Ou
Vyaakarand-a Siddhaanta Sudhaanidhi 218
Front matter
OSMANIA UNIVERSITY LIBRARY
PAaccasionNS12/2/
Pt.
CM Na S43.258I.V
Autha विश्वेश्वरमूरि
ride व्याकरणसिदान्तसुधानिधिः
SIC
This book should be returned on or before the date last markců below.
184602
...
.
(84602
UNIVERSAL
LIBRARY
OU_184602
LIBRARY
UNIVERSAL
५०२ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याय "उत्तरपदत्वे चापदादिविधौ” इति । उत्तरेत्यनेनोत्तरपदं गृह्यते । तस्य पदत्वे इति समासः। स- मासचरमावयवस्य पदसंज्ञायां कर्तव्यायां लुमता लुप्ते प्रत्यय- लक्षणं न भवति । 'दधिसेचौ' इत्यादावपि पदसंज्ञानिषेधवार- णाय अपदादिविधाविति । पदादिविधौ तु कर्तव्ये भवत्येव प्रत्ययलक्षणमित्यर्थः । एवं च प्राक् सुबुत्पत्तेः समासोऽत्र ना- भिधेयः । 'धनक्रीता' इत्यादिसिद्धये तदनित्यत्वस्वीकारात् । कैयटस्तु नायमुपपदसमासः किं तु 'दन्नः सेचौ' इति ष- ष्ठीसमासः, अनभिधानाच सोपपदान विच, अतो 'दधिषे- चौ' इत्यादेः नापत्तिरित्याह । एवमपि "बहुचपूर्वस्य च" इति वचनं कार्यमेव, बहुचि कृते विशिष्टस्यार्थवत्त्वात्पातिपदिकत्वा- सुपो लुकि पुनर्विशिष्टात्सुबन्तरोत्पत्तेर्वक्ष्यमाणत्वात् अन्त- तिविभक्त्या पदसंज्ञामाश्रित्य कुत्वं मा भूत् इति । अत्र वदन्ति-"प्रत्ययलोप"इति सूत्र एव 'उत्तरपदत्वे च पदा- दिविधौ 'बहुरूपूर्वस्य' इति पठनीयम् । पदादिविधावेव प्रत्ययल- क्षणं न तु पदान्तविधौ इति नियमार्थ चेदं वाक्यद्वयम् । एवं च नपरित्यागाल्लाघवम् । एवं च सावपि पदम् इत्यपि नास्ति । पूर्वोक्तप्रकारस्यानादरणात् । अत एव हल्ङयादिसूत्रे भाष्यम्- 'अथ सावपि पदं भवति । एवमप्युभयतः स्पाशा रज्जुः' इति । 'अभूवन्' इत्यत्र जुम् न भवति । आत इत्यस्य नियमार्थत्वात् । न च देवदत्तं याजयाञ्चकार इत्यत्र लुक बाधित्वा परत्वात् तिवादिषु “आमः" इति तेषां लुकि प्रत्ययलक्षणेन तिङन्तत्वाद आमन्तस्य निघातस्ततः परस्य निघातनिषेधश्च स्यादिति वा. च्यम् । येननाप्राप्तिन्यायन लावस्थायामेव तिवादीन् बाधि- त्वा लुक्मवृत्तेः । तदुक्तम्- प्रथमपादे परिशिष्टाह्निकम् । ।९। 'आमि लिलोपात् तस्य चानिघातस्तस्माच निघात' इति । न च देवदत्तो युष्मत्पुत्र इत्यादौ षष्ठ्यन्तस्य विहिता यु- प्मदस्मदोरादेशाः स्युरिति वाच्यम् । स्थग्रहणेन श्रूयमाणायां विभक्तावेव तदिधानात् । “समये तिष्ठ मुग्रीव" इत्यादौ समयं मा हासीरित्यर्थावगमात् तिष्ठतेरहानौ वृत्तः । न च विभक्ति- विशिष्टयोरेव वस्नसादि न तु प्रकृतिभागमात्रस्येत्यर्थ स्थग्रहण- मिति वाच्यम् । षष्ठीचतुर्थीद्वितीयानामिति निर्देशनापि तत्सिद्धेः। अथ "चिणो लुक्" इति तलोपे कृते 'अवधि भवता दस्युः' 'अगायि भवता ग्रामः' 'अध्यगायि भवता अनुवाकः,' इत्यादौ "हनो वध लिङि" "लुङि च", "इणो गा लुङि", "इडश्च" । "विभाषा लुङ्लङोः” इति हनिणिङ्गादेशा न स्यु. रिति चेन्न । लुङि यदा धातुकं तस्मिन्विषये तेषां विधानात् लादेशात्मागेव तेषां प्रवृत्तेः । तस्माद्वस्तुतोऽङ्गस्य कार्य न भव- तीति सिद्धान्तः । अचोऽन्त्यादि टि ६४। निर्धारणे षष्ठी। जातावेकवचनम् । अचां मध्ये योऽन्त्यो- ऽच तदादि शब्दस्वरूपं टिसंज्ञम् । प्रदेशाः "टित आत्मनेपदा. नाम्" इत्यादयः । अन्त्य आदियस्येति बहुव्रीहिः । नित्य- सापेक्षत्वात्समासः । यत्र तु हलन्तस्तत्र तद्विशिष्टस्यैव संज्ञा । तेन कुरुते इत्यादावकारस्य, कुर्वाते इत्यादौ च आकारमकार- योरेत्वम् । अलोऽन्त्यात्पूर्व उपधा ६५। अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः । “पुगन्तलघू- ५०४ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये पषस्य च" इति इकारस्य गुणः । ननु पूर्वस्यावध्यनव- च्छिमस्यैवोपादानात् शास इत्यत्र शकाराकारसमुदायस्यैवो- पधासंज्ञा स्यात् । समुदायावयवसविधौ एकाज्दिवचनन्यायेन समुदायस्यैव कार्यित्वात् । तथा च "शास इदइहलोः" इती- वं समुदायस्यैव स्यात् इति चेन्न । पूर्वपदस्योत्सर्गतोऽव्य- वहितपूर्वपरत्वात् । समुदायसंज्ञायामपि “अलोऽन्त्यस्य" इति परिभाषया ऽनतिप्रसङ्गाश्च । अथ "नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे" इति प्रति. षेधः स्यात्, शब्दस्यावृत्तिर्न तु अर्थस्येत्यभ्यासस्यानर्थकत्वात् "भृशामित्"इत्यादेः सर्वादेशत्ववारणाय अनभ्यासेत्युक्तम् । वि- कारश्च भावात्मक एव, तेन देहि इत्यत्र अभ्यासलोपः सर्वा- देश एवेति । मैवम् । “तस्य लोप" इति सूत्रे जिटुडूनां सर्व- लोपार्थ "तस्य" इति पदोपादानादेतस्याः सूत्रानभिमतत्वात् । भाष्यकृताऽपि तत्पयोजनानामन्यथोपपादितत्वात् । तथा हि "अव्यक्तानुकारणस्य" इति पररूपं तावदन्त्यस्य न भवति । "नामेडितस्यान्त्यस्य तु वा" इति ज्ञापकात् । अन्य थाऽऽनेडितस्य वेत्येव श्रूयात् । "ध्वसोरेदौ" इत्यत्रापि लोपन- हणानुवृत्तावपि पुनर्लोपग्रहणसामर्थ्यात् सर्वादेशः । तथाचैवं सूत्ररचना “घोरभ्यासस्य लोपोहो" । व्याख्यातम् । “असे. चैत्" अस्ते?श्च एद्भवति हौ परे इत्यर्थः । यद्वा लोपम्श् इति छेदः। संज्ञायां शकारानुबन्धस्य प्रयोज- नाभावादादेशे संझिनि सर्वादेशत्वप्रवृत्तिः। द्विशकारको निर्देश" इति भाष्यम् । तत्र लोप इति भिवं पदम्। लोपशब्दस्य कदन्तस्य संझिनाऽर्थेनार्थववाद्विभक्तो कृतायां शकारः प्रतिनिर्दिश्यते । तस्य चोपदेश एव इत्सबायां सर्वादेशो लोपः सम्पद्यते । न च प्रथमपादे परिशिष्टाह्निकम् ।९। ५०५ झलि परे यः संयोगस्तदादित्वात्सोलोंपे एकशकारकपाठेनैव निर्वाह इति वाच्यम् । स्पष्टार्थं न तल्लोप इति भावात् । अत एव "अन उपधालोपिनः" इत्यादावल्लोपो न कृतः । यद्वा "झलो झलि" इतिवत् निमित्तकार्यिणोरेकपदस्थत्व एव "स्कोः" इत्यस्य प्रवृत्तिः। न च आभ्याम्' इत्यादौ "हलि लोप" इति अककारस्य इदम इदो विहितस्य लोपस्यान्त्यप्रतियोगिक- स्वापत्तिर्दुर्वारेति वाच्यम् । “अनाप्यकः" इत्यस्मात् 'अन्' इत्यनु- वृत्त्या हलीति सप्तम्या अन् इत्यत्र षष्ठी प्रकल्प्य अन एव लोपवि. धानात् , अलोऽन्त्यपरिभाषया नकारमात्रस्य लोपे “अतो गुणे" इति पररूपे च 'आभ्याम्' इति सिद्धेः । न च तथापि "अत्र लोपो ऽभ्यासस्य" इत्यत्रान्त्यादेशत्वप्रसङ्गतादवस्थ्यम् । अत्राभ्यासत्वाश्रये लोपो, न तु तदेकदेशे इति व्याख्यानात् । ननु ददौ, दधौ इत्यादिवारणाय सनीत्यस्य, जिज्ञपयिषति इत्यादिवारणाय सादाविति सन्विशेषणस्य, यियक्षति इति वार- णाय मीमेत्यादिप्रकृतिविशेषाणाम् , “मुचोऽकर्मकस्य गुणो वा" इति मुमुक्षति गाम् इत्यादिवारणाय विषयविशेपस्य च लाभा- र्थमेवात्रग्रहणमिति चेन्न । अनुवृत्त्यैवैषां सिद्धेः । न च तथाऽपि “विभाषा भवद्भगवदघवतामोच्चावस्य" इति वार्तिकेन विहित ओकारो वकारमात्रस्य स्यात् इति वाच्यम् । वस्येत्यपहाय अवस्येति निर्देशसामर्थ्यात्सर्वादेशत्व- सिद्धेः । तस्मात्समुदायसंज्ञायामपि न दोषः । संयोगोपधत्वादि- व्यवहारोऽप्यत्र सङ्गच्छते । पक्षान्तरे त्ववयवधर्मस्य समुदाये समारोपो बोध्यः । यद्वा, अल इति जसन्तम् । न च पूर्व इत्येकवचनान्तेन सा- ५०६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये मानाधिकरण्यानुपपत्तिः । पूर्वे इति जसन्तस्यैव छेदात् । अन्त्य- स्याल्त्वलाभस्त्वार्थः। यद्वा, अल इति निर्धारणे षष्ठी । जातावेकवचनम् । अला मध्येऽन्त्यात्पूर्वोऽल् इत्यर्थः ॥ तस्मिन्निति निर्दिष्टे पूर्वस्य६६। सप्तमीनिर्देशे पूर्वस्यैव कार्य स्यात्तच्च निर्दिष्टे अव्यवहितो. चारिते । निश्शब्देन नैरन्तर्यस्य दिशिना चोच्चारणस्य लाभा- त् । नियमार्थ चेदम् । "इको यणचि" इत्यादीनामनियतप- कृत्तिप्रसञ्जको यस्तर्कितोऽभावस्तत्पतियोगित्वात् । यदीदं वचनं न स्यात् तर्हि पूर्वस्य परस्य समीपस्यानन्तरस्य व्यवहितस्याव्य. वहितस्य वा इको विनिगमकाभावात् यणादेशः स्यात्। सति त्व- स्मिन्पूर्व एव विश्राम्यतीति । "इको यणचि" इत्यत्र हि भावल- क्षणा सप्तमी। अचि सतीत्यर्थः । सत्त्वं च पूर्वपरोभयसाधारणम् एक्मुपश्लेषोऽपि । तथाच कार्यप्रतियोगित्वनिमित्तत्वयोरेका युगपदसम्भवात् 'दध्युदकम्' इत्यादौ पर्यायेण द्वयोर्यण् स्यात् अतः पूर्वस्यैवेति नियम्यते 'अग्निचित्' इत्यत्र व्यवहितपूर्वेऽपि प्राप्तस्त्वव्यवहितस्यैवेति । यत्तु सत्सप्तम्या "तस्मिन्" इति परिभाषा नोपतिष्ठते इति "श्नामलोपः" इति सूत्रे भाष्यकैयटयोरुक्तम् । तत् पूर्वपक्षिणः पौढिवादमात्रम् । ननु तस्मिन्निति शब्दो यत्र निर्दिश्यते यथा--"तस्मि- माणि च युष्माकास्माको", तत्रैवायं प्रवर्तेत । 'गवित्ययमाह' इत्यादौ इतिशब्देन शब्दस्वरूपस्यैव बोधात् । न च तत्र प्रयो- जनाभावः । यौष्माकीण अस्मभ्यं देहि, हे आस्माक युष्म- । .
प्रथमपादे परिशिष्टाहिकम् । ९ । ५०७ भ्यं ददामि' इत्यादौ खाणभ्यां परस्यादेशव्यावृत्तेः फलत्वात् । मैवम् । लोके शब्दस्यार्थपरत्वात् इतिना शब्दपरत्वकल्पनाद, व्याकरणे तु शब्दपरत्वात् इतिनाऽर्थपरत्वसिद्धेः । इतिकरणस्य पदार्थविपर्यासकरत्वात् । तत्रैव पूर्वशब्दोच्चारणापत्तेश्च । एतत्स. त्रारम्भापेक्षया लाघवात् । तस्मात्साम्यन्तानुकरणमेव तस्मि. निति । सर्वनाम्ना अचि हलीति विशेषाणां संग्रहात्, "तस्या- पत्यम्" इत्यादिवत् ॥ तस्मादित्युत्तरस्य ६७। पञ्चमीनिर्देशे उत्तरस्यैव कार्य स्यात् तच्चाव्यवहितस्य । तेन "तिङ्ङतिङः" इति निघातः 'अग्निमीळे' इत्यत्रैव न त्वीळे- ऽग्निमित्यत्रापि । दिग्योगलक्षणा चेयम् । कारकविभक्तरसम्भवात् । तथा- चोत्तरशब्दवत्पूर्वशब्दस्याप्पध्याहारापत्तेः व्यवहितस्याप्युत्तरस्य कार्यप्रसङ्गाच नियमार्थमिदम् । तेन 'उत्थानम्' इत्यत्र "उदः स्थास्तम्भोः” इत्यस्य न प्रसङ्गः । यद्वार्तिकम्- "तस्मिस्तस्मादिति पूर्वोत्तरयोयोगयोरविशेषानियमार्थ व. चनं दध्युदकं, पचत्योदनम्” इति । इहापि तस्मादिति पञ्चम्यन्तानामनुकरणम् न तु यत्र त- स्मादिति शब्दस्तत्रैतदुपस्थित्पर्थम् , पूर्वोक्तयुक्तः । नन्वत्र प्रयोजनाभावादेव शङ्काऽनुदयः । तस्मान्नुड अत आदेः" इति दीर्घादकारात्पूर्वस्याङ्ग- स्यासम्भवात् । "तस्माच्छसो नः पुंसि" इत्यत्रापि वृक्षान् इत्यादौ पूर्वसवर्णदीर्घात् पूर्वस्य पकारस्य नत्वापत्तेः षष्ठी. दिहलः " ..
५०८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये निर्दिष्टस्य शसो नत्वमिति व्याख्यानेन वारणात् । अत्राहुः-उच्चरत आनुपलभत इति प्रयोजनम् , दी- घीभूतादाकारात्पूर्वस्योच्चरच्छब्दप्रकृतिकस्य शसो नत्वं मा भूदित्युक्तिसम्भवसत्त्वात् । एवम् "तस्मान्नुडचि" इत्यत्रापि अनश्व इत्यादौ लुप्तन- काराननः पूर्व नुडागमो मा भूदिति योजनीयम् । इह मूत्रद्वये षष्ठीप्रक्लूप्तिपक्षोऽपि भाष्ये उक्तः । स यथा-“षष्ठी स्थानेयोगा" इति सूत्रादिह षष्ठीत्यनुवृत्त्या सत्यप्यर्थनिर्देशे ऽव्यवहितस्य पूर्वस्य षष्ठी, पश्चम्यर्थनिर्देशे ता. शस्योत्तरस्य षष्ठी स्यादित्यर्थः । इक इत्यादौ षष्ठ्याः स- स्वात्तदनुवादेन पूर्वस्यैषा, न तूत्तरस्य न वा पूर्वस्यापि व्यवहितस्येत्येतदेव बोध्यते । “आने मुक्" इत्यादौ तु षष्ठयपि प्रकल्प्यते । अन्यत्पूर्ववत् । सा चानियतयोगात्स्थानषष्ठी । य- दुत्तरं स्थानषष्ठी तस्यैव च कार्यनियमोऽर्थात्सिद्धः। यत्र तूभयनिर्देशस्तत्रोभयोर्न प्रकल्पकत्वम् । कार्यित्वनिमित्तत्वयो- युगपदेकस्मिन्नसम्भवात् । “एकः पूर्वपरयोः" इति ज्ञापका- च । अन्यथा "आद्गुणः" इत्यादौ आदिति पञ्चम्याऽचीति सप्तम्याः षष्ठीत्वं कल्प्यत इत्युभयोर्गुणादेशसिद्धौ तद्वैयर्थ्यात् । तथा च तत्र कैयटः- सूत्रद्वयप्रमाणत्वात् द्वे भवेतां प्रकल्पिके । षष्ठया विभक्ती तेनात्र ज्ञापनार्थत्वमाश्रितम् ॥ द्वे पञ्चमीसप्तमीरूपविभक्ती । षष्ठथाः परस्परो. तरषष्ठया इत्यर्थः । किं तु परत्वानवकाशत्वाभ्यां नि- यमपक्षवत्षष्ठीपकल्पनपक्षेऽपि व्यवस्था तथा हि- इत्यत्र सप्तम्यनवकाशा " अतो येयः" इति " आने मुक् प्रथमपादे परिशिष्टाह्निकम् । ९ । पूर्वत्र चरितार्थाया अत इति पञ्चम्याः षष्ठी प्रकल्पयति । एवम् "ईदासः" इत्यास इति पञ्चमी निरवकाशा "आने" इति सप्तम्याः पूर्वत्र सावकाशायाः । “तास्यनुदातेद्" इति सूत्रेऽपि "सार्वधातुके" इति सप्तमी अभ्यस्तसिजर्थत्वादुत्तरत्र सावका- शेति तासेरित्यादिपञ्चम्येव षष्ठी प्रकल्पयति-लसार्व- धातुकस्य स्यतास्यादिभ्य अनुदात्तत्वामिति तत्र लसार्वधातुकमिति प्रथमान्तपाठान्न सप्तमीति वाच्यम् । " तास्यादिभ्योऽनुदात्तत्वे सप्तमीनिर्देशोऽभ्यस्तसिजर्थः" इति वक्ष्यमाणत्वात् । एवम् "बहोर्लोपः " इत्यत्र बहो. रिति पञ्चम्यनवकाशा इष्ठेमेयस्सु इति सप्तम्याः षष्ठी प्रकल्प- यति-बहोः परेषामेषां लोपः स्यादित्यर्थः । अत एव "भूच बहोः" इति षष्ठीनिर्देशः । “गोतो णित्" इति पञ्चमी सर्वनाम- स्थाने इति सप्तम्याः षष्ठी प्रकल्पति । गोशब्दस्य णित्त्वे प्रयो- जनाभावाच । न च 'तिष्ठति गौः' इत्यत्र पूर्वस्य वृद्धिः फलम्। गोशब्दं प्रति तिष्ठतेरनङ्गत्वात् । “आमि सर्वनाम्नः सुद" इत्यत्रापि पञ्चम्यनवकाशा आमीति सप्तम्या उत्तरत्र साव. काशायाः षष्ठी प्रकल्पयति । न च आदित्यनुवृत्तया पश्चम्या सामानाधिकरण्याददन्तात्सर्वनाम्न इति पञ्चम्यपि कृतार्थेति वाच्यम् । तथाऽपि यथोद्देशपक्षे परत्वात् "तस्मादित्युत्तरस्य" इत्येतत्प्रवृत्तेः । तदुक्तम्- "उभयनिर्देशे विप्रतिषेधात्पश्चमीनिर्देश" इति । इदं चाभ्युपेत्योक्तम् । वर्णाश्रमेतराणाम् इत्यादिवारणाय सर्वनाम्नो विहितस्याम इति, येषाम् इत्याद्यर्थम् अकारात्परस्येति व्याख्यानात् । अकारान्तात्सर्वनाम्नो विहितस्याम इति व्या- ख्याने तु येषाम् इत्यादौ न स्यात् । दीर्घादित्यत्र तु षष्ठपाः ५१० व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये स्थाने पञ्चमी, छान्दसव्यत्ययात् । तेन दीर्घस्यैव तुक न तु छस्य, "विभाषा सेनासुराच्छाया" इति लिङ्गाच । अन्यथा छकारोत्तरं तुझसङ्गे धुत्वे "खरि च" इति चर्वे चकारद्वयं स्यात् । ननु प्रत्ययविधावपि "गुप्तिकिझ्याः" इति पञ्चम्याः सन् इति प्रथमायाः षष्ठीप्रकल्पकत्वं स्यात् । न चेष्टापत्तिः आदेशान्तरपतिनिर्देशाभावात्सनः सनादेशे दोषाभावादिति वाच्यम् । स्थानिन एवात्र निर्दिष्टत्वादादेशस्योपदेशाभावा- दित्संज्ञाऽनुपपत्तेः । स्थानिनोऽप्युत्पत्तिकाल एव निवृत्यभिमु. खतया प्रतिपन्नस्य इत्संज्ञाऽनन्वयात् । अत्राहु:- परत्वविशिष्टस्य सन उत्पादनेनोपक्षीणायाः पञ्चम्या ना- स्ति प्रकल्पकत्वामिति । षष्ठी ह्यनुवादविभक्तिः । स च यथा- प्राप्तस्य । प्रत्ययविधौ च तस्य पूर्वमप्रसिद्ध्याऽनुवादानुपपत्तेः । अनियमे नियमकारिण्याः परिभाषाया अनियमप्रसत्यभावे प्रवृत्त्यनहत्वाच्च । तस्मात्मत्ययविधौ पञ्चम्यो न प्रकल्पिका इति॥ स्वंरूपं शब्दस्याशब्दसंज्ञा६८ शब्दस्य स्वकीयं रूपं संज्ञि शब्दशास्त्रे या संज्ञा तां विना इति दीक्षिताः। नव्यास्तु "अणुदित्सवर्णस्य" इत्यादिषु प्रथमान्तानां संज्ञासमर्पकत्वेन षष्ठयन्तानां संझिसमर्पकलेन दृष्टत्वात् स्वं रूपं शब्दस्य संज्ञा स्यादित्यर्थः । तथा च प्रत्ययलोपसूत्रे भाष्यम्- "स्वं रूपं शब्दस्य संज्ञा भवतीति इन्तरपि हन्तिः संज्ञा प्रथमपादे परिशिष्टाह्निकम् । ९ । ५११ भविष्यतीति अत्रापि रूपं शब्दस्य संज्ञेति" इत्याह । हरदत्तस्तु-'ग्राह्यमित्यध्याहार्यम् । शब्दस्येति "कृत्यानां कर्तरि वा" इति षष्ठी । तेन शब्दः स्वमेव रूपं ग्राहयतीत्यर्थः । रूपपदं चाग्न्यादिपदवृत्तिजातिपरम् । व्यक्तिद्वारा च कार्य- योग, इति व्याचख्यौ। तेन "अग्नेर्दक" इति अग्निशब्दादेव ढक् न तु वह्निशब्दात् । अशब्देति किम् । “उपसर्गे घोः" इत्यादौ घुशब्द- स्वरूपं मा ग्राहि, किं तु दाधारूपा घातव एव गृह्येर- निति । तेन घुधातोः शब्दार्थान्न किप्रत्ययः । स्वपदं च यत्र यः शब्द उपात्तस्तन्परम् । शब्दे शास्त्रे संज्ञेति सप्तमीसमासः । षष्ठीसमासे कर्मादिष्वर्थसंज्ञासु स्वरूपग्रहणापत्तेः । ननु रूपग्रहणं विनाऽपि स्वशब्देन तदेव ग्राह्यम् । प्रती. तावुपदेशानपेक्षादसाधारणत्वादन्तरङ्गत्वानियतोपस्थितिकत्वा- च, अर्थस्य प्रतीतो शक्तिग्रहापेक्षत्वात् पर्यायान्तरबोध्यत्वेन साधारणत्वात्पदधीजन्यज्ञानविषयत्वेन बहिरङ्गत्वात् अनु. करणदशायामर्थानवगमादनियतोपस्थितिकत्वाच्चेति । अत्राहुः-इहार्थोऽपि विवक्षितो रूपवदिति ज्ञापनार्थ रूप- ग्रहणम् । तेन "अर्थवद्ग्रहणे नानर्थकस्य" सिद्धम् । ज्ञापक- वशादर्थस्य, स्वं रूपमिति वचनाच शब्दस्येति, सिद्धमर्थवग्रह- णम् । तेन 'काशे' इत्यादौ "शे” इति प्रगृह्यत्वं नेत्यादि । यत्र त्वर्थवद्रूपण शब्दो नाश्रीयते तत्र नेदमुपतिष्ठते । य- था-वर्णग्रहणेषु,-टेरेत्वं, तेनानर्थकस्यापि टेरेत्वं भवति । अत्र भाष्यकृतः-नैतत्समारभ्यम् । लोके हि योग्यताल. क्षणेन सम्बन्धेन शब्दोऽर्थ बोधयति । व्याकरणेऽपि पशुरप- त्यं देवता प्राश्च उदश्चो भरता इत्यादावर्थ एव गृह्यते । “अग्ने ५१२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये ढक" इत्यादौ त्वर्थेन सह प्रत्ययस्य पौर्वीपर्यासंभवात् शब्द- स्यैव ग्रहणम् । “ड्याप्पातिपदिकात् " इत्यधिकाराच्च । न चाशब्दसंज्ञेत्येतदर्थमारम्भः। घुसंज्ञारम्भादेव घुधातोरण- हणात् । “व्यवहाराय नियमः" इत्युक्तत्वात् । एतेन'कुमारीघ' इत्यत्र "घरूप" इति इस्वो ऽभावप्रतियोगीति व्याख्यातः । “ई हल्यघोः" इत्यत्र तु घुशब्दस्याकारन्तत्वाभावादेव नोपादान- म् । पर्युदासाभावे यद्ग्रहणप्रसक्तिस्तस्यैव पर्युदासाभ्युपगमात् । न चार्थवद्रहणपरिभाषाज्ञापनार्थम् । तस्या न्यायसिद्ध- त्वात् । शब्दविशिष्टस्यैवार्थस्योपस्थितरीत्सर्गिकत्वात् विशे- व्ये कार्यबाधाद्विशेषणीभूतशब्दे कार्यप्रवृत्तेर्वाच्यत्वात् अर्थ- स्य परित्यागापेक्षया शब्दविशेषणत्वेन कार्यिनियामकताया एव युक्तत्वात् । प्रत्यासत्या च स एव शब्दो गृह्यते, न तु तत्पर्यायः, अ- नुपस्थितत्वात् । अत एव आग्नेयम् इत्यादौ अग्निपदेनैवोपादा- ने देवतात्वम्, न तु पर्यायान्तरेणेति "विधिशब्दस्य मन्त्रत्वे" इत्यधिकरणे सिद्धान्तः । एतेन "अभिव्यक्तपदार्था ये" इति न्यायो, गौणमुख्यन्यायोऽपि व्याख्यातः । गौणार्थस्य प्रथम- मनुपस्थितत्वात् । न चोत्तरसूत्रचतुष्टये "स्वं रूपम्" इत्यस्यानुवृत्यर्थम् । तां विनाऽपि निर्वाहात् । ग्रहणकसूत्रे स्वस्यापि स्वसाव- याद ग्रहण सिद्धेः। अन्यथा 'अवात्ताम्' इत्यादौ "झलो झलि" इति लोपानुपपत्तेः । व्यक्तिभेदस्यात्रापि सुलभत्वात् । एवं तपरस्त्रेऽपि । “आदिरन्त्येन" इत्यत्रादिपदावृत्त्या सिद्धम् । तत्र लिङ्गं "नादिचि" इति निषेधः । अन्यथा “प्रथमयोः पूर्वसवर्णः" इत्यत्र "अकः" इत्यनुवृत्तेरकारस्य संग्रहणाभावे प्रथमपादे परिशिष्टाह्निकम् । ९ । ५१३ तदप्रसत्या निषेधवैयर्थ्यात्। “येन विधिः-"इत्यत्रापि “तस्य च" इति वार्त्तिककृतैव वाच्यत्वात् । तस्मात्सूत्रमिदं प्रत्याख्यातम् । "सित्ताद्विशेषाणां वृक्षाद्यर्थम्" । सिदित्युपलक्षणम् । किञ्चि ल्लिङ्गासङ्गेन विशेषाणां संज्ञति वक्तव्यम् । तेन "विभाषाक्ष- मृग-" इति सूत्रे वृक्षस् मृगम् इत्यादि पाठ्यम् । विशेषाणामेव द्वन्द्व एकवत् । प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः । इदं च न्याय- सिद्धम् । पर्यायाणां सहप्रयोगाभावात् सामान्यविशेषाणां चार्थाभावात्सामान्येन विशेषाणामाक्षेपात् द्वन्द्वस्यैवानुपपत्तेः । "पित्पर्यायवचनस्य च स्वाद्यर्थम्" । चकारात्स्वरूपस्य विशेषाणां च ग्रहणम् । “स्वे पुषः" । रैपापं पुष्टः, अश्वपोषम्, स्वपोषम् । इदं वाचनिकमेव । “जित्पर्यायस्यैव राजाद्यर्थम्"। "सभा राजामनुष्यपूर्वा"। इनसभम्, ईश्वरसभम् । नेह राजसभा, हरिश्चन्द्रसभा। इदमपि न्यायासद्धम् । नपश्लेषेण अराजेति पयुदासाश्रयणात् राज. सदृशानां तत्पर्यायाणामेव ग्रहणात् । न च स्वस्यापि स्वपर्यायत्वम् । स्वभिन्नत्वे सत्यभिन्नपत्तिनिमित्तकत्वं पर्यायत्वमिति स्वीकारात् । विशेषणेन स्वस्य, विशेष्येण च विशेषवाचकपदस्य वारणात् । इनशब्दो राजशब्दप- र्याय इत्यस्य राजशब्दभिन्नत्वे सति राजशब्दशक्यतावच्छे- दकधर्मावच्छिन्नशक्यताक इत्यर्थः । "झित्तस्य च तद्विशेषाणां च मत्स्याद्यर्थम्" । "प- क्षिमत्स्यमृगान्हन्ति" । मात्स्यिकः, शाफरिकः । न तु पर्या- यवचनानाम् अनिमिषान्हन्ति । 'मीनस्येष्यत'इति भाष्यम् । मैनिकः । 'मृगपक्षियोस्तु पिनिर्देशः कर्त्तव्यः । तेन स्वरूपस्य ६५ ५१४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये पर्यायाणां विशेषाणां च ग्रहणम्' इति व्याख्यातारः । इदमपि वाचनिकम् । अणुदित्सवर्णस्य चाप्रत्ययः६९। अविधीयमानोऽण् उदिच्च सवर्णस्य चकारात्स्वस्य च संज्ञा स्यात् । अत्राण परेण णकारेणेति प्रागुक्तम् । “अस्य च्चों"। शुक्लीस्यात् मालीस्यात् । एरच् । जयः, लयः । "ऋदोरप्" स्तवः, पवः । “उरण रपरः" कर्ता, किरति । "ऋदोरप्" इत्यत्र इस्वकारस्य तु न ग्रहणम् दीघाामनण्त्वेन सवर्णग्राह- कत्वं नास्ति इति सिद्धान्तात् । एतेन “अष्टन आ विभक्तौ" इत्यादिकं व्याख्यातम् । “अप्रत्ययः" इति पयुदासाच । दी- Cणामनणत्वं च ग्रहणकशास्त्र एव वाक्यापरिसमाप्तिन्यायात् । "उरण" इत्यादौ तु तेषामप्युपादानम् । तेन कारक इत्यादौ रपरत्वम् । तस्माद्दीर्घाणां ग्राहकत्वं नास्ति ग्राह्यत्वं त्वस्त्येवेति फलितार्थः । अप्रत्यय इत्युदितो न विशेषणम् । “कुहोश्चुः" । चकार, जगाद । अत एव "भाव्यमानोऽण् सवर्णान्न गृह्णा- ति" इत्याहुः । तुक्नुडादयस्तु नोदितः, “प्रतिज्ञानुनासिक्याः पाणिनीयाः" इत्यभ्युपगमात् । अप्रत्ययः किम् । विधीयमाना. नां प्रत्ययादेशागमानां ग्राहकत्वं मा भूत् । तेन "अत इञ्", "इदम इश्", "भुवो वुक्" इत्यादौ न दीर्घादि । न च इ- आदीनां अनणत्वादेव न ग्राहकत्वमिति वाच्यम् । उपदे. श इत्यनुवृत्या सूत्रान्तरगतानामेव हलामित्संज्ञाप्रवृत्तौ इका- रादीनामेव विधेयत्वपर्यवसानात् । स्यादेतत् । “अकः सवर्णे दीर्घः' इत्यत्राकारोऽष्टाद- शानां ग्राहकोऽस्तु अण्त्वात् । अस्तु च इकारादीनामपि "आ- ।
