सामान्यनिषेधः पुरुषार्थ एव न क्रत्वर्थ' इत्याशयकम् । तथा चाहुस्तन्त्रवार्तिककारा “दर्शपौर्णमासयोरनृतं वदन् नरकं च प्राप्नु- याद् दर्शपौर्णमासफलं चाविकलमेवाप्नुयादिति च स्मृत्यर्थः, श्रौतः पुनः प्रकरणप्रयुक्तपुरुषधर्म इति, अत्रैपोर्थो विज्ञायते-वर्जितानृतवचनकेन पुरु- पेण कृतौ दर्शपौर्णमासौ फलं साधयत इति, प्रकरणसामर्थ्याद्धि पुरुप- गतमपूर्वसाधनत्वं लक्षयित्वाऽनृतं प्रतिषिद्धमतस्तदतिक्रमे दर्शपूर्णमासापूर्व- मेव वैगुण्यान्च स्याद्” इति । एतदुक्तं भवति-यः सामान्येन निषेधम्तस्योभयार्थत्वे सत्यपि तन्नि- षेधातिक्रमे पुरुषस्यैव प्रत्यवायो न क्रतोर्वैकल्यं. यस्तु विशेपेण क्रतुप्रकरणे निषेधस्तद्रतिक्रमे चकतोरपि वैगुण्यमिति । तथा च न हिंस्यादिति निषेधस्य सामान्यतयोभयार्थत्वेपि विशिष्य क्रतुप्रकरणेऽपठनात् तन्निषेधा- तिक्रमे पुरुषस्यैव प्रत्यवायो न क्रतोवैगुण्यमिति-! न चैवमेकस्यैव वाक्यस्य क्रत्वर्थपुरुषार्थनिषेधबोधकतया क्रत्वर्थपुरुषा- र्थत्वापत्त्या स्वातन्त्र्यपारतन्त्र्यलक्षणं वैरूप्यं स्यादिति वाच्यम्, अविशेषेण प्रतिपेधे वैरूप्याभावात,- तथा चाहुः-शास्त्रदीपिकाकारों: (यदि हि क्रत्वर्थत्वपुरुषार्थत्वरूप- विशेषेणोद्दिश्य प्रतिषेधः क्रियेत ततः स्यादपि वैरूप्यं प्रतिपेध्योपस्था- पितक्रतुपुरुपगोचरत्वात्प्रतिषेधस्य, यदा तु हिंसामात्रमुद्दिश्य प्रतिषेधः क्रियते तदास्य किं वैरूप्यं, तद् यथा-या भोजनार्थं मांसोत्पादने हिंसा या च वैरिनिर्यातनर्थतया साक्षात्पुरुषार्था तस्यामुभय्यामप्यविशेपेण प्रति- षिध्यमानायामपि नास्ति वैरूप्यमेवमिहापि, इतरथा तत्रापि भोजनाङ्गता सुटा बाधो, लिडो यासुट तकारथकारयोः सुडिति विषयभेदात् तथाऽत्रापि विषयभेदान्न बाध्यबाधकभावः । (१) अ. ३ पा. ४ विधिर्वा संयोगान्ताद् १ ३. इतिसूत्रे कुमारिलखामिनः । २ क्रत्वर्थ निषेधत्वे हि क्रत्वर्थत्वात्पारतत्र्यम्, पुरुषार्थनिषेधत्वे च पुरुषार्थत्वात् । खातन्त्र्यम् इत्यर्थः। ३ प्रथमलक्षणे धर्मलक्षणाख्यानपेर द्वितीयसूत्रे पार्थसारथिमिश्राः । HTTAREE -- साङ्ख्यतत्त्वकौमुदी। ३९ पुरुषार्थता च प्रतिषधस्य स्यादिति वैरूप्यं स्यात्, तस्माद् यैव काचिद् येन केनापि प्रकारेण प्रसक्ता हिंसा सा सर्वा सामान्येन प्रतिषिध्यते) इति, यत्वेतदग्रिमप्रन्थे "अग्नीषोमीयहिंसाप्यसति विधेयत्वे प्रतिषेधगोचरः स्याद् विधेयत्वे तु विधेर्विशेषविषयत्वात्सामान्य विषयो निषेधस्तद्विरोधाद् हिंसान्तराण्यवलम्बत" इत्यभिहितं तत्तु विषयभेदाद् इष्टहेतुत्वानिष्टहेतु- त्वयोरेकंत्रवृत्तौ विरोधाभावेन च न बाध्यबाधकभाव इत्येवं पूर्व समा- हितत्वेनाकिञ्चित्करम्-। यत्पुनरग्रे "सत्यमङ्गविधिमात्रालोचनायां नास्ति विरोधो ज्योतिष्टोम- विधिस्तु साङ्गं प्रधानं पुरुषस्य विदधत्पुरुषार्थहिंसानिपेधमग्नीपोमीयहिं- सायामवतरन्त निरुणद्धि” इत्यभिहितं, तदपि विधिना विधेयस्य साङ्ग- प्रधानस्य बलवदनिष्टाजनकत्वबोधनपि स्वल्पानिष्टाजनकत्वबोधनाभावाद् विध्यर्थस्याक्षतेरित्येवं पूर्व समाहितत्वेन न पुनः समाधानीयम्- एतेन (काम्यप्रकरणे यागे रागात्प्रवृत्तिरङ्गे तु वैधी प्रवृत्तिरिति वैध- हिंसाया न प्रत्यवायजनकत्वम्) इति प्रभाकरोक्तमपि निरस्तं वेदितव्यं, हिंसाया वैधत्वेपि विधिनेष्टोत्पत्तिनान्तरीयकानिष्टजनकत्वस्यानिषेधाद्, किञ्च-यागे रागत्प्रवृत्तिरित्यङ्गीकारे यागस्य वेदविहितत्वाभावेन कथं यागस्य धर्मत्वमित्यपि स प्रष्टव्यः । दूषणान्तरं च शास्त्रदीपिकायां व्यक्तमिति तत्रैवान्वैष्यम् , यदपि शारीरकीये भाष्ये ( हिंसादियुक्तत्वेन वैदिककर्मणोऽशुद्धत्वेन तत्प्रयुक्त एव स्वर्गादवरोहतां ब्रीह्यादिभावेन प्रादुर्भाव ) इत्याशङ्कायाम् 'अशुद्धमिति चेन्न शब्दाद्' इति सूत्रमवतार्य ( शास्त्राद् हिंसानुग्रहात्मक- १ क्रतूपकारकत्वपुरुषानर्थहेतुत्वयोरेकत्र वृत्तेः पूर्वमभिहितत्वादिति भावः । २ एतेन =विधिना विधेयस्य बलवदनिष्टाजनकत्वबोधनेपि खल्पानिष्टाजनक- खबोधने मानाभावेनेत्यर्थः । ३ 'कम्येष्वपि विधिरेव प्रवर्तको न फलं तस्य विध्यधीनोत्पत्तिकत्वेन यागापेक्षाभावाद, विधिस्तु यागाधीन निष्पत्तित्वाद् यागमनुष्ठापयतीति युक्तं, यदि च विधिरप्रवर्तकः काम्येषु स्यादितिकर्तव्यताप्यविधेया स्यात् तस्यामपि फलत एव प्रवृत्तिसिद्धेः साङ्गप्रधानसाध्यत्वात्फलस्य वक्ष्यति हि 'तदयुक्ते तु फलश्रु- तित्तस्मात्सर्वचिकीर्षा' इति, ततश्चानीषोमीयहिंसायामपि विधभावेन निषेधवि- षयत्वात् तद्युक्तस्य ज्योतिष्टोमस्याप्यनर्थपत्वापत्तेः 'कोर्थो यो निःश्रेयसाय ज्योतिष्टोमादिर' इति भाष्यानुपपत्तेर् इत्येवं शास्त्रदीपिकायां व्यक्तम् । (४) अ. ३ पा. १ सू. २५ । , - साङ्ख्यतत्त्वकौमुदी । ज्योतिष्टोमस्य धर्मत्वावधारणाञ्च वैदिकं कर्माशुद्धम् ) इत्येवं शङ्कराचाय- ऑगस्याविशुद्धियुक्तध्वविरह्माभिधानं तदपि भपक्षसरक्षणमानं न व्यासा- शयानुगुणं, योगाध्ये भगवता व्यासेन स्पष्टं यागादेः शुक्लकृष्णत्वप्रति- पादनेन धर्माधर्मात्मवाभिधानेनाव तद्विपरीताशयवर्णनस्यायुक्तत्वाद् । कस्तस्त्र व्यासाशयानुसारी सूत्रार्थ इति चेच्छ्यतामवधानेन-छा- न्दोऽये इष्टादिकर्मकारिणां प्रेत्य धूममार्गेण चन्द्रलोकमारूढानां तत्र याव- स्कर्भ फलं. भुक्तभोगानाम् "अथैतमेवाध्यानं पुनर्निवर्तन्त” इत्यादिना पु- नरवरोहसानाय तदनु कथमवरोहन्तीत्यालासायाम् आकाशवायुधूममेघस- मतामासाद्य वर्षधाराद्वारा भूमिं प्रविश्य ब्रीहियवाद्यन्नसंसर्गिणो भूत्वा भक्षणद्वारा रेतःसिकपुरुषयोगेन शुक्रमधिष्टाय मिथुनीभावद्वारा स्वीयोनौ प्रविश्य रमणीयाचरणशीला ब्राह्मणादियोनिमापद्यन्ते कुत्सिताचरणशीलाच शुकरा दियोनिमापद्यन्त इत्यभिहितं, तत्र स्वर्गादबरोहतां यो व्रीहियवादि- रूप: "स्थावर भाव आन्नातः स किं तेषां ब्रह्मादिरूपेणोत्पत्तिरुतात्यै वैरधि- टितेपु बीमादिषु संसर्गमात्रमिति संशये- "त इह जायन्त” इति जनिचते ख्यमेव ब्रह्मादिरूपेण तेषां जन्मेति प्राप्ते “अन्याधिष्ठिते पूर्ववदमिलापाद्” इति सूत्रेण (अन्यैर्दुराचारैरधि. ष्टितेषु बीमादिषु संसर्गमानमेव न मुख्यं जन्म) इत्येवं सिद्धान्तिते, पुनः “शारीरजैः कर्भदोषैर्याति स्थावरतां नर” इति स्थावरभावस्य पाप- फलत्वेन मनुना स्मरणात् कथं पापफलमशुद्धं ब्रीह्मादिभावमवरोहन्तः प्रामुयुरिति, न च ब्रीह्मादिरूपेण जनिरेव पापफलं तन्त्र स्मयते नतु ब्रह्मा- १ पञ्चमप्रपाठके दशमखण्डे । २ रेतः-शुक्र-वीर्य 'सिञ्चतीति' रेतःसिगित्यर्थः । ३ "त इह बीहियवा औषधिवनस्पतयस्तिलमाषा इति जायन्त" इति जनिश्रुतेरित्यर्थः (४) अ. ३ पा. १ सू. २४–'पूर्ववदभिलांपाद =यथा बूर्वत्र “वायुभूत्वा धूभो भवति धूमो भूत्वाऽभ्रं भवत्यन्नं भूत्वा मेघो भवति मेघो भूत्वा वर्षति” इत्यादी वाय्यादिसंसर्गमात्रं तथात्रापि ब्रीडादि संसर्गमात्रमेव न मुख्यं जन्म, कुतः पूर्व- वदभिलापाद्-आकाशादिमेघपर्यन्तवत् केवलतद्भावाभिलापाद्,-पत्र हि भोक्तृत्वमभिप्रेतं तत्र तत्साधनभूतं कर्माभिलप्यते - 'रमणीयचरणा: कुपूय चरणा' इति, इह चाकाशादिवन्नाभिलप्यते कर्मातो न मुख्यं जन्मेत्यर्थः, v साङ्ख्यतत्त्वकौमुदी। ४१ .. . ... अयं भावः दिसंसर्गमानं पापफलमिति साम्प्रतम्, विशेषानुपलब्धेः-नहि दुष्कृतकर्माण: स्थावरादिभावमापन्नों ब्रीह्मादिरूपेण परिणमन्ते किन्तु व्रीह्मादीनधिष्ठाय लदवच्छेदेन दुःखादिभाजो भवन्ति स चावच्छेदः संसर्गविशेषः, सचो- भयोः समान इति नास्ति विशेपः, नच सञ्चितदुरितवतामेवावरोहतामयं स्थावरादिभावोऽभिहित इति वक्तुं युक्तं सञ्चितसुकृतवतामपि तदभ्यु- पगमात्, तथाच कथमशुद्धं पापफलं तेपां व्रीह्यादिजन्मति शङ्कायाम् "अशुद्धमिति चेन्न शब्दात्' इति सूत्रम्, अस्यायमर्थः-पापफलत्वेना- शुद्धं ब्रीह्यादिजन्मेति कथं कृतसुकृतस्तत्प्राप्नुयादिति न शङ्कयम्, कुतः श- दावेदात्तथाप्रतीतेस्सत्वादेतस्यार्थस्वाऽशङ्कनीयत्वात् । द्विविधो हि स्थावरभावः-एको व्रीलादीनधिष्टाय तदभि- मानित्वरूपोऽपरश्च ब्रीह्मादिसंसर्गमानरूप:, तत्राद्यो व्रीह्याद्यभिमानेन सदवच्छेदेन दुःखभाक्त्वसद्भावात्पापफलरूपः, तदभिप्रायेणैव "शारी- रजैः” इति स्मरणम्, द्वितीयस्तु तदभिमानाभावेन न पापफलत्वरूपः किन्तु रेतःसिम्योगयोनिप्रवेशद्वारा पुनर्जन्सग्रहणे द्वारभूतो ब्रीह्यादिसं- हेपरूपः समानेपि व्रीह्यादिसंसर्गे "तैयोरन्यः पिपलं स्वादत्यनश्नन्नन्यो- भिचाकशीति" इतिवदभिमानभावेन न संसर्गिणां दुःखयोगः, अत- एव बीह्यादिषु ल्यमानेषु कण्ड्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभि- मानिनामेवोत्क्रमणं न संसर्गिणां यो हि जीवो यच्छरीरमभिमन्यते स- तस्मिन्पीड्य माने तत उत्क्रमतीति प्रसिद्धेः, संसर्गिणां तदभिमानित्वे तु व्रीह्यादिदेहनाशे तेषां देहिनामप्युत्क्रान्तेरवश्यम्भावा तःसिग्योगा- दिना पुनस्तेषां जन्माभिधानं न संभवेत् । एवं च ब्रीह्यादिसंश्लेषरूपजन्हनः पापफलत्वाभावेन नाशुद्धं तदिति सिद्धम् । १ उभयोः-भवेत्तृत्वेन ब्रीह्यादिशरीरवतः, अवरोहतश्च नीलादिसंसर्गिणः । २ ब्रीह्यादिभावापत्त्युत्तरं रेत सिग्योगेन योनिं प्रविश्य गर्भाशयगतानामुत्तरत्र 'रमणीयचरणा' इत्येवं सुकृतवतामपि जन्मकीर्तनादित्यर्थः । ३ यथा समानेपि जीवेश्वरयोरन्तःकरणसंसर्गे देहसंबन्धे वा तयोरेको जीव- स्तदभिमानित्वेन तत्प्रयुक्तं फलं भुतेऽन्यस्तु कूटस्थः सन्साक्षितया प्रकाशत- एवं समानेपि ब्रीह्या दिसंसर्गे तदभिमानिनो लवनकण्डनपेषणादिजन्यं दुःखमनु- भवन्तीतरे तु तत्संसर्गिणो न तत्प्रयुक्तं दु:खमनुभवन्तीत्यर्थः ।
साहयतत्त्वकौमुदी। यद्वा पशुहिंसादियोगादशुद्धं वैदिकं कर्मेति तस्यानिष्टमपि फलं कल्प्यत- इत्यतो मुख्यमेवावरोहतां जन्म न श्लेषमात्रमित्याशङ्कायाम्- "अशुद्धमिति चेन्न शब्दात्" इति सूत्रम्, भवतु वैदिकं कर्माशुद्धं तथापि न तत्फलं व्रीह्यादिजन्म कुतः शब्दात्-- "यावत्संपातमुषित्वा" इति श्रुतौ यावदिति शब्दात् "प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे" इति श्रुतौ यत्किञ्चेह कर्म कृतं तस्यान्तं प्राप्येति शब्दाच्चैहानुष्ठितसाङ्गयागादेः कृत्स्न- कर्मणः तत्र भोगेनं क्षयित्वश्रवणान्न यागाङ्गहिंसाजन्यपापप्रयुक्तं ब्रीह्यादि- जन्मेत्यर्थः। अयं भाव:-यद्यदङ्गतयाऽनुष्टीयते तत्तत्साहित्येनैव फलं जनयति न स्वातन्त्र्येणेति हि समयः, एवं च प्रधानयागाङ्गतयानुष्टितं पशुवधसोमो- च्छिष्टभक्षणादिकं प्रधानकर्मविपाकस्वर्गभोगसमसमयमेवान्तराऽन्तरा दुःख- धारां प्रसोतुं पारयति न ततः पृथक्वेन, अत एवाश्वमेधशतफलकस्वाराज्यभोगसमय एवेन्द्रादेरनेको रावण- वृत्रासुरमहिषासुरादिभ्यो दुःखधारा श्रुतिपुराणादिघूपवर्णिता भवति- पञ्चशिखाचाय्यैरपि 'स्वरौप्यपकर्षमल्पमनुभविष्यति' इति वाक्येन स्व- गंभोगसमय एव हिंसादिजन्यपापप्रयुक्तोऽल्पो दुःखप्राप्तिरूपोऽपकर्षोऽभि- हितो न स्वातन्त्र्येण । एवं च यागीयहिंसाफलस्य दुःखस्य स्वर्ग एव भुक्तत्वान्न तत्प्रयुक्तं व्रीह्या- दिजन्मापि तु सञ्चितसुकृतदुष्कृतवशेन पुनर्जन्मग्रहणाय द्वारभूतः त्रीह्या- दिसंश्लेषरूप एवाभ्युपेय इति ध्येयम्- केचित् “शारीर आत्मा प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जद्याति" इति -श्रुत्यनुसारेणेश्वराधिष्टितानामेव जीवानामारोहावरोहौ भवत इति स्थिरी. १ सम्पतति गच्छति अस्माल्लोकादमुं लोकं फलोपभोगाय येन कर्माशयेन स सम्पात : चन्द्रलोकप्रापकं कर्मेति यावत् । २ अयं नरो यत्किञ्चिदिह लोके कर्म करोति तस्य अन्तं फलं परलोके प्राप्य पुनर्जन्मग्रहणद्वाराऽन्यकर्मानुष्ठानायास्मै लोकाय एति गच्छतीत्यर्थः । ३ स्त्रमतेन सूत्रस्यार्थद्वयमभिधाय मतान्तरेणार्थान्तरमाह--"केचित्तु" इति विज्ञानामृतकारा विज्ञान भिक्षव इत्यर्थ: ।. सङ्गता साङ्क्षचतत्त्वकौमुदी। ४३ कृत्य (ननु अशुद्धं नरकाद्यवरोहि पापिजीवजातं तत्र परमेश्वराधिष्टानं नोचितमिति चेन्न शब्दान्न हि शब्दसिद्धेर्थे तर्कविरोधो दूषणमित्यर्थः) इत्येवं सूत्रार्थयन्ति- अन्ये तु–यातनाजीवानामशुद्धत्वादशुद्धमन्नं स्यात्तथा च कथं योग्य- देह इति चेन्न शब्दात्-"देवा अन्नं जुह्वति तस्या आहुते रेतः संभवति" इति देवैाहुतिरूपेण होमवचनाच्छुद्धत्वम्, अन्नस्य हि संस्कारेणैव शुद्धि- रन्यथा यावज्जीवं का गतिः स्यात् , तस्मात्संस्कारशब्दाच्छुद्धमेवान्नम्, इत्येवं व्याचक्षते । यत्तु-अस्मिन्नेव सूत्रे श्रीभाष्ये रामानुजाचार्यैः "स्वर्गोपभोगफलमिष्टा- दिकमैवाशुद्धं पापमिश्रमग्नीषोमीयादिहिंसायुक्तत्वादत इष्टादीनां पापभिश्रत्वेनाशुद्धियुक्तानां स्वर्गेऽनुभाव्यं फलं स्वर्गेऽनुभूय हिंसांशस्य फलं व्रीह्यादिस्थावरभावेनानुभूयते स्थावरभावं च पापफलं स्मरन्ति "शारीरजैः कर्भदोषैर्याति स्थावरतां नर" इति, अतो व्रीह्यादिभावेन ( भोगायानुशयिनो जायन्ते) इत्याशङ्कामुत्थाप्य (तन्न कुतः शब्दा- दग्नीषोमीयादेः संज्ञपनस्य स्वर्गलोकप्राप्तिहेतुतया हिंसात्वाभावशब्दात्, पशोर्हि संज्ञपननिमित्तां स्वर्गलोकप्राप्तिं वदन्तं शब्दमासनन्ति “यज्ञे हिंसितः पशुर्दिव्यदेहो भूत्वा स्वर्ग लोकं याति'इति, शब्दार्थ कुर्वन्ति "हिरण्यशरीर ऊर्ध्वं स्वर्ग लोकमेति" इत्यादिकम् , अतिशयिताभ्युदयसा- धनभूतो व्यापारोऽल्पदुःखदोपि न हिंसा प्रत्युत रक्षगमेव, तथा च मन्त्र- वर्णः "न वा उ एतन्नियसे न रिष्यसि देवानिदेषि पथिभिः सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र त्वा देवः सविता दधातु” इति । . . १ अणुभाष्यकारा वल्लभाचार्याः। २ संज्ञपनम्-आलम्भनं हिंसनमित्यर्थान्तरम् । ३ यजुर्वे. अ. २३ मं. १६ 'हे अश्व यवमस्माभिः संज्ञप्यसे एतत्वं न म्रियसे-मरणं न प्राप्नोषि न च रिष्यसि-विनश्यसि, वै-उ-निपातौ पादप्रणे, अपि तु सुगेभि:-साधुगमनैः 'सुदुरोरधिकरणे' इति गमेर्ड:, पथिभिः देवयान- मार्गः देवान् इत्-प्रति गच्छसि, यत्र लोके सुकृतः-पुण्यात्मानो यन्ति यच्छन्ति दुष्कृतश्च न गच्छन्ति तस्भिल्लोके सविता देवस्त्वां दधातु स्थापयतु' इति मन्त्रार्थः।
४४ सासवतचकौमुदी । चिकित्सकं च तादात्विकाल्पद्रुःखकारिणाम.पि रक्षकमेव वदन्ति पूजयन्ति च तज्ज्ञाः ) इत्येवं सोनं शब्दादित्यंशं व्याख्याय हिंसनीयाननुग्राहक- प्राणवियोगकरच्यापारस्यैव हिंसात्वं न यागीयपशुपाणवियोगानुकूल- व्यापारस्य, तस्य पश्चनुग्रहकरत्वादिति बोधितं तत्तु (प्राणवियोगफलोपहितस्त- दनुकूलो व्यापारो हिंसा यागीयपश्वालम्भोपि भवति तथेति कथं न हिंसा, यथा हि व्रणिनो व्रणच्छेदनादिकं तदनुग्राहकमपि छेदनं भवत्येव न तत्र तदनुग्राहकं यन्न' भवति छेदनादि तदेव छिदिधात्वर्थ इति कल्प्यते, एवमत्रापि न हिंसनीयानुग्रहरहितं यत्प्राणवियोजन सैव हिंसेति कल्पयितु. मुचितं ततश्च यदि यागीयपशोः 'हिरण्यशृङ्ग' इत्यादिवचनानुसारेण स्वर्गप्राप्तिः प्रतीयते तदा सा भवतु नाम, देवताधिकरणोक्तन्यायेनार्थ- वादात्प्रतीयमानस्याप्यर्थस्योपगमात् 'न वा उ एतन्म्रियसे' इत्यादिवाक्य प्रतिपाद्यं तु तदालम्भस्याहिंसात्वं स्तुत्यर्थमारोप्यत इत्येवमुचितं प्रवृत्ति- निमित्तसद्भावेन तस्य हिंसात्वावश्यम्भावात्) इत्येवं ब्रह्मविद्याभरणे दूषितत्वादश्रद्धेयमेव। किञ्च-~यागीयहिंसायाः पश्वनुग्रहार्थत्वेन प्रत्यवायकरत्वाभावं ब्रुवतां श्रीभाष्यकाराणां (परानुग्रहकरो व्यापारो धर्मः परपीडाकरश्च व्यापा- रोऽधर्म' इत्येव धर्माधर्मयोनिर्वचनमभिमत भाति तच्च न स्थाने-तपःस्वा- ध्यायजपादीनां परानुग्रहकरत्वाभावेन धर्मत्वाभावप्रसङ्गात्, मद्यपानादेच परपीडाकरत्वाभावेनाधर्मत्वाभावप्रसङ्गाञ्च, परकीयरमणीमनःसन्तोषाय पर- कीयरमणीरमणे . धर्मोत्पादापत्तेश्चातो विहितव्यापारस्य धर्मत्वं निषिद्धच्या- पारस्य चाधर्मत्वमित्येवास्थेयं न श्रीभाष्यकृदभ्यूहितं, स्पष्ट चैतत् - , १ अस्यार्थस्य लोकसिद्धत्वमाह--"चिकित्सकं च” इति, हिंसात्वे सति हयुक्त- दोषसम्भवः हिंसात्वाभावादेव दूरोत्सारितो दोषः, अयमेव समीचीनो दुष्प्रवर्षणः परिहारः, अत: श्येनानीषोमीयवैषम्यं चेदमेवाल्पदु :खदोप्यतिशयिताभ्युदयसा- धको. व्यापारो रक्षणमनोदर्को व्यापारो . हिंसेत्यर्थ इत्येतद्भाग्यव्याख्याने सुदर्शनाचार्यः। २ अर्थवादवाक्यानां न स्वार्थ प्रामाण्यमपि तु विधेयनिषेध्यस्तवन निन्दनद्वारा -प्रवृत्तिनिवृत्तिरूपे तात्पर्ये प्रामाण्यमिति कर्ममीमांसकाः, प्रमाणान्तराविरुद्धस्वार्थे- प्यर्थवादवाक्यानां प्रामाण्यामिति प्रथमाध्यायतृतीयपादेऽष्टमदेवताधिकरणे ब्रह्म- मीमांसका इति भावः ।
साङ्ख्यतत्वकोमुदी। ४५ अनुग्रहाचं धर्मत्वं पीडातश्चाप्यधर्मता ॥ २४३ ॥ बदतो जपसीध्वादिपानादौ नो भयं भवेत् । क्रोशता हृदयेनापि गुरुदाराभिगामिनाम् ॥ २४४ ॥ भूयान्धर्मः प्रसज्येत भूयसी झुपकारिता" इत्यादिना चोदनासूत्रे श्लोक- बार्तिक इति तत्रैव निरीक्षणीयम्- अपि च-एवं कथंचिद्यागीयहिंसाया अहिंसात्वापादनेपि सोमो- च्छिष्टभक्षणस्य सौत्रामण्या देषु सुराग्रहणादीनां चानुच्छिष्ट भक्षणत्वासुरा- ग्रहणत्वाद्यापादनस्य वक्तुमशक्यत्वात्तत्प्रयुक्ताशुद्धेर्दुरित्वात्कथं यागादे- रविशुद्वियुक्तत्वविरहाभिधानमित्यपि ते प्रष्टव्याः । किञ्च-केनचिनिमित्तेन शप्तेन धर्मेण मृगयोनिमापन्नेन (यदि त्वां कश्चिद्यज्ञे हन्यात्तदा तव मृगत्वं नश्यति) इति शापान्तं बुवा श्यामाकनीवारादिचरुणा देवयजनं कुर्वाणं कंचिद्वनवासिनं सत्यनामान ब्राह्मणमुपसृत्य छलेन (पशुपुरोडाशं विना यज्ञोयमङ्गहीनो न स्वर्गफलक: पशुक्रयणासामर्थ्य तु "मां भोः प्रक्षिप होने त्वं गच्छ स्वर्गमनिन्दित”) इत्येवं प्रलोभ्य स्वकीयहिंसायां प्रवर्तितः सः, प्रवृत्तस्य च तस्यानुष्ठितं बहु तपो नष्टमित्येवमाख्यायते भारते, यदि च हिंसनीयाननुग्रहकरच्या- पारस्यैव प्रत्यवायकरत्वं नेतरस्येत्यभ्युपेयेत तर्हि कथमेतत्संगच्छेत, तदवश्यं चैतन्मन्तव्यं यवागीयापि हिंसाऽनर्थजनिकेति । एवं विचख्नुंगीतेऽपि “अव्यवस्थितसऱ्यांदैविमूढे स्तिकैनरैः । संशया- स्मभिरव्यक्तैहिसा समनुवर्णिता॥ सर्वकर्मस्व हिंसां हि धर्मात्मा सनुरब्रवीत्॥" इति हिंसां निन्दित्वा "पायसैः सुमनोभिश्च तस्यापि यजनं मतम्" इत्येवं सात्त्विकं यजनमेवाभिहितं न हिंसादिमिश्रम् । १ 'विषयानुरूपफलदायिवादिना परस्यात्मनो वा पीडानुग्रहनिबन्धनं धर्माऽ. धर्मत्वमाश्रितं ततश्च, जपे सुरापाने च परोपकारापकारासावाद्धर्माधर्मत्वे न स्यातामित्याह "अनुग्रहाच्च'' इति, गुरुदाराभिगमश्च धर्मः स्यादित्याह "क्रोशता" इति, यद्यपि गुरुदाराभिगामी हृदयक्रोशमल्पमात्मनोऽपकारं करोति तथाप्युपकार- भूयस्त्वाद्धर्म एव भूयान्स्य दित्येतदर्थ इति न्यायरत्नाकरकारः । शान्तिपर्वणि मोक्षधर्मे २७२ तमेध्याये "तस्य तेनानुभावेन मृगहिंसा- त्मनस्तदा । तपो महत्समुच्छिन्नं तस्माद्धिंसा न यज्ञिया” इत्येतदष्टादशे श्लोके 'यज्ञियापि हिंसा न धर्माय' इति स्पष्ट मभिधानान्न तद्विरुद्धं व्याससूत्रार्थवर्णनं समीचीन मिति भावः । (३) महाभा० मोक्षध० अ० २६५ श्लो० ५-. .
.. ४६ सासथतत्वकौमुदी। तथा पितापुत्रसंवादेपि "तातैतद्वहुशोऽभ्यस्तं जन्मजन्मान्तरेष्वपि, । त्रयीधर्ममधर्माढ्यं न सम्यक्प्रतिभाति मे॥” इत्यादिना यागादरधर्मयुक्तत्व- मभिहितं भारते। तुलाधारजाज़लिसंवादेपि व्यासदेवेनाहिंसैव समनुवर्णिता भारते । एवं च स्पष्टार्थकव्यासवचोविरुद्धं शाङ्कराणां रामानुजीयानां माध्वानां च व्याससूत्रार्थवर्णनमसमीचीनमिति निष्पन्नम् । अन्ये तु-'अग्नीषोमीयं पशुमालभेत' इत्यत्रालम्भनं न हिंसनं किन्तु स्पर्शः, अग्निहोत्रप्रकरणपठिते 'वत्समालभेत' इति वाक्ये स्पार्थकत्व- निर्णयात्, हिंसा त्वङ्गयागविशसनप्रकारोपदेशाभ्यामाक्षेपलभ्या एवं चाक्षेप- लभ्यार्थेन विरोधेपि वेदस्याप्रामाण्यप्रसत्यभावेन तत्संकोचे न मानम्, अन्यतराप्रामाण्यभीत्या हि सङ्कोच इत्येवं व्यवस्थापनेन 'न हिंस्यात्' इति सामान्यविधेः सङ्कोचं वारयन्ति । ननु 'यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा । यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः॥' 'या वेदविहिता हिंसा नियतास्मिंश्चराचरे। अ- हिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बमौ॥” इति मनुवाक्यैर्यागीयहिंसाया- अहिंसात्वबोधनेन पापाभावप्रतिपादकैः (निन्दाप्रायश्चित्तोपदेशासमाभि- व्याहृतविधिवाक्यबोध्यप्रवर्तनीयाः स्वविषयप्रवृत्तिविषये धात्वर्थे सामान्य- १ मध्वाचार्यैरपि--हिंसारूपत्वात्पापसम्भवादुःखं भवत्विति चेन्न शब्द- विहितत्वात् /"हिंसा त्ववैदिकी या तु तयानर्थो ध्रुवं भवेत् । वेदोक्तया हिंसया तु नैवानर्थः कथञ्चन।।") इत्येवं व्याससूत्रार्थकरणात्तदीयोप्यर्थः शाङ्करभाष्यानु- सारीति भावः। २ शाब्दिकमञ्जूषाकारा नागोजिभट्टाः। ३ विशसनं हननं तत्प्रकारोपदेशश्च "हृदयस्याग्रेऽवद्यस्यथ जिह्वाया अथ वक्षस' इत्यादिश्रुत्युक्तो बोध्यः । (४) अ. ४ श्लो. ३९। (५) अ. ४ श्लो. ४४ ॥ ६ 'श्येनेनाभिचरन्यजेत' इति वाक्यबोध्यप्रवर्तनाया अभिचारस्योप- घातकत्वेन गणनान्निन्दासमभिव्याहृतत्वेन "अभिचारहीनं च त्रिभिः कृच्छरिति प्रायश्चित्ताम्नानेन च प्रायश्चित्तोपदेशसमभिव्याहृतत्वेन च न तस्याः खप्रवृत्तिविषये धात्वर्थेऽनर्थहेतुत्वप्रतिक्षेपकत्वमिति भावः । ~ NEETTE HERESTHATANSENA . ननः अन्यथा साङ्ख्यतत्त्वकौमुदी। तोऽनर्थहेतुत्वप्रक्षेपकत्वम् ) इति कल्पनेन 'न हिंस्यात् इति सामान्यनि- षेधस्य वैधहिंसातिरिक्तहिंसापरत्वमास्थीयते, आक्षेपलभ्याया अपि हिंसाया- विधितात्पर्यविषयत्वेन तत्राप्यनर्थहेतुत्वप्रतिक्षेपः सूपपादः । अत एवं "हिंसा चैवाविधानत" इस्यवैधहिंसैव पापजनिकोक्ता मनुना न वैधहिंसा, छान्दोग्यश्रुतिरंपि “अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्य' इति तीर्थपदा- भिधेययज्ञादिभ्योतिरिक्तस्थल एवाहिंसामुपदिशति, अत एवं मरणान्त- प्रायश्चित्ताहवाभिमुखहननोचितदण्डरूपचौरहननादीनां न पापजनकत्वम् , शुच्यर्थं विहितमरणे तस्यायुक्तत्वात् 'न दोषो हिंसायामाहवं' इति स्मृतेश्च चौराद्यवधे राज्ञो दोषश्रवणाचे, तस्मादगर्हितहिंसातिरिक्तविषयोयं 'न हिंस्यात्' इति निषेधः, अगर्हिता चानुपदिष्टप्रायश्चित्तिका हिंसेति चेत् । ) अत्राहुर्मञ्जूषाकाराः-मनुवचनेऽवध इत्यादावनुदरा कन्ये तिवदल्पार्थे सस्चात्, घटोऽघट इतिवदस्याबोधकत्वेनावधपदस्य पापाजनकत्वलक्षणापत्तेः, यज्ञानुपक्रम्य 'अहिंसा परमो धर्मों गीतो वै मनुना पुरा ।' इति ब्रह्मवैवर्तप्रथमखण्ड उक्ततया च मदुक्तस्यैवौचित्याच्च, परमत्वं च पापाजनकत्वेनास्य, अल्पीयःप्रायश्चित्तेन परिहर्तुं शक्यत्वा- त्तत्र न द्वेष:, किञ्च महतः फलस्य कामनया क्षुद्रे तत्र न द्वेषः, पशु- हिंसाजन्यपापस्याल्पप्रायश्चित्तोपदेशेन बहुव्ययायाससाध्ययागजन्यस्वर्गात १ “अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च शारीर त्रिविधं स्मृतम्।।' अ. १२ श्लो. ७ २ अतएव निन्दाप्रायश्चित्तोपदेशसमभिव्याहृतहिंसाया एच पापजनकत्वं न निन्दाद्यसमभिव्याहृतहिंसाया इत्यङ्गीकारादेवेत्यर्थः । ३ 'सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः सुरामास्ये मृतः शुद्धयेत्' इति शुद्धयर्थ विहितात्महननस्य पापजनकत्वाभिधानस्यायुक्तवादित्यर्थः । ४ परस्पर'ह्वानपूर्वके धर्मयुद्धे योद्धुमभिमुखस्य हनने दोषाभावस्य कण्ठत- एवोक्तेश्चाहवाभिमुखननस्य न पापजनकत्वमित्यर्थः । ५ 'अदण्ड्यान्दण्डयत्राजा दण्ड्याँश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति॥' 'स्तेनः प्रकीर्णकेशो मुसली राजानमीयात्कर्माचक्षाणः पूतो- वधमोक्षाभ्याम् , अन्नन्नेनस्वी राजा' इति राज्ञो दण्डरूपचोरहननाननुष्ठाने स्तेनाहनने च दोषस्मरणात्तादृशहननेपि दोषाभावः सिद्ध एवेत्यर्थः । ६ "खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा । सङ्करीकरणं ज्ञेयं मीनाहिमहिषस्य च॥'' इति ( अ. १० श्लो. ६९ ) मनुना खरतुरगादिपशुहननस्य सङ्करीकरणरूप- साङ्ख्यतत्त्वकौमुदी। २ ~ प्रथममेवाल्पस्य मनुना यागविषयेऽत्यल्पत्वबोधनात् , एवं च न तहलेनं विधेः स्वविषयेऽनर्थहेतुताप्रतिक्षेपकत्वम् । अत एव गीतायां "यज्ञानां जपयज्ञोस्मि' इत्यादिना जपयज्ञस्या- हिसारूपत्वेन प्राशस्त्यमुक्तम् । तथा "स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धाद्धि युद्धा- न्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते॥" इत्युपक्रम्य"सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥” इत्यनेन विहितेपि युद्धे पापं वदताऽतादृशस्य यज्ञेपि तदुक्तप्रायमेव न चापशब्दज्ञानजाधर्मस्य कूपखानकन्यायेन सुशब्दज्ञानजधर्मेण नाशः फलान्तरं चेति पस्पशायाँ- मुक्तम् , कूपखानकस्तत्खननवेलायां मृदा लिप्तस्ततो जलं लब्ध्वा तं लेपं दूरी. करोति फलान्तरं च लमते तेन न्यायेन यज्ञजधर्मेण तत्पापनाशः फला- न्तरलाभश्चेति न दोष इति वाच्यम् , अपशब्द ज्ञानादधर्मस्यावाचनिकत्वेन केवलं वैपरीत्यमात्रेण कल्प्यस्यातिस्वल्पत्वादुत्कृप्टेन 'साधुशब्दज्ञानजधर्मेण नाशेपि न हिंस्यादिति वचनबोधितपापस्य तेन धर्मेण वचनं विना नाशायोगादुक्तगीतावाक्याच्च, अत एव इन्द्रादेः शताश्वमेधफलस्वर्गभोग- समयेऽनेकशो गवण महिषासुरादिभ्यो दुःखधाराः श्रुतिपुराणादिघूपवर्णिताः, यज्ञान्तर्गतहिंसादिजन्य पापफलस्य यज्ञफलभोगान्तरुत्पत्तेस्पपत्तिसिद्धत्वात् , एतेन (अध्वर इति यज्ञनास ध्वरतिहिंसाकर्मा तत्प्रतिषेधोवर.) इति निरुक्तम् "अहिंस्त्र" इति तद्भाष्यमपि व्याख्यातम् . नजोऽल्पार्थत्वात् , अत- एव "तस्मादभ्युदययोगादहिंस्र इत्युपपद्यत" इति तद्भाष्य : उपसंहृतम्, उक्तं च-"स्वर्गेधि पातभीतस्य क्षविष्णोर्नास्ति नितिः॥” इति, "अहिंस- पापत्वमभिधाय “सङ्कसपात्रकृत्यातु मासं शोधनमैन्दवम्' (श्लो. १२६) इति चान्द्रायणानुष्ठानरूपाल्पप्रायश्चित्तोपदेशेनेत्यर्थः । १ "नैवं पापमवाप्स्यसि'' इत्यनेन (एवं फलाभिसन्धिशून्यतयाऽनुष्ठिते पापं न प्राप्नोषि) इत्युक्त्याऽर्यादेतद्गम्यते 'सकामकृते. पापं प्राप्नोषि' इति, एवं च अतादृशस्य सकामस्य यज्ञेपि तत्पापसत्त्वमुक्तप्रायंत्यिर्थः । २ महाभाष्ये प्रथमाहिके भगवता पतंजलिना "किं पुनः शब्दज्ञाने धर्म- आहोस्वित्प्रयोगे" इति पक्षद्वय मुत्थाप्यः “ज्ञाने धर्म इति चेत्तथाऽधर्मोपि प्राप्नोति यो हि शब्दाजानात्यपशब्दमयसौ - जानाति ययैव शब्दज्ञान धर्म- एवमपशब्द ज्ञानेप्यधर्भ' इत्याक्षेपे. "शब्दप्रमाणका. वयं यच्छब्द आह तदस्माकं प्रमाणं शब्दश्च शब्द ज्ञाने धर्ममाह नांपंशब्दज्ञ.नेऽधर्ममाह" इति समाधाय "अथवा कूपनानकवदेतद्भविष्यति'' इति समाधानान्तरमुन मित्यर्थ: । M साङ्ख्यतत्वकौमुदी। ४९ न्सर्वभूनानि" इति श्रुतिस्त्ववैधहिंसात्यागस्येष्टसाधनत्वं वैध्याश्च तत्त्वमाह नतु वैध्या अनिष्टसाधनत्वाभावं हिंसाविधयोपि हि हिंसायाः स्वर्गसाधनत्व- मात्रमाहुर्नत्वनर्थहेतुताप्रतिक्षेपमपि, अल्पायुष्ट्वाद्यनिष्टबोधकस्मृतिविरोधात् , तदुक्तं पातञ्जलभाष्ये- "यदि कथञ्चित्पुण्यावापगता हिंसा भवेत्तदा तत्र सुखप्राप्तौ भवेदपायुः” इति, अत एव क्षत्रियाणामपि युधिष्टिरादीनां स्वधर्मयुद्धेन जातज्ञातिहिंसायां प्रायश्चित्तश्रवणम् , तथा च भागवते मुचु- कुन्दं प्रति कृष्णवाक्यम् 'क्षत्रधर्मे स्थितो जन्तून्न्यवधीमंगयादिभिः। समा- हितस्तत्तपसा जयघं मदुपाश्रितः॥' इति, आदिनों युद्धमिति । अत्रेदं बोध्यम्-शुयापादकदण्डग्रायश्चित्तरूपहननस्य पापाजनकत्वेप्य- दण्डनीयाप्रायश्चित्तिपशुहननस्य पापाजनकत्वे मानाभावान्न तदृष्टान्त बलेन यागीयपशुहननस्य पापाजनकत्वमास्थातुं युक्तम् । वस्तुतत्तु-तैत्तिरीयश्रुतौ “परागावर्ततेऽध्वर्युः पशोः संज्ञप्यमानात्" इति पापभयेनाध्वयोः पशुहननपराङ्मुखत्वाभिधानात्, “रिच्यत इव वा एष: प्रेव वा रिच्यते यो याजयति प्रति वा गृह्णाति याजयित्वा प्रति- गृह्य वानश्नस्त्रिः स्वाध्यायमधीयीत" इति ऋत्विजां प्रायश्चित्तोपदेशाच. "यत्पशुमायुमकृतोरो वा पद्भिराहते । अग्निौ तस्मादेनसो विश्वा- न्मुञ्चत्वंस' इति मन्त्रवणे पशुहननजन्यपापविमोचनायाग्निप्रार्थनाश्रवणाञ्च यागीयहिंसाया अपि. पाप रूपत्वेत पाप.रूपत्वेत प्रायश्चित्तोपदेशसमभिव्याहृतत्वेन गस्तित्वाञ्च "अगर्हितहिंसातिरिक्तविषयोयं न हिंस्यादिति निषेध' इत्यभ्युप- गमेपि न निस्तार इत्यलमतिविस्तरेण । एवं हिंसाद्यविशुद्धियुक्तत्वेन यागादेहिसादिजन्यदुःखसंभिन्न स्वर्गरूप- सुखसाधनत्वेन दृष्टोपायसाम्यमभिधाय धर्मान्तरेणापि साधर्थमाख्यातुं "क्षयातिशययुक्त” इत्यभिहितं भूले, तत्र क्षयातिशयदोपयोरुपेये सत्त्वे- प्युपाये तद्विरहात्कथमुपायस्य क्षयातिशययुक्तत्वाभिधानभित्यत आह- १ यो. सू. ३४ पा. २ २ मृगयादिभिी त्यत्रादिपदेन युद्धं गृह्यते--तथाचाखेटे रणे च यत्प्राणिहनन- माचरितं तत्प्रयुक्तमघ सत्परायणः संस्तपसा विनाशयेत्युक्त्याऽऽहवाभिमुख- हननेपि प्रत्यायोतीति बोषितम्, यदि नाम न दोषो हिंसायामाहवे इति कण्ठ- तोऽभिहितपि दोषाभावे प्रत्यवाय सत्ताभ्युपेयेत तदा किमु वचनीयं कण्ठतो. दोषाभाव.नभिधानस्थले प्रत्यवायोस्तीति भावः । ३ हन्यमानः पशुर्यमायुमार्तनादं कृतवान्यच्च पीडया पादाभ्यां वक्षः- स्थलं ताडितवांस्तत्पशुपीडाकरपापादमिमी मोच यत्विति भावः । TA x H ५० सायतच्चकौमुदी । क्षयातिशयौ च फलगतावप्युपाय उपचरितौ, क्षयित्वं च स्वर्गादेः सत्त्वे सति कार्यत्वादनुमितम् । ज्योतिष्टोमादयः स्व- गेमात्रस्य साधनं वाजपेयादयस्तु स्वराज्यस्येत्यतिशययुक्तत्वम् । परसम्पदुत्कर्षों हि हीनसम्पदं पुरुषं दुःखाकरोति । "क्षयातिशयौ च" इति, क्षयः नाशप्रतियोगित्वम् , अतिशयः-तारतम्यं न्यूनाधिक्यमिति यावत् , यद्यपि क्षयातिशयौ फलगतौ यागफले स्वर्ग एव वर्तमानौ नतु तदुपाये यागे तथापि उपाये-स्वर्गसाधने यागे उपचरितौ उपचारेणाभिहितावित्यर्थः। उपचारश्चात्र स्वाश्रयजनकत्वरूपं उपायोपेययो- रभेदविवक्षा वा । एवं च यथा लौकिक उपायः क्षयिसातिशयसुखजनकस्तथा वैदिकोपि यागाद्युपायस्तथाविधसुखजनक इति सिद्धमानुश्रविकस्य दृष्टसाम्य- मिति भावः। . "तद्यथेह" इत्यादिश्रुत्या स्वर्गादेः सिद्धेपि क्षयित्वे दाढ्या॑य तत्र तर्क- सहकारमप्याह-"क्षयित्वं च” इति, "स्वर्गादिकं क्षयित्ववद्भावत्वे सति कार्यत्वाद्धटादिवत्" इत्यनुमानेन स्वर्गादेः क्षयित्वमवगतमित्यर्थः। ध्वंसे व्यभिचारवारणाय 'सत्त्वे सति' इति विशेषणम् । स्वर्गादेः क्षयित्वं प्रसाध्य सातिशयत्वं प्रदर्शयति-'ज्योतिष्टोमादय'- इति, स्वर्गमात्रस्य देवभावावाप्तिपुरस्सरामृतपानाप्सरोविहारादिरूपसुख- मात्रस्य साधनं ज्योतिष्टोमादयः, स्वाराज्यस्य स्वर्गाधिपत्वरूपदेवेन्द्रभावस्य साधनं वाजपेयादय इत्यस्ति यागादेरतिशययुक्तत्वमित्यर्थः । नन्वस्तु सातिशयत्वमेतावता कथं दुःखसम्भिन्नसुखजनकत्वं यागादेरित्यत- आह 'परसम्पदुत्कर्षों हि' इति । हि यतोऽन्यदीयैश्वर्य्याधिक्यमुपलभ्यमानं न्यूनैश्वर्यशालिनं जनं दुःखाँ- करोति पीडयति अतोऽतिशययुक्तत्वमपि दुःखकरमित्यर्थः । पवं च स्वर्गादेरपि क्षयातिशययुक्तत्वेन दुःखसंभिन्नत्वात्तदुपाययागादे- त्यन्तिकसुखजनकत्वमिति सिद्धमानुश्रविकस्यापि कर्मकलापस्य दृष्टोपाय- साम्यमिति बोधितम् । स्पष्टीकृतं चैतद्भगवता व्यासेनापि"एवं लोकं परं विद्यान्नश्वरं कर्म निर्मितम् । १ स्वौ-क्षयातिशयौ. तदाश्रयः, स्वर्गादिः, तज्जनकत्वं यागादेरित्यर्थः । २ 'दुःखात्प्रातिलोम्ये' इति सूत्रेण डाचि दुःखाकरोतीति साधुः ।
S सायतत्त्वकौमुदी। ५१ "अपाम सोमममृता अभूम" इति चामृतत्वाभिधानं चिर- स्थेमानमुपलक्षयति । यदाहुः- "आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते । इति-- सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥" "श्रुतं च दृष्टवदुष्टं स्पर्धाऽसूया- त्ययव्ययैः। बह्वन्तरायकामत्वात्कृषिवच्चापि निष्फलम् ॥” इत्येवं भागवते । ननु स्वर्गस्य क्षयित्वे प्रागुक्ताया अमृतत्वबोधिकायाः श्रुतेः का गति- रित्यत आह "अपाम सोमममृता" इति, चिरस्थेमानं चिरकालस्थायित्वम् , अमृता इत्यत्र नजोऽल्पार्थकत्वेन अल्पं मर्त्यापेक्षया न्यून मृतं मरणं येषां तेऽमृताश्चिरकालस्थायिन इत्यर्थः । "नाकस्य पृष्ठे सुकृतेनुभूत्वेमं लोकं हीनतरं वा विशन्ति ।' 'क्षीणे पुण्ये मर्त्यलोकं विशन्ति' इति श्रुतिस्मृतिभ्यां स्वर्गिणामधःपतनरूपमरणसत्त्वाव- गमेनैतादृशार्थस्यैवात्रौचित्यमिति भावः । एतदेव विष्णुपुराणवाक्येन द्रढयति-'यदाहुः' इत्यादिना-- 'आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते । त्रैलोक्यस्थितिकालोय- मपुनार उच्यते ॥ इति हि समग्रः श्लोकः आभूतसंप्लवं ब्रह्माहःपर्यन्तं यत्स्थानं तदेवामृतत्वमुपचारादुच्यते, उपचारबीजमाह 'त्रैलोक्ये ति १ भाग० स्कं० ११ अ० ३ श्लो० २०। जनकं प्रति प्रबुद्धाख्ययोगेश्वर- वाक्यमिदम्, 'सतुल्यातिशयध्वंसम्-सह तुल्येनातिशयेन ध्वंसेन च वर्तमानम्, अत- स्तुल्ये स्पर्धा अतिशयेऽसूया ध्वंसालोचनैर्भयादिकं चापरिहार्यमित्यर्थः। यथा खण्डमण्डलपतीनां स्पर्धादि तद्वत्' इत्येतट्टीकायां श्रीधरः। २ मा० स्क० ११ अ० १० श्लो० २१ उद्धवं प्रति श्रीकृष्णवाक्यमिदम्, श्रुतं खर्गादि तदपि दुष्टम्, स्पर्धा-परसुखासहनम्, असूया परगुणे दोषावि- प्करणम्, अत्ययः नाशः, व्ययः अपक्षयः तैर्दुष्टम् , 'यद्वा व्ययो नाश:, अत्ययः अन्य- स्या तिशयः, तं दृष्ट्वा तदप्राप्त्या दुःखमित्यर्थः। किञ्च बहवोऽन्तरायाः वैगुण्यादि- रूपा विघ्ना यस्मिन्कामे सुखे तस्य भावस्तत्त्वं तस्मात्कृषिर्यथा बहुविना तद्वत्' इत्येतदर्थ इति श्रीधरः। ३ विष्णुपु० अंश २ अ० ५ श्लो० ९६। पूर्वत्र 'देवयानमार्गेण जनादिलोकं गता अमृतत्वं भजन्ते' इत्यभिहितम्, तत्र कीदृशममृतत्वमित्याकाङ्क्षायामुक्तम् - ।'
.. .. ५२ साङ्ख्यतत्वकौमुदी। अत एव च श्रुतिः-"न कर्मणा न प्रजया धनेन त्यागे- नैकेऽमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति॥" अपुनरिः पुनर्मृत्युरहितः क्रममुक्तिस्थानत्वात्' इत्येतब्याख्यायां रत्नगर्भभट्टः, श्रीधरस्वामी च। यागादे मृतत्वग्रापकत्वमिति स्वोक्तं दृढीकर्तुमाम्नायसाक्ष्यमाह- "अत- एव च श्रुतिः' इति, यतो न यागादेरमृतत्वोपायत्वमत एव च-श्रुतिरपि तथा शास्तीत्यर्थः । का सा श्रुतिरित्याक सायां कैवल्यश्रुतिमुदाहरति-"न कर्मणाः' इति, कर्मणा श्रौतेन स्मातेन वा कर्मकलापेन नामृतत्वमानशुः प्राप्तवन्तः पूर्वं महात्मान इति शेषः, एवं प्रजया पुत्रेणापि ने, एवं धनेने देवेन मानुषेण वा वित्तेनापि नेत्यनुपङ्गः किन्तु एके मुख्या विवेकिनः त्यागेन त्यागसाध्येने विवेकज्ञानेनामृतत्वं प्रापुरित्यर्थः । “सोयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा, कर्मणा पितृलोको- विद्यया देवलोक” इति बृहदारण्यकश्श्रुत्या कर्मादीनामन्यसाधनत्वेनाभि- धानान्न कर्मादीनाममृतत्वोपायत्वमिति तत्त्वम् । तदमृतत्वं किं स्वर्ग एव नेत्याह-"परेण नाकम्” इति, नौकं नाक- पदाभिधेयस्वगत्परेण-परमुत्कृष्टं भिन्नं चेत्यर्थः, स्वाद्भिन्नत्वेपि न ब्रह्मलोकवरमपि तु सन्निहितमित्याह-"निहितम्" इति, गुहायां 'आभूतसंप्लवम्' इति, एवं च यदा ब्रह्मलोकनिवासिनामपि गौणममृतत्वं तदा किमु वक्तव्यं खर्गिणां गौणं तदिति बोधितम् । १ "अमृतत्वमानशुः” इति वक्ष्यमाणस्यानुषङ्गः, एवमग्रेपि । २ धनं द्विविधमपरविद्याभिधेयम्प्राणोपासनादि दैवम् , पशुवित्तादि मानुषमिति । ३ त्यागेन अभिमानत्यागेन एके केचिदेवामृतत्वमानशुः प्राप्तवन्तो न सर्वे, अभिमानत्यागस्य तत्त्वज्ञानजन्यतया दुर्लभत्वादित्यर्थ इति साङ्ख्यप्रवचनमाम्य- कारा विज्ञान भिक्षवः, अ० १. सू० ८५ । ४ नाकमित्यविद्यामुपलक्षयति-अविद्यातः परमित्यर्थ इति तात्पर्यटीकायां वाचस्पति मिश्राः, वर्गस्यो रि, अथवा परं नाकमानन्दात्मानमित्यर्थ इति दीपिकायां शङ्करानन्दाः । ५ 'निहितं गुहायामिति लौकिकप्रमाणागोचरत्वं दर्शयति इति तात्पर्य्यटीका ।
, साङ्ख्यतत्वकौमुदी। ५३ तथा "कर्मणा मृत्युमृषयो निवेदुः प्रजावन्तो द्रविण- मीहमानाः । तथाऽपरे ऋषयो मनीषिणः परं कर्मभ्योमृतत्व- मानशुः॥" इति । बुद्धौ निहितं ब्रह्मरूपेण स्थितं विभ्राजते स्वयंप्रकाशत्वेन दीप्यते, तर्हि बुद्धिस्थत्वेनातिसुलभत्वात्सवैरेव कथं न प्राप्यमित्यत्राह—“यद्यतयो वि- शन्ति" इति, यतयः यत्नशीला: संन्यासिनो यत्स्वरूपभूतं तत्त्वं विशन्ति स्वात्मतया साक्षात्कुर्वन्ति, विवेकिनां स्वरूपभूतत्वेन सन्निहितमप्यविवे. किनां दूरभूतमित्यर्थः । एतच्छ्रुतिसमानार्थकश्रुत्यन्तरमप्यस्तीत्याह- -'तथा' इति, तदेव श्रुत्य- न्तरं दर्शयति “कर्मणा मृत्युम्” इति, ये प्रजावन्तः पुत्रिणो गृहस्था द्रविणमीहमानाः सुवर्णपशुप्रभृति मानुपं वित्तमभिलपन्तः सकामाः ये चैवंविधाः सकामा ऋषयः वानप्रस्थास्ते सर्वे कर्मणा मृत्युमेवे निषेदुः प्रापुः नामृतत्वमित्यर्थः, यथा सकामा गृहस्था वानप्रस्था वा कर्मणा मृत्यु प्रापुस्तथा तेभ्योऽपरे ये निष्कामा मनीषिणः पुत्रवित्तादिभ्यो विरज्य संन्यासपुरस्सरं प्रकृतिपुरुषान्यताप्रत्ययशालिनस्ते ऋषयः कर्मभ्यः परं कर्म- कलापजन्यस्वर्गादिभ्य उत्कृष्टममृतत्वं प्रापुरित्यर्थः । नन्वेवं यागादिजन्यस्वर्गस्य हिंसाजन्यदुरदृष्टप्रयुक्तदुःखेन सातिशयत्व- प्रयुक्तदुःखेन च सम्भिन्नत्वात्क्षयित्वेन च ग्रस्तत्वसद्भावादौपचारिकामृतत्वे कथं “यन्न दुःखेन सम्भिन्नम्” इति श्रुत्यभिहितामृतत्वरूपस्वर्गलक्षणसङ्ग- तिरिति चेत्- अत्र ब्रूमः-तत्त्ववित्प्राप्यनिरतिशयानन्दरूपमुख्यामृतत्वलक्षणसुखविशे- षस्यैव ‘यन्न दुःखेन' इति श्रुत्या स्वर्गपदार्थत्वेन लक्षितत्वाद्यागादिजन्य- सातिशयसुखविशेषरूपस्वर्गे लक्षणसङ्गमनाभावेपि दोषाभावान्नासङ्गतिरिति । .१ मृत्युमेव प्रेयभावाख्यं पुनर्जन्मैवत्यर्थः,- २ यद्वा कर्मभ्य इति ल्यलोपे पञ्चमी, कर्माणि संन्यस्येत्यर्थः । तात्पर्य्य- टीकायां मिश्रास्तु ‘परं कर्मभ्य इति कर्मपरित्यागमपवर्गसाधनं सूचयति, अमृतत्व- मिति चापवर्गो दर्शित' इत्यर्थमाहुः । ३ यदुक्तं पूर्वत्र 'अत्र यद्वचनीयं तत्समाधानावसरे वक्ष्यते' इति तदेव वक्तुमारभते-"नन्वेवम्” इत्यादिना । ६ ' . । सावतचकौमुदी। अत्रेदं बोध्यम् ---स्वर्गशब्दो हि तत्तदर्थविशेषे तत्र तत्र प्रयुज्यमान उप. लभ्यते, एकत्र तावत् “अणुः पन्थी विततः पुराणो मांस्कृष्टोऽनुवित्तो मयैव । तेन धीरा अपियन्तिं ब्रह्मविदः स्वर्ग लोकमित ऊर्च विमुक्ताः॥” इत्यादी मोक्ष- स्थले तत्त्ववित्प्राप्यनिरतिशयब्रह्मानन्दरूपसुखविशेषे, अपरत्र "स्वर्गकामो यजेत' इत्यादौ "नाकस्य पृष्ठे सुकृतेनुभूत्वा” इति वाक्यान्तरसहकारेण कर्मिप्राप्यनाकपृष्ठभोग्यक्षयिसुखविशेषे इतरत्र च 'चन्दनं सूक्ष्मवासांसि च स्वर्ग' इत्यादौ क्षणिकसुखसाधने मनोज्ञे चन्दनादौ, तत्र तत्त्ववित्दाप्यो यो- निरतिशयालौकिकसुखविशेषः स एव स्वर्गशब्दस्य मुख्योर्थः, तदभिप्राये- णैव च “यन्न दुःखेन सम्भिन्नम्' इत्यादिलक्षणवाक्यम् , इतरत्र च क्वचिल्लंक्ष- शावृत्त्या, क्वचिद्गौण्या वृत्त्या स्वर्गशब्दस्य प्रयोगः । तथाचाहुरप्पदीक्षा: “निरतिशयब्रह्मानन्दवाचकस्य स्वर्गशब्दस्य स्वर्ग- कामादिवाक्येऽनेकमन्त्रलिङ्गाद्यवगतनाकपृष्ठभोग्यसुखविशेष लक्षगा तत्प- शंसाथ तस्य लक्षणोपपत्ते;, चन्दन स्वर्गः सूक्ष्मवासांसि स्वर्ग इति सुखलाध- नेपि प्रशंसार्थं तत्प्रयोगदर्शनात् , ऐहिकमुखापेक्षया नाकलोकभोग्यसुखे नितान्तोत्कर्षसत्त्वेन निरतिशयसुखवाचिना तत्प्रशंसौचित्याच" इति । यत्तु परिमले “स्वर्गकामो यजेत” इत्यादावपि ब्रह्मानन्द एव स्वर्गशब्दार्थः, अन्तःकरणशुद्धिद्वारा कर्मणामपि ब्रह्मप्राप्तिसाधनत्वसम्भवात्, 'यः कामयेत सर्वमिदं भवेयम्' इत्यादिब्रह्मप्राप्तिरूपकर्मफलश्रवणानामेवोपपादनीयत्वात् , दर्शपूर्णमासादिष्वपि 'दिवि ज्योतिरजरमारभेताम्' इत्यादिमन्त्रलिङ्गैब्रह्मप्रा- . -- १ अणुः सूक्ष्मः-दुर्विज्ञानः, विततः विस्तीर्ण:--विस्पष्टतरण हेतुः पुराण: चिरन्तनः श्रुतिसिद्धः पन्धाः ज्ञानरूपब्रह्मप्राप्त्युपाय: मां स्पृष्टः स्पृष्टवान्-मया स्पृष्ट इति वा मया लब्ध इति यावत् ।-मयानुवित्तः फलपर्यवसाथिनों परिपाक- दशामानीन:, मयेति शब्द: मन्त्रद्रष्ट्रऋषिपरामर्शी तेन ज्ञानमार्गेग धीराः प्रज्ञावन्तोऽन्येपि ब्रह्मविद इतः शरीरपातादूर्ध्वम् । स्वर्ग लोकं प्रकाशखरूपं निरतिशय ब्रह्मानन्दमपियन्ति प्राप्नुवन्ति इति मन्त्रार्थ । २ क्वचित्-'खर्गकामो यजेत' इत्यादौ लक्षणावृत्त्या निरतिशयालौकिकसुख- विशेषस्य स्वर्गपदाभिधेयत्वेपि भागत्यागलक्षणयाऽलौकिकसुखविशेषरूपमर्थमादाय वर्गशब्दस्य प्रयोग इत्यर्थः । ३ क्वचिच्चन्दनं स्वर्ग इत्यादौ उत्कृष्टत्वमनोज्ञत्वादिकं गुणमादाय खर्गशब्दस्य प्रयोग इत्यर्थः । ४ परिमले अ० ४ पा० ३ पञ्चभेऽधिकरणे ।
साङ्ख्यतत्वकौमुदी। ५५ प्तिफलावगमाच्च, उक्तं च वार्तिके "स्वर्गोयमेव प्रागुक्तः स्वर्गकामबचस्यपि । कर्मभिस्तदसिद्धेहि वेदान्तज्ञानमिप्यते॥” इति पक्षान्तरमुपन्यस्तं तत्तु न सर्वेषां स्वान्तमाशान्तयतीति प्रौढिवादत्वेनानादेयमेव । 'सर्वे वेदा यत्पदमामनन्ति' इति श्रुतिसाहाय्यमवलम्ब्य तात्पर्य्यतया तथाभिधाने तु यथाकथञ्चिदादेयमेव । केचित्त 'यन्न दुःखेन सम्भिन्नम्' इति वाक्येन नाकलोकभोग्यः क्षयी सुखविशेष एव लक्ष्यते न निरतिशयब्रह्मानन्दरूपो मोक्षाख्यः सुखविशेष- इत्याशयेन 'दुःखासम्भिन्नत्वं नाम दुःखजनकाधर्माजन्यशरीरजन्यत्वम् , अग्रस्तत्वं च-चिरकालस्थायित्वम् , अनन्तरत्वं च-अविरललग्नप्रवाहत्वम् , अभिलाषोपनीतत्वं च--इच्छामात्रयोनित्वम् इत्येवमुपलक्षणतया तात्पर्य- तया वा वाक्यार्थमुपवण्यं दुःखजनकाधाजन्यशरीरजन्याविरललग्नप्रवाह- चिरस्थायीच्छामात्रयोनिसुखत्वं स्वर्गपदशक्यतावच्छेदकम् । इत्येवं वर्णयन्ति । अन्ये तु 'न दुःखेन सम्मिन्नं स्वावच्छेदकशरीरावच्छेदेन स्वससवायिसमवे- तत्वसंबन्धेन दुःखवद्भिन्नम् , न च यत्र द्वित्रिक्षणावस्थायिखण्डशरीरावच्छेदेन सुखमेवोत्पन्नं न तु दुःखं तदनन्तरं तच्छरीरविनाशने तवयवारब्धशरीराव- च्छेदेन दुःखमुत्पन्नं यस्य तस्य तत्खण्डशरीरविच्छिन्नस्य सुखस्यापि स्वर्ग- त्वापत्तिरिति वाच्यं स्वावच्छेदकशरीरपदेन स्वावच्छेदकवृत्तिशरीरत्वव्याप्य- जातिमतो विवक्षणात् , स्वावच्छेदकशरीरवृत्तिद्रव्यत्वादिकमादायासम्भववार- १ प्रागुक्तः निरतिशय ब्रह्मानन्दरूप इत्यर्थः। २. 'ते. तं भुक्त्वा वर्गलोकं विशालम्' इत्यादौ स्वर्गशब्दस्य तथाविधार्थासम्भवा- प्रौढिवादोयमिति भावः । ३ जानकीनाथभट्टाचार्यविरचितन्यायमजाः टीकायां बृहत्तर्कप्रकाशाभिधायां श्रीकण्टदीक्षिताः। ४ ननु मरणस्य दु:खनियतत्वात्वर्गशरी रेपि. मरणजन्यदुःखसम्भवः । नच ते नराः सुखमृत्यव इत्यनेन विरोधः । तस्य दु:खाल्पत्वपरत्वादिति चेन्न अनुकूल- तभावेन मरणस्य दुःख नियतत्वे मावाभावाद्भावे वा मरणजन्यदुःखजनका- धर्मजन्याधर्माजन्यशरीरजन्यसुखत्वस्य प्रवृत्ति निमित्तत्वात् , एतेन 'खर्गेपि-पातमीतस्य क्षयिष्णोर्नास्ति निर्वृतिः।' इति विष्णुपुराणात्वर्गयोनिपुण्यक्षयशङ्कया खर्गे दु:खोत्पत्तेः सम्भव इति निरस्तम्, तदन्यत्वेनाप्यधर्मस्य विशेषणीयत्वादित्यप्यधिक- मनावधेयम् । ५ रघुनन्दनभट्टाचार्य कृतैकादशीतत्त्वटीकायां राधामोहनतर्कालङ्कारा, इत्यर्थः । '.
५६ साङ्ख्यतत्त्वकौमुदी। - णाय शरीरव्याप्यत्वं जातिविशेषणम् , तादृशी जातिश्वावस्थाभेदेन स्थूलकृश- शरीरवृत्तिदेवदत्तत्वादिरूपा, एवं च निरुक्तखण्डशरीरस्य तत्पूर्वापरकालीनत- त्पुरुषीयदुःखावच्छेदकशरीरवृत्तिशरीरत्वव्याप्यजातिमत्त्वान्न तदवच्छेदेनोत्पन्न सुखेऽतिव्याप्तिः, 'न च ग्रस्तमनन्तरम्' इति-अनन्तरं शरीरप्राप्त्यनन्तरं न च ग्रस्तं सुखाभावावच्छेदकशरीरावच्छिन्नभिन्नम्, शरीरोत्पत्तिकाले स्वर्गीय- शरीरे सुखाभावावच्छेदकत्वेनासम्भववारणाय 'शरीरप्राप्त्यनन्तरम्' इति स्वाश्रयपुरुषसंबन्धवैशिष्टयावच्छेदेन सुखाभावावच्छेदकशरीरावच्छिन्नं यत्त- दन्यदिति पर्यवसन्नम्, स्वपदं भेदप्रतियोगिपरम् , एतेन स्वर्गशरीरे सुखा- योगव्यवच्छेदलाभः,, अभिलाघोपनीतम्-अभिलाषमात्रेण उपनीतमुत्पन्न न तु प्रयासेन, नच वनितादिसम्भोगजनितसुखस्य वनिताद्यधीनत्वेन कथ- मभिलापमानोपनीतत्वं स्वर्गसुखेष्विति वाच्यं वनितादेर प्ययनलभ्यत्वात् स्वर्गजनकादृष्टस्य प्रतिबन्धकत्वादेव तन्नान्तरीयकदुःखादेरनुत्पतिः, अत- एव न तत्र पातभीरुत्वदुःखशङ्कापि, यद्यप्येतत्रितयैकतमस्य स्वर्गपदार्थ- तावच्छेदकत्वसम्भवस्तथापि कामनाया औत्कट्यप्रयोजकतया मिलितस्यैव स्वर्गपदार्थतावच्छेदकत्वात् , एवं दुःखासम्भिन्नसुखमुद्दिश्य यागादौ कृते- विच्छेदेन तादृशसुखोत्पत्त्यापि कामनाविषयसियापत्तिः, एवं प्रथमतः सुखं तदव्यवहितक्षणे दुःखं तदव्यवहितक्षणे सुखमितिरीत्या सुखधारासम्पत्त्यापि द्वितीय विशेषणविशिष्टस्य सस्भवस्तथाऽभिलषितसुखानुत्पत्त्या दुःखानव- च्छिन्ननिकृष्टसुखधारा स्यादितिविशेषणन्नयोपादानमिति, इत्येवं परिष्कुर्वते । मीमांसाबालप्रकाश भट्टशङ्करस्तु 'यन्न दुःखेन' इत्यादि न स्वर्ग- लक्षणं विशेषणचतुष्टयव्यावाभावात् , किन्तु स्वरूपकथनमान्नं विशेषण- चतुष्टयेनापि हि सांसारिकसुखवैलक्षा क्षण्यमस्य ब्रुवता सुखत्वावान्तरजातिः स्वर्ग- त्वमुपलक्ष्यते, तद्धि दुःखमिश्रमिदं तु न तथा, एवं सांसारिकं राज्यादिसुखं वर्षाद्यवधिप्रमाणभावाच्छत्रुकृतापहारादिशङ्खाग्रस्तमिदन्त्वर्थवादादिप्रमाणतो- वर्षादियावत्कालभोग्यतया प्रमितं न तन्मध्येऽपहारादिशङ्काग्रस्तम् , तथेदमनन्त- रमनवच्छिन्नं सन्ततं वर्षादिपर्यन्तम् , इतरत्तु न तथा किन्तु सुखदुःखोभय- रहितावस्थयावच्छिन्नम् , एब मिदम भिलाषमात्रेणोपनीतमुपस्थितं न स्रक्चन्दन- वनितादिविषयापेक्षमितरत्तु विषयापेक्षमेव यद्वा प्रयत्नानपेक्षाभिलापमात्रो- . १ एतन्मतद्वये नाकलोक एव 'यन्न दुःखेन संभिन्नम्' इति वाक्येन खर्ग- पदार्थोऽभिहितो न मोक्ष इति बोध्यम् ।
साङ्ख्यतत्त्वकौमुदी। ५७ पनीतविषयमितरत्तु प्रयत्नोपनीतविषयम्- इत्येवंभूतार्थवादोदाहरण- मिदमित्याह । इतरे तु 'आद्यपादेनैहिकरत्यन्तकालदुःखसदृशसुखसमानदुःखनिरासः, नच ग्रस्तमित्यनेन तदधिकदुःखनिरासः, अनन्तरमित्यनेन निद्राकालबद्वैष- यिकोभयरहितदिनरूपकालनिरासः, अन्यथा सकलदुःखाभावस्याद्यपादेनैव प्रतिपादने सिद्धे न च ग्रस्तमित्यस्य वैयापत्तेः, अभिलापोपनीतत्वेन विषयसम्पादनक्लेशनिरास' इत्येवं व्याचक्षते । ननु यन्मते नाकलोकानुभवनीय एव सुखविशेषः स्वर्गपदार्थों नतु निरतिशयब्रह्मानन्दरूपस्तन्मते कथं परविद्याप्रकरणे तत्त्वविदनुभवनीये निरतिशयब्रह्मानन्दे स्वर्गपदप्रयोग इति चेत्- अनाहुवृहदारण्यकभाष्ये शङ्कराचार्या:-(स्वर्गलोकशब्दस्त्रिविष्टप- वाच्यपि सन्त्रिह प्रकरणान्मोक्षाभिधायकैः) इति । विवृतं चैतद्भाप्यं वार्तिककारैः--"परमानन्द एवातः स्वर्गशब्देन गृह्यते । मोक्षप्रकरणान्नित्यः क्रियार्थोतो न गृह्यते॥” इति । एतेन "कर्ममीमांसकमते स्वर्ग एव मोक्षो न तयोर्भेद" इति कस्यचि. दुक्तिार्नरस्ता वेदितव्या, क्षयित्वाक्षयित्वसातिशयत्वनिरतिशयत्वाभ्यां भेदस्य प्रतीतिसिद्धत्वेनाभेदग्रहस्य भ्रान्तित्वात् । अतएँब श्लोकवार्तिके--"सुखोपभोगरूपश्च यदि मोक्षः प्रकल्प्यते । स्वर्ग- एव भवेदेष पर्यायेण क्षयी च सः ॥१०५॥ न. हि कारणवत्किञ्चिदक्षयि- त्वेन गम्यते।” इत्यादिना जन्यस्य स्वर्गसुखस्य क्षयित्वमभिधाय, कुतस्तर्हि १ शाब्दिकमञ्जूषाकारा नागेशभट्टा इत्यर्थः । २ 'ब्रह्मविदः स्वर्ग लोकमितऊर्द्ध विमुक्ताः' इति पूर्वोक्तायां श्रुतावित्यर्थः । ३ 'यथा ज्योतिष्टोमप्रकरणे श्रुतो. ज्योतिःशब्दो ज्योतिष्टोमयागविषय स्तथा मोक्षप्रकरणे श्रुतः खर्गशब्दो. मोक्षमधिकरोति रूब्यङ्गीकारे ब्रह्मविद्याया निकृष्टत्व- प्रसङ्गादिति भावः' इत्येतद्भाष्यव्याख्यायामानन्दविज्ञान: । ४ सम्मतश्चार्य वर्गमोक्षयो दो मीमांसकशिरोमणेभट्टपादस्य कुमारिलखामिनो- पीत्याह-“अतएव ” इति, श्लोकवार्तिके-जैमिनीयदर्शनीयपञ्चमसूत्रे संबन्धा- क्षेपपरिहारप्रकरणे साङ्खयमत निराकरणप्रस्ताव श्लोकात्मकवार्तिक इत्यर्थः । ५ आत्मज्ञानेन मुक्तिः क्रियत इति साङ्ख्यमतं निराकर्तुं साङ्ख्या भिमतं मोक्षरूपं निराकरोति "मुखोपभोग” इति ।
............ d .. ५८ साङ्ख्यतत्त्वकौमुदी । मुक्तिः किंवरूपा चेत्याकाङ्क्षायास्- तस्मात्कर्मक्षयादेव हेत्वभावेन सुच्यते ॥ १.०६॥ नाभावात्मकं मुक्त्वा मोक्षनित्यत्वकारणम् । न च क्रियायाः कस्याश्चिदभावः फलमिष्यते ॥ १.०७॥ तत्र ज्ञातात्मतत्त्वानां भोगात्पूर्वक्रियाक्षये। उत्तरप्रचयासच्चाद्देहो नोत्पद्यते पुनः ॥१०८॥ कर्मजन्योपभोगार्थ शरीरं नः प्रवर्तते । तदभावे न कश्चिद्धि हेतुस्तन्त्रावतिष्टते, ॥१.०९॥ इत्यादिना कर्मक्षयनिमित्तं शरीरसंबन्ध रूपबन्धप्रध्वंसं मोक्षस्वरूप- माभिधाय- १ 'तस्मात्' इति । शरीरसंबन्धो बन्धः तदभावो मोक्षः तेन निप्पन्नानां देहानां यः प्रधसाभाव: यश्चानुत्पन्नानां प्रागभावः सः मोक्षः कर्मनिमित्तश्च बन्ध: धर्मभुयादेव न भवति १०६ । सिद्ध्यति चाभावात्मकत्वे मोक्षस्य नित्यता नत्वानन्दात्मकत्वे इत्याह-"नहि" इति । यदि त्वभावरूपस्यापि मोक्षस्य ज्ञानमेव साधनमित्युच्यते अत आह-"न च क्रियाया" इति १०७ । यदि च न क्रियाफल- मभावः कुतस्तहि तसिद्धिः । ननु कर्मक्षयादेव सत्यं स एव तु कुतः: सिद्ध्यति । तत्राह-तत्र ज्ञात---इति । यो हि देहाद्विविक्तमजरममरमदुःखमात्मानं जानाति तस्य देहसम्प्रयोगावरक्तस्य पूर्व कृतानां । कर्मणां फलोपभोगेन क्षयात्तन्निमित्ते शरीरें पतितेऽजागतानां · च. कर्मणामननुष्टानादेवासत्वाद्देहान्तरानुत्पत्तेरत्यन्तासंबन्धः शरीरेण भवति १०८ । न चासत्यपि कर्मणि भाता पितृसंयोगादेव शरीरनिष्पत्तेर्न मोक्षसिद्धिरत आह-'कजिन्य-" इति । धर्माधर्मसहितो. मातापितृसंयोगः शरीरहेतुर्न तन्मात्रमिति । 'न: अस्माकं शरीरमित्यन्वयः' १०९। तेन मोक्षार्थिभिर्न विवेकज्ञानमात्रेण कृतार्थमन्यमानैः स्थातव्यं किन्त्वेवं कर्तव्य- मित्याह-"मोक्षार्थी' इति । काम्यनिषिद्धे हि ख.कलयोरभ्युदयप्रत्यवाययोरुप- भोगाय शरीरमारभेते, न शरीरारम्भं परिजिहीर्षता ते कर्तव्ये, नित्यनैमितिके च पूर्वकृताऽधर्मक्षयाय कर्तव्ये तदैव चात्मोपासनस्यापि पूर्वकृत कर्मक्षयद्वारेणैव मोक्षसावनत्वम्, उपासनाभिप्रायमेव च ‘ज्ञान मिः सर्वकर्माणि भस्मसात्कुरुते तथा ।' इति भगवद्वासुदेववचनं न विवेकज्ञानाभिप्रायम्' इति श्लोकवार्तिकार्य इति न्याय- रत्नाकरकारः पार्थसारथिमि श्रः। ‘वर्गादतिरित्तो मोक्षो मीमांसकैरभ्युपेयत इत्ये- तस्मिन्नर्थेऽयं । कुमारिल ग्रन्थः साक्षित्वेनोपन्यस्तो नतूपादेय मिदं मत मित्याशयेन नैष्कर्म्य सिद्धावेतन्मतस्य दूषितत्वेन विवे किभिरुपादेयत्वेवानभ्युपगमादित्यपि ध्येयम्' ४. ।
5 1 साङ्घयतचकौमुदी। तदेतत्सर्वगमभिप्रेत्याह-"तद्विपरीतैः श्रेयान्" तस्मादानुश्रविकाढुःखायघातकादुपायात्सोमपानादेरविशुद्धा दनित्यसातिशयकलाद्वियरीतः विशुद्धो हिंसादिसङ्करा- भावान्नित्यनिरतिशयफलोऽसकृदयुनरावृत्तिश्रुतेः । नच कार्यत्वेनानित्यता फलस्य युक्ता, भावकार्यस्य तथात्वात्, दुःखप्रध्वंसस्य तु कार्यस्यापि तद्वैपररीत्यात् । 'मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया ॥११०॥ इत्येवं मुक्तय उपायान्तरमभिहितम् । यदि च यागादिकाम्यकार्वजन्य त्यैव स्वर्गस्य मोक्षत्वमभ्युपेतं भवेत् , तर्हि काम्ययागादित्यागपुरस्सरं 'मोक्षार्थी न प्रवर्तेत' इत्येवं मोक्षायोपायान्तर- श्रवणं व्याकुप्येत । तसिद्धमेतत्-आनुश्रविककर्मकलापोपायप्राप्यक्षयिसातिशयसुखविशेष- रूप स्वर्गादतिरिक्तोऽक्षयिनिरतिशयसुखरूपो मोक्ष इति तस्य कलापातिरिक्त एव प्रकृतशास्त्रप्रतिपाद्यस्तत्त्वविवेक उलायोऽतः स जिज्ञासागोचर इत्याशयेनाभिहितं कारिकायाम् 'तद्विपरीतः श्रेयान्' इति, तदेवाह-"तदेतत्सर्वम्” इति । तद्विपरीत इत्यत्रत्यं तद्' इति शब्दं व्याचष्टे-'तस्मात्' इत्यादिना, विपरीतपदार्थमाह -- “विशुद्ध' इति, विशुद्धत्वे हेतुमाह- "हिंसादि- सङ्कराभावात्' इति, विवेकज्ञानस्य नित्यनिरतिशयफलत्वे हेतुमाह--"अ- सकृदपुनरावृत्तिश्रुतेः” इति 'न स पुनरावर्तते न स पुनरावर्तते” इति पौनःपुन्येन मुक्तस्याऽनावृत्तिश्रवणादित्यर्थः । ननु यथा यागादिकार्थत्वेन स्वर्गादेरनित्यत्वं पूर्वमंभिहितं तथा विवेक कार्यस्य मोक्षस्याप्यनित्यत्वं दुर्वारं तथाच कथं विवेकस्य नित्य फलत्वेन त- द्विपरीतत्वमित्याशङ्का निराकरोति-"नच' इत्यादिना, फलस्य विवेकज्ञान- साध्य स्य मोक्षस्येत्यर्थः, नच युक्तेत्यत्र हेतुमाह-'भावकार्यस्य तथात्वात्" इति, भावरूपकार्यस्यैव तथात्वाद्यत्कृतकं तदनित्यमितिव्याप्त्याऽनित्यत्व- बोधनादित्यर्थः, घटध्वंसस्य कृतकत्वेपि नित्यत्वसंप्रतिपत्तेर्यत्कृतकं तदनित्य- च कर्म- एवं १ तद्विपरीत' इत्यत्र विवेक इत्यध्याहार्यम् ।
। ६० साङ्खयतत्वकौमुदी। न च दुःखान्तरोत्पादः, कारणाप्रवृत्ती कार्यानुत्पादात् । . मिति व्याप्तेयंभिर्चा तत्वेन भावत्वे सति यत्कृतकं तदानेत्यामत्यास्थेयम् , तथाचात्यन्तिकदुःखोपरमात्मकमोक्षस्य विवेकज्ञानसाध्यत्वेन कृतकत्वेपि भावरूपत्वाभावान्न कृतकत्वमात्रेणानित्यता युक्तेति भावः। तदेवाह-“दुःख- प्रध्वंसस्य" इति । तद्वैपरीत्यादुक्तव्याप्तिप्रयुक्तभावरूपकार्यगतानित्यत्व- धर्मविभिन्न नित्यधर्मवत्त्वादित्यर्थः । 'मोक्षोऽनित्यः कृतकत्वात्स्वर्गादिवत्' इति । प्रयोगो भावत्वोपाधि- संवलितत्वेन सोपाधिकत्वा दुष्ट इति भावः- वस्तुतस्तु नरशिरःकपालशुचित्वानुमानवन्मेरोः पाषाणमयत्वानुमान- वच्चागमबाधितत्वेने नायं प्रयोग उत्थातुमर्हतीति बोध्यम्- यद्यपि साङ्ख थनये सत्कार्यवादाङ्गीकारेण दुःखप्रध्वंसस्य मोक्षत्वाभिधानं व्याहतं तथापि दुःखप्रध्वंसपदेनात्र दुःखातीतावस्थाया एव तात्पर्यविषय. त्वेनाभिधानाद्व्याहत्यभावोऽवसेयः, यथाचातीतावस्थाया नित्यत्वं तथा- भिहितं प्रोगित्यलमानडितेन । नन्वतीतावस्थाया नित्यत्वेन माभूदतीतावस्थं दुःखमुदितावस्थापन्नं दुःखान्तरोत्पत्तिस्तु केन वाय्यतेत्यत्राह-"नच दुःखान्तरोत्पादः' इति । अन्यदुःखं नोत्पद्यत इत्यत्र हेतुमाह-"कारणाप्रवृत्तौ कार्यानुत्पादात्" इति । कारणस्य दुःखजनकस्य पुम्प्रकृत्योरविवेकस्य अग्रवृत्तौ विवेकेन विनाशितत्वादनुपस्थितौ सत्यां दुःखरूपकार्योत्पत्त्यसम्भवादित्यर्थः । १ यत्रानित्यत्वं घटादौ तत्र भावत्वस्य सद्भावात्साध्यव्यापकत्वम्, यत्र • च कृतकत्वं घटध्वंसादौ तत्र भावत्वस्याभावात्साधनाव्यापकमिति ज्ञेयम् । २ 'यथा-नारं स्पृष्ट्वास्थि सस्नेहं सचैलं जलमाविशेत् ।' इत्यागमपराहतत्वेन 'नरशिरःकपालं शुचि प्राण्यङ्गत्वाच्छङ्खवत्' इत्यनुमानानुत्यानम्, यथा वा 'देवर्षिगन्धर्व- युतः प्रथमो मेरुरुच्यते । प्रागायतः स सौवर्ण उदयो नाम पर्वतः।।' इतिवचनबाधि- तत्वात्-भेरुः पाषाणमयः पर्वतत्वाद्विन्ध्यादिवदित्यनुमानानुत्यानं तथाऽपुनरा- वृत्तिबोधकागमपराहतत्वेन मोक्षानित्यवानुमानानुन्थानमित्यर्थः । ३ प्राक्-यद्यपि दुःखं न सन्निरुद्धयते इत्यस्य व्याख्याने ।
- साश्यतचकौमुदी । ६१ विवेकज्ञानोपजननपर्यन्तत्वाच्च कारणप्रवृत्तेः, एतच्चोपरि- ष्टादुपपादयिष्यते । अक्षरार्थस्तु-तसादानुथविकाहुःखापघातकाद्धेतोः, विपरीतः सत्वपुरुषान्यताप्रत्ययः साक्षात्कारो दुःखापघात को- हेतुः, अत एव श्रेयान् , आनुश्रविको हि वेदविहितत्वा- न भुक्तिविवेकख्यातिनिष्पत्यर्थं प्रकृतिप्रवृत्तिरिति हि सिद्धान्तरीतिः तथा च यथा प्रकृत्या जनितेपि भोगे भूयो विवेकख्यात्यर्थं प्रकृतेः प्रवृत्ति- रभ्युपेयते तथा जातायामपि विवेकख्यात्यां कथं न भूयः प्रकृतेः प्रवृत्तिरित्या- शङ्कायामाह- 'विवेकज्ञान इति, कारणप्रवृत्तेः मूलकारणभूतायाः प्रकृतेः प्रवृत्तेर्वि. वेकज्ञानजननपर्यवसानत्वाभ्युपगमात्र विवेकज्ञानोत्तरं प्रकृतिप्रवृत्युप- पत्तिरित्यर्थः । कथमेतन्निश्चीयत इत्याक लायामाह-"एतच्च" इति, उपरिष्टात् 'दृष्टा- मयेत्युपेक्षक' इति ६६ कारिकाव्याख्यायामित्यर्थः । तद्विपरीत इत्यस्य तात्पर्य्यमभिधाय साम्प्रतमक्षरार्थमाह-"अक्ष- रार्थस्तु-' इति । सत्त्वपुरुषान्यताप्रत्ययः सत्त्वं बुद्धितत्त्वं सत्त्वादिगुणत्रयात्मकप्रकृतितत्त्वं वा, जडपरिणामिप्रकृतितत्त्वाद्विभिन्नोहमपरिणामी दृशिरूप इत्याकारकः प्रकृत्यवधिकपुरुषान्यतारूपसाक्षात्कार इत्यर्थः । तदेवाह-'साक्षात्कार' इति । ननु "द्विवचनविभज्योपपदे तरबीयसुनौ” इति सूत्रेण द्वयोर्मध्य- एक स्यातिशये बोधनीये प्रशस्य शब्दादीयसुनि सति 'प्रशस्यस्य श्रः' इत्यनेन श्रादेशे श्रेयश्शब्दनिष्पत्तिस्तथाच कोन्यः प्रशस्यो यदपेक्षयायं विवेकः प्रश त्यतर इत्याकाङ्क्षायामाह-"आनुश्रविको हि" इति, आनुश्रविकः यागादिः मात्रया लेशेन । १ लौकिकाद्वैदिकाद्वा तत्तक्रियारूपोपायाद्विपरीतो यस्तचसाक्षात्काररूपोपायः स एव दुःखात्यन्तोच्छेदकत्वेन श्रेयस्वाजिज्ञासनीय इति भावः । २ अविवेकस्य नष्टत्वेपि मूलकारणप्रकृतेर्नित्यत्वेनानिवृत्तत्वात्तत्प्रवृत्तेर्दुरित्यात्तन्नि- बन्धनदुःखान्तरोलादोऽनिवार्य' इत्याशयेन शङ्कते "ननु" । इति । भुक्तिः शब्दाघुपभोगः। .. ..
६२ साङ्ख्यतत्त्वकौमुदी। न्मात्रया दुःखापघातकत्वाच्च प्रशस्यः, सत्त्वपुरुषान्यताप्रत्ययो- ऽपि प्रशस्यः, तदनयोः प्रशस्ययोर्मध्ये सत्त्वपुरुषान्यताप्रत्ययः श्रेयान् । कुतः पुनरस्योत्पत्तिरित्यत उक्तम्-'व्यक्ताऽव्यक्तज्ञवि- ज्ञानात्" इति व्यक्तं चाव्यक्तं च ज्ञश्च व्यक्ताव्यक्तज्ञाः तेषां विज्ञानं विवेकेन ज्ञानम्, व्यक्तज्ञानपूर्वकमव्यक्तस्य तत्कारणस्य ज्ञानम्, तयोश्च पारायैनात्मा परो ज्ञायत इति ज्ञानक्रमेणाभिधानम् । , एवंविधस्य तत्त्वसाक्षात्कारस्य किं कारणमित्याशयेन पृच्छति--"कुतः पुनः" इति । ननु ज्ञस्य चेतनत्वेनाभ्यर्हितत्वादल्पान्तरत्वाचं 'ज्ञाव्यक्तव्यक्तविज्ञानात्' इति क्रमेण प्रयोक्तव्ये कथं व्यक्ताव्यक्तज्ञविज्ञानादिति विपरीतक्रम आश्रित इत्याशङ्कय मननोपयोग्यनुष्टानक्रममादाय पूर्वनिपातविपरीतक्रमाश्रयण- मित्याशयेनाह-"व्यक्तज्ञानपूर्वकम् इति, 'स्थूलात्पञ्चतन्मात्रस्य 'बाह्याभ्यन्तराभ्यां तैश्चाहंकारस्य 'तेनान्तःकरणस्य 'ततः प्रकृते: १ अभ्यर्हितमल्पाच्वं च पूर्व प्रयुज्यत इति हि शाब्दिकसङ्केत इति भावः । २ 'समुद्राभ्राद्धः' इत्यादिनिर्देशेन पूर्व निपातप्रकरणस्य नियामकत्वाभावात्तात्प- >विशेषमादायान्यथा प्रयोगेपि न दोष इति भावः । ३ अ० १ सू० ६२, स्थूलभूतरूपात्कार्यात्तत्कारणतन्मात्रानुमान मित्यर्थः । स्थूलभूतानि खविशेषगुणवत्सूक्ष्मद्रव्योपादानकानि स्थूलत्वाद्धटादिवदिति चात्र प्रयोगः। ४ सू० ६३ बायाभ्यन्तराभ्यामिन्द्रियाभ्यां तैश तन्मात्रैस्तत्कारणाहङ्कारानुमानम्, तन्मात्रेन्द्रियाण्यभिमानवव्योपादानकान्यभिमान कार्य्यद्रव्यत्वाद्यन्नैवं तन्नैवं यथा पुरुष इति, इन्द्रियादीनां प्रवृत्तेरहङ्कारपूर्वकत्वं प्रसिद्धमेव । ५ सू० ६४-तेनाभिमानेन अन्तःकरणस्य बुद्ध्याख्यमहत्तत्वस्यानुमानम्, अभिमानस्य निश्चयपूर्वकत्वात् । ६ सू० ६५ ततः बुद्धेश्च सुखाद्यात्मकत्वेन गृणत्रयात्मकतत्कारणभूतप्रधानानु- मानमित्यर्थः।
साङ्ख्यतत्त्वकौमुदी। ६३ एतदुक्तं भवति-श्रुतिस्मृतीतिहासपुराणेभ्यो व्यक्तादी- विवेकेन श्रुत्वा शास्त्रयुक्त्या च व्यवस्थाप्य दीर्घकालनैरन्त- यादरसेविताद्भावनामयाद्विज्ञानादिति । तथा च वक्ष्यति एवं तत्त्वाभ्यासानासि न मे नाहमित्यपरिशेषम् । अविपर्ययाद्विशुद्धः केवलमुत्पद्यते ज्ञानम् ॥ २॥ इति इति साङ्क्षयसूत्रोक्तप्रकारेणोत्तरोत्तस्कार्येण पूर्वपूर्वकारणानुमानम् , तयोश्च व्यक्ताव्यक्तयोः .. 'संहतपरार्थत्वात्पुरुषस्य' इतिसूत्राभिहितपारार्थहेतुना- ऽसंहत पुरुषार्थत्वज्ञानादात्मज्ञानमित्यर्थः । विज्ञानमित्यनेन न श्रवणमात्रेण व्यक्तादीनां स्वरूपज्ञानं विवक्षितमपि तु निदिध्यासनपर्यवसन्न स्वसाक्षात्कारजनकं भावनारूपमपेक्षितमित्याशयेन विज्ञानादित्येतत्स्पष्टयति "एतदुक्तं भवति" इति । श्रुत्वा श्रवणेन तस्वसङ्ख्या तत्त्वस्वरूपं चावगत्येत्यर्थः, मननमाह-'शास्त्र.. युक्त्या प्रकृततन्त्राभिहितपरस्परतत्त्ववैधालोचनरूपमननेन, व्यवस्थाप्य प्रमेयासम्भावनानिरासमुखेन तत्वस्वरूपं विनिश्चित्येत्यर्थः, निदिध्या- सनमाह 'दीर्घकाल' इति । अदीर्घकालसेवने, दीर्घकालत्वेपि विच्छिद्य विच्छिद्य सेवने च नैरन्तयेपि . श्रद्धातिशयाभावे च सङ्गदोषाद्विजातीय- प्रत्ययप्राबल्येनादृढभूमिरभ्यासः फलाय न प्रभवेत्प्रत्युत विपरीतभावनातः स्वरूपात्मच्यवतातो विशेषणत्रयविशिष्टोऽभ्यासः सम्पादनीयः । एतादृशाच्च भावनामयाद्विज्ञानात्तत्त्वसाक्षात्कारे जायत इत्यर्थः । एतच्चाने मूलकृता. विस्पष्टयिष्यत इत्याह-"तथा च वक्ष्यति" इति ॥२॥ १ सू० ६६ । एतच्च ‘संघातपरार्थत्वात्' इति १७ कारिकायां व्यक्ती- भविष्यति । २ एतेन--'स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः' इति पातञ्जल- सूत्रार्थों वर्णित इति ज्ञेयम् । ३ 'जहात्येनां भुक्तभोगाम्' इत्यस्य व्याख्यायां प्राङ् निरूपितमिदमित्यपि ध्येयम् ।
ht y ६४ साङ्ख्यतत्त्वकौमुदी। तदेवं प्रेक्षावदपेक्षितार्थत्वेन शास्त्रारम्भं समाधाय शास्त्रमा- रभमाणः श्रोतृबुद्धिसमवधानाय तदर्थ संक्षेपतः प्रतिजानीते "मूलप्रकृतिः" इत्यादिना । मूलप्रकृतिरविकृतिमहदाद्या प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥३॥ संक्षेपतो हि शास्त्रार्थस्य चतस्रो विधाः, कश्चिदर्थः प्रकृति- रेव, कश्चिदर्थो विकृतिरेव कश्चित्प्रकृतिविकृतिः, कश्चिदनु- भयरूपः । तत्र का प्रकृतिरेवत्यत उक्तम् 'मूल' इति । मूलं चासौ प्रकृतिश्चेति मूलप्रकृतिः, विश्वस्य कार्यसङ्घातस्य सा मूलं न त्वस्या मूलान्तरमस्ति, अनवस्थाप्रसङ्गात्, बचानव- स्थायां प्रमाणमस्तीति भावः। यों व्यक्ताव्यक्तज्ञतत्त्वानां विज्ञानाच्छ्रेयस्करः साक्षात्कारः समुदेति तेषां तत्त्वानामवान्तरं विशेषमभिधातुस्प्रवृत्तां तृतीयां कारिकामवतारयति "तदे- वम्” इत्यादिना । प्रेक्षावदपेक्षितार्थत्वेन मतिमतामभीप्सितो यो दुःखात्य- न्तोच्छेदरूपोऽर्थस्तद्वत्त्वेन हेतुना-प्रकृतशास्त्रानारम्भशङ्का निरस्येत्यर्थः । तदर्थं प्रकृतशास्त्राभिधेयविवेकानुयोगिढतियोगिभूततत्त्वजातमित्यर्थः । कारिकां व्याख्यास्यं स्तत्त्वानामवान्तरविशेषमाह "सझेपतो हि" इति । शास्त्रार्थस्य एतच्छास्त्राभिधेयतत्त्वग्रामस्य अवान्तरप्रकाराश्चत्वार इत्यर्थः, तानेव प्रकारभेदानाह "कश्चिदर्थ” इत्यादिना । कस्य मूलमित्यत्राह "विश्वस्य' इति । पुरुषस्यापि विश्वान्तःपातित्वा- दतिप्रसङ्ग इत्यत आह "कार्यसङ्घातस्य” इति । ननु प्रकृतिशब्दस्य कारणार्थकत्वात्प्रकृतिरि त्येतावतैव प्रधानस्य जगत्कार- णत्वे लब्धे पुनः कारणार्थकमूल पदोपादानं किमर्थमित्याशङ्कायामाह- "नत्वस्या मूलान्तरम्" इति । कारणमेव प्रधानं न कस्यचित्कार्यमिति विशेषबोधनाय मूलपदोपादानमित्यर्थः । प्रधानस्य कार्यत्वे दोषमाह "अनवस्थाप्रसङ्गात्” इति । ननु बीजाङ्कुर- वदनवस्थाया अदोषत्वामित्यत्राह "न चानवस्थायां प्रमाणम्' इति । व्यवस्थायां सत्यामनवस्थाभ्युपगमस्याप्रामाणिकत्वादित्यर्थः । १ अनन्यथासिद्धप्रयोजनवत्त्वादेतच्छास्त्रमारम्भणीयमिति सिद्धान्तीकृत्येति भावः। २ विवकानुयोगी पुरुषः, प्रतियोगिनश्च प्रकृतिमहदादयो विकारा इत्यर्थः । ३ 'अजामेकाम्' इत्यादिश्रुत्या 'प्रकृतिं पुरुषं चैव विमनादी उभावपि ।' इति ५. BarmersernizmINS ६ . : साङ्ख्यतत्वकौमुदी ६५ कतमाः पुनः प्रकृतिविकृतयः कियत्यश्च इत्यत उक्तम्- अयमाशयः-प्रधानकारणत्वेनाभिसतं यत्तत्त्वान्तरं तस्मिन्प्रधाना- पेक्षया कश्चिदतिशयविशेषोऽभ्युपेयते न वा, न वेति चेत्, न तस्य कारण- भावोऽतिशयाभावात् , नातिशयमन्तरेण कार्यकारणभावः कुत्रापि दृष्टचरः, अस्त्यतिशय इति चेत्, किंरूपोसाविति कथनीयम् । निर्गुणत्वचेतन- स्वापरिणामित्वरूपोऽसाविति चेत्, तथापि न कारणत्वम् , अपरिणामिन: कार्यजनकत्वस्यादृष्टत्वात्, शक्तिरूपोऽतिशय इति चेत् , सापि जन्याऽजन्या वा, जन्यति चेत्, तदवस्थानवस्था, अजन्यति चेत् , सैव शक्तिः प्रकृतिरजा- विद्या प्रधानमिति नाममात्रे विवादः, अत्र यदन्यद्वचनीयं तदभिहित प्रागित्यलमामेडनेन । तथाचाहुः महर्षिकपिलाचार्याः. “मूले मूलाभावादमूलं मूलमें" पारम्पय्येप्येकत्र परिनिष्ठेति संज्ञामात्रम्" इति । ननु 'अविकृति:' इत्युक्त्यैवाजन्यत्वलाभात्पुनर्मूलपदोपादानं किम्प्रयो- जनमिति चेच्छृणु-तत्त्वान्तरोपादानत्वं हि प्रकृतित्वं तच्च महदादिविकारे- प्यस्तीत्यत उक्तम्--'मूलम्' इति । तत्वं च तत्त्वान्तरानुपादेयत्वं तदेव स्पष्टयितुमुक्तम् 'मूले अविकृतिः' इति । "कतमा" इति । चतुर्विंशतितत्त्वानां मध्ये प्रकृतिविकृतयः का इति नाम- स्मृत्या च प्रकृतेरजन्यत्वेनानादित्वेन च तत्रैव कारणपरम्पराया विश्रान्तेः, सत्त्वा- सम्भवेनानवस्थाया मूलक्षयकरीरूपाया अनभ्युपगमादित्यर्थः । बीजाङ्कुरस्थले व्यवस्थासम्भवेनानायत्या तथाखीकारेपि व्यवस्थास्थलेनवस्थाकल्पने मानाभावादिति तत्त्वम् । १ प्राक् 'अजामेकाम्' इत्यस्य व्याख्यायाम् । (२) अ० १ सू. ६७ । ६८ । त्रयोविंशतितत्त्वानों मूलमुपादानममूलं मूलशून्यमनवस्थापच्या मूले मूलान्तरासम्भवादित्यर्थ: ॥ ६७ ॥ ननु 'तस्मादव्यक्तमुत्पन्नम् ' इत्यादिना प्रधानस्यापि पुरुषादुत्पत्तिश्रवणात्पुरुष एव प्रकृते- मूलं भवतु, पुरुषस्य नित्यतया च नानवस्था, अविद्याद्वारकतया च न पुरुषकौटस्थ्य- हानिः, तथा च स्मर्य्यते 'तस्मादज्ञानमूलोऽयं संसारः पुरुषस्य हि ।' इति । इत्या- शाफ्याह 'पारम्पद्येपि' इति । अविद्यादिद्वारेण परम्परया पुरुषस्य जगन्मूलकारणत्वेप्य- विद्यादौ यत्र कुत्रचिन्नित्ये द्वारे परम्परायाः पर्यवसानं भविष्यति पुरुषस्यापरि- णामित्वाद्यतो यत्र पर्यवसानं सैव. नित्या प्रकृतिः, प्रकृतिरिह मूलकारणस्य संज्ञामात्र मित्यर्थः ॥ ६८ ॥ इति साङ्ख्यप्रवचनभाष्ये विज्ञान भिक्षवः । ३ तत्त्वान्तरं विजातीयतत्त्वम् । एतत्तत्त्वमग्रे व्यक्तीभविष्यति । ४ तत्त्वं च मूलत्वं च। ब्यवस्थायाः .
4 र ६६ साङ्ख्यतत्त्वकौमुदी। "महदाद्याः प्रकृतिविकृतयः सप्त" इति । प्रकृतयश्च विकृतयश्च ता इति प्रकृतिविकृतयः सप्त । तथाहि-महत्तत्त्वमहङ्कारस्य प्रकृतिः, विकृतिश्च मूलप्रकृतेः, एवमहङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणां च प्रकृतिः, विकृतिश्च महतः, एवं पञ्चतन्मात्राणि तत्त्वानि भूतानामाकाशादीनां प्रकृतयो विकृतयश्चाहङ्कारस्य । अथ का विकृतिरेवं कियती चेत्यत उक्तम्-'षोडशकस्तु विकारः" इति पोडशसङ्ख्यापरिमितो गणः षोडशकः, तु- शब्दोऽवधारणे भिन्नक्रमः, पञ्च महाभूतानि एकादशेन्द्रिया- णीति षोडशको गणो विकार एव न प्रकृतिः । यद्यपि पृथिव्यादीनामपि गोघटवृक्षादयो विकाराः, एवं तद्विकारभेदानां पयोवीजादीनां दध्यकुरादयः, तथापि न पृथिव्यादिभ्यस्तृचान्तरम् । जिज्ञासा कियत्य इति चेयत्ताजिज्ञासा। तत्त्वान्तरोपादानत्वे सति तत्त्वा- न्तरोपादेयत्वं प्रकृतिविकृतित्वम् । तच्च महदादीनां सप्तानामित्याशयेन स्पष्टयति, "तथाहि” इति । 'भिन्नक्रमः' पाठस्थानादन्यः कमः निवेशस्थानं यस्यासौ भिन्नक्रमः, विकार इत्यस्याग्रेऽवधारणार्थकस्तुशब्दो निवेशनीय इत्यर्थः। तदेवाह-“पञ्च" इत्यादिना । ननु षोडशको गणो विकार एवेत्यवधारणमनुपपन्नम् । एकादशेन्द्रि- याणां के प्रति प्रकृतित्वाभावेपि षोडशान्तःपातिनां पञ्चस्थूलभूतानां गोघटवृक्षादीन्प्रति प्रकृतित्वस्य सम्प्रतिपन्नत्वादित्याशयेन शङ्कते-"यद्यपि" इति । तद्विकारभेदानां पृथिव्यादिविकारभूतगोवृक्षादेर्विकारविशेषाणां दुग्धादीनां दध्यादयो विकारा इत्यर्थः । • अन्यदेव प्रकृते प्रकृतिलक्षणमित्याशयेन समाधत्ते-"तथापि” इति । न पृथिव्यादिभ्यस्तत्त्वान्तरमित्यत्र गोघटादयो विकारा इति शेपो बोध्यः । १ 'तदस्य परिमाणम्' ५। १ । ५७ । इत्यधिकारे 'सङ्ख्यायाः संज्ञासङ्घसूत्रा- ध्ययनेषु' ५ । १ । ५८ । इत्यनेन सङ्घार्थे कन्प्रत्यये साधुरयम् । 7 साङ्ख्यतत्वकौमुदी ६७ तत्त्वान्तरोपादानत्वं च प्रकृतित्वमिहाभिप्रेतमिति न दोपः । ननु मा भूगोघटादीनां पृथिव्यादिभ्यस्तत्वान्तरत्वं तथापि गोघटा- दिजनकत्वेन कुतो न पृथिव्यादीनां प्रकृतित्वमित्याशङ्कय प्रकृताभिप्रेतं प्रकृतिलक्षणमाह---"तत्त्वान्तरोपादानत्वम्" इति । ननु-"सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः” इत्यादिसाङ्ख्यसूत्रे सत्त्वादीनि द्रव्याणि न. वैशेषिका गुणाः संयोगविभागवत्त्वाल्लघुत्व- चलत्वगुरुत्वादिधर्मकत्वाच्च, तेष्वत्र शास्त्रे श्रुत्यादौ च गुणशब्दः पुरुषोप- करणत्वात्पुरुषपशुबन्धकत्रिगुणात्मकमहदादिरज्जुनिर्मातृत्वाच्च प्रयुज्यते । तेषां सत्वादिद्रव्याणां या · साम्यावस्था . अन्यूनानतिरिक्तावस्था. न्यूनाधिक- भावेनासंहतावस्थेति यावत्, अकार्यावस्थेति निष्कर्षः, अकार्यावस्थोप- लक्षित गुणसामान्यं प्रकृतिरित्यर्थः, यथाश्रुते वैषम्यावस्थायां प्रकृतित्व- नाशप्रसङ्गात् 'सत्वं रजस्तम इति एषैव प्रकृतिः सदा। एषैव संसृतिर्जन्तोरस्याः पारे परं पदम्॥' इत्यादिस्मृतिभिर्गुणमात्रस्यैव प्रकृतित्ववचनाच्च, सत्वादीना- मनुगमाय सामान्येति, पुरुषव्यावर्तनाय गुणोति, महदादिव्यावर्तनाय च 'उपलक्षितान्तम्' इति । 'महदादयोपि हि कार्यसत्वादिरूपाः पुरुषोपकरणतया च गुणा भवन्तीति' इति तद्भाष्ये च । "प्रकृष्टवाचकः प्रश्च कृतिश्च सृष्टिवाचकैः। सृष्टौ प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्तिता ॥ गुणे प्रकृष्टसत्वे च प्रशब्दो वर्तते श्रुतौ । मध्यमे रजसि कृश्च तिः शब्दस्तमसि स्मृतः ॥ १ गुणत्वे तु संयोगविभागवत्त्वं न स्यात्, गुणे गुणानङ्गीकारादित्यर्थः । (२) अ. १ सू. ६१ । ३ ब्रह्मवैवर्ते प्रकृतिखण्डे प्रथमाध्याये, देवीभागवते नवमस्कन्धे प्रथमाध्याये चेमे ५ । ६ । ७ । ८ । श्लोका: 'तत्र प्रथमतस्तटस्थलक्षणमाह-प्रकृष्टवाचक' इति । प्रापूरण इति धातोः पचाद्यचि निप्पन्नः प्रशब्द:, कृतिशब्दस्य व्यापारसामान्यार्थक- त्वात्सृष्टिव्यापारार्थकत्वम्, तथाच प्रा प्रकृष्टा मुख्या कृतौ सृष्टौ या सा प्रकृतिरिति व्यधिकरणपदबहुव्रीहिणा त्वेतस्यार्थस्य लाभः, पृषोदरादित्वात्प्राशब्दस्य ह्रस्वत्वम्, तथा च मुख्यत्वेन- सृष्टिकर्वी या सा प्रकृति रित्यर्थः । ५ । स्वरूपलक्षणमाइ- 'गुणे सत्त्वे' इति । प्रकृष्टे सत्त्वे गुणे प्रशब्दो वर्तते, व्युत्पत्तिस्तु पूर्ववदेव, मध्यमे रजसि मध्यमः कृशब्दो वर्तते मध्यमत्वसादृश्यात्, तमसि तमोगुणे चरमेति शब्दो वर्तते चरमत्वतादित्वसादृश्यादित्यर्थः । ६ | पदार्थमुक्त्वा विशिष्टार्थमाह- ... - BREAKERSEANISH ६८ साङ्ख्यतचकौमुदी। .. त्रिगुणात्मस्वरूपा या सर्वशक्तिसमन्विता । प्रधानं सृष्टिकरणे प्रकृतिस्तेन कथ्यते ॥ प्रथमे वर्तते प्रश्च कृतिश्च सृष्टिवाचकः । सृष्टेराद्या च या देवी प्रकृतिः सा प्रकीर्तिता ॥ इत्येवमादिपौराणिकवाक्येषु च श्रूयमाणं प्रकृतिलक्षगमपहाय कुतस्त- द्विपरीतं प्रकृते प्रकृतेर्लक्षणान्तरमाश्रितमित्याक्षेपापोहायाह-"इहाभि- प्रेतम्" इति । प्रकृतिविकृतिभूते महदादावपि प्रकृतित्वव्यवहृतिनिष्पत्त्यर्थं तत्त्वान्तरोपादानत्वरूपमेव प्रकृते प्रकृतित्वलक्षणमाश्रितं न सूत्राद्यभिहित. मित्यर्थः 1) अत्रेदमभिप्रेतम्-प्रकृतिशब्दो हि-साम्यावस्थोपलक्षितगुणत्रयात्मकत्व- लक्षणो मूलकारणे प्रधाने, तत्त्वान्तरोपादानत्वलक्षणश्चाहङ्कारादिकारणे महदादौ, उपादानत्वमावलक्षणश्च घटकटकादिकारणे, मृत्कनकादौ, इत्येवं तत्तल्लक्षणः तत्तदर्थविशेषे तत्र तत्र प्रयुज्यमान उपलभ्यते, तत्र यदि साम्यावस्थोपलक्षितगुणत्रयात्मकत्वरूपं सूत्राद्यभिहितमेव प्रकृतिलक्षणमत्रा- श्रीयेत तदा प्रधाने प्रकृतित्वव्यवहारसंपत्तावपि महदादौ प्रकृतित्वव्यवहारो- न संघटेत यदि चोपादानत्वमात्रमेव प्रकृतिलक्षगमत्राश्रीयेत तदा महदादौ प्रकृतित्वव्यवहारसंपत्तावपि मृत्कनकादेरपि प्रकृतित्वव्यवहारापत्तिस्स्यात् , अत उभयदोषपरिहाराय तत्त्वान्तरोपादानत्वरूपमैव प्रकृतित्वलक्षणमत्रा- स्थीयते नान्यदिति, तथा च न कुत्रापि दोष इत्याह-"इति न दोषः” इति | एतादृशलक्षणकरणे महदादौ प्रकृतित्वव्यवहारानापत्तिरूपो दोषः पृथिव्यादौ च प्रकृतित्वव्यवहारापत्तिरूपो दोषश्च नेत्यर्थः । ... (त्रिगुणात्मा निरतिशयावरणविक्षेपादिशक्तिरहिता गुणत्रयसाम्यावस्थात्मिका सृष्टिकरणे प्रधाना या सा प्रकृतिशब्देनोच्यत इत्यर्थः ।। तथा च प्रसंयुक्तः कृ: प्रकृः सत्त्वेन गुणेन सहितो रजोगुणः, शाकपार्थिवादित्वात्संयुक्तपदलोपः, पुनः प्रकृयुक्तः तिः सत्त्वगुणरजोगुणेन युक्तः तिः तमोगुणो. यस्यां वर्तत इति बहुव्रीहिणा गुणत्रयात्मिकेत्यर्थः, पृषोदरादित्वात्साधुलम् ॥ ७ ॥ पुनर्लक्षणान्तर- माह 'प्रथमे वर्तत' इति । प्रशब्दव्युत्पत्तिः पूर्ववत् । तथा च प्रा प्रथमा सृष्टेर्या सा प्रकृतिः सृष्टेरादिभूतेत्यर्थः, व्यधिकरणबहुव्रीहिः, पृषोदरादित्वात्साधुत्वम् ॥ ८ ॥) इत्येतेषामर्थ इति देवीभागवतव्याख्यायां नीलकण्ठः ।
सावितत्वकौमुदी। ६९ सर्वेषां गोघटादीनां स्थूलतेन्द्रियग्राह्यता च समेति न तत्वान्तरत्वम् । सूत्राद्यभिहितलक्षणस्य प्रधानमात्रपरूत्वनानुगतत्त्वाभावात्सर्वानुगतं तत्त्वान्तरोपादानत्वरूपमेव लक्षणमाश्रयणीयम्, मृत्कनकादौ च प्रकृतित्व- व्यवहारो लाक्षणिको गौणो वेति भावः । किमिदं तत्त्वान्तरत्वमिति चेत् 'तत्त्वत्वं च द्रव्यत्वं तत्त्वान्तरत्वं च स्वा- वृत्तिद्रव्यत्वसाक्षाध्याप्यजातिमत्वम् , पञ्चविंशतितत्वेषु पञ्चविंशतिज़ात्यन- ङ्गीकारे च तत्त्वान्तरत्वं स्वावृत्तिद्रव्यविभाजकोपाधिमत्त्वम्' इति योगवार्तिकोक्तं गृहाण । अत्र लक्षणे स्वशब्द उपादानत्वाभिमततत्त्वपरः, तथा च यथाऽहङ्कारादे: स्वोपादानमहदाद्यवृत्तिद्रव्यत्वसाक्षायाप्याहङ्कारत्वा दिजातिमत्त्वेन. महदा- दिभ्यस्तत्त्वान्तरत्वं न तथा गोघटादीनां पृथिव्यादिभ्यस्तत्त्वान्तरत्वं तेषां खोपादानपृथिव्यादिवृत्तिव्यत्वसाक्षाध्याप्यपृथिवीत्वादिजातिमत्त्वेनोपादा- नावृत्तिव्यत्वसाक्षाध्याप्यजातिमत्त्वाभावादित्यत्र फलितम् । एतदेव हृदि निधाय गोघटादीनां तत्वान्तरत्वाभावे स्वोपादानपृथिव्या- दिवृत्तिधर्मवत्तारूपं हेतुमाह-“सर्वेषाम्" : इत्यादिना, ‘समेति'-इतिशब्दो हेत्वर्थे यतो घटादीनां स्थूलतेन्द्रियग्राह्यता च पृथिव्यादिभिः समातो न घटादीनां पृथिव्यादिभ्यस्तत्त्वान्तरत्वमित्यर्थः । ननु यथा पृथिवीतद्विकारघटयोरुभयोरपि स्थूलत्वादिरूपसमानधर्मवत्त्वेन न पृथिव्यपेक्षया घटस्य तत्त्वान्तरत्वं तथा महत्तद्विकाराहङ्कारयोरुभयोरपि सूक्ष्मत्वातीन्द्रियत्वादिरूपसमानधर्मवत्त्वेन समानतत्वात्कथं महदपेक्ष- याहङ्कारस्य तत्त्वान्तरत्वमिति चेत्- १ ननु तत्त्वान्तरोपादानत्वस्यैव प्रकृतित्वे मृत्प्रकृतिको घट: कनकप्रति के कटकमित्यादौ मृदादौ प्रकृतित्वव्यवहारस्य को निर्वाह इत्यत्राह-"मृत्कनकादौ च" इति । लाक्षणिकः तत्त्वान्तरोपादानत्वरूपेर्थे शक्तमपि प्रकृतिपदं भागत्याग- लक्षणयोपादानत्वमात्रमर्थमादाय मृदादौ लाक्षणिकः प्रकृतित्वव्यवहारः, एक- देशभूतोपादानत्वरूपसाधर्म्यमादाय गौणो वा व्यवहार इत्यर्थः । २ घटादेरपि पृथिव्यवृत्तिघटत्वादिजातिमत्त्वेन तत्त्वान्तरत्वं मा भूदित्याशयेन जातौ द्रव्यत्वसाक्षायाप्येति. विशेषणमिति ध्येयम्, द्रव्यत्वसाक्षायाप्यजातय छ महत्त्वाहङ्कारत्वपृथिवीत्वादयो झेयाः, जात्यनङ्गीकारे च महत्त्वादीनां पदार्थवि- भाजकोपाधित्वमास्थेयमिति भावः । In ७० साङ्ख्यतत्वकौमुदी। अनुभयरूपमाह-"न प्रकृतिर्न विकृतिः पुरुषः" इति । एतत्सर्वमुपरिष्टादुपपादयिष्यत इति ॥ ३ ॥ दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४॥ अत्राभिधीयते--स्थूलत्वेन्द्रियग्राह्यत्वसहकृतपदार्थविभाजकपृथिवीत्व- रूपोपाधेः पृथिवीघटयोरुभयोरपि वृत्तित्वेन तयोः समानधर्मवत्त्वान्न घटादेः पृथिव्यास्तत्त्वान्तरत्वमित्यर्थे तात्पर्येणोक्तदोषाभावात् । तथा च पृथिव्यादेस्तत्त्वान्तरपरिणामवत्त्वाभावान्न प्रकृतित्वमपि तु विकृतित्वमेवेति निष्पन्नम् । तथाधाहुर्योगभाष्ये व्यासदेवाः “न विशेषेभ्यः परं तत्त्वान्तरमस्तीति / विशेषाणां नास्ति तत्त्वान्तरपरिणामः, तेषां तु धर्मलक्षणावस्थाः परिणामा- व्याख्यास्यन्ते” इति । प्रकारत्रयमभिधाय तुरीयं प्रकारमभिधातुमाह-"अनुभयरूपम्” इति । कश्चिदनुभयरूप इत्यनेनाभिहितो यः तत्त्वान्तरानुपादानवे सति तत्त्वान्तरा- उनुपादेयरूपः पुरुषस्तमाहेत्यर्थः । ननु प्रकृत्यादीनां सामान्यतोऽभिधानेपि किन्तत्वं कस्य प्रकृतिः कस्व वा विकृतिरिति विशेषानभिधानान्न तत्वविवेकदाढ्यमित्यत आह - "एत- त्सर्वम्” इति। उपरिष्टात् 'प्रकृतेर्महान्' (२२) इत्यादावित्यर्थः ॥३॥ (१) पा. २ सू. १९ अत्र विशेषपदेन भूतेन्द्रियाणि ग्राह्याणि, तत्किमिदानी- मपरिणामिन एव विशेषास्तथा च नित्याः प्रसज्यरेन्नित्यत आह 'तेषान्तु धर्म- लक्षणावस्था' इति । तत्र भूतानां पृथिव्यादीनां धर्मिणां गवादिर्घटादिवी धर्मपरिणामः, धर्माणां चातीतानागतवर्तमानता लक्षणपरिणामः, वर्तमानलक्षणापन्नस्य गवादे- र्बाल्यकौमारयौवनवार्धकमवस्थापरिणामः, घटादीनामपि नूतनपुरातनताऽवस्था- परिणामः, एवमिन्द्रियाणामपि तत्तन्नीलाद्यालोचनं धर्मपरिणामः, धर्मस्य वर्तमान- तादिलक्षणपरिणामः, रत्नाद्यालोचनस्य स्फुटत्वादिरवस्थापरिणाम इत्येवं ध्येयमित्यर्थः, व्याख्यास्यन्ते तृतीये पादे त्रयोदशसूत्र इत्यर्थः । २ प्रकारत्रयम्---प्रकृति-प्रकृतिविकृति-विकृतिरूपं प्रकारत्रयमित्यर्थः । ३ अनुमयरूपमुक्तं तदाह' इति पाठे तु तत्त्वमित्यध्याहार्यम् । .
