Scl

The Prasannaraghava Of Jayadeva Edition I I I

Vasudeva Laxman Shastri Paniskar

PDF Proofread

Front matter

No text on this page.

श्रीजयदेवकविविरचितं
प्रसन्नराघवम्।
पणशीकरोपाह्वविद्वद्वरलक्ष्मणशर्मतनुजनुषा
वासुदेवशर्मणा
संशोध्य संस्कृतम् ।
तृतीयं संस्करणम् ।
शाके १८४३ वत्सरे
मुम्बय्यां
पाण्डुरङ्ग जावजी
इत्येतैः खीये निर्णयसागराख्ययन्त्रालये
मुद्रयित्वा प्रकाशितम् ।
मूना आणकाः।

No text on this page.

॥श्रीः॥ प्रसन्नराघवम्। प्रथमोऽङ्कः। चत्वारः प्रथयन्तु विद्रुमलतारक्ताङ्गुलिश्रेणयः श्रेयः शोणसरोजकोरकरुचस्ते शाङ्गिणः पाणयः । भालेप्वजभुवो लिखन्ति युगपद्ये पुण्यवर्णावलीः कस्तूरीमकरीः पयोधरयुगे गण्डद्वये च श्रियः ॥ १ ॥ अपि च । आकल्पं मुरजिन्मुखेन्दुमधुरोन्मीलन्मरुन्माधुरी- धीरोदात्तमनोहरः सुखयतु त्वां पाञ्चजन्यध्वनिः । लीलालङ्घितमेघनादविभवो यः कुम्भकर्णव्यथा- दायी दानवदन्तिनां दशमुखं दिक्चक्रमाक्रामति ॥ २ ॥ अन्यच्च । नाभीपद्मवसच्चतुर्मुखमुखोगीतस्तवाकर्णन- प्रोन्मीलत्कमनीयलोचन कलाखेलन्मुखेन्दुद्युतिः । सक्रोधं मधुकैटभौ सकरुणस्नेहं सुतामम्बुधेः सोत्प्रासप्रणयं सरोजवसतिं पश्यन्हरिः पातु वः ॥ ३ ॥ (नान्यन्ते) सूत्रधार:-(परितो विलोक्य । सहर्षम् ।) अयै, कथममी निजवदन- शारदारविन्दनतितगिरिनन्दिनीनयनखञ्जनस्य निखिलमुनिजनहृदयरञ्ज- नस्य विकटजटापटलोत्सङ्गताण्डवितगङ्गातरङ्गनिकरस्य मन्दाकिनीच- न्दनललाटिकायमानमुकुटोपनीतनूतनसुधाकरस्य त्रिभुवननलिननिर्माण- निर्मल बिसाङ्कुरस्य भगवतः शंकरस्य यात्रायां परिमीलिता एव पार्षदाः। तदेतानुपगम्य निजकलाविलोकनप्रसादाय तावदभ्यर्थयामि । (विमृश्य।) अथवा किमभ्यर्थनया। यतः ।

२ प्रसन्नराघवम् । आकारेणैव चतुरास्तर्कयन्ति परेङ्गितम् । गर्भस्थं केतकीपुष्पमामोदेनेव षट्पदाः ॥ ४ ॥ (विलोक्य । सहर्षम् ।) नूनमेतदभिसंधानादेव सामाजिकसमाजादितोऽभि- वर्तते सखा मे रङ्गतरङ्गः। (प्रविश्य ।) नटः-भाव, इदं मन्मुखेनैव भवन्तमुदीरयन्ति सामाजिकाः । यत्किल 'अये भरताधिराज- (इत्यर्थोक्ते ।) सूत्रधारः-(कौँ पिधाय।) अहह । असमञ्जसमसमञ्जसम् । भ- चतु । कार्य तावदाकर्णयामि । नटः-भाव, अधुना मयैव भवत्सकाशादाकर्णनीयं किमिदमसम- असमिति। सूत्रधार:-नन्विदमेव । यत्किल नन्दति ज्यायसि कनीयसि राजपदमुपन्यस्यते । अहं हि भरतमात्रक एव । मम पुनरग्रजन्मा बुणारामनामा राजपदभाजनम् । नट:-कीदृग्गुणस्ते गुणारामः । सूत्रधारः-ननु नाम्नैव दत्तोत्तरम् । नटः-(विहस्य ।) कथं नाम्नैव गुणावगमः । सूत्रधार :-अथ किम् । गुणग्रामाभिसंवादि नामापि हि महात्मनाम् । यथा सुवर्णश्रीखण्डरत्नाकरसुधाकराः ॥५॥ अपि च । किमिदं गुणारामे कथं नाम्नैव गुणावगम इत्युच्यते । यः खलु रतिजनकस्य राज्ञः सदसि हरचापारोपणं नाम रूपकमभिनीय प- रितुप्टेन राज्ञा समर्पिता रङ्गविद्याधराख्याति प्रियामिव समासादितवान् । नट:-स पुनः संप्रति कं देशमभिनन्दयति । सूत्रधारः-केनापि दाक्षिणात्येन नटापसदेन ममैवेदं गुणारामेति नामेति वदता रङ्गविद्याधराख्यातिरपहृता । तदाकर्ण्य गुणारामस्तामेव दिशं प्रचलितः । अधुना च श्रुतमस्माभिः यत्किल सुकण्ठनान्ना गाय- केन सह मैत्री विधाय दाक्षिणात्यानां भूभुजां सदसि तेन सह रङ्गसंग- रमुपक्रान्तवानिति ।

प्रथमोऽङ्कः। नटः-अहो । महानुपक्रमः । सूत्रधारः-उचितमिदम् । यतः । कीर्ति मृणाल कमनीयभुजामनिद्र- चन्द्राननां स्मितसरोरुहचारुनेत्राम् । ज्योत्स्नास्मितामपहृतां दयितामिव खां लब्धुं न कः परमुपक्रममातनोति ॥ ६ ॥ तत्कथय कार्यम् । नट:-इदमेव । यत्किल त्वयामिनीयमानमवलोकयाम इति । प्रत्यङ्कमङ्कुरितसर्वरसावतारं नव्योल्लसत्कुसुमराजिविराजिबन्धम् । धर्मेतरांशुरिव वक्रतयातिरम्यं नाट्यप्रवन्धमतिमञ्जलसंविधानम् ॥ ७ ॥ सूत्रधारः-~-तत्कथं पुनरवधारणीयं किंनामधेयं नाटकमिति । (विमृश्य । सहर्षम् ।) अये, कथमहं निजशिरःशेखरशयावपि नीलोत्पलं रत्नाकरचपलवीचिमालापरिसरे विचारयामि । नन्विहैव श्लोकेऽष्टपति- क्रमाल्लिखिते स्फुटमस्ति 'प्रसन्नराघवं नाम' इति । नटः-(तमेव श्लोकं पठिला। सहर्षम् ।) अहो, देव्याः कविकुलकुमु- दविकासचन्द्रिकायाः प्रसादमहिमा सरस्वत्याः, यत्प्रसादादेवंविधाः क- वीनां विचित्रमधुराः सूक्तयः समुल्लसन्ति । सूत्रधारः-एवमेतत् । नन्वनेनैव कविनोक्तम्- वाणि त्वत्पदपद्मरेणुकणिका या खान्तभूमि सतां संप्राप्ता कवितालता परिणता सैवेयमुज्जृम्भते । त्वत्कर्णेऽपि चिराय यत्किसलयं सूक्तापदेशं शिरः- कम्पभ्रंशितपारिजातकलिकागुच्छे विधत्ते पदम् ॥ ८ ॥ (पुनर्विभाव्य।) मम पुनः कविकमलसद्मनि मुनौ वल्मीकजन्मनि मनः कौतुकितं यस्यैकमपि वदनारविन्दमासाद्य चतुर्मुखकमलवनविहारविनो- दमनुभवति भारती नाम राजहंसी । नटः-एवमेतत् । त्रिभुवनाभोगेऽपि हि प्रसन्नराघवम् । भाववंशवतंसकीर्तिरमणीरङ्गप्रसङ्गखन. द्वादित्रप्रथमध्वनिर्विजयते वल्मीकजन्मा मुनिः । पीत्वा यद्वदनेन्दुमण्डलगलत्काव्यामृताब्धेः किम- प्याकल्पं कविनूतनाम्बुदमयी कादम्बिनी वर्षति ॥ ९ ॥ (विमृश्य ।) मम तु रामचन्द्र एव निर्भरमानन्दितोऽयं चित्तचकोरः । कीर्तिचन्द्रिकाचुम्बितोऽयं वाल्मीकेरपि सारखतसागरः समुल्ललास सूत्रधारः-इत्थमिदम् । चन्द्रे च रामचन्द्रे च नारीणां च हगञ्चले । नीलोत्पलसुहृत्कान्तौ कस्य नामोदते मनः ॥ १० ॥ अपि च । झगिति जगतीमागच्छन्त्याः पितामहविष्टपा- न्महति पथि यो देव्या वाचः श्रमः समजायत । अपि कथमसौ मुञ्चेदेनं न चेदवगाहते रघुपतिगुणग्रामश्लाघासुधामयदीर्घिकाम् ॥ ११ ॥ मट:-कथं पुनरमी कवयः सर्वे रामचन्द्रमेव वर्णयन्ति । सूत्रधार:-~नायं कवीनां दोषः । यतः । खसूक्तीनां पात्रं रघुतिलकमेकं कलयतां कवीनां को दोषः स तु गुणगणानामवगुणः । यदेतैनिःशेषैरपरगुणलुब्धैरिव जग- त्यसावेकश्चके सततसुखसंवासवसतिः ॥ १२ ॥ अपि च । भोः, बीजं यस्य चिरार्जितं सुचरितं प्रज्ञा नवीनोऽङ्कुरः काण्डः पण्डितमण्डलीपरिचयः काव्यं नवः पल्लवः । कीर्तिः पुष्पपरम्परा परिणतः सोऽयं कवित्वद्रुमः किं बन्ध्यः क्रियते विना रघुकुलोसप्रशंसाफलम् ॥ १३ नट:-कः पुनरस्य कविः । सूत्रधारः--(सप्रणयकोपम् ।) विलासो यद्वाचामसमरसनिष्यन्दमधुरः कुरङ्गाक्षीबिम्बाधरमधुरभावं गमयति ।

प्रथमोऽङ्कः।
-
कवीन्द्रः कौण्डिन्यः स तव जयदेवः श्रवणयो-
रयासीदातिथ्यं न किमिह महादेवतनयः ॥ १४ ॥
अपि च ।
लक्ष्मणस्येव यस्यास्य सुमित्राकुक्षिजन्मनः ।
रामचन्द्रपदाम्भोजे भ्रमभृङ्गायते मनः ॥ १५ ॥
नट:-कथमविदितचन्द्रमसश्चकोरकिशोरकस्य चरितमनुसृतोऽस्मि ।
तेन हि मम हस्ते निजनाटकमर्पयित्वेदमुक्तोऽस्मि-रक्षणीयमिदं
सूक्तिरत्नं चोरेभ्यः' इति । स च मया सविनयमिदमुक्तः
कर्णे निधाय च पिधाय च कण्ठपीठे
धृत्वा च मूर्धनि नते हृदये च कृत्वा ।
चोरापहारचकितेन चिरं मयैष
त्वत्सूक्तिमौक्तिकगणः परिरक्षणीयः ॥ १६ ॥
सूत्रधार-केयमलीकशङ्का तस्य कवेः ।
सुललितवदनामुदारवृत्तां कृतिमथवा युवति परस्य हृत्वा ।
तटमपि परमर्णवस्य गत्वा वद कतरः सुखभाजनं जनः स्यात् ॥ १७॥
नटः-एवमेतत्। नन्वयं प्रमाणप्रवीणोऽपि श्रूयते। तदिह चन्द्रिकाच-
ण्डातपयोरिव कवितातार्किकत्वयोरेकाधिकरणतामालोक्य विस्मितोऽस्मि।
सूत्रधार: -क इह विस्मयः।
येषां कोमलकाव्यकौशलकलालीलावती भारती
तेषां कर्कशतर्कवक्रवचनोद्गारेऽपि किं हीयते ।
यैः कान्ताकुचमण्डले कररुहाः सानन्दमारोपिता-
स्तैः किं मत्तकरीन्द्रकुम्भशिखरे नारोपणीयाः शराः ॥ १८ ॥
नट:-अपि नाम स्वयमेव कविताकोविदाः पारिषदा अस्य सू-
क्तिभिर्विनोदिष्यन्ते ।
सूत्रधारः-नन्वनेनैवोक्तम्-
अपि मुदमुपयान्तो वाग्विलासैः खकीयैः
परभणितिषु तोषं यान्ति सन्तः कियन्तः ।
निजघनमकरन्दस्यन्दपूर्णालवालः
कलशसलिलसेकं नेहते किं रसालः ॥ १९ ॥

६ प्रसन्नराघवम् । नटः-अहो अस्य कवेः सूक्तीनां सरलता कोमलता च । सूत्रधारः--कचिद्वक्रता कठिनता च । नट:-कथमेते अपि रमणीये । सूत्रधारः-कथं किम् । निन्द्यन्ते यदि नाम मन्दमतिभिर्वकाः कवीनां गिरः स्तूयन्ते न च नीरसैमूंगदृशां वक्राः कटाक्षच्छटाः । तद्वैदग्ध्यवतां सतामपि मनः किं नेहते वक्रतां धत्ते किं न हरः किरीटशिखरे वक्रां कलामैन्दवीम् ॥ २० ॥ अपि च । अमृतजलधेः पायंपायं पयांसि पयोधरः किरति करकास्ताराकारा यदि स्फटिकावनौ । तदिह तुलनामानीयन्ते क्षणं कठिनाः पुनः सततममृतस्यन्दोद्गारा गिरः प्रतिभावताम् ।। २१ ॥ नटः-नूनमस्य कवेः किमपि कौतुकप्रमोदमेदुरमन्तःकरणं यदे- वंविधाः सरसशीतलाः सूक्तयः समुल्लसन्ति । सूत्रधारः-उचितमिदम् । यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरो भासो हासः कविकुलगुरुः कालिदासो विलासः । हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः केषां नैषा कथय कविताकामिनी कौतुकाय ॥ २२ ॥ अपि च । न ब्रह्मविद्या न च राजलक्ष्मीस्तथा यथेयं कविता कवीनाम् । लोकोत्तरे पुंसि निवेक्ष्यमाना पुत्रीव हर्ष हृदये करोति ॥ २३ ।। (नेपथ्ये ।) साधु भोः, कुशीलवकुलोत्तंस साधु । सूत्रधार:-कथमयं भगवतो याज्ञवल्क्यस्य प्रियोऽन्तेवासी दा- त्भ्यायन इत एवाभिवर्तते । तदस्यानवलोकनीयचतुर्थवर्णस्य पुरतः स्थातुमनुचितमस्माकम् । तदेहि । परतो गच्छावः । (इति निष्कान्तौ।) इति प्रस्तावना।

प्रथमोऽङ्कः। (प्रविश्य।) दाल्भ्यायन:-(तमेव श्लोकं पठित्वा । साकूतम् ।) साधूक्तमनेन । त- थाहि । भूपतिरयं जनकोऽपि सकललोकलोचनारविन्दमार्तण्डे क्वचिदपि पुरुषप्रकाण्डे निजां कन्यां समर्पयितुकामोऽद्गुरूपदिष्टायां ब्रह्मविद्यायां कुलक्रमागतायां राज्यलक्ष्म्यां च शिथिलादरः संवृत्तः । (पुनः कर्ण दत्त्वा।) कथमयमाकाशे वीणाध्वनिः श्रूयते । तन्नू मभद्गुरुमभ्यागच्छता समी- रसंघट्टनकलक्कणदल्लकीगुणेन देवर्षिणा नारदेन भवितव्यम् । (विलोक्य ।) कथं ध्वनिसादृश्येन प्रतारितोऽस्मि । नन्वयं गगनतलावलम्बिनोर्मधु- करयोरेव ध्वनिराकर्ण्यते (पुनः कर्णं दत्त्वा । सहर्षविस्मयम् ।) अहो, भग- वतो योगीश्वरस्य प्रसादमहिमा येनाहविधानामपि वचनावबोधमधुरां सिद्धिमासादितवानस्मि । तदाकर्णयामे किमेतावालपतः । (कर्ण दत्त्वा।) एकः किमाह-'सखे कलालाप, कुत आगतोऽसि' । अपरः किमाह- 'वयस्य मधुरप्रिय, संततविकखराचन्द्रमौलिमन्दाकिनीकुमुदकानतात्' । अहो अनयोश्चतुरालापपेशलता रुचिरनामधेयता च । (पुनः कर्ण दत्त्वा ।) किमाह मधुरप्रियः-'अस्ति नवीनः कोऽपि वृत्तान्तः' । किमाह कला- लापः-'अस्ति । अचिरमेव कदापि खलु बालनन्दनो बाणासुरः कमलमा- लया भगवन्तमिन्दुमौलिमभ्यर्च्य सविनयमिदमूचिवान् । यत्किल भगवन् , कैलासाधिकसारं किमस्ति वस्तु महीतल । यस्मिन्सफलतामेति मम दोर्दण्ड ण्डलम् ॥ २४ ॥ ततश्च विहस्येदमाह च भगवानिन्दुमौलिः- 'अस्ति मे कार्मुकं दिव्यं न्यस्तं जनकभूभुजि । यस्य वाणानले तिस्रः पुरः प्राप्ताः पतङ्गताम्' ॥ २५ ।। तदाकर्ण्य च तत्कार्मुकं विलोकयितुं स तत्र गतः । अहमिहागतः । कुतः पुनस्त्वमिह । कथय कीदृशो वा तत्र नवीनो वृत्तान्त इति ।' किमाह मधुरप्रियः-- 'अहमागतोऽस्मि नन्दनवनात् । अथ च तत्र मया लकेश्वरानुचरस्य गर्जितमाकर्णितम्-आः कथं रे, नन्दनवनस्य रक्षि- गोऽनर्चितचन्द्रचूड एव निशाचरचक्रवर्तिनि लूनसकलप्रसून नन्दनवन- मिति । ततस्तैरिदमुक्तो निशाचरः-क्षन्तव्यमेतत् । अद्य हि जनकरा- जकन्यकावीरवयंवरविलोकनकुतुकितसकलपुरलोकविमानमण्डनाय म- ८ प्रसन्नराघवम् । हान्कुसुमोपयोगः । तदाकर्ण्य चेममेव वृत्तान्तमुपायनीकरोमि लङ्केश्वर- स्येति प्रचलितो निशाचरः । अहमपि कौतुकादिहागतोऽस्मि ।' (सविषा- दम् ।) अहो महाननाङ्कुरोद्भेदो यदयं बाणरावणयोः कर्णान्तिकमपि विश्रान्तः सीताखयंवरवृत्तान्तः । अथवा । अलमतिकातरतया । भ्रमारो- पिता अपि भ्रमरोक्तयः संभवन्ति । (विमृश्य !) कुतो वा भ्रमरसंभावना । मकरन्दरसस्यन्दसुन्दरोगारधारिणौ । श्रवणानन्दिनावेतौ बन्दिनाविव राजतः ॥ २६ ॥ (नेपथ्य ।) साधु भगवन्, विज्ञातं बन्दिनावेव खल्वावां नानादिगन्तसमागतन , पतिचक्रवर्णनाय जनकेन समादिष्टौ । दाल्भ्यायन:-अहो घुणाक्षरन्यायो यदिदं भ्रमरद्वयं प्रति म- योक्तं बन्दिद्वयं प्रति फलितं वचः। भवतु । तदिमं भ्रमरवृत्तान्तमस- गुरवे निवेदयामि । (इति निष्कान्ताः।) इति विष्कम्भकः। (ततः प्रविशति बन्दिद्वयम् ।) एक:-बअस्स मञ्जीरअ, पेक्ख पेक्ख । गइन्ददसणसिणिद्धसला- आसहस्सणिम्मिदेसु मञ्चएसु आसीणा इमे कुङ्कुमकअङ्गराआ राआपो अमलफडिअपासाअसिहरासङ्गिणो कणअसिंहा विअ रेहन्ति । अमुद्ध- दुद्धसाअरलहरिसिहरावलम्बिणो अभिणवुग्गमन्तणिसाअरबिम्बपडि- बिम्बा विअ सोहन्ति । मञ्जीरकः-सखे नूपुरक, पश्य पश्य । खां खां दिशं श्रितवतां निवहेन राज्ञां मञ्चावलीवलयमाकलितं विभाति । 16 १. वयस्य मञ्जीरक, पश्य पश्य । गजेन्द्रदशनस्निग्धशलाकासहस्रनिर्मितेषु मश्चेष्वासीना इमे कुङ्कुमकृताङ्गरागा राजानोऽमलस्फटिकप्रासादशिखरासङ्गिनः कनकसिंहा इव राजन्ते । अमुग्धदुग्धसागरलहरीशिखरावलम्बिनोऽभिनवोद्ग, च्छन्निशाकरबिम्बप्रतिबिम्बा इव शोभन्ते ।

प्रथमोऽङ्कः। ९ सीतास्वयंवरविलोकनकौतुकेन पुञ्जीकृताकृति दिशामिव चक्रवालम् ।। २७ ।। अपि च । , नटति नरकराग्रव्यग्रसूत्राग्रलग्न- द्विपदशनशलाकामञ्चपाञ्चालिकेयम् । त्रिपुरमथनचापारोपणोत्कण्ठिताना- मतिरभसवतीव क्ष्माभृतां चित्तवृत्तिः ॥ २८ ॥ नूपुरकः-वअस्स मञ्जीरअ, को इमो सीदाकरग्गहवासनावसन्त- लच्छीविलसन्तपुलअमुउलजालमण्डिदं णिअभुअसहआरसाहिजुअलं पु- लोवन्तो चिट्ठदि । मञ्जीरका-स एष निजयशःपरिमलप्रमोदितचारणचञ्चरीकचय- कोलाहलमुखरितदिक्चक्रवालक्ष्मापालकुन्तलालंकारो मल्लिकापीडो नाम । नूपुरक:-ईमो उण कदमो जो किल दूरावसारिअकडअप्पअडि- अधणुग्गुणकिणकसणलेहामण्डले भुअदण्डे पुलोवन्तो चिट्ठदि । मञ्जीरका-सोऽयं कुबेरदिगङ्गनाललाटतटविलासलम्पटः काश्मी- रतिलकः। नूपुरकः-ईमो उण को निअपड़ावदिणअरुग्गमपुवगिरिसिहरस- हअरं दक्खिणभुअदण्डमुन्नमिअ वट्टदि । मञ्जीरक:--स एष निजप्रतापप्रभापटलपिञ्जरितमलयाचलनितम्ब- तटः काञ्चीमण्डनो वीरमाणिक्यनामा नृपतिः । नूपुरकः--को इमो हरिसुल्लसन्तपुलअविसंठुलकपोलत्थलचलिअ- कुण्डलसरिसनिवेसणावदेसेण पअडिअहरसरासणकण्णऊरमनोरहो रेहदि। १ वयस्य मञ्जीरक, कोऽयं सीताकरग्रहवासनावसन्तलक्ष्मीविलसत्पुलकमुकु- लजालमण्डितं निजभुजसहकारशाखियुगलं विलोकयस्तिष्ठति । २ अयं पुनः कतमो यः किल दूरापसारितकटकप्रकटितधनुर्गुणकिणकषण-. लेखामण्डले भुजदण्डे विलोकयंस्तिष्ठति । ३. अयं पुनः को निजप्रतापदिनकरोद्मपूर्वगिरिशिखरसहचरं दक्षिणभुजद- ण्डमुन्नमय्य वर्तते । ४. कोऽयं हर्षोल्लसत्पुलकविसंष्ठुलकपोलस्थलचलितकुण्डलसदृशनिवेशना- पदेशेन प्रकटितहरशरासनकर्णपूरमनोरथो राजते ।

No text on this page.

प्रथमोऽङ्कः। ११ मञ्जीरक:-(सविपादम् ।) आद्वीपात्परतोऽप्यमी नृपतयः सर्वे समभ्यागताः कन्येयं कलधौतकोमलरुचिः कीर्तिश्च लाभास्पदम् । नाकृष्ट न च टात्कृतं न नमितं स्थानाच न त्याजितं केनापीदमहो धनुः किमधुना निर्वीरमुर्वीतलम् ॥ ३२ ॥ (नेपथ्ये।) आः, कोऽयमलीकवैतालिको धनुर्मात्रकेऽपि नमयितव्ये निर्वीरमुर्वी- तलमुपदिशति । नूपुरकः--अस्स, कस्स इमो महीअलचलन्तराहुरहचक्करवकक्कसो कण्ठधुणी सुणीअदि। मञ्जीरक:-मयाप्ययमपरिचितः । तदेनं पृच्छामि तावत् । (परि- क्रम्य । ) अहो, कः खलु भवान्यः सकलदेशदर्शिनो ममापि न विख्यातः। (प्रविश्य ।) पुरुषः-(साटोपं परिक्रम्य । सक्रोधम् ।) आः पाप, वैतालिकापसद, कतिपयग्रामटिकापर्यटनदुर्विदग्ध, कथं मामपि दश-(इत्य|क्के खगतम् ।) कथं संवरणीयं विवरितुमुपक्रान्तोऽस्मि । भवतु । इदमेव तावन्निर्वाह- यामि । कथं मामपि दशदिग्विलासिनीकर्णपूरीकृतकीर्तिपल्लवं त्रिभुवन- वीरनामधेयं कूपमण्डूक इव सागरमविख्यातमपदिशसि । तत्कथय क तावत्कर्णान्तनिशमयगुणं कन्यारत्नं कार्मुकं च । मञ्जीरक:-इदं तावत्कार्मुकम् । कन्या तु चरमं लोचनपथमव- तरिष्यति । पुरुषः-(ससंरम्भम् ।) धिङ् मूर्ख । कथं रे, राशिनक्षत्रपाठकानां गोष्ठी न दृष्टवानसि । तेऽपि कन्यामेव प्रथमं प्रकटयन्ति, चरमं धनुः । मजीरकः-(स्वगतम् ।) कथमयं वाचाटतां प्रकटयति । भवतु । अनयैव तावदेनं निवारयामि । (प्रकाशम् ।) अये, एतावति वीरमण्डले भवानेव नक्षत्रविद्याकुशलः । पुरुषः-(सक्रोधम् । ) आः, कथं रे, अहमेव क्षत्रविद्यायामकुशलः। मञ्जीरक:-तत्कथं कार्मुकमन्तरेणैव कन्याविलोकनायोत्कण्ठसे । १. वयस्य, कस्यायं महीतलचलद्राहुरथचक्ररवकर्कशः कण्ठध्वनिः श्रूयते ।

प्रसन्नराघवम् । पुरुष:-(साटोपम् । परिक्रम्य ।) कथं ममापि चापारोपणे संशयः मञ्जीरक:-अथ किम् । पुरुष:-तदेष ममाभिसंभाव्यते । यदि । विनैवाम्भोवाहं बहुलरुचिलिप्ताम्बरतला- तडिल्लेखा हेमद्युतिविततिरम्या विलसति । यदि वा। विनैव स्वर्गङ्गां नभसि रभसोन्मुद्रशफरी- परीवर्तेः साकं स्फुरति नवनीलोत्पलवनम् ॥ ३३ ॥ (विलोक्य सविषादम् ।) कथमस्मत्प्रतिज्ञाभङ्गाय विपरीतं सृष्टिनैपुणं प्रा तवान्विधिः । नन्विदं तथैव पश्यामि । (विमृश्य ।) अथवा क विधिरपि मद्विरोधाय । मयि क्षीरोदन्वन्निभृतमुरजिन्नाभिनलिनी निजक्रीडावापीजलकमलिनी कर्तुमनसि । पदभ्रंशाशङ्की मधुरमधुरालापचतुरै- श्चतुभिः खैरनुनयपरोऽभूदयमपि ॥ ३४ ॥ (पुनर्निपुणं निरूप्य ।) अये, सादृश्येन प्रतारितोऽस्मि । तडिल्लेखा नेयं विलसति परं सौधशिखरे वसन्त्याः कस्याश्चित्कनकरुचिरा गात्रलतिका । अपीदं नोन्मजत्कुवलयवनं मीनतरलं परं तस्या एव स्फुरति नयनालोकललितम् ॥ ३५ ॥ (विभाव्य ।) नूनं तदेव सीताभिधानं कन्यारत्नम् ।(पुनः सहर्षम् ।) राजीव जीवसि मुधा न सुधाकर त्व- मस्याः समः पदनखस्य कुतो मुखस्य । अग्रे दृशोर्मुगदृशः कतमः कुरङ्ग- स्तत्खञ्जन त्वमपि किं जनरञ्जनाय ॥ ३६॥ (पुनः सरभसम् ।) कदली कदली करभः करभः करिराजकरः करिराजकरः । भुवनत्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरदृशः ॥ ३७ प्रथमोऽङ्कः। एष मञ्जीरकः-सखे नूपुरक, किमेतत् । कस्याश्चिदपि हस्तादादाय सानन्दमालोकयत्यन्तःपुरिको जनः । नूपुरकः-अहं एरिसं संभावेमि जं किर गुरुभवणादो आगदाए चन्दणिआए समप्पिदं चित्तपडं पुलोवेदि त्ति । मञ्जीरकः-स त्वया दृष्टश्चित्रपटः । नूपुरकः-भट्टदारिआ दाव अणच को वि णीलप्पलदामसामलओ कुसुमसरसरिसरूओ कुण्डलीकिदहरचावो चक्कवट्टिकुमारो । मञ्जीरकः-अहह, मुग्धः खल्वबलाजनः । यदेवमपि कठोरप्रतिज्ञे - राजनि किशोरवयसं जामातरमाशंसति । सखे, जानासि केन लिखितं चित्रमिति नूपुरकः-जाणामि महेसिणो जणकस्य दुहिआए धम्मआरिणीए । मजीरकः-(सहर्षम् । ) इदानीमुद्भिन्नो मम मनोरथाङ्कुरः । देवी हि मैत्रेयी सिद्धयोगिनी कालत्रयदर्शिनी सा नालीकमालिखति । नूपुरकः-सव्वं संभावीअदि जइ इमो जरठङ्गो इदो ओसरदि । मञ्जीरकः-आः, कोऽयं किमिदम् । एनमपसारयामि । अये, किमितस्ततो विलोकयसे । नन्विदं शांभवं धनुः । तदिहैव दीयतां दृष्टिः । पुरुषः-आः, किमुच्यते दृष्टिरिति । नन्वियं मुष्टिरपि दीयते । (परिक्रम्य शेखरभ्रंशमभिनीय सविषादं विलोकयति ।) मञ्जीरकः- अये लङ्केश विस्रस्तशेखरालोकनेन ते । समयो याति तत्तूर्ण गृहाण हरकार्मुकम् ॥ ३८ ॥ पुरुषः-(खगतम् ।) कथमनेन विदितोऽस्मि । (विमृश्य ।) अथवा चुणाक्षरन्यायगतं शब्दसादृश्यमेतत् । (प्रकाशम् । ससंरम्भम् ।) १ अहमीदृशं संभावयामि यत्किल गुरुभवनादागतया चन्दनिकया समर्पित चत्रपट विलोकयतीति । २. भर्तृदारिका तावदन्यश्च कोऽपि नीलोत्पलदामश्यामलः कुसुमशरसदृश- कपः कुण्डलीकृतहरचापश्चक्रवर्तिकुमारः । ३. जानामि महर्जनकस्य दुहित्रा धर्मचारिण्या । ४. सर्व संभाव्यते यद्ययं जरठाङ्ग इतोऽपसरति ।

प्रसन्नराघवम् । सावलेपकमनीयमुदस्य क्रीडयैव विनिबध्य च मौर्वीम् । कृष्टमेव हरकार्मुकमेतदृश्यमत्र सुदृशो हृदयं च ॥ ३९ ॥ (धनुषि हस्तमर्पयित्वा । स्वगतम् । ) कथं न चलत्यपि । भवतु। (प्रकाशम्।) अये, धनुरिति वक्रः पन्थाः। तत्सरलेन करवालधारापथेन सीतामानयामि। मञ्जीरकः-कथमतिप्रगल्भसे । न विलोकयसि । रोषारुणीकृतविलोचनकान्तिभिन्न- भ्रूभङ्गभीमघटितभृकुटीविटङ्कम् । उत्खातलोलकरवाललताकराल- दोर्दण्डचण्डचरितं नरवीरचक्रम् ॥ ४० ॥ पुरुषः—(कृपाणमुद्यम्य । परितो विलोक्य ।) पश्यत पश्यत । निर्मिन्नवैरिकरिकुम्भतटीविमुक्त- मुक्ताफलप्रकरतारकिताम्बरश्रीः । यः कालरात्रिरिव भाति रणे स एष रे रे नृपा मम कृपाकृपणः कृपाणः ॥ ४१ ॥ (आकाशे कर्णं दत्त्वा ।) किं ब्रूथ । एकः कथं बहुतरैः सुभटैः करोमि संग्रामडम्बरमिति त्यज रे विषादम् । यं मन्यसे सुलभमत्र सहैव तेन चेतो निधेहि समरे समरेखयैव ॥ ४२ ॥ अहो धृष्टता मनुष्यकीटानाम् । तदेता निजमूत्यैव तावद्धीषयामि । (साटोपं निष्क्रान्तः।) (नेपथ्ये ।) मन्दाकिनीकनकपअबिसाकराणां किंचोग्रदिग्गजलसद्दशनाङ्कुराणाम् । उन्मूलनैरलमनीयत शैशवं 2- स्तेऽमी निजा मम भुजाः प्रकटीभवन्तु ॥ ४३ ॥ (ततः प्रविशति निजरूपेण दशकण्ठः।) नूपुरका-अस्स, पेक्ख पेक्ख कोदूहलं जं एकस्स वि माणुसस्स दस मत्थआई। १. वयस्य, पश्य पश्य कौतूहलं यदेकस्यापि मानुषस्य दश मस्तकानि ।

