Uttarpara Jaykrishna Public Library, Hooghly

Panajjal Mahavashyam

Muni, Patanjjali · 2007/02/20

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

पण्डितराजमारवाडकेसरिश्रीलेहिरामजीशास्त्रिस्मारकं- श्रीराजस्थान-संस्कृत-कालेज-ग्रन्थमालाया:- * त्रिंशङ्कुसुमम् * श्रीमद्भगवत्पतञ्जलिमुनिविरचितं- पातञ्जलं महाभाष्यम् महामहोपाध्यायश्रीनागोजीभट्टविरचितमहा- भाष्यप्रदीपोद्द योतोद्भासितेन महामहो- पाध्यायश्रीकयटोपाध्याय- विरचितेन प्रदीपेन विराजितम् । तस्यायं- *तृतीयोऽध्यायः- पण्डितराजश्रीस्नेहिरामशास्त्रिणां पौत्रण, न्यायाचार्य,-पण्डितश्रीशिव- नारायणशास्त्रिणां पुत्रेण, श्रीगुरुप्रसादशास्त्रिणा व्याकरणा- द्याचार्येण महता परिश्रमेण संशोधितं, टिप्पण्या संयोजितञ्च । निषेकादिश्मशानान्तो मन्त्रयस्यादितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्य चित् ॥ मनुः ॥ प्रथमं राजसंस्करणम् । १९३८ मूल्यं २) १२०० - अत्यावश्यक सूचना- जन्मना ब्राह्मण क्षत्रिय वैश्य के सिवाय अन्य किसी जाति को हमारी इस महाभाष्य के खरीदने व पढ़ने का अधिकार नहीं है। अतः जो जन्मना द्विज नहीं हैं वे इसे न खरीदें और न पढ़ें । ब्राह्मण क्षत्रिय आदि भी इसे शुद्ध होकर शान्तिपाठपूर्वक ही पढ़ें और पढ़ायें और अन्त में भी शान्ति- पाठ करें। अन्यथा वे प्रत्यवायभाजन होंगे। ************************************** महाभाप्यस्य आदावन्ते चावश्यपठनीयाः शान्तिमन्त्राः- तत्रादौ-ॐ शंनो मित्रः शं वरुणः शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शंनो विष्णुरुरुक्रमः ॥ ॐ नमो ब्रह्मण। नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि। तन्मामवतु । तद्वक्तारमवतु। अवतु माम् । अवतु वक्तारम् अवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ ॥ [ ॐ वाड्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्टितमाविरावीम एधि । वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाऽधीतेनाहोरात्रात्सन्दध्याम्यत वदिष्यामि सत्यं तन्मामवतु। तद्वत्तारमवतु। अवतु माम् । अवतु वक्तारम् अवतु वक्तारम् । ] ॥ ॐ शान्तिः शान्तिः शान्तिः । ॐ नमः श्रीपाणिनिकात्यायनपतञ्जलिभ्यो मुनिभ्यः ॥ ॐ कारश्चाऽथ शब्दश्च द्वावेतो ब्रह्मणः पुरा । काण्ठं भित्त्वा विनियतिौ तस्मान्मांगलिकावुभौ ॥ पाठस्य अन्ते च-ॐ नमो ब्रह्मणे । नमस्ते वायो। त्वमेव प्रत्यक्ष ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्माऽवादिषम् । ऋतमवादिषम् । सन्यमवादिषम् । तन्मामावान् । तद्वत्तारमावीत् । आवीन्माम् । आवीद्वक्तारम् २ । ॐ शान्तिः शान्तिः शान्तिः ॥ **冰冰冰冰冰冰冰冰冰水冰**************汗****************水*** ***************** Published by: Pandit Nandkisbore Shastri Ayurvedacharya, SHRI RAJASTHAN SANSKRIT COLLEGE GRANTI-MALA, 7 Dharmakoop, Meerghat, BENARES CITY. All Rights Reserved by the Author. मुद्रक-माधव विष्णु पराडकर, ज्ञानमण्डल यन्त्रालय, काशी । ७६८४-९५ ॥ श्रीमहागणपतये नमः ॥ श्रीमद्भगवत्पतञ्जलिमुनिविरचितं- - व्याकरण-महाभाष्यम् । उझ्योतोद्भासितप्रदीपविराजितम् । अथ तस्य- तृतीयाध्यायस्य प्रथमः पादः । * तस्येदं प्रथममाह्निकम् 8 प्रत्ययः ॥ ३॥११॥ [*॥ प्रत्ययाधिकारे प्रकृत्युपपदोपाधीनां प्रतिषेधः ॥*]॥ अधिकारेणेयं प्रदीपः] प्रत्ययः । अधिकारेणेति । यदि तु प्रकारान्तरेण संज्ञिस्वरूपनिर्देशादिना संज्ञा क्रियते ततो न स्यादतिप्रसङ्गः । यदा तु गौरवादिप्रसङ्गपरिहारायाधिकारेण क्रियते ततोऽतिप्रसङ्ग इत्यर्थः । तत्र यदि सर्वे संज्ञिनः स्वरूपेण निर्दिश्यरंस्ततो गौरवं स्यात् । अथ 'सप्प्रत्यय' इति सनः सकारादारभ्य कपः पकारेण प्रत्याहारा- श्रयणेन संज्ञा विधीयत तदाऽनेकस्य पकारस्य संभवात्सन्देहः स्यात् । ननु प्रति- योगमुपस्थानेऽपि वाक्यभेदप्रसङ्गात्प्रकृत्यादीनां प्रत्ययसंज्ञा न भविष्यति । तथाहि 'हरतेर्धातोईतिनाथयोः कर्मणोरुपपदयोः पशौ कर्तरीन्प्रत्ययो भवतीत्येक उद्योतः] प्रत्ययः। 'अधिकारेणे'त्यस्य प्रयोजनमाह-यदि विति । अनेकस्येति । प्रत्यासत्त्याश्रयणे सिपैः पकारेण, व्याप्त्याश्रये 'तप्तनप्तनथनाश्चेति तनेपः पका- रेणेत्यर्थः। एवञ्च गौरवाऽतिव्याप्त्यादिदोषपरिहारायाऽधिकार एव कर्तव्यः। तथा च प्रकृत्यादिष्वतिप्रसङ्ग इति भावः। तमाक्षिपति-नन्विति । विधायमानस्य सनादेः टिप्पणी-१ इदं शङ्कावार्तिकं क्वचिदपि न दृश्यते मन्महे लुप्तमिति गौडाः। २ 'दोषपरिहारा' पा० । ३ 'धातोः' इति 'प्रत्यय' इति च क्वचिन्न । ४ 'सिब्बहुलं' लेटी'ति सिपः पकारेणेत्यर्थः। 'तिप' इति बपाठः । ५ 'तपः' पा० । ।

२ * कैयट-विवरणसहितं [प्रत्ययः ... प्रत्ययसंज्ञा क्रियते । सा प्रकृत्युपपदोपाधीनामपि प्रामोति तस्याः प्रतिषेधो वक्तव्यः। प्रकृतिः-'गुप्तिकिझ्यः सन्' । उपपदं-स्तम्बकर्णयो रमिजपो उपाधिः प्र.] वाक्यम् । 'ते च हरतिदृतिनाथपशवः प्रत्ययसंज्ञा' इति द्वितीयं वाक्यम् । न चैकवाक्यतायां सम्भवन्त्यां वाक्यभेदो युक्तः। नैतदस्ति । सनादीनामपि वाक्य- भेदेनैव संज्ञा विधेया, न ह्यसतः संज्ञिनस्संज्ञाविधानमुपपद्यते । तत्रैकेन वाक्येन सनादीनां विधिः । अपरेण तेषामेव संज्ञाविधिः । ततश्च यथा सनादीनां वाक्यभेदेन संज्ञाविधिः, एवं प्रकृत्यादीनामपि प्रतिसंज्ञि प्रत्ययसंज्ञोपस्थानसामर्थ्यात्संज्ञासंज्ञि- संबन्धप्रतिप्रत्तियोग्यविभत्यन्तराऽध्याहारेण प्राप्नोति। सनाद्युत्पत्तिवाक्य एव प्रथम- मेतेषां पारार्थ्यमवगतम् । द्वितीये तु संज्ञासंज्ञिसम्बन्धप्रतिपादनवाक्ये सम्बन्ध- प्रतिपत्तौ स्वार्थता स्यात् , यथा च सप्तमीनिर्दिष्टस्य वाक्यभेदेनोपपदसंज्ञा अधिकारा- द्भवति तथा प्रत्ययसंज्ञापि प्राप्नोति । उपाधिशब्देन चेह तुल्यन्यायत्वाद्विशेषण- मप्युच्यते । व चित्तु तयोर्भेदेन व्यवहारो दृश्यते, यथा 'नोपाधेरुपाधिर्भवति विशे- षणस्य वा विशेषण मिति। 'अर्थविशेष उपाधिस्तदन्तवाच्यः समानशब्दो यः । अनुपाधिरतोऽन्यः स्याच्छाघादि विशेषणं यद्वत् ॥' इति ॥ उ.]प्रथमान्ततया प्रत्यय'इत्यनेन सामानाधिकरण्यादेकवाक्यतया संज्ञासंबन्धः।अन्ये- षान्तु विविभक्तित्वाद्वाक्यभेदेनैव संज्ञासंबन्ध इति भावः । सम्भवत्येकवाक्यत्व एव वाक्यभेदो दोषो न त्वसम्भव इति समाधत्ते-नैतदिति । ननु विविभक्तित्वात्कथं 'प्रत्यय' इत्यनेन तेषां संबन्ध इत्यत आह-विभक्त्यन्तरेति। ननु सनादिविधा- नार्थत्वात्प्रकृत्यादेरप्रधानतया संज्ञा न भविष्यतीत्यत आह-सनादीति । अन्यत्राऽ- प्रधानत्वेऽप्यन्यत्र संस्कार्यत्वलक्षणस्वार्थत्वेऽविरोध इति भावः । ननु प्रकृतीना- म्प्रत्ययविधावुद्देश्यतया तासामेव संज्ञायामप्युद्देश्यत्वं न्याय्यं न तु प्रत्ययानामिति चेन्न; समानविभक्तिकत्वेन प्रत्ययानां क्लप्तोद्देश्यतया विभक्त्यन्तराऽध्याहारेण प्रकृ- त्यादीनामपि तत्सम्भवादित्यभिमानः । श्लाघादिविशेषणस्य प्रत्ययसंज्ञा कुतो नोद्भा- वितेत्यत आह-उपाधिशब्देनेति । तुल्यन्यायत्वादिति । प्रत्ययनिमित्तत्वेन प्रकृत्या तुल्यन्यायत्वमित्यर्थः । एवञ्चोपाधिषु तदुद्भावनेनैव विशेषणेऽप्युद्भावि- तैवेति भावः। तदन्तवाच्यः-प्रत्ययान्तवाच्य इत्यर्थः। समानशब्द इति । प्रयोगे भिन्नशब्दबोध्यतादशायां समानाधिकरणशब्दबोध्यो योऽसौ प्रत्ययान्तशब्दवाच्यः स उपाधिरुच्यत इत्यर्थः । यथा पञ्चालानां विषयः पाञ्चाल' इत्यत्र देशो, 'दृति- हरिरित्यादौ च श्वादिः पशुः । नानार्थत्वात्सन्देहवारणाय-'तिहरिः श्वे'त्यादी विशेषनियमाय स्पष्टप्रतिपत्तये वाकचित्समानाधिकरणशब्दप्रयोगोऽपि। आभ्या- १'प्रकृति' । 'उपपद' 'उपाधि' इति निर्विभक्तिक क्वचित्पाठान्तरम् ।

३अ.१पा.१आ.१सू.] ®व्याकरणमहाभाष्यम् ॐ ३ ru.. 'हरतेतिनाथयोः पशौ' । एतेषां प्रतिषेधो वक्तव्यः ॥ किं च स्याधयेतेषामपि प्रत्ययसंज्ञा स्यात् ? ॥ परत्वमाधुदात्तत्वमङ्गसंज्ञेत्येते विधयः प्रसज्येरन् । प्र.] किञ्च स्यादिति । नहि संज्ञाप्रवृत्तिमात्रादेव दोषो भवति किन्तु तन्निमित्त- कार्यप्रवर्तनात, न च प्रकृत्यादीनां किञ्चित्तन्निमित्तं कार्य संभवति । परत्वं तावदव- धिविशेषोपादानेन सनादिभिरेव प्रतिपन्नम् । न च गुपादीनां सनादीनां च परस्प- रापेक्षं परत्वं युज्यते,विरोधात् । उपपदस्याऽपि-समासे सति पूर्वनिपातेन भवित- व्यमिति परत्वाऽभावः । उपाधेरपि-पौर्वापर्यस्य लौकिके प्रयोगे नियमाऽभावात् स्थितस्यैव च परत्वस्य शास्त्रणाऽनुवादाच्छास्त्रस्य विधायकत्वाऽभावादनुवादकत्वाद- र्थस्य चोपाधित्वात्तस्य च परत्वाऽसंभवात्परत्वाऽभावः । आधुदात्तत्वमपि न भवि- प्यति, यथास्वं लक्षणेन तेषां स्वरस्य विहितत्वात् । अङ्गसंज्ञा च विधानप्रतिबद्धा, न च प्रकृत्यादयः कुतश्चिद्विहिता इति तेषु परतः सा नान्यस्य भविष्यतीति प्रश्नः ॥ परत्वमिति।प्रकृतिप्रत्यययोःपर्यायेण परस्परापेक्षं परत्वं स्यात् । शब्दान्तरापेक्षं वा प्रकृतेः, प्रकृत्यपेक्षं तु प्रत्ययस्य । उपपदस्याऽपि-परत्वादुपसर्जनं पूर्वमित्येत- द्राजपुरुषादिषु सावकाशं बाधित्वा परत्वं स्यात् । 'भोक्तुं व्रजती'त्येव च नित्यं स्या- उ.] मपत्यकर्तादीनामुपाधित्वव्यावृत्तिः, श्लाघादिव्यावृत्तिश्च । श्लाघादीति।आदिना 'धातोः कर्मणः समानकर्तृका'दित्यादि । अतएव तदसमानाधिकरणमेव, 'गार्गिकया श्लाघत' इति पदान्तराऽभिधेयञ्च । तदप्रयोगे च वुजोऽसाधुत्वमेव ॥ 'अर्थविशेष- उपाधिरित्यादि कात्यायनवचनमिति न्यायवासिकतात्पर्यटीकायां वाचस्पति- मिश्राः ॥ न च प्रकृत्यादीनामिति । न च प्रातिपदिकत्वाऽभावः फलम् , ब्या- प्रातिपदिकादित्यादावुद्देश्यतावच्छेदकत्वेन तत्त्वज्ञापनात् । ननु प्रतिसंज्ञि 'परश्चे- त्युपस्थानात्प्रकृत्यादयोऽवधिविशेषाऽनुपादानेऽपि सन्निधानात्सनादेरेव परे भव- न्त्वित्यत आह-न चेति । 'युगप'दिति शेषः । समासे इति । नित्यसमासे इत्यर्थः । लौकिके प्रयोगे पौर्वापर्यस्य नियमाऽभावादुपाधेरपि परत्वाऽभाव इत्य- न्वयः । तत्र हेतुमाह-स्थितस्यैवेति । तदनूद्य साधुत्वस्यैव विधेयत्वमिति भावः । विधायकत्वाऽभावादिति । परत्वादिविधायकत्वाऽभावोदित्यर्थः । तद्विधायकत्वेऽप्याह-अर्थस्य वेति। यथास्वमिति । तेषामनवकाशत्वेन बाधकत्वमितिभावः॥पर्यायेणेति। यौगपद्ये हि विरोध इति भावः सन्मादीनां परत्व- बोधनेनैव सूत्रोपपत्तौ सनित्यादेविभक्तिविपरिणामादिनार्थान्तरवर्णनमनुपपन्नमित्यत आह-शब्दान्सरापेक्षमिति । प्रकृत्यपेक्षन्विति ।तासी पञ्चम्यन्तत्वादिति भावः। ननु राजादीनामपि 'प्रातिपदिकादिति निर्दिष्टत्वात्प्रत्ययसंज्ञायो 'परा त्यस्य प्राप्तौ कथमुपसर्जनं पूर्वमित्येतत्सावकाशमत आह-भोक्तुं बजतीति । अत्र ।

कैयट-विवरणसहितं [प्रत्ययः .. अत उत्तरं पठति-॥*॥ प्रत्ययाधिकारे प्रकृत्युपपदोपाधीनामप्रतिषेधः ॥ ॥ अधिकारणाऽपि प्रत्ययसंज्ञायां सत्यां प्रकृत्युपपदोपाधीनामप्रतिषेधः।अनर्थक: प्रातषेधोऽप्रतिषेधः ॥ प्रत्ययसंज्ञा कस्सान भवति?॥ ॥*॥ निमित्तस्य निमित्तिकार्यार्थत्वादन्यत्रापि ॥ निमित्तानि हि निमित्तिकार्याऽर्थानि भवन्ति॥ प्र.] न तु 'व्रजति भोक्तु'मिति । उपाधिवाचिनोऽपि प्रयोगाऽनियमे प्राप्ते 'परश्चेति नियमः स्यात् । 'यः प्रत्ययस्स पर' इति परिभाषणात् । आधुदात्तत्वमपि स्वरा- न्तरं बाधित्वा स्यात् । अङ्गसंज्ञेति । ननु विधानप्रतिबद्धाऽङ्गसंज्ञा, न चेह प्रकृ- त्यादयो विधीयन्ते । नैष दोषः । सिद्धशब्दाऽन्वाख्यानाय तेषामपि शास्त्रण विधा- नात्। परत्वेन च पूर्वस्याऽवधेराक्षेपात्। ननु पूर्वाक्षेपेऽपि परत्वे तस्माद्विधिर्नास्तीत्य- संज्ञा न भविष्यतीति चिन्त्यमेतत् ॥ निमित्तस्यति । प्रकृत्यादीनां भूतविभक्त्या निर्देशात्सनाद्युत्पत्ती निमित्तभावेनोपादानात्पारार्थ्यात्स्वसंस्कार प्रति प्रयोज- उ.] समासाऽभावेनोपपदस्य परत्वं स्यादिति भावः।अर्थे परत्वाऽसम्भवस्योक्तत्वादाह- उपाधिवाचिन इति।स्वरान्तरमिति। योऽनवकाशस्तद्विषये मा भूत् , सावकाश- विषये तु स्यादिति तात्पर्यम् । न च प्रातिपदिकाद्धातोरित्यनेन सर्वप्रकृतिनिर्देशा- तदंशे सावकाशविषयो दुर्लभ इति वाच्यं, स्वरान्तरगतं नित्यत्वं बाधित्वा पर्यायः स्यादित्यत्र तात्पर्यात् । सिद्धति । 'ढकि लोप' इत्यनुवादेन ढको विध्यनु- मानवदिहाप्यनुवादेनैव प्रकृतिविधानाऽनुमानमिति भावः। ननु कुतश्चित्पूर्वस्मा- द्विधिर्नास्तीति कथमङ्गत्वमत आह-आक्षेपादिति। तथा च पूर्वीद्देशेन परत्वेन तेषां विधानमिति भावः । पूर्वापेक्षेऽपि परत्वे इति । अनुमितो विधिः सामान्यत एव, पूर्वोद्देशेन तु परत्वमात्रविधानम् । वस्तुतो ढगादेर्मानान्तरेणाऽसिद्ध्या भवतु तद्विध्यनुमानम्, प्रकृत्यादीनान्तु मानान्तरेण सिद्धतया तद्विध्यनुमानमेव दुर्लभमिति भावः । चिन्त्यमेतदिति । 'इत्यादयः प्रत्ययसंज्ञा भवन्ति, ते च प्रत्ययेभ्यः शब्दान्तरेभ्यो वा परे भवन्ती'त्यत्र परशब्दस्य धर्मिप्रधानतया परत्वविशिष्टानां तेषामेव विधानं शाब्दम् । प्राप्ताऽव्याप्तविवेकन्यायेन तु देशमात्रविधानम् । अतएव सर्वोऽपि विशिष्टविधिरेव, प्राप्ताऽप्राप्तन्यायेन तु कस्य चिद्गुणविधित्वमिति मीमां- सकाः। न हि 'यस्मात्प्रत्ययविधि रित्यत्र प्राप्ताऽव्याप्तविवेकन्यायलब्धविधेयत्वमेव गृह्यत इत्यत्र मानमस्तीत्यङ्गसंज्ञा प्रयोजनमेव । ननु विधिग्रहणसामर्थ्यान्न्यायलब्ध- विधेयत्वस्य ग्रहः। 'स्त्री ईयती'त्यादाविदनिरूपिताङ्गत्वस्य दुर्वारत्वेन व्यावर्त्याऽभावा- दिति चेन्न, भनक्ती'त्यादौ दीर्घवारणाय विधिग्रहणस्यावश्यकत्वादित्याशयात् ॥ भूतविभक्त्या-सिद्धत्वबोधकविभक्त्या। ननु भिन्ने वाक्ये स्वसंस्कारप्रति प्रयोज- १ 'अनभिव्यक्तो' पा०।

अ.१पा.११सू.] ® व्याकरणमहाभाष्यम् ॐ किं पुनर्निमित्तं को वा निमित्ती ? ॥ प्रकृत्युपपदोपाधयो निमित्तं, प्रत्ययो निमित्ती। अन्यत्रापि चैष न्यायो दृष्टो नावश्यमिहेव ॥ कान्यत्र ?॥ लोके। प्र.कत्वाऽभावादित्यर्थः। तत्र वाक्यभेदेनाऽपि विधीयमाना प्रत्ययसंज्ञा सनादिभिरेव संवध्यते, तेषामेव निमित्तित्वात्तां प्रति प्रयोजकत्वात् । संज्ञासम्बन्धप्रतिपत्तियोग्य- विभक्तिनिर्देशात्।द्वयोश्च परस्पराकाङ्क्षायां सम्बन्धो न त्वन्यतराकालायांसोतारावणयो. रिवेति सत्यामपि संज्ञाया आकाङ्क्षायां प्रकृत्यादीनां विशेषणत्वादनाकासत्वात् संज्ञासम्बन्धाऽभाव इत्युक्तं भवति ॥ किं पुनरिति । नित्यत्वाच्छब्दानां निमित्त- निमित्तिभावो नोपपद्यत इति प्रश्नः ॥ प्रकृतीति । प्रतिपादकानां शब्दानामुपाय- भावेन शास्त्रेण व्यवस्थापनात्तदनुगुणविभक्तिनिर्देशादस्ति निमित्तनिमित्तिभावः । उ.]कता स्यादेवेत्यत आह-वाक्यभेदेनाऽपीति । द्वितीयवाक्यस्याऽपि 'गुप्तिज्किझ्यो यः सन् स प्रत्यय' इत्येवंरूपस्यैव स्वीकारेण तत्रापि भूतविभत्त्या निर्देशात्पारार्थ्यमेव प्रकृत्यादीनामिति भावः । तेषामेव ताम्प्रति प्रयोजकत्वे हेतुमाह-संज्ञासम्बन्धेति । न च द्वितीयवाक्ये योग्यविभत्त्या विपरिणामः, योग्यविभक्तिनिर्दिष्टेषु सनादिषु चारि- र्थ्यादिति भावः। युक्त्यन्तरमायाह-द्वयोश्चेति । 'प्रत्ययसंज्ञायाः संज्ञित्वेन प्रत्यया- पेक्षावत् प्रकृत्याद्यपेक्षायामपि प्रकृत्यादीनाम्प्रत्ययविधौ निमित्तभावेनोपक्षीणानां संज्ञा- म्प्रत्यपेक्षाऽभावात् प्रत्ययसंज्ञा ने'त्यर्थो 'निमित्तिकार्यार्थत्वा'दित्यनेन प्रतिपादित इत्यर्थः । उभयाकाङ्क्षया संबन्धस्य न्याय्यतरत्वादित्यभिमानः । वस्तुतस्तु 'गुपा- दिभ्यः सन्प्रत्ययः परो भवतीत्येवं विशिष्टस्य संज्ञिन एकवाक्यतया विधिसम्भवा- द्भिन्नवाक्यत्वे मानाऽभावान्न प्रकृत्यादीनां संज्ञा । न ह्युद्भिदा यजेतेत्यादौ नामधेय- संबन्धलाभाय वाक्यभेदं मन्वते न्यायविदः । तत्रोद्भित्संज्ञाविशिष्टस्यैव यागस्य विधानात् , शब्दार्थयोरभेदाच्च नाऽन्वयाऽयोग्यता । नापि लक्षणा, अन्यथाऽसतः संज्ञाऽनुपपत्तिवदायुदात्तस्याऽपि विधानाऽसंभवात् 'प्रत्ययस्वरश्च तासेर्वृत्तिसन्नियोग- शिष्ट' इति'लुटःप्रथमस्येति सूत्रशेषस्थभाष्यविरोधः। यदैव तासिःप्रवर्तते तदैवोदात्त- त्वयुक्त' इति कैयटः।किञ्च संज्ञिनमुद्दिश्य संज्ञाविधाने पूर्व बुद्धिविषयस्य संज्ञेत्यर्थस्य 'पूर्वोच्चारितः संज्ञी, परोच्चारिता सञ्ज्ञा,] सतो मांसपिण्डस्य देवदत्त इति संज्ञा क्रियते, सतो हि कार्यिणः कार्येण भवितव्य'मित्यादि भाष्यसम्मतत्वेऽपि प्रकृतेऽस्य सूत्रस्य शाटकं वये त्यादिवत् संज्ञाविशिष्टविधाने बाधकाऽभावात् । अयमेव 'निमित्तिका-- थत्वादितिभाष्यस्याऽर्थः। अयंभावः-निमित्तिनोऽनिख़तत्वात्तेनैकवाक्यतया विशिष्ट- विधिसम्भवः । निमित्तेष्वन्वये तु वाक्यभेद आपततीति वाक्यभेदभिया न तैस्तस्याः सम्बन्ध इति ॥ प्रतिपादकानामिति। अर्थप्रतिपादकत्वेन लोके सिद्धानामित्यर्थः । १ इदं क्वाचित्कम् । २ 'निमित्तिषु' पा० । ३ 'लोके प्रसिद्धा'.पा० । - :

कैपट-विवरणसहितं. [प्रत्ययः । सपथा बहुम्वासीनेषु कश्चित्कं चित्पृच्छति-कतरो देवदत्तः कतमो यज्ञदत्त इति?। स तस्मायाचष्टे-'योऽश्वे यः पीठ [इति। योऽश्वे यःपीठ] इत्युक्ते निमित्त- स्य निमित्तिकार्याऽर्थत्वादध्यवस्यति-'अयं देवदत्तोऽयं यज्ञदत्त' इति । नेदानी- मश्वस्य पीठस्य वा 'देवदत्त' इति संज्ञा भवति ॥ [किं पुनर्निमित्तं को वा निमित्ती ? ॥ निर्जातोऽर्थो निमित्तमनिर्जातोऽर्थो निमित्ती । इह च प्रत्ययो- ऽनितिः, प्रकृत्युपपदोपाधयो निर्माताः॥क ?॥ धातूपदेशे प्रातिपदिकोपदेशे च । ते निर्माता निमित्तत्वेनोपदीयन्ते ।] ॥ ॥ प्रधाने कार्यसंप्रत्ययाद्वा सि- द्धम् ॥ ॥ अथवा [प्रधाने कार्यसंप्रत्ययात्सिद्धमेतत्।] । प्रधान कार्यसंप्रत्ययो भवति ॥ किं च प्रधानम् ? ॥ प्रत्ययः॥ तद्यथा बहुषु यात्सु कश्चित्कं चित् पृच्छति-'को याती'ति ?॥स आह 'राजे'ति । 'राजे'त्युक्ते प्रधाने कार्यसंप्रत्य- याद्यः पृच्छति यश्चाचष्टे उभयोः संप्रत्ययो भवति ॥ किं कृतं पुनः प्राधा. न्यम् ? ॥ अर्थकृतम् ॥ यथा पुनर्लोकेऽर्थकृतं प्राधान्यं, शब्दस्येदानी किंकृतं प्र.] कतर इति। 'किं यत्तदोर्निर्धारणेद्वयोरेकस्य डतरच्' 'वा बहूनां जातिपरिप्रश्ने डतम'जिति सूत्रद्वये उपाधिप्रत्याख्यानाद्बहूनामप्येकस्य निर्धारणे कतरशब्दःप्रयुक्तः॥ प्रधान इति । प्रत्ययसंज्ञा स्वविषयप्रक्लप्तये प्रधानमपेक्षते न तु पारतन्त्र्याद- प्रधानमित्यर्थः । किंकृतमिति । भवतु राज्ञः प्राधान्यं तदधीनस्थितित्वादन्येषाम् , इह तु कथमिति प्रश्नः । अर्थकृतमिति । प्रयोजनकृतमित्यर्थः । यस्याऽपूर्व उ.] उपायभावेनेति। काल्पनिकप्रकृतिप्रत्ययविभागमुपायत्वनाश्रित्याऽन्वाख्यानादि- त्यर्थः।तदनुगुणेति। तत्र निमित्तित्वाऽनुगुणा प्रथमा,अन्याः प्रायेण निमित्तत्वाऽनुगुणा इत्याहुः । बहुषु निर्धारणे डतरोऽनुपपन्न इत्यत आह-किं यदिति ॥ 'प्रधाने कार्य- सम्प्रत्यया'दित्यस्य 'निमित्तिकार्यार्थत्वा'दित्यनेन पौनरुक्त्यमाशङ्याह-प्रत्ययसंज्ञेति। पूर्वं प्रत्ययसंज्ञाया आकाङ्क्षामङ्गीकृत्य प्रकृत्यादीनां निरपेक्षत्वात्संज्ञाऽभाव इत्युक्तम् । इदानीन्तु प्रत्ययसंज्ञाया अपि गुणभूतेष्वाकाङ्क्षा नास्तीति प्रतिपाद्यत इति विशेष इति भावः । वाक्यभेदभिया तैस्तस्या असंबन्ध इति प्रागुक्तम् । अनेन तु तत्राऽ- न्वयप्रसक्तयभाव एवोच्यत इति विशेष इति तत्त्वम् । भाष्ये-को यातीति । डतरस्य वैकल्पिकत्वात्तदप्रयोगः। उभयोः सम्प्रत्ययो भवतीति । तत्र कथयितुः सम्प्रत्ययः-तन्मूलकप्रयोगः । तथाऽत्रापि आचार्यस्तेनैव तात्पर्येण प्रयुक्तवान् , शिष्याणाञ्च तथैव बोध इति भावः। प्रयोजनकृतमिति । प्रयोजकत्वकृतं । प्रेरणा- कृतमित्यर्थः । भाष्ये-यथा पुनरित्यव्ययम्-अस्तु पुनरित्यर्थे । किं कृतमिति । १'कतमो देवदत्तः' 'कतरो यज्ञदत्तः' पा०।२ ‘स आह' पा० । ३ अयं पाठो न सार्वत्रिकः । ४ 'नाधीयते'। ५ 'प्रधानस्य कार्ये संप्र'। ६ 'यश्च कथयति' पा०। । ।

No text on this page.

* कैयट-विवरणसहितं [प्रत्ययः त्प्रत्ययसंज्ञा न भविष्यति । 'प्रत्ययः परो भवती'त्युच्यते न च विकाराग- माः परे संभवन्ति ॥ किं पुनः कारणं समानेऽपूर्वोपदेशे प्रत्ययः परो, विका- रागमा न परे ? ॥ ॥ षष्टीनिर्दिष्टस्य च तद्युक्तत्वात् ॥ ॥ षष्ठीनिर्दिष्टं विका- रागमयुक्तं भवति । पञ्चमीनिर्दिष्टाच्च प्रत्ययो विधीयते ॥ ॥*॥ प्रत्यय- विधानानुपपत्तिस्तु ॥*॥प्रत्ययविधिस्तु नोपपद्यते ॥ क ? ॥ यत्र विकारागमा प्र.] हि प्रत्ययविधानपरत्वनिवद्धा । प्रयोजनेसद्भावे तु श्नम आगमत्वेऽपि शकारस्ये. संज्ञार्थ प्रत्ययसंज्ञा प्रवर्तत एव। परविज्ञानादिति। 'विभाषा गुण' इति हेतौ पञ्चमी। फलमपि प्रयोजकत्वाद्धेतुरित्युच्यते, यथा'ऽध्ययनेन वसती'ति। ततश्चायमर्थः- प्रत्ययसंज्ञायां परत्वं फलन्तच्चाऽत्र न संभवतीति प्रत्ययसंज्ञा प्रयोजनाऽभावान्न भविष्यति ॥ किं पुनरिति । परत्वमेव भवतु प्रत्ययसंज्ञाप्रयोजनमिति भावः ॥ षष्ठीनिर्दिष्टस्येति ।षया च पूर्वोदितस्य संबन्धस्य प्रतिपादनाद्विरोधात्परत्वा- ऽभाव इत्यर्थः। पञ्चमीनिर्दिष्टाच्चेति। पञ्चमीनिर्देशे पर्यायेण पूर्वपरत्वयोः प्राप्तयोः 'परश्चे'त्यनेन परत्वं नियम्यत इति नास्ति कश्चिद्विरोध इत्यर्थः॥ प्रत्ययेति । षष्टी- निर्देशेष्विति भावः । केति । 'गापोष्ट'गित्यादावानन्तर्यसम्बन्ध षष्टीविज्ञानादुपप- उ.] ति । आन्तरतम्पेनेत्यर्थः । आयुदात्तत्वन्तु तव्यादौ चरितार्थमिति भावः । सा हीति । प्रत्ययविधानेन परत्वेन च प्रतिबद्धेत्यर्थः । शकारस्येत्संज्ञार्थमिति । अत एव 'तृणह' इत्यादिनिर्देशाः सङ्गच्छन्ते । नमः शकारस्तु 'नान्नलोप' इत्यत्र विशेषणाऽर्थ इति भावः । नन्वेवम्परविज्ञानादिति पञ्चम्यनुपपन्ना, हेतुत्वाऽभावादत आह-फलमपीति । भाष्ये 'न च विकारागमाः परे' इत्येव पाठः, तदुत्तरं 'सम्भ- वन्ती'त्यपाठ इत्याशयः। अत्राहुः-'प्रत्यय' इत्यादीनां त्रयाणामप्यधिकारत्वेन प्रति सूत्रमुपस्थितावेकवाक्यतया युगपदेव त्रयाणां विधानस्य न्याय्यत्वेन नाऽन्योऽन्यं प्रत्यन्योऽन्यस्योद्देश्यता न्याय्येति कथं प्रत्ययसंज्ञायाः परत्वं फलं, कथं वाऽऽद्युदा- तत्वमिति । अतएव 'लुटः प्रथमस्ये'त्यादिसूत्रस्थभाष्याऽविरोधः । तस्मादय- मर्थः- “स्थानषझ्यादिनिर्देशाद्देशाकालाया विकारादीनामभावेन 'पर' इत्यस्याऽसंवन्धे सन्नियोगशिष्टन्यायेन 'प्रत्यय' इत्यादीनामप्यसंबन्ध" इति । 'परविज्ञानादित्यस्य तत्सन्नियोगशिष्टवादित्यर्थः । क्वचित्तु 'तृणह इमित्यादिनिर्देशान्न यासयोरिति ज्ञापकाच्च सन्नियोगशिष्टन्यायाऽनित्यत्वेन प्रवर्तत एव संज्ञेति दिक् ॥ एतदेव ध्वन- यन् विकारागमेषु परश्चेत्यस्याऽप्रवृत्तिं प्रश्नमुखेनोपपादयति भाष्ये-किम्पुनरिति ॥ पूर्वोदितस्येति। स्थानसंबन्धस्याऽवयवसंबन्धस्य चेत्यर्थः।आनन्तर्यसंबन्धे १ 'न विकारागमाः परे पा० । २ चः क्वचिन्न । ३ इदं क्वचिन्न । ४ 'प्रयोजनाऽभावे तु' पा० । ५ 'एवेति क्वचिन्न । ६ 'पूर्वपरयोः' पा० ।

No text on this page.

No text on this page.

