Library
Upmitibhav Prapancha Katha
Front matter
[ १४७ अथ द्वितीयः प्रस्तावः। अस्तौह लोके सुमेरुरिवाकालप्रतिष्ठा नौरनिधिरिव महा- सत्त्वसेविता कल्याइपरम्परेव मनोरथपूरणौ जिनप्रणीतप्रव्रज्येव सत्पुरुषप्रमोदहेतुः समरादित्यकथेवानेकवृत्तान्ता निर्जितत्रिभुवनेव लब्धलाघा सुसाधुक्रियेवापुण्यैरतिदुर्लभा मनुजगति म नगरौ । मा च कीदृशी । उत्पत्तिभूमिधर्मस्य मन्दिरमर्थस्य प्रभवः कामस्य कारणं मोक्षस्य स्थानं महोत्सवानामिति । यस्यामुत्तुङ्गानि विशा- लानि विचित्रकनकरत्नभनिचित्राणि प्रतिमनोहारितया परम- देवाध्यासितानि मेरुरूपाणि देवकुलानि। यस्यां चानेकाडतवस्तु स्थानभूतत्वेनापहसितामरनिवासाः चितिप्रतिष्ठिताधनेकपुरकलिता भरतादिवर्षरूपाः पाटकाः अत्युच्चतया कुल शैलाकाराः पाटक- परिक्षेपाः । यस्याश्च मध्यभागवतॊ दौर्घतराकारो विजयरूपावयन- पंक्तिभिर्विराजितो महापुरुषकदम्बकसङ्कुलः भाभमूल्यानुरूप- पण्यलाभहेतुर्महाविदेहरूपो विपणिमार्गः । यथाश्च निरुद्धवादित्य- चन्द्रादिगतिप्रसरतयातीतः परचक्रलङ्घनाया मानुषोत्तरपर्वताकारः प्राकारः । तस्मात्परतो यस्यां विस्तीर्णगम्भौरा समुद्ररूपा परिखा । यस्यां च सदा विषुधाध्यासितानि भद्रशालवनादिरूपाणि नाना- काननानि । यस्यां च बहुविधजन्तुमवातजलपूरवाहिन्यो महा- नदीरूपा महारथ्याः । यस्यां च ममस्तरथ्यावताराधारभूतौ लवण- कालोदसमुद्ररूपौ दावेव महाराजमा। यस्यां च महाराज- मार्गप्रविभक्तानि जम्बदौपधातकौषण्डपुष्करवरदौपार्धरूपाणि वसन्ति उपमितिभवप्रपञ्चा कथा । त्रौण्येव पाटकमण्डलानि । यस्यां च लोकसुखहेतवः समुचित- स्थानस्थायिनः कल्पद्रुमरूपा भूयांसः स्थानान्तरोयनृपतय इति । अपि च । तस्याः कः कोटिजिकोऽपि गुणसम्भारगौरवम् । शको वर्णयितुं लोके नगर्याः किमु मादृशः ॥ यस्यां तीर्थकतो ऽनन्ताश्चक्रिकेशवसौरिणः । संजाताः संजनिष्यन्ते जायन्तेऽद्यापि केचन ॥ या चेह सर्वशास्त्रेषु लोके लोकोत्तरेऽपि च । अनन्तगुणसंपूर्ण दुर्लभत्वेन गीयते ॥ उच्चावचेषु स्थानेषु हिण्डिवा श्रान्तजन्तवः । प्राप्ताः खेदविनोदेन लभन्ते यत्र नितिम् ॥ विनीताः शुचयो दक्षा यस्यां धन्यतमा नराः । न धर्ममपहायान्यनूनं चेतसि कुर्वते ॥ यस्यां नार्यः सदानार्यकार्यवर्जनतत्पराः । पुण्यभाजः सदा धर्म जैनेन्द्रं पर्युपासते ॥ किं वात्र बहुनोतन वस्तु नास्ति जगत्त्रये । तस्यां निवसतां सम्यक् पुंसां यत्रोपपद्यते । मा हि रत्नाकरैः पूर्णा सा विद्याभूमिरुत्तमा । मा मनोनयनानन्दा मा दुःखौघविनाभिका ॥ साखिलाश्चर्यभूयिष्ठा सा विशेषसमन्विता । मा मुनीन्द्रसमाकीर्णा मा सुश्रावकभूषिता ॥ मा जिनेन्द्राभिषेकादितोषिताखिलभव्यका ।
द्वितीयः प्रस्तावः । -- सायवर्गाय भव्यानां सा संमाराय पापिनाम् ॥ जीवो जीवस्तथा पुण्यं पापाद्याः सन्ति नेति वा । अयं विचारः प्रायेण तस्यामेव विशेषतः ॥ यस्तस्यामपि संप्राप्तो नगर्यो पुरुषाधमः । न युज्यते गुणैर्लोकः सोऽधन्य इति गण्यते ॥ तां विमुच्य न लोकेऽपि स्थानमस्तीह मानवाः । संपूर्ण यत्र जायेत पुरुषार्थचतुष्टयम् ॥१३॥ तस्यां च मनुजगतौ नगर्यामतुलबलपराक्रमः खवौर्याक्रान्त- भुवनत्रयः शक्रादिभिरप्रतिहतशक्तिप्रसरः कर्मपरिणामो नाम महानरेन्द्रः । यो नीतिशास्त्रमुलंध्य प्रतापैकरमः सदा । वणवख्यं जगत्मवें विलोकयति हेलया ॥ निर्दयो निरनुक्रोशः सर्वावस्थास देहिनाम् । स चण्डशासनो दण्डं पातयत्यनपेचया ॥ स च केलिप्रियो दुष्टो खोभादिभटवेष्टितः । नाटकेषु परां काष्ठां प्राप्तोऽत्यन्त विचक्षणः ॥ नास्ति मल्लो जगत्यन्यो ममेति मदविहलः । म राजोपद्रवं कुर्वन धनायति कस्यचित् ॥ ततो हास्यपरो लोकान् नानाकारैविडम्वनैः । सर्वान्विडम्बयनुचैर्नाटयत्यात्मनोऽयतः ॥ तेऽपि लोका महान्तोऽपि प्रतापमसहिष्णवः । तस्य यद्यदसौ वति तत्तत्मवें प्रकुर्वते ॥
उपमितिभवप्रपञ्चा कथा ।
ततश्च ।
कांश्चिवारकरूपेण क्रोशतो वेदनातरान् ।
नर्तयत्यात्मनः प्रौति मन्यमानो मुहुर्मुडः ॥
यथा यथा महादुःखैविहलांस्तानुदीक्षते ।
तथा तथा मनस्युच्चैरुल्लमत्येष तोषतः ॥
कांश्चिद्दोद्भुरो भूत्वा स इत्थं बत भाषते ।
भयविह्वलचित्तत्वादाज्ञानिर्देशकारकान् ॥
अरे रे तिर्यगाकारं ग्टहीत्वा रङ्गभूमिषु ।
कुरुध्वं नाटकं वर्णं मम चित्तप्रमोदकम् ॥
ततश्च ।
काकरासभमार्जारमूषकाकारधारकाः ।
सिंहचित्रकशार्दूलमगवेषविडम्बकाः ॥
गजोष्ट्राजबलौवर्दकपोतश्येनरूपिणः ।
यूकापिपीलिकाकीटमत्कुणाकारधारिणः ॥
अनन्तरूपास्तिर्यञ्चो भूत्वा तचित्तमोदनम् ।
ते नाटकं महाहास्यकारणं नाटयन्ति वै ॥
कुजवामनमूकान्धवृद्धबाधिर्यसंगतैः ।
तथान्यन्मानुषैः पात्रैर्नाटकं नाटयत्यमौ ॥
ईOशोकभयग्रस्तैर्देववेषविडम्बकैः ।
विहितं नाटकं दृष्ट्वा स तुष्टो बत जायते ॥
तथा यथेष्टचेष्टोऽसौ पुनस्तानेव सुन्दरैः ।
आकारै-जयत्युच्चैलॊकानाटककाम्यया ॥
द्वितीयः प्रस्तावः ।
१५१
विडम्ब्यमानास्ते तेन प्राणिनः प्रभविष्णुना ।
त्रातारमात्मनः कंचिन लभन्ते कदाचन ॥
स हि विज्ञापनातीतः स्वतन्त्रो यच्चिकोर्षति ।
तत्करोत्येव केनापि न निषिद्धो निवर्तते ॥
ततश्च ।
क्वचिदिष्टवियोगात क्वचित्मङ्गमसुन्दरम् ।
क्वचिद्रोगभराकान्तं क्वचिद्दारिद्र्यदूषितम् ॥
क्वचिदापड़तानेकमत्त्व सङ्घातदारुणम् ।
क्वचित्सम्यक्समुद्भूतमहानन्दमनोहरम् ॥
विलंध्य कुलमर्यादा प्रधानकुलपुत्रकैः ।
अनार्यकार्यकारित्वात् क्वचिद्दर्शितविस्मयम् ॥
क्वचिदनुरक्तभर्तारं मुञ्चभिः कुलटागणैः ।
नौचगामिभिराश्चयं दधानं सुकुलोद्तैः ॥
क्वचित् कृतचमत्कारं नृत्यद्भिस्यिहेतभिः ।
खागमोत्तीर्णकर्तव्यासक्रपाषण्डमण्डलैः ॥
तदेवंविधवृत्तान्त प्रतिबद्धमनाकुलम् ।
संसारनाटकं चित्रं नाटयत्येष लीलया ॥
रागदेषाभिधानौ दो मुरजौ तत्र नाटके ।
दुष्टाभिसन्धिनामा तु तयोरास्कालको मतः ॥
मानक्रोधादिनामानो गायनाः कलकण्ठकाः ।
महामोहाभिधानस्तु सूत्रधारप्रवर्तकः ॥
भोगाभिलाषसंजोऽत्र नान्दीमङ्गलपाठकः ।
१५२ उपमितिभवप्रपञ्चा कथा । अनेकविब्बोककरः कामनामा विदूषकः ॥ कृष्णादिलेण्यानामानो वर्णकाः पात्रमण्डनाः । योनिः प्रविश्यत्यात्राणां नेपथ्यं व्यवधायकम् ॥ भयादिसंज्ञा विज्ञेयाः कंशिकास्तत्र नाटके । लोकाकागोदरा नाम विशाला रङ्गभूमिका || पुद्गलस्कन्धनामानः शेषोपस्करसञ्चयाः । इत्थं समग्रसामग्रीयुक्त नाटकपेटके ॥ नानापाचपरावृत्त्या सर्वलोकविडम्बनाम् । अपरापररूपेण कुर्वाणोऽसौ प्रमोदते ॥ किं वात्र बनोक्न नास्ति तदस्तु किंचन । यदमौ मनमोऽभिष्टं न करोति महानृपः ॥ तस्य चैवंभूतस्य त्रिमण्डगलितवनहस्तिन व सर्वचास्खलित- प्रसरतया यथेष्टचेष्टया विचरतो यथाभिरुचितकारिणः कर्मपरि- णाममहानृपतेः समस्तान्तःपुरकुलतिलकभृता ऋतुलमौणामिव पारलक्ष्मौः शरल्लमोणमिव कुमुदिनी कुमुदिनौनामिव कमलिनी कमलिनौनामिव कलहंसिका कलहंसिकानामिव राजहंसिका बकीनां नियतियदृच्छाप्रभृतीनां देवीना मध्ये निजरूपलावण्यवर्ण- विज्ञानविचामलासादिभिर्गुणै रमणीयत्वेन प्रधानतमा कालपरि- णतिर्नाम महादेवौ। सा च तस्य नृपतेर्जीवितमिवात्यन्तवल्लभा प्रात्मीयचित्तवृत्तिरिव सर्वकार्येषु यत्कृतप्रमाण समन्त्रिसंहति- रिव स्वयमपि किंचित् कुर्वता तेन प्रष्टव्या सुमित्रसन्ततिरिव विश्वासस्थानं। किंबहुना। तदायत्तं हि तस्य सकसमाधिराज्य- द्वितीयः प्रस्तावः । १५३ मिति । अत एव चन्द्रिकामिव शशधरो रतिमिव मकरध्वजो लक्ष्मौमिव केशवः पार्वतीमिव त्रिनयनस्तां कालपरिणतिं महा- देवौं स कर्मपरिणामो महानरेश्वरो विरहकातरतया न कदा- चिदेकाकिनौं विरहयति किं तर्हि सर्वच गच्छंस्तिष्ठंश्चात्ममन्त्रि- हितां धारयति । सापि च दृढमनुरक्ता भर्तरि न तवचनं प्रतिकूलयति । परस्परानुकूलतया हि दम्पत्योः प्रेम निरन्तरं संपद्यते नान्यथा । ततस्तथा वर्तमानयोस्तयोर्गाढं निरूढिमागतं प्रेम विच्छिन्ना तदिचलनाशङ्का । ततश्चासौ कालपरिणतिगुरुतया महाराजप्रसादस्योन्मादकारितया यौवनस्य तुच्छतया स्त्रीहदयस्य चञ्चलतया तत्वभावानां कुहल हेतुतया तथाविधविडम्बनस्य सर्वत्र लब्धप्रमराहं प्रभवामौति मन्यमाना युता सुषमदुःषमा- दिभिः शरीरभूताभिः प्रियसखीभिः परिवेष्टिता समयावलिका- मुहर्तप्रहरदिनाहोरात्रपक्षमासर्वयनसंवत्सरयुगपल्योपमसागरोपमा- वसर्पियुत्मर्पिणीपुद्गलपरावर्तादिना परिकरेण विविधकार्यकरण- समास्मि लोकेऽहमिति संजातोत्सेका तस्मिन्नेव कर्मपरिणाममहा- राजप्रवर्तिते चित्रसंसारनाटके तस्यैव राज्ञो निकटोपविष्टा सती साहङ्कारमेवं निमन्त्रयति । यदुत यान्येतानि योनिजवनिका- व्यवहितानि पाचाणि तिष्ठन्ति मवचनेन निर्गच्छन्तु शीघ्रमेतानि निर्गतानि चोपस्तरुदितव्यापाराणि ग्टहन्तु मातुः स्तनं पुनधूलो- धूमराणि रङ्गन्तु भूमौ पुनलुंठमानानि पदे पदे परिष्वक्कन्तु चरणाभ्यां कुर्वन्तु मूत्रपुरोषविमर्दनबीभत्समात्मानं पुनरतिक्रान्त- बालभावानि धारयन्तु कुमारतां कौडन्तु नानाविधक्रीडाविब्बोकैः १५४ उपमितिभवप्रपञ्चा कथा । कटाच- अभ्यस्यन्तु सकलकलाकलापकौशलं पुनरतिलज्जितकुमारभावान्य- ध्यासयन्तु तरुणतां दर्शयन्तु मन्मथगुरूपदेशानुसारेण सकलविवे- किलोकहास्यकारिणोऽनपेक्षितनिजकुलकलङ्काद्यपायान् विक्षेपादिसारान् नानाकारविलासलासविशेषानिति प्रवर्तन्तां पार- दार्या दिवनार्यकार्यषु पुनरपगततारुण्यानि स्वौकुर्वन्तु मध्यमवयस्ता प्रकटयन्तु सत्त्वबुद्धिपौरुषपराक्रमप्रकर्ष पुनरतिवाहितमध्यमवयो- भावानि संश्रयन्तु जराजौर्णतां दर्शयन्तु वलीपलिताङ्गभङ्गकरण- विकलत्वमलजम्बालाविलशरोरतां समाचरन्तु विपरौतस्वभावतां पुनर्व्यवकलितसकलजीवितभावानि देहत्यांगेन नाटयन्तु मृतरूपता ततः पुनः प्रविशन्तु योनिजवनिकाभ्यन्तरे अनुभवन्तु तत्र गर्भक- लमलान्तर्गतानि विविधदुःखं पुनश्च निर्गच्छन्तु रूपान्तरमुपादाय कुर्वन्त्वेवमनन्तवाराः प्रवेशनिर्गमनं । तदेवं मा कालपरिणति- महादेवी तेषां संसारनाटकान्तर्गतानां समस्तपात्राणामवस्थित- रूपेण क्षणदयमप्यासितुं न ददाति किं तहि क्षणे क्षणे वराकाणि तान्यपरापररूपेण परावर्तयति । किं च । तेषां नृत्यतां यान्युप- करणानि पुगलस्कन्धनामानि पूर्वमाख्यातानि तान्यप्यतिचपलस्व- भावतया मात्मनः प्रभुत्वं दर्शयन्ती क्षणे क्षणे ऽपरापररूपं भाज- यति। तानि च पात्राणि किं क्रियते तत्र राजाप्यस्या वावर्ती न चान्योऽस्ति कश्चिदात्मनो मोचनोपाय इति विचिन्य निर्गतिकानि सन्ति । यथा यथा सा काखपरिणतिराज्ञापयति तथा तथा नाना- कारमात्मानं विडम्बयन्तौति । किं च । कर्मपरिणामादपि मका- शात्सा कालपरिणतिरात्मन्यधिकतरं प्रभुत्वमावेदयत्येव स्वचरितैः । 1 द्वितीय प्रस्तावः। तथाहि । कर्मपरिणामस्य संसारनाटकान्तर्भूतजन्तुसन्तानापरापर- रूपकरणगोचर एव प्रभावः । तस्याः पुनः कालपरिणतेः संसार- नाटकव्यतिकरातौतरूपेव पि नितिनगरौनिवासिलोकेषु क्षणे क्षणे ऽपरापरावस्थाकरणचात्य समस्त्येवेति । अतः सा संजातोत्सेकाति- रेका किं न कुर्यादिति । तदेवमनवरतप्रवृत्तेन परमाड्डतभूतेन तेन नाटकेन तयोर्दैवौनृपयो विलोकितेन संपद्यते मनःप्रमोदः । तद्दर्शनमेव तौ स्वराज्यफलमवबुध्येते इति । तयोश्च तिष्ठतोरेवमन्यदा रहसि स्थिता । सहर्षे वौच्य राजानं सा देवी तमवोचत । भुक्तं यन्नाथ भोकव्यं पोतं यत्ययमञ्जसा । मानितं यन्मया मान्यं साभिमानं च जीवितम् ।। नास्त्येव तत्सुखं लोके यस्य नावादितो रसः । प्राप्तं समस्तकल्याणं प्रसादाद्देवपादयोः ॥ दृष्टं द्रष्टव्यमप्यत्र लोके यन्नाथ सुन्दरम् । किं तु पुत्रमुखं देव मया नाद्यापि वौक्षितम् ॥ यदि तद्देवपादानां प्रसादादेव जायते । ततो मे जीवितं लाध्यमन्यथा जीवितं वृथा । नरपतिरुवाच । साधु साधूदितं देवि रोचते मह्यमप्यदः । समदुःखसुखो देव्या वर्तऽहं सर्वकर्मसु ॥ किं च । न विषादोऽत्र कर्तव्यो देव्या यस्मात्प्रयोजने ।
१५६
उयमितिभवप्रपञ्चा कथा।
श्रावयोरेकचित्तत्वं यत्र तज्जायते ध्रुवम् ॥
कालपरिणतिरुवाच ।
चारु चारूदितं नाथैर्विहितो मदनुग्रहः ।
भविष्यतीत्थमेवेदं बद्धो ग्रन्थिरयं मया ॥
श्रानन्दजस्लपूर्णाक्षी भर्तुर्वाक्येन तेन सा ।
ततः संजातविम्भा सतोषा समपद्यत ॥
अन्यदा पश्चिमे थामे रजन्याः शयनं गता।
खप्ने कमखपत्राची दृष्ट्वं सा व्यबुध्यत ॥
वदनेन प्रविष्टो मे जठरे निर्गतस्ततः ।
नौतः केनापि मित्रेण नरः सर्वाङ्गसुन्दरः ।।
ततो हर्षविषादाद्यं वहन्ती रसमुत्थिता ।
तं स्वप्नं नरनाथाय साचचचे विचक्षणा ॥
नरपतिस्वाच ।
खप्नस्यास्य फलं देवि मम चेतसि भासते।
भविष्यत्युत्तमः पुत्रस्तवानन्दविधायकः ॥
केवलं न चिरंगेहे तावके स भविष्यति ।
धर्मसूरिवचोबुद्धः खार्थसिद्धिं करिष्यति ॥
कालपरिणतिरुवाच ।
जायतां पुत्रकस्तावत्पर्याप्तं तावतैव मे ।
करोतु रोचते तस्मै यत्तदेव ततः परम् ॥
ततश्चाविरभूगर्भस्तं वहन्त्या प्रमोदतः ।
अथ मासे बतौयस्याः संजातोऽयं मनोरथः ॥
हितीयः प्रस्तावः। अभयं सर्वसत्त्वेभ्यः सर्वार्थिभ्यो धनं तथा । ज्ञानं च ज्ञानशून्येभ्यश्चेद्यच्छामि यथेच्छया ।। तथाविधविकल्यं तं निवेद्य वरभूभुजे । संपूर्णच्छा ततो जाता कृत्वेष्टं तदनुज्ञया ।। अथ संपूर्णकालेन मुहूर्त सुन्दरेऽनघा । सा दारकं शुभं सूता सर्वलक्षणसंयुतम् ॥ ततः ससम्भ्रममुपगम्य निवेदितं दारकस्य जन्म नरपतये प्रियनिवेदिकाभिधानया दासदारिकया। दत्तं च तेनालादातिरे- कसंपाद्यमनाख्येयमवस्थान्तरमनुभवता तस्यै मनोरथाधिकं पारि- तोषिकं दानं। दत्तश्चानन्दपुलकोऽदसुन्दरं देहं दधानेन महत्त- मानामादेशः। यदुत भो भो महत्तमाः देवीपुत्रजन्माभ्युदय- मुद्दिश्य घोषणापूर्वकं ददध्वमनपेक्षितमारासाराधारविचाराणि महादानानि पूजयत गुरुजनं, समानयत परिजनं पूरयत प्रणयि- जनं, मोचयत बन्धनागारं वादयतानन्दमर्दलसन्दोहं, नृत्यत यथेष्ट- मुद्दामतया - पिबत पानं सेवध्वं दयिताजनं मा ग्रहीत शुल्क मुञ्चत दण्डं ,आश्वासयत भौतलोकं वसन्तु सुखस्यचित्ताः समस्ताः प्रजाः नास्ति कस्यचिदपराधगन्धोऽपौति । ततो यदाज्ञापयति देव इति विनयनतोत्तमाङ्गः प्रतिपद्य संपादितं तद्राजशासनं महत्तमैः । निर्वतितो ऽशेषजनचमत्कारकारी जन्मदिनमहोत्सवः । प्रतिष्ठापितं च समुचिते काले दारकस्य नरनाथेन स्खचित्तेनैवं पर्यालोच्य यतोऽस्य गर्भावतारकाले जननी सर्वाङ्गसुन्दरं नरं वदनेन प्रवि- पान्तं दृष्टवती ततो ऽस्य भवत भव्यपुरुष इति नाम । ततस्तदाकर्ष १५ उपमितिभवप्रपञ्चा कथा । देवी राजानमुवाच । देवाहमपि पुत्रकस्य किंचित्राम कर्तमभि- लषामि तदनुजानात देव इति । नृपतिराह । देवि कः कल्या- रणेषु विरोधः अभिधीयतां ममोहितमिति । ततस्तयोक्तं । यतोऽत्र गर्भस्थे मम कुशलकर्मकरणपक्षपातिनी मतिरभूततोऽस्य भवत सुमतिरित्यभिधानं । ततो ऽहो क्षौरे खण्डक्षेपकल्यमेतद्देवीकौश- लेन संपन्नं यनव्यपुरुषस्य मतः सुमतिरित्यभिधानान्तरमिति ब्रुवाणः परितोषमुपागतो राजा विशिष्टतरं नामकरणमहोत्सव कारयामास ॥ इतश्चास्ति तस्थामेव मनुजगतौ नगर्यामग्टहीतसङ्केता नाम 'ब्राह्मणौ । सा जनवादेन नरपतिपुत्रजन्मनामकरणवृत्तान्तमवगम् सखौं प्रत्याह । प्रियसखि प्रज्ञाविशाले पश्य यच्छ्रयते महाश्चर्य लोके यथा कालपरिणतिर्महादेवी भव्यपुरुषनामानं दारक प्रसूतेति । ततः प्रज्ञाविशालयोक्तं । प्रियमखि किमत्राश्चयें । अग्टहीतसङ्केताह । यतो मयावधारितमासीत् । कितैष कर्मपरि- णाममहाराजो निर्बोजः वरूपेण इयमपि कालपरिणतिर्महादेवी वन्ध्येति । इदानौं पुनरनयोरपि पुत्रोत्पत्तिः श्रूयत इति महदेव तदाश्चर्यं । प्रज्ञाविशालाह। अयि मुग्धे सत्यमग्टहीतसङ्केतासि यतो न विज्ञातस्त्रया परमार्थः । अयं हि राजा अविवेकादिभि- मन्त्रिभिरतिबद्धबौज इति मा भूदुर्जनचक्षुर्दोष इति कृत्वा निर्बीज इति प्रकाशितो लोके । इयमपि महादेव्यनन्तापत्यजन- यित्री तथापि दुर्जनचचुदेषभयादेव तैरेव मन्त्रिभिर्वन्ध्येति खोके प्रख्याप्यते । तथाहि । यावन्तः क्वचित्केचिजन्तको जायन्ते ।
द्वितीयः प्रस्तावः । १५६ कारय- तेषां सर्वेषामेतावेव देवीनृपो परमवीर्ययुक्ततया परमार्थतया जननौजनको । अन्यच्च । किं न दृष्टं श्रुतं वा क्वचिदपि प्रियसख्या अनयोर्नाटकं पश्यतोर्यन्माहात्म्यं । यदुत राजा समस्तपात्राणि यथेच्छया नारकतिर्यङनरामरगतिलक्षणसंसारान्तर्गतानेकयोनि- लक्षप्रभवजन्तुरूपेण नाटयति । महादेवौ पुनस्तेषामेव महाराज- जनितनानारूपाणां समस्तपात्राणां गर्भावस्थितबालकुमारतरुणम- ध्यमजराजौर्णमृतगर्भप्रविष्टनिक्रान्तादिरूपाण्यनन्तबाराः तीति । अग्टहीतसङ्केताह । प्रियमखि श्रुतमेतन्मया । किंतु यदि नाम कर्मपरिणामस्य राज्ञः समस्तपात्रपरावर्तने सामर्थ्य कालपरिणतेर्वा महादेव्यास्तेषामेवापरापरावस्थाकरणे शक्तिः तत्किमेतावतैवानयोर्जननीजनकवं संभवति । प्रज्ञाविशालाह। अयि प्रियवयस्येऽन्यन्तमुग्धामि यतो गौरपौहार्धकथितमवबुध्यते त्वं पुनः परिस्फुटमपि कथ्यमानं न जानौषे । यतः संसार एवात्र परमार्थतो नाटकं। तस्य च यो जनकावेतौ परमार्थतः सर्वस्य जननौजनकाविति । अग्टहीतसङ्केताह । प्रियसखि यदि समस्त- जगज्जननौजनकयोरपि देवीनृपयोर्देव्या वन्ध्यालं नृपस्य निर्बोजवं दुर्जनचक्षुषभयादविवेकादिभिर्मन्त्रिभिः प्रख्यापितं लोके तत्कि- मित्यधुनायं भव्यपुरुषोऽनयोः पुत्रतया महोत्सवकलकलेन प्रका- शित इति । प्रज्ञाविशालाह। समाकर्णयास्य प्रकाशने यत्का- रणं । अस्त्यस्यामेव नगयों शुद्धसत्यवादी समस्तसत्त्वसङ्घातहित- कारी सर्वभावस्वभाववेदी अनयोश्च कालपरिणतिकर्मपरिणाम- योर्दैवीनृपयोः समस्तरहस्यस्थानेश्वत्यन्तभेदज्ञः सदागमो नाम उपमितिभव प्रपञ्चा कथा । परमपुरुषः । अस्ति च तेन सार्ध मम घटना । स चान्यदा दृष्टो मया सहर्षः । पृष्टो निर्बन्धेन हर्षकारणं । तेनोक्तं । आकर्णय भद्रे यदि कुहलं । येयं कालपरिणतिर्महादेवी अनया रहसि विज्ञापितो राजा । यदुत निर्विवाहमनेनात्मनो- ऽलोकवन्ध्याप्रवादेन । यतोऽहमनन्तापत्यापि दुर्जनचक्षुषभयाद- विवेकादिभिर्मन्त्रिभिर्वन्ध्येति प्रख्यापिता लोके ममैवापत्यान्यन्य- जनापत्यतया गोयन्ते । सोऽयं खेदजनिमित्तेन शाटकत्याग- न्यायः । तदिदं वन्ध्याभावलक्षणं ममायश:कलङ्कं चालयितुमर्हति देवः । ततो नृपेणोक्त । देवि ममापि निर्बोजतया समानमेतत् । केवलं धौरा भव । लब्धो मयायशःपकचालनोपायः। देयाह । कतमोऽसौ । प्रभुराह । देवि अस्यामेव मनुजगतौ महाराज- धान्यां वर्तमानाया भवत्या मन्त्रिमण्डलवचनमनपेक्ष्य प्रकाश्यते प्रधानपुत्रस्य जन्म । क्रियते महानन्दकलकलः । ततश्चिरकालरूढ- मप्यावयोनिर्बोजत्ववन्ध्याभावलक्षणमयशःकलकं हालितं भविष्य- तौति । ततः सतोषया प्रतिपन्नं महाराजवचनं देव्या कृतं च यथालोचितं ताभ्यां । ततः प्रज्ञाविशाले योऽयं भव्यपुरुषो जातः स ममात्यन्तवनभः । अस्य जन्मनाहमात्मानं सफलमवगच्छामी- त्यतो हर्षमुपागत इति । ततो मयोक्तं । शोभनं ते हर्षकारणं । ततोऽयमनेन कारणेन भव्यपुरुषो देवौनृपपुत्रतया प्रकाशित इति । अग्टहीतमकेतयोकं । साधु वयस्ये साधु सुन्दरमाख्यातं भवत्या नागितो मे सन्देहः । यथा च त्वसमीपमुपगच्छन्त्या मया हट्ट- मार्गे ममाकर्णितो लोकप्रवादस्तथा देवीनृपयोः चालितसेवायश:- द्वितीयः प्रस्तावः । कलङ्कमवगच्छामि। प्रज्ञाविशालयोक्तं । किमाकर्णितं प्रियसख्या । तथोक्तं । दृष्टो मया तत्र बहुलोकमध्ये सुन्दराकारः पुरुषः । म च सविनयं पृष्टः पौरमहत्तमैः । भगवन् य एष राजदारको जातः स कीदृग्गुणो भविष्यतीति । तेनोक्तं । भद्राः श्टणुतः । समस्त- गुणभारभाजनमेष वर्धमानः कालक्रमेण भविष्यतीति । अतो न शक्यन्तेऽस्य सर्व गुणाः कथयितुं । कथिता अपि न पार्यन्तेऽवधार- यितं । तथापि लेगोद्देशतः कथयामि । भविष्यत्येष निदर्शनं रूपस्य निलयो यौवनस्य मन्दिरं लावण्यस्य दृष्टान्तः प्रश्रयस्य निकेतन- मौदार्यस्य निधिविनयस्य मदनं गाम्भीर्यस्य श्राजयो विज्ञानस्य पाकरो दाक्षिण्यस्य उत्पत्तिभूमिक्षस्य इयत्तापरिच्छेदः स्थैर्यस्य प्रत्यादेशगोचरो लज्जायाः उदाहरणं विषयप्रागल्भ्यस्य सद्भर्ता प्रति- स्मृतिश्रद्धाविविदिषादिसुन्दरीणामिति । अन्यच्च अनेकभवाभ्यस्त- कुशलकर्मतया बालकालेऽपि प्रवर्तमानोऽयं न भविष्यति केलिप्रियः दर्शयिष्यति जने वत्सलतां समाचरिष्यति गुरुविनयं प्रकटयिष्यति धर्मानुरागं न करिष्यति लोलतां विषयेषु विजेव्यते कामक्रोधादि- कमान्तरमरिषड्वर्ग नन्दयिष्यति भवतां चित्तानौति । ततस्तदाकर्ण्य सभयं सहर्षे च दिशो निरीक्षमाणैस्तैरभिहितं । अहो विषमशील- तया समस्तजनविडम्बनाहेतभूतयापि कालपरिणत्या कर्मपरिणामेन चेदमेकं सुन्दरमाचरितं यदाभ्यामस्यां सकलदेशविख्यातायां मनु- जगतौ नगर्यामेष भव्यपुरुषः सुमतिर्जनितः। चालितान्येतन्जन- नेनाभ्यामात्मनः समस्तदुश्चरितान्यपुत्रत्वायशश्चेति । तदिदं समस्त- मवहितचित्तया मयाकर्णितं । तत एव संजातो मे मनसि वितर्कः । 21 उपमितिभवप्रपञ्चा कथा । १६२ कथं पुनरनपत्यतया प्रसिद्धयोर्दैवीनृपयोः पुत्रोत्पत्तिः। को वैष पुरुषः सर्वज्ञ व भविष्यत्कालभाविनों राजदारकवक्तव्यता समस्तां कथयतौति। ततश्चिन्तितं मया। प्रियसखौमेतद्वयमपि प्रश्नयि- स्यामि । कुशला हि मा सर्ववृत्तान्तानां। तथापनौतो भवत्या प्रथमसन्देहः । साम्प्रतं मे द्वितीवमपनयत भवती। प्रज्ञाविशाल- योक्तं । वयस्ये कार्यदारेणाहमवगच्छामि स एव मम परिचितः परमपुरुषः सदागमनामा तदाचवाणोऽवलोकितो भवत्या । यतः स एवातीतानागतवर्तमानकालभाविनो भावान् करतलगतामल- कमिव प्रतिपादयितुं पटिष्ठो नापरः। यतो विद्यन्तेऽस्यां मनुज- गतौ नगर्यामन्येऽपि तादृशा अभिनिबोधावधिमनःपर्यायकेवल- नामानश्चत्वारः परमपुरुषाः । केवलं न तेषां परं प्रति प्रतिपादन- शक्तिरस्ति । मूका हि ते चत्वारोऽपि स्वरूपेण । तेषामपि स्वरूपं सत्पुरुषचेष्टितमवलम्बमानः परगुणप्रकाशनव्यसनितया लोकसमक्ष- मेष एव सदागमो भगवानुत्कीर्तयति । अग्रहीतसङ्केतयोक्तं । वयस्ये किं पुनः कारणमेष राजदारकोऽस्य सदागमस्यात्यन्तवल्लभः । किं चैतन्जन्मनात्मानमयं सफलमवगच्छतौति श्रोतुमिच्छामि । प्रज्ञाविशालयोन। एष हि महापुरुषतया सततं परोपकार- करणपरायण: समस्तजन्तुभ्यो हितमाचरत्येव । केवलमेते पापिष्ठाः प्राणिनो नास्य वचने वर्तन्ते। ते हि न लक्षयन्ति वराका यदस्य भगवतो माहात्म्यं । ततस्तेभ्यो हितमुपदिशन्तमप्येनं सदागमं केचिद् दूषयन्ति केचिदपकर्णयन्ति केचिदुपहसन्ति केचित्तदुप- दिष्टाकरणभक्रिमात्मनो दोपयन्ति केचित्तद्दचनाद् दूरत एव द्वितीयः प्रस्तावः। ११२ त्रस्यन्ति केचित्तं प्रतारकधिया शन्ते केचित्तदचनमादित एव नावबुध्यन्ते केचित्तवचनं श्रुतमपि न रोचयन्ति केचित्तद्रोचितमपि नानुतिष्ठन्ति केचिदनुष्ठानमधिकृतमपि पुनः शिथिलयन्ति । ततश्चैवं स्थिते नास्य सम्यक् संपद्यते परोपकारकरणलक्षणा समो- हितसिद्धिः। ततोऽयमनया सततं प्राणिनामपाचतया गाढमुद्दे- जितः। भवत्येव हि सद्गुरूणामपि निष्फलतया कुपात्रगोचरो महाप्रयासश्चित्तखेदहेतुः । अयं तु राजदारको भव्यपुरुष इति पात्रभूतोऽस्य प्रतिभासते । भव्यपुरुषः मन्नपि यदि दुर्मतिः स्यात् ततो न पाचतां लभेत । अयं तु राजदारको यतः समतिरतः पात्रभूत एवेति कृत्वामुय्य सदागमस्यात्यन्तवल्लभः । अन्यच्च। अयं मदागमो मन्यते । यतोऽस्य दारकस्यैवरूपतया जनकत्वादेव सुन्दरः कर्मपरिणामः जननौत्वादेव चानुकूला कालपरिणतिः ततोऽयं विमुक्रबालभावः सुन्दरतया निजखभावस्थ प्रत्त्यामवतया कल्याणपारम्पर्यस्य प्रमोदहेतुतयैवंविधपुरुषाणां मद्दर्शनस्य मामुप- लभ्य नियमेनास्य भविष्यति मनस्येवंविधो वितर्कः । यथा सुन्दरेयं मनुजगतिनगरी यस्यामेष सदागमः परमपुरुषः प्रतिवमति । ममाप्यस्ति प्रायेण योग्यता काचित्तथाविधा यया तेन सह मौलकः संपन्नः। ततोऽमुं परमपुरुषं विनयेनाराध्यास्य सम्बन्धि ज्ञानमभ्यस्यामि। ततो मदनुकूलत्वान्जननौजनकयोस्ताभ्यां समर्पितो भविष्यति ममैष शिव्यः । ततोऽहमस्य संक्रामितनिजज्ञानः कृत- कृयो भविष्यामौति बुद्ध्यायं मदागमोऽस्य सुमते व्यपुरुषस्य जन्ममा सफखमात्मानमवगच्छतौति । अत एव संजातपरितोषतया उपमितिभवप्रपञ्चा कथा । जनसमक्षं राजदारकगुणानेष वर्णयति ॥ अग्टहीतसङ्केतयोक्तं . प्रियसखि किं पुनरस्य भगवतः सदागमस्य माहात्म्यं यदैते पापिष्ठमत्त्वा नावबुध्यन्ते ऽनवबुध्यमानाश्च नास्य वचने वर्तन्त इति । प्रज्ञाविशालयोक्तं। वयस्ये समाकर्णय। य एव सर्वत्रा- निवारितशक्तिप्रसरः कर्मपरिणामो महाराजो यथेष्टचेष्टया संमार- नाटकमावर्तयमानः सततमीश्वरान्दरिद्रयति सुभगान्दुर्भगयति सुरूपान् कुरूपयति पण्डितान्मूर्खयति शूरान् लौवयति मानिनो दौनयति तिरश्चो नारकयति नारकान्मनुष्ययति मनुष्यान्देव- यति देवान पशुभावमानयति नरेन्द्रमपि कौटयति चक्रवर्तिन- मपि द्रमकयति दरिद्रादौनौश्वरादिभावान् प्रापयति किं बहुना यथेष्टं भावपरिवर्तनं विदधानो न क्वचित्प्रतिहन्यते। अयमप्यस्य भगवतः सदागमस्य सम्बन्धिनोऽभिधानादपि बिभेति गन्धादपि पलायते । तथाहि। तावदेष कर्मपरिणाम एतान्समस्तलोका- संसारनाटकविडम्बनया विडम्बयति यावदयं सदागमो भगवान इंकारयति। यदि पुनरेष हुंकारयेत्ततो भयातिरेकस्रस्त- समस्तगात्रो महासमरसङ्घट्टे कातरनर इव प्राणान् खयमेव समस्तानपि मुश्चेत् । मोचिताश्चानेनामुमादनन्ताः प्राणिनः ॥ अग्टहीतसङ्केतयोकं । ते किमिति न दृश्यन्ते । प्रज्ञाविशालाह । अस्ति कर्मपरिणाममहाराजमुक्तरतिक्रान्ता नितिर्नाम महानगरी। ततस्ते सदागमहङ्कारेण कर्मपरिणाममप्रभवन्तमात्मन्युपलभ्य मोचिता वयं सदागमेनेति मत्वा कर्मपरिणामशिरसि पाददान- द्वारेणोड़ोय तस्यां गच्छन्ति । गताश्च तस्यां सकलकालं समस्तो- दितीयः प्रस्तावः। १६५ पद्रवत्रामरहिताः परमसुखिन स्तिष्ठन्ति । तेन कारणेन ते नेह दृश्यन्ते । अग्टहीतसङ्केतयो । यद्येवं किमित्येष सर्वलोकान मोचयति । कदर्थिता ह्येते वराकाः सर्वेऽप्यनेनातिविषमशीलतया कर्मपरिणामराजेन । तन्न युक्तमस्य महापुरुषशेखरम्य सत्यामेवं- विधशको तत्कदर्थनस्थोपेक्षणमिति । प्रज्ञाविशालाह। सत्यमेत- केवलं प्रकृतिरियमस्य भगवतः मदागमस्थ यया वचनविपरीतका- रिषु कुपात्रेव्ववधोरणां विधत्ते । ततस्तेनावधीरिताः सन्तो नाथरहिता इति मत्वा गाढतरं कर्मपरिणामराजेन कदर्थ्यन्ते । ये तु पात्रभूततयाम्य निर्देशकारिणो भवन्ति तानेव स्वां प्रकृति- मनुवर्तमानः कर्मपरिणामकदर्थनायाः सर्वथायं मोचयति। येऽपि लोका भगवतोऽस्य मदागमस्योपरि भक्तिमन्तोऽप्यस्य सम्बन्धि वचनं तथाविधशक्तिविकलतया संपूर्णमनुष्ठातुं न शक्नुवन्ति किं तर्हि तन्मध्याद्दतमं बहुतरं बहु स्तोकं स्तोकतरं स्तोकतमं वा कुर्वन्ति भक्तिमात्रकं वास्योपरि विदधति नाममात्र वास्य ग्टहन्ति यदि वा येऽस्य भगवतः सम्बन्धिनि वचने वर्तन्ते महात्मानस्तेषामुपरि धन्याः कृतार्थाः पुण्यभाजः सुलब्धजन्मान एत इत्यादिवचनलिङ्ग- गम्यं पक्षपातं कुर्वन्ति यद्दास्य भगवतो ऽभिधानमात्रमप्यजानानाः प्रकृत्यैव ये भद्रका भवन्ति ततश्च मार्गानुसारिसदन्धन्यायेनाना- भोगतो ऽप्यस्य वचनानुसारेण वर्तन्ते तानप्येवंविधाननल्पविकल्पा- लॉकानेष कर्मपरिणामो महानरेन्द्रो यद्यपि संसारनाटके क्रिय- न्तमपि कालं नाटयति तथापि सदागमस्थाभिप्रेता एत इति मत्वा नाधमपात्रभावं नारकतिर्यक्कुमानुषकदमररूपं तेषां
उपमितिभवप्रपञ्चा कथा ।
विधत्ते । किं तर्हि केषांचिदनुत्तरसुररूपं दर्शयति केषांचिद्
7वेयकामराकारं प्रकटयति केषांचिदुपरितनकल्पोपपत्रदेवरूपता
जनयति केषांचिदधस्तनकल्पोपपत्रमहर्द्धिलेखकरणिं कारयति
केषांचिदृभुविभुरूपतां लक्षयति केषांचिच्चक्रवर्तिमहामण्डलिकादि-
प्रधान पुरुषभावं भावयति। सर्वथा प्रधानपात्ररूपतां विहाय न
कदाचिद्रूपान्तरेण तान्नर्तयति । तत्पर्याप्तमेतावतास्य भगवतः
सदागमस्य माहात्म्येन यदेवंविधसामर्थ्ययुक्तोऽप्येष कर्मपरिणामो
महानृपतिरेतभयाक्रान्तहदयः खल्वेवं वर्तते ।
अन्यच्च कथ्यते तुभ्यं कौतुकं यदि विद्यते ।
रूपं सदागमस्यास्य तद् बुध्यस्ख मृगेक्षणे ।
एष एव जगनाथो वत्सलः परमार्थतः ।
एष एव जगत्त्राणमेष एव सुबान्धवः ॥
एष एव विपढ़ते पततामवलम्बनम् ।
एष एव भवाटव्यामटतां मार्गदेशकः ॥
एष एव महावैद्यः सर्वव्याधिनिबर्हणः ।
एष एव गदोच्छेदकारणं परमौषधम् ॥
एष एव जगद्दीपः सर्ववस्तुप्रकाशकः ।
प्रमादराक्षसात्तर्णमेष एव विमोचकः ॥
एषोऽविरतिजाम्बालकल्मषक्षालनक्षमः ।
एष एव च योगानां दुष्टानां वारणोद्यतः ॥
शब्दादिचरटाक्रान्ते इतधर्मधने जने ।
समर्थो भगवानेष नान्यस्तस्य विमोचने ।
द्वितीयः प्रस्तावः ।
१६७
एष एव महाघोरनरकोद्धरणक्षमः ।
पशुत्वदुःखसङ्घातबायकोऽप्येष देहिनाम् ॥
एष एव कुमानुष्यदुःखविच्छेदकारणम् ।
एष एव कुदेवत्वमनःसन्तापनाशकः ॥
अज्ञानतरुविच्छेद एष एव कुठारकः ।
एष एव महानिद्राद्रावणप्रतिबोधकः ॥
एष स्वाभाविकानन्दकारणत्वेन गौयते ।
मातासातोदयोत्पाद्यमिथ्याबुद्धिविधनकः ॥
एष एव गुरुक्रोधवनिविध्यापने जलम् ।
एष एव महामानपर्वतोद्दलने पविः ॥
एष मायामहायात्रौघातने शरभायते ।
एष एव महालोभनौरधेः शोषणनिलः ॥
एष हास्यविकारस्य गाढं प्रशमनक्षमः ।
एष मोहोदयोत्पाद्यां रतिं निर्णाशयत्यलम् ॥
एष एवारतिग्रस्त जनेऽस्मिनम्तायते ।
एष एव भयोद्धान्तसत्त्वसंरक्षणक्षमः ॥
एष शोकभराक्रान्तं संधौरयति देहिनम् ।
एष एव जुगुप्मादि विकारं शमयत्यलम् ॥
एष कामपिशाचस्य दृढमुच्चाटने पटुः ।
एष एव च मार्तण्डो मिथ्यात्वध्वान्तसूदनः ।।
एष एव चतुर्भदजीवितोच्छेदकारणम् ।
यतो जौवं ततोऽतीते नयत्येष शिवालये ॥
उपमितिभवप्रपञ्चा कथा ।
शुभेतरेण या नाना कृता लोकविडम्बना ।
छिन्ते तामेष लोकानामनङ्गस्थानदानतः ॥
सर्वोत्तमत्वं भक्तानां विधायाक्षयमव्ययम् ।
एष एव छिनत्त्युच्चै चेत्रिविडम्बनाम् ॥
एष एव च दानादिशक्तिसन्दोहकारणम् ।
एष एव महावीर्ययोगहेतुरुदाहृतः ॥
अन्यच्च ये महापापा निर्भाग्याः पुरुषाधमाः ।
न ते सदागमस्यास्य नामापि बहु मन्यते ॥
ततोऽनेन नरेन्द्रेण ते पूर्वोक्तविधानतः ।
संमारनाटकेनोच्चैः कदीन्ते निरन्तरम् ॥
य एव भाविकल्याणाः पुण्यभाजो नरोत्तमाः ।
ते मदागमनिर्देशं कुर्वन्ति विहितादराः ॥
ततोऽपकर्ण्य राजानं ते विडम्बनकारणम् ।
संसारनाटकान्मुक्ता मोदन्ते निर्वृतौ गताः ॥
राजभुक्तौ वसन्तोऽपि राजानं हणतुल्यकम् ।
सदागमप्रसादेन मन्यन्ते ते निराकुलाः ॥
किं वात्र बनोक्न नास्ति तवस्तु किंचन ।
सदागमेऽस्मिन् भक्तानां सुन्दरं यन जायते ॥
तदेतदस्य माहात्म्यं किंचिल्ले शेन वर्णितम् ।
विशेषतः पुनः कोऽस्य गुणानां वर्णनक्षमः ॥
ततः प्रजाविशालाया वाक्यमाकर्ण्य विस्मिता ।
इदये चिन्तयत्येवं सा सन्देहमुपागता ॥
द्वितीयः ': प्रस्तावः। यदिदं प्रियसख्या मे विहितं गुणवर्णनम् । यदि सत्यमिदं तेन नास्ति तुल्यस्ततोऽपरः ॥ अतः पश्यामि तं तावत्करोमि स्खविनिश्चयम् । परप्रत्ययतो ज्ञाते न सन्देहो निवर्तते ॥ ततश्चैवं विचिन्त्य तयाग्रहीतसङ्केतयाभिहिता प्रज्ञाविशाला । प्रियसखि सुनिश्चितसत्यवादिनीमपि भवतीमधुनाहमनेन सदा- गमस्थासंभावनौयगुणवर्णनेनात्यर्गलभाषिणौमिव परिकल्पयामि । भवन्ति च मे मनसि विकल्पाः । किल परिचितमिति कृत्वा एषा वर्णयति । अन्यथा कथं कर्मपरिणामो महानरेन्द्रः कुतश्चिद्दिभि- यात् । कथं वैकत्र पुरुषे एतावान गणसङ्घातः संभाव्येत । प्रियसखी कदाचन मां विप्रलम्भयति । ततः सन्देहापन्न दोलायते मे मनः । अतस्तमात्मपरिचितं परमपुरुषं विशेषतो दर्शयितुमर्हति मे भवती। प्रज्ञाविशालाह । सुन्दरमेतदभिप्रेतमेव मे हृदयस्य अभिगमनौयो द्रष्टव्य एवासौ भगवान् ॥ ततो गते दे अपि तन्मूलं । दृष्टश्च ताभ्यां तस्य महाविजय रूपावपनपतिभिर्विराजितस्थानेकमहापुरुषाकीर्णस्य महाविदेह- रूपस्य विपणिमार्गस्य मध्ये वर्तमानः प्रधानजनपरिकरितो भूतभ. वद्भविष्यद्भावस्वभावाविर्भावनं कुर्वाणो भगवान् सदागमः । प्रत्यासन्नौभूय प्रणम्य तच्चरणयुगलमुपविष्टे ते तन्निकटे । तदाकृति- दर्शनादेव सबहुमानं मुहर्मुहुर्विलोकनादग्टहीतसङ्केतायाः प्रनष्ट दूव सन्देहः वर्धितश्चित्तानन्दः समुत्पन्नो विश्रम्भः मतात्मनः कृतार्थता तदर्शनेनेति । ततः प्रज्ञाविशाला प्रत्यभिहितमनया । अपि च । ततः
उपमितिभवप्रपञ्चा कथा ।
धन्यासि त्वं महाभागे सुन्दरं तव जीवितम् ।
यस्याः परिचयोऽनेन पुरुषेण महात्मना ॥
अहं तु मन्दभाग्यासं वञ्चितासं पुरा यया ।
न दृष्टोऽयं महाभागः पुरुषः पूतकल्मषः ॥
नाधन्याः प्राप्नुवन्तौमं भगवन्तं सदागमम् ।
निर्लक्षणनरो नैव चिन्तामणिमवाप्नुते ॥
संजाता पूतपापाहमधुना मृगलोचने ।
तव प्रसादाद् दृष्ट्वेमं महाभागं सदागमम् ॥
वया कमलपत्राचि येऽस्य संवर्णिता गुणाः ।
ते तथैव मया सर्व दर्शनादेव निश्चिताः ॥
नाहं विशेषतोऽद्यापि वेद्मास्य गुणगौरवम् ।
नास्त्यन्यः पुरुषोऽनेन तुल्य एतत्तु लक्षये ॥
श्रासोन्मे मन्दभाग्यायाः पुरेमं प्रति संशयः ।
गुणेषु दर्शनादेव साम्प्रतं प्रलयं गतः ॥
निगूढचरितासि त्वं सत्यं सद्भाववर्जिता ।
यया न दर्मितः पूर्वं ममेषः पुरुषोत्तमः ॥
तत्साम्प्रतं मयाप्यस्य भवत्या सह सुन्दरि
दिने दिने समागत्य कर्तव्या पर्युपासना ॥
गुणाः खरूपमाचारं चित्ताराधनमुच्चकैः ।
वयास्य सर्वे चार्वणि ज्ञातं कालेन भूयसा ॥
श्रतो ममापि तत्सर्वं निवेद्यं वलभाषिणि ।
येनाइमेनमाराध्य भवामि तव सनिभा ।
-
दितीयः ': प्रस्तावः ।
ततः प्रज्ञाविशालाह चार चारूदितं प्रिये ।
यद्येवं कुरुषे हन्त सफलो मे परिश्रमः ॥
अहो विशेषविज्ञानमहो वचनकौशलम् ।
अहो कृतज्ञता गुरु तवेयं चारुलोचने ॥
सङ्कताभावतो भद्रे न जानौषे मदागमम् ।
तथापि परमार्थन योग्यता, तव विद्यते ॥
एवं च कुर्वतौ नित्यं मया साधं विचारणम् ।
अज्ञातपरमार्थापि ज्ञाततत्त्वा भविष्यसि ॥
ततः संजाततोषे ते नमस्कृत्य सदागमम् ।
प्रियसख्यौ गते तावत्स्वस्थानं तत्र वासरे ॥
एवं दिने दिने मख्योः कुर्वत्योः सेवनां तयोः ।
सदागमख गच्छन्ति दिनानि किल लीलया ।
अथान्यदा विशालाची प्रोका मा तेन धौमता।
प्रज्ञाविशाला मानन्दं पुरुषेण महात्मना ।
एष सर्वगुणाधारो भवत्या खेहनिर्भरः ।
बालकालात्समारभ्य कर्तव्यो राजदारकः ॥
गत्वा राजकुलं भने विधाय दृढसंगतम् ।
श्रावधैं जननौचित्तं धात्री भव कथंचन ।
त्वयि संजातविशम्भो येनायं राजदारकः ।
सुखं विवर्धमानोऽपि प्रयाति मम वश्यताम् ॥
ततो निविष्य निःशेषमात्मीयज्ञानकौशलम् ।
सुपात्रेऽत्र भविष्यामि कृतकृत्योऽहमञ्जमा ॥
१७२
उपमितिभवप्रपञ्चा कथा ।
ततो यदादिशत्यार्य इत्युक्का नतमस्तका ॥
प्रज्ञा विशाला तवाक्यमनुतस्थौ कृतादरा ॥
अथासौ भव्यपुरुषस्तां धात्रौं प्राप्य सुन्दराम् ।
ललमानः सुखेनास्ते देववद्दिवि लीलया ॥
क्रमात्संवर्धमानोऽसौ कल्पपादपसन्निभः ।
संजातः सर्वलोकानां लोचनानन्ददायकः ॥
ये ते सदागमेनोच्चै विनो वर्णिता गुणाः ।