प्रथमोऽङ्कः। १५ मञ्जीरकः-नैष मानुषः । राक्षसराजः खल्बसौ दशकण्ठः । नूपुरकः-ता परित्ताअदु मं वअम्सो । णं रक्खसमत्तो जेव्व संमुहपडिदं माणुसं चव्वेइ किं उण रक्खसराओ । मञ्जीरक:-अलं कातरतया । सकलवीरवृन्दवन्दनीया हि वन्दि- जातिः । तत्कथमस्मद्विधेषु सकलभुवनैकवीरो विपरीतं वर्तिप्यते दश- कण्ठः। नूपुरकः-(सहर्षम् ।) जैदि एरिसं ता किंपि इमं णीसङ्को पुस्सि- स्सम् । (उपसृत्य ।) अथे, किंति एत्तिआई मत्थआई उव्वहीअन्ति किंति वा एकं रक्खिअ उण अवराई जत्तकुत्तविण णिक्खिप्पन्ति । रावण:-आः पाप, कथमस्थाने शिरश्छेदवार्तयाऽमङ्गलमावेदयसि। तदेष वैतालिक इत्युप्रेक्ष्यः । मञ्जीरकः--(विहस्य ।) स्थाने शिरश्छेदवार्तापि भवतो मङ्गलाय । रावण:-अथ किम् । ननु रे, विद्याधरप्रणयिनीकरपल्लवाग्र- लीलाविमुक्तकुसुमप्रकरावकीर्णे । श्रीचन्द्रचूडचरणे च रणे च कामं छिन्नोऽपि मस्तकगणो मम मङ्गलाय ॥ ४४ ॥ नूपुरकः-जैदि एरिसो तुमं ता किंति णिअरूअं संगोविअ चोरा- व्व पविट्ठोसि । रावण:-धिङ् मूर्ख । न जानासि रे, ये चन्द्रचूडाचलचालनैकचातुर्यचिन्तामणयो भुजा मे । तैरेव भूयिष्ठतरैः प्रवृत्तश्चापाधिरोपाय कथं न लज्जे ॥ ४५ ॥ तत्कथय कुत्र जानकीति । मञ्जीरकः-(सविषादम् ।) १. तत्परित्रायतु मां वयस्यः । नूनं राक्षसमात्र एव संमुखपतितं मानुष चर्वति किं पुना राक्षसराजः । २. यदीदृशस्तर्हि किमप्येनं निःशङ्कः प्रक्ष्यामि । अये, किमितीयन्ति मस्तका- न्युह्यन्ते किमिति वैकं रक्षित्वा पुनरपराणि यत्रकुत्रचिन्न निक्षिप्यन्ते । ३. यदीदृशस्त्वं तर्हि किमिति निजरूपं संगोप्य चोर इव प्रविष्टोऽसि ।

प्रसन्नराघवम् । यस्याः खयं कुलगुरुः किल याज्ञवल्क्य- स्तातः स एष जनको जननी धरित्री। सापि त्वमद्य बत दुर्विधिशैशवेन वत्से निशाचरकराङ्कगता भवित्री ॥ ४६॥ नूपुरकः-(अपवार्य ।) अलं तावेण । कहं एत्तिअमेत्तम्मि वीरम- ण्डले कोवि णत्थि जो इमस्स हठप्पउत्तस्स पुरदो होदि । मञ्जीरकः---कुपितस्य दशकण्ठस्य कः संमुखे भवति क्षत्रिय ऋते सहस्रबाहोः कार्तवीर्यात् । नूपुरकः--(सहर्षम् ।) जीविदं म । पेच्छ णं पत्तो सहस्सबाहू किदवीरपुत्तो। मञ्जीरकः-विङ् मूर्ख । जामदम्यकुठारधाराजलनिमग्नः क्व संप्रति कार्तवीर्यः । तन्नूनमयं बाणासुरो भविष्यति । हन्त भोः, तदिदमनर्था- न्तरम् । (विमृश्य ।) अथवा विषस्य विषमौषधं भविष्यति । (ततः प्रविशति बाणासुरः।) बाणासुर:-(परिक्रम्य । साटोपम् ।) कैलासशैलशिखरादपि भूरिसारं निःसीमभारमधुना धनुरिन्दुमौलेः । आलम्ब्य पुप्पसदृशं करपल्लवेन स्फीतं भुजद्रुमवनं सफलं करोमि ॥ ४७ ॥ रावणः-(अनाकर्णितकेन ।) कथमद्यापि नानीयते जानकी । बाणः-(विलोक्य । खगतम् ।) कथमिह दशकण्ठोऽपि । (प्रकाशम् ।) अहो एतावति वीरलोके न केनापि तावदारोपितमैश्वरं धनुः । नूपुरका-नारोपणीयं च । रावणः-कथमद्यापि नानीयते सीता । तदयं चन्द्रहास एव मे बलादानयति । १. अलं तापेन । कथमेतावन्मात्रे वीरमण्डले कोऽपि नास्ति योऽस्य हठप्र- वृत्तस्य पुरतो भवति । २. जीविताः सः । पश्य ननु प्राप्तः सहस्रबाहुः कृतवीर्यपुत्रः ।

प्रथमोऽङ्कः। १७ वाण:-(विहस्य ।) यदीदृशं वीरडम्बरं तत्किमारोप्यैव हरकार्मुकं नानीयते सीता। रावण:-आः, कोऽयमलीकपण्डितः । उद्दण्डचण्डिमलसद्भुजदण्डखण्ड- हेलाचलाचलहराचलचारुकीर्तेः कीदृग्यशस्तुलितबालमृणालकाण्ड- कोदण्डकर्षणकदर्थनयानया मे ॥ ४८ ॥ बाण:-सोऽयमशक्तिप्रकारः। रावण: -आः, कथं दशमुखस्याप्यशक्तिसंभावना । बाणः-(विहस्य ।) अये, बहुमुखता नाम बहुप्रलापितायाः कारणम् । विक्रमस्य बहुबाहुतैव । रावण:-आ:, -आः, कथं रे, पलालभारनिःसारेण भुजभारेण वीरंम- न्योऽसि । बाण:-(सक्रोधम् ।) अये समरकलाकुण्ठ दशकण्ठ, ममापि भु भारं निःसारं व्यपदिशसि । न जानासि किं । यतोऽत्रैव पितुः पादाम्भोजप्रणतिरभसोसिक्तहृदयः प्रयातः पातालं न कतिकतिवारानकरवम् । सहस्र बाहूनां क्षितिवलयमासज्य सकलं जगद्भारोटेलां फणफलकमालां फणिपतेः ॥ ४९ ॥ रावण:-अरे, चलितनयवृत्तिरसि । यदलीकविक्रमवर्णनया सत्य- विक्रमस्य मे पुरतः खात्मानं विडम्बयसि । बाण:-कथं त्वमेव सत्यविक्रमः । रावण:-अथ किम् । दोष्णां न मे विदितवानसि वीरलक्ष्मी- प्रासादविभ्रमवती पदवीं गरिष्ठाम् । चन्द्रशेखरगिरौ करपल्लवाङ्क- पर्यशायिनि दधुः कलशप्रतिष्ठाम् ॥ ५० ॥ बाण:-अलमलीकवाग्विग्रहेण । तदिदं धनुरावयोस्तारतम्यं निरू. पयिष्यति । ये प्रसन्नराघवम् । मञ्जीरक:-अये बाणरावणौ, किमिदं नरवीरकसमर्पणीयसीताप- रिणयमनोरथेन विफलमायास्यते चेतःपदवी । वाण:-किमेतावता। त्रिपुरमथनचापारोपणोत्कण्ठिता धी- मम न जनकपुत्रीपाणिपद्मग्रहाय । अपि तु बहुलवाहुव्यूहनियूहमाला- वलपरिमलहेलाताण्डवाडम्बराय ॥ ५१ ॥ रावण: उन्मीलितेन शिखरेण हराचलस्य प्रागेव मे भुजवनस्य कृता परीक्षा । एषा विदेहतनयाकुचकुम्भकेलि- कौतूहलागिरिशकार्मुककर्मदीक्षा ॥ ५२ ।। (नेपथ्ये ।) असुरसुरनिशाचरोरगाणामपि नरकिंनरसिद्धचारणानाम् । नमयति यदि कोऽपि चापमेतन्मम दुहितुः स करग्रहं तनोतु ॥५३॥ रावण रे रे भुजाः कुरुत चन्द्रकलाकिरीट- कोदण्डकर्षणयशोधवलां त्रिलोकीम् । अङ्गीकुरुध्वमचिराच विदेहपुत्री- वक्षोजचन्दनरजःपरिधूसरत्वम् ॥ ५४ ॥ (धनुरालोक्य । स्वगतम् ।) अये, दुर्विगाहमिदम् । तदलमनेन । (प्रकाशम् ।) बाण, त्वमेव तावदने धनुरारोपय । अस्माकमपि नूतनागतत्वेन मा. न्योऽसि । वाणः-तथास्तु । (इति । परिकामति ।) रावणः-(खगतम् ।) अरे हृदय, अलं कातरतया । अयं तावत्क- तरः कुण्ठीकृतदशकण्ठे शितिकण्ठकार्मुके। अन्योऽपि कोऽपि यदि चापमिमं विकृष्य सीताकरग्रह विधिं विदधीत धीरः।

प्रथमोऽङ्कः । + लङ्का नयामि च गिरानुनयामि चैनां द्रागानयामि च वशे जनकेन्द्रपुत्रीम् ॥ ५५ ॥ मञ्जीरकः-सखे पश्य । बाणस्य बाहुशिखरैः परिपीड्यमानं नेदं धनुश्चलति किंचिदपीन्दुमौलेः । कामातुरस्य वचसामिव संविधान- रभ्यर्थितं प्रकृतिचारु मनः सतीनाम् ॥ ५६ ॥ रावण:-(सविषादमात्मगतम् ।) कथमियं सीतानुनयप्रत्यूहपिशुनेव दुरुतश्रुतिः । (प्रकाशम् ।) अये वाण, अपि नाम ते पलालभारनिःसारो भुजभारः । बाण:-कथं भुजमण्डलमिदमालोकयन्नपि कटुभाषितां न मुञ्चसि । रावण:-तकिमनेन करिप्यसि । बाणः-यत्कृतं हैहयराजेन । रावणः-इदमसौ ते भुजवनं निजप्रतापानले निर्दहामि । वाणः-इदमहं त्वत्प्रतापानलमनेकरुचिरचापचुम्वितनिजबाहुब- लाहकनिवहनिर्मुक्तनाराचधारासारैः शमयामि । रावण:- रे बाण मुञ्च मयि बाणशतानि पञ्च नन्वस्ति मे करतले करवालवल्ली । रे पञ्चबाण विवृणु त्वमपि खबाणा- न्नन्वेति सा युवतिलोकललामवल्ली ॥ ५७ ।। नूपुरकः-अये वाणलावणा, सअं जेव्व अप्पाणं वण्णअन्तौ ण - लजेथ । रावणः-धिङ् मूर्ख, कथमात्मैकश्लाघ्यो दशकण्ठः । ननु रे, मन्दोदरीकुंटिलकोमलकेशभार- मन्दारदाममकरन्दरसं पिबन्तः । वीणानिनादमधुरध्वनिमुद्गिरन्तो मद्विक्रम मधुकरा अपि कीर्तयन्ति ॥ ५८ ॥ १. अये बाणरावणौ, स्वयमेवात्मानं वर्णयन्तौ न लज्जथ । ,

No text on this page.

द्वितीयोऽङ्कः। (ततः प्रविशति तापसः।) तापसः-(समन्तादवलोक्य ।) अहो, अयमनेकशुकशावकानुगमनि- कामहरिलतावितानमनोरमारामरमणीयसंनिवेशप्रदेशः। (नेपथ्याभिमुखम- वलोक्य ।) कथमयं भिक्षुः । भिक्षो, इत इतः । (प्रविश्य ।) भिक्षु:-अपि कुशलं तापसस्य । तापस:-क्षेममस्माकम् । युप्माकं च कुशलम् । भिक्षु:-इदानीं विशेषतो भवदर्शनात् । तापसः-(पुनः सप्रणयम् ।) ननु कीटवनमहीपर्यटनेन श्रान्तो भ- वान् । तदिह मिथिलायां पञ्चरात्रनिवासेन श्रमोऽपनेतव्यः । प्रस- झादयं च राजा जनको द्रष्टव्यः । भिक्षु:-किमस्माकं निरीहाणां राजदर्शनेन । तापस:-नूनमयं ब्रह्मविद्याविनोदकुशलः खलु सीरध्वजः । तेन द्रष्टुमुचित एव भवादृशाम् । भिक्षुः-अये, राजापि ब्रह्मविद्यावानिति सत्यमेतत् । तापस:-भिक्षो, सत्यमेतत् । देवस्य दश--(इत्य|क्ते ।) देवस्य शितिकण्ठस्याज्ञा । भिक्षुः-- (विहस्य ।) अलमपलापेन । विदितं मया । राक्षसः खलु भवान् । तापसः-तत्कथय विश्रब्धं को भवानिति.। भिक्षुः-अहमपि भवादृश एव कोऽपि राक्षसः । तापसः-तदाकर्ण्यताम् । अहं हिं सकलमन्त्रिमुकुटमाल्येन माल्य- वता प्रहितस्ताटकावनम् । आकर्णितं हि तेन यत्किल कोऽपि कौशिको नाम मुनी राजानमयोध्यापतिमेत्य खमखरक्षणाय तस्य रामनामानं तनयं सानुजं याचितवान् । तेन चावश्यं माननीयो मुनिरिति निजन- यनाभ्यामपि प्रियतमौ निजतनयौ तस्य समर्पितौ । भिक्षुः-ततस्ततः।

२२ प्रसन्नराघवम् । तापस:-ततस्तेन मुनिना पारितोषिकं ताटङ्कयुगमर्पितं तस्य राज्ञः । उक्तं च-'राजन्, दिव्यमिदं ताटङ्कयुगम् । तदिदं वीरसूकर्णनिवेशोचितमित्यसौ। अन्तःस्फुरन्ती रत्नानां वर्णमालेव शंसति ॥ १॥ तेन च कौसल्याकर्णयोर्निवेशनीयम्' इति । अनुमतं च राज्ञा । राजकुमारद्वयानुगतेन निजाश्रमपदं प्रति गतं च मुनिना । भिक्षुः-ततस्ततः । तापसः-तदिदमाकर्ण्य तत्ताटङ्कयुगं लक्केश्वरजनन्या निकषाया एवं कर्णोचितमिति विचिन्त्य तदाहरणाय पूर्वमेव ताटकां प्रति निजा- नुचर एकः प्रस्थापितः । अधुना च नूनं ताटकया तत्ताटङ्कयुगमाहृत. मिति विचार्य तदानयनाय ताटकां प्रत्यहं प्रहितः । भिक्षुः-कथं पुनरिदं वृत्तान्तजातमाकर्णितं माल्यवता । तापस: वार्ता च कौतुकवती विमला च विद्या लोकोत्तरः परिमलश्च कुरङ्गनाभः । तैलस्य बिन्दुरिव वारिणि दुर्निवार- मेतत्रयं प्रसरति खयमेव भूमौ ॥२॥ विशेषतश्च बहुतरप्रणिधिप्रणिधायी माल्यवान् । भिक्षुः-तत्कथं मिथिलोपवने भवान् । तापस:-आकर्णितं हि मया मिथिलामागतो लकेश्वर इति । अतस्तद्विलोकनाय प्रथममिहागतः । अधुना च ताटकावनं यास्यामि । तत्कथय तावद्भवान्पुनः कतरः। भिक्षुः-अहमपि स एव यः प्रथमं ताटकां प्रति प्रहितः । मिथि- लोपवनागमनकारणं समानमावयोः । तापसः-(सहर्षम् ।) तत्कथय तावत् । तत्किं सताटङ्कमधुना ताट- कावनम् । भिक्षुः—सताटकमिति तावत्पृच्छा । तापस:-क पुनः संप्रति ताटका ।

द्वितीयोऽङ्कः । २३. .. भिक्षुः-पुरीं प्रविष्टा । तापस:-तत्किं दशरथस्य । भिक्षुः-नहि नहि । अन्तकस्य । तापसः-केन पुनः प्रतिहारायितमन्तकपुरीप्रवेशे तस्याः । भिक्षुः-रामबाणेनैव । तापस:-क एष रामः । ( विमृश्य ।) नूनं स एव यः खलु दशरथ- कुमारयोरग्रजः । तत्कथय क पुनरधुना ताटकातनयो । भिक्षुः-सुवाहुस्तावत्ताटकामेवानुगतः । मारीचोऽपि शिशुक्रीडो. चितरामनाराचपीडितो जीवन्मुक्त इव दूरं क्षिप्तः । तापस:-तत्कथमिदानीं न कथितं केनापि लकेश्वरस्य । भिक्षु:-कथितमेव किलेदमाक्रन्दता मारीचेन । तापस:-तत्कथं कुपितो न लकेश्वरः । भिक्षुः--सीताभिलाषशीतले लकेश्वरचेतसि नारूढ एव कोप- परितापः। तापस:-क पुनरधुना रामलक्ष्मणौ । भिक्षुः-श्रुतं मया कौशिकानुपदं तदाश्रमान्मिथिलां प्रति प्रचलि- ताविति । (विलोक्य । सत्रासम् ।) कथमिमौ तावित एवाभिवतते । तदस्य निशाचरवैरिणो रामस्य पुरतः स्थातुमनुचितमावयोः । (इति निष्क्रान्तौ।) इति विष्कम्भकः। (ततः प्रविशतो रामलक्ष्मणौं ।) रामः-वत्स लक्ष्मण, पश्य पश्यारामरामणीयकम् । लक्ष्मणः-आर्य निसर्गरमणीयोऽयमारामः । अधुना तु मधुमा- सावतारेण नितान्तरमणीयः । रामः-(सहर्षम्।) कथमवतीर्णैव मधुमासलक्ष्मीः । (विमृश्य ।) एव. मेतन् । तथाहि । इह मधुपवधूनां पीतमल्लीमधूनां विलसति कमनीयः काकलीसंप्रदायः ।

No text on this page.

द्वितीयोऽङ्कः। २५ ( नेपथ्ये।) भर्तृदारिके, इत इतः । रामः-कथमियं राजकुमारिका । तदालोकयामि तावत् । (विलोक्य । सहर्षकौतुकम् ।) केयं श्यामोपलविरचितोल्लेखहेमैकरेखा- लग्नैरङ्गैः कनककदलीकन्दलीगर्भगौरैः । हारिद्राम्बुद्रवसहचरं कान्तिपूरं वहद्भिः कामक्रीडाभवनवलभीदीपिकेवाविरस्ति ।। ७ ।। (ततः प्रविशति सीता सखी च।) सीता-हला पेक्ख पेक्ख । अज्ज इममुज्जाणं वसन्तसहअरेण सअं जेव्व मम्महेणालंकिदं विअ अतिमेतं रमणिजं पडिहादि । सखी-अनवद्याङ्गि, एवमेतत् । राम:-अये, सर्वानवद्याङ्गीति वक्तव्यम् । नन्वस्याः बन्धूकबन्धुरधरः सितकेतकाभं चक्षुर्मधूककलिकामधुरः कपोलः । दन्तावली विजितदाडिमबीजराजि- रास्य पुनर्विकचपङ्कजदत्तदास्यम् ॥ ८॥ (पुनर्निर्वर्ण्य ।) अहो, मुग्धाया अप्यस्याः प्रकृतिकमनीयपदार्थपरिशीलनौ- चित्यचातुरी । तथाहि । इयं हि पदाभ्यामुन्निद्रामधरयति शोणाम्बुजरुचि कराभ्यामादत्ते नवकिसलयानामरुणताम् । प्रवालस्य च्छायां दशनवसनाग्रेण पिबति स्मितज्योत्स्नापूरैरुपहसति कान्ति हिमरुचेः ॥ ९ ॥ सखी-भतृदारिके, इदं तच्चण्डिकायतनम् । सीता-(अजलि बना । देवि, ससहरमौलिदेहाद्धधारिणि, त्रिहुअ- णघरसुआसिणि, णमो णमो दे। १. हला, पश्य पश्य । अद्यैतदुद्यानं वसन्तसहचरेण स्वयमेव मन्मथेनालंकृ- तमिवातिमात्र रमणीयं प्रतिभाति । २. देवि, शशधरमौलिदेहार्धधारिणि, त्रिभुवनगृहसुवासिनि, नमो नमस्ते ।

प्रसन्नराघवम् । सखी-समुचितैव प्रमाणपरिपाटी । सीता--(सप्रणयकोपम् ।) अलमलीअजप्पिदेण । सखी--(अञ्जलिं बवा।) कान्तमिन्दुमणिदामकोमले कोमलेन्दुमुकुटाङ्कशायिनि । इन्दुचारुमचिरेण विन्दतामिन्दुसुन्दरमुखी सखी मम ॥१०॥ रामः-अये,कथमस्याः परिणयमनोरथप्रणयी सखीजनः। (विमृश्य।) उचितमेतत् । वयःसंधौ खल्वियं वर्तते । तथाहि । अपक्रान्ते बाल्ये तरुणिमनि चागन्तुमनसि प्रयाते मुग्धत्वे चतुरिमणि चाश्लेषरसिके । न केनापि स्पृष्टं यदिह वयसा मर्म परमं तदेतत्पञ्चेषोर्जयति वपुरिन्दीवरदृशः ॥ ११ ॥ सखी-अयि देवि, सत्वरं मे पूरय मनोरथम् । यावदियं न दुर्म- नायते सखी। सीता-(सप्रणयकोपम् ।) किंति दुम्मणायिस्सम् । लक्ष्मणः-अयि राजहंसकन्यके, किमिति दुर्मनायसे । अयं ते चूतविटपान्तरितः कान्तः। सीता-हैला, कस्स इमो करिकलहकण्ठनिग्घोसमहुरो कण्ठसहो सुणीअदि । ता णिरूवेझ । रामः-(सविषादम् ।) कथमियमन्तरितैव लतया । (लतां प्रति ।) स्तनविजितस्तबकश्रीरधराधरितप्रवालनवलक्ष्मीः । अयि लतिके तिरयन्ती तरलदृशं मावलम्बसे लज्जाम् ॥ १२ ॥ (पुनः सहर्षम् ।) श्यामच्छवीनामियमन्तराले प्रादुर्भवन्ती कदलीदलानाम् । कलेव चान्द्री नवनीरदानां चकोरवन्मां मुदितं करोति ॥ १३ ॥ , १. अलमलिकजल्पितेन । २. किमिति दुर्मनायिष्ये । ३. हला, कस्यायं करिकलभकण्ठनिर्घोषमधुरः कण्ठशब्दः श्रूयते । तन्निरू पयामः।

द्वितीयोऽङ्कः। २७ (पुनः कदली प्रति ।) हे बालहेमलतिके ध्रुवमीहसे त्व- मूरुश्रियं कलयितुं तरलायताक्ष्याः । एनां विलम्बय विलासवती चिरं हि स्त्रीणां कलाः परिचिताः स्थिरतां प्रयान्ति ॥ १४ ॥ सीता-हला, को इमो कणअवण्णो सिहण्डिपिच्छमण्डिदकण्ण- यूरो मुद्धत्तणविमुक्कलोअणविआरो कुमारो दीसदि । इमं पेक्खन्तीए मह णिअवच्छम्मि विभ वच्छत्तणपच्छालिअं हिअ वट्टदि । लक्ष्मण:-अये,केयमस्यां सुमित्रायामिव मे सुचिरप्रवृत्ता चित्तवृत्तिः। सीता-हेला, इमं कुमारं पुलोअन्तीए मह वच्छा उम्मिला चित्तमारुहदि। सखी-(विहस्य ।) नूनमयं कस्यचिद्वत्सशब्दलालनीयो भविष्यति । यं विलोकयन्या मे त्वमपि चित्तवृत्तिमारोक्ष्यसि । तत्पृच्छामि ताव- देनम् । (परिक्रम्य ।) अये राजकुमार, कः खलु भवान् । यस्त्वमेक एव मुग्धतयापरिशीलितास्वपि वनभूमिषु विहरसि । लक्ष्मणः-धिङ् मूर्ख, कथं मामग्रजेन परिसरवर्तिना रामचन्द्रेण नाथवन्तमप्येकाकिनमपदिशसि । सखी-(सहर्षम् ।) कुसुमितस्तदधुना मे मनोरथद्रुमः । सीता-हला, किमेत्थ अह्माणं । ता एहि । णिअघरं जेब वजह्म । (किंचित्परिक्रम्य पुनर्व्यावृत्य ।) हला, एकं विसुमरिदमि । णं सो सहआर- पादवो अवलोअणीओ जस्स वासन्दीलदाए सह संगम अहिलसन्ति मह अम्बाओ। (इन्युमे परिकामतः ।) १. हला, कोऽयं कनकवर्णः शिखण्डिपिच्छमण्डितकर्णपूरो मुग्धत्वविमुक्तलो- चन विकारः कुमारो दृश्यते । इमं पश्यन्त्या मम निजवत्स इव वात्सल्यप्रक्षालितं हृदयं वर्तते । २. हला, इमं कुमारं विलोकयन्त्या मम वत्सोर्मिला चित्तमारोहति । ३. हला, किमत्रास्माकम् । तदेहि । निजगृहमेव व्रजामः । हला, एकं विस्मृतास्मि । ननु स सहकारपादपोऽवलोकनीयो यस्य वासन्त्या लतया सह संगममभिलषन्ति ममाम्बाः ।

२८ प्रसन्नराघवम् । रामः-(सहर्पम् ।) मन्मनःकुमुदानन्दशरत्पार्वणशर्वरी । अहो इयमितो नूनं पुनरप्यभिवर्तते ॥ १५ ॥ (निर्वर्ण्य ।) वहत्यस्या दृष्टिविकचनवनीलोत्पलतुला- मखण्डस्याभिख्यां वदनमिदमिन्दोः कलयति । कुचौ किंचिन्मीलकमलतुलनां कन्दलयत- स्तमःशोभां चित्रां चिकुरनिकुरम्बं हि कुरुते ॥ १६ ॥ सखी-एष सहकारपादपः, इयं च वासन्ती लता । (इति तदन्ति कमनुसरतः।) रामः-कथमिमे मे परिसरमनुसरतः । तत्किचिदपसरामि तावत् । सखी-(सहकारशाखां करे धृत्वा । सकौतुकम् ।) हेला, पेक्ख पेक्ख । इमेहिं नहसिहाविलिहिदेहिं कोमलदलेहिं संभावीअदि जं किर इअं चूदलदा केणावि विदद्धेण णिअहत्थेण संभाविदेत्ति । अहवा णिअचा- वलदासङ्किदेण स मम्महेणेबेति । रामः--इत्थं संभावयति भवती। मम पुनरन्यथा वितर्कः । मत्वा चापं शशिमुखि निजं मुष्टिना पुष्पधन्वा तन्वीमेनां तव तनुलतां मध्यदेशे बभार । यस्मादत्र त्रिभुवनवशीकारमुद्रानुकारा- स्तिस्रो भान्ति त्रिवलिकपटादङ्गुलीसंधिरेखाः ॥ १७ ॥ सखी-भर्तृदारिके, इयं वासन्ती लता । इदं च पश्य । वासन्तीरसबिन्दुं सुन्दरमिन्दिन्दिरा इह चरन्ति । चिरमन्दिरमरविन्दं मन्दं मन्दं परिहरन्ति ॥ १८ ॥ (सीता तदेव पठति ।) १. हला, पश्य पश्य । एतैर्नखशिखाविलिखितैः कोमलदलैः संभाव्यते यत्किलेयं चूतलता केनापि विदग्धेन निजहस्तेन संभावितेति । अथवा निज चापलताशङ्कितेन स्वयं मन्मथेनैवेति ।

द्वितीयोऽङ्कः । २९ रामः-किमिदानी लतान्तरवर्णनया । नन्वियमेव निर्मुक्तशैशवदशा शिशिरा नवीन- संप्राप्तयौवनवसन्तमनोरमश्रीः । उन्मीलितस्तननवस्तबका निकाम- मेणीदृशस्तनुलता तनुते मुदं नः ॥ १० ॥ सखी-भर्तृदारिके, पश्य । इयमसौ वासन्ती लता स्वयमेव सह- कारपोतमालिङ्गितुं पुरःसरति । सीता--(सप्रणयकोपम् ।) अये अलिअजप्पिणि, दाणिं तुह परिसरं परिहरिअ अण्णादो गमिस्सम् । राम:- अमलमृणालकाण्डकमनीयकपोलरुचे- स्तरलसलीलनीलनलिनप्रतिफुल्लदृशः । विकसदशोकशोणकरकान्तिभृतः सुतनो- मैदलुलितानि हन्त ललतानि हरन्ति मनः ॥ २० ॥ सीता--(विलोक्य सकौतुकम् ।) अम्मो, विसट्टपेसलुप्पलप्पलासपुङसामलो महेससोम्मसेहरप्फुरन्तसोमकोमलो। लदाघरम्मि को इमो अणङ्गरूअखण्डणो विलोअणाण देइ मे सुहं सिहण्डमण्डणो ॥ २१ ॥ सखी-भर्तृदारिके, कथय कथं लतालोकनाद्विरतासि । (सीतानाकर्णितकेन तदेव पञ्चमखरं पठति ।) सखी--(उपसृत्य ।) कथमियमन्यचित्तेव लक्ष्यते । क पुनश्चित्त- मस्याः । (रामं दृष्ट्वा । साकूतम् ।) अये, इदमस्याश्चित्तगजबन्धनालानम् । १. अये अलीकजल्पिनि, इदानीं तव परिसरं परिहृत्यान्यत्र गामिष्यामि । २. अहो, विकसितपेशलोत्पलोत्पलाशपुङ्खश्यामलो महेशसौम्यशेखरस्फुरत्सोमकोमलः । लतागृहे कोऽयमनङ्गरूपखण्डनो विलोचनयोर्ददाति मे सुखं शिखण्डमण्डनः ॥.

No text on this page.

द्वितीयोऽङ्कः। ३१ (पुनः खगतम् ।) अइ पिवह लोअणाई पिअजणवअणारविन्दमअरन्दम् । अइ तरलाइं विआरह पुण कह तुझे कह इमो अ॥ २५ ॥ (इति रामं नयनाञ्चलेन सलीलमालोकते ।) रामः-(निर्वर्ण्य ।) सर्वखं नवयौवनस्य भवनं भोगस्य भाग्यं दृशां सौभाग्यं मदविभ्रमस्य जगतः सारं फलं जन्मनः । साकूतं कुसुमायुधस्य हृदयं रामस्य तत्त्वं रतेः शृङ्गारस्य रहस्यमुत्पलदृशस्तत्किचिदालोकितम् ॥ २६ ॥ (सीता स्वगतं पुनस्तामेव गाथां पठति ।) सखी-अयि-भर्तृदारिके, पश्य । दलदमलकोमलोत्पलपलाशशङ्काकुलोऽयमलिपोतः। तव लोचनयोरनयोः परिसरमनुवेलमनुसरति ॥ २७ ॥ सीता--(सहर्षमात्मगतम् ।) अपि लोअणाई बद्धसप्पदाइं णं सुहो- यमुदीयम् । समः-(सप्रत्याशम् ।) अमृतमयपयोधिक्षीरकल्लोललोलैः स्वपयति तरलाक्षी यत्र मां नेत्रपातैः । अपि भवतु सदायं सन्मुहूर्तः (विमृश्य । सविषादम् ।) कुतो वा. मधुरविधुरमिश्राः सृष्टयो हा विधातुः ॥ २८ ॥ (प्रविश्य।) चेटी-भट्टदारिए, भट्टिणीहिं आण्णतमि । जं किर वत्सा जाणई १. अयि पिबतं लोचने प्रियजनवदनारविन्दमकरन्दम् । अयि तरले विचारयतं पुनः क युवां कायं च ॥ २. अपि लोचने बद्धषट्पदे ननु सुखोपश्रुतिरियम् । ३. भर्तृदारिके, भट्टिनीभिराज्ञप्तास्मि । यत्किल क्त्सा जानकी झटिति गृहमानीय विचित्राभरणैर्मण्ड्यताम् । येन तस्याः सानन्दं वदनारविन्दं वि- लोकयामः ।

३२ प्रसन्नराघवम् । झत्ति घरमाणीअ विचित्ताहरणेहिं मण्डीअदु । जेण तीए साणन्दं वा.. णारविन्दं पुलोअह्म । सीता--हण्डे, कहं सिणेहमुद्धाओ मह अम्बाओ। चेटिका-भेट्टजारिए, कहं ण मुद्धाओ तुह अम्बाओ। सीता-कहं उण मुद्धाओ मह अम्बाओ। चेटिका-जा तुमं णिसग्गलावण्णचन्दलेहां वच्छलच्छीलञ्छ- णेणालंकिदुमिच्छन्ति । तहा अ । अइ तुह मुहलेहा चन्दबिम्बे सणेहा दसणकिरणलच्छी अच्छजोहासरिच्छी। कुवलयदलदोणीकन्दराए वहन्ती तरलबहलमिट्टी दुद्धधारे व दिट्टी ॥ २९ ।। ता आअच्छ । गच्छम णिअघरं जेब । (इति निष्कान्ताः स्त्रियः।) रामः-(सविषादम् ।) कथं नयनपथमतिक्रान्तैव कान्ता । (पुनः सप्रत्याशम् ।) अप्याविरस्तु भूयोऽपि मम लोचनयोरियम् । दिवसेऽन्तर्हिता नक्तं चन्द्रिकेव चकोरयोः ॥ ३० ॥ लक्ष्मणः-आर्य, इयमाविरस्ति । १. हण्डे, कथं स्नेहमुग्धा ममाम्बाः । २. भर्तृदारिके, कथं न मुग्धास्तवाम्बाः । ३. कथं पुनर्मुग्धा ममाम्बाः । ४. यास्त्वां निसर्गलावण्यचन्द्रलेखां नेपथ्यलक्ष्मीलाञ्छनेनालंकर्तुमिच्छन्ति । तथा च । अयि तव मुखलेखा चन्द्रबिम्बे सस्नेहा दशनकिरणलक्ष्मीरच्छज्योत्स्नासदृक्षा। कुवलयदलद्रोणीकंदरायां वहन्ती तरलबहलमिष्टा दुग्धधारेव दृष्टिः ॥ तदागच्छं । गच्छामो निजगृहमेव ।

द्वितीयोऽङ्कः। - रामः-(सहर्षम् ।) कथं पुनः प्राप्ता प्रेयसी । (विलोक्य ।) न तावन्नूनं किमप्यन्यदभिसंधाय तदिदमुक्तं वत्सेन । (उच्चैः ।) वत्स, केयमाविरस्ति । लक्ष्मण:- मुग्धस्य केलिविजितस्मरचापयष्टे- रातन्वती रुचिमतीव सुधाकरस्य । रागोद्धुरा स्फुटमुदञ्चिततारकश्रीः संध्याविरस्ति ननु कापि पतिवरेव ॥ ३१ ।। रामः-वत्स, एवमेतत् । तथा हि । कृत्वा प्रवुद्धकमलामखिलां त्रिलोकी- मम्भोनिधेर्विशति गर्भमसाविदानीम् । अन्तःप्रसुप्तहरिनाभिसरोजबोध- कौतूहलीव भगवानरविन्दवन्धुः ॥ ३२ ॥ लक्ष्मणः-आर्य, दृश्यतामयमीषन्मुकुलितराग इव गगनाभोगः । रामः-एवमेतत् । इदोनी हि प्राचीमालम्बमाने घनतिमिरचये बान्धवे बन्धकीनां संप्राप्ते च प्रतीची शशिकरनिकरे वैरिणि खैरिणी नाम् । अर्घश्यामोपलार्धस्फटिकमिव दिशामन्तरालं विधत्ते कालिन्दीजझुकन्यामिलदमलजलस्यन्दसंदोहमैत्रीम् ॥ ३३ ॥ (पुनः सहर्षमङ्गुल्या दर्शयन् ।) एतत्कोककुटुम्बिनीजनमनःशल्यं चकोराङ्गना- चयूकोटिकपाटयोर्घटितयोरुद्धाटिनी कुञ्चिका । दग्धस्यापि नवाङ्कुरः स्मरतरोरा गसां प्रेयसी- मानोदामगजाङ्कुशो विजयते मुग्धं सुधांशोर्वपुः ॥ ३४ ॥ लक्ष्मण:- कल्लोलक्षिप्तपङ्कत्रिपुरहरशिरःखःस्रवन्तीमृणालं कर्पूरक्षोदजालं कुसुमशरवधूसीधुभृङ्गारनालम् । एतदुग्धाब्धिबन्धोर्गगनकमलिनीपत्रपानीयबिन्दो- रन्तस्तोपं न केषां किसलयति जगन्मण्डनं खण्डमिन्दोः॥३५॥ प्र.४

प्रसन्नराघवम् ।
राम:-वत्स, अलमतिप्रसङ्गेन । तदेहि ।
चितकुसुमोपायनेन भगवन्तं गाधिनन्दनमुपास्महे
(इति निष्क्रान्ताः सर्वे ।)
इति द्वितीयोऽङ्कः।

तृतीयोऽङ्कः। (ततः प्रविशति वामनकः।) वामनकः-(आत्मानं विलोक्य । सविस्मयम् ।) अहो अङ्गाणं मे तुङ्ग- तणम् । अवि णाम ईरिसेहिं अङ्गेहिं एत्थ संचरन्तेण मए दुआरसिहरं भज्जीअदि । ता खुज्जो भविअ संचरिस्सम् । (तथा करोति ।) (प्रविश्य ।) कुजक:- अस्स वामणअ, दाणिं सअलगुणसंजुत्तो सि तुमं । वामनक:-कह वि। कुजक:-पंढमं जेब वामणो दाणि उण खुजत्तणं पत्तो। वामनक:-(सक्रोधम् ।) अए मुरुख, कहं अत्तणो खुज्जत्तणं परम्म आरोवेसि । णं तुमं जेब खुजओ । मए उण दुआरसिहरभङ्गसकिदेण अप्पम्मि खुज्जत्तणं आरोविदम् । कुनकः-(विहस्य ।) कह विअस्थिमेत्तएण तुह अङ्गेण दुआर- सिहरं भञ्जिस्सदि । (पुनः सक्रोधम् ।) अरे अलीअवाआल, केण तुह कहिदं अहं खुजओ त्ति । वामनकः-णं इमिणा जेब दरिअवुसहकउदसरिसेण पुट्ठविदेण मंसत्थबएण उवाहिएण। १. अहो अङ्गानां मे तुङ्गत्वम् । अपि नामेशैरङ्गैरत्र संचारता मया द्वार- शिखरं भज्यते । तत्कुब्जो भूत्वा संचरिष्यामि । २. वयस्य वामनक, इदानीं सकलगुणसंयुक्तोऽसि त्वम् । ३. कथमिव । ४. प्रथममेव वामन इदानीं पुनः कुब्जत्वं प्राप्तः । ५. अये मूर्ख, कथमात्मनः कुजत्वं परस्मिन्नारोपयसि । ननु त्वमेव कुब्जकः । मया पुनरिशिखरभङ्गशङ्कितेनात्मनि कुब्जत्वमारोपितम् । ६. कथं वितस्तिमात्रेण तवाङ्गेन द्वारशिखरं भङ्घयते । अरे अलीकवा- चाल, केन तव कथितमहं कुब्जक इति । ७. नन्वनेनैव दृप्तवृषभककुद्सदृशेन पृष्ठस्थितेन मांसस्तबकेनोद्वाहितेन ।

No text on this page.