प्रथमपादे परिशिष्टाह्निकम् । ९। ५१५ दिरन्त्येन-" इत्युक्तेः । ईकारादयो दीर्घास्तु कथं ग्राह्याः । तद्वाचकस्य इकारादेः सूत्रेऽनुपादानात् । अक्शब्देन तदुप. स्थितिरिति चेत्, तर्हि वाक्यार्थे तेऽनुयन्तु । पदार्थसंसर्गस्य वा- . क्यार्थत्वात् । न तु तेऽपि स्वार्थोपस्थापकाः । अनुच्चरि- तत्वात् । अत एव 'ऋचं वेत्ति' इत्यादौ शब्दविशेषं वेत्ति इत्ये. वार्थो न तु तदर्थ वेत्ति' इति । तथा च वार्तिकम्- "तत्र प्रत्याहारग्रहणे सवर्णाग्रहणमनुपदेशात्", "इस्वसं. प्रत्ययादिति चेदुच्चार्यमाणसंप्रत्यायकत्वाच्छब्दस्यावचनम्" इति। शब्दस्याप्रतीयमानस्यावचनम् अर्थाप्रतिपादकस्वमित्यर्थः । अत्राहुः-प्रत्याहारग्रहणे सर्वत्र तद्वाच्यवाच्ये निरूढलक्ष- णा, “दीर्घाजास च" इति ज्ञापकात् । तद्धि “प्रथमयोःपूर्व- सवर्णदीर्घस्य निषेधः । न चाकशब्दवाच्यो दीर्घो ऽस्ति । त- था च निषेधस्य निर्विषयत्वापत्तिः । आकारस्य सत्त्वेऽपि तत्र "नादिचि" इत्येव सिद्धेः । "प्वादीनाम्" इत्यादिनिर्देशाचेह लिङ्गमिति । अत्रेत्थं प्रत्यवतिष्ठन्ते-'ऋचं वेत्ति' इत्यत्र अर्थत्वेनार्थस्य क. मतया वेदनान्वय आपाद्यते अग्नित्वादिना वा ?। नाद्यः । ता. दृशवोधेऽर्थपदोत्तरद्वितीयाज्ञानस्य हेतुत्वात् । नान्त्यः । तत्रा- प्यग्निमिति धियो हेतुत्वात् । न च यत्र कैयटोक्तरीत्या ऋक्. शब्देन प्रकरणादिवशात् 'अग्निमीळे' इत्यादिरूपा ऋक् प्रतीयते तत्र 'अर्थ वत्ति' इतिबोध आपाद्यत इति वाच्यम् । अर्थत्वविशिष्ट- वाचकस्य तदुत्तरद्वितीयायाश्चाज्ञानात् । ऋक्शब्दोत्तरं द्वितीया. यास्त्वानुपूर्वीविशेषावच्छिन्नाया ऋच एव कर्मताबोधकत्वात् । अर्थस्य ऋक्शब्दार्थत्वाभावात् । न च ईडनादिकर्मकबोध आपायः । तदुत्तरकर्मविभक्तिज्ञानविरहात् । न च 'अनिमीळे ५१६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये इत्यागर्थस्य कर्मतासंसर्गेण वेदनान्वयस्तथा 'अग्निमीळे वेत्ति' इत्यादिजन्य इवेति वाच्यम् । ऋचम् इत्यनेन सह वेदनस्य ज. नितान्वयवोरतया निराकासत्वात् । एतेनाग्निकर्मकवेदनबोधा- पत्तिरपि निरस्ता । उच्चारितत्वस्य तु शाब्दबोधकारणतावच्छे- दके न निवेशः । पुस्तकदर्शनादिना शब्दस्मरणादपि तदुत्पत्तेः। शब्दोपस्थितशब्दस्॥ नार्थबांधकत्वम्, लिप्याद्युपस्थितस्य स्वस्त्येवेति वैषम्ये च मानाभावात् । एतेन देवदत्तपदस्य 'घट- म्' इति द्वितीयैकवचनान्तपदे गृहीतसतस्य 'देवदत्तं वेत्ति'इति वाक्यात् घटकर्मकवेदनबोधापत्तिरपि निरस्ता । घटमिति पद- कर्मकवेदनान्वयबोधेन निराकासत्वात् । अगादिसंज्ञानां षष्ठया. दिविशिष्टे इकारादौ सङ्कतज्ञानाभावाच्च । वार्तिकस्य त्वयमभिप्रायः-"अकः सवर्णे-"इति वाक्यात् दीर्घोदेश्यत्वरूपं स्थानित्वम् आक्षरसमाम्नायिकानामिकारा- दीनामेव स्यात् न तु दीर्घाणाम् । इकारोपस्थापके अक्पदे स्थानित्ववोधकाष्ठयाः सत्त्वेऽपि दीर्घोपस्थापकात् इकारादुत्त. रं तदभावात्, अतः श्रीशाद्यसिद्धिरिति । अनुच्चरितानामों- पत्थापकतैव नास्तीत्यर्थ उक्तदोषात् । वार्तिकपदं त्वेवं व्याख्येयम्-प्रत्याहारे,उच्चारिते सति इति शेषः, सवर्णानाम- ग्रहणमन्वय बोधराहित्यं प्रामोति अनुपदेशात्संशिष्वनुच्चारणात् । एवं च मध्यगत्वाभावात् आद्यन्तरूपया संज्ञया सह तेषाम- सति सङ्केतपरिच्छेदे उक्तप्रतिज्ञासिद्धिः । हस्वसंप्रत्ययात्- इसरुपस्थापना । उच्चार्यमाणसंप्रत्ययात्-उच्चार्यमा. णस्य तत्तद्वोधानुकूलयोग्याविभक्त्यन्तत्वादिना ज्ञातस्य सम्यगुद्दे. श्यविधेयभावविवेकेन प्रत्यायकत्वात् अन्वयबोधकत्वात् शब्द- स्यावचनम् ।इष्टान्वयबोधाजनकत्वमिति। "ऋक् इत्युक्ते संपाठमात्रं प्रथमपादे परिशिष्टाह्निकम् । ९ । गम्यते" इति भाष्यमपि अध्ययनादिकर्मत्वादिविधेयोद्देश्यतयेति शेषेण शाब्दपरतयैव नेयम्। "ऋक्छब्देन प्रकरणादिवशात् विशि- ष्टसंनिवेशा ऋक् प्रतीयमानाऽपि स्वार्थ न प्रत्याययति" इति कैय- टोऽप्युक्तरीत्यैव व्याख्येय इति । 'उच्चार्यमाणैरेव प्रत्यायकर्भवि- तव्यमिति नास्ति नियमः । बुद्ध्युपारूढास्तु प्रत्यायकाः । अस्ति च मध्यवर्तिनां बुद्धावारोहः । ततश्च संज्ञित्वेन प्रत्याय्यमा- नस्यापि प्रत्यायकत्वं भविष्यति। अत्र च ज्ञापकं "दीर्घाजसि च" इति प्रतिषेध' इत्यादिपदमारीग्रन्थस्याप्यत्र स्वारस्यम् । अत्रायं निष्कर्षः । शब्दोपस्थितस्य शब्दस्य नार्थबोध- कत्वम् । अनुकरणस्थले शब्दस्योपस्थितस्याप्यर्थानवबोध- कत्वात् । एतच्च "स्वं रूपम्-" इति सूत्रे कैयटहरदत्तादिन- न्येष्वेव स्पष्टम् । वार्तिकस्य तु नोक्तं व्याख्यानम् । अक इत्यनयैव षष्ठया तेषामपि स्थानित्ववोधनसम्भवात् । अत एव "द्विरेफमानय", "हिरण्यपूर्व कशिपुं प्रचक्षते" इत्यादिस्थले भ्रमरादिवृत्तिकमत्ववोधः सङ्गच्छते । अक इति हि अइउल- इत्येषां संज्ञा । अनुकार्यानुकरणयोश्च भेद एवात्र विवक्षितः, अन्यथा विभक्त्यनुपपत्तेः । तथा च अकारोपस्थाप्यस्य अका- रस्य तदुपस्थाप्यानां दीर्घाणां यथा स्थानित्वं तथाऽपदो- पस्थाप्यस्य इकारादेस्तदुपस्थाप्यानां दीर्घाणां च तत् । अका- रादितो वैलक्षण्याभावात् । तस्मादनुच्चारितस्य कथं ग्राहकत्व- मित्येव पूर्वपक्षाभिप्रायः। सिद्धान्तस्तु-अन्यत्र तथात्वेऽपि प्रकृते शब्दोपस्थितशब्द- स्यापि ग्राहकत्वम् अन्यथा ग्रहणकशास्त्रं व्यर्थ स्यात् । “अस्य चौ" "एरनेकाचः" इत्यादावपि अकारस्योचार्यमाणस्य ग्राह. कात् अकाराद् भिन्नत्वात् । एतेन दीर्घस्य सम्भवेऽपि"नादिचि" अस्प ५१८ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये इत्यस्य वैयर्थ्यम् इति निरस्तम् । अक इत्यत्राकारेणापि दीर्घ- ग्रहणस्य युक्तिसाम्यात् अनुपपच्या “दीर्घाजसि च" इत्यस्य ज्ञापकतायाः सुस्थत्वात् । अत एव यत्र स्वरूपेणोच्चार्यन्ते "अस्यच्चौ" इत्यादौ तत्रैवैषां ग्राहकत्वं स्यात् इत्यपि कैयटेन पूर्वपक्ष उक्तः । अक इत्यादावप्यकारस्य सवर्णग्राहकत्वं न स्यात् इत्यापत्तेरपि तदाभिमतत्वात् । तदयमर्थः-गवित्ययमाहेत्यादावनुकरणस्य तन्मात्रबो- धकत्वम् । अणां तु अनुकार्यनिधर्मावच्छिन्नयावय- क्तिपरत्वम् । ” इत्यादिषु अकारस्यैवानुका- यत्वात् तद्भेदानामेव ग्रहणम् । अक इत्यादौ तु “आ- दिरन्त्येन" इति वचनात् यावतामनुकार्यत्वं तद्भेदाना- मेव ग्रहणम् । “आदिरन्त्येन" इत्यनेन अकारादि- विव "अणुदित्" इत्यनेन तद्भदेष्वपि सङ्केतितत्वात् । न च तत्र प्रत्येकमकारादीनामपि सवर्गग्राहकत्वस्य बोध्यतया तत एव सिद्धौ अगित्यादीनां तद्विलक्षणं ग्राहकत्वं न बोध्यते गौरवादिति वाच्यम् । “दीर्घाजसि च" इत्यादीनां तद्वा- च्यवाच्ये निरूढलक्षणाकल्पकत्वमपेक्ष्य अगादिशब्दानाम् उक्तपरत्वकल्पकत्वस्यैव युक्तत्वात् । न च अणित्यत्र अण् अक् अङ् अच् अट् इत्यादिबोधाभावात् कथं तेषां यावद्यक्ति- परत्वबोध इति वाच्यम् । तदाऽपि तदुपस्थितेरावश्यकत्वात् शब्दव्यपदेशादेव झल्त्वमप्यायातीति भवदभ्युपगमात् । न च प्रत्याहारग्रहणाभावे "अस्य चौ' इत्यादौ ग्राह- कत्वानुपपत्तिः । अण्पदे तन्त्रात्येकशेषाणामन्यतमाङ्गीकारात् । अपि च भवन्मते वर्णग्रहणे ग्रहणकशास्त्रेण ग्राहकत्वम्, प्रत्या- हारस्थलेतु उक्तज्ञापकलभ्यनिरूढलक्षणयेति पर्यवसितम् ।
प्रथमपादे परिशिष्टाह्निकम् । ९ । ५१९ तथा च अक इत्यादीनां ग्राहकत्वे ग्रहणकशास्त्रस्यानुपयो- गात् अक्पदार्थबोधे च "आदिरन्त्येन" इत्यस्यैवापेक्षितत्वात् , ग्रहणकसूत्रेऽपि अण्पदेन दीर्घाणामुपस्थितौ बाधकाभावात् तेषामपि सवर्णग्राहकत्वापत्त्या 'दीर्घाणामनण्त्वेन सवर्णग्राह- कत्वं नास्ति' इति सिद्धान्तभङ्गप्रसङ्गः। तथा च कैयट:-'अत्र हि सूत्रे प्रत्याहारसंनिविष्टा एव गृह्यन्ते । स्वात्मनि क्रियाविरोधात् अनिष्पादाद्, ग्रहणकशास्त्रान्तराभावाच्च अत्र सूत्रे अकारादि- भिराकारादीनां ग्रहणासंभवः । अन्येषु तु प्रदेशेषु अनेन सूत्रेण अकारादिभिराकारादयो गृह्यमाणाः कार्याणि लभन्ते" इति । कौस्तुभेऽप्युक्तम्-‘पदार्थसंसर्गो हि वाक्यार्थः । तद्बोधश्च पदा. र्थबोधोत्तरभावी । ततश्चाणमूत्रेण ये उपस्थितास्तेषां सवर्णग्रा. हकत्वं सूत्रार्थः । अण्शब्दश्चाक्षरसमाम्नायपठितेषु सङ्केतित इति तानेवात्रोपस्थापयति' इत्यादि । किं चैवं ग्रहणकसूत्रस्यैव वैयर्थ्यम् । उभयसाधारण्येन ग्राहकत्वस्य “दीर्घाद्-" इत्यादिनैव ज्ञापयितुं शक्यत्वात् । तस्मादुक्तरीतिरेव युक्ता । अत एव कैयटेन स्पष्टमुक्तम्-'तत्रा- कार उच्चारित "आदिरन्त्येन सहेता" इति मध्यपतितानां स्व- रूपस्य च ग्राहकः, अस्माच वचनात्सवर्णानामपीत्यर्थ' इति । न च तत्प्रत्याहाराद्यक्षरमात्रपरम् । अकारस्योपलक्षणत्वात् युक्तेश्चो- क्तत्वात् इति दिक् । वार्तिककारस्त्वाह- "सवर्णेऽणग्रहणमपरिभाष्यमाकृतिग्रहणाद्” इति । अकारादिनिर्देशानां जातिपरत्वात् तदवच्छिन्नयावयक्ति- लाभात् अणग्रहणं न कार्यम्। इस्वत्वं तु विधेयस्थले तद्विशेषणतया विवक्षितमिति नातिप्रसङ्गः । अनुवाद्यस्थले तु तदविवक्षणात्सर्व- - ५२० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये ग्रहणम् । “अष्टन आ" इत्यादौ तु दीर्घोच्चारणसामर्थ्यान् दी- घंव्यक्तिसमवेतमेव सामान्यं गृह्यते। पूर्ववया ब्राह्मणः प्रत्युपस्थेय इत्यत्र विशिष्टव्यक्तिनिष्ठ ब्राह्मणत्ववत् । यद्वा, व्यक्तिरेव शब्दार्थः । जातिस्त्वशब्दार्थोऽपि अभेद- प्रत्ययहेतुरस्ति इति सर्वव्यक्तीनामभेदेनाश्रयणात् एकव्यक्तिनि- देशे सर्वव्यक्तिग्रहणसिद्धिः । आकृतिग्रहणात् इत्यस्य तु अयमर्थः- आकृतेरेकाकारप्रत्ययनिमित्तत्वेन प्रतिपत्तिरिति । न चात्र ऋ. कारेण लकारग्रहणं न स्यात् । एकजात्यनाक्रान्तत्वादिति वाच्यम् । अत्राणपदस्थाने ऋकारप्रक्षेपेण तत्सिद्धेः । तपरस्तत्कालस्य ७०॥ ननु तच्छब्दस्तपरपरः । तस्य कालानात्मकत्वात्तपरः का- लो यस्येति सामानाधिकरण्यमनुपपन्नम् । तथा चोक्तम्- आदित्यग्रहनक्षत्रपरिस्पन्दमथापरे । भिन्नप्रावृत्तिभेदेन कालं कालविदो विदुः ।। मैवम् । तत्काल इव कालो यस्येत्युत्तरपदलोपाभ्युपगमात् । तःपरो यस्मात्स तात्परो वा स्वसमकालस्य उच्चार्यतावच्छेदकध- विच्छिन्नस्यैव ग्राहकः । तेन अत् इत् इत्यादौ इस्वत्वाव- वच्छिन्नषव्यक्तीनामेव ग्रहणम् । ऋदित्यादौ ऋलुइत्युभयस म्बन्धिनां षण्णां मिलित्वा द्वादशानाम् । तात्परस्योदाहरणम् । "वृद्धिरादैच्" इति । तेन त्रिमात्रादीनां एचां गुणवृद्धिसंज्ञावि- रहात् गङ्गोदकम्, खट्वैलकम् इत्यादौ न त्रिमात्राद्यादेश इति एओडत्यादिसूत्रयोः प्रपश्चितम् । कार्यकालपक्षे भाव्यमान- त्वादेव सवर्णग्रहणवारणे तु वृद्धिसूत्रे तपरकरणं स्पष्टार्थमि. त्यपि वृद्धिसूत्र एव विचारितम् । गुणानां भेदकत्वपक्षे तु तत्र प्रथमपादे परिशिष्टाह्निकम् । ९ । ५२९ वपरत्वम् आकारार्थमपि गुणान्तरयुक्तस्य तस्य ग्रहणस्य फलत्वात्। इदं च सूत्रं विध्यर्थ नियमार्थ वेति पक्षद्वयमाकरसिद्धम् । तथा हि-अणित्यस्याननुवृत्त्या आकारादावभिन्ने तत्कालानां सवर्णानां भिन्नगुणत्वेऽपि अनेन ग्रहणं विधीयते । नन्वेवमस्यानण्सु चरितार्थत्वात् “अतो भिस ऐम्" इत्या- दावणग्रहणे अकारेण दीर्घादीनामपि पूर्व सूत्रेण ग्रहणं स्यादिति चेन्न । तस्यापि “अस्य चौ"इत्यादी इस्वे चरितार्थतया विप्र- तिषेधे परत्वात् अस्यैव प्रवृत्तेः । अन्यत्र संज्ञानां बाध्यवाधक- भावविरहेऽपि अत्र फलभेदेन विरोधात्-सवर्णसंग्राहकत्वे ह्यष्टादशानां प्रसङ्गोऽन्यथा तु षण्णामिति । न च तपरत्वसा- मादेव न ग्रहणम् । “ऋत इद्धातोः” इत्यादौ मुखसुखार्थत्व. स्यापि दर्शनात् । एतेनोक्तसंख्यानुपादानात् विरोधाभावेऽपि तपरत्वसाम- र्थ्यात् बाध्यबाधकभावानुपादानमित्यपास्तम् । अस्येति निर्देशेऽपि लाघवाच्च फलतो विरोधस्यापि बाध- कत्वे तन्त्रतया शाब्दसंख्यानुपादानस्याकिंचित्करत्वात् । यदपि तकारविशिष्टेयं संज्ञा न त्वमात्रम् । तत्काल- स्येति तच्छब्दस्तु विशेष्यमानं परामृशति न तु विशिष्टम् । तदुच्चारणकालसदृशे लक्षणा तु प्राचां मतेऽप्यस्त्येव । सर्वना- मपदेऽपि "एतस्यैव रेवतीषु वारवन्तीयम्", "तत्त्वमसि" इत्या- दौ लक्षणायाः पूर्वोत्तरतन्त्रयोः स्थितत्वात् । तथा च टिधुभा- धन्तर्गताण्वत् इहैकदेशत्वेनानर्थक्याद्राहकताप्रसङ्ग एव नास्ति । विभक्त्युत्पत्तिरप्येवं संगच्छते । वृद्धिसूत्रे 'अत्राकारः प्रयोगस्थै- राकारैरर्थवान्' इति हरदत्तग्रन्थस्तु प्राचां रीत्या नेतव्य इति ।
५२२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये तदपि चिन्त्यम् । तकारस्योपलक्षणतया तद्विशिष्टस्य संज्ञात्वाभावात् । न च विशेषणत्वस्य मुख्यत्वात्तद्गुणविज्ञानात् विशिष्टे तत् । अत्इत्यस्य अइत्यस्य च संज्ञात्वे गौरवात् । अत्, इत्- इत्पानुपूाः शक्ततावच्छेदकत्वे गौरवाच्च । एतेन पञ्चमीसमासानाश्रयणेऽपि न निर्वाहः । अत एवा- स्य नियमार्थत्वं विप्रतिषेधश्चेति भाष्योक्तं सङ्गच्छते । विशिष्ट- स्य संज्ञात्वे तस्यानणत्वात्पूर्वेण प्राप्त्यभावात्, समान- विषयकत्वाभावाचोभयमप्यनुपपन्नं स्यात् । विभक्तिस्तु अक इत्यादिवत् । तत्रानुबन्धनिर्मुक्तस्यैव वाचकतायास्त्वयाऽपि स्वीकारात् । "दिवऔत्" इत्यत्र विधीयमाने तपरकरणं स्वरार्थम् । "द्यौः पितः पृथिवि मातरभुक्' । उदात्तप्रयोगस्तु द्योशब्दस्य । "पृथिवी उत द्यौः" इति । “औत्” “अच्च घेः” इत्यादौ तु मु- खसुखार्थम् । व्याख्यानात् । “समिधाने अग्नौ" इत्यादौ ति. स्वराभावाद्' इति वृत्त्यादयः । यत्तु तैरुक्तम्-"इटोऽत्" इत्यत्र “न विभक्तौ” इति न निषेधः । “इदमस्थमुः" इति उकारानुबन्धनादनित्यत्वात् इति । तदभ्युपगम्यवादमात्रम् । तित्स्वरापत्तेः । “भक्षीय तव राधसः" इत्यन्तोदात्तप्रयोगात् । तस्मान्मुखसुखार्थ मेव' इति दीक्षिताः। स्यादेतत्- अभ्यासार्थे द्रुता वृत्तिः प्रयोगार्थे तु मध्यमा । शिष्याणामुपदेशार्थे वृत्तिरिष्टा विलम्बिता ॥ इति तिस्रो वृत्तयः । ताश्च क्रमेण तृतीयभागाधिका:-दुतं प्रथमपादे परिशिष्टाह्निकम् । ९ । ५२३ - श्लोकमृचं चोच्चारयतो यस्या नाडिकाया नव पलानि स. वन्ति तस्या एव मध्यमायां द्वादश, विलाम्बतायां तु षो. डशेति । तथा च प्रकृते विलम्बितायां तपरकरणे द्रुतमध्ययोः, मध्यमायां तपरकरणे द्रुतविलम्बितयोः, द्रुतायां तपरकरणे म. ध्यमविलम्वितयोरुपसंख्यानं कार्य स्यात्, कालभेदात् । अत्र वार्तिकम्- "सिद्धन्त्ववस्थिता वर्णा वक्तुश्चिराचिरवचनाद वृत्तयो विशिष्यन्ते" इति । अस्यार्थः-व्यञ्जको ध्वनिर्मात्राकालावच्छिन्न एव वर्ण- मभिव्यञ्जयति, स्वरूपेण तु तदुत्तरकालमप्यनुवर्तते । यद्वा ह्रस्वव्यञ्जको ध्वनित्तित्रयेऽपि मात्राकाल एव । किं तु मध्यमविलम्बितयोः पूर्वध्वन्यनुनिष्पादादिना न्यूनका- लेन ध्वन्यन्तरेण पूर्वाभिव्यक्तवर्णस्यैव व्यक्त्यन्तरं जन्यते । अभिव्यञ्जकभेदेऽपि अभिव्यङ्ग्यभेदाभावात् । एवं दीर्घप्लुत- व्यञ्जकयोरपि वृत्तित्रयेऽपि यथाक्रमं द्विमात्रत्रिमात्रत्वे । तदनु- निष्पादी तु ततो न्यून इति न दोषः । हस्वदीर्घप्लुतास्तु स्व- त एव भिन्नाः । वर्णोत्पत्तिपक्षे तु तदनुनिष्पादी दूरादपि ग्राह्यः कश्चित् ध्वनिरावश्यकः । तस्यैव कालभेदाद् वृत्तित्रैवि- ध्यं बोध्यम् । तथा च भाष्यम्- "ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु दृश्यते । अल्पो महांश्च केषां चिदुभयं तत्स्वभावतः" । शब्दो द्विधा व्यञ्जकव्यङ्ग्यभेदात् । शब्दानां व्यङ्ग्याना व्यञ्जकत्वेन सम्बन्धी यो ध्वनिः स एव महानल्पश्च लक्ष्यते । व्यङ्ग्यस्त्वभिन्नकाल एव । तदुभयम् व्यङ्ग्यव्यञ्जकत्वरूपम् । केषां - ५२४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये चित् , ताल्लादिव्यापारजन्यानामेव, न तु भेर्यादिजन्यानामपि । स्वभावतः, कारणवैलक्षण्यात् । 'व्यक्तानामुभयं गृह्यते । अध्य- क्तानां तु ध्वनिरेव' इति कैयटः । आदिरन्त्येन सहेता ७१। आद्यन्तावयवद्वारा समुदायानुकरणेन सिद्ध अन्त्यव्या- वृत्यर्थमिदं मूत्रमिति दीक्षिताः । अन्त्येन इता सहोच्चार्यमाण आदिवों वर्णसमुदायो वा मध्यगानां स्वस्य च संज्ञा स्यात् । वर्णो यथा-अल् इत्या- दिः । संघातो यथा-कृञ् इत्यादिः । कृभ्वस्तीनां ग्रहणात् । 'आद्यन्तौ मध्यापेक्षाविति मध्यानामेव संज्ञित्वम् । “स्वं रूप- म्" इत्यनुवर्तनात् स्वरूपस्य च । सहग्रहणाञ्चायन्तौ समुदिती संज्ञेति "इको यणचि" इति समुदायादेव विभक्तिर्नादिमात्रा- त् । स्वं रूपं चादेरेव गृह्यते नान्त्यस्य । तस्याप्राधान्यात् । अतो दध्यत्र इत्यत्र केवल एव यकार आदेशो न तु णकार. सहितः, इति कैयटादयः । अत्र कौस्तुभकृतः-"प्रत्याहारेष्वाद्या वाचकाः,तत्र ग्रहणक- शाखं सावकाशम्' इति ग्रहणकशास्त्रीयभाष्यपर्यालोचनया वा- चकत्वं तावदाद्यवर्णविश्रान्तम् । अन्त्यस्तु द्योतकः । सहग्रह- णात्तु विशिष्टाद्विभक्तिरिति द्योतकान्तराद्वैषम्यम् । तथा च इत्सं- ज्ञयाऽपहतस्यान्त्यस्य कथं संज्ञित्वमसक्तिः । अन्यथा अजा- दिसंज्ञानामपि णकागदावतिप्रसङ्गात् । विशिष्टस्य संज्ञात्वेऽपि यणशब्दापादानस्यानुपपन्नत्वात् । ककारविशिष्टस्यैव स्थानि- त्वात् इकारस्य स्थानिवासम्भवाद्' इति । अत्रेदं वक्तव्यम् । समुदायस्यैव संज्ञात्वमुपपादितमेव ग्रह- प्रथमपादे परिशिष्टाह्निकम् । ९ । णकसूत्रे । इत्संज्ञासत्त्वेऽप्यन्त्यस्य संज्ञाप्रवृत्तेः पूर्व लोपाभावात् स्थानित्वप्रसक्तिः । मध्यगतानुबन्धानां तु पूर्वपेव लोप इति वैषम्यम् । वस्तुतस्तु "आचारादप्रधानत्वाल्लोपश्च बलवत्तरः" । इति वार्तिके आचारादित्येव संमतः पक्षः । तथा चा. नुवन्धान्यत्वे सति तत्समुदायघटकवर्णत्वम् अजादिपदशक्यता- वच्छेदकमिति प्रत्याहाराह्निकान्ते व्याख्यातम् । अन्त्येनेति किम् । 'सुदप्रत्याहारस्तृतीयैकवचनावयवेन टकारेण मा भूत् । "टाङसिङसाम्" इति निर्देशेन तस्य पूर्वान्तत्वाभावनिश्चया- द्' इति वृत्तिकृतः। 'न च तदन्तं पूर्वसमुदायमादाय दोषः । अन्त्यत्वप्रयुक्ता यस्येत्संज्ञा तस्यैवात्र ग्रहणात् । तस्य च "चुटू" इति प्रत्य- यादित्वेनैव इत्संज्ञत्वाद्' इति हरदत्तः । रप्रत्याहारस्तु लकाराकारस्यानुनासिकत्वप्रतिज्ञान- सामर्थ्यात् । दीक्षितास्तु-'औटष्टित्वस्यानन्यार्थतया प्रत्यासत्तिन्या- याच तेनैव प्रत्याहारादन्त्यपदं मास्तु । तस्मात् मध्यमेन इता सहित आदिस्तदुत्तरेषाम्, अन्त्येन इता सहितो मध्यमः पूर्वेषां संज्ञा मा भूदित्यन्त्यादिग्रहणम् । इतेति किम् । उक्तरी- त्या रप्रत्याहारो यथा स्याद्'इत्याहुः । नव्यास्तु-'सह आसमन्तादेति सहेता मध्यमो वर्णः आद्य- न्तपदसमभिव्याहाराद् । एतेस्तृचि रूपम् । “एत्येपत्यूसु"इति वृद्धिवारणाय आकारप्रश्लेषः । “ओमाङोः" इति पररूपम् । अन्त्येनादिः अण् इत्यादिसंज्ञको भवतीत्यर्थः । स्वरूपमि.