आविर्भूताः समस्तास्ते कौमारे तस्य तिष्ठतः ॥
ततः परिचयं कत तया प्रज्ञाविद्यालया।
नौतः सदागमाभ्यणे सोऽन्यदा राजदारकः ॥
म च तं वौच्य पुण्यात्मा महाभाग सदागमम् ।
भाविभद्रतया धन्यः परं हर्षमुपागतः ॥
ततः प्रणम्य सद्भक्त्या निषलोऽसौ तदन्तिके ।
प्राकर्णितं मनोहारि तदाक्यममृतोपमम् ॥
श्रावर्जितो गुणैस्तस्य शशाङ्ककरनिर्मलैः ।
म भव्यपुरुषश्चित्ते ततश्चेदमचिन्तयत् ॥
अस्याहो वाक्यमाधुर्यमहो रूपमहो गुणाः ।
अहो मे धन्यता येन नरोऽयमवलोकितः ॥
धन्येयं नगरौ यस्यां वसत्येष सदागमः ।
संजातः पूतपापोऽहं दर्शनादस्य धीमतः ॥
नूनमेष भवद्भूतभाविभावविभावनम् ।
भावतो भगवानुच्चैः करोत्येव सदागमः ॥
द्वितीयः प्रस्तावः ।
१७३
तदेष मदुपाध्यायो यदि संपद्यते मम ।
ततोऽहमस्य नेदिष्ठो ग्टहामि सकलाः कलाः ॥
ततः प्रज्ञाविशालायास्तेनाकूतं निवेदितम् ।
जननौजनकयोर्गत्वा तथापि कथितं वचः ।।
प्रादुर्भुतस्तयोस्तोषः प्रविधाय महोत्सवम् ।
ततः समर्पितस्ताभ्यां सोऽन्यदा शुभवा
कथं ।
कृतकौतुकसत्कारः परिपूज्य सदागमम्
स भव्यपुरुषस्तस्य शिष्यत्वेन निवेदितः
सिताम्बरधरो धौरः मितभूषणभूषितः ।
सितपुष्यभरापूर्णः मितचन्दनचर्चितः ॥
ततो महाप्रमोदेन विनयेन विनेयताम् ।
प्रपन्नस्तस्थ पुण्यात्मा कलाग्रहणकाम्यया ॥
ततो दिने दिने याति म पार्श्व तस्य धौमतः ।
सदागमस्य जिज्ञासुः माधैं प्रज्ञाविशालया।
अन्यदा हट्टमार्गेऽसौ लीलयास्ते सदागमः ।
म भव्यपुरुषोऽभ्यर्ण युक्तः प्रज्ञाविद्यालया ॥
स भूरिनरसङ्घातपरिवारितविग्रहः ।
अशेषभावसझावं वदन्नास्ते सदागमः ॥
अथाग्रहौतमकता सख्याः पार्श्व समागता ।
नत्वा सदागमं सापि निषमा शुद्धभूतले ॥
पृष्ठा प्रियसखौ वार्ता मानितो राजदारकः ।
१०० उपमितिभवप्रपञ्चा कथा । स्थिता सदागममुखं पश्यन्तौ स्तिमितेक्षणा ॥ दूतश्चैककालमेवैकस्यां दिशि समुस्लसितो वाक्कलकलः श्रूयते विरसविषमडिण्डिमध्वनिः समाकर्ण्यते दुर्दान्तलोककृतोऽदृट्टहासः । ततः पातिता तदभिमुखा समस्तपर्षदा दृष्टिः। यावदिलिप्त- समस्तगात्रो भस्मना चर्चितो गैरिकहस्तकैः खचितस्तृणमषी पुण्ड्रकै- विनाटितो सलमानया कणवीरमुण्डमालया विडम्बितो वक्षःस्थले घुर्णमानया भरावमाखया धारितातपत्रो जरपिटकखण्डन बर्लोस्रो गलैकदेश पारोपितो रासभे वेष्टितः समन्ताद्राज- पुरुषैः निन्द्यमानो लोकेन प्रकम्पमानशरीरः तरलतारमितश्चेत- श्वातिकातरया भयोद्धान्तहृदयो दशापि दिशो निरीक्षमाणो नातिदूरादेव दृष्टः संसारिजौवनामा तस्करः तं च दृष्ट्वा संजाता प्रज्ञाविशालायाः करुण। चिन्तित- मनया। यदि परमस्य वराकस्यामुभात् सदागमात्मकाशात् त्राणं नान्यस्मात्कुतश्चित् । ततो गता तदभिमुखं । दर्शितोऽस्मै यत्नेन मदागमो ऽभिहितं च । भद्रामुं भगवन्तं शरणं प्रतिपद्यखेति । स च सदागममुपलभ्य सहसा संजाताश्वास दूव किंचिचिन्तयन्ननाख्ये यमवस्थान्तरं वेदयमानः पश्यतामेव लोकानां निमौलिताक्षः पतितो धरणौतले। स्थितः कियन्तमपि कालं निश्चलः । किमेत- दिति विस्मिता नागरकाः। खब्धा कथंचिच्चेतना। ततः समुत्थाय सदागममुद्दिश्यासौ बायध्वं नाथास्त्रायध्वमिति महता शब्देन पूछतवान् । भैषौरभयमभयं तवेत्याश्वामितोऽसौ सदागमेन। ततो मा द्वितीयः : प्रस्तावः। १७५ ततस्तदाकर्ण्य प्रपनकोऽयं मदागमस्य पारणं । अङ्गीकृतश्चानेन । अतो न गोचरोऽधुना राजशासनस्येति विचिन्त्य विदितमदागम- माहात्म्याः सभयाः प्रत्यक्पदैरपसृताः प्रकम्पमानास्ते राजपुरुषाः स्थिता दूरदेशे। ततो विश्रब्धौभूतो मनाक् संसारिजीवः । पृष्टो ऽग्टहीतसङ्केतया । भद्र कतमेन व्यतिकरण ग्टहीतस्त्वमेभिः कृतान्तसदृशै राजपुरुषैरिति । सोऽवोचत् । अलमनेन व्यतिकरण । अनाख्येयः खल्वेष व्यतिकरः । यदि वा जानन्त्येवामुं कतिकर भगवन्तः सदागमनाथाः । किमा- ख्यातेन। मदागमेनोक्तं । भट्र महत्कुलहलमस्याः । अतस्तदपनो- दार्थं कथयतु भवान् । को दोषः। संसारिजोवेनोक। यदाज्ञा- पयन्ति नाथाः । केवलं जनसमचमात्मविडम्बना कथयितुं न पार- यामि । ततो विविक्रमादिशन्तु नाथा इति । ततः सदागमेन विलोकिता परिषत् । स्थिता गत्वा दूरदेशे। प्रज्ञाविशालाप्युत्ति- छन्ती त्वमप्याकर्णयखेति भणिवा धारिता सदागमेन । तस्याश्च निकटवर्ती सदागमवचनेनैव भव्यपुरुषोऽपि स्थित एव । ततस्तेषां चतुर्णमपि पुरतः केवलमग्टहीतसङ्केतामुद्दिश्य प्रजल्पितोऽसौ संसारिजीवः । अस्तीह लोक भाकालप्रतिष्ठमनन्तजनाकुलमसंव्यवहारं नाम नगरं। तत्र सर्वस्मिन्नेव नगरेऽनादिवनस्पतिनामानः कुलपुत्रकाः प्रतिवसन्ति। तस्मिंश्चास्यैव कर्मपरिणामस्थ महानरेन्द्रस्य सम्बन्धिनाव- त्यन्ताबोधतौबमोहोदयनामानौ सकलकालस्थायिनौ बलाधिकृत- महत्तमौ प्रतिवमतः। ताभ्यां चात्यन्ताबोधतोत्रमोहोदयाभ्यां तत्र उपमितिभवप्रयचा कथा । नगरे यावन्तो लोकास्ते सर्वेऽपि कर्मपरिणाममहाराजादेशेनैव सुप्ता वास्पष्टचैतन्यतया मत्ता व कार्याकार्यविचारशून्यतया मूर्छिता दूव परस्परं लोलौभूततया मृता व लक्ष्यमाणविशिष्टचेष्टाविक- लतया निगोदाभिधानेवपवरकेषु प्रक्षिप्य संपिण्डताः सकलकालं धार्यन्ते । अत एव च ते लोका गाढसंमूढतथा न किंचिच्चेतयन्ति न भाषन्ते न विशिष्टं चेष्टन्ते नापि ते विद्यन्ते न भिद्यन्ते न दह्यन्ते न लाव्यन्ते न कुट्टयन्ते न प्रतिधातमापद्यन्ते न व्यतां वेदना- मनुभवन्ति नाप्यन्यं कंचन लोकव्यवहारं कुर्वन्ति । इदमेव च कारणमुररीकृत्य तन्नगरमसंव्यवहारमिति नान्ना गौयते । नगरे संसारिजीवनामाहं वास्तव्यकुटुम्बिकोऽभूवं । गतश्च तत्र वसतो ममानन्तः कालः॥ अन्यदा दत्तास्थाने तौबमोहोदयमहत्तमे तबिकटवर्तिनि चात्यन्तताबोधबलाधिकृते प्रविष्टा समुद्रवीचिरिव मौक्तिकनिकर- वाहिनी प्राइटकाललक्ष्मौरिव समुन्नतपयोधरा मलयमेखलेव चन्दनगन्धधारिणौ वसन्त श्रौरिव रुचिरपत्रतिलकाभरणा तत्परि- पति म प्रतीहारी। तथा चावनितलन्यस्तजानुहस्तमस्तकया विधाय प्रणामं विरचितकरपुटमुकुलया विजतं । देवेष सुग्रहीतनामधेयस्य देवस्य कर्मपरिणामस्य सम्बन्धी तबियोगो नाम दूतो देवदर्शन- मभिवषन् प्रतौहारभूमौ तिष्ठति । तदेवमवस्थिते देवः प्रमाण- मिति। ततो निरौचितं तीव्रमोहोदयेन ससंभ्रममत्यन्ताबोधवदनं। स प्राह । शौघ्र प्रवेशयतु तं भवती । ततो यदाज्ञापयति देव इत्यभिधाय प्रवेभितः प्रतीहार्या तन्नियोगः । तेनापि सविनय- RAONT- द्वितीयः प्रस्तावः । १७७ मुपसृत्य प्रणतो महत्तमो बलाधिकृतश्च। अभिनन्दितस्ताभ्यां । दापितमासनं । उपविष्टोऽसौ , कृतोचिता प्रतिपत्तिः । ततो विमुच्यासनं बद्धा करमुकुलं कृत्वा ललाटतटे तौबमोहोदयेनोक्तं । अपि कुशलं देवपादानां महादेव्याः शेषपरिजनस्य च । तन्नियोगे- नोक्तं । सुष्टु कुशलं । तौबमोहोदयेनोक्तं । अनुग्रहोऽयमस्माकं यदत्रभवतः प्रेषणेनान नुस्मृता वयं देवपादैरिति । अतः कथय यदा- गमनप्रयोजनमिति । तबियोगेनोक्तं । कोऽन्यो भवन्तं विहाय देवपादानामनुग्रहाहः । श्रागमनप्रयोजनं पुनरिदं । अस्ति तावविदितैव भवतां विशेषेण माननीया प्रष्टव्या सर्व- प्रयोजनेवलनीयवाक्याचिन्त्यमाहात्म्या च भगवती लोकस्थिति- र्नाम देवपादानां महत्तमा भगिनी । तस्याश्च तुष्टैर्देवपादैः मकलकालमेषोऽधिकारो वितीर्णः . यथास्ति तावदेषोऽस्माकं सर्वदा परिपन्थौ कथंचिदुन्मूलयित्मशक्यः सदागमः परमशचुः । ततो ऽयमस्मदलमभिभूय क्वचिदन्तरान्तरा लब्धप्रसरतयास्मदीयभुक्तर्नि- स्मारयति कांश्चिस्लोकान् स्थापयति चास्माकमगम्यायां नितौ नगीं । एवं च स्थिते विरलोभविष्यत्येष कालेन लोकः । ततः प्रकटौकरिव्य त्यस्माकमयशः । तन्न सुन्दरमेतत् । अतो भगवति लोकस्थिते त्वयेदं विधेयं । अस्ति ममाविचलितरूपमेतदेव प्रयो- जनमपेक्ष्य संरक्षणीयमसंव्यवहारं नाम नगरं । ततो यावन्तः सदा- गमेन मोचिताः सन्तो मदीयभुक्तर्निर्गत्य नितिनगयों गच्छन्ति लोकास्तावन्त एव भगवत्या तस्मादसंव्यवहारनगरादानौय मदौयशेष- स्थानेषु प्रचारणीयाः । ततः प्रचुरलोकतया सर्वस्थानानां सदागम- ।
उपमितिभवप्रपञ्चा कथा । मोचितानां न कश्चिद्धार्तामपि प्रश्नयिष्यति । यतो न भवत्यस्माकं छायाम्लानिरिति । ततो महाप्रसाद इति कृत्वा प्रतिपन्नः सोऽधि- कारो लोकस्थित्या । अहं च यद्यपि देवपादोपजीवी तथापि विशेषतो लोकस्थितेः प्रतिबद्धः । अत एव तवारेण तन्नियोग इति प्रसिद्धोऽहं लोके । मोचिताश्च कियन्तोऽपि साम्प्रतं सदागमेन लोकाः । ततोऽहं भगवत्या लोकस्थित्या युग्मन्मूलं तावतां लोका नामानयनायेह प्रहित इति। एतदाकर्ण्य भवन्तः प्रमाणं । ततो यदाज्ञापयति भगवतौति प्रतिपन्नं तच्छासनं महत्तमेन बलाधिकृतेन च ततो महत्तमेनोक्तं । भद्र तन्नियोग तावदुत्तिष्ठ दर्शयामो भद्रस्थासंव्यवहारनगरलोकप्रमाणं येन गतः सन् निवेद- यसि त्वं देवपादेभ्यः कालान्तरेऽपि येन न भवति तेषां लोकवि- रलोभवनचिन्ता । तन्नियोगेनोनं । यदाज्ञापयत्यार्यः । ततः समु- त्थितास्त्रयोऽपि नगरं निरीक्षितं । दर्शिताः समुच्छ्रितकरण पर्यटता तौबमोहोदयेनासंख्येया गोलकनामानः प्रामादास्तन्नियो- गस्य । तन्मध्यवर्तिनश्वासंख्येया एव दर्शिता निगोदनामानोऽपव रकाः। ते च विद्दभिः साधारणशरौराणौत्यभिधीयन्ते । तदन्तर्भू- ताश्च दर्शिता अनन्ता लोकाः । ततो विस्मितस्तन्नियोग उक्तो महत्तमेन । भद्र दृष्टं नगरप्रमाणं । स प्राह । सुष्टु दृष्टं । ततः सहस्ततालमट्टहामेन विहम्य तौबमोहोदयेनोक्तं । पश्यत विमूढतां सदागमस्य । स हि किल सुग्रहीतनामधेयस्य देवस्य कर्मपरिणा- मस्य सम्बन्धिनं लोक निर्वाहयितमभिलषति । न जानौते वरा- कस्तत्प्रमाणं । तथाहि । अत्र नगरे तावदसंख्येयाः प्रासादास्तेषु द्वितीयः प्रस्तावः। २७६ प्रत्येकमसंख्येया एवापवरकाः। तेषु चैकैकस्मिन्ननन्तलोकाः प्रतिव- सन्ति । अनादिरूढश्चास्य सदागमस्यायं लोकनिर्वाहणारूपो ग्रहः । तथापि तेनेयता कालेन निर्वाहयता यावन्तोऽत्रैकस्मिन्नपवरके लोकास्तेषामनन्तभागमा निर्वाहितं । ततः केयं देवपादानां लोकविरलोभवनचिन्ता। तनियोगेनोनं । सत्यमेतदस्येव चायं देवस्याप्यवष्टम्भः । विशेषतः पुनर्युग्मदचनमेतदहं कथयिष्यामि । अन्यच्च । उक्तं भगवत्या लोकस्थित्या यथा न भवता कालक्षेपः कार्यः। तत्संपाद्यतां शीघ्रं तदादेश इति । ततः स्थितावुत्मारके महत्तमबलाधिकृतौ । महत्तमेनोक्तं । केऽत्र प्रस्थापनायोग्या इति । अत्यन्ताबोधः प्राह । आर्य किमत्र बहुनालोचितेन । ज्ञाप्यतामेष व्यतिकरो नागरलोकानां दौयतां पटहकः क्रियतां घोषणा। यथा। देवकर्मपरिणामादेशेन कियनि- रपि लोकैरितः स्यानात्तदीयशेषस्थानेषु गन्तव्यं । अतो येषामस्ति भवतां तत्र गमनोत्साहस्ते खयमेव प्रवर्तन्तामिति । ततोऽनुकूल- तया शेषस्थानानामुत्संकलिता वयमिति च मत्वा भूयांसो स्लोकाः खयमेव प्रवर्तिव्यन्ते । ततो विशेषतो नेयलोकसंख्यां पृष्वा तनि- योगं तेषां मध्याद्येऽस्मभ्यं रोचिष्यन्ते तानेव तावत्संख्यान् प्रहेय्याम इति । महत्तमेनोक्तं । भद्र स्वयमपि परिहितस्य भक्ति न जानौषे त्वं । यतोऽमौभि.कैर्न कदाचिदृष्टं स्थानान्तरं अतो न जानन्ति तत्खरूपमपि किं पुनस्तस्यानुकूलतां । अनादिप्रवाहेण चात्रैव वसन्तो रतिमुपगताः खल्वेते । तथानादिसम्बन्धेनैव रूढ- स्नेहाः परस्परं नेच्छन्ति वियोगं । तथाहि । पश्यतु भद्रो येऽत्र १८० उपमितिभवप्रपञ्चा कथा। ततः खोका एकैकस्मिन्नपवरके वर्तन्ते ते ऽतिस्निग्धतयात्मनो गाढं सम्बन्धमुपदर्शयन्तः समकमुच्छ्रसन्ति समकं निःश्वसन्ति समकमा- हारयन्ति समकं निर्हारयन्ति एकस्मिन्नियमाणे सर्व म्रियन्ते एकस्मिजीवति सर्वेऽपि जीवन्ति । तत्कथमेते स्थानान्तरराणज्ञान- रहिता एवंविधप्रेमबद्धात्मानश्च खयमेव प्रवर्तिव्यन्ते । तस्मादपरः कश्चित्प्रस्थानोचितलोकपरिज्ञानोपायश्चिन्यतां भवतेति । पर्याकुलीभूतो बलाधिकृतः किमच विधेयमिति । दूतश्चास्ति भवितव्यता नाम मम भार्या । सा च शाटिका- बद्धः सुभटो वर्तते यतोऽहं नाममात्रेणैव तस्या भर्तति प्रसिद्धः । परमार्थतः पुनः सेव भगवतौ मदीयग्टहस्य शेषलोकग्टहाणां च सम्बन्धिनौं समस्तामपि कर्तव्यता तन्त्रयति । यतः मा अचिन्ध- माहात्म्यतया खयमभिलषितमचे घटयन्ती नापेक्षतेऽन्यसम्बन्धिनं पुरुषकारं सहायतया न विचारयति पुरुषानुकूलप्रतिकूलभावं न गणयत्यवसरं न निरूपयत्यापगतं न निवार्यते सुरगुरुणापि बुद्धि- विभवेन न प्रतिस्खल्यते विबुधपतिनापि पराक्रमेण नोपलभ्यते योगिभिरपि तस्याः प्रतिविधानोपायः । अत्यन्तमसंभावनौयमप्यर्थं मा भगवती स्वकरतलवर्तिनमिव लीलया संपादयति । लक्षयति च प्रत्येकं समस्तलोकानां यस्य यदा यत्र यथा यावद्यञ्च प्रयोजनं कर्तव्यं ततस्तस्य तदा तत्र तथैव तावत्तदेव प्रयोजनं रचयन्ती न चिभुवनेनापि निवारयितुं पार्यते । किं च । यदि शकचक्रवा- दीनामपि कथ्यते यथा भद्रिका भवतामुपरि भवितव्यतेति तत- स्तेऽपि तुष्यन्ति हृदये दर्शयन्ति मुखप्रसादं विस्फारयन्ति लोचने द्वितीयः प्रस्तावः। ददति कथकाय पारितोषिकं कुर्वन्यात्मनि बहमानं कारयन्ति महोत्सवं वादयन्यानन्ददुन्दुभि चिन्तयन्यात्मनः कृतकृत्यतां मन्यन्ते सफलं जन्मेति किं पुनः शेषलोका इति। अथ तेषामपि शक्र- चक्रवादीनां कथ्यते यथा न भद्रिका भवतामुपरि भवितव्यतेति ततस्ते कम्पन्ते भयातिरेकेण प्रतिपद्यन्ते दीनतां कुर्वन्ति क्षणेन कृष्णमुखं निमौलयन्ति वीक्षणे रुष्यन्ति कथकाय समध्यास्यन्ते चिन्तया ग्टह्यन्ते रणरणकेन परित्यजन्ति शोकातिरेकेणेतिकर्तव्यता पालोचयन्ति तत्प्रसादार्थमनेकोपायान् - किं बहुना-न लभन्ते तस्यामनुष्ठायां मनागपि चित्तनिवृतिं कथमेषापि पुनः प्रगुणी- भविष्यतीत्युइगेन किं पुनः समान्यजना इति । मा पुनर्भगवती यदात्मने रोचते तदेव विधत्ते न परं विज्ञापयन्तं विस्तपन्तं प्रतिकुर्वन्तं वापेचते । अहमपि तद्भयोद्धान्तचित्तो यदेव सा किंचित्कुरुते यथेष्टया चेष्टया तदेव बह मन्यमानस्तस्याः पतिरपि कर्मकर इव जय देवि जय देवौति ब्रुवाणस्तिष्ठामि । अपि च । मा सर्वच कृतोद्योगा मा ज्ञातभुक्नोचिता । मा जामति प्रसुप्तेषु मा सर्वस्य निरूपिका ॥ मा केवलं जगत्यत्र विचरन्ती निराकुखा । न कुतश्चिद्दिभत्युच्चैर्मत्तवगन्धहस्तिनौ । मा कर्मपरिणामेन महाराजेन पूजिता । यतोऽनुवर्तयत्येव तामेषोऽपि प्रयोजने ॥ तथान्येऽपि महात्मानः कुर्वन्ति खं प्रयोजनम् । यान्तोऽनुकूलतां तस्या यत एतदुदाहृतम् ॥
१८२ उपमितिभवप्रपञ्चा कथा। बुद्धिरुत्पद्यते यादृग् व्यवसायश्च तादृशः । सहायास्तादृशाश्चैव यादृशौ भवितव्यता ॥ तस्याश्च मदीयग्रहिण्या भवितव्यतायाः सम्बन्धिनमेनं गुण- मन्दोहं जानात्येव सोऽत्यन्ताबोधो बलाधिकृतः। ततस्तस्य तदा पर्यालोचयतश्चेतसि परिस्फुरितं । श्रये किमहमेवं सत्यभ्युपाये चिन्तयात्मानमाकुलयामि । यतो जानात्येव सा संसारिजीवपत्नी भवितव्यता येऽत्र प्रस्थापनोचिता लोकास्तेषां खरूपमिति। अतस्ता- मेवाइय पृच्छामि। ततः कथितस्तोत्रमोहोदयाय तेन स्वाभि- प्रायः। सुन्दरमेतदिति बहुमतं तस्यापि तस्या श्राकारणं। ततः प्रहितः पुरुषः । समाहृता भवितव्यता। समागता वेगेन प्रवेशिता प्रतीहार्या । महाप्रभावेयं सर्वापि स्त्री किल देवतेति विचिन्य कृतं तस्याः पादपतनं वाचिकं महत्तमबलाधिकृताभ्यां । अभि- नन्दितौ तौ तयाशीर्वादेन । दापितमासनं । उपविष्टा भक्ति- व्यता । ततो बलाधिकृताभिमुखं महत्तमेन चालिता भूलता ततस्तेन कथयितुमारब्धस्तस्यै तन्नियोगव्यतिकरः। ततो हसितं तया। स प्राह । भने किमेतत् । भवितव्यताह । न किंचित् । बलाधि- कृतेनोनं । तत्किमकाण्डे हसितं । भवितव्यताह । अत एव यतो न किंचिदिदं । बलाधिकृतेनोनं । कथं । भवितव्यताह । सत्यमत्यन्ता- बोधोऽमि यस्खमेनमपि व्यतिकरं मह्यं कथयसि । कृतोद्योगाह- मेवंविधेषु व्यतिकरेषु । लक्ष्याम्यनन्तकालभाविनोऽपि सर्वव्यति- करानहं किं पुनः साम्प्रतिकान् । अतो निष्पयोजनत्वान्न किंचिदे- तत्त्वदीयकथनं ममेति । अत्यन्ताबोधः प्राह । सत्यमिदं। विस्मृतं मे ।
हितीयः प्रस्तावः । १८३ तावक माहात्म्यं । मोढव्योऽयमेको ममापराधो भवत्या। अन्यच्च । प्रस्थापय त्वमेव येऽत्र प्रस्थापनोचिता लोकाः । किं नो व्यापारेण । भवितव्यतयोक्तं । एकस्तावदेष एव मदीयो भर्ता प्रस्थापनयोग्यः तथान्ये च ये तज्जातीयाः । बलाधिकृतेनोक्तं । त्वमेव जानौषे किमत्रोनेन ॥ ततो निर्गता भवितव्यता। भागता मम समोपे। कथितो व्यतिकरः । मयोक्तं । यद्देवी जानौते । ततः समुच्चलितोऽहमन्ये च मज्जातीयास्तनियोगाभिप्रेतसङ्ख्यानुसारेण । उक्तौ च भवितव्यतया महत्तमबलाधिकृतौ । यदुत मया युवाभ्यां चामीभिः सह यातव्यं । यतो भईदेवता नारीति न मोक्तव्यो मया संसारिजीवो यतश्चास्ति युवयोरपि प्रतिजागरणीयमेकाचनिवासं नाम नगरं- तत्रामौभिलेोकः प्रथमं गन्तव्यं - तो युज्यते युवाभ्यां सहैवामौषां तत्रासितं नान्यथा । ततो यद्भवतो जानातौत्यभिधाय प्रतिपन्न तवचनं महत्तमबलाधिकृताभ्यां । प्रवृत्ताः सर्वेऽपि समागतास्तदे- कामनिवास नगरं । तत्र च नगरे महान्तः पञ्च पाटका विद्यन्ते । ततोऽहमेक पाटकं कराग्रेण दर्शयता तौबमोहोदयेनाभिहितः । भद्र संसारि- जौव तिष्ठ त्वमत्र पाटके । यतोऽयं पाटकोऽसंव्यवहारनगरेण बडतरं तुल्यो वर्तते ततो भविष्यत्यत्र तिष्ठतो तिरिति । तथाहि । यथा तत्रासंव्यवहारनगरे गोलका भिधानानां प्रासादानां मध्यवर्तिनो ये निगोदाभिधाना अपवरकास्तेषु ये लोकाः प्रत्येक- मनन्ताः मंपिण्डिताः स्नेहाबन्धन प्रतिवमन्ति त्रापि पाटके बहbe १० उपमितिभवप्रपश्चा कथा। तमा लोकास्तथैव प्रतिवसन्ति । केवलमसंव्यवहारनगरसम्बन्धिनो न कचिल्लोकव्यवहारेऽवतरन्तौति श्रसांव्यवहारिका इत्युच्यन्ते । ते हि यदि परं यूयमिव भगवत्या खोकस्थितेरादेशेन सकदेवा- न्यस्थानेषु गच्छन्ति नान्यथा। एते पुनरस्य पाटकस्य सम्बन्धिनो लोकाः कुर्वन्ति खोकव्यवहारं समाचरन्ति शेषस्थानेषु गमागमं । तेन मांव्यवहारिका इत्यभिधीयन्ते । तथा तेषामसंव्यवहारनगर- सम्बन्धिनामनादिवनस्पतय इति सर्वेषामपि सामान्याभिधानं एत- त्पाटकसम्बन्धिनां तु वनस्पतय इत्येतावान् विशेषः । तथा प्रत्येक- चारिणोऽपि प्रासादापवरकन्यायरहिता मुत्कलचारेणात्र विद्यन्ते तेऽसंख्येया चोकाः । ततस्तिष्ठ त्वमत्र पूर्वपरिचितनगरसमान एवायं पाटकस्तवेति । ततो मयोक्तं । यदाज्ञापयति देवः ॥ ततः स्थापितोऽहमेकस्मिन्नपवरके । शेषलोकास्तु केचिन्मदीय- विधानेनैव स्थापितास्तत्रैव पाटके केचिन्मुत्कलचारेण केचित्पुनौताः पाटकान्तरेविति । ततोऽहं तत्र साधारणशरीरनाम्नि भद्रे ऽप- वरके पूर्वाक्कस्थित्यैव सप्त व मत्त व मूर्छित व मृत दुवानन्त- खोकैः संपिण्डितैस्तैः समकमुच्छ्मन् समकं निःश्वसन समकमा- पारयन् समकं निारयन् स्थितोऽनन्तकालमिति ॥ अन्यदा कर्मपरिणाममहाराजादेशेनैवानुमतो महत्तमबलाधि- कृताभ्यां निःमारितस्ततोऽपवरकन्यायाद् भवितव्यतया धारितस्तत्रैव पाटके पुनरसंख्यकालं प्रत्येकचारितयेति ॥ इतश्च पूर्वमेव कर्मपरिणाममहाराजेन परिपृच्छय लोकस्थिति समालोच्य मह कालपरिणत्या ज्ञापयित्वा नियतियदृच्छादौनाम- द्वितीयः प्रस्तावः। १८५ नुमते भवितव्यताया अपेक्ष्य विचित्राकारं लोकखभावमात्मीयसा- मर्थ्यप्रभवैः परमाणुभिर्निष्पादिताः सर्वार्थकारिण्य एकभववेद्यसंज्ञाः प्रधानराटिकाः । समर्पिता भवितव्यतायाः । मा चाभिहिता तेन । यथा भने समस्तलोकव्यापारकरणोद्यता वं श्रान्तामि समस्तलोकानां क्षणे क्षणे नानाविधसुखदुःखादिकार्याणि संपादयन्ती ततो ग्रहाणामूर्गुटिकाः। ततस्वया तासामेकैकस्य सत्त्वस्य जीर्णयां जौर्णायामेकैकस्यां गुटिकायामन्या दातव्या । ततः संपादयिष्यन्त्येताः स्वयमेव विविधमप्यकत्र जन्मवासके वसत्सु प्रत्येकं सत्त्वेषु तवेष्टं सर्व प्रयोजनमिति भविष्यति ते निराकुलता। ततः प्रतिपत्र भवितव्यतया तद्राजशासनं। विधने च सकलकासं समस्तमत्त्वानां तथैव सा तं गुटिकाप्रयोग। ततोऽहं यदा तत्रासंव्यवहारनगरेऽभूवं तदा मम जीर्णायां जीर्णायामपरी सा गुटिकां दत्तवती । केवलं सूममेव मे रूपमेकाकारं सर्वदा तत्प्रयोगेण विहितवती। तत्र पुनरेकाचनि- वासनगरे समागता तीव्रमोहोदयात्यन्ताबोधयोः कुदहलमिव दर्शयन्तौ तेन गुटिकाप्रयोगेण ममानेकाकारं स्वरूपं प्रकटयति स्म। यतः कृतोऽहं तत्र पाटके वर्तमानः क्वचिदवसरे सूक्ष्मरूपः । तत्रापि क्वचित्पर्याप्तकरूपः क्वचिदपर्याप्तकरूपः । तथा कचिदवसरे विहितोऽहं बादराकारः। तत्रापि क्वचित्पर्याप्तकरूपः क्वचिदपर्याप्त- करूपः । तथा बादरः सन् क्वचिदपवरकवर्ती क्वचित्प्रत्येकचारी। अत्रापि क्वचिदकुराकारधारः क्वचित्कन्दरूपः क्वचिन्मूलभाजी क्वचित्त्वक्चारौ कचित् स्कन्धवर्ती कचिच्छाखाचरः क्वचित्पशाखागतः ne १८६ उपमितिभवप्रपञ्चा कथा । क्वचित्प्रवालसञ्चरिष्णुः क्वचित्पत्राकारः क्वचित्पुष्पसंस्थः क्वचित्फला- त्मकः क्वचिद्योजस्वभावः तथा क्वचिन्मूलबौजः क्वचिदयबौजः क्वचि- त्पर्वबौजः क्वचित् स्कन्धबीजः क्वचिद्दोजरुहः । क्वचित्समर्छनजः तथा क्वचिद् वृक्षाकारः क्वचिगुल्मरूपः क्वचिल्लतात्मकः क्वचिदल्लौखभावः क्वचिद्धरितात्मक इति । तथारूपेण च वर्तमानं मामुपलभ्यान्यग्रा- मनगरसम्बन्धिनो लोकाः कम्पमानं भवितव्यतायाः समक्षमेव छिन्दन्ति भिन्दन्ति दलन्ति पिंषन्ति मोटयन्ति लुच्चयन्ति तक्षणवन्ति दहन्ति नानाकदर्थनाभिः कदर्थयन्ति । तथापि भवितव्यता तत्रोपेचां कुरुते ॥ ततोऽतिवाहिते तथाविधदुःखैरनन्तकाले जीर्णायां पर्यवसान- कालदत्तायां गुटिकायां दत्ता भवितव्यतया ममान्या गुटिका । तत्प्रभावागतोऽहं द्वितीयपाटके । तत्र च पार्थिवसंज्ञया लोकाः प्रतिवसन्ति । ततोऽहमपि तेषां मध्ये संपन्नः पार्थिवः । विडम्बि- तस्तत्रापि भवितव्यतयापरापरगुटिकादानद्वारेण सूक्ष्मवादरपर्याप्त- कापर्याप्तकरूपतया कृष्णनौलश्वेतपीतलोहितवर्णादिरूपतया सिक- तोपललवणहरितालमनःशिलाञ्जनशुद्धपृथिव्याद्याकारतया चासं- ख्येयं कालं । तितिचितानि च तत्र पाटके वसता मया भेदनद- लनचर्णनखण्डनदहनादौनि दुःखानि ॥ ततः पर्यन्तराटिकाजरणावसाने दत्ता भवितव्यतया ममान्या गुटिका । गतोऽहं तन्माहात्म्येन हतीये पाटके । तत्र चाप्याभिधानाः कुटुम्बिनः प्रतिवसन्ति । ततो ममापि तत्र गतस्य संपन्नमाप्यरूपं । विगोपितस्तत्राप्यहं जीर्णायां जीर्णायामपरापरां गुटिकां दत्त्वा द्वितीयः प्रस्तावः। १८७ रूपान्तरं संपादयन्या भवितव्यतया असंख्येयमेव कालं। तथाहि । कृतोऽहमवश्यायहिममहिकाहरतनुशुद्धोदकाद्यनेकभेदरूपो रूपरस- गन्धस्पर्णभेदेन विचित्राकारस्तया। सोढानि च तत्र पाटके वर्त- मानेन भया शीतोष्णचारक्षत्राद्यनेकशस्त्रसंपाद्यानि नानादुःखानि ।। ततस्तत्कालपर्यन्ते जीर्णायामन्त्यगुटिकायां दत्ता ममापरा गुटिका भवितव्यतया । गतोऽहं तत्तेजमा चतुर्थे पाटके । तत्राप्यमंख्येयास्तेजस्कायनामानो ब्राह्मणाः प्रतिवसन्ति । ततोऽहमपि तेषां मध्ये भास्वरो वर्णन उष्णः स्वर्शन दाहात्मकः कायेन सूचिरूपः संस्थानेन संपन्नस्तेजस्कायो ब्राह्मणः । प्रवृत्ताश्च मम तत्र वसतो ज्वालाङ्गारमुर्मुरार्चिरलातशुद्धाग्निविधुदुल्काशनिप्रभृतयो व्यपदेशाः। जातानि विध्यापनादितो नानादुःखानि । स्थितः सूक्ष्मवादरपर्याप्तकापर्याप्तकरूपतया विवर्तमानोऽसंख्येयं कालं ॥ दत्ता च तदन्ते ममापरा गुटिका पयगुटिकाजरणावसाने भवितव्यतया। गतोऽहं तदुपयोगेन पञ्चमपाटके। तत्राप्यसंख्येया वायवौयाभिधानाः क्षत्रियाः प्रतिवमन्ति। ततोऽहमपि तत्र गतो ऽनुष्णशौतः स्पर्शन अलक्ष्यश्चक्षुष्मतां रूपेण पताकाकारः संस्थानेन संजातो वायवीयः चचियः। श्राइतश्च तत्र वर्तमानोऽहमुत्कलि- कावातो मण्डस्तिकावातो गुन्नावातो झञ्झावातः संवर्तकवातो घनवातस्तनुवातः शुद्धवात इत्यादिभिरभिधानैः । समुद्भूतानि तत्र मे शस्त्राभिघातनिरोधादीनि नानादुःखानि । विनाटितस्तत्रापि सूक्ष्मवादरपर्याप्तकापर्याप्तकाकारतया घूर्णमानोऽसंख्येयं कालं भवितव्यतया ॥
१८८ उपमितिभप्रपा कया। इतस्तदवसाने जाते पर्यन्त टिकाजरणे दत्त्वापरां गुटिका पुनौतोऽहं प्रथमपाटके भवितव्यतया। स्थितस्तत्र पुनरनन्तं कालं। ततः पुनरपरापरगुटिकाप्रयोगेणैव प्रापितो द्वितीयादिपाटकेषु स्थितश्चैकैकस्मिन्नसंख्येयं कालं। ततश्चानेन प्रकारेण तस्मिन्नेकाच- निवासे नगरे कारितोऽहमनन्तवाराः समस्तपाटकपर्यटनविडम्बनं तौबमोहोदयात्यन्ताबोधयोः समक्षं भवितव्यतया ॥ अन्यदा मनाप्रसवचित्तयाऽभिहितं । यथार्यपुत्र स्थितो भूयांसं कालं वमत्र नगरे। ततोऽपनयामि भवतः स्थानाजीर्ण नयामि भवन्तं नगरान्तरे। मयोकं । यदाज्ञापयति देवी । तत्र प्रयुक्ता गुटिका भवितव्यतया ॥ दूतश्चास्ति विकलामनिवासं नाम नगरं । तत्र च चयः प्रधानपाटका विद्यन्ते । तस्य नगरस्य परिपालकः कर्मपरिणाम- महाराजनियुममार्ग एवोन्मार्गोपदेशो नाम महत्तमः । तस्य च माया नाम रहिणी। ततोऽहं गुटिकामाहात्म्येन प्राप्तस्तत्र प्रथमे पाटके। तस्मिंश्च सप्तकुलकोटिलचवर्तिलोऽसंख्येया दिहषोकाभि- धानाः कुलपुत्रकाः प्रतिवसन्ति । ततोऽहमपि संपनस्तेषां मध्ये विहषौकः । ततो ऽपगता मे मा सुप्तमत्तमूर्छिततरूपता। जातो মনামমিলন। ননস্থ कृतोऽहं गुटिकादानद्वारेणैव ततस्तया । कृमिरूपोऽशचिस्थाने महापापः स्वभार्यया ॥ मृत्रान्वक्लोदजम्बालपूरिते जठरे स्थितम् । मां पश्यन्ती विशालाची ततः मा परितुष्यति ॥
जतीच. प्रताव
+
कदाचित्मारनेवादिदुर्गन्धित्रणकोटरे ।
मामन्यकमिशान लंधुतं यौल मोदः
बायधभराचे खोजमानं सुदुःखितम् ।
मां दृष्ट्वा अभिमान नुहाइवितव्यता ॥
जजूकाभावमापाद्य गुटिकादानतस्तथा ।
भनेत्थं चाकरोदुःखं हसलो सह भायया ॥
माये पर मोचव मनुः हमाम् ।
वझुन्मार्गीपदेशन भनीमोन गर्षिता ।।
क्षुधार्ता वारके चित्तस्ततो निर्गत्य मत्पतिः ।
निःशेषं कर्षयत्येष व्रणारिं वौर्ययोगतः ॥
अन्यच्च त्यागमामर्थ्यं पश्य भतुर्ममेदृशम् ।
यदेष रतसर्वखं ददते हस्तधारिणे ॥
ततोऽग्टहीतसङ्केते भद्रे भायांविडम्वितः ।
उपहासेन तेनाहं द्विगुणं दुःखमागतः ॥
पुनश्च गुटिकां दत्त्वा कृत्वा शङ्ख महोदधौ ।
मामेषा शाखि कैछिन रटन्तं वौच्य तय्यति ॥
तदेवं पाटके तत्र वर्तमानः स्वभार्यया ।
अपरापररूपेण संख्यातीतं विडम्बितः ॥
अन्यदा पुनर्यथेष्टचेष्टयैव प्रयुक्ता भवितव्यतया ममान्यगुटिका ।
नौतोऽहं तत्सामर्थन दितीये पाटके । तत्र चाटकुलकोटिलक्षस्था-
यिनोऽसंख्येयास्त्रिकरणनामानो टहपतयोऽधिवन्ति । ततोऽहमपि
तेषां मध्ये संपवस्त्रिकरणो ग्रहपतिः । ततश्च ।
उपमितिभवप्रपञ्चा कथा ।
यूकामत्कुणमकोटकुन्थुरूपविवर्तिनम् ।
पिपीलिकादिरूपं च कृत्वा मां भवितव्यता ॥
पर्यटन्तं बुभुक्षात पिथ्यमाणं च बालकैः ।
दग्धं दृष्ट्वा तथा तोषादानन्दमवगाहते ॥
तदेवं पाटके तत्र गुटिकादानपूर्वकम् ।
असंख्यवाराः पापोऽहं कारितो ऽनेकरूपताम्
अथान्यदा पुनर्दत्ता गुटिका मे ऽव[म? हेलया।
बतौये पाटके नौतस्तयैवोचितहेलया ॥
कोटौलचाः कुतानां च वसन्ति नव तत्र थे।
असंख्यास्तेषु विद्यन्ते चतुरक्षाः कुटुम्बिनः ।
ततोऽहमपि संजातश्चतरक्षः कुटुम्बिकः ।
पतङ्गमक्षिकादंशवृश्चिकाकारधारकः ॥
सोढानि तत्र दुःखानि नानाकाराणि तिष्ठता।
निर्विवेकजनादिभ्यो मर्दनादिविधानतः ॥
जीर्ण जौणे पुनर्दत्त्वा गुटिकामपरापराम् ।
असंख्यरूपैस्तत्रापि पाटके नाटितस्तया ॥
भूयो भूयश्च तेष्वेव पाटकेषु विवर्तनम् ।
संख्यातीतानि वर्षाणां सहस्राणि विधापितः ॥
एवं च स्थिते
क्वचित्पर्याप्तरूपेण तथापर्याप्तरूपकः ।
तेषु त्रिय्वपि पन्याऽहं पाटकेषु विनाटितः ॥
अथान्यदा प्रहृष्टेन चेतमा भवितव्यता ।
द्वितीयः प्रस्तावः।
ज्ञात्वा तदुचितं कालं ततः सेत्थमभाषत ।
आर्यपुत्र भवन्तं किं नयामि नगरान्तरम् ।
विकखाचनिवासेऽत्र नगरे नास्ति ते तिः ॥
मयोकं देवि यत्तुभ्यं रोचते तविधीयताम् ।
किमत्र बहुना वं मे प्रमाणं सर्वकर्मसु ।।
ततो जीणीं मम ज्ञात्वा गुटिकामन्तवर्तिनौम्
नगरान्तरयानाय प्रयुक्ता गुटिका तया ॥
प्रथोन्मार्गोपदेशस्य प्रतिजागरणे स्थितम् ।
पञ्चाक्षपसंस्थानं नामास्ति नगरं परम् ॥
तत्र सार्धत्रिपञ्चाशत्कोटौलक्षप्रमाणके ।
वसन्ति कुलसवाते लोकाः पञ्चाक्षनामकाः ॥
जलस्यखनभश्वराः स्पष्टचैतन्यसंयुताः ।
संज्ञिनस्तेऽभिधीयन्ते गर्भजा इति वा बुधैः ।
ये पुनस्तत्र विद्यन्ते स्पष्टचैतन्यवर्जिताः ।
प्रसंजिन इति ख्यातास्ते सम्मूर्छनजा जनाः ॥
ततोऽहं तेषु संजातः स्पष्टचैतन्यवर्जितः।
पञ्चायो नाम विख्यातो गुटिकागः प्रभावतः ॥
रटबुच्चैविना कार्य दर्दराकारधारकः ।
केलिप्रियतया तब भार्ययाहं विनाटितः ॥
तत्र च सम्मर्छनजमध्ये
रूपैरेवमसंख्येयैर्भमयित्वा ततस्तथा ।
विहितो गर्भजाकारधारकोऽहं महेलया ।
-
२६२
उपमितिभनयका बाथः
ततश्च जलचरेषु वर्तमानः
स्टहोतो धीवरैस्तत्र विधाणो मत्वरूपलान् ।
छेदपाकादिभिर्युःखं प्रापितोऽहं सहस्रशः ।
तथा चतुष्यदस्थलचरेषु वर्तमानस्य
शशसूकरसारङ्गरूपमाविधतो मम ।
व्याधैर्भित्त्वा शरैर्गाचं कृता नानाविकतनाः ।
तथा भुजपरिमारःपरिमषु वर्तमानेन
गोधाहिमकुन्नादीनां रूपं धारयता चिरम् ।
अन्योन्यभक्षणाद् दुखं प्राप्त करतया मया ॥
तथा।
काकोलूकादिरूपाणां पक्षियां मध्यचारिणा ।
संख्यातीतानि दुःखानि मोढानि सुचिरं मया :
असंख्यजनसंकोण तदेवं तत्र पन्तने।
जलस्यलनभचारी संजातोऽहं बुले कुले।।
अन्यच्च । तस्मिन् पञ्चामचने नगरे
सप्ताष्ट वारा रूपाणि नैरन्तर्यण कारितः ।
नौतस्ततोऽन्यस्यानेषु तत्रानौतः पुनस्तया ॥
एवं च स्थिते।
श्रेषेषु सर्वस्थानेषु गत्वा गत्वान्तरान्तरा ।
मया तव पुरेऽनन्ताः कृता रूपविडम्बनाः ॥
स्थितश्च नैरन्तया परं पच्योपमवयम् ।
द्वितीयः प्रस्ताव १६३ । अहं तत्र पुरे किंचित्साधिकं पूर्वकोटिभिः । असंजिज्ञिरूपेण पर्याप्ततरभेदतः । तदेवं नगरे तत्र नामाकारविडम्पितः ।। अन्यदा कुरङ्गरूपः संपादितोऽहं भवितव्यलया। स्तिो यूथमध्ये तरलिततारं भयेन निरीक्षमाणो दशापि दिश उत्सवमानस्तरु- शिखराणीतश्चेतच पर्यटामि यावदेकेन सुब्धककुमारकेण कलध्व- निना प्रारब्धं गोतं। ततस्तेनाचितं गयूथे । परित्यक्तमुत्भवनं । निरुद्धा रेटा। निश्चलोकतानि तोचनानि । निवृत्तः शेषेन्द्रिय- व्यापारः । मंजालः कर्णन्द्रियमावनिमोऽकराया । ततो निष्यन्द- मन्दीभूतं तत्तादृशं हरिणयूथमवलोक्याभ्यर्णीभूतो व्याधः । प्रगुणी- कृतं कोदण्डं। सन्धितरूत्र शिलीमुखः। बद्धमालौढस्थानकं । ईषदाकुञ्चिता कन्धरा। समाकृष्टो बाणः कर्णान्नं यावत् । ततो मुक्केन तेनारामागे वर्तमानोऽहं निर्भिद्य पातितो भूतले । अत्रान्तरे जीर्णा मे पूर्वदत्ता गुटिका । ततो जीर्णायां तस्था हरिणभवनिबन्धनभूतायामेकभववेदाशं गुटिकायां दत्ता ममान्या गुटिका भवितव्यतया । संपन्नम्तन्माहाम्येनाहं करिवररूपः । वर्धितः कालक्रमेण संजातो यूथाधिपतिः। ततः स्वभावसुन्दरेषु नलवनेषु अभीष्टतमेषु सन्नकौकिसलयेषु अत्यन्तकमनीयेषु वनविभागेषु परिकरितः करेणुकावृन्देन चित्तानन्दसन्दोहसागरमवगाहमानो यथेष्टचष्टया विचरामि यावदेकदाकाण्ड एव संत्रस्तं तत्करियूथं । नश्यन्ति श्वापदानि । श्रूयते वेणुस्फोटरवः। संसर्पितं धूमवितानं । मतः किमेतदिति निरीक्षितो मया पश्चाद्भुभागो यावविकटीभूतो १६४ उपमितिभवप्रपञ्चा कथा । ज्वालामालाकुलो दवानलः । ततः प्रादुर्भूतं मे मरणभयं परित्यक्तं पौरुषं अङ्गीकृतं दैन्यं समाश्रितात्मम्भरिता व्यपगतोऽहङ्कारः परित्यक्तं यूथं पलायितो ग्टहीत्वैकां दिशं गतः स्तोकं भूभागं । तत्र चामौञ्चिरन्तनग्रामपद्रसम्बन्धी विशाचः शुष्कोऽन्धकूपः। स च तटवर्तिवणव्यवहिततया भयाकुलतया च न लचितो मया धावता वेगेन । ततः प्रविष्टौ मम तत्राग्रपादौ । तबिरालम्बनतया पर्यस्तः पश्चाभागः। ततः पतितोऽहमुत्तानशरीरस्तत्रान्वकूपे संचूर्णितो गात्रभारेण मूर्छितः क्षणमाचं। लब्धा कथंचिच्चेतना । यावन्न चालयितुं शक्नोमि शरीरं प्रादुर्भूता च सर्वाङ्गीणा तीव्रवेदना ततः संजातो मे पश्चात्तापः । चिन्तितं च मया । यथेदृशमेव युज्यते मादृशानां ये प्रतिपन्नमृत्यभावं चिरकालपरि- चितमुपकारकमापविमग्नमनुरतमात्मवर्ग परित्यज्य कृतघ्नतया कुचिम्भरितामुररीकुर्वन्तः पलायन्ते । अहो मे निर्लज्जता । मय्यपि किल यूथाधिपतिशब्दो रूढः । तत्किमनेनाधुना। खचेष्टितानुरूप- मेवेदं मम संपनं। अतो न मया मनसि खेदो विधेयः । ततो ऽनया भावनया प्रतिपनं मया मनाङ् माध्यस्थं तितिक्षिता भवन्ती तौत्रापि वेदना। स्थितस्तदवस्थः सप्तरात्रं यावत् ॥ अत्रान्तरे तुष्टा ममोपरि भवितव्यता। ततस्तयाभिहितं । साध्वार्यपुत्र साधु । शोभनस्तेऽध्यवसायः। तितिक्षितं भवता परमं दुःखं । तुष्टाहमिदानौं भवतो ऽनेन चेष्टितेन । नयामि भवन्तं नगरान्तरे। मयाभिहितं । यदाज्ञापयति देवी। ततो दर्शितस्तया सुन्दराकारः पुरुषः । अभिहितश्चायं । यथार्यपुत्र तुष्टया मयाय- हितीयः प्रस्ताव १६५ . मधुना भवतः सहायो निरूपितः पुण्योदयो नाम पुरुषः । तदनेन सह भवता गन्तव्यं । मयाभिहितं । यदाज्ञापयति देवी। अत्रान्तरे जीर्ण में पूर्वदत्ता गुटिका। ततः प्रयुक्तान्या गुटिका भवितव्यतया । अभिहितं च तया । यथार्यपुत्र तव गतस्यायं पुण्योदयस्ते प्रच्छन्नरूपः सहोदरः सहचरश्च भवि- ध्यतौति ॥ एवं च वदति संसारिजौवे भव्यपुरुषः प्रज्ञा विशालायाः कर्णाभ्वर्ण स्थित्वेदमाह । यथाम्ब कोऽयं पुरुषः किं वानेन कथयितुमारब्धं कानि चामूनि असंव्यवहारादीनि नगराणि का चेयं गुटिका यैकैकवासके प्रयुक्ता सती नानाविधरूपाणि कारथति विविधसुखदुःखादिकार्याणि दर्शयति कथं वा पुरुषस्येयन्तं काच- मेकस्यावस्थितिः कथं चासंभावनौयानि मनुष्यस्य मतः कमिपिपौ- लिकारूपाणि जायेरन् । जायेरन् । तदिदं सकलमपूर्वालजालकल्पमस्य तस्करस्य चरितं मम प्रतिभासते । तत्कथयाम्बिके कोऽस्य भावार्थ इति। प्रज्ञाविशालयोनं। वत्स यदस्येदानीन्तनं विशेषरूपमुपलभ्यते तनानेन कथितं । किं तर्हि सामान्यरूपेण संसारिजीवनामायं पुरुषः । अतस्तदेवानेनात्माभिधानमाख्यातमनेन चात्मचरितं सर्व- मिदं घटमानकमेव निवेदयितुं प्रक्रान्तं । तथाहि । असांव्यवहा- रिकजीवराशिरत्रासंव्यवहारनगरं । एकेन्द्रियजातयः पञ्चापि पृथिव्यप्तेजोवायुवनस्पतिरूपाः । तेषां स्थानं एकाचनिवास । विकलेन्द्रियाणां दौन्द्रियत्रौन्द्रियचतुरिन्द्रियलक्षणानां स्थानं विक- सामनिवासं। पञ्चेन्द्रियतिरश्चां निलयः पञ्चाक्षपशमस्थानं । एक- ।