साङ्ख्यतत्वकौमुदी। ७१ तमिममर्थं प्रामाणिकं कर्तुमभिमताः प्रमाणभेदा लक्षणीयाः, न च सामान्यलक्षणमन्तरेण शक्यं विशेषलक्षणं कर्तुमिति प्रमाणसामान्यं तावल्लक्षयति "प्रमाणमिष्टम्" इति । तदेवं विवेकानुयोगिप्रतियोगितत्त्वजातमभिधाय तदिदं तत्त्वजातं न प्रमाणापेतमपि तु प्रमाणोपेतमित्याशयेन प्रवृत्तां तुरीयकारिकामवतारयति- "तमिममर्थम्' इति । ननु कणादाक्षपादादिभिः प्रमाणविशेषाणां निरूपितत्वात्तैरेवं प्रकृते निर्वाहसम्भवात्तन्निरूपणं नातीवोपयुक्तमित्यपेक्षायामाह-"अभिमता" इति । महर्षिमनुप्रमुखसंमता इत्यर्थः । 'प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कायं धर्मशुद्धिमभीप्सती ॥' इति मनुना प्रमाणत्रयस्यैवाभ्युपेतत्वेन तद्विपरीतेयत्तावन्त: कणादादिनि- रूपिताः प्रमाणभेदा न सतां सम्मता इति भावः । 'सामान्यलक्षणं त्यक्त्वा विशेषस्यैव लक्षणम्। न शक्यं केवलं वक्तुमितोप्यस्य न वाच्यता॥' इति कुमारिलोक्तिमाश्रित्याह-"नच सामान्यलक्षणम्" इति । ननु कारिकायां प्रमाणानामियत्तावधारणं विभज्यवचनं चेत्येतद्वयमेव निरूपितं प्रतीयते न प्रमाणसामान्य लक्षणं तत्कथं न तदकथनप्रयुक्ता न्यूनता कथं वाभिहितं भवता प्रमाणसामान्य तावल्लक्षयतीति चेत्यत १ 'न वयं षट्पदार्थवादिनो वैशेषिका दिवत्' अ. १ सू. २५ इति साङ्ख्य- सूत्रात्कणादादिदर्शनानां पूर्वभावित्वा दित्यर्थः, एतेन कणादादिदर्शनानामर्वाचीनत्वान्न तनिरूपित प्रमाणभेदैरत्र निर्वाह इति शङ्कापोहिता । (२) अ. १२ श्लो. १०५ ( ३ ) जै. सू. ५ श्लोकवार्तिके शब्दपरिच्छेदे श्लो. २ ४ इयत्तावधारणं त्रिविधं प्रमाणमिति, विभज्यवचनं च दृष्टमनुमान मित्यादीति बोध्यम् । असine Laar ..--- ७२ साङ्ख्यतत्वकौमुदी । अत्र च प्रमाणमिति समाख्या लक्ष्यपदं, तन्निर्वचनं च लक्षणम्, प्रमीयतेऽनेनेति निर्वचनात्प्रमांप्रति करणत्वमवगम्यते । असन्दिग्धाविपरीतानधिगतविषया चित्तवृत्तिः बोधश्च पौरुषेयः फलं.प्रमा। आह-"अब च प्रमाणमिति समाख्या लक्ष्यपदम्" इति, अत्र काारकाया- मित्यर्थः। समाख्या यौगिकः शब्द इति मीमांसकस ङ्केतः, लक्ष्यबोधकं पदं लक्ष्यपदम् , प्रमाणमिति यौगिकं पदं लक्ष्यबोधकमित्यर्थः । ननु लक्ष्यपदस्य लक्षणपदप्रयोगसापेक्षत्वाल्लक्षणपदमन्तरेण, कृथं लक्ष्यपदप्रयोग इत्याशङ्ख्य प्रमाणपदस्य यौगिकत्वेन तदवयवार्थमादाय लक्षणाप्रदमपि तदेवेत्याह-"तन्निर्वचनं च” इति | प्रमाणपदावयवभूतप्रकृति- प्रत्ययार्थश्च लक्षणमित्यर्थः । निर्वचनप्रकारमेवाह-"प्रमीयतेऽनेनेति" इति । तथा च लक्षणपदमपि प्रमाणमित्येवेति बोध्यम् । सकृदुचरितमपि प्रमाणपदं तन्त्रेणोच्चरितत्वात्प्रमाणं प्रमाणमिति द्विरावर्त्य प्रमाणं प्रमाकरणं यत्तत्प्रमाणं । प्रमाणपदप्रतिपाद्यमित्यर्थमादायैकमेव प्रमाणपदं लक्ष्यलक्षणपरमिति भावः । 'प्रमाणमिति समाख्यया लक्ष्यपरम्' इति पाठे तु 'समा तुल्या समाना- नुपूर्वावती, आख्या उच्चारणम् , तया समाख्यया तुल्योञ्चारणेनेति यावत् । तथा च सकूचरितमपि प्रमाणपदं तुल्योच्चारणेन तन्त्रयुक्त्या लक्ष्यपरं लक्षणपरं चेत्यर्थों बोध्यः । प्रमाणषटकप्रमां लक्षयति-"असन्दिग्ध-” इत्यादिना । असन्दिग्धः किंस्विदितिवितकात्मकानवधारणज्ञानविषयः सन्दिग्धः स न भवतीत्यसन्दिग्धः। अविपरीतः स्वरूपाप्रतिष्टितो मिथ्याज्ञानात्मकविपर्यय ज्ञानविपयो वि- कल्पात्मकज्ञानविषयश्च विपरीतैः स न भवतीत्यविपरीतः । अनधिगतः निश्चयात्मकज्ञान विषयोऽधिगतः स न भवतीत्यनधिगतः, एवंविधः पदार्थों विपयो यस्याश्चित्तवृत्तेः साऽसन्दिग्धाऽविपरीताऽनधिगत- विषया चित्तवृत्तिः प्रमेत्यग्रिमेणान्वयः । १ सं समीचीना अवयवार्थवती आख्या समाख्या। तदेवाह “यौगिक' इति । २ अनेकार्थबुबोधयिषया सकृदुञ्चारणं तन्त्रोच्चारणम, ईदृकस्थल उच्चारयितु- स्तन्त्रेणोच्चारणं बोद्धुश्शावृत्त्या बोध इति व्यवस्थामनुरुध्याह 'द्विरावर्त्य” इति । ३ “शब्द ज्ञानानुपाती वस्तुशून्यो विकल्पः यो. पा. १ सू. ९ इति लक्षित- विकल्पात्मज्ञानस्यापि विपर्यय विशेषत्वेन- तद्विषयोपि विपरीत इत्यनेन संगृहीत इति ध्येयम्। .
: .. साहयतत्वकौमुदी। संशय-विपर्यय-विकल्प-स्मृतिरूपचित्तवृत्तिभिन्ना या चित्तवृत्तिः सा प्रसेत्यर्थः । एवमिन्द्रियसन्निकर्षजन्याममुख्यां बौद्धग्रमामाख्याय चित्तवृत्तिफलभूतां मुख्यां पौरुषेयप्रमामाख्याति-"बोधश्च पौरुपेयः फलं प्रमा” इति । चित्तवृतेः फलं यः पुरुषवर्ती बोधः सा मुख्या प्रमेत्यर्थः । "द्वयोरेकतरस्य वाऽप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा": इति साङ्ख्यसूत्रे प्रमाद्वैविध्यस्याभिहितत्वेन बुद्धिवृत्तिः पौरुषेयबोधश्चत्युभयमपि अमेति भावः । ननु पुरुषवर्ती बोधः कथं चित्तगताया वृत्तेः फलम् , नहि खदिरगोचर- व्यापारेण परशुना पलाशे छिदा क्रियते “समानाधिकरणभावादिति चेत् , अबाहुः-नहि चित्तवृत्त्या पुरुषगतो बोधो जन्यतेऽपि तु चैतन्य मेव तत्तदर्थोपरक्तबुद्धिदर्पणप्रतिबिम्बितं सद्बुद्धिवृत्त्याऽर्थाकारया तदाकारतामा- पद्यमानं फलमित्यभिधीयते तच चित्तप्रतिबिम्बितं फलभूतं चैतन्यं चिति- चित्तयोरभेदग्रहाच्चित्तात्मकं प्रमाणभूता चित्तवृत्तिरपि चित्तात्मिकेति सामानाधिकरण्यसद्भावाद्युक्तः पौरुषेयबोधस्य चित्तवृत्तेः फलभाव इति ।) अत्रेदं बोध्यम्-पौरुषेयो बोध इत्यनेन न बोधस्य पुरुषनिष्ठत्वमाख्यायते येन प्रमातृत्वादिधर्मेणं पुरुषस्य परिणामित्वं स्यादपि तु (बुद्धौ प्रतिबिम्बि- तत्वेन तत्तादात्म्यापत्त्या पुरुषस्य ज्ञानादिमत्त्वोपचारात्पौरुषेय इत्यभिधीयते एवं च चितिचित्तयोरभेदग्रहात्पुरुप उपचर्यमाणोपि वस्तुतो बुद्धिवृत्त्यात्मक : एवं बोधो न पुरुषधर्म इति । (१) अ. १ सू. ८१ । 'तत्साधकतमं यत्तत्रिविधं प्रमाणम्' इति सूत्रशेषः, ( असन्निकृष्टः प्रमातर्यनारूढः-अनधिगत इतियावत् । एवंभूतस्य अर्थस्य वस्तुनः ..परिच्छित्ति: अवधारणं प्रमा, सा च द्वयोः बुद्धिपुरुषयोरुभयोरेव धर्मों भवतु किं वैकतरमात्रस्य, उभयथैव तस्याः प्रमाया यत्साधकतमं फलायोगव्यवच्छिन्नं कारणं तच्च त्रिविधं वक्ष्यमाणरूपेणेत्यर्थः) इति सायप्रवचनभाष्यकारः । २ साङ्ख्यनये महत्तत्त्वपदाभिधेयबुद्धितत्त्वस्य चित्ततत्त्वस्य चैकत्वेन पयित्वा- रक्वचिद्बुद्धिवृत्तिः क्वचिच्च चित्तवृत्तिरित्येवं पर्यायेण लेखेपि न क्षतिरिति बोध्यम् । ३ अत्रेदमवधेयम्-साङ्ख्यनये कश्चिदर्थः प्रमाणं यथा चक्षुरादिः, कश्चि- त्प्रमाप्रमाणोभयरूपो यथा चित्तवृत्तिः, (एषा हि चक्षुरादिजन्यत्वेन प्रमति पौरुषेयबोध प्रति करणत्वेन च प्रमाणमिति व्यवह्रियते ) कश्चित्यमैव यथा पौरुषयो बोधः, कश्चित्प्रमातैव यथा बुद्धिप्रतिबिम्बितं चैतन्यम्, कश्चित्साक्षी यथा बुद्धिवृत्त्युपहिता चितिरिति । ... - d ७४ साङ्ख्यतत्त्वकौमुदी। तथा चाहुः कृष्णद्वैपायनाः “फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः, बुद्धेः प्रतिसंवेदी पुरुषः" इति । बोधस्य बुद्धिवृत्त्यात्मकत्वेपि यथा पौरुषेयत्वं तथा "द्रष्टा दृशिमात्रः शुद्धोपि प्रत्ययानुपश्यः” “चितेरप्रतिसङ्कमायास्तदाकारा- पत्तौ स्वबुद्धिसंवेदनम्" इत्यादियोगसूत्रतद्भाष्ययोः “अपरिणामिनी हि भोक्तृशक्तिरप्रतिसङ्कमा च परिणामिन्यर्थे प्रतिसङ्क्रान्तेव तद्वृत्तिमनुपतति तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनुकारमाव्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायते” इति पञ्चशिखाचार्यवाक्ये च स्पष्टमिति तत्रैव कणेहत्यालोचनीयम् । तथा च यथा ह्यन्तरेणापि चन्द्रमसः क्रियामुपसङ्क्रान्तचन्द्रप्रतिबिम्बममलं जलं स्वयं चलत्सदचलमपि चन्द्रप्रतिबिम्बं चलमिवावभासयत्येवं विनापि चितिव्यापारमुपसङ्क्रान्तचितिप्रतिबिम्बा बुद्धिरसङ्गतामपि . चितिशक्तिं स्व- गतया ज्ञानादिक्रिययाऽवभासयन्ती सती प्रमातृभावमापादयति परमार्थतस्तु न पुरुषस्य प्रमातृत्वं न वा तन्निष्टों बोधः फलमिति । (१) पा. १ सू. ७ योगभाष्यकारा इत्यर्थः । २ चित्तवृत्तिबोधः इन्द्रियप्रणालिकयाऽर्थसन्निकर्षानन्तरं जायमाना येयं घट- इत्याकारा चित्तवृत्तिस्तद्विषयको योऽहं घटं जानामीत्याकारोऽनुभवः स प्रमाण- भूतायाश्चित्तवृत्तेः फलम्, स चायमनुभवः पौरुषेयः चितिचित्तयोरमेदग्रहात्पुरुष- उपचर्यमाणत्वेन पुरुषवर्ती, तदेवाह-अविशिष्टः चित्तवृत्त्या सहाविशिष्टः बुद्धिवृत्त्यात्मक इत्यर्थः । तत्र हेतुमाह--"बुद्धेः प्रतिसंवेदी पुरुषः' इति संवेदिन्या बुद्धेः प्रतिरूपः, तत्तादात्म्यापन्नत्वेन तत्समानाकार इत्यर्थः । 7 (३) पा.२ सू. २० प्रत्ययानुपश्यः बुद्धिवृत्तितादात्म्यापत्त्या बुद्धिवृत्त्यनुकारीत्यर्थः । (४) पा. ४ सू. २२ अप्रतिसञ्चाराया अपरिणामिन्या अपि चितेः खीय- वुद्धिवृत्तिविषयकं ज्ञानं बुद्धिवृत्त्याकारतापत्त्यैव भवति न खत इति भावः । ५ 'भोक्तृशक्तिः पुरुषाख्या चितिः हि यतः स्वभावतः परिणामरहिताऽतः अप्रतिसङ्गमा संचाररहिता विषयदेशे गमनाभाववती, तथापि परिणामिनि बुद्धि- रूपेर्थे प्रतिसंक्रान्ता प्रतिबिम्बिता सती विषयाकारां बुद्धिवृत्तिमनुपतति अनु- गच्छति प्राप्तश्चैतन्योपग्रहः चैतन्यप्रतिबिम्बाख्योपरागो येन रूपेण तत्तथा, प्राप्तचैतन्योपग्रहं रूपं यस्याः सा तथोक्ता, एवंभूतायास्तस्या बुद्धिवृत्तेरनुकार- मात्रतया बुद्धिवृत्त्य विशिष्टा बुद्धितादात्म्यमापना सती ज्ञानवृत्तिः ज्ञानरूपवृत्ति- मती प्रमात्रीत्याख्यायते" इत्यर्थः । ܙܗ -~ -- " साङ्ख्यतचकामुंदी ७५ तत्साधनं प्रमाणमिति । एतेन संशयविपर्ययस्मृतिसाधनेष्वप्रसङ्गः । एतेन यदन योगवार्तिके च विज्ञानभिक्षुणा-"पुरुषनिष्टो बोधः फलम् इति “प्रमाता चेतनः शुद्धः” इति च जल्पितं तन्निराकृतं वेदितव्यम् , पूर्वो- क्तयुक्त्युपेतवाक्यजातेभ्यो बुद्धितत्त्वप्रतिविम्बितस्य पुंसः कथञ्चित्पमातृत्वेपि शुद्धस्य प्रमातृत्वायोगात् "ध्यायतीव लेलायतीव" इत्यादिश्रुतिप्वौंपाधिक- प्रमातृत्वादिश्रवणाच्च, "असङ्गो ह्ययं पुरुष” इत्यत्रासङ्गत्वाम्नानाच' "पुरुष- स्तु प्रमासाक्ष्येव न प्रमाता" इति साङ्ख्यप्रवचनभाष्यस्थस्वोक्तिविरोधाच्च । यञ्चोक्तम्-“बुद्धेरेव प्रमातृत्वे पुरुषो न सिद्ध्येत्' इति, तदतिफल्गु, न वयं केवलं बुद्धितत्त्वं प्रमात्रित्याचक्ष्महे येनैवमुपालभ्येमहि किन्तु "उपरागा- स्कर्तृत्वं चित्सान्निध्यात्” इति साङ्ख्यसूत्रादुपसङ्क्रान्तचितिप्रतिबिम्बमेव त- त्पमातृ, इति ब्रूमहे तथा च प्रतिबिम्बत्वान्यथानुपपत्त्या साक्षितया च पुरुष- सिद्धेः कथंकारमुपालभ्येमहीत्यलं बहुना | एवं प्रमां लक्षयित्वा प्रमाणं लक्षयति--"तत्साधनं प्रमाणम्" इति, तस्याश्चित्तवृत्तेर्यत्साधनं सन्निकर्षरूपव्यापारवच्चक्षुरादि, यच्च पौरुषेय- बांधकरणं चित्तवृत्तिरूपं तदुभयमपि प्रमाणमित्यर्थः । विज्ञानभिक्षुस्तु-न व्यापारवत्कारणं करणमपि तु फलायोगव्यव- च्छिन्नमेव कारणं करणमित्याशयेन (यदि प्रमारूपं फलं पुरुषनिष्टमात्र- मुच्यते तदा बुद्धिवृत्तिरेव प्रमाणं यदि च बुद्धिनिष्टमात्रमुच्यते तदा तूक्तेन्द्रिय- सन्निकर्षादिरेव प्रमाणम् , यदि च पौरुषेयो बोधो बुद्धिवृत्तिश्चोभयमपि प्रमोच्यते तदातूक्तमुभयमेव प्रमाभेदेन प्रमाणं भवति, चक्षुरादिषु तु प्रमाण- व्यवहारः परम्परयैव सर्वथा) इत्याह । चित्तवृत्तिरूपप्रमालक्षणघटकासन्दिग्धेत्यादिविशेषणानां कृत्यमाह- "एतेन" इति, एतेन असन्दिग्धेत्यादिविशेषणदानेन संशयविपर्व्ययस्मृति- रूपवृत्तिभिन्नचित्तवृत्तरेव प्रमात्वाभिधानेन तत्करणस्यैव च प्रमाणत्वप्रति- (१) अत्र अ. १ सू. ८७ साङ्ख्यप्रवचनभाष्ये, पा. १ सू. ७ योगवार्तिके चेत्यर्थः । (२) अ. १ सू. ८७ |-- (३) पा. १ सू. ७ योगवार्तिके विज्ञानभिक्षूक्तिरियम् । (४) अ. १ सू. १६४॥ - Amray ABSEAN ७६ साङ्ख्यतत्त्वकौमुदी । सङ्ख्याविप्रतिपत्ति निराकरोति "त्रिविधम्" इति । तिस्रो विधा यस्य प्रमाणसामान्यस्य तत्त्रिविधं न न्यून नाप्याधिकमित्यर्थः। विशेषलक्षणानन्तरं चैतदुपपादयिष्यामः । कतमाः पुनस्तिस्रो विधा इत्यत आह-"दृष्टमनुमानमात- वचनं च" इति । एतच्च लौकिकप्रमाणाभिप्रायम् । पादनेन, संशयविपर्ययस्मृतिरूपवृत्तीनां साधनेषु साधारणज्ञानादिरूप- करणेघे, अप्रसङ्गः न प्रमाणलक्षणसंगमनरूपो दोष इत्यर्थः। संशयादिवृत्तीनां प्रमात्वामावात्तत्साधनानां न प्रमाणत्वमिति भावः । प्रमाणेयत्तावधारणपरं कारिकांशमवतारयति सङ्ख्या विप्रतिपत्तिम्" इति कियत्सङ्ख्याकं प्रमाणमिति वितर्कं शमयतीत्यर्थः । ननु "आम्नायविधातणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेवर्थेषु धर्मादिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्वेषु चात्ममनसोः संयोगाद्धर्मविशेषाच्च यत्प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्यते तदार्षमित्याचक्षते" इति गुणग्रन्थे बुद्ध्यधिकारे कणाददर्शने प्रशस्तपादाचाय्रार्षविज्ञानस्याप्य- भ्युपेतत्वेन कथं त्रिविधमित्यवधारणमित्यत्राह-"एतच्च” इति । एतच्च १ संशयसाधने-उच्चैस्वादिसाधारणधर्मज्ञाने, विपर्यायसाधने दुष्टेन्द्रिय- सन्निकर्षादौ च, स्मृतिसाधने संस्कारे तद्वाराऽनुभवे वा न प्रमाणत्वव्यवहार- .. प्रसङ्ग इत्यर्थः। २ आम्नायो वेदः तस्य विधातारः कर्तारो ये ऋषयस्तेषामतीतेष्वनागतेषु वर्तमानेप्वतीन्द्रियेषु धर्माधर्मदिकालप्रभृतिषु ग्रन्थोपनिबद्धेषु आगमप्रतिपादितेषु अनुपनिवद्वेषु आगमाप्रतिपादितेषु चात्ममनसोः संयोगाद्यत्प्रातिभं ज्ञानं यथार्थनिवेदनं यथाखरूपंवेदनं संशयविपर्ययरहितं ज्ञानमुत्पद्यते तदार्षमित्याचक्षते विद्वांसः । इन्द्रियलिङ्गाद्यभावे . यदर्थप्रतिभानं सा प्रतिभा प्रतिभैव प्रातिभ- मित्युच्यते तत्रभवद्भिः, तस्योत्पत्तिरनुपपन्ना कारणाभावादित्यनुयोगे सतीदमुक्तं “धर्मविशेषात्' इति | विशिष्यत इति विशेषो धर्म एव विशेषो धर्मविशेषः विद्यातपःसमाधिजः प्रकृष्टो धर्मस्तस्मात्प्रतिभोदय इत्यर्थ इत्येतद्भाप्यव्याख्याने कन्दली कार : श्रीधराचार्यः।
साङ्ख्यतत्त्वकौमुदी। लोकव्युत्पादनार्थत्वाच्छास्त्रस्य तस्यैवात्राधिकारात्, आप तु विज्ञानं योगिनामूर्द्धस्रोतसां न लोकव्युत्पादनायालमिति सदपि नाभिहितमनधिकारात् । श्रमाणत्रैविध्याभिधानं च, लौकिकरमाणाभिप्रायं योगिजनभिन्नसाधारण- जनानां यानि प्रमाकरणानि तदभिप्रायम् , साधारणजनज्ञानजननोपयोगीनि प्रमाणानि त्रीण्येवेति तास्पर्य्यकमित्यर्थः । तत्र हेतुमाह-"लोकव्युत्पादना- थत्वात्" इत्यादिना । शास्त्रस्य साधारजनबोधनप्रयोजनत्वात्तस्यैव लौकिकप्रमाणत्रयस्यैव, अत्र प्रकृतशास्त्र अधिकारान्निरूपणयोग्यत्त्वादित्यर्थः । के पुनराईविज्ञानाधिकारिण' इत्याकाङ्क्षायामाह-“आर्षन्तु” इति । तु-शब्दः पुनरर्थे । यत्पुनः-ऊर्ध्वस्रोतसामूर्ध्वं विषयेभ्यो बहिः परे तत्वे खोतः वृत्तिप्रवाहो येषां तेषां योगिनां संबन्ध्याएं विज्ञानं तत्तु सामान्य- जनबोधनाय नाले न समर्थमिति हेतोः सदपि विद्यमानमपि तदा विज्ञान- मत्र नोक्तमनधिकारादुएयोगाभावादित्यर्थः । तथा चाहुः प्रशस्तपादाचार्या:-"तत्तु (आर्षविज्ञानं तु) प्रस्तारण देवर्षीणां कदाचिदेव लौकिकानां यथा कन्यका ब्रवीति श्वो मे भ्राताऽऽ- सान्तेति हृदयं मे कथयतीति” इति । अनेदं बोध्यम्-बुद्धितत्त्वं हि प्रकाशस्वभावत्वेन सथिदर्शनसमर्थमपि लमसाऽऽवृतं सत्सर्वदा सर्वं न गृह्णाति, यत्र तु रजसोद्धाट्यते सत्वेन चोद्रिच्यते तत्रैव गृह्णाति यदा त्वभ्यासवैराग्याभ्यामपास्तसमस्तरजस्तमो- मलस्य योगजधर्मानुगृहीतस्यास्यानवद्यवैशारद्यमुद्योतते लदाऽस्यातीतानागत. विप्रकृष्टव्यवहितसूक्ष्मपदार्थग्रहणसमर्थस्य प्रकाशानन्त्ये सति किन्नाम तद्यन्न योचरोऽपि तु सर्व एवास्य गोचर ईदृग्विधमेव ज्ञानम् (आर्षम् ) ऋतम्भरा प्रज्ञा ) इति चाख्यायते, इदं च योगजप्रत्यक्षत्वात्प्रत्यक्षान्त- १ यद्वा "अहरहर्नयमानो गामश्वं पुरुषं षशुम्” इत्यादौ विनापि चकारं समु- चयस्य दृष्टत्वात् 'ऊर्ध्वस्रोतसाम्' इति पृथकोटिः ऊर्ध्व स्थूलेभ्यो विषयेभ्यो बाहिरतीन्द्रियेथे स्रोतो ज्ञानं शेषां तेषां देवर्षीणां योगिनां चेत्यर्थो बोध्यः । २ प्रस्तारेण बाहुल्येन । ३ इदं च कन्यकाज्ञानं न संशय उभयकोटिसंस्पर्शाभावात् , न च विपर्य्यर, संवादात् , अत: प्रमाणमेवेति बोध्यम् !
. ७८ साङ्ख्यतत्त्वकौमुदी । : स्यादेतत्-माभून्न्यूनम् , अधिकं तु कमान्न भवति, स- गिरन्ते हि प्रतिवादिन उपमानादीन्यपि प्रमाणानि, इत्यत- आह-"सर्वप्रमाणसिद्धत्वात्" " इति । एष्वेव दृष्टानुमाना- तवचनेषु सर्वेषां प्रमाणानां सिद्धत्वादन्तर्भावादित्यर्थः । र्गतमेव, अत एव तम्मानलक्षणंविषयगोचरस्य योगिज्ञानस्याने प्रत्यक्षत्वमभि- धास्यते, तथा च प्रत्यक्षान्तर्भावान्न तत्पार्थक्येनाभिहितम्, प्रत्यक्षादति- रिक्तत्वे तु लोकोपयोगाभावान्नानाभिहितमिति । एवं सिद्धज्ञानमपि प्रत्यक्षाद्यन्तर्भूतत्वान्न ज्ञानान्तरम् , तथा चाहुः प्रशस्त- पादाचा-:-"सिद्धदर्शनं न ज्ञानान्तरं कस्मात्प्रयत्नपूर्वकमञ्जनपाद- लेपखगगुलिकादिसिद्धानां दृश्यफ्रेष्टुणां सूक्ष्मव्यवहितविप्रकृष्टेष्वर्थेषु यद्दर्शनं तत्प्रत्यक्षमेव, अथ दिव्यान्तरिक्षभौमानां प्राणिनां ग्रहनक्षत्रसंचारा- दिनिमित्तं धर्माधर्मविपाकदर्शनमिष्टं तदप्यनुमानमेव, अथ “लिङ्गानपेक्षं धर्मादिषु दर्शनमिष्टं तदपि प्रत्यक्षार्षयोरन्यतरस्मिन्नन्तर्भूतम्" इति । नन्वार्षविज्ञानस्यालौकिकत्वेन लोकोपयोगाभावादनानिरूपणेप्युपमाना दीनां लोकोपयुक्तत्वेनावश्यं निरूपणीयत्वेन तदनिरूपणप्रयुक्ता कथं न न्यूनतेत्याशयेन शङ्कते "स्यग्देतत्" इत्यादिना । प्रतिवादिनः गोतमादयः सङ्गिरन्ते प्रतिजानते, “समः प्रतिज्ञाने" । १ । ३ । ५२ । इति सूत्रेण प्रतिज्ञानार्थे गिरतेस्तडिति बोध्यम् । १ अग्रे पञ्चमकारिकाव्याख्यायाम्-'विषयाः पृथिव्यादयः सुखादयश्च, अस्म- दादीनामविषयास्तन्मात्रलक्षणा योगिनामूर्ध्वस्रोतसां च विषयाः, विषयं विषयं प्रति वर्तते यदिन्द्रियं तदाश्रितं ज्ञानं प्रत्यक्षम्' इत्यर्थस्य स्पष्टत्वादिति भावः । २ आर्षज्ञानस्य प्रत्यक्षान्त वे कथं प्रशस्तपादैः 'विद्यापि चतुर्विधा प्रत्यक्ष- लैङ्गिकस्मृत्यार्षलक्षणा' इति प्रत्यक्षादतिरेकेणाभिधानमित्याशङ्कायामाह-"प्रत्यक्षा- दतिरिक्तत्वे तु" इति । गोबलीवर्दन्यायेन पृथगभिधानमित्यपि केचित् । ३ दृश्यानां दर्शनयोग्यानां स्वरूपवतां पदार्थानां द्रष्टारो य अञ्जनादिसिद्धा- स्तेषां यत्सूक्ष्मादिष्वर्थेषु दर्शनमिन्द्रियाधीनानुभवस्तत्प्रत्यक्षमेवेत्यर्थः । ४ एतादृशं दैवज्ञानं यदि सिद्धज्ञानमभिमतं तर्हि तदनुमानमेव ग्रहसंचारा- दीनां लिङ्गत्वात् । ५ यदि धर्मादिदर्शन मिन्द्रियजं तदा प्रत्यक्षान्तर्भूतम् , अथेन्द्रियानपेक्षं तदाऽऽर्षमित्यर्थः।
साङ्ख्यतत्त्वकौमुदी। एतचोपपादयिष्यत इत्युक्तम् । अथ प्रमेयव्युत्पादनाय प्रवृत्तं शास्त्रं कस्मात्प्रमाणं सामा- न्यतो विशेषतश्च लक्षयति इत्यत आह-"प्रमेयसिद्धिः प्रमाणाद्धि"-सिद्धिः प्रतीतिः । "अन्तर्भावात्' इति । एतेन "तत्सिद्धौ सर्वसिद्धेर्नाधिक्यसिद्धिः” इति साङ्ख्यसूत्रार्थः संगृहीतः। साङ्ख्यचन्द्रिकाकारो नारायणतीर्थस्तु (सर्वप्रमाणसिद्धत्वात्-सर्वैः प्रमाणैः प्रमातृभिः पतञ्जलिप्रभृतिभिः सिद्धत्वात्-प्रत्यक्षानुमानागमाः प्रमाणानीति स्वीकृतत्वात् , उपमानादिकं तु न सर्वप्रमाणोसद्धम् ) इत्येवमिदं व्याचख्यौं, "मनुवै यत्किञ्चावदत्त पेजम्” इति श्रुत्यभिहितमहत्वेन सर्वेषां प्रमाणभूतेन मनुवचनेनै सिद्धत्वात्त्रीण्येव प्रमाणानीति निश्चितत्वात्प्रमाण. त्रयमेवेष्टमित्यर्थोपि यदि मतिमतां मतिमारोहेत्तीयमप्यादेयः । यद्वा सर्व-शब्दोऽत्र बहुपर्यायः, तथा च मनुकपिलपतञ्जलिमुनि- वचनरूपैर्बहुभिः प्रमाणैः सिद्धत्वात्प्रमाणत्रयमेवेष्टं नतु एकैकमुनिवचनरूपैं- कैकप्रमाणसिद्धं प्रमाणचतुष्टयादिकमित्यर्थो बोध्यः । कथमन्तर्भाव इत्यत्राह-"एतच्च" इति । ननु पदवाक्यप्रमाणप्रमेयभेदभिन्नेषु विद्याप्रस्थानेषु साङ्ख्ययोगवेदान्त- रूपप्रस्थानत्रयस्य प्रमेयप्रतिपादनपरत्वादन प्रमाणप्रतिपादनं विपश्चित्संकेत- पराहतम् , इत्याशयेन शङ्कते-“अथ प्रमेय' इति । 'प्रमाणाद्धि' इति । हि यतः प्रमेयावगतिः प्रमाणाधीनातः प्राधान्येन (१) अ० १ सू० ८८ । त्रिविधप्रमाणसिद्धौं सर्वप्रमाणानां प्रमेयव्यवस्थासिद्ध. र्नाधिक्यसिद्धिः पृथक्प्रमाणत्वेन, त्रिविधप्रमाणे वन्येषामन्तर्भावात्' इत्यर्थ- इति वृत्तिकारोऽनिरुद्धो महादेवश्च । त्रिविधप्रमाणसिद्धौ च सर्वस्यार्थस्य सिद्धेर्न प्रमाणाधिक्यं सिद्ध्यति गौरवादित्यर्थ इति विज्ञान भिक्षुः । २ ताण्ड्यमहाब्राह्मणे. २३ अध्याये १६ खण्डे श्रुतिरियम् । ३ "प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यम्” इति पूर्वाभिहितेन मनुवचनेनेत्यर्थः । ४ यदीत्युक्त्याऽयमप्यर्थः संभवति परं नासौ मूलकाराभिप्रेत इति सूचयति । ५ पदविद्या-व्याकरणम् , वाक्यविद्या-मीमांसा, प्रमाण विद्या-न्याय- काणाददर्शनम्, प्रमेयविद्या साङ्ख्ययोगवेदान्ताः।
साङ्ख्यतत्त्वकौमुदी सेयमार्याऽर्थक्रमानुरोधेन पाठक्रममनादृत्यैवं व्याख्याता।।४।। सम्प्रति प्रमाणविशेषलक्षणावसरे प्रत्यक्षस्य प्रमाणेषु ज्येष्ठत्वा- त्तदधीनत्वाचानुमानादीनां सर्ववादिनामविप्रतिपत्तेश्च तदेव तावल्लक्षयति--"प्रतिविषयाध्यवसायो दृष्टम्" इति । प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् । तल्लिङ्गालिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु ।।५।। अत्र 'दृष्टम्' इति लक्ष्यनिर्देशः। परिशिष्टन्तु लक्षणम् । मेयप्रतिपादनपरमप्येतत्तन्त्रं तदुपयोगितयाऽऽपाततः प्रमाणमपि प्रति. पादयतीत्यर्थः । पाठानुपूर्वीपेक्ष्य कुतो विपरीतक्रमेणेयं कारिका व्याख्यातेति शङ्काया- माह-"सेयमार्यो" इति । आर्या 'आर्याख्यच्छन्दोबद्धा कारिका' 'अर्थ- क्रमानुरोधेन' इति । यथा च पाठक्रमादर्थक्रमस्य बलीयस्त्वं तथा "अर्थाच्च” इति सूत्रे जैमिनीये व्यक्तमित्ति ततोऽवसेयम् । आकाङ्क्षायोग्यतादिकमेव परस्परान्वयकारणं नानन्तरश्रवणमात्रमिति भावः ॥४॥ - पञ्चमा-मवतारयति-"सम्प्रति" इत्यादिना । प्रमाणानां ये विशेषाः प्रत्यक्षादयो भेदास्तेषां यानि लक्षणानि तन्निरूपणावसरे सति तदेव प्रत्यक्षमेवं तावत्प्रथम लक्षयतीत्यन्वयः । । प्रत्यक्षस्य प्रथमनिरूपणे हेतुमाह-"प्रत्यक्षस्य प्रमाणेषु ज्येष्ठत्वात्" इति। ज्येष्टत्वात्पूर्ववर्तित्वात् , निखिलप्रमाणोपजीव्यत्वादिति यावत् । तदेवाह- "सदधीनत्वाच'' इति। अनुमानोंदीनां प्रत्यक्षसापेक्षत्वादित्यर्थः । हेत्वन्तर- माह----"सर्ववादिनामविप्रतिपत्तेश्च” इति । प्राकृतचार्वाकादेरपि प्रत्यक्षे विवादाभावेन सर्वसम्मतत्वाञ्चेत्यर्थः । परिशिष्टम् 'प्रतिविषयाध्यवसायः' इत्यवशिष्टो भाग इत्यर्थः । .(१) अ० ५ पा० १ सू० २ । अग्निहोत्रं जुहोति यवागू पचति इति होमपाकयोः पाठक्रमेण पौर्वापर्य्यसत्त्वेप्यर्थक्रममादाय पत्तवैव होतव्यमिति हि तत्र व्यक्तम् । २ अनुमानादीनामिति बहुवचनन्तु पराभिमतोपमानाद्यभिप्रायेण नेयम् ।
साङ्ख्यतत्त्वकौमुदी। ८१ समानासमानजातीयव्यवच्छेदो लक्षणार्थः । अवयवार्थस्तु-विसिन्वन्ति विषयिणमनुबध्नन्ति-स्वेन रूपेण नि- रूपणीयं कुर्वन्तीति यावत् । विषयाः-पृथिव्यादयः, सुखादयश्च । .. लक्षणकरणस्य प्रयोजनमाह--"समानासमानजातीय" इति । समान- जातीयेभ्योऽसमानजातीयेभ्यश्च पदार्थेभ्यो व्यवच्छेदः व्यावर्तनम्-विभज्य लक्ष्यस्थापनं स लक्षणार्थः लक्षणकरणप्रयोजनभित्यर्थः । एतेन 'समानासमानजातीयव्यवच्छेदकत्वं लक्षणत्वम्' इति लक्षण- शब्दार्थोप्यनेन ज्ञापितो वेदितव्यः । लक्षणं हि व्यतिरेकिहतुवचनं सत्सजातीयविजातीयेभ्योऽर्थेभ्यो व्यावर्त्य लक्ष्य व्यवस्थापयतीति भवति लक्षणस्य सजातीयविजातीयव्यव- च्छेदकत्वम् । 'नीलमुत्पलम्' इत्यत्र सजातीयमाव्रव्यवच्छेदके विशेषणेऽतिप्रसङ्गवार- णाय "असमानजातीय” इति। रूपं गुण इत्यादौ विजातीयव्यव्यवच्छेदक- धर्मेऽतिव्याप्तिवारणाय 'समानजातीय' इति । यथा चास्य प्रत्यक्षलक्षणस्य सजातीयविजातीयव्यवच्छेदकत्वं प्रत्यक्षलक्षणावसानेऽत्रैव व्यक्तमिति नात्र मया किञ्चिद्वचनीयम् । लक्षणपदघटकशब्दार्थमाह- "अवयवार्थस्तु” इति । 'विसिन्वन्ति' इति 'पिबन्धने' इत्यस्य रूपम्। तस्य विवरणमाह-"विषयिणमनुबन्नन्ति" इति । विपयिणं । चित्तवृत्तिरूपं ज्ञानम् । 'अनुबन्नन्ति' इत्यस्यार्थमाह- "स्वेन रूपेण निरूपणीयं कुर्वन्ति" इति । स्वेन रूपेण स्वकीयेनाकारेण, निरूपणीयं निरूपणार्ह स्वाकारोपरक्तं कुर्वन्तीति यावत् । घटादयो विषया हीन्द्रियसन्निकर्षादिना विषयिणं चित्तं स्वाकारेणोपरा- यन्ति, यदिदमुपरञ्जनं विषयिणि चित्ते विषयाणां स्वाकारार्पणमेतदेव स्वेन रूपेण निरूपणीयत्वमिति तत्वम् । तथा १ अत एव पृथिव्या लक्षणं गन्धवस्वम् 'पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्' इत्येवं व्यतिरेकिहेतुवचनं सत्पृथिवीमितरेभ्यो व्यावल व्यवस्थापयति ।
८२ साङ्ख्यतत्त्वकौमुदी। असदादीनामविषयाश्च तन्मात्रलक्षणा योगिनामूर्द्धस्रोतसा च विषयाः, विषयं विषयं प्रति वर्तत इति प्रतिविषयमिन्द्रियम् । वृत्तिश्च सन्निकर्षः अर्थसन्निकृष्टमिन्द्रियमित्यर्थः॥ विषयशब्देन न केवलं स्थूला विषया गृह्यन्तेऽपि तु सूक्ष्मा अपीत्याह- “अस्मदादीनाम्” इति । तन्मात्रलक्षणाः सूक्ष्मभूतात्मका ये पदार्था अस्म- दादीनामविषयास्तेपि योगिनामूर्द्धस्रोतसां च विषया इति तेपि विषयपदेन गृह्यन्त इत्यर्थः। एवं विषयपदार्थमाख्याय प्रतिविषयपदार्थमाह-“विषयं विषयं प्रति" इति । विषयं विषयं प्रति वर्तत इत्यनेन यदिन्द्रियाणां विषयं प्रति वर्तनमभि- हितं तन्नेन्द्रियाणां स्वस्थानपरित्यागपूर्वकं विषयदेशगमनं तथा सत्यन्धत्वा- दिप्रसङ्गादपि तु संबन्धविशेष इत्याह-"वृत्तिश्च सन्निकर्पः” इति । 'वर्तते' इतिपदघटकवृद्धात्वर्थरूपा वृत्तिश्चात्र सन्निकर्ष एव नविन्द्रयाणां विषय- देशगमनमित्यर्थः अयमेव सन्निकर्षों व्यापार इत्यभिधीयते । तथा चाहुः-'वृत्तिस्तु सन्निकर्षः' इति न्यायभाष्यमुपादाय तात्पर्य- टीकाकाराः “वृत्तिरिति हि व्यापारः, स तु व्यापार उच्यते यः कारकैः फले जनथितव्ये चरमभावी धर्मभेदः फलोत्पादानुकूलोऽपेक्ष्यते, यथा पटे जनयितव्ये तन्तुभिश्चरमभाविनः संयोगविशेषाः, स्वर्गे जनयितव्ये यागेना- पूर्वमात्मधर्मः, तथेहापीन्द्रियादिना प्रमाणेन प्रमायां फले प्रवृत्तेन तदुत्पा- दनानुकूलः सन्निकर्षों ज्ञानं वा चरमभावी धर्मोऽपेक्ष्यत इति भवति व्या- पारः स एव वृत्तिरित्याख्यायते” इति । एवमवयवार्थमाख्याय प्रतिविषयमिति समुदायस्य निर्गलित्तमर्थमाह- "अर्थसन्निकृष्टमिन्द्रियम्" इति । अर्थः घटादिविषयः तत्संबद्धमिन्द्रियमित्यर्थः। प्रतिविषयेऽध्यवसाय इति १ स च संबन्धविशेषो नोच्छिन्नमूलोऽपि त्वच्छिन्नमूलः, तथाचाहुर्वाचस्पति- मिश्राः “निर्गताप्यच्छिन्नमूला चक्षुःसन्ततिः कार्याय समर्था न च्छिन्नमूला" इति । एतेन यदि च चक्षुःप्राप्यार्थं गृह्णीयात्तदोन्मील्य निमीलितनयनोपि रूपं पश्यदित्या- शयेन "यदि च स्यात्तदा पश्येदप्युन्मील्य निमीलनात्" इत्यभिहितं तन्निराकृतं वेदितव्यम् , अच्छिन्नमूलसन्तत्यङ्गीकारे चान्धत्वादिप्रसङ्गोपि नेत्यपि ज्ञेयम् ।
साङ्ख्यतत्त्वकौमुदी। ८३ तस्मिन्नध्यवसायः-तदाश्रित इत्यर्थः । अध्यवसायश्च बुद्धिव्यापारो ज्ञानम् ।।. उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्या, बुद्धेस्तमोभिभवे सति यः सत्त्वसमुद्रेकः सोऽध्यवसाय इति वृत्तिरिति ज्ञान- मिति चाख्यायते । सप्तमीतत्पुरुषमाश्रित्याह-"तस्मिन्नध्यवसाय” इति, तस्मिन्प्रतिविषय- इत्यर्थः । समासान्तर्गतलुप्तसप्तम्यर्थमाह-"तदाश्रित" इति । विषयव्यापृ- तेन्द्रियाधीन इत्यर्थः । तदाश्रित इत्यनेनाध्यवसायस्येन्द्रियनिष्टत्वाभिधानेनाध्यवसाय इन्द्रिय- धर्म इति नास्थेयमपि विन्द्रियमाश्रित्य वुद्धौ वर्तमानत्वेन बुद्धेरेव स धर्मो- भ्युप्रेय इत्याह-"अध्यवसायश्च” इति, अध्यवसायपदाभिधेयं ज्ञानं च बुद्धेरेव व्यापारो नेन्द्रियधर्म इत्यर्थः । यथा-वीजकालसलिलधरणीसंयोगादिसन्निधाने जायमानोप्यकुरो न कालाङ्कुरः, सलिलाङ्कुरः धरण्यङ्कुर इति वा व्यपदिश्यते तस्य कालादिधर्म- त्वाभावादपि तु बीजेनैव व्यपदिश्यते यवाङ्कुरः शाल्यङ्कुर इति तस्य तद्धर्मत्वात् , तथा बुद्धिविषयेन्द्रियालोकसंयोगादिसन्निधानेन जायमान- मपि ज्ञानं नेन्द्रियधर्मो विषयधर्म आलोकधर्म इति वा व्यपदिश्यते तस्य तद्धर्मत्वभावादपि तु बुद्धिधर्मत्वेनैव . व्यपदिश्यते बुद्धिवृत्तिरिति बुद्धि- व्यापार इति भावः। अध्यवसायपदाभिधेयबुद्धिव्यापारस्य ज्ञानस्य लक्षणमाह-"उपात्त- विषयाणाम्" इति । उपात्तः गृहीतः-प्रतिबिम्बरूपेण लब्धो विषयो यैस्तेषामिन्द्रियाणां वृत्तौ सत्यां विषयाकाराकारितत्वे सति यो बुद्धेस्तमोरूपावरणानादरपुरस्सरसत्वात्म- कप्रकाशबाहुल्यरूपो धर्मविशेषः सोऽध्यवसाय इति वृत्तिरिति ज्ञानमिति चाभिधीयत इत्यर्थः। १ आस्ये प्रयत्न आस्यप्रयत्नः, शब्दे संज्ञा शब्दसंज्ञा, इत्यादिप्रयोगेषु महा- भाष्यकारादिभिः सप्तमीतत्पुरुषस्याश्रितत्वादनुक्तोपि “सप्तमी शौण्डै:' इत्यत्र योगविभाग ऊहनीयः, 'सु'सुपा' इति वा समासः । २ तस्य अङ्कुरस्य तद्धर्मत्वाद्वीजधर्मत्वात् । उपात्तशब्दः सन्निहितवाची सन्निहितविषयाणामिन्द्रियाणां दी। सन्निकर्षे सतीत्यर्थः, सन्निहित एव विषये सन्निकर्षों जायते न व्यवहित इत्याशयेन चैतदभिधानमिति ज्ञेयम् । ३ यद्वा उपात्तशब्दः ar सावतचकौमुदी। इदं तावत्प्रमाणम् । तमोऽभिभवसमसमयभवो यो बुद्धेः सत्वसमुद्रेकः स एव वृत्तिपदार्थ- स्वेनानाभिप्रेतो नस्विंतरत्तस्य तमोनिरसनमुखेन वृत्युत्पत्तिहेतुत्वेपि वृत्ति- लक्षणघटकत्वाभावात् , तेन नानुमानागमवृत्तिषु वृत्तिलक्षणाव्याप्तिरिति । अत्रेदं बोध्यम्-यथा स्वभावतश्चलनशीलमपि जलाशयस्थं सलिलं नि. र्गममार्गासत्वरूपप्रतिबन्धकबलात्स्वयं क्षेत्रमनुपसर्पदपि छिद्रे सति तद्वारा निर्गत्य कुल्यात्मना क्षेत्रमुपसृत्य केदाराकारेण परिणमते तथा स्वभावतः सर्वार्थग्रहणसमर्थमपि बुद्धितत्वं तमसा प्रतिबद्धं सत्स्वयं विषयमनुपसर्प- दपीन्द्रियार्थसन्निकर्षादिना तमोनिरासे इन्द्रियप्रणालिकया विषयमुपसृष्य तदाकारेण परिणमते, योयं बुद्धितत्त्वस्य विषयाकारपरिणामः स एवाध्यव. साय इति वृत्तिरिति ज्ञानमिति प्रमाणमिति चाभिधीयते । तत्रैतावान्विशेषः--इन्द्रियसन्निकर्पद्वारा यस्तमोभिभवसमसमयसत्त्व- समुद्रेकायुक्तो बुद्धेविपयाकारपरिणामः स प्रत्यक्षप्रमाणमिति व्यवह्रियते व्याप्तिज्ञानजन्यश्च यस्तथाविधः परिणामः सोनुमानप्रमाणमिति व्यपदिश्यते, वाक्यजन्यश्च यस्तादृशः परिणामविशेषः स आगमप्रमाणमित्यभिधीयते । तदेवाह-"इदं तावत्प्रमाणम्" इति । तावत्-इति वाक्यालङ्कारे, इदमिन्द्रियसन्निकर्षादिना जायमानं यद्बुद्धितत्वगतसत्वाधिक्यप्रयुक्तं बुद्धेविषयाकारपरिणामशीलत्वं . तदिदं प्रमाणमित्युच्यत इत्यर्थः । नन्वन्तःकरणस्य चित्तस्य निरवयवत्वेन पुरुषवदपरिणामित्वात्कथं विषया- कारपरिणामशीलत्वं तस्येति चेत्, प्रधानवनिरवयवत्येषि परिणामित्वोप- पत्तरिति गृहाण । अपरिणाभित्वे चेतनत्वं तन्वं न निरवयवत्व मिति तत्वम् । १ ननूपात्तविषयाणामित्यादिना विषयेन्द्रियसन्निकर्षजन्यस्यैव वुद्धः सत्त्वो- द्रेकस्य वृत्तिलक्षणले लिङ्गादिजन्यानुमानादिवृत्तेरिन्द्रियजन्यत्वाभावेन तत्र वृत्ति- लक्षणाव्याप्तिरित्याशङ्कायामाह--"तमोऽभिभव" इत्यादि । २ इतरत्-उपात्तविषयाणामिन्द्रियाणामित्यादिनेन्द्रियसन्निकर्षाद्यभिधानम् । तस्य इन्द्रियसन्निकर्षादेः, 'तमोनिरसनमुखेन' तथा च सत्त्वोद्रेक एव वृत्तिपदार्थः, तत्र च तमोऽभिभवनं कारणं तमोऽभिमवे चेन्द्रियसन्निकर्षव्याप्तिज्ञानादिकं निमित्तमित्यत्र फलितम् । ३) तथाविधः विषयप्रकाशकः सत्त्वोद्रेकरूपः । (४) चित्तमपरिगामि निरवयवत्वादात्मवदिति प्रयोगश्चेतनलोपाधिसंवलितत्वेन दुष्ट इति भावः। ..
साङ्ख्यतत्त्वकौमुदी। अनेन यश्चेतनाशक्तेरनुग्रहस्तत्फलं प्रमा बोध इति । वस्तुतस्तु-"हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्ग, सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्” इति साङ्घयस्मरणात्यकृत्यतिरिक्तस्य सर्व- स्यैव बुद्ध्यादेः सावयवत्वेन मध्यमपरिमाणत्वान्न विषयाकारपरिणामानुपपत्तिः, मध्यमपरिमाणत्वेप्यतिनिर्मलविरलतैजसद्व्यत्वेन तरणिकिरणवत्सत्वरप्र- सरोपपत्तेन विलम्बेन विप्रकृष्टध्रुवादिविषयप्रतिभासानुपपत्तिश्च । ध्रुवादिविषयपर्यन्तगमनेप्यच्छिन्नमूल सन्तत्यङ्गीकारेणान्तःकरणस्य देहसं- बन्धसद्भावान्न देहस्य निर्जीवत्वापत्तिरित्यपि ध्येयम् । एतेन (अन्तःकरणस्याशुपरिमाणत्वे प्राणनक्रियाधारस्य तस्य दूरवर्ति- विषयप्रदेशगमने प्राणस्यापि निर्गतत्वेन देहपातापत्तिः, तस्य विभुत्वे च निष्क्रियत्वेन बहिर्निर्गमनासंभवेन विषयाकारपरिणामानापत्तिः, तस्य मध्यम- परिमाणत्वे च देहवन्मन्दगामित्वेन झटिति विषयप्रतिभासानुपपत्तिः) इति शङ्काप्यपरेदिता वेदितव्या । यथा चान्तःकरणस्य नाणुत्वं विभुत्वं वा तथा 'न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा' 'सक्रियत्वाद्गतिश्रुतेः' 'न निर्भागत्वं तद्योगात्' इत्यादि साङ्खयसूत्रेषु स्पष्टम् । एवं प्रमाणसामान्य लक्षयित्वा तत्फलभूतां प्रमामाह-"अनेन" इति । अनेन विषयाकारपरिणामधारिया बुद्धितत्त्वेन चेतनाशक्तेः चेतनस्य पुरु- पस्य योऽनुग्रहः स्वोपगृहीतानां विषयाणां स्वप्रतिविम्बिते चेतने समर्पणं तत्फलमिति बोध इति प्रमेति चाभिधीयत इत्यर्थः । अन्तःकरणस्यायं स्वभावो यदिन्द्रियैरुपनीतान्विषयान्स्वस्वामिन- आत्मने समर्पयति, यथाहुः-"गृहीतानिन्दियैरर्थानात्मने यः प्रयच्छति । अन्तःकरणरूपाय तस्मै विश्वात्मने नमः॥” इति । इन्द्रियसन्निकर्षादिना जायमानोयं घट इत्यादि बौद्धो बोधः प्रमाणम् तदनूपजायमानो घटमहं जानाभीत्यादिपौरुषेयो बोधश्च प्रमेति भावः । TA (१) अ. १ सू. २४ । स्पष्टं चैतत् १० इति कारिकायामग्रे । २ सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च (अ० २ । सू० ३१) इति साङ्ख्यसूत्रादन्तःकरणत्रयव्य पारस्यैव प्राणत्वादन्तः करणनिर्गमे प्राण निर्गमावश्यंभावर- दित्यर्थः । (३) अ० ५ सू० ६९ । (४) सू० ७०। (५) सू० ७१ निर्भागवं निरवयवत्वं मनसो नेत्यर्थः । ६ विष्णुपुराणे प्रथमेंशे चतुर्दशेऽध्याये ३५ श्लो० । .. . . TAMI . ८६. साङ्ख्यतत्वकौमुदी। बुद्धितत्त्वं हि प्राकृतत्वादचेतनमिति तदध्यवसायोप्य- चेतनो घटादिवत् , एवं बुद्धितत्त्वस्य सुखादयोपि परिणामभेदा अचेतनाः, पुरुषस्तु सुखाद्यननुषङ्गी चेतनः, सोयं बुद्धितत्व- वर्तिना ज्ञानसुखादिना तत्प्रतिबिम्बितस्तच्छायापच्या ज्ञान- अनुग्रहपदार्थ स्पष्टयति, "बुद्धितत्त्वम्” इति । हि यतः बुद्धितत्वं प्राकृत- स्वाज्जडप्रकृतिकार्यत्वादचेतनमिति अतस्तद्धमोऽध्यवसायोप्यचेतन- इत्यर्थः । कस्तहि चैतन इत्यत्राह-“पुरुषस्तु" इति । बुद्धितत्वाद्विलक्षणः पुरुष- इति द्योतनार्थस्तुशब्दः, तदेवाह "चेतनः" इति । 'चेतनोऽहं जानामि सुखी' इति चैतन्यसामानाधिकरण्येन ज्ञानसुखादे- रनुभूयमानत्वेन पुरुषस्यैव ज्ञानसुखादिमन्योपपत्तेः कथमभिहितं बुद्धेः परिणामविशेषा ज्ञानसुखादय इति, इत्याशङ्कयाह-"सुखाद्यननुषङ्गी' इति, "असङ्गो ह्ययं पुरुषः” इति श्रुतेज्ञानसुखाद्यनाधार इत्यर्थः, कथन्तर्हि चेतनोहं जानामीति प्रतीतिरित्यत्राह-"सोयम्" इति, चित्तगतेन ज्ञाना- दिना पुरुषस्य ज्ञानादिम स्वप्रतीतिरित्यर्थः । अन्यगतस्याऽन्यत्र भाने निमित्तमाह-"तच्छायापत्त्या” इति, बुद्धि- तत्त्वतादात्म्यापत्येत्यर्थः, चितिचित्तयोरभेदग्रहादिति यावत् , अयमेवा स्मिता- ख्योऽविवेक. इत्यभिधीयते, यथाहुः--'दग्दर्शनशक्त्योरेकात्मतेवास्मिता इति । 'बुद्धितः परं पुरुषमाकारशीलविद्यादिभिर्विभक्तमपश्यन्कुर्यात्तत्रात्म: बुद्धिं मोहेन' इति च । बुद्धितादात्म्यापत्तौ प्रयोजकमाह-"तत्प्रतिबिम्बितः” इति । बुद्धितत्त्वे प्रतिविम्वित इत्यर्थः । एवं च बुद्धावेव प्रमाख्यं फलं जायते न पुरुषे तस्याऽसङ्गत्वेन प्रमाधार- (त्वाभावात् , चितिचित्तयोरभेदग्रहाच, पौरुपेयो बोध इत्युचर्य्यत इत्यत्र फलितम् । (१) यो० सू० ६. पा० २ । दृक्शक्तिः, पुरुषः, दर्शनशक्तिर्बुद्धिः, इत्ये- तयोरेकखरूपापत्तिरिवास्मितेत्यर्थः । (२) पुरुषस्य आकारः खरूपं सदा विशुद्धिः, शीलमौदासीन्यम् , विद्या चैतन्यम्, बुद्धिरत्रिशुद्धा अनुदासीना जडा च, इति । सत्यपि, बुद्धि पुरुषयोविभागे तथापि मोहेन अस्मिताख्याऽविवेकेन विभाग मपश्यस्त त्रात्मबुद्धिं करोतीति, पञ्चशिखोत्तरर्थः । , .. PARAMIRICA - साङ्ख्यतत्त्वकौमुदी। ८७ सुखादिमानिव भवतीति चेतनोऽनुगृह्यते । विज्ञानभिक्षुस्तु-'न बुद्धौ प्रमाख्यं फलं जायते तथा सति पौरुषेयशब्दस्य यथाश्रुतार्थत्यागापत्तेः, प्रतिबिम्ब स्य तुच्छतयाऽर्थभानानुपपत्तेश्च प्रतिविम्बस्य प्रकाशाद्यर्थक्रियायाः क्वाप्यदर्शनात्, अपित्विन्द्रियसन्निकर्षादिना पूर्व बुद्धरा- कारा वृत्तिर्जायते तदनु चार्थोपरक्ता बुद्धिवृत्तिः प्रतिबिम्बरूपेण पुरुषारूढा सती भासते, "तस्मिंश्चिद्दपणे स्फारे समस्ता वस्तुदृष्टयः । इमास्ताः प्रतिबि- म्बन्ति सरसीव तटद्रुमाः॥” इत्यादिस्मृतिषु परस्परं प्रतिबिम्बस्य सिद्धत्वात्' इत्येवं वाचस्पत्यं निराचष्टे, एतच्च पूर्वोपन्यस्त-'चितेरप्रतिसङ्घमायाः' इति योगसूत्रतद्भाष्यपञ्चशिखाचार्य्यवचनेभ्यो बुद्धौ चैतन्यप्रतिबिम्बस्य प्रामाणिक- वेपि पुरुषे बुद्धिप्रतिबिम्बस्याप्रामाणिकत्वादयुक्तम् । यास्तु 'तस्मिंश्चिद्दपणे इत्यादिस्मृतयस्ता अपि सूत्राद्यानुगुण्येन 'बुद्धि- दर्पणप्रतिविम्बितत्वेन तत्तादात्म्यापजे दर्पणवत्स्वच्छे चेतन इमा वस्तुदृष्टयः बुद्धधर्मभूतानि ज्ञानान्यविवेकात्प्रतिभासन्ते' इत्येवमर्थपरतया नेयाः । किंच नहि पारमार्थिकत्वघटितमेव पुरुषनिष्टत्वं यथाश्रुतः पौरुपेयश- ब्दार्थः किंतर्हि पुरुषस्वत्वं पुरुपनिष्टत्वं वा, तच्च पारमार्थिकं चौपचारिक वेति नाग्रहः, प्रकृते. च. मुख्यस्यासम्भवादौपचारिक तन्निष्टत्वमाश्रीयतेऽतो नंथाश्रुतार्थ त्यागापत्तिः । अपिच आरोपितया क्रिपया कलितं दर्शनकर्तृत्वं वस्तुतस्तु बुद्धेः 'साक्ष्येव पुरुषः' इति स्वोक्त्या सह विरोधादश्रद्धेयं पुरुषस्य मुख्यप्रमाश्रयत्वेन प्रमातृत्वाभिधानम्- यञ्चोक्तम् 'प्रतिबिम्बस्यार्थक्रियाकारित्वं नास्ति' इति तदपि न, जडप्रति- बिम्बस्यार्थक्रियाकारित्वाभावेपि चेतनप्रतिबिम्ब त्यार्थक्रियाकारित्वसम्भवा- दित्यलमधिकेन । (१) पा० १ सू०४ । ७ । योगवार्तिके, अ० १ सू० ८७ साङ्ख्यप्रवचनभाष्ये च स्पष्टोयमर्थः । २ यथा बुद्धौ चि प्रतिबिम्बमेवं चितावपि बुद्धिप्रतिबिम्नं स्वीकार्यमिति भावः । / • ३ यञ्चोक्तं पुरुषस्य प्रमाश्रयत्वाभावे पौरुषेयशब्दत्य यथाश्रुतार्थत्यागांपत्तरिति, तद्धयति “नहि'' इति । ४ पुरुषस्यायमित्यर्थे 'तस्यैदम्' इत्यणि पुरुषखत्वं पौरुषेयशब्दार्थः, पुरुषे भव- इत्यर्थे 'तत्र भवः' इत्यणि पुरुषनिष्ठत्वं पौरुषेयशव्दार्थ इति विवेकः । H .. SH MPAREERUT ८८ साङ्ख्यतत्त्वकौमुदी। चितिच्छायापत्त्या चाचेतनापि बुद्धिस्तदध्यवसायोऽप्य्- चेतनश्चेतनवद्भवतीति । तथा च वक्ष्यति-- "तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वेपि तथा कर्तेव भवत्युदासीनः।।" 'का.२०'इति । अत्राध्यवसायग्रहणेन संशयं व्यवच्छिनत्ति, संशयस्यान- कस्थित ग्रहणेनानिश्चितरूपत्वात् , निश्चयोऽध्यवसाय इति चाऽनर्थान्तरम् । यद्यपि पूर्वत्र चित्तवृत्तिः पौरुषेयबोधश्वेति प्रमाद्वयमभिहितं तथापि योगभाष्ये पौरुषेयबोधस्यैव फलत्वाभिधानेन प्रमाद्वयस्वीकारो नावश्यक- इत्याशयेनात्र चित्तवृत्तेः प्रमाणत्वं पौरुषेयबोधस्य च प्रमात्वमिति प्रमैक्यमभिहितमिति बोध्यम् , अत एव 'द्वयोरेकतरस्य वा' इत्यनियमोऽभि- हितो वाकारेण सूत्रकारेण । नन्वस्तु बुद्धितादात्म्यापच्या पुरुषस्य ज्ञानादिमत्त्वं तथापि कथम- चेतनस्य बुद्धितत्वस्य तद्धर्मस्य चाध्यवसायस्य चेतनत्वेन भानमित्यत्राह- "चितिच्छायापच्या च" इति एवं प्रत्यक्षलक्षणमभिधाय लक्षणं समन्वयितुं लक्षणघटकपदानां कृत्यमाह- "अत्र” इति, प्रतिविषयाध्यवसाय इति दृष्टलक्षणे, संशयमेकधर्मिक- विरुद्धभावाभावप्रकारकमनवधारणात्मकं ज्ञानं व्यवच्छिनत्ति व्यावर्तयती- त्यर्थः, कथं व्यावृत्तिरित्यत्राह-"संशयस्य" इति, अनवस्थितग्रहणेन एकधर्मिकनानाधर्मरूपनानाकोटिप्रकाशनेन अनिश्चितरूपत्वादेककोटिकत्वा- सत्वरूपानवधारणात्मकत्वादित्यर्थः, निश्चयपदाभावे कथमनिश्चयज्ञानवार- णमित्यत्राह-"निश्चयोऽध्यवसाय इति चाऽनर्थान्तरम्" इति अन्योऽर्थोऽर्था- न्तरं नार्थान्तरमनर्थान्तरं न भिन्नार्थकम्-एकार्थकमिति यावत् । १ पर्वतजलाशयौ वह्नितदभाववन्ता विति ज्ञानमपि विरुद्धभावाभावप्रकारकमिति तदपि संशय: स्यादत उक्तम् 'एकधर्मिक' इति, वृक्षः संयोगवांस्तदभाववाश्चेत्यत्र व्यभिचारवारणाय 'विरुद्ध' इति, घटो द्रव्यं पृथिवी चेति ज्ञानस्य संशयत्व निरासाय "भावाभावप्रकारकम्' इति, इच्छानिरासाय ज्ञानमिति । -- ८९ साङ्ख्यतत्त्वकौमुदी। विषयग्रहणेन चासद्विषयं विपर्ययमपाकरोति । प्रतिग्रहणेन चेन्द्रियार्थसन्निकर्पसूचनादनुमानस्मृत्यादयश्च पराकृता भवन्ति । तदेवं समानासमानजातीयव्यवच्छेदकत्वात् 'प्रतिविषया- ध्यवसाय' इति दृष्टस्य संपूर्ण लक्षणम् । अध्यवसायपदव्यावर्त्य प्रदर्य विषयपदव्यावर्त्यमाह-"विषयग्रहणेन च" इति असद्विषयं न विद्यते सन्विषयो यस्य तादृशं मिथ्याज्ञानात्मकं विपर्ययमपाकरोतीत्यर्थः । विषयं विषयं प्रति वर्तत इति प्रतिपदादानकृत्यमाह-"प्रतिग्रहणेन च" - । इति । प्रत्यक्षलक्षणे लक्षणलक्षणं समन्वयन्प्रकृतमुपसंहरति . "तदेवम्" इति, यस्माल्लक्षणान्तर्गतविशेषणपदैरलक्ष्यनिरासस्तस्मादित्यर्थः । प्रत्यक्षत्वेन समानजातीयाः संशयादयः विजातीयत्वेनासमानजातीया. अनुमानस्मृत्यादयः तेषां व्यवच्छेदकत्वाद्यावर्तकत्वात्प्रतिविषयाध्यवसाय इति दृष्टस्यादुष्टं लक्षणमित्यर्थः । ननु शास्त्रान्तरे 'प्रत्यक्षं कल्पनापोढमभ्रान्तम्' 'सत्संप्रयोगे पुरुषस्ये- न्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्' 'इन्द्रियार्थसन्निकर्पोत्पन्न ज्ञानमव्यप- देश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्' इत्येवंविधानि यानि प्रत्यक्षलक्ष- णानि तानि किं दुष्टान्यदुष्टानि वा, दुष्टानि चेत्कथं न दूषितानि तानि भवता, अदुष्टानि चेत्कथं लक्षणान्तराश्रयणमित्याशय यद्यपि दुष्टानि १ सौगत दिङ्गागाभिहितमिदं लक्षणम् , न्यायविन्दावण्येतदेवोपलभ्यते, कल्पनाया- अपोढमपेतं कल्पनास्वभावरहितं यत्किल न नानाऽभिधीयते नच जात्यादिभि- य॑पदिश्यते तत्प्रत्यक्षमित्यर्थः । (२) जै० सू० ४ 'अनिमित्तं विद्यमानोपलम्भनत्वात्' इति सूत्रशेषः, पुरुषस्ये- न्द्रियाणां सति विद्यमाने विषये संप्रयोगे सति यद्बुद्धे : ज्ञानस्य जन्म तत्प्रत्यक्षम्, एतत्प्रत्यक्षं धर्मज्ञाने न निमित्तं प्रत्याप्रमासाधनातीन्द्रियाणि धर्मप्रम न साधयन्ति, तत्र हेतुमाह-"विद्यमान" इति । वर्तमानस्यैव वस्तुन इन्द्रियै रुपलम्भाद्धर्मस्य च ज्ञानकालेऽसत्त्वेनेन्द्रियायोग्यत्वादित्यर्थः । (३) न्या० सू० ४ अव्यपदेश्यं निर्विकल्पकं व्यवसायात्मकं सविकल्पकमिति विभाग इतरच प्रत्यक्षलक्षणम् । ९ ९० साङ्ख्यतत्त्वकामुदी। तन्त्रान्तरे लक्षणान्तराणि तैथिकानां न दूषितानि, विस्तर- भयादिति । नाऽनुमानं प्रमाणमिति वदता लोकायतिकेनाऽप्रतिपन्नः सन्दिग्धो विपर्यस्तो वा पुरुषः कथं प्रतिपद्येत, नच पुरुषा- न्तरगता अज्ञानसन्देहविपर्ययाः शक्या अर्वाग्दृशा प्रत्य- तानि तथापि विस्तरभयान्न दूषितानीत्याह-"तन्त्रान्तरे" इति । 'तन्त्रा- न्तरेपु' इत्यपि पाठः। तन्त्रान्तरे साङ्ख: यातिरिक्तन्यायप्रभृतिशास्त्रे तैर्थिका- नां दार्शनिकानां शास्त्रप्रणेतृणां गौतमप्रमुख मुनीनां यान्य न्यानि प्रत्यक्ष- लक्षणानि तानि विस्तरभयान्न दूषितानीत्यर्थः । प्रत्यक्षलक्षणोपसंहारावसरे न्यायवार्तिके तात्पर्यटीकायां तत्वप्रदीपि- कायां च.लक्षणान्तराणां दुष्टत्वस्य स्पष्टं व्यवस्थापनादिति तत्रैव कणेहत्यालो- चनीयमिति तु वयम् । अनुमाननिर्वचन परं. कारिकांशं. व्याख्यातुकामस्तावदनुमानाप्रामाण्यवा- दिनं चार्वाकं शिक्षयति--"नाऽनुमानं प्रमाणम्" इति । लोक आयतं विस्तीर्णमिव यत्प्रसिद्धं प्रत्यक्षप्रमाण तल्लोकायत तत्प्रतिपादकं चार्वाकशास्त्रमपि लोकायतं यदधीते तद्वेद यः तिकः तेन प्रत्यक्षातिरिक्तं न प्रमाणमिति वादिना चार्वाकेण, अप्रतिपन्नः अज्ञानयुक्तः, सन्दिग्धः संशययुक्तः, विपर्यस्तः भ्रान्तियुक्तः पुरुषः कथं प्रतिपद्येत ज्ञायेत प्रत्यक्षेण ज्ञायतेत्याशझ्याह-"नच" इति । पुरुपान्तर- गताः परपुरुषवर्तिनोऽज्ञानादयो, गौरत्वादिवदेहधमा अपि न प्रत्यक्षेण १ 'तीर्थ स्याद्दर्शनेप्वपि' इत्युक्तेस्तीर्थपदं दर्शनपरं दर्शनं च गौतमादिप्रणीतं शास्त्रं तदध्येतारो वेत्तारश्च दार्शनिकास्तैर्थिका वेत्यभिधीयन्ते, तदेवाह ‘दार्शनि कानाम्' M इति । २ गौतमीयलक्षणस्य तत्र दुष्टत्वानुक्तेराह 'तत्त्वप्रदीपिकायाम्' इति । द्वितीय परिच्छेदे चित्सुखाचाय्यानाधीना मेयसिद्धिः इति कारिकाव्याख्यायामित्यर्थः । ३ चारु शास्त्रीयसंस्कारविधुरनरमनोहरमङ्गनालिङ्गनजन्यं सुखं पुरुषार्थ. इलेवं. विधं वाक्यं यस्य स चार्वाकः, देहाद्यात्मवादी प्रत्यकप्रमाणमानी प्राकृतः पुरुषः, पृषोदरादित्वात्साध:, राजपुत्रव्यामोहनाय बृहस्पतिना लोकायन शास्त्रं, प्रणीतमिति महाभारतीयखिले हरिवंशे स्पष्टम् , दुर्योधनसखश्चार्वाको राक्षसस्त्वन्य एवं । (४) लोकायतशब्दस्योक्थादिगणे पाठात् (क्रतूक्थादिसूत्रान्ताक्) इत्यनेन ठकि लोकायतिक इति साधुः। स लौकाय- " साङ्ख्यतत्वकौमुदी। ९१ क्षण प्रतिपत्तुं नापि प्रमाणान्तरेण, अनभ्युपगमात, अनवधु- ताऽज्ञानसंशयविपर्यासस्तु यं कञ्चन पुरुषं प्रति वर्तमानोऽन- वधेयवचनतया प्रेक्षावद्भिन्मत्तवदुपेक्ष्येत, तदनेनाज्ञानादयः परपुरुषवर्तिनोऽभिप्रायभेदाचनभेदाल्लिङ्गादनुमातव्या- प्रतिपत्तुं ज्ञातुं शक्या रूपादिमत्त्वाभावात् , योगिना ज्ञायेतापि प्रत्यक्षेण परकीयाज्ञानादिकं नतु चार्वाकेण तच्छक्यमित्याह-"अर्वाग्दृशा" इति । बाह्यस्थूलवस्तुविषयकज्ञानवताऽयोगिना चार्वाकणेत्यर्थः । माभूदध्यक्षेण ज्ञानं तद्वचनात्तु तज्ज्ञानं कुतो न जायतेत्याशक्य वच- नस्यापि प्रत्यक्षातिरिक्तत्वेन तेनानभ्युपगमादित्याह--"नापि मानान्तरेण" इति । परपुरुषवर्तिनोऽज्ञानादीनपरिज्ञायैव परपुरुषबोधनाय वचनं प्रयुञान- स्तून्मत्तवदुपहसनीयः स्यादित्याह--"अनवताऽज्ञान"-इत्यादिना। अनव- सृता अपरिज्ञाताः परपुरुषवर्तिनोऽज्ञानसंशयविपर्यासाः येन सोऽनवता- ऽज्ञानसंशयविपर्यास इत्यर्थः । नन्वेतावता कथमनुमानाभ्युपगमस्यावश्यकत्वमित्यवाह-"तदनेन" इति। यतो न प्रत्यक्षेण परपुरुषगताज्ञानादिप्रतिपत्तिः संभवति ततोऽनेन चार्वा- केण परपुरुषवर्तिनोऽज्ञानादयोऽनुमातव्याः अनुमानेनैव ज्ञातव्या इति यत- एवमतोऽकामेनापि तेनानुमानं प्रमाणमङ्गीकरणीयमित्यर्थः । केन लिङ्गेन परकीयाज्ञानाद्यनुमितिरित्यत्राह-"अभिप्रायभेदात्" इति। वक्तृतात्पर्यविशेषाल्लिङ्गादित्यर्थः, तात्पर्यज्ञानं कुतस्त्यमत आह- "वचनभेदात्" इति । अयमीदृशाभिप्रायवानेतादृशवचनप्रयोक्तृत्वात्संप्रतिपन्नवदित्येवं तात्पर्य्य- विशेषमनुमायायमेतद्विपयाज्ञानादिमानीदृशाभिप्रायवत्वादित्येवमज्ञानाय- नुमानमित्यर्थः । यद्वा--अभिप्रायभेदः अज्ञानादिविशेषः, तस्माज्जातो यो वचनभेदः तस्माल्लिङ्गादित्यर्थः। 'एतद्वचनमेतदन्तःकरणस्थाज्ञाननिमित्तमसंबद्धवचनत्वा- न्मदीयासंबद्धवचोवत् , एतद्वच एतदम्तःकरणस्थासंशयनिमित्तमनिश्चितवचन- त्वान्मदीयानिश्चितवचोवत् , एतद्वाक्यमेतदन्तःकरणस्थविपर्ययनिमित्तं मदीयभ्रान्तिवचोवत्' इत्येवमज्ञानादिप्रतिपत्तिरनमेयेति फलितम् । १ 'अभिप्रायभेदाद्वचनभेदलिङ्गात्' इति पाठे तु 'वचनभेदो लिङ्गं यस्य तादृशादभिप्राय भेदरूपलिङ्गादज्ञानाद्यनुमान मित्यर्थो बोध्यः । . २ तथा च EMAN सायनचकौमुदी। इत्यकामेनाप्यनुमानं प्रमाणमभ्युपेयम् । विशदीकृतश्चात्त्योऽयमों ग्रन्थान्तरे विस्तरेण शब्दान्तमित्रैरिति तदेवात्रोद्धृत्य प्रदर्श्यते--(प्रतिपपन्नं पुमांसमपहायाप्रतिपन्नसन्दिग्धाः प्रेक्षावद्भिः प्रतिपाद्यन्ते, न चैवामित्थंभोवो भवत्प्रत्यक्षगोचरः, न खल्वेते गौरत्वादिवत्प्रत्यक्षगोचराः, किन्तु वचनचेष्टादि- लिङ्गानुमेयाः, नच लिङ्गं प्रमाणं यत एते सिध्यन्ति, न पुंसा- सित्थंभावमविज्ञाय यं कंचन पुरुषं प्रतिपिपादयिषतोऽनवधेय- वचनस्य प्रेक्षावत्ता नाम, अपि च पशवोपि हिताहितप्राप्तिपरि- हारार्थिनः कोमलशष्पश्यामलायां भुवि प्रवर्तन्ते परिहरन्ति चा- श्यानतृणकण्टकाकीर्णा नास्तिकस्तु पशोरपि पशुरिष्टानिष्टसाधन- मविद्वान्, न खल्वस्मिन्ननुमानगोचरप्रवृत्तिनिवृत्तिगोचरे प्रत्यक्ष प्रभवति, न च परप्रत्यायनाय. शन्दं प्रयुञ्जीत, शाब्दस्यार्थस्या- प्रत्यक्षत्वात्, तदेवं माभून्नास्तिकस्य जन्मान्तरमस्मिन्नेव जन्म- न्युपस्थितो मूकत्वप्रवृत्तिनिवृत्तिविरहरूपो महान्नरकः) इति । अनुमानमप्रमाणमिति वाक्यप्रयोगोऽझं विप्रतिपन्नं सन्दिग्धं वा पुरुषं प्रत्यर्थवान् , न च. परपुरुषवतिनो देहधर्मा अपि सन्देहा- १ शारीरकीयतृतीयाध्यायीयतृतीयपादे-'५४' इति सूत्रे भामत्याम् , न्याय- दर्शनीयतुरीयसूत्रे तात्पर्य्यटीकायां चेत्यर्थः । २ भामतीग्रन्थमुद्धरति-'प्रतिपन्नम्” इति । प्रतिपन्नः सम्प्रतिपत्तिमान्पुमान् , तं विहायाप्रतिपत्तिविपरीतप्रतिपत्तिसंशीतिमन्तः पुमांसः प्रेक्षावद्भिव्युत्पाद्यन्त इत्यर्थः। ३ इत्थंभावः अप्रतिपत्तिमत्त्वादिरूपः । ४ न केवलं चाकिस्य परप्रबोधाय प्रवृत्त्यभाव एव दोषोऽपि तु लोकयात्रा- विरोधोपीत्याह—“अपि च'' इति । शष्पं बालतृणम् , आश्यानमीषच्छुष्कम् , इष्टानिष्टसाधनमविद्वान्पशोरपि पशुरित्यर्थः । अनुमानगोचरश्चासौ प्रवृत्ति- गोचरश्चेष्टानिष्टसाधनत्वं तत्र प्रत्यक्षं नहि प्रभवतीति योजना, 'अयमोदनः क्षुन्नि. वर्तक ओदनत्वात्प्राग्भुक्तौदनवत्' इत्याद्यनुमानाद्धीष्टसाधनत्वावगमः, प्रवृत्तिः अनिष्टसाधनत्वानुमानाच्च निवृत्तिरिति, शब्दप्रामाण्यानिष्टेभूकत्वमापन्नम्, प्रवृत्तिनिवृत्तिविरहश्च.नुमानप्रामाण्यविरहादापन्न इति विभागः । ५ टीकाग्रन्योयम् । -- ततः mmam साङ्ख्यतत्त्वकौमुदी। ९३ तत्र प्रत्यक्षकार्य्यत्वादनुमानं प्रत्यक्षानन्तरं निरूपणीयं तत्रापि सामान्यलक्षणपूर्वकत्वाद्विशेषलक्षणस्यानुमानसामान्य तावल्लक्षयति-"तल्लिङ्गलिङ्गिपूर्वकम्” इति । ज्ञानविपासा गौरत्वादिवत्प्रत्यक्षा वीक्ष्यन्ते नच तद्वचनात्प्रती- यन्ते वचनस्यापि प्रत्यक्षादन्यस्याप्रामाण्योपगमात्, पुरुषविशेष- मनधिकृत्य तु वचनमनर्थकं प्रयुञ्जानो नायं लौकिको न परी- क्षक इत्युन्मत्तवदनवधेयवचनः स्यात् ) इति । किञ्च-अनुमानमप्रमाणमिति वदन्वादी 'कस्य हेतोरप्रमाणम्' इत्येवं पर्यनुयोगे यदि 'प्रमितिकरणत्वाभावात्' इति हेतुपदं प्रयुञ्जीत तदा गले पतितमनुमानमिति चार्वाकत्वमेवात्मनः स जह्यात् । तथा चाँहुः-(दृष्टप्रामाण्याप्रामाण्यविज्ञानव्यक्तिसाधर्येण हि कासांचिद्यक्तीनां प्रामाण्यमप्रामाण्यं वा विदधीत, दृष्टसाधर्म्य चानुमानमेवेति कथं तेनैव तस्याप्रामाण्यम्” इति । यदि च हेतुपदप्रयोगमन्तरैवानुमानमप्रमाणमिति ब्रूयातहि न प्रति- ज्ञामात्रेणार्थसिद्धिरिति कथं स्वपक्षसंरक्षणमिति । किञ्च अनुमाननिष्ठाप्रामाण्यस्य रूपादिमत्त्वाभावेन चक्षुराद्यगोचरत्वात्कब- मनुमानाप्रामाण्यमवधारित वान्भवानिति स प्रष्टव्यः । यथाहुर्मिश्रा:-(नाप्रत्यक्ष प्रमाणमिति ब्रुवाणः प्रष्टव्यो जायते कुतो भवाननुमानादीनामप्रामाण्यमवधारितवानिति । प्रत्यक्षं हि लिङ्गादिरूपमात्रग्राहि नाप्रामाण्यमेषां विनिश्चेतुमर्हति, न हि धूम- ज्ञानमिवैषामिन्द्रियार्थसन्निकर्यादप्रामाण्यज्ञानमुदेतुमर्हति, किन्तु देशकालावस्थारूपभेदेन व्यभिचारोत्प्रेक्ष्या, वचेतवान्प्रत्य- क्षस्य व्यापारः संभवति) इति । एवमनुमानप्रामाण्यं प्रसाध्यानुमानलक्षणपरमार्यावयवमवतारयति- "तत्र' इति । तत्र युक्तियुक्तत्वेनानुमानस्यावश्याभ्युपेयत्वे सतीत्यर्थः । प्रत्यक्षानन्तरमनुमानं निरूपणीयमित्यन्वयः, तत्र हेतुमाह-"प्रत्यक्ष- कार्यत्वात्" इति । तत्रापि लक्षणद्वारा निरूपणीये सत्यपीत्यर्थः । 'लिङ्गलिङ्गिापूर्वकम्' इत्यनुमानलक्षणं विवृणोति- १ संस्कारवदिलि शेषः । २ हेतुपदप्रयोगस्थल एवानुमानत्वव्यवहारस्य सर्वसंमतत्वात् । ३ तात्पर्य्यटीकायां मिश्राः । ४ भामत्यामिति शेषः। - सावतचकौमुदी। लिङ्गं व्याप्यं लिङ्गि व्यापकम् । शङ्कितसमारोपितोपाधिनिराकरणेन । वस्तुस्वभावप्रतिबद्धं व्याप्यम् । "लिङ्गं व्याप्यम्" इति । लिङ्गयते गम्यते ज्ञायतेऽप्रत्यक्षोऽर्थोनेनेति लिङ्गम् 'यदनुमेयेन संबई प्रेसिद्धं च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गमनुमापकम्।' इति प्रशस्तपादलक्षितं पक्षवृत्तित्वसपक्षसत्वविपक्षव्यावृत्तत्वादिधर्मोपपन्न धूमादिवस्त्विति यावत् । एतदेव च पक्षवृत्तित्वादिधर्मैयाप्यमानत्वाध्याप्य- मित्यभिधीयते । यस्य चै वह्नयादेस्तमादि लिङ्गमस्ति तद्वयादि लिङ्गि व्यापक मिति चोच्यत इत्यर्थः । 'स्वभावप्रतिबन्धे सत्यर्थोऽथ गमयेत्तदुप्रतिवद्धस्य तदव्यभिचारनिय- माभावात्' इति न्यायबिन्दावभिहितत्वेन 'स्वभावप्रतिबन्धो व्याप्तिः' इति भादन्ताः, 'अनौपाधिकः संबन्धो व्याप्तिः' इति जरन्तस्तार्किकाः, तदेताह- व्यायाश्रयं च व्याप्यमित्यभिप्रेत्य परिष्कृत्य व्याप्यं निर्वक्ति "शङ्कित' इत्यादिना। शङ्कितः शङ्काविषयत्वेन सन्दिग्धः, समारोपितः सम्यगारोपितत्वेना निश्चितः। तथाचाहुस्तत्त्वचिन्तामणिकाराः- (सचायं द्विविधः निश्चितः सन्दिग्धश्च, साध्यव्यापकत्वेन साधनाव्यापकत्वेन च निश्चितो व्यभिचारनिश्चयाधायकत्वेन निश्चितोपाधिः, यथा वह्निमत्त्वेन धूम (१) अनुमेयः प्रतिपिपादयिषितधर्मविशिष्टो धर्मी पर्वतादिः पक्षः, तेन संबद्धं तस्मिन्वर्तमान मिति यावत् । पक्षवृत्तीत्यर्थः । तदन्विते साध्यधर्मा- न्विते सपक्षे महानसादौ प्रसिद्धं सपक्षे सत्तावदित्यर्थः । तदभावे साध्यधर्मस्या- भावे विपक्षं जलहदादौ नास्ति विपक्षावृत्तीत्यर्थः । (२) लिङ्ग यस्यास्ति तल्लिङ्गि इत्यभिप्रेत्य लिङ्गिपदार्थमाह-'यस्य च' इति । (३) खभावेन प्रतिबन्धः खभावप्रतिबन्धः, साधनं कृतेति समासः, स्वभाव- प्रतिबद्धत्वं प्रतिबद्धखभावत्वमित्यर्थः, इति न्याय बिन्दुटीकायां धर्मोत्तराचार्यः । (४) भादन्ताः बौद्धाः । .. . - , साङ्ख्यतत्वकौमुदी। येन च प्रतिबद्धं तब्यापकम् । वे साध्य आन्धनप्रभववह्निमत्त्वं, यत्र साधनाव्यापकत्वसन्देहः साध्यव्यापकत्वसंशयो वा तदुभयसन्देहो वा तत्र हेतुन्यभिचार- संशायकत्वेन सन्दिग्धोपाधिः, यथा मित्रातचयत्वेन श्यामत्वे साध्ये शाकाद्याहारपरिणतिजत्वम् ) इति । एवंविधौ यावुपाधी तयोनिराकरणेनेत्यर्थः । एतेनानौपाधिकः संबन्धो- व्याप्तिरित्यंशः सङ्गृहीतः । स्वभावप्रतिबन्धो व्याप्तिरित्यंशं संग्रहीतुमाह-'वस्तुस्वभाव'. इति । वस्तुनः धूमादेर्यः स्वभावः वह्वयादिना विनाभावाभावः (अविनाभावनि- यमः) तेन प्रतिबद्धमाक्रान्तमित्यर्थः । यद्वैस्तु यद्वस्त्वन्तराविनाभूतं यद्वस्तु तद्व्याप्यमिति यावत् । 'स श्यामो मित्रातनयत्वादृष्टश्यामत्वविशिष्टमित्रातनयवत्' इत्यत्र मित्रातनयत्वमपि श्यामत्वप्रतिबद्धत्वेन व्याप्यं स्यात्तन्माभूदत उक्तम् 'शङ्कितोपाधिनिराकरणेन' इति । 'अयं धूमवान्वह्वेर्महानसवत्' इत्यत्र वह्वेरपि महानसादौ धूमाविनाभूतत्वदर्शनाद्वढेरपि धूमव्याप्यत्वं स्यादत- उक्तम् (समारोपितोपाधिनिराकरणेन) इति । स्वाभाविकः संबन्धोऽभिप्रेतो नौपाधिक इत्यर्थः । तथाचाहुर्मिश्राः-(धूमादीनां वह्नयादिसंवन्धः स्वाभाविको नतु वह्नयादीनां धूमादिभिः; ते हि विनापि धूमादिभिरुप- लभ्यन्ते, यदा त्वाईन्धनादिसंवन्धमनुभवन्ति तदा धूमादिभिः सह संबध्यन्ते तस्माद्वयादीनामार्दैन्धनाद्युपाधिकृतः संवन्धो न स्वाभाविकस्ततो न नियतः स्वाभाविकस्तु धूमादीनां वहृयादि- संबन्धः उपाधेरनुपलभ्यमानत्वात् ) इति । व्याप्यं निरुच्य व्यापकं निरीह "येन च” इति । येन च वह्वयादिना प्रतिबद्धमविनाभूतं धूमादिकं तद्वयादिकं व्यापकमित्यर्थः । (१) शांकाद्याहारपरिणतिजत्ने शाकादिसंयोगघटितशाकपाक जश्यामसामग्रीमत्त्व- 'मित्यर्थ इत्युपाधिविभागरहस्ये मथुरानाथः । (२) यद्वस्तु धूमादिवस्तु, यद्वस्त्वन्तरं वयादिकम् । (३) निराह निर्वक्ति-लक्षयतीत्यर्थः ।
साङ्ख्यतत्वकौमुदीं। लिङ्गलिङ्गिग्रहणेन च विषयवाचिना विषयिणं प्रत्ययमुप- लक्षयति । धृमादिाप्यो वह्वयादिापक इति यः प्रत्ययस्तत्पूर्वकम् । लिङ्गिग्रहणं चावर्तनीयम् , तेन लिङ्गमस्यास्तीति पक्षधर्मतो- ज्ञानमपि दर्शितं भवति । तयाप्यव्यापकभावपक्षधर्मताज्ञानपूर्वकमनुमानमित्यनुमान- सामान्यं लक्षितम् । अनुमानविशेपास्तन्त्रान्तरे लक्षितान्मारयति-'विविध- मनुमानमाख्यातं तत्' इति । तत्सामान्यतो लक्षितमनुमानं विशेषतस्त्रिविधम् , पूर्ववत्- शेषवत्—सामान्यतो दृष्टं च । ननु लिङ्गादिज्ञानस्यैवानुमितिहेतुत्वेन कथं लिङ्गादिवस्तुनोऽत्रोल्लेख- इत्याशङ्कयः ज्ञानज्ञेययोरविनाभावदर्शनेन ज्ञेयनिर्देशो ज्ञान्होपलक्षणार्थ- दृत्याह-“लिलिङ्गिग्रहणेन च” इति । गृह्यते ज्ञायतेऽनेनेति ग्रहणं शब्दः, विषयवाचिना वस्तुबोधकेन लिङ्ग- लिङ्गिशब्देन्त, विषयिणं प्रत्ययं लिङ्गलिङ्गिरूपविषयोद्दीपकं ज्ञानमुपलक्षयति उपलक्षणविधया बोधयति कारिकाकार इति शेषः । एवं सति यत्फलितं तदाह-"धूमादिाप्य” इत्यादिना । ननु हेतोः पक्षवृत्तित्वज्ञानमन्तरा कथमनुमित्युदय इत्याशय तल्लाभो. पायमाह-'लिङ्गिग्रहणं च' इति । निर्गलितार्थमाह-'तत्' इति यस्मादेवं तत्तस्माद्व्याघ्यव्यापकभावज्ञान- । पुरस्सरं यद्व्याप्यस्य पक्षवृत्तित्वज्ञानं तत्पूर्वकं यज्ञानं तदनुमानमित्यनुमान- सामान्यं लक्षितमित्यर्थः । त्रिविधमित्याशिमवतारयति-"अनुमानविशेषान्” इति । तन्त्रान्तरे अक्षपाददर्शने, 'अथ तत्पूर्वकं विविधमनुमानं पूर्ववच्छेषवत्सा- मान्यतो दृष्टं च' इति सूत्रे इत्यर्थः । (१) तत्पूर्वकम्प्रत्यक्षादिपूर्वकम् । 7 - .
साङ्ख्यतत्त्वकौमुदी। ९७ ... तत्र प्रथमं तावविविधं वीतमवीतं च । अन्वयमुखने प्रवर्तमानं विधायकं वीतम् , व्यतिरेकमुखेन प्रवर्तमानं निषेध कमवीतम् । 'तन्त्रान्तरे लक्षितानभिमतान्' इति क्वाचित्कः पाठः । अवान्तरविशेष- माह-"तत्र' इति। तत्र पूर्ववदादिभेदेनानुमानस्य त्रैविध्ये सत्यपि प्रथमं पूर्वम्-आदौ तावदनुमानं द्विविधं ततो द्विविधमध्य ऐकं द्विविध- मेकं चैकविधमित्येवं त्रिविधं बोध्यमित्यर्थः । तदेव दर्शयति "वीतम- वीतं च” इत्यादिना। वीतं वि-विशेषेण इतं ज्ञातं प्रसिद्धमन्वयव्याप्तिहेतुकमित्यर्थः । तदेवाह-'अन्वयमुखेन' इति । तत्सत्वे तत्सत्वमित्याकारान्वयसहचार- एव मुखं मुखमिव प्रधानभूतम् , तेन-साध्याधिकरणनिरूपितवृत्तित्वरूपा- न्वयव्याप्तिप्राधान्येन यो यो धूमवान्स स वह्निमानित्येवं प्रवर्तमानं सद्यद्वि- धायकं वह्नेः साधकं तद्बीतमित्यर्थः । अन्वयेन प्रवर्तमानं वीतमित्युक्ते केवलान्वयिन एव वीतत्वं स्यान्नत्वन्वय- व्यतिरेकिणोऽतोऽभिहितं 'मुखेन' इति । अन्वयव्याप्तिप्राधान्यमेव केवलं वीतत्वे प्रयोजकं नतु तत्र व्यतिरेकव्याप्त्यसत्वमप्यभिप्रेतमित्यर्थः । निषेध. विधायकेऽवीतेऽतिप्रसङ्गभङ्गायाह-"अन्वयमुखेन प्रवर्तमानम्” इति । न वीतमवीतं व्यतिरेकव्याप्तिहेतुकमित्यर्थः । तदेवाह-"व्यतिरेकमुखेन" इति । तदसत्वे तदसत्वमित्याकारो व्यतिरेकसहचार एव मुखं प्रारम्भः तेन साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपव्यतिरेकव्याप्तिप्राधान्येन यत्रे. तरभेदाभावस्तत्र गन्धाभाव इत्येवं प्रवर्तमानं गन्धाभावरूपव्यापकस्य पृथिव्यां निवृत्त्या तद्व्याप्यक्षितिभेदस्य निषेधकं यत्पृथिवीतरभेदवती गन्धवत्त्वादित्याद्यनुमानं तवीतमित्यर्थः । वर्णा न क्षणिकास्त एवेति प्रत्यभिज्ञायमानत्वादिति क्षणिकत्वनिषेधके वीतेऽतिव्याप्तिव्युदासायाभिहितं “व्यतिरकमुखेन" इति । निषेधकमपीद- मनुमानं न व्यतिरेकमुखेन प्रवर्तमानमिति नातिप्रसङ्गः । (१) प्रथमशब्दो न पूर्वाभिहित त्रिविधमध्ये प्रथमीभूतपूर्ववत्परोऽपि तु 'आदौ' इत्यर्थकः । तदेवाह-'आदौ' इति । (२) एकं वीतं पूर्ववत्सामान्यतोदृष्टभेदेन द्विविधमित्यर्थः । .. MARPALE - १८ साङ्यतत्त्वकौमुदी। तत्रावीतं शेषवत् , शिष्यते परिशिष्यते इति शेषः, स एव विषयतया यस्यास्त्यनुमानज्ञानस्य तच्छेषवत् । यदाहुः-"प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे सम्प्र- वीताऽवीतभेदेनानुमानद्वैविध्यमभिधाय तदवान्तरभेदमादाय तत्रैवि- ध्यमभिधातुं सूचीकटाहन्यायेनादाववीतं निरूपयति “तत्रावीतं शेषवत्" इति । तत्र तयोर्वीतयोमध्ये यदवीतं तच्छेषवत्संज्ञकमेकमेवेत्यर्थः' । शेषवदित्यस्य शेषविषयमित्यर्थं दर्शयितुं व्युत्पत्तिमाह-"शिष्यत" इति । कर्मघञ्जन्ताच्छेषशब्दान्मतुपि शेषवदिति साधनीयमित्यर्थः । संबन्धेऽस्तिविवक्षायां मतुपो विधानाज्ज्ञाने च पदार्थानां विषयतासं- बन्धेनैव भाननियमात् 'विषयतया' इत्यर्थादायातमिति बोध्यम् । शेषवन्नामपरिशेष' इति वात्स्यायनवचनाच्छेषवत एव नामान्तरं परिशेष इति परिशेषलक्षणपरं न्यायभाष्यमुपन्यस्यति- 'यदाहुः प्रसक्तप्रतिषेधे' इति । (शब्दः समवायिकारणजन्यो गुणत्वाद्रूपवदित्यत्र सामान्येन समवायिकारणेऽवगते शब्दाश्रयत्वेन प्रसक्तानां पृथिव्यादीनां दिक्कोलमनसां च तदाश्रयत्वप्रतिषेधे अन्यत्र गुणादावप्रसङ्गा- च्छिष्यमाणे नभसि यः प्रत्ययः शब्दोऽष्टद्रव्यव्यतिरिक्तद्रव्या- श्रितोऽष्टद्रव्यागुणत्वे सति गुणत्वाद्रूपवदिति यत्केवलव्यतिरेक्य- नुमानं स परिशेष इत्यर्थः) इति न्यायमकरन्दव्याख्यायां चित्सुखाचार्य्याः। । अयं भावः-शब्दो गुणो मानुपचाक्षुषप्रत्यक्षाविषयत्वे सति बहिरिन्द्रि- (१) वीतमवीतं चेति पूर्वाभिहितरीत्या वीतस्य पूर्व निरूपणाईत्वेपि खल्पा- यासनिर्वर्तनीयसूचीनिर्माणानन्तरमधिकायाससाध्यकटाहनिर्माणवत्पूर्वमवीतं निरूप- यतीत्यर्थः । (२) "भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संबन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः।।" इति कात्यायनमुनिवचनादित्यर्थः । ...(३), घटादौ, व्यभिचारवारणाय: “चाक्षुषेत्यादि" शब्दस्य सर्पण चक्षुषा ग्रहणादाह-'मानुषेति' आत्मनि व्यभिचारापहारायः . “बहिरिन्द्रियेति' रसत्वादौ व्यभिचारवारणाय " जातिमत्त्वादिति।
... साङ्ख्यतत्त्वकौमुदी। ९९ त्ययः परिशेष इति । यग्राह्यजातिमत्वात्स्पर्शवदित्येवं शब्दस्य गुणत्वे स्थिते गुणत्वेन च समवायि- कारणजन्यत्वादनिर्धारितयत्किञ्चिद्रव्याश्रितत्वे च साधिते तदाश्रयी- भूतं द्रव्यं किमित्यपेक्षायां सम्भावनामात्रेण तदाश्रयत्वेन प्रसक्तानां पृथि- व्याद्यष्टद्रव्याणां प्रतिषेधे (प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वात् , अयावद्रव्य- भावित्वात् , आश्रयादन्यत्रोपलब्धेश्चन स्पर्शवद्विशेषगुणः । बाह्येन्द्रियप्रत्यक्ष. त्वात्, आत्मान्तरग्राह्यत्वात् , आत्मन्यसमा यात्, अहङ्कारेण च विभक्त- अहणाञ्च नात्मगुणः । श्रोत्रग्राह्यत्वाद्वैशेषिकगुणभाँवाच्च न दिक्कालमन- साम्) इति प्रशस्तपादोक्तरीत्या तदाश्रयत्वनिरासे, अन्यत्र द्रव्यातिरिक्ते गुणादौ अप्रसङ्गात् (गुणादीनां पञ्चानामपि निर्गुणत्वनिष्क्रियत्वे) इत्येवं शब्दगुणाश्रयत्वप्राप्त्यभावात् , परिशिष्यमाणे नभोगव्ये यः सम्प्रत्ययः शब्दोऽष्टद्रव्यातिरिक्तद्रव्याश्रितोऽष्टद्रव्यानाश्रितत्वे सति गुणत्वाद्यन्नवं न तदेवं यथा गन्धादि इति केवलव्यतिरेकिग्रयोगप्रयोज्यं यदनुमानं.-स परिशेष इति । (१) स्पर्शवतां पृथिव्यप्तेजोवायूनां विशेषगुणः शब्दो नेत्यर्थे हेतूनाह- 'प्रत्यक्षत्वे” इत्यादिना । पटरूपादयो हि स्वाश्रयस्य यत्समवायिकारणं तद्गुण- पूर्वका दृष्टा अयन्तु न तथाऽतो न रूपादिवत्पृथिव्यादिगुणः शब्दः, पार्थिवपर- माणुरूपादयोपि स्पर्शवद्विशेषगुणा अकारणगुणपूर्वकाश्च परमाणोरकार्यत्वात्, तब्यवच्छेदाय "प्रत्यक्षले सति" इति । (२) यथा रूपादयो यावत्खाश्रयद्रव्यं वर्तन्ते न तथा शब्दो यावद्रव्यं वर्तते विद्यमानेपि. खाश्रये शङ्खादौ विनाशदर्शनादतो न स्पर्शवद्विशेषगुण:, रूपादयः खाश्रयादन्यत्र नोपलभ्यन्ते नैवं शब्दः, तस्य खाश्रयाच्छङ्खादेरन्यत्र कर्णशष्कुलीदेशे समुपलभ्यमानत्वादतोपि न स्पर्शवद्विशेषगुण इत्यर्थः । (३) अनेकप्रतिपत्तूसाधारणत्वादित्यर्थः । या खलु वीणावेण्वादिजा शब्दव्यक्तिः सन्ततिद्वारेणैकेन पुरुषेण प्रतीयते सैवापरेणापि तद्देशवर्तिनी प्रतीयते नत्वेवमा- त्मगुणः सुखादिरित्यात्मगुणवैवान्नात्मगुण इत्यर्थः । (४) रूपादिवदान्तरत्वेनानवगमादात्मनि समवेतत्वाभावानात्मगुण इत्यर्थः । (५) यः खल्वात्मगुणः सोऽहङ्कारेण समानाधिकरणो गृह्यते सुख्यहमित्यादि नत्वेवं शब्दस्य ग्रहणमतो नात्मगुण इत्यर्थः । (६) ये किल दिकालमनसां. गुणाः संयोगादयस्त श्रोत्रग्राह्या न सन्त्ययन्तु तद्राह्योतो न तद्गुण इत्यर्थः । (७) शब्दो न दिगादिगुणो विशेषगुणत्वात्सुखादिवदिति भावः यथा -- . १०० साङ्ग्यतत्वकौमुदी। अस्य चावीतस्य व्यतिरेकिण उदाहरणमग्रेऽभिधास्यते । यत्तु न्यायभाष्ये (सदनित्यमित्येवमादिना द्रव्यंगुणकर्मणामविशेषेण सामान्य विशेषसमवायेभ्यो निर्भक्तस्य शब्दस्य तस्मिन्द्रव्यगुणकर्मसंशये न द्रव्यमेकैदव्यत्वात् , न कर्म शब्दान्तरहेतुत्वाद्यस्तु शिष्यते सोयमिति शब्दस्य गुणत्वप्रतिपत्तिः) इत्येवं शब्दस्य गुणत्वावधारणं परिशेषोदाहरणं प्रदर्शितं तत्तु (इदन्तु परिशेषोदाहरणं नादरणीयं व्यतिरेकिणो हि नामान्तरमिदं परिशेष इति । एष पुनरन्वयव्यतिरेकी द्रव्यकर्मान्यत्वे सति सदाद्यभेदस्य सपक्षे रूपादौ सत्त्वाद्विपक्षे सामान्या- दावभावात् , तस्मादात्मतन्त्रतासाधन मिच्छादीनां परिशेषोदाहरणं द्रष्टव्यम्) इत्येवं तात्पर्यटीकायाम्मित्रैर्दूषितत्वादनादेयमेव । अत्रेदं बोध्यम्--इच्छादीनां गुणत्वेन पारतन्त्र्यप्रतिपत्तिः सामान्यतो दृष्टानु- मानेन साधनीया, आत्मतन्त्रताप्रतिपत्तिस्तु परिशेषानुमानादिति । ननु साङ्ख्यकृतान्त इच्छादीनामात्मधर्मवाभावेनावीतोदाहरणासम्भ- वात्तदतिरिक्तं प्रकृतकृतान्तोपयुक्तमवीतोदाहरणं किमित्यपेक्षायामाह-"अस्य चावीतस्य" इति । अग्रे 'असदाकरणात्' इत्या-व्याख्यायां 'न पटस्त- न्तुभ्यो भिद्यत इत्यारभ्य (तान्येतान्यभेदसाधनान्यवीतानि इत्यन्तेन ग्रन्थे- नाभिधास्यते मयेत्यर्थः । (१) “सदनित्यं द्रव्यवत्कार्य कारणं सामान्य विशेषवदिति द्रव्यगुणकर्मणा- म विशेषः,” इति काणादसूत्रात्सत्तावत्त्वे सत्यनित्यत्वादि द्रव्यगुणकर्मणां साधर्म्यम् , तथा च सत्ताऽनित्यत्वादीनां शब्दे वर्तमानत्वात्सामान्यविशेषसमवायेभ्योऽतिरिक्तः शब्दो द्रव्यं वा भवेद्गुणो वा स्यात्कर्म वेति भवति संशय इत्यर्थः । (२) द्विविधमेव हि द्रव्यम्-अद्रव्यमनेकद्रव्यं च । अद्रव्यं परमाणवादि, अनेक- द्रव्यं च घटादि । शब्दस्त्वेकद्रव्यं तस्मान्न द्रव्यं रूपादिवदित्यर्थ इति मिश्राः । (३) शब्दान्तरहेतुवादित्यस्प समानजातीयारम्भकत्वादित्यर्थ इत्युद्योतकराचार्यः । (४) एषः शब्दस्य गुणत्वसाधकः (शब्दो गुणो द्रव्यकर्मान्यत्वे सति सत्ता- दिमत्त्वाद्रूपवत्) अयं प्रयोगोऽन्वयव्यतिरेकीत्यर्थः । तदेवाह-"द्रव्यकर्मान्यत्वे सति" इत्यादिना- (५) उद्योतकराचार्योक्तं विशेषमाह-“इच्छादीनाम्" इत्यादिना । इच्छादयो- सत्यस्मदाद्यचाक्षुषप्रत्यक्षत्वाद्गन्धवत् , ते च क्वचिदाश्रिता- गुणत्वाद्र्पादिवदिति सामान्यतो दृष्टानुमानद्वारा निर्धारिते कस्मिश्चिदाश्रये सिद्धे न तावत्पृथिव्यादिचतुष्टयगुणाः प्रत्यक्षल्वे सत्यकारणगुणपूर्वकत्वान्नाप्याका- शविशेषगुणा बाह्येन्द्रियाप्रत्यक्षत्वात् , नापि दिकालमनसां गुणा विशेषगुण- त्वादित्येवं प्रसक्तप्रतिषेधे सति इच्छादयोऽष्टद्रव्यातिरिक्तद्रव्याश्रिता इत्याद्युक्त- रीत्याऽऽस्मतन्त्रतासिद्धिरिर्थः । गुणा अनित्यत्वे तत्रैक दृष्टस्वल- - साङ्ख्यतत्वकौमुदी। १०१ वीतं च द्वेधा-पूर्ववत्सामान्यतो दृष्टं च, क्षणसामान्यविषयं यत्तत्पूर्ववत् , पूर्व प्रसिद्धं दृष्टस्वलक्षण- सामान्यमिति यावत् , तदस्य विषयत्वेनास्त्यनुमानज्ञानेस्यति पूर्ववत् । यथा धूमावह्नित्वसामान्यविशेषः पर्वतेऽनुमीयते, तस्य च एवमवीतं निरूप्य सम्प्रति वीतं विभजते-“वीतं च द्वेधा" इति । आद्यं वीतं स्पष्टथितुमाह-"तत्रैकम्” इति । तत्र तयोर्वीतयोर्मध्ये एक यदृष्टस्वलक्षणसामान्यविषयं तत्पूर्ववन्नामकं वीतमित्यर्थः । पूर्ववदितिशब्देन कथमेतादृगाधिगतिरित्याकाङ्क्षायां व्युत्पत्त्या तल्लाभ- माह-"पूर्व प्रसिद्धम्" इत्यादिना प्रसिद्धपदार्थमाह.."दृष्टस्वलक्षणसामा-- न्यम्" इति । स्वलक्षणशब्दः स्वमसाधारणं लक्षणं रूपमिति न्युत्यत्त्या तत्तदव- यवसन्निवेशविशेषालिङ्गिततत्तद्व्यक्तिपरः । तदुक्तं न्यायबिन्दौ (यस्यार्थस्य सन्निधानाऽसन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणम्) इति । 'अर्थशब्दो विषयपायः, यस्य ज्ञानविषयस्य सन्निधानं निकटदेशाव- स्थानम् , असन्निधानं दूरदेशावस्थानं तस्मात्सन्निधानादसन्निधानाच्च ज्ञान- प्रतिभासस्य ग्राह्याकारस्य भेदः स्फुटत्वाऽस्फुटत्वाभ्याम् , यो हि ज्ञानस्य विषयः सन्निहितः सन्स्फुटमाभासं ज्ञानस्य करोति, असन्निहितस्तु योग्य- देशावस्थित एवास्फुटं करोति तत्स्व लक्षणं (सर्वाण्येव हि वस्तूनि दूरादस्फु- टानि दृश्यन्ते समीपे त्वस्फुटानि तान्येव स्वलक्षणानि) इत्येतदर्थ इति धर्मोत्तराचार्यः। अयं भावः-वस्तुनो हि द्विविधं रूपम्-असाधारणं साधारणं च, तत्र यदसाधारणं पृथुबुध्नोदरादिकं तत्स्वलक्षणं यच सकलव्यक्तिसाधारणं घटकत्वादिकं तत्सामान्य लक्षणमिति । तथा च दृष्टं पूर्वमधिगतं स्वलक्षण- मसाधारणं रूपं यस्य सामान्यस्य तदृष्टस्वलक्षणं सामान्यं, तद्विषयकं यज्ज्ञानं तत्पूर्ववदनुमानमित्यत्र फलितम् । एतदेवोदाहरणेन विशदयति- "यथा" इत्यादिना । "वह्नित्वसामान्यविशेष" इति । ननु 'सामान्यावधारणप्रधाना वृत्तिनु- मानम्' इति योगमाष्यात्विरूपसामान्यस्यैवानुमेयत्वावगतेः कथम- (१) एतादृगदृष्टखलक्षणसामान्यविषयमित्येतागित्यर्थः ।
१०२ साङ्ख्यतत्त्वकौमुदी। वह्नित्वसामान्यस्य स्वलक्षणं वह्निविशेषो दृष्टो रसवत्याम् । अपरं च वीतं सामान्यतो दृष्टम्-अदृष्टस्वलक्षणसामान्य- विषयं यथेन्द्रियविषयमनुमानम् । अत्र हि रूपादिविज्ञानानां क्रियात्वेन करणवत्तमनुमीयते, यद्यपि करणत्वसामान्यस्य छिदादौ वास्यादि स्वलक्षणमुपलब्धं भिहितं वह्नित्वसामान्यविशेषोऽनुमीयत इति व्यक्तिरूपविशेषस्यानुमेयत्त्व- मिति चेत् , नान वह्नित्वसामान्यस्य विशेषोऽनुमेय इति विवक्षितं किन्तर्हि वह्नित्वरूपः सामान्यविशेषोऽनुमीयत इत्यभिप्रेतमिति गृहाण । कथं वह्नित्वस्य सामान्यविशेषोभयात्मकत्वमिति चेत् , अनाहुः-पदार्थ- धर्मसङ्ग्रहकाराः-सामान्यं द्विविधं परमपरं चानुवृत्तिप्रत्ययकारणं तत्र परं सत्ता महाविषयत्वात् , स चानुवृत्तेरेव हेतुत्वात्सामान्यमेव, द्रव्यत्वाद्म- परमल्पविषयत्वात् , तच्च व्यावृत्तेरपि हेतुत्वात्सामान्यं सद्विशेषाख्यामपि 'लभते) इति । अयमर्थः-अत्यन्तव्यावृत्तानां तत्वानां यतः कारणादन्योन्यस्वरूपानु- गमः प्रतीयते तत्सामान्यमित्यभिधीयते, तच्च द्विविधमेकं द्रव्यादिनिक- वृत्तिसत्ताख्यं परम् , एतच्च स्वाश्रयस्यानुवृत्तेरेव हेतुत्वात्सामान्यमित्येव कीर्त्यते अपरं च द्रव्यत्वपृथिवीत्वगोत्वादिरूपमपुरं सामान्यम् , एतच स्वाश्र- यस्य विजातीयेभ्योपि व्यावृत्तेरपि हेतुत्वाहिशेष इत्यपि व्यवहियते, तथा च सिद्धं वह्नित्वादेः सामान्यविशेषरूपत्वमिति । लक्ष्ये लक्षणं समन्वयति--"तस्य च” इति । रसवत्याम्पाकशालाया- मित्यर्थः । द्वितीयं वीतं निरूपयति "अपरं च” इति । सामान्यतो दृष्टमित्यस्यार्थमाह "अदृष्टस्वलक्षणसामान्य विषयम्" इति । न दृष्टं स्वलक्षणं यस्य सामान्यस्य तत्तथा तद्विषयमित्यर्थः । उदाहरति “यथेन्द्रियविषयक्रम्” इति । रूपादिज्ञानानि करणवन्ति क्रियात्वाच्छिदिक्रियावदितीन्द्रियसाधकमनुमानं सामान्यतो...दृष्टमित्यर्थः । तदेवाह-"अत्र” इति । अत्र इन्द्रियसाधकेऽनुमान इत्यर्थः ननु छेदनादिक्रियायां कुठारादिस्वलक्षणस्य करणस्य दृष्टत्वात्कथमदृष्ट- स्वलक्षणसामान्यविषयमेतदनुमानमित्याशङ्कते- "यद्यपि” इति । छिदादौ (१) काणादसूत्रभाष्यकाराः प्रशस्तपादा इत्यर्थः।
साङ्ख्यतत्वकौशुदी। १०३ तथापि यज्जातीयस्य रूपादिज्ञाने करणत्वमनुमीयते तज्जा- तीयस्य करणस्य न दृष्टं स्वलक्षणं प्रत्यक्षेण, इन्द्रियजातीयं हि तत्करणं न चेन्द्रियत्वसामान्यस्य स्वलक्षणमिन्द्रियविशेषः प्रत्यक्षगोचरोऽर्वाग्दृशां यथा वह्नित्वसामान्यस्य स्खलक्षणं चह्निः । सोयं पूर्ववतः सामान्यतो दृष्टात्सत्यपि बीतत्वेन तुल्यत्वे विशेषः। छेदनादिक्रियायां करणत्वसामान्यस्य स्वलक्षणं वास्यादि कुठारादि उपलब्ध मित्यन्वयः। तथाचेदमपि दृष्टस्वलक्षणसामान्यविषयत्वान्न पूर्ववतोऽतिरिक्त- मिति भावः। सामान्यतो दृष्टत्वेपि विशेषेणाऽदृष्टत्वान्नेदं पूर्ववदित्याशयेन परिहरति "तथापि" इति । रूपादिज्ञाने यजातीयस्य थाहग्जातिमतः करणत्वमनुमेयं तादृग्जातिमतः करणस्य स्वरूपं प्रत्यक्षेण न दृष्टमित्यर्थः किंजातीयं तत्करणं यन्नाध्याक्षगोचर इत्याकाङ्क्षायामाह-“इन्द्रियजा- तीयम्' इति । इन्द्रियत्वजातिमद्धि तत्करणं रूपज्ञाने करणम् । भवत्विन्द्रियं करणं तेन कि मायातमित्यवाह-“ल चेन्द्रियत्वसामान्यस्य” इति । अर्वाग्दृशामयोगिनासिद्धियविशेषो.....प्रस्थक्षमोचरी निरवयवत्वे. नातीन्द्रियत्वात् , तथाचायातमिन्द्रियस्यादृष्टत्वमिति । तत्र व्यतिरेकिदृष्टान्तमाह-"यथा" इति । यथा वह्नित्वसामान्यस्य स्वल- क्षणं वह्निरध्यक्षगोचरो न तथेन्द्रियत्वसामान्यस्य स्व लक्षणमिन्द्रियमध्यक्ष- गोचरः, तल्लिद्धं पूर्ववतोऽनुमानादस्यातिरिक्तत्वमिति तत्त्वम् । तदेवाह "सोयम्” इति। वीतत्वेनोभयोः समानत्वेपि सोयमनन्तरा- भिहित एव दृष्टवलक्षणलामान्यविषयत्वरूपः पूर्ववतः पूर्ववदनुमानस्य सामान्यतो दृष्टानुमानाहिशेषः प्रभुद इत्यर्थः । ननु सामान्यतो दृष्टमितिव्याख्येयवाक्यस्थदृष्टपदस्याऽदृष्टस्वलक्षणसामा- न्यविषयमिति व्याख्यानवाक्थेनाऽदृष्टार्थपरत्ववर्णनमयुक्तं दृष्टपदस्य तद्वि- रुद्धाऽदृष्टार्थकत्वासम्मवादित्याशङ्कायां न दृष्टपदस्याऽदृष्टार्थत्वमभिहितमपि तु 'सामान्यत' इत्यस्य पष्ठ यन्तप्रकृतिकतसन्तत्वेन 'सामान्यस्य' इत्यर्थ- (१) जात्यन्ताच्छे प्रत्यय सति यथा ब्राह्मणजातीय इत्यादौ ब्राह्मणत्वजाल्या- धारभूत इत्यर्थो दृष्टस्तथाऽत्रापीति ध्येयम् । .