५२६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये त्यनुवृत्तिः । वृद्धयादिवत्सामानाधिकरण्यात्संज्ञात्वप्रत्ययः । एवं च "हलन्त्यम्" इत्यत्रान्योन्याश्रयशङ्काऽपि न' इत्याहुः । येन विधिस्तदन्तस्य ७२। विशेषणं तदन्तस्य स्वस्य च संज्ञा स्यात् । “एरच्” । चयः, जयः । “ओरावश्यके" । अवश्यलाव्यम् । विधिरिति कर्मणि किः। येनेति करणे तृतीया। कृद्योगषष्ठया कर्तरि तस्या बाधित- त्वात् । करणस्य च परतन्त्रत्वनियमात् तृतीयया पारतन्त्र्यं लक्ष्यते । न च सुबिभक्तौ न लक्षणा, व्यत्ययानुशासनवै- यात् इति वाच्यम् । “प्रहासे च" इत्यादिव्यत्ययानुशास- नात् तिक्ष्वपि तदनापत्तौ 'रथो गच्छति' इत्यादौ तिङो व्यापारलक्षणानुपपत्तेः। अत्र नैयायिकाः-विभक्त्यन्तार्थे विभक्तेन लक्षणा, तेन नोक्तविरोधः। अत एव 'अर्थेनैव विशेपो हि, इत्यत्राऽभेदे तृतीया' इति मणिकृतः । "प्रयाजशेषेण हवींष्यभिधारयति"इत्यत्र प्रयाजशेषं हविः- षु क्षारयति' इति मीमांसकोक्तिस्तु व्यत्ययस्यानुशासनिक- त्वात् नानुपपन्ना। प्रकृतमनुसरामः । कर्तृव्यापारव्याप्यत्वरूपंपारतन्त्र्यामिका- रादीनां न भवति इति अप्राधान्यं विशेषणत्वरूपं गृह्यते। तथा च विशेषणत्वेनोपात्तं स्वान्तस्य विशेष्यस्य संज्ञा विशेषणत्वस्य च विशेष्यत्वनिरूपितत्वात् विशेष्यसन्निधावेव प्रवर्त्तते । स च कचि- त्साक्षात् , यथा-"ईदूदेद्"इत्यत्र द्विवचनस्य, कचिदधिकारात्, यथा-"एरच्" इत्यत्र धातोः, कचिदाक्षेपात्, यथा-"इको झल्" , प्रथमपादे परिशिष्टाह्निकम् । ९ । ५२७ इत्यत्र सना धातोः । "इको यणचि" इत्यादौ तु विशेष्यस्य कथमप्यसन्निधानात् तदन्तविध्यभावः । अत्र वार्तिकम् । "येन विधिस्तदन्तस्य चद्रहणोपाधीनां तदन्तोपाधिता- प्रसङ्ग:"। ग्रहणमिति कर्मणि ल्युट् । गृह्यमाणविशेषणत्वेन सम्मतानां ओष्ठ्यपूर्वत्वादीनामित्यर्थः । तथा हि-ऋकारोऽत्र अकारान्त. स्य धातोर्विशेषणमिति स्वयं विशेषणानाकासत्वात् पूर्वमेव विशेष्यान्वयं प्रतिपद्यते-ऋदन्तस्य धातोरिति । ततश्च अद- न्तत्वविशिष्टे धातौ 'विशिष्टे वैशिष्टयम्' इति रीत्या ओष्ठ्यपू. वत्वं विशेषणं स्यात् । यद्वा, 'एकत्र द्वयम्' इतिरीत्या ऋदन्तत्वम् ओष्ठ्यपूर्वत्वं च द्वयमपि धातोर्वशेषणं स्यात् । तथा च संकीर्णम् इत्यादावति- व्याप्तिः । उपसर्गमकारस्य धातोः पूर्व सत्त्वात् । न ह्योष्ठयस्य धात्ववयवत्वमाश्रयितुं शक्यम्, अवयवावयवित्वयोरेकनिरूपित- योरेकस्य विरोधात् । एवं 'पूर्तम्' इत्यादावव्याप्तिः । ऋकारा- न्तत्वेऽपि ओष्ठ्यपूर्वत्वाभावात् । एवम्-"उतश्च प्रत्ययात्" इत्यत्रासंयोगपूर्वत्वमुकारस्य विशेषणं न स्यात् किं तु अङ्गप्रत्ययान्यतरस्य । तत्र आये 'क्षणु' इत्यादावव्याप्तिः । द्वितीये तक्ष्णुहि इत्यादिसिद्धावपि अश्नुहि इत्यादावतिव्याप्तिरिति । अत्र सिद्धान्तवार्तिकम्- "सिद्धं तु विशेषणविशेष्ययोर्यथेष्टत्वाद्” इति । अयमर्थः-वृद्ध्यादिसंज्ञा गुणप्रधानभावानपेक्षा एव यथोदेशं प्रवर्त्तन्ते । इयं तु गुणप्रधानभावसापेक्षत्वात्कार्यकाला, विधि- ५२८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये वाक्यव्यतिरेकेण विशेषणविशेष्यभावानवगमात् । अतो वि. शेषणसम्बन्धवेलायां गुणभावानवगमात्प्रथमं 'विशेषणसबन्ध- मनुभूय ऋकारादिस्तदन्तस्य संज्ञा भवति । तथा च 'विशिष्टस्य वैशिष्टयम्' इति न्यायेन ओष्ठ्यपूर्वकत्वविशिष्टो य ऋकारस्तद- न्तस्य धातोरिति फलितम् । एवमन्यत्रापीति । अत्र सिद्धान्ताभिमतविशेषणविशेष्यभावव्यवस्थापनार्थ प्र- वृत्तानि वार्तिकानि व्याख्यायन्ते । "समासपत्ययविधौ प्रतिषेधः" "उगिद्वर्णग्रहणवर्जम्" । समासविधौ प्रत्ययविधौ च तदन्तविधिप्रतिषेधः। श्रिता- दयो विशेष्यत्वेन सुबादयस्तु विशेपणत्वेनाश्रयणीयाः । तथा च श्रिताद्यन्तैः सुबन्तैः सहेति नार्थः किं तु सुवन्तैः श्रितादिभि- रित्येव । विशेषणत्वाभावात्तदन्तविधिर्नेति फलितोऽर्थः । तेन "द्वितीयाश्रित-"इति समासः कष्टं परमश्रित इत्यत्र न भवति किं तु कष्टश्रित इत्यत्रैव । “नहादिभ्यः फक्"नाडायन इत्यत्रैव । प्रातिपदिकेभ्यो नहादिभ्य इत्यर्थः । नडादीनामेव विशेष्यत्वं न तु नडाद्यन्तेभ्यः प्रातिपदिकेभ्यः इति तदर्थः, नडादीनां विशे- षणत्वानाश्रयणात् । नेह सूत्रनडस्यापत्यं सौत्रनाडिः। “अत इञ्" । अनुशतिकादित्वात् उभयपदवृद्धिः । न च "ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' इति परिभाषयैव सिद्धिः, "पूर्वादिनिः" इत्यत एव सिद्धे “सपूर्वाञ्च" इत्यस्य तज्ज्ञापक- त्वात् इति वाच्यम् । तस्याः समासप्रत्ययविधिमात्रविषयकत्व- मित्येतस्य वार्तिकेन ज्ञाप्यत्वात् । अत एव “गोस्त्रियोः" इति सूत्रे गोऽन्तं यत्पातिपदिकमिति व्याचक्षते । एतेन 'प्रत्ययविधौ ज्ञापितत्वात् उक्तपरिभाषायाः "व्यप- देशिवद्भावोऽमातिपदिकेन" इति परिभाषायाश्च प्रत्ययमात्र- । ।
प्रथमपादे परिशिष्टाहिकम् । ९ । ५२९ विषयकत्वमिति सीरदेवोक्तिरपास्ता । नच "शेषो ध्यसखि" इत्यत्र "ग्रहणवता" इति परिभा. षया तदन्तविधिप्रतिषेधाद् अतिसखिशब्दस्य घिसंज्ञापयुदासो नेति कैयटहरदत्तादिग्रन्थविरोध इति वाच्यम् । तेषां प्रौढिवाद. मात्रत्वात् । तत्र विशेष्यसन्निध्यभावादेव तदन्तविध्यप्रसक्तः। स्यादेतत् । श्रिताद्यन्तैः सुबन्तरित्यर्थस्य पूर्वपक्षसिद्धत्वे कष्टं परमश्रित इत्यत्र समासस्यैव कथं प्रसक्तिः । श्रितान्तस्य सुबन्तत्वाभावात् । श्रितान्तत्वस्य च विभक्तिपूर्वभागे सुबन्त- त्वस्य च विशिष्टे विश्रामात् । द्वयोः सामानाधिकरण्याभावात् । अत्राहुः-परमश्रितेति सम्बुद्ध्यान्तमुदाहरणीयम् । तद्धि प्रत्ययलक्षणेन सुबन्तं श्रितान्तं च स्वरूपेण श्रूयते इति । अथ सिद्धान्तेऽपि सुबन्तैः श्रितादिभिरित्यर्थे श्रितादीनां मुबन्तत्वं बाधितम् । तस्य विशिष्टत्तित्वात् । न च श्रि- तादीनां तत्प्रकृतिके लक्षणा। उक्तरीत्या सम्बुद्धौ चारितार्थ्या- द । तथा च कृष्णश्रितम् इत्यादि न स्यात् । अत्राहु:- समासतद्धितविधौ सर्वत्र श्रितादीनां नडादीनां च त- तत्सकृतिके लक्षणैव । “खट्टा क्षेपे” “नदीभिश्च" इत्यादा- वभेदस्य बाधितत्वात् तत्र पूर्वपदस्य द्वितीयाद्यन्तत्वस्याव- श्यकतया सम्बुद्ध्यन्तत्वानुपपत्तेः । “पूर्वकालैक-" इत्यादी तत्सम्भवेऽपि "एकविभक्तौ" इत्यादिनिर्देशो न सिद्ध्येत् । तस्मात्सामान्यापेक्षज्ञापकबलेन ऐकरूप्याय सर्वत्र तत्तत्प्रकृतिके लक्षणेति स्थिते इहत्यभाष्यवृत्त्योः कैयटहरदत्तकृतं भङ्क्त्वा- व्याख्यानमनादेयम् । यत्तु श्रितादीनां कृदन्तत्वेन "गतिकारकोपपदानाम्-" ५३० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये इति सुबुत्पत्तेः प्रागेव समास इष्टः, अन्यथा 'काष्टश्रितेयः' न- सिद्ध्येत् । “प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च" ग्रहणात् । अत एव किल प्राचा श्रितादिभिरित्येव व्याख्यातम् नतु सुबन्तरिति । तन्न । प्रधानस्त्रीप्रत्यये तदादिनियमाभावात् । “स्त्रीभ्यो ढक्" इति स्त्रीमत्ययग्रहणेन कष्टश्रिताशब्दादेव ढगुत्पत्त्या काष्टश्रितेयसिद्धेः । न च कदाचिच्छ्रिताशब्दादप्यापत्तिः । असामर्थ्यात् । “कर्तृकरणे कृता-" इत्यादिवत्कारकतद्विशेषयोः "द्वितीयाश्रित-" इति सूत्रे ऽनुपादानाचेति । अन्ये तु श्रितादिप्रकृतिकसुबन्तेनेति नान्तरीयकतया प्रकृतिविशेषणीयेति श्रिताद्यन्तप्रकृतिकेन सुबन्तेनेति, नडादि- प्रकृतिकषष्ठयन्तादित्यत्र च नडाद्यन्तप्रकृतिकषष्ठयन्तादित्यर्थ- स्यापत्या-कष्टं परमश्रितः, सौत्रनाडिः इत्यादावतिप्रसङ्गता- दवस्थ्यम् । अतो वार्तिककृतो वाचनिकमेव तदन्तविधिवारण- मित्याहुः । अस्यापवादमाह-"उगित् इति" । उगिता वर्णेन च प्रातिप- दिकं विशेष्यते । अतस्तत्र प्रत्ययविधावपि तदन्तविधिर्भव- त्येवेत्यर्थः । महान्तमतिक्रान्ता अतिमहती । “उगितच" इति डीब् । नच गौरादित्वान्डीषा सिद्धिः । “अनुपसर्जनात्" इति तत्राधिकृतत्वात् । अन्ये तु गौरादिषु महबृहदित्यनयोः प्रामादिकः पाठः । 'महते सौभगाय' इत्यादौ विभक्तरुदात्तत्वार्थ “शतुरनुमो नद्यजादी" इति सूत्रे नद्यजायुदात्तत्वे बृहन्महतोरुपसंख्या- नारम्भात् ङीपाऽप्युदात्तसिद्धरित्याहुः । वर्णग्रहणे यथा-"अत इब्"। अदन्तात्मातिपदिकादि.
प्रथमपादे परिशिष्टाह्निकम् ।९। त्यर्थः । दाक्षिः । न च सामथ्यात्तदन्तविधिः । अस्यापत्यम् इ. कामः इत्यत्र चारितार्थ्यात् । “बाहादिभ्यश्च" इत्युत्तरत्र वृद्ध्यायुदात्तत्वाभ्यां नित्त्वस्य तथात्वाच्च । न च औपगवादे- रेव इन्स्यात् न तु दाक्षिः इत्यत्र, अकारस्यानर्थकत्वादिति वाच्यम् । वर्णग्रहणेऽर्थवद्णपरिभाषाया अप्रवृत्तेः । अत एवै- तत्सूत्रशेषे वार्तिकम्- "अलैवानर्थकेन" इति । एवं च सङ्घातेनार्थवतैव तदन्तविधिः । तेन स्त्रियौ पर. मखियौ इत्यत्रैव "स्त्रियाः" इतीयङ् । न तु शस्ख्यौ, शस्त्र्य इ- त्यत्र । तथा “इन्हन्पूषार्यम्णां शौ” “सौ च" इति नियमे हन् शब्देन प्लीहन्शब्दस्याग्रहणात् दीर्घः । पायसं करोति इत्यत्र "सं- पर्युपेभ्यः-" इति मुडभावः । गर्मुत्स्थातेत्यत्र "उदः स्थास्तम्भोः" इति पूर्वसवर्णाभावः । उदित्यस्य तवर्गेण विशेषणात् , तोरित्य स्य निवृत्तेर्वा । “वा पदान्तस्य"इत्यतः पदग्रहणानुवृत्तावपि पदेन तस्यैव विशेषणात् । अथ हन्स्त्रीग्रहणयोरङ्गाधिकारीयत्वात् संशब्दस्य "ए. उपदान्ताद्-" इति पदाधिकारीयत्वात, "उदः स्था. स्तम्भोः" इत्यस्याप्युक्तरीत्या तथात्वात् "पदाङ्गाधि- कारे तस्य तदुत्तरपदस्य च" इत्यत्र केवलपदाधिकार- स्यापि ग्रहणात्, प्लीहन्शब्दे हन् इत्यस्य अङ्गत्वोत्तरपदत्वा. न्यतराभावात्प्रसक्तिरेव नास्ति, तस्माद् “अलैवानर्थकेन" इति व्यर्थमिति चेन्न । "पदाङ्गाधिकारे" इत्यस्यैव भाष्ये प्रत्याख्यानात् । १ गर्मुत्सुवर्णतृणयोरितिकोशात् गर्मुच्छब्दस्तृणवाची ।
५३२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये "अलैवानर्थकेन" इति वचनेनार्थवता तदन्तविधेः सूत्रेणैव सम्भवात् । तदारम्भे तु परमश्चासावतिमहाश्चेति पर. मातिमहान् इति न स्यात् । अतिमहच्छब्दस्य महच्छब्दो- त्तरपदत्वेऽप्यनङ्गत्वात् । विशिष्टस्य महदुत्तरपदत्वाभावात् । उत्तरपदेति समासान्त्यावयवस्यैव ग्रहणात् । “सान्तमहतः" इति दीर्घस्य, "उगिदचाम्" इति नुमश्च दुर्लभत्वात् । सूत्रेण तु तदन्तविधिना तत्सिद्धेः । "ग्रहणवता-" इति निषेधस्य समासप्रत्ययविधिमात्रविषयकत्वात् । अत्र वार्तिकम्- "अकचश्नम्वतः सर्वनामाव्ययधातुविधावुपसंख्यानम्"। सर्वके । सर्वनामत्वाच्छीभावः । उच्चकैः। अव्ययत्वात् सुपो लुक् । 'उच्चकैः अधीयान' इत्यत्र "अव्ययानां न" इति नि- घातपतिषेधः । उच्चकैर्मुखम् इति । “नाव्ययदिक्शब्द-" इति उत्तरपदायुदात्तत्वनिषेधः । भिनत्ति । अत्रागमानुदात्तत्वेन प्रत्ययस्वरस्य बाधितत्वात् विशिष्टो धातुस्वर इति केचित् । अन्ये तु आभिनोऽत्र इति "दश्च" इति धातोर्विधीयमानं रुत्वमित्याहुः । न हीदं तद् नापि तदन्तमित्युपसंख्यानारम्भः। यद्वा तदन्तान्तस्येति सूत्रार्थः । सर्वशब्दस्य योऽन्तोऽकारः स एव सर्वकशब्दस्यान्त इति । एवमुत्तरत्रापि । अन्वर्थसंज्ञाऽऽक्षि- सस्य संझिनः सर्वादिभिः, अव्ययसंज्ञाक्षिप्तस्य स्वरादिभिः, धातु- संज्ञाभाजां वाप्रकाराणां भूवादिभिर्विशेषणात् । उत्तरपदलोपश्च अत्र वाचनिको न तु उष्ट्रमुखादिवद्गम्यमानार्थस्य सामर्थ्या- भित्तिरिति केचित् । चरमावयव एव अवयवबुद्ध्या तदन्तस्य सर्वादिशब्दान्तत्वव्यपदेशः । अथवाऽवयवे समुदायरूपारोपात् तदन्तत्वम्, पाश्य:- प्रथमपादे परिशिष्टाह्निकम् । ९। ५३३ शूलादिषु गौणेनाप्यर्थेन शास्त्रव्यवहारदर्शनादित्येके । मध्यपातिनामकजादीनां तदेकदेशत्वात्तच्चबुद्धिविघातकत्वं नास्तीति चेन्न । अन्यूनानधिकानामेव संज्ञाविधानात् । नित्या- नां शब्दानां विकारोपजनराहित्येन सर्वसर्वकशब्दयोर्भेदात् । वस्तुतस्तदेकदेशभूतं तद्हर्णन गृह्यते । “नेदमदसोः"इत्यत्र अकोः इति प्रतिषेधाज्ज्ञापकात् । अन्यथा इदमदसावुद्दिश्य विहितस्य कार्यस्य सककारयोरप्रसक्तरिति दिक् । प्रकृतसूत्रप्रयोजनवार्तिकानि- "प्रयोजनं सर्वनामाव्ययसंज्ञायाम्" । सर्वे, परमसर्वे, उच्चैः, परमोच्चैः। "उपपदविधौ भयाव्यादिग्रहणम्" । भयङ्करः, अभयङ्करः, आब्यङ्करणम्, स्वान्यङ्करणम् । भयाख्यादीनां कर्मविशेषणताऽऽश्रयणात् । "क्षेमप्रिय-" इत्यादौ तु कर्मणा क्षेमादयो विशेष्यन्ते इति तदन्तविधेरप्रवृत्तिः। "डीबिधावुगिद्रहणम्"। भवती, अतिभवती । महती, अतिमहती। "प्रतिषेधे स्वस्रादिग्रहणम्"। स्वसा, परमस्वसा, दुहिता, परमदुहिता । ऋदन्तत्वात्मा. सस्य डीपो "न षट्स्वस्रादिभ्यः" इति प्रतिषेधः। नच विधावेव विशेषणं तदन्तस्य संज्ञा न तु प्रतिषेधेऽपीति वाच्यम् । विधि. परस्य कर्मव्युत्पत्योभयपरत्वाद । स्वस्रादिभिः प्रातिपदिकस्य विशेषणात् तदन्तविधिः। "अपरिमाणविस्ताचितग्रहणं च प्रतिषेधे" । द्विबिस्ता, द्विपरमाबिस्ता, त्रिविस्ता, त्रिपरमविस्ता । "अपरिमाणविस्ताचितकम्बल्येभ्यो न तद्धितलुकि" । द्विगुना ५३४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये .. आक्षिप्तमुत्तरपदं बिस्तादिभिर्विशेष्यते इति तदन्तविधिः । "दितिग्रहणं च"। दितेरपत्यं दैत्यः । अदितेरपत्यम् आदित्यः । “दित्य- दित्यादि-" इतिसूत्रे अदितिग्रहणं न कार्यम् । न च परम- दित्यादिपदेभ्योऽपि ण्यप्रसङ्गः । अनभिधानात् । "रोण्या अण्"। आजकरौणः, सैंहकरौणः । "तस्य चेति वक्तव्यम्"। रौणः । न च "स्त्र रूपम्" इति रोणीशब्दग्रहणम् । वार्तिककृता तदनुवृत्तेरनङ्गीकारात् । अतएव"आद्यन्तवद्"इत्यत्र "येन विधिस्तदन्तत्वे" इति प्रयोजनमुक्तवान् । अन्यथा आद्यन्त- वद्भावाभावेऽपि "अचो यत्" इत्यत्र तदन्तविधिना जेयम् इत्या देः, स्वरूपग्रहणाच्च अध्येयमित्यादेः सिद्धिः। न च व्यपदेशिवद्भा- वेन केवलस्यापि तदन्तत्वम् । “अप्रातिपदिकेन" इति तनिषे- धात् । तत्र च लिङ्गं-"पूर्वादिनिः""सपूर्वाच्च"इति योगद्वयवच- नम् । अन्यथा “पूर्वान्तादिनिः" इति ब्रूयात् । व्यपदेशिवद्भा- वेन केवलादपि तत्सम्भवात् । न च रोणीशब्दो ड्यन्तत्वात्प्रातिपदिकमेव न भवती- ति वाच्यम् । “प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि" इति परि भाषया स्त्रीप्रत्ययान्तानामप्युक्तपर्युदासे भेदप्रतियोगित्वेनोपा- दानात् । “तस्य च" इति वचनं तु न पूर्वोक्तस्यैव शेषः, अपि तु वक्ष्यमाणानामपीति बोध्यम् । "रथसीताहलेभ्यो यद्विधौ" । रथ्यः, परमरथ्यः, सीत्यम्, परमसीत्यम् । हल्या, परमहल्या । ठग्विधौ तु तदन्तविध्यभावात्तदभावः ।
प्रथमपादे परिशिष्टाह्निकम् । ९ । "सुसर्वार्द्धदिक्शब्देभ्यो जनपदस्य" । सुपाश्चालकः, सुमागधकः, सर्वपाश्चालकः, सर्वमागधकः, अर्द्धपाञ्चालकः, अर्द्धमागधकः, पूर्वपाश्चालकः, पूर्वमागधकः । "ऋतोद्धिमद्विधाववयवानाम्" । ऋतुवाचिनः शब्दायो वृद्धिमान् प्रत्ययस्तद्विधाववयव- वानां तदन्तविधिरित्यर्थः । शरदः पूर्वो भागः पूर्वशरत्, तत्र भवं 'पूर्वशारदम्' । “सन्धिवेलावृतुनक्षत्रेभ्यः" इत्यण् । “अ. वयवाहतोः'-' इत्युत्तरपदवृद्धिः । वृद्धिमदिति किम् । “प्राकृष एण्य" इत्यत्र तदन्तविधिर्मा भूत् । तेन पूर्वपापम् इति ऋत्वणेव । अवयवानां किम् । पूर्वस्यां शरदि भवं पौर्वशर- दिकम् इत्यत्र कालाहम् एव । तत्र यथाकथञ्चित्कालवाचिनां ग्रहणम् नतु ऋतुलक्षणोऽण् । "ठविधौ संख्यायाम्"। वे षष्टी परिमाणमस्येत्यर्थे "तद्धितार्थे" इति समासे "आदिगोपुच्छसङ्ख्या-" इति ठक् न । तदन्तविधिसत्त्वे संख्यावत्तदन्तादपि ठरतिषेधात् । तेन "प्राग्वतेः" इति ठञ् । द्विषाष्टिकः । न च “अध्यर्द्धपूर्वाद्" इति लुगापत्तिः । “सो- ऽस्यांशवस्नभृतयः" इत्यतः सोऽस्येत्यनुवृत्तावपि “तदस्य परिमाणम्" इत्यत्र प्रत्ययार्थसमर्थविभक्त्योः पुनर्निर्देशाद् लुक्- संबद्धात्तस्मात्पुर्ननिर्देशस्य लुगसम्बन्धरूपलक्षण्यज्ञापकत्वात् । यद्वा अनुवर्तमानेन सोऽस्येत्यनेन सहितं परिमा- णं संख्यायाः इत्येतावद् प्रत्ययविधायकस् । तस्य लुकि "तदस्य परिमाणम्" इति वचनसाम मर्थ्यात्पुनस्तत्सजातीयः प्रत्ययः । न च तस्यापि लुगापत्तिः । विधानसामर्थ्यात् । द्वि- गुनिमित्तत्वाभावाद्वा ।
५३६ व्याकरणसिद्धान्तसुधानिधो प्रथमाध्याय केचित्तु द्वे षष्टी भूत इति "तमधीष्टोभृतोभूतोभावी" इति ठक् । अनाहीयत्वेनालुक्ससक्तेः । तत्र कालादित्यनु. वृत्तावपि काले संख्येये वर्तमानात्पष्टिशब्दात्तदुत्पत्तिसम्भवाच्च । रमणीयादिभ्यस्त्वनभिधानान । परिमाणार्थे तु लुग्दुर्वारः । तथाहि-"तेन क्रीतम्" इत्यारभ्य "तहति" इत्यतः प्राक्तनेष्वर्थेषु अर्हत्यर्थे, तदुत्तरमपि वर्तयतीत्यारभ्य “आका- लिकडावन्तवचने” इत्यन्तेषु चार्थेषु "प्राग्वतेः" इति ठञ् भ- वति । एवं च आहीयानाहीयार्थसाधारण्येऽपि परिमाणार्थस्य ठब आीयत्वं दुर्वारम् । परिमाणस्य "तदर्हति" इत्यतः प्राक् निर्देशात् । “तदस्य" इत्यस्य पुनरुपादानमात्रेणायित्वक्षत्यभा- वात् । अन्यथा द्वौ निष्कौ परिमाणमस्येति द्विनिष्क इति जीवितपरिमाणादन्यत्रापि लुक् न स्यात् । “द्वित्रिपूर्वान्नि- काद्" इति वचनस्य परिमाणातिरिक्ता यार्थेषु सावकाश- त्वात् । तस्मादुक्तरीत्यैव द्विषाष्टिकसिद्धिः। तदस्य' इति तु त्य. क्तव्यं, 'सोऽस्य' इत्यनुवृत्त्यैव सिद्धरित्याहुः।तच द्विषाष्टिकशब्द- स्यायुदात्ततायामनपेक्षितायां ग्राह्यम् । "धर्मानना"। धर्म चरति धार्मिकः। अधर्म चरति आधर्मिकः। “अधर्मा- छ" इति नारभ्यम् । "पदाङ्गाधिकारे तस्य च तदुत्तरपदस्यच" इति प्रयोजनम् । "इष्टकेषीकामालानां चिततूलभारिषु' । इष्टकचितम्, पकेष्टक- चितम्, इषीकतूलेन, मुञ्जेषीकतुलेन, मालभारी, उत्पलमाल- भारी । पदाङ्गति पदशन्द उत्तरपदाधिकारपरः । तत्पयो. जनस्यैवोदाहृतत्वादिति कैयटादयः । अत एव परममहत्परि- माणमित्यत्र षष्ठीसमासः .। सामानाधिकरण्ये "आन्महतः" प्रथमपादे परिशिष्टाह्निकम् । ९ । ५३७ इत्यावप्रसङ्गादिति किरणावल्यां व्याख्यातम् । उपायकृतस्तु कर्मधारयेऽपि न दोषः । न च "पदाङ्गा- धिकारे"इति परममहच्छब्दस्याप्यात्वापत्तिः, तत्र केवलपदाधि- कारस्यैव ग्रहणात् । उत्तरपदाधिकारस्यापि ग्रहणे “इष्टकेपी- का-" इत्यत्र पुनस्तदन्तविध्युपसंख्यानवैयर्थ्यप्रसङ्गादित्याहुः । दीक्षितास्तु-'नेदं युक्तम् । उपसंख्यानस्याऽप्रसिद्धत्वात् । "इष्टकेपी-"इत्यादेस्तूक्तप्रयोजनत्वेनैवोदाहृतत्वात् । एतेन 'सततनैशतमोत्तमन्यतः' इति भारविप्रयोगे "ओजः सहोम्भम्तमसः" इति अलुकमाशङ्य वर्द्धमानोक्तरीत्या समा. दधानो दुर्घवृत्तिकृदपि निरस्तः । यदपि 'ओजःप्रभृतीनां पूर्वपदं प्रति विशेष्यत्वाद्' इति हरद- तः। तदपि वार्तिकविरोधादुपेक्ष्यम् । विशेषणविशेष्य भावनिर्ण- यायैव इहत्यवार्त्तिकानां प्रवृत्तिरिति कैयटनदेव स्वयमपि व्या- ख्यानात् । उक्तस्थले तु नपुंसके भावे क्तः। शेषे षष्ठी । तया समासः । सततं नैशतमोवृतं यत्रेति बहुव्रीहिः । यद्वा सततं नैशतमसो वृतं वृतिर्यत्र । 'वृतु वर्त्तने घमर्थे भावे कप्रत्ययः' इत्याहुः । अङ्गाधिकारे प्रयोजनवार्तिकम्- "प्रयोजनं महदप्स्वसृनप्तॄणां दीर्घविधौ" महान् , परममहान् । आपः, स्वापस्तिष्ठन्ति । “न पूज नाद्" इति समासान्तनिषेधः । न च "यन्तरुपसर्गेभ्य" इति ईत्वापत्तिः । अप इति समासान्तविशिष्टस्यैव तत्रोपादानात् । तत्र च उक्तभाष्यस्यैव प्रमाणत्वात् । स्वसारी, परमस्वसारौ । नप्तारौ, परमनप्तारौ । "पशुष्मदस्मदस्थ्यनडुहो नुम्" ६८ ५३८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये पद्भावस्य प्रयोजनम् । “पादः पद्" इत्यत्र पाच्छब्दे- नाङ्गविशेषणात् 'द्विपदः । पश्य' पादयतेरप्रत्ययः पात्, पदः, पदेत्यादि । “को लुप्तम्" इति णिलोपो न स्थानिवत् । उत्तरपदाधिकारे तु पादशब्दस्यैव विशेष्यत्वम् । तेन “पदाऽऽ. ज्यातिगोपहतेषु"इति पद्भावः-पादेनोपहतं पदोपहतम् इत्यत्रैव, न तु दग्धपादोपहतम् इत्यत्र । उत्तरसूत्रेऽप्येवम् । तेन "हि- मकाषिहतिषुच" इति पद्भावः 'पत्काषी' इत्यत्रैव, न तु 'परम- पादकाषी' इत्यत्रापि । 'परमपत्काषी' इति प्रयोगे तु परमपदेन पत्कापिशब्दस्य कर्मधारयः । यूयम्, अतियूयम्, वयम्, अति- वयम्, अस्थ्ना, परमास्थ्ना, अनड्वान्, परमानवान् । "युपथिमथिपुङ्गोसखिचतुरनडुत्रिग्रहणम्" । "दिव औत्" द्यौः, सुद्यौः । पन्थाः, सुपन्थाः। “न पूजा नात्" इति समासान्तनिषेधः । पुमान् , परमपुमान् , गौः, सुगौः, सखा, सुसखा सुसखायौ, चत्वारः, परमचत्वारः, अनड्वाहः, परमानवाहः, त्रयाणाम् , परमत्रयाणाम् । 'परमपन्थाः, पर- मगौः' इति भाष्ये काचित्कोऽपपाठः । परमसखायौ इत्यत्रापि बहुव्रीहिः । गौणत्वेऽप्यनणित्त्वयोः प्रवृत्तिरिति कैयटः । केचित्तु परमुदाहरणान्तरम् । अगौः, अपन्था इत्यत्र "पथो विभाषा" इति नतत्पुरुष समासान्तनिषेध इत्यर्थ इत्याहुः। "प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्"। इदं चाङ्गसंज्ञासूत्रे योगविभागेन साधयिष्यते । इह प्रत्ययस्य स्वा क्षिप्तस्य धातुप्रत्ययाद्यवयवकसमुदायविशेषणत्वात्तदन्तविधिः । इदं च संज्ञाविधौ न । "मुप्तिङन्तम्" इत्यन्तग्रहणात् । उत्तरपदाधिकारेऽपि न । "हृदयस्य हल्लेखयदणलासेषु" इत्यत्र प्रथमपादे परिशिष्टाह्निकम् । ९ । ५३९ . लेखपदस्य पृथगुपादानात् । अन्यथा अण्णन्तत्वादेव सिद्धेः । उक्तस्यापवादमाह "प्रत्ययग्रहणे चापञ्चम्याः" इति । यत्र पञ्चम्यन्तात्परः प्रत्ययः कार्यान्तरविधानाय परिय- ह्यते तत्र तदन्तविधिर्नेत्यर्थः । यथा “रदाभ्याम्" इत्यत्र । तत्र हि तदन्तविधिसद्भाचे रेफदकाराभ्यां परो यो निष्ठान्तस्तद- वयवस्य तकारस्य नत्वं स्यादित्यर्थापत्तौ 'दृषत्तीर्णः' इत्यत्र धा- त्ववयवतकारस्यापि नत्वापत्तिः । न च "संज्ञाविधौ प्रत्ययग्रह- णं न" इत्यस्यात्रावकाशः । संज्ञाया विधेयत्वे एव तत्प्रवृत्तेः । नचैवं संज्ञाविधावित्यस्य वैयर्थ्यम् । तदन्तस्य संज्ञायां विधिप्र- देशेषु पुनस्तदन्तविधिना प्रत्ययान्तान्तस्य संज्ञा स्यादिति त. निषेधसार्थक्यात् । पञ्चम्यन्तात्प्रत्ययविधौ तदन्तविधिर्नेति तु नार्थः । “वितश्च तत्प्रत्ययाद्" इत्यत्र अप्रत्ययादेव अञ्- विधाने तस्यैवाङ्गसज्ञायां वृद्धिस्वरयोः प्रसङ्गात् । “स्यतासी लुलुटोः" इत्यत्र धातोरित्यधिकारादपञ्चम्या इति निषेधात्, यद्वा लुलुटोविशेष्यत्वाश्रयणात्तदन्तविध्यभावः । "यस्मिन्विधिस्तदादावल्ग्रहणे" । सौत्रस्य तदन्तविधेर्वाचनिकोऽयमपवादः । दुराग्रहिणस्तु प्रकृतसूत्रे तस्मिन्नित्यस्य, "आदिरन्त्येन" इति सूत्रादादिग्रहणस्य, इतेति तृतीयान्तस्य चानुवृत्त्या इत्प- दस्य च लक्षणया अल्परत्वाल्लभ्यत एतद् इत्याहुः। अपरे तु यान्तप्रत्ययस्यासम्भवेन प्रथमत्यागे कारणाभा- वात् यादावित्यर्थकेन “वान्तो यि प्रत्यये"इति सूत्रेणैवेयं परि- भाषा ज्ञाप्यते इत्याहुः । अन्ये तु "गुणोऽपृक्ते" इत्यपृक्तग्रहणमत्र मूलम् । तद्धि व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये "उतो वृद्धिलाक हलि" इत्यनुवृत्तौ क्रियते । हलीत्यनुवृत्ती हलादौ इत्यर्थः स्यात् । अपृक्तग्रहणे तु 'पौर्णोत्' इत्यत्र वर्णमात्रे इत्याहुः । तेन "अचिश्नु" इत्यादौ अजादावित्यर्थो न तु अजन्त इति । तेन श्रियः, भुवः इत्या- दि । विशेषणेनैवायम् । अपवादस्योत्सर्गसमानविषयकत्वात् । तेन “अमि पूर्वः” इत्यत्राचीत्यस्य विशेष्यत्वाश्रयणात् अ- म्यचीत्यर्थो न त्वजादावमीति, विशेषणवैयर्थ्यात् । अमि योऽच् अमोऽवयव इति यावत् । तेन मकारसहितस्य पूर्वरूपं नेति दीक्षिताः। वृत्तिकारादयस्तु अमि परत इत्येवार्थः । अजनुवृत्तौ प्रमा- पाभावात्, “आदेः परस्य" इत्यत एव दोषानवकाशात् । वृद्धिर्यस्याचामादिस्तद्- वृद्धम् ७३ । । यत्समुदायघटकानामचां मध्ये पूर्वोऽच् वृद्धिसंज्ञः स वृद्ध. संज्ञः स्यात् । आम्रगुप्तीयः । वृद्धाच्छः । बहुत्वमविवक्षितम् । शालीयः । व्यपदशिवद्भावादेकस्यापि । जानातीति ज्ञा ब्राह्मणी । तस्या अयं ज्ञीयः । “वा नामधेयस्य वृद्धसंज्ञा वक्तव्या"। पौरु- षेयसंकेतः संज्ञा । उभयत्र विभाषेयम् । देवदत्तादीनामप्राप्ते वा- मनादीनां च प्राप्ते आरम्भात् । देवदत्तीयः देवदत्तः । “वि- धाय मूर्ति कपटेन वामनीम्' इति श्रीहर्षः । “गोत्रोत्तरप- दस्य च नित्यम्"। वृद्धसंज्ञा वाच्यत्यर्थः । कम्बलप्रियस्य चा- रायणस्य शिष्याः कम्बलचारायणीयाः । घृतरौढीयाः । रूढ- स्यापत्यं रौहिः । पूर्ववत् । 'ओदनपाणिनीयाः' । पणनं पणः ।