उपमितिभवप्रपञ्चा कथा । जन्मप्रयोग्यं कर्मप्रकृतिजालमेकभववेद्या गुटिकेत्युच्यते । तदुदयेन भवन्येव नानाविधरूपाणि संपद्यन्त एव विविधसुखदुःखानि कार्याणि । अजरामरचायं पुरुषः । ततो युक्तमेवास्थानन्तमपि कालमवस्थानं । संसारिजीवस्य चात्र भवन्येव कमिपिपीलिकादि- रूपाणि । किमत्राश्चयें। अथवा मुग्धबुद्धिरद्यापि वत्सो न जानौते यदस्य स्वरूपं । वत्म न संभवत्येव मुवनोदरे तत्संविधानकं यदस्य संसारिजीवस्य सम्बन्धिनि चरिते नावतरति। तद्वत्म निवेदयतु तावदेष सवं यथावृत्तं । पश्चात्तवाहमस्य भावार्थं निराकुला कथयिष्यामि । भव्यपुरुषेणोकं । यदाज्ञापयत्यम्बेति ।। उत्पत्तिस्तावदस्यां भवति नियमतो वर्यमानुष्यभूमौ भव्यस्य प्राणभाजः समयपरिणतेः कर्मणश्च प्रभावात् । एतच्चाख्यातमत्र प्रथममनु ततस्तस्य बोधार्थमित्थं प्रक्रान्तोऽयं समस्तः कथयितमतलो जीवसंसारचारः ॥ स च सदागमवाक्यमपेक्ष्य भो अडजनाय च तेन निवेद्यते । बुधजनेन विचारपरायण- स्तदनु भव्यजनः प्रतिबुध्यते ॥ प्रस्तावेऽत्र निवेदितं तदतस्वं संसारविस्फूर्जितं धन्यानामिदमाकसय्य विरतिः संसारतो जायते ।
द्वितीयः प्रस्ताव
१९७
येषां त्वेष भवो विमूढमनमां भोः सुन्दरो भासते ।
ते नूनं पशवो न सन्ति मनुजाः कार्येण मन्यामहे ॥
इत्युपमितभवनपञ्चायां कथायां संसारि-
जौवचरिते तिर्यग्गतिवर्णनो नाम
द्वितीयः प्रस्तावः ॥२॥
उपमितिभवप्रपश्चा कथा। तृतीयः प्रस्तावः। भवप्रपञ्चस्तिर्यचु वर्तमानस्य देहिनः । एष प्रोक्तो मनुष्यत्वे यस्यात्तदधुनोच्यते ॥ संसारिजीव उवाच । ततोऽहं भनेऽग्टहीतसङ्केते समाखादि- तैकभववेद्यराटिकः प्रवृत्तो गन्तुं । दूतश्चास्यस्यामेव मनुजगतौ नगयों भरताभिधानः पाटकः । तस्य च विशेषकभूतमस्ति जयस्थलं नाम नगरं । तत्र च महानृपतिगुणसम्पदालिङ्गितमूर्तिः पद्मो नाम राजा । तस्य च रतिरिव मकरकेतनस्य नन्दा नाम प्रधानदेवी। ततोऽहं तस्याः कुक्षौ प्रवेशितो भवितव्यतया । स्थितस्तत्रोचितकालं । निर्गतः सह पुण्योदयेन । दृष्टो नन्दया । संपन्नस्तस्याः पुत्र मम जात इत्यभिमानः । निवेदितः प्रमोद- कुम्भाभिधानेन दासदारकेण नरपतये। प्रादुर्भूतः सुतो म इति समुत्पन्नस्तस्याप्यनुशयः । हर्षविशेषादुल्लसितो गाचेषु पुलको दः । दापितं निवेदकदारकाय पारितोषिकं । समादिष्टो मजन्ममहो- त्सवः । ततो दीयन्ते महादानानि मुच्यन्ते बन्धनानि पूज्यन्ते नगरदेवताः क्रियन्ते हट्टद्वारशोभाः शोध्यन्ते राजमार्गाः पाहन्यन्त प्रानन्दभेर्यः श्रागच्छन्ति विशेषोज्वलनेपथ्या राजकुले नागरक- लोकाः विधीयन्ते तदुपचाराः प्रयुज्यन्ने समाचाराः श्रास्फाल्यन्ते तूर्यसकाताः गौयन्ते धवलमङ्गलानि नृत्यन्ति ललनातोकाः सह कञ्चकिवामनकुमादिभिर्नरेन्द्रवृन्देनेति । ततश्चैवं वृत्ते जन्ममहा- तीयः प्रस्तावः। १६६ - -- नन्दे ऽतिकान्ते मासे तिरोधाय संमारिजौव इत्यभिधानं प्रतिष्ठितं मे नन्दिवर्धन इति नाम । जातो ममाप्यहमनयोः पुत्र इत्यभि- मानः । ततो जनयन्नानन्दं जननौजनकयोः पञ्चभिर्धात्रीभिललितः संपन्नोऽहं चिवार्षिकः । मम चासंव्यवहारनगरादारभ्य मकलं कालं द्विविधः परिकरो ऽनुवर्तते। तद्यथा । अन्तरङ्गो बहिरङ्गश्च । तत्रान्तरङ्गपरिकरमध्ये ऽस्ति ममाविवेकिता नाम जाहणजातीया धात्रौ । सापि प्रसूता मजन्मदिने । जातो दारकः । प्रतिष्ठितं तस्य नाम वैश्वानर इति । स चादित एवारभ्यानभिव्यक्तरूपतयासौदेव । केवलमधुनाभिव्यक- रूप: संपन्नः । ततो मयामौ धारयन् वैरकलहाभिधानौ विषम- विस्तीर्णी चरणो दधानः परिस्थूलकठिनहस्खे ईस्तेियाभिधाने जो समुदहन्ननुशयानुपशमनामानौ विषमप्रतिष्ठितावूरू बिभ्राण: पैशुन्यसंज्ञकमेकपावितं कटौतटं दर्शयन् परमर्माहट्टननामकं वक्रविषमं लम्बमुदरं कलितोऽन्तस्तापनामकेनातिसङ्कटेनोरःस्थलेन युक्तः चारमत्सरसंज्ञाभ्यां विषमपरिहखाभ्यां बाहुभ्यां विराजमानः क्रूरतारूपया वक्रया सुदीर्घया च शिरोधरया विडम्ब्यमानो ऽसभ्यभाषलादिरूपैर्विजितदन्तच्छदैविरलविरलैर्महभिर्दशनैर्विगोप्य- मानश्च एडत्वासहनत्वनामकाभ्यां शषिरमात्ररूपकाभ्यां कर्णाभ्यामुप- हास्यस्थानं तामसभावसंज्ञमा स्थानमात्रेण लक्ष्यमाणयातिचिपिटया नामिकया बिघड्नासुरता रौद्रत्वनृशंसत्वसंज्ञाम्यामतिरकतया गन्नार्धमनिभाभ्यां वर्तुलाभ्यां लोचनाभ्यां विनाव्यमानोऽनार्याचरण- संज्ञकेन महता त्रिकोणेन शिरमा यथार्थोकुर्वाणो वैश्वानरता सपमितिभवप्रपञ्चा कथा । परोपतापसंज्ञकेनातिपिङ्गततया ज्वालाकलापकल्पेन केशभारेण दृष्टो वैश्वानरो ब्राह्मणदारक इति । ततोऽनादिपरिचयादाविर्भूतो मम तस्योपरि महः । ग्रहोतो मित्रबुद्ध्या । न लक्षिता परमार्थशत्रुभूतता । अविवेकितापुची ऽयमिति संपन्नास्योपरि गाढमन्तरङ्गपरिजनतया हितकारी ममा- यमिति बुद्धिः । ततो लचितस्तेन मदीयो भावः । अये करोत्येष ममोपरि राजपुत्रः प्रौति । तदेनमुपसर्पामि । ततः समागतो निकटे । ममालिङ्गितोऽहं । दर्शितः स्नेहभावः । प्ररूढश्चावयोः प्रणयः । लग्ना मैत्री । ततो यत्र यत्र क्वचिदहं संचरामि रहे बहिश्च तत्र तत्र न मामसौ क्षणमपि मुञ्चतीति । ततो रुपः खचित्तमध्ये ममोपरि पुण्योदयो वैश्वानरेण सह मैत्रीकरणेन । चिन्तितं च तेन । अये मम रिपुरेष वैश्वानरः । तथाप्येवम- विशेषज्ञोऽयं नन्दिवर्धनो येन मामनुरक्रमवधीर्यानेन समस्तदोष- राशिरूपेणात्मनोऽपि परमार्थवैरिण सह मैत्रौं करोति । अथवा किमत्राश्चय । न लक्षयन्त्येव मूढाः पापमित्रवरूपं नावबुध्यन्ते तत्सङ्गते१रन्ततां न बहु मन्यन्ते तत्सङ्गनिवारकं सदुपदेष्टारं परित्यजन्ति तत्वते सन्मित्राणि प्रतिपद्यन्ते तद्दन कुमार्ग। ते हि यदि परं धावन्तोऽन्धा व कुद्यादौ गाढं स्फोटलाभेन पाप- मित्रमङ्गानिवर्तन्ते न परोपदेशेनेति । मूढश्चायं नन्दिवर्धनकुमारो योऽनेनापि सह साङ्गत्यं विधत्ते । तत्विं ममानेन निवारितेन । निर्दिष्टश्चाइमस्य भवितव्यतया महचरत्वेनावर्जितवाहमनेन करि- रूपतायां वर्तमानेन वेदनासमुहातेऽपि निश्चलतया माध्यस्थभावनया।
टतीयः प्रस्तावः । २०१ तस्मादेव नन्दिवर्धनकुमारः पापमित्रसङ्गतिपरोऽपि नाकाण्ड एव मम तावन्मोक्नु युक्त इति । पर्यालोच्यासौ पुण्योदयो रुष्टोऽपि मम पार्श्व प्रच्छन्नरूपतया तदा तिष्ठत्येव । जाताश्चान्येऽपि बहिरङ्गा मम बहवो वयस्याः । ततस्तैः सार्धमने कक्रीडाभिः क्रौडनहं प्रवर्धितं प्रवृत्तः । प्रस्तुते च क्रौडने मत्तो महत्तरा अपि डिम्भाः प्रधानकुलजा अपि पराक्रमवन्तोऽपि मां वैश्वानराधिष्ठितमवलोक्य भयेन कम्पन्ते गच्छन्ति च मम प्रणतिं कुर्वन्ति चाटुकर्माणि प्रतिपद्यन्ते पदातिभावं धावन्ति पुरतो न प्रतिकूलयन्ति मदचनं किं बहुना लिखितादपि मत्तो बिभ्य- तौति । तस्य च सर्वस्यापि व्यतिकरस्थाचिन्त्यमाहात्म्यतया प्रच्छन्न- रूपोऽपि पुण्योदयः कारणं । मम तु महामोहवशात्तदा चेतसि परिस्फुरितं । यदुत यदेते हत्तमा अपि डिम्भा ममैवं कुर्वाणा वर्तन्ते सोऽयमस्य वरमित्रम्य वैश्वानरस्य गुणः । यतोऽयं सन्निहितः सन्नात्मीयसामर्थ्यन वर्धयति मम तेजखितां करोत्युत्साहं प्रोज्ज्वल- यति बलं संपादयत्योजः स्थिरीकरोति मनः जनयति धौरतां विधत्ते शौण्डौरतां किंबहुना समस्तपुरुषगुणैर्मामेष योजयति । ततोऽनया भावनया संजातो वनभतरो मे वैश्वानरः ।। ततः संजातोऽहमष्टवार्षिकः । समुत्पन्ना पद्मनृपते श्चिन्ता । ग्राह्यतामधुना कुमारः कला इति । ततो निरूपितः प्रशस्तदि- वसः । समाहृतः प्रधानः कलाचार्यः । पूजितोऽसौ विधिना । तमुचितकरणीयं । समर्पितोऽहं तस्य' पिचा महतादरेणेति । समर्पिताश्च मदीयभ्रातरोऽन्येऽपि बहवो राजदारकाः प्रागेव तस्य २०२ उपमितिभवप्रपञ्चा कथा । कलाचार्यस्य । ततस्तैः सार्धमहं प्रवृत्तः कलाग्रहणं कत्। ततः संपूर्णतया सर्वोपकरणानां गुरुतया तातोत्साहनस्य हिततया कलाचार्यस्य निश्चिन्ततया कुमारभावस्य सन्निहिततया पुण्योदय- स्थोत्कटतया क्षयोपशमस्यानुकूलतया तदा भवितव्यताया अनन्य- हृदयतया मया ग्टहीतप्रायः स्वल्पकालेनैव सकलोऽपि कलाकलापः । केवलमतिवल्लभतया सदा सन्निहितोऽसौ वैश्वानरः सनिमित्तम- निमित्तं वा करोति मम समालिङ्गनं । ततस्तेन समालिङ्गितोऽहं न स्मरामि गुरूपदेशं न गणयामि कुलकलकं न बिभेमि तात- मनःखेदस्य न लक्ष्यामि परमार्थं न जानाम्यात्मनोऽन्तस्तापं न वेनि कलाभ्यामनिरर्थकत्वं किं तु तमेव वैश्वानरमेकं प्रियं चल तदुपदेशेन गलल्खेदविन्दू रतौकृतलोचनो भुमकुटिः करोमि समस्तदारकैः सह कलहं विदधामि सर्वेषां मर्मोद्दट्टनं उच्चारया- म्यसभ्यवचनानि न चमे तेषां मध्यस्थमपि वचनं ताडयामि प्रत्येक यथासनिहितेन फलकादिना । ततस्ते सर्वेऽपि वैश्वानरालिङ्गितं मामवलोक्य भयेन वस्तमानमाः सन्तो वदन्यनुकूलं कुर्वन्ति चाटूनि श्राराधयन्ति मां पादपतनैः किं बहुना मदीयगन्धेनापि ते वौर्यवन्तोऽपि राजदारका नागदमनौहतप्रतापा व विषधरा न खतन्त्रं चेष्टन्ते । ततस्ते समुदिनाः कम्पमाना बन्धनागारगता इव महादुःखेन जननौजनकानुरोधेन कलाग्रहणं कुर्वन्तः कालं नयन्ति। न कथयन्ति तं व्यतिकरं कलाचार्याय मा भूत्सर्वेषां प्रलय इति भावनया । तथापि नित्यसनिहितत्वाल्लक्षयत्येव तन्मामकं चेष्टितं सकलं कलाचार्यः केवलं दारकेषु दृष्टविपाकतया भयेन त्रस्त हदयो टतीयः प्रस्ताव २०३ ऽसावपि न मम संमुखमपि शिक्षणार्थं निरोचते । यदि पुनरन्य- व्यपदेशेनापि मां प्रत्येष किंचिद् ब्रूयात्ततोऽहमेनमपि कलाचार्य- माक्रोशामि ताडयामि च । ततोऽसावपि मम राजदारकवर्तिते । ततो महामोहदोषेण मया चिन्तितं । अहो मे वरमित्रस्य माहात्म्यातिशयः अहो हितकारिता अहो कौशलं अहो वत्सलता अहो स्थिरानुरागः यदेष समालिङ्गनदारेण मम सवौर्यतां संपाद्य मामेवं सर्वत्राप्रतिहताझं जनयति न च मां क्षणमपि मुञ्चतौति । तदेष मे परमो बन्धुरेष मे परमं शरीरमेष मे सर्वस्वमेष मे जीवितमेष एव मे परं तत्त्वमिति । अनेन रहितः पुरुषोऽकिं- चित्करतया हृणपुरुषान्न विशिव्यते । ततश्चैवंविधभावनया संजातो मम वैश्वानरस्योपरि स्थिरतरानुरागः ॥ अन्यदा रहसि प्रवृत्ते तेन सह विधम्मजल्ये मयाभिहितं । वरमित्र किमनेन बहुना जल्पितेन । युभदायत्ता मम प्राणाः । तदेते भवता यथेष्ठं नियोजनौया इति। ततश्चिन्तितं वैश्वानरेण । अये सफलो मे परिश्रमो यदेष मम वशवौं वर्तते । दर्शितो ऽनेनैवं वदता निर्भरोऽनुरागः । अनुरक्ताश्च प्राणिनः समाकर्णयन्ति वचनं ग्टहन्ति निर्विकल्यं प्रवर्तन्ते तत्र भावेन संपादयन्ति क्रियया । तदिदमत्र प्राप्तकालमिति विचिन्त्य तेनाभिहितं । कुमार एवमेतत्कः खल्वच सन्देहः । यच्च ग्रहौतहदयसद्भावानामपि मादृशां पुरतः कुमारोऽप्येवं मन्त्रयति महाप्रसादोऽत्र कारणं । स हि हर्षोत्कर्षाज्ञातार्थमपि वाक्यं बलाप्राणयति । तत्किमनेन । करोमि कुमारस्थाहमक्षयान् प्राणान् । एष एवमेतन्नियोगः ।
२.४ उपमितिभवप्रपञ्चा कथा । मयाभिहितं । कथं । तेनोकं । जानाम्यहं किंचिद्रसायनं । मया- भिहितं । करोतु वरवयस्थः । तेनोक्तं । यदाज्ञापयति कुमारः । ततः कृतानि तेन क्रूरचित्ताभिधानानि वटकानि । समुपनौतानि मे रहमि वर्तमानस्य । अभिहितश्चाहं । कुमार एतानि मदीय- सामर्थप्रभवाणि वर्तन्ते वटकानि । कुर्वन्त्युपयुज्यमानानि वीर्यो- त्कर्षसंपादनेन पुरुषस्य सर्वं यथेष्टं दीर्घतरं चायुष्कम् । तस्माद् ग्रहाण त्वमेतानि । अत्रान्तरे लघुध्वनिमा कक्षान्तरस्थितेन केनाप्यभिहितं । भविष्यति तवाभिमते स्थाने कोऽत्र मन्देहः । न श्रुतं तन्मया । श्रुतं वैश्वानरेण । ततः संपल्यते मम समौहितं । यास्यत्येष वटकोपयोगेन महानरके । भविष्यति तत्र गतस्यास्य दीर्घमा- युष्कं । कथमन्यथैवंविधः शब्दः । महानरक एव ममाभिमतं स्थानमिति भावनया तुष्टोऽसौ चित्तेन । मयामिहितं । किं न संपद्यते मे भवादृशि वरमित्रेऽनुकूछ । तदाकर्ण द्विगुणतरं परितुष्टोऽसौ । समर्पितानि वटकानि । ग्रहौतानि मया। अभिहितं च तेन । कुमारायमपरो मम प्रसादो विधेयः कुमारेण यदुत मयावसरे संज्ञितेन निर्विकल्प- मेतेषां मध्यादेक वटकं भवितव्यं कुमारणेति । मयाभिहितं । किमत्र प्रार्थनया। निवेदित एवायमात्मा वरमित्रस्य । वैश्वनरे- हाभिहितं । महाप्रसादोऽनुग्रहीतोऽहं कुमारणेति ॥ इतश्च तातेन सर्वत्र विश्वसनीयो नियुक्तो राजवल्लभो दारकः। पदुत परे विदुर समादिष्टो मया कुमारः । यथानन्यमनस्केन द्वतीयः प्रस्तावः। २०५ भवता कलाग्रहणं विधेयं । अहमपि न द्रष्टव्योऽहमेव भवन्तमा- गत्य इक्ष्यामि । तदेवं स्थिते मम राज्यकार्यव्याकुलतया कदा- चित्तत्समौपे गमनं न संपद्यते । ततो भवता प्रतिदिन कुमारश- रौरवार्ता मम संपादनौया । विदुरेणोक्तं । यदाज्ञापयति देवः । ततः संपादयता तेन तद्राजशासनं लक्षितः स सर्वोऽपि मदीयो राजदारककलाचार्यकदर्थनव्यतिकरः । तथापि मनःक्षतिभयेन कियन्तमपि कावं न कथितोऽसौ ताताय । प्रतिभरमवलोक्य निवेदितोऽन्यदा । ततश्चिन्तितं तातेन । नैष विदुरस्तावदसत्यं भाषते । न चापि कुमारः प्रायेणैवंविधमाचरति । तत्किमच तत्त्वं भविष्यतीति न जानीमहे । यदि च कलाचार्यस्यापि कदर्थन विधत्ते कुमारो निष्यन्नं ततः कक्षाग्रहणप्रयोजनं । इति चिन्तया समुदिनो ऽभूत्तातश्चित्तेन । पुनश्चिन्तितमनेन। इदमत्र प्राप्त- कावं । पृच्छामि तावत्कलाचार्यमेव । यथावस्थितं ततो निश्चित्य वृत्तान्तं तनिवारणोपाये यत्नं करिष्यामि । ततः प्रेषितस्तदाका- रणाय सबहुमानं विदुरः। समागतः कलाचार्यः । अभ्युत्थित- स्तातेन दापितमासनं विहिता परिचर्या । ततस्तदनुज्ञातविष्टरोप- विष्टेन तातेनाभिहितं । आर्य बुद्धिसमुद्र अपि समुत्सर्यति कला- ग्रहणं कुमाराणां । तेनाभिहितं । देव वाढमुत्सर्पति युभदनु- भावेन । तातेनाभिहितं । किं परिणताः काश्चिचन्दिवर्धनकुमारस्य कलाः । कलाचार्येणाभिहितं । मुष्टु परिणताः । देव निष्पन्न एव कलासु नन्दिवर्धनकुमारः । तथाहि । खौछतमनेन समस्तं विपिज्ञानं । खयं सृष्टमिव गणितं । उत्पादितमिवात्मना उपमितिभवप्रपच्चा कथा। व्याकरणं । क्षेत्रीभूतमस्य ज्योतिषं । सात्मभूतमष्टाङ्ग महानि- मित्तं । व्याख्यातमन्येभ्यश्छन्दोऽनेन । अभ्यस्तं नृत्तं । शिक्षितं गेयं । प्रणयिनीवास्य हस्तिशिक्षा । वयस्य दुव धनुर्वेदः । मित्र- मिव वैद्यकं । निर्देशकारोव धातुवादः । अनुचराणौव नरलक्ष- णादौनि श्राधेयविक्रयाणि पत्रच्छेद्यादौनि । किं बहुना । नास्ति सा काचित्कला या कुमारमासाद्य न प्राप्ता पर काष्ठामिति । ततः प्रादुर्भवदानन्दोदकपरिपूरितनयनयुगलेनाभिहितं तातेन । आर्य एवमेतत् किमत्राश्चर्य । किं वार्य कृतोद्योगे न संपद्यते कुमारस्य । धन्यः कुमारो यस्य युभादृशा गुरवः। बुद्धिसमुद्रेणोक्तं । देव मा मैवमादिश । केऽत्र वयं । युग्मदनुभावोऽयं । तातेना- भिहितं । आर्य किमनेनोपचारवचसा । युग्मत्प्रसादेनैवास्मदानन्द- सन्दर्भदायिका संप्राप्तः कुमारः सकलगुणभाजनतां । बुद्धिसमुद्रे- णोक्तं । यद्येवं ततो देवकर्तव्येषु नियुक्तैरनुचरैर्न वञ्चनीयाः खामिन इति पर्यालोचनया किंचिद्देवं विज्ञपयितुमिच्छामि । तच्च युक्त- मयुतं वा चन्तुमर्हति देवः । यतो यथार्थ मनोहरं च दुर्लभं वचनं। तातेनाभिहितं। वदत्वार्यः । यथावस्थितवचने कोऽवसरोऽक्षमायाः। बुद्धिसमुद्रणोतं । यद्येवं ततो यदादिष्टं देवेन यथा सकलगुण- भाजनतां संपाप्तः कुमार दूति तथैव स्वाभाविक कुमारस्य स्वरूपं प्रतीत्य नास्त्यत्र सन्देहः । किं तु सकलमपि कुमारस्य गुणमन्दोहं कलनेव शशधरं कण्टकेनेव तामरसं कार्पण्येनेव वित्तनिचयं नेर्लज्ज्येनेव स्वीजनं भीरुत्वेनेव पुरुषवर्ग परोपतापेनेव धर्म वैश्वानरसम्पर्कण दूषितमहमवगच्छामि। यतः सकलस्थापि कला- द्वतीयः प्रस्तावः । कलापकौशलस्य प्रशमोऽस्लङ्करणं । एष तु वैश्वानरः पापमित्रतया सनिहितः सन्नात्मीयसामर्थ्येन तं प्रशमं कुमारस्य नाशयति । कुमारस्तु महामोहवशात्परमार्थवैरिणमप्येनं वैश्वानरं परमोप- कारिणमाकलयति। तदनेनेदृशेन पापमित्रेण यस्य प्रतिहतं ज्ञानसारं प्रशमामृतं कुमारस्थ तस्य निष्फलो गुणप्रारभार इति । ततस्तदाकर्ण्य तातो वज्राहत दूव ग्टहीतो महादुःखेन । तत- म्तातेनाभिहितं । भद्र वेदक परित्यजेदं चन्दनरससेकशीतलं तालवृन्तं न मामेष बहिस्तापो बाधते । गच्छ समाहय कुमारं येनापनयामि तस्य पापमित्रमंसर्गवारणेन दुःम हमात्मनोऽन्तस्ताप- मिति । ततो विमुच्य तालवन्तं क्षितिनिहितजानुकरमस्तकेन वेदकेनाभिहितं । यदाज्ञापयति देवः । किं तु महाप्रयोजनम- पेक्ष्य भविष्याम्यहमस्थापितमहत्तमः। ततो न तत्र देवेन कोपः करणीयः । तातेनाभिहितं । भद्र हितभाषिणि कः कोपावसरः । वदत विवक्षितं भद्रः । वेदकेनाभिहितं। देव यद्येवं ततः कुमार- परिचयादेवावधारितमिदं मया। यदुतायं वैश्वानरोऽन्तरङ्गभूतः कुमारस्य वयस्यो न शक्योऽधुना केनाप्यपसारयितुं । ग्टहीतः कुमारेणात्यर्थ हितबन्धुबुद्ध्या । न शक्नोति तदिरहे क्षणमप्यासितुं कुमारः। यतो न लभते तिं ग्टह्यते रणरणकेन मन्यते तुणतुल्य मनेन रहितमात्मानं । ततो यद्यप्ययं कुमारो वैश्वानरसंसर्गत्यागं प्रति किंचिदुच्यते ततोऽहमेवं तर्कयामि महान्तमुद्देगं कुर्यात् आत्मघाता- दिकं वा विदध्यात् अन्यदा किंचिदकाण्डविवरादिकमनन्तरं संपादयेदिति । अतो नात्रार्थ किंचिक्नु कुमारमर्हति देवः । - उपमितिभवप्रपञ्चा कथा। बुद्धिसमुद्रणोतं । देव सत्यमेव सर्वमिदं यदावेदितं वेदकेन तथाहि । वयमपि कुमारस्य पापमित्रसम्बन्धवारणे गाढमुधुक्ताः सकलकाखमास्म हे। चिन्तितं चास्माभिः । यद्ययं कुमारोऽनेन वैश्वानरपापभित्रेण वियुज्येत ततः सत्यं नन्दिवर्धनः स्यात् । केवल- मौदृशं कथंचिदनयोर्गाढनिरूढं प्रेम येन न शक्यतेऽधुना कुमारों ऽनर्थभीरुतया वियोजनं विधातु मिति । अतोऽशक्यानुष्ठानरूपं कुमारस्य वैश्वानरेण सह मैत्रीवारणमिति मन्यामहे । तातेनाभि- हितं । आर्य कः पुनरत्रोपायो भविष्यति । बुद्धिसमुद्रेणोक्तं । अतिगहनमेतद्दयमपि न जानीमः । विदुरेणाभिहितं । देव श्रूयतेऽत्र कश्चिदतीतानागतवर्तमानपदार्थवेदी समागतो जिन- मतज्ञो नाम सिद्धपुत्रो महानैमित्तिकः । स कदाचिदचोपावं खचयति । तातेनाभिहितं । साध्वभिहितं भद्र साधु शीघ्रं समा- इयतां म भवता । विदुरेणाभिहितं । यदाज्ञापयति देव इति । निर्गतो विदुरः समागतो नैमित्तिकेन सह स्तोकवेलकया । दृष्टो नैमित्तिकस्तातेन । तुष्टचेतसा दापितमासनं कृतमुचितकर- पौयं कथितो व्यतिकरः। ततो बुद्धिनाडौसञ्चारेण निरूप्य तेनाभिहितं। महाराज न विद्यतेऽत्रान्यः कश्चिदुपायः। एक एवात्र परसुपायो विद्यते दुर्लभश्चासौ प्रायेण । तातेनाभिहितं । कीदृशः स इति कथथत्वार्यः । जिनमतजेनाभिहितं। महाराजाकर्णय । अस्ति रहितं सर्वोपद्रवैर्निवासस्थानं समस्तगुणानां कारणं कन्याणपरम्पराया दुर्लभं मन्दभागधेयैश्चित्तसौन्दर्थ नाम नगरं । तथाहि ।
टतीय प्रस्तावः । वसतां तत्र लोकानां नगरे पुण्यकर्मणाम् । रागादिचरटाः सर्वे जायन्ते नैव बाधकाः ॥ यतश्च क्षुत्पिपासाद्या बाधन्ते तत्र नो जनम् । ततस्तदुच्यते धौरैः सर्वोपद्रववर्जितम् ॥ ज्ञानादिभाजनं लोकस्तद्दशनैव जायते । कलाकचापकौशल्यं न ततोऽन्यत्र विद्यते ॥ भवन्यौदार्यगाम्भीर्यधैर्यवौर्यादयो गुणाः । वसतां तत्र तत्सर्वगुणस्थानमतो मतम् ॥ यतश्च वसतां तत्र धन्यानां संप्रवर्तते । उत्तरोत्तरभावेन विशिष्टा सुखपद्धतिः ॥ न च संपद्यते तस्याः प्रतिपातः कदाचन । कल्याणपद्धते हैतरतस्तनगरं मतम् ॥ सर्वोपद्रवनिर्मुक्तं समस्तगुणभूषितम् । कल्याणपद्धतेर्हेतुर्यत एव च तत्पुरम् ॥ अत एव सदानन्दं तत्मपुष्यनिषेवितम् । नगरं चित्तसौन्दर्य मन्दभाग्यैः सुदुर्लभम् ॥ तत्र च नगरेऽस्ति हितकारी सर्वखोकानां कृतोद्योगो दुष्ट- निग्रहे दत्तावधानः शिष्टपरिपालने परिपूर्ण: कोशदण्डसमुदयेन शुभपरिणामो नाम राजा । यतोऽसौ सर्वलोकानां चित्तसन्तापवारकः । तथा सम्पर्कमात्रण महामन्द विधायकः । सदनुष्ठानमार्गेऽपि जननां स प्रवर्तकः ।
२१० उपमितिभवप्रपञ्चा कथा । अतो वौरजने के हितकारी निगद्यते ॥ रागद्वेषमहामोहक्रोधलोभमदभ्रमाः । कामाशोकदैन्याद्या ये चान्ये दुःखहेतवः ॥ दुष्टचेष्टतया नित्यं लोकसन्तापकारिणः । तेषामुद्दलनं राजा स कुर्वन्नवतिष्ठते ॥ ज्ञानवैराग्यमन्तोषत्यागसौजन्यलक्षणाः । ये चान्ये जनताह्नादकारिणः शिष्टसंमताः ।। तेषां स राजा सततं परिपालनतत्परः । श्रास्ते निःशेषकर्तव्यव्यापारविमुखः सदा ॥ धौधतिस्मृतिसंवेगमाद्यैः परिपूर्यते । भाण्डागारं यतस्तस्य गुणरत्नैः प्रतिक्षणम् ॥ दण्डश्च वर्धते तस्य चतुर्भेदबलात्मकः । भौलाङ्गलक्षणैर्नित्यं रथदन्तिहयादिभिः ॥ दुष्टानां निग्रहासतः शिष्टानां परिपालकः । कोशदण्डसमृद्धश्च तेनामी गौयते नृपः ॥ तस्य च शुभपरिणामस्य राजो ग्रहौतजयपताका शरीर- सौन्दर्यण विनिर्जितभुवनत्रया कलाकलापकौशलेनापहसितरति- विभ्रमा विलासविस्तरेणाधरितारुन्धतीमाहात्म्यातिशया निजपति- भक्कतया निष्पकम्पता नाम महादेवी । एकत्र सर्वयत्नेन कृतालङ्कारचर्चनम् । सुरासुरनरस्त्रैणं यत्स्यालोकेऽतिसुन्दरम् ॥ शोभाथै झुनिसदस्य कदाचिदुपतिष्ठते ।
टतीयः प्रस्तावः।
२११
अन्यस्यां दिशि संस्थाप्य मा देवौ निष्पकम्पता ॥
श्रामतिर्मुनिचित्तानां तस्यामेवोपजायते ।
अतः शरीरसौन्दर्यात्मा ग्टहीतपताकिका ॥
स्ट्रेन्द्रोपेन्द्रचन्द्राद्याः कलाकौशलशालिनः ।
ये चान्ये लोकविख्याता विद्यन्ते भुवनत्रये ॥
लोभकामादिभिः सर्वे जितास्ते भावशत्रुभिः ।
न कौशलमतस्तेषां विद्यते परमार्थतः ॥
तस्यास्तु देव्यास्तत्किंचित्कौशलं येन लीलया।
तान्पराजयते तेन माभिभूतजगत्त्रया ॥
रतेर्विलासाः कामस्य केवलं तोषहेतवः ।
मुनयस्तु पुनस्तेषां न वार्तामपि जानते
तस्याः मक्ताः पुनर्देव्या व्रतनिर्वाहणादयः ।
विलासा मुनिलोकस्य मानसाक्षेपकारिणः ॥
अतोऽपहमिता सत्यं स्खविलासै रतिस्तया ।
यथा च भर्तुर्भका मा तथेदानौं निगद्यते ॥
प्रापनिमयं भर्तारं प्रक्राम्य निजजीवितम् ।
निर्वाहयति वीर्यण तेनासौ भवत्सला ॥
अरुन्धती पुनर्नव पत्युः संरक्षणक्षमा ।
निष्पकम्पतया तस्माद् भर्तभक्कतया जिता ॥
कि चेह बनोक्न राज्ञः कार्यप्रसाधनौ।
तस्य राज्ये परं सारा मा देवी निष्पकम्यता ।
तयोच्च निष्पकम्पताशभपरिणामयोवीनृपयोरस्ति प्रकर्षः
२१२
उपमितिभवप्रपश्चा कथा ।
सन्दराणामुत्पत्तिभूमिराश्चर्याणं मञ्जूषा गुणरत्नराशेः वपुर
येन मुनीनामपि मनोहारिणौ चान्ति म दुहिता ।
यतः सा सततानन्ददायिनौ पर्युपासिता ।
स्मरणेनापि निःशेषदोषमोषविधायनी ॥
निरोचते विमालाची यं नरं किल चौलया ।
पण्डितैः स महात्मेति कृत्वा गाढं प्रशस्यते ॥
प्रालिङ्गनं पुनस्तस्था मन्ये यो लस्यते नरः ।
म सर्वनरवर्गस्य चक्रवर्ती भविष्यति ॥
अतश्चारुतरं तस्था नान्या जगति विद्यते ।
प्रकर्षः सुन्दराणां सा विदद्भिस्तेन गौयते ॥
मयानकेवलज्ञानमहर्द्धिप्रशमादयः ।
लोकानामङ्गता भावा ये चमत्कारकारिण: ॥
ते भवन्ति भविष्यन्ति भूताश्चानन्तशो यतः ।
तत्प्रमादेन मत्त्वानां तामाराधयतां सदा ॥
उत्पत्तिभूमिः सा तस्मादाश्चर्याणामुदाहता ।
यथा च रत्नमञ्जूषा तथेदानौं निबोधत ॥
दानशीलतपोज्ञानकुलरूपपराक्रमाः ।
सत्यशौचार्जवालोभवौर्यैश्वर्यादयो गुणाः ॥
ये केचित्सुन्दरा लोके वर्तन्ते रत्नरूपिणः ।
चान्तिरेव हि सर्वेषां तेषामाधारतां गता ॥
तेनामो
रत्नमञ्जषा विदभिः परिकीर्तिता।
चान्तिहीना गणाः सर्वे न शोभन्ते निराश्रयाः ॥
रतीयः प्रस्तावः ।
अथवा।
शान्तिरेव महादानं चान्तिरेव महातपः ।
चान्तिरेव महाज्ञानं चान्तिरेव महादमः ॥
शान्तिरेव महाशीलं शान्तिरेव महाकुलम् ।
चान्तिरेव महावौयें हान्तिरेव पराक्रमः ।।
चान्तिरेव च सन्तोषः शान्तिरिन्द्रियनियहः ।
चान्तिरेव महाशौचं शान्तिरेव महादया ।
चान्तिरेव महारूपं शान्तिरेव महाबलम् ।
शान्तिरेव महैश्वर्य चान्तिधैर्यमुदाहता ॥
शान्तिरेव परं ब्रह्म सत्यं शान्तिः प्रकीर्तिता ।
शान्तिरेव परा मुक्तिः चान्तिः सर्वार्थसाधिका ॥
शान्तिरेव जगइन्द्या सान्तिरेव जगद्धिता ।
चान्तिरेव जगज्ज्येष्ठा शान्तिः कल्याणदाधिका ॥
शान्तिरेव जगत्पूज्या चान्तिः परममङ्गलम् ।
शान्तिरेवौषधं चार सर्वव्याधिनिबईणम् ॥
चान्तिरेवारिनिर्नाशं चतरङ्गं महाबलम् ।
किं वात्र बहनोक्तेन चान्तौ सर्व प्रतिष्ठितम् ॥
अत एव तु सा कन्या मुनिखोकमनोहरा ।
कुर्यादौदृशरूपायां को न चित्तं सचेतनः ॥
अन्यच्च ।
यस्य चित्तं समारोहेलिसन्तौ खलीलया ।
मा कन्या धन्यतां प्राप्य सोऽपि तद्रूपतां ब्रजेत् ॥
२१४ उपमितिभवप्रपञ्चा कथा । अतः सम्यग्गुणाकासी कः सकणे न तो इदि । कुर्यात्कन्यां सदाकालं मर्वकामसमर्पिकाम् ॥ एवं च स्थिते । मा गुणोत्कर्षयोगेन कन्या सर्वाङ्गसुन्दरा । प्रस्थ वैश्वानरस्योच्चैः प्रतिपक्षतया स्थिता ॥ तस्या दर्शनमात्रेण भीतभीतः सुविहलः । एष वैश्वानरो मन्ये दूरतः प्रपलायते ॥ निःशेषदोषपुञ्जोऽयं मा कन्या गुणमन्दिरम् । माचादग्निरयं पापः मा पुनर्हिमशीतला । महावस्थानमेवं हि मानयोर्विद्यते क्वचित् । विरोधभावात्तेनैवमस्माभिरभिधीयते ॥ यदेष कन्यां तां धन्यां कुमारः परिणेव्यति । अनेन पापमित्रेण तदा मैचौं विहास्थति ॥ पत्रान्तरे चिन्तितं विदुरेण । अये अनेन जिनमतज्ञेन नैमि त्तिकेनेदमभिहितं । यथा चित्तसौन्दर्य यः शुभपरिणामः तस्य या निष्प्रकम्पता तजनिता या क्षान्तिः सैवामुं नन्दिवर्धनकुमारस्थानेन पापमित्रेण वैश्वानरेण सह संसर्ग निवारयितुं समर्था नान्यस्तत्रि- वारणे कश्चिदुपाय इति । तत्सर्वमनेन युक्तमुक्त । अथवा किम- त्राश्चर्य । न हि जिनमतज्ञः कदाचिदयुक्त भाषते । ततस्तनैमि- 'त्तिकवचनमाकर्ण तातेनावलोकित पार्श्ववर्तिनो मतिधनस्य महा- मन्त्रिणो वदनं । स्थितोऽसौ प्रहतरः। अभिहितस्तातेन । आर्य मतिधन श्रतमेतद्भवता । मतिधनेनाभिहितं । देव श्रुतं। ताते- टतीयः प्रस्ताव । २१५ नाभिहितं । श्रार्य यद्येवं ततो महदिदं मम चित्तोद्वेगकारणं यदेष विशिष्टजनस्पृहणीयोऽपि कुमारम्य गुणकलापः पापमित्र- सम्बन्धदूषितो निष्फलः सपन्न इति। तद् गच्छ शौनं प्रेषय चित्तसौन्दर्य वचनविन्यासकुशलान् प्रधानमहत्तमान् ग्राहय तद्देशासम्भवौनि प्रामृतानि उपदिश गच्छतां तेषां निरन्तरसम्ब- वकरणपटून्युपचारवचनानि याचय कुमारार्थ भपरिणाम चान्तिदारिकामिति । मतिधनेनाभिहितं । यदाज्ञापयति देव । इति निर्गन्तुं प्रवृत्तो मतिधनः । जिनमतज्ञेनाभिहितं । महाराज अलमनेनारम्भेण । न खल्वेवंविधगमनयोग्यं तन्नगरं । तातेनाभि- हितं । आर्य कथं । जिनमतज्ञेनाभिहितं । महाराज समस्तान्ये- वात्र लोके नगरराजभार्यापुत्रमित्रादौनि वस्तूनि द्विविधानि भवन्ति । तद्यथा । अन्तरङ्गाणि बहिरङ्गाणि च। तत्र बहिरङ्गेष्वेव वस्तुषु भवादृशां गमनाज्ञापनादिव्यापारो नान्तरङ्गेषु । नगरं राजा तत्पनी दुहिता च सर्वमन्तरङ्गं वर्तते । तन युज्यते तच महत्तमप्रेषणं । तातेनाभिहितं। पार्य कः पुनस्तत्र प्रभवति । जिनमतज्ञेनाभिहितं । योऽन्तरङ्ग एव राजा। तातेनाभिहितं । आर्य कः पुनरसौ। जिनमतज्ञेनाभिहितं ! महाराज कर्मपरि- तस्य हि भपरिणामस्य कर्मपरिणामेनेव भटभुक्त्या दत्तं तवगरं । अतस्तदायत्तोऽसौ वर्तते । तातेनाभिहितं । आर्य किं भवत्यमौ कर्मपरिणामो मादृशामभ्यर्थनाविषयः । जिनमत- जेनाभिहितं । महाराज नैतदेवं । स हि यथेष्टकारी प्रायेण नापेक्षते सत्पुरुषाभ्यर्थनां न रज्यते सदुपचारवचनेन न ग्टह्यते एतच्च पामः ।
उपमितिभवप्रपश्चा कथा। खभावाय परोपरोधेन नानुकम्पते दृष्ट्वाप्यापगतं जनं । केवलमसावपि कार्य विदधानः पृच्छति महत्तमभगिनौं लोकस्थितिं पर्यास्लोचयति खभायों कालपरिणतिं कथयत्यात्मीयमहत्तमाय अनुवर्तते नन्दिवर्धनकुमारस्य समस्तभवान्तरानुयायिनों प्रच्छन्नरूपां भायौं भवितव्यतां बिभेति कियन्मात्र नन्दिवर्धनकुमारवीर्यादपि खप्रवृत्तौ । ततश्चैवंविधमन्तरङ्गपरिजनं स्वसम्भावनया सन्मान्यैष कर्मपरिणाममहाराजः कार्य कुर्वाणो न बहिरङ्गलोकं रटन्तमपि गणयति कि तईि यदात्मने रोचते तदेव विधत्ते । तस्माना- यमभ्यर्थनोचितः । किंतु यदास्य प्रतिभामिप्यते तदा खयमेव कुमाराय दापयिष्यति शुभपरिणामेन शान्तिदारिकामिति । तातेनाभिहितं । आर्य हतास्तहि वयं । यतो न ज्ञायते कदापि तस्य प्रतिभामिप्यते अस्मिंश्चानपसारिते पापभित्र कुमारस्य समस्त- गुणविफलतया न किंचिदम्माकं जौवतीति कृत्वा । जिनमत- जेनाभिहितं । महाराजालं विषादेन । किमत्र क्रियते यदौदृश- मेवेदं प्रयोजनमिति । तथाहि । नरः प्रमादी शक्येऽर्थ स्थादुपाखम्भभाजनम् । अशक्यवस्तुविषये पुरुषो नापराध्यति । योऽशक्ये ऽर्थे प्रवर्तेत अनपेक्ष्य बलाबलम् । पात्मनश्च परेषां च स हास्यः स्यादिपश्चिताम् ॥ तदत्रैवं स्थिते कार्य यद्भविष्यतया परम् । भवतां त्यचिन्तानामा मितुं युज्यते ध्रुवम् ।
टतीयः : प्रस्तावः । अन्यच्च कथ्यते किंचिच्चेतसः स्वास्थकारणम् । निरालम्बनतामेत्य मा भुदैन्यं भवादृशाम् ॥ तातेनाभिहितं । आर्य साधूत । समाश्वासिता वयमनेन भवतां पश्चिमवचनेन। तत्कथय किं तदस्माकं चेतमः स्वास्थ्यकारणमिति । जिनमतज्ञेनाभिहितं । महाराज प्रस्त्यस्य कुमारस्य प्रश्छन्न- रूपः पुण्योदयो नाम वयस्थः । स यावदस्य पार्श्ववर्ती तावदेष वैश्वानरः पापमित्रतया यं यमनथें कुमारस्य संपादयिष्यति स मोऽस्य प्रत्युतार्थरूपतया पर्यवस्यतौति । तदाकर्ष मनाक् स्वस्थौ- भूतस्तातः ॥ अत्रान्तरे दिनकरमम्बरतलस्य मध्यभागमारूढं निवेदयनाडि- काछेदप्रहतपटहनादानुसारौ समुत्थितः शङ्खशब्दः । पठितं कालनिवेदकेन । न क्रोधात्तेजसो वृद्धिः किं तु मध्यस्थभावतः । दर्शयनिति लोकानां सूर्यो मध्यस्थतां गतः । तातेनाभिहितं । श्रये मध्यानसमयो वर्तते । ततः समुत्थात- व्यमिदानौमिति कृत्वा विसर्जितो राजलोकः । पूजितौ कलाचार्य- नैमित्तिको प्रस्थापितौ सबहुमानं । ततो नैमित्तिकवचनाद शक्या- नुष्ठानमेतदिति जातनिर्णयेनापि तातेनातिमोहहेतुतयापत्यस्नेहस्य ममादिष्टो विदुरः । यदुत परीचितव्यो भवता कुमाराभिप्रायः किं शक्यतेऽस्मात्पापमित्रादियोजयितुं कुमारो न वेति । विदुरे- णाभिहितं । यदाज्ञापयति देवः । ततः समुत्थितस्तातः । कृतं दिवमोचितं कर्तव्यं ॥
२१८ उपमितिभवप्रपञ्चा कथा । द्वितीयदिने समागतो मम समीपे विदुरः । विहितप्रणामो निषलो मदन्तिके । पृष्टो मया। भद्र ह्यः किं नागतोऽसि । विदुरेण चिन्तितं । अये समादिष्टस्तावदहं देवेन । यथा लक्षाय- तव्यो भवता कुमाराभिप्रायः । ततोऽहमस्मै यत् तत्माधुभ्यः सका- शादाकर्णितमासौन्मया दुर्जनसंसर्गदोषप्रतिपादकमुदाहरणं तत्क- थयामि । ततो विज्ञास्यते खल्वेतदीयोऽभिसन्धिरिति । एवं विचिन्त्य विदुरेणाभिहितं । कुमार किंचिदाचण्यमभूत् । मया- भिहितं । कीदृशं । विदुरेणाभिहितं । कथानकमाकर्णितं । मया- भिहितं। वर्णय कीदृशं तत्कथानकं । विदुरेणाभिहितं । वर्ण- थामि । केवलमवहितेन श्रोतव्यं कुमारेण । मयाभिहितं । एष, दत्तावधानोऽस्मि । विदुरेणाभिहितं ॥ प्रस्त्यस्यामेव मनुजगतौ नगर्यामस्मिन्नेव भरताभिधाने पाटके चितिप्रतिष्ठितं नाम पुरं । तत्रास्ति वीर्यनिधानभृतः कर्मविलासो नाम राजा। तस्य च द्वे अग्रमहिय्यौ शुभसुन्दरी अकुशलमाला तत्र शुभमन्दर्याः पुत्रोऽस्ति मनौषौ नाम बालोऽकुशल मालायाः । तौ च मनौषिबालौ संप्राप्तकुमारभावौ नानाकारेषु काननादिषु क्रौडारसमनुभवन्तौ यथेष्टचेष्टया विचरतः । अन्यदा खदेहाभिधाने कानने नातिदूरादेव दृष्टस्ताभ्यां कश्चित्युरुषः । म च तयोः पश्यतोरेव समारूढस्तदुच्छ्रयाभिधानं वल्मीक । निबद्ध- स्तन मूर्धनामकतरुशाखायां पाशको निमितः शिरोधरायां प्रवा- हितश्चात्मा। ततो मा साहसं मा साहसमिति वदन्तौ प्राप्तौ टतोयः : प्रस्तावः। २१६ सम्मोहविकलो भग्नलोचनश्च पतितोऽसौ पुरुषो भूतले । समाक्षा- दितो वायुदानेन कुमाराभ्यो । लब्धा चेतना उन्मौलिते लोचने निरौचिता दिशः दृष्टौ कुमारौ । अभिहितस्ताभ्यां । भद्र किमेतदधमपुरुषोचितं भवता व्यवसित किं वा भद्रस्येदृशाध्यवसा- यस्य कारणमिति कथयतु भद्रो यद्यनाख्येयं न भवति । ततो दौर्घदीर्घ निःश्वस्य पुरुषेणाभिहितं । अलमस्मदीयकथया । न सुन्दरमनुष्ठितं भद्राभ्यां यदहमात्मदुःखानलं निर्वापयितकामो भवद्भ्यां धारितः । तदधुनापि न कर्तव्यो मे विघ्न इति ब्रुवाण: समुत्थितः पुनरात्मानमुलम्बयितमसो पुरुषः। तो बालेन अभि- हितश्च । भद्र कथय तावदस्माकमुपरोधेन ववृत्तान्तं । ततो यद्यलब्धप्रतीकारः स्यात्ततो यद्रुचितं तत्कुर्याः । पुरुषेणाभिहितं । यदि निर्बन्धस्ततः श्रूयतां । श्रासोन्मम शरौरमिव सर्वखमिव जौवितमिव इदयमिव द्वितीयं भवजन्तु म मित्रं । म चातिस्ने- हनिर्भरतया न क्षणमात्रमपि मां विरहयति । किं तर्हि सकल- काल मामेव लाखयति पालयति पृच्छति च मां चणे क्षणे । यदत भद्र स्पर्शन किं तुभ्यं रोचते । ततो यद्यदहं वदामि तत्तदसो भवजन्तुर्मम वयस्यो वत्सलतया संपादयति न कदाचि- न्मन्प्रतिकूलं विधत्ते । अन्यदा मम मन्दभाग्यतया दृष्टस्तेन सदा- गमो नाम पुरुषः। पर्यालोचितं च सह तेन किंचिदेकान्ते भव- जन्तुना। भावितश्चित्तेन इष्ट दुव लक्ष्यते । ततस्तत्कालादारभ्य शिथिलीभूतो ममोपरि स्नेहाबन्धः । न करोति तथा लालनां २२० उपमितिभवप्रपञ्चा कथा । प्रश्नयति प्रत्युत मां वैरिकमेव मन्यते दर्शयति विप्रियाणि सकल प्रतिकूलमासेवते । ततो मया चिन्तित । हा हन्त किमे- तत् । न मया किचिदस्य व्यलोकमाचरितं । किमित्ययमकाण्ड एव भवजन्तुः षष्ठिकापरावर्तित इवान्यथा संवृत्तः । हा हतोऽस्मि मन्दभाग्य इत्यारारव्यमानो वजाहत व पिष्ट दूव इतसर्वस्व इव शोकभराक्रान्तमूर्तिः प्राप्तोऽहं दुःखातिरेकं । लक्षित च कथंचित्पर्यालोचयता मया । अये सर्वाऽप्ययं सदागमपर्यालोचज- नितोऽनर्थव्यतिकरः । विप्रतारितोऽयं मम क्यस्योऽनेन पापेन । म चोन्मलयन्निव मम हृदयं पुनः पुनस्तेन सदागमेन सह रहसि पर्यालोचयति । तनिवारणार्थ रटन्तमपि मां नाकर्णयति । यथा यथा च भवजन्तोः सदागमपर्यालोचः सुतरां परिणमति तथा तथा मामेष नितरां शिथिलयति । ततः प्रवर्धते मे गाढतरं दुःखं । अन्यदा दृढतरं पर्यालोच्य सदागमेन सह किंचिदेकान्ते त्रोटितो मया सह सम्बन्धः सर्वथैव भवजन्तुना । परिच्छिन्नोऽहं चित्तेन । त्यतानि मम वल्लभानि मदचनेनैव ग्रहौतानि यानि पूर्व कोमललीगण्डपिधानादिसनाथानि भयनानि । विरहितानि हंसपक्ष्मादिपूरितान्यासनानि । मुक्तानि वृहतिकापावाररल्लिकाचौनांशकपट्टांशकादौनि कोमलवस्त्राणि । प्रत्याख्यातानि मम सुखदायौनि शीतोष्णर्तुप्रतिकूलतया सेव्यानि कवरिकागुरुचन्दनादौनि विलेपनानि । वर्जितः सर्वथा ममाला- दातिरेकसम्पादकः कोमलतनुलताकलितो ललनासबातः । ततः- प्रमति स भवजन्तः करोति केशोत्पाटनं ते कठिनभूमौ धार- तौयः प्रस्तावः। २२१ । यति भरौरे मल परिधत्ते जरचौवराणि वर्जयति दूरतः स्त्रौगात्रसङ्गं कथंचिदापन्ने तस्मिन् करोति प्रायश्चित्तं सहते माघमासे शीतं ग्टहाति ज्येष्ठाषाढयोरातपं सर्वथा परमवैरिक दूव यद्यत्किंचिन्मे प्रतिकूलं सत्सर्वमाचरति । ततो मया चिन्तितं । परित्यक्रस्तावत्सर्वथाहमनेन ग्टहीतश्च शत्रुबुद्ध्या । तथाप्यामरणान्ताः प्रणयाः सज्जनानामिति वृद्धवादः । ततो यद्यप्ययमनेन सदागम- पापमित्रेण विप्रतारितो मामेवं कदर्थयति तथाप्यकाण्ड एव न मया मोक्रव्यः । यतो भट्रकोऽयं ममात्मौयप्रकृत्या लक्षितो बहुना कालेन कृतानि भूयांमि ममानुकूलानि । सदागममौलकजनितो ऽयमस्य विपर्यासः । तत्कदाचिदपगच्छत्येष कालेन । ततो भवि- व्यति ममोपरि पूर्ववदम्य स्नेहभावः। एवं पर्यालोच्य व्यवस्थितोऽहं बहिष्कृतोऽपि तेन भवजन्तुना तस्यैव सम्बन्धिनि शरीराभिधाने प्रासादे महादुःखानुभवेन कालमुदीक्षमाणो दुराशापाशावपाशितः सन् कियन्तमपि कालमिति अन्यदा सदागमवचनमनुवर्तमान- स्तिरस्कृत्य मां परुषक्रियया निष्कास्य ततोऽपि प्रासादात्परमाधा र्मिक दव निर्गुणतया मामाक्रन्दन्तमवगणय्य रुष्ट व तत्र यास्यामि यत्र भवन्तं लोचनाभ्यां न द्रक्ष्यामौत्यभिधाय गतः कुत्रचित् । स चेदानौं निर्वृतौ नगयों प्राप्तः श्रूयते । सा च मादृशामगम्या नगरौ । ततो मया चिन्तितं । किमधुना मया प्रियमित्रपरि- भूतेन तद्विरहितेन चाजागलस्तनकल्पेन जौवितेन । ततश्चेदमध्य वसितमिति ॥ बालेनाभिहितं । साधु स्पर्शन साधु । स्थाने भवतो व्यवसाय:।