३अ.१पा.१आ.२सू.] * व्याकरणमहाभाष्यम् . अन्यत्राऽप्यकारेण तस्याऽर्थस्य चनान्मन्यामहे--अकारस्तमैथ संप्रत्याययति न पुर्नः षकार इति ॥ काऽन्यत्र ? ॥ 'बिल्वादिभ्योऽण' बैल्वः ॥ [प्रत्ययः] । परश्व॥३॥१॥२॥ किमर्थमिदमुच्यते ?॥ परो यथा स्यात्पूर्वो माभूदिति ॥ नैतदस्ति प्रयो. जनं, यमिच्छति पूर्वमाह तं,- 'विभाषा सुपो बहुच्पुरस्तात्त्विति ॥ मध्ये प्र.] निराकर्तुमुपन्यासः ॥ अन्यत्रापीति । प्रत्ययम्यागममन्तरेणाऽपि प्रयोगादर्थव- त्ताऽवगतिः। आगमस्य तु प्रत्ययमन्तरेण प्रयोगाऽभावादन्वयव्यतिरेकाभ्यामर्थवत्त्वं नाऽवधार्यत इत्यर्थः । [प्रत्ययः] ॥ परश्च । किमर्थमिति । पञ्चमीनिर्देशे परशब्दाध्याहारेण पञ्चमीविधानात् परत्वं सिद्धम् । षष्ठीनिर्देशेऽपि 'गापोष्ट गित्यादावानन्तर्यसंबन्धे षष्ठीविज्ञानादिति- भावः ॥ पर इति । पूर्वशब्दाध्याहारेणाऽपि पञ्चमीविधानात्पूर्वत्वमपि स्यादिति नियमार्थ परवचनम् । तथाऽऽनन्तर्यस्य पूर्वत्वेऽपि भावात्षष्टीनिर्देशेऽपि निय- मार्थमित्यर्थः ॥ यमिच्छतीति। 'बहुजेव पुरस्ताद्भवति नाऽन्यः प्रत्यय' इति बहुचि पूर्वदेशस्य नियतत्वादन्यः प्रत्ययः पर एव भविष्यतीत्यर्थः॥ मध्ये तहीति । षष्टी- उ.] तम् ॥प्रत्ययस्येति।अन्वयव्यतिरेकाभ्याम्प्रत्ययस्यैवाऽर्थवत्त्वं नाऽऽगमानामिति भावः । वध-नभ-विरजाद्यादेशानामपि न स्वीयाऽर्थप्रत्यायकता, किन्तु स्थान्यर्थ- प्रत्यायकतैव। अत एव कोशादो तेषां पृथगाऽनिर्देशः । अत एव च नभ्यशब्दा- दपि नाभिशब्दप्रकारकस्तदर्थबोधो 'नाभिहित' इति, नतु कदाचिदपि 'नभहित' इति। येऽपि शास्त्राऽनभिज्ञास्तेऽपि वृद्धव्यवहारात्तथैव प्रतियन्ति। एतदर्थमेव भाष्ये 'स्वमर्थ'मित्यत्र 'स्व'मितिपदोपादानं । स्थानिनो नष्टत्वादन्येन प्रत्याय्यमानार्थको- ऽपि नेति दिक् । [ प्रत्ययः] ॥ परश्च । पञ्चमीति। परशब्दाऽध्याहार एव व्याख्यास्यते न तु पूर्वशब्दाध्याहारः। 'गापोष्ट गित्यादावपि षष्ठ्या आनन्तर्यार्थत्वेन 'धातो'रिति पञ्चम्या पूर्ववदेव पर- शब्दाध्याहार इति भावः। परशब्दाध्याहारेणेति । तदर्थघटितवाक्यार्थेऽस्यैक- देशस्य वृत्तिस्वीकारेणेत्यर्थः।एवं पूर्वशब्दाध्याहारेणे'त्यपि व्याख्येयम् ॥पूर्वशब्देति। व्याख्यानं दुर्जेयमिति भावः। आनन्तर्यस्येति । 'हलोऽनन्तरा' इत्यादौ तस्याऽ- व्यवहितपर्यायत्वादित्यर्थः ॥ प्रत्ययनियमेऽन्येषाम्परदेशनियमस्याऽलाभादभिमतं देशनियमं दर्शयति-बहुजेवेति ॥ पञ्चमीनिर्देशे मध्यशब्दाध्याहाराऽसम्भवादाह- षष्ठीति । 'व्रीहिशाल्योर्ड' गित्यादौ ॥ 'अव्ययसर्वनाम्ना'मित्यादौ 'प्राक्टेरित्युपादानं १ 'प्रत्यायनात्' पा०। २ 'तदर्थ' पा०। ३ 'प्रत्याय पा० । ४ इदं कचिन्न । ५ 'परोऽयं' पा० । ६ 'तुः क्वचिन्न ।

No text on this page.

३अ.१पा.१आ.२सू.] ® व्याकरणमहाभाष्यम् 8 vvvvv.iN Nurvv.. र्थक, पञ्चमीनिर्दिष्टाद्धि परस्य ॥॥ परग्रहणमनर्थकम् ॥ किं कारणम् ? ॥ [ 'पञ्चमीनिर्दिष्टाद्धि परस्य']। पञ्चमीनिर्दिष्टाद्धि परस्य कार्यमुच्यते । तद्य- था 'व्यन्तरुपसर्गेभ्योऽप ई'दिति ॥ विषम उपन्यासः। सतस्तत्र परस्य कार्य: मुच्यते, इहेदानी कस्य सतः परस्य कार्य भवितुमर्हति ? ॥ इहापि सत एव ।। कथम् ? ॥ परत्वं स्वाभाविकं॥ अथवाचनिके परत्वे सत्यर्थः स्यात्परग्रहणेन ॥ वाचनिके च नाऽर्थः। एतद्धि तत्परस्य कार्य यदसौ परतः स्यात् । अथ प्र.]भावः ॥ सतस्तत्रेति । यत्र विद्यमानमेव कार्यान्तरविधानार्थ कार्यित्वेन निर्दिश्यते तत्र 'तस्मा दिति परिभाषा नियमार्थाऽवतिष्ठते । अत्र तुसनादयोऽपूर्वा एवोत्पद्यन्त- इति न तस्याः परिभाषायाः प्रवृत्तिरिति भावः । कस्य सत इति । असन्नव सना- दिर्भाव्यत इति भावः ॥ इहापीति । नित्याः शब्दाः प्रयोगस्थास्तत्र स्वभावत एव गुपादिभ्यः परस्य सनादेः साधुत्वमानं प्रतिपाद्यत इत्यर्थः ॥ एतद्धीति । 'तस्मादित्युत्तरस्ये'त्येत्यस्य प्रदेशेष्वर्थाऽभिव्यक्तिर्भवति । ततश्च यत्र सदेव कार्यि- त्वेनोपादीयते तत्रोत्तरस्य कार्य भवतीति कार्यापेक्षा संबन्धेषष्ठी। यत्र त्वसत एवो- त्पत्तिः क्रियते तत्रोत्तरस्य भावो भवतीति भावापेक्षया कत्तृषष्टी विज्ञायत इत्यर्थः । परस्य कार्यमिति । उत्पत्तिरेव कार्यमित्यर्थः । नन्वेवं सति सन्नित्यादिप्रथमा- निर्देशः षष्टीप्रकल्पने सति निरर्थकोऽकृतार्थत्वात्स्यात् । नैष दोषः । निर्देशमात्रार्था प्रथमा स्यात् । उत्तरकालन्तु षष्टी प्रकल्पते । यत्त्वन्यत्रोच्यते-'नच प्रत्ययविधौ पञ्चम्यः प्रकल्पिका' इति,-तदस्मिन् सूत्रे स्थित इति द्रष्टव्यम् । अथवेति । अय- मर्थः- उत्पत्तिः सनादेरनियतदेशा भवतु । पश्चात्तु सत एव परस्य यत्कृत्कृत्य. उ.]निगमनाविरहाद्वा। तस्मादिति। ते प्राग्धातो रित्यादौ उत्तरांऽशविकलाया इव, 'परश्चेति कृतऽपि व्यवहितप्रयोगवारणाय प्रकृते एवोत्तराङ्गविकलायाइव च सूत्राऽ. भावे षष्ठ्यंशविकलायाः प्रवृत्तिरिति गूढोऽभिप्रायः ॥ उक्तमभिप्रायमजानानः शङ्कते भाष्ये-सतस्तत्रेति । कार्यशब्ददर्शनाश्रयेण वैषम्यमित्याह-यनेति । 'उत्तर- स्येतिषष्टीनिर्देशादिति भावः॥स्वाभाविक परत्वे किं तस्मादित्युत्तरस्येत्यनेनेत्यत आह- नित्या इति ॥ नन्वेकस्याः षड्या अर्थद्वयपरत्वं कथमित्यत आह-प्रदेशेष्विति । तत्र तत्रोपस्थितं भिन्न भिन्नमेवेत्यर्थः । उत्तरस्य भावो भवतीति भाष्ये 'परतः स्या'दित्यनेन सूचितम् । 'प्रत्ययः परो भवतीत्यनेनाऽस्य समानार्थत्वादिति भावः । निर्देशेति । लघुनिर्देशेत्यर्थः । ननु प्रत्ययस्याऽनियतदेशत्वे पूर्वमपि प्रत्ययप्रयोगे साधुत्वं स्यादत आह-अयमर्थ इति । एवञ्च परस्य सतः प्रत्ययसंज्ञाविधान- १ 'परस्य कार्य' मित्यन्ये पठन्ति। २ 'स्वाभाविकं परत्वं' पा० । ३ 'सत्यर्थः परग्रहणेन स्यात्' पा० । ४ 'निके परत्वे च' पा०।५ 'परस्य' । ६ 'परः' पा।

No text on this page.

३अ.१पा.१आ.२सू. ] 8 व्याकरणमहाभाष्यम् 8 ~~irvv......- -~~.. लोपार्थ परग्रहणं कर्तव्यम् । य एतेऽत्यन्तापरदृष्टाः विबादयोलुप्यन्ते तेषां परभू- तानां लोपो यथा स्यादपरभूतानां माभूदिति । किं पुनरत्यन्ताऽपरदृष्टानां पर. भूतलोपवचने प्रयोजनम् ?॥ किति णितीति कार्याणि यथास्युरिति ॥ एतदपि नास्ति प्रयोजनम्-आचार्यप्रवृत्तिापयति-'अत्यन्ताऽपरदृष्टाः परभूता लुप्यन्त' इति,यदयं तेषु कादीननुबन्धानासजति ॥ कथं कृत्वा ज्ञापकम् ? ॥ अनुब. न्धासअन एतत्प्रयोजनं-'किति णितीति कार्याणियथा स्युरिति । यदि चात्रा- ऽत्यन्ताऽपरदृष्टाः परभूतालुप्यन्ते ततोऽनुबन्धासअनमर्थगवति ॥॥॥ प्र. योगनिमार्थ वा ॥॥ प्रयोगनियमाथं तर्हि परग्रहणं कर्तव्यम् । परभूतानां प्रयोगो यथा स्यादपरभूतानां मा भूदिति ॥ अस्ति पुनः किंचिदनिष्टं दृश्यते प्र.] केवलं प्रत्ययलोपवचनेन कार्यमानं तेषामत्यन्ताऽसत्त्वेऽपि विधीयते ॥ यदयमि- ति । यदि पूर्वभूता लुप्येरंस्तदाऽनुबन्धासङ्गोऽनर्थकः स्यात्, सर्वस्यानुबन्धकार्य- स्य परभूतप्रत्ययाश्रयत्वात् । नन्वनियतदेशत्वेऽपि यदा परभूतलोपस्तदानुबन्धा- सङ्गस्य चरितार्थत्वात्कथं लिङ्गत्वमिति के चिदाहुः। तदयुक्तम् । एवं पक्षेऽनुबन्धा- सङ्गस्यानर्थक्यमभ्युपगतं स्यात् । 'स्पृशोऽनुदके' इत्यादौ च सकृत्पञ्चमी श्रुता, सा किं पूर्वशब्दाध्याहारेण भवत्यथ परशब्दाध्याहारेणेति सन्देहे पूर्वशब्दाध्याहारेण प- ञ्चम्यां सत्यामानर्थक्यमेवानुबन्धासङ्गस्येति कथं परभूतलोपेऽनुबन्धासङ्गो न लिङ्गं स्यादिति भाष्यविद आहुः । प्रयोगनियमार्थ वेति । पूर्व प्रयोजनं स्थितमिति उ.]तत्सामर्थ्यात्परत्वबुद्धिविशिष्टो बौद्धः क्विबित्यर्थ इति तात्पर्यम् । नन्वत्यन्ताऽस- तामुत्पत्तिोपो वा किमिति विधीयते इत्यत आह-केवलमिति । प्रसक्ताऽदर्श- नस्यैव लोपत्वेन प्रसक्तत्वबुद्धये उत्पत्तिबोधनमिति भावः ॥ णित्कार्य-ण्यौ । पर- भूतेति । 'किति णिति' 'पिति कृती'त्यादीनां परसप्तमीत्वादिति भावः। यदेति । यद्वि- षये इत्यर्थः। एकविषये आवृत्त्या नानादेशविधाने मानाऽभावात् । युगपत्तु दिग्वा. चकद्वयेनाऽन्वयाऽसम्भवः। ‘एवं पक्षे इत्यस्यापि विषयविशेष इत्यर्थः । अन्यथा- ऽसङ्गतिः स्यष्टैव । अतएव 'स्पृश' इत्यग्रिमग्रन्थसङ्गतिः । प्रकारान्तरेण व्याख्याने तदसङ्गतिः। विषयविशेषमेवाह-स्पृश इति। अत्रैकस्य स्पृश एव लक्ष्य- लान लक्ष्यभेदेनापि लक्षणावृत्तिः। एवञ्च कित्त्वसामर्थ्यनोत्तरस्य बौद्धो भावो भव- तीत्यर्थो वक्तुं शक्यः परग्रहणाऽभावेऽपीत्याशयः ॥ भाष्ये-अपरभूतानामिति । न परभूता अपरभूता इति, न विद्यन्ते परभूता येषामिति चाऽर्थः। तेन केवलप्रत्ययानां केवलप्रकृतीनाञ्चेत्यर्थः । तदेतदुक्तम्-अप्रत्पयिकेत्यादिना भाष्ये । प्रकृतिराऽभि- धाने कर्तव्येऽप्रत्ययिकाऽपि प्रयुज्यमाना दृश्यत इत्यर्थः । तथा च लोके दृश्यमाना- १ 'परभूता एवं' पा० । २ 'चात्यन्ता' पा० । ३ 'अपरभूत' पा. ।

कैयट-विवरणसहितं. [ परश्च यदर्थो नियमः स्यात् ? ॥ 'अस्ती'त्याह ॥ ॥ प्रकृतेराऽभिधानेऽप्रत्ययदर्शना- त् ॥*॥ प्रकृतिराभिधानेऽप्रत्ययिका दृश्यते । क स देवदत्तः क स यज्ञदत्तः बभ्रुः मण्डुः लमक इति । बाभ्रव्यो माण्डन्यो लामकायन इति प्रयोक्तव्ये बभ्रमण्डुर्लमक इति प्रयुज्यते ॥*॥ द्वयसजादीनां च केवलदृष्टत्वा- त् ॥*॥ द्वैयसजादीनां च केवलानां प्रयोगो दृश्यते । किमस्य द्वयसं, किमस्य मात्र, काऽद्य तिथीति ? ॥ द्वयसादयो वै वृत्तिजसदृशा अवृत्तिजा यथा बहु- प्र.]वार्तिककारेण विकल्पाऽर्थो वाशब्दः पठितः। भाष्यकारेण तु लिङ्गेन पूर्वप्रयोजनम्य निराकरणात्तयों व्याख्यातः ॥ क स देवदत्त इति । देवदत्तादयस्तदपत्येषु वर्त- माना दृश्यन्ते तेषामनेन नियमेनाऽसाधुत्वं प्रतिपाद्यते 'न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययःप्रयोक्तव्य' इति । ननु ‘सोऽय'मित्यभिसंबन्धादभेदोपचारादपत्ये प्रयोगात्कथमसाधुवम् ? । नैतदस्ति । भृत्यादेरपि साहचर्यादिनिमित्ताऽभेदाध्यारोप- दर्शनादपत्यार्थी नियमेन न प्रतीयेत । तदुक्तं हरिणा-'सोयमित्यभिसंबन्धात्तद्धि. तेन विना यदि । बभ्वादयः प्रयुज्यरत्नाऽपत्ये नियमो भवेदिति ॥ तस्मादभे- दोपचाराद्विनाऽपत्यविक्षायां 'गर्गा' इति बहुवचनान्तवदेकवचनान्ता बभ्वादयो मा- प्रयुक्षतेति नियमार्थ वचनम् । क स देवदत्त इत्यत्र के चिदाहुः-'क्क स इति' । यथा सुपो लुग्लोपयोः कृतयोः केवला प्रकृतिः प्रयुज्यमाना दृश्यते तथा बभ्वाद- योऽपीति दृष्टान्तोपन्यासः ॥किमस्य द्वयसमिति । किमस्य प्रमाणमित्यत्रार्थेऽयं प्रयोगो दृश्यते। तत्र गाव्यादिवदेवमादीनामनेनाऽसाधुत्वं प्रतिपाद्यते । काद्य तिथीति। काऽद्य यादिसङ्ख्यायाः पूरणीत्यर्थः । बहुतिथीत्यादौ च तिथीशब्दमुपलभ्य भ्रान्त्या केवलमपि प्रयुञ्जते। यस्तु तिथिशब्दान्छीषि कृते तिथीशब्दः स साधुरेव । द्वयस- उ.]नामसाधुत्वप्रतिपादनाय 'परश्चेति सूत्रमिति भावः। भाष्ये-यो बभ्रमण्डुर्लमकः स देवदत्तः क्वेत्यर्थः। देवदत्तस्तु नोदाहरणम्, अन्यथा 'बाभ्रव्यादिषु प्रयोक्तव्येषु बभ्र- रित्यादि प्रयुज्यते' इति कथनवत् 'दैवदत्तिरिति प्रयोक्तव्ये देवदत्त इति' इत्यपि भाष्ये वक्तव्यं स्यात् । क्वचित्तथा पाठं दृष्ट्वा व्याचष्टे-देवदत्तादय इति। 'बभ्रु'रि- त्यादौ प्रकृतिसुप्रत्यययोईयोरपि प्रयोगात्कस्याऽसाधुत्वमुच्यत इत्यत आह-तदपत्ये इति । नन्वभेदोपचाररूपलक्षणया प्रयोगे साधुत्वनिश्चयात्कथमस्याऽसाधुत्वमिति शङ्कते-नन्विति । नाऽयमभेदोपचारेण प्रयोगः, भृत्यादेरपि प्रतिपत्त्यापत्तरित्युत्त- राशयः। अभेदोपचारं विनोपगुसम्बन्ध्यपत्यमित्यर्थप्रतिपिपादयिषया प्रयुक्ता केवला प्रकृतिस्तथा प्रयुक्तः केवलः प्रत्ययश्चाऽसाधुरित्याह-तस्मादिति । 'बहुवचनान्तव'- दित्यनेन तत्र बभ्रुसम्बन्ध्यपत्यमित्यर्थविषयलक्षणां दर्शयति। अनेनाऽसाधुत्वमिति । १ 'प्रत्ययाऽदर्श' पा०। २ इदं क्वचिन्न। ३ 'सादीनां' पा० । ४ 'यसादयो' पा०।

। ३अ.१पा.१आ.२सू.] * व्याकरणमहाभाष्यम् ® स्तथा ॥ ॥ वावचने चानुत्पत्त्यर्थम् ॥ ॥ वावचने चानुत्पत्त्यर्थ परग्रहणं कर्त- ध्यम् । वावचनेनाऽनुत्पत्तिरपि यथा स्यात् ॥अथ क्रियमाणेऽपिवै परग्रहणेकथ- प्र.]जादय इति। अवृत्तिजा अपि भ्रान्त्या केवला लोके प्रयुज्यमाना दृश्यन्त इत्यर्थः । यथा बहुरिति । ईषदसमाप्तौ यो बहुच्प्रत्ययस्तत्सदृशो बहुशब्दस्सङ्ख्यावैपुल्य- वाची यथा लोके प्रयुज्यते तथा द्वयसजादयोऽपीति केचिद्व्याचक्षते। अन्ये त्वाहुः-केवल एवेषदसमाप्तौ यो बहुशब्दो लोके प्रयुज्यते स दृष्टान्तोऽसाधुत्वे द्वयसजादीना- मुपात्तः ॥ वावैचने चेति । तस्मादित्युत्तरस्य'त्येव प्रत्ययस्य सिद्धे परत्वे पुनः परव- चनं वाचने प्रत्ययस्य पक्षेऽनुत्पत्तिं प्रतिपादयति। 'वा परः सन् भवति'-परत्वो- पलक्षितस्सन् पक्षे भवति। पक्षे तु नैवोत्पद्यत इत्यर्थः, न त्वत्र परत्वं विकल्प्यते उक्तरीत्याऽपत्यार्थबोधविवक्षायां बभ्रुरित्यस्य,प्रमाणमित्यर्थे द्वयसज्मात्रस्येत्यर्थः।अयं भावः-'समानेऽर्थेऽन्वाख्यातोऽनन्वाख्यातस्यनिवर्त्तक' इत्युक्तस्तत्रार्थे प्रत्ययपरस्य साधुत्वकथनात्केवलप्रकृत्यादेरसाधुत्वमिति । 'रघूणा'मित्यादौ तु तदपत्ये रघुत्वारोपेण रघुत्वेनैवरूपेण तेषां बोधानाऽसाधुत्वम्।तत्सम्बन्ध्यपत्यमित्यर्थे हि अण्समासयोरेव साधुत्वमिति सूत्रार्थात् । बभ्रमण्डू-गर्गादी, लमको नडादिरुपकादिश्व।प्रागुक्तयुक्ति- भिः परत्वे सिद्धे परश्चेत्येतत्प्रत्ययः परो भवत्येवेति नियमार्थन्तेन केवलप्रकृतेर्न प्रयोगो, नापि केवलप्रत्ययस्येति सिद्धम् ॥ भाष्ये असाधुत्वोपपादकम्परश्चेत्यस्यो. दाहरणत्वोपपादकञ्च-अवृत्तिजा इति । 'एकार्थीभावरूपवृत्तिविषयाऽभावेऽपि जाता उच्चारिता वृत्तिजद्वयसादिसदृशाः प्रमाणार्थका बहुच्सदृशसङ्घादिवाचिबहुशब्दव- इयसादयोऽपि साधवः स्युरिति तद्वारणार्थ-परश्चेतीति भाष्यार्थः । बहुजपेक्षया भिन्नार्थत्वादस्तु बहुशब्दस्य साधुत्वम् , एषां त्वर्थान्तरवृत्तित्वाऽभावादसाधुत्वमेवेति भावस्तदाह-अवृत्तिजा अपि भ्रान्त्येति । तत्सदृशानुपूर्वीकवात्तदर्थवभ्रान्त्येत्यर्थः 'प्रत्ययः पर एवेति नियमेऽर्थतः शब्दतश्च यः प्रत्ययजातीयः स पर एवे. त्यर्थेनास्याऽसाधुत्वं बोध्यम् । अन्यथाऽस्य प्रत्ययत्वाऽभावेन कथं नियमेनाऽसाधुत्वं बोध्येत । एतेन प्रकृत्युद्देश्यनैव प्रत्ययानां विधनात्केवलप्रत्ययस्याऽसाधुत्वे सिद्ध कथ- मिदं परश्चेत्यस्य प्रयोजनमित्यपास्तम् । अन्ये विति ।अत्र पक्षे बहोरपि द्वयसादि- तुल्यत्वेन दृष्टान्तत्वाऽनुपपत्तिरित्यरुचिः ॥ धातोरिच्छायां वा सन् प्रत्ययसंज्ञो भव- तीत्यर्थे प्रधानबाधस्याऽन्याय्यत्वेनाऽप्रधाने संज्ञाया एव विकल्पः स्यात्, न च स इष्टः । परग्रहणे तु तत्सामर्थ्यात्प्रधानन्यायाऽबाधेन सन एव विकल्प इति चा- वचनेचेत्यादिभाष्यस्य तात्पर्यार्थः । तमुपपादयति-तस्मादित्युत्तरेति। 'परश्चे'त्यस्य ‘सत्वेऽप्यप्रधानत्वात्परत्वस्यैव विकल्पः स्यादिति दूषयति-नत्वत्रेति । नियतत्वा- १ वावचने चानुत्पत्ति' पा० । २ 'वावचनेन' पा० । २

No text on this page.

३अ.१पा.१आ.३सू.] ® व्याकरणमहाभाष्यम् 8 कव्यः' 'प्रत्ययपरैव च प्रकृति'रिति ॥ किंवक्तव्यमेतत् ? ॥ न हि कथन- नुच्यमानं गंस्यते ! ॥ परग्रहणसामर्थ्यादन्तरेणाऽपि परग्रहणं स्यादयं परः । पर एव यथा स्यादित्येवमर्थ परग्रहणम् । [ परश्च] ॥ आधुदात्तश्च ॥ ३॥१॥३॥ अनुदात्तौ सुप्पितौ । ३।१।४। किमर्थमिदमुच्यते ? ॥ आधुदात्तो यथा स्यादन्तोदात्तो मा भूदिति ॥ नैतदस्ति प्रयोजनं यमिच्छत्यन्तोदात्तं, करोति तत्र चकारमनुबन्धम्,आह च 'चितोऽन्तोदात्त' इति ॥ मध्योदात्तस्तर्हि मा भूदिति ॥ मध्योदात्तमपि यमि- च्छति तत्र रेफमनुबन्धं करोति, आह च-'उपोत्तमं रितीति ॥ अनुदात्त- स्तर्हि मा भूदिति॥अनुदात्तमपि यमिच्छति तत्र पकारमनुबन्धं करोति, आह च-'अनुदात्तौ सुप्पिता'विति ॥ स्वरितस्तर्हि मा भूदिति ॥ स्वरितमपि यमिच्छति करोति तत्र तकारमनुबन्धम्, आह च-'तित्स्वरित मिति । य इंदा. नीमतोऽन्यः प्रत्ययः शेषः सोऽन्तरेणाऽपि वचनमाधुदात्त एव भविष्यतीति नाऽर्थ आधुदात्तवचनेन ॥ एवमपि येषामेव प्रत्ययानां स्वरो नियम्यते त एव प्र.] ख्याते वावचने प्रयोगनियमार्थमिदम् ॥ सिद्धे तस्मादिति वचनात्परत्वे 'नित्यं परः प्रत्ययो यथा स्यान्मा कदाचित्परो न प्रयोजी'त्येवं सामर्थ्यादुभयनियमलाभः ॥ आधुदात्तश्च । अस्खरकस्याऽच उच्चारणाऽभावात्खरान्तरस्य प्रत्ययान्तरेषु नियतत्वात्पारिशेष्यादाधुदात्त एव प्रत्ययो भविष्यतीति मत्वा प्रश्नः-किमर्थमिति ॥ येषामेवेति । चिदादीनामनियतस्वरप्राप्तावन्तोदात्त एव चिदित्येवं नियमात्तेषामेव उ.]साधुत्वं स्यादिति चेन्न; 'परः स्यादेवे'त्यर्थात्। तद्धनयन्व्याचष्टे-नित्यं पर इति। मा कदाचित्परो न प्रयोजोति । तेनोभयनियमफललाभ इति भावः। [परश्व] ॥ आधुदात्तश्च । एते त्रयोऽप्यधिकाराः।यत्तु परश्चाद्युदात्तश्चेत्यनयोः परिभाषात्व- मुक्तं, तन्न ; लिङ्गाऽभावात् । न च प्रत्ययसंजैव लिङ्गम् , एकवाक्यतया त्रयाणामपि विधानेनान्यतरस्याऽन्यतरलिङ्गत्वाऽयोगात्। सहविधानचात्रैव सूत्रे भाष्येऽग्रे स्फुट- तरम्॥भाष्ये-अन्तोदात्तो मा भूदिति। अखरकाऽच उच्चारणाऽभावेऽपि आधुदा- त्तत्वनियमो न स्यादित्यर्थः ॥ नैतदिति । अखरकोच्चारणाऽभावादनियतान्तोदात्त- त्वादौ प्राप्ते 'चित' इत्यादि 'चित एवेत्यादिनियमार्थमित्यर्थः। प्रत्ययविषयनियमै- रन्येषु खरेषु प्रतिबद्धेषु अवरकोच्चारणाऽसम्भवादाद्युदात्त एव भविष्यतीति कि- मनेन सूत्रेणेति भावः। ननु लोके त्रैस्वर्यनियमाऽभावेनाऽस्वरकस्याऽप्यच उच्चारण- मस्त्येव,उदात्तादीनामभावस्यैकश्रुतित्वात्।एकश्रुतेरतिरिक्तत्वे तु सापि स्यादिति कथ- माधुदात्तत्वसिद्धिः। न च दूरात्संबुद्धावेव साऽपि नियता, विभाषाछन्दसीत्यादेवैय- १ 'यथेति क्वचिन्न।

No text on this page.

No text on this page.

२३ । कैयट-विवरणसहित [आधुदात्तश्च अनुदात्ता भवन्तीति वक्ष्यामि ॥ के पुनरागमा अनुदात्तत्वं प्रयोजयन्ति ?॥ इट्लविता ॥ इट्तावन प्रयोजयति । इदमिह संप्रधार्यम्-इट क्रियता- माधुदात्तत्वमिति, किमत्र कर्तव्यम् ? ॥ परत्वादिडागमः ॥ नित्यमाधु- दात्तत्वम् । कृतेऽपीटि प्रामोत्यकृतेऽपि प्राप्नोति ॥ इडपि नित्यः। कृते- प्याधुदात्तत्वे प्रामोत्यकृतेपि प्रोमोति ॥ अनित्य इट् । अन्यथा स्वरस्य कृते आधुदात्तत्वे प्राप्तोत्यन्यथा स्वरस्याऽकृते प्रामोति । स्वरभित्रस्य चौऽप्रामुवन्विधिरनित्यो भवति ॥ आधुदात्तत्वमप्यनित्यम् । अन्यस्य कृते इटि प्रामोत्यन्यस्याऽकृते । शब्दान्तरस्य च प्रामुवन्धिधिरनित्यो भवति । उभयोरनित्ययोः परत्वादिडागमः ॥ अन्तरङ्गं तांद्युदात्तत्वम् ॥ काऽन्तर- जता ? ॥ उत्पत्तिसनियोगेनाधुदात्तत्वमुच्यते उत्पझे प्रत्यये प्रकृतिप्रत्ययावा- श्रित्याङ्गस्येडागमः॥ आधुदात्तत्वमपि नाऽन्तरङ्गं यावता प्रत्यय आश्रीयमाणे प्र.]त्यर्थः॥के पुनरिति।अन्योऽत्र प्रष्टा द्रष्टव्यः,न तु येन 'न वे'त्युक्तं स एव पृच्छति, विरोधात्॥लवितेति। लुट् , तिप्, डा,तासिः,इट् । अत्र यदीटोऽनुदात्तत्वं न स्या- त्तदातासिभक्तत्वादिडुदात्तःस्यात्। शेषनिघातेन च तास्याकारोऽनुदात्तइत्युदात्तलोपा- भावादुदात्तनिवृत्तिस्वर आकारस्य न स्यात् । इटस्त्वनुदात्तत्वे सति तास्याकार एवोदात्त इत्युदात्तनिवृत्तिस्वरः सिध्यति । स्वरभिन्नस्येति ॥ रूपवत्स्वरोऽपि श्रुतिभेदहेतु- उ.]त्तरं भाष्यमेकदेश्युक्तिः॥ भाष्ये-वक्ष्यामीति । व्याख्यास्यामि ज्ञापकादित्यर्थः॥ अन्योऽत्रेति-शेषनिघातेनागमाऽनुदात्तत्ववादी। के पुनरित्यस्य शेषनिघातेन यत्र न सिध्यति ते के इत्यर्थः ॥ तृन्तृजन्तत्वे 'नितीति 'चित' इति चोदात्तत्वे शेषनि- धातेन सिद्धेराह-लुडिति । षष्ठाऽध्याये 'प्रत्ययस्य चेति सूत्रकरणवादी उत्तरयति भाष्ये-इडवितेति । तद्धनयन्व्याचष्टे-तासिभक्तत्वादिडुदात्त इति । एवञ्च लवितेत्यादावुदात्तनिवृत्तिस्वरेणाऽन्तोदात्तत्वसिद्धिरागमानुदात्तत्ववचनस्य षाष्ठसूत्र- वादिमते फलमित्यर्थः ॥ अपरः-फलं नास्तीत्याह-भाष्ये-इट्तावन्न प्रयोजय- तीति । षष्टतृतीययोरन्यतरत्र पाठेऽपि अन्तरङ्गत्वात्पूर्वमेवायुदात्तत्वप्रवृत्त्या ततः शेषनिघातेनेटोऽनुदात्तत्वे उदात्तनिवृत्तिस्वरसिद्धरित्यर्थः ॥ परोऽन्तरङ्गत्व- मपश्यन् स्वमते परत्वेन पूर्वमिडागमं स्थापयितुमाह–इदमिहेत्यादिना- परत्वादिडागम इत्यन्तेन ॥ अपरः स्वाशयम्प्रकटयति-अन्तरङ्गन्तहीति । षष्ठे सूत्रकरणेऽपि ज्ञापकात्तदादिविध्यभावेनाऽन्तरङ्गत्वात्पूर्व स्वरे पश्चादिटि उदात्त. निवृत्तिस्वरे शेषनिघातसिद्धरागमाऽनुदात्तत्वं निष्फलमिति भावः । उत्पत्ति- सनियोगेनेति । उत्पत्तिमात्रनिमित्तत्वेनेत्यर्थः । नेदम्भाष्यं तृतोये सूत्रमिति १ 'दिट्' । २ इदं कचिन । ३चः क्वचिन पा०। ४ 'आश्रिते' पा०। ५ 'तासि ।

३१.१५.१आ.३सू.] व्याकरणमहाभाष्यम् २३ प्रकृतिरप्याश्रिता भवति ॥ अन्तरजमेवाधुदात्तत्वम् ॥ कथम् ? ॥ इदानी- मेव युक्तं-'न प्रत्ययस्वरविधौ तदादिविधिर्भवतीति ॥ सीयुट्तर्हि प्रयोजयति ॥ ॥ अवचने हि सीयुडादेराद्युदात्तत्वम् ॥*॥ अक्रिमाणे हि आगमानुदात्तत्वे क्रियमाणेऽपि प्रत्ययसंज्ञासनियोगेनाधुदात्तत्वे सीयुडादेर्लिङ आधुदात्तत्वं प्रसज्येत,-लविषीय पविषीय ॥ तत्तर्हि वक्तव्यम्-आगमा अनुदात्ता मवन्तीति ?.॥ न वक्तव्यम् । आ- चार्यप्रवृत्तिापयति-'आगमा अनुदात्ता भवन्तीति यदयं 'यासुदरस्मैपदेषू- प्र.]त्वाच्छब्दान्तरत्वमेव करोतीति भावः ॥ प्रकृतिरप्याश्रितेति । प्रत्ययग्रहणपरि- भाषयेति भावः । अन्तरङ्गन्मेवेति । तत इण्न प्रयोजयतीत्यर्थः ॥ लविषीयेति । आशिषि लिङ् । अत्र विशेषविहितत्वाद्वा परत्वाद्वा पूर्व सीयुट क्रियते पश्चालादेशः। तत्र प्रत्ययायुदात्तत्वं क्रियमाणं सीयुट एव स्यात् । आगमा अनुदात्ता' इति तु वचना- उ.]पक्षे,उपक्रमोपसंहारविरोधात् । अत एव 'लवितव्य'मित्यपि न फलम्, अन्तरङ्ग- त्वात्पूर्व स्वरप्रवृत्तेः । इड्विधौ प्रकृतिप्रत्ययोभयाश्रयणे बीजमाह(भाष्ये)-अङ्गस्येति। अङ्गसंज्ञानिमित्तस्येत्यर्थः। एवञ्च तस्या उभयाश्रितत्वादस्यापि तत्त्वमिति भावः ॥ एवं शेषनिघातेनागमानुदात्तत्वमिति वादिना षष्ठे सूत्रारम्भवादिनम्प्रत्यागमाऽ- नुदात्तवचनस्येटः प्रयोजनत्वाऽभावे उक्ते प्रयोजनान्तरमाह(भाष्ये)-सीयुट्तीति। अवकाशत्वे सत्येव विशेषविहितत्वस्य बलवत्त्वप्रयोजकत्वादाह-परत्वाद्वति। लादेश- निमित्ताऽऽद्युदात्तत्वस्य 'यात' इत्यादिरवकाशः । 'शयिषीष्ट' त्यादौ लसार्वधातुकानुदा- त्तत्वात्सीयुसाऽवकाशः। प्रकृते उभयप्रसङ्गे परत्वात्सीयुडित्यर्थः । लाऽवस्थायान्तु न खरः, तस्याऽनच्कत्वात् । न च पूर्व सीयुटि अनिर्दिश्यमानत्वान्न समुदायस्य, व्यवहितत्वान्न निर्दिश्यमानस्येत्यादेशाप्रवृत्तिरेव स्यादिति वाच्यं, 'धातो रित्यस्य विहितविशेषणत्वाऽङ्गीकारेण व्यवहितेऽपि प्रवृत्तेः । एवञ्च तृतीये एतत्सूत्रपाठेऽपि आगमाऽनुदात्तत्ववचनमावश्यकमित्याह भाष्ये-क्रियमाणेऽयीति यद्यपि तिबादीनाम्प्रत्ययत्वं स्थानिवत्वेन सिद्धं तथाप्यधिकृतस्याऽसम्बन्धे मानाऽभाव इति 'प्रत्ययसंज्ञासन्नियोगेने'त्युक्तम् । 'परस्ये'त्यस्याप्यत्र संबन्धे बाधकाऽभावः, धातोः परत्वस्याऽपि सत्त्वात् । न च तृतीये सूत्रे लस्य स्थाने इडुदात्तो भवतीति उत्पत्तिकाल एव स्वरविधानादनुवादविषयाया 'यदागमा' इति परिभाषाया अप्रवृत्तेरागमविशिष्टस्योदात्तत्वाऽप्राप्त्योच्चार्यमाणस्येट एवायुदात्तत्वे सीयुटः शेष- निघातेन सिद्धिरिति वाच्यम् ,आगमसन्निधाने विधीयमानस्याऽपि तस्य प्रत्ययसंज्ञा- विशिष्टे एव, आधुदात्तत्वञ्च तत्सन्नियोगेन विशिष्टे एवेत्यभिमानात् । अन्यथा तावत १ इदं क्वचिन्न ।