: ..... १०४ साहयतत्वकौमुदी। अत्र च दृष्टं दर्शनं सामान्यत इति सामान्यस्य सार्ववि- भक्तिकस्तसिः अदृष्टस्वलक्षणस्य सामान्यविशेषस्य दर्शनं सामान्यतो दृष्टमनुमानमित्यर्थः । परत्वं 'दृष्टम्" इत्यस्य च भावक्तान्तत्वेन 'दर्शनम्' इत्यर्थपरत्वञ्चादाय 'सामान्यस्य दर्शनम्' इस्यर्थलाभादायातमर्थाद्विशेषस्यादृष्टत्वमित्यार्थिका- र्थमभिप्रेत्य तथाभिधानान्न दोष इति समाधानं मनसि निधायाह-"अत्र" इति । अत्र सामान्यतो दृष्टमिति वाक्ये । तथाच विशेषदर्शनस्थले पूर्ववदनुमान सामान्यदर्शनस्थले च सामा- न्यतो दृष्टानुमानमिति दृष्टत्वाऽदृष्टत्वप्रयुक्तस्तयोर्भेद इति फलितम् । न्यायवार्तिककारास्तु-(पूर्ववदिति वतिप्रत्यय एष यथा, पूर्व प्रत्यक्षेण दृष्टोऽर्थस्तथानुमानेनापि तमेवार्थं प्रतिपद्यत इति पूर्ववदृष्टो भवति, यदि- तरधर्मदर्शनाद्धर्मिणोऽधिगतिसाधनं तत्सामान्यतो दृष्टं यथेच्छादिभिरात्मा) इत्यादिग्रन्थेन 'यत्र साध्यतावच्छेदकहेतुतावच्छेदकरूपपुरस्कारेण व्याप्तिग्रह- स्तत्पूर्ववदनुमानं यत्र च साध्यतावच्छेदकहेतुतावच्छेदकरूपव्यापकधर्मपुर- स्कारेण व्याप्तिग्रहस्तत्सामान्यतो दृष्टमनुमानम्' इत्येवं तयोर्भेदमाहुः । (पूर्ववदिति-यत्र कारणेन कार्यमनुमीयते यथा मेघोन्नत्या भविष्यति वृष्टिरिति, शेषवत्तात्र कार्येण कारणमनुमीयते-पूर्वोदकविपरीत- मुदकं नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोऽनुमीयते भूता वृष्टिरिति । (१) यत्खलक्षणं तदेव विशेषशब्देनात्र व्यवलियत इति ज्ञेयम् । (२) पूर्वेण तुल्यं वर्तत इति पूर्ववक्रियातुल्यतायां च वतिः तथा पूर्वमन्य- तरदर्शनेन सहान्यतरदर्शनं दृष्टान्तधर्मिणि, एवं साध्यधर्मिण्यन्यतरसाधनधर्म- दर्शनेनान्यतरसाध्यधर्मस्यानुमितिदर्शन मिति भवति क्रियातुल्यतेत्यर्थः) (३) यथा पर्वते पक्षे धूमेन हेतुना वहौ साध्ये धूमत्ववह्नित्वरूपपुरस्कारेण महानसादौ व्याप्तिग्रहः। (४) यथेच्छादिभिरात्मनि साध्य इच्छात्वाऽऽमत्वव्यापकाभ्यां गुणत्वद्रव्य. त्वाभ्यां व्याप्तिग्रहः:। (५) तयोः पूर्ववत्सामान्यतो दृष्टयोरित्यर्थः। (६) वृष्टिमन्त एते मेघा गम्भीरध्वानवत्त्वे सति बहुबलाकावत्त्वे सति अचिर- प्रभवत्वे सति उन्नतिमत्त्वादृष्टिमन्मेषकदिति न्यायवार्तिककारीयो न्यायाकारोऽत्रं बोध्यः । (७) उपरि वृष्टिमद्देशसंबन्धिनी नदी स्रोतःशीघ्रत्वे सति पूर्णफलकाष्ठादिवहन- शीलत्वे सति पूर्णत्वात्पूर्णवृष्टिमन्नदीवत् , इत्येवमत्र प्रयोगोऽवसेयः । . . -- - . । साङ्ख्यतत्त्वकौमुदी। १०५ सर्व चैतदसाभिन्यायवार्तिकतात्पर्यटीकायां व्युत्पादित- मिति नेहोक्तं विस्तरभयात् । प्रयोजकवृद्धशब्दश्रवणसमनन्तरं प्रयोज्यवृद्धप्रवृत्तिहेतुज्ञा- नानुमानपूर्वकत्वाच्छब्दार्थसंबन्धग्रहणस्य, स्वार्थसंबन्धज्ञान- सहकारिणश्च शब्दस्यार्थप्रत्यायकत्वादनुमानपूर्वकत्वमित्यनु- मानानन्तरं शब्द लक्षयति 'आप्तश्रुतिराप्तवचनन्तु" इति। सामान्यतो दृष्टं व्रज्यापूर्वकमन्यन्न दृष्टस्यान्यत्र दर्शनमिति । तथाचादित्यस्य तस्मादस्त्यप्रत्यक्षाप्यादित्यस्य व्रज्येति इति न्यायभाष्योक्तं व्याख्यान्तरमप्य- त्रानुसन्धेयम् । । वृत्तिकृतस्तु-पूर्ववदित्यन्वय्यनुमानं शेषवदिति व्यतिरेक्यनुमानं सामा- न्यतो दृष्टमित्यन्वयव्यतिरेक्यनुमानम् , इत्येवमपि व्याचक्षते । अंत्र न्यायदर्शनीयतुरीयसूत्रीयन्यायभाष्यमुपादाय प्रवृत्ते न्यायवार्तिके तत्तात्पर्यटीकायां च बहुविस्तरो वागाडम्बरः प्रदर्शित इति तत्रैव कणेहत्या- लोचनीयमित्याशयेनाह "सर्वं चैतदस्माभिर्यायवार्तिकतात्पर्यटीकायाम्" इति। उद्देशक्रमप्राप्तं शब्दप्रमाणं निरूपयितुमुपक्रमते "प्रयोजकवृद्ध" इति । अनुमानानन्तरं शब्दं लक्षयतीति संबन्धः । (उभयं महाविषयं शब्दः प्रत्यक्षं च कथमिति, प्रत्यक्षेणापि सामान्यवि- शेषतदूतां ग्रहणं शब्देनापि) इत्युद्द्योतकराचार्योक्तेः प्रत्यक्षशब्दयोः सारू- प्येणानुमानस्य च सामान्यविषयत्वेन वैरूप्यात्प्रत्यक्षानन्तरमेवागमो निर्व- क्तव्यो नानुमानानन्तरमित्याशङ्कायामाह-"अनुमानपूर्वकत्वमिति" इति । इति यतः शब्दस्वानुमानपूर्वकत्वमतस्तदनन्तरमेवागमनिरूपणं युक्तमित्यर्थः । आगमस्य प्रत्यक्षसारूप्येप्यनुमाननिरूपणमन्तराऽऽगमस्याऽशक्यनिरूप- णत्वात्तस्यानुमानपूर्वकत्वात्तयोरुपजीव्योपजीवकभावसङ्गतिरिति भावः । (१) देशान्तरप्राप्तिमानादित्यः द्रव्यत्वे सति क्षयवृद्धिप्रत्ययाविषयत्वे च प्रामुखोपलभ्यत्वे च तदभिमुखदेशसंबन्धादनुत्पन्नपादविहारस्य परिवृत्य तत्प्रत्य- विषयत्वान्मण्यादिवदिति चात्र न्यायाकारः । (२) विश्वनाथन्यायपञ्चानना इत्यर्थः । (३) तस्य शब्दस्य । (४) तयोः अनुमानागमयोः ।
, .. १०६ साहयतत्वकोमुदी। तत्राप्तवचनमिति लक्ष्यनिर्देशः, परिशिष्टं लक्षणम् । आता प्राप्ता युक्तति यावत् , आता चासौ श्रुतिश्चेत्याप्त- श्रुतिः। श्रुतिः-वाक्यजनितं वाक्यार्थज्ञानम् । कथं तस्यानुमानपूर्वकत्वमित्यत्राह-"स्वार्थसंबन्धज्ञानसहकारिणश्च शब्द त्याऽर्थप्रत्यायकत्वात्" इति । स्वं शदश्वार्थश्च स्वार्थी तयोर्थः संबन्धः शक्तिवृत्पादिप्रयुक्तो वाच्य वाचकत्वादिरूपः संलगविशेषः, तज्ज्ञानसह- कृतस्यैव शव्दस्यार्थज्ञानजनकत्वादित्यर्थः । अस्तु शक्तिधीसहकृतस्य शब्दस्यार्थप्रत्यायकत्वमेतावता अर्थप्रत्यायकत्वतावता कथमुपजीव्योप- जीवकभाव इत्यत्राह -- "शब्दार्थसंबन्धग्रहणस्य प्रयोजकवृद्धशब्दश्रवणस- मनन्तरं प्रयोज्यबृहप्रवृत्तिहेतुज्ञानानुमानपूर्वकत्वात्” इति । प्रयोजकवृद्धः प्रेरक आचार्यादिः, प्रयोज्यः प्रेर्यः शिष्यादिः, प्रयोज्य- वृद्धस्य या प्रवृत्तिस्सैव हेतुर्यस्य प्रवर्तकज्ञानस्य तस्य यदनुमानं तत्पूर्व- कत्वाच्छदार्थबधज्ञानस्येत्यर्थः । अयं भावः-प्रयोजकग्रयुक्तगामानयेत्यादिवाक्यश्रवणसमनन्तरं प्रयोज्य- वृद्धस्य गवानयनमुपलभ्य पार्श्वस्थो व्युत्पित्सुर्बाल इत्थमाकलयति इयमस्य प्रवृत्तिनिपूर्विका स्वतन्त्रप्रवृत्तित्वान्मदीयप्रवृत्तिवदिति तदनु चायं प्रवर्त. कप्रत्यय आचार्वोच्चरितवाक्यजन्यस्तदनन्तरमाविवादित्येवं स्वात्सदृष्टान्तेन प्रवर्तकप्रत्यये शब्दपूर्वकत्वं चानुमाय शब्दानन्तरभाविनि तस्मिन्शब्दस्य शक्तिं गृह्णाति च गां बधान समिधं चानय इत्यादिप्रयोगान्तरेषु आनयनगोशब्दयोरुद्धारे तदर्थयोरप्युद्धारात्प्रक्षेपे च प्रक्षेपदर्शनादन्वय- व्यतिरेकाभ्यां गवादिविशेषेषु पदविशेषस्य सामर्थ्यमवगच्छतीति स्कुटं संबन्ध- ज्ञानस्यानुमानपूर्वकत्वमिति । लक्ष्यलक्षणभावेन मूलवाक्यस्य विभागमाह-"तत्र" इति। तत्र आप्त- श्रुतिराप्तवचनन्तु इति मूलवाक्ये, परिशिष्टमातश्रुतिरित्याकारम् । युक्ता तथ्यार्थप्रत्यायनसमर्थत्वेन समीचीना, दोषहीनेति वा । ननु साङ्ख्यनये ज्ञानरूपाया बुद्धिवृत्तेरेव प्रमाणत्वव्यवहारात्कथं श्रुतेरा- गमप्रमाणत्वमित्याशङ्कायामाह-"श्रुतिः-वाक्यजनितं वाक्यार्थज्ञानम्” इति । (१) प्रवृत्तिलिङ्गकप्रवर्तकज्ञानानुमानपूर्वकत्वादित्यर्थः ।
साङ्ख्यतचकौमुदी। १०७ 'श्रुतिः स्त्री वेद आम्नाय' इत्यभिधानाद्वेदेवाक्ये शक्तमपि श्रुतिपदमत्र लक्षणया सामान्यवाक्यपरं तन्नीत्वा पुनरुपेचाराद्वाक्यजन्यबोधपरत्वेन व्याख्येयमित्यर्थः । यद्वा यथा द्विरेफः शब्दायत इत्यादी तार्किकैः पूर्व द्विरेफपदेन रेफद्वय- घटितं भ्रमरपदं लक्ष्यते पुनश्च भ्रमरपदेन त्वशक्यसंबन्धी जन्तुविशेप- रूपोऽथों लक्ष्यते तथाऽत्रापि पूर्व श्रुतिपदेन वाक्यं लक्ष्यते पुनश्च वाक्येन तजन्यं ज्ञानं लक्ष्यत इत्येवं लक्षितलक्षणासमाश्रयणेनायं ग्रन्थो नेयः । यद्यपि. (श्रुतो हि भगवान्बहुशः श्रुतिस्मृतीतिहासपुराणेप्विदानी मन्तव्यो भवति) इति कुसुमाञ्जलिग्रन्थसाङ्गत्याय व्याख्यातृभिः (स्मृत्यन्य- प्रमाणशब्दत्वेन शक्तमपि श्रुतिपदं श्रोतव्यः श्रुतिवाक्येभ्य' इत्यत्र प्रमा- णशब्दत्वेन श्रुतिस्मृती बोधयन्न लाक्षणिकम् ) इत्येवं लक्षणामन्तरेव श्रुति- पदस्य श्रुतिस्मृत्यादिवाक्यपरत्वमुपवर्णितं तथाप्यत्र तथाऽऽस्थातुं न युक्तम् , आक्षेतिविशेषणस्य तथा सत्यसङ्गतत्वाऽऽपातात् , शाक्यादिवाक्यानां हि प्रमा णत्ववारणायाऽऽप्तपदमुपात्तभित्युत्तरत्र व्यक्तम् , श्रुतिशब्देन श्रुतिस्मृत्यादि- वाक्यानां ग्रहणे तु शाश्यादिवाक्यानां ग्रहणाग्रसत्या तद्वारकमाप्तेति पदं पुनरुक्तं सदसङ्गतं स्यात् । यद्वा श्रूयत इति श्रुतिः श्रोत्रग्राह्यं वाक्वमिति व्युत्पत्त्या श्रुतिपदस्य वाक्य- मिति वाच्योर्थः, तजन्यं ज्ञानं च लाक्षणिकोऽर्थ इति पन्था अबाऽऽश्रयणीयः सर्वथाणि श्रुतिपदमन वाक्यजन्यज्ञायपरमिति ग्राह्यमिति तत्त्वम् । (१) पटैकदेशे दग्धे पटो दग्ध इति व्यवहारात्समुदाये प्रवृत्तानां शब्दाना- मेकदेशेपि प्रवृत्तिदर्शनात्समग्रवेदे शक्तमपि श्रुतिपदं वेदैकदेशतद्वाक्येपि प्रवृत्तं भवतीत्याशयेन 'वेदवाक्ये शक्तम्' इत्यभिहितम् । (२) लक्षणया अनभिप्रेतमागत्यागरूपया जहदजद्दल्लक्षणयेत्यर्थः । (३) कुतश्चिन्निमित्तादतत्त्वेपि तत्त्वव्यवहार उपचारः, यथा प्राणसाधनत्वेप्यन्न- स्योपचारात् 'अन्नं प्राणा' इति प्रयोगस्तथात्रापि वाक्यजन्ये ज्ञाने वाक्यमित्युप- चारेण-प्रयोगः, स्पष्टं चैतत् “सहचरण' इति (२।२।५९) सूत्रे न्यायभाष्ये । (४) श्रुतिवाक्येनात्मनः श्रोतव्यत्वोक्तेः कथं श्रुतिस्मृतीतिहासपुराणादिवाक्ये- नात्मनः श्रुतत्वमभिहितमित्येवं कुसुमाञ्जलिग्रन्यस्यासङ्गतत्व आपादिते सति श्रुति- पदं शब्दप्रमाणवाचकमित्येवं तत्साङ्गत्यायेत्यर्थः । . : MAYAVASIK १०८ साङ्ख्यतत्वकौमुदी। तच स्वतःप्रमाणम्---अपौरुषेयवेदवाक्यजनितत्वेन सकल- दोषाऽऽशङ्काविनिर्मुक्तेर्युक्तं भवति । एवमाप्तवचनमित्यत्राप्युपंचारेणाप्तवचनुजन्यं ज्ञानं ग्राह्यम् । नचैवं पौनरुक्त्यं शङ्कयं लक्ष्यलक्षणभावस्थले पौनरुक्त्याऽनङ्गीकारा- दन्यथा प्रमाकरणं प्रेमाणमित्यादौ का गतिः स्यात् , “शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्” इति न्यायसूत्रेऽनुवादपदमुपलक्षणमिति तत्त्वम् । वाक्यजनितं ज्ञानमित्येतावतैव सिद्धेऽलमन्तर्गईंना 'वाक्यार्थ' इत्यनेन । न हि वाक्यार्थज्ञानभिन्नमन्यत्किंचिद्वाक्यजन्यं ज्ञानं यद्वाक्यातिविशेषणेन व्यावत्यैतेति तु न शङ्कनीयम् , वाक्येनाऽर्थ्यते स्वकीयतात्पर्य्यविषयतया प्रार्थ्यते योऽभिधेयस्तज्ज्ञानस्यैव वाक्यजन्यस्याऽऽरामप्रमाणत्वं यथाश्रुतवाक्यजन्यज्ञानस्येत्यर्थबोधनार्थं तस्यार्थत्वात् , युक्तं चैतदन्यथा 'गावः सत्रमासत' 'यजमानः प्रस्तर' इत्याद्यर्थवादवाक्यजन्य ज्ञानस्य प्रामाण्यं न स्यात् , यथाश्रुतस्य तस्य प्रत्यक्षादिविरुद्धत्वेनासम्भवग्रस्तत्वात् , तात्पर्यविषयीभूतस्य वाक्यजन्यार्थज्ञानस्यागमप्रमाणत्वाभ्युपगमे त्वर्थवाद- वाक्यानामपि स्वबोध्यतात्पर्यविषयीभूतप्राशस्त्यादिरूपार्थज्ञानजनकत्व- सम्भवादुपपन्नमर्थवादवाक्यजन्यस्यापि ज्ञानस्यागमप्रमाणत्वमिति । आगमप्रमाणस्यावान्तरविशेषप्रदर्शनपुरस्सरं तस्य युक्तत्वमाख्याति- "तञ्च स्वतः प्रमाणम्' इत्यादिना । तच्च वाक्यार्थज्ञानं च यत्स्वतःप्रमाणं तद्युक्तं भवति इत्यग्रिमेणान्वयः। वाक्यजन्यं ज्ञानं द्विविधमेकमन्य- प्रमाणनिरपेक्षस्वार्थबोधनसमर्थमाम्नायवाक्यजन्यं स्वतःप्रमाणम् , अपरं चाम्नायरूपमूलप्रमाणसापेक्षस्मृत्यादिवाक्यजन्यं परतःप्रमाणम्, तत्र स्वतः- प्रमाणस्य युक्तत्वे हेतुमाह-"सकलदोषाऽऽशङ्काविनिर्मुक्तेः' इति । (१) श्रुतिशब्दस्य शाब्दबोधपरत्वे कथमाप्तवचनमित्यनेन सामानाधिकरण्यं नहि वचनमेव ज्ञानमित्याशङ्कायासाह- "अत्राप्युपचारेण'' इति । (२) प्रमाणपदस्यापि प्रमाकरणस्वरूपार्थबोधकत्वात्स्पष्टं पौनरुक्त्यम् । (३) अ० ५ आ० २ सू १४ । (४) अन्तर्मध्ये गडना ग्रीवाप्रदेशजातमांसपिण्डेनेव निरर्थकेनेत्यर्थः । (५) तस्य अर्थवादवाक्यजन्यमानस्य ! (६) तस्य आगमप्रमाणस्य ।
साङ्ख्यतत्त्वकौमुदी। १०९ सकला ये भ्रमप्रमादविप्रलिप्साकरणापाटवादयः पुन्दोषाः तेषां याऽऽशङ्का सम्भावनामात्रेण प्रसक्तिः-तस्या विनिर्मुक्तेः विरहात् , अयुक्तत्वा- पादकपुन्दोषराहित्यादित्यर्थः । · कुतः पुन्दोषशङ्काकलङ्कविमोक इत्यपेक्षायां हेतुमाह-"अपौरुषेयवेद- वाक्यजनितत्वेन' इति । कापिलनये जैसिनीयनये चेश्वरानङ्गीकाराद्वेदस्य पुरुषविशेवेश्वरप्रणी- तत्वाभावेनापौरुषेयत्वं ज्ञेयम् । तथाच सूत्रम्-"न पौरुषेयत्वं तत्कर्तुः पुरुषस्याभावात्" इति । एवं च प्रणेतृपुरुषासत्त्वेन निराश्रयाणां दोषायां वेदेऽभाव इति 'अपौरु- षेय' इत्यनेन बोधितम् । तदुक्तं भेट्टपादैः-'यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः।' ६३ इति । यथा च वेदस्य स्वतःप्रमाणत्वमपौरुषेयत्वं च तथा स्पष्टम् -'यदा स्वतःप्र- माणत्वं तदाऽन्यन्नैव गृह्यते । निवर्तते हि मिथ्यात्वं दोशज्ञानादयत्नतः।' ५२ इत्यादिना चोदनासूत्रे श्लोकवार्तिके। ननु "एतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेद" इत्यादिश्रुत्या महतो भूतस्य महत्तत्त्वाख्यादिविकारस्य पुरुषस्य निश्वासभूता वेदा इति प्रतीतेः कथमपौरुषेयत्वमिति चेत्- अत्राहुः-“यस्मिन्नदृष्टेपि कृतबुद्धिरुपजायते तत्पौरुषेयम्” इति सूत्रे साङ्ख्यप्रवचनभाष्यकाराः-(दृष्ट इवादृष्टेपि यस्मिन्बस्तुनि कृतबुद्धिः (१) ममश्च उच्चारणीयवाक्यार्थगोचरो भ्रमन प्रमादोऽनवधानता-सा च वाक्यार्थज्ञानखरूपयोग्यस्य वक्तुरुच्चारणीयवाक्यार्थनिश्यव्यतिरेकः, शुकीयवाक्यार्थ- निश्चयव्यतिरेकवारणाय षष्ठयन्तनिवेश:, प्रतीतस्यार्थस्यान्यथाप्रति- पिपादयिषा प्रतारणा सैव विप्रलिप्सा, इच्छाविषयीभूतपूर्ववर्णानुकूलकण्ठताल्वाद्यभि- घातानुत्पादकालीनापरवर्णानुकूलकण्ठताल्वाद्यभिघातः करणापाटवम् , करणं कण्ठ- ताल्वाद्यभिघातः तस्यापाटवम्-असामर्थ्यम् , इच्छाविषयीभूतवर्णाननुकूलत्वमिति यावदित्यर्थ इति तर्कप्रकाशे श्रीकण्ठः । (२) सां० अ० ५ । सू० ४६ (३) चोदनासूत्रे कुमारिलखामिभिरित्यर्थः । (४) कापिलैरीश्वरानङ्गीकारात्तन्मतेन महतो भूतस्यार्थान्तराख्यानम् , पुरुषो- पाधित्वेन महानपि पुरुष उच्यते । (५) अं ० ५ । सू० ५० अन्यथा : DAIN MAHARASHTRA .... साङ्ख्यतत्वकौमुदी। बुद्धिपूर्वकत्वबुद्धिर्जायते तदेव पौरुषेयमिति व्यवह्रियते इत्यर्थः, एतदुक्तं भवति, न पुरुषोच्चरिततामात्रेण पौरुषेयत्वं श्वासप्रश्वासयोः सुषुप्तिकालीनयोः पौरुषेयव्यवहाराभावात्किन्तु बुद्धिपूर्वकत्वेन, वेदास्तु निश्वासादेवादृष्ट- वशादबुद्धिपूर्वका एव स्वयम्भुवः सकाशात्स्वयं भवन्तीत्यतो न पौरुषेया इति । जैमिनीयास्तु सम्प्रदायाविच्छेदे सत्यस्मर्यमाणकर्तृकत्वमपौरुषेयत्वं वेदाना- मित्येवमातिष्ठन्ते। वेदान्तिनस्तु-सत्यपीश्वरविवर्त्तत्वे वेदानां प्रमाणान्तरेणार्थमुपलभ्य विरचि- तत्वाभावरूपं पूर्वकल्पीयानुपूर्वीसमानानुपूर्वीघटितत्वरूपं वा अपौरुषेयत्वं वेदानामित्येवं प्रतिजानते। एवमवान्तरविशेषेपि पुरुषाऽस्वातन्त्र्यमानमपौरुषेयत्वं सर्वत्र समानमिति । ध्येयम् । तथाचाहुर्मिश्रा:-(यथाऽत्र सर्गे नियतानुपूयं वेदाध्ययनमभ्युदयनिःश्रेयस- हेतुरन्यथा तदेव वाग्वज्रतयाऽनर्थहेतुरेवं सर्गान्तरेष्वपीति तदनुरोधा- सर्वज्ञोपि सर्वशक्तिरपि पूर्वपूर्वसर्गानुसारेण वेदान्विरचयन्न स्वतन्त्रः पुरुषा- स्वातन्त्र्यमानं चापौरुषेयत्वं रोचयन्ते जैमिनीया अपि, तञ्चास्माकमपि समानमन्यत्राभिनिवेशात्) इति । तथाचापौरुषेयाम्नायवाक्यजन्यत्वेन निरस्तसमस्तदोषाशङ्कतया युक्त- माम्नायवाक्यजन्यस्य ज्ञानस्य युक्तत्वमित्यत्र फलितम् । ये तु तच्च स्वतः प्रमाणम्' इति पृथग्वाक्यमिति मत्त्वा तद्वाक्यार्थज्ञानं स्वग्राहकसामग्रीग्राह्यप्रामाण्यविशिष्टं नतु तार्किकादिवत्परतः प्रमाणम्' इत्येवं प्रामाण्यवादविचारप्रकारमत्र संयोजयन्ति ते (युक्तं भवति) इत्यत्र किं कर्तृपदं यद्भवति इति क्रियया संबध्येत इति प्रष्टव्याः । किं च नहि वाक्यार्थज्ञानमेव स्वतःप्रमाणमपि तु, 'स्वतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् ।' इत्युक्तप्रकारेण ज्ञानमात्रम्, तथा च केवलस्याग- (१) अज्ञातकर्तृके जीर्णकूपारामादौ व्यभिचारवारणाय-'सम्प्रदायाविच्छेदे सति, इति भारतादिषु व्यभिचारपरिहाराय-(अस्मयमाणकर्तृकत्वम् ) इति । (२) यथा वृत्तमर्थजातं पूर्वमुपलभ्य पुनर्विरचिता भारतादयो यथा वा पूर्व- कल्पीयानुपूर्वीविभिन्नानुपूर्वीघटिता भारतादयस्तथा न वेदा इत्यर्थः । (३) शास्त्रयोनिलाधिकरणे भामतीकार इत्यर्थः । (४) ये स्थलविशेषे खल्पटिप्पणकाराः श्रीभारतीनामानस्तारानाथादयश्च ।
- .. साङ्ख्यतत्त्वकौमुदी। १११ एवं वेदमूलस्मृतीतिहासपुराणवाक्यजनितमपि ज्ञानं युक्तं भवति । मज्ञानस्य तत्कथनं न शोभनम् , अपि च 'प्रमाणत्वाऽप्रमाणत्वे स्वतः साङ्ख्याः समाश्रिता' इत्यभियुक्तोक्तेः प्रमाणत्वस्येवाप्रमाणत्वस्यापि स्वत- स्त्वादत्र तदेकमात्रत्वाभिधानमसमीचीनम् । किञ्चैवं सति बुद्धादिवाक्यजन्यं ज्ञानमपि स्वतःप्रमाणमापद्येत, तथा च मदभिहितैव व्याख्या ज्यायसीति ध्येयम् । एवं स्वतःप्रमाणस्य युक्तत्वमाख्याय परतःप्रमाणस्य युक्तत्वमाह-"एवं वेदमूलस्मृति'-इत्यादिना । स्मृत्यादीनां पुरुषबुद्धिप्रभवत्वेन पौरुषेयदोषाक्रान्ततया कथं तेषां युक्त- त्वमित्याकाङ्क्षायां 'वेदमूल' इति हेतुगर्भविशेषणम् । किञ्चित्स्मृत्यादिकं प्रत्यक्षवेदमूलकं किञ्चिञ्चोच्छिन्नवेदशाखामूलकमित्यर्थः । यथा च प्रत्यक्षवेदमूलकत्वेपि स्मृतीनां नानुवाददोषग्रस्तत्वं तथा "विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्' "हेतुदर्शनाच" इत्या दसूत्रेषु (शाखान्तरविप्रकीर्णानि हि पुरुषान्तरप्रत्यक्षाण्येव वाक्यानि पुरुषधर्मानु- ष्ठानक्रमेणापठितानि वेदसमाम्नायविनाशभयात्स्वरूपेणानुपन्यस्यार्थोपनिबन्ध. नद्वारलभ्यानि विशिष्टध्वनिस्थानीयेन तेनैव परोक्षाण्यपि व्यज्यमानानि पिण्डीकृत्य स्मर्यन्ते) इत्यादिना तन्त्रवार्तिके स्पष्टम् । (१) तच्चेयनेन सामान्यवाक्यजन्यज्ञानस्यात्र परामृष्टत्वात् । (२) ननु यदि सर्व एव स्मार्तोऽर्थो वेदेभिहितस्तीनुवादकत्वेनाज्ञातज्ञापकत्वा. भावात्कथं स्मृत्यादीनां प्रामाण्यमित्याशङ्कायामाह-'यथाच' इति । ० अ० १ पा० ३ । सू० ३।४। (४) कस्यांचिच्छाखायामष्टकादिकर्मखरूपं निरूपितं कुत्रचिच्च तन्मन्त्राः, क्वचिच्च तद्देवतादिकमित्येवं विभिन्नानामर्थानामेकत्रोपसंहरणं मन्वादयः कृतवन्त- इत्यर्थः (५) यदि हि स्वरूपत एव वेदवाक्यान्युद्धियेरस्तदा वेदीय नियतानुपूर्वीविनाशेन तत्वाध्यायस्य प्रत्यवायकरत्वं स्यादित्यालोच्य तत्तदर्थोपनिबन्धेन वेदवाक्यानि संगृहीतानीति भावः। (३) जै० 5 ११२ साङ्यतत्वकौमुदी। आदिविदुषश्च कपिलस्य कल्पादौ कल्पान्तराधीतश्रुति- स्मरणसम्भवः । स्मृतीनामुच्छिन्नशाखामूलकत्वे च 'विवादपदं स्मृतिः स्मृत्यर्थानुभावक- वेदमूलाऽक्लप्तमूलान्तरत्वे सति महाजनपरिगृहीतत्वात्प्रत्यक्षवेदमूलस्मृतिवत्' इति वर्द्धमानोपाध्यायोक्तमनुमानं बोध्यम् । यथा च वेदशाखोच्छेदसम्भवस्तथा “स्मृत्यनुष्टानानुमितानां शाखा- नामुच्छेददर्शनात्" इत्यादिना कुसुमाञ्जलिग्रेन्थे विस्तरः। एवमितिहासपुराणयोरपि वेदमूलकत्वं ज्ञेयम् । स्मृतित्वाविशेषात्कापिलस्मृतेरपि 'अजामेकाम्' 'असङ्गो ह्ययं पुरुष' इत्या- दिवेदमूलकत्वेन युक्तत्वमवसेयम् । ननु यथा मन्वादिभिर्वेदमधीत्य तदर्थं चावगत्य तत्र तत्र विप्रकीर्ण- वेदवाक्यान्यर्थतः पिण्डीकृत्योपनिबद्धानि न तथा कपिलमुनिना, "ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति" इत्यादिश्रुत्योत्पन्नमात्रस्यैव तस्य ज्ञान- सम्पन्नत्वश्रवणाद्वेदाध्ययनमन्तरैव प्रकृतशास्त्रस्य प्रणीतत्वात् , तथा च कथं वेदमूलकत्वं नच वेदवाक्यवस्वतःप्रमाणत्वम्, पुरुषबुद्धिप्रभवस्य तस्य तत्त्वायोगादित्याशङ्कायामाह-"आदिविदुषश्च कपिलस्य कल्पान्तरा- धीतश्रुतिस्मरणसम्भव' इति । तथा च कापिलस्मृतेरपि वेदमूलकत्वाद्युक्तमेतस्या अपि युक्तत्वमित्यत्र फलितम् । महाप्रलयान्तरिते कथं वेदानां स्मरणमित्याशङ्कायाम् (आदिविदुष) इति हेतुगर्भितं विशेषणम् । अतीतकल्पानुष्टितप्रकृष्टधर्मबलेन सर्गादावेव विज्ञानसम्पन्न: कपिलः किलाविर्बभूवेति स आदिविद्वानित्यर्थः । (१) विवादपदमिति, एतच्च प्रत्यक्षवेदमूलस्मृत्यंशे लोभादिमूलस्मृत्यंशे च सिद्धसाधन बाधादिवारणार्थ ताद्रप्यसिद्धयेऽनुभावकान्तं न्यायादिमूलकस्मृतौ व्यभिचारवारणाय अक्लुप्तेति, असम्भवन्मूलान्तरत्वे सतीत्यर्थः, भ्रम एवात्र मूलमित्यसिद्धिशङ्कानिरासाय 'महाजनपरिगृहीतपदम्' इत्येतट्टीकायाम्मकरन्दकारो- रुचिदत्तः । (२) द्वितीय स्तबके तृतीयकारिकायामिति शेषः। याश्शाखा उपलम्योपनिबद्धा मन्वादिभिर्धर्मास्ता इदानीमुत्सन्ना इति भावः । (३). इतिहासपुराणानां वैदिकोपाख्यानोपबृंहणपरत्वान्न पौनरुक्त्यम् , तथाचाहुः- 'इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्' इति । (४) तस्य कापिलवाक्यस्य, तत्त्वायोगात्वतःप्रमाणत्वायोगात् । :
S A साक्ष्यतत्वकौमुदी। ११३ सुप्तप्रबुद्धस्येव पूर्वेधुरवगतानामर्थानामपरेयुः । तथाचाऽऽवट्यजैगीषव्यसंवादे भगवाजैगीषव्यो दश- महाकल्पवर्तिजन्मस्मरणमात्मन उवाच-"दशसु महाकल्पेषु विपरिवर्तमानेन मया" इत्यादिना ग्रन्थसन्दर्भेण । आप्तग्रहणेन चाऽयुक्ताः शाक्यभिक्षुनिर्ग्रन्थकसंसारमोच- कादीनामागमाभासाः परिहृता भवन्ति । तत्र दृष्टान्तमाह-"सुप्तप्रबुद्धस्येव' इति । पूर्वं सुप्तस्य पश्चात्प्रबुद्धस्य इव यथा पूर्वेयुः पूर्वस्मिन्नति समधिगतानामर्थानामपरेधुरपरस्मिन्नति स्मरणं तथेत्यर्थः। यथा चैतत्तथा 'समाननामरूपत्वात्' इति ब्रह्मसूत्रभाष्यभामत्यादौ स्पष्टम् । प्रकृष्टयोगजधर्मबलेन कल्पान्तरानुभूतमंपि स्मर्यत इत्यन्न प्रसिद्धं संवाद- माह-"तथाचाऽऽवव्य" इति । केन वचनेनोवाचेत्याकाङ्क्षायां योगभाष्यस्थितं तद्वचनमाह-"दशसु महाकल्पेषु' इति । (भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणाद्दशसु महासर्गेषु जन्म- परिणामक्रममनुपश्यतो विवेकजं ज्ञानं प्रादुरभवत् , अथ भगवानावट्यस्तनु- धैरस्तमुवाच दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन त्वया नरक- तिर्यक्सम्भवं दुःखं सम्पश्यता देवमनुष्येषु पुनः पुनरुत्पद्यमानेन सुख- दुःखयोः किमधिकमुपलब्धमिति भगवन्तमावट्यं जैगीषव्य-उवाच-दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भवं दुःखं. संपश्यता देवमनुष्येषु पुनः पुनरुत्पद्यमानेन यत्किञ्चिदनुभूतं तत्सर्व दुःखमेव प्रत्यवैमि) इत्यादिग्रन्थसन्दर्भेणेत्यर्थः । आप्तश्रुतिरित्यत्राप्तपदस्य कृत्यमाह-"आप्तग्रहणेन च” इति अयुक्ताः परिहृता भवन्तीत्यन्वयः । के तेऽयुक्ता इत्यत्राह-"शाक्यभिक्षु" इत्यादिना । (१) अ० १ पा० ३ सू० ३० (२) पा० ३ सू० १८। (३) लिङ्गशरीरमात्रविहार्यपि योगबलेन परीक्षार्थ निर्माणकायं धृत्वेत्यर्थः । (४) भव्यत्वात्कुशलत्वात् । .
म . ११४ सायतत्वकौमुदी। अयुक्तत्वं चैतेषां विगानाद्विच्छिन्नमूलत्वात् , प्रमाणवि- रुद्धार्थाभिधानाच्च कैश्चिदेव म्लेच्छादिभिः पुरुषापसदैः पञ्चविंशतिबुद्धग्रभेदानामन्यतमो यः शाक्यसिंहाभिधानः शुद्धोदननृप- तनयस्तन्मतानुयायिनो ये सौत्रान्तिकवैभाषिकयोगाचारमाध्यमिकाः “कृत्तिः कमण्डलुमौंण्ड्यं चीरं पूर्वाह्नभोजनम् । सङ्घो रक्ताम्बरत्वं च शिश्रिये बौद्ध- भिक्षुभिः॥"-इत्युक्तवृत्तिमन्तो बौद्धसंन्यासिनस्ते शाक्यभिक्षव इत्यभिधीयन्ते। निर्ग्रन्थकाः ग्रन्थेभ्यो-वेदादिसच्छास्त्रेभ्यो निष्क्रान्ताः-त्रयीबाह्या नग्ना- जैनविशेषाः । संसारोचकाः-(संसारमोचकादेश्च हिंसा पुण्यत्वसम्मता।) इत्यभिहिता हिंसादिपरायणाः 'घटभङ्गे तदन्तर्वर्तिसलिलविलयवहेहभङ्गे, तदन्तर्गत- जीवभङ्ग एव मोक्ष' इत्येवं ब्रुवाणाश्चार्वाकविशेषाः आदिना देहाद्यात्मवादि- नश्चार्वाकविशेषा ग्राह्याः। कथमेतेषामागमाभासानामयुक्तत्वमित्याशय “विगानाच्छिन्नमूलत्वात्कै- श्चिंदेव परिग्रहात्।” इति श्लोकवार्तिकोक्तं हेतुमाह-“अयुक्तत्वं चैतेषां विगानात्" इति वि विरुद्धं गानं शब्दनं तस्मादित्यर्थः । 'कैश्चिदेव परिग्रहणं विप्रलिप्सुना बुद्धेनाऽऽगमः प्रणीत इति विरुद्ध- स्मरणं च विगानम्' इति न्यायरत्नाकरकारः। तथाच “या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि तास्स्मृताः॥” इत्यादिविगानदर्शनाद्वौद्धाद्यागमाभासा- अयुक्ता इत्यत्र फलितम् । सर्वास्तित्वविज्ञानमानास्तित्वादिपरस्परविरुद्धवदनमपि विगानमन्त्र ज्ञेयम् । (१) अस्योदन्तो ललितविस्तरे सविस्तर इति तत्रैवाधिकमालोच्यम् । (२) कृत्तिः मृगचर्मादिकम् , वृत्तिरिति पाठान्तरम् । (३) जैमिनीये. ० सू० ५ श्लो० ५। (४) जै० सू० २ श्लो० १३३ । (५) मानवे अ० १२ । श्लो० ९५ (६) बाह्यवस्तुजातमध्यक्षगोचर इति सौत्रान्तिकः, आन्तरमेव वस्तु सद्वहिस्त्व- नुमेयमिति वैभाषिकः, सर्व विज्ञानमात्रमिति योगाचारः शून्यतैव तत्त्वमिति माध्यमिक इत्येवं परस्परविगानं बोध्यमित्यर्थः।
साबतचकौमुदी। ११५ जैमिनीयादिषड्दर्शनेष्वपि समानं विगानमित्याशङ्कयाह-"छिन्नमूलत्वात्" इति । वेदमूलकत्वाभावादित्यर्थः । नच सर्वज्ञसुगतप्रणीत आगम एव मूलमिति साम्प्रतम् , सर्वज्ञस्मरण- स्यासम्भवन्मूलत्वात् । तथाचाहुः कुमारिलस्वामिनः- सर्वज्ञोऽसाविति ह्येव तत्काले तु बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥ १३४ ॥ कल्पनीयाश्च सर्वज्ञा भवेयुर्बहवस्तव । य एव स्यादसर्वज्ञः स सर्वज्ञं न बुध्यते ॥ १३५॥ सर्वज्ञोऽनवबुद्धश्च येनैव स्यान्न तं प्रति । तद्वाक्यानां प्रमाणत्वं मूलाज्ञानेऽन्यवाक्यवत् ॥ १३६॥ रागादिरहिते चास्मिन्नु| पारे व्यवस्थिते । देशनाऽन्यप्रणीतैव स्यादृते प्रत्यवेक्षणात् ॥ १३७ ॥ छिन्नमूलतां विवृणोति-"सर्वज्ञ' इति । तज्ज्ञानज्ञेयं यत्सर्वं तद्विपय- ज्ञानरहितैर्नरै : कथं सर्वज्ञो ज्ञायतामतो न सर्वज्ञे कस्यचित्किंचित्प्रमाणं संभवतीति निर्मूलैव स्मृतिरिति, यदि त्वन्योपि कश्चित्सर्वज्ञ इष्यते बुद्धस्य सर्वज्ञत्वज्ञानार्थं ततस्तेनैव प्रकारेणान्यस्यान्यस्य कल्पनायां बहुसर्वज्ञापत्ति- रित्याह-"कल्पनीयाश्च” इति । एवं सर्वज्ञो न केनचित्पमातुं शक्यते इत्यु- क्तम् , एवं च सम्यङ्मलत्वाऽज्ञानात्तदागमस्यापि रथ्यापुरुपवाक्यवन्न प्रामाण्यं सिध्यतीत्याह-"सर्वज्ञ" इति । इतश्च तदागमस्याऽप्रामाण्यमि- त्याह-“रागादि" इति। लाभपूजाख्यातिरागनिमित्तं ह्यागमप्रणयनं स्वयूथ्यस्पर्धनिमित्तं वा प्रक्षीणरागादिदोषस्य बुद्धस्य न सम्भवति, निर्व्या- पारश्वायं नासावर्थप्रतिपादनाय शब्दं समुच्चारयितुं शक्नोति, कथम् , प्रत्य- वेक्षणपर्यायस्य विकल्पस्याऽसम्भवात् , अस्येदं साधनमनेन च शब्देनेदं प्रतिपादयितुं शक्यमिति यावन्न विकल्प्यते न तावद्वाक्यप्रणयनं संभवति न चायं विकल्पो निर्विकल्पकेन प्रत्यक्षेणाखिलं जगदध्यक्षयतो बुद्धस्यास्ति तस्मादन्येन केनचित्रणीतो देशनाधर्मोपदेश इत्यप्रामाण्यमिति) इत्येतदर्थ इति पार्थसारथिमिश्राः । (१) ईश्वराऽसिद्धेः' 'एतेन योगः प्रत्युक्त' इत्यादिकं विगान तत्र तत्र स्फुटमेवेत्यर्थः । (२) धर्मलक्षणाधिकरणे भट्टपादा इत्यर्थः । i ११६ साङ्ख्यतत्त्वकौमुदी। पशुप्रायैः परिग्रहादोद्धव्यम् । तु-शब्देनानुमानाद्यवच्छिनत्ति । एवं जैनाद्यागमानामपि छिन्नमूलत्वमवसेयम् । अयुक्तत्वे हेत्वन्तरमाह-"प्रमाणविरुद्धार्थाभिधानाच" इति । प्रत्यभिज्ञा- प्रमाणादिविरुद्धार्थक्षणिकत्वाद्यभिधानाचेत्यर्थः । यथाच बौद्धाद्यागमाभासानामयुक्तत्वं तथा “समुदाय उभयहेतुकेपि तद- प्राप्ति': इत्यादिब्रह्मसूत्रभाष्यादिषु निरीक्ष्यमिति । महाजनापरिगृहीतत्वाच्चायुक्तत्वमित्याशयेन विगानं विवृणोति-"कैश्चि- देव म्लेच्छादिभिः" इति । 'गोमांसखादको यस्तु विरुद्धं बहु भाषते । सर्वाचारविहीनश्च म्लेच्छ- इत्यभिधीयते॥' इति बौधायननिरुक्तम्लेच्छसमानैः, पुरुषेषु अपसदैः नीचैः अत एव पशुकल्पैरिति एवंविधैः कैश्चिदेव परिग्रहादयुक्तत्वं बोद्धव्यमित्यर्थः । यैः पशुदेशीयैयहेतुभिबौद्धाद्यागमाः परिगृहीतास्ते त उदयनाचायः कुसुमाञ्जलौ 'भूयस्तन कर्मलाघवमित्यूलसा, इतः पतितानामप्यनुप्रवेश- इत्यनन्यगतिका भक्ष्याद्यनियम इति रागिणः, स्वेच्छया परिग्रह इति कुताभ्यासिन' इत्यादिना ग्रन्थसन्दर्भेण निरूपिता इति तत एवाधिकमा- लोकनीयम् । ये किल शाक्या 'द्विविधं सम्यग्ज्ञानं प्रत्यक्षमनुमानं च' इत्येवं निरूपयन्त- आगमप्रमाणमपलपन्ति ये चौलूक्याँ अनुमाननिरूपणानन्तरम् “एतेन शाब्दं व्याख्यातम्" इत्येवमनुमानान्तर्भूतमेवागमप्रमाणमिति मन्यन्ते तान्न्यकर्तुमाह-'तुशब्देन' इति । 'आप्तवचनन्तु' इति तुशब्देनेत्यर्थः। व्यवच्छिनत्ति पृथक्करोति आगमप्रमाणमिति शेषः । (१) अ० २ पा० २ सू० १८ (२) द्वितीयस्तबके तृतीयकारिकायामिति शेषः । (३) औलुक्याः कृणादाचार्या । (४) अ० ९ आ० २ सू० ३ । (शाब्दं शब्दकरणकं ज्ञानमिदमिति यतैया- यिकादीनामभिमतं तदपि एतेन लैङ्गिकत्वेन-लिङ्गप्रभवत्वेनैव व्याख्यातं यथा व्यापिपक्षधर्मताप्रतिसन्धानापेक्षं लैङ्गिक तथा शाब्दमपीत्यर्थ इत्युपस्कारकारः शङ्करमिश्रः। R RECORDINE Sxifa १ ३ साङ्ख्यतत्त्वकौमुदी। ११७ वाक्यार्थो हि प्रमेयो न तु तद्धर्मो वाक्यं येन तल्लिङ्गं भवेत् । नच वाक्यं वाक्यार्थ बोधयत्संबन्धग्रहणमपेक्षते, अभि- चवकविविरचितस्य वाक्यस्याऽदृष्टपूर्वस्वाननुभूतचरवाक्यार्थ- कथमनुमानायवच्छेद इत्यत्राह-"वाक्यार्थी हि" इति । हिरवधारणे, इदं वाक्यं संसृष्टार्थज्ञापकमाप्तवाक्यत्वाद्वाक्यान्तरवदित्येवं परस्परपदार्थ- संसर्गरूपो वाक्यार्थ एव प्रमेयः अनुमानेन मेयः, सचासम्भवी वाक्यत्वस्य लिङ्गत्वासम्भवादित्यर्थः। कथं लिङ्गत्वासम्भव इत्यत्राह-"नतु तद्धर्मों वाक्यम्" इति । यथा प्रमेयवह्वेर्धर्मो धूमो न तथा तद्धर्मः प्रमेयवाक्यार्थस्य धर्मों वाक्यं येन तस्य वाक्यार्थस्य लिङ्गं भवेदित्यर्थः । एतच्च (पदानामेव पदार्थस्मरणावान्तरव्यापाराणां वाक्यार्थप्रमा प्रति करणतया प्रमाणत्वात्तेषां चापक्षधर्मतया लिङ्गत्वानुपपत्तेः) इत्यादिना तात्पर्यटीकायां 'कथं च पक्षधर्मत्वं शब्दस्येह निरूप्यते।' इत्यादिना श्लोक- वार्तिके च व्यक्तम् । ननु मेघोन्नत्यादिना वृष्ट्यादेरमेयत्वदर्शनान्न धर्मधर्मिणोरेव लिङ्ग- लिङ्गिभावनियमोऽपि तु ययोरव्यभिचरितसहचाररूपसंबन्धग्रहणं तयोलिङ्ग- लिङ्गिभावसमयः, तथा च यथा धूमधूमध्वजयोस्तादृवसंबन्धग्रहणाल्लिङ्ग- लिङ्गिभावस्तथा वाक्यवाक्यार्थयोरपि तादृक्संबन्धग्रहणात्कथं न तयोस्त. द्भाव इत्याशङ्कामपनेतुमाह-"न च वाक्यम्" इति । यथा पर्वते बझिं बोधयन्धूमः पूर्व महानसादौ वह्निना सह स्वसंबन्ध ग्रहणमपेक्षते तथा वाक्यं स्वार्थ बोधयत्पूर्वकालिकसंबन्धग्रहणं पेक्षत इत्यर्थः । तथाचाहुः शालिकनाथमिश्राः :: (नह्यत्र गम्येनार्थेन गमकशब्दस्य संबन्ध- नियमोवगतो नापि गम्यस्यार्थस्य किञ्चित्प्रत्येकदेशत्वं नापि च गमकस्येति सामग्रीभेदादनुमानाशङ्कापि नास्ति) इति । उक्तार्थे हेतुमाह-"अभिनव"इत्यादिना यस्य वाक्यस्य पूर्व स्वार्थेन सह (१) धूमध्वजः वह्निः। (२) अव्यभिचरितसहचाररूपसंबन्धग्रहणात् । (३) तयोः वाक्यवाक्यार्थयोः, तद्भावः लिङ्गलिङ्गिभावः । (४) प्रकरणपश्चिकायां प्रमाणपारायणे पञ्चमे प्रकरण इति शेषः । (५) उक्तार्थे संवन्धनियममन्तरैव वाक्यस्य स्वार्थबोधकत्वमित्यर्थः ।। . नचा- 7 t ११८ साङ्ख्यतचकौमुदी। बोधकत्वादिति । एवं प्रमाणसामान्यलक्षणेषु तद्विशेषलक्षणेषु च सत्सु यानि प्रमाणान्तराण्युपमानादीनि प्रतिवादिभिरभ्युपेयन्ते तान्युक्तलक्षणेष्वेव प्रमाणेष्वन्तर्भवन्ति । सथाहि-उपमानं तावद्यथा गौस्तथा गवय इति वार्य सजनिता धीरागम एव । संबन्धो न गृहीतस्तथाविधस्याभिनवस्य नूतनोच्चरितवाक्यस्यात एवा. ऽदृष्टपूर्वस्थै पूर्वमश्रुतस्य पूर्वमननुभूतनूतनवाक्यार्थबोधकत्वदर्शनादित्यर्थः । शब्दादमुमर्थ प्रत्येमीतिविलक्षणानुभववलादाकाङ्क्षायोग्यतादिसामग्री- बैलक्षण्याच्च नागमस्यानुमानविधया प्रामाण्यमित्यन्यत्र विस्तरः । प्रमाणसामान्यतद्विशेषनिर्वचननिरूपणप्रकरणमुपसंहरन् ‘सर्वप्रमाणसिद्ध- स्वात्' इत्यत्राभिहितं प्रमाणत्रयेऽन्यप्रमाणान्तर्भावं स्मारयति "एवम्" इत्यादिना । कथमन्तर्भाव इत्यत्राह-"तथाहि” इति । यथान्तर्भावस्तथा प्रदर्शयामी. त्यर्थः। तत्र ये किलान्वीक्षिकीकुशलाः 'प्रसिद्धसाधात्साध्यसाधनमुपमानम्' इत्यक्षपादीयसूत्रानुसारिणः (कीदृशो गवय इति नागरिकेण पृष्ट आरण्यकः प्रसिद्धन गवा साधादप्रसिद्धं गवयं येन वाक्येन बोधयति यथा गौरेवं गवय इति तद्वाक्यमुपमानम्) इत्येवमुपमानं वर्णयन्ति तान्प्रत्याह- "उपमानं तावत्" इति । यथा गौस्तथा गवय इति यद्वाक्यं तजन्यं यद्वाक्यार्थज्ञानं सदागमप्रमाणमेवेत्यर्थः । (१)पूर्व दृष्ट इति दृष्टपूर्वः, भूतपूर्ववत्समासः, तथा न भवतीयदृष्टपूर्वः, वाक्यस्येति विशेष्यबलेन दर्शनमत्र श्रावण ज्ञानमित्याशयेनाह-"अश्रुतपूर्वस्य" इति । 'अदृष्टपूर्वाननुभूतचर' इति पाठे तु 'अदृष्टपूर्व' इत्यस्य 'अननुभूतचर' इति व्याक्यानं ज्ञेयं हेतुहेतुमद्भावेन वा नेयम् । (२) अन्यत्र 'अननुभूतचरे स्मरणायोमात्' इत्यादिना कुसुमाञ्जलिग्रन्थे इत्यर्थः । (३) न्या० सू० ५। (४) साङ्ख्यनये चित्तवृत्तेरेवं प्रमाणत्वाद्वाक्यजन्यं ज्ञानमेवागमप्रमाणं नतु वाक्यमामित्यर्थः। semom ११९ साङ्ख्यतत्त्वकौमुदी। योऽप्ययं गवयशब्दो गोसदृशस्य वाचक इति प्रत्ययः सोऽप्यनुमानमेव । यो हि शब्दो यत्र वृद्धः प्रयुज्यते सोऽसति वृत्त्यन्तरे तस्य वाचकः यथा गोशब्दो गोत्वस्य, प्रयुज्यते चैष गवयंशब्दो- गोसदृश इति तस्यैव वाचक इति तज्ज्ञाननुमानमेव । तथाचागमान्तर्भावानोपमानं पृथक्प्रमाणमित्यन्न फलितम् । तथाचाहुः प्रशस्तपादाचार्याः-आप्तेनाप्रसिद्धगवयस्य गवा गवयप्रति- पादनादुपमानमाप्तवचनमेव) इति । कुमारिलस्वामिनश्च-(पुरुषप्रत्ययेनैव तत्रार्थः सम्प्रतीयते । तदीयवचन- त्वेन तस्मादागम एव सः।) इति । ये च तार्किकयूथ्याः (समाख्यासंबन्धप्रतिपत्तिरुपमानार्थ) इति न्याय- बार्तिकसनुसरन्तः (यथा गौस्तथा गवय इति श्रुतातिदेशवचनस्य ग्रामी- णस्य कानने गोलमान पिण्डमालोकमानस्य नूनमयमसौ गवयपदाभिधेयो यः पुरारण्यकेन गोलशरे गवय इत्युपदिष्ट इति या प्रमितिरुपजायते तत्कर- णमुपमानम्) इत्येवमुपमानकृत्यं निरूपयन्ति तान्शिथिलयितुमाह- “योप्ययम्" इति । योपि गवयशब्दो गोसदृशस्य वाचक इत्ययं प्रत्ययः सोपि (गवयपदं गोसदृशपिण्डवाचकं लक्षणागुणवृत्त्योरसद्भावे सति वृद्धस्तत्र प्रयुज्यमान- त्वाद्गोत्वे प्रयुज्यमानगोपदवत्) इत्यनुमानप्रयोगलाध्यत्वादनुमानमेवेत्यर्थः । सज्ञासभिज्ञसंबन्धज्ञानरूपोपमानफलस्यानुमानेनैव निष्पन्चत्वान्न तदर्थ पृथगुपमानं मानान्तरमुपेयमिति भावः । उपमानफलस्यानुमानसाध्यत्वं स्पष्टयितुमुक्तानुमानप्रयोगसामग्रीमाह- “यो हि शब्द” इति । एतेन व्याप्तिस्वरूपोपदर्शनमुखेन “असति वृत्त्यन्तरे वृद्धस्तत्र प्रयुज्यमानत्वात्" इति हेतुस्वरूपमत्रोपदर्शितमिति ज्ञेयम् । गङ्गायां घोषः प्रतिवसति-सिंहो बलवर्मा इत्यादिषु यथाक्रमं लक्षणया गुणवृत्त्या चावाच्येष्वपि तीरादिषु प्रयुज्यमानैर्गङ्गादिपदैर्व्यभिचारपरिहाराय (१) अविदितगवयस्य नागरिकस्य पुरुषस्य यर्थः । (२) सम्ज्ञासज्ञिसंबन्धज्ञानमुपमान फलमिति बार्तिकार्थः । RS RE-BHIDEEOANGREADERam . १२० साङ्ख्यतत्त्वकौमुदी। यत्तु गवयस्य चक्षुःसन्निकृष्टस्य गोसादृश्यज्ञानं तत्प्रत्यक्षमेव 'असतिवृत्त्यन्तर' इति हेतुविशेषणम्-, नच लक्षणया तथाप्रयोग इति विशेष णासिद्धो हेतुरिति शङ्कयम् , आरण्यकानां तथाप्रयोगाभावप्रसङ्गाल्लक्ष- णाया अनङ्गीकारात् । अयं भावः-गोसादृश्यवाचकस्य सतः तदविनाभूते गवयत्वे लक्षणया गवयशब्दस्य प्रयोग इति हि शङ्कितुरभिमतं तच्चासम्भवि, अदृष्टगोव्यक्तीना- मरप्यैकनिकेतनानां गोसादृश्यानधिगमे गवयपदाप्रयोगप्रसङ्गादिति । एवं हेतुमुपदर्योदाहरणमाह-"यथा गोशब्दो गोत्वस्य" इति । उपनयमाह-"प्रयुज्यते चैष गोशब्दो गोसदृश" इति । निगमनमाह- "इति तस्यैव वाचक" इति। इति-शब्दः तस्मादित्यर्थकः। उपसंहरति 'इति तज्ज्ञानम्' इति । इति इत्येवं तज्ज्ञानं सज्ञासज्ञिसं- बन्धज्ञानमनुमानमनुमानफलमेवेत्यर्थः । एतेन (संबन्धस्य परिच्छेदः सञ्जया सञ्जिना सह । प्रत्यक्षादेरसाध्यत्वा- दुपमानफलं विदु॥ इत्युदयनाचार्योक्तमपि पराकृतं वेदितव्यम्, अनुमान- साध्यत्वसम्भवेन 'प्रत्यक्षादेरसाध्यत्वात्' इत्युक्तेरसाङ्गत्यात् । ये च पूर्वमीमांसकाः 'उपमानमपि सादृश्यमसन्निकृष्टार्थे बुद्धिमुत्पादयति यथा गवयदर्शनं गोस्मरणस्य' इति शाबरभाष्यानुयायिनः (नगरानुभूत- चरगोपिण्डस्य नरस्यारण्यं प्राप्तस्य तत्र साक्षाद्वयमीक्षमाणस्य प्रत्यक्ष- दृष्टगवयसादृश्यविशिष्टासनिकृष्टगोपिण्डग्रहणरूपं यदनेन सदृशी मदीया गौरिति ज्ञानं तदुपमानम्) इत्येवं मन्यन्ते तेषाम्मनोरथानपा कर्तुमाह- “यत्तु गवयस्य” इत्यादि। गवयनिष्ठं गोसादृश्यज्ञानमुपमानं गोनिष्टं च गवयसादृश्यज्ञानमुपमान- फलमिति हि मीसांसकाभिमतं तत्र तद्वयनिष्ठं गोसादृश्यज्ञानं तत्प्रत्यक्ष- ज्ञानमेव न प्रमाणान्तरमित्यर्थः । (१) गोसदृशो गवयपदप्रयोग इत्यर्थः । (२) न्यायकुसुमाञ्जलौ तृतीयस्तबके दशमश्लोकोयमिति ज्ञेयम् । (३) यत्सादृश्यं दृश्यमानमसन्निकृष्टार्थे बुद्धिमुत्पादयति तदुपमानं प्रमेय- बुद्धिजनकमेव सादृश्यमिन्द्रियप्रत्यक्षमुपमानं यथा गवयदर्शनं सादृश्यविशिष्ट- गवयदर्शनं गोस्मरणस्य जनकम्' इति भाष्यार्थ इति न्यायरत्नाकरकारः । (४) प्रत्यक्षेण दृष्टो यो गवयस्तत्सादृश्य विशिष्टतयाऽसनिकृष्टस्य नगरगतगो- पिण्डस्य यगणं तदुपमानमित्यर्थः । .
AART-IIIFALAN प साङ्ख्यतत्त्वकौमुदी। १२१ अत एव मर्यमाणायां गवि गवयसादृश्यज्ञानं प्रत्यक्षम् । न ह्यन्यद्गवि सादृश्यमन्यच्च गवये, भूयोऽवयवसामान्य- योगो हि जात्यन्तरवर्ती जात्यन्तरे सादृश्यमुच्यते, सामान्य- योगश्चैकः, स चद्वये प्रत्यक्षो गव्यपि तथा । तत्र हेतुगर्भितं विशेषणमाह-"चक्षुःसन्निकृष्टस्य” इति । यथा चक्षुःसन्निकृष्टायां गवि तन्निष्ठं गोत्वमध्यक्षीभवति तथा चक्षु. स्सन्निकृष्टे गवये तन्निष्ठं सादृश्यमपि प्रत्यक्षमेवेस्यर्थः । (सामान्यवच्च सादृश्यमेकैकन समाप्यते । प्रतियोगिन्यदृष्टेपि यस्मात्तदुप- लभ्यते॥) इति भट्टपादोक्तेः सादृश्यं हि सामान्यवत्प्रत्येकव्यक्तिसमाप्तं न संयोगवदुभयत्र व्यासज्य वर्तते तेन प्रतियोगिनो गोपिण्डस्यादर्शनेपि भवति गवयव्यक्तौ गोसदृशोयमिति प्रत्यक्षप्रतीतिरिति भावः । नन्वस्तु गवयनिष्ठं गोप्रतियोगिकसादृश्यज्ञानमध्यक्षं तथापि गोनिष्ठगवय- सादृश्यज्ञानरूपं यदुपमानफलं तत्केन साध्यमित्याशङ्कायामाह-"अत- एव" इति । अतएव वक्ष्यमाणहेतोरेव यथा गवयगतं सादृश्यमध्यक्षं तथा स्मृत्या- रूढायां गवि गतं सादृश्यमपि प्रत्यक्षमेवेत्यर्थः । चक्षुःसन्निकर्षाभावेन कथं गोगतं सादृश्यं प्रत्यक्षमित्याशक्य अतएव इत्य- भिहितं हेतुमाह-"नह्यन्यत्" इति । हि यतो गव्यन्यादृशं सादृश्यं गवये चान्यादृशं सादृश्यमिति नास्त्यत उभयोरेकत्वेन तदपि प्रत्यक्षमेवेत्यर्थः । कथमुभयोरैक्यमित्यत्राह-"भूयोऽवयवसामान्ययोगो हि" इति । (सादृश्यस्य च वस्तुत्वं न शक्यमपबोधितुम् । भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् ॥) इति कुमारिलस्वाम्युक्तेर्गवयसकाशाजात्यन्तरे गोपदार्थे (१) पञ्चमसूत्र उपमानपरिच्छेदे ३५ श्लो०, प्रतियोगिनि गव्यदृष्टे कथं गवय- गतं सादृश्यं प्रत्यक्षमित्याशङ्कायामिदमभिहितं मिति ज्ञेयम् (२) श्लो० १८| 'गवयात्सकाशाज्जात्यन्तरस्य गोपदार्थस्य यो गवयगतभूयो- ऽवयवसामान्यैर्योगस्तत्सादृश्यम् , अतः सादृश्यस्य वस्तुत्वमपबाधितुमशक्यमिति भट्टोक्तेरर्थः, सादृश्यस्य पदार्थान्तरत्वमावेपि सामान्यपदार्थेऽन्तर्भावाङ्गीकारात्तस्य वस्तुत्वमभ्युपेयमिति भावः' । L - , स . १२२ साङ्ख्यतत्वकौमुदी। इति नोपमानस्य प्रमेयान्तरमस्ति यत्र प्रमाणान्तरमुपमानं भवेत् , इति न प्रमाणान्तरमुपमानम् । एवमर्थापत्तिरपि न प्रमाणान्तरम् । तथाहि--जीवतश्चैत्रस्य महामावदर्शनेन वहिर्भावस्या- वर्तमानो यो भूयोऽवयवसामान्ययोगः भूयसामवयवानां यानि सामान्यानि खुरत्वलाफूलत्वादीनि तेषां यः संबन्धस्तदेव जात्यन्तरे गवये सादृश्य- मुच्यते, स च भूयोवयवसामान्ययोगो गोत्वादिवदेकः स चेद्वये साक्षा- स्कृतस्तहि गव्यपि साक्षात्कृत एदेत्यर्थः । द्रव्यादिचतुष्टयपदार्थवादिभट्टनये लादृश्यस्य सामान्यपदार्थविशेषरूपत्वेन गोत्वादिवदाश्रयग्रहणेनैव गृह्यमाणत्वात्पूर्व गृहीतमेव गवि सादृश्यं पुनः परासृश्यते, तत्रैतावान्विशेषः-पूर्वमनेन सदृशी मदीया गौरिति प्रतियोगि- वैशिष्ट्यव्यतिरेकेण गोत्ववनिर्विकल्पेन सादृश्यमाकलितं पुनर्गवयरूपप्रति- योगिदर्शने तु सविकल्पकेन तत्प्रत्यभिज्ञायते, तकिमपरमवशिष्यते यत्रोपसानमिप्यतेत्याशयेनाह-"इति नोपमानस्य" इति । इति इत्येवं प्रत्यक्षसिद्धे सादृश्यज्ञाने। सामान्यपदार्थादतिरिक्तं सादृश्यमिति प्रभाकरमते तु गोमतसादृश्यज्ञानं स्मरणरूप बोध्यमिति तत्त्वम् । यदपि (प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽसिद्धे- रुपमानप्रमाणता॥) इति भट्टपादैः स्मर्यमाणैव गौर्गवयसादृश्यविशिष्टा, तद्विशिष्टं वा सादृश्यमुपमानस्य प्रमेयमित्येवमुपमानकृत्यं दर्शितं तदपि (सा गौर्गवयसदृशी गोत्वाद्वयेन सहोपलभ्यमानगवान्तरवत्) इत्या- द्यनुमानेन निष्पादितत्वानोपमानकृत्यमित्यन्यत्र विस्तरः । एवमुपमानं यथायथं प्रत्यक्षादिष्वन्तर्भाच्यार्थापत्तिमनुमानेऽन्तर्भावयि- तुमुपक्रमते-"एवमर्थापत्तिरपि न प्रमाणान्तरम्' इति । तत्र शबरस्वामिप्रदर्शितमर्थापत्तिस्वरूपमाह-"जीवत' इत्यादिना । (१) श्लो० ३८ (२) तत्त्वप्रदीपिकायां द्वितीयपरिच्छेदे ३०. इति कारिकायां कुसुमाञ्जलि- तृतीयस्तबके ९ इति कारिकायां चेत्यर्थः । .7 XRASTRIES साङ्ख्यतत्वकौमुदी। १२३ दृष्टस्य कल्पनमापत्तिरभिमता वृद्धानां साऽप्यनुमानमेन । शतवर्षजीवी चैत्र इति दैवज्ञवाक्यात्प्रतिपञ्चजीवनस्य चैत्रस्य गृहास- त्वदर्शनेनादृष्टस्य बहिर्भावस्य कल्पनारूपा याऽर्थापत्तिवृद्धानां मीमांसाभाप्य- काराणामभिमता साप्यनुमानमेवेत्यर्थः । अयं भावः-उपपाद्यज्ञानाभवमुपपादकज्ञानमर्थापत्तिः, तत्र योऽर्थोऽन्येन केनचित्कल्पनीयेन विना नोपपद्यते सोऽर्थ उपाद्य इति, यस्य च कल्प- नीयार्थस्याभावे सत्युपपाद्यं नोपपद्यते स कल्पनीयोऽर्थ उपपादक इति । तत्रोपपाद्यज्ञानं करणतयाऽर्थापत्तिप्रमाणम् , उपपादकज्ञानं च फलतयाऽर्था- पत्तिप्रमा, सा चार्थापत्तिः (अर्थापत्तिरपि यन्न दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यते इत्यर्थकल्पना) इति शाबरभाष्याट्विविधा, एका "प्रमाण- षट्कविज्ञातो यत्रार्थो नान्यथा भवेत् । अदृष्टं कल्पयेदन्यं सार्थापत्तिरुदा- हृता ॥” इति लक्षिता दृष्टार्थापत्तिः, अपरा च "पीनो दिवा न सुझे चे- त्येवमादिवचःश्रुतौ । रात्रिभोजनविज्ञानं श्रुतार्थांपत्तिरुच्यत॥” इति लक्षिता श्रुतार्थापत्तिः, दृष्टशब्दस्य प्रत्यक्षाद्यवगतयावामितमात्रपरत्वेपि गोबली- वर्दन्यायेन दृष्टा देन श्रुतोपादानादागमप्रमाणावगतश्रुतातिरिक्तप्रमाण- पञ्चकप्रमितपरत्वेन दृष्टशब्दो नेयः, तथाच प्रमापञ्चकपूर्विका दृष्टार्थापत्तिः (१) दैवज्ञः ज्योतिश्शास्रवेत्ता । (२) योऽर्थः गृहासत्वरूपोर्थ:-येनान्येन बहिःसत्त्वरूपेण कल्पनीयार्थेन विना नोपपद्यते स गृहासत्त्वरूपोऽर्थ उपपाद्य इत्युच्यते, यस्य च बहिस्सत्त्वरूपस्य कल्पनीयार्थस्याभावे सति उपपाद्यं गृहासत्वं नोपपद्यते स च बहिस्सत्त्वरूपोर्थ- उपपादक इत्युच्यत इत्यर्थः । (३) अर्थस्य बहिस्सद्भावस्य आपत्तिः कल्पना यस्मादिति समानार्था- पत्तिशब्द उपपाद्यज्ञानरूपकरणपरत्वेन प्रमाणवाची, अर्थस्यापत्तिरिति समासेन चोपपादकज्ञानरूपार्थापत्तिप्रमितिपर इति भावः । (४) श्लोकवार्तिकेऽर्थापत्तिपरिच्छेदे प्रथमः श्लोकोयम् । (५) श्लो० ५१ (६) एतेन यद्वेदान्तपरिभाषायां जैमिनीयमतेन वहिस्सत्त्वकल्पनस्य श्रुता- पित्तित्वाभिधानं तदुपेक्ष्यमिति ज्ञेयम् । (७) ननु पूर्वोक्तबार्तिकादृष्टशब्दस्य प्रमाणषट्कविज्ञातार्थपरत्वे सति प्रमाणावगतश्रुतस्यापि दृष्टान्तर्भावसम्भवात्कथं . दृष्टात्पृथक्श्रुतोपादानमित्याशङ्का- यामाह-'दृष्टशब्दस्य” इति । -kiymiUARD 9. : तस्य १२४ सावतचकौमुदी। यदा खलु सन्नेकत्र नास्ति तदाऽन्यत्रास्ति, यदाऽव्यापक एकत्रास्ति तदान्यत्र नास्तीति सुकरः स्वशरीरे व्याप्तिग्रहः । पञ्चविधा आगमनमाणपूर्विका च श्रुतार्थापत्तिरेकविधेत्येवं षड्विधाऽर्था- पत्तिरित्यायातं तत्रानुपलब्धिप्रमाणपूर्विका या (जीवतश्चैत्रस्य गृहाभाव- दर्शनेन बहिर्भावस्यादृष्टस्य कल्पना) इत्येवंरूपा दृष्टार्थापत्तिश्शबरस्वामि- नोदाहृता साऽनुमानमेवेति । पुतदुक्तं भवति-यदा किल देवदत्तो ग्रामावहिरेव जीवन्नस्ति क्वचिच्चैत्र- इत्याप्तवाक्यादनिर्धारितदेशविशेषनिष्ठतया चैत्र सत्त्वमवगत्य पुनश्च ग्राम प्रविश्य गृहं चागत्य गृहान्तश्च तस्य जीवतोऽभावमवलोकयति तदा बहिरव. स्थानं विनाऽनुपपद्यमानगृहाभावज्ञानात्तदुपपादकबहिरवस्थानं जायत इति यदर्थापत्तिफलत्वेनाभिमतं बहिस्सत्त्वज्ञानं तदनुमानफलमेवेति । अनुमानप्रयोगश्च (चैत्रो बहिरस्ति जीवनवत्त्वे सति गृहासत्वादहमिव) इत्याकारो बोध्यः । एतस्मिन्ननुमाने 'यदा जीवतो गृहासत्त्वं तदा बहिस्सत्वम्' इत्यन्वय-. व्याप्तिं 'यदा तु बहिस्सत्त्वासत्त्वं तदा जीवतो गृहसत्त्वम्' इति व्यतिरेक- व्याप्तिं च दर्शयितुं दृष्टान्ते व्याप्तिग्रहप्रकारमाह-“यदा खलु सन्नेकत्र' इति । सन्विद्यमानः। जीवन्मच्छरीरो यदा एकत्र गृहे नास्ति तदाऽन्यत्र बहिरस्तीत्यर्थः । मृते व्यभिचारपरिहाराय जीवन्नित्यर्थवाची सन्निति एतेन यदाहं नेह तदान्यत्रेत्यन्वयव्याप्तिर्दर्शिता । व्यतिरेकव्याप्तिमाह-“यदाऽव्यापक एकत्र" इति । "नियम्यत्व नियन्तृत्वे भावयोर्यादृशी मते। विपरीते प्रतीयते त एव तदभावयोः॥” इत्युक्तेरन्वये जीविगृहासत्त्वं व्याप्यं बहिस्सत्त्वं च व्यापकं व्यतिरेक्रे तु बहिरसत्त्वं व्याप्यं गृहसत्त्वं च व्यापकमिति सिद्धान्तबलादत्र यत्तदोर्विभिद्य संबन्धः कार्यः तथा च यदाऽन्यत्र बहिर्नास्ति तदा एकत्र गृहेऽस्तीत्येवं योजन- यात्र व्यतिरेकव्याप्तिज्ञेया । (१) 'यदा खल्वव्यापक' इति पाठः सर्वत्रोपलभ्यमानोपि तात्पर्य्यटीकानुरो- धादसंबद्धत्वाच्चात्रोपेक्षित इति ज्ञेयम् । (२) प्रत्यक्षावगता दाहक्रिया दहनशक्तिमन्तरानुपपन्ना सती वह्नौ दहनशक्तिं कल्पयति अनुमानावगतं चादित्यगमनं गमनशक्तियोग्यतां विनाऽनुपपन्नं सदा- दिये गमनशक्तियोग्यतां कल्पयति, इत्यादिकानि प्रत्यक्षादिपूर्विकाणामर्थापत्ती- नामुदाहरणानि श्लोकवार्तिके ज्ञेयानि ।
. सामयतत्त्वकौमुदी। १२५ तथाच सतो गृहाभावदर्शनेन लिङ्गेन बहिर्भावदर्शनमनु- मानमेव । नच चैत्रस्य क्वचित्सत्वेन गृहाभावः शक्योऽपह्नोतुं यतो- सिद्धो गृहाभाचो बहिावे न हेतुस्स्यात् । नच गृहाभावेन वा सत्त्वमपद्भूयते । येन सत्त्वमेवानुपपद्य- मानमात्मानं न बहिरवस्थापयेत् । . 'अव्यापक' इति तु यथाश्रुतपाढमादायार्थकरणपक्षे गगचे व्यभिचारा- यहारायेति बोध्यम् , गगनं ह्येकत्र विद्यमानमपि नान्यत्राविद्यमानं भवतीति , व्याप्तिं प्रदर्य हेतुस्वरूपं दर्शयन्बहिर्भावानुमितिमाह-"तथा च सत" इति । तथाच अनन्तरोक्तेन प्रकारेण व्याप्तिहे सिद्धे सति सतः जीवतश्चै- त्रस्य गृहाभावज्ञानरूपेण लिङ्गेन जीवित्वे सति गृहासत्त्वादिति हेतुना बहिर्भावदर्शनमनुमानमेव अनुमानसाध्य मेवेत्यर्थः । लिङ्गसमुत्था बौद्धप्रमैव वात्रानुमानम् । पूर्वोक्तानुमाने हेतोः पक्षधर्मतां दर्शयितुं स्वरूपासिद्धिं बारयति-"नच चैत्रस्य” इति । चैत्ररूपे पक्षे वर्तमानो यो गृहाभावरूपो हेतुः स. चैत्रस्य क्वचित्सत्त्वेनाऽपोतुमपनेतुं न शक्यो येनाऽसिद्धः स्वरूपासिद्धः सन्गृहाभावो बहिर्भावे हेतुर्न स्यादित्यर्थः । सिद्ध एव गृहाभाव इति न हेतोः पक्षवृत्तित्वाभाव इति भावः । साध्यासिद्धिं वारयति,-"नच गृहाभावेन" इति । सत्त्वं बहिरस्तीति साध्यैकदेशश्चैत्रसद्भावोपि न गृहाभावेनापढूयते येन सत्त्वमेवानिष्पन्नं सत्स्वात्मानं बहिर्देशे नावस्थापयितुं शक्नुयादित्यर्थः । बहिस्सत्त्वरूपसाध्य- सम्भवान्न साध्याग्रसिद्धिरिति भावः । क्वचित्सत्त्वेन गृहासत्त्वमपनेतुमशक्यं गृहासत्त्वेन च क्वचित्सत्त्वमपनेतु- (१) गृहासत्त्वज्ञानस्यैव बहिस्सत्वज्ञानरूपानुमितिकरणत्वेनानुमानपदाभिधेय- वात्कथं बहिर्भावदर्शनरूपाया अनुमितेरत्रानुमानाभिधानमित्यत्राह-“अनुमान- साध्यम्' इति । साङ्ख्यमतेनाह-"बौद्धप्रमैव वा' इति । (२) पक्षे हेत्वभावः स्वरूपासिद्धिः। (३) येन गृहासत्त्वापनयनरूपेण कारणेन । (४) येन सत्त्वापनयनरूपेण कारणेनं । -- १ १२६ साहयतचकौमुदी। तथाहि चैत्रस्य गृहासत्त्वेन सत्त्वमानं विरुद्धयते, गृहसत्त्वं वा, न तावद्यत्र वचन सवस्यास्ति विरोधो गृहासचेन, भिन्नविषयत्वात् । देशसामान्येन गृहविशेषाक्षेपोपि पाक्षिक इति समान- विषयतया विरोध इति चेत् , न, प्रमाणविनिश्चितस्य गृहे- ऽसत्त्वस्य पाक्षिकतया सांशयिकेन गृहसत्त्वेन प्रतिक्षेपायोगात् । मशक्यं विरोधाभावादित्यभिहितं विरोधाभावमेव स्पष्टयितुं द्वेधा विकल्पयति- "तथाहि चैत्रस्य" इति । सत्त्वमानं यत्र क्वचन सत्वमित्यर्थः । आधं विकल्पं निराकरोति “न तावत्" इति । गृहासत्त्वेन सह यत्र वचन सत्त्वस्य विरोधो नास्तीत्युक्तौ हेतुमाह- "भिन्नविषयत्वात्" इति । असत्वस्य गृहात्मकप्रदशो विषयः,सत्त्वस्य च बाह्यप्रदेशो विषय इत्येवं समानविषयत्वाभावान विरोध इत्यर्थः । विरोधमापादयितुमुभयोरेकविषयत्वसंपत्तये यतमानो मीमांसकः शङ्कते-"देशसामान्येन" इति । जीवी चैनः क्वचिदस्तीत्याप्तवाक्यादाक्षिप्यमाणेन सत्त्वस्याश्रयीभूतेन देशसामान्येन तेन्मध्यवर्तिनो गेहरूपदेशविशेषस्याऽऽक्षेपः अर्थाल्लाभोपि पाक्षिकः पक्षे प्राप्त इति अत उभयोस्सत्वासत्त्वयोस्लमानविपयतया विरोध इति शङ्कार्थः। एवं यथाकथञ्चिद्विरोधापादनेपि नाक्षिप्तेन गृहसत्वेन प्रमितस्य गृहा. सत्त्वस्य प्रतिक्षेपोऽपि तु प्रमितगृहासत्त्वेनाप्रमितगृहसत्त्वस्यैवेत्याशयेन समा- धत्ते "न प्रमाणविनिश्चितस्य" इति । अनुपलब्धिप्रमाणेन प्रत्यक्षप्रमाणेन वा निश्चितस्य गृहेऽसत्त्वस्य गृहसत्वेन प्रतिक्षेपायोगात्प्रतिरोधस्यायुक्तत्वादिति संबन्धः । (१) उभयोः गृहासत्त्वकंचित्सत्त्वयोः । (२) आक्षिप्यमाणेन लभ्यमानेन । (३) देशसामान्यान्तः पातिनः । (४) भावेदान्तिनोर्मतेऽनुपलब्धिप्रमाणेन साङ्यादिनये तु प्रत्यक्षप्रमाणेनेति विभागः। - साङ्ख्यतत्त्वकौमुदी। १२७ नापि प्रमाणविनिश्चितो गृहाभावः पाक्षिकमस्य गृहसत्त्वं प्रतिक्षिपन्सत्त्वमपि प्रतिक्षेप्तुं सांशयिकत्वं च व्यपनेतुमर्हतीति युक्तम् । गृहासत्त्वस्य प्रतिक्षेप्यत्वाभावे 'प्रमाणविनिश्चितस्य' इति हेतुगर्भ विशेषणमुक्त्वा गृहसत्त्वस्य प्रतिक्षेपकत्वाभावेपि हेतुगर्भ विशेषणमाह- पाक्षिकतया सांशयिकेन" इति । संभावनामात्रेण पक्षे प्राप्ततया संशयमाप- लेन-सन्दिग्धेन-अनिश्चितेनेति यावत् । प्रमिताप्रमितयोरेकन सन्निपाते प्रमितेनाप्रमितस्यैव प्रतिक्षेपो युक्तो- नाप्रमितेन प्रमितस्येति भावः यथा प्रमितं गेहासत्त्वं गृहसत्त्वं प्रतिक्षिपति तथा सत्त्वमानमपि प्रति- क्षिपेदित्याशङ्कामपनयति-"नापि प्रमाणविनिश्चित" इति । प्रमाणेन निर्णीतो गृहाभावोऽस्य चैत्रस्य पाक्षिकं गृहसत्त्वं प्रतिक्षिप- न्प्रतिरुन्धानः सन्सत्त्वं सत्त्वमानमपि प्रतिक्षेप्तुं निराकर्तुमर्हति तथा गृह- सत्त्वस्य सांशयिकत्वं च व्यपनेतुं दूरीकर्तुमर्हतीति न युक्तमित्यर्थः । ननु 'गृहसत्त्वं प्रतिक्षिपन्' इत्येवं पूर्व प्रमितेन गृहासत्त्वेन गृहसत्त्वस्य प्रतिक्षेपमङ्गीकृत्य पुनः कथं तद्विपरीतं 'सांशयिकत्वं चापनेतुमर्हतीति न युक्तम्' इत्येवं गृहसत्त्वस्य सांशयिकतास्वीकरणम्, न हि यस्य बाधस्तस्य सांशयिकत्वं कुत्रचित्संप्रतिपन्नम् , किञ्च गृहसत्त्वस्य सन्दिग्धत्वे स्थाणुर्वा पुरुषो वा इतीव चैत्रस्य गृहसत्त्वं वा गृहासत्त्वं वा इति संशयशरीरो वाच्यः, तथा च गृहसत्त्वमिव गृहासत्त्वमपि संशयविषयीभूतमापद्येत, तच्चासाम्प्रतं न हि यद्यत्र विशेषतः प्रमितं तस्य तत्रैव विपरीतप्रमाण- विषयत्वरूपः संशयः समुदेतुं प्रभवति, न खलु स्थाणुत्वनिर्णये सति स्थाणुर्वा पुरुषो वेत्येवं संशयाना जनास्समुपलभ्यन्त इति चेन्न, गृहसत्त्वस्य सांश- यिकत्वास्वीकारेण त्वदुक्तशङ्काया एवानुत्थानात् । (१) 'संशयमापन्नः, ५/११७३ इति सूत्रेण ठनि सांशयिक इति प्रयोग- निष्पत्तिः. सामान्यतोऽवगतं गृहसत्त्वं विशेषतोऽवगतगृहासत्त्वेन बाध्यं न वेति संशयाक्रान्तेन गृहसत्त्वेनेत्यर्थः। (२) नच सांशयिकत्वं चापनेतुमर्हति इति पाठः प्रमादादापतित इति वाच्यं तात्पर्यटीकायामपि तथैवोपलम्भात् । ३) यद्गृहासत्त्वं यत्र चैत्रे प्रमितं तस्य गृहासत्त्वस्य तत्र चैत्रे विपरीत- प्रमाणात्मकसंशयज्ञान विषयत्वं नोत्पत्तुं प्रभवतीत्यर्थः ।
re १२८ साङ्ख्यतत्त्वकौमुदी। गृहावच्छिन्नेन चैत्राभावेन गृहसत्त्वं विरुद्धत्वात्प्रति- क्षिप्यते नतु सत्त्वमात्रं तत्र तस्यौदासीन्यात् । तस्माट्टहाभावेन लिङ्गेन सिद्धेन सतो बहिर्भावोऽनुमी- यत इति युक्तम् । अयं भावः-नान सर्वस्यैव शङ्काग्रन्थस्य 'न युक्तम्' इत्यनेनायुक्तत्वाभि- धानं किन्तर्हि शङ्ककांशस्येति । एतदुक्तं भवति-'सत्त्वमपि प्रतिक्षेप्तुमर्हति' इति । 'गृहसत्त्वस्य सांश- यिकत्वं चापनेतुमर्हति' इति च यच्छङ्कायामंशद्वयं तत्र प्रथमांशस्यैव (न युक्तम् ) इत्यनेनायुक्तत्वाभिधानं नांशान्तरस्य, तेन गृहसत्वस्य सांशयिक. त्वापनयनस्य स्वीकृतत्वेन तस्य बाध एवात्राभिप्रेतो न सांशयिकतेति । एतदभिप्रायेणैव सहेतुकं गृहसत्त्वस्य बाधं सत्त्वमानस्य चाबाधमाह- “गृहावच्छिन्नेन" इति । गृहेणाऽवच्छिन्नेन इतरेभ्योऽवच्छिद्य स्वस्सिन्स्थापितेन-गृहनिष्ठेन चैत्राभावेन गृहसत्त्वमेव प्रतिक्षिप्यते बाध्यते, तत्र हेतुः-विरुद्धत्वात्प्रमितेन गृहासत्वेन सहावस्थातुमशक्तत्वात् , सत्त्वमानं तु न प्रतिक्षिप्यते, कुतः ? 'तत्र तस्यौदासीन्यात्' तत्र सत्त्वमात्रनिरासे, तस्य गृहासत्त्वस्य, औदासीन्यान्निापारत्वादित्यर्थः । विरोधाभावान्न सच्चमात्रस्य प्रतिक्षेप- इति भावः । एतेनान्तिमकल्पोऽङ्गीकृत इति ज्ञापितम्। फलितमाह- 'तस्मात्" इति। यतो गृहाभावः सिद्धस्तस्मासिद्धेन तेन लिङ्गेन सतः जीवतश्चैत्रस्य बहिर्भावोऽनुमीयत इति युक्तमित्यर्थः । ये तु (जीवी चैत्रः क्वचिदस्तीत्येवं सामान्येन स्थितिबोधकस्यागमप्रमाणस्य योयं गृहासत्त्वावेदकेन प्रत्यक्षप्रमाणेन सह विरोधस्तत्परिहारायाऽऽगमस्य बहिर्देशविपयत्वकल्पनमर्थापत्तिकृत्यस्) इति मन्यन्ते तान्प्रत्याह- (१) तस्य गृहसत्त्वस्य । (२) 'चैत्रस्य गृहासत्त्वेन सत्त्वमा विरुद्धयते गृहसत्त्वं वा' इति पूर्वोदित- कल्पद्वयेऽन्तिमकल्पः स्वीकृत इति भावः । (३) अनुमानप्रयोगश्च पूर्वत्रोक्तः ।
7. . सासातच्चकौमुदी। १२९ एतेन : विरुद्धयोः प्रमाणयोर्विपयव्यवस्थयाविरोधापाद- नमर्थापत्तेविषय इति निरस्तम् । :: अवच्छिन्नाऽनवच्छिन्नयोर्विरोधाभावात् । उदाहरणान्तराणि चार्थापत्तेरेवमेवाऽनुमानेऽन्तर्भावनीयानि, तस्मान्नानुमानात्प्रमाणान्तरमर्थापत्तिरिति सिद्धम् । एवमभावोपि प्रत्यक्षमेव । "एतेन' इति । एतेन वक्ष्यमाणेन हेतुना, सम्भावनामात्रेण विरुद्धयोः विरोधाकान्तयोः प्रत्यक्षागमग्रमाणयोर्या विषयव्यवस्था आगमस्य बहिस्सत्त्वं विषयः प्रत्यक्षस्य च गृहासत्त्वं विषय इत्येवं व्यवस्था तया विरोधाभाव- सम्पादनमर्थापत्तेर्विपयः फलमिति निरस्तमित्यर्थः । 'एतेन' इत्यनेन सूचितं निरासे हेतुमाह-"अवच्छिन्नाऽनवच्छिन्नयोः" इति । गेहावच्छिन्नमसत्त्वसध्यक्षं तदनवच्छिन्नं सत्त्वमानं चागमिकमित्येवं तयोर्विरोधाभावादित्यर्थः । एतच्च 'न मानयोर्विरोधोस्ति' इति कारिकायां विरोधे हि रज्जुसादिव- देकस्य बाध एव स्यान्नतूभयोः प्रामाण्यमित्यादिना कुसुमाञ्जली व्यक्तम् । एवं पीनोयं दिवा न भुत इति वाक्यावगतेन पीनत्वेन यात्रि- भोजनकल्पनरूपं श्रुतार्थापत्तेः कृत्यं तदपि (देवदत्तो नक्तंभोजी दिवा- ऽभुजानत्वे सति पीनत्वाद्यः किल नक्तं न • भुनक्ति स दिवाऽभुञ्जानः सन्पीनोपि न भवति यथा नवरात्रोपवासी) इत्यनुमानसाध्यत्वान्नार्थापत्तेः फलमित्याशयेनाह-“उदाहरणान्तराणि च" इति । . उपसंहरति 'तस्मात्' इति । . .. ये किल कुमारिलस्वामिनस्तदनुयायिनो वेदान्तिनश्च यद्यत्र घटः त्तर्युपलभ्येत यतो नोपलभ्यतेऽतो नास्तीत्येवं योग्यवस्तूपलम्भाभावजन्य- 'मिह भूतले . घटो . नेत्यर्थाभावज्ञानमनुपलब्धिप्रमाणकृत्यमित्येवमातिष्ठन्ते तेषामास्थामपनेतुमाह-''एवमभावोपि” इति । यथा प्रभाकरादिसम्मतार्थापत्ति प्रमाणान्तरं तथा भट्टाद्यभिमताऽनुपल- ब्धिरपि न प्रमाणान्तरमपि तु प्रत्यक्षमेवेत्यर्थः । (१) तृतीय स्तबके १९ श्लोक । (२) भट्टपादानुयायित्वं वेदान्तिनां न निखिलांशेऽपि तु प्रमाणेयत्तादिकिय- दंश इति बोध्यम् । स्या- . :
१३० साङ्ख्यतत्त्वकौमुदी। नहि भूतलस्य परिणामविशेषात्कैवल्यलक्षणादन्यो घटा- भावो नाम । प्रतिक्षणपरिणामिनो हि सर्व एव भावा ऋते चितिशक्तेः। ननु प्रतिविषयाध्यवसाय इत्यत्रार्थसन्निकृष्टेन्द्रियाश्रिताध्यवसायस्यैव प्रत्यक्षत्वाभिधानादत्र चाभावेन सहन्द्रियसन्निकर्षाभावात्कथमभावस्य प्रत्यक्षत्वमित्याशङ्कामपनयति "नहि" इति । हि यतो भूतलस्य परिणामविशेषादन्यः कश्चिद्धटाभावरूपः पदार्थों नाम नास्त्यतः प्रत्यक्षमिति संबन्धः, तथा च भूतलग्रहणेनैव तद्ब्रहणान्न तदर्थं पृथक्सन्निकर्षापेक्षेति । परिणामिना भूतलेन सममिन्द्रियसन्निकर्षसत्त्वात्तत्परिणामविशेषो. ऽभावोपीन्द्रियसनिकृष्ट एवेति भावः । ननु यस्य यत्कार्यं तस्य तत्परिणाम इति हि राद्धान्तस्तत्कथमकार्य: स्याभावस्य भूतलपरिणामत्वमित्याशङ्कायां ‘परिणामविशेषात्' इति विशे० षपदं विशिष्यतेऽन्यस्मात्परिणामादिति विशेषः तस्मादित्यर्थः । वैशेष्यमेवाह-"कैवल्यलक्षणात्" इति । कैवल्यं भावान्तरासंसृष्टत्वरूपं सद्वितीयत्वरूपधर्मापेक्षया धर्मान्तरं तदेव लक्षणं स्वरूपं यस्य तत्कैवल्या | लक्षणं तस्मादित्यर्थः । धर्मादिभेदेन परिणामत्रैविध्यस्य सम्प्रतिपन्नत्वात्कार्यमेव परिणाम इति नियमाभावात्कैवल्यलक्षणोऽवस्थाविशेषोपि भूतलस्य परिणाम एवेति भावः । अत्रेदं बोध्यम्-"अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम" इति हि योगभाष्योक्तं परिणामसामान्यलक्षणम् , एवं च सद्वि- तीयत्वरूपपूर्वधर्मनिवृत्तौ यद्भूतलस्य कैवल्यरूपधर्मान्तरेणावस्थानं तदपि भूतलपरिणाम एवेति नाभावस्य परिणामविशेषत्वहानिरिति । सद्वितीयत्वरूपधर्मवतो भूतलस्य कथं तद्विरुद्धकैवल्यलक्षणधर्मवत्वमि- त्याशङ्कायामाह-"प्रतिक्षणपरिणामिन" इति । (१) घटशरावादयो मृत्परिणामाः कटककुण्डलादयश्च कनकपरिणामा इत्येवं कार्ये परिणामशब्दप्रयोगदर्शनादिति भावः । (२) धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणाम इत्येवं परिणामत्रैविध्यं : पूर्वत्र (७८ पृ०) इत्यत्रोक्तम् । (३) पा. ३ सू. १३ ।
साङ्ख्यतत्त्वकौमुदी। १३१ स च परिणामभेद ऐन्द्रियक इति नास्ति प्रत्यक्षानवरुद्धो विषयो यत्राऽभावाह्वयं प्रमाणान्तरमभ्युपेयेतेति । सर्वस्य त्रिगुणात्मकत्वाञ्चलञ्च गुणवृत्तमित्यभ्युपगमात्प्रतिक्षणमन्य- थाऽन्यथाप्रथाशीलाः सर्वे भावा इत्यर्थः । कस्मिंश्चित्समये सद्वितीयत्वरूपावस्थया भूतलमवतिष्ठते कदाचिच्च कैवल्यरूपधर्मान्तरेण परिणमत इति समयभेदेनावस्थाद्वयवत्त्वं भूतलस्य न विरुद्ध मिति भावः । : सर्वस्य क्षणिकत्वे हि तथागतमतसाम्यं स्यात्तन्माभूदित्याशयेनाह- "ऋते चितिशक्तेः' इति चेतनात्पुरुषाद्विनेत्यर्थः । अपरिणामित्वेन कूटस्थनित्यायाश्चितिशक्तेरतिरिक्तस्य प्रतिक्षणपरिणामि. स्वाभ्युपगमान सर्वक्षणिकत्वाभिमानिबौद्धसाम्यप्रसङ्ग इति भावः । किञ्च-यथा वैनाशिकैर्धर्मिणः प्रतिक्षणं निरन्वयनांशोऽभ्युपेयते न तथा साङ्ख्यैः, अपि त्ववस्थितस्यैव धर्मिणस्तत्तद्धर्मलक्षणावस्थाख्याः परिणामा अभ्युपेयन्ते, नचैतावता धर्मिनाशः, कटककुण्डलकेयूरादिषु परिणामेपु धर्मिणः कनकादेरन्वितत्वेन प्रतीतेः सर्वानुभवसिद्धत्वादिति न लेओनापि बौद्धसाम्यापत्तिरिति । अस्त्वभावस्य प्रतियोग्यनुपरक्ततारूपकैवल्यात्मकभूतलपरिणामविशेषत्व- मेतावता कथमनुपलब्धेर्मानान्तरत्वविरह इत्यत्राह-"स च परिणामभेद" इति । स कैवल्यात्मकः परिणामविशेषश्च ऐन्द्रियकः भूतलस्वरूपत्वेनँ इन्द्रियाश्रिताध्यवसायविषयः : प्रत्यक्ष इति यावत् इति अतो नास्ति प्रत्यक्षा. (१) गुणवृत्तं गुणानां खभावः । (२) प्रतियोगिसत्त्वदशायाम् । (३) प्रतियोगिविरहकाले । (४) तथागत: बुद्धः। (५) वैनाशिकैः बौद्धैः। (६) खरूपेणैव धर्मिनाशः। (७) धर्मधर्मिणोर्भेदाभेदाभ्युपगमादित्यर्थः, व्यक्तं चैतत् (१३) इति योगसूत्रे वाचस्पले ।
१ १३२ सायतत्वकौमुदी। सम्भवस्तु--यथा खाऱ्यां द्रोणाढकप्रस्थाद्यवगमः । नवरुद्धः प्रत्यक्षाऽगोचरोऽभावरूपो विषयो यन यस्मिन्नभावरूपविषय- ज्ञानेऽभावाख्यं प्रमाणान्तरमभ्युपेयं भवेदित्यर्थः । प्रभाकरमतेप्यभावस्याधिकरणात्मकत्वेनेन्द्रियग्राह्यत्वान्न तदर्थमनुपलब्धेः प्रमाणत्वेनाश्रयणमित्यपि ध्येयम् । आरम्भवादिनः केचिदाचार्यास्तु अनुमानेऽनुपलब्धिमन्तर्भाव्य तस्याः प्रमाणान्तरत्वं वारयन्ति । स्पष्टं चैतत् “शब्द ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसम्भवाभावान-' र्थान्तरभावाच्चाप्रतिषेध" इत्यादिनाऽक्षपादीये (अभावोऽप्यनुमानभेव) इत्यादिना प्रशस्तपादीये च । न्यायवार्तिककारास्तु 'समवाये चाभावे च विशेषणविशेष्यभावात्' इति वदन्तस्संयुक्तविशेषणताख्यसन्निकणाभावस्य प्रत्यक्षत्वमित्येवम्मन्यन्ते । यथा चाभावप्रतीतिः प्रत्यक्षात्मिका तथा कुमुमाञ्जली व्यक्तम् । पौराणिकाभिमतसम्भवप्रमाणस्यानुमानानतिरिक्ततां दर्शयितुं सम्भवस्व- रूपमाह-"सम्भवस्तु यथा खार्याम्” इति खारीद्रोणादयः परिमाणवि- शेपाः, खाऱ्याख्ये महापरिमाणेऽल्पपरिमाणा द्रोणादयोऽन्तस्सम्भवन्तीत्येवं- विधो योऽवगमः अवबोधः स सम्भव इत्यर्थः । एतादृशात्संभवाख्यात्प्रमाणाद्यत्खारीज्ञानेन द्रोणादिज्ञानं तत्सम्भवन- माणफलं सम्भवप्रमितिरित्याख्यायत इत्यपि ज्ञेयम् । ( सम्भवोऽनुमानानातिरिच्यतेऽविनाभाववलेनार्थावबोधकत्वान्नै यदेवंविधं (१) परिणामवादे परिणामपरिणामिनोरभेदाद्भवतु भूतलस्वरूपवदभावस्य प्रत्यक्षत्वमारम्भवादे त्वभावस्य भूतलातिरिक्तत्वेन कथं तस्य प्रत्यक्षत्वमित्याकाङ्क्षा- , यामाह-'आरम्भवादिन'' इति । (२) न्या० अ० २ ० १ सू० २ । ऐतिह्यादीनां न प्रमाणत्वप्रतिषेधोपि तु प्रमाणान्तरत्वप्रतिषेधः कुतः शब्द ऐतिह्यान्तर्भावादनुमाने ' चार्थापत्त्यादी- नामन्तर्भावादित्यर्थः। (३) प्रत्यक्षलक्षणपरे सूत्र इति शेषः । (४) तृतीयस्तबके (२०) इति कारिकाया गद्यव्याख्याने। (५) द्रोणचतुष्टयं खारी, चतुराढकश्च द्रोणः, चतुःप्रस्थं चाढकं, चत्वारः कुडवाश्च प्रस्थं, मुष्टिचतुष्टयं च कुडव इति ज्ञेयम् । (६) यदनुमानं न न तदविनाभावबलेनार्थप्रतिपादकमित्यर्थः । यत्र यत्र वारीत्वं तत्र तत्र द्रोणादिसत्त्वमिति व्याप्यव्यापकभावोप्यत्र ज्ञेयः ।
साङ्ख्यतत्त्वकौमुदी। १३३ स चानुमानमेव खारीत्वं हि द्रोणाद्यविनाभूतं प्रतीत खाऱ्यां द्रोणादिसत्त्वमवगमयति । यच्चानिर्दिष्टप्रवक्तृकं प्रवादपारम्पय॑मात्रम् 'इति होचुद्धा' इत्यैतिह्यं यथा 'इह वटे यक्षः प्रतिवसति' इति । न तत्प्रमाणम् , अनिर्दिष्टप्रवक्तृकत्वेन सांशयिकत्वात् । .. न तदेताहग्यथा प्रत्यक्षमिति न्यायमाश्रित्य सम्भवस्यानुमानेऽन्तर्भाव- माह-"सच" इति । सः सम्भवश्चानुमानमेव न प्रमाणान्तरमित्यर्थः । तथाचाहुः प्रशस्तपादा:-“सम्भवोऽप्यविनाभावित्वादनुमानमेव" इति । अनुमानान्तर्भावप्रकार मुपपादयति-“खारीत्वम्" इति । यथा वह्निना- ऽविनाभूतो धूमो ज्ञातः सन्वह्निमनुमापयति तथा द्रोणाद्यविनाभूतं खारीत्वं खारीप्रमाणं प्रतीतं सद्रोणादिसत्त्वमवगमयतीत्यनुमानसमानधर्मत्वान्नानुमाना- दतिरिक्तं सम्भवाख्यं प्रमाणमित्यर्थः । ऐतिहासिकाभिमतैतिरस्य प्रमाणान्तरत्वं निरसितुं न्यायभाष्योक्तमैति- ह्यस्वरूपमाह-“यच्चानिर्दिष्टप्रबक्तृकम्" इति । असावुच्चारयितैतद्गोचरप्रमा- वानित्येवं विशेषेण न निर्दिष्टः निश्चितः प्रवक्ता यस्य तदनिर्दिष्टप्रवक्तृर्क प्रवादपारम्पर्यमानं प्रचुरजनरवस्य पौर्वापर्येणानुक्रममात्रं यत् 'वृद्धा- इति ह कथयन्ति' इत्येवंविधं वचनं तदैतिह्यमिस्यर्थः । 'पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम्' इत्यमरात् । 'इतिह' इति निपातसमुदायः पारम्पर्योपदेशार्थकः, तस्मात् 'अनन्तावसथेतिहभेजा- यः' इति स्वार्थे ज्यूप्रत्यय ऐतिह्यमिति साधनीयम् । किमूचुर्वृद्धा इत्याकाङ्क्षां शमयन्नतिह्योदाहरणमाह “यथेह वटे'' इति । ऐतिह्यस्य कुत्रान्तर्भाव इत्याशङ्कायामाह-"न तत्प्रमाणम्' इति । प्रमाणस्य सतः प्रमाणत्रयान्तर्भावविचारो युक्त ऐतिह्यस्य त्वप्रमाणत्वेन नात्र प्रमाणान्तर्भावविचारावसर इति भावः । ऐतिह्यस्याप्रमाणत्वे हेतुमाह-“अनिर्दिष्टप्रवक्तृकत्वेन सांशयिकत्वात्" इति । अनिश्चितोच्चारयितृत्वेन संन्दिग्धत्वादित्यर्थः । (१) परम्परैव पारम्पर्य खार्थे प्यञ्, पारम्पर्येणोपदेशः पारम्पर्योपदेशस्तत्रेतिह- शब्दोऽव्ययमित्यमरटीकायां भरतः । भानुजिदीक्षितस्तु परम्पराया आगतः (तत- आगतः) इत्यण , चतुर्वर्णादित्वात् प्यञ् , पारम्पयंश्वासावुपदेशश्चेति पारम्पर्योपदेश- इत्याह । (२) ५/४/२३॥
१३४ सायतत्त्वकौमुदी। आप्तवक्तृकत्वनिश्चये त्वांगम एव, इत्युपपन्नं त्रिविधं प्र- माणमिति ॥५॥ एवं तावद्यक्ताव्यक्तज्ञलक्षणप्रमेयसिद्धयर्थं प्रमाणानि लक्षितानि तत्र व्यक्तं पृथिव्यादि स्वरूपतः पांशुलपादको- हालिकोपि प्रत्यक्षतः प्रतिपद्यते, पूर्ववता चानुमानेन धूमादि- अर्थतन्मतम्-आलोक्तिमूलक एव पारम्पयोपदेश ऐतिचं प्रमाणं नतु प्रवादपरम्पराप्रतीतमिलि, तत्राह-"आप्रवक्तृत्वनिश्चये तु” इति । सुदृढेन प्रमाणेनावधारितपदार्थेत्थंभाव आप्तः, स वक्ता आद्योपदेष्टा यस्य पारम्पर्योपदेशस्य स आप्तवक्तृकः, तस्य भावस्तत्त्वं तस्य निश्चये तु आगम एव आप्तश्रुतित्वेनागमप्रमाणान्तर्भूतमेव तदैतिह्यमिति न तटा- माणान्तरमित्यर्थः। तदुक्तम्-"ऐतिहमप्यवितथमाप्तोपदेश एव" इति । प्रमाणनिरूपणप्रकरणमुपसंहरन्मूलं सङ्गतयति-"इत्युपपन्नम्" इति । यतोऽन्यैः पृथक्प्रमाणत्वेनाभिमतानामुपमानादीनाम्प्रमाणत्रय एवान्तर्भाव- संभव इति अत: 'त्रिविधं प्रमाणमिष्टम्' इति मूलोक्तं युक्तमित्यर्थः ॥५॥ वृत्तवर्तिप्यमाणार्थयोस्सङ्गति कीर्तयन्सन्नग्रिमा-पीठिकामारचयति- "एवन्तापत्" इति । तावत्-इति वाक्यालकारे व्यक्तमिन्द्रियगृहीतं पृथिव्यादि, अव्यक्त- सतीन्द्रियं प्रधानादि, ज्ञः चेतनः पुरुषः एतत्रिविधलक्षणप्रमेयसिद्धयर्थ प्रमाणानि लक्षितानीत्यर्थः । किं त्रिविधमेव प्रमेयं प्रकृततन्त्रव्युत्पाद्यमुतैप्वन्यतमं किञ्चिदित्यत्राह-- "तन्त्र" इति । तत्र त्रिविधप्रमेयमध्ये यध्यक्तं पृथिव्यादि तत्स्वरूपतः त्मकस्थूलरूपेण पांशुलपादकः धूलिधूसरितचरणः हालिकोपि (१) पारम्पर्योपदेशस्याप्तोक्तत्वनिश्चये त्वित्यर्थः । (२) प्रशस्तपादैरिति शेषः । ३) अवितथमाप्तोक्तिमूलकत्वेन यथार्थभूतम् , अवितथमिति कथनेन वितथमप्रमाणमेवेति बोधितम् । (४) धूलिवाचकात्पांशुशब्दान्मत्वर्थे 'सिध्मादिभ्यश्च' ५।२।७७ इति लचि पांशुल इति, पांशुलौ पादौ यस्य स पांशुलपादकः । (५) 'तद्वति' इत्यधिकारे 'हलसीराक्' ४/४/८१ इति ठकि हालिक- इति साधुः। कटघटपटा.
सावतचकौमुदी। १३५ दर्शनाद्वह्नयादीनि, इति तद्व्युत्पादनाय मन्दप्रयोजन शास्त्रम्, इति दुरधिगमनेन व्युत्पादनीयं तक यत्प्रमाणं यत्र शक्तं तदुक्तलक्षणेभ्यः प्रमाणेभ्यो निष्कृष्य दर्शयति- "सामान्यतस्तु" इति । सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् । तस्मादपि चासिद्धं परोक्षमाप्तागमात्सिद्धम् ॥६॥ तु--शब्दः प्रत्यक्षपूर्ववयां विशिनष्टि, सामान्यतो दृष्टा- वहनशीलो निरक्षरोपि नरः प्रत्यक्षतः प्रत्यक्षेण प्रतिपद्यते जानाति एवं पूर्ववत्संज्ञकेन चानुमानेन व्यवहितानि वह्नयादीन्यपि प्रतिपद्यते, यत- एवं मिति अतः तद्व्युत्पादनाय एतादृग्व्यक्तपृथिव्यादिबोधनाय यद्येतच्छायं स्यात्तर्हि मैन्दप्रयोजनमल्पफलं निष्फलं वैतच्छास्त्रं भवेत् , इति अतः शास्त्रस्य सफलत्वाय दुरधिगमन्दुरदबोधं प्राकृतनराविदितमव्यक्तादिक- मेवानेन तन्त्रेण व्युत्पादनीयं न व्यक्तमित्यर्थः । तथाच अव्यक्तं ज्ञश्चैतटामेयमित्यत्र फलितम् । एवं पीठिकामारचय्या-मवतारयति-"तत्र' इति । तत्र व्यक्तस्याप्रति- पाद्यत्वेऽव्यक्तपुरुपयोश्च प्रतिपाद्यत्वे स्थिरे सति, अव्यक्तप्रधानादिमध्ये वा, यत्र यस्मिन्नतीन्द्रिये यटामाणं शक्तं समर्थ तत्त्रमाणमुक्तप्रमाणेश्यो निष्कृष्य विभज्य दर्शयतीत्यर्थः। कारिकां व्याचक्षाणः 'सामान्यतस्तु' इति तु-शब्दस्य कृत्यमाह- "तुशब्द" इति । तु-शब्द इत्युपलक्षणम् , सामान्यतोदृष्टात्-इत्यनुमानविशेष- णोपादानं चेत्यपि ज्ञेयं तथा च तुशब्दः प्रत्यक्षाद्विशिनष्टि, सामान्यतो. दृष्टादिति विशेषणं च पूर्ववनामकादनुमानाद्विशिनष्टि व्यवच्छिनत्ति सामान्यतो दृष्टानुमानमिति शेषः । नापि प्रत्यक्षात्प्रधानादीनां प्रतीतिर्नापि पूर्ववदनुमानादपितु सामा. न्यतो दृष्टादनुमानादित्येवं व्यवस्थापयतीति भावः । (१) यतः शास्त्रसंस्कारविधुरोपि नरो व्यक्तं पृथिव्यादिकं जानात्यत इत्यर्थः । (२) मन्दम्-अल्पं प्रयोजनं फलं यस्य तन्मन्दप्रयोजनं तदेवाह-(अल्प- फलम् ) इति मन्देषु खलेषु प्राकृतेषु प्रयोजनं यस्येत्यर्थेन निष्फलमिल्पों वा । (३) किं व्यवच्छिनत्तीत्याकाङ्क्षा शमयति-"सामान्यतो दृष्टमिति शेषः" इति । -- । ----- १३६ साहयतत्वकौमुदी। दनुमानादध्यवसायादतीन्द्रियाणां प्रधानषुरुपादीनां प्रतीतिः प्रतिपत्तिः (चिच्छायापत्तिबुद्धेरध्यवसाय इत्यर्थः) उपलक्षणं चैतच्छेषवतइत्यपि द्रष्टव्यम् । तथाच साङ्ख्यसूत्रं-“सामान्यतोदृष्टादुभयसिद्धि" इति । साङ्ख्यनये बुद्धिवृत्तेरेव प्रमाणत्वादाह-"अध्यवसायात्" इति । लिङ्ग- ज्ञानजन्यबौद्धबोधात्मकादनुमानादित्यर्थः। प्रतीतिः पौरुषेयबोधात्मकफल- रूपानुमितिरित्यर्थः । कथं पुनर्जडाया बुद्धर्ज्ञानरूपोध्यवसाय इत्यत्राह-"चिच्छायापत्तिः” इति । चित्सन्निधानेन या-बुद्धेश्चित्तादात्म्यापत्तिस्तद्वलादेव बुद्धर्ज्ञानरूपो. व्यापार- इत्यर्थः । प्रपञ्चितं चैतस्रॉगिति नात्र किञ्चिदूचनीयम् । यथा च प्रधानपुरुषयोस्सामान्यतो दृष्टानुमानादेः प्रतीतिस्तथोत्तरत्र व्यक्त- मित्यलमत्रानेडनेन । ननु तन्मात्रेन्द्रियाण्यभिमानवद्रव्योपादानकानि अभिमानकार्यद्रव्य- त्वाद्यन्नैवं तन्वं यथा पुरुष इत्येवं शेषवदनुमानादपि केषांचिदती- न्द्रियाणां प्रतीतेः सत्त्वात्कथमभिहितं सामान्यतो दृष्टानुमानात्प्रतीतिरिति । इत्याशङ्कायामाह "उपलक्षणं चैतत्” इति। शेषवतः केवलव्यतिरेक्याख्य- परिशेषानुमानादपि केषाञ्चिदतीन्द्रियाणां प्रतीतिरित्यपि ज्ञेयमित्यर्थः । (१) आदिना महत्तत्त्वादयो ग्राह्याः । (२) ( ) एतच्चिह्नान्तर्गतः पाठः कथंचिद्योजितोपि न स्वान्तं रञ्जयति, नच प्रतीतेविवरणमिदमिति भ्रमितव्यं प्रतीतेरनुमितिरूपायाः पौरुषेयत्वेन बुद्ध्यध्यवसायत्वाभावात् , टिप्पणादापतितो वाऽयं पाठः । (३) अ० १ । सू० १०३ । (४) उभयोः प्रकृतिपुरुषयोस्सिद्धिरिति । (५) यथाच बौद्धबोधस्य प्रमाणत्वं पौरुषेयबोधस्य च प्रमात्वं तथा प्राक् (५) इति कारिकायां प्रत्यक्षलक्षणावसरे विशदीकृतमित्यर्थः । (६) १४/१५।१६।१७। इति कारिकासु । (७) कथितस्य पुनः पुनः कथनमानेडनम् । .८ साङ्ख्यतत्त्वकौमुदी। १३७ तत्कि सर्वेष्वतीन्द्रियेषु सामान्यतो दृष्टमेव प्रवर्तते, तथा च यत्र तन्नास्ति महदाद्यारम्भक्रमे स्वर्गापूर्वदेवतादौ च तेपा- मभावः प्राप्त इत्यत आह-"तस्मादपि" इति । 'तस्मादपि' इत्येतावतैव सिद्धे चकारेण शेषवत इत्यपि समुच्चितम् ॥६॥ स्यादेतत्--यथा गगनकुसुमकूर्मरोमशशविपाणादिषु प्रत्यक्ष- मप्रवर्तमानं तदभावमवगमयत्येवं प्रधानादिष्वपि, तत्कथं तेषां सामान्यतो दृष्टादिभ्यः सिद्धिरिति । अत आह-"अतिदूरात्" इति- अतिदूरात्सामीप्यादिन्द्रियघातान्मनोनवस्थानात् । सौक्षम्यायवधानादभिभवात्समानाभिहाराच ॥७॥ आर्योत्तरार्द्धमुत्थापयितुं शङ्कते "तत्किम्” इति । तत्-इत्यव्ययं तर्हि इत्यर्थकम् । ओमिति वदन्तं प्रत्याह-"तथाच" इति। तथाच एवं सति यत्र यस्मिन्न- तीन्द्रिये तत्सामान्यतो दृष्टानुमानं नास्ति न प्रवर्तते तेषामभावः प्राप्त: स्यादित्यन्वयः। कुन तन्नास्तीत्याकाङ्क्षायां यत्रेत्यस्य विवरणमाह-"महदाद्यारम्भकमे" इति । प्रकृतेर्महान्महतोऽहङ्कार इत्याद्याविर्भावक्रमे, स्वर्गादिपरलोके च अपूर्वाख्यधर्माधर्मयोश्च इन्द्रादिदेवतासु च, आदिना यागादीनां स्वर्गादि- साधनत्वे, क्षीरसमुद्रादौ चेत्यर्थः । न्यूनतां पूरयति-"चकारेण" इति । तस्मात्सामान्यतो दृष्टानुमाना- चकारेण शेषवदनुमानाच्च यदतीन्द्रियमप्रतीतं भवेत्तदागमप्रमाणात्सिद्धं भवतीत्यर्थः ॥७॥ शङ्कते-"स्यादेतत्" इत्यादिना, एतद्वक्ष्यमाणं भवेत् । तभावमाकाशकुसुमाद्यभावम् , एवं प्रधानादिष्वप्यप्रवर्तमानं प्रत्यक्षं प्रधानाद्यभावमवगमयेदित्यर्थः । (१) अपूर्वमदृष्टं विहितनिषिद्ध क्रियाजन्यं सूक्ष्मं कर्मत्यर्थः । (२) एतत्पूर्वोक्तं भवत्वित्यों वा बोध्यः परन्तु पूर्वोक्तस्य भवने. शङ्काया- अनुत्थितेर्वक्ष्यमाणं स्यादित्यर्थः सम्यक्प्रतिभाति । - -- . .