२२२ उपमितिभवप्रपश्चा कथा । दुःसहं हि प्रियमित्रपरिभवदुःखं । तदिरहसन्तापश्च न शक्यते ऽन्यथा यापयितुं । तथाहि । न शक्यः सहजात्सोढु चमिणापि पराभवः । कनकेन हि निर्मुक्तः पाषाणोऽपि प्रलीयते ॥ मानिनां मित्रविरहे जीवितुं नैव युज्यते । इदं हि नश्यता पूर्ण वासरेण निवेदितम् ॥ अहो ते मित्रवत्सलता हो स्थिरानुराग: अहो इतज्ञता अहो माहसं अहो निर्मिथ्यभावतेति । भवजन्तोः पुनरहो क्षण- रकविरकता हो कृतघ्नता अहो अलौकिकत्वं अहो मृढता हो खरहदयत्वं अहो अनार्यानुष्ठानप्रवृत्तिरिति । केवलमेवमपि स्थिते ब्रवीम्यहमत्र किंचित्तदाकर्णयतु भद्रः । स्पर्णनेनाभिहितं । वदत निर्विकल्पमार्यः । बालेनाभिहितं । अलब्धप्रतिकाराणामभिमानावलम्बिनाम् । स्नेहैकबद्धकक्षाणां युक्रमेतद्भवादृशाम् ॥ तथापि मदनुग्रहेण धारणीया भद्रेण प्राणाः । इतरथा ममापौयमेव गतिः । रचितोऽहमनेन भवतो निष्कचिममिवा- स्मोन । दाक्षिण्णमहोदधयश्च सत्पुरुषा भवन्ति । सत्पुरुषश्च भद्रः कार्यतो गम्यते । अतः कर्तव्यमेवैतनिर्विचारं मामक वचनं भद्रेण । यद्यपि चूतमनोरथा न चिञ्चिणिकया पूर्यन्ते तथापि मदनुकम्पया भवता मत्सम्बन्ध एव भवजन्तविरहदुःखप्रतीकारबुया मन्तव्यः । म्पर्णनेनाभिहितं । साधु आर्य साधु । धारिता एव भवतानुप- टतीयः प्रस्तावः। मदीयप्राणाः । किमत्र वक्रव्यं । नष्टो मेऽधुना शोकसन्तापः । विस्मारित व भवता भवजन्तुः । शौतलौभृतं नयनयुगलं प्रातादितं चित्तं निर्वापितं मे शरीरं भवद्दर्शनेन । कि बहुना । त्वमेवाधुना भवजन्तुरिति । तत: संजातस्तयोनिरन्तर- सेहभावः ॥ मनीषिणा चिन्तित । न खल्लु महजोऽनुरक्तो वयस्यः केन- चित्प्रेक्षापूर्व कारिणा पुरुषेण निषिस्त्यज्यते । न च सदागमो निर्दोष कदाचित्त्या जयति । स हि गाढ पर्यालोचितकारोति श्रुतमस्माभिः । तदत्र कारणेन भवितव्यं । न सुन्दरः खल्वेष स्पर्शनः प्रायेण । तदनेन सह मैत्रौं कुर्वता विरूपमाचरितं बालेन। एवं चिन्तयत्वेव मनीषी संभाषितः स्वर्णनेन । कृतं मनौषिणापि लोकयात्रानुरोधेन समाषण। सजाता तेनापि सह बरिछायया मैत्री स्पर्धनस्य ॥ प्रविष्टाः सर्वेऽपि नगरे । सप्राप्ता राजभवन । दृष्टो दत्ता- स्थानः कर्मविलासः सह महादेवीभ्यां । कृत पादपतनं जननी- जनकानां । आनन्दितास्तैराशीर्वादेन । दापितान्यासनानि । नोपविष्ठास्तेषु निषमा भूत । दर्मितः स्पर्शनः । कथितस्त- हृत्तान्तः । प्रकाशितश्चात्मनश्च तेन सह मैत्रीभावः कुमाराभ्यां । परितुष्टः कर्मविलामः चिन्तितमनेन . मम तावदपथ्यावनमिव व्याधेल्पचयहेतुरेष स्पर्शनो दृष्ट एव मयानेकशः पूर्वं । तत्मुन्दर- मेतत्संपवं यदनेन महानयोमैत्री मंजातेति । केवल प्रकृतिरियं ममानादिरूढा वर्तते । यदुत योऽस्यानुकूलस्तम्य मया प्रतिकूलेन - २२४ उपमितिभवप्रमचा कथा । भवितव्य। यः पुनरस्य प्रतिकूलो निरभिष्वङ्गतया मया तस्य सुन्दरं वर्तितव्य । यः पुनरेनमेकान्ततस्त्यजति म मयापि सर्वथा मोक्तव्य एव । तदेव स्थिते निरीक्ष्य निरीक्ष्य कुमारयोरेनं प्रति चेष्टित यथोचितं करिय्यामौति। विचिन्त्याभिहितं कर्मविलासेन । भो. वत्सौ सुन्दरमनुष्ठितं भवद्भ्यां यदेष स्पर्शनः प्राणत्यागं विदधानो धारितो मैत्रीकरणेन पुनः सुन्दरतरं । दौरखण्डयोगतल्यो हि वत्सयोरनेन साध सम्बन्धः ॥ अकुशलमालया चिन्तितं । अहो मे धन्यता । भविष्यत्येतत्म- म्बन्धेन मम यथार्थ नाम । यो ह्यस्य स्पर्शनस्थानुकूलः म ममा- त्यान्तवल्लभः । स एव च मां वर्धयति पालयति मदौयस्नेहफलं. चाक्षुभवति नेतरः । बहुशोऽनुभूतपूर्वमेतन्मया । एष च मदीयः सूनरेनं प्रति मुखरागेण गाढमनुकूलो लक्ष्यते । ततो भविष्यति मनोरथपूर्तिरिति । विचिन्य तथा बाल प्रत्यभिहितं । वत्स सुन्दरमनुष्ठित । अवियोगो भवतु भवतः सुमित्रेणेति ॥ शुभसुन्दा चिन्तितं । न सुन्दरः खल्वेष मम तनयस्य पापमित्रसम्बन्धः । रिपुरेष परमार्थन कारणमनर्थपरम्परायाः । शत्रुरयं ममापि महजो वर्तते । कदर्थिताहमनेन बहुशः पूर्वं । नास्त्येव मयास्य च महावस्थानं । केवलमेतावानत्र चित्तसन्धारणा- हेतुः यदेष मदीयपुत्रोऽमुं प्रति मुखच्छायया दृष्टिविकारेण च विरत व लक्ष्यते । ततो न प्रभविष्यति प्रायेण ममायं पापः । यदि वा न ज्ञायते किं भविष्यति । विषमः खल्वेष दुरात्मा ।
टतीयः प्रस्तावः। २२५ शुभसुन्दरी ॥ अत्रान्तरे संजातो मध्याहः । उपसंहृतमास्थानं । गताः सर्वेऽपि स्वस्थानेषु ॥ ततस्तद्दिनादारभ्य प्रवर्धते बालस्य स्पर्शनेन सह स्नेहाबन्धः । चकितस्तिष्ठति सर्वथा मनीषौ। न गच्छति विश्रम्भं । स्पर्शनस्तु सदा- सन्निहिततया कुमारयोरन्तर्बहिश्च न पाश्च॑ मुञ्चति। ततः पर्यटन्ति ते सहिता एव नानास्थानेषु क्रौडन्ति विविधक्रीडाभिः। ततो मनीषिणा चिन्तितं । कौदृशमनेन स्पर्मनेन सह विचरतां सर्वत्रा- विश्वचित्तानां सुखं । न चैष तावदद्यापि सम्यग् लक्ष्यते कौदृश- खरूप इति। न चाज्ञातपरमार्थ रेष निर्धारयितुं मंग्रहीतुं वा पार्यते । तदिदमत्र प्राप्तकालं । गवेषयामि तावदस्य मूलशद्धिं । ततो विज्ञाय यथोचितमाचरिष्यामौति स्थापितः सिद्धान्तः । ततः समाहतो रहसि बोधो नामाङ्गरक्षः । अभिहितश्चासौ। भद्र ममास्य स्पर्शनस्योपरि महानविरम्भः। तदस्य मूलशुद्धिं सम्यगव- बुध्य शीघ्रमावेदय । बोधेनाभिहितं । यदाज्ञापयति कुमार इति । निर्गतो बोधः । ततोऽभ्यस्तममस्तदेशभाषाकौशलो बहुविधवष- विरचनाचतुरः खामिकार्यवद्धकदो लब्धलक्ष्योऽनुपलक्ष्यश्च प्रहि- तस्तेनात्मीयः प्रभावो नाम पुरुषः प्रणिधिः । श्रादिष्टश्चासौ प्रस्तुतप्रयोजनं । ततो विविधदेशेषु कियन्तमपि कालं पर्यव्य समागतः सोऽन्यदा । प्रविष्टो बोधसमीपे । विहितप्रणामो निषलो भूतले । बोधेनापि विधायोचितां प्रतिपत्तिमभिहितो ऽसौ । भद्र वर्णयात्मीयवृत्तान्त । प्रभावः प्राह । यदाज्ञापयति देवः । अस्ति तावदहमितो २२६ उपमितिभवप्रपच्चा कथा । निर्गत्य गतो बहिरङ्गेषु नानादेशेषु । न लन्धो मया तत्र प्रस्तुत- प्रवृत्तिगन्धोऽपि । ततो गतोऽहमन्तरङ्गेषु जनपदेषु । तत्र च दृष्टमेकत्र मया भिल्लपल्लीकल्यमाकोणें समन्तात्कामादिचरटैनि- वासः पापिष्ठलोकानामाकरो मिथ्याभिमानस्य हेतुरकल्याणपरम्प: रायाः अवष्टब्धं सततं विततेन तमसा रहित प्रकाशले पेनापि राजसचित्तं नाम नगरं । तत्र च चूडामणिश्चरटचक्रस्य कारणं समस्तपापहत्तौनां वज्रपातः कुशलमार्गगिरेः दुर्जयः शक्रादौनाम- तुजबलपराक्रमी रागकेसरी नाम नरेन्द्रः । तस्य च चिन्तकः सर्वप्रयोजनानां अप्रतिहताज्ञः समस्तस्थानेषु निपुणो जगदशीकरणे कृताभ्यामो जन्तुविमोहने पटुबुद्धिः पापनौतिमार्गेषु अनपेक्षः स्वकार्यप्रवृत्तौ परोपदेशानां निक्षिप्तसमन्तराज्यभारो विषयाभि- लाषो नामामात्यः । ततस्तस्मिन्नगरे यावदह राजकुलस्थाभ्वर्ण- भूभागे प्राप्तस्तावदकाण्ड एव समुन्नसितो बहलः कोलाहलः । निर्गच्छन्ति घोषयता बन्दिवन्देन प्रख्यापितमाहात्म्या लोल्यादि- नरेन्द्राधिष्ठिता मिथ्याभिनिवेशादयो भूयांसः स्यन्दनाः। पूरयन्ति गलगर्जितेन दिगन्तराणि राजमार्गमवतरन्तो ममत्वादयः करि- वराः । चलिता हेषारवेण बधिरयन्तो दिक्चक्रवालमज्ञानादयो वरवाजिनः । विराजन्ते ग्टहीतनानायुधा रणशौण्डौरतया वला- मानाः पुरतो धावन्तश्चापलादयोऽसंख्येयाः पदातयः । कन्दर्पप्रयाणकपटहशब्दाकर्णनममनन्तर खरपवनप्रेरितमेघजालमिव क्षणमात्रेणैव विलासध्वजमालाकुल विब्बोकशङ्खकाहलाध्वनिपूरित- दिगन्तर मिलितमपरिमित बलं । ततस्तदवलोक्य मया चिन्तितं। ततः हतीय. प्रस्तावः । २२७ अये किमेतत् । गन्तुमिव प्रवृत्तः क्वचिदय राजा लक्ष्यते । तत्किमस्य गमनप्रयोजनमिति । यावदितर्काकुलस्तिष्ठामि तावदृष्टो मया पर्यन्तदारुण: स्वरूपेणादर्शकः समारवैचित्र्यस्य बोधकोऽविदुषां निर्वेदभूमिर्विवेकिनामविज्ञातस्वरूपो निर्विवेकैस्तस्यैव विषया- भिलाषस्य मन्त्रिण: सम्बन्धी विपाको नाम पुरुषः। ततः प्रियसम्भा- षणपूर्वकं पृष्टोऽसौ मया। भद्र कथय किमस्य नरेन्द्रस्य प्रस्थान- कारणं । कुहलं मे । विपाकेनाभिहितं । आर्य यद्येवं ततः समाकर्णय ॥ पूर्वमिह क्वचिदवसरे सुग्रहीतनामधेयेन देवेन रागकेसरिणा- भिहितोऽमात्यः । यदुत आर्य विषयाभिलाष तथा कथंचिद्विधेहि यथा मम समस्तमपि जगत् किङ्करतां प्रतिपद्यते । मन्त्रिणाभि- हितं । यदाज्ञापयति देवः । ततो नान्यः कश्चिदस्य राजादिष्ट- प्रयोजनस्य निर्वर्तनक्षम इति मनसि पर्यालोच्य किं वाचान्येन माधनेन बड़ना लेशितेन साधयिष्यन्धेतान्येवाचिन्त्यवौर्यतया प्रस्तुतप्रयोजनमिति संजातावष्टम्भन मन्त्रिणा गाढमनुरक्तभक्कानि विविधस्थानेषु नियंढमाहसानि स्वामिनि मृत्यतया लब्धजयपता- कानि जनहदयाक्षेपकरणपटूनि प्रत्यादेशः शूराणां प्रकर्षश्चटुलानां निकषभूमिः परवञ्चनचतुराणां परमकाष्ठा माहसिकानां निदर्शनं दुर्दान्तानामात्मीयान्येव स्पर्शनादीनि पञ्च रहौतानि मानुषाणि प्रहितानि जगदशीकरणार्थ ॥ ततो मया चिन्तितं । श्रये सधं स्पर्शनस्य तावन्मूलोत्थानं ॥ विपाकेनाभिहितं । ततो वितते जगति विचरनिस्तैर्वशौकतप्रायं भुवनं वर्तते ग्राहितप्रायं २२ उपमितिभवप्रपञ्चा कथा। रागकेसरिकिङ्करतां । केवलं महासस्यममुदायानामौतिविशेष व तेषामुपद्रवकारौ समुत्थितः श्रूयते किस्त कश्चित् सन्तोषो नाम चरटः । निर्वाहिताश्च तान्यभिभूय किल कियन्तोऽपि लोकास्तेन प्रवेशिताश्च देवभुक्तरतिक्रान्तायां निर्वृतौ नगर्यामिति च श्रूयते ॥ ततो मया चिन्तितं । व्यभिचरति मनागयमों यतोऽस्माकं समक्षमेव मनीषिबालयोः स्पर्शनेन निवृतौ नगयों भवजन्तोर्गमनं सदागमबलेनाख्यातं । अयं तु स्पर्शनादीन्यभिभूय सन्तोषेण निर्वाहिता लोकाः स्थापिताश्च निकृतौ नगर्यामिति कथयति । तत्कथमेतत् । अथवा किमनयाकाण्डपर्यालोचनया। अवहितस्तावदा- कर्णयाम्यस्य वचनं । पश्चाविचारयिष्यामि ॥ विपाकेनाभिहितं । ततोऽयमाप्तलोकश्रुतेराकर्णितोऽद्य देवेन रागकेसरिणा स्पर्शनाद्य- भिभवव्यतिकरः । ततोऽतिदुःसहमश्रुतपूर्व च खपदातिपरिभव- वचनमाकर्ण्य कोपानलजनितरक्तलोचनयुगलेन विषमस्फुरिताधरेण करालभकुटिभङ्गकुटिलीकृतललाटपट्टेनाबद्धनिरन्तरखेदबिन्दुना निर्दयकराभिहतधरणौपृष्ठेन प्रलयज्वलनभासुरं रूपमाबिधतामर्ष- वशपरिस्खलद्वचनेन देवेन रागकेसरिणाज्ञापितः परिजनः । परे त्वरिताम्ताडयत प्रयाणकपटहं मन्नौकुरुत चतुरङ्ग बलं । परि- जनेनाभिहितं । यदाज्ञापयति देवः । ततस्तथा देवमायस्तमानस- मवलोक्य विषयाभिलाषेणाभिहितं । देव अलमावेगेन । किया- नमौ वराकसन्तोषः । अस्थानमादरस्य । न खलु केसरी लीला- दलितत्रिगण्डगलितवरकरिनिकरो हरिणं व्यापाद्यतयोद्दिश्यायस्त- चित्तो भवति । देवेनाभिहितं । सखे सत्यमिदं। केवलं युभन्मा- -- टतीय' प्रस्ताव २२६ न खनु नुषकदर्थनां कुर्वता दृढमुद्देजितास्तेन पापेन सन्तोषेण । तमनुन्मूच्य मम मनसः सुखासिका संपद्यते । मन्त्रिणाभिहितं । देव स्तोकमेतत् । मुच्यता संरम्भः । ततस्तवचनेन मनाक् खस्यौ- भूतो देवः । कृतमशेषं गमनोचितं । स्थापितः पुरतः स्नेहसलिल- पूर्ण: प्रेमावन्धाख्यः कनककलशः । उहोषितः केलिजल्पनामको जयजयशब्दः । गौतानि चाटुवचनादौनि मङ्गलानि । प्रहतं रतिकलहनामकमुद्दामातोद्यवृन्दं । निर्वतितान्यङ्गरागभूषणादौनि समस्तकौतुकानि । प्रवृत्तो रथावरोहणार्थं देवः । अत्रान्तरे स्मृतमनेन । अये न दृष्टो नाप्यापृष्टोऽद्यापि मया तातः । अहो मे प्रमत्तता अहो मे दुर्विनौतता अहो मे तुच्छत्वेन स्वल्पप्रयो- जनेऽपि पर्याकुन्चता यत्तातपादवन्दनमपि विस्मृतमिति । ततो निवृत्य चलितस्तद्दर्शनार्थं देवः ॥ मयाभिहितं । भद्र कः पुनरस्य तातः । ततो विपाकेनाभि- हितं । पार्य अतिमुग्धोऽसि यतस्त्वमेतावदपि न जानौषे । यतोऽस्य देवस्य रागकेसरिणो बालाबलादीनामपि सुप्रतीतोऽनेकाडतकर्मा भुवनत्रयप्रकटिताभिधानो महामोहो जनकः । तथाहि । महामोहो जगत्सर्वं भ्रामयत्येष लीलया । शक्रादयो जगन्नाथा यस्य किङ्करतां गताः ॥ अन्येषां लजयन्तीह शौर्यावष्टम्भतो नराः । प्राज्ञां न तु जगत्यत्र महामोहस्य केचन ।। वेदान्तवादिमिद्धान्ते परमात्मा यथा किल । चराचरस्य जगतो व्यापकत्वेन गौयते ॥
२३०
उपमितिभवप्रपञ्चा कथा ।
महामोहस्तथैवात्र स्खवौर्यण जगत्त्रये ।
द्वषाद्यशेषलोकानां व्यापकः समुदाहतः ॥
तत एव प्रवर्तन्ते यान्ति तत्र पुनर्जयम् ।
सर्व जौवाः परे पुंसि यथा वेदान्तवादिनाम् ॥
महामोहात्मवर्तन्ते तथा सर्व मदादयः ।
लौयन्तेऽपि च तचैव परमात्मा स वर्तते ॥
अन्यच्च ।
यज्ज्ञातपरमार्थोऽपि बुद्धा सन्तोषजं सुखम् ।
इन्द्रियैर्बाध्यते जन्तुर्महामोहोऽत्र कारणम् ॥
अधौत्य सर्वशास्त्राणि नराः पण्डितमानिनः ।
विषयेषु रताः सोऽयं महामोहो विजृम्भते ॥
जैनेन्द्रमततत्त्वज्ञाः कषायवशवर्तिनः ।
जायन्ते यन्नरा लोके तन्महामोहशासनम् ॥
अवाप्य मानुषं जन्म लब्धा जैनं च शासनम् ।
यत्तिष्ठन्ति ग्टहासका महामोहोऽत्र कारणम् ॥
विलंध्य च महामोहः खवौर्यण निराकुलः ।
कांश्चिदिडम्बयत्युच्चैर्यतिभावस्थितानपि ॥
मनुष्यलोके पाताले तथा देवालयेष्वपि ।
विलसत्येष महामोहो गन्धहस्ती यथेच्छया ॥
सर्वथा मित्रभावेन गाढं विश्रब्धचेतसाम् ।
कुर्वन्ति वञ्चनं यच्च महामोहोऽत्र कारणम् ॥
विश्रब्धं निजभर्तारं परित्यज्य कुलस्त्रियः ।
टतीयः प्रस्तावः । परेषु यत्प्रवर्तन्ते महामोहस्य तत्फलम् ॥ विलंध्य कुलमर्यादां पारदार्यऽपि यनराः । वर्तन्ते विलसत्येष महामोहमहानृपः ॥ यत एवं समुत्पना जाताश्च गुणभाजनम् । प्रतिकूला गुरोस्तस्य वशे येऽस्य नराधमाः ॥ अनार्याणि तथान्यानि यानि कार्याणि कर्हिचित् । चौर्यादौनि विलासेन तेषामेष प्रवर्तकः ॥ इत्थं प्रभूतवृत्तान्तः परिपाल्य जगत्त्रयम् । वृद्धोऽहमधुना युक्तं किं ममेति विचिन्त्य च ॥ पार्श्वस्थितोऽपि शक्नोमि वौर्यण परिरचितम् । जगत्तेन वपुत्राय राज्यं यच्छामि साम्प्रतम् ॥ रागकेसरिणो दत्त्वा ततो राज्यं विचक्षणः । महामोहोऽधुना सोऽयं गेते निश्चिन्ततां गतः ॥ तथापौदं जगत्मवं प्रभावेण महात्मनः । तम्यैव वर्तते नूनं कोऽन्यः स्थादस्य पालकः ॥ तदेषोऽद्भुतकर्तव्यः प्रसिद्धोऽपि जगत्त्रये । महामोहनरेन्द्रस्ते कथं प्रष्टव्यतां गतः ॥ ततो मयाभिहितं । भद्र न कर्तव्योऽत्र भवता कोपः। पथिकः खल्वहं । श्रुतश्च मयापि महामोहः पूर्व सामान्येन न पुनर्विशेषतो रागकेसरिजनकतया । तदधुनापनौतं ममाज्ञानं भद्रेण । तदुत्तर- वृत्तान्तमप्याख्यातुमर्हति भद्रः । विपाकेनाभिहितं । ततो गतो देवः शीघ्रं जनकपादमूलं ।
२३२ उपमितिभवप्रपञ्चा कथा । दृष्टोऽनेन तमःसंज्ञकेन लम्बमानेन भूयुगुलेन अविद्याभिधानया प्रकम्पमानया गात्रयश्या अराजौर्णकायस्तृष्णाभिधानायां वेदिकायां विपर्यासनाम्नि विष्टरे महत्युपविष्टो महामोहः । ततः चितितल- विन्यस्तहस्तमस्तकेन कृतं देवेन पादपतनं । अभिनन्दितो महा- मोहेन । निषौदतश्च भूतले देवस्य दापितं महामोहेनासनं । उपविष्टस्तत्र जनकसम्ममवचनेन देवः । पृष्टा शरीरकुशलवार्ता निवेदितश्च प्रस्तुतव्यतिकरः । ततो महामोहेनाभिहितं । पुत्र ममाधुना जरच्चीवरस्येव पश्चिमो धावो वर्तते । ततो मदीय- शरीरस्य पामापरिगतमूर्तरिव करभस्य यद्वाह्यते तत्सारं । ततो न युक्तं मयि तिष्ठति भवतः प्रस्थानं कर्तुं । तिष्ठ त्वं विपुलं राज्यं विदधानो निराकुलचित्तः । अहमेव प्रस्तुतप्रयोजनं साधयिष्या- मौति । देवेन कर्णो पिधायाभिहितं । तात मा मैवं वोचः । शान्तं पापं । प्रतिहतममङ्गलं । अनन्तकल्पस्थायि भवतु यौमाकं न खलु युभदौयशरीरनिराबाधामात्रपरितोषिणि किङ्करजनेऽस्मिन्नेवमाञपयितुमर्हति तातः। तत्किमनेन बहुना । गच्छाम्यहं अनुजानौत यूयं । महामोहः प्राह । जात मया तावदन्तव्यमेव भवतस्तु केवलमवस्थानेऽनुज्ञेत्यभिधायोत्थितो महा- मोहः । ततो विज्ञाय निर्बन्ध देवेनाभिहितं । तात यद्येवं ततोऽहमपि तातपादानुचरो भविष्यामि न प्रतिस्खलनौयस्तातेन । महामोहः प्राह । जात एवं भवतु । न खलु वयमपि भवन्तं मोक्तुं क्षणमपि पारयामः । केवलं गुरुतया प्रयोजनस्यैवं मन्त्रितम- स्माभिः । तदधुना सुन्दरमिदं जातेन जल्पितं । देवेनाभिहितं । शरीरं।
हतीथः पस्ताव । २३३ महाप्रसादः । ततस्तातोऽपि प्रस्थित इति ज्ञापितं समस्तनरेन्द्राणां देवेन । प्रवर्तितं निःशेषं विशेषतो बलं । ततः खयमेव महा- मोहनरेन्द्रो देवो रागकेसरी विषयाभिलाषादयश्च सर्व मन्त्रि- महत्तमाः सर्वबलेन सन्तोषचरटस्योपरि विग्रहेण चलिता इति वार्तया क्षुभितमेतत् समन्ताद्राजसचित्तं नगरं समुल्लसितोऽयं बहलः कलकलः । तदिदं भद्र अस्य नरेन्द्रस्य प्रस्थानप्रयोजनमिति । एतच्चाति- कुवहलिनं भवन्तमालोक्य मया निवेदितं । इतरथा तित्वरया मम वचनमात्रोच्चारणेऽपि नावसरोऽस्ति यतो ममापानौके नियमः । मयाभिहितं । आर्य किमत्र वक्तव्यं । परोपकारकरणव्यग्रा एव सत्पुरुषा भवन्ति । ते हि परे प्रियं कर्तुमुद्यताः शिथिलयन्ति खप्रयोजनं कुर्वन्ति स्वभुजोपार्जितद्रव्यव्ययं विषहन्ते विविधदुःखानि न गणयन्यात्मापदं ददति मम्तकं प्रक्रामन्ति प्राणान् । परप्रयो- जनमेव हि ते स्वप्रयोजनं मन्यन्ते । ततश्चैवंविधेर्मदीयवचनैर्मनसि परितष्टो नामयित्वा मदभिमुखमोषदुत्तमाङ्गं व्रजाम्यहमधुने- त्यभिधाय च शतप्रणामो मया गतो विपाकः ॥ मया चिन्तितं । साधितप्रायं मयाधुना राजकार्य । यतः स्पर्शनस्य मूलरद्धिमुपलभ्य भवतागन्तव्यमेतावानेव मम राजादेशः । तत्र यावन्तोऽनेन विपाकेन स्पर्शनादौनां गुणा वर्णितास्ते सर्वे तत्र स्पर्शने घटन्ते । ममानुभवसिद्धमेतत् । तस्मादेतदुपवर्णितमानुष- पञ्चकस्याद्योऽसौ भविष्यति । तस्य मूलशुद्धिः । केवलमेकं सन्तोषव्यतिकरमद्यापि नावगच्छामि। एतावच्च वितर्क- लब्धा मया 30 २३४ उपमितिभवप्रपञ्चा कथा । यामि । सदागमानुचर एवायं कश्चिद्भविष्यति । अन्यथा पूर्वापर- विरुद्धमेतत्स्यात् । अथवा किमनेने । गच्छामि तावत् स्वामि- पादमूलं । निवेदयामि यथोपलब्धवृत्तान्तं । ततो देव एवात्र यथोचितं विज्ञास्थतीत्यालोच्य समागतोऽहं । एतदाकर्ण्य देवः प्रमाणमिति । बोधेनाभिहितं । साधु प्रभाव साधु सुन्दरमनुष्ठितं भवता । ततः सहैव प्रभावेण प्रविष्टो बोधः कुमारसमीपं । कृतप्रणमेन च निवेदितः कुमाराय समस्तोऽपि प्रभावानौतवार्ता- वृत्तान्तः । परितष्टो मनौषौ पूजितः प्रभावः ॥ पृष्टोऽन्यदा मनीषिणा स्पर्शनः । यदुत भद्र किं भवतः सदागमेनैव तेन भवजन्तुना सुमित्रेण सह विरहः संपादित उत , तत्र कश्चिदन्योऽप्यासौदिति । स्पर्शनेनाभिहितं । श्रार्य श्रासीत् । केवलमलं तत्कथया । न खल्वहं भयविहलतया तस्य क्रूरकर्मणो नामाप्युच्चारयितुं शक्नोमि । स हि सदागमस्तस्य केवलं भवजन्तो- रुपेदशं ददाति मत्कदर्थन विषयं । स तु तस्यैवानुचरः क्रूरकर्मा नानाघातनाभिः साक्षान्मां कदर्थयति भवजन्तुं मत्तो विमुख- यति । तेनैव चाहं शरीरप्रासादानिःमारितो भवजन्तुश्च निवृतौ नगयों प्रापितः । स एव तत्र कारणं पुरुषः । सदागमस्य केवल- मुपदेशदाने व्यापारः ॥ मनीषिणाभिहितं । भद्र किं तस्याभि- धानं । स्पर्शनः प्राह । कथितमिदमार्यस्य मया । नाहं भयाकुल- तया तदभिधानमुच्चारयामि । अत एव पूर्वमपि मया न युग्माकं तदाख्यातं । किं चातिपापिष्ठोऽसौ। ततोऽलं तन्नामग्रहणेन । पापिष्ठजनकथा हि क्रियमाणा पापं वर्धयति यशो दूषयति हतीयः प्रस्तावः । २३५ लाघवमाधत्ते मनो विलावयति धर्मबुद्धिं ध्वंसयतौति । मनौ- षिणभिहितं । तथापि महत्कुवरलं तदभिधानश्रवणेऽस्माकं । न चास्मदभ्यर्ण वर्तमानेन भवता तद्भयं विधातव्य । न च नामग्रहण- मात्रेण किंचित्पापं । न ह्यमिरित्युक्ते मुखदाहः संपद्यते । ततो विज्ञाय निर्बन्ध तरलिततारं दशापि दिशोऽवलोकयता स्पर्माने- नाभिचितं । आर्य यद्येवं ततः सन्तोष इति तस्य दुर्नामकस्य नाम ॥ मनौषिणा चिन्तितं । सम्यगुपलब्धा मूलशुद्धिरस्य स्पर्श- नस्य प्रभावेण। यतः सन्तोषव्यतिकर एवैकस्तत्राघटमानक भासीत्। सोऽप्यधुना घटितः । सम्यक् च मया पूर्व क्लिर्कितं यथा न सुन्दरः खल्वेष स्पर्शनः प्रायेणेति यतो विषयाभिलाषप्रयुकोऽयं लोकवञ्चन- प्रवणः पर्यटति । तदशोभन एवायं । तथापि प्रतिपनोऽयं मया मित्रतया । दर्शितो बहिश्छायया स्नेहभावः । कौडितमेकत्र बड़कावं । तस्मान्न युक्तोऽकाण्ड एव परित्यक्तुं । केवलं विज्ञात- खरूपेणस्य मयाधुना सुतरां न कर्तव्यो विशम्भो नाचरितव्य- मस्थानुकूलं न समर्पणीयमात्मस्वरूपं न निवेदनीयं गुह्यं नापि दर्शनौयो बहिर्भावः । विषमप्रकृतिरेष वर्तते । ततोऽनेन मह यापनया वर्तितव्यं पूर्वस्थित्यैव पर्यटितव्यं सर्वत्र सहितेन कर्तव्यं चात्मौयप्रयोजनाबाधकमस्य वचनं। केवलमभिष्वङ्गोऽस्योपरि न कार्यो मया यावदस्य सर्वथा परित्यागावसरो भवति । एवं च वर्तमानस्य मे न भविष्यत्येष बाधक इति । स्थापितो मनीषिणा खचेतसि सिद्धान्तः । ततः पूर्वस्थित्यैव विलसन्ति ते स्पर्शनमनौषि- बाखा नानास्थानेषु । ब्रजन्ति दिनानि ॥ ।
२२६ उपमितिभवप्रपञ्चा कथा । अन्यदा स्पर्शनेन कृतो जल्पप्रस्तावः । अभिहितं च तेन । अरे किमत्र लोके सारं किं वा सर्व जन्तवोऽभिलषन्ति । बाले- नाभिहितं । वयस्य किमत्र ज्ञातव्यं । सुप्रसिद्धमिदं। स्पर्शनः प्राह । कथय किं तत् । बालो जगाद । वयस्य सुखं । स्पर्शनः प्राह । तत् किमिति तदेव सदा न सेव्यते । बालेनाभिहितं । कस्तस्य सेवनोपायः । स्पर्शनेनोक्तं । अहं। बालो जगाद । कथं । स्पर्शनः प्राह । अस्ति मे योगशक्तिः । तयाहं प्राणिनां शरीरमनुप्रविश्य बहिरन्तश्च त्वचि लोनस्तिष्ठामि । ततश्च ते यदि भक्तिपुरःसरं मामेव ध्यायन्ति कोमलललितस्पर्शसम्बन्धं कुर्वन्ति ततो निरुपम सुखं लभन्ते । तेनाहं सुखसेवनस्योपायः । मनौषिणा चिन्तितं । श्रये रचितोऽनेनावयोर्वञ्चनप्रपञ्चः । बालेनाभिहितं । वयस्य तस्कि- मियन्तं कालं नावेदितमिदमस्माकं । अहो वञ्चिता वयमधन्याः सत्यप्येवंविधे सुखोपाये तदनासेवनेन । अहो ते गम्भीरता यदेवं- विधामपि योगशक्तिमात्मनो न प्रकटयसि । तदिदानीमपि कुरु प्रसादं दर्शय कुलहलं व्यापारय योगशक्ति भवावयोः सुखसेवन- हेतुरिति । ततः किं क्रियतामेतदिति दृष्टिविकारेणैव दर्शयता माकूतेन निरीक्षितं मनौषिणो वदनं स्पर्शनेन । ततः पश्यामि किं तावत् करोतीति संचिन्त्य मनौषिणाभिहितं । वयस्य क्रियता बालभाषितं कोऽत्र विरोधः । ततः स्पर्शनेन विरचितं पद्मासनं स्थिरीकृतः कायः परित्यको बहिर्विक्षेपः निश्चलौकता दृष्टिः समर्पिता नासिकाग्रे निबद्धं इत्पौण्डरौके मानसं । ता धारण । संजाता तत्प्रत्ययकतानता। समापूरितं ध्यानं । निरुद्धवाः करणवृत्तयः ।
टतायः प्रस्तावः। २३० श्राविर्भूतः खरूपशून्य दवार्थनिर्भासः । संजातः समाधिः । विहितोऽन्तर्धानहेतुः संयमः । कृतमन्तर्धानं । अनुप्रविष्टो मनी- षिबालयोः शरीरं। अधिष्ठितः स्वाभिहितप्रेदशः । विस्मितौ मनौषिबालौ। प्रवृत्ता इयोरपि कोमलस्पर्शच्छा ॥ ततो बालो मदनि शयनानि सुखान्यासनानि कोमलानि वसनानि अस्थिमांसत्वग्रोमसुखदायोनि संवाहनानि ललितललना- नामनवरतसुरतानि ऋतुविपर्यस्तवीर्याणि सुखस्पर्शविलेपनानि अन्यानि चोहर्तनखानादीनि स्पर्शनप्रियाणि रद्धो मूर्छितः सतत- मासेवते । तच्च शयनादिकं भस्मकव्याधिरिव भक्तपानं स्पर्शनः समस्तमुपभुक्त। बालस्य तु गायव्याधिविकलौभूतचित्तस्य सन्तोषरूप- स्वास्थ्यविकलतया पामाकण्ड्यनमिव परमार्थतस्तदुःखकारणमेव । तथाप्यसौ विपर्यासवशेन तदुपभोगे मति चिन्तयति। अहो मे सुखं अहो मे परमानन्दः। ततो मिथ्याभावनया परमसुखसन्दर्भनिर्भरः किलाहमिति वृथा निमौलिताक्षोऽनाख्यं रसान्तरमवगाहते ॥ मनीषौ पुनर्मुदुस्पर्शच्छायां प्रवर्तमानायामेवं भावयति । अये स्पर्शनजनितोऽयं मम विकारो न खाभाविकः । परमरिपुश्चायं मम वर्तते । सुनिणे तमिदं मया । ततः कथमयं सुखहेतर्भ- विष्यतीति मत्वा तदनुकूलं न किंचिदाचरति । अथ कथंचित्प्रति- पन्नोऽयं मित्रतयानुवर्तनीयस्तावदिति भावनया कालयापना कुर्वाणस्तदनुकूलमपि किंचिदाचरति । तथापि तस्य लौल्यरोग- विकलतया सन्तोषामृतखस्यौभूतमानसस्य रोगरहितशरीरस्येव सुपथ्यानं तच्छयनादिकमुपभुज्यमानं सुखमेवोत्यादयति । तथापि २३८ उपमितिभवप्रपञ्चा कथा। बालः नामो तत्राभिष्वङ्गं विधत्ते । ततो न भवत्यागामिनोऽपि दुःखस्याबन्धः । अन्यदा प्रकटीभूतः स्पर्शनः । अभिहितोऽनेन बालः । अपि वयस्य मदीयपरिश्रमस्यास्ति किंचित्फलं संपन्नस्ते कश्चिदुपकारः।। प्राह । सखेऽनुग्रहौतोऽस्मि दर्शितो ममाचिन्याबाद- सम्पादनेन भवता साक्षात्स्वर्गः । अथवा किमत्राश्चय । परार्थमेव निर्मितस्त्वमसि विधात्रा । तथाहि । परार्थमेव जायन्ते लोके नूनं भवादृशाः । मादृशानां तु सम्भूतिस्त्वत्प्रसादेन सार्थिका ॥ इदं हि तेषां मौजन्यं यत्खभावेन सर्वदा । परेषां सुखहेतुत्वं प्रपद्यन्ते नरोत्तमाः ॥ स्वर्णनेन चिन्तितं । अये संपनस्तावदेष मे नियंभिचारः किङ्करः प्रतिपद्यते मयादिष्टमेष कृष्णं वेतं श्वेतं कृष्णमिति निर्विचारं । एवं विचिन्त्य स्पर्धनेनाभिहितं । वयस्य दूयतैव नः प्रयोजनं । चरितार्थोऽहमिदानौं भवदुपकारसंपत्त्येति । ततो मनौषिसमीपमुपगम्याभिहिमनेन । सखे किं सार्थकः भवतोऽर्थसम्पादनेन मदीयः प्रयास उत नेति । मनौषिणोक्त । भद्र किमनोच्यतां । अनाख्येयस्तावकोऽतिशयः । स्पर्शनेन चिन्तितं । अये साभिप्रायकमेतत् । दुष्टः खल्वेष मनीषौ न शक्यते मादशै रचयितुं । लक्षितोऽहमनेन स्वरूपतः प्रायेण । तस्मात्मलन एव तावदास्तां । नाच बहुविकत्थनं श्रेयस्करमिति । विचिन्त्य धर्ततया कृता स्पर्शनेन काकलौ न दर्शितो मुखविकारोऽपि स्थितो मौनेनेति ॥
टतीयः प्रस्तावः । २३६ दूतच बालेनापि खमातुरकुशलमालायाः कथितः समस्तोऽपि सरभसेन यो योगशक्रिदीपनपुरःसरं सुखसम्पादनसामर्थ्यलक्षणः स्पर्शनव्यतिकरः। अकुशलमालोवाच । जात सूचितमिदमादावेव मया यथा सुन्दरम्तवानेन वरमित्रेण साधं सम्बन्धः हेतुः सुख- परम्परायाः । किंच । अस्ति ममापौदृशौ योगशक्तिरिति । दर्श- यिष्याम्यहमपि जातस्य कुटहलं । बालस्तू वाच । यद्येवं ततो बहुतरमम्बायाः प्रसादेनामाभिरद्यापि द्रष्टव्यं । अकुशलमालो- वाच । तत्कथनीयं भवता यदा प्रयुज्यते योगशक्तिरिति ॥ दूतश्च मनीषिणापि खमातुः शुभसुन्दर्या निवेदितः सर्वोऽपि स्पर्शनवृत्तान्तः । तयाभिहितं । वत्स न चारस्तवानेन पापभित्रण सह संसर्गः । कारणमेष दुःखपद्धतेः । मनौषिणाभिहितं । सत्य- मेतत्। केवलं न कर्तव्यमत्र भयमम्बवा । लक्षितो मयायं स्वरूपेण । नाहमस्य यनवतोऽपि वञ्चनगोचरः। केवलमस्य परित्यागकालं प्रतिपालयामि । यतः प्रतिपन्नोऽयं मया मित्रतया नाकाण्ड एव हातुं युक्तः । शुभसन्दर्युवाच । जात सुन्दरमिदमनुष्ठितं भवता । अहो ते लोकज्ञता अहो प्रतिपन्नवात्सल्यं अहो नौतिपरता अहो गम्भीरता अहो स्थैर्यातिरेकः । तथाहि । नाकाण्ड एव मुञ्चन्ति सदोषमपि सज्जनाः । प्रतिपन्नं ग्रहस्थायौ तत्रोदाहरणं जिनः ॥ प्रतिपनमकाले तु सदोषमपि यत्यजेत् । स निन्द्यः स्थात्मतां मध्ये तन्नासौ खार्थसाधकः ॥ यस्तु मूढतया काले प्राप्तेऽपि न परित्यजेत् ।
२४० उपमितिभवप्रपञ्चा कथा। सदोषं लभते तस्मात् स्वक्षयं नात्र संशयः ॥ हेयबुड्या ग्टहौतेऽपि ततो वस्तुनि बुद्धिमान् । तत्त्यागावसरापेक्षी प्रशंसां लधुमर्हति ॥ कर्मविलासराजस्तु महादेवीभ्यां सकाशात्तं कुमारव्यतिकरमा- कर्ण्य परितुष्टो मनौषिणो रुष्टो बालस्य चित्तमध्ये । बालेनापि ततः प्रभृति गाढतरं कोमलशयनसुरताद्यासेवनानि स्पर्शनप्रियाणि दिवानिशमाचरता परित्यक्तो राजकुमारोचितः शेषव्यापारः परि- हृतं देवगुरुपादवन्दनं विमुक्त कलाग्रहणं शिथिलौकता लज्जा अङ्गीकृतः पशुधर्मः । ततोऽसौ न गणयति लोकवचनौयतां न रक्षति कुलकलकं न जानौते स्वस्योपहास्थता नापेचते कुशलपक्षं न ग्टहाति सदुपदेशान् । केवलं यत्र कुत्रचिन् नारोशयनमास- नमन्यदा किंचित्कोमलमुपलभते तत्र तत्राविचार्य तत्वरूपं लौल्या- तिरेकेण प्रवर्तत एव । ततो मनीषी संजातकरुणस्तं शिक्षयति स्पर्शनस्य मूलशुद्धिमाचष्टे वञ्चकोऽयमिति दीपयति । भ्रातर्नास्य विश्वसनीयं परमरिपुरेष स्पर्शन इति तं बालं पुनः पुनश्चोदयति । बालः प्राह । मनौषिवलमनेनादृष्टार्थन प्रलापेन । य एष मे वर- वयस्थोऽनन्तागाधसुखसागरावगाहने हेतः स एव ते परमरिपुरिति कैषा भाषा। मनीषिणा चिन्तितं। मूढः खल्वेष न शक्यते निवार- यितुं। अतोऽलमेतनिवारणेन । स्वरक्षणे मया यत्रो विधेयः। तथाहि । अकार्यवारणोद्युको मूढे यः परिखिद्यते । वाम्विस्तरो वृथा तस्य भस्मन्यज्याहुतिर्यथा ।। नोपदेशशतेनापि मूढोऽकार्याविवर्त्यते ।
टतोय. प्रस्तावः । २४१ गोतांशग्रसनात्केन राहुर्वाक्यैर्निवारितः ।। अकार्य दुर्विनौतेषु प्रवृत्तेषु ततः सदा । न किंचिदुपदेष्टव्यं सता कार्यावधीरणा ॥ इत्यालोच्य स्वयं चित्ते हित्वा बालस्य शिक्षणम् । खकार्यकरणोद्युको मनौषौ मौनमाश्रितः ॥ इतश्च तस्यैव कर्मविलासस्य राज्ञोऽस्ति सामान्यरूपा नाम देवी। तस्याश्चाभौष्टतमोऽस्ति मध्यमबुद्धिर्नाम दारको वल्लभतमो मनौषि- बाखयोः । कौडितस्ताभ्यां सह भुयांमं कालं । स च प्रयोजन- वशादाजादेशेनैव देशान्तरं गत श्रासीत् तदानीमागतः , दृष्टौ मनौषिबालौ मह स्पर्शनेन । आलिङ्गितस्ताभ्यां स्पर्शनेन च । ततः सकौतुकेन मध्यमबुद्धिना कर्णाभ्य% निधाय वदनं पृष्टो बालः क एष इति । निवेदितो बालेनास्य यथा स्पर्णननामायमचिन्य- प्रभावोऽस्मत्महचर इति । मध्यमबुद्धिस्वाच । कथं । ततः कथितो बालेन सर्वोऽपि व्यतिकरः । संजातो मध्यमबुद्धेरपि स्पर्शनस्योपरि स्नेहभावः । बालेनाभिहितं । भद्र स्पर्धन दर्शयास्य स्वकीयं माहात्म्यं । स्पर्शनः प्राह । एष दर्शयामि । ततः प्रयुक्ता योगशक्तिः कृतमन्तर्धानं अधिष्ठितं मध्यमबुद्धेः शरौरं। विस्मितो मध्यमबुद्धिः। प्रवृत्ता कोमलपच्छा । उपभुक्तानि ललितपयनसरतादौनि । संजातश्चित्ताहादः । प्रौणितो मध्यमबुद्धिः। प्रकटौभृतः स्पर्शनः । पृष्टं स्वप्रयाससाफल्यं । अनुग्टहीतोऽहं भवतेति निवेदितं सरभसेन मध्यमबुद्धिना । ततः पाचभूतोऽयमपि न दूरयायौ वर्तत इति विचिन्तितं स्पर्शनेन । 31 २४२ उपमितिभवप्रपञ्चा कथा । मनीषिणा चिन्तितं । वशीकृतप्रायोऽयमपि मध्यमबुद्धिरनेन पापेन स्पर्शनेन । श्रतो यापेदशं ग्रहाति ततः शिक्षयाम्येनं । मा भूदस्य मुग्धतया वराकस्य वञ्चनमिति ॥ ततो रहसि मध्यम- बुद्धिरभिहितो मनीषिणा । भद्र न भद्रकोऽयं स्पर्शनः । विषया- भिलाषप्रयुक्तोऽयं लोकानां वञ्चकः पर्यटति । मध्यमबुद्धिरुवाच । कथं । ततः कथिता मनीषिणा बोधप्रभावोपलब्धा समस्तापि तस्य स्पर्मनस्य मूलद्धिः । मध्यमबुद्धिना चिन्तितं । स्वानुभवसिद्धा मम तावदस्य स्पर्शनस्य सम्बन्धिनी वत्सलताचिन्त्यप्रभावता सुख- हेतुता च । अयमपि च मनीषौ नायुक्तभाषौ। तन्न जानौमः किमत्र तत्त्वं । किं वा वयमेवं स्थिते कुर्म इति । अथवा किमनेन चिन्तितेन । तावदम्बां पृच्छामि । तदुपदिष्टमाचरिष्यामीति । विचिन्त्य गतः सामान्यरूपायाः समीपं । कृतं पादपतनं । अभि- नन्दितस्तया निविष्टः चितितले । निवेदितो व्यतिकरः। सामान्य- रूपयोक्तं । वत्स तावत्त्वयाधुना स्पर्शनमनौषिणोईयोरपि वचन- मनुवर्तयतोभयाविरोधेन मध्यस्थतयैव स्थातं युक्तं । कालान्तरे पुनर्य एव बलवत्तरः पक्षः स्यात् स एवाश्रयणीयः । तथाहि । संशयापनचित्तेन भिन्ने कार्यदये सता । कार्यः कालविलम्बोऽत्र दृष्टान्तो मिथुनदयम् ॥ मध्यमबुद्धिरुवाच । अम्ब किं तन्मिथुनइयं । सामान्यरूपयोक्तं । पुत्राकर्णय ॥ अस्ति तथाविधं नाम नगरं। तत्र जुर्नाम राजा । तस्य प्रगुणा नाम महादेवी । तयोर्मकरध्वजाकारो मुग्धो नाम तनयः।
टतौयः : प्रस्तावः। कालः। तस्य च रतिमनिभा प्रकुटिला नाम भार्या । ततस्तयोर्मुग्ध- कुटिलयोरन्योन्यबद्धवानुरागयोर्विषयसुखमनुभवतोजति अन्यदा वसन्तसमये उपरितनप्रासादभूमिकावासभवने व्यवस्थितः प्रभातोत्थितो मुग्धकुमारो मनोहरविविधविकमितकुसुमवनरा- जिराजितं ग्रहोपवनमुपलभ्य मंजातक्रीडाभिलाषो भार्यामुवाच । देवि अतिरमणीयेयमुपवनीः । तदत्तिष्ठ गच्छावः कुसुमोच्चय- निमित्तं प्रानयाव एनां । अकुटिलयाभिहितं । यदाज्ञापयत्यार्य- पुत्रः । ततो रहौत्वा मणिखचिते कनकशर्पिके गते ग्रहोपवनं । प्रारब्धः कुसुमोच्चयः । मुग्धः प्राह । देवि पश्यावस्तावत्कः कनक- शूर्पिकां झटिति पूरयति । व्रज त्वमन्यम्यां दिशि अहं त्वस्या व्रजामौति । अकुटिलयाभिहितं । एवं भवतु । गतौ कुसुमोच्चयं कुर्वाणौ परस्परं दर्शनपथातौतयोर्गहनान्तरयोः । अत्रान्तरे कथंचित्तं प्रदेशमायातं व्यन्तरदेवमिथुनकं कालज्ञो देवो विचक्षणा देवी । तेन च गगनतले विचरतावलोकितं तन्मानुष- मिथुनं । ततोऽचिन्यतया कर्मपरिणतेरतिसुन्दरतया तस्य मानु- पमिथुनस्यापर्यालोचितकारितया मन्मथस्य मदनजननतया मधु- मामम्यातिरमणीयतया तस्य प्रदेशस्य केलिबहुलतया व्यन्तरभा- वस्यातिचपलतयेन्द्रियाणां दुर्निवारतया विषया भिलाषस्य चील- चारितया मनोवृत्तेस्तथाभवितव्यतया च तस्य वस्तुनः कालज्ञस्या- भूदकुरिलायां तोवोऽनुरागस्तथैव च मुग्धस्योपरि विचक्षणायाः । ततः किलैनां वञ्चयामौ ति वुड्या कालज्ञेनाभिहिता विचक्षणा । देवि ब्रज त्वमग्रतः तावद्यावदहमितो राजग्टहोपवनाद्देवार्चननि- स २४४ उपमितिभव प्रपञ्चा कथा । मित्तं कतिचित्कुसमान्यादायागच्छामि । सा तु मुग्धहतहद- यतया स्थिता मौनेन । गतोऽकुटिलाभिमुखं कालज्ञः । अवतीर्णो घनतरगहने । अदर्शनोभूतो विचक्षणायाः । चिन्तितमनेन । अये किं पुनः कारणमाश्रित्येदं मिथुनं परस्परतो दवीयोदेशवर्ति वर्तते । ततः प्रयुक्तमनेन विभङ्गज्ञानं । लक्षितं तयोर्दूरौभवन- कारणं । ततोऽयमेवात्रोपाय इति विचिन्त्य कृतमनेन देवशक्त्य- त्मनो वैक्रियं मुग्धरूपं । निर्वर्तिता कनकशूर्पिका भृता कुसु- मानां । गतोऽकुटिलासमीपं ससम्मममाह च । जितासि प्रिये जितासि । ततः कथमार्यपुत्रो झटित्येवायातो जिताहमिति विलक्षीभूता मनागकुटिला । कालज्ञेनाभिहित। प्रियेऽलं विषा- देन स्वल्पमिदं कारणं । केवलं निर्वर्तिलोऽधुना कुसुमोच्चयः । बजामोऽमुभिन्नुपवनविभूषणे कदलौलताग्रहके । प्रतिपन्नमनया । ततो गत्वा कृतमाभ्यां तत्र पल्लवशयनौयं ॥ दूतश्च विचक्षणया चिन्तितं । अये गतस्तावदेष कालज्ञः । ततो यावदयं नागच्छति यावच्चेयं नारौ दूरे वर्तते तावदवतौर्य मानयाम्येनं रतिवियुक्त मकरकेतनाकारं तरुण । करोम्यात्मनो जन्मनः साफल्यं । लक्षि- तश्चानयापि विभङ्गज्ञानेनैव तयोर्दूरीभवनहेतुः । ततो विधायाकु- टिलारूपं कुसुममृतकनकशर्पिका गता मुग्धसमीपं । श्राह च । जितोऽस्यार्यपुत्र जितोऽसि । ततः ससम्भ्रमं तां निरीक्ष्य मुग्धः प्राह । प्रिये सुष्टु जितः किमधुना क्रियतां । विचक्षणयोकं । यदहं वदामि । मुग्धः प्राह । किं तत् । विचक्षणाह । ब्रजामो लताभवनं मानयामो विशेषतः सदुपवनश्रियं । प्रतिपत्रमनेन ।