तृतीयोऽङ्कः। कुब्जकः-किं इमस्स महेसिणो होमग्गिधूमसामलिअलोअणस्स हरचावदंसणेण । ता तक्केमि खत्तिअबम्हणो इमो ति । वामनकः-(विहस्य ।) केहं तणु व मदीवि तुहं वङ्कुणी जं एवं तकेसि । सच्चं खत्तिअबह्मणो इमो त्ति । कुजक:-ता को वि अणत्थो संभाविअदि जं किर चिरतवस्सा- करिसिदो इमो तिवं पेक्खमाणो खत्तिअबह्मणो रुजुमदिणो अह्माणं राएसिणो रजं गहीदुं आअदो त्ति । वामनकः-सन्तं पावम् । ईरिसं मा जप्प । अअं हि चिरतव- स्सापरितोसिदस्स बह्मणो वाआए खत्तिअत्तणं परिहरिअ बम्हणत्तणं पत्तो । कुब्जक:-कहं तणु व मदीवि तुह वामणी जं एरिसअलीअलो- अवुत्तन्ते वि पत्तिआअदि । जइ कस्सवि वाआए खत्तिओ बह्मणो होइ ता मह वाआए तुमं वि बह्मणो होसि । वामनक:-अरे बालिस, कहं तुह गोमुहस्स भअवदो चउम्मुहस्स वि णत्थि अन्तरम् । कुब्जकः-जइ इमो सुद्धबह्मणो ता किं इमस्स चावचिन्ताए । वामनक:-अस्थि कारणं । तस्स पासम्मि तदो जेब गहिअचाव- विजा दोवि खत्तिअकुमारा वन्ति । ताणं दसइस्सदि चावं ति। कुजक:-ता सुद्धासओ इमो । १. किमस्य महर्डीमाग्निधूमश्यामलितलोचनस्य हरचापदर्शनेन । तत्तर्क- यामि क्षत्रियब्राह्मणोऽयमिति । २. कथं तनुरिव मतिरपि ते वक्रा यदेवं तर्कयसि । सत्यं क्षत्रियब्राह्मणोऽयमिति। ३. तत्कोऽप्यनर्थः संभाव्यते यत्किल चिरतपस्याकर्षितोऽयं तीव्र प्रेक्षमाणः क्षत्रियब्राह्मण ऋजुमतेरस्माकं राजर्षे राज्यं ग्रहीतुमागत इति । ४. शान्तं पापम् । ईदृशं मा जल्प । अयं हि चिरतपस्यापरितोषितस्य ब्रह्मणो वाचा क्षत्रियत्वं परिहृत्य ब्राह्मणत्वं प्राप्तः । ५.कथं तनुरिव मतिरपि तव वामनी यदीदृशालीकलोकवृत्तान्तेऽपि प्रत्याय्यते। यदि कस्यापि वाचा क्षत्रियो ब्राह्मणो भवति तर्हि मम वाचा त्वमपि ब्राह्मणो भवसि । ६. अरे बालिश, कथं तव गोमुखस्य भगवतश्चतुर्मुखस्यापि नास्त्यन्तरम् , ७. यद्ययं शुद्धब्राह्मणस्तत्किमस्य चापचिन्तया । ८. अस्ति कारणम् । तस्य पार्श्वे तत एव गृहीतचापविद्यौ द्वौ क्षत्रियकु- मारौ वर्तते । ताभ्यां दर्शयिष्यति चापमिति । ९. तच्छुद्धाशयोऽयम् ।

प्रसन्नराघवम्। वामनकः-अह ई। कुब्जकः-ता कहेहि दाव इमस्सि अलीअदूसणारोवेण णं मह पावं उप्पण्णं ण वेत्ति । वामनकः-पावं ति किं भणीअदि । णं महापावं उप्पण्णम् । कुजक:-अरे मुरुख, ण आणासि धम्मस्स तत्तम् । संबन्धिअणे परिहासवअणाई ण हु पावकारणाई । वामनकः-केहं उण इमो तुह संबन्धिअणो । कुब्जक:- अरे, ण आणासि । अस्स वि दोणि कुमारा, वि दोणि कुमारीओ । ता तकेमि संबन्धिअणो हविस्स दि ति । वामनका -(विहस्य ।) कहं अह्माणं एरिसं पुण्णम् । (नेपथ्ये ।) ताटकिना झटिति ताडितताटकेन रामेण पद्मरमणीयविलोचनेन । क्रीडाशिखण्डकघरेण सलक्ष्मणेन साकं मुनिः कुशिकसूनुरितोऽयमेति ॥ १ ॥ वामनकः-(सहर्षविस्मयम् ।)अहो,जा किर सअललोअभीसणा रक्ख- सी ताडएत्ति सुणीअदि सा इमिणा जइ ताडिदा ता इमस्सि हरचावारो वणं वि संभावीअदि । ता एहि । इमं कण्णसुहारहं भट्टिणीणं समप्पह्म। (इति निष्क्रान्तौ।) इति प्रवेशकः। १. अथ किम् । २. तत्कथय तावदस्मिन्नलीकदूषणारोपेण ननु मम पापमुत्पन्नं न वेति, ३. पापमिति किं भण्यते । ननु महापापमुत्पन्नम् । ४. अरे मूर्ख, न जानासि धर्मस तत्त्वम् । संबन्धिजने परिहासवचनानि न खलु पापकारणानि । ५. कथं पुनरयं तव संबन्धिजनः । ६. अरे, न जानासि । अस्यापि द्वौ कुमारौ, अस्माकमपि द्वे कुमायौँ तत्तयामि संबन्धिजनो भविष्यतीति । ७. कथमस्माकमीदृशं पुण्यम् । ८. अहो, या खलु सकललोकभीषणा राक्षसी ताटकेति श्रूयते सानेन यदि ताडिता तदस्मिन्हरचापारोपणमपि संभाव्यते । तदेहि । इमं कर्णसुधारस भट्टिनीभ्यः समर्पयामः।

तृतीयोऽङ्कः। (ततः प्रविशति रामलक्ष्मणानुगतो विश्वामित्रः।) विश्वामित्रः-(अडल्या दर्शयन् ।) वत्स रामभद्र, एतत्तय चक्रवाकहृदयाश्वासाय तारागण- ग्रासाय स्फुरदिन्दुमण्डलपरीहासाय भासां निधिः । दिक्कान्ताकुचकुम्भकुङ्कुमरसन्यासाय पङ्केरुहो- ल्लासाय स्फुटवैरिकैरववनत्रासाय विद्योतते ॥ २ ॥ रामः-(अञ्जलिं बवा ।) लालयन्तमरविन्दवनानि क्षालयन्तमभितो भुवनानि । पालयन्तमथ कोककुलानि ज्योतिषां पतिमहं महयामि ॥ ३ ॥ विश्वामित्र:-(खागतम् ।) अपि नाम मयोपनीयमानं वत्सरामभद्र- मचिरादेव जनकस्तनूजया संभावयिष्यति । लक्ष्मण:-~-आर्य, पश्य । यावन्नीरनिधेः प्रभातसमयः प्रोद्धृत्य लोकत्रयी- माणिक्यं रविबिम्बमम्बरवणिग्वीथीपथे न्यस्यति । तावत्कर्तुमिवास्य मूल्यमुचितं पद्माकरेण स्वयं लक्ष्मीलव्धविकाशपङ्कजकरन्यस्ता पुरः स्थाप्यते ॥ ४ ॥ विश्वामित्र:-(सहर्षमात्मगतम् ।) अये वत्स, लक्ष्मणेनैव दत्तमुत्त- रम् । देवताधिष्ठितानि हि मुग्धवचनानि भवन्ति । रामः-( मुनिं प्रति ।) भगवन्, कथमियं बहुनरकरितुरङ्गमतरङ्गि- तापि राजधानी तपोवनभूमिरिव प्रशान्तपावनी विभाव्यते । विश्वामित्र:-क इह विस्मयः । नन्विह जनकः प्रतिवसति यस्यायं भगवान्याज्ञवल्क्यो गुरुः। राम:-सोऽयं भगवानस्य गुरुर्यः किल योगीश्वर इति ख्यायते । विश्वामित्र:-वत्स, स एवायं पादोपजीवनाद्भानोः प्रबोधमुपलभ्य यः । अभूद्योगीश्वरख्यातेः सद्म पद्ममिव श्रियः ॥ ५ ॥ तदेहि । राजभवनमुपसर्पामः । (इति निष्क्रान्तः ।)

प्रसन्नराघवम् । -- (नेपथ्ये।) पयोभिः सिच्यन्तां बहलविलसत्कुङ्कुमरसैः प्रसूनैः कीर्यन्तां परिमलमिलल्लोलमधुपैः। चतुष्कैः पूर्यन्तामविरललसन्मौक्तिकगणै- मुंदा पौरस्त्रीभिर्नगरपथरथ्याङ्गणभुवः ॥ ६ ॥ विश्वामित्र:-नूनमस्मभ्यागमनसानन्दस्य शतानन्दस्य वाक्य- परिस्पन्दः । (विलोक्य ।) अहो अस्य रभसातिशयो यदयं कृतमपि नगरपरिष्कारं पुनरादिशति । (प्रविश्य ।) शतानन्दः भगवन् , अभिवादये। विश्वामित्रः-सौम्य, आयुष्मान्भूयाः । शतानन्दः-भगवन् , अयमसौ जनको राजा भगवन्तं प्रतीक्षते । विश्वामित्र:-(विलोक्य ।) अये, स एष जनकः अङ्गैरङ्गीकृता यत्र षड्भिः सप्तभिरष्टभिः । त्रयी च राज्यलक्ष्मीश्च योगविद्या च दीव्यति ॥ ७ ॥ (ततः प्रविशति जनकः ।) जनकः-(कृताञ्जलिर्भूला।) यः काञ्चनमिवात्मानं निक्षिप्यागौ तपोमये । वर्णोत्कर्ष गतः सोऽयं विश्वामित्रो मुनीश्वरः ॥ ८ ॥ ( उपसृत्य ।) भगवान् , अयं ते समीहितसंपल्लतासमुद्गमारामः प्रणामः । विश्वामित्र:-राजर्षे, वसुंधरासुनासीरसीरध्वजाप्रतिहतमनोरथो भूयाः। (इति यथोचितमुपविशन्ति ।) जनकः-भगवन्, अधुंना सुनासीरसाधारणत्वमधःकरणं मे । विश्वामित्र:-कथमिव । जनक:--संप्रति तदीयामपि पदवीमतीत्य वर्ते । गाधिनन्दन न नन्दनजन्मा तादृशः स हरिचन्दनशाखी । यादृशो मम भवत्पदपद्मद्वन्द्ववन्दनविधिः सुखहेतुः ॥९॥ विश्वामित्र:-अहो ते प्रणयातिशयो यः सहजप्रमोदसुखाम्बुधि- निमनोऽप्यस्मत्समागमजन्मनः सुखशीकरान्बहु मन्यसे ।

तृतीयोऽङ्कः। ४१ जनकः-भगवन, अस्मद्विधानां राज्यरागोपरक्तचेतश्चन्द्रमसां कुत- स्त्योऽयं सहजानन्दचन्द्रिकोद्भेदः । विश्वामित्रः-मैवं भोः, ज्याघातः कार्मकस्य श्रयति करतलं कण्ठमोंकारनाद- स्तेजो भाति प्रतापाभिधमवनितले ज्योतिरात्मीयमन्तः । राज्यं सिंहासनश्रीः शममपि परमं वक्ति पद्मासनश्री- येषां ते यूयमेते निमिकुलकुमुदानन्दचन्द्रा नरेन्द्राः ॥ १० ॥ शतानन्दः-सत्यमेतत् । एते हि वाराङ्गनाकरतरङ्गितचामरोर्मि- श्वेतातपत्रशतपत्रिणि राजहंसाः। क्रीडन्ति राज्यसरसि खरसं च धीरा योगीन्द्रचन्द्रसुगमे पथि संचरन्ति ॥ ११ ॥ लक्ष्मण:-(अपवार्य ।) आर्य, राजानोऽप्यमी ब्रह्मविद्याचतुरा इति चित्रीयते मे चेतः। राम:-वत्स, किमिह चित्रम् । ननु छत्रच्छाया तिरयति न यद्यन्न च स्प्रष्टुमीष्टे दृप्यद्गन्धद्विपमदमषीपङ्कनामा कलङ्कः । लीलालोलः शमयति न यच्चामराणां समीरः स्फीतं ज्योतिः किमपि तदमी भूभुजः शीलयन्ति ॥ १२ ॥ विश्वामित्र:-आङ्गिरसोचितमात्थ राजहंसा इति । सकलकुवलयो- तंसा राजहंसा अमी। जनकः-भगवन् , इदमस्मत्प्राचीनेषु शोभते न तु मयि कतिपय- ग्रामटिकास्वामिनि । विश्वामित्र:-मैवं भोः, अवनिमवनिपालाः सङ्घशः पालयन्ता- मवनिपतियशस्तु त्वां विना नापरस्य । जनक कनकगौरीं यत्प्रसूता तनूजां जगति दुहितृमन्तं भूर्मवन्तं वितेने ॥ १३ ॥ .

४२ प्रसन्नराघवम् । जनक:-भगवन् , नूतनशतभुवननिर्माणनिपुणस्य भगवतः किय.. तीयमभिनववचनचातुरी नाम । स खलु भवान्यस्य शलाकीकृत्य खां दृशमसमकोपारुणरुचिं सुरश्रेणीचित्रं गगनतलभित्तौ रचयतः। सुधोंशोभनोश्च प्रथमरचितं बिम्बयुगलं सुधालाक्षासान्द्रद्वभरितपात्रद्वयमभूत् ॥ १४ ॥ शतानन्द:-राजर्षे, सत्यमात्थ । किमुच्यतेऽसौ भगवान् । त्रिशङ्कोः खोकादवनितलपातं रचयितुं सुनासीरे कोपाद्विकसितपदाजे विकसितः। यदीयोऽसौ नव्य त्रिदशनगरारम्भरभसः सुरस्तोमे भक्त्या मुकुलितकराजे मुकुलितः ॥ १५ ॥ लक्ष्मण:-( अपवार्थ ।) आर्य, कथमेवंविधं भगवतः प्रतापितभुवन- त्रयं तपोभिधानं तेजः। राम:-अपि न विदितं ते राजर्षेरिदम् । रोषाभिभूतपुरुहूतपदाभिभूतं दृष्ट्वा त्रिशङ्कुमथ कोपविपाटलश्रीः। आकुङ्मलीकृतकराम्बुजराजिरम्या संध्येव दृष्टिरमरैर्य दुपासितास्य ॥ १६ ॥ विश्वामित्र:-राजर्षे, अपि तावद्रत्नगर्भागर्भसंभवं कन्यारत्नमलंकु- रुते त्वाम् । जनक:- भगवन् , भवत्प्रसादादधुना जामातृरत्नमप्यलंकरिष्यते । (राममवलोक्य । सकौतुकम् ।) भगवन् , सकलजनविलोकनोत्सवानामयमयनं कतरः पुरः कुमारः। हरितमणिमयूखहारिणो यः कलयति कल्पतरोः प्ररोहलीलाम्॥१७॥ शतानन्द:-भगवन्, अयं च कतरो यः खल्वस्यैव नीलनीरजदलोज्ज्वलकान्तरन्तिके स्फुरति काञ्चनगौरः । लोचनस्य सुदृशः श्रवणाग्रे संनिविष्ट इव चम्पकगुच्छः ॥ १८ ॥ विश्वामित्र:-नाम्ना तावद्रामलक्ष्मणावेतौ । जनक:-अहो कर्णामृतम् ।

तृतीयोऽङ्कः। शतानन्दः-(निर्वर्ण्य ।) - भगवन्, एतयोरहमुदाररूपयोरुल्लसत्सहजसौहृदश्रियोः । कामपि स्वजनतां विभावये कौस्तुभामृतमयूखयोरिव ॥ १९ ॥ जनक:- एतयोः प्रकृतिरम्यरूपयोरुल्लसत्सहजसौहृदश्रियोः । आन्तरः स्फुरति कोऽपि संनिधिः प्रत्यगात्मपरमात्मनोरिव ॥२०॥ विश्वामित्र:-अयि योगीश्वरशिष्य, ईदृशेषु गभीरेष्वभिनवोदन्त- पीयूषवेशन्तेषु भवत एव मनो निमज्जति । खजनभावे पुनरनयोर्वयमपि साक्षिणः । जनकः-तरिक भ्रातरावेतौ । विश्वामित्रः :-अथ किम् । जनक: (सहर्ष निर्वर्ण्य ।) तनुश्रिया निर्जितचम्पकोत्पलौ सुवर्णनीलोत्पलकोशकोमलौ । अहो दृशामुत्सवदानदक्षिणौ सुलक्षणौ लक्ष्मणलक्ष्मणाग्रजौ ॥२१॥ (पुना रामं विलोक्य । सकौतुकम् ।) भगवन् , किमेतत् । यथाहं निःसीमोत्सवसुभगभोगे भवकथा- पथातीते चेतःप्रणयिनि रमे पुंसि परमे । तथैवास्मिन्बाले दलदमलनीलोत्पलदलो- दरश्यामे रामे नयनपदवीमागतवति ॥ २२ ॥ विश्वामित्र:-(खगतम् ।) उचितमेतत् । न खलु सकललोकलो- चनानन्दकरः शीतकरः । शंकरशिरःशयालोः कलानिधेरपरं तत्त्वम् । (प्रकाशम् ।) राजर्षे, स एष सौन्दर्यातिशयस्य महिमा । जनकः-कः पुनराभ्यां पुत्रवतां मौलिमाणिक्यमारोपितः । विश्वामित्र:- किं शीतांशुमरीचयः किमु सुरस्रोतस्विनीवीचयः किं वा केतकसूचयः किमथ वा चन्द्रोपलानां चयः । इत्थं जातकुतूहलाभिरभितः सानन्दमालोकिताः कान्ताभिस्त्रिदिवौकसां दिशि दिशि कीडन्ति यत्कीर्तयः ॥ २३ ॥ रामः-वत्स, नूनमयं सकलगुणावदातस्तातः प्रस्तूयते ।

No text on this page.

तृतीयोऽङ्कः। शतानन्द:-नूनममी ऋष्यशृङ्गचरुभागानां विलासाः । जनकः-दशरथभागधेयानां च । विश्वामित्रः-एवमेतत् । अवधिः खलु भाग्यवतां राजा दशरथः। जनकः-महात्मवतां च । विश्वामित्र:-तकिमस्माभिरुच्यताम् । भवतोर्महिनि भवन्तावेव साक्षिणौ। जनकः-कतरोऽहं दशरथस्य महिमाभोगमनुभवितुं कासार इव सागरस्य । विश्वामित्रः-शोभन्त एव विनयमधुराणामधरीकृतात्ममहिमानः कामं सत्यविधुरा अपि वाचः । अथवा समुचितमेवैतत् । यतः । जज्ञिवान्दशरथः स हि राजा राममिन्दुमिव सुन्दरगात्रम् । लोकलोचनविगाहनशीलां त्वं पुनः कुमुदिनीमिव सीताम् ॥ २९ ॥ लक्ष्मणः-(अपवार्य ।) आर्य, इन्दुकुमुदिनीदृष्टान्तेन किमपि संविधानं सूचितं भगवता। रामः-(सप्रणयकोपम् ।) अलमलीकालापितया । जनकः-(वगतम् ।) कथमनया भङ्गया किमपि सूचितं मुनिना । तकिमनेन रभसवशंवदेन विस्मृतमेव शांभवं धनुः । (प्रकाशम् ।) भग- वन्, अनेन भगवतो वक्रकमनीयेन वाग्विलासेन द्वितीयेनेव हरकार्मुकेण किमपि कौतुकितोऽस्मि । विश्वामित्र:-(खगतम् ।) कथमनया परिपाट्या हरचापारोपणमु- द्भावयति । भवतु । (प्रकाशम् ।) राजर्षे, साधु स्मारितोऽस्मि । अतीव मे कौतुकं वृषभकेतुकार्मुकावलोकने । तेन तदानयनायादिश्यन्तां पुरुषाः । अथवा किमन्यैः । रामभद्र एवादिश्यताम् । जनक:-(सविस्मयम् ।) भगवन्, कथं मुग्ध इव दुग्धमुखमपि राममिन्दुकिरीटकामुकानयनार्थमादिशसि । न जानासि किम् । एतत्तदुर्विगाहं तुहिनगिरिमयं कार्मुकं यत्र जज्ञे मौर्वी दर्वीकराणां पतिरुदधिसुतानायकः सायकश्च । दोर्दण्डैश्चन्द्रमौलेनतमपि यदभूदुन्नतं कार्मुकाणां बाप्पाम्भोवृष्टये च त्रिपुरमृगदृशामैशमप्यैन्द्रमासीत् ॥ ३० ॥ प्र. ५

४
प्रसन्नराघवम् ।
विश्वामित्र:-जानामि ।
सेवायातसमस्तखेचरकरक्रीडाचलच्चामर-
श्रेणीमारुतपानपीननिबिडज्यापन्नगाकर्षिणा ।
गाढाकुञ्चनजृम्भमाणतुहिनस्यन्दैर्यदीयैः श्रमः
संत्यक्तः पुरवैरिणापि तदिदं शैलेन्द्रसारं धनुः ॥ ३१ ॥
जनकः-तत्कथमस्यानयनाय रामायादिशसि ।
विश्वामित्र:-न केवलमानयनाय । किंत्वानमनाय । (रामं प्रति ।)
वत्स, बध्यतां परिकरः । इदं च
मारीचमारीचतुरं सुबाहोरपवारणम् ।
न्यस्यतां लक्ष्मणकरे ताटकाताडनं धनुः ।। ३२ ।।
जनकः-कथमसंभावनीयमेवोद्भावयसि ।
विश्वामित्र:-कथमिदं न विदितं ते । अनेन हि
प्राप्य चापनिगमानितः क्रमात्सुप्रताप्य विशिखैर्निशाचरान् ।
अस्मदीयमखरक्षणक्रियादक्षिणेन गुरुदक्षिणीकृता ॥ ३३ ॥
जनकः-(विमृश्य । निःश्वस्य च ।) भगवन्, अस्त्येतत् । किंतु
मारीचमुख्यरजनीचरचक्रचूडा-
चञ्चन्मरीचिचयचुम्बितपादपीठः ।
अत्राभवद्विफलबाहुबलावलेपो
वीरः शशाङ्कमुकुटाचलचालनोऽपि ॥ ३४ ।।
विश्वामित्र:-किमेतावता। नन्वत एव राममादिशामि । (रामं प्रति ।)
वत्स, उत्तिष्ठ । कुमुदिनीकान्तकलाकिरीटकार्मुकरोपणप्रवीणतया संप्री.
णयास्मान् ।
जनकः-(खगतम् ।)
यस्य ख्याता जगति सकले निस्तमिस्रा तप:श्री-
मिथ्योत्कण्ठः कथमिह भवेदेष गाधेस्तनूजः ।
बालो रामः किमपि गहनं कार्मुकं चन्द्रमौले-
दोलारोहं कलयति मुहुरतेन मे चित्तवृत्तिः ॥ ३५ ॥

तृतीयोऽङ्कः। (पुनः पृथिवीमालोक्य ।) रतिरिव जननेत्रानन्दिनी नन्दिनी ते कुमुमशर इवायं रूपसारः कुमारः। यदि तु धनुरपीदं प्राप्तमेतस्य हस्तं कुसुममयमिव स्यात्संभृतः संप्रदायः ॥ ३६॥ शतानन्दः-राजर्षे, किमेतन्मूढइव मुहुर्मुहुरालोकसे । अनुवर्तव महर्षेर्वचनम् । जनक:- (प्रकाशम् ।) अनुवृत्तमेव । (रामंप्रति ।) वत्स, अनुष्ठी- यतां गुरुवचनम् । (राम उत्थाय परिकर बध्नाति ।) (प्रविश्य ।) प्रतीहारी-जेदु जेदु देवो को वि बह्मणो देवस्स दंसणत्थी दुआरदेसम्मि चिट्ठदि । ता किं पवेसीअदु । जनकः-आः, इदमपि किं जनकः प्रष्टव्यः । प्रतीहारी–तथा । (इति निर्गत्य तेन सह प्रविशति ।) जनक:-ब्रह्मन्, प्रणम्यसे । मुनिः-राजन्, सुमतिर्भूयाः। जनकः--(खगतम् ।) अन्यादृशीयमाशी परिपाटी । भवतु ।। (प्रकाशम् ।) मुने, इहास्यताम् । मुनिः-संदेशहरः खल्वस्मि । जनक:-कस्यायम् । कीदृशो वा संदेशः । मुनिः पीत्वा कज्जलकालिमानमखिलं मापालनारीदृशां नीत्वा स्फीतयशोट्टहासमहसा लोकत्रयं शुभ्रताम् । चण्डीशं चरितैरनेकविभवैरद्यापि यः सेवते हे वैदेह स जामदग्न्यपरशुस्त्वामेतदाभाषते ॥ ३७ ॥ १. जयतु जयतु देवः । कोऽपि ब्राह्मणो देवस्य दर्शनार्थी द्वारदेशे तिष्ठति । तत्कि प्रवेश्यताम् ।

४८ प्रसन्नराघवम्। जनकः-(खगतम् ।) अहो गर्वाङ्कुरस्य वक्रता । भवतु । (प्रकाशम् ।) किं तत् । मुनिः- कस्मैचिद्देहि कन्यां नरपतिशिशवे दीर्घमायुर्लभख व्यावर्तखाप्रियान्नः पुरमथनधनुःकर्षणालापपातात् । नो चेदन्योऽस्त्युपायस्तव कलुषमषीपङ्कसंक्षालनाया- मस्मद्विस्तारिधाराञ्चलबहलपयःपूरदूरावगाहः ॥ ३८ ॥ जनकः-(विहस्य ।) तन्मयापि प्रतिसंदेशः कथनीयस्तस्य । मुनिः-कीदृशोऽसौ। जनक:- त्वं मित्रं मम जामदग्न्यपरशो तेनैतदाभाष्यसे संप्रत्येव यथाप्रतिश्रुतमियं कन्या मया दीयते । तेनेह स्वयमेत्य धूर्जटिधनुधौरेयदोःसंपदो जामातुः पुरतश्चिराय भवता धाराजलं त्यज्यताम् ॥ ३९ ॥ मुनिः-तथास्तु । (इति निष्क्रान्तः।) जनकः-आङ्गिरसोपक्षिप्तस्तावदयं जादमम्येन निजकोपानल- म्फुलिङ्गः। शतानन्दः-किमेतावता । अतिगम्भीरभुजसारकासारकैरवारामः खलु रामः। विश्वामित्र:-राजर्षे, के पुनरमी परितः स्फुरन्मणिमौलयः परःस. हस्रा दृश्यन्ते । जनका श्रीकण्ठकार्मुकनिरस्तभुजावलेपा नानादिगन्तजगतीपतयः किलामी । अभ्यर्थनां मम किमप्यभिवर्तमाना गृह्णन्ति कानिचिदहानि नरेन्द्रपूजाम् ॥ ४० ॥ विश्वामित्रः-वत्स रामभद्र,तदेषामेव पश्यतां कौतुकमस्माकं पूरय। (रामो विश्वामित्रं प्रणम्य निष्क्रान्तः ।)

तृतीयोऽङ्कः । ४९ जनक:-आङ्गिरसापरिशीलितसंनिवेशस्य वत्सरामस्य भवता प्रत्य- नन्तरीभूयताम् । आदिश्यतां कञ्चुकी च करकलितकमलमालाया जान- क्याः स्वयंवराङ्गणावतरणाय । शतानन्दः-तथास्तु । (इति निष्क्रान्तः।) (प्रविश्य ।) कञ्चकी-जयतु देवः । अनुष्ठित एव देवादेशः । विश्वामित्र:-(विलोक्य । सहर्षम् ।) आः, कथमुद्गतमेव रामचन्द्रय- शःपताकाकेतुदण्डेन हरकोदण्डेन । (पुनः सविस्मयम् ।) अये, राघवेण शिशुनापि किलायं लीलयैव नमितो हरचापः । दूरमुल्लसति यस्य समन्तादम्बरेऽपि गमितो गुणघोषः ॥ ४१ ।। लक्ष्मण:-भगवन्, एवमेतत् । तथा हि । पूर्णा एव पुरारिचापकपटच्छन्नाचलग्रामणी- गूढानेकगुहागभीरकुहरस्फारप्रतिध्वानिभिः । मौर्वीभूतभुजङ्गराजवदनश्रेणीविसर्पद्वचः- प्रारब्धार्ययशःप्रशस्तिसदृशैाघातघोषैर्दिशः ॥ ४२ ॥ जनकः-आः किमुच्यते दिशः पूर्णा इति । ननु एतैः श्रीकण्ठकोदण्डचञ्चन्मौर्वीभवै रवैः । चिरात्प्रतिज्ञया साकं पूर्णो मम मनोरथः ॥ ४३॥ प्रतीहारी–(कञ्चुकिनं प्रति ।) अज्ज, पेक्ख पेक्ख कोदूहलम् । सी- दारामेहिं मिलिअ उण हरचावारोवणं समग्गीकरीअदि । कञ्चकी-(सकौतुकम् ।) कथमिव । (विमृश्य विहस्य च ।) आं, ज्ञातम्। करकिसलयलीलाचारु चण्डीशचापे दशरथतनयेन खैरमाकृप्यमाणे । रससरसविकासी सीतया पुहितोऽसौ कुवलयदलदामश्यामकान्तिः कटाक्षः ॥ ४४ ॥ लक्ष्मण:-भगवन्, अत्यद्भुतं वर्तते । नन्वयं १. आर्य, पश्य पश्य कौतुकम् । सीतारामाभ्यां मिलित्वा पुनर्हरचापरोपणं समग्रीक्रियते ।