१३८ साङ्ख्यतत्त्वकौमुदी । 'अनुपलब्धिः' इति वक्ष्यमाणं सिंहावलोकनन्यायेनानु- पञ्जनीयं यथा उत्पतन्वियति पतत्री अतिदूरतया सन्नपि प्रत्यक्षेण नोपलभ्यते । सामीप्यादित्यत्राप्यतिरनुवर्तनीयः, यथा लोचनस्थमञ्जन- मंतिसामीप्यान्न दृश्यते । इन्द्रियघातः अन्धत्वबधिरत्वादिः। 'मनोऽनवस्थानात्' यथा कामाद्युपहतमनाः स्फीता- लोकमध्यवर्तिनमिन्द्रियसन्निकृष्टमर्थं न पश्यति । 'सौक्ष्म्यात्' यथेन्द्रियसन्निकृष्टं परमाण्वादि प्रणिहितमना- अपि न पश्यति । 'व्यवधानात्' यथा कुड्यादिव्यवहितं राजदारादि न पश्यति । अतिदूरत्वादिहेतुभ्यः किम्भवतीत्याशङ्कायामाकाङ्क्षासमापकपदानुसंधानेन वाक्यं पूरयति-"अनुपलब्धिः” इति। वक्ष्यमाणमुतराव्यां विद्यमान- मनुपलब्धिरिति पदमत्र वाक्ययोजनापूरणायानुषञ्जनीयं संबन्धनीयमित्यर्थः । उत्तरवाक्यगतपदानां पूर्वन्नानुषङ्गे न्यायमाह-"सिंहावलोकनन्यायेन" इति । सिंहो हरण्ये व्रजन्सन्नन्तराऽन्तरा हिंसकभीत्या पृष्ठभागमप्यवलोक- यति यथा तथोत्तरवाक्यस्थपदानां पूर्ववाक्येप्यनुसन्धानं संभवतीत्यर्थः । अतिदूरादनुपलब्धिरित्यस्योदाहरणमाह-"यथोत्पतन्” इति । सञपि विद्यमानोपि पतनी पक्षी वियति गगने उत्पतन्गुड्डीयमानः अत्यूचं गतः सन्नतिदूरतया प्रत्यक्षेण नोपलभ्यत इत्यर्थः । 'अन्धत्वबधिरत्वादिः' इत्यत्र 'तस्मादिन्द्रियघाताद्विद्यमानं रूपं पश्यति शब्दं च न शृणोति' इति शेषो ज्ञेयः। मनोमवस्थानादितरव्यासङ्गेनेन्द्रियसंयोगाभावात् , कामाधुपहतमनाः कामादिविकारेण उपहतं दूषितं मनो यस्य स तथा, स्फीतः प्रचण्डत्वेन विस्तृतो य आलोकः सूर्यादिप्रकाशस्तदभ्यन्तरे वर्तमानमित्यर्थः । सौम्यान्निरवयवद्रव्यत्वात् , प्रणिहितमनाः समाहितचित्तः । (१) अतिदूरादिति - भावप्रधानो निर्देश इत्याशयेनाह-"अतिदूरतया” इति हेतौ तृतीया अयं दूरत्वदोषश्च क्वचिदेव, तेन सूर्यादिमण्डलदर्शने न व्यभिचार- इति बोध्यम् । - स RROR साङ्ख्यतत्त्वकौमुदी। १३९ 'अभिभवात्' यथाऽहनि सौरीभिर्भाभिरभिभूतं ग्रहनक्षत्र- मण्डलं न पश्यति । 'समानाभिहारात्' यथा तोयदविमुक्तानुदबिन्दुञ्जलाशये न पश्यति । चकारोऽनुक्तसमुच्चयार्थः, तेनानुद्भबोपि संगृहीतः, तद्यथा-क्षीराद्यवस्थायां दध्याद्यनुद्भवान्न पश्यति । एतदुक्तं भवति-न प्रत्यक्षनिवृत्तिमात्राद्वस्त्वभावो भवति, अतिप्रसङ्गात् , तथा हि-गृहाद्विनिर्गतो गृहजनमपश्यस्तद- भावं विनिश्चिनुयात्, नत्वेवम् , अपि तु योग्यप्रत्यक्षनिवृत्ते- श्यमभावं विनिश्चिनोति, न च प्रधानपुरुषादीनामस्ति प्रत्यक्ष- योग्यता, इति न तन्निवृत्तिमात्रात्तदभावनिश्चयो युक्तः प्रामाणिकानामिति ॥७॥ सौरीभिः सूर्यसंबन्धिनीभिः भाभिः किरणदीप्तिभिः अभिभूतं तिर- स्कृतं चन्द्रातिरिक्तमङ्गलादिमण्डलमश्विन्यादिनक्षत्रमण्डलं च तीत्यर्थः । सजातीयपदार्थमिश्रणं समानाभिहारः तस्मात् , तोयदेन मेघेन.... विमुक्तानुदबिन्दूञ्जलकणाजलाशये तटाकादौ विभिन्नतया न पश्यति । अनुद्भवः अनागतावस्थया सूक्ष्मरूपेण स्त्रोपादानेऽवस्थानम् । यच्च शङ्कितं गगनकुसुमादिवत्प्रधानादीनामभाव एव कथं न स्यादिति तत्समाधानायाह-"एतदुक्तं भवति" इति । अतिप्रसङ्गमेवाह-"तथाहि" इति । 'नत्वेवम्' एवं गृहाद्विनिर्गतो गृहजनाभावं निश्चिनोतीत्येवं नतु नहि दृश्यते लोक इत्यर्थः । तर्हि कीदृक्प्रत्यक्षनिवृत्तेरभावविनिश्चय इत्यत्राह-"अपि तु योग्यप्रत्यक्ष- निवृत्तेः” इति । सावयवत्वादिसामग्रीसमवधानेन प्रत्यक्षयोग्यं यद्वस्तु तत्र प्रत्यक्षनिवृत्तेरयं जनोऽभावं निश्चिनोति यथा सावयवानां शृङ्गा- दीनां शशादौ, प्रधानादीनाञ्च निरवयवत्वेन प्रत्यक्षयोग्यता नास्ति इति । । (१) अभावनिश्रये रोदनताडनादिप्रसङ्गादित्य पि आयम् । न पश्य- - १४० साङ्ख्यतत्वकौमुदी। कतमत्पुनरेतेषु कारणं प्रधानादीनामनुपलब्धौ, इत्यत- आह-"सौक्ष्म्यात्" इति । सौक्ष्म्यात्तदनुपलब्धि भावात्कार्यतस्तदुपलब्धेः । महदादि तच्च कार्य प्रकृतिसरूपं विरूपं च ॥८॥ अथाभावादेव सप्तमरसवदेतेपामनुपलब्धिः कस्मान्न भवति, इत्यत आह-'नाभावात्' कुतः, 'कार्यतस्तदुपलब्धेः तदिति प्रधानं परामृशति, पुरुषोपलब्धौ तु प्रमाणं वक्ष्यति 'सङ्घातपरार्थत्वात्' (का. १७) इति । अतः केवलप्रत्यक्षनिवृत्तिमात्रात्तेषामभावनिश्चयः प्रामाणिकानां प्रमाणे- यवहरमाणानां न युक्त इत्यर्थः ॥ ७॥ आशङ्कापूर्वकमुत्तरकारिकामवतारयति-"कतमत्पुनः” इति । एतेषु पूर्वोक्तातिदूरत्वाद्यष्टकारणानाम्मध्ये, कतमल्किङ्कारणमित्यर्थः । 'सौम्यात्तदनुपलब्धिः' इति मूलेन निरवयवत्वरूपसूक्ष्मत्वात्तेषां प्रधानादीनामुपलब्धिर्न भवतीत्यभिहितं तत्र शङ्कते “अथाभावादेव” इति । यथा षड्विधाम्लादिरसातिरिक्तः सप्तमो रसोऽभावादेव नोपलभ्यते नतु सौक्ष्म्यात्तथा प्रधानादीनामप्यभावादेवानुपलम्भः कुतो न भवेदित्यर्थः । कारिकांशमवतार्य समाधत्ते-"नाभावात्” इति । नतु सप्तमरसवदभावा- दनुपलब्धिरित्यर्थः। तेत्र हेतुं पृच्छति "कुत” इति । समाधत्ते "कार्यतस्तदुपलब्धेः' इति । महत्तत्वादिकार्यलिङ्गकानुमानेन प्रधानोपलब्धेरित्यर्थः । तदुपलब्धेः-इति तच्छब्देन नात्र प्रधानपुरुपयोरुभयोः परामर्शोऽपि तु प्रधानस्य, पुरुषस्याकारणत्वेन कार्यलिङ्गकानुमानेन तदुपलव्धेर्वक्तुम- शक्यत्वादित्याशयेनाह-"तदिति प्रधानं परामृशति" इति । तर्हि पुरुषोपलब्धिः कुतः तत्राह-"पुरुषोपलब्धौ. तु" इति । वक्ष्यति मूलकार इति शेषः। (?) चार्वाकाणां युक्तोपि प्रत्यक्षावृत्त्याऽभावनिश्चयः प्रमाणकुशलानां तु स- न युक्त इत्यर्थः। (२) तत्र अभावान्नानुपलब्धिरपि तु सौक्ष्म्यादित्यत्र ।
सायतत्त्वकौमुदी। १४१ दृढतरप्रमाणावधारिते हि प्रत्यक्षमप्रवर्तमानमयोग्यत्वान्न प्रवर्तत इति कल्प्यते सप्तमस्तु रसो न प्रमाणेनावधारित इति न तत्र प्रत्यक्षस्यायोग्यता शक्याऽध्यवसातुमित्यभिप्रायः । किं पुनस्तत्कायं यतः प्रधानानुमानम् , इत्यत आह-- "महदादि तच्च कार्यम्" इति । एतच्च यथा गमकं तथोपरि- ष्टादुपपादयिष्यते । तस्य च कार्यस्य विवेकज्ञानोपयोगिनी सारूप्यवैरूप्ये आह-"प्रकृतिसरूपं विरूपं च" इति, एते तूपरिष्टाद्विभज- नीये इति ॥८॥ कार्यात्कारणमात्रं गम्यते, सन्ति चात्र वादिनां विप्रति- यदुक्तम्-प्रत्यक्षाप्रवृत्त्या सप्तमरसवदभाव एव किन्न स्यादिति, तद्वि- घटयति-"दृढतर' इत्यादिना । प्रबलतरानुमानादिप्रमाणेन निर्णीते हि प्रधा- नादौ यत्प्रत्यक्षं न प्रवर्तते तत्प्रधानादीनां निरवयवत्वेन तत्र योग्यता- भावान्न प्रवर्तते न त्वसत्त्वादिति कल्प्यते सप्तमस्तु रसो न केनापि प्रमाणेन निश्चित इति अतः तत्र सप्तमे रसे प्रत्यक्षस्यायोग्यता अध्यवसातुं निश्चेतुं न शक्येत्यर्थः । असत्त्वादेव सप्तमे रसे प्रत्यक्षं न प्रवर्तते न त्वयोग्य- त्वादिति विशेष इति भावः । 'उपरिष्टादुपपादयिप्यते' १४।१५ इति कारिकाव्याख्यानावसरे मया, सारूप्यवैरूप्ये केन धर्मेण तत्त्वानां परस्परं सादृश्यं केन च धर्मेण परस्परवैलक्षण्यमित्येवं साधर्म्यवैधय इत्यर्थः । एते सारूप्यवैरूप्ये तु उपरिष्टात् (१०।११) इति कारिकयोः विभजनी- ये विभागयोग्ये, इति तत्रैव द्रष्टव्ये इत्यर्थः ॥ ८ ॥ उत्तरकारिकाभूमिकामारचयति-"कार्यात्" इति । कार्यदर्शनबला- दस्त्यस्य किञ्चित्कारणमित्येवं कारणमात्रं गम्यते प्रतीयते न विदमस्य रणमिति विशेषः प्रतीयते, तथा च न प्रधानकारणत्वनिश्चय इत्यर्थः । भवतु कारणमात्रज्ञानं तथाप्यन्यस्य. कारणस्यासत्वात्प्रधानकारणत्वनि- श्चयो भविष्यति, इत्यवाह-"सन्ति च” इति । अत्र कारणविषये च (१) खण्डयति । -- •. १४२ साङ्ख्यतत्त्वकौमुदी। पत्तयः तथाहि-केचिदाहुः--'असतः सज्जायते' इति, 'एकस्य सतो विवर्तः कार्य्यजातं न वस्तु सत्' इत्यपरे । अन्ये तु 'सतोऽसज्जायते' इति, 'सतः सज्जायते' इति वृद्धाः। वादिनां तत्तद्दार्शनिकानां विप्रतिपत्तयः विभिन्ना विभिन्ना मतयः सन्ति, तथा च न कारणविशेषावधारणमित्यर्थः । ता दर्शयितुमाह -“तथाहि" इति । विप्रतिपत्तीर्दर्शयामीत्यर्थः । तंत्र शून्यतैव जगतः परमार्थता' इति वदतां बौद्धानां मतमाह- "असतः सजायते” इति । अभावाद्भावो जायते इत्यर्थः विनष्टाद्धि किल बीजादङ्कुर उत्पद्यते नष्टाञ्च दुग्धाद्धि, विनष्टाच मृत्पिण्डावट इत्येवमभावग्रस्तेभ्यो बीजादिभ्योऽङ्कराद्युत्पत्तिदर्शनात् , सर्वे कार्यरूपा भावा अभावकारणकाः कार्यत्वाद्वीजनाशोत्तरोत्पन्ना- कुरादिवदित्येवमनुमीयत इति हि सौगताकृतम् । तथा च बौद्धमतानुवादि न्यायदर्शने पूर्वपक्षसूत्रम्-"अभावाद्भावो. त्पत्तिर्नानुपसुंद्य प्रादुर्भावात्" इति । ब्रह्मैवैकमनिर्वचनीयानाद्यविद्योपधानादनेकविधनामरूपप्रपञ्चात्मना वि- वर्तते रज्जुरिव सर्पमालाद्यात्मना, एकं मुखमिव चानकमणिकृपाणदर्पणा- दिभेदादनेकविधप्रतिविम्बात्मना, इति वदतां वेदान्तिनां मतमाह-"एकस्य सत" इति। एकस्य अद्वितीयस्य सतः त्रैकालिकबाधविधुरस्य ब्रह्मणः विवर्तः शुक्ते- रिव रजतमतात्विकान्यथाप्रथात्मकं कार्य्यजातं दृश्यमानं न वस्तु सत्परमा- थतः सदित्यर्थः । कपादाक्षपादयोर्मतमाह-“सतोड्सज्जायते” इति । सतः भावरूपा- त्परमाण्वादरसत्पूर्वमविद्यमानं व्यणुकादि जायते इत्यर्थः । कापिलमतमाह-"सतः सजायते” इति सतः भावरूपात्प्रधानादेः सदनागतावस्थया कारणे विद्यमानमेव जायते कारकव्यापारेणाभि- व्यज्यत इति वृद्धाः साङ्ख्याचा- इत्यर्थः । (१) ता: विप्रतिपत्तीरित्यर्थः । (२) अ. ४ आ० १ सू. १४ । (३) द्वौ नौ प्रकृतार्थं द्रढयतः, बीजमुपमृचैत्राङ्कुरप्रादुर्भावादियथः ।
HARE SARALASAHARAPLASAHUTHHALILMer FREE .................... .... AHARAriatutEALodindaianito .................::---::-...... साझ्यतत्वकौमुदी। तत्र पूर्वस्मिन्कल्पचये प्रधानं न सिध्यति, सुखदुःख- मोहभेदवत्स्वरूपपरिणामशब्दाद्यात्मकत्वं हि जगत्कारणस्य प्रधानत्वं सत्त्वरजस्तमःस्वभावत्वम् । एवं मतचतुष्टयं प्रदर्य साङ्ख्यातिरिक्तान्यमतानां प्रधानकारणत्वात्साध- कत्वादनुपादेयतां तर्कयितुमाह-"तत्र पूर्वस्मिन्कल्पत्येइति । तत्र पक्ष- चतुष्टयेयु, कार्यज्ञानेन यादृशं कारणं प्रधानं सिद्धं भवति तादृशं प्रधान- माद्यपक्षत्रये न निष्पद्यत इत्यर्थः । कीदृक्प्रधान कार्यलिङ्गकानुमानबलेन सिद्ध्यति यदन्यमते न सिद्ध्ये- दित्यत्राह-"सुखदुःखमरेहभेद्वत्स्व रूपपरिणामशब्दाद्यात्मकत्वम्" इति । सुखदुःखमोहरूपा ये भेदाः विशेषास्ते विद्यन्ते यत्र तत्सुखदुःखमोहभेदवत् , एतादृशं स्वरूपं येप ते सुखदुःखमोहभेदवत्स्वरूपा एवंविधा ये परिणामाः पञ्चतन्मात्रादिरूपशब्दायाः त एवात्मा स्वरूपं यस्य तत्तथा, तस्य भाव- स्तत्वम् , एवंविधं हि जगत्कारणस्य प्रधानत्वं. कार्यदर्शनासिद्ध्यति तच्चान्यमते नोपपद्यत इत्यर्थः । प्र प्रकर्षेण वैषम्यावस्थापरिहारेण धीयन्ते निधीयन्ते विद्यन्ते सत्त्वा- दिगुणा यस्मिंस्तत्प्रधानं तस्य भावः प्रधानत्वमित्याशयेन 'प्रधानत्वम्' । इत्यस्य विवरणमाह-"सत्वरजस्तमःस्वभावत्वम्" इति । सुखाद्यात्मकसत्त्वा- दिगुणस्वरूपत्वमित्यर्थः । (शब्दाद्यात्मकं जगत्-सुखाद्यात्मककारणपूर्वकं तदन्वितत्वात्-यद्य- दन्वितं तत्तथा यथा मृदन्वितं घटादिकं मृत्कारएकं तथाचेदं तस्मात्तथा) । इत्याद्यनुमानेनावगम्यमानं यत्सुखाद्यात्मकं त्रिगुणं प्रधानं कारणस्य कार्यात्मकत्वं च तदन्यमते न सिद्ध्यतीति भावः । कचित्पुस्तके-"सुखदुःखमोहभेदवत्स्वरूपपरिणामशब्दाद्यात्मकम्" । इति (१) यादृशं सुखाद्यात्मकं सुखाद्यात्मककार्य्यदर्शनेन कारणमपि सुखाद्या- त्मकमेव सिद्धं भवति नत्वन्यादृशमित्यर्थः । एतच्च पूर्वत्र (३) इति पृष्ठे व्यक्तम् । •/ (२) तथा सुखदुःखमोहभेदवत्खरूपपरिणामशब्दाद्यात्मकमित्यर्थः। (३) तथा तागन्त्रित कारणपूर्वकम् । (४) तथा चेदं सुखादन्वितं चेदं जगत् , तस्माच्या सुखाद्यात्मककारण- पूर्वकम् । (५) एतदने व्यक्तम् । न १४४ सालयतत्वकौमुदी। यदि पुनरसतः सज्जायेत असन्निरुपाख्यं कारणं कथं स्यात्, सदसतोस्तादात्म्यानुपपत्तेः । अथैकस्य सतो विवर्तः शब्दादिप्रपञ्चः, तथापि सतः सजायत इति स्यात्। भावप्रत्ययाघटितः पाठ उपलभ्यते, स : पाठ उपलभ्यते, स चेत्थं व्याख्येयः-सुखाद्यात्मकं यजगत्तत्स्वकारणस्य सत्त्वरजस्तमःस्वरूपत्वमवगमयतीति शेषः । तत्र बौद्धमते तावदेतादृक्प्रधानासिद्धिमाह-“यदि पुनः” इति । असतः सज्जायत इति सौगतं मतं यद्यभ्युपेयेत तर्हि असन्निरुपाख्यम्- अनि- वचनीयमभावरूपं जगत्कारणमित्यापद्येत, तथाचैवंविधं कारणं भावात्मक- सुखादिरूपशब्दाद्यात्मकं कथं स्यात् , न कथमपि स्यादित्यर्थः । तत्र हेतु- माह-"सदसतोः" इति । भावाभावयोस्तादात्म्यस्यानुपपन्नत्वादित्यर्थः । अनाभेद एव, तादात्म्यम् , अग्रिमनवमकारिकायां 'काय कारणान्न भिन्नम्' इत्येवं कार्यकारणाभेदरूपतादात्म्यस्य विस्तरेण साधयिष्यमाण- त्वात् , योगभाष्यव्याख्यायां तु 'अनुभव एव हि धर्मिणो धर्मादीनां भेदा- भेदौ व्यवस्थापयति' इत्यादिग्रन्थेन 'ऐकान्तिके कार्यकारणयोर्भेदे गवा- श्ववत्कार्यकारणमावो न स्यात् , ऐकान्तिके चाभेद इदमस्य कार्यमिति व्यवहारो न स्यात् इति बोधयन्नयं मिश्रोऽविचारितभेदप्रतीतिसह कृताभेद- एव कार्यकारणयोस्तादात्म्यमिति बोधयति, सूर्वथापि न.. सदसतोस्तादा- तम्यमिति बोध्यम् । यथा बौद्धमतेऽसता कारणेन सह न सत्कार्य्यस्य तादात्म्यमेवं वेदान्ति- मतेऽपि सता कारणेन सह न भ्रममात्रशरीरस्यासतः कार्यस्य तादात्म्य- मिति न तन्मतेपि प्रधानसिद्धिरित्याह-"अथैकस्य" इति । तथापि कारणस्य सद्रूपत्वेपि कार्यस्य गगनकुसुमकल्पत्वात्सतः (१) शब्दाद्यात्मकत्वम्-इति त्वप्रत्ययरहित इत्यर्थः । (२) उपाख्या उपाख्यानम्-इदमेतादृगिति वर्णनं ततो निष्क्रान्तं निरु- पाख्यम्- अलक्षणत्वेन निःखभावत्वेन चेदन्तया वक्तुमशक्य मित्यर्थः । (३) पा. ३ सू. १३ । (४) धर्मिणः मृत्पिण्डादेः सकाशाद्धर्मादीनां घटादीनाम् । (५) विचारे क्रियमाणे तु आम्राणां वनमित्यभेदेपि भेदव्यवहारदर्शनान्न व्यवहारबलेन कारणात्कार्य्यस्य भेद इत्याशयेनोक्तम्-'अविचारित' इति । .
......... .........------ । . साङ्ख्यतत्त्वकौमुदी। १४५ न चास्याद्वयस्य प्रपञ्चात्मकत्वम् , अपित्वप्रपञ्चस्य प्रपञ्चा- त्मकतया प्रतीतिभ्रम एव । येषामपि कणभक्षाक्षचरणादीनां सत एव कारणादसतो- जन्म तेषामपि सदसतोरेकत्वानुपपत्तेर्न कार्यात्मकं कारण- मिति न तन्मते प्रधानसिद्धिः । सजायत इति न स्यात् , तथा च नैतन्मतेपि कार्यात्मकं कारणमिति सिद्ध्येतू, सदसतोस्तादात्म्यासम्भवादित्यर्थः । ननु 'तदनन्यत्वम्' इति सूत्रेण भगवता व्यासेन (तस्मात्कारणा- दनन्यत्वमन्यत्वाभावः- अभेदः कार्यस्य) इत्येवं प्रतिपादनात्कथं न वेदान्तिमते कार्यकारणयोस्तादात्म्यमित्यत्राह-"न चाऽस्याऽद्वयस्य" इति । अस्याद्वयस्य ब्रह्मणः शब्दादिप्रपञ्चरूपेण परिणामित्वं नचाभ्युपेयते वेदान्तिभिरपि तु 'अशब्दमस्पर्शम्' इत्यादिश्रुत्या शब्दादिप्रपञ्चशून्यस्य तस्य प्रपञ्चात्मकतया भानं भ्रममाव्रमिति मन्यत इत्यर्थः । 'तदनन्यत्वम्' इति सूत्रांशेन चाभेद उच्यते किन्तु (तस्मात्कारणाद्ब्रह्मणः परमार्थतोऽनन्यत्वं व्यतिरेकेण कार्यस्याभावः) इत्येवं कार्यस्यासत्त्वं प्रतिपाद्यते 'आरम्भणशब्दादिभ्यः' इति सूत्रशेषसूचितायां 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इति श्रुतौ कारणीभूतमृत्तिकाया एव सत्यत्वावधारणेन कार्यस्य घटादेर्मिथ्यात्वप्रतिपादनेन विवर्तवादा- श्रयणादिति भावः। तार्किकमतेपि न प्रधानसिद्धिरित्याह-"येषाम्” इति । कणभक्षः वैशे- षिकदर्शनकर्ता कणादमुनिः, अक्षचरणः न्यायदर्शनकारो गोतममुनिः, आदिना प्रशस्तपाद-वात्स्यायनादयो सुनयो ग्राह्याः । (१) मत इति शेषः । (२) अ. २ । पा.२ सू १४ आरम्भणशब्दादिभ्य इति सूत्रशेषः । (३) शाङ्करभाष्यस्थोयं पाठः। (४) कार्य्यस्य मिथ्यात्वप्रतिपादने हेतुमाह-"आरम्भण" इत्यादिना। ./(५) वाचा केवलमारभ्यते विकारजातं नतु तत्त्वतोस्ति, यतो नामधेय- मात्रमेतत् , यथा राहोः शिर इति विकल्पमात्रं तथाचावस्तुतया विकारजात- मनृतं मृत्तिकेयेव सत्यमित्यर्थः । (६) आदिना उद्योतकराचार्या ग्राह्याः ।
१४६ साङ्ख्यतत्त्व कौमुदी। अतः प्रधानसिद्धयर्थं प्रथमं तावत्सत्कार्य प्रतिजानीते "असदकरणात्" इति- असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्य करणात्कारणभावाच सत्कार्यम् ॥९॥ सत्कार्य-कारणव्यापारात्प्रागपि' इति शेषः । तथाच न सिद्धसाधनं नैयायिकतनयैरुद्भावनीयम् । यद्यपि बीजमृत्पिण्डादिप्रध्वंसानन्तरमकुरघटाद्युत्पत्तिरुप- लभ्यते तथापि न प्रध्वंसस्य कारणत्वम् , अपि तु भावस्यैव बीजाद्यवयवस्य । एवमन्यमते प्रधानासिद्धि प्रदर्य साङ्ख्यमते तत्साधयितुं तत्सिद्ध्युप- योगिनं सत्कार्यवादं साधयन्ती कारिकामवतारयति- 'अत' इति । यतः सत्का- यवादातिरिक्तान्यवादे न प्रधानसिद्धिरत इत्यर्थः । प्रतिजानीते अङ्गीकरोति। नैयायिकनयेपि कारणव्यापारादनन्तरं कार्यं सदेवेति सिद्ध- साधनमेतत् , इत्यत आह--"कारणव्यापारात्यागपि” इति | अपिना-कार व्यापारोत्तरमपि कार्य सत् , तनोत्तरकाले कार्यसत्तायां न तार्किक- वैमत्यमिति कारणव्यापारात्यारापि कारणे कायं विद्यत इत्यस्माभिः साधू- नीयमतो नैयायिकतनयः तनयवत्तदनुगामिभिरत्र सिद्धसाधनं न प्र- दर्शनीयमित्यर्थः। स्व मतस्याऽदुष्टत्वव्यवस्थापनायान्यमतानां दुष्टत्वं प्रतिपादयितुमादौ बौद्धमतस्य दुष्टत्वमाह-"यद्यपि” इति । यदि बीजादिनाशोत्तरमङ्कुराद्युत्पत्तिस्तर्हि कथं न नाशस्य मित्यत्राह-"तथापि न” इति कस्य तर्हि कारणत्वमित्यत्राह-"अपितु" इति । बीजावयवा एव कुतश्चिन्निमित्तात्यादुर्भूतक्रियाः पूर्वव्यूह जहति व्यूहान्तरं चापद्यन्ते तस्माज्यूहान्तराच्चाङ्कुर उत्पद्यत इति । बीजावयवस्यैव कारणत्वं नाभावस्येत्यर्थः। एतच्च "न विनष्टेभ्योऽनिष्पत्तेः' इत्यादि न्यायसूत्रेषु स्फुटम् । (१) व्यूह : अवयवानां सन्निवेशविशेषः। (२) अ. ४आ. १ सू. १७ । .. ननु कारणत्व- ..... साङ्ख्यतच्चकौमुदीं। १४७ अभावात्तु भावोत्पत्तौ तस्य सर्वत्र सुलभत्वात्सर्वत्र सर्व- कार्योत्पादप्रसङ्ग इत्यादि न्यायवार्तिकतात्पर्यटीकायामभि- हितमस्माभिः । प्रपञ्चप्रत्ययश्चासति बाधके न शक्यो मिथ्येति वदितुम् । अभावाभावोत्पत्तौ को दोपस्तब्राह-"अभावात्तु भावोत्पत्तौ तस्य सर्वत्र सुलभत्वात्सर्वत्र सर्वकार्योत्पादप्रसङ्ग' इति । तथाचाहुरंशङ्कराचार्या:-(यद्यभावाभाव उत्पद्येत, अभावत्वाविशेषात्का- रणविशेषाभ्युपगमोऽनर्थकः स्यात् , नहि बीजादीनामुपमृदितानां योऽभाव- स्तस्य च शशविषाणादीनां च निःस्वभावत्वाविशेषादभावत्वे कश्चिद्विशेषो- ऽस्तिं येन बीजादेवाङ्कुरो जायते क्षीरादेव दधीत्येवंजातीयकः कारणविशे- पाभ्युपगमोऽर्थवान्स्यात् , निर्विशेफ्स्य त्वभावस्य कारणत्वाभ्युपगमे शशविषा- णादिभ्योऽप्यकुरादयो जाये रन् , नचैवं दृश्यते) इति । 'यद्येनानन्वितं न तत्तस्य विकारो यथा घटशरावोदञ्चनादयो हेम्ना- नन्विता न हेमविकाराः, अनन्विताश्चैते विकारा अभावेन, तस्मान्नाभाव. विकाराः भावविकारास्तु ते, भावस्य तेनान्वितत्वात्' इति भामत्यभिहिता युक्तिरप्यत्रावसेया। 'नह्य नन्वयाविनष्टयोः शालियवबीजयोः कश्चिद्विशेषोस्ति येनैकस्मा- च्छाल्यङ्कुरों नान्यस्मात् ' इत्यादिना तात्पर्यटीकायामपि स्पष्टमेतत् , इत्याश येनाह-'इत्यादि न्यायवार्तिकतात्पर्यटीकायाम्" इति । इत्यादि एवंविधं दूषणजातमित्यर्थः । वेदान्तिमतमसङ्गतयितुमाह-"प्रपञ्चप्रत्ययश्च" इति । प्रत्यक्षादिप्रमाण- सिद्धशब्दादिप्रपञ्चानुभवश्च मिथ्येति वदितुं न शकय इत्यर्थः । - ननु-प्रतीयमानत्वात्प्रपञ्चस्य न मिथ्यात्वमित्यभिधानमसमीचीनम् , प्रतीयमानस्यापि शुक्तिरजतादेर्मिथ्यात्वस्य सर्वसम्प्रतिपन्नत्वात् , इत्याश- ङ्कायामाह-'असति बाधके' इति । दृढतरबाधकप्रमाणासन्निधाने सतीत्यर्थः। नेदं रजतमित्युत्तरज्ञानरूपबाधकस्य सत्त्वाद्युक्तं तत्र तत्प्रतीतेर्मिथ्यात्वमत्र तु न कोपि बाधक इति कथं मिथ्यात्वमिति भावः । (१) 'नाऽसतोऽदृष्टत्वात्' अ. २ पा. २ सू. २६ इति सूत्रभाष्य इति शेषः । (२) नोभावो विशिष्यते, विशेषणयोगे सोपि भावः स्यान्न निरुपाख्य इत्यर्थः। (३) अ. ४ आ. १ सू. १८ । (४) असङ्गतं कर्तुम् ।
१४८ साङ्ख्यतत्त्वकौमुदी। इति कणभक्षाक्षचरणमतमवशिष्यते । ननु वाचारम्भणश्रुतिरेवात्र बाधिकेति चेत्, न, तस्याः प्रपञ्चमिथ्या- त्वप्रतिपादने तात्पर्याऽभावात् , कुन तर्हि तात्पर्यमिति चेच्छृणु-रलयोरभेद- विवक्षयाऽऽरभ्यते आलभ्यते स्पृश्यत इत्यारम्भणं बाहुलकात्कर्मणि ल्युट । वाचा इति तृतीयान्तपदं चात्राजहल्लक्षणया वाक्पूर्वकव्यवहारपरं हेतौ चैषा तृतीया, हेतुत्वं चात्र प्रयोजनतया न कारणत्वेन, तथा च वाक्पूर्व- केण 'अयं घटोऽनेनं घटेनोदकमाहर' इत्यादि व्यवहारेण हेतुना-एतादृग्व्यव- हारसिद्ध्यर्थ विकारः पृथुबुनोदराकारत्वादिलक्षणः संस्थानविशेषः तत्र- युक्तं च घट इति नामधेयमारस्भणम्मृद्रव्येण स्पृश्यते-उदकाहर- गादिव्यवहारविशेषसिद्ध्यर्थं मृद्रव्यमेव संस्थानान्तरनामधेयान्तरभाग्भव- तीति यावत् , अतो घटाद्यपि मृत्तिका मृद्रव्यमित्येव सत्यं सत्यं प्रमाण- प्रतिपन्नं नतु घटादिकं द्रव्यान्तरमिति । कार्यस्य कारणात्मकत्वमेवानया श्रुत्या प्रतिपाद्यते न कार्यमिथ्यात्व. मिति तत्त्वम् । अपि च-सामान्यतो ग्रहे रूपविशेषाग्रहे च तदन्यरूपेण विभ्रमो दृष्टः शुक्तिकादौ न तु जातु शुक्तिरूपं जानत्रजतमिति विपर्यस्यति, न च निरंशे स्वसंवेदनप्रत्यक्षे ब्रह्मणि तत्स्वरूपाग्रहः सामान्यग्रहो, वा भवतीति कथं निर्भागस्यैकस्य ब्रह्मणो विपरीतज्ञानगोचरत्वसम्भव इति न युक्तिमदेतत्मततिति । इत्थं मतद्वयनिरासमभिधायेदानीं परिशिष्टं तार्किकमतं निरसनीयमि- त्याह-'इति कणभक्षाक्षचरणमतमेवाऽवशिष्यत' इति, यतो मतद्वयमुक्तप्रका- (१) आलम्भः सहहिंसयोरिति नैधण्टुकाः । (२) वाचा शब्देन, आरभ्यते उत्पाद्यत इत्यर्थस्तु न युक्तः, घटादेर्मुदाद्या- रम्यत्वेन शब्दोपादानकत्वाभावादत आरम्भणमत्रालम्भनमेवेत्यर्थः । (३) 'कृत्यल्युटो बहुलम्' इति सूत्रेणेत्यर्थः । (४) एषा वाचा इति । (५) अन्नेन वसतीतीव प्रयोजनार्थेऽत्र तृतीयेत्यर्थः । (६) यदि मृत्तिकैव सत्यं न तु घटादिकमित्यर्थोऽभिमतो भवेत् 'तदा मृत्तिका सत्या' इति समानाधिकरणं प्रयुक्तं स्यात्तथा प्रयोगाभावाच नासावर्थ इत्या- शयेन सत्यमित्यस्यार्थमाह--"प्रमाणप्रतिपन्नम्' इति । (७) मतद्वयं सौगतवेदान्तिनोर्मतमित्यर्थः साङ्ख्यतत्वकौमुदी। १४९ तत्रेदं प्रतिज्ञातम्-"सत्कार्यम्" इति । तत्र हेतुमाह-"असदकरणात्" इति । असञ्चेत्कारणव्यापारात्पूर्वं कार्य नास्य सत्वं कर्तुं केनापि शक्यम् , नहि नीलं शिल्पिसहस्रेणापि पीतं कर्तुं शक्यते । रेणासङ्गतमिति-अतः तन्निरासे वक्तव्यत्वाभावात्कवलं कणादादिमतमेव निरसनीयत्वेन परिशिष्यत इत्यर्थः । तविशेषाभावाय तदपि निरस्यतामित्याकाङ्क्षायां मूलकारिकाकृतैव त- मतस्य सविस्तरं निरस्यमानत्वान्न तन्मया निरस्यत इत्याह-"तत्रेदम्पति- ज्ञातम्" इति। तत्रे-तत्कणादादिमतनिरासार्थ प्रतिज्ञातं-साध्यविशिष्टपक्षनिर्देशात्मक प्रतिज्ञावाक्यमभिहितं मूलकृतेति शेषः । ननु न प्रतिज्ञामात्रेणार्थसिद्धिरित्यत्राह-"तत्र हेतुमाह" इति । ननु पक्षधर्मत्वाभावात्कथमस्य हेतुत्वमिति चेत्, कार्य सत्करणात्- क्रियमाणत्वाद्यन्न सत्तन्न क्रियमाणं यथा नीले पीतं नरविषाणं वा इति शेषवदनुमानप्रयोगे हेतूपयोगिव्यतिरेकव्याप्तिस्वरूपोपदर्शकत्वेनास्य हेतुत्व- मिति गृहाण, एतदभिप्रायेणैव व्यतिरेकव्याप्तिस्वरूपं स्पष्टयंस्तस्यार्थमाह-"असञ्चेत् ।" इति । ननु न वयं नरवषाणवदसत्स्वभावं विकारजातमिति मन्यामहे येन तद्वन्न क्रियेतत्यनुयुज्येतापि तु सन्घटोऽसन्घट इत्यादिव्यवहारान्यथानुपपत्या सदसत्वे विकारजातस्य धौ ते च स्वकारणाधीनलब्धजन्मतया कदाचिदेव भवत इत्यङ्गीकुर्महे, तथा च यथा घटे पाकात्पूर्व श्यामता पाकानन्तरं च रक्तता तथोत्पत्तेः प्रारघटस्याऽसत्त्वं धर्मः पश्चाच तस्य सत्त्वं (१) 'शक्यं पीतीकर्तुम्' इति पाठान्तरम् । (२) कणादादिमतस्य । (३) तत्रेति निमित्त सप्तमी । (४) असदकरणादित्यस्य । (५) तद्वत्-नरविषाणवन्नोत्पद्यतेत्येवमाक्षिप्यत । (६) मृत्पिण्डदशायां घटोऽसनिति व्यवहारः । (७) ते च-सदसत्त्वे च।
HExa - १५० साङ्ख्यतत्वकौमुदी। सदसत्वे घटस्य धर्माविति चेत् , तथाप्यसति. धर्मिणि न तस्य धर्म इति सत्त्वं तदवस्थमेव तथा च नाऽसत्त्वम् । असंवद्धेनाऽतदात्मना चाऽसत्त्वेन कथमसन्घटः । धर्म इति न कोपि दोष इत्याशयेन शङ्कते-"सदसत्त्वे” इति । यदि तयोर्धर्मत्वं तर्हि धर्मिरूपं वस्तु दण्डायमानं सदातनमिति न कस्य- चित्तद्विकार इत्यापद्येत, अथासत्त्वसमये तन्नास्ति तर्हि कस्य धर्मों- ऽसत्त्वं नाविद्यमाने धर्मिणि तद्धर्मों विद्यमान इत्युपपद्यत इत्याशयेना- शङ्कां निरस्यति-"तथापि” इति सदसत्त्वयोर्धर्मत्वाङ्गीकारेपीत्यर्थः । यतो धर्मिसत्त्वं विना धर्मसत्त्वमनुपपन्नमिति अतः सत्त्वं तदवस्थ- मुत्पत्तेः प्रागपि काय्य॑स्य सत्त्वं स्थितं तथा च न भवदभिमतं कार्यस्या- सत्त्वं सिद्धमित्यर्थः। किञ्च-उत्पत्तेः प्राग्घटोऽसमित्यभिधानमपि त्वन्मते न संघटत इत्याह- "असंबद्धेन” इति । धर्मिणा सहाऽसंबद्धेन असत्त्वेन असत्त्वरूपधर्मेण कथमसन्घटः अस- स्वरूपधर्माश्रयो घट इत्यभिधानं कथं तथा-अतदात्मना अतत्स्व रूपेण धर्मिस्वरूपतयाऽविद्यमानेन चाऽसत्त्वेन कथमसन्घट इंति न कथमपीत्यर्थः । अनेदं बोध्यम्-तार्किकमते नीलं कमलमित्यादौ गुणिरूपधर्मिणि समवाया- दिसंबन्धेन नीलगुणरूपधर्मस्य संबद्धत्वमादायाश्रयायिभावप्रतीतिः, साल्यादिनये तु धर्मधर्मिणोरभेदार्मिस्वरूपमेव धर्म. इति तदात्मतया तत्प्रतीतिः, तत्र 'असंबद्धनासत्त्वेन'इति कथनं तार्किकमताभिप्रायम् 'अतदा- त्मना चासत्त्वेन' इति प्रकृतमताभिप्रायमिति (१) तयोः सदसत्त्वयोः। (२) तद्धर्मिरूपं वस्तु । (३) असंबद्धमसत्त्वरूपं धर्ममादायेत्यर्थः । (४) तत्प्रतीतिः आश्रयाश्रयिभावप्रतीतिः । (५) यथा नीलं कमलमित्यस्य नीलगुणरूपधर्माश्रयः कमलमित्यर्थस्तथाऽसन्घट- इत्यस्यापि असत्त्वधर्माश्रयो घट इत्यर्थो वाच्यः, स चानुपपन्न: कमलेन सह नीलस्येवाऽसता घटेन सहासत्त्वरूपधर्मस्याऽसंबद्धस्वादिति-भावः । ७ साङ्ख्यतत्त्वकौमुदी। १५१ तस्मात्कारणव्यापारादूर्ध्वमिव ततः प्रागपि सदेव कार्य- मिति । .. कारणाचास्य सतोभिव्यक्तिरेवावशिष्यते । सतश्चाभिव्यक्तिरुपपन्ना, यथा पीडनेन तिलेषु तैलस्य, अवघातेन धान्येषु तण्डुलानां दोहनेन सौरभेयीषु पयसः। धर्मिसंबद्धेन धात्मना वा विद्यमानेन धर्मेणैव तदाश्रयत्वनियमान्ना- त्रासंबद्धेनाऽतदात्मना वाऽसत्त्वेन धर्मेण तदाश्रयत्वसम्भव इति तत्त्वम् । फलितमाह-"तस्मात्" हति । ननु एवं सति किमपरमवशिष्यते यत्कुलालादिव्यापारेण साध्यं न च घटादिस्वरूपसिद्ध्यर्थः से इति वाच्यं भवन्मते तस्य प्रागेव सिद्धत्वात् , तथा च यथा प्राक्सिद्धत्वान्मृत्पिण्डादेः कारणस्य स्वरूपसिद्धये न कश्चि- याप्रियते तथा प्राक्सिद्धत्वात्कार्यस्वरूपस्य तत्प्रसिद्धयेपि न कश्चिद्ध्या- प्रियेत, व्याप्रियते च, अतः कारकव्यापारस्यार्थवत्त्वाय मन्यामहे प्रागुत्पत्तर- भावः कार्यस्येत्याशङ्ग्य कारकव्यापारस्याऽर्थवत्त्वमाह-"कारणाचास्य"इति । चकारः पुनरर्थः, अस्य सतः कारणव्यापारात्प्रागपि व्यवहारायोग्यसूक्ष्म- रूपेण सिद्धस्य कार्यस्य या व्यवहारयोग्यस्थूलरूपापादनरूपाभिव्यक्तिः सा पुनः कारणात्कुलालादिव्यापाराद्भवति इत्येवमभिव्यक्तिरेव साध्यत्वेनाव- शिष्यते नोत्पत्तिरित्यर्थः । पृथुबुन्नोदरादिकाऱ्यांकारेण कारणं व्यवस्थापयतः कारकव्यापारस्य न वैयर्थ्यमिति न तद्वैलेनासत्कार्यवादसिद्विरिति भावः । असदेव कार्य तस्मात्कुतो नाभिव्यज्यत इत्यत्राह--"सतश्च" इति । पूर्व सत एव वस्तुनोऽभिव्यक्तिर्युक्ता नत्वसत इत्यर्थः । तंत्र दृष्टान्तानाह-"यथा पीडनेन" इति। तैलस्य-तण्डुलानाम् पयस-इति षष्ठयन्तत्रयस्याऽनुषक्तेन 'अभिव्यक्तिः' इत्यनेनान्वयः । १) उत्पत्तेः प्रागपि कार्य्यस्य सत्त्वे सति । (२) स: कारकव्यापारः। (३) व्यवहारः उदकाहरणादिकार्यविशेषः । (४) तद्बलेन कारकव्यापारसद्भावबलेन । (५) तस्मात्कारणव्यापारात् । (६) तत्र सतोभिव्यक्तौ। (७) अनुषत्तेत, पूर्वस्मादनुवृत्तेन । :
१५२ साहयतत्वकौमुदी। असतः करणे तु न निदर्शनं किञ्चिदस्ति, न खल्वभिव्य- ज्यमानं चोत्पद्यमानं वा क्वचिदसदृष्टम् । इतश्च कारणव्यापारात्प्राक्सदेव कार्य्यम् 'उपादानग्रह- णात्'-उपादानानि कारणानि तेषां ग्रहणं कार्येण संबन्धः, उपादानैः कार्यस्य संबन्धादिति यावत् । एतदुक्तं भवति-कार्येण संबद्धं कारणं कार्यस्य जनक संबन्धश्च कार्यस्याऽसतो न संभवति तस्मात्सदिति । सौरभेयीपु सुरभेर पत्यभूतासु, गोषु इत्यर्थः । असतोऽभिव्यक्तौ तु न कोपि दृष्टान्त इत्याह-"असत' इति । करणे- भिव्यक्ती, निदर्शनं दृष्टान्तः । एतदेव स्पष्टयति-"न खलु” इति । खळु इत्यवधारणार्थः, यद्वस्तु असत्तदभिव्यज्यमानं त्वन्मते चोत्पद्यमानं वा क्वचिदपि नैव दृष्टमित्यर्थः । एतेन "नाऽसदुत्पादो नृशृङ्गवत्" इति साङ्ख्यसूत्रं व्याख्यातमिति बोध्यम् । यदि नरविषाणमपि कारकव्याप व्यापारादूचं व्यक्तमभविष्यत्तदाऽसत्कार्य- मपि कारकव्यापारादूचं व्यक्तं भविष्यति इतीदमप्युपापत्स्यत तच्चानुपपन्न- मित्यसत्कार्यभवनमप्यनुपपन्नमिति भावः । कार्यस्य सत्त्वे हेत्वन्तरमवतारयति-"इतश्च' इति । इतश्च वक्ष्यमाण- हेतोरपीत्यर्थः। फलितमाह-"उपादानैः कार्यस्य संबन्धात्' इति । एतेन-'कार्यमुपादाने सदुपादानेन सह संबद्धत्वाद्यद्यत्रं न सत् न तत्तेन संबद्धं यथा मृत्तिकया पटादिकम्' इत्यनुमानमत्र दर्शितम् । एतस्मिन्ननुमाने हेतोरेंदुष्टत्वं स्पष्टंयितुमाह-"एतदुक्तं भवति" इत्यादिना। 'कार्येण संबद्धमेव कारणं कार्यजनकम्' इत्युक्त्या उत्पत्तेः प्राक्कार्य- (१) अ. १ सू. ११४ (२) उपपन्नमभविष्यत् । (३) तच्च नरविषाणभवनं च । (४) यत्र यस्मिन्नुपादाने । (५) हेतोः उपादानसंबद्धत्वादिति हेतोरित्यर्थः ।
.. . साङ्ख्यतत्त्वकौमुदी। १५३ स्यादेतत्-असंबद्धमेव कारणैः कस्मात्कार्यं न जन्यते तथा चासदेवोत्पत्स्यतेऽतआह-"सर्वसम्भवाभावात्" इति । असंबद्धस्य जन्यत्वे असंबद्धत्वाविशेषेण सर्व कार्यजातं सर्वस्मा- द्भवेत् , नचैतदस्ति, तस्मान्नासंबद्धमसंबद्धेन जन्यतेऽपि । तु संबद्धं संबद्धेन जन्यत इति । यथाहुः साङ्ख्यवृद्धाः-"असत्त्वे नास्ति संबन्धः कारणैः सत्त्वसङ्गिभिः । असंबद्धस्य चोत्पत्तिमिच्छतो न व्यव- स्थितिः॥" इति । मुपादानसंबद्धं तज्जन्यत्वाद्यच्च नोपादानसंबद्धं न तत्तजन्यं यथा मृदः पटादिकमित्यनुमानमत्र सूचितमिति ज्ञेयम् । एतस्मिन्ननुमाने विपक्षे बाधकाभावमाशङ्कते-"स्यादेतत्" इत्यादिना । विपक्षबाधकानुकूलतर्कप्रदर्शनपरं 'सर्वसंभवाभावाद्' इति हेतुपदं व्याचष्टे "असंबद्धस्य जन्यत्वे" इति । स्पष्टार्थोयं ग्रन्थः । स्वोक्तार्थे वृद्धसम्मतिमाह-"यथाहुः” इति । असत्त्वे कार्यस्योत्पत्तेः प्रागविद्यमानत्वे सति तेषां कार्याणां सत्त्वसङ्गिभिः सत्वधर्माश्रयैः कारणैः सह संबन्धो न स्यात् , सदसतोस्संबन्धानुपपत्तेः, कारणैरसंबद्धस्य च कार्यस्योत्पत्तिमिच्छतो मते, व्यवस्थितिः मृद एव घटः कनकादेव कटकमित्येवं. विधो नियमो न स्यादिति वृद्धोक्तेरर्थः । घटपटाद्यर्थिभिनरैः प्रतिनियतानि मृत्तन्त्वादीनि कारणानि गृह्यमाणानि लोके दृश्यन्ते नहि घटार्थिना तन्तवो गृह्यन्ते नापि पटार्थिना मृदुपादीयते, तदेतन्नियतोपादानग्रहणमसरकार्यवादे नोपपद्यते, समाने हि सर्वत्र सर्वस्य कार्यस्याऽसत्त्वे सर्व सर्वस्मादुत्पद्यतेति प्रतिनियतोपादानग्रहणं नोपपद्येत, तथा च प्रतिनियतोपादानग्रहणात्सर्वस्मात्सर्वोत्पत्त्यदर्शनाच्च नासत्कार्य- मिति भावः। (१) तत्कायं का-संबद्धोपादानेन जन्यं न भवतीत्यर्थः । (२) 'तज्जन्यत्वात्' इति हेतुरस्तु 'उपादानसंबद्धम्' इति साध्यं माभूदित्येवंविधे विप्रक्षे इत्यर्थः। (३) 'उपादानग्रहणात्' 'सर्वसर्वसम्भवाभावात्' इत्यनयोरभिप्रायान्तरमाह- "घटपटाद्यार्थिभिः" इति । (४) प्रतिनियतोपादानग्रहणान्यथानुपपत्त्या कार्य सदित्यर्थः । अनुपपन्नत्वे हेतुमाह-'समाने हि" इति । । मगरसम्म १५४ साङ्ख्यतत्त्वकौमुदी। स्यादेतत्--असंबद्धमपि सत्तदेव करोति यत्र यत्कारणं शक्तं, शक्तिश्च कारणस्य कार्यदर्शनादवगम्यते, तेन नाव्य- वस्थेत्यत आह-"शक्तस्य शक्यकरणात्" इति । सा शक्तिः शक्तकारणाश्रया सर्वत्र वा स्यात् , शक्य एव वा सर्वत्र चेत् , तदवस्थैवाऽव्यवस्था, शक्ये चेत्कथमसति शक्ये तत्र इति वक्तव्यम् । एतेन ‘उपादाननियमात्' 'सर्वत्र सर्वदा सर्वाऽसम्भवात्' इति साङ्घय- सूत्रद्वयं व्याख्यातमिति ज्ञेयम् । कारणसंबद्धमेव कार्य कार्यसंबद्धेन कारणेन जन्यते न त्वसंबद्धमसंबद्ध- नान्यथाऽव्यवस्थेत्युक्तिममृष्यमाणोऽसत्कार्यवादी शङ्कते "स्यादेतत्-असंबद्ध- मपि" इत्यादिना । काथैणासंबद्धमपि सत्कारणं तदेव कार्य करोति यस्मिन्काय्र्ये यत्कारणं शक्तं शक्तियुक्तं न सर्वमित्यर्थः । शक्तौ प्रमाणमाह-शक्तिश्च" इति । कार्यनियामकः कश्चिदतिशयवि- शेषः-सामर्थ्यविशेषो वा शक्तिः, सा च कार्यदर्शनान्मृद एव घटस्त. न्तुभ्य एव च पट इति प्रतिनियतकार्योत्पत्त्यन्यथानुपपत्तिज्ञानात् , अव- गम्यते अनुमीयत इत्यर्थः । मूलमवतार्य तद्योजनेनाशङ्का परिहर्तुं विकल्पयति “साशक्तिः” इति । शक्तकारणाश्रया कार्यजननशक्तिमति कारणे वर्तमाना या शक्तिः सा किं सर्वत्र सर्वकार्यविषया-सर्वकार्यनिरूपिता वा स्यात् , उत शक्ये यदुत्पाद- यितुं शक्यं कार्यं तद्विषया तन्निरूपितैव वा स्यात् , सर्वत्र चेत् , तर्हि सर्व सर्वस्मात्संभवेदिति पूर्वोक्ताऽव्यवस्था तदवस्थव भवेत् , शक्य एव सा शक्तिरिति चेत् , तर्हि अविद्यमाने शक्ये तंत्र तद्विषया तन्निरूपिता वा शक्तिरिति कथं वक्तव्यं स्यात् , न कथमपि वक्तुमहम् , असतो विषयत्वाभावात् , निरूपकत्वासंभवाञ्चेत्यर्थः (१) अ. १श सू. ११५-१६। (२) अमृष्यमाणः असहमानः । (३) मूलं 'शक्तस्य शक्यकरणात्' इत्याकारं कारिकाभागमित्यर्थः । (५) सर्वत्रेति सप्तमी विषयार्था ।
. साङ्ख्यतत्वकौमुदी । १५५ शक्तिभेद एव स तादृशो यतः किश्विदेव कार्य जनयेन्न सर्वमिति चेत् , हन्त भोः स शक्तिविशेषः कार्यसंबद्धो वाऽसंबद्धो वा, संबद्धत्वे नाऽसता संबन्ध इति सत्कार्य, असंबद्धत्वे सैवाऽव्यवस्था, इति सुष्टूक्तम्-"शक्तस्य शक्यकरणात्" इति । सतोरेव विषयविषयिभावसंबन्धो निरूप्यनिरूपकमावसंबन्धो वा न सदसतोरिति भावः। शक्तिरपि कार्यसंबद्धव कार्य जनयेन्नासंबद्धति सिद्धान्त्याशयमजाना. नस्तार्किकः पुनरपि रेकते "शक्तिभेद एव" इति । सिद्धान्ती प्राह-"हन्त भोः” इति । हन्त-इति हेर्थिकमव्ययम् , अन्य- स्पष्टम् । उपसंहरति इति सुष्टूक्तम् 'शक्तस्य शक्यकरणात्' इति, यतः शक्तं कारणं शक्तिसंबद्धमेव शक्यं करोति नासंबद्धमिति अतः शोभनमभिहितं कारिकाकृता 'शक्तस्य शक्यकरणात्' इतीत्यर्थः । कारणे तदात्मना वर्तमाना कार्यस्याव्याकृतावस्थारूपाऽनागतावस्थैव कार्यानियामिका शक्तिः, तया संबद्धं कार्यं च शक्यमित्यनागतावस्थावत्त्वेन कारणे कार्यस्य सच्चान्न कार्यस्याऽसत्त्वमिति तत्त्वम् । तथा चाहुः शङ्कराचार्या:-"दशक्तिश्च कारणस्य कार्यनियमार्था कल्प्य- माना लाऽन्याऽसती वा कार्य नियच्छेत् , असत्त्वाविशेषादन्यत्वाविशेषाच, तस्मात्कारणस्यात्मसूता शक्तिः शक्तश्चात्ममूतं कार्यम्' इति । (१) रेकते शङ्कते। (२) हर्षश्च-स्वमतं स्थापयितुं तार्किकोऽशक्त इति सिद्धं समीहितमित्येताव- ताऽत्र बोध्यः। (३) कार्य्यशक्तिमत्त्वमेवोपादानकारणत्वम्, अन्यस्य दुर्वचत्वात् , लाघवाच्च, सा शक्तिः कार्य्यस्यानागतावस्थैवेत्यतः शक्तस्य शक्यकार्यकरणान्नासत उत्पाद- इत्यर्थः इत्येतत्समानानुपूर्वीकसाङ्ख्यसूत्रे विज्ञानभिक्षवः । (४) अ. २ पा. १।१८ इति ब्रह्मत्रभाष्ये । (५) कार्यकारणाभ्यामन्या कार्य्यवदसती वा शक्तिः कार्य न नियच्छेत्कार्य- नियामिका न संभवेत् , अन्यत्वासत्त्वयोः शक्तावन्यत्र चाविशेषात् , यस्य कस्यचि. दन्यस्य नरविषाणादेर्वा नियामकलप्रसङ्गात् , अतःकारणस्यात्मभूता कारणादभिन्ना शक्तिरुपेया शक्तेश्चात्मभूतं कार्यमुपेयं कारणेऽव्यक्ततया स्थितं कायं कार्य्यस्यानाग- तावस्थैव वाऽभिव्यक्तिनियाभकतया शक्तिर्न ततोऽन्या काचिच्छक्तिरिति यावत् । १ ..
१५६ साङ्ख्यतत्त्वकौमुदी। इतश्च सत्कार्यमित्याह--"कारणभावाच" कार्यस्य कारणात्मकत्वात् , नहि कारणाद्भिन्नं कार्य कारणं च सदिति कथं तदभिन्न कार्यमसद्भवेत् । यदपि-'प्रागभावः कार्यनियामक इति नाऽव्यवस्था' इति मतं तदपि न पेशलम्, अभावे विशेषाभावेन तन्तौ घटादेरपि प्रागभावापत्तेर्दोषतादव- स्थ्यात् , नच पटप्रतियोगिकः पटनिरूपितो वा प्रागभावः पटोत्पत्तिनियामक- इति विशेष इति वाच्यम् । असतः पटादेः प्रतियोगित्वनिरूपकत्वादिधर्मासं. भवात् , सदसतोस्संबन्धानुपपत्तेरिति । किञ्च-उत्पत्तेः प्राक्कार्य्यस्यासत्त्वे घट उत्पद्यत इत्यभिधानमप्यनुपपन्नं स्यात् , उत्पत्तेः क्रियात्वेन क्रियायाश्च सकर्तृकत्वानयमेन, कर्तुरसत्वे निराश्रयायाः क्रियाया असम्भवात् , जनिकर्तु- जनेः प्राक् सत्त्वस्यावश्यकत्वात् , अपि च कार्यस्यासत्त्वे योगिनामनागता- दिज्ञानं न स्यादिति, अधिकमन्यतोऽवसेयम् । 'सदेव सौम्येदमग्र आसीत्' 'तद्धेदं तोव्याकृतमासीत्' इत्याद्या आ- गमा अष्यत्रानुसन्धेयाः । हेत्वन्तरमवतारयति "इतश्च" इति । (१) यत्र कारणे यस्य प्रागभावस्तत्कारणं तस्य जनकमित्यर्थः । (२) पेशलं सुन्दरम् । (३) यदि पुनरमावस्यापि विशेषोऽभ्युपगम्येतोत्पलादीनामिव नीलत्वादिस्ततो विशेषवत्त्वादेवाभावस्योत्पलादिवद्भावत्वं प्रसज्येतेत्यर्थः । (४) तन्त्वनुत्पाददशायां पटप्रागभावः कुत्र वर्तत इत्यपि प्रष्टव्योसौ, नच काले वर्तत इति वाच्यम् , अभावे क्रियाऽभावेन तन्तावागमनाऽसम्भवादित्यपि ज्ञेयम् । (५) क्रिया च नाम स्यादकर्तृका चेति विप्रतिषिद्ध मिति भावः । (६) योगिनां ज्ञानं हि प्रत्यक्षात्मकं तच्च विद्यमानालम्बनमसत्यालम्बने किं- विषयं तत्स्यादिति भावः । (७) अन्यतः बृहदारण्यक्रप्रथमाध्यायद्वितीयब्राह्मणगतशाङ्करभाष्यात् , सूत्रीयद्वितीयाध्यायाद्यपादस्थ १६-१७-१८-१९-२० इत्यादिसूत्रस्थभाष्याच्चेत्यर्थः । (८) अग्रे सृष्टेः प्रागिदं दृश्यमानं जगत्सदेवासीन्नाऽसदिति छान्दोग्य- श्रुतेरर्थः, इदं स्पष्टनामरूपं यजगत्तत्तर्हि सृष्टेः प्रागव्याकृतं अनभिव्यक्तांसीत् , ह इत्यवधारणे, इति बृहदारण्यकश्रुतेरर्थः । .. ब्रह्म- साङ्ख्यतत्त्वकौमुदी। १५७ कार्यस्य कारणाभेदसाधनानि च प्रमाणानि--'न पटस्तन्तु- भ्यो भिद्यते तद्धर्मत्वात्-इह यद्यतो भिद्यते तत्तस्य धर्मो न भवति यथा गौरश्वस्य-धर्मश्च पटस्तन्तूनां-तस्मान्नार्थान्तरम् । उपादानोपादेयभावाच नार्थान्तरत्वं तन्तुपटयोः--ययोरा- न्तरत्वं न तयोरुपादानोपादेयभावो यथा घटपटयोरुपा- दानोपादेयभावश तन्तुपटयोः तस्मान्नार्थान्तरत्वमिति। इतश्च नार्थान्तरत्वं तन्तुपटयो:--संयोगाध्याप्त्यभावा- दर्थान्तरत्वे हि संयोगो दृष्टो यथा कुण्डवदयोरप्राप्तिा . 'कार्यस्य कारणाभेदसाधनानि च प्रमाणानि'-मयाऽमिधीयन्त इति शेषः। कानि तानीत्याकाङ्क्षायां परिशेषानुमानरूपप्रमाणप्रयोगानाह "न पटस्त- न्तुभ्यो भिद्यते” इत्यादिना प्रतिज्ञावाक्यमभिधाय हेतुवाक्यमाह "तद्धर्म- त्वात्” इति। तेषां तन्तूनां धमत्वात्तदवस्थाविशेषात्मत्वादित्यर्थः । व्यतिरेकव्याप्तिं दर्शयन्नुदाहरणवाक्यमाह-'इह यद्यत' इत्यादिना । तथा च व्यापकस्य तद्धमत्वाभावस्य पटे निवृत्त्या व्याप्तस्य भेदस्य निवृ- याऽभेदसिद्धिरिति। पक्षे तद्धमत्वरूपहेतुसत्त्वप्रर्दशनपरमुपनयवाक्यवाह-"धर्मश्च पटस्त- न्तूनाम्" इति। निगमनवाक्यमाह "तस्मान्नार्थान्तरम्" इति। अन्योऽर्थः पदार्थोऽर्था- न्तरं तन्न, पटस्तन्तुभ्योऽन्यपदार्थों नेत्यर्थः। एवमग्रेपि न्यायाङ्गानि योज्यानि। प्रयोगान्तरमाह-"उपादानोपादेयभावाच्च” इति । उपादीयते कार्य्यजननाय गृह्यते यत्तदुपादानं कार्यायानागतावस्था- श्रयीभूत कारणम् । उपादेयं व्यवहारार्थिभिर्ग्रहीतुं योग्य कायमित्यथः। 'संयोगाप्राप्यभावात्'इति । अप्राप्तिः विभागः, एवं च संयोयानाश्रितत्वात्, विभागानाश्रितत्वाच्चेति हेतुद्वयमत्र बोध्यम् । 'अप्राप्तिर्वा'-अन्न दृष्टा-इति विपरिणमय्य योजनीयम्, नचेह संयो. 1 (१) न्यायो नाम प्रतिज्ञापत्रयवसमुदायः। (२) दृष्ट इति पुंलिङ्गपदं स्त्रीत्वेन विपरिणेयम्।
१५८ सावतत्त्वकौमुदी। यथा हिमवद्विन्ध्ययोर्नचेह संयोगाप्राप्ती, तस्मानार्था- न्तरत्वमिति । इतश्च पटस्तन्तुभ्यो न भिद्यते-गुरुत्वान्तरका-ग्रहणात्- इह यद्यस्मद्भिन्नं तस्मात्तस्य गुरुत्वान्तरकायं गृह्यते यथै- कपलिकस्य स्वास्तिकस्य यो गुरुत्वकार्योऽवनतिविशेषस्तस्मा- द्विपलिकस्य स्वस्तिकस्य गुरुत्वकार्योऽवनतिभेदोऽधिकः-- न च तथा तन्तुगुरुत्वकास्पिटगुरुत्वकार्यान्तरं दृश्यते- तस्मादभिन्नस्तन्तुस्यः पट इति । गाप्राप्ती'-दृश्थेते इति शेषः, धर्मधर्मिणोरेभेदस्येष्टत्वान्न' गुणेषु व्यभिचार- इत्यपि ज्ञेयम्। 'गुरुत्वान्तरका-ग्रहणात्' इति । “गुरुत्वं जलभूग्योः पतनकर्मकारणम्' इति लक्षितः पदार्थनिष्ठधर्मविशेषो गुरुत्वं तन्तुनिष्टगुरुत्वापेक्षयाऽन्यदुरुत्वं गुरुत्वान्तरं तस्य यत्कार्यमधःपतनविशेषावनतिरूपे तस्य पटेऽग्रहणा- दित्यर्थः। अयं भावः-तुलादण्डकोणद्वयनिबद्ध रज्ज्वालम्बन यच्छिक्यद्वयमस्ति तत्रै. कत्र गुञ्जादि पृत्वाऽपरत्र शिक्ये तोलनीयं वस्त्ववस्थाप्यते, तत्र यदि गुञ्जादि- निष्ठगुरुत्वेन समं गुरुत्वं तोलनीये भवति तदा तुलादण्डो नाप्युन्नतो नाप्यव- नतो वा भवति, यदा तु गुञ्जाद्याश्रितगुरुत्वापेक्षयाऽधिकं गुरुत्वं तोलनीये भवति तदा तदाश्रितगुरुत्वकार्याऽवनतिविशेपेणाधिकस्तुलादण्डोऽवनतो- भवति, तथा च यदि पटस्तन्तुभ्यो भिन्नो भवेत्, तदा तन्तुगुरुत्वकार्यापे- क्षयाऽधिकः पटाश्रितगुरुत्वकार्योऽवनतिविशेषो गृह्येत तथा च न गृह्यते किन्तु तन्तुगुरुत्वेन यादृशोऽवनतिविशेषो जन्यते तादृश एव पटाश्रितगुरुत्वेनावन- तिविशेषो जन्यते, तथा च समानगुरुत्ववत्वान्न पटस्तन्तुभ्यो भिन्न इति । (१) तन्तुरूपादेरपि संयोगविभागादर्शनादरूपादेरपि तन्तुभ्यो भेदो न स्यादित्यत्राह-'धर्मधर्मिणोः" इति। (२) प्रशस्तपादीयमिदं वाक्यं तत्र जलभूम्योरित्याश्रयकथनं पतनकर्मकारण- मिति गुरुत्वस्य कार्यकथनम् । (३) तच्छब्देन परिच्छेद्यद्रव्यं ग्राह्यम्।
--- साङ्घयतत्वकौमुदी १५५ तान्येतान्यभेदसाधनान्यवीतानि। एवमभेदे सिद्धे तन्तव एव तेन तेन संस्थानभेदेन परि- शताः पटो न तन्तुभ्योऽर्थान्तरं पटः। यद्यपि 'गुरुत्वान्तराग्रहणात्' 'समानगुरुत्ववत्वात्' इति वा हेतुस्संभवति तथापि 'अप्रत्यक्षं पतनकानुमेयम्' इत्युक्तेरतीन्द्रियत्वेन गुरुत्वस्य प्रत्यक्षेण ग्रहणासंभवात्प्तनकार्यानुमेयं तदित्याशयेन कार्यपर्यन्तानुधावनम् , तत्र व्यतिरोकिदृष्टान्तमाह-"यथैकपलिक त्य" इति। अशीतिरक्तिकाया एक तोलकं तोलकचतुष्टयं चैकं पलं तत्परिमितसुवर्णनिर्मितस्य, स्वस्तिका- ख्यभूषणविशेषस्येत्यर्थः। 'तन्तुगुरुत्वकार्यात्' तन्तुनिष्टगुरुत्वजन्यावनतिविशेषादन्यदवनमनं, पटे न दृश्यत इत्यर्थः। 'तन्तुपटयोस्तादात्म्यात्तन्तुगुरुत्वेनैव पटे पतनकर्मेत्यपि ज्ञेयम् । एतेन यदत्र कन्दलीकृताभिहितम्-'पटे गुरुत्वान्तराभावे तस्य पतन न स्यात्' इति । तन्निराकृतं तन्तुगुरुत्वेनैव तत्तादात्म्यापन्नपटस्य पतन- सम्भवादिति । अब केचित्-पटस्तन्तुभ्यो न भिद्यते गुरुत्वान्तरप्रयुक्तस्वाश्रिततुलाद- ण्डाद्यवनतिविशेषग्रहणायोग्यत्वाद्दुरुत्वान्तरयुक्तस्वर्णादिवत्तुल्यगुरुत्व. युक्त पदार्थद्वये व्यभिचारवारणाय ग्रहणायोग्यत्वादित्युक्तं तस्य पृथक्तुलादण्डारोपणेऽवनत्यन्तरस्य ग्रहण सम्भवात्, तन्तुपटयोश्च न थासम्भव इत्याहुः। एते चानुमानप्रयोगाः “अर्थान्तरम्-अर्थान्तरस्यावयवो न भवति यथा न गौरश्वस्यावयवः-अवयवाश्च तन्तवोऽवयवी च पट:-तस्मान्दासौ तेभ्योऽर्था- न्तरम्” इत्यादिना न्यायवार्तिके विस्तरेण विचारिता इति तत्रैवोत्कण्ठा श. मनीया। 'अस्य च व्यतिरेकिग उदाहरणमग्रेऽभिधास्यते' इति यत्पूर्वम्प्रतिज्ञातं तन्मयानुष्ठितमित्याह-"तान्येतानि" इति । अभेदसाधनानि अभेदप्रमाक- रणानीत्यर्थः, 'अभेदसाधकानि' इति पाठान्तरम् । ननु तन्तुपटयोरक्ये कथमिमे तन्तवः पटश्चायमिति संज्ञाभेदः । तत्राह "एवमभेदे सिद्धे” इति। (१) प्रशस्तपादीयं भाष्यमिदम्। (२) गुरुत्वनिरूपणे काणादभाष्यटीकाकृता श्रीधराचार्येणेत्यर्थः । (३) अ. २ आदि. १ सूं. ३३ । त- , 6 ement Idergarter १ . १६० सायतच्चकौमुदी। स्वात्मनि क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाव्यवस्थाभेदाच तेन तेनाऽऽतानवितानरूपसंस्थानभेदेनावस्थान्तरं नीतास्तन्तव एव पटो न ततोऽर्थान्तरमित्यर्थः। अवयवबिन्यासविशेषसंस्थानभेदेन संज्ञाभेद इति भावः । ये तु तार्किकाः 'अर्थान्तर पटात्तन्तवः-तद्धेतुत्वात्तुर्यादिवदिति । तुर्यादि पटकारणमर्थान्तरमिति दृष्टं तथा च तन्तवः तस्मादन्तिरमिति । 'सामर्थ्य भेदाद्विषागदवद्भिन्नप्रत्ययविषयत्वाद्मस्पर्शवत्' इति न्याय. वार्तिकसरांणमनुसरन्तः ‘पटस्तन्तुभ्यो भिद्यते तत्रोत्पन्नत्वेन तत्र नष्टत्वेन च प्रतीयमानत्वात्, बुद्धिभेदात्, . व्यपदेशभेदाच' इत्यादिप्रयोगैः पूर्वो. ताभेदसाधकावीतप्रयोगान्सत्प्रतिपक्षितान्याहुस्तान्प्रत्याह "स्वात्मनि क्रियानिरोध" इत्यादिना । स्वात्मनि अभिन्ने वस्तुनि, क्रिया उत्पत्तिरूपा जनिक्रिया, निरोधः प्रध्वं सरूपो नाशः, बुद्धिः इमे तन्तवोऽयं च पट इति ज्ञान व्यपदेशः तन्तुषु पट इति शाब्दो व्यवहारः, अर्थक्रिया सामर्थ्य व्यवस्था सामर्थ्यनियमः, तेषां भेदा बुद्धिव्यपदेशार्थक्रियाव्यवस्थाभेदाः, क्रियानिरोधौ च बुद्धि- व्यपदेशार्थक्रियाव्यवस्थाभेदाश्च क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाव्यवस्था- भेदा इति विग्रहः, भेदपदस्य च द्वन्द्वान्ते श्रूयमाणत्वात्प्रत्यकं बुद्ध्यादिपद- चतुष्टयेनाऽन्वयः। (१) यद्यपि कुत्रचित् ‘क्रियाविरोधसंबन्ध' इति। कुत्रचिच्च ‘क्रियानिरोध- संबन्धबुद्धिः' इत्येवं पाठभेदो दृश्यते तथाप्यग्रिमैतदुपपादनपरसंदर्भानुसारेणायं पाठोऽत्र निवेशित इति बोध्यम्। (२) अगद; औषधम्। (३) अ. २ आ. १ सू. ३६। (४) यो न भिद्यते सं तत्रोत्पन्नो न भवति यथा तन्तव इत्युदाहरणमत्र बोध्यम् । (५) केनचिद्धेतुना प्रतिबद्धः सन्यो हेतुः स्वकार्य कर्तुमशक्तः स प्रतिपक्षित इत्युच्यते। (६) व्यवस्थाशब्देन चात्र सनिहितत्वादर्थक्रियाव्यवस्था ग्राह्या, अर्थक्रियाव्य- वस्थेति वा पठनीयम् । (७) तथा च बुद्धिभदः, प्यपदेशभेदः, अर्थक्रियाभेदः, व्यवस्थाभेद इत्य- र्थोऽत्र फलितः। स- - सावितत्वकौमुदी। १६१ नैकान्तिकं भेदं साधयितुमर्हन्ति, एकस्मिन्नपि तत्तद्विशेषाऽवि- भर्भावतिरोभावाभ्यामेतेषामविरोधात् । तन्तुपटयोरभेदे घटस्य · तन्त्वात्मकत्वेन स्वस्मात्स्वस्योत्पत्तेरसम्भवात् स्व- मिश्च स्वत्य प्रध्धसाघटनादुत्पन्नः पटः प्रध्वस्तः पट इत्युत्पत्तिनिरोधबुद्धिर्न स्यात्, एवं च दृश्यमानावुत्पत्तिध्वंसावभिन्नेऽनुपपन्ना सन्तौ तन्तुपटयोंभेदं साधयत इत्यत्र फलितम् । एवं बुद्धिभेदः पृथग्धेतुः, तथा च तन्तव इमे पटश्चायमिति ज्ञानवैले- क्षण्यमपि तन्तुपटयोर्भेदसाधकम् । एवं व्यपदेशभेदः कुण्डबदरयोरिव तन्तुपु पट इत्याधाराधेयरूपव्यवहार- भेदोपि भेदसाधकः। एवमर्थक्रियाभेदः तन्तुभिः पटः सीव्यते, पटेन' च देह आवियते, इति कटघटवत्प्रयोजनोत्पादनभेदोपि भेदसाधकः । तथाऽर्थक्रियाव्यवस्था विभिन्न प्रयोजनजनकत्वनियमोऽपि भेदसाधकः, कार्यकारणयोरंभेदे हि मृत्पिण्डेनाप्युदकमाहियेत, घटेनापि च भित्तिः क्रि- येत, तथा तन्तुभिरपि प्राब्रियेत पटेनापि च पट उत्पाद्यतेत्यव्यवस्थो- पलभ्येत सा च नोपलभ्यतेऽतो भेद इत्यर्थः । ऐवचाभेदेऽनुपपद्यमाना भेदे च घटमाना एते क्रियानिराधबुद्धिव्यपदेश- भेदादयो हेतवो यद्यपि कार्यकारणयोर्भेदं साधयन्ति तथापि ऐकान्तिकं निर्णीतं पारमार्थिक भेदं साधयितुं नाहरित न योग्या भवन्तीत्यर्थोऽन्न फलितः। नार्हन्तीत्युक्तार्थे हेतुमाह-"एकस्मिन्नपि” इति । आभिन्नेपि वस्तुनि तत्त. द्विशेषाऽऽविर्भावतिरोभावरूपोपाधिभेदनोपाधिकं भेदमादायतेषां हेतूनां चरितार्थत्वेन विरोधाभावान्न पारमार्थिकाभेवाधन एतेषां सामर्थ्य मित्यर्थः । } - - - - - - - - छ (१) पटस्तन्तुतो भिन्न:-तत उत्पन्नत्वेन तत्र नष्टत्वेन च दृश्यमानत्वाद्यो- न भिन्नो न स तत उत्पद्यते यथा तन्तव इत्येव साधयत इत्यर्थः। (२) रूपरसवद्विभिन्नज्ञान विषयत्वात्तयोर्भेद इत्यर्थः । (३) पदार्थफलितार्थमभिधाय वाक्यार्थफलितार्थमाह "एवंच" इति । (४) क्रियानिरोधबुद्धिव्यपदेशभेदादिहेतूनामित्यर्थः ।
१६२ साङ्ख्यतत्त्वकौमुदी। यथा हि कूर्मस्याङ्गानि कूमशरीरे निविशमानानि तिरो- भवन्ति निस्सरन्ति चाविर्भवन्ति न तु कूमतस्तदङ्गान्युत्प- द्यन्ते प्रध्वसन्ते वा, एवमेकस्या मृदः सुवर्णस्य वा घटमुकुटा- दयो विशेषा निस्सरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते नि- विशमानाश्च तिरोभवन्तो विनश्यन्तीत्युच्यन्ते, न पुनरसता- मुत्पादः सतां वा निरोधः । यथाह भगवान्कृष्णद्वैपायनः- "नासतो विद्यते भावो नाभावो विद्यते सतः।" इति । अन्यथोपपन्नानामेषां हेतूनां विकारो नामधेयं मृत्ति का इतिश्रुत्यनुगृहीतैः पूर्वोक्तैर्हेतुभिस्सह समबलत्वाभावा वान्नैतैहेतुभिः पूर्वोक्तानां हेतूनां सत्प्रतिप- क्षितत्वमिति भावः । एतदेव क्रमश उपपादयितुमादावुत्पत्तिप्रध्वंसबुद्धेरभेदेऽप्युपपन्नत्वमाह "यथाहि" इति । निस्सरन्ति-इति शत्रन्तस्य प्रथमाबहुवचनम्, प्रध्वंसन्ते वा-इत्यत्र कूर्म- शरीरे-इति शेषो ज्ञेयः। निस्सरन्त: मृदादिभ्यो निस्सरन्तः सन्त आविर्भावं प्राप्ता घटादय उत्पद्यन्त इत्युच्यन्ते, तथा मृदादिषु निविशमानाश्च सन्तः तिरोभवन्तः अ- तीतावस्था प्राप्ता घटादयो विनश्यन्तीत्युच्यन्त इत्यर्थः । "न पुनरसतामुत्पाद” इति-असतां प्रागभावप्रतियोगिनां घटादीनां कारणव्यापारादुत्पाद इति न च,सतामेव च तेषां प्रध्वंस इत्यपि न चेत्यर्थः । उक्तार्थे भगवद्गीतावाक्यं प्रमाणयति-"नासतो विद्यते भाव" इति। असतः नरविषाणादेरिवाऽविद्यमानस्याऽर्थस्य भावः सत्त्वं न विद्यते सतश्चासत्त्वं न सम्भवतीत्यर्थः । . (१) अन्यथोपपन्नानाम् औपाधिकभेदमादायापि चरितार्थानाम् । (२) पूर्वोक्तैिः न पटस्तन्तुभ्यो भिद्यते तद्धर्मत्वादित्यादिना पूर्वमुक्तैः। (३) यः किल निर्णयाय प्रयुक्तो हेतुस्तुल्यबलेनांपरेण हेतुना प्रतिबद्धः सन्नि- । यं जनयितुमशक्तः स सत्प्रतिपक्षित इत्युच्यतेऽत्र च समबलत्वाभावान्न सत्प्रति- पक्षितत्वमिति भावः । (४) अ. २ श्लो. १३॥ .
PHY . साङ्ख्यतत्त्वकौमुदी। १६३ यथा कूर्मः स्वावयवेभ्यः संकोचविकाशिभ्यो न भिन्न एवं घटमुकुटादयोपि मृत्सुवर्णादिभ्यो न भिन्नाः । एवं च-'इह तन्तुषु पट इति व्यपदेशोपि यथा इह वन तिलका' इत्युपपन्नः । ननु मा भूतां घटादेरुत्पत्तिप्रध्वंसौ तथापि कथं मृद्धटयोरभेद इत्यवाह "यथा कूर्म' इति । 'मृत्सुवर्णादिभ्यः घटादेरतीतावस्थायां संकोचशालिभ्यो वर्तमानता. वस्थायां च विकासशालिभ्यो मृत्सुवर्णादिभ्यो न भिन्ना घटादय इत्यर्थः । विभावरूपविकासशालिपु मृदादिषु सत्सु घटादय उत्पन्ना इति व्यवहारः, का-यातीतावस्थारूपसंकोचशालिपु च मृदादिषु सत्सु घटादयः प्रध्वस्ता इति व्यवहार इति भावः । संस्थानभेदेनकस्मिन्नप्युत्पत्तिनिरोधप्रत्ययस्योपपन्नत्वान्न तद्वलेन घटा- 1 दीनां मृदादिभ्यो भिन्नत्त्वमिति तत्त्वम् । पटीयानागतावस्थावत्सु तन्तुषु तन्तव इम इति प्रत्ययः,पटीयवर्तमानता- वस्थावत्सु च तेषु पटोऽयमिति प्रत्यय इत्येकस्मिन्नपि विलक्षणबुद्धिबोध्य. स्वस्योपपन्नत्वाद् विभिन्न प्रत्ययविपयत्वात्तन्तुपटयोभेद' इति न्यायवा. र्तिकाभिहितमपि न युक्तमित्यपि बोध्यम् । एवमेव 'नहि पटाकारप्रत्ययस्तन्तुमानालम्बनो रेण्डाकरण्डावस्थितप्वपि तन्तुषु तत्प्रसङ्गात्' इति तात्पर्यटीकोक्तमपि. निराकृत वेदितव्य रण्डाकर- ण्डावस्थितेषु तन्तुषु पटव्यवहारप्रयोजकावयवविन्यासविशेपाभावेन तत्र पटाकारप्रत्ययग्रसक्तयभावात् । व्यपदेशभेदोपि न भेदसाधक इत्याह-"एवञ्च” इति । एवंच एवमेव । व्यपदेशोपि-उपपन्न इत्यनेनान्वयः। तत्र दृष्टान्तः “यथेह वने तिलका इति इति । तिलकनामकतरुसमुदायस्यैव वनत्वेन तिलकवनयोरभेदेपि यथाऽधा. राधेयव्यवहारस्तथा प्रकृतेपीत्यर्थः । एवमेवानेकेषु तन्तुष्वेकोऽयं पट इत्येकत्वव्यपदेशोऽप्येकप्रावरणलक्षणप्र- योजनावच्छेदारोध्यो यथैकदेशकालावच्छिन्नेषु बहुष्वपि तरुष्विदमेकं वनमिति । (१) उत्पत्तिप्रध्वंसदर्शनवलनेत्यर्थः । (२) रण्डा मृतपतिकाऽबला, करण्डः वंशादिरचितभाण्डविशेषः। (३) अ. २ आ. १ सू. ३३ । ५ १६४ सातत्वकौमुदी। न चाऽर्थक्रियाभेदोषि भेदमापादयति, एकस्यापि नाना- थक्रियादर्शनात्, यथैक एव वह्निदाहकः पाचकः प्रकाश- कश्चेति । नाप्यर्थक्रियाव्यवस्था वस्तुभेदे हेतुः, तेषामेच समस्तव्य- स्तानामर्थक्रियाव्यवस्थादर्शनात्, यथा प्रत्येक विष्टयो वर्मद- शनलक्षणामर्थक्रियां कुन्ति नतु शिविकावहनं, मिलितास्तु शिविकां वहन्ति, एवं तन्तवः प्रत्येकं प्रावरणमकुर्वाणा अपि मिलिता आविर्भूतपटभावाः प्रावरिष्यन्ति । विभिन्नकार्यकारित्वमपि न भेदसाधकमित्याह-"नचार्थक्रियाभदोपि" इति । 'सामर्थभेदाद्विषागदवत्तन्तुपटयोभैद' इति न्यायवार्तिककृता- भिहितोऽर्थक्रियाभेदोपि न भेदमापादयति साधयति व्यभिचारादित्यर्थः । व्यभिचारमेवाह-"एकस्यापि” इति यत्र यत्र विभिन्न कार्यकारित्वं तत्र तत्र वस्तुभेद इति व्याप्तिर्न सार्वत्रिकीति भावः । तन्तुभिरेव सीवनं पटेन चैवाच्छादनमिति व्यवस्थापि न भेदनिर्वाहिके- त्याह-"नाष्यर्थक्रियाव्यवस्था" इति । विष्टयः कर्मकरा भृत्याः, वर्त्म मार्गः, शिविका दोलाख्यो विमान- विशेषः। 'आविर्भूतपटभावाः' आविर्भावं प्राप्तः पटरूपो भावः धर्मों येषु त आ- विभूतपटभावास्तन्तवः प्रावरिष्यन्ति आच्छादयिष्यन्ति देहादिकमिति शेषः। (अर्थक्रियायां च प्रत्येकमसमर्था अप्यनारभ्यैवार्थान्तरं किञ्चिन्मिलिताः कुर्वन्तो दृश्यन्ते यथा ग्रावाण उखाधारणमेकम् , एवमनारभ्यैवाऽर्थान्तरं तन्तवो मिलिताः प्रावरणमेकं करिष्यन्ति) इति भामत्युक्तः प्रकारोऽप्यना- नुसन्धयः । उत्पत्तेः प्राक् सदैव कार्य कारकव्यापारेणाभिव्यज्यते दोहनेन दुग्धमि- वेति पूर्वत्राभिहितं तत्र येयमभिव्यक्तिः सा किं कारणब्यापारात्प्राक् सती वाऽसती वा, सती चेत् सर्वदोपलम्भग्रसङ्गः कार्य्यस्य, कारकव्यापारवैयर्थं च, असती चेत्तर्हि यथाऽसत्येवाभिव्यक्तिः कारणाज्जायते तथा पटादि. . (१) ग्रावाणः पाषाणाः, उख' स्थाल्याख्य: पाकपात्रविशेषः । (२) अ. १ पा. २ सू. १५ ।
सन्, ... सामयतच कौमुदी। १६५ स्यादेतद्, आविर्भावः पटस्य कारणव्यापारात्प्राक् सन्न- सन्वा, असंश्चत, प्राप्तं तीसदुत्पादनम्, अथ कृतं तर्हि कारणव्यापारेण, न हि सति कार्ये कारणव्यापार- प्रयोजनं पश्यामः, आविर्भावे चाविर्भावान्तरकल्पनेऽनव- स्थाप्रसङ्गः, तस्मादाविर्भूतपटभाव वास्तन्तवः क्रियन्त इति रिक्तं वचः । कार्यमप्य सदेव कारणव्यापारादुत्पद्येतेति सत्कार्यवादभङ्ग इत्याशयेन तार्किकः शङ्कते "स्यादेतत्" इति । स्यादेतदस्त्वेवं कार्यकारणयोः कथंचिदभेदस्तथाप्यन्यन्मया पृच्छ्यत- इत्यर्थः । तदेव पृच्छति “आविर्भाव” इत्यादिना । 'कारणव्यापारात्' इत्युभया- न्वयी, तथा च कारणव्यापाराद्यः पटस्याविर्भावो भवताभ्युपेयते स किं कारणव्यापारात्प्राक् सन्कि वाऽसन्नित्यन्न फलितम् । 'कृतम्' इत्यलमित्यर्थकमिति मेदिनी । कारकच्यापारेण कृतं साध्यं नास्ती- त्यर्थः । ब्यर्थः कारणव्यापार इति यावत् । तत्र हेतुमाह "न हि" इति । हि यतः सति विद्यमाने कार्य सति कारणव्यापारप्रयोजन न पश्यामोऽतः तयापारेणाऽलमित्यर्थः । आविर्भावोपि पूर्वमनभिव्यक्त इत्यभिव्यक्ताविर्भावस्याऽऽविर्भावाय कारणव्यापार इति चेत्, तीनभिव्यक्ताविर्भावस्याऽऽविर्भावोपि पूर्वमन. भिव्यक्त इति तस्याप्यन्य आविर्भावो वाच्य एवं तस्याप्यन्योन्यं इत्यप्रा. माणिक्याविर्भावधारा प्रसज्येतेति न कुत्रापि विश्रान्तिः स्यादित्याह "आ- विर्भावे च” इति । शङ्कामुपसंहरति "तस्मात्" इति । कारणव्यापारेण तन्तुभ्योऽसन्पटो नोत्पाद्यतेऽपि तु तन्तब एव आविर्भूतपटभावास्तन क्रियन्त इति यद्वचनं तद्विक्तं प्रमाणविधुरामित्यर्थः । "यश्चोभयोस्समो दोषः परिहारोऽपि वा समः । नैकः पय॑नुयोक्तव्यस्ता- (१) तद्व्यापारेण कारणव्यापारेण । (२) आविर्भावत्वाविशेषात्, यदनभिव्यक्तं तदेवाविर्भवतीति सिद्धान्ताच्चेत्यर्थः । (३) तेन कारणव्यापारेण । (४) जैमिनीयप्रथमाध्यायाद्यपादीयपञ्चमसूत्रे शून्यवादप्रकरणे श्लोकवार्तिके तु 'तस्माद्यत्रोभयोर्दोषः' (२५२) इति पाठभेदो दृश्यते । 2. . HATHKATHA - साङ्ख्यतत्त्वकौमुदी। अथाऽसदुत्पद्यत इत्यत्रापि मते फेयमसदुत्पत्तिः सती, असती चा, सती चेत्, कृतं तर्हि कारणैः, असती चेत्, तस्या अप्युपश्यन्तरमित्यनवस्था । अथोत्पत्तिः पटान्नार्थान्तरम्-अपि तु पट एवासौ,तथापि यावदुक्तं भवति पट--इति तावदुक्तं भवति उत्पद्यते-इति । गर्थविचारणे” इति न्यायेन मौनस्थानमेतादृक् प्रत्यवस्थानमित्याशयेन सार्किकं तूष्णीं कर्तुं प्रतिबन्दी गृह्णाति सिद्धान्ती “अथासदुत्पद्यत इत्यत्रापि मत" इति ताकिमतेपि इयमुत्पत्तिः किंरूपेत्यर्थः । उत्पत्तिस्थानेऽस्माभिरभिषिक्तायामभिव्यक्तौ यथेदं चोचं प्रसरति तथो- स्पत्तावपीदं चोद्यं दुरपनोद्यमिति भावः । उत्पत्ति माद्यक्षणसंवन्धः, स च स्वरूपसंबन्धविशेषः नतु संयोगः, प्रध्वंसादावसंभवात्, स्वरूपसंबन्धश्चानुयोगिरूपः, अनुयोगी चात्र पट; पटश्च कारणव्यापारात्प्रागनुत्पन्न इति तदनतिरेकिंण्युत्पत्तिरप्यनुत्पन्ना, तथा- चानुत्पन्नपटानतिरिक्तोत्पत्त्युत्पत्तये कारणव्यापारः सार्थक इत्याशयेन ता- किंकः प्राह "अथोत्यत्तिः पटान्नार्थान्तरम्” इति । सिद्धान्ती दूषयति "तथापि” इति । तथापि एवं सति उत्पत्तिपटयोरेकार्थत्वेन पर्यायत्वाद्योऽर्थः पट-- इत्यनेनाभिधीयते स एवोत्पद्यत इत्यनेनाऽप्यभिधीयेत, ततश्च पट इत्युक्ते उत्पद्यत इति न वाच्यं वक्तुं योग्यं भवेत्, पर्याययोः सहप्रयोगाभावेन पौनरुत्यापत्तेरित्यर्थः । (१) प्रतीपमवस्थानं प्रत्यवस्थान-प्रतिपक्षीभूय ज्ञङ्कन मिति यावत् यत्र प्रत्य- वस्थाने शङ्कितुरपि गले दोष आपतेत्तत्र प्रत्यवतिष्ठमानेन मौनमेवास्थयमित्यर्थः (२) यथा त्वया निर्वाह्यते तथा मयापि निर्वाह्यत इत्येवं प्रत्यवस्थानं प्रतिव- दीग्रहणम्। (३) सती वाऽसतीवेत्याकारम् । (४) स्वसमान कालीनपदार्थप्रतियोगिकध्वंसानाधारसमयसंबन्ध इत्येतदर्थ इति कुसुमाञ्जलिप्रकाशे वर्द्धमानोपाध्यायः । (५) उत्पत्तिमानभावः प्रध्वंसाभाव इति तार्किकमते ध्वंसस्योत्पत्तिमत्त्वेन ध्वं- साभावेन सहाद्यक्षणसंबन्धस्य संयोगादिरूपावासंभवेन तत्र स्वरूपसंबन्धस्यैर वक्तव्यत्वादित्यर्थः । गुणक्रिययोरुत्पत्तिस्थलषि स्वरूपसंबन्धस्यैव सम्भवः ।
Read साङ्ख्यतत्त्वकौमुदी। १६७ ततश्च पट इत्युक्ते उत्पद्यते-इति न वाच्यं पौनरुत्थात्, वि- नश्यति-इत्यपि न वाच्यम्, उत्पत्तिविनाशयोयुगपदेकत्र वि. रोधात् । तस्मादियं पटोत्पत्तिः स्वकारणसमवायो वा स्वसत्तासम- वायो वा, उभयथापि नोत्पद्यते, अथ च तदर्थानि कारणानि , अनुवादाद्यतिरिक्तस्थळे पौनरुत्यस्यानङ्गीकारात्, घटो घट इतिवत् शाब्दबोधानुदयाञ्च पट उत्पद्यते इति प्रयोगो भवन्मतेऽनुपपन्न इति भावः । दूषणान्तरमाह "विनश्यति" इति । पटो विनश्यतीत्यपि न वक्तुमर्हाम इत्यर्थः । तत्र हेतुमाह "उत्पत्तिविनाशयोः” इति । पट इत्यनेन हि उत्पद्यते इत्यभिधीयते, विनश्यति इत्यनेन च ध्वंसते इत्यभिधीयते, तथा च वर्तमान- कालिकोत्पत्त्याश्रयो यः वर्तमानकालिकध्वंसाश्रय इत्यर्थोऽत्रापद्येत, स च विरुद्ध इत्यर्थः । पटो बिनशिष्यति इत्येवं कालान्तर उत्पत्तिविनाशयोरेकस्मिन्नविरोधेऽपि समसमययोस्तयोस्सहावस्थानस्य न सम्भव इति बोधयितुं 'युगपत्' इति । एकलिकाल इत्यर्थः । पट इत्यनेनोत्पत्तेराभिधानं विनश्यति इत्यनेन च नाशस्याभिधानं तथा च उत्पत्तिश्च नाशश्चेत्यनन्विताभिधानमिदमापते त्यपि बोध्यम् । कल्पान्तरानुसरणेपि न विस्तार इत्याह "तस्मात्" इति । यतः पूर्वोक्ता- सम्भवः तस्मात्स्वकारणसमवायः पटस्य स्वकारणेषु तन्तुषु यस्समवायः सेयं पटोत्पत्तिरथ वा स्वसत्तासमवायः (स्वस्मिन्पटरूपे कार्ये यैस्सत्ता- जातिस्समवायः सा पटोत्पत्तिरित्येव भवंता वाच्यम्। उभयथापि प्रकारद्वया- समवायसंबन्धस्य नित्यत्वेन समवायरूपाया उत्पत्तेरपि नित्यत्वादुत्पत्तेरु- त्पत्तेरनुपपन्नत्वादित्यर्थः । . (१) स्वकारणे कार्य्यस्य समवायो जन्म, स्वस्मिन्नस ति कार्ये सत्तासमवायो वा जन्मेत्यर्थः । इत्येतत्समानभामतीपाटव्याख्याने कल्पतरुकारः । (२) तयोः उत्पत्तिविनाशयोः। (३) यस्याः संबन्धे सति पट: सन्नित्यादिव्यवहारः सा सत्ताजातिरिति । (४) असतः पटस्य कथं कारणे समवायः कथं वाऽसति पटे ससासमवायः बदसत्तोःसंबन्धासंभवादित्येवमप्य सत्कार्यवादी प्रष्टव्यः ।
. १६८ साङ्ख्यतत्त्वकौमुदी। व्यापार्यन्ते, एवं सत एव पटादेराविर्भावाय कारणापेक्षत्यु. पपन्नम् । भवतूत्पत्तरुत्पत्यभावस्तथापि भवता परच्छिद्रान्वेषणेन किं लब्धमित्याश- रुयाह "अथच" इति । अथच तथापि सत्यप्येवसुत्पत्तरुत्पत्त्यसम्भवेनोत्पत्तेः प्राक् सिद्धत्वे यथा भवन्मते तदर्थानि उत्पत्तिप्रयोजनानि कारणानि व्यापार्यन्ते व्याप्रियमा- णानि क्रियन्ते कार्यार्थिभिर्जनैरिति शेषः । एवं तथा मन्मतेपि सत एव प्राक् सिद्धस्यव पटादेराविर्भावाय कारणापेक्षेत्युपपन्नम् इति मया लव्धमित्यर्थः । यथा भवन्मते समवायस्वरूपत्वेन प्राक्सिद्धाया एवोत्पत्तेरभिव्यक्तये कारणव्यापारस्तथाऽस्मन्मतेपि प्रासिद्धस्यैव कार्य्यस्याभिव्यक्तये कारणव्या- पार इति न कारणव्यापाराऽऽनर्थक्यशङ्काकलङ्को मन्यते इति भावः । ननु प्रतिबन्दिग्रहेण गृहीतस्सं वार्किको यथाकथञ्चिन्मौन भजतु नाम तथापि आविर्भावस्य प्राक्सत्वेऽलं कारणच्यापारैः, असत्त्वे चाऽसत्का- र्यवादप्रसङ्गः इति पूर्वोक्तापत्तेर्भवन्मते क उद्धार इति चेत् । अत्र ब्रूमहे ( तदेतत्त्रैलोक्यं व्यक्तेरेपैति, कस्सान्नित्यत्वप्रतिषेधात्, अपेतमप्यस्ति विनाशप्रतिषेधात्संसर्गाच्चास्य सौक्ष्म्यम् ) इति योगभा- प्यात्सर्वकार्याणामवस्थातोऽनित्यत्वेन स्वरूपेण च नित्यत्वेन सदसत्त्वाभ्यु- पगमेनावस्थानमुपजनाऽपायधर्मवत्त्वाङ्गीकाराध्यक्तावस्थाख्याऽऽविर्भाव- रूपाऽभिव्यक्तिर प्यसत्येवोत्पद्यत इत्यभ्युपगमे न काचिदापत्तिरिति, नचैताः : (१) कारणव्यापारात्प्राक् सिद्ध सति । (२) तदेतत्त्रलोक्यं सर्व कार्यकारणात्मकं वस्तु व्यक्तेः बर्तमानावस्थातः अपैति अपगच्छति कूटस्थनित्यत्वाभावेन वर्तमानतामपहायातीततां प्राप्रोति, अपेतमतीतमपि कारणरूपेणास्ति, अत्यन्तोच्छेदाभावात्, अपेतमप्यस्ति चेत् कार्य कस्मात्पूर्ववन्नोपलभ्यत इस्यत्राह 'संसर्गात्' इति । स्वकारणे लयात्सोमय दर्शनानईमतश्शानुपलब्धिरिति भाष्यार्थः । पा. ३ सू. १३ । (३) अनागतावस्थायां स्वरूपेण घर: सन्व्यक्तावस्थया चासन्, तथोत्पत्त्यु- त्तर स्वरूपेण घट: सन्ननागतावस्थया चासन् तथा मुद्रपातादिना वटस्यादर्श- नेऽतीतावस्थया सन्नन्यावस्थयां चासन्नित्यवमवस्थातो. विनाशित्वं स्वरूपेण च.. नित्यत्वं सकार्याणां बोध्यम् । (४) एतावता अस्मत्या एवाभिव्यक्तरुत्पत्त्यङ्गीकारणेत्यर्थः ।
साङ्ख्यतत्त्वकौमुदी। १६९ न च पटरूपेण कारणानां संबन्धः। बता सत्कार्यवादहानिः, सूक्ष्मावस्थाया एवास्मन्मतेऽसत्तारूपत्वाभ्युपग- मात्, नचैवं सत्यभिव्यक्तेरप्यभिव्यक्तयङ्गीकारणानवस्थापत्तिरिति शङ्कम्, अस्या अनवस्थायाः कपिलमुनिनाऽदोषत्ववचनात् । तथा च साङ्ख्य सूत्रम् “पारम्पर्य्यतोऽन्वेषणा बीजाङ्कुरवत्, इति" अ. १ सू. १२२ 'पारम्पर्य्यतः परम्परारूपेणैवाभिव्यक्तेरनुधावनं कर्तव्यं बीजाङ्कुरवत्प्रा- माणिकत्वेनास्था अदोषत्वादित्यर्थः। वीजाङ्कुराभ्यां चाऽत्रायमेव विशेपो यद्वीजाङ्कुरस्थले क्रमिकपरम्परयाऽनवस्थाऽभिव्यक्ती चैककालीनपरम्परयेति, प्रामाणिकत्वं तु तुल्यमेव, इति सूत्रार्थ इति विज्ञानभिक्षुः । 'सदेव सोम्येदमग्र आसीत्' इत्यागमप्रमाणसिद्धसत्कार्यवादपरिपालनप- राया अस्याः परम्परायाः प्रामाणिकत्वमिति भावः । यद्वा-(किमुत्पत्तिरुत्पद्यते न वा, उत्पद्यते चेत्, अस्या अप्युत्पत्तिरि. त्यनवस्था, नोत्पद्यते चेत्, किमसत्त्वान्नित्यत्वाद्वा, यद्यसत्त्वात्तर्हि न कदा. चिदुत्पत्तिरिति सर्वदाऽनुपलम्भप्रसङ्गः अथ नित्यत्वान्नोत्पद्यते, तर्हि सर्वदा कार्योपलम्भप्रसङ्गः) इत्याशङ्कायां वैशेषिकादिभिः यथा (उत्पत्तेः स्वयमेवो- त्पत्तिरूपत्वान्नोत्पत्त्यन्तरकल्पनावकाशः) इति समाधीयते तथाऽस्माभिरपि (अभिव्यक्तेः स्वयमेवाभिव्यक्तिरूपत्वान्नाभिव्यक्त्यन्तरकल्पनावकाशः) इति समाधीयत इति नात्र कचिदापत्तिः । तथा च साङ्ख्य सूत्रम् “उत्पत्तिवद्वाऽदोषः” इति । अ. १ सू. १२३॥ यथोत्पत्तेरुत्पत्त्यन्तरानभ्युपगमेन परमते नानवस्थादोषः तथाऽभिव्यक्त- रप्यभिव्यक्त्यन्तराऽस्वीकारेण नास्मन्मतेऽप्यनवस्थादोषं इति सूत्रार्थः । विज्ञानभिक्षुस्तु यथा घटोत्पत्तेरुत्पत्तिः स्वरूपमेवेप्यते परैस्तथाऽस्माभि- (१) कारण व्यापारेण या सूक्ष्माया . अभिव्यक्तेरभिव्यक्तिः सापि सत्येवाभिव्यज्यते इत्युपेयम्, अन्यथाऽसत्कार्य्यवादप्रसङ्गात्, एवं तस्याः तस्या अभिव्यक्तेरन्याऽन्याऽभिव्यक्तिरवश्यम्भाविनी, तथा चानवस्थेत्यर्थः । (२) वृत्तिकागनिरुद्धानुसोरण सूत्रार्थमभिधाय साङ्ख्यप्रवचनभाष्यकारोक्तं सूत्रस्यार्थान्तरमभिधातुमाह "विज्ञान भिक्षुस्तु" इति । (३) यथा भवन्मते घटोत्पत्तेर्योत्पत्तिः सा घटोत्पत्तिस्वरूपैव न ततोऽन्या तथाऽस्मन्मतेपि घटाभिव्यक्तेरप्यभिव्यक्तिर्घटाभिव्याक्तिस्वरूपेव ततोऽन्यति नानबस्थेत्यर्थः । वृत्तिकारणोत्पत्तेरुत्पत्त्यन्तर विरह इवाभिव्यक्तेरप्यभिव्यक्ति विरह इति साम्यं दर्शितं भाष्यकारेण तृत्पत्तेरुत्पत्त्यङ्गीकारेपि साम्यं दर्शितमिति विशेषः । .. पूर्व सूक्ष्मा न , १७० साङ्ख्यतत्त्वकौमुदी। तद्रूपस्याक्रियात्वात्, क्रियासंबन्धित्वाच्च कारणानाम्, अन्यथा कारणत्वाभावात्,तस्मात्सत्कार्यामिति पुष्कलम्।।९।। रपि घटाभिव्यक्तरप्याभिव्याक्तः स्वरूपमेवेष्यते, ततो नानवस्थादोष, इत्येवं सूत्राथमीभधाय अथैवमभिव्यक्तेरभिव्यक्त्यनङ्गीकारे कारणव्यापारात्याक् तस्याः सत्त्वानुपपत्त्या सत्कार्यवादक्षीतः इत्याशङ्कय अस्मिन्पक्षे सत एवाभिव्यक्तिरित्येव सत्कार्यसिद्धान्त इत्याशयात्, अभिव्यक्तेश्चाभिव्यक्त्य- भावेन तस्याः प्रागसत्वेपि नासत्कार्य्यवादत्वापत्तिरित्येव समादधौ । कार्याणामनागतावस्थवाभिव्यक्तेरप्यनागतावस्था सैव चाभिव्यक्त्युपपत्तौ नियामिकेति नासतः नरविषाणादेरभिव्यक्तिरित्याशय इत्यन्यत्र विस्तरः । कचित्तु-व्यवहारोपयोगातत्तत्का-भिव्यक्तेस्तत्तत्कार्यानिष्ठसत्त्वगुणरूप. तया नित्यत्वेपि तमसा प्रतिबद्धत्वान्न व्यवहारोपयोगित्वम्, अभिव्यञ्जक- सामान्यातूत्तेजकेन मणेरिव प्रतिबन्धाद्व्यवहारक्षमत्वमिति सामान्या दुत्तेजकत्वमात्राङ्गीकारात्सत्कार्य्यवादबाधाभावादित्याहुः । स्वकारणसमवायरूपाया उत्पत्तेः प्रासिद्धत्वेन न कारणव्यापारापेक्षा भवन्मतेपि युक्तेत्यभिहिते सति यदि कश्चिदेवं ब्रूयात्पटरूपं यत्प्रागसिद्ध तेन सहकारणसंबन्ध एव कार्यस्योत्पत्तिस्तथाच पटरूपस्य जननाय कार- णव्यापारापेक्षेति, तदुक्तिरपि न युक्तेत्याह--"नच पटरूपेण कारणानां सं- बन्ध" इति । पटरूपेण सह कारणसंबन्धो न युक्त इत्यत्र हेतुमाह-"तद्रूपस्योंकि- यात्वात्' इति । रूपस्य गुणत्वेन क्रियारूपत्वाभावादित्यर्थः । ननु माभूत्पटरूपं क्रियारूपं तथापि कथं न तेन सह कारणसंबन्ध इत्य- ब्राह-"क्रियासंबन्धित्वाच कारणानाम्" इति । चकारो हेत्वर्थकः, कारणानि तमसः २ पा० १ सू० - (१) असत्या एवाभिव्यक्तरुत्पत्तौ सत्यां नरविषाणादिकमप्यभिव्यज्येत, इत्या- शङ्कामपनेतुभाह ‘कार्याणाम' इति । (२) अन्यत्र अ०२ पा० १ सू० १५ इत्यत्र श्रीभाष्ये, भ० २१ इत्यत्र विज्ञानामृतभाष्ये, पा० योगसू० १३ इत्यत्र योग- वार्तिके चेत्यर्थः । (३) साङ्ख्य चन्द्रिकाकारा नारायमतीर्थाः । (४) कार्यानुकूलधमै विघटकत्वं प्रतिबन्धकत्वं प्रतिबन्धकप्रतिबन्धकत्वं चोत्तेजकत्वमिति बोध्यम् ।
साश्वतत्त्वकौमुदी। तदेवं प्रधानसाधनानुगुण सत्कार्यमुपपाद्य यादृशं त- त्प्रधानं साधनीयं तादृशमादर्शयितुं विवेकज्ञानोपयोगिनी सारूप्यवरूप्ये तावदाह-"हेतुमत्" इति- हेतुमदनित्यमव्यापि सक्रियम नेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ १० ॥ व्यक्तं हेतुमत् , हेतुः-कारणं तद्वत्, यस्य च यो हेतुस्तम- परिष्टाद्वक्ष्यति । अनित्यं विनाशि तिरोभावीति यावत् । क्रियासंबद्धानि कारकत्वादन्यकारकवदित्यर्थः। विपक्षे बाधकमाह-"अन्यथा" इति । कारणानां क्रियासंबन्धित्वनियमाऽनङ्गीकारे क्रियाजनकत्वं कारकत्व- मिति लक्षित कारकत्वमेव भज्यतेत्यर्थः । उपसंहरति-"तस्मात्" इति । यतः सत्कार्यवादे न कोपि दोषस्तस्मा- दुत्पत्तेः प्राक् कार्य सदिति मतं पुष्कल प्रामाणिकत्वेन श्रेष्ठमित्यर्थः ॥ ९ ॥ वृत्तानुकीर्तनपुरस्सरमुत्तरा-मवतारयति "तदेवस्” इति । आर्यांविवृणोति-"व्यक्तम्' इति । व्यक्तं प्रकृतिपुरुपातिरिक्तं मह- दादित्रयोविंशतितत्त्वमित्यर्थः । व्यक्तम्-इति लक्ष्यपद-विशेष्यं हेतुम-- दित्यादीनि च सप्त पदानि लक्षणपरत्वेन विशेषणानीति ज्ञेयम् । 'तद्वत्'-तत् कारणं विद्यते आविर्भावे यस्य तद्धेतुमत्, कदाचिदावि- र्भावशीलमिति यावत् । उपरिष्टात् 'प्रकृतेर्महान्' इति २२ कारिकायां वक्ष्यति मूलकार इत्यर्थः । 'विनाशि'-'नाशः कारणलयः' इति सूत्रात्कारणे सूक्ष्मतयाऽवस्थानं नाशः तद्वत्कदाचित्तिरोभावशीलमिति यावत् । तदेवाह "तिरोभावि" इति । (१) विपक्षे कारकत्वमस्तु क्रियासंबन्धित्वं माभूदित्यवं विधे विरुद्ध पक्ष इत्यर्थः । (२) करणकारकविशेषस्यैव कारणत्वेन क्रियाजनकत्वाभावे कारणत्वमेव न स्यादित्यर्थः। । (३) अ० १ सू०.१२१ लीङ् श्लेषण इत्युक्तेलयः संश्लेषः नतूच्छेद इत्यर्थः ।
१७२ साय तत्त्व कौमुदी । अव्यापि सर्व परिणामिन न व्याप्नोति, कारणेन हि का- यंमाविष्टं न कार्येण कारणं न च बुद्धयादयः प्रधानं वेविष- न्तीत्यव्यापकाः। सक्रिय पारिस्पन्दवत्, तथा हि बुद्धयादय उपात्तमुपात्तं देहं त्यजन्ति देहान्तरं चोपाददत इति तेषां परिस्पन्द इति । शरीरपृथिव्यादीनां च परिस्पन्दः प्रसिद्ध एव । अनेकम् -प्रतिपुरुषं बुद्धयादीनां भेदात्, पृथिव्याद्यपि श- रीरघटादिभेदेनानेकमेव । अव्यापित्वे हेतुमाह-"कारणेन हि" इति । आविष्टं व्याप्तम्, वेवि- पन्ति व्याप्नुवन्ति स्व स्व कार्य व्याप्नुवदपि महदादिकं न प्रधानं व्याप्नो- तीत्यव्यापकम्, असर्वगतामत्यर्थः । 'परिस्पन्दवत्'-परिस्पन्दः प्रवेशनिस्सरणादिरूपा क्रिया, तद्वत्, तदे- वाह-'उपात्तमुपात्तम्' इति । गृहीतं गृहीतमित्यर्थः । उपाददते गृह्णन्ति, विज्ञानभिक्षुस्तु सक्रियत्वमध्यवसायादिनियतकार्यकारित्वं प्रधानस्य तु सर्वक्रियासाधारण्येन कारणत्वान्न काय्यकंदेशमात्रकारित्वं नच क्रिया कमैव वक्तुं शक्यते, प्रकृतिक्षोभात्सृष्टिश्रवणेन प्रकृतेरपि कर्मवत्तयाऽत्र सक्रिय- त्वापत्तेः' इत्याह । क्षोभादिपरिणामलक्षणक्रियायाः प्रधाने सत्त्वेपि गमनागमनलक्षणपीर- स्पन्दात्मकाक्रियाया असत्वान्न प्रकृतावतिव्याप्तिरिति व्यर्थोयं भिक्षोः प्रयास इति बोध्यम् । 'प्रतिपुरुषं' पुरुषं पुरुष प्रति बुद्ध्यादीनां भिन्नत्वादनेकं सजाती. यभेदवदित्यर्थः । तत्त्वं चात्र स्वाश्रेयप्रतियोगिकान्योन्याभावसमानाधिकर. णतत्त्वविभाजकोपाधिमत्वं संभवति चेदं महदादिषु, महदादिप्रतियोगि- काल्योन्याभावेन सह महदन्तरादौ महत्त्वादेः सामानाधिकरण्यतत्त्वाद्, (१) विष्ल व्याप्ताविति धातो रूपमिदम् । ३) तत्त्वंच सजातीयभेदवत्त्वं च । (३) स्वशब्देन महत्तत्त्वादिः, तस्याश्रयो महदादिः स प्रतियोगी यस्य तादृशो योऽन्योन्याभावस्तत्समानाधिकरणो यस्तत्त्व विभाजकोपाधिस्तादृशोपाधिमत्त्वमि- त्यर्थः। संभवति चेद मिदं लक्षणं महदादौ समन्वेतीत्यर्थः । - . HapSEANSWEEPERIOSIVE amanna L साङ्ख्यतत्त्वकौमुदी १७३ 'आश्रितं' स्वकारणमाश्रितं बुद्धयादि, कार्याणामभेदेपि कथञ्चिद्भेदविवक्षयाऽऽश्रयाश्रयिभावः यथेह वने तिलका इत्युक्तः 'लिङ्गम्'-प्रधानस्य, यथा चैते बुद्ध्यादयः प्रधानस्य लिङ्गं तथोपरिष्टाद् वक्ष्यति, प्रधानं तु न प्रधानस्य लिङ्गं पुरुषस्य लिङ्गं भवदपीति भावः । 'सावयवम्' अवयवनम्--अवयवः--मिथःसंश्लेषः-मिश्रणं-- संयोग इति यावत्, अप्राप्तिपूर्विका प्राप्तिः संयोगः, तेन सह प्रकृतौ तु न संभवति,-प्रकृत्यन्योन्याभावस्य प्रकृतावसत्त्वात्, पुरुषे चाने. कत्वमिष्टमेवेति न कोपि दोषः । एतेन (अनेकत्वं सर्गभेदेन भिन्नत्व-सर्गद्वयासाधारण्यमिति यावत्, न पुनः सजातीयानेकव्यक्तिकत्वं प्रकृतावत्तिव्याप्तेः प्रकृतेरपि सत्त्वाद्यनेक- रूपत्वात्) इति विज्ञानभिक्षुक्तमनादृतमिति बोध्यम्, प्रकृतेरनेकरूपत्वेप्य. नेकव्यक्तिकत्वाभावेन प्रकृतिप्रतियोगिकान्योन्याभावस्य प्रकृतावसम्भवात्, किञ्च-'अजामेकाम्' इति श्रवणादप्रामाणिकं प्रकृतेरनेकव्यक्तिकस्वाभिधा- नमित्यस्थान एव व्यामोहो भिक्षोरिति । "स्वकारणमाश्रितं' महत्तत्त्वं स्वकारणं प्रधानसाश्रितम्, अहङ्कारतत्वं च महत्तत्त्वमाश्रितम्, इत्येवं सर्वं व्यक्तमाश्रितमित्यर्थः । 'आश्रयायि- भावः' इत्यस्य उक्त इत्यनेनान्वयः । 'लिङ्ग'-लिङ्गयति गमयतीति लिङ्ग-ज्ञापकं कस्य ज्ञापकमित्यत्राह "प्र. धानस्य” इति। 'उपरिष्टाद्' 'भेदानां परिमाणाद्' १५ इत्यादिनेति शेषः । अव्यक्तस्यापि पुरुपलिङ्गत्वस्याग्रे वक्ष्यमाणत्वात्कथं लिङ्गत्वस्य व्यक्तमान्नसाध. यमित्याशङ्कापाकरणाय-'प्रधानस्य लिङ्गम्, इति व्याख्यातमित्याशयेनाह- "प्रधानं तु" इति । पुरुषस्य लिङ्गं भवदपि प्रधान न प्रधानस्य लिङ्गमिति न प्रधानेऽतिप्रसन्न इत्यर्थः । स्वस्वकारणे लयगमनाद्वा लिङ्गं व्यक्तम् । अवयवनम् अवपूर्वकाद् 'यु मिश्रण' इति धातोर्युटि रूपमिदम् । (१) १७ इति कारिकायामित्यर्थः । video ----.. TAGSXNARRANGESTRATE २७४ साङ्ख्यतत्वकौमुदी। वर्तत इति सावयवं तथाहि पृथिव्यादयः परस्परं संयुज्यन्ते, एवमन्येपि, नतु प्रधानस्य बुद्धशादिभिः संयोगः,तादात्म्यात्, नापि सत्त्वरजस्तमसां. परस्परं संयोगः, अप्राप्तेर भावात् । 'परतन्त्रम्'-बुद्धयादि, बुद्धया स्वकार्येऽहङ्कारे जनयितव्ये प्रकृत्याऽऽपूरोऽपेक्ष्यते, अन्यथा क्षीणा सती नालमहङ्कारं जनयितुमिति स्थितिः। एवमहंकारादिभिरपि स्वकार्यजनने, इति सर्व स्वकार्येषु प्रकृत्यापूरमपेक्षते-तेन परां प्रकृतिमपेक्षमाणं कारणमपि स्वकार्यजनने परतळ व्यक्तम् । 'विपरीतमव्यक्तं' व्यक्तात्, अहेतुमत्, नित्यं, व्यापि, नि- 'सावयवं' संयोगयोगि, संयोगस्यानुयोगि प्रतियोगि चेत्यर्थः । अप्राप्तिपूर्विका प्राप्तिः संयोगः इत्यत्र 'अप्राप्तिपूर्विका' इति पदस्य कृत्य- माह-"नतु प्रधानस्य” इति । 'तादात्म्यात्'-तादात्म्यस्थले नित्यप्राप्तिसत्त्वेन प्राप्तेरप्राप्तिपूर्वकत्वाभावेन न प्रधान संयोगस्य प्रतियोगीत्यर्थः । नापि गुणत्रयसयोगस्य प्रधानभनुयोगीत्याहं "नापि" इति । बुद्धयादीनां स्वस्वकार्य प्रति स्वातन्त्र्येण कारणत्वात्कथं तेषां पारतन्त्र्य- मित्याशङ्कय पारतन्त्र्यं विशदयति "बुद्धया स्वकार्ये' इति । 'प्रकृत्यापूरः प्रकृत्यनुप्रवेशरूपं प्रकृतिसाहाय्यम्, अन्यथा प्रकृतिसाहा- व्यासत्त्वे, क्षीणा असमर्था, नालम् न शक्ता स्यादित्यर्थः । स्त्रकार्यंजनने-इत्यत्र 'प्रकृत्यापूरोऽपेक्ष्यते इत्यनुपञ्जनीयम् । फलितमाह-"इति सर्वम्" इति । इति यतः सर्वं व्यक्तं स्वकार्येषु ज- ननीयेषु प्रकृत्यापूरमपेक्षते तेन हेतुना कारणमपि व्यक्तं परां प्रकृतिमपेक्ष- माणं सत्स्वकार्य्यजनने परतन्त्रमित्यर्थः । व्यक्तसाधर्म्यमभिथाय तद्वैधय॑मव्यक्ताख्यायां प्रकृतावाह-"विपरी- तमव्यक्तम्" इति । कस्माद्विपरीतम् इत्यत्राह "व्यक्तात्' इति । अहेतुमदर्ज-न कुतश्चिदाविर्भवतीति यावत्, नित्यं निरन्तरसत्वेनाति- (१) यस्य संयोगः स प्रतियोगी, यत्र च येन सह वा संयोगः सोऽनु- योगीत्यर्थः। .
