P.p.v.p Library Bangalore
Hari Dikshitakruta Bramhasutra Vrittih
Front matter
आनन्दाश्रमसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः
(८२)
हरिदीक्षितकता ब्रह्मसूत्रवृत्तिः ।
मूल्य-पश्चिमप्ततिपणकयुवावयारो रूपकाः [४-७५ ]
No text on this page.
No text on this page.
No text on this page.
आनन्दाश्रमसंस्कृतग्रन्थावलिः।
mm
ग्रन्थाङ्कः ८२
हरिदीक्षितकृता ब्रह्मसूत्रवृत्तिः ।
एतत्पुस्तकं
वे. शा० रा. वैद्योपाकै रङ्गनाथशास्त्रिभिः
संशोधितम् ।
तच्च
हरि नारायण आपटे
इत्येतैः
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशितम् ।
शालिवाहनशकाब्दाः १८३९
खिस्ताब्दाः १९१७
(अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः)
मूल्यमाणकसप्तकाधिक रूपकद्वयम् (२७)
No text on this page.
ॐ तत्सद्ब्रह्मणे नमः। हरिदीक्षितकृतब्रह्मसूत्रवृत्तिः । रजौ सर्पवदध्यस्त यस्मिन्मायामय जगत् । नृसिंहाख्य पर ब्रह्म भावयामि तदात्मकः ॥ १ ॥ शकरभगवत्पादा विजयन्ते जगति यद्यशोब्जस्य । नाप्यद्यापि कलाऽपि द्वैताचार्यैस्त्रिमिस्त्रिविधैः ॥ २ ॥ परशिवविष्णुविरिश्चीन्वसिष्ठशक्ती पराशरब्यासौ । शुकगौडपादसज्ञौ वन्दे गोविन्दशकरौ क्रमशः ॥ ३ ॥ ओम् नमः श्रीब्रह्मविद्यासप्रदायकर्तृभ्यो महागुरुभ्यः । सह नाववतु । सह नौ भुनक्तु । सह वीर्य करवावहै । तेजस्वि- नावधीतमस्तु । मा विद्विपावहै । ओम् शान्तिः । शान्तिः । शान्तिः । गुरवे साष्टाङ्गप्रणामान्कुर्यात् । एव वेदान्तश्रवणसप्रदायः । तत्र वेदान्तशास्त्रं प्रस्थानत्रयात्मकम् । सूत्रभाष्यप्रस्थानमुपनिपद्भाष्यप्रस्थान गीताभाष्य- प्रस्थानं चेति । तत्रेदानी जिज्ञासूना सुखबोवाय सूत्रभाष्यसग्रहः क्रियते । अध्यायचतु- ष्टयात्मकस्यास्य शास्त्रस्य ब्रह्मविचारो विपयः । अध्यायास्तु चत्वार. । सर्वेपां वेदान्तवाक्याना ब्रह्मणि तात्पर्येण पर्यवसान प्रथमेनाध्यायेन प्रतिपाद्यते । द्वितीयेन संभावितविरोध. परिह्रियते । तृतीयेन विद्यासाधनानां निर्णयः । चतुर्थेनाध्या- येन विद्याफलनिर्णय इत्येतेऽध्यायार्थाः । तदुक्तम्- शास्त्रं ब्रह्मविचाराख्यमध्यायाश्च चतुर्विधाः । समन्वयाविरोधौ द्वौ साधन च फल तथा ॥ इति । तत्रैकैकाध्यायस्य चत्वारश्चत्वारः पादाः । एव पोडश पादा भवन्ति । तत्र प्रथमाध्या- यगतपादार्था उच्यन्ते । स्पष्टब्रह्मलिङ्गयुक्त वाक्यजात प्रथमपादे चिन्त्यम् । अस्पष्टब्रह्मलि- गत्वे सत्युपास्यविपयक वाक्यजात द्वितीयपादे चिन्त्यम् । तृतीयपादे ज्ञेयब्रह्मविषयं वाक्य- जातं चिन्त्यम् । चतुर्थपादे त्वव्यक्तपदमजापद चेत्येवमादिसदिग्धपदजात चिन्त्यम् । अथ द्वितीयाध्यायगतपादार्था उच्यन्ते । प्रथमपादे सांख्ययोगकाणादस्मृतिभिर्विरोधो वेदा- न्तसमन्वयस्य परिहृतः । द्वितीयपादे सांख्यादिमतानां दुष्टत्व प्रतिपादितम् । तृतीयपादे पूर्वभागेण पञ्चमहाभूतश्रुतीनां विरोधः परिहृतः । उत्तरभागेण च जीवश्रुतीनाम् । चतुर्थपादे लिङ्गशरीरश्रुतीनां विरोधः परिहृत इति । तृतीयाध्यायगतपादार्था उच्यन्ते । -- णस्य चेतने २ हरिदीक्षितकृता- [ प्रथमाध्याय प्रथमपादे जीवस्य परलोकगमनागमने विचार्य वैराग्यं निरूपितम् । द्वितीयपादे पूर्वभागेण ३.थ धित । उ रमागेण तत्पदार्थः शोधितः । तृतीयपादे सगुणविद्यासु गुणो- पसहारो निरूपितः । चतुर्थपादे निर्गुणज्ञानस्य बहिरङ्गभूतशमदमादिसाधनानि निरूपि- तानि । चतुर्थाध्यायगतपादार्था उन्यन्ते । प्रथमपादे श्रवणाद्यावृत्या निर्गुणमुपासनया सगुण वा साक्षात्कृत्य जीवतः पुण्यपापलेपविनाशलक्षणा मुक्तिरभिहिता । द्वितीयपादे म्रियमाणस्योत्क्रान्तिप्रकारो निरूपितः । तृतीयपादे मृतस्य सगुणब्रह्मविद उत्तरमार्गोऽभि- हितः । चतुर्थपादे पूर्वभागेण निर्गुणब्रह्मविदो विदेहकैवल्यप्राप्तिरभिहिता । उत्तरभागेण सगुणब्रह्मविदो ब्रह्मलोकस्थितिनिरूपिता । एव पोडशपादार्थसंग्रहः । अथ संगतिविचारः । शास्त्रसगतिरध्यायसगतिः पादसगतिश्चेति त्रिविधा संगतिः । तद्यथा ईक्षत्यधिकरणे तदै- क्षतेति वाक्यं प्रधानपर ब्रह्मपर वेति विचार्यते । तस्य विचारस्य ब्रह्मसंबन्धित्वाद्ब्रह्मवि- चारशास्त्रे सगतिः । वाक्य ब्रह्माणि तात्पर्यवदिति निर्णयात्समन्वयाध्यायसगतिः । इक्ष- ब्रह्मण्यसाधारणत्वेन स्पष्टलिगत्वात्प्रथमपादसंगतिः । एवं सर्वेष्वप्य- धिकरणेषु यथायोग सगतित्रयमूहनीयम् । अवान्तरसगतिस्त्वनेकविधा । आक्षे- पसगतिर्दृष्टान्तसंगतिः प्रत्युदाहरणसगतिः प्रासङ्गिकसगतिरित्येवमादिः । सेयमवा- न्तरसंगतियुत्पन्नेनोहितुं शक्यते । तद्यथा प्रथमाधिकरणस्य ब्रह्मविचारशास्त्रमारम्भणीय- मिति सिद्धान्त. । तत्र युक्तिः--ब्रह्मणः संदिग्धत्वादिति । द्वितीयाधिकरणस्य जगज्ज- न्मादि ब्रह्मलक्षण न भवतीति पूर्व. पक्षः । तत्र युक्ति तत्र युक्ति -जन्मादेर्जगन्निष्ठत्वादिति । तदुभयमवलोक्य तयोराक्षेपसंगतिं योजयेत् । सदिग्धत्वाद्ब्रह्म विचार्यमित्येतयुक्तम् । जन्मादेरन्यनिष्ठत्वेन ब्रह्मणो लक्षणाभाने सति ब्रह्मैव नास्ति कुतरतस्य सदिग्धत्व विचा. यत्व वेत्याक्षेपसगतिः । दृष्टान्तप्रत्युदाहरणसगती सर्वत्र सुलभे । पूर्वाधिकरणसिद्धान्तवदु- त्तराधिकरणपूर्वपक्षे हेतुत्वसाम्यस्योत्तराधिकरणसिद्धान्ते हेतुशून्यत्ववैलक्षण्यस्य चोप्रेक्षितुं शक्यत्वात् । आक्षेपादिसगतयो यथायोगमुन्नेयाः । तदुक्तम्- 'पूर्वन्यायस्य सिद्धान्तयुक्ति वीक्ष्य परे नये । पूर्वपक्षोक्तयुक्ति च तत्राऽऽक्षेपादि योजयेत् ' इति । प्रासंगिकसंगतिरुदाहियते -पूर्वाधिकरणेऽड्गुष्ठमात्रवाक्यस्य ब्रह्मरूपत्वादड्गुष्ठमात्रत्वं ब्रह्मणो मनुष्यहृदयापेक्ष मनुष्याधिकारत्वाच्छास्त्रस्येत्युक्तम् । तत्प्रसङ्गेन देवाधिकारसंगति- रिति । अस्मिञ्छास्त्र एककमधिकरण पञ्चावयवम् । विषय. सशयः सगतिः पूर्वपक्षः सिद्धान्तश्चेति पञ्चावयवाः । इत्युदाहारः समाप्तः । अथेदानी सूत्रार्थो भाष्यानुसारेण संगृ. ह्यते । तत्र शास्त्रस्य प्रथमं सूत्रम्-अथतो ब्रह्मजिज्ञासेति । आत्ता वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ' [ बृ० २ । ४ । ५ ] इत्यात्मदर्शनफलमुद्दिदय तत्साधनत्वेन श्रवणं विधीयते । श्रवणं नाम वेदान्तवाक्यानां ब्रह्मणि तात्पर्यज्ञानानकलो सत्य ज्ञानमनन्त ब्रह्म . ' प्रथमः पाद: । बह्मसूत्रवृत्तिः । न्यायादिविचारः । तदेतद्विचारविधायकं वाक्य विपयः । ब्रह्मविचारात्मकन्यायनिर्णयात्मकं वेदान्तशास्त्रमनारम्भणीयमारम्भणीय वेति संशयः । सर्वत्र पूर्वोत्तरपक्षयक्तिद्वय सशयबीज द्रष्टव्यम् । तत्र वेदान्तशास्त्रमनारम्भणीयमिति तावत्प्राप्तम् । विषयप्रयोजनाभावात् । तथा हि-सदिग्धं हि विचारस्य विपयो भवति । “सदिग्धेऽर्थे न्यायः प्रवर्तते' इति न्यायात् । ब्रह्मत्व सदिग्धम् । तत्कि ब्रह्माकारेण सदिह्यते जीवात्माकारेण वा । नाऽऽद्यः । [ तै० २।१।। ] इत्यादिभिर्ब्रह्मस्वरूपस्य निश्चितत्वात् । न द्वितीयः । अहंप्रत्ययेनाऽऽत्माकारस्यापि निश्चयात् । न च तत्त्वमसि' [छा० ६।८।७।। 'अयमात्मा ब्रह्म (बृ० २ । ५ । १९ ] इत्यादिवाक्यरैक्यप्रतिभासनादहंप्रत्ययेन च भेदप्रतिभासनात्संदेह इति वाच्यम् । अबाधिताहप्रत्ययविरोधेनैक्यश्रुतेरुपचरितार्थत्वात् । न चाध्यस्तात्मविपयत्वेन भ्रान्तोऽहप्रत्यय इति वाच्यम् । स्वयप्रकाशे ब्रह्मणि कर्तृत्वाद्य- ध्यासासंभवात् । तस्मान्न विषयः सभवति । नापि प्रयोजन पश्यामः । उक्तप्रकारेण ब्रह्मा- स्मैक्यज्ञाने जातेऽपि मुक्तेरदर्शनात् । तस्माद्ब्रह्मविचारात्मकं शास्त्रमनारम्भणीयमिति पर्वः पक्षः । सिद्धान्तस्तु--वेदान्तशास्त्रमारम्भणीयम् । विषयप्रयोजनसद्भावात् । श्रुत्यहंप्रत्य- ययोर्विरोधेन ब्रह्मणि संदेहात् । न च श्रुतेरुपचरितार्थत्वम् । उपक्रमादितात्पर्यलिङ्गसहकृ- तानेकवाक्यानामुपचरितार्थस्य वक्तुमशक्यत्वात् । अहप्रत्ययस्य तु मनुष्योऽहमित्यादौ परै रपि भ्रमत्वाङ्गीकारात् । कर्तृत्वाद्यशेऽपि श्रुतिबलाद्भमत्वमास्थेयमिति नाध्यासानुपपत्तिः । न च स्वयंप्रकाशे ब्रह्मण्यभ्यासासभव इति वाच्यम् । अनाद्यविद्यावशात्स्वयप्रकाशेऽप्यध्यास- स्यानुभवसिद्धतया स्वरूपज्ञानस्याविरोधकल्पनात् । दृष्टानुसारित्वाल्कल्पनायाः । न हि दृष्टेऽ- नुपपन्नं नाम । न चैवमविद्यानिवृत्त्यनुपपत्तावनिर्मोक्षप्रसङ्ग. । श्रवणमनननिदिध्यासनादिक्र- मेण ब्रह्मसाक्षात्कारे सत्यविद्यानिवृत्तिसभवात् । तथाच श्रुति:--' तरति शोकमात्मवित् । [छा० ७।१। ३ ] ' यो वेद निहितं गुहायाम् [ तै० २ । १ । १ ] 'सोऽ- विद्याग्रन्थिं विकिरतीह सौम्य ' [ मुण्ड०.२ । १ । १० ] इत्यादि । स्मृतिश्च--- विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तुं कः करिष्यति ॥ इत्यादि । तस्माद्विषयप्रयोजनसद्भावाच्छास्त्रमारम्भणीयमिति । इदं भाष्यं भामतीनिबन्धानुसारेणो- क्तम् । तथा हि युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोरितरे- तरभावानुपपत्तौ सिद्धायां तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिरित्यतोऽस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाध्यासस्तद्विपर्ययेण विष- यिणस्तद्धर्माणा च विषयेऽध्यासो मिथ्यति भवितुं युक्तम् । तथाऽप्यन्योन्यस्मिन्नन्योन्या- १ क. °ण वा वि।
४ होरदाक्षतकृता । प्रयमाच्या- न . त्मकतामन्योन्यधर्माश्चाध्यस्येतरेतराविवेकेनात्यन्त विविक्तयोधर्मवर्मिणार्मिथ्याज्ञाननिमित्तः स- त्यानृते मिथुनीकृत्याहमिद ममेति नैसर्गिकोऽय लोकव्यवहार इतिभाष्यम् । आहुरत्र वाच. स्पतिमिश्राः-अथ यदसदिग्धमप्रयोजनं च तत्प्रेक्षाक्प्रतिपित्सागोचरः । यथा समनस्केन्द्रियसंनिकृष्टः स्फीतालोकमध्यवर्ती घटः करटदन्तो वा तथा चेदं ब्रह्मेति व्यापकविरुद्धोपलब्धिः । अस्यार्थमाह कल्पतरु -जिज्ञास्यत्वव्यापके सदेहप्रयोजने तद्विरुद्ध चासदिग्धत्वनिष्प्रयोजनत्वे तयोरुपलब्धिः । ततश्च व्यायकाभावे व्याप्यजिज्ञास्यत्वाभाव इत्यर्थः । अत्र प्रयोगः-मुमुक्षुमा ब्रह्म न विचार्यम् । त प्रत्यसदिग्धत्वात्तथाविधकुम्भवत् । तथाऽप्रयोजनत्वात्काकदन्तवदिति । इत्यादिनोपचरितार्था एवोपनिपद इति युक्तमुत्पश्याम इत्य- न्तेन ग्रन्थेनासदिग्धत्वनिष्प्रयोजनत्वे आशक्य परिहरति - युष्मदस्मत्प्रत्ययगोचरयोरिति । अत्र युष्मदित्यादिमिथ्या भवितु युक्तमित्यन्तः शङ्काग्रन्थः । तथाऽपीत्यादिः परिहारग्रन्थ इत्यादिर्यिस्त भामत्या द्रष्टव्यः । ननु श्रवण विधीयत इत्यनुपपन्नम् । अधीतसागस्वाध्या- यस्य विदितपदपदार्थसंगत ' सत्यं ज्ञानमनन्त ब्रह्म [तै० २ । १ । १] इत्यादि- बाक्ये ब्रह्मणा विधि विनैव ज्ञातल्कात् । नन्वापातप्नतिपत्तिः साऽवधारणात्मक ज्ञानं त्वध्ययनमात्रान्न प्राप्यत इति चेन्न । तस्याविद्यानिवृत्तौ नित्यप्राप्तल्वेन विध्यनहत्वात् । न चात एव विचारः श्रवणशब्देन विवक्षित इति वाच्य विधौ लक्षणापत्तेरिति चेत् । अत्राऽऽहुः न का अरे पत्यः कामाय पतिः प्रियो भवति' इत्यादिना ' आत्मनस्तु कामाय सर्व प्रिय भवति ' [वृ० २ । ४ । ५.] इत्यन्तेनाऽऽत्मन एर निरतिशयसु. खरूपल्वेन परमपुरुषार्थत्वमुक्त्वा ' आत्मनि विज्ञाते सर्वमिद विज्ञातम् ' ।' एतावदरे खल्वमृतत्वम् ' [ बृ० ४ । ५। १५ ] इत्युपसंहारादात्मज्ञानमेव तत्प्राप्त्युपाय इति निश्चीयते । तथा चे तादृशम त्मज्ञानं द्रष्टव्य इत्यनूद्य तत्साधनाकाङ्क्षायां श्रोतव्य इत्यादिना साधनविधिरिति निश्चिते शाब्दज्ञानेऽसाधारणकारणतया विचार एव लक्षणया विधेयोऽवगम्यते । ‘त त्वौपनिपद पुरुप पृच्छामि , त त्वौपनिपद पुरुप पृच्छामि ' [ बृ० ३ । ९।२६ ] ' नावेदविन्मनुते तं वृहन्तम् ' इत्यादिश्रुत्योपनिपन्मात्रवेद्ये ब्रह्मणि मानान्तराभावात् । द्रष्टव्य इत्यत्र दर्शनसाधनाकाक्षाया वेदान्तवाक्यमेव तत्साधनम् । तच्चाविचारित न निश्चयायालमिति मनननिदिध्यासनसहकृत विचारितवेदान्तवाक्यमात्मसाक्षात्कारहेतुरित्ययमर्थः सपद्यते । न च विवौ लक्षणा क्वाप्यदृष्टचरीति वान्यम् । ' अर्धमन्तवेद्यधु बहिर्वेदि' इत्यत्र देशविशेषलक्षणाया ' जातपुत्रः कृष्णकेशोऽग्नीनादधीत' इत्यत्र वयोविशेपलक्षणायाः ' यावतोऽश्वान्प्रतिगृह्णीयात् ' इत्यत्र णिजथलक्षणायाः ' सोमेन यजेत ' इत्यत्र मत्वर्थः लक्षणायाश्च बहुलमुपलब्धेः । तस्माल्लक्षणया विचारविधियुक्तः । ननु विचारोऽपि बिचार्य- निर्णयहेतुत्वेन लोकसिद्ध इति कथ विधेय इतिचेन्न । अपूर्वविध्यसंभवेऽपि नियमविधेरव- काशात् । तथाहि-तिस्रः खलु विधेर्विधाः । अपूर्वविधिनियमविधिः परिसख्याविधि- श्चेति । तत्र कालत्रयेऽपि सानान्तराप्राप्तस्य प्राप्तिफलकोऽपूर्वविधिः। यथा 'ब्रीहीन्प्रोक्षति' . प्रथमः पादः] ब्रह्मसूत्रवृत्तिः। इति । अत्र विधिव्यतिरेकेण प्रोक्षणं केनापि प्रमाणेन न प्राप्तम् । पक्षप्राप्तस्याप्राप्तांशपरि. पूरणफलको नियमविधिः । यथा ' ब्रीहीनवहन्ति ' इति । अत्र विध्यभावे पुरोडाशप्र- कृतिद्रव्याणा तण्डुलनिष्पत्त्याक्षेपादेवावहननं प्राप्पत इति नापूर्वविधिः किंवाक्षेपान्नखवि- दलनमपि प्राप्नुयादिति तदानीमप्यवहननप्राप्त्यर्थः । द्वयोरेकत्र नित्यप्राप्तावितरनिवृत्तिफ- लकः परिसख्याविधिः । यथा इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते' इति । अत्र लिङ्गादेव मन्त्रो रशनाग्रहणे नित्य प्राप्नोतीति नापूर्वनियम विधी कि तु लिङ्गाविशे- पादश्वाभिधान्यामिव गर्दभाभिधान्यामपि मन्त्रः प्राप्नुयादिति तन्निवृत्त्यर्थः । एवं चात्रावह- न्तिवच्छ्रोतव्य इति नियमविधिः । न च व्याव-भावः । भिन्नत्मविचारस्य व्यावय॑त्वात् न च तस्य मोक्षसाधनज्ञाने प्राप्यभाव इति वाच्यम् । द्वा सुपर्णा' [ श्वे० ४ । ६ ] द्वे ब्रह्मणी वेदितव्ये ' [ मैन्यु० ६ । २२ ] इत्यादिवाक्यादापातप्रतिपत्तिदशायां तस्यापि प्राप्तिसभवात् । न च वस्तुतः साधनान्तरप्राप्तावेव नियमविधिः । अपूर्वायत्रीहिषु नखविदलनस्याप्यप्राप्तेनियमो न स्यात् । कचित्तण्डुलीभावमात्रे तत्प्राप्त्या नियमेऽत्राप्या- त्मज्ञानत्वेन भिन्नात्मविचारप्राप्त्याऽद्वितीयात्मविचारनियमविधिरस्तु । इहाऽऽत्मशब्दस्य ' इदं सर्वं यदयमात्मा ' [ बृ० ४ । ५ । ७ ] । ' आत्मनि विज्ञाते सर्वमिद विज्ञातम् । इत्यादिप्रकरणपर्यालोचनयाऽद्वितीयात्मपरत्वात् । समन्वयसूत्रे भगवत्पादैः श्रोतव्य इत्यत्राss- त्मज्ञानविधिनिराकृतो न तु ज्ञानोद्देशेन विचाराविधिरिति न तद्विरोधोऽपीति ज्ञेयम् । तस्माद्विचारविधौ न किंचिद्बाधकमिति । एवं स्थिते श्रवणविधेरपेक्षिताधिकारिविष्यफलान्या- गमिकान्यपि न्यायेन निर्णेतुमिदं सूत्रम्- अथातो ब्रह्मजिज्ञासा ॥ १ ॥ अत्र सूत्रेऽनुवादपरिहाराय शास्त्रे पुरुषप्रवृत्तिसिद्धये च कर्तव्येतिपदमध्याहर्तव्यम् । जिज्ञासापदेन विचारो लक्षणीयः । अथशब्देन च साधनचतुष्टयानन्तर्याभिधानम् । साधन- चतुष्टयं च नित्यानित्यवस्तुविवेक इहामुत्रार्थभोगविरागः शमादिसंपत्तिर्मुमुक्षुत्व चेति । यद्यपि मुमुक्षायां सत्यां बिचारप्रवृत्तौ न विलम्बस्तथाऽपि विवेकादीना मुमुक्षासाधनत्वे- नोपयोगः । कर्तृत्वभोक्तृत्वादेरध्यस्तत्वमतःशब्देन सूच्यते । तेन ज्ञानेन बन्धनिवृत्तिलक्षणो मोक्षः सिध्यति । तथा च साधनचतुष्टयसंपन्नेन यतो बन्धस्याध्यस्तत्वमतो बन्धनिवृत्तये मोक्षसाधनब्रह्मज्ञानाय वेदान्तवाक्यविचारः कर्तव्य इति सूत्रार्थः संघद्यते । अध्यासस्तु स्मृतिरूपः परत्र पूर्वदृष्टावभास इति । अत्र परत्रावभास इत्येव लक्षणम् । शिष्टपदद्वयं तदुपपादनार्थम् । तथा हि-अवभासत इत्यवभासो रजताद्यर्थः । तस्यायोग्यमधिकरणं परत्रपदार्थः । अधिकरणस्यायोग्यत्वमारोप्यात्यन्ताभाववत्त्वम् । तथा चैकावच्छेदेन स्वस सृज्यमाने स्वात्यन्ताभाववत्यधिकरणेऽवभास्यत्वमध्यस्तत्वमित्यर्थः । सयोगेऽतिव्याप्तिवारणा यैकावच्छेदेनेति । संयोगस्य स्वसंसृज्यमाने वृक्षे स्वात्यन्ताभाववत्यवभास्यत्वेऽपि स्वस्त्रात्य - मायामा- , , हरिदीक्षित कृता- [ प्रथमाध्याय- न्ताभावयोर्मूलाग्रावच्छेदेन भेदान्नातिब्याप्तिः । पूर्व स्वाभाववति भूतले पश्चादानीतो घटो भातीति घटऽतिव्याप्तिवारणाय स्वससृज्यमानेति । अध्यासोऽविद्येत्यनन्तरम् । अध्या- सस्य दुर्निरूपत्वमलंकारायेति विद्यारण्यपादा आहुः । अध्यासस्य मिथ्यात्वे ' त्रमिदं द्वतम् ' [ गौड० १।१७ ] अनृतेन हि प्रत्यूढाः । [छा० ८।३ । २] ' नीहारेण प्रावृता.' इत्याद्याः श्रुतयः — अज्ञानेनाऽऽवृत ज्ञानम् ' [भ० गी० ५।१५ । इत्याद्याः स्मृतयश्च महतामनुभवश्च प्रमाणम् । किं चाध्यासस्य ज्ञाननिवर्त्यत्वं श्रुतिसिद्धम् । श्रुतयस्तु-' तमेव विदित्वाऽति मृत्युमति ' । मृत्युमविद्यामित्यर्थः । ' तस्याभिध्यानाद्यो- जनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः । [ श्वेता० १ । १० ] ' तरत्यविद्या वितताम् ' । ' अविद्यायाः पर पारं तारयसीति ' [ प्रश्नो० ६ । ८ ] इत्याद्याः । ' दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेता तरन्ति ते [ भ० गी० ७।१४ ] ॥ 'ज्ञानेन तु तदज्ञानं येपां नाशितमात्मनः । तेषामादित्यवज्ञान प्रकाशयति तत्परम् ' [ भ० गी० ५।१६ ॥] इत्यादिस्मृतिषु प्रसिद्धम् । श्रुतार्थापत्तिश्च -जीवस्य ब्रह्मज्ञानाद्ब्रह्मभावः श्रूयमाणस्त- प्रतिबन्धकाज्ञाननिवृत्तिमन्तरेण नोपपद्यत इति । सत्यस्य बन्धस्य प्रमाणसहस्रेणाप्यनिव- य॑त्वान्मिथ्यात्वम् । भेदवादिदर्शनं तु व्यावहारिकार्थप्रतिपादकमेव न परमार्थप्रतिपाद- कमिति दिक् ॥ १॥ (१) यस्य ब्रह्मणो जिज्ञासा कर्तव्येत्युक्तं तस्य किं लक्षणमित्याकाक्षायां तल्लक्षणार्थ सूत्रम्- जन्माघस्य यतः ॥२॥ (२) ' यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति' । [तै० ३ । १ । १] ' सत्य ज्ञानमनन्तं ब्रह्म [ तै० २ । १ । १ ] इतिवाक्यद्वयं विषयः । तत्र श्रूयमाणं ब्रह्मलक्षणं न घटते घटते वेति सशयः । न घटते । तथा हि-किं जन्मादिकं तल्लक्षणं सत्यादिकं वा । नाऽऽद्यः । तस्य जगन्निष्ठत्वेन ब्रह्मसबन्धाभावात् । न द्वितीयः । लोकप्रसिद्धसत्यज्ञानादिस्वीकारे भिन्नार्थत्वादखण्डब्रह्मासिद्धेः । अप्रसिद्धस्य सत्यादेर्लक्षणत्वानुपपत्तेश्च । तस्मात्तटस्थलक्षणं स्वरूपलक्षण वा न घटत इति पूर्वः पक्षः । अत्रोच्यते-जन्मोत्पत्तिरादिरस्येति तद्गुणसं विज्ञानो बहुव्रीहिः । जन्मस्थितिभङ्गे समासार्थः । पूर्वसूत्राद्ब्रह्मपदमनुवर्तते । तच्छब्दश्चा- ध्याहार्यः । तेनास्य प्रपञ्चस्य यतः सकाशाजन्मादि भवति तद्ब्रह्मेति सूत्रार्थः । यदुक्तं जन्मा- दिकं प्रपञ्चनिष्ठं ब्यधिकरणत्वान ब्रह्मलक्षणम् । तदसार जन्मादेरन्यनिष्ठत्वेऽपि तत्कारणत्व ब्रह्माणि कल्पितं तटस्थलक्षणं भविष्यति । कल्पितप्रपञ्चप्रतियोगिककारणत्वस्य ब्रह्मणि यतः : . प्रथमः पादः। ब्रह्मसूत्रवृत्तिः। कल्पितत्त्वेन ब्रह्मस्वरूपत्वाभावात् । स्वरूपभिन्नत्वे सति व्यावर्तकत्व तटस्थत्वम् । यो भुजङ्गः सा स्रगितिवद्यज्जगञ्जन्मादिकारणं तद्ब्रह्मेति कल्पितेनापि लक्षणेनोपलक्षयितु शक्यत्वात् । यद्यप्यव्यभिचाराज्जन्मादिकारणत्वं प्रत्येकमपि लक्षण संभवति तथाऽपि जन्मकारणत्वमात्र निमित्तकारणेऽप्यस्ताप्युपादानकारणप्राप्तये लयग्रहणम् । न हि निमित्त- कारणे कार्यलयः संभवति । न च तावतैवोपादानत्वलाभादुत्पत्तिस्थितिग्रहणं व्यर्थमिति चाच्यम् । उत्पत्तिस्थित्योरन्य एवाधिष्ठाता स्यात् । कुम्भकार इव कुम्भोत्पत्तौ राजेव राज्यस्थेम्नीति मा शड्कीरित्युत्पत्तिस्थितिग्रहणेन ब्रह्मैवाभिन्ननिमित्तोपादानमिति प्रतिपत्तये तदुभयग्रहणात् । अत्र जगज्जन्मादिकारणं सगुण ब्रह्मैव । अस्य जगतो नामरूपाभ्यां व्याकृतस्यानेककर्तृभोक्तसयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाऽप्यचि- न्त्यरचनारूपस्य जन्मस्थितिभङ्ग सर्वज्ञात्सर्वशक्तेः कारणाद्भवति तद्ब्रह्मेति वाक्यशेष इति भाष्यात् । स्वरूपलक्षण तु सत्य ज्ञानमनन्तं ब्रह्म [ तै० २।१।१] इतिवाक्यप्रतिपादित सत्यादिस्वरूपत्वम् । ननु सत्यत्वादेब्रह्मणः सकाशाद्भदे स्वरूपलक्ष- णत्वं न स्यादभेदे वाक्यासिद्धिः । गुणप्रधानभावापन्नपदार्थसंसर्गो हि सर्वत्र वाक्यार्थः । नचाभेदे तत्संभव इति चेन्न । यत्र पदार्थः प्रमितस्तत्र संसर्गो वाक्यार्थः । यत्र पदार्थ- प्रमितिपरः पदसदर्भस्तत्राखण्ड एव वाक्यार्थः । यथाऽस्मिञ्ज्योतिर्मण्डले कश्चन्द्र इति प्रश्ने प्रकृष्टप्रकाशश्चन्द्र इति वाक्यमखण्डचन्द्रस्वरूपप्रतिपत्तिपरम् । न च प्रकृष्टप्रकाश. वैशिष्टय वाक्यप्रमेयम् । मानान्तरासिद्धत्वात् । नापि चन्द्रत्ववैशिष्टयम् । एकव्यक्तितया चन्द्रत्वजातेरभावात् । न च चन्द्रशब्दवाच्यत्ववैशिष्टयम् । तस्यापृष्टत्वात् । स्वरूपमात्रप्रश्ने तस्याभिधानानौचियात् । किं च लक्षणवाक्ये न पदार्थससर्गपरत्वनियमः । तथाहि कीदृशं ब्रह्मेति बुभुत्सायां सत्यादिभिश्चतुर्भिः पदैस्तत्स्वरूपमुच्यते । तानि च पदानि समानाधि- करणत्वाद्विशेपणविशेष्यरूपाणि । तत्र वेद्यतया विवक्षितत्वात्प्रधानं ब्रह्म विशेष्यम् । सत्यादिपदानि स्वार्थविपरीतेभ्यस्तद्ब्रह्म व्यावर्तयन्ति । नन्वेकमेव ब्रह्म तस्य व्यावत्या- भावात्सत्यादिविशेषणानि व्यर्थानीति चेन्न । तेषां लक्षणरूपविशेषणत्वेन व्यावहँस- द्भावात् । सजातीयमात्राट्यावर्तक विशेषणं विजातीयाव्यावर्तकं लक्षणमिति तयोविवेकः । तथा चासत्यजडपरिच्छिन्नेभ्यो व्यावृत्तये सत्यादिपदानि भविष्यन्ति । एवमानन्दपदमपि दुःखच्यावृत्तये । अवकाशरूपमाकाशमित्येतस्मिल्लक्षणे सजातीयस्याऽऽकाशान्तरस्य व्याव- य॑स्याभावेऽपि विजातीयानि मूर्तद्रव्याणि यथा व्यावर्त्यन्त तद्वत् । यद्वस्तु कदाऽपि न व्यभिचरति तत्सत्यमित्युच्यते । यथा सर्पस्याधिष्ठानभूता रज्जु । यस्य तु व्यभिचारोऽस्ति तदनृतम् । यथा रज्ज्वा प्रतीतः सर्पः । तथा सर्वजगदधिष्ठानभूत ब्रह्म मुक्तावपि व्यभिचाराभावात्सत्यम् । ज्ञानबाध्यत्वेन मुक्तौ व्यभिचरितत्त्वाज्जगदनृतम् । ननु रम्भणं विकारो नामधेय मृत्तिकेल्येव सत्यम् । [छा० ६।१।४] इति श्रुतेर्ब्रह्म जडं वाचाSS- - - हारदीक्षितकृता- [ प्रथमाध्याये- भवितुमर्हति मृत्तिकावदित्याशङ्कय ज्ञानमित्युच्यते । व्यावहारिकसत्यत्वेन मृत्तिकाया जडत्वं ब्रह्म तु परमार्थिकसत्यत्वाचिद्रूपमित्यभिप्रायः । ब्रह्म परिच्छन्नं भवितुमर्हति घटज्ञानवदि- त्याशङ्कयानन्तमित्युच्यते । ज्ञायते स्फोर्यते घटादिकमनेनेति व्युत्पत्त्या घटस्फुरणयोः संबन्धजनको वृत्तिविशेषो लोके ज्ञानशब्दार्थः । तस्माद्युक्त तस्य ज्ञानस्य परिन्छिन्नत्वम् । इह तु ज्ञप्तिर्ज्ञानमिति व्युत्पत्त्या स्फुरणमेवोच्यते तस्य ब्रह्मरूपस्य स्फुरणस्यानन्तत्व युक्तमेव तदेव सत्यादि]शब्दैमिथ्यात्वजाड्यपरिच्छेदेभ्यो यद्ध्यावर्तितं तद्ब्रह्मेति वाक्यार्थः सपद्यते । ननु विशिष्टवाचकैः सत्यादिपदैः कथमखण्डबोध इति चेत् । लक्षणयेति गृहाण । उक्त च कल्पतरौ–उपायस्तु वैशिष्टयमखण्डचन्द्रप्रतिपत्तौ । तच्चा- विरोधाच्चन्द्रे न बाध्यते सत्यादिवाक्ये तु सत्यादिपदैर्वैशिष्टयमभेदश्रुतिसहस्राबाध्यत इति । किं च सत्यादिपदानामनृतादिव्यावर्त्यसद्भावादपर्यायत्वम् । तदुक्तम् । अविशिष्टमपयां- यानेकशब्दप्रकाशितम् । एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे' इति । शिववि- ष्णुकारणवादस्त्वीश्वरकारणवादेन गतार्थत्वादाग्रहमूलक एव । विस्तरस्त्वाकरादवगन्तव्यः ॥२॥ (२) जगत्कारणत्वेन सर्वशं ब्रह्मेत्युपक्षिप्तं तदेव द्रढयन्नाह शास्त्रयोनित्वात् ॥३॥ (३) जगत्कारणत्वेनोक्तमार्थिकं सर्वज्ञत्वं हेत्वन्तरेण समर्थयति । अस्य महतो भूतस् निश्वसितमेतद्यदृग्वेदा यजुर्वेदः सामवेदः' [बृ० २ । ४ । १०] इति वाक्य विषयः यदृग्वेदादिक तदेतस्य महतो भूतस्य नित्यसिद्धस्येश्वरस्य निःश्वास इवायत्नेन जातमित्यर्थः ब्रह्म वेद न करोति करोति वेति संदेहः । न करोतीति पूर्वपक्षः । वेदस्य नित्यत्वात् वाचा विरूपनित्यया ' इत्यस्मिन्मन्त्रे विरूपेति देवतां सबोध्य नित्यया वाचा स्तुति प्रेरयति प्रार्थ्यते । नित्या वाग्वेद एव । अनादिनिधना नित्या वागुत्सृष्टा स्वयभुवा आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ' इति श्रुतिस्मृतिभ्याम् । अतो ब्रह्म न वेदस्य कर्तृ । तस्मान्न सर्वकारणत्व ब्रह्मण इति प्राप्ते ब्रूमः । ब्रह्म वेदस्य कर्तृ भवितुमर्हति । निःश्वसितन्यायेन ब्रह्मणः सकाशादप्रयत्नेन वेदोत्पत्तिश्रवणात् । ' तस्माद्यज्ञात्सर्वहुत ऋच सामानि जज्ञिरे' इति श्रुत्यन्तराच्च । सर्वहुतः सर्वैर्यहूयमानाद्यज्ञशब्दवान्यादीश्वराहगादीनि जातानीत्यर्थः । तस्माद्ब्रह्म वेदस्य कर्तृ । न चैवं वेदस्य पौरुषेयत्वापत्तिः । पूर्वपूर्वानुपूर्वीस जातीयानुपूर्वीकत्वेनानादित्वादपौरुषेयत्वात् । ' धाता यथापूर्वमकल्पयत् ' [म० ना० ५'७ इति श्रुत्या पूर्वकल्पानुपूर्वीसजातीयानुपूर्वीकवेदराशेरुत्पत्त्यवगमात् । अत एव सजातीया नादितया प्रवाहरूपेण वेदाना नित्यता । वास्तवनित्यत्वं तु न कस्याप्यस्ति । अद्वैतश्रुतेः । तस्मात्सर्वजगद्व्यवस्थावभासकस्य वेदस्य कर्तृत्वाद्ब्रह्मणः सर्वज्ञत्व सिद्धम् । अस्य सूत्रस्य द्वितीयं वर्णकम्---' तं त्वौपनिषदं पुरुषं पृच्छामि' [ बु० ३।९।२६ 1 इति शाकल्यं प्रथमः पादः ] ब्रह्मसूत्रवृत्तिः। मति याज्ञवल्क्येनोक्ते वाक्ये परब्रह्मरूपस्य पुरुषस्योपनिषद्वेद्यत्वं प्रतीयते । तद्वाक्यं विषयः। तब ब्रह्मणः प्रत्यक्षादिप्रमाणगम्यत्वमस्ति न वेति संशयः । पूर्वपक्षस्तु-अड्कुरादिकं सकर्तृक कार्यत्वाद्धटवदित्यनुमानमपि ब्रह्मण्यङ्गीकर्तव्यमितिप्राप्ते ब्रूमः । ब्रह्म मानान्तरवेद्यं न भवति । कुतः । शास्त्रयोनित्वात् । शास्त्रं वेदो योनिः प्रमाण यस्य तथात्वादित्यर्थः । 'तं त्वौपनिषदं पुरुष पृच्छामि' [बृ० ३ । ९ । २६ ] इति श्रुल्या समर्थाधिकारविहित- तद्धितेनोपनिषत्स्वेवाधिगत इति प्रतीतेः । 'नावेदविन्मनुते तं बृहन्तम् ' इति श्रुत्या स्पष्टं मानान्तरनिषेधाच्च ब्रह्मण उपनिषन्मात्रवेद्यत्वम् । भाष्यकारैर्जन्मादिसूत्रे श्रुत्यादयोऽनुभवाद- यश्च यथासंभवमिह प्रमाणमित्यन्यमेयत्वमङ्गीकृतमिति चेद्बाढम् । प्रथमतः श्रुत्यैव प्रमिते ब्रह्मणि पश्चादनुवादरूपेणानुमानानुभवयोरङ्गीकारात् । अत्रानुमानादि प्रमाणं श्रुत्यनुग्राहकतयै- चोपयुज्यते न स्वातन्त्र्येण । ननु ' यतो वाचो निवर्तन्ते ' [तै० २ । ४ । १] इति श्रुतेर्वेदवेद्यत्वमपि कथमिति चेन्न । वेदान्तजन्यवृत्तिविषयत्वेन शास्त्रयोनित्वं चैतन्याविषय- त्वेनाप्रमयेत्वमित्युभयश्रुत्युपपत्तेरिति दिक् ॥ ३ ॥ (३) तत्तु समन्वयात् ॥४॥ (४) पूर्वसूत्रे द्वितीयवर्णके शास्त्रप्रमाणकत्वमुक्त तदत्राऽऽक्षिप्य समाधीयते । वेदान्ताः किं कर्मशेषभूतकर्तृप्रतिपादका उत नित्यशुद्धबुद्धोदासीनब्रह्मप्रतिपादका इति सशये जीवप्रति- पादकाः सर्वे कर्माङ्गकर्तृपतिपादनपराः । ब्रह्मप्रतिपादकाश्च देवताप्रकाशनपराः सृष्टिप्रति- पादकाः साधनपरा इति । तथा सत्यनुष्ठानोपयोगितया वेदान्ताना सप्रयोजनत्वं भविष्यत्य- न्यथा निष्प्रयोजनत्वं स्यादिति पूर्वः पक्षः। सिद्धान्तस्तु तत्तु समन्वयात् । तुशब्दः पूर्वपक्षनि- रासार्थः । तच्छब्देन वेदान्तेषु ब्रह्मैव प्राधान्येन प्रतिपाद्यत इति प्रतिपाद्यते । कुतः । समन्वयात् । सम्यगन्वयः समन्वयः । अन्वयस्य सम्यक्त्व तात्पर्यवत्त्वम् । वेदान्ता न कादिप्रतिपादकाः । भिन्नप्रकरणस्थत्वात् । नोपासनाविधिशेषाः । तत्त्वमसि' [छा० ६।८। ७ ] इत्यादेरुपासनाविधिरहितस्यैव बहुलमुपलब्धेः । स्वरूपज्ञानादपि नायं सर्प इतिवदनर्थनिवृत्तिप्रयोजनसंभवेन कथचिद्विशेषकल्पनायोगात् । न च कार्य एवार्थे लोके पदानां व्युत्पन्नत्वात्कार्यपरत्व कल्पनीयम् । पुत्रस्ते जात इत्यादौ सिद्धेऽपि व्युत्पत्ति- दर्शनात् । ' सदेव सौम्येदमन आसीत् ' [ छा० ६ ।२।१] 'एकमेवाद्वितीय ब्रह्म ' बृ० २।५ । १९] इत्यादिषु तात्पर्यतः सिद्धब्रह्मप्रतिपादनपरे समन्वयेऽव- गम्यमाने सिद्धज्ञानस्यापि ' तरति शोकमात्मवित्' [ छा० ७ । १ । ३ ] इत्यादिश्रु- तिभिरनर्थनिवृत्तिलक्षणप्रयोजने बाऽवगम्यमाने कार्यपरत्वकल्पनानौचित्यात् , तात्पर्यग्राहक लिङ्गषट्क पूर्वाचार्यैदर्शितम् ' उपक्रमोपसहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ' इति । ' सदेव सौम्येदमग्रआसीत् ' [ छा० ६ । २ । १ ] इत्युपक्रमः । ' ऐतदात्म्यमिदं सर्व तत्सत्य स आत्मा तत्त्वमसि' [ छा० ६ । ८ । ७ ] . १० हरिदीक्षितकृता- [ प्रथमाध्याये- इत्युपसंहारः । तयोर्ब्रह्माविषयत्वेनेकरूपमेक लिङ्गम् । ' तत्त्वमसि' इति नवकृल्योऽभ्यासः । मानान्तरागम्यत्वमपूर्वत्वम् । एकविज्ञानेन सर्वज्ञानं फलम् । उत्पत्तिस्थितिप्रलयप्रवेशनिय- मनानि पञ्चार्थवादाः । यथा सौम्यैकेन मृत्पिण्डेन विज्ञातेन सर्व मृन्मय विज्ञातं स्यात् । [ छा० ६।१ । ४ ] इत्यादिमृदादिदृष्टान्ता उपपत्तयः । एतैर्लिङ्गैर्ब्रह्मपरत्वनिश्चयान्ना- कस्माद्विधिशेपकल्पन युक्तम् । ननु सिद्धब्रह्मप्रतिपादने प्रयोजनाभावात्प्रयोजनवत्कर्मशेषत्वं रक्तव्यम् । न चाविद्यानिवृत्तिस्तत्प्रयोजनम् । सा कि ब्रह्मभिन्नाऽभिन्ना वा । आद्ये सत्या मिथ्या वा । नाऽऽद्यः। अद्वैतभङ्गात् । न द्वितीयः। मोक्षस्य मिथ्यात्वेनानित्यत्वप्रसक्त्या पुनः संसारापत्तेः । न चरम । ब्रह्मणो नित्यसिद्धतया निवृत्त्यनुपपत्तेर्मुक्तिससारयोरविशे- पप्रसङ्गाच्च । ब्रह्मस्वरूपस्येदानीमपि विद्यमानत्वादिति चेन्न । अविद्यानिवृत्तिह्मभिन्नैव । न चाद्वैतहानिः । भावाद्वैतस्वीकारात् । न च तत्र प्रमाणाभावः । मोक्षप्रतिपादकशास्त्रस्यैव प्रमाणत्वात् । अन्ये तु अविद्यावत्तन्निवृत्तिरप्यनिर्वचनीयैव । न चानिर्वचनीयस्याविद्यो- पादानकत्वादविद्यानुवृत्तौ संसारानुवृत्तिप्रसङ्ग इति वाच्यम् । अविद्यानुवृत्तौ मानाभावात् । ' सोऽविद्याग्रन्थि विकिरतीह सौम्य ' [ मुण्ड० २ । १ । १० ] इत्यादिश्रुतिविरोधाच । वर्णकान्तरम् । एकदेशी मन्यते । ब्रह्मपरत्वेऽपि वेदान्ता न ब्रह्मण्येव पर्यवसिताः किंतर्हि पारोक्ष्येण ब्रह्मतत्त्व प्रतिपाद्य पश्चादपरोक्षप्रतिपत्तिं विदधति । तथा च सति पुरुषप्रवृत्ति- परत्वाच्छास्त्रमुपपद्यते । किं च श्रोतव्य इति श्रवणं शाब्दज्ञानात्मकं विधायाथ मन्तव्यो निदिध्यासितव्य इत्यनुभवज्ञानात्मकं मननादिकं स्पष्टमेव विधीयते । तस्मात्प्रतिपत्तेर्विधातारो वेदान्ता इति प्राप्ते ब्रूमः । तुशब्दः पूर्वपक्षनिरासार्थः । तद्ब्रह्मैव सर्ववेदान्तैः प्राधान्येन प्रतिपाद्यत । न तु विधिपरैरिति प्रतिज्ञा । कुतः । समन्वयात् । सिद्धब्रह्मण्येव वेदान्तानां विधिमन्तरेणापि सम्यगन्वयादित्यर्थः । अय भावः-विधि विनाऽपि सिद्धब्रह्मज्ञानेनानर्थनिवृत्ते.। पुरुषार्थस्य प्रतिपादनाच्छास्त्रत्व सभवतीति न विधिपरत्वं कल्पनीयम् । न च श्रोतव्य इति विधिश्रवणात्तत्परत्व कल्पनीयभिति वान्यम् । आत्मज्ञानविधेनिराकृतत्वात् शास्त्र वनुष्ठेयशासन एव न नियतम् । सिद्धवस्तुशसनेनापि तदुपपत्तेः । ननु एतत्म- त्यवेक्षितमाज्य भवति' इतिवदात्मज्ञानेऽपि विधिरस्त्विति चेन नित्यशुद्धबुद्धोदासीन आत्मन्युत्पत्त्याप्तिविकृतिसस्कृतिरूपाणा चतुर्णा क्रियाफलानामभावात् । ननु 'श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः । ज्ञात्वा तु सतत ध्येय एते दर्शनहेतवः ॥ इतिवचनाद्दर्शनसाधनत्वेनैव श्रवणादौ विधिरस्त्विति चेन्न । परोक्षं वा शाब्दज्ञानं दर्शन- साधनत्वेन विधीयतेऽपरोक्षं वा । नाऽऽद्यः । दशमस्त्वमसीत्यादावपरोक्षे वस्तुनि शब्दस्याप्यपरो- क्षज्ञानजनकत्वेनापरोक्षे ब्रह्मणि शब्दस्य परोक्षज्ञानजनकत्वायोगात्। न चेन्द्रियजन्यत्वेनापरो- क्षत्वं व्याप्तम् । तच्च न शब्दजन्यज्ञान इति कथमापरोक्ष्यमिति वाच्यम् । इन्द्रियजन्यत्वस्याऽऽपरो- ' मायां तु . प्रथमः पादः ] ब्रह्मसूत्रवृत्तिः। ११ क्ष्याप्रयोजकत्वात् । परमत ईश्वरज्ञानस्याजन्यस्याप्यपरोक्षन्वात् । सिद्धान्ते ब्रह्मणस्तथा- त्वाच्च । एव च नित्यापरोक्षे ब्रह्मणि शब्दादप्यपरोक्षमेव ज्ञान जन्यते न तु परोक्षम् । न द्वितीयः । तस्यैव तत्प्रति विधानायोगात् । तस्मान्न विधिपरा वेदान्ताः कि तु सिद्धब्रह्म- प्रतिपादनपरा इति सिद्धम् । यत्त कश्चिदाह-अस्तु शास्त्रैकगम्यता विष्णोस्तथाऽपि शास्त्रत एव शिवविरिञ्च्योरपि जगत्कर्तृत्वप्रतीतेरतिव्याप्तिरिति पूर्वपक्ष प्रापय्य सम्यग्विचा- रितादुपक्रमादितात्पर्यलिङ्गरूपादन्वयाद्विप्ण्वाख्य ब्रह्मैव जगत्कारणतया शास्त्रगम्यमिति सिद्धान्त इति । अत्र सिद्धान्तो दुरुपपादः । तथा हि श्वेताश्वतरोपनिषदि शिव एव जग- त्कर्ता प्रतीयते । यदाऽतमस्तन्न दिवा न रात्रिन सन्नचासशिव एव केवलः। तदक्षर तत्सवितुर्वरेण्य प्रज्ञा च तस्मात्प्रसृता पुराणी' [श्वे० ४ । १८ ] इति । प्रकृति विद्यान्मायिन तु महेश्वरम् ' । [ श्वे० ४ । १० ] कारण तु ध्येयः सर्वैश्वर्यस- पन्नः सर्वेश्वरः शंभुः । ' सोऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसभवम् । वामपार्धात्तथा विष्णु लोकरक्षार्थमश्विरम् । युगान्ते चैव समाप्ते रुद्र शभुरथासृजत् ' इत्यादिभिरनेकश्रुतिस्मृ- तिप्रमाणैः शिव एव जगत्कारणत्वमवसीयते । अस्मसिद्धान्ते तु सगुण ब्रह्मैव जगत्का- रणं तस्यैव ब्रह्मादयो लीलाविग्रहास्तेपां पूज्यत्वाविशेषेऽपि न हि निन्दान्यायेन कस्य- चिन्निकर्षोक्तिरिति दिक् ॥ ४ ॥ (४) ईक्षते शब्दम् ॥ ५॥ ब्रह्मलक्षणस्य प्रधानादावतिव्याप्तिनिरासायेदमधिकरणम् । छान्दोग्ये षष्ठाध्याये 'सदेव सौम्येदमग्र आसीत् ' [ बृ० ६ । २ । १ ] ' एकमेवाद्वितीयं ब्रह्म ' [ बृ० २ ५। १९ ] इति प्रस्तुत्य ' तदैक्षत बहु स्यां प्रजायेयेति । तत्तेजोऽसृजत ' [ छा० ६ २ । ३] इति श्रूयते । तदेतद्वाक्यजातमस्य सूत्रस्य विषयः । अत्र संशयः । तत्र सांख्यो मन्यते । सच्छब्दवाच्यं जगत्कारण प्रधान न तु ब्रह्म । प्रधानस्य सत्त्वगुणयुक्त- तया परिणामितया च ज्ञानशक्तिक्रियाशक्तिसंभवात् । निर्गुणस्य कूटस्थस्य ब्रह्मणस्तदसं. भवादिति । अत्रोच्यते-सांख्यादिपरिकल्पितं प्रधानं जगत्कारण न भवति । कुतः । अशब्दमिति । हेतुगर्भ विशेषणमेतत् । अशब्दत्वात् । अवेढमूलत्वादित्यर्थः । अवेदमू- लकत्वे हेतुरीक्षतेरिति । ' सदेव सौम्य ' [ बृ० ६ । २ । १] इत्याद्युक्तकारणवाक्येषु आत्मा वा इदमेक एवाग्र आसीत् । नान्यत्किंचन मिषत् । स ईक्षत लोकान सृजा इति स इमॉल्लोकानसृजत ' [ ऐत० १ । १] इत्यादिकारणवाक्येषु च सदादि- शब्दप्रतिपाद्यस्य ब्रह्मण एवेक्षापूर्वकं तेजःप्रभृतिस्रष्टृत्वप्रतिपादनात् । अचेतनस्य प्रधा- नस्येक्षितृत्वायोगात् । ज्ञानक्रियाशक्ती तु ब्रह्मणि मायया सभविष्यतः । ' पराऽस्य शक्ति , . तथा १ क. स ऐक्ष।
- हरिदीक्षितकृता- [प्रथमाध्याये- विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ' [ श्वे० ६ । ८ ] इति श्रुतेः । स्वाभा- विकी यावद्वयवहारमनपायिनीत्यर्थः । ननु ' अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । [ श्वे० ४ । ५ ] इत्यनया श्रुत्याऽजाशब्दवाच्यस्य प्रधानस्य जगा- कारणत्व श्रूयत इति चेत् । सदनुविद्धस्यैव तन्न स्वतन्त्रस्येति गृहाण। परिणाम्युगादानत्वं प्रधानस्य विवर्तोपादानत्व ब्रह्मण इति सिद्धान्तः। सांख्यैस्तु प्रधानमेव जगत्कारणमित्युक्तं तदनेनाधिकरणेन खण्डितमिति दिक् ॥ ५॥ ननु ' तत्तेज ऐक्षत ' [ छा० ६ । २ । ३] ' ता आप ऐक्षन्त ' [ छा० ६ । २।४ । ] इत्यत्राप्तेजसोरिव प्रधानेऽपीक्षितृत्वं गौणमस्तु तत्राऽऽह- गौणश्चेन्नाऽऽत्मशब्दात् । ईक्षतिशब्दः प्रधाने गौण इति चेन्न । किं कारणम् । आत्मशब्दात् । आत्मशब्दश्रक- णादित्यर्थः । ' सदेव सौम्येदमग्र आसीत् ' [बृ० ६।२। १ ] इत्युपक्रम्य ' तदैक्षत' 'तत्तेजोऽसृजत' [छा० ६।२।३] इति तेजोबन्नानां सृष्टिमुक्त्वैतदेव प्रकृतमीक्षित । तत्क- र्तृकानि च तेजोबन्नानि परामृश्याऽऽह - सेयं देवतक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति' [छा० ६।३।२ ] । तत्र यदि प्रधानमेवेक्षित्रिति गुणवृत्त्या कल्प्येत । तदेव प्रकृतत्वात् । ' सेयं देवतेति ' परामृ- श्येत । तदा देवतात्मानं जीवमात्मशब्देनाभिदध्यात् । जीवो हि नाम चेतनः शरीरा- ध्यक्षः । स कथमचेतनस्य प्रधानस्याऽऽत्मा भवितुमर्हति । आत्मा हि नाम स्वरूपम् । ब्रह्मणि तु जीवविषय आत्मशब्द उपपद्यते अयमात्मा ब्रह्म' [बृ० २।५।१९] इति.. श्रुतेः। नाऽऽत्मता ब्रह्मणोऽन्यत्र ब्रह्मता नाऽऽत्मनोऽन्यतः । सामानाधिकरण्यं च नीलोत्पलविलक्षणम् ॥ इति वचनाच्च । तस्मान गौणमीक्षितृत्व प्रधानस्य सभवतीति सिद्धम् ॥ ६ ॥ ननु यथैक एव ज्योतिःशब्दः क्रतुज्वलनविषयस्तथैक एवाऽऽत्मशब्दोऽपि नानार्थक तया ममाऽऽत्मा भद्रसेन इतिवदुपचारेण वा प्रधाने वर्तताम् । आत्मशब्दादीक्षतेरगौणत्वं तत्राऽऽह-- तनिष्ठस्य मोक्षोपदेशात् ॥ ७॥ न प्रधानमात्मशब्दवाच्यम् । कुतः । तन्निष्ठस्य श्वेतकेतोश्चेतनस्य मोक्षयितव्यस्य 'स आत्मा' [छा० ६। १६ । ३ ] इति प्रकृतं ' स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्वं १ क. बह्री प्रजां जनयन्ती स° ।
, प्रथमः पादः ]] ब्रह्मसूत्रवृत्तिः। स आत्मा तत्त्वमसि श्वेतकेतो' [ छा०६।८७ ] इति सदणिमानमादाय मोक्षोपदेशात् । न हि चेतनस्याचेतनतादात्म्यं वास्तव सभवतीति तादात्म्यशास्त्रमप्रमाणं स्यात् । तस्माच्चे- तनविषय एवाऽऽत्मशब्दः ॥ ७॥ ननु गुणवृत्त्याऽऽत्मशब्दः प्रधानस्य वाचकस्तथा च स्थूलारुन्धतीन्यायेन प्रधानतादा- म्योपदेशद्वारेण मुख्यात्मतादात्म्योपदेशोऽयमस्तु तत्राऽऽह- हेयत्वावचनाञ्च ॥८॥ यदि प्रधानतादात्म्योपदेशोऽयं तदा मुख्यतादात्म्योपदेशानन्तरं तस्य हेयत्वं ब्रूयात् । यथाऽरुन्धती दिदयिषुस्तत्समीपवर्तिनी स्थूलतारां प्रथममरुन्धतीति ग्राहयित्वा तां प्रत्याख्याय पश्चादरुन्धतीमेव ग्राहयति तद्वन्नायमात्मेति प्रधानं प्रत्याख्याय पश्चादात्मतादात्म्यमुपदिश्यात् । नैवमवोचत् । चशब्दः प्रतिज्ञाविरोधप्रदर्शनार्थः । सत्यपि हेयत्ववचने प्रतिज्ञाविरोधः प्रस- ज्येत । कारणविज्ञानाद्धि सर्वं विज्ञातमिति प्रतिज्ञातम् । ' उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति ' [ छा० ६। १ । २] इत्यादि । ' कथं नु भगवः स आदेशो भवति ' इति । यथा सौम्यैकेन मृत्पिण्डेन विज्ञातेन सर्व मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ' [ छा० ६।१।२ ] 'एवं सौम्य स आदेशो भवति' [ छा० ६।१।६ ] इति वाक्योपक्रमे कारणविज्ञानेन सर्वविज्ञानात् । न च सच्छब्दवाच्ये प्रधाने ज्ञाते भोग्यवर्गज्ञानेऽपि भोक्तृवर्गज्ञानं न संभवति । अप्रधानविकारत्वाद्भोक्तृवर्गस्य । न च सच्छब्दवाच्ये ब्रह्मणि ज्ञाते तदविकारस्य भोग्यवर्गस्य ज्ञानं कथ स्यादिति वाच्यम् । तस्य तद्विवर्तत्वात् । तस्मान्न प्रधान सन्छब्दवाच्यम् ॥ ८ ॥ इतश्च न सच्छब्दवाच्यं प्रधानम्-- स्वाप्ययात् ॥ ९॥ स्वस्मिन्नप्ययः स्वाप्ययः । अप्ययो लय इत्यर्थः । सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयते- यत्रैतत्पुरुषः स्वपिति नाम सता सौम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति' [ छा० ६।८।१ ] इति । स्वशब्देन प्रकृतसन्छब्द- वाच्य आत्मा निर्दिश्यते । तमपीतो भवत्यपिगतो भवति । अपिपूर्वस्यैतेर्लयार्थत्वं प्रसि- द्धम् । प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात् । इन्द्रियजन्यज्ञानावस्था जाग्रत् । तद्विशिष्टो जीवो जागर्तीत्युच्यते । यदा घटादिविषयावच्छिन्नचैतन्यमन्तःकरणवृत्त्यव- च्छिन्नचैतन्यमन्तःकरणावच्छिन्नचैतन्यं चैकी भवति तदाऽयं घट इति ज्ञानमुत्पद्यते तासां वृत्तीनां सादित्वात्तदवच्छिन्नं ज्ञानमपि सादीत्युच्यते । पर्वतो वह्निमानिति ज्ञानं तु पर्वतांशे ह्यपरोक्षम् । प्रमातृप्रमाणविषयचैतन्यानामभेदात् । वयंशे तु परोक्षम् । तत्रान्तःकरणवृत्तिसंबन्धाभावात् । अत एवानुभवो वहिमनुमिनोमि पर्वतं .
१४ हरिदीक्षित कृता- [ प्रथमाध्याये- पश्यामीति । इन्द्रियाजन्यविषयगोचरापरोक्षान्तःकरणवृत्त्यवस्था स्वप्नावस्था । जाग्रदवस्था- व्यावृत्त्यर्थमिन्द्रियाजन्येति । अविद्यावृत्तिमत्यां सुषुप्तावतिव्याप्तिवारणायान्तःकरणेति । अवि- द्यावृत्त्यवस्था सुषुप्तिः। तस्यामवस्थायामुपाधिकृतविशेषाभावाजीवः स्वात्मनि प्रलीनो भवति। श्रुत्यन्तर च- प्राज्ञेनाऽऽत्मना संपरिष्वक्तो न बाह्य किंचन वेद नाऽऽन्तरम् ' [बृ० ४। ३१२१ ] इति । यदि प्रधानमेव स्वशब्देनोन्येत । चेतनोऽचेतनमप्यतीति विरुद्धमापद्येत। अतो यस्मिन्नप्ययः सर्वेषा चेतनानां तच्चेतनं सन्छब्दवाच्य जगतः कारणम् ॥ ९ ॥ किं च- गतिसामान्यात् ॥ १०॥ यदि तार्किकसमय इव वेदान्तेषु भिन्ना कारणावगतिरभविष्यत्कचिद्ब्रह्म जगत्कारणं कचित्प्रधानं कचिदन्यदेवेति । तर्हि कदाचित्प्रधानकारणवादानुरोधेनापीक्षत्यादिश्रवणमक- ल्पयिष्यत् । न त्वेतदस्ति । समानैव हि सर्वेषु वेदान्तेपु चेतनकारणतावगतिः । न काच- दपि विरुद्धोपलभ्यते ' तस्माद्वा एतस्मादात्मन आकाशः संभूतः ' [ तै० २।१] इति । आत्मत एवेदं सर्वम् ' [ छा० ७ । २६ । १ ] इति । २६ । १ ] इति । ' आत्मन एष प्राणो जायते' [ प्रश्नो०३ । ३ ] इति । आत्मन एव जगत्कारणत्वं दर्शयन्ति सर्वे वेदान्ताः । आत्मशब्दश्चेतनवचनः । अतो गतिसामान्यात्सर्वज्ञं ब्रह्म जगत्कारणम् ॥ १० ॥ इतश्च ब्रह्म जगत्कारणम- श्रुतत्वाच ॥ ११ ।। (५) स्वशब्देनैव च सर्वज्ञ ईश्वरो जगत्कारणमिति श्रूयते । श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञमीश्वर प्रकृत्य स कारणं करणाधिपाधिपो न चास्य कश्चिजनिता न चाधिपः [श्वे० ६ । ९] इति । तस्मात्सर्वशं ब्रह्म जगतः कारण नाचेतनं प्रधानमन्यद्वति सिद्धम् । यत्तु-' ईक्षते शब्दम् ।' [ ब्र० सू० १।१ । ५ ] ब्रह्मणः सर्वशास्त्र- स्थशब्दप्रवृत्तिनिमित्तसकलगुणपूर्तिसिद्धये वाच्यवृत्त्या कृत्स्नशास्त्रविषयता समन्वयाधिक- रणे दर्शिता । तद्ब्रह्मणः सर्वशब्दवाच्यत्वभिहाऽऽक्षिप्य समर्थ्यते । यतो वाचो निवर्तन्ते' [ तै० २ । ४ । १ ] इत्यादिश्रुतिभिर्ब्रह्मणो वाच्यत्वनिषेधान्न तत्र समन्वय इति प्राप्ते सिद्धान्तः- ब्रह्म, अशब्दं न । ईक्षतेः । ' परात्परं पुरिशयं पुरुषमीक्षते ' [ प्रश्नो० ५। ५] इति प्रश्नोपनिषदि ब्रह्मण ईक्ष्यत्व श्रुतम् । ईक्षणं चौपनिषदस्य वचनमूलकमेव तच्च वाच्यत्वं विना न संभवति । न च लक्षणया निर्वाहः । वाच्यसंबन्धप्रतीतिमूलभूतवृत्त्यन्त- रायोगात् । तस्मात्परिशेषाच्छक्तिरेव । एवमधिकरणसूत्रानुसारेण गौणसूत्राण्यपि केन- चिद्वयाख्यातानि तन्न । तेनैवोक्ताधिकरणान्तरेण विरोधात् । तथा हि-' तथाऽन्यप्र- तिषेधात् ' [ ब्र० स० ३ । २ । ३६ ] इत्यत्र ध्येयं ब्रह्मैव नान्यदिति तेन नितिम ।
जन्माद्यस्य यतः प्रथमः पादः ] ब्रह्मसूत्रवृत्तिः। १५ तेनोपासनाविधिषु प्रविष्टानां ब्रह्मादिशब्दानां तद्वाचकत्वं नेत्यर्थसिद्धम् । अत एव हि केनोपनिपदि ' यन्मनसा न मनुते ' [ के०५] इति मन्त्रस्य सनिधावाम्नायमानं ' यद्वा- चाऽनभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म त्व विद्धि नेदं यदिदमुपासते ' [ के० ४ ] इति मन्त्रान्तर ब्रह्मणो वाच्यत्व प्रतिक्षिपति । उपास्यसमर्पकपदवाच्यत्व उपास्यत्वापत्तिः । न चोपास्यसमर्पकपदावाच्यत्वेऽपि सृष्टयादिवाक्यस्थपदवाच्यता संभवत्येवेति वाच्यम् । तन्मते सृष्टयादिवाक्यानामप्युपासनापरत्वात् ' आध्यानाय प्रयोजनाभावात् ' [ ब्र० सू० ३ । ३ । १४ ] इत्याविकरणे तेन तथैव सिद्धान्तितत्त्वात् । तथा च तन्मत निष्क्रम्यमाण- मित्थं पर्यवस्यति । वाड्मनसातीतमुपासनानन्तरमुच्यमान साक्षात्कारस्यैव विषयभूतं परं ब्रह्म । 'तदेव त्व विद्धि' इत्यादिभिर्वचनैर्लक्षणया प्रतिपाद्यम्। तस्य प्रतिबिम्बविशेषस्तु जीव- वदनादिः कर्तोपास्यश्च । स एव सृष्टयादिश्रुतिभिस्तदनुसारिपुराणादिभिश्च शक्त्या प्रति- पादित इति । ' यतो वाचो निवर्तन्ते'. [ तै० २ । ४ । १ ] इत्यादिबहुश्रुतिविरो- घान्न वाच्यत्व परब्रह्मण इति दिक् ॥ ११ ॥ (५) इत्यारभ्य · श्रुतत्वाच्च ' इत्येवमन्तैः सूत्रैर्यान्युदाहृतानि वेदान्त- वाक्यानि तेषां सर्वज्ञः सर्वशक्तिरीश्वरो जगतो जन्मस्थितिलयकारणमित्येतस्यार्थस्य प्रति- पादकत्वं प्रतिपादितम् । तदेकमपि ब्रह्मापेक्षितोपाधिसबन्ध निरस्तोपाधिसबन्ध चोपास्य- त्वेन ज्ञेयत्वेन च वेदान्तेषूपदिश्यत इति प्रदर्शयितुं परो ग्रन्थ आरभ्यते- आनन्दमयोऽभ्यासात् ॥ १२॥ तैत्तिरीयके , प्राणमयं ' मनोमयं ' ' विज्ञानमयं' [ तै० २ । १ चानुक्रम्याऽऽम्नायते तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्माऽऽनन्दमयः' [तै० २ । ५ ] इति । तत्र देहप्राणमनोबुद्धयानन्दरूपा अन्नमयप्राणमयमनोमयविज्ञानमया- नन्दमयसज्ञकाः पञ्च पदार्थाः क्रमेणैकैकस्मादान्तराः पठिताः । तत्र सर्वान्तर आनन्दमयः संसारी परमात्मा वेति सशयः । संसारीति प्राप्तम् । आनन्दस्य विकार आनन्दमय इति व्युत्पत्तेः संसारिण सभवात् । अविकृते तु परमात्मन्यसौ न संभवति । किं च प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ' [ तै० २।५।] इत्यानन्दमयस्य पञ्चावयवा उच्यन्ते । अभीष्टविषय- दर्शनजन्यं सुख प्रियम् । तल्लाभजन्य सुख मोद. । तद्भोगजन्यं सुख प्रमोदः । सुषुप्ता- वज्ञानोपहित सुखसामान्यमानन्दः । निरुपाधिक सुख ब्रह्म । प्रियादीना पञ्चावयवाना शिर- आदिरूपत्वं प्रतिपत्तिसौकर्याय कल्प्यते । प्रियाद्यवयवयोगाच्छारीरत्वश्रवणाच संसार्येवाऽऽ- नन्दमय इत्येव प्राप्ते ब्रूमः-आनन्दमयः परमात्मा । कुतः । अभ्यासात् । आनन्दमयं प्रस्तुत्य 'रसो वै सः' । [ तै०२७ ] इति तस्यैव-रसत्वमुच्यते । 'रस' ह्येवायं लब्ध्वाऽऽनन्दी भवति । को ह्येवान्यात् । कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्' [तै० २ । ७] १ क, भ्युदिता त°। , अन्नमय तस्य १६ हरिदीक्षितकृता- [ प्रथमाध्याये- ' सैषाऽऽनन्दस्य मीमासा भवति ' [ तै० २ । ८] 'एष ह्येवाऽऽनन्दयाति' [ तै० २ । ७ ] इत्यादिनाऽऽनन्दोऽभ्यस्यते । अभ्यासश्च तात्पर्यलिङ्गम् । तात्पर्य च वेदान्तानां ब्रह्मण्येवेत्यवोचाम । कि च ' सत्यं ज्ञानमनन्तं ब्रह्म [ तै० २ । १ ] इति ब्रह्मोपक्रमात् इद सर्वमसृजत ' [ बृ० १ । २ । ५] इत्यादिभ्यश्चाऽऽनन्दमयः परमात्मा । अन्नमयादिकोशानां ग्रहणं शाखाचन्द्रन्यायेन ब्रह्मप्रतिपत्यर्थम् । ' इद५ सर्व- मसृजत ' इत्यस्यायमर्थः-सांख्यास्तु क्षीरदधिन्यायेन सत्त्वरजस्तमोगुणात्मकं प्रधानमेव महदहंकारादिजगदाकारेण परिणमत इति वर्णयन्ति । नैयायिकादयस्तु मृद्घटादिन्यायेन परमाणुभिः पृथिव्यादिक जगदारभ्यते तत्रेश्वरो निमित्तमित्याहुः । वेदान्तास्तु रज्जुसर्प- न्यायेन सर्वजगत्कल्पनाधिष्ठानभूतं यदखण्डैकरसं ब्रह्म तदेव मायावशादाकाशादि- जगदाकारण विवर्तत इति वर्णयन्ति । माया तु ब्रह्मशक्तिः । तथा श्वेताश्वतरा आमनन्ति ६ मायां तु प्रकृति विद्यान्मायिन तु महेश्वरम् ' [श्वे० ४ । १० । इति । ब्रह्मणः शक्तिमत्त्वं च तत्रैवाऽऽन्नातम् । ' ते भ्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्नि- गूढाम् ' [ श्वे० १ । ३ ] इति । तस्याः शक्तेर्मिथ्यात्वं च ' मायामात्रमिदं द्वैतमद्वैतं परमार्थतः । [गौ० का०१।१।१।७] इत्यादिश्रूत्यन्तरेणावसीयते । न खलु शक्तिः कचिदपि स्वाश्रयमुल्लड्थ्य स्वतन्त्राऽवतिष्ठते । अतः शक्तिरूपायाः प्रकृतेर्यदेव प्रकृतित्वं तदेव ब्रह्मणः शक्तिमतः प्रकृतित्वम् । योऽयं प्रकृतिरूपः परमात्मा मायी महेश्वरोऽन्यत्र श्रुतः सोऽयमत्राऽऽत्मन इति पञ्चम्यन्तेन निर्दिश्यते । तस्माद्वा एतस्मात् ' इतिपदद्वय- सामानाधिकरण्येन प्रत्यग्ब्रह्मणोस्तादात्म्यमुच्यते । तदुक्तं ' नाऽऽत्मता ब्रह्मणोऽन्यत्र ब्रह्मता नाऽऽत्मनोऽन्यतः । सामानाधिकरण्यं हि नीलोत्पलविलक्षणम् । इति । तस्मान्मायोपाधि- कादात्मनो महदादिकं जगत्कामसंकल्पाभ्यां जायते । तत्र जगति जडत्वादिर्मायाशो ह्यस्त्रि भाति प्रियं चेति ब्रह्मांशश्चोभावनुगत्तौ । मायाविशिष्टस्य ब्रह्मणो महदादिकं स्रक्ष्यामीत्ये. वंविधेच्छा कामः । आकाशो निष्पद्यतामित्यवंविधा भावना संकल्पः । एतौ मायावृत्तिरूपी कामसंकल्पौ । तदवृत्त्यवच्छिन्नः परमात्मा सत्यकामः सत्यसंकल्प इत्युच्यते । एवं सत्युत्त- रोत्तरपदार्थान्यथा यथाऽसौ संकल्पयति तथा तथा ते सर्वे महदादय उत्पद्यन्ते । उत्पा न्नेषु तेषु सर्वेषु सोपाधिकस्य निरुपाधिकस्य च ब्रह्मणोऽनुगतिरस्ति । 'एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च' [ श्वे० ६ । ११] इति श्रुतेः । एतादृशः परमात्माऽऽनन्दमयः । तथा च भाष्यम् । 'यथाऽरुन्धतीनिदर्शने बही- ष्वपि तारास्वमुख्यास्वरुन्धतीषु दर्शितासु याऽन्त्या+ प्रदर्श्यते सा मुख्यैवारुन्धती भवत्ये- + ब. सू. भाष्यस्थोऽयं पाठो लिखितपस्तक एतस्मिंस्तु थाऽन्ते प्र° ।
, प्रथमः पादः ] ब्रह्मसूत्रवृत्तिः। १७ बमिहाप्यानन्दमयस्य सर्वान्तरत्वान्मुख्यमात्मत्वमिति । तस्य प्रियाघवयथा अपि विषयदर्श- नाद्युपाधिकृता जीवसंबन्धिनोऽपि तदधीनत्वात्तदवयत्वेनोपचर्यन्ते । तमेवाऽऽनन्दमयं पर• मात्मानमुपासीनो जीवोऽन्नमयादिकोशाध्यासरहितो ब्रह्मपुच्छं निरुपाधिक ब्रह्मैवाऽऽप्नोति । तस्मादानन्दमयः परमात्मेति सिद्धम् । ननु परमात्मन आनन्दमयत्वे अन्नमयप्राणमयम- नोमयविज्ञानमयानन्दमया मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासम् ' [ म० ना० २० । १५ ] इति शुद्धिप्रार्थना व्यर्था स्यात् । अतोऽयमानन्दमयो जीव एव न परमा- त्मेति चेन्न । तस्य नित्यशुद्धस्य पूर्णस्य परमात्मनो दर्शने व्यवधायकाज्ञानरूपमलनिवृत्ति- व शुद्धिः । यथा चन्द्रस्य तिरोधायकधनापगम एव प्रसादस्तद्वत् । सा शुद्धिर्जीवेन तत्त- कोशाध्यासनिवर्तकब्रह्मात्मैक्यज्ञानेन प्रार्थ्यत इति न काऽप्यनुपपत्तिरिति दिक् ॥ १२ ॥ विकारशब्दान्नेति चेन्न प्राचुर्यात् ।। १३ ॥ नाऽऽनन्दमयः परमात्मा भवितुमर्हति । आनन्दमय इति मयटो विकारार्थत्वात् । अन्नमयादिशब्दवद्विकारविषय एवाऽऽनन्दमयशब्द इति चेन्न । प्राचुर्यार्थेऽपि मयटः स्मर- णात् । आनन्दप्रचुरत्वं च ' स एको मानुष आनन्दः [ तै० २।८।१] इति प्रकृत्योत्तरोत्तरं शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिशयत्वश्रवणात् । यस्मात्प्राचु- र्यार्थे मयट् तस्मादानन्दमयः परमात्मा ॥ १३ ॥ तद्धेतुध्यपदेशाच्च ॥ १४ ॥ पूर्व ' तत्प्रकृतवचने मयट' [ पा० सू० ५। ४ । २१ ] इतिव्याकरणस्मृत्याss- नन्दमयत्वं साधितम् । इदानीमग्रिमवाक्यपर्यालोचनयाऽपि प्राचुर्यार्थे मयडित्युच्यते । तस्य जीवानन्दस्याऽऽनन्दमयो हेतुरिति श्रुतिळपदिशति । व्यपदेशः कीर्तनं तस्मादित्यर्थः । एष ह्येबाऽऽनन्दयाति' [तै० २ । ७] इति । आनन्दयतीत्यर्थः । यो ह्यन्यानानन्द- यति स प्रचुरानन्द इति प्रसिद्धम् । यथा लोके योऽन्यान्धनिकत्वमापादयति स प्रचुरधन इति गम्यते तद्वदिति । तस्मात्प्राचुर्यार्थेऽपि मयटः संभवादानन्दमयः परमात्मा ॥ १४ ॥ मान्त्रवर्णिकमेव च गीयते । इतश्चाऽऽनन्दमयः परमात्मा । यस्मान्मान्त्रवर्णिकमेव । ब्रह्मविदाप्नोति परम् ' [ते. २।१] इत्युपक्रम्य सत्य ज्ञानमनन्तं ब्रह्म [ तै० २ । १] इत्यस्मिन्मन्त्रे प्रति. पाधते । तदेव ब्रह्म मायया जगत्सृष्ट्वा तदनुप्रविश्य ' सञ्च त्यच्चाभवत् ' [ तै० २ । ६] इत्युक्तम् । तदेव गुहायामवस्थितम् । यस्य विज्ञानाय ' अन्योऽन्तर आत्मा [ तै० २। ५ ] इति प्रक्रान्तम् । तन्मान्त्रवर्णिकमेवेह ब्रह्म गीयते-- अन्योऽन्तर आत्माऽऽनन्द- मथः' इति । मन्त्रब्राह्मणयोरेकार्थत्वात् । वेदो हि मन्त्रब्राह्मणभेदेन द्विविधः । तत्रेय ब्रह्मवल्ली ब्राह्मणरूपा । तत्रापि तदेषाऽभ्यक्तत्यक्त्वा । सत्यं ज्ञानमनन्त ब्रह्म , , इत्यारभ्य १८ हरिदीक्षितकृता- [ प्रथमाध्याये- : ब्रह्मणा विपश्चिता ' इत्यन्तोऽयं मन्त्रः । अन्यत्सर्व ब्राह्मणमिति । अन्यथा प्रकृतहाना- प्रकृताभ्यागमौ प्रसज्येयाताम् । तस्मादानन्दमयः परमात्मा ॥ १५ ॥ नेतरोऽनुपपत्तेः ॥१६॥ किंचेतरः परमात्मनोऽन्यो जीवो नाऽऽनन्दमयः । कुतः । ' सोऽकामयत बहु स्या प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इद सर्वमसृजत ' [ तै० २ । ६ ] इत्यग्रिमवाक्यसंदर्भप्रतिपाद्यस्यार्थस्यान्यस्मिन्ननुपपत्तेः । तत्र प्राक्शरीराद्युत्पत्तेः ' सोऽका- मयत ' इत्यभिध्यान सर्वविकारसृष्टिश्च परमात्मनोऽन्यत्र नोपपद्यते ॥ १६ ॥ भेदव्यपदेशाच्च ॥ १७ ॥ इतश्च नाऽऽनन्दमयो जीवः । कुतः । जीवानन्दमययोर्भेदेन व्यपदेशात् । आनन्दमया- धिकारे 'रसो वै सः । रस५ ह्येवाय लब्ध्वाऽऽनन्दी भवति ' [तै० २ । ७ ] इति । न हि लब्धैव लब्धव्यो भवति । नन्वात्मलाभान्न परं विद्यत इति श्रुतरात्मनोऽन्यो लब्धव्य एव नास्ति तत्कथं जीवानन्दमययोर्भेदव्यपदेश इति चेन्न । सोपाधिकत्वनिरुपाधिकत्वाभ्यां तयोर्भेदात् । यथा महाकाशाद्धटाकाशभेदोऽस्ति तद्वत् । ईदृशं च विज्ञानात्परमात्मनोभेद. माश्रित्य : नेतरोऽनुपपत्तेः' । ' भेदव्यपदेशाच्च ' इत्युक्तम् ॥ १७ ॥ कामाच्च नानुमानापेक्षा ॥ १८॥ किंच । अनुमीयते कार्यद्वारेत्यनुमानं प्रधानं तस्यापेक्षा स्वीकार आनन्दमयत्वेन कारणत्वेन च न संभवति । कुतः । कामात् । आनन्दमयाधिकारे ' सोऽकामयत । बहु स्यां प्रजायेय ' [तै० २ । ६ ] इति कामयितृत्वश्रवणात् । ' ईक्षते शब्दम्' इति निराकृतमपि प्रधानं गतिसामान्यप्रपञ्चनाय पुनर्निराकृतमिति ज्ञेयम् ॥ १८ ॥ अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥ (६) (५) इतश्च प्रधाने जीवे वा नाऽऽनन्दमयशब्दः सभवति । यस्मादानन्दमये प्रकृत आत्मनि प्रतिबुद्धस्य जीवस्य तद्योगं शास्ति शास्त्रम् । तदात्मना योगस्तद्योगस्त तथोक्तम् । तद्भावापत्तिमित्यर्थः । यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं' प्रतिष्ठा विन्दते । अथ सोऽभयं गतो भवति ' [ तै० २।७] । अस्यार्थः---एष जिज्ञासुरेतस्मि- न्ब्रह्मण्यभय यथा भवति तथा गुरुशास्त्रविश्वासेनेत्यर्थः । प्रतिष्ठां तादात्म्येनावस्थितिं यदा लभते । अथ तदानीं स विद्वानभय जन्ममरणादिभयरहितं मोक्षं गतः प्राप्तो भवति । एवशब्देन कालविलम्बो व्यावर्त्यते । अस्मिन्नर्थे विद्वत्प्रसिद्धिं हिशब्दो द्योतयति । तम विशिनष्टि अदृश्यम् । इन्द्रियैरगम्यत्वात् । अनात्म्यमात्मीय लिङ्ग तद्रहितमनात्म्यम- नुमानेनाप्यगम्यमियर्थः । हेतुदृष्ट्वान्तवर्जितमिति श्रुयन्तरात् । निःशेषेण वक्तुं शक्यं निरुक्तं तद्विपरीतमनिरुक्तप। ' यतो वाचो निवर्तन्ते [तै० २ । 1 इतिश्रते. । निलयन- .
, . - , प्रथमः पादः । ब्रह्मसूत्रवृत्तिः। १९ माधारस्तद्रहितम् । स भमवः कस्मिन्प्रतिष्ठितः स्वे महिम्नि [ छा० ७ । २४ । १] इतिश्रुतेरिति । एतस्मिन्नानन्दमये भेदबुद्धौ दोपमाह यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति ' [ तै० २ । ७ ] । उच्छब्दोऽप्यर्थे । अरशब्दोऽल्पार्थे । अन्तरशब्दो भेदे । स्वल्पमपि भेद कुरुत इत्यर्थः । स्पष्टमन्यत् । एतच्च परमात्मपरिग्रहे घटते नान्यथा । तस्मादानन्दमयः परमात्मेति सिद्धम् । भेदवादिमतं तु 'ब्रह्मैव सन्ब्र- ह्याप्येति' [ बृ० ४ । ४ । ६ ] ' ब्रह्मविद्ब्रह्मैव भवति ' [ मु० ३ । २ । ९] इत्यादिश्रुतिविरुद्धम् । इदं त्वेकदेशिनां मतम् । शंकरभगवत्पादैस्त्वेकदेशिमतेन व्याख्याय पश्चादन्नमयादिवदानन्दमय इत्यस्यापि विकारार्थमयटप्रवाहपतितत्वात्प्राचुर्यार्थस्वीकारेऽपि किंचिदुःखसद्भावप्रतीतेश्च ' आनन्दमयोऽभ्यासात् ' [ब्र० सू० १ । १ । १२ ] इत्यादीनि सूत्राणि ब्रह्मपरत्वेन व्याख्यातानि । तथा हि- 'आनन्दमयोऽभ्यासात् । ब्रह्म पुच्छं प्रतिष्ठा [ तै० २।५ ] इत्यत्र यच्छ्रुतं ब्रह्म तत्किमानन्दमयस्याङ्गत्वेन निर्दिश्यते किं वा स्वप्रधानत्वेनेति संशयः । आन- न्दमयस्यावयवत्वेनेति तावत्प्राप्तं लोके पुच्छशब्दस्यावयववाचित्वेन प्रसिद्धत्वादिति पूर्वः पक्षः । अत्रोच्यते- 'आनन्दमयोऽभ्यासात् । आनन्दमयशब्देनाऽऽनन्दमय- वाक्यसंबन्धि ब्रह्म पुच्छं प्रतिष्ठा ' इत्येतद्गतं ब्रह्मपदमुपलक्ष्यते । तद्ब्रह्मपदं स्वप्रधान- मिति प्रतिज्ञा । कुतः । अभ्यासात् । ' असन्नेव स भवति । असद्ब्रह्मेति बेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः' [ तै० २ । ६ ] इत्यादौ ब्रह्मणोऽभ्यस्यमानत्वात् । ननु 'तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः। प्रमोद उत्तरः पक्ष । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ' [ तै० २ । ५] इत्यनेन ब्रह्माऽऽनन्दमयस्यावयवत्वेन निर्दिश्यते । अन्नमयादीनामिवेदं पुच्छं प्रतिष्ठेत्यादिवत् । तत्कथं ब्रह्मणः स्वप्रधानत्वमिति चेत् । उच्यते- लाङ्गुलवाचिनः पुच्छशब्दस्य मुख्यार्थासभवे सति पुच्छवत्पुच्छमितिनिर्दिष्ट ब्रह्म तदानन्द- मयस्य जीवस्य पुच्छमाधारः प्रतिष्ठा परायणम् । तथा च भाष्यम्-कथं पुनः स्वप्रधानं सब्रह्माऽऽनन्दमयस्य पुच्छत्वेन निर्दिश्यते ब्रह्म पुच्छ प्रतिष्ठेति । नैष दोषः । पुच्छवत्पुच्छं प्रतिष्ठा परायणमेकनीडं लौकिकस्याऽऽनन्दजातस्य ब्रह्मानन्द इत्येतदनेन विवक्ष्यते नावय- वत्वमिति । किं च प्रतिशरीर प्रियमोदादिभेदादानन्दमयस्यापि भिन्नत्वमस्ति । ब्रह्मणस्त- दवयवत्वे भेदः स्यात् । तथात्वेऽद्वितीयत्वप्रतिपादकश्रुतिव्याकोपः स्यात् । किं च सर्व- त्राऽऽनन्द एवाभ्यस्यते न त्वानन्दमयः । 'यदेष आकाश आनन्दो न स्यात्' । [ तै० २ । ७ ] ' सैषाऽऽनन्दस्य मीमा सा भवति' [ तै० २ । ८ ] आनन्द ब्रह्मणो विद्वान् ' । [ तै० २।९] ' आनन्दो ब्रह्मेति व्यजानात् ' [ तै० ३ । है इत्यादिषु । तस्मादानन्दमयशब्दोपलक्षितं ब्रह्म स्वप्रधानं न त्वानन्दमयस्यावयव इति सिद्धम् । 'विकारशब्दान्नेति चेन्न प्राचुर्यात् ' । पुन्छमित्यवयवशब्दान्न प्रधा- - - ' सत्यं ज्ञानम् [ तै० , हरिदीक्षितकृता- [ प्रथमाध्याये- नत्वं ब्रह्मण इति चेन्न । कुतः । प्राचुर्यात् । प्राचुर्य प्रायपाठः । पूर्वमवयवप्रधानप्रयोगा- त्तस्यैव बुद्धौ संनिधानात्पुन्छशब्देन ब्रह्म व्यपदिश्यते । न तु मुख्यं पुच्छत्वम् । पुच्छशब्दे- नाऽऽधारलक्षणोपपत्तेरिति । 'तद्धेतुव्यपदेशाच'। हेतुत्वेन ब्यपदेशो हेतुव्यप- देशः। तस्य ब्रह्मणो विकारजातं प्रति हेतुवेन व्यपदेशादित्यर्थः । इद सर्वमसृजत। यदिदं किं च ' [ बृ० १ । २ । ५] इति । न च कारणं ब्रह्म स्वविकारस्याऽऽनन्द- मयस्य मुख्यया वृत्त्याऽवयवः संभवतीति स्वप्रधानं ब्रह्म पुच्छं ज्ञेयत्वेन विवक्ष्यत इति सिद्धम् । ' मान्नवर्णिकमेव च गीयते ' । यत् ० २. १] इत्यादिमन्त्रवर्णप्रतिपाद्यं ब्रह्म तदेव ब्रह्म पुच्छमिति ब्राह्मणे स्वप्राधान्येन गीयते । मन्त्रब्राह्मणयोरैकार्थ्यात् । ' नेतरोऽनुपपत्तेः' । ब्रह्म पुच्छं नेतरः । नाऽऽनन्दमयस्या- वयवः किं तु परं ब्रह्मैव । कुतः । अनुपपत्तेः । अग्रिमवाक्यप्रतिपाद्यस्य जगास्रष्टुत्वस्या- न्यस्मिन्ननुपपत्तेरित्यर्थः । 'भेदव्यपदेशाच्च' । इतश्च पुच्छं परं ब्रह्मैव ।' रसो वै सः । रसर ह्येवायं लब्ध्वाऽऽनन्दी भवति' [तै० २ । ७ ] इत्यानन्दमयब्रह्मणो व्यवहारे भेदेन व्यपदेशादित्यर्थः । कामाच नानुमानापेक्षा 'अस्मि- नस्य च तद्योगं शास्ति' । अनयोः पूर्ववदेव व्याख्यानम् । तस्माद्ब्रह्म पुच्छमिति परं ब्रह्म ज्ञेयत्वेन सिद्धम् ॥ १९॥ (६) अन्तस्तद्धर्मोपदेशात् ॥ २०॥ छान्दोग्यस्य प्रथमाध्याय उद्गीथोपासनायामुपसर्जनान्युपास्यान्यभिधाय प्रधानमुपास्य- मभिधातुमिदमाम्नायते- अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो. दृश्यते हिरण्यस्मश्रु- हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः। तस्य यथा कप्यास पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मम्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं बेद' [छा० १॥ ६ । ६-७ ] इत्याद्यधिदैवतम् । अथाध्यात्ममपि ' अथ य एपोऽन्तरक्षिणि पुरुषो दृश्यते ' [ छा० ११७५ ] इत्यादि । तत्र संशयः। किं विद्याकर्मातिशयवशात्प्राप्तोत्कर्षः कश्चिज्जीवो देवभावमुपेत्य जगदाधकारं निष्पादयत्नादित्यमण्डले चक्षुधि चोपास्यत्वेन श्रूयते । किं वा नित्यसिद्धः परमेश्वरः सर्वगतत्वान्मण्डले वर्तत इति तयोः संशयः । तत्र देवता- त्मेति तावत्प्राप्तम् । कुतः । हिरण्यश्मनुरित्यादिशरीरश्रवणात् । जीव एवेति प्राप्ते ब्रूमः । आदित्याक्ष्णोरन्तः श्रूयमाणः परमेश्वर एव । कुतः । तद्धर्मोपदेशात् । तस्य परमेश्वरस्य ये धर्मास्तेषामस्मिन्वाक्य उपदेशात् । तद्यथा---' स एष सर्वेभ्यः पाप्मभ्य उदितः " [छा० १।६। ६-७ ] इति सर्वपापराहित्यस्य ' सैवर्षं तत्साम तदुक्थ्यं तद्यजु- [ छा० १ । ७ । ५ ] इत्युक्सामाद्यात्मकत्वादिकस्य चेश्वरधर्मत्वात् । एतत्स- र्वपापराहित्यादिकं जीवे न संभवति । नन्वीश्वरे हिरण्यश्मश्रुत्वादिरूपश्रवणं कथमुपपद्येतेति चेत् । उच्यते-साधकानग्रहायश्वरस्यापि मायामयरूपग्रहणमषपद्यत एव । स्तब्रह्म - प्रथमः पादः] ब्रह्मसूत्रवृत्तिः। २१ माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्तं मैव त्व द्रष्टुमर्हसि ॥ इतिस्मरणात् । तथा च भाष्येऽप्युक्तम्-सर्वकारणत्वात्तु विकारधभैरपि कैश्चिद्विशिष्टः परमेश्वर उपास्यत्वने निर्दिश्यते 'सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः' [छा० ३ । १४ । २ ] इत्यादिनेति । यत्र तु निरस्तस्र्वविशेषं पारमेश्वर रूपमुपदिश्यते भवति तत्र शास्त्रम्-' अशब्दमस्पर्शमरूपमव्ययम् [ क० ३ । १५] इत्यादीति च । स्वमहिमप्रतिष्ठितस्यापि सर्वगतत्वात्सूर्यमण्डलाद्याधारविशेषोऽप्युपासनार्थमुपपद्यते । तस्मा- परमेश्वर एवाक्ष्यादित्ययोरन्तर उपदिश्यते ॥ २० ॥(६) भेदव्यपदेशाच्चान्यः ॥ २१ ॥ (७)। किंचाऽऽदित्याक्ष्णोरन्तः श्रूयमाण आदित्यशरीराभिमानिजीवादन्यः । कुतः । भेदव्य- पदेशात् । य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्याऽऽदित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ' [ बृ० ३ । ७ । ९ ] इति श्रूत्यन्तरे भेदव्यपदेशात् । अत्राप्यन्तःशब्दश्रवणेन तत्प्रत्यभिज्ञानात्परमेश्वर एवे- होपदिश्यत इति सिद्धम् । एनेन विमतव्याख्यानं शिवनारायणपरं प्रतिषिद्ध तयोः परमे. श्वरावतारत्वात् ॥ २१ ॥ (७)। आकाशस्तल्लिङ्गात् ॥ २२ ॥ (८)। तत्रैव छान्दोग्ये हिरण्मयवाक्यादुपरि शालावत्येन महर्षिणा सर्वलोकाधारे वस्तुनि अस्य लोकस्य का गतिः' इति पृष्टे प्रवाहणो राजोत्तरमाह । तत्रत्यं वाक्यमेतत् ' आकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येभ्यो ज्यायानाकाशः परायणम् ' [छा० १।९।१ ] इति । तत्राऽऽकाशशब्दार्थो वियद्वा ब्रह्मेति संशयः । तत्र भूताकाशमिति तावत्प्राप्तम् । प्रचुर- प्रसिद्धेः । सर्वभूतोत्पत्तिलयहेतुत्वं च वियत उपपद्यते । ' आकाशाद्वायुयोरग्निः । [ तै० २ । १ ] इत्यादौ वाय्वादीनां सर्वभूतानां वियत्कार्यत्वश्रवणात् । विभुत्वादिभिर्ध- मैराकाशसदृशं ब्रह्मेति ब्रह्मण्याकाशशब्दस्य गौणत्वादिति प्राप्ते ब्रूमः । आकाशशब्देनात्र ब्रह्मैवोच्यते । कुतः । तल्लिङ्गात् । ' सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते' इति ब्रह्मलिङ्गदर्शनादित्यर्थः। सर्वाणि ह वा इत्यत्रासंकुचितसर्वशब्देन वियत्सहितस- र्वभूतोत्पत्तिहेतुत्वं गृह्यते । न हि वियतो वियद्धेतुत्वं संभवति । रूढिस्तु लौकिकवियत्ये- वास्तु । श्रौती तु ब्रह्मण्यपि । आकाशो* वै नाम नामरूपयोर्निर्वहिता' [ छा० ८ . . . * छान्दोग्यपुस्तकस्थोऽयंपाठो लिखित एतत्पुस्तके तु-शोह वै नामरूपयोरिति ।
२२ [प्रथमाध्याये- हरिदीक्षितकृता- ४ । १ ] इतिप्रयोगदर्शनात् । किंचाऽऽकाशादेवेत्येवकारः कारणान्तरं व्युदस्यति । न चैतद्वियत्पक्षे संभवति । घटादिषु वियद्वयतिरिक्तानां मृदादिकारणानामुपलम्भात् । ब्रह्मपक्षे तु ब्रह्मणः सद्रूपस्य सर्वानन्यतया कारणान्तरव्युदास उपपद्यते । ज्यायस्त्वपरायणत्वे च श्रुत्यन्तरे ब्रह्मणः श्रूयेते -'ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः ' [छा० ३ । १४ । ३ ] इति । तथा परायणत्वमपि परमकारण परमात्मन्ये. वोपपन्नतरम् । तथा च श्रुतिः - विज्ञानमानन्दं ब्रह्म रातेतुः परायणम् ' [ बृ० ३। ९ । २८ ] इति । कर्मफलं दातुं समर्थमित्यर्थः । अत एवाऽऽकाशपर्यायवाचिनां शब्दानामपि ब्रह्मण्येव श्रुतिप्रयोगो दृश्यते । ' ऋचो अक्षरे परमे ब्योमन् ' [ ऋ० सं० १ । १६४ । ३९] — सैषा भार्गवी वारुणी विद्या । परमे व्योमन्प्रतिष्ठिता 'F तै० ३।६।] ' कं ब्रह्म' [ छा० ४ । १० । ५ ] 'खं ब्रह्म' [बृ० ५ । १।१] इत्यादौ । वाक्योपक्रमे वर्तमानस्याऽऽकाशशब्दस्य वाक्यशेषवशायुक्ता ब्रह्मविषयत्वावधा- रणा । तस्मादाकाशशब्दवाच्यं ब्रह्मेति सिद्धम् ॥ २२ ॥ (८) अत एव प्राणः ॥ २३ ॥ (९)। आकाशवाक्यादुत्तरस्मिन्वाक्ये प्रस्तावनाम्नः सामभागस्य देवतायां प्रस्तोत्रा पृष्टाया. मुषस्तिरुत्तरं ददौ । तत्रत्यं वाक्यमेतत् ' प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता ' ( छा० १ । ११ । ५) इति । तत्र प्राणशब्दः शरीरान्तःसंचारिवायुवाची भवेत् । सर्वभूतल- यस्य तत्र सुसपादत्वात् । वै पुरुषः स्वपिति प्राणं तर्हि वा*गप्येति प्राणं चक्षुः प्राण श्रोत्रं प्राणं मनः स यदा प्रबुध्यते प्राणादेवाधिपुनर्जायन्ते ' (श० १०।३ । ३।६) इति । सुषुप्तौ भूतसाराणामिन्द्रियाणां प्राणे प्रविलयादिति प्राप्ते ब्रूमः । इन्द्रियमात्रलयपरत्वे ख्यायमाने सर्वाणि ह वा इत्यसौ सर्वशब्दः संकुचितः स्यात् । आकाशशब्दवत् । प्राणशब्दोऽपि श्रौतरूढ्येवकाराभ्यां ब्रह्मवाचकः । अस्ति हि प्राणश- ब्दस्य ब्रह्मणि श्रोते रूढिः । प्राणस्य प्राणम् ' (बृ० ४ । ४ । १८) इत्यत्र ब्रह्म- विवक्षया प्राणशब्दस्य द्वितीयस्य प्रयोगात् । तदुक्तं भाष्यकृद्भिः-यथा पितुः पितेति प्रयोगेऽन्यः पिता षष्ठीनिर्दिष्टोऽन्यः प्रथमानिर्दिष्टः पितुः पितेति गम्यते तद्वत्प्राणस्य प्राणमिति शब्दभेदात्प्रसिद्धात्प्राणादन्यः प्राणस्य प्राणमिति निश्चीयत इति । तस्मा- दीश्वरः प्राण इति सिद्धम् ॥ २३ ॥ (९)। ज्योतिश्चरणाभिधानात् ॥ २४ ॥ छान्दोग्यतृतीयाध्याये गायत्रीविद्यायां हृदये छिद्रोपासनमभिधायेदमाम्नायते–' अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव * ब्र० सू० भाष्यानुसार्ययं पाठ एतल्लिखितपुस्तके तुगभ्येति प्राणं चक्षुः प्राणं श्रोत्र सेति । ' यदा प० ब्रा० प्रथमः पादः ] बह्मसूत्रवृत्तिः । २३ तद्यदिदमस्मिन्नन्तः पुरुपे ज्योतिः । [छा० ३ । १३ । ७ ] इति । तत्र संशयः-- किमिह ज्योतिःशब्देन कार्यरूप नेत्रानुग्राहक तेज उत ब्रह्मेति । कार्यरूपं तेजस्ताव- प्राप्तम् । ब्रह्मणोऽसंनिहतत्वेन वाक्यस्य ब्रह्मपरत्वायोगात् । कार्यरूपतेजःपरत्वं तूपपद्यत एव । तल्लिङ्गसद्भावात् । ' इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योति: ' [ छा० ३।१३। ७ ] इति जाठराग्न्यभेदस्तेजोलिङ्गम् । किं च चराचरबीजस्य ब्रह्मणः सर्वात्मकस्य द्यौर्मर्यादा न युक्ता । कार्यस्य तेजसो द्युलोकादिमर्यादा तु युक्तैव । प्रसिद्धिवशादपि कार्य- रूपं ज्योतिरिति प्राप्ते, अत्रोच्यते-असिद्धोऽसनिधिः । पूर्व गायत्रीखण्डे 'पादोऽस्य विश्वा+ भूतानि त्रिपादस्यामृतं दिवि ' [ छा० ३ । १२ । ६ ] इति चतुष्पदो ब्रह्मणः प्रकृतत्वात् । तस्य चात्र प्रकृतवाचिना यच्छब्देनानुवर्तमानस्य ब्रह्मण एकांशतया सर्व- भूतानामभिधानात् । अवशिष्ट पादत्रयोपलक्षितमनन्तस्वरूप द्योतनात्मकन्वे स्वस्मिन्नव- तिष्ठते । न च ज्योतिःशब्दस्य ब्रह्माणि वृत्त्यनुपपत्तिः । सर्वजगदवभासके ब्रह्मणि तद्वृत्त्यु- पपत्तेः । ' तमेव भान्तमनुभाति स तस्य भासा सर्वमिदं विभाति ' [ कठो० ५।१५] * तदेव ज्योतिषां ज्योतिरायुर्योपासतेऽमृतम् ' [ बृ० ४ । ४ । १६ ] इत्यादि- श्रुतिभ्यश्च । किं च ' त्रिपादस्यामृत दिवि ' [ छा० ३ । १२ । ६ ] इत्यनेन मन्त्रेण यच्चतुष्पदो ब्रह्मणस्त्रिपादमृतसंबन्धिरूपं निर्दिष्ट तदेवेह युसंबन्धित्वेन निर्दिष्टमिति प्रत्यभिज्ञायते । तत्परित्यज्य प्राकृतं ज्योतिरभ्युपगच्छतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्ये- यातामिति भाष्ये प्रतिपादनात् । यदप्युक्तं सर्वगतस्य ब्रह्मणो द्युमर्यादत्वं नोपपद्यत इति । वार्तमेतत् । सर्वगतस्यापि ब्रह्मण उपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते । तस्मा- ज्ज्योतिब्रह्म ॥ २४ ॥ छन्दोमिधानान्नेति चेन्न तथा चेतोर्प- णनिगदात्तथाहि दर्शनम् ॥ २५ ॥ ननु ' गायत्री वा इद५ सर्व भूतं यदिदं किं च ' [ छा० ३ । १३ । १ ] इति गायत्र्याः प्रकृतत्वात्तस्या एवं 'पादोऽस्य सर्वा भूतानि [छा० ३ । १२ । ६ ] इति भूतपादव्यपदेशो न ब्रह्मण इति चेन्न । गायव्याख्यच्छन्दोद्वारेण तद्गते ब्रह्मणि सर्वा- त्मकत्वं प्रतिपाद्यते । न यक्षरसंनिवेशमात्राया गायत्र्याः सर्वात्मकत्व संभवति । तस्माद्गाय- व्याख्यविकारे यदनुगतं जगत्कारण ब्रह्म तदेव — गायत्री वा इद५ सर्वम् ' [ छा० ३ । १३ । १] इत्युच्यते । सूत्रार्थस्त्वेवम्-छन्दोभिधानाद्गायत्र्याख्यच्छन्दस एव पूर्व प्रक्रान्तत्वान्न ब्रह्मणः प्रकृतत्वमिति चेन । कुतः । तथा छन्दोद्वारेण तद्गते ब्रह्मणि चेतो- र्पणस्य चित्तसमाधानस्य निगदादभिधानात् । तत्र दृष्टान्तः । तथा हि दर्शनम् । दृश्यत , + सर्वाभूनानीतिछान्दोग्यपुस्तके पाठः । * तद्देवाज्योतिरितिबृहदारण्यके पाठः ।
-- २४ हरिदीक्षितकृता- [ प्रथमाध्याये- इति दर्शनम् । अन्यत्रापि तत्तद्वारेण ब्रह्मण उपासनं दृष्टमित्यर्थः । 'एतं ह्येव बचा महत्युक्थे मीमांसन्त एतमन्नावध्वर्यव एतं महाव्रते छन्दोगाः' [ ऐ० आ० ३ । २ । ३ १२ ] इति । तस्माद्ब्रह्म पूर्वस्मिन्वाक्ये प्रकृतम् ॥ २५ ॥ भूतादिपाव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥ किंच गायत्रीवाक्ये ब्रह्मैव प्रकृतमित्यभ्युगन्तव्यमित्येवंशब्दार्थः । कुतः । भूतादिपाद व्यपदेशोपपत्तेः । भूतपृथिवीशरीरहृदयश्चतुष्पति पादव्यपदेशस्य ब्रह्मण्येवोपपत्तेः । नहि ब्रह्मानाश्रितस्य गायत्र्याख्यच्छन्दसो भूतादिपादव्यपदेश उपपद्यते । अपि च ब्रह्मानाश्रयणे गायत्र्यां नेयमृक्संबध्यते * एतावानस्य महिमा, [छा० ३ । १२ । ६ ] इति अनया दृचा स्वरसेन ब्रह्मैवाभिधीयते । ब्रह्मण्येव सर्वात्मके पादोपपत्तेः । पुरुषसूक्तेऽपी यमृग्ब्रह्मपरतयैव समाम्नायते । एतदर्थप्रतिपादिका स्मृतिश्च--- विष्टभ्याहमिदं कृत्स्नमेकां शेन स्थितो जगत् ' [भ० गी० १० । ४२] इति । तस्माद्गायत्रीवाक्ये ब्रह्मैव प्रकृतं तदेव ज्योतिर्वाक्यैर्युसंबन्धात्प्रत्यभिज्ञायत इति सिद्धम् ॥ २६ ॥ (९) उपदेशमेदान्नेतिचेन्नोमयस्मिन्नप्याविरोधात् ॥ २७ ॥ (१०) ननु पूर्ववाक्ये ' त्रिपादस्यामृतं दिवि' [छा० ३ । १२ । ६] इति सप्तम्या चौराधारत्वेन निर्दिश्यते । इह पुनः अथ यदतः परो दिवो ज्योतिः' [छा० ३११३ ७] इति पञ्चम्यवधित्वेन निर्दिश्यते । एवं विभक्तिभेदेनोपदेशभेदाज्ज्योतिक्येि प्रत्य भिज्ञानं न संभवतीति चेन्न । कुतः । उभयस्मिन्नप्यविरोधात् । विभक्तिभेदेनोपदेश भेदेऽपि प्रत्यभिज्ञाया अविरोधादित्यर्थः । प्रधानप्रातिपदिकार्थेन प्रत्यभिज्ञायां गुणभव विभक्तिविरोधो न प्रतिबन्धक इति भावः । तदुक्तं भाष्ये यथा लोके वृक्षाप्रेणासंबद्धोऽ श्येन उभयथोपदिश्यमानो दृश्यते वृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति च । एवं + दिवः परमपि सद्ब्रह्म दिवीत्युपदिश्यत इति । तस्माद्विभक्तिविरोधेऽपि न प्रत्यभिज्ञाविरोध स्तस्मात्परमेव ब्रह्म ज्योतिःशब्दवाच्यमिति सिद्धम् ॥ २७ ॥ (१०) प्राणस्तथानुगमात् ॥ २८॥ अस्ति कौषीतकिब्राह्मण इन्द्रप्रतर्दनाख्यायिका- प्रतर्दनो ह वै दैवोदासिरिन्द्रस प्रियं धामोपजगाम युद्धेन च पौरुषेण च ' [ कौषी० ३ । १] इत्याम्नाता । तस्य श्रूयते ' प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्स्व [ कौषी० ३ । २ ] इति प्रतर्दन मिन्द्रो वक्ति । तथोत्तरत्र 'अय खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति ' * तावानस्येतिच्छान्दोग्यपुस्तके पाठः ।
प्रयमः पादः ]
ब्रह्मसूत्रवृत्तिः।
२५
"
[ कौ० ३।३] इति । तथा न वाचं विजिज्ञासीत वक्तार विद्यात् ' [ कौ० ३ ।
८ ] इत्यादि । अन्ते च ‘स एप प्राण
स एप प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः ' [ कौ०
३ । ८] इत्यादि । तत्र प्राणशब्देन वायुरभिधीयत इन्द्रो वा जीवो वा पर ब्रह्म वेति
संशयः । सन्ति ( अस्ति ) ह्यत्रानेकलिङ्गदर्शन संशयोत्थापकम् । ' मामायुरमृतमुपास्स्व
इतीन्द्रलिङ्गम् । 'इदं शरीर परिगृह्योत्थापयति' इति प्राणलिङ्गम् । — न वाचं विजिज्ञासीत
वक्तारं विद्यात् ' इति जीवलिङ्गम् । “आनन्दोऽजरोऽमृतः' इति ब्रह्मलिङ्गम् । अत्तश्चतुर्विध-
लिङ्गवशादुपपन्नः संशयः । तत्र प्रसिद्धेः प्राणो वायुरिति पूर्वपक्षः । सिद्धान्तस्तु । अत्र
प्राणशब्दः परब्रह्मपर एव । कुतः । तथाऽनुगमात् । तथा ब्रह्मत्वेनानुगमादवगमादित्यर्थः ।
अस्मिन्प्रकरण उपक्रमादिलिङ्गतात्पर्यपर्यालोचनयाऽऽनन्दाजरामृतप्रज्ञादीनां परमात्मधर्माणा-
मनुगमात् । तथा हि उपक्रमे तावद्वरं वृणीष्वेतीन्द्रेणोक्तः प्रतर्दनः 'त्वमेव मे वर वृणीष्व यं
त्वं मनुष्याय हिततमं मन्यसे' [ कौ ३ । १ ] इति हिततमत्वमेक लिङ्गम् । प्रज्ञात्मत्वं
द्वितीयम् । न ह्यचेतनस्य वायोस्तत्संभवति । ' न साधुना कर्मणा भूयान्भवति । न
वाऽसाधुना कनीयानेष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष एवा-
साधु कर्म कारयति तं यमधो निनीषते' [को० ३ । १] इति सर्वकर्मकारयितृत्व
तृतीयम् । स यो मा विजानीयान्नास्य केन चन कर्मणा लोको मीयते न मातृवधेन न
पितृवधेन [ कौ० ३।२] इति ब्रह्मज्ञानमात्रेण महापातकाद्यलेपोऽपरं लिङ्गम् ।
एवमन्यान्यपि लिङ्गान्युदाहर्तव्यानि । एतल्लिङ्गजातं ब्रह्मण्येवोपपद्यते न प्राणेन्द्रजीवेषु ।
तस्मात्प्राणो ब्रह्म ॥ २८ ॥
न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् ॥ २९ ॥
ननु नात्र ब्रह्म प्राणशब्दवाच्यम् । कुतः । वक्तुरात्मोपदेशात् । वक्ता हीन्द्रो
नाम देवताविशेषः स्वमात्मानं प्रतर्दनायाऽऽचचक्षे 'मामेव विजानीहि । इत्युपक्रम्य
माणोऽस्मि प्रज्ञात्मा' इति वक्तुरिन्द्रस्याऽऽत्मत्वेन प्राणोपदेशादिन्द्र एव प्राणशब्देनोच्यत इति
चेत् । अत्राभिधीयते । अध्यात्मसंबन्धभूमा ह्यस्मिन् । हि यस्मादस्मिन्नध्यायेऽध्यात्मसबन्धस्य
परमात्मसंबन्धस्य भूमा बाहुल्यं विद्यत इत्यर्थः । तथाहि-उपक्रमे तावत् ' यत्त्वं मनुष्याय
हिततमं मन्यस इति हिततमतयोपासन प्रारब्धम् । तत्तावत्परमात्मविषयम् । तदुपासन-
स्यैव मोक्षसाधनत्वेन हिततमत्वात् । ' तद्यथा रथस्यारेषु नेमिरर्पितो नाभावरा अर्पिता
एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञा-
त्माऽऽनन्दोऽजरोऽमृतः । [ कौ० ३ । ८] इति विषयेन्द्रियव्यवहारैरनभिभूतस्य
विषयेन्द्रियाश्रयस्य परमात्मनः संबन्धस्य बाहुल्यात्परमात्मोपदेश एवाय
न देवतात्मो-
पदेशः ॥ २९ ॥
२६ हरिदीक्षितकृता- [ प्रथमाध्याये- - नन्वेवं सति कथमिन्द्रेण प्रतर्दनं प्रति ' मामेव विजानीहि ' इत्युक्तं तत्राऽऽह- शास्त्रदृष्टया तूपदेशो वामदेववत् ॥ ३० ॥ इन्द्रस्य 'मामव विजानीहि' इत्युपदेशः शास्त्रदृष्टया नेतव्यः । ' अहमेव परं ब्रह्म' इति शास्त्रदृष्टया स्वानुभवेन च पश्यन्नेवमुक्तवान् — मामेव विजानीहि ' इति । अत्र दृष्टान्तः । वामदेववत् । यथा वामदेवः शास्त्रदृष्टया अह मनुरभव सुर्यश्च ' [बृ० १ । ४ । १० ] इत्याह तद्वत् । यत्तु परेणोक्तम्-अन्तर्यामिदृष्टया वामदेवोऽह मनुरभव सूर्यश्चेति प्रायुक्ते न त्वभेदाभिप्रायेण तथेहापीति । तन्न । दृष्टान्तासिद्धेः । नहि मम वामदेवस्या- न्तर्यामी स एव मन्वाद्यन्तर्यामीति वाक्यार्थः सभवत्यभवदिति प्रयोगापत्तेः । किं च शास्त्रदृष्टया तूपदेश इति सूत्र जीवब्रह्मणोरभेदमाह बाधकाभावात् । लाधवसहकृता अभेद- साधिकाः श्रुतयः स्मृतयश्च सहस्रशः सन्ति तासां व्याकोपाच ॥ ३० ॥ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैवि- ध्यादाश्रितत्वादिह तद्योगात् ॥ ३१ ॥ (११) यद्यप्यध्यात्मसंबन्धबाहुल्यं माऽस्त्विन्द्रपरम् । तथाऽपि न ब्रह्मपरम् । जीवमुख्यप्राणयो लिङ्गात् । जीवस्य तावदस्मिन्वाक्ये विस्पष्ट लिगमेतत् । ' न वाचं विजिज्ञासीत वक्तारं विद्यात् ' इत्यादि । वक्तृत्वादेर्जीवधर्मत्वात् । तथा मुख्यप्राणलिगमपि । अथ खद प्राण एव प्रज्ञात्मेद शरीरं परिगृह्योत्थापयति ' इति । शरीरधारणस्य मुख्यप्राणधर्मत्वात् प्राणसवादे वागादीन्प्राणान्प्रकृत्य ' तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्च धाऽऽत्मानं प्रविभज्यैतद्वाणमवष्टभ्य विधारयामि' [प्र० २ । ३ ] इतिश्रवणात् जीवमुख्यप्राणपरिग्रहे च प्राणप्रज्ञात्मनोः सह वृत्तित्वेनाभेदनिर्देशः स्वरूपेण च भेदनिर्देश उपपद्यते ' यो वै प्राण. सा प्रज्ञा या वै प्रज्ञा स प्राणः सह ह्येतावस्मिशरीरे वसत सहोल्कामत." ० ३ । ३ ] इति । तस्मान्न ब्रह्म प्राणशब्दवाच्यमिति चेत् अत्रोच्यते नाय पक्षः सम्य जीवो मुख्यप्राणो वेति । कुतः । उपासात्रैविध्यात् उपासनत्रैविध्यापत्तेरित्यर्थः । न ह्येकस्मिन्वाक्य उपासात्रैविध्यमभ्युपगन्तुं युक्तम् उपक्रमोपसहाराभ्यां हि व क्यैकत्वमवगम्यते । 'मामेव विजानीहि' इत्युपक्रम्य ' प्राणोऽसि प्रज्ञात्मा तं मामायुरमृतमुपास्स्व ' इत्युक्त्वाऽन्ते । स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽ मृतः । इत्येकरूपावुपक्रमोपसहारौ दृश्यते । तस्मादुपक्रमोपसंहारयोरैकरूप्याद्युक्तमकवाक्यत्व माश्रयितुम् । न च ब्रह्मलिङ्गमन्यपरत्वेन नेतु शक्यम् । दशानां भूतमात्राणां ब्रह्मण्याश्रित त्वात् । इहास्मिन्वाक्ये तस्य ब्रह्मलिङ्गस्य योगात्सत्त्वादित्यर्थः । यत्तु मुख्यप्राणलिङ्गं दर्शि तम्-' इदं शरीर परिगृह्योत्थापयति ' इति । तदसत् । प्राणव्यापारस्य परमात्माधी नत्वात् । न प्राणेन नापानेन मयों जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावु पाश्रितौ' [ काठ० २ । ५। ५] इति श्रुत्यन्तरे स्पष्टं तदाम्नानात् । यदपि ' . .. [ कौ० द्वितीयः पादः] ब्रह्मसूत्रवृत्तिः। २७ वाचं विजिज्ञासीत वक्तारं विद्यात् ' इत्यादिजीवलिङ्ग दर्शित तदप्यस्य वाक्यस्य ब्रह्मपरत्व निवारयितुं नेष्टे जीवस्य ब्रह्माभिन्नत्वात् । ' तत्त्वमसि' [ छा० ६ । ८ । ७ ] ' अह ब्रह्मास्मि' [ बृह० १ । ४ । १० ] इत्यादिश्रुतिभ्यो बुद्धयाद्युपाधिकृत विशेपमाश्रित्य ' ब्रह्मैव सञ्जीवः कर्ता भोक्ता ' इत्युच्यते । तस्योपाधिकृतविशेपपरित्यागेन स्वरूपं ब्रह्म दर्शयितु ' न वाच विजिज्ञासीत वक्तार विद्यात् ' इति ब्रह्माभिमुखीकरणार्थमुपदेशो न विरुध्यते । पुनश्च यदुक्तं ' सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतः' इति प्राणप्र- ज्ञात्मनोहेंददर्शनं ब्रह्मवादिनो नोपपद्यत इति तदसत् । बुद्धिप्राणयोर्ब्रह्मोपाधिभृतयोरेव भेदेन निर्देशात् । उपाधिद्वयोपहितस्य तु ब्रह्मणः स्वरूपेणाभेद इत्यतः प्राण एव प्रज्ञा- त्मेत्येकीकरणमपि न विरुध्यते । तस्मात्प्राणशब्दो ब्रह्मपर एवेति सिद्धम् । इयमपरा व्याख्या । नात्र ब्रह्मवाक्ये जीवप्राणलिङ्गविरोधः । कुतः । उपासात्रैविध्यात् । त्रिवि. धमिह ब्रह्मण उपासनमभिहितम् । प्राणधर्मेण प्रज्ञाधर्मेण स्वधर्मेण चेति । तत्र दृष्टान्तः । आश्रितत्वात् । अन्यत्रापि ' मनोमयः प्राणशरीरः ' [ छा० १४ । २] इत्यादावुपाविधर्मेण ब्रह्मण उपासनस्य श्रुत वादित्यर्थः । तस्मात्प्राणशब्दो ब्रह्मपर इति सिद्धम् ॥ ३१ ॥ (११) इति लक्ष्मीनरहरिसूरिसूनुहरिदीक्षितकृतौ ब्रह्मसूत्र विवृती प्रथमाध्यायस्य प्रथमः पादः ।। अथ द्वितीयः पादः । प्रथमे पादे ' जन्माद्यस्य यतः इत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम् । तस्य ब्रह्मणः सर्वज्ञत्वपूर्णत्वनित्यत्वसर्वात्मकत्वादयो धर्मा उक्ता एव भवन्ति । अर्थान्तरे प्रसिद्धानां च केषांचिच्छब्दानां ब्रह्मपरतया निर्णयः कृतः । अथेदानीमस्प- ष्टब्रह्मलिङ्गानां सदिग्धवाक्याना ब्रह्मपरत्वेन निर्णयाय द्वितीयतृतीयपादावारभ्येते- सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥ छान्दोग्यस्य तृतीयाध्याये शाण्डिल्यविद्यायामिदमाम्नायते- - सर्वं खल्विद ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुपो यथा क्रतुरस्मिल्लोके पुरुपो भवति तथेतः प्रेत्य भवति स क्रतु कुर्वीत ' [छा० ३ । १४ । १ ] मनोमयः प्राणशरीरो भारूपः सत्यसकल्प आकाशात्मा सर्वकर्मा सर्वकामः' [ छा० ३ । १४ । २] इत्यादि । तत्र संशयः । किमिह मनोमयावादिधर्मकः शारीर आत्मोपास्यत्वेनोप- दिश्यते किं वा परं ब्रह्मेति । किं तावत्प्राप्तम् । शारीर इति । कुतः । मनआदिसंब- " मन ब्रह्म - हरिदीक्षितकृता- प्रथमाच्या २० न्धस्य जीवे सुसंपादत्वात् । मनसो विकारों मनोमय इति मनःसंबन्धः । प्राणः शरी- रमस्येति प्राणसबन्धः । नचेदं द्वय परब्रह्मणि सुसपादम् । ' अप्राणो ह्यमनाः शुभ्रः [ मुण्ड० २ । १ । २ ] इत्यादिश्रुतिविरोधात् । तथा ' एष म आत्माऽन्तर्हृदयेऽणी- यान् ' [ छा० ३ । १४ । ३ ] इति श्रूयमाण च हृदयेऽवस्थानमणीयस्त्व च निरा- धारस्य सर्वगतस्य न कथंचिदुपपद्यते । तस्माजीव इति प्राप्ते ब्रूमः । परमेवेह मनोमयत्वादिधर्मैरुपास्यम् । कुतः । सर्वत्र प्रसिद्धोपदेशात् । सर्वत्र सर्वेषु वेदान्तेषु यत्प्रसिद्ध जगत्कारण पर ब्रह्म तदिह ' सर्वं खल्विदं ब्रह्म' इतिवाक्योपक्रमे श्रुतम् । तदेव मनोमयत्वादिभिर्धमॆविशिष्टमुपदिश्यत इति युक्तम् । 'सर्वं खल्विदं ब्रह्म तज्जला- निति शान्त उपासीत ' इत्येतस्मिञ्शमविधिपरे पूर्ववाक्ये श्रूयमाणं यद्ब्रह्म तदेव मनो- मयः प्राणशरीर इत्येताभ्यां तद्वितबहुव्रीहिभ्यां विशेष्यत्वेनापेक्ष्यते । शमवाक्यस्यायमर्थः- यस्मात्सर्वगत ब्रह्म तज्जत्वात्तल्लत्वात्तदनत्वात्तस्मात्सर्वात्मके ब्रह्मणि रागद्वेषादिसंभव उपा- स्तिकाले शान्तो भवेदिति। एतद्वाक्यग्ते ब्रह्मणि विशेष्यत्वेनान्विते मनोमयवाक्यमपि ब्रह्मपर भविष्यति । न च ब्रह्मणो मनःप्राणसंबन्धाद्यनुपपत्तिः । निरुपाधिके तदनुपपत्तावपि सोपाधिकस्योपास्यस्य चिन्तनार्थतया तदुपपत्तेः । तस्मात्सर्वेष्वपि वेदान्तवाक्येषु यद्- झोपास्यत्वेन प्रसिद्ध तदेवात्राप्युपास्यम् । नहि क्वचिदपि वेदान्ते जीवस्योपास्यत्वं प्रसिद्धं तस्माद्ब्रह्मैवोपास्यमिति सिद्धम् ॥ १ ॥ विवक्षितगुणोपपत्तेश्च ॥ २॥ किं च । वक्तुमिष्टा विवक्षिताः । तदिह ये विवक्षिता गुणा उपासनायामुपादेयत्वे- ने पदिष्टाः सत्यसकल्पत्वादयस्तेषां ब्रह्मण्येव युक्ततरत्वादित्यर्थः । सत्यसंकल्पत्वं हि.. सृष्टयादिष्वप्रतिबद्धशक्तित्वं तच परमात्मन्येवोपपद्यते । सत्यकामः सत्यसंकल्पः । [ छा० ८ । १ । ५ ] इतिश्रुतेः । किंच । ये ये जीवधर्मास्ते सर्वेऽपि सर्वात्मकस्य ब्रह्मणोऽपि धर्माः । तथा च श्रुतिस्मृती--' त्वं स्त्री त्वं पुमानसि त्व कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्व जातो भवसि विश्वतोमुखः ' [श्वे०४।३] इति । ' सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् । सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ' [ श्वे९ ३ । १६ ] इति । 'अप्राणो ह्यमनाः शुभ्रः [ मुण्ड० २ । १ । २] इति श्रुतिः शुद्धब्रह्मविषया । तस्माद्विवक्षितगुणोपपत्तेब्रह्मैवोपास्यम् । अनुपपत्तेस्तु न शारीरः ॥३॥ तुशब्दोऽवधारणार्थः । पूर्वसूत्रेण ब्रह्मणि विवक्षितानां गुणानामुपपच्या ब्रह्मैवोपास्यम् । शारीरो. जीवस्तु तेषां गुणानामनुपपत्तेर्नोपास्य इति सूत्रार्थः । विवक्षितगुणाश्च सत्यसं- द्वितीयः पादः ] ब्रह्मसूत्रवृत्तिः। २९ कल्पत्वादयः सत्यसंकल्पत्वं भाष्य उक्तम्-सत्यसंकल्पत्वं हि सृष्टिस्थितिलयेष्वप्रतिबद्धश:- क्तित्वमिति । तच्च परमात्मन्येवोपपद्यते न शारीरे ॥ ३ ॥ कर्मकर्तृव्यपदेशाच्च ॥४॥ इतश्च मनोमयत्वादिगुणको न शारीरः । कुतः । कर्मकर्तृव्यपदेशात्---' एतमितः प्रेत्याभिसंभविताऽस्मि ' [ छा० ३ । १४ । ४ ] इति । एतमिति प्रकृतं मनोमयत्वादि- गुणमीश्वरमुपास्यं कर्मत्वेन । न ह्येकस्मिशारीरे कर्मभावः कर्तृभावश्चाऽऽअस्येनोपपद्यते । तस्मान्न शारीर उपास्यः ॥ ४ ॥ शब्दविशेषात् ॥ ५॥ इतश्च मनोमयस्वादिगुणः परमात्मैव न शारीरः । कुतः । शब्दविशेषात् । मनोमय इत्यादिप्रथमान्तशब्दस्य परमात्मप्रतिपादकस्य सत्त्वादित्यर्थः । समानप्रकरणे श्रुन्यन्तरे 'यथा ब्रीहिवी यवो वा श्यामाको वा श्यामाकतण्डुलो वैवमयमन्तरात्मन्पुरुषो हिरण्मयः' [श० ब्रा० १० । ६।३ । २] इत्यादौ परमात्माभिधायको हिरण्मयः पुरुष इति विशिष्टः प्रथ- मान्तशब्दः। अन्तरात्मन्निति सप्तम्यन्तः शब्दः शारीरस्याभिधायको दृष्टः । इहापि प्रथमान्तः शब्दः परमात्मनोऽभिधायक इति तयोर्भेदोऽवगम्यते । तस्मान्न शारीर उपास्यः ॥ ५ ॥ स्मृतेश्च । स्मृतिरपि शारीरपरमात्मनोहेंदं दर्शयति- 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया [भ० गी०१८१६१] इत्यादिका । ननु 'नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता' [ बृ० ३।७ २३] इत्यादिश्रुतिभिः ' क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ' [ गी०१३।२ ] इत्या- दिस्मृतिभिश्च जीवपरयोर्भेदो निषिध्यते तत्कथमुच्यते शारीरादन्यः परमात्मेति । अत्रोच्यते- 'तत्त्वमसि' इत्युपदेशाप्राक् कर्मकर्तृत्वादिभेदव्यवहारो न विरुध्यते । गृहीते त्वात्मैकत्वे बन्धमोक्षादिसर्वव्यवहारसमाप्तिः स्यादिति भाष्योक्तेः ॥ ६ ॥ अर्मकौकस्वात्तद्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवञ्च ॥ ७ ॥ ननु नात्र परमात्मोपास्यः । कुतः । अर्भकौकस्त्वात् । अर्भकमल्पमोको नीडं यस्य सोऽर्भकोकास्तस्य भावोऽर्भकौकस्त्वं तस्मादित्यर्थः । एष म आत्माऽन्तर्हृदये' [छा० * शातिचदिति पाठ एतल्लिखितपुस्तके ।