५० प्रसन्नराघवम् । मिन्दन्निद्रां मुरारेः सकलभुजभृतां म्लानयशौर्यद छिन्दन्दिक्कुम्भिकर्णाञ्चलचलनकलां कम्पयन्कूर्मराजम् । आर्यश्लाघागभीरः प्रलयजलधरध्वानधिक्कारधीर- ष्टाङ्कारः कृष्यमाणत्रिपुरहरधनुर्भङ्गभूरा विरस्ति ॥ ४५ ॥ प्रतीहारी:- तेल्लोकं लङ्घअन्तो गिरिगहिरगुहासुत्तजग्गन्तसीह- प्फारुम्मिल्लन्तकण्ठत्थणिदपडिरवुग्गारपूरिजमाणे । वह्मण्डे भज्जमाणे बहुविअडकडक्कारपब्भारभीमो अम्मो भजन्तचण्डीसरधणुहटणकारओ उग्गमेइ ।। ४६ ।। कञ्चुकी-पश्य कौतुकम् । क्रीडाभग्नमृगाङ्कमौलिधनुपं सीतार्पितां वक्षसा बिभ्राणं कमलनजं निजगृहं शृङ्गारवीरश्रियोः । रामं वीडवशादवाञ्चितमुखं भूमीभुजां पश्यतां चेतः क्रोधविपादविस्मयमुदामूर्मीः समालिङ्गति ॥ ४७ ।। (प्रविश्य ।) शतानन्दः-राजर्षे, विषीद वा प्रसीद वा । इदं यथादृष्टमुपवर्ण्यते। ज्यावल्ली ललिताङ्गुली किसलयैराकर्णमाकर्षतो न भ्रूभङ्गुरतां गता रघुशिशोभनं धनुर्धूर्जटेः । नाहंकारतरङ्गितो ध्वनिरभूत्कण्ठेऽस्य दीर्यद्धनु- प्टकारस्तु चकार तारतरलः शब्दाद्वितीयं जगत् ॥ ४८ ॥ जनक:-कथं पुनरेतावतीमतिभूमिमवगाहमानोऽपि वत्सो रामभद्रो भवता न निवारितः। शतानन्दः कथंकारं वारयामः । यावत्कन्दुकलाञ्छनाञ्चितकरः शोणाब्जनालाकृतिः कौसल्यार्पितमङ्गलप्रतिसरो वत्सस्य दोःकन्दलः । त्रैलोक्यं लङ्घयन्गिरिगभीरगुहासुप्तजाग्रत्सिंह- स्फारोन्मीलत्कण्ठस्तनितप्रतिरवोद्वारपूर्यमाणे । ब्रह्माण्डे भन्यमाने बहुविकटकटत्कारप्राग्भारभीमो- ऽहो भव्यञ्चण्डीश्वरधनुष्टणत्कार उद्गच्छति ॥

तृतीयोऽङ्कः। ५१ - किंचिच्चञ्चति तावदेवहि दलच्चण्डीशचापोच्छल- च्छब्दैकार्णवसम्ममेतदखिलं जातं त्रिलोकीतलम् ॥ ४९ ॥ जनक:-तदलं कालातिपातेन । याच्यतामनुमतिर्भगवतो विश्वा- मित्रस्य जानकीरामभद्रयोः पाणिसंघट्टनाय । शतानन्द:- सम्यक्संघट्टमानेन धनुषैव पिनाकिनः । ननु संघट्टितौ पाणी जानकीरामभद्रयोः ॥ ५० ॥ तमिलालक्ष्मणयोरेव पाणिसंघट्टनाय भगवानभ्यर्थनीयः । विश्वामित्रः-(विहस्य ।) अस्त्वेतत् । परं तु पाणीञ्जनककन्यानां पीडयद्भिः सहानुजैः । सीताया रामभद्रो मे पाणिपीडनमिच्छति ॥ ५१ ॥ जनकः-(सहर्षम् ।) कथं माण्डवीश्रुतकीर्तिभ्यां भरतशत्रुघ्नयोरपि परिणयमनुसंधत्ते भगवान् । विश्वामित्र:-अथ किम् । जनकः-तगृहीतमिदमधिशेखरमाज्ञाकुसुमं भगवतः । तदाग- च्छत । समीहितं निष्पादयामः । (इति निष्क्रान्ताः सर्वे ।) इति तृतीयोऽङ्कः।

चतुर्थोऽङ्कः। (नेपथ्ये ध्रुवा गीयते ।) मणिमयमङ्गलदीवो जणअनरेन्दस्स मण्डवे जलइ । चण्डाणिलो वि पत्तो जस्सिं विमलाअमो होइ ॥१॥ (पुनर्नेपथ्ये ।) अरे क्षत्रियाः, अपसरत लोचनपथात् । नन्वयं कुर्वन्कोपादुदञ्चद्रविकिरणसटापाटलैदृष्टिपातै- रद्यापि क्षत्रकण्ठच्युतरुधिरसरित्सिक्तधारं कुठारम् । तीनिःश्वासपातैः पुनरपि भुवनोत्पातमासूचयद्भि- गर्जन्मौर्वीकचापस्त्रिभुवनविजयी जामदग्यः समेति ॥ ३ ॥ (ततः प्रविशति जामदग्न्यः।) जामदश्यः-(साटोपं परिक्रम्य ।) अहो धृष्टता जनकस्य । यदयं हरचापारोपणेन कन्यादानं प्रतिजानते । (परशुं विलोक्य ।) सकलनृपकठोरकण्ठपीठीबहलगलद्रुधिरौषधौतधारः । तदिदमजनकं जगद्विधत्ते परशुरयं जमदग्निनन्दनस्य ॥ ३ ॥ (विमृश्य ।) उदितोऽर्जुनभुजविपिने ज्वलितस्तुङ्गेषु नृपतिवंशेषु । निमिकुलकमलकलापं कोपानल किं पुनः स्पृशसि ॥ ४ ॥ (पुनर्विचिन्य ।) अलमस्मिन्नुपेक्षया । मनोरथोपनीतजामातृभुजब- लावलेपदुर्ललितः खल्वयम् । तथा हि । संदिष्टमनेनास्मत्परशोः । ('त्वं मित्रम्' ३।३९ इत्यादि पठति ।) अहो अस्य दुरवलेपः । यस्योद्यद्धोरधाराञ्चलदलितगलबाहुशाखासहस्र- प्रोदच्छद्रक्तधारानिवहजितनवोन्मीलदकौशुजालः । मापालः कार्तवीर्यः सुरपुरसुदृशां पुष्पिताशोकशाखि- भ्रान्ति दत्त्वापि चित्ते निजपुरसुदृशां शोकशाखीवभूव ॥ ५ ॥ १. मणिमयमङ्गलदीपो जनकनरेन्द्रस्य मण्डपे ज्वलति । चण्डानिलोऽपि प्राप्तो यस्मिन्विमलागमो भवति ॥

चतुर्थोऽङ्कः। अपि च । येनाबद्धत नर्मदाम्बुनिवहः संख्ये च लकेश्वर- स्तद्यस्मिन्निरमज्जदर्जुनभुजक्षोणीरुहां मण्डलम् । क्षत्रस्त्रीनयनाम्वुपूरमिषतः खेलन्ति यत्केलय- स्तत्ताडपरंशुर्ममायमधुना धाराजलं मुञ्चति ॥ ६ ॥ (विलोक्य ।) कथमयं शतानन्दशिष्यस्ताण्ड्यायनः । (प्रविश्य ।) ताण्ड्यायन:-भगवन् , अभिवादये। जामदग्य:-आयुप्मान्भूयाः । कथय तावत् । अपि नाम भव- दुपाध्याययजमानस्य निवृत्ता हरचापारोपणश्रद्धा । ताण्ड्यायन:-निवृत्ता। जामदग्न्यः (सहर्षम् ।) निवृत्ता। ताण्ड्यायन:-भगवन् , निवृत्ता सहैव चापेन । जामदम्यः-(ससंभ्रमम् ।) किमात्थ सहैव चापेन निवृत्तेति । ताण्ड्यायन:-अथ किम् । जामदग्यः-स्फुटं कथय तावत्किं वृत्तमिति । ताण्ड्यायन:-कस्यचिद् अखण्डचण्डिमोद्दण्डभुजदण्डनिपीडितम् । भगवन्भृगुमार्तण्ड भमं भर्गशरासनम् ॥ ७ ॥ जामदग्य:-(सक्रोधम् ।) कस्य । ताण्ड्यायन:- सुबाहुमारीचपुरःसरा अमी निशाचराः कौशिकयज्ञघातिनः । वशे स्थिता यस्य जामदग्य:-अलम् । अतः परं ज्ञातः खलु खलानामग्रणी- निशाचरग्रामणीः। ताण्ड्यायन:-(खगतम् ।) कथं दशकण्ठेन धनुर्भममिति प्रतीतं भगवता । भवतु तावत् ।

No text on this page.

चतुर्थोऽङ्कः। तेषामयं निरुपमः प्रथमः कुमारो रामाभिधः कुशिकराजतनूजशिष्यः ॥ १२ ॥ जामदग्यः-(क्षणं विभाव्य। सामर्षम् ।) दुर्धर्षाः सुरसिद्धकिंनरनरैस्त्यक्तक्रमं वक्रतां प्राप्ते यत्र विधातरीव तरसा तिस्रोऽपि दग्धाः पुरः । तद्भग्नं यदि राघवेण शिशुना चण्डीपतेः कार्मुकं ताण्ड्यायन:-(स्वगतम् ।) किमधुना वक्ष्यति । जामदग्य:- तन्मनं कुलमेव तर्कय रघोमच्छस्त्रधाराम्भसि ॥ १३ ॥ ताण्ड्यायन:-संरब्धोऽयं भगवान् । तमिमं वृत्तान्तमुपाध्या- यस्य कथयामि । (इति निष्क्रान्तः।) जामदग्यः-(विलोक्य ।) अभिनवविवाहमङ्गलतया तर्कयामि स एष रामः सानुज इति । (सहर्षम् । निर्वर्ण्य।) अर्धमुग्धः खल्वयं जनो यदेनं काम इति वक्तव्ये राम इति जल्पति । (पुनर्निर्वर्ण्य) सौन्दर्य मदनादपि प्रथयति प्रौढिप्रकर्ष पुरां भेत्तारं मदनारिमप्यधरयत्युद्दामदोःक्रीडितम् । मुग्धत्वं मदनारिमौलिशशिनोऽप्युत्कर्षमालम्बते मूर्तेस्तत्किमसौ रसैर्विरचितः शृङ्गारवीराद्भुतैः ॥ १४ ॥ (ततः प्रविशतो रामलक्ष्मणौ ।) लक्ष्मण:-(सकौतुकम् ।) मौर्वी धनुस्तनुरियं च विभर्ति मौञ्जी बाणाः कुशाश्च विलसन्ति करे सितायाः। धारोज्ज्वलः परशुरेष कमण्डलुश्च तद्वीरशान्तरसयोः किमयं विकारः ॥ १५ ॥ आर्य, किं पुनरिदं ब्रह्मक्षत्रवर्णात्मकं चित्रमिव स्फुरति । रामः-वत्स, न विदितं ते । नन्वयं स भगवान्भार्गवः। वेध्यं क्रौञ्चमहीधरस्य शिखरं देयं धरित्रीतलं प्रत्याक्षितिखण्डदण्डनविधिक्रीडाविधेयोऽम्बुधिः ।

प्रसन्नराघवम्।
जेयस्तारकसूदनो युधि करक्रीडाकुठारस्य च
च्छेद्यं यस्य बभूव हैहयपतेरुदामदोःकाननम् ॥ १६ ॥
लक्ष्मणः-तर्हि विस्मयनीयशीलोऽयं भगवान् ।
रामः-विस्मयनीयशीलानां शिखामणिरिति वक्तव्यम् । अयं हि
एकः स्वर्णमहीधरां क्षितिमिमां स्वर्णैकशृङ्गी यथा
गामेकां प्रतिपाद्य कश्यपमुनौ न स्वात्मने श्लाघते ।
किंच क्रौञ्चगिरि गिरीशतनयस्याविद्धशक्तिक्षतं
विद्धा बाणगणैरुदारहृदयो वैलक्ष्यमालम्बते ॥ १७ ॥
(उभौ परिकामतः ।)
रामः-(अञ्जलिं बवा) भगवन् , भृगुकुलशिरःशेखरशिखण्डक,
एष सानुजस्य मे परमोन्नतिरमणीपरिणामः प्रणामः ।
जामदग्य:-समरविजयी भूयाः ।
रामः-भगवन् , भृगुकुलमौलिमाणिक्य, अनुगृहीतोऽस्मि ।
भार्गवः-(खगतम् । सकरुणम् ।)
रामे चन्द्राभिरामे विनयवति शिशौ किं प्रकुप्यातिमात्रं
(विमृश्य । सक्रोधम् ।)
हुं चापं चन्द्रमौलेश्चपलमतिरसाविक्षुदण्डं बभञ्ज ।
(पुनः सानुकोशम् ।)
बाला वैधव्यदीक्षां जनकनृपसुता नाहतीयं मदस्त्रात्
(पुनर्विचिन्त्य । सामर्षम् ।)
आः शान्तो मे कुठारः कथमयमधुना रेणुकाकण्ठशत्रुः ॥१८॥
(प्रकाशम्) दाशरथे, इयमसौ मे त्वयि समुदाचारानुसारिणी
वाग्वृत्तिरेव ।
रामः-(विहस्य ।) मनोवृत्तिस्तु कीदृशी ।
भार्गव:-
चण्डीशकार्मुकविमर्दविवर्धमान-
दर्पावलेपसविशेषविकाशभाजोः ।
बाह्वोस्तवाहमधुना मधुना समान-
राराधयामि रुधिरैः कठिनं कुठारम् ॥ १९ ॥

चतुर्थोऽङ्कः। रामः-भगवन् , निग्रहानुग्रहयोः खाधीनोऽयं जनः । परं ते कोपबीजं ज्ञातुमिच्छामि । भार्गवः-अहो दर्पान्धता यदात्मना कृतमस्माभिरुक्तमपि नाव- धारयति निजदुर्विनयम् । ननु रे, येनोपदिष्टमद्यापि पुरस्त्रीविरहव्रतम् । न भुग्मं तत्त्वया भग्नं जगद्गुरुशरासनम् ॥ २० ॥ रामः-भगवन् , अलीकलोकवार्तया निरपराधे मयि मुधा कोपकलङ्कितोऽसि । भार्गवः-तत्कि खस्ति हरकार्मुकाय । रामः-नहि नहि। भार्गव:-तत्कथं निरपराधोऽसि । मया स्पृष्टं न वा स्पृष्टं कार्मुकं पुरवैरिणः । भगवन्नात्मनैवेदमभज्यत करोमि किम् ॥ २१ ॥ भार्गवः-आः, कथं रे चन्दनदिग्धं नाराचं निधाय हृदयं मे शीतलयसि । तदलमनेन । (कुठारमुद्यम्य ।) हे राम कामरिपुकार्मुककर्मघात- संजातपातक तवैष कठोरधारः । सीताकरव्यतिकरप्रतिकूलबन्धुः कण्ठं पुरा विशतु निष्करुणः कुठारः ॥ २२ ॥ तत्प्रवीरो भव । - हारः कण्ठं विशतु यदि वा तीक्ष्णधारः कुठारः स्त्रीणां नेत्राण्यधिवसतु नः कज्जलं वा जलं वा। संपश्यामो ध्रुवमिह सुखं प्रेतभर्तुर्मुखं वा यद्वा तद्वा भवतु न वयं ब्राह्मणेषु प्रवीराः ॥ २३ ॥ जामदग्य:-आः, कथं मामपि कथं मामपि प्रणतिपात्रं ब्राह्मणमात्रमिव मन्यसे । (पुनः सामर्षम् ।)

प्रसन्नराघवम् । जानीषे नहि जामदग्यमपि रे यदीर्घदोःकन्दल- द्वन्द्वास्कन्दितबाहुना रणभुवि स्कन्देन मन्दौजसा । नास्राक्षीद्भुजसंपदं मम कथं वक्रानुसारादिति क्रुद्धेनोद्धतमैक्षि शंकरकरन्यस्तं विधातुः शिरः ॥ २४ ॥ (पुनः सामर्षम् ।) किमात्थ रे, किमात्थ । 'न वयं ब्राह्मणेषु प्रवीराः इति । कथं क्षत्रियजातिगर्वितो ब्राह्मणजाति तृणाय मन्यसे । तदिदा- नीमावयोः का गरीयसीति सङ्ग्रामतुलैव निर्णेष्यते । रामः- भो ब्रह्मन्भवता समं न घटते संग्रामवार्तापि नः सर्वे हीनबला वयं बलवतां यूयं स्थिता मूर्धनि । लक्ष्मण:-जामदश्य, एवमेतत् । यस्मादेकगुणं शरासनामिदं सुव्यक्तमुर्वीभुजा- मस्माकं भवतां पुनर्नवगुणं यज्ञोपवीतं बलम् ॥ २५ ॥ रामः-वत्स, अलमिह माननीये मुनौ दुर्विनयवैदग्ध्येन । जामदग्य:-अस्य को दोषः । दारैर्मुक्तकुचांशुकैः परिवृतं प्राचीनमेषां नृपं नाहिंसीधदसौ कुठारहतकस्तस्यैतदुज्जृम्भितम् । यन्नारीकवचान्वयप्रणयिनां क्षत्ताधमानामिमा दुर्वाचः प्रविशन्ति मे श्रवणयोर्धिक्क्षत्रगोत्रे कृपाम् ॥२६॥ राम:-अलमिह क्षीरकण्ठे कठोरकोपतया । तत्क्षम्यताम् । जामदम्य:-आः, किमुच्यते क्षीरकण्ठ इति । विषकण्ठः खल्वसौ। लक्ष्मण:-भगवन् , शितिकण्ठशिष्येण विशेषतः क्षन्तव्यम् । जामदग्या-आः, कथं विषकण्ठनामसाम्येन त्वमपि मे गुरुः । लक्ष्मण:-(विहस्य ।) (विहस्य ।) 'भगवन् , अन्याभिसंधानेन मयेदमुक्तं यत्किल किरीटमधिरूढेऽपि बाले प्रालेयरोचिषि । शितिकण्ठस्य किं चित्ते धत्ते कोपाङ्कुरः पदम् ॥ २७ ॥ तद्भवांस्तदन्तेवासीति विशेषतः क्षन्तुमर्हति ।

: चतुर्थोऽङ्कः। जामदग्य:-(खगतम् ।) अहो अस्य क्षत्रियबटोर्वाक्परिपाटी- पाटवम् । भवतु । (प्रकाशम् ) तदिदं क्षान्तमेव मया । अयं तु न क्षमते प्रकृतिकठोरः कुठारः । शीलं न वेत्सि कथमस्य । क्रीडाविनिर्मितसुदुर्मददोविलास- निःशेषराजकवधस्य परश्वधस्य । कीलालकीकसकचैः परितो विचिन्त्य येन त्रिधापि विदधे पृथिवी त्रिवर्णा ॥ २८ ॥ (पुनः सामर्षम् ।) कथमस्य हरप्रसादपरशोः शीलमपरिशीलितं ते । यत्र कामति संगराङ्गणभुवं दुर्वारधाराञ्चल- क्षुण्णक्षत्रकिशोरकण्ठरुधिरैनौरेणुका भूरभूत् । तादृग्वीरवरस्वयंवरपरखर्लोककन्याकर- क्रीडापुष्करदामरेणुंभिरभूद्दयौरेव रेणूत्कटा ॥ २९ ॥ लक्ष्मणः-भगवन् , एतत्सत्यम् । यत्किल भवत्कुठारधारा- ञ्चलविलसितेन नीरेणुका भूरभूदिति । जामदग्यः-(खगतम् ।) आः, कथं रेणुकावृत्तान्तेन मर्म वि- ध्यति । भवतु । (प्रकाशम् ।) अये क्षत्रियपोत, अलमिह निरपराधे भवति मुधा परश्वधपातेन । तदयं मे प्रकृतिकठोरभाषिणं भवत्कण्ठ- मेव शातयति कुठारः। (नेपथ्ये ।) अये जामदग्य, कथमतिप्रगल्भसे । तदिदमिदानीं भवच्छास. नाय शरासनमानीयते । जामदग्यः-(विहस्य ।) कथमयं जनकः। (उच्चैः ।) अये या- ज्ञवल्क्यशिष्य, किं भवतः शरासनेन । पद्मासनमेवावलम्बख । (पुनः सोत्प्रासम् ।) युष्माकं भोः सुघटितबहुन्यस्तपद्माक्षकण्ठा मिथ्योत्कण्ठा किमिति समिति क्षत्रियश्रोत्रियाणाम् । तेऽन्ये चञ्चत्करतलचलच्चण्डनिस्त्रिंशधारा- घौतारातिद्विषमदमषीपङ्कपूराः प्रवीराः ॥ ३० ॥ तदलं भवता । एतावेव तावत्क्षत्रियस्फुलिङ्गौ निर्वापयामि । .. ,

प्रसन्नराघवम्।
(पुनर्नेपथ्ये।)
अये जामदग्य, कथं तथा शमधनसमृद्धस्य जमदग्नेस्तनयोऽपि
शमदुर्गतोऽसि संवृत्तः।
जामदग्यः-कथमयमाङ्गिरसः । (उच्चैः ।) अये शतानन्द, कथय
तावत् । इदमेवंविधं शमाभिधानं कस्मादुपात्तम् । भगवतो गौतमाद्वा
गोत्रभिदो वा।
(नेपथ्ये।)
आः, क्षत्रियापुत्र, निजजननीकण्ठताण्डवितकुठार कुलाङ्गार, कथं
तपस्तुङ्गमाङ्गिरसमपि कुलं कलङ्कयसि ।
जामदग्न्यः-आः पाप कुलपांसन पांसुलापुत्र, कथं भृगूणामने
तपस्ताण्डवं मण्डयसि ।
रामः-भगवन् , सकललोकविख्यातमिदं भृगूणामाङ्गिरसां
कुलम् । तपोविशेषतस्तु भर्गशिष्यस्य । अत एव विज्ञापयामि ।
तपःशान्तं चेतः स्फटिकमणिमालापरिकरः
कुशाः कुण्डी दण्डः सततमुटजावासनिरतिः ।
मुनीनामेतद्वः समुचितमुदग्रं न वचनं
न वक्रभ्रूभङ्गो न शरधनुषी नापि परशुः ॥ ३१ ॥
(पुनः सविस्मयम् ।) भवानेव तावद्विचारयतु ।
क परशुरशुभस्ते कुत्र गोत्रं पवित्रं
क नु धनुरिदमुग्रं निर्मलं कुत्र शीलम् ।
घनसमरकराला कुत्र नाराचहेला
कुशकिसलयलीला कुत्र सा पर्णशाला ॥ ३२ ॥
जामदग्य:-कथमन्यमिव मां प्रणतिपात्रं मुनिमात्रं मन्यसे
स एष जामदग्यः खल्वह
क्षुण्णक्षत्रकठोरकण्ठविंगलत्कीलालधारासरि-
निवृत्ताभिषवस्य कृत्तशिरसां केशान्कुशान्कुर्वतः ।
गृहरक्तजलाञ्जलीपितृगणो यस्य क्षणं विस्मितः
संतोषेण जुगुप्सया करुणया त्रासेन हासेन च ॥ ३३ ॥

चतुर्थोऽङ्कः। तदलमिदानीमपि कृत्वा त्रिःसप्तकृत्वः समिति विशसनं पूर्वमुर्वीपतीनां कृत्वान्यत्सप्तकृत्वः पुनरपि कदनं दुर्मदानां नृपाणाम् । निर्माय मापतीनां प्रतिसमरहृतैरुत्तमैरुत्तमाङ्गैः कापालीमक्षमालां झटिति भगवतो भैरवस्यार्पयामि ॥ ३४ ॥ प्रसीद त्वं रोषाद्विरम कुरु मे चेतसि गिरं चिरं यच्चायासैर्बहुभिरिह वारैर्जितमभूत् । यशोवित्तं वृत्तं कितव इव विक्षोभतरलं तदेतस्मिन्वारे भृगुतिलक मा हारय मुधा ॥ ३५॥ जामदग्यः-कथं रे हारयिष्यामि । (विमृश्य ।) अथवा । किं नाम वाग्डम्बरपण्डितेषु युष्मासु वाणीः प्रचुराः प्रयुञ्जे । बाणारिपुप्राणहरान्मदीयान्सर्वेऽपि यूयं सहिताः सहध्वम् ।। ३६ ।। रामः-किमन्यैर्नन्वहमेव हरशरासनारोपणोपनीतजानकीकरकिस- लयलीलानिहितकमलमालिकामिलदलिपटलकोलाहलसंगीतयशःपरिमलेन वक्षःस्थलेन सहिष्ये । जामदग्य: ईशत्यक्तपुराणचापदलनप्रोद्भूतगर्वोद्धति- व्यग्रस्त्वं कतरः स मे तव गुरुः सोढुं न शक्तः शरान् । तुष्टादिष्टवरप्रदाद्भगवतः पद्मासनात्सादरं मन्नाराचभयादयाचत किल ब्राह्मीं तनूं कौशिकः ॥ ३७ ॥ रामः-(खगतम् ।) कथं भगवन्तं विश्वामित्रमधिक्षिपति । तदतःपरं न सहिष्ये । (प्रकाशम् ।) ईशत्यक्तपुराणचापदलनप्रोद्भूतगर्वोद्धति- व्यग्रोऽहं कतरः स ते मम गुरुः सोढुं न शक्तः शरान् । तुष्टादिष्टवरप्रदाद्भगवतः पद्मासनात्सादरं त्वन्नाराचभयादयाचत किल ब्राह्मीं तनूं कौशिकः ॥ ३८॥ (इति पदव्यत्यासेन पुनः श्लोकं पठति । पुनः साटोपम् ।) अये जामदग्य,

प्रसन्नराघवम् ।
तत्कोदण्डं कुलिशकठिनं भग्नमेतेन भमं
मनं शल्यं तव हृदि महद्भग्नमेतावता किम् ।
त्रैयक्षं वा भवतु यदि वा नाम नारायणीयं
नैतत्किंचिद्गणयति स मे दुर्मदो दुर्विलासः ।। ३९ ॥
जामदग्य:-(सहर्षम् ।) साधु रे क्षत्रियपोत, साधु । यत्किल
जामदग्यनाम्नश्चण्डधाम्नः पुरतः खद्योत इव विद्योतसे । किमात्थ
रे, किमात्थ ।
रामः-(तदेव पठति ।) नन्विदं भूयोऽप्युच्यते । (पुनस्तदेव पठति।)
जामदग्य:-साधु स्मारितोऽस्मि ।
रामः-किं तत् ।
जामदग्य:-
कराघाताद्विष्णोस्तरलवनमालापरिमल-
भ्रमत्तुङ्गध्वानद्विगुणितविकाशः समजनि ।
स यस्य ज्याघोषः सुररिपुवधूवर्गरुदित-
ध्वनिखाध्यायानां प्रणव इव तत्कार्मुकमिदम् ॥ ४० ॥
.
करपक्केरुहक्रोडे क्रीडितं येन शाङ्गिणः ।
तदेतत् ।
जामदग्न्यः
अथ किं यदि शक्तोऽसि गृहाण विगृहाण वा ॥ ११ ॥
रामः-गृहामि।
जामदम्य:-तदेहि । बाष्पायमाणभवबन्धुजनबन्धुरां वसुंधरा-
मतिक्रम्य समरक्षमां क्षमामवतरावः ।
(इति निष्कान्तौ ।)
लक्ष्मण:-(विलोक्य सहर्ष सकौतुकं च ।)
मा शांभवं धनुरिवेदमपि प्रयातु
भङ्गप्रसङ्गमिति मन्दचलद्भुजेन ।
आर्येण कार्मुकमपीदमहो सहेलं
चक्रीकृतं भगवतो गरुडध्वजस्य ॥ ४२ ॥

चतुर्थोऽङ्कः । (नेपथ्ये।) अहो कौतुकम् । उद्भिन्नश्चापचक्रादमरपरिहृतव्योमरन्ध्रावगाही बाणोऽयं राघवस्य त्रिदशपुरगतिच्छेदकृद्धार्गवस्य । हंसीभूतः सुरस्त्रीकरकमलगलत्पुष्पसौरभ्यलुभ्य- मृङ्गीसंगीतभङ्गीपरिचलितयशाः खर्गपर्यङ्कमेति ॥ ४३ ॥ (ततः प्रविशतो रामजामदग्न्यौ।) जामदग्य:-(रामं विलोक्य निर्वर्ण्य च खगतम् ।) त्रिलोकी कोकीयं मुदमुदयतानेन लभते विकाशं वा धत्ते मुनिजनमनःपङ्कजवनम् । अये कोऽयं बालः कुवलयदलश्यामलतनु- जगद्योनिज्योतिः कथमिदमहो तत्परिणतम् ।। ४४ ॥ (पुनर्विमृश्य ।) आपूरणाय पुरवैरिशरासनस्य बाणात्मना परिणतः किल लीलया यः। आरोपणाय पुनरस्य स एव शङ्के बालात्मना परिणतः पुरुषः पुराणः ॥ ४५ ॥ (प्रकाशम् ।) वत्स, इतः। (रामः सलज्जमधोमुखस्तिष्ठति ।) जामदग्यः-(उपसृत्य । रामस्य चिबुकमुन्नमय्य ।) किमिति लज्जा- स्थानम्। कमलबन्धुविलोचन यस्त्वया खमहिमोन्नमनैरधरीकृतः । न किमसावधरीकुरुते नरस्त्रिदशकोटिकिरीटमणीनपि ॥ १६ ॥ रामः-(अञ्जलिं बद्धा।) भगवन् , अलमनेन । दुर्विनयपङ्कमलिनी- कृतमात्मानं तावद्भवच्चरणनखकिरणतरङ्गिणीजलेन क्षालयामि । चण्डमेव किल तिग्मरोचिषः सौम्यमेव किल शीतरोचिषः । चण्डसौम्यमिति कौतुकावहं नौमि तावकमहं महन्महः ॥ ४७ ॥ (इति पादयोः पतति ।) जामदग्न्यः-अयि कल्याणनिधे, आशीरुक्तिरपि त्वयि पुनरु- क्तिरेव । तथापीदमाशामहे ।

६४ प्रसन्नराघवम्। यशःपूरं दूरं तनु सुतनुनेत्रोत्पलवनी- तमस्तन्द्राचण्डातप तप सहस्राणि शरदाम् । इयं चास्तां युष्मच्छरशमितलकेश्वरशिरः- श्रितोत्सङ्गा नन्दत्सुरनरभुजङ्गा त्रिजगती ।। ४८ ॥ तदनुजानीहि माम् । (इति निष्क्रान्तः।) ननु कथं नयनपथमतिक्रान्त एव भग- वान् । तदेहि । भृगुकुलतिलकवियोगखिन्नमात्मानं बन्धुजनविलो- कनेन विनोदयावः । ( इति निष्कान्ताः सर्वे ।) इति चतुर्थोऽङ्कः। रामः-(लक्ष्मणं प्रति ।)

No text on this page.

No text on this page.

पञ्चमोऽङ्कः। ६७ गङ्गा-हा इन्दुमतिनन्दन, हा सकललोकहृदयानन्दनचन्दन, हा महाकोदण्डपण्डित, हा आखण्डलप्रियसख, हा निजतनयनिर्विशेषप्रीति- परिपालितसकललोक, हा रामभद्रकजीवित । (इति मूर्च्छति ।) सरयू:-(खगतम् ।) अस्यैव विलसितमेतत् । गङ्गा-हा महाराज दशरथ । (इति मूछिता पतति ।) यमुना—(अंशुकाञ्चलेन वीजयन्ती ।) भैअवदि, समस्ससिहि समस्स- सिहि । णं इमेहिं जेब गुणेहिं असोअणिज्जो सो राआ। गङ्गा-(सरयूं प्रति ।) सखि, तवैव न केवलमयं तापः, सर्वजन- साधारणः खल्वसौ । तदेनं रामभद्रच्छत्रच्छाययापनोदयामः । सरयू:-(निःश्वस्य ।) भगवति, न खल्वप्रोषितसलिलसेकः कमलके- दारः परिशुष्यति । गङ्गा-स्पष्टं तावत्कथय । (सरयूरधरस्फुरणं नाटयति ।) गङ्गा–अलमलम् । कथं दावानलशोषितायां तरुशाखायां कुठार- मारोपयितुमिच्छसि । अथवा कथय तावत् । सरयू:-(स्वगतम् ।) अहो, न ज्ञातुं नाप्यनुज्ञातुं नेक्षितुं नाप्युपेक्षितुम् । सुजनः स्वजने जातं विपत्पातं समीहते ॥२॥ (प्रकाशम् ।) रामभद्रमभिषेक्तुं कृतमनोरथं दशरथमेत्य कैकेयी प्रथम तावदिदमुक्तवती। इदमेव नरेन्द्राणां खर्गद्वारमनर्गलम् । यदात्मनः प्रतिज्ञा च प्रजा च परिपाल्यते ॥३॥ गङ्गा-(स्वगतम् ।) अनेनैव तावदकल्याणरुचिः सूचिता दुराशया । (प्रकाशम् ।) चरमं च किम् । सरयू:- त्वया देयं यन्मे द्वयमभिहितं देहि तदिदं वनं कौसल्येयो विशतु युवराजोऽस्तु भरतः । १. भगवति, समाश्वसिहि समाश्वसिहि । नन्वेतैरेव गुणैरशोचनीयोऽसौ राजा।

No text on this page.