द्वतीयः प्रस्तावः! ततो गतौ तौ विचक्षणामुग्धो तर कदलोलतास्ट नादिरना- तन्मिथनं । निरीक्षितं विस्मिताभ्यां परस्पराभिमुखं नामाचार्यः । न दृष्टम्तिलतुषत्रिभागमात्रोऽपि खेतरयोर्विशे निर्गतस्तदन्द- चिन्तितं । अये भगवतौनां वनदेतानां प्रसमलं । दृष्टस्तवी- संपन्नो देवी च। तदिदं महदभ्युदयकारणं । ताातलवितुलि- ताताय । ततो निवेद्य स्वाभिप्रायमितरेषां गच्छामस्तन्दतः कर्म- मौपमित्यभिधायोत्थितो मुग्धः । चलितं चतुष्टयम देन भग- सुजुराजास्थाने । तद्विलोक्य विम्मितो राजा महादेवेऽपि प्रयुज्य रश्च । किमेतदिति पृष्टो मुग्धः । स प्राह । वनदेवत भगवता जराह । कथं । ततः कथितो मुग्धेन व्यतिकरः ।न्धहेतवः चिन्तितं । अहो मे धन्यता अहो मे देवतानुग्रहः । ततो हष शिव- रेकेण समादिष्टस्तेनाकालमहोत्सवो नगरे दापितानि महादा- नानि विधापितानि नगरदेवतापूजनानि । स्वयं च राजा राज- मण्डलमध्यस्थः प्राह । एकेन सुतेन सुतदयं वध्वा जातमथो वधूदयं । खादत पिबताथ सज्जना गायत वादयताथ नृत्यत । ततः प्रगुणापि महादेवी एतदेव नरेन्द्रोकमनुवदन्तौ वादि- तानन्दमर्दलसन्दोहबधिरितदिगन्ता विहितो-भुजा नर्तित प्रवृत्ता । द्विगुणाहं संपन्नेति गता हर्षमकुटिला । प्रनृत्ताः शेषा- न्तःपुरिकाः प्रमुदितं नगरं वृत्तो बहता विमर्दैन महानन्द इति ॥ केलिप्रियतया दृष्टः कालज्ञः । केवलं चिन्तितमनेन । पुनरेषा द्वितीया योषित् संजातेति । उपयुक्तो ज्ञाने ! ज्ञातम- का २४४ उपमिलिभव प्रपञ्चा कथा । मित्तं कतिचित्कुसुमान्यादायागच्छामि । सा तु मुग्धहतहद- यतया स्थिता मौनेन । गतोऽकुटिला भिमुखं कालज्ञः । अवतीर्णो घनतरगहने । श्रदर्शनीभूतो विचक्षणायाः । चिन्तितमनेन । अये किं पुनः कारणमाश्रित्येदं मिथुनं परस्परतो दवीयो देशवर्ति वर्तते । ततः प्रयुक्तमनेन विभङ्गज्ञानं । लक्षितं तयोर्दूरीभवन- कारणं । ततोऽयमेवात्रोपाय इति विचिन्त्य कृतमनेन देवशक्त्या- मनो वैक्रियं मुग्धरूपं । निर्वर्तिता कनकशूर्पिका भृता कुसु- मानां । गतोऽकुटिलासमीपं ससम्भ्रममाह च । जितामि प्रिये जितासि । ततः कथमार्यपुत्रो झटित्येवायातो जिताहमिति विलक्षीभूता मनागकुटिला । कालज्ञेनाभिहित। प्रियेऽलं विषा- देन स्वत्पमिदं कारणं । केवलं निर्वर्तिलोऽधुना कुसुमोच्चयः । वज्ञामोऽमुभिन्नुपवनविभूषणे कदलोलताग्रहके । प्रतिपन्नमनया । ततो गत्वा कृतमाभ्यां तत्र पल्लवशयनीयं ॥ दूतश्च विचक्षणया चिन्तितं । अये गतस्तावदेष कालज्ञः । ततो यावदयं नागच्छति यावच्चेयं नारौ दूरे वर्तते तावदवतौर्य मानयाम्येनं रतिवियुक मकरकेतनाकारं तरुणं । करोम्यात्मनो जन्मनः साफल्यं । लजि- तश्चानयापि विभङ्गज्ञानेनैव तयोर्दूरीभवनहेतुः । ततो विधायाकु- टिलारूपं कुसुममृतकनकर्पिका गता मुग्धसमीपं । श्राह च । जितोऽस्यार्यपुत्र जितोऽसि । ततः ससम्भ्रमं तां निरीक्ष्य मुग्धः प्राह । प्रिये सुष्टु जितः किमधुना क्रियतां । विचक्षणयोनं । यदहं वदामि। मुग्धः प्राह । किं तत् । विचक्षणाह । व्रजामो लताभवनं मानयामो विशेषतः सदुपवनश्रियं । प्रतिपत्रमनेन ।
टतोयः प्रस्ताव.। २४५ ततो गतौ तौ विचक्षणामुग्धौ त* कदलोलताटाहके । दृष्टं तन्मिथुनं । निरीक्षितं विस्मिताभ्यां परस्पराभिमुख मिथुनाभ्यां । न दृष्टम्तिलतुषत्रिभागमात्रोऽपि खेतरयोर्विशेषः । मुग्धेन चिन्तितं । अये भगवतौनां वनदेवतानां प्रमादेन द्विगुणोऽहं संपन्नो देवौ च । तदिदं महदभ्युदयकारणं । तनिवेदयामौदं ताताय । ततो निवेद्य स्वाभिप्रायमितरेषां गच्छामस्त वित्तातस- मौपमित्यभिधायोत्थितो मुग्धः । चलितं चतुष्टयमपि प्रविष्टं ऋजुराजास्याने । तद्विलोक्य विम्मितो राजा महादेवको परिक- रश्च । किमेतदिति पृष्टो मुग्धः । स प्राह । वनदेवताप्रसादः । जराह । कथं । ततः कथितो मुग्धेन व्यतिकरः ।। ऋजुना चिन्तितं । अहो मे धन्यता अहो मे देवतानुग्रहः । ततो हति- रेकेण समादिष्टस्तेनाकालमहोत्सवो नगरे दापितानि महादा- नानि विधापितानि नगरदेवतापूजनानि । खयं च राजा राज- मण्डलमध्यस्थः प्राह । एकेन सुतेन सुतद्वयं वध्वा जातमथो वधूद्वयं । खादत पिबताथ सज्जना गायत वादयताथ नृत्यत ॥ ततः प्रगुणापि महादेवी एतदेव नरेन्द्रोकमनुवदन्तौ वादि- तानन्दमर्दलसन्दोहबधिरितदिगन्ता विहितो_भुजा नर्तित प्रवृत्ता । द्विगुणाहं संपन्नेति गता हर्षमकुटिला । प्रनृत्ताः शेषा- न्तःपुरिकाः प्रमुदितं नगरं वृत्तो बहता विमर्दैन महानन्द इति ॥ केलिप्रियतया दृष्टः कालज्ञः । केवलं चिन्तितमनेन । पुनरेषा द्वितीया योषित् संजातेति । उपयुक्तो ज्ञाने । ज्ञातम- का २४६ उपमितिभवप्रपञ्चा कथा। नेन । मैवैषा मदीयभार्या विचक्षणेति । ततः संजातः क्रोधः । चिन्तितमनेन । मारयान्वनं दराचारं पुरुषं : एषा पुनरमरतया न शक्यते मारयितं । तथाप्येवं पौडयामि यथा न पुनः परपुरु- धगन्धमपि प्रार्थयते । एवं कृतनिश्चयस्थाप्यस्य कालज्ञस्य तथा- भवितव्यतया प्रवृत्ता प्रर्यालोचना । स्फुरितं चित्ते । यथा न सम्यक् चिन्तितमिदं मया । न पौडनीया तावदिचक्षणा यतो ऽहमपि न पाद्धाचारः । ममापि ममानोऽयं दोषः । मारणमपि मुग्धस्य न युक्तं । यतो मारितेऽमिानन्यथाभाव विज्ञाय न भजते मामकुटिना विरज्यते सुतरां विचक्षणा । तत्किमकुटिलां ग्रहो- त्वादृष्टवकलत्रधर्षण दूतोऽपक्रामामि । एतदपि नास्ति । यतो ऽकाण्डप्रस्थानेन न स्वाभाविकोऽयमिति लक्षितविकारा कदा- चिदकुटिला मां न भजते । तया रहितस्य पुनर्गमनमनर्थकमेव । तस्मादी•धर्म परित्यज्य कालविलम्ब एवात्र श्रेयानिति ॥ विचक्षणयापि चिन्तितं । अये स एवायं मदीयभर्ता कालज्ञो ऽनेन रूपेण स्थितः । कुतोऽन्यस्थात्र सम्भव इति । ततः कथमस्य पुरतः परपुरुषेण सह तिष्ठामौति संजातलज्जा अयमन्यो भजत इति समुत्पन्ना दुःशकमेवं स्थिते स्थातुमित्या विर्भूतकुलभावा गताया अपि न काचिदर्थसिद्धिरिति स्थानेनात्मानं तोषयन्ती न चान्या गतिरस्तौति निरालम्बा मापि यद्भविष्यतया कालविलम्ब- मेवाश्रित्य तत्रैव स्थिता । तत्प्रमत्यदर्शितवैक्रियौ परित्यक्ताधौ देवमायया समस्तमानुषकर्तव्यान्याचरन्तौ प्रत्येकं वयं भजमानौ स्थितौ विचक्षणकालज्ञौ प्रभूतकालं ॥
हतीयः प्रस्तावः। २४७ प्रस्तुता भगवता अन्यदा मोहविलयाभिधाने कानने सातिशयज्ञानादिरत्ना- करो बडशिव्यपरिकरः समागतः प्रतिबोधको नामाचार्यः । निवेदितो नरेन्द्रायोद्यानपालेन । ततः पौरजनो निर्गतस्तदन्द- नार्थ राजा । भगवतोऽपि देवैर्विरचितं कनककमलं । दृष्टस्तत्रो- पविष्टस्तेभ्यो धर्ममाचक्षाणो भगवान्नरपतिना । दलातलविजुलि- तमौलिना वन्दितं तत्पादारविन्दं शेषमुनयश्च । अभिनन्दितः कर्म- विटपिपाटनपटिष्टनिष्ठुर कुठारायमाणेन धर्मलाभाशीर्वादेन भग- वता शेषयतिभिश्च । उपविष्टो भूतन्ने । कालज्ञादयोऽपि प्रयुज्य समस्तं वन्दनादिविनयं यथास्थानमुपविष्टाः विशेषतो धर्मदेशना दर्शिता भवनिर्गुणता वर्णिताः कर्मबन्धहेतवः निन्दित: संसारचारकावासः नाघितो मोक्षमार्गः ख्यापितः शिव- सुखातिशयः कथिता विषयाभिवङ्गस्य भवभ्रमणहेतु: शिवसुख- प्रतिरोधिका दुरन्तता । ततस्तद्भगवद्वचनामृतमाकर्ण विचक्षणा- कालज्ञयोर्विदलितं मोहजालं आविर्भूतः सम्यग्दर्शनपरिणामः समुज्ज्वलितः कर्मन्धनदहनप्रवणः सुदुश्चरितपश्चात्तापानलः ॥ अत्रा- न्तरे तयोः शरीराभ्यां निर्गतै रक्तकृष्णैः परमाणुभिर्घटितशरोरा बौभत्मा दर्शनेन भौषणा स्वरूपेण उद्वेगहेतुर्विवेकिनां एका स्त्री भगवतः प्रतापं मोढुमक्षमा निर्गत्य पर्षदः पश्चान्मुखौ स्थिता दूरवर्तिनि भूभागे। पश्चात्तापावितहृदयतया गलदश्रुसलिलौ समकमेव विचक्षणाकालज्ञौ पतितौ भगवचरणयोः। कालज्ञेना- भिहितं । भगवनधमाधमोऽहं येन मया विप्रतारिता स्वभार्या आचरितं पारदायें द्रुग्धः सरलहृदयो मुग्धो जनितो नरेन्द्रम- २४७ उपमितिभवप्रपञ्चा कथा। हादेव्यादीनां व्यलोकसुतव्यामोहः वञ्चितोऽयं परमार्थनात्मा । तस्य ममैवंविधपापकर्मणः कथं शुद्धिर्भविष्यतीति । विचक्षण- यो । ममापि कथं । यतः समाचरितं पापिष्ठया मयापौदं सर्व । किं वा निवेद्य ते दिव्यज्ञानस्य । प्राक्षमेवेदं समस्तं भगवतः । भगवानाह । भद्रौ न कर्तव्यो युवाभ्यां विषादः । न भद्रयो - षोऽयं । निर्मलं भवतोः स्वरूपं । तावाहतुः । कस्य पुनर्दोषोऽयं । भगवानाह । येयं युग्मच्छरौरान्निर्गत्य दूरे स्थिता नारौ तस्याः । तावाहतुः । भगवन् किनामिकेयं । भगवताभिहितं । भद्रौ भोगष्णेयमभिधीयते । विचक्षणकालज्ञाभ्यामभिहितं । भगवन् कथं पुनरियमेवं विधदोषहेतुः । भगवताभिहितं । भद्रौ श्रूयतां । रजनीव तमिस्रस्य भोगणेव सर्वदा । रागादिदोषवृन्दस्य सर्वस्यैषा प्रवर्तिका ॥ येषामेषा भवेद्देहे प्राणिनां पापचेष्टिता । तेषामकार्यषु मतिः प्रसभं संप्रवर्तते ।। ढणकाष्ठेर्यथा वर्जिलपूरैर्यथोदधिः । तथा न हृप्यत्येषापि भोगैरामेवितैरपि । यो मूढः शमयत्येनां किल शब्दादिभोगतः । जले निशीथिनीनाथं स हस्तेन जिक्षति ॥ मोहादेनां प्रियां कृत्वा भोगष्णां नराधमाः । संसारसागरे घोरे पर्यटन्ति निरन्तके ।। सदोषेयमिति ज्ञात्वा ये पुनः पुरुषोत्तमाः । खदेहगेहानिःसार्य चित्तद्वारं निरन्धते ॥
टतौयः प्रस्ताव
२४९
ते सर्वोपद्रवैर्मुकाः प्रलौनाशेषकल्मषाः ।
श्रात्मान निर्मलौकृत्य प्रयान्ति परमं पदम् ॥
येऽनया रहिताः सन्तस्ते वन्द्या भुवनत्रये ।
वशे गताः पुनर्ये स्याः साधुभिस्ते विगर्हिताः ।
अनुकूला भवन्त्यम्या ये मोहादधमा नराः ।
तेषामेषा प्रकृत्यैव दुःखमागरदायिका ॥
प्रतिकूला भवन्त्यस्या ये पुनः पुरुषोत्तमाः ।
तेषामेषा प्रकृत्यैव सुखसन्दोहकारिका !!
तावन्मोक्षं नरो वेष्टि समारं बहु मन्यते ।
पापिष्ठा भोगहष्णेयं यावञ्चित्ते विवर्तते ॥
यदा पुनर्विलौयेत कथंचित्पुण्यकर्मणाम् ।
एषो
भवस्तदा
सा
धूलिरूपः
प्रकाशते ॥
तावच्चा शुचिपुञ्जेषु योषिदङ्गेषु मूढधीः ।
कुन्देन्दीवरचन्द्रादिकल्पना प्रतिपद्यते ॥
यावदेषा शरीरस्था वर्तते भोगवष्णिका ।
तदभावे मनस्तेषु न खप्नेऽपि प्रवर्तते ॥
समाने पुरुषत्वे च परकिङ्करतां गताः ।
निन्द्य यत्कर्म कुर्वन्ति भोगनष्णात्र कारणम् ॥
येषां पुनरियं देहानिर्गता सुमहात्मनाम् ।
निर्धना अपि ते धौराः शक्रादेरपि नायकाः ॥
किंचित्तामसमभित्रै राजसैः परमाणुभिः ।
निर्वर्तितशरीरयं गौता तन्त्रान्तरेष्वपि ॥
32
२५० उपमितिभवप्रपञ्चा कथा । तदेषा भवतो: पाया पापकर्मप्रवर्तिका । अतोऽस्या एव दोषोऽयं विद्यते नैव भट्रयोः ॥ खरूपेण सदा भद्रौ निर्मलौ परमार्थतः । एषैव सर्वदोषाणां कारणात्वेन संस्थिता ॥ दह स्थातुमशतिष्ठा एषा दूरस्थिताधुना । भवन्तौ मत्समौपाच निर्गच्छन्ती प्रतीक्षते ॥ विचक्षणाकालज्ञाभ्यामभिहितं । कदा भगवन् पुनरस्थाः सकाशादावयोमेचिः । भगवानाह । भद्रौ नेह भवेऽद्यापि भव- झ्यामियं सर्वथा त्य शक्या । केवलमस्या निर्दलने महामुद्गरा- यमाणं प्रादुर्भूतं भवतोः सम्यग्दर्शनं । तदुद्दौपनौयं पुनः पुनः सुगुरुसनिकर्षण । नाचरणौयमस्या भोगष्णाया अनुकूलं । लक्षयितव्यो मनसि विवर्तमानो ऽस्था सम्बन्धी विकारः । निरा- करणीयोऽसौ प्रतिपक्षभावनया । ततः प्रतिक्षणं तनुतां गच्छन्ती न भविष्यतौयं शरीरेऽपि वर्तमाना भवतोर्वाधिका। भवान्तरे पुनरस्थाः सर्वथा त्यागसमर्थो भविष्यतो भवन्ताविति । तदाकी ततो महाप्रसाद इति वदन्तौ विचक्षणाकालज्ञौ पतितौ भगवच्च- रणयोः । ततोऽमुं व्यतिकरमालोक्य श्रुत्वा च भगवदचनं ऋजुप्र- गुणामुग्धाकुटिलानामपि प्रादुर्भूतः पश्चात्तापेन सह विश्रद्धाध्य- वसायः । ऋजुप्रगुणाभ्यां चिन्तितं। अहो अलोकसतवधद्विगुणता- यामोहेन निरर्थक विडम्बितं विहिता सुतवध्वोरुन्मार्गप्रवृत्तिरा- वाभ्यामिति । मुग्धेन चिन्तितं । अहो कृतं मया परस्त्रीगमनेन कुलस्य दूषणं । अकुटिलया चिन्तितं । बत मंजातं शौलखण्ड- टतीयः : प्रस्तावः। २५१ नमिति । ततश्चतुर्णामपि स्थितमेतच्चित्ते। यदुत निवेदयाम एवं स्थितमेवेदं भगवतां । एत एवास्य दुश्चरितम्य प्रतिविधानमुप- देच्यन्ति ॥ अत्रान्तरे चतुर्णामपि शरौरेभ्यो निर्गतैः परमाणुभि- घटितशरीरं शक्ल वर्णन परिगतं तेजसाह्लादकं लोचनानां प्रौणकं चेतसामुपलभ्यमानं मया रचितानि मया रचितानि यूयमिति ब्रुवाणमेकं डिम्मरूपं मह भगवन्मुखमौक्षमाणं स्थितं सर्वेषां पुरतः । तावत्तदनुमानणेव कृपण वर्णन बीभत्समाकारण उद्वेगहेतुः प्राणिनां तथैव निर्गतं द्वितीय डिम्मरूपं । तस्माच्च तदाकाररूपधरमेव निष्टतर प्रकृत्या मजातमन्यदपि हतीयं डिम्भरूपं । तच्च वर्धितुमारब्ध । ततः शुक्लडिम्भरूपेण मस्तके हस्त- तलाहारं दत्त्वा तदर्धमानं निवार्य प्रकृत्या धारितं । निर्गत च भगवदवग्रहाद् दे अपि ते कृष्णे डिम्भरूपे । ततो भगवताभि- हित । भो भद्राणि यद्भवद्भिश्चिन्तितं यथा कृतमस्माभिर्विपरी- ताचरणमिति न तत्र भवद्भिर्विषादो विधेयः । यतो न भवतामेष दोषः निर्मला नि यूयं स्वरूपेण । तैरभिहितं । भगवन् कस्य पुनरेष दोषः । भगवानाह। यदिद लानन्तरं भवच्छरौरेभ्यो निर्गतं कृष्णवर्ण डिम्भरूपमम्यायं दोषः । तान्याहुः । भगवन किनामकमिदं। भगवतोतं । अज्ञानमिदमुच्यते : तैरुक्तं । भगवन् यदिदमेतस्मादज्ञाना प्रादुर्भुतं द्वितीयं कृष्ण डिम्भरूपमनेन च शुक्लरूपेणास्फोय वर्धमानं धारितमेतत् किंनामकं । भगवा- नाह। पापमिदं। अस्य लडिम्भरूपस्य तर्हि किमभिधानं। भगवतोतं । प्रार्जवमिदमभिधीयते । ततस्तान्याहुः। तान्याजः ।
२५२
उपमितिभवप्रपश्चा कथा ।
भगवन् कीदृशमिदमज्ञानं कथं चेदं पापमेतस्माज्जातं किमिति
चानेनार्जवेनेदं विवर्धमानं निवारितमिति सर्व विस्तरतः श्रोतु-
मिच्छामः । भगवानाह । यद्येवं ततः समाकर्णयत यूयं ।
यत्तावदिदमज्ञानं युभद्देहादिनिर्गतम् ।
एतदेव समस्तस्य दोषवृन्दस्य कारणम् ॥
अनेन वर्तमानेन शरीरे जन्तवो यतः ।
कार्याकार्य न जानन्ति गम्यागम्यं च तत्त्वतः ॥
भक्ष्याभक्ष्यं न बुध्यन्ते पेयापेयं च सर्वथा ।
अन्धा दुव कुमार्गण प्रवर्तन्ते ततः परम् ॥
ततो निबध्य घोराणि कर्माण्यकृतशम्बलाः ।
भवमार्ग निरन्तेऽत्र पर्यटन्ति सुदुःखिताः ॥
अज्ञानमेव सर्वेषां रागादौनां प्रवर्तकम् ।
स्वकार्य भोगषणापि यतोऽज्ञानमपेक्षते ॥
अज्ञानविरहे नैव भोगहृष्णा प्रवर्तते ।
कथंचित्प्रवृत्तापि झटिव निवर्तते ॥
सर्वज्ञः सर्वदर्भो च निर्मलोऽय खरूपतः ।
अज्ञानमलिनो ह्यात्मा पाषाणान्न विशिष्यते ॥
याः काश्चिदेव मयेषु निर्वाणे च विभूतयः ।
अज्ञानेनैव ताः सर्वा हृताः सन्मार्गरोधिना ॥
प्रज्ञानं नरको घोरस्त मोरूपतया मतम् ।
अज्ञानमेव दारिद्र्यमज्ञानं परमो रिपुः ॥
अज्ञानं रोगमवातो जराप्यज्ञानमुच्यते ।
टतीयः प्रस्ताव ।
२५३
अज्ञानं विपदः सर्वा अज्ञानं मरणं मतम् ॥
अज्ञानविर हे नैष घोरसंसारसागरः ।
अत्रापि वमतां पुंसां बाधकः प्रतिभासते ।।
या: काश्चिदनवस्थाः स्युर्याश्चोन्मार्गप्रवृत्तयः ।
यच्चासमन किंचिदजानं तत्र कारणम् ॥
त एव हि प्रवर्तन्ते पापकर्मसु जन्तवः ।
प्रकाशाच्छादकं येषामेततमि वर्तते ।।
येषां पुनरिदं चित्ताद्धन्यानां विनिवर्तते ।
भाभूतान्तरात्मानम्ते मदाचारवर्तिनः ।
वन्द्यास्त्रिभुवनम्यापि भूत्वा भावितमानसाः ।
अशेषकल्मषोन्मुक्का गच्छन्ति परम पदम् ।'
एतच्चाज्ञानमत्रार्थ सर्वेषां भवतां समम् ।
संजातं तेन दोषोऽयमस्यैव न भवादृशाम् ॥
डिम्मरूपमनेनैव द्वितीयं पापनामकम् ।
सर्वच जन्यते तस्मादत्रापि जनितं किल ।
एतद्धि सर्वदुःखानां कारणं वर्णित बुधैः ।
उद्वेगसागरे घोरे हठा देतत्प्रवर्तकम् ॥
मुखं संक्लेशजालस्य पापमेतदुदाहतम् ।
न कर्तव्यमतः प्राज्ञैः सवं यत्पापकारणम् ।
हिंसानृतादयः पञ्च तत्त्वाश्रद्धानमेव च ।
क्रोधादयश्च चत्वार इति पापस्य हेतवः ॥
वर्जनौयाः प्रयत्नेन तस्मादेते मनौषिणा।
२५४
उपमितिभवप्रपञ्चा कथा ।
ततो न जायते पापं तस्मानो दुःखसम्भवः ।।
युनाक पुनरज्ञानाज्जातं पापमिदं यत' ।
अज्ञानमेव मर्वेषां हिंसादौनां प्रवर्तकम् ॥
वर्धमानमिदं पापमार्जवेन निवारितम् ।
यदत्र कारणं सम्यक् कथ्यमानं निबोधत ॥
प्रार्जवं हि स्वरूपेण शुद्धाशयकरं परम् ।
वर्धमानमतः पापं वारयत्येव देहिनाम् ॥
एतच्चार्जवमत्रार्थे सर्वेषां वर्तते समम् ।
अज्ञानजनितं पापं युभाकममुना जितम् ॥
रक्षितानि मया यूयमत एव मुहुर्मुडः ।
सहर्षमेतदाचष्टे डिम्मरूपं स्मिताननम् ॥
धन्यानामार्जवं येषामेतचेतसि वर्तते ।
अज्ञानादाचरन्तोऽपि पापं ते खल्यपापकाः ॥
यदा पुनर्विजानन्ति ते शुद्धं मार्गमनमा
तदा विधय कर्माणि चेष्टन्ते मोक्षवमनि ॥
आर्जवेन ततो धन्यास्ते भौभूतमानमाः ।
निर्मलाचारविस्ताराः पारं गच्छन्ति संस्तेः ॥
तदेवंविधभावानां भद्राणां बुध्यतेऽधुना ।
अज्ञानपापे निर्धय सम्यग्धर्मनिषेवनम् ॥
उपादेयो हि संसारे धर्म एव बुधैः सदा ।
विशुद्धो मुक्तये सर्वं यतोऽन्यदुःखकारणम् ॥
अनित्यः प्रियसंयोग दर्ताशोकवत्सखः ।।
रतीय. प्रस्ताव ।
२५५
अनित्यं यौवनं चापि कुत्मिताचरणास्पदम् ॥
अनित्याः सम्पदस्तौबक्लेशवर्गसमुद्भवाः ।
अनित्यं जीवितं चेह सर्वभावनिबन्धनम् ॥
पुनर्जन्म पुनर्मत्यु.नादिस्थानसंश्रयः ।
पुनः पुनश्च यदतः सुखमत्र न विद्यते ॥
प्रकृत्यसुन्दरं ह्येवं संसारे सर्वमेव यत् ।
अतोऽत्र वद किं युका क्वचिदास्था विवेकिनाम् ॥
मुक्ता धर्म जगद्दन्द्यमकलझं सनातनम् ।
परार्थसाधकं धोरः सेवितं शोलशालिभिः ॥
ततो भागवतं वाक्यं श्रुत्वेदममृतोपमम् ।
संसारवासात्तैः सर्वैः स्खं खं चित्त निवर्तितम् ॥
राजाह क्रियते सर्व यदादिष्टं महात्मना ।
प्रगुणाह महाराज किमद्यापि विलम्ब्यते ॥
चारु चारूदितं तात सम्यगम्ब प्रजल्पितम् ।
युक्रमेतदनुष्ठानं मुग्धेनैव प्रभाषितम् ॥
हर्षोत्फुनसरोजाचौ तथापि गुरुलजया ।
तदुक बड़ मन्वाना बधूर्मोनेन संस्थिता ॥
ततः पतितानि चत्वार्यपि भगवच्चरणयोः । ऋजुराजेनोक्तं ।
भगवन्संपादयामो यदादिष्टं भगवता । भगवानाह । उचितमिदं
भवादृशभव्यानां । ततः पृष्टो भगवाननेन प्रशस्तदिनं राज्ञा ।
भगवतोक्तं । अद्यैव शुध्यतीति । ततस्तत्रस्थेनैव नरेन्द्रेण दापितानि
महादानानि कारितानि देवपूजनानि स्थापितः भाचा-
२५६
उपमितिभवप्रपञ्चा कथा ।
राभिधानः स्वतनयो राज्ये जनितो नागरिकजनानां चित्तानन्द
इति ।
ततो निर्वर्त्य कर्तव्यं प्रव्रज्याकरणोचितम् ।
गुरुणर्पितसद्भावं दौक्षितं तच्चतुष्टयम् ॥
ततस्ते कृष्णरूपे वे डिम्भे वर्ण पलायिते ।
शक्त रूपं पुनस्तेषां प्रविष्टं तनुषु क्षणात् ॥
कालज्ञेन ततश्चित्ते सभार्येण विचिन्तितम् ।
पश्याहो धन्यतामौषां सुलब्ध जन्मजीवितम् ॥
एतैर्भागवती दौमा यैः प्राप्ता पुण्यकर्मभिः ।
दुरन्तोऽयधुना मन्ये तैस्तीर्णोऽयं भवार्णवः ।।
चारित्ररत्नादेतस्मात्संसारोत्तारकारणात् ।
वयं तु देवभावेन व्यर्थकेनात्र वञ्चिताः ॥
अथवा।
मिथ्यात्वोद्दलनं यस्मादस्माभिरपि साम्प्रतम् ।
दुर्लभं भवकोटौभिः प्राप्तं सम्यक्तमुत्तमम् ॥
अतोऽस्ति धन्यता काचिदस्माकमपि सर्वथा ।
नरो दारिद्र्यभाङ् नैव लभते रत्नपुञ्जकम् ॥
ततः महर्षी तो सूरेः प्रणम्य चरणदयम् ।
तेनानुशिष्टौ खस्थानं संप्राप्तौ देवदम्पती ।
प्रविष्टा भोगष्णापि शरीरे गच्छतोस्तयोः ।
शुद्धसम्यवमाहाव्यात् केवलं मा न बाधिका ॥
विचक्षणाह कालज्ञमन्यदा रहसि स्थिता ।
हतीयः प्रस्तावः।
आर्यपुत्र यदा दृष्टा त्वयाहं कृतवञ्चना ॥
तदा किं चिन्तितं मोऽपि स्वाभिप्रायं न्यवेदयत् ।
विचक्षणाह सत्यस्त्वं कालज इति गोयसे ।
तेनापि पृष्टा मोवाच पर्यालोचं तदातनम् ।
कालज्ञः प्राह सत्यैव त्वमप्यत्र विचक्षणा ||
यतः काल विलम्बन क्रियमाणेन वल्लभ ।
भोगा मुकाः स्थिता प्रौतिर्जातं नाकाण्डविवरम् ॥
प्राप्तो धर्मो नृपादौनामुपकारः कृतो महान् ।
ततः कालविलम्बऽयं फलितोऽत्यर्थमावयोः ॥
विचक्षणाह को वात्र सन्देहो नाथ वस्तुनि ।
किं वा न जायते चारु पर्यालोचितकारिणाम् ॥
ततः प्रौतिसमायुक्तौ संजातौ देवदम्पती ।
मद्धर्मलाभादात्मानं मन्यमानौ कृतार्थकम् ॥
इदं पुत्र मया तुभ्यं कथितं मिथुनदयम् ।
संदिग्धेऽर्थे विलम्बेन कालस्य गुणभाजनम् ॥
ततश्च ।
मंदिग्धेऽर्थ विधातव्या भवता कालयापना ।
पश्चाद्दडगुणं यच्च तदेवाङ्गौकरिष्यते ॥
मध्यमबुद्धिराह । यथाज्ञापयत्यम्बा ।
ततो मनीषिणो वाक्यं स्मरतो नास्य जायते ।
प्रौतिबन्धो दृढं तत्र स्पर्शने भाववैरिणि ॥
बालालापैः पुनस्तत्र स्नेहबुद्धिः प्रवर्तते ।
૨૫s
उपमितिभव प्रपञ्चा कथा।
दोलायमानचित्तोऽसौ कुरुते कालयापनाम् ॥
ततश्च तेन बालेन सा प्रोता जननौ निजा।
अम्ब संदर्भयात्मीयं योगशक्तिबलं मम ॥
तयोकं दर्शयाम्येषा पुत्र त्वं सम्मुखो भव ।
ततः मा ध्यानमापूर्य प्रविष्टा तच्छरीरके
अथाकुशलमालायाः प्रवेशानन्तरं पुनः ।
स बालः स्पर्शनेनापि गाढं हर्षादधिष्ठितः ॥
ततः शरीरे तौ तस्य. वर्तमानौ क्षणे क्षणे ।
अभिलाषं मृदुस्पर्श कुरुतस्तोत्रवेदनम् ।
परित्यक्तान्यकर्तव्यस्तावन्मात्रपरायणः ।
स बालः सुरतादौनि दिवा रात्रौ च सेवते ॥
कुविन्दडोम्बमातङ्गजातीयाखपि तदशः ।
अतिलौल्येन मूढात्मा ललनासु प्रवर्तते ॥
ततोऽकर्तव्यनिरत सत्कर्तव्यपराङ्मुखम् ।
तं बालं सकलो लोकः पापिष्ठ इति निन्दति ॥
अज्ञोऽयं गतलज्जोऽयं निर्भाग्यः कुलदूषणः ।
एवं स निन्द्यमानोऽपि मन्यते निजचेतसि ॥
स्पर्शनाम्बाप्रसादेन ममास्ति सुखसागरः ।
लोको यद्दति तद्दनु किमेतज्जल्पचिन्तथा ॥
प्रथाकुशलमालापि निर्गत्य परिपृच्छति ।
कीदृशी मामको जात योगशक्तिर्विभाति ते ॥
स प्राहानुग्रहीतोऽस्मि निर्विकल्पमथाम्बया ।
रतोय. प्रस्तावः ।
२५
सुखसागरमध्येऽत्र ययाई संप्रवेशितः ॥
अन्यच्चाम्ब त्वया नित्य मदनुग्रहकाम्यया ।
न मोक्तव्य शरीरं मे यावज्जीवं स्वतेजमा ||
अथाकुशलमालाह यत्तुभ्यं वत्स रोचते ।
तदेव सततं कार्य मया मुक्कान्यचेष्टया ॥
स्वाधीनां तां निरीक्ष्यैवं बालेन परिचिन्तितम् ।
स्पर्शनोऽपि ममायत्तः मामग्री कार्यसाधिका ॥
अहो मे धन्यता लोके नात्यतो बत मादृशः ।
ततोऽमौ गाढष्टात्मा खानुरूपं विचेष्टते ॥
अथ निन्दापरे लोके स्नेहविकलमानमः ।
लोकापवादभौरुत्वान्मध्यबुद्धिः प्रभाषते ॥
बाल नो यज्यते कतुं तव लोकविरुद्धकम् ।
अगम्यागमनं निन्द्य सपापं कुलदूषणम् ॥
म प्राह विप्रलब्धोऽमि नूनं मित्र मनौषिणा ।
खर्ग विवर्तमानं मां नेक्षसे कथमन्यथा ॥
ये मृढा जातिदोषेण कोमलं ललानादिकम ।
नेच्छन्ति ते महारत्नं मुञ्चन्ति स्थानदोषतः ।
तदाकर्ण्य ततश्चित्ते कृतं मध्यमबुद्धिना ।
नेष प्रज्ञापनायोग्यो व्यर्थो मे वाक्परिश्रमः ॥
एवं च तिष्ठतां तेषां बालमध्यमनौषिणाम् ।
अथान्यदा समायातो वमन्तः कृतमन्मथः ।
मंजाताः काननाभोगा: सुमनोभरपूरिताः ।
Kumi
उपमितिभवप्रपञ्चा कथा ।
भ्रमअमरझङ्कारहारिगीतमनोहराः ॥
कामिनौवदयानन्ददायकं प्रियसन्निधौ ।
विजृम्भते वनान्तेषु कलकोकिलकूजितम् ॥
प्रोत्फुल्ल किंशुकाग्रेषु पुष्यभारोऽतिरक्तकः ।
वियोगदलितस्त्रीणां पिशितप्रकरायते ॥
मञ्जयः सहकाराणामामोदितदिगन्तराः ।
हृष्टा वसन्तराज्येन धूलिक्रीडां प्रकुर्वते ॥
देवकिन्नरसम्बन्धिमिथुनैः कथिता वने ।
भ्रमेण नाकान्मर्त्यस्य तदानौं रमणीयता ॥
चर्चों निर्भरीभूता बडा दोला ग्टहे ग्टहे ।
मदनोद्दीपनो मन्दः प्रवृत्तो मचयानिलः ॥
अथेदृशे वसन्तेऽसौ सह मध्यमबुद्धिना ।
क्रीडार्थ निर्गतो बाल: कामकालप्रमोदितः ॥
जनन्या देहवर्तिन्या संयुक्तः स्पर्शनेन च ।
गतो लीलाधरं नाम मोद्यानं नन्दनोपमम् ॥
तस्यास्ति मध्यभूभागे भ्रश्टङ्गो महालयः ।
जनतानयनानन्दः प्रासादस्तुगतोरणः ॥
कामिनोहदयालादकारको रतिवत्सलः ।
जनैः प्रतिष्ठितस्तत्र देवो मकरकेतनः ॥
दुतश्च तस्य देवस्य पूजामत्कारकारणम् ।
तिथिक्रमेण संजाता दिने तत्र त्रयोदशौ ॥
कन्यका वरलाभाय वध्वः सौभाग्यवृद्धये ।
टतो यः प्रस्ताव
२६१
दुर्भगास्तु पतिप्रेममोहेन इतमानमाः ॥
मोहान्याः कामिनोऽभीष्टयोषित्सम्बन्ध सिद्धये ।
ग्टहीतार्च निकाः कामपूजनार्थ समागताः ॥
ततो बालो महारोखं तत्राकार्य सविस्मयः ।
प्रविष्टः काममदन सह मध्यमबुद्धिना ॥
दृष्टस्तत्र रते थः प्रणतो भक्तिपूर्वकम् ।
पूजितश्च प्रयत्नेन संस्तुतो गुणकीर्तनः ॥
अथ प्रदक्षिणा तम्ब ददानो देवसद्मनः ।
बालो ददर्श पार्श्वस्थ गुप्तस्थाने व्यवस्थितम् ॥
तस्यैव रतिनाथस्य देवस्य इतकौतुकम् ।
संवासभवनं रम्यं मन्दमन्दप्रकाशकम् ।
कुतुहलवशेनाथ दारि संस्थाप्य मध्यमम् ।
मध्ये प्रविष्टः सहसा स बालस्तस्य सद्मनः ॥
अथ तत्र सुविस्तीर्ण सपर्यङ्कां मढलिकाम् ।
मृदूपधानसंपन्नां कोमलामलचेलिकाम् ॥
सुप्तेन रतियुक्तन क्रान्तमध्यां मनोभुवा ।
स ददर्भ महाशयां देवानामपि दुर्लभाम् ॥
ततो मन्दप्रकाशत्वात् संवामभवनस्य सः ।
किमेतदिति संचिन्त्य शय्यां पस्पर्श बालकः ॥
दूतश्चेतच हस्तेन स्पशता सुचिरं मुदा ।
ततो विभाविता नेन प्राध्यैषा माकरध्वजी ।
विचिन्तितं च तत्स्पर्शकौमन्यहतचेतसा ।
२६२
उपमितिभवप्रपश्चा कथा।
अहो कोमलता मन्ये नान्यत्र भवतीदृशौ ।।
ततः शरीरवर्तिन्या जनन्या स्पर्शनेन च ।
प्रेर्यमाण: खकौयेन चापलेन च दूषितः ॥
स बालश्चिन्तयत्येवं मानयामि यथेच्छया ।
एना कोमलिकां मां सुबाहं क्षणमात्रकम् ॥
देवः सुप्तोऽत्र मदनो रतियुक्तो न चिन्तितम् ।
अपायो देवशय्यायां सुप्तस्येति न भावितम् ॥
दृष्टस्य लाघवं लोकैरिति नैव मनस्कृतम् ।
विज्ञातं नेति संपत्स्य हास्यो मध्यमबुद्धितः ।।
अनालोच्यायतिं मोहात् केवलं सुप्त एव सः ।
पारुह्य शय्यां तां दिव्यां कृतं बालविचेष्टितम् ।
ततस्तस्यां विशालायां शय्यायां बद्धमानरुः ।
दूतश्चेतश्च कुर्वाण: सर्वाङ्गाणि पुनः पुनः ।।
अहो सुखमहो स्पस्तथाहो धन्यता मम ।
चिन्तयनिति भय्यायां लुटमानः म तिष्ठति ।।
इतश्च नगरे तत्र बहिरङ्गो नृपोत्तमः ।
अन्योऽप्यस्ति महातेजाः प्रख्यात शत्रुमर्दनः ।
तस्यास्ति पद्मपत्राची प्राणेभ्योऽपि सुवल्लभा ।
प्रधानकुलसंभूता देवी मदनकन्दली ॥
ग्राहितार्चनिका सा च परिवारेण संयुता ।
श्रायाता तत्र मदने कामदेवस्य पूजिका ।।
देवकोष्ठस्थितं मा च संपूज्य मकरध्वजम् ।
टतोयप्रस्ताव
संवासभवनस्थस्य प्रविष्टा तस्य पूजिका ॥
प्रविशन्तीमुदीक्ष्यासौ तां स्वौति कृतनिश्चयः ।
लज्जाभयाभ्यां निश्चेष्टो बालः काष्ठमिव स्थितः ॥
ततो मन्दप्रकाश सा भवने मृगलोचना ।
हस्तस्पर्शन शय्यायां देवमर्चयते किन ॥
चन्दनेन च कुर्वत्या रतिकामविलेपनम् ।
स वालः सर्वगात्रेषु स्पष्टः कोमलपाणिना ॥
ततोऽकुशलमालाया वशेन स्पर्शनस्य च ।
म बालश्चिन्तयत्येवं विपर्यामितमानमः ।।
यादृशोऽयं मृदुस्पो हस्तस्यास्यानुभूयते ।
नानुभूतो मया तादृग् जन्मन्यपि कदाचन ॥
अहो मयान्यपणेषु सौन्दर्य कल्पितं वृथा ।
नातः परतरं मन्ये त्रिलोकेऽप्यस्ति कोमलम् ॥
इतश्च कामदेवस्य परिचयाँ विधाय मा ।
स्वस्थानं प्रगता काले राज्ञो मदनकन्दली ॥
ततोऽसौ बालः कथं ममेयं स्त्री संपत्स्यत इति चिन्तया
विहलीभूतदयोऽनाख्येयमन्तस्तापातिरेकं वेदयमानो विस्मृतात्मा
तस्यामेव शय्यायां मुञ्चनुष्णोष्णान्दौर्घदौर्घानिःश्वासान् मूर्छित
इव मूक दुव मत्त व भौत इव इतसर्वस्व दूव तप्तशिलार्या
निचिप्तमत्स्यक दव दूतश्चेतश्च परिवर्तमानो विचेष्टते । ततो
द्वारे वर्तमानेन मध्यमबुद्धिना चिन्तितं । श्रये किमित्येष
बालोऽस्मात् संवासभवनादियतापि कालेन न निर्गच्छतौति किं
२६४ उपमितिभवप्रपञ्चा कथा । तौति । वा करोतीति प्रविश्य तावनिरूपयामि । ततः प्रविष्टो मध्यम- बुद्धिः। लक्षिता हस्तस्पर्धन कामशय्या । इतमस्थापि हृदयं तत्कोमलतया । ततो विमचौभूतदृष्टिना तेन दृष्टः शय्यैकदेशे विचेष्टमानस्तदवस्थो बालः । चिन्तितमनेन । अहो किमनेनाका- र्यमाचरितं । न युक्तं देवशय्यायामधिरोहणं । न खलु रतिरूप- विभ्रमापि गुर्वङ्गना सतां गम्या भवति । तथेयं शय्या सुखदापि देवप्रतिमाधिष्ठितेति कृत्वा केववं वन्दनौया न पुनरुपभोगमई- ततश्चोत्थापितोऽनेन बालो यावत्र किंचिजल्पति मध्यमबुद्धिराह । अहो अकार्यमिदं । न युक्तं देवशय्यायामधि- रोहणमित्यादि। तथापि न दत्तमुत्तरं बालेन । अत्रान्तरे प्रविष्टस्तद्देवकुलाधिष्ठायको व्यन्तरः । बद्धस्तेनाकाशबन्धैः बालः । पातितो भूतले । समुत्पादितास्य सर्वाङ्गौणा तीव्रवेदना । ततो मुमूर्षन्तमुपलभ्य कृतो मध्यमबुद्धिना हाहारवः । ततः किमेत- दिति सम्भ्रमेण चलितो देवकुलात्तदभिमुखं लोकः । निःसा- रितो व्यन्तरेण वासभवनाद् बहिर्बालो महास्फोटेन चिप्तो भूतले । भगनयनः कण्ठगतप्राणोऽसौ दृष्टो लोकेन । तदनुमार्गण दौनमनस्को निर्गतो मध्यमबुद्धिः । किमेतदिति पृष्टोऽसौ जनेन । लज्जया न किंचिज्जल्पितमनेन । ततोऽवतीर्य कंचित्यु- रुषं व्यन्तरेण कथितो जनेभ्यस्तदीयव्यतिकरः । ततो देवापथ्यका- रौति पापिष्ठोऽयमिति धिक्कारितोऽसौ बालो मकरध्वजभक्त कुलदूषणोऽयमस्माकं विषतरुरिव संपन्न इति गर्हितः स्वजातीयः अनुभवत् पापकर्मणः फलमिदानौमित्याक्रोशितः सामान्यलोकैः टजीथः प्रस्ताव । कियदेतदसमौक्षितकारिणां समस्तानर्थभाजनत्वात् तेषामित्यप- कर्णितो विवेकिलोकैः । ततोऽसौ व्यन्तरः कृतविकृतरूपः मन्नाह । पूर्णनीयोऽयं दुरात्मा भवतां पुरतो मयाधुना बाल इति । ततः कृतहाहारवः प्रसौदत प्रसौदत भट्टारको ददातु भानप्राणभि- क्षामिति ब्रुवाण: : पतितो व्यन्तराधिष्ठितपुरुषपादयोर्मध्यमबुद्धिः । ततस्तत्करुणापरौतचेतसा लोकेनाप्यभिहितो व्यन्तरः। यदुत भट्टारक मुच्यतामेकवारं तावदेष न पुनः करिष्यतीति । ततो मध्यमबुद्धिकरुणया लोकोपरोधेन च मुक्तोऽसौ व्यन्तरेण बालः । स्वचा चेतना । मुत्कनीभूतं शरीरं । निःमारितस्तुणं देवकुल:- न्मध्यमबुद्धिना नौतः कृच्छ्रेण स्वभवनं । ज्ञातोऽयं व्यतिकरः परिकरात्कर्मविलासेन । चिन्तितमनेन । कियदेतदद्यापि मयि प्रतिकूले बालस्य । यद्भविष्यति तन्त्र लक्ष्यन्ते लोकाः । ततो ऽभिहितः कर्मविलासेन परिकरः । किमस्माकं दुर्विनौतचिन्तया। नोचितः सोऽनुशास्तेः । न वोढव्यस्तदीयः केनापि व्यापारः । परिकरेणोकं । यदाज्ञापयति देव इति ॥ पृष्टोऽसौ मध्यममुद्धिना बालः । भ्रातर्न किंचित्तेऽधुना शरीरके बाधते । बालेनाभिहितं । न शरीरके केवलं प्रवर्धते ममान्तस्तापः । मध्यमबुद्धिराह। जानामि किंनिमित्तोऽयं । ततो वामशीलतया कामस्य बालः प्राह । न जानामि केवलं द्वारस्येन भवता तत्र संवासभवने प्रविशन्तौ गच्छन्तौ वा कि विलोकिता काचिनारी न वा। मध्यमबुद्धिराह । विलोकिता। बालेनोक्त । तत्किं लक्षिता कामाविति भवता । मछमबुद्धिराह ।
उपमितिभवप्रपञ्चा कथा । सुष्टु लक्षिता । सा हि शत्रुमर्दनस्य राज्ञो भार्या मदनकन्दलौ- त्युच्यते । तदाकर्ण्य कथं सा मादृशामिति चिन्तया दौर्घदौर्घ- तरं निःश्वसितं बालेन । तदर्थों खल्वयमिति लक्षितो मध्यमबु- विना । चिन्तितमनेन । तत्रापि स्थाने तावदस्यायमभिनिवेश: । जनयत्येवं मा मदनकन्दलौ सुन्दरतरातिशयेन खगोचरमभि- लाषं । यतो द्वारशाखालग्नेन मयाप्यतिसङ्कटतया कामसंवासभव- नद्दारस्य निर्गच्छन्न्यास्तस्या मदनकन्दन्याः संवेदितोऽङ्गस्य स्पर्शः । न तादृशः प्रायेणान्यवस्तुनः स्पर्को भुवने विद्यते । दोलाथिनं ममापि तदभिसरणगोचरं मनस्तदानौमासीत् । किं तु न युक्त कुलजानां परस्त्रीगमनं । तस्मानिवारयाम्येनमपि यदि निवर्तते मदचनेन । ततः स बालं प्रत्याह । केयमविद्या भवतः । किं न दृष्टमिदानौमेव फल्लमविनयस्य भवता। किमधुनैव विस्मृतं यत्कण्ठ- गतप्राणः कथंचिन्मोचितस्त्वं मया दुर्विनयकुपिताभगवतो मकर- ध्वजात् । ततो निवर्तखास्माद्दुरध्वमायात् । नयनविषनागशिरो- रत्नसूचिकल्पा हि मा मदनकन्दली। तां प्रार्थयतस्ते केवलं भस्मी भाव एव न पुनः काचिदर्थसिद्धिः। बालेन चिन्तितं। श्रये लक्षितोऽहमनेन । तत्किमधुनाभिप्रायगोपनेन। ततस्तेनोक्तं । यद्येवं ततः किं ब्रूषे मोचितस्त्वं मया न पुनर्वृषे यथा गाढतरं मारित इति। यतस्तेन कामेन युभदचनेन मां मुञ्चता केवलं मे शरौरवेद- नामात्रमपसारितं हृदये पुनर्निक्षिप्तो वितर्कपरम्परारूपः प्रज्वलित- खादिरागारराशिस्तन दंदह्यते मे समन्ताच्छरौरं। यद्यहं काम- बन्धनकाल एवामरिय्यं नैतावन्तमन्तम्तापमन्वभविश्यं । ततो भवता रतीयः प्रस्तावः। । मोचयता प्रत्युत महानयमनर्थः संपादित इति । नाधुना ममैनाममृतसेकायमानां मदनकन्दलौं विरहय्यान्यथास्यान्तस्ता- पस्योपशमः । किं बहुनात्र जल्पितेनेति । ततो लक्षितो मध्यमबुद्धिनास्यानिवर्तको निर्बन्धः । स्थितोऽसौ वृष्णोभावेन ॥ अत्रान्तरे गतोऽस्तं सविता। बालहृदयादिव समुलसितं तमः- पटसं । लडिन्तः प्रथमः प्रदोषः । निःसञ्चारीभूतो खोकः। ततो ऽविचार्य कार्याकार्य समुत्थितो बालः । निर्गतः खकीयभवनात् । अवतीर्ण राजमार्ग। प्रवृत्तः शत्रुमर्दनराजकुलाभिमुखं गन्तुं । गतः कियन्तमपि भूभागं । दूतय सेहवशेन किमस्य संपत्स्यत इति चिन्तया निर्गतस्तदनुमार्गेण मध्यमबुद्धिः । दृष्टो बालेन गच्छता कश्चित्पुरुषः । तेन चास्फोश्च बद्धोऽसौ मयूरबन्धेन । कूजितं बालेन । प्राप्तः प्राप्त इति ब्रुवाणः प्राप्त एव मध्यमबुद्धिः । ततः समुत्याव्य बालं पश्यत एव मध्यमबुद्धेः समुत्पतितः पुरुषोऽम्बर- तखं । पारटतच बालस्य स्थगितं वदनं । प्रवृत्तः पश्चिमाभिमुखो गन्तुं । ततो मध्यमबुद्धिरपि अरे रे दुष्टविद्याधर व यासि सहीत्वा मदीयभ्रातरमिति बाडौं मुञ्चन्नाकष्टखगः प्रस्थितो भूमौ तदनुमार्गेण। निर्गतो नगरात् । प्रदर्शनीभूतः पुरुषः । निरागी- भूतो मध्यमबुद्धिः । तथापि बालस्नेहानुबन्धेन किस्त क्वचिन्मोक्ष्य- तौति बुद्ध्या नासो धावनुपरमति । धावत एव सबिता रजनी । ततोऽनुपानकतया विद्धोऽनेककण्टककोलकैः परिगतः श्रमेण क्षामो बुभुक्षया पौडितः पिपासया विहल: शोकेन अध्यामितो देन्येन अनेकग्रामनगरेषु प्रचन बास्तवाती भान्तोऽमौ ममालो.