हरिदीक्षितकृता- [ प्रथमाध्याये- ३ । १४ । ३ ] इत्यल्पायतनत्वश्रवणादित्यर्थः । किंच, स्वशब्देन च अणीयान्त्री हेर्दा यवाद्वा [छा० ३ । १४ । ३] इत्यीयस्त्वव्यपदेशाच्छारीर एवाऽऽराग्रमात्रो जीव इहोपदिश्यते न सर्वगतः परमात्मेति चेत् । अत्र समाधिः । नेति नाये दोप इत्यर्थ. । निचाय्यत्वात् । तत्र हृदयपुण्डरीक एवमणीयस्त्वादिगुणविशिष्टस्येश्वरस्य निचाय्यत्वादुपास्य- त्वादित्यर्थः । शालग्रामे विष्णुबुद्धिवद्धृदयपुण्डरीके परमात्मोपास्यत्वेनोपदिश्यते । नैता- वता सर्वगतत्वहानिः । तत्र दृष्टान्तो व्योमवदिति यथा सर्वगतमपि व्योम सूचीपाशाद्य- पेक्षयाऽर्भकोकोऽणीयश्च व्यपदिश्यत एव ब्रह्मापीति ॥ ७ ॥ संमोगमाप्तिरितिचेन्न वैशेष्यात् ॥८॥(१) ननु व्योमवत्सर्वगतस्य ब्रह्मणः सर्वप्राणिहृदयसंबन्धाचेतनत्वाविशेषाजीववसुखदु.रव- भवलक्षणस्य संभोगस्य प्राप्तिः स्यादिति चेन्न । कुतः । वैशेष्यात् । विशेष एव वैशेष्य स्वार्थे ष्यञ् । जीवपरमात्मनोरत्यन्तविशेषादित्यर्थः । शारीरः कर्ता भोका धर्माधर्मादि. साधनश्चेति तस्य संभोगप्राप्तिः । परमात्मा तु तद्विलक्षण । अपहतपाप्मत्वादिगुणकन्वात् । तस्मान्न तस्य संभोगनसङ्गः । परमार्थतो जीवपरयोरैक्येऽपि न जीवसबन्धि सुखदुःखादि- कर्मीश्वरे प्रसज्जते । तस्यासङ्गरवरूपत्वात् । नच तर्हि सुखलेपोऽपि न स्यादिति वाच्यम् । तस्य सुखस्य तत्स्वरूपत्वात् । ' आनन्दो ब्रह्म [ते० ३ । ६ ] इति श्रुतेः । लोकेऽपि बिम्बप्रतिबिम्बधर्मयोरसांकर्यस्य दृष्टत्वात् । तत्सभोगाप्रसङ्गान्परमात्मैवोपास्यो न शारीर इति सिद्धम् ॥ ८ ॥ (१ ) अत्ता चराचरग्रहणात् ॥ ९ ॥ कठवल्लीषु द्वितीयवल्ल्यवसाने पठ्यते-' यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचने क इत्था वेद यत्र सः ' [ क० १ । २ । २५ ] इति । अस्यार्थ:- ब्राह्मणक्षत्रियोपलक्षणं सर्व जगद्यस्यौदनस्थानीयं यस्य मृत्युश्चोपदशस्थानीयः । स पुरुषो यत्र वर्तते तत्स्थानमिदमित्थमिति को वेद न कोऽपि जानातीत्यर्थः । अत्रोदनोपसेचनश- ब्दाभ्यां कश्चिद्भक्षकः प्रतीयते । स जीवोऽग्निरीशो वेति त्रेधा सदिह्यते । त्रयाणां जीवा- ग्निपरमात्मनां विशेषानवधारणात् । जीव इति ताव प्राप्तम् । कुतः । ' तयोरन्यः पिप्पलं स्वाद्वत्ति' [ मुण्ड ० ३ । १ । १ ] इति जीवस्यात्तृत्वश्नवणात् । अथवा वह्निरत्ता भवेत् । ' अग्निरन्नादः ' [ बृ० १ । ४ । ६ ] इतिश्रुतेः । एव प्राप्ते ब्रूमः परमात्मा भवितुमर्हति । कुतः । चराचरग्रहणात् । चराचरयोः स्थावरजङ्गमयोरद्यत्वेन ग्रहणात्। नहि ब्रह्मक्षत्रोपलक्षितस्य कृत्स्नस्य जगतोऽत्तृत्व जीवाग्न्योः सभवति। ननु नेह ब्रह्मक्षत्रवाक्ये चराचरग्रहणमुपलभ्यते तत्कथ चराचर ग्रह]ण हेतुत्वेन गृह्यत इति चेत् । नैष. दोषः । ब्रह्मक्षत्रयोरोदनत्वेन मृत्यूपसेचनत्वेन च सर्बस्य प्राणिमात्रस्य कैमुत्यन्यायेना- अत्रात्ता द्वितीयः पादः ] न बह्मसूत्रवृत्तिः। ३१ तत्वस्य प्रतीयमानत्वात् । किंच : अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच भज्याच्च यत्तत्पश्यसि तद्वद [ क० १ । २ । १४ ] इतिधर्माधर्मकार्यकारण- कालत्रयातीते वस्तुनि नचिनेतसा पृष्टे सति यस्य ब्रह्म च ' इति वाक्येन यम उत्तरं ददौ । उक्तधर्माधर्माद्यतीतत्वमीश्वरादन्यस्य न सभवति । तस्मादीश्वरोऽत्र प्रतिपाद्यः । ननु — अनश्नन्नन्यो अभिचाकशीति ' [ श्वे० ४ । ६] इतिश्रुत्येश्वरेऽत्तृत्व निषिध्यत इति चेत् । अत्र समाधिः । अत्रात्तृत्व सर्वसहर्तृत्व तस्य जन्मादिसूत्रे तटस्थब्रह्मलक्षणत्वात् । तस्मादीश्वर एवात्ता ॥ ९ ॥ प्रकरणाञ्च ॥ १० ॥ (२) इतश्च परमात्मैवात्ता । कुतः । प्रकरणात् । कठवल्ल्या परमात्मनः प्रकृतत्वात् । जायते म्रियते वा विपश्चित् ' [ का० १ । २ । १८ ] इत्यादि । प्रकृतग्रहण च न्याय्यम् । तस्मादत्ता परमात्मैवेति सिद्धम् ॥ १० ॥ (२) गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥ कठवल्लीष्वेव पठ्यते-'ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ' [का० १ । ३ । १ ]। अस्यार्थः-सुकृतस्य फलभूते लोके ब्राह्मणादिशरीरे या गुहा हृदयपुण्डरीकं तां गुहां प्रविष्टौ । ऋतं कर्मफलं पिबन्तौ भुञ्जानौ छायातपौ जीवेश्वराविति ब्रह्मविदो वदन्ति ते के तत्राऽऽह ये पञ्चाग्नयो ये च त्रिणाचिकेता इति । परमे परार्ध इत्यनेनैतेषां द्विपरार्धा- युपोऽन्ते ब्रह्मणा सह विदेहकैवल्यप्राप्तिरुक्ता भवति । ' ते ब्रह्मलोके तु परान्तकाले परा- मृतात्परिमुच्यन्ति सर्वे ' [ मुण्ड ० ३ । २ । ६ ] इति श्रुतेः । ब्रह्मणा सह ते सर्वे संप्राप्त प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्' इति स्मृतेश्च । छाया- तपौ छायातपवत्परस्परविलक्षणौ । इदं वाक्य विषयः । तत्र संशयः । किमिह बुद्धिजीवौ निर्दिष्टौ किं वा जीवपरमात्मानाविति । बुद्धिजीवाविति तावत्प्राप्तम् । 'गुहां प्रविष्टौ' इति तयोः परिच्छिन्नयोर्गुहाप्रवेशसभवाज्जडाजडरूपत्वेन च्छायातपवत्परस्परविलक्षणत्वाचेति प्राप्ते ब्रूमः । गुहां प्रविष्टौ जीवपरमात्मानौ वेदितव्यौ । कुतः । हि यस्माद्वावप्यात्मानौ । पिबन्तौ ' इति कर्मफलभोगश्रवणादेकस्तावदात्मा । द्वितीयोऽप्यात्मा न्याय्य एवं संख्या- श्रवणे च समानस्वभावेष्वेव लोके प्रतीतिदर्शनात् । अस्य गोर्द्वितीयोऽन्वेष्टव्य इत्युक्ते गौरव द्वितीयोऽन्विष्यते नाश्वो न वा पुरुषः । ननु पिबन्ताविति द्विवचनेनेश्वरेऽपि कर्मफल- भोगः प्रसज्जेत । न चेष्टापत्तिः । ' अनश्नन्नन्यो अभिचाकशीति' इतिश्रुतिविरोधादिति चेत् । नैष दोषः । छत्रिणो गच्छन्तीत्यत्रैकेनापि च्छत्रिणा बहूनां छत्रित्वोपचारदर्शनात् । एवमेकेनापि पिबता द्वौ पिबन्तावुच्येयातामिति भाष्योक्तेः । सर्वगतस्यापीश्वरस्य गुहाहि- . • ऋतं ३२ हरिदीक्षितकृता-- [ प्रथमाध्याये- तत्वं हि श्रुतिस्मृतिप्रसिद्धम् । अनयोरौपाधिक एव भेदो न पारमार्थिकः । तस्माज्जीव- परमात्मानौ गुहा प्रविष्टौ ॥ ११ ॥ विशेषणाञ्च ॥ १२ ॥ (३) इतश्च जीववपरमात्मानौ गृह्यते । कुतः । विशेषणात् । अस्मिन्प्रकरणे जीबपरमात्मनो- ख विशेषश्रवणादित्यर्थः । 'आत्मानं रथिनं विद्धि शरीर रथमेव तु ' [ का० १ । ३ । ३ ] इत्यादिना जीवविशेषणात् । तथा त दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गहरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति' [ का० १ । २ । १२] इतिपरमात्मविशेषणात् । प्रकरणं चेदं परमात्मनः । ब्रह्मविदो वदन्तीति वक्तृ- विशेपोपादानात् । किंच जीवेशावेव द्रष्ट्रद्रव्यभावेनानन्तरमत्रो विशिनष्टि- समाने वृक्ष पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । ' जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ' [मुण्ड० ३।१।२] इति । अत्र 'जुष्ट यदा पश्यत्यन्यमीशम्' इत्यु कत्वान्मुक्तावपि भेदोऽस्त्विति न शङ्कनीयम् । 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के विजा- नीयाद्विज्ञातारमरे केन विजानीयात् ' । [बृ० २ । ४ । १४] यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मय॑म् ' [ छा० ७ । २४ । १ ] ' ब्रह्म वेद ब्रह्मैव भवति ' [ मुण्ड ० ३ । २ । ९ ] इत्यादि श्रुतिसहस्र ब्रह्मैक्यं जीवस्य प्रतिपादयति तद्विरुध्येत । तस्मात्संसारदशायामेवोपास्योपासनादिभेदों न मुक्ताविति भाष्ये विस्तरः । तस्माद्गुहां प्रविष्टौ जीवपरमात्मानाविति सिद्धम् । यत्तु कश्चिदाह---गुहां प्रविष्टाविति विष्णुरूपे वेदितव्ये । ' घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम ८।६। १६ ] इति श्रुतेः । धर्मा दीप्तौ त्रिवृत तेजोबन्नात्मकं शरीरं समन्ताव्यापतु- ाप्य स्थितौ । तयोर्जुष्टिं सेवां मातरिश्वा आयुर्जगामेति श्रुत्यर्थ इति । तदसत् । त्रिवृतं त्रयो वा इमे त्रिवृतो लोकाः' [ऐ० आ० १।१ । २ ] इत्याम्नानात् । तत्रैलोक्यं व्यापतुः स्वतेजोभिव्याप्तवन्तौ । तयोर्जुष्टिं प्रीति मातरिश्वा वायुर्जगामेति श्रुन्यर्थात् । तथा चानुक्रा- न्तम् । ' धर्मा सध्रिस्तापसो वा घर्मो वैश्वदेवं चतुर्थी जगती' इति । समन्ता समन्तौ संव्याप्तदिगन्तौ । घर्मा दीप्यमानावग्न्यादित्यौ । तन्मतेऽन्नमयादिपञ्चरूपो विष्णुः । इमौ द्वौ विष्णू अक्षिस्थश्चैक इत्यष्टानां विष्णूनां मध्ये द्वयोरेव सेवाया वायोः स्वामिद्रोहतापत्तेश्च जीवस्यापि तदुपास्त्यभावे मोक्षाभावश्चेति दिक् ॥ १२ ॥ (३) अन्तर उपपत्तेः ॥ १३ ॥ छान्दोग्यस्य चतुर्थाध्याये शिष्यमुपकोसलं सत्यकामो गुरुराह । तत्रयं वाक्यमेतत् । य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति ' [छा०४ । १५ । १] इति तत्र चतुर्धी संशयः--किमयमक्षिस्थश्छायात्मोत जीवो वा कश्चिदेवो वा , Sko . यश्च- ' [ऐ० द्वितीयः पादः ] ब्रह्मसूत्रवृत्तिः। १३ परमात्मा वेति । स.ईश्यमानश्छायात्मेति तावत्प्राप्तम् । अक्ष्याधारदृश्यत्वयोस्तस्मिन्स्पष्ट- त्वात् । यद्वा जीवो भवितुमर्हति । स हि चक्षुषा रूपं पश्यश्चक्षुषि संनिहितो भवति । आत्मशब्दश्चास्मिन्पक्षेऽनुकूलो भवति । अथवा देवतात्मा स्यात् । आदित्यश्चक्षुर्भूत्वाऽ. क्षिणी प्राविशत् ।' [ ऐ० १।२ ] ' रश्मिभिरेषोऽस्मिन्प्रतिष्ठित: ' [ बृ० ५। ५] इत्यादिश्रुतेः । तस्माच्छायात्मजीवदेवेषु यः कोऽपि तत्रास्त्यल्पस्थाननिर्देशात् । सर्वथा न परमात्मेति प्राप्ते ब्रूमः-अन्तरोऽक्षिमध्यस्थः परमात्मैव । कुतः। उपपत्तेः । आत्मत्वामृतत्वा- भयत्वादीनामिहोपदिश्यमानानां परमात्मन्येचोपपत्तेरित्यर्थः ॥ १३ ॥ ननु सर्वगतस्य परमात्मनः कथ पुनरल्पकमक्षिस्थानमुपदिश्यत इत्याह- स्थानादिव्यपदेशाच्च ॥ १४ ॥ ईश्वरस्य सर्वगतस्यापि स्वल्पमप्यक्षिस्थानमुपपद्यते । यः पृथिव्यां तिष्ठन् ' [वृ० ३ । ७ । ३ ] इत्यादिना बहूनि स्थानानि निर्दिष्टानि । तेषु चक्षुरपि निर्दिष्टं क्षुषि तिष्ठश्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीर यश्चक्षुरन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ' [बृ० ३ । ७ । १८ ] इति स्थानादिव्यपदेशात् । आदिग्रह- णेन नामरूपमित्येवंजातीयकमपि निर्दिश्यमानं दृश्यते । इदन्द्रो ह वै नाम १।३] ' तस्योदिति नाम ' [छा० १ । ६ । ७ ] इत्यादिहिरण्यश्मश्रुरित्यादि रूप च । सर्वगतस्यारूपस्यानाम्नोऽपि ब्रह्मण उपासनार्थ स्थानविशेषो नामरूपनिर्देशश्च न विरुभ्यते । शालग्राम इव विष्णोः । तस्मादक्षिस्थः पुरुषः परमात्मैव ॥ १४ ॥ सुखविशिष्टामिधानादेव च ॥ १५ ॥ परमात्मैवात्र प्रकरण उपदिश्यते । कुतः । सुखविशिष्टाभिधानादेव । चो हेत्वन्तरप्रद- र्शनार्थः । स चास्मिन्नेव सूत्र उक्तः । एवकारेण नात्र संशयः कार्य इति सूचयति । सुखविशिष्टं हि ब्रह्म यद्वाक्योपक्रम उपक्रान्त प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति तदेवेहा- क्षिपुरुषत्वेनाभिहितम् । प्रक्रान्तग्रहणस्यैव न्याय्यत्वात् । कंशब्दस्तु लोके वैषयिके सुखे प्रसिद्धः। तथा खंशब्दो भूताकाशे प्रसिद्धः । यदि कं ब्रह्मेत्येतावदेव गृह्येत तदा वैष- यिकं सुखं ब्रह्मेति प्रतीतिः स्यात् । तथा खं ब्रह्मेत्येतावदेवोच्येत तदा भूताकाशं ब्रह्मेति प्रतीतिः स्यात् । परस्परविशेषितौ कखंशब्दौ पूर्णसुखात्मकं ब्रह्मेति गमयतः । द्वितीयब- ह्मशब्देऽनुपादीयमाने सुखं ब्रह्मगुण इति प्रतीतिः स्यात् । सा मा भूदिति तद्ग्रहणम् । तेन सुखस्वरूपं ब्रह्मेत्यर्थः सिध्यति । तदेवं वाक्योपक्रमे सुखविशिष्ट ब्रह्मोपदिष्टं तदेवा- क्षिपुरुषत्वेनोपासार्थमुपदिश्यत इति सिद्धम् ॥ १५ ॥ श्रुतोपनिषत्कगत्यमिधानाञ्च ॥ १६ ॥ इतश्चाक्षिपुरुषः परमात्मा । कुतः । श्रुतोपनिषत्कगत्यभिधानात् । श्रुताऽभ्यस्तोपनिषद्रम- ५ हरिदीक्षितकृता- [ प्रथमाध्याये- विद्या येन स श्रुतोपनिपत्कः । तस्य या वक्ष्यमाणा गतिस्तस्या अभिधानादित्यर्थः । ' अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्याऽऽदित्यमभिजायन्ते एतद्वै प्राणानामायतनमेतदमृतमेतदभयमेतत्परायणमेतस्मान्न पुनरावर्तन्ते' [ प्र० १ । १०] इति । स्मृतावपि- 'अग्निोतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गन्छन्ति ब्रह्म ब्रह्मविदो जनाः [ भ० गी० ८।२४ ] इति । ब्रह्मविदो या गतिर्देवयानारव्या सैवेहाक्षिपुरुषविदोऽप्यभिधीयते । तस्मादक्षिपुरुषः पर. मात्मा ॥ १६ ॥ अनवस्थितेरसंभवाच्च नेतरः ॥ १७ ॥ (४) किंचेतरश्छायापुरुषादिरक्षिपुरुप इति नायं पक्षः । कुतः । अनवस्थितेः । उपासकस्य सर्वत्राक्षिणि च्छायासपादकस्य पुरुपान्तरस्यानवस्थितेः । असनिधानादित्यर्थः । न हि कश्चिदुपासकः कचन पुरुप छायासपादक स्वचक्षु.समीपे सनिधाप्योपास्त इति कल्प- यितुमिति भावः । असभवाच्च । छायापुरुषादौ वामनीत्वभामनीत्वसयद्वामत्वामृतत्वादीनां गुणानामसभवादित्यर्थः । वामनीत्व कामप्रापकत्वम् । भामनीत्व जगद्भासकत्वम् । संयद्वामत्वं प्राप्तकामत्वम् । तस्मादक्षिपुरुषः परमात्मैव नेतरश्छायापुरुषादिरिति सिद्धम् ॥१७॥ (४) अन्तर्याम्यधिदेवादिषु तद्धर्भव्यपदेशात् ॥ १८ ॥ बृहदारण्यके पञ्चमाध्याये याज्ञवल्क्य उद्दालक प्रत्याह-तत्रत्यं वाक्यमेतत्- इम च लोक पर च लोक सर्वाणि च भूतान्यन्तरो यमयति ' इत्युपक्रम्य श्रूयते । पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम- न्तरो यमयत्येप त आत्माऽन्तर्याम्यमृतः ' [ बृ० ३ । ७ । १ ] इत्यादि । तत्रैवाधि- दैवतमधिलोकमधिवेदमधियज्ञमधिभूतमध्यात्म च कश्चिदन्तरवस्थितो यमयिताऽन्तर्यामी श्रूयते । स किमधिदैवाद्यभिमानी देवो वा प्राप्ताणिमाद्यैश्वर्यः कश्चिद्योगी वा किंवा परमा- त्मेति त्रेधा संशयः । कश्चिद्देवोऽन्तर्यामी भवितुमर्हति । तादृशपुण्यसचयस्य पूर्वमुपाार्जि- तत्वात् । यद्वाऽन्तर्यामी कश्चिद्योगी भवितुमर्हति । तादृशेन तपसा प्राप्ताणिमाद्यैश्वर्यत्वात् । न परमात्मा तस्य विकाररूपप्रपञ्चान्तर्यामित्वानुपपत्तेरिति प्राक्षे ब्रूमः-परमात्मैवान्तर्यामी न कश्चिद्देवो न कश्चिद्योगी । कुतः । तद्धर्मव्यपदेशात् । तस्य परमात्मनो ये धर्मा आत्मत्वामृत- त्वनियन्तृत्वज्ञेयवादयस्तेषां व्यपदेशानिर्देशादित्यर्थ । 'एप त आत्माऽन्तर्याम्यमृतः ' [ बृ० ३ । ७ । ३ ] इत्यन्तर्यामिणो जीवतादात्म्यममृतत्वं च श्रूयते । तद्देवतापरिग्रहे योगि- परिग्रहे वा कथमुपपद्येत । तावतैव चारितार्थेऽस्य मोक्षप्रतिपादकाकरणस्य वैयर्थ्यप्रसङ्गः। तस्मादन्तर्यामी परमेश्वरः ॥ १८ ॥ य यः + .G द्वितीयः पादः] ब्रह्मसूत्रवृत्तिः। प्रधानस्यान्तर्यामित्वं निराकरोति- न च स्मार्तमतद्धर्माभिलापात् ॥ १५ ॥ तर्हि स्मात सांख्यस्मृतिकल्पित प्रधानमन्तर्यामि भवतु । तस्यापि सर्वविकारकारण- स्वान्नियन्तृत्वमुपपद्यत इति प्राप्ते ब्रूमः । नच स्मार्तमन्तर्यामि भवितुमर्हति । कस्मात् । अतद्धर्माभिलापात् । तच्छब्देन प्रधानम् । न तदतत् । प्रधानभिन्नपरमात्मा । तस्य ये धर्मास्तेपामभिलापादभिधानादित्यर्थः । 'अदृष्टो द्रष्टाऽश्रुतः श्रोताऽमतो मन्ताऽविज्ञातो विज्ञाता ' [ बृ०३ । ७ । २३ ] इतिवाक्यशेपे श्रूयते । तथाऽऽत्मत्वमपि पूर्व प्रक्रान्तम् । एतेषामात्मत्वद्रष्टुत्वश्रोतृत्वादिधर्माणां प्रधानेऽभिधानाभावादित्यर्थः । अचेतनस्य द्रष्टुत्वाद्य- संभवाच्च । तस्मान्न प्रधानमन्तर्यामीति ॥ १९ ॥ ननु शारीरोऽन्तर्यामी भवतु तत्राऽऽह- शारीरश्चीमयेऽपि हि भेदेनेनमधीयते ॥ २०॥ (५) शारीरो जीवोऽन्तर्यामी । चेतनत्वात् । द्रष्टुत्वश्रोतृत्वमन्तृत्वादीनां धर्माणां तस्मिन्नु- पपत्तेश्चेति प्राप्ते ब्रूमः । नेति पूर्वसूत्रादनुवर्तते । शारीरोऽन्तर्यामी नेष्यते । कुतः । हि यस्मादुभये भेदेनैनमधीयते तस्माद्धेतोरित्यर्थः । उभये काण्वा माध्यदिनाश्चान्तर्यामिणो भेदेनैनं शारीरं पृथिव्यादिवदाधारत्वेन नियम्यत्वेन चाधीयते पठन्ति । । यो विज्ञाने तिष्ठन् ' [ बृ० ३ । ७ । २२ ] इति काण्वाः । य आत्मनि तिष्ठन् ' इति माध्यं- दिनाः । अत्राऽऽत्मविज्ञानशब्दौ शारीरस्य वाचकौ । तथाच विज्ञानात्मशब्दाभ्यां वाच्यस्य शारीरस्यान्तर्यामीश्वरस्तस्माद्भिन्न एव । ननु कथं पुनरेकस्मिन्देहे द्वौ द्रष्टारावुपपद्येते शारीर एक ईश्वरश्चैक इति । नच द्वौ द्रष्टारावासातामिति वान्यम् । 'नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता [बृ० ३ । ७ । २३ ] इत्यादिश्रुतिविरोधा- दिति चेत् । नैष दोषः । उपाधिनिमित्तकोऽयं शारीरान्तर्यामिणा दो न पारमार्थिकः। 'यत्र हि द्वैतमिव भवति तदितर इतर पश्यति ' [ बृ० २ । ४ । १४ ] इतिश्रुतिरविद्या- विषये सर्वव्यवहारं दर्शयति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ' [बृ० २। ४ । १४ ] इतिश्रुतिर्विद्याविषये सर्वव्यवहारं वारयति ॥ २० ॥ (५) अदृश्यत्वादिगुणको धर्मोक्तः ॥२१ ।। (६) मुण्डकोपनिषदि पठ्यते--' अथ परा यया तदक्षरमधिगम्यते । यत्तदद्रेश्यमग्राह्यम- गोत्रमवर्णमचक्षु श्रोत्र तदपाणिपादम् । नित्यं विभु सर्वगत सुसूक्ष्म तदव्यय यद्भूतयोनि परिपश्यन्ति धीराः ' [मुण्ड० १ । ५। ६ ] इति श्रूयते । तत्र संशयः-- किमयमदृश्यत्वादिगुणको भूतयोनिः प्रधान वा शारीरो वा परमात्मा वेति । प्रधानं भूत- योनिरिति तावत्प्राप्तम् । योनिशब्दस्योपादानवाचित्वात । प्रधानरय विश्वाकारेण परिण- ' ३६ हरिदीक्षितकृता- [ प्रथमाध्याये- ममानस्योपादानत्वात् । अदृश्यत्वादिधर्माणां प्रधाने संभवाच्च । यद्वा भूतयोनिः शारीरः स्यात् । योनिशब्दस्य निमित्तकारणवाचित्वात् । धर्माधर्मद्वारेण शारीरस्यापि भूतानि प्रति निमित्तकारणत्वादितिप्राप्तेऽभिधीयते-योऽयमदृश्यत्वादिगुणको भूतयोनिः स परमा- स्मैव । कुतः । धर्मोक्तेः। 'य, सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतद्ब्रह्म नाम रूपमनं च जायते' [ मुण्ड० १।१।९] इत्यादिपरमात्मधर्मोक्तेः । सामान्याकारेण सर्व ज्ञत्वं विशेषाकारेण सर्ववित्त्वं पर्यालोचनात्मकं तपश्चत्तादृशस्य ब्रह्मलिङ्गस्य कीर्तनादि. त्यर्थः : । नच जीवस्यात्र भूतयोनित्वं युक्तम् । उक्तधर्माणां तत्रासंभवात् ॥ ११ ॥ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥ इतश्च परमात्मा भूतयोनिर्नेतरौ प्रधानजीवौ । कुतः । विशेषणभेदव्यपदेशाभ्याम् । भेदेन व्यपदेशो भेदव्यपदेशः। विशेषण च भेदव्यपदेशश्च ताभ्यामित्यर्थः । विशेषणं तावत्--' दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यनः । अप्राणो ह्यमनाः शुभ्रः ' [मु० २ । १ । २ ] इत्यादि । नह्येतद्दिव्यत्वादिविशेषणं देहाध्यासवतो जीवस्य संभवति । भेदव्यपदेशोऽपि-' अक्षरात्परतः परः' इति । अक्षरशब्दवाच्यादब्याकृता- त्पर इति भेदेन व्यपदेशात् । अयमर्थः- अव्याकृतं नामरूपबीजशक्तिरूपं भुतसूक्ष्म परमात्माश्रयं तस्यैवोपाधिभूतं सर्वस्माद्विकारात्परं तस्मात्परतः पर इति भेदेन व्यपदे- शादिति । तस्मात्परमात्मा भूतयोनिः ॥ २२ ॥ रूपोपन्यासाञ्च ॥ २३॥ (६) किंच । परमात्मा भूतयोनिः । कुतः । रूपोपन्यासात् । तस्यैव भूतयोनेः सर्वविका- रात्मकं यद्यद्रूपं तस्योपन्यासात्कीर्तनादित्यर्थः । अग्निर्पर्धा चक्षुषी चन्द्रसूर्यों दिशः श्रोत्रे वाग्विवृताश्च वेदाः। वायुः प्राणो हृदयं श्रौतमस्य पद्यां पृथिवी ह्येष सर्वभूतान्तरात्मा' [मु० २॥ १।४] इति । एतत्सर्वं परमात्मन एवोचितं सर्वविकारकारणत्वात् । न शारीरस्य तनुमहिमत्वात् । नापि प्रधानस्य सर्वभूतान्तरात्मत्वासंभवात् । तस्मात्परमात्मैव भूतयोनिर्न प्रधानजीवाविति सिद्धम् ॥ २३ ॥ (६) वैश्वानरः साधारणशब्दविशेषात् । ॥ २४॥ (७) छान्दोग्यस्य पश्चमाध्याये वैश्वानरविद्यायामाम्नायते----' को न आत्मा किं ब्रह्म' [छा० ५ १ ] इति । आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रूहि [ छा० ५ । ११ । १ ] ' इत्युपक्रम्य ' यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरपास्ते स सर्वेषु ले.केष सर्वेष भतेष सर्वेष्वा- ' .. द्विती : पादः] ब्रह्मसूत्रवृत्तिः। ३७ त्मस्वन्नमत्ति' [ छा० ५ । १८।१ । ] 'तस्य ह वा एतस्याऽऽत्मनो वैश्वानरस्य* मूर्धेव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वाऽऽत्मा सदेहो बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदय गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः । [ छा० ५। १८ । २ ] इति वाक्यं विषयः । तत्र विशयः--किमयं वैश्वानरो जाठराग्निरुपदिश्यते किं वा भूताग्निरुत तदभिमानिनी देवताऽथवा परमात्मेति । वैश्वानर- शब्दस्य परमात्मनोऽन्यस्मिन्प्रसिद्धत्वाज्जाठरादिरेव वैश्वानर इति तावत्प्राप्तम् । ' अयमग्नि- वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते' [बृ० ५ । ९।१] इत्यादौ जाठरेऽग्नौ प्रयोगदर्शनात् । भूताग्निर्वा स्यात् । तत्रापि प्रयोगदर्शनात् - विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमहामकृण्वन् ' [ ऋ० स० १० । ८८ । १२ ] इति । 'वैश्वानरस्य सुमतौ स्याम राजा हि क भुवनानामभिश्रीः' [ ऋ० सं० १ । ९८ १] इत्याद्यायाः श्रुतेर्देवतायामैश्वर्याद्युपेताया प्रयोगदर्शनादिति पक्षत्रयप्राप्तिः । ' को न आत्मा किं ब्रह्म ' इत्युपक्रम आत्मशब्दप्रयोगस्य जीवे रूढत्वात्तद्वशेन वैश्वानरशब्दोऽपि नेयो जीववैश्वानरयोः सनिकर्षादिति प्राप्ते ब्रूमः-वैश्वानरः परमात्मैव । कुतः । साधारण- शब्दविशेषात् । साधारणशब्दयोर्विशेषः साधारणशब्दविशेषस्तस्मात् । वैश्वानरशब्दस्त्रयस्य साधारण आत्मशब्दश्च द्वयस्य । तथाऽपि विशेषदर्शनादित्यर्थः । तस्य ह वा एतस्याऽऽ- त्मनो वैश्वानरस्य मूर्धेव सुतेजाः' इत्यादिना द्युलोकाद्यशेषजगतो वैश्वानरावयवत्वं च श्रूयते । नचैतत्परमात्मनोऽन्यत्र सभवति । किं च ' को न आत्मा किं ब्रह्म इत्युपक्रमः परमात्मानमेव गमयति । तस्मात्परमेश्वर एव वैश्वानरः ।। २४ ॥ स्मर्यमाणमनुमानं स्यादिति ॥२५॥ किंच परमेश्वर एव वैश्वानरः । इतिशब्दो हेतौ । यस्मादेवं स्मर्यते तस्मादित्यर्थः । 'यस्याग्निरास्यं द्यौर्पर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः ' इति । एतस्याः स्मृतेरुदाहृतश्रुतिरेव मूलम् । मूलान्तरकल्पने मानाभावात् । यस्मादिदं ' यस्याग्निरास्यं द्यौर्मूर्धा ' इत्यादि स्मर्यमाणं रूपं मूलभूतां श्रुतिमनुमापयदस्य वैश्वानरशब्दस्य परमेश्वरपरत्वेऽनुमानं लिङ्गं गमकं स्यादित्यर्थः ॥ २५ ॥ शब्दादिभ्योऽन्तःप्रतिष्ठानाञ्च नेति चेन्न तथा दृष्टयु- पदेशादसमवात्पुरुषमपि चैनमधीयते ॥ २६ ॥ ननु परमेश्वरो न वैश्वानरः । कुतः । शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च । शब्दस्तावद्वै- श्वानरशब्दो न परमेश्वरे संभवति । अर्थान्तरे रूढत्वात् । स एषोऽग्निर्वैश्वानरः ' [ श० प० ब्रा० १० । ६ । ११ ] इति । आदिशब्दात् ' हृदयं गार्हपत्यः' [छा० ५। * एतल्लिखितपुस्तके-स्य द्युमूर्धेतिपाठः।
हारदक्षितकृता [प्रयमाध्याय- च १८ । २ ] इत्याद्यग्नित्रेताप्रकल्पनम् । ' तद्यद्भक्तं प्रथममागन्छेत्तद्धोमीयम् ' [छा०५ । १९ । १ ] इत्यादिना च प्राणाहुत्यधिकरणतासकीर्तनमेतेभ्यो हेतुभ्यो जाठरो वैश्वानरः प्रत्येतव्यः । किंच जाठरस्य वैश्वानरस्यान्तःप्रतिष्ठानमपि श्रूयते- :प्रतिष्ठानमपि श्रूयते-' पुरुषेऽन्तः प्रतिष्ठित वेद ' इति । तज्जाठरे सभवति । अथ वा भूताग्नेरन्तर्बहिश्चावतिष्ठमानस्यायं वैश्वानरनिर्देशो भविष्यति । तस्यापि द्युलोकादिसबन्धो मत्रवर्णादवगम्यते । तथा मन्त्रवर्णः ' यो भानुना पृथिवी द्यामुतेमामाततान रोदसी अन्तरिक्षम् ' [ ऋ० सं० १० । ८८ । ३] इत्यादिः । अथवा तदभिमानिन्याः कस्याश्चिद्देवताया वा निर्देशो भविष्यति । तस्या ऐश्वर्ययोगाद्द्युलोकाद्यवयवत्वसंभवात् । तस्मान्न परमात्मा वैश्वानर इति प्राप्ते ब्रूमः । परमात्मा वैश्वानरः । कुतः । तथा दृष्टयुपदेशात् । तथा जाठररूपेण परमेश्वरस्य दृष्टरुपासनाया उपदेशादित्यर्थः । ' मनो ब्रह्मेत्युपासीत ' [छा० ३ । १८ । १] इत्यादिवत् । ननु मुख्य एव जाठरोऽत्रोपदिश्यतामित्यत आह -असभवात् । मूर्धेव सुतेजाः ' इत्यादिविशेषस्य जाठरेऽसभवादित्यर्थः । किंच पुरुषमप्येनं वैश्वानरं वाजसनेयिनोऽधीयते--' स एषोऽग्निर्वैश्वानरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानर पुरुष- विध पुरुषेऽन्तः प्रतिष्ठितं वेद [ श० प० ब्रा० १० । ६ । १।११ ] इति । परमेश्वरस्य सर्वात्मत्वात्पुरुषत्व पुरुषेऽन्तःप्रतिष्ठितत्वं चोभयमप्युपपद्यतेतराम् । जाठरस्य तु पुरुषेऽन्तःप्रतिष्ठितत्वं स्यान्न तु पुरुषत्वम् । तस्मात्परमात्मा वैश्वानरः ॥ २६ ॥ अत एव न देवताभूतं च ॥ २७॥ देवता च भूतं च देवताभूतम् । द्वंद्वैकवद्भावः । भूताग्न्यभिमानिनी देवता भूता- ग्निर्वा नैव वैश्वानरः । कुतः। अत एव पूर्वोक्तेभ्य एव हेतुभ्यः। भूताग्नेरौष्ण्यप्रकाशमात्रात्मकस्य धुमूर्धत्वादिकल्पना नोपपद्यते । विकारस्य विकारान्तरात्मत्वासभवात् । ' यो भानुना' इति मत्रस्त प्रशंसाभिव्याप्तिमेवाऽऽह न तु धुलोकाद्यवयवत्वम् । देवताया अपीश्वराधीनैश्व- र्यवत्त्वान्न घुमूर्धत्वादिसंभवः ॥ २७ ॥ साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥ पूर्व जाठराग्निप्रतीको वा जाठराग्न्युपाधिको वा परमात्मोपास्य इत्युक्तमन्तःप्रतिष्ठि- तत्वाद्यनुरोधेन । इदानीं तु विनैव प्रतीकोपाधिकल्पनाभ्या साक्षादपि परमात्मोपासने न कश्चिद्विरोध इति जैमिनिराचार्यों मन्यते । पूर्वापरपर्यालोचनया प्रकृतपरमात्मपरिग्रहे निश्चिते तद्विषय एव वैश्वानरशब्दः केनचिद्योगेन वर्तिष्यते । विश्वश्चासौ नरश्चेति वा विश्वेषां नर इति वा विश्वे नरा अस्येति वा विश्वानरः सर्वात्मकः पुरुष इति फलितार्थः । विश्वानर एव वैश्वानरः । स्वार्थ एव तद्धितो राक्षसवायसादिवत् । अग्निशब्दोऽप्यग्रणीत्वादियोगा श्रयण परमात्मविषय एव भविष्यति । ननु जाठराग्न्यपरिग्रहेऽन्तःप्रतिष्ठितत्ववचन विरुध्ये तेति चेन्न । सर्वात्मकस्य परमेश्वरस्यान्तःप्रतिष्ठितत्वसभवात । तथा च वाजसनेयिश्रतिरवि पद्वतायः पाद: । बह्मसूत्रवृत्तिः। पूर्वोक्ता परमात्मपरिग्रहे संगच्छते न जाठराग्निपरिग्रहे । तस्याप्रकृतत्वात् । तस्माद्वैश्वानरः परमात्मा ॥ २८ ॥ ननु कथ पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्रुतिरुपपद्यते तत्राऽऽह-- अभिव्यक्तरित्याश्मरथ्यः ।। २१ ।। व्यापकस्यापि परमेश्वरस्य प्रादेशमात्रत्वमुपपद्यते । कुतः । अभिव्यक्तेः । उपासकानां प्रयोजनाय परमात्मा हृदयादिपूपलब्धिस्थानेषु प्रादेशपरिमाणोऽभिव्यज्यते । अतः परमेश्वरे सर्वात्मकेऽपि प्रादेशश्रुतिरुपपद्यत इत्याश्मरथ्य आचार्यों मन्यते ॥ २९ ॥ अनुस्मृतेर्बादरिः ॥ ३० ॥ प्रादेशमात्रहृदयमात्रप्रतिष्ठितेन मनसाऽनुस्मृतेानात्प्रादेशमात्रः परमेश्वर उच्यते । यथा प्रस्थमिता यवाः प्रस्था इत्युच्यन्ते तद्वत् । यद्यपि यवेपु स्वगतमेव परिमाण प्रस्थसबन्धा- व्यज्यते नचेह परमेश्वरे परिमाणमस्ति यद्धृदयसंबन्धादभिव्यज्येत । तथाऽपि यथाकथं चिध्द्यानाय प्रादेशमात्रश्रुतिप्रमाणादभ्युपगन्तव्यमिति बादरिराचार्यो मन्यते ॥ ३० ॥ संपत्तेरिति जैमिनिस्तथाहि दर्शयति ॥ ३१ ॥ मूर्धप्रभृतिचुबुकपर्यन्ते प्रादेशमात्रे वैश्वानरस्योपास्यत्वप्रतिपादनात्प्रादेशमात्रत्वं संप- नम् । ततः प्रादेशमात्रसंपत्तेः प्रादेशप्रमाणश्चिन्तनीय इति जैमिनिर्मन्यते । बाद- रिस्तु हृदयप्रदेशं प्रादेशप्रमाणमाह-आश्मरथ्योहृदयमूर्धादिचिबुकयोरन्यतरप्रदेशमाहेति भेदः । जैमिनिरस्मिन्नर्थे श्रुत्यन्तरसंवादमाह—तथाहि दर्शयतीति तथाहि समानप्रकरणं वाजसनेयिब्राह्मणे द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवानध्यात्ममूर्धप्रभृतिषु चिबुकपर्यन्तेषु देहावयवेषु संपादयत्प्रादेशमात्रसंपत्ति परमेश्वरस्य दर्शयति । तच्च ब्राह्मणं भाष्येऽनुसधेयम् ॥ ३१ ॥ आमनन्ति चैनमस्मिन् ॥ ३२॥ (७) किंचास्मिन्मूर्धचिबुकान्तराले प्रादेशमात्रमेनं परमात्मानं जाबाला आमनन्ति । य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठितः । सोऽविमुक्तः कस्मिन्प्रतिष्ठितः । वरणायां नास्या च मध्ये प्रतिष्ठित इति । कैव वरणा कैव नासीति । सर्वाणीन्द्रियकृतानि पापानि वारयति नाशयति । तत्र चेमामेव नासिकां वरणा नासीति निरुच्य पुनरप्यामनन्ति- कतमद्वाऽस्य स्थानं भवति भ्रुवोघ्रीणस्य च यः सधिः स एष द्युलोकस्य परस्य च संधि- र्भवतीति । तस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिः । तस्मात्परमेश्वर एव वैश्वानर इति सिद्धम् । इति श्रीब्रह्मसूत्रविवृतौ प्रथमाध्यायस्य द्वितीयः पादः ॥
हरिदाक्षितकृता- [प्रथमाध्याय- अथ तृतीयः पादः । धुभवाद्यायतनं स्वशब्दात् ॥१॥ मुण्डकोपनिषदि श्रूयते---- यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः। तमेवैक जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः' [मु० २ । २ । ५] इति । इदं वाक्यं विषयः । द्योश्च भूश्च द्युभुवौ ते आदी यस्य तद्युभ्वादि यदेतदस्मिन्वाक्ये द्यौः पृथिव्यन्तरिक्षं मनः प्राण इत्येवमात्मकं जगदोतत्वेन निर्दिष्टं तस्याऽऽयतनं किंचिदव- गम्यते । तत्र संशयः---किं द्युभ्वाद्यायतन प्रधानं वा वायुर्वाऽथवा भोक्ता वाऽऽहोस्विदी- श्वर इति । तत्र तावत्प्रधानं स्मृतिप्रसिद्धं परिग्रहीतव्य तस्य सांख्यस्मृतिप्रसिद्धया सर्वा- धारत्वावगमात् । अथ वा श्रुतिप्रसिद्धो वायुः स्यात् । 'वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति ' [ बृ० ३ । ७ । २] इति वायोरपि जगदायतनत्वश्रवणात् । शारीरो वा स्यात् । तस्य भोक्त- त्वाद्भोग्यं प्रत्यायतनत्वोपपत्तेः । एव विषये प्राप्ते ब्रूमः-द्युभ्वाद्यायतन ब्रह्म भवितुमर्हति । कुतः स्वशब्दात् । स्वस्य ब्रह्मणः प्रतिपादको यः शब्द आत्मशब्दस्तस्मादित्यर्थः । आत्मशब्देन प्रधानसूत्रात्मवायुपक्षौ प्रत्युक्तौ भवतः । तयोरात्मशब्दस्यासंभवात् । भोक्त्रा- स्मपरिग्रहोऽपि न युक्तः । कुतः । स्वशब्दात् । सद्ब्रह्माऽऽत्मेति स्वशब्दः । क्वचित्सच्छब्देन ब्रह्मण आयतनत्व श्रूयते सन्मूलाः सोम्येमाः प्रजाः सदायतनाः सत्प्रतिष्ठाः' [ छा० ६ । ८ । ४ ] इत्यादौ । कचिद्ब्रह्मशब्देन 'ब्रह्मैवेदममृतं पुरस्तात्पश्चाद्ब्रह्म दक्षिण- तश्चोत्तरेण ' [ मु० २।२।११ ] इत्यादौ । कचिदात्मशब्देन-आत्मा वा इदमेक, एवाग्र आसीत् ' [ ऐ० १।१] इत्यादौ । प्रकृते ' तमेवैकं जानथ आत्मानमन्या। वाचो विमुञ्चथ' [मुण्ड० २।२। ५] इत्यात्मशब्दश्रवणात् । तस्माद्द्युभवाद्याश्यतनं परं ब्रह्म ॥ १ ॥ मुक्तोपसृप्यव्यपदेशात् ॥ २॥ किंच युभवाद्यायतनं परमेव ब्रह्म । कुतः । मुक्तोपसृप्यव्यपदेशात् । मुक्तैरुपसृप्यं गम्यं मुक्तोपसृप्यम् । भावप्रधानो निर्देशः । मुक्तोपसृप्यत्वस्य व्यपदेशात्कथनादित्यर्थः। मुक्तैरुप सृप्यम् । देहादिष्वात्मबुद्धिरविद्या । ततस्तत्पूजनादौ रागः । तत्परिभवादौ द्वेषः । तदुन्छे- ददर्शनाद्भयं मोहश्च । एतेभ्यो मुक्तैरुपसृप्यमेतदिति शुभ्वाद्यायतनं प्रकृत्य व्यपदेशो भवति । ' भिद्यते हृदयग्रन्थिच्छिद्यन्ते सर्वसशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे '॥ [मु० २।२। ८] इत्युक्त्वोक्तम्-' तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ' [मु. ३ । २। ८] इति । ब्रह्मण एव मुक्तोपसप्यत्वं शास्त्रे प्रसिद्धम् । यथा यदा सर्व प्रमुच्यन्ते तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। कामा येऽस्य हृदि स्थिताः । अथ मोऽमृतो भवत्यत्र ब्रह्म समश्नुते' [ बृ० ४ । ४ । ७ ] इत्येवमादौ । तस्मादपि शुभ्वाद्यायतनं परं ब्रह्म ॥ २ ॥ नानुमानमतच्छब्दात् ॥ ३॥ अनुमानं सांख्यपरिकल्पितं प्रधानं न तद्द्युभवाद्यायतनम् । कुतः । अतच्छब्दात् । तस्यानुमानस्य शब्दस्तच्छब्दः । न तच्छन्दोऽतन्छब्दस्तस्मादतच्छब्दात् । न ह्यत्राचेतनस्य प्रधानस्य द्युभ्वाद्यायतनत्वप्रतिपादकः कश्चन शब्दोऽस्ति येन प्रधान जगदायतनत्वेनाव- गम्येत । तद्विपरीतस्य चेतनस्य प्रतिपादकः शब्दोऽस्ति 'यः सर्वज्ञः सर्ववित्' [मु. १। १ । ९] इत्यादि । ' तमेवैकं जानथ आत्मानम् ' [ मु० २।२।१] इत्यनेन प्रधानप्रतिषेधाच ।। ३ ।। प्राणभृच्च ॥ ४ ॥ चकारान्नेत्यतच्छब्दादिति चानुवर्तते । प्राणभृज्जीवो न द्युभ्वाद्यायतनम् । अतन्छब्दादेव । यद्यपि जीवस्याप्यात्मत्वं संभवति तथाऽप्युपाधिपरिन्छिन्नस्य तस्य सर्वज्ञत्वाधसभवान्न प्राण- भृद्युभवाद्यायतनम् । पृथग्योगकरणमुत्तरार्थम् ॥ ४ ॥ मेदव्यपदेशात् ॥ ५॥ इतश्च प्राणभृन्न द्युभवाद्यायतनं भवितुमर्हति । कुतः । भेदव्यपदेशात् । ' तमेवैक जानथ आत्मानम् ' [ मु० २।२।५] इतिज्ञेयज्ञातृभावेन भेदव्यपदेशादित्यर्थः । प्राणभृतो मुमुक्षुत्वेन ज्ञातृत्वात् । परिशेषाज्ज्ञेयं परं ब्रह्म । तदेव धुभ्वाद्यायतनं न प्राण- भृदिति गम्यते ॥ ५॥ प्रकरणात् ॥ ६॥ द्युम्वाद्यायतनं परं ब्रह्मैव । कुतः । प्रकरणात् । भवतीदं प्रकरणं परमात्मनः । 'कस्मिनु भगवो विज्ञाते सर्वमिद विज्ञातं भवति ' [मु. १ । १ । ३ ] इत्येकविज्ञानेन सर्वविज्ञानापेक्षणात् । परमात्मनि हि सर्वात्मके विज्ञाते सर्वमिदं विज्ञातं स्यात् । सर्वस्य प्रपञ्चस्य ब्रह्मविवर्तत्वात्ततस्मात्परमात्मैव शुभ्वाद्यायतनम् ॥ ६ ॥ स्थित्यदनाभ्यां च ॥ ७ ॥ (१) इतश्च परमात्मा शुभ्वाद्यायतनम् । कुतः । स्थित्यदनाभ्याम् । स्थितिश्चादनं च स्थित्यदने ताभ्याम् । पञ्चमीद्विवचनम् । द्युभ्वाद्यायतनं प्रकृत्य द्वा सुपर्णा सयुजा सखाया [भु० ३। १ । १ ] इत्यत्र स्थित्यदने निर्दिश्यते ।' तयोरन्यः पिप्पलं स्वाद्वात्त ' इत्यदनम् । ' अनश्नन्नन्योऽभिचाकशीति' इत्यौदासीन्येनावस्थानम् । ताभ्यां , तस्तस्य प्रकृतस्य ७। २ । ४२ हरिदीक्षितकृता- [प्रथमाध्याये- स्थित्यदनाभ्यां चेश्वरक्षेत्रज्ञौ तत्र गृह्यते । यदि चेश्वरो द्युम्वाद्यायतनत्वेन विवक्षितस्त क्षेत्रज्ञावृथग्वचनमवकल्पते । अन्यथा ह्यप्रकृतवचनमाकस्मिक- मसंबद्ध स्यात् । नचेश्वरात्क्षेत्रज्ञस्य पृथग्वचनमाकस्मिकमसबद्ध स्यादिति वाच्यम् । कर्तृ. त्वभोक्तृत्वादिना प्रतिशरीरं भिन्नस्य तस्य लोके प्रसिद्धत्वात् । तस्मात्परमात्मैव शुभ्वाद्या- यतनम् ॥ ७ ॥ (१) भूमा संप्रसादादध्युपदेशात् ॥८॥ छान्दोग्यस्य सप्तमाध्याये नारदं प्रति सनत्कुमारो नामादीन्युत्तरोत्तरं भूयांसि बहूनि तत्त्वान्युपदिश्यान्ते निरतिशय भूमानमुपदिशति भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति । यत्र नान्यत्पश्यति नान्यन्छृणोति नान्यद्विजानाति स भूमा । अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम् । [छा० । २३ । २४ ] इत्यादि । तत्र संशयः-किं प्राणो भूमा स्यादाहोस्वित्परमात्मेति । प्राण इति तावत्प्राप्तम् । कुतः । प्रश्नप्रत्युक्तिवर्जनात् । यथा हि ' अस्ति भगवो नाम्नो भूयः' [ छा० ७ । १ । ५] इति प्रश्नः । ' वाग्वाव नाम्नो भूयसी ' [ छा० १] इति प्रतिवचनम् । तथा ' अस्ति भगवो वाचो भूयः ' [ छा० ७ ! २ । २ ] इत्यादिपु तत्त्रेषु पुनःपुनः · अस्ति भगवो भूयः' इति नारदः पृच्छति सनत्कुमारश्च अस्ति ' इति प्रतिवक्ति । एव च प्रश्नप्रतिवचनपूर्वकत्वेनैव नामादीनि प्राणपर्यन्तानि तत्त्वान्युपदिश्य 'प्राणो वा आशाया भूयान् ' [ छा० ७ । १५ । १] इत्यादिना प्राणमेव भूयांसमुक्त्वा प्राणस्योपरि विनैव प्रश्नप्रतिवचनाभ्यां भूमानमवतारयति । अतः प्राणभूम्नोर्मध्ये विच्छेदकस्याभावात्प्राण एव भुमा । किंच ' एष तु वा अतिवदति यः सत्येनातिवदति ' [ छा० ७ । १६ । १] इति प्राणतत्त्वविदश्चातिवादित्वनामकमुत्कर्ष- मभिधाय प्रकरणविच्छेदकाशङ्कानिवृत्तये तदेवातिवादित्वमनुवर्त्य . भूमानमुपदिशन् प्राणभूम्नोरभेद दर्शयति । किंच सुषुप्तौ दर्शनश्रवणादिव्यवहारनिवृत्तिदर्शनात्संभवति प्राणस्यापि यत्र नान्यत्पश्यति' [छा० ७ । २३ ] इत्येतलक्षणम् । यच्च ' यो वै भूमा तत्सुख यो वै भूमा तदमृतम् ' [ छा० । २३ ] इति च तदुभयमपि प्राणस्याविरुद्धम् । ' प्राणो वा अमृतम् ' [ कौपी० ३।२०] इति श्रुतेः । सुपुप्तिसुखं च प्राणजन्यं भूमाऽत्र परमात्मैव । कुतः । सप्रसादादध्युपदेशात् । सम्यक्प्रसीदत्यस्मि- निति संप्रसादः सुपुप्तिस्थानम् । सुपुप्त्यवस्थायां प्राणो जागर्तीति प्राणोऽत्र संप्रसादोऽभि- प्रेयते । प्राणादूर्ध्वं भूम्न उपदेशादित्यर्थः । अयमथः एष तु वा अतिवदति यः सत्येनातिवदति' इत्यत्रातिवादित्वहेतुं प्राणोपासनं तुशब्देन व्यावार्य मुख्यातिवादित्वहे. तोर्ब्रह्मणः सत्यशब्देन पृथगुफंक्रमात् । सत्यं परं ब्रह्मोच्यते । परमार्थरूपत्वात् । ' सत्यं .
ज्ञानमनन्त ब्रह्म 'तरति यन्त्र तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। [ तै० २ । १ ] इति श्रुत्यन्तरात् । तथा परमात्मोपक्रमे शोकमात्मवित् ' [ छा० ७ । १ । ३ ] इति वेद्यतया परमात्मोच्यते । तथा नान्यत्पश्यति ' इति द्वैतनिषेधेन भूम्नो लक्षणमभिधीयते । एवंचाऽऽत्मविविदिपया प्रक- रणस्योत्थानमुपपन्न भविष्यति । नच प्राण एवेहाऽऽत्मा विवक्षित इति वाच्यम् । मुख्यया वृत्त्या प्राणस्याऽऽत्मत्वासभवात् । परमात्मज्ञानादन्यत्र शोकानिवृत्तेश्च । तस्माद्भूमा पर- मात्मैव भूमा ॥ ८ ॥ (१ ॥ धर्मोपपत्तेश्च ॥ ९॥ (२) अपि च ये भूम्नि श्रूयन्ते धर्मास्ते परमात्मन्युपपद्यन्ते । यत्र नान्यत्पश्यति नान्यच्छृ- णोति नान्यद्विजानाति स भूमा ' [ छा० ७ । २४ । १] इतिदर्शनादिव्यवहाराभावो जीवब्रह्मैक्यलक्षणोऽवगम्यते ' यत्र त्वस्य सर्वमात्मैवाभूत्तल्केन क पश्येत् ' [ बृ० ४ । ५ । १५ ] इत्यादिश्रुत्यन्तरात् । ' यो वै भूमा तत्सुख नाल्पे सुखम् ' [ छा० ७ । २३ । १ ] इति भूम्नः सुखरूपत्वविवक्षयोक्तम् । ' आनन्दो ब्रह्म [ तै० ३ । ६ ] इतिश्रुत्यन्तरात् । ' यो वै भूमा तदमृतम् ' [ छा० ७ । २४ ] इति । एते चान्ये च श्रूयमाणा धर्माः परमात्मन्येवोपपद्यते । तस्मात्परमात्मैव भूमेति सिद्धम् ॥ ९॥ (२) अक्षरमम्बरान्तधृतेः ॥ १० ॥ बृहदारण्यके पञ्चमाध्याये गार्गी याज्ञवल्यं पृच्छति--' कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति । स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घम् ' [ वृ० ३। ८ । ७ । ८ ] इत्यादि । तत्राक्षरशब्देन वर्ण उच्यते किंवा परमेश्वर इति संशयः । वर्ण इति तावत्प्राप्तम् । ' येनाक्षरसमाम्नायम् ' इत्यादौ वर्णेऽक्षरप्रसिद्धः । 'ओकार एवेदं सर्वम् ' [ छा० २ । २३ । ४ ] इत्यादौ श्रुत्यन्तरे वर्णस्याप्युपास्यत्व- सर्वात्मत्वावधारणात्प्रणव एवाक्षरशब्दवाच्य इति प्राप्ते ब्रूमः-परमेश्वर एवाक्षरशब्दवाच्यः । कुतः । अम्बरान्तधृतेः । पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणादित्यर्थः । यदूर्व दिवो यदक्पृिथिव्या ' इत्यारभ्य आकाश एव सदोतं च प्रोतं च ' इत्यन्तेन सर्व- विकारजातस्याऽऽकाशाधारकत्वमुक्त्वा । कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च । इति गार्या पृष्टस्य याज्ञवल्कस्यैतत्प्रतिवचनम् ' एतद्वै तदक्षरं गार्गि' इत्यादि--'एतस्मि- न्खल्वक्षरे गााकाश ओतश्च प्रोतश्च ' इत्यन्तम् । एतेन प्रतिवचनेनाक्षरस्याम्बरान्तधृति- रवगम्यते । नहीयमम्बरान्तधृतिः परमेश्वरादन्यत्र संभवति । यदपि ' ओकार एवेदं सर्वम् । इति तदपि ब्रह्मप्रतिपत्तिसाधनस्य प्रणवस्य स्तुत्यर्थं द्रष्टव्यम् । न क्षरत्यश्नुते बेत्यक्षरव्युत्पत्तिः सामञ्जस्येन ब्रह्मण्येवोपपद्यते । तस्मादक्षरं ब्रह्मैव । नन्वम्बरान्तनतिः प्रधाने संभवतीत्यत आह. , -- हरिदीक्षितकृता- [ प्रथमाध्याये- . , सा च प्रशासनात् ॥ ११ ॥ सा चाम्बरान्तधृतिः परमेश्वरस्यैव कर्म नान्यस्य । कुतः । प्रशासनात् । प्रशासनश्रव- गादित्यर्थः । प्रशासनं हीह श्रूयते-- एतस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः ' [बृ० ३ । ८ । ९] इत्यादि । तदेतत्सूर्यचन्द्रोपलक्षिताखिलजगच्छास- कत्वं चेतनस्येश्वरस्यैवोपपद्यते न त्वचेतनस्य प्रधानस्य । तदुक्तं भाष्यकृद्भिः--नह्यचेत- नानां घटादिकारकाणां मृदादीनां घटादिविषयं प्रशासनमस्तीति । तस्मादम्बरान्तधृतिः प्रधानस्य नोपपद्यते ॥ ११ ॥ अन्यमावव्यावृत्तेश्च ॥ १२॥ (३) किचाम्बरान्तधृतिः परमेश्वरस्यैव समवति न परमेश्वरस्यैव संमवति न प्रधानस्य नवा जीवस्य । कुतः । अन्यभावव्यावृत्तेः । अन्यस्य प्रधानस्य जीवस्य च भावो धर्मोऽन्यभावस्तव्यावृत्तेः । तद्विपरीतधर्मवत्त्वादित्यर्थः तद्वा एतदक्षरं गार्यदृष्टं द्रष्टश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ ' [ बृ० ३ । ८ । ११ ] इत्यादि । तत्रादृष्टत्वादिव्यपदेशः प्रधानस्यापि संभ- वति तथाऽपि द्रष्टुत्वादिव्यपदेशो न संभवत्यचेतनत्वात् । तथा · नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता' [बृ० ३।७। २३ ] इत्यादिना द्रष्ट- न्तरनिरासाच्च । न चेतनोऽपि शारीरोऽत्र गृह्यते तस्योपाधिमतः संसारिणः परिच्छिन्नत्वात् । नहि निरुपाधिकः शारीरो नाम भवति । ' अनीशया शोचति मुह्यमानः ' [ श्वे० ४। ७ ] इतिश्रुत्यन्तरे स्पष्टमुपाधिपरतत्रत्वोक्तेः । अचिन्त्यमहिम्नीश्वरे स्वाधीनमायोपाधिके तु अस्थूलमनण्वहस्वम् [बृ० ३ । ८ । ८ ] इत्यादिना सर्वे संसारधर्मा निषिध्यन्ते नान्यस्मिशारीरे । तस्मान्न जीवोऽप्यक्षरशब्दवाच्यः परमेश्वर एवाक्षरशब्दवाच्य इति सिद्धम् ॥ १२ ॥ (३) ईक्षतिकर्मव्यपदेशात्सः ॥ १३॥ (४) प्रश्नोपनिषदि श्रूयते---' एतद्वै सत्यकाम पर चापरं च ब्रह्म यदोकारः। तस्माद्विद्वानेते- नैवाऽऽयतनेनैकतरमन्वेति' [ प्र० ५ । २] इति प्रकृत्य श्रूयते यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं 'पुरुषमभिध्यायीत [प्र० ५। ५] इति । किमस्मिन्वाक्ये परं ब्रह्माभिध्येयमुपदिश्यतेऽथवाऽपरमित्येतेनैवाऽऽयतनेन परमपरं चैकतरमन्वेतीति प्रकृत- तत्वाद्भवति सशयः । तत्रापरं हिरण्यगर्भाख्यं ब्रह्माभिध्यायीतेति प्राप्तम् । कुतः । 'स तेजसि सूर्ये संपन्नः स सामभिरुन्नीयते ब्रह्मलोकम् ' [प्र० ५। ५ ] इति हिरण्यगर्भ- लोकप्राप्तिफलश्रवणात् । परब्रह्मध्यानस्य परमपुरुषार्थलक्षणस्य तावन्मात्रफलत्वानुपपत्तेश्च । नन्वपरब्रह्मपरिग्रहे परं पुरुषमिति विशेषणं नोपपद्यतेति चेन्न । तस्य हिरण्यगर्भस्य बद्धजीवापेक्षया परत्वोपपत्तरित्येवं प्राप्तेऽभिधीयते--परमेव ब्रह्मात्राभिध्येयमपदिश्यते । , तृतीयः पादः ] बह्मसूत्रवृत्तिः। कुतः । ईक्षतिकर्मव्यपदेशात् । वाक्यशेषेऽस्याभिध्यातव्यस्येक्षतिकर्मत्वेन व्यपदेशात् । ' स एतस्माज्जीवघनात्परात्परं पुरिशय पुरुषमीक्षते' [प्र० ५१५ ] इति । अस्यार्थः- ओकारो- पासनया ब्रह्मलोक प्राप्तः स एतस्माज्जीवघनाज्जीवसमष्टिरूपादुत्कृष्टाद्धिरण्यगर्भादप्युत्कृष्टं सर्वप्राणिहृदये शयान परमात्मानं पश्यतीति । तत्राभिध्यायतेरतथाभूतमपि वस्तु कर्म भवति । मनोरथकल्पितस्यापि ध्यायतिकर्मत्वात् । तदेवातथाभूतमीक्षतेरपि कर्म लोके दृष्टम् । अतः परमात्मैव सम्यग्दर्शनविपयभूत ईक्षतिकर्मत्वेन व्यपदिष्ट इति गम्यते । स एवेह परात्परपुरुषशब्दाभ्यां प्रत्यभिज्ञायते । अथ यदुक्त परमात्माभिध्यायिनो हिरण्यगर्भ- लोकप्राप्तिफलं परिच्छिन्न न युज्यत इति । नैष दोषः । त्रिमात्रेणोकारेणाऽऽलम्बनेन परमात्मानमभिध्यायतः फलं ब्रह्मलोकप्राप्तिः क्रमेण च सम्यग्दर्शनोत्पत्तिरिति क्रममुक्तिश्चेति। तस्मात्परमात्मैवोमित्यक्षरेणाभिध्यातव्य इति सिद्धम् ॥ १३ ॥ (४) दहर उत्तरेभ्यः ॥ १४ ॥ छान्दोग्यस्याष्टमाध्याये ' अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मि. नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम् ' [ छा० ८।१ । १] इत्यादिवाक्यं श्रूयते । ब्रह्मण उपलब्धिस्थानत्वेन शरीरं ब्रह्मपुरं तत्र दहरमल्पं हृदयपुण्ड- रीकं हृदयकमलं वेश्म गृहं तस्मिन्दहरपुण्डरीकवेश्मनि दहरोऽल्प आकाशो वर्तते । स किं भूताकाशोऽथवा जीव आहोस्वित्परमात्मेति संशये सति भूताकाश इति तावत्प्राप्तम् । आकाशशब्दस्य भूताकाशे रूढत्वात्तस्य च दहरायतनत्वादहरत्वम् । यद्वा दहरशब्दे- नाल्पत्वोक्तेः परिच्छिन्नो जीव इति प्राप्तम् । तस्य शरीरेण स्वस्वामिलक्षणसंबन्धात् । तत्र पुरस्वामिनः पुरैकदेशेऽवस्थानं लोके दृष्ट यथा राज्ञस्तद्वदस्यापि । तस्माद्भूताकाशो वा जीवो वा दहर इति प्राप्ते ब्रूमः-परमात्मैव दहराकारः । कुत उत्तरेभ्यः । वाक्य- शेषगतेभ्यो हेतुभ्य इत्यर्थः । ' यावावा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मि- न्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि च यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितमिति ' [ छा० ८।१ । ३ ] इत्यादि। यद्यप्याकाशशब्दो भूताकाशे रूढस्तथाऽपि तेनैव तस्योपमा नोपपद्यत इति तच्छङ्का निरस्ता । यथाकथंचिद्बाह्याभ्यन्तरत्वकल्पितेन भेदेनोपमानोपमेयभावः संभवतीति न युक्तं वक्तुम् । अगतिका हीयं गतिर्यत्काल्पनिकभेदाश्रयणम् । तथाऽपि दहराकाशस्य परिच्छि- नत्वाद्बाह्याकाशपरिमाणं नोपपद्यते । ईश्वरस्य तु अणोरणीयान्महतो महीयान् । [का० १ । २ । २०] इत्यादिश्रुतिभिरणुत्वं महत्वं चोपपद्यतेतराम् । किंच ' उभे अस्मि- न्द्यावापृथिवी अन्तरेव समाहिते' इत्यादिना द्यावापृथिव्याद्यशेषजगदाधारत्व दहराकाशस्य श्रूयते । एष आत्माऽपहतपाप्मा विरजो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः' छा० ८।१ । ५1 इतिचाऽऽत्मत्वमपहतपाप्मत्वादयश्च गणा न भता- .
- , ४६ हरिदीक्षित कृता- [ प्रथमाध्याये- काशे संभवन्ति । द्यावापृथिव्याद्याधारत्वापहतपाप्मत्वादिभ्योऽनन्यसाधारणेभ्यो हेतुभ्यः परमा- स्मैव दहाकाशः सोऽन्वेष्टव्यः स विजिज्ञासितव्य इति । नच दहराकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं च न सभवति तस्मिन्यदन्तरिति द्यावापृथिव्यादिपरविशेषणत्वेनोपा दानात् । द्यावापृथिव्यायेव विजिज्ञासितव्यमिति वाच्यम् । वाक्यशेषानुपपत्तेः । तथा हि---' अस्मिन्कामाः समाहिता एष आत्माऽपहतपाप्मा इत्यायुक्त्वा, अथ य इहाऽऽ मानमनुविद्य व्रजन्त्येताश्च सत्यान्कामान् ' [छा० ८।१ । ६ ] इत्यनेन वाक्यशेषेण सत्यकामसहितस्य परमात्मन एव विज्ञेयत्वप्रतिपादनात् । विस्तरस्तु भाष्येऽनुसंधेयः॥१४॥ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ १५॥ उत्तरेभ्य इत्यस्यैव प्रपञ्चोऽयम् । किंच दहरः परमात्मा । कुत.-गतिशब्दाम्याम् वाक्यशेपे परमात्मन एव प्रतिपादको गतिशब्दौ भवतः-'इमाः सर्वाः प्रजा अहरहर्ग च्छन्त्य एतं ब्रह्मलोकं न विदन्ति ' [ छा० ८।३ । २ ] इति । प्रजाशब्देनात्र जीवा उच्यन्ते । अहरहर्गछन्त्य इत्यनेन प्रत्यह तेपां गतिरुक्ता भवति । तत्र प्रकृतं दहरं ब्रह्मलोकशब्देनाभिधाय तद्विषया गतिः प्रजाशब्दवाच्यानां जीवानामभिधीयमाना दहरस्य ब्रह्मतां गमयति । ब्रह्मलोकशब्दं गतिं चाभिप्रेत्य गतिशब्दाभ्यामिति द्विवचनं सूत्रे प्रयुक्तम् । ब्रह्मलोकशब्दो हि प्रकृते दहरे प्रयुज्यमानो जीवभूताकाशशङ्कां निराकुर्वन्नस्य दहरस्य ब्रह्मतां गमयति । तथाहि दृष्टमित्यनेन सौम्य तदा संपन्नो भवति । [ छा० ६ । ८।१] इत्यादिश्रुत्यन्तरदर्शनेन प्रत्यह सुषुप्त्यवस्थायां जीवानां ब्रह्मविषयं गमनं दृढीकृतम् । यद्यपि षष्ठीसमासेन ब्रह्मलोकशब्दश्चतुर्मुखलोक गमयति तथाऽपि सर्वासां प्रजानामहरहस्तगमनासंभवाव लोको ब्रह्मलोक इति समानाधिकरणसमास एवाऽऽश्रयणीय इत्यस्मिन्नर्थेऽहरहर्गमनमेव लिङ्गमिति लिङ्गमित्यनेनोक्तम् । अहरहर्गच्छ न्त्योऽप्येतं ब्रह्मलोकं कुतो न विदन्तीत्याशङ्कायां तत्समाधानाय हेतुगर्भेणानृतेन हि प्रत्यूढा इति वाक्यशेषेण ब्रह्मज्ञानिनामेव तल्लाभो । भवति न तु तदज्ञानिनामित्युक्तं भवति । तथाच श्रुत्यन्तरं सुषुप्ति प्रकृत्य तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माऽभय रूपम् ' [६० ४ । ३ । २१ ] इति ॥ १५ ॥ धृतेश्च महिनोऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥ दहरः परमेश्वर एव । कतः। धृतेश्च । दहरोऽस्मिन्नन्तराकाश इति प्रकृत्याऽऽकाशौपम्यपू- र्वक तस्मिन्सर्वसमाधानमुक्त्वा तस्मिन्नेवाऽऽत्मशब्द प्रयुज्यापहतपाप्मत्वादिधर्मानुपदिश्योक्तं य आत्मा स सैतुविधृतिरेषां लोकानामसंभेदायेति । तत्र विधृतिरित्यात्मशब्दसामानाधि करण्याद्विधारक उच्यते । क्तिचः कर्तरि स्मरणात् । लोकविधारकत्व च परमेश्वरादन्यत्र त संभवति । यथा लोके केटागतिक्षेत्रमम्येष मनाना नलानामसंकराय सेतुरेवमय- सता - ' तृतीयः पादः] ब्रह्मसूत्रवृत्तिः। ४७ मात्मैपां लोकानां वर्णाश्रमादीनां विधारकः सेतुरसंभेदायासंकरायेत्यर्थः । अयं च सर्वलोक- विधारणलक्षणो महिमा परमात्मन्येवास्तीति निश्चयः । श्रुतिषूपलब्धेः । तथा च श्रुतयः- एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विवृतौ तिष्ठतः ' । बृ० ३ ८।९] 'एष सर्वेश्वर एष भूताधिपतिरेप भूतपाल एष सेतुर्विधारण एषां लोकानामसभेदाय ' [ बृ० ४ । ४ । २२ ] इत्याद्याः । तस्माद्दहराकाशः परमेश्वरः ॥ १६ ॥ प्रसिद्धेश्च ॥ १७ ॥ दहराकाशः परमेश्वर एव । कुतः। प्रसिद्धः । 'आकाशो वै नाम नामरूपयोनि- हिता' [ छा० ८ । १४ ] ' सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते' [छा० १।९।१] इति श्रुत्यन्तरे प्रसिद्धेः । जीवे तु न कचिदाकाशशब्दः प्रयुज्य- मानो दृश्यते । भूताकाशस्तु पूर्वमधिकरणसूत्रेण निराकृतः । तस्माइहराकाश ईश्वर एवेति सिद्धम् ॥ १७ ॥ इतरपरामर्शात्स इति चेन्नासंभवात् ॥ १८॥ ननु वाक्यशेषबलेन दहराकाशः परमेश्वरो यदि परिगृह्यते तर्हि 'जीवस्यापि वाक्यशेषे परामर्शोऽस्ति-' अथ य एष संप्रसादोऽस्मान्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाच ' [छा०८।३। ४ ] इति । अत्र हि संप्रसाद- शब्दः श्रुत्यन्तरे सुषुप्त्यवस्थाया दृष्टत्वादवस्थावन्तं जीवमुपस्थापयितुं शक्नोति नार्थान्तरम् । तथा शरीरव्यपाश्रयस्यैव जीवस्य शरीरात्समुत्थानं संभवति । यथाचेश्वरधर्मसमभिव्याहारादा- काशः परमेश्वरविषयोऽभ्युपगत एव जीवविषयोऽपि भविष्यति । तस्मादित्तरपरामर्शाहह- राकाशः स एव जीव उच्यत इति चेत् । नैष दोषः। कुतः । असभवात् । 'एप आत्माऽ- पहतपाप्मा विरजो विमृत्युः ' [ छा० ८ । १ । ५] इत्यादीना परमेश्वरधर्माणां जीवे बुद्धयाधुपाध्यभिमानिन्यसभवादित्यर्थः । तस्माइहराकाशः परमेश्वर एव ॥ १८ ॥ उत्तराञ्चेदाविर्भूतस्वरूपस्तु ॥ १९॥ इतरपरामर्शात्स इति चेन्नासभत्रात् ' [ब्र० सू० १ । ३ । १८ ] इत्यनेन सूत्रेण जाताया जीवाशङ्काया निराकरण कृत पुनरपि तस्याः समुत्थानं क्रियते । उत्तर- स्माद्वाक्यात् । दहरविद्याया उपार प्रजापतिविद्यायामिन्द्रविरोचनप्रजापतिसंवादे श्रूयते- य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मति होवाच ' [छा० ४ । १५ । १] इति । तत्र जीव इति तावत्प्राप्तम् । अवस्थात्रयोपन्यासात् । अक्षिणि पुरुप इति जागरणोप- न्यासः । य एष स्वप्ने महीयमानश्चरति , [ छा० ८।१०। १ । इति स्वप्नो- पन्यासः । तद्यत्रतत्सुप्तः समस्तः संप्रसन्नः स्वमं न विजानात्येष 'आत्मा [ छा० ८॥ ११ । १ ] इति । एवमवस्थात्रयविशिष्टं जीवमेव पुनःपुनः परामृश्य तस्मिन्नपहतप्राम- .
हारदीक्षितकृता- [प्रथमाध्याये- त्वादि दर्शयति-' एतदमृतमेतदभयमेतद्ब्रह्म ' [ छा० ४ । १५ । १ ] इति । तस्मा ज्जीवस्यापहतपाप्मत्वादिसभवाइहराकाशो जीव एवास्तु न परमेश्वरः । तस्य जाग्रदायव स्थाविहीनत्वादिति चेत् । अत्रोच्यते-आविर्भूतस्वरूपस्त्विति । तुना हेत्वाक्षेपपरिहारः । उत्तरस्मादपि वाक्यान्न जीवाशङ्का संभवतीत्यर्थः । कुतः । यतस्तत्राप्याविभूतस्वरूपो जीवो विवक्ष्यते नत्तु जीवत्वेन रूपेण । य एषोऽक्षिणि ' इत्युपलक्षित द्रष्टार निर्दिश्य पुनः पुनस्तमेव व्याख्येयत्वेनाऽऽकृष्य स्वप्नसुषुप्त्युपन्यासोपक्रमेण परं ज्योतिरुपपद्य स्वेनरूपेणा भिनिष्पद्यत इति यदस्य पारमार्थिकं स्वरूपं पर ब्रह्म तद्रूपतयैन व्याचष्टे न जैवेन रूपेण । यत्तत्परं ज्योतिरुपसंपत्तव्यं श्रुतं तत्पर ब्रह्म तच्चापहतपाप्मत्वादिधर्मकं तदेवास पारमार्थिक स्वरूप तत्त्वमसीत्यादिश्रुतिभ्यः । तत्र जीवस्य भूतगत्याऽवस्थावचन तस्माद संभवादिति पूर्वसूत्रस्थहेतु सिद्धः ॥ १२ ॥ अन्यार्थश्च परामर्शः ॥ २० ॥ नन्वीश्वरश्चेदहरः स्यात्तद्देष संप्रसाद इत्यादिना जीवपरामर्शो व्यर्थ इति तत्राऽऽह अन्यार्थोऽयं जीवपरामर्शो न जीवस्वरूपपर्यवसायी किं तर्हि परमेश्वरस्वरूपपर्यवसायी कथम् । संप्रसादशब्दवाच्यो जीवो जागरणव्यवहारे देहेन्द्रियाद्यभिमानी भूत्वा तद्वासना निर्मितांश्च स्वप्नानाडीचरोऽनुभूय श्रान्तः सन्नुभयशरीराभिमानात्समुत्थाय सुषुप्स्यवस्थाय परं ज्योतिराकाशशब्दितं परं ब्रह्मोपसंपत्तव्यमुपसंपद्य जीवस्वरूपं परित्यज्य ब्रह्मस्वरूपेणा भिनिष्पद्यते । तदेवोपसंपत्तव्यमात्माऽपहतपाप्मत्वादिगुणक ब्रह्मोपास्यमित्येवमर्थोऽयं जीव परामर्शः परमात्मपर एव ॥ २० ॥ (४) अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१॥ (५) ननु दहरोऽस्मिन्नन्तराकाश इत्यल्पत्वश्रवणादहरस्य परमात्मत्वं न संभवति जीवस्य त्वाराग्रोपमितस्याल्पत्वं युक्तं तस्माद्दहरो जीव इति चेत् । उक्तोऽस्य परिहारः अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेव व्योमवच्च' [ब्र० सू० १।२।७ इत्यत्रेव परिहारोऽनुसंधातव्यः । ' उत्तराचेत् ' इति सूत्रत्रयमधिकरणरत्नमालायामाध करणान्तरत्वेन व्याख्यातम् ॥ २१ ॥ (५) अनुकृतेस्तस्य च ॥ २२ ॥ मुण्डकोपनिषदि श्रूयते---- न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' [मु. २।२ १० ] इति । अस्यायमर्थः-तत्र पूर्वप्रकृते ज्योतिषि सूर्यचन्द्रादयो न भान्ति किंतु तमेव ज्योतिषां भासकं पुरतो भासमानं पदार्थमनु सर्व जगद्भाति किं तर्हि तस्य भासकपदार्थस्य भास सर्व विभातीति । अस्मिन्वाक्ये श्रूयमाणं जगद्भासकं किं सूर्यादिसदृशं चाक्षुषं तेजः किंचिदाहो तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। स्विचैतन्यमिति विषये किंचित्तेज इति तावत्प्राप्तम् । कुतः । सूर्यादितेजोभिभावकत्वात् । महतस्तेजसः संनिधौ स्वल्पं तेजोऽभिभूत भवति यथा सूर्यसंनिधौ प्रदीपः । तथाच सूर्या. दीनां यदभिभावकं तत्सूर्यादिभ्योऽप्यधिक तेजोन्तर भविष्यतीति प्राप्ते ब्रूमः । सूर्यादिभि- रभास्यमानं वस्तु चैतन्यमेव । कुतः । अनुकृतेः । अनुकृतिरनुकारोऽनुमानमिति यावत् । अनुमानादित्यर्थः । नहि लौकिक सूर्यादि तेजो भासमानमनुभाति सर्व जगत् । स्वप्रकाश- तया भासमानं चैतन्यमनु सर्व जगद्भासते । उदाहृतवाक्ये तस्य भासेति चतुर्थचरणेऽ- यमर्थोऽभिप्रेतस्तस्य भासा सर्वमिदं विभातीति । ननु तमेव भान्तमनुभातीत्यनुपपन्नं समानस्वभावेष्वनुकारदर्शनात् । गच्छन्तमनुगन्छतीत्यादा वितिचेत् । नायं नियमः । सुतप्तोऽयःपिण्डो दहन्तमग्निमनुदहति भौमं वा रजो वहन्त वायुमनुवहतीत्यादौ भिन्नस्वभा- वेष्वप्यनुकारदर्शनात् । न तत्र सूर्यो भातीति तच्छब्देन च 'हिरण्मये परे कोशे विरजं ब्रह्म निर्मलम् । तच्छु_ ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ।।' [मु० २।२।९] इत्यनेन ' यस्मिन्द्यौः पृथिवीचान्तरिक्षमोतम् ' [ मु० २ । २ । ५ ] इति प्रकृतं चैतन्यमेव परामृष्टम् । नच महतस्तेजसः सकाशादल्पतेजसः परिभव इति नियमान तमेव भान्तमनुभाति समिति नोपपद्यत इति वाच्यम् । सूर्यादितेजसा मण्यादितेजसः परिभवादर्शनात् । सूर्याधुपाधिषु चैतन्यतेजस एवोपलम्भाच्च । तस्मात्प्रकृतं चैतन्यमेवात्र वाक्ये प्रतिपाद्यम् ॥ २२ ॥ (५) अपि च स्मर्थते ॥ २३ ।। (६) किंच यूपत्वं चैतन्यस्यैव स्मर्यते भगवद्गीतासु- 'न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम || [भ० गी०१५। ६ ] इति । 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चानौ तत्तेजो विद्धि मामकम् ' ॥ [ भ० गी० १५ । १२ ] इति च ॥ २३ ॥ (६) शब्दादेव प्रमितः ॥ २४ ॥ कठवल्लीषु चतुर्थवल्लयामाम्नायते-' अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभब्यस्य ' [ का० २।१ । १२ ] इति । तत्र योऽयमङ्गुष्ठमात्रः पुरुषः श्रूयते स किं जीवः किं वा परमात्मेति संशयः । तत्राङ्गुष्ठमात्रपरिमाणोपदेशात्तावजीव इति माप्तम् । नापरिच्छिन्नस्य परमात्मनोऽङ्गुष्ठमात्रपरिमाणमुपपद्यते । जीवस्य तु कयाचित्कल्प- नया संभवत्यङ्गुष्ठमात्रत्वम् । तथाच स्मृतिः- - in हरिदीक्षितकृता- [ प्रथमाध्याये- ' अथ सत्यवतः कायापाशबद्धं वशं गतम् । अङ्गुष्ठमात्र पुरुप निश्चकर्प यमो बलात् ' [म० भा० ३।२९७।१७ ] इति । देहे मध्यप्रदेशेऽवस्थानाच्च जीव इति प्राप्ते ब्रूमः -परमात्मैवाङ्गुष्ठमात्रो भवितुमर्हति । कुतः । ' ईशानो भूतभव्यस्य ' इतिशब्दात् । अतीतानागतवर्तमानजगदीशितृत्वश्रवणादि- त्यर्थः । नहीशितव्यस्य जीवस्य तदुक्तमीशितृत्वं सभवति । पूर्व नचिकेतसा ब्रह्म पृष्टम्- अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्पश्यसि तद्वद ' [ का० १ । २ । १४ ] इति । तदेवात्र वाक्येऽनुसंधीयते ॥ २४ ॥ कथं पुनः सर्वगतस्य परमात्मनः परिच्छिन्नपरिमाणोपदेश इत्याशङ्कायामाह हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥ (७) तुशब्दश्चोद्यज्यावृत्त्यर्थः । सर्वगतस्य परमात्मनोऽपि हृदयेऽवस्थानमपेक्ष्याङ्गुष्ठमात्रत्वमिदमु- च्यते। विनोपाधिमतिमात्रस्याङ्गुष्ठपरिमाणमञ्जसोपपद्येत । ननु मशकादिगजान्तानां प्राणिनां हृदयपरिमाणस्यानियतत्वात्कथमङ्गुष्ठमात्रत्वं घटतेति चेत् । नैष दोषः । मनुष्याधिकारत्वाच्छा- स्त्रस्येति शेपः । अविशेपेण प्रवृत्तमपि शास्त्रं मनुष्यानेवाधिकरोति । शक्तत्वादर्थित्वादपर्युद- स्तत्वादुपनयनादिशास्त्राच्च । मनुष्यहृदयापेक्षमेव परमात्मन इदमङ्गुष्ठमात्रत्वमुच्यते न मशका- दिहृदयापेक्षम् । तेषां शास्त्राधिकाराभावात् । द्विविधा हि वेदान्तानां प्रवृत्तिः क्वचित्परमा- त्मस्वरूपनिरूपणपरा कचिज्जीवब्रह्मैकत्वोपदेशपरा चेति । तदस्मिन्प्रकरणे विज्ञानात्मनः परमात्मनैकत्वमुपदिश्यते नाङ्गुष्ठमात्रत्वम् । एतमेव चार्थमुत्तरवाक्येण स्फुटी करिष्यति- अङ्गुष्ठमात्रः पुरुपोऽन्तरात्मा सदा जनानां दृदये संनिविष्टः' [ का० २।६। १७] इत्यादिना । तस्मादङ्गुष्ठमात्रः परमात्मा ॥ २५ ॥ (७) तदुपर्यपि बादरायणः संभवात् ॥२६॥ अङ्गुष्ठमात्रश्रुतिर्मनुष्यहृदयापेक्षया प्रवृत्ता । मनुष्याधिकारत्वान्छास्त्रस्येत्युक्तम् । तत्प्र- सङ्गेनेदमधिकरणम् । बृहदारण्यके तृतीयाध्याये श्रूयते--' तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथीणां तथा मनुष्याणाम् ' [ बृ० १ । ४ । १० ] इति । तत्र देवादयो ब्रह्मविद्यायामधिक्रियन्ते न वेति सशयः । देवा ऋषयश्च विद्यायां नाधिक्रियन्त इति तावत्प्राप्तम् । कुतः। अधिकारिलक्षणाभावादिति प्राप्ते सति-देवादीनामप्यधिकारोऽ- स्तीति बादरायण आचार्यों मन्यते । कस्मात् । सभवात् । सभवति हि तेषामप्यधिकारका- रणम् । तत्रार्थित्वं तावन्मोक्षविषयं देवादीनामपि संभवति विकारविषयविभूत्यनित्यत्वालो- चनादिहेतुकम् । तथा सामर्थ्यमपि तेषा संभवति मन्त्रार्थवादेतिहासपुराणादिभ्यो विग्रह- वत्त्वावधारणात् । नच तेषामुपनयनाभावाद्वेदाधिकारो नास्तीति वाच्यम् । तदभावेऽपि तेषां स्वयंप्रतिभातवेदत्वात्तदधिकारोऽस्ति । अपि चैषां विद्याग्रहणार्थ ब्रह्मचर्य श्रूयते- ' ' १ तृतीयः पादः] बह्मसूत्रवृत्तिः । ५१ एकशत ह वै वर्षाणि मधवान् प्रजापतौ ब्रह्मचर्यमुवास [ छा० ८।११ । ३] इत्यादौ । तस्मादेवानामपि ब्रह्मविद्यायामधिकारो न निवारयितुं शक्यते ॥ २६ ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ २७ ॥ ननु देवादीनामपि विग्रहवत्त्वेन विद्यायामधिकारस्वीकारे सति कर्मण्यपि शरीरितया ऋत्विगादिवदिन्द्रादीनामपि सनिधानेन कर्माङ्गत्व स्यात् । तच्च न सभवति । बहुषु यागेपु युगपदेकस्येन्द्रस्य स्वरूपेण सनिधानानुपपत्तेः । तदा च. कर्मणि देवताभावाद्विरोधः स्यादिति चेत् । नायमस्ति विरोधः । कुतः । अनेकप्रतिपत्तेः । एकस्यापीन्द्रादेर्युगपदने- कस्वरूपग्रहणसंभवादित्यर्थः । कथमेतदवगम्यत इति तत्र हेतुमाह- दर्शनादिति । तथा हि- कति देवा' इत्युपक्रम्य 'त्रयश्च त्री च शता त्रयश्च त्री च सहस्रा' इति निरुच्य 'कतमे त ' इति पृच्छायां — महिमान एवैतेषामेते त्रयस्त्रिंशत्त्वेव देवाः ' [ बृ० ३।९।१ २] इति निर्बुवती श्रुतिरेकैकस्या देवताया अनेकरूपतां दर्शयति । तथा स्मृतिरपि- 'आत्मनो वै शरीराणि बहूनि भरतर्षभ । योगी कुर्याद्बलं प्राप्य तैश्च सर्वैर्मही चरेत् ।। प्रामुयाद्विषयान्कैश्चिकैश्चिदुग्नं तपश्चरेत् । संक्षिपेच्च पुनस्तानि सूर्यो रश्मिगणानिव' ॥ इत्यादिका प्राप्ताणिमाद्यैश्वर्याणां योगिनामपि युगपदनेकशरीरयोगं दर्शयति किमु वक्तव्यं निसर्गसिद्धानां देवानां बहुरूपग्रहणसामर्थ्यमस्तीति । तस्मादेकैका देवता बहुभी रूपैरात्मानं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छति । परैश्च न दृश्यतेऽन्तर्धानादिश- क्तियोगात् । तरमान्न कर्मणि विरोधः । अनेक प्रतिपत्तेर्दर्शनादित्यस्यापरा व्याख्या-विन. हवतामपि देवानां कर्माङ्गभावचोदनास्वनेकविधत्व दृश्यते । यथाऽनेकैभॊजयद्भिर्युगपदेको भोज्यते । यथा बहुभिर्नमस्कुर्वाणैर्युगपदेको नमस्क्रियते । तथा विग्रहवतीमेकां देवतामु- दिश्य बहवो युगपत्स्वं स्व हविस्त्यक्ष्यन्तीति न कश्चित्कर्मणि विरोधः ॥ २७ ॥ शब्द इति चेन्नातः प्रभवात्मत्यक्षानुमानाभ्याम् ॥ २८॥ ननूक्तप्रकारेण देवानां विग्रहवत्त्वाभ्युपगमान्माऽस्तु सर्वाङ्मचोदनासु विरोधः शब्दे तु विरोधः प्रसज्जते । तथा हि-औत्पत्तिको हि शब्दस्यार्थेन संबन्धस्त सबन्धमाश्रित्यानपे- क्षत्वादिति वेदस्य प्रामाण्यं स्थापितम् । देवता विग्रहवती ह्यभ्युपगम्यमाना यद्यप्यैश्वर्ययो. गायुगपदनेककर्मसबन्धीनि हबीषि. भुञ्जीत तथाऽपि विग्रहयोगादस्मदादिवज्जननमरणवती सेति नित्यस्य वेदरूपशब्दस्यानित्येनार्थेन नित्यसंबन्धाभावे यद्वैदिकशब्दे प्रामाण्य स्थापित तस्य विरोधः स्यादिति चेत् । नायमष्यस्ति विरोधः । कुतः । अतः प्रभवात् । अत एवं हि वैदिकाच्छब्दाद्देवादि जगत्प्रभवति । कथमेतदवगम्यते । प्रत्यक्षानुमानाभ्याम् । प्रत्यक्षं तथा ५२ हरिदीक्षितकृता- [ प्रथमाध्याये- श्रुतिरनुमानं तु स्मृतिः । श्रुतिस्मृतिम्यामित्यर्थः । स्वप्रामाण्यं प्रति सापेक्षत्वात्स्मृतिरनुमा- नमित्युच्यते । ते हि श्रुतिस्मृती शब्दपृर्विका सृष्टिं दर्शयतः- एत इति वै प्रजापतिर्दे- बानसृजतासृग्रमिति मनुष्यानिन्दव इति पितृस्तिरः पवित्रम् ' इत्यादिका श्रुतिः । स्मृतिरपि- 'अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ' इति ।। नाम रूपं च भूतानां कर्मणां च प्रवर्तनम् । वेदशब्देभ्य एवाऽऽदौ निर्ममे स महेश्वरः ' [ मनु० १ । २१ ] इति । नन्वेवं वेदस्य नित्यत्वं देवादीनामनित्यत्वं चोदाहृतवाक्यैः प्रतीयत इति न नित्यानि. त्यसंबन्धरूपो विरोधः परिहृत इति चेत् । उच्यते । व्यक्तीनामनित्यत्वेऽप्याकृतीनां नित्य- तया तासामेव शब्दार्थत्वेन शव्दार्थयोः संबन्धस्यौत्पत्तिकत्वसिद्धर्न विरोधः । ननु शब्दार्थ आकृतिर्भवतु तथाऽपि कथं वर्णात्मकस्य वेदस्य नित्यत्वं वर्णानां प्रत्युच्चारणं भेदस्य प्रती- यमानत्वादनित्यत्वादिति चेन्न । वर्णाना स एवाय गोशब्द इति प्रत्यभिज्ञायमानत्वात् । प्रतिपुरुष शब्दभेदप्रतीतिस्तु ध्वनिरूपशब्दनिष्ठा न तु वर्णरूपनिष्ठाऽतो वेदस्य नित्यत्वं सिद्धमित्युक्तम् । ततश्च नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्य- विरुद्धम् ॥ २८॥ अत एव च नित्यत्वम् ॥ २९ ॥ अत एवाऽऽकृतेः शब्दार्थत्वादेव बेदस्य नित्यत्वम् ।। २९ ॥ समाननामरूपत्वाचाऽऽवृत्तावप्यवि- रोधो दर्शनात्स्मृतेश्च ॥ ३०॥(८) नन्वाकृतीनां पदार्थत्नेऽपि प्रलये सर्वाकृतिव्यक्तिनाशे पुनस्तदाकृतिकव्यक्त्युत्पत्ती प्रमाणाभावान्नित्यानित्यसंयोगविरोधस्तदवस्थ इति चेत् । सृष्टिप्रलययोरावृत्तावपि शब्दे विरोधो नास्ति । कुतः । समाननामरूपत्वात् । ससारस्यानादित्वात्प्रतिसृष्टि तत्तदाकृति- कमेव जगज्जन्यते न विलक्षणम् । प्रलये सर्व वस्तु संस्कारावशेषमेव नश्यति नतु निर- न्वयध्वंसः । ज्ञानस्येवार्थस्यापि सजातीयकार्योत्पत्तिदर्शनेन संस्कारागीकारात् । दृष्टानु- श्रावकसुखदुःखविषयौ च रागद्वेषौ भवतो न विलक्षणविषयौ भवत इत्यतो धर्माधर्मफल- भूतोत्तरा सृष्टिर्निष्पद्यमाना पूर्वसृष्टिसदृश्येव निष्पद्यते । समाननामरूपतां च श्रुतिस्मृती दर्शयतः- सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो- [ ऋ० सं० १० । १९० । ३ ] इति । सूर्यचन्द्रप्रभृति जगद्यथा क्लुप्तं पूर्व- मासीत्तथाऽस्मिन्कल्पे परमात्माऽकल्पयदित्यर्थः । स्मतिश्च- स्वः , सृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। ५३ ऋषीणां नामधेयानि याश्च वेदेषु सृष्टयः । शर्वर्यन्ते प्रसुप्तानां तान्येवैभ्यो ददात्यजः ॥ यथावृतुलिङ्गानि नामरूपाणि पर्यये । दृश्यन्त तानि तान्येव तथा भावा युगादिषु ॥ इत्यादिका । तस्मान्न पूर्वोक्तविरोध इति ॥ ३० ॥ (८) मध्वादिष्वसंमवादनधिकारं जैमिनिः॥ ३१ ॥ शङ्कासूत्रमिदम् । देवानां ब्रह्मविद्यायामनधिकारं जैमिनिराचार्यों मन्यते । मधुविद्या- दिष्वधिकारासंभवात् । ' असो वा आदित्यो देवमधु ' [ छा० ३। १ । १ ] इत्यादि- कासु विद्यास्वादित्यादीनामुपास्यत्वात् । तत्राऽऽदित्यादीनामनधिकारः । आदित्यान्तराभा- वात्स्वस्यैवोपास्योपासकत्वायोगात् । तथा च ब्रह्मविद्यायामधिकारागीकारे विद्यात्वाविशे- षात्तत्राप्यधिकारः :: स्यात् । तत्र चाधिकारासंभवाब्रह्मविद्यायामप्यधिकारो न सभवतीति शङ्काभिप्रायः ॥ ३१ ॥ ज्योतिषि भावाच ॥३२॥ किंच परिदृश्यमाने ज्योतिर्मण्डल एव सूर्यचन्द्रादिदेवताशब्दाना लोके व्यवहारसद्भा- वान्मण्डलस्याऽऽयतनत्वेन विग्रहाभावादग्निवाय्वादीनामपि मण्डलस्वरूपत्वात् । नच 'इन्द्रो वज्रमुदयच्छत् ' इत्याद्यर्थवाक्येभ्यो देवताना विग्रहवत्त्वमवगम्यत इति वाच्यम् । विध्येक- वाक्यतापन्ना[ नां] वायुर्वै क्षेपिष्ठा देवता' इत्याद्यर्थवादवाक्यानां स्वार्थे तात्पर्या- भावात् । तस्माद्देवानां विग्रहवत्त्वाभा वात् ] न ब्रह्मविद्यायामाधिकार इति ॥ ३२ ॥ मावं तु बादरायणोऽस्ति हि ॥ ३३ ॥ (१) तुशब्दश्चाद्यनिरासार्थः । बादरायण आचार्यो देवानामपि ब्रह्मविद्याया भावमधिकारित्वं मन्यते । यद्यपि मध्वादिविद्यासु देवतादिव्यामिश्रास्वनविकारो देवाना तथाऽपि निर्गुणब्रह्म- विद्यायां तेषां देवानामप्यधिकारस्य भावोऽस्ति । न ह्येकत्रानधिकारे सर्वत्रानधिकार इति नियमः । राजसूयादावनधिकृतानां ब्राह्मणानां ज्योतिष्टोमानधिकारप्रसङ्गात् । किंच ब्रह्मविद्या प्रकृत्य देवादीनां विद्याधिकारः श्रुतावुक्तः-- तद्यो यो देवाना प्रत्यबुध्यत स एव तदभवत्तथर्षीणाम् ' [बृ० १।४ । १० ] इति । यद्वा ज्योतिषि भावाच्चेत्यस्यो- त्तरमस्ति हि । यद्यप्यादित्यादयो देवतावाचकाः शब्दा ज्योतिषि प्रयुज्यन्ते तथाऽपि तदभिमानिदेवतापरा एव तं तं देवतात्मानं समर्पयन्ति मन्त्रार्थवादादिपु तथा रात् । अस्ति बैश्वर्ययोगाद्देवानां ज्योतीरूपेणावस्थातु तं तं विग्रहं च गृहीत्वा व्यवहर्तुं सामर्थ्यम् । तथाहि श्रूयते-' मेधातिथिं ह काण्वायनमिन्द्रो मेपो भूत्वा जहार ' [ षड्विंशति० ब्रा० १।१] इति । स्मर्यते च--- आदित्यः पुरुषो भूत्वा कुन्तीमुपजगाम ह' इति ।
- ५४ : आदियो यूपः । हरिदीक्षितकृता प्रथमाध्याये- मृदादिष्वष्यधिष्ठातारोऽभ्युपगम्यन्ते ' मृदबबीदापोऽब्रुवन् ' इत्यादिदर्शनात् । ननु मन्त्रा- र्थवादानां स्वार्थे तात्पर्याभावात्तन्मूलानामितिहासपुराणादीनामपि तथात्वाल्कथं देवानां. विग्रहवत्त्वमिति चेत् । अत्रोच्यते-त्रिविधो ह्यर्थवादः--गुणवादोऽनुवादो भूतार्थवाद- श्चेति । तथाचाऽऽहु. विरोधे गुणवादः स्यादनुरादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ' इति ॥ यजमानः प्रस्तरः' इत्यादिषु प्रत्यक्षविरोधै सत्यादित्यवधूपस्य यजमानवत्प्रस्तरस्य यागनिर्वाहकत्वगुण आदित्यादिशब्दैरुपलक्ष्यत इति गुणवादः । 'अग्रि- हिमस्य भेषजम् ' वायुर्वै क्षेपिष्ठा देवता' इत्येवमादिश्रु, मानान्तरसिद्धार्थत्वादनुवाद- कत्वम् । तयोरुभयोः स्वार्थे तात्पर्य नास्ति । ' इन्द्रो वज्रमुदयच्छत् ' इत्यादिषु गुणवा- दानुवादाभ्यां भिन्नेषु भूतार्थवादेषु स्वार्थे तात्पर्य निवारयितुमशक्यत्वात्पदैकवाक्यतया. स्वार्थेऽवान्तरतात्पर्यं प्रतिपाद्य पश्चाद्वाक्यैकवाक्यतया विषिषु महातात्पर्य भूतार्थवादैः प्रति- पाद्यते । मन्त्रेऽप्ययं न्यायो योज्यः । तथाच मन्त्रार्थवादादिवलाद्देवानां विग्रहवत्त्वं सिद्धम् । तस्माद्देवतानां विद्याधिकारोऽस्तीति सिद्धम् ॥ ३३ ॥ (९)। शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥ छान्दोग्ये संवर्गविद्यायां श्रूयते--' आजहारेमाः शूद्रानेनैव मुखेनाऽऽलापयिष्यथा: ' [ छा०४।२।५] इति । अयमर्थः-जानश्रुति म कश्चिन्छिष्यो गोसहस्रं दुहितरं मुक्ता. हारं रथं कांश्चिद्ग्रामांश्चोपायनत्वेनाऽऽनीय रैकनामकं गुरुमुपससाद तस्य रैकस्य वच- नमेतत्-हे शूद्र जानश्रुत इदं गोसहस्राद्युपायनमाहृतवानसि । अनेनोपायनेन मुखेनैव मञ्चित्तं प्रसाद्योपदेशमिच्छसीति । तत्र शूद्रस्य वेदविद्यायामधिकारोऽस्ति न वेति चिन्त्यते । यथा मनुष्याधिकारनियमं विहाय देवादीनामपि विद्यास्वधिकार उक्तस्तथैव द्विजात्यधिका- रनियममपहाय शूद्रस्याप्यधिकारोऽस्तु तस्यायित्वसामर्थ्ययोः सत्त्वात् । अत्रैवर्णिकदेव- दृष्टान्तेन शूद्रस्याप्यत्रैवर्णिकस्य तत्सभवादिति प्राप्ते ब्रूमः :-न शूद्रस्य विद्यायामधिका- रोऽस्ति । उपनयनाभावेनाध्ययनाभावात् । अत्रैवर्णिकदेवदृष्टान्तोऽत्र न युज्यते । अस्ति हि देवशूद्रयोर्वैषम्यम् । उपनयनाध्ययनाभावेऽपि देवाः स्वयप्रतिभातवेदाः । तादृशस्य सुकृतस्य पूर्वमुपार्जितत्वात् । शूद्रस्य तादृशसुकृताभावान्न स्वयंप्रतिभातवेदत्वमुपनयना- भावान वेदाध्ययनाधिकारित्वम् । यत्त्वर्थित्वमुक्तं न तदसति सामर्थेऽधिकारकारणं भवति । सामर्थ्यमपि न लौकिकं केवलमधिकारकारणं भवति । शास्त्रीयेऽर्थे शास्त्रीयमेव सामर्थ्यमपेक्षितम् । तत्तु शूद्रस्य नास्त्यध्ययनाभावात् । अतोऽर्थित्वसामर्थ्ययोरभावान्न नौतविद्यायां शद्रोऽधिकारी । कथं तर्युदाहृतवाक्पे जानश्रुतिविषयः शूदशब्दः प्रयक्त.
.. तृतीयः पादः] ब्रह्मसूत्रवृत्तिः। ५५ इति चेत् । उच्यते--अस्य जानश्रुतेः क्षत्रियस्य तदनादरश्रवणात्तस्य हंसस्यानादरश्र- वणाच्छुगुत्पन्ना तया शुचा रैकं प्रति जानश्रुतिरादुद्रावेति योगव्युत्पत्त्या शूद्रो जानश्रुतिः । अत्रेत्थमौपनिषद्याख्यायिका--जानश्रुति पौत्रायण राजानं प्रासादस्थं कदाचिद्धसानां तदुपरि मालारूपेण गन्छतां मध्य एको हंस एकं प्रत्युवाचायं राजा जानश्रुतिर्महाभाग इति । तमितरः प्रत्युवाच । कोऽयं वराक इतोऽप्युत्कृष्टतरो रैक इति । तच्छ्रुत्वा जानश्रुतेः शोक उत्पन्नः । तेन शोकेन गोसहस्रायुनायनं गृहीत्वा रैके प्रति गतवान् । तं रैक आह हे जानश्रुते शूद्रानेनोपायनेनाऽऽलापयिष्यथा इति । तस्मान्न जानश्रुतिश्चतुर्थवर्णः शूद्रेः ॥ ३४ ॥ क्षत्रियत्वाचगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५॥ ननु जानश्रुतिर्मुख्य एव शूद्रोऽस्तु किमुक्तयोगाश्रयणेनेति चेत् । अत्रोच्यते न जान- श्रुतिर्जातिशूद्रः। कुतः।क्षत्रियत्वावगतेः । क्षत्रियत्वनिश्चयादित्यर्थः । कस्मात्क्षत्रियत्वावगतिः । उत्तरत्र चैत्ररथेन लिगात् । उत्तरत्र संवर्गविद्यायां चैत्ररथेन क्षत्रियेण सहास्य जानश्रुतेः समभिव्याहाररूपाल्लिङ्गात् । समानायां विद्याया समानानामेव प्रायेण समभिव्याहारा भवन्ति । अस्मिन्नुपाख्याने क्षत्तृप्रेरणाद्यैश्वर्योपन्यासेन जानश्रुतेः क्षत्रियत्वमवगम्यते । अतो न वेदविद्यायां शूद्रोऽधिकारी ॥ ३५ ॥ संस्कारपरामर्शात्तदमावामिलापाच ॥ ३६॥ इतश्च न शूद्रस्याधिकारः । कुतः । विद्याप्रदेशेषूपनयनादिसंस्कारपरामर्शात्-' तं होपनिन्ये' [श०ब्रा० ११ । ५। ३ । १३ ] ' अधीहि भगवः ' [छा०७ । १ । १] इति । ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वषमाणा एष ह वै तत्सर्वं वक्ष्यतीति । ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ' [प्र० १ । १] इत्यादिषु । शूद्रस्य च संस्काराभावाभिलापात् । न शूद्रे पातकं किंचिन्न च संस्कारमर्हति' [ मनु० १०। १२ । ६ ] इत्यादिस्मृत्या संस्काराभावकथनादित्यर्थः ॥ ३६ ॥ तदमावनिर्धारणे च प्रवृत्तेः॥ ३७ ॥ इतश्च शूद्रो नाधिक्रियते । कुतः। शूद्रत्वाभावनिर्धारणे सत्येवोपदेशप्रवृत्तिदर्शनात् । अत्रेत्थमाख्यायिका--सत्यकामो जाबालः प्रमीतपितृको गौतमसमीपं गत्वा ब्रह्मचर्यमुपेया- मित्युवाच । तं गौतमः पप्रच्छ किंगोत्रोऽसीति । जाबाल उवाच माताऽपि न जानात्यहमपि न जानामीति । तच्छ्रुत्वा गोतमः प्राह । नाब्राह्मणस्यैतादृशं यथार्थवादित्वं सभवतीति शूद्रत्वाभावं निश्चित्य शुश्रूषामङ्गीकृतवानिति ॥ ३७ ॥ श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ ३८॥ (१०) इतश्च शूद्रो नाधिक्रियते । कुतः । स्मृतेः स्मृतितो वेदश्रवणाध्ययनयोस्तदर्थज्ञानानु- .
५६ हरिदीक्षितकृता- An [प्रथमाध्याये- : ष्ठानयोश्च प्रतिपेधात्-श्रवणप्रतिपेधस्तावत ' अथास्य येदमुपेशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्र. पूरणम् ' इति । अध्ययनप्रतिपेधस्तु- एतन्छ्मशानं यन्छूद्रस्तस्माच्छूद्रसमीपे नाध्येत- व्यम् ' इति । अत एवास्याध्ययनप्रतिपेधो यत्समीपेऽपि नाध्येतव्यं भवति स कथमश्रुत- मधीयीत । भवति चोच्चारणे जिह्वाछेदो धारणे शरीरभेद इति । अत एव चार्थज्ञानानु- ष्ठानयोः प्रतिषेधो भवति । स्मृत्यन्तरमपि न शूद्राय मतिं दद्यात् ' इति । मति विद्याम् । ' द्विजातीनामध्ययनमिज्या दानम् ' इति च । विदुरादीनां तु पूर्वजन्मकृत. संस्कारवशाद्गर्भस्थबामदेववज्ज्ञानोत्पत्तिरिति वेदितव्यम् । ननु शूद्रस्य वेदविद्यायामनधिकारे सति मुमुक्षायां सत्यामपि मुक्तिर्न सिध्येदिति चेन्न । ' श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मण- मग्रतः ' इति वचनादितिहासपुराणादिश्रवणेन ब्रह्मविद्योदये सति मुक्तिसिद्धेः । तस्मान शूद्रो वेदविद्यायामधिक्रियतं इति सिद्धम् ॥ ३८ ॥ (१०) कम्पनात् ॥ ३९ ॥ (११) समाप्तः प्रासङ्गिकोऽधिकारविचारः । इदानी प्रकृतवाक्यार्थविचारमेवानुसंधत्ते । कठ- वल्लीषु षटवल्ल्यामाम्नायते-- यदिदं किंच जगत्सर्व प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ' [ का० २।६।२] इति । अयमर्थः नि.सृतमुत्पन्न यदिद जगत्सर्वं प्राणे निमित्तभूते सत्येजति कम्पते । तच्च प्राणशब्दवाच्यं वस्तूद्यतं वज्रमिव महाभयहेतुः । एतत्प्राणशब्दवाच्यं ये विदुस्ते मरणरहिता भवन्तीति । तत्र जगत्कम्पनकारिणि प्राणे त्रेधा संदिग्धे सत्यशनिरिति तावत्प्राप्तम् । कुतः । महद्भ- यमिति भयहेतुत्वश्रवणात् । वायुर्वा भविष्यति । प्राणे जगदेजतीति प्राणशब्दवाच्यस्य वायोर्देहादिचालनसामर्थ्यात् । तस्माद्वायुरेवेह प्रतिपत्तव्य इति प्राप्ते ब्रूमः-परमात्मा प्रारक शब्दवाच्यः । कुतः । कम्पनात् । ' यदिद किंच' इत्यस्य वाक्यस्य पूर्वोत्तरयोग्रन्थाभा- गयोर्ब्रह्मैव निर्दिष्टम् । कस्मादेव मध्ये वायुनिर्दिश्यते । पूर्वत्र तावत् स्तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते तस्मिल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ' ( का० २ । ८ इति ब्रह्म निर्दिष्टं तदेवेहापि संनिधानाज्जगत्सर्वं प्राण एजतीति च लोकाश्रयत्व. प्रत्यभिज्ञाननिर्दिष्टमिति गम्यते । प्राणशब्दोऽप्ययं परमात्मन्येव प्रयुक्तः । माणस्य प्राणं [ वृ० ४ । ४ । १८ ] इति श्रुतेः । एजयितृत्वमपीदं परमात्मन्येवोपपद्यते न वायुमा- त्रस्य । तथाचोक्तम् न प्राणेन नापानेन मर्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ' [ का० २ । ५। ५] इति । उत्तरत्रापि भयादस्याग्निस्त- पति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः' [का० २।३ । ३] इति ब्रह्मैव निर्देक्ष्यते । तेनाग्निसूर्यादिकं जगदस्मादेव ब्रह्मणो बिभ्यन्नियमेन स्वस्वव्यापारे २ ८ १ प्रतिपूरणामतिभाष्ये।
५७ १ तृत्तीयः पादः] बह्मसूत्रवृत्तिः। प्रवर्तत इति भयानकं वज्रोपमं ब्रह्म । तथा ब्रह्मविषयं श्रुत्यन्तरम् 'भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम. ' इति । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते' इत्युपक्रमात् । अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ' [ का० १ । २ । १४ ] इति परमात्मविषयप्र- श्वाच्च प्रकरणपर्यालोचनयाऽऽत्मज्ञानादेवामृतत्वप्राप्तिरिति गम्यते तस्मात्परमात्मैव प्राणः ॥ ३९ ॥ (११ ज्योतिर्दर्शनात् ॥४०॥ (१२) छान्दोग्यस्याष्टमाध्याये प्रजापतिविद्यायामाम्नायते-'य एष संप्रसादोऽस्माच्छरीरात्समु- स्थाय परं ज्योतिरूपसंपद्यते स उत्तमः पुरुषः [छा० ८ । १२ । ३ ] इति । अस्यायमर्थः-सम्यक्प्रसीदत्यस्यामवस्थायामिति संप्रसादः सुपुत्तिः । तयाऽवस्थया तद्वा- खीव उपलक्ष्यते । एष जीवोऽस्माच्छरीरादुत्थायति शेष सुगमम् । अत्र ज्योतिःशब्दवाच्ये द्वेधा संशयः-प्रसिद्ध ज्योतिः सूर्यो वा किंवा परमात्मेति । सूर्य इति तावत्प्राप्तम् । कुतः। शरीरात्समुत्थाय ज्योतिरुपसंपद्यत इति देहान्निर्गत्य पश्चाज्ज्योतिः प्रामोतीत्युच्यमानत्वात् । ब्रह्मप्राप्तौ निर्गमनाभावात् । प्राप्तृप्राप्तव्यभेदानुपपत्तेश्चेति प्राप्ते ब्रूमः-ज्योतिःशब्दवाच्यं परमेव ब्रह्म । कुतः । दर्शनात् । य आत्माऽपहतपाप्मा [छा० ८ । ७ । १] इत्यपहतपाप्मत्वादिधर्मकस्याऽऽत्मनः प्रकरणादन्वेष्टव्यत्वेन विजिज्ञासितव्यत्वेन चात्रानुवृ- त्तिदर्शनात् । किंच 'परं ज्योतिः स उत्तमः पुरुष' इति च विशेषणात् । एव पूर्वोत्तरवा- क्यपर्यालोचनया ज्योतिःशब्दवाच्यं ब्रह्म । यदुक्त शरीरात्समुत्थाय ज्योतिरुपसंपद्यत इत्ये तवयं ब्रह्मपक्षे न संभवतीति । तदसारम् । न ह्यत्र समुत्थानं निर्गमनं किंतर्हि त्वप- दार्थस्य जीवस्य शरीरत्रयाद्विवेकः । नाप्युपसंपत्तिः प्राप्तिः । किं तर्हि शोधितत्वपदार्थस्य ब्रह्मत्वेनावबोधनम् । यत्तूक्त मुमुक्षोरादित्यप्राप्तिरभिहितेति । तन्न । आत्यन्तिकमोक्षे गत्यु- स्क्रान्त्योरभावात् । तस्माज्ज्योतिब्रह्म ॥ ४० ॥ (१२) आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥४१॥ (१३) 'आकाशो वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा ' [ छा०८ । १४ । १] इति च्छान्दोग्ये श्रूयते । आकाशाख्यः कश्चित्पदार्थः । स च जगतो नामरूप- योनिर्वाहकः । ते च नामरूपे यद्यस्मादाकाशादन्तरा विभिने । अथ वा यस्याऽऽकाश- स्यान्तरे वर्तते । तत्सत्तानविद्धे सती वर्तेते इत्यर्थः । तदाकाश मरणरहितं तद्ब्रह्म तदेव प्रत्यगात्मेति । अत्राऽऽकाशः किं भूताकाशः किंवा परमात्मेति विशये भूताकाश इति तावत्प्राप्तम् । आकाशशब्दस्य तस्मिनूढत्वात् । नामरूपयोर्निर्वहणस्यावकाशप्रदानद्वारेण तस्मिन्योजयितुं शक्यत्वादिति प्राप्ते ब्रूमः--परमात्मैवाऽऽकाशशब्दवाच्यः । कुतः । अर्था- हारदीक्षितकृता- [ प्रथमाध्याये- न्तरत्वादिव्यपदेशात् । ते यदन्तरेति यस्यान्तरे ते नामरूपे इति नामरूपभिन्नत्वेनाऽऽ. काशस्य व्यपदेशात् । भूताकाशस्य तु विकारजातान्तःपातित्वेन नामरूपाभ्यामेव व्याकृत. त्वात् । अत्र नामरूपयोर्निर्वाहकत्व नावकाशप्रदानमात्र किंतर्हि नियामकत्व तच्च चेतने ब्रह्मणि युज्यते । ' अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि ' [ छा० ६ । ३ । २] इति ब्रह्मकर्तृत्वश्रवणात् । ननु जीवस्यापि नामरूपयोर्निवोढत्वं प्रत्यक्षसिद्ध- मिति चेत् । उच्यते-तस्य यत्किचिन्नामरूपनिवोदृत्वेऽपि यावन्नामरूपनिर्वोढत्वं नास्ति । किंच वाक्यशेषे तद्ब्रह्म तदमृतं स आत्मा' इति च ब्रह्मलिगमभिहित ब्रह्मणोऽन्यत्र न संभ- वति । आकाशस्तल्लिङ्गादित्यस्यैवायं प्रपञ्चः । तस्मात्परमात्मैवाऽऽकाशः॥४१॥ (१३ ) सुघुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥ चाहदारण्यके पष्टप्रपाठके-- 'कतम आत्मेति योऽय विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुपः स समानः सन्नुभौ लोकावनुसंचरति ' [ बृ० ४ । ३ । ७ ] इति । अस्याय- मर्थः-विज्ञानमयो लिङ्गशरीमयस्तेन स्थूलदेहव्यतिरेकः सिद्धः प्राणेपु चक्षुरादीन्द्रियेषु प्राणादिवायुपु च हृद्यन्तःकरणे च । सप्तमीविभक्त्या प्राणादीनामाधारत्वनिर्देशादाधेयस्य पुरुपस्येन्द्रियप्राणवायुमनोन्यत्वं सिद्धम् । अतःशब्देन धीवृत्तिभ्यः कामसंकल्पादिभ्यो व्यति- रेकः सिद्धः । बुद्धिपरिणामरूपाणामासां वृत्तीनां बहिर्भूतत्वात् । एवं च सति स्थूलदेहे- न्द्रियेभ्यः प्राणवायुभ्योऽन्तःकरणतद्वृत्तिभ्यश्च व्यतिरिक्तस्तेषां सर्वेषां साक्षित्वेन चिज्ज्योति:- स्वरूपः पुरुष इत्युक्तं भवति । स च पुरुषो लिङ्गशरीरतादात्म्याध्यासेन लिङ्गशरीरेण समानः सन्निहलोकपरलोकावनुसंचरतीति । तत्र कि मिदं वाक्यं संसार्यनुवादमात्रपर किंवाऽसंसारिपरमात्मपरमिति सशयः। किं तावत्प्राप्तम् । संसारिस्वरूपमात्रानुवादपरमेवेति । कुतः । उपक्रमोपसंहाराभ्याम् । उपक्रमे ' योऽयं विज्ञानमयः प्राणेपु ' इति जीवलि- गात् । उपसहारे च ' स वा एप महानज आत्मा योऽय' [वृ० ४ । ४ । २२ ] 'विज्ञानमयो मनोमयः प्राणमयः [ बृ० ४ । ४ । ५] इत्यात्मेति तदपरित्यागात् । मध्येऽपि संप्रसादस्वप्नविबुद्धान्ताद्यवस्थोपन्यासेन तस्यैव प्रपञ्चनादिति प्राप्तेऽभिधीयते- परमात्मैवात्र प्रतिपाद्यः । कुतः । व्यपदेशादित्यनुवर्त्य सुषुप्त्युत्कान्त्योर्भेदेन व्यपदेशात् । सुषुप्तौ तावत्प्राज्ञेनाऽऽत्मना संपरिष्वक्तो न बाह्य किंचन वेद नाऽऽन्तरमिति शारीराद्भेदेन प्राशं परमात्मान व्यपदिशति । एवमुत्क्रान्तावष्ययं शारीर आत्मा प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्सर्जन्यातीति शारीराद्भेदेन परमात्मानं व्यपदिशति । तस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशा- त्परमेश्वर एवात्र विवक्षित इति गम्यते । यदुक्तमाद्यन्तमध्येषु शारीरस्य लिगात्तत्परत्वमस्य वाक्यस्येति । अत्रोच्यते--उपक्रमे ' योऽय विज्ञानमयः प्राणेषु ' इति न संसारिस्वरूपप्र- तिपादनं विवक्षति किं तर्हि संसारिस्वरूपमनूद्य परेण ब्रह्मणाऽस्यैक्यं विवक्षति । यतो , - *अत अनन्वागत- चतुर्थः पादः ] ब्रह्मसूत्रवृत्तिः। ५९ ध्यायतीव लेलायतीवेत्येवमाद्युत्तरग्रन्थप्रवृत्तिः ससारधर्मनिराकरणपरा लक्ष्यते । ऊर्ध्व मोक्षाय ब्रूहि ' । बृ० ४ । ३ । १४ ] इति पदे पदे पृच्छति । येन च स्तेन भवत्यसङ्गो ह्यय पुरुषः ' [बृ० ४ । ३ । १५-१६ ] इति पदे पदे बक्ति । अनन्वागतं पुण्येनानन्वागत पापेन ती! हि तदा सर्वाञ्छोकान्हृदयस्य भवति । [ बृ० ४ । ३ । २२ ] इति । उपसंहारेऽपि ' स वा एप महानज आत्मा ' इति । योऽयं विज्ञानमयः [ प्राणेषु ] संसारीव लक्ष्यते स वा एष महानज आत्मा परमेश्वर एवा- स्माभिः प्रतिपादित इत्यर्थः । तस्माद्ब्रह्मात्र प्रतिपाद्यं न शारीर इति सिद्धम् ॥४२॥ (१३) पत्यादिशब्देभ्यः ॥४३॥ (१४) इतश्चासंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यम् । कुतः । पत्यादिशब्देभ्यः । अस्मिन्प्र- करणे पत्यादयः शब्दा अससारित्वप्रतिपादकाः संसारित्वप्रतिपेधनाश्च श्रूयन्ते ' सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः' [ बृ० ४ । ४ । २२ ] इत्यादयः । साधना कर्मणा भूयान्नो एवासाधना कनीयान् ' [बृ० ४ । ४ । २२] इत्येवमादयश्च । तस्माज्जीवब्रह्मैक्यमिह प्रतिपाद्यमिति सिद्धम् ॥ ४३ ॥ (१४) इति श्रीलक्ष्मीनरहरिसूरिसूनुहरिदीक्षितकृती ब्रह्मसू- त्रवृत्तौ प्रथमाध्यायस्य तृतीयः पादः ॥ ३॥ अथ चतुर्थः पादः । स न , आनुमानिकमप्येकेषामिति चेन्न शरीर- रूपकविन्यस्तगृहीतेर्दर्शयति च ॥१॥ * अथातो ब्रह्मजिज्ञासा' [ ब्र० सू० १ । १ । १ ] इति ब्रह्मजिज्ञासां प्रतिज्ञाय । जन्माद्यस्य यतः [ ब्र० सू० १ । १ । २ ] इति ब्रह्मणो लक्षणमुक्तम् । तल्लक्ष- णस्य प्रधानेऽतिव्याप्तिमाशक्याशब्दत्वेन प्रधानं निराकृतम् । 'ईक्षते शब्दम् ' [ ब्र. सू० १ । १ । ७] इति । गतिसामान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते न प्रधानकारणवादं प्रतीति प्रपञ्चित गतेन ग्रन्थेन । इदानी तु प्रधानस्याशब्दत्वं न संभवति कचिच्छाखासु तत्प्रतिपादकशब्दाना श्रूयमाणत्वात् । अतः प्रधानस्य कारणत्वं वेदसिद्धमेत्रत्याशङ्कय तेषामन्यपरत्व प्रतिपादयितु पादोऽयमारभ्यते । कठवल्लीषु तृतीय- * अत एवोपरिष्टादिमोक्षायैव बहि, इत्ययमेतलिखितपुस्तके पाठः !