आग- * कैयट-विवरणसहित [आयुदात्तश्च दात्तो जिथे'त्याह ॥ नैतदस्ति ज्ञापकम् । वक्ष्यत्येतत् “यासुटो डिद्वचनं पिदर्थमुदात्तवचनं चे"ति ॥ शक्यमनेनैवं वक्तुं-'यासुपरस्मैपदेषु भवत्यपिच लिङ्भवतीति । सोऽयमेवं लघीयसा न्यासेन सिद्ध सति यद्रीयांसं यनमारभते तज्ञापयत्याचार्य 'आगमा अनुदात्ता भवन्तीति ॥ शक्य- मेवं लब्धुम् ॥ ययव वचनादथापि ज्ञापकादागमा अनुदात्ता भवन्ति, मैस्तु व्यवहितत्वादाधुदात्तत्वं न प्रामोति ॥ 'आगमा भविद्यमानवद्भवन्तीति वक्ष्यामि । 'यद्यागमा अविद्यमानवद्भवन्ती'त्युच्यते-लविता-अवादेशो न प्र.]त्सीयुटोऽनुदात्तत्वे सति 'इटोऽ'दित्यकारस्योदात्तत्वं सिध्यतीत्यर्थः॥पिदर्थमिति। 'चिनुया'दित्यादौ पिद्भक्तत्वाद्यासुटोऽनुदात्तत्वप्रसङ्गे उदात्तवचनमित्यज्ञापकमित्यर्थः।। आगमैरिति। विच्छिन्नत्वादादित्वस्य 'लविषीये' त्यादौ प्रत्ययस्यायुत्तत्वं न प्राप्नोती- त्यर्थः । आरब्धे तु सूत्रे प्रत्ययसंज्ञासन्नियोगेन कृते आधुदात्तत्वे भवन्त्यागमा इति उ.]एव पृथक्प्रत्ययत्वे सीयुडन्तस्याऽङ्गत्वं स्यात् ।तथा च तदन्तस्याऽपि लविषीद्ध- मित्यादौ गुणः स्यात् । इटोऽदित्यकाररयेति । अत्र खरितत्वं नाशयम् , औपदे- शिकप्रत्ययत्वाऽभावात् , दित्त्वाच्च ॥ भाष्ये-यदयं यासुडिति । न च परस्मैपद- निमित्तकवादस्यादेशोत्तरम्प्रवृत्त्या पूर्वमेवाऽन्तरङ्गत्वात्परत्वाद्वा प्रत्ययाद्युदात्तत्वे ततो यासुडस्वरको वास्यात् , शेषनिघातेनाऽनुदात्तो वेति चरितार्थमुदात्तग्रहणं कथं ज्ञापकमिति वाच्यम् , 'परस्मैपदेष्वि'त्यस्य विषयसप्तमीत्वमाश्रित्य लाऽवस्थायामेव यासुटि ततो लादेशे तनिमित्तकाऽऽद्युदात्तत्वे यासुटः सिद्धे उदात्तग्रहणं ज्ञापकमि- त्याशयात् ॥ भाष्ये-शक्यमेवं लन्धुमिति । एवं रीत्येदं लब्धं शक्यं, न त्वपूर्व वचनमेवेत्यर्थः। यद्येव वचनादिति। तस्मिन्निति परिभाषासत्त्वेन विषयसप्तम्यनु- चितेति भावः। अथापीति । उक्त आशयः । 'आगमैस्त्वि'त्ययं दोषः षाष्ठ- वादिमत इत्याह-आरब्धे विति। तृतीये आरब्धे वित्यर्थः । प्रत्ययसंज्ञेति । लावस्थायां सीयुडादावप्याद्युदात्तत्वं केवलस्यैवेति पूर्वं जाता अपि शेषनिघातेनाऽ- नुदात्ता भवन्तीत्यर्थः । एवञ्च तस्याऽनुदात्तत्वायाऽऽगमाऽनुदात्तत्ववचनमनावश्यक- मिति तात्पर्यम्। अङ्गसंज्ञा तु न, तस्यां 'यदागमा' इति न्यायेन विशिष्टस्यैव प्रत्यय- ग्रहणेन ग्रहणात् । एवञ्च यासुटोऽपि शेषनिघातेनाऽनुदात्तत्वे प्राप्ते उदात्तग्रहणस्य चारितार्थ्येन ज्ञापकाऽसम्भवोऽपि ध्वनितः । एवञ्च 'लविषीये'त्युदाहरणविषया 'क्रियमाणेऽपि प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वे' इत्यादिरेकदेश्युक्तिरसङ्गतेति बोध्यम् । ननु तृतीये सूत्रमतेऽपि 'अनुदात्तंपद' मित्यस्य परिभाषात्वात्तनैकवाक्यतायामाधुदा- तत्वविधिकाले सन्निहितानामेव तेन निघातविधानात्पश्चात्सन्निहितस्यैटो निघाता- १ 'मनेन वक्तुं' पा० । २ 'मेवेदं पा० । ३ 'भवन्तीति' पा० । . - २५ ३.१पा.१आ३सू.] व्याकरणमहाभाष्यम् ॐ प्रामोति ॥ 'स्वरविधा विति वक्ष्यामि।एवमपि सविता-'उदात्तादनुदात्तस्य स्वरित' इति स्वरितत्वं न प्रामोति ॥षाष्टिके 'स्वर' इति वक्ष्यामि । एवमपि शिक्षितः,-'निष्ठा च व्यजना'दित्येष स्वरः प्राप्नोति ॥ 'प्रत्ययस्वरविधा विति वक्ष्यामि ॥ तत्तर्हि वक्तव्यम्-'आगमा अविद्यमानवनवन्तीति ?॥ न वक्त- व्यम् । आचार्यप्रवृत्तिापयति-'आगमा अविद्यमानवद्भवन्तीति, यदयं 'यासुपरस्मैपदेषूदात्तो डिच्चे'त्याह ॥ नैतदस्ति ज्ञापकम् । वक्ष्यत्येतत्- "यासुटो ङिद्वचनं पिदर्थमुदात्तवचनं चे"ति । शक्यमनेन वक्तुं 'यासुद्दरस्मै- पदेषु भवत्यपिञ्च लिङ् भवतीति । सोऽयमेवं लघीयसा न्यासेन सिद्धे सति यद्गरीयांसं यत्नमारभते तज्ज्ञापयत्याचार्य 'आगमा अविद्यमानवद्भव- न्तीति ॥*॥ आद्युदात्तस्य वा लोपार्थम्॥*॥ आधुदात्तस्य तर्हि लोपार्थ प्रत्यय. संज्ञासच्चियोगेनाधुदात्तत्वमुच्यते ॥ प्रत्ययसंज्ञासंनियोगेनाधुदात्तत्वे कृते प्र.]न दोषः॥एवमपि लवितेति। तृन्नन्तत्वादाद्युदात्तमेतत्॥यदयमिति। यदि प्रत्य- याद्युदात्तत्वे कर्तव्ये आदित्वमागमा विहन्युस्तदा 'चिनुयाता'मित्यादा यासुटः प्रत्यया- दित्वात्सिद्धमुदात्तत्वमिति तन्न कुर्यात् । कृतन्तु प्रत्ययाद्युदात्तत्वे कर्तव्ये आगमाना- उ.]प्राप्तेरागमाऽनुदात्तत्ववचनमावश्यकमिति चेन्न ; 'चिनुत' इत्यादौ नोरनुदात्तत्व- सिद्धयेऽसन्निहितस्याऽपितेन निघाताऽवश्यम्भावेन, पदग्रहणं परिमाणार्थ मिति वक्ष्य- माणया रीत्या न्यायसिद्धत्वेन च तन्मते वचनस्याऽनावश्यकत्वात् । न चैकपदे विशेषविधिं विना द्वयोरुदात्तयोरभावादुदात्तस्वरितयोरभावाच्च अखरकस्याऽच उच्चा- रणाऽभावादनुदात्तत्वमेवेति वाच्यम् , एकश्रुतिविषये उक्तखररहितस्याऽप्युच्चारण- सत्त्वात् । एकश्रुतिशास्त्रस्य विध्यर्थत्वे सम्भवति नियमार्थत्वाऽसम्भवाच । अत एवाऽनुदात्तम्पद'मित्यस्य चारितार्थ्यम् । 'चिनु' इत्यत्र शेषनिघाताऽप्रवृत्तिस्तु हेरपित्त्वस्य 'अक्ष्णुही त्यादौ चारितार्थ्येन प्रकृतेऽन्तरङ्गानपीति न्यायेन खरात्पूर्वलुकः प्रवृत्या स्वरैकवाक्यताऽऽपन्नस्याऽनुदात्तम्पद'मित्यस्याऽप्रवृत्तरिति बोध्यम् ॥ 'आगमा अनुदात्ता' इति न कर्तव्यं, किन्तु तेऽविद्यमानवदित्येव कार्यमित्याह षाष्ठवादीभाष्ये-आगमाइति। 'लविते'त्यस्य लुडन्तत्वे तृजन्तत्वे वाऽन्तोदात्तत्वेन खरितप्राप्त्यभावादाह-तृनन्तत्वादिति॥ कृतं त्विति । सत्यविद्यमानवत्त्वे तद्रहित- प्रत्ययस्यैवाद्युदात्तत्वेशेषनिघातेनाऽऽगमानामनुदात्तत्वं सिद्धमिति भावः। शेषनिघात- प्राप्ताऽनुदात्तव्यावृत्तये उदात्तग्रहणं चरितार्थमिति दिक्॥एवञ्चागमाऽनुदात्तत्वं न तार्तीय- सूत्रफलम्, पाष्ठेऽपि ज्ञापकेन सिद्धत्वादित्यभिमानेनैकदेशी उत्तरवार्तिकस्थं 'वा'श- ब्दंतर्षर्थे व्याचष्टे (भाष्ये)-आधुदात्तस्य त_तिाप्रागुक्तकैयटध्वनितरीत्या ज्ञापकाऽ- १ 'स्वरितो' पा० । २ 'चिन्तितः' पा० । ३ 'भवन्तीति वक्तव्यम्' पा० ।

२६ & कैयट-विवरणसहित [आयुदात्तश्च कोपे उदात्तनिवृत्तिस्वरः सिद्धो भवति,-स्रौनी माधुरीति । अत्र हि परवा. ल्लोपः स्वरं बाधेत ॥ ॥॥न वा बहिरङ्गलक्षणत्वात् ॥ ॥न वैतदपि प्रयोजन मस्ति । किं कारणं? ॥ 'बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणो लोपोऽन्तरक: स्वरः । 'असिद्धं बहिरङ्गमन्तरङ्गे ॥ अवश्यं चैषा परिभाषाऽऽश्रयितव्या ॥*॥ अवचने हि निकित्स्वतिप्रसङ्गः ॥*॥ अक्रियमाणायां ह्यस्यां परिभा- षायां क्रियमाणेऽपि प्रत्ययसंज्ञासंनियोगेनाधुदात्तत्वे निकित्स्त्वतिप्रसङ्गः स्यात्-औत्सी कंसिकी आत्रेयीति। अत्र हि परत्वाल्लोपो मिनिकित्स्वरान् बाधेत॥ नैष दोषः, मिनिकित्स्वराः प्रत्ययस्वरापवादाः । न चाऽपवादविषये उत्सर्गोऽभिनिविशते । * पूर्व ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः * । *प्रकल्प्य चापवादविषयंतत उत्सर्गोऽभिनिविशतेन तावदत्र कदा चित्प्रत्ययस्वरो भवति,अपवादान् निकित्स्वरान् प्रतीक्षते॥कसिक्यां भूयान् परिहारः,अन्य. प्र.मविद्यमानत्वं ज्ञापयतीत्यर्थः॥स्रौनीति। विभज्याऽन्वाख्यानैपक्षे स्रौन अई इति स्थिते 'प्रत्ययस्य 'त्यायुदात्तत्वात्परत्वाद्यस्येति लोपे कृते उदात्तनिवृत्त्यभावादुदात्त- निवृत्तिस्वर ईकारस्य न स्यात् । प्रत्ययसंज्ञासन्नियोगेन त्वाद्युदात्तविधाने न दोषः ॥ बहिरङ्गलक्षण इति । स्वार्थादीनां क्रमेण प्रतीतिरिति स्त्रीत्वनिमित्त ईकारो बहिरङ्ग इति तन्निमित्तो लोपो बहिरङ्गः । अथ वाऽङ्गस्य भस्येत्याद्यपेक्षणा- लोपो बहिरङ्गः । औत्सीति। उत्से जाता। 'उत्सादिभ्योऽञ्' ङीप् । यद्यत्र परत्वा- लोप आयुदात्तत्वं जिलक्षणं बाधेत तदा प्रत्ययस्योदात्तत्वादुात्तनिवृत्तिस्वर ईका- रस्य स्यादेव । कंसिकीति । कंसेन क्रीता। 'कंसाठि'निति टिठनि डीपि च ठकारस्याऽकृत इकादेशे उदात्तत्वं मन्यते । आत्रेयीति । अत्रेरपत्यं स्त्री। 'इत- श्वानिव' इति ढक् । 'आयनादिषु उपदेशिवद्वचनंस्वरसिद्ध्यर्थ' मिति पूर्वमेयादेशः, डीप् । अत्रोदात्तनिवृत्तिस्वरो न स्यात् । अन्तरङ्गत्वे तु स्वरस्याश्रीयमाणे दोषाऽ- भावः ॥ कंसिक्यामिति । ठचश्चित्करणात्पूर्वमिकादेशः, ततः प्रत्ययायुदात्तत्व- उ.]सम्भवे तु आगमानुदात्तत्वरूपं प्रयोजनं स्थितमेवाननु ङीबुत्पत्तेःप्रागेवाऽण आ- द्युदात्तत्वे कृते उदात्तनिवृत्तिखरः सिद्धस्तत्राह-विभज्येति॥ बहिरङ्ग इति । तेन विभज्यान्वाख्यानेऽपि न दोष इति भावः।अथ वाङ्गस्येत्यादि चिन्त्यं,संज्ञाकृतबहिरङ्ग- त्वस्य शास्त्रेऽनाश्रयणादित्युक्तं। पूर्वमेयादेशो ङीबिति।योपधत्वान डीषिति भावः। भाष्ये-न चाऽपवादेति । जित्स्वरमिव प्रत्ययस्वरमपि बाधित्वा पर- त्वादखरकस्यैव लोपे औत्सी कंसिकीत्यत्रोदात्तनिवृत्तिस्वरो न प्राप्नोतीति भावः । प्रतीक्षत इति । लोपोत्तरमपि प्रत्ययलक्षणेन तत्प्रवृत्तेरिति भावः । उच इति । १ 'माथुरी' पा०। २ 'स्वरस्याप' पा० ।३'ख्याने स्रौ'पा०। ४ 'प्रत्ययस्याद्युदात्त' ।

३अ.१पा.१आ.३सू.] व्याकरणमहाभाष्यम् 8 .. .. स्याऽत्रोदात्तत्वमन्यस्य लोपः । आदेरुदात्तत्वमन्त्यस्य लोपः ॥ इदं तर्हि आत्रेयीति । अत्र हि परत्वाल्लोपः कित्स्वरं बाधेत। तस्मादेषा परिभाषाश्रयि- तव्या। एतस्यां च सत्यां शक्यं प्रत्ययसंज्ञासनियोगेनाधुदात्तत्वमवक्तुम् ॥ ॥॥प्रत्ययाद्युदात्तत्वाद्धातोरन्तः॥*॥ प्रत्ययाधुदात्तत्त्वाद्धातोरन्त इत्येत- भवति विप्रतिषेधेन।प्रत्ययाधुदात्तत्वस्यावकाशः यत्रानुदात्ता प्रकृतिः।समत्वं सिमत्वम् । धातोरन्त इत्येतस्यावकाश:-यत्रानुदात्तः प्रत्ययः,-पचतिपेठती- ति । इहोभयं प्रामोति-गोपायति धूपायति । 'धातोरन्त' इत्येतद्भवति विप्र- तिषेधेन ॥*॥ पित्स्वरात्तित्स्वरष्टापि ॥*॥ पित्स्वरात्तित्स्वरष्टापि भवति विप्र- प्र.मिति नास्त्युदात्तलोप इत्यर्थः॥ कित्स्वरमिति।तत उदात्तनिवृत्तिस्वरो न स्यादि- त्यर्थः॥ इदानी प्रत्ययसंज्ञासन्नियोगेन स्वरविधौ प्रयोजनमाह-प्रत्ययाधुदात्तत्वा- दिति । यदा 'नित्यादिनित्यमित्यस्याऽनन्तरं 'प्रत्ययस्य चे'त्युच्येत तदा परत्वा- द्धातुस्वरं प्रत्ययस्वरो बाधेत । यथान्यासे तु प्रत्ययस्वरं धातुस्वरो बाधते ॥ उ.अत्रेदं चिन्त्यम्,-अकारविशिष्टस्य प्रत्ययत्वे तस्यान्तरतम्यादिकादेशे आधुदात्ते प्राप्तेऽन्तोदात्तादेशार्थ तत्सार्थक्यम् । व्यञ्जनमात्रस्य प्रत्ययत्वे तत्राऽयुदात्तत्वाऽप्रा. श्या तद्विषयाद्युदात्तश्चेत्यस्य सामर्थ्यात्तदादेशे प्रवृत्त्यापत्तौ तद्बाधाय तत्सार्थक्यं स्पष्टमेवेति कथमस्य ज्ञापकत्वम् ? । 'प्रत्ययाः-अकारविशिष्टास्तत्र व्यञ्जनमात्र- स्य व्यञ्जनान्त इकाद्यादेश' इति पक्षस्तु 'ठस्येक' इति सूत्रस्थभाष्यखग्रन्थविरुद्धः, 'नषादकर्षक' इत्यत्र ह्रस्वाऽसिद्ध्याऽसङ्गतश्च, गौरवग्रस्तश्च । किञ्च अत्राऽपि व्यञ्जनस्य प्रत्ययत्वे तदेकवाक्यतापन्नस्य तत्र फलाऽभावादादेशोत्तरं तत्रैवस्वरप्रवृत्ति- रुचिता । अकारविशिष्टस्याऽपि प्रत्ययत्वे तस्याद्युदात्तत्वे तत्स्थाने आन्तरतम्या- दाद्युदात्त एवैकादेश इति ज्ञापकोपन्यासे फलं चिन्त्यमिति दिक् ॥ तत इति । कित्स्वरस्य यस्येति लोपेन बाधे एयस्य प्रत्ययस्वरप्रवृत्तावप्रवृत्तौ च दोष इति भावः । भाष्ये-एतस्याञ्च सत्यामित्यादि। एवञ्चायुदात्तस्य वा लोपार्थमिति खण्डितम् ॥ इदानीम्प्रत्ययसंज्ञेति । अनेन हि पूर्वप्रयोजनानां खण्डितत्वान्मुख्यं प्रयोजनमिदानीमाहेत्याल्लभ्यते । स तु न युक्तः, एषामप्यग्रे भगवता खण्डनात् । यथान्यासे वित्ति। अत्र पाठे हि विप्रतिषेधो न्याय्यो भवति । षाष्ठपाठे हि धातो- रित्यस्य पूर्वत्वात्पूर्वविप्रतिषेधो वक्तव्यः स्यादिति भावः । भाष्ये-यत्राऽनुदात्ता प्रकृतिः समत्वमिति । ननु प्रातिपदिकप्रत्यये सर्वत्र चारितार्थ्याद्यत्राऽनुदात्ते- त्यादि व्यर्थमिति चेन ; प्रकृतेरुदात्तस्वरितवत्वे प्रत्ययोत्पत्त्यनन्तरं प्रकृतिस्वर- निमित्तकशेषनिघातप्राप्त्या तदपवादत्वमस्य वाच्यम् । एवञ्च बाध्यसामान्यचिन्तया १ 'इति । अत्रहि' इदं क्वचिन्न । २ इतिः क्वचिन्न । ३ 'त्युच्यते'। ४ 'षयस्या'।

२८ कैपट-विवरणसहित [आधुदात्तश्च तिषेधेन । पित्स्वरस्थावकाशः-पचति पठति। तित्स्वरस्यावकाश:-कार्य हार्य: म् । इहोभयं प्रामोति-कार्या हार्या । तित्स्वरो भवति विप्रतिषेधेन ॥ ॥ चि. स्वरश्चापि पित्स्वरात् ॥*॥ पित्स्वराञ्चित्स्वरश्चाऽपि भवति विप्रतिषेधेन।चि. स्वरस्याऽवकाशः-चलनः कम्पनः । पित्स्वरस्य स एव । इहोभयं प्रामोति- आम्बध्या सौवीर्या । चित्स्वरो भवति विप्रतिषेधेन । ॥ ॥ न वायुदात्तत्वस्य प्रत्ययसंज्ञासन्नियोगात् ॥*॥ न वाऽर्थो विप्रतिषेधेन ॥ किं कारणम् ? ॥ 'आ- घुदात्तत्वस्य प्रत्ययसंज्ञासनियोगात्' । प्रत्ययसंज्ञासनियोगेनाद्युदात्तत्वं कृते सतिशिष्टत्वाद्धातुस्वरो भविष्यति ॥ अयं चाऽप्ययुक्तो विप्रतिषेधः-पित्स्वरस्य तित्स्वरस्य च ॥ किं कारणम् ? ॥॥॥ टापि स्वरितेनैकादेशः ॥*॥ टापि स्वरितेनैकादेशो भविष्यति ॥ इदमिह संप्रधार्य,-स्वरितत्वं क्रियतामेकादेश इति, किमत्र कर्तव्यम् ? ॥ परत्वात्स्वरितत्वं॥ नित्य एकादेशः। कृते स्वरितत्वे प्रामोत्यकृतेऽपि॥ स्वरितत्वमपि नित्यं, कृतेऽप्येकादेशे प्रामोत्यकृतेऽपि ॥ अनित्यं स्वरितत्वम् ,अन्यस्य कृते एकादेशेप्राप्नोत्यन्यस्याऽकृत।शब्दान्तरस्य प्रामुवन्धिधिरनित्यो भवति ॥ एकादेशोऽप्यनित्यः । अन्यथास्वरस्य कृते स्वरि। तत्वे प्रामोत्यन्यथास्वरस्याऽकृते [स्वरितत्वे] । स्वरभिन्नस्य च प्रामुवन्विधि- रनित्यो भवति ॥ [उभयोरनित्ययोः परत्वात्स्वरितत्वम् ॥ अन्तरङ्गस्त.का. देशः ॥ काऽन्तरङ्गता ? ॥ वर्णावाश्रित्यैकादेशः पदस्य स्वरितत्वम् ॥ स्वरित- प्र.] पित्स्वरादिति।एतदत्राऽनुदात्तत्वविधाने सिद्ध्यति नाऽन्यत्रेति भावः।कार्येति। स्वरितत्वात्प्रागेकादेशं मन्यते । तत्रैकादेशस्य पूर्व प्रत्यन्तवद्भावात्तित्स्वरः प्राप्नोति । परं प्रत्यादिवद्भावात्तु पित्स्वरप्रसङ्गः ॥ नवेति। प्रत्ययसंज्ञासन्नि- युक्तस्वरस्याऽन्तरङ्गत्वान्नास्ति विप्रतिषेध इति भावः ॥ परत्वात्स्वरितत्वमिति । अन्तरङ्गत्वं स्वरितत्वस्याऽनपेक्ष्यैतदुक्तम् । स्त्रीत्वापेक्षटानिमित्तो ह्येकादेशो बहि- उ.] धातो रित्यस्याप्यपवादः स्यादिति शङ्कावारणाय तदुक्तेः ॥ नाऽन्यत्रेति। तथा च तित्स्वरात्पित्स्वर एव परः स्यादिति भावः । 'कार्ये'त्यत्रोभयप्राप्तिं दर्शयति-तत्रै- कादेशस्येति ॥ प्रत्ययसंज्ञासझियुक्तति । ननु षाष्टन्यासेऽपि आये कृते धातु- संज्ञातः परत्वात्पूर्व, विषयभेदात्तत्समकालमेव वा प्रत्ययस्वरप्रवृत्तौ पश्चात्प्रवर्त्तमा- नस्य धातुस्वरस्य सतिशिष्टत्वमस्त्येवेति चेत् सत्यं संज्ञास्वरयोर्विषयभेदेन विरोधाs- भावात् परत्वाऽप्रवृत्तेः । यौगपद्यमपि न, ज्ञानयोगपद्याऽसम्भवात् ॥ स्त्रीत्वाऽपे. वस्तुतः शब्दशास्त्रत्वादाधिक्याऽपेक्षाकृतं बहिरङ्गत्वमप्रयोजकमिति भाष्याशयः । 'कार्य'त्यस्य विभज्यान्वाख्याने इदम् । भाष्ये-पदस्य स्वरितत्वमि- ति । 'अनुदात्तम्पद'मित्यनेनैकवाक्यत्वादिति भावः । एवं च वर्णसमूहरूपपद- क्षेति ।

. ३अ.१पा.१आ.३सू.] ® व्याकरणमहाभाष्यम् ® त्वमप्यन्तरङ्गम् ॥ कथम् ? ॥ वक्ष्यत्येतत्-“पदग्रहणं परिमाणार्थ"मिति । उभयोरन्तरङ्गयोः परत्वात्स्वरितत्वं, स्वरितत्वे कृते आन्तर्यतः स्वरितानुदा. तयोरेकादेशः स्वरितो भविष्यति ॥ अयं चाऽप्ययुक्तो विप्रतिषेधः-पित्स्वरस्य चित्स्वरस्य च ॥ किं कारणम् ॥*॥ चापि चित्करणात्॥*॥ चापि चित्करण- सामर्थ्यादन्तोदात्तत्वं भविष्यति ॥ [ आद्युदात्तश्च । अनुदात्तौ सुप्पितौ ] ॥ गुप्तिकिझ्यः सन् ॥ ३॥१५॥ [गुप्तिकित्माना अनुदात्तेतः। ] । गुपादिष्वनुबन्धकरणं किमर्थम् ? ॥ ॥*॥ गुपादिष्वनुबन्धकरणमात्मनेपदार्थम् ॥*॥ गुपादिष्वनुबन्धाः क्रियन्ते । प्र.]रङ्गः । आन्तर्यत इति । स्वरिते त्वनुदात्तोऽपि विद्यत इति स्वरिताऽनुदात्तयोः स्वरितोऽन्तरतमः ॥ चापीति । यदि सामान्यग्रहणाऽविघातार्थत्वमेव चकारस्याऽ- भविष्यद्वाप्प्रत्ययप्रकरण एव यङटाब्व्यधास्यतेति भावः। [आद्युदात्तश्च । अनु ।। गुप्तिच्कि । गुबिति । अनुक्रमप्रदर्शनाय कितिः पठितो न त्वयमनुदात्तेत् । गुपादिग्विति । नित्यसन्विषयत्वात्केवलेभ्यो लडाद्यनुत्पादात्प्रश्नः ॥ आत्मनेपदा- उ.]साऽपेक्षत्वात्स्वरितत्वं बहिरङ्गमित्यभिमानः।परिमाणार्थमिति। पदत्वंयावद्भवति यावतश्च भवति तावत्तावति च सन्निहितमेकवर्ज सर्वमनुदात्तम्भवतीत्यर्थ इति भावः । तेन पदसमुदायस्य न स्वरप्रवृत्तिकालेऽसन्निहितस्य च सिद्ध्यतीति बोध्य- म् । अतएव धातोरित्यादिनाऽस्यैकवाक्यतेति दिक् ॥ सामान्यग्रहणेति । यनुव- न्धकलसम्पादनद्वारेति भावः । एवं शेषनिघातद्वाराऽऽगमाऽनुदात्तलसिद्धये एवा- त्रास्य सूत्रस्य पाठः । 'आगमाऽनुदात्तार्थ वे'त्येवोपक्रमोक्ता सिद्धान्त्युक्तिः। वचना- न्तरकरणे गौरवम् । ज्ञापकन्तु नास्तीति पूर्वमेव निरूपितम् ॥ [ आधुदात्तश्च ] गुप्तिज् । 'परक्षेत्रे चिकित्स्य' इति व्याधिप्रतीकारादावेव व्यवहाराजुगुप्सादे- निन्दादावेव व्यवहारात्, ‘गुप गोपने' 'कित निकेतने' इति प्रयोगाच , 'विचि- कित्सा तु संशय' इत्यादिकोशबलाचाऽर्थविशेषोपहितेभ्य एव सन्निति बोध्यम् ॥ वेदे 'विचिकित्सतीति परस्मैपदप्रयोगदर्शनादाह-अनुक्रमेति । अत्राऽग्रहणे सूत्रे एव तदभाव आशयेतेति तन्निवारणायेत्यर्थः । भाष्येऽनुदात्तेत्करणं किमर्थमिति वक्त- व्येऽनुबन्धकरणमित्युक्तिर्दानशानोवृत्त्युक्तस्वरित्तेत्त्वबोधनाय। यत्तु वृत्त्यादौ वधेरप्य- नुदात्तत्त्वमुक्तं तत्र मानं चिन्त्यम् , भाष्यविरोधश्च । एवं कितेः परस्मैपदित्वेऽपि भाष्याऽनुग्रहश्चिन्त्यः। वैदिकपरस्मैपदिप्रयोगास्तु छान्दसत्वादपि सुसाधाः। लोके त्वात्मनेपदमेवोचितम् । एवञ्च वधेरपि स्वरितत्वं परस्मैपदित्वमेव वोचितमिति वदन्ति । केवलेभ्य इति । सनन्ते प्रतीयमानार्थवृत्तिभ्य इत्यर्थः। तदर्थवृत्तीनामेवाऽ- नुदात्तत्त्वादिति भावः । अत एवार्थान्तरेऽनानुबन्धकत्वमिति वृत्त्यादावुक्तम् ।।

. ३० ॐ कैयट-विवरणसहितं . [गुप्तिज्किन्य [किं प्रयोजनम् ! ॥ 'आत्मनेपदार्थम्' ] ॥ आत्मनेपदं यथा स्यात् । अथ क्रियमाणेष्वप्यनुबन्धेषु आत्मनेपदं न प्रामोति ॥ किं कारणम् ?॥ सना व्यवहितत्वात् ॥ 'पूर्ववत्सन' इत्येवं भविष्यति ॥ 'पूर्ववत्सन' इत्यु- च्यते न चैतेभ्यः प्राक् सन आत्मनेपदं, नापि परस्मैपदं पश्यामः ॥ एवंतर्खनुबन्धकरणसामर्थ्याद्भविष्यति॥अथ वा अवयवे कृतं लिङ्गंसमुदा. यस्य विशेषकं भविष्यति । तद्यथा-गो:सक्थनि कणे वा कृतं लिङ्गगोविशेषक भवति ॥ यद्यवयवे कृतं लिङ्ग समुदायस्य विशेषकं भवति तदा जुगुप्स- यति मीमांसयतीत्यत्रापि प्रामोति ॥ अवमवे कृतं लिङ्गं तस्य समुदायस्य विशेषकं भवति यं समुदायं योऽवयवो न व्यभिचरति।सनञ्च ने व्यभिचरति णिचं पुनर्व्यभिचरति। तद्यथा-गोः सक्थनि कर्णे वा कृतं लिङ्गं गोरेव विशे- षकं भवति न गोमण्डलस्य ॥ [ गुप्तिज्किन्यः सन् ] ॥ मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य ॥ ७॥१६॥ ॥*॥अभ्यासदीर्घत्वेऽवर्णस्य दीर्घप्रसङ्गः॥ * ॥अभ्यासस्य दीर्घत्वेऽवर्णस्य दीर्घत्वं प्राप्नोति-मीमांसते ॥ ननु च इत्वे कृते दीर्घत्वं भविष्यति ॥ कथं पुनरुत्प- त्तिसन्नियोगेन दीर्घत्वमुच्यमानमित्वं प्रतीक्षते ॥ अथ कथमभ्यासं प्रतीक्षते?॥ वचनादभ्यासं प्रतीक्षते । [ अभ्यासस्य दीर्घत्वविधानात् ] । इत्वं पुनर्न प्र.] र्थमिति । सन्नन्तेभ्य इति भावः॥पूर्ववदिति । लिङ्गातिदेशादिति भावः॥ न चैतेभ्य इति । कार्यातिदेशोऽसौ । लिङ्गातिदेशे तु अनुचिकीर्षतीत्यादावप्यात्मने- पदप्रसङ्ग इति भावः ॥ एवं तहीति । सना व्यवधानेऽपीति भावः । अथ वेति । यत्राऽवयवे लिङ्गाऽऽसङ्गस्य प्रयोजनं नास्ति तत्र समुदायाऽर्थ एवाऽसाविति भावः । शिष्टं भाष्यं 'पूर्ववत्सन' इत्यत्र विस्तरेण व्याख्यातं तत एवावधार्यम् । [गुप्तिज्]॥ मान्वध । सामान्यविधेर्विशेषविधिर्बाधक इत्याह-अभ्यासदीर्घ इति ॥ अथ उ.] भाष्ये न चैतेभ्य इति । सनन्ते प्रतीयमानार्थवृत्तिभ्य इत्यर्थः । नाऽपि परस्मै- पदमिति। वधदानशानभिप्रायेणेदम् ॥ यत्राऽवयवे इति । भाष्ये--अवयवे कृत- मित्यस्य 'निष्फलच्चे'दिति शेषो बोध्यः ॥ [ गुप्तिज्किन्यः सन् ] ॥ मान्वध । ननु परत्वादित्वे दीर्घप्राप्तेः कथमवर्णस्य दीर्घोऽत आह-सामा- न्येति ॥ भाष्ये-उत्पत्तिसभियोगेनेति । ननु धातुमात्रोदेशेन सन्, सन्निमित्त- काभ्यासोद्देश्यकश्च दीर्घ इति कथं तयोः सन्नियोग इति चेन्न,बोधसन्नियोगेन तदुत्पत्ति- सन्नियोगोऽपीत्यभिमानात् ॥ वचनादभ्यासमिति । एवञ्च सन्नियोग एवाऽसिद्ध १ इदं क्वचिदपि नास्ति । २ इदं क्वाचित्कम् । ३ भवति' पा०। ४ इदं क्वचिन्न । ५ 'सनन्तमेव च' पा०।६ णिजन्तं' पा०। ७ 'अभ्यासदीर्घ'। ८ इदं न सर्वत्र ।