प्रथमपादे परिशिष्टाह्निकम् । ९ । ५४१ घबर्थे कः। तत इनिः । पणिनो गोत्रापत्यं 'पाणिनः' । अण् । "गाथिविदाथकशि-" इति प्रकृतिभावान टिलोपः। तस्य युवा- पत्यं पाणिनिः'।न च "ण्यक्षत्रियार्षत्रितः" इति इओ लुक् स्या- त, आर्षाद् यून्युत्पन्नत्वादिति वाच्यम्। "ऋष्यन्धक" इति विहित- स्यैव तत्र ग्रहणात् । अस्य च सामान्यविहितत्वात् । यद्वा पाणिनशब्दस्य यौगिकत्वात्, लुम्विधौ च रूढस्यैव- ग्रहणात्, “दाक्षीपुत्रस्य पाणिनेः" इति भाष्यवार्तिकनिर्देशा- च । तस्य च्छात्रा इति विवक्षायां “यूनि लुक्" इति इञो लुक् । तेन “इञश्च" इत्यणोऽप्रवृत्तौ "द्धाच्छ" । न च प्रत्ययलक्षणेन इअन्तत्वानपायात् दोषतादवस्थ्यम् । “इनश्च" इत्यत्र "कण्वा. दिभ्यः"इत्यतो गोत्रे इत्यनुवृत्त्या तस्य च पारिभाषिकगोत्रपर- तया यूनि तदप्रत्तेः । यद्वा गोत्रान्तादसमस्तवत्प्रत्ययो भवतीति वक्तव्यम् । पूर्वो तान्येवोदाहरणानि । पैङ्गलकाण्वाः । “कण्वादिभ्यो गोत्रे" इत्यण । वृद्धत्वाभावान छः । गोत्रान्तादित्यस्यापवादो "जि. ढाकात्यहरितकात्यवर्जम्" इति । कतशब्दो गर्गादिः । जिह्वा- चपलः कात्यो जिह्वाकात्यः, हरितभक्षः कात्यो हरितकात्यः । तस्यच्छात्रा जैहाकाताः हारितकाताः । औत्सर्गिकोऽण् । “यस्येतिच" इत्यकारस्य "आपत्यस्यच तद्धितेऽनाति" इति च यकारस्य लोपः। । त्यदादीनि च ७४। वृद्धसंज्ञानि स्युः । इदमीयम्, किमीयम् । “वृद्धाच्छः" । त्वा दायनिः, मादायनिः । "उदीचां वृद्धाद्" इति फिञ् । “प्रत्य- योत्तरपदयोश्च"इति त्वमादेशौ । चकारेण "वा नामधेयस्य" ५४२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये इत्यादिवार्तिकोक्तार्थसिद्धिरिति न्यासकारः । इहादिग्रहणं न सम्बध्यते, अच्सम्बद्धस्यैव तस्यानुवृत्तेः । यस्याचामादयस्त्यदादय इत्यन्वयस्य बाधितत्वात् । निर्धारण- स्य सजातीयविषयकत्वनियमात् । त्यदादीनां चारूपत्वा- भावात् । पूर्वपक्षे तु त्वदीयः इत्यादौ छो न स्यात् । न च व्य- पदेशिवद्भावः । “अप्रातिपदिकेन" इत्युक्तत्वात् । न च वच- नसामर्थ्यम् । त्वत्पुत्राः इत्यादौ सावकाशत्वात् । आदिग्रहणानु- वृत्त्यन्यथाऽनुपपत्या उपसर्जनानामपि त्यदादित्वसम्भवात् । अचामित्यस्य त्वनुवृत्तिरुत्तरार्थैव स्यात् । तस्मादिहादिग्रहणा- ननुवृत्तिरेव । एक प्राचां देशे ७५। मण्डूकप्लुत्या यस्याचामादिरित्यनुवृत्तिः । एड् यस्याचा- मादिस्तद्वृद्धसंज्ञं वा स्यादेशाभिधाने । एणीपचनीयः, गोन- र्दीयः, भोजकटीयः। “वृद्धाच्छः" । एडिति किम् । आहिच्छत्रः, कान्यकुब्जः । औत्सर्गिकोऽण् । विधेयसंज्ञासम्बन्धात्माचामि- त्याचार्यनिर्देशाद्विभाषालाभः । व्यवस्थितविकल्पश्चायम् । तेन क्रोडदेवदत्तशब्दयोरपाग्देशवाचिनोर्टदसंज्ञा । वृद्धसंज्ञत्वात् काश्यादित्वात् वृद्धलक्षणठचिठौ भवतः। प्राग्देशवाचिनस्त्वणे- व । क्रौडो, देवदत्त इति । “शैषिकेषु इति वक्तव्यम्" । सेपुरम्, स्कोनगरं च वाहीकग्रामौ । वृद्धत्वात् “वाहीकग्रामेभ्यश्च" इति ठनिठौ । सैपुरिकी,सैपुरिका,स्कानगरिकी,स्कौनगरिका।शैषि- केषु इति वचनात् अपत्यविकारयोद्धलक्षणौ फिल्मयटौ न भवत इति कूणिव्याख्यानाश्रयिणो भाष्यकारस्य मतम् । जयादित्यस्तु पाचामिति देशविशेषणम्। माचि देशे विद्यमानानां पुंसां यो देश- प्रथमपादे परिशिष्टाह्निकम् । ९ । ५४३ स्तदभिधाने इति सूत्रार्थः । पूर्वमते मतशब्दाध्याहारप्रसङ्गात् । तेन देवदत्तो नाम वाहीकग्रामस्तस्य प्राग्देशत्वाभावात् दैवदत्तः इत्यत्र वृद्धत्वाभावादेव ठनिठौ न भवत इति व्याख्यौ । अत्र पक्षे सैपुरी इत्यादिकं वचनेनैव साध्यम् । तयोवाहीकग्राम- तया तद्रीत्या वृद्धत्वाभावात् इति । देशे किम् । गोमती नाम प्राग्देशनदी । तत्र भवा मत्स्या गौमताः । नच देशग्रहणे नद्यपि ग्राह्या इति वाच्यम् । “विशिष्टलिङ्गो नदीदेशोऽग्रामाः" इत्यत्र पृथक् नद्याः उपादानात् । प्राग्देशविभागस्तु अमरेण उक्तः "शरावत्यास्तु योऽवधेः । देशः प्रारदक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः" शरावती नदीविशेषः उत्तरपूर्वाभिमुखीति हरदत्तादयः । नैत्याः पश्चिमाब्धिगामिनी इत्यमरव्याख्यातारः। तस्या दक्षिणपूर्वस्यां दिशि व्यवस्थितो देशः प्राग्देशः । उत्तर- परस्यांतु उदग्देशः। तदुक्तम्- प्रागुदश्चौ विभजते हंसः क्षीरोदकं यथा । विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती ।। बाहीकदेशस्तु प्रागुदग्बहिर्भूतः । “बहिषष्टिलोप" इति व्युत्पादनात् इति विवरणकाराः। दीक्षितास्तु "अव्ययात्यप्" इति सूत्रे "उदीच्यग्रामाच ब- हचोऽन्तादात्तात्" इत्यस्यावकाशः शिवपुरं 'शैवपुरः' । ठनः स एव । शाकलं नाम बाहीकग्राम:-इह उभयं प्रामोति इति भा. ध्ये बाहीकस्यापि उदग्रूपत्वं लभ्यते । हरदत्तादिभिरपि तथैव अनुवादाच । बाहीकदेशस्त्ररूपं तु कर्णपर्वणि-
५४४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये
पश्चानां सिन्धुषष्ठानामन्तरे ये समाश्रिताः ।
बाहीका नाम ते देशा न तेषु दिवसं वसेत् ॥
धर्मबहिर्भूतत्वाद्वाहीका इति तात्पर्यम् । शतदूर्विपाशा
इरावती वितस्ता चन्द्रभागेति पश्च नद्यः । सिंधुनदस्तु
षष्ठस्तन्मध्ये देशो बाहीक इति व्याख्यातारः । व्युत्पत्त्यन्तरम
पि तत्रैव ।
बहिकश्च बहीकश्च विपाशायां पिशाचकौ ।
तयोरपत्यं बाहीका नैषा सृष्टिः प्रजापतेः ।।
एतद्विवेचनं च "बाहीकग्रामेभ्य" इत्यादौ उपयोक्ष्यते
इत्याहुः ।
इति श्रीसिद्धान्तसुधानिधौ प्रथमाध्यायस्य प्रथमे
पादे नवमाह्निकम् । पादश्वायं समाप्तः ।
द्वितीयपादप्रारम्भः। गाङ्कुटादिभ्योऽञ्णिन्ङिता गाङित्यादेशग्रहणम् । डकारस्यानन्यार्थत्वादिति द्वितीये वक्ष्यामः । तस्मात्कुटादिभ्यश्च परे णिद्भिन्नाः प्रत्यया डि. द्वत्स्युः । अत्र कुटादित्वं कुटोच्चारणोत्तरमुच्चारितत्वम् । तच्च कुटादिष्वेव । तथाऽपि तद्गुणबहुव्रीहिणा कुटत्वेन रूपेण कु- टस्यापि बोधः । नचोभयसाधारणेनैकज्ञानविषयत्वादिना रू- पेण कुटस्य तदादीनां च बोधोऽस्तु इति वाच्यम् । अत- द्गुणसंविज्ञानस्थले बहुव्रीहिघटकपदार्थव्यावृत्तरूपणैव बोध- स्य वाच्यत्वात् । तत्साधारण्यार्थमत्रापि तथाकल्पनात् । उ. भयत्राप्यन्यपदार्थस्यैकरूपेणैव प्रतीतेः । वर्तिपदार्थस्योपल- क्षणत्वविशेषणत्वाभ्यामेव बहुव्रीहिद्वविध्यात् । पाश्चस्तु-अतद्गुणसंविज्ञाने लक्ष्यमात्रवृत्तिना तद्गुणे समयसाधारण्येन धर्मेण बोध इति विभागात् तद्गुणस्थले श- क्यलक्ष्योभयसाधारणधर्म एव लक्ष्यतावच्छेदक इति वदन्ति । अत एव क्षणभङ्गवादे शब्दादिरित्यत्र चरमशब्दभिन्नत्वस. मानाधिकरणसत्त्वेनालीकव्यावृत्तेन सर्वानुगम इति मिश्रादिभिः ाख्यातम् । डिदिति चातिदेशः । तदुक्तम्- 'परत्र परशब्दः प्रयुज्यमानो विनाऽपि वति तदर्थं गमय- ति' इति । अध्यगीष्ट । “घुमास्थागापाजहातिसां इलि" इति ।
५४६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये . तन्न हलादिक्डिदार्दधातुकनिमित्तक ईकारादेशः । 'कुट कौटिल्ये' चुकुटिथ, कुटिता । “विडतिच" इति गुणनिषेधः । 'कुङ् शब्दे' एतत्पर्यन्ताः कुटादयः। अथ कथं 'प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतक' इत्यमरः । 'चित्रेणापि न शक्यते विलिखितुं सर्वाङ्गसंकोचभा- क्' इति सुबन्धुश्च । लिखतेः कुटादावनन्तर्भावात् । अत एव 'विलेखितुं भीमभुवो लिपीषु' इति श्रीहर्ष इति । अत्र वदन्ति-प्रमाद एवायम्, संज्ञापूर्वकविधेरनित्यतया वा समाधेयम् । कोचित्तु एकशेषेण कुटस्यादिरिति तत्पुरुषं व्याख्याय लिखतेरपि प्रकृतसूत्रेण संग्रह इत्याहुः । । 'लेखिता' इत्यादीनां वृत्तिकारहरदत्तादिभि- रुदाहृतत्वात् । “आलेखने" इति सौत्रप्रयोगविरोधाश्चेति । इह पूर्वपक्षत्रयं भाष्ये निरस्तम् । तथा हि-गा- डादिभ्यः परे प्रत्यया डिन्तः स्युरित्यर्थे बाधः । तत्परस्य प्रत्ययस्य इत्संज्ञकङकाररहितत्वात् । सत्वे वा वचनान्तरसिद्ध- त्वादेतद्विधिवैयर्थ्यम् । न च चडादेरेवानेन विधानम् । अभिण- दिति पर्युदासवैयर्थ्यात् । तदुक्तम्-"कित्किद्वचने तयोरभावाद- प्रसिद्धिः" इति । किग्रहणमुत्तराभिप्रायम् । अस्तु तर्हि गाडगदिप्रकृतिकणिद्भिनप्रत्ययानुवादेन जि. कितोविधिरिति द्वितीयः । उक्तप्रत्ययस्य डकार इत्संज्ञको भवतीत्यर्थः । इद्धर्माक्रान्तस्यैव विधानादादौ मध्ये ऽन्ते वेति दे. शविशेषस्यानपेक्षणात् । इताश्च धर्मोऽभूयमाणानामपि कार्यविशे- षकत्वम् । मैवम् । टिवकित्त्वमित्त्वानामभावाद् अनन्तरार्थे च बहुव्रीहेरभावात् डिदिति तत्पुरुषस्यैव वाच्यत्वात् "आदेः प.
द्वितीयपादे जित्वाद्यातिदेशाह्निकम् । १ । ५४७ रस्य" इति आदेः स्थाने डकारादेशप्रसङ्गात् । न च 'कुटिता' इत्यादौ प्रासेद्धङित्त्वाश्चङादय एव विधीयन्तामिति वाच्यम् । तेषां तदर्थोक्तावसामर्थ्यात् । तृङादीनां चात्र प्रसिद्धिविरहात् । एतद्वचनादेव तेषामपूर्वविधिस्वीकारे तु डिच्चेत्यन्तादेशत्वप्रस- जात् । न चानुबन्धानामसतामेव कार्यनिर्वाहकत्वात्कथमादेश- त्वम् आदेशस्य भावरूपतयाऽन्यप्रसङ्गसंभवादिति वाच्यम् । लोपस्येव वचनसामादित्संज्ञकङकारस्याप्यादेशत्वसम्भवात् । स्थानिनिवृत्त्युत्तरं डकारस्य निवृत्तिसम्भवात् । न च षष्ठीनिर्दे शाभावः । पञ्चम्याः प्रथमायाः षष्ठीत्वप्रकल्पनोपपत्तेः । तदेतदुक्तम्- "भवतीति चेदादेशप्रतिषेधः" इति । अस्तु तर्हि गाडादिभ्यः परोऽणित् ङित्संज्ञको भवतीति तृतीयः। मैवम् । क्डिन्तीतिशब्दाकितिहितीत्यनयोर्भेदात्संज्ञिना- मप्रतीत्यापत्तेः । परिच्छिन्नपरिमाणानामेव संज्ञात्वात् । न्यूना- तिरिक्तशब्दोचारणस्य संज्ञास्वरूपानुपलम्भात् । डिसंज्ञाया व्यचेः कुटादित्ववचनात् संप्रसारणार्थतया, लिटः कित्संज्ञा- याश्च "वचिस्वपि" इति संप्रसारणार्थतयाऽप्युपपत्तेः, गाङ्- कुटादिभ्यः परस्य डिग्त्संज्ञा तु न्यायवशादप्रयोजनैव स्यात् । "विडति च" इत्यादौ यौगिकस्यैव ग्रहणसम्भवात् । किति डितीत्यादौ च कृत्रिमत्वादनयोरेव ग्रहणं स्यात् । नच च- डादीनां छिन्त्ववैयर्थ्यम् । यत्र संज्ञास्वरूपानुपलब्धिस्तत्र विङति प्रदेशेषु ग्रहणार्थत्वात् । तदुक्तम्- "संज्ञाकरणे क्ङिद्रहणेऽसंपत्ययः शब्दभेदाद्" इति । तस्मादतिदेश एव स्थितः । ननु सिसृक्षति, दिक्षते, इत्यत्र "हलन्ताच" इति सन:
५४८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये कित्त्वविधानेऽपि "मृजिशोझल्यमकिति" इत्यमागमः स्यात् । तदुक्तम्- "तद्वदतिदेशेऽकिद्विधिप्रसङ्गः"इति । अतिदेशानां स्वाश्रया- निवर्तकत्वात् । मैवम् । किति न भवतीति व्याख्यानात् । तदुक्तम्- "सिद्धन्तु प्रसज्यप्रतिषेधाद्" इति । अथ चुकुटिषति इत्यादौ सनो डिस्चात् तदन्तस्यात्मने- पदापत्तिः। मैवम् । उपदेशे यो ङित्तदन्तादिति व्याख्यानात् । भाष्ये तु डिन्तीव जिद्वदिति सप्तम्यर्थे वतिमाश्रित्य पूर्वस्य डिन्तीव कार्यमतिदिश्यते ऽतो न डिन्दन्तत्वानिबन्धनमात्मने- पदमिति व्याख्यातम् । यद्वार्तिकं-"सिद्धं तु पूर्वस्य कार्याति- देशाद्" इति । यद्यपीह वतिर्नोपात्तस्तथाऽप्यतिदेशस्य यावत्कार्यार्थत्वाभावाद्याख्यानाद्विशिष्टकार्यार्थ एवातिदेशः । उपदेशग्रहणानुवृत्त्या चोक्तस्थले नात्मनेपदमिति सामर्थ्यात् पूर्वस्य कार्यातिदेशोऽयमिति भाव इति कैयटः । .. विज इट् । २। विजेः पर इडादिप्रत्ययो डिन्द्वत् । वृद्धिसंज्ञासूत्रादादिपदा- नुवृत्या इडादिरित्यर्थलाभः । आदिभूतस्य इटो डिवे प्रयोजनाभावात्तदादिप्रत्ययलाभः । अत एवार्थवद्हणप्रत्यया. प्रत्ययपरिभाषाभ्यामुत्तमपुरुषैकवचनस्येटो ग्रहणे प्रसक्तेऽपि तन्न भवति, आधवयवत्वाभावात् इति न्यासकारः । अन्ये तु आगमग्रहणस्यावश्यकतया तस्य गुणनिमित्तत्वा. भावेन डिववैयात् मत्वर्थलक्षणया इड्वान् प्रत्ययो गृह्यते । इद् च प्रत्ययस्यादिरेवेति फलितार्थः-इडादिप्रत्यय इति । अत आदिग्रहणानुवर्चनं व्यर्थमित्याहुः ।
द्वितीयपादे उिवाद्यतिदेशाह्निकम् । १। ५४९ 'विजिर पृथग्भावे' इत्यस्य नेह ग्रहणं व्याख्यानात् । इटोऽसम्भवादिति तु हरदत्तः । केचित्तु विवेजिथ इत्यत्र थलि क्रादिनियमादिट् सम्भवत्येव । पित्वेन "असंयोगाल्लिङ्" इति कित्त्वस्यामवृत्तेरित्याहुः। 'ओविजी भयचलनयोः' । प्रायेणायमुत्पूर्वः । उद्विजिता, उद्विजिष्यते । विभाषोर्णोः ३ । 'ऊर्गुब् आच्छादने । अदादिः । अस्मात्पर इडादिप्रत्ययो वा हिन्दत् । ऊर्जुनुविथ, ऊर्जुनविथ, अणुविता, ऊर्णविता । सार्वधातुकमपित् ४॥ अपित्सार्वधातुकं डिन्द्वत् । तुदति । शस्य डिवान्न लघूप- धगुणः । अतिदेशे कल्प्यमानो वतिस्तृतीयान्तादेव नतु षष्ठया- धन्तात् । सादृश्यानुयोगिनि प्रथमाश्रवणाद् । अन्यथा षष्ठीस- प्सम्योरन्यतरस्यापत्तेरिति दीक्षिताः । ननु सूत्रे वतेरभावाद्विवरणवाक्य एव तत्प्रयोगात् तदनुरो- धेन सूत्रे सप्तम्याद्यन्तत्वापादनं न युक्तम् । विवरणवाक्ये तदापादने त्विष्टापत्तिरेव । सूत्रे उभयोः समानविभक्त्यन्तपद- प्रयोगबलादेवातिदेशलाभादुपजीव्यविरोधाचेति । मैवम् । तृतीयान्तादेव वतिमाश्रित्य विवरणवाक्येऽपि सौत्रविभक्तिसम्भवे तत्रापि विभक्त्यन्तरकल्पने प्रमाणाभावात् । कैयटस्याप्यत्रैव स्वारस्यम् । अथ सार्वधातुकग्रहणं व्यर्थम् । वनिपः पिस्वेन तन्डि- त्वस्य ज्ञापकत्वाभावेऽपि चङादीनां डिवेनार्द्धधातुकानां डि- ५५० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये क्वाभावस्य ज्ञाप्यत्वात् । न चैवं तातडो डिवेन सार्वधातु- कानामप्यङित्त्वज्ञापनं स्यादिति वाच्यम् । तिपः पित्त्वेनामा. सप्रापणार्थत्वात् । ज्ञापकं च सजातीयापेक्षम् । तेन सार्वधातु- कस्याप्यविज्ञापनस्यानापत्तिः । मैवम् । सजातीयविषयकत्वे चङन्डौ लुग्विकरणानां, नजिङ् वर्तमानकालानाम् , इवनिए भूतकालानाम्, अथङ् औणादिकानाम्, नङ् घमर्थीयानां ज्ञापकः स्यादित्यार्द्ध- धातुकान्तराणां डिवापत्तिः । न च प्रत्ययत्वव्याप्यधर्मेण साजात्यं विवक्षणीयम्, न तूक्तधमैरिति वाच्यम् । विनि- गमकाभावात् । स्यादेतत् । अपिदिति पर्युदासः प्रतिषेधो वा । नायः । च्यवन्ते, प्लवन्ते इत्यादौ शपोऽन्तादेशस्य च “अतो गुणे" इति पररूपे परस्यापित इहाश्रयणादेकादेशस्यादिवद्भावारिप- द्भिन्नस्य सत्त्वात् ङित्वेन गुणनिषेधापत्तेः । न च पररूपात्पूर्व- मेव गुणः । पररूपस्य नित्यत्वादन्तरगत्वाच । यद्यपि सार्वधातुकावयवस्याकारस्यैकादेशः तथाऽपि परं प्रत्यादिवत्वादन्तशब्दोऽपित् सार्वधातुकं भवत्येवेति हिवा- सङ्गः। च्यवे इत्युत्तमैकवचने तु सर्वस्वैव सार्वधातुकस्यैकादे- शान्डिन्त्वप्रसक्तिसौलभ्यम् । तदुक्तम्- "अपित् डिदिति चेच्छबेकादेशप्रतिषेधः" इति । न द्वितीयः । तुदानि, लिखानि । “आडुत्तमस्य पिच्च" इ. त्यात् । पिदपितोरेकादेशस्यादिवद्भावात् पिन्नेति डिवप्रतिषे- धापत्तेः । तदुक्तम्- "न पित् डिदिति चेदुचमैकादेशप्रतिषेधः" इति ।
द्वितीयपादे ङित्त्वाद्यातदेशाह्निकम् । १। ५५१ अत्र भाष्यम्-"उभयथाऽपि न दोषः । एकादेशः पूर्वविधौ स्थानिवद्भवतीति व्यवधानात्" इति । यद्यपि च्यवन्ते इत्यत्र “वार्णादाङ्गम्" इति समाधानं सुलभम् , तथाप्युभयसाधारणपरिहाराभिधित्सया तन्नाश्रितमिति कैयटः। असंयोगालिद कित् ५। असंयोगात्परोऽपिल्लिद कित्स्यात् । चक्रतुः । “सार्वधातु. कार्दधातुकयोः” इति गुणे प्राप्ते "क्ङिति च" इति निषेधः । "ऋदुपधेभ्यो लिटः कित्त्वं गुणाद्विप्रतिषेधेन" । बिभिदतुः, बिभिदुः इत्यादौ कित्त्वं नित्यं गुणस्त्वनित्यः । ववृते, वधे इत्यादौ द्वयोरप्यनित्यत्वम् । कित्त्वे कृते गुणस्येव गुणे कृते रपरत्वेन संयोगात्परतया कित्त्वस्याप्यप्रसक्तेः । ततश्च पर- स्वाद् गुण एव स्यादिति विप्रतिषेधारम्भः । न च यथा क्सस्य कित्त्वसामर्थ्याद् गुणो बाध्यते तथेहाप्यतिदेशसा- मादिति वाच्यम् । क्सस्य कित्करणे प्रयोजनाभावाद् अनवकाशत्वात् । इह तु सम्प्रसारणेन कृतार्थत्वाद् दुर्बला- तिदेशमाप्तस्य गुणनिषेधस्य दुर्बलत्वाद् गुणेन सह विप्रतिषेधा- नुपपत्तिः । तातङ्न्यायो ऽप्यत्रानुसन्धेयः । तस्मात्परशब्द- मिष्टवाचकमाश्रित्य सूत्रेण संगृहीतमेवार्थ स्फुटीकतुं वार्ति- कारम्भः। स्यादेतत् । गाडादिप्रकृतिकस्य प्रत्ययस्य डिवम् ,असंयो- गादित्यादौ च कित्त्वमतिदिश्यते इति वैषम्ये किं बीजं उभय- त्राप्यन्यतरस्यैवातिदेशौचित्यात् । एतेनोपदेशो ऽपि व्याख्यात इति चेत् । अत्र वात्तिकम् ।
५५२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये "पृथगनुबन्धत्वे प्रयोजनं वचिस्वपियजादीनामसम्प्रसार- णम्", "सार्वधातुके चडादिषु जाग्रो गुणविधिः", "कुटादी. नामिप्रतिषेधः" "क्त्वायां कित्पतिषेधश्च" । सुप्त इत्यादिवत् स्वपित इत्यादौ सम्प्रसारणं स्यात् । चकादयश्च “चङङ्नजिवनिवथङ्नङः" इतिभाष्यम् । शून इत्यादिवदशिश्वियद्, अश्वदित्यत्रापि स्याद्, सुप्त इत्यादिवत् स्वम इत्यत्रापि स्यात् । इष्टवान् इतिवत् यज्वा इत्यत्रापि स्यात् । उषित इतिवत् आवसथ इत्यत्रापि स्यात् । रुदिविदिभ्यां डिदित्यतो डिदित्यनुवृत्तौ "उपसर्गे वसेः" इत्यथप्रत्ययः। इष्टम् इतिवत् यज्ञ इत्यत्रापि स्यात्। “यजयाच-"इति न । जागृत इत्या. दिवत् जागरित इत्यादावपि अडिन्तीति पर्युदासः स्यात् । गुणवि- धिरित्यत्राऽकारप्रश्लेषपरित्यागे तु दृष्टान्तदाटन्तिकवैपरीत्येन व्याख्येयम् । लूत्वा पूत्वा, इत्यादिवत् नुवित्वा इत्यादावपि "श्रयुकः किति" इतीदप्रतिषेधः स्यात् । यद्यपि पूर्वस्य कार्य एवातिदेशः स्थापित इट्प्रतिषेधश्च परस्यैव कार्यः तथापि कितीतिसप्तमीनिर्देशात् इप्रतिषेधस्याप्यतिदेशः स्याद् इत्येताव- न्मात्रेणोक्तमिति कैयटः । देवित्वा, सेवित्वा इत्यादिवत् कुटित्वा पुटित्वा इत्यत्रापि “न क्त्वा सेड्" इति कित्त्वप्रतिषेधः स्यात् । विशेषाभावादोपदेशिकवदातिदेशिकस्यापि कित्त्वस्य बाधस- म्भवात् । न चौपदेशिकत्वस्य प्रथमोपस्थितत्वात्तद्धाधेन च. रितार्थो निषेधः कथमातिदेशिककित्वं बाधेत । अत एव राग- प्राप्तहिंसानिषेधेन चरितार्थम् "न हिंस्यात्सर्वा भूतानि" इति शास्त्रं "अग्नीषोमीयं पशुमालभेत" इत्यादिविहितहिंसायां न प्रवर्तते इति वाच्यम्। अमाप्तस्यैवातिदेशात् । क्त्वायां कित्त्वा- तिदेश एव न स्यादित्यत्र तात्पर्यात् । चकारस्य यथाश्रुतत्वे तु द्वितीयपादे किवातिदेशाह्निकम् । १। ५५३ इमातिषेधसमुच्चयस्तदर्थः । लुत्वा, पूत्वा, इत्यादिवत् नुवित्वा, धुवित्वा इत्यत्रापि “इन्युकः किति" इति इप्रतिषेधः स्यात् । 'णू स्तवने' 'धू विधूनने'। अत एव परिणूताखिलोदयः' इति- श्रीभागवतम् । भाष्यकृतस्तु-नैतत् प्रयोजनम् । डिस्वातिदेशे ऽप्यौपदे. शिककित्वसत्त्वेन निषेधप्रवृत्या धूत्वा, नूत्वा इत्येव, साधुत्वात् विरोधाभावात् स्वाश्रयकित्त्वस्यानिवर्त्तनात् । न च "येन. नामाप्तिन्यायेन डिवेन कित्वबाधापत्तिः । 'कुटिता' इत्यादौ कित्त्वाभावेन नापासे किच्चे डिस्वातिदेशानारम्भात् इत्याहुः । इन्धिभवतिभ्याञ्च ६ 'निइन्धी दीप्तौ' 'भू सत्तायाम् । आभ्यां परो ऽपिल्लिद कित्स्यात् । इन्धेः संयोगार्थ ग्रहणम्, भवतः पिदर्थम् । ननु बभूवेति प्रथमणलि न कित्त्वविधानार्थम् । “अचो. झिणति" इति वृद्धनिर्दिष्टस्थानिकतया तत्र "ङिति च" इति निषेधाप्रवृत्तेः । न च कित्त्वसामर्थ्यादनिग्लक्षणढेरपि निषेधः स्यादिति वाच्यम् । बभूविथेति थलि, 'अहं बभूव' इति उत्तमणलि च णित्त्वाभावपक्षे गुणनिषेधेन चरितार्थत्वात् । अत्र वार्तिकम्- "इन्धेश्च्छन्दोविषयत्वाद् भुवो वुको नित्यत्वात् ताभ्यां लिटः किवचनानर्थक्यम्" इति । उक्तसूत्रप्रत्याख्यानमेतत् । इन्धेहि अनन्तरो लिट् नास्त्येव । "इजादेश्च गुरुमतः” इत्यामा व्यवधानात् । छन्द- सि तु "अमन्त्रे" इति पर्युदासादाविरहेऽपि समीधे इत्यत्र "छन्दस्युभयथा"इति लिटः सार्वधातुकत्वात् “सार्वधातुकम.