साङ्ख्यतत्त्वकौमुदी। १७५ ष्क्रिय, यद्यप्यव्यक्तस्यास्ति परिणामलक्षणा किया तथापि परिस्पन्दो नास्ति, एकम्, अनाश्रितम्, अलिङ्गम्, अनवयवं, स्वतन्त्रमव्यक्तम् ॥१०॥ तदनेन प्रबन्धेन व्यक्ताऽव्यक्तयोवैधर्म्यमुक्तं सम्प्रति तयो- स्साधर्म्य पुरुषाच्च वैधर्म्यमाह-"त्रिगुणम्" इत्यादिना । त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥११॥ त्रयो गुणाः सुखदुःखमोहा अस्येति त्रिगुणम् । रोभावि, व्यापि परिणामजातव्यापकं निष्कियं परिस्पन्दहीनम्, एक सजातीयभेदविधुरम्, अनाश्रितं क्वापि कारणे न वृत्तिमद्, अलिङ्गं कारणा. ज्ञापकम्, अनवयवम् असंयरेगि, स्वतन्त्रम् अन्याचिदनपेक्षं सत्स्वकार्य- जनने समर्थमित्यर्थः । यद्यपि एकत्वमपहायान्येऽहेतुमत्त्वादयःसर्वेपि धर्माः पुरुषे वर्तन्ते तथापि त्रिगुणत्वे सतीत्येवं प्रत्येकं विशेषणान्न पुरुषऽतिप्रसङ्ग इति बोध्यम् ॥ १० ॥ वृत्तमनुकीयोत्तरा-कृत्यमाह "सम्पति" इति । तयोः व्यकाऽव्यक्त- योमिथः साधयं तयोवैधय॑माहेत्यर्थः । 'त्रिगुणम्' इत्यत्र गुणपदार्थमाह-"सुखदुः :खमोहा” इति । यद्यप्यन्त्र तन्त्रे सुखादिधर्मकं सत्त्वादितत्त्वत्रयमेव पुरुषोपकरणत्वात् पुरुषपशुबन्धकंत्रिगुणात्मकमहादिरज्जुनिर्मातृत्वाच्च गुणपदाभिधेयं न सुखा. दिके धर्मजातं तथापि धर्मधर्मिणोरभेदमादाय सुखादयो धर्मा एवान गुण पदेनाभिप्रेता न सत्त्वादयो धर्मिण इति ज्ञेयम् । अबेदमाकूतं-यद्यत्र गुणशब्देन सत्त्वरजस्तमांसि तत्त्वानि गृह्येरन् तर्हि (१) सावयवं शब्दादियुक्तम्, अनवयवं शब्दस्पर्शादिशून्यामति गौड़पादाः । (२) प्रत्येकं त्रिगुणत्वे सत्यहेतुमत्, त्रिगुणत्वे सति नित्यमित्येव मित्यर्थः (३) सुखधर्मकं सत्त्वं, दुःखधर्मकं रजः मोहधर्मकं तम इल्यर्थः । (४) राजोपकरणेऽमाये गुणव्यवहारस्य प्रसिद्धत्वादित्यर्थः । (५) गुणपदेन सत्त्वादीनां ग्रहणे का क्षतिरित्याकाङ्क्षायामाह-'अत्रेदमाकृतम्" इति आकृतम् अभिप्रायः । पुरुषाच .
--- १७६ साङ्ख्यतत्वकौमुदी। तदनेन सुखादनिामात्मगुणत्वं पराभिमतमपाकृतम् । 'त्रिगुणम्' इत्यस्य सत्त्वादिगुणत्रयाधारभूतं व्यक्तमव्यक्तं चेत्यर्थोऽत्र संपद्येत स चाऽनिष्टः व्यक्तस्य महदादेर्गुणत्रयाधारत्वेप्यव्यक्तस्य तथात्वाभावात् तत्राव्याप्तिप्रसङ्गात्, "सत्वादीनामतद्धर्मत्वं तद्रूपत्वात्" इति कापि- । लसूत्रेण "एते गुणाः प्रधानशब्दवाच्या भवन्ति" इति योगभाष्येण चा- व्यक्तस्य गुणत्रयात्मकत्वाभिधानन प्रधाने गुणत्रयनिरूपिताऽऽधारताया अ- सम्भवात्, गुणशब्देन सुखादीनां ग्रहणे तुं प्रधानस्यापि सत्त्वादिधर्मभूत- | सुखाद्याधारत्वसम्भवान्नाव्याप्तिरिति । नन्वेव "तस्मिंस्तस्मिंस्तु तन्मात्रास्तेन तन्मात्रता स्मृता । न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः” इति विष्णुपुराणवाक्येन सूक्ष्मभूता- ख्यशब्दतन्मात्रादीनां पञ्चतत्वानां शान्तादिपदाभिधेयसुस्वादिधर्मविरह- त्वाभिधानेन कथं तेषां सुखादिमत्वेन त्रिगुणत्वमिति चेत् । अत्रोच्यते-तेषामपि सुखादिमदहङ्कारपरिणीमत्वेन सुखाद्याधारमूतपञ्च- (१) तथात्वाभावाद् गुणत्रयाधारत्वाभावादित्यर्थः । (२) कथमव्यक्तस्य गुणत्रयाधारस्वाभाव इत्यत्राह-'सत्त्वादीनाम्" इति । स. स्वादिगुणानां प्रकृतिधर्मत्व नास्ति तेषां गुणानां प्रकृतिस्वरूपत्वादिति सूत्रार्थः (अ० ६ सू० ३९) (३) पा० २ सू० १८। (४) एवं गुणपदेन सुखादीनां ग्रहणे, सत्त्वादीनामग्रहणे, चेत्यर्थः । (५) तेषु तेषु भूतेषु तन्मात्रास्तिष्ठन्तीति कृत्वा धर्मधर्म्यभेदादद्रव्याणामपि तन्मात्रता स्मृता, तेच पदार्थाः शान्तघोरमूढाख्यैः स्थूलगतशब्दादिविशेषैः शून्या एकरूपत्वात्, तथा च शान्तादिविशेषशून्यशब्दादिमत्त्वमेवं भूतानां शब्दादितन्मा- अत्वमित्याशयः' इत्येत्तदर्थ इति साङ्ख्यप्रवचनभाष्यकारः (अ० १ सू० ६२) (६) यान्येव वेदान्ति भिरपञ्चीकृत पचभूतानि - सूक्ष्मभूतानि इति चाभिधीयन्ते तान्येव साङ्ख्यनये तन्मात्राणीनि बोध्यम् - (७) शान्तं सुखं, घोरं दुःखं, मूढं मोह, इत्येवं शान्तादिपदाभिधेयं सुखा. दिकमित्यर्थः। (८) तथा च तन्मात्रेष्वव्याप्तिनिरासाय गुणपदेन सत्त्वादय एव ग्राह्या न सुखादय इति शङ्काकूतम्- (९) तेषां पञ्चतन्मात्राणाम् । (१०) कारणगुणानुरूपत्वमैव कार्य्यस्येति नियमात् तन्मात्राणामपि स्वकारणवत् सुखादिमत्त्वभित्यर्थः। - fo/ , न्यथाऽनात्मजातस्य साङ्ख्यतत्वकौमुदी। १७७ महाभूतकारणत्वेन • च सुखाद्याधारत्वावश्यम्भावने त्रिगुणत्वमप्रत्यूह मिति, नच विष्णुपुराणवाक्यविरोधः, तस्याऽस्मदाद्युपभोगयोग्यस्पष्टसुखादिधर्मक- शब्दाद्याधारभूतानि यानि स्थूलभूतानि तेभ्यो विलक्षणानि. अस्मदुपभोगा- योग्यास्पष्टसुखादिमच्छब्दाद्याधारभूतानि सूक्ष्मभूतानि पञ्चतन्मात्राप्रीत्यर्थे तात्पर्य्यात् । एतदुक्तं भवति-यथा स्थूलभूतेष्वाकाशादिषु विद्यमानाः शब्दस्पर्शा. दयः केचिच्छान्ताः केचिच्च घोराः केचिच्च मूढा अस्माभिरुपलभ्यन्ते उप भुज्यन्ते च न तथा सूक्षमभूतगतशब्दादिषु शान्तत्वादिकमस्माभिरनुभूयते तेषामतीन्द्रियत्वेन तद्गतशब्दादीनां शब्दादिगतशान्तत्वादिधर्माणां चा- सद्ग्रहणायोग्यस्वादिति । यजातीयेषु शब्दादिषु व्यक्ताः शान्तत्वादयों विशेषा न तिष्ठन्ति तजा- तीयानां शब्दादीनामाधारभूतानि यानि सूक्ष्मद्रव्याणि तान्येव तन्मात्राणि नतु सर्वथैव शान्तत्वादिशून्यशब्दादिसन्ति तानीति यावत्, युक्तं चैतद. त्रिगुणत्ववादि "त्रिगुणाचेतनत्वादिईयोः” इति कापिल सूत्रं 'न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजै- मुक्तं यदेभिस्यात् बिभिर्गुणैः” इति भंगवद्वचश्च पीड्येत, नच यः स- वादयो गुणा यस्मिंस्तुतू. त्रिगुणमित्यर्थाभिप्रायेणैतदिति शङ्कनीयं सत्त्वादि. सत्त्वे तद्धर्माणां सुखादीनामवश्यम्भावनियमादेतत्स्वीकारेपि सुखा. दिधर्मविरहत्वाभिधानस्यासङ्गतत्वात्, तथा च मदुक्कैव व्यवस्था ज्याय- सीति ज्ञेयम्- एतेन यद् विज्ञानाभिक्षुणा ( शान्तादिविशेषशून्यशब्दादिमत्त्वमेव भू- । (१) तन्मात्रेषु सुखादीनामसत्त्वे तत्कार्येषु स्थूलभूतेषु सुखादीनामाकस्मिक- वप्रसङ्ग इति भावः। (२) शान्ताः सुखात्मका:--सुखजनकाः, घोराः दुःखात्मका:-दुःखप्रदाः, मूढाः मोहात्मकाः मोहकरा इत्यर्थः । (३) तानि तन्मात्राणि । (४) एतद्-स्थूलभूतघु व्यक्ताः सुखादयः, तन्मात्रेघु चाव्यक्ताः सुखादय इत्यभिधानं युक्तमित्यर्थः, अन्यथा तन्मात्रेषु सुखादिधर्माणामनङ्गीकारे । (५) अ. १ सू. १२६-'द्वयोः व्यक्ताव्यक्तयोस्त्रिगुणत्वादिकं साधर्म्यमित्यर्थ : । (६) भगवद्गीता अ. १८ श्लो४० (७) एतत् कापिलं सूत्रं भगवर्चश्चेत्यर्थः । (८) एतत्स्वीकारेपि गुणशब्दन सत्त्वादीनां ग्रहणेपीत्यर्थः । (९) एतेन तन्मात्राणामपि सुखादिमत्व प्रदर्शनेन । a तु १७८ साङ्ख्यतत्त्वकौमुदी । . अविवेकि यथा प्रधानं न स्वतो विविच्यते एवं महदा- दयोपि न प्रधानाद्विविच्यन्ते तदात्मकत्वात् । तानां शब्दादितन्मात्रत्वम् ) इत्येवं तन्मात्राणां सुखादिधर्मशून्यत्वमाभ- हितं तद् भ्रान्तस्वान्तविलसितमिति बोध्यम् - किञ्च (तन्मात्राणि च देवादिमात्रभोग्यत्वेन केवलं...सुखात्मकान्येव सुखाधिक्यात्) इत्यग्रिमग्रन्थे तंत्र सुखाधिक्यकथनेन दुःखमोहयोरपि स- द्भावमर्थाद् बोधयता भिक्षुगा कथमेतद्विरुद्धं सुखादिशून्यत्वमभिहितमिति प्रष्टव्यः स भिक्षुः। तत्र सुखादिधर्मकसत्त्वादित्रयात्मकत्वेन प्रधानस्य त्रिगुणत्वं, तत्कार्य- त्वेन च महदादीनां त्रिगुणत्वमिति विशेषः । यथा च सर्वेषां भावानां सुखाद्यात्मकत्वं तथा कान्तादृष्टान्तेनाग्रे व्यक्तम् । यः सत्त्वादयो गुणा यस्मिस्तत् त्रिगुणमिति व्याख्याने वेने वृक्षवत् प्रधाने सत्त्वादीनामवस्थानं ज्ञेयम्- ये तु "इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्' इति न्यायसूत्र- मनुसरन्तः सुखादीनात्मधर्मानाहुस्तान् प्रत्याह-"तदनेन" इति । अनेन सुखादीनामात्मातिरिक्तव्यक्ताव्यक्तधर्मत्वकथनेन यत् पराभिमतं तार्कि कसम्मतं सुखादीनामात्मगुणत्वं तत् पराकृतं निरस्तमित्यर्थः । असङ्गो ह्ययं पुरुषः” “साक्षी चेता केवलो निर्गुणश्च" इत्यादिश्रुति- विरोधान्न सुखादीनामात्मगुणत्वमिति भावः । साधान्तरबोधकं पदान्तरमवतारयति “अविवेकि" इति । विवेकः पृथग्भवनं न यस्य विद्यते तदविवेकि-प्रधानाभिन्नमिति यावत् तदेवाह-“यथा प्रधानम्' इति स्वतः प्रधानाप्रधानं न विवि. (१) तत्र तन्मात्रेषु, सुखाधिक्ये सति दुःखमोहयोयूनत्वमर्थादायातमिति तयोरपि सद्भाव इत्यर्थः । (२) अग्रे १३ इति कारिका विवरणे- (३) यथा वृक्षसमूहरूपवनस्य वृक्षात्मकत्वेपि वने वृक्षा इति वनस्याधारत्व- व्यवहारस्तथा सत्त्वादिसमूह रूपप्रधानस्य सत्त्वादिस्वरूपत्वेपि अधाने सत्त्वादयस्ति. ष्ठन्तीति प्रधानस्याधारत्वव्यवहार इत्यर्थः । (४) अ. १ आ. १सू. १० । . .
साङ्ख्यतत्त्वकोमुदी। १७९ अथवा-सम्भूयकारिताऽत्राविवेक, न हि किञ्चिदेकं प- प्तिं स्वकार्येऽपि तु सम्भूय, तत्र नैकस्मात्कस्यचित्केन. चित्सम्भव इति । ये त्वाहुः--विज्ञानमेव हर्षविषादमोहशब्दाद्यांकारं न पुन- रितोऽन्यस्तद्धर्मेति, तान् प्रत्याह- "विषय"इति । विषयः ग्राह्यः--विज्ञानाद बहिरिति यावत्, अतू एव 'सामान्य' साधारणम्--अनेकैः पुरुगृहीत- मित्यर्थः। च्यते भिद्यते स्वस्मिन् स्वस्य भेदासम्भवादित्यर्थः। महदादीनां प्रधानाभि- जत्वे हेतुमाह 'तदात्मकत्वात्' इति कार्यकारणयोरभेदाभ्युपगमेन महदा- दीनां प्रधानात्मकत्वादित्यर्थः । सम्भूयकारिता परस्परसंमिश्रणपुरस्सरकार्यकरणशीलता, तन हेतुमाह- "नहि" इति । हि यत एकं किञ्चित् तत्त्वं स्वकार्ये आत्मीयकार्यजनने न पर्याप्त शक्तम् अपि तुं सम्भूय मिलित्वाऽतो महदादेस्संहत्यकारितेत्यर्थः । फलितमाह-"तत्र' इति । तत्र एवं सति केनचित्प्रकारेण न कस्यचि. ।' देकस्मात्संभवोऽस्तीत्यर्थः । 'विषय' इति पदस्यार्थमाख्यातुं तत्कृत्यमाह "ये त्वाहुः” इति । ये योगाचारानुसारिणो विज्ञानवादिनो बौद्धाः, हर्पः सुखं विषादः दुःख मोहः प्रसिद्ध एतद्धर्मा शब्दादिराकारो यस्य तद् हविपादमोहशब्दाद्या. कारं विज्ञानमेव सुखादिधर्मकशब्दादिप्रपञ्चाकारधारि न पुनरित: विज्ञा- नादन्यः बाह्यः शब्दादिप्रपञ्चः तद्धर्मा सुखादिधर्मवानित्यर्थः । कुम्भस्तम्भाद्याकारमान्तरं विज्ञानमेव वस्तु सुन्न ततोन्यद् बाह्यं वस्तु- जातं किमपि सदिति वदतः सौगतस्यायमाशयः-यथा हि स्वप्नस्थानं वि. ज्ञान विनैव बाह्येनाथन ग्राह्यग्राहकाकारं भवति यथा वा जागरितस्थान मायामरीच्युदकशुक्तिरजतादिविज्ञानं बाह्यानालम्बनं तथाऽन्यदपि जागरि- तस्थानं कुम्भस्तम्भादिविज्ञानं न बाह्यालम्बनमित्यवगम्यते विज्ञानत्वावि- (१) 'अविवेकिता' इति पाठान्तरम् । (२) 'शब्दाद्यात्मकम्' इति काचित्क: पाठः । (३) एतद्धर्मा हर्षविषादमोहधर्मवानित्यर्थः । हर्षविषादमोहशब्दादि-इति शब्दादीनां र्हषादिरूपत्वाभिधानं च धर्ममिणोरमेवमादायेति बोध्यम् । . ar स १८० साहयतत्वकौमुदी। विज्ञानाकारत्वे त्वसाधारण्याद्विज्ञानानां वृत्तिरूपाणां तेऽध्य- साधारणाः स्युः, (विज्ञानं यथा. परेण न गृह्यते परबुद्धेर- प्रत्यक्षत्वादित्यभिप्रायः) शेषादिति, विज्ञानवैचित्र्यं च वासनावैचित्र्यादुपपन्नम् । अपि च यद् येन नियतसहोपलम्भनं तत्ततो न भिद्यते यथैकस्माच्चन्द्र- मसो द्वितीयश्चन्द्रमा नियतसहोपलम्भश्चार्थों ज्ञानेनेति न ततः भिद्यत इति । एतदुक्तं भवति-भेदो हि सहोपलम्भानियमेन व्याप्तोऽत एव भिन्नावश्विनौ नावश्यं सहोपलभ्येते कदाचिदभ्रापिधानेनान्यतरस्यकस्य नक्षत्रस्योपलब्धेः, तथा च भेदव्यापकसहोपलम्मानियमविरुद्ध उपलभ्यमानो विज्ञानार्थयो- स्सहोपलम्भनियमस्तद्व्याप्यं भेद निवर्तयतीति, तदुक्तं “सहोपलम्भनिय- मादभेदो नीलतद्वियोः। भेदश्च भ्रान्तिविज्ञानैदृश्येतेन्दाविवाद्वये" इति । 'कुम्भादिकं विज्ञानादृ भिन्न ग्राह्यत्वात् , प्रदीपात् तत्प्रकाश्यपटादिवत्' इत्याद्यनुमानेन सौगत मतमसङ्गतमित्याशयेनोक्तं विषय इतीत्याह-"तान् प्रत्याह विषय इति" इति । 'विज्ञानाद्वहिः' इति ग्राह्यत्वेन ग्राहकाद् विज्ञानाद् भिन्नः कुम्मादि- रर्थ इत्यर्थः । अर्थस्य विज्ञानात्मकत्वेऽनुपपद्यमानं 'सामान्यम्' इति विशेषणान्तरम- वतारयति । अत एवं सामान्यम्" इति, अतः यतो विज्ञानाद्भिन्नं, साधा. रणं-पुरुषभेदेऽप्यभिन्नत्वेन सर्वपुरुषसाधारणमित्यर्थः। तदेवाह--"अनेकै पुरुषैर्गृहीतम्” इति बहुविज्ञानालम्बनीभूतमित्यर्थः । एकस्यैवार्थस्य यदनेकपुरुषग्राह्यत्वेन सर्वपुरुषसाधारण्य प्रतीयते तद्वि- ज्ञानवादे नोपपद्यतेति भावः । कथं नोपपद्यत इत्यत्राह-"विज्ञानाकारत्वे तु" इति घटाद्यर्थानां विज्ञा- नस्वरूपत्वे तु ते अर्थी अपि असाधारणाः प्रतिपुरुषं मिन्नाःस्युर्न सर्वपुरु- (१) ( ) एतच्चिदान्त : पाति पांठो न सार्वत्रिकः । (२) सर्वस्य विज्ञानमात्रत्वे कथमेकस्मिन् विज्ञाने नीलमिदं पीतमिदमिति वै. चिच्यावभास इत्यत्राह “विज्ञानवैचित्र्य च" इति । यथा स्वप्नादिषु विनैव बालार्थ ) वासनानिमित्तं ज्ञानवैचित्र्यं तथा जागरिते पीत्यर्थः ।। (३) अश्विनौ अश्विन्याख्ये नक्षत्रे । (४) एतेन ज्ञेयं ज्ञानादभिन्न ज्ञानोपलम्भक्षणनियतोपलम्भग्रामत्वाद् सानवदि. त्यनुमानमत्र सूचितमिति ज्ञेयम् । . . ARRIOR सावतचकोमुदी। १८१ तथा च नर्तकीलताभङ्ग एकस्मिन् वहूनां प्रतिसन्धान युक्तम्, अन्यथा तन्न स्यादिति भावः । षसांधारणा इत्यन्वयः तंत्र हेतुमाह - "असाधारण्याद्विज्ञानानाम्" इति, बुद्धिवृत्तिरूपाणां विज्ञानानां प्रतिपुरुषं भिन्नत्वादित्यर्थः । तदेव विशदयति-"विज्ञानं यथा" इति, यथा चैत्रीय विज्ञानं परेण मैत्रेण न गृह्यते-परबुद्धेरन्यदीयविज्ञानस्यापरं प्रति प्रस्थक्षत्वायोगात्तथा तदभिन्नोऽर्थोप्यन्येन नैव गृह्मतेत्यर्थः । तथाच विज्ञानाकारत्वेऽर्थस्यानेकैर्गृहीतत्वं न स्यादित्यन फलितम् । ४ मा भूदेकस्यार्थस्यानेकैम्रहणमित्याशङ्क्याऽन्यथानुपएसमान प्रतिसन्धान तत्र साधकमाह-"तथाच" इति, तथाच अर्थ स्यानेकगृहीतत्वेन सर्वपुरुष- साधारण्येऽभ्युपगम्यमाने च एकस्मिन् नर्तनशीलाबलाविलसितकटाक्षविक्षे. परूपेऽभिनयविशेषेऽनेकेषां द्रष्टृणां यद् युगपत्प्रतिसन्धानं तद् युक्तं भवतीत्यर्थः । विपक्षे प्रतिसन्धानानुपपत्तिरूपं बाधकमाह-"अन्यथा" इति अन्यथा विज्ञानवदसाधारण्ये तुं तत् प्रतिसन्धानं युक्तं न स्यादित्यर्थः । अयम्भावः-नर्तकीभ्रूभङ्गोत्तरं तद्रष्टणां भरतमतपरिचितानां चैत्रादीनां (दृष्टस्त्वया मैत्र नर्तक्या भ्रूभङ्ग आं दृष्टश्चैत्रापूर्वोयमभिनयः ततोऽपर आह दृष्टो मयाप्यसौ कुशलेयं भरतमतेबला) इत्येव परस्परप्रतिसन्धानेन ह्ये. कस्यैवार्थस्यानकैयुगपद् गृहीतत्वरूपं सर्वपुरुषसाधारण्यमुपलभ्यते, यदि ह्यर्थी विज्ञानाकारःस्यात् तर्हि चैत्रीयस्वमज्ञानविलसितस्यार्थस्य मैत्रेणाज्ञा- (१) तत्र अर्थस्यासाधारण्यप्रसङ्गे । (२) विज्ञानादभिन्नः। ( ३ ( अनेकैर्ग्रहणमन्तसऽघटमानम् । (४) दृष्टस्य पुनरनुसन्धानरूपं स्मरणकल्प ज्ञानान्तरं प्रतिसन्धानम् । ( ५ ) तथा च-इत्यनेन नाऽव्यवहितस्याऽसाधारण्यप्रत्तङ्गस्य पराभोऽपि व्य- वहितस्य साधारण्यस्याऽग्रिमवाक्यरचनानुरोधादित्याशयेन व्याचष्टे-"अर्थस्या- नेकगृहीत बेन'' इत्यादिना, 'तथाच' इत्यनेनासाधारण्यपरामर्शे तु ( नर्तकीभ्रूलता- भङ्ग एकस्मिन् बहूनां प्रतिसन्धानं युक्तं न स्यात् ) इति पाठो युज्येत तथा पाठा. भावाच्चात्र व्यवहितपरामर्श इति ध्येयम् । (६) विपक्षे विज्ञानाकरत्वेनार्थस्यासाधारणत्वे । (७) भरताचार्यप्रणीतनाट्यतन्त्राभिन्नानामित्यर्थः ।
१८२ साङ्ख्यतच्चकौमुदी। नवदन्यदीयविज्ञानाकारस्यार्थस्यान्येन ग्रहीतुमशक्यत्वादस्य विज्ञानस्या- कारः सोर्थस्तैनव स गृह्येत न सवैरिति प्रतिसन्धानबलेन प्रतीयमान य- युगपदेकस्यार्थस्यानेकगृहीतत्वं तत्तन्मते न युज्यतेति । एतेन (यः किलैकस्य विज्ञानेन कल्पितोर्थः स एवान्यैरपि ग्रहीष्यते इति केषाञ्चित्कल्पनाप्युच्छिन्ना ज्ञेया, तथा कल्पनायामकस्मिन्नीलज्ञानवति सर्वेषां नील ज्ञानवत्वप्रसङ्गाच्च । किन यस्य नानात्वे यस्यैकत्वमवगतं तेत्ततोऽत्यन्तं भिन्नं प्रतीतं तथा नानागोव्यक्तिभ्य एक गोत्वम् अवगतं च ज्ञाननानात्वेपि वस्त्वैक्यमिति त. दपि ततो भिन्नं भवितुमर्हतीति । तथा चाह म भगवान् पतञ्जलिः-"वस्तुसाम्ये चित्तभेदात्तयोविभक्तः पन्थाः” इति । अयमर्थः-यत्र किलैकस्मिन्नेव योषिद्रूपे वस्तुनि रक्तद्विष्टविमूढानां जनानां विभिन्नानि सुखादिज्ञानानि जायमानान्युपलभ्यन्ते तत्र प्रमातॄणां परस्परप्रतिसन्धानाद्वस्त्वैक्येपि ज्ञान नानात्वं दृश्यते, यदि हि वस्तु वि. ज्ञानात्मकं भवेत् तर्हि विज्ञानस्यासाधारण्यादनेकविज्ञानालम्ब नमेर्क सा- धारणं वस्तु न सम्भवेदतः वस्तुनः साधारण्योपपत्तये विज्ञानातिरिक्त तदभ्युपेयमिति । साङ्ख्यपक्षे यथैकस्यैव वस्तुनस्त्रैगुण्यपरिणामत्वेन त्रैरूप्यं तथाऽग्रे व्यक्तम्। (१) एतेने अन्यस्वप्नस्यान्येनाज्ञानादित्युक्तेन हेतुना, एकस्मिन्नीलज्ञानवति सर्वेषां नीलज्ञानवत्त्वप्रसङ्गरूपवक्ष्यमाणेन च हेतुना । (२) तत् एकत्ववत्, ततः नानात्ववतः । (३) 'यथा चैत्रस्य ज्ञानमेकमनेकेभ्यो देवदत्तविष्णुमित्रमैत्रप्रत्ययेभ्यो भिद्यते' इति वाचस्पतिमिश्रोक्तं वोदाहरणभत्र ज्ञेयम् । (४) योग० पा० ४ सू० १५। योषित्पिण्डरूपवस्त्वैक्येपि चित्तभेदात् ज्ञान- भेदात् तयोः वस्तुज्ञानयोविभिन्नो मार्ग एकत्वानेकत्वविरुद्धधर्मवतोर्वस्तुविज्ञान- योर्मेद इति यावत् इति सूत्रार्थः । (५) रक्तस्य तत्कान्तस्य तस्मिन्सुखज्ञानं सुखवती स्त्र्याकारा वृत्तिः, द्विष्टस्य च सपत्रीजनादेस्तस्मिन् दु:खज्ञानं, विमूढस्य च कामुकस्य तस्मिन् विषादविज्ञानमि- येत्रमेकस्मिन् ज्ञाननानात्वं दृश्यत इत्यर्थ : (६) या त्वया दृष्टा सैव मयापीति प्रतिसन्धानमत्र ज्ञेयम् । (७) विज्ञानातिरिक्तार्थवादिनामपि नये कथमेकस्मिन् ज्ञाननानात्वमित्यत्राह "साङ्खयपक्ष'' इति । अग्रे (१३) इति कारिकायाम् । .
2 साक्ष्यतत्त्वकौमुदी। १८३ अचेतनं-सर्व एव प्रधानबुद्धयादयोऽचेतना नतु वैनाशिक- वच्चैतन्यं बुद्धेरित्यर्थः । यञ्चोक्तं-'स्वप्नज्ञानवजागरितज्ञानमपि निरालम्बनम्' इति, तदपि न विचारसहं स्वप्नजागरितप्रत्यययोबांधाबाधाभ्यां वैधात्स्वमप्रत्ययदृष्टा- न्तेन जाग्रत्प्रत्ययस्य निरालम्बनत्वापादनस्याशक्यत्वात् । तथाचाह कृष्णद्वैपायनो भगवान् "वैधाच्च न स्वमादिवत्" इति, एतदुक्तं भवति-विज्ञानवादिनापि हि जागरितप्रत्ययस्याबाधितत्वमवश्या- स्थयम् अन्यथा कथं स्वप्न प्रत्ययो निरालम्बन इति ज्ञायेत, जाग्रत्प्रत्ययेन बाधितत्वाद्धि स्वप्नप्रत्ययो निरालम्बन इत्यवगम्यते, यदि च जागरि- तप्रत्ययोपि बाधित एव मवेत् तदा स्वप्नप्रत्ययस्यासौ बाधको न भवेत्, नहि बाध्यमेव बाधकं भवितुमर्हति एवञ्च स्वमप्रत्ययोपि न मिथ्येति सा- ध्यविकलोऽसौ दृष्टान्त इति न किञ्चिदेतत् । यश्च ज्ञानार्थयोः सहोपलम्भनियमस्तेषां भ्रान्तिकारकः सोपि न विचार सहते, तथाहि-यदि ज्ञानार्थयोः साहित्यनोपलम्भः सहोपलम्भस्तर्हि हेतुरेव विरुद्धः साहित्यस्याभेदविरुद्धभेदव्याप्तत्वेनाभेदे तदनुपपत्तेरथैको. पलम्भनियमः तथापि न सह-शब्दस्यकत्ववाचकत्वाभावात् अस्तु वै. कत्ववाचकत्वं तथापि किमेकत्वेनोपलम्भ आहोस्विदेक उपलम्भो ज्ञाना- र्थयोरिति, न तावदाद्यः विषयस्य बाह्यतया ज्ञानस्य चान्तरतयैकत्वेनोपल. म्भासम्भवात्, न द्वितीय एकोपलम्भनियमस्योपायोपेयभावहेतुक्रत्वेनाभेदा. (१) वैनाशिकः बौद्धः । (२) अ० २ पी० २ सू० २९ । (३) एवञ्च जागरितप्रत्ययस्यापि बाधितत्वेन स्वप्नप्रत्ययाबाधकरवे सति, बाध्यत्वमेव मिथ्यात्वे प्रयोजकं न प्रत्ययत्वमिति भावः । तेषां बौद्धानाम् । (६) नच ज्ञानाकारत्वनान्तर एव विषयो भान्त्या बहिर्वदवभासते, 'यदन्त- यितत्त्वं तद् बहिर्वदवभासत' इत्युक्तेरिति शङ्कयम्, वाह्यार्थीभावे बहिर्वदित्यु- पमानोक्तेरयुक्तत्वाद, नहि चैत्रो बन्ध्यापुत्रवदवभासत इति प्रेक्षावान् कश्चि- दाचक्षीतेत्यपि ज्ञेयम् । (७) यथा सर्व चाक्षुषमालोकानुविद्धं नियमेन मनुजैरुपलभ्यते न तावतो घटादिकमालोकात्मकं भवत्यपि त्वालोकोपायत्वान्नियम एवमिहापि ज्ञानार्थयोरुपा- योपेयभावहेतुकः सहोपलम्भनियमो नाऽभेदहेतुक इति वोध्यमित्यर्थः । १८४ सौख्यतत्त्वकौमुदी। प्रसवधर्मि-प्रसवरूपो धर्मों यः सोऽस्यास्तीति प्रसवधर्मि, प्रसवधर्मेति वक्तव्ये मत्वर्थीयः प्रसवधर्मस्य नित्ययोगमा- साधकत्वादियन्यत्र विस्तरः । 'प्रसवधर्मि' इति, प्रसवः अन्याविर्भावहेतुत्वरूपः परिणामः, स एक धर्मः प्रसवधर्मः, सोऽस्यास्तीति प्रसवधर्मि, कर्मधारयान्मत्वर्थ इनिप्रत्यय इत्यर्थः, तदेवाह "प्रसवरूपो धर्म” इति । ननु प्रसवो धर्मो यस्येत्येवं बहुव्रीहौ “धर्मादनिच् केवलात्" इति स. मासान्तेनिचि प्रसवधर्मेति कथनेनैव प्रसवधर्मवत्तालाभावृत्तिद्वयात्रै- यणमसङ्गतं, तथाचाहुः शाब्दिकाः (न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्च- त्तदर्थप्रतिपत्तिकरः) इति । इत्याशङ्कायामाह "प्रसवधर्मतिवक्तव्ये” इनि- प्रत्यय इत्यर्थः। 'भूमनिन्दाप्रशंसासु' नित्ययोगेऽतिशायने । संबन्धेऽस्तिविवक्षायां भ- बन्ति मतुबादयः" इति वार्तिकादत्र नित्ययोग इनिरिति भावः । य एवार्थों बहुव्रीहिणा ज्ञायते स एवार्थों यदि कर्मधारयान्मत्वर्थीयेन बोध्येत तव कर्मधारयान्मत्वर्थीयो न युक्तो यत्र तु विशेवार्थबुबोधयि. षया कर्मधारयान्मत्वॉयः प्रयुज्यते तत्र स युक्त एव, 'बहुव्रीहिश्चेत् तदर्थ- प्रतिपत्तिकरः' इत्यत्र (चेत्) इति पदोपादानस्वारस्यादिति तत्त्वम् । प्रसवधर्मस्य प्रधानादिषु नित्ययोग स्पष्टयति "सरूपविरूपपरिणामाभ्यां कदाचिन्न वियुज्यते” इति । (१) अन्यत्र अ० २ पा० २ सू० २९ इत्यादि ब्रह्मसूत्रभाष्यभामत्यादिषु, 'किन्ते ग्रामग्राहकयोः परमार्थसतोरेवाभेदो विवक्षित' इत्यादिनात्मतत्त्वविवेके, निरालम्बनवादे श्लोकवार्तिके चेत्यर्थः । (२) अ० ५ । पा० ४) सू. १२४ प्रसवशब्दस्य नित्यसमस्तत्वेनैकपदत्वात्के- वलपदत्वं बोध्यम् । (३) पूर्व कर्मधारयसमासरूपा वृचिः पुनश्चेनिप्रत्ययकरणेन तद्धितरूपा वृत्ति- रिति वृत्तिद्वयाश्रयणमित्यर्थः । (४) यदि बहुव्रीहिस्तदर्थजनको भवेत् तदा न फर्मधारयान्मत्वर्थीयोऽन्यदा तु स्यादिति चेच्छब्देन बोधनादिति भावः । A- प . साङ्यतत्वकौमुदी। १८५ ख्यातुं, सरूपविरूपपरिणामाम्यां न कदाचिदपि...वियुज्यत इत्यर्थः । व्यक्तवृत्तमव्यक्तऽतिदिशति "तथा प्रधानम्" इति, यथा व्यक्तं तथाऽव्यक्तमित्यर्थः । ताभ्यां वैधयं पुरुषस्याह-"तद्विपरीतः पुमान्" इति । स्यादेतत्--अहेतुमत्त्वनित्यत्वादि प्रधानसाधय॑मस्ति पुरु- पस्य, एवमनेकत्वं व्यक्तसाधयं तत्कथमुच्यते "तद्विपतिः पुमान्" इति अत आह "तथाच" इति । चकारोऽप्यर्थः । यद्यप्यहेतुमत्त्वादिकं साधयं तथाप्यत्रैगुण्यादि वैपरीत्य- मस्यास्त्येवेत्यर्थः ॥११॥ तत्र त्रिगुणत्वेन सहदादयः प्रकृतेः सरूपपारणामाः हेतुमत्त्वादिना च ते विरूपपरिणामा इति बोध्यम् - व्यक्तवृत्तं व्यक्तस्वभावं महदादिसाधर्म्यमिति यावत् ताभ्यां व्यक्ता- ऽव्यक्ताभ्याम् । तद्विपरीतः व्यक्ताऽव्यक्तविलक्षणः अत्रिगुणः विवेकी, अविषयः असा- धारण: चतनः अप्रसवधर्मी पुरुष इत्यर्थः । 'चकारोऽप्यर्थ' इति, एवं च 'तथापि पुमान्' इत्यनेनाऽनेकत्वाऽहेतुम- वादिना व्यक्ताऽव्यक्तसरूपोऽपि पुमान् . अपिनाऽत्रैगुण्यादिना तद्विपरीतो. पीत्यर्थबोधनात् 'तद्विपरीत' इत्युक्ति सङ्गन्तेत्या फलितं तदेवाह "यद्यपि" इत्यादिना । नात्र व्यक्ताऽव्यक्तगतयावद्धर्मेण वैपरीत्यं विवक्षितमपि तु 'त्रिगुणम- विवेकि' इत्यभिीहतत्रैगुण्यादिधर्मेणेति भावः ॥ ११ ॥ । (१) व्यक्तसाधर्म्यमित्यत्र 'अस्ति पुरुषस्य' इत्यनुषञ्जनीयम् । (२) अस्य पुरुषस्य, 'अस्त्येव' इति पाठो न सर्वत्रोपलभ्यते । (३) विवेकी असंहतः । (४) असाधारणः प्रतिसनातं मिमः । - - १८६ साङ्ख्यतत्त्वकौमुदी। त्रिगुणमित्युक्तं तत्र के ते त्रयो गुणाः किञ्च तल्लक्षणम् इत्यत आह "प्रीत्यप्रीतिविषादात्मका" इति । प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः । अ- न्योऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥१२॥ गुणा इति परार्थाः, 'सत्त्वं लघु प्रकाशकम्' इत्यत्र च सत्त्वादयः क्रमेण निर्देश्यन्ते- तदनागतावेक्षणेन तन्त्रयुक्त्या वा प्रीत्यादीनां यथासंख्यं वेदितव्यम् । अत्र गुणशब्देन 'द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्' कणादसूत्रोक्ता धर्मविशेषा न गृह्यन्तेऽपि तु परार्थत्व. सामान्यात्सत्वादयस्तत्त्वविशेषाधर्मिणे इत्याशयेनाह-"गुणा इति रार्थी" इति । यथा राज्ञः सर्वार्थनिर्वाहका अमात्यप्रभृतयो गुणा इति व्यवद्वियन्ते परार्थत्वात् तथा पुरुषरूपराज्ञो भोगापवर्गरूपार्थसाधका ये सत्त्वादयस्तीप परार्थत्वसामान्यात् गुणा इति व्यपदिश्यन्ते इति भावः । के ते गुणा ये परार्था इत्यत्राह-"सत्त्वं लघु" इत्यादिना, उत्तरत्र नि- देक्ष्यमाणानां कथमिह भानमन्वयो वा इत्यत्राह-"तदनागतावेक्षणेन" इति। तदनिमार्यायां निर्देक्ष्यमाणं गुणत्रयम् अनागतावेक्षणेन भाविनोऽपि बुद्ध्या समाकृष्यानुसन्धान भवतीति न्यायेन इह समाकृष्य प्रीत्यादीनां प्रीत्यात्मक इत्यादीनां लक्षणानां यथासङ्ख्यं लक्ष्यं वेदितव्यमित्यर्थः । अचैव प्रकारान्तरमाह-"तन्त्रायुक्त्या वा' इति, तन्वं प्रकृतशास्त्रं तस्य युक्तिः सत्त्वादय एवान गुणास्ते च यथाक्रमं प्रीत्यादिधर्मकर्म इत्याकारसङ्के- तात्मिका युक्तिः तया वा सत्वादयोऽत्रानुसन्धेया यथासङ्ख्यं च प्रीत्यादिभिः संबन्धनीया इत्यर्थः । "तन्त्रयुक्त्या च इति चकारघटितपाटे तु-अनागतावेक्षणेन भाविनःसत्त्वा- (१) अ. १ सू. १६ (कर्मापि द्रव्याश्रित निर्गुणं चास्तीत्यत उक्तं 'संयोगवि- भागेषु' इति, यथा संयोगविभागयोरनपेक्षं कारणं कर्म तथा न गुणः कर्मभिन्न इति यावत्)। (२) सुखादिधर्मका इत्यर्थः । (३) भाविनां सत्त्वादीनामिहानुसन्धाने तेषां यथासङ्ख्यमन्वये चेत्यत्र ।
AMASANDERARY साङ्ख्यतच्चकौमुदी। १८७ दयोऽत्रानुसन्धेयाः, तेषां प्रीत्यादिभिर्यथासङ्ख्यं संबन्धः कार्य इत्यर्थोऽन बोध्यः, प्रकृतशास्त्रसङ्केतेन च । एतेन ( प्रीत्यप्रीतिविषादात्मका-इत्यत्र प्रीत्यादीनामितरेतरयोगद्वन्द्व- बलेन साहित्यसद्भावात् सर्वे एव गुणाः प्रीत्यप्रीतिविषादात्मकाः प्राप्नुवन्ति नतु सत्त्वमेव प्रीत्यात्मकं रजश्वाप्रीत्यात्मकं तमश्च विषादात्मकमित्येवं विभ- ज्यान्वयः, साहित्य स्थले विभज्यान्वयाख्यानस्यादृष्टत्वात्, अत एव 'अजा- विधनी देवदत्तयज्ञदत्तावित्यत्र न ज्ञायते कस्याजा धन कस्य चावयः' इत्येवं विभज्यान्वयाख्यानमभिहितं महाभाष्ये)इति शङ्कापि निराकृता वेदितव्या, 'यथासङ्ख्यमनुदेशः समानाम्' इति पाणिनीयसङ्केतवलेन 'आद्यन्तौ ट. कितौ' इत्यत्र साहित्येपि विभज्यान्वयाख्यानमिव साङ्ख्यसङ्केतबलेनात्रापि विभज्यान्वये दोषाभावात् । तन्त्रं कर्ममीमांसाशास्त्रं तस्य युक्तिः स्थानाख्यप्रमाणरूपा, तया वा यथासङ्ख्यमन्वय इत्यर्थों वान ज्ञेयः । केचित्तु सकृदुच्चरितानां सत्त्वादीनां कथमुत्तरत्रात्र चान्वय इत्याशङ्काया- मुक्तं "तन्त्रयुक्त्या च” इति, इत्येवं योजयन्ति, एकस्यानेकार्थबोधकत्वेना- नेकुत्रान्वयस्तन्त्रयुक्तिरित्यर्थः । 'प्रीत्यप्रीतिविषादात्मका' इत्यत्रात्मपदं द्वन्द्वान्ते श्रूयमाणत्वात्प्रत्येक प्रीत्यादिभिरन्वितमित्यभिप्रेत्य यथासङ्ख्यान्वयं स्पष्टयति-"प्रीतिः सुखम्" इत्यादिना, अत्र 'आत्मशब्दः स्वभाववाची' 'आत्मा देहे धूतौ जीवे स्व. भावे परमात्मनि' इति विश्वकोशात् तथा च प्रीतिः स्वभावः धर्मों यस्यासौ प्रीत्यात्मक इत्यत्र फलितम् एवमग्रेपि ज्ञेयम् । (!) एतस्मिन् पक्षे भाविनां गुणाना मह परामर्श अनागतावेक्षणेन इति साधकं तेषां यथासङ्ख्यं संवन्धे च 'तन्त्रयुक्त्या' इति साधकम् इति विभज्य कृत्यद्वये साधकद्वयमभिहितमिति बोध्यम् । (२) एतेन प्रकृतशास्त्रसङ्केतेन यथासङ्ख्यमन्वयकरणेन । (३) अन्वपः इत्यत्र प्राप्नोतीति शेषः । (४) 'आद्यन्तौ टकितौ इति सूत्रे भगवता पतन्जलिनेति शेषः । (५) स्थानं क्रम इति पर्यायः, येन क्रमेण संबन्धिनां भानं तेनैव क्रमेण ते- षामन्वय इति यावद्, एतच्च “क्रमच देशसामान्यात्'' ३ । ३ । १२ । ३ । इति पुत्रे बूर्वतन्त्रे व्यक्तम् । (६) अग्रेपि अप्रीत्यात्मक इत्यादौ ।
१८८ साङ्ख्यतत्वकौमुदी। एतदुक्तं भवति-प्रीतिः सुखं प्रीत्यात्मकः सत्त्वगुणः, अनीतिः दुःखम् -अप्रीत्यात्मको रजोगुणः, विषादः मोहः- विषादात्मकस्तमोगुण इति । ये तु मन्यन्ते 'न प्रीति?'खाभावादतिरिच्यते, एवं दुःख- मपि न प्रीत्यभावादन्यत्' इति तान् प्रति आत्मग्रहणम् । नेतरेतरामात्राः सुखादयोऽपि तु भावाः, आत्मशब्दस्व भाववचनत्वात्प्रीतिरात्मा भावो येषां ते प्रीत्यात्मानः, एव- मन्यदपि व्याख्येयम् । भावरूपता चैषामनुभवसिद्धा, परस्पराभावात्मकत्वे तु पर- पराभवापचेरेकस्याप्यसिद्धरुभवासिदिरिति भावः। 'प्रीत्यप्रीतिविषादाद्यैर्गुणानामन्योन्यं वैधर्म्यम्' इति साङ्ख्यसूत्रे 'विषा- दाद्यैः' इति 'आद्य' शब्दोपादानाच्चान प्रीत्यादीनामुपलक्षणत्वं बोध्यं तेन प्रीतिशन्द्रेन? अनुकम्पाऽऽविनार्दवलजा लजासन्तोषविवेकक्षमादीनाम्, अप्री- तिशब्देन च-मानमदमत्सरलोभादीनां विषादशब्देन च वञ्चनकार्पण्य, कौटिल्याज्ञानादीनां ग्रहणमत्रोह्यम् । तथाचाहुः पञ्चशिखाचार्याः “सूखं नाम प्रसादलाघवानभिष्वङ्गप्रीति. तितिक्षासन्तोषादिरूपानन्तभेद समासतः सुखात्मकम्, एवं रजोपि शोका. दिनानाभेदं समासतो दुःखात्मकम्, एवं तमोपि निद्रादिनानाभेदं समा. सतो मोहात्मकम्” इति । 'विषादात्मका' इत्यात्मपदोपादानकृत्यं दर्शयितुं तन्निरसनीयं मतान्तर- मनुवदति " ये तु मन्यन्त" इति । 'तान्प्रत्यात्मग्रहणम् इति,-तन्मतनिरासाय आत्मशब्दोपादानमित्यर्थः । यथा च तन्मतनिरासस्तथाह-"नेतरेतराभावा" इति अपि तु भावाः- सपा इत्यर्थः, तत्र हेतुः,-"आत्मशब्दस्य भाववचनत्वात्' इति । अनुभवसिद्धत्वानङ्गीकारे दोषमाह-"परस्पराभावात्मकत्वे तु” इति, दुःखे ज्ञाते तदभावात्मकप्रीतिज्ञानं प्रीतौ ज्ञातायां च तदभावात्मकदुःखशा. नमित्यवमन्योन्याश्रयापत्तेरित्यर्थः । प ~ (१) अ० १ सू० १२७ । (२) आत्मशब्दोपादानेन निराकरणीयमित्यर्थः । ARTHA ETAL - . साङ्ख्यतत्वकौमुदी। १८९ स्वरूपमेपामुक्त्वा प्रयोजनमाह-"प्रकाशप्रवृचिनियमार्था" इति, अत्रापि यथासङ्खयमेव । रंज प्रवर्तकत्वात्सर्वत्र लघु सत्त्वं प्रवर्तयेयदि तमसा गुरुणा न नियम्येत, तमोनियतं तु क्वचिदेव प्रवर्तयतीति भवति तमोनियमार्थम् । प्रयोजनमुक्त्वा क्रियामाह--"अन्योन्याभिभवाश्रयजनन- मिथुनवृत्तयश्च" इति । एवं च 'आत्मशब्दोऽत्र स्वरूपपर्याय' इत्यत्र फालतम् । नन्वेब सूत्रे प्रीत्यादीनां गुणधर्मत्ववचनं विरुध्येत इति चेत्,-अत्राहुः साङ्ख्यप्रवचनभाष्यकाराः 'सुखाद्यात्मकता तु गुणानां मनसः सङ्कल्परत्मक- तावद्धर्मधय॑भेदादेवोपपद्यते' इति । आत्मशब्दस्य स्वभाववाचित्वे तु ब कोपि दोष इति ध्येयम् । 'प्रकाशप्रवृत्तिनियमाथी' इत्यत्र अर्थशब्दः प्रयोजनवाची, प्रयोजनं चात्र तैयोग्यता, पूर्ववच्च प्रत्येकमन्वयः प्रकाशार्थं सत्त्वं, प्रवृत्यर्थं रजः, नियमार्थ तम, इति च यथासङ्ख्यं सबन्धः, तदेवाह 'अचापि यथासङ्ख्यमेव' इति । तत्र प्रकाशः बुद्धिवृत्यादिरूप आलोकः, प्रवृत्तिः यत्नः चालनं वा, नियमः प्रकाशक्रियाभ्यां शून्यत्वं तयोः प्रतिबन्ध इति यावत् ; प्रकाशप्रवृत्तिभ्यामेव सकलार्थसिद्धरलं नियमनेन तमःकृत्येनेत्याशङ्कायां तमःकृत्यमाह-"रजः प्र- वर्तकत्वात्" इति, रज इति कर्वपदं यदि गुरुणा तमसा न नियम्येत स्व- कार्यात्प्रवृत्तेर्न प्रच्याव्येत तर्हि प्रवर्तकस्वभावत्वाद्जोगुणः सर्वदैव सर्वत्र लघुरूपं सत्त्वगुणं प्रवर्तयेत तमोनियतं तमसाप्रतिबद्धन्तु क्वचिदेव प्रवर्तयति रजोगुणमित्यतो भवति नियमार्थ तम इत्यर्थः । 'सा च प्रत्येकमभिसंबध्यते' इति, उपलक्षण चेदम् 'अन्योन्यपदस्थापि प्रत्येक संबन्धी बोध्यः । . (१) एवम् आत्मशब्दस्य स्वरूपवाचकत्त्वे । (२) 'प्रील्यप्रीतिविषादाद्यर्गुणानामन्योन्यवैधर्म्यम्' इति सूत्रे वैधर्म्यकथनमुखेन प्रीत्यादीनां गुणधर्मत्वसूचनादिति भावः । (३) प्रयोजनयोग्यतर. तेन प्रलयदशानां भकाशादियाभावेपि न तद्यो- ग्यताविरह इति ज्ञेयम् । x. an १९० साङ्ख्यतत्त्वकौमुदी। वृत्तिः क्रिया, सा च प्रत्येकमभिसंबध्यते, अन्योन्याभि- भववृत्तयः एषामन्यतमेनार्थवशादुद्भूतेनान्यदभिभूयते । तथाहि-सचं रजस्तमसी अभिभूय शान्तामात्मनो वृत्ति प्रतिलभते, एवं रजः सत्वतमसी अभिभूय घोराम, एवं तमः सवरजसी अभिभूय मूढामिति । अन्योन्याश्रयवृत्तयः यद्यप्याधाराधेयभावेन नाश्रयाओं घटते तथापि यदपेक्षया यस्य क्रिया स तस्याश्रयः । तथाहि-सत्त्वं प्रवृत्तिनियमावाश्रित्य रजस्तमसोः प्रकाशे- नोपकरोति, रजः प्रकाशनियमावाश्रित्य प्रवृत्त्येतरयोः, तमः प्रकाशप्रवृत्ती आश्रित्य नियमेनेतरयोरिति । एषां मध्येऽन्यतमेन गुणेन-अर्थवशादुद्भूतेन धर्माधर्मनिमित्तकसुखादि. रूपप्रयोजनबलात्स्वकार्यजननोन्मुखेन, अन्यद्गुणान्तरं तिरस्क्रियत इत्यर्थः । सत्त्वम् आत्मनः स्वसंबन्धिनी सुखादिरूपां शान्तां वृत्ति प्रतिलभते प्राप्नोति, सुखादिरूपेण परिणमत इति यावत्, घोराम् इत्यत्रापि "आ- स्मनो वृत्तिं प्रतिलभते" इत्यस्यानुवृत्तिर्बोध्या, एवमुत्तरत्रापि । अन्यस्याऽन्यत्कथमाश्रयः कुण्डबदयोरिवाधाराधेयभावासम्भवादित्या शशकय समाधत्ते-'यद्यपि" इत्यादिना, आधारत्वेन-आश्रयार्थः मुख्य आश्र. यशब्दार्थोऽत्र न घटते संभवति तथापि सहकारित्वरूपो गौण आश्रया. र्थोऽत्राभ्युपेय इत्यर्थः । एतदेव स्पष्टयति-"तथाहि सत्त्वम्" इत्यादिना, सत्त्वगुणो हि रज. स्तमः कार्यभूतौ प्रवृत्तिनियमौ आश्रित्य सहकारित्वेनादाय स्वकार्येण प्रकाशेन रजस्तमसी उपकरोति, तयोस्साहाय्यमाचरति, एवं रजः स्वधर्मण प्रवृत्या इतरयोः सत्त्वतमसोः उपकरोतीत्यनुषङ्गः एवं तमः स्वकार्येण नियमनेन इतरयोः सत्त्वरजसोरुपकरोतीत्यर्थः । मातुः स्मरतीतिवद्जस्त- मसोरिति कर्मणि पष्टी, एवम् ( इतरयोः) इत्यपि, सत्त्वं हि स्वयमप्र. वर्तकतथा रजोधर्म प्रवृत्तिमाश्रित्य प्रकाशं करोति, रजश्च स्वयमप्रकाशरू. (१) 'कर्मादीनामपि संबन्धमात्र विवक्षायां षष्ठयेव इति' शाब्दिकसङ्केतादिति , . . भावः ।
। साङ्ख्यतत्त्वकौमुदी। १९१ अन्योन्यजननवृत्तयः अन्यतमोऽन्यतममपक्ष्य जनयति, जननञ्च परिणामः, सं च गुणानां सदृशरूपः, अत एव न हेतुमत्त्वं, तत्त्वान्तरस्य हेतोरभावात् , नाप्यनित्य त्वं, तत्त्वान्तरे लयाभावात् । थतया सत्त्वधर्मं प्रकाशमाश्नित्य प्रवृत्तिं कसेतीत्यादि यथायथमूह्यम्, एत- Tara चौग्रे व्यक्तम् । "अन्यतमोऽन्यतममपेक्ष्य जनयति' इत्यत्र जननं नापूर्वोत्पादनमसत्का- र्यवादप्रसङ्गादपि तु तत्तद्रूपेण परिणमनमित्याशयेनाह-'जननं च परि- णाम" इति । करेसौ परिणामो यत्राऽन्योन्यमपेक्ष्य गुणा हेतवो भवन्तीत्याकाङ्क्षाया- साह-"स च गुणानां सदृशरूप" इति । गुणानां साम्यावस्थारूप: प्रधा- नाख्यः स परिणाम इत्यर्थः । एतच्च प्रतिसर्गावस्थायां सत्वं रजस्तमश्च सदृश- परिणामानि भवन्ति' इत्यादिनाऽग्रे व्यक्तम् । 'अन्योन्याश्रयवृत्तय' इत्यनेन विसदृशे परिणामेऽन्यतमो गुणोऽन्यतम- माश्चयत इत्यभिाहतमत्र तु सदृशे परिणामेऽन्यतमो गुणोऽन्यतमं गुणमपेक्षत इस्युक्तमिति व पौनरुक्त्यम्- ननु प्रधानस्य गुणानां सदृशरूपपरिणामत्वे तस्य हेतुमत्वं स्यात् तथाच 'हेतुमदनित्यम्' इत्यादिना यहेतुमत्त्वं व्यक्तसाधर्म्यमभिहित तदव्य- केऽतिप्रसक्तमित्याशङ्कामयनेतुमाह-"अतएव" इति । यत् एव गुणानां सदृशरूपः परिणामः प्रधानमतएव, न तस्य हेतुमत्त्वमित्यर्थः । तत्र हेतुमाह "तत्वान्तरस्य' इति । यत्र हि तत्वान्तरं विजातीयतवं तत्त्वान्तरेण जन्यते तत्र हि विसदृशपरिणामरूपं तत्वान्तरं हेतुमदित्युच्यतेऽत्र तु गुणा एव । धानमिति-त् तत्त्वान्तरमव्यवमिति न हेतुसमधानमित्यर्थः । (१) अग्रे सत्त्वतमसी स्वयमक्रियतया स्वस्वकार्य प्रत्यवसीदन्ती रजसोप- तृभ्येते' इत्यादिनाऽग्रिमकारिकाकौमुद्यामित्यर्थः । १६ इति कारिकाव्याख्यानारम्भ इत्यर्थः। (२) अन्यतमो गुणोऽन्यतमगुणमाश्रित्य प्रवर्ततं इति पूर्वाभिहितात् 'अन्य- तमों गुणोऽन्यतममपेक्ष्य परिणमते" इत्यभिधानस्य को भेद इत्याकाङ्क्षायामाह- "अन्योन्याश्रयवृत्तय इत्यनेनं" इति । विसदृशे असाधारणे प्रकाशादिरूपे कार्ये, इत्यर्थः। (३) प्रधानस्य । ।
१९२ सावतत्त्वकौमुदी। 'अन्योन्यमिथुनवृत्तयः अन्योन्यसहचराः-अविनाभावव- तिन इति याक्त्, 'च' समुच्चये। भवति चात्रागम:- "अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्र गामिनः । रजसो मिथुनं सच्वं सत्त्वस्य मिथुनं रजः । तमसश्चापि मिथुने ते सत्त्वरजसी उभे । ननु सर्गकाले गुणक्षोभे जायमाने साम्यावस्थाया विलयेन प्रधानस्यानि त्यत्वं स्थादित्याशङ्कायामाह-"नाप्यनित्यत्वम्” इति, साम्यावस्थातो नाति- रिक्तं तत्वमवस्थावद् गुणत्रयमिति न तत्र लये तत्वान्तरलयव्यवहार इति -- भावः३ 'अन्यतमोऽन्यतमं जनयति' इति क्वाचिकः पाठस्तुं न स्वान्तं सन्तो- पति गुणानां नित्यखेनान्योन्यं जन्यजनकभावाभावात् । सर्वस्या त्रिगुणात्मकत्वेन परस्परं मिलित्वा सर्व सर्वजनका इति परमार्थः । एते गुणाः परस्परोपरक्तप्रविभागा इतरेतरोपाश्रयणोपार्जितमूर्तयः इत्या. दिना योगभाप्ये व्यक्तमेतत् । 'अन्योन्यमिथुनवृत्तयः' स्त्रीपुरुषवत्परस्परं मिथुनीभूताः, तदेवाह-"अ" न्योन्यसहचरा” इति । सहचरपदार्थमाह-"अविनाभाववर्तिन" इति । 'मिथुनवृत्तयश्च' इति चकारः-अन्योन्याभिभवादीनां धर्माणां गुणेषु समुच्चयं सूचयन् तेषी पाक्षिकत्वमाक्षिपतीत्याह-"चः समुच्चय” इति । । एतत्सर्वम् “अन्योऽन्याभिभवाञ्चैते विरूध्यन्ति परस्परम् । तथाऽन्योन्या- श्रयाः सर्वे न तिष्ठन्ति निराश्रयाः” १३-इत्यारभ्य “यथा स्त्री पुरुषश्चक मिथुनं च परस्परम् । तथा गुणाः समायान्ति युग्मभावं परस्परम्॥ रजसो मि- थुनं सत्त्वं सत्त्वस्य मिथुनं रजः । उभे ते सत्वरजसी तमसो मिथुने विदुः॥' (१) 'अन्यतममपेक्ष्य' इत्यध्याहृतापेक्ष्येतिपदाघटितपाठस्त्वित्यर्थः । (२) परस्परम् उपरक्तः संसृष्टः प्रविभागः स्वीयः स्वीयो भागो येषां ले इत्यर्थः, इतरेतरसाहाय्येनोत्पादिता मुहृदाद्या मूर्तयो, यैस्त इत्यर्थः । (३) पा० २ सूं० १८ (४) तेषाम् अन्योऽन्याभिभवादीनां पाक्षिकत्वं कदाचिदन्योन्याभिभावकत्वं., / कदाचिच्चान्योन्याश्रयत्वं, कदाचिच्चान्योन्यमिथुनत्वमित्यवंविधं पाक्षिकत्वं निरह- .. करोतीत्यर्थः।
, सायतचकौमुदी। १९३ उभयोः सत्त्वरजसोमिथुनं तम उच्यते । नेपामादिः सम्प्रयोगो वियोगो वोपलभ्यते" इति ॥१२॥ 'प्रकाशप्रवृत्तिनियमार्था' इत्युक्तं, तत्र के त इत्थंभूताः कुतश्चेत्यत आह-"सत्त्वं लघु" इत्यादि। (४९।५०) इत्यन्तेन ग्रन्थेन देवीभागवते. प्रपञ्चितमिति तत्रैव गुणवृत्तविस्तरो निरीक्ष्य इत्याशयेनाह-'भवति चात्रागम' इति । अन्योन्यमिथुनाः परस्परसहचरा., अत एव सर्वे गुणाः सर्वत्रान्योन्यं समिलिताः, तदेव स्पष्टयति-"रजसो मिथुनं सत्वम्' इति मिथुनं सह- चारीत्यर्थः।। गुणानामनादित्वमाह "नैषामादिः” इति शुषां गुणानाम् आदिः षड्- भावविकारेषु प्रथम उत्पत्तिरूपो विकारो नोपलभ्यते न ज्ञायते नास्तीति यावत्, 'गुणास्तु न प्रत्यस्तमयन्ते नोपजायन्ते' इत्येवमुत्पत्तेनिषिद्धत्वा- दित्यर्थः। एवं क इमे परस्परं संयुक्ता जाता इत्येवं संयोगोपि नोपलभ्यते, गुणा- नामादित्वेन तत्संयोगस्याप्यनादित्वादित्यर्थः, एवं सर्वदैवाऽन्योन्यं संयु. तत्वाट्ठियोगोप्येषां नास्तीत्यर्थः । यत्तु 'एते गुणाः संयोगविभागधर्माण' इति योगभाष्यं तत्तु 'रुपैः सह संयोगविभागवन्त' इत्यर्थकं नत्वन्योन्यं संयोगविभागवन्त इत्यर्थकमिति सर्वमवदातम् ॥१२॥ 'के त' इति, किनामानस्ते गुणाः, कुतश्च प्रयोजनात त इत्थंभूताः प्रकाशादिप्रयोजनजननायान्योऽन्याभिभवादिशालाः प्रवर्तन्त इत्यर्थः । ( १ ) तृतीयस्कन्धेऽष्टमाध्याय इति शेषः । 4(२) जायते-अस्ति-बर्द्धते-विपरिणमते-अपक्षीयते-विनश्यति-इति यास्का- चायोक्तेष्वित्यर्थः। (३) पा० २ सू० १९ इत्यत्रयं योगभाष्य मिदम् । (४) २|१८ (५) अविवेकिना पुरुषेण सह गुणाः संयुज्यन्ते विवेकी च तैर्वियुज्यत इत्यर्थः । (६) एषादिः संयोगो नेत्यन्वयेन यद्यपि गुणाः परस्परं संयुक्तास्तथापि का संयुक्तता इत्येवं न ज्ञायतेऽनादित्वात्संयोगस्येत्यर्थो वात्र वोध्यः । (७) यद्वा किंस्वरूपास्त इत्यर्थः।
१९४ साङ्ख्यतत्त्वकौमुदी । सत्त्वं लघु प्रकाशकामिष्टप्नुपष्टम्भकं चलं च रजः । गुरु वरण कमेव तमः प्रदीपबच्चार्थतो वृत्तिः ॥१३॥ सत्त्वमेव लघु प्रकाशमिष्टं साङ्ख्याचार्यः । तत्र कार्योद्गमने हेतुर्धर्मो लाघवं, गौरवप्रतिद्वन्द्वि यतो कैरिष्टामित्याकाङ्क्षा पूरयति-“साङ्ख्याचायः” इति-महर्षिकपिलादि. भिरित्यर्थः । तथाच सूत्रं-"लघ्वादिधमैः साधम्यं वैधम्यं च गुणानाम्” इति । किंलक्षण तत् लघुत्वं यत्सत्त्वे वर्तत इत्याकाङ्क्षायां वस्त्वन्तरे तावत्तदु- दाहर्तुं तन्निर्वक्ति, "तत्र कार्योद्गमन' इति तत्र लघुत्वंप्रकाशयोर्मध्ये कायस्य वस्तुन उद्गमने ऊर्ध्वगमने यत्कारणं तल्लाघवमित्यर्थः । ननु गुरुत्वाभावेनैवोद्भुगमने सिद्धेऽलं ळघुत्वरूपगुणान्तराश्रयेण, अत- एवौलूक्यैलघुत्वं गुणेषु न गणितमित्याशङ्कायामाह-"गौरवप्रतिद्वन्द्वि" (१) आदिना पञ्चशिखाचार्यः, तद्वचनं च ‘सत्त्वं नाम प्रसादलाघव' इत्या- दिकं पूर्वमुदाहृत मिति । (२) अ० १ सू० १२८| लवादीति भावप्रधानो निर्देशः, लघुत्वादिधर्मेण सर्वासां सत्त्वव्यक्तीनां साधर्म्य, वैधर्म्य च रजस्तमोभ्याम्, एवं चलत्वादिधर्मेण रजोव्यक्तीनां गुरुत्वादिधर्मेण च तमोव्यक्तीनां साधर्म्यम्, अत्र च पृथिवी- व्यक्तीमां पृथिवीत्वेनेव . सत्त्वादिव्यक्तीनामेकजातीयतयैकत्वं, गुणान्तरसंसर्गवै-- चिन्येण च उत्कटं सत्त्व मध्यमं सत्वं निकृष्टं सत्त्वमित्यादिरूपेण च सत्त्वादि- व्यक्तीनां नानालं च बोध्यं, सत्त्वादीनां प्रत्येकमनेकव्यक्तिकत्वं सिद्धवत्कृत्वैवात्र लघुत्वादीनां साधर्म्याभिधानम् एकव्यक्तिकत्वे समानानां धर्मरूपस्य साधय॑स्या- { भिधानमनुपपन्नं हि स्यादिति । (३) वैधर्म्यस्य प्रागेव ( प्रीत्यप्रीतिविषादाद्यैरिति सूत्रे ) शक्तत्वादत्र वैधय॑ चंति पाठः प्रामादिक एवेति विज्ञानभिक्षुः । (४) वस्त्वन्तरे सत्त्वगुणातिरिक्ते वयादौं। (५) तद्वस्त्वन्तरवृत्ति लघुत्त्रं निर्वक्ति लक्षयति । (६) सत्त्वं लघु प्रकाशकमित्यनेन बोधितयोलाघवप्रकाशरूपधर्मयोरित्यर्थः । (७) औलूक्यैः कणादमुनिभिरित्यर्थः । % साञ्जयतत्वकौमुदी। १९५ गोरू वज्वलनं भवति, तदेव लाघवं कस्यनिनियरगरने हेतुर्भवति, यथा वायोः, एवं करणानां वृत्तिपटुत्वे हेतु- लाघव, गुरुत्वे हि मन्दानि स्युः, इति सत्वस्य प्रकाशक- त्वमुक्तम् । इति । 'गुरुत्वं' जलभूम्योः पंतनकर्मकारणमप्रत्यक्षं पतनकर्मानुभयन् इति । लक्षितं यद् गुरुत्वं तद्विरोधीत्यर्थः । यथाऽऽद्याधोगमनहेतुत्वेन गुरुत्वमभ्युपेयते तधोर्द्धगमनहेतुत्वेन लघुत्वम. प्यभ्युपेयतां न्यायसाम्याद्,अक्लप्ताभावकारणत्वकल्पनापेक्षया कलप्तभावका- रणत्वकल्पनाया एवौचित्यादिति भावः । पंतनाऽनुमेयगुरुत्ववल्लघुत्वमप्यूगमनानुमेयमतीन्द्रियमेवेत्याशयेन ल- घुत्वाश्रयं दर्शयन्नुदाहरणमाह "यतोऽग्नेः" इति यस्माद्धर्मादनेरूद्ध- ज्वलनं भवत्येवंभूतो यो गौरवप्रतिद्वन्द्वी कार्योद्गमने हेतुर्धर्मस्तल्लाघव- मिति समुदायार्थः । ननु यदि गुरुत्वाभावादन्यदूर्ध्वगमनहेतुत्वेन लघुत्वं गुणान्तरमभ्युपे- यते तर्हि लघुत्वादन्यत् तिर्यग्गमनहेतुत्वेनापि किञ्चिद् गुणान्तरमभ्यु- पेतव्यं भवेद्, अन्यथा पवनगततिर्यग्गमनस्याकस्मिकत्वापत्तेरित्यत्राह "तदेव लाघवम्” इति, न चैवं लक्षणाननुगमः, गौरवप्रतिद्वन्द्वीत्यनेन गुरुत्वजन्याधोगमनविभिन्नगमनहेतुत्वं लघुत्वमित्यर्थस्य विवक्षितत्वेन दोपाभावात् । एवं वस्त्वन्तरे लघुत्व प्रदर्श्य सत्त्ववृत्तिलघुत्वस्वरूपमाह "एवम्” इति, यथाऽग्न्याधुगमने हेतुर्धर्मविशेषो लाघवम् एवं करणानाम् (१) प्रशस्तपादभाष्यमिदं, तत्र 'जलभूम्योः' इति गुरुत्वाश्रयकथनं, 'पतन- कर्मकारणम्' इति गुरुत्वकार्यकथनम्, 'अप्रत्यक्षम्' इति गुरुत्वस्वभावकथनम्, 'पतनकर्मानुमेयम्' इति गुरुत्वे प्रमाणोपन्यास इति बोध्यम् । (२) द्वितीयपतने वेगरयापि कारणत्वादुक्तमायेति ! ।। (३) आकस्मिकत्वापत्ते: निर्हेतुकत्वापत्तरित्यर्धः । (४) उद्गमनकारणं लावामित्युक्ते पवनतिर्यग्गभनकारणे लाघवे लक्षणा- सङ्गतिः, तिर्यग्गमन कारणं लाघवमित्युक्ते चाभ्युद्गमन कारणे लाघवे लक्षणाग- मनमित्येवं लक्षणाननुगम इत्यर्थः । , तथा - V १९६ साहयतत्वकौमुदी। सत्त्वतमसी स्वयमक्रियतया स्वस्वकार्यप्रवृत्ति प्रत्यवसी- दन्ती रजसोपष्टभ्येते-अवसादात्प्रच्याव्य स्वकार्ये उत्साह- प्रयत्नं कार्येते, तदिदमुक्तम् “उपष्टम्भकं रज" इति । आहरणधारणप्रकाशनसाधनानां वक्ष्यमाणानां त्रयोदशप्रकाराणामिन्द्रि- याणां या वृत्तयः-स्व स्वविषयग्रहणाय सन्निकर्षरूपव्यापाराविशेषाः, तासां वृत्तीनां यत् पटुत्वं झटिति स्वविषयग्रहणोन्मुख्यरूपनैपुण्यं तत्र हे- तुभूतो यो धर्मस्तल्लाघवं, तच्च सत्त्वधर्म इति सत्त्वं लम्वित्यर्थः । सोविकेषु करणेषु विषयग्रहणरूपपटुत्वदर्शनेन तत्र सत्त्वधर्मों लघुत्वम- स्तीत्यनुमेयमिति भावः । सत्त्वगुणस्य साक्षाद् व्यवहारगोचरताऽदर्शनात् सात्त्विकानि करणान्येव लघुत्वाश्रयत्वेनात्रोदाहृतानि नतु साक्षात्सत्त्वमुदाहृतमित्यपि बोध्यम् । एतेन करणानि लघूनि पाटववत्त्वादियनुमानमत्र सूचितम् । एतस्मिन्ननुमाने यानि न लघूनि न पाटववन्ति तानि यथा तिमिरोपह- तानि नयनादीनि तमसावृतानि वा घटादीनि' इति व्यतिरेकव्याप्तिं दर्शयति- "गुरुत्वे हि" इति । हि यतः लघुत्वविरोधिनि गुरुत्वे सति तानि करणानि मन्दानि स्वविषयप्रकाशनासमर्थानि स्युरित्यतो विषयप्रकाशनरूपपटुत्व- दर्शनेन तुत्र लघुत्वमस्तीति प्रतीयतामित्यर्थः । एतादृग्लघुत्वादेव सत्त्वं प्रकाशकमित्युच्यत इत्याह "इति सत्त्वस्य" इति । इति अतः लघुत्वादिति यावत् । रजसः स्वभावमाचक्षाण 'उपष्टम्भकम्' इति व्याचष्टे "सत्त्वतमसी" इति स्वयमक्रियतया स्वरूपेणाप्रवृत्तिशीलतया स्वस्वकार्यप्रवृत्ति प्रति प्रकाशादिरूपस्वस्वकार्ये स्वकीयप्रवृत्तिजननाय अवसीदन्ती शिथिलीभूते अशक्ते सत्त्वतमसी रजसा रजोगुणेन उपष्टभ्येते स्वकार्यजनने प्रवयेते. तदिदं तस्मादिदमुक्तम् उपष्टम्भकं रज इतीत्यन्वयः । (१) करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम्' ३२ इत्यार्यायां वक्ष्य- माणानामित्यर्थः। (२) सात्त्विकाभिमानकार्येषु । (३) लाघवं सत्त्वधर्म इति प्रकृते लघुत्वाश्रयत्वेन सत्त्वमेवोदाहरणीय नतु तद्विभिन्नानि करणानि, अन्यधस्यान्यत्रोदाहरणदानस्यायुक्तत्वादित्याकाङ्क्षायामा "सत्त्वगुणस्य" इति । (४) सत्त्वतमसी इति कर्मकारके ।
-.. । - साङ्ख्यतत्त्वकौमुदी। १९७ कस्मादित्यत उक्तं-"चलम्" इति । तदनेन रजसः प्रवृ- त्यर्थत्वं दर्शितम् । रजस्तु चलतया परितस्वैगुण्यं चालयद्गुरुणाऽऽवृण्वता च तमसा तत्र तत्र प्रवृत्तिप्रतिबन्धकेन क्वचिदेव प्रवर्त्यत इति ततस्ततो व्यावर्त्य तमो नियामकमुक्तं 'गुरु' धरणकमेव तम इति। एवकारः प्रत्येकं भिन्नक्रमः संबध्यते-सत्त्वमेव रज एव, तमएव, इति । उपष्टनाति उपोद्दलयति-उत्तेजयति-वृद्ध यष्टिरिवोत्थापयति-प्रोत्साह- र अति स्वकार्ये प्रवर्तयतीत्युपष्टम्भकमित्याशयन 'उपष्टभ्येते' इत्यस्यार्थमाह- "अवसादापच्याव्य" इति । शैथिल्यादधः प्रपात्य-शैथिल्यं निरस्येति यावत्। है कस्मात्पुनः कारणागज एवंविधमिति पृच्छति, “कस्मात्" इति । यतो रजश्वलं सक्रियत्वेन प्रवृत्तिशीलमत उपष्टम्भकमित्यर्थः । 'गुरुवरमकमेव तम' इति ब्याचक्षास्तमःस्वभावमाह-"रजस्तु” इति चलतया प्रवृत्तिशीलत्वेन परितः सर्वतः त्रैगुण्यं त्रिगुणात्मकमिन्द्रियादिकं. चालयत् स्वकार्ये प्रवर्तयः तमसा तमोगुणन क्वचिदेव कार्ये प्रवर्त्यते प्रवृत्तिक्षमं क्रियते यतः इति अतः ततस्ततः तस्मात्तस्मात्कार्याद् व्यायवं रजःप्रवृत्ति रोधयित्वा वर्तमानं तमरे नियामकमित्युच्यते तदिदमुक्त 'गुरू' वरणकमेव तम इति, इत्यन्वयः। तमसो नियमनकर्तृत्वे हेतुगर्भित विशेषणं 'गुरुणा' इति । लघुत्वविरोधि- स्थितिहेतुभूतो धर्मो गुरुत्वं, तद्वता, गुरुत्वादेव च आवृण्वता, अस्वैव विवरण-'तत्र तत्र प्रवृत्तिप्रतिबन्धकेन' इति । अत्र च 'गुरु वरणकमेव' इति 'एवकारः सत्त्वमेव लघुत्वात्प्रकाशक, रज एक्च चलत्वादुपष्टम्भक, तम एव च गुरुत्वाद्वरणकामत्येवं भिनक्रमः प्रत्येकान्वयी च बोध्य इत्याशयेनाह "एवकार" इति । ननु यद्येवं विभिन्न धर्माणो गुणास्तहि कथमन्योन्याश्रयवृत्तये हत्यादिना मिलितानामेकक्रियाकर्तृत्वाभिधानं परस्परविरुद्धानां शत्रूणामिवैकार्थकरणा- सम्मवादित्याशयेन शङ्कते-"नम्वेते' इति । (1) रज इति कर्मकारकम् । (२) यत्र यस्य पाठस्तत्रान्वयमकृत्वाऽन्यत्रान्वयो भिन्नकसः ।।
१९८ साङ्ख्यतत्वकौमुदी। नन्येते परस्परविरोषशीला गुणाः सुन्दोपसुन्दवत्परस्पर ध्वंसन्ते इत्येव युक्तं प्रागेव तेषामेकक्रियाकर्तृताया इत्यत आह “प्रदीपवञ्चार्थतोवृत्तिः" इति । दृष्टमेतद्, यथा वर्तितैले अनलविरोधिनी अथ च मिलिते परस्परं ध्वंसन्ते अन्योन्यमभिहता नश्यन्तीत्यर्थः। तत्र दृष्टान्तः-"सुन्दो- पसुन्दवत्" इति । सुन्दोपसुन्दनामानौ द्वावसुरौ सोदरावास्तां तौ चाराधि- तादीश्वरात्स्वस्वेतर सकाशाद्वधाभावरूपं वरमलभेताम् । अथचैकां कांचि. देबलां कामयमानाभ्यामन्योन्यं प्रवर्तिते रणेऽन्योन्याभिहता तौ नष्टावभूता- मिति पौराणिकी कथाऽत्रानुसन्धेया । प्रोगेव पुरत एवेत्यर्थः । विरुद्धानामन्योन्यमेलनमेव तावदसम्भवि मिलि. त्वैकार्थानुष्ठानन्तु दुरतो निरस्तमिति भावः । कारिकांशमवतार्य समाधत्ते-"प्रदीपवञ्चार्थतो वृत्तिः” इति । वृत्तिः अन्योन्यानुवर्तनम् । दृष्टमेतत्-एतद्विरुद्धानामपि क्वचिन्मिलित्वैकार्थकारिता दृष्टेत्यर्थः । क दृष्टमित्यत्राह-"यथा" इति । वर्तिः कासादिनिर्मिता दशा तैलं च सार्पयादि ते एते वह्निदाह्यत्वा- दनलो विरोधी ययोरित्यनलविरोधिनी यद्यपि अथच तथापि अनलेन सह मिलिते एका प्रकाशरूपां क्रियां कुरुत इत्यर्थः । एतच्च "प्रदीपश्च यथा कार्य प्रकरोत्यर्थदर्शनम् ॥ वर्तिस्तलं यथार्चिश्व विरुद्धाश्च परस्परम् ॥ २९ ॥ विरुद्ध हि तथा तैलमाग्निना सह सङ्गतम् ॥ तैलं वर्तिविरोध्येव पावकोपि परस्परम् ॥ ३० ॥ एकत्रस्थाः पदार्थानां प्रकुर्वन्ति प्रदर्शनम्।" इत्यादिना ब्रह्मगीते व्यक्तम् । (१) तयोर्मुर्दान्तयोर्हननायोपायान्तरमपश्यतेश्वरेण निर्मिता सा मायामय्यब- त्यपि ज्ञेयम। (२) प्रागेव' इति निपातसमुदायोऽतिशयार्थक इति वर्द्धमानोपाध्यायः, एतन्मते च तेषामेकक्रियाकर्तृताऽतिशयेनासम्भविनीत्यर्थो शेयः। (३) देवीभागवते तृतीयस्कन्धे नवमाध्याये नारदं प्रति ब्रह्मवाक्यानीमानीति बोध्यम् । HAft x प साङ्यतत्त्वकौमुदी। १९९ सहानलेन रूपप्रकाशलक्षणं कार्य कुरुतः यथा वा- वातपित्तश्लेष्माणः परस्परविरोधिनः शरीरधारणलक्षण- कार्यकारिण एवं सत्त्वरजस्तमांसि मिथो विरुद्धान्यप्यनु- वय॑न्ति च स्वकार्य करिष्यन्ति च । अस्तु वर्तिः अनलदीप्यत्वात्तद्विरोधिनी भवतु च तैलबिन्दुनिपातनेना- ग्नेरपि मन्दीभावात्तलमपि वह्निविरोधि तथापि वर्तितैलयोः परस्परं विरो- धाभावान्न निखिलांशे समानमेतदुदाहरणमिति ये प्राहुस्तान्प्रति सर्वांसे परस्परविरोधित्वेन समानमुदाहरणान्तरमाह "यथा वा” इति । वातादीनां धातूनां परस्परविरोधित्वमायुर्वेदे प्रसिद्धं तथापि ते मिलित्वा शरीरस्य धारण पोषणं स्थापनं च कुर्वन्ति यथा एवं तथा सत्त्वादीन्यपि अनुवय॑न्ति अन्योन्यानुगुण्येन वर्तिष्यन्त स्वस्वकार्य करिष्यन्ति चेत्यर्थः ।। त्रित्वसङ्ख्यानादरणे तु यथा विरुद्धावपि धर्माधर्मों मिलित्वा नरकलेवर- भारभेते तथा सत्त्वादयोपीत्यप्युदाहरणं बोध्यम्- वस्तुतस्तु-रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुद्ध्यन्ते सामान्यानि त्वतिशयैः सह प्रवर्तन्ते' इति योगभाष्योक्तन्यायात् तुल्यबलानामेव विरोधो नातुल्यबलानामित्यभ्युपगमान्नाव विरोधप्रसक्तिरिति । अयम्भावः-दिव्यशरीरे सुखाद्यात्मके वा प्रत्यये जननीये सत्त्वं गुणः प्रधानं रजस्तमसी चाङ्गे, एवं नरकलेवरे दुःखाद्यात्मके वा प्रत्यये जनयितव्ये प्रधानं रजोऽङ्गे च सत्त्वतमसी, एवं तियर्पनिकाये मोहाद्यात्मके वा प्रत्यये जनयितव्ये प्रधानं तमोऽङ्गे च सत्त्वरजसी, इत्येवं गुणप्रधानभावेन मिलि- त्वैकार्थकरणान्नान काचिदापत्तिरिति । (१) यथा सत्त्वादीनि त्रोण्येवं तैलादीनि वातादीनि चापि त्रीण्येवेत्युदाहरणे त्रित्वसङ्ख्यासाम्यमादृतं तदनादरणे तु धर्माधर्मावप्युदाहरणीयाविति भावः । । (२) 'पुण्येन पुण्यं लोकं नयति, पापेन पापम्, उभाभ्यामव मनुष्यलोकम्' } इति प्रश्नोपनिषदि श्रुतस्त्रादिति भावः । (३) धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वानैश्वर्याख्यान्यष्टौ . बुद्धे, रूपाणि, वृत्तयश्च सुखदुःखमोहरूपाः परिणामविशेषाः तेषामतिशयाः उत्कर्षी एव विरु- ध्यन्ते यदा धर्म उत्कृष्टत्वनोदारो भवति तदाऽधर्मो नोत्कृष्यते, यदा च सुखो- त्कर्षों भवति तदा च न दुःखमुत्कृष्टं भवीलवं परस्परं प्रतिवध्यन्ते सामान्यानि अपकृष्टानि, दुर्बलानि तु उत्कृष्टैः सह वर्तन्त इति भाष्यार्थः, यो० पा०२सू० १८ । mingRATIO- AAParentiris: .. v . २०० साङ्ख्यतत्वकौमुदी। अर्थतः पुरुषार्थत इति यावत्, यथा वक्ष्यति 'पुरुषार्थ एका हेतुर्न केनचित्कार्यते करणम्' इति । (का० ५१) अत्र च सुखदुःखमोहा- परस्परविरोधिनः स्वस्वानुरूपाणि यत्पूर्वमुक्तम् ‘इत्थंभूताः कुत' इति तत्राह-"अर्थत" इति। पौरुषेयभोगा- पवर्गसम्पादनरूपप्रयोजनबलेन गुणाः सम्भूय प्रवर्तत इत्यर्थः । एतच्चाने व्यक्तमित्याह-"यथा वक्ष्यति" इति । ननु, “त्रिगुणमविवेकि" इत्यादिना सर्वस्य त्रिगुणात्मकत्वाभिधानात्सर्वं. एव भावाः सुखदुःखमोहात्मका इत्यायातम् । एतच्च न घटते, न हि येद् यदा यस्य सुखात्मकं तत्तदा तस्य दुःखात्मक मोहात्मकं चेत्यध्यक्षमीक्ष्यते, यदि सर्व एव भावाः सुखदुःखमोहस्वभावा भवेयुस्तहि सर्वेषामविशेषेणैव सर्वेषु भावेषु सर्वात्मकं विज्ञान स्यान्नतूप- लभ्यमानं प्रतिवस्तुव्यवस्थितं, तथा चाहुविवेचका;-"यदि पुनरेत एव सुखादिस्वभावा भवेयुस्ततः स्वरूपत्वाद्धेमन्तेपि चन्दनः सुखः स्यात्, न हि चन्दनः कदाचिछ चन्दनः, तथा निदाघेपि कुङ्कुमपङ्कः सुखो भवे-- नासा कदाचिदकुङ्कुमपङ्क इति, एवं कण्टकः क्रमेलकस्य सुख इति मनुप्या- दीनामपि प्राणभृतां सुखः स्यान्नह्यसौ कांश्चित्प्रत्येव कण्टक इति, तस्माद- सुखादिस्वभावा अपि चन्दनकुङ्कुमादयो जातिकालावस्थाद्यपेक्षया सुखदुः- खादिहेतवो मतु स्वयं सुखादिस्वभावा इति रमणीयम्" इति । एवं प्राप्ले प्रतिविधत्ते “भत्र च सुखदुःखमोहा' इति । अन्न गुणस्वभावनिरूपणप्रस्ताके च इदं ध्येयमिति शेषः । (१) एतच्च सुखदुःखमोहात्मकत्वेन भावानां त्रैरूप्यं चेत्यर्थः । यत्-चन्दनादिकं, यदा निदाघकालादौ । (३) घटे मृदन्वयवद्यदि मुखादिकं सर्वभावान्वितं भवेत्तर्हि घटे मृद्वत् सर्वैरेवाविशेषेणोपलभ्येत नचोपलभ्यत इति योग्यानुपलब्धिबाधितं चेदं सर्वस्य त्रैरूप्यमित्याशयेन शङ्का स्पष्टयति “यदि" इति । (५) अनुकूल एव स्रक्चन्दनवनितादौ मुखात्मकं प्रतिकूल एव च दन्दशूक- वृश्चिककण्टकादौ दुःखात्मकं विज्ञानमित्येवं नियतमित्यर्थः । (६) अ० २ पा० २ सू० १ इति ब्रह्मसूत्रभाष्ये भामतीकाराः। (७) क्रमेलक: उष्ट्रः। (८) प्रतिविधत्ते समाधत्ते । - . .. साङ्ख्यतत्त्वकौमुदी। २०१ सुखदुःखमोहात्मकान्येव निमित्तानि कल्पयन्ति, तेषां च परस्परमभिभाव्याभिभावकभावानानात्वम् । तद्यथा-एकैव स्त्री रूपयौवनकुलसम्पन्ना स्वामिन सुखा- करोति, तत्कस्य हेतोः स्वामिनं प्रति तस्याः सुखरूपसमुद्भ- परस्परविरोधिनो ये सुखदुःखमोहास्ते सर्वत्राविशेषेण वर्तमाना अपि- नाकरसादुद्भवन्ति येन सर्वान्प्रत्यविशेषेण ते आगच्छेयुरपि तु स्वस्त्रोद्भवे निमित्तानि कल्पयन्ति अपेक्षन्त इत्यन्वयः, निमित्तान्यपि च न यानि कानि- चिदपि तु स्वस्वानुरूपाणि स्वस्वप्रादुर्भावानुगुणानि सुखदुःखमोहात्म- कानीति । तत्र सुखं स्वोद्भवे धर्मापेक्षं सुखात्मकं सत्त्वरूपं निमित्तमपेक्षते, दुःखं च स्वोद्भवेऽधर्मापेक्षं दुःखात्मकं रजोनिमित्तमपेक्षते, मोहुश्च स्वप्रा- दुर्भावेऽधर्मापेक्षं मोहात्मकं तमो निमित्तमपेक्षत इत्यर्थः । जातिकालादयोपि निमित्तसहकारिणो ज्ञेयाः ।। ननु धर्मादयो निमित्तविशेषा अपि सर्वत्राविशिष्टा इति । कथं व्यवस्था, तत्राह 'तेषां च" इति । तेषां च धर्मादिनिमित्तानां नाविशिष्टत्वमपि तु नानात्वं तत्र हेतुमाह-"परस्परमभिभाव्याभिभावकभावात्" इति । यदुत्कृष्टं सदितरनिरोधकं भवति तन्निमित्तमभिभावकं, यच्च निकृष्टत्त्वेन स्षकार्यजननाशक्तं भवति तन्निमित्तमभिभाव्यमित्युच्यते, एतदुक्तं भवति- (सर्वस्य प्रतिक्षणपरिणामित्वाद् यदा यस्य चित्ते धर्मो विपच्यमान उत्कृष्टो/ भवति तदा तस्य चित्ते तञ्चित्तसन्निहितवस्तुनि च सत्त्वमुत्कटं भूत्वा रजस्त- मश्च तिरस्कृत्य तं प्रति सुखात्मकं प्रत्ययं जनयति,) यदा चाधर्म उत्कृष्यते तदा रजस्तमो वोत्कटं भूत्वा दुःस्रात्मकं मोहात्मकं वा प्रत्ययं जनयति, इत्येवं निमित्तानां कादाचिकत्वान्न सर्वेषां सर्वत्र सर्वदाऽविशिष्टज्ञानत्वप्र- सक्तिरिति । (१) जातिरूपनिमित्तसहकारिणोऽभावाच्च न मनुष्यादीनां कण्टक: निदाघकालरूपसहकारिणोऽभावाच्च न हेमन्ते चन्दनं सुखात्मकमित्यादयूह्यम् ।। (२) फलोन्मुखः सान्नित्यर्थः । सुखः F PANCHANG HERE PAGAINE २०२ साङ्ख्यतत्त्वकौमुदी। यद्वा (२) चित्ते वर्तमाना ये सुखदुःखमोहास्ते नाकस्मादुपजायन्तेऽपि तु सुखाद्यात्मकानि निमित्तान्यपेक्ष्योपजायन्ते, तथाच सुखाद्यात्मका विषया एव धर्मादिसापेक्षास्तन्निामेत्तभूता इति कलप्यन्ते नहि विषयगतविशे विना विषयसन्निधिमात्रेण सुखाबासिका चित्तवृत्तिरुदेतुमर्हति, अव्यवस्था- पत्तेः अतश्चित्तगतसुखादिनियामकत्वेन कल्प्यमानो विषयगतविशेषः सुखा- यात्मक एव कल्प्यते, कार्यानुरूपस्यैव कारणत्यौचित्याद्'इत्यर्थोऽत्र ज्ञेयः । तथाचाहुासदेवा: “साङ्ख्यपक्षे पुनर्वस्तु ब्रिगुणं, चलं च गुणवृत्तमिति धर्मादिनिमित्तापक्षं चित्तैरभिसंबध्यते, निमित्तानुरूपस्य, च प्रत्ययस्योत्पद्यमा. नस्य तेन तेनात्मना हेतुर्भवति" इति । नच यो यस्य स्वभावः स स्वस्वभावोद्भवेन निमित्तं नापेक्षत इति साम्प्रतं, तथा सति कुसूलनिहितधान्यबीजेनैव कृती कृषीवलोऽलं तस्य क्षेत्रसंस्कार- केदारनिर्माणधान्यवपनसलिलोचनाद्युद्योगेनेति जोपमेवास्व | सम्प्रति-"धापेक्षं चित्तस्य वस्तुसाम्येपि सुखज्ञानं भवति, अधर्मापेक्षं तत एव दुःखज्ञानम् , अविद्यापेक्षं तत एव मूढज्ञानम्” इति योगभाष्य- मनुसृत्य भावानां सुखाद्यात्मकत्वमुदाहरणद्वारा विशदयितुमाह-"तद्यथा" इति, यथैकमपि वस्तु सुखादिभेदभिन्न विज्ञानहेतुत्वेन सुखदुःखमोहात्मकं प्रतीयते तथा तादयते इत्यर्थः । (१) 'अत्र च सुखदुःखमोहा' इत्यादेर्ग्रन्थस्य सम्भवदर्थान्तरमाह-"यद्वा" इति, पूर्वस्मिन् व्पाख्याने विषयगता: सुखाद्याः स्वस्थप्रादुर्भावे चित्तगतधर्माद्य- पेक्षं विषयगतोत्कटसत्यादिकं निमित्तमपेक्षन्त इति वर्णितम्, इदानीं च चित्तगता । ये सुखाद्यास्ते स्वोद्भवे विषयस्य सुखाद्यात्मकत्वरूपं निमित्तमपेक्षन्त इति वर्ण्यत १ इति विशेषः । (२) यो० पा० ४ सू० १५० । (३) गुणवृत्तं गुणस्वभावः, प्रतिक्षणपरिणामशीलं वस्तुमात्रमिति यावत्, अतः कदाचिदेव धनादिनिमित्तवशाच्चित्तेन वस्तु संबध्यते इति न सर्वदा सर्वात्मक / ज्ञानं, तथा धर्मादिनिमित्तानुरूपं सुखाद्यात्मकप्रत्ययं प्रति सुखाद्यात्मकत्वेनैव वस्तु हेतुर्भवति, इति सिद्धं वस्तुनः सुखादिरूपवमिति भावः । (४) स्वभावस्य सर्वदानपायित्वान्न निमित्तापेक्षेति शङ्कामपनयति-'नच' इति । (५) जोष मौतम्- (६) यो० पा० ४ सू० १५ ।
ܝܢܫ . साक्यतत्वकौमुदी। २०३ वात्, सैव स्त्री सपत्नी१ःखाकरोति, तत् कस्य हेतोः, ताः प्रति तस्या दुःखरूपसमुद्भवात्, एवं पुरुषान्तरं तामविन्दमानं सैव मोहयति, तत् कस्य हेतोः, तम्प्रति तस्या मोहरूपसमुद्भवात्, अनया च स्त्रिया सवें भावा व्याख्याताः। 'सुखाकरोति' आनुकूल्येनानम्दयति, "सुखनियादानुलोम्ये' इत्यनेन करोतियोगे डाचि सुखाकरोति, इति । पृच्छति-"तत् कस्यहेतोः” यत्कामिन्याः कान्तं प्रति सुखजनकत्वं तत्क- स्मात्कारणादित्यर्थः । उत्तरमाह-"स्वामिनं प्रति तस्याः सुखरूपसमुद्भवात्" कान्तचित्तोद्भूतधर्मरूपनिमित्त्वशात्कान्त प्रति कान्तायाः-सुख़ात्मकसत्त्व- गुणात्मकत्वेन प्रादुर्भावादित्यथैः। एवमग्रेपि । 'दुःखीकरोति' प्रांतिकूल्येन पीडयति, “दुःखात्प्रातिलोम्बे" इति डाच् । तामविन्दमानम् चैत्रपत्नीमलभमानं पुरुषान्तर चैत्रादन्यं स्त्रैणं मैत्रं मोहयति पुण्यवतो बत चैत्रस्य कलत्ररत्नमिदं नतु मम मैत्रत्य मन्दभाग्यस्ये- त्येवं विषादयतीत्यर्थः। उक्तन्यायमन्यत्राप्यतिदिशति-"अनया च स्त्रिया” इति, एतत्कान्तोदा- हरणेनान्येषामपि भावानां सुखाद्यात्मकत्वं व्याख्यातं वेदितव्यं, तद् यथा मेघा वृष्टया कृषीवलानां सुखं जनयन्ति, पान्थानाञ्च दुःखं, विरहिणां च मोहम्, एवं न्यायपरायणो राजा शिष्टानां सुखमुत्पादयति, दुष्टानां च दुःख मोहं चेति, एतच्च देवीभागवते “यथा काचिद्वरा नारी सर्वभूपणभू- पिता । हावभावयुता कामं भर्तृप्रीतिकरी भवेत्" इत्यादिना व्यक्तमिति तत एव निरीक्ष्यम् । (१) ५।४।६३। आनुलोम्यम् अनुकूलता । (२) दुःखरूपंसमुद्भवाद-इत्यादौ । (३) ५।४।६४। प्रातिलोम्यं ग्रातिकूल्यम् । (४) स्त्रयासक्तं कामुकम्- (५) स्क० ३ अ०९। है - २०४ साझ्यतत्वकौमुदी। तत्र यत्सुखहेतुस्तत्सुखात्मकं सत्त्वं, यद् दुःखहेतुस्तद्- दुःखात्मकं रजः,यन्मोहहेतुस्तन्मोहात्मकं तम इति । सुखप्रकाशलाघवानान्त्वेकस्मिन् युगपदुद्भूतावविरोधः सहदर्शनात् तस्मात्सुखदुःखमोहैरिव विरोधिभिरविरोधिभिरे- कैकगुणवृत्तिभिः सुखप्रकाशलाघवैर्न निमित्तभेदा उन्नीयन्ते, एवं दुखोपष्टम्भकत्वप्रवर्तकत्वैः, एवं मोहगुरुत्वावरणैः, इति सिद्ध त्रैगुण्यमिति ॥ १३ ॥ स्यादेतत् ,अनुभूयमानेषु पृथिव्यादिष्वनुभवसिद्धा भवन्त्व- नन्वेकः कामिनीरूपोऽर्थः कथं विभिन्नविज्ञानहेतुर्नह्याविलक्षणात्कारणा- कार्यभेदो युक्त इत्याशय पूर्वोक्तं निमित्तनानात्वं स्मारयति,-"तत्र" इत्यादिना। तत्र एतस्मिन्नुदाहरणे यत्कान्तचित्तवृत्तिसुखात्मकप्रत्ययं प्रति निमि तद्धर्मापेक्षं कान्ताकायगतं सुखात्मकं सत्त्वं ज्ञेयमित्यर्थः, एवमपि । एवं तावद्विरुद्धानां युगपदेकत्रोद्भवे निमित्तनानात्वापेक्षाऽभिहिता, सम्प्रत्यविरुद्धानांमकैकगुणधर्माणां युगपदुद्भवे निमित्तनानात्त्वापेक्षामाह- "सुखप्रकाशलाघवानाम्" इत्यादिना, उन्नीयन्ते कल्प्यन्ते अपेक्ष्यन्ते, यत एकत्र सहवर्तनदर्शनात्सुखप्रकाशलाघवानां युगपदेकत्रोद्भवे न विरोध- स्तस्माद्विरोधिभिः सुखदुःखमोहैरिवाविरोधिभिः सुखप्रकाशलाघवैन निमित्तभेदा अपेक्ष्यन्तेऽपि तु सात्विकैः सुखादिभिर्धर्मापेक्षं केवलं सत्त्वम, पेश्यते, राजसश्च दुःखादिभिः केवलमधर्मापेक्षं रजोऽपेक्ष्यते, तामसैश्च केवलमविद्यापेक्षं तमोऽपेक्ष्यत, इति समुदायार्थः। उपसंहरति-"इति सिद्धं त्रैगुण्यम्" इति ॥ १३ ॥ एवं सर्वेषां भावानां गुण्यं प्रसाध्य तेने हेतुनोद्देश्यान्तरं साधयितु- मार्या वतारयति, "स्यादेतद्" इत्यादिना, 'अविवेकित्वादयः' 'त्रिगुण H- विवेकि' इत्यनेनाभिहिताः संहत्यकारित्वादयो धर्मविशेषाः । (१) अत्र 'न निमित्तभेदा उन्नीयन्ते' इत्यस्यानुषङ्गः, एवं 'मोहगुरुत्वावरणैः' इत्यत्राप्यनुषङ्गो ज्ञेयः। (२) तेन त्रैगुण्येन, उद्देश्यान्तरं प्रधानादीनाभाविवोकत्वादिधर्मवत्त्वम् ।
. साङ्थतत्त्वकौमुदी। २०५ विवेकित्वादयः ये पुनः सत्चादयो नानुभवपथमधिरोहन्ति तेषां कुतस्त्यमविवेकित्वं विषयत्वं सामान्यत्वमचेतनत्वं प्रसव- धर्मित्वं च इत्यत आह-"अविवेक्यादेस्सिद्धिः" इति । अविवेश्यादेस्सिद्धिस्वैगुण्यात्तद्विपर्ययाभावात् । कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम् ॥ १४ ॥ अविवेकित्वमविवेकि, यथा-"येकयोर्द्विवचनैकवचने" इ- त्यत्र द्वित्वैकत्वयोरिति, अन्यथा ब्यकेष्विति स्यादिति । कुतः पुनरविवेकित्वादेस्सिद्धि' इत्यत आह-"त्रैगुण्यात्"- यवत्सुखदुःखमोहात्मकं तचदविवेकित्वादियोगि यथेद- मनुभूयमानं व्यक्तम् इति स्फुटत्वादन्वयो नोक्तः, व्यतिरेक- सत्त्वादय-इत्यत्र सत्त्वशब्देनः सत्त्वादिगुणत्रयसाम्यावस्थारूपं प्रधान ग्राह्यम्, आदिशब्दन च महदादयो ग्राह्याः,नानुभवपथमधिरोहन्ति-नाध्य- क्षमीक्ष्यन्त इत्यर्थः । 'कुतस्त्यम्' कस्मात्प्रमाणादवगतमित्यर्थः । आर्यायाम् 'अविवेकि' इतिपदं भावप्रधाननिर्देशेनाविवकित्वार्थकं तत्र दृष्टान्तत्वेन पाणिनीयसूत्रमाह-"यथा द्व्येकयोः" इति । सूत्रेपि द्वित्वविशिष्टैकत्वविशिष्टपरतैव किन्न स्यात्तत्राह-“अन्यथा" इति । अन्यथा द्वित्वैकत्वपरत्वानङ्गीकारे, द्विशब्देन द्वित्वविशिष्टयोर्ग्रहणे एक- शब्देनैकत्वविशिष्टेकस्य ग्रहणे तयोर्द्वन्द्वे ब्येकशब्दस्य बहुसङ्ख्यकत्वेन व्येके- विति बहुवचनान्तमेव निर्दिश्येत, तथा निर्देशाभावाच्च द्वित्वैकत्वपरताऽत्र प्रतीयत इत्यर्थः। प्रधानमहदभिमानादीनि अविवेकित्वादिधर्मवन्ति त्रिगुणत्वादिति प्रयरे- रोऽन्वयव्याप्लिमाह- "यद्यत्सुखदुःखमोहात्मकम्” इति । (१) यत्र धमिवाचकः शब्दो धर्मपरत्वेनाभिप्रेयते तत्र भावप्रधाननिर्देश इत्यभिलप्यते ।
9 . २०६ साङ्ख्यतत्त्वकौमुदी। माह "तद्विपर्ययाभावात्"-अविवेत्यादिविपर्यये पुरुषे त्रैगुण्याभावात् । अथवा-व्यक्ताव्यक्ते पक्षीकृत्यान्वयाभावेनावीत एव हेतु: त्रैगुण्यादिति वक्तव्यः। स्यादेतत्-अव्यक्तसिद्धौ सत्यां तस्याविवेकित्वादयो धर्माः सिद्धयन्ति अव्यक्तमेव त्वद्यापि न सिध्यति, तत्कथमविवेकि- त्वादिसिद्धिः अत आह-"कारणगुणात्मकत्वात्" इति । अयमभिसन्धिः-कायं हि कारणगुणात्मकं दृष्टं यथा तन्त्वादिगुणात्मकं पटादिकं तथा महदादिलक्षणेनापि कार्येण सुखदुःखमोहरूपेण स्वकारणगतसुखदुःखमोहात्मना भवितव्यं अविवेकित्वादियोगि अविवेकित्वादिधर्मवत् , उदाहरणमाह-"यथेदम्" इति । व्यक्तं देहगेहघटपटादिकं स्थूलं वस्तु, इति इत्येवमन्वयसहचा- रस्य स्फुटत्वात्स्थूलविषयत्वेन स्वयमेवोहितुं शक्यत्वेन स्पष्टत्वादन्वयस- हचारः कारिकाकृता न मुखतोऽभिहितो यद्यपि तथापि स्वयमूह्य इत्यर्थः । तस्य अविवेकित्वादेः विषय॑यः अभावो यत्रासौ तद्विपर्ययः आत्मा, तत्र त्रैगुण्याभावाद्यन्नाविवेकि तन्न त्रिगुणं यथाऽऽत्मतत्त्वमिति व्यतिरेकसह- चार उक्त इत्याह "व्यतिरेकमाह' इति । अविवेक्यादिविपर्यये अविवे. कित्वादिधर्माभाववतीत्यर्थः यदा स्थूलेषु भावेषु अविवेकित्वत्रिगुणत्वे सिद्धवत्कृत्वाऽतीन्द्रियं प्रधा. नादिकमेव पक्षीक्रियते तदा त्रैगुण्यादिति हेतुरन्वय्यपि संभवति यदा तु सकलमेव व्यक्ताव्यक्तरूपं तत्त्वं पक्षीक्रियते तदा पक्षातिरिक्तान्वयसहचारो- दाहरणस्थलाभावेन व्यतिरेक्येव हेतुस्वैगुण्यादितीत्याशयेनाह-"अथवा'' इति अबीतः व्यतिरेकसहचारवान् । अभिसन्धिः अभिप्रायः । कारणगतसुखदुःखमोहात्मना-स्वकारणगतसुखदुःखमोहरूपधर्मपूर्वकेण कार्यगतसुखादिना भवितव्यमित्यर्थः । एतच्च पूर्वं निरूपितं निरूपाय- ध्यते च ॥ १४॥ (१) त्रिगुणम्-इत्यस्य विवरण मिदम् । ।
साङ्ख्यतत्त्वकौमुदी। २०७ तथा च तत्कारणं सुखदुःखमोहात्मकं प्रधानमव्यक्तं सिद्धं भवति ॥ १४ ॥ स्यादेतद्, व्यक्ताव्यक्तमुत्पद्यत इति कणभक्षाक्षचरण- तनयाः, परमाणवो हि व्यक्तास्तैद्यणुकादिक्रमेण पृथिव्यादि लक्षण कार्य व्यक्तमारभ्यते, पृथिव्यादिषु च कारणगुणक्रमेण रूपाद्युत्पत्तिः, तस्माध्यक्ताध्यक्तस्य तद्गुणानां चोत्पत्तेः कृतमदृष्टचरेणाव्यक्तेन, इत्यत आह—"भेदानां परिमाणात्" इत्यादि- भेदानां परिमाणात्, समन्वयाच्छक्तितः, प्रवृत्तश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य । कारणमस्त्यव्यक्तं, प्रवर्तते त्रिगुणतः समुदयाच । परिणामतः सलिलवत्,प्रतिप्रतिगुणाश्रयविशेषात्।।१५।१६।। प्रधानेन अलं न किमपि कृत्यमित्यर्थः ॥१४॥ कणभक्षाक्षचरणतनया:-कणादगौतममतानुयायिनोऽभ्युपगच्छन्तीत्यर्थः । कीदृशाद् व्यक्तात्कीदृग् व्यक्तमुत्पद्यते, तत्राह-“परमाणवो हि" इति । सूक्ष्मात् खलु स्थूलस्योत्पत्तिदृश्यते, यथा तन्तुभ्यः पटस्य तन्तूनां चांशुभ्य एवमपकर्यक्रमेणापकर्षकमेणापकर्षकाष्ठामापन्नं कारगद्रव्यमतिसूक्ष्ममनवयव- मवतिष्ठते तच्च परमाणुरूपं तत्र प्रथम तावददृष्टवत् क्षेत्रज्ञसंयोगात्परमाणौ कर्म जायते ततोऽसौ परमाण्वन्तरेण संयुज्य ब्यणुकमारभते, व्यणुकानि च त्रीणि सम्भूय त्र्यणुकमुत्पादयन्ति ततश्चतुरणुकादिक्रमेण स्थूला:पृथिव्यादयः, यथा सूक्ष्मद्रव्याणि स्थूलद्रव्याण्यार भन्त एवं कारणसमवायिनश्च गुणा: कार्ये समानजातीयं गुणान्तरमारभन्त इति हि तेषां प्रक्रिया, एवं च परिदृश्यमानरूपादिगुणवत्कार्यबलेन रूपादिमद् व्यक्तं परमाणुद्रव्यमेव कारणमुपेयं नतु रूपादिहीनमव्यक्तमित्यत्र फलितं तदेवाह-"कृतमदृष्टच- रेण" इति । ‘कृतम्' इति अलमर्थकत्वेन प्रतिषेधार्थकमव्ययम् अदृष्टच- रेण अप्रामाणिकेन रूपादिहीनेन । (१) पूर्व न दृष्टमित्यदृष्टचरं 'भूतपूर्वे चरद' इति स्मरणात्, तदेवाह- "अप्रामाणिकेन'' इति ।
....... २०८ साङ्ख्यतत्वकौमुदी। भेदानां विशेषाणां महदादीनां भूम्यन्तानां कार्याणां कारणं 'मूलकारणम्' अस्त्यव्यक्तं कुतः, 'कारणकार्यविभागा- दविभागाद्वैश्वरूप्यस्य कारणे सत्कार्यमिति स्थितं तथाच यथा कूर्मशरीरे सन्त्येवाङ्गानि निसरन्ति विभज्यन्ते 'इदं कूमशरीरमेतान्यस्याङ्गानि इति, एवं निविशमानानि तस्मिन्न. व्यक्तीभवन्ति, एवं कारणान्मृत्पिण्डाद्धेमपिण्डाद्वा का- र्याणि घटमुकुटादीनि सन्त्येवाविर्भवन्ति विभज्यन्ते, सन्त्येव च पृथिव्यादीनि कारणात्तन्मात्रादाविर्भवन्ति विभज्यन्ते सन्त्येव च तन्मात्राण्यहङ्कारात्कारणात्, सन्नेवाहङ्कारः कार- णान्महतः, सन्नेव च महान्परमाव्यक्तात् । सोयं कारणात्प- भिद्यन्ते परस्परं व्यावृत्ताः प्रतीयन्ते इति भेदाः कार्याणि महदादीनि, तेषां 'कारणमस्त्यव्यक्तम्' इत्युत्तरार्याद्यपादेनान्वय इत्याशयेन व्याचष्टे "भेदानाम्" इति । एतस्यां अंतिज्ञायां परिमाणात्' इत्यादयः पञ्च हेतवः तत्र पाठक्रममुपे- क्ष्याकाङ्क्षाक्रममनुरुध्य हेतुद्वयप्रयोगमाह-"कारणकार्यविभागाद्, अविभा. गाद्वैश्वरूप्यस्य" इति। उत्पत्तिकाले सत एव कार्यस्य कारणसकाशादाविर्भावादिति प्रथमंहे. त्वर्थः, विश्वरूपमेव वैश्वरूप्यं चतुर्वर्णादित्वात्स्वार्थिकः व्यञ्, विश्वरूपस्य कृत्स्नस्य कार्यस्य संहारकाले कारणेऽविभागात् तिरोभावादिति द्वितीय- हेत्वर्थः, एवं च यदाविर्भवति तत्सूक्ष्मावस्थापूर्वकमेव भवति यच्च तिरोभ- वति तत्सूक्ष्मावस्थान्तमेव भवति यथा कूर्माङ्गानि इति व्याप्तिबलेन "मह- दादिकं कार्य स्वीयसूक्ष्मावस्थापूर्वकं भवितुमर्हति आविर्भावतिरोभाव- वत्त्वात्कूर्माङ्गवदित्यनुमानमत्र फलितं तथा चादावन्ते च यत्सूक्ष्मावस्था- श्रयतया सिद्ध्यति तदेव नःप्रधानमिति सिद्धा कारणमस्त्यव्यक्तमिति प्रतिज्ञा (१) एतस्यां कारणमस्त्यव्यक्तामित्याकारायाम् । (२) कारणकार्याविभागादिति हेत्वर्थः । (३) 'चतुर्वर्णादीनां स्वार्थ उपसङ्ख्यानम्' इति वार्तिकेनेति शेषः । (४) सर्गे सूक्ष्मावस्थापूर्वकं संहारे च सूक्ष्मावस्थावसान मिति ध्येयम् । V साङ्ख्यतत्त्वकौमुदी। २०९ रमाव्यक्तात्साक्षात्पारम्पयेणान्वितस्य विश्वस्य कार्यस्य विभागः। प्रतिसर्गे तु मृत्पिण्डं सुवर्णपिण्डं वा घटमुकुटादयो विश- न्तोऽव्यक्तीभवन्ति, तत्कारणरूपमेवानभिव्यक्तं कार्यमपेक्ष्या- व्यक्तं भवति, एवं पृथिव्यादयस्तन्मात्राणि विशन्तः स्वापेक्षया तन्मात्राण्यव्यक्तयन्ति, एवं तन्मात्राण्यहङ्कारं विशन्त्यहङ्कारम- व्यक्तयन्ति, एवमहङ्कारो महान्तमाविशन् महान्तमव्यक्तयति, महान्प्रकृति स्वकारणमाविशन्प्रकृतिमव्यक्तयति, प्रकृतेस्तु न क्वचिन्निवेश इति सा सर्वकार्याणामव्यक्तमेव, सोयमवि- भागः प्रकृतौ वैश्वरूप्यस्य नानारूपस्य कार्यस्य, 'स्वार्थिकः ष्य' तस्मात्कारणे कार्यस्य सत एव विभागाविभागाभ्या- एतदेव विशदयन् प्रथमं हेतुं विवृणोति-"कारणे सत्कार्यम्' इति । स्थितम् अधस्तोत् सिद्धान्तितम् । निस्सरन्ति इति शत्रन्तं प्रथमाबहुवचनं निविशमानानि इत्युत्तरपाठा- नुरोधात्, विभज्यन्ते आविर्भूय विभक्तत्वेन प्रतीयन्ते, तामेव प्रतीतिमाह- "इदं कूर्म शरीरम् एतानि चास्याङ्गानि" इति । दृष्टान्तं । व्याख्याय दान्तिकान्याह-"एवं कारणान्मृत्पिण्डाद्" इत्यादिना। अहङ्कारात्कारणाद्-इत्यत्र 'आविर्भवन्ति विभूज्यन्त' इत्यनुषगः एवमैग्रेपि । आद्यं हेतुं व्याख्याय द्वितीयं व्याख्यातुमाह-"प्रतिसर्गे" इति । प्रतिसगै संहारकाले तु मृत्पिण्डादिकं विशन्तो घटादयोऽव्यक्तीभवन्ति- मृदाद्यात्मनावस्थायानभिव्यक्ता भवन्तीत्यर्थः । (१) खोपातं प्रथमं नतु कारिकागतं परिमाणादिति । (२) इति कारिकाविवरणे । (३) सन्नेवाहङ्कारः कारणान्महत आविर्भवन्विभज्यते इत्येवमग्रेपि योजनीय- १ . DDNA मित्यर्थः। (४) पूर्व व्यक्ताः सन्त एव पश्चादव्यक्तं भवन्तीति बोधनाय 'अव्यक्ती' इति चिप्रत्यय इत्यपि बोध्यम् ।
न हि V २१० साङ्ख्यतत्त्वकौमुदी। मव्यक्तं कारणमस्ति, इतश्चाव्यक्तमस्ति, इत्याह-"शक्तितः प्रवृत्तेश्व" कारणशक्तितः कार्य प्रवर्तत इति सिद्धम्, अशक्ता- त्कारणात्कार्यस्यानुत्पत्तेः शक्तिश्च कारणगता न कार्यस्या- व्यक्तत्वादन्या, सत्कार्यपक्षे कार्यस्याव्यक्तताया अन्यस्यां शक्तौ प्रमाणमस्ति । ननु शब्दादिविहीन किलैकमेवाव्यक्तं यत्प्रधानं नाम तत्कथमन्येषी. मव्यक्तत्त्वमत्रोच्यत इत्याशङ्कयान्येषामापेक्षिकमव्यक्तत्वमाह-"तत्कारणरूप- मेव” इति । यतः संहारे स्वस्वकारणे तिरोमूतं सत्कार्यमनभिव्यक्तं भवत्य- तस्तादृगनमिव्यक्तं कार्यमपेक्ष्यैव तत्तत्कारणमव्यक्तमित्युच्यते नतु प्रधानव- न्मुख्यमव्यक्तत्वमादायेत्यर्थः । यद्यपि प्रधानातिरिक्तमवान्तरकारणजातं व्यक्तमेव तथापि तत्तत्का--- यसूक्ष्मावस्थाख्यानभिव्यक्ततारूपधर्मयोगान्निखिलमपि कारणरूपमव्यक्त- मित्युपचर्यत इति भावः । कार्यकारणंयोरभेदात्कार्यस्यानभिव्यक्तत्वमेव. कारणस्याव्यक्तत्वमिति तत्वम् । " 'स्वापेक्षया तन्मात्राण्यव्यक्तयन्ति' स्वीयानभिव्यक्ततावस्थापेक्षया तन्मा- ब्राण्यव्यक्तानि कुर्वन्तीत्यर्थः । स्वीयानभिव्यक्ततावस्थायोजने तन्मात्राणामव्यक्तत्वं संपादयन्तीति, एवमपि । 'सर्वकार्याणामव्यक्तमेव' सर्वेषां कार्याणामतीतानागतावस्थाया युक्तत्वे- नाव्यक्तमेव नतु महदादिवत्कदाचिदव्यक्त कदाचिच्च न्यक्तं मुख्यमव्यक्त- मिति यावदित्यर्थः । सर्वेषां कार्याणामव्यक्तपूर्वकत्वमव्यक्तान्तत्वं च हेतुद्वयेन साधितं निग- मयति-"तस्माद्' इति । तद्धेदं तयव्याकृतमासीद'-'अव्यक्तादीनि भू. तानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना॥'इत्यादय आगमा अप्यत्र तर्कानुकूलत्वेनानुसन्धेयाः । (१) घटादयोऽव्यक्तीभवन्ति इत्यनेन मृदाद्यात्मना घटादीनामव्यक्तत्वं तन्मा- त्राण्यव्यक्तयन्ति, अहङ्कारमव्यक्तयन्ति, महान्तमव्यक्तयन्ति-इति वक्ष्यमाणं तन्मात्रादीनामव्यक्तत्वं चेत्यर्थः । (२) अहङ्कारमव्यक्तयन्ति इत्येवमादावित्यर्थः ।
STATE . , स साङ्ख्यतत्त्वकौमुदी। २११ अयमेव हि सिकताभ्यस्तिलानां तैलोपादानानां भेदो यदेतेष्वेव तैलमनागतावस्थं न सिकतास्विति । स्यादेतत् शक्तितः प्रवृत्तिः कारणकार्यविभागाविभागौ च महत एव परमाव्यक्तत्वं साधयिष्यतः कृतं ततः परेणाव्य- तेन, इत्यत आह-"परिमाणात्" इति । 'बुद्ध्यादिकं शक्तिरूपसूक्ष्मावस्थापूर्वकं भवितुमर्हति कार्यत्वाद् घट- वद्' इत्यनुमानेन महदादेः शक्तिपूर्वकत्वं सिद्धं सत् निराश्रयशक्त्ययोगात् तस्याः शक्तेराश्रयभूतमव्यक्तमादाय पर्यवस्यतीत्याशयेन प्रवृत्तं हेत्वन्तरं व्याचष्टे-"कारणशक्तित" इति । कारणगतशक्तितः कार्य प्रवर्तते जायत इति सिद्धं तत्र हेतुः 'अश- तात्कारणात्कार्यानुत्पत्तेः' इति । अस्तु, शक्तियुक्तादेव कारणात्कार्यस्योत्पत्तिस्तावता कथं कार्याणामव्य- क्तकारणकत्वमित्यत्राह-"शक्तिश्च" इति । कार्यस्यानागतावस्थाख्याव्यक्तताया अन्या काचिच्छक्तिर्नाम नास्तीत्यर्थः । तत्र हेतुमाह-"नहि' इति । हि यतः, आवेदितमेतदधस्ताद् यथानागतावस्थातोऽतिरिक्ता न काचिच्छाक्तः प्रामा- णिकीति, तिलष्वेव तैलोत्पादनशक्तिन वालुकास्वित्येवं कार्योत्पत्तिनि-- यामकत्वेन कल्प्यमाना शक्तिरपि . तत्तत्का-यानागतावस्थेवेत्याशयेनाह "अयमेव हि" इति । एतेषु तिलेषु । ननूक्तहेतुत्रयेण कार्याणामव्यक्तपूर्वकत्वमव्यक्तान्तत्व च यद्यपि सिद्धं तथापि नैतावता प्रधानकारणकत्वावधारणम्, महान्तमेवाव्यक्तमादाय तत्पू. चकत्वसिद्ध्याऽर्थान्तरतापातसंभवादित्याशयेन शङ्कते-"स्यादेतद्” इति । बुद्धेरपि परिच्छिन्नत्वेन कार्यत्वान्न महतः परमाव्यक्तत्वमपि तु तत्कारण- त्वेनानुमितस्य प्रधानस्यैव तत्त्वमित्याशयेन समाधत्ते–“परिमाणाद्” इति । परिमाणं परिमितिः, भावे ल्युद, परिच्छेद इति यावत्, तदेवाह-"परि- मितत्वाद्" इति । (१) शक्तितः प्रवृत्तेः इति हेतुमित्यर्थः । (२) 'शक्तस्य शक्यकरणात्' इति कारिकांश विवरणे । (३) शक्तितः प्रवृत्तेः । कारणकार्यविभागात् , इति हेतुद्वयेनाव्यक्तपूर्वकत्वं साधितम् , अविभागाद्वैश्वरूप्यस्येति हेतुना चाव्यक्तान्तत्वं साधितमित्यर्थः । (४) अभिमतासिद्धिरर्थान्तरता। (५) तत्त्वम्परमाव्यक्तत्वम् । ... ..