३अ.१पा.१आ.६सू.] @ व्याकरणमहाभाष्यम् ३१ प्रतीक्षते॥ ॥ ॥ न वाऽभ्यासविकारेष्वपवादस्योत्सर्गाऽबाधकत्वात् ॥॥ न वैष दोषः ॥ किं कारणम् ? ॥ 'अभ्यासविकारेश्वपवादस्योत्सर्गाऽबाधकत्वात् । 'अभ्यासविकारेष्वपवादा उत्सर्गान बाधन्त'इत्येवं दीर्घत्वमुच्यमानमित्वं न बाधिष्यते॥अथ वा 'मान्बधदान्शान्भ्य ई चाऽभ्यासस्येति वक्ष्यामि॥एवमपि हलादिशेषापवाद ईकारः प्रामोति॥'ई चाऽच' इति वक्ष्यामि॥ अथ वा मान्ब- धदान्शान्भ्यो दीर्घश्वेतोऽभ्यासस्येति वक्ष्यामि।सिद्यति॥ सूत्रं तर्हि भिद्यते ॥ यथान्यासमेवाऽस्तु॥ननु चोक्तम्-'अभ्यासदीर्घत्वेऽवर्णस्य दीर्घत्वप्रसङ्ग'इति॥ परिहृतमेतत् 'नवाऽभ्यासविकारेषु अपवादस्योत्सर्गाबाधकत्वादिति । अथ वा प्र.कथमितिायथाऽभ्यासस्येति वचनादीर्घत्वमभ्यासमपेक्षते तथा वचनान्तरविहित- मित्वमपीति भावः ॥ अभ्यासविकारेष्विति । एतच्च 'दीर्घोऽकित' इत्यत्राकिद्रह- णेन ज्ञापयिष्यते ॥ ई चाऽच इति । अजन्तस्येत्यर्थः । न चाऽकृते हलादिशेषे- ऽजन्तत्वं भवति ॥ अभ्यासविकार इति । स चेत्वमेव । तथा हि लोपस्यं ता- वदादेशो विधातुमशक्यः, तस्याऽभावरूपत्वात्। यदि च ह्रस्वस्य दीर्घत्वं स्यात्तद्धित- निर्देशोऽनर्थकः स्यात् । दीर्घश्रुत्याऽपरिभाषोपस्थानादजन्तस्य दीर्घविधानाद्दी- घस्य ह्रस्वस्य वा दीर्घविधाने विशेषाऽभावात्। तस्मादित्वमेव तद्धितेन प्रत्याय्यते। अथ वाऽऽहत्य सनि यो विहितो विकारः 'सन्यत' इति, तस्यैव ग्रहणं विज्ञायते । ह्रस्वश्च मानादीनामिव वधैरपि पर्जन्यवलक्षणप्रवृत्त्या भवति ॥ [मान्वधदान् ]॥ उ.]इति भावः।अतएव पूर्व विशेषविधित्वेनैव बाधकत्वमुक्तं कैयटेनेति केचित्।परेतु तद्बोधसन्नियोगेनाऽनैमित्तिकत्वरूपमन्तरङ्गत्वं बोध्यत इति वदन्ति । न प्रतीक्षत इति । किन्तु विशेषविधित्वादन्तरङ्गत्वाद्वा बाधत एवेति भावः॥ न वाऽभ्यासवि- कारप्वपवादेति । अपवादपदं बाधकोपलक्षणम् । एतेन यत्राऽन्यतरप्रवृत्त्युत्तर- मन्यतरस्य प्रवृत्त्ययोग्यत्वाऽभावस्तत्रैवेदमिति परास्तम् । एतच्चेति । यंयम्यत इत्यादौ नुकि अजन्तत्वाऽभावाद्दीर्घाऽप्राप्तौ 'चरिकती'त्यादौरिको रीग्विधिसामर्थ्येन तदप्राप्तौ व्यर्थमकित इति प्रकृतार्थज्ञापकमित्यर्थः । तेन यथायोगं पूर्व- मुत्सर्गप्रवृत्तावपवादप्रवृत्तिः, अपवादप्रवृत्तावपि वा पुनरुत्सर्गप्रवृत्तिरिति बोध्यम् ॥ यद्यपि ई चाऽच' इत्यत्राऽच इत्यस्य वैयधिकरण्येनाऽन्वयेऽपि न क्षतिस्तथापि सामानाऽधिकरण्यस्य न्याय्यत्वादाह-अजन्तस्येति ॥ ई चाऽचोऽभ्यासस्य', 'दीर्घश्चेतोभ्यासस्येति पक्षद्वयेपिसूत्रभेदो दूषणम्॥ ननु तद्धितेन ह्रस्वग्रहणे वधि- ावर्त्यः,तत्र फलाऽभावेन ह्रस्वाऽभावादत आह-हस्वश्चेति।अत्र 'न वाऽभ्यासवि- कारे वित्येव समाधानं युक्तम् ॥ [ मान्वधदान्शान्भ्यो दीर्घश्चाभ्यासस्य ] ॥ १ 'हलादिः शे' पा० । २ विशेषत इत्यर्थः । - कैयट-विवरणसहितं. [ धातोः कर्म नैवं विज्ञायते 'दीर्घश्चाऽभ्यासस्येति ॥ कथं तर्हि ? ॥ 'दीर्घश्च आभ्यासस्ये'- ति ॥ किमदमाभ्यासस्येति ? ॥ अभ्यासस्य विकार आभ्यासः, तस्येति ॥ धातोः कर्मणः समानकर्तृकादिच्छायां वा ॥ १७ ॥ धातोरिति किमर्थम् ? ॥ प्रकर्तुमैच्छत् प्राचिकीर्षत् । सोपसर्गादुत्प- त्तिर्मा भूदिति ॥*॥ कर्मग्रहणात्सन्विधौ धातुग्रहणमनर्थकम् ॥॥ कर्म- ग्रहणात्सन्विधौ धातुग्रहणमनर्थकम् । 'कर्मणः समानकर्तृकादिच्छायां वा सन् भवतीत्येव धातोरुत्पत्तिर्भविष्यति ॥*॥ सोपसर्ग वै कर्म ॥*॥ सोपसर्गक- मिह वै कर्म, तत उत्पत्तिःप्राप्नोति ॥*॥ सोपसर्ग कर्मेति चेत् कर्मविशेषकत्वा- प्र.] धातोः कर्मणः । धातोरर्थद्वारके कर्मत्व-समानकर्तृकत्वे। ते चेच्छायाः प्रत्य- यार्थत्वेऽपि सन्निधानात्तदपेक्षे एव गृह्यते। एवं च प्रकृत्यर्थोपसर्जनः प्रत्ययार्थों भवति, अन्यथा प्रकृतिप्रत्ययार्थयोरसंबन्धः स्यात् । वार्तिकाऽवतारणाय प्रश्नं करोति-धातोरिति किमर्थमिति । अयं भावः-धातुरेव क्रियावाची, उपसर्गस्तु विशेषकः । ततश्चाऽर्थद्वारके कर्मत्वसमानकर्तृकत्वे धातोरेव संभवत इति ॥ सोपस- गादिति । सङ्घातेन विशिष्टा क्रिया प्रतिपाद्यत इति तत एव सनुत्पत्तिप्रसङ्गः । ततश्च सङ्घातादेरेव द्विर्वचनादिप्रसङ्ग इति भावः ॥ कर्मग्रहणादिति । एतदुपल- क्षणम्, तेन 'समानकर्तृकग्रहणादित्यपि बोद्धव्यम् ॥ सोपसर्गमिति। सङ्घातस्य क्रियाविशेषाऽभिधायित्वादिति भावः ॥ कर्मविशेषक इति । अत एव वचनात् उ.] धातो कर्मणः । शब्दस्य धातोः कर्मत्वसमानकर्तृकत्वाऽसम्भवात्सूत्रे सामा- नाधिकरण्याऽनुपपत्तिः । ताभ्यां वार्तिकोक्तधातुग्रहणप्रत्याख्यानाऽनुपपत्तिश्चेत्यत आह–अर्थद्वारके इति । नन्विच्छायामिति सप्तम्यन्तत्वात्कर्मण इत्यादिनाऽन्वया- ऽयोग्यमितीच्छारूपेऽर्थे धात्वन्तरार्थकर्मणस्तेन समानकर्तृकादपि सन्स्यादत आह- ते चेति । सन्निधानाद्विभक्तिविपरिणामेन तयोरपि सा विशेषणमिति भावः । न केवलं सन्निधानादेव तयोरिच्छाऽपेक्षत्वं किन्तु प्रकृतिप्रत्ययार्थयोःसामर्थ्याs- नुपपत्त्याऽपीत्याह-एवंहीति । वार्त्तिकावतारणायेति। धातुपदस्य प्रयोजने दर्शिते तसिद्धिस्तदन्तरेणाऽपि भवतीति वार्तिकेन दर्शयितुं शक्यत इति भावः। सोपसर्ग- व्यावृत्तिर्न फलमित्याह-धातुरेवेति । प्रकृष्टस्येच्छाविषयत्वप्रतीतिर्विषयसामाना- धिकरण्यात्कटसामानाधिकरण्याद्भीष्मादेः कर्मत्वमिवेति भावः ॥भाष्ये-प्राचिकी. पदिति । यद्यपि लट्यपि द्विवचने दोषस्तथाप्यत्कृतमधिकं दोषं वक्तुं लकुदाहृतः । सङ्घातेनेति । धातुपदाऽभावे विशिष्टस्यैवेच्छाविषयत्वेन कर्मत्वात्तद्वाचकादेव सन्प्र- सङ्ग इति भावः ॥ सुबन्तार्थस्याऽपि कर्मत्वात्ततः सन्स्यादत आह-एतदिति । १ इदं क्वाचित्कम् । २ इदं प्रायो लुप्तम् । ।

३अ.१पा.आ.सू.] 8 व्याकरणमहाभाष्यम् , दुपसर्गस्याऽनुपसर्ग कर्म ॥ * ॥ सोपसर्ग कर्मेति चेत्कर्मविशेषक उपसर्गः । अनुपसर्गमेव [हि] कर्म । अवश्यं चैतदेवं विज्ञेयमनुपसर्ग कर्मेति॥*॥ सोप- सर्गस्य हि कर्मत्वे धात्वधिकारेऽपि सनोऽविधानमकर्मत्वात् ॥ ॥यो हि मन्यते सोपसर्ग कर्मेति, क्रियमाणेऽपि तस्य धातुग्रहणे सनोऽविधिः स्यात् ॥ किं कारणम् ? ॥ 'अकर्मत्वात् ॥ इदं तर्हि प्रयोजनं सुबन्तादुत्पत्तिर्मा भूत् । प्र.]षष्ठीसमासप्रतिषेधोऽनित्यः। अयमर्थः-धातुरेव क्रियावाचीति तदर्थस्यैव कर्म- त्वं न तूपसर्गार्थस्यापि । यथोक्तं 'कट एव कर्म तत्सामानाधिकरण्याद्भी- ष्मादिभ्यो द्वितीया भविष्यतीति । अथाऽपि विशेषणस्य पृथक्कर्मत्वम् । यथोक्तं- 'कटोऽपि कर्म भीष्मादयोपी'ति, तथापि कर्मसमुदायस्याऽकर्मत्वात्समुदायादुत्पत्ति- न भविष्यति । सोपसर्गस्य हीति । यदि सङ्घातस्याऽर्थद्वारकं कर्मत्वं स्यात्तदा अवयवस्याऽकर्मत्वात्ततः सन्प्रत्ययो न स्यात् । 'कर्मण'इत्येषा [हि] पञ्चमी । षष्ठ्यां तु सत्यां कर्मणोऽवयवाद्धातोः सन्नित्याश्रीयमाणेऽनुपसर्गान्न स्यात् । तस्मात्-'अडा- दीनांव्यवस्थायै पृथत्वेन प्रकल्पनात्।धातूपसर्गयोर्धातुः क्रियावाचीति निर्णयः। सुबन्तादिति । विकल्पितत्वात्सनः पक्षे साऽवकाशाः क्यजादय इति भावः । 'प्रा- उ.]तद्धनयन्नाह भाष्ये-कर्मणः समानकर्तृकादिति । प्रतिषेध इति। 'तृजकाभ्या'- मित्यादिः । याजकादित्वात्समास इत्यन्ये । धातुरेवेति । सङ्घातेन विशिष्टक्रिया:- वगतावपि विशेष्यस्यैव कर्मत्वं, प्राधान्यादिति भावः । तत्र दृष्टान्तमाह-यथोक्त- मिति । प्रधानस्यैव कर्मत्वमित्यत्रार्थे दृष्टान्तोऽयम् । यद्यपि तत्र तद्विशेषणेऽपि सा शक्तिरिति तात्पर्यन्तथापि समानाधिकरणविशेषण एव तथा,उपसर्गाऽर्थस्तु व्यधिकरण इति दिक् । 'अथाऽपि विशेषस्येति पाठः । धात्वर्थगतविशेष- रूपस्योपसर्गार्थस्येत्यर्थः । क्वचित्तु 'विशेषणस्येति पाठः । तत्राऽप्ययमेवार्थः । समुदायस्याऽकर्मत्वादिति । ननु 'प्रतिष्ठासते' इत्यादौ 'प्र'समभिव्याहारे गतेरेव प्रतीयमानत्वात् सैव कर्मेति धातुग्रहणाऽभावे तत्प्रतिपादकात्सोपसर्गादेव स्यादिति चेन्न, तत्राऽपि आदिकर्मद्योतकतायाः 'प्र'शब्दे भूवादिसूत्रे भाष्य उक्तः । भाष्ये-धात्वधिकारेऽपीति । नन्वस्याऽस्वरितत्वादधिकारपदप्रयोगोऽयुक्त इति चेन्न, नेदमधिकारपदं स्वरितपरं, किन्तु करणं कारः,अधिकः कारोऽधि- कारः । धातोरित्यस्याऽधिकस्य करणेऽपीत्यर्थः । अवयवस्याऽकर्मत्वादिति । कर्मत्वपर्याप्त्यनधिकरणत्वादित्यर्थः । अव- यवषष्ठ्यां समुदायस्य कर्मत्वेऽपि न दोष इत्यत आहे-पथ्यान्विति । अनु- पसर्गावति। नच व्यपदेशिवद्भावः,अग्रे भाष्ये वक्ष्यमाणत्वादित्याहुः । तस्मादिति। १ 'अकर्मकत्वात्' पा० । २ 'सामानाधिकरण्यातु' पा० । ३ 'विशेषस्य' पा० । ३ कैयट-विवरणसहितं. [ धातोः कर्मणः .. . ॥*॥सुबन्ताचाऽप्रसङ्गः क्यजादीनामपवादत्वात् ॥ ॥ सुबन्ताच्च सनोऽप्रसङ्गः ॥ किं कारणम् ?॥ 'क्यजादीनामपवादत्वात्। सुबन्ताक्यजादयो विधीयन्ते तेऽपवादत्वाद्वाधका भविष्यन्ति । ॥॥अनभिधानाद्वा॥* ॥अथ वाऽनभिधानात्सुबन्तादुत्पत्तिर्न भविष्यति! नहि सुबन्तादुत्पद्यमानेन सना इच्छाया अभिधानं स्यात् । अनभिधानात्तत उत्पत्तिनं भविष्यति ॥ इयं तावदगतिकगति 'यंदुच्यते-'अनभिधाना'- दिति । यदप्युच्यते-'सुबन्ताचाऽप्रसङ्गः क्यजादीनामपवादत्वादिति । भवेत्कस्माञ्चिदप्रसङ्गः स्यादौत्मेच्छायाम् । परेच्छायां तु प्राप्नोति-'राज्ञः पुत्रमिच्छती'ति ॥ एवं तींदमिह व्यपदेश्यं सदाचार्यों न व्यपदिशति ॥ किम् ? ॥ समानकर्तृकादित्युच्यते न च सुबन्तस्य समानः कर्ताऽस्ति । प्र.]तिपदिका'दिति तु नोक्तम् । 'कर्मण' इति वचनात् ,कर्मत्वे च सति सुबन्तताया अवश्यं भावात् । क्यजादीनामिति । कर्ममात्रात्सन्विधिः, कर्मविशेषात्सुबन्ता- क्यजादय इति भावः । यत्र चोत्सर्गापवादौ विभाषा तत्राऽपवादेन मुक्त उत्सर्गोन भवति, अपि तु वाक्यमेव । इयं तावदिति । लक्षणाश्रया लक्ष्यस्य व्यवस्था न्याय्या, लक्ष्याश्रयेण तु लक्षणव्यवस्थापनं गत्यन्तराऽभावादिति भावः । व्यपदेश्य सदिति । सच्छोभनं यद्यपदेशाह तन्न व्यपदिशति । न च सुबन्तस्येति । पुत्रा- देः सत्त्वभूतार्थाभिधायित्वात्साध्यस्यैव साधनसंबन्धयोग्यत्वादिति भावः । ‘कटं करोती'त्यादावपि सुबन्तेन सिद्धरूपोऽर्थोऽभिधीयते। शब्दाऽन्तरसन्निधानात्तु साध्यता प्रतीयते । यथोक्तं हरिणा-'निर्वयो वा विकार्यो वा प्राप्यो वा साधना- श्रयः। क्रियाणामेव साध्यत्वात्सिद्ध रूपोऽभिधीयते ॥ इति । आसितुमिच्छती- ति। तुमुनन्तस्य साध्यरूपाऽभिधायित्वादस्ति का योग इति भावः। 'क्यचि उ.]तेनाऽचार्येण तयोः पृथत्वन कल्पनात् क्रियावाचिनां च धातुत्वादुपसर्गरहित एव क्रियावाचीति निर्णय इत्यर्थः । पार्थक्यकल्पनाफलचाऽडादिव्यवस्था । 'समानकर्तृ- का'दित्यनेन क्रियावाचकादेव सनो विधानमिति न तद्विशिष्टात्सनिति भावः । कर्मत्वे च सतीति । कर्मत्वादिद्योतकत्वाद्विभक्तरिति भावः । कर्मविशेषादिति । क्यजा- दीनामप्येकार्थीभाव एव प्रवृत्तेः सनभावे तदभावान्न क्यजादीनां सावकाशतेति भावः । एतेन क्यजाद्यभावे सन्स्यादित्यपास्तम् । तद्धनयन्नाह—यत्र चेति । लक्षणाश्रयेति । बोद्धृणां लक्षणैकचक्षुष्कत्वादिति भावः। भाष्ये-आत्मेच्छाया- मिति । 'कर्मीभूतादिति शेषः । साध्यस्यैवेति । साध्यत्वेन प्रतीयमानस्यैवेत्यर्थः साध्यता प्रतीयत इति । सा च न कारकाऽवच्छेदिकेति भावः । साधनाश्रय १ 'इच्छाभिधानमस्ति' । २ 'दित्यात्मेच्छायां'। ३ 'दिच्छायां वेत्युच्यते' पा० । ।

३अ.१पा.१आ.७सू.] ॐ व्याकरणमहाभाष्यम् 8 एवमपि भवेत्-कस्माश्चिदप्रसङ्गः स्याद्यस्य कर्ता नास्ति, इह तु प्रामोति-आसितुमिच्छति शयितुमिच्छतीति ॥ इच्छायामर्थे सन् विधीयते इच्छार्थेषु च तुमुन् । तत्र तुमुनोक्तत्वात्तस्याऽर्थस्य सन्न भविष्यति ॥ एवमपीह प्राप्नोति-आसनमिच्छति शयनमिच्छतीति ॥ इह यो विशेष उपाधिर्वा उपादीयते, द्योत्ये तस्मिंस्तेन भवितव्यम् । यश्चेहार्थो गम्यते आसितु- मिच्छति शयितुमिच्छतीति-स्वयंतां क्रियां कर्तुमिच्छतीति; नासाविह गम्यते- आसनमिच्छति शयनमिच्छतीति।अन्यस्याप्यासनमिच्छतीत्येषोऽप्यर्थो गम्यते। अवश्यं चैतदेवं विज्ञेयम् । यो हि मन्यतेऽद्योत्ये तस्मिंस्तेन भवितव्य'मिति, प्र.]मान्ताऽव्ययप्रतिषेध' इति क्यजत्र प्रतिषिद्धः । तुमुनोत्तत्वादिति। तुमुन्निमि- तेनेच्छतीत्यनेनेत्यर्थः । न चेच्छतीत्यस्य प्रयोगं बाधित्वा सन्भवतीति युज्यते वक्तुम् । उपपदनिमित्तत्वात्तुमुनस्तदभावेऽभावप्रसङ्गात् । आसनमिच्छतीति । ल्युभावमात्रे विधीयते न विच्छार्थेषूपपदेष्विति भावः । थातुवाच्यकियापेक्षं च ममानकर्तृकत्वमस्ति । इह यो विशेष इति । समानशब्दस्तदन्तवाच्योऽर्थ उपा- धिरन्यस्तु विशेष इति इति भावः । क्व चित्त्वभेदेन व्यवहारः। आसितुमिच्छ- तीति । वृत्तिसमानाऽर्थेन वाक्येन भवितव्यम्। आसिसिषत इत्यस्य चाऽऽसितुमिच्छ- तीति समानार्थ भवतीति भवत्यासेः सन्प्रत्ययः। आसनमिच्छतीत्यत्र तु किमात्मन आसनमिच्छत्यथ परस्येति सन्देहात्समानकर्तृकत्वाऽप्रतिपत्तिरित्यासनशब्दात्सन्प्र- त्ययो न भविष्यति । न ह्यतः सनुत्पद्यमानः समानकर्तृकत्वलक्षणं विशेषमन्तर्भाव- उ.]इति। कर्मवलक्षणशक्त्याश्रय इत्यर्थः ।क्रियाणामेव साध्यत्वात्-साध्यत्वेन प्रती- यमानत्वात् सिद्धरूपः-सिद्धत्वेनैव स प्रतीयत इत्यर्थः। तुमुनन्तस्येति । 'अव्यय- कृत' इति वचनात्तस्य साध्यरूपभावाऽभिधायितेत्यर्थः। तुमुन इच्छावाचकत्वाऽभा- वादाह-तुमुन्निमित्तेनेति । 'समानकर्तृकेषु तुमुन्नि'त्यत्रेच्छार्थेष्वित्यनुवृत्तेस्तस्य नन्निमित्तत्वम् । तदभाव इति । सनस्तु नोपपदत्वं, महासंज्ञाविरोधात् । नन्वनस्य सिद्धरूपभावाऽभिधायित्वेन कथं कर्तृसम्बन्ध इत्यत आह- धातुवाच्येति । भाष्ये-द्योत्ये तस्मिन्निति । वृत्त्या शब्दजन्यबोधविषय इत्यर्थः । वृत्तीति । तुमुनन्ते विग्रहवाक्ये समानकर्तृकत्वे तुमुनो विधानात्समानकर्तृकत्व- प्रतीतेस्तद्युक्तं समानकर्तृकत्वविषयसनो विग्रहवाक्यम् । भावविषयल्युडन्ते तु तदनि- श्चयान्न तत्सनो विग्रहवाक्यमिति नाऽऽसनशब्दात्सनुत्पत्तिरिति भावः । नात इति। विग्रहे तदप्रतीतेः।नह्याऽऽसनशब्दगर्भ समानकर्तृकत्वप्रतीतियोग्यं विग्रहवाक्य- मस्तीति तदभावात्ततः सनोऽनुत्पत्तिरेवाऽनुमीयत इति भावः। 'पक्ष्यामीच्छति देव- १ इदं क्वचिन्न । २ 'विशेष उपादीयते उपाधिर्वा' पा०। ३ 'षोऽर्थो' पा० ।

कैयट-विवरणसहितं. [ धातोः कर्मणः क्रियमाणेऽपि हि तस्य धातुग्रहण इह प्रसज्येत–'सजतमिच्छति देवदत्तो यज्ञदत्तने ति॥ ॥कर्मसमानकर्तृकग्रहणानर्थक्यं चेच्छाभिधाने प्रत्ययविधानात्॥*॥ कर्मसमानकर्तृकग्रहणं चानर्थकं ॥ किंकारणम् ?॥ 'इच्छाऽभिधाने प्रत्यय. विधानात्' । इच्छायामभिधेयायां सन्विधीयते । ॥॥ अकर्मणो ह्यसमान- कर्तृकोऽनभिधानम् ॥ ॥ इच्छायामभिधेयायां सन्विधीयते । न चाऽकर्म- णोऽसमानकर्तृकाद्वोत्पद्यमानेन सनेच्छाया अभिधानं स्यात्। अनभिधानात्तत- उत्पत्तिर्न भविष्यति । ॥*॥ अङ्गपरिमाणार्थ तु ॥*॥ अङ्गपरिमाणार्थ ती- न्यतरत्कर्तव्यं कर्मग्रहणं धातुग्रहणं वा,-'अङ्गपरिमाणं ज्ञास्यामी'ति ॥ किं पुनरत्र ज्यायः ?॥धातुग्रहणमेव ज्यायः। अङ्गपरिमाणं चैव विज्ञातं प्र.]यितुं शक्नोतीति भावः। सङ्गतमिच्छतीति। केवलस्य धातोः प्रयोगाऽभावात्क्त- प्रत्ययोपादानं, धातोरेव तु सन्प्रसङ्ग इत्युच्यते । अत्र च किमात्मकर्तृकं सङ्गतमि- च्छत्यथ परकर्तृकमिति सन्देहाद्यदा समानकर्तृकत्वं नाऽवधार्यते तदा न भाव्यम् । यदा तु समानकर्तृकत्वं प्रतिपिपादयिषितं तदा भवितव्यमेव सना,-'संजिगंसते वत्सो मात्रेति। कर्मेति । इच्छायाः कर्मणाऽवश्यं भाव्यमिति प्रत्यासत्या प्रकृत्यर्थ एव कर्मत्वेनाश्रयिष्यते न तु तद्व्यतिरिक्तमिति 'गमनेनेच्छती'ति सन्न भविष्यति । प्रत्यासत्त्यैव च समानकर्तृकत्वमाश्रयिष्यत इति 'देवदत्तस्य भोजनमिच्छती'- त्यत्रापि न भविष्यतीत्येतच्यायमूलमनभिधानम् । इह नित्यानां शब्दानां सङ्कीर्ण- प्रयोगदर्शने सति साध्वसाधुविभागाय शास्त्रारम्भः । न च गमनेनेच्छति देवदत्तस्य भोजनमिच्छतीत्यत्राऽर्थे जिगमिषति बुभुक्षत इत्यादिप्रयोगोऽस्तीति किं तन्निवृत्त्य- थेन विशेषणोपादानेनेत्यर्थः। अङ्गपरिमाणार्थ त्विति । इच्छायां वेत्येतावत्युच्यमाने यद्यपि प्रत्ययपरत्वेन पूर्वा प्रकृतिराक्षिप्यते तथापि 'प्राऽचिकीर्ष'दित्यादौ सोपसर्गस्या- उ.]दत्त' इत्यादौ तिङन्तात्स्यादिति तु नाऽऽपाद्यं, कर्ममात्रबोधकत्वाऽभावात् ,अति- रिक्तस्य कर्नादेरपि भानादित्याहुः। अनाऽन्तात्तान्तेऽविशेषं दृष्ट्वाह-केवलस्येति । यदा त्विति । सङ्गन्तुमिच्छतीति विग्रहवाक्यस्य सन्प्रकृतिधातुगर्भस्य सम्भवादिति भावः । नन्वनभिधानादिति भाष्यमनुपपन्नं, समानकर्तृत्वादेोत्याङ्गीकारेण तदभावे तस्य द्योत्यत्वे प्रमाणाऽभावात् , तस्याऽगतिकगतित्वाञ्चेत्यत आह–इच्छाया इति । सविषयत्वादित्यर्थः । करणाद्याकाङ्क्षा तु न नियतेति भावः । व्याप्ति- न्यायाश्रयणेऽपि समाधत्ते-इह नित्यानामिति । तत्र समानकर्तृकत्वादिप्रकारक- बोधो लोकव्युत्पत्तेरेव, न हि सर्वत्र व्याकरणमेव शक्तिग्राहकमस्तीति भावः। ननु प्रत्यासत्त्या कर्मबोधकात्प्रत्ययेऽङ्गपरिमाणं ज्ञातमेवेत्यत आह-इच्छायां वेति । १ इदं क्वचिन्न । २ 'यज्ञदत्तो देव' पा० । ३ 'कर्त्तकाद्वा' पा०। ४'तत्र' पा० ।

३अ.१पा.१आ.७सू.] 8 व्याकरणमहाभाष्यम् ® भवत्यपि च 'धातोर्विहितः प्रत्ययः शेष आर्द्धधातुकसंज्ञो भवतीति सन आर्द्धधातुकसंज्ञा सिद्धा भवति । यच्चाऽप्येतदुक्तं-“कर्मग्रहणात्सन्विधौ धातुग्रहणानर्थक्यं, सोपसर्ग कर्मेति चेत्कर्मविशेषकत्वादुपसर्गस्याऽनुपसर्ग कर्म,सोपसर्गस्य हि कर्मत्वे धात्वधिकारेऽपि सनोऽविधानमकर्मत्वादिति, स्वपक्षोऽनेन वर्णितः । युक्तमिह द्रष्टव्यं-किं न्याय्यं कर्मेति ? ॥ एतच्चाऽत्र युक्तं यत्सोपसर्ग कर्म स्यात् ॥ ननु चोक्तं—“सोपसर्गस्य हि कर्मत्वे धात्वधिकारेऽपि सनोऽविधानमकर्मत्वा"दिति ॥ नैष दोषः । 'कर्मण' इति नैषा धातुसमानाधिकरणा पञ्चमी-'कर्मणो धातो रिति । प्र.]ऽङ्गत्वं स्यात् । यदा तु साक्षात्प्रकृतिर्विशिष्टा निर्दिश्यते तदाऽङ्गपरिमाणं ज्ञायते। अन्यतरदिति । त्रितये प्रत्याख्यातेऽन्यतममिति वक्तव्ये समानकर्तृग्रहणं न कर्तव्य- मेव गौरवप्रसङ्गादिति मत्वाऽन्यतर'दित्युक्तम् । धातुग्रहणमेवेति । कार्यान्तर- स्यापि संपादनादित्यर्थः। धातुशब्दोच्चारणेन धातोर्विहितस्यार्द्धधातुकसंज्ञोक्ता । तथा च पूर्वसूत्रद्वयविहितस्य सनस्तदभावाजुगुप्सत इत्यादाविडभावः। एतत्सूत्रविहितस्य तु सन आर्द्धधातुकवाच्छिशयिषत इत्यादाविड्गुणौ भवतः। नन्विको मलिति कि- त्त्वमार्द्धधातुकत्वनिमित्तगुणनिषेधार्थ सन आर्द्धधातुकसंज्ञायां ज्ञापकं भविष्यतिनैित- दस्ति । सामान्येन ज्ञापके व्याख्यायमाने सर्वत्र सनः प्रसङ्गः। विशेषविषये त्विगन्न- प्रकृतेरेव स्यादिति धातुग्रहणं कर्तव्यम् । स्वपक्ष इति । यद्यपि सर्व एव स्व- पक्षं वर्णयन्ति तथापि परपक्षदूषणाऽभिनिवेशादयुक्तोऽपि स्वपक्षो वर्णित इत्युक्तं भवति । युक्तमिति । यदेव न्याय्यं तदेव ग्राह्यं न तु दुरभिनिवेशः कार्य इत्यर्थः । यत्सोपसर्गमिति । धातूपसर्गसङ्घातेन हि क्रियाविशेषस्य प्रक्रमादर्थद्वारकं तस्यैव कर्मत्वमित्यर्थः । विशिष्टैव च क्रिया साधनेन निवर्त्यते न तूत्पन्ना सती विशेषणे- नाऽन्यत उत्पन्नेनाऽभिसंबद्ध्यते । तत्र यद्यपि धातुर्वाचक उपसर्गस्तु द्योतकस्तथा- प्यसति धातुग्रहणे वाचकद्योतकविभागस्य शब्देनेहाऽनङ्गीकृतत्वात्सङ्घातादेवोत्पत्तिः उ.] न कर्तव्यमेवेति । उत्तरसूत्रकर्तव्यमात्मन इत्यत्रैव कार्यम् । तत्रेच्छायामात्मन इत्यस्य कर्तृत्वेनाऽन्वयस्य क्लप्तत्वादन्तरङ्गत्वाच्च धातावपि तेनेव सम्बन्धेनाऽन्वयः । एवञ्च प्रत्यासत्योभयकोरेकत्व एव प्रवृत्तिरिति भावः। 'धातुशब्दोच्चारणेने त्यस्य फलमाह-तथा चेति । क्रियाविशेषस्य-विशिष्टक्रियायाः॥ प्रक्रमात्-बोधनात् ॥ विशिष्टैवैति। उपसर्गद्योत्यार्थविशिष्टवेत्यर्थः॥ साधनेन-तत्तत्प्रयुक्तकार्येण । निर्व- य॑ते-उत्पन्नबोधविषयीक्रियते ॥ उत्पन्ना-उत्पन्नबोधा॥अन्यत उत्पन्नेन,-अन्यत उत्पन्नबोधेन ॥ तथाप्यसतीति । 'कर्मण' इत्यस्य कर्मबोधकादित्यर्थः स्यादिति १ ‘सज्ञापि' पा० । २ इदं क्वचिन्न । ३ 'अकर्मकत्वा' पा. ।

No text on this page.

३अ.१पा.१आसू.] 8 व्याकरणमहाभाष्यम् & ३ ............RN भवतीति । ॥*॥ वावचनानर्थक्यं च तत्र नित्यत्वात्सनः ॥*॥ वावचनं चाऽनर्थकम् ॥ किं कारणम् ? ॥ 'तत्र नित्यत्वात्सनः' । इह द्वौ पक्षौ वृत्ति- पक्षश्चाऽवृत्तिपक्षश्च । स्वभावतश्चैतद्भवति-वाक्यं च प्रत्ययश्च । तत्र स्वाभा- विके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन किमन्यच्छक्यमभिसम्बन्दुम- न्यदतः संज्ञायाः। न च संज्ञाया भावाऽभावाविप्यते । तस्मानाऽर्थो वावच- नेन । ॥*॥ तुमुनन्ताद्वा, तस्य च लुग्वचनम् ॥*॥ तुमुनन्ताद्वा सन् वक्तव्य- स्तस्य च तुमुनो लुग्वक्तव्यः। कर्तुमिच्छति चिकीर्षति । ॥॥ लिडुत्त- माद्वा ॥*॥ लिङत्तमाद्वा सन्वक्तव्यस्तस्य च लिङो लुग्वक्तव्यः । कुर्यामिती- च्छति चिकीर्षति ॥*॥ आशङ्कायामचेतनेषूपसङ्ख्यानम् ॥*॥ आशाङ्कायामचे- प्र.]विशिष्टां क्रियामाह,उपसर्गस्तु द्योतक इति सापेक्षत्वाऽभावः। वावचनानर्थक्यं चेति । वृत्तेरेकार्थीभावविषयत्वाद्यपेक्षाविषयत्वाच्च वाक्यस्य भिन्नार्थत्वाद्वाध्यबाधक- भावाऽप्रसङ्गादिति भावः । न च संज्ञाया इति । अनर्थः प्रत्युत वाग्रहणाद्भवति, प्रत्ययसंज्ञाया विकल्पे सति तन्निबन्धनकार्यविकल्पप्रसङ्गात् । तुमुन्नन्तादिति । लघ्वेवं लक्षणं भवतीति भावः । वचनसामर्थ्याच्चोपपदश्रवणं बाधित्वा पक्षे तदीये- ऽर्थे सन्प्रत्ययो भवति । इच्छाग्रहणं प्रत्ययाऽर्थनिर्देशायावश्यं कर्तव्यम् । अत्र चो- दयन्ति-तुमुनन्तस्य पदत्वात्तुमुनो लुकि कृते 'जिघांसती'त्यादौ नलोपादीनि प्राप्नु- वन्तीति। नैष दोषः।तुमुनो लुको बहिरङ्गत्वादसिद्धत्वान्नलोपादीनि न भविष्यन्तीति । एतस्मिंस्तु सूत्रन्यास धातोरिति सनो विधानाऽभावादार्द्धधातुकसंज्ञा न प्राप्नोतीति इको झलिति कित्त्वविधानं ज्ञापकमाश्रयणीयमिष्टसिद्धये। आशङ्कायामिति।आशङ्का- उ. ञ्चाऽनुपसर्गस्याऽकर्मत्वमित्यत्यन्तमसङ्गतमिति भावः । वृत्तेरिति । नन्वस्य पदविधित्वाऽभावात्समर्थपरिभाषाऽनुपस्थितौ कथमस्यैकार्थीभावविषयत्वमिति चेन्न, भाष्यप्रामाण्यादस्याप्येकार्थीभाव एव प्रवृत्तेरिति भावात् । प्रत्ययसंज्ञाया इति । परत्वस्यापीदमुपलक्षणम् । 'आधुदात्तश्चे'त्यस्य तु एतद्विषये न संबन्धो, नित्यत्वा- दिति बोध्यम् । अत्राऽपि समर्थपरिभाषोपतिष्ठत इत्यर्थे वात्तिकसम्मतिं दर्शयन तान्युदाहरति भाष्ये—तुमुनन्ताद्वेति । वचनसामर्थ्याच्चेति । अतएव चोपपदा- ऽभावेऽपि तुमुन् वृत्तिविषये इति बोध्यम् । बहिरङ्गत्वादिति । सन्सन्नियोगेन विधानाद्बहिरङ्गत्वं लुक इति भावः । वस्तुतस्तु सुप्तुमुनोलुंकि पदैत्वे नैकदेश- विकृतन्यायावतारः, तत्त्वप्रत्यभिज्ञाऽभावात् । अर्धविकारात् । नापि स्थानिवद्भावः, तुमुनन्तस्य षष्ठीनिर्दिष्टत्वाऽभावात् । इष्टसिद्धय इति । अनेन सर्वे शङ्काभासा निरस्ता इत्याहुः । आशङ्केति । सा च प्रयोक्तृधर्मः, शके कूलं पतिष्यतीत्यर्था- १ 'चिकीर्षतीति' पा० । २ 'स्य कर्मत्व' पा० । ३ इदं क्वचिन्न ।

* कैयट-विवरणसहितं. [ धातोः कर्मणः तनेषूपसङ्ख्यानं कर्तव्यम्-अश्मा लुलुठिषते, कूलं पिपतिषतीति ॥ किं पुनः कारणं न सिध्यति?॥ एवं मन्यते-चेतनावत एतद्भवति-'इच्छे'ति, कूलं चाs- चेतनम् ॥ अचेतनग्रहणेन नाऽर्थः। 'आशङ्काया'मित्येव । इदमपि सिद्ध भवति-वा मुमूर्षतीति ॥ ॥ न वा तुल्यकारणत्वादिच्छाया हि प्रवृत्तित उप- लब्धिः ॥*॥ न वा वक्तव्यम् ॥ किं कारणम् ? ॥ 'तुल्यकारणत्वात्' । तुल्यं हि कारणं चेतनावति देवदत्ते, कूले चाऽचेतने ॥ किं कारणम् ? ॥ 'इच्छाया हि प्रवृत्तित उपलब्धिः' । इच्छाया हि प्रवृत्तित उपलब्धि. र्भवति । योऽप्यसौ कटं चिकीर्षुर्भवति नाऽसावाघोषयति—'कटं करिष्यामीति ॥ किं तर्हि ? ॥ सन्नद्धं रज्जुकीलकपूलपाणिं दृष्ट्वा तत इच्छा गम्यते । कूलस्याऽपि पिपतिषतो लोष्टाः शीर्यन्ते, भिदोपजायते, देशादेशा- न्तरमुपसङ्कामति । श्वानः खल्वपि मुमूर्षव एकान्तशीलाः शूनाऽक्षाश्च भवन्ति ॥*॥ उपमानाद्वा सिद्धम् ॥*॥ उपमानाद्वा सिद्धमेतत् ॥ कथं ?॥ लुलुठिषत इव लुलुठिषते । पिपतिषतीव पिपतिषति ॥ न वै तिर्डन्तेनो- प्र.] संभावना।तद्विशिष्टाऽर्थाऽभिधायिनो धातोः स्वार्थे प्रत्ययः । लुलुठिषत इति । 'रुठ लुठ प्रतीपाते' इति द्युतादिषु पठ्यते । 'वर्तमानसामीप्ये' इति लद्रत्ययः। श्वा मु- मूर्षतीति । शुनश्चैतन्येऽपि जीवितस्य प्रियत्वाद्याध्यायभिभवेऽपि तिर्यत्वान्मर्तु- मिच्छा नास्ति । न वेति । कार्येणेच्छाऽनुमीयत इतीच्छाऽनुमानकारणं कार्य लिङ्गं । तुल्यमिति।वास्तवसदसत्त्वाऽनपेक्षलोकव्यवहाराश्रयकार्यानुमेयेच्छाश्रयेण सन् प्रयु- ज्यते इत्यर्थः। उपमानाद्वेति । यदिच्छानिमित्तं कार्यं तदचेतनेषु नास्ति, यच्चास्ति, उ.] ऽवगमात् । तद्विशिष्टेति । तद्विषयत्वविशिष्टेत्यर्थः । आत्मनेपदप्रयोगे बीज- माह-धुतादिष्विति । 'रलो व्युपधा'दिति कित्त्वाद्गुणाऽभावः । सम्भावनाविषयलोठने भविष्यत्त्वप्रतीतेराह--वर्तमानसामीप्य इति । भाष्ये एवं मन्यते चेतनावत इति । वक्ष्यमाणेनाऽभिप्रायेण 'मन्यत' इत्युक्तं । कार्य- णेति । इच्छानुमितिजनकं कार्यरूपं लिङ्गं तुल्यमित्यर्थः । नन्विच्छाया अचेतने बाधात्कथं बाधितविषयाऽनुमितिरत आह-वास्तवेति । वास्तवं सद्ब्रह्म, वास्तव- मसत्प्रपञ्चः । तदनपेक्ष्य व्यवहारमात्रेण सत इतरस्येवाऽस्याअपितेन सत्यकार्येणाऽ- नुमानमिति भावः । बालकादेरयुक्तवृक्षाद्यारोहणं कुर्वतो 'मतमिच्छत्यय'मिति व्यव- हरति लोक इति तात्पर्यम् । भाष्ये-शूनाक्षा इति । प्रसृताऽक्षा इत्यर्थः। शून्याक्षा इति पाठे विषयाऽग्राहिचक्षुष इत्यर्थः । यदिच्छानिमित्तकमिति । बुद्धिपूर्वक- १ इति क्वाचित्कः। २ 'कर्तव्य पा०। ३'कीलपूल' पा०। ४ 'भिदा जायते' पा० । ५ 'उच्छूनाक्षाः' इति, 'शुन्याक्षाः' पा०। ६ 'न तिङ' पा०।७ 'व्याध्यमि' पा०।