६० हरिदीक्षितकृता- [ प्रथमाध्याये- वल्ल्यां श्रूयते--' महतः परमव्यक्तमव्यक्तात्पुरुषः परः [क०१ । ३।११ ] इति । सत्राव्यक्तशब्देन प्रधानमुच्यते शरीरं वेति संशये सांख्याभिमतं प्रधानमिति तावत्प्राप्तम् । कुतः । प्रत्यभिज्ञानात् । महदव्यक्तपुरुपाः साख्यशास्त्रे परापरभावेन यथा प्रसिद्धास्तथैव श्रुतौ प्रत्यभिज्ञायन्ते । तस्मात्प्रधानस्याशब्दत्वमनुपपन्नम् । तदेव जगत्कारणम् । श्रुतिस्मृति- प्रसिद्धिभ्य इति प्राप्ते ब्रूमः-न ह्यत्र यादृशं स्मृतिप्रसिद्ध स्वतत्रकारणं प्रधानं तादृशं प्रत्यभिज्ञायते । शब्दमात्रं शव्यक्तमिति प्रत्यभिज्ञायते । अत्र प्रकरणपर्यालोचनया न सांख्य- परिकल्पितं प्रधानं प्रतीयते किं तहव्यक्तशब्देन शरीरं परिगृह्यते । कुतः । प्रकरणात्परिशेषाच्च । तथाहि-पूर्वस्मिन्वाक्ये शरीरादीनि रथादित्वेनोक्तानि । आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेल्याहुर्मनीषिणः '' [ का०१।३।३।४ ] इति पूर्ववाक्योक्तानि वस्तून्यस्मिन्वाक्ये प्रत्यभिज्ञायन्ते । इन्द्रियादिभिरसंयतैः संसार: संयतैस्त्वध्वनः पारं विष्णोः पदमाप्नोतीत्युक्त्वा कि तद्विष्णोः पदमित्याकाक्षायाम्- इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिबुद्धरात्मा महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुपान्न परं किंचित्सा काष्ठा सा परा गतिः' ॥ [का०१।३।१०-११] इति प्रकृत्येन्द्रियादिभ्यः परां मतिं दर्शयति । अत्र पूर्वस्मिन्वाक्य इन्द्रियार्थमनोबुद्धिशब्दै- निर्दिष्टाः पदार्था उत्तरस्मिन्वाक्ये त एव महदादिशब्दैनिर्दिश्यन्ते । पूर्वत्राऽऽन्मशब्देन निर्दिष्ट वस्तूत्तरत्र पुरुपशब्देन निर्दिष्टम् । उत्तरवाक्ये महच्छब्देन यदुक्त तत्पूर्ववाक्ये बुद्धि- शब्देन संगृहीतम् । बुद्धिर्हि द्विविधा-अस्मदादिबुद्धिरेका तत्कारणभूता हिरण्यगर्भबु- द्विरपरा सा महच्छब्दवाच्या । तयोः पूर्वत्रैकत्वेन निर्दिष्टयोरुत्तरत्र भेदेन निर्देशः पूर्वत्र शरीरपदमुत्तरत्राव्यक्तपदम् । तयोः पारिशेष्यादेकार्थत्वमित्यव्यक्तं शरीरम् । सूत्रार्थस्त्वेवम्- आनुमानिकमित्यनुमानगम्यत्वात्प्रधानम् । तदप्येकेषां शाखिनां प्रसिद्धम् । तदव्यक्तशब्देन पठ्यते । तस्मादशब्दत्वमसिद्धमिति चेन्न । किं कारणम् । शरीरस्य पूर्ववाक्ये रथरथिरूप- केण विन्यस्तस्य प्रतिपादितस्यात्र वाक्येऽव्यक्तशब्देन गृहीतेस्रहणात् ॥ १॥ ननु स्थूलशरीरस्य व्यक्तशब्दार्हस्य कथमव्यक्तशब्दवाच्यत्वमत आह- सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥ तुशब्देन 'चोद्यनिरासः । स्थूलशरीरारम्भकं भूतसूक्ष्मं कारणात्मनाऽवस्थितमव्यक्तश- चतुर्थः पादः] ब्रह्मसूत्रवृत्तिः। ६१ ब्देन दर्शयतीत्यनुषङ्गः । कुतः । तदर्हत्वात् । अव्यक्तशब्दार्हत्वादित्यर्थः । 'तव्याकृ- तमासीत् ' [बृ० १ । ४ । ७] इति श्रुतेः । अव्याकृतमव्यक्तमित्यनान्तरम् । तस्मात्सू- क्ष्मशरीरमव्यक्तं न प्रधानमव्यक्तशब्दवाच्यम् ॥ २ ॥ नन्वेवं जगतः सूक्ष्मावस्थाया एव सांख्यैः प्रधानत्वेनाङ्गीकारात्तदेवाव्यक्तमिति प्राप्तमि. त्याशङ्कापनोदायाऽऽह- तदधीनत्वात्तदर्थवत् ॥ ३॥ नैष दोषः सांख्यमतापत्तिरिति । यदि वयं स्वतन्त्रां कांचित्प्रागवस्थां जगतः कारणत्वेनाभ्युपगन्छेम तया प्रधानकारणवादं प्रसञ्जयेम । तथा नाभ्युपगच्छामः । किं तर्हि परमेश्वराधीना त्विय जगतः प्रागवस्थेत्यभ्युपगच्छामः, न स्वतन्त्रेति । सा चाव- श्यमभ्युपगन्तव्या । तया विना परमेश्वरस्य स्रष्टुत्व न सिध्यति । शक्तिरहितस्य प्रवृत्त्यनु- पपत्तेः । मुक्तानां च पुनरनुत्पत्तिः । विद्यया तेस्या बीजशक्तेर्दग्धत्वात् । सैव जगद्बीज- शक्तिः परमेश्वराश्रया मायेत्युच्यते । सैव महासुषुप्तिः । तस्या स्वरूपबोधरहिताः संसा- रिणो जीवाः शेरते । सैव बीजशक्तिरव्यक्ताक्षरमायाकाशादिशब्दैनिर्दिश्यते--' महतः पर- मव्यक्तम् ' [ का० १ । ३ । ११ ] ' अक्षरात्परतः परः ' [मु० २ । १ । २ ] 'मायां तु प्रकृतिं विद्यात् ' [ श्वे० ४ । १० एतस्मिन्नु खत्वक्षरे गााकाश ओतश्च प्रोतश्च ' [ बृ० ३। ८ । ८ ] इत्येवमादिषु श्रुतिपु । नन्वीश्वरादेव जगदुत्पत्ती सत्यामव्यक्तवैयर्थ्यमित्याशड्क्योक्तमर्थवदिति । ईश्वरस्य सहकारित्वात्प्रयोजनवदित्यर्थः । तस्मादीश्वराधीना मायाऽव्यक्तशब्दवाच्या तद्विकारत्वाल्लिङ्गशरीरमेवाव्यक्तशब्दवाच्यम् । तत्रैव तस्य रूढेः । इन्द्रियाणि तु स्वशब्दैरेवोच्यन्ते नाव्यक्तशब्देनेति दिक् । सूत्रद्वयस्या- परा व्याख्या शरीर द्विविधम्-स्थूलं सूक्ष्मं चेति । तच्चोभयमपि शरीरमविशेषापूर्ववाक्ये रथत्वेन संकीर्तितम् । इह तु सूक्ष्ममव्यक्तशब्देन परिगृह्यते । सूक्ष्मस्याव्यक्तशब्दार्हत्वात् । तच्चावश्यमभ्युपेयम् । तदधीनत्वाच्च बन्धमोक्षव्यवहारस्य ॥ ३ ॥ ज्ञेयत्वावचनाञ्च ॥ ४ ॥ किं च सांख्यैः प्रकृतिपुरुषविवेकान्मोक्षं वदद्भिस्तदर्थं प्रकृतिरपि ज्ञेयेत्युक्तम् । नचेह तादृशज्ञानोपयुक्तं किंचिद्वाक्यमव्यक्तं ज्ञेयमिति श्रूयते । नचानुपदिष्टं पदार्थज्ञानं पुरुषार्थाय भवति । तस्मान्नाव्यक्तशब्देन प्रधानमभिधीयते ॥ ४ ॥ वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥ ननु ज्ञेयत्वावचनान्नाव्यक्तं प्रधानमिति यदुक्तं तदसंगतम् । अव्यक्तशब्दवाच्यस्यैवो- तरत्र ज्ञेयत्ववचनात् ।
हरिदीक्षितक्रता- । प्रथमाध्याये ' अशब्दमस्पर्शमरूपमव्ययं सथाऽरस नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः पर ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते' ॥ [ का० २।३ । १५ [ इति । अत्र शब्दादिरहितं प्रधानमेव निचाय्यत्वेन प्रतिपादितमिति चेत् । अत्रोच्यते--नेह प्रधानं निचाय्यत्वेन निर्दिष्टम् । प्राज्ञो हीह परमात्मा निचाय्यत्वेन निर्दिष्ट इति गम्यते । कुतः । प्रकरणात् । प्राज्ञस्य हि प्रकरणं विततं वर्तते । पुरुपान्न परं किंचित्सा काष्ठा सा परा गतिः ' का० १ । ३ । ११ ] इत्यादिनिर्देशात् । एप सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः' [का०१।३।१२] इति च । यच्छेद्वाड्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि' [ का० १ । ३ १३ ] इति च । एतदुक्तं भवति-वाच मनसि यच्छेद्धारयेत् । वागिन्द्रियव्यापारमुत्सृज्य मनोमात्रेणा- वतिष्ठेत । मनोऽपि ज्ञानशब्दोदितायां बुद्धौ धारयेत् । दोपदर्शनेन सकल्पादिवृत्तीरुत्सृ- ज्याध्यवसायलक्षणा या बुद्धिस्तद्रूपमात्रेणावतिष्ठेत । तामपि बुद्धिमात्मनि भोक्तरूपायां, बुद्धौ धारयेत् । तं महान्तमात्मानं शान्त आत्मनि परस्मिन्पुरुषे धारयेदिति । परमात्मज्ञा- नायैव वागादिसयमस्य विहितत्वान्मृत्युमुखप्रमोक्षणफलत्वाच्च स एवात्र ज्ञेयत्वेन निर्दि- श्यते न प्रधानम् । तस्मान्न प्रधानमव्यक्तशब्दनिर्दिष्टम् ॥ ५ ॥ प्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥ इतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्व ज्ञेयत्वं वा । यस्मात्रयाणामग्निजीवपरमात्मनाम- चास्मिन्कठवल्लीग्रन्थे वरप्रदानसामर्थ्याद्वक्तव्यतयोपन्यासो दृश्यते तद्विपय एव प्रश्नश्च । तत्र तावत् ' स त्वमग्निं स्वर्गामध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् ' [ का० १११॥ १३ ] इति । अयमग्निविषयः प्रश्नः । 'येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति. चैके । एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेप वरस्तृतीयः ' [ का० १ । १ । २० ] इति जीवविषयः । 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद' [ का० १।२।१४ ] इति परमात्मविपयः । प्रतिवचनमपि- 'लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ' [ का० १ । १।१५] इत्यग्निविषयम् । हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा वा मरणं प्राप्याऽऽत्मा भवति गौतम ॥ - । अन्यत्र चतुर्थः पादः] ब्रह्मसूत्रवृत्तिः। ६३ योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्ये तु सयन्ति यथाकर्म यथाश्रुतम् ' । [का० २। पा०६-७ ] इति जीवविषयम् । ' न जायते म्रियते वा विपश्चित् ' [का० १ । २ । १८ ] इत्यादि बहुप्रपञ्च परमात्मविषयम् । नैवं प्रधानविपयः प्रश्नोऽस्त्यपृष्टत्वान्नोत्तरमपि । ननु मृत्युः किल चचिकेतसे पित्रा प्रहिताय त्रीन्वरान्प्रददौ । नचिकेताः किल तेषां प्रथमेन बरेण पितुः सौमनस्य ववे द्वितीयेनाग्निविद्यां तृतीयेनाऽऽत्मविद्यां ' येयं प्रेत ' इति वराणामेष वरस्तृतीयः' [ का० १ । १३ २० ] इति लिङ्गात् । तत्र धर्मात् ' [ का० १ । १ । १४ ] इत्यपूर्वोऽयमन्यः प्रश्नो वरदानव्यतिरेकेण कथं कृत इति चेन्न । तत्त्वमस्यादिश्रुतिभ्यो जीवप्राज्ञयोरेकत्वाभ्युपगमात् । 'स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ [ का० २।४।४ ] इति स्वप्नजागरितदृशो जीवस्यैव महत्त्वविभुत्वविशेपणस्य मननेन शोकविच्छेदस्यात्रो- क्तत्वाच्च । प्रधानकल्पनायां तु न वरप्रदान न प्रश्नो न प्रतिवचनमिति न प्रधानमव्यक्त- शब्दवाच्यम् ॥ ६॥ महद्वच्च ॥ ७॥ (१) किंच यथा महच्छब्दस्य वैदिकैः सांख्याभिमतद्वितीयतत्त्ववाचित्वं नाङ्गी क्रियते। 'महा- न्तं विभुमात्मानम् ' [का० १ । २ । २२ ] 'वेदाहमेतं पुरुप महान्तम् ' [ श्वे० ३ । ८] इत्यादावात्मशब्दसामानाधिकरण्यात् । एवं वैदिकस्याव्यक्तशब्दस्य न प्रधानवा- चित्वम् ।। ७ ।। (१) चमसवदविशेषात् ॥८॥ पुनरपि प्रधानकारणवादी प्रधानस्याशब्दत्वमसिद्धमिति शङ्कते । तथाहि श्वेताश्वतरो- पनिषदि चतुर्थाध्याये- 'अजामेकां लोहितशुक्लकृष्णां बह्रीं प्रजां जनयन्ती सरूपाम् । अजो ह्येको जुषमाणोऽनुशेते जहात्येना भुक्तभोगामजोऽन्यः ' ॥ [ श्वे० ४ । ५ ] इति श्रूयते । अस्यार्थः-लोहितशुक्लकृष्णशब्दै रजःसत्त्वतमांस्यभिधीयन्ते । रजःसत्त्वतमोगुणात्मि- काम् । अजां न जायत इत्यजाम् । मूलप्रकृतिम् । नन्वजाशब्दश्छाग्यां रूढ इति चेन्न । सा तु रूढिरिह न ग्राह्या विद्याप्रकरणात् । बढी प्रजां त्रैगुण्यात्सरूपां जनयन्तीम् ।
हरिदीक्षितकृता- [ प्रथमाध्याये न - तो प्रकृतिमज एको जुपमाणः प्रीयमाणः सेवमानो वाऽनुशेते । तामेवाऽऽत्मत्वेनोपगम्य सुखी दुःखी मूढोऽहमित्यविवेकतया ससरति । अन्यः पुनरजः पुरुप उत्पन्नविवेकज्ञानो विरक्तः सन्मुक्तभोगामेना प्रकृति जहाति त्यजति मुच्यत इत्यर्थः । तस्माच्छुतिमूलैब सांख्यानां प्रधानकल्पनेत्येवं प्राप्ते ब्रूमः-नानेन मत्रेण श्रौतत्वं सांख्यवादस्योपपद्यते। कुतः । अविशेषात् । सांख्यवाद एवेहाभिप्रेत इति विशेषावधारणाभावादित्यर्थः । तत्र दृष्टान्तः- चमसवदिति । यथा हि ' अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः ' [ बृ० २।२।३] इत्यस्मि- न्मन्त्रे स्वातन्त्र्येणाय चमस इति ज्ञातु न शक्यते । यज्ञपात्रेषु सर्वत्रापि यथाकथचिदर्वा ग्विलत्वादिकल्पनोपपत्तेः । एवमजामन्त्रेऽपि न प्रधाननिर्णय इत्यशब्दत्वं प्रधानस्य ॥ ८॥ नन्विद तन्छिर एप ह्याग्बिलश्चमस ऊर्ध्वबुध्न इति वाक्यशेषाच्चमसनिर्णयो भवति । इह पुनः केयमजा प्रतिपत्तव्येत्यत आह सूत्रकारः- ज्योतिरुपकमा तु तथा ह्यधीयत एके ॥९॥ तुरवधारणे । ज्योतिस्तेज उपक्रम आदौ यस्याः प्रकृतेः सा ज्योतिरुपक्रमा। तेजो- बन्नात्मिकैवात्राजेति विवक्षिता । कुतः । तथा टेके छन्दोगा अधीयते- यदग्ने रोहितं रूपं तेजसस्तद्रूप यच्छुक्लं तदपा यत्कृष्ण तदन्नस्य' [छा० ६ । ४ । १ ] इति च्छान्दोग्ये तेजोवन्नात्मिकायाः प्रकृतेलोंहितादिरूपाणि श्रुतानि तान्येवात्र प्रत्यभिज्ञायन्ते । लोहिता- दिशब्दसामान्यात् । रोहितादीना च शब्दानां रूपविशेपेषु मुख्यत्वात् । ततः श्रौतप्रत्यभि- ज्ञायाः प्राधान्याल्लोहितादिशब्दाना मुख्यार्थसंभवात्तेजोबन्नात्मिका प्रकृतिरजेति गम्यते । अस्मिन्नेव प्रकरणे-' मायां तु प्रकृति विद्यान्मायिन तु महेश्वरम् ' [ श्वे० ४ । १० ] इति प्रतिपादनात् । प्रकृतिविकृत्योरभेदविवक्षया लोहितादिमत्तयाऽनिर्वाच्या मायैवाजा शब्देन विवक्षिता सांख्यप्रकृतिरत्र सत्त्वरजस्तमोगुणात्मिका ग्राह्या ॥९॥(१) ननु तेजोबन्नानामुत्पत्तिश्रवणादजाशब्दस्य छाग्यां रूढत्वाच्च योगरूढ्योरसंभवात्कथं प्रकृतावजाशब्दप्रयोग इत्यत आह सूत्रकारः- कल्पनोपदेशाच्च मध्वादिवदविरोधः॥१०॥ (२) चश्चोद्यनिरासे । न प्रकृतावजाशब्दानुपपत्तिः । कुतः । कल्पनोपदेशात् । यद्यप्य- जाशब्दश्छागवाचित्वान्नोक्तप्रकृतौ रूढः । नापि न जायत इति योगः सभवति । तेजो- बनाना ब्रह्मण उत्पत्तिश्रवणात् । तथाऽप्यजात्वं तेजोबन्नात्मिकायां प्रकृतौ सुखावबोधाय कल्प्यते । अत्राऽऽहुर्भाष्यकृतः–तथा हि लोके यदृच्छया काचिदजा रोहितशुक्लकृष्णवर्णा स्याद्बहुबर्करा सरूपबर्करा वा तां कश्चिदजो जुपमाणोऽनुशेते कश्चिच्चैनां भुक्तभोगां जह्या- देवमियमपि तेजोबन्नलक्षणा भूतप्रकृतिस्त्रिवर्णा बहु सरूपं चराचरलक्षणं विकारजातं जनयत्यविदुषा च क्षेत्रज्ञेनोपभुज्यते विदुषा च परित्यज्यत इति । नचेदमाशङ्कितव्युमकः १ चतुर्थः पादः] ब्रह्मसूत्रवृत्तिः। क्षेत्रज्ञोऽनुशेतेऽन्यो जहातीति । अतः क्षेत्रज्ञभेदः पारमार्थिकः परेपामिष्टः प्रामोतीति । च हीयं क्षेत्रज्ञभेदप्रतिपिपादयिपा कि तर्हि बन्धमोक्षव्यवस्थाप्रतिपिपादयिपा त्वेपा । प्रसिद्ध तु भेदमनूद्य बन्धमोक्षव्यवस्था प्रतिपाद्यते । भेदस्तूपाधिनिमित्तो मिथ्याज्ञान- कल्पितो न पारमार्थिकः । ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा [ श्वे० ६ । ८ ] इत्यादिश्रुतिभ्यः । मध्वादिवत् । यथा---' असौ वा आदित्यो देव- मधु ' [ छा० ३ । १ । १] 'वाचं धेनुमुपासीत ' [ बृ० ५। ८ । १ ] इत्यादा- वादित्यस्यामधुनो मधुत्व वाचश्चाधेनोर्धेनुत्वमित्येवजातीयक कल्प्यते । एवमिदमनजाया अजात्वं कल्प्यत इत्यर्थः । तस्मात्तेजोबन्नात्मिका प्रकृतिरजेति सिद्धम् ॥ १० ॥ (२) न संख्योपसंग्रहादपि नानामावादतिरेकाच ॥ ११ ॥ एवं परिहृतेऽप्यजामन्त्रे पुनरन्यस्मान्मन्त्रात्सांख्यः प्रत्यवतिष्ठते । वृहदारण्यके श्रूयते- ' यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृ- तम् ' [४ । ४ । १७] इति । अस्यायमर्थः-पञ्च पञ्चजना आकाशश्च यस्मिन्ना- श्रितास्तमेवाऽऽश्रयभूतमात्मानममृत ब्रह्म मन्ये एवविद्वानहममृतो भवामीति । तत्र पञ्च- पञ्चजना इति प्रोक्ताः पदार्थाः सांख्यशास्त्रप्रसिद्धाः मूळप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः । [सांख्यका० ३] इति संगृहीता अत्रोच्यन्त आहोस्विच्छृतिप्रोक्ताः प्राणचक्षुःश्रोत्रमनोन्नसंज्ञका इति संशयः। सांख्यप्रोक्ताः पदार्था इति तावत्प्राप्तम् । कुतः । पञ्चविशतिसंख्याकाः पदार्था उन्यन्ते जनशब्दश्च तत्त्वोपलक्षणार्थः । पञ्चपञ्चेति शब्दद्वयं श्रूयते । तत्रैकेन पञ्चशब्देन तत्त्वगता पञ्चसंख्या विवक्षिता । द्वितीयेन पञ्चसंख्याविषयाऽपरा पञ्चसख्या विवक्षिता । तथा च पञ्चसख्याविशिष्टानि तत्त्वपञ्चकानीत्युक्तं भवति । ततः पञ्चभिः पञ्चकैः पञ्चविंशत्यवभास. नात्सांख्यतत्त्वानामुपसग्रहान्न प्रधानमशब्दमिति प्राप्तेऽभिधीयते । यद्यपि पञ्चसख्याविष- याऽपरा पञ्चसंख्या श्रूयते तथाऽपि न पञ्चविशतिनियन्तुं शक्यते । पञ्चविंशतिसंख्याकानां तत्त्वानामाश्रयत्वेनाऽऽत्मनो ग्रहणात् । न ह्ययमात्मा पञ्चविंशत्यन्तःपाती। तथा सत्येकस्यै- वाऽऽधेयत्वमाधारत्वं चेति विरोधप्रसङ्गात् । यस्मिन्पञ्च पञ्चजना आकाशश्चेत्याकाशोऽप्यपरः श्रूयते । न च तस्यापि पञ्चविंशत्यन्तःपातित्वम् । आकाशत्वेऽपि पृथनिर्देशसमुच्चययो- विरोधात् । अत आत्माकाशाभ्यां सह सप्तविशतिसंपत्तेर्न सांख्यतत्त्वानामवकाशः । कस्तर्हि वाक्यार्थः । उच्यते--पच्चजनशब्दोऽयं समस्तः संज्ञावाची। "दिक्सख्ये संज्ञायाम्' [पा० सू० २१११५० ] इति समासविधानात् । अतः पञ्चजनसंज्ञकाः पदार्थाः पञ्चसंख्याका इत्युक्तं भवति । सूत्रार्थस्त्वेवम्--संख्योपसग्रहादपि सारख्यप्रकतेः श्रौतत्वं न संगच्छते । . .. १ -- कान्तरमाह- ' माणस्य , हरिदीक्षितकृता- [प्रथमाध्याये- कुतः । नानाभावात् । अवान्तरसंख्याया अनुगमकधर्माभावेन पञ्चानां पञ्चकाना प्रतिपादयितु. मशक्यत्वात् । पञ्चशः पञ्चशः साधारणधश्रवणेऽपि कथंचित्पञ्चविशतिसंख्यामकारे बाध- अतिरेकाच्चेति । पञ्चजनापेक्षयाऽऽकाशपुरुपयोरतिरिक्तत्वान्न पञ्चविशति- संख्याप्रतिपत्तिः । तस्मान्न साख्यप्रकृतिरत्र विवक्षिता ॥ ११ ॥ पञ्चजनशब्देन के विवक्ष्यन्त इत्याकाङ्खायामाह- प्राणादयो वाक्यशेषात् ॥ १२ ॥ अत्र प्राणचक्षुःश्रोत्रान्नमनांसि पञ्चजनशब्दैरुच्यन्ते । कुतः । वाक्यशेपात् । प्राणमुत चक्षुपश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्न मनसो ये मनो विदु.' [बृ०४।४।१८] इति । अत्र वाक्यपगताः प्राणादयः सनिधानात्पञ्चजना इति विवक्ष्यन्ते । ननु कथ पुनः प्राणा- दिपु जनशब्दप्रयोग इति चेत् । जनसबन्धात्प्राणादयो जनशब्दभाजो भवन्ति जनश- ब्दश्च पुरुषापरपर्यायः प्राणेपु प्रयुक्तः । ' ते वा एते पञ्च ब्रह्मपुरुषाः' [छा० ३।१३।६] इति श्रुतेः । समासबलाच समुदायस्य प्राणादिषु रूढत्वमविरुद्धम् । कथं पुनरसति प्रथमप्रयोगे रूढिराश्रीयते । उच्यते-यथोद्भिदा यजेत यूप छिनत्ति वेदिं करोतीत्यादौ प्रथमप्रयोगाभावेऽपि रूढिरङ्गीकृता तथाऽयमपि पञ्चजनशब्दः समासबलात्संज्ञाकासी वाक्यशेपसमभिव्याहृतेपु प्राणादिषु प्रवर्तिष्यत इति न काऽप्यनुपपत्तिः । प्राणादीनां पञ्चानां साक्षी चिदात्मा द्वितीयैः प्राणादिशब्दैरभिधीयते ॥ १२ ॥ ननु माध्यंदिनानामन्नस्य प्राणादिष्वाम्नानाद्भवतु पञ्चसंख्या । काण्वानां त्वनाम्नानात्कथं पञ्चसंख्याऽत आह- ज्योतिषैकेषामसत्यने ।। १३॥ (३) असत्यपि काण्वानामने ज्योतिषा सह तेषां पञ्चसख्या पूर्येत । तेऽपि हि ' यस्मिन्पञ्च पञ्चजना ' [ बृ० ४ । ४ । १७ ] इत्यतः पूर्वस्मिन्मने ब्रह्मस्वरूपनिर्णयाय ज्योति- रधीयते -' तद्देवा ज्योतिषां ज्योतिः ' [ बृ० ४ । ४ । १६ ] इति । अत्रोभयेषां समानेऽपि मने ज्योतिषो ग्रहणाग्रहणे भवतः । यथा समानेऽप्यतिरात्रे वचनभेदात्षोड- शिनो ग्रहणाग्रहणे तद्वत् । तस्मात्प्रधानमशब्दमिति सिद्धम् ॥ १३ ॥ (३) कारणत्वेन चाऽऽकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥ योऽयं वेदान्तसमन्वयो जगत्कारणब्रह्मविषयः सार्धंस्त्रिभिः पादैः प्रतिपादितस्तमा- क्षिप्य समाधातुमयमारम्भ. । उक्तः समन्वयो न संभवति । वेदान्तेषु बहुशो विरोधदर्शना- प्रामाण्यस्य[च] दुरुपपादत्वात् । तथा हि- आत्मन आकाशः संभूतः ' [ तै०२ । १] इति तैत्तिरीयके वियदादीन्प्रति स्रष्टुत्व प्रतीयते । छान्दोग्ये-' तत्तेजोऽसृजत [छा० ६ । २ । ३ ] इति तेजआदीन्प्रति । ऐतरेयके-' स इमाल्लोकानसृजत ' [ऐ० आ० , ' - . - चतुर्थः पादः ] ब्रह्मसूत्रवृत्तिः। ६७ २ । ४।१।२ । ३ ] इति लोकान्प्रति । मुण्डके- 'एतस्माज्जायते प्राणः' मु०२! १ । ३ ] इति प्राणादीन्प्रति । एव कार्यविपये परस्परविरोधः । न केवलं कार्यद्वारेणैव विरोधः किं तर्हि कारणस्वरूपोपन्यासेऽपि विरोधो दृश्यते । तथा हि- सदेव सौम्ये- दमग्र आसीत् ' [छा० ६ । २ । १।२ इति च्छान्दोग्ये सद्रूपत्वं कारणस्यावगम्यते । तैत्तिरीयके असद्वा इदमग्र आसीत् ' [ तै० २।७] इति कारणस्यासद्रूपत्वम् । ऐतरेयके च-' आत्मा वा इदमेक एवाग्र आसीत् ' । ऐ० १ । १] इत्यात्मरूप- त्वम् । अतो विरोधान्न युक्तः समन्वय इति प्राप्ते ब्रूमः । भवतु नाम सृज्येषु वियदादिषु तत्क्रमे च विवादः । वियदादीनामतात्पर्य विपयत्वादद्वितीयब्रह्मबोधायैव हि तदुपन्यासः । तात्पर्यविषये तु जगत्स्रष्टार ब्रह्मणि न वापि विरोधोऽस्ति । सूत्रार्थ इत्थम्-एकस्मिन्वे- दान्ते सर्वज्ञः : सर्वेश्वरः कारणत्वेन व्यपदिष्टस्तथाभूतस्यैव शाखान्तरेऽप्युक्तेः कारणे ब्रह्माणि विगानं नास्तीति ॥ १४ ॥ यत्तु असद्वा इदमग्र आसीत् ' [ तै० २ । ७ ] इत्यादी कारणविषयं विगानं दर्शितं तत्परिहारमाह- समाकर्षात् ॥ १५ ॥ (४) ' असद्वा इदमग्र आसीत् ' इत्यत्र पूर्वप्रकृतस्य सत एवाऽऽकर्षणान्नासत्कारणविपयं विगानमस्ति । तथा हि--' असन्नेव स भवति' [ तै० २।६ ] इत्यसद्वाद निराकृत्य 'अस्ति ब्रह्मेति चेद्वेद ' इति सदात्मानं निर्धार्य : सोऽकामयत ' [ तै० २ । ६ ] इति सत एव कारणात्सृष्टिमुक्त्वा तत्सत्यमित्याचक्षत ' इत्युपसंहृत्य ' तदप्येष श्लोको भवति ' इति प्रकृतविपयः श्लोक उदाहृतः । तत्रैव सति नासच्छब्देन शून्यवादः परि- ग्रहीतुं शक्यते । प्रकृतहानाप्रकृतकल्पनाप्रसङ्गात् । सच्छब्दवाच्येऽपि ब्रह्मण्यसच्छब्दस्य नामरूपव्याकरणाभावन प्रागुत्पत्तेरौपचारिकप्रयोगसंभवाच । विद्यारण्यपादा आहुः- असच्छब्देनाभिधानं तव्याकृताभिप्रायं नत्वत्य[न्ता]भावाभिप्रायं ' कथमसतः सज्जायेत ' [ छा० ६ । २।२] इति श्रुत्यन्तरे चाभावस्य कारणत्वनिपेधादिति । 'तद्धेदं तह- व्याकृतमासीत् ' [ बृ० १ । ४ । ७ ] इति निरध्यक्षस्य जगतो व्याकरणाभावमुक्त्वा स एष इह प्रविष्ट आनखाग्रेभ्यः ' [बृ० १ । ४ । ७] इत्यध्यक्षस्य चेतनस्येश्वरस्य व्याकृतकार्यानुप्रवेशित्वेन समाकर्पात् । एवं सर्वत्र यथाव्यपदिष्ठोक्तिरूह्या । तस्मादेकवाक्य. तायाः सुसंपादत्वाद्युक्तो जगत्कारणे समन्वयः ॥ १५॥ (४) जगद्वाचित्वात् ॥१६॥ कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे श्रूयते बालाकिनाम्ना ब्राह्मणेनाऽऽदित्यादिषु षोडशसु वेद्यत्वेनोक्तेषु राजाऽजातशत्रुस्तान्निराकृत्य ब्रह्म ते ब्रवाणि, इत्युपक्रम्य ६८ ' में , पुरुपमामन्त्रणेन वै हरिदीक्षितकृता- [प्रथमाध्याये- स्वयमाह ' यो वै बालाक एतेषा पुरुषाणा कर्ता यस्य वैतत्कर्म स वै वेदितव्यः ' को ब्रा० ४ । १९ ] इति । तत्र किं जीवो वेदितव्य उत मुख्यः प्राण आहोस्वित्परमात्मेनि संशयः । किं तावत्प्राप्तम् । प्राण इति । कुतः । यस्य वैतत्कर्म ' इति श्रवणात्कर्म- शब्दस्य चलनवाचित्वादेहादिचलनस्य च प्राणसंबन्धित्वाद्वाक्यशेषे च प्राण एवैकधा भवति' [ कौ० ३ । ३ ] इति प्राणशब्दश्रवणाच्च । अथ वाऽत्र जीवो वेदितव्यः । यस्य वैतत्कर्म' इति धर्माधर्मलक्षणकर्मोपदेशसंभवात् । पूर्वप्रकृतानाम् — आदित्ये पुरुषः [ छा० ४ । ११ । १] ' चन्द्रमसि पुरुषः [ कौ० ४ } ४ ] इत्यादीनां पोडशाना पुरुषाणां भोगोपकरणानां भोक्तुर्जीवस्य कर्तृत्वसंभवेनैतेषा पुरुपाणां कर्तृत्वं जीवस्योपपद्यते । अन्यच्च जीवलिङ्गमत्र दृश्यते । वेदितव्यपुरुषज्ञानोन्मुखं बालाकि प्रत्यजातशत्रुणा सुप्त संबोध्य ततोऽनुत्थितं पाणिधातेनोस्थित प्रदर्य प्राणादिव्यतिरिक्तस्य जीवस्य प्रतिपादनादित्येवं प्राप्ते ब्रूम:--अत्र परमात्मैव वेदितव्यः । कुतः । ब्रह्म ते ब्रवाणि, इन्युपक्रमसामर्थ्यात् । इह हि बालाकि- रजातशत्रुणा सह ब्रह्म ते ब्रवाणि ' इति संवदितुमुपचक्रमे । स च कतिचिदादित्याद्य- धिकरणान्पुरुषान्मुख्यब्रह्मदृष्टयोक्त्वोपरराम । तमजातशत्रुः मृषा खलु मा सवदिष्ठा ब्रह्म ते ब्रवाणि ' इति तान्पुरुषान्निराकृत्य स्वयमजातशत्रुरतेषा पुरुषाणां कर्तारमन्यमुप- दिदेश । यदि सोऽप्यमुख्यब्रह्मदृष्टिः स्यात्तर्हि बालाकिबन्मृपावादी स्यात् । उपक्रमोऽपि बाध्येत । तस्मात्परमेश्वर एवाय भवितुमर्हति । कर्तृत्व चैतेषां पुरुषाणा न परमेश्वरादन्यस्य स्वातन्त्र्येणावकल्पते । यस्य वैतत्कर्म ' इत्यपि नायं चलनलक्षणस्य धर्माधर्मलक्षणस्य वा कर्मणो निर्देशः । तस्याप्रकृतत्वात् । नच परमेश्वरे कर्मशब्दानुपपत्तिः । तस्य कर्म- शब्दस्य जगद्वाचित्वात् । क्रियत इति कर्मेति जगदेव कर्मशब्देनोच्यत इत्यर्थः । सति जगद्वाचित्वे कर्मशब्दः सप्रयोजनो भविष्यति । षोडशानामेव पुरुषाणां कर्तेश्वर इति- शङ्कानिवृत्तिरेव प्रयोजनम् । अथवा किमनेन पोडशानां च कर्तरि सकोचेन । एतत्कृत्स्वं जगद्यस्य कार्य स एव वेदितव्य इति । कृत्स्नजगत्कर्तृत्व तु परमात्मन एव सभवति न जीवमुख्यप्राणयोः । एवं च सति राज्ञो मृषावादित्वदोपो न भवेत् । जर जगत्कर्तृत्वेनैव जगदन्तःपातिनां षोडशपुरुपाणां कर्तृत्वसिद्धौ बालाकिना वेद्यत्वेनोपदिष्टानां तेषामवेद्यत्व. ज्ञापनार्थं ब्राह्मणपरिव्राजकन्यायेन पुरुषाणामिति पृथनिर्देशः ॥ १६ ॥ जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्याख्यातम् ॥ १७ ॥ ननु वाक्यशेपगताज्जीवलिङ्गान्मुख्यप्राणलिङ्गाच तयोरेवान्यतरस्येह ग्रहणं न्याय्यं नेश्वरस्येति चेन । यतस्तद्व्याख्यात प्रतर्दनाधिकरणे जीवमुख्यप्राणलिङ्गमपि ब्रह्मपरतया व्याख्यातमित्यर्थः । नचैवं प्रतर्दनाधिकरणेनास्य गतार्थता । एषां पुरुपाणां कर्तृत्वस्य यस्यैतत्कर्मेत्यस्य च तत्राप्रतिपादनात् । अनेन जगत्कर्तत्वाभिधानेन जीवमुख्यप्राणाशङ्का - [ कौ० ' चतुर्थः पादः ] ब्रह्मसूत्रवृत्तिः। पुनरुत्पद्यमाना निवर्त्यते । अत्रोपक्रमस्य तावब्रह्मविषयत्वं प्रदर्शितं ' ब्रह्म ते ब्रवाणि' इति । उपसहारस्यापि निरतिशयफलश्रवणाद्ब्रह्मविषयत्व दृश्यते--' सर्वान्पाप्मनोऽपहत्य सर्वेषां भूतानां श्रेष्ठधं स्वाराज्यमाधिपत्यं पर्येति य एव वेद ' [ कौ० २ । २० ] इति । तस्माज्जगत्कर्ता परमात्मैव न जीवो मुख्यप्राणो वा ॥ १७ ॥ अन्यार्थ तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १८॥ (५) अपि च नैवात्र विवदितव्यं जीवप्रधानं वेदवाक्य स्याब्रह्मप्रधानं वेति । यतोऽन्यार्थ ब्रह्मप्रतिपत्त्यर्थ जीवपरामर्शमस्मिन्वाक्ये जैमिनिराचार्यो मन्यते । कस्मात् । प्रश्नप्रतिवचना- भ्याम् । प्रश्नस्तावत्सुप्तपुरुषप्रतिबोधनेन प्राणादिव्यतिरिक्त जीवे प्रतिबोधिते पुनर्जीवव्य- तिरिक्तो विषयो दृश्यते---- कैष एतद्बालाके पुरुपोऽशयिष्ट क वै तदभूत्कुत एतदागात् ' ० ४ । १९ ] इति । प्रतिवचनमपि यदा सुप्तः स्वप्नं न कंचन पश्यत्यथा- स्मिन्प्राण एवैकधा भवति' [कौ० १ । ३ ] एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः ' [को० ४ । २० ] इति । सुषुप्तिकाले च परेण ब्रह्मणा जीव एकतां गच्छति परस्माद्ब्रह्मणः प्राणादिकं जगज्जायत इति वेदान्तम- र्यादा । तस्माद्यत्रास्य जीवस्य निःसबोधतास्वच्छतारूपः प्रस्वाप उपाधिजनितविशेपज्ञानर- हितं स्वरूप यतस्तद्रंशरूपमागमनं सोऽत्र परमात्मा वेदितव्यत्वेन श्रावित इति गम्यते । अपिचैवमेके वाजसनेयिनोऽस्मिन्वालाक्यजातशत्रुसवादे स्पष्ट विज्ञानमयशब्देन जीवमाम्नाय तद्व्यतिरिक्त परमात्मानमधीयते य एष विज्ञानमयः पुरुषः कैष तदाऽभूत्कुत एतदा- गात् ' [ बृ० २।१ । ११ ] इतिप्रश्ने । प्रतिवचनेऽपि । य एषोऽन्तर्हृदय आका- शस्तस्मिञ्छेत' इति । आकाशशब्दश्च परमात्मनि प्रसिद्धो 'दहरोऽस्मिन्नन्तराकाशः [ छा० ८।१।१ ] इति । स एव कौषीतकिब्राह्मणे प्रत्यभिज्ञायते ॥ १८ ॥ (५) वाक्यान्वयात् ॥१९॥ बृहदारण्यके चतुर्थाध्याये मैत्रेयी भार्या प्रति याज्ञवल्क्य उपदिशति । तन्मैत्रेयीब्राह्मण- मुच्यते । तत्रत्यं वाक्यम् न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । इत्युपक्रम्य न वा अरे सर्वस्य कामाय सर्व प्रिय भवत्यात्मनस्तु कामाय सर्व प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्व विदितम् ' [ बृ० ४ । ५। ६ ] इति । अत्रार्य संशयः-किं विज्ञानात्मा द्रष्टव्यादिरूपेणोपदिश्यत आहोस्वित्परमा- त्मेति । विज्ञानात्मेति तावत्प्राप्तम् । कुतः । न वा अरे पत्युः कामाय ' इत्यादिवाक्यैर्भो- गलालसस्य संसारित्वसूचनात् । अयमत्र वाक्यार्थः-पत्यौ प्रीतिं कुर्वती जाया पत्युः सुखाय प्रीतिं न करोति किं तु स्वस्य सुखायैव । एव पतिपत्रादयोऽपि स्वस्वसुखायैवेतn ' - हरिदीक्षितकृता- [ प्रथमाध्याये- . रत्र प्रीतिं कुर्वन्तीति । भोगश्च नासङ्गेश्वरस्यावकल्पते । तस्माद्विज्ञानात्मैवेह द्रष्टव्यत्वादि- नोपदिश्यत इति प्राप्ते ब्रूमः । परमात्मवेहोपदिश्यते । कुतः । वाक्यान्वयात् । उपक्रमोप- संहारपर्यालोचनया वाक्यावयवाना ब्रह्मण्येवान्वयात् । एतद्वाक्योपक्रमे मैत्रेयी वित्तेन साध्येन कर्मणा किममृतं स्यादिति पप्रन्छ । याज्ञवल्क्यस्तु — अमृतत्वस्य तु नाऽऽशाऽस्ति वित्तेन [ बृ० ४ । ५। ३ ] इत्युत्तरमाह । इति याज्ञवल्क्यादुपश्रुत्य ' येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहि ' [बृ० ४ । ५ । ४] इत्यमृ. तत्वमाशासानायै मैत्रेय्यै याज्ञवल्क्य आत्मविज्ञानमिदमुपदिशति । ब्राह्मणावसानेऽपि । एता- वदरे खल्वमृतत्वम् ' [बृ० ४ । ५ । १५ ] इत्युपसंहृतम् । नचान्यत्र परमात्म- विज्ञानादमृतत्वमस्तीति प्रमाणमस्ति । नहि विज्ञानात्मविज्ञानेन सर्वं विज्ञातं भवति । ब्रह्म तं परादाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद ' [ बृ० ४ । ५। ७] इत्यादिना तन्निषेधात् । अयमस्याः श्रुतेरर्थः-यो हि ब्रह्मक्षत्रादिकं जगदात्मनोऽन्यत्र स्वात- त्र्येण लब्धस्वभावं पश्यति तं मिथ्यादर्शिनं तदेव मिथ्यादृष्टं ब्रह्मक्षत्रादिकं जगत्परा- करोतीति । तस्मादुपक्रमोपसंहारसामर्थ्यादात्मज्ञानमेवात्रोपदिश्यते । आत्मा च परमात्मैव न शारीर इति ॥ १९ ॥ यत्पुनरुक्त प्रियसंसूचनोपक्रमाद्विज्ञानात्मन एवायं दर्शनाद्युपदेश इत्यत्राऽऽह- प्रतिज्ञासिद्धेलिङमाश्मरथ्यः ॥ २०॥ जीवोपक्रमणं प्रतिज्ञासिद्धेर्लिङ्गं तत्सिद्धयर्थमित्याश्मरथ्यो मन्यते । जीवस्य परमात्मनोऽ- त्यन्तभिन्नत्व एकविज्ञाने सर्व विज्ञानप्रतिज्ञा । 'इदं सर्व यदयमात्मा' इति सार्वात्म्यप्रतिज्ञा । अनयोविरोधमाशङ्कय तयोरभेदाशप्रतिपत्त्यर्थ जीवोपक्रम इत्यर्थः ॥ २० ॥ उत्क्रमिष्यत एवंमावादित्यौडुलोमिः ।। २१ ॥ ज्ञानध्यानाभ्यासाभ्यां संप्रसन्नस्य देहादिसंघातादुत्क्रमिष्यतो जीवस्य परमात्मनैक्यो- पपत्तेरिदमभेदेनोपक्रमणमित्यौडुलोमिराचार्यों मन्यते । श्रुतिश्चैव भवति-' एष सप्रसादोड- स्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' [ छा० १२ । ३ ] इति । अवस्थितेरिति काशकृत्स्नः ॥ २२॥ (६) अस्यैव परमात्मनो जीवभावेनावस्थानादुपपन्नमिदमभेदेनोपक्रमणमिति काशकृत्स्न आचार्यों मन्यते । तथा च ब्राह्मणम्—'अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याक- रवाणि' [छा० ६।३।२] इति । मन्त्रवर्णश्च-सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते' [ तै० आ० ३ । १२ । ७ ] इति । एवजातीयकानि बहूनि प्रमाणानि परस्यैवाऽऽत्मनो जीवभावेनावस्थान दर्शयन्ति । तत्रैवं मतत्रयस्य विवेकः- .
चतुर्थः पादः ] ब्रह्मसूत्रवृत्तिः। ' . आश्मरथ्यमते जीवपरयोर्भेदाभेदौ । यद्यपि जीवस्य परस्मादनन्यत्वमभिप्रेतं तथाऽपि प्रति- ज्ञासिद्धेरिति सापेक्षत्वाभिधानात्कार्यकारणभावः कियान[प्य]भिप्रेत इति । औडुलोमिमतेऽ- वस्थान्तरापेक्षौ भेदाभेदौ मुक्तेः प्राग्भेदस्तदनन्तरमभेद इति । परमेश्वर एव जीवो नान्य- स्तदुपाध्योमिथ्यात्वादिति । तत्र काशकृत्स्नीयमेव मत श्रुत्यनुसारीति -ज्ञेयम् । विस्तरो भाष्य द्रष्टव्यः ॥ २२ ॥ (६) प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥ यथाऽभ्युदयहेतुत्वाद्धर्मो जिज्ञास्य इत्युक्त पूर्वमीमासायामेवं निःश्रेयसहेतुत्वाद्ब्रह्म जिज्ञा- स्यमित्युक्तमत्र । तस्य ब्रह्मणः कि लक्षणमित्याकाक्षायां 'जन्माद्यस्य यतः [ब्र०सू० १। ११२] इति तल्लक्षणमुक्तम् । एतावता ब्रह्मणो जगत्कारणत्व लक्षण निर्दृढम् । तच्च कार. णत्वं समानमुपादाने निमित्ते चेति भवति सशयः किमात्मक ब्रह्मणः कारणत्वं स्यादिति । निमित्तकारणत्वमेव ब्रह्मण इति तावत्प्राप्तम् । कुतः-'तदैक्षत' [ छा० ६।२।३] इति । स ईक्षांचक्रे' [ प्र०६ । ३ ] ‘स प्राणमसृजत' [ प्र०६ । ४ ] ' तत्तेजोऽसृजत [छा० ६ । २ । ३] इत्यादावीक्षापूर्वकजगकर्तृत्वश्रवणात् । सृज्यकार्यपर्यालोचनपू- र्वकं कर्तृत्व लोके निमित्तकारणे कुलालादौ दृष्टम् । निमित्तस्य कुलालादेरुपादानमृत्पिण्डा- दिभावादर्शनात् । तस्माज्जगद्रूपकार्य प्रति ब्रह्म निमित्तमेव नोपादानमिति प्राप्ते ब्रूमः- प्रकृतिरुपादानं चकारान्निमित्तमपि ब्रह्मैव । कुतः । प्रतिज्ञादृष्टान्तानुपरोधात् । प्रतिज्ञा- दृष्टान्तयोरनुपरोधो विरोधाभावः सामञ्जस्यमिति यावत् । तस्मादित्यर्थः । प्रतिज्ञा तावत्- ' येनाश्रुत श्रुत भवत्यमतं मतमविज्ञातं विज्ञातम् ' [ छा० ६ । १। २ इति । अत्र चैकविज्ञानेन सर्वविज्ञान गम्यते । तदेकविज्ञानेन सर्वविज्ञान ब्रह्मणः सर्वोपादानत्वे सति तव्यतिरेकेण कार्याणामभावादुपपादयितुं सुशकम् । नचोपादानोपादेययोरभेदः प्राप्त इति वाच्यम् । न वयं तयोरभेदं ब्रूमः । किंतु भेद व्यासेधाम इत्यभियुक्तोक्तेः । दृष्टान्तोऽपि-' यथा सौम्यैकेन मृत्पिण्डेन विज्ञातेन सर्व मृन्मयं विज्ञातं स्यात् ' [छा० ६ । १ । ४ ] इत्युपादानविषय एव दृश्यते । नचानेनोपादेयस्य सत्यत्वं प्राप्तमिति वाच्यम् । रम्भणं विकारो नामधेयम् । मृत्तिकेत्येव सत्यम् ' [ छा० ६। १ । ४ ] इति 'तन्निराकरणात् । अतो ब्रह्मण उपादानत्वं निमित्तत्वं च संभवति । ' तदैक्षत बहु स्याम् ' [छा० ६।२ । ३ ] इति निमित्तकारणस्यक्षितुः सर्वज्ञस्य ब्रह्मण एव विचित्रजगदा- कारेण बहुभवनं चोपदिश्यते । तस्माद्ब्रह्मैवाभिन्ननिमित्तोपादानम् । अत्र माध्वा यदाहुः- 'कारणत्वेन चाऽऽकाशादिषु यथाव्यपदिष्टोक्तेः ' [ ब्र० सू० १।४ । १४ ] इत्या- रभ्याष्टसूच्या विष्णौ मुख्यतः सर्वशब्दवाच्यत्वमिति । ' प्रकृतिश्च प्रतिज्ञा' [ ब्र० सू० १] ४ । २३ ] इत्यादिसूत्रैरपि स्त्रीशब्दा अपि तस्मिन्नेव मुख्यवृत्त्या सन्तीतिच । तद्वार्तम् । अस्माकं विमतस्थाभ्यां रामानुजनीलकण्ठाभ्यामाचार्याभ्यां तदनभ्युपगमात् । ' वाचा-
..
वा
नच
७२
हरिदीक्षितकृता-
[प्रथमाध्याये-
सर्वेषां तैर्थिकानां संमतैः श्रुतिस्मृतिपुराणादिप्रमाणैः सूत्राणामर्थान्तरवर्णनं युक्तम् । नतु
तुरकमठमाठरकौण्ठरव्यादिकल्पितप्रमाणैरिति दिक् । रामानुजनीलकण्ठयोराचार्ययोरेक एव
सिद्धान्तः श्रुत्यादिकल्पनादोपरहितत्वात्प्रामाणिकः । शिवापरनामधेयं ब्रह्मैव प्रपञ्चस्याभि-
न्ननिमित्तोपादानमिति नीलकण्ठाचार्यः । तदेव विष्ण्वपरनामधेयमिति रामानुजाचार्यः ।
नाम्न्येव तयोविप्रतिपत्तिर्न सिद्धान्ते । तयोर्मते मोक्षस्तु-' ज्ञात्वा देवं मुच्यते सर्वपाशैः'
[श्वे० १ । ८ ] इत्यादिश्रुतिभिर्भगवज्ज्ञानपूर्वकोपासनयाऽस्याधिकारिणो भगवत्प्रसादात्प्र-
ध्वस्ताज्ञानपाशः प्रत्यक्षीभूतनिरतिशयज्ञानानन्दस्वरूपतत्समानगुणप्राप्तिरूपः । तौ हि
ब्रह्मप्रपञ्चयोर्घटपटयोरिव नात्यन्तभेदवादिनौ । तदनन्यत्वपरश्रुतिविरोधात् । नचात्य-
न्ताभेदवादिनौ भेदप्रतिपादकश्रुतिविरोधात्
शुक्तिरजतयो-
रिवैकतरमिथ्यात्ववादिनौ । तत्स्वाभाविकगुणभेदपरश्रुतिविरोधात् । भेदाभेद-
वादिनौ । वस्तुविरोधात् । कितु शरीरशरीरिणोरिव गुणगुणिनोरिख च कार्यकारणत्वेन
विशेपविशेष्यत्वेन चाविनाभावत्वम् । नहि मृदं विना घटो दृश्यते नीलिमानं विना
चोत्पलम् । तथा ब्रह्म विना न प्रपञ्चशक्तिरन्यत्र स्थिता । शक्तिव्यतिरेकेण न कदाचि-
दपि ब्रह्म विज्ञायते वह्निरिवौष्ण्य विना । येन विना यन्न ज्ञायते तद्विशिष्टम् । प्रपञ्चस्तु ब्रह्म-
स्वभाव एव । अतः सर्वथा प्रपञ्चाविनाभूत ब्रह्म । ननु कूटस्थस्येश्वरस्य कथं
जगदाकारेण परिणामो विकारहेतुरिति चेन्न । नामरूपविभागानहसूक्ष्मचिदचिच्छक्तिविशि-
ष्टस्येश्वरस्य कारणत्वम् । नामरूपविभागार्हस्थूलचिदचिन्छक्तिविशिष्टस्येश्वरस्य कार्यत्वम् ।
कारणत्वमव्यक्तत्व कार्यत्व व्यक्तत्वमिति विवेक इति विशिष्टाद्वेतिनौ तौ वदतः । 'पराऽ-
स्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया च ' [ श्वे० ६ । ८ ] इत्यादि-
दर्शनात्सर्वाऽपि शक्तिब्रह्माश्रितैवेति ज्ञायते । अतः सर्वशक्तिमतस्तस्य किं किं न संभवति ।
तस्मान्नासभावनादिकुतर्कस्तस्मिन्ब्रह्मणि निरवकाश इति प्रतिपादयतः । 'एकमेवाद्वि-
तीयं ब्रह्म ' [ छा० ६ । २ । १ ] इतिश्रुतिविरुद्धत्वात्तन्मत न ग्राह्यमिति सजातीय.
विजातीयभेदानपायादद्वितीयचैतन्यासिद्धरिति दिक् ॥ २३ ॥
अभिध्योपदेशाच्च ।। २४ ।।
ब्रह्माभिन्ननिमित्तोपादानं भवितुमर्हति । कुतः । अभिध्योपदेशात् । ध्यानोपदेशादि-
त्यर्थः । ' सोऽकामयत बहु स्या प्रजायेय ' [ तै० २।१] इति । तत्राभिध्यापूर्वि-
कायाः स्वातन्त्र्यप्रवृत्तेः कर्तेति गम्यते । बहु स्याम् ' इतिप्रत्यगात्मविषयत्वाहहुभवना-
भिध्यानस्योपादानमित्यपि गम्यते ॥ २४ ॥
साक्षाचोभयानानात् ॥ २५॥
इतश्च ब्रह्मोपादानम् । कुतः । साक्षाच्चोभयाम्नानात् । ब्रह्मैव कारणमुपादायोभौ प्रभ.
वप्रलयावाम्नायेते- सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं
प्रत्यस्तं यन्ति ' [ छा० १।९।१] इति । यत्रोत्पत्तिविनाशौ यस्य कार्यस्य तत्तस्यो-
पादानं दृष्टम् । यथा मृद्घटस्य ॥ २५ ॥
७३ चतुर्थः पादः ] ब्रह्मसूत्रवृत्तिः। आत्मकृतेः परिणामात् ॥ २६ ॥ इतश्च निमित्तोपादानत्वे ब्रह्मणः संभवतः । कुतः । आत्मकृतेः परिणामात् । आत्मनः संबन्धिनी कृतिरात्मकृतिः । कर्तृत्वकर्मत्वसाधारण्येनाऽऽस्मकृतः श्रवणादित्यर्थः । तदात्मा- नर स्वयमकुरुत [ तै० २ । ७ ] इति स्त्रयमिति कर्तृत्वम् । आत्मानमिति कर्मत्वम् । कर्मत्वेनोपादानसिद्धिः । नन्वात्मनः कर्तृत्वेन पूर्वसिद्धस्य कथ कर्मत्वमित्यत आह-परिणा- मात् । परिणामो विवर्तः । सिद्धस्यापि विवर्तात्मना साध्यत्वात्कर्मत्वोपपत्तिरित्यर्थः । उपादानसमसत्ताकोऽन्यथाभावः परिणामः । उपादानासमसत्ताकोऽन्यथाभावो विवर्त इति परिणामविवर्तयोविवेकः । मायोपादानापेक्षया विवर्तत्वम् । यथा सुवर्णस्य विवर्तः कटक- कुण्डलादि । यद्वा परिणामात्परिणामसामानाधिकरण्येनाऽऽत्मनः श्रवणादित्यर्थः। 'सच्च त्य- च्चाभवत् ' [ तै० २ । ६ ] इति । (६) योनिश्च हि गीयते ॥ २७ ॥ (७) इतश्चाऽऽत्माऽस्य प्रपञ्चस्य प्रकृतिः । हि यस्माद्योनिरिति वेदान्तेषु गीयते पठ्यते यद्भूतयोनि परिपश्यन्ति धीराः' [मु० १ । १ । ६ ] इति । योनिशब्दः प्रकृतिपर्यायः । तदुक्तं भाष्यकृद्भिः–योनिशब्दश्च प्रकृतिवचनः समधिगतो लोके 'पृथिवी योनिरोषधिवनस्पतीनाम् ' इति । ' यथोर्णनाभिः सृजते गृह्णते च ' [मु० १ । १ । ७ ] इत्यादिश्रुतिभ्यश्च ब्रह्मणः प्रकृतित्वं सिद्धम् । ईक्षापूर्वककर्तृत्वे लोकसि- द्धनिमित्तकारणीभूतकुलालादिदृष्टान्तो नेह ग्राह्यः । न लोकवदिह भवितव्यम् । शब्दगम्यत्वाद- स्यार्थस्य शब्दश्चेक्षितुरीश्वरस्य प्रकृतित्व प्रतिपादयति ' तदैक्षत बहु स्या प्रजायेय' [ छा० ६।२ । ३] इति पूर्वमेवाबोचाम । तस्मात्परमात्मैवास्य प्रपञ्चस्याभिन्ननिमि. त्तोपादानमिति सिद्धम् ॥ २७ ॥ (७) एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८॥ (८) ईक्षते शब्दम् ' [ब्र० सू० १ । १ । ५ ] इत्यारभ्य प्रधानकारणवादः पुनः पुनराशङ्कय निराकृतः । इदानी वेदान्तेषु परमाण्वादेः कारणत्वं ब्रह्मण इव श्रुत न वेति संशयः । अण्वादेरपि कारणत्वं श्रुतमिति तावत्प्राप्तम् । कुतः। वटधानादिदृष्टान्तश्रवणात् । तथा हि छान्दोग्यस्य षष्ठाध्याये श्वेतकेतुं प्रत्युद्दालकः सूक्ष्मतत्त्वे स्थूलस्य जगतोऽन्तर्भावं प्रतिपिपादयिषुराह 'न्यग्रोधफलमाहरेति' [छा०६ । १२ । १ ] 'भिन्धीति' । किमत्र पश्यसीति' 'न किंचन भगव इति'। 'एतस्य वै सौम्यैषोऽणिम्न एष महान्यग्रोधस्तिष्ठति ' [ छा० ६ । १२ । २ ] इति । अनेन सूक्ष्मे तत्त्वे स्थूलस्य जगतोऽन्तर्भाव प्रतिपादयितुं महावृक्षगर्भितानि वटबीजानि दृष्टान्तत्वेनोदाजहार । अतस्तादृशाः परमाणवो दान्ति- कत्वेन श्रुता इति गम्यते । शून्यस्य तु असद्वा इदमन आसीत् ' [तै० २।१] - ७४ हरिदीक्षितकृता- [द्वितीयाध्याये- इति साक्षादेव कारणत्वं श्रुतम् । तस्मात्परमाण्वादीनामपि श्रौतं कारणत्वमस्तीति प्राते ब्रूमः । परमाण्वादिकारणवादा ब्रह्मकारणवादस्य प्रतिपक्षत्वात्प्रतिषेद्वव्या इत्यतः प्रधान- मल्लनिबर्हणन्यायेनातिदिशति-एतेनेति । एतेन प्रधानकारणबादप्रतिषेधन्यायकलापेन सर्वेऽण्वादिकारणवादा अपि प्रतिषिद्धतया व्याख्याता वेदितव्याः । तेषामपि प्रधानवदश- ब्दत्वादिति भाष्यकृत आहुः । एतेनैकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधेन परमाण्वादिका- रणवादाः प्रतिपिद्धतया व्याख्याता इति विद्यारण्यपादान्नंभट्टावाहतुः । ननु न किंचन भगवः' [छा० ६ । १२ । १ ] ' असद्वा इदमग्र आसीत् ' [ तै० २ । १ ] इत्यनयोः श्रुत्यो. का गतिरिति चेत् । उच्यते । न किंचन ' इत्यनेन नामरूपानभि- व्यक्तिरुक्ता । इन्द्रियागोचरत्वादणुत्व ब्रह्मण्युपचरितम् । अणोरणीयान् ' [ क० २। २० ] इति श्रुतेः । असच्छब्दोऽपि नामरूपराहित्याभिप्रायक एव न शून्याभिप्रायकः। कथमसतः सज्जायेत ' [ छा० ६।२ । २ ] इतिश्रुत्या शून्यवादः पूर्वमेव पराकृतः। एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा ब्रह्मव्यतिरेकेणान्यत्र न संगच्छते । प्रतिज्ञालक्षणं लक्ष्यमाणे पदसमन्वयः । वैदिकः स च तत्रैव नान्यत्रेत्युपपादितम् । तत्रैव ब्रह्मण्यवेत्यर्थः । व्याख्यातपदाभ्यासोऽध्यायसमाप्त्यर्थः । इति श्रीलक्ष्मीनरहरिसूरिसुनुहरिदीक्षितकृतौ ब्रह्मसूत्रवृत्तौ सुबोधिन्यां प्रथमोऽध्यायः ॥ १ ॥ . , अथ द्वितीयोऽध्यायः । प्रथमेऽध्याये सर्वज्ञः सर्वशक्तिः परमेश्वरो जगज्जन्मादिकारणं तत्रैव सर्वेषां वेदान्तवा- क्यानां समन्वय इति प्रतिपादितम् । प्रधानादिकारणवादाश्चाशब्दत्वेन निराकृताः । इदानीं स्वपक्षे स्मृतिन्यायविरोधपरिहारः । प्रधानादिकारणवादानां च न्यायाभासमूलत्वम् । सृष्टया- दिप्रक्रियायाश्च सर्ववेदान्तेष्वैकरूप्यमित्येतत्प्रतिपादनाय द्वितीयोऽध्याय आरभ्यते स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्ना- न्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥१॥ तत्र प्रथमं तावत्स्मृतिविरोधमुपन्यस्य परिहरति । यदुक्तं ' ब्रह्मैव सर्वजगत्कारणम् तदनुपपन्नम् । सांख्यस्मृतेर्निरवकाशत्वेन प्रबलत्वात् । तथाहि सांख्यस्मृतिर्हि मन्वादिस्मृति- वदनुष्ठेय धर्म कचिदपि प्रतिपादयितु न प्रवृत्ता किं तर्हि तत्त्वनिरूपणायैव प्रवृत्ता। मोक्षसा. धनमेव हि सम्यद्गर्शनमधिकृत्य कपिलादिमहर्षिभिः सा प्रणीता। ते च मन्वादिवच्छिष्टा भवन्ति । तस्माच्छिष्टपरिगृहीततया प्रमाणीभूताना कपिलादिस्मृतीनां विरोधाद्वेदान्ता एवं प्रधान- , प्रथमः पादः ] बह्मसूत्रवृत्तिः। ७५ परतया नेयाः । यदि तत्त्वनिरूपणेऽप्यसौ कपिलादिस्मृतिर्बाध्यते तदा निरवकाशा स्यात् । तस्मादनवकाशया साख्यस्मृत्या वेदान्ता व्याख्येया इति पूर्वः पक्षः । अत्रोन्यते-नान्यस्मृ- त्यनवकाशदोषप्रसङ्गादिति । यदि साख्यस्मृतेरनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत। एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयोऽनवकाशाः प्रसज्जेरन् । ताश्चोदाहरिष्यामः । यत्तत्सूक्ष्ममविज्ञेय पर ब्रह्म' इति प्रकृत्य- ' स ह्यन्तरात्मा भूताना क्षेत्रज्ञश्चेति कथ्यते । तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम । इति स्कान्दे । विष्णुपुराणेऽपि- नारायणः सर्वमिदं पुराणः स सर्गकाले च करोति सर्गम् । संहारकाले च तदत्ति भूयः ' इति । ' शिव एव जगत्कर्ता शिवः पाता शिवोऽन्तकृत् । ' इति च । भगवद्गीतासु- 'अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा ।' [भ० गी० ७६] इति । इत्याद्याः स्मृतयः शिवविष्णुपरमात्मपर्यायेश्वरकारणवादिन्यः सन्ति । श्रुतिमूला एव स्मृतयो ग्राह्या नेतरा इति सिद्धान्तितं पूर्वमीमासाया प्रमाणलक्षणे- - विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम् ' [ जै० सू० । ३ । ३ ] इति । अनेन सूत्रेणोत्सर्गतः प्राप्तस्य स्मृतिप्रामाण्यस्यापवादः क्रियते-श्रुत्यमूलकाः स्मृतयो न ग्राह्या इति । अतः स्मृतिद्वयविरोधे प्रत्यक्षश्रुत्यनुसारिण्या ईश्वरकारणवादिन्याः स्मृतेरेव प्राबल्यम् । यथा मन्वादिस्मृतीनां वेदमूलकत्व न तु तथाऽपि कापिलस्मृतेः प्रधानकारणवादिन्या मूलभूतं कंचन वेदमुपलभामहे । तस्मान्न साख्यस्मृत्या प्रत्यक्षश्रुतीना तन्मूलकमन्वादिस्मृतीनां च संकोचो युक्त इति सिद्धम् ॥ १ ॥ इतरेषां चानुपलब्धेः ॥२॥ (१) प्रधानादितराणि यानि प्रधानपरिणामत्वेन स्मृतौ कल्पितानि महदादीनि न तानि जगत्कारणानि । कुतः । वेदे तत्कारणत्वस्यानुपलब्धेः । यदपि कचित्तत्परमेव श्रवणमा- भासते तदपि प्रधानपरमेव व्याख्यातम्---'आनुमानिकमप्येकेषाम् ' [ब्र० सू० १। ४ । १] इत्यत्र प्रथमाध्यायस्य चतुर्थपादप्रथमसूत्रे । कार्यस्मृतेरप्रामाण्यात्कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यभिप्रायः । तस्मादपि न स्मृत्यनवकाशदोषः । अत्रेद सत्रद्वयमधिकृत्य कश्चिदाह- विष्णौ समन्वयश्चेत्तर्हि वामपाशुपताद्यागमरूपस्मृतेरनवकाशत्वं स्यादिति पूर्वपक्षं प्रापय्य ..
हरिदीक्षितकृता- [ द्वितीयाध्याये- - सर्वज्ञपरमात्मविष्णुप्रणीतपञ्चरात्रौपष्टम्भान्छुतीनां विष्णावेब समन्वय इति । अत्रोन्यते चतुर्पु वेदेषु परमपुरुपार्थमलभमानः शाण्डिल्य इमां विद्यामधीतबानिति तत्रैव वेदनिन्दाश्र- वणात्पाञ्चरात्रस्यावैदिकत्वं गम्यते । न च विष्णुप्रणीतस्य तस्य कथमवैदिकत्वमिति वाच्यम् । कपिलप्रणीतस्य साख्यस्येव तस्यावैदिकृत्वात् । पाञ्चरात्रादीनामवैदिकत्वं कण्ठत एवोक्त पुराणेषु । कौर्ये पञ्चदशाध्याये- ' तेषां मायावशाज्जातं गोवध गौतमो मुनिः । केनापि हेतुना ज्ञात्वा शशापातीब कोपनः ।। भविष्यथ त्रयीबाह्या महापातकिनः शठाः ' इत्यादिना गोतमशप्तान्समुदिश्य शिवविष्णू मोहशास्त्राणि चक्रतुः । तानिच- कापाल गारुड शाक्त भैरवं पूर्वपश्चिमम् । पाञ्चरात्र पाशुपत तथाऽन्यानि सहस्रशः' इति ॥ पाञ्चरात्रे च कापाले तथा कालमुखेऽपि च । शाके च दीक्षिता यूयं भवत ब्राह्मणाधमाः ।। इति पाराशरपुराणम् । अस्मिन्नर्थे पुराणबाक्यसग्रहस्तत्त्वकौस्तुभादवगन्तव्यः । तस्म- त्पाञ्चरात्रोपष्टम्भाच्छ्रुतीनां विष्णावेव समन्वय इति यदुक्तं तदशुद्ध तथैवानया दिशा कत्स्नमपि तदर्शनमिति दिक ॥ २ ॥(१ एतेन योगः प्रत्युक्तः ॥३॥ (२) एतेन सांख्यस्मृतिनिराकरपोन योगस्मृतिरपि निराकृता द्रष्टव्याः । तत्रापि. श्रुतिवि- रोधेन प्रधान स्वतन्त्रमेव कारणं महदादीनि च तत्कार्याणीति कल्पनात् । ननु नेदं योगशास्त्रं सांख्यशास्त्रनिराकरणेन निराकर्तुं शक्यम् । श्वेताश्वतरादिशाखासु योगस्यैव प्रपञ्चितत्वात्तत्त्वज्ञानोपयोगित्वाच्च । ' आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासि- तव्यः' [ बृ० २ । ४ । ५ ] इति । ' दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदार्शभिः ।' [ का० १ । ३ । १२ ] ' त्रिरुन्नतं स्थाप्य सम शरीरम् ' [ श्वे० २। ८] इत्यादिश्रुतिभिः । सम कायशिरोग्रीवम् ' [ भ० गी० ६ । १३ ] इत्यादिस्मृतिभिश्च योगसाध्यस्य चित्तैकाग्र्यस्य ब्रह्मसाक्षात्कारहेतुत्वश्रवणात् । अतः प्रमाणभूत योगशास्त्रम् । तच्च प्रधानस्यैव जगत्कारणतां वक्ति । तस्माद्योगस्मृत्या ब्रह्मकारणवादिनीनां श्रुतीनां मन्वादिस्मृतीना च संकोचः कार्यः । तासां धर्मे सावकाशत्वादिति प्राप्ते ब्रूमः- गयोगे तात्पर्यवती योगस्मृतिः प्रमाणभूताऽपि वैदिके प्रधानकारणवादे न प्रमाणम् । तत्र तस्यास्तात्पर्याभावात् । तथा हि-' अथ योगानुशासनम् ' [ पा० यो० सू० १।१] इति प्रतिज्ञाय ' योगश्चित्तवृत्तिनिरोधः ' [ पा० सू० १ । २ इति ' -अष्टा- .
प्रथमः पादः ब्रह्मसूत्रवृत्तिः। योगस्यैव लक्षणमुक्त्वा तमेव कृत्स्नेन शास्त्रेण प्रपञ्चयामासेति तत्र योगे तात्पर्यम् । प्रधानादीनि तु न प्रतिपाद्यतया प्रतिजज्ञे । किं तर्हि द्वितीयघादे यमनियमासनादिसाधन- प्रतिपादकेऽहेयहेयहेत्वादि विवेचयन् प्रसङ्गात्साख्यस्मृतिसिद्धानि प्रधानादीनि व्याजहार । अतो न तत्र तात्पर्यम् । नन्वेवसति समानन्यायात् । सांख्यस्मृतिनिराकरणेनैवेय निराकृता किमर्थं पुनरतिदिश्यत इति चेत् । अत्रोच्यते--वैदिकानि लिङ्गानि च - ते ध्यानयोगा- नुगता अपश्यन् ' [ श्वे० १ । ३ ] ' ता योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् [ का० २ । ३ । ११.] इत्येवमादीनि बहुश उपलभ्यन्ते । तान्येव सम्यग्दर्शनोपायत्वेनैव योगशास्त्रेऽङ्गी क्रियन्तेऽतो योगस्मृतिरनपवदनीयेति शङ्का मा भूदित्यतिदेशः कृतः । वेदा- ताविरोध्यशे सांख्ययोगयो प्रामाण्य तद्विरोध्यंशे त्वप्रामाण्यमिति तात्पर्यमाधिकरणद्वयस्य ज्ञेयम् । अथैकदेशे संप्रतिपत्तावप्यर्थैकदेशे विप्रतिपत्तेः सांख्ययोगस्मृत्योरेव निराकरणे यत्नः कृत इति भाष्यात् । तस्मान्न योगस्मृत्या वेदमूलस्मृतीनां संकोचः ॥ ३ ॥ (२) न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥४॥ ब्रह्मकारणवादे सांख्ययोगस्मृतिविरोधः परिहृत इदानीं तर्कविरोधपरिहारार्थमिदमधिकरणम्! यद्यपि तर्कस्य स्वातन्त्र्यण प्रामाण्य नास्तीति वैदिकार्थपरिपन्थित्वं न संभवति तथाऽपि 'श्रोतव्यो मन्तव्यः' [ बृ० २ । ४ । ५] इति श्रुतिर्मननं विदधती तर्कस्याऽऽदर्तव्यत्वं दर्शयति । युक्तिभिरनुचिन्तनं मननमिति मननशब्देन तर्कोऽभिधीयते । बलवत्तर्कानुगृहीत- प्रमाणविरोधे सति श्रुतेः प्रतिपादितप्रामाण्यानिर्वाहाद्यत्नेन तन्निराकरणं कर्तव्यमतस्तकविषय आक्षेपः क्रियते न विलक्षणत्वादस्येति । तत्र पूर्वः पक्षः-यदुक्तं चेतनं ब्रह्म जगत्कारण- मिति तन्नोपपद्यते । कुतः । अस्य जगतः स्वकारणाद्ब्रह्मणः सकाशाद्विलक्षणत्वात् । ब्रह्म चेतनं प्रकाशरूपमानन्दात्मक शुद्धं च जगदचेतनमप्रकाश दुःखरूपमशुद्ध चेति वैलक्ष- ण्यम् । कुतोऽवगम्यत इत्यत आह-तथात्वं च शब्दात् । तथात्वं वैलक्षण्य ब्रह्मजगतोः प्रकृतिविकारयोः शब्दाच्छ्रुतेरवगम्यते । ' विज्ञानं चाविज्ञान च ' [ तै० २। ६ ] इति । तथा प्रयोगोऽपि-अचेतन जगच्चेतनाद्ब्रह्मणो न जायते विलक्षणत्वात् । यद्येन विलक्षणं तत्तस्मान्न जायते । मृदो रुचकांदिवत् । तस्मान्न ब्रह्म जगत्कारणम् ॥ ४ ॥ ननु चेतनत्वमपि कचिदचेतनत्वेनाभिसतानां भूतेन्द्रियाणां श्रूयते । यथा ' मृदब्र- वीत् । 'आपोऽब्रुवन् '। [श० प० ब्रा० ६।१ । ३ । २ । ४] ता आप ऐक्षन्त ' [छा० ६।२ । ३। ४] इत्येवमादिका भूतविषया चेतनत्वश्रुतिरिन्द्रियविषयाऽपि ' ते हेभे प्राणा अह श्रेयसे विवदमानाः ' [बृ० ६ । १ ७ । इत्येवमादिकाऽतो नोक्तवैलक्षण्यमत आह- ' तत्तेज ऐक्षत ' . -
-
हरिदीक्षितकृता-
[द्वितीयाध्याये-
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५ ॥
तुशब्द आशङ्कामपाकरोति । न खलु मृदब्रवीदित्येवमादिकाभिः श्रुतिभिभूतेन्द्रियाणां
चेतनत्वमाशङ्कनीयम् । यतोऽभिमानिव्यपदेशोऽयम् । मृदाद्यभिमानिन्यो वागाद्यभिमानिन्यश्च
चेतना देवतास्तत्र व्यपदिश्यन्ते न भूतेन्द्रियमात्रम् । कुतः । विशेषानुगतिभ्याम् । विशेषो
हि भोक्तृणां भूतेन्द्रियाणां च चेतनाचेतनविभागलक्षणः पूर्वमभिहितः । अपि च कौषीत-
किनः प्राणसवादे करणमात्रशड्कापरिहाराय तदधिष्ठातृचेतनपरिग्रहाय देवताशब्देन
वागादीन्विशिंषन्ति । एता ह वै देवता अह५ श्रेयसे विवदमानाः ' [ कौ० उ० २।
१४] इति । ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वा' [ कौ० उ० २ ।
१४ ] इति च देवताशब्देन विशेषितत्वाद्विशेषः । न चाचेतनेष्वपि तेजोबन्नेषु देवता.
शब्दः श्रूयते ' हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकर-
व.णि ' [ छा० ६ । ३ । २] इति वाच्यम् । देवताशब्दस्य तेषां शक्तिविशेषद्यो-
तनार्थत्वेन चेतनवाचित्वाभावात् । अनुगतिश्च । मन्त्रार्थवादेतिहासपुराणादिषु सर्वत्राभि-
मानिन्यश्चेतना देवता अवगम्यन्ते । “ अग्निर्वाग्भूत्वा मुखं प्राविशदादित्यश्चक्षुर्भूस्वाऽक्षिणी
प्राविशत् ' [ ऐ० आ० २ । ४ । २ । ४ ] इत्येवमादिका श्रुतिः करणेषु देवतानुगति
दर्शयति । ततश्च जगदचेतन ब्रह्म चेतनमिति तयो_लक्षण्यान्न ब्रह्मप्रकृतिकं जगत् । इति
पूर्वपक्षे प्राप्ते राद्धान्तः ॥ ५ ॥
दृश्यते तु ॥ ६ ॥
तुशब्दः पूर्वपक्षव्यावर्तकः । यदुक्तम्---' विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकम् ' इति
नाय नियमो यतो वैलक्षण्येऽपि ब्रह्मजगतोः प्रकृतिविकृतिभावो दृश्यते हि लोके चेतन-
त्वन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः । अचेतनत्वन प्रसिद्धेभ्यो
गोमयादिभ्यश्चेतनानां वृश्चिकादीनां च । अयं भावः-अशेषस्य प्रकृतिस्वभावस्यानुवर्तन
न विकारमात्र इत्यभिप्रेतम् । तथा च सति विकारत्व नोपपद्येत । यत्किंचित्स्वभावानु-
वर्तनं तु प्रकृतेऽप्यस्ति । ब्रह्मसत्ताया विकारेष्वनुवर्तनात् । नच विकारेषु चैतन्यमापाद-
यितुं न हि शक्यत इति वाच्यम् । यच्चेतनानन्वितं तदब्रह्मप्रकृतिकं यथाऽमुकमिति
दृष्टान्ताभावात् । सर्वस्य विकारस्य ब्रह्मप्रकृतिकत्वाभ्युपगमात् । तदुक्त भाष्यकारैः
रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्थ गोचरो लिङ्ग द्यभावाच्च नानुमानादीनाम् । आगममात्रसम-
धिगम्य एवायमर्थो धर्मवत् — नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ'
[ का० १ । २ । ९ ] इति । स्मृतिरपि-' अचिन्त्याः खलु ये भावा न तांस्तर्केण
योजयेत् ' इति । यदपि श्रवणव्यतिरेकेण मननं विदधच्छब्द एव तर्कमादर्तव्य दर्शयती-
त्युक्तम् । नानेन मिषेण शुष्कतर्कस्यात्र लाभः संभवति । श्रुत्यनुगृहीत एव तर्कोऽनुभवा-
ङ्गत्वेनाऽऽश्रीयते । ' तर्काप्रतिष्ठानात् ' [ ब्र० सू० २।१।११] इति च केवलस्य
तर्कस्य विप्रलम्भकत्वं प्रदर्शयिष्यतीति ॥६॥
-- प्रथमः पादः ] ब्रह्मसूत्रवृत्तिः। ७९ ननु चेतनं ब्रह्म शब्दादिहीनमचेतनस्य शब्दादिमतश्च जगतः कारणं चेदुत्पत्तेः पूर्व जगतोऽसत्वादसत्कार्यवादः प्रसज्जेत तच्चानिष्ट सत्कार्यवादिनस्तवेत्याशक्य निराकरोति- असदिति चेन्न प्रतिषेधमात्रत्वात् ॥७॥ उत्पत्तेः पूर्व कार्यमसदिति यदुक्तं तन्न । कुतः । प्रतिषेधमात्रत्वात् । प्रतिषेधमात्रं हीदमस्य प्रतिषेवस्य न प्रतिषेध्यमस्ति । प्रतिषेधमात्र शब्दमात्र न तु तस्याऽर्थोस्तीत्यर्थः । अय भावः-कार्यस्य कारणसत्तैव सत्ता न तु तद्व्यतिरेकेण सत्तात्वमस्ति । कल्पित. भावाभावयोरधिष्ठानस्वरूपत्वात् । उत्पत्त्यनन्तर यथा कार्यस्य कारणात्मना सत्त्वं तथोत्पत्तेः पूर्वमपि ॥ ७॥ पुनरपि शड्कासूत्रम्- अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥८॥ यदि सावयवत्वाचेतनत्वपरिन्छिन्नत्वाशुचित्वादिधर्मकं कार्य ब्रह्मकारणक तहपीतौ लये स्वकारणे लीयमान सत्कारण ब्रह्म स्वकीयैर्धमैर्दूषयेत् । ततश्च तद्वत्कार्यवत्कारणस्यापि कार्य- स्येवाशुचित्वादिप्रसङ्गात्सर्वज्ञ शुद्ध ब्रह्म जगत्कारणमित्यसमञ्जसम् । समस्तस्याविभागस्य विभागप्राप्तः पुनरुत्पत्तौ नियमकारणाभावाद्भोक्तभोग्यादिविभागेनोत्पत्तिर्न प्राप्नोतीत्यसमञ्ज- समपि ॥ ८ ॥ अत्र समाधानसूत्रम्- न तु दृष्टान्तमावात् ॥९॥ तुरवधारणे । नैवास्मदीये दर्शने किंचिदसामञ्जस्यमस्ति । कुतः । दृष्टान्तभावात् । कार्य स्वलये कारणमात्मीयेन धर्मेण न दूषयतीत्यत्र शतशो दृष्टान्तसत्त्वादित्यर्थः । न हि घटादयोऽपि स्वाकारेण मृद दूषयन्ति । रुचकादयश्च सुवर्णविकारा अपीतौ न सुवर्णमा- त्मीयेन धर्मेण दूषयन्तीत्येवजातीयका दृष्टान्ता अनुसधेयाः । यदि घटादयोऽपीतौ कारण- मात्मीयेन धर्मेण दूषयेयुस्तर्हि तेषां तादवस्थ्यमापद्येत । किंच स्थितावपि समानोऽय प्रसङ्गः । कार्यकारणयोरनन्यत्वाभ्युपगमात् । ' इद सर्वं यदयमात्मा ' [ बृ० २ । ४ । ६ ] ' ब्रह्मैवेदममृत पुरस्तात् ' [ मु० २ । २ । ११ ] ' सर्वं खल्विदं ब्रह्म' [ छा० ३ । १४ । १ ] इत्येवमादिभिः श्रुतिभिः कार्यस्य त्रिष्वपि कालेषु कारणान- न्यत्वं श्राब्यते । यथा मायावी कदाऽपि स्वमायया न दूष्यत एवमात्मा स्वाध्यस्तेन न दूष्यते । इत्यादिदृष्टान्तभावान्नोक्तदोषावकाशः ॥ ९॥ स्वपक्षदोषाच ॥१०॥ पूर्वपक्षिणः सांख्यस्यापि पक्षे तदुद्भाविता दोषाः समाना इत्यर्थः । तेनापि शब्दादिही- नात्मधानाच्छब्दादिमतो जगत उत्पत्त्यङ्गीकारात् । वैलक्षण्ये प्रकृतिविकृतिभावानुपपत्तिः ।
हरिदीक्षित कृता- द्वितीयाध्याये- उत्पत्तेः प्रागसत्त्वप्रसङ्गः । अपीतौ कार्यस्य कारणाविभागाभ्युपगमात्तद्वत्प्रसङ्गोऽपि समानः । नथोत्सन्चसर्वविशेषेषु विकारेषु लये कारणाविभागात्मतां गतेष्विदमस्य पुरुषस्योपादानमि- दमस्येति प्रलयात्पूर्व प्रतिपुरुष ये नियता भेदा न ते तथैव पुनरुत्पत्ती नियन्तु शक्यन्ते कारणाभावात् । बिनैव कारणं नियमाङ्गीकारे कारणाभावसाम्यान्मुक्तानामपि पुनः ससार- प्रसङ्गः । अस्मन्मतरीत्यैव तेनापि समाधेयमिति भावः ॥ १० ॥ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदे- वमप्यनिर्मोक्षप्रसङ्गः ॥ ११ ॥ (३) अपियुक्तिसमुच्चये । इतश्च ब्रह्मकारणवादे केवलेन तर्केण न प्रत्यवस्थातुं शक्यते कुतः । तर्काप्रतिष्ठानात् । निरागमाणां पुरुषमत्युत्पेक्षितानां तर्काणामप्रतिष्ठितत्वादित्यर्थः । केनचित्तार्किकेण यत्नतोऽप्यनुमितोऽर्थोऽन्येनान्यथा क्रियते सोऽप्यन्येनान्यथेति तर्कस्यान- वस्थितिः सिद्धैवास्ति । अथ वाच्य वयमन्यथाऽनुमास्यामहे यथा नाप्रतिष्ठादोषो भविष्यति । न हि प्रतिष्ठितस्तर्क एव नास्तीति वक्तु शक्यते । एतदपि हि तर्काणामप्रतिष्ठितत्वं तर्केणैव प्रतिष्ठाप्यते । तदप्यन्येनान्यथयितु शक्यत एव । ननु सर्वतर्काव्यवस्थितौ व्यवहारमात्रो- च्छेदः प्रसज्जेत । तथासति धूमादिदर्शनानन्तरं वयादिविषयिणी प्रवृत्तिर्न स्यात् । अप्र- तिष्ठिततर्कसाम्येन तर्कान्तरस्याप्रतिष्ठितत्वात् । किंच श्रुत्यर्थविप्रतिपत्तौ तर्कस्यैव निर्णय- हेतुत्वाच्च । तदुक्तं मनुना- आर्ष धर्मोपदेश च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्म वेद नेतरः ॥ [ म० स्मृ० १२ । १०५ ] इति । तस्मात्प्रतिष्ठिततर्केण प्रत्यवस्थानं संभवत्येवेत्यभिप्रेत्य शङ्कतेऽन्यथाऽनुमेयमिति चेदि- त्यन्तेन । अप्रतिष्ठिततर्कादन्यप्रकारेण प्रतिष्ठिततर्केण प्रत्यवस्थातु शक्यत एवेति शड्कार्थः। अत्र समाधानम्-एवमप्यनिर्मोक्षप्रसङ्ग इति । सम्यग्ज्ञानान्मोक्ष इति सर्वेषां मोक्षवादिनां सिद्धान्तः । ऐकरूप्येण ह्यवस्थितो योऽर्थः स परमार्थों लोके तद्विषयं ज्ञानं सम्यग्ज्ञानम् । तत्रैवंसति सम्यग्ज्ञाने पुरुषाणा विप्रतिपत्तिरनुपपन्ना । तार्किकाणा त्वन्योन्यविरोधात्प्रसिद्धा विप्रतिपत्तिः । यद्धि केनचित्तार्किकेणेदमेव सम्यग्ज्ञानमिति प्रतिष्ठापितं तदपरेण व्युत्था- प्यते तेनापि च प्रतिष्ठापित तदप्यपरेण व्युत्थाप्यत इति । कथमेवंरूपानवस्थिते विषये तर्कप्रभव सम्यग्ज्ञान भवेत् । तादृशेनाव्यवस्थितविषयकेण ज्ञानेन कथ मोक्षः स्यादिति भावः । तस्मात्तर्कमात्रजन्यब्रह्मज्ञानान्मोक्षो न सभवतीति सिद्धम् ॥ ११ ॥ (३) एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२॥ (४) साख्ययोगस्मृतिभ्यां तदीयतर्केण च ब्रह्मकारणवादस्य बाधो मा भून्नाम । कणादबुद्धा- दिस्मृतिभिस्तदीयतर्केण च ब्रह्मकारणवादो बाध्यतेति कश्चन मन्दमतिराशकेतेत्यतः प्रथमः पादः ] ब्रह्मसूत्रवृत्तिः। ८१ प्रधानसांख्यमल्लनिबर्हणन्यायेनातिदिशति शिष्टापरिग्रहा इति । परिगृह्यन्त इति परिग्रहाः । न परिग्रहा अपरिग्रहाः शिष्टैर्मन्वादिभिः केनचिदम्यशेनापरिगृहीता येऽण्वादिकारणवादाः । तथा हि कणादो महर्षिः परमाणूना जगत्कारणत्व स्मरति । बुद्धश्च भगवतो विष्णोरव- तारोऽभावं जगत्कारण स्मरति । तेऽपि व्याख्याताः । एतेन सांख्यतत्तर्कनिराकरण- प्रकारेण निराकृता वेदितव्याः । तुल्यत्वात् । तुल्यमत्रापि वेदैकवेद्यस्य जगत्कारणस्य ब्रह्मणः शुष्कतर्काग्राह्यत्वं तादृशस्य तर्कस्याप्रतिष्ठितत्वम् । अन्यथाऽनुमानेऽप्यनिर्मोक्ष आगम- विरोधश्चत्यवंजातीयक निराकरणे कारणम् ॥ १२ ॥ ( ४ ) मोक्त्रापत्तेरविमागश्चेत्स्याल्लोकवत् ॥ १३॥ (५) पुनरन्यथा ब्रह्मकारणवादस्तर्कबलेनैवाऽऽक्षिप्य प्रतिक्षिप्यते । प्रसिद्धो ह्ययं लोक भोक्तभोग्यविभागः । भोक्ता चेतनो जीवो भोग्यः शब्दादयो विषया इति । यद्येषां परस्परविभागो न स्यात् । मूलकारणाद्ब्रह्मणोऽनन्यत्वात् । ततश्च लोकप्रसिद्धो भोक्तृ- भोग्यविभागो मज्जेतेति शङ्कते-भोक्त्रापत्तरविभागश्चेदिति । मूलकारणादनन्यत्वेन भोग्यस्य भोक्तृत्वापत्तिः । उपलक्षणमेतत् । भोतुश्च भोग्यत्वापत्तिः । नचास्य प्रसिद्भस्य भोक्तृ- भोग्यविभागस्य बाधनं युक्तम् । तस्मात्प्रसिद्धस्य तयोविभागस्याभावप्रसङ्गादयुक्त ब्रह्मा- पादानकत्वं जगत इति चेत्कश्चित्तार्किकश्चोदयेत् । तत्रोत्तरमिदं स्यादिति । अद्वैतिनाम- प्यस्माकं पक्षेऽयं विभागः स्यादुपपद्येत । तत्र दृष्टान्त. लोकवदिति । यथा समुद्राद- नन्यत्वेऽपि फेनतरङ्गबुबुदादीनामितरेतरविभाग उपपद्यते । तरङ्गादिरूपेण भेदस्य समुद्र- रूपेणाभेदस्य च दृष्टत्वेन भेदाभेदयोर्विरोधाभावात् । भेदाभेदबिरोधव्यवहारस्याऽऽकार- भेदेनापि रहितेऽत्यन्तमेकस्मिन्नपि वस्तुनि मायया सावकाशत्वात् । तथा ब्रह्माकारेणाद्वैत भोक्तृभोग्याकारेण द्वैतमित्याकारभेदाभ्यवस्थोपपत्तौ न कोऽपि विरोधः । यद्यपि भोक्ता न ब्रह्मणोऽन्यस्तथाऽपि तयारौपाधिको हि विभागो व्यवहारेऽस्त्येवाऽऽकाशस्येव घटाधु- पाधिनिमित्तकः । भोग्यस्यापि विवर्तत्वेन कारणाद्भेदाभेदावप्युपपद्येते अविद्वद्विद्वदृष्टिभ्या- मिति न काऽप्यनुपपत्तिः । अत्र यत्परेणोक्तम्--भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् । भोक्तुर्जीवस्यापऽऽत्तेः । परेऽव्यये सर्व एकी भवन्तीति मोक्षे ब्रह्मत्वापत्तिश्रवणात्तयोरविभागो भेदाभावः । ततो न जगत्कारणत्वं ब्रह्मणो युक्तमिति पूर्वः पक्षः । सिद्धान्तस्तु–स्यादेवं यदि मुक्तस्य ब्रह्माभेदे प्रमाण लभ्यते । एकीभावस्तु स्याल्लोकवत् । यथैकीभूता ब्राह्मणा- स्तथेहापीत्यर्थ इति । तदसारम् । 'ब्रह्मैव सन्ब्रह्माप्येति' [बृ० ४ । ४ । ६ ] ब्रह्म वेद ब्रह्मैव भवति' [मु० ३ । ३ । ९] ' तत्त्वमसि' [छा० ६ । ८। ७]' अयमात्मा ब्रह्म [ वृ० २ । ५ । १९ ] ' सर्वं खल्विद ब्रह्म ' [ छा० ३ । १४ । १] इत्यादिकाः श्रुतयः ।
૨૨ हरिदीक्षितकृता- [ द्वितीयाध्याये- विभेदजनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ।। इत्याद्याः स्मृतयश्च जीवब्रह्माभेदे प्रमाणम् । आस्तां तावत्पूर्वश्रुतिप्रमाणत्वम् । सत्यं भिदेति त्वयैव पठिता ह्यपूर्वश्रुतिः पूर्वश्रुतिषु ' द्वा सुपर्णा' [श्व० ४ । ६ ] इत्यादिषु पारमार्थिक भेद साधयितुमनीशासु भेद साधयितु प्रवृत्ता सैव प्रमाणम् । बिस्तरस्तु तत्त्वको- स्तुभमध्वमुखभञ्जनादौ द्रष्टव्यः ॥ १३ ॥ (५) ननु प्रपञ्चस्य ब्रह्माभेदमङ्गीकृत्य स्याल्लोकवदिति पूर्वपक्षः पराकृतः । तस्य प्रपञ्चस्य ब्रह्मभिन्नत्वमेव कुतो नाङ्गी क्रियत इत्यत आह सूत्रकारः तदनन्यत्वमारम्मणशब्दादिभ्यः ॥ १४ ॥ तस्य प्रपञ्चस्य ब्रह्मण. सकाशादनन्यत्वम् । यद्वा तस्माद्ब्रह्मप्रपञ्चस्यानन्यत्वम् । तस्मा- कारणाद्ब्रह्मणोऽनन्यत्वमन्यत्वाभावः कार्यस्यावगम्यते । कुतः, आरम्भणशब्दादिभ्यः । एक- विज्ञानेन सर्वविज्ञान प्रतिज्ञाय तत्र दृष्टान्तापेक्षायामुक्त यथा सौम्यैकेन मृत्पिण्डेन सर्व मृन्मय विज्ञात स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ' [छा० ६ । १ । ४ ] इति । अस्यायमर्थः--मृत्पिण्डः कारणं तद्विकारा घटशरावोदञ्चनादयः । मृदस्त्वन्यद- न्यानि घटशरावादिवस्तूनीति तार्किकादयो मन्यन्ते तत्र घटादीनां पृथग्वस्तुत्वनिरासाय- विकारशब्देस्तान्व्यवहरति । मृद्वस्तुनो विकाराः सस्थानविशेषा घटादयो न पृथग्वस्तु- भताः । एव च सति घटाकारप्रतिभासदशायामपि मृन्मात्रमेव स्वतत्रं वस्तु न घटादिकम् । ततो मृद्यवगताया घटादीनां यत्तात्विक स्वरूपं तत्सर्वमवगतं भवति । आकारविशेपा न ज्ञायन्त इति चेत् । मा ज्ञायन्तां नाम । तेषामवस्तुभूतानां जिज्ञासा- नर्हत्वात् । चक्षुषा प्रतिभासमाना विकार। निरूपिता अपि सन्तो मृद्व्यतिरेकेण न स्वरूप किंचिल्लभन्ते घटोऽय शरावोऽयमुदञ्चनमिदमिति । वाड्निष्पाद्यं नामधेयमात्र लभन्ते। विका- रोऽपि वाचा निष्पाद्य एवाय पृथुबुनोदराकारो घट इति । तदुक्त भाष्यकारैः-यतो वाचैव केवलमस्तीत्यारभ्यते विकारो घटः शराव उदञ्चन चेति न तु वस्तुवृत्तेन विकारो नाम कश्चि- दस्ति नाममात्र ह्यस्ति तदनृत मृत्तिकेत्येव सत्यमिति । एष ब्रह्मणो दृष्टान्त आम्नातस्तथा ब्रह्मोपदेशोऽवगन्तव्य इति । ब्रह्मणि मृत्तिकान्यायस्य जगति घटादिन्यायस्य च योजयितुं शक्यत्वात् । नचैतावता मृत्तिकायाः सत्यत्वमिति* भ्रमितव्यम् । अस्य संदर्भस्य विकारमिथ्यात्वे कारणसत्यत्वे च तात्पर्यात् । द्वैतपरिभाषथैवाद्वैतं बोधनीयमिति सिद्धा- न्तात् । एव दृष्टान्ते वाचारम्भणशब्दाद्दष्टान्तिकेऽपि ब्रह्मणि तद्व्यतिरेकेण प्रपञ्चस्याभावः प्रत्येतव्यः । आरम्भणशब्दादिभ्य इत्यादिपदात् ' ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो' [ छा० । ६ । ८ । ७ ] ' इदं सर्वं यदयमात्मा ' [ बृ० २ । * मूलपुस्तके-'ति न भ्र° ! इति विद्यते पर त तदसंगतामति मत्वा न स्थापितम् ।
यत्र प्रथमः पादः ] ब्रह्मसूत्रवृत्तिः । ८३ ४ । ६ ] ' ब्रह्मैवेदं सर्व' [मु० २।२ । ११ ] ' सर्व खल्विदं ब्रह्म [ छा० ३ । १४ । १ ] ' नेह नानाऽस्ति किचन ' [ बृ० ४ । ४ । १९ ] इत्यादि सगृ- हीत वेदितव्यम् । तस्मात्प्रपञ्चस्य ब्रह्मानन्यत्व सिद्धम् । इदं परमार्थदृष्टया तदनन्यत्वं सूत्रकार आह--व्यवहाराभिप्रायेण तु स्याल्लोकवदिति पूर्वमुक्तम् । तथा च नान्यत्पश्यति ' [ छा० ७ । २४ । १ ] ' यत्र त्वस्य सर्वमात्मैवाभृत् ' [ बृ० २ । ४ । १४ ] इति वेदान्ताः परमार्थावस्थाया द्वैताभाव वदन्ति । व्यवहारे तु सर्वेश्वर एष भूताधिपतिरेष भृतपाल एष सेतुर्विधरण एपा लोकानामसभेदाय ' [ ६० ४ । ४ । २२ ] इत्याधुभयमपि प्रमाण सगन्छते ! विस्तरस्तु भाष्यादवगन्तव्यः ॥ १४ ॥ मावे चोपलब्धेः ।। १५॥ इतश्च कार्यस्य कारणादनन्यत्वम् । कुतः । चोऽवधारणे । कारणभाव एव कार्यस्थो- पलब्धे । तदभावे चानुपलब्धे. । सत्कारणानुर्विद्धस्यैव कार्यस्योपलब्धेरित्यर्थः । तद्यथा सत्या मृदि घट उपलभ्यते । सत्सु तन्तुपु पट । अत एव सन्वटः सन्पट इति घटो भातीष्ट इति च व्यवहारः सभवति । तस्माद्ब्रह्मणि कार्यरूपः प्रपञ्चा माय,परिकल्पित एव न पारमार्थिकः । यथा प्रातिभासिकस्यापि सर्पस्य भयकम्पाद्यर्थक्रियाकारित्व तथा यावद्व्यवहार प्रपञ्चस्याप्यर्थक्रियाकारित्वमुपपद्यते ॥ १५ ॥ सत्त्वाचावरस्य ।। १६॥ इतश्च कारणात्कार्यस्यानन्यत्वम् । यस्मादवरस्य कार्यस्य प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्रात्सत्त्वश्रवणात् । उत्पत्त्यनन्तरमपि कारणानन्यत्वं कार्यसिद्धमिति तात्पर्यम् । ' सदेव सौम्येदमग्र आसीत् ' [छा० ६ । २।१] ' आत्मा वा इदमेक एवान आसीत् । [ ऐ० आ० २।४ । १ । १ ] — ब्रह्म बा इदमग्र आसीत् ' बृ० १ । ४ । १० ] इत्यादाविदशब्दगृहीतस्य कार्यस्य कारणेन सामानाधिकरण्यात्सदनन्यत्वं श्रूयते । यच्च यदात्मना यत्र न वर्तते न तत्तत उत्पद्यते सिकताभ्य इव तैलम् । तस्मात्मागुत्पत्तेरन- न्यत्वादुत्पन्नमप्यनन्यदेव कारणात्कार्यमित्यवगम्यते । अत्र कारणाद्भिन्नमेव कार्यमिति तार्किकमाध्वयोराग्रहः । सूक्ष्मचिदचित्प्रपञ्चविशिष्टं ब्रह्म कारणं स्थूलचिदचित्पपञ्चविशिष्टं ब्रह्म कार्यम् । अव्यक्तत्वं कारणत्व व्यक्तत्व कार्यत्वम् । तदेव विशिष्टं ब्रह्माव्यक्तं सद्व्यक्त भवतीति तयोविशिष्टयोरद्वैतमिति नीलकण्ठरामानुजयोराग्रहः ॥ १६ ॥ असद्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥१७ ।। ननु ' असद्वा इदमग्र आसीत् ' [तै० २ । ७ ] इत्यादिश्रुतिरुत्पत्तेः प्राक्कार्य- स्यासत्त्वं व्यपदिशति तस्मादसव्यपदेशान प्रागुत्पत्तेः कार्यस्य सत्त्व सभवतीति चेन्न । कुतः, धर्मान्तरेण वाक्यशेषात् । अयमर्थः न ह्ययमभावाभिप्रायेण प्रागुत्पत्तेः कार्यस्या- ' .. भाष्यकाराः ८४ हरिदीक्षितकृता- [ द्वितीयाध्याये- सव्यपदेश कि तर्हि व्याकृतनामरूपत्वादिधर्मादव्याकृतनामरूपत्वादि तदेव धर्मान्तरम् । तेन धर्मान्तरेणासद्व्यपदेशोऽयम् । कथमेतदवगम्यत इति चेत्तत्राऽऽह-वाक्यशेषात् । यदुपक्रमे संदिग्धार्थं वाक्यं तच्छेषान्निश्चीयते । इह च ' असदेवेदमग्र आसीत् ' [छा० ३ । १९ । १ इत्युपक्रमे यदसन्छब्देन निर्दिष्ट तदेव पुनस्तन्छन्देन परामृश्य सदासी. दिति वाक्यशेषे श्रूयते । असद्वा इदमन आसीत् ' [ तै० २ । ७ ] इत्यत्राफि तदात्मानं स्वयमकुरुतेति विशेषणान्नात्यन्तासत्त्वम् । यद्यपक्रमेऽस्यन्तासत्त्वं विवक्षितं स्यात्तर्हि सदासीदित्यनुपपन्न स्यात् । तस्मान्नामरूपाव्याकरणादसदिवाऽऽसीदित्युपचारादु- त्पत्तेः प्रागसदित्युच्यते न त्वभावाभिप्रायेणेति सिद्धम् ॥ १७ ॥ युक्तः शब्दान्तराञ्च ॥१८॥ युक्तः शब्दान्तराच्च कारणादनन्यत्वं प्रागुन्पत्तेः सत्त्र च कार्यस्यावगन्तव्यम् । युक्तिस्तावत् । आहुरत्र दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कार- णानि क्षीरमृत्तिकामुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते । न दध्यार्थभिर्मृत्ति- कोपादीयते न घटाार्थभिः क्षीर न रुचकार्थिभिर्मृत्तिका । तदेतदसत्कार्यवादे नाप- पद्येत । अविशिष्टे हि प्रागुत्पत्तेः सर्वत्र सर्वस्यासत्त्वे कस्मात्क्षीरादेव दध्युत्पद्यते न मृत्तिकायाः । मृत्तिकाया एव च घट उत्पद्यते न क्षीरादिति । अथाविशिष्टेऽपि प्राग- सत्त्वे क्षीर एक दधिनिष्पादकः कश्चिदतिशयो न मृत्तिकाया मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीरेऽस्तीत्युच्यते । अतोऽतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः सत्कार्यवादसिद्धिश्च भवति । इत्यादियुक्तयो भाष्यादवगन्तव्याः । न हि तन्वादिभ्योऽन्यत्पटा- दिकं कार्यमित्यत्र किंचित्प्रमाणमस्ति । तन्तुव्यतिरेकेण फटस्यादर्शनात् । न ह्याकारविशेफ- मात्रेण वस्त्वन्यत्वं शक्यं वक्तुम् । संकुचिताङ्गात्तु देवदत्तात्तस्यैव प्रसारिताङ्गस्य भेदापत्तेः, बाल्याद्यवस्थासु भेदापत्तेश्च । शब्दान्तरं च । पूर्वसूत्रेऽसच्छब्दोपादानात्तदन्यः सच्छब्दः शब्दान्तरम् । 'सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयम्'। छा० ६।२।१] इत्यादि । 'असदे- वेदमन आसीत् ' [ छा० ३ । १९ । १ ] इति चासत्पक्षमुपक्षिप्य ' कथमसतः सज्जय- येत' [ छा० ६ । २ । २ इत्याक्षिप्य सदेव सौम्येदमग्र आसीत् ' इत्यवधारयति । तत्रेदशब्दवाच्यस्य कार्यस्य प्रागुत्पत्तेः सच्छब्दवाच्येन कारणेन सामानाधिकरण्यश्रवणात् । कारणास्मना सत्व तदनन्यत्व च कार्यस्य सिद्धम् । यदि तु प्रागुत्पत्तरसत्कार्य स्यात्पश्चाच्चो- त्पद्यमानं कारणे समवेयात्तदा कारणादन्यत्स्यात् । तत्र ' येताश्रुत श्रुतं भवति' [ छा ६।१।३ ] इतीय प्रतिज्ञा पीड्येत । सत्त्वानन्यत्वाभ्यासेवेयं प्रतिज्ञा समर्थ्यते ॥ १८॥ पटवञ्च ॥ १९॥ युक्तिप्रपञ्चोऽयम् । यथा संवेष्टितस्य प्रसारितस्य च पटस्य प्रतीतिकार्यवैलक्षण्येऽपि म पटस्य भेदः । अयमर्थः-स्पष्टमुक्तो भाष्यकारैः-यथा च संवेष्टतसमये पट इति गहा .
प्रथमः पादः ] ब्रह्मसूत्रवृत्तिः। माणोऽपि न विशिष्टायामविस्तारो गृह्यते । स एव प्रसारणसमये विशिष्टायामविस्तारो गृह्यते । न संवेष्टितरूपादन्योऽयं पद इति । एवं तन्तुपटयोरपि प्रतीतिवैलक्षण्येऽपि नैव कारणाद्भिन्नं कार्यमित्यर्थः ॥ १९ ॥ स आत्मा ' , अयमात्मा ब्रह्म यथा च प्राणादि ॥ २० ॥ (६) यथा च प्राणापानादिषु प्राणायामेन निरुद्धेषु कारणमात्ररूपेण वर्तमानेषु जीवनमात्रं कार्य निर्वय॑ते नाऽऽकुञ्चनप्रसारणादिकं कार्यान्तरम् । तेष्वेवानिरुद्धषु जीवनादधिकमा- कुञ्चनप्रसारणादिकं कार्यान्तरं निर्वय॑ते । नैतावता प्राणप्रभेदानां प्रभेदवतः प्राणादन्यत्वं समीरणस्वभावाविशेपात् । एवं कार्यस्य कारणादनन्यत्वं सिद्धमतः सिद्धा श्रौती प्रतिज्ञा ' येनाश्रुतं श्रुतं भवति' [छा० ६ । १ । ३ ] इत्यादिका ॥ २० ॥ (६) इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २१ ॥ अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते । चेतनाद्ब्रह्मणो जगन्सृष्टावभ्युपगम्यमानायां हिताकरणादिदोपः प्रसज्जते । कुतः । इतरव्यपदेशात् । इतरस्य शारीरस्य तत्त्वमसि श्वेतकेतो' [ छा० ६ । ८ । ७ ] [बृ० २ । ४ । ६ ] इत्यादिकया श्रुत्या ब्रह्मात्मत्वस्य व्यपदेशात्कीर्तनादित्यर्थः । यद्वा — तत्सृष्ट्वा तदेवानु- प्राविशत् ' इति श्रुत्या स्रष्टुरेवाविकृतस्य परमात्मनः कार्यानुप्रवेशेन जीवात्मत्वस्य व्यपदे- शात् । तस्माद्यद्ब्रह्मणः स्रष्टुत्वं तज्जीवस्यैवेत्सतः स स्वतन्त्रः कर्ता जीवो हितमेवाऽऽत्मनः कुर्यान्नाहितं जन्ममरणजरारोगाद्यनेकानर्थरूपम् । किंच मयेदं सृष्टमिति प्रत्यभिजानीयात् । स्वेच्छयाऽनायासेनैव मायावीव विश्वमुपसहेरच्च । यद्वा परमात्मा स्वतन्त्रः सर्वशक्तिः सर्वज्ञः स्वस्य जीवाभेदं पश्यञ्जीवाना हितमेव कुर्यान्नाहितम् । प्रकृते तददर्शनाद्धिताकरणादिदोष ईश्वरे प्रसक्त इति न चेतनकारणवादः समुचित इति पूर्वः पक्षः ॥ २१ ॥ अधिकं तु भेदनिर्देशात् ॥ २२॥ तुशब्दः पूर्वपक्षं व्यावर्तयति । यत्सर्वज्ञ सर्वशक्ति नित्यशुद्धबुद्धमुक्तस्वभावं ब्रह्माधिकं जीवादन्यत्तदेव जगतः स्रष्ट न जीवचैतन्यम् । कुतः, भेदनिर्देशात् । आत्मा वा 'अरे द्रष्टव्यः' [ बृ० २ । ४ । ५ ] ‘सता सौम्य तदा सपन्नो भवति' [ छा० ६ । ८ । १ ] इत्यादौ जीवब्रह्मणोर्भेदनिर्देशात् । न चाभेदश्रुतिविरोध इति वाच्यम् । वास्तवैक्य- स्यौपाधिकभेदस्य चाऽऽकाशघटाकाशयोरिव जीवब्रह्मणोर्वेदान्तेषु क्रियासमभिहारेणोद्धोषात् । न वयं भेदाभेदकल्पस्य विशिष्टाद्वैतस्य वादिनो न वा साख्या इव प्रकृतिपरिणाम- हरिदीक्षितकृता- [ द्वितीयाध्याये- वादिनो न बाऽऽतुरादिप्रमाणाभासमूलकभेदवादिनः किं तर्हि प्रसिद्धश्रुतिस्मृतिपुराणेति- हासादिमूलकवास्तवैक्यस्य व्यावहारिकजीवब्रह्मभेदस्य च वादिनः । तदुक्त भाष्य- कारैः -यदा तत्त्वमसीत्येवंजातीयकेनाभेदनिर्देशेनाभेदः प्रतिबोधितो भवत्यपगत भवति तदा जीवस्य संसारित्व ब्रह्मणश्च स्रष्टुत्वम् । समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यव- हारस्य सम्यग्ज्ञानेन बाधितत्वात् । तत्र कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषा इति तस्मान्नित्यमुक्तस्य ब्रह्मणो न हिताकरणादिदोपप्रसङ्गः । तदुक्त गीतायाम्---- नाऽऽदत्ते कस्यचित्पापं नचैव सुकृत विभुः । अज्ञानेनाऽऽवृत ज्ञान तेन मुह्यन्ति जन्तवः ।। [ भ० गी० ५। १५ इति ॥ २२ ॥ अश्मादिवञ्च तदनुपपत्तिः ।। २३ (७) यथा पृथिवीत्वसामान्याक्रान्तानामप्यश्मनां ववैदूर्यचन्द्रकान्तप्रक्षेपणादीनामुत्तममध्य- माधमभेदवैचित्र्यम् । यथा चैकपृथिव्याश्रितानामपि बीजानां बहुविधपत्रपुष्पफलगन्धरसादि- वैचित्र्यम् । तद्वदेकस्यापि ब्रह्मण उपाधिभेदाजीवप्राज्ञभेदेन पृथक्त्व कार्यवैचित्र्य चोपपद्य- तेऽतस्तदनुपपत्तिः परपरिकल्पितदोषानुपपत्तिः। विकारस्य वाचारम्भणमात्रत्वात्॥२३॥ (७) उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ २४ ॥ नन्वेकमेवाद्वितीयं चेतन ब्रह्म जगतः कारणमिति यदुक्तं तन्नोपपद्यते । कुतः । उपसहारदर्शनात् । लोके कुलालादयो घटपटादीनां कर्तारो मृद्दण्डचक्रतन्तुतुरीवे. मादीनि तत्तत्साधनान्युपसंहृत्य घटादिकार्याणि कुर्वन्तीति दृष्टम् । ब्रह्मणश्चासहायस्य तत्तत्कार्योपयुक्तसाधनोपसग्रहाभावात्कथ स्रष्टुत्वमुपपद्यते । तस्मान्न ब्रह्म जगत्कारणमिति चेत् । अत्रोच्यते । क्षीरवद्धि । हि हेतौ । हि यस्माद्यथा क्षीरं जल वा स्वयमेव बाह्यसाधन- मनपेक्ष्य दधिहिमभावेन परिणमते तथा ब्रह्मापि बाह्यसाधनमनपेक्ष्य जगत्सृजति । नच दधिभावे औत्स्य(ष्ण्य)मपेक्षितमिति वाच्यम् । औत्स्य(Sण्य)स्य दधिभावशक्तेः पूर्णतासंपा- दकत्वात् । ब्रह्म सु परिपूर्णशक्तिकं न तस्यान्येन केनचित्पूर्णता संपादयितव्या । अस्मिनर्थे श्रुतिश्च न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ॥ पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ श्वे०६।८1 इति ।
१
मायां तु
प्रथमः पादः ]
बह्मसूत्रवृत्तिः ।
तस्मादेकस्यापि ब्रह्मणो विचित्रशक्तियोगात्क्षीरादिवद्विचित्रपरिणाम उपपद्यते । अत्र
विद्यारण्यपादाना व्याख्या 'एकमेवाद्वितीयं ब्रह्म [छा० ६।२ । १ ] इति श्रुत्या
त्रिविधपरिच्छेदशून्यत्व ब्रह्मणोऽवगम्यते । स्रष्टव्यानि त्वाकाशवाय्वग्न्यादीनि विचित्राणि ।
न ह्यविचित्रे कारणे कार्यवैचित्र्यं युक्तम् । अन्यथा क्षीरादेकस्मादेव दधिलाद्यनेक-
विचित्रकार्य स्यात् । क्रमश्चाऽऽकाशादीनां श्रूयते । न च तस्य व्यवस्थापकं किंचिदस्ति
तस्मादनेकविधकार्याणा क्रमेण जन्माद्यद्वितीयब्रह्मणो न संभवतीति प्राप्ते ब्रूमः यद्यपि
तत्त्वतोऽद्वैतं ब्रह्म तथाऽपि मायासहायमिति श्रुतियुक्तिविद्वदनुभवैरवगम्यते ।
प्रकृति विद्यान्मायिन तु महेश्वरम् ' [ श्वे० ४ । १० ] इति श्रुतिः । न च मायाङ्गीकारे
द्वैतापत्तिः । वास्तवस्य द्वितीयस्याभावात् । तस्मान्मायोपाधिकाद्ब्रह्मणो विचित्रकार्याणां
क्रमेण सृष्टिः सभवतीति । आचार्यपादैः सिद्धान्ते क्षीरदृष्टान्तो योजितो विद्यारण्यपादैस्तु
पूर्वपक्षे किमत्र युक्ततरं तत्सुधियो विदाकुर्वन्तु ॥ २४ ॥
देवादिवदपि लोके ॥ २५ ॥ (८)
ननु क्षीरादेरचेतनस्यात्र दृष्टान्तो नास्माभिरभ्युपेयते । यावन्तश्चेतनाः कुलालादयस्ते
ससहाया एव कार्याणि जयन्ति तथा ब्रह्मापि ससहायमस्तु तत्राऽऽह--देवादिवदिति ।
यथा लोके देवाः पितर इत्यादयो महाप्रभावा ऋषयश्च चेतनाः सन्तोऽनपेक्ष्यैव साधना-
न्तरमैश्वरयोगात्संकल्पमात्रेणानेकविचित्रकार्याणि निर्मिमाणा उपलभ्यन्ते मन्त्रार्थवादेतिहास-
पुराणादौ तथेहापि । अत्रेद तात्पर्यम् । नहि चेतनमात्र ससहायमेव कार्य निर्मिमीते
नान्यथेत्येकान्त इति । तस्मान्न ब्रह्मणो जगजन्मादौ सहायापेक्षेति सिद्धम् ॥२५॥ (८)
कृत्सप्रसक्तिनिरवयवत्वशब्दकोपो वा ॥ २६ ॥
नन्वनन्तराधिकरणे क्षीरदविन्यायेनाद्वितीयं ब्रह्म जगदाकारेण परिणमत इति व्यव-
स्थापितम् । तत्किं कात्स्न्येन परिणमत उतैकदेशेन । नाऽऽद्यः । कास्न्येन परिणामे
ब्रह्मणः क्षीरवदनित्यता प्रसज्येत । द्वितीये-
निष्कल निष्क्रिय शान्तं निरवा निरञ्जनम् । [श्व० ६ । १९]
दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ॥ [ मु० २। १ । २ ]
इत्यादिनिरवयवत्वप्रतिपादकश्रुतिविरोधः । यद्वा कृत्स्नस्य ब्रह्मणः परिणामप्रसक्ती कार्य-
व्यतिरेकेण कारणस्याभावः प्रसज्जत । ततश्च आत्मा वा अरे द्रष्टव्य. [ बृ० २।
४ । ५ ] इति द्रष्टव्यतोपदेशानर्थक्यं स्यात् । अयत्नतः कार्यस्य दृष्टत्वात् । अजवादि-
शब्दव्याकोपश्च । सावयवत्वे चानित्यत्वप्रसङ्ग इति सर्वथाऽयमयुक्तः कारणाभिन्नकार्यबाद
इति पूर्वपक्षसूत्रार्थः ॥२६॥
, हरिदीक्षितकृता- [द्वितीयाध्याये- श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥ तुशब्देनाऽऽक्षेपं प्रतिक्षिपति । न तावत्कृत्स्नप्रसक्तिरस्ति । कुतः । श्रुतेः । यथा 'बहु स्यां प्रजायेय, [ छा० ६ । २।३] इत्यादिश्रुतिवाक्येषु तदेतद्ब्रह्माभिन्ननिमित्तोपा- दनत्वेन श्रूयते, एव विकारव्यतिरेकेणापि ब्रह्मणोऽवस्थान श्रूयते-' एतावानस्य महि- माऽतो ज्यायांश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृत दिवि ' [ छा० ३ । १२ । ६ ] ' सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि ' [छो० ६ । ३ । २] ' सता सौम्य तदा संपन्नो भवति । [छा० ६ । ८ । १ । इत्यादौ । यथा लोके मणिमन्त्रौपधीना शक्तयो हि विरुद्धानेक- कार्यविषया दृश्यन्ते किमुताचिन्त्यप्रभावस्य ब्रह्मणः । ननूपादानस्य ब्रह्मणः श्रौतमपि विकारव्यतिरेकेणावस्थान कथमुपपद्येत । उक्तदोपद्वयप्रसङ्गात् । नैष दोपः । कुतः शब्द- मूलत्वादिति । अतीन्द्रियार्थयाथा म्यस्य वेदैकसमधिगम्यत्वादित्यर्थः । ननु श्रुतिरपि कथं विरुद्धमर्थं प्रतिपादयेत् । निरवयव च ब्रह्म प्रपञ्चाकारेण परिणमते न च कृत्स्नमिति । नैष दोषः । ' इन्द्रो मायाभिः पुरुरूप ईयते' [बृ० २ । ५। १९ ] इत्यादिश्रुतिभ्यः । ब्रह्मणो मायाशक्तिभिर्जगद्रूपत्वपरिणाम उपपद्यते न त्वसौ वास्तवः । तेन कृत्स्नैकदेशवि- कल्पयोर्भावकाशः । अविद्यापरिकल्पितस्य रूपभेदस्य वाचारम्भणमात्रत्वात् । तस्माद्यु- ज्यते परिणामः ॥ २७ ॥ आत्मनि चैवं विचित्राश्च हि ॥२८॥ कथमेकस्मिन्ब्रह्मणि स्वरूपानुपमर्दैनानेकविधा सृष्टिः स्यादिति मा विवादीः । हिहेतौ । यत आत्मनि स्वप्नदशि स्वरूपानुपमर्देन विचित्रा सृष्टिः श्रूयते-' न तत्र रथा न रथयो, न पन्थानो भवन्त्यथ रथान्रययोगान्पथः सृजते' [ [बृ० ४ । ३ । १० ] इत्यादौ । चकारो दृष्टान्तान्तरसमुच्चयार्थः । मायाच्यादिपु च स्वरूपानुपमर्दैन गजाश्वादिसृष्टिदृश्यते । एव ब्रह्मण्यपि मायिकी सृष्टिरनेकविधा भवतीति नोक्तदोपावकाशः । यत्तु कश्चिदाह- कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा जीवो हि स्वतन्त्रः कर्ताऽस्त्वित्याशङ्कय तत्खण्डनार्थ- मिदम् । जीवः कि सर्वसामर्थ्येन प्रवर्तते किंवाऽशेन । नाऽऽद्यः । अङ्गुल्या तृणचालने सर्वशक्त्या प्रवृत्त्यापत्तेः । नचेष्टापत्तिरनुभवविरोधात् । नान्त्यः । अशाभावात् । तस्य निरवयवत्व श्रूयते भाल्लवेयश्रुतौ ' अथ यो जीवः स नित्यो निरवयवो ज्ञाताऽज्ञाता सुखी दुःखो शरीरेन्द्रियस्थः, इति । सिद्धान्ते तु- यत्तु युक्त्या विरुध्येत तदीशकृतमेव हि ॥ इति गतिः प्रमाण सिद्धा । तस्माज्जीवस्य स्वातन्त्र्यानुपपत्तेयुक्तं विष्णुर्जगत्कर्तेति । तदसत् । निरवयवत्वस्य तेन दुर्वचत्वात् । 'व्यतिरेको गन्धवत ' [ब्र० स० २।३।२६] , प्रथमः पादः ] ब्रह्मसूत्रवृत्तिः। ८९ इत्याधिकरणे जीवस्य सांशतायास्तेनैव स्थापनात् । एवं चांश विशेषैः कार्यानुसारितारतम्येन कर्तृत्वमुपपद्यत एव । जीवमात्रस्य भाल्लवेयोक्तलक्षणे सति नारकिजीवविरञ्चिजीवयोरविशे- षप्रसङ्गश्च । तदनन्तरम् -'श्रुतेस्तु शब्दमूलत्वात् ' [ब्र० सू० २। १ । २७ ] न हरेः कर्तृत्वे युक्तिविरोधः । योऽसौ विरुद्धोऽविरुद्धः । 'मनुरमनुः ' इत्यादिश्रुत्या लोकविरुद्धधर्मा- णामीश्वरेऽविरुद्धतयाऽवस्थानोक्तरित्याह । तदसत् । 'निष्कलं निष्क्रिय शान्तं निरवयं निरञ्जनम् ' [ श्वे० ६ । १९] । ' नेह नानाऽस्ति किंचन ' [ बृ० ४ । ४ । १९ ] इत्यादिश्रुतीनां व्याको पात् । किंच सर्वैपां विरोधानां विष्णावदूषणत्वे द्वितीयाध्यायवैयर्थ्यात् । जीवब्रह्मणोरभेदापाताच्च । ' आत्मनि चैवं विचित्राश्च हि ' [ ब्र० सू० २ । १ । २८ ] आत्मन्येवैवं युक्तिवि- रोधो नास्ति । 'विचित्रशक्तिः पुरुषः पुराणो नचान्येषां शक्तयस्तादृशाः स्युः इतिश्रुतेरित्याह । इदं सोपाधिके ब्रह्मण्यस्माभिरप्यभ्युपेयते निरुपाधिके तु नेह नानाऽस्ति किंचन' इत्यादिश्रुतिविरोधान्नाभ्युपेयते । ते धर्मा वास्तवा एवेति वदतस्तस्य भेदवादिनो मत प्रसिद्धश्रुतिस्मृत्यादिभिः प्रमाणैः खण्डितु न दुःशक तथाऽपि भाल्लवेयादि- श्रुतिप्रहारो दुर्वार इति मत्वोपरम्यते ॥ २८ ॥ स्वपक्षदोषाच्च । २९ (९) इतरमतेऽप्ययं दोपः समानः । प्रधानवादी निरवयवमपरिच्छिन्नं प्रधानं सावयवस्य परिच्छिन्नशब्दादियुक्तस्य कार्यस्योपादानकारणमिति ब्रूते । तत्रापि कृत्स्नप्रसक्तिर्निरवयवत्व- व्याकोपो वा प्रसज्जेत । यदि कार्ये कल्पिता विचित्रशक्तय एवं प्रधानस्यावयवस्थानीया- स्तर्हि ब्रह्मवादिनोऽपि समानम् । अणुवादिनोऽपि दोपोऽयं समानः । अणुरण्वन्तरेण संयुज्यमानो निरवयवत्वाधदि कात्स्येन संयुज्येत तर्हि कार्ये व्यणुकादौ महापरिमाणानुपपत्तिः। एकदेशेन संयोगे निरवयवत्वव्याकोप इति । परिहृतस्तु ब्रह्मवादिना मायाशक्तीः पुरकृत्य स्वपक्षदोपः । सांख्यारम्भवादिनोस्तु नैव निस्तारः ॥ २९ ॥ (९)। सर्वोपेता च तदर्शनात् ॥३०॥ विचित्रमायाशक्तियोगाह्मणो विचित्रकार्योपादानत्वमुपपद्यत इति प्रतिपादितम् । योगः संबन्धः सोऽपि मायिक एव । कथमवगम्यते विचित्रशक्तियुक्तं ब्रह्मेति । उच्यते । सर्वो- पेता सर्वशक्तियुक्ता परा देवता 'सेयं देवतैक्षत ' [ छा० १ । ३ । २] इति श्रुतेः । कुतः । तदर्शनात् । तथा च दर्शयति श्रुतिः 'सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः' हरिदीक्षितकृता- [द्वितीयाध्याये- . [ छा० ३ । १४ । ४ ] ' सत्यकामः सत्यसंकल्पः ' [छा० ८ । ७ । १] ' य: सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः [मु० १ । १ । ९] इत्यादिका । केचित् पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ' [ श्वे० ६ । ८] । । मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरन् ' [ श्वे० ४ । १० ] इत्यादिदर्श- नात्सर्वाऽपि शक्तिरुपेता ब्रह्माश्रितैवेति ज्ञायते । अतो मायाशक्तिमतरतस्य किं किं न सभवतीति व्याचक्रुः ॥ ३० ॥ विकरणत्वान्नति चत्तदुक्तम् ॥ ३१ ॥ (१०) ननु विचित्रशक्तिमत्यपि सा परा देवता विकरणत्वाच्चक्षुःश्रोत्रादिकरणरहितत्वा- कथ जगन्निर्मातु प्रभवेदिति चेत् । नच तस्या देवताया विकरणत्वमश्रौतमिति वाच्यम् । ' अचक्षुष्कमश्रोत्रमवागमनाः ' [ बृ० ३ । ८ । ८] इति श्रुत्या श्रौतत्वावगमात् । यदत्र देयमुत्तरं तत्पूर्वमेव दत्तम्-सर्वशक्तिमतो ब्रह्मण. सर्व सभवतीति । तथा च श्रुति:- ' अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः [श्वे. ३ । १९ ] इति अकरणस्यापि ब्रह्मणः सर्वसामर्थ्ययोगं दर्शयति । यत्तु — सर्वोपेता च तद्दर्शनात् । परा देवता न केवलं विचित्रशक्ति. किं तु सर्वया सर्वविपयिण्या सार्वकालिक्या च शक्त्या युक्तः । तत्र चतुर्वेदशिखा प्रमाणीकृता । ' श्रुतेस्तु शब्दमूलत्वात् ' आत्मनि चैवं विचित्राश्च हि' । 'सर्वोपेता च तद्दर्शनात् ' । अनया त्रिसूत्र्या भगवत्यचिन्त्यशक्तियुक्ते न कोऽपि विरोधः सभवतीति कश्चिदाह । तदयुक्तम् । जीवब्रह्मणोरभेदापातात् । तथा हि- 'विष्णौ श्रुत्येकगम्ये रव इव रसन साधनं बाधनं वा कर्तुं शक्तं न मानान्तरमस्विलजगत्कर्त रीति स्वरीतिः । स्मृत्यारूढा कथ न व्यपगमयति ते लोकदृष्टया निरूढा- मेकत्वायोगशङ्कां परतनुधरयोर्वलगसि त्व वृथैव । ॥ इति प्रत्यक्षसिद्धस्य जीवस्य श्रुत्येकगम्येन सह कथमभेद इति चेत् । रामकृष्णादिशरीरा- णामिति गृहाण । तत्र लोकसिद्धभेदानुवादकानि पुराणानीति त्वमेवावोचः । नाहं सर्वज्ञ इति भेदप्रतीतिस्तु सर्वज्ञाभेदानवगमाद्भविष्यति । तव मते नाहमणुरित्यादिवत् ॥३१॥(१०) न प्रयोजनवत्त्वात् ॥३२॥ जगतश्चेतनकर्तृकत्वं पुनः प्रकारान्तरेणाऽऽक्षिपति । परमात्मेदं जगन्नितुं नार्हति । कुतः । प्रयोजनवत्त्वात्प्रवृत्तीनाम् । लोके पुरुषो हि प्रयोजनमुद्दिश्यैव प्रवर्तते । 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥ इति न्यायाल । यदि परमात्मा स्वप्रयोजनाय सृष्टौ प्रवर्तत इति कल्प्येत पर्णकामवं । .