७ PA २१२ साङ्चतच कौसुदी। परिमितत्वादव्यापित्वादिति यावत्, विवादाध्यासिनो महदादिभेदा अव्यक्तकारणवन्तः परिमितत्वाद्घटादिवत्, ननु परिमितत्वमत्र किं देशपरिच्छिन्नत्वरूपं विवक्षितमुत कालपरिच्छि- नस्वरूपमाहोस्वित्सद्ध्येयतारूप वस्तुपरिच्छिञ्चत्वात्मकमिति, न तावदाद्यः कल्पः, नभसः सर्वदेशगतत्वेन तत्रैतादृशपरिमितत्वासावाद्धेतो गौसि- द्धत्वापातात्, नापि द्वितीयः षक्षः विवक्षितुं युक्तः पञ्चविंशतितत्त्वातिरिक्तको- लानभ्युपगमेन स्वरूपासिद्धेर्दुरित्वात्, नापि तृतीयः संभवति, सत्त्वादीनी व्यक्तित्रयात्मकत्वेन परस्परं भिन्नत्वेन परिमितत्वापत्त्या व्यभिचारस्य दुर्नि- वारत्वादित्याशङ्कामपनेतुं 'परिमितत्वात्' इत्यस्यार्थमाह-'अब्यापित्वात्" इति।निखिलं परिणामिनं न व्यामोतीत्यच्यापि तस्य भावस्तत्त्वं तस्मादित्यर्थः। एवं च नभसस्तन्मात्राद्यव्यापित्वेन न हेतो गासिद्धत्वं नहि कार्य कारणं व्याप्नोत्यपि तु कारणं कार्यमित्यभ्युपगमेन नभसः स्वकारणशब्दत. न्मात्राहङ्कारमहदब्यक्ताव्याप्तत्वेन निखिलपरिणाम्यनुवृत्तत्वरूपज्योपित्वा- भावात्। नचैवमपि व्यभिचारो दुर्वारः नहि यथा सस्वादिभिर्निखिलं कार्यमा- विष्टं तथा परस्परं ताँनि व्याप्नुवन्ति, मिथः कार्यकारणभावाभावादिति शङ्कनीयम्, 'एते गुणा इतरेतराश्रेयणोपार्जितसुखदुःखमोहप्रत्यया इति सर्वे सर्वरूपा भवन्ति' इति योगभाष्येण 'अन्योन्यमिथुनाः सर्वे' इत्यादिना च पूर्वगुणानां परस्परच्याप्तयभ्युपगमेन तेषां व्यापित्वाङ्गीकारात् । (१) महदादिकमव्यक्तकारणकं परिमितत्वादिति प्रयोगे महदादिरूपपक्षकदेश- आकाशे परिमितत्वरूपहेतोरवर्तनाद्भागासिद्धत्वमित्यर्थः । (२) एतच्चोपरिष्टात् (३३) इत्यार्याविवरंणे व्यक्तम् । ३) हेतोः स्वरूपानिष्पत्त्या पक्षे हेतोरेवाभाव इति भावः । (४) गुणानामेवाव्यक्तत्वेन तत्राव्यक्तकारणकत्वरूपसाध्यासत्त्वात्साध्यासाववति गुणत्रये परिमितत्वहेतोवृत्तित्वेन न परिमितत्त्वाव्यक्तकारणकत्लयोप्प्यव्यापकमान इति दुर्वारो व्यभिचार इति भावः । (५) तत्त्वमव्यापित्वम् । (६) नभसोऽव्यापित्वं विशदयति-"नहि" इत्यादिना । (७) तानि सत्त्वरजस्तमांसि । (८) पा० २ सू० १५ । (९) पूर्व १२-इलार्याविवरणे | -- सावतचकौमुदी। २१३ घटादयो हि परिमिता मृदायव्यक्तकारणका दृष्टाः । उक्तमेतद्यथा कार्य प्याव्यक्तावस्था कारणमेवेति । यन्महतः कारणं तत्परमान्यक्तं ततः परतराऽव्यक्तकल्प- नायाम्प्रमाणाभावात् । नच घलये गुणानां परस्परव्याप्तयभावादव्यापकतेति शङ्कयं सत्कार्यवादा- ङ्गीकारेण तत्रापि परस्परं व्याप्तेरभ्युपगमात् । नहि प्रलयेप्यध्याप्तिरूपरे गुणानां सङ्कोचोभ्युपेयते किन्तर्हि व्यापकानामेव सतां तेषामभिभवः, यथा ज्याप्तया विद्यमानयोरेव धर्महिमयोहेमन्तग्रीष्मयोरभिभवो,ग्रीष्महेमन्तयोस्तु तयोरुद्भवस्तथा प्रलयेऽभिभवः सृष्टै तूद्भव इति नाव्यापिता गुणानां यंदा निखिलपरिणाम्यनुवृत्तियोग्यतावत्तवान व्यापिता ज्ञेया । एतेने 'सत्वरजस्तमांस्यपि द परस्परं व्याप्नुवन्ति, नच तत्वान्तरपूर्वकत्व- मेतेषामिति व्यभिचारः इति भामत्यभिहितदोषस्य नात्र प्रसर इति ज्ञेयम्, “परिमाणात्" इति सूत्रं व्याचक्षाणो विज्ञानभिक्षुस्तु (परिच्छिन्नत्वा- दैशिकाभावप्रतियोगितावच्छेदकजातिमत्त्वादिल्यर्थः। तेन गुणव्यक्तीनां किय. तीनां परिच्छिन्नत्वेपि तन्त्र न व्यभिचारः) इत्येवं व्यभिचारपरिहारं चकार । दृष्टान्ते साध्यसमन्वयमाह-"घटादयो हि" इति । मृदादेः कथमव्यक्त- स्वमित्याशय पूर्वोक्तं स्मारयति-'उक्तमेतत्" इति कार्यस्यानागतावस्थर- ख्यानभिव्यक्ततामपेक्ष्य तत्तत्कारणरूपमष्यत्तमित्युच्यत इन्ति पूर्वमुक्त- (१) 'प्रतिसर्गावस्थायां सत्वं सत्त्वरूपतया रजो रजोरूपता वर्तत” इत्यनुप- इमेव वक्ष्यमाणत्वेन प्रलये परस्परल्याप्नरभावादिति भावः । (२) तत्रापि प्रलयेषि। (३) प्रलये व्याह यम्युगमे सर्गास्म्भे गुणानां गुणप्रधानभावनावस्थानरूपा वै- पस्यावस्था, प्रलये तु परस्परानाश्रितरूपेणावस्थानरूपा साम्यावस्थेति विशेषः कथं सि दिल्याशयेन पृच्छति “किन्तर्हि' इति । अभिभवानभिभवकृतो विशेषः इत्याशयेन समाधने "व्यापकानामेव" इति । (४) एवं च योग्यताया नित्यत्वात् प्रलयेऽनुवृत्त्यभावेपि नाव्यापिता गुणा- नामिति (५) एतेन गुणानां व्यापित्वेन । (६) अ० १ सू० १३० 'कार्यत्वं महदादेर्घ दिवत्' इति 'पूर्वसूत्रोक्तेऽनु- सानप्रयोगे हेतूपदर्शनपरमिदं सूत्रामिति ज्ञेयम् । RiceNTARATHITAL .. २१४ साङ्ख्यतत्वकौमुदी। इतश्च-विवादाध्यासिता भेदा अव्यक्त.कारणवन्तः समन्व- याद्भिन्नानां समानरूपता समन्वयः, सुखदुःखमोहसमन्वि- ता हि बुद्धयादयोऽध्यवसायादिलक्षणा' प्रतीयन्ते, यानि च यद्रूपसमनुगतानि तानि तत्स्वभावाऽव्यक्तकारणकानि यथा. मिति न दृष्टान्ते साध्यवैकल्यमित्यर्थः । नापि पक्षधर्मताऽभावः, महदादी- नामव्यापित्वस्य पूर्वमुक्तत्वादित्यपि बोध्यम् । अनेनानुमानेन यथाहकारादिकारणत्वेन महदादिरूपमव्यक्तं सिद्ध्यति तथा महत्तत्वकारणत्वेनापि किंचिदव्यक्तं सिद्धं तथाच यत् तत्कारणत्वेन सिद्धं तत्परमाव्यक्तं प्रधानमित्याशयेन फलितमाह-"यन्महतःकारणम्" इति। एवंच महतोव्यापित्वान्न' तस्य परमाव्यक्तत्वमिति न तत्राव्यक्तत्ववि- श्रौन्तिरित्यग्न फलितम् । ननु प्रधानमपि यत्किञ्चिदव्यक्तकारणकं भवितुमर्हति अव्यक्तत्वान्म- हदादिवदित्यनुमानेनान्यत्परतरमव्यक्तं कुतो न कल्प्यत इत्याशङ्ख्यास्यानु- मानस्याव्यापित्वरूपोपाधिग्रस्तत्वेनाप्रमाणत्वादित्यभिप्रेत्य समाधत्ते "ततः परतराव्यक्तकल्पनायां प्रमाणाभावात्” इति । नन्वनुमानस्य विशेषप्रत्यायनेऽशक्तत्वादनेनानुमानेन सिङ्ख्यत्सद् यकि. ञ्चिव्यक्तरूपं कारणं ब्रह्मैव सिद्ध्येदिति कथं प्रधानकारणतावधारणा, इत्या- शङ्कामपनेतुं हेत्वन्तरमवतारयति-"इतश्च” इति । वक्ष्यमाणहेतोरपीत्यर्थः॥ भेदाः महदादिविकाराः, अव्यक्तकारणवन्तः सुखाद्यात्मकसामान्याव्यक्तव. स्तुप्रकृतिका इत्यर्थः । यदुक्तम् ‘इतश्च' इति तदाह-"समन्वयात्' इति । समन्वयपदार्थमाह "भिन्नानाम्' इति । अध्यवसायादिलक्षणतत्तदसाधारणधर्मववेनान्योन्यं (१) पूर्वम् ‘हेतुमदनित्यमव्यापि' १० इतिकारिकयोक्तत्त्रादित्यर्थः । (२) महत्कारणत्वेन । (३) एवं च कृतं 'महतः परेणाव्यक्तेन' इति, यत्पूर्व शङ्कितं तन्निर्दलित मिति " बोध्यम् । (४) यत्राव्यक्तकारणकत्वं भहदादौ तत्राव्यापित्वं, यत्र चाव्यक्तत्वं, प्रधाने न. तत्राव्यापित्वमित्येवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादव्यापित्वस्योपाधित्वं बोध्यम् । (५) 'अनुमानं सामान्यविषयमेव इत्यादिना योगभाष्ये (१।४९) व्यक्तमिदम् ।
साङ्ख्यतत्वकौमुदी। २१५ मृद्धेमपिण्डसमनुगता घटमुकुटादयो मृद्धेमपिण्डाव्यक्तकार- णकाः, इति कारणमस्त्यव्यक्तं भेदानामिति सिद्धम् । भिमानां बुद्ध्यादीनां या सुखाद्यात्मसाधारणधर्मवत्वेनैकरूपता स समन्वय इत्यर्थः । एतदेव दर्शयन् हेतोः पक्षधर्मतामाह-"सुखदुःखमोहसमन्विता हि" इति । इह यद् येनान्वितं तत्तदुपादानकमिति सामान्यव्याप्तिरेचाश्रयणीया नतु यत्सुखाद्यन्वितं तत्सुखाद्यन्वितवस्तूपादानकमिति विशेषव्याप्तिः,घटादि- रूपे दृष्टान्ते विशेषव्याप्तयसम्भवादित्यभिप्रेत्य सामान्यमुखां व्याप्तिमाह- "यानि च" इति । यानि च घटादीनि यस्पर्शादिमन्मृत्सामान्यरूपसम. न्वितानि तालि तत्स्पर्शादिस्वभावसुदात्मसामान्याव्यक्तोपादानकानीत्यर्थ-- मभिप्रेत्योदाहरणमाह-"यथा मृद्धेमपिण्डसमनुगता घटमुकुटादय" इति । नेच 'यद् येन सामान्ये नान्वितं तत् तत्सामान्योपादानकमिटि व्याप्तिन सार्वत्रिकी, जातिरूपसामान्यान्वितत्रेपि भावानां जात्युपादानकदादर्शना- इस्याव्याप्तेर्व्यभिचारग्रस्तत्वादिति शङ्खनीयं, यद् येन द्रव्यसामान्ये जानुरतं तत् तद व्यक्तरूपद्व्यसामान्योपादानकमिति व्याप्तेर्विवक्षितत्वात्, नच, 'एवमपि दृष्टान्त एतादृशव्याप्तिसन्वेपि सुखादीनां गुणत्वेनाद्रव्यत्वा- न्महदादौ पक्षे व्याप्त्यभावःतथाच कथं सुखाद्यन्वितत्वेन हेतुना सुखाद्यात्मक- सामान्योपादानकत्वानुमानम् इति वाच्यं गुणगुणि नोरभेदेन सुखांद्यात्मकस. स्वादिद्रव्यसामान्यान्वितत्वेन हेतुना सुखाद्यात्मकसत्वादिद्रव्यसाम्रान्योपादर- (१) तथाच 'समन्वयात्' इत्यस्य सुखाद्यात्मसामान्यान्वितत्वादित्यर्थः । (२) 'अद्रवन्मूर्तिमत्स्वाझं प्राणिस्थम्' इत्युक्तत्वेनात्र सुखस्याप्राणिस्थत्वेन स्वाङ्गत्वाभावात् 'स्वाङ्गाच्चोपसर्जनादसंयोगोषधान्ङीष्' इति ङीषोऽप्राप्त्या सुमुखा शालेयादाविव टाबेवेत्याशयेनोक्तं “सामान्यमुखाम्" इति । एतेन-सामान्यमुखी व्याप्तिः फलमुखी चानवस्था इत्यादयः प्रयोगाः प्रामादिका एवेति बोध्यम् । (३) कल्पतरुकाराद्युक्तमाशय निराकरोति "नच'' इत्यादिना । (४) दृष्टान्ते घटादौ । (५) अत्र सर्वत्र धर्मधर्मिणोरभेदमादाय सुखाद्यात्मत्वाभिधानं ज्ञेयम् ।
CINNA - . २१६ साङ्ख्यतत्त्वकौमुदी। अव्यक्तं साधयित्वाऽस्य प्रवृत्तिप्रकारमाह-"प्रवर्तते त्रि. नकत्वानुमानस्याभीप्सितत्वेन दोषाभावात्, लघुत्वादिप्रीत्यादिधर्मवत्वेन सत्त्वादीनां द्रव्यत्वाभ्युपगमेन तंत्र गुणव्यवहारस्यौपचारिकत्वादिति । एवं सामान्यव्याप्त्याश्रयणेन निष्पन्नेपि समीहिते यदि कस्यचिद्विशेषव्या. प्त्याश्रयेण समादरस्तर्हि 'थत्सुखाद्यन्वितं तत्सुखाद्यात्मकाव्यक्तप्रकृतिपूर्वकम्' इतिविशेषव्याप्त्याश्रयेणनैव स तोषणीयः, नच दृष्टान्त एतादृशव्याप्त्यसम्भव इति शय, घटो हि येनाप्यते तं प्रति सुखात्मकः, यस्य चापहियते तं प्रति स दुःखरूपः येन च न ज्ञायते किमिदं वस्त्विति तं प्रति च समोह- रूप इत्येवं घटस्य सुखाद्यन्वितत्वसंभवात्, सत्कार्यवादाङ्गीकारेण व्यक्त- घटस्य सुखाद्यन्विताव्यक्तघटपूर्वकत्वसत्त्वाच्चै व्याप्तेरसम्मवाभावादितिदिक्, यत्तु अन्वयाद्यनुपपत्तेश्च, नहि बाह्याध्यात्मिकानां भेदानां सुखदुःखमोहात्म. -कतयाऽन्वय उपपद्यते, सुखादीनां चान्तरत्वप्रतीतेरित्यादिना ग्रन्थेनाना- नुमाने समन्वयादिति हतोरसिद्धत्वमापादितं शाङ्करभाष्ये तत्तु पूर्वमेत्र विस्तरेण सर्वेषां भावानां सुखाद्यात्मकत्वोपपादनेन समाहितमिति न पुनः समाधानीयम् । अपि च सुखाद्यात्मकप्रत्ययं प्रति विषयाणां सुखाद्यात्मकत्वेनैव हे- तुत्वस्यौचित्यात्, स्रक् सुखं, चन्दनं सुखामित्याद्यनुभवाच्च न विषयाणां सुखादिस्वभावानुपपत्तिरिति । (१) सत्त्वादीनां गुणत्वेन कथं द्रव्यत्वमित्यत्राह-"लघुत्वादि" इति । (२) कथं तर्हि सत्त्वादयो गुणा इति व्यवहारस्तत्राह-'तत्र' इति । तत्र सत्त्वादौ, राजोपकरणेऽमास इव पुरुषोपकरणे सत्त्वादौ गुणत्वव्यवहार औपचा- रिक इत्यर्थः। (३) तत्रैतावान्विशेषः दृष्टान्ते सुखाद्यात्मकाव्यक्तावस्थापन्ना मृत्तिका, पक्षेच तादृशाव्यतावस्थापन्नं प्रधानं सिद्ध्यतीति । (४) घटपटकटकादीनामपि सुखाद्यन्वितत्वमुन्नेयमिति भावः । (५) भावानां सुखाद्यन्वयानुपपत्तेर्न समन्वयादिति हेतुना प्रधानं सियती. त्यर्थः, अन्वयानुपपत्तिमेवोपपादयति-"नहि" इत्यादिना । (६) अ० २ सू०.१। (७) पूर्वम् १३' इत्यार्याविवरणे । (८) पूर्वत्रानुक्तं समाधानान्तरमाह-"अपि च" इति । . .
साङ्ख्यतत्त्वकौमुदी। २१७ किञ्च-सुखादीनामान्तरत्वप्रतीतेरित्यनेन किं सुखादीनामात्मधर्मत्वेना- न्तरत्वमभिप्रेतं किं वा बुद्धिधर्मत्वेन, न तावदाद्यः कल्पः, मैतद्वयेप्यात्मनो निर्गुणत्वेन तद्धर्मत्वाभावात्, द्वितीयस्त्विष्ट एव, सर्वस्य सुखादिमत्त्वेना बुद्धेरपि तत्त्वात्, तत्र सुखादिप्रतीतेरदोषात् | किञ्च-"न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यातिभिर्गुणैः” इति गीतैया वस्तुजाते गुणत्रयान्वयाभिधानेन - गुणधर्माणां सुखादीनामप्यन्वयस्यार्थादभिहितत्वात् कथमभिहितम्-'अन्व- याद्यनुपपत्तेश्च' इति । त एव प्रष्टव्या न मे बहुवाच्या मान्यास्त इति सर्वमव- दातं तदेतत्सर्वमभिप्रेत्य निगमयति “इति कारण मस्त्यव्यक्तम्" इति । इति इत्येवमुक्तहेतोर्वा । अनेन चानुमानेन यत् सुखाद्यात्मकाव्यक्तं कारणं सिध्यति तत् तादृग्- गुणत्रयवत्प्रधानमेव न ब्रह्म, तस्य निर्गुणत्वेन त्रिगुणत्वाभावादिति न ब्रह्मणोऽर्थान्तरतेत्यपि ज्ञेयम् । स्यादेतद्, अप्रवृत्तिशीलस्य पुरुषवत् कारणत्वायोगात्प्रधानस्य प्रवृत्ति- ‘मत्व वाच्यं, तथा च तत् केन प्रकारेण प्रवर्तते, किं स्थितिसंस्कारेण प्रवर्तते किं वा गतिसंस्कारेण, आद्ये सर्वदैव स्थितिमत्त्वेन विकाराजननात् प्रधीयते (१) वेदान्तिमते सायमते चेत्यर्थः । (२) तत्त्वात्सुखाद्यात्मकत्वात् , तत्र बुद्धौ । (३) अ० १८ श्लो० ४० (४) गुणत्रयसत्त्वे तद्धर्माणामप्यवश्यम्भावादिति भावः । (५) विज्ञान भिक्षुस्तु यस्यान्वयव्यतिरेको सुखादिना सह दृश्यते तस्यैव सुखाद्यु. पादानत्वं कल्प्यते तस्य निमित्तत्वं परिकल्प्यान्यस्योपादानत्वकल्पने कारणद्वय- कल्पनागौरवादिति युक्त्या विषयाणां सुखादिधर्मकत्वं प्राह । (६) ताइक्सुखाद्यात्मकम् । (७) 'प्रधान स्थित्यैव वर्तमानं विकाराकरणादप्रधानं स्यात् , तथा गत्यैव वर्तमान विकारनित्यत्वादप्रधानं स्यात्' इति पञ्चशिखाचार्योक्तविकल्पमनुसृत्य पृच्छति-"किं स्थितिसंस्कारेण' इति । अन्योन्यमसंमिलितानां गुणानां यः कार्यजननाननुगुणः साम्यपरिणामपरम्परावाही परिणामः स स्थितिसंस्कारः, विलक्षणतत्तत्कार्य्यजननोन्मुखो यः गुणानां वैषम्यपरिणतिपरम्परावाही परिणामः स गतिसंस्कार इति ध्येयम् । ।
। - - १ २१८ साङ्ख्यतत्वकौमुदी। गुणत" इति, प्रतिसर्गावस्थायां सत्त्वं रजस्तमश्च सदृशपरि- णामानि भवन्ति, परिणामस्वभावा हि गुणा नाऽपारणम्य क्षणमप्यवतिष्ठन्ते, तस्मात्सत्वं सत्त्वरूपतया, रजो रजोरूपतया, तमस्तमोरूपतया प्रतिसर्गावस्थायामपि प्रवर्तते, तदिदमुक्तं * "त्रिगुणत" इति । जन्यते विकारजातमनेनेति प्रधानपदव्युत्पत्तिनिमित्तकप्रधानव्यवहारा- लाभेनाप्रधानमेव तद्भवेन्नः प्रधानं, द्वितीये सर्वदैव कार्यजनने व्यापृ- तत्वान्न कदाचित्कार्य संहरेदिति विकाराणां सदातनत्वमापयेत, प्रधीयते- निधीयते-लीयते विकारजातं यस्मिन्निति व्युत्पत्तिनिमित्तकप्रधानव्यवहा- रैश्च लुप्येत, इत्याकाङ्क्षायां प्रधानप्रवृत्तेर कान्तिकत्वं व्यवस्थापयितुं प्रवृत्तं कारिकांशमवतारयति-"अस्य प्रवृत्तिप्रकारमाह-प्रवर्तते त्रिगुणत” इति । अत्रेदं बोध्यम् -“साम्यवैषम्याभ्यां कार्यद्वयम्" इति साङ्ख्यसूत्रात्"उभ-- यथा चास्य प्रवृत्तिः प्रधानव्यवहारं लभते नान्यथा' इति पञ्चशिखा- चार्यवाक्याच्च, प्रधानस्य प्रवृत्तिद्वयमम्युपेयते एका तावत् सत्त्वरजस्तम- सामन्योन्यगुणप्रधानभावानपेक्षा साम्येन स्वरूपमात्रेणावस्थानरूपा सदृश- परिणामपरम्परावाहिनी, या किल प्रलयकालिकी, अपरा च सत्वरजस्तमसां परस्पराङ्गाङ्गित्वप्रयुक्ता साम्यावस्थानात्प्रच्युतिरूपा विसदृशपरिणतिपरम्परा- १) सर्वविकारजनकत्वरूपं यन्मूलकारणस्य प्रधानत्वं तन्न संभवेदित्यर्थः । (२) विकाराणां सदातनत्वेनाविनाशित्वे च नाविनाशिनः सतो भावस्यात्म- घदुत्पत्तिरपीति केषां मूलं प्रधान येन प्रधानमेव मूलप्रकृतिरित्युच्यत इत्यपि ज्ञयम् । (३) अनैकान्तिकत्वम् स्थितिसंस्कारेणैव प्रधानं प्रवर्तते न गया, गतिसं- स्कारेणैव वा प्रवर्तते न स्थित्या, इत्यनयोः पश्योरन्यतरपक्षावधारणरूपनिय- माभाव मित्यर्थः । कदाचित् स्थिया वर्तते कदाचिञ्च गत्या प्रवर्तत इत्येवमनियम बोधयितुमिति यावत् । (४) अ० ६ सू०४२ । सर्गप्रलयरूपं यत्कार्यद्वयं तद्गुणानां साम्यवैषम्याभ्यां भवति, साम्यावस्थातः प्रलयः, वैषम्यावस्थातश्च सर्ग इत्यर्थः । (५) उभयथा स्थित्या गत्या च, अस्य प्रधानस्य प्रवृत्तिराश्रीयते, अनया रीत्यैव प्रधान प्रधानव्यवहारं लभते, अन्यथा एकतरपक्षाभ्युपगमे तु न प्रधान- व्यवहारं लभेतेत्यर्थः । ca. .
7 SEANILEERIORANDNEHRAVASHARANAMAT साङ्ख्यतत्वकोमुदी। २१९ प्रवृत्त्यन्तरभाह "समुदायाच" इति । समेत्योदयः समुदयः- समवायः, समुदयश्च गुणानां न गुणप्रधानभावमन्तरेण संभवति, न च गुणप्रधानभावो वैषम्यं विना, न च वैपभ्यमुपम?प- मर्दकभावाहते, इति महदादिभावेन प्रवृत्तिद्वितीया । वाहिनी, इयं खलु सर्गकालिकी, तत्र 'त्रिगुणत' इत्यनेनाद्या प्रवृत्तिरुक्ता, 'समुदयाच' इत्यनेन द्वितीया प्रवृत्तिरभिहिता, तत्राद्यां प्रवृत्तिं व्याख्यातुं त्रिगुणत इति व्याचष्टे-"प्रतिसविस्थायाम्” इति, प्रलयावस्थाया- मित्यर्थः । अत्र च न सर्गारम्भ इव विलक्षणतत्तन्महदहङ्कारादिरूपेण परिणामशी. लानि गुणानि सन्त्यपि तु सदृशपरिणामानीत्युक्तं स्पष्टयति-"सत्त्वं सत्त्वरूप- तथा" इत्यादिना, लघुत्वादिरूपस्वानुरूपपरिणामेनैव तत्र सत्त्वं वर्तते न केनचिदन्येन गुणेन सह संयुज्य विलक्षणतत्तत्कार्यरूपेण परिणमत इत्यर्थः, एवमंग्रेपि, किम्प्रयोजनोऽयं परिणाम इत्यत्राह-"परिणामस्वभावा हि" इति, हि यतः परिणामस्वमावा अतः अपरिणमय्य परिणाममप्राप्य परिणतिशीलतामपहाय क्षणमपि गुणा नावतिष्ठन्ते इत्यर्थः। न हि स्वभावः प्रयोजनमपेक्षत इति भावः । सहकारिणोऽदृष्टादेरभावाद् विकाराजननेन प्रलयसंरक्षणमेव वा प्रयो- जन बोध्यम् । तदेतदाद्या प्रवृत्तिः कुतः, तत्राह-"त्रिगुणत' इति, परस्परामिलितगुण- जयादित्यर्थः। समुदयपदार्थमाह-"समेत्योदय" इति अन्योन्यं मिलित्वाऽऽविर्भाव इत्यर्थः, समुदयपर्यायमाह-'समवाय” इति, समबायश्चात्र परस्परसंमिश्रणं न तु तार्किकाभिमतः संबन्धविशेषः, "न समवायोस्ति प्रमाणाभावात्" इति साङ्ख्यसूत्रादिति बोध्यम्। (१) अत्र प्रलये चेत्यर्थः । (२) णिजासंभवेन परिणम्य इति वा पाट्यम्; स्वार्थिकणिजन्तत्वेन वार्य पाठो नेयः। (३) अ० ५ सू० ९९. यथा च समवायोऽप्रामाणिकस्तथा २।२।१३ इत्यत्र भाष्ये व्यक्तः। , १ , .................- ..... S - । A 1201 RAILERNATIRMALA हि वा- २२० सायतचौमुदी। स्यादेतत्, कथमेकरूपाणां गुणानामनेकरूपा प्रवृत्तिः, इत्यत आह "परिणामतः सलिलवत्" इति । यथा अयं च गुणानां समवायःपरस्परविरुद्धानां समबलानां च न संभवतीतिगु- णप्रधानभानेन समवायो वाच्यः,गुणप्रधानभावश्च वैषम्यं न्यूनाधिक्यं विना न संभवतीति वैषम्यमप्यवश्याभ्युपेयं, वैषम्यमपि उपम?पमर्दकभावा-- दभिभाच्याभिभावकभाबादत बिनाऽसंभवीति सोप्यवश्याश्रयणीयः, था चादृष्टवशात्पूर्वं गुणेषु क्षोभो जायते, ततश्च कश्चिद्गुण उद्भूतः सन्नभि- भावको मवति,कश्चिञ्चानुभूतःसन्नभिभाव्यो भवति,ततश्च साम्यावस्थाना- पच्युतिरूपं वैषम्यमुपजायते, ततश्च परस्परं गुणप्रधानभावेन मिलित्वा मह- दादिरूपेण परिणामो भवति, इत्येवंविधा या प्रवृत्तिः सा द्वितीयेति समुदायार्थः। शङ्कते-"कथमेकरूपाणाम्" इति । यद्यपि गुणप्रधानभावमापन्नानां गु- णानां सत्वप्रधानमेकं रूपं, रजाप्रधानं चापरं, तमःप्रधानं चेतरत्, इत्येवम- नेकरूपत्वमस्ति तथाप्येकमेव किञ्चिद्गुणद्वयोपसर्जनकैकगुणप्रधानं रूपमि. त्यवबुद्ध्येयमाशङ्का ज्ञेया। यद्वा मानवे एकैकस्मात् तत्तद्गुणप्रधानरूपादनेकरूपः परिणाम उक्तः, तथा चैकस्मात् सत्त्वप्रधानादिरूपात्कथमनेकविधः परिणाम इत्याशयेन वेय. माशङ्का नेया। (१) “गुणक्षोभे जायमाने महान्प्रादुर्वभूव ह” इत्युक्तेः पूर्व गुणक्षोभो भव- तीत्यर्थः । (२) रजस्तमउपसर्जनं सत्त्वं, सत्त्वतमउपसर्जनं रजो वा, सत्त्वरजउपसर्जन तमो वा, इत्येवमेकमेव किञ्चिद्रूपं मत्वेत्यर्थः (३) इयम् कथमेकरूपाणामित्यादिका । (४) मानवे मनुप्रोक्ते धर्मशासने १२ अध्याये ४२ इत्यारभ्य ५० इत्यन्तेषु श्लोकेष्वित्यर्थः। तत्र हि-ब्रह्मा मरीच्यादयश्च प्रजापतय उत्तमा: सात्विकाः, पितरः साध्याश्च देवाद्याश्च मध्यमाः सात्विकाः, नक्षत्राणि दैत्या विप्राधाश्चाधमाः सात्त्विकाः, इत्येवमेकस्मात्सत्त्वगुणप्रधानरूपादनेकविधः परिणाम उक्तः, एवं गन्धर्वगुह्यकयक्षादय उत्तमा राजसाः, क्षत्रियादयश्च मध्यमा राजसा:, नटम- ल्लादयश्वाधमा राजसाः, एवं राक्षसपिशाचादयश्चोत्तमास्तामसाः, हस्तितुरङ्गसिंहा- दयश्च मध्यमास्तामसा:, कीटसर्पमत्स्यस्थावरादयश्चाधमास्तामसाः, हत्याद्यपि नेयम् ।
SED kakABREALA साङ्घयतत्वकौमुदी। २२१ रिदविमुक्तमुदकमेकरसमपि तत्तद्भूविकारानासाद्य नारि- केलतालतालीविल्वचिरविल्यतिन्दुकाऽऽमलकप्राचीनामलक- कपित्थादिफलरसतया परिणममधुराम्ललवणतिक्तकषायकटुत- या विकल्प्यते एवमेकैकगुणसमुद्भवात्प्रधानगुणानाश्रित्या- अंधानगुणाः परिणामभेदान्प्रवर्तयन्ति, तदिदमुक्तं-"प्रतिप्रति- गुणाश्रयविशेषात्" एकैकगुणाश्रयेण यो विशेषस्तस्मादित्यर्थः ॥ १५ ॥ १६ ॥ ये तु तौष्टिका अव्यक्तं वा महान्तं वाऽहङ्कारं वेन्द्रियाणि 'तत्तद्भूविकारानासाब' पार्थिवपरिणामान् तत्तन्नारिकेलादिफलानि प्राप्य तदेवाह "नारिकेल'' इत्यादिना, विकल्प्यते विभिन्नत्वेनानुभूयते प्राणि- भिरित्यर्थः। यद्यपि सत्वप्रधानं गुणरूपमेकमेव तथाप्यप्रधानतत्तद्गुणतारतम्येन प्रधा- नरूपस्यानेकरूपस्यानकरूपतापत्त्या परिणामभेदोपपत्तिरित्यभिप्रेत्याह-"एव- मेकैकगुणसमुद्भवात्' इति । 'प्रतिप्रतिगुण' इति वीप्सार्थमाह-"एझैकगुणाश्रयेण" इति । पूर्व तत्तद्गुणप्रधानत्वेन रूपत्रयं, पुनश्चैकैकस्य तसोलेशोपरक्तरजउपस- जनसत्त्वप्रधानरजोलेशसंवलिततमउपसर्जनसत्त्वप्रधानत्वादिरूपेणानेकरूप- त्वम्, इत्येवमेकैकगुणाश्रयेण यो विशेषः अनेकरूपखं तस्मात् परिणामतः अनेकरूपेण परिणामादनकरूपा प्रवृत्तिः संभवतीत्यर्थः ॥ १५ ॥ १६ ॥ किमर्था चेयं प्रवृत्तिरस्य, न च पुरुषार्था, पुरुषे प्रमाणाभावादिति प्राप्ते पुरुषे प्रमाणप्रदर्शनपरामार्यामवतारयति-"ये तु तौष्टिका" इति । तुष्टिः प्रकृत्यादिषु लयमात्रेणैव कृतकृत्यता रूपा तृप्तिः, सैव प्रयोजन (१) 'प्रधानगुणाः परिणामभेदान्प्रवर्तयन्ति' इत्येवं क्वचित्पठ्यते । (२) ५।१।१०४ इत्यतः तदस्येत्यधिकारे ५।१।१०८ इत्यतष्ठयनुवर्तमाने श्व 'प्रयोजनम्' इति सूत्रेण ठजि तौष्टिक इति साधुरित्याशयेन विगृह्णाति-"सैव प्रयोजनम्" इति । . A ......................... I MARम्मा RECAWESDAY १ २२२ साङ्ख्यतत्त्वकौमुदी। वा भूतानि वाऽऽत्मानमभिमन्यमानास्तानेवोपासते, तान् प्रत्याह-"सङ्घातपरार्थत्वात्" इत्यादि । सङ्घातरार्थत्वात्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तृभावात्, कैवल्यार्थ प्रवृत्तेश्च ॥ १७ ॥ पुरुषोऽस्ति अव्यक्तादेर्व्यतिरिक्तः,कुतः, सङ्घातपरार्थत्वात् , अव्यक्तमहदहङ्कारादयः परार्थाः । येषां ते तौष्टिका:, 'बाह्या विषयोपरमात्पञ्च' इति वक्ष्यमाणबाह्यतुष्टिमन्त इत्यर्थः, ये किल प्रकृतिमहदहङ्कारतन्मात्रभूतेन्द्रियाणामन्यतममात्मत्वेना- भिमन्यमानास्तदुपासनया तदुपासनवासितमानसाः सन्तः पिण्डपातानन्तरं तेष्ववाव्यक्तादिषु लयमेष्यन्ति, यांश्चाधिकृत्य 'दश मन्वन्तराणीह तिष्ठन्ती. न्द्रियचिन्तका' इत्यादिकं वायवीये पद्यते, ते योगिविशेषास्तौष्टिका इत्यु- च्यन्त, तदेवाह-"अव्यक्तं वा” इत्यादि । यथा 'भेदानां परिमाणात्' इत्यार्यया पञ्चभिहेतुभिर्व्यक्तातिरिक्तमव्यक्त साधितं तथानयाऽऽर्यया पञ्चभिहेतुभिरव्यक्ताद्यतिरिक्तः पुरुषः साध्यत इत्यभिप्रेत्य साधनीयं विषयमुपन्यस्यति--"पुरुषोस्ति" इति । तत्राहमहमिति प्रतीतिसिद्ध धर्मिण्यात्मनि विप्रतिपत्तेरसम्भवात्, त- स्याव्यक्तादिव्यतिरिक्तत्वाव्यतिरिक्तत्व एव विप्रतिपत्तिरित्याशयेन पुरुष विशिनष्टि-"अव्यक्तादेव्यतिरिक्त" इति । तत्राद्यं हेतुमवतार्य तद्विवक्षितमनुमानप्रयोगमाह-“अव्यक्तमहदहङ्का- रादय" इति परार्थाः अव्यक्ताद्यतिरिक्तचेतनार्था इत्यर्थः । (१) ५० इत्यार्यायां वक्ष्यमाणा याः पञ्च बाह्यास्तुष्टयस्तद्वन्त इत्यर्थः, तत्र नवानां तुष्टीनामुक्तत्वेप्याद्यानामाध्यात्मिकीनां चतसृणां नात्र ग्रहणं तासामात्मा- नात्मविवेकपूर्वकत्वादेषां चेन्द्रियादिचिन्तकानामात्मानात्मविवेकविधुरत्वादित्यभि- प्रेयोक्तं 'बाह्य' इति । (२) आदिना ४४ इत्यार्याविवरणे वक्ष्यमाण-"भौतिकास्तु शतं पूर्णम्'' इत्यादिकं ग्राह्यम् । वायवीये वायुपुराणे । (३) संघातपरार्थवादित्यनेन विवक्षितमित्यर्थः । , ..
साङ्ख्यतचकौमुदी। २२३ सङ्घातत्वाच्छयनासनाऽभ्यङ्गादिवत्, सुखदुःखमोहात्मक- तया अव्यक्तादयः सर्वे सङ्घाताः। स्यादेतत्, शयनासनादयः सङ्घाताः संहतशरीरार्थाः दृष्टा न त्वात्मानमव्यक्ताद्यतिरिक्तं प्रति परार्थाः तस्मात् संघाता- न्तरमेव परं गमयेयुर्न त्वसंहतमात्मानम्, इत्यत आह "त्रि- गुणादिविपर्ययात्" इति । तत्र हेतुमाह-“सङ्घातत्वात्" इति । संहन्यन्ते मिश्रीभवन्त्यने के विशेषा- यत्रासौ सङ्घातः, तस्य भावस्तत्त्वं, तस्मादनेकात्मकत्वादिति यावत् । तूलिकोपधानप्रच्छादनवसनादिना शयनादीनामनेकात्मकत्वेपि प्रकृत्या- देरनेकात्मकत्वाभावात्कथं संघातत्वमित्याकाङ्क्षायामव्यक्तादेः संघातत्वं द. र्शयन् हेतोः पक्षधर्मतामाह-"सुखदुःखमोहात्मकतया” इति । सङ्घाताः-संहननवन्तः, संहननं चात्रानेकैर्विशेषैः संवलन-समिश्रणंम् । "संहतपरीर्थत्वात्पुरुषस्थ" इति सूत्रे विज्ञानभिक्षुस्तु "संहननमारम्भक- संयोगः, स चावयवावयव्यभेदात्प्रकृतितत्कार्यसाधारणः' इत्याह- पातञ्जलसूत्रे योगभाष्ये च 'संहत्यकारित्वात्' इत्ययं हेतुरुपन्यस्तः, तस्य चेतरसाहित्यनार्थक्रियाकारित्वादित्यर्थों ज्ञेयः, तत्र गुणानामन्योन्यं मिथुनी- भूय कार्यकरणात्संहत्यकारित्वं, महदादेश्च क्लेशकर्मवासनाभिर्विषयेन्द्रियादि- भिश्च संहत्य प्रकृत्यापूरं चापेक्ष्य कार्यकरणात्संहत्यकारित्वमिति ध्येयम्, न चाऽव्यक्तादिकं संहत्यापि करिष्यति स्वार्थं च भविष्यतीति विपक्षे बाधकतर्का- भावादप्रयोजकोयं हेतुरिति साम्प्रतं, स्वात्मनि वृत्तिविरोधेन स्वस्य स्वार्थ- त्वासंभवात्, एतच्च ‘न सुखचित्तं सुखार्थम्' इत्यादिना योगभाष्ये व्यक्तम् । (१) अनेन सङ्घातपदमधिकरणधजन्त मिति दर्शितम् । (२) १ सू० ६६ ॥ गुणानामन्योन्यं संयुज्यारम्भकत्वेनाव्यक्त आरम्भकसं. योगसत्त्वेपि महदादौ तदभावात्कथं संहननवत्त्वम् , अत उक्तम् अवयवावय- व्यभेदात्' प्रकृति तत्कार्ययोस्तादात्म्यात् । (३) तदसङ्ख्येयवासनाभिश्चित्तमपि परार्थ संहत्यकारित्वात्' ४।२४ इति सूत्रे । (५) एतच्च १० इत्यार्यायां 'परतन्त्रम्' इत्यस्य विवरणे व्यक्तम् । (४) "परार्थी बुद्धिः संहत्यकारित्वात्' इति योगभाष्ये च २ । २० । (६) खस्मिन्खव्यापारासम्भवादित्यर्थः, तथा च विपक्षबाधकतर्कसत्त्वान्ना. प्रयोजकोयं हेतुरिति ज्ञेयम् । (७) सुखाद्याकारेण परिणतं चित्तं स्वसुखाद्यर्थ नेत्यर्थः । (८) ४-२४॥ १ " २२४ साजवतत्त्वकौमुदी। अयमभिप्रायः-संघातान्तरार्थत्वे हि तस्यापि संघातत्वात्ते- नापि संघातान्तरार्थेन भवितव्यम्, एवं तेनतेनेत्यनवस्था स्यात् , न च व्यवस्थायां सत्यामनवस्था युक्ता, कल्पनागौरवप्रसङ्गात् , न च प्रमाणवत्त्वेन कल्पनागौरवमपि मृष्यत इति युक्तं,संहतत्वस्य पारार्थ्यमात्रेणान्वयात् , दृष्टान्तदृष्टसर्वधर्मानुरोधेन त्वनुमा- नमिच्छतः सर्वानुमानोच्छेदप्रसङ्गः इत्युपपादितं न्यायवार्ति- दृष्टान्तबलेनार्थान्तरतामाशङ्कते-"शयनासनादय' इति । दृष्टान्तत्वनो- पात्ताः शयनादय इत्यर्थः, गमयेयुः अनुमापयेयुरित्यर्थः । अर्थान्तरतावारमाय द्वितीयं हेतुमवतारयति-"त्रिगुणादिविपर्ययात्" इति । त्रिगुणादि इति आदिना अविवेकित्वादिकं पूर्वोक्तं ग्राह्यं, त्रिगुणादे- विपर्ययः अभावो यत्रासौ ब्रिगुणादिविपर्ययः, तस्मात्-आत्रिगुणादिमत्वा-- दिति यावत् । तथा च-आत्माऽसहतः अत्रिगुणादिमवाद् यन्नासंहतं तन्नात्रिगुणादि- मद्यथा महदादिकम् इत्यत्र फलितम्, एतदेव विशदयितुमाह-"अयमभि- प्राय" इति । गत्यन्तराभावादनवस्थाप्यास्थेया , इत्यत्राह "न च व्यवस्थायां सत्याम्" इति, सङ्घातत्वहतोः पारायं मात्रसाधन उपक्षीणत्वेन सङ्घातान्तरार्थत्वसा- धने विशेषतो व्यापाराभावेनासंहतपरार्थत्वसिद्धिरूपायां व्यवस्थायां संभ- वन्त्यामनवस्थाकल्पना न युक्तेत्यर्थः, अयुक्तत्वे हेतुः "कल्पनागौरवप्रसङ्गात्" पारार्थ्यमात्रसाधनापेक्षया संहतपारायंसाधनस्य गौरवग्रस्तत्वादित्यर्थः । दृष्टान्ते सङ्घातत्वस्य सङ्घातान्तरार्थत्वेन व्याप्तत्वदर्शनात् प्रामाणिकं संह- तपारार्थंकल्पनमित्याशय निरस्यति “न च प्रमाणवच्वेन" इति । न च तथा सति दृष्टान्तदृष्टसङ्घातान्तरार्थत्वरूपधर्मालाभेन दृष्टान्ते साध्य- वैकल्यसत्त्वान्नेदमनुमानमुदियादिति साम्प्रतं, तथा सति निखिलानुमा- नानुत्थानग्रसङ्गादित्याह "दृष्टान्तदृष्ट" इति । एतच्च "पराश्चक्षुरादयः सङ्घातत्वाच्छयनासनादिवदिति, अथ मन्यसे (१) तथा सति सङ्घातान्तरार्थत्वं विहाय परार्थत्वमात्रस्य साध्यत्वेऽङ्गीकृते. सतीत्यर्थः। (२) तथा सति दृष्टान्तदृष्टसर्वधर्मानुरोधे सति । .
. सालवतत्त्वकौमुदी। २२५ सत्यं सङ्घाता: परार्था भवन्ति ते तु सङ्घातान्तरार्थाः यथा शयनादय" इत्यारभ्य "यदि विवक्षितार्थव्यक्तिरेकेणानुमानस्याविवक्षितमपि विषयो नन्वेतस्यां कल्पनायां सर्वसनुमानं व्याहन्येत, कथमिति, यदिष्टंमनुमान- त्वेन तदपि नानुमानं ग्रामोति, यथा शब्दानित्यत्वे कृतकत्वं, किं कारणं, य- थेदं कृतकत्वमनित्यत्वेनाविनाभूतमनित्यत्वं साधयत्येवं दुःखशून्यानात्म- कत्त्वमपि साधयति, दुःखशून्यानात्मकत्ववच्च्छ्रोत्रग्राह्यत्वमपि साधयिष्यति, ततश्च न श्रोत्रग्राह्यः शब्दः कृतकत्वाद्घटवदिति, अर्थानुमानेन बाध्यते- ऽयं प्रतिज्ञार्थ इत्यतो न हेतुः,नन्वयमपि सङ्घातान्तरार्थाश्चक्षुरादय इत्यागमे- नानुमानेन च वाध्यते, यच्चापि भवान् सङ्घातान्तरं प्रतिपद्यते तत्राप्यनि- वृत्तं सङ्घातत्वमिति तेनापि सङ्घातान्तरार्थं भवितव्यमिति, एवं चानवस्था, न चैनां शक्तः कश्चित्प्रतिपादयितुम्, इति यत एपा निवर्तते तदसंहतम्" इत्यन्तेन ग्रन्थेन न्यायवार्तिके । तस्माद् यथाऽनित्यः शब्द उत्पत्तिमत्त्वाद् घटवदिति प्रयुक्त कश्चित् साध्यदृष्टान्तयोर्धर्मवैचित्र्यात्प्रत्यवतिष्ठेत-यदि घट- साधादुत्पत्तिमत्त्वादनित्यः शब्दो हन्त तस्मादेव रूपादिमता तेन भाव्य, न चेदयं घटसाधम्र्येण रूपादिमानेवमनित्योपि मा भूत्, एवं च प्रत्यवतिष्ठ. मान उत्कर्षसमजातिवादी पराजीयते, एवमेवंवाद्युत्कर्षसमजातिवादितया (१) विवक्षितपदमभिप्रेतपरम् । (२) ननु तर्हि । (३) यदनुमितिकरणत्वेन साध्यसाधकं साधन मिष्टं तदप्यनुमानम् । (४) अथ यदि अनुमानेन शब्दस्य श्रोत्राग्राह्यत्वे बधिरेणापि तद्ग्रहणप्रसङ्ग इति तर्केण श्रोत्राग्राह्यत्वरूपः प्रतिज्ञार्थों बाध्यते ननु तर्हि सङ्घातान्तरार्था इत्यय- मप्यर्थोऽनुमानेन अनवस्थालक्षणानिष्टापादनरूपेण तर्केण बाध्यत इत्यर्थ:, तदे- वाह-'यच्चापि' इति । (५) न्यायदर्शनीयतृतीयाध्यायीयाद्याहिकभूमिकायामिति शेषः । (६) तुरीयाध्यायीयाद्याहिकीयैकविंशति सूत्रीयभाष्यवार्तिकव्याख्यास्थलीयोयं ग्रन्थः, पारमेश्वरं ज्ञानं नित्यमिति प्रकृत्य "न च शरीरादिसहभावेन ज्ञानस्य तत्रत- त्रोपलप्धेः शरीरादीनां ज्ञानं व्याप्यमिति युक्तं, स्वाभाविकसंबन्धशालिता हि व्याप्यता, सा चोपाधिविरहे भवति, अस्ति च शरीरादिसहभावे ज्ञानस्योपाधिः कार्यत्वं कार्य ज्ञानं स्वकारणं शरीरादि नातिवर्तते नित्यन्तु तद तिवर्तमानमणि साहित्योपलम्भं न विरुणद्धि" इति ग्रन्थात्समनन्तरोयं ग्रन्थ इत्यपि बोध्यम् । (७) एतादृशप्रत्यवस्धानमेवोत्कर्षसमजातिरूपं निग्रहस्थानमिति न्यायदर्शने व्यक्तम् ।
...... २२६ साङ्ख्यतचकौमुदी। कतात्पर्यटीकायामस्माभिः, तस्मादनवस्थाभियास्यासंघात- त्वमिच्छताऽत्रिगुणत्वमविवेकित्वमविषयत्वमसामान्यत्वं चे- तनत्वमप्रसवधर्मित्वं चाभ्युपेयं, त्रिगुणत्वादयो हि धर्माः संहतत्वेन व्याप्ताः तत्संहतत्वमस्मिन् परे व्यावर्तमानं त्रैगु- ण्यादि व्यावर्तयति, ब्राह्मणत्वमिव व्यावर्तमानं कठत्वादिकं, तस्मादाचार्येण 'त्रिगुणादिविपर्ययात्' इति वदताऽसंहतः परो विवक्षितः, स चात्मेति सिद्धम् । पराजेतव्यः साधर्म्यमात्रेणाप्रयोजकेन प्रत्यवस्थानात्, तस्य च सर्वानुमानेषु सुलभतया सर्वानुमानोच्छेदापादकत्वात्" इत्यादिना तात्पर्यटीकायां च व्यक्तमिति तत्रैव कणेहत्यालोच्यमित्यभिप्रत्याह "इत्युपपादितं न्यायवार्तिक- तात्पर्यटीकायाम्' इति । एवं स्थिते त्रिगुणादिविपर्ययादिति हेतुं योजयितुं निर्गलितार्थमाह "त- स्मात्' इति । यतः परस्या संहतत्वानभ्युपगमेऽनवस्थालक्षणोऽनिष्टापादनरूपः प्रसङ्गो दुर्वारस्तस्मादित्यर्थः । असंहतत्वं कामयमानेनाकामितमत्रिगुणत्वादिकं किमित्युपेयं, तबाह- "त्रिगुणत्वादयो हि धर्मा” इति, येये त्रिगुणत्वादिमन्तलेते संहता यथा महदादय इत्येवं त्रिगुणत्वादयः संहतत्वेन व्याप्ता दृष्टा इत्यर्थः, ततः किं, तत्राह- "तत्संहतत्वम्" इति । तद्व्यापकम् असंहतत्वम् अस्मिन् परार्था इति साध्यैकदेशभूतपरशब्दार्थ आत्मनि व्यावर्तमानं निवर्तमान सत् स्वव्याप्यभूतं त्रिगुणत्वादिकं निवर्तयति, व्यापकासत्त्वे व्याप्यासत्त्वस्य नियतत्वादियथः, तत्र दृष्टान्तः- "ब्राह्मणत्वमिव” इति । यजुर्वेदीयकठशा. खाध्ययनकर्तृव्राह्मगनिष्टो धर्मविशेषः कठत्वम्, इव यथा क्षत्रियादौ ब्राह्म- णत्वं निवर्तमानं सत् तद्व्याप्यं कठत्वं निवर्तयति तद्वदित्यर्थः । एवं च-परोऽसंहतोत्रिगुगत्वादिमत्त्वादिति पूर्वोत्तमनुमानमत्र फलित- मित्याशयेनोपसहरति "तस्माद्” इति । आचार्येण-साङ्ख्यकारिकाकृतेश्वर- कृष्णेनेत्यर्थः । .
. सामयतत्वकौमुदी। २२७ इतश्च परः पुरुषोऽस्ति "अधिष्ठानात्" त्रिगुणात्मकाना- मधिष्ठीयमानत्वात् । यद्यत्सुखदुःखमोहात्मकं तत्सर्वं परेणाधिष्ठीयमान दृष्ट, यथा रथादि यन्त्रादिभिः, सुखःदुखमोहात्मकं चेदं बुद्धधादि, तस्मादेतदपि परेणाधिष्ठातव्यं, च परबैगुण्यादन्य आत्मेति । 'अधिष्ठानाद्' इति तृतीयहेतोरर्थमाह-"त्रिगुणात्मकानाम्” इति, सुखा- द्यात्मकानां महदादीनामन्येन केनचित्रेयमाणत्वादित्यर्थः । तथा च 'महदादिकं केनचित्परेण चेतनेनाधिष्टीयमान भवितुमर्हति सुखा- द्यात्मकत्वात्, संहतत्वाद् वा' इति प्रयोगोऽत्र दर्शितः, अत्र व्याप्तिमाह- "यद्यद्” इति उदाहरणमाह “यथा रथादि" इति, यन्ता सूतः-अश्व- चालकः सारथिरिति यावत्, उपनयभाह-"सुखदुःखमोहात्मकं चेदम्" इति, निगमनमाह-"तस्मात्" इति । न च महदादिष्वन्यतम एव कश्चिदधिष्ठाता भवात्विति साम्प्रत, स्वस्य स्वाधिष्टानायोगादित्याभिप्रेत्याह-"त्रैगुण्यादन्य आत्मा" इति । न चात्मनो निगुणत्वेन निष्क्रियत्वात्कथमधिष्ठातृत्वं, प्रवर्तनव्यापारवत एव सारथ्यादेरधिष्ठातृत्वदर्शनादिति शङ्ख्य, नियापारस्याप्ययस्कान्तमणे- रिव सन्निधिमात्रेणाधिष्ठातत्वोपपत्तेर्व्यापारवत एव प्रयोजकत्वमिति नियमा- नाश्रयणात्, तथा च सूत्रं "तत्सन्निधानादधिष्ठातृत्वं मणिवत्" इति । अचलतोपि नृपतिवद्वा सत्तामात्रेण प्रयोजकत्वं, तथा चाहुः कुमारिल-- स्वामिनः-"न च सर्वत्र तुल्यत्वं स्यात्प्रयोजककर्मणाम् । चलनेन ह्यसिं योद्धा प्रयुक्ते च्छेदनं प्रति ॥८५॥ सेनापतिस्तु वाचैव भृत्यानां विनियोजकः। राजा सन्निधिमांत्रण विनियुङ्क्ते कदाचन ॥८६॥ तस्मादचलतोऽपि स्याञ्चलने कर्तृ- तात्मने” इति । एतेनै 'प्रवृत्ते रचनायाश्चानुपपत्ते चेतनं चेतनाधिष्टानविहीनं प्रधान (१) अ० १ सू० ९६ । (२) पञ्चमसूत्र आत्मवाद इंति शेषः । (३) एतेन आसनोऽधिष्टातृत्वसंभवोपपादनेन । - .
-- २२८ साङ्ख्यतत्वकौमुदी। इतवास्ति पुरुषः-'भोकृभावाद्भावभावेन' भोग्ये सु- खदुःखे उपलक्षयति, भोग्ये हि सुखदुःखे अनुकूलप्रतिकूल- चेदनीये प्रत्यात्ममनुभूयेते, तेनानयोरनुकूलनीयेन प्रतिकूल- नीयेन च केनचिदप्यन्येन भवितव्यं, न चानुकूलनीयाः प्रति- कूलनीया वा बुद्धयादयः, तेषां सुखदुःखात्मकत्वेन स्वात्मनि वृत्तिविरोधात्, तस्माद्योऽसुखाद्यात्मा सोऽनुकूलनीयः प्रति- कूलनीयो वा, स चात्मेति । कारणम्' इत्यादय आक्षेपाः प्रतिक्षिप्ता इति वेदनीयम्, 'पुरुषाधिष्टित प्रे- धान प्रवर्तत' इति षष्टितन्त्र उक्तत्वेनाक्षेपस्यैवानुत्थानमित्यपि ध्येयम् ,अधि- कमेतद्भूमिकातोऽवसेयम् । 'भोक्तभावाभोक्तृत्वात्' अनेन हेतुना विवक्षितमर्थमाह" भोक्तभावेन भोग्ये” इति, उपलक्षणत्वे सति यदायातं तदाह-“भोग्ये हि" इति । भवतु प्रत्यात्मं तयोरनुभवः किमेतावता, तत्राह "तेनानयोः" इति । तथा च 'सुखाद्यात्मकं बुद्धयादिकं स्वातिरिक्तेन केनचिद्भोक्त्राऽनुभव- नीयं भोग्यत्वादोदनादिवत्' इत्यनुमानमत्र सूचित । न च बुद्ध्यादीनामेव भोक्तृत्वसंभवात्स्वातिरिक्तेनेति रिक्तमिति वाच्यम् , एकस्य कर्मकर्तृभावविरोधेन स्वस्य स्वेन भोग्यत्वासंभवादित्याशयेनाह "न चानुकूलनीया" इत्यादि, 'स्वात्मनि वृत्तिविरोधात्' न ह्यसिधारात्मानं छिनत्ति वहिर्वात्मानं दहतीति भावः । असङ्गस्यात्मनो भोक्तत्वमसम्भवीति मन्यमानानामन्येषां व्याख्यानमाह- "अन्ये त्वाहुः” इति । 'तस्मादस्ति द्रष्टा' इति । नन्वयमर्थः कथं लब्ध :, तत्राह “भोक्तभावा- दृष्टभावात्” इति । (१) अ० २ सू० १।२ इस्यत्र शङ्कराचार्यादीनामेवंविधा उक्तयः । (२) वार्षगण्याचार्यप्रणीत इति शेषः, गौडपादभाष्य इदमुपन्यस्तं षष्टितन्त्र- वाक्यमिति ज्ञेयम् । (३) अनर्थकम् । sansa साङ्ख्यतत्त्वकौमुदी। २२९ अन्ये त्याहुः-भोग्याः दृश्या बुद्ध्यादयः, न च द्रष्टारम- न्तरेण दृश्यता युक्ता तेषां, तस्मादस्ति द्रष्टा दृश्यबुद्ध्याद्यति- रिक्तः, स चात्मेति । भोकृभावामुष्टुभावात्, दृश्यत्वेन द्रष्टुरनुमानादित्यर्थः दृश्यत्वं च बुड्यादीनां सुखाद्यात्मकतया पृथिव्यादिवद नुमितम् । इतश्चास्ति पुरुष इत्याह-"कैवल्यार्थं प्रवृत्तेश्च"-शास्त्राणां महर्षीणां च दिव्यलोचनानां, कैवल्य चात्यन्तिकदु:खत्रय- प्रशमलक्षणं न बुड्यादीनां संभवति, ते हि दुःखाद्यात्मकाः कथं हि स्वभावाद्वियोजयितुं शक्यन्त, तदतिरिक्तस्य 'अनुमानात्'-बुद्ध्यादयो द्रष्टपूर्वका दृश्यत्वाद्घटादिवदित्यनुमाना- दित्यर्थः। पक्षधर्मतामाह "दृश्यत्वं च" इति । असङ्गस्य परमार्थतो दर्शनकर्तृत्वासंभवाझुद्ध्युपाधिकमेव द्रष्टत्वमात्मन् इति मन्तव्यम्, एतच्च "दृष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्य” इति सूत्रे योगभाष्ये व्यक्तम्, एवं च द्रष्तृत्ववभोक्तृत्वस्यापि सम्भवादाद्यव्याख्या- नमपि समीचीनमेवेति ध्येयम् । केषाम्प्रवृत्तेरित्याकाङ्क्षा पूरयति-"शास्त्राणाम्' इति । अस्माकं किल लोचनानि बाह्यमेव सन्निहितमालोचयन्तीति लौकिकलो- चना वयं,महर्षीणां तु लोचनानि संयमैप्रभावाद् व्यवहित सूक्ष्ममप्यालो. चयन्तीति ते दिव्यलोचना इत्युच्यन्त इति । कथं न बुद्ध्यादय एव केवलिन इत्याशक्य कैवल्यलक्षणाख्यानमुखन तेषां कैवल्यवैकल्यमाह-"कैवल्यं च" इति । असम्भवे हेतु:-"ते हि" इति । हि-यतः। .. (१) पा० २ सू० २० । (२) तृतीये पादे ३६ इति योगसूत्रे व्यक्तमेतत् । (३) कैवल्यभाजः।
। २३० साङ्ख्यतत्त्वकौशुदी। त्वतदात्मनस्ततो वियोगः शक्यसम्पादः, तस्मात्कैवल्यार्थ प्रवृत्तेरागमानां महाधियां चास्ति बुद्ध्यादिव्यतिरिक्त आत्मेति सिद्धम् ॥ १७॥ तदेवं पुरुषास्तित्वं प्रतिपाद्य स किं सर्वशरीरेष्वेकः किम- नेकः प्रतिक्षेत्रमिति संशये तस्य प्रतिक्षेत्रमनेकत्वमुपपादयति- "जन्ममरणकरणानाम्" इत्यादिना । जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाचैव ॥ १८ ॥ पुरुषबहुत्वं सिद्धं कस्मात्, जन्ममरणकरणानां प्रतिनि- यमात् । निकायविशिष्टाभिरपूर्वाभिर्देहेन्द्रियमनोहङ्कारबुद्धिवेदना. आत्मनि संभवमाह-"तदतिरिक्तस्य" इति । अत्र हेतुगर्भित विशेषण- माह-"अतदात्मन" इति । अदुःखाद्यात्मन इत्यर्थः । ततः दुःखादेः शक्ति- विषयः सम्पादनं यस्याऽसौ शक्यसम्पादः, सम्पादयितुं शक्य इति यावत् ॥ १७ ॥ आत्मनो जनिविकारप्रयुक्त-परिणामित्वाभावायोद्योतकराचार्योक्तं जन्मपदार्थमाह-"निकायविशिष्टाभिः” इति । 'निकायः देवमनुष्यतिर्य- गादीनामनौत्तराधयेणावस्थितः सङ्घातः, तद्विशिष्टाभिरित्यर्थ' इति तात्पर्य- टीकायाम्मिश्राः, एवं च 'सङ्घ चानोत्तराधैर्ये' इति सूत्रेण निकायपदनिष्पत्ति- रिति दर्शितम्। यद्यपि महाभाष्यादिव्याख्यानात्प्राणिनां समूह एवात्र सूत्रे सङ्घपदेन गृह्यते न समूहमात्रम्, अत एव ब्राह्मणनिकाय इतिवन्न' प्रमाणनिकाय इति प्रयुज्यतेऽपितु प्रमाणनिचय इति तथापि प्राणिसंबन्धित्वेन कथचिदत्रापि प्राणिसमूहं संभाव्य निकायपदप्रयोगोपपत्ति या, वेदना सुखाद्यनुभवः, स्फूर्त्याख्या चेतना वा। (१) प्रतिशरीरम् । (२) अत्र आत्मनो वुद्धयादि भिन्नत्ले । (३) ३।३।४२ उत्तरे चाधरे चोत्तराधरास्तेषां भाव औत्तराधर्य, तद्भिन्ने प्राणिसमूहे वाच्थे चिनोतेर्घञ् चस्य च क इत्यर्थः ।शूकरशावका हि स्तनपानार्थ- । साङ्ख्यतत्त्वकौमुदी। २३१ भिः पुरुषस्याभिसंवन्धो जन्म, न तु पुरुषस्य परिणामः, तस्या- परिणामित्वात् , तेषामेव च देहादीनामुपात्तानां परित्यागो मरणं, न त्वात्मनो विनाशः, तस्य कूटस्थनित्यत्वात् , कर- णानि वुड्यादीनि त्रयोदश, तेषां जन्ममरणकरणानां प्रति- ननु देवदत्तो जात इति व्यवहारदर्शनान्मुख्यमेव घटादेरिवात्मनो जन्म न जायमानदेहादिसंबन्धरूपं भाक्तमित्यत्राह "न तु पुरुषस्य परिणाम" इति, घटादेरिव मुख्य उत्पत्तिरूपः परिणामः पुरुषस्य न चेत्यर्थः, अप- रिणामित्वान्नात्मनो मुख्यं जन्मेति यावत् । मरणं तु यद्यपि 'मृङ् प्राणत्यागे' इति स्मरणात्प्राणोपलक्षितदेहादीनां त्यागरूपं मुख्यमेवात्मनि संभवति तथापि घटादेरिव विनाशरूपं मरणमन्त्र मा कश्चिद्रहीदित्याशयेनाह-"न तु विनाश" इति । 'न जायते म्रियते वा विपश्चित्' 'अजो नित्यः शाश्वतोयं पुराण' इत्यादि श्रुत्यात्मनो जन्मादिपरिणामशून्यत्वेन कूटस्थनित्यत्वाम्नानान्नात्मनो मुख्यौ जन्मनिधनौ इत्यर्थः; मा नाम भूजातो मृत इति व्यवहारान्नराणां व्यामोह इत्यनुकम्पा- वती बृहदारण्यकश्रुतिरपि-'स वा अयं पुरुषः जायमानः शरीरमभिसंपद्य- मानः, स उत्क्रामन् नियमाण' इत्येवं स्वयमेव शरीरादिना संयुज्यमानत्व- मेवात्मनो जायमानत्वं, शरीरादुत्क्रमणमेव चात्मनो म्रियमाणत्वमिति . .. निराहे । एवं च देवदत्तो जात इत्यादिव्यवहारो भाक्त इत्यत्र फलितम्, एतच्च 'चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्' इत्यादि. ब्रह्मसूत्रे भाष्ये व्यक्तम् । मुत्तराधरभावेन शेरत इति तादृशसमूहे शूकरनिचय इलेव भवति न घञ्चिति बोधनाय 'अनौत्तराधर्य" इति । (१) काठके १।२।१५। (२) आत्मनि जायमानम्रियमाणत्वभ्रान्तिामोहः । (३) ४।३।। (४) निराह निर्वक्ति, 'जायमान'-इत्यस्य शरीरममिसंपद्यमान इति स्वयमेव निर्वचनं करोति, म्रियमाण'-इत्यस्यच 'उत्क्रामन्' इति निर्वचनं करोतीयर्थः । (५) स्थावरजङ्गमशरीरविषयो जन्ममरणव्यपदेशो मुख्यः, आत्मनि तु भाक्तः ..
AADMI २३२ साङ्ख्यतत्त्वकौमुदी। नियमः व्यवस्था, सा खल्वियं सर्वशरीरेष्वेकस्मिन् पुरुषे नोपपद्यते. तदा खल्वेकस्मिन् पुरुषे जायमाने सर्वे जायेरन्, म्रियमाणे च म्रियेरन्, अन्धादौ चैकस्मिन् सर्व एवा- न्धादयः, विचित्ते चैकस्मिन् सर्व एव विचित्ताः स्युरित्यव्य- 'व्यवस्था' वैय्यधिकरण्येनावस्थानम्, इयं व्यवस्था, एकस्मिन् पुरुषे अभ्युपगते सतीति शेषः । कथनोपपद्यत इति पृष्टोनुपपत्ति स्पष्टयति-"तदा खलु” इति, तदा आत्मैक्ये, पुरुषबहुत्वासत्वे वा सति, तथा च जन्मादिव्यवस्थ.ऽनुपपद्यमाना सत्यात्मभेदमापादयतीत्यत्र सूचितम् । है इद चार्थापत्तिदर्शनमात्मैक्यवादिनं वेदान्तिनं प्रति, स्वमते तु 'जन्मा- ।' दिव्यवस्था वस्तुभेदनिबन्धना व्यवस्थात्वात् संमतवत्' इत्यनुमानं मनसि निधाय तंत्र 'तदा खल्वेकस्मिन् पुरुष' इत्यादिना विपक्षबाधकस्तर्क उच्यत इति ध्येयम् । आत्मक्ये जनननिधनव्यवस्थानुपपत्तिमाभधाय करणव्यवस्थानुपपत्तिमाह- "अन्धादौ च” इति , अन्धत्वं दर्शनशक्तिविहीनत्वम्, आदिना बाधिर्या- दिकं ग्राह्यं, यद्यप्येतदिन्द्रियधर्मस्तथापि करणाश्रयसङ्घाताभिमानिनि पुरुष उपचर्यत इति ज्ञेयम् । विचित्ते विगतम्-उपरतम् वृत्तिरहितं चित्तं यस्य तस्मिन् सुपुप्ते, औपाधिकजन्मादिविषयत्वेन गौणः, उपाधिजन्मनाशे सत्येवात्मनि जन्मनाश- व्यवहारस्य भावित्वादित्यर्थः । (१) सिद्धान्तेऽर्थापत्तेरनङ्गीकारात्कथमर्थापत्त्या व्यवस्था, तत्राह 'इदं च" इति । (२) प्रसिद्ध घटादिषु जन्मनाशव्यवस्थाया घटभेदनिबन्धनत्वदर्शनादित्यर्थः । (३) तत्र अनुमाने । (४) व्यवस्थात्वमस्तु वस्तुभेदनिबन्धनत्वं च मा भूदित्याकारकस्य विपक्षस्य बाधकस्तर्कः। (५) एतदन्धत्वादिकम् ।
. साङ्ख्यतत्वकौमुदी। २३३ वस्था स्यात् , प्रतिक्षेत्रं तु पुरुषभेदे भवति व्यवस्था । न चैकस्यापि पुरुषस्य देहोपाधानभेदाब्यवस्था इति युक्तं, पाणिस्तनाद्युपाधिभेदेनापि जन्ममरणादिव्यवस्था- योगयुक्ते वेत्यर्थः, एवं बैन्धमोक्षे व्यवस्थाया अनुपपत्तिरपि बोध्या । स्वमते व्यवस्थामाह-“प्रतिक्षेत्रम्" इति, यावन्तः सङ्घातास्तावन्त एव तदधिष्ठातार इति मन्मते तु नाव्यवस्थीत भावः । ननु यथाऽऽकाशस्यैकत्वेपि घटाधुपाधिभेदेनौपाधिकं भेदमादाय व्यवस्था- ऽऽस्थीयते तथाऽत्रापि देहोपाधिकं भेदमास्थाय व्यवस्थाऽऽस्थीयतां किं गौरवग्रस्तेन पारमार्थिकन भेदेन, तथा चाहुः-'यथैकस्मिन्घटाकाशे रजो- धूमादिभियुते । न सर्व संप्रयुज्यन्ते तथा जीवाः सुखादिभिः। इति,इत्याशङ्का निरस्यति-"न चैकस्यापि” इति, उपाधानंम् उपाधिः । तथा सति देहवद्धस्तस्तनादीनां देहावयवानामप्युपाधित्वेन भेदकत्वं स्यात्,तथा च देहावयवोद्भवविरोधाभ्यामपि पुरुषस्य जन्ममरणादिव्यवहारः स्यादित्यभिप्रेत्यायुक्तत्वे हेतुमाह-"पाणिस्तनादि" इति | (१) तथा चैकस्मिन्सुषुप्ते वा सर्व एव सुषुप्ता योगिनो . वा भवेयु- रित्यर्थोऽत्र ज्ञेयः । (२) 'य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवोपयन्ति' इति श्रुताया इति शेषः। (३) एकस्मिन्घटाकाशे नीयमाने धूमादिना संवलिते वा न सर्वे नीयमाना धूमादिसंवलिता वा भवन्ति, इति व्यवस्था इत्यर्थः । (४) औपाधिकभेदमादायापत्तेरन्यथाप्युपपत्तिः। अनुमानं च सिद्धसाधन- मिति शङ्काकूतम् । (५) अद्वैतप्रकरणे गौडपादाचार्या (६) देहस्योपाधित्वेन जन्मादिव्यवस्थापकत्त्रे सतीत्यर्थः, देहस्यैवोपाधित्वे- नावयवानामित्यत्र नियामकाभावादित्याशयः।
APPS . . तु २३४ साङ्ख्यतत्त्वकोमुदी। प्रसङ्गात्, न हि पाणौ वृणे, जाते वा स्तनादौ महत्यवयवे युवतिम्रता, जाता वा भवतीति, इतश्च प्रतिक्षेत्रं पुरुषभेद प्रसङ्गस्येष्टत्वमाशय व्यवहारविरोधेन परिहरति-"न हि पाणौ" इति । वृणे छिन्ने, युवत्वाश्रितसङ्घातवती स्त्री, भवति' इत्यनेन चान स्वगोचरो व्यवहारः, स्वविषयकं वा ज्ञानमुपलक्षणीयम्, एवं च हस्ते पतिते युवात तेति, स्तनादौ च जाते युवतिर्जातेति च न केनापि व्यवह्रियते, नापि ज्ञायत इस्यर्थोऽत्र फलितः । यद्यपि स्तनादौ जाते बाल्यं विहाय युवत्वं प्राप्तः सङ्घातस्तथापि तदवच्छे. देन तदधिष्टाच्या न जातत्वव्यवहारः, सैवेयमबलेति प्रत्यभिज्ञानात्, भव- न्मते कायोपाधिजन्मना तदवच्छेदेनात्मनि जातत्वव्यवहारवत्, कायाव. यवजन्मनाप्यात्मनि जातत्वव्यवहारः स्यात्, उपाधित्वाविशेषात्, स च बाधित इति नौपाधिकभेदकल्पनया निस्तार इति भावः । एतेने परिमाणभेदाद् द्रव्यभेदमनुसिमाना ये तार्किका अवयवापचयेऽस- मवायिकारणसंयोगनाशादवयविनो विनाशोऽवयवोपचये च पूर्वावयविन्यव- यवान्तरनिवेशासम्भवादपूर्वावयव्युत्पत्तिरित्येवं सावयवानामनुक्षणमुत्पादनि- रोधावभ्युपयन्तस्तेपि गलहस्तिता जाता इति वेदितव्यं, तथा सति स्तनाद्यव- यवे जातेऽपूर्वाया एव युवत्या भवन्मते जातत्वेन सैवयमिति प्रत्यभिज्ञानानु- पपत्तेः, सादृश्यदोषदूषितत्वेन भ्रान्तिरियमित्यङ्गीकारे तु भदन्त एव दत्त- विष्टरः सुस्थिरो भवेदित्ययं तेन विरोधेनेत्यास्तां तावत् । (१) ननु स्तने जाते भवत्येवं युवतिर्जातेति-कथमुच्यते . न हि जाता भव- तीति इत्याशङ्कायामाह-"भवतीत्यनेन" इति, स्वगोचरः भवनविषयकः । (२) एतेन स्तने जाते युवत्या जातत्वव्यवहाराभावदर्शनेन । (३) तथा सति परिणामभेदेन द्रव्यभेदाभ्युपगमे सति । (४) भदन्तः बौद्धः दत्तविष्टरः समर्पितासन:, अनेन भदन्तो न तार्किकम- तिपक्ष्यपि तु तार्किकसयूथ्य इति सूचितं, तदेवाह-'अलं तेन विरोधेन" इति, भदन्तेन सह भवतां विरोधो न युक्तस्तन्मतस्याङ्गीकृतत्वादित्यर्थः, एतदुक्तं भव- । ति-यत्सत्तत्क्षणिकमिति भदन्तेनोक्ते, प्रत्यभिज्ञाबलात्स्थायित्वमिति केणोत्तरिते पुनश्च सैवेयं दीपकलिकेतिवत्सादृश्यदोषदूषितत्वेन प्रत्यभिज्ञाया भ्रान्तित्व मित्येवं भदन्तेनाभिहिते किन्तु उत्तरं त्वयापि प्रत्यभिज्ञाया भ्रान्तित्वा- ङ्गीकारादिति । तार्कि- .
साङ्ख्यतत्त्वकौमुदी। २३५ ननु न देहावयवानामुपाधित्वमाश्रीयतेऽतिप्रसङ्गापादकत्वादपि तु देह- स्यव, यदाहुः-'आरोपे सति निमित्तानुसरणं न तु निमित्तमस्तीत्यारोप'इति, इति चेत्, एवमपि न निस्तारः, एकस्मिन् घटे भन्ने तटमुक्तस्याप्याकाश- प्रदेशस्य घटान्तरेण पुनर्योगाद् घटाकाशत्वापत्तिरिवैकोपाधिना विमुक्तस्या. प्यात्मनः पुनरुपाध्यन्तरेण संबन्धाद् बद्धत्वव्यवहारापत्त्या बद्धमुक्त- व्यवस्थानुपपत्तस्तादवस्थ्यात्, साङ्ख्यसूत्रकारास्तु-"जन्मादिव्यवस्थांतः पुरु. षबहुत्त्वम्" इति स्वमतमभिधाय, पुनरुपाधिभदमादाय व्यवस्थायामा- शङ्कितायाम् "उपाधिभेदप्येकस्य नानायोग आकाशस्येव घटादिभिः" "उपाधिर्भिद्यते न तु तद्वान्' इत्येवं समादधिरे । स्यादेतत्, ‘एको देवः सर्वभूतेषु गूढ'इत्याद्यैकात्म्यप्रतिपादनश्रुतीनोमव सति का गतिरिति चेत्, अत्राहुर्मिश्रा--एकत्वश्रुतीनां च प्रमाणान्तरविरोधात् कथंचिद् देशकालविभागाभावेन भक्त्याप्युपपत्तेरिति । (१) अव्यवस्थायाम्प्रसक्तायां तद्वारणायोपाधिरूपं तद्वारणायोपाधिरूपं किंचिनिमित्तमनुसरणीयं न तूपाधिरस्तीत्याश्रित्याव्यवस्थापादनीयेति भावः । (२) अ. १ सूं. १४९ । ३) अ. १ सू. १५०। 'उपाधिभेदप्येकस्यापि पुरुषस्य नानायोगोऽस्त्येव यथैकस्यैवाकाशस्य घटकुड्यादिनानायोगः, अवच्छेदकभेदेनैकस्यात्मन एव विवि- धजन्ममरणाद्यापत्तिः कायव्यूहादाविवेति न संभवति व्यवस्था-एकः पुरुषो जायते नापर इत्यादिरित्ययः, न ह्यवच्छेदकभेदेन कपिसंयोगतदभाववत्येकस्मि- न्नेव वृक्षे व्यवस्था घटते एको वृक्षः कपिसंयोग्यन्यश्च नेति' इति सूत्रार्थ इति विज्ञान भिक्षुः । ४) अ. १ सू. १५१ । ननु चैतन्यैक्येपि तत्तदुपाधिविशिष्टस्यातिरिक्तताम- भ्युपगम्य व्यवस्थोपादनीया, तत्राह-उपाधिमिद्यते उपाधिरेव नाना, न तु तद्वानुपाधिविशिष्टोपि नानाभ्युपेयो विशिष्टस्यातिरिक्तवे नानात्मताया एव शास्त्रान्तरेऽभ्युपगमापत्तेरित्यर्थः, न हि छत्रादिमांश्चैत्र: केवलचैत्राद्भिन्नो भव- तीति भावः, किञ्च बन्धमागिनो विशिष्टले विशेषणावियोगेन विशिष्टनाशान्न मो. क्षोपपत्तिरित्यपि बोध्यम् । (५) २।२२। इत्यत्र योगभाष्यव्याख्यायामिति शेषः । (६) 'अजो टेको जुषमाणोऽनुशेते जहालेनां भुक्तभोगामजोऽन्य' इति बद्धमुक्तजीवभेदप्रतिपादकश्रुतिविरोधात् , जन्ममरणादिव्यवस्थादर्शनरूपप्रत्यक्ष- प्रमाणविरोधाचेत्यर्थः, आत्मनां व्यापकत्वेन सर्व एव आत्मानः सर्वत्र सन्निहिता इति विभिन्नदेशत्वाभावेन विभागाप्रतीतेः भक्त्या गौणत्वेनैकत्व व्यवहार इत्यर्थः । Ratnamkinn-in- ..." VISH namaAALER, animHIKARARAMMAR २३६ साङ्ख्यतच्चकौमुदी। इत्याह-"अयुगपत्प्रवृत्तेश्च" प्रवृत्तिश्च प्रयत्नलक्षणा यद्य- प्यन्तःकरणवर्तिनी तथापि पुरुष उपचर्यते, तथा च तस्मि- नेकत्र शरीरे प्रयतमाने स एव सर्वशरीरेण्वेक इति सर्वत्र अवैधर्म्यलक्षणाभेदप्रतिपादनपरत्वं तासां श्रुतीनामिति विज्ञानभिक्षुः । सूत्रकारस्तु “नाद्वैतश्रुतिविरोधो जातिपरत्वात्" इत्यव वर्णयामास, अत्रत्यं तत्त्वमेतद्भूमिकातोऽवसेयम् । शरीराणि प्रतिशरीरं विभिन्न पुरुषाधिष्ठयानि अयुगपत्प्रवृत्तिमत्त्वात् रथा. दिवत्, इत्याशयेन प्रवृत्ते हेत्वन्तरमवतार्य व्याचष्टे-"प्रवृत्तिश्च" इति, तत्र चलनात्मकः प्रबृत्तिरूपो व्यापारः शरीरधर्मः, चलानात्मकः प्रवर्तनारूपः प्रयत्नश्च चेतनधर्मः, तथा च प्रवृत्तेरयोगपद्यदर्शनेन प्रवर्तनारूपप्रयत्नस्या- नैक्यम् प्रयत्नायौगपद्येन च तदाश्रयचेतनभेद इत्यर्थोऽत्राभिप्रेतः, तत्र प्रयत्नरूपपरिणामस्य बुद्धिधर्मत्वेनापारणाम्यात्मधर्मत्वाभावात्कथमन्यधर्मा- योगपद्येनात्मभेदानुमानमित्याशङ्कामनूद्यापनुदति-"यद्यपि” इत्यादिना । "पुरुष उपचर्यते उपचारेण व्यवह्रियते, कुतश्चिन्निमित्तादतासंस्तव्य- वहार उपचारः, उपचारानिमित्तश्च स्वस्वामिभावसंबन्धः “यथा विजयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि 'राज्ञि व्यपदिश्यते” इत्यादिना योगभाष्येऽभिहितः, अग्रे च व्यक्तः। जले कम्पमाने तत्प्रतिबिम्बितचन्द्रकम्पनमिव प्रयतमानायां बुद्धौ तत्प्रतिबिम्बितचेतनोपि प्रयतत इवेति यावत् । आत्मैक्येऽयुगपत्प्रवृत्त्यभावं दर्शयन् विपक्ष बाधकमाह-"तथा च" इति, तथा च आत्मैकत्वे च तस्मिन् आत्मनि एकत्र शरीरे एकशरीराव-- च्छेदेन, प्रयतमाने प्रयत्नं कुर्वाणे सति सर्वत्र सर्वशरीरावच्छेदेन प्रयतेत- (१) ब्रह्ममीमांसाभाष्ये विज्ञानामृते प्रथमाध्यायीयद्वितीयसूत्रे, २।२२। इत्यादि- सूत्रे योगवार्तिके, अ. १ सू. १५१ इत्यादि सूत्रे साङ्ख्यप्रवचनभाष्ये चेति बोध्यम् । (२) अ. १ सू. १५४/ जातिपरत्वात् चित्सामान्यमादायैकरूपत्वे तात्पर्या- दित्यर्थः। (३) २।१८। अग्रे ६२ इति कारिकाविवरणे । (४) विपक्षे अयुगपत्प्रवृत्तिमत्त्वमस्तु पुरुषबहुत्वं च मा भूदित्येवंविधे विपक्ष - इत्यर्थः। ।
साहयतत्वकौमुदी। २३७ प्रयतेत, ततश्च सर्राण्येव शरीराणि युगपच्चालयेत् , नानात्वे तु जायं दोष इति । इतश्च पुरुषभेद इत्याह-"त्रैगुण्यविपर्ययाचैव" एवकारो भिन्नक्रमः सिद्भमित्यस्यानन्तरं द्रष्टव्यः, सिद्धमेव नासिद्धं, यो गुणास्वैगुण्यं, तस्य विपर्ययः अन्यथात्वं केचित्खलु सत्त्वनिकायाः सत्त्वबहुला यथोर्द्धस्रोतसः केचिद्रजोबहुलाः यथा मनुष्याः, केचित्तमोबहुला यथा तिर्यग्योनयः, सोय- मीदृशस्वैगुण्यविपर्ययः अन्यथाभावः तेषु सत्त्वनिकायेषु न भवेद्यवेकः पुरुषः स्यात् , भेदे त्वयमदोष इति ॥१८॥ एवं पुरुषवहुत्वं प्रसाध्य विवेकज्ञानोपयोगितया तस्य धर्मानाह-"तस्माच विपर्यासात्" इति । तस्माच विपर्यासात्, सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं, द्रष्दृत्वमकर्तभावश्च ।। १९ ॥ 'तस्माच्च' इति । च-शब्दः पुरुषस्य बहुत्वेन सह धर्मान्तराणि समुच्चिनोति । प्रयरं कुर्वीत, तत्र हेतुः स एव सर्वशरीरेष्वेक' इति, इति हेतोः, चालयेत् श्वर्तयेत् । सिद्धमेव पुरुषवहुत्वमिति शेषः, यद्वा एतैहेतुभिः पुरुषबहुत्वमेव सिद्धं भवति नात्मैक्यमित्यर्थों ज्ञेयः । अन्यथात्वं-सास्विकादिप्रभेदेनोत्तममध्यमाधमभावरूप प्राणिवैचित्र्य- मित्यर्थः, तदेवाह-"केचिस्खलु" इति सस्वनिकायाः प्राणिसमूहाः, ऊर्ध्वस्तसः देवरदयः। यद्येकः पुरुषः स्वात् तर्हि तेषु तेषु सस्वनिकायेक्षन्यथाभावो वैलक्षण्यं न भवेदित्पन्वयः, आत्मैक्य उच्चावचमाणभृत्प्रपञ्चो न भवेदपि त्वेकविध एव स्यादिति भावः, भेदे पुरुषबहुत्त्वे तु अयम् उत्तममध्यमाधमभावः अदोषः दोषविधुरः-सात इति यावत् ॥ १८ ॥ धर्मान्तराणि एतदार्योपनिबद्धानि साक्षित्वादीनि । 'अस्मात्' इत्यनभिधाय तस्मात्' इत्यभिहितवतः कारिकाकृतस्तात्पर्य-- ...........
-- २३८ साहयतत्वकौमुदी। विपासादस्मात् -इत्युक्ते त्रैगुण्यविपर्ययात्-इत्यनन्त. रोक्तं संबध्येत, अतस्तचिरासाय तस्मात्--इत्युक्तम् , अनन्तरोक्तं हि सन्निधानादिदमो विषयो, विप्रकृष्टं च तद इति विप्रकृष्टं 'त्रिगुणमविवेकि' इत्यादि संबध्यते, तस्मात्त्रिगुणादेः यो विपर्यासः स पुरुषस्यात्रिगुणत्वं विवेकित्वमविषयत्वमसा- धारणत्वं चेतनत्वमप्रसवधर्मित्वं च । माह-"विपर्यासादस्मात्” इति । तन्निरासाय समनन्तरा- भिहितस्यासंबन्धाय, बुद्धिस्थव्यवाहताभिमतपरामर्शाय च तस्मादित्युक्त- मित्यर्थः । कथमेत दवगम्यते, तबाह-"अनन्तरोक्तं हि' इति, "इदमस्तु सन्निकृष्टे, समीपतरवर्तिन्येतदो रूपम् । अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात्॥ इत्यभियुक्तोक्तेः, सन्निधानात् सन्निकृष्टत्वरूपार्थवलादनन्तरोक्त वस्तु इदमो विषयः इदेशब्दोपस्थाप्यं, विप्रकृष्टं व्यवहितं च तदः तच्छन्दस्य प्रतिपाद्य- मिति सङ्केत इति-अतः दूरस्थं त्रिगुणभित्याद्यत्र परामृश्यत इत्यर्थः । अत्रेदं बोध्यम्-अनयार्यया ह्याचायण पूर्वाभिहितव्यक्ताव्यक्तधर्मजात- त्रिगुणत्वादिविपरीतात्रिगुणत्वादिधमत्त्वेन हेतुना पुरुषस्य कैवल्यसा- क्षित्वादिरूपधर्मवत्त्वमिति सिसाधयिषितं, तद्यदि 'अस्मात्' इति पद- मत्रोपादीयेत तेन च समनन्तरोक्तं 'गुण्यविपर्ययात्' इति परामृश्येत तर्हि निगुणत्वविपरीतेनात्रिगुणत्वहेतुना केवलं सुखादिशून्यतारूपकैवल्यधर्म- वत्वमेव पुरुषस्य सिद्ध्येत न साक्षित्वादिधर्मवत्त्वं, तत्प्रयोजकचेतनत्वादेर- त्राला त्, अत उपात्तनिखिलधर्माणां सहेतुकत्वलाभाय तस्मात्' इत्युपादाय तेन च व्यवहितं 'त्रिगुणमविवेकि' इत्यादि पराभृश्य तस्मात् त्रिगुणा- देविपरीतादब्रिगुणत्त्वादेहेतोः पुरुषस्य साक्षित्वादिकं सिद्धमित्यर्थोऽत्र संपाद- (१) एतत् 'अस्मात्' इत्युपादानेऽनन्तरोक्तमेव संबध्येतेत्येतदित्यर्थः । (२) दूरस्थम् ११-इत्यास्थिमित्यर्थः । (३) एतदपि यदा परामृष्टत्रैगुण्य विपर्ययादिति पदेन सहात्रत्सविपर्यासादिति पदं 'त्रैगुण्यविपर्ययरूपाद्विपर्यासात्' इत्येवमन्वीयार्थः क्रियेत तदा लभ्येत, यदि तु त्रैगुण्यविपर्ययात्सकाशाद्यो विपर्यास स्तस्मादित्येवमन्वीयेत तदा तु विपरी- तमेवापद्यतेत्यपि ज्ञेयम् । (४) साक्षित्वादिसाधकचेतनत्वादेहेंतोरलाभादित्यर्थः । (५) अनेन हेतुना साक्षित्वमनेन च हेतुनाऽकर्तृत्व मित्यादिसाभायत्यर्थः । %E CHAR S O साङ्ख्यतत्त्वकौमुदी २३९ तत्र चेतनत्वेनाविषयत्वेन साक्षित्वद्रष्टुत्वे दर्शिते, चेतनो हि द्रष्टा भवति नाचेतनः, साक्षी च दर्शितविषयो भवति, यस्मै प्रदर्श्यते विषयः ससाक्षी, यथा हि लोकेऽर्थिप्रत्यर्थिनौ विवादविषयं साक्षिणे दर्शयत एवं प्रकृतिरपि स्वचरितं वि- प्यं पुरुषाय दर्शयतीति पुरुषः साक्षी, न चाचेतनो विषयो वा शक्यो विषयं दर्शयितुमिति चैतन्यादविण्यत्वाच्च भवति साक्षी, अत एव द्रष्टापि भवति । नीयः, एतदेवाह-"तस्मात्-त्रिगुणादेयों विपर्यास" इति, कीटकू से इत्य- त्राह-"स पुरुषस्यात्रिगुणत्वम्” इत्यादि । 'अप्रसवधर्मित्वं च'-तत्माद् विपर्यासात्पुरुषस्य साक्षित्वादिकं सिद्ध- मिय॑थः । यस्माद्विपर्यासाद् यत् सिद्धं तद्विभज्य दर्शयति-"तत्र' इति, दर्शितो विषयो यस्मादसौ दर्शितविषयः, तदेवाह-“यस्मै प्रदर्यत" इति । एतदेव दृष्टान्तेन स्पष्टयति-"यथा हि लोके" इति, अर्थात इत्यर्थः साध्यः सोऽस्यास्तीत्यथीं वादी, तत्प्रतिपक्षः प्रत्यर्थी प्रतिवादीत्यर्थः । एवं प्रकृतिरपि बुद्धिरूपेण परिणता प्रकृतिरपि स्वचरितं स्वोपगृहीतं विषयजातं स्वस्मिन् प्रतिबिम्बिताय स्वस्वामिने पुरुषाय समर्पयतीत्यर्थः । तदुक्तं विष्णुपुराणे-"गृहीतानिन्द्रियैरानात्मने यः प्रयच्छति । अन्त:- करणरूपाय तस्मै विश्वात्मने नमः॥” इति घटादाविवाचतने महदादौ साक्षित्वादेरसम्भवमाह-"न चाचेतन' इति । "भवति साक्षी” इति, अत्रेदं बोध्यं-'साक्षाद् द्वेष्टरि संज्ञायाम्, इति पाणिनिस्मरणात् “साक्षात्संबन्धात्साक्षित्वम्' इति साङ्ख्यसूत्राच्च बुद्धे- रेव साक्षी पुरुषस्तया सहाव्यवहितसंबन्धान्नत्वन्येषां, तैस्सह साक्षात्सं- बन्धाभावादिति । कथन्तयन्येषां भानम्, अत्राह "अत एव" इति, साक्षित्वादेवा- न्येषां द्रष्टापि भवतीत्यर्थः । (१) त्रिगुणत्वादः सकाशादित्यर्थः (२) सः विपर्यासः । (३) ५।२९१। साक्षादित्यव्ययाद्रष्टर्यर्थ इनिप्रत्यय इत्यर्थः । (४) अ. १ सू. १६१ : , . . : 17 २४० साङ्ख्यतत्वकौमुदी। अत्रैगुण्याच्चास्य कैवल्यम् , आत्यन्तिको दुःखत्रयाभावः कैवल्यं, तच्च तस्य स्वाभाविकादेवात्रैगुण्यात्सुखदुःखमोहर- हितत्वात्सिद्धम् , अत एवात्रैगुण्यान्माध्यस्थ्यं, सुखी हि सुखेन तृप्यन्दुःखी हि दुःखं द्विषन्मध्यस्थो न भवति तदुभयरहितस्तु 'मध्यस्थ' इति, 'उदासीन' इति चाऽऽख्यायते । इन्द्रियप्रणालिकया बुद्धौ तत्तदाकारेण परिणतायां पुरुषेण दृश्यायां सत्यां तदारूढाः पदार्था अपि दृश्या भवन्तीति तेषां द्रष्टा पुरुषः, यंदाहुः-"द्रष्टा दृशिमात्रः शुद्धोपि प्रत्ययानुपश्यः” “दृष्टा बुद्धेः प्रतिसंवेदी पुरुष" इति वेति भाः, तच्च कैवल्यं च, तस्य पुरुषस्य, स्वाभाविकादेव ताविका- देव, एतच्चोपरिष्टात्स्पष्टम् । माध्यस्थ्यं ताटस्थ्येन वर्तमानवं-सुखादिशून्यत्न रागद्वेषराहित्यमिति यावत्, एतदेव विपर्ययप्रदर्शनेन द्रढयति-"सुखी हि" इति, तृप्यन् तृप्ति लभमानः,सुख रागं कुर्वाण इति यावत् तदुभयरहितः रागद्वेषरहित इत्यर्थः । 'उदासीन इति' यद्यपि विवदमानयोरुभयोरपि पक्षपाती हितैपी वा मध्यस्थः, विवदमानयोरुभयोरप्युपेक्षक उदासीन इत्येवं तयोर्भेदः, अत एव 'सुहृन्मित्रायुदासीनमध्यस्थद्वेष्यबन्धुषु' इत्यादौ तयोर्भेदेनोपणादानं, तथापि- 'श्रुत्वा युद्धोद्यमं रामः कुरुणां सह पाण्डवैः । तीर्थाभिषेकव्याजन मध्यस्थः प्रययौ किल॥” इत्यादावुदासीनेपि मध्यस्थपदप्रयोगदर्शनेन रागद्वेषराहित्य- मानं साम्यमादाय तयोरभेदों निर्वाह्यः । (१) योगसूत्रकारा इति शेषः। (२) २१२० शुद्धोऽपि अपरिणाम्यपि दृशिमात्र: चिन्मात्रः पुरुषः प्रत्ययानु- पश्यः बुद्धिवृत्तिमनुपश्यन्सन्द्रष्टा भवतीत्सर्थः । (३) संवेदिन्या बुद्धेः प्रतिरूपः, अर्थाकारायों बुद्धौ सत्यां तत्प्रतिबिम्बितत्वेन, तदनुकारीति योगमाष्यार्थः। (४) बुद्धेः साक्षान्प्रकाशक: पुरुषोऽन्येषान्तु बुद्धिवृत्तिव्यवधानेन प्रकाशक- इति तत्त्वम् । (५) उपरिष्टात् 'तस्मान्न बध्यते' ६२ इत्यत्रेत्यर्थः । (६) 'साधुप्त्रपि च पापेषु समबुद्धिविशिष्यते' इति गीताया उत्तरार्द्धम् , अ. ६ श्लोक ९ (७) भा. स्कं. १० अ.७८ । . ।
साङ्ख्यतत्त्व कौमुदी। २४१ विवेकित्वादप्रसवधर्मित्वाच्चाकर्तेति सिद्धम् ॥ १९ ॥ स्यादेतत् , प्रमाणेन कर्तव्यमर्थमवगम्य चेतनोऽहं चिकी- पन्करोमि इति कृतिचैतन्ययोः सामानाधिकरण्यमनुभव- सिद्धं, तदेतस्मिन्मते नावकल्पते-चेतनस्याकर्तृत्वात्कर्तुश्चा- चैतन्यात् , इत्यत आह-"तस्मात्तत्संयोगात्" इत्यादि- तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वेपि तथा कर्तेव भवत्युदासीनः ॥२०॥ यतश्चैतन्यकर्तृत्वे भिन्नाधिकरणे युक्तितः सिद्धे तस्माद्धा- न्तिरियमित्यर्थः। विवेकित्वान्महदादिवत्सम्भूयकारित्वाभावादप्रसवधर्मित्वादपरिवामित्व- नाजनकत्वादकतेति सिद्धमित्यर्थः ॥१९॥ 'जानाम्यहं करोमीदमहम्' इति प्रत्यये द्रष्टृत्वकर्तृत्वयोरेकाधिकरणत्वे- नोपलम्भात् 'अकर्तृभावश्च' इत्यभिधानमसमीचीनमिति शङ्कते-"स्यादे- तत्” इत्यादिना । अवगम्य ज्ञात्वा, अनेन ज्ञानं दर्शितं, 'चिकीर्षन्' इतीच्छा दर्शिता, 'करोमि' इति च कृतिरुक्ता, 'चेतनोहम्' इत्यनेन च तेषामाश्रयोऽभिहितः, तथा च ज्ञानेच्छाकृतीनामेकाधिकरणत्वमनुभवसिद्धमित्यत्रायातम् । अस्त्वेवं ततः किं, तत्राह-"तत्” इति, तत् एकाधिकरणत्वम्, अस्मिन् मते बुद्ध्यादिकं कर्तृ चेतनश्च पुरुषोऽकतैपि मते, न अवकल्पते युज्यते, तत्र हेतुः-चेतनस्य पुरुषस्याकर्तृत्वात्, कर्तुः बुद्ध्यादेश्वाचेतनत्वादिति, 'तस्माद्' इत्यनेनापेक्षितं पूरयति-'यत" इति, चैतन्य प्रकाशकत्वं तच्चात्मधर्मः, कर्तृत्वं कृत्तिमत्वं तच्च बुद्धिधर्मः, इत्येवं भिन्नाधिकरणे युक्तितः त्रिगुण- त्वात्परिणामित्वाद् बुद्धेः कर्तृत्वं, निर्गुणत्वादपरिणामित्वात्पुरुषस्याकर्तृत्वं द्रष्टुत्वादिकं च, इत्यादिपूर्वाभिहितयुक्तितः सिद्धे साधिते तस्माद् भ्रान्तिः "दृग्दर्शनशक्त्योरेकात्मतेवास्मिता" इति लक्षितासिताख्याविवेककृता इयं सामानाधिकरण्यप्रतीतिरित्यर्थः । (७) 'द्रष्टत्वमकर्तृभावश्च' इत्यनेन यदात्मनो द्रष्टले सत्यकर्तृत्वमुक्तं तदसङ्गत- मित्यर्थः। (२) एवं कृतिचेष्टनत्वयोरेकाधिकरणनम् । (३) दृक्शक्तिः पुरुषः, दर्शनशक्तिः बुद्धि : तयोर्द्रष्टदृश्ययोरविद्यापादिता यैकरूपतवे सास्मितेति योगसूत्रार्थः, पा० २ सू० ६ । . १ A Pricaily A --- -- . २४२ साहयतत्त्वकौमुदी। / भ्रान्तिवीजं तत्संयोगः तत्सन्निधानम् । लिङ्गं महदादिसूक्ष्मपर्यन्तं वक्ष्यति, अतिरोहितार्थम- न्यत् ॥ २० ॥ 'तत्संयोगात्' इत्युक्तं, न च भिन्नयोः संयोगोऽपेक्षां विना, न चेयपकार्योपकारकभावं विना, इत्यपेक्षाहेतुमुपकारमाह-- किंनिमित्ता पुनरियं भ्रान्तिः, अत्राह- भ्रान्तिबीजं तत्संयोग" इति, चेतनस्यासङ्गत्वात्कथं संयोग, इत्यत्राह-''तत्सन्निधानम्” इति । तथा च साङ्ख्यसूत्रम्-“उपैरागात्कर्तृत्वं चित्सान्निध्यात्” इति । एवं च लिङ्ग बुद्ध्यादिकमचेतनमपि तत्संयोगात् चेतनसान्निधानात् चेतनावत् चेतनमिव भवति, अतो जानामीति प्रत्यय उपपन्नः, तथा गुणकर्तृत्वेपि बुद्ध्यादिरूपेण परिणतानां गुणानां कृतिमत्त्वेपि तथा बुद्ध्युप- रागात्-तत्प्रतिविम्बितत्वाद् उदासीनोपि पुरुषः कर्तेव भवति, तेन करोमी. त्युपपन्नः, इत्यार्यार्थोऽत्र फलितः। यद्यपि जानामीति प्रत्ययस्यात्माधिकरणत्वं करोमीति प्रत्ययस्य च बुद्ध्य- धिकरणत्वं युक्तं तथापि धेमिणोविवेकाग्रहात् तद्धर्मयोरपि साङ्कत्कृिति- चैतन्ययोस्सामानाधिकरण्यं भातीति तत्त्वम् । अतिरोहितार्थं स्पष्टार्थम् ॥ २० ॥ भिन्न योः चेतनाचेतनयोरात्मप्रधानयोः, अपेक्षां परस्पराकाङ्क्षाम्, अ-- न्योन्यानुरागो वाऽपेक्षा, इयमपेक्षा, यत एवमिति अतः अपेक्षाहेतुमुप- कारमाहेति-यद्यपि "तस्य॑ हेतुरविद्या" इति योगसूत्रेणानादिविपर्ययज्ञान- (१) ४-इत्यार्ययेति शेषः, 'भ्रान्तिबीजम्' इति पाठात्पूर्वमयं पाठो यद्यप्युपलभ्यते तथापि योग्यत्वाद्विपरिवर्तितः, मा भूदत्र प्रत्यवायो, न ह्येषा श्रुतिरिति । (२) अ० १ सू० १६४-अत्र यथायोग्यमन्वयः, पुरुषस्य यत्कर्तृत्वं तद्बुद्धयपरागात् , बुद्धेश्च या चित्ता सा पुरुषसान्निध्यादित्यर्थः । ।। (३) धर्मिणोः बुद्धिपुरुषयोः । (४) धर्मयोः कृति चैतन्ययोः । (५) यथाग्न्ययसोः परस्परं संयोगविशेषात्परस्परधर्मारोपस्तथा बुद्धिपुरुषयोरंपीति भावः । (६) २।२४ तस्य बुद्धिपुरुषसंयोगस्य । . ।
. - , सावतत्वकौमुदी। २४३ पुरुषस्य दर्शनार्थम् इत्यादि- पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥२१॥ 'प्रधानस्य' इति कर्मणि षष्ठी, प्रधानस्य सर्वकारणस्य यद्दर्शनं पुरुषेण तदर्थं, तदनेन भोग्यता प्रधानस्य दर्शिता, ततश्च भोग्यं प्रधानं भोक्तारमन्तरेण न संभवतीति । वासनैव संयोगनिदानमभिहित तथाप्यवान्तरं संयोगप्रयोजकं परस्परोप- कारमाहेत्यर्थः । उभयोः पुरुषस्य प्रधानस्य च यः संयोगः । स दर्शनार्थं कैवल्यार्थं च प्रधानेन स्वदर्शनार्थं सुखाद्यात्मकस्वस्वरूपानुभवरूपभोगार्थं पुरुषोऽपेक्ष्यते, पुरुषेण च स्वकैवल्यार्थं कैवल्यकारणविवेकज्ञानरूपप्रकृतिपरिणामार्थ प्रधा- नमपेक्ष्यते, तत्र दृष्टान्तः- पङ्ग्वन्धवत्'यथा गतिशक्तिविहीनेन पङ्गुनाऽभी- ष्टदेशप्राप्तये गतिशक्तिमानन्धोऽषेक्ष्यते दर्शनशक्तिहीनेन चान्धेन मार्ग. प्रदर्शनार्थ दर्शनशाक्तमान् पङ्गुरपेक्ष्यते तथेति कारिकार्थः । अमुमेवार्थं विभज्यान्वयाख्यानेन दर्शयति-"प्रधानस्येति कर्मणि पष्टी" इति, 'उभयप्राप्ती कर्मणि' इति सूत्रेणेत्यर्थः । किजियापेक्षयेदं कर्म, इत्याकाङ्क्षायां व्यवहितामपि दर्शनक्रियां योग्यतया संबध्नाति-"प्रधानस्य-यद्दर्शनम्' इति । कर्तृकर्मणोः सत्त्व एव कर्मणि षष्टीप्रवृत्तेः कर्तृपदमध्याहरमाणः केन दर्शनमित्याकासितं पूरयति-"पुरुषेण" इति, तदर्थं स्वानुभवार्थं प्रधानेन पुरुषोऽपेक्ष्यत इत्यर्थः, तदेवाह-"तदनेन” इति, तेनानेन पुरुषकर्तृकदर्श- नकर्मविषयत्वकथनेनेत्यर्थः । (१) अत्र पङ्गुपमो निष्क्रियः पुरुषः, अन्धोपमं चाचेतनं प्रधानमिति बोध्यम् , यथाऽन्धस्कन्धारूढेन पङ्गुनाऽन्धो मार्गे प्रवर्त्यते तथा प्रकृत्यारूढेन पुरुषेण प्रधानं । सर्गे-प्रवर्त्यते यथा चाऽन्धेन पङ्गुः स्वाभीष्टस्थानं प्राप्यते तथा प्रधानेन कैवल्यं प्राप्यत इत्यर्थोप्यत्र बोध्यः । , -पुरुषः । २४४ साङ्यतत्वकौमुदी। युक्ताऽस्य भोक्रपेक्षा। पुरुषस्यापेक्षां दर्शयति- 'पुरुषस्य कैवल्यार्थ तथा हि-प्रधा- नेन सम्भिन्नः पुरुषस्तगतं दुःखत्रयं स्वात्मन्यभिमन्यमानः / कैवल्यं प्रार्थयते, तञ्च सत्त्वपुरुषान्यताख्यातिनिबन्धनं, न च । सत्त्वपुरुषान्यताख्यातिः प्रधानमन्तरेणेति कैवल्यार्थं पुरुषः प्रधानमपेक्षते । अनादित्वाच्च संयोगपरम्पराया भोगाय संयुक्तोपि कैव- ल्याय पुनः संयुज्यत इति युक्तम् । ननु भवत्वनयोः संयोगो, महदादिसर्गस्तु कुत, इत्यत आह--"तत्कृतः सर्गः"-संयोगो हि न महदादिसर्गमन्तरेण भोगाय कैवल्याय च पर्याप्त इति संयोग एव भोगापवगार्थं सर्ग करोतीत्यर्थः ॥ २१ ॥ अस्य प्रधानस्य भोत्क्रपेक्षायुक्तति, सुखाद्यनुभवो हि भोगः, न च सुखाद्यास्मकं प्रधानं स्वमनुभवितुमलं स्वात्मनि क्रियाविरोधादचेतनत्वाच्चात: स्वानुभवार्थ युक्तास्य चेतनापेक्षा 'चिदवसानो भोग' इति सूत्रादित्यर्थः । 'पुरुषस्यापेक्षाम्'-पुरुषेण किमर्थं प्रधानमपेक्ष्यत इत्याकाङ्क्षायां पुरुषस्य प्रधानापेक्षा दर्शयतीत्यर्थः । प्रधानेन सभिन्नः प्रधानादात्मनो विविक्तताभबुध्यमानः। तच्च कैयल्यं च, सत्वैपुरुषान्यताख्यातिनिबन्धनं प्रकृत्यवधिकपुरुषा- न्यताप्रकारकज्ञाननिदानमित्यर्थः । 'प्रधानमन्तरेण'-बुद्धिरूपेण परिणतप्रधानस्यैव परिणामो विवेकज्ञानमिति प्रधानं विना न संभवतीत्यर्थः। ननु भोगाय चेत् संयुक्तः पुरुषः किमिति कैवल्याय पुनः संयुज्यते, त नाह-'अनादित्वात्' इति, अविच्छिन्नस्वादित्यर्थः । अनयोः प्रधानपुरुपयोः, तत्कृतः इष्टदृश्यसंयोगकृतः सर्गः भोगापवर्गद्वा. रभूतो महदादिसंसारः, तदुक्तं "दृष्टदृश्ययोः संयोगो हेयहेतुः” इति ॥२१॥ (१) अ० १ सूं० १०४ । चिति. पुरुषे अवसानं पर्यवसानं-निष्टा यस्य स चिदवसानो भोगो भवतीत्यर्थः । (२) सत्त्वं प्रधानम् (३) जडाया: परिणामिन्याः प्रकृतेः सकाशाद्भिन्नोहं चेतनोऽपरिणामीच्याकारकज्ञानमेव निदानं मुख्य कारणं यस्यैवंविधमित्यर्थः । (४) यो० पा० २ सू० १७॥ हेयहेतुः संसारकारणमित्यर्थः । -- - सावतत्त्वकौमुदी। २४५ सर्गक्रममाह-"प्रकृतर्महान्" इत्यादिना- प्रकृतेमहांस्ततोहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडकात्पञ्चभ्यः पञ्च भूतानि ॥ २२ ॥ प्रकृतिः अव्यक्तं, महदहङ्कारौ वक्ष्यमाणलक्षणौ, एका- दशेन्द्रियाणि वक्ष्यमाणानि, तन्मात्राणि च पञ्च, सोयं षोडश- 'प्रकृतेर्महान्' इत्यत्र जायत इति शेषः । 'पोडशक' इति पदं व्याख्यातुं तदवान्तरसङ्ख्यामाह-"एकादशेन्द्रियाँ- णि" इति । तन्मात्राणि शब्दतन्मात्रादिपदप्रतिपाद्यानि शब्दादिगुणकान्या- काशादीनि सूक्ष्मद्रव्याणि पञ्चत्यर्थः, एतच्चाधस्तादावदितमुपपादयिष्यते च । षोडश परिमाणमस्येत्यर्थे कुनि पोशक इति साधुरित्यभिप्रेत्याह-"सोयं षोडशसङ्ख्यापरिमित" इति, सोय षोडशकः तस्मादहङ्काराजायत- इत्यर्थः । यत्तु गुणपर्वसूत्रे योगभाष्ये तन्मात्राणां महत्तत्त्वकार्यत्वमुक्तं तत्तु महत्त- त्त्वावेशेनवाहङ्कारस्य कार्योत्पादक्षमत्वान्महत्तत्त्वमेयाहङ्कारद्वारा तन्मात्र- कारणमित्यभिप्रायेण न तु साक्षादेव महत्तत्त्वं तन्मात्रकारणमिति मत्वा, "सूक्ष्मविषयत्व चालिङ्गपर्यवसानम्” इति सूत्रे स्वयमेव तन्मात्राणामहङ्का- रकार्यत्वाभिधानात्, “अक्षरान्महन्महतो वै अहङ्कारस्तस्मादेवाहङ्कारात्पञ्च- तन्मात्राणि" "प्रकृतेर्महान् महतोऽहङ्कारोऽहङ्कारात्पञ्च तन्मात्रांणि" इति श्रुतिसूत्रयोः स्पष्टमहङ्कारकारणकत्वस्य तन्मात्राणामान्नानाच्चेति । एवं चागमपराहतत्वात्तन्मात्राणि बुद्धिकारणकानि अविशेषत्वादहङ्का- रवदित्यनुमानं 'न' मानमिति ध्येयम् । . (१) २३, २४-इत्यनयोरार्ययोरित्यर्थः । (२) २६, २७-इत्यनयोरार्ययोर्व- क्ष्यमाणानि । (३) १५-इति कारिकाव्याख्याने, ३८-इति कारिकायामुपपाद- यिष्यते चेत्यर्थः । (४) सङ्ख्याया अतिशदन्तायाः कन्' इति प्रस्तावे 'तदस्य परिमाणम्' (५।१५७) इत्यनेन कन्प्रत्यय इत्यर्थः। (५) पा० २ सू० १९ । (६) पा० १सू०४५। (७) योगभाष्यकारैरित्यर्थः । (८) गो० ता० उ० ५३। पर्वतत्वाद्विन्ध्यव- दित्यनुमानस्य यथा मेरुः काञ्चनमयः इत्यागमबाधितत्वादमानत्वं तद्वदित्यर्थः, इदचानुमानं गुणपर्वस्त्रभाष्यव्याख्यायां मित्रैरूहितभिति ज्ञेयम् । (९) अ. (१०) मेरुः पाषाणमयः - सातत्वकौमुदी। सङ्ख्यापरिमितो गणः षोडशका, तस्मादपि पोडशकादप- कृष्टेभ्यः पञ्चभ्यस्तन्मात्रेभ्यः पञ्च भूतानि आकाशादीनि । तत्र शब्दतन्मात्रादाकाशं शब्दगुण, शब्दतन्मात्रसहिता- स्पर्शतन्मात्राद्वायुः शब्दस्पर्शगुणः, शब्दस्पर्शतन्मात्रसहि- ताद्रूपतन्मात्रात् तेजः शब्दस्पर्शरूपगुणं, शब्दस्पर्शरूपत- न्मात्रसहिताद्रसतन्मात्रादापः शब्दस्पर्शरूपरसगुणाः, शब्द- स्पर्शरूपरसतन्मात्रसहिताद्वन्धतन्मात्राच्छब्दस्पर्शरूपरसगन्ध- गुणा पृथिवी जायत इत्यर्थः ॥ २२ ॥ अव्यक्तं सामान्यतो लक्षितं"तद्विपरीतम्" इत्यनेन, विशेष- 'ए 'षोडशकात्' इत्यस्य पञ्चभ्य' इत्यनेन सामानाधिकरण्येनान्वयासम्भ- वादपोक्षितं पदं पूरयति-"अपकृष्टेभ्य” इति । षोडशकान्निष्कृष्टेम-पोड- शकमध्यात्पृथक्कृतेभ्य इत्यर्थः । कस्मात् तन्मात्राकि भूतं जातमित्यत्राह- "तत्र शब्दतन्मात्रादाकाशम्” इति । अन्न “एकद्वित्रिचतुष्पञ्चलक्षणाः शब्दादय” इति योगभाष्यात्-सूक्ष्मा- काशाख्यशब्दतन्मानं शब्दमात्रधर्मकं, सूक्ष्मवारवाख्यस्पर्शतन्मानं च शब्द- स्पर्शधर्मकं, सूक्ष्मतेजोऽभिधेयरूपतन्मात्रं च शब्दस्पर्शरूपधर्मकं, सूक्ष्म- जलाख्यरसतन्मात्रं च शब्दस्पर्शरूपरसधर्मकं, सूक्ष्मपृथिव्याख्यगन्धतन्मात्रं च शब्दस्पर्शरूपरसगन्धधर्मकामत्यवसेयम्, एवं च शब्दतन्मात्राच्छब्द- गुणकात्सूक्ष्मादाकाशाच्छन्दगुणकं स्थूलमाकाशं जायते, शब्दतन्मात्रस- हितात्स्पर्शतन्मात्रात् शब्दस्पर्शगुणकात्सूक्ष्माद्वायोः शब्दस्पर्शगुणकः स्थूलो वायुर्जायते इत्यादिरर्थोऽत्राभिप्रेतो बोध्यः ॥ २२ ॥ 'अध्यवसायो बुद्धिः' इति, ननु गन्धः पृथिवीति वा लक्षणमिदं न ह्य- (१) का० १० । (२) षोडशकादिति ल्यब्लोपे पञ्चमीत्याश्रित्य षोडशकं प्राप्य स्थितेभ्यः पञ्चभ्य इत्यर्थ इति साङ्ख्यचन्द्रिकाकारः। (३) लक्ष्यतेऽनेनेति लक्षण धर्मः, तन्मात्राणां द्रव्यत्वलाभाय लक्षणपदं, तथा चोत्तरोत्तरतन्मात्रेषु पूर्वपूर्वतन्मात्राणां हेतुत्वाच्छन्दतन्मानं शब्दमात्रधर्मकं तत्कार्यतया स्पर्शतन्मात्रं शब्दस्पर्शोभयधर्मकम्, एवं क्रोणकैकधर्मवृद्धिरित्यर्थ इति योगवार्तिककारः-- पा० २ सू० १९ । (४) इदम् अ,वसायो बुद्धिरिति लक्षणवाक्यम् । " - सायतच्चकौमुदी। २४७ तश्च"सत्त्वं लघु प्रकाशकम्" इत्यादिना,व्यक्तमपि सामान्यतो लक्षितं "हेतुमत्" इत्यादिना, सम्प्रति विवेकज्ञानोपयोगितया व्यक्तविशेष बुद्धिं लक्षयति-"अध्यवसाय"-इति । अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । साविकमेतद्रूपं, तामसमस्माद्विपर्यस्तम् ॥ २३ ॥ "अध्यवसायो बुद्धिः" क्रियाक्रियावतोरभेदविवक्षया, सर्वो व्यवहर्ता आलोच्य मत्त्वाऽहमत्राधिकृत इत्यभिमत्य कर्त- व्यमेतन्मयेत्यध्यवस्यति, ततश्च प्रवर्तत इति लोकप्रसिद्धं, तत्र योयं कर्तव्यमिति विनिश्चयश्चितिमुन्निधानादापनचैतन्याया। बुद्धेः सोध्यवसायो बुद्धेरसाधारणा व्यापारः, तदभेदा बुद्धिः, स च बुद्धलक्षणं समानासमानजातीयव्यवच्छेदकत्वात् । तदेवं बुद्धि लक्षायित्वा विवेकज्ञानोपयोगिनस्तस्या धर्मान् ध्यवसाय एब बुद्धिपि त्वध्यवसायवती, तत्राह-"क्रियाक्रियावतोः” इति, व्यापारव्यापारिणोः धर्मधर्मिणोरिति यावत्, इन्द्रियान्तरच्यापारेभ्यो वि. विच्य बुद्धर्व्यापार निरूपयितुं प्रवृत्ती तावद् व्यापाराणां क्रममाह-'सर्वो व्यवहर्ता' इति । हानोपादानादिव्यवहारकर्ताऽखिलो नरः पूर्वमालोच्य ज्ञानेन्द्रियव्या- पारैर्वस्तु गोचरीकृत्य पुनश्च मत्वा इदमेवं नैवं वेति मनसा गुणदोषी विचार्य पुनः शक्तोहं खल्वेतन्निष्पादन इत्येवमभिमत्य अहङ्कारख्यापा-- रगोचरीकृत्य कर्तव्यामिदमिति अध्यवस्यति निश्चिनोति, ततश्च एवमालोच- नमननाभिमानावधारणादनन्तरं च प्रवर्तत इत्यर्थः । कथं जडाया बुद्धेनिश्चय, इत्यत्राह-"चितिसान्निधानात्' इति । तदभेदा तस्मादध्यवसायरूपाद् व्यापारादभेदो यस्यास्सा तदभेदा धर्मर्धामणोस्तादात्म्यात्, स च निश्चयाख्यव्यापारश्च समानजातीयेभ्यो मनआदीन्द्रियान्तरेभ्योऽसमानजातीयेभ्यश्च पञ्चतन्मात्रादिभ्यो बुद्धेावर्त- कत्वात् लक्षणं बुद्धरित्यर्थः । (१) का० १३ । (२) का० १० । (३) यद्वाऽनियतविषयत्वेन सर्व विषय - त्वेन वा समानजातीयौ मनोऽहङ्कारी, नियतैकैकविषयत्वेनासमानजातीयाश्चक्षु- रादेय इत्यर्थोऽत्र ज्ञेयः। -- .