पञ्चमोऽङ्कः। सरयू:- 'वनं वनजपत्राक्षि समागच्छ सहैव वा ॥ ६ ॥' इत्यनेन रामवचनामृतेनैव । गङ्गा-उचितमिदं जानकीस्नेहस्य । यमुना-अवि णाम रामलक्खणाणं वि कोवि संवादो संवुत्तो । सरयू:-अथ किम् । इदमुक्तो हि रामचन्द्रेण लक्ष्मणः 'गमय वत्स निमील्य विलोचने कतिचिदत्र निमेषसमाः समाः । अपि च मामिव शीलसुशीतलं शुभरतं भरतं परिशीलय ॥ ७ ॥ इदमुक्तं च लक्ष्मणेन-'अये रघुनाथ, त्वया समं मे चत्वारि यामा एव युगान्यपि । चतुर्दश समाः स्थातुं विना मन्वन्तराणि मे ॥ ८ ॥ अपि च । त्वया मम समेतस्य कल्पा अपि समासमाः। भवता विप्रयुक्तस्य कल्पकल्पः क्षणोऽपि मे ॥ ९॥ गङ्गा-अपि नाम कौसल्ययापि किंचिच्छिक्षितो रामभद्रः । सरयूः -अथ किम् । सा हि 'अयि वत्स, रामभद्र, सीताम्' इत्य?क्त एव बाष्परुद्धकण्ठीदमुक्तवती-'अथवा वत्स, लक्ष्मणे रक्षितरि को भवान्सीतासमीक्षणस्य । तदिदं तावदभ्यर्थयामि । इह मुग्धमुखे वत्स लक्ष्मणे दक्षिणो भव । अपि राज्योपभोगेभ्यो यस्य त्वं सहजप्रियः ॥ १० ॥' इदमुक्तं च रामभद्रेण–'अपि मातः, निजजीवितेऽपि दक्षिणेन भवि- तव्यमित्यपि शिक्षणीयमेव । गङ्गा-तन्नूनं ततः प्रभृति सहजसौन्दर्यमेवाभरणं वत्सरामस्य । विमुञ्चन्सकलमाभरणजातमित्थमभ्यर्थितः कौसल्यया रामभद्रः- 'हस्तावलम्बदानाय सीतामाङ्गल्यसंपदः । इदं विमुञ्च मा वत्स राम रत्नाङ्गुलीयकम् ॥ ११ ॥ इदमन्यच्च ते कथयामि । धीरा समाकर्णय । १. अपि नाम रामलक्ष्मणयोरपि कोऽपि संवादः संवृत्तः । सरयू:-अन्यदप्येक - प्र०७ प्रसन्नराघवम् । गङ्गा-कथमेतावदाकर्णितवतीमपि मामधीरामाशङ्कसे । सरयू:- निकामं रामस्य प्रमुदितमुखाम्भोरुहरुचे- र्जटावल्लीमल्लीमुकुलसदृशैर्बाष्पपृषतैः निषिञ्चन्सौमित्रिः कथमपि वितेने खलु यदा तदा जातं मातः करुणमयमेतज्जगदपि ॥ १२ ॥ यमुना-अवि णाम तस्सि समये सीदावि किंवि सिक्खिदा बन्धुअणेण । सरयू:-अयि देवि, विपरीतमालपसि । गहनविपिनवासोत्कण्ठया संप्रयातं प्रियतममनुयान्त्या तत्क्षणं राजपुत्र्या । चरणकमलगुञ्जन्म मञ्जीरशब्दैः स्फुटतरमुपदिष्टा बान्धवाः साधु वृत्तम् ॥ १३ ॥ इदं तु वृत्तम् । पुरः कान्तं यान्तं विपिनमनुयान्त्याः सरभसं तदादौ सीतायाः किसलयनिभौ वीक्ष्य चरणौ । मुहुः शीतास्तप्ताः किमपि च मुहुर्वन्धुनयनैः समं मुक्ता मुक्तासदृशरुचयो बाष्पकणिकाः ॥ १४ ॥ गङ्गा-हर्षविषादयोर्विलसितमेतत् । सरयू:-इदं बन्धुजनेन शिक्षितो रामचन्द्रः- 'बाला विदेहतनया तरलौ भवन्तौ दिग्दक्षिणा च रजनीचरचक्रदुष्टा । तद्वत्स वत्सलतयेदमुदाहरामो मा राम गच्छ नय दक्षिण दक्षिणाशाम् ॥ १५ ॥ गङ्गा-ततस्ततः। सरयू:-ततस्तामेव दिशं प्रति सुरमुरजगभीरधीरनादद्विगुणगुणध्वनिचापदत्तहस्तः । पुरजननयनैः कृतं दधानः कुवलयदाम जगाम रामभद्रः ॥ १६॥ १. अपि नाम तस्मिन्समये सीतापि किमपि शिक्षिता बन्धुजनेन ।

पञ्चमोऽङ्कः। ७ यमुना-'को उण सो अवसरो सुरमुरअसदस्स । गङ्गा-सखि, न जानासि । गभीरं ध्वनद्भिः खलु सुरमुरजैः किमपि गभीरमेव ध्वनितम् । (पुनः सविषादम् ।) हा दशरथ, सकल- गुणसंपदां भाजनं भूत्वापि कथमेकस्य भाजनं न जातोऽसि । यमुना-केहं उण सो राआ तुझेहिं पसंसीअदि जेण तारिसोऽवि तणओ तुणं विअ मुक्को। सरयूः-शान्तं पापम् । नरेन्द्रः कैकेयीवचनपरिपाटीविगलितः क्षणं मोहक्रोधप्रसरभरयोरन्तरचरः। सुतं चोरग्रस्तो मणिमिव करस्थं न कृपण- स्तृणानीव प्राणान्पुनरयममुञ्चदशरथः ॥ १७ ॥ यमुना-अवि णाम भरदस्स णाणुमदमिदम् । सरयू:-अये, भरतस्य मातुलगृहादागतस्य कैकेय्याश्च संवाद एवोत्तरं दास्यति । गङ्गा-कीदृशः पुनरसौ। सरयू:- मातस्तातः क यातः सुरपतिभवनं हा कुतः पुत्रशोका. कोऽसौ पुत्रश्चतुर्णी त्वमवरजतया यस्य जातः किमस्य । प्राप्तोऽसौ काननान्तं किमिति नृपगिरा किं तथासौ बभाषे मद्वाग्बद्धः फलं ते किमिह तव धराधीशता हा हतोऽस्मि ॥ १८ ॥ गङ्गा-(सहर्षम् ।) वत्स भरत, भवसि रामानुजन्मा । सरयू:- रामे प्राप्ते वनान्ते कथमपि भरतश्चेतनां प्राप्य तातं नीत्वा देवेन्द्रलोकं मुनिजनवचनादूर्ध्वदेहक्रियाभिः । १. कः पुनः सोऽवसरः सुरमुरजशब्दस्य । २. कथं पुनः स राजा युष्माभिः प्रशंसते येन तादृशोऽपि तनयस्तृण- मिव मुक्तः। ३. अपि नाम भरतस्य नानुमतमिदम् ।

प्रसन्नराघवम् । भ्रातुः शोकामितप्तः खजनपरिवृतः पालयामास नन्दि- ग्रामे तिष्ठन्नयोध्यां रघुपतिपुनरागामिभोगापवीरः ॥ १९ ॥ यमुना-तदो तदो। सरयू:-अहमेतावदेव जानामि । ततः परं तद्वृत्तान्तनिरूपणाय निजजलकमलवनवासी कोऽपि कलहंसः प्रस्थापितो मया। (प्रविश्य ।) कलहंस:-देव्यः, इदं नमो वः । तिस्रः-अयि कमलावतंस कलहंस, मङ्गलमन्दिरं भव । गङ्गा-अये, कथय तावद्वत्सानां मे प्रथमतः प्रभृति पथि चरितानि। हंस:- विघ्नानिवानुसरतो विनिवार्य पौरा- नग्रे स्वयं नय इवैष जगाम रामः । एनं विभूतिरिव सानुजगाम सीता तां लक्ष्मणस्तु सुखलाभ इवानुगच्छत् ॥ २० ॥ गङ्गा-ततस्ततः। हंस:-ततः कियत्यपि दूरे पथिकलोकेनेदमुक्तस्ते वत्सवर्गः- पन्थाः समः सिकतिलो मृदुशाद्वला भू- तखती सरिदियं शिशिरा न दूरे । अग्रे चकास्ति सरसी च कुमुद्वतीयं कादम्बकूजितकरम्बितहंसनादा ॥ २१ ॥ अन्यच्च॥ तरुरयमितः शीतच्छायः स्रवन्मधुशीकरः सरिदियमितः खल्पस्वच्छप्रवाहमनोहरा । इदमिदमितः स्निग्धामोदं मुहुर्मधुरध्वन- न्मधुकरवधूमुग्धाभोगं वनं सरसीरुहाम् ॥ २२ ॥ गङ्गा-अहो, अध्वश्रमशमनानि पथिकजनवचनानि । १. ततस्ततः।

पञ्चमोऽङ्कः। ७३ यमुना-तदो तदो :-ततः प्रियतममनुगच्छन्ती जानकी भीतं विलोक्य हरिणं करुणाईचित्ता पत्युनिजेन पिदधे धनुरंशुकेन । केदारसीम्नि सदयं च यवप्ररोह- मादाय साधु विदधे श्रवणावतंसम् ॥ २३ ॥ अन्यच्च । तटभुवि सरसीनां सैकते निम्नगानां परिसरमपहातुं चक्रवाकी प्रियस्य । क्षणमपि न समर्था लोलमालोकयन्ती पथि जनकतनूजा प्राप हर्ष शुचं च ॥ २४ ॥ गङ्गा-एवमनुकम्पनीयवत्सला मे जानकी । (पुनः सस्नेहम् ।) अपि तावत्पथिकनीतिशीतलानि मे वत्सानां शीलानि । हंसः-कीदृशी पुनः पथिकनीतिः । गङ्गा- यावत्कर्ण तपति तपनस्तावदेव प्रयाणं विश्रामश्च प्रसरति रवेरंशुजाले कराले । यात्रोद्योगः पुनरपि रवेलम्बमाने विमाने यावन्मीलत्यथ कमलिनी तावदावासबन्धः ।। २५ ।। हंस:-भगवति, अनवस्थितमिदं नित्यपथिकानाम् । गङ्गा-हन्त, कथं कठोरातपस्पर्शमपि जानन्ति जानकीललिताङ्गानि। हंसः-अलं कातरतया। अपि तपति पतङ्गे चण्डचण्डैमयूखैः पथि जनकतनूजा नैव संतापमाप । गङ्गा-(सकौतुकम् ।) कथमिव । हंस:- अपरिचितनिमेषालोकमालोकयन्ती कुवलयदलदामश्याममङ्गं प्रियस्य ॥ २६॥ १. ततस्ततः ।

No text on this page.

पञ्चमोऽङ्कः। (पुनः सकौतुकम् ।) इदमन्यच्च सरसपेशलं कथयामि ते । जनकतनयाहस्तन्यस्तैर्मुहुर्नवपल्लवैः शिशिरमसृणस्तत्कालं यः समेति समीरणः । प्रशमममुना खेदोद्भूतं जगाम कपोलयोः सलिलमनयोः शोकोद्भूतं शशाम न नेत्रयोः ॥ ३० ॥ अपि च । कृतः स्थाने स्थाने विहितवरिवस्यापरिकरः सुमित्रापुत्रेण श्रमशमनशीतो रघुपतिः । असावेतेनापि क्षणविरहबाष्पाश्चितदृशा कृतालोकश्चक्रे गलितसकलायासशिशिरः ॥ ३१ ॥ सरयू:-कियतां पुनरहां परिवर्तन रघुराष्ट्रमतिक्रान्तं वत्सः । हंस:-अयि, कथमजानती वर्तसे रघूणामाधिपत्यम् । एते हि खरसावनम्रनिखिलक्ष्मापालमौलिज्वल- माणिक्यफुरदंशुमांसलपदप्रेङ्खन्नखज्योतिषः । दूरोन्मुक्तचतुःसमुद्रलहरी विक्षिप्तशुक्तिस्खल- न्मुक्तापतिविनिर्मितैकवलयं भूमण्डलं भुञ्जते ॥ ३२ ॥ उत्तरकोसलास्त्रिचतुरैरेवाहोभिरतिक्रान्ताः। अथ पुरमथनमौलिमालती- मालां मन्दाकिनीमचिरेण च कलिन्दगिरिकरिकपोलमदवारिधारां कालि- न्दीमप्यतिक्रान्ताः। गङ्गा-(यमुना प्रति ।) सखि, तदिदं यत्कथितवत्यसि । यमुना- तपनसुतया देव्या यद्वा भगीरथकन्यया विपुलविपुलैर्वीचीहस्तैश्चिरादपि किं कृतम् । ललितलवलीभङ्गैरङ्गैर्वनं चलिता सवी जनकतनया पाणौ धृत्वा न यद्विनिवारिता ॥ ३३ ॥ गङ्गा-(विहस्य ।) सखि, कथं परोक्ष इव समक्षेऽपि नितान्तमुपा- लम्भसे । यमुना-तदो तदो। १. ततस्ततः।

प्रसन्नराघवम् । - हंस:-ततश्च शबरशरदलितविन्ध्यकरिकुम्भतटीविमुक्तमुक्ताफल- प्रकरतारकिततीरलतावितानपरिच्छदां शर्मदां नर्मदामतीत्याचिरेण चप- लकर्णाञ्चलपरिमिलितमदकरिकपोलचलितसहचरसमागममुदितमधुकरव- धूमधुरसरसकुसुमकेसरं गोदावरीपरिसरं प्रयाताः । यमुना-हद्धि हद्धि । तत्थ हि लकेसरभइणी क्खणेण पमत्ता- सुप्पणहा णाम रक्खसी परिब्भमई । हंसः-अतिप्रमत्तेति वक्तव्यम् । सा हि सौमित्रिशरदलितनि- जनासिकारुधिरसीधुरसमाखादितवती । गङ्गा-(सातङ्कम् । तदाकर्ण्य ।) किं प्रतिपन्नं जनस्थानवासिना नि- शाचरचक्रेण । हंसः-करकलितकरालकुन्तलकरवालकार्मुकेण निशाचरचक्रेण रामं प्रति प्रचलितम् । गङ्गा-ततस्ततः । हंसः--ततश्चेदं विज्ञप्तः सौमित्रिणा रामभद्रः 'आर्य, अयं में नक्तंचरेन्द्रभगिनीसुकुमारनासा- निर्मुक्तरक्तलवलिप्तशितैकधारः। उत्कण्ठतें कठिनराक्षसकण्ठजानां पानाय कर्दमसृजामसृजां कृपाणः ॥ ३४ ॥ इदमुक्तं च रामभद्रेण—'वत्स, अस्त्येतत् । किंतु प्रकृतिभीरुः खल्व- बलाजनः । तेन हि जानकीसनाथगी पर्णशालामेव समुत्खातकरवाल पालयतु भवान् । अयमहमचिरात्-' इत्य?क्त एव निशाचरचक्र प्रति प्रचलितः संमिलितश्च । गङ्गा-(सत्रासम् ।) अनन्तरं किं वृत्तम् । हंस:- अथाइतस्तादृक्समरजयसंरम्भरभस- प्रसर्पद्गम्भीरध्वनिगरिमगर्जद्दशदिशम् । मुहूर्तात्सौमित्रिः -१. हा धिक् हा धिक् । तत्र हि लकेश्वरभगिनी क्षणेन प्रमत्ता शूर्पणखा नाम राक्षसी परिश्रमति । -- पञ्चमोऽङ्कः। सरयू:-तत् रामेण । हंस:-नहि नहि। सरयू:-अयि देवि भागीरथि, त्रायख मां नूनं निशाचरचक्रे- णेति वक्ष्यति । हंस:- विपिनचरनक्तंचरचमू- वधक्रीडाकिंचिन्मुकुलितरुषा रामधनुषा ॥ ३५ ॥ सरयू:-दिश्या जीवितास्मि । सेयं प्रथमदर्शिततीत्रातपा पीयूषवृष्टिः। -यमुना-तदो तदो। हंस:- :-ततः प्रमुदितमुनिजनशतसमुद्भूतसाधुवादश्रवणविनोदेन कतिचिदहानि नयन्ति स्म । अथाविरासीत्कुरुविन्दलोचनो दुमान्तरे विद्रुमशृङ्गशोभितः । विभक्तमुक्तामयचित्रमण्डनो मनोपहारी हरिणो हिरण्मयः ॥३६॥ गङ्गा-(स्वगतम् ।) नूनमयमनाङ्कुरः । (प्रकाशम् ।) ततस्ततः । हंसः भ्रूवल्लीविजितमनोजचारुचाप- श्चापश्रीजितयुवतीमनोरमभ्रूः। सीतायास्तमनुससार लोचनान्तः कान्तश्च स्फुरदसितोत्पलाभिरामः ॥ ३७ ॥ : ततः त्रासातुरेण हरिणेन सहैव तेन दूरं प्रयाति हृदये जनकात्मजायाः । सौमित्रिराश्रमपदात्कृतचापपाणि- जिगाम च विवेश च कोऽपि भिक्षुः ॥ ३८ ॥ गङ्गा-ततस्ततः। हंसः-ततः इतो बाणं रामः क्षिपति हरिणे मुक्तकरुणः सचापः सौमित्रिः खजनमनुयाति द्रुतमितः । १. ततस्ततः।

प्रसन्नराघवम् । इतः सीता भिक्षामुपनयति भिक्षोः करतले त्रयं व्योम्नि प्रेङ्खन्युगपदहमालोकयमिदम् ॥ ३९ ॥ सरयू -ततस्ततः। हंस: -ततः । कनकहरिणगात्रे बाणपातावलोका- द्विमुखहृदयवृत्तिर्लोचने संनिमील्य ! कथयितुमयि चेदं रामवृत्तान्तजातं सरयु तव तटान्तं तूर्णमेवावतीर्णः ॥ ४० ॥ तदनुजानीत मां देव्यः, सलिलावगाहनाय । श्रान्तोऽस्मि । तिस्त्र:- विहरास्मिन्रमणीये शुचिपयसि स्मेरनीरजे सरसि । पुरतरुणीचरणरणन्मणिनूपुरकूजितोत्कुतुकः ॥ ४१ ॥ (हंसः प्रणम्य निष्क्रान्तः।) गङ्गा-सखि सरयु, अनेन वृत्तान्तक्रमेण कातरं मे मनः । सरयू:-अलं कातरतया । नन्वनेन हि नूपुरोद्भेदेन स्मृतं मया यत्किल वनगमनोद्यतां जानकीमिदमुक्तवती करकलितनू पुरद्वया पति- व्रता सीमन्तिनीरत्नमरुन्धती। अधिचरणममू चमूरुनेत्रे मृदुरणितौ मणिनूपुरौ विधेहि । अहरपि विरहं न यन्महिम्ना हरिणदृशः सह वल्लभैर्लभन्ते ॥ ४२॥ कृतवती च तथा जानकी । गङ्गा-इदानीं किमपि निर्वृतास्मि । सत्यवादिनी हि मे सखी वसिष्ठगृहमेधिनी । तदागच्छत । इमं वृत्तान्तं रघुकुलवत्सलाय सागराय निवेदयामः । (इति परिक्रामन्ति ।) गङ्गा-(सविस्मयम् ।) अहो, प्रवाह वेगातिशयात्तत्क्षणादेव दूरमुप- याताः सो यदयमदूर एव गोदावरीसहचरः सागरः किमपि समाल. पन्नालोक्यते कल्लोलिनीकान्तः । (ततः प्रविशति गोदावरीसहचरः सागरः ।) -सागर: -ततस्ततः। सरयू:-कथमिहापि किमपि वृत्तान्तशेषः प्रस्तूयते ।

पञ्चमोऽङ्कः। यमुना-अवि णाम तं जेव हविस्सदि जं किर हंसेण णावगअम् । गोदावरी-ततः। रामोन्मुक्तैकबाणप्रणिहतहृदयः काञ्चनाङ्गः कुरङ्गः सद्यो मारीचनामाजनि रजनिचरः सान्द्ररक्ताक्तवक्षाः । भिक्षुः सोऽपि क्षणार्धान्मणिखचितचलत्कुण्डलश्रेणिशोभा- वीचीखेलकपोलस्फुरितदशशिराः कुम्भकर्णाग्रजोऽभूत् ॥ ४३ ॥ गङ्गा-हा, हतास्मि । (विमृश्य ।) अथवास्ति तन्मणिनूपुरद्वयम् । सागरः-अपि नाम मम वधूटिका स्पृष्टा निशाचरेण । गोदावरी-न स्पृष्टा । सागर:-कथमिव । गोदावरी-तथा हि । रजनिचरकराग्रस्पर्शसंपातविघ्नं रचयितुमनुसूयाहस्तदत्ताङ्गरागाम् । वहलमनलपुञ्जः पिञ्जरज्योतिरुद्य- स्कुवलयदलशीतां संवृणोति स्म सीताम् ॥ ४४ ॥ सागरः-अहो, अत्रिपल्यास्तपःप्रभावः । गोदावरी-ततो वरुणमन्त्रचिन्तनाहूतनूतनबलाहकाञ्चलनिचुलि- तपाणिरस्पृशदेव हा राम हा रमण हा जगदेकवीर हा नाथ हा रघुपते किमुपेक्षसे माम् । इत्थं विदेहतनयां मुहुरालपन्ती- मादाय राक्षसपतिर्नभसा जगाम ॥ ४५ ॥ सरयू:-अयि भागीरथि, कथमस्मद्भागधेयादरुन्धतीवाचोऽपि मृषा भविष्यन्ति । गङ्गा-नहि नहि। सागरः-(सविषादम् ।) ततः । १. अपि नाम तदेव भविष्यति यत्किल हंसेन नावगतम् ।

८० प्रसन्नराघवम्। गोदावरी-ततः शैलशिखराधिवासिना विहङ्गराजेन जटायुना पन्थानमवरुध्येदमुक्तो राक्षसेन्द्रः- 'आः पापिन्पश्यतो मे रघुतिलकवर्धू चोरवृत्त्यापहर्तु सीतां शीतांशुलेखामिव गिरिशशिरःशायिनीमुद्यतोऽसि । एष च्छित्वा शिरांसि प्रखरनखमुखैदीप्तचूडामणीभि- स्त्वामद्याहं गरुत्मानुरगमिव सुधाकाणिं संहरामि ॥ ४६॥ गङ्गा-स एष नूपुरप्रसादः। सागर:-(सहर्षम् ।) ततस्ततः । गोदावरी- नखैस्तदीयैः कुलिशात्कठोभिन्दद्भिरङ्गानि निशाचरस्य । रथः स हेमाभरणो बभले न जानकीलाभमनोरथोऽस्य ॥४७॥ सागर:-ततः। गोदावरी-ततश्च निशितनखनिस्त्रिंशनिर्घातभैरवे समरसंरम्भे संभ्रमकातरायां रावणैककरस्थितायां जानक्यां तस्याः कणकिमपि नूपुर एक एव क्रन्दन्निवातिकरुणं चरणात्पृथिव्याम् । गङ्गा-हा, अधुना निराशाः सः । गोदावरी आम्तिष्ठ तिष्ठ निहतोऽसि खलेति जल्प- न्दूराज्जटायुरपि खड्गहतः पपात ॥ १८ ॥ सागर: हा वत्से जानकि, अधुना नीतासि निशाचरेण । (इति मूर्च्छति ।) गङ्गा—(उपसृत्यांशुकान्तेन वीजयन्ती ।) अये रघुकुलवत्सल, समाश्व- सिहि समाश्वसिहि । सागर:-कथमिह गङ्गापि । गङ्गा-यमुनासरय्वौ च। सागरः-तन्मां मिलिताः सर्वा एव धारयत । अयमहं हतोऽस्मि शोकस्रोतसा ।

पञ्चमोऽङ्कः। गङ्गा-अलमतिकातरतया । यतः । प्रायो दुरन्तपर्यन्ताः संपदोऽपि दुरात्मनाम् । भवन्ति हि सुखोदर्का विपदोऽपि महात्मनाम् ॥ ४९ ॥ सरयू:-सखि गोदावरि, अपि जानासि नूपुरवृत्तान्तम् । गोदावरी-अथ किम् । कथितमेव वनदेवतया-'तमादाय को- ऽपि कपिः ऋष्यमूकसंमुखं गतः' इति । सागर:-रामभद्रस्य तु को वृत्तान्तः । गोदावरी-रामभद्रोऽपि सीताविरहविह्वलः सौमित्रिणा धार्यमाण- स्तामेव दिशं प्रतस्थे । (नेपथ्ये ।) सखि कालिन्दि, वर्धसे । यमुना-का उण इमाइं सूईसलाआविद्धाई मह णहाई अलत्त- अरसेण सिञ्चदि। (प्रविश्य।) तुङ्गभद्रा-जयतु जयतु नदीनाथः । सागरः-कथं पुनर्वर्धते कालिन्दी । तुङ्गभद्रा- भ्रातुः सुग्रीवस्य चक्रवर्तिपदलाभेन । यमुना-दाणिं चन्दणचण्डातपलिम्पन्तपासजुअला वट्टामि । सागरः-कथं पुनर्वालिपालितापि कपिराज्यलक्ष्मीः सुग्रीवमनु- संक्रान्ता। तुङ्गभद्रा-कथमद्यापि वालिकथा । सागरः-कथमिव । तुङ्गभद्रा-ननु नूपुरप्रदानविश्वासितेन रामचन्द्रेणात्मानं सुग्रीवं च समर्पयता हनूमता तथा व्यवसितं यथा- सहेलं हत्वैनं हरिणमिव हैमं रघुपतिः कपीनां साम्राज्ये प्रणतमभिषिञ्चरविसुतम् । १. का पुनरिमानि सूचीशलाकाविद्धानि मम नखान्यलक्तकरसेन सिञ्चति । २. इदानीं चन्दनचण्डातपलिप्यमानपार्श्वयुगला वर्ते ।

'८२ प्रसन्नराघवम् । : अपि ध्वंसात्पत्युनृपतिमपि चक्रे फलभुजा- मपि प्रीतं चक्रे निजकुलगरिष्ठं दिनकरम् ॥ ५० ॥ सागरः-ततः किं वृत्तम् । तुङ्गभद्रा-ततः सुग्रीवेणापि- परिम्लानां मालामिव ललितसौरभ्यरहिता- मपि स्थाने स्थाने विचिनुत वधूटी दिनमणेः । इति स्वेनैवोक्ताः कुमुदनलनीलाङ्गदमुखा हनूमत्संयुक्ता दिशि दिशि नियुक्ताः कपिभटाः ॥ ५१ ।। सागरः—इदानीमुज्जीवितोऽस्मि । गोदावरी–किं भवानेव । नन्विदानीमखिलोऽपि जीवितो जनः। सागरः-एवमेतत् । सकलजनमनःसाधारणी हि रामचन्द्रमा- धुरी । नन्विहैव पश्य । नेदीयसी हि सरयूस्तपनोद्भवेयं भागीरथीयमुदयः सगरान्ममापि । इत्यन्वयाद्रघुकुले यदि पक्षपात. स्तद्वत्सला किमपि वामपि चित्तवृत्तिः ॥ ५२ ॥ (जमवलोक्य । सविस्मयम् ।) विलासर्दम्भोलेर्दलितगरुतः सर्वगिरयः स चैको मैनाकः पयसि मम मनो निवसति । अये कोऽयं शैलः स्फुरदमितगव्यूतिमहिमा हिमाद्रिविन्ध्यो वा लघुतरगतिर्लङ्घयति माम् ॥ ५३ ॥ तदागच्छन । निरूपयामस्तावत्कोऽयमिति । (इति निष्क्रान्ताः सर्वे ।) इति पञ्चमोऽङ्कः।

षष्ठोऽङ्कः। (ततः प्रविशतो रामलक्ष्मणौ ।) सौमित्रे, ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते लक्ष्मण:- चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । - वत्सैतद्विदितं कथं नु भवता लक्ष्मण:- धत्ते कुरङ्गं यतः राम: कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ॥१॥ (पुनर्विलोक्य ।) हन्त । संतापेन प्रतारितोऽस्मि । कथमयं गगनतलाधि- रोही रोहिणीहृदयनन्दनश्चन्द्रः । (चन्द्रं प्रति ।) रजनिकर करास्ते बान्धवाः कैरवाणां सकलभुवनचेष्टाजागरूका जयन्ति । न कथयसि कथं तत्कुत्र सा जानकी मे त्वमसि मृगसहायः किंतु नक्तंचरोऽसि ॥ २ ॥ लक्ष्मण:-(खगतम् ।) कथमयमभिषङ्गतरङ्गस्तरलीकरोत्यार्यमान- सम् । तदन्यतो नयामि । (प्रकाशम् ।) आर्य, अयमितो विलोक्यतां चपलचञ्चुपुटाचान्तशीतकरशीकरश्चकोरः । राम: (चकोरं प्रति ।) तन्मे विदेहतनयावदनं निवेद्य भ्रातश्चकोर कुरु मां चरितार्थवृत्तिम् । पीता यदीयकमनीयकपोलकान्तिः कान्तासखेन भवता शशिनं विहाय ॥ ३ ॥ लक्ष्मणः-आर्य, इयमितो विलोक्यतां शरत्कृशा निशाकरकिर- णानुकारितरङ्गा तरङ्गिणी।

प्रसन्नराघवम्। रामः -(विलोक्य ।) कल्लोलिनि त्वमिव सापि कुरङ्गनेत्रा नूनं किमप्यनुदिनं कशिमानमेति । एतावदस्ति भवतीह निसर्गशीता सीता पुनर्वहति कामपि तापमुद्राम् ॥ ४ ॥ लक्ष्मणः-इतो विलोक्यतामनिद्रनीलनलिनीवनविलीनोऽयमलि. नीनाथः। रामः-(विलोक्य ।) अये, कोऽयं विहङ्गः । उन्मीलन्नयनान्तकान्तिलहरीनिष्पीतयोः केवला- दामोदादवधारणीयवपुषोः कान्तासखेन क्षणम् । यत्कर्णोत्पलयोः स्थितेन भवता किंचित्समुद्गुञ्जितं भ्रातस्तिष्ठति कुत्र तत्कथय मे कान्तं प्रियाया मुखन् ॥ ५॥ लक्ष्मणः-(सातकम् ।) अपीमं न विलोकयेदार्यः । रामः-(विलोक्य ।) अये, कोऽयं विहङ्गः। योऽयं बहिः कलितकुङ्कुमरेणुराग- मन्तस्तु संभृतदयं हृदयं दधानः । पारेतरङ्गिणि मुहुः करुणं रटन्ती. मालोकते सहचरी न तु संनिधत्ते ॥६॥ (विमृश्य ।) नूनमयं वल्लभाविरह विदारितहृदयो वराकश्चक्रवाकः । लक्ष्मणः-अहो प्रमादः। रामः-नूनमयमेकः समदुःखतया समानशीलो मे । अथवा कुतो. ऽस्य मम च समानशीलंता । अयमुदयति चन्द्रे विप्रयोग प्रियायाः श्रयति तपति सूर्य सङ्गमङ्गीकरोति । मम तु जनकपुत्रीविप्रयुक्तस्य यातं शतमधिकमपीदं चन्द्रसूर्योदयानाम् ॥ ७ ॥ लक्ष्मणः-आर्य, इह तावन्मुकुलितकमलिनीपरिसरानुसारिणि कलहंसे दीयतां दृष्टिः।

षष्ठोऽङ्कः। ८५ रामः-(विलोक्य ।) निजनखशिखालेखालीढस्फुरत्कमलातनी निरतमधुपश्रेणीगीतां चलन्कलहंसकः । अकरुणशशिप्रेसत्पादपहारविमूच्छिता- महह नलिनी क्लान्तक्लान्तां मुहुर्मुहुरीक्षते ॥ ८ ॥ (विमृश्य ।) वरमेवं विधानामपि सहचरीजनानुकम्पया कोमलं चेतो न तु निसर्गकठिनस्य रामस्य । लक्ष्मण:-(खगतम् ।) कथमिदानीमप्यस्य चेतसि जानकीयमिन्द्र- जालमुन्मीलति । (नेपथ्ये ।) सखे रत्नशेखर, चिरादृश्यसे । लक्ष्मण:-(आकर्ण्य ।) किमेतत् । (पुनर्नेपथ्ये ।) वयस्य चम्पकापीड, एवमेतत् । मया हीयन्तं समयमखिलमायानि- धेर्मयनाम्नो दानवस्य पुत्रीं निजसहोदरी मन्दोदरीमनुवर्तितुं लङ्कायां कू- तालयाच्चित्ररूपनान्नो दानवात्सकलामिन्द्रजालकलामाददानेन स्थितम् । लक्ष्मणः-नूनमयं कृतकर्णकौतुकामोदः कयोरपि पथिकयोः संवादः । (पुनर्नेपथ्ये ।) सखे रत्नशेखर, तन्मे धारयसि निजकलादर्शनमिति । (पुनर्नेपथ्ये ।) वयस्य चम्पकापीड, असुरसुरनिशाचरोरगाणामपि नरकिंनरसिद्धचारणानाम् । सकलजनविलोकनैकचित्रं स्फुटमिह कस्य विजृम्भते चरित्रम् ॥९॥ अथवा किमन्येन । लङ्कानुभूतमेव नूतनं किमपि सरसरमणीयं चरित- मुपदर्शयामि ते। लक्ष्मणः-आर्य, इतोऽवधार्यताम् । नन्विदमयनोपनीतं प्रेक्ष- णीयम् ।

प्रसन्नराघवम् । रामः-(अनाकर्णितकेन ।) देवि त्वदीयमणिनूपुरजृम्भमाण- कोलाहलोत्तरलहंसकुलाकुलासु । वैदेहि लक्ष्मणपदाम्बुजलाञ्छितासु गोदावरीपुलिनभूमिषु देहि दृष्टिम् ॥ १० ॥ लक्ष्मणः-क पुनरिह वैदेही, व वा गोदावरी । रामः-(विमृश्य ।) कथं प्रतारितोऽस्मि मतिविभ्रमेण । (विचिन्त्य ।) अथवा कृतार्थीकृतोऽस्मि । अनेन हि मे गोदावरीतीरतपोवनेषु सौमित्रिसीतापरिपूर्णपार्श्वः । मुदा निमेषानिव यान्यनैषं दिनानि तान्येव पुनः स्मृतानि॥११॥ (पुनः सप्रत्याशम् ।) अपि नाम तान्येव पक्ष्मलदृशो वचनामृतानि भूयोऽपि कर्णचुलुकैरहमापिबेयम् । यैर्मामदर्शयदसौ विकचप्रमोदा गोदावरीकमलवीचिविचेष्टितानि ॥ १२ ॥ तुह सुहअ उक्खिवन्ती तरङ्गसिअचामरं रहुमिअङ्क । धवलकमलादपत्तं धारइ गोलाणई सहत्थेण ॥ १३ ॥ रामः-(सहर्षम् ।) अये, स एवायं प्रियतमायाः समालापः । तथा हि। परिमितकमनीयः कोमलो वाग्विलासः सरसमधुरकाकुखीकृता कापि लेखा । ध्वनिरपि च विपञ्चीपञ्चमस्यानुवादी श्रुतिरपि कलकण्ठीकण्ठसंवादभूमिः ॥ १४ ॥ 'तत्कुत्र पुनः प्रेयसी । (विलोक्य ।) तत्कथमयमदृष्टचन्द्रलेखश्चन्द्रालोकः । (ततः प्रविशति यथानिरूपयिष्यमाणा जानकी।) रामः-(ससंभ्रमम् ।) प्राप्तेयं प्रेयसी । (इति गन्तुमिच्छति ।) तव सुभग उत्क्षिपन्ती तरङ्गसितचामरं रघुमृगाङ्क । धवलकमलातपत्रं धारयति गोदानदी स्वहस्तेन ॥ १.