प्रथमः पादः बह्मसत्रवृत्तिः। परमात्मनः श्रूयमाणं बाध्येत । प्रयोजनाभावेऽप्युन्मत्तवत्प्रवर्तत इति कल्प्येत तदा परमात्मनः श्रृंयमाणा सर्वज्ञता बाध्येतेति पूर्वः पक्षः ॥ ३२ ॥ (१०) तत्र सिद्धान्तमाह- लोकबत्तु लालाकैवल्यम् ॥ ३३ ॥ (११) तुशब्द आक्षेप परिहरति । यथा लोके राजादीनां विनाऽपि प्रयोजनं लीलया मृग- यादौ प्रवृत्तयो दृश्यन्ते । यथा वोच्छ्रासादयः स्वभावादेव प्रवर्तन्ते । एवमीश्वरस्यापि विना प्रयोजनं स्वभावादेव केवललीलारूपायां जगद्रचनायां प्रवृत्तिर्भविष्यते । न हीश्वरस्य प्रयोजनं न्यायतः श्रुतितो वा संभवति । न च स्वभावो निवारयितु शक्यते । यद्यप्य. स्माकं जगद्रचना गुरुतरारम्भेवाऽऽभाति तथाऽपीश्वरस्य लीलैर केवलेयमपरिमितशक्ति- त्वात् । यद्यपि लौकिकलीलासु किंचित्प्रयोजनमुत्प्रेक्षितु शक्यं तथाऽपि ब्रह्मणि न तदुत्प्रे- क्षितुं शक्यते तस्य पूर्णकामत्वात् । तस्माल्लीलामात्रमेवेति सिद्धम् ॥ ३३ ॥ (११) वैषम्यनैपुण्ये न सापेक्षत्वात्तथाहि दर्शयति ॥ ३४ ॥ पुनश्च जगज्जन्मादिहेतुत्वमीश्वरस्याऽऽक्षिप्यते स्थूणानिखननन्यायेन प्रतिज्ञातार्थदृढीक- रणाय । देवादीन्सुखिनस्तिर्यगादीन्दुःखिनस्तदुभयेतरान्मनुष्यादीश्च मध्यमानिर्मिमाणस्येश्वरस्य पृथग्जनस्येव वैषम्यं प्रसज्जेत निर्निमित्तं सर्वाः प्रजाः संहरतो नैधुण्यं [ च ] प्रसज्जेत । शुद्धबुद्धमुक्तस्वभावस्येश्वरस्य वैषम्यनैपुण्यप्रसङ्गाज्जगत्कारणत्वमनुपपन्नमिति प्राप्ते झूमः । न तावदीश्वरस्य वैषम्यप्रसङ्गोऽस्ति । कुतः । सापेक्षत्वात् । प्राणिनामुत्तममध्यमाधमलक्षण- वैषम्ये तत्तत्कृतपुण्यपापकर्मणामेव प्रयोजकत्वात् । नचैतावतेश्वरस्य स्वातन्त्र्यहानिर्भवति । अन्तर्यामितया कर्माध्यक्षत्वात् । नन्वेवसति परकुटीप्रभातन्याय आपद्येत । ईश्वरे वैषम्यं परिहर्तुं कर्मणां वैषम्यहेतुत्वमुक्त्वा पुनरपीश्वरस्य स्वातन्त्र्यसिद्धये तेषां कर्मणा नियामकत्वेऽ- भ्युपगम्यमाने सत्यन्ततो गत्वेश्वरस्यैव वैषम्यहेतुत्वप्रसङ्गात् । नाय दोषः । नियामकत्वं नाम तत्तद्वस्तुशक्तीना व्यवस्थापादकत्वम् । एष सेतुर्विधरण एषां लोकानामसंभेदाय ' [बृ० ४ । ४ । २२ ] इति श्रुतेः । शक्तयस्तु मायाशरीरभूताः । न तु तासामुत्पादक ईश्वरः । ततश्च मायाशक्तिवशात्कर्मणां वैषम्यहेतुत्वे सति न व्यवस्थापकस्येश्वरस्य वैपम्य- प्रसङ्गः । संहारस्य सुषुप्तिवदुःखाजनकत्वान्मायाशक्त्या जगत्संहर्तुश्विरस्य प्रत्युत सघृण- [त्व ] मेव न निघृणत्वम् । तस्मान्नेश्वरे वैषम्यनैपुण्ये संभवतः । तथा हि दर्शयति- एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ वाऽसाधु कर्म कारयति तं यमधो निनीषते' [ कौ० ३ । ८ ] इति । पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन कर्मणा ' [ बृ० ३ । २ । १३ ] इति, च । आभ्यां श्रुतिभ्यां धाता . हरिदीक्षितकृता- [ द्वितीयाध्याये- साधारणकारणत्वश्विरस्य पर्जन्यवदसाधारणकारणत्व तत्तत्प्राणिकर्मणामेव ब्रीह्यादिबीजव- दिति भाष्ये स्थितम् ॥ ३४॥ न कर्माविमागादिति चेन्नानादित्वात् ॥ ३५ ॥ ननु । सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयम् ' [ छा० ६ । २।१] इति प्राक्सृष्टरविभागावधारणात्तदानी कर्म नास्ति । यदपेक्षया विषमा सृष्टिः स्यात् । तस्मादवान्तरसृष्टिपु पूर्वपूर्वकर्मापेक्षया सृजत ईश्वरस्य वैपम्याभावेऽपि प्रथमसृष्टौ पूर्वकर्मा, संभवाद्वैषम्यदोषस्तदवस्थ इति चेन्न । संसारस्यानादित्वात् ॥ ३५ ॥ कथं संसारस्यानादित्वं तत्राऽऽह- उपपद्यते चाप्युपलभ्यते च ॥ ३६॥ (१२) कर्मान्तरेण न शरीरम् । शरीरमन्तरेण न च कर्म । संसारस्यानादित्वेन बीजवृक्षवद- न्योन्याश्रयपरिहारः सभवति । तस्मात्संसारस्यानादित्वमुपपद्यत उपलभ्यते च । यथापूर्वमकल्पयत् ' [ ऋ० सं० १०। १९० । ३ ] इति श्रुतौ । न रूपमस्येह तथोपलभ्यते नान्तो न चाऽऽदिर्न च संप्रतिष्ठा' [भ० गी० १५। ३] इति स्मृतौ च । तस्मादनादौ संसारे बीजवृक्षबद्धेतुहेतुमद्भावे हेतुभूतात्कर्मणः सर्ववैषम्यानेश्वर उक्तदोषा- वकाशः ॥ ३६॥ (१२) सर्वधर्मोपपत्तेश्च ॥ ३७॥ चेतनं ब्रह्म जगतः कारणं प्रकृतिश्च । यस्मादस्मिन्सर्वज्ञे सर्वशक्त्युपेते महामायोपाधिके ब्रह्माण जगत्कारणे सर्वेषां कारणधर्माणामुपपत्तेः( त्तिः) तस्मादिदमोपनिपदं दर्शन निरवद्यमिति भाष्यम् । विद्यारण्यपादा अनाऽऽहुः ननु ब्रह्मणः प्रकृतित्वं नोपप- द्यते । निर्गुणत्वात् । लोके सगुण एव मृदादौ तदुपलब्धमिति प्राप्ते ब्रूमः । यद्यपि प्रक्रियतेऽनयेति प्रकृतिरितिव्युत्पत्त्या विक्रियमाणत्वं प्रतीयते तथाऽपि तद्विक्रियमाणत्वं द्वेधा संभवति-क्षीरादिवत्परिणामत्वन वा रज्ज्वादिवद्धमाधिष्ठानत्वेन वा । तत्र निर्गुणे परिणामित्वासभवेऽपि भ्रमाधिष्ठानत्वमस्तु । दृश्यते हि निर्गुणेऽपि जात्यादौ भ्रमाधिष्ठानता । मलिनं ब्राह्मणं दृष्ट्वा शूद्रोऽयमितिव्यवहारदर्शनात् । तस्मानिर्गुणमपि ब्रह्म प्रकृतिरिति सिद्धमिति । भाष्यस्यास्य च व्याख्येयव्याख्यानभाव एव । यत्तु परेणोक्तम्- द्विविधं वैषम्यं निघृणत्वं च-एकं धर्माद्यनपेक्षाप्रयुक्तम् । अपरं तु सापेक्षत्वेऽपि कर्मादि- सत्तादेरीश्वराधीनत्वप्रयुक्तम् । तत्राऽऽद्यं नाङ्गीकार्यम् । कर्मकाण्डाप्रामाण्यापत्तेः। द्वितीय तु वैषम्यादिकं दूषणं नेति न जीवानामश्विरस्य प्रत्यवायः संभवति येन तदापादकं' द्वितीयः पादः ] ब्रह्मसूत्रवृत्तिः सद्वैषम्यादिदोषता लभेदि(ते)ति । तदसत् । भ्रमाधिष्ठानतामन्तरेण कयाऽपि विधया निर्दो- षत्वापादनायोगादित्यन्यत्र विस्तरः । इति लक्ष्मीनरहरिसूरिसूनोहरिदीक्षितस्य कृतौ ब्रह्मसूत्रवृत्तौ सुबोधिन्यां द्वितीयाध्यायस्य प्रथमः पादः ॥ १ ॥ अथ द्वितीयः पादः । अतः रचनानुपपत्तेश्च नानुमानम् ॥ १॥ पूर्वपादे स्वपक्षे परोद्भावितदूपणनिरासेन स्वपक्षः साधित इदानीं परपक्षं दूपयितुं द्वितीपाद आरभ्यते । यद्यपि — ईक्षते शब्दम् ' [ ब्र० सू० १ । १ । ५] इत्याद्यधि- करणेषु सांख्यमतं निराकृतं तथाऽपि तत्र यानि वेदान्तवाक्यानि तेन स्वपक्षानुगु- ण्येन योजितानि तस्य तद्वयाख्यानं व्याख्यानाभासमित्येतावत्पूर्वत्र कृतम् । इदानीं तु युक्तिबलेन प्रधानकारणत्व तेनोक्तं तन्निरस्यते । एव तार्किकादिमतान्यपि निरस्यन्त इत्य- पैनरुक्त्यम् । तत्र सांख्यो मन्यते---सुखदुःखमोहात्मकं प्रधानं जगतः प्रकृति- रुपादानमिति यावत् । जगति सर्वत्र सुखाद्यन्वयदर्शनात् । घटपटादयो लभ्यमानाः सुखाय भवन्ति जलाहरणप्रावरणादिकार्यकारित्वात्त एवान्यैरपह्रियमाणा दुःखाय मोहाय च भवन्ति सुखदुःखाय मोहान्वयदर्शनात्प्रपञ्चस्य सुखदुःखमोहात्मकतया त्रिगुणात्मकस्य त्रिगुणात्मकं प्रधानमत्रोपादानं तच्चेतनस्य पुरुषस्यार्थ साधयितुं विचि- त्रविकारात्मना प्रवर्तत इति प्राप्ते ब्रूमः-अनुमानं प्रधानं जगत्कारणं न भवति । कुतः-रचनानुपपत्तेः । अचेतनस्य प्रधानस्य विचित्रसृष्टिरचनानुपपत्तेः। लोके प्रतिनियतसंनि- वैशविशेषस्य प्रासादादेर्बुद्धिमच्छिल्पिकर्तृकत्वोपलम्भात् । इय तु जगद्रचना संभाविततमैः शिल्पिभिर्मनसाऽप्यालोचयितुमशक्या कथमचेतनं प्रधानं तत्र कारणं भवेद्यदि चेतनानधि. ष्ठितम् । चशब्दो जडेषु हेतोरसिद्धिं द्योतयति । घटादीना सुखाद्यात्मकत्व न प्रतीयते । सुखदुःखमोहानामान्तरत्वप्रसिद्धः । तस्मादचेतनं प्रधानं स्वप्रधानतया न जग- कारणम् ॥ १ ॥ प्रवृत्तेश्च ॥ २॥ आस्तां तावद्रचना । या प्रधानस्य रचनानुकूला प्रवृत्तिर्गुणसाम्यावस्थातः प्रच्युतिः सत्त्वरजस्तमसामङ्गाङ्गिभावापत्तिः साऽप्यचेतनस्य प्रधानस्य नोपपद्यते । चेतनाधिप्रितम्यैव हरिदीक्षितकृता- [द्वितीयाध्याये- स्थादेः प्रवृत्तिदर्शनात् । तदुक्तं भाष्यकृद्धि -नहि मृदादयो रथादयो वा स्वयमचेतनाः सन्तश्चेतनैः कुलालादिभिरश्वादिभिर्वाऽनधिष्ठिता विशिष्टकार्याभिमुखप्रवृत्तयो दृश्यन्ते । दृष्टा- चादृष्टसिद्धिरतः प्रवृत्त्यनुपपत्तेरपि हेतो चेतन जगत्कारणमनुमातव्यं भवतीति ॥ २ ॥ पयोम्बुवञ्चेत्तत्रापि ॥३॥ ननु यथा क्षीरमचेतनं स्वयमेव वत्सविवृद्धये प्रवर्तते । यथा वा जलं स्वयमेव लोको- पकाराय स्यन्दते तथा प्रधानमचेतनं स्वयमेव पुरुषार्थसिद्धये प्रवर्तत इति चेन्नैतत्साधु यतस्तत्रापि चेतन ईश्वर एव प्रवर्तक इति शेषः । तयोरपि पयोम्बुनोश्चेतनाधिष्ठितयोरेव प्रवृत्तिरिति न दृष्टान्तता । ' योऽप्सु तिष्ठन्योऽपोऽन्तरो यमयति' [बृ० ३ । ७ । ४] एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते ' [ बृ० ३।८।९] इत्यादिश्रुतेः । चेतनाया धेनोर्वत्सस्नेहेन क्षीरं प्रवर्तते वत्सपेषणाय क्षीरमाकर्षतीति लोके प्रसिद्धमेतत् । पूर्वपादे ' उपसंहारदर्शनान्नेति चेत्क्षीरवद्धि ' [ब्र० स० २।१ । २४] इत्यत्र तु बाह्यसाधननिरपेक्षमपि स्वाश्रयं भवतीयेतल्लोकदृष्ट्या निदर्शितम् । शास्त्रदृष्ट्या पुनः सर्वत्रेश्वरापेक्षत्वमापाद्यमान न पराणुद्यते ॥ ३ ॥ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥४॥ सांख्यसिद्धान्ते त्रयो गुणाः साम्येनावतिष्ठमानाः प्रधान प्रधानस्य तद्व्यतिरेकेण प्रवर्तकं निवर्तक वा किंचिद्बाह्यमपेक्ष्यमवस्थितं नास्ति । पुरुषस्तूदासीनो न प्रवर्तको न च निवर्तकः। अतो व्यतिरेकानवस्थितेश्चेतनानपेक्षत्वाच्च कदाचित्प्रधानं महदाद्याकारेण परिणमते कदा- चिन्न परिणमत इत्येतदयुक्तम् । ईश्वरस्य मायोपाविकत्वात्सर्वज्ञत्वाच्च प्रवृत्तिः कदाचि, कदाचिन्निवृत्तिश्च न विरुध्यते । अत्रान्नभट्टैारव्यातम्- सर्वदा महदाद्याकारेण परिणाम एव स्यान्न तु कदाचिदपि तस्य व्यतिरेकः । व्यतिरेकस्यानवस्थितेरिति व्यतिरेकाभावा. दित्यर्थः । कुतः । अनपेक्षत्वात् , चेतनानपक्षत्वादिति । अत्र सांख्यमतखण्डनाय प्रवृत्तेन केनचिदलिगतम्- सर्वमानविधिकदुर्दीक्षादीक्षितस्त्वयम् । मायावाधुपमां यायादिति ॥ सर्वमानविरोध एव दुर्दीक्षादुष्टोऽनुष्ठानसंकल्पः । तत्र दीक्षितोऽयं सांख्यो मायावादिना- मुपमात्वं प्राप्नुयात् । तेऽपि हि कर्तृत्वभोक्तृत्वादिसकलधर्मविकलमसत्कस्पं चैतन्यमात्रमझी कुर्वन्ति । अविद्याया एवाचेतनायाः सर्वकारणत्वं बन्धमोक्षाधिकरणत्वं चाभ्युपगच्छन्ति । तदेतेषां सर्वप्रमाणविरुद्धाङ्गीकारित्वेन सांख्योऽय दृष्टान्तभावमापद्यत इति तदुभयं तस्य
' कर्ता
द्वितीयः पादः ]
ब्रह्मसूत्रवृत्तिः।
९५
शास्त्रसप्रदायानभिज्ञतां स्फुटयति । तथा हि । ' कर्ता शास्त्रार्थवत्त्वात् ' [ ब्र० सू०
२। ३ । ३३ ] इत्यधिकरणे बन्धश्चैतन्यस्य स्थापितः । मोक्षोऽप्यविद्यानिवृत्तिरूप-
श्चेति स्पष्टमाकरे । बन्धहेतुरविद्याऽपि साख्याभिमतप्रकृतिवन्न स्वतबा किंत्वीश्वराधीनेति
स्पष्टमेव । एचस्थितेऽविद्याया एव सर्वकारणत्व बन्धमोक्षाधिकरणत्वं चेति वदन्स वराकः
कैश्चिदद्वैतवादिबालकैः प्रतारित एव । असत्कल्पं चैतन्यमिति प्रलापमात्रम् । कालत्रया-
बाध्य सर्वाधिष्ठान सन्मात्रमिति सर्वोपनिपत्सिद्धस्यासत्कल्पत्वायोगात् । सकलधर्मवैकल्यात्तथो-
तमिति चेन्न । त्वन्मतेऽपि स्वरूपातिरिक्तधर्माभावात् । स्वरूपत्वस्य चास्माभिरपि स्वीका-
राच्च । प्रत्युतास्माभियावहारिका धर्मास्तत्र स्त्री क्रियन्ते । स्वरूपातिरिक्तधर्मानभ्युपगन्तु-
स्तव विपरीतोऽयं सगुणवादः । अपि च धर्मवैकल्यादसत्त्वमिति त्वया दुर्वचम् । अली-
कस्यापि ज्ञानविषयत्वमत्यन्ताभावप्रतियोगित्वादिकं च धर्म इति त्वदभ्युपगमात् । किंच
जीवे बन्धो नास्तीति त्वदभ्युपगमात्तवैवायं दुरुद्धरो दोषः । यथा चैतत्तथा
शास्त्रार्थवत्त्वात् ' [ब्र० सू० २ । ३ । ३३ ] इति त्वदीयाधिकरणस्य भङ्गे वक्ष्यामः ।
विस्तरस्तु तत्त्वकौस्तुभे द्रष्टव्य इति दिक् ॥ ४ ॥
अन्यत्राभावाञ्च न तृणादिवत् ॥ ५ ॥
ननु यथा तृणपल्लवोदकादिकं निरपेक्षमेव क्षीराकारेण परिणमत एवं प्रधानमपीति
चेन्न । अन्यत्राभावात् । धेन्वैव ह्युपभुक्त तृणादि क्षीरी भवति नानडुहोपयुक्तम् । ततश्च
धेन्वादेरन्यत्र तृणादेः क्षीरीभावादर्शनान्न तृणादिक निरपेक्षं क्षीरी भवतीति न दृष्टान्त
इत्यर्थः । तृणादिवदिति शङ्का । अन्यत्राभावादिति दृष्टान्तनिरासेन समाधानमित्यनु-
संधेयम् ।
अभ्युपगमेऽप्यर्थाभावात्॥६॥
स्वाभाविकी प्रधानस्य प्रवृत्ति भवतीति स्थापितम् । तथाऽपि तुष्यतु भवानिति
स्वाभाविकीमेव प्रधानस्य प्रवृत्तिमभ्युपगच्छेम । तथाऽपि दोषस्तदवस्थ एव । कुतः ।
अर्थाभावात् । प्रयोजनाभावादित्यर्थः । अयमर्थः-यदि प्रधानस्य स्वाभाविकी प्रवृत्तिः
किंचिदपि सहकारि नापेक्षत इत्युच्यते । तर्हि किंचित्प्रयोजनमपि नापेक्षिष्यत इत्यतः
प्रधानं पुरुषस्यार्थ साधयितुं प्रवर्तत इति प्रतिज्ञा हीयेत । स यदि ब्रूयात्सहकार्येव नापे.
क्षते प्रयोजनं त्वपेक्षत एवातो न प्रतिज्ञाभङ्गः । तत्र विचार्यते-प्रधानस्य प्रवृत्तिः
पुरुषस्य भोगार्थाऽपवर्गार्था वोभयार्था वा । आद्येऽपवर्गामावप्रसङ्गः । द्वितीये भोगाभावप्र-
प्रहः । तृतीयेऽप्यनिर्मोक्षप्रसङ्गः । भोक्तव्यानां प्रकृतिमात्राणामानन्त्यात् । निर्मलस्यास-
गोदासीनस्य पुरुषस्य तु न प्रवृत्तिर्नापि निवृत्तिः सभवति । तस्मात्पुरुषार्था प्रधानस्य
प्रवृत्तिरित्येतदयुक्तम् ॥ ६॥
- हरिदीक्षितकृता- [ द्वितीयाध्याये- पुरुषाश्मवदिति चेत्तथाऽपि ॥ ७ ॥ यथा कश्चिदपङ्गुरन्धः कश्चिच्चक्षुष्मान्पङ्गुः । तत्रान्धमपङ्गुमधिष्ठाय पङ्गुश्चक्षुष्मांस्तं प्रवर्त- यति । यथा चाऽयस्कान्तः स्वयमप्रवर्तमानोऽप्ययः प्रवर्तयति । एवं पुरुषः प्रधानं प्रवर्त- यिष्यतीति चेत् । समाधत्ते-तथाऽपीति । तथाऽपि दोषबाहुल्यमित्यर्थः । पुरुषस्य प्रवर्तकत्वे तस्यौदासीन्यभङ्गः । प्रधानस्याभ्युपगतस्वातन्त्र्यभङ्गः । अयस्कान्तवत्सनिधि. मात्रेण प्रवर्तकत्वे सनिधिनित्यत्वेन प्रवृत्तिनित्यताप्रसङ्गः । प्रधानस्याचेतनत्वात्पुरुषस्य चौदासीन्याच तयोः संबन्धानुपपत्तिः । योग्यतावशात्सबन्धे योग्यताया नित्य]त्वादनि- र्मोक्षप्रसङ्गः । सिद्धान्ते तु परमात्मनः स्वरूपेणौदासीन्यं मायावशाच प्रवर्तकत्वमिति न किंचित्सकटम् ॥ ७ ॥ अजित्वानुपपसेश्च ॥८॥ किंच गुणानां साम्यावस्था प्रकृतिः । तत्र गुणानामङ्गाङ्गिभावव्यातरकेण न महदाधु- त्पत्तिः । स चाङ्गाङ्गिभावोऽचेतन प्रतिक्षोभयितारमन्तरेण न भवति । न च क्षोभकः पुरुप इति वाच्यम् । तस्यासगोदासीनस्वभावत्वात् । अतोऽङ्गित्वानुपपत्तेश्च रचमानुपपत्तिः ॥८॥ अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ ९ ॥ ननु कार्यवशेन गुणा अनुमीयन्ते । तत्र यथा कार्य संभवति तथा गुणानां स्वभावः कल्प्यः । तत्र साम्यावस्थायामपि वैपम्ययोग्या एव गुणा अवतिष्ठन्ते । तेनाङ्गाङ्गिभाव- संभवात्कार्योपपत्तिरित्येवंप्रकारेणानुमीयत इति चेत् । अत्र समाधिः-ज्ञशक्तिवियोगा. दिति । चैतन्याभावादित्यर्थः । अचेतनानां गुणानां साम्यावस्थाया वैपम्ययोग्याणामपि निमित्तमन्तरेण वैषम्ये सर्वदा तत्प्रसङ्गः। साम्ये च सर्वदा साम्यप्रसङ्ग इत्यङ्गित्वानुपपत्ति. दोषस्तदवस्थ एव । विप्रतिषेधाच्चासमञ्जसम् ॥ १०॥ (१) परस्परविरुद्धश्चायं सांख्याना मतोपन्यासः । कचित्सप्तेन्द्रियाण्यनुक्रामन्ति कचिदेकादश । तथा कचिन्महतस्तन्मात्रसर्गः । कचिदहंकारात् । कचिनीण्यन्तःकरणानि कचिदेकमिति। प्रसिद्ध एव श्रुत्या ' सदेव सौम्येदमग्र आसीत् ' [छा० ६ । २।१] इदमेक एवाग्र आसीत् ' [ तै० १ । १ । इत्यादिकयेश्वरकारणवादिन्या श्रुत्या स्मृत्या च विरोधः । तस्मादसमञ्जस साख्यदर्शनम् । अत्र भाष्ये महता प्रबन्धेन सांख्योत्थापिता शङ्का निराकृता । सा दिक्प्रदर्शनेन विद्यारण्यपादैरुपपाद्योपसहृता । तथा हि । पूर्वस्मि- न्पादे चेतनाब्रह्मणो विलक्षणं जगत्कथं जायत इत्याक्षिपत: सांख्यान्प्रति लोकसिद्ध गोमर' वृश्चिकादिनिदर्शनं तत्राभिहितम् । तेन सांख्यकृतमाक्षेप परिहृत्य स्वपक्षः स्थिरी कृतः आचार्यस्तु पूर्वपादे श्रुतिभिः सांख्यमतं निरस्यास्मिन्पादे युक्तिभिः सांख्यमतखण्डन . आत्मा वा ९७ द्वितीयः पादः] ब्रह्मसूत्रवृत्तिः। नन्तरं चैतन्यस्यैकस्य ब्रह्मणी जगतः कारणत्वमभ्युपगन्छता कार्यकारणविरोधं वेदा- तिनां तप्यतापकयो_जात्यानभ्युपगमात्प्रदर्शयतां साख्याना विकारभेदस्य वाचारम्भणमा- त्रत्वाद्व्यवहारे यत्र यथा दृष्टस्तप्यतापकभावस्तत्र तथैव स इति साख्यकृत आक्षेपः परिहृतः ॥ १० ॥ (१) इदानीं परमाणुक रणवादो निराकर्तव्यस्तत्राऽऽदौ तदुद्भागित दोपं तत्प्रक्रियादृष्टान्तेनैव समाधत्ते सूत्रकारः- महद्दीर्घवदा ह्रस्वपरिमण्डलाभ्याम् ॥ ११॥ (२) शुक्लेभ्य एव तन्तुभ्यः शुक्ल पढो जायते न तु रक्तेभ्योऽतश्चेतनाद्ब्रह्मणो जगदचेतन- मुत्पबत इत्यनुपपन्नम् । कारणद्रव्यसमवायिनो गुणाः कार्ये समानजातीय गुणान्तरमार- भन्त इति नियमादिति प्राप्तेऽभिधीयते । अस्यैव विसदृशोत्पत्तौ दृष्टान्तः। यथा पारिमाण्डल्य- युक्ताभ्या परमाणुभ्या द्वाभ्यां ह्रस्वमणुपरिमाणोपेत दीर्घमहत्परिमाणरहितं व्यणुकमुत्पद्यते । इदमेकं निदर्शनम् । तादृशेभ्यस्त्रिभ्यो व्यणुकभ्यो दीर्घ महत्परिमाणोपेतमणुपरिमाणरहितं व्यणुकमुत्पद्यते । इदमपरं निदर्शनम् । अत्र परमाणुगुणविशेषस्तु पारिमाण्डल्यं न व्यणुके पारिमाण्डल्यमपरमारभते । तथाऽणुत्वह्रस्वत्वे हि ध्यणुकवर्तिनी नाऽऽरभेते त्र्यणुकादौ स्वसमानजातीये अणुत्वहस्वत्वे । व्यणुकस्य महत्वदीर्घत्वपरिमाणयोगाभ्युपगमात् । एवं चेतनाद्ब्रह्मणो विजातीयाचेतनोत्पत्तौ कि बाधकमिति भावः । सूत्रेऽणुपरिमाणमध्याहार्यम् । तथा च यथाक्रमं परमाणौ परिमण्डलं तदेव पारिमाण्डल्यम् । व्यणुकेऽणुपरिमाणं ह्रस्वत्वं च । व्यणुकादौ महत्परिमाण दीर्घत्व चेति सूचयितु वाशब्दः ॥ ११ ॥ (२) उभयथाऽपि न कर्मातस्तदभावः ॥१२॥ इदानी परमाणुकारणवादो निराक्रियते । तत्रेत्थं काणभुजी शास्त्रस्थिति:-पृथिव्यप्ते- जोवाय्वाकाशकालदिगात्ममनांसीति नवैव द्रव्याणि । तेषामाकाशादीनि निरवयवाणि नित्यानि। अत एव पृथ्व्यादीनि नित्यान्यनित्यानि चेति द्विविधानि । तत्र विनश्यतां पृथिव्यादीनां सावयवानां परमाणुपर्यन्तो विभागो भवति स प्रलयकालः । ततः सर्गकाले परमेश्वरस्य सिसृक्षा भवति तदा परमाणुष्वचलेषु प्राण्यदृष्टापेक्ष कर्मोत्पद्यते । तस्मात्कर्मणस्तदाश्रय एकः परमाणुरपरेण परमाणुना संयुज्यते । ततो व्यणुकादिगतानि रूपादीनि भवन्ति तन्तु- पटन्यायवदिति । तत्रेदमभिधीयते यदेतदाद्यं कर्मानिमित्तं सनिमित्त वा.अनिमित्तत्वे- नियामकाभावात्सर्वदा तदुत्पत्तौ प्रलयाभावप्रसङ्गः । सनिमित्तत्वेऽपि. तान्नामन्त्र-- सृष्टमदृष्ट वा । न तावदृष्टम् । प्रयत्नस्याभिघातस्य वा शरीरोत्पत्तेः प्रागसंभवाच्. । इश्वरप्रयत्नस्य च नित्यस्य कादाचित्काद्यकोत्पत्तिं प्रत्यनियामकत्वात् । नापि प्राण्यातनामना ।
९८ हरिदीक्षितकृता- [द्वितीयाध्याये- आत्मसमेतस्यादृष्टस्य परमाणुभिरसंबन्धात् । अदृष्टवता पुरुपेण परम्परासंबन्ध इति चेत् तस्य सार्बदिकत्वात्सर्वदा कर्मप्रसङ्ग इति नियतकालसृष्टिर्न स्यात् । एव प्रलयेऽपि योज्यम् । सयोगोत्पत्त्यर्थं वा । उभयथाऽपि न फर्म सभवति । अतस्तदभावः । सृष्टिप्रलययोरेभाव इत्यर्थः । यद्वा परमाणुकर्मणः सनिमित्तत्त्वेऽनिमित्तत्त्वे चोभयथाऽपि न नियतकालं कर्म । अतस्तदभावः सृष्टयभाव इति वा सूत्रार्थः । नचेश्वरस्य सृष्टयादिकर्तृत्वाङ्गीकारानियत- कालोपपत्तिः । तस्यापि नित्यज्ञानादिमत्त्वेन सर्वदा कार्यप्रसङ्गे दृष्टसाचिव्येनैव नियतत्वस्य पराभिमतत्वात् । सिद्धान्ते तु ' लोकवत्तु लीलाकैवल्यम् ' [ ब्र० सू० २।१।३३ ] इति सूत्रश्रुतिस्मृत्यनुसारेणोपपादितमेव पुरस्तात् । तस्मादनुपपन्नोऽयं परमाणुकारणवादः ॥१२॥ समवायाभ्युपगमाञ्च साम्यादनवस्थितेः ॥१३॥ कार्यकारणयोः समवायाभ्युपगमाच्च परमाणुकारणता न संभवति । कुतः । साम्यादन- वस्थितेः । द्वाभ्या परमाणुभ्यामुत्पद्यमान व्यणुक द्वाभ्या परमाणुभ्यामत्यन्तभिन्नं सद्द्वयोः परमाण्वोः समवैतीति भवताऽभ्युपगम्यते । यथैव व्यणुकं द्वाभ्या परमाणुभ्यां भिन्न सत्सम. वायलक्षणसबन्धेन ताभ्या संबध्यत एव समवायोऽपि समवायिभ्योऽत्यन्तभिन्नः सन्सम- वायान्तरेण समवायिभिः संबध्येत । अत्यन्तभिन्नत्वसाम्यात् । सबन्धो हि संबन्धिभ्या भिन्नस्तावाश्रितश्चैकश्चेति तल्लक्षणात् । इष्टापत्तौ तस्यान्यस्तस्यान्य इत्यनवस्थाप्रसङ्गः । संबन्धत्वात्सबन्धान्तरनरपेक्ष्ये सयोगेऽपि तथा स्यात् । नच गुणत्वात्सयोगः संबन्धान्तरम- पेक्षेतागुणत्वान्न समवाय इति वाच्यम् । अपेक्षाकारणत्वस्य तु तौल्यात् । गुणपरिभाषा- याश्चातन्त्रत्वात् । तस्मादनवस्थायां प्रसज्यमानायां ट्यणुकानुत्पत्तौ जगदनुत्पत्तिः । एका- सिद्धौ सर्वासिद्धः । नित्यमेव च मावात् ॥ १४ ॥ किंच । परमाणवः प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वोभयस्वभावा वाऽनुभयस्वभावा वा । आद्ये प्रवृत्तेर्नित्यमेव च भावात्प्रलयाभावप्रसङ्गः । द्वितीये निवृत्तेर्नित्यमेव च भावा- त्सर्गाभावप्रसङ्गः । उभयस्वभावत्व च विरोधादसंभाव्यम् । अनुभयस्वभावत्वे तु निमित्तव- शात्प्रवृत्तिनिवृत्त्योरभ्युपगम्यमानयोरदृष्टादेनिमित्तस्य नित्यसनिधानान्नित्यप्रवृत्तिप्रसङ्गः । अदृष्टादेरतत्रत्वे नित्याप्रवृत्तिप्रसङ्गः । तस्मादनुपपन्नः परमाणुकारणवादः ॥ १४ ॥ रूपादिमत्त्वाञ्च विपर्ययो दर्शनात् ॥ १५ ॥ सावयवानां द्रव्याणामवयवशो विभज्यमानाना यत्रावधिः स परमाणुः । ते च परमाण- वश्चतुर्विधा रूपादिगुणवन्तः कार्यारम्भका नित्याश्चेति वैशेषिका अभ्युपगच्छन्ति । तन्नो- पपद्यते । अयमेव विपर्ययः । कुतः । रूपादिमत्त्वात् । लोके यद्यद्रूपादिमद्वस्तु तत्स्वकार- द्वितीयः पादः] ब्रह्मसूत्रवृत्तिः। णात्स्थूलमनित्यं च दृष्टम् । यथा पटस्तन्तूनपेक्ष्य स्थलोऽनित्यश्च । तन्तवश्वांशूनपेक्ष्य स्थूला अनित्याश्च, एवं परमाणवोऽपि रूपादिमन्तः स्वकारणमपेक्ष्य स्थूला अनित्याश्च । परमकारणे ब्रह्मण्येव वर्तमानेन नित्यशब्देन नञ्समास उपपद्यते । न पुन. परमाणुनित्यत्वम. पेक्षते । तस्मादयुक्तः प्रधानकारणवादः ॥ १५ ॥ उभयथा च दोषात् ॥ १६ ॥ किंच गन्धरसरूपस्पर्शगुणा स्थूला पृथिवी । रसरूपस्पर्शगुणा सूक्ष्मा आपः । रूपस्पर्शगुणं सूक्ष्मतरं तेजः । स्पर्शगुणः सूक्ष्मतमो वायुरिति । एवमेतानि चत्वारि भूता- न्युपचितापचितगुणानि स्थूलसूक्ष्मतारतम्येनोपेतानि लोके लक्ष्यन्ते । तद्वत्परमाणवोऽप्युप- चितापचितगुणा अभ्युपगम्येरन्न वा । उभयथा च दोषप्रसङ्गात् । पक्षद्वयेऽपि दोषसंभ- वान्नाणूनां कारणत्वमित्यर्थः । गुणोपचयत्वकल्पने सावयवत्वप्रसङ्गः । गुणापचयोऽपि मूर्त्यपचयमन्तरेण न भवति । कार्ये तथा दर्शनात् । यदि परमाणुवसाम्यप्रसिद्धये सर्वे परमाणव एकैकगुणा एव कल्पेरंस्ततस्तेजसि स्पर्शोपलब्धिर्न स्यात् । अप्सु रूपस्पर्शयोः । पृथिव्या रसरूपस्पर्शानाम् । कारणगुणपूर्वकत्वात्कार्यगुणानाम् । अथ सर्वे चतुर्गुणा एव कल्पेरंस्ततोऽस्वपि गन्धस्योपलब्धिः स्यात्तेजसि गन्वरसयोरित्यादि । नचैतदृश्यते । तस्मादनुपपन्नोऽणुवादः ॥ १६ ॥ अपरिग्रहाच्चात्यन्तमनपेक्षा ॥१७॥ (३) प्रधानकारणवादो वेदविद्भिर्मन्वादिभिः सत्कार्यत्वाद्यंशेऽभ्युपगतः । अयं तु परमाणुका- रणवादो न कैश्चिदपि शिष्टैरशे कस्मिन्नपि परिगृहीत इत्यत्यन्तमनादरणीयो वेदवादिभिः । अत्र भाष्ये-वैशेषिकाः षट् पदार्थान्द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यान्भिन्नलक्षणानत्यन्त- भिन्नानभ्युपगच्छन्ति । तद्विरुद्धं द्रव्याधीनत्वं शेपाणामभ्युपगच्छन्ति । यथा हि लोके शशकुशपलाशप्रभृतीनामत्यन्तभिन्नानां नेतरेतराधीनत्वं सभवत्येवं द्रव्यादीनामत्यन्तभिन्न- त्वान्नैव द्रव्याधीनत्वं गुणादीनां भवितुमर्हतीत्यादि महता प्रबन्धेन तन्मतखण्डनं कृतमस्ति भाष्यत एव तदवगन्तव्यम् । तस्नादस्य परमाणुकारणवादस्यात्यन्तमनपेक्षा । अत्यन्तोपेक्षा वेदवादिभिः कर्तव्येत्यर्थः । अत्र परेण तर्कशास्त्रं खण्डयता मोक्षधर्मपठित सृगालवाक्य निदर्शनायोक्तम्- अहमासं पण्डितको हैतुको वेदनिन्दकः । आन्वीक्षिकीं तर्कविद्यामनुरको निरर्थिकाम् ' ॥ इति । तन्मन्दम् । कमठमाठरकोण्ठरव्यादिश्रुतिप्रमाणानुगुणं ब्रह्मतर्कमभ्युपगच्छतस्तस्य तर्कस्तु । हरिदीक्षितकृता- [ द्वितीयाध्याय- पाणिग्राह एव । न्यायामृततर्कताण्डवादिग्रन्थास्तु तन्मूलका एव । एवंसति तर्कशास्त्रं खण्डयन्नुपजीव्यविरोधमेव प्रकटी चकारेति दिक् ॥ १७ ॥ (३) समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥१८॥ वैशेषिकराद्धान्तो वेदविरुद्धत्वान्नापेक्षितव्य इत्युक्तम् । सोऽर्धवैनाशिकः । वैनाशिक त्वसाम्यात्सर्ववैनाशिकमतमिदानी निरस्यते तत्र कोचित्सर्वास्तित्ववादिनः । केचिद्विज्ञानमा- त्रास्तित्ववादिनः । अन्ये पुनः सर्वशून्यवादिन इति त्रयो वादिनो भवन्ति । ज्ञानेन विष- योऽनुमेय इति सौत्रान्तिकः । विषयप्रत्यक्षवादी वैभाषिकः । इमौ द्वौ वैनाशिकावान्तर- भेदौ । एवचैते पञ्च वैनाशिकाः । तत्र सर्वास्तित्ववादिनो बौद्धास्तावन्निरस्यन्ते । ते खल्वे- वमाहुः-पृथिव्यादिचतुष्टयस्य परमाणवः क्रमेण खरस्निग्धोष्णचलनस्वभावाः पृथिव्यादि- भावेन स्वयमेव सहन्यन्ते । अतोऽतिरिक्तः कश्चनावयवी नास्ति । पुञ्जीभूताश्चतुर्विधाः परमाणवस्तजन्य एव लोकत्रयात्मको बाह्यसमुदाय इत्युच्यते । एवं रूपविज्ञानवेदनासंज्ञासं- स्कारसंज्ञकाः पञ्च स्कन्धा आन्तरसमुदाय उच्यते । एते सर्वव्यबहारास्पदभावेन संहन्यन्ते। तत्र शब्दस्पर्शादयो विपया इन्द्रियाण च रूपस्कन्धः । स्कन्धः प्रभेद इत्यर्थः । येन तदाभ- व्यक्तिः स विज्ञानस्कन्धोऽहमित्याकारः । सुखदुःखादिकं वेदनास्कन्धः । देवदत्तादिनाम- धेय सज्ञास्कन्धः । रागादयः क्लेशा उपक्लेशाश्च मदनादयो धर्माधौं चेत्येतेषा बासना संस्कारस्कन्धः । एतेभ्यः पञ्चस्कन्धेभ्यः पुञ्जीभूतेभ्य आन्तरः समुदायो जायते । तस्मायुज्यते समुदायद्वयमिति प्राप्तेऽभिधीयते-समुदाय उभयहेतुकेऽपि तदप्राप्तिः । उभयहेतुकेऽपि बाह्ये पृथिव्यादिपरमाणुहेतुके समुदाये रूपविज्ञानादिस्कन्धहेतुके चाऽऽन्तरे समुदायेऽभ्युपगम्यमा- नेऽपि तदप्राप्तिः । तस्य समुदायद्वयस्यासिद्धिः । अन्यस्य भोक्तुः संहन्तुः स्थिरस्य चेत- नस्य तैरनभ्युपगमात् । निरपेक्षप्रवृत्त्यभ्युपगमे च प्रवृत्त्यनुपरमः स्यात् । सहन्तारमन्तरण समुदायानुपपत्तौ तदाश्रया लोकयात्रा च लुप्येत ॥ १८ ॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ १९ ॥ यद्यपि चेतनः स्थिरः संहन्ता नाभ्युपगम्यते तथाऽप्यविद्यादीनामितरेतरकारणवादी- जाडरवत्कार्योत्पत्तिरुपपद्यते । ते चाविद्यादयः-अविद्या संस्कारो विज्ञान नाम रूप षडायतनं स्पर्शी वेदना तृष्णोपादान भवो जातिर्जरा मरणमित्यादयः सौगतसमये प्रसिद्धाः। तस्मान्नास्ति चेतनापेक्षेति चेन्न । कुत. । उत्पत्तिमात्रनिमित्तत्वात् । अत्रायं भाष्याशयः- भवेदुपपन्नः संघातो यदि संघातस्य किचिन्निमित्तमवगम्येत । नत्ववगम्यते । यत इतरेतर. प्रत्ययत्वेऽप्यविद्यादीनां पूर्वपूर्वमुत्तरोत्तरस्योत्पत्तिमात्रनिमित्तं भवेत् । नतु संघातोत्पत्तेः किंचिन्निमित्तं संभवति । कश्चन चेतनो भोक्ता सोऽस्य संघातस्योत्पत्तेनिमित्तं वक्तव्यः । स तु त्वया नाभ्युपेयते । तस्माचेतनं विना संघातोत्पत्तौ न किमपि निमित्तमस्तीति द्वतीयः पादः ] ब्रह्मसूत्रवृत्तिः। १.१ सुत्रार्थः । यद्भोगार्थः सघातः स्यात्स नास्ति स्थिरो भोक्तेति तवाभ्युपगमः । ततश्च भोगो भोगार्थ एव स नान्येन प्रार्थनीयः । तथा मोक्षो मोक्षार्थ एवेति मुमुक्षुणा नान्येन प्रार्थ- नीय इति भोक्तुर्ममक्षोः स्थिरस्य चेतनस्य निमित्तस्याभावान्न सघातोत्पत्तिरित्यभि- पायः ॥ १९ ॥ उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥ पूर्वमविद्यादीनां बीजाडरवदितरेतरकारणत्वात्कार्योत्पत्ति प्रति निमित्तत्वमुक्तं तदपी- दानी न संभवतीति प्रतिपाद्यते । क्षणभङ्गवादिनस्तस्यायमभ्युपगम उत्तरस्मिन्क्षण उत्पद्य- माने पूर्वः क्षणो नश्यतीति । तथाचोत्तरोत्तरक्षणोत्पादे पूर्वपूर्वक्षणस्य हेतुत्व न संभ- वति । कुतः । पूर्व निरोधात् । पूर्वस्य नाशादित्यर्थः । नह्येवमङ्गीकुर्वता पूर्वोत्तरक्षणयोः कार्यकारणभावः संपादयितु शक्यते । नच पूर्ववृत्तित्वमात्र हेतुताप्रयोजक न कार्यसहभावोऽ- पीति वाच्यम् । उपादानस्य मृदादेः कार्यानुस्यूतस्यैव हेतुत्वदर्शनात् । किंचोत्पादनिरोधौ वस्तुनः स्वरूपं वाऽवस्थान्तरं वा वस्त्वन्तरमेव वा । यदि तावद्वस्तुनः स्वरूपमेवोत्पादनि- रोधौ स्यातां तर्हि वस्तुशब्द उत्पादनिरोधशब्दौ च पर्यायाः स्युः। अथोच्यतोत्पादनिरोधौ वस्तुन आद्यन्तास्ये अवस्थे इति । एवमप्याद्यन्तमध्यक्षणत्रयसबन्धित्वाद्वस्तुनः क्षणिकत्वा. भ्युपगमहानिः । अथोच्येत वस्तुनः सकाशाद्भिन्नावेव ताविति । तथात्वे ताभ्यामुत्पादनिरो- धाभ्यामससृष्टत्वाद्वस्तुनः शाश्वतत्वं स्यात् । तस्मात्सर्वथाऽपि नोपपद्यते परमते क्षणिकाना हेतुहेतुमद्भावः ॥ २० ॥ असति प्रतिज्ञोपरोधो योगपद्यमन्यथा ॥ २१ ॥ क्षणभङ्गवादे पूर्वक्षणस्य नष्टत्वादुत्तरक्षणं प्रति हेतुत्वं न संभवतीत्युक्तम् । अथ हेता- वसत्येव कार्योत्पत्तिं ब्रूयात् । तर्हि प्रतिज्ञोपरोधः प्रतिज्ञाहानिः स्यादिति शेषः । चतुर्वि- धान्पुञ्जीभूतान्पृथिव्यादिपरमाणूकृत्वा बाह्यसमुदाय उत्पद्यते स्कन्धपञ्चकादान्तरसमुदाय उत्प- द्यत इति प्रतिज्ञा हीयेतेत्यर्थः। यदि हेतुत्वसिद्धये कारणस्य कार्यकालावस्थायित्वमभ्युपेयेत तर्हि कार्यकारणयोर्योगपद्यमेककालवृत्तित्वमापद्येत । तथाऽपि सर्व क्षणिकमिति या प्रतिज्ञा तस्या हानिः स्यादेवेति भावः ॥ २१ ॥ प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥ २२॥ वैनाशिका इत्थं कल्पयन्ति-बुद्धिबोध्यं त्रयाद्भिन्नं संस्कृतं क्षणिकं चेति। तदपि च त्रयं प्रतिसंख्याप्रतिसंख्यानिरोधावाकाशश्चेति । आकाशमग्रे दूषयिष्यति । अत्र निरोधद्वय दूषयति- प्रतिसंख्याप्रतिसंख्यानिरोधयोः सतानसंतानिनाशयोरप्राप्तिरसंभव इत्यर्थः । कुतः । अवि- च्छेदात् । संतानस्यति शेपः । सतानस्य नाशो वा । संतानिनो वा। नाऽऽद्यः । तस्य नाशासंभ- १०२ हरिदीक्षितकृता- [ द्वितीयाध्याये- वात् । तथाहि-संतानिव्यतिरिक्तसंतानाभावेनान्त्यसंतानिनाश एव तन्नाशो वाच्यः । एवं चान्त्यस्य संतानिनोऽजनकतया ह्यसत्त्व स्यात् । तन्मते जनकस्यैव सत्त्वेनाभ्युप- गमात् । तथा चान्त्यस्य संतानस्यासत्त्वे तजनकस्योपान्त्यस्यापि संतानिनोऽत्यन्तासत्त्वम् । एव तत्पूर्वस्य तत्पूर्वस्येति संतानस्यासत्त्वान्न तस्य नाशः । निरुपाख्यस्य नाशासंभवात् । अन्त्यस्य संतानिनः सत्त्वाभ्युपगमे च सतानाविच्छेदान्न नाशसभवः । न द्वितीयः । क्षणिकमते ह्युत्पन्नमात्रस्य स्वरूप एव ध्वस्तत्वेन पुरुपव्यापारानपेक्षणात् । न हि भावानां निरन्वयो निरुपाख्यो विनाशः संभवति । सर्वास्वप्यवस्थासु प्रत्यभिज्ञानबलेनान्वय्यविच्छेद- दर्शनात् । अस्पष्टप्रत्यभिज्ञानास्वप्यवस्थासु क्वचिद्दष्टेनान्वय्यविच्छेदनान्यत्रापि तदनुमाना- दिति भाष्यकृत आहुः । तस्मान्निरोधद्वयस्याप्यनुपपत्तिः ॥ २२ ॥ उभयथा च दोषात् ॥ २३ ॥ योऽयमविद्यानिरोधः प्रतिसंख्यानिरोधान्तःपाती स किं निर्हेतुकः सहेतुको वा। नाऽऽद्यः । मुमुक्षूणां स्त्रमते शमदमादिमार्गोपदेशानर्थक्यप्रसङ्गात् । न द्वितीयः । स्वमते सर्वस्यापि निर्हेतुकविनाशाभ्युपगमहानिप्रसङ्गात् । एवमुभयथाऽपि दोषप्रसङ्गादयुक्तं. वैना- शिकदर्शनम् ॥ २३ ॥ आकाशे चाविशेषात् ॥ २४ ॥ यच्च तैराकाशस्य निरुपाख्यत्वमुच्यते निरुपाख्यत्वमुच्यते तदनेन निराक्रियते-आकाशे च निरुपाख्य वम् । पृथिव्यादिवद्वस्तुत्वप्रतीतेरविशेषात् । शब्दलिङ्गकानुमानेन वस्तुत्वसिद्धश्च । गन्यादाना गुणाना पृथिव्यादिवस्त्वाश्रयत्वदर्शनाच्च । तस्माद्यदुक्तं सौगतेन निरोधद्वयमाकाशं चेति त्रयमप्येतन्निरुपाख्यमवस्तु नित्य चेति विप्रतिषिद्धम् । नह्यवस्तुनो नित्यत्वमनित्यत्वं वा संभवति । वस्त्वाश्रयत्वाद्धर्मधर्मिव्यवहारस्य । तस्मात्पूर्वोक्तत्रयस्य नित्यत्वाश्रयत्वाद्वस्त त्वमेव स्यान्न निरुपाख्यत्वम् ॥ २४ ।। अनुस्मृतश्च ॥ २५॥ सर्वस्यापि क्षणिकत्वमभ्युपगच्छन्वैनाशिकत्वमङ्गी कुर्यात् । तदनुपफ्नम् । कुतः । अनु- स्मृतेः । अनुभवानन्तर स्मरणमनुस्मृतिः । सा क्षणिकविज्ञानसंततेरात्मत्वाभ्युपगमे न संभवति । अनुभावतुर्नष्टत्वात् । पुरुषान्तरोपलब्धिविषये पुरुषान्तरस्य स्मृत्यदर्शनात् । नहि देवदत्तेनानुभूतं यज्ञदत्तः स्मरतीति लोके कचिदपि दृष्टम् । चकारेणाहं तदद्राक्षमिदं पश्यामीत्यादि प्रत्यभिज्ञानं समुच्चिनोति । बिस्तरस्तु भाष्यादवगन्तव्यः ॥ २५ ॥ नासतोऽदृष्टत्वात् ॥ २६ ॥ वैनाशिका अभावाद्भावोत्पत्तिरिति मन्यन्ते । नष्टाद्धि बीजादकर उत्पद्यते नानष्टात् । तथा नष्टात्क्षीरादधि । निर्विकाराच्चेत्कारणात्कार्यमत्पद्येत तर्हि सर्वं सर्वत उत्पद्यतेति द्वितीय. पादः ] ब्रह्मसूत्रवृत्तिः । । १०३ समर्थयन्त्यभावाद्भावोत्पत्तिम् । अत्रीच्यने-असतोऽभावाद्भावोत्पत्तिरिति वैनाशिकमतं न युक्तम् । कुतः । अदृष्टत्वात् । असतः शशविषाणादेः कारणत्वादर्शनात् । नच सहकारि- विशेषसहकृतादभावादपि भावोत्पत्तिरिति वाच्यम् । सहकारिविशेषस्यैव कारणत्वप्रसङ्गात् । यत्तूक्तं स्वरूपोपमर्दमन्तरेण न कूटस्थात्कारणात्कार्योत्पत्तिरिति । तदयुक्तम् । कृटस्थादेव सुवर्णलक्षणात्कारणाद्रुचकाद्युत्पत्तिदर्शनात् । येष्वपि बीजादिषु स्वरूपोपमर्दो दृश्यते तेष्वप्यनुपमृद्यमानानां बीजाद्यवयवानामङ्कुरादिकारणत्वमभ्युपगम्यते । अन्यथा भर्जिताद्वी- जादड्डुर उत्पद्येत । प्रागभावादीनां सिद्धान्तेऽनभ्युपगमान्नतस्य कारणकोटावनुप्रवेश । विस्तरस्तु भाष्यादनुसंधेयः । अपि च चतुर्थ्यश्चित्तचैत्यलक्षण आन्तरसमुदाय उत्पद्यते । पृथिव्यादिपरमाणुभ्यः पुञ्जीभूतेभ्यो बाह्यो भूतभौतिकलक्षणसमुदाय उत्पद्यत इत्यभ्युपगम्ये- दानीमभावाद्भावोत्पत्ति कल्पयन्तो वैनाशिकाः कथ नापत्रपन्ते ॥ २६ ॥ उदासीनानामपि चैवं सिद्धिः ॥ २७॥ (४) यदि चाभावाद्भावोत्पत्तिरभ्युपगम्येत तर्जुदासीनानामपि क्षेत्रादिकर्मस्वयतमानानां कृषीवलादिजनानां सस्यादिसमीहितसिद्धिः स्यात् । उद्योगाभावस्य सुलभत्वात् । स्वर्गापव- गयोश्च न कश्चित्कथचित्समीहेत । नचैतद्युज्यतेऽभ्युपगम्यते वा केनचित्तस्मान्न युज्यतेऽभा- वाद्भावोत्पत्तिः ॥ २७ ॥ ( ४ ) नामाव उपलब्धः ॥२८॥ एवं बाह्यार्थवादिनौ सौत्रान्तिकवैभाषिको निरस्येदानी बाह्यार्थापलापिनं विज्ञानवादिनं बौद्धं निराकर्तुमिदं सूत्रम् । तस्मिन्किल विज्ञानवादे बुद्धयारूढेन रूपेणान्तस्थ एव प्रमाणप्रमेयफलव्यवहारः सर्व उपलभ्यते । बाह्यार्थमभ्युपगच्छतामपि बुयारोहाहते प्रमाणादिव्यवहारानुदयात् । नच बाह्यार्थावगमाभावे नानाविधनामरूपजात्यादिव्यवहारा- नुपपत्तिः । यथा स्वप्ने बाह्यार्थाननपेक्ष्य केवलया बुध्द्या तत्तद्वासनावासितया तत्तद्व्यवहार उपपद्यते तथैव केवलया बुद्ध्या जाग्रव्यवहाराणामपि समुपपत्ते. । किंच मायामरीचि- कोदकगन्धर्वनगरादिप्रत्यया विनैव बाह्यार्थान्ग्राह्यग्राहकाकारा भवन्ति । एव जागरितगो- चरा अपि प्रत्ययत्वाविशेषात् । एवं प्राप्ते ब्रूमः-बाह्यार्थानामभावो न संभवति । कुतः उपलब्धेः । घटपटादीनामुपलभ्यमानानामपह्नवानौचित्यात् । अत्र भाष्यकारैर्बाह्यार्थापलाप- समाहितम्-नचोपलभ्यमानस्यैवाभावो भवितुमर्हति । तथाहि-कश्चिद्भुञ्जानो भुजिसाध्याया तृप्तौ स्वयमनुभूयमानायामेव ब्रूयान्नाहं भुले नच तृप्यामीति । तद्वदिन्द्रियस- निकर्षेण स्वयमुपलभमान एव बाह्यार्थं नाहमुपलभे नच सोऽस्तीति ब्रुवन्कथमुपादेथवचनः स्यात् । ननु नाहमेव ब्रवीमि न कचिदर्थमुपलभ इति । कितृपलब्धिव्यतिरिक्त नोपलभ इति ब्रवीमि । बाढमेवं ब्रवीषि निरङ्कुशत्वात्ते तुण्डस्य नतु युक्त्युपेत ब्रवीषि । यत मापाद्य १०४ हरिदीक्षितकृता- [द्वितीयाध्याये- उपलब्धिव्यतिरेकोऽपि बलादर्थस्याभ्युपगन्तव्य उपलब्धेरेव । नहि कश्चिदुपलब्धिमेव स्तम्भः कुड्यं चेत्युपलभते । उपलब्धिविषयत्वनैध कुम्भस्तम्भकुड्यादीन्सर्वे लोका उपल- भन्त इति । किंच । यदन्तईयरूप तबहिर्वदवभासत इति बाह्यार्थ प्रत्याख्यातुकामेन तेनोक्तम् । तत्र बाह्यार्थाभावे वत्करणमनर्थकं स्यात् । नहि विष्णुमित्रो वन्ध्यापुत्रवदवभा- सत इति कश्चिदाचक्षीत । तस्मान्न बाह्यार्थापलापो युक्तः ॥ २८ ॥ ननु स्वप्नशुक्किरजतादिज्ञानाना यथा निरालम्बनत्व तथा जाम्रज्ञानानामपि भविष्य- तीत्यत आह- वैधाच न स्वप्नादिवत् ॥ २९ ॥ यदुक्तं बाह्यार्थापलापिना स्वप्नादिबोधवजागरगोचरा अपि घटपटादिबोधा विनैव बाह्यमर्थं भवेयुः प्रत्ययत्वाविशेषादिति तदत्र निराक्रियते-स्वप्नादिबोधतुल्यत्व जाग्रदो- धस्य नास्ति । कुतः । तयोर्वैधात् । अस्ति वैधर्म्य स्वप्नजागरप्रत्यययोः । किं पुनर्वैध- Hम् । स्वप्नादिबोधस्य बाध्यत्वमबाध्यत्व जाग्रबोधस्येति वैधर्म्यम् । बाध्यते हि स्वप्नोप- लब्ध वस्तु प्रबुद्धस्य मिथ्या मयोपलब्धस्तुरङ्गम इति । एव मायाविष्वपि । नैवं जागरोपपलब्धं वस्तु घटादिक बाध्यते । अभ्युपगम्य स्वप्नादेर्निरालम्बनत्वमेतदुक्तम् । अनिर्वचनीयालम्बनत्वं तु तत्राप्यस्त्येवेति मन्तव्यमित्यन्नभट्टा आहुः । यत्त्वत्र परेणोक्तम्-' नाभाव उपलब्धः ।' नच जगन्छून्यं भवितुमर्हति । कुतः । उपलब्धेः । प्रत्यक्षेण दृश्यमानत्वादित्यर्थः । नच दृष्टस्यापि स्वप्नादिवदसत्त्वमिति वाच्यम् । स्वप्नस्यासत्त्वाभावादिति । तदसत् । बाह्यपदार्थदर्शनजनितसंस्कारेण स्वप्नो जायत इति वदता प्रत्युत स्वेनैव स्वप्नासत्त्वस्य प्रतिपादनात् । बौद्धाभिमतसिद्धेः परस्य तन्मताज्ञानाच्च ॥ २९ ॥ न भावोऽनुपलब्धेः ॥ ३० ॥ यदुक्तं परेण वासनानिमित्तकमेवेदं ज्ञानवैचित्र्यं नार्थनिमित्तकमिति तदनेन सूत्रेण निरस्यते । वासनानां भावो नोपपद्यते । कुतः । अनुपलब्धेः । त्वत्पक्षे बाह्यार्थानामनुप- लब्धेः । त्वया बाह्यार्थज्ञानानभ्युपगमादित्यर्थः । बाह्यार्थज्ञानजन्याः खलु संस्कारा अर्था- भावे कथमुत्पद्येरन् । जाग्रदर्थोपलब्धिजन्यत्वात्स्वप्नजनकवासनानाम् । लोके वासनानां साश्रयत्वदर्शनात् । त्वन्मते चाऽऽश्रयाभावादनादित्वमपि नोपपद्यते । तस्मान्नोपपद्यते वास- नानां संभवः ॥ ३०॥ क्षणिकत्वाच ॥ ३१ ॥ यदप्यालयविज्ञानं नाम वासनाश्रयत्वेन परिकल्पितं तदपि क्षणिकत्वाभ्युपगभान, तद्योग्यम् । प्रवृत्तिविज्ञानवद्वासनानामाधिकरणं भवितुं नाहतीत्यर्थः । स्थिरस्वरूपे द्वित्तीयः पादः] ब्रह्मसूत्रवृत्तिः । त्वालयविज्ञानेऽड्गीक्रियमाणे क्षणिकत्वसिद्धान्तहानिः स्यात् । तस्मान्न वासनासंभवः । शून्य- वादनिराकरणेऽप्येतान्येव सूत्राणि योजनीयानि । तथाहि-'नाभाब उपलब्धे.' । ज्ञानार्थयो- रभावो नोपपद्यते । कुतः । सर्वप्रमाणैरुपलब्धेरिति प्रथमसूत्रार्थ. । 'वैधाच्च न स्वप्नादि- वत्' । स्वमवन्न जाग्रति शून्यत्व सभवति । स्वप्ने बाध्यत्व जाग्रव्यवहारेऽबाध्यत्वमिति वैधर्म्यप्र- तिपादनादृष्टान्तासिद्धेः । स्वमते तत्राप्यनिर्वचनीयविषयस्य ज्ञानस्याभ्युपगमान्न दृष्टान्तता । 'न भावोऽनुपलब्धेः' प्रपञ्चस्यातात्त्विकत्वं व्यवस्थापयता ह्यबाधितमधिष्ठानं वस्तुभूत वाच्यम् । तस्य च भावः सत्ता तव मते नास्ति प्रमाणैस्तदनुपलब्धेः । त्वया सर्वशून्यत्वाङ्गीकारा- दित्यर्थः । क्षणिकत्वाच्चेति सूत्र उपदेशादिति पूरणीयम् । तेन क्षणिकपदार्थसत्त्वोपदेशात्सर्व- शून्यत्वोपदेशाच्च व्याहतवचनः स नाऽऽदेयवचन इत्यर्थः । इत्यन्नंभट्टैः शून्यवादपरतयेमानि सूत्राणि व्याकृतानि । भाष्यकारैस्तु शून्यवादपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तनिराकर णाय नाऽऽदरः क्रियत इत्युपेक्षितः ॥ ३१ ॥ सर्वथाऽनुपपत्तेश्च ॥ ३२ ॥ (५) वैनाशिकत्वसामान्यात्सौत्रान्तिकवैभाषिकविज्ञानवादिशून्यत्वादिसमयाः सर्वथा शब्दतश्चा- र्थतश्चानुपपन्नत्वादयुक्ताः । तेषां नयेष्वपशब्दबाहुल्यमालयविज्ञानस्य क्षणिकत्वमभ्युपेत्य वास- नाश्रयत्वाश्रयित्वे स्थायित्वप्रसङ्गादित्यभ्युपगमोऽनुपपन्नः । वासनाद्यसंबद्धप्रलापित्वदर्शनात् । अत एवोक्त भाष्यकारैः-किंबहुना सर्वप्रकारेण यथा यथाऽयं वैनाशिकसमय उपपातमत्त्वाय परीक्ष्यते तथा तथा सिकताकूपवद्विदीर्यत एव न कांचिदप्यत्रोपपत्तिं पश्यामोऽतश्चानुप - पन्नो वैनाशिकतन्त्रव्यवहार इति । ॥ ३२ ॥ (५) नेकस्मिन्नसंभवात् ॥ ३३ ॥ पूर्वोक्तप्रकारेण चतुर्विधबौद्धमतानि निराकृतानीदानी दिगम्बरमतं निरस्यते, तेनाधि- करणेन । दिगम्बरा एवाऽऽर्हताः । ते खल्वेवमाहुः-जीवोऽजीवश्चेति द्वौ पदार्थों । तत्र जीवश्चेतनशरीरपरिमाणः सावयवः । अजीवः षड्विधः। तत्राऽऽद्यः पृथिवीगिरिसमुद्रादिः । आस्रवसंवरनिर्जरबन्धमोक्षाः पञ्च । एवमजीवपदार्थः षड्विधः । तत्राऽऽस्रवो नामेन्द्रिय- वर्गः । आस्रवति गच्छत्यनेन विषयाजीव इति व्युत्पत्तेः । संवृणोति विवेकमिति संवरः कामक्रोधादिकारणमविवेकः । निःशेषेण जीर्यत्यनेन कामक्रोधादिरिति केशौटुञ्छनतप्तशि- लारोहणादिकं तपो निर्जरः । कर्माष्टकेनाऽऽपादिता जन्मपरम्परा जीवस्य बन्धः । ९ हरिदीक्षितकृता- [ द्वितीयाध्याये- कर्माष्टक च चत्वारि घातिकर्माणि पापरूपाणि चत्वारि चाघातिकर्माणि पुण्यविशेपरू. पाणीति । शास्त्रोक्तोपायन तेभ्योऽष्टकर्मभ्यो निर्मुक्तस्य जीवस्य पञ्जरनिर्मुक्तपक्षिवत्सततो- र्ध्वगमनं मोक्षः । त एते सप्त पदार्थाः सप्तभङ्गीनयेन व्यवस्थाप्यन्ते । स्यादस्ति । स्यान्नास्ति । स्यादस्ति च नास्ति च । स्यादवक्तव्यः स्यादस्ति चावक्तव्यश्च । स्यान्नास्ति चावक्तव्यश्च । स्यादस्ति च नास्ति चावक्तव्यश्चेति सप्तभङ्गीनयः । अस्यार्थः-स्यान्छब्द ईषदर्थवाची निपातः । प्रतिवादिनश्चतुर्विधाः-सद्वादिनोऽसद्वादिनः सदसद्वादिनोऽनिर्वच- नीयवादिनश्चेति । अनिर्वचनीयमतेन मिश्रिताः सद्वादिनोऽसद्वादिनः सदसद्वादिनश्च पुन- स्त्रिविधा इत्येवं सप्तवादिनः । तानेतान्सप्तवादिनः प्रति सप्तविधा न्यायाः क्रमेण प्रयो- क्तव्याः । तद्यथा-यदा सद्वादी समागयाऽऽर्हत पृच्छति किं तव मते मोक्षोऽस्तीति । तत्राऽऽर्हत उत्तरं ददाति स्यादस्तीति । एवमसद्वादिन प्रति स्यान्नास्तीति । एवं यथावादि- क्रममुत्तराणि ददाति । तावता वादिनः सर्वे निर्विषा( ण्णा ) नोत्तरं प्रतिपद्यन्ते । अतोऽस्य सप्तभङ्गीन्यायस्य विद्यमानत्वाज्जीवजीवास्रवादिसिद्धौ किमाश्चर्यम् । समन्वयस्यैव- माहतमतविरोधे प्राप्ते ब्रूमः । सप्तभङ्गीनयोऽयमयुक्तः । कुतः । एकस्मिन्नसभवात् । एकस्मिञ्जीवपदार्थे सदसद्वादिविरुद्धधर्मासभवादित्यर्थः । एकस्य जीवस्य सद्वादिनं प्रति सद्रूपत्वमसद्वादिन प्रत्यसद्रूपत्वं चेत्येवमादिधर्मप्रतिपादकत्वादप्रमाणं विवसनमतम् । तदुक्तं भाष्यकारैः-एकस्मिन्धर्मिणि सत्त्वासत्त्वयोर्विरुद्धधर्मयोरसंभवात् । सत्त्वे चैकस्मिन्धर्मे सत्त्वस्य धर्मान्तरस्यासंभवादसत्त्वे चैव सत्त्वस्यासभवादसंगतमेवेदमार्हतमतमिति ॥ ३३ ॥ एवंचाऽऽत्माकात्स्य॑म् ॥ ३४ ॥ किंच स्याद्वादे यथैकस्मिन्धर्मिणि विरुद्धधर्मासंभवो दोषः एवमात्मनो जीवस्याकाय॑मपरो दोषः प्रसज्येत । कथम् । शरीरपरिमाणो जीव इत्यार्हता मन्यन्ते । तथात्वेऽकृत्स्नत्वमसर्वगतत्वं जीवस्य स्यात् । तथा घटादिवदनित्यत्व प्रसज्जेत । किंच शरीराणामनवस्थितपरिमाणत्वान्मनुष्यशरीरपरिमाणो जीवः केनचित्कर्मणा गजशरीरं प्राप्तो न कृत्स्न गजशरीर व्याप्नुयात् । पिपीलिकाशरोर प्राप्नुवन्न तन्छरीरे संमीयेत । तस्माजी- वस्य शरीरपरिमाणत्वमयुक्तम् ॥ ३४ ॥ न च पर्यायादयविरोधी विकारादिभ्यः ॥ ३५॥ नच पर्यायेणाप्यवयवोपचयापचयाभ्यां तत्तद्देहपरिमाणत्वमप्यविरोधेनोपपादयितुं शक्यते। कुतः । विकारादिभ्यः । विकारादिदोषप्रसङ्गादित्यर्थः । अवयवोपचयापचयाङ्गीकारे बिक्रि- यावत्त्वप्रसङ्गस्ततोऽनित्यत्वप्रसङ्गस्तश्च बन्धमोक्षाभ्युपगमो वाध्येत । तस्मान्न पर्यायेणोपचयाप- चयाभ्युपगम आत्मन आश्रयणीयः ॥ ३५॥ प्रसक्त
द्वितीयः पादः ]
ब्रह्मसूत्रवृत्तिः।
१०७
अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ ३६ ॥ (६)
अपि चान्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वमिष्यते जैनैस्तद्वत्पूर्वयोरप्या-
द्यमध्यमयोर्जीवपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषोऽवयवोपचयापचयरूपविशेपाभावः प्रसज्येते.
त्यर्थः । अन्त्यपरिमाणस्योत्पत्तिमत्त्वे नित्यत्वं न सभवतीति पूर्वकालेऽपि तदेवाङ्गीकर्तव्यम् ।
न परिमाणान्तरम् । ततश्च यच्छरीरे मोक्षस्तच्छरीरपरिमाण एव सर्वदाऽऽत्मेति निश्चयान्नाव-
यवोपचयापचयादिना गजमशकानुगुणत्वोपपादन युक्तम् । तस्मादार्हतमतमसगतमित्यु-
पेक्षितव्यम् ॥ ३६ ॥ (६)
पत्युरसामञ्जस्यात् ॥ ३७॥
पूर्वाध्यायस्योपान्त्याधिकरणे जगतो निमित्तमुपादानं चेश्वर इति श्रुतिप्रमाणवलाद्यदुक्तं
तदेतदसहमानास्तार्किकाः शैवादयः सांख्ययोगव्यपाश्रयाः प्रत्यवतिष्टन्ते । ते खल्वेव-
माहुः-प्रधानपुरुषयोरधिष्ठाता केवल निमित्तकारणमीश्वर इति स्वप्रक्रियानुसारेण वर्णयन्ति ।
तत्र माहेश्वराः प्रकृतिपुरुपेश्वरा इतरेतरविलक्षणा इति मन्यन्ते । माहेश्वराणामयमधिको
विशेपः । कार्यकारणयोगविधिदुःखान्ताः पञ्च पदार्थाः पशुपतिनेश्वरेण पशुपाशविमोक्षायो-
पदिष्टाः । अतः पशुपतिरीश्वरो निमित्तकारणमिति । अन्येऽपि केचनानन्तकल्याणगुणपूर्णः
सर्वशब्दवाच्यः स्वतन्त्री विष्णुरेव जगत्कारणमिति वदन्ति निमित्तकारणमेव नतूपादानमि-
त्येव तेषां सिद्धान्तः । एते भाष्यानुक्ता अपि प्रसङ्गादुक्ताः । तथाचैतेपां वादिनां मतेषु
यथा कुलालोऽनुपादानभूतो मृत्पिण्डदण्डचक्रादीनि साधनानि नियच्छन्कर्ता भवति
तथा तटस्थ ईश्वरः सर्वसाधनानि नियच्छन्कर्ता भवतीति प्राप्ते ब्रूमः-पत्युरसामञ्ज-
स्यादिति । पत्युरीश्वरस्य सर्वाधिष्ठातृत्वेन तटस्थकारणत्वमेव नतूपादानत्वमिति नोपपद्यते ।
कस्मात् । असामञ्जस्यात् । केवलनिमित्तत्वे वैषम्यनैपुण्यदोपद्वयस्य दुष्परिहरत्वमेवासामञ्जस्य
तस्मादित्यर्थः । प्राणिकर्मापेक्षत्वाददोष इति चेन्न । कर्मेश्वरयोः प्रवर्तयितृत्वेऽन्योन्याश्रय-
दोषप्रसङ्गात् । कथ तर्हि त्वया परिहृतो दोष इति चेत् । प्राणिकर्मसापेक्षत्वादिति ब्रूमः ।
तथात्वे श्रुतयोऽस्माकं प्रमाणं त्वयाऽप्यन्ततो गत्वा श्रुतयश्चेदङ्गी क्रियन्ते तर्हि तटस्थत्व परि-
त्याज्यं स्यात् । ' सोऽकामयत बहु स्यां प्रजायेय ' [ छा० ६।२ । ३] इत्यादिश्रु-
तीना ब्रह्मणो विर्तांपादनत्वप्रतिपादिकानां विरोधात् । तस्मान्न युक्तस्तटस्थेश्वरवादः ।
यत्तु परेणोक्तम्-पत्युरज्ञजनप्रसिद्धेश्वरस्य जगत्कारणत्वं न युक्तम् । पारतन्त्र्यादिदोषग्रस्त-
त्वेनासामञ्जस्यादिति तदसत् । ईश्वरद्वेपप्रयुक्तत्वेन श्रुत्यसंमतत्वात् । तन्मतखण्डन तत्त्व-
कौस्तुभेऽनुसधेयम् कथ तर्हि पाशुपतमतं त्वया नोपादीयत इति चेत् । साक्षाद्विष्णोः
कपिलस्य बुद्धस्य च मत यथा नोपादीयते तद्वदित्यवगच्छ ॥ ३७॥
१०८ हरिदीक्षितकृता- [द्वितीयाध्याये- संबन्धानुपपत्तेश्च ॥ ३७॥ पुनरप्यसामञ्जस्यम् । नहि प्रधानपुरुषव्यतिरिक्त ईश्वरः संबन्ध विना न प्रधानपुरुपावी. शीत । न तावत्संयोगलक्षणः संबन्धः संभवति । प्रधानपुरुषेश्वराणां व्यापकत्वन्निरवय- वत्वाच्च । नापि समवायलक्षणस्तेषामयुतसिद्धत्वाभावात् । तस्मात्संबन्धाभावान्नाधिष्ठातृत्वसं- भवः । सिद्धान्ते तु तादात्म्यसबन्धस्य सत्त्वान्नानुपपत्तिः । अपिचाऽऽगमबलेन ब्रह्मवादी कारणादिस्वरूपं निरूपयति न तस्य यथादृष्ट सर्वमभ्युपगन्तव्यम् । परस्य तु दृष्टान्तबलेन कारणादिस्वरूपं निरूपयतो यथादृष्टमेव सर्वमभ्युपगन्तव्यमिति तस्मादनुपपन्नो निमि- त्तकारणश्वरवादः ॥ ३८ ॥ अधिष्ठानानुपपत्तेश्च ॥ ३९॥ अधिष्ठितिरित्यधिष्ठानम् । नाप्रत्यक्षं रूपादिहीनं च प्रधानमीश्वरस्याधिष्ठेयं संभवति । कुम्भकारस्तु प्रत्यक्षानि मृदादीन्याधिष्ठाय प्रवर्तयति । तथा न सभवतीश्वरस्य । अतोऽधि- ष्ठानानुपपत्तेश्चेश्वरनिमित्तकारणवादोऽनुपपन्नः ॥ ३९ ॥ करणवञ्चेन्न मोगादिभ्यः ॥४०॥ ननु यथेन्द्रियादेः करणस्याप्रत्यक्षत्वेऽपि चेतनस्य जीवस्याधिष्ठेयत्वमस्ति तथा प्रधाना- देरपीश्वराधिष्ठेयत्वमस्त्विति चेन्न । कुतः । भोगादिभ्य.। भोगादिप्रसङ्गादित्यर्थः । करणग्रा- मस्याधिष्ठातृजीवभोगसाधनत्वात्तदधिष्ठेयत्वमङ्गी क्रियते । तद्वत्प्रधानादेरपीश्वराधिष्ठेयत्व ईश्वर- भोगसाधनत्वप्रसङ्गः । आदिशब्देन ससारिणामिवेश्वरस्यापि संसारधर्मा अपि प्रसज्जेरन् । सूत्रद्वयस्यापरा व्याख्या अधिष्ठानानुपपत्तेश्च' । लोके साधिष्ठानो हि राजा राष्ट्र- स्येश्वरो दृश्यते । साधिष्ठानः सशरीर इत्यर्थः । तथेश्वरस्यापि शरीरमङ्गीकर्तव्यम् । तच्च न संभवति । प्राक्सृष्टेः शरीरस्यासभवात् । 'करणबन्चेन्न भोगादिभ्यः ' । करणानी- न्द्रियाण्यस्य सन्तीति करणवच्छरीर तदीश्वरस्य नोपपद्यते । कुतः, भोगादिभ्यः । शरीरवत्त्वे सतीश्वरस्य जीववद्भोगादिप्रसङ्गादीश्वरस्याप्यनीश्वरत्वं प्रसज्जेत ॥ ४० ॥ अन्तवस्थमसर्वज्ञता वा ॥४१॥ (७) किंच प्रधानपुरुषेश्वरा अनन्ता इत्यभ्युपगम्यन्ते पूर्वोक्तवादिभिः । तान्प्रतीदं प्रष्टव्यम् । सर्वज्ञेनेश्वरण प्रधानस्य पुरुषाणामात्मनश्चयत्ता ज्ञायते न वा । आये विकल्पे सर्वेषामन्त- वत्त्वादनित्यता स्यात् । अन्त्ये विकल्पे सर्वज्ञतेश्वरस्य भज्येत । तव मते कथमिति चेत् । न वय युक्त्या सर्वज्ञत्वमीश्वरस्य ब्रूमः । किं तर्हि श्रुतिप्रमाणेन ब्रूमः । यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः' [मुण्ड० १।९] इत्यादिश्रुतय ईश्वरस्य सर्वज्ञतायां प्रमाणम् । सर्वज्ञसर्ववित्पदाभ्यां स्वस्मिन्नध्यस्तं सर्वं जानाति परं तु न तत्सर्व मिथ्येति वेत्ती[ति] प्रकटीकृतोऽयमभिप्रायः । यद्वा सर्व जानाति परं त मर्वमनन्तमिति वेत्ति ।
' द्वितीयः पाद.] ब्रह्मसूत्रवृत्तिः। १०९ अहमप्ययं ब्रवीमीति चेत् । तर्हि युक्तिपथं विहाय श्रौतं पन्थानमाश्रयस्व । तस्मादसंगत- स्तार्किकादिपरिगृहीत ईश्वरनिमित्तकारणवादः ॥ ४१ ॥ (७) उत्पत्त्यसंमवात् ॥ ४२ ॥ एवं केवलनिमित्तेश्वरकारणवाद प्रत्याख्यायेदानी पाश्चरात्रिकाणां भागवतानां मतं प्रत्या- ख्यायते । तत्र भागवता मन्यन्ते-भगवानेको वासुदेवो निरञ्जनो ज्ञानस्वरूपः परमार्थ- तत्त्वम् । स जगत उपादानं निमित्तं च । तस्माच्च वासुदेवात्सकर्षणाख्यो जीवो जायते तस्मात्प्रद्युम्नाख्यं मनो जायते तस्मादनिरुद्धाख्योऽहकारो जायते। तदित्थं वाक्यार्थः सपद्यते- स एको वासुदेवश्चतुर्धाऽऽमानं प्रविभज्य प्रतिष्ठितः। वासुदेवव्यूहरूपेण सकर्षणव्यूहरूपेण प्रद्युम्नव्यूहरूपेणानिरुद्धव्यूहरूपेणेति । तेषां वासुदेवः परा प्रकृतिः । इतरे संकर्षणादयः कार्यरूपा इति । अत्रेद भाष्यम्-योऽसौ नारायणोऽव्यक्तात्परः प्रसिद्धः परमात्मा सर्वात्मा स आत्मानमनेकधा व्यूह्यावस्थित इति तन्न निराक्रियते । स एकधा भवति त्रिधा भवति' [ छा० ७ । २६ । २ ] इत्यादिश्रुतिभ्यः परमात्मनोऽनेकधाभावस्याधि- गतत्वात् । यदपि तस्य भगवतोऽभिगमनादिलक्षणमाराधनमजस्रमनन्यचित्ततयाऽभिप्रेयते तदपि न प्रतिषिभ्यते । श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात् । यत्पुनरिदमुच्यते वासुदेवात्संकर्षण उत्पद्यते संकर्षणाच प्रद्युम्नः प्रद्युम्नाच्चानिरुद्ध इत्यत्र ब्रूमः-न वासु- देवसंज्ञकात्परमात्मनः संकर्षणसंज्ञकस्य जीवस्योत्पत्तिः संभवत्यनित्यत्वादिदोषप्रसङ्गात् । उत्पत्तिमत्वे हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरनिति । तथात्वेऽनित्यत्वप्रसङ्गेन भगव. प्राप्तिलक्षणो मोक्षो न स्यात् । किंच कृतनाशाकृताभ्यागमः प्रसज्येत । पूर्वसृष्टौ यो जीवस्तस्मिन्नुत्पत्तिमत्त्वेन प्रलयदशायां विनष्टे सति तत्कृतयोधर्माधर्मयोरफलप्रदत्वेन विनाशः प्रसज्येत । अस्मिन्कल्प उत्पद्यमानस्य नूतनजीवस्य धर्माधर्मयोः पूर्वमननुष्ठितयोः सतोरिह सुखदुः :खप्राप्तिर्भवतीत्यकृताभ्यागमः प्रसज्येत । प्रतिषेधयिष्यति च बादरायणाचार्यों जीव- वस्योत्पत्तिं ' नाऽऽत्माऽश्रुतर्नित्यत्वाच ताभ्यः [ ब्र० सू० २ । ३ । १७ ] इति । एतामेवानुपपत्तिमाशङ्कयार्धपाञ्चरात्रिकैर्वासुदेवादयश्चत्वारो हरेरवतारा अन्यूनाधिकगुणा इति प्रतिपादितं तदपि वासुदेवो जगत उपादानं निमित्तकारणं चेति प्रतिपादकपञ्चरात्रस्मृति- विरुद्धम् । अत एव ते धर्माः पाश्चरात्रिका उच्यन्ते यथार्धवैनाशिकास्तद्वत् ॥ ४२ ।। न च कर्तुः करणम् ॥ ४३ ॥ किंच कर्तुजीवात्करणमुत्पन्नमिति यदुक्तं तन्नोपपद्यते । देवदत्तादेः कर्तुः परश्वादिकर- णस्योत्पत्त्यदर्शनात् । नचास्मिन्नर्थे श्रुतिरस्ति यद्वासुदेवात्संकर्षणो जीव उत्पन्नस्तस्मात्प्रद्यु- नाख्यं मन उत्पन्न तस्मादनिरुद्धाख्योऽहंकार उत्पन्न इत्यभिधात्री ॥ ४३ ॥ ..
- । हरिदीक्षितकृता- [ द्वितीयाध्याये- विज्ञानादिमावे वा तदप्रतिषेधः॥४४॥ यद्येतद्दोषपरिहाराय संकर्षणादयः सर्वेऽपीश्वरा एव विज्ञानैश्वर्यबलशालिनोऽभ्युपगम्यन्ते तथाऽपि तदप्रतिषेधः । उत्पत्त्यसंभवदोषस्यापरिहारः प्रकारान्तरेण स एव दोषोऽत्रापि लगतीत्यर्थः । तथाहि-यदि परस्परभिन्ना एवैते वासुदेवादयस्तुल्यधर्माणोऽङ्गी क्रियरंस्तदाऽ- नेकेश्वरकल्पनानर्थक्यमेकेनैवेश्वरेण कार्यसिद्धेः । अथोच्येतैकस्य भगवत एते चत्वारो व्यूहा- स्तुल्यधर्माण इति । तथाऽप्युत्पत्त्यसंभवो दोषस्तदवस्थ एव । नहि वासुदेवात्संकर्षणस्यो- त्पत्तिः संभवति । एवं प्रद्युम्नानिरुद्धयोरपि । अन्योन्यातिशयाभावात् । मृद्घटादेरन्योन्याति- शयवत एव कार्यकारणभावदर्शनात् । वासुदेवादिषु तारतम्यस्य तैरनङ्गीकारात् । अङ्गी- कारे तु प्रागुक्त उत्पत्त्यसभव इत्यभिप्रायः । अत्र भाष्यकारा आहुः-नचैते भगवद्व्यूहा- श्चतुःसख्यायामेवावतिष्ठेरन् । ब्रह्मादेः स्तम्बपर्यन्तस्य समस्तस्यैव जगतो भगवढ्यूहत्वाव- गमादिति ॥ ४४ ॥ विप्रतिषेधाच ॥४५॥ (८) भागवतर्ज्ञानादीनामात्मगुणत्वं कचिदुक्तं कचिच्च ज्ञानेश्वर्यशक्तिबलवीर्यतेजास्यात्मन एव गुणा भगवतो वासुदेवस्येति ज्ञानाद्यात्मकत्वमुक्तमित्येको विप्रतिषेधो वेदविप्रतिषेधश्च । चतुषं वेदेषु परं श्रेयोऽलब्धा शाण्डिल्य इदं शास्त्रमधिगतवानित्यादिवेदनिन्दादर्शनात् । तस्माच्छृतिविरोधस्य स्वयमेवाङ्गीकृतत्वादिदमसगतं पश्चरात्रम् । इति द्वितीयाध्यायस्य द्वितीयः पादः । अथ तृतीयः पादः। इतः परं पादद्वयेन नानाशाखागतोत्पत्तिवाक्यानां ब्रह्मोपादनत्वसमन्वयस्य च विरोधः परिहियते । तथा च भाष्यम्-सर्ववेदान्तगतसृष्टि श्रुत्यर्थनिर्मलत्वाय परः प्रपञ्च आरभ्यते । तदर्थनिर्मलत्वे च फलं यथोक्ताशङ्कानिवृत्तिरेव । तत्र प्रथमं तावदाकाशमाश्रित्य चिन्त्यते किमस्योत्पत्तिरस्त्युत नेतीति । न वियदश्रुतेः॥१॥ आकाशं नोत्पयते । कुतः । अश्रुतेः । उत्पत्तिप्रकरणेऽस्योत्पत्तिर्न श्रूयते तस्मादित्यर्थः। छान्दोग्ये हि- सदेव सौम्येदमन आसीदेकमेवाद्वितीयम् ' [छा० ६ । २।१] इति सच्छब्दवाच्य ब्रह्म प्रकृत्य ' तदैक्षत ' ' तत्तेजोऽसृजत ' [ छा० ६ । २।३ ] इति च पञ्चानां भूतानां मध्यमं तेज आदिकृत्वा त्रयाणां तेजोबन्नानामेवोत्पत्तिः श्रयते ।
, सृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। १११ श्रुतिश्च नः प्रमाणमतीन्द्रियार्थज्ञानोत्पत्तौ । नचात्र श्रुतिरस्त्याकाशोत्पत्तिप्रतिपादिनी । तस्मान्नास्त्याकाशस्योत्पत्तिरिति शङ्कासूत्रम् ॥ १ ॥ पुनरपि शङ्कासूत्रम्- अस्ति तु ॥२॥ तुशब्दः पक्षान्तरपरिग्रहे । छान्दोग्य आकाशोत्पत्त्यश्रवणेऽपि तैत्तिरीयके ' सत्यं ज्ञानमनन्त ब्रह्म' [ तै० २ । १ । १ ] इति प्रकृत्य ' तस्माद्वा एतस्मादात्मन आकाशः सभूतः ' [ तै० २ । १ । १] इति तदुत्पत्तिश्रुतिरस्तीत्यर्थः। ततश्च श्रुत्योर्विप्रतिषेधः । कचित्तेजःप्रमुखा सृष्टिः कचिदाकाशप्रमुखेति । अतः क्वचित्तेजसः साक्षाद्ब्रह्मोपादानकत्वं श्रूयते ' तत्तेजोऽसृजत ' [ छा० ६ । २ । ३ ] इति क्वचिदाकाशस्येति । तत्र प्रथम छान्दोग्ये तेजस उत्पत्तिरवगम्यते । तैत्तिरीयके चाssकाशस्य । नचोभयोः प्रथमजत्वं संभवति । एवं श्रुत्योः परस्परविरोधादप्रामाण्यम् । एवमुत्तरत्र विरोधादप्रामाण्यमुन्ने- यमिति ॥ २ ॥ अस्मिश्रुतिविरोधे कश्चिदाह- गौण्यसंभवात् ॥ ३॥ नास्त्याकाशस्योत्पत्तिः । अश्रुतेरेव । आत्मन आकाशः संभूतः ' [ तै० २।१ । १] इति वियदुत्पत्तिवादिनी श्रुतिगौणी भवितुमर्हति । कुतः । असंभवात् । आकाशो- त्पादकस्य समवाय्यसमवायिनिमित्ताख्यकारणत्रयस्य दुःसंपादत्वादित्यर्थः । न ह्यस्ति काणभुजे मते. कारणत्रयाते कार्यद्रव्योत्पत्तिरिति । किंचोत्पत्तिमतां च पृथिव्यादीनां कार्याणां पूर्वोत्तरकालयोर्विशेषः सभाव्यते । पूर्व मृत्पिण्डोऽभूदिदानी घट इत्यादिः । आकाशस्य तु न पूर्वोत्तरकालयोर्विशेषः सभाव्यते पूर्वमनवकाशमच्छिद्रं बभूवेदानी सच्छिद्र सावकाशमिति । तस्माद्वा एतस्मादात्मन आकाशः संभूतः ' [ तै० २ । १ । १] इति जनिश्रुतिर्घटाकाशो मठाकाश इतिवदौणी द्रष्टव्या ॥ ३ ॥ शब्दाच ॥४॥ शब्दादपि वियन्नोत्पद्यते । वायुश्चान्तरिक्षं चैतदमृतम् । [बृ० २ । ३ । ३] ' आकाशवत्सर्वगतश्च नित्यः । इत्याकाशेन ब्रह्मोपमिमानः शब्द आकाशस्य नित्यत्वं सर्वगतत्वं चास्तीति सूचयति । तस्मान्नित्यमेवाऽऽकाशम् ॥ ४ ॥ नन्वेकस्य संभूतशब्दस्याऽऽकाशे गौणत्वं तेजःप्रभृतिषु मुख्यत्वमित्येतद्विरुद्धमत आकाशः संभूत इत्यत्रापि मुख्यत्वमेवेत्याशड्क्याऽऽह- .. १ १ लिखितपुस्तके क्षे चाम ।
१ [तै० ११२ हरिदीक्षितकृता- [द्वितीयाध्याये- स्याञ्चैकस्य बह्मशब्दवत् ॥५॥ एकस्यापि संभूतशब्दस्य विषयभेदाद्गौणत्वं मुख्यत्वं च स्याद्रह्मशब्दवत् । यथा तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्म ० ३ । २] इत्यस्मिन्नधिकारऽनादिषु ब्रह्मशब्दो गौण आनन्दे मुख्यस्तथाऽत्रापीति । न चैवमद्वैतश्रुतिव्याकोप इति वाच्यम् । स्वकार्यापेक्षया तदुपपत्तेः । तदाहुर्भाष्यकृतः-नच नभसाऽपि द्वितीयेन सद्वितीय ब्रह्म प्रसज्यते । लक्षणान्यत्वनिमित्तं हि नानात्वम् । न च प्रागुत्पत्तेब्रह्मनभसोर्लक्षणान्यत्व. मस्ति । क्षीरोदकयोरिव संसृष्टयोर्व्यापित्वामूर्तत्वादिधर्मसामान्यात् । सर्गकाले तु ब्रह्म जगदुत्पादयितुं यतते स्तिमितमितरत्तिष्ठति । तेनान्यत्वमवसीयत इत्यादि । तस्माद्भाक्त नभसः संभवश्रवणमिति ॥ ५॥ इमामाकाशनित्यत्ववादिनी पञ्चसूत्रीमेकदेशिमतेन प्रवृत्तां दूषयति- प्रतिज्ञाहानिरव्यतिरेकाच्छब्वेभ्यः ॥६॥ येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् ' [छा० ६।१ । ३ ] इति । ' कस्मिनु भगवो विज्ञाते सर्वमिद विज्ञातं भवति ' [मु० १ । १ । ३ ] इति । 'आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्व विदितम् ' [ बृ० ४ । ५। ६] इत्येवरूपा प्रतिज्ञा प्रतिवेदान्तं जागर्ति । तस्याः प्रतिज्ञाया अहानिस्तर्हि स्याद्यदि कृत्स्नस्य जगतो ब्रह्मणः सकाशादव्यतिरेकः स्यात् । व्यतिरेके हि सत्येकविज्ञानेन सर्व विज्ञायत इतीयं प्रतिज्ञा हीयेत । स चाव्यतिरेको व्योमादेब्रह्मकार्यत्वे मृद्धटन्यायेनोपपाद- यितुं सुशको नान्यथा । शब्दभ्यश्च प्रतिज्ञासिद्धिरवगम्यते । ते च शब्दाः ' ऐतदात्म्य. मिदं सर्वम् ' [ छा० ६ । ८ । ७ ] ' सर्वं खल्विदं ब्रह्म ' [ छा० ३ । १४ । १] ब्रह्मैवेदममृतं पुरस्तात् ' [मु० २।२ । ११ ] इत्यादयः । कार्यकारणयोर्भेदे प्रयो- गश्च । आकाशो जायते विभक्तत्वाद्घटवत् । नचासिद्धो हेतुः । वाय्वादिवलक्षण्यस्याss- काशे प्रसिद्धत्वात् । नापि ब्रह्मण्यनैकान्तिकत्वम् । सर्वात्मकस्य ब्रह्मणः कस्माचिद्विभक्त. त्वेन दुर्भणत्वात् । तेन जनिश्रुतिरनुगृहीता च भवति । यदुक्तमश्रुतेन वियदुत्पद्यत इति तदयुक्तम् । वियदुत्पत्तिविषयश्रुत्यन्तरदर्शनादजनिश्रुतीनां वियदुपादानब्रह्मपरत्वात् । नाप्याकाशतेजसोः प्राथम्यप्रतिपादकश्रुत्योर्विरोधः । छान्दोग्यवाक्ये तैत्तिरीयके श्रुताकाशो- त्पत्तेरुपसंहारात्-आकाशं वायुं च . सृष्ट्वा तेजोऽसृजतेति । यत्तु कारणत्रितयासंभव इत्युक्तं तदसत् । आरम्भवादे त्रितयापेक्षायामपि विवर्तवादे तदनपेक्षत्वात् । न चैकाद्वि- तीयश्रुतिकोपो भवति । क्षीरोदकवद्ब्रह्मनभसोयतिरेकोपपत्तिः (१) । आकाशः संभूतः' [ तै० २।१] ' सर्व खल्विद ब्रह्म तज्जलानिति' [छा० ६ । १४ । १ ] इत्यादिश्रुतिविरोधप्रसङ्गात् । तदुक्त भाष्यकृद्भिः-- तस्मादशेषवस्तुविषयमेवेदं सर्वविज्ञानं तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः । ११३ सर्वस्य ब्रह्मकार्यतापेक्षयोपन्यस्तमिति द्रष्टव्यमिति । यदुक्तं विभुत्वादाकाशं नित्यमिति । तदसत् । 'पादोऽस्य विश्वा भूतानि ' [ छा० ३ । १२ । ६ ] इति श्रुतेः । तस्मादेतेभ्यो हेतुभ्यो ब्रह्मणः कारणादाकाशमुत्पद्यते- यदुक्तं गौप्यसंभवादिति तन्निराकरोति- यावद्विकारं तु विभागो लोकवत् ॥ ७॥ (१) तुशब्दोऽसंभवाशङ्कानिवृत्त्यर्थः । यावद्विकार विकारमभिव्याप्य विभागो वर्तत इत्यर्थः। लोकवदिति दृष्टान्तः । लोक्यत इति लोको घटादिस्तद्वत् । तथाचायमर्थः-आकाशो- त्पत्तावसंभवाशङ्का न कार्या । यतो यावत्किंचिद्विकारजातं दृश्यते घटशरावादि बा कटक- केयूरकुण्डलादि वा तावानेव बिभागो लोके लक्ष्यते न त्वविकृतं मृदादि वा सुवर्णादि वा विभक्तं लक्ष्यते । विभागश्चाऽऽकाशस्य पृथिव्यादिभ्योऽवगम्यते तस्मात्सोऽपि विकारो युक्तः । एतेन तार्किकाणां नित्यत्वेनाभिमतानामात्माभिन्नानां कार्यत्व व्याख्यातम् । नन्वात्माऽपि व्योमादिभ्यो भिन्न इति सोऽपि घटादिवत्कार्यन्वं किमिति नाऽऽनुयादिति चेन । 'आत्मन आकाशः सभूतः' [तै० २।१] इति श्रुतिवत्तदुत्पत्तिश्रुतेरभावात् । किंचाऽऽत्मनोऽपि कार्यत्वेऽनवस्था स्यात् । ततश्च शून्यवादः प्रसज्येत । अत एवं आत्मा वा इदमेक एवान आसीत् ' [ तै० १ । १ ] इत्याद्याः श्रुतयो विकारजाता- पागात्मसत्त्वमाहुः । विस्तरस्तु भाष्ये द्रष्टव्यः । न वियदश्रुतेः ' [ ब्र० सू० २। ३ । १ ] इत्यादिसूत्रपञ्चकेनाऽऽकाशादीनामुत्पत्तिमत्त्वमनुत्पत्तिमत्वं चास्तीत्यत्र भाल्लवेय- श्रुतिः प्रमाणत्वेनोक्ता केनचिदर्धपाञ्चरात्रिकेण तन्नाऽऽदरणीयम् । तत्खण्डनं तत्त्वकौस्तुभे द्रष्टव्यम् ॥ ७॥ (१) एतेन मातरिश्वा व्याख्यातः ॥८॥ (२) अतिदेशोऽयमेतेनेति । वियद्व्याख्यानेन मातरिश्वाऽपि व्याख्यातः । अत्रापि संशयपूं- र्वपक्षसिद्धान्ताः पूर्ववद्योजनीयाः । वायुर्नित्यो बा न वेति सशयः । तत्र नित्य इति ताव- प्राप्तम् । कुतः । बृहदारण्यके–' सैषाऽनस्तमिता देवता यद्वायुः [बृ० १ । ५। १] इति वायोर्विनाशप्रतिषेधात् । उत्पत्तिमत्त्वे च तदयोगात् । नच तैत्तिरीये ' आकाशा- द्वायुः' [ तै० २।१] इति तदुत्पत्तिः श्रूयते तत्कथ नित्यत्वं वायोरिति वाच्यम् । तस्या उत्पत्तेर्गौणत्वात् । अत एव च्छान्दोग्ये सृष्टिप्रकरणे तेजोबन्नानामेवोत्पत्तिरभिहिता । तस्माद्वायुर्नोपपद्यत इति पूर्वः पक्षः । अत्रोच्यते-छान्दोग्ये वायुजन्माश्रवणेऽपि गुणोपसं- हारन्यायेन तैत्तिरीयवाक्यस्येतरत्रोपसंहारे सति च्छान्दोग्ये वायुजन्माभ्युपेयम् । न हि क्वचिदश्रवणमन्यत्र श्रुतं निवारयतीति न्यायात् । बृहदारण्यके सैपेति वाक्यमग्न्यक्ष- याऽधिककालावस्थायित्वपरं न त्वनुत्पत्तिपरम् । यद्वाऽनस्तमितश्रुतिस्तु न मुख्या ।
.. आत्मा ११४ हरिदीक्षितकृता- [द्वितीयाध्याये- उपासनाप्रकरणे पठितत्वेन स्तुत्यर्थत्वात् । नच वायोराकाशकार्यत्वेन ब्रह्मण्यनन्तर्भावा- ब्रह्मज्ञानेन वायुज्ञानं न सिध्येदिति शङ्कनीयम् । पूर्वपूर्वकार्यविशिष्टस्य ब्रह्मण उत्तरोत्तर- कार्यहेतुत्वश्रवणाद्वियद्रूपापन्नस्यैव तस्य वायुकार्यत्वात् । तस्माद्वायुरुत्पद्यते ॥ ८ ॥ (२) असंमवस्तु सतोऽनुपपत्तेः ॥९॥ (३) वियत्पवनयोरसंभाव्यमानजन्मनोरप्युत्पत्तिमुपश्रुत्य स्यात्कस्यचिदेवं मतिर्ब्रह्मणोऽपि कुत- श्चित्कारणांदुत्पत्तिः स्यादिति तामाशङ्कामपनेतुमिदं सूत्रम् । छान्दोग्ये ' सदेव सौम्येदमन आसीत् ' [ छा० ६ । २ । १ ] इति श्रूयते । तत्सद्रूपं ब्रह्म जन्मवद्भवितुमर्हति कारणत्वादाकाशादिवत् । इति प्राप्ते ब्रूमः । सद्रूपं ब्रह्म न जायते । कुतः । तज्जनकस्य कारणस्यानुपपत्तेः । दुर्निरूपत्वादित्यर्थः । तथा हि न तावदसत्कारणं भवितुमर्हति । कथमसतः सज्जायेत' [ छा० ६।२।२] इति निषेधश्रवणात् । नापि सदेव सतः कारणम् । आत्माश्रयापत्तेः । नापि वियदादिकं सतः कारणम् । वियदादीनां ततः सतो जायमानत्वात् । या तु व्याप्तिर्यद्यत्कारणं तत्तज्जायत इति सा स वा एष महानज [बृ० ४ । ४ । २२ ] ' स कारणं करणाधिपाधिपो न चास्य कश्चिज्ज- निता न चाधिपः [श्वे० ६ । ९ ] इत्यादिश्रुतिभिर्बाध्यते । तस्माद्ब्रह्म न जायते ॥ ९॥ (३) तेजोऽतस्तथा ह्याह ॥ १०॥ (४) छान्दोग्ये ' तत्तेजोऽसृजत ' [ छा० ६ । २ । ३ ] इति तेजसो ब्रह्मोपादानकत्वं श्रूयते । तैत्तिरीयके — वायोरनिः' [ तै० २ । १] इतिवायूपादानकत्वम् । तत्र तेजोयोनिं प्रति श्रुतिविप्रतिपत्तौ सत्यां किं तावत्प्राप्तम् । ब्रह्मोपादानकमेव तेज इति । कुतः । सदेवेत्युपक्रम्य ' तत्तेजोऽसृजत ' इत्युपदेशात् । सर्वविज्ञानप्रतिज्ञायाश्च ब्रह्मप्रभ- वत्वे सर्वस्याविशेषेण ' तज्जलान् ' । छा० । ३ १४ । १] इति ब्रह्मप्रभवत्वश्रुतेश्चैकवा- क्याच्च । तस्माद्ब्रह्मजं तेज इति प्राप्ते ब्रूमः । तेजो वायोर्जायते । कुतः । तथा ह्याह- तैत्तिरीयके ' वायोरमिः' इति श्रुतेः । नाऽऽनन्तर्यपदापेक्षेयं पञ्चमी किं तु 'जनिकर्तुः प्रकृतिः ' [ पा० सू० १। ४ । ३० ] इत्यपादानपञ्चम्येव । ' उपपदविभक्तेः कारकविभक्तिर्बलीयसी ' इति वचनात् । नच साक्षाब्रह्मजन्यत्वाभावे सर्वविज्ञानप्रति- ज्ञाविरोधः । वायुभावापन्नब्रह्मजन्यत्वेऽपि तस्य ब्रह्मण उपादानत्वानपायात् । तदुक्तं भाष्यकृद्भिः-प्रतिज्ञाऽपि सद्वंश्यत्वमात्रमपेक्षते नाव्यवहितजन्यत्वमित्यविरोध इति ॥ १० ॥ (४) आपः ॥ ११ ॥ (५) छान्दोग्ये- तदपोऽसृजत' [छा० ६ । २ । ३ ] इति । तैत्तिरीयके .' अग्ने- रापः' [ तै०२ । १] इत्युभयश्रुत्योर्यद्यपि तेजसोऽपां जन्म श्रूयते तथाऽपि तदयुक्तम् ।
अत- तृतीयः पादः] ब्रह्मसूत्रवृत्तिः। ११५ निवर्त्यनिवर्तकयोरग्निजलयोर्विरुद्धयोर्हेतुहेतुमद्भावो न युक्त इति प्राप्तेऽभिधीयते । स्तथा ह्याह ' इति पूर्वसूत्रादनुवर्तते । अतस्तेजस आपो जायन्ते । कुतः । तथाह्याह तदपोऽसृजत'। अग्नेरापः ' इति च । तथा श्रुतिद्वयमाहेत्यर्थः । उक्तविरोधस्तु पञ्चीकृतयोरेव नापञ्चीकृतयोः । संतापाधिक्ये स्वेदवृष्टयुद्भवदर्शनाच्च तेजस आप उत्पद्यन्ते तथा च श्रुतिद्वयानुसारेण तेजोरूपापन्नाद्ब्रह्मणोऽपां जनिरिति न सर्वविज्ञानप्रति- ज्ञाभङ्गः ॥ ११ ।। (५) पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ १२॥ (६) छान्दोग्ये श्रूयते-'ता आप ऐक्षन्त बढ्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त [ छा० ६ । २ । ४ ] इति । तत्रान्नशब्देन पृथिव्युत्पद्यते किंवा व्रीहियवादिकमिति संशये सति किं तावत्प्राप्तम् । अन्नशब्देन व्रीहियवादिकमुच्यत इति । कुतः । तत्रैवान्न- शब्दस्य लोके प्रसिद्धेरिति प्राप्ते ब्रूमः । पृथिव्यत्रान्नशब्दार्थो विवक्षितः । कुतः । अधि- काराद्रूपाच्छब्दान्तराच्च । अधिकारस्तावत् । ' तत्तेजोऽसृजत ' ' तदपोऽसृजत ' इति च महाभूतविषयो वर्तते । तत्र क्रमप्राप्तां महाभूतं पृथिवीमुल्लुद्ध्याकस्मान्न ब्रीह्यादिपरि- ग्रहो न्याय्यः । रूपमपि ' यदग्ने रोहितं रूप तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तद- [छा०६।४ । १ ] इति श्रुतम् । कृष्णमेव रूपं पृथिव्यां बहुलमुपलभ्यते न ब्रीह्यादौ । शब्दान्तरमपि समानाधिकारे तैत्तिरीयके-' अद्भयः पृथिवी' इति महाभूत- स्यैवाझ्य उत्पत्तिः श्रूयते । तत्रैव पृथिव्यास्तु ब्रीह्याद्युत्पत्तिदृश्यते । 'पृथिव्या ओषधय ओषधीम्योऽनम् ' [ तै० २ । १ ] इति । या प्रसिद्धिरुक्ता साऽधिकारादिहेतुभिर्बा- ध्यते । किंच कार्यकारणयोस्नपृथिव्योरभेदविवक्षया तदुपपत्तिः । तस्मादन्नं पृथिवीति संबन्धः ॥ १२ ॥ (६) तपमिध्यानादेव तु तल्लिङ्गात्सः ॥ १३॥ (७) किं दियदादीनि महाभूतानि स्वयमेव स्वविकारान्सृजन्त्याहोस्विदीश्वराविष्टितानीति विशये सति स्वयमेव सृजन्तीति तावत्प्राप्तम् । कुतः । ' सकाशाद्वायुयोरग्निः' [तै० २। २। १ ] इत्यादिस्वातन्त्र्यश्रवणात् । नचाचेतनानां स्वतन्त्राणां प्रवृत्त्यनुपपत्तिः । 'तरेज ऐक्षत '' ता आप ऐक्षन्त' [छा० ६।२ । ३, ४ ] इति च भूता. नामपि चेतनत्व वणादित्येवं प्राप्ते ब्रूमः । तुशब्दः पूर्वपक्षनिरासार्थः । स एवेश्वरस्तत्रत- त्रावतिष्ठमानोऽन्तर्यामी तं ते विकारं सृजति । कुतः । तल्लिङ्गात् । तथा च श्रुतिः-' यः पृथिव्यां तिष्ठन्० पृथिवीमन्तरो यमयति ' [ बृ० ३ । ७ । ३ ] इत्याद्यन्तर्यामिब्राह्मणं साध्यक्षाणामेव भूतानां प्रवृत्तिं दर्शयति । तथा श्रुत्यन्तरमपि- सोऽकामयत बहु स्य प्रजायेय ' [तै० २।६।१] इति प्रकृत्य ' सच त्यच्चाभवत् ' इति ' तदात्मानं नस्य ११६ हरिदीक्षितकृता- [ द्वितीयाध्याये- स्वयमकुरुत ' [तै० २ । ६ । १, २ । ७ । १ ] इति च सत्यै ( तस्यै )व सर्वात्मभावं दर्शयति । यत्त्वीक्षणश्रवणमप्तेजसोः श्रुत तत्परमेश्वरावेशत एव न स्वतः ॥ १३ ॥ (७) विषयंयेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥ (८) भूतानामुत्पत्तिक्रमश्चिन्तितः । इदानी लयक्रमश्चिन्त्यते। उत्पत्तिक्रमेणैव लय इति शङ्का- निरासार्थस्तुशब्दः । ' यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्र- यन्त्यभिसंविशन्ति' [ तै० ३ । १ । १] इति भूतानामुत्पत्तिस्थितिप्रलया ब्रह्मा- यत्ता इति श्रूयन्ते । तत्रोत्पत्तौ — आत्मन आकाशः संभूतः ' [ तै० २। १ ] इत्यादिश्रुत्युक्तः क्रमोऽस्तु । प्रलयस्तु क्रमं विनाऽस्तु तस्याश्रुतत्वात् । यद्वोत्पत्तिक्रमस्य श्रुतत्वात्प्रलयस्यापि क्रममभिकाङ्क्षतः स एव स्यादिति प्राप्तेऽभिधीयते । उत्पत्तिक्रमा- द्विपर्ययेण प्रलयक्रमतो( मो) ब्रह्मणः सकाशाद्भवितुमर्हति । तथा हि लोके येन क्रमेण सोपानमारूढस्ततो विपरीतेन क्रमेयावरौहतीति दर्शनात् । अपि च दृश्यते मृदो जात घटकरकादिकं प्रलयकाले मृद्भावमप्येति । एवमद्भयो जातं हिमकरकादिकमब्भावमप्ये- तीति । अन्यथा प्रथमतः कारणे लीने सति निरुपादनानां कार्याणामवस्थानं प्रसज्येत । स्मृतावप्युत्पत्तिक्रमविपर्ययेणाष्ययक्रम उक्त:- ' जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते । [म० भार०१२।३४१।२९] इति । कारणाप्यये कार्यस्यावस्थानं न युक्तम् । कार्याप्यये तु कारणाबस्थानं युक्तं मृदादिष्वेवं दृष्टत्वादिति भाष्यम् । उत्पत्तिक्रमस्तु श्रुतावुक्तः । अप्ययस्तु श्रुतावनुक्तोऽपि, स्मृतियुक्ति- भ्यामनुसंधेय इति चशब्देन सूचयति । अत्र कश्चिदाह----' तदभिध्यानादेव तु तल्लि- ङ्गात्सः । ' ] ० २ । ३ । १३ ] स विष्णुः संहर्ता । कुतः । तदभिध्यानरूपा- लिङ्गात् । ' तस्याभिध्यानाद्योजनात्तत्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः' [ श्चे० १ । १०] इति हि श्रूयते । ततश्च संसारमोक्षस्य भगवदभिध्यानाधीनत्वेन तत्कर्तृत्वं लभ्यते । तथाचामादिभवभेत्तुर्विश्वसंहारसामर्थ्यमर्थसिद्धमित्याशयः । विपर्ययेण तु क्रमोऽत उपपद्यते च । प्रकृतानि भूतानि किमुत्पत्तिक्रमेण लीयन्ते व्युत्क्रमेणेति संशयः । अत एव हीदं पराक्रमादुत्पद्यते क्रमाद्विलीयते ' इति भालवेयश्रुतौ क्रमप्रतीतेः । अक्षरात्परमादेव सर्वमुत्पद्यते क्रमात् । व्युत्क्रमाद्विलयश्चैव तस्मिन्नेव परात्मनि ॥ इति चतुर्वेदशिखायां व्युत्क्रमप्रतीतैश्च । तत्र क्रमेण लय इति प्राप्तम् । लोके प्राये- पोत्पत्तिक्रमेण लयदर्शनात् । सिद्धान्तमाह-विपर्ययेणेति । व्यत्क्रमेऽपि क्रमशब्दोपपत्ते- रित्यर्थः । तथा च श्रुत्यन्तरम्- .
तृतीयः पादः] ब्रह्मसूत्रवृत्तिः। ११७ 'द्विविधः क्रम उद्दिष्टो व्युत्क्रमोऽनुक्रमस्तथा । सृष्टौ चान्यो लये चान्य इति वेदविदो विदुः' । तस्माच्छ्रुत्यविरोधेन भालवेयसिद्धेर्युक्तो लये व्युत्क्रम इति तदसत् । ' तस्याभिध्या- नात् ' [ श्वे० १ । १० ] इत्यस्याः श्रुतेः संपत्स्यमानस्य ध्यानसंप्रज्ञातासंप्रज्ञातसमाधि भिर्बौक्यप्रतिपादनपरत्वात् । 'मिथ्या जीवब्रह्मभिदा सर्व मिथ्या चराचरम् । दृश्यत्वाद्बाधितत्त्वाच्च भ्रमोऽयं रज्जुसर्पवत् ' ॥ इत्यादिभालवेयाद्यनेकश्रुतिवचनानां त्वयाऽनभ्युपगमान्मयाऽपि त्वत्पठितश्रुतीनामनगी. कारात् । इदं प्रमाणजातं त्वत्कल्पितमिति चेत् । भाल्लवेयादिश्रुतिभिः सिद्धान्तं कुर्वतस्त- वापीदं दूषणमपरिहार्यमिति दिक् । अन्तरा विज्ञानमनसी क्रमेण तल्लि- शादिति चेन्नाविशेषात् ॥ १५॥ (९) पूतानामुत्पत्तिप्रलयौ क्रमव्युत्क्रमाभ्यां भवत इति निरूपितम् । आत्मादिरुत्पत्तिः प्रलयश्चाऽऽत्मावधिरिति चोक्तम् । अथेदानी बुद्धिमनसोरुत्पत्तिश्चिन्त्यते । विज्ञानमनसी अन्तरा कस्मिंश्चिदन्तराले क्रमेणोत्पद्यते चक्षुरादिबाह्येन्द्रियैः सहेति वक्तव्यम् । कुतः । तल्लिङ्गात् । 'बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्' ॥ [क० ३ । ३ ] इति श्रुतौ तयोः सेन्द्रिययोर्विज्ञानमनसोः कचिदुत्पत्तेर्वक्तव्यत्वात् । यद्वा मुण्डक- 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुयॊतिरापश्च पृथ्वी विश्वस्य धारिणी ॥ मु० २।१।३ ] इति । अत्र प्राणादीनां वियदादिभ्यः पूर्व श्रूयमाणवादाकाशादकः पूर्वोक्तसृष्टिक्रमो भज्ये- तेति प्राप्तेऽभिधीयते । नायं दोषः । ' अन्नमयं हि सौम्य मन आपोमयः प्राणस्ते- जोमयी वाक् ' [छा० ६ । ५।४ ] इति प्राणादीनां भौतिकत्वश्रबणाद्भूतेष्वन्तर्भावेन पृथक्क्रमो नापेक्षितः । नच मुण्डकश्रुतिः क्रमवाचिनी । आकाशाद्वायु योरग्निः' [ तै० २ । १ । १ ] इत्यादाविव क्रमस्याप्रतीयमानत्वात् । केवलमुत्पत्तिमात्रं श्रूयते । तस्मान्नानया श्रुत्या पूर्वोक्तक्रमभङ्गोऽस्ति । तदुक्तं भाष्ये-यदि तावद्भौतिकानि कर- णानि ततो भूतोत्पत्तिप्रलयाभ्यामेवैषामुत्पत्तिप्रलयौ भवत इति न तयोः क्रमान्तरं मृग्य मिति ॥ १५ ॥ (९) ११० हरिदीक्षितकृता- [ द्वितीयाध्याये- चराचरव्यपाश्रयस्तु स्यात्तद्यपदेशो माक्त- स्तद्भावमावित्वात् ॥ १६ ॥ (१०) जीवस्याप्युत्पत्तिप्रलयौ स्यातां जातो देवदत्तो मृतो देवदत्त इति ब्यवहाराच्छास्त्रे जातकर्मादिसंस्कारोक्तेश्चेति शङ्कायां प्राप्तायामिदमधिकरणम् । तुशब्दः शङ्कानिरासार्थः । चराचरव्यपाश्रयः स्थावरजङ्गमशरीरविषयो जन्ममरणव्यपदेशो मुख्यः । स तु जीवे आक्तः स्यात् । कुतः । तद्भावभावित्वात् । तस्य शरीरस्य जन्ममरणयो वे सति शरीरयोगेगा ते उभे जीवे उपचर्येते इत्यर्थः। तदुक्तं भाष्ये-न हि शरीरसंबन्धादन्यत्र जीवो जातो मृतो का केनचिदुपलक्ष्यत इति । जातकर्मादिविधानमपि देहनिमित्तकमेव द्रष्टव्यम् । जीवस्य मुख्यजन्ममरणाङ्गीकारे कृतनाशाकृताभ्यागमौ प्रसज्जेयाताम् । तस्माज्जीवस्योत्पत्तिमरणे भात इति सिद्धम् ॥ १६ ॥ (१०) नाऽऽत्माऽश्रुतेनित्यत्वाच्च ताभ्यः ॥ १७॥ (११) योऽयं जीवाख्य आत्मा शरीरोन्द्रियसंघाताध्यक्षः सुखदुःखादिभोक्ता स' किं व्योमादिव- ब्रह्मण उत्पद्यतेऽथ वा ब्रह्मवदेव नोत्पद्यत इति विशये पूर्वपक्षस्तावदित्यं प्राप्तः । तथाहि 'यथाऽनेः क्षुद्रा विस्फुलिङ्गा व्युचरन्त्येनमेवैतस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मानो व्युच्चरन्ति ' [ बृ० माध्य० २।१ । २३] यथा सुदीतात्पावकाद्विरफुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षराद्विविधाः सौम्य भासः प्रजायते तत्र चैवापियन्ति ।[मुण्ड० २ । १।१] इत्या- दिश्रुतयो जीवालामुत्पत्तिप्रलयौ प्रतिपादयन्ति । तथात्व एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा नोपरुध्येत । जीवस्य ब्रह्मवरात्वान्तरत्वे तु प्रतिज्ञोपरुध्येत । तस्मादुत्पद्यन्ते जीवा इति प्राप्तेऽभिधीयते । जीवाला नोत्पद्यते । कुतः । अश्रुतेः । कचिदप्युत्पत्तिप्रकरणे. जीवोत्पत्वे- रश्रवणात् । ननु सचिश्वणमन्यत्र श्रुतं न वारयतीति चेत् । सत्यन् । ' यथाऽसर्विस्फु- लिङ्गाः ' इत्यादौ जीवोत्पतेरसंयव इति पूनः । कस्मात् । नित्यवाद ताभ्यः । चशब्दा- दजत्वादिभ्यश्च । ताप यः र का एष महानज आगाजरोऽभयोऽमृतो ब्रह्म ।' [वृ० ४ । ४ । २५] 'न जयते दियते वा विपश्चित् ।' [क० २ । १८ ] तत्सृष्ट्वा तदेवाजुमादिशत् ' [ ० २ । ६।१] ' हरजमिमास्तितो देवता अनेन जीवनाऽऽत्मनाऽनुप्रविश्य पामरूपे व्याकरवाणि । [ छा० ६ । ३ २] “स एष इह प्रविष्ट आ नखानेभ्यः । [बृ० १।४ । ७] सचमसि ।' [छा० ६। ८।७] ' अहं ब्रह्मास्मि ।' [१० १।४।१० ] ' पथमाला ब्रह्म सर्वानुभूः [बृ० २।५। १९ ] इत्येवमाधा नित्यत्ववादिन्यः प्रतिपादयन्ति जीवस्य नित्यत्वम् । अमिविस्फुलिङ्गश्रुतिश्चौपाधिकजन्माभिप्रायात्प्रवत्ता । अन्यथा कृतनाशादिदोषः प्रसज्येत । .