३३.१पा.१आ.सू.] ॐ व्याकरणमहाभाष्यम् ॐ ४१ । । पमानमस्ति ॥ एवं तींच्छेवेच्छा। ॥*॥ सर्वस्य वा. चेतनावत्त्वात् ॥*॥ अथ वा सर्व चेतनावत् । एवं ह्याह-'कंसकाः सर्पन्ति, शिरीषोऽय स्वपिति' 'सुवर्चला आदित्यमनुपर्येति' । 'आस्कन्द कपिलके'त्युक्त तृणमास्कन्दति' । प्र.] न तदिच्छायाः कार्यमिति मत्वा परिहारान्तरोपन्यासः । न वै तिङन्तेनेति तिङन्ताऽर्थेनेत्यर्थः । क्रियायाः साध्यैकस्वभावत्वादनिष्पन्नरूपत्वादिदं तदिति- परामर्शविषयवस्तुगोचरत्वादुपमानोपमेयभावस्येदंतदितिपरामर्शाऽभावादितिभावः । इवशब्दप्रयोगे तु अध्यारोपस्तु विद्यते,–'रोदितीव गायति' 'नृत्यतीव गच्छति देवदत्त' इति । परिपूर्णेन च न्यूनस्योपमानं भवति । क्रिया च सर्वा स्वाश्रये समाप्तेति न्यूनत्वाऽसंभवस्तस्याम् । तदुक्तं-'येनैव हेतुना हंसः पततीत्यभिधीयते । आतौ तस्य समाप्तत्वादुपमार्थो न विद्यते॥' इति । भिन्न- जातीयानां च क्रियाणां सादृश्यं नास्ति 'भुत इव गच्छतीति । एवं तीति । इच्छाशब्दस्य सत्त्वभूताऽर्थाभिधायित्वादस्ति तदर्थस्योपमानत्वं, ततश्चेच्छासदृशे- ऽपि व्यापारे सन् भवति । गौणमुख्यन्यायश्च क्वचिल्लक्ष्याऽपेक्षया नाऽङ्गीक्रियते । उ.] प्रवृत्यादिकमित्यर्थः। तिङन्तार्थेनेति । क्रिययेत्यर्थः । भाष्यस्थोपमानशब्दस्य सादृश्यमित्यर्थ इति भावः । केचित्तु तिङन्तेनोपमानबोधो नास्तीति भाष्यार्थ- माहुः। तदुपपादयति-क्रियाया इति । सिद्धरूपतया प्रतीयमानस्य वस्तुन 'इदन्त'दिति परामर्शविषयत्वादुपमानत्वम्भवति नाऽन्यस्येत्यर्थः। इदन्तदिति परा- मर्शाभावादित्यस्य-'उपमानत्वाऽभाव' इति शेषेण सम्बन्धः। तथा परामर्शाऽ. भावे हेतुमाह-साध्यैकेत्यादिना । तथापरामर्शाऽभावेऽपि कुतो न स इत्यत आह-इदन्तदिति । अत्र शब्दशक्तिस्वभावो वस्तुशक्तिस्वभाव एव वा बीजम् । अत्रोपमानोपमेयभावस्येत्युपमेयग्रहणञ्चिन्त्यं, 'क्षत्रियवदधीते' इत्यादौ क्रियाया उपमेयत्वस्येष्टत्वादिति बोध्यम् । कथं तर्हि 'रोदितीव गायती'त्यादिप्रयोगो- ऽत आह-इवशब्देति । अत्र वाक्ये तुशब्दद्वयफलं चिन्त्यम् । अध्यारोपः उत्प्रेक्षा । तिङन्ताऽर्थस्योपमानत्वाऽभावे युक्त्यन्तरमप्याह–परिपूर्णेनेति । समाप्तत्वादिति । पातस्य सम्पूर्णवादित्यर्थः । आति:-पक्षिविशेषः । एवच्चैकस्यां क्रियायां भेदाऽसम्भवान्नोपमानोपमेयभावः । भिन्नजातीयासु तु साधारणधर्मरूप- सादृश्याऽसम्भवानोपमानत्वं, तदाह-भिन्नेति । समानजातीयास्वपि यथा न तथो- क्तम् । 'यथा वै श्येनो निपत्यादत्ते एवमयं भ्रातृव्यं निपत्यादत्ते' इत्यादौ यद्धर्मव- च्छयेनकर्तृकमादानन्तद्धर्मवदेतत्कर्तृकमादानमिति वाच्यार्थेऽवगते. यत्तयामैक्य- मापन्नं तं धर्म निमित्तीकृत्य श्येनयागयोः पश्चात्सादृश्यबोध इति न तत्र क्रिययोरुप- मानोपमेयभाव इति बोध्यम् । इच्छासदृशेऽपीति । पूर्व व्यवहारादिच्छां तत्राप्य- :- ४२ ॐ कैयट-विवरणसहित [ धातोः कर्मणः 'अयस्कान्तमयः सङ्कामति' । 'ऋषिः पठति'। 'शृणोत ग्रावाणः' ॥ इमे इषयो बहवः पच्यन्ते तत्र न ज्ञायते कस्याऽयमथै सन्विधी- यत इति? ॥ ॥ इषेश्छत्वभाविनः ॥ ॥ यद्येवं,-कर्तुमन्विच्छति-कर्तुमन्वेषणा, अत्रापि प्रामोति ॥ एवं तर्हि यस्य स्त्रियामिच्छेत्येतद्रूपं निपात्यते ॥ कस्य चैतनिपात्यते ? ॥ ॥कान्तिकर्मणः ॥ ॥ अथेह ग्रामं गन्तुमिच्छतीति, किं कर्म ? ॥ इषेरुभे कर्मणी ॥ यद्येवं ग्रामं गन्तुमिच्छति ग्रामाय गन्तुमि- च्छतीति,-गत्यर्थकर्मणि द्वितीयाचतुथ्यौँ न प्रामुतः॥एवं तर्हि गमेामः कर्म, प्र.]सर्वस्य वेति। आत्माऽद्वैतदर्शनेनेति भावः। ऋषिरिति। वेदः सर्वभावानां चैत- न्यं प्रतिपादयतीत्यर्थः । वैचित्र्येण च पदार्थानामुपलम्भात्सर्वचेतनधर्मप्रसङ्गः सर्वत्र नोद्भावनीयः। इम इति । शश्नाश्यन्विकरणास्त्रय इत्यर्थः। तत्रेति । इच्छेति निपा- तनं त्रयाणामपि संभवतीति मन्यते। छत्वभाविन इति। 'इच्छेति शप्रत्ययो यग- भावश्च निपात्यते । छत्वं तु लक्षणेनैव सिद्धं, तच्च शविकरणस्यैव विहितमित्यर्थः यद्यवमिति। 'अन्विच्छतीति तौदादिकस्यैव रूपमिति भावः। एवं तहीति । अर्थ- विशेषे निपातनमाश्रितमिति भावः।कान्तिकर्मण इति। कान्तिः-कामना।अभिलाष- स्तक्रियस्येत्यर्थः। 'अन्विच्छती'त्यस्य गवेषयतीत्यर्थो न तु कामयत इति सन्न भव- ति । अथेहेति । क्रियाद्वयसन्निधानाच्चङ्क्रमणादिकामस्य गमनमात्रेप्सासंभवादन्यस्य चोभयेप्सासंभवात् प्रश्नः। इपेरुभे इति। यो हि ग्रामगमनमिच्छति तस्येषिक्रिययो- भयमीप्सितं न केवलो ग्रामो नाऽपि केवलं गमनमित्यर्थः । यद्यमिति । इषि- कर्मत्वे ग्रामस्य गतिकर्मत्वाऽभावादिति भावः। परसाधन इति । परस्येषेः साधनं उ.]ङ्गीकृत्य कृतः प्रत्यय'इत्युक्तम्।इदानीन्विच्छासदृशेऽर्थे प्रत्यय इति भेदःविचिन्ये- णेति । चेतनेषु मनुष्येष्वपि नानाजातीयव्यवहारदर्शनादिति भावः। सर्वत्र परि- णामदर्शनेन चेतनाऽधिष्ठानं विना च तदसम्भवात्सर्वस्य तदधिष्ठितत्वं ज्ञायते इति तात्पर्यम् । मन्यत इति । छत्वमपि निपातनादिति तद्भावः । यगभावश्चेति । भावे शस्य सत्त्वाद्यकः प्राप्तिरिति भावः । शविकरणस्यैवेति । गमियमिसाहचर्य्य- णाऽकारविकरणस्यैवेषग्रहणादिति भावः।तौदादिकस्यैव स्त्रियामिच्छेति निपातनात्कथं 'यस्ये'त्यादिना समाधानमत आह-अर्थविशेष इति। यस्येति भाष्यस्य-यदर्थकस्य- त्यर्थः । लोके कान्तिशब्दस्य शोभायाम्प्रसिद्धत्वादाह-कान्तिः कामनेति । ग्रामस्थ गतिकर्मत्वं गमेरिषिकर्मत्वञ्च स्पष्टमेवेति कथं सन्देहस्तत्राह-क्रियाद्वयति । च. मणादिकामस्य-अनुद्देश्यकगमनादिकामस्य। अन्यस्य-ग्रामप्राप्तिकामस्य। इपि- कर्मत्व इति। उभयोरिषिकर्मत्वे ग्रामस्य गतिकर्मत्वाऽभावं मन्यमानस्य चोद्यमिति १ इदं भाष्यमित्यन्ये । वार्त्तिकमित्यपरे। . ।

३अ.१पा.आ.सू.] व्याकरणमहाभाष्यम् ® . इषेर्गमिः कर्म ॥ एवमपीष्यते ग्रामो गन्तुमिति, परसाधन उत्पद्यमानेन लेन ग्रामस्याऽभिधानं न प्रामोति ॥ एवं तर्हि गमेामः कर्म, इषेरुभे कर्मणी ॥ अथ समन्तात्सना भवितव्यम्,- चिकीर्षितुमिच्छति जिहीर्षितुमिच्छती. ति ॥ न भवितव्यम् ॥ किं कारणम् ? ॥१॥ अर्थगत्यर्थः शब्दप्रयोगः ॥ ॥ अर्थ संप्रत्याययिष्यामीति शब्दः प्रयुज्यते । तत्रैकेनोक्तत्वात्तस्यार्थस्याऽपरस्य प्रयोगेण न भवितव्यम्,-'उक्तार्थानामप्रयोग' इति॥ न तहीदानीमिदं भवति प्र.]यत्कर्म तत्र लकार उत्पद्यते । तच्च गमनमेव, न तु ग्राम इत्यर्थः। एवं तीति । 'इष्यते ग्रामो गन्तु'मित्यत्र गमनस्य ग्रामार्थत्वादप्राधान्याद्भिन्नकक्षयोः कर्मणोरे- केन शब्देनाऽभिधानाऽसंभवात् प्रधाने कार्यसंप्रत्ययाद्रामस्यैवाऽभिधानं लकारेण भवति । इषिक्रियायाश्चाख्यातवाच्यत्वात् प्राधान्यमिति प्रधानक्रियाशक्त्यभिधाने गुणक्रियाशक्तरभिहितवच्चकासनाद्गमिक्रियापेक्षे द्वितीयाचतुर्हो न भवतः । अथेति । प्रयोगाऽदर्शनाल्लक्षणसद्भावाच्च पृच्छति । न भवितव्यमिति । एक- खादिच्छायाः, तस्याश्च पूर्वोत्पन्नेनाऽभिहितत्वादपरः सन्न भवतीत्यर्थः। न तहीति । उ:]भावः परस्येति।गम्यपेक्षयेत्यर्थः। यदर्थक्रियानिरूपितं यत्कर्म तस्मिन्नेव कर्मणि ततो धातोबद्युत्पत्तिाय्येत्यर्थः । नन्विषेरुभयकर्मत्वे कदाचिद्गमनरूपे कर्मणि प्रत्यये 'इष्यते ग्रामं गन्तु'मित्यपि स्यादत आह-इष्यते ग्राम इति । ग्रामार्थत्वादिति । ग्रामप्राप्त्युद्देश्यकत्वादित्यर्थः। अतएव गमनस्य स्वतोऽनुद्देश्यत्वादप्राधान्यन्तदाह- अप्राधान्यादिति । एतेन युगपदुभयोरभिधानं स्यादिति परास्तम् । भिमकक्षयो- रिति । प्रधानाऽप्रधानयोरित्यर्थः । नन्वेवं कदाचिदप्रधान एव स्यादत आह- प्रधान इति । नन्वेवमपि गमिनिरूपितकर्मत्वस्याऽनभिधानात्ततो द्वितीया स्याद- वेति पूर्वोक्तप्रयोगापत्तिर्दुर्वारेत्यत आह-इपिक्रियाया इति । एतेन युगपदुभयत्र ग्रामस्य शाब्दाऽन्वयाऽसम्भवात्कदाचिदिषौ कदाचिद्गमौ शाब्दाऽन्वयः।तत्र यदायत्र शाब्दोऽन्वयस्तदा तत्र तद्विभक्तिरिति 'इष्यते ग्रामो गन्तु'मिष्यते ग्रामं गन्तु'मित्यु- भयमपीष्यत इति परास्तम् । एवं तर्हि 'गमेामः कर्म इषेरुभे कर्मणी' इति भाष्यवि- रोधात् कस्य किं कर्मेत्याद्युपक्रमभाष्यपर्यालोचनयाऽस्यापि भाष्यस्यैकप्रयोग उभयत्र ग्रामस्याऽऽवृत्त्या शाब्दाऽन्वयपरत्वलाभात् । तथा सति कदाचिद्गमेामः कर्म कदा- चिदुभाविषेरित्येव स्पष्टत्वाय वदेदिति दिक् । नन्वेकस्या इच्छाया उक्तावपीच्छान्त- राऽभिधानाय द्वितीयः सन् भविष्यतीत्यत आह-इच्छाया एकत्वादिति । तत्त- द्धात्वर्थविषयेच्छात्वेनैक्यादिति भावः। इच्छाविषयेच्छायान्तु न प्रत्ययः, इच्छाविष- येच्छाऽभावादित्यभिमानः । नन्विच्छाविषयेच्छाऽभावात्कथमत्र सन्नित्यत आह १ केचित्त्विदं भाष्यमिति मन्यन्ते । २ 'प्रत्याययि' पा० । ३ 'कक्ष्य' पा० ।

४४ कैयट-विवरणसहितं. [धातोः कर्मणः .. एषितुमिच्छति-एषिषतीति ? ॥ अस्त्यत्र विशेषः । एकस्याऽत्रेषेरिषिः साधनं वर्तमानकालश्च प्रत्ययः। अपरस्य बाह्यं साधनं सर्वकालश्च प्रत्ययः । इहाऽपि तपेकस्यषेः करोतिविशिष्ट इषिः साधनं वर्तमानकालश्च प्रत्ययः। अपरस्य बाचं साधनं सर्वकालश्च प्रत्ययः ॥ येनैव खल्वपि हेतुना एतद्वाक्यं भवति-चिकीर्षितुमिच्छतीति, तेनैव हेतुना वृत्तिरपि प्रामोति । तस्मात्सलन्ता- सनः प्रतिषेधो वक्तव्यः। तं चापि अवता 'इषि सने' इति वक्तव्यम् । भवति हि जुगुप्सिषते मीमांसिषते इति ॥ शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः समन्तान्न सनिष्यते ॥१॥[ इति ] ॥ ॥ ॥ इति श्रीमद्भगवत्पतञ्जलिमुनिविरचिते व्याकरणमहाभाष्ये तृतीयस्या- ध्यायस्य प्रथमे पादे प्रथममाह्निकम् ॥*॥ प्र.]इषिणैव धातुनेच्छाया अभिधानात्सन्न प्राप्नोतीति भावः। एकस्येति । इच्छतीत्यत्र य इषिस्तस्यैषितुमित्येतत्पदवाच्य इषिः कर्मेत्यर्थः । तथा हि कश्चिदालस्याद्युपहतोऽ- ध्ययनादिविषयामिच्छामेवेच्छति । सर्वकाल इति । 'समानकर्तृकेषु तुमुनित्यनेन तुमुनः कालसामान्ये विधानात् । शैषिकादिति । सन्प्रसङ्गेनाऽन्योऽप्यनिष्टप्रत्ययो निवार्यते । प्रतिव्यक्ति लक्षणप्रवृत्तौ वाचनिको निषेधः, आकृतिपक्षे तु सकृल्लक्षण- प्रवृत्तौ तत्प्रवृत्तेः प्राक्तत्प्रत्ययान्तप्रकृत्यसंभवात्तदन्तात् प्रत्ययोत्पत्तिर्न भवतीति न्यायानुवादोऽयं संपद्यते । तत्र शैषिकाच्छैषिकः सरूपो न भवति । शालायां भवः शालीयो घटः। तत्र भवमुदकमिति पुनश्छो न भवति। विरूपस्तु भवति,-अहि- च्छत्रे भव आहिच्छत्रः, तत्र भव आहिच्छत्रीयः। तथा दण्डोऽस्यास्तीति दण्डिकः, सोऽस्यास्तीति पुनष्टन्न भवति । विरूपस्तु भवति-दण्डिमती सेनेति । सन्तान सनिष्यत इति । 'सरूप' इत्यपेक्ष्यते । सारूप्येण चात्र सादृश्यं लक्ष्यते, तच्चार्थद्वारक- उ.]कश्चिदालस्यादीति । तुमुन्ण्वुलाविति तुमुनो भविष्यति विधानात्कथं सर्वकाल: प्रत्ययस्तत्राह-समानेति । तत्प्रवृत्तेः-तत्तलक्षणेप्रवृत्तः। तत्प्रत्ययान्तेति । सना- दिप्रत्ययान्तेत्यर्थः।न्यायानुवादोऽयमिति।अनुवादफलश्चाऽन्यत्र व्यक्तिपक्षाश्रयणेन त्वादिसिद्धिः घटत्वत्वमित्यादौ । अनुवादेनाऽत्रैव तदाश्रयणबोधनादित्याहुः। परे तु 'आर्धधातुक' इति सूत्रभाष्योक्तरीत्या जातौ परत्वा(श्रयत्वा)भाववत्तदवधित्वाभावा- दृद्धादित्यादि जातिपक्षे आश्रयितुं न शक्यते इति वचनमेवेदम् । अतएव त्वान्तात् त्वसिद्धिरित्याहुः । शब्दकृतसादृश्यग्रहणे व्यावाऽसम्भवादाह-तच्चार्थेति १ अत्र॥॥सनन्तात्सनः प्रतिषेधः ॥ ॥ इतिवार्तिकमित्यन्ये ।२॥*॥ इषि सनः ॥*॥इति वार्तिकं भवेत् । ३ इदं क्वाचित्कम्।४ 'सन्त'। ५ 'लक्षणप्रवृत्तेः' पा० । । ।

३अ.१पा.२आ.८सू.] * व्याकरणमहाभाष्यम् * ४५ ......" सुप आत्मनः क्यच ॥ ३॥१॥८॥ किमर्थश्चकारः?॥*[[चकोरः] स्वरार्थः॥ ॥ चितोऽन्त उदात्तो भवतीत्य- न्तोदात्तत्वं यथा स्यात् ॥ नैतदस्ति प्रयोजनम्, एकाजयं, तत्र नार्थः स्वरार्थेन चकारेणानुबन्धेन । प्रत्ययस्वरेणैव सिद्धम् ॥ विशेषणार्थस्तहिक विशेषणा- थैनाऽर्थः। अस्य च्वौ क्यचि चेति । क्ये चेति धुच्यमाने 'अपि काकः श्येनायते',-अत्रापि प्रसज्येत ॥ नैतदस्ति । 'तदनुबन्धकग्रहणेऽतदनुबन्धकस्य ग्रहणं नेत्येवमेतस्य न भविष्यति ॥ सामान्यग्रहणाऽविघातार्थस्तहि ॥ क च सामान्यग्रहणाऽविघाताऽर्थेनाऽर्थः ? ॥ नः क्य इति ॥ अथाऽऽत्मग्रहणं किमर्थम्?॥आत्मेच्छायांयथा स्यात्परेच्छायां मा भूत,- राज्ञः पुत्रमिच्छतीति ॥ क्रियमाणेऽपि वै आत्मग्रहणे परेच्छायां प्राप्नोति ॥ किं कारणम् ?॥ 'आत्मन'इतीयं कर्तरि षष्ठी। 'इच्छे'त्यकारो भावे । स यद्ये. प्र.]मिति इच्छासन्नन्तादित्यर्थो लभ्यते॥इति भाष्यप्रदीपेतृतीयस्य प्रथमे प्रथमाह्निकम्॥ सुप आत्मनः । किमर्थमिति। वक्ष्यमाणोऽभिप्रायः । शिष्यबुद्धिपरीक्षार्थ परिहाराऽऽभासमाह-चित इति । प्रत्ययस्वरेणेति । यद्यप्यत्र धातुस्वरेण भाव्यं तथापि पूर्व प्रत्ययस्वरो भवति, पश्चात्सतिशिष्टो धातुस्वर इति क्रमः । तदनुबन्धकेति । स एव यस्याऽनुबन्धस्तस्य ग्रहणं । यस्य तु स चाऽन्यश्च तस्य न ग्रहणमित्येवमेतद्वचनसामर्थ्यादाश्रीयते । आत्मेच्छायामिति । आत्मन इच्छेति शेषषष्ठ्या समासो न तु कर्तृषष्ठ्या । सुबन्तद्वारकश्चात्मन इच्छया संबन्धो न तु साक्षात् । तेनाऽयमर्थः-'आत्मनः सुबन्तार्थं यदेच्छति तदा यथा स्यादिति । एवं 'परेच्छाया'मिति व्याख्येयम् । आत्मन इतीयमिति । क्रियाकारकसम्बन्ध- उ.]इति नागोजीभट्ट कृते भाष्यप्रदीपोड्योते तृतीयस्य प्रथमे प्रथममाह्निकम् ॥१॥ सुप आ । वक्ष्यमाण इति । केषाञ्चित्प्रयोजनानामन्यथासिद्धिरूप इत्यर्थः । पश्चादिति । एवञ्चाऽन्तरङ्गत्वात्प्रत्ययखरकृतैवाऽन्यथासिद्धिरुक्तेत्यर्थः । ननु यत्किञ्चिदनुबन्धयुक्तस्य ग्रहणे तद्विरहितस्य ग्रहणाऽभावो वचनमन्तराऽपि सिद्ध्यती- त्यत आह-स एवेति । उच्चारित एवेत्यर्थः । वचनसामर्थ्यात्साघधारणो बहुव्रीहि- राधीयते । 'अत'दित्यादावपिशब्दघटितश्च स आश्रीयत इति भावः । क्यडो धनु- बन्धकवान्न 'क्य'ग्रहणेन ग्रहणमिति तात्पर्यम्।अथात्मग्रहणं किंमिति।इच्छापेक्षया कर्तरि षष्टीति प्रश्नः । नतु कर्बिति । तथा सति राज्ञः पुत्रमिच्छतीत्यादावपि प्रसङ्ग इति भावः। शेषषष्ठ्यामपि साक्षात्संबन्धेनाऽन्वये दोषस्तदेवस्थ इत्यत आह- सुबन्तेति । आत्मशब्दः खपर्यायेषितृपरः। 'आत्मनः पुत्रं परस्य दास'मिच्छतीत्या- १ इदं वार्तिकमिति गौडाः । २ इदं लुप्तम् । ३ 'क्ये इति' पा० ।

* कैयट-विवरणसहितं 8 [सुप आत्मनः वात्मन इच्छत्यथापि परस्य, आत्मन एवेच्छाऽसौ भवति ॥ नैष दोषः । नात्मग्रहणेनेच्छाऽभिसंबध्यते ॥ किं तर्हि ? ॥ सुबन्तमभिसम्बध्यते 'आत्मनो यत्सुबन्त'मिति ॥ यद्यात्मग्रहणं क्रियते छन्दसि परेच्छायां न प्राप्नोति- 'मा त्वा वृका अघायवो विदन्' । तस्मानार्थ आत्मग्रहणेन। कस्मान भवति 'राज्ञः पुत्रमिच्छती'ति ॥ असामर्थ्यात् ॥ कथमसामर्थ्यम् ? ॥ 'सापेक्षम- समथं भवतीति॥छन्दस्यपि तर्हि न प्रामोति-'मा त्वा वृका अघायवो विदन्'। अस्त्यत्र विशेषः । अन्तरेणाऽप्यत्र तृतीयस्य पदस्य प्रयोगं परेच्छा गम्यते ॥ कथं पुनरन्तरेणाऽप्यत्र तृतीयस्य पदस्थ प्रयोगं परेच्छा गम्यते ? ॥ ते चैव हि वृका एवमात्मका हिंस्राः । कश्चात्मनोऽधमेषितुमर्हति। अतोऽन्तरे. णाऽप्यत्र तृतीयस्य पदस्य प्रयोग परेच्छा गम्यते । यथैव तर्हि च्छन्दस्यघ- शब्दात्परेच्छायां क्यभवत्येवं भाषायामपि प्राप्नोति-'अघमिच्छती'ति । तस्मादात्मग्रहणं कर्तव्यम् ॥ छन्दसि कथम् ? ॥ आचार्यप्रवृत्तिापयति 'भवत्यघशब्दाच्छन्दसि परेच्छायां क्य'जिति यदयम्-'अश्वाघस्या'दिति क्यचि प्रकृते इत्वबाधनार्थमाकारं शास्ति ॥ अथ सुब्ग्रहणं किमर्थम् ?॥ सुबन्तादुत्पत्तिर्यथा स्यात्प्रातिपदिकान्मा प्र.] स्यान्तरङ्गत्वादिति भावः।नात्मग्रहणेनेति। आत्मग्रहणोपादानसामर्थ्यात् । नह्ये- षितारमन्तरेणेच्छा भवतीति व्यभिचाराऽभावादिच्छाया विशेषणस्य निष्फलत्वात् । कश्चात्मन इति। अघं-व्यसनं, दुःखमुच्यते।तच्चात्मनो न कश्चिदिच्छतीत्यर्थः। यदयमिति । न च तदाचारक्यजर्थम् , छन्दस्यघशब्दादाचारे क्यचः प्रयोगाऽ- उ.]दौ तु न दोषः, इष्यमाणरूपस्यात्मसंवन्धित्वाऽभावात् । परेच्छेति । परसंबन्धि- मुवन्तार्थेच्छायामित्यर्थः। कर्तरीयं षष्ठीति । अनेनैव संबन्धेनेच्छायां तदन्वयात् । परम्परासंबन्धस्तु न षष्ठ्यर्थस्तदाह-क्रियाकारकसंबन्धस्येति। अन्तरङ्गत्वं-साक्षा- संबन्धत्वम् । अत एव सुबन्तविशेषणत्वेन परिहारः । एषितारमिति । स एवा- त्मपदार्थ इति भावः । भाष्ये-एवमात्मका हिंस्रा इति । एवंखभावा हि परस्यैव दुःखमिच्छन्तीत्यर्थः। दुःखमिति । पापवाचिनाऽघशब्देन तत्फलं दुःखं लक्ष्यत इति भावः । 'दुःखीयति सुखहेतो रित्यादिप्रयोगास्तु वास्तवदुःखस्य मुखत्वभ्रमेणेच्छायां वोध्याः । भाष्ये-विध्यर्थ भविष्यतीति । ननु सुबित्यस्याऽभावे प्रातिपदिकात्सु- वन्ताच्चोत्पत्तव्यमविशेषात् । तत्र 'नः क्ये' इत्यस्य नियमाऽर्थत्वे नान्तेभ्यः प्राति- पदिकादुत्पत्तौ नलोपो न स्यात् । विध्यर्थत्वे तु 'वाच्यती'त्यादौ सुबन्तादुत्पत्तिपक्षे जश्त्वादि पदकार्य स्यादिति चेन्न ; 'धातोः कर्मण' इत्यतः 'कर्म' ग्रहणमनुवर्तते । नत्र च धातुरूपं कर्म परिनिष्ठितत्वप्रयोजकप्रत्ययान्तत्वाऽनाकान्तमतस्तत्साहचर्या- ..

३अ.१पा.२आ.८सू.] & व्याकरणमहाभाष्यम् ७ भूदिति ॥ नैतदस्ति प्रयोजनं, नाऽस्त्यत्र विशेषः सुबन्तादुत्पत्तौ सत्यां प्राति- पदिकाद्वा ॥ अयमस्ति विशेषः-सुबन्तादुत्पत्तौ सत्यां पदसंज्ञा सिद्धा भवति, प्रातिपदिकात्पुनरूत्पत्तौ सत्यां पदसज्ञा न प्रामोति । कथम् ?॥ आरभ्यते 'नः क्य' इति ॥ तच्चावश्यं वक्तव्यं सुबन्तादुत्पत्तौ सत्यां नियमार्थ, तदेव प्रातिपदिकादुत्पत्तौ सत्यां विध्यर्थ भविष्यति ॥ इदं तर्हि प्रयोजनं 'सुबन्तादुत्पत्तिर्यथा स्याद्वातोर्मा भूदिति ॥ एतदपि नास्ति प्रयोजनं, धातोः सन्विधीयते स बाधको भविष्यति ॥ अनवकाशा हि विधयो बाधका भवन्ति [न साऽवकाशाः, सावकाशश्च सन्॥ कोऽवकाशः?॥ परेच्छा ॥ न परेच्छायां सना भवितव्यम् ॥ किं कारणम् ?॥ 'समानकर्तृ- का'दित्युच्यते, यावच्छेहात्मग्रहणं तावत् [च] तत्र समानकर्तृकग्रहणम् ॥ इदं तर्हि प्रयोजनं-'सुबन्तादुत्पत्तिर्यथा स्याद्वाक्यान्माभूदिति, महान्तं पुत्रमिच्छतीति ॥ न वा भवति महापुत्रीयति? ॥ भवति यदैतद्वाक्यं भवति- महान् पुत्रो महापुत्रः, महापुत्रमिच्छति महापुत्रीयतीति । यदा त्वेतद्वाक्यं भवति-महान्तं पुत्रमिच्छतीति, तदा न भवितव्यं, तदा च प्राप्नोति, तदा मा भूदिति ॥ अथ क्रियमाणेऽपि सुग्रहणे कस्मादेवाऽत्र न भवति?, सुबन्तं ह्येतत्- [भवति] वाक्यम् ॥नैतत्सुबन्तम्॥ कथम् ?॥ 'प्रत्ययग्रहणे यस्मात्स तदादे- ग्रहणं भवतीति ॥ अथ यदन सुबन्तं तस्मादुत्पत्तिः कस्मान्न भवति ?॥ ॥ * ॥ समानाधिकरणानां सर्वत्राऽवृत्तिरयोगादेकेन ॥४॥ समानाधि- प्र.]भावादिति भावः। महान्तं पुत्रमिति। यद्यत्र सुबन्तसमुदायात्परः क्यच्प्र- व्ययः स्यात्तदा प्रत्ययार्थाभिधाने पदद्वयस्य प्रवर्तनात्परस्परस्य समासाऽभावादुत्तर पदनिवन्धनमात्त्वं न स्यात् । समानाधिकरणानामिति । समानाधिकरणानां उ.]त्तादृशस्यैव कर्मणो ग्रहणात्सुबन्तेऽप्राप्तिरिति भाष्याशयात् । भाष्ये-धातोर्मा भूदिति। तिङन्तात्तु न शङ्कितः,तस्य कर्ममात्रप्रतिपादकत्वाऽभावात् । ननु महान्त- म्पुत्रमिति विग्रहेऽपि क्यचि 'सन्मह'दिति समासे आत्वे च 'महापुत्रीयती'त्येव भाव्यमिति तदा न भवितव्य'मिति कथमत आह-यद्यत्रेति । परस्परस्येति । अन्यत्रैका भावमापन्नयोनिष्कृष्य परस्परेण सामर्थ्याऽभावादिति भावः । वस्तुतस्तु विशिष्यैकार्थीभावाऽभावेऽप्येकार्थीभावमात्रेण समासस्य समर्थसूत्रादिस्थभाष्यसम्म- ततयाऽऽत्वं भवत्येव। खरे तुभेदः, सति शिष्टतया समासस्वरेण पुत्रीतीकारोदात्तत्व- रूप इतिभाष्याशयः। तदान भवितव्यमिति-भाष्ये। क्यचे ति शेषः। तथा च स्वरे- ऽनिष्टमिति भावः। तदा च प्रामोतीति। 'क्य'जिति शेषः।नैतत्सुबन्तमिति।समुदायः कर्मेति भावः। प्रत्येकं कर्मत्वे कर्मसमुदायस्याऽकर्मत्वादेवाऽप्रसङ्ग इति बोध्यम् ।

® कैयट-विवरणसहितं. [सुप आत्मनः करणानां सर्वत्रै वृत्तिर्न भवति ॥ सर्वत्र ? ॥ समासविधौ प्रत्ययविधौ च । समासविधौ तावत्-ऋद्धस्य राज्ञः पुरुषः, महत्कष्टं श्रित इति । प्रत्यय- विधौ-ऋद्धस्योपगोरपत्यं, महान्तं पुत्रमिच्छतीति ॥ किं पुनः कारणं समा- नाधिकरणानां सर्वत्र वृत्तिर्न भवेतीति ? ॥ 'अयोगादेकेन' । न ह्यत्रकेन पदेन योगो भवति । इह तावत्-ऋद्धस्य राज्ञः पुरुष इति,-षष्ठ्यन्तस्य सुबन्तेन सामर्थे सति समासो विधीयते । यच्चाऽत्र षष्ठ्यन्तं न तस्य सुबन्तेन साम- यं, यस्य च सामर्थ्य न तत्षष्ठ्यन्तं, वाक्यं तत्। ऋद्धस्योपगोरपत्यमिति च षष्ठीसमर्थादपत्येन योगे प्रत्ययो विधीयते, यच्चाऽत्र षष्ठ्यन्तं समर्थ न तस्याऽ. पत्येन योगो, यस्य चाऽपत्येन योगो न तत्वष्ठयन्तं, वाक्यं तत् ॥ 'समा- नाधिकरणाना'मित्युच्यतेऽथ कथं व्यधिकरणानां,-राज्ञः पुत्रमिच्छतीति ? ॥ एवंतहीदं पठितव्यं-॥*॥ 'सविशेषणानां सर्वत्राऽवृत्तिरयोगादेकेन' ॥ ॥ इति। ॥*॥द्वितीयानुपपत्तिस्तु॥*॥द्वितीया तुनोपपद्यते महान्तं पुत्रमिच्छतीति॥ किं कारणम्!॥न पुत्र इषिकर्मयदि पुत्रो नेषिकर्म न चावश्यं द्वितीयैव,किंतर्हि?, सर्वा अत्र द्वितीयादयो विभक्तयो न स्युः । महता पुत्रेण कृतं, महते पुत्राय देहि, महतः पुत्रादानय, महतः पुत्रस्य स्वं, महति पुत्रे निधेहीति ॥ तस्मा- जैतच्छक्यं वक्तुं-'न पुत्र इषिकर्मेति॥पुत्र एवेषिकर्म तत्सामानाधिकरण्यान्म- प्र.]पदानां मध्ये एकेन पदेनाऽयोगात्समुदायेनैव योगाद्वृत्तिन भवतीत्यर्थः। सगुणस्य हि पुत्रस्येषिणा संबन्धो नं केवलस्येति भावः। द्वितीयानुपपत्तिस्त्विति । यदि केवलस्य प्रातिपदिकार्थस्येषिसंबन्धो नेष्यते तदा कर्मत्वाऽभावात्केवलात्प्रातिप- दिकाद्वितीया न प्राप्नोति । नाऽपि समुदायात्, तस्याऽप्रातिपदिकत्वात् , गुणे च संख्याया विवक्षितत्वात्। पुत्र एवेति।तस्यैवेत्सिततमत्वाद्गुणानां चेप्साप्रकर्षाऽभावात् उ.]समानाधिकरणानामेकेन संबन्धिनाऽयोगादिति नार्थः, ऋद्धत्वविशिष्टराज्ञःपुरुषेण संबन्धादत आह-मध्य इति । निर्धारणे षष्टीति भावः । अयोगादिति। 'इच्छ- त्यादीना मिति शेषः । न केवलस्येति । सविशेषणप्रयोगविषये इति भावः । यस्य च सामर्थ्यमिति । वाक्ये व्यपेक्षारूपमित्यर्थः। तदभावादेव तन्मूलक एकार्थी- भावो नेति भावः। गुणे चेति । इदञ्चिन्त्यम् । तस्मात्प्रातिपदिकसमुदायस्याऽप्राति- पदिकत्वेन समुदायान स्यात् । किञ्च महान्तम्पुत्रमित्युभयोष्टद्वितीयाऽनुपपत्तिरेवेति तत्त्वम्। भाष्ये-यदि पुत्रो नेषिकर्मेति। यतः पुत्रो नेषिकर्मेत्यर्थः। ननूभयं कर्मेति वाच्ये 'पुत्र एवे'त्यनुपपन्नमत आह-तस्यैवेति । प्रधानत्वादिति वक्तुं युक्तम् । १ एवः क्वाचित्कः। २ इतिः क्वाचित्कः।३ चः क्वाचित्कः । ४ 'षष्ठीसमर्थ। ५ 'व्यधिकरणानां कथं पा० । ६ 'विभक्तयः' पा०। ७ इतिः क्वचिन्न । ।