षष्ठोऽङ्कः। लक्ष्मणः-(रामं हस्ते धृत्वा ।) अलमिह संभ्रमेण । विद्याधरोपनीत- मिन्द्रजालकं खल्वेतत् । रामः-(निर्वर्ण्य ।) अये, क एष संनिवेश विशेषः । तथा हि । एकेनालम्बितेयं शिथिलभुजलताशोभिना शाखिशाखा इस्तेनान्येन चायं दिनकरकिरणक्लान्तकान्तिः कपोलः । एष सस्तो नितम्बे लुलति कुचभरस्त्यक्तकाञ्चीकलापे नेत्रोत्सङ्गे च बाप्पस्तबकनवकणैः पक्षमला पक्ष्मलेखा ॥ १५ ॥ नूनमियमशोकशाखिशाखां सखीमिवावलम्व्य निद्रामुपागता । तथा हि । आमीलन्नवनीलनीरजतुलामालम्वते लोचनं शैथिल्यं नवमल्लिकासहचरैरङ्गैरपि खीकृतम् । (पुनर्विमृश्य ।) नूनमनया हृदयप्रमोददायी कोऽपि खप्नो दृष्टः । तथा हि । आलापादधरः स्फुरत्कलयति प्रेसवालोपमा- मानन्दप्रभवाश्च बाप्पकणिका मुक्ताश्रियं विभ्रति ॥ १६ ॥ सीता--(उन्मील्य लोचने ।) हैद्धि हद्धि । अण्णारिसो मे जीअ- लोओ गोलाणई । कहिं सा, णीलप्पलसामलो कहिं रामो, लङ्का कहिं, कहिं वा हद्धि रामेकजीविदा सीदा। (इति मूर्च्छति ।) रामः-अयि वसुधे, यां वै गर्ने त्रिजगदबलारत्नभूतां दधाना लब्धार्थत्वाज्जगति भवती रत्नगर्भा बभूव । तामुत्सङ्गे तव विलुलितां वीक्षमाणा च सीतां द्राग्दीसीन कथमथवा देवि सर्वसहासि ॥१७ ।। तदेनामभ्यर्थयामि तावदस्याः समुद्बोधनाय । अथवा किमभ्यर्थनया । निजामपि सुतां सीतां नेयमुद्बोधयिष्यति । निजेऽप्यपत्ये करुणा कठिनप्रकृतेः कुतः ॥ १८ ॥ तदेनं तावदभ्यर्थयामि । स्निग्धाशोकद्रुम निजसखी तूर्णमुद्दोधयैनां सिक्त्वा सिक्त्वा किसलयकरसंसिना सीकरण । १. हा विक हा धिक् । अन्यादृशो मे जीवलोको गोदानदी । क सा, नीलोत्पलश्यामलः क्व रामः, लङ्का क्व, क वा हा धिक् रामैकजीविता सीता.

८८ प्रसन्नराघवम्। एतस्याः किं नयनकमलस्यन्दिभिः सान्द्रसान्दै- बर्बाष्पोत्पीडैरनुदिनमपि त्वं न सिक्तालवालः ॥ १९ ॥ कथमनाकर्णितकेन प्रत्याख्यातमनेन । अये, कृतघ्नता पलाशिनः । (विलोक्य । कथं प्रकृतिप्रियंवदाया मे प्रियायाः सखीजनोऽपि न कश्चिदिह। (प्रविश्य ।) त्रिजटा-जानकि, समाश्वसिहि समाश्वसिहि । सीता-(समाश्वस्य ।) कहं पिअसही मे तिअडा। त्रिजटा-सखि, अनया ते मधुरया मुखरेखया तर्कयामि यत्किल प्रियं किमपि दृष्टवती भवती । सीता- अस्थि दाणिं हि मए सिविणअम्मि सअंगोलाणईए सह- स्थकलिदतरङ्गचामरधवलकमलादवत्ताए परिचरिजन्तो अजउत्तो दिट्ठो।' त्रिजटा-तर्हि वर्धसे । सुखस्वमः खल्वसौ । सीता–केरिसो मे रामेक्कचित्ताए सिविणअम्मि विस्सासो । त्रिजटा-तक चिन्तास्वप्न इति संभावयसि । नहि । चिन्ताख- मोऽपि नैवमचुम्बितावगाही भवति । सीता-कि उण अचुम्बिदम् । त्रिजटा~यन्न संभाव्यते । सीता- जं णहु संभावीअदि तं पि हला अस्थि अत्थ लोअम्मि । जं जीवइ जणअसुदा अपुलोअन्तीवि रामचन्दमुहम् ॥ २० ता किं इमिणा सिविणएण जीविदेण वा । उवेक्खिदमि अजउत्तेण । १. कथं प्रियसखी मे त्रिजटा । २. अस्तीदानी हि मया स्वप्ने स्वयं गोदानद्या स्वहस्तकलिततरङ्गचामरधव- लकमलातपत्रया परिचर्यमाण आर्यपुत्रो दृष्टः । ३. कीदृशो मे रामैकचित्तायाः स्वप्ने विश्वासः । ४. किं पुनरचुम्बितम् । यन्न खलु संभाव्यते तदपि हला अस्त्यत्र लोके । यजीवति जनकसुता अनालोकयन्त्यपि रामचन्द्रमुखम् ॥ तस्किमनेन स्वप्नेन जीवितेन वा । उपेक्षितास्म्यार्यपुत्रेण । ५.

षष्ठोऽङ्कः । ८९ रामः-शान्तं पापम् । अयि प्रिये, हृदयस्थितापि मे कथमजा- नती वर्तसे हृदयवृत्तिम् । सीता-अहवा किंति हरमुउडमिअङ्के कलई आरोपइस्सम् । जाणामि अजउत्तो अज्जवि अकलिदउत्तन्तो मे । रामः-प्रिये, इदानीमुचितमनुसंदधासि । सीता-(विमृश्य ।) केहं। वाआलेणवि कहिदा णादं णाहस्स णेउररएण । अहवा विहिविहुरबलात्तेणवि मूअत्तणं पत्तम् ॥ २१ ॥ (नेपथ्ये।) अये लङ्कानिवासिनः, सावधानमवस्थीयताम् । नन्वितः प्राकारमुन्नतमसीमबलो विलक्य प्राप्तो रुषारुणितहक्कपिवीर उच्चैः । (उभे आकर्ण्य त्रासं नाटयतः ।) (पुनर्नेपथ्ये।) तत्संमुखं प्रचलति खयमक्षनामा नन्वेष राक्षसपतेः कुपितः कुमारः ॥ २२ ॥ सीता-केहं उण सह महीअलेण वेवदि व्व असोअवणम् । त्रिजटा-(विमृश्य ।) तुहिनकरमयूखैर्दीप्तकंदर्पदर्प- स्तपनकुलवधूटीं त्वामयं मुक्तलज्जः । अयमयमनुनेतुं रामचन्द्रकचित्ता- मपि स विपिनवीथीमेति लङ्काधिनाथः ॥ २३ ॥ (सीता त्रासं नाटयति ।) १. अथवा किमिति हरमुकुटमृगाङ्के कलङ्कमारोपयिष्ये । जानाम्यार्यपुत्रो- द्याप्यकलितवृत्तान्तो मे। २. कथम्। वाचालेनापि कथिता नादं नाथस्य नेपुररवेण । अथवा विधिविधुरबलात्तेनापि मूकत्वं प्राप्तम् ॥ ३. कथं पुनः सह महीधरेण वेपत इवाशोकवनम् ।

प्रसन्नराघवम्। (ततः प्रविशति रावणः।) (सीता पराङ्मुखी तिष्ठति ।) रावण:-अयि जानकि, कंदर्पज्वरवेदनापरिपतद्बाष्पचुतिक्षालितं खर्गश्रीकुचकुम्भकुङ्कुमरजस्तेयापराधोज्ज्वलम् । एतत्त्वां सुरदन्तिदन्तशिखरोल्लेखाङ्कविख्यापित- प्रस्फूर्जच्चतुरन्त विश्वविजयं वक्षःस्थलं याचते ॥ २४ ॥ सीता-(अनाकर्णितकेन ।) अवि णाम पुणोवि रामचन्दमुहचन्दं पुलोवइस्सम् । त्रिजटा-जानकि,एवं प्रलापिनि लकेश्वरे कर्णावधानमपि तावदेहि । रामः-साधु त्रिजटे, प्रलाप इत्युक्तवत्यसि । रावण:- यत्संतुष्टवतः पुरा पुरभिदश्छन्दोत्सवच्छेदिनो न क्रोधादनमन्नवोद्गतशिरःश्रेणौ नमन्त्यामपि । एतत्तद्दशमं शिरो मम नमत्वत्पादपाथोजयो- रव्या मिथिलेन्द्रपुत्रि भवतीं प्रेमातुरं याचते ॥ २५ ॥ सीता-(संस्कृतमाश्रित्य ।) निजे पाणौ कृत्वा कमललतिकाबालमुकुलं ययोश्चक्रे गुञ्जन्मधुपमवतंसं रघुपतिः । अपीमौ कणों मे वचनमिदमाकर्ण्य न कथं विशीर्णौ युक्तं वा चरितमिदमन्तः कुटिलयोः ॥ २६ ॥ रावणः-अयि जानकि, अवलोकनमात्रेणापि तावन्मां संभावय । सीता-अपि निशाचर, एतावत्प्रार्थनाभङ्गलाववात्कथं राघवादपि न बिभेषि। रावण:-अये, क एष राघवो नाम यं किल जनो राम इति ज- स्पति । (विहस्य ।) कामः कियानसिलतानिहितैकबाहु- क्रीडार्दितत्रिभुवनस्य दशाननस्य । १. अपि नाम पुनरपि रामचन्द्रमुखचन्द्रं विलोकयिष्ये ।

षष्ठोऽङ्कः। रामस्तु केवलमयं सुमुखि त्वदर्थे मां हन्ति हन्त न चिरान्निशितैः शरौधैः ॥ २७ ॥ सीता-सत्यमेतत् । रावण:-(स्वगतम् ।) कथमन्यदेव किमप्युक्तवानस्मि । (तदेव विप- रीतं पठित्वा ।) अयि जानकि, तावन्मां जीवय नयनामृतेन । सीता-तदा त्वामपि लकेश, विलोकयिष्यति जानकी । रावणः-(सप्रत्याशम् ।) तत्कथय समयम् । अयं हि मन्दोदरीमपि विमुञ्चति राज्यमेत- दप्युन्मदं तव पदाब्जतले करोति । किं जल्पितेन बहुना सुमुखि त्वदर्थे खान्युच्छिनत्यपि शिरांसि पुनर्दशास्यः ॥ २८ ॥ सीता-अपि खद्योतभासापि समुन्मीलति पद्मिनी । रावणः-(सकोधम् ।) आः पापे, यावकिल तपनखद्योतयोस्तावदे- वान्तरं रामरावणयोः । यदियं हन्यसे । (इति खड्गमुत्पाटयति ।) 'राम:- हा जानकि त्वमधुनासि कथं भवित्री (सविचिकित्सम् ।) धिग्दैवतं तव सुदारुण एष पाकः । (सक्रोधम् ।) आः पाप राक्षसकुलाधम संहृतोऽसि (ससंभ्रमम् ।) हे वत्स लक्ष्मण धनुर्धनुरेष कालः ॥ २९ ॥ लक्ष्मण:-आर्य, किमिदमैन्द्रजालिकविलोकनादलीकमेव संभ्र- म्यते । रावणः-अयि जानकि,अयमसावुदीर्णकरालकरवालः कालभुजङ्गः। तदिदानीमपि दशकण्ठभुजाश्लेषभेषजमनुजानीहि । सीता- विरम विरम रक्षः किं मुधा जल्पितेन स्पृशति नहि मदीयं कण्ठसीमानमन्यः ।

९२ प्रसन्नराघवम्। रघुपतिभुजदण्डादुत्पलश्यामकान्ते- देशमुख भवदीयानिष्कृपाद्वा कृपाणात् ॥ ३० ॥ रावणः-किमतः परं कालक्षेपेण । तदहमिदानीमस्याः कण्ठरुधि- रेण कालिकामर्चयामि । (इति खड्गधारां परामृशति ।) राम:--अहह । विधिरकरुणः स्फीतस्फीतं तमः परिजृम्भते जलधिसलिले मग्नं विश्वं युगं परिवर्तते । कुवलयदलस्रक्संश्लेषोत्सवैकपदे पदं यदयमदयः सीताकण्ठे करोति कृपाणकः ॥ ३१॥ (पुनर्विभाव्य ।) हन्त भोः, चान्द्री लेखां दशति दशनैर्दारुणः सैंहिकेयो नव्यां वल्ली दवदहनकश्चान्दनी दन्दहीति । अप्युन्मत्तः कुवलयमयीं मालिकामालनीते मूलादुन्मूलयति नलिनी दुष्टहस्ती करेण ॥ ३२ ।। सीता- चन्द्रहास हर मे परितापं रामचन्द्रविरहानलजातम् । त्वं हि कान्तिजितमौक्तिकचूर्ण धारया वहसि शीतलमम्भः ॥३३॥ रावण:-कः कोऽत्र भोः । सत्वरं मम करे कपालपात्रमlतां येनास्याः कण्ठरुधिरं प्रतीच्छामि । (इत्यशोकविटपान्तराले हस्तं प्रसार्य ।) कथं न्यस्तमेव केनापि मम करतले कपालम् । (विलोक्य । सचमत्कारम् ।) अये, न कपालमेतत् । किं त्वशस्त्रच्छिन्नं शिर एव कस्यापि । (विमृश्य ।) कस्य पुनरिदम् । नूनमक्षकुमारस्य । (इति मूर्च्छितः पतति ।) त्रिजटा-अयि लकेश्वर, समाश्वसिहि समाश्वसिहि । रावणः-(समाश्वस्य ।) नूनमिदं तस्य दुष्टकपेर्विजृम्भितम् । तेन तमेव तावदग्रतः पातयामि । (इति निष्क्रान्तः ।) रामलक्ष्मणौ-(सहर्षम् ।) अहो संविधानवैदग्धी । त्रिजटा-(सीतामालिङ्गय ।) सखि, पुण्येन जीवितासि । - षष्ठोऽङ्कः। सीता-अपुण्णेणेति भणिज्ज । त्रिजटा-कथमिव । सीता–केहं उण तं अपुण्णं होइ जं किर रामचन्दविरहता- वणिव्वापणीए चन्दहासधाराए उवेक्खिदह्मि । ता किं इमिणा जीवि- देण । इह दारुसंचअम्मि अग्गि पजालेहि जत्थ इमाई अङ्गाई सीअलअम्मि । त्रिजटा-शान्तं पापम् । नन्वचिरादेव निजाङ्गकानां हिमकरकिरणकरम्बितमरकतमयपीनपट्टकप्रतिमे । मलयजपरागरजसि रामोरसि तापमपहरसि ॥ ३४ ॥ सीता-हला, किं इमिणा अलीअजप्पिदेण । सव्वं जेव अणलपवेसेण विवसिदह्मि । ता उवणेहि मे अङ्गालखण्डअम् । रामः-हन्त भोः, कथमपि शार्दूलमुखान्मुक्तायाः पुनरपि शबर- वागुरामवतीर्णायाः कुरङ्गवध्वा भङ्गीमङ्गीकृतवती जानकी । त्रिजटा-(निर्गत्य प्रविश्य च ।) असुलभानलोऽयं प्रदेशः । रामः-(सहर्षम् ।) त्रिजटे, दिष्टया रक्षितस्त्वया रामः । सीता-(संस्कृतमाश्रित्य । अशोकं प्रति ।) कुरु सकरुणं चेतः श्रीमन्नशोकवनस्पते दहनकणिकामेकां तावन्मम प्रकटीकुरु । ननु विरहिणां संतापाय स्फुटीकुरुते भवा- न्नवकिसलयश्रेणीव्याजात्कृशानुशिखावलिम् ॥ ३५ ॥ (विलोक्य । सहर्षम् ।) हला, पेक्ख पेक्ख । निवडिदं दाव इमस्स सिह- रादो अङ्गालखण्डअम् । (इत्युपमृत्य प्रहितुमिच्छति ।) १. अपुण्येनेति भण। २. कथं पुनस्तदपुण्यं न भवति यत्किल रामचन्द्रविरहतापनिर्वापण्या च- न्द्रहासधारयोपेक्षितास्मि । तत्किमनेन जीवितेन । इह दारुसंचयेऽमिं प्रज्वालय यत्रेमान्यङ्गानि शीतलयामि । ३. हला, किमनेनालीकजल्पितेन। सर्वमेवानलप्रवेशेन व्यवसितास्मि । तदुपनय मेऽङ्गारखण्डकम् । ४. हला, पश्य पश्य । निपतितं तावदस्य शिखरादङ्गारखण्डकम् ।

प्रसन्नराघवम्। अये कथमशोकोऽपि ममायं शोकतां गतः । लक्ष्मणः-आर्य, अनुपपन्नमिदं यत्किल तरुशिखरमझारखण्ड- कमुहिरति । राम: किं न संपादयेद्वत्स रामस्य विधिवैधुरी ॥ ३६ ॥ (सीताझारखण्डं हस्तेनादत्ते।) राम:- अनल नलिनकोमले करेऽस्याः स्फुरदरुणोत्पलकुमलोपमः स्याः । (विमृश्य ।) चरितमुचितमस्ति वा कुतस्ते ननु भुवने विदितोऽसि कृष्णवा ॥ ३७ ॥ सीता-(हस्ते गृहीला । सविषादम् ।) केहं मह अपुण्णेण अग्गीवि- सीअलो संवुत्तो। (निपुणं निरूप्य । सचमत्कारम् ।) अये, अङ्गालखण्डअंण हु एदं । अवि उण पम्मराअरअणखण्डअम् । त्रिजटा-अये, पुण्यवतामग्निरेव रत्नं भवतीति प्रवादः सत्य एव संवृत्तः । सीता-(पुनर्विलोक्य ।) केहं सा इमा रअणमुद्दिआ । (पुनः संस्कृत- माश्रित्य । मुद्रिका प्रति ।) • या शैशवावधि मनोरमरामचन्द्र- हस्ताङ्गुलिप्रणयिनी सुभगा सुवृत्ता । अन्येव सा जनकराजसुता कथं नु लङ्कामुपागतवती मणिमुद्रिकेयम् ॥ ३८॥ (पुनः सादरम् । कराङ्गुलिकिसलयेन लालयन्ती।) अए रअणङ्गुलीअ, अवि- दाव कुसलं सलक्खणाणं रामचन्दचलणाणं । १. कथं ममापुण्येनानिरपि शीतलः संवृत्तः । अये, अङ्गारखण्डकं न खल्वे- तत् । अपि पुनः पद्मरागरत्नखण्डम् । २. कथं सेयं रत्नमुद्रिका । ३. अये रत्नाङ्गुलीयक, अपि तावत्कुशलं सलक्ष्मणयो रामचन्द्रचरणयोः । , षष्ठोऽङ्कः । ९५ (पटाक्षेपेण प्रविश्य।) हनूमान्-कुशलं देवि, कुशलम् । सीता-अमिअमुह, को सि तुमम् । हनूमान्- तारापतेरनुचरो रघुनन्दनस्य दूतः सुतोऽस्मि मरुतः प्रथितो हनूमान् । त्वां हन्तुमुद्यतवतो दशकंधरस्य न्यस्तं करे निभृतमक्षशिरो मयैव ॥ ३९ ॥ रामः-अहो, कथमिदं हनूमन्नामधेयस्य महान्धवस्य विलसित- मेतत् । लक्ष्मण:-अहो, सचमत्कारता संविधानस्य । सीता-अइ भद्दमुह, को उण इमो तरावई । हनूमान्- यो वालिनः शौर्यनिधेरमित्रं त्रैलोक्यबन्धोस्तपनस्य सूनुः । रामस्य पादाजतलाभिवर्ती सुग्रीवनामा कपिचक्रवर्ती ॥ ४० ॥ सीता-केण उण नरवाणराणं एरिसं सखित्तणं णिम्मिदम् । . हनूमान्-रामबाणेनैव वालिने विसृजता धनुरकं नाकलोकललनाकुचकेलिः। . तारया सममदीयत चास्मै वानरेन्द्रपदवीमणिमौलिः ॥ ११ ॥ सीता–कहेहि दाव । अवि णाम मए मन्दभाइणीए किदे दुबलो दाणिं किंपि रहुणाहो। हनूमान्–किमपीति किमुच्यते । इदानी हि बहुलपक्षशशीव दिने दिने रघुपतिः कृशतामुपयाति सः । १. अमृतमुख, कोऽसि त्वम् । २. अयि भद्रमुख, कः पुनरयं तारापतिः। ३. केन पुनर्नरवानराणामीदृशं सखित्वं निर्मितम् । ४. कथय तावत् । अपि नाम मम मन्दभागिन्याः कृते दुर्बल इदानीं किमपि रघुनाथः।

प्रसन्नराघवम्। सीता-हँद्धि हद्धि। हनूमान्- कुवलयप्रतिमद्युतिरस्य तु प्रविकसत्यनुभाववशंवदा ॥ ४२ । सीता-दाणी किमपि उज्जीविदमि । हनूमान्-अयि देवि, आकर्णय तावद्यत्संदिष्टं देवेन देव्याः । हिमांशुश्चण्डांशुर्नवजलधरो दावदहनः सरिद्वीचीवातः कुपितफणिनिश्वासपवनः । नवा मल्ली भल्लीकुवलयवनं कुन्तगहनं मम त्वद्विश्लेषात्सुमुखि विपरीतं जगदिदम् ॥ ४३ ॥ अपि च । कस्याख्याय व्यतिकरमिमं मुक्तदुःखो भवेयं को जानीते निभृतमुभयोरावयोः स्नेहसारम् । जानात्येकं शशधरमुखि प्रेमतत्त्वं मनो मे त्वामेवैतच्चिरमनुगतं तत्प्रिये किं करोमि ।। ४४ ॥ (सीता लज्जते।) त्रिजटा-सखि, त्वमपि रघुपतेः किमपि संदेशं प्रत्यभिज्ञानं न समर्पय । सीता-ईमो मे पडिसंदेसो । बहलगलन्तणअणजलणिज्झरपज्जाउलावि मह दिट्ठी । तुह सुहअ वअणससहरलावण्णरसं पिपासेदि ॥ ४५ ॥ (चूडारत्नमाकृष्य हनूमतः करे समर्पयन्ती ।) अइ चूडारअण, विच्छालअ णिअमङ्ग रअणीअरदिट्टिपंसुपंसुलि अम् । रहुवइपअणिम्मलणहरअणीअरजौलनीरणिअरम्मि ॥ ४६ ॥ १. हा धिक् हा धिक् । २. इदानीं किमप्युज्जीवितास्मि । ३. अयं मे प्रतिसंदेशः। बहलगलन्नयनजलनिर्झरपर्याकुलापि मम दृष्टिः । तव सुभग वदनशशधरलावण्यरसं पिपासति ॥ अयि चूडारत्न, अपि क्षालय निजमङ्ग रजनिकरदृष्टिपांसुपांसुलितम् । रघुपतिपदनिर्मलनखरजनिकरज्योत्स्ननीरनिकरे ॥

. षष्ठोऽङ्कः। हनूमान्-देवि, अनुजानीहि । त्वरयति मां रामचन्द्रचरणदर्श- नोत्कण्ठा । सीता-(सबाष्पगद्दम् ।) अइ अकारणसिणिद्ध, पडिगदे तुमि पु- णोवि को मह कहिस्सदि रहुणाहस्स पत्तिम् । हनूमान्-अयि देवि, दिष्टया स्मारितोऽस्मि । नन्विदं ते संदिष्टं देवेन देव्याः। मा ताम्य तामरसपत्रविशालनेत्रे विख्याप्यते पुनरपि त्वयि मत्प्रवृत्तिः । सौमित्रिकामुकगुणध्वनिभिर्गभीरे- स्तैः किं च राक्षसवधूदितैरधीरैः ॥ १७ ॥ (नेपथ्ये ।) हत्वा कथंचिदपि राजकुमारमक्षं रे वानरापसद कुत्र पलायितोऽसि । त्वां हन्तुमिच्छति दशाननशासनेन दोद्धतो धृतधनुर्ननु मेघनादः ॥ ४८ ॥ हनूमान्-देवि, कृतकार्योऽस्मि । तदलमतःपरमात्मापलापेन । त- दिदं प्रणम्यसे आपृच्छसे च । सीता-अए पवणणन्दण, अणाआसेण इमं दुण्णिसाअरसाअरं अदिक्कमेहि । हनूमान्-अयं मूर्ध्नि गृहीतो देव्याः प्रसादः । (इति निष्क्रान्तः।) सीता-हला तिअडे, खेअरी भविअ पेक्ख दाव इमस्स उत्तन्तम् । त्रिजटा-तथा । (इति निष्क्रान्ता ।) (नेपथ्ये ।) बाणौघानेकवीरः कलयति च रुषा मेघनादेन मुक्तान् (सर्वे हर्ष नाटयन्ति ।) (पुनर्नेपथ्ये ।) बद्धोऽयं राक्षसेन ज्वलदनलशिखादीप्तपुच्छः कृतश्च । (सर्व विषादं नाटयन्ति ।) १. अय्यकारणस्निग्ध, प्रतिगते त्वयि पुनरपि को मम कथयिष्यति रघुना- थस्य प्रवृत्तिम् । २. अये पवननन्दन, अनायासेनेमं दुर्निशाचरसागरमतिक्रमख । ३. हला त्रिजटे, खेचरी भूत्वा प्रेक्षस्व तावदस वृत्तान्तम् ।

९८ प्रसन्नराघवम् । (पुनर्नपथ्ये ।) क्रामन्नट्टालिकानामुपरि कृतपदो दन्दहीत्येष लङ्कां (सर्वे हर्षविषादौ नाटयन्ति ।) (पुनर्नेपथ्ये।) अक्लान्तोऽयं पयोधेः पयसि शमयति वाङ्गलग्नं कृशानुम् ॥ ४९ ॥ (सर्वे हर्षे नाटयन्ति ।) (पुनर्नेपथ्ये।) अहो आश्चर्यमाश्चर्यम् । वेलादूरस्य हेलाक्रमणपरिणतस्तुङ्गमाक्रम्य शृङ्गं मौलिं पूर्वाचलस्य द्युमणिरिव नभो लङ्घयत्यम्बुराशिम् । वेगप्रोद्भूतवातप्रतिहतसलिलोन्मुक्तगम्भीरगर्म- व्यक्तीभूतोरगेन्द्रस्तुतिशतविकसत्कीर्तिहारो हनूमान् ॥ ५० ॥ सीता-(नेपथ्याभिमुखमवलोक्य ।) हेला तिअडे, अवतिण्णासि मही- अलम् । ता पिअवंदाए तुह आलिङ्गेमि अङ्गाइं । (इति निष्क्रान्ता ।) रामः-प्रिये, मामपि प्रतीक्षस्व । लक्ष्मणः-आर्य, किमिदं लङ्कावृत्तान्तानुसारिणि विद्याधरप्रणीते महेन्द्रजाले पुनः संभ्रम्यते । रामः-तर्हि दिष्टयास्माभिर्निजविक्रमकथापराङ्मुखस्यापि हनूमतश्च- रितरहस्यमाकलितम् । (नेपथ्ये ।) अये रघुनाथ, अयमसौ दर्पोद्धतं दधिमुखं तरसा निपीड्य पीत्वा चिरं मधुवने खरसं मधूनि । द्रष्टुं समेति भवतः पदपद्मलीलां नीलाङ्गदप्रभृतिभिः सहितो हनूमान् ॥ ५१ ॥ राम:-वत्स, आकर्णितम् । तदागच्छ । कृतकार्य हनूमन्तं प्रत्यु- द्रच्छावः। (इति निष्क्रान्ताः सर्वे ।) इति षष्ठोऽङ्कः । १. हला त्रिजटे, अवतीर्णासि महीतलम् । तत्प्रियंवदायास्तवालिङ्गया- म्यङ्गानि ।

सप्तमोऽङ्कः । (ततः प्रविशति पुलस्त्यशिष्यः।) पुलस्त्यशिष्य:-(परितो विलोक्य ।) अपरिशीलितसंनिवेशोऽस्मि । तत्कथं पृच्छामि तस्य भवनम् । (पुनर्विलोक्य ।) कथमयं लकेश्वरमहा- मन्त्रिणो माल्यवतः परिचारकः करालकः । (उच्चैः ।) सखे करालक, इत इतः। (प्रविश्य ।) करालक:-मुने, प्रणम्यसे । मुंनिः-समीहितं लभस्व । कथय तावन्मे बिभीषणस्य भवनम् । करालक:-किं तत्र। मुनिः-आदिष्टोऽस्मि भगवता पुलस्त्येन कमपि संदेशमुपनेतुं पौत्रस्य । करालकः-न तावदिदानीमिह बिभीषणः । मुनिः-कथय किमेतत् । करालकः-एकदाभिप्रणमतो बिभीषणस्य करात्सकौतुकं लिखि- ताक्षरपतिपत्रमेकं गृहीतं लङ्केश्वरेण वाचितं च- 'उदभूतिमिच्छद्भिः सद्भिः खलु न दृश्यते । चतुर्थीचन्द्रलेखेव परस्त्रीभालपट्टिका ॥१॥ मुनिः-अहो, प्रभुविज्ञप्तिचातुरी बिभीषणस्य । करालकः-ततो विहस्यैवं लङ्केश्वरेणोक्तम्-'नूनं केनापि भीरु. णा भाषितमेतत् । ख्यातं हि यत्किल परस्त्रीकुचकुम्भेषु कुम्भेषु परदन्तिनाम् । निपतन्ति न भीरूणां दृष्टयः शरवृष्टयः ॥ २ ॥' मुनिः-अहो, निजचित्तवृत्तिभित्तिभूमिकानुसारीणि चाचित्राणि लोकस्य । करालक:-ततः प्रणयकोपविषादमिदमाह लङ्केश्वरं बिभीषण:- 'यस्य त्र्यम्बकमौलिखेलदमलखर्लोककल्लोलिनी- लीलालचनलम्पटेन यशसा दिग्भित्तयः क्षालिताः ।

१०० प्रसन्नराघवम् । .. सोऽपि त्वं जनकाधिराजतनयाबद्धाभिलाषः कथं हा जातोऽसि पुलस्त्यसंततियशःशीतयुतेलाञ्छनम् ॥ ३ ॥ मुनिः-(सकौतुकम् ।) ततस्ततः । करालक: ततश्च । कोपपाटलितलोलदृष्टिना किंचिदुन्नमितखड्गयष्टिना । रावणेन नयधर्मभूषणस्ताडितो हृदि पदा बिभीषणः ॥ ४ ॥ मुनिः-हन्त, नूनं लकेश्वरेण दुष्टेन नयधर्मविभूषणः । बिभीषणश्च न परं विभवोऽपि पदा हतः ॥ ५ ॥ ततस्ततः। करालकः-ततः कतिपयपरिवारेण बिभीषणेन लकेश्वरं विहाय राम एव समाश्रितः। मुनिः--(स्वगतम् ।) अनुष्ठितं तर्हि पुलस्त्यसंदेशरहस्यं विभीषणेन । (प्रकाशम् ।) भवान्पुनः किमधुना कर्तुकामः । करालकः-अहमादिष्टोऽस्मि माल्यवता जानकी विरह विह्वलहृद- यस्य लकेश्वरस्य मनोविनोदनाय केनापि चित्रकारेण विरचितं चित्रमिदं दृग्गोचरीकरणीयमिति । मुनि :-(विहस्य ।) कथमित्थमासन्नशत्रौ लकेश्वरेण तादृशस्य महा- मन्त्रिणो माल्यवत एवमुपचरितुमुचितम् । तन्नूनं प्रस्तुतोचितमेव किम- प्येतद्भविष्यति । (नेपथ्ये।) रे रे चन्दनमिन्दुमण्डलशिलापट्टे समुद्धृष्यतां रे रे चामरमुज्वलैः शशिकरैः श्वेतं विनिर्मीयताम्.। रे रे बालमृणालतन्तुलतिकासूत्रेण पाथोजिनी- पत्रस्थैरुदबिन्दुभिर्मणिमयो हारः समासूव्यताम् ॥ ६ ॥ मुनिः-(सोपहासमात्मगतम् ।) यादृशोऽयं शीतोपचारस्तादृश एव सीतोपचारो लकेश्वरस्य भविष्यतीति । (प्रकाशम् ।) कथमिदं विरहत- तस्य दशकंधरस्य शीतोपचारार्थमादिश्यन्ते निशाचराः। करालकः-खेचराश्च । इदानी हि अङ्ग लिम्पति चन्दनेन मृदुभिः शीतद्युतिः खैः करैः किंचिच्चञ्चलकालवृन्तकलनव्यग्रो वसन्तानिलः ।

सप्तमोऽङ्कः। १०१ किंचायं नलिनीदलैर्वितनुते तल्लं प्रतीचीपति- देवैरित्थमनङ्गतप्तहृदयो लकेश्वरः सेव्यते ॥ ७ ॥ मुनि:-(खगतम् ।) अये, अलीकवाग्डम्बरं निशाचरस्य । करालक:-(नेपथ्याभिमुखमवलोक्य ।) कथमयं प्रहस्तो राजद्वारमुप- सर्पति । तदस्य हस्ते चित्रपटमर्पयिष्ये । भवानपि समीहितं साधयतु । (इतिनिष्कान्तौ ।) इति विष्कम्भकः। (ततः प्रविशति रावणश्चित्रहस्तः प्रहस्तश्च ।) रावण:-(खगतम्) राजल्ललाटफलका कमनीयकूज- स्काञ्चीगुणप्रणयिनी धृतकेशपक्षा। हा किं करोमि मम सा हृदयं प्रविष्टा नाराचयष्टिरिव पुष्पशिलीमुख स्य ॥ ८॥ (विमृश्य ।) अहो, कथमद्यापि हठाहरणखिन्नां नितान्तकृशधूसराङ्गीमपि जानकी जनस्थानस्थितामिवाहमखण्डमण्डनां पश्यामि । अथवोचित- मिदम् । आचान्तकान्तिरुन्निदैर्मयूखैरहिमत्विषः । धूसरापि कला चान्द्री किं न बध्नाति लोचनम् ॥ ९ ॥ प्रहस्त:-अयि देव, इदमालोक्यतां चित्तविनोदनं चित्रम् । रावणः-किं पुनरिहालिखितम् । ग्रहस्तः-अयं तावत्तरलतिमिनिकरकरालकल्लोलकोलाहलोज्जागरः सागरः॥ रावणः-(विलोक्य ।) किमिदमुत्तरेण तरङ्गमालिनमनुतमालखण्ड- माखण्डलधनुःसहस्रानुकारि कपिशयति गगनतलम् । प्रहस्तः-तदिदं सुग्रीवपालितं कपिकुलम् । रावणः-(विहस्य ।) अपि वालिपालितमिति वक्तव्यम् । भवतु । किं पुनरनेन । को पुनरिमौ कार्मुकधरौ । ग्रहस्त:-ताविमौ रामलक्ष्मणौ ययोरग्रजस्य बाणपातविलसितेन सुग्रीवपालितमधुना कपिकुलम् ।