- . ताभ्यः । तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। औपाधिक एव जीवब्रह्मणोदो न वास्तव इति प्रोद्धृष्टमुपनिषत्सु । तस्मान्नैवात्मोत्पद्यते प्रलीयते चेति । विस्तरस्तु भाष्ये द्रष्टव्यः । अत्र कश्चिदाह परमात्मा लीयते न वेति संशये लीयत इति तावत्प्राप्तम् । तमसि निलीनः ' इति श्रुतेः । सिद्धा- न्तमाह-- नाऽऽत्माऽश्रुतेनिस्यत्वाच्च ताभ्यः।' परमात्मा न लीयतेऽश्रुतत्वात् । निलीनशब्दो ह्यपि हि तत्त्वपरः । एतस्मिंस्तमास निलीनः प्रकृति पुरुषं कालं चानुपश्यति । ' ' नैनं पश्यति कश्चन ' इति पैग्यश्रुतेश्च । 'नित्यो नित्यानां चेतनश्चेतनानाम् ' [क० ५ । १३ ] इत्यादिश्रुतिभ्यो नित्यत्वावधारणाच्चेति । तदसत् । य इत्था वेद स तमोऽन्धमप्येति' इति पैङ्ग्यश्रुतेर्वा- क्यशेषात् ॥ १७ ॥ (११) ज्ञोऽत एव ॥ १८॥ (१२) तार्किका मन्यन्ते सुषुप्तिमूर्छादिषु चैतन्याभावादचिद्रूपो जीवः । जागरणे चाऽऽत्ममनः- संयोगाचैतन्याख्यगुणो जायतेऽतो जीवो जड एवेति । तन्निरासार्थमिदमधिकरणम् । जीवश्चेतनः । कुतः । अत एव । चिद्रूपब्रह्माभेदादेव । औपाधिक एव तयोर्भेद इत्यस- कृदवोचाम । चिद्रूपस्यैव ब्रह्मणो जीवरूपेण प्रवेशश्रवणात् । नच चैतन्यं सुषुप्त्यादौ लुप्यते । तत्र साक्षित्वेनावस्थानात् । अन्यथा सुषुप्त्यादिपरामर्शायोगात् । कथं तर्हि सुषुप्त्यादौ द्वैताप्रतीतिरिति चेत् । द्वैतलोपादिति ब्रूमः । तथाच श्रुतिः-- कद्वै तन्न पश्यति पश्यन्वै तन पश्यति न हि द्रष्टुर्दृष्टेविपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्विती- यमस्ति ततोऽन्यद्विगतं यत्पश्येत् ' [बृ० ४ । ३ । २३ ] इति । अस्यायमर्थः- तत्र सुषुप्तौ किमपि न पश्यतीति यल्लोकैरुच्यते तदसत् । पश्यन्नेव जीवस्तदानीं न पश्यतीति तैन्त्यिोच्यो । कथं दर्शनमित्यत्र हेतुरुच्यते । द्रष्टुः साक्षिणो दृष्टानस्य विपरिलोपो न विद्यते विनाशरहितस्वभावत्वात् । अन्यथा निःसाक्षिकस्य लोपस्य वक्तु- मशक्यत्वात् । पयं तर्हि किका न पश्यन्तीति भ्रम इत्यत्र हेतुरुच्यते । ब्रह्मचैतन्याद्- द्वितीयं क्रियाकारकपलपेण विभक्तं जगन्नास्ति । तस्य स्वकारणे लीनत्वात् । अतो न पश्यन्तीति शैक्षिकानां अमः । तस्माचिद्रूपो जीवः । अत्र कश्चिदाह--जीव उत्पद्यते न वेति संशये नोत्पछले 'नित्यो नित्यानाम् ' [ क० ६ । १३ ] इति श्रुतेरिति पूर्व- पक्षं प्रापय्योत्पद्यत इति सिद्धान्तितम् । मित्यस्यापि जीवस्योपाध्यपेक्षयोत्पत्तिर्युत इ(ते)त्यत्र काषायणश्रुतियॊमसंहिता च प्रमाणत्वेनोपन्यत्ता तेन । तदसत् । सत्यप्रपञ्च- वादिनस्तस्य मते औपाधिक्युत्पत्तिरित्यस्यानुत्पत्तिपर्यवसायित्वात् । किंच ' तदाऽऽमानं सृजाम्यहम् ' [ भ० गी० ४ । ७] इत्यादिवचनाद्विष्णोरप्येवमुत्पत्तिः स्यात् । तथा १२० हरिदीक्षितकृता- [द्वितीयाध्यायें- च तदीयपूर्वाधिकरणं विरुध्येत । तथा च सुन्दोपसुन्दन्यायेन वे अप्पधि- करणे विनश्येताम् । किंच तदीयाः काषायणादिश्रुतयो व्योमसंहिता एवेति दिक् ॥ १८ ॥ (१२) उत्क्रान्तिगत्यागतीनाम् ॥ १९ ॥ इदार्नी किंपरिमाणो जीव इति चिन्त्यते । जीवोऽणुर्वा मध्यमपरिमाणो वा महापरि- माणो वेति संशयेऽणुपरिमाण इति तावत्प्राप्तम् । ' एषोऽणुरात्मा चेतसा वेदितव्यः । [मु० ३ । १ । ९] इत्यणुत्वश्रवणात् । स यदाऽस्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुत्क्रामति ।' [ कौषी० ३।३] [ कौषी० ३ । ३] 'ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति ' [ कौ० १ । २ ] इति । तस्माल्लोकात्पुनरेत्यस्मै लोकाय । [बृ० ४ । ४ । ६ ] इत्युत्क्रान्तिगत्यागतीनां श्रुतिभिः परिच्छिन्नत्वसिद्धेश्च । नित्यत्वेन मध्यमपरिमाणनिरासादणुत्वसिद्धिः ॥ १९ ॥ स्वात्मना चोत्तरयोः ॥ २०॥ चो हेत्वर्थः । उत्क्रान्तिः कदाचिदचलतोऽपि ग्रामस्वाम्यनिवृत्तिवदेहस्वाम्यनिवृत्त्या व्यवक. ल्प्येत । उत्तरे तु गत्यागती नाचलतः संभवतः । स्वात्मना कर्ता हि तयोर्गत्यागत्योः संबन्धो भवति । गमेः कर्तृस्थक्रियत्वात् । न ह्यनपसृत्य देहाद्गत्यागती स्याताम् । देहप्रदेशानां चोत्क्रान्तावपादानत्ववचनात् । ' चक्षुष्टो वा मूर्नो वाऽन्येभ्यो वा शरीरदेशेभ्यः । ४ । ४ । २ ] इति । तस्माच्छरीरादपसृतस्यैव गत्यागती भवतः ॥ २० ॥ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ।। २१ ॥ ननु जीवो नाणुः । कुतः । अतच्छ्रुतेः । अणुस्वविपरीतपरिमाणप्रतिपादकश्रुतेरित्यर्थः । ताश्च- स वा एष महानज आत्मां योऽयं विज्ञानमयः' [ बृ० ४ । ४ । २२] आकाशवत्सर्वगतश्च नित्यः' इत्यादिका इति चेन्न । कस्मात् । परस्यैवाऽऽत्मनः प्राधान्ये- न वेदान्तेषु वेदितव्यत्वेन प्रकृतत्वात् । ' योऽयं विज्ञानमयः ।। [ बृ० ४.१ ४ । २२ ] इति निर्देशः शास्त्रदृष्टया वामदेववद्र्ष्टव्यः । तस्मादणु वः ॥ २१ ।। स्वशब्दोन्मानाभ्यां च ॥ २२ ॥ किंच जीवोऽणुर्भवितुमर्हति । कुतः । स्वशब्दोन्मानाभ्याम् । स्वशब्दत्तापत् । गुरात्मा चेतसा वेदितव्यः' [मुं० ३।१।९] इति स्वस्य जीवस्याणुत्वश्रुतेः । उन्मानं परमात्मनः सकाशात्पृथक्कृत्य मानम् । वालाग्रशतभागस्य शतधाकल्पितस्य च । भागो जीवः स विज्ञेयः । [श्वे० ५। ९] इति । आरान मात्रों एवरोऽपि दृशः। [ श्वे० ५। ८ । इत्युन्मानं च तस्मादणु वः ॥ २२ ॥ [बृ० एमा- . .
तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। १२१ ननु जीवस्याणुत्वे सति जाहवीह्रदनिमनस्य सर्वाङ्गीणशैत्योपलब्धिर्न स्यात् । निदाघे च सर्वाङ्गीणतापोपलब्धिश्च न स्यादित्याशङ्क्योत्तरं पठति-- अविरोधश्चन्दनवत् ॥ २३ ॥ यथा चन्दनबिन्दुरेकदेशस्थोऽपि सर्वाङ्गीणं सुखं जनयत्येवमात्माऽप्येकदेशस्थः सर्वदेह. व्यापि सुखदुःखादिकारणीभूतशैत्यतापादिक जानाति । स्वक्च सर्वशरीरव्यापिनी । त्वगात्म- संबन्धस्यापि तथात्वात् । तस्मादणुर्जीवः ॥ २३ ॥ अवस्थितिवशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ २४ ॥ ननु चन्दनस्यैकदेशावस्थितत्वं प्रत्यक्षसिद्धमिति तथाविवस्यैव सर्वाङ्गीणसुखजनकलम- भ्युपेयते । जीवस्य तु न प्रत्यक्षसिद्धमेकदेशस्थत्वमिति सर्वाङ्गीणसुखानुपपत्त्याऽव्यापकत्व- मेव कल्प्यमिति चेन्न । जीवस्यापि हृद्यवस्थितिविशेषस्याभ्युपगमात् । 'योऽय विज्ञानमयः प्राणेषु हृअन्तर्योतिः पुरुषः' [६० ४ । ३ । ७] इत्यादिश्रुतेः । अतो दृष्टान्तदान्तिकयोर्न वैषम्यम् । यद्यपि स्वशब्दोन्मानसूत्रेणाणुत्वसाधनात्साम्यं सिद्धमेव तथाऽपि श्रुत्यन्तरोदाहरणार्थमिदं सूत्रम् ।। २४ ॥ ननु चन्दनस्य सावयवत्वात्सूक्ष्मावयवानां सकलदेहप्रसरणेन सर्वाङ्गीणसुखजनकत्वं भविष्यत्यतोऽस्तु जीवस्य निरवयवत्त्वात्कथं चन्दनसाम्यमित्यपरितोषात्प्रकारान्तरमाह- गुणाद्वा लोकवत् ॥ २५ ॥ चैतन्यगुणव्याप्तेर्वाऽणोरपि जीवस्य सकलदेहव्यापि कार्य न विरुध्यते । यथा लोके मण्यादेरेकदेशस्थस्यापि प्रभा गृहादिव्यापिनी व्यापकं कार्यं करोति तद्वत् ॥ २५ ॥ ननु ज्ञानस्य गुणत्वाद्गुणिव्यतिरेकेण कथमवस्थानं घटेत । न हि पटस्य शुक्लादिगुणः पटव्यतिरेकेणान्यत्र वर्तमानो दृश्यते । नच प्रदीपप्रभावदिति वाच्यम् । तस्या अपि. द्रव्य. वादिल्याशड्क्योत्तरमाह- ध्यतिरेको गन्धवत् ॥ २६ ॥ यथा कर्पूरा दि]गन्धस्य गुणस्यापि सतो गुणवद्व्यव्यतिरेकेणान्यत्रोपलब्धिस्तद्वज्ञान- स्यापीत्यविरोधः । न च गुणस्य गन्धस्य स्वाश्रयविश्लेषादर्शनात्सहैवाऽऽश्रयावयवैविश्लेष इति वाच्यम् । मूलद्रव्यक्षयप्रसङ्गात् । कर्पूरादौ क्षयो दृष्ट इति चेत् । न । श्रीखण्डघृतादौ तद्द- र्शनात् । गन्ध एवाऽऽघात इति लौकिकानुभवाच्च । रूपादिष्वाश्रयव्यतिरेकानुपलब्धेर्गन्ध- स्याप्ययुक्त आश्रयव्यतिरेक इति चेन्न प्रत्यक्षत्वादनुमानाप्रवृत्तेः । तस्माद्गुणस्या- भ्रयव्यतिरेको युक्तः ॥२६॥ S .. ~ , १२२ हरिदीक्षितकृता- [ द्वितीयाध्याये- तथा च दर्शयति ॥ २७ ॥ श्रुतिर्हृदयाश्रयत्वमणुपरिमाणत्वं चाऽऽत्मनोऽभिधाय तस्यैव- ' आ लोमभ्य आ नखा- प्रेभ्यः ' [छा० ८।८।१] इति चैतन्येन गुणेन सर्वशरीरव्यापित्वं दर्शयति ॥ २७ ॥ पृथगुपदेशात् ॥ २८ ॥ * प्रज्ञया शरीरं समारुह्यं ' [ कौ० ३ । ६ ] इति चाऽऽत्मप्रज्ञयोः कर्तृकरणभावेन पृथगुपदेशान्चैतन्यगुणेनेवास्य शरीरव्यापित्व गम्यते । तस्मादणुरात्मेति ॥ २८ ॥ एवं प्राप्ते ब्रूमः तद्गुणसारत्वात्तु तद्यपदेशः प्राज्ञवत् ॥ २९॥ नार्थे तुशब्दः । नाणु वः । परस्यैव ब्रह्मणो जीवरुपेणानुप्रवेशश्रवणात् । 'तत्त्वमसि' ' अहं ब्रह्मास्मि ' इति तादात्म्योपदेशाच्च । परमेव ब्रह्म जीव इत्यसकृदुक्तम् । परस्य च विभुत्वाज्ज्ञानस्वरूपत्वाच्च जीवोऽपि विभुर्ज्ञानस्वरूपश्च । तथा च भाष्यकृत आहुः-परस्य ब्रह्मणो विभुत्वमाम्नातं तस्माद्विभुर्जीवः । तथा च स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु ' [ बृ० ४ । ४ । २२ ] इत्येवं जातीयका जीवविषयका विभुत्व- वादाः श्रौताः स्माताश्च समर्थिता भवन्तीति । चैतन्य तु स्वरूपमेव जीवस्याग्नरिवौष्ण्यम् । कथं तबगुत्यादिव्यपदेश इत्यत्राऽऽह-तद्गुणसारत्वात्तव्यपदेश इति । तस्या बुद्धेर्गुणा- स्तद्गुणा इच्छाद्वेषसुखदुःखादयस्त एव सारः प्रधान यस्याऽऽत्मनः स तद्गुणसारस्तद्भावस्त- गुणसारत्वम् । तस्मात्तद्गुणसारत्वात्तव्यपदेशो जीवव्यपदेश इत्यर्थः। न हि बुद्धेर्गुणानन्तरेण केवलस्याऽऽत्मनः संसारित्वमस्ति बुध्धुपाधिनिमित्तो हि कर्तृत्वभोक्तृत्वादिलक्षणः ससार आत्मनो न स्वतः । प्राज्ञवत् । यथा प्राज्ञस्य परमात्मनः सगुणेषूपासनेषूपाधिसंबन्धादणी- यस्त्वादिव्यपदेशः । 'अणीयान्त्रीहेर्यवाद्वा' [छा० ३ । १४ । ३ ] ' मनोमयः प्राणमयः प्राणशरीरः सर्वगन्धः सर्वरसः सत्यकामः सत्यसंकल्पः ' [छा० ३ । १४ । २] इत्येवप्रकारस्तद्वत् । एवं बुद्धिपरिमाणेनास्य परिमाणव्यपदेशस्तदुत्क्रान्यादिभिश्चा- स्योत्क्रान्त्यादिव्यपदेशो न स्वतः । तथा च- वालाप्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चाऽऽनन्त्याय कल्पते ।। [श्वे० ५ । ९] इत्यपुत्वमौपाधिकं भवेत्पारमार्थिकं चाऽऽनन्त्यमिति । विस्तरस्तु भाष्यादवगन्तव्यः । तस्मान्नाणुर्जीव इति सिद्धम् । यत्तु कश्चिदाह-' ज्ञोऽत एव [ब्र० सू० २ । ३ । १८ ] इत्यादिभिः सूत्रैर्जीवस्याणुत्वं प्रतिपाद्य ' पृथगुपदेशात् ' [ब्र० सू० २ । ३ । २८ ] इति सूत्रेण जीवब्रह्मणार्भेदः सिद्धः । तथा च कौभिकश्रुतिः , तृतीयः पादः] बह्मसूत्रवृत्तिः। १२३ 'भिन्नोऽचिन्त्यः परमो जीवसंघात्पूर्णः परो जीवसघो ह्यपूर्णः । यतस्त्वसौ नित्यमुक्तोऽयं च बद्धस्तस्मान्मोक्ष तत एवाभिवाञ्छेत् ' ॥ इति । तस्माद्भिन एव जीवः । न चाभेदश्रुतेरप्रामाण्यप्राप्तिर्निविषयत्वादिति वाच्यम् । परमात्म- गुणसदृशानन्दादिगुणस्वरूपत्वेन जीवस्य गौण्या वृत्त्या ह्यभेदव्यपदेशोपपत्तेरिति तदसत् । स्वनिप्तमायो हि परः स्वतन्त्रस्तस्मादसौ नोच्यते नित्यमुक्तः । स एव जीवोऽविद्यया बन्धमेति तन्नाशे तु ब्रह्म सपद्यतेऽन्ते । मिथ्या भेदो ब्रह्मभावस्तु सत्यस्तस्माद्विद्वान्न प्रमाद्येत सत्यात् ॥ इति तस्या एव कौशिकश्चतेः । पूर्वश्रुतिस्तु व्यावहारिकभेदानुवादिनीति न, विरोधः । भविष्यत्पूर्ववचनमप्येवमिति दिक् ॥ २९ ॥ ननु बुद्धिसबन्धाद्यद्यात्मनः संसारित्व तर्हि कदाचिहुद्धिवियोगादसैसारित्वमप्ति स्यादि- त्याशझ्याऽऽह- यावदात्ममावित्वाचन दोषस्तदर्शनात् ॥३॥ मुक्तः पूर्व बुद्धिवियोगादसंसारित्वमात्मनः प्रसज्येतेत्युक्तदोषो न संभवति । कुतः यावदात्मभावित्वात् । यावदयमात्मा संसारी भवति यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते तावदस्य बुद्धया संयोगो न शाम्यतीत्यर्थः । कथमतदवम्यते तत्राऽऽह-तद्दर्श. ' योऽयं विज्ञानमयो मनोमयः प्राणेषु हृद्यन्तोतिः पुरुषः स समानः सन्नुभो लोकावनुसंचरति ध्यायतीव लेलायतीव ' (बृ० ४ । ३ । ७ ) इत्याद । तत्र विज्ञा- नमय इति बुद्धिमय इत्येतदुक्तं भवति । यथा लोके स्त्रीमयो देवदत्त इति स्त्रीप्रधानोऽभि धीयते तद्वत् । ' स समानः सन्नुभौ लोकाक्नुसंचरति , इति च लोकान्तरगमनेऽपि बुद्धेरवियोग दर्शयति । केन समान इत्याकाङ्क्षायां संनिधानात्तयैव बुद्ध्येति सम्यते । तच्च संनिधानं श्रुतिर्दर्शयति- ध्यायतीव लेलायतीब' इति । एतदुक्त भवात-लाय स्वतो ध्यायति नापि चलति ध्यायन्त्यां बुद्धौ ध्यायतीब चलन्त्यां चलतीवेति मिथ्याज्ञाननि- मित्तस्य संसारस्य तत्त्वज्ञानं विना न निवृत्तिरिति चशब्देन सूचयति । तथा च श्रुतिः- 'तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ' ( श्वे० ३ । ८) इति । यत्तु कश्चिदाह-बिम्बस्य परमात्मनोऽनाद्यनन्तत्वादुपाधेश्च ' यावदात्मभावित्वात सर्वगत- बिम्बस्योपाधिसंबन्धस्य च नित्यत्वाच्च प्रतिबिम्बो जीवो नित्यः । तदुक्तम्- 'जीबोपाधिर्दिवा प्रोक्तः स्वरूपं. बाह्य एव च । बाह्योपाधिलयं याति मुक्तावन्यस्य तु स्थितिः' इति ॥ सत्यम् । स्वश्चिदाभासो रूप्यतेऽनेनेति स्वरूपमन्तःकरणं तदेवारो ( वो )पाधिस्-ि सर्थः । 'कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः ' इति. श्रुतः । यत्तु जीवस्वरूपमे- नात् ।
१२४ हरिवीक्षितकृता- [ द्वितीयाध्याये-- वोपाधिरिति तेनोक्तं तदसत् । मुक्तिर्हित्वाऽन्यथा रूपं स्वरूपेण व्यवस्थितिः । इत्यत्र स्वरूपेणेति तृतीयाऽपार्थिका । करणताया बाधितत्वात् । एव स्थिते चैतन्यस्योपाधित्वं नोपपद्यत इति यत्तेनास्मान्प्रति वलयते तत्स्वव्याघातमनालोच्येति दिक् ॥ ३० ॥ ननु 'सता सौम्य तदा संपन्नो भवति ( छा० ६।८।१) इति वचना. स्कृत्स्नविकारप्रलयाभ्युपरामाच्च तत्कथं यावदात्मभावित्व बुद्धिसंबन्धस्येत्यत उत्तरं पठति- पुंस्त्वादिवत्तस्य सतोऽभिव्यक्तियोगात् ॥ १ ॥ यथा लोके बाल्ये विद्यमानान्येव पुंस्त्वादीनि यौवनेऽभिव्यज्यन्ते तद्वत्सुषुप्त्यादौ सस्का. रात्मता सत एव तस्य बुद्धियोगस्य जाग्रदादावभिव्यक्तियोगात् । अभिव्यक्तर्युक्तत्वादित्यर्थः । तस्मात्सिद्धमेतद्यावदात्मभावी बुद्ध्यपाधिसंबन्ध इति ॥ ३१ ॥ नन्वन्त:करपस्यैवाभावात्कथ तद्गुणसारत्वम् । अन्तःकरणमेवानेकधा मनो बुद्धिर्विज्ञानं चित्तमिति चोच्यते । तस्यैवान्तःकरणस्याभावाझुद्धचभावस्तदभावे कथं तद्गुणसारत्वमित्या- शङ्कय श्रुतिसिद्धमप्यन्तःकरणं युक्त्या साध्यति- नित्योपलध्यनुपलब्धिप्रसङ्गोऽन्यतर- नियमा वाऽन्यथा ॥ ३२ ॥ (१३) अन्तःकरणमस्तीव्यवश्यमभ्युपगन्तव्यम् । अन्यथा तस्मिन्ननभ्युपगम्यमाने नित्यो- पलब्ध्यमुपलब्धिप्रसङ्गः स्यात् । आत्मेन्द्रियाणामुपलब्धिसाधनाना संनिधाने सति नित्य- सेवोपलब्धिः प्रसज्येत । अतः सत्यपि साधने , फलाभावस्ततो नित्यमेवानुपलब्धिः प्रसज्येत । बचैवं दृश्यते । अथवाऽन्यतरस्याऽऽत्मन इन्द्रियस्य वा नियमः शक्तिप्रतिबन्धः कल्प्येत । नचाऽऽत्मनः शक्तिमतिबन्धः संभवति । अविक्रियत्वात् । नापीन्द्रियस्य तस्य पूर्वोत्तरक्षणयोरप्रतिबद्धशक्तिकस्य मध्येऽकस्मात्तपतिबन्धायोगात् । तस्माद्यस्यावधानानव- धानाभ्यामुपलब्ध्यनुपलब्धी भवतस्तन्मतः । तथा च श्रुति:--' अन्यत्रमना अभूवं सादर्शमन्यत्रसन्ना अभूवं नाश्रौषमिति सनसा ह्येव पक्ष्यति मतसा शृणोति.' [ बृ९.१.। ५ । ३] इति । कामादयश्चास्य वृत्तय -इति दर्शयति-क्कामः सकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरवृति( रित्येतत्सर्व मन एव:[बृ० १ । ५। ३] इति। तस्मायुक्तमेव: तद्गुणासात्वात्तव्यपदेशः ' [ ० सू० २।३ । २९ ] इति । यत्तु कश्चिदाह- लीवो ज्ञानानन्दादिस्वरूपो न वेति संशये नेति प्राप्तम् । स दुःस्वाद्विमुक्त आनन्दी भवति सोझाचाद्विमुक्तो ज्ञानी भवति सोऽब्लाद्विमुक्तो बली भवति, स नित्या निरातको - वतिष्ठत इति पैङ्गिश्रुतेः । अहमिति जीवस्वरूपे भासमानेऽप्यानन्दशादरूषाननुभवाच्च । सिद्धान्तमाह- पुंस्त्वादिवत्तस्य सतोऽभिव्यक्तियोगात' । जीवो नानानन्दादिको . तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। १२५ भवत्येव । न च पैनिश्रुतिविरोधः । यथा बाल्ये सदेव पुंस्त्वं यौवनेऽभिव्यज्यत एवं सतामेवाऽऽनन्दादीनामभिव्यक्त्यपेक्षया तदुपपत्तेः । न चासतामुत्पत्तिरेव किं न स्यादिति वाच्यम् । बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभौः ॥ इति गौपवनश्रुतेः । अत एव नानुभवविरोधः । संसारावस्थाया सतामप्यानन्दादीनां भावरूपाज्ञानेनाऽऽवृततयाऽननुभवस्य तद्विपरीतानुभवस्य चोपपत्तेः । भगवत्प्रसादैनाऽऽवर- णनिवृत्त सत्यामानन्दानुभवतद्विपरीताननुभवयोरुपपत्तेश्च । जीवस्वरूपस्याऽऽनन्दादेरावरण- तन्निवृत्त्योरनभ्युपगमे बाधकमाह-नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा' । अन्यथाऽऽवरणतनिवृत्त्योरनभ्युपगमे सज्जीवानां मोक्षयोग्याणां नित्यमानन्दाद्यनुभवः स्यात्। असुराणां कदाऽपि न स्यात् । दुःखाद्यनुभवश्च सदा स्यात् । मध्यमानां मानुषाणां तु नित्योपलब्ध्यनुपलब्धी स्याताम् । 'नित्यानन्दो नित्यज्ञानी नित्यबलः परमात्मा नैवमसुरा एवमनेवं च मनुष्याः ' इत्यग्निवेश्यश्रुतिः । नित्यानन्दबलेनैव युक्ता नैवं तु दानवाः । दुःखोपलब्धिमात्रास्ते मानुषास्तूभयात्मकाः ॥ तेषां यदन्यथा दृश्यं तदुपाधिकृत मतम् । सम्यग्ज्ञानं तु देवानां मानुषाणां विमिश्रितम् ।। विपरीत च दैत्यानां ज्ञानस्यैवं व्यवस्थितिः, इति भविष्यत्पर्वणि च । उपाधिरिह बाह्यो बोध्यः । तदयं फलितोऽर्थ:-जीवाश्रितमा नाद्यज्ञानमानन्दादेब्रह्मस्वरूपतद्गुणगणादेश्वाऽऽवरकं मायाविद्याप्रकृत्यादिशब्दवाच्यं द्रव्यरूपं ज्ञानविरोधिभावरूपमज्ञानं सर्वथा स्वीकर्तव्यम् । 'अनादिमायया सुप्तो यदा जीवः प्रबुध्यते' [ गौ० पा० १।१६] भूयश्चान्ते विश्वमायानिवृत्तिः [ श्वे० १ । १० ] इत्यादिश्रुतिभ्यः । तच्च प्रतिजीवं भिन्नामिति नैकमुक्तौ सर्वमुक्तिः । अनिर्वचनीयतानभ्युपगमाच्च नाद्वैतवादिमतप्रवेश इति । अत्रोच्यते--जीवो ब्रह्म नित्यामन्दादिस्वरूपत्वादित्याद्यनुमानस्य लाघवतर्कोपष्टब्धस्या. भेदे प्रमाणत्वात् । 'नाहमानन्दो नाहं ज्ञानमित्यादेनहिं ब्रह्मेत्यस्य चानुभवस्य समानयोग- क्षेमत्वात् । भावरणस्यापि तुल्यत्वात् । व्यूहावतारादाविवाऽऽखण्डलार्जुनादाविव त्वन्मते विरुद्धधर्मसमावेशस्य संभवाच्च । 'अनिर्वचनीयतायाश्चानिच्छता रुदताऽपि त्वयाऽभ्युपेय- त्वाच्च । तथा च श्रुतयः । मैत्रायणीयोपनिषदि चतुर्थप्रपाठके प्रपञ्चस्य मिथ्यात्वमाम्नातम्- 'इन्द्रजालमिव मायामयस्वप्न इव मिथ्यादर्शनम् ' मैन्युप० ४ । २ । इति । तिष्ठन्त्वि- हैवंजातीयिकाः पुराणश्नुतयः ।
हरिदीक्षितकृता-
I द्वितायाध्याये-
+
'मृषा
'इन्द्रजालमिदं सर्व मायया परिकल्पितम् ।
मिथ्या जीवेश्वरभिदा सत्यं ब्रह्मैव निष्कलम् ।'
इति पैनिश्रुतिः।
ह्येवैतत्सर्वं यदिदं किं च ' इति काषायणश्रुतिः । एवंजातीयकानि तुरकमठको-
प्ठरव्यादिश्रुतिप्रमाणान्यस्मिन्नर्थे सन्ति विस्तरभयान्नेह लिख्यन्ते । युक्तिप्रपञ्चस्तु तत्त्वको-
स्तुभेऽनुसधेय इति दिक् ॥ ३२ ॥ (१३ ),
कर्ता शास्त्रार्थवत्वात् ।। ३३ ।।
सांख्या आत्मनः कर्तृत्वं नेच्छन्ति तन्निराकरणार्थमिदमधिकरणम् । जीवः कर्ता
भवितुमर्हति । कुतः । शास्त्रार्थवत्त्वात् । ' यजेत् जुहुयात् ' इत्यादिशास्त्रस्य कर्तुः फल-
प्रतिपादकस्यार्थवत्वात् । अन्यथा तदनर्थकं स्यात् । तद्धि कर्तुः सतः कर्तव्यविशेषमुप-
दिशति । नचासति कर्तरि तदुपपद्येत । तथेदमपि शास्त्रमर्थवद्भवति । एष हि मष्टा
श्रोता मन्ता बोद्धा कर्ता विज्ञानान्मा पुरुषः ' [ प्र० ४।९] इति ॥ ३.३ ॥
विहारोपदेशात् ॥ ३४ ॥
इतश्च जीवः कर्ता । कुतः । विहारोपदेशात् । जीवप्रक्रियायां यथाकामं परिवर्तत
इति विहारोपदेशात् ॥ ३४ ॥
उपादानात् ॥ १५॥
इतश्च जीवः कर्ता । यस्माजीवप्रक्रियायामेव करणानामुपादानश्रषणात् तदेषां
प्राणानां विज्ञानेन विज्ञानमादाय ' (बृ० २।१।१७) इति . ' प्राणान्गृहीत्वा ।
(६०२।१ । १८) इति च ॥ ३५ ॥
व्यपदेशाज्ञ कियायन निर्देशविपर्ययः ॥ ३६॥
इतक्ष जीवस्य दर्तृत्वम् । कुतः । 'विज्ञावं यज्ञं तनुते. कर्माणि तनुतेऽपि च :
(तै० २।५।१) इति । क्रियायां यामादिहियायाम् । इदमुपलक्षणम् । लौकि,
क्यामपि जियायां कर्तृत्वव्यपदेशात् । तदुक्तं भाष्यकृद्धिः-यदस्य लौकिकीषु च क्रियासु
वैदिली च कर्तृत्वं ब्रापदिशतीति । यदि विज्ञानमिति जीवनिर्देशो न स्यात् करण,
निर्देशो भवेत् रादा निर्देशविपर्ययः स्यात् । विज्ञानेनेति करणविभक्तिनिर्देशः स्यात्
कर्तदितिश्च श्रूयत. इति जीवस्य कर्तृत्कार ।। २६ ॥
बन्नु पदि जीयः स्वतन्त्रः कर्ता स्यात्तर्हि नियमेन स्वहितमेव संपादयेन्नाहितमित्यत
आह-
-
उपलब्धिपदनियमः ॥ ३७॥
यथोपलब्धि प्रति स्वतन्त्रोऽपि देशालादिसहकारिविशेषवशादनियमेनेष्टमनिष्टं का
लभते तथा सहकारिवशादनियमेनेष्टमनिष्टं वा करिष्यतीत्यदोषः ॥ ७ ॥
तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। १२७ शक्तिविपर्ययात् ॥ ३८॥ इतश्च बुद्धिव्यतिरिक्तो जीवः कर्ता । कुतः । शक्तिविपर्ययात् । अयमर्थः यदि पुनर्विज्ञानशब्दवाच्या बुद्धिरेव की स्यात् । ततः शतिविपर्ययः स्यात् । बुद्धः करणश- क्तिहीयेत कर्तृत्वशक्तिश्चाऽऽपद्येत । बुद्धश्च कर्तृशक्ती सत्यां तस्या एवाहंप्रत्ययविषयत्वम- भ्युपगन्तव्यम् । अहंकारपूर्विकाया एव प्रवृत्तेः सर्वत्र दर्शनादहं गच्छाम्यहं मुझेऽहं पिबामीत्यादौ । बुद्धश्च कर्तृत्वे कर्तुः करणसापेक्षत्वात्करणान्तरमभ्युपेयम् । ततश्च बुद्धिरिति कर्तेति नाममात्रे विवादः स्यात् । न वस्तुभेदः कश्चित् । करणव्यतिरिक्तस्य कर्तृवाङ्गी- कारात् । तस्मात्कर्ता जीवो न बुद्धिः ॥ ३८ ॥ समाध्यमावाच ॥ ३९॥ (१४) यदि जीवस्याकर्तृत्वं स्यात्तदा ध्यानधारणादायौपनिषदात्मप्रतिपत्तिप्रयोजनेऽप्यकर्तृत्वं स्यात् । ततश्च समाध्यभाबे मोक्षोऽपि न स्यादित्यर्थः । तस्माज्जीवः कर्तेति सिद्धम् ॥ ३९ ॥ (१४) तथा च तक्षोभयथा ॥ ४० ॥ (१५) जीवस्य यदुक्तं कर्तृत्वं तत्किं स्वाभाविकमाहोस्त्रिदौपाधिकमिति विशये स्वाभाविकमिति तावप्राप्तम् । पूर्वाधिकरणोक्तैरेव हेतुभिः साधितत्वादिति । अत्रोध्यते-जीवस्य स्वाभाविक कर्तृत्वं न संभवति । अनिर्मोक्षप्रराङ्गात् । स्वाभाविकधर्माणां सति धर्मिण्युच्छेदासंभवात् । अन्यथा सत्पन्नावौष्ण्योच्छेदः स्यात् । तदुक्तं भाष्यकृद्भिः-कर्तृत्वे ह्यात्मनो न कर्तृत्वा- निर्मोक्षः संभवत्यग्नेरिवौष्ण्यादिति । उक्त च सुरेश्वराचार्यै:- आत्मा कादिरूपश्चेन्मा काङ्क्षीस्तर्हि मुक्तताम् । नहि स्वभावो भावानां व्यावर्तेतोष्ण्यवः' इति ॥ तस्मादुपाधिप्रकुरकोपाऽऽत्मनः कर्तृत्वं न स्वाभाविकम् । तथा च श्रुतिः-'ध्यायतीव लेलायतीव' [बृ० ४ ॥ । ७ ] इति, 'मात्मेन्द्रियमनोयुक्तं भोक्तेल्याहुमनीषिणः' [क० ३ । ४ ] इति च । ' यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति ' [ बृ० ४ । ५ । १५] इत्यादिक्षुतयोऽविद्यावस्थायां तस्यैवाऽऽत्मनः कर्तृत्वभोक्तृत्वे दर्शयन्ति । विद्याक्स्थायां ते निवारयन्ति ' यत्र त्वस्य सर्वमात्मैवाभूत्तत्केग के पश्येत् ' [ बृ० ४ । ५ । १५ । इत्यादिकाश्च श्रुतयः । तदेतदाहाऽऽचार्यः---'यथा च तक्षोभयथा ' इति । यथा लोकें तक्षा वर्धकिास्यादिकरणयुक्तः कर्ता दुःखों भवति स एव स्वगृहं प्राप्तो विमुक्तवास्यादिकरणी निर्व्यापारः सुखी भवति तद्वत् । तक्षदृष्टान्तो न सर्वाशे । नहि दृष्टान्ते सर्वसाम्यमिति न्यायात् । विस्तरस्तु भाष्येऽनुसंधेयः ॥ ४० ॥ (१५) .
हरिदीक्षितकृता- [ द्वितीयाध्याये- परात्तु तच्छुतेः।। ४१॥ यदुक्तमविद्याकल्पितं जीवस्य कर्तृत्वं तत्किमीश्वरनिरपेक्षस्य भवति तत्सापेक्षस्य वेति संशय ईश्वरनिरपेक्षस्येति प्राप्तम् । लोके कृषीवलादीनां रागद्वेषावेव प्रवर्तकौ दृष्टौ तदनुसा- राद्धर्माधर्मयोः कर्तुर्जीवस्यापि तावेव प्रवर्तकाबभ्युपेयौ । ईश्वरस्य प्रवर्तकत्वे वैषम्यनैर्घण्ये ईश्वरस्य प्रसज्येयाता जीवस्याकृताभ्यागमश्च प्रसज्येत । किंच ' स्वतन्त्रः कर्ता [ पा० सू० १। ४ । ५४ ] इति स्मृतिविरोधश्चेति । तस्मान्नेश्वरः प्रवर्तक इति प्राप्ते ब्रूमः । तुशब्दः पूर्वपक्षनिरासाय । जीवस्य कर्तृत्वभोक्तृत्वादिकं परात्परमेश्वराद्भवितुमर्हति । कुतः । तच्छुतेः । एष ह्येव साधु कर्म कारयति ' कौ० ३। ८ ] इत्यादिश्रुतरित्यर्थः ॥४१॥ नन्वेवमीश्वरस्य प्रवर्तकत्वे वैषम्यनैप॒ण्यप्रसङ्गो जीवस्याकृताम्यागमप्रसङ्गश्च स्यादित्यत आह- कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धा- वैयादिभ्यः ॥ ४२ ॥ (१६) तुशब्दश्चोद्यनिरासार्थः । कृतो यः प्रयत्नो जीवस्य धर्माधर्मलक्षणस्तदपेक्ष एवैन- मीश्वरः प्रवर्तयति । अतो नोक्तदोषाः प्रसज्यन्ते । एव हि ' स्वाध्यायोऽध्येतव्यः' 'स्वर्गकामो यजेत ' [आ० श्रौत० १० । २ । १] ' ब्राह्मणो न हन्तव्यः' इत्ये- वमादेविहितस्य प्रतिषिद्धस्य चावैयर्थ्यं भवति । अन्यथा तदनर्थकं स्यात् । किंचाऽऽदि- पदेन देशकालादिवैयर्थ्यं कृतहानाकृताभ्यागमश्च स्यात् । एतन्निरपेक्षश्चेदीश्वरो जीवं प्रवर्त- यति तदा वैषम्यनैघण्ये प्रसज्येयाताम् । तस्मात्कृतप्रयत्नापेक्ष ईश्वरः प्रवर्तयति । वैषम्य- नैपुण्ये इत्यत्र वैषम्यनैप॒ण्यपरिहारमात्रं कृतम् । अत्र तु तस्य प्रवर्तकत्व प्रतिपा- दितम् ॥ ४२ ॥ (१६) अंशो नामाव्यपदेशादन्यथा चापि दाश- कितवादिस्यमधीयत एके ॥ ४३ ॥ जीवस्य कर्तृत्वमीश्वराधीनमिति प्रतिपादितम् । तत्रेशित्रीशितव्यभावश्च भेदे सति भवति । स भेदः किं स्वामिभृत्ययोरिवाथवाऽग्निविस्फुलिङ्गयोरिव किं स्वाभाविक आहोस्वि- दौपाधिक इति विचिकित्सायां स्वामिभृत्ययोरेवेशित्रीशितव्यभावस्य प्रसिद्धत्वात्तद्विध एवं संबन्ध इति प्राप्नोति । अत आहांश इति । जीव ईश्वरस्यांशो भवितुमर्हति । यथाऽग्नो स्फुलिङ्गोऽश इवांशः । उपाधि विना निरवयवस्याऽऽत्मनो मुख्याशासंभवात् । मुख्यांश: कुतो न संभवति तत्राऽऽह नानाव्यपदेशात् । ' सोऽन्वेष्टव्यः स विजिज्ञासितव्यः' [ छा० ८ । ७।१] 'यो विज्ञाने तिष्ठन् ' बृ० ३ । ७ । २२ ] इत्यादी जीवेशयोर्मेदव्यपदेशादित्यर्थः । नन्वेक्मत्यन्तभेद एवास्त किमर्थमंशकल्पना नत्राऽऽह- - - तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। १२९ अन्यथा चापीति । नच नानाव्यपदेशादेव केवलादंशत्वप्रतिपत्तिः । किं तर्हि प्रकारान्त- रेणाप्यभेदव्यपदेशो भवति । तथा ह्येके शाखिनो दाशकितवादिभावमधीयते 'ब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे कितवाः ' इत्यादिना । आथर्वणिका ब्रह्मसूक्त आमनन्ति- दाशाः कैवर्ताः कितवा द्यूतकृतो दासाः प्रसिद्धाः । ते सर्वे ब्रह्मैवेति । ते हीनोदाहरणेन सर्वेषां ब्रह्मभावमामनन्ति । अनेन होनीदाहरणेन सर्वेषां ब्रह्मभावमामनन्ति । अतो भेदा- भेदाम्नानादंशत्वावगमः । ' नान्योऽतोऽस्ति द्रष्टा' [ बृ० ३ । ७ । २३ ] इत्यादिश्रु- सन्तरमप्यभेदे प्रमाणम् ॥ ४३ ।। मन्त्रवर्णाञ्च ॥४४ ॥ मन्त्रवर्णश्चैतमेवार्थं गमयति- एतावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि '॥ [छा० ३।१२।६] इति । अस्मान्मन्त्रवर्णादपि जीवस्यांशत्वनिश्चयः । न हिंस्यात्सर्वा भूतान्यन्यत्र तीर्थभ्यः ' [छा० ८।१५] इत्यादौ भूतशब्दस्य चेतने प्रयोगात् । अशः पादो भाग इत्यन- र्थान्तरम् । अस्मादप्यंशत्वावगमः ॥ ४४ ॥ अपि च स्मर्यते ॥ ४५ ॥ 'ममैवांशो जीवलोके जीवभूतः सनातनः' [१५-७ ] इति भगवद्गीतास्वपि जीवस्येश्वरांशत्त्वं स्मर्यते । तस्माज्जीवेश्वरयोरभेदः स्वाभाविको भेदस्त्वौपाधिक इति तात्पर्यम् ॥ ४५ ॥ नन्वत्यन्ताभेदे जीवदुःखेनेश्वरस्यापि दुःखित्वं स्यात् । यथा लोके हस्तपादाद्यन्यत- मागगतेन दुखेनाशिनो देवदत्तस्य दुःखित्वं तद्वत् । ततश्च सम्यग्दर्शनानर्थक्यप्रसङ्गः स्यादित्याशङ्कयाऽऽह- प्रकाशादिवन्नवं परः ॥ ४६ ॥ यथा जीवोऽहमुपाध्यवच्छिन्नस्तदुत्पन्नं ससारदुःखमनुभवति नैवमीश्वरोऽनुभवति । यथा देहगतं छेदभेदादिनिमित्तं दुःखं तदभिमानिभ्रान्त्याऽनुभवति तथा कलत्रपुत्रादिगोचर. मपि दुःखं तदभिमानभ्रान्त्याऽनुभवति । मिथ्याभिमाननिमित्तक एव दुःखानुभवः । नैवं परमात्मा दुःखादिभाक् । आविद्यकदैहाद्यभिमानाभावात् । तत्र दृष्टान्तः-प्रकाशादिव- दिति । यथा सौरश्चान्द्रमसो वा वियद्व्याप्याचतिष्ठमानः प्रकाशोऽङ्गुल्याद्युपाधिसंबन्धादृजु- बक्रादिभाव प्रतिपद्यमानोऽपि न परमार्थतस्तद्भाव प्रतिपद्यते । यथाऽऽकाशो घटादिषु - १७
-
१३०
[द्वितीयाध्याये-
हरिदीक्षितकृता-
गच्छत्सु गच्छन्निव भासमानोऽपि परमार्थतो नै गन्छति । यथा वा जलादिगतप्रतिबिम्बे
कम्पमानेऽपि सूर्यबिम्ब न कम्पते तद्वत् । तथा चाविद्यानिमित्तकजीवभावव्युदासेन
ब्रह्मभावमेव प्रतिपादयान्त वेदान्तास्तत्त्वमस्यहब्रह्मास्मीत्येवमादयः । तस्मान्नास्ति जीवसं.
बन्धिदुःखेन परमात्मनो दुःखित्वप्रसङ्गः ॥ ४६ ।।
स्मरन्ति च ॥४७॥
स्मरन्ति व्यासादयो यथा-
तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः ।
न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ॥
कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते ।
स सप्तदशकेनापि राशिना युज्यते पुनः
[ महाभा० १२ । ३५३ । १४ । १६ ] इति ।
चशब्दात् ' तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ' [ श्वे० ४।६]
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदु.खेन बाह्यः [क० ५। ११]
इत्यादिश्रुतिसंग्रहः ॥ ४७ ॥
ननु ' तत्सृष्ट्वा तदेवानुप्राविशत् ' [ तै० २ । ६ । १] इति पर एवैकः सर्वेषां
भूतानामन्तरात्मा जीवभावेनावस्थितश्चेत्तर्हि विधिप्रतिषेधावीश्वरे प्रसज्येयातामिति शङ्का-
मपनुदति
अनुज्ञापरिहारी देहसंघन्धाज्ज्योतिरादिवत् ।। ४८ ॥
अनुज्ञा विधिः । परिहारो निषेधः । ' ऋतौ भार्यामुपेयात्' । 'परदारान गच्छेत् ।
इत्यादी अनुज्ञापरिहारावेकत्वेऽप्यात्मनो देहसंबन्धात्स्याताम् । देहैः संबन्धो देहसंबन्धः ।
देहसबन्धश्चाहमित्याभिमानस्तस्यैव ससारनिदानत्वात् । ज्योतिरादिवत् । यथा ज्योतिष
एकत्वेऽप्यमिः क्रव्यात्परिहीयते । नेतरः । एकस्यापि सवितुः प्रकाशो ह्यशुचिभूमिष्ठः
परिहियते नेतरः शुचिमूमिष्ठः । तद्वत् । तस्माज्जीवस्य देहसंबन्धाद्विधिनिषेधप्रसङ्गो
नैवेश्वरस्य तत्संबन्धाभावादिति ॥ ४८ ।।
असंततेश्चाव्यतिकरः ॥४९॥
संततिः संबन्धः । व्यतिकरः संकरः । देहसंबन्धाभावादेव फलसंबन्धोऽपीश्वरस्य
नास्तीत्यर्थः । उपाधेः प्रतिबिम्बपक्षपातित्वाउजीवस्यैव फलसंबन्धः स तु नेश्वरे संकीर्यंत
इति सूत्रार्थः ॥ ४९॥
- , - वृतीयः पादः ] ब्रह्मसूत्रवृत्तिः । ननु कर्मफलं तु कर्बक्यात्संकीर्यतामित्याशङ्कायामाह- धामास एव च ॥ ५० ॥ परमात्मन आभास एवैप जीवः । जले सूर्यप्रतिबिम्बवत् । यथैकस्मिन्प्रतिबिम्बे कम्पम्पने सति प्रतिबिम्बान्तर न कम्पते, एवमेकस्मिञ्जीवे कर्मफलभाजि न जीवान्तरं तत्कर्मफलभाग्भवति । तत्तदन्तःकरणोपाधिभेदात् ॥ ५० ॥ एवं स्वमते कर्मफलासांकर्यमुक्त्वा परमते सांकर्यमाह- अदृष्टानियमात् ॥ ५१ ॥ सांख्यानां समयेऽदृष्टं नाऽऽत्मसमवेतं किं तर्हि प्रधानवति । प्रधानस्य तु सर्वसाधार- णत्वात्प्रत्यात्म सुखदुःखोपभोगस्य नियामक नोपपद्यते । ततश्च बहुषु सर्वगतेष्वात्मसु सुखादिसांकर्यप्रसङ्गः स्यात् । काणादानामपि समये सर्वगतानामात्मना साधारणेनाऽऽत्ममनः- संयोगेन निर्वर्तितस्यादृष्टस्याप्यस्यैवाऽऽत्मन इदमदृष्टमितिनियमहेत्वभावादेष एव दोषः प्रसज्येत ॥ ५१ ॥ ननु प्रत्यात्ममहमिदं प्राप्तवानिदं परिहराणि प्रयत्नमित्थ करवाणीत्येव विधा अभिसंधयो भिन्नास्तत्तदात्ममनःसंयोगं नियस्यन्ति. ततोऽदृष्टभेदात्सुखदुःखभेदो भविष्यतीत्याश- क्याऽऽह- अभिसंध्यादिष्वपि चैवम् ॥ ५२ ॥ अभिसंध्यादीनामपि साधारणेनैवाऽऽन्ममनःसयोगेन सर्वात्मसनिधौ क्रियमाणानां नियमहे- तुत्वानुपपत्ते!क्तदोषपरिहारः संभवति ॥ ५२ ।। प्रदेशादिति चेन्नान्तर्भावात् ॥ ५३॥ (१७) बनु विभुत्वेऽप्यात्मनः शरीरावच्छिन्नप्रदेश एवाऽऽत्ममनःसयोगो नान्यत्रेति अदृष्टा- दिव्यवस्थोपपत्स्यत इति चेन्न । अन्तर्भावात् । विभुत्वाविशेषात्सर्व एवाऽऽत्मानः सर्वशरीरे- ध्वन्तर्भवन्तीति न प्रदेशकृतो विशेष इत्यर्थः । तस्मादात्मैक्यपक्ष एव सर्वदोषाभाव इति सिद्धम् । अत्र कश्चिदाह- कर्त शास्त्रार्थवत्त्वात् ' इत्यत आरभ्याऽऽ पादपरिसमाप्ते- जीवः कर्ता भवति परं तु सा कर्तृत्वशक्तिः पराधीनैव । कर्तृत्व कारणत्वं च स्वभावश्चेतना धृतिः । यत्प्रसादादिमें सन्ति न सन्ति यदुपेक्षया ॥ इति पैनिश्रुतेः । तथा " अंशो नानाव्यपदेशात्' इत्यादिसूत्राणामपि फलितोऽर्थ एवम् । सत्संबान्धत्वमेवात्रांशत्वम् । अंशो ह्येष परस्य योऽय पुमानुत्पद्यते म्रियते च नाना ह्येनं , .. १३२ हरिदीक्षितकृता- [द्वितीयाच्या- व्यपदिशन्ति पितेति पुत्रेति भ्रातेति सखेति च ' इति पाराशर्यायणश्रुतेः ।.असंततेश्चा- व्यतिकर इत्यस्य सूत्रस्यायमर्थ:-जीक्समुदायः परमेश्वरस्य रूप रूपं प्रतिरूपो भूत्वा वर्तते । तद्विम्बरूपमस्य सुक्त्यर्थं सत्कारविषयो भवति । स च परमेश्वरः स्वसामर्थ्येनान- न्तजीवबिम्बरूपो जायते । तथा च चतुर्वेदशिखायाम् - + तस्य ह वा एतस्य पञ्च रूपाणि शत रूपाणि तानि सूर्वाण्यनन्तानि सर्वाफ्यसमितानि । अथावराः सर्व एवापूर्णा: सर्व एव बध्यन्तेऽथ मुच्यन्ते च केचन ' इति। तदसारम् । ‘एको हि जीव एक ईश्वरोऽ- के जी अनेकेडपीश्वरा उपाधिवैचित्र्याद्वस्तुत एकमेवाद्वितीय ब्रह्म' इति पौत्रायणश्रुतेः । एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्' [क्र०बि०१२] इत्यादिप्रसिद्धश्रुक्ति भ्यश्च । विस्तरस्तु तत्त्वकौस्तुभे द्रष्टव्यः ।। ५३ ।। ( १७ ) इति श्रीलक्ष्मीनरहरिमूरिसूनुहरिक्षितकृतौ ब्रह्मसूत्रवृत्ती द्वितीयाध्याये तृतीयः पादः ॥ ३ ॥ अथ चतुर्थः पादः । विवदादिविषयै श्रुतिविरोधस्तृतीयपादेन पस्हृितः । इदानी चतुर्थेन पादेनेन्द्रियविषये अतिविरोधः परिहियते- तथा प्राणः॥१॥ तऋतावच्छान्दोग्यादिषु श्रुतिषु “ततेजोऽसृजत ' छा० ६ । २ । ३ ] * तस्मादा एतस्मादात्मन आकाशः संभूतः ' [ तै० २ । १ । १] इत्याकाशादीनामुत्पत्तिः श्रूयते न तथा प्राणाना क्वचिच्चानुत्पत्तिरेवैषां श्रूयते-' असद्वा' इदमन आसीत् । तदाहः । कि सदसदासीदित्यृक्यो बाव तेऽऽसदासीत् । के ते ऋषय इति । प्राणा का ऋष्यः' शितक ६।१।१।१] इत्यत्र प्रागुत्पत्तेः प्राणानां सद्भाववणात् । अन्यत्र तु प्राणानामव्युत्पत्तिः पक्यले- यथाऽझे क्षुद्रा विस्कुलिङ्गा ब्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकार सर्वे देवाः सर्वाणि च भूतानि व्युचरन्ति ' [६०२ । १ । २० ] इति । 'एतम्माला- है क. सीत् । ऋ । २ क. °दासलू के ।
- चतुर्थः पादः] ब्रह्मसूत्रवृत्तिः यते प्राणो मनः सर्वेन्द्रियाणि च ' [मु० २।१ । ३ ] इत्यादौ । तत्र निर्णयमाह- तथा प्राणाः । प्राणा इन्द्रियाणि तथोत्पद्यन्ते । यथा वियदादय उत्पद्यन्ते तथेत्यर्थः । व्यवहितस्यापि वियदादेस्तथेति तच्छब्देन परामर्शो नानुपपन्नः । तदुक्त भाष्ये--प्राणो- त्पत्तिवादिवाक्ये- एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुयोतिरापश्च पृथ्वी सर्वस्य धारिणी' [मु० २॥ १॥ ३ ॥] इत्येवमादीनि यथा खाद्युत्पत्तिस्तथा प्राणाद्युत्पत्तिः । उत्पत्तिश्रुत्यविशेपादिति ॥ १ ॥ ननु केपुचित् प्रदेशेषु प्राणानामुत्पत्तिर्न श्रूयत इति तदुत्पत्तिश्रुतिर्गोणी स्याने- स्याह-- गोण्यसंभवात् ॥२॥ गोण्या असंभवो गौण्यसंभवस्तस्मात् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया विरोधान प्राणानामुत्पत्तिश्रुतिौणी व्यर्था । यत्तु प्रागुत्पत्तेः प्राणसद्भावश्रुतिः ' ऋषयो वाव तेऽग्रेऽस- दासन् ' इति साऽवान्तरसृष्टिविपयेति द्रष्टव्यम् ॥ २ ॥ तत्माक्श्रुतेश्च ॥ ३॥ इतश्च प्राणजन्मश्रुतिर्न गौणी। कुतः। एतस्माज्जायते प्राण' [मु० २।११३ ] इत्यत्र तत्प्राक्श्रुतेः । तदिति लुप्तषष्ठीकम् । तस्य जायत इतिपदस्य प्राणेषु प्राक्श्रुतेः। तदेव प्राक्श्रुतं जायत इति पदमुत्तरेष्वाकाशादिष्वनुवर्तते । तत्राऽऽकाशादिषु जायत इति मुख्यं जन्म प्राणानां प्रथमोद्दिष्टानां गौणमिति वैरूप्यं स्यात् । न ह्येकस्मिन्प्रकरण एकस्मिन्वाक्ये चैक. शब्दः सकृदुच्चरितो बहुभिः संबध्यमानः कचिन्मुख्यः कचिद्गौण इत्यध्यवसातु शक्य वैरूप्यप्रस- ङ्गादिति हि भाष्यम् । अन्यत्रापि ' तत्तेजोऽसृजत ' [ छा० ६ । २।३ ] ‘स प्राण- मसृजत प्राणाच्छ्रद्धाम् ' [ प्र० ६ । ४ ] इत्यादौ तथात्वेन विकारजातस्यानुत्पत्तिः प्रस- ज्जेत । तस्मात्प्राणोत्पत्तिनुतिर्मुख्यैव न गौणी । तत्पूर्वकत्वाद्वाचः ॥ ४॥ (१) इतश्च प्राणानामुत्पत्तिरभ्युपेया । कुतः । वाचस्तत्पूर्वकत्वात् । वाच इत्युपलक्षणं बाक्प्राणमनसां तेजोबन्नपूर्वकत्वाम्नानादपि प्राणानामुत्पत्तिरवगम्यते तस्मादित्यर्थः । छान्दोग्ये-'तत्तेजोऽसृजत ' [ छा० ६ । २।३ ] इत्यस्मिन्नेव प्रकरणे : हि सौम्य मन आपोमयः प्राणस्तेजोमयी वाक् '[छा० ६ । ५। ४] इति विकारार्थमयटा तेजोबन्नविकारत्वावगतेः । न च ' अन्नमयं हि सौम्य मनः । न च । अन्नमयं हि सौम्य मनः' इत्यनया श्रुत्या नानमनसो- अन्नमय सप्त १३४ हरिदीक्षितकृता- [ द्वितीयाध्याये- रप्राणयोस्तेजोवाचाश्चीपादानोपादेयत्वमभिहितं किं तर्हि मनआदीन्प्रत्यन्नादीनामुपष्टम्भक- त्वमात्रमिति वाच्यम् । मयटा विकारत्वावगतेः । नहि विकारो नाम कश्चिन्नित्योऽस्ति । तस्मान्मनआदीनां विकाररूपत्वादुत्पत्तिरिति सिद्धम् ॥ ४ ॥ (१) सप्त गतेर्विशेषितत्वाच ॥५॥ प्राणानामुत्पत्तिविषयः श्रुतिविरोधः परिहृतः । इदानीं संख्याविषयो विरोधः परिहि. यते । तत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्यति । संप्रति कतीतरे प्राणा इति चिन्त्यते । तत्र कचित्सप्त प्राणा आम्नायन्ते-' सप्त प्राणाः प्रभवन्ति तस्मात् ' [मु० २ । १। ८ ] इति । कचिद्ष्टौ प्राणा ग्रहत्वेनाऽऽम्नायन्ते- तेऽष्टौ ग्रहा अष्टावतिग्रहाः ' [ बृ० ३ । २।१] इति । ग्रहाः प्राणाः । कचिन्नव । वै शीर्षण्याः प्राणा द्वाववाञ्चौ" [ तै० सं० ५।३।२।५ ] इति । कचिद्दश ' नव वै पुरुषे प्राणा नाभिर्दशमी ' [तैः सं० ५। ३ । २ । ३ ] इति । कचिदेकादश दश वै पुरुषे प्राणा आत्मैकादशः। [वृ० ३ । ९ । ४] इति । एवं कचिवादश ' सर्वेषां स्पर्शानां त्वगेकायनम् ' [ बृ० २। ४ । ११ ] इति । कचित्रयोदश ' चक्षुश्च द्रष्टव्यं च ' [प्र० ४ । ८ ] इत्यत्र । एवं प्राणसंख्यां प्रति विप्रतिपन्नासु श्रुतिषु किं तावत्प्राप्तम् । — सप्तव प्राणाः' इति । कुतः । सप्त गतेः । ' सप्त प्राणाः प्रभवन्ति तस्मात् ' [मु०, २ । १ । ८ इत्यादिश्रुतिषु सप्तत्वावगतेरित्यर्थः । ' सप्त वै शीर्षण्याः प्राणाः ' इति विशेषितत्वाच्च। विरुद्धानेकसंख्याश्रवणे प्रथमोपस्थितन्वात्स्तोककल्पनानुरोधाच सप्तसंख्यैव न्याय्या परिग्रही- तुम् । संख्यान्तरं वृत्त्यभिप्रायम् ॥ ५॥ इति प्राप्तेऽभिधीयते-- हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६॥ (२) तुशब्दः पूर्वपक्षनिरासार्थः । सप्तैव प्राणा इति नियन्तुं न शक्यते । यतो हस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाः श्रूयन्ते। ' हस्तो वै ग्रहः स कर्मणाऽतिग्राहण गृहीतः ३।२।८ ] ग्रहत्वं च बन्धनभावो गृह्यते बध्यते क्षेत्रज्ञोऽनेन ग्रहसंज्ञकेन, बन्धेनेति ।। तथा च स्मृतिः पुर्यष्टकेन लिङ्गेन प्राणायेन स युज्यते । तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च ॥ [ ब्र• पु० ] इति । बद्धस्य वै बन्ध इत्यनेन प्रतिदेहमेवं बद्धो भवतीति सूचितम् । 'हस्ताभ्यां कर्म करोति । इत्येवमादिकासु श्रुतिषु सप्तत्वातिरेके स्थिते सति न्यूनसंख्याया अधिकसंख्यायामन्तर्भा- चात् । नैवं मन्तव्यं श्रुतसंख्यासुः प्राथस्यात्स्तोककल्पनानुरोधाच्च सप्तैव प्राणाः स्युरिति । किं तु कार्यवशादेकादशैव प्राणाः स्युः । तथा चोदाहृता तिः - दशेमे परुषे प्राणा , [बृ. .
. सप्त चतुर्थः पादः ] बह्मसूत्रवृत्तिः। १३५ आत्मैकादशः ' [बृ० ३ । ९।४1 इति । आत्मशब्देन चात्रान्तःकरणं परिगृह्यते करणाधिकारात् । नन्वेकादशत्वादभ्याधिके द्वादशत्वत्रयोदशत्वे उदाहृते कथमेकादशेति चेत् । सत्यम् । नोकादशभ्यः कार्यजातेभ्योऽधिकं कार्यजातमस्ति । यदर्थमधिकं करणं कल्प्येत । शब्दस्पर्शरूपरसगन्धविषया बुद्धिः । तत्साधनानि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि पञ्चबुद्धी- न्द्रियाणिं च वचनादानगत्युत्सर्गानन्दाः पञ्चकर्मेन्द्रियभेदाः । तदर्थानि पञ्च कर्मेन्द्रियाणि । तथा च श्रुतिः-' हस्तौ चाऽऽदातव्यं चोपस्थश्चाऽऽनन्दयितव्यम् ' [प्र० इत्यादिः । सर्वार्थविषयमेकमन्तःकरणं तदेव मनोबुद्ध्यहंकारचित्तवृत्तिकं कचिद्भिन्नवद्व्यप- दिश्यते । एवमेकादश प्राणाः । अपि च वै शीर्षण्याः प्राणाः' इत्यत्रापि चत्वार एव प्राणा अभिहिताः स्युः । एते स्थानभेदात्सप्त गण्यन्ते । द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके एका वागिति । न च चतुर्णामेव वृत्तिभेदा इतरे प्राणा इति वक्तुं शक्यम् । हस्तादिवृत्तीनामत्यन्तविजातीयानां सत्त्वात् । तथा नव वै पुरुषे प्राणा नाभिर्दशमीत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैव दश प्राणा उच्यन्ते न प्राणतत्त्वाभिप्रायेणेति ज्ञेयम् । कचिदुपास- नार्थ कतिचित्प्राणा गण्यन्ते । एकादशव्यापाराणां दर्शनश्रवणाघ्राणास्वादनस्पर्शनवदनादा- नगमनानन्दविसर्गध्यानानामुपलम्भात्तत्साधनत्वेनन्द्रियाण्येकादशेत्यभ्युपगन्तव्यम् । तस्मा- देकादशैव प्राणा इति सिद्धम् ॥ ६॥ (२) अणवश्च ॥७॥ (३) इदानीमुक्तानां प्राणानां स्वरूपनिर्णयायेदमधिकरणम् । तत्र तावत्सांख्यो मन्यते-सर्व- गतानीन्द्रियाणि प्रासादशिखरारूढस्य पुरुषस्योदयादिशिखरमारूढस्य मार्तण्डस्य झटिति चक्षुषा मण्डलदर्शनात् । एव घ्राणश्रोत्रे अपि दूरादेव गन्धशब्दान्गृह्णीतः । एवं सत्यपि तत्तच्छरीरावच्छिन्नप्रदेशेषु तत्तज्जीवकर्मफलभोगाय वृत्तिलाभो भवतीति । अत्रोच्यते- इन्द्रियाणां सर्वगतत्वमयुक्तम् । कल्पनागौरवात् । देहावच्छिन्नैवृत्तिमद्भिरिन्द्रियैरेवाशेषव्य- वहारसिद्धौ किमनया सर्वगतत्वकल्पनया । किंच श्रुतिरुत्क्रान्तिगत्यागती वस्य प्रतिपादयति ताश्च सर्वगतस्य जीवस्य न मुख्याः सभवन्ति । अतो ह्यमुख्यत्वसिद्धयर्थमिन्द्रियोपाधिः स्वीकृतः । यदि सोऽप्युपाधिः सर्वगतः स्यात् । कुतस्तर्युत्क्रान्त्यादयोऽमुख्याः संभवेयुः । तस्मादसर्वगतान्येवेन्द्रियाणि । मध्यमपरिमाणेष्वेवैतेष्वदृश्यत्वविवक्षया सूत्रकारणाणुशब्दः प्रयुक्तः । तदुक्तं भाष्यकारैः-अणुत्वं चैषां सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वम् । कृत्स्नदेहव्यापिकार्यानुपपत्तिप्रसङ्गादिति । तस्मात्सूक्ष्माः परिच्छिन्नाश्च इति सिद्धम् ॥ ७ ॥ (३) श्रेष्ठश्च ॥८॥ (४) मुखबिले संचरन्नुच्छासकारी वायुर्मुख्यः प्राणः । स चेतरप्राणवब्रह्मविकार इत्यति- दिशति । मुख्यप्राणो जायते न वेति विशये मुख्यप्राण इन्द्रियवन्न जायते । कुतः । प्राणा हरिदीक्षितकृता- [ द्वितीयाध्याये- - - ' भासदासीदिति ब्रह्मसूक्ते-'आनीदवातं स्वधया तदेकम् ' [ऋ० सं० मं०१०अ०११ सू० १२९ ] इति सृष्टेः प्रागानीदिति प्राणव्यापारश्रवणादिति प्राप्ते ब्रूमः । आनीच्छब्दो हिन प्राक्सृष्टेः प्राणसद्भावं सूचयति । अबातमिति तनिषेधात् । तानीदित्यस्य का गतिः । आनीदिति केवलब्रह्मसत्तापरं न तु प्राणस्यानुत्पत्तिपरमित्यवगच्छ ' सदेव सौम्येदमन आसीत् । [ छा० ३।२।१ ] इत्यादिभिः सृष्टिप्रागवस्थाप्रतिपादकश्रुत्यन्तरैः समानार्थत्वात् । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ' [ मुण्ड० २ । १।३] इति श्रुत्या स्पष्ट प्राणोत्पत्तेरान्नानात् । अप्राणो ह्यमनाः शुभ्रः' [मुण्ड० [ मुण्ड० २।१।२] इत्यादिश्रुत्या जगदुपादानस्य ब्रह्मणः प्राणादिसमस्तविशेषविरहस्य दर्शितत्वान्च । तस्मादि- न्द्रियवत्प्राणो जायते । श्रेष्ठ इति शब्दो मुख्यप्राणवाची । 'प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च । [छा० ५। १।१] इति श्रुतेः । निषेककालादारभ्य तस्य वृत्तिलाभाज्ज्येष्ठत्वम् । नचेत्तस्य तथा वृत्तिलाभः स्यात्तर्हि योनौ निषिक्तं शुक्लं न प्ररोहेत् । चक्षुरादीनां तु संस्थानविशेषो- त्पत्त्यनन्तर वृत्तिलाभात्कनीयस्त्वम् । प्राणस्य श्रेष्ठत्वं च गुणाधिक्यात् । न वै शक्ष्याम- स्त्वदृते जीवितुम् ' [बृ० ६।१ । १३ ] इति श्रुतेः ॥ ८॥[४ ४ ] न वायुक्रिये पृथगुपदेशात् ॥९॥ स पुनर्मख्यः प्राणः किं स्वरूप इतीदानी विचार्यते । बाह्यवायुरेव वेणुरन्ध्रवन्मुख- च्छिद्रे प्रविश्यावस्थितो नाम्ना प्राण इति व्यपदिश्यते । न तु प्राणो नाम किंचित्तत्त्वान्त- रम् । कुतः । यः प्राणः स वायुः स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानः ' इति श्रुतेः । अथवा पञ्जरस्था बहवः पक्षिणो यथा स्वयं चलन्तः पञ्जरमपि चालयन्ति । तथैकादशाक्षाणि स्वस्वव्यापारेण देहं चेष्टयन्ते । तत्र देहचालनाख्यो योऽयं सर्वेन्द्रियसाधारणो व्यापारः स प्राणो भविष्यति । तथा च सांख्यैरुक्तम्-'सामान्य- करणवृत्तिः प्राणाद्या वायवः पञ्च' [ सां० का २९ ] इति । तस्मान्न तत्वान्तर प्राण इति प्राप्ते ब्रूमः । न वायुः प्राणो नापि क्रियाकरणव्यापारः । कुतः । पृथगुपदेशात् । 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । ख वायु यॊतिरापश्च पृथ्वी सर्वस्य धारिणी' [मुण्ड० २ । १ । ३ ] इत्यादी वायुकरणाभ्यां माणस्य पृथगुपदेशात् । कथंतीय श्रुतिः यः प्राणः स वायुः' इति । उन्यते-बायुरेवाध्यात्ममापन्नः पञ्चवृत्तिविशेषात्मनाऽवतिष्ठमानो हि प्राण इति भण्यते न तवान्तरं नापि वायुमात्रमतश्चोभे अपि भेदाभेदश्रुती न विरुध्येते इति भाष्यकृत आहुः । विद्यारण्यपादास्तु 'प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति' इति श्रुत्य- न्तरे चतुष्पाह्मोपासनप्रसङ्गेनाऽऽध्यात्मिकप्राणस्याऽऽधिदैविकवायोश्चानुप्राद्यानुग्राहकरूपेण विभेदः स्पष्टमेव निर्दिष्टः । अतो ' यः प्राणः स वायुः' इत्येकत्वश्रुतिः कार्यकारणयोरभे- चतुर्थः पादः ] ब्रह्मसूत्रवृत्तिः। १३७ वृत्त्या नेतच्या । तस्मात्तत्त्वान्तरं प्राणा इत्याहुः । यत्तु सांख्यैरुक्तं तदसत् । इन्द्रियाण रूसमान्यवृत्त्यसंभवात् । पक्षिणां तु चलनान्येकविधानि पञ्जरचालनस्यानुकुलानि भवन्ति । न चेन्द्रियाणां दर्शनश्रवणमननादिव्यापारा एकविधाः । अतो न देहचालनानुकूलास्तस्मा- सांख्यमतमनादेयम् ॥ ९॥ अथेदानी प्राणस्य जीववत्स्वातन्त्र्यप्रसङ्गं वारयति- चक्षुरादिवा तत्सहं शिष्ट्यादिभ्यः ॥ १० ॥ तुशब्दः प्राणस्वातन्त्र्यनिरासार्थः । यथा चक्षुरादीनि जीवस्योपकरणानि तद्वन्मु- ख्योऽपि प्राणो राजमन्त्रिवञ्जीवस्योपकरणभूतो न स्वतन्त्र । कुतः । तत्सहशिष्टयादिभ्यः । तैश्चक्षुरादिभिः सह प्राणः शिष्यते । प्राणसवादादिपु समानधर्माणां च सह शासन युक्तम् । बृहद्रथंतरादिवत् । आदिपदेन संहतत्वाचेतनत्वादीनामस्वातन्त्र्यहेतूनां संग्रह.॥१०॥ ननु चक्षुरादिवत्प्राणस्य जीवं प्रति करणभावेऽभ्युपगम्यमाने तेपा रूपादिविषयवत् प्राणस्यापि विषयोऽभ्युपेयः स्यात् । स तु न दृश्यते । पूर्व कार्यवशादेकादशैव करणानीति प्रतिपादितम् । तत्कथ विषयाभावात्प्राणस्यापि कारणत्वमत आह- अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥ ११ ॥ मुख्यप्राणस्य चक्षुरादिवत्करणत्वं नाभ्युपगम्यते किं तर्हि राजमन्त्रिवज्जीवस्योपकरण- स्वमभ्युपेयते । तथाचाकरणत्वाच्चक्षुरादितुल्यकार्याभावेऽपि न दोषः । नचैतावता कार्याभावः । सर्वेन्द्रियधारणत्वाद्यसाधारणकार्यवत्त्वस्य सत्त्वात्। तथा हि दर्शयन्ति श्रुतय.- ' अथ ह प्राणा अहश्रेयसे ब्यूदिरे ' [ छा० ५। १ । ६ ] इत्युपक्रम्य ' यस्मिन्व उत्क्रान्त इद शरीरं पापिष्ठतरमिव दृश्यते स वः श्रेष्ठः । वः श्रेष्ठः ' इति चोपन्यस्य ' तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधाऽऽत्मानं प्रविभज्यैतद्वाणमवष्टभ्य विधारयामि' [ प्र० २।३ ] इति । यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदैवतच्छुष्यति । १।३ । १९ ] ' तेन यदनाति यत्पिबति तेनेतराम्प्राणानवति ' [ छा० १ । २ ९] इति च प्राणनिमित्तां शरीरेन्द्रियपुष्टिं दर्शयति । ' कस्मिन्खल्बहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत [प्र० ६ । ३ । ४ ] इति च प्राणनिमित्ते जीवस्योत्क्रान्तिप्रतिष्ठे दर्शयति ॥ ११ ॥ पञ्चवृत्तिर्मनोवद्यपदिश्यते ॥ १२ ॥ (५) इतश्चास्ति मुख्यप्राणस्य कार्यविशेषः । यस्मादयं पञ्चवृत्तिः श्रुतिघु व्यपदिश्यते । सत्र -मनोवदिति । यथा मनसः श्रोत्रादिनिमित्ताः शब्दादिविषयाः पञ्च वृत्तयः २ , [बृ० दृष्टान्तः १ क. अह ५ श्रे० । २ क, 'सेविबादि । ३ क स्मिन्नुत्का ।
१३८
हरिदीक्षितकृता-
[द्वितीयाध्याय-
..
-
प्रसिद्धाः । न तु ' कामः संकल्पः ' ] बृ० १ । ५। ३ ] इत्याद्याः परिगृह्यन्ते पश्च-
सख्यातिरेकात् । यथा पञ्चवृत्तिक मन एवं प्राणोऽपानो व्याम उदानः समानश्चेति पञ्च-
वृत्तिकः प्राणः । प्राग्वृत्तिरुच्छ्रासादिकर्मा प्राणः । अत्राग्वृत्तिर्निश्वासादिकर्माऽपानः । व्यान-
स्तयोः संधिवीर्यवत्कर्महेतुः । उदान ऊर्ध्वगतिरुत्क्रान्त्यादिहेतुः । समानः समं सर्वेष्वङ्गेषु
रस नयतीत्येवं पञ्चवृत्तिः प्राणः । जीवोपकरणत्वमपि प्राणस्य मनोवदिति योजनीयम्
॥ १२ ॥ (५)
अणुश्च ॥ १३॥ (६)
मुख्यप्राणोऽय विभुः सूक्ष्मो वेति विशये विभुरिति तावत्प्राप्तम् । कुतः । सर्वव्यापि-
त्वश्रुतेः । श्रुतिश्च-'समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकः समोऽ-
नेन सर्वेण ' [ बृ० १ । ३ । २२ ] इति । तस्माब्यापी प्राण इति प्राप्ते ब्रूमः-
आधिदैविकस्य हिरण्यगर्भप्राणस्य समष्टिरूपेण व्यष्टिरूपेण चावस्थानाद्विभुत्वमस्तु । 'वायु-
रेव व्यष्टि युरेव समष्टिः' बृ०३ । ३ । २ ] इति श्रुतेः । तदेय विभुत्वं समः प्लुषिणा'
[ बृ० १ । ३ । २२ ] इत्यादिश्रुतावुपासनार्थं प्रपञ्चितम् । आध्यात्मिकस्तु प्राण
इन्द्रियवददृश्यः पारिच्छिन्नश्च । आध्यात्मिकस्य व्यापिन्व उत्क्रान्तिगत्यागतयो नोपपद्येरन् ।
किंचोत्क्रान्तौ पार्श्वस्थैरनुपलभ्यमानत्वात्सूक्ष्मः । तस्मात्याणः परिच्छिन्नः ॥ १३ ॥ (६)
ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ १४ ॥
वागादीनीन्द्रियाणि स्वस्वविषये किं स्वातन्त्र्येण प्रवर्तन्त आहोस्वित्स्वाधिष्ठातृदेवता-
परतत्राणीति विशये स्वकार्यशक्तियोगात्स्वातन्त्र्येणैव प्रवर्तन्ते । तत्तद्देवताधिष्ठितानां
प्राणानां प्रवृत्ताधभ्युपगम्यमानायां तत्तद्देवताजन्यस्य भोगस्य तत्तद्देवतानामधिष्ठात्रीणां
भोगप्राप्तौ जीवस्य भोक्तृत्वं न स्यात् । इष्टापत्तौ भोगाभावाच्छरीरमुच्छिद्यतेति प्राप्ते ब्रूमः ।
ज्योतिराद्यधिष्ठानं त्विति । तुशब्दः शङ्कानिरासार्थः । अधिष्ठीयत इत्यधिष्ठानं कर्मणि
ल्युट् । ज्योतिरग्निः । अग्न्याद्यधिष्ठात्रीभिर्देवताभिरधिष्ठितं चागादिकरणजातं स्वस्वकार्ये
प्रवर्तत इति प्रतिज्ञा । कुतः । तदामननात् । तस्य ज्योतिराद्यधिष्ठितत्वस्याऽऽमननात् ।
'अग्निर्वाग्भूत्वा मुख प्राविशत् , वायुः प्राणो भूत्वा नासिके प्राविशत् ' [ ऐ०२ । ४ ]
इत्यादौ वागादीनामग्न्याद्यनुगृहीतत्व श्रूयते । स्मृतावपि-
वागध्यात्ममिति प्राहुर्ब्राह्मणास्तत्त्वदर्शिनः ।
वक्तव्यमधिभूत तु वह्निस्तत्राधिदैवतम् ॥
इत्यादिकाया स्मर्यते ।
अतो देवपरतत्रा चेन्द्रियप्रवृत्तिः । तस्मादधिष्ठातृदेवताधीनैवेन्द्रियाणां प्रवृत्तिः ॥१४॥
चतुर्थः पादः] - ब्रह्मसूत्रवृत्तिः। १३९ नन्बग्न्यादिदेवतानामधिष्ठात्रीणामिन्द्रियप्रवर्तकत्वे तासामेव भोक्तृत्वप्रसङ्गो न शरीर- स्येति शङ्काया प्राप्तायामुत्तरमाह- प्राणवता शब्दात् ॥१५॥ प्राणशब्देनेन्द्रियाथ्युच्यन्ते । स्वस्वामिसंबन्धे च मतुप् । प्राण उपलक्षणार्थः । प्राण- यता कार्यकारणसंघातस्वामिना शारीरेणैव प्राणानां सबन्धः श्रुतेरवगम्यते शब्दात् । तथाहि श्रुति:-' अथ यत्रैतदाकाशमनुविषण्ण चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो बेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम्' [छा० ८ । १२ । २४] इत्यवमादिका शारीरेणैव प्राणानां संबन्धं श्रावयति । देवताधिष्ठित घ्राणं गन्धज्ञानमात्रार्थम् । शारीरस्य तु तनिमित्तो भोग इत्यर्थः । अधिष्ठातूणामेब भोक्तृत्वे विरुद्धविक्रियत्वं प्रसज्जेत । अतः शारीर एक एव भोक्ता ॥ १५ ॥ तस्य च नित्यत्वात् ॥ १६ ॥ (७) तस्य शारीरस्यास्मिञ्शरीरे नित्यत्वान्नित्यसनिहितत्त्वाच्च भोक्तृत्वं न देवतानाम् । तासा तत्र पुण्यपापलेपाभावात् । न ह वै देवान्पापं गच्छति' [ बृ० १ । ५ । २० ] इति श्रुतेः । ता हि देवताः परस्मिन्नैश्वर्यपदेऽवतिष्ठमानाः क्षुद्रे मनुष्यादिदेहे भोगं न प्रतिलब्धुमर्हन्ति । देवतादेहेषु परमभोगस्य सिद्धत्वात् । तस्मात्सतीप्वप्यधिष्ठात्रीषु देव- तासु न जीवस्य भोक्तृत्वमपगच्छति । करणपक्षस्यैव ता न भोक्तृपक्षस्य । तस्माजीव एव भोक्ता देवतास्तु करणाधिष्ठाञ्य् एवेति सिद्धम् ॥ १६ ॥ (७) त इन्द्रियाणि तद्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥ मुख्य एकः प्राणोऽन्ये चैकादश प्राणा इति प्रागुक्तम् । तत्रेल्थ संशय:-कि मुख्या- स्यैव प्राणस्यापानादिवद्वागादयो वृत्तिभेदाः किं वा तत्त्वान्तरणीति । मुख्यस्यैवेतरे वृत्तिभेदा इति तावत्प्राप्तम् । वागादीद्रियाणि मुख्यप्नाणस्य वृत्तयो भवितुमर्हन्ति । कुतः । तेषा प्राण- रूपत्वश्रवणात् । लथाहि श्रुतिः----- हन्तास्यैव सर्वे रूपमसामेति । त एतस्यैव सर्वे रूपम- भवंस्तस्मादेत एतेनाऽऽस्यायन्ते प्राणा इति' । [बृ०१।५।२१] एवं प्राप्ते ब्रूमः । श्रेष्ठान्मु- ख्यप्राणादन्यत्र मुख्यप्राणं वर्जयित्वाऽवशिष्टा एकादश प्राणा इन्द्रियाण्युच्यन्ते । कुतः । तव्यपदेशात् । श्रुतौ तेषामिन्द्यित्वाभिधानादित्यर्थः । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' [मु० २ । । । ३ ] इति श्रुतौ प्रापास्येन्द्रियाणा च पृथनिर्देशात् प्राणादिन्द्रियाणां तत्त्वान्तरत्वम् । प्राणशब्द इन्द्रियेषु भाक्तः- तमुत्क्रामन्तं० सर्वे प्राणा, अनूनामन्ति [ बृ० ४ । ४ । २ ] इत्यादौ । ननूदाहृतश्रुतौ मनसोऽपि पृथनिर्देशा- दिन्द्रियेभ्यस्तस्यापि तत्वान्तरत्वमस्त्विति चेन्न । । मनःषष्ठानीन्द्रियाणि ' [भ० सी० .. [ द्वितीयाध्याये- १४७ हरिदीक्षितकृता- १५ । ७ ] इत्यादिस्मृतिषु मनस इन्द्रियत्वप्रसिद्धेः । ब्राह्मणपरिव्राजकन्यायेन तस्येन्द्रियु- श्रेष्ठत्वख्यापनाय पृथनिर्देशो न तत्त्वान्तरत्वसिद्धयर्थः । प्राणे. तु श्रुतिस्मृत्योः कापीन्द्रि- यत्वव्यपदेशाभावात्तच्चान्तरत्वमेकेति ॥ १७ ॥ भेदश्रुतेः ॥ १८॥ भेदेन च वागादिम्यः प्राणः श्रूयते - ते ह वाचमूचुः [ बृ० १। ३ । २] इत्युपक्रम्य वागादीनसुरपाप्मविश्वस्तानुपन्यस्य कागादिप्रकरणमुपसंहृत्य अथ हेममासन्य प्राणमूचुः ' [ बृ० १ । ३ । ७ ] इत्यसुरविध्वंसिनो मुख्यस्य प्राणस्य पृथगुप्- ऋमात् ॥ १८ ॥ कैलक्षण्याञ्च ॥ १९॥ (८) वैलक्षण्यं तु श्रुतिषूयफादित सुप्तेषु वामादिषु मुख्य एको जामति स एवैको मृत्युनाफ- नाप्त आप्ता इतरे । तस्यैव च स्थित्युत्क्रान्तिभ्यां देहधारणपातनहेतुत्व नेन्द्रियाणामेवंतती- यको भूया क्षणभेदः । यदुक्त त. एतस्यैव सर्वे रूपमभवन् ' बृ० १ । ५ २१ ] इति श्रुतेः प्राण एवेन्द्रियाणीति । तदयुक्तम् । तत्रापि पौर्वाप-लोचनाद्भेदप्र- तीतेः । तथाहि-वदिष्याम्यवाहमिति वाग्भ्रे' [बृ० १ । ५। २१ ] इति, वागा- दीनीन्द्रियाण्यनुक्रम्य ' तानि मृत्युः श्रमो भूत्वोपयेमे, ' तस्मान्छाम्यत्येव वाक्' इति छ श्रमरूपेण मृत्युना ग्रस्तत्वं वागादीनामभिधाय ' अथेममेव नाऽऽप्नोद्योऽय मध्यमः प्राणो य: सचरंश्च न व्यथते' [ बृ० १ । ५ ।२१] इति पृथक्प्राणं श्रमरूपेण मृत्यू- नाऽनभिभूतमनुल्कामति । अयं वै नः श्रेष्ठः ' [ बृ० १ । ५ । २१] इति च श्रेष्ठता- मस्यावधास्यति । तद्रूपभवन तु तदधीनचेष्टत्वमे। न तत्स्वरूपापत्तिरिति मन्तव्यम् । तस्मात्तत्त्वान्तराणि प्राणादिन्द्रियाणीति, सिद्धम् ॥ १९ ॥, (८ संज्ञामूर्तिवलप्तिस्तु निवृत्कुर्वत उपदेशात् ॥ २० ॥ 'सदेव सौम्येदमन आसीत् 'E छा० ६ । २। १ इति सतो ब्रह्मणस्तेजोबन्नानी सृष्टिमुक्त्वाऽथ · सेयं देक्तैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽऽत्मनाऽनुप्रविश्या नामरूपे व्याकरणीति तासां त्रिवृत त्रिवृतमेकैकां करवाणीति 'छा० ६ । ३ । २] विषयः । तत्र सशयः-नामरूपव्याकरणं किं जीवकर्तृकमश्विरकर्तृकं वेति । ईश्व. रेण पञ्चभूतेषु सृष्टेषु भौतिकयोः श्रूयम्ग्रणदृश्यमानयोर्महीधरादिनामरूपयोर्जीक एक स्रष्टा भवितुमर्हति । कुतः, अनेन जीवेनाऽऽत्मनेति विशेषणादिति प्राप्तेऽभिधीयते । तुः शङ्का- निरासार्थः । जीवेनानुप्रविश्येति प्रवेशेनैव जीवोऽन्वेति, संनिहितत्वात् । जीवेन व्याकरवा शीत्यव्यवहितान्वयः स्यात् । नहि जीवस्य नानाविधनामरूपनिर्माणशक्तिरस्ति । ईश्वरस्य 1 वै चतुर्थः पादः । ब्रह्मसूत्रवृत्तिः। १४१ Iऽस्तु शक्तियुक्तत्वात् । पराऽस्य शक्तिर्विविधैव श्रूयते ' [श्वै० ६ । ८ ।। इति श्रुतेः। किं च व्याकरवाणीत्युत्तमपुरुषोऽपीश्वरपक्षे समञ्जस. । सज्ञाया नाम्नो मूर्ते रूपस्व च क्लप्तिाकरणं त्रिवृत्कुर्वतः परमेश्वरादेव भवितुमर्हति । कुतः । उपदेशात् । 'आकाशो ह नामरूपयोर्निहिता' [ छा० ८।१४ । १ ] इत्यादिश्रुविष्वाम्नानात् । त्रिवृत्कर- मेन पञ्चीकरणमुपलक्षणीयमिति स्मृतिकारा आहुः । तस्मादीश्वरकर्तृकमेव नामरूपव्याक. रणं न जीवकर्तृकमिति सिद्धम् ॥ २० ॥ मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१ ॥ भूमेस्त्रिवृत्कृतायाः पुरुषेणोपभुज्यमानाया मांसादि कार्य यथाशब्दं निष्पद्यते । तथाहि श्रुतिः-'अन्नमशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्य- मस्तन्मासं योऽणिष्ठस्तन्मनः । [छा० ६ । ५। १ ] इति । एवमितरयोरप्यप्तेजसो- यथाशब्दं कार्यं ज्ञेयम् । मूत्रं लोहितं प्राणश्चापां कार्यम् । अस्थि मज्जा वाक् तेजस इति । अत्रान्नाप्तेजांसि सनःप्राणवाचामुपष्टम्भकान्येव नोपादानानीति स्मृतिकारा आहुः ॥ २१ ॥ ननु त्रयाणामपि तेजोबन्नाना त्रिवृत्कृतत्वाविशेषे किंकृतस्तद्यय विशेषव्यपदेशो भव- तीदं तेज इमा आप इस पृथ्वीति कथमिदमन्नस्याशितस्य कार्य मासादि । इदमपा मूत्रादि । इद् तेजसोऽस्थ्यादीति तत्राऽऽह- वैशेष्यात्तद्वादस्तद्वादः ॥२२॥ ९) तुशब्दश्चौद्यनिससाय । विशेषस्य भावो वैशेष्यं भूयस्त्वमिति यावत् । सत्यपि त्रिवृत्करणे घृथिव्यादिभूयस्त्वात्तद्वादः पार्थिवादिव्यपदेश इत्यर्थः । तद्वादस्तद्वाद इति पदाभ्यासोऽध्या- समाप्त्यर्थः ॥ २२ ॥ (९) इति श्रीलक्ष्मीनरहरिसूरिसूनुना हरिदीक्षितेन विरचितायां ब्रह्मसूत्रवृत्ती द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः । यस्मिन्यन्मायया दृश्यमेतद्यदनुविद्धया । कल्पितं सत्यवद्भाति तस्मै नृहरये नसः ।। तदन्तरप्रतिपत्तौ रहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ १॥ द्वितीयेऽध्याये वेदान्तः प्रतिपादिते ब्रह्मदर्शनै श्रुतिस्मृतिन्यायविरोधोऽनूध परिहृतः धरपक्षाणां चानपेक्ष्यत्वमुपपादितम् । अथेदानी सम्यग्दर्शनाय साधनविचारोऽस्मिन्नध्याये १४२ हरिदीक्षितकृता- [ तृतीयाध्याये- क्रियते प्रसङ्गागतं च किमप्यन्यन्निरूप्यते गुणोपसंहारादि । तत्र तावत्प्रथमे पादे पञ्चाग्नि विद्यामाश्रित्य वैराग्यहेतोर्जीवस्य देहान्तरगतिर्विचार्यते । ' तस्माजुगुप्सेत ' [ छा० ५ १० ] इति पञ्चाग्निविद्यान्ते श्रवणात् । तत्र देहादेहान्तर गच्छञ्जीवः किं. शरीरारम्भकैर्भू- तसूक्ष्मैरवेष्टितो गच्छति वेष्टितो वा । किं तावत्प्राप्तम् । भूतसूक्ष्मैरसंवेष्टित इति । कुतः । भूतसूक्ष्माणां सर्वत्र सुलभत्वेन सह नयनस्य निष्प्रयोजनावात् । तस्मादसंपरिष्वक्तो याती- येवं प्राप्तेऽभिधीयते । तदन्तरप्रतिपत्तौ देहान्तस्प्राप्तौ देहबीजभूतैर्भूतसूक्ष्मः संपरिष्वक्तो. वेष्टितो रंहति गच्छति । भूतमात्राणां सर्वत्र सुलभत्वेऽपि देहबीजभूताना तासां, न, सौल- भ्यम् । कुतः । प्रश्ननिरूपणाभ्याम् । पञ्चमीद्विवचनम् । प्रश्नस्तावदित्थ-वत्थ यथा पञ्च- म्यामाहुतावापः पुरुषवचसो भवन्ति' [ छा० ५। ३ । ३ । ] इति । निरूपणं प्रतिवच- नम् । युपर्जन्यपृथिवीपुरुषयोषित्सु पश्चस्वग्निषु श्रद्धासोमवृष्टयन्तरेतरूपाः पञ्चाऽऽहुतीर्दयित्वा, पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' इति । अस्यार्थः-द्युलोकपर्जन्यपृथिवीपुरुषयो- षितः पञ्च पदार्था उपासनायामग्नित्वेन परिकल्पितास्तेष्वग्निषु स्वर्ग गच्छन् पुनरागच्छश्च जीव आहुतित्वेनोक्तः । इष्टापूर्तकारी जीवः स्वर्गमारुह्योपभोगेन कर्मणि क्षीणे सति पतित्वा वृष्टिरूपेण भूमिं प्राप्यानद्वारेण पुरुष प्राप्य रेतोद्वारेण योषिति प्रविश्य शरीरं गृह्णाति । ततः पुंशब्दोपलक्षितानि देहबीजानि पञ्च भूतान्याप इत्युच्यन्ते । ता आपो धुलोकादि- भ्योऽवतरन्यः पञ्चमे स्थाने शरीरत्वं प्राप्य पुरुषशब्दवाच्या भवन्तीति । तस्मादद्भिः सवेष्टितो जीवो रहतीति गम्यते ॥ १ ॥ ननूदाहृतश्रुतावब्योग एव गम्यते न भूतान्तरयोगस्तल्कथं प्रतिज्ञायते. सर्वैरेव भूतसूक्ष्मैः संपरिष्वक्तो रहतीत्यत आह- . व्यात्मकत्वात्तु मूयस्त्वात् ॥ २॥ तुः शड्कानिरासार्थः । अपां त्रिवृत्करणश्रुतेह्यात्मकत्वात्तेजोबन्नात्मकत्वाचास्वा- रम्भिकास्वभ्युपगतासु तेजोन्ने अप्यवश्यमभ्युपगन्तव्ये भवतः । तदुत्पन शरीरमपि त्र्यात्म- कमेव । न केवलाभिरद्भिरारब्धु शक्यते । नन्वेवं सति ' आपः पुरुषवचसो भवन्ति' इति केवलमपामेव कथं ग्रहणं तत्राऽऽह-भूयस्त्वादिति । इतरापेक्षयाऽपां बाहुल्यादि- त्यर्थः । दृश्यते च शुक्रशोणितलक्षणे देहबीजेऽपि द्रवद्रव्यबाहुल्यं देहे लोहिनादिबाहुल्य च । कर्माणि च देहारम्भकेऽग्निहोत्रादौ सोमाज्यपयआदिद्रवद्रव्यबाहुल्यम् । अत एवाऽऽपः श्रद्धाशब्दोदिताः सह कर्मभिर्युलोकारव्येऽग्नौ हूयन्त इत्युक्तम् । तस्मादपां बाहुल्यादाशब्देन सर्वेषणं देहबीजानामुपादानं युक्तम् ॥ २ ॥ प्राणगतेश्च ॥३॥ किं च प्राणानां च देान्तरप्रतिपत्तौ गतिः श्रूयते- तमुत्क्रामन्तं प्राणोऽनजामति थमः पाद] ब्रह्मसूत्रवृत्तिः। १४३ प्राणमनूत्क्रामन्त सर्वे प्राणा अनूत्क्रामन्ति ' [ बृ० ४ । ४ । २ ] इति । प्राणानां निराश्रयाणा गमनासंभवात्तदाश्रयत्वेन भूतसूक्ष्मगमनमावश्यकमित्यर्थः ॥ ३ ॥ अग्न्यादिगतिश्रुतेरिति चेन्न माक्तत्वात् ॥ ४ ॥ इन्द्रियाणि देहान्तरप्रतिपत्तौ जीवेन सह गच्छन्ति न वेति विशये न गन्छन्तीति तावत्प्राप्तम् । कुतः । अग्न्यादिगतिश्रुतेः । तथा हि श्रुतिर्मरणकाले वागादयः प्राणा अग्न्यादीन्गच्छन्तीति दर्शयति । यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वाचं प्राणः [बृ० ३।२ । १३ ] इति । इति चेन्न । कुतः। भाक्तत्वात् । वागादीनामग्न्यादिगमनश्रु- तेर्गौणत्वात् । प्राणगमनव्यतिरेकेण जीवस्य देहान्तरे भोगासंभवात् ' प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति ' इति श्रुत्यन्तरसिद्धृत्वाच्च । वागाद्यधिष्ठात्रीणामग्न्यादिदेवतानां वागाद्युपकारिणीनां मरणकाल उपकारनिवृत्तिमात्रमपेक्ष्य वागादयोऽग्न्यादीन्गच्छन्तत्युिप- चर्यते । ' ओषधीोमानि वनस्पतीन्केशाः ' [ बृ० ३ । २ । १३ ] इति तत्रतत्राऽऽ- म्नायते । नच लोमानि केशाश्च यथाक्रममोषधीर्वनस्पतीश्च गन्छन्तीति सभवति तद्वत् । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति । शरीर यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ॥ गृहीत्वैतानि संयाति वायुर्गन्धानिवाऽऽशयात् ' [ म० गी० १५ । ७-८ ] इति स्मृतिरत्रानुसधेया । तस्मादिन्द्रियाणि जीवेन सह गच्छन्तीति सिद्धम् ॥ ४ ॥ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥५॥ ननु छुपर्जन्यपृथिवीपुरुषयोषित इति पञ्चाग्नयो पञ्चानामाहुतीना श्रद्धासोमवृष्टयन्नरेतो- लक्षणानामाधारत्वेनाधीताः । तत्र प्रथमेऽग्नावपामश्रवणादनुपपन्नमेतत् — पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' इति । तथाहि-' असौ वाव लोको गौतमाग्निः' [ छा० ५। ४ । १] ' तस्मिन्नग्नौ देवाः श्रद्धां जुह्वति' [छा० ५। ४ । २ ] इति श्रुतौ श्रद्धा होम्य- द्रव्यत्वेनाधीता न तत्राऽऽपो हौम्यद्रव्यत्वेन श्रुताः। श्रद्धा च नाम प्रत्ययविशेषः। तत्कथमा- हुतीनामब्बाहुल्यमुपपद्येत । प्रथमेऽसौ श्रुता श्रद्धां परित्यज्याश्रुता आपः परिकल्प्यन्त इति । नैष दोषः । हि यस्मात्प्रथमेऽप्यग्नौ ता एवाऽऽपः श्रद्धाशब्देनाभिप्रेयन्ते । कुतः। उपपत्तेः । एवं प्रश्नप्रतिवचनयोरनाकुलमेकवाक्यत्वमुपपद्यते । इतरथाऽन्यथा प्रश्नोऽन्यथा प्रतिवचन- मित्येकवाक्यता च न स्यात् । आपश्च श्रद्धाशब्दवाच्या भवन्ति । [ तै० सं० १।६। ८ । १] इति श्रुतेः। श्रद्धापूर्वककर्मसमवायादप्सु श्रद्धाशब्द उपपद्यते । मञ्चशब्द इव पुरुषेषु । तस्माच्छृद्धाशब्देनाऽऽप एवाभिप्रेता इति सिद्धम् ॥ ५॥ श्रद्धा वा आपः .. ' असौ .. १४४ हारदीक्षितकृता- [ तृतीयाध्याये- अश्रुप्तत्वादिति चेन्नेष्टादिकारिणां प्रतीते ॥६॥ स्यादेतत् । प्रश्नप्रतिवचनाभ्यामापः श्रेद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषशब्दवाच्यत्वं प्रामुयुः । यदि तावज्जीवेन संपरिष्वक्ता रहेयुः । तच्च नास्ति । कुतः । अश्रुतत्वात् । अस्मिन्वाक्येऽपामिव जीवानामश्रुतत्वादिति । नैषदोषः । कुतः । इष्टादिकारिणां प्रतीतेः । अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति ' [छा०५ । १० । ३ इत्युपक्रम्येष्टादिकारिणां धूमादिना पितृयाणमार्गेण चन्द्रप्राप्तिं कथयति श्रुतिः-'आकाशाच्च- न्द्रमसमेष सोमो राजा' [छा०५।१०।४] इति । त एवेहापि प्रतीयन्ते । ' तस्मिन्नेतस्मि- अग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सभवति [ छा० ५ । ४ । २] इति श्रुतिसाम्यात् । तेषां चाग्निहोत्रदर्शपूर्णमासादिसाधनभूता दधिपय प्रभृतिष्वापः सन्ति । द्रवद्रव्यत्वात् । ता आहवनीये हुताः सूक्ष्मा आहुत्योऽपूर्वरूपाः सत्यस्तानिष्टादिकारिण आश्रयन्ते । तेषां च शरीरं नैधनेन विधानेनान्त्येऽनावृत्विजो जुह्वति स्वर्गाय लोकाय स्वाहा ' इति । तत आहुतिरूपा आप इष्टादिकारिणो जीवान्परिवेष्टयामु लोक फलभोगाय नयन्ति । ता एव श्रद्धां जुह्वतीत्यभिप्रेताः । तस्मादाहुतिमयीभिरद्भिः संपरिष्वक्ता जीवा रहन्ति स्वकर्मफलभोगायेति श्लिष्यते शेष इत्यर्थः ॥ ६॥ ननु फलभोगाय धुलोकगमनमसगतम् । एष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ' [ छा० ५। १० । ४ ] इति । ते चन्द्र प्राप्यान्नं भवन्ति' [बृ० ६। २ । १६ ] इति समानविषयश्चुत्यन्तरादन्नवश्रवणात् , देवैर्भक्षितानां फलभोगासंभवा- दित्याशङ्कयाऽऽह- माक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयति ॥ ७॥ (१) वाशब्दश्चोद्यनिरासार्थः । इष्टादिकारिणां यदुक्तमन्नत्वं तद्भाक्तं गोणम् । अन्यथा 'स्वर्गकामो यजेत' इत्यादिश्रुतिरुपरुध्येत । इष्टादिकारिणां स्वर्गभोगहानिश्च स्यात् । 'ते तं भुक्त्वा स्वर्गलोकं विशाल क्षीणे पुण्ये मर्त्यलोक विशन्ति ' [भ.गी०९।२१] इत्यादिस्मृतिविरोधश्च स्यात् । अन्नशब्दश्चोपभोगहेतुत्वसामान्यादननेषूपचर्यमाणो दृश्यते । यथा विशोऽन्नं राज्ञां पशवोऽनं विशामिति । तस्मादिष्टस्त्रीपुत्रभृत्यादिभिः स्वस्य गुणभावं गतैरिह यत्सुखमनुभूयते तेन या स्वस्य प्रीतिरुपजायते सा तस्यान्नम् । तथा स्वर्ग इष्टादिकारिभिर्यत्सुखमुपभुज्यते तदेव देवानामन्नमित्युच्यते न मोदकादिवञ्चर्वण निगरण वाऽत्र विवक्षितम् । तथाच श्रुतिः- 'न ह वै देवा अश्नन्ति न पिबन्त्येतदेवामृत दृष्ट्वा तृप्यन्ति' [ छा० ३।६ । १] इति देवानां चर्वणादिव्यवहारं वारयति । किंचानात्मवित्त्वादपीष्टादिकारिणां देवोपभोग्यत्वमुप- पद्यते । तथाहि श्रुतिदर्शयति--' अथ योऽन्या देवतामुपास्तेऽन्योऽसावहमन्योऽस्मीति न स वेद यथा पशुरेव स देवानाम् ' [बृ० १। ४ । १० 1 इति । पशवढिहामत्र च ' - प्रथमः पादः] ब्रह्मसूत्रवृत्तिः। १४५ देवानुकूलाचरणेन प्रीतिसाधनत्वाद्भोग्यत्वं भोग्यत्वाच्चान्नत्वोपचारः । तस्माद्रेहति संपरि वक्त इति सिद्धम् ॥ ७ ॥ (१) कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥८॥ स्वर्गमुपभुज्य ततोऽवरोहन्पुरुषो निरनुशय इहाऽऽयाति किंवा सानुशय इति संशयः । जीवमनुशेत इत्यनुशयः कर्म सद्वाननुशयवान् । अनुशयरहित एवावरोहति जीव इति तावत्प्राप्तम् । कुतः । ' यावत्संपातमुषित्वाऽथैतमेवाध्वान पुनर्निवर्तन्ते ' [छा. ५। १० । ५] इति श्रुतेः । नच स्वर्गादबरोहतोऽनुशयः संभवति । अनुशयफलस्य सर्वस्य स्वर्ग एवोपभुक्तत्वात् । संपतत्यनेन कर्मणा स्वर्गमिति संपात इति स्वर्गभोगसाधन- भूतं कर्म संपातमनतिक्रम्य यावत्सपातम् । निःशेषकर्मफल भोक्तु तत्रोषित्वेत्युक्तश्रुतेरर्थः । तस्मारकर्मशेषरहितोऽवरोहतीति प्राप्तेऽभिधीयते स्वर्गार्थमनुष्ठितस्य कर्मणः साकल्येनोप- भोगेऽप्यभुक्तानि संचितानि पुण्यपापानि बहून्यस्य विद्यन्ते । अन्यथा सद्यः समुत्पन्नस्य धर्माधर्मरहितस्य बालकस्य सुखदु.खोपभोगो न स्यात् । अतः कृतात्यये स्वर्गार्थ कृतस्य कर्मणः फलभोगेनात्यये क्षये सत्यनुशयवाञ्जीवोऽवरोहति । कुतः । दृष्टस्मृतिभ्याम् । दृष्टं प्रत्यक्षम् । दृष्टश्चायं जन्मनैव प्रतिप्राण्युन्चावचकर्मफलभूत उपभोगः प्रविभज्यमान आकस्मिकत्वासंभवादनुशयसद्भावं सूचयति । श्रुतिश्च-' य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनि वा क्षत्रिययोनि वा वैश्ययोनि वा शूद्रयोनि वा । अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनि वा सूकर- योनि वा चण्डालयोनि वा ' [छा० ५। १० । ७ ] इति । चरणशब्देनानुशयः सून्यते । अभ्याशो ह यदित्यव्ययसमुदायस्य क्षिप्रत्वमर्थः । रमणीयचरणाः सुकृतकर्माणः कपूयचरणाः पापकर्माणः। सानुशयावरोहे स्मृतिरपि-वर्णाश्रमाश्च स्वकर्मनिष्ठाः प्रत्येक- कर्मफलमनुभूय ततः शेषेण विशिष्टदेशकालरूपायुःश्रुतवृत्तसुखमेधसो जन्म प्रतिप्रद्यन्त इति । तथाच भाष्यम्- यथा स्नेहभाण्डं रिच्यमान न सर्वात्मना रिच्यते । भाण्डानुसार्येव कश्चित्स्नेहविशेषोऽवतिष्ठते तथाऽनुशयोऽपीति । तस्मादनुशयशेषं पुरस्कृत्य संचितपुण्य- पापानुसारी स्वर्गादवरोहतीति फलितार्थः । अवरोहणं च यथेतम् । गमनसमये येन पथा गतं तद्यथेतम् । अनेवं च । अवरोहण तद्विपर्ययेणेत्यर्थः । विस्तरस्तु भाष्यादव, गन्तव्यः ॥ ८ ॥ चरणादिति चेन्नोपलक्षणाति काष्णाजिनिः॥५॥ ननूदाहृतश्रुतौ चरणाजन्मापत्तिः प्रतीयते न तु कर्मणः । चरणकर्मणोर्भेदश्रवणात् । तथा च श्रुतिः ' यथाकारी यथाचारी तथा भवति' [बृ०४।४।५] । ' यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकर सुचरितानि तानि त्वयोपास्यानि ' .. ११ -- , १४६ हरिदीक्षितकृता- [ तृतीयाध्याये- [ तै० १ । ११ । २ ] इति च । तस्माचरणाद्योन्यापत्तिश्रुतेर्नानुशयसिद्धिरिति चेत् । नैष दोषः । यतोऽनुशयोपलक्षणार्थेवैषा चरणश्रुतिरिति कार्णाजिनिराचार्यो मन्यते ॥९॥ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १०॥ ननु चरणस्याऽऽचारस्य न कर्मोपलक्षकत्वम् । मुख्यस्य चरणस्यैव साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः फल भविष्यति । अवश्यं च शीलस्यापि किंचित्कलमभ्युपगन्तव्यम् । अन्यथाऽऽनर्थक्यमेव शीलस्य प्रसज्येतेति चेन्न । कुतः । तदपेक्षत्वात् । इष्टादिकर्मणां चरणसापेक्षत्वात् । न ह्याचारहीनः कर्मण्यधिकारी भवति । 'आचारहीन न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः । छन्दास्येन प्रजहत्यन्तकाले नीडं शकुन्ता इव जातपक्षाः 'शौचाचारविलीनस्य समस्ता निष्फलाः क्रियाः । इत्यादिस्मृतेश्च । तस्माच्चरणस्य स्वतन्त्रत्वाभावात्कर्मोपलक्षणत्वं युक्तमिति कार्णाजिने. मतम् ॥ १०॥ मुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥ (२) बादरिस्त्वाचार्यः मुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते । चरणमनुष्ठानं कर्मेत्यनान्तरम् । इष्टादिकारिणि धर्म चरतीति लोके प्रयोगदर्शनात् । आचारोऽपि धर्मविशेष एव । चरणकर्मणोर्मेदव्यपदेशस्तु ब्राह्मणपरिव्राजकन्यायेनाप्युपपद्यते । तस्माद्रमणी- यचरणाः सुकृतिनः कपूयचरणा दुष्कृतिन इति निर्णयः ॥ ११ ॥ (२) अनिष्टादिकारिणामपि च श्रुतम् ॥ १२॥ इष्टादिकारिणां चन्द्रलोकप्राप्तिरभिहिता। ये वितरेऽनिष्टादिकारिणस्तेषां चन्द्रलोकप्राप्ति- रस्ति न वेति संशयेऽस्तीति तावदाह । कुतः । चो हेतौ । यतोऽनिष्टादिकारिणामपि चन्द्रलोकप्राप्तिः श्रूयते । तथा च काषीतकिन आमनन्ति- ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति ' [को० १ । २] इति । पञ्चम्यामाहुतौ' इत्याहु- तिसंख्यानियमात्सर्वेपा चन्द्रलोकप्राप्तिरवश्यमभ्युपेयेति शङ्कासूत्राभिप्रायः ॥ १२ ॥ संयमने त्वनुभूतरेषामारोहावरोही तद्तिदर्शनात् ॥ १३ ॥ तुशब्दः पूर्वपक्षं व्यावर्तयति । इतरेषां चन्द्रलोके गमनं नास्ति । भोगायैव हि तत्र गमनं न निष्प्रयोजनम् । इष्टादिकारिणामेव हि तत्र भोगो नानिष्टादिकारिणाम् । क तर्हि तेषां भोगस्तत्राऽऽह-इतरेषामनिष्टादिकारिणां संयमने यमलोके गत्वा पापकर्मानुरूपं दु.खम- नुभूय पुनरवरोहः । एवंभूतौ तेषामारोहावरोहौ । कुतः । तद्गतिदर्शनात् । तथाहि नचि- केतसं प्रति यमवचनरूपा श्रुति.- - प्रथमः पादः ] ब्रह्मसूत्रवृत्तिः। १४७ 'न सांपरायः प्रतिभाति बालं प्रमाद्यन्त वित्तमोहेन मृढम् । अयं लोको नास्ति पर इति मानी पुनःपुनर्वशमापद्यते मे ' ॥ [ का० २।६ ] 'वैवस्वतं संगमनं जनानां यमं राजान हविषा दुवस्यत ' [ऋ० सं० १० । १४ । १] इति च श्रुत्यन्तरम् । न सांपराय इत्यस्यायमर्थः-सम्यगवश्यंभावेन पर. परस्तादेह- पातादयते गम्यत इति संपरायः परलोकः । तत्साधन कर्म सापरायः । स बालमविवे- किनं न प्रतिभाति । कीदृश बालम् । वित्तनिमित्तेन मेहेन मूढम् । अत एव प्रमाद्य- न्तम् । न केवलमज्ञः किं तु विपरीतबुद्धिरपि । यतोऽयमेव लोको नास्ति कुतः परलोक इति मानी मननशीलः । अतस्तदनुरूपमाचरन्पुन.पुनमें मम वशमापद्यते प्राप्नो- तीति ॥ १३ ॥ स्मरन्ति च ॥ १४॥ अपि च मनुव्यासादयः शिष्टाः संयमने पुरे यमाधीनं कपूयकर्मविपाक स्मरन्ति ॥ १४ ॥ अपि च सप्त ॥ १५ ॥ स्मरन्तीत्यनुषज्जते । अपि च सप्त नरका रौरवमहारौरववह्निवैतरणीकुभीपाकतामि- सान्धतामिस्राख्याः पापफलभूमित्वेन स्मर्यन्ते पौराणिकैः । ताननिष्टादिकारिणः प्राप्नुवन्ति कुतस्ते चन्द्रलोकं प्रामुयुरित्यभिप्रायः । यत्तु कश्चिदाह रौरवादिभ्यः पञ्चभ्यः पापिन उत्तिष्ठन्ति तामिस्रान्धतामिस्राम्या नैवोत्तिष्ठन्तीति । तदसन् । तदुक्तकौण्ठरव्यश्रुतेः खपुष्पा- यमाणत्वात् ॥ १५ ॥ ननु विरुद्धमिदं पापकर्माणो यमायत्ता यातना अनुभवन्तीति । यतस्तेषु रौरवादिषु चित्रगुप्तादयोऽधिष्ठातारः स्मर्यन्ते । तत्कथं यम एवाधिष्ठातेति तत्राऽऽह- तत्रापि च तद्यापारादविरोधः ॥ १६ ॥ चश्चोद्यनिरासे । तत्रापि रौरवादिष्वपि सप्तसु नरकेषु तस्यैव यमस्या धिष्ठातृत्वाभ्युपग- मात् । यमप्रयुक्ता एव हि ते चित्रगुप्तादयोऽधिष्ठातारो न स्क्तत्रा इति स्मरणान्न विरोधः ॥१६॥ विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥ इतोऽपि नानिष्टादिकारिणां चन्द्रलोकप्राप्तिः । तथा हि-पञ्चामिविद्यायां 'वेत्थ यथाऽसौ लोको न संपूर्यते ' ( छा० ५। ३।३) इत्यस्य प्रतिवचनावसरे श्रूयते-' अथैतयोः पथोर्न कतरेण च तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति । जायस्व म्रियस्वेत्ये- . - - . , जायस्व हरिदीक्षितकृता- [ तृतीयाध्याय- १४८ तत्तृतीय स्थानं तेनासौ लोको न संपूर्यते ' [ छा० ५। १० । ८ ] इति । तत्रैतयोः पथोरित्यस्यार्थकथनं विद्याकर्मणोरित्यनेन । एतयोः पथोरिति विद्याकर्मणोरिति विवक्षित. मित्यर्थः । कुतः । प्रकृतत्वात् तद्य इत्थं विदुः । [छा० ५ । १० । १] इति या विद्या तया प्रतिपत्तव्यो देवयानः पन्थाः । ' इष्टापूर्ते दत्तम् [ छा० ५। १० । ३] इति कर्म तेन प्रतिपत्तव्यः पितृयाणः पन्थाः कथितः । तत्रैतयोर्न कतरेण श्रुतम् । अयमर्थ:-ये विद्यया साधनेन न देवयानेऽधिकृता नापि कर्मणा पितृयाने तेषामेव क्षुद्रजन्तुलक्षणोऽसकृदावर्ती तृतीयः पन्था भवतीति । विद्याकर्ममार्गद्यव्यतिरेकेण क्षुद्र- जन्तुमार्गकथनादपि नानिष्टादिकारिणां चन्द्रलोकप्राप्तिरित्यर्थः । तुशब्देन ' चन्द्रमसमेव ते सर्वे गच्छन्ति ' इतियाक्योत्थशड्कानिरासः । सर्वशब्द इष्टादिकारिपर एवेल्य भिप्रायः ॥ १७॥ ननु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' छा० ५। ३ । ३] इत्याहुति- संख्यानियमादेहावाप्तये सर्वेषां चन्द्रलोकगमनमावश्यकमत आह- न तृतीये तथोपलब्धेः ॥१८॥ तृतीये स्थाने नाऽऽहुतिसख्यानियमोऽस्ति । कुतः । तथोपलब्धेः । नियस्व' [ छा० ५। १० । ८ ] इत्यनेनाऽऽहुतिसंख्यानियम विना देहजननोप- लब्धरित्यर्थः । अपि च पञ्चम्यामाहुतावाफः पुरुषवचसो भवन्ति ' इति मनुष्यशरीरहे. तुत्वेनाऽऽहुतिसंख्या संकीर्त्यते न कीटपतङ्गादिशरीरहेतुत्वेन । अपि च पञ्चम्यामाहुताकपा पुरुषवचस्त्वमुपदिश्यते नापञ्चम्यामाहुतौ पुरुषवचस्त्वं प्रतिषिध्यते । वाक्यभेददोषात् । तत्र येषामारोहावरोही सभवतस्तेषा पञ्चम्यामाहुतौ देह उद्भविष्यति । अन्येषां तु विनै- वाऽऽद्धतिसंख्यया भूतान्तरोपसृष्टाभिरद्भिह आरभ्यत इति भाष्यम् ॥ १८॥ स्मर्यतेऽपि च लोके ॥ १९ ॥ अपि च स्मर्यते । अपि च लोके पुराणादौ स्मर्यते द्रोणधृष्टद्युम्नप्रभृतीनां चायो- निजत्वम् । तत्र च न संख्यानियमः । द्रोणादीनां योषिदधिकरणकाढत्यभावात् । धृष्ट- द्युम्नादीनां तु योषित्पुरुषविषयाहुतिद्वयाभावात् । एवमनिष्टादिकारिणामप्याहृतिनियमाभावो ज्ञेयः । आहुतिनियमाभाव एवायं दृष्टान्तः ॥ १९ ॥ दर्शनाञ्च ॥२०॥ अपि च जरायुजाण्डजस्वेदजोद्भिज्जलक्षणे चतुर्विधे भूतग्रामे मैथुनधर्ममन्तरेण स्वेदजो- द्भिज्जयोरुत्पत्तिदर्शनान्न । संख्यानियमः । इष्टादिकारिणामेव संख्यानियमो नान्य- नेति भावः ॥ २० ॥ .
प्रथमः पादः 1 ब्रह्मसूत्रवृत्तिः। १४९ नन्वण्डजं जीवजमुद्भिज चेति त्रैविध्यमेव भूतग्रामस्य श्रूयते । जीवजं जरायुजम् । कथ चातुर्विध्यमत आह- तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥ (३) 'आण्डज जीवजमुद्भिज्जं च ' [ छा० ६ । ३।१] इत्यन्न तृतीयेनोद्भिज्नशब्देनैव स्वेदजोपसग्रहः कृतः प्रत्येतन्यः । संशोकजशब्दः स्वेदजजन्तुवाची । स्वेदजोद्भिज्जयोरु- भयो म्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात् । स्वेदजस्योद्भिज्जत्वेऽपि जगमत्वेन पृथक्कृत्य स्थाव- रमुद्भिज्जशब्देनाभिधाय चातुर्विध्यनिर्देशस्याविरोध इति भावः ॥ २१ ॥ (३) सामाव्यापत्तिरुपपत्तेः ॥ २२ ॥ (४) इष्टादिकारिणश्चन्द्रलोकमारुह्य तस्मिन्यावत्संपातमुषित्वा लतः सानुशया अवरोहन्ती- त्युक्तम् । तदवरोहप्रकारोऽधुना चिन्त्यते । तत्रेयमवरोहश्रुतिः _' अथैतमेवाध्वानं पुन- निवर्तन्ते यथेतमाकाशमाकाशाद्वायु वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽनं भवति । अभ्र भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति ' [ छा० ५। १० । ७ ] इति । यथेतं यथा गतं तथेत्यर्थः । अत्र संशयः-फिमवरोहन्त आकाशादिस्वरूपं प्रतिपद्यन्ते किं वाऽऽकाशादिसाम्यमिति । तत्र किं तावत्प्राप्तम् । आकाशादिस्वरूपमेव प्रतिपबन्त इति । कुतः । वायुर्भवतीत्यादौ भवतिशब्दात्तत्स्वरूपं गम्यते । एवमाकाशमित्यत्रापि । श्रुति- लक्षणयोः श्रुतिया॑य्या न लक्षणा । तस्मादाकाशादिस्वरूपं प्रतिपद्यन्त इति प्राप्ते ब्रूमः । आकाशादिसाम्यं प्रतिपद्यन्त इति साभाब्यापत्तिः । समानो भावो येषां ते सभावा- स्तेषां भावः साभाव्यं साम्यं तस्याऽऽपत्तिः प्राप्तिः सादृश्यापत्तिरित्यर्थः । कुतः। उपपत्तेः । अन्यस्यान्यसादृश्यमुपपद्यते यथा गोसादृश्यं गवयस्य न तु तादात्म्यमित्यर्थः । अत आका- शादितुल्यतापत्तिरेवात्राऽऽकाशादिभाव इत्युपचर्यत इति भाष्यम् ॥ २२ ॥ (४) नातिचिरेण विशेषात् ॥ २३ ॥५) प्राग्नीह्यादिप्रतिपत्तेराकाशादिप्राप्तौ भवति संशयः-किं दीर्घकालं पूर्वसादृश्येनाव- स्थायोत्तरसादृश्यं गच्छन्त्युताल्पकालमिति अविशेषादनियमप्राप्तावुच्यते-अल्पकाल. मेवाऽऽकाशादिसादृश्येनावस्थानम् । कुतः । विशेषात् ' त इह व्रीहियवा ओषधिवनस्पत- यस्तिलमाषा इति जायन्ते ' इति व्रीह्यादिभावमभिधायानन्तरम् ' अतो वै खलु दुर्नि- प्रपतरम् ' [ छा० ५। १० । ६ ] इति । तत्रैकस्य तकारस्य लोपश्छान्दसः । दुर्निष्प्रपततरमिति रूपम् । अस्माबीह्यादिभावाद्विलम्बेन निःसरणं भवतीत्यर्थः । दुर्नि- ष्प्रपतरमिति न दुःखनिष्प्रपतनमुच्यते किं तु कालविलम्बमात्रम् । तदानीं शरीरानि- पत्तेर्न दुःखस्य सुखस्य वा संभवोऽस्ति । तस्माद्वीह्यादिभावापत्तेः प्रागल्पेनैव काले- नावरोहः स्यादिति ॥ २३ ॥ (५) १५० हरिदीक्षितकृता- [ तृतीयाध्याये- न अन्याधिष्ठिते पूर्ववभिलापात् ॥ २४ ॥ आकाशादाविव व्रीह्यादौ न संश्लेषमानं किं तु ब्रीह्यादिरूपेण मुख्यजन्म विवक्षितम् । जायन्त इति श्रवणात् । न च स्वर्गे सुकृतमनुभूयावरोहतः पापफलरूपस्य स्थावरजन्म- नोऽसभवः । तद्धेतोः पशुहिंसादेविद्यमानत्वात् । तस्मान्मुख्यं जन्मेति प्राप्ते ब्रूमः । अन्यैर्जीवैरधिष्ठितेषु ब्रीह्यादिपु संश्लेषमात्रमनुशायिनः प्रतिपद्यन्ते यथा पूर्वत्राऽ:काशादौ संश्लेषमानं तद्वत् । कुतः । पूर्ववदभिलापात् । यथाऽऽकाशादिषु वृष्टयन्तेषु न कंचित्कर्म- व्यवहारं परामृशत्येवं व्रीह्यादिजन्मन्यपि । तस्मान्न विद्यतेऽत्रानुशायिनां सुखदुःखभोक्तृ. त्वम् । यत्र मुखदुःखभोक्तृत्वमस्ति तत्र कर्मव्यवहारं श्रुतिः परामृशति रमणीयचरणाः कपूयचरणा इति । अत्र तदकीर्तनान्न ब्रीह्यादिकमनुशायिनां भोगसाधनमिति । तस्मात्पुण्यकृतां चन्द्रलोकादवरोहतां पापफलं ब्रह्यादिरूपेण जन्म न युक्तम् ॥ २४ ॥ अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥ ननु पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म । तस्य तादृशमेव ब्रीह्यादिजन्मरूपमनिष्ट- फलं संभवतीत्यतो मुख्यमेव ब्रीह्यादिजन्मास्तु किमर्थं गौणी कल्पनेति चेन । कुतः । शब्दात् । ' अग्नीषोमीयं पशुमालभेत ' इत्यादिहिंसाविधायकशब्दात् । ननु हिंस्यात्सर्वा भूतानि ' इति श्रुतेर्यागीयपशुहिंसाऽधर्मसाधनं हिंसात्वात्क्रतुबाह्यहिंसावदिति प्रयोगाच्चाधर्मसाधनं कर्मेति चेत् । अत्रोच्यते न हिंस्यात् ' इत्युत्सर्ग एव सः। 'अग्नीषोमीयं पशुभालभेत ' इति तदपवादोऽयमुत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् । उक्तानुमाने निषिद्धत्वमुपाधिः । तस्माद्विशुद्धमेव वैध कर्म शिष्टैरनुष्ठीयमानत्वान्न तद्योग्य ब्रह्यादिजन्मेति भावः ॥ २५ ॥ रेतःसिग्योगोऽथ ॥ २६ ॥ इतश्च व्रीह्यादिसंश्लेषमानं तद्भाव इत्युपर्यते । यस्माद्बीह्यादिभावानन्तर रेतःसिम्भाक आम्नायते ' यो यो ह्यन्नमात्ति यो रेतः सिञ्चति तद्भूयमेव भवति ' [ छा० ५। १० । ६] इति । न चात्र मुख्यो रेतःसिग्भावः संभवति । चिरजातो हि प्राप्तयौवनो रेत:सि- ग्भवति । तद्भुयं तत्समानाकारतामनुशयी भवति प्रतिपद्यत इत्यर्थः । यथाऽस्मिन्वाक्येऽ- नुशयिना ब्रीह्यादिभावानन्तर रेतःसिग्योग एव रेतःसिक्त्वं नतु मुख्यमसंभवात् । एवं व्रीह्यादिभावोऽपि तत्संयोग एवेत्यर्थः । तदुक्तं भाष्ये-रेतःसिग्योग एव रेतःसिग्भावोऽ- भ्युपगन्तव्य इति ॥ २६ ॥ योनेः शरीरम् ॥ २७ ॥ (६) ननु रमणीयां योनिमित्यादावप्यनुशायनां न मुख्यं जन्म किं तु ब्रीह्यादाविवामुख्यं जन्मेत्याशङ्कयाऽऽह योनेः शरीरमिति । रेतःसिग्भावानन्तरं योनौ निषिते रेतसि - ..