५५४. व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये पिद्" इति हिवामलोपः । आर्द्धधातुकत्वाच्च श्नमभावः । तथाच मन्त्र:- "त्वाममे दध्यदृषिः पुत्र ईधे अथर्वणः" इति, "समीधे- दस्युहन्तमम्" इति च । एवञ्च लिडव्यवहितपूर्वस्य भाषायां संम्भवो नास्ती- त्यत्र तात्पर्य न तु सामान्यत इन्धेर्भाषागमप्रयोगो ऽपीति कैयटादयः। एतेन इन्धिग्रहणसामर्थ्यात् आविरहे भाषायामप्युक्तमयो- गस्य साधुत्वकल्पनमपास्तम्, भाष्यवार्तिकविरुद्धत्वात् । भू अ इति स्थिते च वुको नित्यत्वात् । न च शब्दान्तर- प्राप्त्या बुगनित्यः। एकदेशविकृतस्यानन्यत्वात् । कृताक. तप्रसाङ्गित्वेन नित्यत्वानपायाच्च । “ओः सुपि" इत्यत ओरि- त्यस्याननुवृत्तेः । वुकि कृते च गुणस्य प्राप्त्यभावात् । मृडमृदगुधकुपक्लिशवद- वसः क्त्वा ७ कित्स्यात् । “न क्त्वा सेड्" इति वक्ष्यमाणकित्त्वनिषेधस्या- पवादः । 'मृड मुखने', 'मृद क्षोदे', 'गुध परिवेष्टने, 'गुध रोषे- च', 'कुष निष्कर्षे', क्लिश हिंसायाम्', 'क्लिशू हिंसायाम्' । दिवा- दिक्राद्योयोरप्युपादानम् । 'वद व्यक्तायां वाचि,' 'वस निवा- से' । उषित्वा । “वसति क्षुधोरिद ।यजादित्वात्सम्मसारणम् । अत्र भाष्यम्-"न क्त्वा सेद" इति सूत्रं न कर्च- व्यम्, इदं सूत्रं मृडादिभ्य एव परस्य क्त्वः कित्त्वं नान्येभ्य इति नियमार्थमस्तु । न च मृडादिभ्यः परः क्त्वैव किद्भवति हितीयपादे डिस्वातिदेशाहिकम् । १। ५५५ न तु निष्ठादिरिति विपरीतनियमापत्तिः । प्रयोगमूलत्वाद् व्या. करणस्मृतेरनिष्टनियमानुपपत्तेः । न च लूत्वा, पूत्वा इत्यादा- वपि कित्त्वानुपपत्तिः क्त्वामात्रस्य नियमापत्तेः, "क्त्वातो. सुन्कसुनः" इत्यत्र विशेषणार्थत्वेन ककारसार्थक्यादिति वाच्य- म् । सेट एव क्त्वो नियमारम्भात् । न च "क्लिशः क्त्वा- निष्ठयोः" इति पक्षे क्लिशेरनिट्त्वात् ततः परस्य क्त्वः कित्त्व- विधानमनिटक्वाकित्त्वव्यावृत्यर्थ स्यादिति वाच्यम् । गुधकु. पक्तिशा "रलो व्युपधाद्" इति कित्त्वविकल्पान्नित्यकिववि- ध्यर्थत्वात् नियमार्थत्वायोगात् । रुदविदमुषग्रहिस्वपिप्रच्छः संश्च ८ चकारात् क्त्वाग्रहणम् । 'रुदिर अश्रुविमोचने,“विद ज्ञाने,' 'मुष स्तेये,' 'ग्रह उपादाने, 'भिष्वा शये 'प्रच्छ झीप्सायाम् । रुरुदिषति रुदित्वा । "स्वपिप्रच्छयोः सन्नर्थ ग्रहणं किदेव हि क्त्वा" इति भाष्यम् । “न क्त्वा सेड्" इतिनिषेधस्य सुप्त्वा पृष्ट्वैत्यत्राप्रत्तेः । अनिदकत्वात् । अत एव अनिटः क्त्वः कित्त्वनियमार्थत्वमस्य न इति कैयटः । इको झल ९ इगन्तात्परो झलादिः सन् कित्स्यात् । क्त्वाग्र. हणं त्वत्र निवृत्तम् । अनिट्कस्य तस्य स्वयमेव झलादित्वात् । बुभूषति, दिदीषते । कित्त्वेन गुणनिषेधः । अत एव एवि.
५५६ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये षयत्वाभावात् दीको “मीनातिमिनोतिदीङाम्" इत्यास्वं न । न च झलन्तः समित्यर्थोऽस्तु । ततश्च 'चिचीषिता' इत्यादी अतोलोपस्थल एव कित्त्वं स्यात् न तु 'चिचीपति' इत्यादौ । सञ्शवकारयोरेकादशस्य पूर्व प्रत्यन्तवद्भावादिति वाध्यम् । आदिग्रहणानुवृश्या व्याख्यानात् । इग्ग्रहणे इक् स्मरणे इत्येव तु न गृह्यते, गर्गादिषु जिगीषुशब्दपाठस्य ज्ञापकत्वात् । जयतेः परस्यच सनः कित्त्वानुपपत्तिप्रसङ्गात्, झलितिप्रत्या- हारसाहचर्याच्च । तत्समीपस्य हलोऽसम्भवाद्धलन्ताच्चेत्य- स्यानन्वयप्रसङ्गाच्च इति न्यासकारः । अत्र वार्तिकम्- "इकः कित्त्वं गुणो मा भूत् दीर्घारम्भात् कृते भवेत् । अनर्थकं तु इस्वार्थ दीर्घाणां तु प्रसज्यते ॥ सामाद्धि पुनर्भाव्यमृदिच्वं दीर्घसंश्रयम् । दीर्घाणां नाकृते दीर्घ णिलोपस्तु प्रयोजनम्" । अस्यार्थः-"इको झल् हलन्ताच्च" इत्येक एव योगो ऽस्तु किमर्थो योगविभाग इत्याक्षेपाभिप्रायः । यथाश्रुते तृत्तरमाह- "गुणो मा भूद्" इति । "सावधातुकार्दधातुकयोः" इत्यनेनेत्य- थः । नन्वत्र “अज्झनगमां सनि" इति दी? येननामाप्तिन्यायेन गुणस्य बाधको भविष्यतीत्याह-“दीर्घारम्भाद्" इति । दीर्घो- त्तरं गुणप्रसक्तेस्तनिषेधार्थ कित्त्वमित्युत्तरमाह-"कृते भवेद्" इति । रूपविशेषाभावे ऽपि मन्त्रजपादिवदावर्त्तमानस्यैव शा. स्वस्य फलसाधनत्वादिति भावः। नन्वेवं दीर्घविधिवैयर्थं शास्त्र- पूर्वकप्रयोगस्यैव धर्मनिमित्ततया शास्त्रप्रवृत्तिमात्रस्याप्रयो. जकत्वादित्याह-"अनर्थकन्तु" इति । उत्तरमाह- "इस्वार्थ. म्" इति । हस्वानां दीर्यविधिसामा गुणाभावे ऽपि दीर्घा- द्वितीयपादे ङित्वाचनिदेशाहिकम् । १। ५५७ । - न्तानां प्रयोजनविरहादीविध्यप्रवृत्या गुणः स्यादिति त. निषेधार्थ कित्त्वमिति भावः । “दीर्घाणां तु" इति गुणनिषेधार्थ दीर्घष्वपि दीर्घशास्त्रं प्रवर्तत एव । अदग्धदहनन्यायस्य फ. लाभावमूलकत्वात् । फलञ्च इस्वेषु रूपान्तरसम्पत्तिः दी. घेषु तु रूपान्तरानापत्तिरित्यन्यदेतत् । अत एव "मो रा. जि समः कौ" इति मकारस्य मकारादेशविधिः । तदेतदुक्तम्- "सामर्थ्यादि पुनर्भाव्यम्" इति । ननु दीर्यविधिना गुणस्येव इकारस्यापि बाधापत्तिः। चिकीर्षति, जिहीर्षति । “अञ्झन"इति दीर्घः । “ऋत इद्धातोः"इतीत्वं हि तत्रेष्यत इत्याशयाह-"क दित्वम्" इत्यादि। दीर्घत्वव्यतिरेकप्रयुक्तव्यतिरेकपतियोगित्वा- दिदादेशस्य न बाध इत्यर्थः । उक्तं हि-'यं विधि प्रत्युपदेशो ऽनर्थकः स विधिर्वाध्यते, यस्य तु विधेनिमित्तमेव नासौ बाध्यते" इति। ननु हस्वान्तानां दीर्घाभावे इत्त्वप्राप्त्यभावे ऽपि दीर्घाणां दीर्घव्यतिरेकेणैव इत्त्वप्राप्तिरस्त्येवेत्याशयाह-“दीर्घाणां नाक- ते दोघे" इति । तत्रापि गुणवाधार्थ दीर्घविधिरवश्यं प्रवर्त्तयि- तव्यः । अन्यथा “इच्चोत्त्वाभ्यां गुणवृद्धी विप्रतिषेधेन"इति गुण. प्रसङ्गादित्यर्थः। तदेवं कित्त्ववैयर्थे प्राप्ते सिद्धान्तमाह "णिलो- पस्तु"इति । ज्ञपि+स+ति इतिस्थिते गुणो लोपो दीर्घत्वं चेति अयं प्रामोति । तत्राऽसति कित्त्वे निरवकाशत्वाद्विशेषाभावाच गुण इच लोपो ऽपि दीर्घेण बाध्येत । पाचयतेः पाक्तिः इत्या- दौ णिलोपस्यापि सावकाशत्वात् । “पुरस्तादपवादा अनन्त. राविधीन्बाधन्ते नोत्तरान्" इति न्यायेन लोप एव बाध्येत । गुणस्तु स्यादेव । कित्त्वविधाने तु 'चिचीपति' इत्यादिषु गुणप्र. सत्यभावातत्र लब्धावकाशं दीर्घत्वं परत्वाणिलोपेन बाध्यते इति सिद्धम्।
५५८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये स्थादेतत् । असत्यपि कित्त्वे येननामाप्तिन्यायेन गुणस्यैव दीर्घो बाधको भविष्यति न तु णिलोपस्य, गुणबाधेन च सावकाशं दीर्घत्वं परत्वादेव णिलोपेन बाधिष्यत इत्यनारभ्य- मेव कित्वम् । अत्राहुः-बाध्यविशेषचिन्तायां तथात्वे ऽपि बाध्यसामा- न्यचिन्तायां स्वविषये प्राप्तस्य सर्वस्य बाधाभ्युपगमात् । स्यादेतत् । असत्यपि कित्त्वे 'निमित्सति' 'प्रमित्सति' इत्यत्र मीनातिमिनोत्योः सनि निरवकाशवाद् गुणं वाधित्वा दीर्घः । ततः मिनोतेरपि मीग्रहणेन ग्रहणात्पतिपदविधानादिम्भावेन गुणवाधः । तदुत्तरं “हलन्ताच्च"इति कित्त्वेन लघूपधगुणबाधः । तथा च "सनिमी"इत्यत्र 'मी'इतिसामान्यग्रहणार्थत्वादीर्घविधे- चरितार्थतायां 'जीप्सति' इत्यत्र दीर्घ बाधित्वा परत्वादेव णिलोपो बाधिष्यते इति कृतं किन्वेन । मैवम् । उक्तरीत्या दीर्घस्य सावकाशत्वात् द्वाभ्यामपि गुणलोपाभ्यां दीर्घबाधापत्तेः कित्त्वारम्भस्यावश्यकत्वात् । न च दीर्घस्य कुधातुरवकाशः, 'चुकूषति' इत्यत्र कुटादित्त्वेनैव डिस्वाद् गुणनिषेधसिद्धेरिति वाच्यम् । उक्तभाष्यानुरोधेन दीर्घान्तत्वनिर्णयात् इति कैयटादयः । नच 'गु पुरीषोत्सर्गे' 'धु गतिस्थैर्ययोः' इति सनन्ताववकाश इति वाच्यम् । तथा सति उहनगमामित्येव पाठापत्या अजितिप्रत्याहारग्रहणवै- यांपत्तेः । एवं कुङो इस्वान्तत्वे ऽपि बाधकाभाव इति न्यासकाराभिप्रायः। हलन्ताच १० अन्तपदस्यावयवार्थत्वे ऽनन्वयः । इको हलवयवत्वाभा.
द्वितीयपादे डिवाद्यातदेशाह्निकम् । १। ५५९ वात् । इग्वतो हलन्तादिति न्यासे 'पिपक्षति' इत्यत्र सम्पसार- णापत्तिः । इगुपधाद्धलन्तादिति न्यासे दम्भेः सन्यव्याप्तिः । सूत्रभेदश्च । तथापि समीपार्थो ऽन्तशब्दः । इसमीपाद्धल: परो मलादिः सन् कित्स्यात् । 'गुहू संवरणे' । जुघुक्षति । 'भिदिर विदारणे' । बिभित्सति । अथ दम्भः सनि धिप्सति इत्यत्र नकारस्य सन्परत्वा- भावात् भकारस्य च इक्समीपत्वाभावारिकत्वाभावे नलोपो न स्यात् । उच्यते । हल्त्वजात्योभयोरैक्यमाश्रित्य इपरत्वान- पायात् । तदुक्तम्-" -"दम्भेर्हल्ग्रहण णस्य जातिवाचकत्वा- सिद्धम्" इति । इदं च "निपात एकाज्" इत्ये- कग्रहणेन ज्ञापितम् । हकारादिषु चाभिन्नप्रत्ययाभिधा. नात् हल्त्वजातेः सद्भावः । त्यक्तभेदा व्यक्तय एव जा. तिरिति पक्षे ऽपि भेदव्युदासादभेदाश्रयणादिष्टसिद्धिरिति कैयटः । यद्यपि वृद्धिसूत्रोक्तन्यायेन हल्त्वजातावतिरिक्तायां मानाभावः, तथापि हल्पदजन्यायामुपस्थितौ यावतीनां जातीनां हकारादौ प्रत्येकं प्रकारत्वं तदतिरिक्तवर्णत्वसाक्षायाप्यजा- त्यनवच्छिन्नत्वमेवात्र विवक्षणीयम् । लिसिचावात्मनेपदेषु ११ इक्समीपाद्धलः परौ झलादी लिङ् आत्मनेपदपरः सिञ्च कितौ स्तः । क्लप्सीष्ट, क्लप्सीयास्ताम् , क्लुप्सीरन् , अक्लप्त, अक्लप्साताम्, अक्लप्सत । अदित्वाद्वेद् । झलादी किम् । कल्पिषीष्ट अकल्पिष्ट इति इपक्षे मा भूत् । स्यादेतत् । आत्मनेपदेष्विति निर्धारणसप्तमी परसप्तमी ५६० व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये । वा । नाद्यः । निर्धारणस्य सजातीयविषयतया लिङ्मात्रस्य विशेषणापत्तेः । लिङिति तदादेशग्रहणात् । न द्वितीयः । सिचो विशेषणे ऽपि लिङस्तदयोगात् । सीयुविशिष्टस्य लिङ्पदा. यत्वे तदपेक्षया लिङ्परत्वानुपपत्तेः । नाप्यर्थद्वयपरत्वम् । सकृच्छुतत्वात् । नाप्येकशेषः । अर्थभेदात्सहविवक्षाविरहात् । अत्र भाष्यम्-"उभयथा ऽप्यदोषः" इति । तथाहि-आत्मनेपदं यौ लिसिचावित्यर्थः । नच सिच- स्तङानोभयभिन्नत्वादात्मनेपदत्वानुपपत्तिः । तत्परत्वेन आ. त्मनेपदस्य सिचि औपचारिकत्वात् । गौणमुख्यार्थयोरात्मने. पदशब्दयोः सारूप्यमात्रप्रतिवद्धैकशेषाश्रयणात् । द्वितीयेऽप्य- दोषः । अवयवगतपौर्वापर्यस्य समुदाये आरोपात् । तन्त्रे- णार्थद्वयलाभावा । परन्तु सम्भवव्यभिचाराभ्यां सिजेवात्मने- पदेन विशेष्यते न तु लिङ् । परस्मैपदेषु लिडो झलादित्वा. भावेन तत एवात्मनेपदग्रहणसिद्धावात्मनेपदविशेषणस्य वैय. •त् । अथ सिचोऽप्यात्मनेपदविशेषणं किमर्थम् अयाक्षीत् इत्या- दौ इक इत्येव व्याटत्तेः । अचैषीद् इत्यादौ अच्परत्वाभावादेव तथात्वात् । 'अकोषीत्' इत्यादौ इडागमे कृते झलादित्वाभावात् । अभैत्सीत् इत्यादौ "वदवज" इति वृद्धरिग्लक्षणत्वाभावादेव "क्ङितिच" इति निषेधविरहात्मत्यपि कित्त्वे क्षतिविरहात् । मैवम् । असाक्षीद , अद्राक्षीत् इत्यादौ "मृजिदृशोः" इत्य. किल्लक्षणस्यामागमस्यानुपपत्तिप्रसङ्गात् । उश्च १२ ऋवर्णात्परौ झलादी पूर्वोक्तौ कितौ स्तः । मृषीष्ट, भृषी.
द्वितीयपादे किवातिदेशालिकम् । १। ५६१ याताम्, भृषीरन, अमृत, अभृषाताम् , अभूषत । वा गमः १३ गमः परौ झलादी पूर्वोक्तौ कितौ वा स्तः। सगसीष्ट, सं. गंसीष्ट, समगत, समगस्त । कित्त्वपक्षे ऽनुनासिकलोपः । हनः सिच १४ इन्तेः परः सिच् कित्स्यात् आत्मनेपदे परे । आइत, आहसाताम् , आहसत । पुनः सिग्रहणं "एकयोगनिर्दिष्टाना सह वा प्रवृत्तिः सह वा निवृत्तिः" इति ज्ञापनार्थम् । तेन पूर्व- सूत्रव्ये "लिसिचावात्मनेपदेषु" इतिसंपूर्णसूत्रानुवृत्तिः । यमो गन्धने १५ सिच कित्स्यात् । गन्धनं परदोषाविष्करणम् । 'उदायत' । गन्धने किम् । 'उदायंस्त पादम्' । आकृष्टवानित्यर्थः । विभाषोपयमने १६ माग्वत् । रामः सीतामुपायत, उपायंस्त महास्त्राणि । स्थाध्वोरिच १७ सिच् कित्, इचान्तादेशः । समस्थित, समस्थिषाताम्, सम. स्थिपत, अदित, आदषाताम्, अदिषत ।
५६२ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये ने अत्र वार्तिकम्- "इच्च कस्य तकारेवं दीर्घा मा भूदृते ऽपि सः। अनन्तरे प्लुतो मा भृत्प्लुतश्च विषये स्मृतः" । नचात्र हेतुपदप्रयोगविरहात् “षष्ठी हेतुप्रयोगे" इत्यस्याप्र- सत्या कस्येत्यत्र हेतुतृतीयापत्तिः। अत्र सम्बन्धित्वेनैव विव- क्षितत्वात् । 'मदीयाः पुत्राः' इत्यत्र अपत्यत्वप्रकारकविवक्षाविर- हेण सम्बन्धिसामान्यार्थे छप्रत्ययोत्पत्तेः । “तकारत्वम्" इत्यत्र कर्मधारयोत्तरं त्वप्रत्ययः । "दी? माभूद्" इति । आकारस्था- आन्तरतम्यात्तस्यैव प्रसङ्गात् । “भाव्यमानो ऽण् सवर्णा- भ गृह्णाति" इति परिहारो नोक्तः । अमूभ्याम्' इत्यादी भा- व्यमानस्याप्युकारस्य ग्राहकत्वदर्शनाद, समाधानान्तरसद्भावा- चेति भावः । "ऋतेऽपि सः" इति । “घुमास्था" इत्यादिनैव ईत्वस्य सिद्धत्वात् इकारविधिसामर्थ्यादेव दीर्घो न भविष्य- तीत्यर्थः । कित्चन्तु विधेयमेव । अन्यथा "घुमास्था" इत्य- स्याप्यप्रवृत्तेः । प्रयोजनान्तरमाह "अनन्तरे प्लुतो मा भू" इति । असदृशे आदेशे क्रियमाणे प्लुतो ऽपि प्रसज्येत तव्याव- त्यर्थ तपरत्वमित्यर्थः। तदपि प्रत्याचष्टे "प्लुतश्च" इति । यद्यनेन प्लुतो विधीयेत तदा यत्र विषये "अनन्त्यस्यापि प्र- श्नाख्यानयोः" इत्यादिना प्लुतो विहितस्तत्राप्यनेन विधीयेत । अस्मिन्कर्तव्ये "पूर्वत्रासिद्धम्" इत्याष्टमिकप्लुतस्यासिद्धत्वात् । ततश्च पक्षे ऽनुवाददोषः स्यादिति इस्व एव भवतीत्यर्थः । केचित्तु तपरत्वसमर्थनमेतत् । असदृशादेशे क्रियमाणे दीर्घ एव स्यात् । नच तस्योक्तरीत्या ऽन्यथासिद्धिः । प्लुतनिवृत्यर्थतया सिद्धस्यापि विधानोपपत्तेः । मा भूत्लुत.