, २४८ साङ्ख्यतत्त्वकौमुदी। सात्त्विकतामसानाह "धर्मो ज्ञानं विराग ऐश्वर्य सात्त्विकमे- तद्रूपं, तामसमस्माद्विपर्यस्तम्" इति । धोऽभ्युदयनिःश्रेयसहेतुः, तत्र यागदानाद्यनुष्ठानजनितो धर्मोऽभ्युदयहेतुः, अष्टाङ्गयोगानुष्ठानजनितश्च निःश्रेयसहेतु गुणपुरुषान्यताख्याति नं, विरागः वैराग्यं रागाभावः । तस्य यतमानसञ्ज्ञा, व्यतिरेकसञ्ज्ञा, एकेन्द्रिय सञ्ज्ञा, वशीकारसञ्ज्ञा, इति चतस्रः सञ्ज्ञाः । रागादयः कषायाश्चित्तवर्तिनस्तैरिन्द्रियाणि यथा त्वं विष: येषु प्रवर्त्यन्ते तन्मात्र प्रवतिषत विषयेष्विन्द्रियाणीति तत्परि- पाचनायारम्भः प्रयत्नो यतमानसञ्ज्ञा । “यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्म इति काणादसूत्रमनुसृत्य धर्मस्य लक्षणमाह-"धर्म" इति । तत्र स्वाराज्यसाम्राज्याद्यैश्वर्यविशेषोऽभ्युदयः, निश्चितं श्रेयः कल्याणं च निःश्रेयस कैवल्यम् । जनितश्च यमनियमादिजनितोऽशुक्लाकृष्णाख्यो धर्मविशेषश्चेत्यर्थः । वैराग्यस्य तान्त्रिकीस्सञ्ज्ञा आह-"तस्य” इति, वैराग्यस्येत्यर्थः । तत्रायां सज्ञां लक्षयति-"रागादयः कषाया” इति, कषायाः मलाः, माञ्जिष्ठादिकषायवञ्चित्तरञ्जक्रत्वाद्रागादयः कषाया इत्युपर्यन्ते, चित्त- गता ये रागादयो मलास्तैः यथास्वं स्वेषु स्वेषु विषयेष्विन्द्रियाणि प्रवर्त्यन्ते "प्रवर्त्तयालक्षणा दोषा' इत्युक्ते, तत्-यथा स्यात्तथा अत्र विषयेष्विन्द्रि- याणि मा प्रवतिषत प्रवृत्तानि मा कारिषत तैः' रागादय इन्द्रियाणि मा प्र- वर्तयन्त्विति यावत्, इति इत्यालोच्य तत्परिपाचनाय रागादिमलक्षालनाय यः मैत्र्यादिभावनानुष्ठानरूपो यताः सा यतमानस त्यर्थः । (१) अ० १आ० १ सू० २ । (२) पा० ४ सू० ७ इति योगसूत्रं विरीक्ष्यम् । (३) यथास्वम् इति वीप्सायामव्ययीभाव इत्याशयेनाह-"स्वेषु स्वघु'' इति स्वकीयस्वकीय विषयेग्वित्यर्थः। (४) अ० १ सू० १८। प्रवर्तना प्रवृत्तिहेतुत्वमेव लक्षण येषां ते दोषाः रागादय इत्ति न्यायसूत्रार्थः । (५) तैः रागादिकषायैरित्यर्थः । (६) पां० १ सू० ३३ इति योगसूत्रं द्रष्टव्यम् । आ. १ " -ammar...... १ Pand BENERAL2- ANSAR - ! -- साङ्ख्यतत्वकौमुदी। २४९ परिपाचने चानुष्ठीयमाने केचित्कषायाः पक्वाः,पक्ष्यन्ते च केचित्, तत्रैवं पूर्वापरीभावे सति पक्ष्यमाणेभ्यः कषायेभ्यः पक्कानां व्यतिरेकेणावधारणं व्यतिरेकसञ्ज्ञा । इन्द्रियप्रवर्तनासमर्थतया पक्कानामौत्सुक्यमात्रेण मनसि व्यवस्थानमेकेन्द्रियसंज्ञा, औत्सुक्यमात्रस्यापि निवृत्तिः उप- स्थितेष्वपि दृष्टानुश्रविकविषयेषु या संज्ञात्रयात्पराचीना सा वशीकारसंज्ञा, यामत्रभवान् पतञ्जलिवर्णयाञ्चकार -- "दृष्टा- नुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्" इति । सोयं बुद्धिधर्मो विराग इति । - 'अत्र जगात किं सारं किमसारं वेति गुरुशास्त्राभ्यां. ज्ञास्यामी- त्युद्योगो यतमानसज्ञा वैराग्यम्' इत्याहुः । द्वितीयां सज्ञामाह-'परिपाचने” इति-रागादिमलप्रक्षालनाय मै. व्यादिभावनायामनुष्टीयमानायां सत्यां केचिन्मलाः पक्काः उपशान्ता भवन्ति, केचिच्च पक्ष्यन्ते निवर्तिष्यन्ते, तत्रैवं सति एंत उपशमिता, एते च उपशम- यितव्या इति चिकित्सकवद्यद्विवचनं, विवेचनोत्तरं चावशिष्टानामुपशमाय यत्नानुष्ठानं तद्व्यतिरकेवैराग्यमित्यर्थः । तृतीयामाह-"इन्द्रिय' इति, पक्वानां तनूकृतानां रागादीनां बाह्यविषये विन्द्रियाणां प्रवर्तनेऽसमर्थतया यदुत्कण्ठामात्रेण तृष्णारूपेण मनस्यव. स्थानं तदेकेन्द्रियवैराग्यमित्यर्थः । तुरीयां सज्ञामाह-"औत्सुक्यमानस्यापि” इति,- दृष्टाः स्रक्चन्दनस्त्रियो. ऽन्नपानादयो विषयाः, आनुश्रविकाः वेदादधिगताः स्वर्गादयो विषयाः, तेषू. पस्थितेष्वपि या औत्सुक्यमात्रस्यापि तृष्णाया अषि निवृत्तिस्तेषूपेक्षा बुद्धिः सा सज्ञानयात्पराचीना पश्चाद्भाविनी वशीकारसज्ञेत्यर्थः । तुरीयायां सज्ञायां योगसूत्रं प्रमाणयति-"यामत्रभवान्पतञ्जलिः" इति, 'अत्रभवान्' इति पूजार्थः प्रयोगः, तथैव सङ्केतात् , लौकिकालौकि- कविषयजाते विगततृष्णस्य योगिचित्तस्य याऽनाभोगात्मिका स्थितिः सा वशीकारसज्ञावैराग्यमिति योगसूत्रार्थः । (१) केचित् अ० ६ श्लो० ३५ इत्यत्र गीताटीकायाम्मधुसूदनसरस्वतीस्वा- मिनः । (२) हेमचन्द्रकोशे तथाभिधानादित्यर्थः । (३) पा० १ सू० १६ ।
. २५० साङ्ख्यतत्त्वकौमुदी। ऐश्वर्यमपि बुद्धिधर्मः,यतोऽणिमादिप्रादुर्भावः । तत्राणि- मा अणुभावः, यतः शिलामपि प्रविशति, लघिमा लघुभावः, यतः सूर्यमरीचीनालम्ब्य सूर्यलोकं याति, महिमा महतो- भावः, यतो महान् संभवति, प्राप्तिः अङ्गुल्यग्रेण स्पृशति चन्द्रमसम्, प्राकाम्यम् इच्छानभिघातः, यतो भूमावुन्मजति, निमज्जति च, यथोदके, वशित्वं भूतभौतिकं वशीभवत्यव- श्यम्, ईशित्वम् भूतभौतिकानां प्रभवव्यूहव्ययानामीष्टे, यत्र कामावसायित्वं सत्य सङ्घल्पता, यथाऽस्य सङ्कल्पो भवति भू- तेषु तथैव भूतानि भवन्ति, अन्येषाम्मनुष्याणां निश्चया नि- यतः यस्मात् , धर्मात् , अणिमादि-इत्यादिपदग्राह्याण्यैश्वाणि संकलय- न्सन्नणिमादिपदार्थमाह-"तत्राणिमा' इति अणुभावः गुरुतरकलेवरोप्यणुर्भ वतीत्यर्थः, 'महान्'-तनुपरिमाणोपि नगनागनगरादिप्रमाणो भवतीत्यर्थः, प्राप्तिः सर्वेषां भावानां सन्निधानम् , अत एव भूमिष्टोपि चन्द्रमसं स्पृशति, इच्छानभिघातः नास्य योगिनः स्वरूपं काठिन्यादिभिर्भूम्यादिधमैरभि- हन्यतेऽत एव जलभिव भूमिमुद्भिद्योत्तिष्ठति जल इव च भूमौ निमजति प्रविशतीति । अवश्यम् इतरेषामवश्यमपि भूतभौतिकमस्य वशीभवतीत्यर्थः, 'भूत- भैतिकेषु वशीभवत्यवश्यश्चान्येषाम्' इति पाठो वाऽत्र बोध्यः, योगेभाष्ये तथा दर्शनात् । प्रभवव्यूहव्ययानाम् प्रभवः उत्पादः, व्यूहः यथावदवस्थापन, व्ययः नाशः तेषामीष्टे तन्मात्रादिद्वारा तेषां भूतानामुत्पादादा समर्थो भव- तीत्यर्थः। यत्र कामावसायित्वशदस्तान्त्रिक्या परिभाषया सत्य सङ्कल्पत्वार्थकः, यद्य- दर्थतया सङ्कल्पयति तत् तस्मै प्रयोजनाय कल्पते विषमध्यमृतकार्य सङ्कल्प्य भोजयन् जीवयतीत्यर्थः । कथमेतत्, इत्यवाह-"अन्येषाम्" इति, अयोगिनां निश्चयाः ज्ञानानि (१) भूतानि पृथिव्यादीनि भौतिकानि गोघटादीनि तेषु वशी स्वतन्त्रो भवति, तेषां त्ववश्यः, तेन यानि यथावस्थापयति तानि तथावतिष्ठन्त इत्यर्थः । (२) पा० ३ सू० ४५ । (३) एतत्पदार्थस्वभाववैपरीत्यम् ।
- साङ्ख्यतत्त्वकौमुदी। २५१ श्वेतव्यमनुविधीयन्ते, योगिनस्तु निश्चेतव्याः पदार्थी निश्चयम्, इति चत्वारः सात्त्विका बुद्धिधर्माः । तामसास्तु तद्विपरीता बुद्धिधर्माः अधर्माज्ञानावैराग्यानै- श्वर्याभिधानाश्चत्वार इत्यर्थः ॥२३॥ अहङ्कारस्य लक्षणमाह-"आभिमानोऽहङ्कार" इति- आभिमानोऽहङ्कारः, तस्माद्विविधः प्रवर्तते सर्गः । एकादशकश्च गणः, तन्मात्रपञ्चकश्चैव ।। २४ ॥ अभिमानोऽहङ्कारः यत् खल्वालोचितं मतं च तत्राहमधि- कृतः शक्तः खल्वहमत्र मदर्था एवामी विषयाः मत्तो नान्यो- ऽत्राधिकृतः कश्चिदस्ति अतोऽहमस्मि इति योऽभिमानः सोऽसा- धारणव्यापारोऽहङ्कारः, तमुपजीव्य हि बुद्धिरध्यवस्यति- 'कर्तव्यमेतन्मया' इति तस्य कार्यभेदमाह-"तस्माद्विविधः प्रवर्तते सर्गः" प्रका- रद्वयमाह "एकादशकश्च गणः" इन्द्रियाह्वः, "तन्मात्रपञ्च- निश्चेतव्यं ज्ञेय पदार्थम् अनुविधीयन्ते अनुसृतानि भवन्ति यादृशं ज्ञेय ताहगेव ज्ञानं, ताहगेव तेन कार्यमिति यावत्, योगिनस्तु निश्चेतव्याः ज्ञेयाः पदार्थाः निश्चयमनुविधीयन्ते ज्ञानानुसारिणो भवन्ति, यथा ज्ञातुं कर्तुं वेच्छन्ति तथैव ज्ञेयं भवतीत्यर्थः । तद्विपरीताः धर्मादिविपरीताः तानेबाह-"अधर्माज्ञानावै” इत्यादिना, तगाधर्मों ब्रह्मवधादिजन्यो नरकादिदुःखहेतुः, अज्ञानं चानित्यांशुचिदुः- खानात्मसु, नित्याशुचित्वदुःखात्मत्वनित्यशुचिसुखात्मत्वरूपं विपर्ययज्ञा. नम् , अवैराग्यं च विषयभोगतृष्णाः, अनैश्चर्य च प्रतिहतेच्छत्वमित्यर्थः ॥२३॥ - यद् वस्तु, कृत्यं वा, आलोचितं वाह्येन्द्रियैरीक्षित, मतं च मनसा तत्र तस्मिन् कृत्येहमधिकृतः, अस्यैव विवरणं "शक्त" इत्यादिकम् । अतोऽहमस्मि अत्राहमधिकृतोत्रीत्यर्थः । "असाधारणव्यापारः” इति,व्यापारव्यापारिणोरभेदविवक्षया,तमुपजीव्य अहङ्कारमाश्रित्य । १) पा० (२) सू०.५ इत्यत्रत्वं योगभाप्यं निरीक्ष्यम् । (२) 'असाधारणव्यापारत्वात्' इत्यपि क्वाचित्कः पाठः।
dehati ANSARAL - २५२ साङ्ख्यतत्त्वकौमुदी। कश्चैव" द्विविध एव सर्गोऽहङ्कारान्न त्वन्य इत्येवकारेणाव- धारयति ॥ २४ ॥ स्यादेतद् अहङ्कारादेकरूपात्कारणात्कथं जडप्रकाशको गणौ विलक्षणौ भवतः, इत्यत आह -"सात्त्विक" इत्यादि- सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् । भूतादेस्तन्मात्रः, स तामसस्तैजसादुभयम् ॥ २५ ॥ प्रकाशलाघवाभ्यामेकादशक इन्द्रियगणः सात्त्विको वैक- तात् सात्त्विकादहङ्कारात्प्रवर्तते, भूतादेस्तु अहङ्कारात्तामसात्तु तन्मात्रो गणः प्रवर्तते, कस्मात्, यतः से तामसः । एतदुक्तं भवति - यद्यप्येकोऽहङ्कारस्तथापि गुणभेदोद्भवा- भिभवाभ्यां भिन्नं कार्य करोतीति । ननु यदि सत्त्वतमोभ्यामेव सर्वं कार्य जन्यते तदा कृत- मकिञ्चित्करेण रजसा, इत्यत आह-"तेजसादुभयं" तैजसाद्रा- जसादुभयं गणद्वयं भवति । यद्यपि रजसो न कार्यान्तरमस्ति तथाषि सत्त्वतमसी स्वयमक्रिये समर्थे अपि न स्वस्वकार्यं कुरुतः, रजस्तु चलतया अहमिति प्रत्ययः क्रियतेऽनेनेत्यहङ्कारः, "अहङ्करोतीत्यहङ्कारः कुम्भका- रवत्" इति विज्ञानभिक्षुः, स्पष्टार्थमन्यत् ॥ २४ ॥ जडो गणः पञ्चतन्मात्रकः, प्रकाशकश्च गण:-एकादशक इन्द्रियाख्यः । "सत्त्वं लघु प्रकाशकम्" इत्युक्तेः प्रकाशलघुत्वाश्रयत्वादिन्द्रियगणः सा- त्त्विक इत्याह-"प्रकाशलाघवाभ्याम्” इति । प्रकृततन्त्रपरिभाषया वैकृत इति च सात्त्विकाहङ्कारस्य, सज्ञा तैजस इति च राजसाहङ्कारस्य, भूतादिः इति च तामसाहङ्कारस्य, इत्यभिप्रेत्याह- "वैकृतात्सात्त्विकात्" इति । तन्मात्राणि सन्त्यस्मिन् गण इति 'तन्मागो गणः' अर्शआद्यच्, 'स्वयमक्रिये' यतोऽतः समर्थे अपीत्यर्थः,एतच्च पुरस्ताद् व्यक्तम्,“कुरुतइति" (१) सः तन्मात्रपञ्चकः । (२) करणे घमिति भावः, अमरटीकायां भरतस्तु अहमित्यव्ययम्, तस्य करणम् अहमिति किरत्यत्रेति वाहङ्कारः, करोते: किरतेर्वा वञ् । (३) १३ इति कारिकार्यायाम् ।
साङ्ख्यतत्वकौमुदी। २५३ ते' यदा चालयति तदा स्वस्वकार्यं कुरुत इति, तदुभयस्मि- नपि कार्ये सच्चतमसोः क्रियोत्पादनद्वारेणास्ति रजसः कारणत्वमिति न व्यर्थ रज इति ॥ २५ ॥ इति यतः तत् तस्माद्, उभयस्मिन् इन्द्रियतन्मात्ररूप इत्यर्थः । विज्ञानभिक्षुस्तु पुराणेपुं, 'सात्त्विकाहङ्कारादिन्द्रियाधिष्ठातारो देवा मनश्च जातं राजसाद्दशेन्द्रियाणि जातानि, तामसाञ्च तन्मात्राणि' इति प्रक्रि- यादर्शनेनात्रापि “सात्त्विक एकादशक इत्यनेन मनो ग्राह्यं तैजसादुभयम् इत्युभयपदेन च द्विविधमिन्द्रियं ग्राह्यम्"इत्याह, परं नैतत्सुन्दरम् ,एकादश- कशब्दस्य एकादशसङ्ख्यापरिमिते गणे शक्तत्वेन मनोमात्रप्रत्यायनेऽशक्त- स्वात्, न च पुरणप्रत्ययान्तात्स्वाथै केऽभिमतलाभ इत्यभिमन्तव्यं,तथा सति एकादशकमित्यस्यैवौचित्येन पुल्लिङ्गनिर्देशायोगात्, न च 'सात्त्विकमे- कादंशकम्' इति सूत्रानुसारेणात्रापि एकादशकम् इत्येव पाठः कल्प्यत इति कल्पनीयं, तत्रापि 'कमेन्द्रियबुद्धीन्द्रियैरान्तरमेकादशकम्' इत्युत्तरसूत्रे- गैकादशकमित्यनेनैकादशेन्द्रियाणामेव ग्रहणबोधनेन कल्पनेपि मनोरथापार्थकत्वस्य तदवस्थत्वात्, सात्त्विकात्कथमप्रकाशशीलानि कर्मे-- न्द्रियाणीति चेत् त्वन्मतेप्यप्रकाशशीलाद्वाजसात्कथं ज्ञानेन्द्रियाणीत्यपि वि. भाव्यतामित्युपशम एव ते भिक्षोः श्रेयान् । सर्वस्य त्रिगुणत्वादुत्कटसत्त्वप्रधानादहङ्कारान्मनो जायते, मध्यमस- स्वप्रधानाच्च ज्ञानेन्द्रियाणि, निकृष्टसत्त्वयुक्ताच्चाहङ्कारात्कमेन्द्रियाणीति तु तथा मादृशाः ॥ २५ ॥ १) ते--सत्त्वतमसी, कर्म । (२) अ० २ सू० १८ इत्यत्र सायंप्रव- चनभाष्य इत्यर्थः । (३) "वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा । अहन्तत्त्वा- द्विकुर्वाणान्मनो वैकारिकादभूत् ॥ वैकारिकाश्च ये देवा अर्धाभिव्यन्जनं यतः । तैजसादिन्द्रियाण्येव ज्ञानकर्ममयानि च ॥ तामसो भूतसूक्ष्मादिर्यतः खं लिङ्ग- मात्मनः।" इत्यादिपुराणवाक्येष्वित्यर्थः । (४) एतच्च पूर्वम् २२-इलायर्यायां षोडशकपदव्याख्याने व्यक्तम् । (५) एकादश्शानां पूरणमित्यर्थे 'तस्य पूरणे' इति डटि स्वार्थिके कप्रत्यय एकादशक इति साधुरित्यर्थः । (६) मनश्शब्दस्य नपुंसकत्वादित्यर्थः। (७) अ० २ सू० १८-अत्र सूत्रे एकादशानां पूरण- मेकादशकं मन इति यावदित्यर्थाभिमानेनेयं शङ्का । (८) अ० २ सू० १९ किन्तदेकादशकभित्याकाङ्क्षायामिदं सूत्रम् ।
NO HOM EMEDANCE २५४ सालयतत्वकौमुदी। साविकमेकादशमाख्यातुं वालेन्द्रियदशकं तावदाह-"बुद्धी न्द्रियाणि" इत्यादिना- बुद्धीन्द्रियाणि चक्षुःश्रोत्रवाणरसनत्वगाख्यानि । वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः ।। २६ ॥ सायिकाहङ्कारोपादानकत्वमिन्द्रियत्वम्, तच्च द्विविधं यु- दीन्द्रियं कर्मेन्द्रियं च, उभयमप्येतदिन्द्रस्य आत्मनश्चितत्वा- दिन्द्रियमुच्यते, तानि च स्वसज्ञाभिश्चक्षुरादिभिरुतानि, 'एकादशम्' एकादशानां पूरणं मन इति यावत्, बुद्धिः रूपादिज्ञान तत्साधनानीन्द्रियाणि बुद्धीन्द्रियाणि, बुद्धीन्द्रियं-बुद्धिः रूपादिविषय. मालोचनं तत्करणमिन्द्रियं-ज्ञानेन्द्रियमिति यावत्, एवं च सात्त्विका- हङ्कारकार्यत्वे सति रूपादिविषयालोचनकरणत्वं ज्ञानेन्द्रियत्वमित्यन्त्र फलि. तम्, एवं कर्म वदनादिव्यापारः तस्करणमिन्द्रिय कौन्द्रियमिति । 'स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिती तस्मादिदन्द्रोनाम इदन्द्रो ह वै नाम तमिदन्द्रं सन्तामन्द्र इत्याचक्षते पसेक्षण' इति श्रुतेः इन्द्र आत्मा तस्य लिङ्गं ज्ञापकम् इत्यर्थे 'इन्द्रियमिन्द्रलिङ्गम्' इत्यादिसू. त्रैण 'इन्द्रियम्' इति साधु इत्यभिप्रेत्येन्द्रियपदव्युत्पत्तिमाह-"उभयम प्येतदि- न्द्रस्य" इत्यादिना । (१) शाकपार्थिवादिवन्मध्यमपदलोपोऽत्र (२) रूपाद्यालोच- नकरणत्वमालोकेऽतिप्रसक्त तद्वारणाय, सात्विकाहङ्कारकार्यवे. सति' इति । 7 (३) सः पूर्वोक्त आत्मा एतमेव मूर्द्धद्वारा प्रविष्टं पुरिशयानमात्मानं ब्रह्म ततम । तततमं-विस्तृतरूपमपश्यत् आत्मानमेव ब्रह्मरूपेण साक्षात्कृतवानिति यावत्, 1 ततः तुष्टः सन्नाह-"इदमदर्शम् अपरोक्षतयाऽहमदर्श . दृष्टवान स्मि ३ इति प्लुतिस्तुष्टयर्था, तस्मादपरोक्षदर्शनादिदन्द्रो नाम--इदम्पदपूर्वकादृशेदप्रत्यय इदं दृष्टवानित्यर्थे इदन्द्र इति, ह वै प्रसिद्ध नामैतदिदन्द्र इति, ननु इन्द्रो मा- याभिः पुरुरूप ईयते" इत्यादाविन्द्र इति नाम प्रसिद्धं न विदन्द्र इति तत्राह-'त- । मिदन्द्र सन्तमिन्द्र इत्याचक्षते' परोक्षेण पूजार्थ-यतः “परोक्षप्रिया देवा' इत्यै- । तरेयश्रुत्यर्थः । (४) करणव्यापारः कर्तृपरतन्त्रः व्यापारत्वात्कुठारव्यापारव- | दित्यव' करणेन कुर्तुरनुमानादीन्द्रियाणामात्मलिङ्गत्वम् । (५) "इन्द्रियमिन्द्रलि. गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्र दत्तमिति च" (५ २१९३) इति सूत्रेण षष्ठय- न्तादिन्द्रशब्दाल्लिङ्गमित्यर्थे घचि तस्य 'आयनेयीनी' तीयादेश इन्द्रियामिति । बोध्यः। - ।
. सासवतचकौमुदी। २५५, तत्र रूपग्रहणलिङ्गं चक्षुः, शब्दग्रहणलिङ्गं श्रोत्रं, गन्धग्र- हणलिङ्गं घ्राणं, रसग्रहणालिङ्ग रसनं, स्पर्शग्रहणलिङ्गं त्वक् , वागादीनां कार्य वक्ष्यति ॥ २६ ॥ एकादशमिन्द्रियमाह-"उभयात्मकम्" इति । उभयात्मकमत्र मनः, संकल्पकमिन्द्रियं च साधात् । गुणपरिणामाविशेषान्नानात्वं बाह्यभेदाश्च ।। २७ ॥ एकादशस्विन्द्रियेषु मध्ये मन उभयात्मकं बुद्धीन्द्रिय क- मन्द्रियं च, चक्षुरादीनां वागादीनां च मनोधिष्ठितानामेव स्वस्व विषयेषु प्रवृत्तेः । सनिमित्ताश्चक्षुरादिसञ्ज्ञा आह-"तत्र रूप" इति । रूपग्रहणलिङ्गं रूपोपलब्धिकरणम्, एवमग्रेपि, तथा च रूप चष्टे पश्य- सनेनेति चक्षुः, शब्दं शृणोत्यनेनेति श्रोत्रमित्यादिव्युत्पत्तिरत्र दर्शिता । यद्वा-रूपग्रहणं करणजन्य क्रियात्वाच्छिदिक्रियावद् इत्येवं रूपग्रहणमेव लिङ्गमनमापकं यस्य तद्रूपग्रहणालङ्गं रूपज्ञानानुभयमित्याद्यों- उन ज्ञेयः। 'त्वक्' स्पर्शनमिन्द्रियं, तच्च त्वस्थानत्वादुपचारेण त्वगित्यभिहि- तम् ॥ २६ ॥ 'अत्र' इति निर्धारणे सप्तमीति मत्वा : तस्यार्थमाह -"एकादशस्विन्द्रियेषु : मध्य' इति-एकादशानामिन्द्रियाणा मध्ये इत्युचितं-मध्यशब्दयोगे षष्ट्या एव प्राप्तेरिति शाब्दिकाः। उभयात्मकत्वे हेतुमाह-"चक्षुरांदीनाम्" इति, "अन्यत्रमना अभूवं नादर्शम्" इत्यादिश्रुतेर्मनोव्यापारमन्तरेणेन्द्रियाणां स्वस्वव्यापारेऽक्षमत्वादु- भयविधव्यापारवत्वेन मन उभयेन्द्रियरूपमित्यर्थः । (१) वक्ष्यति २८-इति कारिकयेत्यर्थः । : (२) रूपमित्यादि न विग्रहान्तर्गतम् । (३) आदिना गन्धं जिघ्रत्यनेनेति घाणं, रसयसनेनेति रसन मित्यादि ज्ञेयम् । (४) एतेन चक्षुरादीन्द्रिय सद्भावे मानमुक्तम् ।
२५६ सामयतत्वकौमुदी। तदसाधारणेन रूपेण लक्षयति-“संकल्पक मन" इति, सङ्कल्पेन रूपेण मनो लक्ष्यत, आलोचितमिन्द्रियेण वस्तु इदम्' इति सम्मुग्धम् ‘इदमेवं नैवम् इति सम्यकल्पयति विशेषण- विशेष्यभावेन विवेचयतीति यावत् । यदाहुः “सम्मुग्ध वस्तुमानं हि प्राग्गृह्णन्त्यवि कल्पितम् । तत्सामान्याविशेषाभ्यां कल्पयन्ति मनीषिणः।।" -- न चेन्द्रियजज्ञाने सहकारितामात्रेण मनस इन्द्रियत्वे आलोकस्यापीन्द्रि- यत्त्वप्रसङ्ग इति शङ्कनीयं-सात्त्विकाहङ्कारकार्यत्वे सति ज्ञानकर्माभयकर. णत्वेन मनस उभयेन्द्रियत्वमित्यर्थस्यात्र विवक्षितत्वात् । of 'असाधारणेन करणान्तरव्यावृत्तेन रूपेणेत्यर्थः । F 'सङ्कल्पेन रूपेण' सङ्कल्परूपेणासाधारणेन व्यापारण मनो लक्ष्यते इतर. स्माद् व्यावृत्तरूपेण प्रतीयते इत्यर्थः । तदेव स्पष्टयति-"आलोचितम्' इति, पूर्व चक्षुरादिव्यापारेण गोचरीकृतं वस्तु इदम् इदं किञ्चिद् वस्तु इत्येवं सम्मुग्धम् अनुवृत्तव्यावृत्तरूपेणावि- विक्तमेव भाति, पुनश्च इदमेवम् एतादृग्रूपेण युक्तमिदम्-नैवम्-एताहै. गरूपेण च नेदं युक्तमित्येवं सम्यक् कल्पयति विशेषणविशेष्यभावेन अनु- वृत्तव्यावृत्तरूपेण विवेचयति-विविच्य प्रत्येति मनोऽतः संकल्पकमित्युच्यत इत्यर्थः। प्रथमं निर्विकल्पकं ज्ञानमालोचनात्मकं जायते पश्चाच्च सविकल्पकं, मनसेत्यत्र पूर्वाचार्याणां संवादमाह-“यदाहुः” इति, प्राक् मनोव्यापारा- रपुरा चक्षुःसन्निपातानन्तरम् अविकल्पितं सामान्यविशेषरूपेणानाकलितम् अत एव सम्मुग्धम् अविविक्तम् अत एव च वस्तुमात्रं गृह्णन्ति प्रतिपत्तारः, पुनश्च मनीषिणः-मनोव्यापारवन्तः सन्तः सामान्यविशेषाभ्याम् अनुवृत्त- व्यावृत्तरूपाभ्यां तद्वस्तु कल्पयन्ति विविच्यावगच्छन्तीत्यर्थः । (१) अनुवृत्तरूपं घटत्वादिकं सामान्यं, व्यावृत्तरूपं च घटादि विशेषात्मकम् । (२) घटत्वादिरूपेण । (३) पटत्वादिरूपेण । (४) सम्बा कल्पनामेवाह- "विशेषणविशेप्यभावेन" इति । - ENA EMACHINE साङ्ख्यतत्त्वकौमुदी। २५७ तथा हि "अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम्। वाल | मूकादिविज्ञानसदृशं शुद्धवस्तुजम्।। ततः परं पुनर्वस्तु धभैर्जा--- त्यादिभियया । बुद्ध्याऽवसीयते सा हि प्रत्यक्षत्वेन समता॥" इति । एतदेव विशदयितुं कौमारिलश्लोकवार्तिके पठति-"अस्ति ह्यालोचनम्" इति, प्रथमं सविकल्पकप्रत्ययात्पुरा यद् वस्तुमानगोचरं बालमूकादिविज्ञान- समानं निर्विपल्पकं ज्ञानमस्ति तत्प्रतीतिसिद्धमालोचनाख्यं ज्ञानमभ्युपेयम्, तेदभावे सविकल्पज्ञानानुत्पत्तेरित्यर्थः । 'सामान्यविशेषेषु स्वरूपालोचनमा प्रत्यक्षम्' इति प्रशस्तपादभाष्येपि तदेवाभिहितमिति ज्ञेयम् । 'शुद्धवस्तुजम्' इत्यनेन न सामान्यगोचरमालोचनमित्युक्तं, सामान्य- विशेषकल्पनाहीनं तज्ज्ञानमित्यावेदितं 'न विशेषो न सामान्यं तदानीमनु- भूयते । तयोराधारभूता तु व्यक्तिरेवावसीयत' इत्युत्तरवार्तिके तथा प्रति- पादनात् । नन्वालोचनज्ञानं यदीक् केन तर्हि विविच्य ग्रहणमित्यत्राह-"ततः परम्” इति, निर्विकल्पकज्ञानादुत्तरं यया बुद्ध्या. नीलत्वघटत्वादिभिधमैं- विविच्य गृह्यते वस्तु सापि बुद्धिः प्रत्यक्षवेत्यर्थः । (१) 'मुग्धवस्तुजम्' इति पाठ उपलभ्यमानोपि न्यायरत्नाकरानुरोधेन परि- त्यक्तः । (२) जैमिनीये प्रत्यक्षलक्षणपरे तुरीयसूत्रे ११२।१२० इत्येतत्सङ्ख्ये इमे वार्तिके इति ज्ञेयम्। (३) तदभावे निर्विकल्यकज्ञानाभावे, तथा चाहुया- यकन्दलीकाराः-"यदि हि वस्तुस्वरूपस्य निर्विकल्पकेन ग्रहणं नेष्यते तदा तद्वाचकशब्दस्य स्मृत्यभावात्सविकल्पकमपि न स्यात्" इत्यादि । (४) सामान्य- बिशेष'त्मकेषु पदार्थेषु, गुणग्रन्थे प्रत्यक्षप्रकरणस्थमिदं भाष्यम् । (५) 'विशेषः व्यवच्छेदः व्यावृत्तिः, सामान्यं समानत्वम्-अनुवृत्तिरिति यावत्, अनुवृ- त्तिव्यावृत्ती न निर्विकल्पके प्रकाशेते, तयोस्त्वाधारभूतमनुवृत्तं व्यावृत्तं च यजातिव्य त्याद्यनेकाकार वस्तु तत्तदाकारयुक्तं सम्मुग्धं सर्वमवसीयते तत् शुद्धवस्त्वित्युच्यते, व्यक्तिरिति-वस्त्वित्यर्थः' इति न्यायरत्नाकरकारः । (६) ईदृक् अविविक्तगोचरम् । . .
२५८ सायतच्चकौमुदी। " युलाथम केवलेनेन्द्रिप्रेण निर्विकल्पकं ज्ञानं जनितं तदेव प्रत्यक्षामात-त किन्तु यच्चानन्तरामिन्द्रियसहायेन मनसा सविकल्पकं ज्ञानं जनितं तदपि. प्रत्यक्षमिति भावः । नेनु बाह्येन्द्रियतन्वं हि मनो बाह्यं गोचरयति अन्यथाऽन्धवधिराद्यभावप्र- सङ्गादिति हि समयः, एवं च यदि नेन्द्रियेणालोचितो विशेषः तहि मनसापि स कथमनुव्यवसीयेत, तथा चानुव्यवसायस्य विशिष्टविषयत्वाय सामा-- न्यविशेषविषयमिन्द्रियमित्यभ्युपेयं, तथा चाहुर्योगभाष्यकाराः-'न च तसा. मान्यमानग्रहणाकारम्, कथमनालोचितः स विषयविशेष इन्द्रियेण मन-- साऽनुव्यवसीयेत' इति । नात्र 'आलोचन ज्ञानं सामान्यमेव गोचरयति मनस्तु विशिष्टमनुव्यक- स्यति' इत्यभिप्रेतमपि तु 'इन्द्रियजमालोचनमविविक्ता सामान्यविशेषौ गोचरयति मनस्तु विविक्तौ तौ गृह्णाति, इति, निर्विकल्पकबोधेपि यात्म- कस्यापि वस्तुनः । ग्रहणं लक्षणाख्येयं ज्ञात्रा शुद्धन्तु गृह्यते॥'हत्यादिवातिकेन तथैवाभिधानात्, तत्कथङ्कारमनुव्यवसायानुपपंत्तिः, कथं च योगभाष्यवि- रोध इति । (१) 'सापि प्रत्यक्षत्वेन' इत्यपेरर्थमाह- "यत्प्रथमम्' इति । (२) आलो- चनज्ञानं सामान्य विषयं न विशिष्ट विषयमिति वुवा शङ्कते-"ननु' इति । (३। चक्षुरादिनैरपेक्ष्येणैव मनसो बहिर्वृत्तिखीकारे सति अन्धादयोपि रूपा- दीनालोचयेयुरिति भावः । (४) शास्त्रकृत्सङ्केतः । (५) पा० ३ सू० ४७ । (६) तदिन्द्रियम्, सामान्य मात्रस्य ग्रहणमेव आकार: खभावो यस्यैवं विधं नेत्यर्थः । (७) 'व्यात्मकस्य सामान्यविशेषात्मकस्येत्यर्थः, सामान्यावभासोऽपि प्रतीतिसिद्ध एव न हि निर्विकल्पकेनाऽगृहीतस्य सविकल्पकेनापि ग्रहणं संभवति, न वाऽगृहीते सामान्ये व्यक्तयन्तरे प्रत्यभिज्ञान संभवति, तस्मात्सामान्यं विशेषश्च निर्विकल्पके.. पि प्रकाशत एव, ननु "न विशेषो न सामान्यं तदानीमनुभूयते” इत्युक्तं, कथन्त- योग्रहणमुच्यते, अत आह-"लक्षणाख्येयम्" इति, न हीदानीमप्यनुवृत्तिव्यावृ- त्योहणमुच्यते-या स्वियं गृह्यमाणस्य यात्मकत्वाख्या सा लक्षणाख्या गृह्यमा- णस्य वस्तुनो लक्षणमाख्यायते-सामान्यविशेषात्मकं तद्वस्त्विति, ज्ञात्रा पुनः शुद्ध- मेव अनुवृत्तिव्यावृत्तिरहितं गृह्यते, न त्वसाधारणत्वेन परेभ्यो व्यक्त्यन्तरेभ्यो व्यावृत्तरकल्पनात्, तथा व्यक्त्यन्तरानुवृत्तरकल्पनान्न सामान्यमपि गृह्यतेऽतोन विरोधः, इत्येतदर्थ' इति पार्थसारथिमिश्राः, अनेन चालोचनस्याविविक्तविषयत्व. मुक्तम्, उत्तरज्ञानस्य च विविक्तविषयत्वं 'ततः परं पुनर्वस्तु' इत्यनेनाभिहित, तदेवाह 'इत्यादिना" श्लो० ११८॥ .
: साक्ष्यतत्वकौमुदी। '२५९ सोयं सङ्कल्पलक्षणो व्यापारो मनसः समानासमाजाती- याभ्यां व्यवच्छिन्दन् मनो लक्ष्यति । स्यादेतत्-असाधारणव्यापारयोगिनी यथा महदहङ्कारौ एतच्च "तंञ्च न सामान्यमानं गृह्णाति भेदस्यापि प्रतिभासनात्, नापि स्वलक्षणमाग्नं, सामान्याकारस्यापि संवेदना व्यक्त्यन्तरदर्शने प्रतिसन्धानाच किन्तु सामान्य विशेषं चोभयमपि गृह्णाति, परसिदं सामान्यमयं विशेष इति विविच्य न प्रत्येति-वस्त्वन्तरानुसन्धानविरहात्" इत्यादिना कन्दल्यां व्यक्तमिति तत्रैवाधिकमालोचतीयम् । एवं च यद्विज्ञान भिक्षुणा “कश्चित्तु निर्विकल्पकं ज्ञानमेवालोचनमिन्द्रि. यजन्यं च भवति सविकल्पकं तु मनोमात्रजन्यमित्याह-तन्न, योगमाप्ये व्यासदेवैर्विशिष्टज्ञानस्याप्यन्द्रियकत्वस्य व्यवस्थापितत्वात्" इत्येवमिदं. वा. चस्पत्यं दूपितं तदेतद्ग्रन्थतात्पर्यांनवबोधमूलकमिति ध्येयम् । एवं सङ्कल्प व्याख्याय लक्षणसमन्वयमाह-“सोयम्" इति, अयं यः मनसः सङ्कल्पलक्षणो व्यापारः स समानजातीयाद् बुद्ध्यादेः असमानजा- तीयाच्च चक्षुरादेस्सकाशात् मनो व्यवच्छिन्दन् व्यावर्तयन् सन् मनो लक्षय- ति व्यावृत्तरूपेण प्रत्याययतीति भवति सङ्कल्पो मनसः लक्षणमित्यर्थः । विवेकः, च (१) तच्च निर्विकल्पकज्ञानं च । (२) व्यक्तिमात्रं विशेषः । (३) आदिना पि- ण्डान्तरानुवृत्तिग्रहणाद्धि सामान्य विविच्यते, व्यावृत्तिग्रहणाद्विशेषोय मिति निर्विकल्पकदशायां पिण्डान्तरानुसन्धानाभावात्सामान्य विशेषयो- रनुवृत्तिव्यावृत्तिधर्मो न गृोते तयोरग्रहणान्न विविच्य ग्रहणम्' इत्याधुत्तरग्रन्थो गुणग्रन्थे प्रत्यक्षप्रकरणस्थोयं ग्रन्थः । (४) अ० २. सू० ३२-इल्सत्र * साङ्ख्यप्रवचनभाष्य इति । (५) सर्व विषयत्वेन सजातीय बुद्धितत्त्वमभिमानतञ्च, प्रतिनियतविषयत्वेनासमानजातीयं चक्षुरादिकम् । ग्राह्यः, ।
२६० साङ्क्षचतत्त्वकौमुदी। नेन्द्रियम् एवम्मनाप्यसाधारणव्यापारयोगि नेन्द्रिय भवितुम- हति इत्यत आह-'इन्द्रियं च" इति, कुतः, “साधर्म्यात्"- इन्द्रियान्तरैः, सात्त्विकाहङ्कारोपादानत्वं च साधयं, न त्वि- न्द्रलिङ्गत्वम्,महदहङ्कारयोरप्यात्मलिङ्गत्वेनेन्द्रियत्वप्रसङ्गात,त- स्माद् व्युत्पत्तिमात्रमिन्द्रलिङ्गत्वं न तु प्रवृत्तिनिमित्तम् "नेन्द्रियं भवितुमर्हति"-यद्यपि नासाधारणव्यापारयोगित्वमिन्द्रियत्वव्या- घातकं तथास्वे चक्षुरांदीनामप्यनिन्द्रियत्वप्रसङ्गात् तथापि यद्यसाधारणव्या- पारवतो मनस इंन्द्रियत्वं तर्हि तथाविधयोर्महदहङ्कारयोरपि कथं नेन्द्रि- यत्वमित्याशयेनेयं शङ्का ज्ञेया। यद्वा यथा प्रतिनियतविषयाणामेव नयनादीनामिन्द्रियत्वं न सर्वविष. यत्वेनानियतविषययोर्महदहङ्कारयोरिन्द्रियत्वं तथा मनसोपि .सर्वविषयत्वेन नेन्द्रियत्वं भवितुमर्हतीत्येवमिय शङ्का नेया, केन साधर्म्यात्, इत्याकाङ्क्षां पूरयति-"इन्द्रियान्तरैः” इति । किन्तत् साधर्म्यम्, इत्यत्राह-"सात्त्विक" इत्यादि, एतदेव साधर्म्यमत्र ग्राह्य न पुनः पूर्वोक्तमिन्द्रंलिङ्गत्वरूपमित्यर्थः, तत्र हेतुमाह-"महदहङ्का- रयोः" इति । कथन्तर्हि पूर्वमात्मनश्चितत्वादुभयमिन्द्रियमित्युक्तं, तबाह-"तस्मात्" इति, यत इन्द्रलिङ्गत्वस्यातिप्रसक्तत्वं तस्माद् व्युत्पत्तिमात्रं प्रकृतिप्रत्यया- र्थान्वाख्यानमात्रमिदमिन्द्रलिङ्गत्वं यथा गच्छत्तीति गौरिति, “न तु प्रवृत्ति- निमित्तम्" इन्द्रियपदस्य चक्षुरादौ प्रवृत्तेनिमित्तं तदतिप्रसक्तत्वादित्यर्थः । यथानतिप्रसक्तमेव सास्त्रादिमत्वं पशुविशेष गोपदस्य प्रवृत्तेर्निमित्तमा- श्रीयते न तु व्युत्पत्तिमात्रलभ्यं गमनकर्तृत्वमतिप्रसक्तत्वात् तथाऽनतिप्रसक्तं सात्त्विकाहङ्कारोपादानत्वमेवानेन्द्रियपदस्य चक्षुरादौ प्रवृत्तेनिमित्तमाश्री- यते न त्वतिप्रसक्तं व्युत्पत्तिमात्रलभ्यमिन्द्रलिङ्गत्वं, तथा च न महदहङ्कारयो- रिन्द्रियत्वप्रसङ्ग इति भावः । (१) असाधारणव्यापारयोगित्वस्यन्द्रियत्वव्याघातकत्वे । (२) तथाविधयोः असाधारणव्यापारयोगिनोरित्यर्थः । (३) पुरुषस्यापि गमनकर्तृत्वेन तत्रापि गोपदप्रवृत्त्यापत्तेरित्यर्थः । (४) पाचकादिपदवन्न यौगिकमिन्द्रियपदमपि तु पङ्कजादिवद्योगरूढं, तेन सात्त्विकाहङ्कारोपादानवे सतीन्द्रलिङ्गत्वमिन्द्रियत्व- मित्यत्र फलितमिति ध्येयम् । C साहयतत्वकौमुदी। अथ कथं सात्विकादहङ्कारादेकरमादेकादशेन्द्रियाणि, इ. त्यत आह-"गुणपरिणामविशेषानानात्वं बायभेदाच" इति, शब्दायुपभोगप्रवर्तकादृष्टसहकारिभेदात्कार्यभेदः, अदृष्टभे- दोपि गुणपरिणाम एव । 'बाह्यभेदाश्च' इति दृष्टान्तार्थ, यथा बाह्यभेदास्तथैतदपी- त्यर्थः ॥ २७ ॥ कारणवैलक्षण्यमन्तरेण कार्यवैलक्षण्ययोगादविलक्षणादहङ्कारात्कथं विलक्षणानीन्द्रियाणीत्याशङ्कते.-"अथ कथम्” इति । धर्माधर्मरूपो यो गुणपरिणाम: तस्य विशेषाद् वैचित्र्याद् अहङ्कारस्य तत्कार्याणां चेन्द्रियाणां नानात्वम् अनेकत्वम् इत्यर्थमभिप्रेत्य व्याचप्टे- "शब्दाधुपभोग” इति, शब्दाद्युपभोगप्रवर्तकं यहद्दष्टरूपं सहकारि. कारण तझेदादित्यर्थः । ननु गुणपरिणामविशेपान्नानात्वमुक्तं, कथमुच्यते सहकारिधर्माधर्मभे- दाभेद इति तत्राह-"अदृष्टभेदोऽपि गुणपरिणाम एव' इति । अदृष्टभेदः अदृष्टविशेषः, अत्र गुणपरिणामशब्देनादृष्टमेव गृह्यत इत्यर्थः । पुरुषोपंभोगार्थी गुणानां प्रवृत्तिरिति हि स्थितिः, उपभोगश्च पुरुषस्य शब्दादिविषयानुभवरूपो न--स्वाभाविकः किन्त्वदृष्ट सहकारेणेन्द्रियाद्युप- स्थापितशब्दादिद्वारा, न चैकेनेन्द्रियेण निखिलं शव्दादिकमुपस्थापयितुं शक्यमित्यगत्येन्द्रियनानात्वमुरीकार्थ, तदुररीकारे चाहकारनानात्वमर्था- प्राप्तमित्याशयेनोक्तं-"शब्दाधुपभोगप्रवर्तकादृष्ट" इत्यादि । धर्माधर्मसहकृतगुणविमेदवैचित्र्यादहकारवैचित्र्यात्परिणामवैचित्र्यमिति तत्त्वम् एतेन "यदि पुनरिन्द्रियाण्येककारणकानि स्युः कारणस्वभावानु- विधानादैकात्म्याद्विषयव्यवस्था न स्यात्सर्व वा सर्वार्थभेकं वा सर्वार्थमि- ति स्यात्' इत्युद्द्योतकरीचार्योक्तो नानेन्द्रियाणाभेकाहङ्कारकारणकत्व आ. क्षेपः प्रतिक्षिप्त इति वेदितव्यम् । "दृष्टान्तार्थम्''-एतेन चकार उपमार्थ इति सूचितं,तदेवाह--"यथा वाह्य. भेदा" इति, इन्द्रियापेक्षया बाया ये शब्दतन्मात्रादिरूपा ग्राह्यास्ते यथा तामसादहङ्कारादनेकविधा जायन्ते तथा सात्त्विकादहङ्कारादनेकवि- धानीन्द्रियाणीत्यर्थः ॥ २७ ॥ (१) अर्थात् कारणबैलक्षण्य विना कार्यवैलक्षण्यासंभवादित्यर्थः । (२) एतच्च : ४६-इत्याायामुत्तरत्र व्यक्तम् । (३) एतेन अहङ्कारस्यानेकात्मकत्वाभ्युपगमेन । (४) अ० १ आ० १ सू० १२-इत्यत्र न्यायवार्तिक उक्त इत्यर्थः ।
२६२ साङ्ख्यतत्वकौमुदी। तदेवमेकादशेन्द्रियाणि स्वरूपत उक्त्वा दशानामप्यसाधा- रणीवृत्तीराह --"रूपादिषु" इति । रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ २८ ॥ बुद्धीन्द्रियाणां सम्मुग्धवस्तुमात्रदर्शनमालोचनमुक्तं, 'वच- नादानविहरणोत्सर्गानन्दाश्च पञ्चानां कर्मेन्द्रियाणाम्, कण्ठ- ताल्वादिस्थानमिन्द्रियं वाक, तस्या वृत्तिः वचनं, स्पष्टस- न्यत् ॥ २८ ॥ रूपादिविषयेषु सन्निहितेषु सत्सु यद्रूपादिविषयाकारपरिणामरूपमा. ववेचनमानं तत् पञ्चानां ज्ञानेन्द्रियाणां वृत्तिः व्यापारः-धर्म इति यावत्, इत्यर्थमभिप्रेत्याह-"बुद्धीन्द्रियाणाम्” इत्यादि, उक्तम् “अस्ति ह्यालोचनं ज्ञानम्" इत्यादिना पूर्व निरूपितम् । .. "कर्मेन्द्रियाणाम्' अत्र 'वृत्तय' इति विपरिणमय्य योज्यम् । इतरेन्द्रियाणामधिष्ठानस्य नयनगोलकादेहस्तादेर्वा स्पष्टत्वात् तत्कथनमु. पेक्ष्य वागिन्द्रियाधिष्ठानं तावदाह-'कण्ठताल्वादि" इति, 'अष्टो स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्टी च तालु च॥" इत्युक्तानि कण्ठताल्बादीनि स्थानानि यस्येन्द्रियस्य तत्कण्ठताल्वादिस्थान-- मिन्द्रियं वाक्, तस्याः वाचः, वृत्ति: व्यापारः वचनं भाषणमित्यर्थः, एवम् आदानं ग्रहणं हस्तयोवृत्तिः,विहरणं गमनं पादयोः, उत्सर्गः मलापनयः पायोः, आनन्दः मूत्रत्यागो रमणं चोपस्थस्य वृत्तिरिति ज्ञेयम् ॥ २८ ॥ . (१) चक्षुरादिक्रमेण पुर्वमिन्द्रियाणाम भिधानात् शब्दादिषु' इति पाठो न सनिवेशितः। (२) मात्र-शब्देन) सामान्यविशेषविवेचनवैधुर्य्य तस्य बोध्यते । (३) वृत्तिः इत्यस्यानुवृत्तिः, एवमग्रेपि । ~ N साङ्ख्यतत्त्वकौमुदी। २६३ अन्तःकरणत्रयस्य बृत्तिमाह- "स्वालक्षण्यम्" इति- स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या । सामान्यकरणबृत्तिः प्राणाद्या वायवः पञ्च ॥२९॥ "स्वालक्षण्यं वृत्तिस्त्रयस्य" स्वम् असाधारणं लक्षणं येषां तानि स्वलक्षणानि-महदहङ्कारमनांसि, तेषां भावः स्वाल- क्षण्यं, तच्च स्वानि स्वानि लक्षणान्येव, तद्यथा-महतोऽध्य- वसायः, अहङ्कारस्थाभिमानः सङ्कल्पो मनसः वृत्तिव्यापारः, वृत्तिद्वैविध्यं साधारणासाधारणत्वाभ्यामाह "सैषा भव- त्यसामान्या" असाधारणी, "सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च" सामान्या चासौ करणवृत्तिश्चेति', त्रयाणामपि करणानां पञ्च वायवो जीवनं वृत्तिः, तद्भावे भावात् तदभावे चाभावात् । "असाधारण" पूर्वोक्तमध्यवसायादिरूपम् "तच्च"स्वालक्षण्यं च महदादीनां स्वकीयानि स्वकीयानि लक्षणान्येवेत्यर्थः, तदेवाह-"महतोऽध्यवसाय” इति, "वृत्तिः” सर्वत्र संबन्धः। केषामसौ सामान्या वृत्तिः प्राणादिरूपा,तत्राह-"त्रयाणामपि करणानाम्" इति, वायवः बायुतुल्यसंचारववेन वायुवदाभासमानाः प्राणादयः पञ्च श्रयाणामपि करणानां सामान्या वृत्तिः, सा चैषा जीवनमित्युच्यत इत्यन्धयः, यथा पञ्जरचालनरूपो व्यापारः संहतानां कपोतानां साधारणो व्यापार स्तथा कलेवरधारणरूपो यो जीवन ख्यः प्राणनादिव्यापारः स मि- लितानामन्तःकरणानां साधारणो व्यापार इति समस्तार्थः । जीवनवृत्तेरन्तःकरणधर्मत्वेऽन्वयव्यतिरेकाचाह-"तद्भावे भावात्" इति । अन्तःकरणसद्भावे जीवच्छरीरे प्राणनादिव्यापारसद्भावदर्शनादन्तः- करणसवे च पाषाणे प्राणनादिव्यापारादर्शनादित्यर्थः । (१) इति सामान्यकरणवृत्तिरित्यर्थः । (२) अध्यवसायो महतो वृत्तिः, अभिमानश्वाहङ्कारस्य वृत्तिरित्येवं संबन्धः । (३) यथानके पक्षिणः सम्भूय व्यापारिणो भू बैकं पञ्जरं चालयन्ति तथा सम्भूय व्यापारबन्यनेकान्यतः- करणान्यक-शरीरं धारयन्तीति भावः । इत्यस्य .. .
। २६४ साङ्ख्यतत्वको दी। तत्र प्राणो नासाग्रहनाभिपादाजुष्टवृत्तिः, अपानः कुका- टिकापृष्ठपादपायूपस्थपार्श्वइत्तिः, समानो हमाभिसर्वसन्धि- त्तिः, उदानो हत्कण्ठतालुमूर्द्धभूमध्यवृत्तिः, व्यानस्त्वग्वृत्तिः इति पञ्च वायवः ।। २९ ॥ अत्रेदभवधेयम्-अत्र साङ्ख्य सूत्रे च "बयाणां खालक्षण्यम्' इत्येवमन्तः- करणवृत्तीः प्रकृत्यैव "सामान्यकरणवृत्तिः प्राणाया" इत्यभिधानादन्तः- करणस्यैव वत्तिः प्राणनादिन तु बालेन्द्रियाणामंपीति । ५ एवं चैतदनुरोधात् समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनम्' इति योगभाष्येपि समस्तेन्द्रियशब्द नान्तःकर्णत्रयमेव ग्राह्यं न तु बाहोन्द्रि- यमपि, सुषुप्ता चक्षुराद्युपसंहारेपि प्राणादिव्यापारदर्शनान्न बाह्येन्द्रियवृत्तित्वं प्राणादेरित्यपि ज्ञेय, योगभाष्य इन्द्रियशब्दश्च करणपरत्वेन नेयः-(एवं सिद्धे संति) गत्यन्तराऽसम्भवात् । एवं च योगाप्यव्याख्यायां समस्तेन्द्रियशब्देन बाह्याभ्यन्तरोभयेन्द्रि- यग्रहणं वदन् वाचस्पतिमिश्रो विज्ञानभिक्षुश्च न श्रद्धेय इति ध्येयम्, एवमेव प्रकृतलिद्वान्तासाङ्गस्य प्रतिपादनपरः, न सामान्यन्द्रियवृत्तिः प्राणः, एकद्वित्रिचतुरिन्द्रियाभाये तदभावप्रसङ्गात्, “नो खलु चूर्णहरिद्रासंयोगज- मारुणगुणस्तयोरन्यतराभावे सवितुमर्हति' इत्यादिभामतीग्रन्थोप्यश्रद्धय एवावधेय:-अनभ्युपगतं प्राणानां बाटेन्द्रियवृत्तित्वमुपकल्प्यातत्खण्डनस्या- युक्तत्वात्। जीवनवृत्ते स्थानभेदन पञ्चविधत्वमाह-"तत्र प्राण" इति, काटिका घाटा, प्राणनादन्नाशनादिना शरीरधारणात्याणः, मलसूत्रादेरपनयना- दपानः, समगनुरूप नाडीपु रसानां नयनात्समानः रसाधू नयनादु- दानः, बलवकर्महेतुत्वाच्च व्यानः, इति-व्यापारभदादाप जीवनस्य पञ्च- विंधत्वं ज्ञेयसु ॥ २९ ॥ (१) अ० २ सू० ३० । (२) पा० ३ सू० ३९ (३) ननु महदहङ्कारयो- - रिन्द्रियत्वाभावेन कथं समस्तेन्द्रियशब्देन तयोर्ग्रहणम्, इत्यत्राह-"योगभाष्य इन्द्रियशब्दश्च” इति, बाह्येन्द्रियग्रहणपक्षेपि तयोर्ग्रहणाथैषैव गतिराश्रयणीयेति (४) पूर्वोत्तप्रकारेण प्राणानां बाह्यन्द्रियवृत्तित्वाभावे सिद्धे सति । (५) 'सामान्यकरणवृत्तिः प्राणादिः' इति सायसिद्धान्तखण्डनपरः । (६) अ० २ पा० ४ सू० ८। (७) कृकं कण्ठम् अति व्याप्नोतीत्यर्थे कर्मण्यणि डीपि स्वार्थे के इस्वे टापि 'प्रत्ययस्थात्' इतीत्त्वे च कृकाटिकेति साधुः यौवनोद्रे- दसमये गल उपलभ्यमाना 'घंडी' इति प्रसिद्धा, तदेवाह-'घाटा' इति । . - . . भावः। M साङ्ख्यतत्वकौमुदी। २६५ . चतुर्विधकरणस्यासाधारणीषु वृत्तिषु क्रमाक्रमौ सप्रकारा- वाह "युगपञ्चत्तुष्टयस्य" इति । युगपञ्चतुष्टयस्य तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा । दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ ३९ ॥ "दृष्ट" यथा-यदा सन्तमसाऽन्धकारे विद्युत्सम्पातमात्रा- याघ्रमभिमुखमतिसन्निहितं पश्यति तदा खल्बस्यालोचनस- ङ्कल्पाभिमानाध्यवसाया'युगपत् एव प्रादुर्भवन्ति यस्तत उत्प्लुत्य तत्स्थानादेकपदेऽपसरति । "चतुर्विधकरणस्य" बाह्यकरणसहिताऽन्तःकरणत्रयस्य, “दृष्टे”. चक्षुरा- दिगोचरे पदार्थ तु "चतुष्टयस्य' करणस्य वृत्तिः कदाचित् “युगपत्' अक्र- मेण जायते "कदाचिच्च” क्रमशो जायत इत्येवं क्रमाक्रमवती “वृत्तिः नि- र्दिष्टा" साङ्ख्याचारभिहितेत्यर्थमभिप्रेत्य यौगपद्योदाहरणं तावदाह-"दृष्टे यथा” इति । "सन्तमसान्धकारे' निबिडान्धकारे, सन्तमैसशब्देनैव गाढान्धकारला- भसम्मवादन्धकार इत्यनुपयुक्तम् । "आलोचनसङ्कल्पाभिमानाध्यवसायाः” एते यथाक्रमं नयनमनोऽहङ्कार- बुद्धीनां व्यापाराः । "उत्प्लुत्य" मण्डूकवटू प्लवनपनुष्ठाय "एकषदे'' तत्क्षणमेव झटित्येवेति यावत्, "अपसरति” स्थानान्तरमेति । अत्र वृत्तीनां योगपघाख्यानेन बाह्येन्द्रियवृत्तीनामपि युगपद्भवनस्या- त्किथितत्वाद्दीर्घशष्कुलीभक्षणादावपर्यायेण जायमानं प्यत्रोदाहरणीयम् । न च 'नैकमणु मनो विभिन्न स्थानानीन्द्रियाणि युगपदधिष्टातुं शक्तम्' इति न युगपज्ज्ञानपञ्चकोत्पादः शक्यसम्पादः, तथा च यथाऽऽशु सञ्चारा- संभ्रमतोऽलातस्य विद्यमानोपि क्रमो न गृह्यते तथा ज्ञानानामप्याशु स. (१) "क्रमशोऽक्रमशश्चेन्द्रियवृत्तिः” अ० २ सू० ३२-इति कपिलाचा- व्यरित्यर्थः । (२) सन्ततं तम इति विग्रहे 'अवसमन्धेभ्यस्तमस:' (५ ४।७९) हति सूत्रेण समासान्तेऽचि 'सन्तमसम्' इति–साधु, सर्वतोव्याप्तान्धकारे चास्य वृत्तिरित्यमरः। (३) अक्रमेण । (४) मनोऽधिष्ठितानामेव बाह्येन्द्रियाणां खखव्यापारे क्षमत्वस्य पूर्वमुक्तत्वात् । (५) “आशु' शीघ्रम् । ' ज्ञानपञ्चकम- . - ka PHELICINHNICRORERITRAKARACHA . २६६ साङ्ख्यतत्वकौमुदी। "क्रमशश्च"-यदा मन्दालोके प्रथमं तावद्वस्तुमात्रं सम्मु- ग्धमालोचयति, अथ प्रणिहितमनाः कर्णान्ताकृष्टसशरशिञ्जि- तमण्डलीकृतकोदण्डः प्रचण्डतरः पाटच्चरोयमिति निश्चिनोति, अथ च 'माम्प्रत्येति' इत्यभिमन्यते, अथाऽध्यवस्याति-'अप- सरामीतः स्थानात्' इति । परोक्षे त्वन्तःकरणत्रयस्य बाह्येन्द्रियवर्ज वृत्तिरित्याह- "अदृष्टे त्रयस्य तत्पूर्विका वृत्तिः" अन्तःकरणत्रयस्य युग- पत्क्रमण च वृत्तिदृष्टपूर्विकेति, अनुमानागमस्मृतयो हि प- चाराद्विद्यमानक्रमस्याग्रहणाद्दीर्घशष्कुलीभक्षणादौ युगपदुपलव्ध्यभिमान इत्यास्थेयं, यदाहुः- 'अलातचक्रदर्शनवत्तदुपलब्धिराशु सञ्चारादिति-' इति शङ्कनीयं साङ्ख्यमते मनसो मध्यमपरिमाणवत्वेन युगपदनेकेन्द्रियाधिष्टा- तृत्वसंभवात् , अननुभूयमानक्रमकल्पनाया अप्रामाणिकत्वात् "ज्ञाना. योगपद्यादेकं मन” “यथोक्तहेतुत्वाच्चाणु' इत्यक्षपादोदितः सिद्धान्तो साङ्ख्यसम्मतु इति भावः । अपर्यायेण वृत्त्युत्पादस्थलमुदाहृत्य पर्यायेण वृत्युत्पादस्थलमुदाहर्तु- माह-"क्रमशश्च” इति, अत्र 'यथा' इति पूरणीयम् । "कर्णान्ताकृष्टलशरशिक्षितमण्डलीकृतकोदण्डः" कर्णान्तमुंपकर्णं यथा स्यात्तथाऽऽकृष्टमातानितं, कर्णान्ताकृष्टं, सशरशिक्षितमारोपितबाणमय- क्तशब्दवच्चेति सशरशिक्षितं, कीन्ताकृष्टं च सशरशिक्षितं च मण्डलीकृतं च कोदण्डं धनुर्थेन स तथा, "पाटञ्चरः” तस्करः, "निश्चिनोति" स्थाण्वादिभ्यो विवेचयति । "बालेन्द्रियवर्ज' बाह्येन्द्रियाणि वर्जयित्वा । "अदृष्टे' अनुमेये वह्नयादौ, शाब्दे च स्वर्गापूर्वदेवतादौ, स्मरणीये च पित्रादौ । तत्पूर्विका" इत्यस्यार्थमाह-"दृष्टपूर्विका” इति, तदेव स्पष्टयति-"अ. (१) 'द्वितीयायां च' (३।४।५३) इति णमुल् । (२) न्या० अ० ३ आ० २ सू० ६१, (६३) । (३) न्या० अ० ३ आ० २ सू० ५९, ६२ । (६१, ६४) (४) कर्णसमीपे। न . . 21STRISATAR AMERICARA SAHAL 39) कारिकागतेन 'करणम्' इत्यनेनानिर्वाहादाह-"करणानीति शेप” इति, सालयतत्वकौमुदी। २६७ रोक्षऽर्थे दर्शनपूर्वाः प्रवर्तन्ते नान्यथा, यथा दृष्टे "तथाऽदृष्टे- पि" इति योजना ॥ ३० ॥ स्यादेतत् -चतुर्णां त्रयाणां वा वृत्तयो न तावत् तन्मात्रा- धीना,तेषां सदातनत्वेन वृत्तीनां सदोत्यादप्रसङ्गात्, आक- स्मिकत्वे तु वृत्तिसङ्करप्रसङ्गो नियमहतोरभावादित्यत आह "स्वां स्वाम्" इति । स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् । पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम् ॥ ३१ ॥ करणानि इति शेषः, यथा हि बहवः · पुरुषाः नुमान" इत्यादिना, "दर्शनपूर्वा' अनुमेथे व्यातिज्ञानाय प्रत्यक्षापेक्षा, शाब्दे च शक्तिग्रहाय प्रत्यक्षापेक्षा, स्मरणीये च संस्कारायानुभवापेक्षा, इत्यनुमानादयो दर्शनपूर्वाः । "तथाप्य दृष्टे" इति, 'अपिः' भिन्नक्रम इत्याशयेनाह-"तथाऽष्टेपि" इति ॥ ३० ॥ "तन्मात्राधीना:" इतरनिमित्तनैरपेक्ष्येण करणमात्राधीनाः, "तेपा" करणानाम् । "सदोत्पादप्रसङ्गात्” इति, ननु विषय सन्निधानादेवृत्त्युत्पादे निमित्तत्वस- त्वान्न वृत्तीनां सदोत्पादग्रसङ्ग इति चेत्,एवमपि नियामकस्य कस्यचिदभा- वादाकस्मिकत्वप्रसङ्गो दुर्वारः, भवत्वाकस्मिकत्वं कात्र क्षतिरिति चेत्, तवाह- "आकस्मिकत्वे तु” इति, कूरणवृत्युद्भवस्यानैमित्तिकत्वे तु "वृत्तिसङ्कम- सङ्गः" कदाचिचक्षुरेव शब्दग्रहणाय व्यानियेत, कदाचिच्च श्रोत्रमेव रूपे व्याप्रियेत, कदाचिच्च मन एव निश्चिनुयात्, कदाचिच्च बुद्धिरेव सङ्कल्प- येत् इत्येवं वृत्तीनां परस्परव्यतिकरप्रसङ्गः, तब हेतुमाह-"नियमहेतो- रभावात्" इयं त्वदीया वृत्तिरेतद्गोचरा इति नियमन दर्शकस्य कस्यचिद्वे- तोरमावादित्यर्थः । करणानि परस्पराभिप्रायनिमित्तामात्मीयामात्मीयामेव वृत्ति प्रतिपद्यन्ते प्राप्नुवन्ति न परकीयामित्यर्थं दृष्टान्तेन स्पष्टयति-"यथा हि" इत्यादिना । (१) निर्हेतुकवृत्त्युद्भवप्रसङ्गः । (२) "प्रतिपद्यन्ते' इति बहुवचनान्तक्रियापदेन सह योगायोगात् । , . 3 LEARN २६८ साङ्ख्यतचकौमुदी। शाक्तीक-याष्टीक धानुष्क कार्याणिकाः कृतसङ्केताःपरावस्कन्द- नाय प्रवृत्ताः, तत्रान्यतमस्याकूतमवगम्यान्यतमः प्रवर्तते,प्रवर्त- मानस्तु शाक्तीकः शक्तिमेवादचे न तु यष्टयादिकम् ,एवं याष्टी- कोपि यष्टिमेव न शक्त्यादिकं, तथाऽन्यतमस्य करणस्याऽऽकूतात् स्वकार्यकरणाभिमुख्यादन्यतमं करणं प्रवर्तते, तत्प्रवृत्तश्च हेतुमत्त्वान्न वृत्तिसङ्करप्रसङ्ग इत्युक्तं - "स्वां स्वां प्रतिपद्यन्त" इति । स्यादेतत्-याष्टीकादयश्चतनत्वात्परस्पराक्रूतमवगम्य प्रव- तन्त इति युक्तं,करणानि त्वचेतनानि, तस्मान्नैव प्रचितुमुत्स- हन्ते, तेनैषामधिष्ठात्रा करणानां स्वरूपसामोपयोगाभिज्ञेन शाक्तः प्रहरणमस्यासौ शाक्तीकः, एवं याष्टीकादयो ज्ञेयाः, शक्तिपाणयः यष्टिपाणयः धनुष्पाणयः कृपाणपाणयश्चेति यावत्, “कृतसङ्केताः" आक्रमण- वेलायां त्वयेदं प्रहरणं ग्रहणीयमित्येवं पूर्वमेव कृतनियमास्सन्तः “परावस्क- न्दाय" रिपोराक्रमणाय-अरिदमनायेति यावत्, “आकृतम्' अभिप्रायम्, दृष्टान्तसिद्धमर्थ दान्तिके योजयति-"तथाऽन्यतमस्य” इति । आकूतस्येच्छाविशेषत्वेन चेतनधर्मत्वादचेतने करणग्रामे बाधितत्वा- ल्लाक्षणिकमर्थमाह-"स्वकार्यकरणाभिमुख्यात्" इति । फलितमाह-"तत्प्रवृत्तेश्च” इति, एवं करणप्रवृत्तेः परस्पराकूतानिमित्त-- कत्वान्न वृत्तिसङ्करप्रसङ्गावसर इत्यर्थः । "तस्मान्नवम्' तस्मादचेतनत्वादेवं शाक्तीकादिवत् प्रवर्तितुं "उत्सहन्ते' उद्युक्ता भवन्ति, "तेन" स्वयं प्रवर्तितुमक्षमत्वेन, ' 'एषां" करणानाम् “अधिष्ठात्रा” प्रयोजन केनचिद्भवितव्यमित्यन्वयः । कीदशेनाऽधिष्ठात्रा भवितव्य मित्यत्राह 'करणानां स्वरूपसामोपयो- . (१) 'आदत्ते' इत्यनुषङ्गः, एवं 'यष्टिमेव' इत्यादावपि । (२) प्रह्रियतेऽनेनेति प्रहरणम् आयुधम् । (३) शक्तियष्टयोरीकक्' (४।४।५९) इतीकक्, धानु- प्ककाणिकशब्दे त्वधिकारप्राप्तष्ठक् । (४) यथा--'दीकूलं पिपतिषति' इत्यत्रे- छया एतेनोन्मुखत्वं लक्ष्यते तथाऽत्रापि कार्यकरणोन्मुखत्वं लक्ष्यत इत्यर्थः । HERE माय साङ्गथतच्चकौमुदी। २६९ भवितव्यम इत्यत आह-"पुरुषार्थ एव हेतुर्न केन चित्का- यते करणम्" इति । भोगापवर्गलक्षणः पुरुषार्थ एवानागतावस्थः प्रवर्तयति करणानि कृतमत्र तत्स्वरूपाभिज्ञेन का । एतच्च "वत्सविवृद्धिनिमित्तम्" इत्यत्रोपपादयिष्यते ॥३२॥ "न केन चित्कार्यते करणम्" इत्युक्तं, तत्र करणं विभजते- "करणं त्रयोदशविधम्" इति । "करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् । कार्यं च तस्य दशधाऽऽहायं धाऱ्या प्रकाश्यं च ॥३२॥ इन्द्रियाण्येकादश बुद्धिरहङ्कारश्चेति त्रयोदशप्रकारं करणं, कारकविशेषः करणं, न च व्यापारावेशं विना कारकत्वम् , गाभिज्ञेने' इति, यद्यप्यस्त्येव पुरुषोऽधिष्ठाताभिज्ञस्तथाप्यसङ्गत्वान्निर्विकार- स्वान्न तस्य प्रेरकत्वसम्भवः, ईश्वरस्तु नास्त्येवेलाशयः । सत्कार्यवादसिद्धान्ते भाविनावपि भोगापवर्गावव्यपदेश्यतया गुणेषु । तिष्ठत इति प्रकृतिगतावनागतो तावेव प्रवर्तकी, तावदेव हि गुणाः प्रवर्त्तन्ते न यावद्भोगं वाऽपवर्ग वा जनयन्ति, निर्वर्तितभोगापवर्गास्तु समाप्ताधि- कारा: सन्तो निवर्त्तन्त इति हि साङ्ख्यसिद्धान्तः । अपवृज्यते केवलीभवत्यनेनेत्यपवर्गः सत्त्वपुरुपान्यताज्ञानम् , "अनाग- तावस्थः' निष्पादनीयत्वेन स्थिरः। "कृतम्' अलम् , “अन” करणानां प्रेरणे, पुरुषार्थातिरिक्तेन केनचि- का-किमपि साध्यं नास्तीति व्यर्थमेव तदाश्रयणमित्यर्थः । "एतच्च” न केनचिदीश्वरेण जीवेन वा कार्यते प्रवर्त्य ते कर्णमित्येत- दित्यर्थः ॥ ३१॥ "कारकविशेषः कादिषट्कारकमध्ये साधकतमरूपः, "व्यापारावेशं" व्यापारयोग, व्यापाराश्रयन्त्यैव कारकत्वादित्यर्थः । १ . .. (१) का० ५७ । । (२) ईदृक्करणानां वरूपमेवंविधं चैषां सामर्थ्यमत्र चैषामुपयोग इत्येवं सप्रकारकरणमात्रा ।
Sinila या २७० साङ्ख्यतत्त्वकौमुदी। इति व्यापारावेशमाह-'तदाहरणधारणप्रकाशकरं"-यथा- यथं तत्र कर्मेन्द्रियाणि वागादीनि आहरन्ति यथास्वमुपादद- ते-स्वव्यापारेण व्याप्नुवन्तीति यावत् , बुद्ध्यहङ्कारमनांसि तु स्ववृत्त्या प्राणादिलक्षणया धारयन्ति, बुद्धीन्द्रियाणि च प्रका- शयन्ति । आहरणधारणादिक्रियाणां सकर्मकतया किं कर्म, कतिविधं च, इत्यत आह-"कायं च तस्य" इति, तस्य त्रयोदशविधस्य करणस्य “दशधाऽऽहार्य धार्य प्रकाश्यं च" कार्यम् , आहा- यं व्याप्यं, कर्मेन्द्रियाणां वचनादानविहरणोत्सर्गानन्दा यथायथं व्याप्याः, ते च दिव्यादिव्यतया दशेत्याहायं दश- धा एवं धार्थमप्यन्तःकरणत्रयस्य प्राणादिलक्षणया वृत्त्या शरीरं तच्च पार्थिवादि पाञ्चभौतिकं, शब्दादीनां पञ्चानां स- किम्प्रत्येकमेवाहरणादिकरं नेत्याह-"यथायर्थ"यथात्मीयं, तदेवाह- "तत्र" इत्यादिना। "कायं" कर्स, "व्याप्यं" वागादिव्यापारेणाप्यं कर्म, तदेवाह--"कमें- न्द्रियाणाम्" हति, देवादीनां भोग्या दिव्याः, अस्मदादीनां चादिव्याः । "तच" शरीरं च “पार्थिवादि,” आदिना जैलीयतैजसवायवीयानां ग्रहण. म् , पाञ्चभौतिकं-“पञ्चभूतानां विकारभूतम् , पञ्चभूतविकारत्वे कथं पार्थिवा- दित्वव्यपदेश इति चेत् , तत्तत्प्राधान्येनेति गृहाण, तथा हि दशधात्वं कुतस्त्यं, तबाह-"शब्दादीनाम्" इति शब्दादिपञ्चतन्मात्राणां समूहरूपः परिणामः स्थूला पृथिवीति पूर्वमभिहितं, ते च शब्दादयः पञ्च दिव्यादिव्यतया दशेति तद्वती पृथिव्यपि दुशधा-तत्परिणामत्वाच्च शरीरमपि दशधेत्यर्थः । (१) “यथास्वे यथायथम्” इति (८1१।१४) पा० सूत्रेण साधु । (२) तत्र पार्थिवं मनुष्याणां, वरुणवहिवायुलोकनिवासिनां च यथाक्रम जलीयादिशरीरमिति बोध्यम् । (३) मानुषे शरीरे पृथिव्याः प्राधान्यभितरेषां च भूतानामुपष्टम्भ- कत्वमात्रम्, एवमितरत्रापि तत्तत्प्राधान्यं ज्ञेयम् । (४) सूक्ष्माः शब्दादयो दिव्याः, स्थूलाश्चादिव्याः ।
-- साङ्ख्यतत्त्वकौमुदी। २७१ झूहः पृथिवीति ते च पञ्च दिव्यादिव्यतया दशेति धार्य- मपि दशधा, एवं बुद्धीन्द्रियाणां शब्दस्पर्शरूपरसगन्धा यथा- यथं व्याप्याः ते च दिव्यादिव्यतया दशेति प्रकाश्यमपि दशधेति ॥ ३२ ॥ त्रयोदशविधे करणेऽवान्तरविभाग करोति-"अन्तःकर- णम्" इति- अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् । साम्प्रतकालं वाह्यं त्रिकालमाभ्यन्तरं करणम् ॥ ३३ ॥ "अन्तःकरणं त्रिविधं" बुद्धिरहङ्कारो मन इति, शरीराभ्य- न्तरवर्तित्वादन्तःकरण, दशथा बाह्यं करणं "त्रयस्य" अन्तः- करणस्य "विषयाख्यं" विषयमाख्याति विषयसंकल्पाभिमा- नाध्यवसायेषु कर्तव्येषु द्वारीभवति, तत्र बुद्धीन्द्रियाण्यालोच- नेन,कर्मेन्द्रियाणि तु यथास्वं व्यापारेण । बाह्यान्तरकरणयोर्विशेषान्तरमाह - “साम्प्रतकालं बाह्य त्रिकालमाभ्यन्तरं करणम्" इति, साम्प्रतकालं वर्तमानकालं .. "व्याप्याः" आलोचनीया विषयाः ॥ ३२ ॥ "विषयमाख्याति" तत्तद्विषयगोचरं व्यापारमुत्पादयति, तदेवाह-"वि- पयसङ्कल्प” इति, मनआदिभिर्विषयगोचरेषु सङ्कल्पादिषु कर्तव्येषु बाह्य- मिन्द्रियं द्वारीभवति उपायीभवतीस्यर्थः । "आलोचनेन" आलोचनाख्यव्यापारद्वारा सहायीभवन्तीति शेषः एवं "यथास्वं व्यापारेण" इत्यत्रापि 'द्वारीभवन्ति' इति शेपो ज्ञेयः । "वर्तमानकालं" वर्तमानकालो विषयो यस्य तद्वर्तमानकालं लौकिको बाह्यकरणाश्रितोऽध्यवसायो वर्तमानविषय इत्यर्थः । (१) बाह्येन्द्रियतन्त्रं ह्यन्तःकरणं बाले प्रवर्त्तत इति बाह्यगोचरवृत्त्युद्भवेऽन्तः- करणस्य बाह्येन्द्रियं सहायीभवतीति भावः। (२) योगिनः प्रत्यक्षमतीता- नागतावपि गोचण्यति, अत उक्तं 'लौकिक" इति ।
२७२ साङ्ख्यतत्वकौमुदी। बाह्यम् इन्द्रियं, वर्तमानसमीपमनागतमतीतमपि वर्तमानम् अतो वागपि वर्तमानकालविषया भवति । "त्रिकालमाभ्यन्तर करण" -- तद्यथा नापूरभेदादभूद- वृष्टिः, अस्ति धूमादग्निरिह नगनिकुञ्जे, असत्युपधातके पिपी- ननु 'अयमायमम्' 'एष गमिष्यामि' इत्यतीताऽनागतयोरप्यागमनगमन. योर्वाचो व्याप्रियमाणत्वात्कथं वर्तमानकालं बाह्य करणम् इति नियम इत्याश- ङ्कायामाह-“वर्तमानसमीपमनायतमतीतमपि वर्तमानम्' इति, अत एव कदाचित् ‘कदाऽऽगतोलि' इति पृष्टः सन्चतीते वर्तमान प्रयुङ्क्ते-'अयमाग. च्छामि' इति, 'कदा गमिष्यति' इति च पृष्टः सन्चनागते वर्तमानं प्रयुङ्क्ते- 'एप गच्छामि' इति तथा चाह भगवान् दाक्षीनन्दनः- 'वर्तमानसामीप्ये वर्तमानवद्वा" इति, गङ्गासमीपे गङ्गात्वारोपवद् वर्तमानसमीपे वर्तमानत्वा- रोपसम्भवान्नातीवावश्यकाभिदं सूत्रमिति महाभाष्यकाराः । अन्तःकरणव्यापारस्य त्रैकाल्यविषयत्वं स्पष्टपितुनादौ तावदतीतवि- पयमनुमानमाह-"नदीपूरभेदात्" इति, नदीपूरः नद्याः पूर्णत्वं, रोधादपि नद्याः पूर्णत्वस्य कदाचित्सम्भवाद् व्यभिचारः: स्यात् तद्वारणाय भेदपद, नदीपुरविशेषादित्यर्थः, वैशेष्यं च बहुतर फेन फलपल्लवकाष्ठादिमजस्वल- जलवत्त्वसहकृतत्वं,तथा चैताङ्नद्याः पूर्णत्वं, स्रोतसः शीघ्रत्वं च दृष्ट्वानुमी. यते-'नद्या उपरिदेशे वृष्टो देव' इत्यत्र फालतम् ।। वर्तमानविषयमनुमानमाह-"अस्ति धूमाद्” इति, “नगनिकुळे” गि- रिगह्वरे-लताच्छादिते पर्वतप्रदेश इत्यर्थः । अनागतविषयमनुमानमाह-"असत्युपधातक" इति, वर्षमूलकारणे म- हाभूतसक्षोभे सति भौमेनोष्मणा कथ्यमानाः खलु पिपीलिकाः स्वान्यण्डानि भूमिष्ठान्युपरिष्टान्नयन्ति, तथा च पिपीलिकाण्डसञ्चरणापैकारणमनुमाय पुनवर्षकारणाझावि कार्थं वर्षणमनुमीयत · इत्यर्थोत्र ज्ञेयः, नीडोप- घातादपि कदाचित् पिपीलिकाण्डसञ्चारो भवतीति तन्निरासायाह-"अ- सत्युपघातक" इति, पिपीलिकागृहोपमर्दकारणेऽसतीत्यर्थः । (१) इदानीमित्यर्थकम्-'अयम्', 'एष इति च । (२) पाणिनि० (३।३।१३१)। (३) स्पन्दमानानामपां द्रवत्वप्रतिबन्धहेतुसेवादिकं 'रोध' इति । (४) वर्ष-- कारणं भूतसंक्षोभम् । (५) नीडम् गृहम् । (६) ताटक्सचरणेन मिथ्यानुमा- नभवन निराकरणाय । .. , -- Si SNET .. , साङ्ख्यतत्त्वकौमुदी। २७३ लिकाण्डसञ्चरणाद्भविष्यति दृष्टिरिति, तदनुकूलाथ सङ्कल्पा- भिमानाध्यवसाया भवन्ति । कालश्च वैशेषिकाभिमत एको नाऽनागतादिव्यवहारभेदं प्रवर्त्तयितुमहतीति,तस्मादयं यैरुपाधिभेदैरनागतादिव्यवहार तथा चावित्रस्तानां भूयसीनां भूयस्सु स्थानेषु साण्डानां पिपीलिकानां सञ्चरणमेवाऽनागतवर्षणमनुमापयति न सञ्चारमात्रमिति न मिथ्यानुमान- मित्यत्र फलितम् । "वृष्टिरिति" इति, यतः एवं काल्यविषयमनुमानमतः तदनुरूपाः- तत्तदतीताद्यनुगुणा एवं मनआदीनां सङ्कल्पादयो भवन्तीत्यर्थः । 'त्रिकालमाभ्यन्तरं करणम्' इति श्रुत्वा भवेत्कस्यचित्‘पञ्चविंशतितत्त्वाति- रिक्तं कालतत्त्वमपि कापिलेरास्थीयते,इति भ्रान्तिः,तां पराणुदति-"कालश्च" इति,"अपररिसन्नपर युगपच्चिरं क्षिप्रमिति कालालिङ्गानि' इत्येवं वैशेषिकैराभि- हितश्च कालो, नाऽनागतानादिव्यवहारभेदं प्रवर्तयितुमर्हति-यतः स एक इति। ननु स्वरूपत ऐक्थेप्युपाधिभदादनागतादिभेदव्यवहार उपपत्स्यते, यदाहुः-"एकत्वेपि सर्वकार्याणामारम्भक्रियाभिीनवृत्तिस्थिति- निरोधोपाधि भेदान्सणिवत्पाचकादिवद्वा नानात्वोपचार” इति, यथैक- स्मिन् पुरुपेऽनेकसम्बन्धभदानुविधायिन्यभिन्ने पिता पुत्रो भ्रातेति प्रत्यया भवन्ति-तहदेकः कालः कार्यकारणाविशेषापेक्षः परापरादिप्रत्यय- हेतुः इति च, तत्राह-"तस्मादय यैरुपाधिभेदैः” इति, इति यत एकः (१) इतिकारो ज्ञानप्रकारपरः प्रत्येकमभिसंबध्यते, तथा च अपरमिति प्रत्ययः, युगपदिति प्रत्ययः, चिसमिति प्रत्ययः, क्षिप्रमिति प्रत्ययः इति कॉललिङ्गानीत्यर्थः, अपरस्मिन्नपरमित्यनेन परस्मिन् पर्मित्यपि द्रष्टव्यम् इति काणादसूत्रार्थः, अ० २, आ०.२ सू० ६ । (२) आरम्भः उपक्रमः, क्रियाया अभिनिवृत्तिः परिसमाप्तिः, स्थितिः स्वरूपावस्थानं, निरोधः नाशः, एषामुपा-- धीनां भेदान्नानात्वव्यपदेशः, यथैकोपि स्फटिकादिमणिस्तत्तन्नीलाधुपाधिभेदादने- करूपो, यथा चैकोपि पुरुषस्तत्तक्रियाभेदात्पाचकः पाठक इति तद्वदिति प्रशस्तपादभाष्यार्थः। (३) कार्य्यस्य परापरादेः प्रत्ययस्य यः कारणविशेषो बहुतराल्पतरातीततपनपरिस्पन्दावच्छिन्नकालापण्डसंयोगस्तदपेक्षः काल एकोपि परापरादिप्रत्ययहेतुः इति न्यायवार्तिकार्थ इति तात्पर्यटीका० अ० १ आ० २ सू० ३९। कालस्य ..
२७४ साङ्ख्यतत्वकामुदी। भेदं प्रतिपद्यते सन्तु त एवोपाधयोऽनागतादिव्यवहारहेतवः कृतमन्तर्गडुना कालेनेति साङ्ख्याचार्याः। तस्मान्न कालरूरत- वान्तराभ्युपगम इति ॥ ३३ ॥ कालोऽनागतादिव्यवहारभेदं प्रवर्त्तयितुं नार्हति "तस्माद्यैरुपाधिभेदैः" कार्यारम्भकार्यस्थितिकार्यनिरोधादिरूपः बहुतराल्पतरदिनकरोदयास्तम- यक्रियादिरूपैर्वोपाधिभिः "अयं” कालः अनागतादिव्यवहारं परापरादिव्य- वहारं च भेदेन "प्रतिपद्यते' प्राप्नोति "त एवोपाधयोऽनागतादिव्यवहार- हेतवो" भवन्त्वेलम् "अन्तर्गडुना” अनर्थकेन कालेनेत्यर्थः । तथा चाहुर्योगभाष्यकारा:-"स खल्वयं कालो वस्तुशून्यो बुद्धिनिर्माणः शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवावभासते" इति । केचिर्तुं "क्षणस्तु वस्तु पतित" इत्युत्तरभाष्यानुरोधात् क्षणाद्यानां कालत्व- मेव न वस्त्वन्तरत्वम्, अन्यथा घटपटयोरिव क्षणयोर्द्वयोः सहभावापत्तिः, (१) देशतः सन्निकृष्टयोर्युवस्थविरयोरेकस्मिन् शरीरावस्थाभेदानुमितातीतसूर्यो- दयास्तमयरूपक्रियाप्रचयबहुत्वान्तरितजन्मनि स्थविरे शरीरावस्थाभेदानुमिताती- तसूर्योदयास्तमयरूपक्रियाप्रचयाल्पत्वान्तरितजन्मानं युवावमवधिं कृत्वा विप्रकृष्टा बुद्धिरुत्पद्यते, तामपेक्ष्य बहुतरसवित्रुदयास्तमयावीशष्टेन कालप्रदेशेन योगात्स्थ- विरे परत्वस्योत्पत्तिरित्यादिरूपा हि वैशेषिकादिकल्पना, तत्र मार्तण्डोदयास्तमयाक्र- याप्रचयाल्पत्ववहुत्वविशिष्टादेव पिण्डात्परत्वापरत्वे. भविष्यतः, कृतमत्र द्रव्यान्तरेण कालेनेति साङ्ख्याः । (२) यत्प्रागभावेन यः कालोऽवच्छिद्यत्ते स तस्यानागतकालः, स्थितेन च वस्तुना यः कालोऽवच्छिद्यते स वर्तमानकालः, यत्प्रध्वसेन यः कालोऽवच्छिद्यते स तस्यातीतकालः इति हि तार्किककल्पना, तत्रारम्भ- स्थितिनिरोधक्रियाभिरेवानागतादिव्यवहारसिद्धरलं भेदकालकल्पनयेति भावः। (३) योग० पा० ३ सू० ५२ । (४) योगवार्तिककाराः । (५) 'विघ्नप्रा- चुर्यदोषात्कृतिरियमधुना नान्तमापाद्य कार्य किं वेत्येवम्पेरणाखिलनिगमवि- दात्मस्वरूपामिधेन ।-शिष्येणातिप्रियेण द्रुतमियमधुना ह्यन्य विद्वन्मुखेन शिष्टा यत्नादकारि त्वविरतविविधा दि कार्याकुलेन ॥ १ ॥' यद्वा 'भाष्यानुरोधारक्ष' इत्यन्तमकारि कृतिरञ्जसा । श्री १०८ स्वाम्युदासीनबालरामेण विदुषादरात् ॥ तेव, मा - श साङ्ख्यतत्त्वकौमुदी। २७५ साम्प्रतविषयाणां बाह्येन्द्रियाणां विषयं विवेचयति- बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि । वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि ॥ ३४ ॥ "बुद्धीन्द्रियाणि"इति । "बुद्धीन्द्रियाणि तेषां" दशाना- क्रमिकत्वानापत्तिश्च, एवं च क्षणायाः सर्वेपि कालाः सर्ववस्तुपरिणामा- धारा इति तत्त्वम् । न च क्षणस्यैव कालत्वे 'विषमः कालो गतः' 'क्रूरः कालोयम्'इति क्षण. समूहात्मकमहाकालादिसाक्षात्कारानुपपत्तिः, क्षणातिरिक्तस्य तस्यानङ्गी- कारादिति वाच्यं, क्षणसमूहानामेकबुद्धिविषयत्वारोपेण तव्यवहारोपपत्तेः, अत एव "कालनित्यत्वश्रुतिस्मृतयश्च प्रवाहरूपकालरूपा" इति योगवार्ति- ककृतः, एतेन 'पूर्वदेशसंयोगाद्यवंच्छिन्नः परमाणुक्रियव क्षणस्तदतिरिक्तो नित्यश्च' इति वैशेषिकोक्तमपास्त... तन्मते विशिष्टस्य शुद्धानतिरेकात्, अतिरिक्तत्वे स्वसिद्धान्तविरोध इत्युभयतस्पाशापत्तेः,नित्यकालान्तराभ्युपगमे . , प्रमाणाभावाच्च । तस्मात्क्षणादिरूपः कालः क्षणद्वयाद्यवस्थायिपदार्थान्तरेभ्यो भिन्न एव स्थिरः पदार्थोऽभ्युपेय इति प्राहुः ॥ ३३ ॥ “साम्प्रतविषयाणां" प्रकृतविषयाणां, "विशेषाः' शान्तघोरमूढलक्ष- न्तिमं द्वयं नष्टं पत्रयोरादरेण च । श्रीस्वाम्यात्स्मस्वरूपोदासीनेनातिधनव्ययात्।। । प्रियशिष्येण महता यत्नेनाकारि पूरणम् ॥ शिष्टं यदेतच्छोकस्य श्लोकस्याप्यनि-~ मस्य च । एकेनान्यनाऽऽसमाप्ति कृतेरस्यास्ततः परम् ॥ अत्रान्तिममकारीति ! पदद्वयं ण्यन्ताणिचि चिण्णन्तम् । (१) आनन्तर्यरूपक्रमस्य प्रतियोग्यनुयोगि- घटितत्वेन तस्यानङ्गीकारे प्रतियोग्यनुयोगिघटितक्रमानुपपत्तेः । (२) क्षणाख्यः । कालः सत्त्वादीनां द्रव्यरूपः परिणामविशेष एवेति यावत् । यावता समयेन । चलितः परमाणु: पूर्वदेशमतिकामेदुत्तरदेशमुपसङ्गच्छेत च स कालः क्षण इति ज्ञेयम् । (३) “विशिष्टं शुद्धान्नातिरिच्यत" इति सलु तदीयः समयः । (४) "तन्मात्राण्यविशेषाणि अविशेषास्ततो हि ते । न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः॥' हति विष्णुपुराणे । F DIYesupaviouNOW VITTEN ARRIA २७६ साङ्ख्यतचकौमुदी। मिन्द्रियाणां मध्ये “पञ्च विशेषाविशेषविषयाणि" 'विशेषाः स्थूला; शब्दादयः शान्तघोरमूढरूपाः पृथिव्यादिरूपाः, अवि- णविशेषरहितानामत एवाविशेषसंज्ञकानां शब्दस्पर्शरूपरसगन्धतन्मात्रा- पां शब्दादिधर्मकसूक्ष्मद्रव्याणां विकारा एवाकाशवायवग्नयुदभूमयः पञ्च भूतानि 'विशेषाः' अभिव्यक्तशान्तादिविशेपकाः परिणामाः न तु तत्स्वान्त- रप्रकृतय एताः। तथाऽस्मितालक्षणस्याभिमानमात्रवृत्तिकस्य श्रवणस्पर्शनदर्शनादिरूपवि- शेषसहितस्य सत्वप्रधानस्याहङ्कारस्य श्रवणस्पर्शनादिधर्मविशेषकाणि पञ्च ज्ञानेन्द्रियाणि, तस्यैव वचनादानविसर्गादिरूपविशपशून्यस्य रजःप्रधान- स्याहङ्कारस्य वचनादानगमनविसर्गादिरूपधर्मविशेषकाणि पञ्च कर्मेन्द्रियाणि, 'अन्यत्रमना अभूवं', 'त्वयोक्तं नाश्रौषम्' इत्यादिव्यवहारानुरोधाच्चक्षुरा-- दीनां वागादीनां च मनोधिष्ठितानामेव स्वस्वविषयेषु प्रवृत्तिरित्यु- भयप्रधानस्य श्रवणस्पर्शनादिवचनादानादिरूपधर्मविशेषशून्यस्याभिमानमा- त्रवृत्तिकस्याहङ्कारस्य श्रवणस्पर्शनादिवचनादानादिरूपधर्मविशेषकं मनश्च 'विशेषाः' कार्याणीत्यर्थः । ननु पञ्चतन्मात्राणासविशेषत्वे मानाभाव इति चेत्, न, शब्दतन्मात्राणि बुद्धिकारणकानि अविशेषादस्मितावदित्यनुमानस्य मानत्वात् , "तन्मात्राण्य- विशेषाणि” इति विष्णुपुराणाच्च । तदेव तन्मात्रं, ते एव तन्मात्रे, तान्येव तन्मात्राणि "मयूरव्यसकाद- यश्च' इति (पा० २।१।७२) सूत्रेण समासः, तन्मानं च तन्मात्रे च तन्मात्राणि च तन्मात्राणि च तन्मात्राणि चेयकशेपेण तन्मात्राणीति शब्दतन्मानं स्पर्शतन्मानं रूपतन्मानं रसतरत्रि गन्धतन्मानं चेत्यर्थः । एपूत्तरोत्तरं प्रति पूर्वपूर्वस्य हेतुतया शब्दुतन्मात्रं शव्दतन्मात्रधर्मकम्, एवं स्पर्शतन्मानं शब्दतन्मात्रकार्यतया शब्दस्पर्शमात्रधर्मकम्, एवं रूपतन्मानं शब्दस्पर्शतन्मात्रकार्यतया शव्दस्पर्शरूपमाञधर्मकम् , एवं रसतन्मानं शब्द- स्पर्शरूपतन्मात्रकार्यतथा शब्दस्पर्शरूपरसमानधर्मकम् । एवं गन्धतन्मानं श- ब्दस्पर्शरूपरसतन्माणकार्यतया शब्दपशिरूपरलगन्धमागधर्मक्रमिति यावत् । एवं च मात्राशब्देन शान्तादिविशेषस्यैव व्यावृत्तिन तु पूर्वपूर्वकार्यत्वे- नापन्नस्य गुणान्तरस्य। (१) अहङ्कारस्याविशेषत्वे हेतुरस्मितालक्षणस्येति । (२) संसारवृक्षस्यास्ति- तामात्रपरिणामः महत्तत्त्वं बुद्धिपरिणामस्त्वहङ्कारादिः । (३) तेनेन्द्रियभावा- पन्नाहङ्कारस्य व्यावृत्तिः । (४) स्थूलभावमपाकरोतीति पाठान्तरम् । wa dowan मात्रशब्देन भूतभाव: . , साङ्ख्यतत्त्वकौमुदी। २७७ शेषाः तन्मात्राणि सूक्ष्माः शब्दादयः, मात्रशब्देन मपाकरोति, विशेषाश्चाविशेषाश्च विशेषाविशेषाः, त एव वि- पया येषां बुद्धीन्द्रियाणां तानि तथोक्तानि । तत्रोव॑स्रोतसां योगिनां च श्रोत्रं शब्दतन्मात्रविषयं स्थू- तन्मात्रागां पूर्वपूर्वकार्यत्वाभ्युपगमे मानं तु “आकाशाद्वायुः, वायोरग्निः, अग्नेरापः अङ्ग्यः पृथिवी" इति तैत्तिरीयकोपनिषद्वाक्यम् .कार्याणां कारण- गुणपूर्वकत्वाभ्युपगमात् । एतानि च तन्मात्राणि तामसाहाराच्छब्दादिक्रमेणोत्पद्यन्ते इत्युक्तम् । "ऊर्ध्वस्रोतसाम्-'अवमेव न कदाचिदधःस्रोतः रेतःस्रोतो येषां ते (१) न च भीष्मस्योर्ध्वरेतस्त्वोक्तिरयुक्ता, यतो महाभारते-'महता राजयोगेन परिवारेण संवृतः। स्तूपमानो महातेजा भीष्मस्यामीननुव्रजन् । प्राप्तोस्मिसमये राज- नग्नीनादाय ते विभो॥' इति वाक्ये तस्मिन्नमिहोत्रित्वसूचकदक्षिणामिगार्हपत्याहवनी- याख्याग्नित्रयसम्बन्धस्याग्नीनिति बहुवचनेन प्रतीतिः, तेषां चापत्नी केन सम्वन्धा- संभवाच्च । पल्याश्च विनाहसंस्कारेण संपाद्यमानता, स च संस्कारः “अपत्य धर्मकार्याणि शुश्रूषा रतिरुत्तमा । दागधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह॥” इति। "त्रिंशद्वर्षों वहेत्कन्यां हृयां द्वादशवार्षिकीम् । ब्यष्टबर्षोऽष्टवर्षा वा धर्मे सीदति स- स्वरः ॥” इति च मनुना, 'अनन्यपुर्विकां कान्तामसपिण्डां यवीयसीम् । अरोगिणी भ्रातृमतीमसमानार्षगोत्रजाम् ॥” इति याज्ञवल्क्येन, कान्तां योद्धर्मनोनयनानन्द-- कारिणीम् इति तद्व्याख्याकृता विज्ञानेश्वरेण चोक्तेरूवरेतस्त्वं विरुद्धम् इति वाच्यं,-वैयाघ्रपद्यगोराय साङ्कृत्यप्रवराय च । गङ्गापुत्राय भी माय आ- जन्मब्रह्मचारिणे ॥ अपुत्राय ददाम्येतद्दकं भीष्मवर्मणे । वसूनामवताराय शन्त- नोरात्मजाय च ।अयं ददामि भीष्माय आबाल्यब्रह्मचारिणे॥” इति पाझे तर्पणा-- यंदानमन्त्राभ्याम्, “अयं पितरमाज्ञाय - कामात शन्ततुं पुरा । ऊर्ध्वरेतसमात्मानं चकार" इति महाभारतीयवचनेन चास्य नैष्ठिकब्रह्मचारित्वस्य कण्ठत एवोदयुष्य- माणत्वात् । तस्यामिहोत्रादिसम्बन्धाधुक्तिस्तु ब्रह्मचारिणोप्यमिहोत्रादिकं क्वविद्भवती त्यनुभितश्रुतिभूला । न च "लां हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम् । स्त्रीसहस्रैः परिवृतम्” इति महाभारते तस्य सपत्नीकत्वमुच्यत हति परस्परविरुद्धा एवैता उक्तय इति वाच्यम् । पत्नीभिन्नस्त्रीसम्बन्धोक्त्या विरोधानवतारात् । अत एव तस्यैव चतुर्थचरणं पश्यामीहोर्धरेतसम्" इति पट्यत इति दिक्। (२) “योगिनां च" तद्भिन्नानामष्टाङ्गयोगनिष्ठानां चेत्यर्थः । तदुक्तं ब्रह्मवैवर्ते - ''स्वर्षे लोप्टे गृहेऽ- " -- २७८ सावयतन्यकौमुदी। लशब्दविषयं च, अस्मदादीनां तु स्थूलशब्दविषयमेव । एवं तेषां त्वक स्थूलसूक्ष्मस्पर्शीवपया, अस्मदादीनां तु स्थूलस्पर्श- विषयैव । एवं चक्षुरादयोपि तेपामस्मदादीनां च रूपादिषु मूक्ष्मस्थूलविषयेषु द्रष्टव्याः! एवं कर्मेन्द्रियेषु मध्ये "वाग्भवति शब्दविषया" स्थूल- शब्दविषया- तद्धेतुत्वात् न तु शब्दतन्मात्रस्य हेतुः, तस्या- ऽऽहङ्कारिकत्वेन वागिन्द्रियेण सहैककारणकत्वात् । “शेषाणि तु" चत्वारि पायूपस्थपाणिपादाख्यानि “पञ्चविषयाणि" जनकसनकसनन्दनादयस्तथा भीष्मादयो नैष्ठिका ब्रह्मचारिणः, संन्यासनोपि तेषाम्' इत्यर्थः, उपअर्वाणकब्रह्मचारिणां तन्न सम्भवति तेषां विवाहार्थ प्रवृत्तेः एवं च जूवरेतस्त्वम् अष्टविधमथुनेच्छारहितत्वम् । ननु वागिंन्द्रियं शब्दतन्मानं प्रति, कारणं स्यात्, इत्यत आह-"एवं कर्मेन्द्रियेषु" इति, वागिन्द्रियं-स्थूलशब्दविषयं-स्थूलशब्दहेतुत्वात्-शब्द- तन्माब्रवदित्यनुमानाकारः। शब्दतन्मात्रस्य वागिन्द्रियल्याध्यहङ्कारादेवो- त्पन्नत्वेन तत उत्पन्नयोः कार्यकारणभावासम्भवादिति भावः । "चत्वारि" पायूपस्थपाणिपादाख्यानि “पञ्चविषयाणि" पञ्च विषया रण्ये सुस्निग्धे चन्दुने तथा । समताभावना यस्य स योगी परिकीर्तितः।। 'इति।लगवुद्गी. तायामपि–“आत्मौपम्येन सर्वत्र समं पश्यति योर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः” इति । कौमपि-'सर्वकर्माणि संन्यस्य समाधिमचलं श्रितः । य आस्ते निश्चलो योगी स सन्यासी न पञ्चमः॥” इत्याद्युक्त्वा "योगी च त्रिविधो ज्ञेयो-- भौतिकः साङ्ख्य एव च । तृतीयोऽत्याश्रमी प्रोक्तो योगमुत्तममास्थितः॥” इति । (२) एवं च चित्तस्य स्वत एव स्थूलसूक्ष्मयावदर्थसाक्षात्कारसामर्थ्य सत्यपि विषयान्तरव्यासङ्गवासनादोषवशेन तत्प्रतिबन्धाद्वृत्त्यन्तरोदय इति स्थूलवस्तुनः साक्षात्कार एव दूरं गते कुतो वा सूक्ष्मवस्तुनः साक्षात्कार इति चेद्योगेन तत्प्रति- . ima . भवतीति तेषां शब्दतन्मात्रादिविषयंकं स्थूल शब्दादिविषयकं च श्रोत्रादिकं भवति, अस्मदादीनां तु तद्भिन्नानां स्थूलशब्दादिविषयकमेव तद्भवति न सूक्ष्मशब्दा-- दिविषयकमिति भावः । (१) लोकेप्येकस्मादुत्पन्नयोर्द्वयोः कार्यकारणभावो न युज्यत इति प्रसिद्धम् । .
- साङ्ख्यतत्त्वकौमुदी। २७९ पाण्याद्याहार्याणां घटादीनां पञ्चशब्दाद्यात्मकत्वादिति ॥३४॥ साम्प्रतं त्रयोदशसु करणेषु केपाश्चिद्गुणभावं, केपाश्चित्प्र- धानभावं सहेतुकमाह- सान्तःकरणा बुद्धिः सर्व विषयमवगाहते यस्मात् । तस्मात्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५ ॥ “सान्तःकरणा"इति । "द्वारि" प्रधान, "शेषाणि" करणानि बाह्येन्द्रियाणि "द्वाराणि" गौणानि, तैरुपनीत "सर्व विषयं" समनोऽहकारा "बुद्धिः 'यस्मात्" "अवगाहते" अध्यवस्यति "तस्मात्" बाह्येन्द्रियाणि द्वाराणि, द्वारवती च सान्तःकरणा बुद्धिरिति ॥ ३५॥ न केवलं बाह्येन्द्रियाण्यपेक्ष्य प्रधानं बुद्धिः, अपि तु ये अप्य- हङ्कारमनसी द्वारिणी ते अप्यपेक्ष्य बुद्धिः प्रधानमित्याह- एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थ प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६ ॥ येषां तानि-पाण्यादिविषयाणां पाण्यादिग्राह्याणां घटादीनां शब्दस्पर्शरूपरस- गन्धात्मकत्वेन शब्दादिपञ्चविषयाणि भवन्तीत्यर्थः, एवं च वाक् शब्दमात्र विषया, अन्यानि तु पञ्चविषयाणीति कर्मेन्द्रियेषु वैलक्षण्यमिति भावः॥३४॥ द्वारमस्यास्तीति "द्वारि' बाह्यकरणानि द्वारतुल्यानि द्वारविशिष्टगृहतुल्यां बुद्धिमुपकुर्वन्ति, "वैरुपनीत' बाह्यकरणैरुपस्थापितम्, “समनोऽहङ्कारा बु- द्धिः" इति अन्तःकरणस्य विविधत्वं "त्रिविधं करणम्” इति कारिकांशेना- क्षिप्तमेव स्पष्टीकरोति, अवगाहनमत्र न विलोडनं किन्तु बुद्धिकम्माध्यव- सायपर्यवसायीत्याहू--"अवगाहते अध्यवस्यति" इति, "द्वारवती च सान्तः: करणा बुद्धिरिति” इति मनोऽहङ्कारयोरपि द्वारवत्त्वरूपं प्राधान्यं बाह्यकरणा- पेक्षयाऽभिमतं, बुद्ध्यपेक्षया तु तयोरपि द्वारत्वरूपं गौणत्वमेवेत्युपरिष्टात्स्प- टीकरिष्यति ॥ ३५ ॥ बाह्येन्द्रियापेक्षयाऽहङ्कारमनसोः प्राधान्यं, बुद्ध्यपेक्षया तु तयोरङ्गत्वमेवे- त्युपक्षिपति-"न केवलम्" इत्यादिना, मनसोऽल्पाचूतरत्वेऽप्यजाद्यदन्तत्वा. दहङ्कारस्य पूर्वनिपाताद् “अहङ्कारमनसी" इति साधु, "ते अप्यपेक्ष्य” इति; (१) मत्वर्थीय इति । (२) कारिकायां ३६ । . 6 x Dasarati malsina -- २८० सायतत्वकाँमुदी। "एत"इति । यथा हि ग्रामाध्यक्षाः कौटुम्बिकेभ्यः करमा: दाय विषयाध्यक्षाय प्रयच्छन्ति, विषयाध्यक्षश्च सर्वाध्यक्षाय, स च भूपतये, तथा बाह्येन्द्रियाणि आलोच्य मनसे समर्प- यन्ति, मनुश्च सङ्कल्प्याहङ्काराय, अहङ्कारश्चाभिमत्य सर्वा- ध्यक्षभूतायां बुद्धौ । तदिदमुक्तं- 'पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति" इति । वाह्येन्द्रियमनोऽहङ्काराश्च "गुणविशेषाः" गुणानां सत्त्वरजस्तमसां विकाराः ते तु परस्परविरोधशीला अपि पुरुषार्थेन भोगापवर्गरूपेणकवाक्यता नीताः यथा वर्ति- तैलवह्नयः सन्तमसापनयेन रूपप्रकाशाय मिलिताः प्रदीपे- एवम् “एते गुणविशेषा" इति योजना ।। ३६ ॥ कस्मात्पुनर्बुद्धौ प्रयच्छन्ति ? न तु बुद्धिरहङ्काराय द्वारिणे मनसे वेत्यत आह सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः। सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७॥ "सर्वम्" इति । पुरुषार्थस्य प्रयोजकत्वात्तस्य यत्साक्षा- प्रगृह्यत्वात्सन्ध्यभावः । “कौटुम्बिकेभ्यः” गृहिभ्यः “तपःषड्भागमय्य ददत्यारण्यका हि न।" इत्युक्तत्वात्पूर्वराजभिरारण्यकाः करगोचरीकृता इति ध्वन्यते, विषयो जनपद-ग्रामसमूहात्मकः, “सङ्कल्प्य" बाह्येन्द्रियोपल- ब्धक्षणिकसंवेदनस्मृतीरेकत्वेन संग्रेथ्येत्यर्थः, "अभिमत्य” सेवेदनस्मृतिसंद- र्भमात्मीयत्वेन मत्वेति यावत्, “पुरुपस्यार्थ प्रकाश्य बुद्धौ प्रयच्छन्ति" बुद्धावर्थ प्रदाय पुरुषस्य प्रकाशयन्तीत्यर्थः, एकवाक्यताशब्दोऽत्रैककार्यकारि- तोपलक्षकः, विरुद्धानामेकवाक्यतायां दृष्टान्तमाह- "वर्तितैल” इति ॥३६॥ बुद्धिमनोऽहङ्कारेषु कथमन्तःकरुणत्वाविशेषेऽपि बुद्धेः प्राधान्यं न वित- रयोरित्याशङ्कायामाह-“सर्वं प्रत्युपभोगम्” इति, "प्रयोजकत्वात्” प्रकृति- (१) मनसे चेत्यत इति पाटान्तरम् । (२) अन्यथा क्षणिकसंवेदनास्वेकस्या अनुभवकालेऽपरासां विनाशात्कस्यापि वस्तुनो यथावद्रहणं न स्यादित्यभिसन्धिः । उद्देश्यस्य सम्बन्धत्वेन विवक्षय षष्ठी।
सावतश्वकौमुदी। २८१ साधनं तत् प्रधानं, बुद्धिश्चास्य साक्षात्साधनं, तस्मात्सव प्रधानं, यथा सर्वाध्यक्षः साक्षाद्राजार्थसाधनतया प्रधानम् । इतरे तु ग्रामाध्यक्षादयस्तं प्रति गुणभूताः। बुद्धिहि पुरुषसन्नि- धानात्तच्छायापत्त्या तद्रूपेव सर्वंविषयोपभोग “पुरुषस्य साध- यति" सुखदुःखानुभवो हि भोगः, स च बुद्धौ, बुद्धिश्च पुरुषरूपेवेति, सा च पुरुषमुपभोजयति यथार्थालोचनस- ङ्कल्पाभिमानाश्च तत्तद्रूपपरिणामेन बुद्धावुपसङ्क्रान्ताः, तथेन्द्रि- यव्यापारा अपि बुद्धरेव स्वव्यापारण अध्यवसायेन सहैकव्या- पाभिवन्ति यथा वा स्वसैन्येन सह ग्रामाध्यक्षादिसैन्यं सर्वाध्यक्षस्य भवति, "सर्व" शब्दादिकं "प्रति" य उपभोगः पुरुषस्य तं साधयति। ननु पुरुषस्य सर्वविषयोपभोगसंपादिका यदि बुद्धिः तर्हि निर्मोक्षः, इत्यत आह "सैव च" इति । पश्चात् प्रधानपुरुषयो- रन्तरं विशेषं "विशिनष्टि" करोति यथौदनपाकं पचतीति । अनेनापवर्गः पुरुषार्थो दर्शितः । ननु प्रधानपुरुषयोरन्तरस्य प्रवर्तकत्वादित्यर्थः । “तद्रूपेव" इति, ईवशब्दोऽवास्तवत्वद्योतकः, बुद्धिर्न वस्तुत आत्माभिन्ना, तथापि तथाविधा त्यक्ष्यते लौकिकैरित्यर्थः, अनध्यवसि- तानामिदन्त्वान्यत्वाभ्यामनिश्चीयमानानामर्थानां पुरुषार्थाप्रयोजकत्वेन बुद्धि- न्यापाराध्यवसायसमनुक्रान्तरेवेन्द्रियव्यापारः पुरुषार्थसिद्धिरित्याह-"स्वव्या- पारेण" इत्यादिना, "स्वसैन्येन” सर्वाध्यक्षसैन्येन बुद्धिव्यापारस्थानीयेन, 'ग्रासाध्यक्षादिः' इन्द्रियव्यापारस्थानीयः, यथा-'पाकं पचति' इत्यत्र पचेः क्रियासामान्यार्थता-तथा "विशेषं विशिनष्टि' इत्यत्र 'अन्तरं विशि- नष्टि' इति द्वितीयस्य वाक्ये विपूर्वस्य शिपे: क्रियासामान्यार्थता, तदेवाह- “यथौदन” इति, "सूक्ष्मम्” इति, अन्तरस्य सूक्ष्मत्वादेवावास्तवोऽपि भोगो (१) उत्प्रेक्षावाचकस्येवशब्दस्यावास्तवत्वद्योतकत्वं प्रसिद्धम् । " 7 - ............. -- . २८२ साङ्ख्यतत्त्वकौमुदी। कृतकत्वादनित्यत्वं तत्कृतस्य मोक्षस्यानित्यत्वं स्यादित्यत आहे "सूक्ष्मम्" इति । "सूक्ष्म" दुर्लक्ष्यं दुर्लक्ष्यं तदन्तरमि- त्यर्थः । प्रधान सविकारमन्यत, अमन्य , इति विद्यमा- नमेवान्तरमविवेकेनाविद्यमानमिव बुद्धिर्बोधयति न तु करोति येनानित्यत्वामित्यर्थः । करणं च प्रतिपादनम् ।। ३७ ॥ तदेवं करणानि विभज्य विशेषाविशेषान् विभजते- तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः । एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ।। ३८ ॥ शब्दादितन्मात्राणि, सूक्ष्माणि, न चैषां शान्तत्वादिरस्त्यु- पभोगयोग्यो विशेष इति मात्रशब्दार्थः । । अविशेषानुक्त्वा विशेषान्वक्तुमुत्पत्तिमेषामाह "तेभ्यः" तन्मात्रेभ्यो यथा- सङ्ख्यमेकद्वित्रिचतुःपञ्चभ्यो “भूतानि" आकाशानिलानलस- वास्तव इवेति भावः, अन्तरं सिद्धमेवेति तत्करणमत्र प्रतिपादनोप- लक्षणम् ॥ ३७॥ "तन्मात्राणि" तान्येवेति मयूरव्यंसकादित्वान्नित्यसमासः, एवशब्दो विग्रहवाक्ये उपभोगयोग्यसकलविशेषयोगव्यवच्छेदार्थः, “विशेषान्वक्तुम्" इति, "तुमुन्धुलौ क्रियायाम्' इति (३।३।१०।पा०) सूत्रेण तुमुन्, विशेषो-- क्तिफलिका मकर्तृका वर्तमानकालिक्येषामुत्पत्त्युक्तिरिति बोधः, “एकद्वि" इत्यादि,(आकाशतन्मात्राल्केवलादाकाशमुत्पद्यते, तस्मादेव वायुतन्मात्रासहि- ताद्वायुः, आकाशवायुतन्मात्राभ्यां तेजस्तन्मात्रसहिताभ्यां वह्निः, आकाश (१) वादनित्यत्वं, तत्कृतकत्वं मोक्षस्य स्यादित्यत आह-"सूक्ष्मम्" इति । दुर्लक्ष्यमित्यर्थः। प्रधानादन्य इति विद्यमानमेवान्तरमविवकिनाऽविद्यमानभिव बुद्धिर्बोधयति न तु करोति येनानित्यत्वमित्यर्थः । तदन्तरकरणं च प्रतिपादनम् । अनेनापवर्गः पुरुषार्थो दार्शतः इति श्लोकान्तव्याख्यायां पाठान्तरम् । (२) 'आह-"विशिनष्टि" प्रधान सविकार' इति क्वचित्पाठः । (३) तेनापवर्गः पुरुषार्थो दर्शितः । “सूक्ष्म' दुर्लक्ष्यं तदन्तरमित्यर्थः' इति क्वचित्पाठः । (४) तच्च नैयायिकानां सम्मत, ‘पञ्चीकृतेभ्यो भूतेभ्यः स्थूलभूतान्युत्पद्यन्ते' इति वेदान्तिनयेन तु विरुद्धम् । ".