१०२ प्रसन्नराघवम् । रावणः-(अनाकर्णितकेन ।) कः पुनरयं नितान्तकृशकमनीयतनुर- मन्दमन्दराघातनिर्मन्थनोत्थिततरलतरङ्गदूरविक्षिप्तशंकरशिरःशेखराधिरो- हणकुतूहली कलानिधिरिव तरङ्गमालिनस्तटभुवमधिशेते । प्रहस्तः स एव लङ्कागमनकुतूहली निजकुलगुरुं सागरमुपचरितुं कुशशयनविन्यस्तगात्रः प्रथमो दाशरथिः। रावणः-(विहस्य ।) कथमित्थमेव जानकीलाभकौतुकः सोऽयमस्सा- नप्युपचरिष्यति । प्रहस्तः-इतो विलोक्यतामयं रामनाराचनिर्मुक्तबहलानलहेलातर- लदीनमीननिकरपरिवारः पारावारः । रावणः-को पुनरिमौ ज्येष्ठतापसस्य सादरं वानरवीरैः पार्श्वपरि- सरमानीयेते। प्रहस्त:-अयं तावत्सागर एव । अयमपि देवस्यैव-(इत्य|क्ते ।) अथवा किमस्य बन्धु विरोधिनो नामग्रहणेन । रावण:-कथमयं बिभीषणोऽस्मद्विरोधेन राममाश्रयति । भवतु । निशाचरशिरोरत्नरञ्जिताङ्गिशिरोरुहः । प्रियोऽपि दशकण्ठस्य नैष दर्शनमेष्यति ॥ १० ॥ रावण: (सकौतुकम् ।) किं पुनरिदमक्षरपङ्क्तिद्वयम् । प्रहस्त:-नूनमिदं समुद्रबिभीषणौ प्रति लक्ष्मणस्य वचनद्वयं भविष्यति । रावण:-एकं तावद्वाचय । प्रहस्त:-(वाचयति ।) 'त्रासं मुञ्च समुद्र कोपदहनो रामस्य पास्यत्ययं बन्दीभूतसुरेन्द्रसुन्दरदृशामक्ष्णोरमुद्रं पयः । कामं ते मकरीगणो विहरतामेतस्य लकेश्वर- स्त्रीगण्डस्थलपत्रभङ्गमकरी विध्वंसिनः सायकाः ॥ ११ ॥ रावण:-अन्यदपि वाचय । प्रहस्त:-(वाचयति ।) 'अद्यैवास्य बिभीषणस्य शरणापन्नस्य मूर्धा नते- रानृण्यं विदधात्ययं रघुपतिलकाधिपत्यश्रियम् ।

सप्तमोऽङ्कः। १०३ एतस्यैव भुजाविह प्रतिभुवौ सुग्रीवराज्यार्पण- त्रैलोक्यप्रथमानसत्यचरितौ सर्वे वयं साक्षिणः ॥ १२ ॥' रावणः-अहो, वाग्डम्बरैकसारता कनिष्ठतापसस्य । भवतु । किं पुनरिदं मध्येसमुद्रमालोक्यते । प्रहस्तः स एष कपिकुलोन्मूलितशैलशिखरनिर्मितः काकुत्स्थ- कुलकीर्तिप्रसक्तिप्रबन्धः सेतुबन्धः। रावण:-अहो चित्रकरस्य चातुरी । यदलीकमपि सत्यमिव दर्शितवान् । प्रहस्त:-क्रथमद्यापीदमलीकमिति संभावना देवस्य । (नेपथ्ये कलकलः।) रावण:-किमेतत् । प्रहस्त: एषामयं रामचमूचराणां दोद्धतानां कपिकुञ्जराणाम् । नवोद्गतानामिव नीरदानां कोलाहलः कोऽपि समुन्जिहीते ॥१३॥ प्रहस्तः-तदिदं शङ्कितव्यं प्रतिविधातव्यं वा । रावण:-आः। किमिह शङ्कया प्रतिविधानेन वा । अनेन हि । कोलाहलेनोल्लसता कपीनां मनो मदीयं मुदमेव धते । मन्दोदरीभूषणनूपुराणां महामणीनामिव शिजितेन ॥ १४ ॥ (प्रविश्य ।) मन्दोदरी-जेदु जेदु देवो । रावणः-देवि, इत आस्यताम् । (मन्दोदरी यथोचितमुपविश्याधोमुखी तिष्ठति ।) रावण:- भुमालकं स्मितपराजितचन्द्रलेख हग्लीलया कुवलयश्रियमादधानम् । एतन्मुखं दिविषदामिव दुर्निरीक्ष्यं तन्वङ्गि मामिव मुधा किमधः करोषि ॥ १५ ॥ प्रहस्त:-देव, कपिसेनाकोलाहलचिन्तयैव नूनमधरीकृतमुखी देवीति तर्कयामि । १. जयतु जयतु देवः।

प्रसन्नराघवम् । रावणः-आः, क एष चिन्ताविषयः । इयं लीलालोलाङ्गदभुजलता नीलचिकुरा समुन्मीलत्तारा कुमुदहसिता चारुनयना । प्लवङ्गानां सेना युवतिरिव तारापतिमुखी ममाग्रे कंदर्प प्रकटयितुमद्य प्रभवति ॥ १६ ॥ मन्दोदरी-देव, अण्णं पि अस्थि कारणं । अज हि मए देवस्स सउणणिरूवणत्थं गिरिसिहरगहणगब्भट्ठिहां सबरपल्ली पट्टाविदा णिअ- परिआरिआ । ताए अ कीए वि सबरकुडुम्बिणीए णिअघरपेरन्तवा- सिणं केसरिकिसोरअं उल्लावअन्तीए एरिसं वअणं आअण्णिदम्- 'मा होहि णाअवइणो परिहवमेतेण गवणिवूढो । वसुहमिमं गिरिसंकडं मइन्द सरहस्स णन्दणो पत्तो ॥ १७ ॥ रावणः-किमिह विषादस्थानमस्मान्प्रत्युदासीनमेवैतत् । तथा हि । मा भव नागपतेः परिभवमात्रेण गर्वनियूंढः । वसुधामिमां गिरिसंकटां मृगेन्द्र शरभस्य नन्दनः प्राप्तः ॥ १८ ॥ प्रहस्तः-देव, अन्यथाघटमानमिदम् । मा भव नागपतेः परिभवमात्रेण गर्वनिव्यूढः । वसुधामिमां गिरिसंकटमयी दशरथस्य नन्दनः प्राप्तः ॥ १९ ॥ रावणः-आः, केयं निसर्गनिःशके लकेश्वरे मयि शकुनोपश्रुति- परीक्षा। (नेपथ्ये ।) हेलास्फालितरामलक्ष्मणधनुावल्लरीझल्लरी- झाङ्कारप्रसरप्ररूढलकप्राग्भारनीरन्ध्रिताः। व्यावलगत्कपिकण्ठकाण्डकदनक्रीडत्कृपाणाञ्चल- स्फूर्जदुर्जयदोर्बलैकचपलाश्चञ्चन्ति रात्रिंचराः ॥ २० ॥ १. देव अन्यदप्यस्ति कारणम् । अद्य हि मया देवस्य शकुननिरूपगार्थ गिरिशिखरगहनगर्भस्थितां शबरपल्ली प्रस्थापिता निजपरिचारिका । च कस्या अपि शबरकुटुम्बिन्या निजगृहपर्यन्तवासिनं केसरिकिशोरकं लाल- यन्त्या ईदृशं वचनमाकर्णितम्- मा भव नागपतेः परिभवमात्रेण गर्वनियूढः । वसुधामिमां गिरिसंकटां मृगेन्द्र शरभस्य नन्दनः प्राप्तः ॥ तया सप्तमोऽङ्कः। रावणः-(सहर्षम् ।) अये, निशाचरवीरविजयोत्तरः समरः । (पुनर्नेपथ्ये। अग्रेसरी रघुपतेः परिणद्धपाक- किंपाकपाटलमुखी कपिवीरसेना । निःशेषमापिबति राक्षसवीरचक्र प्रातः प्रभेव तपनस्य तमिस्रजालम् ॥ २१ ॥ रावणः-आः, कथमुत्कण्ठायितं मर्कटैः । (उचैः।) कः कोऽत्र भोः । मदाज्ञया कृत्वा विनिद्रमपनिद्रभुजावलेपः प्रोदामरामसमराय स कुम्भकर्णः । आदिश्यतां निजभुजार्दितवज्रपाणि- रचैव लक्ष्मणरणाय च मेघनादः ॥ २२ ।। (पुनर्नेपथ्ये।) देव, भवदाशयविदा महामन्त्रिणा माल्यवता पूर्वमेव संविहितमिदम् । इदानी हि रामेण सार्धमयमुद्धतबाहुदर्पः संग्रामभूमिमधितिष्ठति कुम्भकर्णः । रक्षःशिखण्डिहृदयोत्सवमेघनादः सौमित्रिणा सममसावपि मेघनादः ॥ २३ ॥ (पुनर्नेपथ्ये।) यदंष्ट्रावज्रघातैः समिति विदलिताः शैलकल्पाः कपीन्द्रा यन्नाराचाम्बुवर्षेर्दवदहनसमाः शामिता वानरेन्द्राः। वीरोऽसौ कुम्भकर्णः स च समरकलाकौतुकी मेघनादः संजातौ रावण:--किमतःपरं वदिष्यति । (पुनर्नेपथ्ये ।) हा पतङ्गौ दशरथसुतयोर्दारुणे बाणवह्नौ ॥ २४ ॥ (मन्दोदरीरावणौ मूर्च्छतः।) प्रहस्तः-देव, समाश्वसिहि समाश्वसिहि । रावण:-(समाश्वस्य ।) देवि, समाश्वसिहि समाश्वसिहि ।

प्रसन्नराघवम्। मन्दोदरी-(समाश्वस्य ।) परित्ताअदु में अजउत्तौ । एसा णिमग्गम्मि सोअतिमिरे। रावण:-अयि, अलं कातरतया । अयं चन्द्रहासचन्द्र एव शोकतिमिरादुद्धरिष्यति भवतीम् । (पुनरुत्थाय खड्गमुद्यम्य ।) पश्या- यमसौ मे भिन्नप्रभिन्नसुरकुञ्जरकुम्भमुक्त- मुक्ताफलैर्विचलितैः कलिताधिवासः । अद्यैव खेचरनिशाचरलोचनाना- मुन्मीलयन्मुदमुदञ्चति चन्द्रहासः ॥ २५ ॥ (इति प्रहस्तेन सह निष्क्रान्तः।) मन्दोदरी-अये, अचरिअं । समरसंरम्भविलोअणविह्मअ- स्थिमिदमिदं विजाहरमिहुणं किंपि मन्तेदि । तेण हि अजउत्तस्स विजअत्थं अहं पि णिअकुलदेवदाओ अच्चिदुं गच्छमि । (इति निष्क्रान्ता।) (ततः प्रविशति विद्याधरमिथुनम् ।) विद्याधरी-अजउत्त, को इमो रणरहसविलसन्तपुलअभर - कुडुमलिदभुअवणो कविचमूचकं अहिवदृदि । विद्याधरः-प्रिये, स एष रामसमरकौतुकी दशकण्ठः । विद्याधरी-को उण इमो अञ्जणपुञ्जच्छविसरीरो कविवीरो तस्स संमुहं परावदि। विद्याधरः-प्रिये, स एष विचित्रसमरशीलो नीलः। (विलोक्य । सविस्मयम् ।) अहो, १. परित्रायतु मामार्यपुत्रः । एषा निमग्नास्मि शोकतिमिरे । २. अये, आश्चर्यम् । समरसंरम्भविलोकनविस्मयस्तिमितमिदं विद्याधर- मिथुनं किमपि मन्त्रयति । तेन ह्यार्यपुत्रस्य विजयार्थमहमपि निजकुलदेवता अर्चितुं गच्छामि । ३. आर्यपुत्र, कोऽयं रणरभसविलसत्पुलकभरकुशलितभुजवनः कपिचमू- चक्रमभिवर्तते । ४. कः पुनरयमञ्जनपुञ्जच्छविशरीरः कपिवीरस्तस्य संमुखं परावर्तते ।

सप्तमोऽङ्कः। १०७ वक्षस्थले किमपि नीलकरोज्झितेन नीलाचलस्य शिखरेण कृतप्रहारः । लकेश्वरः स्मरति नूनमसौ वसन्त- नीलोत्पलप्रहरणं हरिणेक्षणानाम् ॥२६॥ (पुनः सकौतुकम् ।) पश्य पश्य । नीलोऽयं दशमुखपाणिपङ्कजाना- मङ्केषु भ्रमरतुलां भ्रमन्बिभर्ति । अप्येको दशसु किरीटपीठिकासु द्राक्प्रेसन्ननुभवतीन्द्रनीललीलाम् ॥ २७ ॥ विद्याधरी-को उण इमो णिसाअरेन्देण समं समरसाहसमगी. करिअ चिट्ठदि । विद्याधरः-स एष खामिपक्षपाती विभीषणः। (सविषादम् ।) हन्त भोः, येयं बिभीषणे शक्तिर्मुक्ता क्रूरेण रक्षसा । विद्याधरी-अह किं ताए । विद्याधर:- लक्ष्मणेन गृहीतेयं प्रियेव निजवक्षसा ॥२८॥ विद्याधरी-हद्धि हद्धि । विद्याधर:- वर्षन्नेव समन्ततो दशमुखं चापच्युतैः सायकैः सौमित्रिं च विसंज्ञमङ्कनिहितं नेत्रच्युतैरम्बुभिः । एतत्तय हर्षशोकतरलाः कुर्वन्कपीनां दृशो रामश्चामलकेलिवीरकरुणाव्यामिश्रतां गाहते ॥ २९ ॥ (विलोक्य ।) कथमपगत एव रामबाणपीडितो दशकण्ठः । (नेपथ्ये ।) हा वत्स लक्ष्मण विकासय नेत्रपझे मागादिदं युगपदेव समस्तमस्तम् । १. कः पुनरयं निशाचरेन्द्रेण समं समरसाहसमङ्गीकृत्य तिष्ठति । २. अथ किं तस्याः। ३. हा धिक् हा धिक् ।

प्रसन्नराघवम्। भाग्यं दिवाकरकुलस्य च जीवितं च रामस्य किं च नयनाञ्जनमूर्मिलायाः ॥ ३०॥ विद्याधरः-हन्त, सोऽयमनुजवत्सलस्य रामस्य विलापः। (नेपथ्ये।) देव, समाश्वसिहि समाश्वसिहि । विद्याधरी-कहं सुग्गीवेण समासासीअदि रामचन्दो । ता दाणी आलविस्सदि। विद्याधरः-आकर्णयामस्तावत्सुग्रीवेण समाश्वास्यमानः किमाह रामः । (नेपथ्ये।) सखे सुग्रीव, कथमाश्वास्यते । अयि राघवाविति सुधामधुरं विनिपीय पारैमुनिलोकवचः । अयि राघवेति गरलप्रतिमं कथमद्य रामहतकः पिबतु ॥३१॥ अपि च । कनीयस्या मातुः कृतचरणपातः कथमहं सहिष्ये मत्पार्श्वे विफलपरिवर्ते नयनयोः । अये शान्तं पापं कठिन इव चेजीवितुमना विना वत्सं रामः पुनरयमयोध्यां प्रविशति ॥ ३२ ॥ विद्याधरः- अहह । करुणैकार्णवो वर्तते । (विमृश्य ।) कः पुनरिह प्रतीकारः । (विचिन्त्य ।) अथवा का प्रतीकारकथा । वक्रो हि विधिः। विद्याधरी-वैकदरोत्ति भणिज्जं । इदं पेक्ख । णं इमो वाणरो जेव्व कोवि लङ्केसरकिदसंधाणो करकलिदसैलसिहरो रामसंमुहं जेव्व परिवठ्ठदि। विद्याधरः-(कर्णी पिधाय ।) शान्तं पापम् । अयि मुग्धे, मैवं वादीः । अयं हि १. कथं सुग्रीवेण समाश्वास्यते रामचन्द्रः । तत्किमिदानीमालपिष्यति । २. वक्रतर इति भणितव्यम् । इदं पश्य । नन्वयं वानर एव कोऽपि लङ्केश्वरकृतसंधानः करकलितशैलशिखरो रामसंमुखमेव परिवर्तते ।

सप्तमोऽङ्कः । १०९ महौषधीनामाधारं भूधरं गन्धमादनम् । आदाय लक्ष्मणप्राणत्राणायाभ्येति मारुतिः ॥ ३३ ॥ पुनर्विलोक्य । सहर्षम् ।) आमोदमाघ्राय महौषधीनां सौमित्रिरुन्मीलितपद्मनेत्रः । भूयोऽपि चक्रीकृतचारुचापः करोति रामः परिपूर्णकामम् ।। ३४ ॥ विद्याधरी--कहं पुणो वि रामरणकोदूहलफुल्लन्तभुअमण्डलो णिसाअराखण्डलो परावडिदो जेव्व । विद्याधरः-प्रिये, तदिदानी सावधानं विलोकय । तुलाधिरोहः खल्वयं वीरलक्ष्म्याः । यन्नाम रामरावणयोः समर इति । विद्याधरी-केहं उण सअललोअवीरस्स रामचन्दस्स अणेक- वीरपरिहूदस्स रावणस्स तुलाधिरोहो वीरलच्छीए हविस्सदि । विद्याधरः-प्रिये, न जानासि । कथं दशकण्ठं विना विन्यासं नाकनारीकुचकलशलसत्कुङ्कुमस्थासकाना- मस्पृष्ट्वा माटुंमासीदसिकलहकलाकोविदः को विदग्धः । भिन्नख भकुम्भस्थलबहलगलन्मौक्तिकव्यक्तहासः कस्याक्रीडत्कराग्रे त्रिदशपतियशश्चन्द्रहाश्चन्द्रहासः ॥ ३५ ॥ अपि च । किं ब्रूमो दशकन्धरं निजचमूरक्षाकपाटीभव- द्वक्षःपीठपतत्कठोरकुलिशाघातेषु जातस्मिकम् । व्योमाभोगसरोविलासिनि वने यत्पाणिपकेरुहां कैलासेन शिरःस्थितेन्दुकलिकोत्तंसेन हंसायितम् ॥ ३६ ॥ (नेपथ्ये ।) हेलोन्मूलितचन्द्रचूडगिरयसैलोक्यदत्तापदो लङ्कातङ्कहराः पुरंदरपुरस्त्रीवृन्दबन्दीकृतः । १. कथं पुनरपि रामरणकौतूहलफुल्लद्भुजमण्डलो निशाचराखण्डलः परा- पतित एव । २. कथं पुनः सकललोकवीरस्य रामचन्द्रस्यानेकवीरपरिभूतस्य रावणस तुलाधिरोहो वीरलक्ष्म्या भविष्यति ।

प्रसन्नराघवम्। वैदेहीकुचकुम्भकुडुमरसव्यासनबद्धस्पृहाः सोत्कण्ठं दशकन्धरस्य जयिनः खेलन्ति दोःकेलयः ॥ ३७॥ (पुनर्नेपथ्ये ।) हेलोन्मूलितचन्द्रचूडधनुषस्त्रैलोक्यदत्ताभया लङ्कातङ्ककराः पुरंदरपुरस्त्रीवृन्दबन्दीमुचः । वैदेहीकुचकुम्भकुङ्कमरसव्यासङ्गलब्धोत्सवाः सोत्कर्ष रघुनन्दनस्य जयिनः खेलन्ति दो केलयः ॥३८॥ विद्याधरः-नूनमयं राक्षसवानरयोर्निजखामिवर्णनानुसारी व्याहारः। विद्याधरी-कहं उण रहविदेण रावणेण समं भूमिट्ठिदस्स राह- अस्स समरो हविस्सदि। विद्याधर:-प्रिये, पश्य । आनीत एव मातलिना पुरुहूतरथः । अधिष्ठितश्च विनयाभिरामेण रामेण । (नेपथ्ये ।) अये, कथं पूर्वमेव प्रयातानां खरमारीचवालिनाम् । सौजन्यमुग्धः पन्थानमधिवर्तितुमीहसे ॥ ३९ ॥ विद्याधरः-आकर्णयामस्तावदनेन रामवचनेन पीडितः किमाह रावणः। (नेपथ्ये।) खरः कीदृग्वाली कपिरपि च मारीचहतकः कुरङ्गस्तान्हत्वा कथमपि कथं दृप्यसि मनाक् । अयं पश्य प्राप्तो दशवदननामा सुरपुरी- करीन्द्राणां हेलारचितकदनः पञ्चवदनः ॥ ४० ॥ अथवा। कालीकेसरिकेसराञ्चलसटासाटोपसंपादित- क्रीडाचामरकोमलानिललवाचान्तश्रमाम्भःकणः। श्रीमानेष दशाननो विजयते तस्यास्यपञ्चानन- व्यापारप्रतिपादनैरपि यशः कीदृक्समुन्मीलति ॥ ४१ ।। १. कथं पुना रथस्थितेन रावणेन समं भूमिस्थितस्य राघवस्य समरो भविष्यति ।

सप्तमोऽङ्कः। १११ , विद्याधर:-अये, दशवदनवचनकुपितः किमपि वक्तुकाम इव लक्ष्यते लक्ष्मणः । (नेपथ्ये।) किं ते पञ्चाननतया दशाननतया वा । त्वमिदानीं दूरोन्मुक्तमदो विभीषण इव न्यञ्चच्छिरःशेखरः खच्छन्दं चरणारविन्दयुगले रामस्य भृङ्गो भव । रे नक्तंचर कुम्भकर्ण इव वा कर्णान्तचक्रीभव- च्चापोत्सङ्गविमुक्तबाणदहने सद्यः पतङ्गो भव ।। १२ ।। विद्याधरी-पेक्ख पेक्ख । इदो सरन्धआरं वित्थारअन्तेण णि- सामुहायिदं दसमुहेण । विद्याधरः-नन्वितस्तदेव निजविशिखमयूखधारया विनिवारयता चन्द्रायितं रामचन्द्रेण । (पुनः सकौतुकम् ।) अये, नूनमयं दिव्यास्त्रली- लया प्रतिहतदिव्यास्त्रं निकृत्तचापं रावणं किमपि वक्तुकाम इव रामः । (नेपथ्ये।) निकृत्तचाप इति मा संक्षोभतरलो भव । शस्तमन्यदपि स्वैरं ननु रे समरे कुरु ॥ ४३ ।। विद्याधरी-आकण्णिअदु दाव किं दाणी भणदि रावणो । (नेपथ्ये।) आकर्णितस्तव दशानन बाहुदण्ड- श्रीखण्डकाननफणी नवचन्द्रहासः। येन खनाममवसाम्यरुषेव पीतः खोकलोलनयनामुखचन्द्रहासः ॥ ४४ ॥ विद्याधरः-लीलादलितचन्द्रहासः सोत्पासः किमधुना वदति रावणं रामचन्द्रः। (नेपथ्ये।) अयि, तावदधुना लङ्केश्वरः खिद्यते । विद्याधरी-किपि दाणी जप्पिस्सदि रावणो । १. पश्य पश्य । इतः शरान्धकारं विस्तारयता निशामुखायितं दशमुखेन । २. आकर्णयतु तावत्किमिदानी भणति रावणः । ३. किमपीदानी जल्पिष्यति रावणः ।

प्रसन्नराघवम्। (नेपथ्ये।) कथमचैव लकेश्वरः खिद्यते । ननु रे, विध्वस्ता दशभिर्भुजैर्दशदिशः प्रत्येकमेते पुन- रायैव दशापरे मम गिरिप्राग्भारभाजो भुजाः । आराध्यः शशिमौलिरम्बुधिजले निद्राति नारायणः किंकर्तव्यतयानयानुदिवसं लकेश्वरः खिद्यते ॥ ४५ ॥ विद्याधरी-वअणमेत्तं दाणीं । विद्याधर:-नहि नहि । पश्य पश्य । नन्वयमिदानीमपि धनुनिखिशादिपहरणगणच्छेदकुपितो दशास्यः स्वान्मूतॊ रघुपतिशरश्रेणिदलितान् । करैरेकैरेकैर्नभसि भृशमादाय युगप- क्षिपन्नन्यैरन्यैः सफलयति दोर्वंशतिमपि ॥ ४६॥ (पुनः सकौतुकम् ।) एतान्यस्य यथायथा सुविशिखैः कृत्तानि रक्षःपते- रुद्गच्छन्ति शिरांसि भीपुतिलकैः साकं दिवौकःपतेः । उन्मीलन्ति तथातथा रघुपतेरन्तः प्रमोदोर्मयः कण्ठच्छेदविनोदकौतुकभरव्यग्रीभवच्चेतसः ।। ४७ ।। विद्याधरी-केहं अजावि णिसाअरेन्दबन्दीकिदसुरसुन्दरीणं दसणं दुल्लहं जं इमस्स सीसाई पुणो पुणोवि उम्मीलन्ति । विद्याधरः-अलं तापेन । क्रीडति खलु रामः सह रावणेन । न पुनरद्यापि कुप्यति । (पुनर्विलोक्य । सकौतुकम् ।) प्रिये, पश्य पश्य । अन्तःसान्द्रवहन्महेश्वरशिरःशीतांशुलेखोल्लस- त्पीयूषद्रवशीकरव्यतिकरप्राग्भारभाजामिव । छिन्नानामपि रामचन्द्रविशिखैर्भूयः समुद्गच्छतां काप्यन्यैव निशाचरेन्द्रशिरसां कान्तिः समुज्जृम्भते ॥ ४८॥ (पुनः सकौतुकम् । विहस्य ।) अहो अस्य चित्तवृत्तिः । १. वचनमात्रमिदानीम् । २. कथमद्यापि निशाचरेन्द्रबन्दीकृतसुरसुन्दरीणां दर्शनं दुर्लभं यदस्य शी- अाणि पुनः पुनरप्युन्मीलन्ति ।

सप्तमोऽङ्कः। अयं यावद्यावत्पृथुहृदयपीठो रघुपतिः शिरश्छेदासक्तो न दशवदनस्य व्यथयति । अयं तावत्तावद्वहति मुदमुच्चैर्दशमुखः किलैतस्मिन्देवी जनकपतिपुत्री निवसति ॥ ४९ ॥ (नेपथ्ये ।) अयि प्रिय राम किं क्रीडसि शरस्तोमैनन्वेकेनैव पत्रिणा । परिपूरय नः कामं यशसा च जगत्रयम् ॥ ५० ॥ विद्याधरः-नूनममी दिवौकसस्त्वरयन्ति रामचन्द्रम् । तच्छृण्य - निकमधुना वक्ष्यति रावणः । (नेपथ्ये।) रे रे मम भुजाः, मुक्त्वैकां हरशेखरप्रणयिनी पीयूषभानोः कलां दिक्पालावलिमौलिमण्डनमणीन्गृहीत सर्वानपि । तैः काञ्ची रचितां चिराय वहतु श्रोणीतटे जानकी गायन्ती कमनीयशिञ्जितभरैमद्विक्रमाडम्बरम् ॥ ५१ ॥ विद्याधरः-(विहस्य ।) लक्केश्वर, समयज्ञोऽसि यद्भुजानेव नियुक्त - वानसि । अधुना हि भुजमण्डलमेव परिवारवर्गस्ते । (विलोक्य साकू- तम् ।) अये, कथमनेन दशाननवचनेन किंचित्कुपित इव दृश्यते जानकीकान्तः । (पुनः सहर्षविषादम् ।) हन्त भोः, विकचकुसुमस्तोमाकीर्णे परागविभूषितः शशिमणिशिलातल्पेऽनल्पे सलीलमशेत यः । अयमयमसौ रोषारूढे क्षणं रघुनन्दने भुवि दशमुखः शेते धूलिच्छटापरिधूसरः ॥ ५२ ॥ विद्याधरी-(सहर्षम् ।) ता दाणी जेव्व जणअणन्दिणी रामचन्देण समं संगमिस्सदि। विद्याधर:-अथ किम् । १. तदिदानीमेव जनकनन्दिनी रामचन्द्रेण समं संगमिष्यति । :

प्रसन्नराघवम् । उद्दामहेतिवलयैः परिदीपिताशं पश्य प्रविश्य जनकेन्द्रसुता हुताशम् । प्रत्युद्गता समधिकां द्युतिमावहन्ती प्रातर्मयूखकलिकेव दिवाकरस्य ॥ ५३ ॥ विद्याधरी-पक्ख पेक्ख । इमो असमसमरकअत्थिदं पदेस अवतरइ रामचन्दो। विद्याधर-तदेहि । कर्णामृतं पुलोमजायै निवेदयावः । (इति निष्क्रान्तो।) (ततः प्रविशति रामः सीतालक्ष्मणौ सुग्रीवबिभीषणौ च ।) रामः-अये, कथमुपगत एव भगवानम्बरमणिश्चरमाचलचूडम् : लक्ष्मण:--पश्चिमपयोधिवेलां च । नन्विदानीम् उद्दामदिम्द्विरदचञ्चलकर्णपूर- गण्डस्थलोच्चलदलिस्तबकाकृतीनि । मीलन्नभांसि मृगनाभिसमानभांसि दिक्कन्दरेषु विलसन्तितमां तमांसि ॥ ५४ ॥ रामः-अये, कथमुज्जृम्भितमेव निशाचरचक्रानुकारिणा तिमिर- निकरण । विभीषणः-नन्वितोऽपि समुन्मीलितमेव रामनाराचानुकारिणा तुहिनकरकिरणप्रकरेण । सुग्रीवः-एवमेतत् । अमी हि क्षीराब्धेलहरीषु फेनधवलाश्चन्द्रोपलेषु सव- त्पाथःसीकरिणो विकासिकुमुदकोडे रजःपिञ्जराः। उन्मीलन्ति चकोरचञ्चुगहने छिन्नप्ररूढाश्चम- कुर्वन्तः प्रियविप्रयुक्तरमणीगाने सुधांशोः कराः ॥ ५५ विभीषणः-एवमेतत् । इदानी हि शंकरापतनुबद्धपार्वतीकुङ्कमाक्तकुचकोरकाकृतिः। सूच्यते कमलिनीभिरुन्नमत्पद्मकोशकरलीलया शशी ॥ ५६ ॥ लक्ष्मणा-(सकौतुकम् ।) एवमेतत् । अहो । १. पश्य पश्य । अयमसमसमरकदर्थितं प्रदेशमवतरति रामचन्द्रः ।

सप्तमोऽङ्कः।
११५
व्वान्तौघे शितिकण्ठकण्ठमहसि प्राप्ते प्रतीचीमुखं
प्राचीमञ्चति किंच दुग्धलहरीमुग्धे विधोर्धामनि ।
एतत्कोकचकोरशोकरभसम्लानप्रसन्नोल्लस-
दृक्पातोर्मिकदम्बचुम्बितमिव त्रैलोक्यमाभासते ।। ५७ ।।
राम:--वत्स, एवमेतत् । इदानी हि
शीतांशुस्फटिकालबालबलयद्रागुल्लसत्कौमुदी-
वल्लीनूतनपल्लवाञ्चितमिव प्राप्य क्षणं ताम्रताम् ।
चञ्चन्मत्तचकोरचञ्चुघटनाच्छिन्नायकाण्डस्रुत-
क्षीरस्यन्दनिरन्तराप्लुतमिव श्वेतं वियद्भासते ॥ ५८ ॥
सुनर्विलोक्य सकौतुकम् ।) वत्स लक्ष्मण,
पश्योदेति वियोगिनां दिनमणिः शृङ्गारदीक्षामणिः
प्रौढानङ्गभुजङ्गमस्तकमणिश्चण्डीशचूडामणिः ।
तारामौक्तिकहारनायकमणिः कंदर्पसीमन्तिनी-
काञ्चीमध्यमणिश्चकोरपरिषचिन्तामणिश्चन्द्रमाः ॥ ५९॥
लक्ष्मणः-एवमेतत् । अयमसौ
खैरं कैरवकोरकान्विदलयन्यूनां मनः खेदय-
न्नम्भोजानि निमीलयन्मृगदृशां मानं समुन्मीलयन् ।
ज्योत्स्ना कन्दलयन्दिशो धवलयन्नुढेलयन्वारिधी-
न्कोकानाकुलयंस्तमः कवलयन्निन्दुः समुज्जृम्भते ।। ६० ॥
बिभीषणः-सखे सुग्रीव, पश्य ।
मयूखनखरत्रुटचिमिरकुम्भिकुम्भस्थलो-
च्छलत्तरलतारकाकप
काकपटकीर्णमुक्तागणः ।
पुरंदरहरिदरीकुहरगर्भसुप्तोत्थित-
स्तुषारकरकेसरी गगनकाननं गाहते ॥ ६१ ॥
सुग्रीवः-सखे बिभीषण, पश्य ।
यः श्रीखण्डतमालपत्रति दिशः प्राच्याः स्मरक्ष्मापतेः
पाण्डुच्छत्रति दन्तपत्रति वियल्लक्ष्मीकुरङ्गीदृशः ।
केलिश्वेतसहस्रपत्रति रतेः किं च क्षपायोषितः
क्रीडाराजतसीधुपात्रति शशी सोऽयं जगन्नेत्रति ॥ ६२ ॥

प्रसन्नराघवम्। रामः-(निर्वर्ण्य ।) सितकिरणकपोलीमालिमालोकयन्ती तिमिरविरहतापव्याकुलां व्योमलक्ष्मीम् । रजनिरमलताराशीकरैः सिक्तमस्याः परिमलयति गात्रं चन्द्रिकावन्दनेन ॥ ६३ ।। (पुनर्विमृश्य । स्वगतम् ।) इन्दुरिन्दुरिति किं दुराशया बिन्दुरेष पयसो विलोक्यते । नन्विदं विजयते मृगीदृशः श्यामकोमलकपोलमाननम् ॥ ६४ ॥ (पुनः सीतां प्रत्यपवार्य ।) तन्वि त्वद्वदनस्य विभ्रमलवं लावण्यवारांनिधे- रिन्दुः सुन्दरि दुग्धसिन्धुलहरीबिन्दुः कथं विन्दतु । उत्कल्लोलविलोचने क्षणमयं शीतांशुरालम्बता- मुन्मीलन्नवनीलनीरजवनीखेलन्मरालश्रियम् ॥ ६५ ॥ सीता-(लज्जां नाटयति । विलोक्य सहर्षम् ।) अहो, कहमिमो उम्मी- लिदो जेव्व । मुउलीकिदारविन्दो माणवईमाणवारणमइन्दो । तिहुअणणअणारविन्दो रअणीमुहचन्दणो चन्दो ॥ ६६ ॥ रामः-सखे सुग्रीव, पश्य पश्य । इन्दोरस्य त्रियामायुवतिकुचतटीचन्दनस्थासकस्य व्योमश्रीचामरस्य त्रिपुरहरजटावल्लरीकोरकस्य । कंदर्पक्षोणिपालस्फटिकमणिगृहस्यैतदाखण्डलाशा- नासामुक्ताफलस्य स्थगयति जगतीं कोऽपि भासां विलासः॥६७॥ सुग्रीवः-अये रघुनाथ, पुनरुक्तमिदमाचष्टे चन्द्रमसः किरण- विलासः। रामः-कथमिव । सुग्रीवः-नन्वत एव १. अहो, कथमयमुन्मीलित एव । मुकुलीकृतारविन्दो मानवतीमानवारणमृगेन्द्रः । त्रिभुवननयनारविन्दो रजनीमुखचन्दनश्चन्द्रः ॥