द्वितीयपादे ङित्त्वाचतिदेशाह्निकम् । १। ५६३ सेट् १८ इति चेन्न । "प्लुतश्च विषये स्मृतः" । स चासति तपरत्वे न प्राप्नोतीति दीर्घनिवृत्यर्थं तपरत्वं स्थितमिति व्याचख्युः । प्लुतविधौतु "वाक्यस्य टेः" इत्यधिकारात्कथमेकस्य प्लु- तः स्यादिति चिन्त्यमेतदिति कैयटः । न क्त्वा सेट् क्त्वा किम स्यात् । अत्र वार्तिकम्- "न सेडिति कृते ऽकित्वे निष्ठायामवधारणात् । ज्ञापकान परोक्षायां सनि झल्ग्रहणं विदुः । इत्त्वं कित्सन्नियोगेन रेण तुल्यं सुधीवनि । वस्वर्थ किदतिदेशात् गृहीतिः क्त्वा च विग्रहात्” । अयमर्थः-अकित्त्वे इति छेदः । 'न सेड्' इति सूत्रणीयम् । क्त्वाग्रहणे फलाभावात् । नच गुधितो, गुधितवान् इति निष्ठाया- मपि कित्त्वनिषेधापत्तिः । “निष्ठा शीस्विदिमिदि" इत्यादिनि- यमादेव तदभावात् । एभ्य एव परा निष्ठा न किदित्यर्थात् । एभ्यः परा निष्दैव किन्न भवतीति विपरीतनियमस्य व्याख्या. नादेव परित्यागात् । ननु तथापि, परोक्षापदं पूर्वाचार्यप्रसिद्ध्या लिट्परम्, तत्र कित्त्वनिषेधे पपिव, पपिमेत्यादौ "आतो लोप इटि च" इत्या- कारलोपो न स्यादिति चेन्न । क्डिदार्द्धधातुकं निमित्तीकृत्य तद- भावे ऽपि इटमेवाश्रित्य तत्सिद्धेः । नच तथापि जग्मिव, जन्निव इत्यादौ "गमहन" इत्युपधालोपः कित्त्वाभावान स्यादिति वाच्यम् । औपदेशिककिच्वस्यैवायं निषधो न त्वातिदेशिकस्येति व्याख्यानात् असंयोगाल्लिद् कित्'इति आतिदेशिककित्वस्य सुस्थ ५६४ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये त्वात् । नचात्र प्रमाणाभावः । "इको मल्" इत्यत्र मल्लहणस्यैव मानत्वात् । तद्धि 'शिशयिषते' इत्यत्र कित्त्वं मा भूदित्येतद- थम् । आत्तिदेशिकस्यापि कित्वस्य निषेधे तु तत्र "इक" इति कित्त्वप्रसक्तावपि “न सेड्" इत्यनेन तनिषेधसम्भवाद झल्ग्रहणं व्यर्थमेव स्यात् । यत्तु “अस्त्वत्र कित्वम्" इति भाष्यम् । तत्रास्त्वित्यस्य मानोत्वित्येवार्थः । निवृत्तस्य निषेधुमशक्यत्वादिति कैयटः । तथा च हल्ग्रहणं आतिदेशिककित्वस्य "न सेड्" इत्यनेन बाधो नेत्यत्र ज्ञापकम् इति स्थितम् । स्यादेतत् । “स्थानोः" इत्यत्रानुवृत्यर्थ झल्ग्रहणं झलादा- घेव यथा स्यात्, उपास्थायिषाताम् इत्यत्र मा भूत् । कर्मणि लु- । स्था म् आतामिति स्थिते इत्वं चिण्वद्भावश्च प्राप्नोति । परत्वाचिण्वद्भावात् युक् च प्रामोति वृद्धिश्च । वृद्ध्यपवादत्वात् युक् । तत्र कृते यकारस्य इत्त्वं स्यात् । न च पुनदिः । सक. इतिन्यायात् । मैवम् । किश्वसंनियोगशिष्टस्य इत्वस्य कित्त्वव्यतिरेके भट्ट- श्यनुपपत्तेः । अत एव सुधीवा, सुपीवा इत्यादौ डी. संनियोगेन रकार उच्यमानो डीबभावे न भवति । मच "अनो बहुव्रीहेः” इति तनिषेधः । तस्य डीम्मात्र- निषेधकत्वात् । “सनियोगशिष्टानामन्यतराभावें उभयोरप्य- माव" इति परिभाषयैव रेफादेशनिवृत्तः । स च न्यायो "विस्यकादिभ्यश्छस्य लुग्" इत्यत्र छग्रहणेन ज्ञापयिष्यते । रदा, आकारस्य इश्वे कृते वृद्ध्यायादेशौ । युगागमेन बुद्ध बांधे ऽपि इकारस्य वृद्धिसम्भवात् । नच पपिवान्, तस्थिवान इत्यादौ आकारलापो न स्यात् । कसोः किश्वस्यौपदेशिक द्वितीयपादे डिवाद्यतिदेशाह्निकम् । १। ५६५ त्वात् इति वाच्यम् । इटमेवाश्रित्य तत्सिद्धेः । नच जग्मिवान् , जनिवान् इत्युपधालोपो न स्यादिति वाच्यम् । आतिदेशिककित्वेन सिद्धेः । नच अञ्जः कसौ "असंयो. गाद्" इत्यातिदेशिककित्वस्यामवृत्या औपदेशिकस्य च 'न सेड्' इत्यनेन चाधानलोपो न स्यादिति वाच्यम् । कसो- श्छान्दसत्वात्तत्र लिटः सार्वधातुकसंज्ञाया अपि सत्त्वात् “सा- र्वधातुकमपिद्" इति ङित्वमेवाश्रित्य तत्सिद्धः । कैयटस्तु-'अत्र नलोपे कृते द्विवंचने एकादेशे च "वस्वे- काजाद्वसाम्" इति इद् । तत्र हि कित्त्वमतिषेधान्नलोपनिवृत्ती द्विहस्त्वान्नुटि सत्येकाच्वाभावात् इनिवृत्तौ नलोपादीनां चक्रकप्राप्तिः, चक्रकेषु चेष्टतो व्यवस्था। भाष्ये तु परिहारा- न्तरसद्भावादेष परिहारो नाश्रितः' इत्याह । तस्मात् काग्रहणं न कार्यमिति प्राप्ले सत्याह "गृही- तिः" इति । निगृहीतिः, उपस्तिहितिः, निकुचितिः । अत्र कित्वं मा भूत् । “तितुत्र-" इति इनिषेधे “अग्रहादीनाम्" इति वचनात् इट् । क्रमेण संप्रसारणं, गुणाभावो, नलोपश्च सिद्ध इत्यर्थः । इदानीं क्त्वाग्रहणं प्रत्याचष्टे-"क्त्वाच" इति । "वि- ग्रहात्" योगविभागात-"पूनः" । पूङः परा सेट् निष्ठा न कित्। ततः । "क्त्वाच" पूङः इति निवृत्तम् । सेद निष्ठा किन्नेत्यर्थः । निष्ठा . शीस्विदिमिदिश्वि- दिधृषः १९ सेद् निष्ठा न कित् । शयितः । “विभाषा भावादिकर्म- गो-"इति वेद । प्रस्वेदितश्चैत्रः, पस्विनः इत्यादि । सेट् किम् ।
५६६ व्याकरणसिद्धान्तमुधानिधौ प्रथमाध्याये पस्विनं तेन । भावे कित्वमेव । मृपस्तितिक्षायाम् २० सेट निष्ठा न कित् । मर्षितः । तितिक्षायां किम् । अपमृ- षितं वाक्यम् । उदुपधाद्भावादिकर्मणो- रन्यतरस्याम् २१ उदुपधात्परा भावे आदिकर्मणि च सेट् निष्ठा न कित् । योतितं तेन, धुतितं वा, प्रद्योतितः प्रद्युतितो वा चैत्रः । “आ- दिकर्मणि क्तः कर्तरिच" इति कर्तरि, भावे च क्तः । शब्बि- करणेभ्य एवायमिष्टः । नेह गुधितम् । पूङः क्त्वा च २२ क्त्वा निष्ठा च न कित् । ननु सेडित्यन्यतरस्यामिति चानुवृत्त्या सेटोरेव क्त्वानिष्ठ- योः कित्त्वविकल्पः स्यात् । ततश्च पुवित्वा पुवित इति पक्षे स्यात् । “पृङः श्च" इतीटो विकल्पात् । अत्र वार्तिकं-“न वा सेट्त्वस्याकिदाश्रयत्वादनिटि वा कि- त्वम्" इति । अस्यार्थः-इविधौ "पूडश्च" इति सूत्रं नारभ्यम् । तेनानिटो. रेव क्त्वानिष्ठयोरयं कित्त्वविकल्पः । कित्त्वपक्षे "इल्युकः किति" इति इप्रतिषेधात् पूत्वा पूत इति, तदभावपक्षे तु इटगु. णयोः पवित्वा पवित इति सिद्धम् ।
द्वितीयपादे ङित्त्वाद्यातदेशाह्निकम् । १। ५६७ भारद्वाजीयास्तु पठन्ति नित्यमकित्त्वमिडायोः, काग्रहणमु. चरार्थमिति । लाघवमनाहत्य सूत्रकारेण इविधौ “पूङश्च" इति पठितम् । इह च न विकल्पानुवृत्तिरुत्तरत्र वाग्रहणादिति सिद्धमिष्टम् । क्त्वाग्रहणं तूत्तरार्थम् । “न का सेड्"इत्यनेन कित्त्व- निषेधसिद्धेः । एतच्च सूत्राभिप्रायवर्णनमात्रम् । कात्यायनेन तु उक्तरीत्या लाघवात्तत् सूत्रं प्रत्याख्यातम् । नोपधात्थफान्ताद्वा २३ नकारोपधात्थकारफकारान्यतरान्तात्परः सेद् क्त्वा वा किन् । अन्तग्रहणं स्पष्टार्थम् । न्यासकारस्तु- एतत्प्रकरणे प्रयत्रं विना तदन्तवि. धिर्नेति ज्ञापनार्थ तत् । तेनोत्तरसूत्रे 'ऋत' इति रूपेण धातुह्यते नतु ऋदन्त-इत्याह । श्रथित्वा, श्रन्थित्वा, गुफित्वा, गुम्फित्वा । नोपधात्किम् । कोथित्वा, रेफित्वा । 'कुथ पुती- भावे' । 'रिफ कत्थनयुद्धहिंसादानेषु' । नच "रलो व्युपधाद् इति विकल्पो दुर्वार इति वाच्यम् । नोपधग्रहणसामर्थ्यात् । वञ्चिलुच्युतश्च २४ पूर्ववत् । 'वञ्चु प्रलोभने' । 'लुश्च अपनयने' । वचित्वा, वश्चित्वा, लुचित्वा, लुश्चित्वा, ऋतित्वा, अतित्वा । ऋतिः सौत्रस्तकारान्तो अस्मादेव निर्देशादिति तृतीये वक्ष्यामः । ईयभावपक्षे ऽयं विकल्पः ।
५६८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये तृषिमाषिकृषः काश्यपस्य २५ पूर्ववत् । काश्यपग्रहणं पूजार्थम् । विकल्पस्य प्रकृतत्वात् । तृषित्वा, तर्षित्वा इत्यादि । 'वितृषा पिपासायाम्' 'मृष तितिक्षायाम्" "कृष तनूकरणे" । रलो व्युपधाद्धलादेः संश्च २६ नन्वयं कित्त्वस्य विधिः प्रतिषेधो वा । नाघः। क्त्वा. ग्रहणवैयर्थ्यात् । तत्र कित्त्वस्य सिद्धत्वात् । नान्त्यः । सन्ग्रह- णवैयर्थ्यात् । तस्य स्वयमेवाकित्त्वात् । मैवम् । “न का सेड्" इति कित्त्वनिषेधप्राप्त्या विधेरेव युक्तत्वात् । उश्च इश्च वी तदन्यतरोपधाद्रलन्ताद्धलादेः परौ सेटौ सन् का च वा कितौ स्तः । दिद्युतिषते, दिद्योतिषते, द्युतित्वा, घोतित्वा । रलः किम् । दिदेविषति, देवित्वा । व्युपधात्कि- म् । वर्तित्वा, विवर्तिपते । हलादेः किम् । एपित्वा, एषिषिषति। इह नित्यमपि द्वित्वं गुणेन बाध्यते । ओणे;दित्करणेन सामान्यत उपधाकार्यस्य द्वित्वात्मावल्यबोधनात् । सेट् किम् । भुक्त्वा, बुभुक्षते । आदिग्रहणं स्पष्टार्थम् । व्युपधस्य हलन्त- त्वाव्यभिचारात् । ऊकालोऽज्झूखदीर्घप्लुतः २७ उकाल इति तत्कालस्यतिवद्याख्येयम् । एकद्वित्रिमात्रा अचः क्रमेण इस्वदीर्घप्लुतसंज्ञाः । समाहारे ऽपि सौत्रं पुंस्त्व. म् । नच सज्ञित्रयनिर्देशे मानाभावः। सङ्घात्रयस्य लिङ्गत्वात् ।
स्यात् । द्वितीयपादे डिस्वातिदेशाह्निकम् । १। ५६९ नच इस्वदीर्घप्लुतसज्ञा ऽप्येकैवेति वाच्यम् । इस्वादिश- दैरेवोत्तरत्र व्यवहारात्, समुदायस्य संज्ञात्वविरहात् । स्यादेतत् । उक्तक्रमेण संज्ञिनिर्देशे नियामकाभावः । नच प्लुतस्य आदौ मध्ये वा निर्देशे प्रकृतिभावा- पत्त्या तस्यान्त एव निर्देश इति वाच्यम् । त्रिमात्रस्यान्ते निर्देशं विना प्लुतसंज्ञाविरहे प्रकृतिभावस्य दुरापास्तत्वात् । एतेन इस्वस्य घिसंज्ञात्वात्पूर्वमेव निर्देश इत्यपि निरस्तम् । इस्वसंज्ञाया अपि पूर्वनिर्देशाधीनत्वात् । मैवम् । “विभाषा पृष्टप्रतिवचने हेः" इति मात्रिकस्य प्लु. तविधानात् ज्ञापकात् । मात्राकालस्यान्ते निर्देशे हि तस्यैव प्लुतसंज्ञापत्या मात्रिकस्य मात्रिकविधानं व्यर्थ न च विसदृशादेशविध्यर्थं तत् । अन्तरतमपरिभाषायाः प्रत्यक्षाया बाधितुमशक्यत्वात् । अन्ते मात्रिकनिर्देशस्य स- न्दिग्धत्वात् । नच तथापि इस्वस्य मध्ये निर्देशः स्यादिति वाच्यम् । "अतो दीर्घो यनि" "सुपिच" इति दीर्घविधानाज्ज्ञापकात् । मध्ये मात्रिकनिर्देशे हि पूर्ववद्वैयर्थ्य स्यात् । न च द्विमात्रस्यान्ते निर्देशः स्यादिति वाच्यम् । “ओम- भ्यादाने" इति द्विमात्रस्य प्लुतविधानात् । वैयर्थ्यापत्तिः प्राग्वत् । लिङ्गद्वयेनान्त्यमध्याभ्यां मात्रिकस्यापकृष्टत्वात्परिशेषादादितो निर्देश इति सिद्धा संज्ञिव्यवस्था । स्यादेतत् । इस्वस्याणत्वात्सवर्णग्रहणे द्वित्रिमात्रयोरपि हस्वसज्ञापत्तिः, तयोस्त्वनण्त्वान्न हस्वस्य दीर्घप्लुतसज्ञा- प्रसङ्गो दोषः। अत्र वार्तिकम् - । ७२ ५७० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये "सिद्धं तु तपरनिर्देशात्" । उदूकाल इति पठनीयम् । त- परत्वाच्च न ग्राहकत्वम् । नचैवं द्रुतायां तपरकरणे मध्यविलम्बितयोरुपसंख्याना- पत्तिः । “सिद्धन्त्ववस्थिता वर्णा वक्तुचिराचिरवचनाद् वृत्तयो विशिष्यन्ते” इति तपरसूत्रे परिहृतत्वात् । भाष्यकृतस्तु-कालग्रहणान्न दोषः । ऊ अच् इत्युक्ते ऽपि अच्त्वेन उकारादिविशेषणे व्यभिचाराभावात् वैयर्थ्यांपत्या उकारादिभिरेवाऽचो विशेषणात् उकारादिकालत्वात् तत्स- दृशस्याचो ग्रहणे सिद्धेऽपि कालग्रहणं श्रूयमाणेनैव उकारेण कालविशेषणं यथा स्यात् न तु तद्गृहीतसवर्णैरपीत्येतदर्थम् । षण्मात्रस्याचो ऽसंभवात् संज्ञात्रयकरणाच कालशब्दस्य मात्रि- केणाप्युकारेण सम्बन्धात् । यद्वा ग्रहणकशास्त्रे ऽशब्दसंज्ञेत्यनुव- य॑म्, शब्दस्य संज्ञायां विधेयायाम् अण्सवर्णग्राहको न भवती- ति नदोषः। गुणानामभेदकतया च उदात्तादीनामपि मात्रिकाणां इस्वसंज्ञा । उदात्तादिसंज्ञासु त्वज्ग्रहणं निवृत्तमिति दीर्घप्लुता- नामपि तत्संज्ञासिद्धिः । न चैवं हलामपि तदापत्तिः । अयोग्य- त्वात् । "इको यणचि" इत्यादिकं तु न संज्ञाविधानम्, किन्तु "आदिरन्त्येन" इति विहितसंज्ञानुवाद इति न दोषः । यद्वा इस्वसंज्ञाविधानसामर्थ्यात् न दीर्घप्लुतयोईस्वसंज्ञा । प्रयाणां इस्वसंज्ञायां हि इस्वप्रदेशेषु त्रयाणामुपस्थित्या ऽन्तरतमादेशविधाने इस्वसंज्ञावैयर्थ्यम् । न च वचनसामर्थ्यात् अनन्तरतमोऽप्यादेशः स्यादिति वाच्यम् । अच इत्येव वक्तव्यत्वापत्तेः इस्वसंज्ञायां फलविशेषाभावात् । ननु इस्वसंज्ञायामसत्यां यत्र एचो इस्वो विधीयते तत्र 'एच इग्' इति प्रदेशेषु वक्तव्यं स्यात्, सत्यां तु "एच इग्घ्र- द्वितीयपादे ङित्त्वाचतिदेशाह्निकम् । १। ५७१ स्वादेशे" इति सकृदेवेति लाघवमिति चेद् । मैवम् । एवं हि एक संज्ञायां त्रीणिचान्यत्रेति चत्वारि पदानि, चत्वारि च "एच इग्घ्रस्वादेशे' इत्यत्र इत्यष्टौ पदानि, स्थलत्रये “एच इग्" इत्युक्तौ तु षडेवेति लाघववैपरीत्यात् । ननु 'हेड वेष्टने' इत्यस्य 'हिडयति' इत्यर्थ "मितां इस्व" इत्यत्र, परमनुमन्य इत्यर्थ "खित्यनव्ययस्य" इत्यत्र च "एच इग्" इत्यस्य वक्तव्यत्वात् दश पदानि भवन्ति । तेन यथान्यासं "इस्वादेशे" इत्यत्र आङः पृथग्गणनेऽपि न निस्तारः । नवपदापत्तावपि दशापेक्षया लाघवादिति चेत् । अत्र कैयटः-'लाघवोपलक्षणपरं भाष्यम् । पञ्चकृत्व 'एच इन्' इत्युपादाने शब्दगौरवेऽपि प्रतिपत्तिलाघावानपाया- दिति । तदेव लघुना न्यासेन सिद्ध इस्वविधानं द्वित्रिमात्रयोर्न इस्वसंज्ञा इत्यत्र ज्ञापकमिति सिद्धम् । अचश्च ॥२८॥ इस्वदीर्घप्लुतशब्दैर्यत्र विधानं तत्र अच इति षष्ठ्यन्तमुप- तिष्ठते । तच्छेपतदपवादपक्षावप्यत्र भाष्ये निरस्तौ । तथाहि- अलोऽन्त्यस्य विधयो भवन्ति अचो हस्वदीर्घप्लुता अन्त्यस्येति एकवाक्यत्वे तच्छेषपक्षः । भिन्नवाक्यत्वे तु अचो हस्वादयः अन्त्यस्यानन्त्यस्य वेति तदपवादपक्षः। आधे दोषवार्तिकं" स्वादिविधिरलोऽन्त्यस्येति चेत् वचिपच्छिशमादिप्रभृतिहानग- मिदीर्घष्वग्रहणम्" इति। वाक्, प्राद, शाम्यति,क्लाम्यति,जिघांस- ति, जिगांसति। अचोऽन्त्यत्वाभावादी? न स्यादिति तत्र तत्र अच इति वक्तव्यं स्यात् । द्वितीयेऽपि "अचश्चेन्नपुंसकहस्वाकृत्सार्वधा- तुकनामिदीर्घष्वनन्त्यप्रतिषेधः" । अन्यथा सुवाक् कुलं, भिद्यते, त- अच ५७२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये षण्णाम् इत्यत्राप्युक्तविधयः प्रसज्येरन् । यकारादौ यद तस्यावयवो योऽच् इति व्याख्याने 'भिद्यते' इत्यत्रातिप्रसङ्गो. क्तिः । अवयवयकारादिविशेषणे तदभावादेवमन्यत्रापीति- कैयटः । यदि तु नोपधायाः एव नामि नियमः, दा अन्यते, तन्यते इत्यत्र “अकृत्-" इति दीर्घः स्यात् । यदि नाम्येव नोपधाया इति, तदा षण्णाम् इत्यत्र "नामि” इति दी. घः स्यात् । अथ नियमद्वयं, तथापि भिद्यते, सुवाक् इत्यत्रा- तिप्रसङ्गो दुर्वार एव । तस्मात्पदोपस्थितिपक्ष एव सिद्धान्तः । तथाहि-प्रदे- शेषु "अच" इति षष्ठ्यन्तस्योपस्थितौ वचिपच्छिशमा. दिप्रभृतिहानिगमिदीर्घषु वच्यादयो विशेषणम् इति विशेष्यं तेषामचो दीर्घ इति । "हस्त्रो नपुंसक" इत्यादौ तु अच इत्येतन्नपुंसकत्येत्यादविशेषणमिति तदन्तविधिना- ऽजन्तस्य नपुंसकस्येत्यादिरर्थ इति नातिव्याप्तिः । ननु "दिव औत्" "पथिमथ्यभुक्षामात्” “त्यदादी- नामः" इत्यत्राप्यच इत्यस्योपस्थितिः स्यात् । मैवम् । इस्वदीर्घप्लुतशब्दानामत्र स्वरूपमात्रपदार्थकानां विधीयमानाविशेषणतया इस्वादिशब्दैविधीयमानस्याच इत्य- र्यसम्पत्तेः । नच विशेष्याणामचामुपस्थित्यर्थं तदुपयोगः । अ- नुवृत्तेन अच्पदेनैव तेषामुपस्थापितत्वात् । नन्वेवमत्रैवान्ग्रहणं क्रियताम् नतु पूर्वमूत्र इति चेत्- अत्र वार्तिकम्- "अज्ग्रहणं संयोगासमुदायनिवृत्यर्थम्" । परक्ष्य प्रतक्ष्य इत्यत्र मात्रिकस्यापि संयोगस्य इस्वसं- शायां तु स्यात् । तितउच्छत्रम् इत्यत्र च अच्समुदायस्य द्वि- अन्यथा द्वितीयपादे जित्वाचतिदेशाह्निकम् । १। ५७३ ܝܙ. मात्रतया दीर्घसंज्ञायां “दीर्घात्" "पदान्ताद्वा" इति तुग्विकल्प- श्च स्यादित्यर्थः । नचैकमचमाश्रित्य इस्वलक्षणस्तुगपि पक्षे भ- विष्यतीति वाच्यम् । दीर्घलक्षणेन परत्वात्तद्धाधे सकृद्गताविति पुनरप्रवृत्तेः । नापि “पुनःप्रसङ्गविज्ञानम्" । नित्यविकल्पवि- ध्योर्विरोधात् पूर्वेण परस्य बाधप्रसङ्गात् । यत्र पूर्वो विधिः परं न बाधते तत्रैव कचित्तदाश्रयणात् । समुदायसनिधाववय- वानां पारतन्त्र्येण पृथक् कार्यानारम्भकत्वाच्च । नचाज्ग्रहणे कृतेऽपि वर्णग्रहणे जातिग्रहणात् अच्समुदायस्य दीर्घसंज्ञा दुर्वा- रैवेति वाच्यम् । अकाल इति विशेषणाध्यक्तेरेवोपादानात् जातेः परिमाणाभावात् व्यक्तिद्वारैव तदाश्रयणात् एकैक- वर्णव्यात्वेन जातेः समुदायव्यङ्ग्यत्वाभावादिति कैयटः । उच्चैरुदात्तः ॥२९॥ नीचैरनुदात्तः॥ ३० ॥ ननु उच्चनीचयोरापेक्षिकयोरव्यवस्थितत्वात्कथं लक्षणत्वम् । नच गात्राणां निग्रहरूप आयामो,रूक्षत्वरूपं दारुण्यं,कण्ठस्य सं- वृततारूपं रवस्य अणुत्वं चेति उच्चैः कारणानि। गात्रशैथिल्परूपो- ऽन्ववसर्गः, स्वरस्निग्धत्वरूपं मृदुत्वं, कण्ठमहत्त्वरूपं रवस्योरुत्वं चेति नीचैःकारणानीति वाच्यम् । महापाणो हि पुरुषो नीचैरप्यु- चारयन् स्वरेण महान्तं देशं व्याप्नोति, अल्पप्राणस्तु उच्चै. रप्युच्चारयन् अल्पमेवेति दोषतादवस्थ्यात् । अत्र वार्तिकम्- "सिद्धन्तु समानप्रक्रमवचनात्" इति । प्रक्रम्यन्ते वर्णा अस्मिमिति प्रक्रमः स्थानम् । तदयमर्थः-ताल्वादिस्थाना- - ५७४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये नाम् ऊ धोभेदेन भागद्वयम् । अर्द्धभागेनोच्चार्यमाण उदात्तः, अधोभागेन त्वनुदात्तः । अभ्यासज्ञेयश्चायं स्वरविशेषः । षड्- जवदिति । एते अचामेव गुणा न तु हलाम् । अजुपरागात्तु ह. लामपि तथोपलब्धिः । 'इपेत्वोर्जेत्वा' इत्यादौ यथा । नच वैपरी- त्यम् । 'आप्यायध्वम्' इत्यादौ आकारोदात्तत्वे तिङन्तस्य निघाते आकारस्य हलुपरागं विनाऽप्युदात्तत्वात् । तस्मादन्वयव्यतिरे- काभ्यां हल एवाच्स्वरानुविधायिन इति सिद्धम् । “स्वयं राजन्ते ते स्वराः अन्वग्भवति व्यञ्जनमित्यन्वर्थसंज्ञयाऽप्येवम्" इति भाष्यम् । यद्यपि सादृश्यं न किञ्चिदस्ति, तथापि सम्प्रदाय- मात्रात् इयं निरुक्तिः। यद्वा अञ्जः गत्यर्थत्वाद्विविधं गच्छत्यजुपरागादिति निर्व- चने तात्पर्यमिति कैयट:। समाहारः स्वरितः ॥३१॥ यद्यप्यचोर्न समाहारः । कार्यक,कन्या इत्यादौ स्थानिद्वार- कस्यापि तस्याऽसम्भवात्। “ऋहलोपॅत्" "किमोऽत्"। तिवा- स्वरितः । गाङ्गेऽनुप इत्यादौ तु गाङ्गशब्दस्याण्णन्तत्वात् अन्तो- दात्तत्वे अनूपशब्दस्य "अनारप्रधानकनीयसि"इत्यनुदात्तादित्वे एकादेशस्य च "स्वरितो वा ऽनुदात्ते पदादौ" इति स्वरितत्वे स्थानिद्वारकतत्सम्भवेऽपि तस्य गौणत्वात्।आदेशस्य स्वरितस्य वर्णान्तरत्वात् । नाप्युदात्तत्वानुदात्तत्वयोरेव समाहारो ग्राह्यः । अच्यस्तावात् । तथापि गुणिनोः समाहारानुपपत्तौ गुणयोस्तदा- श्रयणम् । न च समाहारस्य संज्ञित्वानुपपत्तिः, स्वरितसंज्ञया योग्य- तया अच एव संज्ञित्वेनाक्षेपादिति वाच्यम् । उपचारात्समाहा- द्वितीयपाद ङित्वाद्यातदेशाह्निकम् । १ । ५७५ रवतोऽच एव संज्ञित्वात् । नचैवं त्रैस्वर्येणाधीमहे इत्यादिशिष्टव्यवहारविरोधः । कैश्चिदुदात्तगुणैः कैश्विदनुदात्तगुणैः कैश्चिदुभयगुणैरिति वदर्थात् । स्वरत्रैविध्यपरत्वाभावात् । तस्यादित उदात्तमर्द्ध- ह्रस्वम् ॥ ३२॥ स्थिते गुणद्वयसमाहारे विभागप्रदर्शनार्थमारम्भः । ननु इस्वग्रहणादीर्घप्लुतस्वरितयोरयं विभागो न स्यात् । कन्या, शक्तिके३ शक्तिके इति “कन्याराजमनुष्याणाम्" इत्य- न्तः स्वरितः । “स्वरितमामेडिते ऽमूया" इति स्वरितः प्लुतः । मैवम् । अर्द्धहस्वशब्दः प्रमाणे रूहः। व्युत्पत्त्यर्थ इस्वस्योपा- दानम् । अर्द्धमात्रा त्वनेनाभिधीयते ततः प्रमेये मात्रप्रत्ययः । “प्र- माणे लः" इति तस्य लुक् । ततश्च इस्वदीर्घप्लुतयोरपि बुद्ध्या ऽर्द्धमात्राविभागसम्भवान्न दोष इति भाष्यकैयटयोः स्थितम् । अत एव ' "येनविधिः" इाते सूत्रे इस्वशब्दममुख्यया वृत्या मात्रा वर्तमानमङ्गीकृत्य दीर्घप्लुतयोरुदात्तविभागः कृत' इति बृहद्विवरणकारैरुक्तम् । अत्र दीक्षिताः-हस्वग्रहणमवयुत्यानुवादमात्रम् । अर्द्ध- मित्येव विवक्षितम् । तेन दीर्घप्लुतयोरपि पूर्वार्द्धमुदात्तम् । तच न समांशरूपं किन्तु लेशरूपम् । तत्र प्रातिशाख्य- विशेषानुरोधेन कस्यां चिच्छाखायां समांशः, कस्यांचि. दर्द्धमात्रेति विशेषः। एकश्रुत्यादीनां प्रातिशाख्यानुरोधेनैव व्य- वस्थादर्शनात् । न च दीर्घस्वरितसमार्द्धस्योदात्तत्वे प्रमाणाभा- ५७६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये - वः । ये?ऽरा इत्यत्र एकारस्य, तनूनपाच्छचीपतिमित्यत्र च पदपाठे ऊदीतोरोदात्ततया बढ्चैः पठ्यमान- त्वात् । तनूनपाच्छचीपतिशब्दयोः "उभे वनस्पत्यादिषु युगप- त्" इति पूर्वोत्तरपदयोरायुदात्तत्वे शेषनिघातः । पूर्वपदयोश्च तनूशचीपदयोरन्त्यस्य पाक्षिकं स्वरितत्वं प्रातिशाख्ये उक्तम्- जात्यवद्वा तथा वाऽन्त्यौ तनूशचीति पूर्वयोः । इति । स्वरितार्द्धस्योदात्तत्वे प्रातिशाख्यमपि- एकाक्षरसमावेशे पूर्वयोः स्वरितः स्वरः । तस्योदात्ततरोदात्तादर्द्धमात्रार्द्धमेव वा ॥ अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत् । उदात्तं वोच्यते किश्चित्स्वरितं वाऽक्षरं परम् । इति । स्वर इत्यन्तं स्वरितलक्षणम् । पूर्वेतिपदस्योदात्तानुदात्त- त्वपरत्वात् । तस्य स्वरितस्य स्वतन्त्रोदात्तापेक्षया उदात्ततरा- ऽमात्रा बोध्येति । अर्द्धमात्रेति 'क३वोऽश्वाः'इत्याद्यभिप्रायम्।न चैवं स्वतन्त्रोदात्तापेक्षया उदात्ततराऽर्द्धमात्रा बोध्या इत्यस्य नी- चस्थानत्वादनुदात्तत्वापत्तिः।अत्यन्तनीचस्यैव स्थानस्य तत्रोपा. दानात् । अवेति दीर्घाभिप्रायम् । अनेनैव त्रयाणामुपसंग्रहादि- दमेवादर्तव्यमिति सूचयितुमेवकारः। अर्द्धमात्रापेक्षया समांशस्य बहुत्वेन तदुपकारकत्वात् । चरमोपन्यासाच । प्रातिशाख्यस- माख्यया तच्छाखापरत्वलाभे तच्छाखायां स्वरितस्य समानो- दात्तपाठाच । अनुदात्त इत्यादि परिशेषसिद्धार्थानुवादः । स शेष उदात्तश्रुतिः । किमविशेषेण ? नेत्याह-नचेत्यादि । उदा- तस्वरितपरं विहायेत्यर्थः । शाकल्यो ऽप्याह- अप्राकृतस्तु यः स्वारः स्वरितोदात्तपूर्वगः ।