२८० उपमितिभवप्रपश्चा कथा । । राचाणि । प्राप्तः कुशस्थसं नाम नगरं । स्थितस्तस्य बहिर्भागे । दृष्टोऽनेन जीर्णो ऽन्धकूपः । ततः किं ममाधुना भावविकलेन जौवितेनेति प्रक्षिपाम्यत्रात्मानमिति संचिन्य बद्धा मध्यमबुद्धिना निलिगमनार्थमात्मगलके शिला। दृष्टं तनन्दननामा राजपुरुषेण। ततो मा साहसं मा साहसमिति ब्रुवाण: प्राप्तोऽसौ तत्समीपं । धारितः कूपतटोपान्तवर्ती मुञ्चन्नात्मानं मध्यमबुद्धिरनेन । विमोचितः शिला । निवेशितो भूतले पृष्टश्च । भद्र किमितौ- दमधमपुरुषोचितं भवता व्यवसितं । ततः कथितोऽनेन बालवि- योगव्यतिकरः । नन्दनेनाभिहितं । भद्र यद्येवं ततो मा विषादं कार्षीः। भविष्यति मात्रा साधैं प्रायेण मौलकः । मध्यम- बुद्धिराह । कथं । नन्दनेनोक्तं । समाकर्णय । अस्यत्र नगरेऽस्माकं खामी हरिश्चन्द्रो नाम राजा । स च प्रतिक्षणमुपद्यते विजय- माठरशङ्खादिभिः प्रात्यन्तिकैर्मण्डतहरैनैपतिभिः । इतश्चास्ति रतिकेलि म विद्याधरः परममित्रं । अन्यदा समागतेन श शत्रपठ्ठ- तमवलोक्य देवं तेनाभिहितः । ददामि तुभ्यमई क्रूरविद्या यत्प्रभावेन न त्वमेतैः परिभूयसे । देवेनाभिहितं । अनुग्रहो मे । ततः कारयित्वा षण्मासिकां पूर्व सेवामितो दिनादष्टमे दिने नौतः कचित्तेन देवो हरिश्चन्द्रः। कारितो विद्यासाधनं । श्रानौती द्वितीयदिने मह पुरुषेण । तस्य पुरुषस्य मांसरुधिरेण होमक्रियया सप्त दिनानि विद्यायाः पश्चात्मेवा । मुक्तोऽसावधुना पुरुषः । स एव प्रायस्ते भ्राता भविष्यतीति मे वितर्कः । स च ममैव समर्पितो ऽधुना देवेन । मध्यमबुद्धिराह । Marathi Meenwin a- रतीयः प्रस्तावः। २६९ भद्र यद्येवं ततो यद्यस्ति ममोपरि दया भवतस्ततस्तमानय तावदिहेव पुरुषं येनाहं प्रत्यभिज्ञानामौति । ततश्चैवं करोमौत्य- भिधाष गतो नन्दनः । समायातः समुत्पाच्य ग्रहौवा बाखं । दृष्टोऽस्थिमात्रावशेष उच्छासनिःश्वासोपलक्ष्यमाणजीवितो निरुद्ध- वाक्प्रसरो मध्यमबुद्धिना बास्तः । प्रत्यभिज्ञातः कृच्छ्रेण । अभिहितो नन्दनः । भद्र स एवायं मम भातेति । सत्यं नन्दनस्वमसि । अनुग्टहीतोऽहं भवता । नन्दनः प्राह । भद्र राजद्रौद्यमिदं भवत्करुणया मयाध्यवमितं । अन्यच्च । अधुनागतेन मयाकर्षितं । यथा किल राचौ राजा पुनस्तर्पयिष्यति रुधिरेण विद्या भविष्यत्यनेन पुरुषेण प्रयोजनमिति । तदिदमवगम्य मम यद्भवति तद्भवत । भवयां तु वर्णमपक्रमितव्यं । ततो यदाज्ञापयति भद्रो रक्षणीयश्च यत्नतो भद्रेणात्मेत्यभिधाय समुत्याटितो बालः। प्रवृत्तो गन्तुं मथमबुद्धिः। ततो भयविधुर- पदयो धावनहर्निशं वेगेन क्वचित्प्रद बालं पाययबुदकं समासादयन्वायुना प्रौषयमशनादिरसेनागणयनात्मनः शरीरपौडा महता क्लेशजालेन प्राप्तः स्वस्थानं मध्यमबुद्धिः । गतानि कतिचिद्दिनानि । जातो मनाक सवलो बासः । पृष्टो मध्यमबुद्धिमा । भ्रातः किं भवतानुभुतं । अस्ति तावदुत्क्षिप्तोऽहं बद्ध्वा भवतः पश्यत एव गगनचारिणा नौतः कृतान्तपुराकारमतिभौषणतयेकं स्मशानं । प्रज्वलिताङ्गारभूताग्निकुण्डपार्श्ववर्ती मया पुरुषः । ततस्तं प्रति तेनाम्बरचरेणाभिहितं । महाराज सिद्धं ते ऽधुमा समौहितं । म प्राह।
२०० उपमितिभवप्रपञ्चा कथा। लब्धोऽयं मया प्रस्तुतविद्यामिद्धे चितः सलक्षणः पुरुषः। इतरेणोतं । महाप्रसादः । ततोऽभिहितो नभश्चरेण स पुरुषः । यथैकैकस्मिन् विद्याजापपर्यन्ते मया दत्तातिरमौ भवता प्रक्षेतव्या । प्रति- पत्रमनेन । प्रारब्धो जापः । ततो विद्याधरेणावष्टा यमजि- केवातितीक्ष्णा भाखराकारा शास्त्रिका । भास्वराकारा शास्त्रिका । तया चोत्कर्तिता मदीयपृष्ठात्तेन दीर्घा मांसपेशौ । निष्यौद्य तत एव प्रदेशात् निर्गालितं रुधिरं मृतचुस्तकः । अचान्तरे समाप्तमितरस्यैक विद्यापरावर्तनं । समर्पिता विद्याधरेण रुधिरमांसमयी तस्याडतिः । प्रतिक्षिप्ता तेन मानिकुण्डे । पुनः प्रारब्धो जापः । ततश्चैवं मोऽम्बरचरो मदीयं शरीरं परापरप्रदेशा- बरकपास इव नारकस्यारटतो मे मांसपेशौमुत्कर्तयति तं प्रदेश निष्पौध रुधिरं निर्णालयति तस्य च चुलुकं भृत्वा माधकायाहुतये ददाति । स च विद्यापरावर्तनपरिसमाप्तौ ग्रहीत्वा तामने प्रक्षिपति । ततो वेदनाविहलो मूईया पतितोऽहं भूतले। विद्याधरस्तु प्रगुणशरोरतया इष्ट दूव निष्करणो गाढतरं मां विकर्तयति । अत्रान्तरेऽट्टहामैर्हसितमिव प्रलयमेधैर्गुस्लुगुलितमिव समुद्रण प्रचलितेव पृथिवी रसितं दीप्तिजिहाभिः शिवाभिः प्रनृत्तं च विकृतरूपैर्वतालैः निपतितं रधिरवर्ष । ततश्चैवं विधेषु रौद्रेषु विभीषिकाविशेषेषु मत्स्वप्यचु- भितचित्तस्य तस्य राज्ञोऽभिमुखौभूता मा क्रूरविद्या । समान्तं जाप्रसाटमतं । ततः सिद्धाहं भवत इति वदन्ती प्रकटौभूता विद्या प्रणता साधकेन प्रविष्टा तच्छरौरे। ततः समुत्कर्तितचरौर रतोयः प्रस्तावः। २७१ निष्पौडितरुधिरबीभत्सं करूणमारटन्तं मामुपलभ्य स राजा मयि जातः सदयः । कृतोऽनेन दन्तमोत्कारः । ततो वारितोऽसौ विद्याधरेण । अभिहितं च तेन । राजनेष एवास्था विद्यायाः कल्पो यदुत न कर्तव्यास्योपरि दया । ततो विद्याधरेण लिप्तं मे केनचिल्ले पेन शरीरं। ततोऽहं समन्ताद्दन्दमान दूर तौबवहिना चूीमान व वज्रेण पौद्यमान इव यन्त्रण प्रविष्टो वेदनाप्रकर्षे । तथापि सुबद्धं न गतमेतन्मे हतजीवितं । संजातं क्षणेन मे तेनैव ले पेन दवदग्धस्थाणुकल्पं शरीरं । समुत्पाटित- स्ताभ्यां नौतस्तत्र नगरे। खादितश्च श्वयथुनिमित्तमज्ञभोजनं । शूनं मे शरीरं । ततो भूयस्तेनैव विधिना मदीयमांसाधिरा- इतिभिस्तेन राज्ञा दत्तमष्टशतमष्टशतं विद्याया जापस्य सप्त दिनानौति । दृष्टश्च तदवस्थोऽहं भवता । तदिदं भ्रातर्मया- नुभूतं । स्थितं च मम हृदये । यदुत न प्रायेण नरकेऽप्येवंविधो दुःखविन्यासो यादृशो मयानुभूत इति । मध्यमबुद्धिराह । हा धात चितवमेवंविधदुःखानां अहो नि पता विद्याधरस्य अहो रौद्रता विद्यायाः ॥ अत्रान्तरे लोकाचारमनुवर्तमानो वातन्वेषणार्थमागतो मनीषौ। श्रुतस्तेन दारि स्थितेन तथा परिदेवमानो मध्यमबुद्धिः। प्रविष्टो ऽभ्यन्तरे। कृतेतराभ्यामासनदानादिका प्रतिपत्तिः । विहितं संभाषणं । ततो मनीषिणाभिहितं । मध्यमबुद्धे किमिति वं परिदेवसे । मध्यमबुद्धिराह । भातर- लौकिकमिदं परिदेवन कारणं । मनीषिणोक्त । कथं । ततः उपमितिभवप्रपञ्चा कथा। सम्बन्धः । कथितो मध्यमबुद्धिना समस्तोऽप्युद्यानगमनादिविद्याधरविर्तन- पर्यन्तो बालव्यतिकरः । ततः पूर्वमेव ज्ञातनिःशेषव्यतिकरेणापि मुग्धेनेव विस्मितेक्षणेन समस्तमाकी मनौषिणाभिहितं । किमोदृक् संपन्न बालस्य । हा न युक्तमिदं। यदि वा कथितं मया प्रागवास्थ यथा न सुन्दरोऽनेन स्पर्शनेन पापभित्रण माधं तजनितेयमस्यानर्थपरम्परा । तथाहि । इतरमावनार्यकार्यसङ्कल्पस्थ । अनार्यकार्यसङ्कल्पे च प्रवर्तमानाः प्राणिनः मंक्लिष्टतया चित्तस्य प्रबलतया पापोदय- स्थाप्राप्ताभिप्रेतार्था एव बडिग्रहणप्रवृत्ता इव मत्स्यका निपत- ग्यापनहने लभन्ते मरणं । न खल्चनुपायतोऽर्थसिद्धिः। अनुपाय- श्वानार्यकार्यसङ्कास्यः सुखलामानां । स हि क्रियमाणो धैर्य ध्वंसयति विवेकं नाशयति चित्तं मलिनयति चिरन्तनपापा- न्युदौरयति ततः प्राणिनं समस्तानर्थमार्थ योजयति । तत् कुतोऽनार्यकार्यसङ्कल्पात् सुख लाभगन्धोऽपौति । तस्मादिदं सर्व खदुश्चरितविलसितं बालस्य योऽयं मवचनं न विधत्ते । किमत्र भवतः परिदेवितेनेति ॥ बालः प्राह । मनौषिन्न- लमनेनासम्बद्धप्रलापेन । न खलु सत्पुरुषाणं महार्थमाधनप्रवृत्ता- मामपान्तराले व्यसनं मनो दुःखयति । यदद्यापि तां कमल- कोमलचलिततर्नु मदनकन्दलौं प्राप्नोमि ततः कियदेतदुःखं । तदाकर्ण्य कालदष्टवदसाध्योऽयं सदुपदेशमन्त्रतन्त्राणामित्याक- सय्य मनीषिणा ग्रहोतो दक्षिणाग्रभुजे मध्यमबुद्धिः उत्थाप्य स्थानात् प्रवेशितः कक्षान्तरे। अभिहितश्चासौ। - ततः हतीयः प्रस्ताव २७३ भ्रातर्योष बालः सत्यं बाल व मात्महितं जानौते तत्किं भवतास्य पृष्ठतो विलनेन विनष्टव्यं । मध्यमबुद्धिराह । बोधितो ऽहमिदानौं भवता । योऽयं भवदुपदेशमपि लङ्घ यति तेनालं मम बालेनेति । अन्यच्च । अतिलज्जनौयो ऽयं व्यतिकरः । तत्किमेष न ज्ञातस्तातेन । मनौषिणाभिहितं । न केवलेन किं तर्हि समस्तनगरोपेतेन । भद्र केन हि प्रभातं पटकेना- छाद्यते । मध्यमबुद्धिराह । कथं ज्ञातः । मनीषिणाभिहितं । कामदेवभवनवृत्तान्तस्तावडिलोकप्रतीत एव किं तस्य ज्ञास्यते । विद्याधरहरणवृत्तान्तस्तु ये प्राप्तः प्राप्त इति त्वदीयहाहारवान प्रबुद्धवास्तदा लोकास्तैर्विज्ञाय नगरे प्रचारितः । मध्यमबुद्धिना चिन्तितं । ये किलाहं मातुः पुचोऽमुं व्यतिकरं गोपयामि । यावता गाढतरं प्रकाशः संपनः । सुप्रच्छन्नमपि विहितं प्रयोजन एव लोके विशेषतः पापं । तस्मादुर्बुद्धिरेषा प्राणिनां यया खाचरितं पापं प्रच्छादयन्ति । दयं हि केवलमधिकतरं मोहविलसितं सूचयतीति । एवं विचिन्य ततस्तेनाभिहितं । मनौषिनमुं वृत्तान्तमुपलभ्य भवता किमाचरितं किं तातेन किमम्बाभ्यां किं वा नगरलोकेनेति श्रोतुमिच्छामि । मनौषिणभिहितं । भ्रातः समाकर्णय । मम तावदुपेक्षा निर्गुणेषु मतामिति भावनया संजातं बाल प्रति माध्यस्थ्यं। तथा विश्यमानेषु दयावन्तः सन्त इति पर्यालोचनया प्रादुर्भता तवोपरि महतो करुणा। तथा मुक्कोऽहं पापमित्राभिवङ्गाजनिता- नामेवंविधानामपायानामित्याकलनया संजातात्मन्यास्थाबुद्धिः । प्रायः प्रकाशत २७४ उपमितिभवप्रपञ्चा कथा । । गुणाधिकेषु प्रमोदवन्तो महात्मान इति विमर्शन धन्यः पुण्य- भागमौ भवजन्तुर्यनायं समस्तानर्थ हेतुः स्पर्शनः पापवयस्यः सर्वथा निराकृत इत्यालोचयतः ममुखसितस्तं प्रति हर्षः । तातेन तु केवलमट्टहासेन हमितं । मयाभिहितं । तात किमेतत् । तातेना- भिहितं । पुत्र यन्मथि प्रतिकूले संपद्यते तत्संपन्न बालस्य । श्रतो मे हर्षः। हा जात व गतोऽसौति परिदेवितं सामान्य- रूपया । न संजातो मामकतनयस्यापाय इति इष्टा चित्तेन मदीयजननी। नगरस्य तु संपन्नो बालहरणेन प्रमोदः । संजाता त्वदीयगमनेन करुणा । प्रादुर्भुतः स्वस्थावस्थानदर्शनेन ममोपरि पक्षपातः ॥ मध्यमबुद्धिराह । कथमेतलक्षितं भवता । मनीषिणाभिहितं । निर्गतोऽहमासं तदा नगरे कुतुहलेन भ्रमणिकया। ततः श्रुता मया परस्परं जल्यन्तो लोकाः। यदुत । अहो सुन्दरं संपन्नं यदसौ कलङ्कतर्निजकुलस्य दुष्टोऽन्तः- करणेन वर्जितो मर्यादया बहिर्भूतः सदाचाराविरतः सततम- गम्यगमने ऽत एवोपतापकरो नगरस्य बालः केनापि महात्म- नापहत इति । अन्येनाभिहितं । सुष्टु सुन्दरमेव तु सुन्दरतरं भवति यद्यमौ छिन्नो भिन्नो व्यापादितश्च श्रूयते । यतस्तस्मिन्ने- कान्ततः प्रलौन एव पापे नागरिकाणां शौलसंरक्षणं संपत्स्यते नान्यथा । अन्येनाभिहितं । सुन्दरमिदं केवल यदसौ मध्यम- बुद्धिस्तपखौ तस्य पृष्ठतो स्लमः क्लिभ्यते तन्न चार । स हि विशिष्टप्रायः प्रतिभासतेऽस्माकं । ततोऽपरः प्राह । भद्र ये पापप्रवृत्तानां वत्सस्ता भवन्ति तेषां कीदृशी विशिष्टता ।
द्वितीयः ': प्रस्तावः । २७५ न खलु जात्यकनक ध्यामिकया सह ममर्गमर्हति। अत एव लभन्त तबारेणैव दुःखपरम्परामयशश्च लोके। किमत्राश्चर्य। ये पुनरादित एव पापानुष्ठानामकजनमम्पक रहयन्ति तेषां नैष दोषोऽनुषजते। अत्रार्थ यमेव मनौषौ दृष्टान्तः योऽय महात्मा परिहतपापप्रवण- बालवात्सल्यो निष्कलङ्क सुग्वेन जौवतीति । ततस्तं लोकवाद- माकर्णयता मयेद लक्षितमिति । मध्यमबुद्धिना चिन्तित। श्रये । दोषेषु वर्तमानस्य नरम्याव जन्मनि । नास्त्येव सुखगन्धोऽपि केवल दुःखपद्धतिः ॥ स हि दुःखभराक्रान्तम्तावता नैव मुच्यते । आक्रोशदानतस्तस्य लोकोऽन्यद्वैरिकायते !! एक स दुःखैर्निर्दग्धो द्वितीय निन्दितो जनैः गण्डस्योपरि सजातः स्फोटो बालस्य दुर्मतेः ॥ जनानां करुणास्थानं जातोऽहं बालमोलकात् । कलितस्तादृशः प्रायः कैश्चित्तत्त्वविचारकैः ॥ दुःखाकरः मतां निन्द्यो ममेदानौं विजानतः । तम्मान युक्तः संसर्गी बालेन सह पापिना ॥ गुणेषु वर्तमानस्य नरस्यात्रैव जन्मनि । जायन्ते सम्पदः मवां यथास्यैव मनौषिणः ॥ तथाहि। अकलङ्कः सुखौ नित्यं श्लाघनीयो विपश्चिताम् । वालस्पर्शनसमर्गभौरुत्वादेष वर्तते ॥ तथापि लोका दोषेषु सततं विहितादराः ।
२०६
उपमितिभवप्रपञ्चा कथा ।
गुणेषु शिथिलोत्साहा वर्तन्ते पापकर्मणा ॥
तदेवं गुणदोषाणां विशेष पश्यता मया ।
गुणेषु यत्नः कर्तव्यो य श्रादिष्टो मनौषिणा ॥
ततश्चैवं विचिन्यासौ भाषते तं मनौषिणम् ।
न शक्यमधुना लोके प्रकाशमटितं मया ॥
लोका मां प्रश्नयिष्यन्ति बालवृत्तान्तमञ्चमा ।
अतिलज्जाकरं त च नाहमाख्यातमुत्महे ॥
अन्यच्च दुर्जना लोकाः श्रुत्वा मत्तः कदर्थनाम् ।
तदौयां नितरां तुष्टा हसिष्यन्ति विशेषतः ।
तस्माजातर्ममाचैव स्थातं मद्मनि युज्यते ।
जनन्य विस्मरत्येतद्यावद्दालविचेष्टितम् ॥
मनौषिणोक्त यत्तुभ्यं रोचते तविधीयताम् ।
केवलं पापमित्रीयः सम्पर्को वार्यते मया ॥
ततः क्वचिदपि बहिरनिर्गच्छंस्तत्रैव मदने स्थितो मध्यमबुद्धिः ।
गतो मनीषौ खस्थानं ॥
बालशरीरादाविर्भूतः स्पर्शनोऽकुशलमाला
अकुशलमालयाभिहितं । माधु पुत्रक माधु । यन्मत्तो जातो
ऽनुतिष्ठति तदनुष्ठितं भवता । यतो निराकृतस्त्वयायमलौ-
कवाचालो मनौषौ । स्पर्शनेनाभिहितं । अम्ब युक्तमेवेदृशमी-
दृशपुरुषाणामनुष्ठानं । दर्शितः खल्वेवमाचरता प्रिय मित्रेण मयि
निर्भरोऽनुरागः । अथवा किमनेन । निर्वटितेदानौं त्रयाणा-
मप्यस्माकं भावसारं समसुखदुःखता । ये तु दर्थसाधनप्रवृत्ता-
टतीयः प्रस्तावः । ২৩৩ नामपान्तराले विना भवन्ति तान को गणयति । बात: प्राह । वयमप्येतदेव बेमः मः । केवलमेतत्म मनीषो न जानाति । म्पर्शनेना- भिहित । कि तब तेन । सुखविघ्नहेतुरमो पापकमा भवतः । अय जनोऽम्बा च केवन्नं ते सुख कारणं । बान्नः प्राह । कोऽत्र विकल्पो निःमन्दिग्धमिद। ततः कृतम्ताभ्यां योगशकिव्यापार- पूर्वको भूयस्तदीयशगैरे प्रवेशः प्रादुर्भुतं मदनकन्दलौगोचरं भृशतरमौत्सुक्य प्रवृद्धोऽन्तस्तापः । प्रत्ता जम्भिकाः । पतितः शयनौये। तत्र चानवरतमुहर्तमानेनाङ्गेन तथा विचेष्टमानो ऽसौ दृष्टो मध्यमबुद्धिना। समुत्पन्ना करुणा । तथापि मनौषि- वचनमनुस्मरता न पृष्टो वार्तामपि बालम्तेन ॥ अत्रान्तरेऽस्तं गतो दिनकरः । ततः प्रथमप्रदोष एव निर्गतो बालः । अवधौरितो मध्यमबुद्धिना । प्राप्तः शत्रुमर्दनराजकुल्ल । प्रविष्टोऽभ्यन्तरे । दृष्टं वामभवन । चलितम्तदभिमुखं । ततः प्रचुर- तया लोकस्य सान्धकारतया प्रदोषस्य व्यग्रतयाष्टप्राहरिकाणां कथंचिदलक्षित एवासौ प्रविष्टो वामभवनं । विलोकितस्तन्म- ध्यभागः प्रकाशितो मणिप्रदौः मनाथो महाशियनेन । दतश्च तस्मिन्नवसरे मा मदनकन्दलौ तस्यैव वामभवनम्यादूरवर्तियां प्रसाधनशालिकायामात्मानं चर्चयन्तौ तिष्ठति । ततस्तच्छन्य- मवलोक्य म बालो बालतयवारूढः शय्यायां। श्राः कोमले ति भावनया ममुद्भूतो हर्षः। क्षिप्तमुच्छौर्षके प्रावरणं । किल्ल तिरश्चौनो भविष्यति । यावद्विहिताशेषप्रदोषकर्तव्यो विसर्जिता- स्थानलोकः कतिचिदान्तपुरुषपरिकरो चलप्रदौपदर्शितमार्गः २७० उपमितिभवप्रपश्चा कथा । समागतः शत्रुमर्दनस्तवारदेशे। दृष्टः प्रविशन् बालेन । ततोऽति- तेजखितया शत्रुमर्दनस्य सत्त्वविकलतया हृदयस्य साध्वसहेतु- त्वादकार्याचरणस्य प्रतिकूलतया कर्मविलासस्य स्वफलदानोन्मुख- तयाकुशलमालायाः स्खविपाकदर्शितया स्पर्शनस्य भयोत्कर्षण वेपमानगात्रयष्टिर्निपनितो बालो भूतले । ततोऽत्युच्चतया पर्यङ्कस्य कणकणकतया मणिकुट्टिमस्य मणिकुट्टिमस्थ शिथिल निसृष्टतया शरीरस्य समुत्थितो महानास्फोटरवः । ततः किमेतदिति वर्णतरं प्रविष्टो राजा । दृष्टस्तेन बालः । कथमयमिह प्रविष्ट इति समुत्पत्रो मनसि वितर्कः। दृष्टमुच्छौर्षके प्रावरण । लचितं शय्यारोहणं । दुष्टोऽयमिति संजातो निश्चयः । मत्कलत्राभिलाषुको ऽयमिति च समुत्पन्नः क्रोधः । विज्ञात तस्य दैन्यं । तथाप्पतिदुरात्मा खल्वयमपनयाम्यस्य दुर्विनयमिति बुद्ध्या दत्तो बालपृष्ठे निजचरणो राज्ञा पामोटितं पश्चान्मुख भुजयुगलं । बद्धो विरारल्यमानम्त- त्प्रावरणेनैव । पाहतो विभौषण: । अभिहितश्चासौ । अरे एष पुरुषाधमो भवतात्रैव राजाजिरे यथाहमाकर्णयाम्यस्य करूणध्वनि तथा समस्तरजनौं कदर्थनीयः । विभीषणेनाभिहितं यदाज्ञा- पयति देवः । ततः समाकृष्टस्तेन केशेषु ग्रहोत्त्वारटमानो बालो नौतोऽभ्वर्णराजप्राङ्गणे । बद्धो वज्रकण्टकाकुले लोहस्तम्भे चोटितः कशाघातैः सिक्कोऽग्निवर्णतप्ततेलबिन्दुभिः । प्रवेशिता अङ्गुल्यादि- स्वयःशलाकाः । ततश्चैवविधेषु नरकाकारेषु दुःखेषु विभौषणेनो- दौर्यमानेषु क्रन्दतो बालस्य लडिता रजनी। तदाक्रन्दरवेण च किमेतदिति कुहलेन प्रभाते समागतं श्रवणपरम्परया टतीयः प्रस्ताव राजकुले नगरं। दृष्टो बालः। स एवायं पापिष्ठोऽद्यापि जौवती- त्यादिः प्रवृत्तः परस्परं नामराणां बहुविधस्तदाक्रोशजल्पः । तमाकर्णयतः शतगुणीभूतं तत्तस्य दुःख । कथितो नागरिकेभ्यो विभीषणेन रात्रिव्यतिकरः । ततोऽहो पृष्टताम्येति गाढतरं प्रद्विष्टाः सर्वे । विज्ञापितो महत्तमै राजा । यदुत यो देवपा- दानामेवायमपथ्यकारी तथा क्रियतां यथान्योऽप्येवं न करोतीति । अस्ति च तम्य राज्ञो भगवद ईटागमावदातबुद्धिः सुबुद्धिर्नामामात्यः । केवलं तेन क्वचिदवमरे वरं प्रार्थितो राजा । यदुत हिंस्रकर्मणि नाह पयालोचनीयो भवता । प्रतिपन्नश्च म वरो नरपतिना। ततः सुबुद्धिमपर्यालोच्यैव दत्तः शत्रुमर्दनेन राजपुरुषाणां नियमः । नियमः । यदत कर्थयित्वा बहुप्रकारमेनं नरापसदं व्यापादयतेति । तदाकर्ण्य महाराज्यलाभ दव जातो जनानां प्रमोदातिशयः । ततः ममारोपितो रामभे विडम्ब्यमानः समन्ताचूीमानो यष्टिमुष्टिमहालोष्टप्रहार रोरूयमाणो विरसध्वनिना तुद्यमानो मनसि कर्णकटु कैरराक्रोश- वचनैमेहता कलकलेन समस्तेषु त्रिकचतुष्कचत्वरहट्टमार्गादिषु बंभ्रम्यमाणो विगोपितो बालः । ततो विशालतया नगरस्य प्रेक्षणकप्रायत्वात्तस्य भ्रमणेनैवातिकान्त दिनं । सन्ध्यायां नौतो वध्यस्थान । उन्नम्बितम्तरशाखायां । प्रवियो नगरं लोकः । भवितव्यताविशेषेण तस्य त्रुटितः पाशकः । पतितो भूतले । गतो मूछी। स्थितो मृतरूपतया। छुप्तो वायुना । लब्धा चेतना । प्रवृत्तो गन्तुं ग्रहाभिमुख भूमिकषणेन कूजमानः । शरावमालया २८० उपमितिभवप्रपच्चा कथा । अत्रान्तरे ऽग्टहीतसङ्केतयो। हे संसारिजीव तत्र चितिप्रति- ष्ठितपुरे प्रथमं भवता वौर्यनिधानभूतः कर्मविलासो नाम राजा निवेदितः । अधुना दशापराधप्रभविष्णुरेष शत्रुमर्दनो निवेद्यते । तत्कथमेतदिति । संसारिजौवेनाभिहितं । मुग्धे मयापि नन्दि- वर्धनेन मता पृष्ट एवेदं विदरः । ततो विदुरेणाभिहितं । कुमार कर्मविलासस्तत्रान्तरङ्गो राजा शत्रुमर्दनस्तु बहिरङ्गः । तेन नास्ति विरोधः । यतो बहिरङ्गाणामेव राज्ञां दशापराधप्रभविष्णुता भवति बहिरङ्गनगरेषु नेतरेषां । ते हि केवलं सुन्दरासुन्दर प्रयोजनानि जनानां प्रच्छन्नरूपा एव सन्तः स्ववीर्येण निर्वर्तयन्ति । तथाहि । कर्मविलासप्रतिकृलताजनितोऽय बालस्य परमार्थतः सर्वोऽप्यनर्थः सपन्न इति । ततो मयाभिहितं । अपगतोऽधुना मे सन्देहः । अग्रतः कथय । विरेणाभिहितं ॥ ततः कृच्छणातिक्रान्ते याममात्रे रजन्याः प्राप्तः स्वसदनं बालः । दूतश्चाकर्णितः प्रभात एव तदीयवृत्तान्तो मध्यमबुद्धिना । ततो बालस्नेहले शस्यानुवर्तमानतया सजातो मनाम् विषादः । चिन्तितमनेन । हा किमौदृपा संपन्न बालस्येति। पुनः पर्यालोचयतः प्रादुर्भुतोऽस्य मनसि प्रमोदः । चिन्तितमनेन । पश्यताहो मनौषिवचनकरणाकरणयोरिह लोक एवान्तर । तथाहि तदुपदेशवर्तिनो मेऽधुना न मपन्नः क्लेश: नोदौर्णमयशः । पूर्व पुनर्विपरीतचारिणो इयमप्यासौत् । पुनरेकान्ततो मनौषिवचनविपरीताचरणनिरतस्य यत्मपद्यन्त दुःखमाता विजम्भते जगत्ययशःपटहः मजायते मरणं तत्र किमाश्चयें। तदस्ति बालस्य टतीय प्रस्तावः २८१ . ममापि काचिद्धन्यता यया मनौषिवचने बहुमानः मपन्न इति । तथाहि । नैवाभव्यो भवत्यत्र मतां वचनकारकः । पतिः कांकटुके नैव जाता यत्नशतैरपि ॥ एवं भावयतश्चित्ते बालम्नेह विमुञ्चतः । प्रमोदपूर्णचित्तस्व लवित तम्य तद्दिनम् ॥ ततः ममागते बाले लोकाचारानुवर्तनम् । कुर्वता विहितं तेन तस्य मम्भाषणं किल । पृष्टश्चाशेषवृत्तान्त विषाटगतबुद्धिना तेनापि कथिता तस्मै बालेनात्मविडम्बना ॥ न शिक्षणस्य योग्योऽयं मत्वा मध्यमबुद्धिना । ततस्तदनुरोधेन कृतेषत्परिदेवना ॥ ततश्चूर्णितसर्वाङ्गो दुःखविहलमानस: । तथा राजभयाग्राद् बालस्तव मंश्रितः ।। प्रच्छन्वरूपः सतत न निर्गच्छति कुत्रचित् । एवं च तिष्ठतोः कालस्तयोर्भूयान् विलसितः ॥ अथान्यदा निजविलसिताभिधाने जीर्णोद्याने गन्धहस्तीव वरकलभवृन्देन परिकरितः सातिशयगुणवता निजशिष्यवर्गण प्रवाहः करुणारसस्य मतरण सेतुः संसारसिन्धोः परशस्तष्णालताग- हनस्य अशनिर्मानपर्वतोद्दलने मूलमुपशमतरो: सागरः मन्तोषा- मृतस्य तौथें मर्वविद्यावताराणां कुलभवनमाचागणां नाभिः प्रज्ञाचक्रस्य वडवानलो लोभार्णवम्य महामन्त्रः क्रोधभुजङ्गम्य 36 २८२ उपमितिभवप्रपञ्चा कथा । दिवसकरो मोहान्धकारस्य निकषोपलः शास्त्ररत्नानां दावानलो रागपल्लवदहने अर्गलाबन्धो नरकदाराणां देशकः मत्पथानां निधिः मातिशयज्ञानमणौनामायतनं समस्तगणानां समवस्तस्तत्र पुरे प्रबोधनरतिर्नामाचार्यः ॥ दूतश्च स्पर्णनं प्रति प्रतिकूलचारिणमुपलभ्य मनीषिण प्रादुर- भूत्कर्मविलासस्य तस्योपरि खरतरः पक्षपातः । ततोऽसौ शुभसुन्दरौं प्रत्याह । प्रिये लक्षयत्येव तावदिदं भवतो यथाना- दिरूढा प्रकृतिरियं मम वर्तते । यदुत योऽस्य स्पर्शनस्यानु- कूलस्तस्य मया प्रतिकूलेन भाव्यं प्रतिकूलस्य पुनरनुकूलतया वर्तितव्यं मम च प्रतिकूलमाचरतः सर्वत्राकुशलमालोपकरण अनु- कूलं विदधतः पुनर्भवती ममोपकरणं वर्तते । तदेवं स्थिते स्पर्शना- नुकूलचारिणो बालस्य दर्शितो मयाकुश लमालाव्यापारणद्वारेण कश्चिदात्मनः प्रतिकूलताफललेशः । अस्य तु मनौषिणः स्पर्शन- प्रतिकूलवर्तिनो न मयाद्यापि निजानुकुलताफलविशेषो दर्शितः । यद्यपि यदिदमस्य स्पर्शने निरभिष्वङ्गतया मृदुशयनसुरतादौन्यनु- भवतः संपद्यते सुखं यश्चायं समुलसितो लोकमध्ये यशःपटहो न च संपन्नः क्वचिदपायगन्धोऽपि विचरतः अस्य ममस्तस्य व्यति- करस्याहमेव भवत्योपकरणभूतया कारणं तथापि मयि मप्रमादे नैतावन्मात्रमेवास्य फलमुचितं । अतिप्रिये विशिष्टतरफलसम्पाद- नार्थमस्य मनौषिणः प्रयत्नं कुरुवेति । शुभसुन्दर्युवाच । साध्वार्यपुत्र साधु सुन्दरमभिहितं देवेन। स्थितं ममापौदं हृदये योग्य एव मनीषौ देवप्रसादानां । तदेषानुतिष्ठामि यदाज्ञापितं देवेन द्वतीयः प्रस्तावः। २८३ इत्यभिधाय व्यापारिता भसुन्दा योगशक्तिः । विहितमन्त- र्धानं। प्रविष्टा गत्वा मनौषिशरौरे। प्रादुर्भतोऽस्य प्रमोदः । सितममृतसेकेनेव शरीरं। प्रवृत्ता निजविलसितोद्यानगमनेच्छा । प्रस्थितस्तदभिमुखं । चिन्तितमनेन । कथमेकाकी गच्छामि। बहुश्च कालो ग्टहप्रविष्टस्य तिष्ठतो मध्यमबुद्धेरतीतः । विस्मृतो ऽधुना लोकस्य बालवृत्तान्तः । व्यपगतं तस्य लज्जाकारणं । अतस्त- मपि निजविलसिते नयामि। इति विचिन्त्य गतो मनीषा मध्यमबुद्धिसमीपं । निवेदितं तस्मै निजाकूतम् ॥ दूतश्च कर्म- विलासेन तस्यापि जननी सामान्यरूपा तत्फलविपाकसम्पत्तये तथैव प्रोत्साहिता। सा ह्यकुशलमालाभसुन्दाः साधारणवौर्या विचित्रफलदायिनी स्वरूपतो वर्तते । ततस्तयाधिष्ठितमूर्तमध्यम- बुद्धेरपि प्रवृत्ता तत्र गमनेच्छा । बालस्तु भवताप्यवश्यं गन्तव्य- मिति वदता बस्लामोटिकया प्रवर्तितो मध्यमबुद्धिना। गता- स्त्रयोऽपि निजविलसितोद्याने । अथ नानाविधैस्तत्र विलसन्तः कुदहलैः । प्रमोद खरं नाम प्राप्तास्ते जिनमन्दिरम् ॥ तच्च मेस्वदुत्तुङ्गं विशालं माधुचित्तवत् । देवलोकाधिकं मन्ये सौन्दयौंदार्ययोगतः ॥ युगादिनाथबिम्वेन श्रीमता तदधिष्ठितम् । समन्तादूरगोत्तुङ्गप्राकारपरिवेष्टितम् ॥ पुरतो लोकनाथस्य स्तोत्राणि पठतो मुदा । तत्र श्रावकलोकस्य ध्वनिमाकर्ण्य पेशलम् ॥
२८४
उपमितिभवप्रपञ्चा कथा।
किमेतदिति संचिन्त्य कौतुकाक्षिप्तमानसाः ।
प्रविष्टा जिनसदने ते त्रयोऽपि कुमारकाः ॥
अथ दक्षिणमूर्तिस्थो देवाजिरविभूषणः ।
विनीतसाधुलोकस्य मध्यवर्ती तपोधनः ॥
जिनेन्द्रगदितं धर्ममकलकं सनातनम् ।
संसारसागरोत्तारमाचक्षाण: मदेहिनाम् ॥
प्रविशद्भिर्महाभागश्चन्द्रवत्तारकैर्वृतः ।
प्रबोधनरतिौरः स सूरिस्तैर्विलोकितः ॥
भाविभद्रतया जैन बिम्बं नत्वा मनीषिणा।
सूरेः शेषमुनीनां च विहितं पादवन्दनम् ॥
ततस्तदनुरोधेन मनाक् संशद्धबुद्धिना ।
देवसाधुनमस्कारः कृतो मध्यमबुद्धिना ॥
पापमानवयस्याभ्यामधिष्ठितशरीरकः ।
बालोऽकल्याणभाङ् नेव कस्यचित्प्रणतिं गतः ।।
किं तु ग्रामेयकाकारं बिभ्राण: स्तब्धमानमः ।
मनौषिमध्यमासने सोऽपि गत्वा व्यवस्थितः ॥
अथ संभाषितास्तेऽपि धर्मलाभपुरःसरम् ।
गुरुणा कलवाक्येन निषण्मास्तत्र भूतले ॥
दूतश्च मूरिवृत्तान्तः कथंचिल्लोकवार्तया ।
मन्त्रिणा जिनभक्तेन श्रुतस्तेन सुबुद्धिना ॥
ततः प्रोत्साहितस्तेन स राजा शत्रुमर्दनः ।
वन्दनार्थं मुनीन्द्रस्य व्रजाम इति भाषिणा ॥
तीयः प्रस्तावः।
२८५
विधूतपापमात्मानं वन्दनेन महात्मनाम् ।
साधूनां येऽत्र कुर्वन्ति ते धन्यास्ते मनीषिणः ॥
ततो मदनकन्दल्या सार्धमन्तःपुरैस्तथा ।
सुबुद्धिवचनाद्राजा निर्गतो मुनिवन्दकः ॥
ततः सर्व पुरं तत्र नृपे चलति विस्मितम् ।
सैन्यं च गतमुद्याने कौतुकाकृष्टमानसम् ।।
निपत्य पादयोस्तत्र जिनस्य सबलो नृपः ।
प्रबोधनरतिं भक्त्या ववन्दे दृष्टमानसः ॥
प्रणम्याशेषमाधूंश्च दत्ताशौर्गुस्साधुभिः ।
निषलो भूतले राजा विनयानम्रमस्तकः ।।
सुबुद्धिरपि जैनेन्द्रपादपद्मवतानतिः ।
निरूपयति सर्वाणि देवकर्माणि यत्नतः ॥
देवपूजनमडूपदीपदानादिपूर्वकम् ।
भक्त्योत्कण्ठितसर्वाङ्गो भून्यस्तकरजानुकः ॥
दुर्लभं भवकान्तारे जन्तुभिर्जिनवन्दनम् ।
इति भावनया धन्यो निर्मलीभूतमानमः ।।
श्रानन्दजलपूर्णाच: चावयन्त्रात्मकल्मषम् ।
तथा भागवते बिम्बे न्यस्तदृष्टिविचक्षणः ॥
शकस्तवं शनैौरः पठित्वा भकिनिर्भरः ।
पञ्चाङ्गप्रणिपातान्त निषसः शुद्धभूतले ॥
परस्परतिरोभूतकरशाखाविनिर्मिताम् ।
कोशाकारकरः कृत्वा योगमुद्रां समाहितः ।।
२८६
उपमितिभवप्रपञ्चा कथा।
ततो भुवननाथस्य स्तोत्राणि कलया गिरा ।
स तदानों पठत्येवं तदर्थापितमानमः ॥
नमस्ते जगदानन्द मोक्षमार्गविधायक ।
जिनेन्द्र विदिताशेषभाव सद्भावनायक ॥
प्रलौनाशेषसंसारविस्तार परमेश्वर ।
नमस्ते वाक्पथातीत त्रिलोकनरशेखर ।।
भवाब्धिपतितानन्तसत्त्वसन्तानतारक ।
घोरसंमारकान्तारमार्थवाह नमोऽस्तु ते ॥
अनन्तपरमानन्दपूर्णधाम व्यवस्थितम् ।
भवन्तं भक्तितः साक्षात्पश्यतीह जनो जिन।
स्तुवतस्तावकं बिम्बमन्यथा कथमौदृशः ।
प्रमोदातिशयश्चित्ते जायते भुवनातिगः ॥
पापाणुजनितस्तावत्तापः संसारिचेतसाम् ।
यावत्तेषां सदानन्द न मध्ये नाथ वर्तसे ॥
येषां पुनर्विवर्तथा नाथ चित्तेषु देहिनाम् ।
पापाणवः क्षणात्तेषां ध्वंसमायान्ति सर्वथा ॥
ततस्ते द्राविताशेषपापपङ्कतया जनाः ।
सद्भावामृतमंसिका मोदन्ते नाथ सर्वदा ॥
ते वराका न मुख्यन्तां रागादिचरटैः कथम् ।
येषां नाथ भवानास्ति तप्तिमानायकारकः ॥
भवन्तमुररीकृत्य नाथं निःशङ्कमानमाः ।
शिवं यान्ति मदादीनां विधाय गलपादिकाम् ॥
तीयः प्रस्तावः।
१९७
न्यपतिव्यदिदं नाथ जगन्नरककूपके ।
अहिंसाहस्तदानेन यदि त्वं नाधरिष्यथाः ॥
विलौनसकललेशं निर्विकारं मनोहरम् ।
शरीरं पश्यतां नाथ तावकौनमदो वरम् ॥
अनन्तवीर्यः सर्वज्ञो वीतरागस्वमञ्जमा ।
न भासि यदभव्यानां तत्तेषां पापजृम्भितम् ।
रागद्वेषमहामोहसूचकैर्वोतकल्मष ।
हास्य हेतिविलामाक्षमालाहोन ते नमः ।।
अनन्तगुणसंपूर्ण कियदात्र वदिष्यति ।
तावकस्तवने नाथ जडबुद्धिरयं जनः ॥
तथापि गाढसद्भावबद्धोऽत्यर्थमयं जनः ।
सद्भावोऽप्यथवा नाथ भवतैवावबुध्यते ॥
तदस्य करणां कृत्वा विधातव्या भवे भवे ।
भवोच्छेदकरौ नाथ भक्तिरात्मनि निश्चला ।
संस्तुत्यैवं जगन्नाथमुत्थाय जिनमुद्रया ।
विधाय वन्दनं भूयः पञ्चाङ्गनमनादिकम् ॥
तदन्ते प्रणिधानं च मुक्ताशक्त्यादिसुन्दरम् ।
कृत्वा कृतार्थमात्मानं मन्यमानः सुकर्मणा ॥
सूरेः पादयुगं सिञ्चनानन्दोदकबिन्दुभिः ।
वन्दनं द्वादशावत स ददौ दोषसूदनम् ॥
कृतमामाथिकोऽशेषसाधनानन्य भक्तितः ।
अवाप्तधर्मखाभोऽसौ निषण: शुद्धभूतले ॥
उपमितिभवप्रयचा कथा।
पृष्टमूरितनूदन्ते सुबुद्धौ तब मन्त्रिणि ।
अथाचार्या विशेषेण चक्रिरे धर्मदेशनाम् ।।
कथितं भवनैर्गुण्यं वर्णिताः कर्महेतवः ।
प्रख्यापितं च निर्वाणं दर्शितं तस्य कारणम् ।
ततश्चामृतसंसेकचारणा वचसा मुनेः ।
जातास्ते जन्तवः सर्व चित्तसन्तापवर्जिताः ।।
अत्रान्तरे
नखांश विशदं कृत्वा लवाटे करकुड्मलम् ।
जगाद भारतीमेवं स राजा शत्रुमर्दनः ।
भगवनत्र संसारे नरेण सुखकामिना ।
किमादेयं प्रयत्नेन सर्वसम्पत्तिकारणम् ॥
सूरिरुवाच ।
श्रादेयोऽत्र महाराज धर्मः सर्वज्ञभाषितः ।
स एव भगवान् सर्वपुरुषार्थप्रसाधकः ॥
मोऽनन्तसुखसंपूर्ण मोक्षे नयति देहिनम् ।
अनुषङ्गोण संसारे स हेतुः सुखपद्धतेः ॥
नरपतिरुवाच । यद्येवं
कस्मात्मर्व न कुर्वन्ति तं सर्वसुखसाधनम् ।
धर्म संसारिणः किं वा क्लिश्यन्ते सुखकाम्यया ।
सूरिराह ।
सुखाभिलाषः सुकरो दुष्करोऽसौ नृपोत्तम ।
यतो जितेन्द्रियग्रामस्तं साधयति मानवः ॥
हतीयः प्रस्तावः ।
अनादिभवकान्तारे प्राप्तानि परमं बलम् ।
दुर्मधोभिन शक्यन्ते जेतुं तानौन्द्रियाणि वै ॥
तेनैव जन्तवो मूढाः सुखमिच्छन्ति केवलम् ।
धर्म पुनः सुदूरेण त्यजन्ति सुखकारणम् ॥
नरपतिरुवाच ।
येषां जयमशक्तिष्ठाः कर्तुं नो पारयन्यमौ ।
धर्मतः प्रपत्लायन्ते ततो जीवाः सुखैषिणः ।।
कानि तानौन्द्रियाणौह किंखरूपाणि वा मुने ।
कथं वा दुर्जयानौति श्रोतुमिच्छामि तत्त्वतः ॥
मुनिरुवाच ।
स्पर्शनं
रसना घ्राणं
चचुः
श्रोत्रं च पञ्चमम् ।
एतानि तानि राजेन्द्र हृषीकाणि प्रचक्षते ॥
दृष्टैः स्पर्शादिभिस्तोषो दृषद्धिस्तथेतरैः ।
एतत्स्वरूपमेतेषामिन्द्रियाणां नृपोत्तम ॥
दुर्जयानि यथा तानि कथ्यमानं तथाधुना ।
दत्तावधानस्वं सर्वमनुश्रुत्यावधारय ॥
अनेकभटसंकीर्ण समरे योधयन्ति थे ।
मत्तमातङ्गसङ्घातमेतैस्तेऽपि विनिर्जिताः ॥
अङ्गुल्यये निधायेदं भुवनं नाटयन्ति थे।
शक्रादयोऽपि शक्तिष्ठास्तेऽप्यमौभिर्वशीकृताः ॥
हिरण्यगर्भवैकुण्ठमहेश्वरपुरःसराः ।
एतैर्निराकृताः सन्तः सर्वे किङ्करतां गताः ॥
37
२६०
उपमितिभवप्रपञ्चा कथा ।
अधीत्य सर्वशास्त्राणि परमार्थविदो जनाः ।
एभिर्विधुरिताः सन्तश्चेष्टन्ते बालिगा दूव ॥
एतानि हि स्ववीर्येण मसुरासुरमानुषम् ।
वराकमिव मन्यन्ते सकलं भुवनत्रयम् ॥
दुर्जयानि ततोऽमूनि हृषीकाणि नराधिप ।
एवं सामान्यतः कृत्वा षौकगुणवर्णनम् ॥
ज्ञानेनालोक्य वृत्तान्तं बोधनार्थं मनीषिणः ।
सूरिर्बभाषे सद्दन्तदीधितिच्छुरिताधरः ॥
अथवा महाराज
तिष्ठन्तु तावच्छेषाणि हृषीकाणि जगज्जये ।
स्पर्शनेन्द्रियमेवैकं समर्थ बत वर्तते ॥
यतो न शक्यते लोकैर्जतुमेकैकमप्यदः ।
लौलया जयतीदं तु भुवनं सचराचरम् ॥
नरपतिरुवाच ।
भगवंस्तस्य जेतारो नराः किं सन्ति कुत्रचित् +
आहोखिनैव विद्यन्ते भुवनेऽपि तथाविधाः ॥
मुनिरुवाच ।
राजनहि न विद्यन्ते केवलं विरला जनाः ।
ये ह्यस्य विनिहन्तारस्तवाकर्णय कारणम् ॥
जघन्यमध्यमोत्कृष्टास्तथोत्कृष्टतमा गुणैः ।
चतुर्विधा भवन्तौह पुरुषा भुवनोदरे ।।
टतीयः प्रस्तावमा
२६९
तथोल्लष्टतमास्तावधैरिदं स्पर्शनेन्द्रियम् ।
अनादिभवसम्बन्धलालितं पालितं प्रियम् ॥
जैनेन्द्रागमसम्पर्काविज्ञाय बहुदोषकम् ।
ततः सन्तोषमादाय महासत्त्वैर्निराकृतम् ॥
ग्टहस्था अपि ते सन्तो ज्ञाततत्त्वा जिनागमे ।
स्पर्शनेन्द्रियलौल्येन नाचरन्ति कुचेष्टितम् ॥
यदा पुनर्विशेषेण तिष्ठन्त्येते जिनागमे ।
स्पर्शनेन्द्रियसम्बन्ध त्रोटयन्ति तदाखिलम् ॥
यतो दौवां समादाय निर्मलीमसमानसाः ।
सन्तोषभावतो धन्या जायन्तेऽत्यन्तनिःस्पहाः ॥
ततस्ते भवकान्तारनिर्विग्ना वौतकल्मषाः ।
स्पर्शनप्रतिकूलानि सेवन्ते धौरमानसाः ॥
भूमौशयनलोचादिकायक्लेशविधानतः ।
ततः सुखस्पृहां हित्वा जायन्ते ते निराकुलाः ॥
ततः सकलकमीशक्त शविच्छेदभाजनम् ।
भूत्वा ते नितिं यान्ति निर्जित्य स्पर्शनेन्द्रियम् ।
तेनोल्लष्टतमा राजनिर्दिष्टास्ते विचक्षणः ।
ये चैवमनुतिष्ठन्ति विरलास्ते जगत्त्रये ॥
ततो भागवतं वाक्यमाकयेदं मनीषिणः ।
प्रभूचेतसि सङ्कल्पस्तदानौं चारुचेतमः ।।
अये भगवता यादृग वर्णित स्पर्शनेन्द्रियम् ।
अत्यन्तविषमं लोके स्पर्शनस्तादृशः परम् ॥
उपमितिभवप्रपञ्चा कथा ।
यतो बोधप्रभावेण मम पूर्व निवेदितः ।
यथान्तरङ्गनगरे वास्तव्योऽयं महाबलः ॥
तनूनं पुरुषव्याजसंस्थितं स्पर्धनेन्द्रियम् ।
अस्मान् प्रतारयत्येतदन्यथा कथमौदृशम् ॥
ततो भगवतादिष्टा ये चोत्कृष्टतमा नराः ।
कथितः स्पर्शनेनापि भवजन्तुस्तथाविधः ॥
तथाहि मां निराकृत्य सदागमबलेन मः ।
सन्तोषावितिं प्राप्त इति तेन निवेदितम् ।
तस्मानास्त्यत्र सन्देहः साम्प्रतं पुरुषत्रयं ।
श्रुत्वाशेषं विजानामि यदत्र परमाचरम् ॥