. ३अ.१पा.२आ.८सू. ॐ व्याकरणमहाभाष्यम् ॐ हतोऽपि द्वितीयादयो भविष्यन्ति ॥ वृत्तिस्तर्हि कस्मान भवति ? ॥ ॥ सवि. शेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यते ॥ ॥ [ सैविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यते] इति वक्तव्यम् ॥ यदि तर्हि सविशेषणानां वृत्तिन वृत्तस्य वा विशेषणं न प्रयुज्यत इत्युच्यते मुण्डयति माणवकम्- इत्यत्र वृत्तिन प्राप्नोति ॥ एवं तर्हि [॥ ॥ अमुण्डादीनाम् ॥ ॥ ] अमुण्डादीनामिति वक्तव्यम् । तत्तर्हि वक्तव्यं 'सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यतेऽमु- ण्डादीनामिति ? ॥ न वक्तव्यम् ॥ वृत्तिस्तहि कस्मान्न भवति महान्तं पुत्र- मिच्छतीति ? ॥ अगमकत्वात् ॥ इह समानाऽर्थेन वाक्येन भवितव्यं प्रत्य- यान्तेन च, यश्चैहाऽर्थों वाक्येन गम्यते-'महान्तं पुत्रमिच्छतीति नासौ जातु चित्प्रत्ययान्तेन गम्यते-'महान्तं पुत्रीयतीति ॥ एतस्माद्धतोबूंमः-'अगम- कत्वादिति, न बमोऽपशब्दः स्या'दिति । यत्र च गमकं, भवति,-भवति तत्र वृत्तिस्तद्यथा 'मुण्डयति माणवक'मिति ॥ प्र.]स्वयमकर्मत्वेऽपि तत्सामानाधिकरण्यनिबन्धना विभक्तिरित्यर्थः। सविशेषणाना- मिति । एकस्यैकदा व्यपेक्षका भावविरोधादिति भावः। अगमकत्वादिति । लौकिके प्रयोगेऽनुमानादपि गाव्यादिभ्यो गवाद्यर्थप्रतिपत्तिवन्महान्तं पुत्रमिच्छती- त्यादिवाक्यार्थस्य महान्तं पुत्रीयतीत्यादेः प्रतीतिर्नास्तीत्यर्थः। सिद्धानां च शब्दाना सङ्करनिरासायाऽन्वाख्यानं क्रियते, न त्वप्रयुक्ताऽपूर्वशब्दव्युत्पादनाय । न ब्रूम इति । अपशब्दो हि लोके प्रयुज्यते साधुशब्दसमानार्थश्च, अयं त्वप्रयुक्तत्वादप- उ.]सामानाधिकरण्यनिबन्धनेति । समानाऽधिकरणविशेषणस्य विशेष्यसमान- शक्तिकत्वादिति भावः । एकस्येति । सुब्ग्रहणेन पदविधित्वात्समर्थपरिभाषो- पस्थितेरिति भावः । व्यपेक्षेति। विशेषणेन व्यपेक्षाविशेष्येणैकार्थीभाव इत्यर्थः। इद- मेव सुब्ग्रहणस्य फलमिति बोध्यम् । सविशेषणानामिति-सापेक्षोपलक्षणम् । अत एव 'ऋद्धस्य राज्ञः पुरुष' इत्यत्र ऋद्धपदेनाऽपि नसमास इत्याशयेन शङ्कत भाष्ये- मुण्डयति माणवकमिति।एतेन मुण्डस्य गुणशब्दत्वान्माणवकस्य द्रव्यशब्दत्वात्तस्यैव विशेष्यताया न्याय्यत्वेन मुण्डस्य कथं सविशेषणत्वमित्यपास्तम्। अनुमानादपीति। असाध्वनुमानादित्यर्थः। अपिना साधुस्मरणसङ्ग्रहः।वस्तुतोऽपभ्रंशानामपि वाचकत्व- मपिना ग्राह्यम् । भाष्ये एतस्माद्धतोरिति । 'अपशब्दः स्यादिति हेतोवृत्ति- नेति न ब्रूमः .किन्तॉगमकत्वादिति हेतोरित्यन्वयः । तदेवाह-सिद्धानामिति । अर्थप्रत्यायनायाऽन्यासाधूनामिवाऽस्य प्रयोगाऽभावात्किन्तन्निवृत्त्यर्थेन वचनेनेत्यर्थः। १ अपिः क्वाचित्कः। २ इदं सम्प्रति न दृश्यते। ३ इदं क्वचिन्न। ४ "कत्वं' ।

8 कैयट-विवरणसहित [सुप आत्मनः अथाऽस्य क्यजन्तस्य कानि साधनानि भवन्ति ? ॥ भावः कर्ता च ॥ भथ कर्म? ॥ नास्ति कर्म ॥ ननु चाऽयमिषिः सकर्मको यस्याऽयमर्थे क्यज्वि- धीयते?॥अभिहितं तत्कर्माऽन्तर्भूतं धात्वर्थः सम्पन्नो, न चेदानीमन्यत्कर्माऽस्ति येन सकर्मकः स्यात् ॥ कथं तीयं सकर्मको भवति-'अपुत्रं पुत्रमिवाचरति पुत्रीयति माणवक'मिति ?॥ अस्त्यत्र विशेषो-दे ह्यत्र कर्मणी उपमानकों. पमेयकर्म च । उपमानकर्माऽन्तर्भूतम् । उपमेयेन कर्मणा सकर्मको भवति । तद्यथा-अपि काकः श्येनायत इति । अत्र द्वौ कर्तारौ-उपमानकर्ता उप- मेयकर्ता च । उपमानकर्ताऽन्तर्भूतः, उपमेयका सकर्तृको भवति ॥ अयं तर्हि कथं सकर्मको भवति-'मुण्डयति माणवक मिति ? ॥ अत्रापि द्वे कर्मणी,-सामान्यकर्म विशेषकर्म च । सामान्यकर्माऽन्तभूतं, विशेषकर्मणा प्र.]शब्दव्यपदेशस्याऽपि न भाजनमित्यर्थः।भावःकर्ता चेति। कर्माऽभावप्रतिपादन- परमेतत् । अधिकरणादौ हि ल्युडादयो यथायोगं भवन्येव । भावस्य च लकारा- द्युत्पत्तिनिमित्ततया साधनव्यपदेशः । अभिहितमिति । ततश्च जीवतीत्यादिव- दिच्छाक्यजन्तस्याऽकर्मकत्वात्कर्मणि लाद्यभावः। न चेदानीमिति । नियतविषयाया इच्छायाः क्यजन्तेन प्रतिपादनात्तस्याश्च वस्त्वन्तरविषयीकरणाऽभावादिति भावः । कथं तीति । अत्राऽपि पुत्रादिकर्मणोऽस्त्यन्तर्भाव इति प्रश्नः । द्वे इति । वाक्य एव कर्मद्वयमाकलितमित्यर्थः। मुण्डयतीति। मुण्डगुणविशिष्टद्रव्यकर्मणो धात्वर्थेऽ- न्तर्भावादिति भावः । अनापीति । ण्यन्तो धातुर्द्रव्यमात्रमन्तर्भावयितुं शक्नोति उ.]भाष्ये-यत्र च गमकमिति। मुण्डयतीति प्रयोगे मौण्ड्यस्य क्रियारूपत्वेन कार- कांशे नित्यसापेक्षतया गमकत्वमिति भावः कर्माऽभावेतिालकारवाच्यसाधनानामेव प्रश्नादिति भावः । नन्वेवं 'कानि साधनानी ति प्रश्ने 'भाव' इत्युत्तरमसङ्गतं, तस्य क्रियारूपस्य साध्यत्वेन साधनत्वाऽभावादत आह-भावस्य चेति । लकारनिमित्त- मेव साधनशब्देनोच्यत इति भावः। नियतविषयाया इति । कर्मविशेषेणैकार्थीभा- वादित्यर्थः । अतएव कर्माऽन्तरेणाऽनन्वयो राजपुरुषो भाया इतिवदिति भावः । वाक्य एवेति । क्यजाऽऽचारस्य नियमेनोपमानविषयत्वेऽप्युपमानस्योपमेयसापे- क्षत्वात्कम द्वयसद्भाव इति भावः। तत्र मुख्यं कर्मोपमेयमेव । उपमाने तु उपमेय- समानशक्तिकत्वात्कर्मत्वव्यवहार इति तस्याऽन्तर्भूतत्वेऽपि न क्षतिरिति तात्पर्यम् । उपमानपुत्रकर्मक उपमेयमाणवककर्मक इति बोधः । ननु मुण्डयतीत्यत्रापि द्वयोः कर्मत्वं 'मुण्डं करोति माणवक मिति विग्रहे दर्शनादिति कथमत्र प्रश्न इत्यत आह- मुण्डगुणेति।मौण्ड्यस्य कर्मत्वे सति तस्याऽऽश्रयसापेक्षत्वेनाऽसामर्थ्यप्रसङ्गान्मुण्ड- गुणविशिष्टद्रव्यस्यैव कर्मत्वमभ्युपेयम् , तस्य च धात्वर्थेऽन्तर्भाव इति भावः ।

३अ.१पा.२आ.८सू.] 8 व्याकरणमहाभाष्यम् - . . । सकर्मको भवति ॥ ननु च वृत्त्यैवात्र न भवितव्यम् ॥ किं कारणम् ॥ असामर्थ्यात् ॥ कथमसामर्थ्यम् ? ॥ 'सापेक्षमसमर्थ भवतीति । नैष दोषः, नाऽत्रोभौ करोतियुक्तौ मुण्डो माणवकश्च । नहि माणवकत्वं क्रियते । यदा चोभौ करोतियुक्तौ भवतो न भवति तदा वृत्तिः, तद्यथा बलीवदं करोति, प्र.]न तु विशेषणं माणवकादिकमिति भावः। ननु चेति। यद्यप्येतच्चोदितं च परि- हृतं च, तथापि गमकत्वाऽगमकत्वविषयविभागप्रदर्शनाय पुनरुपन्यासः । नात्रो- भाविति । मौण्ड्यमेव करोतियुक्तमिति मौण्ड्यङ्करोतीत्यत्रैवार्थे मुण्डयतीति णिजु- त्पद्यत इत्यर्थः। 'मुण्डं करोति माणवक' मित्यत्र तु वाक्ये कर्मत्वमेकस्यैव, तत्सा- मानाधिकरण्यात्तु द्वितीयस्माद्वितीयोत्पत्तिः। गुणप्रधानभावश्च विवक्षावशादनियत इति माणवकादयो मौण्ड्याधारविशेषप्रतिपत्त्यर्थमुपादीयमानाः करोतियुक्ता न भव- न्तीत्यर्थः : । मुण्डयतेश्च क्रियाविशेषवाचित्वात्तदपेक्षं माणवकादेः कर्मत्वमिति 'माण- वकं मुण्डयती'त्यादिप्रयोगोपपत्तिः । तद्यथेति । बलीवईमेवात्मसंबन्धित्वेन करोति उ.]विशेषस्याऽपि कर्मत्वस्वीकारेऽसामर्थ्य मिति शङ्कते भाष्ये-ननु चेति । विषय- विभागेति । मुण्डशब्दादेणिचि गमकत्वं क्यच्यगमकत्वमिति विषयविभागेत्यर्थः । मौण्ड्यमेवेति । वृत्तौ मुण्डशब्दो भावप्रधानः । अतएव भाष्ये 'न हि माणवकत्वं क्रियते' इत्युक्तम् , तस्य च वृत्तौ साध्यावस्थस्यैव भानात् क्रियारूपत्वेन कार- कांशे नित्यसापेक्षत्वाद्गमकत्वमित्यदोषः । धर्मिपरत्वे हि गुणविशिष्टद्रव्यस्योत्पाद- नेनाऽसामर्थ्यावृत्तिर्न स्यादिति भावः । वस्तुतो नित्यसापेक्षत्वाऽभावेऽपि गमकत्वे वृत्तिर्भवत्येवेति बोध्यम् । एकस्यैवेति । मुण्डस्यैवेत्यर्थः । मौण्ड्यरूपतदर्थस्यैवो- त्पद्यमानत्वादिति भावः । माणवकपदार्थस्य सर्वथा करोत्यन्वयाऽयोग्यत्वमेवेति बोध्यम् । द्वितीयस्मात्-माणवकशब्दात् । ननु माणवको विशेष्यस्तत्सामा- नाऽधिकरण्यान्मुण्डाद्वितीयेति युक्तं, न तु विपरीतमत आह-गुणप्रधानेति । परि- च्छेद्यपरिच्छेदकभाव इत्यर्थः । परिच्छेद्यसमानशक्तिकत्वम्परिच्छेदकस्येति भावः । एवञ्च वाक्येऽपि मुण्डस्यैव करोतियोग इति भावः । तदाह-माणवकादय इति । यद्यपि वाक्ये 'मुण्ड'शब्दो धर्मिपरस्तथापि तस्य सामान्यशब्दत्वात्तद्विशेषाकालायां तदन्वयेऽपि माणवकस्य न साक्षात्करोतियुक्तत्वमिति बोध्यम् । एवञ्चाऽत्र वृत्ती 'कटोऽपि कर्म भीष्मादयोऽपी'ति न्यायो नाऽस्त्येवेति तात्पर्यम् । ननु तस्य करोति- योगाऽभावे कथं वृत्तौ माणवकस्य कर्मत्वं, कथञ्च द्वितीयान्तत्वमत आह-मुण्डय- तेश्चेति । मोण्ड्यरूपक्रियाश्रयत्वात्कर्मत्वमिति भावः । एवञ्च ‘कृतपूर्वी कट'मिति- ववृत्तिरिति तत्त्वम् । ननु बलीवईत्वस्य क्रियमाणत्वाऽसम्भवादाह-बलीवर्दमेवात्म- संबन्धित्वेनेति। बलीवर्दशब्दस्य चित्रादिपरत्वे तु न शङ्काऽपि । प्रयोगो न ।

* कैयट-विवरणसहित [सुप आत्मनः मुण्डं चैनं करोतीति ॥ कामं तीनेनैव हेतुना क्यजपि कर्तव्यो 'माणवकं मुण्डमिच्छती'ति, नोभाविषियुक्ताविति ॥ न कर्तव्यः, उभावत्रेषियुक्तौ मुण्डो माणवकश्च ॥ कथम् ? ॥ न ह्यसौ मौण्ड्यमात्रेण सन्तोषं करोति माणवक- स्थमसौ मौण्ड्यमिच्छति ॥ इहापि तर्हि न प्राप्रोति-'मुण्डयति माणवक'- मिति । अत्रापि युभौ करोतियुक्तौ मुण्डो माणवकश्च । न ह्यसौ मौण्ड्यमा- त्रेण सन्तोषं करोति ॥ किं तर्हि ? ॥ माणवकस्थमसौ मौण्ड्यं निवर्तयति ।। एवं तर्हि मुण्डादयोगुणवचनाः। गुणवचनाश्च सापेक्षाः। तत्र वचनात्सापे- प्र.]तं च मुण्डं करोतीति युगपदुभयोः करोतिकर्मत्वे विवक्षिते 'मुण्डयति बलीवर्द'- मिति प्रयोगो न भवतीत्यर्थः। कामन्तीति । अत्रापि मौण्ड्यमेवेष्यते, माणवकस्तु तदाधारविशेषप्रतिपादनायोपात्त इति भावः । उभावति । माणवकस्य मौण्ड्य- करणेन संस्कार्यत्वादुभयोः कर्मत्वे सापेक्षत्वादेकतरस्मात्प्रत्ययोत्पत्तिर्न भवतीत्यर्थः । गुणवचनाश्चेति । वचनसामर्थ्यात्सापेक्षेभ्योऽपि मुण्डादिभ्यः प्रत्ययो भवति, क्यच्य- त्ययस्तु निरपेक्षेभ्यः पुत्रादिभ्यः सावकाश इति 'माणवकं मुण्डमिच्छती'त्यादौ सापे- क्षेभ्यो न भवति । नन्वयमपि णिज्गुणमात्रविवक्षायां सावकाशो 'मुण्डयत्ययं नापितः'। प्रवीणो मौण्ड्यकरणे इत्यर्थावगमात् , ततश्च द्रव्यविशेषापेक्षायां प्रत्ययो न प्राप्नोति । नैष दोषः । 'तत्करोती ति सिद्धे णिचि पुनर्विधानमिदं सापेक्षेभ्योपि उ. भवतीति। 'राजपुरुषो देवदत्तस्ये त्यादाविवाऽसामर्थ्यादिति भावः। उभयोः क- मत्वे इति। 'इषिनिरूपिते' इति शेषः। सापेक्षत्वादिति। मुण्डस्य माणवकः समा- नाधिकरणं विशेषणमिति सापेक्षत्वमिति भावः । एतावता ण्यन्तं गमकत्वं क्यच्य- गमकत्वमिति दर्शितम् ॥ भाष्ये-माणवकस्थमसाविति । एवञ्च तद्वारा माणवक- स्येच्छाविषयत्ववत्करोत्यर्थविषयत्वमपीत्यभिमानः । यद्यपि इषिफलेच्छाश्रयत्व- न्तस्य वक्तुं युक्तं न तु करोतिफलोत्पत्त्याश्रयत्वन्तस्येत्युभयोः करोतियुक्तत्वाऽ- भावस्तथापि विशिष्य वेषेण तस्याऽपि तदाश्रयत्वमित्यभिमानेनैकदेशिनः शङ्कयम् । एवञ्च मुण्डपदार्थस्य विशेष्यसापेक्षत्वेनाऽसामर्थ्य । वृत्तावुभयत्राऽपि मुण्डशब्दो धर्मिपर इति तद्भावः । तमभ्युपेत्य परिहरति-एवन्तीति । गुणवचना इत्यस्य गुणप्रवृत्तिनिमित्तका इत्यर्थः । सापेक्षा इत्यस्य-परिच्छेद्यविशेषसापेक्षा इत्यर्थः । ननु मुण्डो नित्यसापेक्षोऽन्यथा वा ? । नाऽऽद्यः, राजपुरुषादौ साव- काशस्यापि समासस्य गुरुकुलादौ प्रवृत्तिवदत्रापि क्यजापत्तेः । नाऽन्त्यः णिचोऽ- प्यनापत्तेः, असापेक्षे चारितार्थ्यादिति शङ्कते-नन्विति। नैष दोष इति। 'वचना'- दिति भाष्यस्य तत्करोतीति सिद्ध वचनसामर्थ्यादित्यर्थ इति भावः । न च तत्करोतीत्यनेन प्रातिपादिकादुत्पत्तेः सुबन्तादुत्पत्त्यर्थमिदमावश्यकं,विशेषाऽभावात् , ३अ.१पा.२आ८सू. * व्याकरणमहाभाष्यम् 8 क्षाणां वृत्तिभविष्यति ॥ अथ वा धातव एव मुण्डादयः ॥ न चैव ह्या- आदिश्यन्ते ॥ क्रियावचनता च गम्यते ॥ अथ वा नेदमुभयं युगपद्भवति- वाक्यं च प्रत्ययश्च । यदा वाक्यं न तदा प्रत्ययः । यदा प्रत्ययः सामान्येन तदा वृत्तिर्भवति। तत्राऽवश्यं विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः; मुण्डयति , कं ?, माणवकमिति ॥ मुण्डविशिष्टेन वा करोतिना तमाप्तुमिच्छति । अथ वोक्तमेतत्-'नाऽत्र व्यापारोऽनुगन्तव्य' इति । गमकत्वादिह वृत्तिर्भविष्यति-'मुण्डयति माणवक'मिति ॥ प्र.] मुण्डादिभ्यो यथा स्यादित्येवमर्थमेव । धातव इति । सौत्रा धातवो मुण्डी- दयस्तेभ्यश्रुरादिवत्स्वार्थिको णिजित्यर्थः । न चैवेति । यद्यपि क्रियाविशेषाभिधा- यित्वं मुण्डादीनां नैवोपात्तं तथापि स्वाभाविकत्वादाभिधानस्य प्रयोगादेव तदव- सीयत इत्यर्थः। यथा कण्ड्वादयो द्विविधास्तथा मुण्डादय इति भावः । मुण्ड- विशिष्टेनेति । पूर्वस्मिन्परिहारे कर्मविशेषाऽनपेक्षायां प्रत्ययोत्पत्तिरित्युक्तम् । अस्मिंस्तु यथा गां दोग्धि पय इति शुद्धस्य दुहेर्गवा पूर्व संबन्धः, पश्चात्तु गोदुहिना पयसः, एवं शुद्धः करोतिौण्ड्यंन संबध्यते, मौण्ड्यविशिष्टस्तु माणवकेनेत्युच्यते। अनेनैव न्यायेन 'माणवकं मुण्डमिच्छतीति क्यच्याप्नोतीत्याशयाह-अथ वेति । व्यापारो नारम्भणीयः यत्नमन्तरेणापीष्टस्य सिद्धत्वादित्यर्थः। क्यच्त्वगमकत्वान्न उ.]णिचि भत्वाच॥सौत्रा इति। उत्तरसूत्रस्थधातुग्रहणस्य पूर्वमपकर्षादिति भावः॥ भाष्ये-न चैवेति शङ्का, क्रियावचनतेत्युत्तरमिति व्याचष्टे—यद्यपीति। यथा कण्ड्वादय इति । तथा च धातुभ्यो णिच, प्रातिपदिकेन वाक्यमिति भावः ॥ भाष्ये परिहारान्तरमाह-मुण्डविशिष्टेन वेति । ननु पक्षद्वयेऽपि पूर्व करोतेर्मुण्ड- संवन्धः, पश्चान्माणवकस्य संबन्ध इति प्रतीतेः को विशेषोऽत आह-पूर्वस्मि- निति । 'अथवा नेदमुभय'मिति परिहारे इत्यर्थः। तत्र पूर्व कर्मविशेषस्याऽनपेक्ष- णादसंवन्धः । उत्तरत्र त्वपेक्षायामपि बहिरङ्गत्वान्न पूर्व संबन्ध इत्युच्यत इति विशेष इत्यर्थः । गवा पूर्वमिति । प्रधानव्यापारेणाऽऽप्यमानत्वादिति भावः । पश्चात्त्विति । विशेषणव्यापारेणाऽऽप्यमानखादिति भावः। अन्तःस्थितवस्तुविभा- गाऽनुकूलव्यापारो हि दुहेरर्थः। मौण्ड्यविशिष्टस्तु माणवकेनेति । मौण्ड्यद्वारेत्यर्थः। व्यापार इति । सापेक्षेभ्योऽपि मुण्डादिसूत्रारम्भसामर्थ्यादित्येवं रूपो, 'धातव' इत्येवं रूपो वा, नेदमुभय'मित्यादिरूपो वेत्यर्थः । अगमकत्वादिति । अयं भावः-ण्यन्त- वृत्तौ मुण्डशब्दो भावप्रधान इत्युक्तन्यायेन भवति वृत्तिः । क्यजन्तवृत्तौ तु धर्मि- पर एव, अतस्तत्र नेच्छाक्यच् , असामर्थ्यात् । अत एव क्यजन्तात्तस्मादाचारार्थ- १ इदं क्वचिन्न। २ 'मुण्ड्या'। ३ प्रयत्न'। ४ 'व्यापारानुकूलव्यापार इत्यन्ये'।

कैयट-विवरणसहितं. [सुप आत्मनः ? अथेह क्यचा भवितव्यम्-इष्टः पुत्रः इष्यते पुत्रं इति ?॥ के चित्ताव- दाहुः-'न भवितव्य'मिति॥ किं कारणम् ? ॥ स्वशब्देनोक्तत्वादिति । अपर- आहुः- 'भवितव्यमिति ॥ किं कारणम् ?॥ धात्वर्थेऽयं क्यविधीयते । स च प्र. भवति। तदुक्तं हरिणा-'सदपीच्छाक्यचः कर्म तदाचारक्यचा हृतम्।वाक्य- वाच्यमतोऽव्यक्तर्यथाऽभ्यासः क्रमादिषु' ॥' इति । अथेहेति । इच्छाक्यजन्ता- कर्मणि प्रत्ययोत्पत्तिः प्रकारान्तरेणाशङ्कयते । तथाहि-यद्यत्र क्यज्भवति तदेच्छा- मात्रस्य क्यचाऽभिधानादवश्यं कर्मणोऽभिधानाय तद्वाचिना प्रत्ययेनोत्पत्तव्यम् । यथा पुत्रीयतीति कर्चभिधानाय तिपा । स्वशब्देनेति । इष्टशब्दसामानाधिकरण्या- पुत्र इत्यनेन निर्मुक्तेषिक्रियापेक्षकर्मभावस्याऽर्थस्य प्रतिपादनादित्यर्थः । अयमर्थः- उ.]प्रतीतिरेव, तदाह-सदपीति।न्यायतः सम्भवदपीत्यर्थः।आचारक्यचा हृतं-नि- रवकाशीकृतं, निरूढतया तदर्थस्यैव प्रतीतेरित्यर्थ इति भावः। अतस्तद्वाक्यवाच्य- मेव-'माणवकं मुण्डमिच्छती'त्यनेनैव बोधनीयं न तु क्यजन्तेन । तत्र हेतुमाह- अत इति । क्यजन्तादव्यक्तरित्यर्थः । यथा क्रमादिधातुष्वभ्यासः पौनःपुन्यं वाक्येनैव गम्यते न तु या, तत्प्रकृतिकस्य तस्य कौटिल्ये निरूढेरिति भावः । अन्यत्रोक्तं हरिणा-'सदपीच्छाक्यचः कर्म वाक्य एवं प्रयुज्यते। प्रसिद्धन हृतः शब्दो भावगर्हाऽभिधायिना ॥ अभ्यासे तुल्यरूपोऽपि न यङन्तः प्रवर्तते' इतिाएतेन-'वेदादिविषयोऽभ्यासो यथा क्रमादिषु व्यज्यत इत्यर्थः।यद्वा विसर्गरहित- पाठेनाऽभ्यासेन वर्णक्रमादिविषयाभिव्यक्तिरित्यर्थो विबरणकारोक्तोऽपास्तः । एत- देवात्र मुख्यं समाधानमिति ध्वनयितुमस्य पुनरुल्लेखः । एवञ्च मुण्डादिसूत्रं प्रपञ्चाथमेवेति बोध्यम् ॥ नन्वकर्मकैलात्क्यजन्तात्कर्मणि प्रत्यया नेति प्रागुक्तमेव, तत्किम् ‘अथेहे'त्य. नेनोच्यत इत्यत आह-इच्छाक्यजन्तादिति । कर्मणोऽभिधानायेति । 'पुत्र' इति प्रथामान्तस्येष्टशब्दसामानाधिकरण्यात्कर्मत्वसद्भावेऽपि तस्य तद्वाचकत्वाऽभावात्ततः क्यचि तेन कर्मणोऽनभिधानादिति भावः। एवं सर्वत्राभिधानविषये बोध्यम् ॥ इष्ट- शब्देति । एवञ्च तत्सामानाधिकरण्यात्तदर्थगतकर्मत्वस्य साक्षात्कर्मवाचिना क्तनाs- भिधानात् प्रातिपदिकार्थमात्रपरत्वेन 'पुत्र' इति सुबन्तस्य कर्मत्ववाचित्वाऽभावान ततः क्यजिति भावः । निर्भुक्तति । इतरसामानाधिकरण्याजातकर्मभावस्य न तु खत इत्यर्थः । 'निर्मुक्ते'ति पाठे स्ववाच्यतया त्यक्तकर्मभावस्येत्यर्थः । स्वश- ब्देनोक्तत्वादिति भाष्यस्य-स्वं कर्मत्वं, तद्वाचकशब्देन तेन कर्मत्वोक्तेः, 'पुत्र' इत्यस्य सुबन्तस्य कर्मत्ववाचकत्वाऽभावान्न भवितव्यं तदर्थे क्यचेत्यर्थः । १ इतिः काचित्कः । २ 'अकर्मत्वात्' पा० ।

३अ.१पा.२आ.८सू.] & व्याकरणमहाभाष्यम् 8 । धात्वर्थः केन चिदेव शब्देन निर्देष्टव्य इति ॥ इह भवन्तस्त्वाहुः 'न भवि- तव्य'मिति ॥ किं कारणम् ? ॥ इह समानार्थेन वाक्येन भवितव्यं प्रत्ययान्तेन च । यश्चहार्थों वाक्येन गम्यते-इष्टः पुत्रः इष्यते पुत्र इति, नाऽसौ जातु चित्प्रत्ययान्तेन गम्यते ॥ ॥*॥ क्यचि मान्ताव्ययप्रतिषेधः ॥॥ क्यचिमान्ताव्ययानां प्रतिषेधो वक्तव्यः। इह मा भूत्-इदमिच्छति किमिच्छति। उच्चैरिच्छति नीचैरिच्छति। ॥*॥गोसमानाक्षरनान्तादित्येके ॥ ॥ [गोसमानाःरनान्तादित्येके वक्तव्यमि- प्र.]यदा क्रियाफलस्य कर्मणः प्राधान्यं प्रतिपिपादयिषितं तदा वाक्यमेव प्रयुज्यते पुत्र इष्ट इत्यादि, न तु क्यजन्तः, तस्याऽकर्मकत्वात् कर्मणि प्रत्ययानुत्पादात् । स च धात्वर्थ इति । इच्छायाः प्रत्ययार्थत्वं दयितुं वाक्यमुपादेयम् । तत्र वाक्ये कर्तृप्रत्ययः प्रयुज्यतां कर्मप्रत्ययो वा । प्रत्यये तूत्पन्नेऽकर्मकत्वात्कर्मप्रत्ययो न भवति । नाऽसौ जातु चिदिति । प्रत्ययान्तस्याऽकर्मकत्वात्कर्मणि प्रत्ययोत्पत्त्य- संभवादित्यर्थः । गोसमानाक्षरेति । अकारादयो दश समानाः। तत्र लवर्णान्तस्य प्रातिपदिकस्याऽसंभवाइकारान्तस्य च, सप्तानां ग्रहणम् । अस्मिंस्तु न्यासेऽव्याप्तिः, वाच्यतीत्याद्यसिद्धिप्रसङ्गात् । भाष्यकारेण तु मतभेदप्रदर्शनायोपन्यासः कृतः । उ.]यदाक्रियाफलस्येति।तथा च विद्महे फलस्य विशेष्यतया पुत्रीयती'त्यादौ व्यापा- रस्य विशेष्यतया भिन्नार्थत्वान्न तदर्थेऽयं क्यच् , किन्तु पुत्रमिच्छतीत्यत्राऽर्थ एव । कर्मणि च फलस्य विशेष्यत्वम्-इष्टः पुत्र इत्यादौ सामानाधिकरण्याऽनुरोधेनाऽवश्य- मङ्गीकार्यमिति भावः। कर्मण इति। कर्मसंज्ञाप्रयोजकस्येत्यर्थः । वस्तुत इयं व्याख्या 'इह भवन्त' इति मते उचिता। कर्मण इत्यस्य कर्मत्वविशिष्टबोधकस्ये- त्यर्थ इत्येवैतव्याख्योचिता। अग्रिममतद्वये तु वस्तुतः कर्मत्वविशिष्टो यस्तद्वा- चकादिति सूत्रार्थ इत्याशयः॥[ीष्य इह भवन्त इति । सर्वत्रवृत्तिवाक्ययोः समा- नार्थत्वमेव । चित्रगुरित्यादेविग्रहेऽपि विशेष्यविशेषणभावव्यत्यासात्तत्त्वमिति तदा- शयः॥ भाष्ये-मान्ताऽव्ययानामिति । मान्तत्वं न सुबन्तविशेषणं, पुत्रीयतीत्यादे- रसङ्गत्यापत्तेः। किन्तु मान्तप्रकृतिकेत्यर्थकम् । तेन कमिच्छतीत्यादावपि नेति बोध्यम् ॥ तत्र लवणेति । यद्यप्यनुकरणे लकारान्तं लुकारान्तं ऋकारान्तं च सम्भवति तथापि तत्र क्यचः प्रयोगदर्शनाऽभाव इत्यर्थः । ऋकारान्तस्य चेति । 'असम्भवा'दित्यपकर्षः। वस्तुतस्तादृशाऽनुकरणस्यैव लोके प्रयुज्यमानस्याऽभाव इति तात्पर्यम् । मतभेदेति । तथा चेदम्मतमरुचिग्रस्तमिति भावः। अन्ये तु १ 'स्तावदाहुः' पा० । २ 'इहे ति क्वचिन्न । ३ 'रिच्छतीति' पा० । ४ इदं लुप्तं स्यादिति केचित् । ५ 'योपान्यासि' पा० । ।

ॐ कैयट-विवरणसहितं . [ काम्यच्च .. त्याहुः] गामिच्छति गव्यति।समानाक्षरात्-घटीयति पटीयति दधीयतिमधूयति कीयति । हर्बीयति । [समानाक्षरात् ] ॥ नान्तात्-राजीयति तक्षीयति ॥ काम्यञ्च ॥३॥१९॥ किमर्थश्चकारः?॥॥[चंकारः]स्वरार्थः॥॥चितोऽन्त उदात्तो भवतीत्यन्तो- दात्तत्वं यथा स्यात् ॥ नैतदस्ति प्रयोजनं,धातुस्वरेणाप्येतत्सिद्धम् ॥ ककारस्य तहीत्संज्ञापरित्राणार्थ आदितश्चकारः कर्तव्यः । अत उत्तरं पठति-॥*॥काम्य- चश्चित्करणमनर्थकं कस्येदर्थाभावात् ॥*॥ काम्यचश्चित्करणमनर्थकं ॥ ककार- स्येत्संज्ञा कस्मान भवति ? ॥ 'इदर्थाभावात्' । इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ॥ ननु च लोप एवेत्कार्यम् ? ॥ अकार्य लोपः । इह हि शब्दस्य- कार्यार्थो वा स्यादुपदेशः श्रवणार्थो वा । कार्य चेह नास्ति । असति कार्ये यदि श्रवणमपि न स्यादुपदेशोऽनर्थकः : स्यात् ॥ नैतदस्ति प्रयोजनं, सार्वधातु. कार्धधातुकयोरङ्गस्य गुण उच्यते । धातोश्च विहितः प्रत्ययः शेष आर्द्धधातुक- संज्ञां लभते । न चाऽयं धातोर्विधीयते ॥ इदं तर्हि प्रयोजनम् उपयकाम्य- ति । कितीति संप्रसारणं यथा स्यात् ॥ एतदपि नास्ति प्रयोजनं, यजादिभि- रत्र कितं विशेषयिष्यामो 'यजादीनां यः कि'दिति ॥ कश्च यजादीनां कित् ?॥ यजादिभ्यो यो विहित इति॥ अथापि कथं चिदित्कार्य स्यादेवमपि न दोषः । क्रियते न्यास एव द्विचकारको निर्देश:-'सुप आत्मनः क्यच्च्काम्यञ्चेति॥अथ चा छान्दसमेतत् ।दृष्टाऽनुविधिश्छन्दसि भवति । न चात्र संप्रसारणं दृश्यते ॥ उपमानादाचारे ॥ ३१॥१०॥ ॥*॥ अधिकरणाच ॥ ॥ अधिकरणाचेति वक्तव्यम् । इहापि यथा स्यात् प्र.काम्यञ्च । आदिठ इति । अन्तेऽपि कृत आदिकृतफलसंपादनादादितः संपद्यते । तथा हि यदाऽऽदौ क्रियते तदा ककारस्याऽनादित्वादित्संज्ञा न भवति । एवमन्तेऽपि कृतश्चित्कार्येऽन्तोदात्तत्वे सिद्ध नियमार्थः संपद्यते-'चिदेवाऽयं व्यप- देष्टव्यो न त्वनुबन्धान्तरेण कि'दिति । यजादिभ्यो यो विहित इति । अयं तु सुबन्ताद्विहितः । अथापीति । यदा यजादिभिः किन्न विशेष्यते कायित्वनैव यजा- दयो निर्दिश्यन्त इतिभावः। अथ वेति। 'विजुपे छन्दसीति विचश्छन्दसि विधानात्। उ.]अजन्तेभ्यो गोसमानाक्षरेभ्य एव,अनुनासिकान्तेभ्यस्तु नान्तेभ्य एवेत्यस्याऽर्थः। अत एव ''शब्दात्क्यच्छान्दस इत्युक्तंम्थानेऽन्तरतम सूत्रे भाष्ये। 'वाच्यती'त्यादौ च न दोषः । वाच्यति उच्यतीति च 'नः क्ये' इति सूत्रे भाष्ये प्रयुक्तमित्याहुः । काम्यञ्च । ननु चस्याऽऽदितः पाठे सूत्रभेदः स्यादत आह-अन्तेऽपीति । १इदं क्वचिन्न । २'भवेदुप' पा०। ३'कार्येऽसति' पा०। ४'इदमस्ति' पा० ।