द्वितीयपादे डिनवाद्यतिदेशाह्निकम् । १। ५७७ उदादायादमस्याथ शिष्टं निघ्नन्ति कम्पितम् ।। उदादाय उदात्तं कृत्वेत्याहुः । अत्र वदन्ति-नेदं युक्तम् । उक्ताकरग्रन्थविरोधात् । शा. खाविशेषे तथा पाठेऽपि सर्वशाखासाधारणस्यास्य तदे- कवाक्यतया संकोचानहत्वात् । लौकिकप्रयोगे विशेषवचनाभा- वे ऽर्द्धमात्रैवोदात्तेत्यत्र तात्पर्यात् । उक्तप्रातिशाख्यं च न सा. धकम् । अर्द्धमात्रा, अर्द्धमेव वेति पक्षयोः पाणिनिशाकल्ययोः सामान्यविशेषलक्षणाभिप्रायेण व्यवस्थितत्वात् । एक्कारो विशेषलक्षणेन कृतायाः सामान्य लक्षणव्यावृत्तेरनुवादार्थः । वाशब्दो व्यवस्थितविकल्पार्थ इति । अपिच समांशग्रहणेऽर्द्धग्रहणवैयर्थं "समं स्यादश्रुतत्वाद्" इत्यव सिद्धेः। न चार्द्धमात्राया अपि लाभार्थ तत् । उभयसाधार- परूपाभावात् , लेशत्वस्यैकस्याभावात् , एकशेषादिकल्पनेऽपि गौरवात् । एतेनार्द्धहस्वशब्देनार्द्धमात्रा लक्ष्यत इति हरदत्तादिग्रन्था- स्तु मतान्तरपरतया कथंचिन्नेया इति परास्तम् । हरदत्तोक्तस्यैव प्रकृतसूत्रार्थत्वात् । यत्तु-आकरे अर्द्धमात्रायामर्द्धस्वशब्दस्य रूढेरुक्तत्वात् समुदायस्य शक्त्यभावेन लक्षणाया अयोगाचायुक्त एव इति । तन्न । अर्द्धमात्रायां रूढावपि कैयटोक्तरीत्या तदवच्छिन्नध- मिणो लक्षणयैव लाभात् । मात्रच्मत्ययलोपं न जानतामपि बोधोदयात् । तदनुशासनस्य "गुणवचनेभ्य" इत्यादिवल्ल- क्षणातात्पर्यग्राहकत्वादित्यास्तां विस्तरः। प्रकृतमनुसरामः- ५७८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये अत्र वार्तिकं-"स्वरितस्यार्द्धहस्त्रोदात्तादोदात्तस्वरितपर- स्य सन्नतरादूर्द्धमुदात्तादनुदात्तस्य स्वरितात्कार्य स्वरिता- दिति सिद्ध्यर्थम्" अस्यार्थः-आ अर्द्धहस्त्रोदात्तादिति आकारच्छेदः । इयं नवसूत्री "उदात्तादनुदात्तस्य स्वरितः" इत्येतदुत्तरमष्टमे पठनीया । तेन 'इमं मे गङ्गे यमुने सरस्वति' इत्यत्र मे-शब्दा- स्वरितात्परेषां गङ्गेत्यादीनाम् आमन्त्रितनिघातादनुदात्तानां "स्वरितात्संहितायामनुदात्तानाम" इति वचनादेकश्रुतिर्भवति । अन्यथा "उदात्तादनुदात्तस्य" इति त्रैपादिकस्वरितस्य "स्वरि- तात्" इत्यत्रासिद्धत्वात्स्वरितात्परत्वमनुदात्तानां नास्ति इति एकश्रुतिर्न स्यात् । न चाश्रयात्सिद्धत्वं शक्यम् । 'कार्यम्' इत्यादौ पाष्ठस्वरिते मावकाशत्वात् । "स्वरितोदात्तार्थ च"। तथाहि-सुब्रह्मणि साधुरिति यत्प्रत्ययः तित्त्वात्स्वरितः, ततष्टाप् पित्त्वादनुदात्तः, एकादेश आन्तरतम्यात्स्वरितः। तत्रा- नुदात्तभागस्यापि विद्यमानत्वात् । ओमित्युदात्तः। “ओमाङोश्च" इत्युदात्तस्वरितयोरेकादेशः स्वरित एव । एकदेशान्तरतम्यात् । इन्द्रशब्दश्यामन्त्रितत्वादनुदात्तः । 'सुब्रह्मण्योमिन्द्र आगच्छ' इत्यत्र "न सुब्रह्मण्यायां स्वरितस्य तूदात्तः" इत्योकारस्य स्वरितस्योदात्तविधानं सावकाशमिति त्रैपादिकस्य स्वरितस्यो- दात्तो न स्यात् । 'इन्द्र आगच्छ' इति यथा । "स्वरितोदात्ताच स्वरितार्थम्" । 'इन्द्र आगच्छ, हरिव आगच्छ' । आशब्द उदात्तः । गच्छे- ति शेषनिघातादनुदानः। “उदात्तादनुदात्तस्य" इति स्वरितः। तस्यासिद्धत्वादुक्तसूत्रेणोदात्तत्वं न स्यात् ।
द्वितीयपादे ङित्त्वाचतिदेशाह्निकम् । १। ५७९ "स्वरितपरसन्नतरार्थ च" माणवकजटिलकाध्यापक न्यङ् । “न्यधीच" इति पूर्वप- दप्रकृतिस्वरः । तत "उदात्तस्वरितयोर्यणः" इत्यकारः स्वरितः। तस्यासिद्धत्वात् “उदात्तस्वरितपरस्य सनतरः" इति पूर्व- स्यानुदात्ततरो न स्यात् । न चाश्रयात्सिद्धत्वम् । माणवकज. टिलकाभिरूपं क इत्यत्र सावकाशत्वात् । “तित्स्वरितम्" इत्यस्य सिद्धत्वात् । तस्मानवमूत्री शास्त्रान्ते पठनीयेति सिद्धम् । तञ्च सूत्रकृतैव ज्ञापितम् । तदुक्तम्---"देवब्राह्मणयोरनु- दात्तवचनं ज्ञापकं 'स्वरिताद्' इति सिद्धत्वस्य" इति । अन्यथा स्वरितस्यासिद्धत्वादनुदात्तत्वमस्त्येवेत्यनुदात्तत्वविधानमनर्थक स्यात् । नहि स्वरितस्य सिद्धत्वमनेन ज्ञाप्यते स्वरितस्य य उदात्तस्तस्मात्परस्यानुदात्तस्य स्वरितताऽऽपत्तरिति भाष्यवा- र्तिकयोः स्थितम् । अत्र दीक्षिताः-"स्वरितस्य तूदात्त इति प्रकरणोत्कर्षे ज्ञाप- कम्। नच भाष्यकैयटादिरीत्या 'सुब्रह्मण्योम्' इत्यत्र तदवकाशः। "एकादेश उदात्तेनोदात्तः” इत्यस्य प्रवृत्तेरावश्यकत्वात् । नच तत्र अनुदात्तस्य'इत्यनुवृत्तेत्तिकृतोक्तत्वात उदात्तस्वरितयोरे- कादेशे न तत्पत्तिरिति वाच्यम् । तदनुवृत्तौ मानाभावात् । 'कावरम्' इत्यत्र बट्टचैरुदात्तस्यैव पठ्यमानत्वात् । कश- ब्दस्य स्वरितत्वात् । तैत्तिरीयाणामपि “याज्ययैवैनमेतया- ऽऽप्याययति" इत्यत्राङ्मश्लेषेण द्वितीयाक्षरस्योदात्तत्वाच । अत एव बचप्रातिशाख्ये- उदात्तवत्येकीभाव उदात्तं सन्ध्यमक्षरम् । अनुदात्तोदये पुनः स्वरितं स्वरितोपधे ॥ इति- ५८० व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये श्लोके उत्तरार्द्ध एवानुदात्तपदं प्रयुक्तम्, पूर्वान्वयभ्रम- वारणाय पुनःपदं प्रयुक्तम् । शौनकीये स्वराष्टकेऽपि-'एका- दिष्टमुदात्तेन तं तमेव नयेत्स्वरम्' इत्युक्तम् । एकादेशे प्रति- योगित्वेनानुदात्तस्यानुपादानाद्' इत्याहुः । तन्न । शाखाविशेषे तथा पाठस्य प्रातिशाख्यविधिनैव सिद्धे तदनुरोधेन सर्वभाषादर्शिभाष्यकारादिव्याख्यानस्यो- ल्लङ्घयितुमशक्यत्वात् । एकश्रुति दूरात्सम्बुद्धौ ३३। दूरात्संबोधने वाक्यमेकश्रुति स्यात् । 'आगच्छ माणवक' । पक्षे माणवकशब्दटेः प्लुत उदात्तः । एक- श्रुतिप्लुताभ्यामवयवभेदेन वाक्ये समुचिताभ्यां दूरात्सम्बो- धनं द्योत्यते । सम्बुद्धिपदं सम्बोधनपरम् । एकवचन- परत्वे 'देवा ब्राह्मणा' इत्यादावव्याप्तेः । तदुक्तम्-"उ. भयगतिरिह शास्त्रे भवति" इति । कचिदकृत्रिमस्यापि ग्रहणमि- त्यर्थः । एकवचनस्य दूरादिति विशेषणानुपपत्तेः। सम्बोधनस्य तु क्रियारूपत्वादपादानतया तत्सम्भवात् । एकश्रुतिश्च नो- दात्ता, "उच्चैस्तरां वा वषट्कार"इत्युदात्तविधानात् । अन्यथा "यज्ञकर्माण" इत्येकश्रुत्यैव सिद्धेः । नाप्यनुदात्ता । "उदात्तस्व- रितपरस्य सन्नतर" इत्यनुदात्तत्वविधानात् । एकश्रुत्यनुवृत्त्यैव सिद्धावनुदात्तविधानमनर्थकं स्यात् । तस्मात्क्षीरोदकवदुदात्ता- नुदात्तयोर्भेदतिरोधानमेकनुतिरित्यर्थः सिद्धः। अत्रैव प्रच- यव्यवहारो वैदिकानाम् । स्वरिते तु विभागेन तयोरुपलब्धिः । अन्ये तु व्याचक्षते-उभयत्रापि तरनिर्देशस्तन्त्रम्। “सोमस्याग्ने- वीहिश्वौ३षद" इत्यत्र “यज्ञकर्मणि"इत्येकश्रुतिर्विहिता, तदपे- द्वितीयपादे ङित्वाचतिदेशाह्निकम् । १। ५८१ क्षया वौषट्शब्दस्योदात्ततरत्वं विधीयते । तच्चैकश्रुतेरुदात्तानुरागं विनाऽनुपपन्नम् । उत्कर्षस्य सप्रतियोगिकत्वात् । एवं “सनतर" इत्यत्रापि । तथा च सप्त स्वरा:-उदात्तः, उदात्ततरः, अनुदात्तः, अनु- दात्तरः, स्वरितः, स्वरितोदात्तः, स्वरित एवानुदात्तेनोपरक्त एकश्रुतिः । कस्यचित्तु स्वरितस्योदात्तभागो नानुदात्ते. नानुरज्यत इति पृथक् स्वरितनिर्देश इति सिद्धम् । यज्ञकर्मण्यजपन्यूल- सामसु ३४। मन्त्री यज्ञकर्मण्येकश्रुतिः स्यात् जपादीन्वर्जयित्वा । "अग्निर्मूञ दिवः"।यज्ञेति किम्। स्वाध्यायकाले त्रैस्वयमेव यथा स्यात् । अनपेति किम् । “ममाग्ने व! विहवेष्वस्तु"। जपो नामो- पांशुप्रयोगो यथा जले निमग्नस्य । न्यूङ्खास्तु षोडश ओकाराः । तेषु प्रथमसप्तमत्रयोदशास्त्रय उदात्तास्त्रिमात्राः, इतरे त्रयोदशानु- दात्ता अद्धौंकाराः । एवं चाश्वलायनेनोक्तमुदाहृतं चेति प्रसा- दकारः । “गीतिषु सामाऽऽख्या"इति जैमिनिमूत्रम् । अनपेति. पर्युदासात्तत्सदृशमन्त्रे इदमैकश्रुत्यम् । अत एव "इन्द्रशत्रुशब्दे ऊह्यमाने नैतत्प्रवृत्तिः" इति पस्पशायां प्रपञ्चितम् । उच्चस्तरां वा वषट्कारः ३५। यज्ञकर्माण वौषट्शब्द उच्चस्तरां वा स्यादेकश्रुतिर्वा । "सोमस्याग्ने वीहि वौषट्" । वषट्शब्दोपादानं वैचित्र्यार्थम् ।
५८२ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये वौषट्शब्दस्यैव विवक्षितत्वात् इति संप्रदायः । एतस्मानिर्देशा- देव. वर्णनिर्देशाभावेऽपि कारप्रत्ययः। तेन स्वाहाकारो हन्तकार इत्यादिसिद्धम् । विभाषा छदसि ३६। ६ छन्दसि एकश्रुतिर्वा । व्यवस्थया च विकल्पः । यथा- बचानां संहितायां त्रैस्वयम् , ब्राह्मणे त्वेकश्रुतिरित्यादि । विकल्पस्य प्रकृतत्वेऽपि “यज्ञकर्मणि" इत्यस्य निवृत्तिमूचनार्थ पुनर्विभाषाग्रहणम् । ननु यज्ञकर्मण्येव नित्याया वैकल्पिक्याश्चैकश्रुतेविरोधाद्वि- धातुमशक्यत्वात्सामर्थ्यादेव 'यज्ञकर्मणि' इत्यस्य निवृत्तिसम्भ- वात्पुनर्विभाषाग्रहणं व्यर्थमिति चेन्न । अजपेत्यादिपर्युदामा. नित्यैकश्रुतेर्मन्त्रविषयकत्वम्, वैकल्पिक्यास्तु ब्राह्मणपरत्वमिति व्यवस्थासम्भवात् । प्रतिषेधपक्षेऽपि नित्यैकश्रुतेरेव उहादिवि- षयत्वम्, वैकल्पिक्यास्तु छन्दोविपयत्वमिति सम्भवातन्नि- वृत्त्यर्थतया सार्थक्यात् । अत्र व्याचक्षते-तन्त्रेणावृत्या वा“अच्छन्दसि"इति नश्लेषा- द्भाषायामप्यैच्छिको विकल्पः । दाण्डिनायनादि-सूत्रे "ऐश्वा- कस्य स्वरभेदार्थ पृथक् निपातनम्" इत्युक्त्वा "ऐकश्रुत्यनिर्दे- शात्सिद्धम् । एकश्रुतिर्हि स्वरसर्वनाम । यथा-नपुंसकं लिङ्गसर्व- नाम" इति भाष्योक्तेः। अत एव विरुद्ध स्वरकसमासद्वयस्यैकश्रुत्या सङ्ग्रहादभियुक्तानां श्लेषकाव्यनिर्माणं सङ्गच्छते । अत एव इन्द्र- शत्रुशब्दे बहुव्रीहिस्वरेण दोषप्रवृत्तिरुक्ता पस्पशायाम्, तदन्ते "श्वेतो धावति अलम्बुसानां याता" इति भाष्यं च । “वेद इव द्वितीयपादे ङित्त्वाद्यातदेशाह्निकम् । १। ५८३ लोके स्वरो न विशेषाध्यवसायहेतुः" इति काव्यप्रकाशस्य त्वेकश्रुत्या पाठादित्याशयः । नचैवं "झल्युपोत्तमम्" इति प्रक्रम्य “विभाषा भाषाया- म्" इत्युक्तर्वैयर्यम् । त्रैम्वर्येण प्रक्रमे पाक्षिकानुदात्तलाभार्थ- त्वात् । वेति प्रकृते विभाषाग्रहणात्मूत्रकृतां तन्त्रादेरनभि- मतत्वात् । स्वरविधौ छन्दोऽधिकाराभावाचेति तिष्ठतु विस्तरः। न सुब्रह्मण्यायां स्वरि- तस्य तदात्तः ३७। सुब्रह्मण्याख्ये निगदे पूर्वेण प्राप्ता एकश्रुतिर्न भवति किन्तु वचनान्तरविहितस्य स्वरितस्योदात्तः स्यात् । “सुब- ह्मण्योम्" । "इन्द्र आगच्छ” । ओंकारस्योदात्तत्वं व्याख्या- तम् । “ओमभ्यादाने" इति प्लुतोदात्तत्वं तु नास्ति, तस्याऽयज्ञकर्मविषयत्वादिति संप्रदायः इन्द्रशब्द आ- मन्त्रितायुदात्तः, शेषनिघातेनाकारोऽनुदात्तः । “उदात्ताद- नुदात्तस्य" इति तस्य स्वरितः, तस्यानेन उदात्तः । “नि- पाता आयुदात्ता" इत्याकार उदात्तः । गच्छ इत्यस्य "ति- ङ्ङतिङः" इति निघातः । “उदात्ताद्" इति गकाराकारस्य स्वरितः । तस्याप्युदात्तः । तथाच छकारभिन्ना आद्याश्चत्वार उदात्ताः । नच "उदात्ताद्" इति छकारस्याप्युदात्तत्वाप- त्तिः । तदुत्तरमेतत्प्रकरणपाठस्य पूर्वमुक्तत्वात्स्वरितोदात्त- स्यासिद्धत्वात् । "हरिव आगच्छ" इत्यत्र आमन्त्रितायुदात्तः, इकारस्य ।
नच ५८४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये शेषनिघातः, तस्य स्वरितः, तस्योदात्तत्वम् इति 'हरिव' इत्यत्र द्वावुदात्तावन्त्योऽनुदात्तः । 'आगच्छ'इत्यपि पूर्ववत् ! "आगच्छ मघवन्" इत्यत्र “आमन्त्रितस्य" इति मघव- च्छब्दोऽनुदात्तः। "मेधातिथेः" इति षष्ठ्यन्तस्य "मेष"इत्यामन्त्रिते परागव द्भावात् आमन्त्रितस्वरेण मेधातिथिशब्दावयवो मे इत्युदात्तः, धा इत्यस्योक्तरीत्या स्वरितस्यानेनोदात्तः। मेधा इति द्वयमुदात्तम् । इतरदनुदात्तम् । एवं "पणश्वस्य मेने गौरावस्कन्दिन्नहल्यायै जार" इत्यादिषु पराङ्गवद्भावादि योज्यम् । "कौशिकब्राह्मण गोतमबुवाण" इत्यत्रापि द्वौ द्वावु- दात्तावन्येऽनुदात्ताः । तृतीयस्यापि "उदात्ताद- नुदात्तस्य" इति स्वरितत्वादननोदात्तत्वापत्तिः, एवं परेषामपीति वाच्यम् । स्वरितग्रहणसामर्थ्यात् सर्वेषामुदात्तत्वे इष्टे "न" इत्यपहाय "सुब्रह्मण्यायामुदात्त" इत्येव ब्रूयात् । तस्मादुभयग्रहणसामान सर्वेषामुदात्तत्वम् । "श्वः सुत्यामागच्छ मघवन्" । श्व इति निपातस्वरे- णाधुदात्तः । सुत्याशब्दः "संज्ञायां समजनिषदनिप. तमनविदषुञ्शीभृत्रिणः” इति सुनोते.. क्यपि तत्रो. दात्तानुवृत्तेरन्तोदात्तः, शेषनिघातेन 'सु'इत्यनुदात्तः । “उ- दात्तस्वरितपरस्य" इत्यनुदात्ततरः । आगच्छ इति द्वावुदात्तौ परोऽनुदात्त इति पूर्ववत् । "बहे सुत्याम्, व्यहे मुत्याम्" यह इति टजन्तत्वादन्तो. दात्तम् । तथा च सामब्राह्मणम्-"तस्मादुत्करे तिष्ठन्सुब्रह्मण्यः सुब्रह्म- घ्यायाहयति-सुब्रह्मण्यो३म्, सुब्रह्मण्यो३म्, सुब्रह्मण्यो३म् इति ।
द्वितीयपादे जित्वाचतिदेशाह्निकम् । १। ५८५ स्त्रियमिव त्रिराह त्रिषत्या हि देवाः । इन्द्रागच्छ' इति यदाह'इन्द्रा. गच्छ' इत्येतद्वा अस्य प्रत्यक्षं नाम तेनैवैनं त्रिराहयति । 'हरिव आगच्छ' इति, पूर्वपक्षापरपक्षौ वा इन्द्रस्य हरी ताभ्यां हीदं सर्व हरति । 'मेधातिथेर्मेष' इति, मेधातिथि ह काण्वायनिं मेषो भूत्वा जहा। वृषणश्वस्य मेने वृषणश्वस्य ह मेनका नाम दुहिताऽऽस तां हेन्द्रश्चकमे। 'गौरावस्कन्दिन्' इति । गौरमृगोह भूत्वाऽवस्कबार- ण्याद्राजानं पिबति । 'अहल्यायै जार' इति । अहल्याया ह मैत्रेय्या जार आस। 'कौशिकब्राह्मण' इति। कौशिको ह स्मैनं ब्राह्मण उप- न्येति । 'गोतमब्रुवाण' इति । देवासुरा ह संयत्ता आसंस्तानन्तरेण गोतमः शश्राम, तमिन्द्र एत्योवाच-इह नो भवान्स्पशश्वरत्विति, नाहमुत्सह इति, अथाहं भवतो रूपेण चराणीति, यथा मन्यस इति । स यत्तद् गोतमो अब्रुवाणश्चचार गोतमरूपेण वा तदेतदाह गोतमासीति । अहे सुत्यामागच्छ मघवन्निति, तद्यथा ऽहतो ब्रूयादिति अहे वः पक्ताऽस्मि तदागच्छतेत्येवमेवैतदेवेभ्यः सुत्यां पाह। 'देवा ब्राह्मणाः' इति, देवा ह वै देवा अथ हैते मनुष्यदे- वा ये ब्राह्मणाः शुश्रुवांसो ऽनूचानास्ते मनुष्यदेवाः । आहुतय एव देवानां दक्षिणा मनुष्यदेवानाम् , आहुतिभिर्ह देवान्प्रीणाति दक्षिणाभिर्मनुष्यदेवाञ्छुश्रुवुषोऽनूचानान्ब्राह्मणान्मीणाति" इति। "असावित्यन्तः"। वाचनिकमिदम् । प्रथमान्तस्यान्त उदात्तः । 'गाग्र्यो यज- ते, वात्स्यो यजते । मित्त्वादायुदात्वं प्राप्तम् । च द्राह्यायणिसूत्रम् “अर्थनिर्वचनमुच्चान्तम्" । 'अर्थो निरुच्यते बोध्यते प्राधान्येन प्रतिपाद्यते ऽनेनेत्यर्थनिर्व- चनम् । पदमिति यावत् । पदमित्येव तु नोक्तम् । समासे पूर्वपदानामन्तोदात्तता मा भूद्' इति व्याख्यावारः । यजवे ~ तथा ५८६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये इत्यस्य निहतस्य "उदाचादू" इति स्वरितत्वे उदात्तः । "अमुष्येत्यन्तः"। षष्ठयन्तोपलक्षणमिदम् । 'दाक्षेः पिता यजते । पूर्ववत् । "स्यान्तस्योपोत्तमं च" अदन्तस्य षष्ठयन्तस्य उपान्त्यं चकारादन्तश्चेत्युभय- मुदात्तं स्यात् । गाय॑स्य पिता यजते, वात्स्यस्य पिता यजते । "वा नामधेयस्य"। स्यान्तस्य नामधेयस्योपोत्तम वा उदात्तं स्याद्, अन्त्यस्तु स्पादेव । देवदत्तस्य पिता यजते । 'जनिष्यमाणानाम्' इत्यत्र प्रत्ययस्वरेण स्यशब्द उदात्तः, “तास्यनुदात्तेद्” इति लसार्व- धातुकस्वरेण शानजनुदात्तः । "उदात्ताद्" इति स्वरितः । तस्यानेनोदात्तत्वमिति ष्यमौ उदात्तौ । अन्यच्छेषनिघातेनानुदा- तम् । 'पितापितामह' इत्यत्र तु पितामहप्रपितामहयोः “असौ" इत्यन्तोदात्तत्वे "उदात्ताद्" इति स्वरितत्वे प्रकृतसूत्रेण पि- प्रशब्दयोरेवोदात्तत्वं नतु तत्परतोऽपि । देवब्रह्मणोरनुदात्तः ३८। अत्र वार्तिकम्-"देवब्रह्मणोरनुदात्तत्वमेके" इति । देवा ब्रह्माण आगच्छत । अयमर्थः-देवा ब्रह्माण इति पदयो।य- धिकरण्यपक्षे पूर्वस्यामन्त्रितस्याविद्यमानवद्भावादुभयोरपि आ- मन्त्रितायुदाचत्वे शेषनिघाते स्वरितत्वे च कृतेऽनुदात्तीव- धिरर्थवान । यदि तु तयोः सामानाधिकरण्यं तदा “विभा. षितं विशेषवचने बहुवचनम्" इति पक्षे विद्यमानत्वाद् "आम- त्रितस्य"इति निघातेनैव सिद्ध्या प्रयोजनाभावात् ।
द्वितीयपादे ङित्वाचतिदेशाह्निकम् । १। ५८७ स्वरितात्संहिताया- मनुदात्तानाम् ३९। स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुतिः स्यात् । "इमं मे गङ्गे यमुने सरस्वति" । इममित्यन्तोदात्तम् । मे इ- त्यनुदात्तम् । "अनुदात्तं सर्वम्" इत्यधिकारात् । “उदा- त्तादनुदात्तस्य" इति तस्य स्वरितः । ततः परेषां गङ्गे इत्या- दीनामेकश्रुतिः । संहितायां किम् । पदपाठे आमन्त्रितनिघाते. नानुदात्तत्वमेव यथा स्यात् । स्यादेतत् । 'अनुदात्तानाम्' इति बहुत्वं विवक्षितं न वा। नाद्यः । 'आग्निवेश्यः', 'पचति' इत्यत्र द्वित्वैकत्वयो- रव्याप्तेः । आग्निवेश्यशब्दो हि गर्गादियजन्तत्वादाादा- त्तः । शेषनिघाते द्वितीयः "उदात्ताद्" इति स्वरितः । वे- श्येति वर्णद्वयमनुदात्तम् । पचति इत्यत्र धातुरुदात्तः । शप्तिपी पित्त्वादनुदात्तौ । शवकारः स्वरितः। ततः पर एक एवानुदाच इत्येकश्रुतिर्न स्यात् । नान्त्यः । “इमं मे गङ्गे यमुने सरस्वति" इत्यत्र मेशब्दस्य स्वरितत्वात्ततः परस्यैकस्यैवैकश्रुतिः स्यात्, न 'यमुने' इत्या- दीनाम्, व्यवहितत्वात् । “तस्मादित्युत्तरस्य"इतिवचनात् । अत्र भाष्यम्-वचनत्रयान्तानामनुदात्तपदानामेकशेषोऽयमिति। सरूपसूत्रारम्भपक्षे चेदम् । जातिपक्षे तु “जात्याख्यायाम्" इति बहुवचनम् । ततश्चैकद्विबहुषु स्वरितात्परस्या जातेरानन्तर्ये. णोपलम्भात्सर्वेषामैकश्रुत्यसिद्धिः । नन्वाये षट्प्रभृतीनामेव कार्य स्यात्सहविवक्षायामेकशेष- ५८८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याय विधानात् समुदितानामेव कार्यान्वयादिति चेन्न । निर्देशसह- विवक्षायामपि प्रत्येक कार्यप्रवृत्तेः, देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामितिवत् । उदात्तस्वरितपरस्य सन्नतरः४०। उदात्तः स्वरितो वा परो यस्मात्तस्यानुदात्तस्यानुदात्ततरः। "सरस्वति शुतुद्रि" । "व्यचक्षयत्स्वः" । इति वृत्तिकारादयः । केचित्तु-एकश्रुतिस्वरस्यानुदात्ततरः स्यादित्येवार्थः । अ- न्यथा “एकश्रुति दूराद्" इतिसूत्रगतभाष्यकैयटविरोधात् । किश्च अस्यासिद्धत्वात्सरस्वतीशब्दावयवेकारस्यापि पूर्वे. गैकश्रुतिः स्यात् । नचायं तदपवादः। अग्निम्, कन्या इत्यादौ सावकाशत्वात् । नच "न मु ने" इत्यत्र 'न' इति योगविभागान्नासिद्धत्व- मिति हरदत्तादिरीत्या निर्वाहः । तदर्थ योगविभागस्य भाष्या. दावनुक्तेः । अन्यथा शास्त्रान्तपाठकल्पनस्यापि वैयर्थ्यात् । एकश्रुतेरिव स्वरितस्यापि परत्वादाधोपपत्तौ "नोदात्तस्वरि- तोदयम्" इतिसूत्रवैयर्थ्याचेति प्राहुः । अपक्त एकाल्प्रत्ययः ४१ । एकोऽल् यत्र स प्रत्ययो ऽपृक्तसंज्ञः । प्रदेशा:-"मुतिस्य- पृक्तं हल्" इत्यादयः। स्यादेतत् । एकहलित्येव वक्तव्यम् । 'अपृक्तं हल्' इत्यत्र हल्पदपरित्यागे लाघवात् । अल्ग्रहणे तु विभेदेत्यादौ णलो लोपवारणाय तदावश्यकत्वात् । मैवम् । “यूनि लुगणियोः" इति पदयोचारणे गौरवात् ।
द्वितीयपादे जिन्यायतिदेशाहिकम् । १। ५८९ हल्ग्रहणेतु अपृक्तस्यत्येव तत्र वक्तव्यत्वात् । नचैवं फाण्टाहतेरपत्यं फाण्टाहृतः । “फाण्टाहृतिमिमता; भ्याम्" इतिणप्रत्ययस्यापि लुगापत्तिः । अण एव लुका सिद्धौ णविधानानर्थक्यापच्या तद्वारणात् । नच “यनितोश्च" इतिफबाधनार्थतया तत्सार्थक्यम् । पैलादिपाठं कृत्वाऽपि फको वारयितुं शक्यत्वात् । मैवम् । यथान्यासे ऽपृक्तसंज्ञायां हल्ग्रहणम्, हल्ङयादिसूत्रे द्वितीयहल्ग्रहणम्, "अणिोः” इत्यत्रापृक्त- ग्रहणं चेति त्रयम् उक्तरीत्याऽप्यपृक्तसंज्ञायां हल्ग्रहणम्, “अ. णिोः" इत्यत्राणिपदयोग्रहणं चेति पदत्रयमेवेति न लाघवम्। एवं च तथाऽप्येकग्रहणं मास्तु । नच दर्विः,जागृविरित्यादाक तिप्रसङ्गः । अलेव यः प्रत्यय इति व्याख्यानात् । अन्यथाऽल्पद- वैयात् । अलन्तस्येत्यर्थे केवलस्याधन्तवद्भावेन तथात्वाश्रयणे तद्यावाभावात् । नचैवं हल्ग्रहणेऽपि समानम् इति वाच्यम् । अजन्तव्या- वृत्त्या तदन्तविधेश्चरितार्थत्वापत्तेः । तस्माद् "एकग्रहणं वर्णग्रहणे जातिग्रहणम् इति ज्ञापनार्थम्" इति भाष्यम् । “निपात एकाज" इत्यत्र ज्ञापितस्यापि पुनर्जापनं मन्दबुद्ध्यनुग्रहार्थमिति कैयटः । तत्पुरुषः समानाधि- करणः कर्मधारयः ४२। सामानाधिकरण्यं द्वधा शाब्दमार्थ च । आयं यथा-नी- लमुत्पलमिति पदद्वयस्य, समानविभक्तिकत्वात् । द्वितीयमपि तत्रैव तदर्थयोरभेदेन विशेषणविशेष्यभावात् ।