द्वितीयः पादः ] ब्रह्मसूत्रवृत्तिः। १५१ योनेः सकाशाद्यच्छरीरमुत्पद्यते तदेवानुशायिनां भोगसाधनत्वान्मुख्यं जन्म नेतरत् । तस्माद्रीह्यादिषु संश्लेषमात्रमनुशायिनां जन्म न मुख्यमिति सिद्धम् ॥ २७ ॥ (६) इति तृतीयाध्यायस्य प्रथमः पादः ॥ १ ॥ अथ तृतीयाध्यायस्य द्वितीयः पादः । संध्ये सृष्टिराह हि ॥१॥ पूर्वपादे पञ्चाग्निविद्यामधिकृत्य जीवस्य संसारगतिप्रभेदः प्रपञ्चित इदानीं तस्यैव जीव- स्थावस्थाभेदः प्रपझ्यते । एतेन संसारगतिप्रभेदप्रपञ्चनेन नानाविधजन्मप्राप्तेश्चातिदुःखहेतु- त्वाद्वैराग्येण भाव्यमित्युक्तं भवति । विरक्तस्य तत्त्वंपदार्थविवेकायाय पाद आरभ्यते । तत्र न स्थानतोऽपि [ ब्र०सू०३।२।११] इत्यतः प्राक्त्वंपदार्थस्य विवेकः । ततःप्रभृति तत्पदा. र्थस्य । तत्र प्रथमाधिकरणे स्वप्नसृष्टेमिथ्यात्वं प्रतिपाद्यते । आरम्भणाधिकरणे प्रपञ्चमात्रस्य मिथ्यात्वप्रतिपादनेऽपि स्वप्नस्य शुक्तिरजतादितुल्यत्वोपपादनादपुनरुक्तिः । तत्राऽऽदौ शड्का- सूत्रद्वयम् । संध्ये सृष्टिः पारमार्थिकी । सध्यमिति स्वप्नस्थानम् । जाग्रत्सुषुप्त्योः संधौ भवतीति व्युत्पत्तेः । 'सध्यं तृतीयं स्वप्नस्थानम् ' [बृ० ४ । ३ । ९ ] इति श्रुतौ दर्शनाच । कुतः । यतः प्रमाणभूता श्रुतिरेवमाह- स यत्र स्वपिति ' [ बृ० ४ । ३ । ९ ] इति स्वप्नं प्रकृत्य ' अथ रथाव्रथयोगान्पथः सृजते' [ बृ० ४ । ३ । १० ] इति ॥ १॥ निर्मातारं चैके पुत्रादयश्च ॥२॥ अपिचैके शाखिनोऽस्मिन्नेव संध्ये स्थाने कामाना निर्मातारमात्मानं पठन्ति-' य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ' [क० पा० ८ इति । तत्र काम्यन्त इति व्युत्पत्त्या कामाः पुत्रादयोऽभिप्रेताः । तस्मान्निर्मातृधवणादपि सत्यत्वम् । प्राज्ञं चात्र निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीमः । प्राज्ञस्य हीदं प्रकरणम्-' अन्यत्र धर्मादन्यत्रा- धर्मात् ' [ क. २ । १४ ] इति । तद्विषय एव वाक्यशेषोऽपि. 'तदेव शुक्र तब्रह्म तदेवामृतमुच्यते । तस्मॅिल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ' ॥ [ क० ५। ८ इति । प्रयोगश्च-विमता स्वप्नसृष्टिः सत्या परमात्मकर्तृकत्वाज्जाग्रत्सृष्टिवदिति । तस्मात्प्राज्ञ- वृकत्वाज्जाग्रत्सृष्टिवत्स्वप्नसृष्टिः सत्या ॥ २ ॥ इति प्राप्ते उत्तरं पठति- मायामानं तु कात्स्न्नानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥ तुशब्दः पूर्वपक्षं प्रतिक्षिपति । न स्वप्नसृष्टिः सत्या कि तु मायामात्र मिथ्यैव ।
- हरिदीक्षितकृता- [तृतीयाध्याये- कुतः । कास्न्य॑नानभिव्यक्तस्वरूपत्वात् । कृत्स्नमेव कार्त्य स्वार्थे ष्यञ् । किं पुनरत्र कामभिप्रेतम् । देशकालादिनिमित्तसंपत्तिरबाधश्च । कात्स्र्थेन देशकालादिवस्तुधर्मेणा- संबद्धत्वादित्यर्थः। न हि रथादेः शरीरान्तर्वर्तिहृदयदेशः सचारयोग्यः संभवति । न जीवः शरीरान्निर्गत्य बहिरेव रथादिना संचरतीति वान्यम् । क्षणमात्रेण शतयोजनपर्यन्त- गमनागमनयोरसभावित्वात् । तदुक्तं भाष्ये -नहि सुप्तस्य जन्तोः क्षणमात्रेण योजनश- तान्तरितं देशं पर्येतु [ विपर्येतु ] च तत्र सामर्थ्य संभाव्यत इति । तथा च श्रुतिः स यत्रैतत्स्वमया चरति ' [ बृ० २। १ । १८ ] इत्युपक्रम्य 'स्वे शरीरे यथाकाम परिवर्तते' [ बृ० २।१।१८ ] इति । स्पष्टं चाभावं रथादीना स्वप्ने श्रावयति श्रुति:- “न तत्र रथा रथयोगा न पन्थानः [बृ० ४ । ३ । १० ] इत्यादि । किंच स्वप्नो- पलब्धानां पदार्थानां स्वप्न एव बाधो दृश्यते । कदाचित्तरुत्वेन दृष्टस्तदैव गिरित्वेन दृश्यत इति । प्रयोगश्च-स्वप्नदृष्टिमिथ्याऽविद्याकार्यत्वाच्छुक्तिरजतवदिति । तस्मान्मायामात्रं स्वप्न- दर्शनम् ॥ ३॥ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥४॥ ननु स्वमस्य मिथ्यात्वे तत्सूचितस्य लाभादेः सत्यत्वं न स्यादिति शङ्कानिरासायेदं सूत्रम् । सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः । सूचक इत्यनेन सूच्यत्वं स्वप्नस्य निरस्तम् । तथा हि सूचकत्वं श्रूयते- यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति। समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने ' ॥ [ छा० ५। २९] इति । तथा 'यदा पुरुष कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति' [ ऐ०आ० ३।२।४।१७] इत्येवमादि । तद्विदश्च स्वप्नाध्यायविदश्चाऽऽचक्षते। कुञ्जरारोहणादीनि धन्यानि गर्दभयानादी. न्यधन्यानीति । स्वप्नलब्धफलमन्त्रादावपि तज्जातीयसूचकत्वमेव न सूच्यत्वमिति न विरोधः । रथादिस्रष्तृत्वश्रुतिर्निमित्तत्वमात्रपरा न जाग्रत्तुल्यस्रष्टत्वपरेति मन्तव्यम् । तदुक्तं भाष्ये- मन्त्रदेवताद्रव्यविशेषनिमित्ताश्च केचित्स्वप्नाः सत्यार्थगन्धिनो भवन्तीति मन्यते । तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वं सूचकस्य स्त्रीदर्शनादर्भवत्येव वैतथ्यं बाध्य- मानत्वादिति । यदुक्त प्राज्ञकर्तृकत्वाज्जाग्रत्सृष्टिवत्स्वप्नसृष्टिः सत्येति । तदप्यसत् । श्रुत्यन्तरे 'स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति ' [ बृ० ४ । ३। ९] इति जीवव्यापारकीर्तनात् । इहापि य एष सुप्तेषु जागर्ति ' [क० ५ । ८] इति प्रसिद्धानुवादाजीव एवायं कामानां निर्माता सकीर्यते । तस्य तु वाक्यशेषेण ' तदेव शुक्र तद्ब्रह्म ' इति जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते तत्वमस्यादिवदिति न ब्रह्मा- करणं विरुध्यते । तस्मादुपपन्ने स्वप्नस्य मायामात्रत्व सिद्धमिति ॥ ४ ॥ ..
द्वितीयः पादः ] ब्रह्मसूत्रवृत्तिः। १५३ पराभिध्यानातु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥५॥ ननु परस्यैवाऽऽत्मनोऽशो जीवोऽग्नेरिव विस्फुलिङ्गः । तत्रैवं सति यथाऽग्निविस्फुलिङ्गयोः समाने दहनशक्ती भवत एव जीवेश्वरयोरपि ज्ञानेश्वर्यशक्ती समाने । ततश्च जीवस्यैश्वर्ययोगा- त्सांकल्पिकी स्वप्ने रथादिसृष्टिर्भविष्यतीति शङ्कायामभिधीयते। तुशब्देन शङ्काव्युदासः । सत्यपि जीवेश्वरयोरंशशिभावेऽपि जीवस्याविद्यावृतत्वानेश्वरसमानधर्मत्व कि तर्हि तद्विपरीतधर्मत्वम् । संसारदशायां जीबस्येश्वरसमानधर्मत्व नास्ति । विद्यमानमपि सामर्थ्य तिरोहितम् । अविद्यातत्का- योम्यां व्यवधानात् । नन्वेव कदाऽपि तदीश्वरसमानधर्मत्व नाऽऽविर्भवेत् । तत्राऽऽह-परा. भिध्यानादिति । परस्य परात्मनोऽभिध्यानादाविर्भवति । तत्कुतः, तत ईश्वरादस्य जीवस्य बन्धविपर्ययौ बन्धमोक्षो भवतः। ईश्वरस्वरूपापरिज्ञानाद्बन्धः । तत्स्वरूपपरिज्ञानान्मोक्षः । तथा च श्रुतिः-'ज्ञात्वा देवं सर्वपाशापहानि. क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः [ श्वे० १ । ११ ] इत्येवमाद्या ॥ ५ ॥ तिरोहितमित्युक्तं कि तत्तिरोधायकमित्याशक्य तदाह देहयोगाद्वा सोऽपि ॥६॥ जीवस्येश्वरसाम्यं संसारदशायां तिरोहितमित्युक्तम् । सोऽपि तु ज्ञानेश्वर्यतिरोभावो देहयोगादेहेन्द्रियमनोबुद्धिविषयवेदनादियोगाद्भवति । यथा भस्मन्छन्नस्याग्नेस्तिरोभावस्तद्वत् । वाशब्दो जीवेश्वरयोर्भदशङ्कानिरासार्थः । नन्वन्य एव जीव ईश्वरादस्तु । तिरस्कृतज्ञानेश्व- यत्वाात्क देहयोगकल्पनथेति चेत् । नेत्युन्यते । नान्यत्वं जीवस्येश्वरादुपपद्यते तत्त्वमस्याद्य- भेदप्रतिपादिश्रुतिभ्यः । अत ईश्वरादभिन्नोऽपि जीवः ससारदशाया तिरोहितज्ञानेश्वर्यो भवति । अतश्च न साकल्पिकी जीवस्य स्वप्ने रथादिसृष्टिर्घटते । यदि साकल्पिकी सृष्टिः स्यात्तर्हि नैवानिष्ठ कश्चित्स्वप्न पश्येत् । तस्मादुपपन्न स्वप्नस्य मायामात्रत्वम् ॥ ६ ॥ (१) तदभावो नाडीषु तच्छतेरास्मनि च ॥ ७ ॥ जीवस्य स्वप्नावस्था चिन्तिता । इदानी सुपुप्त्यवस्था चिन्त्यते । तत्रैताः सुपुप्तिवि. षयाः श्रुतयो भवन्ति । कचिच्छूयते 'तद्यत्रैतत्सुप्तः समस्तः संप्रसन्न. स्वप्न न विजाना- त्यामु तदा नाडीषु सुप्तो भवति । [छा० ८ । ६ । ३ । इति । अन्यत्र तु नाडीर. नुक्रम्य श्रूयते- ताभिः प्रत्यवसृष्य पुरीतति शेते' [ बृ० २ । १ । ९] इति । तथाऽन्यत्र नाडीरेवानुक्रम्य ' तामु तदा भवति यदा सुप्तः स्वप्न न कंचन पश्यत्यथास्मि- न्प्राण एवैकवा भवति ' [ कौ० ४ । १९ ] इति । कचिच्च ' य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते ' [ बृ० २ । १ । १२ ] इति । तथाऽन्यत्र सता सौम्य तदा संपन्नो भवति स्वमपीतो भवति [ छा० ६ ८ । १] इति । तान्येतानि सुषुप्तिस्थानानि नाड्यादीनि परस्परनिरपेक्षतया भिन्नानि किं वा परस्परापेक्षयैकं सुषु- हरिदीक्षि कृता- [ तृतीयाध्याये- प्तिस्थानमिति संशयः । विकल्पितानि भवितुमर्हन्तीति तावत्प्राप्तम् । एकप्रयोजनत्वात् । यथा 'व्रीहिभिर्यवैर्वा यजेत' इत्यत्र पुरोडाशनिष्पादनप्रयोजनस्यैकत्वेन विकल्प आश्रितस्तथाऽ- त्रापि सुषुप्त्याख्य प्रयोजनमेक तस्मात्कदाचित्पुरीतति कदाचिदन्यासु नाडीपु कदाचिद्ब्रह्म- णीति विकल्पे प्राप्ते ब्रूमः । एकप्रयोजनत्वमसिद्धम् । पृथगुपयोगस्य सुवचत्वात् । तथा हि -नाड्यस्तावच्चक्षुरादीन्द्रियेषु सचरतो जीवस्य हृदयनिष्ठ ब्रह्म गन्तुं मार्गभूता भवि- ष्यन्ति । ' आसु तदा नाडीपु सु ( सृ ) प्तो भवति ' [ छा० ८ । ६ । ३ ] इति । नाडीनां स्तुत्यर्थं सु( स )प्तिकीर्तनम् । अत एव 'ताभिः प्रत्यवसृप्य पुरीतति शेते [ बृ० २ । १ । १९] इत्यत्र तृतीयया साधनत्वं नाडीनां श्रुतम् । 'तासु तदा भवति ' [ कौ० ४ । १९ ] इत्येतदपि यो गगया सागर गन्छति गत एव स गङ्गायां भवतीतिवदविरुद्धम् । 'नाडीषु सु( स )प्तो भवति' इत्युक्त्वा ' तं न कश्चन पाप्मा स्पृशति' [ छा० ८ । ६ । ३ ] इति ब्रुवती श्रुतिर्जीवस्य ब्रह्मसपन्नत्वमेवा- वगमयति । पाप्मस्पर्शाभावे हेतुमाह तत्रैव श्रुतिः---'तेजसा हि तदा पंपन्नो भवति । छा०८।६।३] इति । तेजोऽत्र ब्रह्म । पुरीतदिति हृदयपरिवेष्टनमुच्यते । ब्रह्म तु पर्यववदा- धारः । सूत्रार्थस्त्वेवम् । तदभावः स्वप्नाभावः सुपुप्तिरित्यर्थः । नाडीष्वात्मनि च चकारात्पुरी- तति च समुच्चयेन भवति । कुतः । तच्छ्रुतेः । उदाहृतानां नाड्यादीनां तत्र तत्र सुषुप्तिस्थान- त्वश्रवणात् । न च सुषुप्त्याख्यप्रयोजनस्यैकत्वाद्विकल्पोऽस्त्विति वाच्चम् । एक- प्रयोजनत्वासिद्धेः । नाडीना मार्गत्वात् । पुरीततश्च प्राकारवहृदयपरिवेष्टनत्वात् । तथाच नाडीद्वारा पुरीतति प्रविश्य ब्रह्मणि शेत इति भिन्नकार्यत्वात्समुच्चयोपपत्तिः । यः पूर्व विकल्प उक्तः सोऽष्टदोषग्रस्तत्वादनुपपन्नः । तथा हि । तथा हि-यदा जीवो नाडीप शेते तदा पुरीतद्ब्रह्मवाक्ययोः प्राप्त प्रामाण्यं परित्यक्त स्यात् । अप्राप्तं च प्रामाण्य स्वी क्रियेत । अथ यदा पुनः पुरीतद्ब्रह्मणोः शेते तदा पुरीतद्ब्रह्मवाक्ययोः पूर्वत्यक्तप्रामाण्यं स्वी क्रियेत । पूर्वस्वीकृतं चाप्रामाण्य परित्यज्यतेति प्राप्तपरित्यागोऽप्राप्तस्वीकारस्त्यक्तस्वीकारः स्वीकृतप- रित्यागश्चेति दोपचतुष्टय पुरीतद्ब्रह्मकोटौ । तथा नाडीवाक्यकोटावपि दोषचतुष्टये योजिते सत्यष्टौ दोपाः सपद्यन्ते । तस्मात्समुच्चय एव ग्राह्यो न तु विकल्पः । ननु ब्रह्मसंपन्नस्य कर पुनः ससार इति चेत् । उच्यते -यथा सोदककुम्भस्तडागजले प्रक्षिप्तो मग्नः सन्पृथड्न भाति तथाऽन्तःकरणोपाधिको जीवो मायोपहिते ब्रह्मणि संपन्नो भवतीत्य- विरोवः ॥ ७ ॥ अतः प्रबोधोऽरमात् ॥८॥ (२) यतः कारणादात्मैव सुषुप्तिस्थानमतः कारणादस्मादात्मनः सकाशात्प्रबोधो भवति । तथाच स्वप्नाधिकारे श्रूयते । — कुत एतदागात् ' [बृ० २। १ । १६ ] इत्यस्य द्वितीयः पादः ] ब्रह्मसूत्रवृत्तिः। १५५ प्रतिवचनावसरे ' यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः [बृ० २ । १ । १० ] इत्यादिना । 'सत आगम्य न विदुः सत आगच्छामहे' [ छा० [६ । १० । २ ] इति च । यदि नाड्यादीनामपि सुषुप्तिस्थानत्व तदा ततोऽपि प्रबोधः श्रूयते । तस्मादप्यात्मन्येव सुपुप्तिः ॥ ८ ॥ (२) स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ।। (३) यः सुपुप्तौ सति संपद्यमानोऽभूत्स एव प्रतिबुध्यतेऽथवाऽन्य इत्यस्मिन्नधिकरणे चिन्त्यते । यथा समुद्रे प्रक्षिप्तो जलबिन्दुः स एव नियमेन पुनरुद्धमशक्यस्तथा सुपुप्तौ जीवः स एव प्रतिबुध्यत इति नियन्तुमशक्यत्वाद्यः कोऽपि प्रतिबुध्यत इति प्राप्ते ब्रूमः । तुर्नार्थे । यः सुप्तः स एव प्रबुध्यते नान्यः । कुतः । कर्मादिभ्यः । अत्र हेतुत्रयं विभजनीयम् । कर्मानुम्मृतेः । तथा हि पूर्वेद्युरनुष्ठितस्य कर्मणोऽपरेछुः शेषमनुतिष्ठन्दृश्यते। नचान्येन सामिकृतस्य कर्मणोऽन्यः शेपक्रियायामुत्सहते प्रवर्तितुम् । अतिप्रसङ्गात् । अन्यत्वपक्षे पूर्वद्युरारब्धस्य कर्मणः स्मृतिर्न स्यात् । अन्यनिष्ठानुभवसस्कारस्यान्यस्मृति प्रत्यहेतुत्वात् । शब्दाच्च तस्यैवोत्थानमवगम्यते । स च शब्दः 'सर्वाः प्रजा अहरहर्ग- च्छन्त्य एत ब्रह्मलोक न विन्दन्ति ' [ छा० ८ । ३ । २ ] इति । वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ' [ छा० ६ । ९ । ३ ] इति । व्याघ्रादयो जे जीवाः सुप्तेः पूर्वं यन्छ- रीरं प्राप्य वर्तन्ते त एव जीवाः सुप्तेरुपरि प्रबुध्यमानास्तदेव शरीर प्राप्नुवन्तीत्यर्थः । न तत्राऽऽत्मान्तरोत्थाने सामञ्जस्यमीयुः । विधेश्च । ज्योतिष्टोमादिविविरनर्थकः स्यात् । सुप्तमात्रस्यैव मुक्तत्वात् । नच सुषुप्तौ ब्रह्म प्राप्तस्य जीवस्य मुक्तवत्पुनरुत्थानानुपपत्तिः । अवच्छेदकस्योपाधेः सत्त्वेन तदुद्भवेन जीवोद्भवसंभवात् । तस्माद्यः सुप्तः स एव प्रति- बुध्यते ॥ ९॥ (३) मुग्धेऽर्धसंपत्तिः परिशेषात् ॥ १०॥[४] मुग्धो नाम मूर्छित इति प्रसिद्धिः । स तु किमवस्थ इति । तत्र विचार्यते शारी- रस्थ तिस्रस्तावदवस्थाः प्रसिद्धाः । जागरितं स्वप्नः सुषुप्तमिति । चतुर्थी शरीरादपसृतिः । न तु पञ्चमी काचिदवस्था श्रुतिस्मृतिप्रसिद्धाऽस्ति तस्मान्मूर्छावस्था जाग्रदाद्यवस्थात्रयान्त- र्गता भिन्ना वेति संशये भिन्नेति तावत्प्राप्तम् । कुतः । श्रुताववस्थात्रयव्यतिरिक्ताया अव- स्थाया अप्रसिद्धेः । एवं प्राप्तेऽभिधीयते । न तावन्मूर्छा जाग्रदवस्थायामन्तर्भवितुमर्हति । विशेष. २ त इह व्याघ्रो १ क, हब्रह्मलोकं ग° । २ क तं न ।
- १५६ हरिदीक्षितकृता- [ तृतीयाध्याये- ज्ञानाभावात् । नहि मूर्छित इन्द्रियैर्विषयानीक्षते । जाग्रतः पुरुषस्य देहो ध्रियते । मुग्धस्य देहो धरण्या पतति । तस्मान्मूर्छा न जाग्रत् । नापि स्वप्नेऽन्तर्भावः। स्वाप्निकविपयदर्शनाभावात् । नापि सुषुप्तावन्तर्भावः । सुषुप्त्यवस्थालक्षणाभावात् । सुषुप्तौ मुखप्रसादनियतकालोन्छास- निःश्वासनिमीलितनेत्रत्वादीनि लक्षणानि भवन्ति । मूर्छिते तु विकृतमुखानियतोन्छासनिः. श्वासविस्फुरितनेत्रसकम्पत्वादीनि भवन्त्यतो न सुसुप्तावन्तर्भावः । मूर्छितो नापि मृतः । प्राणोष्मणोर्भावात्पुनरुत्थानाच्च । नहि मृतः पुनरुत्तिष्ठति । तस्मात्परिशेपादवस्थान्तरमेव मुर्छा । तदुक्तं भाष्ये-न ब्रूमो मुग्धेऽर्धसपत्तिर्जीवस्य ब्रह्मणा भवतीति । कि तीन सुषुप्तस्य पक्षस्य भवति मुग्धस्वमर्वेनावस्थान्तरपक्षस्येति ब्रूम इति । अवस्थान्तरमत्र मर- णमेव । यतो मूर्छा मरणस्य द्वार भवति । यत्तूक्तमवस्था पञ्चमी नास्तीति । नैष दोषः । अर्धसपत्त्यभ्युपगमात् । नेयमबस्था पञ्चमीति गण्यते । कादाचित्कीय न सर्वप्राणिसाधा- रणी मूर्छाऽतोऽवस्थेति न प्रसिद्धा ॥ १० ॥ ( ४ ) न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥ येन ब्रह्मणा सुषुप्त्यादिषु जीव उपाध्युपशमात्सपद्यते तस्य ब्रह्मणः स्वरूपं श्रुतिवशेन विचार्यते । सन्त्युभयलिङ्गाः श्रुतयो ब्रह्मविषयाः ' सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः' [ छा० ३ । १४ । २ ] इत्येवमाद्याः सविशेपलिङ्गाः । अस्थूलमनण्वह्रस्वमरूपम- स्पर्शम् ' [ बृ० ३ । ८ । ८ ] इत्येवमाद्या निर्विशेपलिङ्गाः । किमासु श्रुतिपूभयलिङ्गं ब्रह्म प्रतिपत्तव्यमुतान्यतरलिङ्गमिति । यदाऽन्यतरलिङ्ग तदा किं सविशेपमुत निर्वि- शेषमिति विशये उभयलिङ्गमिति सावत्याप्तम् । कुतः । उभयलिगश्रुतिभ्यः । एव प्राप्तेऽ- भिधीयते । ब्रह्म निर्विशेपमेव । स्थानत उपाधितोऽपि परस्य ब्रह्मण उभयलिङ्गत्वं नोप- पद्यते । पारमार्थिकस्यैकस्य वस्तुनो विरुद्धोभयरूपत्वासंभवात् । न ह्युपाधियोगाद्वस्तुनः स्वभावोऽपगन्छति । नहि स्वन्छः स्फटिकोऽलक्तकाद्युपाधितोऽस्वच्छो भवति । अस्वन्छ- ताभिनिवेशस्य भ्रममात्रत्वात् । प्रकृते निर्विशेषमेव ब्रह्म शास्त्रतः प्रतिपत्तव्यम् । माना- न्तरासिद्धत्वात् । जगत्कर्तृत्वादिविशेषोपेतं ब्रह्म क्षिल्यादिक सकर्तृकं कार्यत्वादित्यनुमाने- नापि ज्ञातुं शक्यस् । ब्रह्मणः सविशेषत्वमुपासनार्थमारोपितम् । हि यस्मात्सर्वत्र वेदान्तेषु ' अशब्दमस्पर्शमरूपमव्ययम् ' [ क० ३ । १५ नृ० ता० ९ मु० २ । ७२ 1 इत्येवमादिषु निर्गुणस्वरूपमेव ब्रह्म प्रतिपाद्यते ॥ ११ ॥ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ।। १२ ।। ननु यदुक्तं निर्विकल्पकमेकलिङ्गमेव ब्रह्म नास्य स्वतः स्थानतो वाऽप्युभयलिङ्गत्वम- स्तीति तन्नोपपद्यते । कुतः । भेदात् । चतुष्पाद्ब्रह्म पोडशकलं ब्रह्म वामनीत्वादिलक्षण ब्रह्म वैश्वानरशब्दोदितं ब्रह्मेल्यादिभेदश्रवणात्सविशेषत्व ब्रह्मणः स्यादन्यथा निर्विषयमभेद- द्वितीयः पादः ] ब्रह्मसूत्रवृत्तिः। १५७ शास्त्रं स्यादिति चेन्नेति ब्रूमः । कुतः । प्रत्येकमतद्वचनात् । प्रत्युपाधि [ भेदं ] शास्त्र- मभेदमेव ब्रह्मणः श्रावयति यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायम. ध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा' [ बृ० २ । ५ । १] इत्यायेकरूपत्वश्रवणान्न भिन्नाकारत्व ब्रह्मणः ॥ १२ ॥ अपि चैवमेके ॥१३॥ आपिचके शाखिन एवं भेददर्शननिन्दापूर्वकमभेदमामनन्ति–' मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ' [ क० ४ । ११ ] इति । 'भोक्ता भोग्य प्रेरितार च मत्वा सर्व प्रोक्तं त्रिविधं ब्रह्ममेतत् ' [ श्वे० १२ ] इति चान्ये शाखिनः समस्तस्य भोक्तृभोग्यनियम्यनियन्त्रादिलक्षणस्य प्रपञ्चस्य ब्रह्मैकस्वभावतामधीयते ॥ १३ ॥ ननु साकारनिराकारप्रतिपादकश्रुतिसाम्ये कथं निर्विशेषत्वावधारणमित्यत उत्तरं पठति- अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥ रूपाद्याकाररहितमेव ब्रह्म प्रतिपत्तव्य न रूपादिमत् । कुतः । तत्प्रधानत्वात् । अस्थूलमनण्वह्रस्वमदीर्धम्-' [ बृ० ३ । ८ । ८] ' अशब्दमस्पर्शमरूपमव्ययम् ' । [क० ३ । १५] ' आकाशो वै नाम नामरूपयोर्वहिता । 'दिव्यो ह्यमूर्त पुरुषः सबाह्याभ्यन्तरो ह्यजः [ मु० २ । १ । २] । ' तदेतद्ब्रह्मापूर्वमनपरमनन्त- रमबाह्यमयमात्मा ब्रह्म' । [ बृ० २ । ५। १९ ] इत्यादीनि वाक्यानि निर्विशेषब्रह्मप्र. तिपादकानि न सविशेपब्रह्मप्रतिपादकानि । यानि त्वाकारवद्ब्रह्मप्रतिपादकानि वाक्यानि तान्युपासनाविधिपराणि । तत्राविरुद्ध पु न बाधः । विरुद्धेषु तु धर्मेपु निर्गुणश्रुति- प्राबल्यादारोपेणोपासनाविधिपरत्वमाश्रीयते ॥ १४ ॥ का तर्हि साकारब्रह्मविषयाणां श्रुतीनां गतिरित्यत आह- प्रकाशवञ्चावैयात् ॥ १५ ॥ यथा सूर्यादिप्रकाशोऽअल्पायुपाधिसंबन्धादगुल्यादिगतर्जुवक्रांदिभावमापद्यत एवं ब्रह्मापि पृथिव्याधुपाधिसंबन्धात्तत्तदाकारभावमिवाऽऽपद्यते । एवमवैयर्थ्यमपि साकारब्रह्मविषयाणा वाक्याना भवति । नन्वेवमपि यत्पुरस्तादुक्तं नोपाधियोगादपि उभयलिङ्गत्व ब्रह्मणोऽ- स्तीति तद्विरुध्येतेति चेन्न । उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपत्तेः । उपाधीना मायि- कत्वान्मायायाश्च मिथ्यात्वात् । तस्माद्ब्रह्मणि साकारत्वं कल्पितम् ॥ १५ ॥ आह च तन्मांत्रम् ॥ १६ ॥ आह च श्रुतिश्चैतन्यमानं विलक्षणरूपान्तररहितं ब्रह्म-'स यथा सैन्धवघनोऽनन्तरोऽ. बाह्यः कृत्स्नो रसधन एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानधन एव ' [बृ० १५८ हरिदीक्षितकृता- [ तृतीयाध्याये- ४ । ५। १३ ] इति । यथा सैन्धवघनस्य स्वरूप सर्व लवणरसात्मकमेव न रसान्तरं तत्रास्त्येवमात्माऽपि सबाह्याभ्यन्तरं चैतन्यैकरसस्वरूप एव न रूपान्तरव्यामिश्रः ॥ १६॥ दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥ परप्रतिपेधेनैव ब्रह्म निर्विशेपं दर्शयति च श्रुतिः-' अथात आदेशो नेति नेति' [ बृ० २ । ३ । ६ ] ' अन्यदेव तद्विदितादथो अविदितादधि' [ के० ३ ] इति । ' यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ' [ तै० २ । ४ । १] इत्येवमाद्या । स्मृति- ष्वपि रूपान्तरनिषेधेनैव ब्रह्मोपदिश्यते- 'ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ञात्वाऽमृतमश्नुते । अनादिमत्पर ब्रह्म न सत्तन्नासदुच्यते ' [ भ० गी० १३ । १२ ] इत्येवमाद्यासु ॥ १७ ॥ अत एवचोपमा सूर्यकादिवत् ॥ १८॥ यत एव चायमात्मा चैतन्यरूपो निर्विशेपो वाङ्मनसातीतोऽभिन्न उपदिश्यते । अत एवास्य श्रुतिषु जलसूर्यकादिवदित्युपमा श्रूयते-- यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा' ॥ एक एव तु भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ' ॥ [ ब्र० बिं० १२ ] इत्येवमादिषु ॥ १८ ॥ अत्र शङ्कते-- अम्बुवदग्रहणात्तु न तथात्वम् ॥ १९ ।। तथात्वं जलसूर्यादितुल्यत्व ब्रह्मणो नोपपद्यते । कुतः । अम्बुवदग्रहणात् । अम्बुनींवा- म्बुवत् । यथा मूर्तो देशान्तरस्थः सूर्यादिः । तस्मात्पृथग्भूतं विप्रकृष्टदेशस्थ मूर्त च जलं तत्र सूर्यादेः प्रतिबिम्बो युक्तः । नत्वेवमात्मा मूर्तः । नचास्मात्पृथग्भूता विप्रकृष्टदेश- स्थाश्चोपाधयः । आत्मनः सर्वगतत्वात्सर्वानन्यत्वाच न प्रतिबिम्बितुमर्हतीति दृष्टान्ता- सिद्धिः ॥ १९ ॥ एवं शङ्कायां प्राप्तायां परिहारमाह- वृद्धिह्रासभा क्वमन्तौवादुमयसामञ्जस्यादेवम् ॥ २० ॥ यदुक्त दृष्टान्तो नोपपद्यत इति तदयुक्तम् । विवक्षिताशे दृष्टान्तसंभवात् । न हि दृष्टान्तदा@न्तिकयोः सर्वसाम्य केनचिद्दर्शयितुं शक्यम् । सर्वसाम्ये दृष्टान्तदान्तिक- भावोच्छेद एव स्यात् । किं पुनरत्र सादृश्यं तत्राऽऽह-वृद्रियसभाक्तमिति । जलगतं -- अथात द्वितीयः पादः ] ब्रह्मसूत्रवृत्तिः। हि सूर्यप्रतिबिम्ब जलवृद्धौ वर्धते जलहासे हसति जलचलने चलति जलभेदे भिद्यत एवं जलधर्मानुयायि भवति । न तु परमार्थतः सूर्यस्य विम्बरूपस्य तदस्ति । एव निर्विशेषस्य व्यापकस्यापि ब्रह्मणो देहाद्युपाध्यन्त वादुपाधिधर्मान्वृद्बिह्रासादीन्प्रतिबिम्बो जीवो भजते । एवमुक्तप्रकारेणोभयोईष्टान्तदान्तिकयोः सामञ्जस्यादविरोध इति शेपः ॥ २० ॥ ननु परस्य न देहादिप्रवेशो येन तदुपाधिवृद्ध्यादिकमत आह- दर्शनाच्च ।। २१ ॥ (५) दर्शयति च श्रुति:--' अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य ' [छा० ६ । ३ । २ ] इत्यादिश्रुतिषु प्रवेशदर्शनादित्यर्थः । तस्माद्युक्तमेतदत एवोपमा सूर्यकादिवदिति ॥२१॥ (५) प्रकृतैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२॥ द्वे वाव ब्रह्मणो रूपे मूर्त चामूर्त च ' [ बृ० २ । ३ । १ ] इत्यस्मिन्ब्राह्मणे महता प्रबन्धेन पृथिव्यप्तेजोलक्षणं मूर्त रूपं प्रपञ्यान्ते ब्रह्मोपदेष्टुमिदमुक्तम् आदेशो नेति नेति' [बृ० २ । ३ । ६ ] इति । अस्यायमर्थः-अथ रूपद्वय- कथनानन्तरं रूपिणो ब्रह्मणो व्यक्तत्वात् 'नेति नेति' इत्येवं ब्रह्मोपदेश इति। तत्र पूर्वपक्षी मन्यते । जगत एकस्यैव निपेधने द्वितीयो नेति शब्दो निरर्थकः स्यात् अतो द्वितीयेन ब्रह्मापि निषिध्यते प्रकृतत्वाविशेषाद्रूपद्वयब्रह्मणोईयोरपि निषेध्यत्वादिति प्राप्ते ब्रूमः । न ब्रह्मणो निषेधः क्रियते सर्वनिषेधे शून्यवादप्र- सङ्गात् । न चेष्टापत्तिः । निरधिष्ठानभ्रमासभवात् । तस्माद्रूपद्वयनिषेधोऽयम् । तदाह प्रकृतैतावत्वं हि प्रतिषेधतीति । प्रकृत यदेतावत्परिन्छन्नम् । भावप्रत्ययो न विवक्षितः । मूर्त चामूर्त च । आद्यं मूतत्रय मूर्तम् । अन्त्य द्वयममूर्तम् । तदुभयमितिशब्देन संनिहि. तावलम्बिना निर्दिश्य नकारो निषेधति । नकारद्वयं रूपद्वयनिषधाय । तदुक्त भाष्यकारैः किंचिद्धय (द्धि) [परमार्थमालम्ब्या परमार्थं प्रतिषिध्यते । यथा रज्ज्वादिषु सर्पादयः । तच्च परिशिष्यमाणे कस्मिंश्चिद्भावेऽवकल्पते कृत्स्नप्रतिषेधे तु कोऽन्यो भावः परिशिष्येतेति । किंच तत्रैव भाष्य उक्तम् । नापि ब्रह्मप्रतिपेध उपपद्यते । ब्रह्म ते ब्रवाणि, [ बृ० २ । १ । १ ] इत्युपक्रमविरोधात् । ' असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् ' [ तै० २ । ६ । १ ] इत्यादिनिन्दाविरोधात् । ' अस्तीत्येवोपलब्धव्यः [ क० ६ । १३ ] इत्यवधारणविरोधात् । सर्ववेदान्तकोपप्रसङ्गाच्चेति । द्वौ च तौ प्रतिषेधौ यथासख्यन्यायेन द्वे अपि रूपे मूर्तामूर्ते ब्रह्माण मायया कल्पिते प्रतिपेधतः । किंच अथात आदेशः [ बृ० २।३ । ६ ] इति महता संरम्भेण ब्रह्मोपदेष्टु प्रतिज्ञाय तदेव ब्रह्म निषेधन्ती श्रुतिः कथ न व्याहन्येत । ब्रह्मनिषेवे वाक्यशेषश्च सत्यम् ' [ बृ० २ [ बृ० २ । ३ । ६ । इत्येवंरूपः पारमार्थिकसत्यपरो न संगच्छेत । तस्माद्ब्रह्मावसानोऽयं प्रतिषेधो नाभावावसान इति सिद्धम् ॥ २२ ॥ 6 सत्यस्य - तदव्य- १६० हरिदीक्षितकृता- [ तृतीयाध्याये- तदव्यक्तमाह हि ॥ २३ ॥ यत्तत्प्रतिपिद्धाद्रूपद्वयादन्यत्परं ब्रह्मास्तिचेत्कस्मान्न गृह्यत इति शङ्कायामाह तमिति । अव्यक्तमनिन्द्रियग्राह्यम् । सर्वदृश्यसाक्षित्वात् । तदुक्तमाचार्यभगवत्पादैः रूपं दृश्य लोचनं दृक् तदृश्यं दृक्च मानसम् । दृश्या धीवृत्तयः साक्षी दृगेव न तु दृश्यते । ॥ इति । आह हि श्रुतिरेवमाह—— न वक्षुपा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा' [ मु० ३ । १८ ] इत्याद्या । अन्यैर्देवौरन्द्रियान्तरैः । तपसा कृन्छादिना । कर्मणाऽग्निहोत्रादिनेति तदर्थः । स्मृतिरपि-' अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुन्यते' [ भ० गी० २ । २५ ] इत्याद्या ॥ २३ ॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥ अपिचैनमात्मानं निष्प्रपञ्चमव्यक्तं संराधने ध्यानकाले योगिनः पश्यन्ति । कथमेतदव- गम्यते-संराधने पश्यन्तीति । प्रत्यक्षानुमानाभ्याम् । श्रुतिस्मृतिभ्यामित्यर्थः । तथाहि श्रुतिः- 'पराश्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिन्छन् ' [ क० ४.१ ] इति । अस्यायमर्थः-स्वयंभूरीश्वरः । स्वं श्रोत्र तदुपलक्षिता सर्वेन्द्रियाणि खानि । पराञ्चि बहिर्विषयाणि । व्यतृणद्धिंसितवान् । यथाऽऽत्मान द्रष्टुं न शक्नुवन्ति तथा कृतवानित्यर्थः। तस्माद्रेतोः पराड् पश्यति सर्वलोकः । नान्तरात्मन् । अन्तरात्मनि विषये न पश्यति । अन्तरात्मान न पश्यतीत्यर्थः । कश्चिद्धीरो विवेकी प्रत्यगात्मानमेक्षत् । आवृत्तचक्षुरुपरते- न्द्रियः । किमर्थम् । अमृतत्वमिच्छन्निति । स्मृतिरपि- 'यं विनिद्रा जितश्वासाः सतुष्टा · सयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ।। [ म० भा० १२ । ४७ । ५४ ॥ इत्याचा ॥ २४ ॥ नन्वाराध्याराधकभावेऽभ्युपगम्यमाने सति भेदः स्यादत आह- प्रकाशादिवञ्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥२५॥ यथा सवितृप्रकाशस्यावैशेष्यमभेदः । तथा जीवपरमात्मनोरपि । प्रकाशस्य भेदन सक्किं दर्शयति-प्रकाशश्च कर्मणीति । कर्म कार्यम् । सामान्येनैकवचनम् । कर्मणि कार्येष्वित्यर्थः । अड्गुल्याद्युपाधिपु प्रकाशस्तत्तदवच्छिन्नतया भेदेन भासमानोऽपि वस्तुतो यथा न भिद्यते तथाऽविद्यया भिन्नतया भासमानयोरपि जीवपरमात्मनोरभेद एवं पारमार्थिको मन्तव्यः । कुतः । अभ्यासात् । वेदान्तेषु पौनःपुन्येन जीबपरमात्मनोरै- क्यप्रदिपादनादित्यर्थः । - द्वितीयः पादः] ब्रह्मसूत्रवृत्तिः। अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥ यतो जीवस्य परमात्माभेदो हि चास्तवः, भेदस्त्वाविद्यकः, अतः कारणादनन्तेन परमात्मना गच्छत्येकतामविद्यानिवृत्तौ । तथा हि लिङ्गं श्रुतिरित्यर्थः । ' स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति ' { मु० ३।२।९] · ब्रह्मैव सन्ब्रह्माप्येत्ति ' [ बृ० ४।४।६] इत्यादि ॥ २६ ॥ उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ २७ ॥ स्वस्मिन्नेव संराध्यसंराधकभावे शङ्कामुत्थापयति सूत्रद्वयेन । तथा हि जीवपरमात्मनो- र्भेद एव क्वचिद्वेदान्त उक्तः । ततस्तु त पश्यति निष्फल ध्यायमानः ' [मु. ३ । १। ८ । ] इति ध्यातृध्येयभावेन द्रद्रष्टव्यभावेन [च ] ' परात्परं पुरुपमुपैति दिव्यम्' [मु० ३ । २ । ८] इतिगन्तृगन्तव्यभावेन — यः सर्वाणि भूतान्यन्तरे यमयति' [ बृ० ३ । ७ । १५ ] इति नियन्तृनियन्तव्यभावेन च भेदव्यपदेशात् । क्वचित्तु तयो- रेखाभेदो व्यपदिश्यते । ' तत्वमसि' [ छा० ६ । ८ । ७ ] ' अहं ब्रह्मास्मि' [ वृ० १ । ४ । १० ] ब्रह्मैव सन् ब्रह्मास्यति ' [ बृ० ४ । ४ । ६ ] इत्यादी । तत्रैवं सति यद्यभेद एवैकान्ततो गृह्येत तदा भेदव्यपदेशो निराश्रयः स्यात् । अत एवोभयच्यप- देशादहिकुण्डलवत् । अत्र तत्त्वम् । यथाऽहिरित्यभेदः कुण्डलाभोगप्रांशुवक्रत्वादिसंस्थान- विशेषैर्भेद एवं जीवपरमात्मनोरपि भेदाभेदाविति ॥ २७ ॥ प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥ अथवा यथा प्रकाशस्तदाश्रयश्च सविता तौ नात्यन्तभिन्नौ । उभयोरपि तेजस्वाधिशे- पात् । अथ च भेदव्यपदेशभाजौ भवतः । तद्वदिहापीति । यत्तु कश्चिदाहास्मिन्पादे भगवति भक्तिः कर्तव्येति प्रतिपाद्यत इति प्रतिज्ञाय भक्तिश्च माहात्म्यज्ञानपूर्वकः स्नेह इति तलक्षणमुक्त्वा तत्र भगवन्माहात्म्यप्रतिपादकान्हेतून्प्रदर्श्य भगवद्भक्तिः कार्या न वेति संशये नेति प्राप्तम् । निर्गुणे भक्त्ययोगात् । आनन्दादीना स्वरूपत्वाभ्युपगमात् । न ह्यभेदे गुणगुणिभावः संभवति । एवं प्राप्ते सिद्धान्तमाह-उभयव्यपदेशात्त्वहिकुण्डलवत् । कर्तव्यैव भगवद्भक्तिः । श्रुतिषु गुणत्वेन गुणित्वेन चेत्युभयथाऽपि व्यपदेशात् । अभेदेऽपि विशेषबलाद्गुष्पगुणिभाव उपपद्यते । अहिकुण्डलवत् । यथाऽहि. कुण्डलं चेत्यभेदेऽपि भेद- स्तद्वदिति । तदसत् । विशेषस्यापि भगवदभिन्नत्वात् । तेनैव जीवेश्वरयोरपि भेदाच्च । अस्मसिद्धान्ते विशेषो मायेत्यनन्तरम् । 'मायैव विशेयो नम तेन भेदः कल्यत्त इति तुरश्रुतेः ॥ २८ ॥ एव शङ्काया प्र.स्वायां समाधत्ते सूत्रकारः- पूर्ववद्वा। पूर्व योफ्यस्तं ' प्रकाशादिवच्चावेशेष्यम् ' [ब्र० सू० ३ । २ । २५ ] इति ।
, १६२ हरिदीक्षितकृता- [ तृतीयाध्याये- तत्र यथाऽऽविद्यको भेदी ने पारमार्थिक इत्युक्त तथैवात्राङ्गीकर्तव्यम् । भेदाभेदयोरेको विरोधात् । यदि पुनः पारमार्थिक एव बन्धः स्यात्तदा निराकर्तुमशक्यत्वान्मोक्षशास्त्रवै- यर्थं प्रसन्नेत । अभेदमेव हे श्रुतयः प्रतिपादयन्ति न भेदम् । तस्य प्रत्यक्षसिद्धत्वात् । तस्मात् ' प्रकाशवञ्चावैशेष्यम् ' इत्येप एव सिद्धान्तः ॥ २९ ॥ प्रतिषेधाच ॥ ३० ॥ (६) इतश्चैष एवं सिद्धान्तः । यस्मात्कारणास्परमात्मनोऽन्यं चेतनं श्रुतयः प्रतिषेधन्ति । * नान्योऽतोऽस्ति द्रष्ठा' [ बृ० ३ । ७। २३ ] अथान आदेशो नेति नेति, [ बृ० २ । ३ । ६ ] ' तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् ' । [बृ० २ । ५ । १९] 'इत्येवमाद्याः । तस्मालव्यतिरिक्तप्रपञ्चनिराकरणाद्ब्रह्ममात्रपरिशेपाच्चैष एव सिद्धान्तः । यत्तु कश्चिदाह-'पूर्ववद्वा' । यथा कालस्य पूर्वेणाभेदेऽपि पूर्वः काल इति विशेषणविशेष्य- भावो विशेपबलात्तथा गुणात्मकरयापि ब्रह्मणो विशेपादेव गुणि ब्रह्मेति विशेपणविशेष्य- भाव इत्यर्थ । ननु किमनेन विशेपानुसरणक्लेशेन गुणगुणिनोर्भेद एव स्वी क्रियतामत आह-'प्रतिषेधाच, एकमेवाद्वितीय ब्रह्म' [ छा० ६ । २ । १ ] 'नेह नानाs. स्ति किंचन ' [ बृ० ४ । ४ । १९ ] इति भेदस्य प्रतिपेधादित्यर्थः । अतो गुणिनि हरौ भक्तिसभवाद्युक्त तन्माहात्म्यवर्णनमिति । तदसत् । विशेपस्यापि स्वरूपमात्रतया तह- लादित्यस्य प्यपार्थकत्वात् । एकप्रातिपदिकार्थस्य तेन प्यङ्गीकारात् । किचायं सगुणवादो निर्गुणत्व एव पर्यवस्यतीति नास्माक दूष्यः प्रत्युतास्माक व्यावहारिका गुणा. सन्ति तन्मते तेऽपि न सन्तीति विपरीतोऽय सगुगवादः । विस्तरस्तु तत्त्वकौस्तुभे द्रष्ट- च्यः ॥ ३० ॥ (६ परमत: से तूमानसंबन्ध मेदव्यपदेशेभ्यः ॥ ३१ ॥ यदेतद्ब्रह्म ' नेति नेति' इति दृश्यप्रतिषेधेन निर्धारितम् । अस्मात्परमन्यत्तत्त्वमस्ति वा न वेति श्रुतीनां विप्रतिपत्तेर्भवति संशय । तत्र किं ताव प्राप्तम् । तस्मादपि ब्रह्मणोऽ- म्यद्वस्वस्तीति । कुतः । सेतून्मानसबन्धभेदलक्षणानां चतुणां हेतूनां व्यपदेशात् । य आत्मा स सेतुर्विधृतिः ' [ छा० ८ । ४ । १ ] इति सेतुत्वं व्यपदिश्यते । तत्र यथा लोके सेतोः सावधिकत्वात्सेतुं तीवा जागलं प्रतिपद्यते । तथा ब्रह्मणोऽपि सेतुत्वेन जग- द्विधारकत्वाद्ब्रह्म तो गन्तव्येनान्येन केनचिदवश्यं भवितव्यम् । उन्मानव्यपदेशश्च श्रूयते- चतुष्पाब्रह्म बेडशकलं ब्रह्म ' इति । तच्चोन्मानं सद्वितीय एव गवादौ दृष्टचरं नाद्वितीये कुत्रचित् । तथा संबन्धव्यपदेशोऽपि श्रूयते--' सता सौम्य तदा संपन्नो भव- ति ' [ छा० ६ । ८ । १] इति । स च संबन्वः सवाब्रह्मणोऽन्यस्य जीवस्य विद्य. मानतयाऽवकल्पते । तथा ' आत्मा वा अरे द्रष्टव्यः' इति भेदव्यपदेशोऽपि ॥ ३१ ॥ अथ द्वितीयः पादः ] ब्रह्मसूत्रवृत्तिः। १६३ एवमेतेभ्यो हेतुभ्यो ब्रह्मणोऽन्यद्वस्त्वस्तीत्येव प्राप्ते सूत्रकार आह सामान्यात्तु ॥ ३२ ॥ तुशब्दः पक्षव्यावृत्त्यर्थः । ' सदेव सौम्येदमग्र आसीदेकमेवाद्वितीय ब्रह्म ' [ छा० । १ ] इत्यवधारणात् । एकविज्ञानेन, सर्वज्ञानप्रतिज्ञानाच्च न. ब्रह्मव्यतिरिक्त किमपि वस्त्वस्ति । नच सेतुव्यपदेशो वस्त्वन्तरसूचक इति वाच्यम् । विधारकत्वसामा- न्यात्सेतुशब्दप्रयोगात् । अत्र सेतुरिव सेतुरिति. प्रकृत आत्मा स्तूयते । जगन्मर्यादानां विधारकत्वं सेतुत्वसामान्यात् । सजातीयादित्रिविधपरिच्छेदशून्यत्वान्न ब्रह्मणोऽन्यद्वस्त्वन्त. रमस्ति । यत्तु कश्चिदाह -भगवन्विष्ठमानन्दादिगुणजात लौकिकानन्दादेः सकाशात्परं विलक्षणम् । कुतः । लौकिकानन्दादावसंभावितस्य सेतुत्वादेवैर्टक्षण्यस्य व्यपदेशादिति । तदसत् । ' एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ' [वृ० ४ । ३ । ३२ ] इत्यादिश्रुतिविरोधात् । सत्ता चितिः सुखं चेति स्वभावा ब्रह्मणस्त्रयः । उपाधिभेदैभिद्यन्ते तारतम्यं च यन्त्यपि ' .. इतिव्योमसंहिताविरोधाच्च ॥ ३२ ॥ बुद्धयर्थः पादवत् ॥ ३३ ॥ यदप्युक्तमुन्मानव्यपदेशादस्ति ब्रह्मणः परमिति । तत्राभिधीयते ।' उन्मानव्यपदेशोऽपि न ब्रह्मव्यतिरिक्तवस्तुसाधकः । किं तर्हि । बुद्धयर्थः । उपासनार्थ इत्यर्थः । तत्र दृष्टान्त:-- पादवदिति । यथाकापणे व्यवहारसौकर्याय पादविभागः कल्प्यते । सर्वदा सर्वैः सकलेन कार्षापणेन व्यवहर्तुमशक्यत्वात् । एव निर्विशेषे ब्रह्मणि सर्वेपा बुद्धिसमाधानासंभवान्म- न्दबुद्धयनुग्रहाय सगुणोपासनोक्तेत्यर्थः ॥ ३३ ॥ अवशिष्टव्यपदेशद्वयस्योत्तरमाह- स्थानविशेषात्यकाशादिवत् ॥ ३४ ॥ संबन्धव्यपदेशाद्भेदव्यपदेशाच्च, ब्रह्मणः परं वरल्वस्तीति यदुक्त तदप्यनुप्रपन्नम् । स्थान- विशेषादुपाधिविशेषाद्यपदेशद्धयोपपत्तेः : । तथा हि-~-बुद्धयाद्युपाधिस्थानविशेषयोगादुद्भूतस्य विशेषज्ञानस्योषाध्युपशमे य उपशमः स एव परमात्मना संबन्ध इत्युपाध्यपेक्षयोपचर्यते न परिमितत्वापेक्षया । तथा भेदव्यपदेशोऽपि ब्रह्मण उपाधिभेदापेक्षयैवोपचर्यते, न स्वरूपभे- दापेक्षया । प्रकाशवदिति दृष्टान्तः । यथैकस्य प्रकाशस्य, सावित्रस्य चन्द्रमसस्य वोपा- घियोगादुपाजातविशेषस्योपाध्यपेक्षयैकैतौ भेदव्यपदेशौ भवतस्तद्वदिति भाष्यम् । संबन्धव्य- १६४ हरिदीक्षितकृता- [ तृतीयाध्याये-- पदेशश्चोपाधिनाशमपेक्ष्य घटभड्ने घटाकाश एव महाकाशवदुपचर्यते भेदव्यपदेशश्चोपाध्यु- द्भवमपेक्ष्य घटाकाशमहाकाशवटुपपद्यत इत्यभिप्रायः ॥ ३४ ॥ उपपत्तेश्च ॥ ३५॥ संबन्धभेदव्यपदेशावुक्तप्रकारेणैवोपपद्यते । ' स्वमपीतो भवति' [ छा० ६ । १] इति स्वरूपसबन्धमामनन्ति । नच चैतन्यस्याप्ययः संभवतीत्युपाधिकृतस्वरूप. तिरोधानात्स्वाप्यय उपपन्नतरः । अयमात्मा ब्रह्म' [बृ० ४ । ४ । ५] इत्याद्यभे. दश्रुतिविरोधाच्च भेदोऽप्यौपाविक एवोपपन्नतरः ॥ ३५॥ एवं ब्रह्मव्यतिरिक्तवस्तुसाधकहेतूनन्यथासिद्धत्वेनोन्मथ्य स्वपक्षसाधकं हेत्वन्तरमाह- तथाऽन्यप्रतिफेधात् ॥ ३६ ।। ' यस्मात्परं नापस्मस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् '। श्वे०३ । ९] पुरुष एवंदं सर्व ' [ श्वे० १५] ' सर्व स्वल्विदं ब्रह्म' [ छा० ३। १४ । १] * नेह नानाऽस्ति किंचन' [बृ० ४ । ४ । १९ ] इत्यादिनाऽन्यवस्तुप्रतिपेधादपि न परमात्मनोऽन्योऽन्तरात्माऽस्तीत्यवधार्यते । तस्माद्ब्रह्मणः सकाशादन्यच्चेतनं वस्तु नास्तीति सिद्धस् । यत्तु कश्चिदाह-तनु ब्रह्म नाव्यक्तम् । ध्यानकाले चित्ते प्रतीय- मानत्वात् । न च ध्यानकाले प्रतीतं न ब्रह्म । ध्यातृबहुत्वेन बहुत्वापत्तरिति वान्यम् । स्वरूपभेदाभेदाभावेऽपि ब्रह्मरूपाणां नानात्वाभ्युपगमेनेष्टापत्तेः । अन्यथा ध्यानवैयर्थ्याच्च। स हि यस्य कस्यचिद्ध्यानाद्ब्रह्म फल ददातीति युक्तम् । अतिप्रसङ्गात् । एव प्राप्ते सिद्धा- न्तमाह-तथाऽन्यप्रतिषेधात् । ध्यानकाले प्रतीतत्केन ब्रह्म व्यक्तमिति न मन्तव्यन् । ध्यानकाले प्रतीतस्याब्रह्मत्वात् । यथा खलु जीवानन्दादीनामल्पत्वात्पूर्णस्य ब्रह्मानन्दादेस्ततो भेदस्तथोपासनाकाले प्रतीतस्य व्यक्तत्वादक्क्तस्य ब्रह्मणस्ततो भेद एव । यन्मनसा न मनुते येनाऽऽहुर्मनो मतम् तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते E केनो० ॥ ५] इति श्रुत्योपास्यस्य ब्रह्मत्वप्रतिषेधाच्च । उक्तं च ब्रह्मतर्के--- ' पश्यन्ति परम ब्रह्म चित्ते यत्प्रतिबिम्बितम् । तदुपासनं च भवति प्रतिमोपासनं यथा' इति ॥ तदसत् । तथा हि । यद्युपास्यं न ब्रह्म तर्युपासनाविध्य-तर्गता ब्रह्मशब्दा अब्रह्मपत एक स्युः । ब्रह्मण उपासनाविधिविषयत्वेऽनुपास्यत्वायोगात् । न हि संभवत्युपासनाविधि- पूपास्यसमर्पकैः पदैर्ब्रह्मोपास्यतया समर्प्यत उपास्य च न भवतीति. मुक्तावामपि चिद्रूपे ' 4 द्वितीयः पादः ] बह्मसूत्रवृत्तिः। णापि मनसाऽनुपास्यत्वप्रसङ्गान्च । ब्रह्मतर्कवचनस्य कल्पितत्वादकल्पितत्वेऽप्यज्ञभेदिजन- मोहनार्थत्वाच्चेति दिकू ॥ ३६ ॥ अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७॥ (७) अनेन सेतून्मानादिव्यपदेशनिराकरणेनान्यप्रतिषेधनेन च सर्वगतत्वमात्मनः सिद्धं भवति । अन्यथा तन्न सिध्येत् । सर्वगतत्व चास्याऽऽयामशब्दादिभ्योऽवगम्यते । आया- मशब्दो व्याप्तिवचनः शब्दः । 'यावान्वाऽयमाकाशस्तावानेपोऽन्तर्हृदय आकाश.' 'छा० ८।१ । ३ ] ' आकाशवत्सर्वगतश्च नित्यः ।। ' ज्यायान्दिवो ज्यायानाकाशात् श० प० १०। ६ । २ । ३ ] इत्यादिशब्देभ्यः । यद्यपि तदनन्यत्वमित्यत्र सर्वप्रपञ्चस्य मिथ्यात्वमुक्तं तथाऽपि सेत्वादिव्यपदेशनिमित्ताशङ्कानिरासायेदमधिकरणम् ॥ ३७ ॥ (७) फलमत उपपत्तेः ॥ ३८॥ तस्यैव ब्रह्मण इदानी व्यवहारदशायां फलदातृत्वं प्रतिपद्यते । यदैतत्प्रतिप्राणीष्टानिष्टव्यामि- श्रलक्षणं त्रिविधं कर्मफलं किं कर्मणः कारणभूताद्भवति किं वेश्वराद्भवतीति सशये सिद्धान्ते- नोत्तरमुपक्रमते । ईश्वरादेव तत्फलं भवितुमर्हति । कुतः । उपपत्तेः । सर्वज्ञस्य सर्वशक्ते- रीश्वरस्यैव कर्मिणां तत्तत्कर्मानुरूपफलदानसामर्थ्यमुपपद्यते । कर्मण आशुतरविनाशिनः कालान्तरभाविफलदाने हि नैव सामर्थ्यमुपपद्यते न ह्यभावाद्भावोत्पत्तिः सभवति । अथोन्यता. पूर्वात्फलमुत्पत्स्यत इति । तदपि नोपपद्यते । अपूर्वस्याचेतनस्य चेतनेनाप्रवर्तितस्य फल- दानसामर्थ्याभावात् । तस्मादीश्वर एव तत्तत्कर्मानुरूपं जीवानां फलं ददातीति सिद्धम् ॥ ३८ ॥ श्रुतत्वाच्च ॥ ३९॥ म केवलमुपपत्तेरेवेश्वरं फलहेतुं कल्पयामः कि तर्हि श्रुतत्वात् । तथा हि श्रुतिः- ६ स वा एष महानज आत्माऽन्नादो वसुदानः [ बृ० ४ । ४ । २४ ] इत्येव- सादिका ॥ ३९ ॥ धर्म जैमिनिरत एव ॥ ४० ॥ मतान्तरमाह-जैमिनिस्त्वाचार्यों धर्म फलदातारं मन्यते । कुतः । अत एव । उपपत्तेः श्रुतत्वाच्च । ' स्वर्गकामो यजेत ' इति विधिश्रुतेर्यागस्य स्वर्गरूपफलं प्रति साध- नत्वं श्रुतम् । अन्यथा ह्यननुष्ठातृको याग आपद्येत । तथात्व उपदेशवैयर्थ्य स्यात् । तस्मा- द्धर्म एवापूर्वद्वारा कर्मफलमनुष्ठातुर्ददाति किमर्थ तत्रेश्वरापेक्षेति ।। पूर्व तु बादरायणो हेतुव्यपदेशात् । तुशब्दः पूर्वपक्षनिरासार्थः । बादरायण आचार्यः पूर्वोक्तमेवेश्वरं फलहेतुं मन्यते । केवलात्कर्मणोऽपूर्वाद्वा केवलात्फलं जायत इत्ययं पक्षो न साधुः । कुतः । हेतुव्यपदेशात् ।
- १६६ हरिदीक्षितकृता- [ तृतीयाध्याये- धर्माधर्मयोरपि कारयितृत्वेनेश्वर एव हेतुरिति व्यपदेशात् । एप ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष ह्येवासाधु कर्म कारयति यमधो निनीषते' [३ । ८] इति श्रूयते । स्मर्यते चायमर्थो भगवद्गीतासु- यो यो या यां तनुं भक्तः श्रद्धयाऽर्चितुमिन्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ स तया श्रद्धया युक्तस्तस्या राधनमीहते । लभते च ततः कामान्मयैव विहितान्हि तान् ' ॥ [ भ० ७॥ २१ ] सर्ववेदान्तेषु चेश्वरहेतुका एव सृष्टयो व्यपदिश्यन्ते । तदेवेश्वरस्य कलहेतुत्वं यत्स्वक- मानुरूपाः प्रजाः सृजति । कृतप्रयन्नापेक्षत्वानेश्वरे वैपम्यादिप्रसङ्गः । तस्मादीश्वर ए। फलदातेति सिद्धम् । अस्मिन्पादेऽष्टावधिकरणानि । तत्र स्वप्नसृष्टिमिथ्यात्वेन कर्तृत्वादेरा- ध्यासिकत्वादसङ्गित्वं जीवस्योक्तम् । सुषुप्तौ ब्रह्मैक्येन तदेवासङ्गित्वं दृढीकृतम् । तस्यैव पुनः प्रबोधेनानित्यत्वशङ्कानिरासः । मूर्छादो सर्वव्यवहारलोपेऽपि जीवनाशशङ्कानिरासः । इत्यधिकरणचतुष्टयेन वपदार्थः शोधितः। अनन्तराधिकरण चतुष्टयेन तत्पदार्थः शोधितः । तत्र प्रथमेन ब्रह्मणो नीरूपत्वं द्वितायेन निषेधाविषयत्वं तृतीयेनाद्वितीयत्वं चतुर्थेन व्यत्र- हारदशायां फलदातृत्वं शाखाचन्द्रन्यायेनोपलक्षणल्वाय प्रतिपादितम् । इत्येव तत्त्वंपदार्थों शोधितावित्यवधेयम् ॥ ४१ ॥ (८) इति श्रीलक्ष्मीनरहरिसूनुहरिदीक्षितकृतो ब्रह्मसूत्रवृत्ती तृतीयाध्यायस्य द्वितीयः पादः ।। २ ।। । अथ तृतीयः पादः । सर्ववेदान्तप्रत्ययं चोदनण्यविशेषान् ॥ १ ॥ एवं द्वितीयप,दे तत्वंपदार्थशोधनपूर्वकमद्वितीयब्रह्मतत्त्वं व्याख्यातम् । इदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते न वेति विचार्यते । ननु निर्विशेषमेकमेवाद्वितीयं ब्रह्मैकरसं सैन्धवधनववधारितं तत्र कुतो विज्ञानभेदचिन्तावसर इति चेत् । उच्यते । सगुणब्रह्म- विषया विज्ञानभेदाभेदचिन्तेति न दोषः । सगुणोपासनायाश्चित्तस्थिरीकरणद्वारा निर्गुण- विद्यायामुपयोगात्तत्प्रसङ्गाद्विद्यान्तराणामपि भेदाभेदविचारोऽत्र क्रियते । अत्र हि कर्मव- दुपासनानां दृष्टफलान्यदृष्टफलानि चोच्यन्ते । क्रममुक्तिफलानि च कानिचित्सम्यग्दर्श- नोत्पत्तिद्वारेण । तेष्वेषा चिन्ता संभवति । किं प्रतिवेदान्त विज्ञानानि भिद्यन्ते न वेति. संशयः । भियन्त इति तावमाप्तम् । नामभेदाद्रूपभेदाच । नामभेदस्तावत्तैत्तिरीयकं. वाज- , तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। १६७ सनेयकं कौथुममित्यादिः । तथा रूपभेदोऽपि केचिच्छ.खिनः पञ्चाग्निविद्यायां पष्ठमपरम- ग्निमामनन्ति । अपरे पुनः पञ्चैव पठन्ति । तथा प्राणसंवादादिपु केचिदूनान्वागादीनाम- नन्ति केचिदधिकान् । तथा धर्मविशेपोऽपि कर्मभेदप्रतिपादकः । यथाऽऽथर्वणिका आमनन्ति-- तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रत विधिवद्यैस्तु चीर्णम् ' इति । शिरोव्रतं नाम वेदव्रतविशेषः । तस्मात्प्रतिवेदान्तं नामादिभेदाद्विज्ञानानि भिद्यन्त इति प्राप्त ब्रूमः -सर्ववेदान्तप्रत्ययम् । सामान्याभिप्रायमेकवचनम् । सर्वेषु वेदान्तेषु प्रत्ययानि विज्ञानानि न भिन्नानि । कुतः । चोदनाद्यविशेषात् । यथा ' अग्निहोत्र जुहोति ' इति चोदनैक्याच्छाखाभेदेऽपि कर्मैक्यम् । एवं शाखाभेदेऽपि विध्यभेदा उपासनानि न भिद्यन्ते । तथा च च्छान्दोग्ये 'यो ह वै ज्येष्ठ च श्रेष्ठ च वेद ' [छा० ५। १ । १] इति यादृशः प्राणविद्याविविस्तादृश एव बृहदारण्यकेऽप्याम्नायते । तथा पञ्चाग्निविद्यायां धुपर्जन्या- दियस्वरूपमग्निपञ्चकं तदुभयोरपि च्छान्दोग्यबृहदारण्यकयोः समानम् । आदिशब्देन फला- विशेष उक्तः । ' ज्येष्ठश्च श्रेष्ठश्च स्वाना भवति' [बृ० ६ । १ । १] इति प्राणो- पास्तिजन्यस्य समानफलस्य श्रवणात् । यस्तु कौथुमादिनामभेद उदाहृतः सोऽप्यध्ययन- विषय एव न तूपास्तिविपयः । अध्ययनधर्मत्वावगमात् । तस्मान्न शाखाभेदादुपासनं भिद्यते ॥ १॥ भेदान्नेति चेन्नैकस्यामपि ॥२॥ ननु बृहदारण्यके पञ्चाग्निविद्याया अग्निरधिक आम्नायते--' तस्याग्निरेवाग्निर्भवति । [बृ० ६ । २ । १४ ] इत्यादिना । छन्दोगास्तु तं नाऽऽमनन्ति पञ्चसंख्यथैव च त उपसंहरन्ति । अथ ह य एतानेत्र पञ्चाग्नीन्वेद ' [छा० ५ । १० । १० इति । येपां च वाजसनेयिना स गुणोऽस्ति येषां च च्छन्दोगानां नास्ति कथमुभयेपामेका विद्योपप- घेत । तरमाद्विद्याभेद इति चेन्न । यत एकस्यामपि विद्यायां गुणभेद उपपन्नः । षोडशि- ग्रहणाग्रहणवत् । यथा 'अतिरात्रे षोडशिनं गृह्णाति । ' नातिरात्रे पोडशिन गृह्णाति इति षोडशिग्रहणाग्रहणाभ्यां नातिरानाभेदस्तथाऽत्रापि न विद्याभेदः । वस्तुतो वाजसनेयि- भिराम्नातस्य षष्ठस्याग्नेश्छान्दोग्य उपसंहारसंभवान्न विद्याभेदः ॥ २ ॥ ननु शिरोवतस्याऽऽथर्वणिकैराम्नानादन्यत्रानाम्नानाद्भवति विद्याभेद इत्यत आह- स्वाध्यायस्य तथात्वेन हि समाचा- रेऽधिकाराच्च सववच्च तन्नियमः॥३॥ स्वाध्यायस्यैप शिरोव्रतलक्षणो ध न विद्यायाः । कथमिदमवगम्यते । यतस्तथात्वेन स्वाध्यायधर्मत्वेन समाचारे वेदव्रतोपदेशपरे ग्रन्थ आथर्वणिका आमनन्ति । ' नैतदची- र्णव्रतोऽधीते ' [मु० ३ । २ । ११ ] इति चाधिकृतविषयादेतच्छब्दादध्ययनशब्दा- ८ न १६८ हरिदीक्षितकृता- [ नृतीयाध्याये- च्चाध्ययनधर्म एवैप इति निर्धार्यते । ननु 'तैपामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधि. वद्यस्तु चीर्णम् ' [मु० ३ । २ । १० ] इति ब्रह्मविद्याश्रवणादकैव सर्वत्र ब्रह्मविद्येति सर्वशाखास्वयं धर्मः प्राप्नुयादिति चेन्न । तत्राप्येतामिति प्रकृतविद्यापरामर्शात् । प्रकृतत्वं च ब्रह्मविद्याया ग्रन्थाविशेपापेक्षमिति ग्रन्थविशेषसयोग्येष धर्मः । सववच्च तन्नियम इति दृष्टान्तनिर्देशः । यथा सवाः सप्त सौर्यादयः शतौदनपर्यन्ता वेदान्तरोदितत्रेताग्न्यनभिस. वाधादाथर्वणोदितैकाग्न्यभिसबन्धान्चाऽऽथर्वणिकानामेव नियम्यन्ते तथाऽयमपि धर्मः स्वा. ध्यायविशेपसंबन्धात्तत्रैव नियम्यते । तस्मान्न विद्याभेदः ॥ ३ ॥ दर्शयति च ॥४॥ (१) श्रुतिरपि विद्यैक्यं दर्शयति-'सर्वे वेदा यत्पदमामनन्ति [ क० २। १५ ] इति । तथा ह्येतमेव बढचा महत्युक्थे मीमासन्त एतमग्नावश्वर्यव एतं महाव्रते छन्दोगाः । [ ऐ० आ० ३ । २ । ३ १२ ] इति । अत्र हि विद्यैक्यं निर्गुणपरब्रह्मपरमेव तथाऽपि तत्साहचर्यात्सगुणब्रह्मविद्यैक्य प्रायदर्शनन्यायेन गम्यते ॥ ४ ॥ (१) उपसंहारोऽभिदाद्विधिशेषवत्समाने च ॥ ५॥ (२) सर्ववेदान्तप्रत्ययमित्यनेन पूर्वाधिकरणेन वेद्यैकत्वाद्विद्यैकत्वं निर्धारितम् । इदं तस्य प्रयोजनसूत्रम् । वाजसनेयके प्राणविद्यायामधिको गुणो रेतआख्य आम्नातः ' रेतो होच्चक्राम ' [ बृ० ६ । १ । १२ ] इति । छान्दोग्ये नाऽऽम्नातः । स किं छान्दो- ग्योक्तप्राणविद्यायामुपसहर्तव्यो न वेति सशये तत्राश्रुतत्वानोपसंहर्तव्यः । विद्योपकार- स्तत्र श्रुतैरेव वागादिभिर्गुणैर्भविष्यतीति प्राप्ते ब्रूमः । एतन्छाखायामश्रवणेऽपि शाखान्तरे श्रुतत्वादुपसंहर्तव्य एव । कुतः । अर्थाभेदात् । विज्ञानैकत्वात् । विधिशेषवत् । यथाऽग्नि- होत्रादिशेपस्गङ्गस्य शाखान्तरपठितस्य शाखान्तर उपसंहारस्तद्वत् । न च शाखान्तरोक्त- गुणैरेव विद्योपकारसिद्धौ गुणोपसहारो निरर्थक इति वाच्यम् । कर्मभूयस्त्वात्कलभूय- स्त्वन्य.येन स्वशाखोक्तगुणवत्परशाखोक्तगुणानामप्युपकारित्वात् । तस्माद्गुणोपसंहारः कर्तव्यः ॥ ५॥ (२) अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ ६ ॥ शङ्कासूत्रमिदम् । वाजसनेयके श्रूयते -' ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेना- [ बृ० १ । ३ । १] इति । ' ते ह वाचमूचुस्त्वं न उद्गाय ' [ बृ० १ । ३ । २ ] इत्युपक्रम्य वागादीन्प्राणानसुरपाप्मविद्धत्वेन निन्दित्वा मुख्यप्राणपरिग्रहः पठ्यते-' अथ हेममासन्यं प्राणमूचुस्त्व न उद्गायेति तथेति तेभ्य एप प्राण उदगा- यत् ' [ बृ० १ । ३ । ७ ] इति । छान्दोग्येऽपि--' तद्ध देवा उद्गीथमाजहुरनेनै- नानभिभविष्यामः ' [छा० १। २ । १] इत्युपक्रम्येतरान्प्राणानसुरविध्वस्तत्वेन त्ययाम , - - । तृतीयः पादः ] बह्मसूत्रवृत्तिः। १६९ निन्दित्वा तथैव मुख्यप्राणपरिग्रहः पठ्यते-' अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथ- मुपासांचक्रिरे' [ छा० १ । २ । ७ ] इति । उभयत्रापि प्राणप्रशंसया प्राणविद्या विधीयते । तत्र संशयः । किमत्र विद्याभेदः स्यादथ वा विद्यैकत्वमिति । किं तावत्याप्तम् । पूर्वेण न्यायेन विद्यैकत्वमिति । ननु न विद्यैकत्वं युक्तम् । किं तपन्यथात्वं विद्याभेदो युक्त इत्यर्थः । कुतः । शब्दात् । अन्यथोपक्रमन्ते वाजसनेयिनोऽन्यथा हि छन्दोगाः । 'त्वं न उद्गाय ' [ बृ० १ । ३ । १ ] इति वाजसनेयिन उद्गीथस्य कर्तृत्वेन प्राणमा- मनन्ति । छन्दोगास्तूगीथमित्युद्गीथत्वेन प्राणं पठन्ति । एव च शब्दभेदादर्थभेदप्रतीते: कथं विद्यैकत्वमितिचेन्न । कुतः । अविशेपात् । अविशेपस्यापि बहुतरस्य प्रतीयमानत्वात् । तथा हि-देवासुरसङ्ग्रामोपक्रमोऽसुरपराजय उद्गीथोपन्यासो वागादिसंकीर्तनं तन्निन्दया मुख्य- प्राणव्यपाश्रयस्तद्वीर्याचासुरविध्वंस इत्यादयो बहवोऽर्था उभयत्राप्यविशिष्टाः प्रतीयन्ते ॥६॥ एवं बहुतरसाम्याद्विद्यैकत्वमिति प्राप्ते ब्रूमः- नवा प्रकरणमेदात्परोवरीयस्त्वादिवत् ॥७॥ विद्याभेद एवात्र न्याय्यः । कुतः । प्रकरणभेदात् । प्रक्रमभेदादित्यर्थः । तथा होह प्रकमभेदो दृश्यते । छान्दोग्ये-'ओमित्येतदक्षरमुद्गीथमुपासीत ' [ छा० १] इत्युद्गीथावयवस्योंकारस्योपास्यत्व प्रक्रम्याथ ' खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति । [छा० १११।१० ] इति । पुनरपि तमेवोद्गीथावयवमोकारमनुवर्य देवासुराख्यायिका- द्वारेण तम् ' उपासाचक्रिरे' [ छा० १ । २ । २] इत्याह । तत्र यद्यद्गीथशब्देन सकला सामभक्तिर्विवक्ष्येत तत्कर्ता चोद्गातत्विक्प्राणो विवक्ष्येत तदोपक्रमविरोधो लक्षणा च स्यात् । तस्मादत्रोद्गीथावयव ओकारे प्राणदृष्टिरुपदिश्यते । वाजसनेयके तूद्गीथशब्दे- नावयवग्रहणकारणाभावादुद्गीथशब्देन सकला सामभक्तिरुन्यते तदुद्गातृ वे च प्राणस्योपासन- मित्युपक्रमभेदः । उपक्रमानुसारी चोपसंहार इत्युपास्यभेदाद्विद्याभेदः। परोवरीयस्त्वादिवत् । यथा परमात्मोपासनत्वसाम्येऽपि ' आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम् ' [छा० १ । ९।१] ' स एष परोवरीयानुद्गीथः स एषोऽनन्तः । । छा० १।९।२] इति परोवरीयस्त्वविशिष्टमुद्गीथोपासनमक्ष्यादित्यगतहिरण्यश्मश्रुत्वादिविशिष्टोद्गीथोपासनाद्भिन्न तद्वत् । परस्माद्वरीयान्परोवरीयानित्यत्र सुडागमश्छान्दसः । यत्तु सड्नामादिसाम्यमुक्त तद- प्रयोजकम् । अर्थवादत्वात् । यदपि प्राणस्यासुरविद्धत्वाभावेन श्रेष्ठत्व तद्यधुपास्यं तथाऽ- प्युक्तस्य वेद्यभेदस्यानिराकरणाद्भिन्नैवोद्गीथविद्या ॥ ७ ॥ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ८॥ (३) ननूद्गीथविद्येत्युभयत्र संज्ञैकत्वाद्विद्यैकत्वं न्याय्यमिति चेत् । तुर्नार्थे । तदुक्तम् । या प्रकरणभेदात् ' [ ब्र० सू० ३ । ३ । ७ ] इत्यस्मिन्सूत्रे भेदकारणमुक्तमित्यर्थः । न २२ १७० हरिदीक्षितकृता- [ तृतीयाध्याये- संज्ञाया व्यभिचारमाह-अस्तीति । अत्र भाष्यम्-अस्ति चैतत्संज्ञैकत्वं प्रेसिद्धभेदेष्वपि परोवरीयस्त्वाद्युपासनेषुद्गीथविद्येति तय)था प्रसिद्धभेदानामप्यग्निहोत्रदर्शपूर्णमासादीनां काठकैकग्रन्थपठिताना काठकसझैकत्वं दृश्यते तथैहाप्युद्गीथसंज्ञैकत्वं न तु विद्यैकत्वम् । यत्र तु नास्ति कश्चिदेवंजातीयको भेदहेतुस्तत्र भवतु सहकत्वाद्विद्यैकत्वं यथा संवर्ग- विद्यादिषु ॥ ८ ॥ (३) व्याप्तेश्च समञ्जसम् ॥९॥(४) 'अ.मित्येतदक्षरमुद्गीथमुपासीत' [छा०११।१] इत्यत्राक्षरोद्गीर्थशब्दयौः सामानाधिकर- ध्येन विद्याभेदो निरूपितः । इदानीमुद्गीथस्याक्षरविशेपणसमर्थनायेदमधिकरणम् । तत्राक्षरमुद्गी- थमिति सामानाधिकरण्ये भवति चतुर्धा संशयः । तथा हिं ' नाम ब्रह्मेत्युपासीत (स्ते )' [छा०७।१।५ ] इत्यत्र नाम्नि ब्रह्मदृष्ट्यध्यासाय सामानाधिकरण्यं श्रुतम् । तथा बाधादि- ध्वप्युदाह्रियते यश्चोरः स स्थाणुरिति चोरस्य बाधः । यो जीवस्तद्ब्रह्मेत्येकत्वम् । यन्नील तदुत्पलमिति विशेषणविशेष्यत्वम् । एवं चतुर्गा पक्षाणां मध्येऽयमेवात्र न्याय्य इति निश्चयकारणाभावान्नास्त्यध्यवसाय इति प्राप्ताविदमुच्यते---' व्याप्तेश्च समञ्जसम् ' इति । चशब्दोऽय पक्षत्रयव्यावर्तकः । तदिह विशेषणपक्ष एवात्रोपादीयते । ओंकारों ऋग्यजुः- सामसु त्रिषु पठ्यते । तत्र कस्योपास्यत्वमित्यपेक्षायामुद्गीथभागगतस्य न वितरस्येति सामवेदगंतस्य विशेषणीयत्वात् । अध्यासबाधैक्यपक्षेषु फलमपि कल्पनीयं प्रसज्जेत स्वतत्रोपासनत्वेन फलस्याऽऽकाक्षितत्वात् । विशेपणपक्षे तु वक्ष्यमाणगुणोपासनाय प्रतीकवनोकार उद्गीथशब्देन विशेष्यते न तु स्वतन्त्र पासनम् । ततो न. पृथक्फलं कल्पनीयम् । अध्यासौ न सभवति नाम्नि ब्रह्मदृष्टिवदुद्दीथाक्षरयोरन्यतरस्मिन्नन्यतरबुद्धयध्यासे लक्षणाप्रसङ्गात्फलकल्पनाप्रसङ्गाच्च । नाप्यपवादः । स्थाणुत्वबुद्धया चोरनिवृत्तिबुद्धिवदुद्गीथ- बुद्धयाँकारबुद्धेरनिवर्तनात्पुरुषार्थाभावाच्च । नाप्येकार्थत्वपक्षः प्रयोजनाभावात् । अनतिरि- तार्थत्वेऽन्यतरवैयर्थ्यात् । एकेनैव विवक्षितार्थसमर्पणात् । नन्वस्मिन्पक्षे समाना लक्षणा । उद्गीथशब्दस्यावयवलक्षणार्थत्वात् । सत्यम् । लक्षणायामपि तु संनिकर्पविप्रकर्षों भवतः । अध्यासपक्षे ह्यर्थान्तरबुद्धिरर्थान्तरे निक्षिप्यत इति विप्रकृष्टा लक्षणा । विशेषणपक्षे स्ववय- विवाचिना शब्देनावयवः समर्थ्यत इति संनिकृष्टा । अतश्च व्याप्तेहेतोरोमित्येतदक्षरमित्ये- तस्योद्गीथमित्येतद्विशेषणमिति समञ्जसमेतन्निरवद्यमित्यर्थः ॥ ९॥ ( ४ ) सर्वाभेदादन्यत्रेमे ॥ १०॥ (५) प्राणविद्यायां छन्दोगाः काण्वाश्च प्रोणसंवादे श्रेष्ठगुणान्वितस्य प्राणस्योपासनमुक्त्वा वागादयोऽपि हि तत्र वसिष्ठत्वादिगुणान्विता उक्ताः । तांश्च गुणान्प्राणे पुनः प्रत्यः र्षयन्ति । अन्ये कौषीतकित्रभृतयो वसिष्ठत्वादिगुगान्नाऽऽमनन्ति । तत्र संशयः । किमेते [तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। १७१ वसिष्ठत्वादयो गुणाः कचिदुक्ता अन्यत्रोपसंहर्तव्या उत नेति । नोपसंहर्तव्या इति तावत्प्राप्तम् । कुतः । “य एवं वेद' इत्येवंशब्देन तत्तच्छाखोक्तगुणानामेव परामदिति प्राप्ते ब्रूमः । उक्तगुणवदनुक्ता अपि गुणा एवशब्दपरामर्शयोग्याः । कुतः । गुणिनः प्राणस्यैकत्वेन तद्द्वारा गुणानां बुद्धिस्थत्वात् । यथा देवदत्तो मथुरायामध्यापयन्दृष्टः पुन- माहिष्मत्यामनध्यापयन्नप्यध्यापकत्वेनैव प्रत्यभिज्ञायते तथा छान्दोग्यादौ वसिष्ठत्वादिगुणयु- ततयोपलब्धः प्राणः कौपीतक्यादौ केवल उपलक्ष्यमानोऽपि तद्गुणविशिष्टतथैव बुद्धिस्थे भवेत् । तदुक्तं भाष्ये-एकस्यामपि शाखायां श्रुता गुणाः श्रुता एव सर्वत्र भवन्ति । गुणवतो भेदाभावादिति । तस्मादेकप्रधानसंबद्धा धर्मा एकत्र पट्यमाना अन्यत्रोप- सहर्तव्याः ॥ १०॥ (५) ' . आनन्दादयः प्रधानस्य ।। ११ ।। ब्रह्मस्वरूपप्रतिपादनपरासु श्रुतिपु विज्ञानघनत्व]मानन्दस्वरूपत्वं सर्वगतत्वं सर्वात्म- त्वमेवमाद्या ब्रह्मणो धर्माः घठयन्ते । तत्र संशयः-यत्र यावन्तो धर्माः पठितास्त एब तत्र ग्राह्या अथवा शाखान्तरोक्ता अप्युपसंहर्तव्या इति । तत्र किं तावत्प्राप्तम् । ' प्रज्ञानं ब्रह्म '[५ । ३ ] इत्यायैतरेयकादिप्रोक्तासु ब्रह्मविद्य सु ते, धर्मा नोपसहर्तव्या इति । कुतः । बामनीत्वादेरिब व्यवस्थोपपत्तेः । एष उ वामनीः' [छा० ४ । १५ । ३] एष उ भामनीः ' [छा० ४ । १५ । ४ ] इति कामनेतृत्वभासकल्वादयो गुणा उपकोसलविद्यायामास्नाताः । सत्यकामः सत्यसंकल्पः ' [छा० ८ । १ । ५] इति सत्यसंकल्पादयो गुणा दहरविद्यायामाम्नाताः । तत्र यथा न गुणानामुपसहार एव- मानन्दादीनां व्यवस्थेति प्राप्ते ब्रूमः । विषमो दृष्टान्तः । वामनीत्वादीनां ध्येयत्वेन विधी- यमानत्वाव्यवस्था युक्ता । आनन्दादयस्तु प्रतिपत्तिफला इति न विधीयन्ते । अतो व्यवस्था. पकविध्यभावाप्रतिपत्तिफलस्य सर्वत्र समानत्वाच्चाऽऽनन्दादय उपसंहर्तव्याः । तदुक्त, भाग्य- कारैः आनन्दादयः प्रधानस्य ब्रह्मणो धर्माः सर्वे सर्वत्रोषसहर्तव्याः । कस्मात् । सर्वा- भेदादेव । सर्बत्रैव हि तदेके प्रधान विशेष्यं ब्रह्म त भिद्यने । तस्मात्सार्वत्रिकत्वं ब्रह्मधु- मर्माणामिति ॥ ११ ॥ नन्वेवं सति प्रियशिरस्त्वादयोऽपि धर्माः सर्वे सर्वत्र संकीर्येरन् । तथा हि-तैत्तिरी- यक आनन्दमयमात्मानं प्रक्रम्याऽऽम्नायते तस्य प्रियमेव शिरः । मोदो, दक्षिणः पक्षः । प्रचोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुन्छं प्रतिष्ठा ' [ तै० २।५ । १ । इति । अत्रोत्तस्माह- , हरिदीक्षितकृता- [तृतीयाध्याये- प्रियशिरस्त्वाद्यप्राप्तिरूपचयापचयौ हि भेदे ॥ १२ ॥ प्रियशिरस्त्वादिधर्माणां तैत्तिरीयक आम्नातानां नास्ति ब्रह्मण्युपसंहारः । हि यस्माद्रेदे सत्युपचयापचयौ भवतः । प्रियमोदप्रमोदानां तारतम्याद्भेदस्याऽऽवश्यकतया नाद्वितीये ब्रह्म- एयुपसहारः संभवतीत्यर्थः । न चैते प्रियशिरस्त्वादयो ब्रह्मधर्माः कोशधर्मास्त्वेत इत्युपदि- ष्टम्- आनन्दमयोऽभ्यासात् [ब्र० सू० १ । १ । १२ ] इत्यत्र । अपि च पर- स्मिन्ब्रह्मणि चित्तावतारोपायमात्रत्वेनैते परिकल्प्यन्ते न द्रष्टव्यत्वेन । एवमपि सुतरा ब्रह्मण्युपसंहाराप्राप्तिः । प्रियशिरस्त्वादीनां ब्रह्मधर्मत्वं कृत्वा न्यायः सूत्रकारेण दर्शितः प्रियशिरस्त्वाद्यप्राप्तिरिति । यथा संयदामादयः सत्यसंकल्पादयश्च धर्मा उपास्यस्य ब्रह्मण एकत्वेऽपि प्रक्रमभेदादुपासनभेदे सति नान्यत्रोपसंहार एवमिहापीति ॥ १२ ॥ ननु तद्वदेवाऽऽनन्दादयोऽपि नान्यत्रोपसंहियेरंस्तत्रोत्तरमाह- इतो त्वर्थसामान्यात् ॥ १३ ॥ (६) तुर्थे । इतर आनन्दादयो धर्मा ब्रह्मस्वरूपप्रतिपत्त्यर्थाः । कुतः । अर्थसामा- स्यात् । अर्थस्य प्रतिपाद्यस्य ब्रह्मणो धर्मिणः सामान्यादेकत्वात् । सर्वे सर्वत्र प्रतिज्ञायर- निस्यर्थः । उपासनाविधिपरे वाक्ये विधेयगुणानां व्यवस्थैव नोपसंहारः॥ १३ ॥ (६) आध्यानाय प्रयोजनामावात् ॥१४॥ कठवल्लीषु पठ्यते- इन्द्रियेभ्यः परा ह्यर्थी अर्थेभ्यश्च परं मनः मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ' [ क० ३ । १०-११ ] इति । अस्यायमर्थः-यद्यपि मनसा विषयानभिलष्य पश्चादिन्द्रियैर्बाह्यान्विषयानामोति तत्र ब्राह्मविषयेभ्य इन्द्रियाणामान्तरत्वात्परत्वं प्रसिद्धं तथाऽपीन्द्रियेभ्यश्चाभिलष्यमाणदशाया- सर्था आन्तराः । तेभ्योऽप्यभिलाषात्मिका मनोवृत्तिरान्तरा । वृत्तेरपि वृत्तिमती बुद्धिरान्तस । बुद्धेरपि बुद्ध्युपाधितो महच्छब्दवाच्यो हिरण्यगर्भरूप आत्माऽऽभ्यन्तरः । महतोऽपि तदु- पादानभूतमव्यक्ताख्य मूलाज्ञानमाभ्यन्तरम् । अव्यक्तादपि तदधिष्ठानभूतश्चिद्रूपः पुरुष आभ्यन्तरः । पुरुषादाभ्यन्तरं न किचिदस्ति । पुरुष एवाऽऽभ्यन्तरतारतम्यस्य विश्रान्ति- भूमिः पुरुषार्थकामैः परसो गन्तन्यप्रदेशश्चेति । तत्र यथा श्रुत्या पुरुषस्तात्पर्येण प्रतिपा- द्वित एवमिन्द्रियादिपरम्पराऽपि प्रतिपाद्यैव । अन्यथा तदुपन्यासवैयर्थ्यात् । तथा च तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। १७३ तत्तत्परस्य ज्ञानस्य प्रयोजनान्तरं कल्पनीय वाक्यभेदश्चाङ्गीकार्य इति प्राप्ते ब्रूमः-आध्या- नाय ध्यानपूर्वकसम्यग्ज्ञानाय पुरुष एवैकः सर्वेभ्यः परत्वेन प्रतिपाद्यते । नत्वर्थादयोऽपि । क्रुतः । प्रयोजनाभावात् । नहीतरेषु परत्वेन प्रतिपन्नेषु किंचित्प्रयोजन दृश्यते श्रूयते वा । तस्मादाध्यानाय ध्यानपूर्वकसम्यग्दर्शनाय पुरुष एव प्रतिपाद्यः । तस्मिन्पुरुपे प्रति- पन्ने मोक्षः प्रयोजनम् । तथा च श्रुतिः-' निचाय्य तन्मृत्युमुखात्प्रमुच्यते ' [ क० ३। १५ ] इति । अपि च परप्रतिषेवेन काष्ठाशब्देन च पुरुपविषयमादरं दर्शयति श्रुतिः । तदनुगुणतयेतरेषामपि परत्वप्रतिपादनस्य साफल्येनैकवाक्यत्वे संभवति नादृष्य- फलकल्पने वाक्यभेदाङ्गीकारो युक्तः ॥ १४ ॥ आत्मशब्दाच ॥ १५॥ (७) इतश्च पुरुषप्रतिपत्त्यर्थमेवेन्द्रियाद्यनुक्रमणमिति गम्यते । यतो वाक्यशपे पुरुषज्ञानायक महता युत्नेन योग उपदिष्टः । एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ' [क० ३ । १२ । अस्यायमर्थः-सर्वाभ्यन्तरत्वेन गूढोऽयमात्मा न बहिर्मुखाणां प्रकाशते । अन्तर्मुखा ये सूक्ष्मतत्त्वदर्शनशीलास्तैोगाभ्यासेवैकाग्र्यमापन्नया बुद्धया सूक्ष्मवस्तुविषयया द्रष्टुं शक्यत इति । अत्र प्रकृत पुरुषमात्मशब्देन गृहीत्वा तस्य दुर्विज्ञेयत्वं प्रतिपाद्य तद्विज्ञानाय 'यन्छेद्वाड्मनसी प्राज्ञः ' [ क० ३ । १३ ] इत्यादियोगप्रतिपादनात् । पुरुषज्ञानायै- वाय श्रुतिप्रयासो निश्चीयते । न च पुरुषस्यैव प्रतिपाद्यत्वे परम्परोपदेशवैयर्थं बहिर्मुखस्य चित्तस्य क्रमेण पुरुषप्रवेशायेन्द्रियादिपरम्परायाः साधनत्वात् । पुरुपशब्देनेतरेपामनात्मवान्न ध्यानविषयत्वम् । तस्मात्पुरुष एव ज्ञातव्यो नान्यः ॥ १५ ॥ (७) आत्मगृहीलिरितरवदुत्तरात् ॥ १६ ॥ ऐतरेयके श्रूयते आत्मा वा इदमेक एबान आसान्नान्यत्किंचन मिषत्स ऐ (ई)- क्षत लोकान्नु सृजा इति ' । [१।१] । [१ । १ ] ' स इमाँल्लोकानसृजत ' [ १ । २] इत्यादि । तत्राऽऽत्मशब्देन हिरण्यगर्भो विवक्षितः परमात्मा वेति संशयः । किं तम् । हिरण्यगर्भ एवाऽऽत्मशब्दवाच्यो भवितुमर्हति । कुतः । स ऐ ( ई ) क्षत लोकान्नु सृजा इति' पञ्चभूतसृष्टिमनुक्त्वा लोकमात्रसृष्टेरभिधानात् । स वै शरीरी प्रथमः स पुरुष आदिकर्ता स भूतानां ब्रह्माऽग्रे समवर्तते ।। { मार्क० पु० ४५ । ६४ ] तावत्प्रा- वै उच्यते ।
१७४ हरिदीक्षितकृता- [ तृतीयाध्याय- इति स्मृतेश्च । ईश्वरप्रकरणेषु तैत्तिरीयच्छान्दोग्यादिषु भूतसृष्टयभिधानदर्शनात् । ' ताभ्यो गामानयत् ' [ ऐ० २।२।३] इति चोक्तं गवाद्यानयनं शरीरिणो विराजो घटते न वशरीरस्येश्वरस्येति प्राप्ते ब्रूमः । अत्राऽऽत्मशब्देन परमात्मनो गृहीतिगृहणं युक्तम्। इतस्वत् । यथेतरेषु सृष्टिवाक्येषु — तस्माद्वा एतस्मादात्मन आकाशः संभूतः' [ तै० २। १] इत्येवमादिषु परमात्मा गृह्यते तद्वदत्रापि । कुतः । उत्तरात्सदर्भात् । ‘स ऐ(ई)क्षत' इतीक्षणपूर्वकस्रष्टुत्वस्येश्वरधर्मस्योत्तरत्र प्रतिपादनादित्यर्थः । तथा सति शाखान्तरोक्तभूत- सृष्टिरत्रोषसहर्तुं शक्यते । यत्तु गवाक्षनयन तदर्थवादरूपम् । तद्वेदनस्य स्वातन्त्र्येण पुरुषार्थत्वाभावात् । अथ भूतार्थवादत्वं मन्येथास्तर्हि विराड़ादिद्वारा परमेश्वर एवं ग्वादिक, मानयतु । तस्मात्परमात्मग्रहणमेव न्यायम् ॥ १६ ॥ अन्वयादिति चेत्स्यादवधारणात् ॥ १७॥ (6) ननु हिरण्यगर्भग्रहणमेव युक्तम् । कुतः । अन्वयात् । वाक्यान्वयस्य हिरण्यगर्भविष यत्वदर्शनादित्यर्थः । तत्र लोकसृष्टिरुक्ता । यत्र, परमात्माऽभिप्रेतस्तत्र भूतसृष्टिरुच्यते । लोकाश्च भूतानां संनिवेशविशेषाः । तत्रेश्वरनियुक्तस्यान्यस्य हेतुत्वं संभवतीति चेत् । अत्रोच्यते-स्यादवधारणात् । परमात्सग्रहणमेवात्र. युक्तम् । कुतः । अवधारणात् । आत्मा वा इदसेक एवाग्र आसीत् ' [ऐ० १ । १] इति प्रागुत्पत्तेरात्मैक्यावधारणात् । तच्च परमात्मपरिग्रहे समञ्जसं नान्यथाः । लोकसृष्टावपि भूतसृष्टिरुपसंहरिष्यते । यथा तत्तेजोऽसृजत ' [ छा० ६ । २ । ३ ] इत्यादौ वियद्वायुसृष्टयनन्तरमिति योजितं. तद्वदत्रापि शाखान्तरसिद्धमहाभूतसृष्टयनन्तरमेव लोकसृष्टिरिति योजनीयम् । एत्ते सृष्टयादयः पश्चार्थवादा इत्युक्तम् । ननु श्रूयमाणस्य सर्वस्य प्रपञ्चस्यार्थवादत्वे श्रुतेर्विवक्षिा तोऽर्थः कोऽपि न सिध्येदिति चेन्न । जीवब्रह्मैक्यस्य विवक्षितत्वात् । आत्मा वा [ऐ० १ । १] इत्युपक्रस्य स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत [ऐ० ३।१२] इति शरीरानुप्रवेशमुक्त्वा तथोपरिष्टात् एष ब्रह्मेष, इन्द्रः [ऐ० ५ । ३ ] इत्यादिना समस्तभेदजातं, सह महाभूतैरनुक्रम्य · सर्व तत्पज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म' [ऐत०, ५। ३ ] इत्युप: संहाराद्ब्रह्मात्मदर्शनमेवावधारयति श्रुतिः । तस्मादात्मग्रहणमेवानपवादम् । द्वितीयं. वर्ण कमाह आत्मगृहीतिरितरवदुत्तरात् ' [ सू० १६] । बृहदारण्यके–' कतम, आत्मेति योऽयं विज्ञानमयः प्राणेषु हृछन्तर्ज्योतिः पुरुषः ' [बृ० ४ । ३.७] इत्यात्मशब्दैनोपक्रम्य तस्यैव सर्वसङ्गविमुक्तत्वप्रतिपादनेन ' स वा एष महानज आना जरोऽमरोऽमृतोऽभयो ब्रह्म' [ बृ० ४।४ । २५ ] इत्युपसंहृतम् । छान्दोग्ये षष्ठाध्याये- सदेव सौम्येदमन आसीत् ' [ २ । १. 1 इत्युपऋम्य, . " “ - . स आत्मा तृतीयः पादः] ब्रह्मसूत्रवृत्तिः । १७५ तत्त्वमसि , [ छा० ६ । ८ । ७ ] इति तादात्म्यमुपदिशति । किमुभयोः सदात्मशब्दयोरेकार्थत्वमाहोस्विद्भिन्नार्थत्वमिति विशये भिन्नार्थत्वमिति तावत्प्राप्तम् । लोके सदात्मशब्दयोरपर्यायत्वात् । इति प्राप्ते ब्रूमः । इतरवत् । वाजसनेयकवच्छा- न्दोग्येऽप्यात्मगृहीतिर्युक्ता । कुतः। उत्तरात्। 'अन्वयादितिचेत्स्यादवधारणात्। ननु छान्दोग्ये 'सदेव सौम्येदमग्र आसीत् ' [छा० ६ । २ । १] इत्युपक्रमस्तत्राऽऽत्मशब्दाश्रवणा- नाऽऽस्मगृहीतिरिति चेत् । उच्यते । सच्छब्दस्यैवाऽऽत्मपरत्वं स्यात् । कुतः । अववार- णात् । सच्छब्दस्याऽऽत्मानात्मसाधारणत्वात् । सामान्यप्रतिपादकत्वेऽपि । स आत्मा तत्त्व- मसि' [छा० ६।८।७ ] इति वाक्यशेषेण विशेपावधारणात् । तदुक्तं भाष्य- कृद्भिः । तथा हि-' येनाश्रुतं श्रुत भवत्यमतं मतमविज्ञातं विज्ञातम् ' [ छा० ६ । १ ३ ] इत्येकविज्ञाने सर्वविज्ञानमेवावधार्य तत्संपिपादयिपया सदेवेत्याह । तन्चाऽऽत्मगृ- हीतौ सत्यां संपद्यते । अन्यथा हि योऽयं मुख्य आत्मा स न विज्ञात इति नैव सर्वविज्ञानं संपद्यतेति । तस्मादुप[ पन्न ]तरमुभयत्रैकमेव वस्त्विति ॥ १७ ॥ (८) कार्याख्यानादपूर्वम् ॥ १८॥ (९) छन्दोगा वाजसनेयिनश्च प्राणसंवादे श्वादिमर्यादं प्राणस्यान्नमाम्नाय तस्यैवाऽऽपो वास आम- नन्ति। तत्र छन्दोगा आमनन्ति ' तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टादद्भिः परिदधति' [छा०५।२।२] इति । वाजसनेयिनश्चाऽऽमनन्ति-'तद्विद्वासः श्रोत्रिया अशिष्यन्त आचामन्त्य- शित्वा चाऽऽचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते' [बृ० ६ । १ । १४ ] ' तस्मादेनं- विदशिष्यन्नाचामेदशित्वा चाऽऽचामेदेतमेव तदनमनग्नं कुरुते ' [बृ० मा० ६।२। १५ ] इति । अत्रान्नशब्देन प्राणो विवक्षितः । तत्र किं प्राणविद्याङ्गत्वेनाऽऽचमनं विधीयत आहोस्विदाचमनीयास्वप्सु प्राणस्यानग्नताकरणचिन्तनमिति सशयः । आचमनमेव विवी- यत इति तावत्प्राप्तम् । कुतः । आचामेदिति विधिश्रवणात् । न च स्मृतिप्राप्तत्वादाचमनं न विधेयमिति वाच्यम् । अस्याः श्रुतेराचमनस्मृतिमूलत्वसभवादिति प्राप्तेऽभिधीयते । अपूर्वमनग्नताचिन्तनमेव विधीयते ' अप्राप्ते शास्त्रमर्थवत् ' इति न्यायेन मानान्तराप्राप्त- त्वादनग्नताचिन्तनमेव विधेयम् । आचमनं तु न विधेयम् । कुतः । कार्याख्यानात् । आचमनस्य स्मृतिप्राप्तत्वादित्यर्थः । न च तस्याः स्मृतेरियमेव श्रुतिर्मूलमिति शङ्कनीयम् । वर्णाश्रमधर्मप्रकरणवाभावेन भिन्नविषयत्वात् । तन्मूलभूतं श्रुत्यन्तरमनुमेयम् । तस्मादा- चमनस्य प्राप्तं न विधेयत्वम् । भोजनात्यागूल चाऽऽचमनीयास्वप्सु गसोबुद्धिं कृत्वा तेन वाससा प्राणस्यानग्नत्वं ध्यायेदिति विवीयत इति सिद्धम् । विस भाष्ये द्रष्टव्यः ॥ १८ ॥ (९) समान एवं चाभेदात् ॥ १९ ॥ (१०) चाजसनेयिशाखायामग्निरहस्ये ब्राह्मणे शाण्डिल्यविद्या पठ्यते । तत्र गुणाः श्रूयन्ते-'स .
.. १७६ हरिदीक्षितकृता- [ तृतीयाध्याये- आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपमकामात्मानं कामरूपिणं मनोजवं सत्यसं. कल्पं सत्यधृतिं सर्वगन्धं सर्वरसं सर्वा दिशोऽनुप्रभूतम् ' [ शतपथ०१० । ६ । ३२ ] इत्यादि । बृहदारण्यके तस्यामेव शाखाया पुनः श्रूयते-' मनोमयोऽयं पुरुपो भाः सत्यस्त. स्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एव सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किं च ' [५। ६ १ ] इति । तत्र संशयः । किमियमेका विद्या वाजसनेयि. बृहदारण्यकयोर्गुणोपसंहारश्चाथ वा द्वे विद्ये गुणानुपसंहारश्चेति । किं तावत्प्राप्त विद्याभेद इति । कुतः । एकस्यां शाखायां प्रतिपत्तुभेदाभावेन पौनरुक्त्ये प्रामाण्यासंभवादभ्यासन्या- येन विद्याभेदस्याऽऽवश्यकत्वात् । इति प्राप्तेऽभिधीयते । मनोमयत्वादिकस्य वेद्यरूपस्य प्रत्या भिज्ञानादेकैव विद्या । यथा भिन्नशाखासु क्वचिदुत्पत्तिः क्वचिद्गुणविधिः । तयोरेकत्वं संभवति । ' अग्निहोत्र जुहोति ' ' दध्ना जुहोति ' इति । एवं समानायां शाखायामपि विद्यैकत्वम् । कुतः । अभेदात् । उपास्याभेदात् । मनोमयत्वादिगुणक ब्रह्मोभयत्रोपास्यम् । उपास्यं च विद्यारूपं यथा द्रव्यदैवतं कर्मणः । तत्राग्निरहस्येऽनेकगुणश्रवणाद्भूयस्त्वन्या- येनोत्पत्तिविधिः । बृहदारण्यके गुणविधिः । न च तत्र मनोमयत्वश्रवणवैयर्थ्यम् । प्रत्य- भिज्ञया विद्यै क्यसपादकत्वात् । अप्राप्तांशोपदेशेनार्थवति वाक्ये संजाते प्राप्ताशपरामर्शस्य नित्यानुवादतयाऽप्युपपद्यमानत्वाच्च । समानगुणाम्नानेन हि विप्रकृष्टदेशा शाण्डिल्यविद्यां प्रत्यभिज्ञाप्य तस्या सर्वेशानत्वादिगुणा उपदिश्यन्त इति न काऽप्यनुपपत्तिः । तस्मादत्र समानायामपि शाखाया विद्यैकत्व गुणोपसंहारश्चेत्युपपन्नम् ॥ १९ ॥ (१०) संबन्धादेवमन्यत्रापि ॥ २० ॥ बृहदारण्यके सत्यविद्यायां — सत्यं ब्रह्म ' [ बृ० ५ । ४ । १ ] इत्युपक्रम्य त्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चाय दक्षिणेऽक्षन्पुरुपः ' [ बृ० ५। ५ । २] इति तस्यैव सत्यस्य ब्रह्मणोऽधिदैवतमध्यात्मं चाऽऽयतनमुपदिश्याऽऽ- धिदैविकस्य पुरुषस्याहरित्येतनाम ध्यानायोपदिष्टम् । तस्योपनिपदहरित्यधिदैवतमिति । आध्यात्मिकस्य त्वक्षिपुरुषस्याहमिति नामोपदिष्टम् । तस्योपनिपदहमित्यध्यात्ममिति । तत्र संशयः । किमविभागेनैवोभे अपि नामनी उभयत्रानुसंधातव्ये उत विभागेनेति । तत्र यथा शाण्डिल्यविद्यायां गुणोपसहार एवमन्यत्रापि सत्यविद्यायामपि नामद्वयस्योपसंहारः । कुतः । सबन्धात् ॥ २० ॥ एकविद्यासंबन्धादिति प्राप्ते सिद्धान्तमाह- न वा विशेषात् ॥ २१ ॥ न वेति पक्षव्यावृत्तिः । उपसंहारो न भवति । कुतः। विशेषात् । उपासनस्थानवि- शेषात् । ' य एष एतस्मिन्मण्डले पुरुषः ' [ ब० ५। ५। २ । तद्य- -- इत्यपकम्य तस्यो।
. तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। १७७ पनिषदहः ' इति तच्छब्देन मण्डलस्थमेव परामूश्याहारति तस्यैव नामविशेष उपदिष्टः । तथा ' योऽयं दक्षिणेऽक्षन् पुरुषः ' [बृ० ५। ५ । २ । ] इत्युपक्रम्य 'तस्योपनि- षदहम् ' इति तच्छब्देनाक्षिस्थमेव परामुश्याहमिति तस्यैव नामविशेष उपदिष्टः । अतो विधेकत्वेन बेद्यस्य सत्याख्यस्य ब्रह्मण एकत्वेऽपि स्थानविशेषकटाक्षेण नामविशेषविधा- नादाध्यात्मिकाधिदैविकयोर्व्यवस्थिते नामनी न तु तये रुपसहारोऽस्ति । यथा लोके गुरोरुपास्यस्यैकत्वेऽपि तिष्ठतो य उपचारः पादुकानिवेदनादिर्नासावासीनस्य युज्यते । आसीनस्योपचारः पादद्वयाभ्यङ्गादिर्नासौ तिष्ठतो भवति । तस्मादुपास्यैक्येऽपि स्थानभेदेन व्यवस्थयोपनिषद्वयचिन्तन कर्तब्धम् ॥ २१ ॥ दर्शयति च ॥ २२ ॥ (११) लिङ्गं च स्थानविशेषेण धर्मव्यवस्थां दर्शयति-' तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ' [ छा० १ । ७ । ५] इति । कथमस्य लिङ्गत्वम् । तदुच्यते-अक्ष्यादित्यस्थानभेदभिन्नान्धर्मानादित्यपुरुषगतान्रूपादीनक्षिपुरुष उपसंहरति । तस्यैतस्य तदेव रूपम् । [ छा० १। ७ । ५] इत्यादिना । यथाऽऽदि- त्यपुरुषधर्मा अक्षिपुरुषे प्राप्येरंस्तथाऽतिदेशेनाऽऽदित्यरूपादिकमक्षिपुरुपे योजयेदित्यर्थः । तस्मान्नाम्नोर्व्यवस्थैवेति सिद्धम् ॥ २२ ॥ (११) संभृतिाव्याप्त्यपि चातः ॥ २३ ॥ (१२) ' ब्रह्मज्येष्ठा वीर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान ' इति राणायनीयानां खिलेषु पठ्यते । लोके हरिहरादौ प्रसिद्धानि वीर्याणि ब्रह्मपुरःसराण्येव संभृतानि । न हि सगुणं ब्रह्मानपेक्ष्य बीर्याणि संभवन्ति । तच ज्येष्ठं ब्रह्म प्रथम दिव व्याप्य स्थितमिति श्रुत्यर्थः । अत्र वीर्यसंभृत्यादय उपास्यत्वेन श्रूयन्ते । तत्रैवोपनिषदि शाण्डिल्यादिविद्याः सन्ति । तासु संभृत्यादय उपसंहार्या न वेति संशये संबन्धाविशेषादुपसंहर्तव्या इति प्राप्तेऽभिधी- यते । संभृतिश्च धुव्याप्तिश्च संभृतिधुव्याप्ती चकारद्वीर्यपरिग्रहः । शाण्डिल्यविद्यादिषु संभृत्यादयो नोपसंहर्तव्याः । कुतः । अत एवऽऽयतनविशेषात् । तथा हि । शाण्डिल्य- विद्यायां हृदयायतनत्वं ब्रह्मण उक्तम्-' एष म आत्माऽन्तर्हृदये' [छा० ३] इति । तद्वदेव दहरविद्यायां । दहर पुण्डरीक वेश्म दहरोऽस्मिन्नन्तराकाशः [छा० ८।१।१] इति । उपकोसलविद्यायां त्वक्ष्यायतनत्वम् य एषोऽक्षिपि पुरुषो दृश्यते' [ छा० ४ । १५ । १ ] इति । एवं तत्र तत्र भिन्नभिन्नमाध्यात्मिकमा- यतनमासु विद्यासु प्रतीयते । आधिदैविक्यः संभृतिधुव्यातिप्रभृतयो विभूतय इत्यायतन- भैदः । तासां संभृत्यादिविभूतीनां कुत एतासु शाण्डिल्यादिविद्यासूपसंहारः । न च संभृ- स्यादीना गुणानामन्यतमोऽपि शाण्डिल्यादिविद्यासूपलभ्यते । येन प्रत्यभिज्ञया विद्यैक्यं ..
. , १७८ हरिदीक्षितकृता- [ तृतीयाध्याये- स्यात् । ब्रह्मैक बमात्रेणोपसंहृतौ न काप्यनुपसहार इत्यतिप्रसङ्गः । तस्मात्संभृत्यादेर्नोप- सहारः ॥ २३ ॥ (१२ ) पुरुषविद्यायामिव चेतरेषामनान्नानात् ॥ २४ ॥ (१३) छन्दोगाना शाखाविशेपे ताण्डिना पैङ्गिना च रहस्यब्राह्मणे पुरुपविद्याऽऽम्नायते पुरुषो वाव यज्ञः ' [छा० ३ । १६ । १ ] इति । तदीयमायुस्त्रेधा विभज्य सवनत्रयं कल्पितम् । तस्य यानि चतुर्विशतिर्वर्षाणि तत्प्रातःसवनं चतुश्चत्वारिंशद्वाणि माध्यदिनं सवनमष्टाचत्वारिंशद्वाणि तृतीयं सवनमिति । यदाशिशिपति यत्पिपासति यद्. मते सा दीक्षा । अथ यद्धसति जक्षति ते स्तुतशस्त्रे इत्यादिधर्मा आम्नाताः । तैत्तिरीयकेऽपि तस्यैवविदुपो यज्ञस्याऽऽत्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बहिर्वेदः शिखा हृदय यूपः कामः • आ० १० । ६४ ] इत्यादिनाऽनुवाकेन पुरुपवि- द्याऽऽम्नाता । तत्र सगयः । ताण्डिपैनिशाखोक्ताः पुरुपविद्यागुणास्तैत्तिरीयके उपसंहर्तव्या न वेति । पुरुषयज्ञत्वाविशेपात् । ' यन्मरण तदवभृथः इत्युभयत्र समानधर्मश्रवणाचेति प्राप्ते ब्रूमः । चो नार्थे । नोपसहर्तच्या. । अप्रत्यभिज्ञानात् । तदेव कुतः । इतरेषां मरणावभृथातिरिक्तगुणानां पैङ्गिरहस्यब्राह्मण उक्ताना तैत्तिरीयकेऽनाम्नानात् । यत्किचित्सा- म्येऽपि बहुतरधर्मवैषम्यान्न प्रत्यभिज्ञानम् । तदाह सूत्रकारः---पुरुषविद्यायामिवेति । यथैकेषा शाखिना ताण्डिना पैङ्गिनां च पुरुपविद्यायामाम्नात धर्मजातं नैवमितरेपां तैत्ति- रीयकाणामाम्नातमस्ति । तेपा हीतरविलक्षणमेव यज्ञसंपादनं दृश्यते । पत्नीयजमानवेद- वेदिबर्हिपाज ज्याद्यनुक्रमणात् । किच विदुपो यो यज्ञस्तस्य यज्ञस्याऽऽत्मेति तैत्तिरीयके व्यधिकरणे पष्ठयौ । अन्यथाऽऽत्मा यजमान इति व्याघातः स्यात् । विज्ञानमेव यज्ञः स एव यजमान इति कथं न व्याहन्येत । ताण्डिना तु पुरुषयज्ञयोः सामानाधिकरण्यं “पुरुषो ' इति श्रुतम् । आत्मयजमानादिक ताण्डिनां नोपलभ्यते । यत्तु ताण्डिना- मुपलभ्यते त्रेधा विभक्तस्याऽऽयुषः सवनत्रयत्वमित्यादि तद्विलक्षणमेव तैत्तिरीयक उपलभ्यते । अतो मरणावभृथत्वाद्यल्पसाम्यान्न विद्यै क्यम् । अपि च तैत्तिरीयकाणां नोपासनमिदं किं तर्हि ब्रह्मविद्याप्रशसा । तस्यैवं विदुप: ' इति ब्रह्मविदोऽनुकर्पणात् । तस्मान्न विद्यैक्यशङ्काया अप्यवकाशोऽस्ति ॥ २४ ॥ (१३ ) वेधाद्यर्थभेदात् ॥ २५॥ (१४) आथर्वणिकानामुपनिषदारम्भे ' सर्व प्रविष्य हृदयं प्रविध्य धमनीः प्रवृज्य शिरोऽभिप्रकृज्य' इत्यादय आभिचारिका मन्त्राः पठिताः । ताण्डिनाम्-'देव सवितुः प्रसुव यज्ञम्' [छा० वाव यज्ञः :
तृतीयः पादः] ब्रह्मसूत्रवृत्तिः। १७९ ब्रा०१।१] इत्यादयः । शाव्यायनिनाम्-' श्वेताश्चो हरितनीलोऽसि' इत्यादयः । कठानां तैत्तिरीयकाणां च-'श नो मित्रः श वरुणः ' [तै०१ । १ । १] इत्यादय. । वाजस- नेयिना तूपनिपदारम्भे प्रवर्ग्यब्राह्मण पठ्यते-'देवा ह वै सत्र निपेदुः ' [ शत० १४ ॥ १ । १ । १ ] इत्यादि । कौपीतकिनामप्यग्निष्टोमब्राह्मणम् 'ब्रह्म वा अग्निष्टोमो ब्रह्मैव तदहर्ब्रह्मणैव ब्रह्मोपयन्ति तेऽमृतत्वमाप्नुवन्ति ' इत्यादि । किमेते सर्वे प्रविध्यादयो मन्त्राः प्रवादीनि च कर्माणि विद्यासूपसहियेरन्न वेति संशयः । कि तावत्प्राप्तमुपसहार एवैपा विद्यास्विति । कुतः । उपनिपद्ग्रन्थाना विद्याप्रधानाना सनिधौ पाठ.त् । नन्वेपा मन्त्राणा प्रवर्यकर्मणश्च विद्याङ्गत्वेन विवान नोपलभ्यत इति चेद्बाढम् । अनुपलभ्यमानमपि कथ- चिदनुमीयते । संनिधिसामा [द्वाजपेय इव बृहस्पतिसवस्य प्रवर्दीकाप्यङ्गं स्यादिति प्राप्ते ब्रूमः । नैषामुपसंहारो विद्यास्विति । कुतः । वेधाद्यर्थभेदात् । - हृदय प्रविष्य, इत्येवंजातीयकाना हि मन्त्राणा येऽर्था हृदयवेधादयो न तेपा ब्रह्मविद्यया सगन्तु सामर्थ्य- मस्ति । एवमन्येषामपि मन्त्राणां ' देव सवितः प्रमुव यज्ञम् ' [ छा० ब्रा० १ । १] इत्यादीनाम् । हृदयवेधादिमन्त्राणां लिङ्गादाभिचारिके कर्मणि विनियोगः । 'प्रवर्यस्य पुरस्ता- दुपसदं प्रवृष्णक्ति' इत्यग्निष्टोमे विनियोगः । रिङ्गवाक्ये च सनिलीयसी इति पूर्वमीमा- सायां श्रुतिलिङ्गाधिकरणे व्यवस्थापितम् । तस्मान्न विद्याङ्गत्वं मन्त्रकर्मणोः । आरण्यकानुव- चनादिधर्मसामान्यात्तु सनिधिपाठ इति सतोष्टव्यमिति भाष्यकृत आहुः ॥ २३ ॥ (१४) हानी तू गयनशेषत्वात्कुशाछन्दस्तुत्युपगानवत्तदुक्तम् ॥ २६(१५) अस्ति ताण्डिनां श्रुतिः · अश्व इव रोमाणि विध्य पापं चन्द्र इव राहोर्मुखात्प्रमुच्च धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकम भसभवामि ' [ छा० ८ । १३ । २] इति तथाऽऽथर्वणिकाना श्रुतिः-'तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परम साम्यमुपैति , इति । निरञ्जनो भाषिजन्मकारणरहितः साम्य ब्रह्मस्वरूपमित्यर्थः । शाट्यायनिनः पठन्ति- तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विपन्तः पापकृत्याम् ' इत्यादि । अस्यार्थ:- ज्ञानिनः पुत्रस्थानीयाः सर्वे प्राणिनस्तदीय वित्तस्थानीय कर्म यथायोग्यं गृह्णन्ति । तथा कौषीतकिनः पठन्ति-'तत्सुकृतदुष्कृते विधूनुते । तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतम् ' [१। ४ ] इति । अत्र कचित्सुकृतदुष्कृतयोनि श्रूयते । कचित्तयोः प्रियाप्रियै- रुपायनम् । कचिदुभयमपि हानमुपायन च । यत्रोभयं श्रुतं तत्र न किंचिद्वक्तव्यमस्ति । यत्राप्युपायनमेव श्रूयते न हान तत्राप्यर्थादेव हानं सनिपतति । त्यागव्यतिरेकेणान्यैः स्वीकारासंभवात् । यत्र तु हानमेव श्रूयते नोपायनम् । तत्रोपायनसंबन्धो भवति न वेति, सशये, अश्रवणान्नेति प्राप्तेऽभिधीयते । तुर्नार्थे । हानौ हानिमात्रश्रुतावुपायनमुपसंहर्तव्यम् । कुतः । उपायनशब्दशेषात् । उपायनशब्दस्य शेपत्वादित्यर्थः । इतरकर्तकमुपायन सगुण- १८० हरिदीक्षितकृता- [तृतीयाध्याये- विद्याया पठितम् । हानं तु निर्गुणविद्यायाम् । तथा च विद्याभेदोऽस्ति । अत एव न वयमु- पायनमनुष्ठेयधर्मतयोपसंहरामः किंत्वर्थवादत्वेन । यथा श्रूयमाणेन पुण्यपापपरित्यागेन ब्रह्म- विद्या स्तूयते तथेतरस्वीकारेण स्तोतु शक्यत एव । न चार्थवादत्वमात्रेण हानोपायनश्रुत्योः स्वार्थे तात्पर्याभावः । मानान्तरप्रसिद्धिविरोधयोरभावेन भूतार्थवादत्वात् । यत्तु हानश्रुतौ न क्वाप्युपायन श्रुतमित्युक्तम् । तदसत् । कौपीतकिश्रुतौ हानोपायनयोरुभयोरप्यवगमात् 'तत्सु- कृतदुष्कृते विधुनुते । तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतम्' [को० १।४] इति । तत्तत्र ब्रह्मलोकप्राप्तिवेलायामित्यर्थः । एवं सति कौषीतकिश्रुतस्य हानस्याऽऽथर्वणि- कताण्डिशाखयोः प्रत्यभिज्ञानात्कौषीतकिप्रोक्तस्योपसंहारो युक्तः । हानोपायनकीर्तनं विद्या- स्तुत्यर्थम् । एवं च सर्वन्न विद्याप्रशंसार्थमुपायनार्थवादोपसंहारः । प्रशंसाप्रयोजनं च 'विदु- ष्यप्रियं न कर्तव्यम् ' इति गुणोपसंहारप्रसङ्गात्स्तुत्युपसंहार इति संगतिः । शाखान्तरीय- वाक्येन शाखान्तरीयस्यैकवाक्यतायां दृष्टान्तः- कुशाछन्दस्तुत्युपगानवत्' इति । तद्यथा भालविनाम्-'कुशा वानस्पत्याः स्थ ता मा पात ' इति मन्त्रे कुशानामविशेपेण वनस्पति- योनित्वश्रवणेऽपि शाट्यायनिनाम् 'औदुम्बरा' इति विशेषवचनादौदुम्बराः(र्यः) कुशा आश्री- यन्ते तथा देवासुरच्छन्दसामविशेषेण पौर्वापर्यप्रसङ्गे — देवच्छन्दांसि पूर्वाणि' इति पैड्ग्या- म्नानाद्विशेषावगतिः । तथा स्तुतौ स्तोत्ने षोडशिनि शाखान्तरवाक्यात्कालविशेषावगतिः । तथा ' ऋत्विज उपगायन्ति' इत्यविशेपेणोपगानं श्रुतम्। भाल्लविना तु ' नाध्वर्युरुपगायेत्' इत्यध्वर्युव्यतिरिक्तबिंजामुपगानमिति विशेषावगतिः । श्रुत्यन्तरगतविशेषं श्रुत्यन्तरेऽनभ्युप- गच्छतः सर्वत्र विकल्पः स्यात्। स चान्याय्य इति द्वादशलक्षण्यां दशमाध्याय उक्तम् । तस्माद- र्थवादेऽप्युपायनमङ्गीकर्तव्यम् । अस्य सूत्रस्य वर्णकान्तरम् । सुकृतदुष्कृते विधूनुत इत्यत्र विधूननं किं सुकृतदुष्कृतयोनिमुत चालनमिति संशय धूञ् कम्पन इति धात्वर्थानुसारेण चालनमेव विक्षितम् । मुख्यचालनासभवात्स्वकार्याञ्चालनं स्वकार्याजनकत्वमिति यावत् । एव च सुकृतदुष्कृतयोः कंचित्कालं कार्याजनकत्वमात्रं विधूननं न तु परित्याग इति प्राप्ते ब्रूमः । तुर्नार्थे । हानौ त्यागे विधूननशब्दो वर्ततेन कम्पने । कुतः । उपायनशब्द- शेषात् । तदेकवाक्यात्() । अत्यक्तयोरुपायनासंभवादुपायनश्रुत्येकवाक्यतया सागार्थ- त्वनिश्चयः । यत्रापि हानमात्रं श्रुतम् । तत्रापि । कुशाछन्दस्तुत्युपगानवत् । उपायनोपसंहारात्यागार्थत्वनिश्चयः । तदुक्तमित्युक्तार्थधातूनामनेकार्थत्वात्यामार्थत्वमप्यविरुद्ध मिति ॥ २६ ॥ (१५ ॥ सापराये तर्तव्याभावात्तथा ह्यन्ये ॥ २७ ॥ पूर्वाधिकरणोक्तः सुकृतदुष्कृतत्यागः किं मरणानन्तरं देवयानेन पथा ब्रह्मलोक प्रस्थि- तस्योत मरणसमय एव जीवदवस्थायामिति संशये मरणसभय एवेति प्राप्तम् । कुतः । , तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। १८१ एवं हि कौषीतकिनः पर्यङ्कविद्यायां समामनन्ति- स एतं देवयानं पन्थानमासाद्याग्नि- लोकमागच्छति' [ कौ० १ । ३ ] इत्युपक्रम्य स आगच्छति विरजां नदी तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुते ' [ कौ० १ । ४ ] इति । एवं प्राप्ते ब्रूमः । सांपराये मरणसमय एव सुकृतदुष्कृते विधूनुत इति । कुतः । तर्तव्याभावात् । विदुपः संपरेतस्य विद्यया ब्रह्मलोक प्रेप्सतोऽन्तराले सुकृतदुष्कृताभ्यां कस्यचित्प्राप्तव्यस्याभावादि- त्यर्थः । विद्याविरुद्धफलत्वाच्च तस्य प्राप्तव्यस्य । यद्वा तर्तव्याभावात् । विद्यासामर्थ्याद्वि- द्यानन्तरमेव सुकृतदुष्कृतक्षयस्याऽऽवश्यकत्वात् । अक्षीणपापस्य चार्चिरादिगमनासभ- वात् । पूर्वभावी त्यागः कौषीतकिभिरग्निहोत्रयवागून्यायेन पश्चात्पठितः । तथा ह्यन्ये । यथा न्याय उक्तस्तथा ह्यन्ये शाखिनस्ताण्डिनः शाट्यायनिनश्च मरणात्मागेव सुकृतदुष्कृ- तहानिमामनन्ति- अश्व इव रोमाणि विधूय पापम् ' [ छा० ८ । १३ । १ ] इति । ' तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम् ' इति च । तस्मान्मरणात्प्रागेवोपास्ये साक्षात्कृते तयोः परित्यागः ॥२७॥ छन्दत उमयाविरोधात् ॥ २८ ॥ (१६) यदि च मरणानन्तरं देवयानेन पथा प्रस्थितस्य मध्ये मार्ग सुकृतदुष्कृतक्षयोऽङ्गी क्रियेत । ततः पतिते देहे यमनियमविद्याभ्यासात्मकस्य सकृतदुष्कृतक्षयहेतोः 'पुरुषप्र- यत्नस्येन्छातोऽनुष्ठानानुपपत्तेरनुपपत्तिरेव तद्धेतुकस्य सुकृतदुष्कृतक्षयस्य स्यात् । तस्मात्पू- र्वमेव साधकावस्थाया छन्दतोऽनुष्ठानं तस्य स्यात् । तत्पूर्वक सुकृतदुष्कृतहानमिति द्रष्ट- व्यम् । किमित्येवं वर्ण्यत इत्यत आह--उभयाविरोधात् । उभयोस्ताण्डिशाटयायनिश्रुत्यो- रविरोधार्थमित्यर्थः ॥ २८ ॥ (१६) गतेरर्थवत्त्वमुमयथाऽन्यथा हि विरोधः ॥ २१॥ कचित्पुण्यपापहानसंनिधौ देवयानः पन्थाः श्रूयते । कचिन्न श्रूयते । तत्र संशयः । किं हानावविशेषेण देवयानसंबन्ध आहोस्विदुपासकस्यैव ब्रह्मविद इति ब्यवस्थयेति । उपायनवदविशेषेण प्राप्तावभिधीयते । गम्यते यत्र येनेति वा गतिः । देवयानः पन्था इत्यर्थः । तस्या गतेरुभयथा विभागेनार्थवत्त्वं संभवत्युपास्तावेव न निर्गुणब्रह्मविद्यायामन्वय इत्यर्थः । कुतः । हि यस्मादन्यथाऽविशेषाङ्गीकारे विरोधः । तदा विद्वान्पुण्यपापे, विधूय निरञ्जनः परमं साम्यमुपैति ' [ मुण्ड० ३ । १ । ३] इति श्रुतिविरोधः । निरञ्जनो भाविजन्मकारणरहितः । परमं साम्यं ब्रह्मस्वरूपमित्यर्थः । कथं हि निरञ्जनो देशान्तरं गच्छेत् । ब्रह्मात्मैक्यज्ञानेन विभेदजनकाज्ञाननिवृत्तौ तदैव ब्रह्मभावापत्तिरिति न तत्र १८२ हरिदीक्षितकृता- [ तृतीयाध्याये-- मार्गापेक्षेति भावः । तदुक्तं विद्यारण्यपादैः -उपास्तिप्राप्यस्य ब्रह्मलोकफलस्य देशान्तर- वर्तित्याद्युक्तस्तत्र मार्गः । ब्रह्मज्ञानफलं तु रोगनिवृत्तिवदविद्यानिवृत्तिमात्रमिति कि तत्र मार्गेण करणीयमिति । तस्मादुपासकस्यैव न तु ज्ञानिन इति व्यवस्थितो मार्गः ॥ २९ ॥ उपपन्नस्तल्लक्षणार्थोपलब्धेलौंकवत् ॥ ३० ॥ (१७) उपपन्नश्चायमुभयथाभावः कचिदर्थवती गतिः क्वचिन्नेति । कुतः । तल्लक्षणार्थोपलब्धेः। स मार्गो लक्षण यस्यार्थस्योपास्तिफलरूपस्य स तल्लक्षणार्थस्तस्योपलब्धेः । उपलभ्यते हि कौषीतकिना पर्यङ्कविद्यायां पर्यङ्कारोहण पर्यस्थेन ब्रह्मणा सह सवदनं विशिष्टगन्धा- दिप्राप्तिश्चेति चतुर्मुखेण ब्रह्मणा देशान्तरगमनसाध्य फल श्रूयते न ब्रह्मविद्यायाम् । तत्र ब्रह्मज्ञानेन सर्वक्लेशनाशे सति प्रारब्धकर्मक्षपणव्यतिरेकेणापेक्षणीयाभावात् । लोकवत् । यथा लोके ग्रामप्राप्तो मार्गोऽपेक्ष्यते नाऽऽरे ग्यप्राप्तावेवमिहापीति ॥ ३० ॥ (१७) अनियमः सर्वेषामविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥ (१८) सगुणासु विद्यासु गतिरर्थवती न निर्गुणब्रह्मविद्यायामिति निर्णीतम् । सगुणविद्यास्वपि कासुचिन्छ्यते कासुचिन्न यथा पर्यटकविद्याया पञ्चाग्निविद्यायामुपकोसल विद्यायां दहर- विद्यायां चेति । नान्यासु यथा मधुविद्याया शाण्डिल्यविद्यायां वैश्वानरविद्याया चेति । तत्र संशयः । किं यास्वेव गतिः श्रूयते ताभिरेव विद्याभिः सबध्यत उत सर्वाभिरिति । कि ता- वत्प्राप्त नियम इति यत्रैव श्रूयते तत्रैव भवितुमर्हति । प्रकरणस्य नियामकत्वात् । प्रकरण- वशाद्यासु श्रुतस्तास्वव विद्यासु मार्गो ब्यवतिष्ठते न त्वन्यत्रोपसहर्तव्यः । उपसहारे सकृ- त्पठितस्यैव सर्वत्रोपसंहर्तु शक्यतया विद्याद्वये द्विःपाठो निरर्थकः स्यात् । तस्मान्छुत- स्थलेष्वेव मार्ग इति प्राप्ते ब्रूमः । सर्वेषां सगुणोपासनानां देवयानस्यानियमः । सर्वत्र सबध्यत इत्यर्थः । अविरोध । न प्रकरणविरोधः । कुतः । शब्दानुमानाभ्याम् । श्रुति- स्मृतिभ्या प्रकरणबाधादिति शेपः । श्रुतिस्तावत्पञ्चाग्निविद्यावाक्यशेपे पञ्चान्युपासकानामु- त्तरमार्ग बुवती श्रुतिर्विद्यान्तरोपासकाना च मुखत एवाचिरादिमार्गमुदाजहार — तद्य इत्थ विदुः । ये चेमे श्रद्धा तप इत्युपासते तेऽर्चिपमभिसंभवन्ति । इति । अस्यार्थ:- य उपासका इत्थ पञ्चाग्नीनुपासते ये चान्येऽरण्ये श्रद्धा तप इत्येवमादिधर्मैर्युक्ताः सन्त उपासनान्तरे प्रवर्तन्ते ते सर्वेऽचिरादिमार्ग प्राप्नुवन्तीति । स्मृतिरपि- शुक्लकृष्णे गती ह्येते जगत. शाश्वते मते । एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः " ॥ [भगी०८।२६ ]इति । नन्वेवं छान्दोग्ये पञ्चाग्निविद्यायामुपकोसलविद्यायां चार्चिरादिमार्गस्य द्विराम्नानवैयर्थ्य- मिति चेन्न । उपास्यगुणतया चिन्तनार्थत्वोपपत्तेः । तस्मात्सर्वासूपास्तिष्वस्ति देवयानः पन्थाः ॥ ३१ ॥ (१८) तृतीयः पादः ] बह्मसूबवृत्तिः। १८३ यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२॥ (१९) विदुपो वर्तमानदेहपातानन्तर मुक्तिः पाक्षिकी नियता वेति सशये पाक्षिकीति ताव- प्राप्तम् । ब्रह्मविदामपि केपाचिदितिहासपुराणयोदेहान्तरोत्पत्तिदर्शनात् । तथा हि अपान्तरतमा नाम वेदप्रवर्तक आचार्यः पुराणर्षिविष्णुनियोगात्कलिद्वापरयोः संधा कृष्ण- द्वैपायनो बभूवेति स्मरन्ति [ भा० १० । ३५१ ] । एव वसिष्ठो ब्रह्मणो मानसपुत्रो ब्रह्मविदपि मित्रावरुणाभ्यां सबभूव । एवं भृगुवंरुणात्सनत्कुमारोऽपि रुद्रनियोगात्स्कन्दो बभूव । एवं दक्षनारदप्रभृतीनामुत्पत्तिः श्रूयते स्मर्यते च। तस्मादेतेषा ब्रह्मविदामपि देहान्तरो- त्पत्तिदर्शनाद्ब्रह्मविद्याया मुक्तिहेतु पाक्षिकमिति प्राप्तौ ब्रूमः । अधिकारिणामीश्वराज्ञया तत्तदधिकारेष्त्रधिकृतानामेपामधिकारसमर्पककर्मावसानपर्यन्तमवस्थिनिस्तदन्ते मुक्तिः । तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सपत्स्ये' [छा० ६ । १४ । २ ] इति श्रुतेः । तदुक्तं भाष्यकृद्भिः-एवमपातरतमःप्रभृतयोऽपीश्वराः परमेश्वरेण तेषु तेष्वधिकारेपु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहतावक्षीणकर्माणो ' यावदधिकारम् ' अवति- ष्ठन्ते । तदवसाने चापवृज्यन्त इत्यविरुद्धमिति । अन्यच्च तत्रैवोक्तम्-सक प्रवृत्तमेव हि ते फलदानाय कर्माशयमतिवाहयन्तः स्वातन्त्र्येण देहान्तर सचरन्तः स्वाधिकारनिर्वर्त- नायापारमुपितस्मृतय एव निमय देहान्युगपत्क्रमेण वाऽधितिष्ठन्ति । न चैते जातिस्मरा इत्युच्यन्ते त एवैत इति स्मृतिप्रसिद्धेरिति । एवं सूर्यादयोऽपि देवाः सहस्रयुगपर्यन्तं स्वस्वाधिकारं चरित्वा तदवसाने कैवल्य प्राप्नुवन्ति । ब्रह्मणा सह ते सर्वे सप्राप्त प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति पर पदम् ॥ इति स्मरणात् । इयांस्तु विशेपः अधिकारिणामधिकारसपादक कर्म नेकशरीरग्रहणा- नन्तरं नश्यति । इतरेषां तु विद्योत्पादकशरीरनाशानन्तरमेवेति । तस्मात्यारब्धक्षये तत्त्व- विदां मुक्तिर्नियतैव ॥ ३२ ॥ (१९) अक्षरधियां स्ववरोध: सामान्यतद्भावाभ्यामौ- पसदवत्तदुक्तम् ॥ ३३ ॥ (२०) बृहदारण्यके श्रूयते-'एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वहस्वमदीर्घम- लोहितमस्नेहम् ' [ बृ० ३ । ८ । ८ ] इत्यादि । तथाऽऽथर्वणिके-' अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् ' [ मुण्ड ० १ । १ । ६ ] इत्यादि । तथा कटवल्लीषु-' अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्ध- वच्च [ का० १ । ३ । १५] इत्यादि । तत्र विशेषनिषेधानां सर्वत्रोपसंहारोऽस्ति न वेति संशये । नेति तावत्प्राप्तम् । आनन्दादिवनिषेधानां ब्रह्मस्वरूपत्वाभावात् । एव.