३अ.१पा.२आ.११सू.] ® व्याकरणमहाभाष्यम् & कुटीयति प्रासादे । प्रासादीयति कुट्याम् ॥ [ अधिकरणाच्च ] ॥ कर्तुः क्यङ् सलोपश्च ॥ ३१११११ ॥ सलोपसन्नियोगेनाऽयं क्यविधीयते तेन यत्रैव सलोपस्तत्रैव क्यैङ् स्यात् । पयायते । इह न स्यात्-अपि काकः श्येनायते ॥ नैतदस्ति । प्रधान- शिष्टः क्यङ्, अन्वाचयशिष्टः सलोपो, यत्र च सकारं पश्यसीति । तद्यथा कश्चिदुक्तो-ग्रामे भिक्षी चर देवदत्तं चानया स ग्रामे भिक्षां चरति यदि च देव- दत्तं पश्यति तमप्यानयति ॥*॥ सलोपो वा ॥*॥ सलोपो वेति वक्तव्यम् । पयायते पयस्यते ॥ ॥ओजसोप्सरसो नित्यम् ॥*॥ ओजसोप्सरसोर्नित्यं सलो- पो वक्तव्यः । ओजामानं यो अहिं जंघान । अप्सरायते। अपर आह-सलोपो. ऽप्सरस एव, पर्यस्यत इत्येव भवितव्यम् ॥ कथमोजायमानं यो अँहिं जघा- नेति ? ॥ छान्दर्सः प्रयोगः, छन्दसि च दृष्टमनुविधीयते ॥॥ आचारे- वगल्भक्लीबहोडेभ्यः क्विब्वा ॥*॥ आचारेऽवगल्भक्लीबहोडेभ्यः विब्बा वक्तव्यः। अवगल्भते । अवगल्भायते । गल्भ ॥ क्लीब-विक्लीबते । विक्लीबायते । क्लीव ॥ होर्ड-विहोडते । विहोडायते ॥ [ होड] ॥ प्र.]इह 'वाकाम्यतीति संप्रसारणं कित्कार्यमस्तिातस्मात् पूर्वः परिहार आश्रयणीयः 'धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम्' । [ काम्यञ्च ] । उपमाना । कुट्यामिति । उपमेये सप्तमीश्रवणादुपमानमपि सप्तम्यन्तमिति कर्मविवक्षायामेतत्प्रयोगाऽसंभवाद्वार्तिकारम्भः। [ उपमानादाचारे ] ॥ कर्तुः क्यङ् । सलोपविधौ ‘कर्तु'रिति स्थानषष्टी सकारेण कर्तुर्विशेषणात्तदन्त- विधिसद्भावाद्धंसायत इत्यादौ सलोपाऽभावः। सलोपसन्नियोगेनेति । एकवाक्यतां- संनियोगार्थ च चशब्दं मत्वा चोद्यते। वाक्यभेदमन्वाचये च चशब्दमाश्रित्य उ.]नियमार्थतयाऽऽदिपाठफलं सम्पन्नमित्यर्थः।वाकाम्यतीति । 'किक्वचिप्रच्छी ति वार्त्तिकेन क्विब्दीर्घाऽसम्प्रसारणानि । अस्य प्रयोगस्य सत्त्वे दृढं मानं चिन्त्यम् । पूर्वपरिहार इति । यजादिभ्यो विहित इतीत्यर्थः । वाच् अम् इत्यवस्थायां काम्य- प्रवृत्ते ऽयं वच्यादिभ्यो विहितः। 'काम्यचश्चित्करणाऽऽनर्थक्य'मिति वार्तिक- विरोधेन 'पुत्रकामिष्यती'त्यादौ 'सति शिष्टस्य स्वरं बाधित्वा चित्स्वर एव यथा स्यादिति चित्त्व'मिति हरदत्तोक्तमपास्तम् । [ काम्यञ्च] ॥ कर्तुः : क्यङ् । एकवाक्यतोपपादक-सन्नियोगार्थञ्चेत्यादि । एतावतैवैक- १ 'प्रासादीयति कुटयां, कुटीयति प्रासादे इत्यत्रापि यथा स्यात्' पा० । २ 'तत्रैव स्यात्' पा० । ३ भैक्षं' पा० । ४ 'ऽहिं' पा० । ५ 'ओजस्यते' पा०। ६ 'छान्दसत्वात्सिद्धम्' पा० । ७ 'विक्कीब' पा० । ८ 'विहोड' पा० ।

* कैयट-विवरणसहित [काम्यच्च किं प्रयोजनम् ? ॥ क्रियावचनता यथा गम्येत ॥ नैतदस्ति प्रयोजनम् । धातव एवाऽववगल्भादयः । न चैव यर्था आदिश्यन्ते क्रियावचनता च गम्यते ॥ इदं तर्हि प्रयोजनम् अवगल्भा विक्लीबा विहोडा । 'अप्रत्यया'दित्य. कारप्रत्ययो यथा स्यात् ॥ मा भूदेवम्-'गुरोश्च हल' इत्येवं भविष्यति ॥ इदं तर्हि प्रयोजनम्-अवगल्भांचक्रे विक्लीबांचक्रे विहोडांचक्रे । 'कास्प्रत्य- यादाममन्त्रे लिटी'त्याम्प्रत्ययो यथा स्यात् ॥ अपर आह–'सर्वप्रातिपदि. केभ्य आचारे किब्बा वक्तव्यः' । अश्वति गर्दभतीत्येवमर्थम् ॥ न तीदानी गल्भाद्यनुक्रमणं कर्तव्यं ?॥ कर्तव्यं च ॥ किं प्रयोजनम् ? ॥ 'आत्मनेपदा- र्थाननुबन्धानासङ्ख्यामी'ति । गल्भ क्लीब होड ॥ प्र.] परिहारः । अपर आहेति,-मतभेदप्रदर्शनायोपन्यासः न त्वयं स्थितः पक्ष इत्याहुः । क्रियावचनतेति । आचारलक्षणक्रियावचनतेत्यर्थो विवक्षितः, धातुपाठे हि पाठातेषां क्रियावचनता सिद्धव । न चैव हीति । अनेकार्थत्वाद्धातूनामाचार- क्रियावृत्तित्वस्याऽसिद्धत्वादित्यर्थः । अश्वतीति । प्रातिपदिकादेवायं विविधीयते न सुबन्तात् । तेन पदत्वाऽभावादतोगुण इति पररूपत्वं भवति । एतच्च 'सर्वेभ्य' इति वक्तव्ये 'सर्वप्रातिपदिकेभ्य' इति वचनाल्लभ्यते। आत्मनेपदार्थानिति । वाक्येऽ- कारस्यानुदात्तत्वादनुनासिकत्वं प्रतिज्ञायते इति भावः । उ.वाक्यतेति व्यवहारः।एतेन 'विधेयाऽनेकत्वात्कथमेकवाक्यते'ति परास्तम्।इत्या- हुरिति । अत एवोपक्रमभाष्ये ‘पयायते' इत्यत्रैव क्यङ् स्यात्सलोपसन्नियोगशिष्ट- त्वादिति शङ्कायां तत्प्रयोगाऽभावरूपं समाधानमनभिधायाऽन्यदेव समाधानं कृतम् । क्रियावचनत्वस्य धातुगणमध्ये तत्तदर्थविशिष्टानाम्पठितवादेव सिद्धत्वादाह- आचारेति । भाष्ये न चैव ह्यर्था इति । अस्य 'धातुपाठे' इति शेषः । 'अर्था' इत्यस्य-सर्वेऽर्था इत्यर्थः । क्रियावचनतेति । तादृशक्रियेत्यर्थः। 'गम्यत' इत्यस्य 'लोकत' इति शेषः । अनिर्दिष्टार्थानां धातूनामेवाऽनेकार्थत्वमित्येतद्भाष्यार्थं मन्ये । वाक्य इति । वार्तिक इत्यर्थः । अकारस्येति । ननु किप इकारस्यैवानुदात्तत्वमनु- नासिकत्वञ्च प्रतिज्ञायतां किमनेनाऽनुबन्धत्रयकरणेनेति चेन्न, 'अश्वती'त्यादाव- प्यात्मनेपदापत्तेः । अतिरिक्तक्किप्पदकरणे तु गौरवमिति भावः । भाष्ये आत्मने- पदार्थानित्यादेः-'आविषये क्विप्सन्नियोगेनेति शेषः। आसङ्ख्यामीति।तद्गुणविशि- टमवर्णाऽन्तरम्प्रश्लेषेणोपदेक्ष्यामीत्यर्थः । अत एवेत्संज्ञा । अन्यथा क्लीबादीनाम्प- चाद्यजन्तानां क्विबर्थमनुवादेनोपदेशाऽभावात्सा न स्यात् । प्रश्लेषे तु तस्य माना- न्तरेण सिद्ध्यभावादुपदेश एव । तद्विशिष्टस्य क्लीबादेरप्युपदेश एवेत्यनुबन्धानामेका- न्तत्वे करणसाधने 'उपदेश'शब्दे च न दोषः। अतएव च 'प्रत्ययान्तादामो मित्त्वे ।

३अ.१पा.आ.१२सू.] 8 व्याकरणमहाभाष्यम् ॐ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ॥ ३॥१॥१२ ॥ हलो लोपसलियोगेनाऽयं क्यविधीयते । तेन यत्रैव हलो लोपस्तत्रैव प्रामो- ति॥ नैष दोषः-प्रधानशिष्टः क्यङ्, अन्वाचयशिष्टो हलो लोपो, यत्र च हलं पश्यसीति ॥॥ भृशादिष्वभूततद्भावग्रहणम् ॥ ॥ भृशादिष्वभूततद्भाव- ग्रहणं कर्तव्यम् । इह मा भूत्-क दिवा भृशा भवन्तीति॥*॥ विप्रतिषेधा- नर्थक्यं च भवत्यर्थे क्यचनात् ॥ ॥ विप्रतिषेधश्चाऽनर्थकः ॥ किं कारण- म् ? ॥ ‘भवत्यथै क्यकचनात्' । भवत्यर्थेहि क्यविधीयते ॥॥ भवतियोग विधानम् ॥*॥ भवतिना योगे चिर्विधीयते । तत्र विनोक्तत्वात्तस्याऽर्थस्य क्यङ्ग भविष्यति॥ डाजन्तादपि तर्हि न प्राप्नोति-पटपटायते । पटपटायति । डाजपि हि भवतिना योगे विधीयते, भवत्यर्थे क्यष ॥*॥ डाचि वचन- प्रामाण्यात् ॥*॥ डाचि वचनप्रामाण्याद्भविष्यति ॥ किं वचनप्रामाण्यं ? ॥ 'लोहितादिडाभ्यः क्याषिति ॥ इह किं चिदक्रियमाणं चोद्यते किं चिञ्च क्रिय. प्र.]भृशादिभ्यो । हल इति । हला भृशादयो विशेष्यन्ते तेन हलन्तानामेव क्यङ्लोपाभ्यां भवितव्यमित्यर्थः । प्रधानशिष्ट इति । वाक्यभेदेन सर्वेभ्यो भृशा- दिभ्यः क्यढं विधाय हलन्तानां लोपो विधीयत इत्यर्थः । अन्यथाऽनर्थकः पाठः स्यादहलन्तानाम्। क दिवा भृशा भवन्तीति।ये रात्रौ भृशाऽऽलोका नक्षत्रादयस्ते- दिवसे व प्रदेशे भवन्तीत्यर्थः । अत्राऽभूततद्भावाऽभावः। विनोक्तत्वादिति । च्चिसहचरितेन भवतिनेत्यर्थः । डाचि वचनप्रामाण्यादिति। अप्रयुक्त एव भवतो- भवत्यर्थविवक्षायां वचनप्रामाण्याड्डाचं विधाय भवत्यर्थे क्यविधीयत इत्यर्थः । उ.]न विशेष' इति 'ह्रस्वनद्याप' इति सूत्रस्थभाष्यं सङ्गच्छते। अन्यथा गल्भादिहलन्त- प्रकृतिके विशेषः स्यात्।अन्यहलन्तेभ्यस्त्वाचारक्विब्नेति तदाशयः॥[कर्तुः क्यङ्] भृशादिभ्यो । ननु भृशादीनां हल्घटितानामेव सत्त्वात्तत्रैव प्राप्नोतीत्यस्य व्यावाऽभाव इत्यत आह-हलेति । आवृत्त्या विभक्तिविपरिणामेनेति भावः । अन्यथा हि सर्वत्र हलो लोपः स्यादित्यापादयेदित्याशयः । भृशाऽऽलोका इति । अधिकाऽऽलोका इत्यर्थः भवत्यर्थे च्वेरविधानेन 'विनोक्तत्वा'दित्य- सङ्गतमित्यत आह-विसहचरितेनेति । भाष्ये-डाजन्तादपीति । 'क्य'षिति शेषः । वचनप्रामाण्यस्य क्यषप्रवृत्ती हेतुत्वे क्यषन्तसमभिव्याहारे भवतेरपि प्रयोगः स्यादत आह–अप्रयुक्त इति । भवत्यर्थेति । 'कृभ्वस्तियोग' इत्यस्य डाज्वविधावनुवृत्तस्य तदर्थयोग इत्यर्थः । विविधौ तु शब्दयोग इत्येवार्थ इति भावः । कृभ्वस्तियोग इव क्यष्योगेऽपि डाजिति ज्ञाप्यत इति वृत्तिग्रन्थस्यापीद- मेव तात्पर्यम् ।भाष्ये-अक्रियमाणमिति। अभूततद्भावग्रहणमित्यर्थः॥ नजिवयुक्त- ६० * कैयट-विवरणसहितं & [भृशादिभ्यो । माणं प्रत्याख्यायते ॥ स सूत्रभेदः कृतो भवति ॥ यथान्यासमेवाऽस्तु ॥ ननु चोक्त मिह कस्मान भवति व दिवा भृशा भवन्ती'ति ? ॥*॥ नजिवयुक्त- मन्यसदृशाधिकरणे तथा ह्यर्थगतिः ॥ ॥ नन्युक्तमिवयुक्तं वा यत्किं चिदिह दृश्यते तत्रोऽन्यस्मिंस्तत्सदृशे कार्य विज्ञायते ॥ [किं कारणम् ? ॥ तथाह्यर्थ- गतिः']॥ तथा ह्यर्थो गम्यते । 'अब्राह्मणमानये'त्युक्ते ब्राह्मणसदृश एवानीयते नासौ लोष्टमानीय कृती भवति । एवमिहाऽप्यच्वेरितिच्चिप्रतिषेधादन्यस्मिन्न- च्व्यन्ते विसदृशे कार्य विज्ञास्यते ॥ किं चान्यदतोऽव्यन्तं विसदृशम् ?॥ अभूततद्भावः ॥ इह काश्चित्प्रकृतयः सोपसर्गाः पश्यन्ते-अभिमनस् सुमनस् उन्मनस् दुर्मनस् । तत्र विचार्यते-भृशादिषूपसर्गः प्रत्ययार्थविशेषणं वा स्यात्-'अभि- भवतौ सुभवतावुद्भवतौ दुर्भवताविति । प्रकृत्यर्थविशेषणं वा,-'अभिमन- स्शब्दात् सुमनस्शब्दादुन्मनस्शब्दाहर्मनस्शब्दावति । युक्तं पुनरिदं विचार- यितुम् । नन्वनेनाऽसंदिग्धेन प्रकृत्यर्थविशेषणेन भवितव्यं यावता प्राक्प्रकृतेः पठ्यन्ते ॥ यदि हि प्रत्ययार्थविशेषणं स्युः प्राग्भवतेः पठ्येरन् ॥ नेमे शक्याः प्र.]यथान्यासमिति । 'अच्चे रिति पर्युदासाश्रयेण दोषद्वयस्यापि परिहार इत्यर्थः। इह काश्चिदिति । यदा मनःशब्देनाऽसमस्ता एव सुदुरभय इति पक्षस्तदा प्रत्य- यार्थविशेषणं ते भवन्ति । मनःशब्दश्वाऽवृत्तिविषये तद्वति वर्तते । मनस्वी मुठु- भवति, उद्भवति, दुष्ठु भवति, आभिमुख्येन भवतीत्यत्रार्थे क्यङिधिः । अन्ये- वाहुः-प्राप्यर्थस्याऽत्र वृत्तिविषये भवतेर्ग्रहणं, तेन मनः कर्म शोभनं प्राप्नोतीत्यादि- रर्थः क्यङन्तस्य भवति । यदा तु मनःशब्देन स्वादीनां बहुव्रीहिरिति पक्षस्तदा प्रकृत्यर्थविशेषणं ते भवन्तीति विचारः क्रियते । प्राक्प्रकृतेरिति। प्रकृतेरेवावयवाः उ.]मिति न्याय इवयुक्तमिति दृष्टान्तार्थम् । अन्यस्मिंस्तत्सदृशे इत्यनेनाऽभेदेपि सादृश्यमस्तीति सूचयति॥ प्राक्प्रकृतेः पाठेन प्रत्ययार्थविशेषणत्वपक्षोऽसंभावितोऽत आह—यदेति । समस्तत्वाऽसमस्तत्वाभ्यां पक्षद्वयसम्भव इति भावः । 'अमुमनाः सुमना भवती'त्यर्थस्य क्यङन्तात्प्रतीतेः समास एवाऽऽवश्यकोऽत आह-मन:- शब्दश्चेति । तदर्थे मतुवादीनामेव साधुत्वाल्लक्षणयाऽपि प्रकृतिमात्रस्याऽसाधुत्वं म्यादत आह-अन्ये विति। असुमनाः सुमना भवतीत्यर्थस्तु पक्षद्वयेऽप्यार्थ इति भावः । मनःकर्मेति । मनः कर्तृ शोभनं कर्म प्राप्नोतीत्यन्वयः ॥प्रकृतेः प्रापाठे एवाऽसमस्तत्वसमस्तत्वाभ्याम्पक्षद्वयोपपत्तेरुक्तत्वेनाह-प्रकृतेरेवेति । अवयवसंबन्धे १ 'ततो' । २ अयं पाठः क्वचिदपि नास्ति मन्ये लुप्तः। ३ 'किश्चातोऽन्य- दव्यन्तं' । ४ 'वा'शब्द वाचन्न । ५ 'ननु तेना' पा०। ६ 'स्यात्' पा० ।

३अ.१पा.२आ.१२सू.] व्याकरणमहाभाष्यम् , ~~ प्राग्भवतेः पठितुम्।एवं विशिष्टे हि प्रत्ययार्थे भृशादिमात्रादुत्पत्तिःप्रसज्येत । तस्मान्नैवं शक्यं वक्तुम् । न चेदेवं जायते विचारणा ॥ कश्चात्र विशेषः ?॥ ॥*॥भृशादिषूपसर्गः प्रत्ययार्थविशेषणमिति चेत्स्वरे दोषः ॥ ॥ भृशादिषूपसर्गः प्रत्ययार्थविशेषणमिति चेत्स्वरे दोषो भवति । अभिमनायते । 'ति१तिङ'इति निघातः प्रसज्येत ॥ अस्तु तर्हि प्रकृत्यर्थविशेषणम् ॥ ॥ सोपसर्गादिति चेदटि दोषः ॥॥ सोपसर्गादिति चेदटि दोषो भवति । स्वमनायतेति ॥ अत्यल्प- मिदमुच्यते-'अटि दोषो भवतीति ॥*॥ अड्ल्यद्विवचने ) ॥ ॥ अड्ल्य- द्विर्वचनेप्विति वक्तव्यम् । अटि उदाहृतम् । ल्यपि-सुमनाय्य । द्विवचने- अभिमिमनायिषते ॥ नैष दोषः,अवश्यं सङ्ग्रामयतेः सोपसर्गादुत्पत्तिर्वक्तव्या। 'असङ्ग्रामयत शूर'इत्येवमर्थम् । तन्नियमार्थ भविष्यति 'सङ्घामयतेरेव प्र.]पूर्वभूताः पठ्यन्त इत्यर्थः।निघात इति। मनःशब्दात् क्यङि कृते मनायत इत्यस्य तिङन्तस्य पदस्याऽतिङन्तात् स्वादेः पदादुत्तरत्वात् । प्रकृत्यर्थविशेषणत्वे तु सुमनायत इत्यादि तिङन्तं संपद्यत इति तद्व्यतिरिक्तपदान्तराऽभावान्निघाताऽभावः। उपसर्गस्य तु धात्वन्तर्भावात्ततः पूर्वमडाटौ प्राप्नुतः । क्यङन्ते च तस्याऽनुप्रवेशा- त्तयतिरिक्तपदाऽभावात्समासाऽभावाल्लोपाऽप्रसङ्गः । क्यङन्ताच्च सनि कृते सोपस- र्गस्य द्विवचनप्रसङ्गः । अवश्यमिति । ग्रामशब्द एव युद्धे वर्तते सामान्यतोदृष्टा- उ.] षष्टी । प्राकञ्चावयवान्तरापेक्षयेति भावः। बहुव्रीहिविवक्षयैवमुक्तमित्याशयः ॥ 'न चेदेवं जायते विचारणे'त्यस्य 'समस्तत्वाऽसमस्तत्वाभ्या मिति शेषः ॥ समासाऽभावादिति। त्वान्तेन समासाऽभावादित्यर्थः। अनपूर्वे समासे विद्य- मानस्य को ल्यबिति सूत्रार्थ इति भावः । तत्राऽड्विर्वचनयोरनिष्टदेशे प्राप्तिः,ल्यप- स्त्वसिद्धिरेवेति भावः ॥ भाष्ये-अवश्य सङ्ग्रामयतेरिति । सङ्ग्रामयतेः सोपसर्गा- यथोत्पत्तिर्भवति तिढां, तथा णिजुत्पत्तिर्वक्तव्येत्यर्थः।अवश्यमित्यनेन चाऽस्य फला- न्तरमपि सूचितम् । तच्च समः पूर्वमट । । अन्यथा 'तत्करोती'त्यनेन सिद्ध तद्वै- यर्थ्य स्पष्टमेव । तद्धनयन्नुदाहरति-असङ्ग्रामयतेति । यद्यपि सङ्ग्रामशब्दे 'सं'- शब्दो नोपसर्गस्तथापि 'सोपसर्गा'दित्यस्य सोपसर्गसमानाकारादित्यर्थो बोध्यः । ननु 'प्रातिपदिकाद्धात्वर्थ' इत्येव णिच् सिद्ध इति चेन्न; प्रजयती'त्यादावुपसर्ग- रहितस्यैव धातुताया दृष्टत्वेनाऽत्रापि तद्रहितणिजन्तस्यैव धातुत्वबुद्धिवारणाय तत्स- त्वात् । प्रकृते तु विशिष्टस्यैव प्रकृतित्वेनोपदेशात्स्वादीनां वाचकत्वाच्च विशिष्ट- स्यैव धातुत्वापत्तिरित्याशयात् । तदाह-ग्रामशब्द एवेति। अनेनेतरद्योतकसाम्यं बोधितम् । सामान्यत इति । क्रियावाचकयुक्तानां क्रियाविशेषद्योतकत्वस्य दृष्ट- १ 'मुच्यतेऽटि दोषो भवतीति' क्वाचित्कः पाठः । २ इदं लुप्तम् । ।

२ कैयट-विवरणसहितं. [ भृशादिभ्यो । सोपसर्गामान्यस्मात्सोपसर्गा'दिति । यदि नियमः क्रियते स्वरो न सिध्यति ॥ एवं तर्हि भृशादिषूपसर्गस्य परागवद्भावं वक्ष्यामि ॥ यदि पराङ्गवद्भाव उच्यते अडल्यद्विर्वचनानि न सिध्यन्ति । स्वरविधाविति वक्ष्यामि ॥ एवं च कृत्वाऽस्तु प्रत्ययार्थविशेषणमपि । ननु चोक्तं-'भृशादिषूपसर्गः प्रत्ययार्थविशेषणमिति चेत्स्वरे दोष'इति ॥ स्वरे पराङ्गवद्भावेन परिहृतम् ॥ अयं तर्हि प्रत्ययार्थविशेषणे सति दोषः-क्यडोक्त- त्वात्तस्यार्थस्योपसर्गस्य प्रयोगो न प्राप्नोति॥ किंकारणम् ?|उक्तार्थानामप्रयोग इति । तद्यथा-'अपि काकः श्येनायते' इत्यत्रे क्यडोक्तत्वादाचारार्थस्य आङः प्र.चानुमानात् क्रियाविशेषद्योतकः संशब्दः। तथा च 'वा पदान्तस्येति परसवर्ण- विकल्पो भवति । उपसर्गसदृशाऽनर्थकशब्दान्तराऽवयवे तु संग्रामशब्देभ्युपगम्य- माने परसवर्णविकल्पोन स्थात्। तत्र 'ग्राम युद्ध'इत्येव वक्तव्यं, संशब्दस्तु द्योतकः प्रयोगदर्शनाल्लभ्यते । यथा 'इक्स्मरणे' 'इङध्ययने' इत्यनयोरधिः । नियमार्थस्तु संग्रामेतिपाठः । नियमार्थत्वे च प्रत्ययोत्पत्तावुपसर्गः पृथक्क्रियते । अतो धातो तेषामनन्तर्भावाद्यथेष्टमडादिः सिद्धेः । प्रत्ययार्थविशेषणपक्षे तु विरोधादभूत- तद्भावविषयत्वं नाश्रीयते । असंग्रामयतेति । संग्रामयतिरनुदात्तद्बोद्धव्यः । उ.त्वेनाऽत्रापि युद्धक्रियाद्योतकत्वमनुमीयत इत्यर्थः । उपसर्गसदृशाऽनर्थकेति,- अनर्थकत्वमानं निषिध्यते। तत्सदृशो निपात इत्यर्थः। इदञ्चिन्त्यम्-उपसर्गसमाना- कारत्वेन निपातत्वादनर्थकस्यापि निपातस्य प्रातिपदिकत्वेन सुबन्तत्वात् । तत्रेति । युद्धे वर्तमानो यो ग्रामशब्दस्तस्मादित्युक्तिसामर्थ्येन सम्पूर्वाद्भ- विष्यति णिच् । तद्विशिष्टादेव च तिङ् भविष्यतीति भावः । नियमार्थ इति । 'सङ्ग्रामयतेरेव सोपसर्गाद्यथा तिकुत्पत्तिस्तथा प्रत्ययोत्पत्तिः, अन्यस्मात्तु सोपस- र्गाद्यथा तिकुत्पत्तिर्न तथा प्रत्ययोत्पत्ति'रिति नियमार्थः । तत्फलितमाह-प्रत्ययो- त्पत्ताविति । प्रत्ययोत्पत्तिकाले पृथकरणेऽपि सामर्थ्यात्तद्विषयके लक्षणे 'सुबन्तादित्यंशे 'यस्माद्विहितस्तदादी'त्यंशाऽप्रवृत्त्या प्रत्ययोत्पत्तौ न दोष इतिभावः। पृथक्करणञ्च जातसमासाऽभावः । अतएव 'सुमनाय्ये'त्यादौ पुनः वान्तेन समासे ल्यप्सिद्धिरिति ज्ञेयम् । ननु प्रत्ययार्थविशेषणपक्षोऽसङ्गतः, तत्र मनस्वी सुष्टु भवतीत्याद्यर्थेऽभूततद्भावाऽभावादत आह-प्रत्ययार्थेति । एवञ्च तद्विरोधादेव प्रत्ययार्थविशेषणपक्षोऽसङ्गत इति भावः । सङ्ग्रामयतिरनुदात्तेदिति । 'सङ्ग्राम युद्धे' इत्यत्राऽकारस्याऽनुदात्तत्वाऽनुनासिकत्वे प्रतिज्ञेये । अवयवे च तस्याऽचारि- १ 'मिति' । २ 'स्य आङः प्रयोगो' । ३ 'इति' । ४ 'डादिसिद्धिः ।

३अ.१पा.२आ.१३सू.] 8 व्याकरणमहाभाष्यम् , ६३ .. प्रयोगो न भवति ॥ अस्त्यत्र विशेषः, एकनात्र विशिष्टे प्रत्ययार्थे प्रत्यय उत्प- द्यते । इह पुनरनेकेन । तत्र मनायत इत्युक्ते सन्देहः स्यात्-अभिभवतौ सुभ- वतावुद्भवतौ दुर्भवताविति । तत्राऽसन्देहार्थमुपसर्गः प्रयुज्यते ॥ यत्र तोकेन-उत्पुच्छयते ? ॥ अत्रायनेकेन ॥ “पुच्छादुदसने पुच्छाधसने पुच्छात्पर्यसेने चे"ति ॥इति॥ लोहितादिडाज्भ्यः क्यष् ॥ ३॥१॥१३॥ किमर्थः ककारः ?॥ ॥[ककौरो]गुणवृद्धिप्रतिषेधौर्थः॥ ॥क्विति चेति गुण- वृद्धिप्रतिषेधो यथास्थात् ॥ नैतदस्ति प्रयोजनं, सार्वधातुकार्द्धधातुकयोरजस्य गुण उच्यते । धातोश्च विहितः प्रत्ययः शेष आर्द्धधातुकसंज्ञां लभते, न चायं धातोर्विधीयते । लोहितादीनि प्रातिपदिकानि ॥ सामान्यग्रहणार्थस्तर्हि ॥क सामान्यग्रहणार्थनार्थः ?॥'नः क्ये' इति ॥ नायं नान्ताद्विधीयते॥ इह तर्हि- 'यस्य हल:' 'क्यस्य विभाषेति ॥ नायं हलन्ताद्विधीयते॥इह तर्हि 'आपत्यस्य च तद्धिते नाति', क्यच्च्योश्चेति ॥ नायमापत्याद्विधीयते ॥ इह तर्हि 'क्या- च्छन्दसी'ति॥ याच्छन्दसी'त्येव तद्वक्तव्यं । चुरण्युस्तुरण्युर्भुरण्युरित्येवमर्थम्।। इदं तर्हि प्रयोजनं यत्तदकृद्यकार इति दीर्घत्वन्तत्र लिहणमनुवर्तते तदि- हापि यथा स्यात् लोहितायते इति ॥ किं पुनः कारणं तत्र विद्रहणमनुव- तते ? ॥ इह मा भूत्-उरुया धृष्णुयेति ॥ यदि विद्रहणमनुवर्तते पित्र्य- प्र.]लोहितादि। भुरण्युरिति। कण्ड्वादियगन्तादुप्रत्ययः। उरुयेति। सुपां सुलुगिति उ.]तार्थ्यात्समुदायविशेषकतेति भावः।नन्वकारस्याऽनुदात्तत्वाऽनुनासिकत्वप्रतिज्ञाने तत्सामादुच्चारणकालाऽव्यवहितोत्तरकाले इत्त्वे लोपे उपस्थिते मान्तग्रामशब्दस्य तदन्तस्य वा लोके युद्धे वर्तमानत्वाऽभावेन 'युद्धे योऽयं ग्रामशब्द' इत्य- नुवादाऽसम्भवेन सम्पूर्वस्याऽलाभेन च सङ्ग्राम युद्धे वर्त्तते ततश्च णिजित्यर्थ विशिष्टपाठस्यावश्यकत्वेन कथं नियमार्थत्वमिति चेन्न: द्वितीयमकारं प्रश्लिष्य तस्याऽ- नुदात्तत्वाऽनुनासिकत्वे प्रतिज्ञेये इति तत्तात्पर्यात् । अत्राऽनुदात्तत्वे मानं चिन्त्यम्, भाष्यप्रयोगस्य पाक्षिकात्मनेपदेनोपपत्तेः॥ भाष्ये-एवन्तर्हि भृशादिषूपसर्गस्येति। भृशादिषु पठितस्योपसर्गस्येत्यर्थः । तेन 'अभिभृशायते' इत्यादौ न निघातः । 'देवदत्तः सुमनायते' इत्यादौ च सोरपि 'तिङतिङ' इति निघातः॥ [कर्तः क्यङ्]। लोहितादिडा । भाष्य-गुणवृद्धीति । गणरत्नपठितेगन्तेभ्यस्तत्प्राप्तिः ॥ १ चः क्वचिन्न । २ इदं लुप्तं सम्प्रति । '॥*॥ ककारो गुणवृद्धिप्रतिषेधार्थः ॥*॥' इति वार्तिकमेतदिति गौडाः। ३ 'क्वितीति' पा०। ४ 'त्येतावद्व' पा०। ५ लोहितायति पा० । ६ इतिः क्वचिन्न । ७ 'यदि तत्र' पा० । .. ..