सप्तमोऽङ्कः। ११७ कर्पूरादपि कैरवादपि दलत्कुन्दादपि वर्णदी- कल्लोलादपि केतकादपि चलत्कान्ताहगन्तादपि । दूरोन्मुक्तकलङ्कशंकरशिरःशीतांशुखण्डादपि श्वेताभिस्तव कीर्तिभिर्धवलिता सप्तार्णवा मेदिनी ॥ ६८ ॥ रामः-अलं तुच्छप्रायजल्पितेन । विभीषणः-देव, तुच्छप्रायमेव जल्पितं सुग्रीवेण । यदुक्तं मेदिनी धवलितेति । ननु त्रिलोकीतलमेव धवलितमिति वक्तव्यम् । संप्रति हि- समुन्नतघनस्तनस्तबकचुम्बितुम्बीफल- कणन्मधुरवीणया विवुधलोकवामभ्रुवा । त्वदीयमुपगीयते हरकिरीटकोटिस्फुर- तुषारकरकन्दलीकिरणपूरगौरं यशः ॥ ६९ ॥ रामः-अयि लङ्केश्वर, भवानपि किष्किन्धानाथमतमेवानुगतः । (पुनर्विलोक्य सहर्ष सुग्रीवं प्रति ।) संरम्भोद्रिक्तनक्तंसमयदशमुखोचण्डदोर्दण्डहेला- कैलासः सप्तलोकीजयमुदितमनोजन्मवादिवशङ्खः । लोलाक्षीगण्डपालीलवणिमजलधेरुद्गतः फेनपिण्डः पश्य व्योमावकाशं विशति विरहिणां दत्तशङ्कः शशाङ्कः ॥७॥ (निर्वर्ण्य । खगतम् ।) अयं नेत्राद।रजनि रजनीवल्लभ इति भ्रमः कोऽयं प्रज्ञापरिचयपराधीनमनसाम् । सुधानामाधारः स खलु रतिबिम्बाधरसुधा- रसासेकस्निग्धादजनि नयनात्पुष्पधनुषः ॥ ७१ ॥ लक्ष्मण:-आर्ये जानकि, पश्य पश्य । आनन्दं कुमुदादीनामिन्दुः कन्दलयन्नयम् । लयत्यम्बराभोगं हनूमानिव सागरम् ॥ ७२ ॥ सीता-अये. सुलक्खण लक्खण, सो उण दाणी कहिं रहुउलकु- डम्बसन्तावसमणचन्दणो पवणणन्दयो । १. अये सुलक्षण लक्ष्मण, स पुनरिदानी क रघुकुलकुटुम्बसंतापशमनच- न्दनः पवननन्दनः । प्र. ११ प्रसन्नराघवम् । लक्ष्मणः-आर्ये, स एष रामचन्द्रेण बन्धुमानन्दितुमयोध्यायां प्रहितः । सीता-ता अमेहिं किंति विलम्बीअदि । (रामो विभीषणमुखमालोकते ।) विभीषणः-(निर्गत्य प्रविश्य च ।) इदं तत्पुष्पकाभिधानं विमानरत्न- मारुह्यताम् । (सर्वे विमानावरोहणं नाटयन्ति ।) रामः-(सकौतुकम् ।) अये, तदिदं विमानरत्नं यत्किल त्रिभुवनै- कवीरः कुबेरानुजः कुबेरादाजहार । लक्ष्मण:-(सामर्षम् ।) कथमयं किष्किन्धामाहिष्मतीपतिभ्यः सम- भागविभक्तलक्ष्मीकोऽपि त्रिभुवनैकवीर इति व्यपदिश्यते । रामः-(विहस्य ।) वत्स, एवमेतत् । ताहक्कठोरभुजयन्त्रनिपीडनेन निःशब्दतामुपगतैर्दशकण्ठकण्ठैः । यत्कीर्तिघोषणमकारि चतुःसमुद्र- वेलासु किं स वचसां विषयः कपीद्रः ॥ ७३ ।। अपि च । कोपप्रदीप्तनिजलोचनदीपवह्नि- निर्मिन्नसान्द्रतिमिरे स दशाननोऽपि । काराकुटीरकुहरे वसति स्म यस्य सोऽप्येष हैहयपतिर्विषयो न वाचाम् ॥ ७४ ॥ किंतु परिभावय वत्स, यस्य द्राकरवालकृत्तशिरसः कण्ठालवालस्थली चूडाचन्द्रमसं निपीड्य निबिडं सिञ्चन्सुधानिर्झरैः । खां मेने दशखण्डमण्डन इति ख्यातिं कृतार्थी हरः पन्थानं दशकन्धरः स च कथंकारं गिरां गाहते ॥ ७५ ॥ (निर्वर्ण्य ।) अये, किमुच्यतेऽस्य खलु त्रिकूटगिरिशिखरकण्ठीरवस्य दश- कण्ठस्य लोकोत्तराणि चरितानि । १. तदस्माभिः किमिति विलम्ब्यते ।

सप्तमोऽङ्कः। ११९ यद्दोःशायिनि चन्द्रशेखरगिरौ भारावतारोन्नम- नागाधीशफणावलीमणिरुचां पूरे समुन्मीलति । जातास्तुल्यमकालबालतपनाताम्राश्चतस्रो दिशो देवस्यापि रुषा तुषारकिरणोत्तंसस्य तिस्रो दृशः ।। ७६ ।। लक्ष्मणः-आर्य, एष मे मनसि भासतेऽधुना मूर्तिमानिव मनोरथो रथः । नास्ति नो यदधिरोहलीलया दूरमागतवतामपि श्रमः ॥ ७७ ॥ रामः-एवमेतत् । तथाहि । उल्लङ्घय नीरधिमतीत्य च दण्डकानि नद्यौ च मेकलकलिन्दसुते व्यतीत्य । प्राप्ताः शिखण्डिशतखण्डितशाखिखण्ड- मेते वयं शिखरिणं ननु चित्रकूटम् ॥ ७८ ॥ सीता-(तिर्यग्विलोक्य ।) अहह कलिन्दणन्दिणि, सच्चप्पसादासि जं पुणोवि णिअकुडुम्बस्स दिण्णदंसणासि । रामः-अयि, तदिदं निर्मुक्तविरोधश्वापदं भगवतो भारद्वाजस्या- श्रमपदम् । लक्ष्मण:-एवमेतत् । अत्र हि व्याजृम्भमाणवदनस्य हरेः करेण कर्षन्ति केसरसटाः कलभाः किलैके । अन्ये च केसरिकिशोरकपीतमुक्तं दुग्धं मृगेन्द्रवनितास्तनजं पिबन्ति ॥ ७९ ॥ अपि च । क्रीडन्माणवकाशिताडनशतैरुज्जागरस्य क्षणं शार्दूलस्य नखाङ्कुरेषु कुरुते कण्डूविनोदं मृगः । चञ्चच्चन्द्रशिखण्डितुण्डघटनानिर्मोकनिर्मोचितः किंचायं पिबति प्रसुप्तनकुलश्वासानिलं पन्नगः ।। ८० ।। १. अहह कलिन्दनन्दिनि, सत्यप्रसादासि यत्पुनरपि निजकुटुम्बस दत्त- दर्शनासि ।

प्रसन्नराघवम् । राम:-अये, कथमयं संप्राप्त एव चक्रवाकरमणीसंरम्भसमय: प्रभातसमयः । तथाहि । एते केतकधूलिधूसररुचः शीतयुतेरंशवः प्राप्ताः संप्रति पश्चिमस्य जलधेस्तीरं जराजर्जराः । अप्येते विकसत्सरोरुहवनीदृक्पातसंभाविताः प्राचीरागमुदीरयन्ति तरणेस्तारुण्यभाजः कराः ॥ ८१ ॥ लक्ष्मणः-(सकौतुकम् ।) सद्यः संघटमानकोकमिथुनव्याजेन पीनस्तन- द्वन्द्वव्यञ्जितयौवनोज्वलरुचो निर्माय दिक्कन्यकाः । दुर्दैवाक्षरमालिकामिव झगित्याकृष्य भृङ्गावली लक्ष्मीमम्बुजिनीजनस्य तनुते देवस्त्विषामीश्वरः ।। ८२ ॥ सुग्रीव:-विभीषण, पश्य पश्य । उन्मीलन्ति निशानिशाचरवधूनिर्वासनामात्रिकाः सायं सालससुप्तपङ्कजवनप्रोद्बोधवैतालिकाः । फुल्लत्पङ्कजकोशगर्भकुहरप्रोद्भूतभृङ्गावली- झाङ्कारप्रणवोपदेशगुरवस्तीवधुतेरंशवः ॥ ८३ ॥ विभीषण:- एवमेतत् । तथाहि । आयान्त्या दिवसश्रियः पदतलस्पर्शानुभावादिव व्योमाशोकतरोर्नवीनकलिकागुच्छः समुज्जृम्भते । आतन्वन्नवतंसविभ्रममसावाशाकुरङ्गीदृशा- मुन्मीलत्तरुणप्रभाकरकरस्तोमः समुद्भासते ॥ ८४ ॥ रामः-प्रिये, एतत्तय चक्रवाकसुदृशामाश्वासनादायिनः प्रौढध्वान्तपयोधिमग्नजगतीदत्तावलम्बोत्सवाः । दीतांशोर्विकसन्ति दिङ्मृगदृशां काश्मीरपङ्कोदक- व्यात्युक्षीचतुराः सरोरुहवनश्रीकेलिकाराः कराः ॥ ८५॥ (अपवार्य ।) पश्य पश्य । शिथिलयति सरागो यावदों नलिन्याः कमलमुकुलनीवीग्रन्थिमुद्रां करेण ।

सप्तमोऽङ्कः । प्रविकसदलिमाला गुञ्जितैर्म शब्दा जनयति मुदमुच्चैः कामिनां कामिनीव ।। ८६ ॥ सीता-(विहस्य विलोक्य च ।) कहं इमो उम्मीलिदो जेव्व । पुवगिरिपम्मरायो पअडीकिदणअणशीअलसहाओ। कुङ्कुमकिअङ्गराओ णलिणीजणवल्लहो देवो ॥ ८७ ।। रामः-(प्रकाशम् ।) अये, जानकि, पश्य । तरलतरतरङ्गभङ्गहेलाबहलविलासविलोलहंसमाला । अमरपुरतरङ्गिणीयमम्बा सुरनरमङ्गलकारिणी न दूरे ॥ ८८ ॥ (सीता सहर्षं तदेव पठति संस्कृतं प्राकृतं च ।) रामः-(सहर्षम् ।) वत्स लक्ष्मण, इयमदूरे रघुकुलमङ्गलाकुरप्र- रोहकेदारधरणीतरङ्गिणी सरयूः । इयं च सरयूतरङ्गशीकरशीतलीकृतप- रिसरा नगरीसीमन्तमणिरयोध्या । लक्ष्मण:-(सहर्षम् ।) अयमसौ भरतानुयातस्त्वदभिषेककृतमतिर्भ- गवानरुन्धतीपतिः। दिलीपकुलमाणिक्यं सकलाशाविकासकम् । आविर्भवन्तं भास्वन्तं भवन्तं संप्रतीक्षते ॥ ८९ ॥ तेन पुष्पकादवतरामः। रामः-वत्स, प्रतीक्षखेहैव तावत्सुलभसकलमण्डलालोकमाखण्डला- शामण्डनं भगवन्तं चण्डमरीचिं नमस्यामः । (अञ्जलिं बवा ।) प्राचीकुङ्कुमतिलकं पूर्वाचलशेखरैकमाणिक्यम् । त्रिभुवनगृहैकदीपं वन्दे लोकैकलोचनं देवम् ॥ ९० ॥ (नेपथ्ये ।) अये वत्स रामभद्र। रामः-अहो अद्भुतम् । विकासयन्ती नितरां पद्मानीव मनांसि नः । प्रभेव भारती कापि भानुबिम्बाद्विजृम्भते ॥ ९१ ॥ १. कथमयमुन्मीलित एव । पूर्व गिरिपद्मरागः प्रकटीकृतनयनशीतलखभावः । कुङ्कुमकृताङ्गरागो नलिनीजनवल्लभो देवः ॥

१२२ प्रसन्नराघवम् । (नेपथ्ये ।) यशःपूरं दूरं तनु सुतनुनेत्रोत्पलबनी- तमस्तन्द्रा चण्डातप तप सहस्राणि शरदाम् । इयं चास्तां युष्मद्गुणकथनपीयूषपटल- श्रितोत्सङ्गा नन्दत्सुरनरभुजङ्गा त्रिजगती ॥ ९२ ॥ रामः-अनुगृहीतोऽस्मि । (पुनर्नेपथ्ये।) अन्यच्च ते किमाशास्महे । सुग्रीवः-अये तात दिनकर, परिपूर्णमनोरथ एव रामभद्रः अनेन हि प्राप्ता निर्भरमुन्नतिर्निजगुणैराज्ञा पितुः पालिता सुग्रीवश्च बिभीषणश्च परमां राज्यश्रियं प्रापितौ । समामे दशकन्धरः सुररिपुर्नीतो यशःशेषतां हृष्टो बन्धुजनश्च हर्षविगलद्वाप्पोल्लसल्लोचनः ॥ ९३ ॥ तथापीदमस्तु । आवालाद्वदनाम्बुजे तनुभृतां सारस्वतं जृम्भतां देवे कौस्तुभधाम्नि चन्द्रमुकुटेऽद्वैता मतिः खेलतु । वाग्देव्या सह सूक्तवैशसरसा देवी च दीव्यादियं शेषस्येव फणाञ्चलेषु सततं लक्ष्मीः सतां सद्मसु ॥ ९४ ॥ रामः-तदागच्छत । पुष्पकादवतीर्य गुरुं बन्धुजनं पौरांश्चानन्द- यामः । (इति सर्वे पुष्पकादवतरन्ति ।) जायन्तामविरामरामचरितक्रीडाभिरामाः सता- मुन्मीलन्नवमालिकाविरचितस्रग्दामरम्या गिरः । याः कण्ठेऽपि निवेश्य पेशलधियो रोमाञ्चलीलाञ्चिताः कान्ताबाहुलताविलासमहिमाश्लेषांस्तृणं मन्वते ॥ ९५ ॥ (इति निष्क्रान्ताः सर्वे ।) इति सप्तमोऽङ्कः । समाप्तोऽयं ग्रन्थः।

श्लोकानुक्रमणिका। अइ तुह मुहलेहा चन्द २।२९ अइ पिवह लोअणाई २१२५ अखण्डचण्डिमोद्दण्ड ४७ अग्रेसरी रघुपतेः ७।२१ अङ्गंलिम्पति चन्दनेन ७१७ अङ्गैरङ्गीकृता यत्र ३७ अत्र ते सखि शिखण्ड २।२३ अथाविरासीत्कुरुवि ५।३६ अथाहूतस्ताहक्समर ५१३५ अद्यैवास्य बिभीषणस्य ७/१२ अधिचरणममू चमूरु ५।४२ अनल नलिनकोमले ६।३७ अनाहृत्य हठात्सीतां ११६० अन्तःसान्द्रवहन्महेश्वर ७४८ अन्योऽपि कोऽपि यदि ११५५ अपक्रान्ते बाल्ये तरुणि २।११ अपि तपति पतङ्गे ५।२६ अपि मुदमुपयान्तो १११९ अप्याविरस्तु भूयोऽपि २।३० अप्युच्चण्डैस्तपन ५।२७ अमलमृणालकाण्डकम २०२० अमी मे दोर्दडास्तुलि ११५९ अमृतजलधेः पायं पायं १२१ अमृतमयपयोधिक्षीर २।२८ अम्बाः शुश्रूषमाणा अयं यावद्यावत्पृथु ७४९ अयं नेत्रादत्रेरजनि ७७१ अयमुदयति चन्द्रे ६७ अयि राघवाविति सुधा ७३१ अये कथमशोकोऽपि ६३६ अये लकेश विसस्त ११३८ अवनिमवनिपालाः ३।१३ असुरसुरनिशाचरो ११५३ असुरसुरनिशाचरो ६९ अस्ति मे कार्मुकं दिव्यं १२५ आः पापिन्पश्यतो मे ५।४६ आकर्णान्तं त्रिपुरमथ ११२९ आकर्णितस्तव दशानन ७४४ आकल्पं मुरजिन् १२ आकारेणैव चतुराः १६४ आचान्तकान्तिरुनिदै ७।९ आद्वीपात्परतोऽप्यमी १:३२ आनन्दं कुमुदादीना ७७२ आपूरणाय पुरवैरि ४।४५ आबालाद्वदनाम्बुजे तनु १९४ आमीलनवनीलनीरज ६।१६ आमोदमाघ्राय महौष ७३४ आयान्या दिवसत्रियः पद ७१८४ इतो वाणं रामः क्षिप ५१३९ इदमेव नरेन्द्राणां ५।३ इन्दुरिन्दुरिति किं दुरा ७६४ इन्दोरस्य त्रियामायुवति ७१६७ इयं लीलालोलाङ्गद ७१६ इह मधुपवधूनां पीत २।३ इह मुग्धमुखे वत्स ५।१० ईशत्यक्तपुराणचाप ४।३७ ईशसक्तपुराणचाप ४।३८ उत्तरङ्गय कुरङ्गलोचने २०२२ उदभूतिमिच्छद्भिः ७१ उदितोऽर्जुनभुजविपिने ४।४ उद्दण्डचण्डिमलसद्भुज ११४८ उद्दामदिग्द्विरदचञ्चल ७५४ उद्दामहेतिवलयैः परि १५३ उद्भिन्नश्वापचक्राद ४१४३ उन्मीलन्ति निशानिशाचर ७१८३ उन्मीलन्नयनान्तकान्ति ६।५ मे ५।६ २ उन्मीलितेन शिखरेण ११५२ उल्लध्य नीरधिमतीत्य ७१७८ एकः वर्णमहीधरां क्षिति ४.१७ एकः कथं बहुतरैः १।४२ एकेनालम्बितेयं शिथि ६।१५ एतत्कोककुटुम्बिनीजन २१३४ एतत्तदुर्विगाहं तुहिन ३।३० एतत्तय चक्रवाकसुदृशा ७८५ एतत्तय चक्रवाकहृदया ३२ एतयोः प्रकृतिरम्य ३।२० एतयोरहमुदाररूपयो ३।१९ एतान्यस्य यथायथा ७१४७ एते केतकधूलिधूसररुचः ७८१ एते हि खरसावनम्र ५।३२ एतैः श्रीकण्ठकोदण्ड ३।४३ एष मे मनसि भासते ७७७ एषामयं रामचमूचराणां ७१३ कंदर्पज्वरवेदनापरि ६।२४ कदली कदली करभः ११३७ कनकहरिणगाने वाण ५।४० कनीयस्या मातुः कृतचरण ७३२ कमलबन्धुविलोचन ४।४६ करकिसलयलीला ३।४४ करपङ्केरुहकोडे ४।४१ कराघाताद्विष्णोस्तरल ४:४० करुणतरङ्गतरङ्गिाणि २१६ कर्णे निधाय च पिधाय १।१६ कर्पूरादपि कैरवादपि ७६८ कल्लोलक्षिप्तपत्रिपुर २१३५ कल्लोलिनि खमिव ६१४ कस्मैचिद्देहि कन्यां ३।३८ कस्याख्याय व्यतिकर ६१४४ कान्तमिन्दुमणिदामकोमले २।१० कान्तेनाथ प्रणयमधुरं ५।२८ कामः कियानसिलता ६।२७ कामारिकार्मुकविकर्षण १।३० कालीकेसरिकेसराञ्चल ७४१ किं शीतांशुमरीचयः ३३२३ किं क्रीडसि शरस्तोमै ७५० किं नाम वाग्डम्बरप ४॥३६ किं ब्रूमो दशकंधरं ७१३६ किरीटमधिरूढेऽपि ४।२७ कीर्ति मृणालकमनीय १६ कुरु सकरुणं चेतः ६।३५ कुर्वन्कोपादुदश्चद्रवि ४२ कृतः स्थाने स्थाने ५:३१ कृत्वा त्रिःसप्तकृतः ४।३४ कृखा प्रबुद्धकमला २०३२ कृत्वा विनिद्रमपनिद्र ७१२२ केयं श्यामोपलविरचि २१७ कैलासशैलशिखराद ११४७ कैलासाधिकसारं कि १।२४ कोपपाटलितलोलदृष्टिना ७१४ कोपप्रदीप्तनिजलोचन ७१७४ कोलाहलेनोल्लसता ७।१४ क्रीडन्माणवकाङ्ग्रिताडन ७८० क्रीडाभग्नमृगाङ्कमौलि ३।४७ क्रीडाविनिर्मितसुदुर्मद ४।२८ क परशुरशुभस्ते कुत्र ४।३२ क्षीराब्धेर्लहरीषु फेन ७५५ क्षुण्णक्षत्रकठोरकण्ठ ४।३३ खरः कीदृग्वाली कवि ७४० गमय वत्स निमील्य ५१७ गहन विपिनवासोत्कण्ठ ५।१३ गाधिनन्दन न नन्दन ३३९ गुणग्रामाभिसंवादि ११५ गोदावरीतीरतपोवनेषु ६।११ चण्डमेव किल तिग्म ४.४७ चण्डीशकार्मुकविमर्द ४।१९ चखारः प्रथयन्तु १११ चन्द्रहास हर मे परि ६१३३ चन्द्रे च रामचन्द्रे ११० ३ चान्द्री लेखां दशति ६.३२ छत्रछाया तिरयति ३.१२ जज्ञिवान्दशरथः स हि ३१२९ जं णहु संभावीअदि ६।२० जनकतनयाहस्तन्यस्तै ५।३० जानीषे नहि जामदग्न्य ४।२४ जायन्तामविरामराम ७४९५ ज्याघातः कार्मुकस्य ३।१० ज्यावल्ली ललिताङ्गुली ३।४८ झगिति जगतीमाग १।११ तटभुवि सरसीनां सैकते ५।२४ तडिल्लेखा नेयं विलस ११३५ तत्कोदण्डं कुलिशकठिनं ४१३९ तदिदं वीरसूकर्ण २११ तनुश्रिया निर्जितचम्प ३।२१ तन्मे विदेहतनया ६३ तन्वि वद्वदनस्य विभ्रम ७१६५ तपःशान्तं चेतः स्फटिक ४।३३ तपनकुलशिरःकिरीट ३१२८ तपनसुतया देव्या यद्वा ५१३३ तरलतरतरङ्गभङ्गहेला ७८८ तरुरयमितः शीतच्छायः ५।२२ तस्य पावनवान्धव ३१२५ तस्याः कणत्किमपि नूपुर ५१४८ ताटकिना झटिति ३११ तादृक्कठोरभुजयन्त्र ७७३ तान्येव पक्ष्मलदृशो ६।१२ तारापतेरनुचरो रघु ६॥३९ तुह सुहअ उक्खिव ६११३ तुहिनकरमयूखैर्दीप्त ६॥२३ तेल्लोकं लवअन्तो ३।४६ त्रासं मुञ्च समुद्र ७१११ त्रासातुरेण हरिणेन ५।३८ त्रिपुरमथनचापारो ११५१ त्रिलोकी कोकीयं मुद ४४४ त्रिशङ्कोः खर्लोकाद ३।१५ त्वं मित्रं मम जामदम्य ३१३९ वया देयं यन्मे द्वय ५।४ खया मम समेतस्य ५४९ खया समं मे चत्वारि ५८ दक्षिणस्याम्वुधेमध्ये ४।११ दर्पोद्धतं दधिमुखं ६।५१ दलदमलकोमलोत्पल २१२७ दारैर्मुक्तकुचांशुकैः ४।२६ दिलीपकुलमाणिक्यं सक १८९ दुर्धर्षाः सुरसिद्धकिंनर ४।१३ दूरोन्मुक्तमदो बिभीषण ७१४२ देवि त्वदीयमणि ६।१० दोष्णां न मे विदितवान १५० धनुर्निस्त्रिंशादिप्रहरण ७४६ ध्वान्तौघे शितिकण्ठकण्ठ ७.५७ नक्तंचरेन्द्रभगिनी ५.३४ नखैस्तदीयैः कुलिशा ५।४७ न ज्ञातुं नाप्यनुज्ञातुं ५।२ नटति नरकराग्रव्यग्र ११२८ न ब्रह्मविद्या न च राज ११२३ नरेन्द्रः कैकेयीवचन ५११७ नाभीपद्मवसच ११३ निकामं रामस्य प्रभु ५११२ निकृत्तचाप इति मा ७.४३ निजनखशिखालेखा ६१८ निजामपि सुतां सीतां ६।१८ निजे पाणौ कृत्वा कमल ६।२६ निन्द्यन्ते यदि नाम मन्द १२० निर्मिनवैरिकरिकुम्भ ११४१ निर्मुक्तशैशवदशा २०१९ निशाचरशिरोरत्न ७१० नीलनीरजदलोज्ज्वल ३११८ नीलोऽयं दशमुखपाणि ॥२७ नृपशतसुकुमारकण्ठ ४६९ नेदीयसी हि सरयू ५।५२ पथि पथि लतालोला २१५ पदाभ्यामुन्निद्रामधरयति २१९ ४ पन्थाः समः सिकतिलो ५१२१ पयोभिः सिच्यन्तां ३१६ परस्त्रीकुचकुम्भेषु ७२ परिमितकमनीयः ६।१४ परिम्लान मालामिव ५।५१. पश्य पश्य सुभटैः स्फुट ११३१ पश्योदेति वियोगिनां ७१५९ पाणीञ्जनककन्यानां ३१५१ पादोपजीवनाद्भानो ३५ पितुः पादाम्भोजप्रणति ११४९ पीत्वा कज्जलकालिमा ३।३७ पुरः कान्तं यान्तं विपिन ५।१४ पुवगिरिपोम्मरायो ७८७ पूर्णा एव पुरारिचाप ३।४२ पूर्वमेव प्रयातानां खर ७१३९ प्रत्यङ्कमङ्कुरितसर्व १७ प्रत्यासने भवति ५।२६ प्रसीद त्वं रोषाद्विरम ४१३५ प्राकारमुन्नतमसीम ६१२२ प्राचीकुङ्कुमतिलकं १९० प्राचीमालम्बमाने घन २१३३ प्राप्ता निर्भरमुन्नति ७९३ प्राप्य चापनिगमानितः ३।३३ प्रायो दुरन्तपर्यन्ताः ५:४९ प्रोषितवति रजनिकरे ५।५ बन्धूकवन्धुरधरः सित २१८ बहलगलन्तणअणजल ६१४५ बहलगलितैः संतापो ५११ बहुलपक्षशशीव दिने ६।४२ बाणस्य बाहुशिखरैः ११५६ बाणौघानेकवीरः कल ६१४९ बाला विदेहतनया ५।१५ बीजं यस्य चिरार्जितं १।१३ भास्वद्वंशवतंस १९ मिन्दनिद्रां मुरारेः ३१४५ भिन्नप्रभिन्नसुरकुजर ७।२५ भीतं विलोक्य हरिणं ५।२३ भुमालकं स्मितपरा ७१५ भ्रूवल्ली विजितमनोज ५।३७ भो ब्रह्मन्भवता समं ४।२५ मअणवहूणेउरवर २।२४ मकरन्दरसस्यन्दसुन्द १२६ मणिमयमङ्गलदीवो ४१ मत्वा चापं शशिमुखि २११७ मन्दाकिनीकनकपद्म ११४३ मन्दोदरीकुटिलकोमल ११५८ मन्दोदरीमपि विमुञ्चति ६२८ मन्मनःकुमुदामन्द २०१५ भया स्पृष्टं न वा स्पृष्टं ४२१ मयि क्षीरोदन्वनिभृ ११३४ मयूखनखरत्रुटत्तिमिर ७६१ मलयशिखरादाकै २।४ महौषधीनामाधारं भूधरं ७३३ मातस्तातः क्व यातः ५.१८ मा ताम्य तामरसपत्र ६.४७ मा भव नागपतेः ७।१८ मा भव नागपतेः ७१९ मारीचमारीचतुरं ३।३२ मारीचमुख्यरजनीचर ३१३४ मा शांभवं धनुरिवे ४१४२ मा होहि णाअवइणो ११७ मुउलीकिदारविन्दो ७६६ मुक्त्वैकां हरशेखर ७१५१ मुग्धस्य केलिविजित २॥३१ मौवीं धनुस्तनुरियं च ४।१५ यः कर्तार्जुनभूरुहाद्भुत ४।१० यः काञ्चनमिवात्मानं ३८ यः श्रीखण्डतमालपत्रति ७१६२ यत्र क्रामति संगरा ४॥२९ यत्संतुष्टवता पुरा पुर ६।२५ यथाहं निःसीमोत्सव ३।२२ यद्दष्ट्रावज्रघातैः समिति ७।२४ 057 यद्दोःशायिनि चन्द्रशेखर ७७६ यद्वाहू वहतः पराक्रम ३१२६ यशःपूरं दूरं तनु ४।४८ यशःपूरं दूरं तनु सुतनु ७।९२ यस्य ख्याता जगति सक ३१३५ यस्य त्र्यम्बकमौलिखेल ७१३ यस्य द्राकरवाल कृत्त ७७५ यस्याः स्वयं कुलगुरुः ११४६ यस्याश्चोरश्चिकुरनिकरः १२२ यस्येन्द्रारिजयश्रिया ३।२७ यस्योद्यद्धोरधाराञ्चल ४५ यस्योद्यद्धजदण्डचण्डिम ३।२४ यां वै गर्भे त्रिजगदवला ६।१७ यावत्कन्दुकलाञ्छना ३१४९ यावत्कर्ण तपति तपन ५।२५ यावनीरनिधेः प्रभात ३१४ या शैशवावधि मनो ६।३८ युष्माकं भोः सुघटित ४।३० ये ऋष्यशृङ्गचरुभाग ४/१२ ये चन्द्रचूडाचलचालनै १।४५ येनावध्यत नर्मदाम्बु ४१६ येनोपदिष्टमद्यापि ४।२० येयं बिभीषणे शक्ति ७१२८ येषां कोमलकाव्यकौश ११८ योऽयं बहिः कलित ६१६ यो वालिनः शौर्यनिधे ६।४० रजनिचरकराग्रस्पर्श ५१४४ रजनिकर करास्ते ६२ रतिरिव जननेत्रा ३१३६ राघवेण शिशुनापि ३।४१ राजल्ललाटफलका ७१८ राजीव जीवसि मुधा १६३६ रामे चन्द्राभिरामे विनय ४।१८ रामेण सार्धमयमुद्धत ६।२३ रामे प्राप्ते वनान्ते कथ ५।१९ रामोन्मुकैकवाणप्रणि ५।४३ । रे बाण मुञ्च मयि ११५७ रे रे चन्दनमिन्दुमण्डल १६ रे रे भुजाः कुरुत ११५४ रोषाभिभूतपुरुहूत ३।१६ रोषारुणीकृतविलोचन ११४० लक्ष्मणस्येव यस्यास्य १।१५ लकेश्वरेण दुष्टेन ७५ लालयन्तमरविन्द ३३ वक्षस्थले किमपि नील ७।२६ वर्षनैव समन्ततो दश ७२९ वहत्यस्या दृष्टिविकच २०१६ वाआलेणवि कहिदा ६।२१ वाणि वत्पदपद्मरेणु ११८ वाराङ्गनाकरतरङ्गित ३।११ वाती च कौतुकवती २।१ वालिने विसृजता धनु ६१४१ वासन्तीरसबिन्दुं सुन्दर २।१८ विकचकुसुमस्तोमाकीर्णे ७५२ विकासयन्ती नितरां ॥९१ विघ्नानिवानुसरतो ५।२० विच्छालअ णिअमङ्गं ६१४६ विद्याधरप्रणयिनी ११४४ विधिरकरुणः स्फीतं ६।३१ विश्वस्ता दशभिर्भुजै ७१४५ विनैवाम्भोवाहं वहुल १।३३ विन्यासं नाकनारीकुच ७।३५ विरम विरम रक्षः किं ६।३० विलासैदम्भोलेदलित ५/५३ विलासो यद्वाचामसम १।१४ विसट्टपेसलुप्पलप्पला २।२१ विहरास्मिन्रमणीये ५।४१ वेध्यं क्रौञ्चमहीधरस्य ४११६ वेलारस्य हेलाक्रमण ६१५० व्याजृम्भमाणवदनस्य ७७९ शंकरार्धतनुबद्धपार्वती ७५६ शलाकीकृत्य खां दृश ३।१४ ६ शिथिलयति सरागो या ७८६ शीतांशुस्फटिकालवाल ७१५८ श्यामच्छवीनामियमन्तराले २०१३ श्रीकण्ठकार्मुकनिरस्त ३।४० संरम्भोद्रिक्तनक्तं ७१७० सकलजनविलोकनोत्स ३।१७ सकलनृपकठोरकण्ठ ४।३ सद्यः संघटमानकोक ७१८२ समुन्नतघनस्तनस्तबक ७६९ सम्यक्संघद्यमानेन ३१५० सर्वस्वं नवयौवनस्य २।२६ सहेलं हत्वैमं हरिण ५.५० सावलेपकमनीयमुदस्य ११३९ सितकिरणकपोली ७६३ सुबाहुमारीचपुरःसरा ४८ सुरमुरजगभीरधीर ५११६ सुललितवदनामुदार १११७ सेवायातसमस्तखेचर ३१३१ सौन्दर्य मदनादपि प्रथ ४४१४ सौमित्रे ननु सेव्यतां ६।१ स्तनविजितस्तबकश्री २०१२ स्निग्धाशोकद्रुम ६।१९ खसूक्तीनां पात्रं रघु १।१२ खां स्वां दिशं श्रितवतां ११२७ स्वैरं कैरवकोरकाविद ७।६० हत्या कथंचिदपि राज ६१४८ हस्तावलम्बदानाय ५/११ हा जानकि खमधुनासि ६।२९ हारः कण्ठं विशतु यदि ४।२३ हा राम हा रमण हा ५.४५ हा वत्स लक्ष्मण विका ७३० हिमकरकिरणकरम्बित ६१३४ हिमांशुश्चण्डांशुर्नव ६।४३ हे बालहेमलतिके ध्रुव २।१४ हे रामकामरिपुकार्मु ४।२२ हेलास्फालितरामलक्ष्मण ७।२० हेलोन्मूलितचन्द्रचूड ७३७ हेलोन्मूलितचन्द्रचूड ७१३८

No text on this page.

No text on this page.

No text on this page.

The Prasannaraghava Of Jayadeva Edition I I I

Author
Vasudeva Laxman Shastri Paniskar
Other authors
Ccl
Title
The Prasannaraghava Of Jayadeva Edition I I I
File name
The Prasannaraghava Of Jayadeva Edition I I I
Text
OCR done
Citation
1922
Publisher
Panduranga Jawaji Nirnay Sagar Press
Language
Sanskrit
Pages
134
Library
Scl
DLI number
326615
Barcode
2020010008751.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
0qVaCk1KMOm
Download PDF

The Prasannaraghava Of Jayadeva Edition I I I