साङ्ख्यतत्त्वकौमुदी। २८३ लिलावनिरूपाणि "पञ्च" । “पञ्चभ्यः” तन्मात्रेभ्योऽस्त्वेषां भूतानामुत्पत्तिः,विशेषत्वे किमायातम?इत्यत आह-"एते स्मृता विशेषां” इति, कुत?"शान्ता घोराश्च मूढाश्च" । चकार एको हेतौ,द्वितीयःसमुच्चये । यस्मादाकाशादिषु स्थूलेषु सत्त्वप्रधानत- या केचिच्छान्ताः सुखाः प्रसन्नाः लघुवः, केचिद्रजःप्रधानत- या घोराः दुःखाः अनवस्थिताः, केचित्तमःप्रधानतया मूढाः विषण्णाः गुरवः । तेऽमी परस्परव्यावृत्ता अनुभूयमाना 'वि- शेषा'इति, स्थूला' इति चोच्यन्ते तन्मात्राणि त्वस्मदा- दिभिः परस्परब्यावृत्तानि नानुभूयन्ते, इति 'अविशेषा' इति, 'सूक्ष्मा' इति चोच्यन्ते ॥ ३८ ॥ विशेषाणाभवान्तरविशेषमाह- सूक्ष्मा मातापितृजाः सह प्रभूतैत्रिधा विशेषाः स्युः। सूक्ष्मास्तेषां नियता मातापितजा निवर्तन्ते ॥ ३९ ॥ "त्रिधा विशेषाः स्युः" । तान् विशेषप्रकारानाह-"सूक्ष्मा" इत्यादि । सूक्ष्मदेहाः परिकल्पिताः, "मातापितृजा;" पादकौ- शिकाः तत्र मातृतो लोमलोहितमांसानि पितृतः नायबस्थिम- वायुतेजस्तन्मात्रेभ्योऽप्तन्मात्रसहितेभ्यो जलम् , आकाशवायुतेजोऽप्तन्मात्रेभ्यः क्षितितन्मात्रसहितेभ्योऽवनिरुत्पद्यत) इति फलितोर्थः, मितसारवचसाचा- येणोपन्यस्ते चद्वये नैकेनापि पादपूरणार्थकेन भवितव्यमित्यभिप्रेत्याह- "चकार एक” इति, तथा च यत एते शान्ता घोरा मूढाश्च तत एषां विशे. पत्वमित्यर्थः, शान्तघोरमूढशब्दैश्चान्न गुणत्रयधर्मा उपलक्षिता इत्याह- "सत्त्वप्रधानतया' इत्यादि, “परस्परव्यावृत्तानि" इतरेतरं भिन्नानि ॥ ३८ ॥ “परिकल्पिता:" अनुमानगम्या न तु स्थूलशरीरवत्प्रत्यक्षोपलब्धाः, ननु सूक्ष्माणां तन्मात्राणामविशेषत्वमुक्तम् ,अत्र पुनःसूक्ष्मदेहानां विशेषमध्ये कथं परिगणनमिति चेदिन्द्रियैः शान्तघोरमूढेरन्वितत्वात्सूक्ष्मदेहानांविशेष. त्वमित्यनुपदं स्फुटीभविष्यति । पभिः कोशनिर्मिताः “पाटकौशिका-", के (१) कारिकास०-४० । funt AAE " २८४ साङ्ख्यतत्त्व कौमुदी। जान इति पट्को गणः,'प्रकृष्टानि महान्ति भूतानि' प्रभूतानि तैः "सह" । सूक्ष्मशरीरमेको विशेषः, मातापितॄजो द्वितीयः, महाभूतानि तृतीयः, महाभूतवर्गे च घटादीनां निवेश इति । सूक्ष्ममातापितृजयोर्देहयोविशेषमाह- "सूक्ष्माः" 'तपां" विशे- पाणां मध्ये ये ते "नियताः" नित्त्याः “मातापितृजाः" तु "निवर्तन्ते" रसान्ता वा भस्मान्ता वा विडन्ता वेति ॥३९॥ सूक्ष्मशरीरं विभजते- पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासित लिङ्गम् ॥४०॥ "पूर्वोत्पन्नम्" इति । “पूर्वोत्पन्न" प्रधानेनादिसर्गे प्रति- पुरुषमेकैककमुत्पादितम्र, "असक्तम्" अव्याहतं शिलामप्यनु- प्रविशति, "नियतम्" आ चादिसर्गादा च महाप्रलयादवति- छते, "महदादिसूक्ष्मपर्यन्त" महदहङ्कारैकादशेन्द्रियपश्चत-- 'न्मात्रपर्यन्तम्-एषां समुदायः सूक्ष्मशरीर शान्तघोरमूढेरिन्द्रि- यैरन्वितत्वाद्विशेषः। नन्वस्त्वेतदेव शरीरं भोगायतनं पुरुषस्य, कृतं दृश्यमानेन पाटकौशिकेन शरीरेणेत्यत आह-"संसरति" इति, उपात्तमु- ते षट् कोशा:?कुतो वा ते शरीरमुपसङ्ग्रामन्ति?इत्यत आह-“मातृतो लोम" इत्यादि, “रसान्ता" रसा पृथिवी सैवान्ते येषां ते पृथिवीभावापन्ना इत्यर्थः, "विड्" विष्ठा, तिस्रो ह्यवसाने शरीरस्य गतयः-क्षितौ निर्वातस्य गलितस्य क्षितिभावो दग्धस्य भस्मीभावः, ऋव्यादिभुक्तस्य च विष्ठात्वापत्ति- रिति भावः ॥ ३९ ॥ सूक्ष्मशरीरस्य सूक्ष्मत्वात्तन्मात्रवविशेपत्वं कुतो न ? इति समुत्थितामा. शङ्कामपाकरोति-"शान्तघोर" इत्यादिना, सूक्ष्मशरीरस्य बाह्यकानुष्ठान- मेव नास्ति, धर्माधर्मादयो बौद्धा भावास्तु तदधिवसन्त्येव बुद्धिद्वारेण तत (१) सूक्षाशरीरम् । , ANTARKAURATIO - ? MARRIERREDMARALRASARAIGANSKARANASTRO सासयतत्वकौमुदी। २८५ पात्तं पाटकौशिकं शरीरं जहाति, हायंहायं चोपादत्ते । क- स्मात् ? “निरुपभोग" यतः षाटकौशिकं शरीर बिना सूक्ष्म शरीरं निरुपभोग, तस्मात्संसरति । ननु धर्माधर्मनिमित्तः संसारः, न च सूक्ष्मशरीरस्यास्ति तद्योगः, तत्कथ संसरति ? इत्यत आह- "भावैरधिवासितं" धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्याणि भावाः, तद- न्विता बुद्धिः, तदन्वितं च सूक्ष्मशरीरमिति तदपि भावरधि- वासितं, यथा-सुरभिचम्पकसंपर्काद्वस्त्रं तदामोदवासितं भवति-) तस्माद्भावैरेवाधिवासितत्वात्संसरति ! कस्मात्पुनः प्रधानमिव महाप्रलयेऽपि तच्छरीरं न तिष्ठति ? इत्यत आह-"लिङ्गम्" लयं गच्छतीति लिङ्गं हेतुमत्त्वेन चास्य लिङ्गत्वमिति भावः ॥४०॥ स्यादेतत् -बुद्धिरेका साहङ्कारोन्द्रिया कस्मान्न संसरति ? कृतं सूक्ष्मशरीरेणाप्रामाणिकेनेत्यत आह- चित्रं यथाश्रयमृते स्थानादिभ्यो विना यथा च्छाया । तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् ॥ ४१ ॥ 'लिङ्गनाद ज्ञापनाकुट्यादयो. "लिङ्गं", तदनाश्रितं "न तिष्ठ- एवं चास्य संसरणमित्याह--"धर्माधर्म' इत्यादि, यद्यप्राकृतं तत्तत्सर्व त्रिगुणमयत्वाद्धर्माधर्मादिसत्त्वकमेव, गुणातीतत्वात्पुरुष एको वस्तुतो धर्माधर्माद्यसंबद्धः, यस्मात्सूक्ष्मत्वेऽपि लिङ्गशरीरस्य धर्मादिसंबन्धोऽस्त्येवेति सिद्धान्तः, कस्मान्महाप्रलयेऽपि लिङ्गशरीरस्य लय इत्याकाङ्क्षायामाह- "हेतुमत्त्वेन” इति, यद्यद्धेतुमत् कारणवत् कार्यमिति यावत्, तस्य स्वकारणे लयोऽवश्यम्भावीति व्याप्तिग्रहात्मधानकार्यस्य सर्वस्यापि साक्षात्परम्परया वा प्रधाने लयः, ततश्च सूक्ष्मशरीरस्यापि लयो महाप्रलग्ने भवत्येव ॥४०॥ "अप्रामाणिकेंन" इति, प्रत्यक्षानुपलब्धेनेति भावः, अनुमानाच्छ्रुतिस्मृ- तिभ्यां च तसिद्धिहि प्रतिपादयिष्यते, अन लिङ्गशब्दस्य व्युत्पत्तिलभ्यो बुद्ध्याहिरर्थ इत्याह-"लिङ्गनात्" इति व्याप्तिपक्षधर्मताज्ञानपूर्वकमनु- २८६ सालयतत्वकौमुदी। ति” । जन्मप्राणान्तरालवुयादयः- प्रत्युत्पन्नशरीराश्रिता:- प्रत्युत्पन्नपञ्चतन्मात्रबचे सति बुद्ध्यादित्वादृश्यमान बुधादि- वत् । “विना विशेषैः" इति । सूक्ष्मः शरीरौरित्यर्थः। आगम- श्चात्र भवति “अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्" इति । अङ्गुष्ठमात्रत्वं सूक्ष्मतामुपलक्षयति । आत्मनो निष्कर्षासंभवेन सूक्ष्ममेव शरीरं पुरुषः । तदपि हि पुरि-स्थूलशरीरे शेते।।४१॥ एवं सूक्ष्मशरीरास्तित्वमुपपाद्य-यथा संसरति, येन च हेतुना, तदुभयमाह पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन । प्रकृतेविभुत्वयोगानटवयवतिष्ठते लिङ्गम् ॥४२॥ पुरुषार्थेन हेतुना प्रयुक्तं, निमित्तं धर्मादि, नैमित्तिकं,तेषु. तेषु निकायेषु यथायथं पाटकौशिकशरग्रिहः । स हि धर्मादि- निमित्तप्रभवः । निमित्तं च नैमित्तिकं च तत्र यः प्रसङ्गः प्रस- मानं सूक्ष्मशरीरावस्थानसाधकमुपन्यस्यति-"जन्म” इत्यादिना,मायणं मृत्युः, अङ्गुष्ठमात्रत्वं पुरुषस्यान्न सूक्ष्मत्वोपलक्षकमित्युक्तं, "हृद्यपेक्षया तु मनुष्याधि- कारस्वात्" इति बादरायणीयसूत्रेण तु मनुष्य हृदयसंबद्धत्वादङ्गुष्ठमानत्व मुक्तम्, आत्सनो दिक्कालाधनवच्छिन्नस्य न प्राक् प्रवेशाद्देहे न वा पश्चात् ततो निष्कर्षणं संभावयितुं शक्यत इति सूक्ष्मशरीरस्योत्क्रान्तिग. त्यागतिप्रभृतीनि कर्माणीत्याह-"आत्मन" इत्यादिना, “तदन्तरप्रतिपत्तौ रंहतिसंपरिष्वक्तः प्रश्ननिरूपणाभ्याम्', इत्यादिनाऽपि भूतसूक्ष्मैः सहितस्यैवे. न्द्रियादेरुत्क्रमणमुक्तं तदप्यन्नानुसन्धेयम्, सूक्ष्मशरीरस्य पुरुषत्वं कथम् ? इत्यत आह-"पुरि स्थूल" इत्यादिना ॥ ४१ ॥ "पुरुषार्थेन"इति, सूक्ष्मशरीरस्य संसरणे पुरुषार्थ -एवोद्देश्य, धर्मादि च प्रवर्तकं कारणं, . स्थूलशरीरग्रहणं च धर्मादिकृतमव्यवहितं फलं, धर्मादौ स्थूलशरीरग्रहणकारणप्रसङ्गेन स्थूल शरीरग्रहणं, गृहीत्वा चदृशं (१) वेदां० ० (२ ३।२५) । (२) वेदा० सू० (३।१।१)।
PASTOTREAKSATANATAKA साङ्खलतत्त्वकौमुदी। २८७ क्तिस्तया । "नटवद् व्यवतिष्ठते" "लिङ्गं" सूक्ष्मशरीरं, यथा हि नटस्तान्तां भूमिकां विधाय परशुरामो वाऽजातशउर्वा वत्सराजो वा भवति एवं तत्तत्स्थूल शरीरग्रहणाद्देवो वा, म- नुष्यो वा पशुर्वा, वनस्पतिर्वा, भवति-सूक्ष्मं शरीरमित्यर्थः । कुतस्त्यः पुनरस्येदृशो महिमा ? इत्यत आह-"प्रकृतेर्विभुत्व- योगात्" । तथा च पुराणं - "वैश्वरूप्यात्प्रधानस्य परिणा- मोऽयमद्भुतः" इति ॥ ४२ ॥ "निमित्तनैमित्तिकप्रसङ्गेन" इत्युक्तं,तत्र निमित्तं नैमित्तिकं च विभजते- सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः । दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥४३ ।। "वैकृताः" वैकृतिकाः नैमित्तिकाः “प्राकृतिकाः" स्वाभावि- काः “सांसिद्धिका भावाः" यथा सर्गादावादिविद्वान् भगवान् कपिलोमहामुनिधर्मज्ञानवैराग्यश्वर्यसंपनः प्रादुर्बभूवति स्मरन्ति । "वैकृताश्च भावाः" असांसिद्धिकाः उपायानुष्ठानोत्पन्नाः य- शरीरं पुनधर्मादी प्रवृत्तिरिति संसरणानुपरम आ विवेकात्, अन्योऽन्याश्र. यदोषस्त्वनादित्वेन संसृतेर्बीजाङ्कुरवद् वारणीय इत्यभिप्रायः, “भूमिका" वर्णिकापरिग्रहं पात्रविशेषवेषादिकमिति यावत्, “अजातशत्रुः" युधिष्ठिरः, परशुरामो वीरचरितादौ-युधिष्ठिरो वेणीसंहारादौ वत्सराजश्च रत्नावल्यादा. वित्यनुसन्धेयम् , सूक्ष्मशरीरस्य कुतो वैश्वरूप्यम् ? इत्यत आह-"प्रकृतेः" इति, वैश्वरूप्यं नानारूपत्वम् ॥ ४२ ॥ धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वानैश्वर्याणि निमित्तरूपाः करणा- भावाः, तत्कृता संसृतिः, एते च भावा द्विविधाः-स्वभावसिद्धाः पुरुषप्रयत्नसाध्याश्च, स्वभावसिद्धाः प्राकृतिका उच्यन्ते, प्रयत्नसाध्याश्च वैतिका उच्यन्ते, प्राकृतिकानां धर्मादीनाम् उत्तमभावानामुदाहरणं- भगवान् कपिलः, वैकृतिकानां च तेपामेवोदाहरणं-भगवान् वाल्मीकिः, (१) "वैकृतिकाः" इति पाटस्तु च्छन्दोभङ्गभयादुपक्षणीयः । ...............................--- श्रिताः . . BA, २८८ साङ्ख्यतत्त्वकौमुदी। था प्राचेतसप्रभृतीनां महर्षीणाम् । एवमधर्माज्ञानावैराग्यानैश्व- योण्यपि । एते कुत्र दृष्टाः?इत्यत आह-"करणाश्रयिण" इति । करणं वुद्धितत्त्वं, कार्यं शरीरं, तदाश्रयिणः । तस्यावस्थाः क- ललवुहुदमांसपेशीकरण्डाङ्गप्रत्यङ्गव्यहाः गर्भस्थस्य, ततो वि- निर्गतस्य वालस्य बाल्यकौमारयौवनवाद्धकानीति ।। ४३ ॥ अवगतानि निमित्तनैमित्तिकानि, कतमस्य तु निमित्तस्य कतमन्नैमित्तिकमित्यत आह- धर्मेण गमनमूचं गमनमधस्ताद्भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्यायादिष्यते बन्धः ॥ ४४ ॥ "धर्मेण गमनमूर्ध्व" थुप्रभृतिषु लोकेपु, “गमनमधस्ता- द्भवत्यधर्मेण" भूतलादिषु "ज्ञानेन चापवर्ग:" तावदेव प्रक- तिरारभ्यते न यावद्विवेकख्यातिं करोति, अथ विवेकख्यातौ सत्यां कृतकृत्यतया विवेकख्यातिमन्तं पुरुषं प्रति निवर्त्तते । य- अधमानामधर्मादिभावानां चोभयविधानां स्वाभाविकास्वाभाविकानामुदाह- रणान्यूह्यानीखेतमर्थमाह-"वैकृताश्च” इत्यादिना "एवमधर्माज्ञानावैराग्या- मैश्वर्याण्यपि" इत्यन्तेन, तथा चैते भावाः करणाश्रिताः, तथा तत्कायं नैमि- त्तिकस्वरूपं यच्छरीरं तदाश्रिताः कललाद्यवस्थाश्रिताः, तत्र कललं, बुद्बुदः, मांस, पेशी, करण्डोङ्गं,प्रत्यङ्ग,ब्यूहश्चति-क्रमादुत्तरोत्तरभाविनो गर्भस्थजन्तु- शरीरस्य परिणामाः,गर्भान्निर्गतस्य तु तस्यैव बाल्यादिकाश्चत्वारः परिणामाः, गर्भस्थस्थायुर्वेदीयशरीरस्थानाद्, गर्भावहिर्भूतस्य तु परिणामा लोकत :स्वयं निरीक्षणीयाः, अत्र कललं वीर्यरजसोर्मिश्रीभावः, बुद्दुदुः तयोर्वर्तुलीभावः, मांसं थनीभावः, पेशी मांसस्य कोशीभावरूपो भागः, करण्डः ततोऽप्य- धिककठिनतरो भागः, सर्वथा पूर्णत्वं चाङ्गानामङ्गप्रत्यङ्गव्यूहविभागशब्दे- मोच्यते ॥ ४३ ॥ कथं ज्ञानेनापवर्ग इत्याह-"तावदेव"इति,विवेकख्याति प्रति शनैः शनैः प्रकृतिः स्वयं प्रवर्त्तते तदेव हि तस्या अन्तिममुद्देश्य, तच्च साध- यित्वा साध्यान्तराभावाद्यस्य पुरुषस्यापवर्गों जातस्ततो निवर्तते इति भावः, अयमत्रार्थोऽन्यैरप्युक्त इति 'दर्शयति-"यदाहुः" इति, ....
HOMEPRICE-AVMwcow it was whil 2844 साङ्खयतत्त्वकौमुदी २८९ दाहुः "विवेकख्यातिपर्यन्तं ज्ञेयं प्रकृतिचेष्टितम्” इति "वि- पर्ययात्" अतत्त्वज्ञानात्, “इष्यते बन्धः" स च त्रिविधः प्रा- कृतिको, वैकृतिको, दाक्षिणकश्चेति । तत्र प्रकृतावात्मज्ञानाये प्रकृतिमुपासते तेषां प्राकृतिको बन्धो यः पुराणे प्रकृति- लयान् प्रत्युच्यते "पूर्ण शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः" इति, वैकारिको बन्धस्तेषां ये विकारानेव भूतेन्द्रियाहङ्कार- बुद्धीः पुरुषबुद्ध्योपासते, तान्प्रतीदमुच्यते-- "दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शत पूर्ण सहस्रं त्वाभिमानिकाः ॥ बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः "त खल्वमी विदेहा येषां वैकृतिको बन्धः" इति । इष्टापूर्तेन दाक्षिणकः, पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामो पहतमना बध्यत इति ॥ ४४ ॥ वैराग्यात्प्रकृतिलयः संसारो भवति राजसाद्रागात् । ऐश्वर्यादविधातो विपर्ययात्तद्विपर्यासः ॥ ४५ ॥ "विवेकख्यातिपर्यन्तम्" इति, तत्तत्पुरुषविवेकख्यातिपर्यन्तं तत्तत्पुरुषविषये प्रकृतिव्यापारस्यावस्थानमित्यर्थः, शरीरात्मवादिनचार्वाकाद्याः प्राकृतिकवि- पर्ययबद्धाः प्रकृतौ लयोऽवधानं येषां ते प्रकृतिलयास्तान् “प्रकृतिलयान्', वैकृतिकदाक्षिणकशब्दावनुपदं व्याख्यातव्यामिति नात्र व्याख्यातौ,'अव्यक्त- चिन्तकाः" प्रकृतिभावनापराः, ये पुनः प्रकृतिमपि जगन्मूलभूतां निरस्य त. द्विकारान् स्थूलभूतादीनेवोपासते-ते वैकृतिकाः, एतेऽपि चार्वाकभेदा एव "विदेहा:" विविधदेहविशिष्टा:-"जन्ममरणप्रवाहपतितत्वाद्दक्षिणासंबद्धाः दाक्षिणकाः तल्लक्षणं विशदयति-"इष्टापूर्तन' इत्यादिना । "इष्टापूर्तकारी कामोपहतमना बध्यत इति" इति, तदामनन्ति च्छन्दो. गा:-"अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति' इति, एतच्छ्रतेरिष्टादिकारिणां धूमादिदक्षिणमार्गग्रामिखाइपि- दाक्षिणकत्वामित्य- वगन्तव्यम् ॥ १४ ॥ (१) यद्वा प्रकृतावामित्वेनाभिमकायां लयो विलयो येषां तान् । (२) छान्दो० उ० (५।१०।३)।
२९० साङ्ख्यतत्त्वकौमुदी। "वैराग्यात्प्रकृतिलयः" पुरुषतवानभिज्ञस्य वैराग्यमात्रात्प्र- कृतिलयः, प्रकृतिग्रहणेन प्रकृतिकार्यमहदहङ्कारभूतन्द्रियाणि गृह्यन्ते तेष्वात्मवुद्ध्योपास्यमानेषु लयः। “संसारो भवति राजसाद्रागात्" । राजसादित्यनेन रजसो दुःखत्वात्संसारस्य दुःखता सूचिता । "ऐश्वर्यादविधातः" इच्छायाः । ईश्वगे हि यदिच्छति तत्करोति । "विपर्ययात्" अनैश्वर्यात् "तद्विपर्यासः" सर्वत्रेच्छाविघात इत्यर्थः ॥ ४५ ॥ बुद्धिधर्मान्धर्मादीनष्टौ भावान्समासव्यासाभ्यां मुमुक्षूणां हेयोपादेयान्दयितुं प्रथमतस्तावत्समासमाह- एष प्रत्ययसों विपर्ययाऽशक्तितुष्टिसिध्याख्यः । गुणवैषम्यविमत्तिस्य च भेदास्तु पश्चाशत् ।। ४६ ।। प्रतीयतेऽनेनेति प्रत्ययो बुद्धिः तस्य सर्गः । तत्र विपर्ययः अज्ञानम् अविद्या च बुद्धिधर्मः, अशक्तिरपि करणवैकल्यहे- तुका बुद्धिधर्म एव तुष्ट्रिसिद्धी अपि वक्ष्यमाणे बुद्धिधर्मा- वेव । तत्र विपर्ययाशक्तितुष्टिपुं यथायोग सप्तानां च धर्मादीनां ज्ञानवर्जमन्तीवः, सिद्धौ च ज्ञानस्येति । व्यासमाह "तस्य च रागस्य रजोमयत्वं सिद्धमेवेति "राजसात्" इति विशेषणम् 'उष्णो वह्निः' इति वढेरुष्णत्वविशेषणवदनावश्यकमित्याशक्ष्य समाधत्ते-“सं- सारस्य दुःखता सूचिता" इति, कस्याविघात इत्याकाङ्क्षायामाह-"इ-- च्छाया" इति ॥ ४५ ॥ समासः संक्षेपो व्यासश्च तद्विपरीतो विस्तरः "तस्य' प्रत्ययस्य बुद्ध्यर्थकस्य विपर्ययः अज्ञानम् अविद्येति पर्यायाः, करणवैकल्यम् इन्द्रिय- दोषः, तेन च परम्परया बुद्धि दोषा उत्पद्यन्ते इति तस्य बुद्धिधर्मत्वमुपपन्नं, "सप्तानां" धर्माधर्माज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्याणां, "ज्ञानस्य" केवलस्य (१) "विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्टम्' इति यो० सू० (१।८) ܕܗ -- C... . सालयतत्त्वकौमुदी। २९१ भेदास्तु पश्चाशत्" इति । कस्मात?"गुणवैषम्यविमत्"ि इति । 'गुणानां वैषम्यम् एकैकस्याधिकबलता द्वयोर्द्वयोर्वा, एकैकस्य । न्यूनवलता द्वयोईयोर्वा, ते च न्यूनाधिक्ये मन्दमध्याधिक्य- मात्रतया यथाकार्यमुनीयेते, तदिदं गुणानां वैषम्यं, तेनो। पमईः एकैकस्य न्यूनबलस्य द्वयो योर्वाभिभवः, तस्मात्' । "तस्य भेदाः पञ्चाशत्" इति ॥ ४६ ॥ पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् । अष्टाविंशतिभेदा तुष्टिनवधाष्टधा सिद्धिः ॥४७॥ अविद्याऽस्मितारागद्वेषाभिनिवेशा यथासङ्ख्यं तमोमो- हमहामोहतामित्रान्धतामिस्त्रसंज्ञकाः पञ्च विपर्ययविशेषाः विपर्ययप्रभवाणामस्मितादीनां विपर्ययस्वभावत्वात् , यद्वा यद- सिद्धिरूपत्वादन्येषां विपर्ययादिष्वन्तर्भावः, कस्य ? कुत्रान्तर्भावः' इति त्वग्रे स्पष्टीमविष्यति, सत्त्वरजस्तमसां वैषम्ये न्यूनाधिकबलत्वरूपे समापन्ने स्पष्टीभविष्यति, प्रवर्तितो योऽधिकवलैर्गुणैः कृतो न्यूनबलानामुपमर्द- स्तन्मूलकानां पञ्चाशद्भेदानां प्रत्ययसर्गाणां किं स्वरूपम् ? के च ते भेदाः ? इत्यग्रे स्फुटीभविष्यति ॥ ५६ ।। "पञ्चविपर्यविशेषा" इति, क्लेशशब्देन एते योगदर्शन उक्ता भगवता पतञ्जलिना-"अविद्याऽस्मितारागद्वेषाभिनिवेशा; पञ्च क्लेशाः" इतिः "क्लेशा इति-पञ्च विपर्यया' इति च तत्र व्यासभाष्यम् । अविद्यादीनां स्वरूपं योगशास्त्रे स्पष्टम्-"अनित्याशुचिदुःखानात्मसु नि- त्यशुचिसुखात्मख्यातिरविद्या", "हॅग्दर्शनशक्त्योरेकात्मतेवाऽस्मिता, खानुशयी रागः","दुःखानुशयी द्वेषः', "स्वरसबाही विदुषोऽपि तथारूढो. ऽभिनिवेशः” एतेषां सूत्राणां भाष्यानुसार्यर्थस्तु विस्तरभयान्नानोपन्यस्तः । अविद्यादीनां संज्ञान्तराण्याह-"तम" इति, अस्मितादीनामवस्तुस्वभा- (१) कारिकायां-४७ । (२) यो० सू०-(२।३)। (३)। यो० सू०-(२.५)। (४) यो० सू०-(२।६)। (५) यो० सू०-(२७)। (६) यो० सू०-(२।८)। (७) यो० सू० (२।९)!
TREENSERVARSHAN २९२ सामयतत्त्वकौमुदी। विद्यया विपर्ययेणावधार्यते वस्तु-अस्मितादयस्तत्स्वभावाः सन्तस्तदभिनिविशन्ते । अत एव "पञ्चपर्वा अविद्या" इत्याह भगवान्वार्षगण्यः ।। ४७॥ संप्रति पञ्चानां विपर्ययभेदानामवान्तरभेदानाह- भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः॥४८॥ "भेद:"-"तमसः" अविद्याथाः “अष्टविधः", अष्टस्वव्यक्त- महदहङ्कारपञ्चतन्मात्रेष्वनात्मस्वात्मबुद्धिः अविद्या तमः, अ- टविधविषयत्वात्तस्याष्टविधत्वम् । “मोहस्य च"इति अत्रापि 'अष्टविधो भेद' इति चकारेणानुपज्यते । देवा ह्यष्टविधमैश्वर्य- मासाद्यामृतत्वाभिमानिनोऽणिमादिकमात्मीयं शाश्वतिकमभि- मन्यन्त इति सोयमस्मितामोहोऽष्टविधैश्चर्यविषयत्वात् "अष्टवि- धः" । "दशविधो महामोह"इति । शब्दादिषु पञ्चसु दिव्या. दिव्यतया दशविधेषु विषयेषु रञ्जनीयेषु रागः आसक्तिः “म. हामोहः", स च दशविधविषयत्वात् "दशविधः" । "तामिस्रः" द्वेषः "अष्टादशधा" 'शब्दादयो दश विषया रञ्जनीयाः स्वरूपतः, ऐश्वर्यं त्वणि पादिकं न स्वरूपतो रञ्जनीयं, किन्तु रञ्जनीयशब्दाद्युपायाः, ते च शब्दादय उपस्थिताः परस्प- वत्वमवस्तुनोऽवधारण चाविद्यया, विद्यया तु वस्तुतोऽवधारणमिति सर्वेषां विदितमेव, “पञ्चपर्वा" एकापि सती पञ्चशाखाविशिष्टेव, “वार्षगण्यः" कश्चित्साङ्ख्याचार्यः ॥ ४७॥ अष्टविधेनैश्वर्यणात्राणिमादयोऽष्टसिद्धयोऽभिप्रेताः, "दिव्यादिव्यतया" इति, अदिव्याः भौमाः शब्दादयो वादित्रादिसंभवाः, दिव्यास्त्वभौमा अश- न्यादिसंभवास्तेष्वासक्तिश्च-प्रायो दिव्येषु दिव्यानामदिव्येषु च पार्थिवानामि- त्यवगन्तव्यम्, “रञ्जनीयाः रागार्हाः"-आसक्तिविषया इति यावत् , अणिमा- दिषु तु साक्षादासक्तिविषयता न ाणिमाद्यर्थ-किन्तु शब्दाद्यर्थमणिमा- सेव्यन्ते इति तेषां न स्वरूपतो रञ्जनीयत्वं, किन्तु परम्परया शब्दा- दयः K साङ्ख्यतच्चकौमुदी। २९३ रेणोपहन्यमानास्तदुपायाश्चाणिमादयः स्वरूपेणैव कोपनीया भवन्तीति शब्दादिभिर्दशभिः सहाणिमादिकमष्टादशधेति तद्विषयो द्वेषः तामिलोऽष्टादशविषयत्वादनादनवा इति । "तथा भवत्यन्धतामिस्त्रः" । "अभिनिवेशः" अन्धतामित्रः। "तथा" इत्यनेन “अष्टादशधा"इत्यनुपज्यते। देवाः खल्वणिमा दिकमष्टविधमैश्वर्यमासाद्य दश. शब्दादीविषयान्भुञ्जानाः 'शब्दादयो भोग्यास्तदुपायाश्चाणिमादयोऽस्माकमसुरादिभिर्मा स्मोपधानिपत' इति बिभ्यति, तदिदं भयमभिनिवेश:- अन्धतामित्रोऽष्टादशविषयत्वात् "अष्टादशधा" इति । सोऽयं पञ्चविकल्पो विपर्ययोऽवान्तरभेदावापष्टिरिति ॥४८॥ तदेवं पञ्चविपर्यभेदानुक्त्वाष्टाविंशतिभेदामशक्तिमाह- एकादशेन्द्रियवधाः सह बुद्धिबधैरशक्तिरुद्दिष्टा । सप्तदश वधा बुद्धेविपर्ययात्तुष्टिसिद्धीनाम् ॥ ४९ ॥ "एकादश" इति । [इन्द्रियवधस्य ग्रहो बुद्धिबधहेतुत्वेन, न त्वशक्तिभेदपूर्णत्वेन] । “एकादशेन्द्रियवधाः"- "वाधियं कुष्ठिताऽन्धत्वं जडताऽजिघ्रता तथा । मूकता कौप्यपद्यत्वे ब्लैब्योदावर्चमन्दताः।" दीनां परस्परोपपातेऽनुकूलेषु रागात् , प्रतिकूलेषु प्रतिघातकेषु कोपनीयत्वे द्वेषविपयत्वम् , अणिमादीनां त्वलभ्यत्वादप्रतिहन्यमानेषु प्रतिघातकत्वेऽपि द्वेप इत्याह-"स्वरूपेणैव” इत्यादिना, "मा सोपघानिपत" इति, न विहर्ति प्रापन्नित्यर्थः ॥४८॥ "बाधिर्य' श्रोत्रदोषः, "कुष्ठिता" त्वग्दोषः, “अन्धत्वं" नेत्रदोषः, "जडता" रसनादोषः जिहाज ड्यरूपो येनास्वादविघातादि, "अजिघ्रता" घ्राणदोपः, “मूकता” वाग्दोपः, "कोण्यं" कुणित्वं कुणिभावो हस्तदोपः, "पङ्गुत्व' पाददोषः, "क्लैव्यं" प्रजननेन्द्रियदोपः, "उदावतः” पायुदोषः, (१) 'हो हन्तेः (पा० ७/३/५४) इति घः। - : . 66 १ २६ --- १९४ साङ्ख्यतत्त्वकौमुदी। यथासङ्ख्यं श्रोत्रादीनामिन्द्रियाणां वधाः । एतावत्येव तु त. द्धेतुका बुद्धेरशक्तिः स्वव्यापारे भवति । तथा चैकादशहेतुक- त्वात् “एकादशधा" युद्धेरशक्तिरुच्यते, हेतुहेतुमतोरभेदवि- वक्षया च सामानाधिकरण्यम् । तदेवमिन्द्रियवधद्वारेण बुद्धेरशक्तिमुक्त्वा स्वरूपतोऽशक्ती- राह-"सह बुद्धिवधैः" इति । कति बुद्धेः स्वरूपतो वधा इत्यत आह-"सप्तदश वधा बुद्धेः" इति । कुतः ? "विपर्ययात्तुष्टि- सिद्धीनां तुष्टयो नवधेति तद्विपर्ययास्तन्निरूपणात्-तत्प्र- तियोगिकत्वानवधा भवन्ति, एवं सिद्धयोऽष्टाविति तद्विप- ययास्तनिरूपणादष्टौ भवन्तीति ॥ ४९ ॥ तुष्टिर्नवधेत्युक्तं ताः परिगणयति- आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभागाख्याः। बाह्या विषयोपरमात्पञ्च च नव तुष्टयो भिमताः ॥ ५० ॥ 'प्रकृतिव्यतिरिक्त आत्मास्ति' इति प्रतिपद्य ततोऽस्य श्रव. णमननादिना विवेकसाक्षात्काराय त्वसदुपदेशतुष्टो यो न. प्रूयतते तस्य- “आध्यात्मिक्यश्चतस्रः" तुष्टयो भवन्ति । प्रक- तिव्यतिरिक्तमात्मानमधिकृत्य यस्मात्तास्तुष्टयस्तस्मात् "आ- ध्यात्मिक्यः" । कास्ताः ? इत्यत आह-"प्रकृत्युपादानका लभागाख्या:" प्रकृत्यादिराख्या यासां तास्तथोक्ताः। "मन्दता" मनोदोषः, "हेतुहेतुमतोः" इति, वधस्य हेतोः, हेतुमत्याः वध. निमित्तवत्याः अशक्तया:, भेदाविवक्षया वधा अशक्तिरिति सामानाधिकर. ण्यमुपपन्नम् , शेष स्पष्टम् , तुष्टयः सिद्धयश्चामुपदं वक्ष्यन्त ॥ ३९ ॥ 'साक्षात्काराय इत्यस्य 'न प्रयतत' इत्यनेन संबन्धः, “प्रकृत्युपादान"इति प्रकृतिकार्यत्वं विवेकख्यातेरिति श्रवणादिवैमुख्यं प्रकृतितुष्टिः, तस्याश्च संसा- रमजनहेतुत्वात् 'अम्भ' इति नामान्तरम् , प्रकृतिमात्रं तु सर्वत्र सर्वस्य (१) कारिकायां (५०,५१) .
२९५ साङ्खथतत्त्वकौमुदी तत्र प्रकृत्याख्या तुष्टियथा-कस्यचिदुपदेशे-'विवेकसाक्षा- कारो हि प्रकृतिपरिणामभेदः, तं च प्रकृतिरेव करोतीति कृतं तध्यानाम्यासेन तस्मादेवमेवाऽऽस्स्व वत्स' इति-येयमुपदेष्ट- व्यस्य शिष्यस्य तुष्टिः प्रकृतौ-सा तुष्टिः प्रकृत्याख्या 'अम्भ उ(इत्यु)च्यते । 'या तु प्राकृत्यपि विवेकख्यातिन सा प्रकृतिमात्राद्भवति, मा भूत्-सर्वस्य सर्वदा तन्मात्रस्य सर्वान्प्रत्यविशेषात्, प्रव्रज्यायास्तु सा भवति, तस्मात्प्रव्रज्यामुपाददीथाः, कृतं ते ध्यानाभ्यासेनायुष्मन्' इत्युपदेशे या तुष्टिः-सोपादानाख्या 'सलिलम्' इत्युच्यते । या तु प्रव्रज्याऽपि सद्यो न निर्वाणदेति सैव कालपरिपाकम- पेक्ष्य सिद्धिं ते विधास्यति, अलमुत्तप्ततया तव इत्युपदेशे या तुष्टिः सा कालाख्या--'ओघ' इत्युच्यते । 'या तु न प्रकृतेर्न कालान्नाप्युपादानाद्विवेकख्यातिः, अपि- तु भाग्यादेव, अत एव मदालसापत्यान्यतिबालानि मातुरुप- देशादेव विवेकख्यातिमन्ति मुक्तानि बभूवुः, तस्माद्भाग्यमेव हे- तुर्नान्यत् , इत्युपदेशे या तुष्टिः सा भागाख्या 'वृष्टि' उच्यते । बाह्या दर्शयति "बाह्याः" तुष्टयो "विषयोपरमात्पञ्च" याः खल्वनात्मनः प्रकृतिमहदहङ्कारादीनात्मेत्यभिमन्य मानस्य वैराग्ये सति तुष्टयस्ता 'बाह्याः"-आत्मज्ञानाभावे सममिति सर्वविमुक्तिपरिहालय प्रव्रज्योपादानपूर्वकेऽभ्यासादिवर्जने या तुष्टिः सोपादानाख्या, तस्याश्च सलिलापराख्यत्वं संसरणनिमित्तत्वात् , सलिलं हि सृधातोरिरन्प्रत्यये सरिरमिति जाते रलयोरभेदाद्भवति, कालापेक्षित्वेन सुखासिकारूपा तुष्टिदेवाधीनवृष्टिना मेघेन तुल्येति मेघा- पराख्या, भाग्यापेक्षया सन्तोषेणैवास्थानात्मिका या भाग्यतुष्टिः स्म - टिवदनियतत्वादृष्ट चपराख्येत्याध्यात्मिकतुष्टीनां संक्षिप्त विवरणम् । संप्रत्याध्यात्मिकीस्तुष्टीः प्रदर्य बाह्याः प्रपञ्चयति-"बाह्यास्तुष्टय'इ. त्यादिना, शब्दरूपरसगन्धस्पर्भः पञ्च भोग्यविषयास्तेषामसारत्वदर्शनास. -- .
E २९६ साझवतत्वकौमुदी। सत्यनात्मानमधिकृत्य प्रवृत्तेरिति । ताश्च वैराग्ये सति सम्भवन्ति तुष्टय इति वैराग्यहेतुपञ्चत्वाद्वैराज्याण्यपि पञ्चु, तत्पञ्चत्वात्तुष्टयः "पञ्च" इति। उपरभ्यतेऽनेनेति उपर- मो वैराग्यम् , विषयादुपरमो विषयोपरमो विषया: मोण्या: शब्दादयः पञ्च, उपुरमा अपि पञ्च, तथा हि अर्जनरक्षणक्ष- यभोगहिंसादोपदर्शनहेतुजन्मानः पञ्चोपरमा भवन्ति, तथा हि सेवादयो धनार्जनोपायाः, ते च सेवकादीन्दुःखाकुर्वन्ति, 'हप्यदुरीश्वरवाः स्वदण्डिचण्डाधचन्द्रजाम् । वेदनां भावयन्प्राज्ञः कः सेवास्वनुपज्जते ।' एवमन्येऽप्यर्जनोपाया दुःखा इति विषयोपरमे या तुष्टिः सैषा 'पारम्' इत्युच्यते । तथा 'अर्जितं धनं राजैनागारिकाग्निजलौधादिभ्यो वि- नश्यतीति तद्रक्षणे महहुःखम् इति भावयतो विषयोपरमे या तुष्टिः सा द्वितीया 'सुपारम्' उच्यते । तथा महतायासेनार्जितं धनं सुज्यमानं क्षीयते' इति तत्प्रक्षयं भावयतो विपयोपरमे या तुष्टिः सा तृतीया पारावारम् उच्यते। एवं 'शब्दादिभोगाभ्यासात्प्रवर्धन्ते कामाः, ते च विषया- प्राप्तौ कामिन दुःखाकुर्वन्ति इति भोगदोपं भावयतो विष- द्विषयाणि पञ्च वैराग्याणि, किं चान्यथापि वैराग्याणां पञ्चत्वं-तद्धि धनादे- रर्जनरक्षणक्षयभोगहिंसादोपदर्शनमूलकं, तदेव दृष्टान्तैर्विशदयति--"तथाहि" इत्यादिनाः। "दृप्य दुरीश्वरे'ति, । एतच्छायारूपस्त्रय्यन्तदेशिकश्लोक:-"दुरीश्वरद्वारब- हिर्वितर्दिकादुरासिकायै . रचितोऽयमञ्जलिः। यदञ्जनाभं निरपायमस्ति मे धनञ्जयस्यन्दनभूपणं धनम्॥ इति, “पारम्" इति, धनार्जनदु:खपारप्राप: यितृत्वारपाराख्येयं तुष्टिः, ऐकागारिकः चौर;, ऐकागारिकट्चौर'' इति पाणिनीयात् । अर्जनदोपदर्शनेऽपि कदाचिद्धोगाभिलाषेण प्रवृत्तिः स्यात्, रक्षणभयार्तस्य तु प्रवृत्तेरतितरामसंभव इति तदीयायास्तुष्टेः सुपारता, क्षयं भावयतः कदाचित्रवृत्तिः, कदाचिदप्रवृत्तिरिति इति-तदीया तुष्टिः (१) पा० सू० (५।१।११३) ।
२९७.. --- .. साबातासको दी। योपरमे या तुष्टिः सा चतुर्थी 'अनुत्तमाम्म' उच्यते। एवं 'नानुपहत्य भूतानि विषयोपभोगः संभवति' इति हिंसादोपदर्शनाद्वियोपरणे या तुष्टिः सा पञ्चमी 'उत्त- मास उच्यते । एवमाध्यात्मिकीभिश्चतस्मृभिर्वाह्याभिश्च पञ्चभिः "नव तु- टयोऽभिमताः" ॥ ५० ॥ गौणमुख्यभेदै(दा): सिद्धीराह- : उहः-शब्दोऽध्ययन-दुःखविधातास्त्रयः-सुहृत्प्राप्तिः । दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥ ५१ ॥ विहन्यमानस्य दुःखस्य त्रित्वात्तद्विघातात्रय इतीमा मु. ख्यास्तिस्त्रः सिद्धयः, तदुपायतया त्वितरा गौण्यः पञ्च सिद्धयः, ता अपि हेतुहेतुमत्तया व्यवस्थिताः । तत्राऽऽद्याऽध्य- यनलक्षणासिद्धिहेतुरेव, मुख्यास्तु सिद्धयो हेतुमत्य एव, मध्य- मास्तु हेतुहेतुमत्यः । विधिवद्गुरुमुखादध्यात्मविद्यानामक्षरस्व- रूपग्रहणमध्ययनं, प्रथमा सिद्धिः 'तारम् उच्यते । तत्कार्य शब्दः 'शब्द' इति पदं-शब्दजनितमर्थज्ञानयुप- -- ." . पारावाराख्या, भोगे रोगभयं भावयतस्तुष्टिः स्वार्थपरेति तस्या उत्तमेतरा- म्भस्त्वम्, हिंसादोषतस्तस्यास्तुष्टेस्तु कारुण्यमूलकत्वादुत्तमाम्भस्त्वम् ॥५०॥ कारिकायां क्रमोऽविवाक्षितः, दुःखविघातानां त्रयाणामितरसिद्ध्यपेक्षया- ऽभ्यर्हितत्वात्सकलसियन्तरोद्देश्यत्वाच प्राथम्यमित्याशयेनाह-"सुख्या" इति, अध्ययनं सिञ्चन्तरहेतुत्वेनैव सर्वैरपेक्ष्यं न तु तस्य स्वतः किमपि माहात्म्यं दुःखविघातरूपा मुख्या स्तिस्रः सिद्धयः, फलरूपा अन्तिमा:- तासां किमपि साध्यान्तरं नावशिष्यते, अन्यासां चतसृणां तु किञ्चि. सिद्धयन्तरमपेक्ष्य निमित्तत्वं किञ्चिच्चापेक्ष्य नैमित्तिकत्वं च पारिशेष्यात्सि- दम् , अक्षरस्वरूप क्षयरहितानां शाश्वतानां वर्णानां स्वरूपं-पारायणमिति संसारतरणस्य प्रथमहेतुत्वात्ताराख्यताऽध्ययनसिद्धेः, शब्दपदेनार्थों लक्ष्यते, तदाह-"अर्थज्ञानमुपलक्षयति" इति अर्थज्ञानस्य सुखेन संसारता.
- २९८ साङ्ख्यतत्वकौमुदी । लक्षयति कार्य कारणोपचारान् , सा द्वितीया सिद्धिः सुतारम्' उच्यते पाठार्थाभ्यां तदिदं द्विधा श्रवणम् । "ऊहः" तर्कः आगमाविरोधिन्यायेनागमार्थपरीक्षणम् । परीक्षणं च संशयपूर्वपक्षनिराकरणेनोत्तरपक्षव्यवस्थापनं त- दिदं 'मननम्' आचक्षते आगमिनः, सा तृतीया सिद्धिः 'तारतरम्' उच्यते । स्वोत्प्रेक्षितं मननममननमेवासुहृत्सम्मतमिति द्वितीयं मनन- माह- "सुहृत्प्राप्तिः" न्यायेन स्वयं परीक्षितमप्यर्थं न श्रद्दधते- न यावद्गुरुशिष्यसब्रह्मचारिभिः सह संवाद्यते, अतः सुहृदां गुरुशिष्यसब्रह्मचारिणां संवादकानां प्राप्तिः "सुहृत्प्राप्तिः", सा सिद्धिश्चतुर्थी 'रम्यक' उच्यते । "दानं च" शुद्धिर्विवेकज्ञानस्य "दैप्शोधन" इत्यस्मा- द्धातोर्दानपदव्युत्पत्तेः । यथाह-भगवान्पतञ्जलि:--"विवेक- ख्यातिरविप्लवा हानोपायः" । अविप्लवः शुद्धिः, सा च सवा- सनसंशयविपर्यासानां परिहारेण विवेकसाक्षात्कारस्य स्वच्छ- प्रबाहेऽवस्थापन, सा च न विनादरनैरन्तर्यदीर्घकालसेविता- भ्यासपरिपाकाद्भवतीति दानेन सोऽपि संगृहीतः, सेयं पञ्चमी सिद्धिः 'सदामुदितम्' उच्यते । तिस्रश्च मुख्याः सिद्धयः-प्रमोदमुदितमोदमानाः ॥ इति "अष्टौ सिद्धयः" ॥ रकत्वात्सुतारत्वम् , तारसुतारयोरुभयोर्गुरुसकाशादध्ययनरूपत्याच्छ्रवणेऽन्त- भवः, उत्तरपक्षः स्वसिद्धान्तः, ऊहस्य मननरूफवमाह-"तदिदम्" इति, मननस्याध्ययनात्तारादप्यधिकतारकत्वात्तारतरत्वम् , सब्रह्मचारिणः स. तीर्थ्याः-सहाध्यायिन इति यावत्, सुहृद्भिः सह शास्त्रार्थसंवादस्यातिरम. णीयत्वात्सुहृयाप्तेः रम्यता, सवासनानां संस्कारसहितानां संशयविपर्यासा- दीनां परिहारेण विवेकसाक्षात्कारस्य शुद्ध निरन्तरे प्रवाहेऽवस्थानं परमा (१) योगसू० (२।२६) । .
साङ्ख्यतत्त्वकौमुदी। २९९ अन्ये व्याचक्षते -"विनोपदेशादिना प्रारमवीयाभ्यासवशा- तत्त्वस्य स्वयमूहनं यत्सा सिद्धिः "ऊहः" । यस्य साङ्ख्य- शास्त्रपाठमन्यदीयमाकर्ण्य ज्ञानमुत्पद्यते सा सिद्धि: "शब्द" शब्दपाठान्तरभावात् । यस्य शिष्याचार्यसंबन्धेन संवादेन साङ्ख्यशास्त्रं ग्रन्थतोऽर्थतश्चाधीत्य ज्ञानमुत्पद्यते साऽध्ययन- हेतुका सिद्धिः "अध्ययनम्" । "सुहृत्प्राप्तिः" इति । यस्या- धिगततत्त्वं सुहृदं प्राप्य ज्ञानमुत्पद्यते सा ज्ञानलक्षणा सिद्धि स्तस्य "सुहृत्प्राप्तिः" । "दानं च" सिद्धिहेतुः धनादिदाने- नाराधितो ज्ञानी ज्ञानं प्रयच्छति । अस्य च युक्तायुक्तत्वे सूरिभिरेवावगन्तव्ये इति कृतं परदोपोद्भावनेन सिद्धान्तमा- जव्याख्यानप्रवृत्तानाम्" इति । सिद्धितुष्टिविपर्ययेणाशक्तिर्बुद्धिबधः सप्तदशधेष्टव्यः । अत्र प्रत्ययसर्गे सिद्धिरुपादेयेति प्रसिद्धमेव, तन्निवारण- हेतवस्तु विपर्ययाशक्तितुष्टयो हेया इत्याह-"सिद्धेपूर्वोङ्कुश- विविधः" इति । "पूर्व"इति विपर्ययाशक्तितुष्टीः परामृशति । ताः सिद्धिकरिणीनामङ्कुशो निवारकत्वात् । अतः सिद्धिपरिप- न्थित्वादकुश इवेति विपर्ययाशक्तितुष्टयो हेया इत्यर्थः ॥५१॥ स्यादेतत-पुरुषार्थप्रयुक्ता सृष्टिः, स च पुरुषार्थः प्रत्ययस- गाद्वा तन्मात्रसर्गाद्वा सिध्यतीति कृतमुभयसर्गेणेत्यत आह- शुद्धिः, सा च सदा मोदहेतुत्वात्सदामुदिताख्या, तिस्रो मुख्याः सिद्धयः आधिभौतिकाध्यात्मिकाधिदैविकाख्यदुःखत्रयविघातरूपाः, प्राग्भवीयोऽभ्या. सः पूर्वजन्मसु ज्ञानाभ्यासः । अन्यैः कृतस्त्वर्थो न सङ्गतोपि प्रेक्षावतां परीक्षणाय तं प्रदर्शयति-"वि. नोपदेशादिना" इत्यादिना । "पूर्वो' विपर्ययाशक्तितुष्ट याख्यस्विविधः सिद्धेरशः, "लिद्धिपरिवन्धि स्वात् सिद्धिविघातकत्वात् ॥ ५५ ॥ प्रत्ययसर्गों महदादिसर्गः, तन्मात्सर्गः आकाशादिलाई ! . " साहयतंचकौमुदी। न विना भावलिङ्गं न लिङ्गेन भावनिवृत्तिः । लिङ्गाख्यो भावाख्यस्तस्माद्वेधा प्रवर्तते सर्गः ॥५२ ॥ "लिङ्गम्" इति तन्मात्रसर्गनुपलक्षयति, "भावैः" इति च प्रत्ययसर्गम् । एतदुक्तं भवति-तन्मात्रसर्गस्य पुरुषार्थसाधनत्वं स्वरूपं च, "न" प्रत्ययसर्गात् "बिना" भवति एवं प्रत्ययसर्गस्थ स्वरूपं, पुरुषार्थसाधनत्वं च, "न" तन्मात्रसादृते-इत्युभयथा सर्गप्रवृत्तिः। भोगः पुरुषार्थो न भोग्याशब्दादीन्भोगाय- तनं च शरीरद्वयमन्तरेण सस्भवतीत्युपपनस्तन्मात्रसर्गः-एवं स एव भोगो मोगसाधनानि इन्द्रियाण्यन्त करणानि चान्तरेण न संभवति, नं च तानि धर्मादिभिर्भावैविना संभवन्ति, न चापब- गहेतुर्विवेकख्यातिरुभयसर्गेण विनेत्युपपन उभयविधः सर्गः" अनादित्वाच्च बीजाडरबनान्योन्याश्रयदोपभाव इति । (कल्पा- दावपि प्राचीनकल्पोत्पन्नभावलिङ्गसंस्कारवशाद्भावलिङ्गयो- रुत्पत्तिर्मानुपपन्नेति)सर्वमवदातम् ॥ ५२ ॥ पुरुषार्थरूपाय भोगाय वस्तुयमपेक्षितं भोग्यं भोगाधिकरणं भोगसा- धनं च, राजादिकर्तृके हि भोगे भोग्यं वनितादि, भोगाधिकरणं श- • व्यादि, भोगसाधनानि च पानानुलेपनादीन्यपेक्ष्यन्ते, पुरुषार्थविषये चैत- त्रयं किंरूपमित्याकाङ्क्षायां भोग्यं शब्दादिकं, भोगाधिकरणं शरीरं स्थूलसू- क्ष्मरूपेण द्विविधं, भोगसाधनानि च करणानि बाह्यान्तरभेदेन द्विविधानि, तत्र भोगभोगाधिकरणयोः संपादनाय तन्मात्रसों-भोगसाधनसंपादनाय ध प्रत्ययसोऽपेक्षित इति सर्गद्वयमपेक्षितमेव अन्यतराभावे पुरुषार्थासिद्धिरि- त्याह-"भोग: पुरुषार्थ” इत्यादिना । ननु धर्मादयो भावाः शरीरापेक्षा: शरीरं च धर्माद्यपेक्षमिति परस्प- राश्रयेणोभयमपि न संभवेदित्याशझ्याह-"बीजाङ्कुरवत्" इति ।। ५२ ॥ (१) यथा-बीजस्य प्राथम्यमङ्कुरस्य वेत्यनिर्णयेऽपि नेतरेतराश्रयदोषोभ्यु- पगम्यते तद्वत् ।
.
..
सायतत्वकौमुदी।
विभक्तः प्रत्ययसर्गः, भूतादिसर्ग च विभजते-
अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुपकश्चैकविधः समासतो भौतिक सर्गः ॥ ५३ ।।
ब्रामः, प्राजापत्यः, ऐन्द्रः, पैत्रो, गान्धवों, याक्षो,
राक्षसः, पैशाचः-इत्यष्टविधो "देवः" सर्गः। "तैर्यग्योनश्च
भवति"-पशुमृगपक्षिसरीसृपस्थावरा इति ।
"मानुषकश्चैकविध" इति । ब्राह्मणत्वाद्यवान्तरजातिभेदावि-
वक्षया-संस्थानस्य चतुर्वपि वर्णेष्वविशेषात् । “समासतः"
सङ्केपतः "भौतिकः सर्गः" । घटादयस्त्वशरीरत्वेऽपि स्थावरा
एवेति ॥ ५३ ॥
भौतिकस्यास्य सर्गस्य चैतन्योत्कर्षनिकर्षतारतम्याभ्या-
मूर्ध्वाधोमध्यभावेन विध्यमाह-
पञ्चधा
ब्रह्मलोके "ब्राह्मः सर्गः प्रजापतयो दक्षादयस्तदीयः सर्गः “प्राजापत्यः",
इन्द्रलोके "ऐन्द्रः" सर्गः, पितृलोके "पैत्र:", गन्धर्वयक्षरक्ष:पिशाचा अपि
देवयोनित्वेन देवा एवेति तत्सोऽपि “दैव” एव,
"पशुमृग" इति, पशवः ग्राम्याश्चतुष्पदा: गवाश्वादयः, मृगा:-आरण्य-
काश्चतुष्पदा: हरिणादयः पक्षिणः पतन्त्रवन्तो गृध्रादयः, सरीसृपाः-अल्प-
चरणाश्चरणरहिता वा सर्पशतपदीवृश्चिकादयः, स्थावराः प्रायः प्रत्यक्षचेष्टा.
रहिताः वृक्षादयः, अत्र च सरीसृपेषु कीटादीनां, निर्जीवानां बटादीनां च
स्थावरेष्वन्तर्भावो बोध्यः ।
"संस्थानस्य' आकृतिभेदस्यावयवसंस्थानकृतस्य "चतुर्यु" ब्राह्मणक्षत्रि-
यवैश्यशूद्रेषु, “अशरीरत्वे" सजीवशरीरवैशिष्ट्याभावे, निर्जीवशरीरं तु
सर्वस्यापि मूर्तपदार्थस्यास्त्येव, प्रायः शरीरशब्देन जीवच्छरीरस्यैव बोधो
लोके प्रसिध्यतीत्यभिप्रायः, शीर्यमाणतारूपो व्युत्पत्तिलभ्यस्त्वर्थो मूर्तप.
द्वार्थमात्रमन्तर्भावयति ॥ ५३ ॥
LAMICLEAMAN ३०२ साङ्ख्यतत्त्वकौमुदी। ऊवं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ ५४ ।। सत्त्वविशाल"-धुप्रभृतिसत्यान्तो लोकः सत्त्वबहुलः । “तमोविशालश्च मूलतः सर्गः"-पश्वादिस्थाव- रान्तः, सोऽयं मोहमयत्वात्तमोबहुलः । भूलॊकस्तु सप्तद्वीपस- मुद्रसन्निवेशः। “मध्ये रजोविशालः" धर्माधर्मानुष्ठानपरत्वदुः- खबहुलत्वाच्च । तामिमां लोकसंस्थितिं संक्षिपति "ब्रह्मादिस्त- म्बपर्यन्तः" । स्तम्बग्रहणेनोपलक्षणतया वृक्षादयोपि संगृ- हीताः ॥ ५४॥ तदेवं सर्ग दर्शयित्वा तस्यापवर्गसाधनवैराग्योपयोगिः दुःखरूपतामाह- तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः । लिङ्गस्याविनिवृत्तेस्तस्मादुःख स्वभावेन ॥ ५५ ॥ द्यौः अन्तरिक्षं पृथिव्याः सन्निहितं भुवर्नामकम्, प्रभृतिशब्देन स्वर्म- हर्जनस्तपः समाख्यानां लोकानां ग्रहणम् । सत्यं च पृथिव्या- भूलॊकसमाख्याया विप्रकृष्टतम, पदसु च भुवरादिषु सत्यान्तेषु लोकेषु क्रमात्सत्त्वस्याधिक्यं तारतम्येनोत्कर्षः । भूलोंके तमसः क्रमादुत्कर्षो भवति-पश्वादिषु पशुमृगपक्षिसरीसृपस्था- वरसहितेषु, भूलोक एव मनुष्यषु क्रमाद्रजस उत्कर्षः-ब्रह्मक्षत्रविदशूद्वेषु रजसो हि कार्यं धर्माधर्मादिकं दुःखबाहुल्य चोपलभ्यते मध्यमणिन्यायेन । "भूलोकस्तु सप्तद्वीपसमुद्रसन्निवेशः' इत्यंशस्य "अस्ति" इति शेपेण सार्थकस्योभयसंबन्धः-"सूलतः” इत्यत्र "मध्ये" इत्यत्र च, भूलीको योऽस्ति तत्रैव "मूलतः' अधोऽधः पश्वादिसा "मध्ये' च मानवसर्गः अधस्तनत्वं च न दिगपेक्षं किंतु तमोऽपेक्षम्, एवं मध्यत्वमपि रजोऽपेक्ष-रजसः स- स्वतमसोर्मध्ये स्थितत्वात् ॥ ५४ ॥ (१) "स्तम्बो गुच्छस्तृणादिनः' इत्यमरः ।
साङ्ख्यतत्त्वकौमुदी। ३०३ "तत्र" शरीरादौ । यद्यपि विविधा विचित्रानन्दभो- गभागिनः प्राणभृद्भेदाः । तथापि सर्वेषां "जरामरणकृतं दुःखम्" अविशिष्टस् । सर्वस्य खलु कृमेरपि मरणत्रासो 'मा न भूवम्' 'भूयासम्' इत्येवमात्मकोऽस्ति । दुःखं च भयहेतुरिति मरणं "दुःखम्"। स्यादेतत्-दुःखादयः प्राकृता बुद्धिगुणाः, तत्कथमेते चेतन- सम्बन्धिनो भवन्ति ? इत्यत आह-"पुरुष" इति । पुरि लिङ्गे शेत इति “पुरुषः" । लिङ्गं च तत्संबन्धीति चेतनोऽपि तत्संबन्धी भवतीत्यर्थः कुतः पुनर्लिङ्गसंवन्धिदुःखं पुरुषस्य चेतनस्य ? इत्यत आह-“लिङ्गस्याविनिवृत्तेः" पुरुषाद भेदाग्रहाल्लिङ्गध. निात्मन्यध्यस्यति पुरुषः। अथवा दुःखप्राप्ताववधिराङा कथ्यते. 'लिङ्गं यावन्न निवर्त्तते तावत्' इति ॥ ५५ ॥ उक्तस्य सर्गस्य कारणविप्रतिपत्तीनिराकरोति- ? J नाश:-तदा 'मा न भूवं' 'भूयासं' मम नाशो न स्यात्सर्वदैव च जीवन्त्स्यामित्यर्थः । “दुःख च भयहेतुः", तथा च यथा धूमाद्धेतो: हेतुमान्वह्निरनुमी- यते-तथैव हेतुमतो मृत्युभयात्सदानुभूयमानात्सततवर्तिनो हेतोर्दुःखस्यां- नुमानमित्यर्थः, लिङ्गशरीरस्यैव वस्तुतः सर्वं दुःखं, तथापि पुरुषेण तस्या- भेदग्रहात्पुरुषोऽपि दुःखवान् भवति, यदा तु वास्तवेन भेदग्रहेण भ्रमा- त्मकस्याभेदग्रहस्य दु:खनिवृत्तिः इत्याह-"स्यादेतद्" इत्यादिना। “लिङ्गस्याविनिवृत्तेः” इति, लिङ्गशरीरस्याविनिवृत्तेः नाशाभावाद्धेतोः "पुरुषो दुःखं प्राप्नोति" इत्येकोऽर्थः, तत्र "अविनिवृत्तेः” इति हेतौ पञ्चमी, "अथवा" पक्षान्तरे, “लिङ्गस्याऽऽविनिवृत्तेः' इति च्छेदः, ततश्च सूक्ष्म- शरीरनाशाबांधे दुःखमित्यर्थः, “विनिवृत्तेः' इति पञ्चमी मर्यादार्थक- स्याङो योगे ॥ ५५ ॥ (१) 'पञ्चम्यपाङ्परिभिः' (पा. २ । ३ । १० )।
न ३०४ साङ्ख्यतत्त्वकौमुदी। इत्येप प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः । प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः ॥५६॥ आरभ्यत इति 'आरम्भः” सर्गः महदादिभम्यन्तः प्रकृत्यैव कृतो नेश्वरेण, न ब्रह्मोपादानो, नाप्यकारण: अकारणत्वे ह्यत्यन्ताभावोऽत्यन्तभावो वा स्यात्, ब्रह्मोपादानः चितिशक्तेरपरिणामातू। नेश्वराधिष्ठित प्रकृतिकृतः नियापारस्याधिष्ठातृत्वासंभवात् । न हि निव्यपारस्तक्षा वाश्याद्यधितिष्ठति । ननु प्रकृतिकृतश्चेत्-तस्या नित्यायाः प्रवृत्तिशीलाया अनुपरमात् सदैव सर्गः स्यादिति न कश्चिन्मुच्यतेत्यत आह- "प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः" इति । यथौदनकाम ओदनाय पाके प्रवृत्त ओदनसिद्धौ निवर्त्तते एवं प्रत्येकं पुरुषान्मोचयितुं प्रवृत्ता प्रकृतियं पुरुषं मोचयति तं प्रति पुनर्न प्रवर्तते, तदिदमाह-"स्वार्थ इव" इति । स्वार्थे यथा तथा परार्थ आरम्भ इत्यर्थः ॥ ५६ ।। स्यादेतत् स्वार्थ, परार्थं वा चेतनः प्रवर्त्तते, न च प्रकृति- चेतनयं भवितुमर्हति, तस्मादस्ति प्रकृतेरधिष्ठाता चेतनः, , .. - विशेषभूतानि स्थूलभूतानि, “आरम्भ"इति, कर्मणि प्रत्ययः, असन्मूल- कत्वं जगतो निराकरोति “अकारणत्वे हि" इति, वेदान्तिसंमतं ब्रह्ममूल- कत्वं जगतो निराकरोति-"न ब्रह्मोपादान" इति, नैयायिकैर्भक्तिवादि- भिश्चोपन्यस्तमीश्चराधिष्टातृत्ववादं निराकरोति--"नेश्वर"इति, "तक्षा काष्ठतक्षकः, वाश्यादि वाशीलक्षण आयुधविशेषः, सर्वं तस्य शस्त्रजातं करपत्रप्रमुखमत्रादिशब्देनाभिप्रेतम् । स्वपक्षदोपान् वेदान्तिप्रभृतिभिरुपन्यस्तान् धारयति-"ननु" इत्यादिना, "परार्थः” पुरुषार्थः पुरुषभोगापवर्गप्रयोजन इत्यर्थः ॥ ५६ ॥ (१) ३८-तमसंख्याककारिकायाम् ।
ते साङ्ख्यतत्त्वकौमुदी। न च क्षेत्रज्ञाश्चेतना अपि प्रकृतिमधिष्ठातुमईन्ति-तेषां प्रकृतिस्व- रूपानभिज्ञत्वात्, तस्मादस्ति सर्वार्थदशी प्रकृतेरधिष्ठाता, स चश्वर इत्यत आह- वत्सविवृद्धिनिमित्त क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षानिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ५७ ॥ दृष्टमचेतनमपि प्रयोजनं प्रति प्रवर्तनानम् । यथा वत्स- विवृद्ध्यर्थ क्षीरमचेतनं प्रवर्तते-एवं प्रकृतिरचेतनाऽपि पुरु- पविमोक्षणाय प्रवतिष्यते । न च क्षीरप्रवृत्तेरपीश्वरा- धिष्ठातृनिबन्धनत्वेन साध्यत्वान्न साध्यव्यभिचार इति साम्प्रतं प्रेक्षावतः प्रवृत्तेः स्वार्थकारुण्याभ्यां व्याप्तत्वात् । च जगत्सर्गाद्यावर्त्तमाने प्रेक्षावत्प्रवृत्तिपूर्वकत्वमपि व्यावर्तयतः । न ह्यवाप्तसकलेप्सितस्य भगवतो जगत्सृजतः किमप्यभिलपितं भवति, नापि कारुण्यादस्य सर्गे प्रवृत्तिः । प्राक् सर्गाज्जीवानामिन्द्रियशरीरविषयानुत्पत्तौ दु खाभावेन कस्य प्रहाणेच्छाकारुण्यं, सर्गोत्तरकालं दुःखिनोऽवलोक्य कारुण्याभ्युपगमे दुरुत्तरमितरेतराश्रयदूषणं कारुण्येन सृष्टिः दृष्टसाम्येनादृष्टसिद्धिरिति नियमः, न चाचेतनस्य स्वार्थी परार्था वा प्रवृत्तिर्दृष्टेति प्रकृतेरदृष्टा प्रवृत्तिः कथं कल्प्यंत?इत्याशक्य समाधत्ते-"वत्स" इत्यादिना, उपभुक्ततृणादेरप्रसूताया गोर्न क्षीरमुत्पद्यते, तस्या एव प्रसू- ताया वत्सविवृद्धये तृणादेरुपभुक्ताद्रसभावमापन्नात्पृथग् भवत् क्षीरं क्षीरा- शये संचीयते, इयमेव क्षीरस्य वत्सविवृद्धये प्रवृत्तिः, तत्र च न गोः प्रयत्नः कश्चिदस्ति तस्या वत्सस्य वा,-यत्नस्य क्षीरोत्पत्तावकिञ्चित्करत्वात्, ततश्च "वत्सचूषणादिनैव क्षीरप्रवृत्तिः" इत्यादिश्रीशङ्करोक्तिब्रह्मसूत्रभाष्योक्ताऽसङ्ग- तैव, श्रीशङ्करोक्तक्षीरप्रवृत्तेरपि चेतनाधिष्ठितत्वं दूपयति-"प्रेक्षावत"इत्या- दिना, "स्वार्थकारुण्याभ्याम्" इति, नव्यास्तु कारुण्यमपि स्वार्थमूलकमेव, परक्लेशान् दृष्ट्वा स्वयं दुःखितो हि पुरुषः स्वदुःखविमोचनायैव परदुःखप्रहा- णाय यतते, यस्तु परदुःखेन न दुःखितस्तस्य तत्प्रहाणेऽप्रवृत्तरित्याहुः । (१) वेदान्त० सू० (२।२।४)। । -- २७ ३०६ साझवतत्त्वकौमुदी। सृष्टया च कारुण्यमिति । अपि च करुणया प्रेरित ईश्वरः सुखिन एव जन्तून् सृजेन विचित्रान् । 'कर्मवैचित्र्याद्वौचत्र्यम्' इति चेत् कृतमस्य प्रेक्षावतः कर्माधिष्ठानेन । तदनधिष्ठानमात्रा- देवाचेतनस्यापि कर्मणः प्रवृत्युपपत्तेः तत्कार्यशरीरेन्द्रियविषया- नुत्पत्तौ दुःखानुत्पत्तेरपि सुकरत्वात् । प्रकृतेस्त्वचेतनायाः प्रवृत्तेर्न स्वार्थानुग्रहो, न वा कारुण्यं, प्रयोजकमिति नोक्तदोषग्रसङ्गः । पारार्थ्यमात्रं तु प्रयोजकमुपपद्यते । तस्मात्सुष्ठूक्तं "वत्सविवृद्धिनिमित्तम्" इति ॥ ५७ ॥ स्वार्थ इवेति दृष्टान्तितं तद्विभजते- औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्त्तते लोकः । पुरुषस्य विमोक्षार्थं प्रवर्त्तते तद्वदव्यक्तम् ॥ ५८ ॥ औत्सुक्यम् इच्छा, सा खल्विष्यमाणप्राप्तौ निवर्तते इष्य- माणश्च स्वार्थः इष्टलक्षणत्वात्फलस्य । दार्टान्तिके योजयति- 'पुरुषस्य विमोक्षार्थं प्रवर्त्तते तद्वदव्यक्तम्" इति ॥ ५८ ॥ ननु भवतु प्रकृतेः पुरुषार्थः प्रवर्गको, निवृत्तिस्तु कुतस्त्या प्रकृतेः ? इत्यत आह - ननु स्वार्थानुग्रहकारुण्यान्यतरासंभवात्प्रकृतेरपि कथं सगै प्रवृत्तिः ? इत्यत्राह-"प्रकृतेस्तु” इति, अचेतनानां हि क्षीरजलवाय्वादीनां, सर्वत्र स्वार्थकारुण्याभ्यां विनैवैपां चेतनानामर्थं साधयितुं प्रवृत्तिर्दृष्टा, तद्दर्शनाचा- दृष्टाया अचेतनप्रकृतिप्रवृत्तेः स्वार्थकारुण्यान्यतराभावेऽपि तत्र प्रवृत्तिकल्पना संगता ॥ ५७ ॥ "इच्छा" प्रवृत्तिमात्ररूपा, साङ्ख्यमते गुणत्रयपर्याप्तवृत्तिर्न तु न्यायनय इवेच्छायाश्चेतनधर्मत्वमिति तस्या अचेतने वृत्तिरत्रोपक्षिप्ता, "दाष्टन्तिके" लोकप्रवृत्तिदृष्टान्तेन प्रतिपिपादयिपिते प्रकृतिपुरुषव्यवहारे ॥ ५८ ॥ "कुतस्त्या" किम्प्रयुक्ता । - साबतचकौमुदी। ३०७ रङ्गस्य दर्शयित्वां निवर्तते नर्तकी तथा नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य विनिवर्त्तते प्रकृतिः ॥ ५९ ॥ "रङ्गस्य" इति स्थानेन-स्थानिनः पारिपदानुपलक्षयति । "आत्मानं" शब्दाद्यात्मना, पुरुषा देन, च "प्रकाश्य" इत्यर्थः ॥ ५९ ॥ स्यादेतत् प्रवर्त्ततां प्रकृतिः पुरुषार्थ, पुरुपादुपकृतात् प्रक- तिर्लप्स्यते , कश्चिदुपकारम्-आज्ञासंपादनाराधितादिवाज्ञाप- यितुर्भुजिष्याः तथा च न परार्थोऽस्या आरम्भ इत्यत आह- नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः । गुणवत्यगुणस्य सतस्तत्कार्यमपार्थकं चरति ।। ६० ॥ यथा गुणवानप्युपकार्यपि भृत्यो निर्गुणोऽत एवानुपकाारीणि स्वामिनि निष्फलाराधन-एवमियं प्रकृतिस्तपस्विनि; "गुण- वती" "उपकारिणी" अप्यनुषकारिणि निर्गुणेऽपि पुरुषे व्यर्थ- परिश्रमेति पुरुषार्थमेव यतते न स्वार्थमिति सिद्धम् ।। ६० ।। स्यादेतत्-नर्तकी नृत्यं परिषयो दर्शयित्वा निवृत्ताऽपि पुनस्तकौतूहलात्मवर्चते यथा-तथा प्रकृतिरपि पुरुषायात्मानं दर्शयित्वा निवृत्ताऽपि पुनः प्रवर्त्यतीत्यत आह रङ्गशब्देन परिषदुच्यते, तेन चान लक्षणया पारिषदा उच्यन्ते मुख्यार्थस्य स्थानस्य दर्शनान्वयासंभवात्, अव्यक्तरूपायाः प्रकृतेः कथं व्यक्तिरूपः प्रकाश इत्यभिसन्धायाह-"शब्दाद्यात्मना" इति, स्वगुणैर्व्यक्तिमापन्नैः शब्दादिभिः, पुरुषभिन्नत्वेन स्वरूपेण चेत्यर्थः ॥ ५९ ॥ , “भुजिष्या" दासी, “न परार्थः” किन्तु लप्स्यमानस्वार्थनिवन्धन इत्यर्थः, “तपस्विनी” दीना-"मुनिदीनौ तपस्विनौ” इत्याभघानाद्दीनत्वं च फललाभाभावात् ॥ ६ ॥ "परिषद्भ्यः" पारिषदेभ्य इत्यर्थः, “तद्रष्टकौतूहलात्' परिपस्थितदर्शक.
३०८ साङ्ख्यतत्त्वको मुदी। प्रकृते: मुकुमारतरं न किश्चिदस्तीति मे मतिर्भवति । या दृष्टाऽस्मीति पुनर्दर्शनमुपैमि पुरुषस्य ॥ ६१ ॥ सुकुमारता अतिपेशलता परपुरुषदर्शनासहिष्णुतेति यावत् । असूर्यम्पश्या हि कुलवधूरतिमन्दाक्षमन्थरा प्रमादाद्विगलितसि- च्याञ्चला चेदालोक्यते परपुरुषेण-तदासौ तथा प्रयततेऽ- प्रमत्तां यथैनां न पुनः पुरुषान्तराणि पश्यन्तीति । एवं प्रकृति- रपि कुलवधूतोऽप्यधिका दृष्टा विवेकेन न पुनर्द्रक्ष्यते इत्यर्थः ६१ स्यादेतत्पुरुषश्चेदगुणोऽपरिणामी कथमस्य मोक्षः ? मुचेर्व- न्धनविश्लेपार्थत्वात् , सवासनक्लेशकाशयानां च बन्धनसंज्ञि- तानां पुरुषेऽपरिणामिन्यसंभवात् । अत एवास्य न संसारः प्रेत्यभावापरनामास्ति-निष्क्रियत्वात् । तस्मात्पुरुषविमोक्षार्थ- मिति रिक्तं वच इतीमामाशङ्कामुपसंहारव्याजेनाभ्युपगच्छन्न- पाकरोति- तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ १२ ॥ अद्धा "न"कश्चित्पुरुषो 'बध्यते", "न" कश्चित् “संसरति", कौतुकवशात्, मन्दाक्षं ब्रपा. तेन मन्थरा परदर्शनेऽप्रवृत्ता “मन्दाक्ष- मन्थरा", विगलितसिचयाञ्चला च्युतपटमान्ता दृष्टा, "विवेकेन" ज्ञा-- नेन, "दृष्टा" साक्षात्कृतपुरुपप्रतियोगिकभेदा, "न द्रक्ष्यते” विवकिनः पुरुषस्य दर्शनगोचरं न गमिष्यतीत्यर्थः ॥ ६१ ॥ "कुश" इत्यादि, "अविद्याऽस्मितारागद्वेपाभिनिवेशाः पञ्च केशाः" "केश- मूल: कमाशयो दृष्टादृष्टजन्मवेदनीयः", इति भगवत्पतञ्जल्युक्तः कशियः क्के शमूलभूतः, तत्कार्य च केशः, वासना तु संस्कारः, प्रेत्यभावः मृत्योरनन्तरं स्थितिः, "क्तिं" प्रमत्तमलपितवच्छून्यम् अर्थरहितमित्यर्थः, 'संभव- व्यभिचाराभ्यां स्याद्विशेषणमर्थवद्' इति सतताव्याभिचरितोष्ण्यस्य वह्वरुष्ण- स्वोक्तिरिव सततमुक्तस्य पुरुषस्य मोक्षोक्तिरसंगता, "अद्धा" वस्तुतः, “तत्वे (१) योग० सू० (२।३)। (२) यो० सू० (२।१२)। -
17
साङ्ख्यतत्त्वकौमुदी।
"न" कश्चित् “मुच्यते" इति-"प्रकृतिः" एव तु "नाना-
श्रया" सती-'बध्यते" च, “संसरति” च, “मुच्यते च" ।
बन्धमोक्षसंसाराः पुरुषः, उपचर्यन्ते । यथा-जयपराजयौ
भृत्यगतावपि स्वामिन्युपचर्येते-तदाश्रयेण भृत्यानां तद्भागि
त्वात् , तत्फलस्य च शोकलाभादेः स्वामिसंबन्धात् भोगा-
पूवर्गयोश्च प्रकृतिगतयोरपि विवेकाग्रहात्पुरुषसंवन्ध उपपादित
इति सर्व पुष्कलम् ॥ ६२ ॥
नन्ववगतं प्रकृतिगता बन्धसंसारापवर्गाः पुरुष उपचर्य्यन्तु
इति । किंसाधनाः पुनरेते प्रकृतेः ? इत्यत आह-
रूपैः सप्तभिरेव तु वनात्यात्मानमात्मना प्रकृतिः।
सैव च पुरुषार्थ प्रति विमोचयत्येकरूपेण ॥ ६३ ।।
तत्त्वज्ञानवर्ज "बध्नाति" धादिभिः “सप्तभिः" "रूपैः" भाव-
रिति “पुरुषार्थ प्रति" भोगापवर्ग प्रति “आत्मनात्मानम्"
"एकरूपेण" तत्त्वज्ञानेन विवेकख्यात्या “विमोचयति"
पुनर्भोगापवर्गों न करोतीत्यर्थः ।। ६३ ॥
?
त्यद्धाञ्जसा द्वयम्" इत्यमरः, उपचर्यन्ते, आरोप्यन्ते "पुष्कलम्" उपप-
नम् ॥ ६२॥
धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यश्वर्यानैश्वर्योणि अष्ट भावाः पूर्वाक्ताः, तत्र
ज्ञानं वर्जयित्वाऽन्यानि सप्त प्रकृतिरूपाणि बन्धहेतवः, ज्ञानाख्यं तु तद्रूपं
बन्धविमोचकमिल्याशयेनाह-"तस्वज्ञानवर्जम्" इति, "भोगापवर्ग” भोग-
वापवर्गश्च तयोः समाहारों भोगापवर्गमिति समाहारद्वन्द्वः, "आत्मना.
स्मानम्' इत्यंशस्य "बध्नाति-विमोचयति" इति, क्रियाद्वये पर्यायेण संबन्धः,
"एकरूपेण" विवेकख्यात्यपरायेण "तत्त्वज्ञानेन" धर्मादिरूपबन्धहेतु-
भावसप्तकभिन्न निजस्वरूपेणेत्यर्थः ॥ ६३ ॥
३१०. सायतत्त्वकौमुदी अवगतमीदृशं तत्त्वं ततः किम् ? इत्यत आह- / एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपारशेषम् । अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥६४ ॥ तत्त्वेन विषयेण विषयि ज्ञानमुपलक्षयति । उक्त प्रकारतत्त्ववि- पयज्ञानाभ्यासादादरनैरन्तयदीर्घकालसावितात्सय पुरुषान्य- तासाक्षात्कारि ज्ञानमुत्पद्यते यद्विषयश्चाभ्यासस्तद्विषयकमेव साक्षात्कारमुपजनयति, तत्त्वविषयश्चाभ्यास इति तत्त्व- साक्षात्कारं जनयति । अत उक्तं-"विशुद्धम्" इति कुतो विशुद्धम् ? इत्यत आह-"अविपर्ययाद्" इति । संशयविपर्ययौ हि ज्ञानस्याविशुद्धी, तद्रार्हतं "विशुद्ध", तदिदमुक्तम्-"अ- विपर्ययाद्" इति । नियतमानियततया गृह्णन्संशयोऽपि विपर्ययः; तेन "अविपर्ययात्" इति संशयविपर्ययाभावो दर्शितः । तत्त्वविषयत्वाच संशयविपर्ययाभावः । स्यादेतद्-उत्पद्यतामीदृशाभ्यासात्तत्त्वज्ञानम् । तथाप्यना- दिना मिथ्याज्ञानसंस्कारेण मिथ्याज्ञानं जनयितव्यम् तथा च "तत्त्वं' वस्तुयाथात्म्यं, तच्च ज्ञानस्य विषयः, तेनात्र विषयि ज्ञानमुपल- क्ष्यते, तथा च "तच्चाभ्यासाद्" इत्यस्य “तत्वविषयज्ञानाभ्यासाद' इत्यर्थः, सेवादरो,नैरन्तयं, कालदेयं चेति त्रितयमपेक्षितम् अन्यतमामावे फला- भावः, तथा हि-ज्ञानाभ्यासोऽनादरेण चिरं-निरन्तरं सेवितोऽपि न फलाय, एवमादरेणापि क्षणं निरनुबन्धं सेवितो न फलायेति बोध्यम्, “अविपर्य- याद्" इत्युक्तत्वात्संशयस्यानिषेध इति संशयग्रस्तं ज्ञानं कथं शुद्धम् ? इत्यत आह---"नियतमनियततया" इति, नियतत्वं वस्तुनो लक्षणं, न च नियते संशय उपपद्यते, किं तु नियतस्यानियतत्वेन ग्रहः संशयः, स च तथाभू- तस्यातथाभूतत्वग्रहरूपस्य विपर्ययस्यैव विशेष इत्यभिप्रायः, कुतोऽत्र संशयविपर्ययौ न ? इत्यत आह-"तत्त्वविघयत्वाञ्च" इति, यस्य वस्तुनः स्वरूपं यादृशं तस्य तेन रूपेण याथार्थेन ज्ञाने कुतः संशयस्य विपर्ययस्य वा संभव इति भावः। ? --- - . साचतच कौमुदी। तन्निमित्तस्य संसारस्यानुच्छेदप्रसङ्गः इत्यत उक्तं "केवलं" विपर्ययेणासंभिन्नम् । यद्यप्यनादिविपर्ययवासना । तथापि तत्त्वज्ञानवासनया तत्त्वविषयसाक्षात्कारमादधत्याऽऽदिमत्या- पि शक्या समुच्छेत्तुम् । तत्त्वपक्षपातो हि धियां स्वभावः । यथाहुः बाह्या अपि- निरुपद्रवभूतार्थस्वभावस विपर्ययैः । न बाधो यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥ इति । ज्ञानस्वरूपमुक्तं "नास्मि न मे नाहमिति" इति । "नास्मि" इति । अनेनात्मनि क्रियामानं निषेधति । यथाहुः- "कृभ्वस्तयः क्रियासामान्यवचना" इति । तथा चाध्यवसायाभिमानसंक- ल्पालोचनानि चान्तराणि, बाह्याश्च सर्वे व्यापाराः, आत्मनि प्रतिषिद्धानि बोद्धव्यानि । यतश्चात्मनि व्यापारावेशो नास्त्यतो "नाहम्" । अहमिति कर्तृपरम् । 'अहं-जानामि' 'अहं जुहोमि' 'अहं ददे' 'अहं भुजे' "विपर्ययवासना" मिथ्याज्ञानसंस्कारः प्रकृतिपुरुषयोर्वस्तुतो विविक्तयो- रविविक्तत्वग्रहः, न हि "नादिमताऽनादेर्नाश' इति कश्चिन्नियमोऽस्ति नै- यायिकनये प्रागभावस्थानादेः सादिना ध्वंसेन नाशस्य दृष्टत्वादिति भावः, "तत्त्वपक्षपातो हि" इति, ग्रथाकथञ्चिद्भुमे पतिताऽपि- धीस्तत्त्वं प्रकाशि- तमानं प्रति स्वभावतरे धावति, "निरुपद्रवः" इति, निरुपद्वः संशयाधुपद्रवरहितो यो भूतार्थः परार्थः तस्य तदुपलक्षितस्य तज्ज्ञानस्य "विपर्ययैः” भ्रमैः “यलवत्त्वे" 'अतिशयेन' यत्ने कृतेपि बाधो नैव भवति, बुद्धिर्हि तत्त्वपक्षपातिनी विपर्ययाननादृत्य तत्त्वमेवावलम्बते, "नास्मि'' न सक्रियोऽहम् अध्यवसायाभिमानसंकल्पा- द्यालोचनानि क्रमाद्बुद्ध्यहङ्कारमनसां कार्याणि नास्मीति निष्क्रियत्वमात्मनः, तदुक्त्वा तत्फलभूतं कर्तृत्वाभावं तस्याह-“यतश्च इति' कर्त्तत्वाभावे च स्वामित्वाभावो न ह्यलसमनुद्योगपरमत्यन्तोदासीनं कश्चित्स्वामिनं मन्यते, स्वोद्योगार्जितं च धनं समर्पयतीति पुरुषो न मे किञ्चिदिति तात्त्विकं स्वस्य स्वामित्वाभावं गृह्णाति विवेकख्यात्यनन्तरम् । N .. ३१२ साङ्ख्यतत्त्वकौमुदी। इति सर्वत्र कर्तुः परामर्शात्, निष्क्रियत्वे च सर्वकर्तृत्वाभावः। ततः सुष्टूक्तं -"नाहम्" इति । अत एव "न मे" | कर्त्ता हि स्वा- मितां लभते, तदभावात्तु कुत : स्वाभाविकी स्वामिता? इत्यर्थः । अथवा "नास्मि" इति पुरुषोस्मि न प्रसवधर्मा । अग्रसवधर्म- त्वाचाकर्तृत्वमाह-"नाहम्" इति । अकर्तृत्वाच न स्वामि- तेत्याह-"न म" इति । नन्वेतावत्सु ज्ञातेष्वपि कश्चित्कदा- चिदज्ञातो विषयोऽस्ति, तज्ज्ञानं च जन्तून्वन्धयिष्यतीत्यत आह-"अपरिशेषम्" इति। नास्ति किश्चिदस्मिन् परिशिष्टं ज्ञातव्यं-यदज्ञानं बन्धयिष्यतीत्यर्थः ॥ ६४ ॥ किं पुनरीदृशेन तत्त्वसाक्षात्कारेण सिध्यति ? इत्यत आह- तेन निवृत्तप्रसवामर्थवशात्सप्तरूपविनिवृत्ताम् । प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः सुस्थः ॥ ६५ ॥ भोगविवेकसाक्षात्कारौ हि प्रकृतेः प्रसोतव्यौ, तौ च प्रसूता- विति नास्याः प्रसोतव्यमवशिष्यत इति निवृत्तप्रसवा प्रकृतिः। विवेकज्ञानरूपो योऽर्थस्तस्य वशः सामर्थ्य तस्मात् । अत: क्वज्ञानपूर्वकाणि खलु धर्माधर्माज्ञानवैगग्यावैराग्यैश्वर्यानेश्व "नास्मि न मे नाहम्" इत्यंशस्यार्थान्तरमाह-"अथवा' इति, प्रसवधर्मिणी स्त्रीजातिः प्रकृतिः-न पुरुषः, तत: पुरुपोस्मि न प्रसवधर्मा, शेष स्पष्टम्, 'अज्ञानहेतुको बन्धः-न च सांख्यैः प्रतिज्ञातान्येव वस्तूनि सर्वाणि-न ततः परिशिष्टानि कानिचिदिति कश्चिदज्ञातोऽपि विषयोऽवशिष्टः स्याद्'इत्या- शक्य समाधत्ते-"ननु' इत्यादिना, “यदज्ञानम्” इति, यद्विषयकमज्ञान- मित्यर्थः ॥ ६४ ॥ अपवर्गस्तु सिद्ध एवेति तत्प्रतिबन्धकाज्ञाननिवर्त्तको विवेकसाक्षात्कारः, सोतव्य इत्याह-"अतत्त्वज्ञानपूर्वकाणि" तत्त्वाज्ञानमूलकानि, "केवलतौष्टि- (१) ना अस्मीति पदच्छेदेन ना पुरुष इत्यर्थात् । तत्तक्रियानिरूपितकर्तृ- णामनुगमरूपेण तत्तत्कर्तृत्वशक्तिमत्प्रतिपादकमित्यर्थः ।
साङ्ख्यतत्त्वकौमुदी। ३१३ व्याणि । वैराग्यमपि केवलतौष्टिकानामतत्वज्ञानपूर्वकमेव । तत्र तत्त्वज्ञानं विरोधित्वेनातत्त्वज्ञानमुच्छिनत्ति कारणविनिवृत्त्या च सप्तरूपाणि निवर्तन्ते इति सप्तरूपविनिवृत्ता प्रकृतिः । "अवस्थित" इति निष्क्रियः । “सुस्थ" इति । रजस्तमो- वृत्तिकलुषया बुद्धयाऽसंभिन्नः । सात्त्विक्या तु बुद्ध्या तदा- प्यस्य मनाक् संभेदोऽस्त्येव । अन्यथैवम्भूतप्रकृतिदर्शनानु- पपत्तेरिति ॥६५॥ स्यादेतत्-"निवृत्तप्रसवाम्" इति न मृष्यामहे, संयोगकृतो हि स इत्युक्तं, योग्यता च संयोगः, भोक्तत्वयोग्यता च पुरुष- स्य चैतन्यं, भोग्यत्वयोग्यता च प्रकृतेर्जडत्वं विषयत्वं च, न चैतयोरस्ति निवृत्तिः, न च करणीयाभावानिवृत्तिः, तजाती- यस्यान्यस्य करणीयत्वात् पुनःपुनः शब्दाद्युपभोगवदित्यत आह- दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या । । सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥६६ ।। करोतु नाम पौनःपुन्येन शब्दाद्युपभोगं प्रकृतिर्यया विवेक- कानाम्" "आध्यात्मिक्य" इत्यादिकारिकायां या नवे तुष्टय उक्तास्तासां तुष्टीनामेकतरामाश्रित्य ये श्रवणमननादिसिद्धिषु विरक्तास्ते केवलतौष्टिकास्ते- पाम्, “सप्त रूपाणि" धर्मादिकानि, “अवस्थितः" स्वरूपेण स्थितः, ततश्च निष्क्रियः, “मनाग्” ईषद् अन्तिमक्षणे । ततः प्रकृतिदर्शने संवृत्ते तु सात्त्विक्या बुद्धेरपि न स्थितिः ॥ ६५ ॥ “संयोगकृतः” प्रकृतिपुरुषसंबन्धप्रयुक्तः कीदृशोऽत्यन्तभिन्न स्वभावयोस्त- योः संयोगः ? इत्यत आह--"योग्यता' इति, चेतनोऽचेतनानि भुते, तथा च . (१) कारिकायां-(५०) । (२) कारिकायां- (८)।
३१४ सातत्वकौमुदी। ख्यातिर्न कृता,कृतविवेकख्यातिस्तु शब्दाद्युपभोगं न जनयति। अविवेकख्यातिनिबन्धनो हि तदुपभोगो, निवन्धनाभावे न तद्भवितुमर्हत्यङ्कुर इव बीजाभावे । प्राकृतान् हि सुखदुःखमोहात्मनः शब्दादींस्तदविवेकान् 'म- मैत' इत्यभिमन्यमान आत्मा भुञ्जीत, एवं विवेकख्यातिमपि प्राकृतीमविवेकादेवात्मा 'मदर्थेयम्' इति मन्यते । उत्पन्नविवेक- ख्यातिस्तु तदससंर्गान्न शब्दादीन् भोक्तुमर्हति, नापि विवेक- ख्याति प्राकृताम् । ततो विविक्त आत्मा स्वार्थमभिमन्तुमर्ह- तीति । पुरुषार्थों च भोगविवेकौ प्रकृत्यारम्भप्रयोजकावित्यपुरु- पार्थो सन्तौ न प्रकृति प्रयोजयतः। तदिदशक्तं "प्रयोजनं नास्ति सर्गस्य" इति । अत्र प्रयुज्यते सर्गे प्रकृतिरनेनेति प्रयोजनं, तद् अपुरुषार्थत्वे नास्तीत्यर्थः ।। ६६ ॥ प्रकृतेरचेतनत्वे पुरुषस्य चेतनत्वं भोगप्रयोजकं विवेकख्यातेः परस्तादपि समानमेवेति भोगानिवृत्तिरित्यभिप्रायः, “करोतु” इति, यथा कुण्डलाद्य- भिमानी कुण्डलादीनि पुनःपुनः प्रेक्षते, धारयति च, स एव निवृत्ताभिमानो विरक्तः सर्वं तद् विजहाति, प्रव्रज्यां चोपादत्ते,-तथैव पूर्व विवेकख्यातेः प्रकृतिकृताशब्दादिभोगान्पुरुष आत्मीयत्वेन मन्यते न तु विवेकख्यातेरन- न्तरमित्यभिप्रायः। विवेकख्यातिरपि प्रकृतिकार्य, नात्मकार्य, ततश्च प्रकृतिकार्येणैवान्ति- मेनानवशिष्टकार्येण पुरुषस्यापवर्ग इत्येतदभिसंधायाह-"प्राकृतान्" इत्यादि, विवेकख्यात्यनन्तरं तु संसारोद्भवमारभ्य विवेकख्यात्यवधिकं सकलं प्रकृतिकार्य नात्मीयत्वेनोदासीन: पुरुषो निश्चिनोतीति सिद्धान्तयति-"तदसंसर्गाद" इत्यादिना, "अपुरुपाौँ' पुरुषेणोदासीनेनात्मीयतयाऽनभिमन्यमानौ, आत्मीयत्वेनानभिमन्यमानं न किञ्चित्कस्यापि प्रयोजनं भवति, न एनात्मसंबन्धयोग्यमाकाशताडनादिकार्यमुंद्दिश्य कश्चित्प्रवर्तते, तदाह- "प्रयुज्यत" इत्यादिना ॥ ६६ ।। ...... - (१) 'अत्र' इत्यस्य 'सर्गे' इत्यत्रान्वयः । अत्रेत्यस्य स्थानेऽथेति पाठान्तरं क्वचित् ।
न SUPERMIREONEMISSARicesamaASICSERIES साङ्ख्यतत्त्वकौमुदी। ३१५ स्यादेतद्-उत्पन्नतत्त्वसाक्षात्कारान्मुक्तश्चेदनन्तरमेव तस्य शरीरपातः स्यादिति कथमदेहः प्रकृतिं पश्येत् ? अथ तत्त्वज्ञा- नेऽपि न मुच्यते-कर्मणामप्रक्षीणत्वात् तेषां कुतः प्रक्षयः ? भो- गादिति चेत्-हन्त भोः ! तत्त्वज्ञानं न मोक्षसाधनमिति 'व्य- क्ताव्यक्तज्ञविज्ञानजन्मना तत्त्वज्ञानेनापवर्ग' इति रिक्तं वचः, भोगेन चापरिसङ्ख्येयः कर्माशयपचयोऽनियतविपाकसमयः क्षेतव्यः, ततश्चापवर्गप्राप्तिरित्यपि मनोरथमात्रमित्यत आह - सम्यग्ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ । तिष्ठति संस्कारवशाच्चभ्रमिवद्धृतशरीरः ।। ६७ ॥ तत्त्वसाक्षात्कारोदयादेवानादिरप्यनियतविपाककालोऽपि कर्माशयमचयो दग्धवीजभावतया न जात्यायुपभोगलक्षणाय फलाय कल्पते । क्लेशसलिलावसिक्तायां हि बुद्धिभूमौ कर्मवी- जान्यङ्करं प्रसुवते। तत्त्वज्ञाननिदाघनिपीतसकलक्लेशसलिला- यामूपरायां कुतः कर्मजिानामङ्कुरप्रसवः ? तदिदमुक्तं-"ध- प्रकृतिदर्शनक्षणपर्यन्तं देहसद्भाव आवश्यकः, अन्यथा निष्क्रियेण निर्विका. रेण पुरुषण देहरहितेन कथं प्रकृतेर्दर्शनं, तच्चान्तिमक्षणे देहावस्थान संभवति, तत्त्वसाक्षात्कारसमकालमेव पुरुपस्य मुक्तत्वादित्याशय सदेहस्य जीवन्मुक्तिं "तस्य तावदेव" इत्यादिश्रुतिप्रसिद्धामुपपादयति दृष्टान्तादि- बलेन-“सम्यग्ज्ञान" इत्यादिना, तत्त्वसाक्षात्कारमहिम्ना "ज्ञानाग्निः सर्वकर्माणि भस्मसाकुरुतेऽर्जुन” इत्याद्युक्तदिशा धदिसंसारनिमित्तानां प्रजननशक्तौ नाशितायां तेषां संसारकारणत्वाप्राप्तौ केवलमारब्धकर्मणां वर्तमानशरीरारम्भकाणां भोगमात्रेण क्षयस्य संभवाद्दण्डवेगवशाद्दण्डनाशे. ऽपि किञ्चित्कालावस्थायिचक्रनमणन्यायेन कियत्समयं सशरीर एव पुरु- पस्तिष्ठतीति तत्कृतं प्रकृतिदर्शनेनुपपत्तिप्रदर्शनेन-दर्शनसाधनस्य शरीरस्य सद्भावात् । "क्लेशसलिलायाम्” इति । "अविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च १ छान्दो० (६।१४।२)।
? ३१६ साङ्ख्यतत्वकौमुदी। मादीनामकारणप्राप्तौ" अकारणत्वप्राप्तावित्यर्थः । उत्पन्ने तत्त्वज्ञानेऽपि च "संस्कारवशात्तिष्ठति"; यथोपरतेऽपि कुलाल- व्यापारे चक्रं वेगाख्यसंस्कारवशाद्भमत्तिष्ठति कालपरि- पाकवशात्तूपरते संस्कारे निष्क्रियं भवति । शरीरस्थितौ च प्रारब्धकर्मपरिपाको धर्माधर्मसंस्कारौ भोगेन क्षेतव्यौ । तथा- चानुश्रूयते - "भोगेर्ने वितरे क्षपयित्वाऽथ संपद्यते” इति, "तस्य तावदेव चिरं यावन विमोक्ष्येऽथ च संपत्स्ये" इति च । प्रक्षीयमाणाविद्याविशेषश्च संस्कारस्तद्वशात्तत्सामर्थ्याद्धृत- शरीरस्तिष्ठति ॥ ६७ ॥ स्यादेतद्-यदि संस्कारविशेषाद्धृतशरीरः, तथापि कदास्य मोक्षो भविष्यति ? इत्यत आह- क्केशा" इति योगसूत्रोक्ता अत्र केशा ग्राह्याः, “संस्कारवशाद" इति, वर्त्त- मानशरीरारम्भककर्मभोगारम्मकाले तत्कर्मजन्यः संस्कारोऽनाभिप्रेतः, तस्य किञ्चित्कालमनुवृत्तत्वाच्छरीरस्थितिः, अस्य संस्कारस्य कालवशात्कुलालप्रहि- तदण्डजनितवगस्येव स्वयं निवृत्तिरित्याह-"कालपरिपाक” इत्यादि, "भोगेन वितरे" इति, ब्रह्मसूत्रमिदं, न श्रुतिः, ततश्च "अनुश्रूयते” इत्यस्य श्रुतिमनु सर्यत इत्यर्थः । “तावदेव" इति तु श्रुतिः "भोगेन वितरे क्षपयित्वा संपद्यते", "इतरे" आरब्धकार्ये पुण्यपापे न ज्ञानमात्रेण किन्तु भोगेन "क्षपयित्वा” कैवल्यभाजनं 'संपद्यते," ज्ञानीति शेषः। ६७ ।। (१) वे० सू० (४।१।१८)। "कैश्चिन्मन्त्राणामेव वेदत्वं व्याख्यातं, कैश्चित्कल्प- सूत्राणामपि” इति आपस्तम्बपरिभाषायां-“मन्त्रब्राह्मणयोर्वेदनामधेयम्' इत्यस्य व्याख्यावसरे: हरदत्तेनोक्तरीत्या 'छन्दोवत्सूत्राणि भवन्ति" इत्युक्तेश्वारोपितं वेदत्वमिति चेदोमिति ब्रूमः । (२) तारानाथतर्कवाचस्पतिस्तु "भोगेन वितरे" इति मूलमनुपलभ्य प्रमादादिममस्यार्थमाह-'इतरे" ज्ञानिनः “भोगेन" प्रारब्धक- माणि. "क्षपयित्वा'. नाशयित्वा-समाप्येति यावत्, “अथ" प्रारब्धक्षयानन्तरं 'संपद्यते” बन्धशून्यतया कैवल्यभाजनं “संपद्यते” इति, तत्र 'इतरे" इति बहुवचनान्तपदवाच्यकर्तृणां “सम्पद्यत' इत्येकवचनान्तक्रियया कथमन्वय इति स एव देवानां प्रियः पण्डितम्मन्यो जानातु ।। १ . MARK । Rea - साङ्ख्यतत्वकौमुदी। ३१७ प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तः । ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमानोति ॥ ६८ ॥ अनारब्धविपाकानां तावत्कर्माशयानां तत्वज्ञानाग्निना बी- जभावो दग्धः, प्रारब्धविपाकानां तूपभोगेन क्षये सति "प्राप्ते" शरीरस्य "भेदे" विनाशे "चरितार्थत्वात्" कृतप्रयोजनत्वा- प्रधानस्य तं पुरुषं प्रति निवृत्तौ "ऐकान्तिकम्" अवश्यम्भावि, "आत्यन्तिकम्"-अविनाशीति-"उभयं कैवल्य" दुःखत्रय- विगमं प्राप्नोति पुरुषः ॥ ६८ ॥ प्रमाणेनोपपादितेऽप्यत्यन्तश्रद्धोत्पादनाय परमार्षपूर्वकत्व- माहv पुरुषार्थज्ञानमिदं गुह्यं परमर्पिणा समाख्यातम् । "स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् ॥ ६९ ॥ "गुह्यं"-गुहानिवासि, स्थूलधियां दुर्बोधमिति यावत् । पर- मर्षिणा" कपिलेन । तामेव श्रद्धामागमिकत्वेन द्रढयति-"स्थि- "तस्य तावदेव चिरं यावन्न किमोक्ष्येऽथ सम्पत्स्य" इति छान्दोग्यश्रुतिः प्रतिज़ानीते। स श्रुत्या प्रतिज्ञातो मोक्षः कदा भवति ? इत्याकाङ्क्षायां कारि- कामाह-"प्राप्त" इति, आरब्धभोगेन कर्मणोत्पादितस्य शरीरस्य "भेदे" नाशे जाते ज्ञानाग्निनानारब्धाना सर्वेषां कर्मणां दग्धत्वादुपभोगेन चारब्ध- कर्मणां क्षयादपवर्गसिद्धौ भविष्यद्भोगस्यासंभवाद्भोगापवर्गमात्रफलायास्त. त्फलद्वये प्रसूतेऽनवशिष्टप्रयोजनास्तरायाः प्रकृतेर्विनिवृत्तौ : परमपुरुषार्थ पुरुषः प्राप्नोति, एवं प्राप्तस्य कैवल्यस्यावश्यंभाव्यत्वं ज्ञानिनो, न च तस्य पुनरावृत्तिरित्याह-"आत्यन्तिकम्” इत्यादिना ॥ ६८ ॥ ईश्वरकृष्णो न महर्षिः किन्तु प्राकृतो विद्वानिति तदुक्तौ न्यायपरिपुष्टा- यामपि तर्काप्रतिष्टानादबहुमानः स्यादृषिवाक्ये श्रद्धावतामित्यस्य शास्त्रस्य परमार्षपूर्वकत्वमाह-"पुरुषार्थ" इति, श्रुतिरपि कपिलस्य परमर्षितां प्रख्या- (१) वे० सू० (२१/११)-'तर्काप्रतिष्ठानादप्यन्थानुमेयमिति चेदेवमप्य- निर्मोक्षप्रसङ्ग" इति । २८ ........- ३१८ साङ्ख्यतत्त्वकौमुदी त्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानां" “यत्र" ज्ञाने यदर्थ- यथा-"चर्मणि द्वीपिनं हन्ति" इति । “भूतानां' प्राणिनां "स्थित्युत्पत्तिप्रलयाः” आगमैः "चिन्त्यन्ते" ॥ ६९ ॥ स्यादेतद्-यत्परमर्षिणा साक्षात्कथितं तच्छ्रद्दधीमहि, यत्पु- नरीश्वर कृष्णेन कथितं तत्र कुतः श्रद्धा ? इत्यत आह- एतत्पवित्रमण्यं मुनिरासुरयेऽनुकम्पया प्रददौ । आसुरिरपि पञ्चशिखाय तेन बहुधा कृतं तन्त्रम् ॥ ७० ॥ "एतत्पवित्र" पाबनं दुखत्रयहेतोः पाप्मनः पुनातीति, "अग्र्यं” सर्वेभ्यः पवित्रेभ्यो मुख्यम् । “मुनिः” कपिलः “आ ......................... पयति श्वेताश्वतरैराम्नाता-"ऋषि प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जाय- मानं च पश्येत्' इति, "समाख्यातं"मुखत आसुरये समुपदिष्टं न तुं तन्त्ररूपेणोपनिबद्धमित्यनेन सूचितं, तेनं पञ्चशिखाचार्यप्रणीतात्षष्टितन्त्रनाम- कान्निबन्धात्पूर्व साङ्ख्यनिबन्धो नासीदि ति सूचितं, ततश्च संप्रति प्रचलि- तानां साङ्ख्यसूत्राणां न कपिलप्रणीतत्वमिति प्रतिभाति । अत एवैषु सूत्रेषु "अविवेकनिमित्तो वा पञ्चशिखः' इत्यादौ कपिलादर्वाचीनानां प्राकृताचा- र्याणामपि. नामानि दृश्यन्ते, सूत्राणि श्रीमच्छङ्करभगवत्पादानां समयेऽपि नांसन् ,' अन्यथा .. दर्शनान्तरमूलप्रस्तावेषु जैमिनिगौतमकणादपतञ्जलिसू- त्राण्युदाहरन्कथं कपिलसूत्राण्यपहाय स. साङ्ख्यकारिका एवोदाहृतवान् , वाचस्पतेः कालेऽपि सूत्राणामनवस्थितिः, अन्यथाऽनेन षड्दर्शनव्याख्याकृता कथं न सूत्राणि तद्भाष्यं वा व्याख्यातम् ? कथं पञ्चशिखवार्षगण्यादीनां लेखांस्तत्रतत्र निर्दिशन् वाचस्पतिमिश्र: कपिलस्य न कमपि लेखमुद्धृतवान्- तथा च सूत्राणां नवमशतंकोद्भूताद्वाचस्पतिमिश्रादप्यर्वाचीनत्वम् ॥ ६९ ॥ "एतत्" साङ्ख्यशास्त्रं न पुनः कारिकासदृशानुपूर्वीकमेव, “मुनये शिष्याय तस्य चासुरये' इत्यत्युक्तत्वादासुरेरपि मुनित्वम् , आसुरेश्च शिष्यः (१) सां० सू० (६।६८) न्यायसूची निबन्धे. वाचस्पतिमिश्रेण स्वसमयः स्वयं निर्दिष्टः-"न्यायसूचीनिबन्धोऽयमकारि सुधियां मुदे । श्रीवाचस्पतिमिश्रेण वस्वङ्क (८९८) वसुबत्सरे” इति ।.
ARTAPicsAHARY साझवतत्त्वकाँमुदी। ३१९ सुरयेऽनुकम्पया प्रददौ, आसुरिरपि पश्चशिखाय, तेन च बहुधा कृतं तन्त्रम्” ॥ ७० ॥ शिष्यपरम्परयाऽऽगतमीश्वरकृष्णेन चैतदार्याभिः। संक्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ ७१ ॥ आरात् याता तत्त्वेभ्य इत्यार्या, आर्या मतिर्यस्य सोऽय- मार्यमतिरिति ॥७१॥ एतच्च शास्त्रं सकलशास्त्रार्थसूचकत्वान्न तु प्रकरणमित्याह- सप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य । आख्यायिकाविरहिताः परवादविवर्जिताश्चापि ॥७२॥ तथा च राजवार्त्तिकम् - "प्रधानास्तित्वमेकत्वमर्थवत्त्वमथान्यता । पारायं च तथानैक्यं वियोगो योग एव च ।। शेषवृत्तिरकर्तृत्वं मौलिकार्थाः स्मृता दश । . पञ्चशिखः, स एव पष्टितन्त्रप्रणेता, पञ्चशिखप्रयन्धानामतिविस्तृतत्वात्का- रिकाणां च यथावत्तदर्थानां संक्षेपेण प्रतिपादनादासामेव साङ्ख्यमूलग्रन्थत्वं संवृत्तम् , अस्यां कारिकायां “पञ्चशिखाय तेनं" इत्यशे यतिन मनोरमेति यतिभङ्गो दोषः ॥ ७० ।। ७१ ॥ "बहुत्वम् " आनैक्यशब्दवाच्यम् , “स्थितिः” शेषवृत्तिशब्दवाच्या, ग्र- न्थान्तरे षष्टिपदार्थी यथा- "पुरुषः प्रकृतिर्बुद्धिरहङ्कारो गुणास्त्रयः । तन्मात्रमिन्द्रियं भूत मौलकार्थाः स्मृता दश । . १) पश्चशिरवस्य तन्त्रेषु प्रतिपादितं कापिलं शास्त्रं शिष्यपरम्परया पश्चशि- खादतितरामर्वाचीनेनेश्वरकृष्णेन स्वगुरुभ्योऽप्रकाशितनामधेयेभ्यो लब्ध्वा सप्तत्या- याभिः संक्षिप्तम् (२) नाद्या युपलब्धोऽयं निबन्धो, वाचस्पतिना तु दृष्ट इति कौमुदीतोऽवगम्यते । -- aregama ३२० साङ्ख्यतत्वकौमुदी। विपर्ययः पञ्चविधस्तथोक्ता नव तुष्टयः ।। करणानामसामर्थ्यमष्टाविंशतिधा मतम् । इति षष्टिः पदार्थानामष्टाभिः सह सिद्धिभिः” इति । सेयं षष्टिपदार्थी कथितेति सकलशास्त्रार्थकथनान्नेदं प्रकर- णम् , अपि तु शास्त्रमेवेदमिति सिद्धम् । एकत्वमर्थवत्वं, पा- रायं च प्रधानमधिकृत्योक्तम् , अन्यत्वमकर्तृत्व-बहुत्वं चेति पुरुषमधिकृत्य, अस्तित्वं -वियोगो-योगश्चेत्युभयमधिकृत्य, स्थिति:-स्थूलसूक्ष्ममधिकृत्य ॥७२॥ मनांसि कुमुदानीव बोधयन्ती सतां मुदा । श्रीवाचस्पतिमिश्राणां कृतिस्तात्तत्त्वकौमुदी ॥ १ ॥ ॥ इति षड्दर्शनटीकाकृच्छ्रीमद्वाचस्पतिमिश्रविरचिता साङ्ख्यतत्त्वकौमुदी समाप्ता॥ “विपर्यय" इत्यादि तु समाना राजवार्तिकेन ॥ ७२ ॥ शिवो जयति ।। "प्रकरणं' शास्त्रप्रतिपाद्यैकदेशमुद्दिश्य प्रवृत्तम् ।। "इति श्रीमत्सर्वतन्त्रस्वतन्त्र श्री १०८बालरामोदासीनविरचिंता साङ्ख्यतत्त्वकौमुदीव्याख्या विद्वत्तोषिणी समाप्ता ।। (१) श्रीबालरामोदासीनप्रारब्धा व्याकृतिर्मुदा । सूरिरामावतारेण कौमुद्याः सम्प्रपूरिता ॥ १ ॥ पञ्चत्रिंशत्तमश्लोकादारभ्य विदुषां मुदे । भूरिश्रमेण तेनेशो भगवान्संप्रसीदतु ॥ २ ॥ ............. . समाप्तश्चायं ग्रन्थः । १०.००८