अयं हि भगवान् सूरि वनं सचराचरम् ।
ज्ञानालोकेन जानौते मन्देहदलनः परम् ॥
यावत्म चिन्तयत्येवं माकूतो विस्मितेक्षणः ।
तावलचितचित्तेन पृष्टो मध्यमबुद्धिना ॥
कथं।
मनौषिनितरां चित्ते भावितस्त्वं विलोक्यसे ।
किमत्र भवता किंचित्मतत्त्वमवधारितम् ॥
मनौषिणोक्तं किं भ्रातर्भवता किं न लक्षितम् ।
किमेवं स्फुटवाक्येन कथयत्यपि सन्मुनौ ॥
अनेन हि समादिष्टं यादृशं स्पर्शनेन्द्रियम् ।
वयस्यस्तावकस्तादृक् स्पर्शनो नात्र संशयः ।।
कथमेतत्ततः पृष्टे पुनर्मध्यमबुद्धिना ।
तीयः प्रस्तावः।
२६३
श्राख्यातं कारणं तेन निःशेषं तु मनीषिणा ॥
बालस्तु पापकर्मत्वात्केवलं वौक्षते दिशः ।
अनादरपरस्तत्र हितेऽपि वचने गुरोः ॥
अथ राज्ञः समीपस्था पिबन्ती वचनामृतम् ।
श्राचार्योयं विशालाक्षी राजौ मदनकन्दली ।।
सा दृष्टा तेन बालेन ततोऽस्य हृदि संस्थितम् ।
नूनं मे हृदयस्येष्टा सेयं मदनकन्दलौ ।
यतोऽवदातमेतस्यास्तापनीयसमप्रभम् ।
शरीरं दर्शनादेव मृदुतां सूचयत्यलम् ॥
रक्तराजौवसाच्छायं विभाति चरणदयम् ।
अलक्षितमिराजालं कूर्मोवतमनुत्तमम् ॥
बिभर्ति तोरणाकारं भवने माकरध्वजे ।
जवायुग्मं स्वसौन्दर्यादेतस्यास्तेन राजते ।
मेखलायाः कलापेन बद्धमन्मथवारणम् ।
नितम्ब बिम्बमेतस्था विशास्लममतायते ॥
भारेणैव कृशीभूतो विराजितवलिचयः ।
एतस्था राजते मध्यो रोमराजिविभूषणः ॥
गम्भौरा मज्जनस्येव हृदयं समनोहरा ।
राजते नाभिरेतस्याः सत्कामरसकूपिका ।
वहत्येषा घनौ वृत्तौ पीवरौ कुम्भविभ्रमौ ।
उत्तुङ्गकठिनौ चारू हृदयेन पयोधरौ ॥
अन्यच्च धारयत्येषा सुकुमारमनोहरम् ।
२६४
उपमितिभवप्रपञ्चा कथा
पुण्यप्रागभारसंप्राप्यं रम्यं बाहुलतादयम् ।
कराभ्यां निर्जितौ मन्ये नूतनौ रागसुन्दरौ ।
एतस्थाश्चारुरूपाभ्यां रताशोकस्य पल्लवौ ॥
दधत्यां पारिमाण्डवं कन्धरायां सुबेधमा ।
कृतं रेखात्रयं मन्ये त्रिलोकजयसूचकम् ॥
अधरो विद्रुमच्छेदसन्निभो भाति पेशलः ।
राजेते विलसद्दीप्ती कपोलौ कोमलामखौ ॥
ये कुन्दकलिकाकारा विलसत्किरणोत्कराः ।
एतस्था वदने दन्ता नास्ति ते भुवनत्रये ॥
सितामितं सुविस्तीर्ण ताम्रराजिविराजितम् ।
पक्ष्मलं जनितानन्दमेतस्या लोचनदयम् ॥
उत्तुङ्गो नासिकावंशो भूलते दीर्घपहमले ।
अस्या ललाटमलकैः कलितं बत राजते ॥
अनुरूपं करोमौति नूनं जातः प्रजापतेः ।
बहुमानो निजे चित्ते कृत्वास्याः श्रवणदयम् ॥
मालतीकुसुमामोदमोदितालिकुलाकुलः ।
अस्याः सुखिग्धकुटिलः केशपाशो विराजते ॥
एतस्था मन्मथोल्लापानाकर्ण्य श्रुतिपेशलान् ।
मन्ये खविस्वरत्वेन लज्जिता कलकोकिला ॥
उच्चित्योच्चित्य यत्सारमेतस्या वरपुलैः ।
धात्रा विनिर्मितं रूपमन्यथा कथमौदृशम् ॥
अतोऽस्थास्तादृशः स्पर्थो युक्त एव न संशयः ।
टतीयः प्रस्तावः।
न जात्वमृतकुण्डेषु कटुत्वमिव तिष्ठते ॥
एषाप्यभिलषत्येव मां यतोऽर्धनिरीक्षितैः ।
निरीक्षतेऽतिलोलाची स्निग्धदृश्या मुहुर्मुड्डः ॥
एवंविधविपर्यास विकल्पाकुलमानसः ।
स बालोऽलौकसौभाग्यगवितो मूढतां गतः ।।
दूरिस्वाच ।
तदेवं कथितास्तावत्सर्वोत्कृष्टा मया नराः ॥
इदानौमुत्कृष्टानां यत्खरूपं तदुच्यते ।
एवं च वदति भगवति सूरौ
चारूनं सूरिणा चारु परिचिन्य मनीषिणा ।
श्रोतव्यं भवतापौदं मध्यबुद्धिः प्रणोदितः ॥
सूरिस्वाच ।
उत्साष्टास्ते नरा ज्ञेया चैरिदं स्पर्शनेन्द्रियम् ।
अवाप्य मानुषं जन्म शत्रुबुद्ध्यावधारितम् ॥
भाविभद्रतया तेषां परिस्फुरति मानसे ।
नैवैतत्सुन्दरं हन्त जीवानां स्पर्शनेन्द्रियम् ।
ततो बोधप्रभावेण लक्षयन्त्यपि ते नराः ।
कुर्वन्तोऽन्वेषणं तस्य मूलद्धिं परिस्फुटाम् ॥
ततो विज्ञाय ते तस्य लोकवञ्चकता नराः ।
सर्वत्र चकिता नैव विश्वसन्ति कदाचन ॥
न चानुकूलचारित्वं भजन्ति विजितस्पृहाः ।
ततस्तजनितैोषैर्न युज्यन्ते विचक्षणाः ॥
उपमितिभवप्रपञ्चा कथा।
शरीरस्थितिमाचार्थमाचरन्तोऽपि तत्प्रियम् ।
तत्र रद्धेरभावेन भवन्ति सुखभाजनम् ॥
प्राप्नुवन्ति यशः धमिह लोकेऽपि ते नराः ।
खर्गापवर्गमार्गस्य निकटे तादृशाशयाः ॥
गुरवः केवलं तेषां नाममात्रेण कारणम् ।
मोक्षमार्ग प्रवर्तन्ते खत एव हि ते नराः ॥
अन्येषामपि कुर्वन्ति ते सन्मार्गावतारणम् ।
तवाक्यं ये प्रपद्यन्ते विज्ञाय गुणकारणम् ।।
ये पुनर्न प्रपद्यन्ते तदाक्यं बालिशा जनाः ।
तेषामनादरं कृत्वा ते तिष्ठन्ति निराकुलाः ॥
प्रकृत्यैव भवन्येते देवाचार्यतपखिनाम् ।
पूजासत्कारकरणे रतचित्ता महाधियः ॥
एवं भाषिणि च भगवति प्रबोधनरतिसूरौ मनीषिण
चिन्तितं ।
यथेदमुल्लष्टानां साधितं चरितं नृणाम् ।
तथानुभवसिद्धं मे किंचिदात्मनि भामते ॥
मध्यमबुद्धिना चिन्तितं ।
उल्टष्टपुंसां यादृचा गुरुणा वर्णिता गुणाः ।
एते गुणाः परं सर्वे घटन्तेऽत्र मनौषिणि ॥
गुरुरुवाच ।
तदेवं तावदुत्वष्टा वर्णिताः पुरुषा मया ।
अधुना मध्यमानां यत्वरूपं तबिबोधत ॥
द्वतीयः प्रस्तावः।
मध्यमास्ते नरा ज्ञेया यैरिदं स्पर्शनेन्द्रियम् ।
अवाप्य मानुषं जन्म मध्यबुद्ध्यावधारितम् ॥
स्पर्शनेन्द्रियसंपाद्य ते सुखे ग्डमानसाः ।
पण्डितैरनुशिष्टाश्च दोलायन्ते स्वचेतसा ॥
चिन्तयन्ति निजे चित्ते ते दोलायितबुद्धयः ।
विचित्ररूपे संसारे किमत्र बत कुर्महे ॥
भोगाने के प्रशंसन्ति रमन्ते सुखनिर्भराः ।
अन्ये शान्तान्तरात्मानो निन्दन्ति विगतस्पृहाः ॥
तदत्र कतरो मार्गो मादृशामिह युज्यते ।
न लक्षयामोऽतश्चित्तं सन्देहमवगाहते ॥
तस्मात्काखविलम्बोऽत्र युक्तोऽस्माकं प्रयोजने ।
नैवैकपक्षनिक्षेपो विधातमिह युज्यते ॥
एषा च जायते बुद्धिर्या तेषां कर्मपद्धतिः ।
तत्मकायान्नृणां यस्माद् बुद्धिः कर्मानुसारिणौ ॥
ततस्ते स्पर्शनाक्षस्य मन्यन्ते सुखहेतुताम् ।
अनुकूले च वर्तन्ते किं तु नात्यन्तलोलुपाः ॥
ततो लोकविरुद्धानि नाचरन्ति कदाचन ।
स्पर्शनेन्द्रियलौल्येन मापायान् प्राप्नुवन्यतः ॥
विचक्षणोक्नं बुध्यन्ते विशेषं वचनस्य ते ।
अदृष्टदुःखास्तवाक्यं केवलं नाचरन्ति भोः ॥
मैत्रौं बालिशलोकेन कुर्वन्ति खेहनिर्भराम्
लभन्ते तद्विपाकेन रौद्रां दुःखपरंपराम् ।।
38
उपमितिभवप्रपञ्चा कथा ।
अवर्णवादं लोके च प्राप्नुवन्ति न संशयः ।
संसर्गः पापलोकेन सर्वानर्थकरो यतः ॥
यदा पुनः प्रपद्यन्ते विदुषां वचनानि ते ।
पाचरन्ति च विज्ञाय तदीयां हितरूपताम् ।।
तदा ते विगताबाधा भवन्ति सुखिनो नराः ।
महापुरुषसम्पर्कालभन्ते मार्गमुत्तमम् ॥
पण्डिता इव ते नित्यं गुरुदेवतपखिनाम् ।
बहुमानपराः सन्तः कुर्वन्यर्चनवन्दनम् ॥
तदिदमाचार्योयं वचनमाकर्ण्य मध्यमबुद्धिना चिन्तितं ।
य एते सूरिणा प्रोता मध्यमानां गुणागुणाः ।
खसंवेदनमंसिद्धास्ते ममापि खगोचरे ॥
मनीषिणा चिन्तितं ।
यदिदं सूरिणादिष्टं वचनैः सुपरिस्फुटः ।
चरितं मध्यमानां तन्मदीये भ्रातरि स्थितम् ॥
सूरिरुवाच ।
तदेवं कथितास्तावन्मध्यमानां गुणागुणाः ।
जघन्यनरसम्बन्धि स्वरूपमधुनोच्यते ॥
जघन्यास्ते नरा ज्ञेया यैरिदं स्पर्शनेन्द्रियम् ।
अवाप्य मानुषं जन्म बन्धबुड्यावधारितम् ॥
परारिरूपतामस्य न जानन्त्येव ते स्वयम् ।
परेषामपि स्यन्ति विदुषां हितभाषिणाम् ।।
स्पर्शनेन्द्रियसंपाद्ये पामाकण्डयनोपमे ।
टतीयः प्रस्तावः ।
२६६
परमार्थेन दुःखेऽपि सुखलेशेऽतिग्टनवः ॥
खोऽयं परमार्थोऽयं लब्धोऽयं सुखसागरः ।
अस्माभिरिति मन्यन्ते विपर्यासवशं गताः ॥
ततो हार्द तमस्तेषां प्रविसर्पति सर्वतः ।
विवेकशोषकाश्चित्ते वर्धन्ते रागरश्मयः ॥
नष्टसत्पथसद्भावा ध्यान्ध्यान्धीभूतबुद्धयः ।
कुर्वन्तोऽनार्यकार्याणि वार्यन्ते केन ते ततः ॥
धर्मलोकविरुद्धवानि निन्दितानि पृथगजनैः ।
कार्याण्याचरतां लोकः शत्रुभावं प्रपद्यते ॥
कुलं चन्द्रांशविशदं ते कुर्वन्ति मलीमसम् ।
प्रात्मीयचरितैः पापाः प्रयान्ति जनहास्थताम् ॥
अगम्यगमनासक्ता निर्मर्यादा नराधमाः ।
अर्कलादपि परं ते जने यान्ति लाघवम् ॥
दुर्लभस्त्यादिविषयः कथंचिदसदाग्रहः ।
यदा पुनर्विवर्तत हृदयेऽतिमहाग्रहः ॥
तदा ते यानि दुःखानि याश्च लोके विडम्बनाः ।
प्राप्नुवन्ति न शक्यन्ते ता व्यावर्णयितुं गिरा ॥
केवलं गदितुं शक्यमियदेव समासतः ।
लभन्ते ते नराः सर्वा लोके दुःखविडम्बनाः ॥
प्रकृत्यैव भवन्त्येते गुरुदेवतपखिनाम् ।
प्रत्यनौका महापापा निर्भाग्या गुणदूषणाः ॥
सन्मार्गपतितं वाक्यमुपदिष्टं हितैषिणा ।
उपमितिभवायचा कथा।
केनचित्र प्रपद्यन्ते ते महामोहदूषिताः ।।
ततश्चेदं मुनेर्वाक्यं विनिश्चित्य मनीषिणा ।
विचिन्तितमिदं चित्ते तथा मध्यमबुद्धिना ॥
स्पर्थनेन्द्रियलुब्धानां यदेतदुपवर्णितम् ।
नृणां वृत्तं जघन्यानो सूरिभिर्विशदाक्षरैः ॥
तदेतत्मकलं बाले प्रतीतं स्फुटमावयोः ।
नाप्रतीतं वदन्त्येते यदि वा वरसूरयः ॥
बालेन तु गुरोर्वाक्यं न मनागपि लक्षितम् ।
तस्यां मदनकन्दल्यां चिप्तचित्तेन पापिना ॥
सूरिरुवाच ।
तदेवं भो महाराज जघन्यनरचेष्टितम् ।
निवेदितं मया तुभ्यं तत्रेदमभिधीयते ॥
एते जघन्या भूयांसो भुवने सन्ति मानवाः ।
दूतरे तु यतः स्तोकाः सकलेऽपि जगत्त्रये ।।
स्पर्शनेन्द्रियजेतारो विरला भुवने नराः ।
तेनामाभिरिदं पूर्व भवद्भ्यः प्रतिपादितम् ॥
नरपतिरुवाच ।
धर्म यतो न कुर्वन्ति स हेतु: प्रतिपादितः ।
भगवनाशितोऽस्माकं भवद्भिः संशयो महान् ॥
अत्रान्तरे तु सुबुद्धिमन्त्रिणभिहितं । भगवन् य एते
जघन्यमध्यमोत्कृष्टोत्कृष्टतमरूपतया चतुर्भेदाः पुरुषाः पश्चादनुपूर्व्या
भगवद्भिः स्वरूपतो याख्याताः एते किमेवखरूपाः प्रकृत्यैवं भवन्ति
तीयः प्रस्तावः । पाहोखिदेवंविधस्वरूपजनकमेतेषां किंचित्कारणमस्तौति कथयन्तु भगवन्तः । भगवानाह । महामन्त्रिनाकर्णय । न तावत्प्राकृतमि- दमेषां स्वरूपं किं तर्हि कारणजं । तत्र ये तावदुत्कृष्टतमाः पुमांसः प्रतिपादिताः ते केवलमुत्कृष्टेभ्यो निष्पन्नख प्रयोजनतया भिद्यन्ते न परमार्थन । यतस्त एवोल्लष्टा यदावाप्य मनुय्यभावं विज्ञाय भवस्वरूपमाकलय्य मोक्षमार्ग तदासेवनेन दलयित्वा कर्मजावं निराकृत्य स्पर्शनेन्द्रियं नितिं प्राप्ता भवन्ति तदोल्टाष्ट- तमा दूत्यभिधीयन्ते । निस्तौ च तेषां स्वरूपेणावस्थानं । ताम- वस्थामपेक्ष्य न किंचिच्चनकमस्ति । तेनोल्टष्टतमानां पुरुषाणां न कचिजनको जननी वा । एते पुनर्जघन्यमध्यमोत्सष्टाः पुरुषाः समारोदरविवरवर्तिनः स्वकर्मविचित्रतया जायन्ते । तस्मात्म एव कर्मविलासस्तेषां जनकः । तच्च कर्म त्रिविधं वर्तते । तद्यथा । शुभमकुशलं सामान्यरूपं च । तत्र या कर्मपद्धतिः शुभतया सुन्दरी मा शुभसन्दरौ मनुष्यत्वेनोत्तष्टानां जननी । या पुनर- कुशतकर्ममाला मा जघन्यमनुष्याणां जननौ । या पुनः कुशवा- कुशलतया सामान्यखरूपा कर्मपद्धतिः मा मध्यमनराणां जन- यिचौ विज्ञेयेति ॥ मनीषिणा चिन्तितं । श्रये न केवलं गुणैश्चरितेन चैतेऽस्माकमुत्कृष्टतमोत्कृष्टमध्यमजघन्याः पुरुषाः समानरूपा भगवद्भिर्व्याख्याताः किं तर्हि अननौजनकव्यतिकरो ऽप्यस्माकमेतैः सह तुल्य एव भगवता दर्शितः । तस्मानमेत- पैरेवास्माभिर्भवितव्यं । तथाहि । योऽसौ भवजन्तुमी निराकृत्य निर्वृति प्राप्त इति स्पर्शनेनास्मभ्य निवेदितो न तस्य तेन जननौ उपमितिभवप्रपश्चा कथा । -- जनको वा कश्चिदाख्यातः । तस्मादुल्लष्टतमोऽसाविति निश्चीयते। अस्माकं पुनस्त्रयाणामपि कर्मविलासो जनकः भगवदादिष्टाभि- धाना एव जनन्यः । तस्मादिदमत्रावसीयते यदुत जघन्यो बालो मध्यमो मध्यमबुद्धिः उत्कृष्टोऽहमिति ॥ सुबुद्धिनाभिहितं । भगवनेतेषामुत्कृष्टतमादौनां पुरुषाणां किं सर्वदावस्थितमेव रूपं उत परस्परं स्वरूपपरावाऽपि भवति । भगवानाह । महा- मन्त्रिनुत्कृष्टतमानां तावदवस्थितमेव रूपं न कदाचिदन्यथाभावं ते भजन्ते । इतरेषां पुनरनवस्थितं स्वरूपं यतः कर्मविलासा- यत्ताः खल्वेते वर्तन्ते । विषमशौलश्चासौ प्रकृत्या कदाचिदुत्कृष्टा- नपि मध्यमयति जघन्ययति वा मध्यमानपि चोटष्टयति जघन्य- यति वा जघन्यानपि मध्यमयति उत्साष्टयति वा । तस्मादनेन कर्मविलासेन मुक्तानामेवैकरूपता भवति नेतरेषां ॥ मनीषिण चिन्तितं । एतदपि घटत एवारमयतिकरे। तथाहि । विषम- शौल एवास्म जनकः यतः कथितं तेनैव मे यथा मयि प्रतिकूले यत्पद्यते तत्संपन्न बालस्येति । ततश्च यो निजतनयस्यापि प्रति- कूलचारितया एवंविधां दुःखपरंपरां संपादयति स कथमन्येषां धनायिष्यति ॥ सुबुद्धिनाभिहितं । भगवन्नुल्लष्टतमाः पुरुषाः कस्य माहात्म्येन भवन्ति । गुरुराह । न कस्यचिदन्यस्य किं तर्हि खबौर्यण । सुबुद्धिनाभिहितं । कस्तथाविधवीर्यलाभोपायः । मुनिराह । भागवतौ भावदीक्षा | मनौषिणा चिन्तितं । श्रये यद्येवं ततो युज्यते ममोल्टष्टतमस्य भवितं । किमनयाशेषविडम्ब- नया । ग्टताम्येनां भगवदादिष्टां भागवतौमेव दौवां । इति - द्वतीयः प्रस्तावः। भावयतः संजातो मनौषिणश्चरणपरिणामः । मध्यमबुद्धेरप्येवं गुरुमन्त्रिणोः परस्परजल्पमाकर्णयतः संजातश्चरणाभिलाषः । केवलं नाहमेतावतो नैष्ठिकानुष्ठानस्य आम इति चिन्तितमेनन । सुबुद्धिनाभिहितं । भदन्त योऽयमस्माभिर्टहिधर्मोऽभिधीयते । एष तादृशवीर्यस्य किं भवेत्कारण न वा ॥ गुरुराह । स्यादेष पारम्पर्यण तादृशस्थापि कारणम् । वीर्यस्य न पुनः साक्षाद्यतो मध्यजनोचितः ॥ उल्लष्टतां करोत्येष साक्षात्सम्यङ् निषेवितः । ततस्तादृशवीर्यस्य पारम्पर्यण साधकः ॥ अषिक्लेशविच्छेदकारिका भवदारिका । तावद्भागवती दीक्षा दुर्लभैव सुनिर्मला ॥ किं तु श्रावकधर्मोऽपि भवतानवकारकः । अत्यन्तदुर्लभो ज्ञेयो महामात्य भवोदधौ ।। तदेष परमार्थः । उल्लष्टतमतां साक्षादौतिशययोगतः । प्रव्रज्या साधयत्युच्चैरेष तु व्यवधानतः ॥ तदाकर्य ततश्चित्ते कृतं मध्यमबुद्धिना । युक्तो ममेषोऽनुष्ठातुं हिधर्मो जिनोदितः ॥ इतश्चाकुशलमालया स्पर्शनेन च मध्यवर्तितया विधुरितचित्त- वृत्तेर्बालस्य विवर्धन्ते विपर्यासविकल्याः । यदुत अहो अस्या रूपाति- ३०४ उपमितिभवप्रपञ्चा कथा। पश्यत शयः अहो सुकुमारता । अन्यच्च । अभिमतोऽहमस्याः यतो विलो- कयत्येषा मामर्धाषिविक्षेपःएतदङ्गसङ्गसुखामृतसेकानुभवनेनाधुना मे सफलं भविष्यति जन्मेति। ततश्चैवंविधवितर्कपरम्परापर्याकुली- भूतचेतसस्तस्य विस्मृतमात्मस्वरूपं नष्टाशेषसंज्ञा जातं मदनकन्दली- ग्रहणेकतानमन्तःकरणं । ततोऽविचार्य कार्याकार्यमन्ध व मत्त व ग्रहम्टहीत व तस्यामेव मदनकन्दल्या निश्चलविन्यस्तनयनमानसः एव तावतो जनसमुदायस्य शून्यपादपातं तदभिमुखं धावति स्म । ततः किमेतदिति उत्थितो जनहाहारवः । प्राप्ती ऽसौ मदनकन्दलौसमीपं । ततः सावेगं क एष इति निरीक्षि- तोऽसौ नरपतिना । लक्षितं दृष्टिविकारेण तदाकूतं । स एवायं पापो बाल इति प्रत्यभिज्ञातोऽनेन । जातास्य कोपारुण दृष्टिः कृतं भासुरं वदनं मुक्तो हुंकारः । ततो बालस्थादृष्टविपाकतया प्रादुर्भूतभयातिरेकस्य नष्टो मदनज्वरः प्रत्यागता चेतना समुत्पत्वं दैन्यं । ततः पश्चान्मुखं नष्टुं प्रवृत्तो थावच्छिथिलीभूतानि सन्धि- बन्धनानि विलीयते शरीरं भनो गतिप्रसरः । तथापि कतिचि- त्पदानि कथंचिगवा प्रकम्पमानसमस्तगात्रः पतितोऽसौ भूतले । अचान्तरे प्रकटौभूतः स्पर्शनो निर्गतो भगवदवग्रहात् गतो दूरदेशे स्थितस्तं प्रतीक्षमाणः । विरतः कलकलः । लज्जितौ मनीषिमध्यमबुद्धौ बालचरितेन । ततः कोऽस्थापि वराकस्योपरि कोप इति विचिन्त्य शान्तीभूतो राजा । पृष्टोऽनेनाचार्यः । यदुत भगवन्नलौकिकमिदमस्य पुरुषस्य चेष्टितं प्रतीतमिव विचारणाया अश्रद्धेयमननुभूतवृत्तान्तानां। तथाहि । विमल ज्ञानालोकेन साक्षा- ढतीयः प्रस्तावः । द्भुतसमस्तभुवनवृत्तान्तः पश्यत्येव भगवाननेन यत्पूर्वमाचरितमासीत् यच्चेदानीमध्यवसितं । तथापि ममेदमत्र कौतुकं । यदुत तत्पूर्व- कमस्याचरणं कदाचिदिचित्रतया सत्त्वचरितस्य संभाव्येत । इदम- धुनातनं पुनमहदिन्द्रजालमिव प्रत्यक्षमपि ममाश्रद्धेयं प्रतिभा- मते । यतो भगवति रागादिविषधरोपशमवैनतेये सनिहितेऽपि कथमतिक्लिष्टजन्तूनामप्येवंविधोऽध्यवसायः प्रादुर्भवेदिति । भगव- ताभिहितं । महाराज न कर्तव्योऽत्रातिविस्मयो यतो नास्य पुरु- घस्य तपखिनो दोषोऽयं । नृपतिरुवाच । तर्हि कस्यायं दोषः । भगवानुवाच । दृष्टस्वयास्य शरीरान्निर्गत्य योऽयं बहिःस्थितः पुरुषः । नृपतिनाभिहितं । सुष्टु दृष्टः । भगवानाह । यद्येवं ततो ऽस्यैवायं समस्तोऽपि दोषो यतोऽस्य वशवर्तिनानेन पूर्वक- मिदं समस्तमाचरितं । अनेन हि वशीकृताः पुरुषास्तन्नास्त्येव किंचिजगति पापं यन्नाचरन्ति । तस्मानात्र किंचिदलौकिक विचारातीतमश्रद्धेयं वा भवद्भिः संभावनौयं । नरपतिस्वाच । यद्येवं ततः किमित्ययं पुरुषोऽमुं शरौरवर्तिनमात्मनोऽनर्थहेतु- भूतमपि धारयति स्म। भगवानाह। न जानात्येष वराकोऽस्य दुःशौलतां। परमरिपुरपि ग्टहीतोऽयमनेन खिग्धबन्धुबुझा । नरपतिरुवाच । किमत्र पुनः कारणं । भगवताभिहितं । अस्यस्य शरीरे योगशक्तिद्वारेण कृतानुप्रवेशा अकुशलमाचा जननौ। मात्र कारणं । किं च। यदिदमतिदुर्जयमधुनैव स्पर्धनेन्द्रियमस्माभिः प्रतिपादितं तद्रूप एवायमस्य स्पर्शनाभिधानः पापवयस्थो वर्तते । अयं तु जघन्यपुरुषो बालः । इयं च तद- । 39 उयमितिभवप्रयचा कथा । तदश- भिधानव अकुशलकर्ममालारूपैव जननौ। तदत्र किं न संभा- व्येत । यच्चोक्तं भगवत्सन्निधानेऽपि कथमेवंविधाध्यवसायप्रादुर्भाव इति तदण्यत एव नाश्चर्यबुद्ध्या ग्राह्यं यतो विभेदं जन्तनां कर्म । सोपक्रमं निरूपक्रमं च । तत्र सोपक्रममेव महापुरुषसवि- धानादिना क्षयक्षयोपशमभावं प्रतिपद्यते न निरुपक्रमं । गाच जन्तवस्तत्ममोपेऽपि विरूपकर्माचरन्तः केन वार्यन्ते । तथाहि । येषामचिन्त्य पुण्यप्राग्भारवतां भगवतां तीर्थकृतामिह जगति गन्धहस्तिनामिव विचरतां विहारपवनगन्धादेव क्षुद्राशेष- गजकल्या दुर्भिक्षेतिपरचक्रमारिवैरप्रभृतयः सर्व एवोपद्रवाः सम- धिकयोजनशताद् दूरत एव भज्यन्ते तेषामपि भगवतां सन्नि- धाने निरुपक्रमकर्मपाशावपाशिताः क्षुद्रसत्त्वा न केवलं नोपशा- म्यन्ति किं तर्हि तेषामेव भगवतां तीर्थकृतां क्षुद्रोपद्रवकरणे प्रवर्तन्ते । श्रूयन्ते हि तथाविधा भगवतामयुपसर्गकारिणो गोप- सङ्गमकादयः पापकर्माण इति । अन्यच्च । तेषामेव भगवतां देवविरचितसमवसरणानामध्यासितसिंहासनचतुष्टयानां मूर्तिमात्र- दर्शनादेव प्राणिनां किल विलौयन्ने रागादयो विदलति कर्म- जालं प्रशाम्यन्ति वैराबन्धाः विच्छिद्यन्तेऽलोकस्नेहपाशाः प्रलीयते विपरीताभिनिवेशो यावता तत्रापि केषांचिदभव्यतया निरुपक- मकर्मघनपटलतिरस्कृतविवेकदीधितिग्रसराणां वा न केवलं पूर्वो- क्रगुणले शदेशोऽपि न संजायते किं तर्हि प्रादुर्भवन्त्येवंविधा भगवन्तमधिकृत्य कुविकल्पाः । यदुत । अहो सिद्धमस्येन्द्रजालं हो अस्य लोकवञ्चनचातय अहो गाढमूढता लोकानां यदेतेऽनेना- कृतीयः प्रस्तावः। प्यलोकवाचालेनालजालरचनाचतुरेण प्रतार्यन्त इति। तदेवंस्थिते महाराज न किंचिदिदमत्यद्भुतं यदनेन पुरुषेण मत्सन्निधानेऽप्येवं- विधमध्यवसितं । अयमपि हि निरूपक्रमयानयाकुशलमालया खदेहवर्तिन्या निजजनन्या प्रेर्यमाणोऽमुं स्पर्शनं पापसहचरमुररो. कृत्येवं चेष्टते । तमात्र भवद्भिर्विस्मयो विधेयः ॥ सुबुद्धिनाभि- हित । भदन्त न किंचिदिदमाश्चर्य भगवदागमावदातधियां । एवंविध एव निरुपक्रमकर्मपरिणामो नात्र सन्देहः । केवल मिदा- नौमेव भगवत्पादप्रसादादेव देवः खल्वेवंविधपदार्थेषु तुमबुद्धिर्भ- विष्यति । तेनैवं भगवन्तं विज्ञपयति । राजा महर्षः प्राह । चार्वभिहितं सखे चार अहो तेऽवसरभाषिता । ततो राजैव भगवन्तं प्रत्याह। यथा कोऽस्य पुनः पुरुषस्य परिणामो भविष्यति। भगवताभिहितं । इदानौं तावदेष दृष्टयुमत्कोपविपाकतया भयातिरेक प्रस्तहदयो न किंचिच्चेतयते । गतेषु पुनरितो युभ- दादिषु प्रत्युपलब्धसंज्ञः सन्नेष भूयो ऽप्यधिष्ठास्यते ऽनेन स्पर्शनेन । ततो युभनयादेव कुत्रचिनिदेश थामौत्याकूतेन प्रपलायमानो महता क्लेशन यास्थत्येष कोनाकसन्निवे । तत्र च कर्मपूरकाभि- धानस्य ग्रामस्य प्रत्यासबभूभागे पथि श्रान्तः पिपासितो दूरत एव द्रक्ष्यति वृहत्तडागं । तत: खानपानार्थं चलिप्यते तदभि- मुखं । इतश्च पूर्व मेवागमिष्यति तत्र चाण्डासमिथुनं । ततश्चाण्डा- लस्तडागतटवर्तिषु तरुगहनेषु पतत्रिगणमारणप्रवणः सबटाटिय्यते । चाण्डालो पुनर्विजनमिति मत्वा सानार्थमवतरिष्यति तडागं । ततोऽवतीर्णायां तस्यां प्राश्यत्येष तम्य तौरं । ततोऽमुमुपलभ्य मा ३०० उपमितिभवायचा कथा। - मातङ्गो स्पश्यपुरुषोऽयं कलहयिष्यति मां सरोवरावतरणापराध- मुद्दिश्येति भयेन निमंक्ष्यति सलिले । स्थास्थति पद्मखण्डे लौना। अयमपि मज्जनार्थमवतीर्यानाभोगेनैव यास्यति तत्समीपं । भविष्यति तया सार्धमाश्लेषः । वेदयिष्यते तदङ्गाशें । संजनिष्यते तस्योपरि लाम्पट्यमस्य । कथयिष्यति मात्मनश्चाण्डालभावं । तथापि करिष्यत्येष तस्याः शरीरग्रहणं बलामोटिकया विधा- स्थति मा हाहारवं। तमाकर्ण्य धाविष्यति कुपितचाण्डालः । विलोकयिव्यत्येनं तथावस्थितं । प्रज्वलिष्यति नितरां कोपानलेन । संधास्थति कोदण्डे शिलीमुखं । मारयिष्यति च अरे रे दुरा- त्मन्नधमपुरुष पुरुषो भवेत्याइय स चाण्डालः। कम्पमानमेक- प्रहारेण प्रहरियति स च तं । तदाध्यामितो रौद्रध्यानेनेति मृत्वा च यास्यति नरकेषु तेभ्योऽप्युहत्तस्ततः कुयोनिषु पुनर्नर- केव्वेवानन्तवाराः । एवं दुःखपरम्परया स्थास्यत्यनन्तमपि कालं पतितः संसारचक्रवाले पर्यटिष्यति ॥ नरपतिरुवाच । भदन्त अतिदारुणेयमकुशलमाला स्पर्शनश्च यदशेनेदमस्य संपन्नं संपत्मते च । भगवताभिहितं । महाराज किमत्रोच्यतां । पर्याप्तमौदृश्या दारुणतया ॥ सुबुद्धिनाभिहितं । भदन्त किमेते स्पर्शनाकुशलमाले अस्यैव पुरुषस्य प्रभवतः पाहोखिदन्येषामपि प्राणिनां । नाह । महामात्य केवलमत्र पुरुषेऽभिव्यक्तरूपे खल्वेते । पर- मार्थतः पुनः सर्वेषां सकर्मसंसारिप्राणिनां प्रभवत एव । यतो योगिनीयमकुशलमाला योगेश्वरश्चायं स्पर्शनः । योगिनां भवत्येवेदृशौ शक्तिः यया क्वचिदभिव्यक्तरूपाः क्वचिदनाविभूता भगवा- ।
टतीयः प्रस्तावः । वर्तन्त । नृपतिनाभिहितं । भगवन्ननयोः किमाहोचरोऽप्यस्ति प्रभावः । भगवानाह । बाढमस्ति । ततो राजा मन्त्रिणं प्रत्याह । सखे पापयोरनयोरमर्दितयोः कौदृशौ ममाद्यापि शत्रुमर्दनता । ततो यद्यपि न युक्त भगव- समीपस्थैरेवंविधं जल्पितं तथापि दुष्टनिग्रहो राज्ञां धर्म इति कृत्वेदमभिधीयते । तदाकर्णयत्वार्यः । सुबुद्धिनाभिहितं । समा- दिशतु देवः । राज्ञाभिहितं । श्रादिष्टमेतत्तावद्भगवता यथैते स्पर्शनाकुशस्वमाले अनेन पुरुषेण सह यास्थतः । ततो नेदानौं तावदेते वधमहतः । केवलं समाज्ञापय त्वमे ते । यथा । मद्विष- यान्निर्गत्य युवाभ्यां दूरतोऽपि दूरं गन्तव्यं । मृतेऽप्यस्मिन् पुरुषे नास्माकौनविषये प्रवेष्टव्यमितरथा युवयोरस्माभिः शारीरो दण्डः करिष्यते । अथैवमप्यादिष्टे पुनरेते अस्मद्विषये प्रविशेतां ततो भवता निर्विचारं लोहयन्त्रेण पौडनौये । एवमतिदुष्टयोरारट- तोरप्यनयोरुपरि नेषदपि दया विधेया ॥ सुबुद्धिना चिन्तितं । अहो देवस्यानयोरुप-वेगातिशयः । यतोऽस्य तदशेन विस्मृतं तदपि हिंस्रकर्मणि न भवन्तं नियोक्ष्य इति महोचरं वरप्रदानं । भवत्। तथापौदमेव प्रतिबोधकारणं भगवन्तः कल्पयिष्यन्ति । मम वाज्ञाप्रतिपत्तिरेव ज्यायसीति । विचिन्त्याभिहितमनेन । यदाज्ञापयति देवः ॥ ततः प्रवृत्तोऽसौ तयोराज्ञापनार्थ । सूरि- णाभिहितं । महाराज अलमनयोरेवमाज्ञापनेन । न खल्वेतयोर- यमुन्मूलनोपायो यतोऽन्तरङ्गलोकजातीये एते स्पर्शनाकुशलमाले। अन्तरङ्गलोकेषु च न प्रभवन्ति लोहयन्त्रादौनि । अगम्यरूपा ३१. उपमितिभवप्रधश्चा कथा। हि ते बाह्यशस्त्राणां । नृपतिरुवाच । भदन्त कस्तीनयोरन्यो निर्दलनोपायो भविष्यति । भगवताभिहितं । अप्रमादाभिधान- मन्तरङ्गमेव यन्त्रमनयोर्निर्दलनोपायः । तोते माधवोऽनयोरेव निध्योडणार्थमहर्निशं वायन्ति । नृपतिरुवाच । कानि पुनस्त- स्याप्रमादाभिधानस्य यन्त्रस्योपकरणानि । भगवानाह । यान्येत एव साधवः प्रतिक्षणमनुशीलयन्ति । नृपतिरुवाच । कथं । भग- वतोतं । समाकर्णय । यावन्जीवमेते नाचरन्ति तनौयमीमपि परपौडां न भाषन्ते सूक्ष्ममध्यलोकवचनं न वन्ति दन्तशोधन- मात्रमप्यदत्तं धारयन्ति नवगुप्तिमनाथं ब्रह्मचर्य वर्जयन्ति निःशेष- तया परिग्रहं न विदधते धर्मोपकरणशरीरयोरपि ममत्वबुद्धिं नासेवन्ते रजन्यां चतुर्भेदमप्याहारजातं श्राददते दिवा प्रवचनो- पवर्णिनं समस्तोपधिशुद्धं संयमयात्रामात्रसिद्धये निरवद्यमाहा- रादिकं वर्तन्ते समितिगुप्तिपरिपूरितेनाचारेण पराक्रमन्ते विवि- धाभिग्रहकरणेन परिहरन्त्यकल्याणमित्रयोगं दर्शयन्ति सतामा- त्मभावं न लवयन्ति निजामुचित स्थिति अपेक्षन्ते लोकमार्ग मानयन्ति गुरुसंहतिं चेष्टन्ते तत्तन्त्रतया भाकर्णयन्ति भगवदा- गमं भावयन्ति महायनेन अवलम्बन्ते द्रव्यापदादिषु धैर्य पर्यालो- चयन्त्यागामिनमपायं यतन्ते प्रतिक्षणमसपत्नयोगेषु लक्षयन्ति चित्तविस्रोतमिका प्रतिविदधते चानागतमेव तस्याः प्रतिविधानं निर्मलयन्ति सततमसङ्गताभ्यासरततया मानसं अभ्यस्यन्ति योग- मार्ग स्थापयन्ति चेतमि परमात्मानं निबध्नन्ति तत्र धारण परित्यजन्ति बहिर्विक्षेप कुर्वन्ति तत्प्रत्ययकतानमन्तःकरणं यतन्ते टतीयः प्रस्तावः । योगसिद्धौ श्रापूरयन्ति शुक्लध्यानं पश्यन्ति देहेन्द्रियादि विविक्त- मात्मानं लभन्ते परमसमाधि भवन्ति शरौरिणोऽपि सन्तो मुक्ति- सुखभाजनमिति । तदेवमेते महाराज मुनयोऽमूनि परपोडाव- जनादौनि मुनिसुखभाजनत्वपर्यवसानानि तस्याप्रमादनानो यन्त्र- स्योपकरणानि प्रतिक्षामनुशीलयन्ति । ततोऽमौभिरनु शौलितै- रत्यर्थं तदृढौभवति यन्त्र । तथाभूतं च तदनयोः स्पर्शना- कुशलमालयोरपरेषामप्येवंजातीयानामन्तरङ्गभूतानां दुष्टलोकानां निष्पौडने क्षमं संपद्यते । तेन च निष्पीडितास्तेऽन्तरङ्गलोका न पुनः प्रादुर्भवन्ति । ततो महाराज यद्येतन्निष्पौडनाभिलाषोऽस्ति भवतस्तदिदमप्रमादयन्त्रं खचेतसि निधाय दृढवौर्य यध्यावष्टभ्य खल्वेते निष्पौडनीये स्वत एव । न मन्त्रिणोऽप्यादेशो देयः । न खलु परेण निष्पीडिते अप्येते परमार्थतो निष्पीडिते भवतः ॥ एवं च भगवति नृपतिगोचरमुपदेश ददाने मनीषिणः कर्म- वनदाही शुभपरिणामानलो गतोऽभिवृद्धिं भगवद्वचनपवनेन । केवलं पूर्वोत्तरवाक्ययोर्विषयविभागमनवधारयन् मनाक् समन्देह दुव विरचितकरमुकुलः स भगवन्तं प्रत्याह । भदन्त यामौ भग- वद्भिर्भागवतौ भावदीक्षा वौर्योत्कर्षलाभहेतुतया पुरुषस्योटाटत- मत्वं साधयतीति प्राक् प्रतिपादिता यच्चेद मिदानौं दुष्टान्तरङ्ग- लोकनिष्पीडनक्षमं सवौर्ययष्टिकमप्रमादयन्त्र प्रतिपाद्यते अनयोः परस्पर कियान् विशेषः । भगवताभिहितं । भद्र न कियानपि विशेषः केवलमनयोः शब्दो भिद्यते नार्थः यतोऽप्रमादयन्त्रमेव परमार्थतो भागवती भावदीयेत्यभिधीयते । मनीषिणाभिहितं ।
उपमितिभवप्रपञ्चो कथा। ततो दीयतां भगवता मा भागवतौ भावदोषा याचितोऽहं तस्याः । भगवानाह । बाढमुचितः सुष्टु दीयते । नृपतिनाभि- हितं । भदन्त ममानेकसमरसझट्टनियूंढसाहसस्थापौदमप्रमादयन्त्र युग्मदचनतः श्रूयमाणमपि दुरनुष्ठेयतया मनसः प्रकम्प मुत्पादयति । एष पुनः कः कुतस्त्यो महात्मा येनेदं सहर्षेण महाराज्यमिव जिगीषुणाभ्युपगतमिति । भगवताभिहितं । महाराज मनौषि- नामायमत्रैव चितिप्रतिष्ठिते वास्तव्यः । राज्ञा चिन्तितं। श्रये यदायं पापः पुरुषो मया व्यापादयितमादिष्टस्तदा लोकैः माध्य- मानः श्रुत एवामौन्मनौषौ। यदुत एकस्मादपि पितुर्जातयोः पश्यतानयो रियान् विशेषः अस्येदं विचेष्टितं स तु तथाभूतो मनौषो महात्मेति । तदेष एव स मनौषौ प्रायो भविष्यति । अथवा भगवन्तमेव विशेषतः पृच्छामौति । विचिन्याभिहित- को पुनरस्यात्र नगरे मातापितरौ के वा ज्ञातय इति । भगवानाह । अस्त्यस्यैव चितिप्रतिष्ठितस्य भोक्ता कर्म- विलासो महानरेन्द्रः सोऽस्य जनकः तस्यैवागमहिषौ शुभसुन्दरी नाम देवी मा जननौ। तस्यैवेयमकुशलमाला भार्या अयं च पुरुषो बालाभिधानः सुत इति । तथा योऽयं मनीषिणः पार्श्व- वौं पुरुषः सोऽपि तस्यैव सामान्यरूपाया देव्यास्तनयो मध्यम- बुद्धिरभिधीयते । एतावदेवात्रेद कुटुम्बकं । शेषज्ञातयस्तु देशा- न्तरेवतः किं तदार्तया । नृपतिराह । किमस्य नगरस्य कर्म- विलासो भोका न पुनरहं। भगवानाह । बाढं। राजोवाच । कथं। भगवाना। समाकर्णय । मनेन । भदन्त
टतीयः प्रस्तावः ।
यतस्तदाज्ञां सर्वेऽपि भौतकम्पितमानसाः ।
एते नागरिका नैव लड्वयन्ति कदाचन ॥
तथापि राज्यहरणे तद्दाने वा यथेच्छया ।
शतोऽसौ न तथा तेऽत्र राजनाज्ञा प्रकाशते ॥
परमार्थन तेनामौ भोकास्येत्यभिधीयते ।
यतः प्रभुत्वमाज्ञायां प्रभूणां किल गोयते ॥
नरपतिस्वाच ।
यद्येवं भगवन्नेष कस्मान्नेहोपलभ्यते ।
सूरिणभिहितं राजन् समाकर्णय कारणम् ॥
यतः कर्मविलासोऽयमन्तरङ्गो महानृपः ।
अतो न दर्शनं याति सर्वदैव भवादृशाम् ॥
अन्तरङ्गा हि ये लोकास्तेषां प्रकृतिरीदृशी।
स्थिताः प्रच्छन्नरूपेण सर्वकार्याणि कुर्वते ।।
केवल बुद्धिदृष्ट्यैव धौराः पश्यन्ति तान् सदा ।
आविर्भूता वाभान्ति अन्येषामपि तत्पुरः ॥
न चावभावना कार्या भवतात्र प्रयोजने ।
न केवलं यतोऽनेन भवानेव पराजितः ॥
किं तु प्रायेण सर्वेऽपि संसारोदरवर्तिनः ।
खवौर्यण विनिर्जित्य प्रभवोऽपि वशीकृताः।
ततो ग्टहीततत्त्वेन राजा प्रोतः सबुद्धिना ।
देव ज्ञातो मयाप्येष राजा योऽवर्णि सूरिणा ।
देवाय कथयिष्यामि रूपमम्य परिस्फुटम् ।
३१४ उपमितिभवप्रपञ्चा कथा । अहमेव भदन्तैस्तु सर्वमेव निवेदितम् ॥ दूतस्तु । विज्ञायावसरं तेन पूर्व संजातबुद्धिना । अथानतभिरस्केन प्रोकं मध्यमबुद्धिना ।। योऽसौ भगवतादिष्टः संसारतनुताकरः । ग्रहिधर्मः स मे नाथ दौयतामुचितो यदि ॥ गुरुवाच । श्रुत्वा भागवतौं दीक्षां न कर्तुं शक्नुवन्ति ये । तेषां गृहस्थधर्मोऽसौ युक्त एव भवादृशाम् ॥ नृपतिरुवाच । भदन्त किंखरूपोऽयं ग्टहिधर्माऽभिधीयते । सूरिराह महाराज समाकर्णय कथ्यते ॥ ततो भगवता वर्णित परमपदकल्पपादपनिरुपहतबीजं सम्य- ग्दर्शनं प्रतिपादितानि संसारतरुकन्दच्छेदकतयाचिरेण स्वर्गाप- वर्गमार्गसंसर्गकारोण्यणवतगुणवतशिक्षापदानि। ततः संजाततदा- वरणीयकर्मक्षयोपशमतया भावतः प्रादुर्भूतसम्यग्दर्शनदेश विरति- परिणामेन शक्योऽयमस्मादृशामप्यनुष्ठातुं ग्टहस्थधर्म इति संचिन्य नरपतिनाभिहित। भदन्त क्रियतामेतद्दानेनास्माकमप्यनुग्रहः । भगवानाह। सुष्टु क्रियते। ततो दत्तस्तयोईयोरपि विधिना ग्रहिधर्मो भगवता। मनौषिदीक्षादानाथे पुनरभ्युद्यते भगवति भगवञ्चरणयोर्निपत्य नरपतिस्वाच। भदन्त ग्रहौतैवानेन महात्मना भावतो भागवती दौक्षति कृतकृत्य एवायमधुना वर्तते । तथापि R- -- हतीयः प्रस्तावः। ३१५ वयमेनं मनौषिणमुद्दिश्य किंचित्मन्तोषानुरूपमाचरितमिच्छामः तदनुजानातु भगवानिति । तदाकर्ण्य स्थिता भगवन्तस्तूष्णौं- भावेन । सुबुद्धिनाभिहितं । देव न पृच्छयन्ते द्रव्यस्तवप्रवृत्तिकाले भगवन्तः । अनधिकारो झंत्र भगवतां । युक्त एव यथोचितः खयमेव द्रव्यस्तवः कतुं युभादृशां । केवलमेतेऽपि विहितं तमनु- मोदन्त एव द्रव्यस्तवं । ददति च तहगोचरं शेषकालमुपदेशं यथा कर्तव्योदारा पूजा भगवतां न खलु वित्तस्यान्यच्छुभतरं स्थानमि- त्यादिवचनसन्दर्भण । तस्मात्खत एव कुरुत यथोचितं यूयं । केवल- मभ्यर्थयामः कालपतौक्षणं प्रति मनीषिणं । नृपतिरवोचत् । एवं कुर्मः। ततोऽभ्यर्थितः सबहुमानं राजमन्त्रिभ्यां मनीषौ । चिन्तित- मनेन । न युक्तः कालविलम्बो धर्मप्रयोजने । तथापि महापुरुष- प्रणयभङ्गोऽपि सुदुष्कर इति मन्यमानेन प्रतिपन्न तत्समौहितं । ततस्वरयता तेन नरनाथेन तोषतः । व्यापारिता महायोच्चैः सर्वे मन्त्रिमहत्तमाः ॥ ततस्तैः क्षणमात्रेण तत्सर्व जिनमन्दिरम् । विचित्रवस्त्र विस्तारैर्विहितं विगतातपम् । कुरङ्गनाभिकश्मौरमलयोद्भवरूपया। कर्पूरोन्मिश्रया गार्या तदधस्ता दिलेपितम् ॥ तथालिकुलसङ्गीतैः पञ्चवर्णैमनोहरैः । श्राजानत्सेधिभिः पुष्यैः सर्वतः परिपूरितम् ॥ सौवर्णस्तम्भविन्यस्तमणिदर्पणराजितम् । दिव्यवस्वकृतोलोचबद्धमुकावचलकम् ॥
उपमितिभवप्रपञ्चा कथा ।
नष्टान्धकारसम्बन्ध रत्नोद्योतैः सुनिर्मलैः ।
विध्वस्ताशेषदुर्गन्ध सकृष्णागरुधपतः ॥
देवलोकाधिकामोदं पटवासैर्विसर्पिभिः ।
लसत्केतकसङ्घातगन्धेन भुवनातिगम् ॥
नमविलासिनीलोकप्रारब्धस्नानसाधनम् ।
एवं विधाय तत्सम प्रस्तुतं देवपूजनम् ॥
अत्रान्तरे।
पारिजातकमन्दारनमेरहरिचन्दनः ।
सन्तानकैश्च देवौधास्तथान्यैर्जलजेतरैः ।
पुष्यत्वा विमानानि द्योतयन्तो नभस्तलम् ।
कृतोत्कृष्टिरवास्वर्णमाजग्मुस्तं जिनालयम् ॥
ततः प्रमुदिताशेषलोकलोचनपूजिताः ।
पूजां जगद्गुरूणां ते जातानन्दाः प्रचक्रिरे ।
सुश्लिष्टवर्णविन्यासां पूजामालोक्य तल्टताम् ।
निश्चलाचतया लोकास्ते जग्मुर्दैवरूपताम् ॥
ततोऽनन्त गुणानन्दपरिपूरितचेतसा ।
नरेन्द्रेण सलोकेन देवानानन्ध सहिरा ॥
शुभे सुमेरुवत्तुङ्गे सुवेद्यां भद्रविष्टरे ।
निवेश्य बिम्बं जैनेन्द्रं विधिनारम्भि मज्जनम् ॥
तत्रच
स्वातस्य शुभवस्वस्य किरोटाङ्गदधारिणः ।
गोशौर्षण विन्त्रिप्तस्य हारराजितवचसः ॥
द्वतीयः प्रस्तावः।
कुण्डलोद्भासिगण्डस्य पक्राकारानुकारिणः ।
बहिःशान्तावकारस्य निर्मलीभूतचेतसः ॥
महत्तमोऽयमस्माकमेष एव च नायकः ।