८ - १८४ हरिदीक्षितकृता- [ तृतीयाध्याये- मनुपसंहारप्रा[ ता वुच्यते । तुर्नार्थे । अक्षरविषपाणां विशेषप्रतिषेधबुद्धीनामवरोध उपसंहारः सर्वत्र हि संभवति । कुतः । सामान्यतद्भावाभ्यामिति हेतुः । सामान्यम् । समानो हि सर्वत्र विशेषनिराकरणरूपो ब्रह्मप्रतिपादनप्रकारः । तद्भावः । तदेव च सर्वत्र प्रतिपाद्यं ब्रह्माभिन्नमिति प्रत्यभिज्ञानम् । ताभ्यामित्यर्थः । निषेधस्य स्वरूपाभासकत्वेऽप्युप- लक्षणतया ब्रह्मस्वरूपप्रतिपत्त्यर्थत्वात् । तत्राऽऽनन्दाधिकरणे विधिरूपाणि विशेषणानि चिन्तितानीह प्रतिपेधरूपाणीति तस्यैवाधिकरणस्यायं प्रपञ्चः । उक्तार्थे निदर्शनमौपसदव- दिति । उपसत्संबन्धिमत्रवत् । यथा जामदग्न्येऽहीने पुरोडाशिनीषूपसत्सु चोदितासु पुरोडाशप्रदानमत्राणाम् ' अग्नेर्होत्र वेरध्वरम् [ ताण्ड्य० २१ । १० । ११ ] इत्येवमादीनामुद्गातृवेदपठितानामप्यध्वर्युणाऽपि संबन्धो भवति नोगात्रा प्रधानानुवर्तित्वा- दङ्गानामेवमिहाप्यक्षरतनत्वात्तद्विशेषणानां यत्र कचिदपि पठितानामक्षरेण सर्वत्राभि- सबन्ध इत्यर्थः । तदुक्तं पूर्वकाण्डे. गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः । [जै० सू०३।३।९] इति । एवं प्रधानाक्षरसंबन्धात्सर्वप्रतिषेधोपसंहार इति ॥३३॥ (२०) इयदामननात् ॥ ३४ ॥ (२१) 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिपस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्यनभनन्यो अभिचाकशीति' [मु० ३ । १ १ श्वे० ४ । ६] इत्याध्यात्मिकाधिकारे मन्त्र बढचा आथर्वणिकाः श्वेताश्वतराश्च पठन्ति । तथा ' ऋतं पिवन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो बदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः। [ कठ० ३ । १ ] इति कठाः पठन्ति । किमत्र विद्यैकत्वमथवा विद्याभेद इति संशयः। किं तावत्प्राप्तं विद्याभेद इति । कुतः । विशेषदर्शनात् । ' द्वा सुपर्णा ' इत्यत्रैकस्य भोक्तृ- त्वमन्यस्याभोक्तृत्वम् । 'ऋतं पिबन्तौ ।' इत्यत्रोभयोरपि भोक्तृत्व दृश्यते । ततो वेद्य- स्वरूपभेदाद्विद्याभेद इति प्राप्ते ब्रूमः । विद्यैकत्वमेवोभयत्र । कुतः । इयदामननात् । उभयोरपि मन्त्रयोरियत्तापरिच्छिन्नं द्वित्वापेत वेद्यमभिन्नरूपमामनन्ति तस्मादित्यर्थः । उभावप्येतौ मन्त्री जीवाभिन्नमीश्वरं प्रतिपादयतो नार्थान्तरम् । 'द्वा सुपर्णा ' इत्यत्रान- नन्नित्यशनायातीतः परमात्मा प्रतिपाद्यते । ऋतं पिबन्तौ , इत्यत्र च्छव्यच्छत्रिन्यायन जीवसाहचर्यात्परमात्माऽपि पिबतीत्युपचर्यते । परमात्मप्रकरणं ह्येतत् । इदं गुहाधिकरणे निर्णीतम् । नचैतदधिकरणवैयर्थ्यम् । तत्प्रपञ्चत्वात् । तस्मान्नास्ति विद्याभेदः॥३४॥(२१) अन्तरा भूतग्रामवत्स्वात्मनः ॥ ३५॥ बृहदारण्यके अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ याज्ञवल्क्येति होवाच यत्साक्षा- दपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्व ' [बृ० ३।४।१] इत्युषस्तब्राह्मणे । 'अथहैनं कहोलः कौषीतकेयः पाच्छ याज्ञवल्क्येति होवाच ' य देव साक्षात् । .. , तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। १८५ [बु० ३ । ५ । १ ] इत्यादि कहोलब्राह्मणे च तदेवाम्नाऽऽयते । अपरेक्षिादित्यत्र विभक्तिव्यत्ययेनापरोक्षमित्यर्थः । तयारुभयोर्ब्राह्मणयोर्विद्यैकत्व भेदो वा विद्याया इति सशये भेद इति तावत्प्राप्तम् । कुतः । अभ्याससामर्थ्यात् । अन्यथा न्यूनातिरिक्तार्थतया द्विराम्नान- मनर्थकमेव स्यात् । तथा चाभ्यासाद्विद्याया भेद इति प्राप्तावुन्यते । विद्यैक्यमभ्युपगन्त- व्यम् । कुतः । स्वात्मनोऽन्तरा | स्त्रात्मनो ब्रह्मण एवं ब्राह्मणद्वयेऽन्तराऽऽम्नानाविशेपा- दित्यर्थः । न हि द्वावात्मामावेकस्मिन्देहे सर्वान्तरौ सभवतः । तस्मादेक एवाऽऽत्मा सर्वान्तरः । भूतग्रामवत् । यथा च पञ्चभृतसमृहे देहे पृथिव्या आपोऽन्तरा अद्भ्यस्तेजोऽन्तरमिति तथैहापीत्यर्थः । यद्वा भूतग्रामवदिति श्रुत्यन्तरनिदर्शन दर्शयति- ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ' [ श्वे० ६ । ११] इति । अस्मिन्मन्ने यथा समस्तेषु भूतम्रामेष्वेक एव सर्वान्तर आत्माऽऽम्नायत एवमनयोरपि ब्राह्म- णयोरित्यर्थः । तस्मादेकैव विद्या ॥ ३५ ॥ अन्यथा मेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥ ३६॥ (२२) अन्यथा विद्याया भेदानगीकार आम्नानभेदानुपपत्तिरिति चेन्न । उपदेशान्तरवदुप- पत्तेः । यथा ताण्डिनामुपनिपदि षष्ठप्रपाठके ' सत्त्वमसि' [ छा० ६ । ८ । ७ ] इति नवकृव उपदेशेऽपि न विद्याभेद एवमिहापीति । आशङ्कान्तरनिराकरणेन चासक- दुपदेशोपपत्तेः । उपक्रमोपसंहाराभ्यामेकार्थतावगमात् । तस्मादेकैव विद्या ॥ ३६ ॥(२२) व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७ ॥ (२३) 'तधोऽह सोऽसौ योऽसौ सोऽहम् ' [ ऐ• आ०२-२ ४-६ ] इत्यादित्यपुरुपं प्रकृ. त्यैतरे यणः पठन्ति । अस्यार्थ.-य एव देहेन्द्रियादिसाक्षी जीव. स एवाऽऽदित्यमण्डलवर्ती परमात्मा यो म डलवर्ती स एवारमद्देहादिवर्तीति । तथा जाबाला आमनान्त- त्वं वा अहमस्मि भगवो देवते अह वै त्वमसि भगवो देवत ' इति । किामह ध्यातहारेणे.- भयरूपा मातः कर्तव्याऽथ वैकरूपैनेति सशये तावदेकरूपेति प्राप्तम् । जीवब्रह्मैक्यल. क्षणस्य वस्तुन एकत्व त्। यदि जीवस्येश्वरात्मत्वमीश्वरस्य जीवात्मत्वमिति व्यतिहारो भवेत् । ब्यतिहारो नाम जीवपरमात्मनोभिन्नयोः परस्परात्मत्वोपदेशः । तदा संसारिणश्चेश्वरात्मत्व उत्कर्षो भवेत् । ईश्वरस्य संसार्यात्मत्वेऽपकर्षः कृतः स्यात् । तस्मात् ' योऽसौ । इत्या- दिरुपासनार्थो न वस्तुस्वरूपमात्रनिष्ठः । इतरवत् । यथेतरे गुणा आध्यानायोपदिश्यन्ते तद्वत् । तथा हि विशिंपन्ति समाम्नातारः परस्परान्मत्वेन । योऽसौ ' इत्यादिना । यदैक्यमात्रमनुसधेय तदा ' योऽसौ सोऽहम् ' इत्येतावतैव तत्सिद्धौ । योऽहं सोऽसौ' इति विशेषणवैयर्थ्यप्रसङ्गः । व्यतिहारेणेह द्विरूपा मति: कर्तव्या वचनप्रामाण्यात् , नैकरूपतेत्येताचदत्रोपपाद्यते । यद्युपासनार्थव्यतिहारेऽनुष्ठीयमानेऽर्थाजीवब्रह्मणोरेकत्वप्रति- - १८६ हरिदीक्षितकृता- [ तृतीयाध्याये- पत्तिढा भवेत्तहि चरितार्थाः संपद्यामहे चरितार्थाः संपद्यामहे । तस्माद्यतिहारेण । तस्माद्व्यतिहारेण द्विधा बुद्धिः कर्तव्या ॥ ३७॥ (२३) सैव हि सत्यादयः ॥ ३८॥ (२४) बृहदारण्यके श्रूयते स यो हैतं महद्यशं प्रथमज वेद सत्यं ब्रह्मेति जयतीमोल्ले- कान् ' [ बृ० ५ । ४ । १] इत्यादिना । यक्षं पूज्यम् । प्रथमजं हिरण्यगर्भरूपेण प्रथममुत्पन्नमित्यर्थः । अनेकवाक्येन सत्यविद्या प्रतिपाद्यानन्तरमाम्नायते-' तद्यत्सत्य मसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चाय दक्षिणेऽक्षन्पुरुषः ' [ बृ० ५। ५। २ ] इत्यादि । तत्तत्रेत्यर्थः । अत्र द्वे सत्यविद्ये एका वेति संशये विद्याभेद इति तावत्प्राप्तम् । पूर्वत्र जयति लोकानिति उत्तरत्र वाक्य हन्ति पाप्मानमिति फलभेदादिति प्राप्ते ब्रूमः-सैव या पूर्ववाक्ये सैवोत्तरवाक्येऽपि विद्या न भिन्ना । कुतः। 'तद्यत्सत्यम्' इति प्रकृत सत्य ब्रह्मानूद्य ' असौ स आदित्यः ' इति रविरूपत्ववर्णनात् । नचोपास्यै- क्येऽपि फठभेदाद्भेदः । ' तस्योपनिषदहः । अहम् ' इति चाङ्गान्तरोपदेशस्य स्ताव- कमिद फलान्तरश्रवणमिन्यदोषः । पापघातस्याङ्गोपास्तिफलत्वेनार्थवादवदङ्गेषु फलश्रुति- रर्थवाद इतिन्यायेनाविवक्षितत्वात् । अथवाऽत्रोपासनायामधिकार्यश्रवणाच्छ्रयमाणफल- स्यैव कामोपबन्धमध्याहृत्याधिकारिणि कल्पयितव्ये सति पापघातलोकजयकाम उपासी- तेति वक्तु शक्यत्वाद्विविशिष्टफलस्य विवक्षितत्वम् । तस्मात्सैवेयमेका सत्यकामविद्या तेन तेन विशेषेणोपेताऽऽस्नायत इत्यतः सर्व एव सत्यादयो गुणा उपसंहर्तव्याः ॥३८॥ (२४) कामादीतरत्र तत्र चाऽऽयतनादिभ्यः ॥ ३९ ॥ (२५) छान्दोग्ये -' अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः [ छा० ८.। १ । १] इत्युपक्रम्य एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपास. सत्यकामः सत्यसंकल्पः । [ छा० ८। १ । ५] इत्यादि श्रुतम् । बृहदारण्यके स वा एष महानज आत्मा इत्युपक्रम्य य एपोऽन्तर्हृदय आकाश- स्तस्मिञ्शेते सर्वस्य वशी' [६० ४ । ४ । २२] इत्यादि । तत्र विद्यैकत्वं परस्परगुणो. पसहारश्च किं भवति न वेति संशयः । तत्र न परस्परगुणानामुपसहारो भवति । दद्दरा- काशस्योपास्यत्वेन हार्दाकाशस्य च ज्ञेयत्वेन विद्याभेदादिति प्राप्ते ब्रूमः-कामादीति । सत्यकामादीत्यर्थः : । यथा देवदत्तो दत्तः सत्यभामा भामेति मामैकदेशग्रहणानामग्रहणं तद्दच्छान्दोग्यस्थ यदेतत्सत्यकामत्वादिगुणजातमुपलभ्यते तदितरत्र बृहदारण्यक उपस- हर्तव्यम् । यच बृहदारण्यके वशित्वादिगुगजातमुपलभ्यते तदपि तत्र छान्दोग्य उपसं- हर्तव्यम् । कुन. । आयतनादिभ्यः । आयतनादिसामान्यात् । समानं ह्युभयर हृदयमाय- तनं सन.नश्च वेद्य ईश्वरः समानं च तस्य सेतुत्वं लोकासंभेदप्रयोजन चेति बहुसामान्याद्वि- - , , [वृ० तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। १८७, द्याभेदेऽप्युपसहार इत्यर्थः । तत्र वशिल्यादीनां दहराकाश उपसंहार उपास्यै भविष्यति । सल्यकामत्वादीनां तु हार्दाकाशस्तुत्यथमुपसहारः । न च प्रयोजनत्वेऽपि विद्याभेदो दुष्प- रिहर इति वाच्यम् । विद्याभेदेऽप्युभयत्राऽऽकाशशब्दवाच्यस्याऽऽत्मन एकत्वात् । दहराका- शस्य तत्वदात्मत्वं दहराधिकरणे निर्णीतम् । हार्दाकाशस्यापि — महानज आत्मा' ४ । ४ । २२ इत्युपक्रमादात्मत्वमवगन्तव्यम् । सगुणा हि ब्रह्मविद्या छान्दोग्य उपदि- श्यते बृहदारण्यके [तु] निर्गुणोपदिश्यत इति विद्याभेदः । तत्र गुणोपसहारो विभूतिप्रदर्श- नार्थो वोपासनार्थ इति द्रष्टव्यम् ॥ ३९ ॥ (२५) आदरादलोपः ॥४०॥ छान्दोग्ये वैश्वानरविद्यायां श्रूयते तद्यद्भक्त प्रथममागच्छेत्तद्धोमीयं स यां प्रथमा- माहुति जुहुयात्तां जुहुयात्प्राणाय स्वाहा' [ छा० ५। १९ । १ ] इत्यादि । तस्य किं भोजनलोपे लोपो नवेति संशयेऽलोपः । आदरात् । जाबालश्रुतौ वैश्वानरविद्याया पूर्वमति- थिभ्योऽश्नीयादित्यतिथ्यपेक्षयाऽपि प्राथम्यप्रतिपादनेनाऽ:दरदर्शनात् । एव च भोजन- लोपेऽप्युदकादिना प्राणाग्निहोत्रमुपासकेन कर्तव्यमिति ॥ ४० ॥ एवं प्राप्त आह- उपस्थितेऽतस्तद्वचनात् ॥ ४१ ।। (२६) उपस्थिते भोजनेऽतो भोजनद्रव्यादेव प्राणाग्निहोत्रं स्यात् । कुतस्तद्वचनात् । द्भक्तं. प्रथममागच्छेत् ' [ छा० ५। १९ । १ ] इति भोजनार्थभक्तमाश्रित्याग्निहोत्र- बचनात् । यदकर्मन्यायेनाग्निहोत्रस्य द्रव्यान्तराप्रयोजकत्वादादरस्य च भोजनपक्षे प्राथम्या- धत्वोपपत्तेः । तस्माद्भोजनलोपे प्राणाग्निहोत्रस्य लोपः ॥ ४१ ॥ (२६) तन्निर्धारणानियमस्तदृष्टेः पृथग्य- प्रतिबन्धः फलम् ॥ ४२ ॥ (२७) 'ओमित्येतदक्षरमुद्गीथमुपासीत. ' [ छा० १ । १ । १ ] इत्येवमादिषु कर्माङ्गभूतो- द्गीथाद्याश्रितेषूपासनेषु चिन्त्यते । किमुद्गीथाद्युपासनानि नित्यान्येव स्युः कर्मसु पर्णमयी- स्वादिवदुतानित्यानि गोदोहनादिवदिति । किं तावत्प्राप्तं नित्यानीति । कर्मप्रकरणमारभ्या- ध्ययनाभावेऽपि वाक्यात्क्रतुसंबन्धापत्तेः । यथा यस्य पर्णमयी जुर्भवति न स पापं श्लोकं शृणोति ' [ तै० सं० ३ । ५ । ७२ ]. इत्यस्यानारभ्याधीतस्याव्यभिचरितजुहू- द्वारा प्रकरणपठितवत्क्रतुसंबन्धस्तथा ' य एवं विद्वानुदायति य एव विद्वान्साम गायति । इत्यादिष्वव्यभिचरितक्रतुसंबन्धिसामोद्गीथादिद्वारा तदुपासनानां क्रतुसबन्धः प्रतीयते । तस्मात्कर्मसु नियता उपास्तय इति प्राप्ते ब्रूमः । तन्निर्धारणस्य तत्तद्गुणविशिष्टोद्गीथाद्युपा- सवस्यानियमः । न नियतमनुष्ठानम् । कुतः । तदृष्टेः । तस्यानियमस्य श्रुतौ दर्शनादि- तद्य- १८० हरिदीक्षितकृता- [ तृतीयाध्याये- त्यर्थः । तथा ह्यनियतत्वमेवंजातीयकाना श्रुतिर्दर्शयति । ' तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद [ छा० १ । १।१०] इत्यस्मिन्नगाववद्धोपास्तिवाक्यशेषे ह्यविदुपेोऽपि क्रियाभ्यनुज्ञानात् । किंच गोदोहनादिवदनियता उपास्तयः । यथा ' चमसेनापः प्रणये- गोदोहनेन पशुकामस्य' इत्यत्र प्रणयनमाश्रित्य विधीयमानमपि गोदोहनमक्रत्वर्थत्वादन्छिकं न तु प्रणयनादिवन्नियतम् । तथा कर्माङ्गान्याश्रित्य विधीयमाना उपास्तयो न त्वर्थाः । कि तु फलार्थाः । हि यस्मात्कर्मफलात्पृथगप्रतिबन्धः फल श्रूयते । शीघ्र फलजनकोऽप्रतिबन्ध- शब्दार्थः । ' वर्षन्ति हास्मै ' इति पञ्चविधे सामनि वृष्टिदेवतामुपासीनस्य कामवृष्टिः ऋतुफलात्पृथक्फल श्रूयते । तस्मात्कर्मस्वनियता उपास्तयः ॥ ४२ ॥ ( २७ ) प्रदानवदेव तदुक्तम् ॥ ४३ ॥ (२०) वाजसनेयकेऽध्यात्म वागादीनां प्राणः श्रेष्ठोऽवधारितः । अधिदैवतमग्न्यादीनां वायुः । तथा छान्दोग्ये संवर्गविद्यायामधिदैवतमग्न्यादीना वायुः सवर्गोऽवधारितः । अध्यात्म वागादीनां प्राणः । तत्र सशयः । पृथगेवेमौ वायुप्राणावुपास्यौ स्यातामेकीभावेन वेति तत्त्वाभेदादेकीकृत्येति प्राप्ते ब्रूमः- यः प्राणः स वायुः ' इति स्पष्टं तत्वाभेदेऽपि कार्यत्वेन कारणत्वेन चावस्थाभेदस्य सद्भावादित्यधिदैवमथाध्यात्ममिति विविच्य पृथगनुचि- न्तनाय श्रुतिर्विविनक्ति । इन्द्रप्रदानवत् । यथा, ' इन्द्राय राज्ञे पुरोडाशमेकादशपालमिन्द्रि- याधिराजायेन्द्राय स्वराज्ञे [ तै० स० २ । ३ । ६ । १] इतीन्द्रस्यैकत्वेऽपि राजादि- गुणभेदेन देवताभेदात्पुरोडाशप्रदानभेदः । तदुक्तं संकर्षे । नाना वा देवता पृथग्ज्ञा- नात् ' इति । तद्वदेकस्यापि वायुतत्त्वस्य सुणभेदाभेदेन चिन्तनम् । यद्यपि तत्र यागभे- दोऽप्यस्ति नेह विद्याभेदः । उपक्रमोपसंहाराभ्यामेकविद्यात्वनिश्चयात् । तथा सायंप्रातराहु- तिव्यवस्थायामप्यग्निहोत्रस्यैकत्ववद्ध्यवस्थितानुचिन्तनेऽपि विद्यै क्यसभवात् । व्यवस्थाभेदमात्रे प्रदानवदिति दृष्टान्तः । विस्तरस्तु भाष्यादवगन्तव्यः ॥ ४३ ॥ (२८) लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ।। ४४ ॥ काजसनेयिनोऽग्निरहस्यब्राह्मणे मनोऽधिकृत्येदमधीयते । षत्रिशत्सहस्राण्यपश्यदात्मनोऽ. ग्रीनन्मियोमयान्मनश्चितः । [२० १० । ५ । ३ । ३ ] इति । पुरुषस्य शतसंवत्सरपरिमित आयुषि ' षट्त्रिंशत्सहस्राण्यपश्यदात्मनोऽग्नीनन्मिनोमयान्मनश्चितः ' इत्यादि । अस्यार्थः-पुरुषस्य शतसवत्सरमित आयुपि पत्रिंशत्सहस्राणि दिनानि भवन्ति तत्रैकैकस्मिन्दिने या मनोवृत्तिस्तस्या एकाग्नित्वेन ध्याने सति ध्यातव्या अग्नयः षट्त्रिंश- सहस्राणि सपद्यन्ते ते च प्रत्यगात्सस्वरूपत्वेन ध्येयाः । एत एवाग्नयो मनसा चीयन्त, इति मनश्चितः । इष्टिकाचिताग्नित्वेन च ध्येया इति प्रतिपाद्यते । एवं ' वाक्चितः प्राण- चितश्चक्षुश्चितः श्रोत्रचितः कर्मचितोऽग्निचितः ' इति तत्र संशयः । किमेते मनश्चिदादयोऽ- प० तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। १८९ मयः कर्माङ्गभूता उत स्वतन्त्राः केवलविद्यात्मका इति । कर्माङ्गभूता इति तावत्प्राप्तम् । कुतः । प्रकरणात् । एव प्राप्ते ब्रूम: -स्वतन्त्रविद्यात्मकाः । कुतः । लिड्गभूयस्त्वात् । अस्मिन्प्रकरणे स्वतन्त्रविद्याद्योतकलिड्गाना बहुलमुपलब्धेरित्यर्थः । अनेन संकल्पप्राधान्यं गम्यते । ' तान्हैतानेवविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते ' [१० । ५। ३ ] इति । उपासकस्य स्वपतोऽपि नैवाग्नयो विन्छिद्यन्ते । स्वकीयमनौवागादिवृत्त्युपर- मेऽपि प्रबुद्धपुरुपमनोवागादिवृत्तीनां संभवात् । अशेपपुरुपवृत्तीनामनित्वेन वर्णनात् । तस्मादेवंविदे स्वपतेऽपि तानेतानग्नीत्सर्वदा सर्वाणि भूतानि चिन्वन्तीति तत्राग्नीनामविन्छे- देन नैरन्तर्य स्यात् । ननु प्रकरणात्कर्माङ्गत्वमस्विति चेन्न । हि यस्मात्तल्लिङ्ग प्रकरणाद्व- लीयः । कुतस्तदपि लिड्गभूयस्त्वमपि पूर्वतन्त्र उक्तम्-' श्रुतिलिङ्गवाक्यप्रकरणस्थानसे- माख्यानां समवाये पारदर्बिल्यमर्थविप्रकर्षात् ' [ जै० सू० ३ । ३ । १४ ] इति ॥४४॥ पूर्वविकल्पः प्रकरणात्स्याक्रिया मानसक्त् ।। ४५॥ पूर्वपक्षसूत्रम् । प्रकरणाक्रिया स्यात् । कर्माङ्गभूता विद्या स्यादित्यर्थः । ततश्च पूर्वस्य क्रियामयस्याग्रे प्रकरणात्तद्विपय एवायं विकल्पविशेपोपदेशः स्यात् । विकल्पः प्रकार इत्यर्थः । न स्वतत्रविद्य त्मक उपदेशः । ननु प्रकरणाल्लिङ्ग बलीय इति चेत् । सत्यम् । अन्यार्थ- दर्शनरूपत्वेन लिङ्गस्यैव दुर्बलत्तात् । तथा हि । लिङ्ग द्विविवम् । सामर्थ्यमन्यार्थदर्शन चेति । तत्र विध्युद्देशगतं लिङ्गं सामर्थ्यरूपम् । तच्च स्वातन्त्र्येण प्रमाणम् । अर्थवादगतं त्वन्यशेपवाक्ये दृश्यमानत्वादन्यार्थदर्शनं तच्च तात्पर्यरहितत्वान्न स्वातन्त्र्येण प्रमाणम् । कि तु प्रमेयसाधक प्रमाणान्तरे केवलमुपोद्बलक भवति । एव च सत्यन्यार्थदर्शनरूपलिङ्गस्य प्रापणप्रमाणसापेक्षस्य दुर्बलत्वात्प्रकरणात्कर्मशेपा मनश्चिदादयः स्युः । तत्र दृष्टान्त:- मानसवत् । यथा द्वादशाहस्य दशमेऽहनि पृथिव्या पात्रेण समुद्रस्य सोमस्य प्रजापतये देवतायै गृह्यमाणस्य ग्रहस्य मानसस्य तदङ्गत्वं तद्वत् । एवमयमप्यग्निः कल्प्यः ॥ ४५ ॥ अतिदेशाच ॥ ४६॥ अतिदेशश्चैषामनीनां क्रियाङ्गत्वमुपोद्दलयति--' षट्त्रिंशत्सहस्राण्यग्नयोऽर्कास्तेप.मेकैक एव तावान्यावानसौ पूर्वः ' [ श० प० १० । ५। ३ । ११ ] इति । अर्काः । छान्दसत्वाद्वर्णव्यत्ययः । अा इत्यर्थ. । सति हि समानभावेऽतिदेशः प्रवर्तते । ततश्च पूर्वेणेष्टिकाचितेन क्रियानुप्रवेशिनाऽग्निना सनश्चिदादीनग्नीनतिदिशन्कर्माङ्गत्वमेवैपा द्योत- यति ॥ ४६ ॥ विद्यैव तु निधारणात् ॥ ४७ ॥ तुशब्दः पक्षव्यावर्तकः । विद्यात्मका एवैते स्वतन्त्रा मनश्चिदादयोऽग्नयो न च क्रिया- - , १९० हरिदीक्षितकृता- [ तृतीयाध्याये- विशेषभृताः । तथाहि निर्धारयति श्रुतिः---'ते हैते विद्याचित एव । विद्यया हैवैत एवं- विदश्चिता भवन्ति ' [श० १० । ५ । ३ । १२ ] इति च ॥ ४७ ॥ दर्शनाच ॥४८॥ पूर्वोक्तलिङ्गभूयस्वदर्शनादित्यर्थः ॥ ४८ ॥ ननु लिङ्गमसाधकमित्युक्तमत आह- श्रुत्यादिवलीयस्त्वाच्च न बाधः ॥ ४२ ॥ कुतः । श्रुत्यादेर्बलीयस्त्वात् । बलीयासि हि श्रुतिलिड़वाक्यानि हीति स्थितं श्रुतिलि- सूत्रे [जै० ३ । ३ । १४ ] तानि चेह स्वातन्त्र्यपक्षं साधयन्ति । श्रुतिस्तावत्- ते हैते विद्याचित् एव ' [ श० १० । ५। ३ । १३ ] इति । तथा लिङ्गम् । सर्वदा सर्वाणि भूतानि विचिन्वन्त्यपि स्वपते ' [श० १० । ५ । ३ १३ ] इति । तथा वाक्यमपि । विद्यया हैवैत एवविदश्चिता भवन्ति' [ श० १० । ५। ३ । १३ ] इति । 'ते हैते विद्याचित एव ' [ श० १० । ५। ३ । १३ ] इति सावधारणेयं श्रुतिः कर्माडत्वेऽभ्युपगम्यमाने पीडिता भवेत् । लिङमुक्तं नचान्यार्थ दर्शनमात्रं तत् । यत्र प्रत्यक्षविधिसनिवावार्थवादिकं लिड तप्रापकप्रमाणसापेक्षं प्रकृते तु न प्रत्यक्षो विधिः । किंत्वर्थवादः कल्प्यः । अर्थवादे च स्वातन्त्र्यलिङ्गदर्शनात्स्वातन्त्र्येणैव विद्याविधिः कल्य्यत इति । तदुक्तं भाष्यकृद्भिः-यत्र हि विस्पष्टो विधायको लिडादिरुपलभ्यते युक्त तत्र सकी- र्तनस्यार्थवादत्वम् । इह तु विस्पष्टविध्यन्तरानुपलब्धेः संकीर्तनादेवैपां विज्ञानविधानं कल्प. नीयमिति । वाक्यमपि 'विद्यया हैवैत एवविदश्चिता भवन्ति' इति । विद इति पुरुषसबन्ध- मेव दर्शयति न कर्मसबन्धम् । तस्मात्स्वातन्त्र्यपक्ष एव ज्यायान् ॥ १९ ॥ अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववदृष्टश्च तदुक्तम् ॥ ५० ॥ इतश्च न कांडत्व मनश्चिदादीनाम् । कुतः । अनुबन्धादिभ्यः । अनुबध्यत इत्यनुबन्वः । कर्माडभूतानां पदार्थानां मनोव्यापारसबन्धः । ' मनसैवाऽऽधीयन्त मनसा चीयन्ते मन- सैव ग्रहा अगृह्यन्त मनसाऽस्तुवन्मनसाऽशसन्यत्किंच यज्ञे क्रियते यत्किंच यज्ञियं कर्म, मनसैव ' [ श० १० । ५ । ३ । ३ ] इत्यादिः सपत्फलो ह्ययमनुबन्धः । स्वतःसि- द्धानां कर्मावयवानां मनःसपाद्यत्वमनर्थकम् । अत्र कर्माडानां मनःसंपाद्यत्व बदन्ती श्रुति- रनुचिन्तनप्राधान्यं दर्शयति । पत्रिशत्सहस्राणि मनोवृत्तिभेदानादाय तेष्वग्नित्वं ग्रहादीश्व कल्पयति पुरुषयज्ञवत् । संख्या चेयं पुरुषायुषस्याहःसु दृष्टा सती तसंबन्धिनीषु मनोवृ- १ १ क. रिङ्गादि ।
. तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। १९१ त्तिष्वारोप्यत इति द्रष्टव्यम् । एवमनुबन्धात्स्वातन्त्र्यं मनश्चिदादीनाम् । आदिशब्दादति- देशाद्यपि । तथा हि-तेषामेकैक एव तावान्यावानसौ पूर्वः' [ श० १० । ५ । ३ ११ ] इति क्रियामयस्येष्टिकाचिताग्नेर्माहात्म्य ज्ञानमयानामेकैकस्यातिदिशक्रियायामन- दर दर्शयति । न च क्रियाग्निना विकल्पो ज्ञानाग्नेः क्रियाग्निवदाहवनीयाधारत्वाभावेनै- कार्थत्वाभावास्क्रियानुप्रवेशमन्तरेणातिदेशासभव इति वाच्यम् । अग्निवसामान्येनातिदेश- सभवात् । श्रुत्यादीनि प्रमाणानि दर्शितानि । एवमनुबन्धादिभ्यः कारणेभ्यः स्वातन्त्र्य मनश्चिदादीनाम् । प्रज्ञान्तरपृथक्त्ववत् । यथा शाण्डिल्यविद्यादीना कर्मभ्यः प्रज्ञान्तरेभ्यश्च पृथक्व तद्वत् । ननु प्रकरणादु को न दृष्टचर इत्यत आह--दृष्टश्च तदुक्तमिति । अवेष्टे राजसूयप्रकरणपठितायाः प्रकरणादुत्कर्षे वर्णत्रयानुबन्धाद्राजयज्ञत्वाच्च राजसूयस्य । तदुक्तं पूर्व- काण्डे - 'क्रत्वर्थायामिति चेन वर्णसयोगात् ' [ जै० सू० ११ । ४ । ११ ] इति ॥ ५० ॥ न सामान्यादप्युपलब्धेम॒त्युवन्न हि लोकापत्तिः ॥ १ ॥ मानसवत् ' इति यदुक्तं तन्निराक्रियते । मानसग्रहणसामान्यादपि न मनश्चिदा- दीनां कङ्गित्वं कल्यते । श्रुतिलिङ्गादिभिर्हेतुभिः केवलपुरुषार्थत्वोपलब्धेः । मानसवदिति दृष्टान्तो न युज्यते । मृत्युवत् । यथा ' स एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुषः । [ श० १० । ५। २ । ३ ] इति । आदित्यपुरुषे मृत्युशब्दप्रयोगे समानेऽपि नात्य- तसाम्यापत्तिः । एवमिहापि कल्पनासामान्यान्नाङ्गत्वसिद्धिः ॥ ५१ ॥ परे ग च शब्दस्य ताद्विध्यं भरस्त्वात्त्वनुबन्धः ॥ ५२ ॥ (२९) किच परेण चकारात्पूर्वेणापि संदर्भण ताद्विथ्य केवलविद्याविधित्वं शब्दस्य प्रयो- जनं गम्यते न कर्माङ्गत्वम् । परसदर्भस्त्वेवम् –' अय वाय लोक एपोऽग्निश्चितः ' [ श० १० । ५ । ४ । १] इत्यस्मिन्ब्राह्मणे ताद्विध्यं लक्ष्यते न कर्मागत्वम् । तन हि- विद्यया तदारोहन्ति यत्र कामाः परापताः । न तत्र दक्षिणा यन्ति नाविद्वासस्तपस्विनः । [ श० १० । ५। ४ । १६ ] इत्यनेन कर्मनिन्दापूर्वकविद्यास्तुतिश्रवणाच्च । तथा पूर्वमंदर्भोऽपि-' यदेतन्मण्डलं तपति ' [ श० १० । ५। २ । १ । इत्यस्मिन्ब्राह्मणे विद्याप्रधानत्वमेव लक्ष्यते । ' सोऽमृतो भवति ' [ श० १० । ५ । २ । २३ ] इति बिद्याफलेनैवोपसहारात् । इहापि तथात्वं विद्याया संपादनीयानामग्न्यवयवाना भूयस्त्वात् । तस्मात्कारणादग्निनाऽनु- बव्यते विद्या, अकर्मागत्वात् । तस्मान्मनश्चिदादीना स्वतन्त्रविद्या व सिद्धम् ॥५२॥ (२९) १ क. 'नानानु ।
१९२
हरिदीक्षितकृता-
[ तृतीयाध्याये-
एक आत्मनः शरीरे भावात् ।। ५३ ॥
इह देहव्यतिरिक्तस्याऽऽत्मनः पद्भावः समर्थ्यते बन्धमोक्षाधिकारसिद्धये । न ह्यसति
देहव्यतिरिक्त आत्मनि परलोककलाश्चोदना उपपद्येरन् । कस्य वा ब्रह्मात्मत्वमुपदिश्येत ।
प्रथमाध्यायादौ देहादिव्यतिरिक्तस्याऽऽत्मनोऽस्तित्वमुक्त तस्यैव प्रपञ्चोऽय सूत्रकृता सूत्रेण
प्रदर्श्यते । पूर्वस्मिनधिकरणे मनश्चिदादीना क्रत्वर्थता नास्ति किं तु पुरुषार्थत्वमित्युक्तम् ।
तत्र कोऽसौ पुरुष इति प्रसङ्गाद्विचार्यते । तदेतदधिकरणं पूर्वोत्तरमीमासयोः शेपभूतम् ।
देहव्यतिरिक्तस्य स्वर्गमोक्षभागिण आत्मनः प्रतिपादकत्वादिति भाष्ये स्थितम् । तत्थं
पूर्वपक्षः । लोकायतिका देह एवाऽऽत्मेति मन्यन्ते । कुतः । शरीरे भावात् । अन्वय-
व्यतिरेकाभ्या चेतन्यस्य देह एवोपलम्भात् । सति देहे चैतन्यमुपलभ्यते नत्वसति ।
न च चैतन्यस्य जात्यन्तरतया देहव्यतिरिक्तात्मत्व शङ्कनीयम् । क्रमुकनागवल्लीचूर्णख.
दिराणा सयोगान्मदशक्तिरित्र देहाकारपरिणतभूतेभ्यो जायमान चैतन्य कथ नाम जात्या
न्तर स्यात् । तस्माच्चेतनो देह आत्मा ।। ५३ ॥
इति प्राप्त उत्तरं पठति
व्यतिरेकस्तद्भावाभाषित्वान्नतूपलब्धिवत् ॥ ५४ ॥ (३०)
नविति पक्षव्यावृत्तिः । आत्मनः शरीराव्यतिरेकः । कुतः । तद्भावाभावित्वात् ।
शरीरधर्माणां रूमादीना यावच्छरीरभावित्वात् । बुद्धयादीनां च शरीरभावेऽप्यभावान्न तद्धर्म-
त्वम् । उपलब्धिवत् । पृथिव्यादीना भूतानामुपलब्विभूतेम्पो व्यतिरिक्ता भवितुमर्हति
विपयित्वात् । यद्यद्विषयि तत्तद्विपयाव्यतिरिक्तं यथा रूपाच्चक्षुः । तथा सति तादृशचै-
तन्यात्मत्वं वदन्त प्रति कथ भौतिकदेहत्वमापद्येत । सत्येव हि चैतन्यमुपलभ्यते नासतीति
यावन्वयव्यतिरेकावुक्तौ तत्र व्यतिरेकोऽसिद्धः । असत्यपि देहे परलोकगामिनश्चिदात्मनः
शास्त्रेणोपलम्भात् । तस्माद्देहव्यतिरिक्त आत्मा सिद्धः ॥ ५४ ॥ (३०)
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ५५ ॥
'ओमित्येतदक्षरमुद्गीथमुपासीत ' [ छा० १ । १ । १ ] इत्याद्याः कर्माडाश्रयविद्याः
प्रतिवेद प्रतिशाखमाम्नायन्ते । ताः किं तन्छाखोद्गीथादिष्वेव भवेयुः किं वा शाखान्त-
रगतेष्वपीति संशये सनिहितत्वात्स्वशाखायामेव व्यवतिष्ठन्त इति प्राप्ते ब्रूमः अङ्गेति ।
तुशब्देन पक्षव्यावृत्तिः । नैतेऽङ्गावबद्धा उद्गीथादयः स्वशाखास्वेव व्यवतिष्ठन्ते । अपि
तु सर्वशाखास्वनुवर्तन्ते । कुतः । उद्गीथादिश्रुत्यविशेपात् । उद्गीथादिशब्दस्तावन्मुख्यया
वृत्त्या सर्वशाखागतमुद्गीथादिसामान्यमाचष्टे । तत उद्गीथादिश्रुतिवश सर्बशाखागतोद्गीथादि-
शास्त्रेष्वनुवृत्तिः प्राप्ता । श्रुतिश्च सनिधेर्बलीयसी ॥ ५५॥
तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। मन्त्रादिवद्वाऽविरोधः ॥ ५६ ॥ (३१) अथ वा नैवात्र विरोधः शङ्कनीयः कथमन्यशाखागतेपद्गीथादिष्वन्यशाखाविहिता उपासना भविष्यन्तीति । मन्त्रादिवदविरोधोपपत्तेः। मन्त्राणां कर्मणा गुणानां च शाखान्तरो- त्पन्नानामपि शाखान्तरेपूपसंग्रहो दृश्यते । येपामपि ' अग्नोपोमीय पशुमालभेत ' इत्यत्र जातिविशेषोपदेशी नास्ति तेपामपि तद्विषयो मन्त्रवर्ण उपलभ्यते 'छागस्य वपाया मेदसोड़- नुब्रूहि' [ शत०३ । ८ । २ । २६ ] इति । तथा वेदान्तरोत्पन्नानामपि । तस्माद्यथाऽs- श्रयाणां कर्माङ्गानां( णां ) सर्वत्रानुवृत्तिस्तथाऽऽश्रितानामपि । प्रत्ययानामित्यविरोधः ॥ ५६ ॥ (३१) , , भून्नः कतुवज्ज्याय तथा हि दर्शयति ॥ ५७ ॥ (३२) वैश्वानरविद्यायां व्यस्त समस्तं चोपासनं श्रूयते । व्यस्तोपासनं तावत्- औपमन्यव के त्वमात्मानमुपास्स इति दिवमेव भगवो राजनिति होवाच । एष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से ' [ छा० ५ । १२ । १ ] इत्यादि । तथा समस्तोपास- नमपि-' तस्य ह वा एतस्याऽऽत्मनो वैश्वानरस्य मृर्धेव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वा' [ छा० ५ । १८ । २ ] इत्यादिना । तत्र व्यस्तसमस्तोपासनद्वय विधेय किं वा समस्तोपासनमेवेति । उभयमिति तावत्प्राप्तम् । उभयफलश्रवणादिति प्राप्तेऽभिधी- यते-भूम्नः पदार्थोपचयात्मकस्य समस्तस्य वैश्वानरोपासनस्य ज्यायस्त्वं प्राधान्येन रिच- क्षितमस्मिन्वाक्ये न प्रत्येकोपासनम् । क्रतुवत् । यथा दर्शपूर्णमासादेः सागस्यैक एव प्रयोगविविस्तद्वत् । कुतः । तथाहि दर्शयति । ' भूमैव ज्यायान् । इतिश्रुतिर्भूम्नो ज्यायस्त्वं दर्शयति । प्राचीनशालप्रभृतयो वैश्वानर विद्याज्ञानाय कैकेयं राजानमाजग्मुरित्यु- पक्रम्य तेषा द्युप्रभृतीना कैकमुपास्यं प्रदर्श्य मूर्धादित्व द्युलोकादीना प्रतिपादयतः संदर्भ- स्यैकवाक्यत्वावगमात्समस्तोपासनमेवात्र विधेयं न व्यस्तोपासनम् । वाक्यभेदात् । एवं. च व्यस्तोपासने यत्कलश्रवणं । तस्मात्तव सुत प्रसुतमासुतं कुले दृश्यते । [ छा० ५। १२। १ ] इत्यादि । सुतादयः सोमयागविशेषाः । तेपां सोमयागवि- शेषाणां फलसंपत्तिः प्रधानस्तुत्यर्थत्वेनावगम्यते मूर्धा ते व्यपतिष्यद्यन्मां नाऽऽग- मिष्यः ' [छा० ५ । १२ । २] इति व्यस्तोपासननिन्दाश्रवणात् । पुनश्च व्यस्तो- पासनं व्यावर्त्य समस्तोपासनमेवानुवयं ' स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति' [ छा० ५ । १८ । १ ] इति भूताश्रयमेव फलं दर्शयति । तस्मात्समस्तोपासनमेव विवक्षितं न व्यस्तोपासनम् । उपक्रमोपसहाराभ्यामेकवाक्यत्वावगमात् । उपक्रमे तावत्- ' को न आत्मा किं ब्रह्म' [छा० ५। ११ । १] इति कृत्स्नमेव ब्रह्मोपास्यत्वेन विचारयितु प्रक्रान्तम् । उपसंहारेऽपि ' तस्य ह वा एतस्याऽऽत्मनो वैश्वानरस्य मूर्धेव - २५ अत्र समु- १२४ हरिदीक्षितकृता- [तृतीयाध्याये- सुतेजाः ' [ छा० ५। १८ । २] इत्यादिना समस्तोपासनं विस्पष्टमभिधीयते । तस्मा- समस्तोपासनमेब विवक्षितम् ॥ ५७ ॥ (३२) नाना शब्दादिभेदात् ॥ ५८॥ (३३) पूर्वस्मिन्नधिकरणे सत्यामपि सुतेजःप्रभृतीना फलभेदश्रुतौ समस्तोपासनं ज्याय इत्यु- कम् । अतः प्राप्ता बुद्धिरन्यान्यपि भिन्नश्रुत्युपासनानि समस्यैवोपास्यानीति । श्रुतिनाना- त्वेऽपि न वेद्यनानात्वम् । ईश्वरस्यैकत्वात् । तथा हि--छान्दोग्यादौ शाण्डिल्यविद्या दहा रविद्या मधुविद्येत्येवमादयः श्रूयन्ते । तासां किमैक्यं भेदो वेति संशये समस्तोपासनस्य ज्यायस्त्वादुपास्यब्रह्मैक्याच्च विचैत्यप्राप्तावाह-नाना शब्दादिभेदादिति । विद्याभेद एवा- भ्युपगन्तव्यः । कुतः । उक्तहेतोः । न च वेद्यस्य ब्रह्मण एकत्व शङ्कनीयम् । गुणभे- देन भेदोपपत्तेः । नचैकस्या विद्याया इयत्ता नियन्तुमशक्या । प्रत्येकमुपक्रमोपसहारयोस्त- निश्चायकत्वात् । सर्वोपासनैक्ये ह्यशक्यानुष्ठानतयाऽप्रामाण्यप्रसङ्गान्च । तस्माद्विद्यानां नानात्वम् ॥ ५८ ॥ (३३ ) विकल्पोऽविशिष्टफलत्वात् ॥ ५९ ॥ (३४) एवं स्थिते विद्याभेदे विचार्यते किमासां समुन्चयो विकल्पो वा स्यात् । चयो न युक्तः । नित्यताश्रुतिाह तत्र कारणम् । अग्निहोत्रदर्शपूर्णमासादीनां विधायक- नित्यताश्रुतेः सत्त्वात्समुच्चयः । नैवंविधाना काचिन्नियताश्रुतिरस्ति । तस्मान्न समुच्चयः । नन्वविशिष्टफलत्वादासा विकल्पोऽस्तु । नैप दोषः । समानफलेष्वपि स्वर्गादिसाधनेषु कर्मसु यथाकामदर्शनात् । तस्माद्यथाकाममिति प्राप्तौ ब्रूम । विकल्प एवाऽऽसा भवति न समुच्चयो नाप्यनियमः । कुतः । अविशिष्टकलत्वात् । आसामुपासनानां ह्यविशिष्टफल- मीश्वरसाक्षात्कारः । तस्मिन्साक्षात्कारे त्वेकेनैवोप सनेन सिद्धे सतीतरोपासनवैयर्थ्यम् । इदमेव तावन्नियामकमेकम् । किंचोपासनेषु न प्रमाणजन्य. साक्षात्कारोऽस्ति । किं तर्हि निरन्तरोपास्यभावनाजन्यः । स चैकमुपासनमनुष्ठाय तत्परित्यज्यान्यत्र वर्तमानस्य पुरु- पस्य चित्तविक्षेपात्कथ सभवेत् । एवमानर्थक्यविक्षेपयोर्नियामकयोः सत्त्वाद्विकल्प एवेति सिद्धम् ॥ ५९ ॥ (३४) काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥६० ॥ ( ३५ द्विविधान्युपासनानि-अहग्रहाणि प्रतीकानि चेति । अहंग्रहोपासनेषु विकल्पः पूर्वा- धिकरण उपपादितः । अनात्मवस्तुनि देवतादृष्टया संस्कृत्योपास्यमानानि प्रतीकानि । तानि ' स यो नाम ब्रह्मेत्युपास्ते यावन्नम्नो गतं तत्रास्य कामचारो भवति ' [ छा० १ । ५] इत्यादीनि । तेषु पूर्वाधिकरणन्यायेन विकल्यप्राप्तौ ब्रूमः । तुशब्दः ७
:
तृतीयः पादः ]
ब्रह्मसूत्रवृत्तिः ।
१९५
पक्षव्यावृत्यर्थः । काम्याः प्रतीकोपासना यथाकामं समुच्चीयेरन् । न वा समुच्चीयेरन् ।
कुतः । पूर्वहेत्वभावात् । अहग्रहेपु — देवो भूत्वा देवानप्येति ' [ बृ० ४ । १ । २]
इति जीवन्नेव भावनाप्रकर्षवशादेव साक्षात्कार प्राप्य मृतो देवत्वमुपैतीति यथाऽ-
हंग्रहेष्ववगम्यते न तथा प्रतीकेपु साक्षात्कारफलत्वे किचिन्मानमस्ति । साक्षा-
स्कारद्वारा फलत्वाभावे च तत्र तत्र प्रोक्ता भोग्यवस्तुप्राप्तयः फलत्वेनाभ्युपगन्तव्याः । तथा
सति भिन्नफलत्वान्नान्यानर्थक्यम् । विक्षेपशङ्का तु दुरापास्ता । एक प्रतीकं के चित्क्षणे.
पूपास्य क्षणान्तरे प्रतीकान्तरोपासने पूर्वोपास्तिजन्यापूर्वस्याविनाशात् । तस्मादेकमेव वा
बहनि समुच्चित्य वा यथाकामं प्रतीकोपास्तिः कर्तव्येति सिद्धम् ।
अङ्गेषु यथाश्रयभावः ॥ ६१ ॥
प्रतीकानि द्विविधानि-लौकिकानि वैदिकानि चेति । लौकिकेषु निर्णयः पूर्वाधिकरण
। वैदिकेषु कर्माङ्गेपीथादिषु य आश्रिताः प्रत्ययाः किं ते समुच्चीयेरन्कि वा
यथाकामं स्युरिति सशये समुच्चय इति तावत्प्राप्तम् । कुतः । तत्तत्कर्मणि कर्माङ्गानि समु-
च्चित्यैवानुष्ठेयतया प्रयोगविधिप्रापितानि तथाऽगावबद्धान्युपासनान्यपि समुच्चित्यैवानुष्ठे-
यानि अङ्गतत्रत्वादिति प्राप्ते ब्रूमः । ' ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकुर्यात् ।
स्तुतमनुशंसति ' इत्यादौ या ग्रहस्तोत्रशसनादीनां नियतपौर्वापर्येण सहभावः श्रुतो न
तथोपासनेषु श्रूयते । तस्माद्विकल्पसमुच्चययोर्याथाकाम्यमिति विद्यारण्यपादाः सिद्धान्तमाहुः ।
यथाऽऽश्रयाणामङ्गाना समुच्चय एवमगावबद्धानामुपासनानामपि समुच्चयेनैवानुष्ठान
न्याय्यम् । आश्रयतत्रत्वादाश्रितप्रत्ययानामित्याचार्यपादैः शङ्कासूत्राणि व्याख्याय तथैव
सिद्धान्तितम् ॥ ६१ ॥
शिष्टश्च ॥ ६२ ॥
यथा चाऽऽश्रयाः स्तोत्रादयस्त्रिषु वेदेषु शिष्यन्त एवमाश्रिता अपि प्रत्ययाः । नोपदे-
शकृतोऽपि कश्चिद्विशेषोऽङ्गानां तदाश्रयाणा च प्रत्ययानामित्यर्थः ॥ ६३ ॥
उक्तः
समाहारात् ॥ ६३ ।।
'होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरति ' [छा० १।५। ५ ] इति । दुरुद्गी-
थमपि स्वरादिदुष्टमप्युद्गीथं होतृपदनाद्धोतृकृतशंसनादनुसमाहरति समादधात्युद्गातेति श्रुत्यर्थः ।
य उद्गीथः स प्रणवः । यः प्रणवः स उद्गीथः ' [छा० १ । ५। १ ] इति प्रण-
वोद्गीथैकत्वविज्ञानमाहात्म्यादुद्गाता स्वकर्मण्युत्पन्नं क्षतं हौत्रात्कर्मणः प्रतिसमादधातीति ब्रुव-
न्वेदान्तरोदितस्य प्रत्ययस्य वेदान्तरोदितपदार्थसंबन्धसामान्यात्सर्ववेदोदितप्रत्ययोपसंहारं सूच-
यति ॥ ६३ ॥
साधारण्यम् हरिदीक्षितकृता- [ तृतीयाध्याये- गुणसाधारण्यश्रुतेश्च ॥ ६४ ॥ गुणस्याऽऽश्रयस्योङ्कारस्य वेदत्रयसाधारण्यश्रुतेरपि तदाश्रितोपासनस्य । ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायति '[ छा० १ । १ । ९] इति । ततश्चाऽऽ- नयसाधारण्यादाश्रितसाधारण्यम् ॥ ६४ ॥ तस्मात्समुच्चय इति प्राप्ते ब्रूमः- न वा तत्सहभावाश्रुतेः ॥ ६५ ।। म केति पक्षव्यावर्तनम् । यथाश्रयभावश्चाऽऽश्रितानामुपासनानां नास्ति । कुतः । तत्सहभावाश्रुतेः । यथा हि त्रिवेदविहितानामङ्गाना स्तोत्रादीना सहभावः । नैवमुपासनाना सहभावश्रुतिरस्ति । उपासनानां समुच्चये प्रत्यक्षश्रुत्यभावात् । गोदोहनादिवदनडुत्वेन प्रयोग घचनाविषयत्वात् ॥ ६५ ॥ दर्शनाच्च ॥ ६६ ॥ (३६) एवं विद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्विजोऽभिरक्षति ' [छा० ४ । १७।१० इति । सर्वप्रत्ययोपसहारे हि । सर्वे सर्वविदः ' इति ज्ञानवता ब्रह्मणेतरेपा परिपाल्यत्व- मनुपपन्नं स्यात् । तस्माद्यथाकाममुपासनानां समुन्चयो विकल्पो वेति सिद्धम् ॥६६॥(३६) इति श्रीलक्ष्मीनरहरिसूरिसूनुहारदीक्षितकृतौ ब्रह्मसूत्रवृत्तौ तृतीयाध्यायस्य तृतीयः पादः ॥ ३ ॥ , अथ चतुर्थः पादः । पुरुषार्थोऽत: शब्दाविति बादरायणः ॥ १ ॥ अथेदानीसौपनिषदमात्मज्ञानमधिकारिद्वारेण कर्मण्येवानुप्रविशत्याहोस्वित्स्वतन्त्रमेवः पुरु. षार्थसाधनं भवतीति मीमांसमानः सिद्धान्तेनैव तावदुपक्रमते । आत्मनो देहादिव्यतिरेक- ज्ञानमन्तरेण परलोकगामित्वनिश्चयो न सभवति । ततश्च ज्योतिष्टोमादिषु प्रवृत्तिरेव न स्यादिति क्रतुषु प्रवर्तकत्वेनौपनिषदमात्मतत्त्वज्ञानं कर्माडमिति प्राप्ते ब्रूमः । द्विविधं देह- ब्यतिरिक्तात्मतत्त्वज्ञानम्-परलोकगामिकत्रीत्मज्ञानमेकमपरमद्वितीयब्रह्मात्मज्ञानं चेति । तत्र कात्मज्ञानं प्रवर्तकत्वात्कर्मागमस्तु नाम । अद्वैतब्रह्मात्मज्ञानं तु न प्रवर्तक प्रव्युत कर्तृक्रि- याकारकफलनिवर्तकसेव । अतो वेदान्तविहिताद्वितीयात्मज्ञानात्स्वतन्त्रात्पुरुपार्थः सिध्यतीति बादरायण आचार्यो मन्यते । कुतः । शब्दात् । तथा हि-'तरति शोकमात्मवित् । [छा ७।१।३] ( स यो ह वैतत्परं ब्रह्म वेद ब्रह्मैव भवति' IE सुण्ड० ३ २ । ९] ' ब्रह्मविदाप्नोति परस् ' [ तै९ २।१।१ ] 'आत्मा वा अरे द्रष्टव्यः .
" - चतुर्थः पादः ब्रह्मसूत्रवृत्तिः। [ बृ० ४ । ५। ६ ] इत्युपक्रम्य ' एतावदरे खल्बमृतत्वम् ' [ बृ० ४ । ५ । १५] इत्येवजातीयकाश( च्छ )ब्दात् । एवजातीयका श्रुतिः केवलाया ब्रह्मविद्याया एव पुरुषार्थहेतुत्वं श्रावयतीति भाष्यम् ॥ १ ॥ अथात्र प्रत्यवतिष्ठते पूर्वपक्षी- शेषत्वात्पुरुषार्थवादो यथाऽन्येविति जैमिनिः ॥२॥ उदाहृता फलश्रुतिरात्सत्यर्थवाद इति जैमिनिराचार्यो मन्यते । कुतः । शेषत्वात् । कर्तृत्वेनाऽऽत्मनः कर्मशेषत्वात् । तद्विज्ञानमपि ब्रीहिप्रोक्षणादिवद्विपयद्वारेण कर्मसंबन्ध्येव । अतस्तस्मिन्नवगतप्रयोजन आत्मज्ञाने या फलश्रुतिः साऽर्थवाद इति जैमिनिराचार्यो मन्यते। यथाऽन्येपु द्रव्यसस्कारकर्मसु ' यस्य पमियी जुहूर्भवति न स पाप श्लोक शृणोति [ तै० सं० ३ । ५। ७ । २] इत्यादिषु फलश्रुतिरर्थवादस्तद्वत् । तदुक्त जैमिनिना- ' द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात् ' इति ॥२॥ आचारदर्शनातू ॥३॥ 'जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे' [बृ० ३ । १ । १] इत्यादिषु ब्रह्मविदां जनकादीनामपि कर्मानुष्ठानदर्शनात् । केवलाच्चेज्ज्ञानात्पुरुपार्थसिद्धिः स्यात्तर्हि किमर्थं ते बह्वायाससाध्यानि कर्माण्यनुतिष्ठेयुः । ' अर्के चेन्मधु विन्देत किमर्थ पर्वतं बजेत् ' इति न्यायात् ॥ ३ ॥ तच्छ्रुतेः ॥४॥ तस्य विद्यायाः कर्मशेपत्वस्य ' यदेव विद्यया करोति श्रद्धयोपनिपदा तदेव वीर्यवत्तरं भवति ' [ छा० १।१ । १० ] इति श्रुतेः श्रवणान्न केवलाया विद्यायाः पुरुपार्थ- हेतुत्वम् ॥ ४॥ समन्वारम्मणात् ॥५॥ ' तं विद्याकर्मणी समन्वारभेते' [बृ० ४ । ४ । २ ] इति च विद्याकर्मणोः फलारम्भे साहित्यदर्शनादपि न विद्यायाः स्वातन्त्र्यम् ॥ ५॥ तद्वतो विधानात् ॥ ६॥ तद्वतः समस्तवेदार्थज्ञानवतः 'वेदमधीत्य स्नायात् [छा० ८ । १५ । १ ] इत्यादिश्रुत्या कर्माधिकारः श्रूयते । तस्मादपि न विद्यायाः स्वातन्त्र्यम् । नन्वत्राधीत्येत्य- ध्ययनमात्रं वेदस्य श्रूयते नार्थविज्ञानमिति चेत् । नैपदोषः । दृष्टार्थत्वाद्वेदाध्ययनमर्थावबो- धपर्यन्तमिति स्थितम् ॥ ६॥ , हरिदीक्षितकृता- [ तृतीयाध्याये- नियमाच्च ॥ ७ ॥ कुर्वन्नेवेह कर्माणि जिजीविषेछतः समाः । एव त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे' [ ईशा० २ ] एवविधान्नियमादपि कर्मशेपत्वमेव विद्यायाः ॥ ७ ॥ एवं ' शेषत्वात्पुरुषार्थवादः ' [ ब्र० सू० ३ । ४ । २ ] इत्यत आरभ्य ' निय- माञ्च ' [ ब्र० सू० ३ । ४ । ७ ] इत्यन्तया षट्सूच्या पूर्वपक्षे प्राप्ते सत्यभिधीयते- अधिकोपदेशानु दादरायणस्यैवं तद्दर्शनात् ॥ ८॥ तुर्नार्थे यदुक्तं पूर्वपक्षिणा शेपत्वात्पुरुषार्थवाद इत्यादि तन्नोपपद्यते । कस्मात् । अधि- कोपदेशात् । यदि संसार्येनाऽऽत्मा जीवः कर्ता भोक्ता च शरीरमात्रव्यतिरेकेण वेदान्तेपूप- दिष्टः स्यात्ततो वर्णितेन प्रकारेण मोक्षफलश्रुतेरर्थवादत्वं स्यात् । न त्वेतदस्ति । अधिक- स्तावज्जीवादन्यः कर्तृत्वभोक्तृत्वादिससारधर्मरहितोऽसङ्ग ईश्वरो वेदान्तपूपदिश्यते । नच तद्विज्ञानं कर्मणः प्रवर्तकं भवति । प्रत्युत कर्मणां निवर्तकमेव भवति । तस्मात् — पुरु. षार्थोऽतः शब्दात् ' [ब्र० सू० ३ । ४ । १ ] इति बादरायणस्य भगवतो मतमेव सम्यक् । न तत्पूर्वपक्षिणा दर्शितैर्हेत्वाभासैः खण्डितुं शक्यते । तस्येश्वरस्याऽऽधिक्यमेवं कथमवगम्यते । तदर्शनात् । तथा हि शारीरादधिकमीश्वर दर्शयन्ति श्रुतयः- यः सर्वज्ञः सर्ववित् ' [मुण्ड० १ । १।९] ' भीपाऽस्माद्वातः पवते ' [ तै० २। ८ १] 'महद्भथं वनमुद्यतम् ' । [क० ६ । २] 'एतस्य वा अक्षरस्य प्रशासने गार्गि. सूर्याचन्द्रमसौ विधृतौ तिष्ठतः । ' तदैक्षत बहु स्यां प्रजायेयेति । तत्तेजोड [ऽसृजत [छा० ६ । २ । ३ ] इत्येवमाद्याः । पारमेश्वरमेव हि जीवस्य पारमार्थिक रूपम् । उपाधिकृतं तु शारीरत्वं ' तत्त्वमसि' [छा० [ छा० ६ । ८ । ७ ] इत्यादिश्रुतिभ्यः । विस्तरेणैतत्पुरस्ताद्वर्णितम् । ॥ ८ ॥ तुल्यं तु दर्शनम् ॥ ९॥ यदुक्तं जनकादीनामाचारदर्शनात्कर्मशेषत्वं विद्याया इति । तत्रोत्तरमिदमकर्मशेषत्वेऽपि दर्शनं तुल्यम् । तथा हि श्रुतिर्भवति-' एतद्ध स्म वै तद्विद्वास आहुर्ऋषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्था वय यक्ष्यामहे । एतद्ध स्म वै तद्विद्वांसोऽग्निहोत्रं न जुहूयांचक्रिरे' कौ० ० २ । ५] एव चैतमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति ' [ बृ० ३ । ५। १] इत्येवंजातीयका। याज्ञवल्क्यादीनामपि ब्रह्मविदामकर्मनिष्ठत्वं दृश्यते । ' एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवव्राज' बृ० मा० ४ । ५। २५ ] इति श्रुत्यन्तरम् । तस्मान्च, कर्मशेपत्व विद्यायाः । तुशब्दः कर्मशेषत्वलिङ्गस्यान्यथासिद्धिद्योतनार्थः ॥९॥ L - चतुर्थः पादः ] ब्रह्मसूत्रवृत्तिः। यत्पुनरुक्तं ' तच्छ्रुतेः ' [ब० सू० ३ । ४ । ४ ] इति तत्रोत्तरमाह- असार्वत्रिकी ॥१० ० ॥ यदेव विद्यया करोति ' [छा० १ । १ । १०] इत्येपा श्रुतिर्न सर्वविद्या- विषया । प्रकृतोद्गीथविद्याप्रकरणात्तद्विपया । एतेनान्यसिद्धिरुक्ता ॥ १० ॥ विभागः शतवत् ॥ ११ ॥ समन्वारम्भणात् ' [ ब्र० सू० ३ । ४ । ५ । इत्यस्योत्तरम् । तं विद्याकर्मणी समन्वारभेते 'बृ. ४ । ४ । २ ] इत्यत्र विद्याऽन्य पुरुषमन्वारभते कर्मान्यमिति विभागो द्रष्टव्यः । शतवत् । यथा शतमाभ्या दीयतामित्युक्ते विभज्य दीयते पञ्चाशदेकस्मै पञ्चाशदपरस्मै तद्वत् ॥ ११ ॥ अध्ययनमात्रवतः ॥ १२ ॥ 'तद्वतो विधानात् ' [ ब्र० सू० ३ । ४ । ६] इत्यस्योत्तरमिदम् । ' आचार्य- कुलाद्वेदमधीत्य' [छा० ८। १५ । १] इत्यध्ययनमात्रस्य श्रवणादध्ययनजन्य- ज्ञान कर्माधिकारकारणं भवति औपनिषदमात्मज्ञानं स्वातन्त्र्येणैव प्रयोजनवत्प्रतीयमानं न कर्माधिकारकारणतां प्रतिपद्यते ॥ १२ ॥ नाविशेषात् ॥ १३॥ 'कुर्वन्नेवेह कर्माणि ' [ ईशा० २ ] इत्यत्र न विदुष इति विशेषोऽस्ति । कुतः । अविशेपात् । तत्र विशेपाचवणात् ॥ १३ ॥ स्तुतयेऽनुमतिर्वा ॥ १४ ॥ कुर्वन्नेवेह कर्माणि ' [६० २] इत्यत्रापरो विशेप उच्यते । यद्यत्र प्रकरणसाम- र्थ्याद्विद्वानपि कुर्वन्निति संबध्येत तथाऽपि विद्यास्तुतये कर्मानुमतिरियम् । वाकारः शङ्का- निरासार्थः। विदुषि कर्म कुर्वत्यपि विद्यासामर्थ्यात्तल्लेपो न भवति । ' न कर्म लिप्यते नरे' [ ईशा० २ ] इति तत्रैव श्रवणात् ॥ १४ ॥ कामकारेण चके ॥१५॥ कामकार इच्छा । अपि चैके वाजसनेयिन इच्छया गार्हस्थ्यत्यागमधीयते-' पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येपां नोऽयमात्माऽयं लोकः । ४ । ४ । २२ ] इति । अतो विद्याप्राधान्यं गम्यते । अनुभवारूढमेव विद्याफलम् । अतो न विद्याया. कर्मशेषत्वम् ॥ १५ ॥ उपम च ॥ १६ ॥ एक इत्यनुवर्तते । अपि च कर्माधिकारहेतोः क्रियाकारकफललक्षणस्य प्रपञ्चस्याविद्या- [बृ०
-
२००
हरिदीक्षितकृता-
[ तृतीयाध्याये-
कृतस्य विद्यासामर्थ्यादुपमर्दमामनन्ति–'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ' [ बृ.
२। ४ । १४ ] इत्यादिना । तस्मादपि न विद्यायाः कर्भशेषत्वम् ॥ १६ ॥
ऊर्ध्वरेतःसु च शब्दे हि ॥१७ ।। (१)
अपि चोर्ध्वरेतःस्वप्याश्रमेषु विद्या श्रूयते न च तत्र कर्माङ्गत्वं विद्याया उपपद्यते । ननू-
र्ध्वरेतस एव न सन्तीति चेत् । न । हि यस्मात्कारणाच्छब्दे वेदे तेऽपि श्रूयन्ते- तप:श्रद्धे
ये ह्युपवसन्त्यरण्ये ' [मु. १।२ । ११ ] 'एतमेव प्रवाजिनो लोकमिन्छन्तः प्रत्र-
जन्ति ' [ बृ० ४ । ४ । २२ ] ' ब्रह्मचर्यादेव प्रव्रजेत् ' [ जाबा० ४ ] इत्येवमादौ ।
तत्सिद्धं ब्रह्मविद्यायाः स्वातन्त्र्येण फलसाधनत्वम् ॥ १७ ॥ (१)
परामर्श जैमिनिरचोदना चापबदति हि ॥१८॥
विद्यायाः कर्मशेपत्वासभवात्स्वातन्त्र्येण फलसाधनत्वं पूर्वाधिकरण उक्तम् । तस्य
चाऽऽत्मज्ञानस्योर्ध्वरेतस्काश्रमेषु सुलभत्वं चोक्तम् । तस्याऽऽश्रमस्य सद्भावोऽस्मिन्नधिकरणे
चिन्त्यते । तत्र नास्त्यूर्ध्वरेता इति तावत्प्राप्तम् । कुतः विध्यभावात् । ' त्रयो धर्मस्कन्धा:
यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयः ' [ छा०
२ । २३ । १-२ ] इत्यत्र यज्ञाद्युपलक्षितगार्हस्थ्यस्य तपःशब्दोपलक्षितस्य वानप्रस्थस्य
ब्रह्मचर्योपलक्षितस्य नैष्ठिकब्रह्मचर्यस्य चानात्यन्तिकफलत्वं संकीर्त्याऽऽत्यन्तिकफलतया 'ब्रह्म-
संस्थोऽमृतत्वमेति' [ छा० २ । २३ । २ ] इति भिक्षोश्च परामर्शमात्रं गम्यते न तु
विधिरुपलभ्यते । परामर्शमनुवादमित्यर्थः । हि यस्मादचोदना विधिरत्र न श्रूयते । विधिप्रत्य-
याभावात् । ननु विध्यश्रवणेऽपि चेन्निवीतादिवद्विधिः कल्प्यतामिति । गार्हस्थ्यादौ विरो-
धाभावेन विधिकल्पनेऽपि- संन्यासविधेः कल्पना नौचिता । प्रत्यक्षश्रुतिविरोधादित्याह-
अपवदतीति । ' वीरहा वा एष देवाना योऽग्निमुद्वासयते' [ तै० सं० १ । ५। २ । १]
इति कर्मत्यागनिन्दादर्शनान्न संन्यासविधिः कल्पयितुं शक्यते । स्मृतिस्तु गार्हस्थ्यानधिकृ-
तान्धपवादिविषया भविष्यति न ह्यन्धस्याऽऽज्यावेक्षणे पङ्गोश्च विष्णुक्रमेऽधिकारोऽस्ति
॥ १८ ॥
एवं प्राप्तावुत्तरं पठति-
अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥
आश्रमान्तरमप्यनुष्ठेयं बादरायण आचार्यों मन्यते । कुतः । साम्यश्रुतेः । त्रयो धर्म-
स्कन्धाः ' [ छा० २।२३।१ ] इत्यादौ गार्हस्थ्येन सममाश्रमान्तरस्यापि श्रुतेः । तद्वदेव
विधिकल्पनयाऽनुष्ठेयत्वं संन्यासस्यापि । न च निन्दाविरोधः । उत्सनाग्निकगृहस्थ-
विषयत्वान्निन्दायाः । तस्मादनुवादेऽप्यन्यथानुपपत्त्या विधिकल्पनं युक्तमेव ॥ १९ ॥
, चतुर्थः पादः ] ब्रह्मसूत्रवृत्तिः। विधिर्वा धारणवत् ॥ २० ॥ (२) इदानीमप्राप्तत्वाद्विधिरित्याशयेनाऽऽह । अत्र वाक्ये विधिः कल्पनीयः । कुतः । अप्राप्तत्वात् । ननु पुण्यलोकफलाः त्रयो धर्मस्कन्धाः" [छा० २ । २३ । १ ] ब्रह्मसंस्थोऽमृतत्वमेति ' [ छा० २ । २३ । १ ] इत्यनेन प्रतीतेकवाक्यता भज्येते. तिचत्सत्यम् । सतीमप्येकवाक्यताप्रतीति परित्यज्य विधिरेवात्राभ्युपगन्तव्यो भवति विध्य. न्तरस्यादर्शनात् । विस्पष्टाच्चाऽऽश्रमान्तरप्रत्ययाद्गुणवादकल्पनयैकवाक्यत्वयोजनानुपपत्तेः । मृताग्निहोत्रे श्रूयते-या ' अधस्तात्समिध धारयन्ननुवेदुपरि हि देवेभ्यो धारयति । इत्यत्र सत्यामप्यधोधारणेनैकवाक्यताप्रतीतौ विधीयत एवोपरिधारणमप्राप्तत्वात् । तथाचोक्तं शेषलक्षणे-' विधिस्तु धारणेऽपूर्वस्वात् ' [ जै० सू० ३ । ४ । १५ ] इति । तरमाद्विधिरत्र कल्प्यते । अत्र विचारान्तरं भाष्ये कृतम् । ब्रह्मसंस्थोऽमृतत्वमेति । [ छा० २ । २३ । १] इत्यत्र किं ब्रह्मसस्थो यः कश्चिदाश्रमी किं वा परिवाडेवेति । 'त्रयो धर्मस्कन्धाः। [छा० २ । २३ । १] इत्युपक्रम्प 'सर्व एते पुण्यलोका भवन्ति ' [ छा० २।२३ । १ ] इत्याश्रभिणा पुण्यफल श्रावयिवा 'ब्रह्मसंस्थोऽमृतत्वमे. ति' [ छा० २ । २३ । १ ] इति ब्रह्मसंस्थयाऽमृतत्वफल श्र.व्यते । तत्र यस्य कस्य. चिदाश्रमिणो ब्रह्मसंस्था संभवतीति प्राप्तेऽभिधीयते । परिवाडेव ब्रह्मसंस्थो नान्यः । ब्रह्म- निष्ठा नाम परित्यक्तसर्वव्यापारयाऽनन्यचित्ततया ब्रह्मणि समाप्तिः। न चासौ कर्मठे संभवति । कर्मानुष्ठानकर्मत्यागयोः परस्परविरोधात् । तस्मात्कर्मत्यागिन एव ब्रह्मनिष्ठा । तस्मात्सिद्ध ऊर्ध्वरेतस आश्रमः । सिद्धं चोर्ध्वरेत.सु विधानाद्विद्यायाः स्वातन्त्र्यम् ॥ २० ॥ (२) स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१॥ उद्गीथावयवस्योंकारस्य रसतमादयो गुणाः श्रूयन्ते-'स एप रसाना रसतमः परमः परा- ध्योऽष्टमो य उद्गीथः' ।छ।०१।१।३] इत्येवजातीयकाः श्रुतयः किमुद्गीथादेः स्तुत्यर्थाः किंवा- पासनार्था इति संशये । स्तुत्य इति तावत्प्राप्तम् । कुतः । उपादानात् । उनीथादीना कर्माङ्गाना स्तुत्यानामुपादानात् । यथा ' इयमेव जुहूः ' ' आदित्यः कूर्मः' इत्यादौ कर्मा- गभृतायाः जुह्वा आदित्यादिरूपेण स्तुतिस्तथा रसतमत्वादिगुणैरोकारस्तुतिरिति प्राप्तेऽभि- धीयते । विषमो दृष्टान्तः । जुहूरादित्य इत्यादिकं जुहूप्रकरणे इत्यादिकं जुहूप्रकरणे पठितचात्स्तो- त्रमस्तु । रसतमत्वादिकं तूपनिषदि पठिनत्वेन कर्मप्रकरणपठितोद्गीविधिवाक्येनैकवाक्य- त्वाभावान्न स्तावकम् । किं त्वप्राप्तत्वाद्विधेयमेव । अङ्गविधिसनिधानाभावाच्च नार्थवाद- त्वम् ॥ २१ ॥ भावशब्दाच ॥ २२॥ (३) उनीथमुपासीत ' [ छा० [ छा० १। १ । १] इत्यादिविधिश्रवणादप्युपासनाविधित्वमेवं- २ [ कौ० १ ] २०२ हरिदीक्षितकृता- [ तृतीयाध्याये- जातीयकानाम् । “ उद्गीथमुपासीत ' इति सनिहितेन विधिनैव(नैक)वाक्यत्वाद्रसतमत्वा. दिक ध्यातव्यम् ॥ २२ ॥ (३) पारिप्लवार्था इतिचेन्न विशेषितत्वात् ॥ २३ ॥ अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुमैत्रेयी कात्यायनी च' [बृ० ४ । ५।१] ' प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम ' ० ३ । 'जनको ह वैदेह आसांचक्रे' [६० ४।१।१] इत्यादिकमुपनिषदि श्रूयमाणमाख्यानं तत्र सशयः । किमिदमाख्यानं पारिप्लवार्थमाहोस्वित्संनिहितविद्याप्रतिपत्त्यर्थमिति । पारिप्लवार्थ भवितुमर्हति । अश्वमेधयागे रात्रिषु राजान सकुटुम्बमुपवेश्य तस्याग्रे वैदिकान्युपाख्यानान्य. ध्वर्युणा बक्तव्यानि । तान्यनुष्ठानायोपयुज्येरन् । तदिदं पारिप्लवात्य कर्म ‘पारिप्लवमाच- क्षीत ' इतिवाक्येन विहितम् । एवमौपनिपदान्याख्यानानि पारिप्लवार्थानि । आख्यानसा- मान्यात् । ततश्च विद्याप्रधानत्व वेदान्तानां न स्यात् । मन्त्रवत्प्रयोगशेपत्वादिति चेन्न । कस्मात् । विशेपितत्वात् । ' पारिप्लवमाचक्षीत ' इति हि प्रकृत्य ' मनुर्वैवस्वतो राजा' [ श० प० १३ । ४ । ३-३ ] इत्येवमादीनि कानि चिदेवाऽऽख्यानानि तत्र विशे- ष्यन्ते । आख्यान सामान्याचेत्सर्वगृहीतिः स्यात्तदाऽनर्थकमेवेद विशेषण स्यात् । तस्मान्न पारिप्लवार्था एता आख्यानश्रुतयः ॥ २३ ॥ तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥ ( ४ ) तथा हि तत्र तत्र संनिहिताभिर्विद्याभिरेकवाक्यता दृश्यते प्ररोचनोपयोगात् पति- पत्तिसौकार्योपयोगाच्च । मेत्रेयीब्राह्मणे तावत् । आत्मा वा अरे द्रष्टव्यः [ बृ० २ ४ । ५] इत्याद्यया विद्ययकवाक्यता दृश्यते । तस्मात्संनिहितविधैकवाक्यताप्रतीतेन॑षा वेदान्तगताख्यानाना कर्मविधिनैकवाक्यता संभवति । तस्माद्विद्यास्तावकमाख्यान न पारि- प्लवार्थम् ॥ २४ ॥ (४) अत एव चाग्रीन्धनाद्यनपेक्षा ॥ २५ ॥ (५) 'पुरुषार्थोऽतः शब्दात् ' [ ब्र० स० ३ । ४ । १ ] इत्यतोऽत इति समाकृष्यते। अत एव विद्यःयाः पुरुपार्थहेतुत्वादेव ब्रह्मविद्या मोक्षे जनयितव्ये कर्माण्यपेक्षते न वेति संशये । अपेक्षत इति तावत्प्राप्तम् । कुतः । कर्मणां विद्याङ्गत्वात् । प्रयाजाद्यपेक्षदर्शपूर्ण- मासवत् । यद्यपि प्रथमाधिकरणे विद्यायाः स्वतन्त्रपुरुषार्थहेतुत्वप्रतिपादनेन कर्मागत्वं निवारित तथाऽपि कर्मणा विद्याङ्गत्व न निवारतम् । अतो नासिद्धो हेतुः । अतो विद्या कर्माण्यपेक्षत इति प्राप्ते ब्रूमः । विद्याऽग्नीन्वनाद्युपलक्षितानि कर्माणि नापेक्षते । कुतः । अत एव पूर्वोक्तादेव स्वतन्त्रपुरुषार्थत्वादेवेत्यर्थः । विमत ब्रह्मज्ञानं स्वविरोधिनिवर्तनेऽ. न्यापेक्ष न भवति । प्रकाशकत्वादीपवत् । यत्वगत्वमुक्तं तत्र कर्मणः कीदृशमङ्गत्वम.
चतुर्थः पादः] ब्रह्मसूत्रवृत्तिः। २०३ भिप्रेतम् । किं प्रयाजादिवत्कलोपकार्यङ्गत्वमुतावधातवत्स्वरूपोपकार्यङ्गत्वम् । नाऽऽद्यः । मुक्तेः कर्मजन्यत्वेनानित्यत्वप्रसङ्गात् । द्वितीये साध्यविकलो दृष्टान्तः । अवघातादीना विद्याया तथात्वाभावात् । तस्माद्विद्या स्वफलप्रदाने कर्माणि नापेक्षते ॥ २५ ॥ (५) सर्वापक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥ ब्रह्मविद्या स्वफलदाने कर्माणि नापेक्षत इत्युक्तम् । इदमिदानी चिन्त्यते । यथा विद्या स्वार्थसिद्धौ कर्माणि नापेक्षत एवं स्वोत्पत्तावपि । अन्यथा क्वचिदपेक्षते कचिन्नेत्य- र्धजरतीयन्यायः प्रसज्जेतेति प्राप्त विदमुच्यते--सर्वापेक्षा चेति । ब्रह्मविद्यायाः स्वोत्पत्ता- वस्त्यपेक्षा सर्वेषामाश्रमकर्मणाम् । कुतः । यज्ञादिश्रुतेः । ' तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन ' [ बृ० ४ । ४ । २२ ] इत्यादिश्रुत्या चित्तशुद्धिपूर्वकविविदिपोत्पत्तिद्वारा विद्यायामुपयोगोपपत्तेरित्यर्थः । अर्धजरतीयत्वदो- षोऽपि नास्ति । योग्यतावशेनैकस्यैव कचिदपेक्षा क्वचिदनपेक्षा च युज्यते । तत्र दृष्टान्तः । अश्ववत् । तथा लागलवहनेऽनपेक्षितोऽप्यश्वो रथनहनेऽपेक्ष्यते तद्वद्विद्याफलेऽनुपकारका- णामप्याश्रमकर्मणां विद्योत्पत्ताबुपकार[क]त्वमविरुद्धम् । तस्मादस्ति विद्योत्पत्तौ सर्वा. पेक्षा ॥ २६ ॥ एवं प्रवृत्तिरूपाणि कर्माणि बहिरगसाधनान्युक्त्वा विद्याया अन्तरङ्गसाधानान्याह शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तदङ्ग- तया तेषामवश्यानुष्ठेयत्वात् ॥ २७ ॥ (६) यद्यपि यज्ञादिकं कर्मानुष्ठित तथाऽपि मुमुक्षुः शमदमाद्युपेतः स्यात् । कुतः । तद- गतया विद्यागतया । तद्विधः । ' तस्मादेवविन्छन्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत् ' [ बृ० ४ । ४ । २३ ] इति विद्यासाधन- त्वेन शमादीना विवानात् । विहितानाञ्च तेषामवश्यानुष्ठेयत्वात् । ननु यज्ञादीना न विद्यासाधनत्वं विध्यभावादिति चेन्न । ' पूषा प्रपिष्टभागोऽदन्तको हि सः [ तै० स० २। ६ । ८ । ५ ] इत्येवमादिषु चाश्रुतविधिकेष्वपि वाक्येष्वपूर्वत्वाद्यथा विधिः कल्प्यत एवमत्र विधेः कल्प्यत्वात् । शमादिवाक्ये तु पश्यदिति स्पष्टो विधिः । तस्मादेवविदिति विद्यासंयोगाच्छमादीन्यन्तरङ्गसाधनानि विविदिषासंयोगाद्यज्ञादीनि विद्यो- त्पत्तौ बहिरङ्गसाधनानीति विवेकः ॥ २७ ॥ (६) सर्वान्नानुमतिश्च प्राणात्यये तदर्शनात् ॥ २८ ॥ छान्दोग्ये प्राणविद्यायां श्रूयते-' न ह वा एवंविदि किंचनानन्नं भवति ' [छा५ । २। १ ] इति । प्राणोपासकस्याभक्ष्यं किमपि नास्तीत्यर्थः । अत्र सर्वान्नानुज्ञानं शमा- - -- २०४ हरिदीक्षितकृता- [तृतीयाध्याये- दिवद्विद्याङ्गत्वेन विधीयत उत स्तुत्यर्थ सकीयंत इति सगये । अत्र सर्वान्नभोजनस्य मानान्तरेणाप्राप्तत्वाविद्याङ्गत्वेन विधीयत इति प्राप्तेऽभिधीयते । नेदं सर्वान्नानुज्ञानं विधी- यते । न ह वा एवविदि किचनानन्नं भवति ' [छा० ५ । २ । १] इति वर्त- मानोपदेशात् । न चासत्यामपि विधिप्रतीतौ प्रवृत्तिलोभेनैव विधिरभ्युपगन्तुं शक्यते । 'यदिदं किचाऽऽश्वभ्य आकृमिभ्य आकीटपतङ्गेभ्यस्तत्तेऽन्नम्' इति श्वादिमर्यादं प्राणस्यान्नमित्यु- क्त्वेदमुच्यते । न ह वा विदि किंचनानन्न भवतीति । न च श्वादिमर्यादमन्न मानुपेण देहेनोपयोक्तुं शक्यते । कथ तद्विधातुं शक्यम् । तस्मात्प्राणान्न विज्ञानप्रशंसार्थोऽयमर्थ- वादो न सर्वान्नानुज्ञानविधिः । नन्वेव क्वचिदप्यभक्ष्यभक्षणं न स्यान्नेत्याह प्राणात्यये सर्वानानुमितिरिति । निषिद्धभक्षणव्यतिरेकेण यदि प्राणात्ययस्तदेत्यर्थः । कुतः । तदर्श- नात् । छान्दोग्याख्यायिकायां श्रूयते ' चाक्रायणः किल ऋषिरापद्गतः' इत्यादि । चाक्रा- यणो मुनिः प्राणात्यये प्राप्ते पर्युषितान् हस्तिपकेनार्धभक्षितानुन्छिष्टान्कुल्माषान् भक्षायित्वा शूद्भाण्डस्थमुदकं न पपौ । तन्नोभयन्न कारणं चावोचत् । न वा अजीवि- ष्यामिमानखादन् ' [ छा० १ । १० । ४ ] इति — कामो म उदपानम् ' [ छा० १। १० । ४ ] इति च । तदेतदुन्छिष्टपर्युषितभक्षणं दर्शयन्त्याः श्रुतेराशयो लक्ष्यते । प्राणा- त्ययप्रसङ्गे प्राणधारणायाभक्ष्यमपि भक्षणीयमिति स्वस्थावस्थायां तु विद्यावताऽपि न भक्ष- णीयमित्युदपानप्रत्याख्यानाद्गम्यते । तस्मादर्थवादो ‘न ह वा एवंविदि ' [ छा० ५। २ । १] इत्येवमादिः ॥ २८ ॥ अबाधाच ॥२९॥ एवं च सति । आहारशुद्धौ सत्त्वशुद्धि. ' [ छा ७ । २६ । २ ] इत्येवमादिभ- क्ष्यविभागशास्त्रमबाधितं भविष्यति ॥ २९ ॥ अपि च स्मर्यते ॥ ३० ॥ 'जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ' [ म० १० । १०४ ] इत्यादिस्मृतिरपि प्राणात्ययप्रसङ्गे बिदुपोऽबिदुषश्च सर्वान्नानुमति स्मारयति ॥ ३० ॥ शब्दश्चातोऽकामकारे ॥ ३१ ॥ (७) निमित्तसप्तमी चेयम् । अकामकारनिमित्तम् । कामकारनिवृत्त्यर्थमयं शब्दः।' ब्राह्मणो न सुरो पिबेत् ' इति श्रुतिः । साऽप्यत एव सर्वान्नानुमतेरर्थवादत्वादेवासंकुचिता भव. तीत्यर्थः ॥ ३१॥ (७) - , चतुर्थः पादः ] ब्रह्मसूत्रवृत्तिः। २०५ विहितत्वाचाऽऽश्रमकर्मापि ॥ ३२॥ यानि यज्ञादीनि कर्माणि विविदिषावाक्ये विहितानि तान्येवामुमुक्षौराश्रममात्रनिष्ठ- स्याऽऽश्रमधर्मत्वेन विहितानि । तेपामग्निहोत्रादीनां कर्मणा ' यावज्जीवमग्निहोत्रं जुहोति इति नित्याधिकारसिद्धयर्थम् । 'तमेतं वेदानुवचनेन' [बृ० ४ । ४ । २२ ] इति विविदि- पार्थं द्विरनुष्ठानं कि वा सकृदिति संशये । प्रयोजनभेदाद्विरनुष्ठानमिति प्राप्तावुच्यते । सकृदेवानुष्ठानं कर्तव्यम् । विविदिषार्थेन नित्यस्यापि सिद्धे. । यथा श्राद्धभोजनेन तृप्ति. न्तिरीयकतया सिध्यति तथा विद्यार्थमनुष्ठितैः कर्मभिराश्रमकर्मापि सिध्यतु । न च तत्र विद्याहेतूनां कर्मणां काम्यत्वादाश्रमकर्मणा च नित्यत्वात्सकृत्प्रयोगे नित्यानित्यसयोग- विरोध इति वाच्यम् । वचनद्वयबलेनोभयसिद्धेः ॥ ३२ ॥ एतदेव सूत्रद्वयेनाऽऽह- सहकारित्वेन च ॥ ३३ ॥ विद्यासहकारीणि चैतानि स्युः । तमेतम् ' इतिवचनेन विहितत्वादेव । आश्रमकर्मा. ण्यप्यग्निहोत्रादीनि यावजीववाक्यविहितत्वात् । न चैकस्य कर्मणो नित्यकाम्योभयरूपत्व- विरोधः शङ्कयः । संयोगपृथक्त्वेनाविरोधात् । यथा यथा ' खादिरो यूपो भवति । “ खादिरं वीर्यकामस्य यूपं कुर्वीत ' इत्यत्र वाक्यद्वयेनैकस्य नित्यत्वं काम्यत्वं च तद्वत् ॥ ३३ ॥ सर्वथाऽपि त एवोमयलिङ्गात् ॥ ३४ ॥ सर्वथाऽप्याश्रमकर्मत्वपक्षे विद्यासहकारित्वपक्षे च त एवाग्निहोत्रादयो धर्मा अनुष्ठेयाः । कुतः । उभयलिङ्गात् । श्रुतिलिङ्गात्स्मृतिलिङ्गाच्च । श्रुतिलिङ्गं तावत्-'तमेत वेदानुवचनेन' [ बृ० ४ । ४ । २२ ] इत्यादि । स्मृतिलिङ्गमपि ' अनाभितः कर्मफल कार्य कर्म करोति यः ' [ भ० गी० ६ । १ ] इत्यादि त एवेत्यवधारणात् ' मासमग्निहोत्र जुह्वति' इत्यत्र यथा नित्यादग्निहोत्रात्क- मन्तिरमुपदिश्यते तथेहापि कर्मभेदोऽस्त्विति शङ्कां वारयत्याचार्यः ॥ ३४ ॥ अनभिभवं च दर्शयति ॥ ३५॥ (८) अत्रेदं भाष्यम् । सहकारित्वस्यैवैतदुपोलूलक लिङ्गदर्शनमनभिभवं च दर्शयति ब्रह्मच. र्यादिसाधनसंपन्नस्य रागादिभिः क्लेशैः ऐप ह्यात्मा न नश्यति य ब्रह्मचर्येणानुविन्दति' [छा० ८।५।१] इत्यादिना । तस्माद्यज्ञादीन्याश्चमकर्माणि च भवन्ति विद्यासहकारीणि चेति ॥ ३५॥ (८) अन्तरा चापि तु तद्दष्टेः ॥ ३६ ॥ अनाश्रमिणां विधुरादीनां द्रव्यादिसंपद्रहितानामन्यतममाश्रममप्रतिपन्नानां विद्यायामधि कारोऽस्ति न वेति संशये नास्तीतितावत्प्राप्तम् । विद्यासहकारिपूर्वोक्ताग्निहोत्रादिकर्माभावादिति -- २०६ हरिदीक्षितकृता- [तृतीयाध्याये- प्राप्ते ब्रूमहे । तुर्थे । अन्तरा चायनामित्वेन वर्तमानानां विधुरादीनामप्यस्ति विद्यावि. कारः । कुतः । तदृष्टेः । अनामित्वावस्थायामपि रैक्वादेर्गुरुकुलात्समावृत्तस्य विवाहात्पूर्व सवर्ग. विद्याधिकारदर्शनात् । तदृष्टरेतस्यार्थो रैकवाचक्नवीप्रभृतीनामेवंभूतानामपि ब्रह्मवित्त्वश्रुत्युप- लब्धेरिति ॥ ३६॥ अपि च स्मर्यते ॥ ३७ ।। संवर्तादीनां च नग्नचर्यादियोगादनपेक्षिताश्रमकर्मणामषि महायोगित्वं स्मर्यत इति- हासे ॥ ३७॥ ननु श्रुतिस्मृतिदर्शनं लिङ्गमिदमुपन्यस्तं तेन का नु खलु प्राप्तिरिति साऽभिधीयते- विशेषानुग्रहश्च ॥ ३८ ॥ तेषामपि च विधुरादीना जपोपवासदेवताराधनादिभिरविरुद्धैर्धर्मविशरैनुग्रहो विद्यायाः संभवति । तथा च स्मृतिः- ' जप्येनैव तु ससिध्येदाह्मणो नात्र सशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ' इति ॥ जन्मान्तरानुष्ठितैरपि चाऽऽश्रमकर्मभिः संभवत्येव विद्याया अनुग्रहः । तथा च स्मृति:- ' अनेकजन्मसंसिद्धस्ततो याति परा गतिम् ' [भ० गी० ६ । ४५ ] इतिजन्मान्तरसचिता अपि संस्काराः प्रकृतजन्मनि विद्यायाः सहकारिणो भवन्तीति दर्शयति । दृष्टार्था च विद्या प्रतिषेधाभावमात्रेणापि विद्यार्थिनमधिकरोति श्रवणादिषु । तस्माद्विधुरादीनामप्यधिकारो न विरुध्यते ॥ ३८ ॥ • अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३९ ॥ (९) अतस्त्वन्तरालवर्तित्वात् । इतरदाश्रमवर्तित्वम् । ज्यायः श्रेष्ठ विद्यासाधनम् । श्रुतिस्मृति- लिङ्गात् । श्रुतिस्तावत् - ' तेनैति ब्रह्मवित्पुण्यकृत् ' [ बृ० ४ । ४ । ९ ] इति । स्मृतिश्च- 'अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः ' इति ॥ ३९ ॥ (९) तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातदूपाभावेभ्यः ॥४०॥(१०) ब्रह्मचर्य समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत् ' [ जाबा० ४ ] इत्याश्रमा- णामारोहः श्रुतः । ततो यतेर्हस्थ्यस्वीकारोऽस्ति वा नवेति संशये पारिव्रज्यादनस्थ इत्याद्यवरोहो[पि] क्वचिद्रागवशात्पूर्वाश्रमकर्मश्रद्धावशात्प्रत्युतापि भवेत् । विशेषाभावादित्येवं प्राप्तेऽभिधीयते । तद्भूतस्योर्ध्वरेतस्त्वं प्राप्तस्य कथंचिदतद्भावस्ततः प्रन्युतिर्न स्यात् । यतेः पूर्वाश्रमस्वीकारः कथचिदपि न भवेदित्यर्थः । अयं पक्षो जैमिनेरपिशद्बादादरायणस्यापि - .
चतुर्थः पादः ] ब्रह्मसूत्रवृत्तिः। समत इति शेष. । कुतः । नियमातद्रूपाभावेभ्यः । तथाहि-' अत्यन्तमात्मानमाचार्य- कुलेऽवसादयन् ' [ छा० २ । २३ । २ ] इति ' अरण्यमियादिति , । ब्रह्मचर्य समाप्य गृही भवेत् [ जा० ४ ] इत्यादि । ' आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् । आ विमोक्षान्छरीरस्य सोऽनुतिष्ठेद्यथाविधि ' [ भार० १२ । २३४ । ४ ] इति श्रुतिस्मृतिभ्यामारोहनियमः । नैवमवरोहे क्वचिन्नियम. आम्नायते । अतद्रूपत्व- मारोहसमानरूपत्वाभावः । अभावः शिष्टाचाराभावः । यत्तु पूर्वधर्मानुष्ठानचिकीर्षया प्रत्य- वरोहणमस्त्विति तदसत् । ' श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ' [ भ० गी० ३ । ३५ ] इतिस्मरणात् । तस्मान्न प्रत्यवहो युक्तः । चोदनालक्षणत्वाद्धर्मस्य ॥ ४० ॥ (१०) न चाऽऽधिकारिकमपि पतनानुमानात्तदयोगात् ॥४१ ॥ नैष्ठिकब्रह्मचर्यादूर्ध्वरेतस्त्व प्राप्य पुनः प्रसङ्गेन भ्रष्टस्यावकीर्णित्वे प्रायश्चित्तमस्ति न वेति सशये। ' अवकी नैर्ऋतं गर्दभमालभेत' इत्येतत्प्रायश्चित्तमाधिकारिकमधिकार- लक्षणे नितमपि नैष्ठिकस्य नास्ति । 'आरूढो नैष्ठिकं धर्म यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा ॥' इति प्रायश्चित्तादर्शनवचनात् । ' अथ योऽत्र ब्रह्मचारी स्त्रियमुपेयात्म गर्दभं पशुमालभेत' इत्यस्ति प्रायश्चित्तमित्युच्येत । तस्य नैष्ठिकविषयत्वाभावात् । उपकुर्वाणो यो वेदाङ्गत्वेन व्रतम- नुतिष्ठति तद्विषयमिदं प्रायश्चित्तवचनम् । तस्मादूर्ध्वरेतसो भ्रष्टस्य न प्रायश्चित्तम् ॥ ४१ ॥ इति प्राप्ते ब्रूमः- उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४२ ॥ (११) तुर्नार्थे । उपपूर्वमुपपातकमेव नैष्ठिकस्यावकीर्णित्व न महापातकमित्येके आचार्या मन्यन्ते । यनैष्ठिकस्य गुरुदारादिभ्योऽन्यत्र ब्रह्मचर्य विशीर्यंत न तन्महापातक भवति । तस्मादुप- कुर्वाणकवन्नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति । ब्रह्मचारित्वाविशेषादवकीर्णित्वाविशे- पाच्च । अशनवत् । यथा ब्रह्मचारिणो मधुमांसादिभक्षणे प्रायश्चित्तात्पुनः संस्कारो विद्यते तद्वत् । यदि महापातकेष्वपरिगणितत्वेनोपपाकमाश्रित्य प्रायश्चित्तमुन्यते तीदर्शनवचनस्य का गतिरिति चेत् । यत्नपरं तद्वाक्यमिति ब्रूमः । अत एव ' प्रायश्चित्तं न पश्यामि' इत्युक्त न तु नास्तीति । प्रायश्चित्त तु गर्दभपशुरेवायं लौकिकानौ होतव्यः । तदुक्तमधि- कारलक्षणे ' अवकीर्णिपशुश्चाधानस्याप्राप्तकालत्वात् ' इति ब्रह्मचारित्वस्य समत्वात् । तस्मात्प्रायश्चित्तस्य भावो युक्ततरः । तदुक्त प्रमाणलक्षणे- समा विप्रतिपत्तिः स्यात् [ पू० मी० सू० १ । ३ । ८ ] — शास्त्रस्था वा तन्निमित्तत्वात् ' [ पू० मी० भावः .. .. २०८ हरिदीक्षितकृता- [ तृतीयाध्याये- सू० १ । ३ । ९ ] इति । एवं वानप्रस्थपरिव्राजकयोरपि व्रतभ्ररो प्रायश्चित्तं स्मर्यते । वानप्रस्था दीक्षाभेदे कृन्छू द्वादशरात्रं चरित्वा महाकक्ष वर्धयेत् । भिक्षुर्वनस्थवत्सो- मवृद्धिवर्जमिति । कक्षवृद्धिवर्जनमिति । तस्मादस्ति नैष्ठिकस्यापि प्रायश्चि- त्तम् ॥ ४२ ॥ (११) बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॥ ४३ ॥ (१२) नैष्ठिकस्य प्रायश्चित्तानन्तरं संव्यवहार्यत्वमस्ति नवेति संशये प्रायश्चित्तेन शुद्धत्वात्सव्य- वहारप्राप्तावुन्यते । यचूर्ध्वरेतसा स्वाश्रमेभ्यः प्रच्यवनं महापातक यदि वोपपातकम् । उभयथाऽपि । यद्वाऽवकीर्णित्वेऽपि प्रायश्चित्तानन्तरमपि विशिष्टैबहिष्कर्तव्या एव । कुतः । स्मृतः । अरूढो नैष्ठिक धर्भम् ' इति पूर्वोक्तस्मृते । ' आरूढपतित विप्र मण्डलाच्च विनि सृतम् । उद्बद्ध कृमिदष्ट च स्पृष्ट्वा चान्द्रापण चरेत् ' ।। इति स्मृत्यन्तराच्च । आचाराच्च । एतादृशाञ्छिष्टा बहिष्कुर्वन्ति न तैः सह संव्यवन हरन्ति । तैः सह यज्ञाध्ययनविवाहादीनि नाचरन्तीत्यर्थः ।। ४३ ॥ (१२) स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४४ ॥ अगावबद्धोपासनेषु स्वामिनः कर्तृत्वमृत्विजां वेति संशये स्वामिन इत्यात्रेय आचार्यों मन्यते । कुत. । फलश्रुतेः । फल च स्वामिनो न्याय्यम् । तस्मात्कलिनो यजमानस्यैव कर्तृत्वमित्यात्रेय आह ॥ ४४ ॥ आत्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥४५॥ आविज्यमृत्विजां कर्म यदङ्गावबद्धोपासनमित्यौडुलोमिराचार्यों मन्यते । तस्मै हि परिक्रीयते । हि यस्मात्साङ्गाय कर्मण ऋत्विक्परिक्रीयते । तत्प्रयोगान्तःपातित्वादुद्गीथाद्युपासनानाम् । न च ध्यातुरेव फलमिति नियमः । सागस्य कर्मण ऋत्विग्द्वारा यजमानस्य प्रयोजककर्तृ- त्वाद्गोदोहनादिवदुपपत्ते. ॥ ४५ ॥ श्रुतेश्च ॥४६॥ (१३) वै काञ्चन यज्ञ ऋत्विज आशिपमाशासत इति यजमानायैव तामाशासत इति होवाच' [ शत०१ । ३ ।१ । २६ ] 'तस्मादु हैवंविदुद्गाता ब्रूयात्कं ते काममागायानि' [छा १ । ७ । ८ ] इति ऋत्विकर्मणा जन्य फलं यजमानगामीति दर्शयति । तस्मादडगावबद्धोपासनानामृत्विकर्मत्वसिद्धिः ॥ ४६॥ (१३) सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ४७ ॥ बृहदारण्यके कहोलब्राह्मणे श्रृयते ---.' तस्माद्राह्मणः पाण्डित्यं निविद्य बाल्येन तिष्ठा- सेवाल्यं च पाण्डित्य च निर्विद्याथ मुनिरमानं च निविद्याथ ब्राह्मणः' [ बृ०३।५।१] या ब्राह्मणाः चतुर्थः पादः ] ब्रह्मसूत्रवृत्तिः । इति । अस्यार्थ: :--यस्माहह्मभाव: परमपुरुषार्थ इति म वा पूर्वे पुत्राद्येषणाभ्यो व्युत्थाय ब्रह्मभावमापन्न स्तस्माद्ब्राह्मणो ब्रह्म बुभूपुरुपनिपत्तात्पर्यार्थनिर्णयरूपं श्रवणापरपर्यायं पाण्डित्य निर्विद्य निःशेषेण सपाध बाल्न तिष्ठासेत् । बालबत्कामादिनि- मुक्तत्वेनासभावनादिनिराकरणाय युक्तीरनुचिन्तयन्नवस्थातुमिन्छेत् । ततः पाण्डित्य बल्यं च निर्नित्यनुवाद उक्तदाार्थः । अथ मुनिर्मननशीलो निदिध्यासको भवेत् । मौनादन्य- द्वाल्यं पाण्डित्य चामौनं मौनं च निदिध्यासन च निर्विद्यार्थ ब्राह्मणो ब्रह्माहमिति साक्षा- स्कृतपरमार्थो भवतीत्यर्थः । तत्र भवेदिति विध्यश्रवणान्मौन विधेय न वेति संशयः । न विधेयं विध्यश्रवणात् । न च विधिः कल्पयितु शक्यः । पाण्डित्यशब्दप्राप्तस्य मौनस्यापू- चत्वाभावादिति प्राप्ते ब्रूमः । सहकार्यन्तरबिधिः । विद्यासहकारिणो मौनस्य विधिरभ्युपेय. । कुतः । अप्राप्तत्वात् । तद्वतो विद्यावत. सन्यासिनो बाल्यपाण्डित्यापेक्षया तृतीय मौन विधेयम् । अपूर्वविधित्वासभषेऽपि नियमविधित्वोपपादनाय पक्षणेत्युक्तम् । यद्वा भेददर्शन प्राबल्यादस्य विद्यावतः पाण्डित्यमात्रण साक्षात्कारो न प्राप्नोति । तस्मिन्पक्षे निदिध्यासने नियमविधिः । विव्यादिवत् । यथा ' दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इत्येवजाती- यके विध्यादौ सहकारित्वेनाग्न्याधानादिकमगजात विधीयते तथाऽत्र विधिप्रधानेऽप्यस्मि. विद्यावाक्ये मौनविधिरित्यर्थः । अत्र विद्यारण्यपादा आहुः-पूर्वोक्तस्य पाण्डित्यस्य पुनर्मु- निशब्दाभिधाने प्रयोजनाभावान्निरन्तरज्ञाननिष्ठापूर्वार्थो मुनिशब्देन विवक्षितः । ' ततस्ति- ष्टासेत् ' इति पदानुवृत्या विधिर्लभ्यते । अस्ति च ज्ञाने नैरन्तर्येण प्रयोजन भेदवास- नावासितस्य तन्निवृत्त्यर्थत्वादिति ॥४७॥ एवं बाल्यादिविशिष्टे कैवल्याश्रमे श्रुते सति कथं छान्दोग्ये गृहिणोपसंहारः । ' अभि- समावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः' इति गृहस्थाश्रममुपक्रम्य वर्तयन्यावदायुष ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते ' [ छा० ८।१५। १ ] इत्यत्र गृहस्थस्य मोक्षमुक्त्वोपसहारात् । तेनाऽऽश्रमान्तराभावशङ्का जायतेऽत आह- कृत्स्नमावात्तु गृहिणोपसंहारः ॥४८॥ तुशब्दो विशेषणार्थः । कृत्स्नभावोऽस्य विशिष्यते । बहुलायासानि हि बहून्याश्रमक- मर्माणि यज्ञादीनि तं प्रति कर्तव्यतयोपदिष्टान्याश्रमान्तरकर्माणि च यथासभवमिन्द्रियसयमा- दीनि तस्य विद्यन्ते । तस्माद्गृहिणोपसंहारो न विरुध्यते ॥ ४८ ॥ मौनवदितरेषामप्युपदेशात् ॥ ४५ ॥ (१४) आश्रमद्वयोपन्यासे तदितरयोरभावशङ्कायामिदमुन्यते । मैनं यत्साश्रमः । उपयुक्षण. मेतद्यथा गृहस्थाश्रमयत्याश्रमौ श्रुतिविहितावेवमितरावपि वानप्रस्थगुरुकुलावासौ शाशता । तथा च श्रुतयः 'तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीय, छार स खल्वेव २७ '२१० हरिदीक्षितकृता- [ तृतीयाण्याये- २३ । १ ] इत्याद्याः । द्वयोराश्रमयोरितरेषामिति बहुवचनं तत्तदनुष्ठानवृत्तिभेदापेक्षम् । तस्माच्चतुर्णामष्याश्रमाणामुपदेशाविशेपात्तुल्यवद्विकल्पसमुचयाभ्यां प्रतिपत्तिरिति भाष्यम् ॥ ४९ ॥ (१४) अनाधिष्कुर्वन्नन्वयात् ॥ ५० ॥ (१५) तस्माद्बाह्मणः पाण्डित्य निर्विध बाल्येन तिष्ठासेत् ' [ बृ० ३ । ५। १ ] इत्यत्र बाल्यमनुष्ठेयतया श्रूयते । तत्र बालस्य भाषः कर्म वा बाल्यमिति तद्धिते सति बालभा- वस्य वयोविशेषस्य संपादयितुमशक्यत्वाद्विध्यनर्हत्वम् । तर्हि बालस्य कर्म बाल्यमिति 'व्युत्पत्त्या कामचारवादादिकर्मास्तु सर्वथाऽपि न धीशुद्धि ल्यमिति प्राप्ते ब्रूमः । पाण्डित्य- मौनाख्ययोः श्रवणनिदिध्यासनयोर्मध्ये मनन विधेयत्वन श्रुत्या विवक्षितम् । यथा बालोऽ. प्ररूढेन्द्रियतया दम्भदादिकमाविष्कतु नेहते तथा विद्वानपि ज्ञानाध्ययनधार्मिकत्वादि- भिरामानमनाख्यापयन्बालवत्तिष्ठेदिति विधीयते । कुत' । अन्वयात्पूर्वापरवाक्यस्य तत्रैवार्थे समन्वयात् । श्रवणनिदिध्यासनयोर्मध्ये मन्नस्यानुष्ठेयत्वात् । तत्र च रागद्वेषादि- राहिल्यस्यैवापेक्षितत्वात् । तथा चोक्तं स्मृतिकारैः 'यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः ' इति ॥ ५० ॥ (१५) ऐहिकमप्य प्रस्तुतप्रतिवन्धे तदर्शनात् ॥ ५१॥ (१६) : सर्वापेक्षा च' [ब्र० सू० ३ । ४ । २६ ] इत्यारभ्यान्तरङ्गबहिरङ्गसाधनानि निरूपितानि ज्ञानस्य । इदानीं फलभूत ज्ञानमिह जन्मनि जन्मान्तरे वेति चिन्स्यते । किं ताव प्राप्तम् । श्रवणमनननिदिध्यासनेष्वनुष्ठीयमानेष्वस्मिन्नेव जन्मनि ज्ञानं जायत इति नियम्यते । नत्विह वा जम्मान्तरे वेति कालविकल्पः । कुतः । श्रवणादिषु प्रधर्तमानस्य पुरुषस्येच्छाया ऐहिकज्ञानविषयत्वात् । इह मे विद्या जायतामित्यभिसंधाय पुरुषः प्रवर्तते न चादृष्टफलाना यज्ञादीचा तत्साधनत्वेन स्वर्गजन्मान्तरे ज्ञानोत्पत्तिः शङ्कनीया । श्रवणा- दिप्रवृत्तेः प्रागेव विविदिषामुत्पाद्य यज्ञादीना चरितार्थत्वात् । तदुक्तं भाध्यकारैः-न च कश्चिदमुत्र मे विद्या जायतामित्यभिसंधाय श्रवणादिषु प्रवर्तते । समान एवं तु जन्मनि विद्याजन्माभिसंधायैतेषु प्रवर्तमानो दृश्यत इति । तस्मादैहिकमेव विद्याजन्मेति प्राप्ते ब्रूमः । असति प्रस्तुतप्रतिबन्धे विद्येहैवोत्पद्यते । प्रस्तुतस्य श्रवणादिसाधनस्योपस्थित- विपाकेन प्राम्भवीयकर्मान्तरेण प्रतिबन्धे सति श्रवणादिसाधनैरत्रानुष्ठितैर्जन्मान्तरेऽपि विद्योत्पद्यते । कुतः । तदर्शनात् । वामदेवस्य गर्भ एवावस्थितस्य ज्ञानोत्पत्तिश्रवणात् । 'गर्भ एवैतच्छयानो वामदेव एवमुवाच ' [ ऐ० २ । १ ] ' अह मनुरभवं सूर्यश्च [ बृ० १ । ४ । १० ] ' अह कक्षीवानृषिरस्मि विप्रः ' इत्युपक्रम्य - ..