५९० व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये तत्राचं बाधितसाधारणं 'माता वन्ध्या' इत्यादिदर्शना- त् । द्वितीयं त्वबाधितमात्रवृत्तीति विवेकः । शब्दा. नुशासनप्रस्तावादायमेवात्र निविष्टम् । काश्चनमयवति- मानित्याद्यभियुक्तमयोगदर्शनात् । वर्तिपदयोरेकविभक्तिकयोर्यस्तत्पुरुषः कर्मधारयसंज्ञः स स्यात् । तत्पुरुषप्रकरणादन्यत्रैतदारम्भस्तु कर्मधारयसंज्ञायास्तत्पु- रुषसंज्ञाबाधकत्वं मा भूदिति । तत्रैकसंज्ञाधिकारात् । नीलच तदुत्पलं च नीलोत्पलम् । चित्रा गावो यस्येत्यादिबहुव्रीहेरपि समानाधिकरणवाद्यभिचारवारणाय तत्पुरुष इति । राजपुरुष इत्यादिवारणाय समानाधिकरण इति । नच तत्पुरुषस्य समुदायस्यैक्यात्सामानाधिकरण्यानुप- पत्तिस्तस्य भेदनियतत्वादिति वाच्यम् । तत्परुषपदस्य तद्घट- कपदलक्षकत्वात् । ननु मुख्यतत्पुरुषस्यापि सामानाधिकरण्यं सम्भवति- राजपुरुषः शोभन इत्यादौ, तत्र चरितार्थत्वात्कुतो लक्षणा । अत्र कैयटः-तत्पुरुषस्य पदान्तरेण सामानाधिकरण्यं बहिरङ्गं वर्तिपदानां तु तदन्तरङ्गमिति । नचैवं प्रत्येक पदानामेव कर्मधारयसंज्ञाऽऽपत्तिः । एका- ज्र्विचनन्यायेन पदसमुदायस्यैव संज्ञाविधानात् । . प्रथमानिर्दिष्टं समास उपसर्जनम् ४३। समासविधौ प्रथमान्तं पदमुक्तसंज्ञम् । कृष्णं श्रितः कृष्णश्रितः । कृष्णादिशब्दानां प्रथमान्तत्वाभावेऽपि “द्विती- - द्वितीयपादे ङित्वाद्यातदेशाह्निकम् । १। ५९१ याश्रित-" इत्यादौ तत्समर्पकद्वितीयादिपदानां प्रथमान्तत्वात् । तथाच समासपदं तद्विधायकशास्त्रपरमिति फलितम् । समास. घटकपदापेक्षया समासाविधेलघुतया तत्परत्वस्यैव न्याय्यत्वात् । स्यादेतत् । निर्देशापेक्षया समासस्थाधारत्वात् एकत्र प्रथमानिर्दिष्टस्य सर्वत्रोपसर्जनसंज्ञा स्यात् । तदुक्तम्- "यस्य विधौ प्रथमानिर्देशस्ततो ऽन्यत्रोपसर्जनसंज्ञाप्रसङ्ग" इति । ततश्च राजकुमारीश्रित इत्यत्र श्रितादिसमासे कुमारीश- ब्दस्य प्रथमानिर्दिष्टत्वादुक्तसंज्ञायाम् उपसर्जनत्वानिमित्तो इस्वः, पूर्वनिपातश्च पूर्वपदे षष्ठीतत्पुरुषेऽपि स्यात् । अत्र वार्तिकम्- "सिद्धन्तु यस्य विधौ तं प्रतीति वचनाद्" इति । यस्य श्रितादेः समासविधौ प्रथमानिर्दिष्टं तं प्रत्येवोप- सर्जनसंज्ञेत्यर्थात् । उपसर्जनमित्यन्वर्थसंज्ञया यत्पतियोगिकं यस्थाप्रधानत्वं तत्पतियोगिकैवोक्तसंज्ञेति लाभात् । नन्वेवमपिप्पली, पुरुषव्याघ्र इत्यादौ पूर्वपदार्थप्रधाने- ऽ दिशब्दानामुक्तसंज्ञा न स्यात् । मैवम् । अर्थसम्भवे सत्येवान्वर्थसंज्ञानां प्रवृत्तिनिमि- त्तमपेक्ष्य प्रवृत्तेः । अन्यत्र तु तदनपेक्ष्यैव, विधानसामर्थ्याद् । अत एव स्वादीनां कर्मप्रवचनीयसंज्ञेति वक्ष्यते । एतेन राज्ञः पुरुषस्येत्यादिकमपि व्याख्यातम् । भाष्ये तु परिहारान्तरमप्युक्तम् । पूर्वनिपातप्रकरणे हि "न वाऽनिष्टदर्शनाद्" इति पूर्वानपातं प्रत्याख्यायोक्तम्-"प- ठयन्तयोः समासेऽर्थाभेदात्प्रधानस्यापूर्वनिपातः" इति । वाक्य- समासयोरेकार्थत्वानुरोधाद्राज्ञ एव पूर्वनिपातो न पुरुषस्य, अ- न्यथाऽर्थभेदप्रसङ्गात् । न च राज्ञः कुमार्या इत्यत्रोपसर्जनहस्वापत्तिः । पुनप्सि- ५९२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये म्भवादिष्टापत्तेः। वक्ष्यते हि-"परवल्लिङ्गम्" इति, "शब्दशब्दार्थों" इति । यद्यप्येतत्तत्रैव दूषणीयं तथाप्यन्वर्थसंज्ञायामेव तात्पर्यम् । एकविभक्ति चापूर्वनिपाते४४॥ समासे यनियतविभक्तिकं तदप्युक्तसंझं न तु तस्य पूर्वनिपातः । तत्तत्प्रयोगव्यक्तौ सर्वस्याप्येकविभक्तित्वा- व सामर्थ्यात् यस्य पर्यायेणापि न सर्वविभक्तित्वं तस्येयं संज्ञा । 'निष्कौशाम्बिः' इत्यत्र हि कौशाम्बीशब्दो निष्क्र- मणक्रियाऽपेक्षया ऽपादानशक्तिसम्बन्धात्पञ्चम्यन्त एव । क्रि- यान्तरापेक्षया शक्त्यन्तरानावेशात् । स्यादेतत् । श्रितादिसमासे द्वितीयाद्यन्तानां कृष्णादि. शब्दानामप्यनेन पूर्वनिपातनिषेधः स्यात्, पूर्वमूत्रस्य नीलो- पलादिसमानाधिकरणसमासे सावकाशत्वात् । मैवम् । अत्र पर्युदासाश्रयणात् पूर्वेण तत्र सिद्धेः । यद्वा “एकविभक्ति-"इत्यनेन विहितोपसर्जनसंज्ञानिबन्ध - नस्यैव पूर्वनिपातस्य प्रतिषेधः । “अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" इतिन्यायात् । "एकविभक्तावषष्ठयन्तवचनम्" इह मा भूत् अर्द्ध पिप्पल्या अर्द्धपिप्पली । एकदेशि- समासमात्रविषयकश्चायं निषेधः । तेन पश्चानां कुमारीणां स. माहारः पञ्चकुमारिइत्यादौ उपसर्जनत्वमेवेति द्वितीये विस्तरः। "प्रयोजनं द्विगुमाप्तापन्नालंपूर्वोपसर्गक्रान्ताद्यर्थे । क्रमेणोदाहरणम् । पञ्चभिगोभिः क्रीतः पञ्चगुः, प्राप्तो जी. विकां प्राप्त जीविकः, आपनो जीविकामापजीविकः, अल- कुमार्यै अलङ्कुमारिः, निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः । इति सिद्धान्तसुधानिधौ प्रथमाध्यायस्य द्वितीये पादे प्रथमाह्निकम्।।
द्वितीयपादे प्रातिपदिकाह्निकम् । २। ५९३ अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ४५। धातुप्रत्ययभिन्नमर्थवच्छब्दरूपं प्रातिपदिकसंज्ञं स्यात् । महा- संज्ञाकरणं "कोधातुः,कः प्रत्ययः,किं प्रातिपदिकम्" इत्यार्थर्वण- श्रुत्यनुरोधात् । अर्थपदमभिधेयपरम्। संज्ञिविशेषलाभार्थमिदम् । तदुक्तम्-"अर्थवदितिव्यपदेशो वर्णानां मा भू"इति । नचाधा- तुरित्यादिपर्युदासात्तद्भिन्नस्यार्थवत एव लाभः। धर्मान्तरप्रयु- तसादृश्यवतो वारणीयत्वात् । तेन वर्णेषु प्रत्येकं न व्यभि- चारः । “वर्णानां च मा भूदु"इतिपाठे दशदाडिमाद्यनर्थकपदस- मुदायस्य चकारेण समुच्चयः । स्यादेतत्-अस्तु वर्णानां संज्ञा । न च स्वादेरापत्तिः । एकवाक्यतया संख्याकर्मादिषु तेषां विधानात् । मैवम् । अविशेषेण स्वादीनामुत्पत्तेः। ततोऽर्थनियमः प्रकृतार्थापेक्षो वा प्रत्ययनियम इति अव्ययादिवत्सुपा दुर्वा- रत्वात् । ततश्च धनं वनमित्यादौ समुदायस्य पृथक् प्रातिपदि- कसंज्ञायां तदन्तर्भावात् विभक्तिलोपेऽपि नलोपापत्तिः । न चा- धातुरिति निषेधः । प्रत्येकस्माद्विभक्तरापाद्यत्वात् । तत्र च धा- तुत्वाभावात् । अर्थवद्हणपरिभाषाया विशिष्टरूपोपादानविषय. कत्वात् । “माहोढ"इत्यादिवत् । पत्तूक्तम्-“संघातस्यैकार्थ्यात् सुवभावो वर्णाद्" इति, तद् वर्णानामर्थवत्त्वपक्षे तन्त्रेणैकयैव विभक्त्या समुदायावयवा- थगतैकत्वप्रतीतिसिदेः । अनर्थकस्य तु संज्ञायां प्रकाशनीयार्थ- ५९४ व्याकरणसिद्धान्तमुधानिधौ प्रथमाध्याये विरहात् प्रत्येकवर्णादपि स्याद् । अन्यद् विचारितं पस्प- शायाम् । ननु "सुपो धातुप्रातिपदिकयोः" इत्यत्र धातोः पार्थक्येन ग्रहणात् धातोः प्रातिपदिकसज्ञाविरहो ज्ञापयिष्यते । अन्यथा पुत्रीयतीत्यादौ प्रातिपदिकत्वादेव लुसिद्धेः तेन "अहन् त्रम्" इत्यादौ न नलोपापत्तिरित्यधातुग्रहणं व्यर्थम् । मैवम् । तत्र "अप्रत्यय" इति प्रातिपदिकसंज्ञानिषेधात् तदर्थतया धातुग्रहणोपपत्तेः। नच प्रत्ययलक्षणेन "अप्रत्यय" इति संज्ञानिषेधः । “न डिसम्बुद्ध्योः" इत्यनेन लोपे कार्य प्रत्ययलक्षणमाश्रित्योक्तपयु- दासो न प्रवर्तते इति ज्ञापितत्वात् । अप्रत्यय इति किम् । काण्डे, कुड्ये । अत्र विभक्त्यन्तस्य सज्ञायां "हस्थो नपुंसके प्रातिपदिकस्य" इति मा भूत् । अत्र भाष्ये छिद् भिद् इत्यादौ 'अधातुः'इति निषेधात्मा- तिपदिकसंज्ञाविधायकत्वेन कृद्रहणस्य चरितार्थत्वेऽपि तद्धि- तग्रहणस्य नियमार्थत्वं भविष्यति-एतदन्तस्यैव प्रत्ययान्तस्य संज्ञेति । स्यादेतद्-पदानां प्रत्येकं प्रत्ययान्तत्वेऽपि वाक्यस्य प्रा- तिपदिकसंज्ञा स्यात् । नच तत्र प्रत्ययान्तपर्युदासेन निर्वाहः । 'प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च' इति प्रकृतिप्रत्ययसमुदायस्यैव ग्रहणात् । ननु अर्थवत्त्वाभावादेव तद्वारणम् । अन्वयव्यतिरेकाभ्यां पदानामेवार्थवत्त्वात् , वाक्य- स्य चाकासादिलभ्यत्वात् । मैवम् । ध्वनिव्यङ्ग्यं नित्यं वाक्यं पदार्थसंसर्गरूपविशिष्ट- वाक्यार्थवाचकम् । अन्यथा वाक्यार्थस्याशाब्दत्वं स्यात् ।
द्वितीयपादे प्रातिपदिकाह्निकम् । २। ५९५ तथाच वाक्यमेव मुख्यः शब्दः, वाक्यार्थ एव मुख्यः शब्दार्थः । पदपदार्थावस्थापनं तु लाघवार्थ सादृश्यात्कल्पितान्वयव्य तिरेकावाश्रित्य कल्पितम् । प्रतिवाक्यं व्युत्पत्त्यसम्भवात् इति सिद्धान्तात् । अत्र वार्तिकम्- "अर्थवत्समुदायानां समासग्रहणं नियमार्थम्" इति । नन्वेवं बहुपटवः, उच्चकैः, नीचकैः इत्यादिकानामपि सं- ज्ञा न स्यात् । योत्यवाच्याभ्यामर्थाभ्यां प्रत्ययस्य प्रकृते. श्वार्थवत्त्वात् अर्थवत्समुदायत्वरूपप्रतियोगितावच्छेदकधर्माव- च्छि नत्वात् । नच संज्ञाविरहे यथा स्वाद्युत्पत्तिर्न भवति, तथा पू. र्वोत्पन्न विभक्तिलोपोऽपि न भविष्यति इति तयैव सिद्धिरिति वाच्यम् । स्वरे दोपप्रसङ्गात् । तथाहि-"चित" इति मूत्रे “चितः सप्रकृतेः बहकज- थम्" इतिवचनात्प्रकृतिमन्तर्भाव्य चित्स्वरो विधीयते । तथाच 'पटव' इति जतन्तस्य बहुचं प्रति प्रकृति. त्वात् जसकारस्योदात्तत्वं स्यात् । पूर्वोपन्नसुपो लोपे तु पुनरुत्पन्नविभक्तः प्रकृतावनन्त वाहाकारस्पोदात्तत्वमिति सि. द्धमिष्टम् । उचकैरित्यादावपि अफज्वतः समुदायाद्विभक्त्यभावे पदत्वाभावाद् 'उच्चकैः पठति' इत्यादौ "तिङतिङ" इति निघातानुपपत्तिः, पदादित्यधिकारात् । तन्मध्यपतितन्या. यस्यानाश्रयणेनेदम् । तस्मात्प्रकृतिप्रत्ययसमुदायस्य प्रातिपदि- कसंज्ञा भवत्येवेति ज्ञापनार्थम् अप्रत्यय इति वक्तव्यम् । नचैवं बहुपटव इत्यादेरपि निषेधापत्तिः। प्रत्ययान्तस्यैव प्रतिषेधात् ।
५९६ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये न च 'संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणाभावः' । यत्र संज्ञा विधेया तत्रैव तनिषेधात् । अत्र तु संज्ञाप्रतिषेध इति वैषम्यात् । न च जसन्तं बहुपटव इत्येतदपि प्रत्ययान्तमेवेति वा- च्यम् । पटुशब्दादेव जसुत्पत्तेः, समुदायस्य तदन्तत्वाभावात् । न च न विद्यते प्रत्ययो यस्मिन् इति बहुव्रीहिणा प्रत्यया- देरपि बहुपटव इत्यस्य निषेधः स्यादिति वाच्यम् । वर्ति- पदार्थप्राधान्येन तत्पुरुषस्यान्तरङ्गत्वात् । अत्र भाष्यम्-तुल्यजातीयस्यैव समासग्रहणेन नियम: क्रियते सुबन्तानामेव समासविधानात् । न चाश्वक्रीतीत्यादौ "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः" इतिवचनादसुबन्तेनापि सुबन्तस्य समासोऽस्तीति वाच्यम् । भेदसंसर्गद्वारकार्थवश्वयुक्तानामि- त्यर्थादिति कैयटः। तथाच प्रकृतिप्रत्ययभावानापन्नसमुदायस्य समासभिन्न- स्योक्तनियमेन व्यावृत्तिरिति फलितम् । एतेनोक्तदोषभिया प्रत्ययान्तप्रतिषेधसामर्थ्यात्प्रकृतिप्र- त्ययसमुदायस्य संज्ञा भवत्येवेति न्यासग्रन्थो यथाश्रुतपरत्वेन व्याख्यातः। केचित्तु-यत्र संघाते पूर्वो भागः पदम् उत्तरस्तु न प्रत्ययस्तस्य व्यावृत्तिः । बहुपटव इत्यत्र पूर्वभागस्य पदत्वाभावान्न दोषः । जन्मवानित्यादौ तूत्तरभागस्य प्रत्ययत्वात् । च तद्धितग्रहणसामर्थ्यम् । औपगव इत्यादौ पूर्वस्य भसंज्ञया तत्र चरितार्थत्वात् । न चा- न्तर्वनिविभक्तिमाश्रित्य पदसंज्ञा । तुल्यावधिकया भसंबया द्वितीयपादे प्रातिपदिकाह्निकम् । २ । ५९७ तद्वाधात् । न च 'अयमियान्' इत्यादिसमुदायस्य संज्ञाप्रसङ्गः पूर्वभागस्य पदत्वेऽप्युत्तरस्य प्रत्ययत्वादुक्तनियमेन तत्र प्रत्य- भावादिति वाच्यम् । तद्विहितत्वस्यापि प्रत्ययविशेषणत्वात् । तद्विहितत्वाभावप्रयुक्तविशिष्टाभावस्य तत्राप्यनपायादित्याहुः । न च सुप्तिङ्समुदायस्य संज्ञापत्तिः । "जहिकर्मणा बहुल- माभीक्ष्ण्ये कर्तारं चाभिदधाति" इत्यस्य नियमार्थत्वात् । यद्यपि समाससंज्ञा समासान्तोदात्तार्था तथापि समासत्वादेव प्रातिपदिकत्वमिति तत्तुल्यजातीयताप्रतिपादनार्थमेतदुक्तमिति कैयटः । न च पश्य धावति' इत्यादेस्तिसमुदायस्य तदापत्तिः । "आख्यातमाख्यातेन क्रियासातत्ये" इत्यस्य नियमार्थत्वात् । तस्मात्समासग्रहणेन तुल्यजातीयानां सर्वेषां वाक्यानां नि. यमान्नित्तिरिति सिद्धम् । अत्र वदन्ति-नैयायिकमते समासस्य शक्तिलक्षणोभयर- हितत्वादर्थवत्त्वाभावादप्राप्तसंज्ञाविधायकत्वे बहुपटव इत्यादे. रसिद्धिः, तद्धितान्तत्वाभावात्समासत्वाभावात् । न च तद्धितग्रहणं तद्विशिष्टपरमिति वाच्यम् । पचतकी- त्यादावतिव्याप्तेरिति । तन्न । पदार्थद्वयस्य विशेष्यत्वप्रकारत्वाभ्यामन्वयात् यत्र विशिष्टार्थलाभस्तादृशसमुदायस्यैव तैरनर्थकत्वोपगमात् । बहु- चस्तु स्वार्थिकप्रत्ययत्वेन पटुशब्दस्यैव तादृशार्थकत्वात् । तथाच अयं विशेष:-वैयाकरणानां वाक्यसमासयोरपि बहुपटव इत्यादिवदर्थवत्त्वात्समासग्रहणस्य नियमार्थत्वाद् वा- क्यवद्वहुपटव इत्यादेरपि व्यावृत्तिप्रसक्तौ तद्यावृत्तं नियमप्र- तियोगितावच्छेदकं रूपमाश्रित्य वाक्यस्य मा वार्यते ।
५९८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये, नैयायिकानां तु समासस्य विशेषविधानात्संज्ञा न तु वा. क्यस्य, विशेषविध्यभावाद् । अर्थवत्त्वाभावेन सामान्यविधे- रमवृत्तेश्च । बहुपटव इत्यादेस्तु उभयमते ऽप्यर्थवत्त्वादेव प्राति पदिकसंज्ञेति । यदप्युक्तम्-समासग्रहणस्य नियमार्थत्वाभाव 'मूलकेनोपदं- शम्' इत्यादौ समुदायस्य प्रसङ्गः। कृद्रहणे गतिकारकपूर्वस्यापि ग्रहणात् । वैयाकरणमते तु समासग्रहणकृतनियमेन परत्वात्त- द्वाधात् । एवञ्च "कृतद्धित" इति सूत्रे कृद्रहणपरिभाषा नोप- तिष्ठते एव फलाभावादिति । तदप्यसव । विधिमुखेन नियमप्रवृत्ती निषेधस्याक्षे. प्यत्वात् प्रत्यक्षविधिना समं विप्रतिषेधायोगात् । आक्षे- प्यापेक्षया प्रत्यक्षस्य बलवत्त्वात् । निषेधस्य समा- सभिन्नपरताया इव कृद्भिन्नपरताया अप्यवश्यं कल्पनीयत्वात् । निषेधमुखेन प्रवृत्तिरिति पक्षेऽपि कृद्रहणपरिभाषया कार- कपूर्वस्यापि प्रातिपदिकसंज्ञायां सिद्धायां परेणापि नियमेन व्यवच्छेदो न स्यात् । कारकपूर्वस्य प्रातिपदिकसंज्ञाविधेरन्यत्र सावकाशत्वाभावात् सावकाशनिरवकाशयोर्विप्रतिषेधानुपपत्तेः। न च, नियमानुरोधात्तदप्रवृत्तिः । नियमस्य कृद्भिन्नप- रत्वम् , कृद्रहणपरिभाषासङ्कोचो वा कल्प्यते इत्यत्र निया- मकाभावात् । परिभाषाया अप्रवृत्ती नियमस्य कृत्साधारण्यम् , तत्सिद्धौ तत्परिभाषाया अप्रवृत्तिरित्यन्योऽन्याश्रयापत्तेश्च । प्रत्युत तस्याः प्रथमोपस्थितिकतया कारकपूर्वस्य संचासिद्धौ नियमस्य तद्भिनपरताया एव युक्तत्वात् । अत एव "कृत्तद्धित" इत्यत्र कृद्रहणपरिभाषो. पस्थाने मूलकेनोपदंशम् ' इत्यत्र समासाभावपक्षेऽपि ' द्वितीयपादे प्रातिपदिकाह्निकम् । २ । ५९९ तृतीयाया लुक् स्यात् । न च समासविकल्पविधिवै. यर्थ्यम् । 'दाधिउपदंशम्' इत्यत्र शाकलप्रकृतिभावार्थतया तदुपपत्तेः । अन्यथा “अमैवाव्ययेन" इति नित्यसमासापच्या "सिनित्यसमासयोः प्रतिषेधो वक्तव्यः" इति शाकलप्रकृतिभा- वनिषेधापत्तेरिति कैयटेन चतुर्थे उक्तम् । “गतिकारकोपपदा- स्कृत् " इति उत्तरपदप्रकृतिस्वरविरहार्थ तया तदुपपत्तिरिति च सीरदेवेनोक्तम् । परत्वानियमेन तत्संज्ञावाधमनभिधाय कृद्रहणपरिभाषाया अप्रवृत्तेरेव तेन प्रथममुक्तत्वात् । तथाहि प्रष्ठीत्यादौ समासात्यागेव "पुंयोगाद्" इत्यादिवचन- ङादिप्रत्ययः स्यादित्याशक्य प्रष्ठादिसमुदायस्य प्रातिपदिकत्वा- भावात्स्त्रीप्रत्ययानुपपत्तिरित्युक्त्वा कृद्रहणपरिभाषया समुदाय. स्य कृदन्तत्वात्संज्ञा स्यादित्याशङ्कय अप्रत्यय इति पर्युदासात्म- त्ययान्तस्य प्रातिपदिकसंज्ञाया अप्राप्तावपि कृद्रहणेन कृद- न्तस्य संज्ञा न तु गतिकारकपूर्वस्यापीत्युक्तम् । तस्मात्स- मासे कृते तन्निबन्धनप्रातिपदिकसंज्ञया स्त्रीप्रत्यय इति तद्- न्थार्थः । अतस्तत्र कृग्रहणपरिभाषा नोपतिष्ठते इत्युभाभ्या- मुक्तम् । तस्मादेवं समाधेयम्- "कृत्तद्धित" इत्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्त विध्य- भावेऽपि अर्थवदित्यस्यानुवृत्त्या प्रक्रियादशायामन्वयव्य- तिरेकाभ्याङ्कल्पितामर्थवत्तामाश्रित्य प्रकृतिप्रत्यययोमिलित्वा यदर्थबोधकत्वं तदर्थबोधकसमुदायस्य प्रातिपदिकसंज्ञति ताव- द्भाष्यादावेव स्पष्टम् । ततश्च नैयायिकमतेऽपि अर्थ. वद्हणानुवृत्या प्रकृतिप्रत्ययसमुदायस्यैव विधानसामर्थ्यात्संज्ञा ६०० व्याकरणसिद्धान्तसुधानिधी प्रय न तु कारकपूर्वस्यापि । अधिकग्रहणे प्रमाणाभावात् । तद्वला- 'T. परिभाषाया एवं प्रवृत्त्यभावात् । वस्तुतो नात्र तत्परिभाषाऽवकाशः । “गतिरनन्तर" इ. त्यत्र तस्या ज्ञापयिष्यमाणत्वात् । प्रत्येकपूर्वस्यैव ग्रहणमिति तदर्थात् । उभयपूर्वकस्य युगपदनुपादानात् । अवतप्तेन- कुलस्थितम् , उदकेविशीर्णमित्यादौ तथैव दर्शनाचेति दिक् । नन्वेतत्सूत्र व्यर्थम् , व्युत्पत्तिपक्षे कृदन्तत्वादेव सर्वत्र सिद्धे- रिति चेन्न। अव्युत्पत्तिपक्षे सार्थक्यात् । तत्र चेदमेव ज्ञापकमि- ति प्राचः। निरुक्तेऽप्युक्तम् -"नामान्याख्यातजानीति शाकटायनः, नैरुक्तसमयश्च, न सर्वाणीति गाग्र्यो वैयाकरणानाञ्चैके" इति । व्युत्पत्तिपक्षेऽपि निपातार्थमनुकरणार्थश्चेति हरदचोक्तं तु चिन्त्यम् । तत्रापि प्रकृत्यादिकल्पनसम्भवात् । वस्तुतस्तु व्युत्पत्तिपक्षेऽपि बहुपटव इत्याद्यर्थ सूत्रम् । न चैवं बहुपूर्व इत्येव सूत्र्यतामिति वाच्यम् । मूलकेनोपदंश- मित्यादौ कृदन्तत्वेनातिप्रसङ्गात् । अर्थवत्सूत्रं विना समा- सग्रहणस्य नियमार्थत्वायोगादिति दीक्षिताः । तदसत् । भेदविवक्षायामनुकरणानां प्रकृत्यादिकल्पने मानाभावात् । अयं तु विशेषः । भेदविवक्षापक्षेऽनुकार्येणार्थवत्वात्माति- पदिकसंज्ञा "भुवो वुग्" इत्यादिवत् । अभेदविवक्षायां तु न, गवित्ययमाहेत्यादिवत् । मूलकेत्यादावतिप्रसङ्गस्प च निरस्तत्वात् । कृत्तद्धितसमासाश्च ४६।
... ... ६ ४ २ ... २ २ ५) शिवस्तोत्रावली । उत्पलदेव विरचिता । प्रमेयरत्नार्णवश्व २ श्रीक्षेमराजविरचितवृत्तिसमेता(वेदान्तः)२ ] (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोम- 1) मीमांसाबालप्रकाशः जैमिनीयद्वादशाऽ णिकृतदीधित्या जागदीशी टीका । १३ ध्यायार्थसंग्रहः श्रीभट्टनारायणात्मजभट्ट- (३०) वीरमित्रोदयः । महामहोपाध्यायत्रीमित्र- शङ्करविरचितः । ( मीमांसा ) २ मिश्रविरचित: परिभाषा-संस्कारप्रका- शात्मकः । सापिण्यदीपकश्च (१७) प्रकरणपञ्चिका प्रभाकरमतानुसारि--मी- मामादर्शनम् । महामहोपाध्यायश्री शालि- (३१) धीरमित्रोदयः । महामहोपाध्यायश्रीमि- त्रमिविरचितः आह्निकप्रकाश: कनाथामिथविरचितम् श्रीशङ्करभटकृता मीमांसामारसंग्रहभ सम्पूर्णः (नीमांसा)३ (२२) स्मृतिमारोद्धारः विद्वद्ररविश्वम्भरत्रिपाठि. संकलितः (१८) अद्वैनसिद्धिसिद्धान्तमारः । पण्डितप्रवर- (३३) वेदान्तरत्नमञ्जूषा । श्रीभगवत्पुरुषोत्त. श्रीमदानन्दव्यासप्रणीतस्तत्कतव्याख्यास- माचार्यकृता। मल कृतः । ( वेदान्तः) ३ (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषोत्त- (१९) कात्यायनीतसूत्रम् । महामहोपाध्याय- मजीमहाराजविरचितः श्रीकर्काचार्यविरचितभाष्यसहितम् । १३ । (३५) वेदान्तपारिजातसौरभं नाम ब्रह्ममीमांसा- (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविर- भाध्यं श्रीनिम्बार्काचार्यविरचितम् । चितं सम्पूर्णम् ( वेदान्तः) (६६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य- (२१) श्रीहर्षप्रणीतं खण्डनखगडखाश्चम् । आ- नाराणतीर्थविरचित-योगसिद्धान्तचन्द्रि नन्दपूर्ण निरचितया खण्डननिककावि- कासमाख्यया व्याख्यया संवलितम् । २ भजनारख्यया व्याख्यया विद्यासागरीतिप्र- (३०) घेदान्तदर्शनम् । परमहंसपरिव्राजका सिद्धया सभेतम् । (वेदान्तः) चार्यश्रीरामानन्दसरस्वतीस्वामिकृत ब्रह्मा- (२२) आस्यातचन्द्रिका श्रीभदमल्लविरचितार ऽमृतवर्षिणीसमाख्यव्याख्यासंवलितम् । ४ (२३) श्रीलक्ष्मीमहलम्-बालबोधिनीव्याख्य- (३८) विश्वप्रकाशः । कोशः । विद्वरश्रीम- याऽवतरणिकया च सहितम् हेश्वरमूरिविरचितः। (२४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीब्रजनाथभ (३९) श्रीसुबोधिनी । श्रीवल्लभाचार्यविनिर्मिता ट्टकृता (वेदान्तः) श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठलना- (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्करमि थदीक्षितविरचितटिप्पणीसहिता । श्रीम- द्धान्तवागीशविरचितानि अनुमानजगदी हगवतदशमस्कन्धजन्मप्रकर्ण श्रीसुबो- श्याः प्रत्यक्षानुमानगादाधर्या: प्रत्यक्षानु धिनीटिप्पण्यो:-प्रकाश: गोस्वामि श्रीश्री मानमाथुर्या व्युत्पत्तिवादस्य शक्तिवादस्य पुरुषोत्तमजीमहाराज विरचित मुनिवादस्य शब्दशक्तिप्रकाशिकायाः कु (४०) वीरमित्रोदयः । महामहोपाध्यायश्रीमि- सुमाञ्जलेश्च क्रोडपाणि २ त्रमिविरचितः पूजाप्रकाशः। (२६) बह्मसूत्रम् , द्वैताद्वैतदर्शनम् । श्रीसुन्दरभ- (४१) वेदान्तसिद्धान्तसंग्रहः । श्रुतिसिद्धान्ताप- टरचित सिद्धान्तसेतुकानिधटीकासहि रनामकः । श्रीब्रह्मचारिवनमालिमिश्रविर- तश्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम्२ चितः। वेदान्तकारिकावली श्रीपुरुषोत्तम- (२७) षडदर्शनसमुच्चयः । बौद्धनैयायिकका प्रसाद शर्मकृता अध्यात्मसुधातरङ्गि- पिलजैनबैशेषिकजैमिनीयदर्शनसंक्षेपः । प्याख्यटीकयास हिता मणिभद्रकृतटीकया सहितः । हरिभद्रम्- | (४२) स्वानुभवादर्शः। श्रीमत्परमहंसपरिवाज १ काचार्यनारायणाश्रमाशष्यमाधवाश्रमावर (२८) शुद्धाद्वैतमार्तण्डः प्रकाशव्याख्यासहितः । चितः । स्वकृत टीकाविभूषितश्च । ... mr ४ ... . ३ रिकृतः। سمر ... ... ४ (४३) याज्ञवल्कस्मृतिः । बालम्भट्टीसमाख्य- पाध्याय- - श्रीनागेशभट्टावर व्याख्यासमलकृतमिताक्षरासहिता ।व्य श्रीमर्दुर्बलाचार्य बालम्भट्टाभ्यो हि वहाराध्यायः चितकुञ्जिकाकलाहटीकाद्यसंवलिता (४४) गादाधरी । श्रीगदाधरभट्टाचार्यचक्रव- (४७) व्याकरणसिद्धान्तसुधानिधीः । पर्वतीय तिकृता । श्रीगङ्गेशोपाध्यायविरचिततत्त्व- विश्वेश्वरमरिविरचितः। चिन्तामण्या श्रीरघुनाथतार्किकशिरोमणि- (४८) विरमित्रोदयः । लक्षणप्रकाशः । विचितदीधित्या च गर्भिता। महामहोपाध्यायत्रीमित्रमिविरचितः।। ५) शानदीपिका । श्रीपार्थसारथिमिश्र प्रणि- तारामकृष्णविरचितयुक्तिस्नेहप्रपुरण्या- (४९) बृहदारण्यकवार्तिकसार श्रीमद्विधारण्यस्वा. ख्यव्याख्यया सहिता तर्कपाद । मिविरचितः । महेश्वरतीर्थकृतयालघुसं- ३ (४६) वैयाकरणसिद्धान्तलघुमजूषा महामहो- प्रहाख्यया टीकया समलंकृतः। हरिदासगुप्ता, पत्त्रादिप्रेषणस्थानम् चौखम्बा बनारस सिटी
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.