एष एव महाभाग एष एव च पूजितः।।
येन भागवती दौचा दुष्करापि जिक्षिता ।
एवं प्रभाषमाणेन नरेन्द्रण मनीषिणः ॥
मत्तीर्थोदकसंपूर्णस्तापनीयो मनोहरः ।
सद्धर्मसारसंपूर्णमुनिमानससन्निभः ॥
गोशौर्षचन्दनोन्मिश्रो दिव्यपद्मावृताननः ।
समन्ताच्चर्चितश्चारु शुभ्रश्चन्दनहस्तकैः ।
संस्थाप्य प्रथमस्थाने स्वात्रकारतया मुदा ।
समर्पितोऽभिषेकार्थ दिव्यकुम्भो भवच्छिदः ।
श्रानन्दपुलको दं दधानो भक्तिनिर्भरः ।
जग्राह नृपतिः कुम्भं स्वयमेव द्वितीयकम् ॥
तथा मध्यमबुद्धिश्च स्वपुत्रश्च सुलोचनः ।
कृतौ भुवननाथस्य साकारणतत्परौ ।
चन्द्रोद्योतच्छटाच्छेन चामरेण विभूषिता ।
स्थिता त्रिलोकनाथस्य पुरो मदनकन्दलौ ॥
द्वितीया स्थापिता राज्ञा तस्याश्चामरधारिणी।
देवी पद्मावतौ नाम तदाकारानुकारिणी ।
धूपभाजनमादाय गाढं भावितमानमः ।
सुबुद्धिवर्धितानन्दः स्थितोऽग्रे पिहिताननः ॥
३९८ उपमितिभवप्रपश्चा कथा। तेनैव राजादिष्टेन शेषकर्मसु सादरम् । ये ये श्रेष्ठतमा लोकास्ते ते सम्यङ् नियोजिताः॥ यतः। त एव कृतिनो लोके ते जातास्ते समुन्नताः । ते कलालापविज्ञानशालिनस्ते महाधनाः ॥ ते रूपवन्तस्ते शूराः ते कुलस्थापि भूषणाः । ते सर्वगुणसंपूर्णः साध्यास्ते भुवनत्रये ॥ किङ्करीकृतशक्रस्य लोकनाथस्य मन्दिरे। येऽत्र किङ्करतां यान्ति नराः कल्याणभागिनः ।। ततः प्रवृत्ती भगवतोऽभिषेकमहोत्सवः । पूरयति दिक्चक्र- वालमुद्दामदेवदुन्दुभिनिर्घोषः । बधिरयति जनकर्णकोटराणि रटत्पटहपाटवप्रतिनिनादसंमूर्छितो विविधर्यनिनादः । समुल्ला- स्यते कणकणकभाणकरवोन्मिश्रः कलकाहलाकखकलः। गौय- न्तेऽन्तरान्तरा प्रशमसुखरमाखादावेदनचतुराणि भगवत्माधुगुण- सम्बन्धप्रबद्धानि श्रवणोत्सवकराणि गौतकानि । पद्यन्ते परिशुद्ध- गम्भौरेण ध्वनिना सर्वज्ञप्रणीतवचनोबतिकराणि रागादिविषध- रपरममन्त्ररूपाणि भावसारं महास्तोत्राणि । प्रवृत्तानि विविध- करणाङ्गहारहारौणि प्रमोदातिरेकसूचकानि महानृत्तानि । तदेवं महता विमर्दन सुरासुरैरिव कनकगिरिशिखरे निर्वर्तिते भगवदभिषेकमङ्गले पूजितेषु मविशेषं भुवनाधिनाथबिम्बेषु विहि- तेषु निःशेषकन्यविधानेषु वन्दितेषु माधुलोकेषु दत्तेषु महादानेषु सम्मानितेषु विशेषतः साधर्मिकगणेषु मनौषिणः खगेहनयनाय
हतीयः प्रस्तावः।
३१६
प्रतीकारितो नरपतिना जयकुञ्जरः । आरोपितस्तत्र मनौषौ
स्थितोऽस्य स्वयमातपत्रधारकः । घोषितं च नरपतिना हर्षाति-
रेकरोमाञ्चितवपुषा चहता शब्देन । यदुत। भो भोः सामन्ता भो
भो मन्त्रिमहत्तमाः समाकर्णयत यूयं ।
विभूतिरच संसारे नरस्य ननु तत्त्वतः ।
सत्त्वमेवाविगानेन प्रसिद्धं सर्ववादिनाम् ॥
ततो यस्याधिकं सत्त्वं नरस्येह प्रकाशते ।
म शेषनरवर्गस्य प्रभुत्वं कर्तमर्हति ॥
एवं च स्थिते ।
सत्त्वोत्कर्षस्य माहात्म्यं यदत्रास्य मनीषिणः ।
तहष्टमेव युभाभिः सर्वैरेव परिस्फुटम् ॥
तथाहि ।
यत्तद्भगवतादिष्टं मादृशां त्रासकारणम् ।
अनेन रभसा यन्त्रं याचितं तन्महात्मना ।
तदेष यावदस्माकं सदनुग्रहकाम्यया ।
ग्टहे तिष्ठति तावनः स्वामी देवो गुरुः पिता ॥
वयमस्य भवन्तश्च सर्वे किङ्करतां गताः ।
विधूतपापमात्मानं विनयात्करवामहै ।
ततः समस्तैस्तैरुक्तं प्रमोदोडुरमानमः ।
यदादिशति राजेन्द्रः कस्मै तन्नात्र रोचते ॥
अचान्तरेऽतितोषेण देहस्था सा मनीषिणः ।
विजृम्भिता विशेषेण जननी शुभसुन्दरौ ॥
३००
उपमितिभवप्रपञ्चा कथा ।
ततः सीकतामाप्य क्षणेन भुवनातिगाम् ।
रराज राजलोकेन परिवारितविग्रहः ॥
करेणुकाधिरूढेन सह मध्यमबुद्धिना ।
अथावाप पुरदारं स्तूयमानः सुबुद्धिना ॥
कृतोच्छितपताके च हट्टशोभामनोरमे ।
विशेषोज्ज्वलनेपथ्ये होत्समुखमागते ॥
अथासौ नगरे तत्र मनीषौ तोषनिर्भरैः ।
एवं नागरकैलोकैः प्रविवेश कृतस्तुतिः ॥
तद्यथा ।
धन्योऽयं कृतकृत्योऽयं महात्मायं नरोत्तमः ।
अस्यैव सफलं जन्म भूषितानेन मेदिनी ।।
अस्त्येव धन्यतास्माकं येषामेष स्वपत्तने ।
संजातो न ह्यधन्यानां रत्नपुञ्जेन मौलकः ।।
ततश्च ।
कामिनोनयनानन्दं कुर्वाणोऽर्थाभिलाषिणाम् ।
ददानश्च महादानं दधानो देवरूपताम् ॥
मद्धम पक्षपातं च देहिनामात्मचेष्टितैः ।
जनयञ्जनितानन्दो विचचार पुरेऽखिले ॥
ततो महाविमर्दैन संप्राप्तो राजमन्दिरम् ।
रत्नराशिप्रभाजालैः सदा बहेन्द्रकार्मुकम् ॥
तत्र चाशेषराजादिलोकसन्मानमानितः ।
सकामकामिनीवृन्दलोललोचनवौक्षितः ॥
टतौयः :प्रस्ताव । ३२१ गौतनृत्तप्रवन्धेन सोऽमरालयविभ्रमे । देवराजवदास्थानं दत्त्वा निःशङ्कमानमः ॥ ततो विलौनरागोऽपि नृपतेस्लोषवृद्धये । उत्थाय मज्जनास्थानं जगाम विगतस्मयः ॥ तत्र च गतस्य तस्य । धातुः सूनोरिवात्यन्तवल्लभस्य सगौरवम् । कृतं मदनकन्दल्या शरीरपरिमार्जनम् ॥ शेषान्तःपुरनारी भियग्राभिः स्नानकर्मणा । रराज पेशन्लालापचारुभिः परिवारितः ।। वजेन्द्रनौलवैदूर्यपद्मरागादिरोचिषा । रञ्जिते यन्त्रवापौनां ममज्ज विमले जले ॥ ततो भुजगनिमोकसूत्मक्ले सुवाससौ । परिधायागतो देवभवनं सुमनोहरम् ॥ तत्र च सुबुद्धिसम्बन्धिनि विरचनाचास्तया चित्तनिर्वाणका- रिणि जिनमन्दिरे मार्गानुसारितया परमार्थतः सकलकालहृदय- वर्तिनोऽपि विशेषतस्तद्दिन एव प्रबोधनरतिसूरिपादप्रमादोपल- वखरूपस्य सकलनिष्कालावस्थस्य भगवतः परमात्मनो रागद्देषमो- हविषापहरणकरणचतरमनुस्मृतमहतः स्वरूपं । ततो निर्गत्य विर- चविरजाप्तपरिजनः पूर्वोपकल्पिताशेषभोजनोपकरणसामग्रीसनाथं प्राप्नो भोजनमण्डपं । तत्र च विरचितेऽनेकाकारे चित्तरमनोत्स- वकारिणि भक्ष्यपेयाद्याहारविस्तारे नृपतिना स्वयमुपदिश्यमान- मभिमतरमास्वादनं तदनुरोधेन विधानो निरभिष्वङ्गतया 41 ३२२ उपमितिभवप्रपञ्चा कथा । वर्धमानखास्थ्यातिरेको निर्वतयामास भोजनमिति । ततो ग्टहीत- पञ्चसुगन्धिकोन्मिश्रताम्बले मलयजम्मगनाभिकश्मीरजक्षोदाङ्गरागे विन्यस्तप्रवरविभूषणे दियांशकाच्छादितशरीरे माल्यविच्छित्ति- सौरभावष्टदृष्टचञ्चरीके अध्यासितमहाईसिंहासने प्रणतासंख्यम- हासामन्तकिरौटांशुजालरञ्जितचरणे उद्दामबन्दिवृन्दस्वयमाने यथावस्थितगुणसन्दोहे दत्तास्थाने मनौषिणि इर्षातिरेकनिर्भरो राजा सुबुद्धिं प्रत्याह । सखे युभदनुभावजन्येयमस्मादृशां कल्या- परम्परा येनोत्साहितोऽहं भवता भगवदन्दनाय । तथाहि । विलोकितो मया नाथो जगदानन्ददायकः । भक्तिनिर्भरचित्तेन वन्दितो भुवनेश्वरः ॥ दृष्टः कल्पद्रुमाकारः स सूरिर्वन्दितो मुदा । लब्धी भागवतो धर्मः संसारोच्छेदकारकः ॥ जातश्चेदृशरूपेण नररत्नेन मौलकः । कृतश्चानेन सर्वेषामस्माक हृदयोत्सवः ॥ अथवा किमचाश्चर्य । महाभागाः प्रजायन्ते परेषां तोषवृद्धये । खकार्यमेतदेवैषां यत्परप्रौतिकारणम् ॥ तदस्य युक्तमेवेदं विधातुं पुण्यकर्मणः । ममाड्तमिदं जातं क डोम्बः क्ल तिलाढकम् ॥ तदेवंविधकल्याणमालिका मित्रवत्सल । एवमाचरता नूनं त्वया संपादिता मम ॥ राज्ञो हितकरो मन्त्री सुप्रसिद्धं जगत्त्रये ।
तोबः प्रस्ताव तस्मात्तवैव मन्त्रित्वं यथार्था ते सुबुद्धिता । सुबुद्धिरुवाच । देव मा मैवमादिशत । न खलु देवपुष्य- प्रारमारायत्तजीवितव्येऽत्र किङ्करजनेऽप्येवमतिगौरवमारोपयितु- महति देवः । अस्थाः सम्पादने केऽत्र वयं । उचित एव देवः खल्वेवंविधकल्याणपरम्परायाः। नैव हि निर्मलाम्बरतखे निशि प्रकाशमाना रुचिरा नक्षत्रपद्धतिः कस्यचिदसंभावनौयेत्याथर्यबुद्धिं जनयति । मनौषिणाभिहितं । महाराज भगवति सप्रमादे कियतौयमद्यापि भवतः कल्याणपरम्परा । भाविदिनीसम्बन्धस्येव गगनतलस्यारुणोद्योतकल्पो हि भवतो भविष्यकेवलालोकमचिवप- रमपदानन्तानन्दसन्दोहसम्बन्धस्य प्राथमकल्पिकः खल्वेष सम्यग्द- निजनितः प्रमोदः । नृपतिरुवाच । नाथ महाप्रसादः। कोऽच सन्देहः । कि न संपद्यते युभदनुचराणां । ततो मन्त्रिणं प्रत्याह । सखे पश्य श्रमौषामद्यदिनप्रबुद्धवानामपि विवेकातिशयः । सुबुद्धिरुवाच । देव किमत्र चित्रं । मनौषिणः खन्वते यथार्थम- भिधीयन्ते । प्रबुद्धा एव शेवंविधपुरुषा जायन्ते । गुरवः केवल- मौदृशां प्रतिबोधे निमित्तमात्रं भवन्ति । दूतश्च मनौषिणो राजमन्दिरप्रवेशावसरे राजाममनुजाप्या- दित एव सुबुद्धिना माधर्मिकवात्सत्येन मध्यमबुद्धिनौत प्रामो- दात्मीयसदने। कारितस्तदागमननिमित्तः परमानन्दो दत्तानि महादानानि । ततः सोऽपि निर्वर्तितधानभोजनताम्बसविलेपना- खङ्करणनेपथ्यमास्योपभोगकर्तव्यः स्नेहनिर्भरसुबुद्धितत्परिकरनि- रुपचरितस्तुतिगर्भपेमहालापसमामन्दितेन्द्रि यादयः समानतस्तचे- ३२४ उपमितिभवप्रपचा कथा । वास्थाने । छतोचितप्रतिपत्तिः ससम्भमं मनीषिणा दापिते तदु- पकण्ठमुपविष्टो महति विष्टरे । ततो राजा तमुद्दिश्य सुबुद्धिं प्रत्याह । सखे महोपकायमस्माकं महापुरुषः । सुबुद्धिनाभि- हितं । देव कथं । नृपतिराह। समाकर्णय । यतो भगवतोपदिष्टे तस्मिन्नप्रमादयन्त्रे तस्य दुरनुष्ठेयतामालोचयतो मम महासमरे कातरनरस्येव प्रादुर्भुता चित्ते समाकुलता ततोऽहमनेन महात्मना तत्रावसरे भगवन्तं स्टहिधर्म याचता तग्रहणबुत्पादकत्वेन समाश्वासितः । यतो जातो ग्रहिधर्माङ्गौकरणेनापि मे चेतमो महानवष्टम्भः ततो ममायमेव महोपकारक इति । सुबुद्धिनाभि- हितं । देव यथार्थाभिधानो मध्यमबुद्धिरेषः । समानशौलव्यसनेषु सख्यमिति च लोकप्रवादः । ततः समानशौलतया युक्रमेवास्थ मध्यमजनानां समाश्वासनं ॥ नृपतिना चिन्तितं । श्रये ममायं मिथ्याभिमानश्चेतमोयन्तं काखमासीत् किलाहं नरेन्द्रतया पुरु- घोत्तमो यावताधुनानेन सुबुद्धिनार्थापत्त्या गणितोऽहं मध्यमजन- खेख्थे। ततो धिनां मिथ्याभिमानिनमिति। अथवा वस्तुस्थितिरेषा न मयात्र विषादो विधेयः । तथाहि । गजेन्द्रस्तावदाभाति शूरः मन्त्रासकारकः । यावदासुरदंतायो न सिंह उपलक्ष्यते ॥ यदा तु सिंहगन्धोऽपि स्थादाघ्रातः करेणुना । जायते कम्पमानोऽसौ तदाहो कातरः करौ ॥ मनौषिणमपेक्ष्यातो युका मे मध्यरूपता । अयं सिंहो महाभागो मादृशाः करिकातराः ॥
हतीयः प्रत्तावः। २२५ तदत्र न विषादो मे कर्तु युतः प्रयोजने। यतो द्वितीयलेखापि मादृगैरपि दुर्गभा ॥ तथाहि । भवेत्सर्वोत्तमस्तावत्पुरुषो यदि पारयेत् । अशको मध्यमोऽपि स्थान जघन्यः कदाचन ॥ मिथ्याभिमानो नैवायमेक एवाभवत्पुरा । किं तर्हि बहवोऽन्येऽपि किं वा मे चिन्तया तया ॥ एवं चिन्तयति राजनि सुबुद्धिराह । देव सम्यगवधारितं देवेन यथैष मे महोपकारक इति । यतो जिनधर्मानुष्ठाने प्रवर्त- मानस्थास्थ जीवस्य यो निमित्तमात्रमपि भवति न ततोऽन्यः परमोपकारी जगति विद्यते । नृपतिराह। एवमेतत्रात्र सन्देहः। केवलमिदानौमेष मनसि वितर्को भगवइचनानुस्मरणेनामकृविरा- कृतोऽपि निर्लज्जब्राह्मण व प्रकरणे पुनः पुनः प्रविप्रतीति । तदेनमुपनेतुमहत्यार्यः । सुवुद्धिराह। कौदृशोऽसौ। नृपतिरुवाच । समाकर्णया स्वसंवेदनसमिद्धमिदमासीत्तदा । यदुत। तत्र चैत्यभवने प्रविष्टमात्राणामस्माकं शान्तानौव सर्वदन्दानि उच्चाटितेव केन- चिद्राज्यकार्यचिन्तापिशाचिका विलौनमिव सकलं मोहजाचं विधात इव प्रबखरागानलः प्रनष्ट व प्रवेषवेतालः विध्वस्व दव विपरौताभिनिवेशग्रहः निर्वृतममृतसेकसम्पर्कशेव शरीर सुखसागरावगाढमिव हृदयं क्षणमात्रेणगैत्। यत्पुनर्नमस्कृतभुवन- नाथस्य प्रणतगुरुचरणस्य वन्दितमुनिवृन्दस्य भगववचनामृतमाकम् यतस्तत्र मे निरुपमं सुखसंवेदनमभूत् तत्मकखवाग्गोचरातीतमिति एषभिविभवावक्षाकया। छत्वा न शक्यते कथयित। तदेवंविधेऽपि तत्र जेनेन्द्रमन्दिरे सनिहितेऽपि तादृशि भगवति गुरौ कथयति रागविषशमनं विरागमागे नेदौयमि शान्तचित्तेऽपि तपखिलोके सति तावति जनसमुदाये कथं तस्य बालस्य तथाविधो ऽध्यवसायः सम्पन्न इति। सुबुद्धिनाभिहितं । देव यत्तावदुक्तं देवेन यथा तत्र जिनमन्दिरे प्रविष्टमात्रस्य मे क्षणमात्रेणाचिन्त्यगुणसन्दोहाविर्भा- योऽभूदिति तमाश्चर्य । प्रमोद खरं हि तद्भगवद्भवनमभिधीयते । हेतुरेव तत्तादृशगणकलापस्य । यत्पुनरभ्यधायि यथा कथं पुनस्तस्यैवंविधमामय्यामपि बालस्य तथाविधो ऽध्यवसायः संपन्न इति तत्र निवेदितमेव भगवद्भिः कारणं । किं च । अभिधान- मेव तत्सम्बन्धि विचार्यमाणं सन्देहं दलयति । यतो न किंचिदा- सय यहासाः पापनिवारणसामग्रीमद्भावेऽपि पापाचरणेषु प्रवर्तन्त इति । अन्यच्च । भगवदुपदेशादेवाहमेव वितर्कयामि यदुत द्रव्य- क्षेत्रकालभावभवायपेक्षया प्राणिनां शुभाशुभपरिणमो भवति । तदस्य बास्त्रस्य क्षेचजनितो ऽयमभः परिणामः । नृपतिराह । मनु गुणाकरस्तज्जैनसदनं । तदेव तत्र च क्षेत्रं । तत्कथं तदशभ- परिणामहेतुर्भवेदिति। सुबुद्धिराह। न मन्दिरदोषोऽसौ कि सहि उद्यानदोषः। तद्युद्यानं तच सामान्यक्षेत्रं तव हेतुस्तस्य बालस्य नथाविधाशुद्धाध्यवसायस्येति। नृपतिराह। यदि दुष्टाध्यवसाय- हेतस्तदुद्यानं ततो ऽस्माकं किमिति क्लिष्टचित्तकारणं तन्त्र संपन्न । सुबुद्धिनाभिहितं। देव विचित्रसभावं तत्काननं पुरुषादिकमपे- च्यानेकाकारकार्यकारकं संपद्यते । अत एव नविजविसमितमिति तीयः प्रक्षावः। नाबा गौयते । प्रकटयत्येव तन्जन्तूनां सविशेषसहकारिकारणक- लापनिज निजं विलसितं। तथाहि। तस्य बालस्य तेन स्पर्शनेन तया चाकुशलमाखया युक्तस्य मदनकन्दलौं प्राप्य तेन तथा- विधो ऽध्यवसाय: संपादितः । मनौषिमध्यमबुद्धिथुमदादौनां पुनर्विशिष्टपुरुषाणं पुण्यप्राग्मारवतां सूरिपादप्रमादमासाद्य तेनैव सर्वविरतिदेशविरतिपरिणामादयो भावा जनिताः। यद्यपि चेह सर्वस्यैव कार्यस्योत्पत्तौ द्रव्यक्षेत्रकालखभावकर्मनियतिपुरुषकारा- दयः कारणविशेषा दृष्टादृष्टाः समुदायेनैव हेतुभावं भजन्ते नैकः क्वचित्कस्यचित्कारणं तथापि विवक्षयैकस्यापि कारणत्वं वक्तुं शक्यत इति कृत्वा तन्निजविलसितमुद्यानमस्माभिर्नानाविधभावनिबन्धन- मभिधीयत इति ॥ नृपतिराह। सखे चारूतमिदं। इदानौं यद्भवता तदाभिहितमासौद्भगवतः पुरतो यथाहं देवायास्य कर्म- विलासस्य राज्ञः स्वरूपं निवेदयिष्यामि तत्रिवेदयतु भवान् अहं श्रोतुमिच्छामि। सुबुद्धिराह । देव यद्येवं ततो विविक्त स्वौयतां देवेन । नृपतिनोक्तं । एवं भवतु ॥ ततोऽनुज्ञातौ मनौषिणा समुत्थायास्थानमण्डपात् प्रविष्टौ कक्षान्तरे राजामात्यौ। सुबुद्धिनाभिहितं । देव अयमत्र पर- मार्थः । ये ते भगवता चत्वारः पुरुषाः प्ररूपितास्तेषामुलष्टतमा- स्तावत्सकचकर्मप्रपञ्चरहिताः सिद्धवा अभिधीयन्ते । जघन्यमध्यमो- साष्टाः पुनरेत एव बालमध्यमबुद्धिमनीषिणो विज्ञयाः । स कर्मविलामो राजा यो भगवता प्रतिपादितः स एतेषामेवंवि- धखरूपाणां जनको निजनिजकर्मोदयो विज्ञेयः। स एव हि भ्रतः उपमितिभवप्रपञ्चा कथा। यथावर्णितवीर्यो नापरः । तस्य च तिखः शुभाशुभमिश्ररूपाः परिणतयः । ता एव भगवतामौषां मनौषिबालमध्यमबुद्धीनां शुभसुन्दर्यकुशलमाला सामान्यरूपेति नामभिर्जनन्य इति प्रति- पादिताः ता एव यतोऽमूनौदृशरूपतया जनितवत्यः । नृपति- राह । म त मौषां वयस्यः कोऽभिधीयतां । सुबुद्धिरुवाच । देव तत् सर्वानर्थकारि स्पर्शनेन्द्रियं विज्ञेयं ॥ नृपतिना चिन्तितं । अये मयापौदं भगवता कथ्यमानं सर्वमाकर्णितमासीत् केवलं न सम्यग् विज्ञातं यथानेन । तदस्य सुबुद्धरेवंविधबोधिसुसाधुभिः सह चिरपरिचयः कारणं । अहो वचनकौशलं । भगवता कथित- मेवातस्तदामौषां मनौषिप्रतीनां सम्बन्धि सर्वमन्यव्यपदेशेन चरितं। अथवा किमत्र चिचं। अत एव प्रबोधनरतयस्ते भगवन्तो ऽभिधीयन्ते । तदेवं विचिन्याभिहितमनेन । सखे पर्याप्तमिदानौं विदितोऽस्माभिरेष वृत्तान्तः । केवलमिदमिदानीमभिधीयते । यदुत । यद्येष मनीषौ विषयानुषङ्ग कियन्तमपि कालं भजेत ततो वयमप्यनेनैव मह दौचाग्रहणं कुर्वीमहि । यतः प्रथमदर्शनादारभ्य प्रवर्धितो ममास्योपरि खेहाबन्धः न संचरति विरहकातरतयान्यत्र पदयं न निवर्तते एतददनकमलावलोकनालोचने ततो नास्य विरहे वयं क्षणमप्यासितमुत्महामहे । न च तथाविधोऽद्यापि अस्माकमाविर्भवति चरणकरणपरिणामः । तदेनं तावदभ्यर्थय प्रणयस्वेपसारं। अनुभावय निरुपचरित शब्दादिभोगान्। प्रकटयास्य पुरतस्तत्वामिभावं । दर्शय वजेन्द्रनौलमहानौलकतनपाराग- मरकतवैदूर्यचन्द्रकान्तपुष्यरागादिमहारत्नपूगान्। दर्शयापहमित-
हतोय. प्रस्तावः ।
३२६
त्रिदशसुन्दरौलावण्यकाः कन्यकाः। सर्वथा तथा कथंचिदुपप्रलोभय
यथा कियन्तमपि कालमरमत्मभौहितमेष मनीषौ निर्विचार
संपादयति । सुबुद्धिनाभिहितं। यदाज्ञापयति देवः । केवलमत्रार्थे
किंचिदहं विज्ञपयामि । तद्युक्रमयुकं वा चन्तुमर्हति देवः ।
नृपतिराह। सखे सदुपदेशदानाधिकारिणां भवतां शिष्यकल्पे
मय्यप्यल मियता सम्धमेण । वदतु विवक्षितं निर्विकल्पमार्यः।
सुबुद्धिरुवाच । देव यद्येवं ततो यत्तावदुकं देवेन यथा ममात्र
मनौषिणि गुरुः स्नेहातिरेकः तद्युक्रमेव यतः समुचितो महतां
गुणिषु पक्षपातः । स हि क्रियमाणः पापाणुपूगं दलयति सदाशयं
स्फोतयति सुजनतां जनयति यशो वर्धयति धर्ममुपचिनोति
मोक्षयोग्यतामालक्षयतीति । यत्पुनरुक्तं यथा कथंचिदुपप्रलोभ्य
कियन्तमपि कालमेष धारणीय इति तत्वात्यन्तमुचितमाभासते
यतो नैवमस्योपरि खेहाबन्धो दर्भितो भवति किं तईि प्रत्यत
प्रत्यनौकतां संपद्यते । तथाहि।
घोरसंसारकान्तारचारनिःसारकाम्यया।
प्रवर्तमानं जैनेन्द्रे धर्म जीवजगद्धिते ॥
मनसा वचसा सम्यक् क्रियया च कृतोद्यमः ।
प्रोत्साहयति यस्तस्य स बन्धुः स्नेहनिर्भरः ॥
अलीकनेहमोहेन यस्तु तं वारयेज्जनः ।
म तस्या हितकारित्वात्परमार्थन वैरिकः ।
तस्मान्न धारणीयोऽयं खहितोद्यतमानसः ।
एवमाचरता देव स्नेहोऽत्र विहितो भवेत् ॥
३३० उपमितिभवप्रपञ्चा कथा। न चैष शक्यते देव कृतैर्यत्नशतैरपि। मनौषो खोभमानेतुं विषयेदैविकैरपि । यतः प्रादुर्भुतोऽस्य महात्मनो विषयविषविषमविपाकावेदन- चतुरे भगवदचने सुनिश्चितः प्रबोधः विस्फुरितं सकलमलकालु- यचालनक्षम हृदयसरोवरे विवेकरनं समुलसितं यथावस्थितार्थ- खरूपनिरूपणनिपुणं सम्यग्दर्शनं संजातो नि:शेषदोषमोषकञ्चरण- करणपरिणामः। मति च भगवदवलोकनया जीवस्येवं विधे कल्याणभिनिवेशकारिणि गुणकदम्बके न रमते विषयेषु चित्तं प्रतिभासते हेयबुद्ध्या भवप्रपञ्चः इन्द्रजालायते निःसारतया सकलं जगदिनमितं स्वप्नदर्शनायते वणदृष्टनष्टतयेष्टजनसमागमः। न निवर्तते प्रलयकालेऽपि कस्यचिदनुरोधेन मोक्षमार्गसाधनप्रवणा बुद्धिः । तदेवंस्थिते देव अस्योपप्रलोभनमाचरतामस्मादृशां केवलं मोहविलमितमाविर्भविष्यति न पुनः काचिदभिप्रेतार्थसिद्धिः । तदलमनेनास्थानारम्भेणेति ॥ नृपतिराह । यद्येवं ततः किं पुनरधुना प्राप्तकालं। सुबुद्धिराह। देव निरूप्य दौसायहणार्थमस्य प्रशस्तदिन क्रियतां तदारात् सर्वादरेण महत्तरः प्रमोदः । नृपतिराह । यत्त्वं जानौषे॥ ततः समाइतः सिद्धार्थी नाम सांवत्सरः। समागतस्वरया । प्रविष्टोऽभ्यन्तरे। राज्ञा दापितमासनं। कृतमुचितकरणीयं । कथितमाङ्कानप्रयोजनं । ततो निरूप्य निवेदितमनेन यदुतास्मा- दिनानवमे दिनेऽन्यन्तरेऽस्यामेव भाविन्यां शुक्लत्रयोदश्यां शुक्रदिने उत्तरभद्रपदाभियोगमुपगते शशधरे वहति शिवयोगे दिनकरो- हतीयः प्रस्तावः। ३३१ दयादतीते सपादे प्रहरदये दृषलग्नं सप्तग्रहकमेकान्तनिरवयं भविष्यति। तदाश्रीयतामिति । अभिमतं राजमन्त्रिणोः । परिपूज्य प्रहितः सांवत्सरः। गतं तद्दिनं । ततो द्वितौयदिनादारभ्य प्रमोद खरे तदन्यजिनायतनेषु च देवानामपि विस्मारितसुरास्व- यसौन्दर्या विधापिता राज्ञा महोत्सवाः। दापितानि वरवरिका- घोषणपूर्वकं सर्वत्र महादानानि। विहारितो देवेन्द्रवदैरावतविभ्र- मजयकरिवरारूढः स्वयं पदातिभावं भजता त्रिकचतुष्कचत्वरा- दिषु सुराकारैर्नागरकजनैः स्वयमानो निरुपमविलासविस्तारमनु- भावयता नरपतिना प्रतिदिनं नगरे मनौषौ। प्राप्तोऽष्टम- वासरः। तत्र तु नौतं निखिलजनसन्मानदानार्थमास्थानविनोदेन प्रहरदयं । अत्रान्तरे दिनकरचरितेन मनौषिचरितं सूचयता पठितं कालनिवेदकेन । नाशयित्वा तमो लोके कृत्वालादं मनखिनाम् । हे लोकाः कथयत्येष भास्करो वोऽधुना स्फुटम् ॥ वर्धमानः प्रतापेन यथाहमुपरि स्थितः । सर्वोऽपि स्वगणैरेवं जनस्थोपरि तिष्ठति ॥ ततस्तदाकर्ण्य राजा सुबुद्धिप्रकृतीनुद्दिश्याह । श्रये प्रत्यासी समवेखा। ततः सन्नौकुस्त तूर्णं भगवत्पादमूखगमनमामयौं । सुबुद्धिस्वाच। देव प्रहैव वर्तते मनौषिपुण्यपरिपाटीव सर्वा सामग्री। तथाहि। प्रमी घणघणारावं कुर्वन्तः कनकोजचताः । रथौधाः प्रस्थिताम्वर्णमायुकवरवाजिमः ॥
३३२ उपमितिभवप्रपञ्चा कथा। एते संख्यामतिकान्ता राजवृन्दरधिष्ठिताः । जौमूता व नागेन्द्रा द्वारे गर्जन्ति मन्थरम् ॥ वर्याश्ववारैः संरुद्धाः कथंचिच्चटुलाननैः । खमापिबन्तोऽमी देव हया हेषन्ति दर्पिताः ॥ अयं पदातिसवातः चौरनौरेश्वरोपमः । मत्तः प्रयोजनं ज्ञात्वा सुवेषश्चलितोऽखिलः ॥ रनालङ्कारनेपथ्यमट्रव्यपटलाकुलाः । प्रस्थिता वारनारोपामेते वारा वरेक्षणाः ।। मनौषिपुण्यसम्भाराष्टास्वर्ण समागताः । एते विबुधमदाता द्योतयन्ति नभस्तनम् ॥ एष नागरको लोकः कौतुकाचिप्तमानमः । कुरुते हर्षकालोलेः सागरक्षोभविभ्रमम् ॥ अथवा। मत्तो विदितवृत्तान्तो मनौषिगुणरञ्जितः । ज्ञातयुभदभिप्रायः को वात्राप्रगुणो भवेत् ॥ देव तत्साम्प्रतमुत्थातुमर्हथ यूयं । ततः समुत्थितौ मनीषिन- रेन्द्रौ निर्गतौ द्वारदेशे। ततो रत्नकिङ्किणीजालकविभूषित समारूढः प्रधानस्यन्दने मनौषो। ततः सुखसुकुमारासनोपविष्टः स्वयंप्रतिपत्रमारथिभावेन सह नरपतिमा विलसत्किरौटांशहर- जितोत्तमाङ्गभागो प्रियमाणेन निजयशोधवलेनातपत्रण कपोल- डोलायमानकुण्डलो धूयमानेन शशधरदीधितिछटाच्छेन वरवि- वासिनीकरवर्तिना चामरप्रकरेण स्थलमुक्ताफलकलापविराजित- हतीयः प्रस्तावः । ३३३ वक्षःस्थतः पठतातितारमुद्दामबन्दिवृन्देन कटककेयूरखचितबा- दण्डो नृत्यता तोषनिर्भरवारविलासिनीमार्थन अतिसरभिताम्बू- लाङ्गरागपौणिताशेषेन्द्रियग्रामो बधिरयता दिक्चक्रवाचं वरवर्य- निर्घोषेण विशददिव्यांकप्रतिपनदेहो गायता मनोहारिकिन्नर- सङ्घन घूर्णमानविचित्रवनमाला निचयचर्चितारौरो मुञ्चता हर्षातिरेकादुल्लष्टसिंहनादसन्दर्भ देवमझेन पूरिताशेषप्रणयिजन- मनोरथः वाघयता नागरलोकेन तथासुरकुमाराकारधरोऽयमिति सकौतुकाभिः समागतोऽस्माकमयं दृष्टिपथमिति सहर्षाभिरस्मद- भिमुखमवलोकयतीति मश्रङ्गाराभिर्मदनरमवशौचतपदयतया नानाविधविलासाभिर्मामियं तिरोधाय दर्शनखोलतया खयमव- लोकयतीति परस्परं साभिर्गुरुजनोऽस्मानेक्मवलोकयन्तीः पश्यतीति मखन्नाभिः प्रबजितः किलायं भविष्यतीति सशोकाभि- रखं संसारेण थोऽयमेवंविधैरपि त्यज्यत इति समवेगाभिरेवमने- करमभावनिर्भरं पदयमुहहन्तौभिनिरीक्ष्यमाणमूर्तिर्वातायनविनि- गतवदनसहस्राभिः पुरसुन्दरीभिरभिनन्धमानोऽम्बर विवरवर्ति- मौभिः सुरसुन्दरीभिः सहितो रथान्तरारूढेन खपतिबिम्बसविभेन मध्यमबुद्धिनानुगम्यमानो रथकरिहरिगतैर्महासामन्तसमूहैर्महता विमर्दैन प्राप्तो मनीषी निजविस्वसितोद्याने। रथादवतीर्थ खितः क्षणमात्रं प्रमोदशेखरद्वारे परिवेष्टितो राषवृन्देन । स्वन्दनारोहणादारभ्य राजा विशेषतस्तदा सत्त्वपरीक्षार्थं मनीषि- खरूपं दत्तावधानो निरूपयति स्म। यावता तस्य विशुध्यमाना- धवसायप्रचालितमनोमलकलङ्कस्य मत्यपि तादृशे हर्षदेतो न इतब उपमितिभवप्रपञ्चा कथा । लक्षितस्तेन तिलतषत्रिभागमात्रोऽपि चेतोविकारः प्रत्युत गाढतरं हारमृत्पुटपाकादिभिरिव विचित्र संसारविलसितदर्शनसमुद्भूतैर्भाव- नाविशेषैर्निर्मलौभूतं चित्तरत्नं। ततः परस्परानुविद्धतया मनःश- रौरयोर्जातमस्य देदीप्यमानं शरीरं। विलोकितं च राज्ञा यावत्तत्तेजसाभिभूतं दिनकरकरनिकरतिरस्कृतमिव तारकानि- कुरुम्ब न राजते मनौषिणोऽभ्यर्णवर्ति तद्राजकं । ततस्तदौयगुण- प्रकर्षबहुमानेन राज्ञोऽपि विलौनं तदिबन्धक कर्मजास्तं संजात- श्वरणपरिणामो निवेदितः सुबुद्धिमध्यमबुद्धिमदनकन्दलीसामन्ता- दिभ्यो निजोऽभिप्रायः । ततोऽचिन्यमाहात्म्यतया महापुरुषमनि- धानस्य विचित्रतया कर्मक्षयोपशमस्य रञ्जितचित्ततया निष्कृत्रिम- मनौषिगुणैः समुल्लसितं सर्वेषां तदा जीववीर्य । ततस्तैरभिहितं । साधु माधूदितं देव युक्तमेतद्भवादृशाम् । संसारे ह्यत्र निःमारे नान्यचारु विवेकिनाम् ॥ तथा हि। देव यद्यत्र संमारे किंचित्स्याद्रामणीयकम् । लाध्यं मारमुपादेयं वस्तु सुन्दरमेव वा ।। ततः किमौदृशाः मन्तः पूज्या युभादृशामपि । संसारमेनं मुञ्चेयुतितत्त्वा महाधियः ॥ ततोऽमूदृशमलोकत्यागादेवावगम्यते । नास्त्यच किंचित्मसारे सारं चारकसत्रिभे ॥ अतो मनौषिभिस्य के देव नैवात्र युज्यते । स्थातुं विज्ञाततत्त्वानां भवे भूरिभयाकरे ॥
तीयः प्रस्तावः।
अन्यच्च देव सर्वेषामस्माकमपि साम्प्रतम् ।
दृष्ट्वा मनीषिणश्चित्तं न चित्तं रमते भवे ॥
यथैवास्थ प्रभावेण संजातश्चरणोद्यमः ।
अस्माकमेष निर्वाहं तथा तेनैव यास्यति ।
ततोऽस्माननुजानौत संसारोच्छेदकारिणीम् ।
येन भागवती दौचामङ्गोकुर्मः सुनिर्मलाम् ॥
नृपतिरुवाच ।
अहो विवेको युग्माकमहो गम्भौरचित्तता ।
अहो वचनविन्यासस्तथाहो सत्त्वमारता ॥
साध्वध्यवमितं भद्रः माधु प्रोत्साहिता वयम् ।
साधु
भो क्षणमात्रेण बोटितं भवपञ्जरम् ॥
एवं मामान्यतस्तावत् सर्वेषामभिनन्दनम् ।
कृत्वा प्रत्येकमप्याह स राजा हर्षनिर्भरः ।
तत्र सुबुद्धिं तावदुवाच ।
सखे विदितसंसारखभावेन लथा ग्टहे।
दूयन्तं तिष्ठता कालं वयमेव प्रतीक्षिताः ॥
अन्यथा ते रहे किं वा स्थादवस्थानकारणम् ।
को नाम राज्यलाभेऽपि भजेचाण्डासरूपताम् ॥
तत्साधु
विहितं
साधु
कृतोऽस्माकमनुग्रहः ।
एवमाचरता मित्र दर्शिता च सुमित्रता ।
मध्यमबुद्धिं प्रत्याह ।
त्वमादावेव धन्योऽसि यस्य सङ्गो मनौषिणा।
उपमितिभवप्रपञ्चा कथा।
नैव कल्पद्रुमोपेतो नरोऽकल्याणमर्हति ॥
अधुना चरितेऽप्यस्य दधानेन मतिं त्वया ।
खभ्रातर्निविशेषैव दर्शिता तुल्यरूपता ॥
तत्साधु विहितं भद्र यः पश्चादपि सुन्दरः
मोऽपि सुन्दर एवेति यतो वृद्धाः प्रचक्षते ॥
ततो मदनकन्दलौं प्रत्याह ।
सारं च सुकुमारं च देवि काञ्चनपद्मवत् ।
तावकौनमिदं चित्तं येनाङ्गोकतमौदृशम् ॥
प्रसिद्धा धर्मपत्नौति यत्त्वं लोकोपचारतः ।
मम तत्मत्यतां नौतं कर्तव्येन त्वयाधुना ॥
तत्साधु विहितं देवि नास्त्यत्र भवपञ्जरे ।
नियन्त्रितानां जीवानां कर्तव्यमपरं वरम् ॥
तथा ।
यैरभ्युपगता दौचा तानन्यानपि भावतः ।
स राजा मधुरैरेवं वाक्यैरानन्द्य तोषतः ॥
तद्यथा।
धन्या यूयं महात्मानः कृतकृत्या नरोत्तमाः ।
यैरभ्युपगता पूर्ण सहीचा पारमेश्वरी ॥
तञ्चार विहितं भद्रा युक्तमेतद्भवादृशाम् ।
यूयमेव परं लोके निर्मिथ्या मम बान्धवाः ॥
ततर।
राजचिहार्पणदाज्ये स्थापयित्वा सुलोचनम् ।
द्वतीयः प्रस्तावः।
३३०
ततः कृतान्यकर्तव्यः प्रविष्टो जिनमन्दिरे ॥
विहिताशेषकर्तव्याः पूजयित्वा जगद्गुरुम् ।
प्राचार्यभ्यो निजाकूतं ते सर्वेऽप्याचचचिरे ॥
ततोऽभिनन्दितास्तेऽपि सूरिभिः कलया गिरा ।
अलं विलम्बितेनात्र संसार इति भाषिणा ॥
ततः प्रवचनोकेन विधिना धूतकल्मषैः ।
सर्व ते क्षणमात्रेण दौचिता गुरुभिर्जनाः ॥
अथ संवेगवृद्धार्थ कल्पोऽयमिति वा क्षणम् ।
कृता समदं लोकस्य सूरिभिधर्मदेशना ॥
तद्यथा ।
अनाद्यनन्तसंसारे जन्ममृत्युभयाकरे ।
मौनीन्द्री दुर्लभा सत्त्वैः प्रव्रज्येयं सुनिर्मला ॥
यतः ।
तावदुःखान्यनन्तानि तावद्रागादिसन्ततिः ।
प्रभवः कर्मणस्तावत्तावजन्मपरम्परा ॥
विपदस्तावदेवतास्तावमा विडम्बनाः ।
तावहीनानि जल्पन्ति नरा एव पुरो नृणाम् ॥
तावद्दौर्गत्यमद्भाक्स्तावद्रोगसमुद्भवः ।
तावदेष बडक्लेशो घोरसंसारसागरः ॥
यावनिःशेषमावद्ययोगोपरतिलक्षण ।
एषा न बघते जोवैः प्रव्रज्यात्यन्नदुर्लभा ॥
43
३३८
उपमितिभवप्रपञ्चा कथा।
प्रसादालोकनाथस्य खकर्मविवरेण च ।
यदा तु सत्त्वैलभ्येत प्रव्रज्येयं जिनोदिता ॥
तदा निधूय पापानि यान्ति ते परमां गतिम् ।
अनन्तानन्दसंपूर्ण निःशेषक्लेशवर्जिताम् ॥
ततोऽमौ ये पुरः प्रोक्ताः सर्वऽपि भवभाविनः ।
क्षुद्रोपद्रवसङ्घाता दुरापास्ता भवन्ति ते ॥
दहापि भो भवन्त्येते प्रणमाम्मृतपायिनः ।
प्रव्रज्याग्राहिणो जौवा निर्बाधाः सुखपूरिताः ।।
मा च भागवती दीक्षा युभाभिरधुना स्फुटम्
संप्राप्ता तेन संप्राप्तं यत्प्राप्तव्यं भवोदधौ ॥
केवलं सततं यत्नः प्रमादपरिवर्जितैः ।
यावनौवं विधातव्यो भवद्भिरिदमुच्यते ॥
यतः ।
नाधन्याः पारमेतस्था गच्छन्ति पुरुषाधमाः ।
ये तु पारं व्रजन्यस्यास्त एव पुरुषोत्तमाः ।
ततस्तैः प्रणतः सर्वैर्जजल्ये सूरिसंमुखम् ।
इच्छामोऽनुग्रहं नाथ कुर्ना नाथानुशासनम् ॥
स्थगिताननदेन मुखवस्त्रिकया मुदा ।
अत्रान्तरे कृतः प्रश्नः शत्रुमर्दनमाधुना ॥
कथं ।
विशाल निर्मलं धौरं गम्भौरं गुरुदक्षिणम् ।
तीय' प्रस्तावः।
दयापरीतं निश्चिन्नं देषाभिष्वङ्गवर्जितम् ॥
स्तिमितं जगदानन्दं यदा वाग्गोचरातिगम् ।
कथमौदृग्मवे चित्तं नाथ यादृङ् मनौषिणः ॥
यस्य चेष्टितमालोक्य शिथिलीभूतबन्धमाः ।
एते सर्व वयं मुक्ता भौमात् संसारचारकात् ।
गुरुरुवाच ।
या विज्ञाता त्वयाप्यस्य जननी हमसन्दरौ ।
यावन्तस्तमुतास्तेषां सर्वेषामौदृशं मनः ।
ततो ग्टहीततत्त्वोऽपि राजर्षिरिदमब्रवीत् ।
बोधार्थं मुग्धलोकानां विनयानतमस्तकः ।
किं तस्याः शुभसन्दर्या विद्यन्ने बहवः सताः ।
अस्माभिश्च पुरा जातमयमेककपुषकः ।
गुरुरुवाच । बाढं विद्यन्ते । तथाहि ।
ये ये त्रिभुवनेऽप्यत्र दृश्यन्तेऽनेन यादृशाः ।
ते सर्व शुभसन्दर्याः पुचा नास्त्वत्र संशयः ।
-
किं च।
ये केचिदुत्तमा खोके सत्त्वमार्गानुयायिनः ।
ते पुषाः शुभसन्दर्धास्तुचा ज्ञेया मनीषिणा ॥
राजर्षिरवाच ।
थामौ बालख जननौ भवतिरुपवर्णिता ।
भदमा बाबादन्येऽपि तखाः किं मन्ति सूनवः ।।
उपमितिभवप्रपश्चा कथा।
सूरिणाभिहितं । नितरां सन्ति । तथाहि ।
ये ये त्रिभुवनेऽप्यत्र जघन्याः क्लिष्टजन्तवः ।
ते तेऽकुशलमालायाः पुत्रा नास्त्यत्र संशयः ॥
ते बालसदृशैरेव विज्ञेया दुष्टचेष्टितैः ।
एतेऽकुशलमालायाः सूनवः सुपरिस्फुटाः ॥
राजर्षिरुवाच । यद्येवं तहि ।
तस्याः सामान्यरूपायाः किमन्ये मन्ति सूनवः ।
भदन्त किं वा नो सन्ति मध्यबुद्धेः महोदराः ॥
सूरिणाभिहितं । बहुतमास्ते विद्यन्ते । यतः ।
ये बालचरिताः केचिन्मनौषिचरिताच ये ।
एतेभ्यो ये परे सत्त्वाः सर्वे तेऽमुव्य सोदराः ॥
के केचिच्छबलाचाराः ममा मध्यमबुद्धिना ।
सुताः सामान्यरूपायास्ते जौवा भवनोदरे ॥
सकाशादितराभ्यां ते गण्यमाना जगत्त्रये ।
अनन्तगुणितास्तेन प्रोक्का भूरितमा मया ॥
राजर्षिरुवाच । भदन्त यद्येवं ततो मम चेतसि परिस्फुरति ।
यथैवं व्यवस्थिते मत्येतदापन्न । यदुत ।
भार्यात्रयेण जनितं जघन्योत्तममध्यमम् ।
तस्य कर्मविस्तासस्य जग देतत्कुटुम्बकम् ॥
सूरिरुवाच ।
आर्य नेवाच सन्देहः सम्यगार्यण लक्षितम् ।
मार्गानुसारिणौ बुद्धिर्भवत्येव भवादृशाम ॥
सौयः प्रस्तावः ।
३३८
तथाहि ।
जघन्यमध्यमोटष्टाः सर्वयोनिषु जन्तवः ।
विद्यन्ते केवलं नृत्वे व्यक्तभावा भवन्ति ते ॥
ततश्च ।
नरत्वेऽपि विनिर्दिष्टं व्याप्यैवेदं कुटुम्बकम् ।
यदत्र विदुषा कार्य तदिदानौं निबोधत ॥
त्यक्रव्यं बालचरितं न कार्यस्तत्समागमः ।
मनौषिचरिते यत्नः कर्तव्यः सुखमिच्छता ॥
यतोऽत्र बहवो जीवाः प्रायो
मध्यमबुद्धयः ।
ते च सम्यगनुष्ठानात् संपद्यन्ते मनौषिणः ॥
एतद्विज्ञाय भो भव्याः सर्वेऽपि गदिता मया ।
कायें मदनुरोधेन वृत्तमस्य मनौषिणः ॥
वर्जनीयश्च यत्नेन पापमित्रैः समागमः ।
यतः स्पर्शनसम्पर्कात् स बालो निधनं गतः ।
वर्जनेन
पुनस्तस्य
मनीषी सुपरिस्फुटाम् ।
लोके शेखरतां प्राप्य जातोऽयं मोक्षसाधकः ।।
कल्याणमित्रैः कर्तव्या मैत्री पुंसा हितैषिण।
इहामुत्र च विज्ञेया मा हेतुः सर्वसम्पदाम् ।
दोषायेह कुसंसर्गः सुसंसर्गो गुणावहः ।
एतच्च इयमप्यत्र मध्यबुद्धौ प्रतिष्ठितम ॥
तथा हि।
बातः स्पयनसम्बन्धादेषोऽभदुःखभाजनम् ।
उपमितिभव प्रमचा कथा।
युकोऽभूत्मततावाद एष एव मनीषिण ॥
तदिदं भी विनिचित्य बहिरङ्गान्तरैः सदा ।
म कार्यो दुर्जनः मङ्गः कर्तव्यः सुजनैः सह ॥
ततव ।
इदमाकर्य मौनीनं वचनं सुमनोहरम् ।
प्रबुद्धा बहवः सत्त्वा जाता धर्मपरायणाः ॥
प्राप्ता देवा निजं स्थानं स्थितो राज्ये सुलोचनः ।
गतोऽन्यत्रविहाराय मूरिः शिष्यगणैः सह ।
विश्त्य कालं भूयांसमागमोकोन वमना ।
पर्यन्तकाले संप्राप्ते विधाय सकलं विधिम् ॥
जानध्यानतपोवीर्यवहिनिर्दग्धकलाषः ।
मनौषौ नितिं प्राप्तो हित्वा खं देहपञ्चरम् ॥
बेतु मध्यमसदौर्यास्ते तनूभूतकर्मकाः ।
गता मध्यमबुद्याद्या देवलोकेषु साधवः ।।
बाखस्य तु यदादिष्टं भदन्तै विचेष्टितम् ।
तत्तथैवाखिलं जातं नान्यथा मुनिभाषितम् ॥
सनकथानकं समाप्तम् ॥
( ३६ ) उपमितिभवप्रपञ्चा कथा (तीयप्रस्तावे ऽवभिष्टभागः) विदुर उवाच । कुमार तदिदं मया ह्यः कथानकमाकर्थि- तमाकर्णयतश्च मम वहितं दिनं । तेन युभत्समौये नागतोऽस्मि । मथाभिहितं । भद्र सुन्दरमनुष्ठितं । यतोऽतिरमणीयमिदं कथा- नक बुध्यत एव श्रोतं । अहो अत्यन्तदुरन्तः पापमित्रसम्बन्धी यतस्तस्य बालस्य स्पर्धनसम्पर्कादिहामुच च निविडविडम्बनागर्भा दुःखपरंपरैव केवलं संपन्ना नान्यत्किंचनेति । विदुरेण चिन्तितं । बुद्धस्तावदनेन कथानकतात्पर्यार्थ इति । भविश्यति मे वचनाव- काशः ॥ इतश्च तचावसरे मत्तो नातिदूरे वर्तते वैश्वानरः । श्रुतं तेन मामकौनं वचनं । चिन्तितमनेन । पये विरूपको नन्दि- वर्धनस्योलापो । व्युत्पादितप्रायोऽयमनेन विदुरेशा । सब सुन्दर-