चतुर्थः पादः ] बह्मसूत्रवृत्तिः । २११ (यमें नु सन्नब्वेपामादेमहं देवानां जनिमानि विश्वा । सतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयम् ' [ ऐ० २।१इत्या-- दिविद्यायाः प्रतिबन्धश्च बहुविधः श्रूयते । तथा च श्रुतिः- * श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ' [कठ २ । ७] इत्याद्या । तथा च श्रुतिदुर्बोधत्वमात्मनो दर्शयति-'आश्चर्यों वक्ता कुशलोऽस्य लब्धाऽऽश्चर्यो ज्ञाता कुशलानुशिष्टः ' [ क. १।२ । ७ ] इति । तस्मादिह जन्मनि जन्मान्तरे वा, विद्योत्पत्तिः प्रतिबन्धासद्भावाभ्याम् ॥ ११ ॥ (१६)। एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधतेः ॥५२॥ (१७) यथा ब्रह्मलोकाख्यं फलं सालोक्यसारूप्यसामीप्यसार्टिभेदेन, चतुर्विधम् । तत्रः सार्टि- नाम चर्मुखेन समानैश्वर्यत्वम् । यथा वा यथा वा ' कर्मभूयस्त्वाकलभूयस्त्वम् ' इति न्यायेन स्वर्गो बहुविधस्तथा मुक्तिरपि फालत्वाविशेषात्तातिशयेति प्राप्ते ब्रूमः । मुक्तिर्नाम निजति- द्धस्वरूपमेव न स्वर्गकदागन्तुकं किंचिद्रूपम्पित्यग्रे वक्ष्यते । ब्रह्म चैकाविधं श्रुत निति च । तस्माच्चतुर्मुखस्य मनुष्यस्य का मुक्तिरेकविधैव । सालोक्यादिविशेषस्तु जन्यरूपत्वादुपासना- तारतम्येन सातिशयो भविष्यति । स्वरूपमुक्तिस्तु न तादशी । सूत्रार्थस्त्वेवं-विद्याफल. रूपायां मुक्तौ किं तारतम्यपस्ति च देति संशये फलत्वाविशेषात्स्वर्गादिवत्तारतम्यप्राप्तावु- च्यते । एवं यथोपासताया. नियमस्तारतस्यमस्त्येव मुक्ती तारतम्य नास्ति । कुतः । तदवस्थावधृतेः । ब्रह्म वेद ब्रह्मैव भवति - [ युण्ड • ३ । २।९] इति ब्रह्मभावा- बधारणात् । अभ्यासोऽध्यायसमाप्तिचोतकः ॥ ५२ ॥ (१७) इति. ब्रह्मसूत्रवृत्तौ तृतीयोऽध्यायः ॥ ३ ॥ अथ चतुर्थोऽध्यायः । आवृत्तिस्सदुपदेशात् ॥१॥ तृतीय साधनाश्रयो विचारो वृत्तः । अस्मिन्नध्याये फलाश्रयो वर्तिष्यते प्रासङ्गिकं च किंचिदन्यत् । प्रथमं कतिपयाधिकरणैः साधनाश्रयो विचार्यते । तत्र श्रवणादिकं सकृदनुष्ठेय. मसकदिति संशये---कितावत्प्रालम् । श्रवणादिकं सकृदनुष्टेयं प्रयाजादिवत् । ' सकृत्कृते कृतः शास्त्रार्थः ' इति न्यायेन शास्त्रस्य कृतार्थत्वादिति प्राप्ले ब्रूमः । श्रवणादीनामावृत्तिः कर्तच्या । कुतः । असकृदुपदेशात् । 'श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' [६०४।५ । ६] इत्यसकृदात्मविषयकश्रवणाधुपदेशः प्रत्ययावृत्ति सूचयति । उक्तन्यायस्यादृष्टविनय- २१२ हरिदीक्षितकृता- [चतुर्थाध्याये- त्वात् । अत्र ब्रह्मसाक्षात्कारलक्षणस्य दृष्टफलस्य संभवाददृष्टं न कल्पनीयम् । तदुक्तं भाष्य कारैः-दर्शनपर्यवसानानि हि श्रवणादीन्याबळमानानि दृष्टार्थानि भवन्ति यथाऽवधाता- दीनि तण्डुलादिनिष्पत्तिपर्यवसानानि तद्वत् । अपि चोपासन निदिध्यासन चेत्यन्तता- वृत्तिगुणैव क्रियाऽभिधीयते लोके गुरुमुपास्ते राजानमुपास्त इति यो गुर्वादीननुवर्तते स एव मुच्यते । एव ध्यानेऽप्यावृत्तिः । तस्मात्फलपर्यन्तं श्रवणाद्या आक- तनीया. ॥ १ ॥ लिङ्गमञ्च ॥ २॥ (१) लिङ्गमपि प्रत्ययावृत्तिं ज्ञापयति । तथा ह्युद्गीथविज्ञानं प्रस्तुत्य आदित्य उद्भीथः' [छा० १ । ५। १ ] इत्येतदेकपुत्रतादोपेण निन्दित्वा · रश्मस्वं पर्याव- तयात् ' [छा० १।५। २ ] इति रश्मिबहुत्वविज्ञानं बहुपुत्रतायै विदधसिद्धवत्प्र- त्ययावृत्ति दर्शयति । तस्मादावृत्तिसाम्मन्यात्सर्वप्रत्ययेष्वावृत्ति सद्धिः । पुत्रं रश्मीनादित्यं चाभेदेन पर्यावर्तयोपास्वेत्यर्थः । एवं सति बहवः पुत्रा भविष्यन्ति न केवलादित्योपास्तावि- वैकपुत्रतेति श्रुत्यर्थः । अत्राय भाष्यसंग्रहः । भवतु नाम साध्यफलेषु प्रत्ययेवावृत्तिः । तेष्वावृत्तिसाध्यस्यातिशयस्य सभवात् । यस्तु परब्रह्मविपय. प्रत्ययो नित्यशुद्धबुद्धमुक्तस्वभाव- मात्मभूतमेकमेव पर ब्रह्म समर्पयति तत्र किमर्थाऽऽवृत्तिः । ननु सकृन्छ्वणे ब्रह्मात्मत्वप्रती- त्यनुपपत्तेरावृत्यभ्युपगम इति चेन । आवृत्तावपि तदनुपपत्तेः । यदि हि । मासि' [छा० ६ । ८ । ७ ] इत्येवंजातीयक वाक्यं सकृन्छ्यमाणं ब्रह्मात्मत्वप्रतीति नोव्या- दयेत्तदेवाऽऽवय॑मानमुत्पादयिष्यतीति का प्रत्याशेति । अत्रोच्यते-भवेदावृत्त्यानर्थक्य तं प्रति यस्तत्त्वमसीति संकृदुक्तमेव ब्रह्मात्मत्वमनुभवितुं शक्नुयात् । यस्तु न शक्नोति तं प्रत्यु- पयुज्यत एवाऽवृत्तिः । अत एव छान्दोग्ये श्वेतकेतुं प्रति नवकृत्व उपदेशः कृतः । तस्मादावृत्तिः कर्तव्या । विस्तरस्तु भाष्ये द्रष्टव्यः ॥ २॥ (१) आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥३॥ (२) नित्यशुद्धबुद्धमुक्तस्वरूपो यः परमात्मा स किमहामिति ग्रहीतव्यः किंवा मदन्य इत्येतदत्र चिन्त्यते । किं तावत्प्राप्तं नाहमिति ग्राह्यः । कुतः । सुख्यसुखिनोरपहतपाप्मत्वा- दितद्विपरीतगुणवतो/वपरमात्मनोरेकत्वविरोधादिति प्राप्ते ब्रूमः । तुरवधारणे। चोप्यर्थे । वस्तुतो ब्रह्मरूपस्यैव सतो जीवस्यान्तःकरणोपाधिकृतो दुःखित्वादिधर्मो न वास्तव इति पूर्व जीवविचारे अपञ्चितम् । अतो कास्तवविरोधाभावादात्मत्वेनैव ब्रह्म गृह्यताम् । अत एवाहग्रहोपासनायामपि जाबाला आत्मत्वेनैव परमात्मानमुपगच्छन्ति, त्व वा अहमस्मि भगवो देवतै अहं बा त्वमसि भगवो देवते ' इति । ग्राहयन्ति, स्वशिष्यानपि शिष्टा आत्मत्वेनैवैनं परमात्मानम् । एष त आत्मा सर्वान्तरः । [ बृ० ३ । ४ । १] इति । तत्व- ' अयमात्मा ब्रह्म तथा .. प्रथमः पादः ] ब्रह्मसूत्रवृत्तिः। २१३ 'तत्त्वमससि' [ छा० ६ । ८ । ७ ] ' अहं ब्रह्मास्मि' [बृ० १।४।१०। [ बृ० २ । ५। १९ ] इत्यादिमहावाक्यानि ग्राहयन्ति वा । तस्मादात्मत्वेनैव ब्रह्मोपासितव्यम् ॥ ३ ॥ (२) न प्रतीके न हि सः ॥ ४ ॥ (३) 'मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेति' [छा० ३ । १८ । १ ] आदित्यो ब्रह्मेति' [छा० [छा० ३ । १९ । १ ] स यो नाम ब्रह्मत्युपास्ते । [ छा० ७।१ । ५] इत्येवमादिपु प्रतीकोपासनेषु संशयः । किं तेष्वात्मग्रहः कर्तव्यो न वेति । किंतावत्प्राप्तम् । तेष्वात्मग्रहः कर्तव्य इति । प्रतीकस्य ब्रह्मकार्यत्वेन ब्रह्मणोऽ. नन्यवाज्जीवस्य च ब्रह्माभिन्नत्वाद्ब्रह्मत्वे सत्यात्मत्वोपपत्तेः । एवमात्मत्वेनोपासने प्राप्ते ब्रूम. । यदि ब्रह्मकार्यस्य प्रतीकस्य ब्रह्मैक्यमवलोक्येत तदा प्रतीकस्वरूपमेव लीयेत । घटस्य मृद्रूपेण सहैक्ये विलयदर्शनात् । यदि च जीवस्य ब्रह्मैक्समवलोकयेत्तदा जीवत्वापाये सत्युपासकत्वं हीयेत । अथोपास्योपासकस्वरूपलोभेन कार्यकारणैक्यं जीवब्रह्मैक्य च न पर्यालोच्येत तदा गोमहिपवदत्यन्तभिन्नयोः प्रतीकोपासकये. स्त्येकत्वयोग्यता । तस्मान्न प्रतीकेष्वहंग्रहः ॥ ४ ॥ (३) बह्मदृष्टिरुत्कर्षात् ॥५॥(४) उक्तोदाहरणेषु विचार्यते किमादित्यादिदृष्टयो ब्रह्मण्यध्यासितव्याः किं वा ब्रह्मदृष्टिरा- दित्यादिष्विति सशयः । तत्र नियमहेतोरभावादादित्यादिदृष्टिभिर्ब्रह्मोपासितव्यं भवति ब्रह्मोपासनं च फलवदिति शास्त्रे मर्यादा । तस्मान्न ब्रह्मदृष्टिरादित्यादिष्वेवं प्राप्ते ब्रूमः । आदित्यादिषु ब्रह्मदृष्टिर्विधीयते । कुतः । उत्कर्षाद्रह्मणः । ब्रह्मण उत्कृष्टत्वानिकृष्टेषु मनआदिषु ब्रह्मदृष्टिः कर्तव्या । लोके हि निकृष्टे भृत्ये राजदृष्टिं कृत्वा राजवर्त पूजयन्ति । 'मनो ब्रह्मेत्युपासीत' [छा० ३ । १८ । १] इत्यत्र ब्रह्मशब्द इति शब्दपरत्वेन दृष्टिलक्षको भविष्यति । मनःशब्दश्चानितिपरत्वान्मुख्यार्थवाची । यथा स्थाणुश्चोर इति प्रत्येतीत्यत्र स्थाणुशब्दो मुख्यार्थवाची चोरशब्दो दृष्टिलक्षकस्तद्वत् । न चाब्रह्मरूपस्य मनस उपास्यत्वे ब्रह्मणः फलप्रदत्वानुपपत्तिः । अब्रह्मरूपस्यातिथेरुपा- स्यत्वेऽपि कर्माध्यक्षत्वेन यथा ब्रह्म फलं प्रयच्छति तद्वदत्रापि संभवात् । तस्मादब्रह्मणि प्रतीके ब्रह्मदृष्टिः कर्तव्या ॥ ५॥ (४) आदित्यादिमतयश्चाङ्गा उपपत्तेः ॥६॥ (५) 'य एवासौ तपति तमुद्गीथमुपासीत ' [ छा० १ । ३ । १] इत्यत्राऽऽदित्यदेवतां प्रतीकं कृत्वा तत्र कर्माङ्गभूतोद्गीथदृष्टिः कर्तव्या किं वोद्गीथं प्रतीकं कृत्वा तत्राऽऽदित्य- दृष्टिः कर्तव्यति संशयः । तत्रानियम इति तावत्प्राप्तम् । कुतः । आदित्योद्गीथयोरुभयोब्र. किं च २१४ हरिदीक्षितकृता- E चतुर्थाध्याय मकार्यत्वेन ब्रह्मवदुत्कृष्टत्वाभावेन पूर्वोक्तोत्कृष्टन्यायानवतरणे नियामकाभावादिति प्राप्त ब्रूमः । आदित्यदृष्टया कर्माशमवश्यं संस्कर्तव्यम् । कुतः। उपपत्तेः । उपपद्यते ह्येवमपूर्वसं. निकर्षादादित्यादिद्यष्टिभिः संस्क्रियमाणेङ्गीयादिषु कर्मसमृद्धिः । ' यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति ' [ छा० १ । १ । १० ] इति श्रुतिर्विद्यायाः कर्मसमृद्धिहेतुत्वं दर्शयति । भवतु कर्मसमृद्धिफलेषशीथादिष्वेवम् । स्वतन्त्रफलेषु ' य एत- देवं विद्वाल्लोकेषु पञ्चविधं सामोपास्ते ' [ छा० २ । २ । ३ ] इत्यादिषु कथ कर्मसमृ- द्धिहेतुत्वम् । तेष्वप्यधिकृताधिकारात्प्रकृतापूर्वसनिकर्षेणैव फलकल्पना युक्ता गोदोहनादिवत् । प्रकृतकर्माश्रितमेव फलसाधनमित्युपपत्तेः । अयं भावः-आदित्यादिदृष्टया कङ्गिमवश्यं संस्कर्तव्यम् । तथा सति दृष्टिसंस्कृतस्य कर्मप्यः फलातिशयः संभवति । विपर्यये तु काङ्गैरादित्यदेवतायां संस्कृतायां कुतः फलं भविष्यति । न ह्यक्रियात्मिका देवता फलस्य साधनं भविष्यति । अन्यथा देवतायाः साधारणत्वेन यजमानायजमानयोः साधा- रणफलप्रसङ्गादिति । तस्मादनङ्गाश्रया आदिल्यादिदृष्टयोऽङ्गेषूद्गीथादिषु कर्तव्या. इति, सिद्धम् ॥ ६॥ (५) आसीनः संमवात् ॥ ७॥ अङ्गाबबद्धोपासनेषु कर्मतत्रत्वान्नाऽऽसनचिन्ता । नापि सम्यग्दर्शने । वस्तुतत्रत्वा- ज्ज्ञानस्य । इतरेषु तूपासनेषु प्रवृत्तेयमासनचिन्ता . । . तत्र किं तिष्ठन्नासीनः शयानो वोपासीतोताऽऽसीन एवेति सशये मानसत्वादुपासनस्यानियमः शरीरस्थितेरिति प्राप्तेऽभि- धीयते । आसीन एवोपासीत । उपासनं नाम विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवा- हकरणम् । कुतः । संभवात् । शयानस्य निद्राप्रसङ्गात् । गच्छतश्चित्तविक्षेपात् । तिष्ठत; शरीरधारणब्यग्रत्वान्नोपासनं संभवति । परिशेषादासीनस्यैवाव्यग्रत्वासंभवात् । तस्मादासीन एवोपासीत ॥ ७ ॥ ध्यानाच्च ॥८॥ किं च ध्यानमुपासनम् । ध्यायतिश्च निश्चलाङ्गेषु निश्चलदृष्टिष्वेकविषयाक्षिप्तचित्तेषूम- चर्यमाणो दृश्यते बकोध्यायतीत्यादौ आसीनश्चानायासो भवति । तस्माद्धयानाद्धेतोरासीनस्य क्रोपासनम् ॥ ८॥ अचलत्वं छापेक्ष्य ॥९॥ किंच ' ध्यायतीव पृथिवी ' [ छा० ७ । ६ । १ ] इत्यादौ पृथिव्यादीनामचलत्वमें- वापेक्ष्य ध्यायतिवादो भवति तब लिङमुपासनायाऽऽसीनकर्मवे ॥९॥ स्मरन्ति ॥१०॥ (६) 'शुचौ देशे प्रतिष्ठाप्य स्थिरमानसमात्मन ' [सं० मी० ६ । ११ 1 इत्यपक्रम्म " प्रथमः पादः ] ब्रह्मसूत्रवृत्तिः। २१५ • उपविश्याऽऽसने युञ्ज्याद्योगमात्मविशुद्धये ॥[भ० गी० ६ । १२] इति शिष्टा उपासनाङ्गत्वेनाऽऽसनं स्मरन्ति । अत एंव स्वस्तिकपद्मकादीनामासनवि- शेषाणामुपदेशो पोगशास्त्रे ॥ १० ॥ (६) यत्रैकाग्रता तत्राविशेषात् ॥ ११॥ (७) 'ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि ' इति दिनियमः । 'प्राचीनप्रवणे वैश्वदेवेन यजेत' इति देशनियमः । ' अपराह्ने पिण्डपितृयज्ञेन चरन्ति ' इति कालनियमः । तदेत- नियमत्रयं यथा कर्मणि दृश्यते तथोपासनेऽपि द्रष्टव्यम् । कुतः । वैदिकत्वस्याविशेषात् । इति प्राप्ते ब्रूमः । मनस ऐकाग्र्यं हि ध्यानस्य प्रधान साधनम् । न च तस्य दिगादिनियमात्कश्चिदतिशयो विद्यते । अतो नास्ति नियमः । अत एव श्रुतिर्योगाभ्यासाय प्रदेशं निर्दिशन्ती मनोनुकूल इत्येवाऽऽह । यस्मिन्देशे सौमनस्य तत्रैव युज्यात् । न तु शास्त्रेण निश्चितः कश्चिद्देशोऽस्तीत्यर्थः । ननु 'समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाशयादिभिः । मनोनुकूले न तु चक्षुःपीडने गुहानिवाताश्रयणे प्रयोजयेत् ' ॥[श्वे०२।१० ] इति विशेषः श्रूयत इति चेत् । उच्यते । अत्राऽऽहुर्भाष्यकृतः-सत्यमस्त्येवंजाती- यको विशेषः । सति चैतस्मिंस्तद्गतेषु विशेषेष्वनियम इति सुहृद्भूत्वाऽऽचार्य आचष्टे ''मनोकूले' इति चैषा श्रुतिर्यत्रैकाप्रता तत्रेत्येतदेवं दर्शयति ॥ ११ ॥ (७) आप्रायणालबापि हि दृष्टम् ॥ १२॥ (८). आवृत्तिः सर्वेषूपासनेषु कर्तव्येति प्रतिपादितमायेऽधिकरणे । तत्र यानि सम्यग्दर्शना- र्थानि तान्यवघातादिवत्कार्यावसायीनीति ज्ञातमेवैषामावृत्तिपरिमाणम् । न हि सम्यग्दर्शने [ कार्ये ] निष्पन्ने यत्नान्तर किंचिच्छासितुं शक्यम् । अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात् । यानि पुनरभ्युदयफलान्युपासनानि तेष्वेषा चिन्ता । तत्राहंग्रहाद्युपा- सनानामावृत्तिः कियन्तं चित्कार कर्तव्योताऽऽमरणादिति संशयः । तत्र कियन्तं चित्का- लमावृत्तिः कर्तव्येति तावत्प्रायम् । आमरणादित्यनुक्तत्वात्कंचित्कालमावृत्तौ क्रियमाणायां शास्त्रार्थानुष्ठानसिद्धेश्चेति प्राप्ते ब्रूमः । आप्रायणान्मरणपर्यन्तमावृत्तिः कर्तव्या । कुतः । तत्रापि हि दृष्टम् । हि यस्मात्तत्रापि ज्योतिष्टोमादिष्वपि प्राप्तव्यफलज्ञानं मरणकाले श्रुतौ दृष्टम् । ' यच्चित्तस्तेनैव प्राणमायाति प्राणस्तेजसा युक्तः सहाऽऽत्मना यथासंकल्पितं लोकं नयति' [प्र० ३ । १०] इत्येवमादिश्रुतिभ्यः । यस्मिन्विषये चित्तमस्य स यचितः । तेन विषयेण हृद्यभिव्यक्तेन सह तेजसोदानेन । उदानस्य तेजोदेवतात्मक त्वात् । आत्मना भोक्रा च युक्तो यथासकल्पितं लोकं नयतीति श्रुत्यर्थः । तथा च भाष्यम्-प्रत्ययास्त्वेते स्वरूपावृत्तिं मुक्त्वा किमन्यत्प्रयाणकालभावि भावनाविज्ञा- नमपेक्षेरन् । तस्माद्ये प्रतिपत्तव्यफलभावनात्मकास्तेष्वाप्रायणादावृत्तिरिति । तथा .. च श्रुतिः २१६ हरिदीक्षितकृता- [चतुर्थाध्याये- स यावत्क्रतुरयमस्मालोकात्प्रेति' [श० प० १०।६। ३ । १] इति प्रयाणकाले प्रत्ययावृत्तिं दर्शयति । स्मृतिरपि- ' यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तंतमेवैति कौन्तेय सदा तद्भावभावितः ' ॥ [भ० गी० ८ । ६] इति । तस्माद्भाविजन्मनः प्रयोजकोऽन्त्यः प्रत्यय आमरणमावृत्तिमन्तरेण न सुलभः । कथं तर्हि ज्योतिष्टोमकर्मणा स्वर्ग गन्छतोऽन्यः प्रत्ययो भवति । कर्मजन्यापूर्ववशादिति गृहाण । उपासनेऽप्य र्वमस्ति तेनैवान्त्यः प्रत्ययो भविष्यति किमावृत्येति चेद्बाढम् । नैतावता निरन्तरावृत्तिलक्षणो दृष्टोपायः परित्याज्यो भवति । अन्यथा सर्वस्य सुखदुःखा- देरपूर्वजन्यत्वेन भोजनाद्यर्थों दृष्टः प्रयत्नस्त्यज्येत । ततो दृष्टोपायत्वादामरणमावृत्तिः कर्तव्या । यद्यप्येतान्यष्टावधिकरणानि साधनविचारत्वात्पूर्वाध्याययोग्यानि तथाऽपि फलं. प्रत्यासन्नसाधनत्वात्फलाध्याये रचितानि ॥ १२ ॥ (८) तदधिगम उत्तरपूर्वाधयोरश्लोषविनाशौ तव्यपदेशात् ॥ १३ ॥ (९) गतस्तृतीयशेषः । इदानी फलविपया चिन्ता प्रस्तूयते । ब्रह्मसाक्षात्कारे सति पापं नश्यति किं वा ननश्यतीति संशये किंतावत्प्राप्तम् । न नश्यतीति । फलार्थत्वात्कर्मणः फलमदत्त्वा तन्नाशासभवात् । ' नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ' इति स्मरणा- दकृतप्रायश्चित्तं कर्म फलमदत्त्वा न कदापि नश्यतीत्येवं प्राप्ते ब्रूमः । तदधिगमे ब्रह्मज्ञाने सत्युत्तराघस्याश्लेषोऽनुत्पत्तिः पूर्वाधस्य नाशश्च भवतः । कुतः । तव्यपदेशात् । पुष्करपलाश आपो न श्लिष्यन्त एवमेव विदि पापं न श्लिष्यते ' [ छा०४ । १४ । ३] इति । ' तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैव हास्य सर्वे पाप्मानः प्रदूयन्ते ' [छा०५।२४। ३ ] इति च । इत्यादिश्रुतिषु पापाश्लेपविनाशयोर्व्यपदेशात् । किं च ब्रह्मात्मतत्त्वविदः पापलेपशङ्काऽपि नोदेति । नाकार्ष न करोमि न करिष्यामीति कालत्रयेऽप्यकर्तृब्रह्मस्वरू- पत्वेन निश्चितत्वात् । न ह्यकर्तुलेपं मन्दा अपि शङ्कन्ते। नापि सगुणब्रह्मविदो लेपोऽस्ति । ' भिद्यते हृदयग्रन्थिः ' [ मुण्ड० २।२। ८ ] इत्यादिश्रुतेः । ' नामुक्तं क्षीयते इत्यादि शास्त्र तु सगुणनिर्गुणब्रह्मज्ञानरहितविपयम् । ब्रह्मज्ञानाभावे तु प्रायश्चित्तादिना तस्य क्षय इष्यते । ' सर्व पाप्मान तरति तरति ब्रह्महत्यां योऽश्वमेधेन यजते ' सं० ५ । ३ । १२ । २ ] इत्यादिश्रुतिस्मृतिभ्यः । तस्माद्ब्रह्माधिगमे प्रारब्धातिरिक्तस- र्वदुरितक्षयः ॥ १३ ॥ (९) इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥ (१०) पूर्वाधिकरणे बन्धहेतोरघस्याश्लेपविनाशौ ज्ञाननिमित्तौ शास्त्रप्रमाणेन निरूपितौ । धर्मस्य पुनः शास्त्रीयत्वाच्छास्त्रीयेण ज्ञानेनाविरोध इत्याशक्य तनिराकरणाय पूर्वाधि. . यथा [ तै० प्रथमः पादः ] ब्रह्मसूत्रवृत्तिः। २१७ करणन्यायोऽत्रातिदिश्यते । इतरस्यापि पुण्यस्याघवदश्लेपविनाशौ ज्ञानिनो भवतः । कुतः । तस्यापि स्वफलहतुत्वेन ज्ञान प्रति प्रतिबन्धकवात् । ' उभे उ हैवैष एते तरति ' [बृ० ४ । ४ । २२ ] इत्यादिश्रुतिषु दुष्कृतवत्सुकृतस्यापि प्रणाशव्यपदेशात् । अक- मित्वबोधनिमित्तकस्य कर्मक्षयस्य सुकृतदुष्कृतयोस्तुल्यत्वात् । ' क्षीयन्ते चास्य कर्माणि ' [मुण्ड० २।२। ८ ] इति चाविशेपश्रुतेः । अयमत्र निष्कर्षः । दहर- विद्यावाक्यशेष उपासनाध्यतिरिक्तकाम्यपुण्य पापवधपजन्महेतुत्वात्पापमेवेति मत्त्वा पप- स्वेनैव श्रुतिः परामृशति — सर्वे पाप्मानोऽतो निवर्तन्ते' इति । अस्यायमर्थ:-सुकृत- दुष्कृतं तत्फलं च ते सर्वे पाप्मानोऽतोऽस्मादुपासकान्निवर्तन्त इति । ब्रह्मलोकप्राप्त्यनन्तरं मुक्तिरिति प्राड् निर्णीतम् । निर्गुणब्रह्मविदस्तु न ब्रह्मलोकप्राप्तिः कि तर्हि विदेहकैवल्य- मेव । उभयोरपि सुकृतदुष्कृतनाशस्तुल्य एनेति । तदाह सूत्रकारः-पाते स्विति । तुरवधारणे । पाते शरीरपाते विदुषो मुक्तिरेव न तु पुण्यफलभोगाय शरीरान्तरम् । सकलकर्मणां निःशेपापक्षयात् । तस्माद्ब्रह्मविदि न पुण्यलेपः ॥ १४ ॥ (१०) अनारब्धकार्य एव तु पूर्व तदवधेः ॥ १५ ॥ (११) पूर्वयोरधिकरणयोरकत्मिज्ञाननिमित्तक' सुकृतदुष्कृतयोविनाशोऽवधारितः । स किम- विशेपेणाऽऽरब्धकार्ययोस्तयोर्भवत्युत विशेषेणानारब्धकार्ययोरेवेति विचार्यते । ' उभे उ है वैप एते तरति ' [बृ० ४ । ४ । २२ ] इत्येवमादिश्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय इति प्राप्ते प्रतिविधीयते । तुर्नार्थे । अनारब्धं विद्वच्छरीरलक्षणं कार्य याभ्यां पुण्यपापाभ्या ते तथोक्ते । एवंविधै एव पूर्वे पुण्यपापे प्रारब्धव्यतिरिक्ते एव नश्यतः । तस्य तावदेव चिर यावन्न विमोक्ष्येऽथ संपत्स्ये' [छा० ६। १४ । २ ] इति श्रवणात् । अस्यार्थः-तस्य ब्रह्मविदो मुक्तिबिलम्बमानाऽपि नात्यन्त विलम्बते किं तु गर्भाधाने क्लप्तस्याऽऽयुषः क्षयाभावेन याबद्देहः प्राणैन विमोक्ष्यते तावदेव चिलम्बते । अथ देहप्राणयोर्वियोगे सति ब्रह्म संपद्यत इति । अत्र पुरुषादिव्यत्ययश्छान्दसः । अनया श्रुत्या यथा विदुषोऽध्यादेहपात संसारोऽङ्गीकृतः, तथा विद्वदनुभवोऽप्यस्मिन्नर्थेऽति- स्फुटः । युक्तिरपि-यथा लोके तूणस्थेषु बाणेषु धानुष्कस्य स्वीकारपरित्यागयोः स्वातन्त्र्येऽपि न मुक्तबाणे स्वातन्त्र्यम् । स तु बेगे क्षीणे स्वयमेव पतति । एवं कुलालचक्रभ्रमणाद्युदाहर्तव्यम् । तथा दाटन्तिकब्रह्मज्ञानस्यापि विनाशकत्वस्वातन्त्र्यमना- रब्धकार्येषु कर्मसु न त्वारब्धकर्मणि । आरब्धस्य प्रवृत्तफलस्यात् । यद्येतैः श्रुतियुक्त्यनुभ- चैरारब्धस्थिति भ्युपेयते तदोपदेष्टुरभावाद्विद्यासप्रदाय उच्छिद्येत । न तावदविद्वानुपदेष्टेति शक्य वक्तुम् । विद्वास्तु वेदनसमकालमेव मुक्त इति को नामोपदेष्टा संभवति । तस्मान्नारब्धयोन शः ॥ १५ ॥ (११) कुतः । तदवधेः । २८ .. - २१८ हरिदीक्षितकृता- [ चतुर्थाध्याये- अग्निहोत्रादि तु तत्कायिव तद्दर्शनात् ।। १६ ॥ नित्य ग्निहोत्रादिक कर्म विद्यया नश्यति वा न वेति संशयः । तत्र न नश्यतीति तावत्प्राप्तम् । कुतः । प्रारब्धव्यतिरिक्तवाविशेपात् । एवं प्राप्ते ब्रूमः । तुर्नार्थे । नित्याग्नि- होत्रादिक तत्कार्यायैव विद्याद्वारा विद्याकार्यमोक्षायैव । अतो न नाशः । कुतः । तदर्शनात् । ' तमेत वेदानुवचनेन [बृ० ४ । ४ । २२ ] इत्यादिदर्शनात् । ज्ञानस्यैव हि प्रापकस्य कर्मणो मोक्षकारणत्वमुपचारात् । यद्यपि विद्यामुत्पाद्य कर्माणि नश्यन्ति फलापवर्गित्वात्कर्मणाम् । तथाऽपि फलमदत्त्वा नाश एव नाशः । फल दत्त्वा नाशस्तु न नाशत्वेन व्यवह्रियते । न हि लोके भोगेनोपक्षीणमन्नादिक नष्टमिति पामरणाप्युन्यते । अयमत्राऽऽशयः । द्वावंशौ नित्यकर्मणः । एकोऽशः प्राधान्येन चित्तशुद्धिं विधत्ते । अपरोऽशोऽनुषगण स्वर्गादिफलं प्रयच्छति । यत्तु ज्ञानादूर्व नित्य कर्मानुपङ्गेण फलप्रदं तस्य काम्यवदश्लेषः ॥ १६ ॥ नन्वश्लेषविन.शयोः सतोः 'सुहृदः साधुकृत्या द्विपन्तः पापकृत्याम् ' इत्यस्य को विषय इत्यत्रोत्तरमाह अतोऽन्याऽपि टेकेषामुभयोः ॥ १७॥ (१२) अतोऽग्निहोत्रादेर्नित्यात्कर्मणोऽन्याऽपि ह्यस्ति साधुकृत्या या फलमभिसंधाय क्रियते । तम्या एष विनियोग उक्त एकेषां शाखिना- सुहृदः साधुकृत्यामुपयन्ति' इति । उपायन- मित्यर्थः :। तस्या एव चेदमघवदश्लपविनाशनिरूपणमितरस्या अप्येवमसंश्लेष इति । तथाजा- तीयस्य काम्यस्य कर्मणो विद्या प्रत्यनुपकारकत्वे सप्रतिपत्तिरुभयोरपि जैमिनिबादरायणयो- राचार्ययोः ॥ १७ ॥ (१२) यदेव विद्ययेति हि ॥१८॥ (१३) नित्यं कर्म द्विविधम् । अङ्गव्यपाश्रयविद्यासहितं तद्रहितं चेति । तत्र किमविशेषेणाग्निहो- त्रादिक कर्म विद्यागमुत विद्याविशिष्ट कर्मेति सशयः । तत्र किं तावत्प्राप्तम् । अङ्गावबद्धो- पासनासहितमेव कर्म ब्रह्मविद्याया अङ्गम् । उपासनारहितात्कर्मणः सकाशात्तत्साहितस्य प्रशस्तत्वात् । इति प्राप्तेऽभिधीयते । सत्यमेतद्विद्यासयुक्त कर्माग्निहोत्रादिकं विद्यारहिता- कर्मणः सकाशाद्वरम् । यदेव विद्ययेति वाक्ये तरप्श्रवणात् । ' यदेव विद्यया करोति० तदेव वीर्यवत्तर भवति । [छा० १ । १ । १० ] इति श्रुतिः सोपासन- कर्मणोऽतिशयेन वीर्य मस्तीति वदन्ती निरुतासनत्यापि कर्मणो वीर्यमात्रमभ्यनुजानाति । अन्यथा तरप्प्रत्ययानुपपत्तेः । तस्म सोपासननिरुपासनयोर्नित्यकर्मणोस्तारतम्येन विद्यासाध- नत्वम् ॥ १८ ॥ (१३ ) द्वितीयः पादः ] ब्रह्मसूत्रवृत्तिः। २१९ भोगेन वितरे क्षपयित्वा संपद्यते ॥ १९ ।। (१४) अनारब्धकार्ययोः पुण्यपापयोर्विद्यासामरिक्षयः पूर्वमुक्त इदानी विदुपां मुक्तिरस्ति न वेति चिन्त्यते । अधिकारिपुरुपाणा मुक्ति स्ति । प्रारब्धकर्मोपभोगाय बहुजन्मस्वी- कारे तत्र पूर्वाणितविद्यायां लुप्ताया यत्कर्म क्रियते तस्य फलप्रदत्वे सत्युत्तरोत्तरजन्मपरम्प- राया अवश्यभावित्वात् । एव प्राप्ते ब्रूमः । आरब्ध धर्म स्वफले सुखदुःखे भोजयते । तदर्थमेव प्रवृत्तत्वात् । नच विद्यालोपार्थ किचित्कर्म पूर्वमनुष्ठितम् । येन कर्मणा विद्या- लोप आशड्क्येत । नच मरणव्यवधानमात्रेण विद्यालोप इति वक्त शक्यम् । सुषुप्तिव्य- वधानेन तल्लोपादर्शनात् । अतो विद्यायामवस्थिताया बहुभिरपि क्रियमाणैरश्लेपान्मिथ्या- ज्ञानस्य सम्यग्ज्ञानेन बाधितत्त्वाच्च सम्यग्दर्शिनां चरमदेहपातानन्तरमेव विदेहकैवल्यमि- त्यनवद्यम् ॥ १९ ॥ (१४) इति श्रीलक्ष्मीनरहरिसूरिसूनहारदीक्षितविरचितायां ब्रह्मसूत्रवृत्तौ चतुर्थध्यायस्य प्रथमः पादः ॥ १ ॥ अथ द्वितीयः पादः । . वाङ्मनसि दर्शनाच्छब्दाच॥१॥ अथापरासु विद्यासु फलप्राप्तये देवयानं पथानं कथयिष्यन्प्रथमं तावद्यथाशास्त्रमुत्क्रा- न्तिक्रममाचष्टे । समाना हि विद्वदविदुपोरुत्क्रान्तिरिति वक्ष्यति । अनुत्क्रान्तस्यापरविद्याफल. प्राप्तेरसंभवात्फलाध्यायसङ्गतिः । छान्दोग्य उत्क्रान्तिक्रमः श्रूयते-' अस्य सोम्य पुरुषस्य प्रयतो वाड् मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ' [ छा० ६ । ८ । ६ ] इति । तत्र म्रियमाणस्य पुरुषस्य प्रयतो वागादीनि दशेन्द्रियाणि मनसि लीयन्ते । स च लयः कि स्वरूपेण वृत्त्या वेति संशये सति वागादीनां स्वरूपेण लय इति प्राप्तं ' वाड् मनसि ' इति श्रुतौ वृत्तिशब्दाश्रवणात् । तथा च श्रुतिरनुगृहीता भवति । इतरथा लक्षणा स्यात् । श्रुतिलक्षणयोः श्रुतिया॑य्या न लक्षणा । एव मनसि लय इति प्राप्ते ब्रूमः । वाग्वृत्तिरेव मनसि लीयते न तु वाक् । कुतः । दर्शनात् । मनोवृत्तौ स्थितायां वाग्वृत्तिलयो दृश्यते । मनसो वागादिक प्रत्यनुपादानादुपा- दान एन कार्यस्य स्वरूपेण लय इति मृद्घटादौ व्याप्तेर्दर्शनान्न वागादीनां स्वरूपेण विलयः । वृत्तिस्त्वनुपादानेऽपि लयमर्हति । अड्गारेषु जलमध्ये प्रक्षिप्तेष वह्नि- वृत्तेर्दाहप्रकाशात्मिकाया अनुपादाने जले लयदर्शनात् । श्रुतौ तु वाक्शब्देन वृत्तिर्लक्ष्यते वृत्तिवृत्तिमतोरभेदोपचारात् । कथ तहस्मिन्पक्षे शब्दो । वाड्मनसि संपद्यते । तस्माद्वाच इत्यत २२० हरिदीक्षितकृता- [ चतुर्थाध्याये- आह--शब्दाचेति । शब्दोऽप्यस्मिन्पक्षेऽबकल्पते वृत्तिवृत्तिमतौरभेदोपचारा- दिति भाष्यात् । तस्मादागादीना वृत्तय एव मनसि लीयन्ते न वागादयः ॥ १ ॥ अत एव च सर्वाण्यनु ॥ २॥ (१) यस्मादिन्द्रियाणां मनउपादानकत्वाभावोऽत एव वाच इव मनसि चक्षुरादीनामपि वृत्तिलय एव न स्वरूपेण लयः । वृत्तिद्वारेणैव सर्वाणीन्द्रियाणि मनोऽनुवर्तन्त इत्यर्थः । दृश्यते हि लोके मनोवृत्तौ स्थिताया चक्षुरादिवृत्रिलयः । सर्वेषा करणाना मनस्युपसहारा- विशेषे सति बाचः पृथक्करण वाड् मनसि सपद्यते । [ छा० ६ । ८।१] इत्युदाहरणानुरोधेनेति द्रष्टव्यम् ॥ २॥ (१) तन्मनः प्राण उत्तरात् ॥ ३॥ (२) याड् मनसि संपद्यते मनः प्राणे' [ छा० ६ । ८ । ६ ] इत्यत्र मनसि वागा- दीनां वृत्तिलय एव न स्वरूपलय इत्युक्तम् । अथ तदुत्तरं वाक्यं “मनः प्राणे ' इति । किमत्रापि प्राणे मनसो लय इति तावत्प्राप्तम् । कुतः । मनः प्रति प्राणस्योपादानत्वसभ- बात् । तथा हि---' अन्नमयं हि सोम्य सन आपोमयः प्राणः [६ । ५ । ४ ] इति श्रुतेर्मनसोऽने कारण प्राणस्याऽऽपः कारणम् । तथासति मनःप्राणशब्दाभ्यां तत्कारणे अन्नोदके उपलक्ष्य मनः प्राणे लीयत इति वाक्यस्यान्नमप्सु लीयत इत्यर्थो व्याख्यातः । 'आपश्चान्नमसृजन्त ' [छा० [ छा० ६ । २ । ४ ] इति श्रुतरपामन्नप्रकृतित्वादन्नात्मकस्य मनसोऽबाल्मके प्राणे स्वोपादने स्वरूपेण लयो युक्ततर इत्येवं प्राप्ते ब्रूमः । तद्बाह्येन्द्रिय- वृत्तिलयाश्रयभूतं मनः प्राणे वृत्तिरूपेणैव लीयते न स्वरूपेण । कुतः । उत्तरादुत्तर- वाक्यात् । द्विविधमुपादान मुख्यं प्राणाडिक चेति । तत्र नाणमनसोर्मेद्धटयोरिव न मुख्य उपादानोपादेयभावोऽस्ति किं तर्हि संबन्धपरंपरया प्रणाड्या । न हि प्राणाडिक उपादाने कार्यस्य लय कचित्पश्यामः । तदुक्तं भाष्यकृद्भिः-सुषुप्सोर्मुमूर्षोश्च प्राणवृत्तौ परिस्पन्दा- मिकायामवस्थितायां मनोवृत्तीनामुपशमो दृश्यते । न च मनसः स्वरूपाप्ययः प्राणे संभ- वत्यतत्प्रकृतित्वादिति । वृत्तिवृत्तिमतोरभेदविवक्षया मनः प्राणे सपद्यत इत्युक्तम् । तस्मा- माणे मनोवृत्तीनामेव लयः ॥ ३ ॥ (२) सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥ इदानी प्राणस्तेजसीत्यत्र चिन्स्यते । प्राणस्य तेजसि वृत्तिलयः आहोस्विदेहेन्द्रियाध्यक्ष जीव इति संशयः । तेजस्येव प्राणस्य लय इति तावत्प्राप्तम् । कुतः । ' प्राणस्सेजसि' इति श्रुतेः । एवं प्राप्तेऽभिधीयते । स प्राणेऽध्यक्षे जीवे विलीयते । कुतः । तदुपगम्य- दिभ्यः । तस्मिन्नध्यक्षे सर्वेषां प्राणानामुपगमो लय आदिशब्देनाध्यक्षानुवृत्तिः । तयोः श्रवणादित्यर्थः । 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमुत्क्रामन्तं सर्वे प्राणा अनूत्कामन्ति " ' प्रण- . द्वितीयः पादः ] ब्रह्मसूत्रवृत्तिः। २२१ [बृ० ४ । ४ । २ ] इतिश्रुतेः ! एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदूर्वोऽच्छासी भवति ' [ बृ० ४ । ३ । ३८ ] इति श्रुयन्तराच्च । ननु स्तेजसि' [ छा० ६ । ८ । ६ ] इति श्रूयते कथं प्राणोऽध्यक्ष इत्यधिकमुच्यते । नैष दोषः । अध्यक्षप्रधानत्वादुक्रमणादिव्यवहारस्य ॥ ४ ॥ तर्हि प्राणस्तेजसि, इत्यस्याः श्रुतेः का गतिरित्यत आह- भूतेषु तच्छ्रुतेः ॥ ५॥ ' प्राणस्तेजसि ' इत्यतः श्रुतेः प्राणसंपृक्तो जीवस्तेज.सहचरितेषु देहबीजभूतेषु भूत- सृक्ष्मेष्वेवावतिष्ठते । ननु ' प्राणस्तेजसि ' इति श्रुतौ प्राणस्यैव तेजस्यवस्थितिः श्रूयते न प्राणसंपृक्तस्याध्यक्षस्य । नैप दोषः। सोऽध्यक्ष इत्यस्यापि तत्र नवणात् ।' एवमेवेम- मात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति । [ बृ० ४ । ३ । ३८ ] इति श्रुत्यन्तरे जीवे प्राणलयस्य स्पष्टमाम्नानाच ॥ ५ ॥ ननु प्राणस्तेजसीति तेजोमान्नश्श्रवणे कथं तेजःसहचरितेषु भूतेष्वित्युच्यत इत्यत आह नैकस्मिन्दर्शयतो हि ॥६॥ (३) अन्तकाल एकस्मिन्नेव तेजसि जीवो नावतिष्ठते । हि यस्मात् पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' [ छा० ५ । ३ । ३] इत्यत्र प्रश्नप्रतिवचने भूतसूक्ष्मेष्ववस्थान दर्शयतः । तथाऽन्याऽपि श्रुतिः-' पृथिवीमय आपोमयस्तेजोमयो वायुमय आकाशमयः ' [ बृ० ४ । ४ । ५] इत्याद्या । स्मृतिरपि- ' अण्व्यो मात्रा अनाशिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धभिदं सर्व संभव-यनुपूर्वशः ' ॥ [ मनुस्मृ० १ । २७] इत्याद्या । अमुमेवार्थ दर्शयतः । तस्मात्प्राणसंपृक्तोऽध्यक्षो भूतसूक्ष्मेषु लीयते ॥६॥(३) समाना चाऽऽसृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ७॥ (४) सेयमुत्क्रान्तिः सगुणब्रह्मोपासकस्यानुपासकस्य च समाना किं वा विशेषवतीति संशयः। विशेषवतीति तावत्प्राप्तम् । दहरविद्यायाममृतत्वश्रवणात् । निर्गुणविद्यायामिवोत्क्रान्त्यनुप- योगादविदुष एवेयमुत्क्रान्तिरिति प्राप्ते ब्रूमः। विद्वदविदुषोः समानेयमुत्क्रान्तिः । आसृत्युप. क्रमात् । स्रियते गम्यते प्राप्यते ब्रह्मलोकोऽनयेति सृतिस्ता मर्यादीकृत्योपक्रमात् । सगुण- ज्ञानिनो मूर्धन्यनाडीप्रवेश उत्तरमार्गोपक्रमः । ज्ञानरहितस्य नाड्यन्तरप्रवेशो दक्षिणमार्गो- पक्रमः । मार्गपर्यन्तमिदं भूतसूक्ष्मायणं समानमेव । अज्ञानिन इव सगुणब्रह्मोपासक- स्यापि देवयानगमनव्यतिरेकेण ब्रह्मलोकप्राप्तेरसंभवनोत्क्रान्तिरावश्यकीत्यर्थः। ननु विदुषाऽ. मृतत्वं प्राप्तव्यं न च तद्देशान्तरायत्तं तत्र कुतो भूताश्रयत्वं सृत्युपक्रमो वेति । अत्रोच्यते. .
२२२ हरिदीक्षितकृता- [चतुर्थाध्याये- अनुपोष्याविद्यादिलेशजातमदग्ध्वाऽपरविद्यासामर्थ्यादापेक्षिकममृतत्वं प्रेप्स्यते । संभवति तत्र सृत्युपक्रमो भूताश्रयत्वं च । न हि निराश्रयाणां प्राणानां गतिरुपपद्यते । उष- दाहे इति धातोः क्विबन्तस्योपसृष्टस्य रूपमनुपोष्येति । तस्माद्विद्वदविदुषोरुत्क्रान्तिः समाना ॥ ७॥ (४) तदाऽपीतेः संसारव्यपदेशात् ॥८॥ अस्य सोम्य पुरुषस्य प्रयतो वाड्यनसि सपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ' [ छा० ६।८६ ] इत्यत्र तेजःप्रभृतीना भूताना सकरणाना प्रयतः पुंसः परमात्मनि किं वृत्तिलयः कि वा स्वरूपलय इति सशयः । स्वरूपलय इति तावत्प्राप्तम् । परमात्मनो भृतोपादानत्वात् । तस्मिन्नुपादाने कार्यस्य स्वरूपेण लयो युक्त इति प्राप्ते ब्रूमः । तत्तेजःप्रभृति भूतसूक्ष्म श्रोत्रादिकरणाश्रयभूतमापीतेरासंसारमोक्षात्तत्त्वज्ञाननिमित्तादव- तिष्ठते । 'योनिमन्ये प्रपद्यन्ते शरीत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ' ॥ [ कठ० ५। ७ ] इति मरणानन्तरमपि संसारव्यपदेशात् । अन्यथा सर्वेषां मरणानन्तरमेव मोक्षप्रसङ्ग इति विधिनिषेधशास्त्रवैयर्थ्य प्रसज्जेत तस्मात्सगुणोपासकानां भूतसूक्ष्मावशेषैव परमात्मनि सपत्तिः सुषुप्तिवदिति ॥ ८ ॥ सूक्ष्म प्रमाणतश्च तथोपलब्धेः ॥९॥ तचेतरभूतसहितं तेजोऽस्माच्छरीरात्प्रयतो जीवस्याऽऽश्रयभूत स्वरूपतः परिमाणतश्च सूक्ष्मं भवितुमर्हति । नाडीनिष्क्रमणश्रवणात् । तत्र तनुत्वात्संचारोपपत्तिः । अत एव. निर्गच्छत्तेजः पार्श्वस्थैर्नोपलभ्यते ॥ ९ ॥ नोपमर्दैनातः॥ १०॥ अत एव च सूक्ष्मत्वात्स्थूलस्य शरीरस्योपमर्दैन दाहादिनिमित्तेन न तत्सूक्ष्मं शरीर मुपमृद्यते ॥ १० ॥ अस्व चोपपत्तेरेष ऊष्मा ॥ ११ ॥ (५) अस्यैव सूक्ष्मशरीरस्यायमूष्मा यः शरीर उपलभ्यते । कुतः । उपपत्तेः । सूक्ष्मशरीरे निर्गते मृतशरीर ऊष्मा नोपलभ्यते । सति तस्मिन्सूक्ष्मशरीर ऊष्मोपलभ्यत इत्युपपद्यते । प्रसिद्धशरीरव्यतिरिक्तशरीरव्यपाश्रय एवैष ऊष्मेति ॥ ११॥ (५) प्रतिषेधादिति चेन्न शारीरात् ।। १२ ।। अमृतत्त्वं चानुपोष्येत्यतो विशेषणादात्यन्तिकेऽमृतत्वे गत्युत्तान्त्योरभावोऽभ्युपगत- स्तत्रापि केनचित्कारणेनोक्रान्तिमाशङ्कते निर्गुणब्रह्मज्ञानिनोऽप्युत्क्रान्तिरस्ति न वेति संशये।
द्वितीयः पादः ] ब्रह्मसूत्रवृत्तिः। २२३ अविशेषादस्तीत्याह पूर्वपक्षी । ननु ' न तस्य प्राणा उत्क्रामन्ति ' [ बृ० ४ । ४ । ६ ] इति प्रतिपेवाब्रह्मविदो नोत्क्रान्तिरिति चेन्न । शारीरादात्मन एप उत्क्रान्तिप्रतिषेधो न शरीरात् । कथमेतदवगम्यते । न तस्मात्प्राणा उत्क्रामन्ति' [बृ० मा० ४ । ४ ।८] इति शाखान्तरे पञ्चमीप्रयोगात् । संबन्वसामान्यविपया हि पष्ठी शाखान्तरगतया पञ्चम्या सबन्धविशेष व्यवस्थाप्यते । तस्मादुच्चिक्रमिषोर्जीवात्प्राणा नोत्क्रामन्ति तेन सहैवोत्क्रामन्ति तेन सहैव भवन्तीति श्रुत्यर्थः ॥ १२ ॥ तस्मात्प्राणसहितस्यैव जीवस्य देहादुत्क्रातिरिति प्राप्ते निराचक्रे ( करोति ) सूत्रकारः- स्पष्टो टेकेषाम् ।। १३ ॥ यदुक्त ब्रह्मविदोऽपि देहादस्त्युत्क्रान्तिरिति नैतदस्ति । कुतः । हि यस्मादेकेपां शाखिनां देहापादानक एवोत्क्रान्तिनिषेधः स्पष्ट उपलभ्यते । तथा ह्यातभागप्रश्ने–' यत्राय पुरुपो नियत उदस्मात्प्राणाः कामन्याहो नेति ' [ बृ० ३ । २ । ११ ] इत्यत्र — नेति होवाच याज्ञवल्क्यः ' [बृ०३।२।११]। तमुयमनुत्क्रान्तेपु प्राणेपु मृतो न स्यादस्यामाशङ्कायाम् । ' अत्रैव समवलीयन्ते ' इति प्रणानां विनाशं प्रतिज्ञाय तत्सिद्धये देहस्योन्छ्यनादीनि तत्रैवाऽऽन्नातानि । अतो जीवनासभवान्मृतो देह इति व्यवहारः । तस्माद्ब्रह्मविदो न गत्युक्रान्ती भवतः । 'ब्रह्मैव सन्ब्रह्माप्येति ' [ बृ० ४ । ४ । ६ ] इत्यादिश्रुतेः ॥१३॥ स्मर्यते च ॥ १४ ॥ (६) गत्युत्क्रान्त्योरभावो भारते स्मर्यते- सर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः । देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणः॥' [म० भा० १२ । २७०।२२] इति । अपदस्य न विद्यते पद गन्तव्यस्थानं यस्य तस्येत्यर्थः । तस्माच्छरीरापादानक एवोत्का- न्तिप्रतिपेधः ॥ १४ ॥ (६) तानि परे तथा ह्याह ॥ १५॥ (७) इन्द्रियाणि भूतानि च ब्रह्मविदः परे ब्रह्मणि लीयन्त आहोस्वित्स्वस्वप्रकृताविति संशये प्रातिस्विकेषु स्वस्वकारणभूताग्न्याद्यधिकरणेपु विलीयन्ते न परमात्मनीति तावत्प्रा. तम् । कुतः। गताः कलाः पञ्चदश प्रतिष्ठाः ' [ मुण्ड० ३।२। ७ ] इति श्रुत्या कलाशब्दवान्यानां वागादिप्राणानां प्रतिष्ठाशब्दवाच्येषु स्वस्वकारणेपु लयप्रतिपादनात् । यत्रास्य पुरुपस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यम् । [बृ० ३।२ । १३ ] इत्यादिश्रुतेश्चेति प्राप्ते ब्रूमः । तानि प्राणशब्दोदितानि बागादीनीन्द्रियाणि भूतानि च ब्रह्मविदः परे ब्रह्मण्येव विलीयन्ते । कुतः । तथा ह्याह श्रुति.-'यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्त गन्छन्ति भिद्येते तासा नामरूपे समुद्र इत्येव प्रोच्यत एव- - . ।
d २२४ हरिदीक्षितकृता- [चतुर्थाध्याये- मेवास्य zष्टरिमाः पोडश कलाः पुरुषायणाः पुरुपं प्राप्यास्तं गच्छन्ति भिद्येते तासां नाम- रूपे पुरुष इत्येव प्रोच्यते ' [ प्रश्न० ६ । ५] इति । भिद्यते विलीयेते इत्यर्थः । सेयं श्रुतिस्तत्त्वविदृष्टिविषया । गताः कलाः पञ्चदश प्रतिष्ठाः" [ मुण्ड ० ३ । २ । ७ ] 'अग्निं वागप्येति' [ बृ० ३ । २ । १३ ] इत्यादिशास्त्र तु तटस्थपुरुपप्रतीतिविपयम् । नियमाणे तत्त्वविदि समीपवर्तिनः पुरुषाः स्वस्वदृष्टान्तेन तदीयवागादीनामग्न्यादिषु लय मन्यन्ते । अतो न श्रुत्योर्विरोधः । तस्माद्ब्रह्मविदः प्राणानां ब्रह्मण्येव विलयः ॥१५॥ (५) अविभागो वचनात् ॥.१६ ।। (८) स पुनः पूर्वाधिकरणोक्तो विदुषः कलाप्रविलयः स किमितरेषामिव सावशेपो भवत्या- होस्विन्निरवशेप इति संशये सावशेष इति प्राप्तम् । प्रलयसामान्यात् । एवं प्राप्ते ब्रूमः । अविभागो निःशेपलयः । कुतः । वचनात् । “ भिद्यते चासा नामरूपे ' [प्र. ६।५ ] इत्यत्र जीवस्य याः षोडश कलाः ससारहेतवस्तासां कलानां नामरूपविलयश्रवणात् । ताश्च कला वाक्योपक्रमेऽनुक्रान्ताः । स प्राणमसृजत ' [ प्र० ६ । ४ ] इत्यादिना । प्राणो बुद्धिः । ' खं वायुर्योतिरापः पृथिवीन्द्रियं मनोऽनमन्नाद्वीयं तपो मन्त्रः कर्म लोका लोकेषु च नाम च ' [ प्र० ६ । ४ ] इति । यदि प्राणादीनां नामान्तानां नामरूपे शक्त्यवशेषे लीयते तदा नामरूपविभेदश्रुतिरुपरुध्येत । शक्त्य.त्मना नामरूपयोः सूक्ष्मयोरवस्थानात् । स एपोऽकलोऽमृतो भवति' [प्र० ६।५ । इति तस्या एव श्रुतेः शेपात् । अविद्यानिमित्तानां च कलाना न विद्यानिमित्ते प्रलये सावशेषत्वोपपत्तिः । तस्माद्विदुषः कलाना निःशेपेण ब्रह्मणि लयः ॥ १६ ॥ (८) तदोकोंग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थात्तच्छेधगत्यनुस्मृति- योगाच हार्दानुगृहीतः शताधिकया ॥ १७॥ (९) समाप्ता प्रासङ्गिकी परविद्याचिन्ता । संप्रति त्यपरविद्याविपयामेव चिन्तामनुवर्तयति । समाना चाऽऽसृत्युपक्रमात् ' [ब्र० सू० ४ । २ । ७ ] विद्वदविदुपारुत्क्रान्तिरित्यु- क्तम् । इदानी सृत्युपक्रमं दर्शयति । तस्योपसंहृतवागादिकलापस्योनिक्रमिपोर्जीवस्यौक आयतनं हृदयम् । स एतास्तेजोमात्राः समभ्याददानो हृदयमेयान्ववक्रामति' [ बृह. १] इति श्रुतेः । तदप्रज्वलनपूर्विका चक्षुरादिस्थानापादाना चोत्क्रान्तिः श्रूयते । तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्भो वाऽन्येभ्यो वा शरीरदेशेभ्यः' [ बृ० ४ । ४ । २ ] इति । अस्यार्थः-वाङ् मनसि संपद्यत इति क्रमेण सलिङ्गशरीरो जीवो हृदयस्याग्रप्रज्वलनं प्रद्योतो भाविजन्मालो- चनात्मकः प्रत्ययस्तेन प्रद्योतेन प्रकाशितनाडीद्वारा चक्षुरादिस्थानापादानेभ्यो निर्गच्छतीति। । . ४ १ १ क. रीरावयवेभ्यः।
द्वितीयः पादः ] बह्मसूत्रवृत्तिः । २२५ एतच्च सर्वेषां समानम् । तस्मान्नोपासकस्येतरेभ्यो विशेष इति प्राप्ते ब्रूमः । मूर्ध- न्ययैव नाड्योपासको निर्गन्छतीतराभ्य एव नाडीभ्य इतरे । कुतः । विद्यासामर्थ्यात सगुणब्रह्मोपासनासामर्थ्यादित्यर्थः । अविद्वद्वत् । यतः कुतश्चिन्निष्क्रमणेन ब्रह्मलोकाप्राप्तौ विद्यासामर्थ्यहानिः स्यात् । तच्छेषगत्यनुस्मृतियोगाच्च । तस्य विद्याशेषस्य या शेपभृता गतिस्तस्या अनुस्मृतिरनुचिन्तनं तद्योगाच्चेत्यर्थः । विद्याशेषे मूर्धन्यनाडीगत्यभ्यासो विहितः। 'तामभ्यस्यस्तयैव प्रतिष्ठते' इति श्रुतेः । एतेन योगस्यापि विद्यासहकारित्व सूचितम् । तस्माद्ह्वदयालयेन ब्रह्मणा सुष्ट्पासितेनानुगृहीतस्तद्भावमापन्नो विद्वाञ्छताधिकया मूर्धन्य- नाड्या निष्क्रामति । इतरे तु स्थानान्तरेभ्यः । तथा च श्रूयते- 'शतं चैका च हृदयस्य नाडय- स्तासा मूर्धानमभिनि.सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वड्डन्या उत्क्रमणे भवन्ति ॥ [छा० ८।६।६ ] इति । अन्या नाडयो विष्वड्नानागतयोऽन्येषामुत्क्रम गायो- पयुज्यन्ते न त्वमृतत्वप्राप्तय इत्यर्थः । तस्मादस्त्युपासकस्य विशेपः ॥ १७ ॥ (९) रश्म्यनुसारी ॥ १८॥ अथ यदिदमस्मिन्ब्रह्मपुरे दहर पुण्डरीक वेश्म ' [ छा० ८ । १ । १] इत्युपक्रम्य सप्रपञ्चं नाडीरश्मिसबन्धमुक्त्वोक्तम्- ' अथ यत्रैतस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभि- रूप्रमाक्रमते ' [ छा० ८।६ । ५] इति । पुनश्चोक्तम्-'तयोर्चमायन्नमृतत्वमेति [ छा० ८ । ६ । ६ ] इति । तस्माच्छताधिकया नाड्या निष्क्रामन्श्म्यनुसारीति गम्यते । तत्किमविशेपेणैवाहनि रात्रौ म्रियमाणस्य रश्म्यनुसारित्वमाहोस्विदहन्येवेति सशये सत्यविशेषश्रवणादविशेषेणैव तावद्रश्म्यनुप्तारीति प्रतिज्ञायते ॥ १८ ॥ निशि नेति चेन्न संबन्धस्य याबहेहमाधित्वादर्शयति च ।।१९।।(१०) मूर्धन्यया नाड्या निर्गतस्य यो रश्मिसंबन्ध उक्तः स चाहन्येव मृतस्य संभवति न तु रात्रौ नाडीरश्मिसंबन्धविच्छेदादिति चेन्न । नाडीरश्मिसंबन्धस्य यावद्देहभावित्वात् । यावद्देहभावी हि सौरकिरणसंबन्धः। एतमेवार्थं श्रुतिर्दर्शयति-'अमुष्मादादित्या प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ' [ छा० ८। ६ । २] इति । अत एव ग्रीष्मे क्षपासु देहे दाह उपलभ्यते । ऋत्वन्तरेषु प्रतिबद्धत्वादनुपलम्भः शैशिरे- ष्विव दुर्दिनेषु । तस्मादिवा रात्रौ च रश्मिसंबन्धाविच्छेदादात्रावपि मृतो रश्मीन्यातीति सिद्धान्तः ॥ १९ ॥ (१०) - २२६ हरिदीक्षितकृता- [चतुर्थाध्याये- अतश्चायनेऽपि दक्षिणे ॥ २० ॥ दक्षिणायने मृतस्योपासकस्य ब्रह्मलोकप्राप्तिरस्ति न वेति संशये, उत्तरायणस्य ब्रह्म- लोकमार्गत्वश्रुतेर्भीष्मस्योत्तरायणप्रतीक्षादर्शनाच ब्रह्मलोकप्राप्तिर्नास्तीति प्राप्तावभिधीयते- अत एव विद्याफलस्य नियतत्वादेव दक्षिणायनेऽपि मृतस्य ब्रह्मलोकप्राप्तिर्भवत्येव । उत्तरा- यणशब्देन कालो न विवक्षितः किं तातिवाहिकदेवतेति वक्ष्यति । उत्तरायणप्राशस्त्य- प्रसिद्धिरविद्वद्विषया । भीष्मस्योत्तरायणप्रतीक्षा त्वाचारप्रतिपालनार्था पितृप्रसादलब्धस्वच्छन्द- मृत्युताख्यापनार्था च ॥ २० ॥ ननु 'यत्र काले त्वनावृत्तिमावृत्ति चैव योगिनः । प्रयाता यान्ति त कालं वक्ष्यामि भरतर्षभ ' ॥ [ भ० गी० ८ । ०३ ] इति कालप्राधान्येनोपक्रम्याहरादिकालविशेपस्मरणात्कथ दक्षिणायने रात्रौ वा मृताना ब्रह्म- लोकप्राप्तिरत आह योगिनः प्रति च स्पयते स्मार्ते चैते ॥ २१ ॥ (११) योगिनः प्रत्येवाय कालः स्मर्यते । स्मार्ते चते योगसाख्ये न श्रोते । अतो विपयभेदा. नास्य स्मार्तस्य कालविनियोगस्य श्रौतेषु विज्ञानेष्यवतारः। यदा पुनः · अग्निज्योतिरहः शुक्लः [भ० गी० ८ । २४] इति स्मृतावग्न्यादिदेवता एवाऽतिवाहिक्यो गृह्यन्ते तदा न कश्चि. विरोधः ॥ २१ ॥ (११) इति श्रीलक्ष्मीनरहारसरिसूनुहारदीक्षितविरचिताया ब्रह्मसूत्रवृत्ती चतुर्थाध्यायस्य द्वितीय. पादः । -- अथ तृतीयः पादः । अ अचिरादिना तत्प्रथितेः ॥१॥ (१) आमृत्युपक्रमात्समानोत्क्रान्तिरित्युक्तम् । स्मृतिस्तु सृत्यन्तरेष्वनेकविधा श्रूयते । ब्रह्मला- कमार्गश्छान्दोग्यबृहदारण्यकयोः पञ्चाग्निविद्याया चाचिरादिकः पठ्यते- तेऽर्चिपमभिसभ- वन्त्यर्चिषोऽहः ' [छा० ५। १०।१] इति। विद्यान्तरे-' यदा वै पुरुपोऽस्माल्लोकात्पति स वायुमागच्छति ' [ बृ० ५। १० । १] इत्यपरा । कौपीतकिनः पर्यऋविद्यायामग्नि- लोकादिगमनमामनन्ति- स एत देवयान पन्थानमापद्याग्निलोकमागन्छति । १ । ३ ] इत्पन्या । —सूर्यद्वारेण ते विरजाः प्रयान्ति ' [ मुण्ड ० १ । २ । ११ ] इती- तरा । एवमन्यत्रापि भान्तिराणि श्रूयन्ते । तत्र संशयः । किं सर्वेऽपि मार्गाः परस्पर- निरपेक्षाः किं वैक एवानेकविशेपणविशिष्ट इति । भिन्नप्रकरणत्वात्तत्तद्विद्याफलब्रह्मलोक- प्राप्तावन्योन्यनिरपेक्षा अनेके मार्गा इति प्राप्ते ब्रूमः-सर्वोऽप्युपासकोऽचिरादिनैकेनैव मार्गेण ब्रह्मलोकं रहति । कुतः । तत्प्रथितेः । तस्यैव सर्वविद्यासु मार्गत्वेन प्रसिद्धेः । पञ्चाग्निविद्यायां वाक्यशेषे ' य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभि- [ कौपी० - तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। २२७ सभवन्ति' [छा० ५। १० । १ ] इति विद्यान्तरोपासकानामप्यर्थिरादिमार्गश्रवणा- द्वाय्वादीनामपि गुणोपसहारन्यायेनात्रैवोपसहारसभवात् । ननु यामु विद्यामु न काचिद्गतिः श्रूयते तास्वियमार्चर।दिगतिरस्तु । यासु चान्या गतिः श्रूयते तासु किमित्यचिराद्या- श्रयणमिति । अत्रोच्यते-भवेदेतदेव यद्यत्यन्तभिन्ना एवैताः सृतयः स्युः । एकैव त्वेषा सृतिरनेकविशेपणा ब्रह्मलोकप्रापिणी । विद्यामेदेऽपि गन्तव्याभेदात् । ' तेऽरिभिसभवन्ति' [ बृ० ६ । २ । १५] इति स्पष्टचिरादिगत्याम्नानाच । तस्मादर्चिरादिमार्ग एक एव ॥ १ ॥ (१) वायुमब्दादविशेषविशेषाभ्याम् ॥ २॥ (२) सर्वेषामुपासकानामेक एवाचिरादिमार्ग इति पूर्वाधिकरणे व्यवस्थापितम् । इदानीमा- तिवाहिकदेवताक्रमश्चिन्त्यते । तत्र कौपीतकिन इत्थ देवयान पन्थानमामनन्ति--' स एतं पन्थानमापद्याग्निलोकमागच्छति स वायुलोक स वरुणलोकं स इन्द्रलोक स प्रजापतिलोक स ब्रह्मलोकम् ' [को० १ । ३ ] इति । तत्राचिरग्निलोकशब्दौ तावदेकार्थो । छान्दोग्य- बृहदारण्यकयोरचिरादिराम्न तः- 'तेऽचिपममिसभवन्त्यर्चिपोऽहरह्न आपूर्य- माणपक्षमापूर्यमाणपक्षाद्यान्पडुदड्डेति मासास्तान् । मासेभ्यः संवत्सरं सवत्सरादादित्यमादित्याच्चन्द्रमस चन्द्रमसो विद्युतं तत्पुरुपोऽमानवः स एतान्ब्रह्म गमयति' [छा० ५।१०।१-२] इति । अत्राचिरादिमार्गे वायुर्निवेश्यो न वेति सशये, न निवेश्य इति तावत्प्राप्तम् । अस्यो- पार वायुरिति क्रमस्याश्रुतत्वात्कल्पकाभावाचेति प्राप्ते ब्रूमः-सवत्सरात्पराञ्चमादित्याद- वञ्चिं गन्तारोऽमिसंभवन्ति । कुतः । अविशेषविशेपाभ्याम् । ‘स वायुलोकम्' [ कौ० १। ३ ] इत्यत्राविशेपेणोपदिष्टस्य वायोः श्रुत्यन्तरे विशेपः श्रूयते- यदा 4 पुरुषोऽस्माल्लो- कात्प्रेति स वायुमागन्छति तस्मै तत्र विजिही यथा रथचक्रस्य ख तेन स ऊर्ध्वमाक्रमते स आदित्यमागन्छति' [ बृ० ५। १० । १ ] इति । इतो निर्गच्छन्नपासकोऽग्निलोक- मागन्छति, स वायुलोकमागन्छति तद्वायुमण्डल छिद्रत भवति, तेन रथचक्रन्छिद्रप्रमाणेन वायुच्छिद्रेण वायुमण्डलमुल्लड्ड्याऽऽदित्यमण्डलं प्रामोतीत्यर्थः । एव श्रुत्यन्तरेणाऽऽदित्याद- ग्वायुलोक इति प्रतीयते । तथाचार्चिर,दौ सवत्सरानन्तर वायुर्निवेश्यः । बृहदारण्यके- ' मासेभ्यो देवलोकं देवलोकादादित्यम् ' [बृ० ६ । २ । १५] इति समामनन्ति । से च संवत्सरानन्तर वायोराडनिवेशयितव्यः । माससंवत्सरयोः सबन्धित्वेन प्रसिद्धयोरानन्त- यस्यानिवारणार्थत्वात् । तदेव सवत्सरादित्ययोर्मध्ये देवलोकवायुल को सनिवेशयितव्यौ । , - २२८ हरिदीक्षितकृता- [चतुर्थाध्याये- अत्रायं सिद्धान्तः-ब्रह्मलोकं गच्छन्नुपासकः प्रथमचिगन्छति, ततोऽहस्तत आपूर्यमाणपक्षं ततो म.सांस्ततः सवत्सर ततो देवलोक ततो वायुलोक तत आदित्यलोकमिति ॥२॥ (२) तडितोऽधि वरुणः संबन्धात् ॥ ३॥ (३) कौपीतकिनः पठन्ति--- स वरुणलोक स इन्द्रलोकं स प्रजापतिलोकस् ३] इति। तत्र वरुणादयस्त्रयो लीका अर्चिरादिमार्गे सनिवेश्या न वेति सशये संनिवेशयितुम- शक्या इति तावत्प्राप्तम् । कुतः । वायोरिव व्यवस्थापकाभावादिति प्राप्ते ब्रूमः-विद्यु- ल्लोकस्योपरि वरुणलेोकः सबन्धवशाव्यवस्थाप्यते। विद्युत्पूर्वकवृष्टिगतानामपां वरुणोऽधिपति- रिति विद्युदरुणयोः संबन्धात् । यदा हि विद्युतस्तीबस्तनितनिर्घोपा जीमूतोदरेषु प्रनृत्यन्त्य- थाऽऽपः प्रपतन्ति । 'विद्योतते स्तनयति वर्षिष्यति वा' [छा० ७ । ११ । १ ] इति च ब्राह्मणम् । अपा चाधिपतिर्वरुण इति श्रुतिस्मृतिप्रसिद्धेश्च । इन्द्रप्रजापल्योस्तु स्थानान्तरा- सभवेऽप्यागन्तुकानामन्ते निवेश इति न्यायेन वरुणलोकस्योपरि संनिवेशः । तदेवं वरुणादीनां संनिवेशादर्चिरादिमार्गो व्यवस्थितः ॥ ३ ॥ ( ३ ) आतिवाहिकास्तल्लिङ्गात् ॥ ४ ॥ ये पूर्वमर्चिरादय उक्तास्ते किं मार्गचिह्नानि किं वा भोगभूमयोऽथ वा नेतारो गन्तृणामिति संशयः । तत्र मार्गलक्षणभूता अर्चिरादय इति तावत्प्राप्तम् । यथा हि लोके प्रतिष्ठासुर्वृद्धेनोपदिश्यते गन्छेतस्त्वममुं गिरि ततो न्यग्रोधं ततो नदी ततो ग्रामं ततो नगरमिति, एवमिहापि ' अर्चिपोऽहरह्न आपूर्यमाण- पक्षम् ' [ छा० ५ । १० । १] इत्यादिमार्गलक्षणोपदेशात् । अथ वा भोगभूमय इति प्राप्तम् । यथा हि—— मनुष्यलोकः पितृलोको देवलोकः ' [ बृ० १ । ५ । १६ ] इति प्राणिना भोगभूमित्वेन प्रसिद्ध एवम् 'अग्निलोकमागच्छति' [ कौ० १ । ३] इत्यादिलोकशब्दश्च प्राणिनां भोगभूमित्वेन भाष्यते । तरमान्नाऽऽतिवाहिका अर्चिरादयः कि तु ब्रह्मलोक प्रति गन्तणां मध्येमार्ग विश्रामभृमय इति प्राप्ते ब्रूमः-आतिवाहिका एवैतेऽर्चिरादयो भवितुमर्हन्ति । कुतः । तल्लिङ्गात् । ' तत्पुरुषोऽमानवः स एतान्ब्रह्म गमयति' [छा० ५ । १० १० । २] इत्यन्ते श्रयमाणस्यामानवस्य विद्युत्पुरुषस्य नेतृत्वावगमात् । अनेनार्चिरादयोऽप्यातिवाहिकदेवता इत्यवगम्यते । वैद्युतस्य पुरुषस्या- मानव इति विशेषणादितरेपां मानवपुरुषत्व गम्यते ॥ ४ ॥ ननु लिगमात्रं न गमकं गमकन्यायाभावादित्यनोत्तरं पठति उभयव्यामोहात्तत्सिद्धेः॥ ५॥ उभयेषां गन्तृणामुपासकाना गम्यानामचिरादिमार्गाणां च व्यामोहान्मार्गज्ञानाभावा- दचिराद्यभिमानिदेवतानामातिवाहिकत्वसिद्धेः । उभ्येषा गन्तृगम्याना कथं व्यामोहत्वमिति नगर
तृतीयः पादः ]
ब्रह्मसूत्रवृत्तिः ।
२२९
चेदुच्यते -अर्चिरादीनां मार्गरूपत्वादचेतनत्वात् । न हि लोकमार्गश्चेतनो दृश्यते ।
गन्तॄणां च संपिण्डितकरणग्रामत्वाच्च युक्तमुभयेषां व्यामोहत्वम् । तस्मात्तदभिमानिदेवता
अतियात्रायां परमेश्वरेण नियुक्ता इति गम्यते । लोकेऽपि हि मत्तमूर्छितादयः संपिण्डित-
करणाः परप्रयुक्तवानो भवन्ति । यत्तु गच्छेतस्त्वममुं गिरि ततो न्यग्रोधमिन्यादिनिर्देशसा-
म्यमुक्तं तदातिवाहिकदेवतास्वपि समानम् । गच्छ त्वमितो बलवर्माण ततो जयसिंह
ततो वीरसेनमित्यादिनिर्देशदर्शनात् । लोकशब्दस्तूपासकाना भोगाभावेऽप्यातिवाहिकदेवानां
भोगमपेक्ष्योपपद्यते । उपसहारे तु ‘स एतान्ब्रह्म गमयति' इतिसबन्धविशेपोऽतिवाह्यातिवाहकल-
क्षण उक्तस्तेन स एवोपक्रमे पीति निर्धार्यते । अग्निस्वामिक लोक प्राप्तोऽग्निनाऽतिवाह्यते।
वायुस्वामिक प्राप्तो वायुनाऽतिवाह्यत इत्येवमग्रे योजनीयम् ॥ ५ ॥
ननु विद्युल्लोकानन्तरममानवपुरुषस्यैकस्यैवाऽऽतिवाहिकश्रुतेर्वरुणादीनामातिवाहिकत्वं न
स्यादित्यत उत्तरं पठति-
वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ६ ॥ (४)
ततो वरुणादनन्तरं वैद्युतेनैवामानवेन पुरुषेण ब्रह्मलोकं नीयन्ते । कुतः । तन्छुतेः ।
'स एतान्ब्रह्म गमयति' [छा० ४ । १५ । ५] इति तस्यैव गमयितृत्वश्रुतेः ।
वरुणादीनामपि तदनुकूलाचरणेनाऽऽतिवाहिकत्वमविरुद्धम् ॥ ६ ॥ (४)
कार्य बादरिरस्य गत्युपपत्तेः ॥७॥
स एतान्ब्रह्म गमयति' [छा० ४ । १५ ।
[ छा० ४ । १५ । ५] इत्यत्र विचार्यते किं काय
चतुर्मुखलक्षणं ब्रह्म गमयत्याहोस्वित्परमेवाविकृतं मुख्यं ब्रह्मेति सशये सिद्धान्तमेवाऽऽह-कार्य-
मिति । तत्र कार्यमेव सगुण ब्रह्म गमयत्येतानमानवः पुरुष इति बादारर।चार्यो मन्यते । कुतः ।
अस्य गत्युपपत्तेः । अस्य कार्थब्रह्मणो गन्तव्यत्वमुपपद्यते प्रदेशवत्त्वात् । परब्रह्मणि तु
प्रत्यगात्माभिन्ने न गन्तव्यत्वगती सभवतः ॥ ७ ॥
विशेषितत्वाच ॥८॥
' ब्रह्मलोकान्गमयति' इति कार्यब्रह्मैव । कुतः । । तेषु ब्रह्मलोकेषु पराः परावतो
वसन्ति ' [ बृ० ६ । २१ । ५ ] इति च श्रुत्यन्तरे विशेषितत्वात् । न हि
बहुवचनेन विशेषण परस्मिन्ब्रह्माण युज्यते । कार्यब्रह्मणि त्ववस्थाभदोपपत्तेर्लोके
बहुवचनश्रुतिरपि विकारगोचरायामेव संनिवेशनिविष्टाया भोगभूमावाञ्जसी । तस्मात्कार्यब्रह्म-
विषयमेवेदं नयनम् ॥ ८॥
ननु कार्यब्रह्मणि ब्रह्मशब्दो मुख्य इत्यत आह-
सामीप्यात्तु तद्यपदेशः॥५॥
, .. - २३० हरिदीक्षित कृता- [चतुर्थाध्याये- तुरशङ्कानिवृत्त्यर्थः । परब्रह्मसामीप्यादपरस्य ब्रह्मणो ब्रह्मशब्दव्यपदेशः । परमेव ब्रह्म विशुद्धोपाधिसबन्धात्सत्यकामत्यादिधर्मविशिष्टमुपास्यत्वेनोपदिश्यते ॥ ९ ॥ ननु कार्यब्रह्मप्राप्तावनावृत्तिश्रवण न घटते । न हि परस्माद्ब्रह्मणोऽन्यत्र कचिन्नित्यता संभवति । दर्शयति च देवयानेन पथा प्रस्थितानामनावृत्तिं श्रुतिः- एतेन प्रतिपद्यमाना इमं मानवमावत नाऽऽवर्तन्ते ' [ छा० ४ । १५ । ५ ] इति । १५ । ५ ] इति । ' तयोर्ध्वमायन्नमृतत्व- मेति ' [छा० ८। ६ । ६ । का० ६ । ११ ] इति च । एव मुक्त्यनावृत्त्योः श्रवणं कार्यब्रह्मणि न सभवतीत्यत उत्तर पठति-- कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥ कार्यब्रह्मप्रलये सति तत्रैवोत्पन्नब्रह्मज्ञानाः सन्तस्तदध्यक्षेण हिरण्यगर्भेण सहातः सगुणात्परं विशुद्धं ब्रह्म प्रतिपद्यन्त इत्येव क्रममुक्तिरनावृत्त्यादिश्रुत्यभिधानादभ्युपेयते । न ह्यञ्जसैव गतिपूर्विका परब्रह्मप्राप्तिः संभवति ॥ १० ॥ स्मृतेश्च ॥ ११ ॥ स्मृतिरप्येतमर्थमनुजानाति- ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति पर पदम् ' ।। इति । तस्मात्कार्यब्रह्मविषयैवाचिरादिगतिरिति सिद्धान्तः ॥ ११ ॥ क पुनः पूर्वपक्षमाशङ्कयाय सिद्धान्त प्रतिष्ठापितः ' कार्य बादारः । [ब्र०. सू० ४ । ३ । ७ ] इत्यादिना । स इदानीमुच्यते- परं जैभिनिर्मुख्यत्वात् ॥ १२॥ 'स एतान्ब्रह्म गमयति' [ छा० ५। १० । २ ] इत्यत्र परभेव ब्रह्म प्रापयतीति जैमिनिराचार्यों मन्यते । कुतः । मुख्यत्वात् । पर हि ब्रह्म ब्रह्मशब्दस्य मुख्यमालम्बनम् । गौणमपरम् । मुख्यगौणयोर्मध्ये मुख्य सप्रत्ययस्य न्याय्यत्वात् ॥ १२ ॥ दर्शनाञ्च ॥ १३॥ 'तयोर्ध्वमायन्नमृतत्वमेति' [ छा० ८ । ६ । ६ ] इतिश्रुतिर्गतिपूर्वकममृतत्वं दर्शयति । तदिदममृतत्व परस्मिन्नेव ब्रह्मण्युपपद्यते न कार्यब्रह्माणि तस्य विनाशित्वात् । अन्यत्र धर्मादन्यत्राधर्मात् ' [क० २ । १४ ] इति कठवल्लीषु परस्यैव ब्रह्मणः प्रक्रान्तत्वात् ॥ १३ ॥ ननु 'प्रजापतेः सभां वेश्म प्रपद्ये' [छा० ८ । १४ । १ ] इति श्रवणात्कार्य- ब्रह्मविषयो गतिनिश्चय इत्यत उत्तर पठति- न च कार्ये प्रतिपत्त्यभिसंधिः ॥१४॥ (५) . ' अपि च - ' पर जैमिनि., तृतीयः पादः ] ब्रह्मसूत्रवृत्तिः। २३१ ' प्रजापतेः सभां वेश्म प्रपद्ये' इति नायं कार्यविपयः प्रतिपत्त्यभिसंधिः ' नामरूपयोर्निर्वहिता ते यदन्तरा तब्रह्म' [छा० ८ । १४ । १ ] इति कार्यवि. लक्षणस्य परस्यैव ब्रह्मणः प्रकृतत्वात् । यशोऽहं भवामि ब्राह्मणानाम् ' [छा० ८ । १४ । १ ] इति च सर्वात्मत्वेनानुक्रमात् । न 'तस्य प्रतिमा अस्ति यस्य नाम महद्यशः [ श्वे० ४ । १९ ] इति च परस्यैव ब्रह्मणो यशोनामत्वप्रसिद्धेः । तस्मात्परब्रह्मविपया गतिः श्रूयत इति पक्षान्तरम् । शिष्यबुद्धिपरीक्षार्थ सूत्रकारस्य पूर्वोत्तरव्यत्यासोऽयम् । अर्थक्रमेण तु पौर्वापर्यं ज्ञेयम् । तदेतद्भाष्यकारैर्महता प्रबन्धेन स्फुटीकृतम् । केचित्पुनः पूर्वाणि पूर्वपक्षसूत्राणि भवन्त्युत्तराणि सिद्ध न्तसूत्राणीत्येतां व्यवस्थामनुरुध्यमानाः परवि- षया एव गतिश्रुती: प्रतिष्ठापयन्ति । तदनुपपन्नम् । गन्तव्यत्वानुपपत्तेब्रह्मणः । यत्सर्वगतं सर्वान्तरं सर्वात्मकं च पर ब्रह्म ' आकाशवत्सर्वगतश्च नित्य. ' यत्साक्षादपरोक्षाब्रह्म य आत्मा सर्वान्तरः' [ बृ० ३ । ४ । १ ] ' आत्मैवेदं सर्वम् ' [ छा० ७ । २५ । २ ] इत्यादिश्रुतिनिर्धारितविशेष तस्य गन्तव्यता न कदाचिदुपपद्यते । तस्मात् ' कार्य बादारः ' [ब्र० सू० ४ । ३ । ७ ] इत्येष एव स्थित. पक्षः । [ ब्र० सू० ४ । ३ । १२ ] इति तु पक्षान्तरं प्रतिभामात्रप्रदर्शनं प्रज्ञाविकासनायेति द्रष्टव्यमित्युक्तम् ॥ १४ ॥ (५) अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषा- त्तत्कतुश्च ।। १५ ।। निरूपितमेतत्कार्यब्रह्मविषया गतिर्न शुद्धब्रह्मविषयेति । इदानी विशेषो निरू- प्यते । ' स एनान्ब्रह्म गमयति' ४ । १७ । ५] इत्यत्र किं सर्वानु. पासकान्गमयति किं वा प्रतीकोपासकव्यतिरिक्तानिति संशयेऽविशेषात्सर्वानपि यतीति प्राप्तावुच्यते-प्रतीकालम्बनान्वर्जयित्वा पञ्चाग्निविद्यादहरविद्यापर्यऋविद्या- वैश्वानरविद्याद्युपासकानमानवः पुरुषो ब्रह्मलोक नयतीति बादरायण आचार्यों मन्यते । एवमुभयथा द्वैविध्ये सति दोपाभावात् । कुतो द्वैविध्यम् । तत्क्रतुश्च । चो हेतौ । यतः 'तं यथा यथोपासते तदेव भवति' इति श्रुतौ सगुणब्रह्मभावनारूपः क्रतुः सकल्पः सगुणब्रह्मप्राप्तिहेतुरित्यवगम्यते । न हि प्रतीकोपासकाना ब्रह्मक्रतुरस्ति । अतो द्वैवि- ध्योपपत्तिः। ननु पञ्चाग्निविद्यायाः प्रतीकत्वेऽपि ' स एतान्ब्रह्म गमयति ' [ छा० ५ । १० । २] इति तत्रैवोक्तत्वाद्यत्रैवमाहत्यवादस्तत्र भवतु ब्रह्मलोकप्राप्तिर्य- त्राऽऽहत्यवादो नास्ति तत्र , कथमिति चेदुच्यते-औत्सर्गिकेण तत्क्रतुन्यायेन ब्रह्मलोक- प्राप्तिर्ब्रह्मक्रतूनामेव न प्रतीकोपासकानामिति गम्यते ॥ १५ ॥ विशेपं च दर्शयति ॥ १६ ।। (६) गम- २३२ हरिदीक्षितकृता- [चतुर्थाध्याये- नामादिप्रतीकोपासनेषु पूर्वस्मात्पूर्वस्मात्फलबिशेपमुत्तरस्मिन्मुत्तरस्मिन्नुपासने दर्शयति ' यावन्नाम्नो गत तत्रास्य यथाकामचारो भवति ' [छा० ७।१ । ५ ] इति नामब- झोपासकस्य शब्दशास्त्रादिलक्षणे नामविषये स्वातन्त्र्यं भवतीत्यर्थः । ' वाग्वा व नाम्नो भूयसी' [ छा० ७ । २ । १] ' यावद्वाचो गत तत्रास्य यथाकामचारो भवति । [ छा० ७ । २ । २ ] ' मनो वाव वाचो भूयः ' [ छा० ७ । ३ । १] इत्या- दिना । स चायं फलविशेषः प्रतीकतन्त्रत्वात्तदुपासकानामुपपद्यते ॥ १६ ॥ (६) इति श्रीलक्ष्मीनरहरिमारसनुहरिदीक्षितविरचिताया ब्रह्मसूत्रवृत्ती चतुर्थाध्यायस्य तृतीयः पादः । अथ चतुर्थः पादः । संपद्याऽऽविर्भावः स्वेन शब्दात् ॥ १॥ भाधपादे निर्गुणविद्याफलैकदेशो बन्धनिवृत्तिनिरूपिता । द्वितीये सगुणनिर्गुणफल- प्राप्तिशेषत्वेनोत्क्रान्त्यनुत्क्रान्ती निरूपिते। तृतीये सगुणविद्योपयोगिनो गतिगन्तव्यगन्तृविशेषा निरूपिताः । इह चतुर्थपादे निर्गुणविद्याफलैकदेशान्तरं ब्रह्मभावाविर्भावः सगुणवि. द्याफलं चेश्वरतुल्यभोगमाक्त्वमभिधीयते । एष सप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योति- रुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते ' [ छा० ८ । १२ । ३ ] इति श्रूयते । अस्यार्थः- सम्यक्प्रसीदत्युपाधिशान्ताविति संप्रसादो जीवः। स च शरीरत्रयाभिमानं परित्यज्य परं ब्रह्म प्राप्य मुक्तिरूपेणावतिष्ठत इति । तत्रैतन्मुक्तिरूपं न जीवस्य पूर्वसिद्धं किं तर्हि स्वर्गवदागन्तुकम् । कुतः । 'अभिनिष्पद्यते । इति उत्पाद्यत्वश्रवणात् । पूर्वसिद्धत्वे संसारदशायामपि सद्भाबेन फलस्वं न स्यात् । तस्मात्स्वर्गवदिदं नूतनं मुक्तिरूपमिति प्राप्ते ब्रूमः-स्वेन रूपेणाभिनिष्पद्यत इति स्वशब्देन विशेषितत्वात् पूर्वमपि विद्यत एवेदं मुक्तिरूपम् । न चात्र स्वशब्दः स्वकीयत्वमभिधत्ते विशेषणवैयर्थ्यप्रसङ्गात् । यद्यद्रूपं मुक्तावुपादत्ते तत्तत्स्वकीयमेवेति कस्य व्यावृत्तये विशेष्येत । आत्मवाचित्वे तु स्वशब्दस्य स्वकीयव्यावृत्तिः प्रयोजनम् । न चाभिनिष्पत्तिरुत्पत्तिः । पूर्वसिद्धस्योत्पत्तेरसंभवात् । कि तर्हि तत्वज्ञानेन ब्रह्मताविर्भावो निष्पत्तिर्न तु कस्यचिदागन्तुकधर्मस्योत्पत्तिः । कुतः । स्वेन शब्दात् । अविद्यया यत्स्वरूप तिरोहितं तदिदानीमविद्यानिवृत्तावाविर्भूत मेघापायेऽशु. मत इवेत्यर्थः । नचैवंसत्युपसंपद्याभिनिष्पद्यत इत्यनयोः पौनरुक्त्य शङ्कनीयम् । संप- येतिशब्देन तत्पदार्थशोधनस्य विवक्षितत्वात् । अभिनिष्पत्तिस्तु वाक्यार्थावबोधः । तथा चाद्वितीयाखण्डसच्चिदानन्दात्मस्वरूपेणाऽऽविर्भवतीति वाक्यार्थः । अत्र मध्वभाष्ये सौपर्ण- चतुर्थः पादः ] ब्रह्मसूबवृत्तिः । २३३ श्रुतिबृहच्छुतिमाध्यदिनायनादिश्रुतीस्तादृशीरेव व्रतार्कादिस्मृतीश्चानुसृय दुर्व्याख्यानं कृतं तत्सर्वथा नाऽऽदर्तव्यम् । कल्पितप्रमाणैः कि किं कर्तुमशक्यम् । तत्खण्डनमस्मत्कृतशत- सूच्या द्रष्टव्यम् । तस्माच्छकरभाष्यमेवानवद्यम् ॥ १ ॥ ननु पूर्वसिद्धा चेन्मुक्तिस्तर्हि संसारावस्थातः को विशेप इत्यत आह मुक्तः प्रतिज्ञानात् ॥ २ ॥ संसारदशायामविद्यया बद्धो ज्ञानेनाविद्यानिवृत्तौ मुक्त इत्यय विशेपः । कथं पुनरवग- म्यते मुक्तोऽयमिदानीमिति । प्रतिज्ञानादित्याह । 'एत त्वेव ते भूयोऽनुव्याख्यास्यामि' [छा० ८।९। ३ ] इत्यवस्थात्रयदोषहीनमात्मान व्याख्येयत्वेन प्रतिज्ञाय ' अशरीर चाव सन्तं न प्रियाप्रिये स्पृशतः [ छा० ८ । १२ । १ ] इति चोपन्यस्य ' स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुष. [ छा० ८ । १२ । ३ ] इत्युपसंहारान्मुक्तत्व- निश्चय इत्यर्थः । 'फलत्वप्रसिद्धिरपि मोक्षस्य बन्धनिवृत्तिमात्रापेक्षा नापूर्वोपजनापेक्षा' इति भाष्यम् । भाष्यस्यायमाशयः -नन्वज्ञाते कामनानुदयाज्ज्ञात आत्मनि कामना वाच्या । तथा च कथमहेयानुपादेये नित्यसिद्ध आत्मनि सा भवतु सिद्ध इच्छाविरहा- संसारावस्थायामपि मोक्षापत्तेश्च । न च ससारावस्थायामविद्यावृतत्वाद्विद्यमानोऽप्यद्वयानन्दो न भासते विद्यया त्वविद्यायां निवृत्ताया स्वप्रकाशत्वादानन्दरूपेण स्वयमेव प्रथत इत्यविद्यानिवृत्तिविशिष्टत्वेन काम्यत इति वाच्यमविद्यानिवृत्ते१निरूपत्वात् । सा ह्यात्म- भिन्ना तत्स्वरूपा वा । आधे द्वैतापत्तिरद्वैतश्रुतिव्याकोपश्च । द्वितीये पूर्वोक्तदोष इति । अत्रोच्यत-न सिद्धत्वमात्रेणाऽऽत्मनीन्छाविरहः । सिद्धत्वं हि सत्त्व वा ज्ञायमानत्वं वाऽप्रतिबद्धसाक्षात्कारत्वं वा । नाऽऽद्यो विस्मृतवेयकप्राप्तौ व्यभिचारात् । अत एव न द्वितीयोऽपि तस्येन्छाप्रयोजकत्वात् । तृतीयस्तु भवतीन्छापरिपन्थी । स तु प्रकृते नास्त्यसंभावनादिप्रतिबन्धात् । अत एव पित्तदूपितरसनस्य शुद्धसितामश्नतो मधुरत्वेन तां जानतोऽपि न माधुर्यनिमित्ततृप्तिविशेषोत्पत्तिः पित्तदोषेण माधुर्यसाक्षात्काराभावात् । तथा च द्विविधमिष्टम्-वस्तुतोऽप्राप्तं ग्रामादि । प्राप्तमपि भ्रमव्यवहितं कण्ठचामीकरादि । एव परिहार्यमपि द्विविधम्-वस्तुतोऽपरिहृतं कूपादि । सर्वदा परिहृत रज्जुभुजगादि भ्रभमात्रादपरिहृतमिव । तत्राऽऽद्ययोः क्रियाव्यवधानौ प्राप्तिपरिहारौ । द्वितीययोः साक्षात्कारमात्रसाध्यौ । अत्रैव च परमपुमर्थत्व मन्यन्ते क्रियाव्यवधानाभावात् । तथा च परमानन्दप्राप्त्यविद्यानिवृत्त्योरपि भ्रमव्यवहितत्वादसिद्धत्वप्रत्ययेन कामनाविषयत्वमुपपद्यत एव । यत्त्वविद्यानिवृत्तिरात्मभिन्ना तत्स्वरूपा वेत्याशाङ्केत तत्रोच्यते - अद्वैतश्रुतेः सददै- तमात्र विपयत्वादविद्यानिवृत्तेरात्मभिन्न वेऽपि नाद्वैतहानिः । यद्वा- 'नान्यदज्ञानतोऽस्तित्वं द्वितीयस्याऽऽस्मनो यथा । निवृत्तिस्तद्देवास्य नावगन्याऽऽत्मनोऽपरा' ॥
२३४ हरिदीक्षितकृता- [चतुर्याध्यायa इति कल्पितपदार्थभावाभावयोरधिष्ठानस्वरूपमात्रत्वात् । यथाऽज्ञातं शुक्तिद्रव्यमेव रजतभावात्मक तदेव ज्ञातं रजताभावात्मक तदसाधारणस्वरूपस्यैव रजताभावत्वात् । एवमत्राप्यात्मा सर्वद्वैतभावात्मकः । ज्ञातश्च तदभावात्मकः । तदसाधारणस्वरूपस्यैव द्वैताभावरूपत्वात् । भूतलादिस्वरूपस्यैवाभावव्यवहारहेतुत्व प्राभाकरैरङ्गीकृतम् । तार्किकै- रपि घटाभावो घटो न भवतीत्यादावभावप्रतियोगिकाभावान्तरानभ्युपगमात्तत्स्वरूपस्यैवा- भावबुद्धिहेतुत्वमङ्गीकृतं तद्वदस्माक किं न स्यात् । एतदेवाभिप्रेत्योक्तं- ' स्थूलापह्नुतिरत्र स्याद्वस्तु यत्पारमार्थिकम् । नाभावनिष्ठोऽन्यत्रापि निषेधः किमुताक्षर' । इति । अस्थूलमनण्वह्रस्वम् ' [ वृ० ३ । ८ । ८ ] इत्यादिवाक्याना स्थूलादिकि- लक्षणात्मस्वरूपमात्रबोधकत्वमित्यर्थः । तस्मादखण्डानन्दाद्वितीयचैतन्यसन्मात्र आत्मा ज्ञातः सन्नविद्यानिवृत्तिरित्युच्यते । अत्राविद्यानिवृत्तिरेव बन्धनिवृत्तिरित्याचार्याणामाशय इति दिक् । ' यदप्यभिनिष्पद्यत इत्युत्पत्तिपर्यायत्वं तदपि पूर्वावस्थापेक्ष यथा रोगनिवृत्तावरोगो निष्पद्यत इति तद्वत् । तस्माददोपः ' इति भाष्ये स्थितम् ॥ २ ॥ आत्मा प्रकरणात् ॥ ३॥ (१) ननु ज्योतिःशब्दस्य भौतिके रूढत्वात्कथ तत्संपत्त्या मुक्तिरित्यत आह-आत्मेति । आत्मैवात्र ज्योतिःशब्देनाऽऽवेद्यते । कुतः । य आत्माऽपहतपाप्मा विजरो विमृत्युः [ छा० ८ । ७ । १ ] इत्यात्मप्रकरणात् । ज्योति.शब्द आत्मन्यपि दृश्यते । तद्देवा ज्योतिपा ज्योतिः ' [ बृ० ४ । ४ । १६ ] इति । प्रपञ्चितं चैतत् ' ज्योतिर्दर्शनात् ' [ब्र० सू० १ । ३ । ४० ] इत्यस्मिन्नधिकरणे । तस्मान्मुक्तिर्नाऽऽगन्तुकी ॥ ३॥ (१) अविभागेन दृष्टत्वात् ॥ ४ ॥ परं ज्योतिरुपसपद्य स्वेन रूपेणानिनिष्पद्यते किंपरस्मादात्मनः पृथगवावतिष्ठत आहोस्विदविभागेनेति संशये परस्माद्विभागेनावतिष्ठत इति तावत्प्राप्तम् । कुतः । कर्तृकर्मभेदव्यपदेशात् । एप संप्रसादः परं ज्योतिरूपसंपद्य' [ छा० ८ । ३ । ४ ] इत्यत्र सप्रसादशब्दवान्यो जीव उपसंपत्तौ कर्तृत्वेन व्यपदिश्यते ज्योतिःशब्दवाच्य 'च ब्रह्म कर्मत्वेन । तस्मान्मुक्तस्य जीवस्य स्वरूपं ब्रह्मणो भिन्नमिति प्राप्ते ब्रूमः-अविभक्त एव परेण ब्रह्मणा मुक्तोऽवतिष्ठते । कुतः । दृष्टत्वात्। 'तत्त्वमसि' [ छा० ६ । ८।७ ] ' अह ब्रह्मास्मि' [बृ० १ । ४ । १० ] ' यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा [ छा० ७ । २४ । १ ] 'यो वै भूमा . यः , चतुर्थः पादः ] ब्रह्मसूत्रवृत्तिः। २३५ तत्सुखम् [छा० ७। २३ । १] 'न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्' [ बृ० ४ । ३ । २३ ] यत्र त्वस्य सर्वमात्मेवाभृत्तत्केन किं पश्येत् । [ बृ० ४ । ५ । १५ ।' उदरमन्तर कुरुते । अथ तस्य भय भवति । [ तैत्तिक २ । ७ ] ' तत्र को मोहः कः शोक एकत्वमनुपश्यतः ' [ ई० ७ ] ' विभेदजनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ इत्येवमादिषु श्रुतिषु दृष्टत्वात् । ज्योतिरुपसंपद्येति वाक्य तत्पदार्थशुद्धिविपयमुक्तम् । अतस्तत्त्वंपदार्थयोः शुद्धौ महावाक्यतः क्रियमाणाया तदानी जीवपरयोरस्तु नाम कल्पित- भेदः । तदा कर्तृकर्मविरोधोऽपि न । तत उपरि स्वेन रूपेणाभिनिष्पद्यत इति वाक्यं वाक्यार्थदशापन्न मुक्तस्वरूपं प्रतिपादयति । न च तस्य ब्रह्मणा सह भेदोऽस्ति स उत्तमः पुरुष इति वाक्ये तच्छब्देनाभिनिप्पन्नरूपं मुक्तस्वरूपं पर।मृश्य तस्योत्तमपुरुपवान्यब्रह्मस्व . रूपत्वाभिधानात् । तथा च भाष्यम् 'यथोदक शुद्धे शुद्धमासिक्त तादृगेव भवत्येव मुनेर्विजानत आत्मा भवति गौतम ' [ कठ० ४ । १५ ] इत्येवमादीनि मुक्तस्वरूप- निरूपणपराणि वाक्यान्यविभागमेव दर्शयन्ति नदीसमुद्रादिनिदर्शनानि च । भेदनि- देशस्त्वभेदेऽप्युपचर्यते स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि ' [ छा० ७ । २४ । १ ] इति श्रुतेः ॥ ४ ॥ (२) बाह्मण जैमिनिरूपन्यासादिभ्यः ॥५॥ पूर्वाधिकरणे सेन चिन्मात्ररूपेणामिनिष्पद्यते नाऽऽगन्तुकेनापररूपेणेति व्यवस्थापि- तमधुना तु तद्विशेपबुभु-सायामभिधीयते--मुक्तकरूपभूतं ब्रह्म श्रुतिपु द्विधा व्युत्पा- द्यते कचित्सविशेष क्वचिन्निर्विशेपम् । तथा हि-'य आत्माऽपहतप.प्मा विजरो विमृ. युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः । [ छा० ८ । ७ । १] इति सविशेषत्वश्रुतिः । तद्यथा सैन्धवधनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैव वा अरेऽय- मात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानधन एव ' [बृ. ४।५। १३ ] इति निर्विशे- पत्वश्रुतिः । तत्र यदपहतपाप्सत्वादि सविशेपरूप तेन रूपेणामिनिष्पद्यत इति जैमिनिरा- चार्यो मन्यते । कुतः । उपन्यासादिभ्यस्तथात्वावगमात् । य आत्माऽपहतपाप्मा [छा० ८ । ७ । १ ] इत्यादिरूपन्यासः । आदिशब्देन ' स तत्र पर्येति जक्षत क्रीडन्रममाणः [ छा० ८। १२ । ३ ] इत्यैश्वर्यम् । तस्य सर्वेषु लोकेषु काम- चारो भवति' [ छा० ७ । २५ । २] इति च । मर्वज्ञः सर्वेश्वर इत्यादिव्यपदेशाश्चै- वमुपपन्ना भविष्यन्ति । एव मुक्तमाप्यस्येश्वरस्य सगुणत्वान्मुक्तस्यापि सगुणत्वं सगुणब्रह्म- सायुज्यमानोतीति ॥ ५ ।
- , २३६ हरिदीक्षितकृता- [ चतुर्थाध्याये- चितितन्मात्रेण तदात्मकत्वादित्यौदुलोमिः ॥६॥ चितितन्मात्रेण चैतन्यमात्र स्वरूपेण मुक्तोऽवतिष्ठते । कुतः । तदात्मकत्वान्मुक्तस्य चैतन्यमात्रस्वरूपत्वात् । ' ब्रह्म वेद ब्रह्मैव भवति ' [ मुण्ड० ३ । ३ । २ । ९] 'तरति शोकमात्मावत् ' [ छा० ७ । १ । ३ ] इत्यादिश्रुत्या ब्रह्मज्ञानाद्ब्रह्मभावः धृयमाणस्तद्व्यवधायकाज्ञाननिवृत्तिमन्तरेण नोपपद्यत इतिश्रुतार्थापत्या च तन्मात्रस्वरूपेणाभि- निष्पन्नत्वादित्यर्थः । तथा च श्रुति:----'तद्यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव [६० ४ । ६।१३ ] इत्येवंजातीयकानुऽगृहीता भविष्यति । सत्यकामत्वादयस्तृपाधिसबन्धाधीनत्वान्न चैतन्यस्व- रूपभूताः । अत एव जक्षणादिसक र्तनमपि दुःखाभावमात्राभिप्रायं स्त्युस्यर्थम् ' आत्मक्रीड आत्मरति: ' । मु० ३ । १ । ४ ] इत्यादिवत् । न ह्यद्वितीय आत्मनि द्वितीयसाध्यजक्षणक्रीडामिथुनादीनि वर्णयितु शक्यन्ते द्वितीयाद्वै भयं भवति ' [बृ० १ । ४ । २ ] इत्यादिश्रुतिविरोधात् । तस्मान्निरस्ताशेपप्रपञ्चेनाद्वितीयबोधात्मनाऽभिनि पद्यत इत्यौडुलोमिराचार्यों मन्यते । इदमेव मतं सर्वोपनिपत्संमतम् ॥ ६ ॥ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ।। ७॥ (३) एवमपि पारमार्थिकचैतम्यस्वरूपमात्राभ्युपगमेऽपि व्यवहार पेक्षयोपन्यासादिभ्योऽवग. तस्य पूर्वस्य पूर्वोक्तस्य सत्यकामत्वादिलक्षणस्य ब्राह्मैश्वर्यस्य भावाद्बद्धपुरुपदृष्टया मुक्तेऽपि संभवात्सगुणनिर्गुणश्रुत्योरविरोधं बादरायण आचार्यों मन्यते । अय भाव:-ते एते सवि- शेषत्वनिर्विशेषत्वे मुक्तिदशाया न युगपत्सभवतः परस्परविरुद्धत्वात् । अतः कालभेदेन व्यवस्थापनीये इति प्राप्तेऽभिधीयते-प्रतिपत्तृभेदायुगपदेव सभवतः । तथा हि मुक्ता- तिपत्त्या ब्रह्म निर्विशेषमेव । न हि मुक्ताः पुरुषाः कदाचिदपि सर्वज्ञत्वसत्यसंकल्पत्वादि. गुणविशिष्ट ब्रह्माहमिति प्रतियन्ति तत्प्रतिपत्तिहेतुभूताया अविद्याया विनष्टत्वात् । बद्ध- पुरुषास्त्वविद्यायुक्ताः सन्तो निर्विशेषसेव सर्वज्ञत्वादिगुणविशिष्ट प्रतिपद्यन्ते ते स्वदृष्टया निर्विशेषब्रह्मभूता अपि सर्वज्ञत्वादिगुणविशिष्टा इति प्रतियन्ति । अतः प्रतिपत्तभेदाद्वथव- स्थासिद्धौ किसनेन कालभेदकल्पनेनेति । औडुलोमिः सत्यकामत्वादीना गुणाना तुच्छ- त्वसङ्गीकरोति बादरायणस्तु व्यावहारिकसत्यत्वमिति विवेकः ॥ ७ ॥ (३) संकल्पादेव च तच्छुत्तेः ।। ॥ पूर्वाधिकरणत्रयेण विदेहकैवल्यं विचार्याथैदानीमा पादसमाप्तेः सगुणविद्याफलं विचा- यते । तत्रार्चिरादिमार्गेण ब्रह्मलोकं प्राप्तस्योपासकस्य भोग्यवस्तूना सृष्टौ बाह्यहेतुसहितः संकल्पः कारणमुत तत्संकल्पमात्रमिति संशये लोकदृष्टप्रयत्तान्तरसहितस्य संकल्पस्य हेतुत्व न तु मानससंकल्पमात्रम् । तथात्वे सत्याशासोदकसमत्वेन भोगाभावप्रससा- चतुर्थः पादः ] ब्रह्मसूत्रवृत्तिः। २३७ दिति प्राप्ते ब्रूमः--तुर्नार्थे । संकल्पादेव भोग्यवस्तूनामुत्पत्तिर्न तु संकल्पातिरिक्त- साधनान्तरापेक्षा । कुतः । तच्छुतेः । स यदि पितृकामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति ' [ छा० ८ । २ । १ ] इत्यादिना संकल्पमात्रादेव भोग्यवस्तु- सृष्टिश्रुतेः । एवकारेण साधनान्तरनिरासात् । न च सकल्पकार्यणामाशामोदकममा- नत्वं शङ्कनीयं प्राकृतसकल्पविलक्षणत्वान्मुक्तसंकल्पस्य । वाचनिकेऽर्थे सामान्यतो दृष्टासंभवात् । संकल्पादेव चैषा वस्तूनां यावत्प्रयोजनं स्थैर्योपपत्तिः । तस्मात्सकल्प एव मुक्तभोग्यसृष्टौ हेतुः ॥ ८ ॥ अत एव चानन्याधिपतिः ॥९॥ (४) अत एवावन्ध्यसंकल्पत्वादेव विद्वान् , अनन्याविपतिः-न विद्यतेऽन्योऽविपतिनि. यन्ताऽस्य स तथोक्तः स्वतन्त्र इत्यर्थः । न हि प्राकृतोऽपि सकल्पयन्नन्यस्वामिकमात्मानं संकल्पयति । श्रुतिश्चैतद्विदुषः स्वातन्त्र्य दर्शयति--' अथ य इहाऽऽत्मानमनुविद्य व्रजन्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति ' [छा० ८।१ । ६ ] इति ॥ ९॥ (४) अभावं वादरिराह ह्येवम् ॥ १० ॥ मुक्तस्य मनस्तावत्संकल्पसाधनमित्युक्तं कामसकल्पादिवृत्तीः प्रति मनस उपादा- नत्वात् । कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहीं िरित्येतत्सर्व मन- [ बृ० १ । ५। ३ । इति श्रुतिरुपादानोपादेयाभेदविवक्षया मन एवेत्याह । एवं संकल्पसाधने मनसि स्थितेऽन्यानीन्द्रियाणि शरीर च सन्ति न वेति संशये तेषां मनोव्यतिरिक्तानामिन्द्रियाणामभाव बादरिराचार्यो हि यस्मादेवमाह। श्रुतिः- मनसैता- न्कामान्पश्यन्रमते' [छा० ८। १२ । ५ ) य एते ब्रह्मलोके, [छा० १३ । १ ] इति । यदि मनसा शरीरेणेन्द्रियैश्च विहरेत मनसेति विशेपणं व्यर्थं स्यात् । तस्मान्मुक्तानां शरीरेन्द्रियाभावः ॥ १० ॥ भावं जैमिनिर्विकल्पामननात् ॥११॥ जैमिनिस्त्वाचार्यों मनोवच्छरीरेन्द्रियभाव मुक्तं प्रति मन्यते । कुतः । स एकधा भवति त्रिधा भवति' [छा० ७। २६ । २] इत्यादिनाऽनेकधाभावविकल्पाम्ना- नात् । सूत्रस्थविकल्पस्यानेकधाभावोऽर्थः । तस्यानेकधाभावस्य विकल्पश्च । न ह्यनेक- विधता विना शरीरभेदेनाऽऽञ्जसी स्यात् । यद्यपि स एकधा भवतीद वाक्यं निर्गुणभूम- विद्यानां पठघते तथाऽपि विद्यमानमेवेद सगुणावस्थायामैश्वर्यं भूमविद्यास्तुतये संकीर्त्यत इत्यतः सगुणविद्याफलभावेनोपतिष्ठत इति ॥ ११ ॥ . एव ८ ।
२३८ हरिदीक्षितकृता- [चतुर्थाध्याये- -- उन्यते-- द्वादशाहबदुभयविधं बादरायणोऽतः ॥१२॥ अत उभयश्रुतिदर्शनादुभयविधत्व साध्विति बादरायण आचार्यों मन्यते । यदा सशरीरता संकल्पयति तदा सशरीरो भवति । यदा त्वशरीरता संकल्पयति तदा तथा भवति सत्यसकल्पत्वात्संकल्पवैचित्र्याच्च । द्वादशाहवत् । यथा द्वादशाहश्चोदनाद्वया- दहीनः सत्र च भवति तद्वत् ॥ १२ ॥ तन्वभावे संध्यवदुपपत्तेः ॥ १३ ॥ यदा शरीरं नेच्छति तदा तन्वभावे सति यथा संध्ये स्थाने स्वप्नावस्थायां शरीरेन्द्रि- यविपयेष्वविद्यमानेष्वपि मनसैव सर्व निर्माय स्वाप्निकान्भोगान्भुड्क्ते तद्वन्मुक्तः सर्व पित्रादिकं मनसैव निर्माय भोगान्भुक्ते । तन्वभावे सध्यवदुपपत्तेरिति सूत्रस्येदं व्याख्यानम् ॥ १३ ॥ मावे जाग्रद्वत् ॥ १४ ॥ (५) यदा देहमिन्छति तदा सकल्पेनैव देहादि सृष्ट्वा तत्रावस्थितो जाग्रद्दशायामिव भोगा- न्मुक्ते । तस्मादेकस्यापि मुक्तस्य कालभेदेन देहादिभावाभावौ व्यवस्थितौ । तस्मान्मुक्त: पुरुपस्थैच्छिकौ देहभावाभावौ ॥ १४ ॥ (५) प्रदीपवदावेशस्तथा हि दर्शयति ॥१५॥ भावं जैमिनिर्विकल्पामननात् । [ब्र० सू० ४।४।११] इत्यत्र सशरीरत्वं मुक्तस्योक्तम् । स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा' [छा० ७ । २६ । २] इति युगपदनेकशरीरग्रह ऐच्छिक आम्नायते । तत्रानकदेहग्रहणपक्षे देहान्तराणि दारुयनव- निरात्मकानि किं वाऽस्मदादिशरीरवत्सात्मकानीति संशय एकमेव शरीर सात्मकं शरीरा- न्तराणि निरात्मकानि । कुतः । आत्ममनसोर्बहुभावस्याश्रुतत्वात्कल्पनाभावाच्चेति प्राप्ते ब्रूमः- सर्वाण्यपि शरीराणि समनस्कानि समनस्कत्वात्सात्मकानि । कुतः । कल्पनासंभवान्छु- तत्वाच्च । अस्ति हि कल्पक युगपदनेकदेहभोगानुपपत्तिरूपम् । मुक्तेन स्वभोगाय हि सकल्पत्वाद्बहवो देहा विनिर्मिताः । न चैकेनैवाऽऽत्मना मनसा च युगपदनेकदेहाना भोगो दृष्टचरः । तस्मादात्ममनसोर्बहुत्वं कल्प्यम् । यद्यपि नाऽऽत्मानन्त्य तथाऽपि प्रदीप- वदावेशः संभवति । यथा प्रदीप एकोऽनेकप्रदीपभावमापद्यत एवमेकोऽपि सन्विद्वान- श्वर्ययोगादनेकभावमापद्य सर्वाणि शरीराण्याविशति । एकेन मनसा सकल्थ्य बहुषु मनःसू- त्पादितेषु तैमनोभिरवच्छिन्ना आत्मानो बहवः स्युः । यद्यप्यात्मैकस्तथाऽपि मनोभेदाढ़ेदः । अतः सर्वाणि शरीराणि सात्मकानि समनस्कानि भोगसाधनानि । तथा हि दर्शयति- . तत्र - चतुर्थः पादः ] बह्मसूत्रवृत्तिः। २३९ स एकधा भवति त्रिवा भवति ' [ छा०७ । २६ । २ ] इत्यादिना । तस्मात्सात्मकाः सर्वदेहाः ॥ १५ ॥ ननु मुक्तस्यानेकधाभावाङ्गीकारे ' तत्केन कं पश्येत्' [बृ० ४।५।१५] इत्यादिश्रुतिविरोध इत्यत आह- स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ १६ ॥ (६) स्वाप्ययः सुषुप्तिः सता सौम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादनं स्वपितीत्याचक्षते । [ छा० ६ । ८ । १] इति श्रुतेः । सपत्तिः कैवल्यं 'ब्रह्मैव सन्ब्रह्माप्येति ' [ बृ० ४ । ४ । ६ इति श्रुतेः । तयोरन्यतरामवस्था सुपुति कैवल्यं वाऽपेक्ष्य विशेपविज्ञानाभाव आम्नायते । यस्मात्तदधिकारेणैवेदमाविष्कृतं प्रकटितम् । यत्र सुप्तो न कंचन काम कामयते न कंचन स्वप्न पश्यति' [बृ० ४ । ३। १९ ] इत्यादिश्रुतयः सुषुप्तौ मानम् । ' एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽस्ति ' [ बृ०२ । ४ । १२ ] ' यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कि पश्येत्केन कि विजानीयाद्विज्ञातारमरे केन विजानीयात् ' [ बृ० २ । ४ । १४ ] इत्यादिश्रुतयः सपत्तौ मानम् । निर्विशेषब्रह्मभाव एव संपत्तिशब्दार्थः । ' नान्यदज्ञानतोऽस्तित्वं द्वितीयस्याऽऽत्मनो यथा । निवृत्तिस्तद्वदेवास्य नावगत्याऽऽत्मनोऽपरा' ॥ इति वचनात् । सगुणविद्याविपाकस्थानं स्वेतत्स्वर्गादिवदवस्था-तरं यत्रैतदैश्वर्यमुपव- येते । तस्मान्न पूर्वोक्तविरोधः ॥ १६ ॥ (६) जगद्व्यापारवर्ज प्रकरणादसंनिहितत्वाच ॥१७॥ ये सगुणब्रह्मोपासका ब्रह्मलोकं प्राप्तास्ते सगुणब्रह्मोपासनान्मनसा सहैवेश्वरसायुज्यं प्राप्तास्तेषां कि निरङ्कुशमैश्वर्यमाहोम्वित्साङ्कुशमिति संशये सति निरङ्कुशमिति तावत्प्राप्तम् 'आप्नोति स्वाराज्यम् ' [ तै० १ । ६ । २ ] ' सर्वऽस्मै देवा बलिमावहन्ति ' [ तै० १ । ५। ३ ] ' तेषां सर्वेषु लोकेषु कामचारो भवति' [ छा० ७ । २५ । २] इत्यादिश्रुतिभ्योऽप्रतिहतसंकल्पाच्चेति प्राप्ते ब्रूमः-जगद्व्यापारवर्जम् । जगदुत्पत्त्या. दिव्यापार वर्जयित्वाऽन्यदणिमाद्यात्मकमैश्वयं सगुणस्येश्वरस्य प्रसादलब्धं मुक्ताना भवितु- मर्हति जगद्व्यापारस्तु नित्यसिद्धस्येश्वरस्यैव । कुतः । प्रकरणादितरेषामसनिहितत्वाच्च । परमेश्वर एव जगद्व्यापारेऽधिकृतः । तमेव प्रकृत्योत्पत्त्याद्युपदेशात् । आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत्स ईक्षत लोकान्नु सृजा इति स इमाल्लोकानसृजत ' , २४० हरिदीक्षितकृता- [चतुर्थाव्याये- [ ऐ० १ । १] इत्यादिश्रुतिपु वियदादिजग सृष्टिप्रतिपादिकासु सर्वत्र परमात्मैव स्रष्ट्रत्ये- नोपदिश्यते न वापि योगिनः । ईश्वरान्वेषणोपासनपूर्वकमितरेषा तत्प्रसादतोऽणिमाद्यैश्वर्य श्रूयते तेनासनिहितास्ते । असनिहितत्व स्पष्टमाह मत्रवर्ण:--' को अद्धा वेद क इह प्रवोचत्कुत आजाता कुत इय विसृष्टिः । अग्देिवा अस्य विसर्जनेनाथा को वेद यत आबभूव ' [ ऋ० स० ८ । ७ । १७ । ६ ] इति । अतो न तेषा जगत्स्रष्टुत्वम् । अन्यथाऽनेकेश्वरत्वे सति समनस्कत्वात्काश्चत्सिसृिक्षति कश्चित्संजिहीर्षतीति जगद्व्यवस्था न सिध्येत् । तस्म परमेश्वरतत्रत्वमेवेतरेषामिति व्यवस्थितिरिति भाष्यकृत आहुः ॥ १७ ॥ प्रत्यक्षोपदेशादिति चेन्नाऽऽधिकारिकमण्डलस्थोक्तेः ॥१८॥ अथ यदुक्तम् ' आप्नोति स्वाराज्यम् ' [तै० १ । ६ । २] इत्यादिप्रत्यक्षोपदे- शादीश्वरसमानैश्वर्ये सति जगद्व्यापारोऽपि भविष्यतीति चेन्न । आधिकारिकमण्डलस्थोक्तः । आधिकारिको यः सवितृमण्डले विशेषायतने स्थितः परमेश्वरस्तदायत्तैवेयं स्वाराज्यप्राप्तिः । यद्वाऽऽधिकारिकस्य ब्रह्मणो मण्डले लोक उपासकानां स्थित्युक्तेस्तदधीनमेव मुक्ताना स्वाराज्यादिक न स्वतन्त्रमिति । कथमेतदवगम्यत ईश्वरायत्तं मुक्ताना स्वाराज्यामिति । ' आप्नोति स्वाराज्यम् ' एतदनन्तरम्-' आप्नोति मनसस्पतिम् ' [ तै० १।६।२] इत्याह । यो हि सर्वमनसां पतिरीश्वरस्तं प्राप्नोतीत्येतदुक्त भवति । तदनुसारेणैव चान- न्तर वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिश्च भवति ' [ तै० १ । । २] इत्याह । एवमादिश्रुतिपर्यालोचनया नित्यसिद्धेश्वरायत्तभेवैषामैश्वर्यमित्यवधेयम् ॥ १८ ॥ विकारावर्ति च तथा हि स्थितिमाह ।। १९ ।। विकारावर्त्यपि पारमेश्वरं रूपं न केवलं विकारमात्रवर्ति सवित्रादिमण्डलमात्रवर्ति तथा हि द्विरूपस्थितिमाह श्रुतिः- एतावानस्य महिमाऽतो ज्यायांश्च पृरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ' [ ऋ० पुरुष० म० ३ ] इत्येवमादिः । न च तन्निर्विकाररूपमितरालम्बनाः प्राप्नु- वन्तीति शक्यते वक्तुमतक्रतुत्वात्तेषाम् । अतश्च यथैव द्विरूपे परमेश्वरे सति निर्गुणं रूप- मनवाप्य सगुण एव पारमेश्वरे रूपे सगुणोपासका अवतिष्ठन्त एवं सगुणेऽपि निरड्कु- शमैश्वर्यमनवाप्य सावग्रहा एवावतिष्ठन्ते । ते च सालोक्यसामीप्यसारूप्यमुक्तिभाजस्तारत- म्येन परमेश्वरमुपासीनाः सन्तोऽवतिष्ठन्ते । तेपामैश्वर्य सातिशयमेव ॥ १९ ॥ दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ २० ॥ विकारावर्तित्व परमात्मनः प्रत्यक्षानुराने प्रत्यक्षं श्रुतिरनुमानं स्मृतिस्ते दर्शयतः । श्रुतिस्तावत्-' न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयममिः ।
, %3D स्वतः चतुर्थः पादः] ब्रह्मसूत्रवृत्तिः। २४१ तमेव मान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति ' [क० ५। १५ ] इत्येव. माद्या । स्मृतिश्च- न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम [म गी० १५ । ६ ] इत्येवमाद्या । अनुपहितमखण्डसच्चिदानन्दस्वरूप ब्रह्मैव परमार्थः । तत्प्राप्तिश्चानेकजन्मसंसिद्धानां गुरूपदेशादनुपदमेव ज्ञातात्मतत्त्वानामप्रतिबद्धसा- क्षात्काराणामुत्तमाधिकारिणामस्मिन्नेव जन्मनि भवति । ननु ज्ञात आत्मत्यत्र ज्ञानस्य विशे- षणवेन ज्ञानविशिष्ठस्यैवाऽऽमनो मोक्षरूपत्वाद्विशेषणनाशे तदभावप्रसङ्गस्तेन तस्य ज्ञानस्यो- पलक्षणत्वमेव वक्तव्यम् । तथा च ततः प्रागपि काले मोक्षव्यवहारापत्तिारति चेन्मैवम् । काकवन्तो देवदत्तस्य गृहा इत्यादावपि काकसंबन्धात्प्रागपि देवदत्तगृहव्यवहारापत्तेः । उपलक्षणस्यापि स्वोत्तरकाल एव व्यावर्तकत्वमिति चेदिहापि तुल्यम् । न हि दृष्टs. नुपपन्नं नाम । अविद्यायाश्चानादित्वात्प्रागभावनिवृत्तिरूपघटनिवृत्तावपि पुनः प्रागभा- वानुत्पत्तिवन्नाविद्यानिवृत्तिरूपतत्वज्ञाननिवृत्तावप्यविद्यायाः पुनरुत्पत्तिः । ननु तत्त्व- मस्यादिवाक्यजन्यज्ञानस्य परोक्षत्वमेव नापरोक्षत्व शब्दस्यापरोक्षज्ञानजनकत्वादर्शनात् । ज्ञातकारणत्वावच्छेदेन परोक्षज्ञानजनकत्वनियमादिति चेदुच्यते--शब्द एव प्रमाणभूतो गुरुशास्त्रविषयाणां महिना साक्षात्कारं जनयति । न च कारणस्वभाव- भङ्गो मनस इव परोक्षापरोक्षज्ञानजननस्वभावाङ्गीकारात् । एतच्च दशमस्त्वमसि । इत्यादौ दृष्ट न हि दृष्ट नुपपन्न नामेति दिक् । तदेवं विकारावर्तित्वं परब्रह्मणः स्वरूपं तत्प्राप्तिरेव परमपुरुपार्थ इति सूत्रकृदाशयः । अत एवेदं सूत्रद्वयं गतार्थमिति दाढ्यार्थ सूत्रकारः सूत्रयामासास्मिन्नुपासकप्रकरण इति द्रष्टव्यम् ॥ २० ॥ मोगमात्र साम्यलिजाच ॥ २१ ॥ इतश्च न निरङ्कुशं सगुणब्रह्मोपासकानामैश्वर्यम् । यस्माद्भोगमात्रमेवैषामीश्वरेण समा- नम् । तथा च श्रुतिः–' यथैता देवतां सर्वाणि भूतान्यवन्त्येव हैवविद सर्वाणि भूता- न्यवन्ति ' [बृ० १ । ५ । २० ] इति । यथा हिरण्यगर्भस्य तल्लोकस्थानि भूतानि भोगसाधनानि तद्वदुपासकस्यापीत्यर्थः ॥ २१ ॥ नन्वेवमैश्वर्यस्य सातिशयत्वेनान्तवत्त्वात्पुनरावृत्तिः स्यादित्यत उत्तरं पठति भगवान्बाद- रायण आचार्य:- अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ २२।। (७) नाडीरश्मिसमन्वितेनाचिरादिपर्वणा देवयानेन पथा ये ब्रह्मलोक शास्त्रोक्तविशेषणं गच्छन्ति यस्मिन्नरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि यस्मिन्नरं २४२ हरिदीक्षितकृता- [ चतुर्थाध्यायः] मदीयं सरो यस्मिन्मश्वत्थः सोमसवनो यस्मिन्नपराजिता पुरी यस्मिंश्च प्रभुविमितं हिरण्मयं वेश्म [ छा० ८ । ५। ३] यश्चानेकप्रकारैः 'हिरण्यगर्भः समवर्तताग्रे । इत्यादिमत्रार्थवादेषु प्रपञ्च्यते ते तं प्राप्य न चन्द्रलोकादिव भुक्तभोगा आवर्तन्ते । कुतः । ' तयोर्धमायन्नमृतत्वमेति ' [छा० ८।६ । ६ ] ' एतेम प्रतिपद्यमाना इमं मानव- मावतं नाऽऽबर्तन्ले '[ छा० ४ । १५ । ५ ] 'ब्रह्मलोकमभिसपद्यले न स पुनरावर्तते' [ छा० ८ । १५ । १ 1 इत्यादिशब्देभ्यः । ऐश्वर्यस्यान्तवत्त्वेऽपि यथाऽनावृत्तिस्तथा वर्णितं ' कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ' [ ब्र० सू० ४ । ३ । १०] इत्यत्र कार्यब्रह्मप्रलये सति तत्रैवोत्पन्नब्रह्मज्ञानाः सन्तस्तदध्यक्षेण हिरण्यगर्भेण सहातः सगुणात्पर विशुद्ध ब्रह्म प्रतिपद्यन्त इति । सम्यग्दर्शनविध्वस्ताज्ञानाना तु नित्यसिद्धनि- र्वाणपरायणाना सिद्धैवानावृत्तिस्तदाश्रयणेनैव हि सगुणशरणानामप्यनावृत्तिसिद्धिरिति । ' अनावृत्तिः शब्दात् ' इनि सपूर्णसूत्राभ्यासः शास्त्रपरिसमाप्तिं द्योतयतीति सर्वमवदा- तम् ॥ २२ ॥ (७) इति श्रीलक्ष्मीनरहरिसूरिसूनुहरिदीक्षितस्य कृतौ ब्रह्मसूत्रवृत्तौ चतुर्था- ध्यायस्य चतुर्थः पादः । समाप्ता ब्रह्मसूत्रवृत्तिः। ध्यास वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ १ ॥ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शंभुर्भगवान्बादरायणः ।। २ ।। 'व्यासो नारायणः साक्षात्' इत्यादिवचनैः सूत्रकार नारायणं नत्वा तमेव कलावव- तीण शंकरभगवत्नादं भाष्यकार नमामि । कृते ज्ञानप्रदः सत्यस्त्रेताया दत्त एव च। द्वापरे व्यासनामा तु कलौ शकरनामधृत् ॥ इति वचनात् । यौ शेषवाय्ववताराविति किंवदन्त्यस्ति यद्यपि तथाऽपि तौ न शंक- रभगवत्पादमतिरिच्यते । नारायणस्वरूपत्वाच्छंकरभगवत्पादस्य । तयोस्तत्किंकरत्वात् ॥ प्रार्थित रामरायेण तद्गुरुर्हरिदीक्षितः । तद्बोधार्थमिमां वृत्तिं च्यधितानुग्रहाद्धरेः ।। गजेषुरसभूसंख्ये ( १६५८ ) शकेऽब्दे चानलाहये । जेष्ठशुक्लत्रयोदश्यां ग्रन्थः सिद्धिमगादयम् ।।
No text on this page.