६४ * कैयट-विवरणसहित [ लोहितादि : मिति पितू रीभावो न प्रामोति । रीभावे क्विद्रहणं निवर्तिप्यते ॥ यदि निवर्त्तते कथमसूया वसूया च यजामह इति?॥ असूयतेरसूया वसूय- तेर्वसूया ॥अथ वा छान्दसमेतत् । दृष्टानुविधिश्च छन्दसि भव[ती]ति॥ यदि च्छान्दसत्वं हेतुर्नाऽर्थः क्विद्हणेनाऽनुवर्तमानेन॥कस्मान्न भवति उरुया पृष्णु- येति ? ॥ छान्दसत्वात् ॥ अथ वाऽस्त्वत्र दीर्घत्वं, छान्दसं हस्वत्वं भविष्यति । तद्यथा-'उपगायन्तु मां पत्नयो गर्भिणयो युवतय' इति ॥ अथ किमर्थः षकारैः॥[षकारो]विशेषणार्थः॥क विशेषणार्थेनार्थः?॥ 'वा क्यष' इति । वा यादिति ह्युच्यमाने-'पाश्या' अंतोऽपि प्रसज्येत ॥ नैतदस्ति प्रयोजनं परस्मैपदमित्युच्यते न चाऽत्र परस्मैपदं नाप्यात्मनेपदं पश्यामः ॥ सामान्यग्रहणाविघातार्थस्तहि भविष्यति॥क सामान्यग्रहणाविघातार्थेनार्थः?॥ 'क्याच्छन्दसी'ति । याच्छन्दसीत्येवं च तद्वक्तव्यम् । चुरण्युः तुरण्युःभुरण्यु- रित्येवमर्थम्॥*लोहितडाज्भ्यःक्यष्वचनम्॥*॥लोहितडाज्भ्यः क्यवक्तव्यः प्र.तृतीयास्थाने यादेशः । पित्र्यमिति । पितुरागतमिति 'पितुर्यच्चे'ति यत्प्रत्ययः । यदीति । यदि रीङ्भाव एव निवर्तते न तु दीर्घविधावपि तदा असुवमुशब्दाभ्यां पूर्ववद्यादेशे कृते दीर्घाभावादसूयावसूयेति न सिद्ध्यति । असूयतेः कण्वादियगन्त- स्याऽसूयेति । वसूयतेरिच्छाक्यजन्तस्य वसूयेत्युत्तरम् । अथ वेति । वर्ण- व्यत्ययेन दीर्घः क्रियतइत्यर्थः । यदीति । अनेन ककारः प्रत्याख्यातः। इदानीं- षकारप्रत्याख्यानाय विचारः क्रियते-अथ किमर्थ इति । पाश्यति । 'पाशा- दिभ्यो य' इति समूहे यप्रत्ययः । 'वा या'दिति सूत्रं विध्यर्थं मन्यते । टापि कृत- एकादेशस्यान्तवद्भावाद्यप्रत्ययान्तमेतत् । नैतदस्तीति । सामान्यविहितानामात्मने- पदस्मै पदानां नियमार्थ प्रकरणमित्यदोषः । लोहितडाज्भ्य इति । आदिशब्द- उ.]पित्र्ये यति रीङ् । यस्येति लोपः। ननु क्वितीति निवृत्तावसूयेत्यपि सिद्धमत आह-यदीति ॥ उत्तरमिति ।असूयया धनेच्छया च यजामहे इति श्रुत्यर्थः । अप्रत्ययान्तटाबन्ताद्विभक्तेश्छान्दसो लुगिति भावः ॥ अथ वेति पक्षे प्राणैर्वसुभिश्च यजामहे इत्यर्थः । भाष्ये नाऽर्थः विद्रहणेनेति । अत एव 'ज्यादादीयस' इत्यस्या- जवृत्तपरिभाषाज्ञापकत्वं सङ्गच्छते॥नियमार्थमिति । ननु नियमार्थत्वेऽपि पाश्या- सभ्यादिशब्देभ्य आचारक्विबन्तेभ्यः पक्षे तङ् स्यात्तद्यावृत्त्यर्थं षकारोच्चारणमिति चेन्न,एतद्भाष्यप्रामाण्येन मूलभूताऽनुबन्धमन्यद्वा निमित्तमादायाऽऽचारक्विबन्ते एत- प्रकरणाऽप्रवृत्तः । अनभिधानादीदृशे विषये आचारक्विपोऽभाव एवेत्यन्ये ॥ १ चः क्वचिन्न । २ ॥*॥ षकारो विशेषणार्थः ॥*॥ इति वार्तिकम् । ३ इदं क्वचिन्न । ४ 'अत्रापि' पा० ।

३अ.१पा.आ.१४सू. ] व्याकरणमहाभाष्यम् ॐ ६५ लोहितायति, लोहितायते । पटपटायति पटपटायते। दमदमायति दमदमा- यते । मटमेटायति मटमटायते ॥ अथाऽन्यानि लोहितादीनि ? ॥ ॥*॥भृशादिष्वितराणि ॥ ॥ भृशादिप्वितराणि पठितव्यानि ॥ किं प्रयो- जनम् ? ॥ 'डित' इत्यात्मनेपदं यथा स्यात् । [ लोहितादि ] ॥ कणय क्रमणे ॥ ३३॥१४॥ 'कष्टायेति किं निपात्यते?॥ कष्टशब्दाच्चतुर्थीसमर्थात्क्रमणेऽनार्जवे क्यङ निपात्यते । कष्टाय कर्मणे क्रामति-कष्टायते ॥ अत्यल्पमिदमुच्यते-कष्टाय- क्रमण इति । ॥ ॥ सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायाम् ॥ ॥सत्रकक्ष- प्र.] प्रत्याख्यानमेतत् । अपठिनसङ्ग्रहार्थोप्यादिशब्दो न भवति, तस्य वार्तिककारेण दूषितत्वात् । [ लोहितादिडाज्भ्यः ] ॥ कष्टाय । कष्टायेति किं निपात्यत इति । विधावनार्जवमेव क्रमणमिति विशेषो न लभ्यत इति क्रमणविशेषलाभाय निपातनाश्रयणम् । सत्रेति । सत्रा- उ.] भाष्ये भृशादिग्वितराणीति । नन्वभूततद्भावे क्यङ् , क्यप्तु तदभावे-इति तदभावे पदद्वयार्थमावश्यकमादिग्रहणमिति चेन : अत्राप्यच्चरित्यनुवाऽस्यापि अभूततद्भाव एव प्रवृत्तेः । अत एव नित्यात्मनेपदार्थ भृशादिपाठ इत्युक्तम् । अपठितेति । तेन 'चायति चर्मायते' इत्यादि वृत्त्याद्युक्तमसङ्गतं, 'नाऽयं हलन्ता- द्विधीयत' इति भाष्योक्तश्चेति बोध्यम् ॥ [ लोहितादिडाज्भ्यः क्यष् ] ॥ कष्टाय क्रमणे । 'कष्ट' शब्दाच्चतुर्थ्यन्तात् क्रमणेऽर्थे क्यङित्यर्थेऽर्थविशेषो न लभ्येत तदर्थ निपातनमित्याह-विधाविति । भाष्ये क्रमणेऽनार्जव इति । यद्यत्र अनार्जवमेव क्रमणशब्दार्थस्तदा 'कष्टाय कर्मणे कुटिलो भवती'त्यर्थः स्यात् । न चाऽयमर्थः कष्टायत इत्यतो गम्यते । किञ्च ‘सत्रादिभ्य' इति वार्तिकभाष्ये 'सत्रा- दिभ्य इति किमर्थ' 'कुटिलायाऽनुवाकाय कामती'त्युदाहरणे 'कुटिलाये'त्यस्य वैय- झंपत्तिः । किञ्च 'चतुर्थ्यन्तेभ्य' इति किमर्थम् , अनार्जवयुक्तं पन्थानं गच्छतीत्य- र्थकमजः कष्टं कामतीत्युदाहरणंभाष्ये दत्तमसङ्गतं स्यात् , अनार्जवरूपे क्रमणेऽवृत्ते- द्यङ्गविकलत्वात् । तम्मादनार्जवे इत्यस्याऽनृजुविषये क्रमणे इत्यर्थः । स्वार्थिका- ऽणन्ताऽऽर्जवशब्देन नञ्तत्पुरुषः । एवञ्चाऽनृजौ वर्तमानात्कष्टशब्दात्क्रमणेऽर्थे क्यडित्यर्थः फलति । 'कष्टाय कर्मणे कामती'त्यस्य च कष्टमन्जु कर्म कर्तुं गच्छ- तीत्यर्थः । अनृजु च पापम् । तेन पापार्थककष्टशब्दात्प्रत्यय इत्यर्थलाभार्थ निपा- ननम् । तेन दुःखपर्यायाद्दुःखमनुभवितुं क्रामतीत्यर्थे न । एतदेव ध्वनयता 'कष्टाय १ अयं क्वचिन्न २ 'असङ्ग्रहीतानीति शेषः। ३ नित्यमात्मने' । ४ ॥॥ कष्टशब्दाचतुर्थीसमर्थात्क्रमणेऽनार्जवे क्यङ् ॥ इति वार्तिकमित्यन्ये।५ 'कष्टायेति'। ५ ।

कैयट-विवरणसहितं & [ कष्याय क्रमणे .. - । कष्टकृच्छगहनेभ्यः कण्वचिकीपायामिति वक्तव्यम् । सौ-सत्रायते । सत्र ॥ कक्ष-कक्षायते । कक्ष ॥ कष्ट-कष्टायते । कष्ट ॥ कृच्छ्रे-कृच्छायते । कृच्छ ॥ गहन-गहनायते । गहन ॥ अपर आह-॥ ॥ सत्रादिभ्यश्चतुर्थ्यन्तेभ्यः क्रमणे- ऽनार्जवे क्यङ् ॥ ॥ [सत्रादिभ्यश्चतुर्थ्यन्तेभ्यः क्रमणेऽनार्जवे क्यङ् ] वक्तव्यः। तान्येवोदाहरणानि ॥ सत्रादिभ्य इति किमर्थम् ? ॥ कुटिलायाऽनुवाकाय क्रामति॥ चतुर्थ्यन्तेभ्य इति किमर्थम् ?॥ अजः कष्टं कामति ॥ तत्तर्हि वक्त- व्यम् ? ॥ न वक्तव्यम् । नैतत्प्रत्ययान्तनिपातनम् ॥ किं तर्हि ?॥ तादयें एषा चतुर्थी, कष्टाय यत्प्रातिपदिकं, कटार्थे यत्प्रातिपदिकमिति ॥ कर्मणो रोमन्थतपोभ्यां वर्तिचरोः ॥ ३॥१॥१५॥ रोमन्थ इत्युच्यते कोऽयं रोमन्थो नाम?॥ उद्गीर्णस्य वाऽवगीर्णस्य वा प्र.]दयोऽत्र वृत्तिविषये पापपर्यायाः। कण्वं पापमुच्यते। कुटिलायेति। दुरध्येयत्वा- दनुवाकस्याऽनार्जवमस्तीति भावः । अज इति । अनार्जवयुक्तं पन्थानं गच्छती- त्यर्थः । कष्टाय यदिति । कष्टलक्षणार्थप्रतिपादनाय यत्प्रातिपादिकं प्रयुज्यते तस्मात् क्रमणेऽर्थे क्यङ्भवतीत्यर्थः । क्रमणविशेषश्चाऽनार्जवमभिधानशक्तिस्वाभाव्याल्लभ्यते। व्यवस्थितविभाषाविज्ञानाच्च पापादिभ्योऽतिप्रसङ्गाऽभावः। [कष्टाय क्रमणे । कर्मणो। उद्गीर्णस्येति । मुखप्रदेश आकृष्टस्येत्यर्थः । अवगीर्णस्येति । उ.]कर्मणे' इति कर्मपदम्प्रयुक्तम्।अत एव सूत्रार्थव्याख्यानोत्तरम्-‘अत्यल्पमिदमुच्यते कष्टाय क्रमणे इति, सत्रादिभ्यः कण्वचिकीर्षामिति वक्तव्य'मित्युत्तरभाष्यं सङ्गच्छते। पापचिकीर्षायां गम्यमानायामित्यर्थः । न च चिकीर्षा उत्साह एव, तस्या गम्यत्वे 'क्रामती'ति परस्मैपदप्रयोगाऽनुपपत्तिः, गमनरूपक्रमणपदार्थनोत्साहम्य गम्यत्वेऽपि क्रमेस्तदर्थत्वाऽभावात् । नव्यस्तु 'वृत्तिस 'त्यादौ क्लुप्तोत्साहार्थत्व- मेवाऽऽश्रित्य चिकीर्षाया एवोत्साहरूपायाः प्रत्ययार्थत्वमाश्रित्य 'क्रमत' इत्यात्मने- पदम्प्रयुक्तं, तद्भाष्यविरुद्धम् ।अनार्जवमेव क्रमणमिति । अनृजुविषयमेव क्रमण- मित्यर्थः । तद्भुनयन वक्ष्यति-अनार्जवयुक्तं पन्थानं गच्छतीत्यर्थ इति । अपर आहेत्यनेन च परस्परं वाक्यानां व्याख्येयव्याख्यानभावो गम्यत इति न कश्चि- द्विरोधः ॥ व्यवस्थितेति । अनाभिधानादिति तत्त्वम् ॥ [ लोहितादिडा] । कर्मणो रोम।भाष्ये अवगीर्णस्य वा मन्थ इति । मन्थो-मन्थनम् । तच्चो- गीर्णस्य चर्वणम् । अन्यस्याऽशनरूपं ॥ हनुचलन इत्युक्त्योद्गीर्णविषय एव प्रयोगः। १ इदं कचिन्न । २ इदं वार्तिकव्याख्याभाष्यमित्यन्ये । अपरपठितं वार्तिक- मित्यपरे । ३ इदं व्याख्यानं लुप्तं स्यादिति गौडाः ॥४ 'क्रामत्यनुवाकाय' पा० । ५. 'नेदं' पा० । ६ 'कष्टाऽर्थ' । ७'को रोम' पा० । ।

३अ.१पा.२आ.१६सू.] * व्याकरणमहाभाष्यम् ॐ मन्थः [रोमन्थे इति।]यद्येवं,॥ ॥ हर्नुचलने॥*॥ हनुचलन इति वक्तव्यम् । इह मा भूत्-कीटो रोमन्थं वर्तयतीति॥ तत्तर्हि वक्तव्यम् ?॥ ॥ न वाऽनभि- धानात् ॥ ॥ न वा वक्तव्यम् ॥ कस्मान्न भवति-कीटो रोमन्थं वर्तयतीति ?॥ 'अनभिधानात्' ॥*॥ तपसः परस्मैपदं च ॥*॥ तपसः परस्मैपदं चेति वक्त- व्यम् । तपश्चरति तपस्यति ॥ कथं 'तपस्यते लोकजिगीषुरग्नेः ? ॥ छान्दसत्वाद्भविष्यति । [ कर्मणो रोमन्थतपोभ्याम् ] ॥ वाष्पोष्मभ्यामुद्वमने ॥ ३।१।१६ ॥ ॥॥ फेनौच्च॥ * ॥फेनाञ्चति वक्तव्यम् । फेनायते । [बाष्पोप्मभ्यामुद्व ] । शब्दवैरकलहाऽभ्रकण्वमेघेभ्यः करणे ॥३॥१॥१७॥ ॥ ॥ अौदाशीकाकोटापोटासोटापुष्टाप्लुष्टाग्रहणम् ॥ ॥ अटाहाशीकाकोटा- पोटासोटापुष्टाप्लुष्टाग्रहणं कर्तव्यम् । अटा-अटायते । [अ[]॥ अा-अहायते । [अ] शोका-शीकायते । [शीका] ॥ कोटा-कोटायते । [कोर्टी] ॥ पोटा- पोटायते [ पोर्टी] ॥ सोटा-सोटायते । सोटा ॥ पृष्टा-पुष्टायते। पुष्टा ॥ मुष्टा-प्लुष्टायते । प्लुष्टा ॥ ॥सुदिनदुर्दिनाभ्यां च ॥*॥ सुदिनदुर्दिनाभ्यां चेति- वक्तव्यम् । सुदिनायते दुर्दिनायते ॥ ॥ नीहाराच्च ॥ ॥ नीहाराञ्चेति वक्तव्यम् । नीहारायते ॥ [ शब्दवैरकलहाभ्रकण्वमेघेभ्यः ] । सुखादिभ्यः कर्तृवेदनायाम् ॥ ३।१।१८ ॥ कर्तृवेदनायामिति किमर्थम् ? ॥ इह मा भूत्-सुखं वेद॑यते प्रसाधको देवदत्तस्य ॥ 'कर्तृवेदनाया'मित्युच्यमानेऽप्यत्रं प्राप्नोति ॥ किं कारणम् ? ॥ 'कर्तु'रितीयं कर्तरि षष्टी, 'वेदनाया मिति चाऽनो भावे । स यद्येवात्मनो प्र.]अपानप्रदेशान्निःमृतस्येत्यर्थः । हनुचलन इति । हनुचलनसहचरितं चर्वितस्य मुखप्रदेश आकृष्य यच्चर्वणं तत्र यथा स्यादित्यर्थः। कीट इति । अपानप्रदेशान्निः- मृतमश्नातीत्यर्थः। अनभिधानादिति । रोमन्थायत इति क्यङन्तेन लौकिके प्रयोगे चर्वितचर्वणस्यैवाऽभिधानं न त्वर्थान्तरस्येत्यर्थः । [ कर्मणो रोमन्थ ] । उ.]तदुपपादयति-सहचरितमिति। अश्नातीत्यर्थ इति। वर्तुलं करोतीत्यर्थ इत्यन्ये॥ नत्विति । एवञ्च तत्र प्रयोगाऽभावास्किं तन्निवृत्त्यर्थेन यत्नेनेति भावः ॥ सुखादिभ्यः क । भाष्ये-सुखं वेदयत इति । मुखप्रसादादिना देवदत्तस्य सुखं प्रसाधको वेदयत इत्यन्वयः ॥ यद्यप्यन्तरङ्गत्वात्कारकत्वेन वेदनायामन्वयों १ इदं कचिन्न । २ इदं वार्तिकं वचिन्न। ३ 'न वक्तव्यं । ४ 'अटाटा' । ५ 'प्लुष्टा' ग्रहणं क्वचिन्न । ६ अयं पाठो लुप्तः । ७ 'मुदिनदुर्दिननीहारेभ्यश्चेति वक्तव्यम्'। ८ 'वेदयति साध' । ९ अपिः क्वचिन्न । १० 'चात्मनो' !

8 कैयट-विवरणसहितं. [ नमोवरिव वेदयतेऽथापि परस्य, कर्तृवेदनैवाऽसौभवति ॥ न कर्तृग्रहणेन वेदनाऽभिसंब- ध्यते ॥ किं तर्हि ? ॥ सुखादीन्यभिसंबध्यन्ते-'कर्तुर्यानि सुखादीनीति ॥ नमोवरिवश्चित्रङः क्यच ॥ ३।१।१९ ॥ ॥*॥ नमसः क्यचि द्वितीयानुपपत्तिः ॥ ॥ नमसः क्यचि द्वितीया नोप- पद्यते-नमस्यति देवानिति ॥ किं कारणम् ? ॥ नमःशब्देन योगे चतुर्थी विधीयते सौ प्राप्नोति ॥ * ॥ प्रकृत्यन्तरत्वात्सिद्धम् ॥ ॥ [प्रकृत्यन्तरत्वा- सिद्धमेतत् ] । नमःशब्देन योगे चतुर्थी विधीयते, नमस्यतिशब्दश्चायम् ॥ ननु च नमस्यतिशब्दे नमःशब्दोऽस्ति तेन योगे प्राप्नोति ॥ नैप दोपः । अर्थवतो नमःशब्दस्य ग्रहणं, न च नमस्यतिशब्दे नमःशब्दोऽर्थवान् ॥ अथ वोपपदविभक्तेः कारकविभक्तिर्बलीयसीति द्वितीया विभक्तिर्भविष्यति॥ ॥॥क्यजादिषु प्रत्ययार्थनिर्देशः ॥*॥ क्यजादिपु प्रत्ययार्थनिर्देशः कर्तव्यः ॥ प्र.]सुखादिभ्यः। किं तीति। वेदनायाः कर्तारमन्तरेणाऽभावात् । कर्तृग्रहण- सामर्थ्यात् सुखादीनि विशेष्यन्ते । कर्तृग्रहणं च 'सुपां सुलु'गिति षष्टीलुका निर्दिष्टम् । ततश्च वेदयिता यदात्मसंबन्धीनि मुखादीनि वेदयते तदा प्रत्ययो, नान्य- दीयमुखादिवेदने । [ मुखादिभ्यः कर्त्तवेदनायाम् ]॥ नमो वरिव । प्रकृत्यन्तरत्वादिति । 'नमस्येति धातुं व्युत्पादयितुं निपात- नमःशब्दसदृशशब्दान्तरावयवकल्पना क्रियते । परमार्थतस्तु अविद्यमानावयवा- ऽर्थो नमस्यशब्दः पूजावाची प्रकृत्यन्तरमित्यर्थः । ननु चेति । स एवाय'मिति प्रत्यभिज्ञानान्निपात एवाऽयमिति भावः। अर्थवत इति। नमस्यशब्दस्य समुदायस्यै- वाऽर्थवत्त्वादिति भावः। अथ वेति । अर्थवत्ताभ्युपगमेन नमस्कारेण पूजयतीत्यर्था- ङ्गीकारेण परिहारान्तरम् । चतुर्थ्यास्तु'नमोऽस्तु देवेभ्य' इत्यादिरवकाशः। 'नम- स्करोमि नारायण मित्यत्रापि कारकविभक्तिरेव भवति । क्यजादिप्विति । करण- उ.]न्याय्यस्तथापि सामर्थ्यात्सुखादिभिरन्वय इत्याह-वेदनाया इति।समग्नस्याऽन्य- त्राऽन्वयाऽसम्भवादाह-सुपां सुलुगिति। 'वेदना'शब्दे 'विद चेतने'ति चौरादिक- ण्यन्तात् ‘ण्यासश्रन्थ' इति युच् । नान्यदीयेति । मुखप्रसादादिना लिङ्गेनेति भावः॥ नमोवरि । 'नमस्य' शब्दस्य प्रकृत्यन्तरत्वेऽपि 'नमः'शब्दाक्यचो वि- धानेन तद्योगे चतुर्थी स्यादत आह-नमस्येतीति ॥ निपात एवेति । अव्ययत्वा- पलक्षणमेतत् । अन्यथा 'साक्षात्प्रभृतीनी'त्यनेन कृश्योगे एव व्यर्थे एव च निपा- तत्वविधानादत्र तदभावेनाऽसङ्गतिः स्यात् ॥ अर्थवत्त्वादिति । अस्य शुद्धरूढत्वेन वृत्तेर्जहत्स्वार्थत्वादिति भावः ॥ इत्यर्थाङ्गीकारेणेति । अनेनेतत्सूचयति-'नाऽयम- १ इतिः क्वचिन्न । २ इदं क्वचिन्न । ३ इदं त्रुटितं भवेत् ।

अ.१पा.आ.१९सू.] 8 व्याकरणमहाभाष्यम् , [॥ ॥ 'नमसःपूजायां 'वरिवसः परिर्यायौं' चित्र आश्चर्ये' 'भाण्डात्समाचयने' 'चीवरादर्जने परिधाने चे' पुच्छादुदसने व्यसने पर्यसने च ॥*॥] । नमसः पूजा- यां वरिवसः परिचर्यायां चित्रङ आश्चर्ये भाण्डात्समाचयने चीवरादर्जने परि- धाने च, पुच्छादुदसने व्यसने पर्यसने चेति ॥ किं प्रयोजनम् ?॥॥॥ क्रिया- वचनेत्वार्थम् ॥॥क्रियावचनता यथा स्यात् । नैतदस्ति प्रयोजनम् । आचार्य- प्रवृत्तिापयति-'क्रियावचनाः क्यजादय' इति, यदयं 'सनाद्यन्ता धातव' इति धातुसंज्ञां शास्ति ॥ कथं कृत्वा ज्ञापकम् ? ॥धातुसंज्ञावचन एतत्प्रयो- जनं 'धातो'रिति तव्यदादीनामुत्पत्तिर्यथा स्यात् । यदि चाऽत्र क्रियावचनता न स्यान्द्वातुसंज्ञावचनमनर्थकं स्यात् । सत्यामपि धातुसंज्ञायां तव्यदादयो न स्युः ॥ किं कारणम् ?॥ साधने तव्यदादयो विधीयन्ते, साधनं च क्रियायाः। क्रियाया अभावात्साधनाऽभावः । साधनाऽभावात्सत्यामपि धातुसंज्ञायां तव्यदादयो न स्युः। पश्यति त्वाचार्य:-क्रियावचनाः क्यजादय' इति, ततः 'सनाद्यन्ता धातव' इति धातुसंज्ञां शास्ति ॥ ननु चेदं प्रयोजनं स्यात् 'पर- साधने तव्यदादीनामुत्पत्तिं वक्ष्यामीति ॥ न परसाधने उत्पत्त्या भवित- व्यम् ॥ किं कारणम् ?॥ 'साधन मिति संबन्धिशब्दोऽयम् । संबन्धिशब्दाश्च प्र.] ग्रहणस्य वेदनाग्रहणेन व्यवधानादनधिकारे स्वार्थे प्रत्ययप्रसङ्ग इति वचनम्।वरि- वस इति।सपर्या-सेवा। परिचर्याया'मिति पाठान्तरम्। परसाधन इति। शब्दान्त- रवाच्यायां कियायां यत्कर्मादिकारकं तत्र तव्यादीनां वृक्षं पश्ये'त्यादौ द्वितीयादीना- मिव स्वार्थिकत्वाद्रव्यवाचित्वेऽपि क्यजाद्यन्तानामुत्पत्तिः स्यादेवेति भावः । न पर- साधन इति।द्वितीयादीनां प्रातिपदिकाद्विधानात्तस्य च द्रव्यवचनत्वाद्वचनप्रामाण्यात् परसाधन उत्पत्तिर्भविष्यति। तव्यादयस्तु धात्वन्तरेषु क्रियावाचिषु स्वसाधने साव- उ.]र्थोऽतःप्रतीयते,किन्तु वरिवस्याशब्दादिभ्यः सपर्यादिमात्रप्रतीतिवदस्मात्पूजामात्र- प्रतीतिरित्याद्य एव समाधिरत्र युक्तः, अयन्त्वेकदेशिन इति ॥ करणपदाऽनुवृत्त्या कियासामान्ये विधावपि प्रयोगवशादेव तद्विशेषप्रतीतिर्भविष्यतीति किमेतरित्यत आह-करणग्रहणस्येति । भाष्ये-साधने तव्यदादय इति । भावोऽपि क्रियारूप एवेति भावः॥ शब्दान्तरेति । स्वार्थिकत्वात्क्यजाद्यन्तानां द्रव्यवाचित्वेऽपि शब्दा- न्तरवाच्यक्रियाकारके तव्यादीनामुत्पत्तिः स्यादेवेत्यन्वयः । तत्र दृष्टान्तो-वृक्षमि- त्यादि ॥ तव्यादयस्त्विति । एवञ्च धातुसंज्ञाविधानमेवेषां क्रियावाचकत्वे मानमिति भावः॥ भाष्ये अथ वा धातव एवेति । क्रिवावचना एवेत्यर्थः । कः खल्वपीति । १ इदं लुप्तम् । २ 'सपर्यायां पा० । ३ इदं क्वचिन्न । ४ 'वा' पा० । ५ 'क्रियाऽभावा' पा० । ६ इदं पदं क्वचिन्न । ७ 'भवति ।

कैयट-विवरणसहितं. [नमोवरिव पुनरेवमात्मका यदुत संबन्धिनमाक्षिपन्ति । तद्यथा 'मातरि वर्तितव्यं' 'पितरि शुश्रूषितव्यमिति । न चोच्यते 'स्वस्यां मातरि' 'स्वस्मिन् वा पितरी'- ति । संबन्धाञ्चैतद्गम्यते-'या यस्य माता' 'यस्य यश्च पितेति । एवमिहा- ऽपि संबन्धादेतद्गन्तव्यं-'यस्य धातोर्यत्साधन मिति ॥ अथ वा धातव एव क्यजादयो, न चैव ह्यर्था आदिश्यन्ते क्रियावचनता च गम्यते । कः खल्वपि पचादीनां क्रियावचनत्वे यत्नं करोति । येनैव खल्वपि हेतुना पचादयः क्रिया- वचनास्तेनैव क्यजादयोऽपि । एवमर्थ खल्वाचार्यश्चित्रयति,-'क्वचिदर्था- नादिशति, क चिन्ने ति ॥ एवमप्यादेशनं कर्तव्यं-कथमिमे अबुधा बुध्येर- निति ॥ अथ वा शक्यमर्थादेशनमकर्तुम् ॥ कथम् ? ॥ करण इति वर्तते । करणं च करोतेरर्थः । करोतिश्च क्रियासामान्ये वर्तते । [ नमोवरि ] ॥ मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततस्तेभ्यो णिच ३।१।२१॥ इमौ हलिकली स्त इकारान्तौ -हलिः कलिः। अस्ति हलशब्दः कल. शब्दश्चाऽकारान्तः, कयोरिदं ग्रहणम् ?॥ याविकारान्ती, तयोरत्वं निपात्यते ॥ किं प्रयोजनम् ? ॥*॥ हलिकल्योरत्वनिपातनं सन्वद्भावप्रतिषेधार्थम् ॥॥ हलिकल्योरत्वनिपातनं क्रियते ॥ [ किं प्रयोजनं ? ॥ 'सन्वद्भावप्रतिपे- प्र.काशाः परसाधने नोत्पद्यन्त इत्यर्थः। अथ वेति। अभिधानशक्तिस्वाभाव्यादन्त- रेणाप्यर्थादेशनं विशिष्टक्रियावचनत्वस्य सिद्धत्वादित्यर्थः । चित्रयतीति । 'चित्र वैचित्र्यकरणे' इति चौरादिकस्य रूपम् । अनेक मार्गमाश्रयतीत्यर्थः। क्रियासामान्य इति । सामान्येन च विशेषाणामाक्षेपात्कश्चित् प्रत्ययः क्व चिद्विशेषे भवतीत्यर्थः । न च वेदनाग्रहणेन करणस्य विच्छेदः, तयोर्विरोधाऽभावात् । [ नमोवरिव ] । मुण्डमिश्र । कयोरिदं ग्रहणमिति । किभिकारान्तयोः कृतात्वयोर्ग्रहणमुता- ऽकारान्तयोरेवेति प्रश्नः। किं प्रयोजनमिति। 'हलिकली' इत्येव कम्मान्न क्रियत- उ.]पचादीनामर्थरहितानामेव पाठात् । क्वचिदर्थानिति। अनेकान् । क्वचित्त्वेकमि- त्यर्थः । क्वचिन्नेति । एकमपि नादिशतीत्यर्थः॥ एवमप्यर्थादेशनमिति । 'नमस: पूजाया'मित्यादि। बोध्येरन्निति।निवृत्तप्रेषणात्स्वार्थ णिच् । वुध्येरन्नित्येव क्वचित्पाठः । मुण्डमिश्र। निर्देशादेवाऽकारान्तनिर्णयेन प्रश्नाऽनुपपत्तिरत आह-किमिका- रेति । भाष्ये-इमाविति । समानार्थावित्यर्थः ॥ यद्यप्यकारान्तयोरेव ग्रहणेऽपि तयोनियमार्थत्वादिकारान्ताभ्यां णिजभावेन सर्वदोषपरिहारोऽस्ति तथाप्येकदेश्याह भाष्ये-याविति । नियमचैतत्सजातीयानुपूर्वीकानामेतदर्थकानाञ्चेद्धलकलयोरेवेति । प्रकाराऽन्तरेणाप्येकदेश्युक्तित्वमस्याऽनुपदं वक्ष्यते ॥ भाष्ये-वृद्धिरपि नित्येति । १ इदं क्वचिन्न । २ 'यश्च यस्य' । ३ 'खल्वपि' पा० । ४ शक्यमेवार्था' पा० । - ३अ.१पा.२आ.२१सू. ] * व्याकरणमहाभाष्यम् 8 धार्थ'] । सन्वद्भावो मा भूदिति । अजहलन्, अचकलत् ॥ नैतदस्ति प्रयोज. नम् । इकारलोपे कृतेऽग्लोपिनां नेति प्रतिषेधो भविष्यति ॥ वृद्धौ कृतायां लोपस्तन्नाऽग्लोप्यङ्गं भवति ॥ इदमिह संग्रधार्य-वृद्धिः क्रियतामग्लोप इति, किमत्र कर्तव्यम् ? ॥ परत्वाद्वृद्धिः ॥ नित्यो लोपैः। कृतायामपि वृद्धी प्राप्नोत्यकृतायामपि प्राप्नोति ॥ [ वृद्धिरैपि नित्या । कृतेऽपि लोपे प्राप्नोत्य- कृतेऽपि प्राप्नोति]॥ अनित्यो लोपः। अन्यस्य कृतायां वृद्धौ प्राप्नोत्यन्यस्याऽ- कृतायाम् । 'शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति'॥ वृद्धिरप्यनित्य।। अन्यस्य कृते लोपे प्रामोत्यन्यस्याऽकृते । ‘शब्दान्तरस्य च प्रामुवन्विधिर- प्र.इत्यर्थः । शब्दान्तरस्य चेति । यद्यपि वृद्धी कृतायामपि लोपस्य प्रवृत्तिस्तथापि वाचनिकं तस्याऽनित्यत्वम् । अथ वा अन्यस्य प्रवृत्तावप्य- न्यस्य स्थानिनोऽप्रवृत्त्या लोपस्याऽनित्यत्वम् । अन्यस्य कृते लोप इति । अंत उपधाया' इत्यनेनाऽकारस्येत्यर्थ :। ननु लोपस्य स्थानिवद्भावात्कथमकारस्य प्राप्नोति ? । नैष दोषः। प्राप्ती सत्यां स्थानिवद्भावेन प्रतिबन्धः क्रियते। पूर्वस्य विधौ स्थानिवद्भावविधानात् । अप्राप्तौ तु पूर्वविध्यभावात्स्थानिवद्भाव एव न स्यात् । यद्यपि भिन्नलक्षणा भिन्नस्वभावा च वृद्धिस्तथापि वृद्धिशब्दवाच्य- त्वादभेदमाश्रित्य शब्दान्तरप्राप्त्या वृद्धेर्नित्यत्वं कथितम् । तत्त्वतस्तु लोपे कृते वृद्धरप्राप्त्याऽनित्यत्वं वक्तव्यम् । न्यायव्युत्पादनाय त्वन्यथाऽभिहितम् । सूत्रं उ.]कार्यमानं नित्यमिति भावः । वाचनिकमिति । 'शब्दान्तरस्य'तिवचनमिति भावः । वस्तुतस्तदपि न्यायसिद्धमित्याह-अथ वेति । प्राप्तौ सत्यामिति । अत्र तृभयोरनित्ययोः परत्वादन्त्यस्यैव वृद्धिर्न तूपधाकारस्येति भावः । तदनास्थयाऽपि समाहितमित्यत्र तात्पर्यम् ॥ ननु पूर्वमन्त्यबृद्धिप्राप्तावपि लोपे उपधावृद्धिप्राप्तिरिति नैकम्या अनित्यत्वमिति शङ्कते-यद्यपीति । भिन्नस्वभावेति । भिन्नस्थानिकेत्यर्थः वस्तुतोऽचोणितीत्यस्य लोपेन बाधेऽपि 'अत उपधाया' इत्यस्याऽप्रवृत्तिरेव स्थानि- निवत्त्वेन वाच्या, 'अचो णिती'त्यस्य चाऽनित्यत्वं लोपे कृतेऽप्राप्त्यवेत्याशये- नाह-तत्त्वतस्त्विति । न्यायेति । पूर्वोक्तत्यर्थः । परे त्विदम्भाष्यमेकदेश्युक्तिः, भिन्नलक्षणाया भिन्नस्थानिकाया वृद्ध नित्यत्वोक्तः सिद्धान्त्युक्तित्वाऽभावात् । कृते लोपे स्थानिवद्भावेन बुद्धरप्राप्तेरपि तदुक्तस्तदुक्तित्वाऽभावात् । अत एव ‘णौ चडी'- ति सूत्रे लोपन्य शब्दान्तरप्राप्त्या वृद्धोपोत्तरमप्राप्त्योभयोरनित्ययोः परत्वादृद्धि- रित्याशय 'नाऽग्लोपीति सूत्रेऽग्ग्रहणादृद्धोपो बलीयानिति सिद्धान्तितम् । तेनाऽवत्यस्यैकदेश्युक्तित्वं स्पष्टमेवोक्तम् । इदमेवाभिप्रेत्य सप्तमे कैयट आह-'अना- १ 'कियतां लोप' पा० । २ 'नित्यत्वाल्लोपः' । ३ अयं पाठः क्वचिन्न ।

७२ 8 कैयट-विवरणसहितं ६ [ धातोरेकाची नित्यो भवति' ॥ उभयोरनित्ययोः परत्वाद्वृद्धिः । वृद्धौ कृतायां लोपः, तन्ना- ग्लोप्यङ्गं भवति ॥ अत्वे पुनः सति वृद्धिः क्रियतां लोप इति, यद्यपि पर- वाढद्धिवृद्धौ कृतायामप्येगेव लुप्यते । तस्मात्सुष्टुच्यते-'हलिकल्योरत्व- निपातनं सन्वद्भावप्रतिषेधार्थ मिति । [ मुण्डमिश्रलक्ष्णलवणव्रतवस्त्र] ॥ धातोरेकाचो हलादेः क्रियासमभिहारे यङ ॥ ३॥१॥२२॥ 'समभिहार' इति कोऽयं शब्दः ?॥ समभिपूर्वाद्धरतर्भावसाधनोघेज , समभिहरणं समभिहारः इति । तद्यथा-पुष्पाभिहारः मालाभिहारः उत्पला- भिहारः फलाभिहार इति ॥ विपम उपन्यासः । बढ्यो हीमाः सुमनसस्तत्र युक्तः समभिहारः । इह पुनरेका क्रिया ॥ यद्यप्येका सामान्यक्रिया, अव- प्र.] प्रातिपदिकाद्धात्वर्थ' इति णिचि सिद्ध प्रपञ्चामित्याहुः न च 'तत्करोती'त्यादिना तत्र धात्वर्थनियमः क्रियते, राजानमतिक्रान्तवानत्यरराजदित्यादावपि णिचो दर्श- नात्। 'मुण्डं करोति माणवक'मित्यादौ सापेक्षेभ्योऽपि णिजयं वा। [मुण्डमिश्र]॥ धातोरेकाचो । इह समभिहारो नाम मूर्तस्याऽनेकस्यककालम्य भवति । धातुवाच्या तु क्रियकैव, युगपदेकेन धातुनाऽनेकस्या अनभिधानात्। सा च निवृत्त- भेदा साध्यैकस्वभावत्वाद्धातुना प्रत्याय्यते । अधिश्रयणादीनां च क्रमजन्यवाद्युग- पदवस्थानाऽभावाच क्रियासमभिहारो न संभवतीति मन्यमानः पृच्छति-समभि- हार इति कोयमिति । इतरस्तद्बुद्धिपरीक्षार्थ शब्दव्युत्पत्तिमाह-समभिपूर्वादिति । उ.]श्रित्य ज्ञापकत्वं निपातनमुक्तं, ज्ञापकाश्रयणमेव तु ज्याय' इति । प्रातिपदिकाद्धात्वर्थ इति । चुरादिगणसूत्रमिदमिति भावः।तत्करोतीति । 'हेतुमति चेत्यत्रवार्त्तिकादिदं गणसूत्रमप्रामाणिकम् । अत एव सत्यापपाशेति सूत्रे पाशादिग्रहणं चरितार्थम् । वार्तिके करोतिर्धात्वर्थोपलक्षणम् । तेन 'अत्यरराज'दित्यादीनां सिद्धिः । सत्यापेति सूत्रेऽनुवृत्तकरण इतिवदित्यन्ये । धात्वर्थनियम इति । एवञ्च धात्वर्थमात्रं विधानार्थं स्यात् । 'करणे' इति च धात्वर्थमात्रोपलक्षणं स्यात् । अतएव 'वर्मणा सन्नद्यति संवर्मयती'त्यादिसिद्धिरिति भावः।सापेक्षेभ्योऽपीति। अयमभ्युच्चय इति 'सुपआत्मन' इत्यत्र भाष्य स्पष्टम् ॥ धातोरेकाचो। इहेति । यथा पूलादीनाम् । समभिहारश्रौत्तराधर्यम् । तेन क्रियाया विशेषणाऽनुपपत्त्या प्रश्न इत्यर्थः । एककालस्येति । एकदेशस्याप्युलक्षण- मेतत् । ननु दिवेविजिगीषाक्रीडाद्यनेकार्थत्वदर्शनादाह-युगपदिति । ननु विषय- भेदात्कर्तृभेदाच्च पाकादीनां नानात्वेन कथमेकैवेत्यत आह-सा चेति । एतयङ्ग्य- १ 'वृद्धावपि पा०। २ 'गेव' पा०।३ 'घमि' पा०।४ अयं पाठः क्वचिन्न । ५ 'हि ताः' पा० । ६ 'हार इति' पा० । ६ 'फला' 'पुष्पा' पा० ।

३अ.१पा.२आ२२सू.] & व्याकरणमहाभाष्यम् 83 - यवक्रियास्तु बह्वयः। अधिश्रयणोदकाऽऽसेचनतण्डुलाऽऽवपन घोऽपकर्पणक्रियाः। ताः कश्चित्कात्स्न्येन करोति कश्चिदकात्स्न्यैन,यः कात्स्न्यन करोति स उच्यते- 'पापच्यत' इति । पुनः पुनर्वा पचति-पापच्यते इति ॥ अथ धानुग्रहणं किमर्थम् ? ॥ इह मा भूत्-प्राऽटति भृशमिति ॥ अत प्र.]यद्यप्येकेति।मुख्यम्य समभिहारम्येहाऽसंभवागौण आश्रीयते। बुद्धिगोचराऽनेक- सकलावयवक्रियासंगतः, पौनःपुन्येनाऽनुष्टीयमानप्रधानक्रियाविषयो वेत्यर्थः। सामा- न्यक्रियेति । साधारणी समूहरूपा क्रिया धातुवाच्यत्यर्थः । यथोक्तं हरिणा-'गुण- भूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताऽभेदः क्रियेति व्यपदि. श्यते ॥ समूहश्च तथाभूतः प्रतिभेदं समूहियु । समाप्यते ततो भेदे काल- भेदस्य संभवः'॥इति॥ अथ वा अधिश्रयणादीनां नादयेन प्रवर्तनाद्गुणत्वादवयव- त्वं, तस्याश्च साधारणत्वमुच्यते । तदुक्तम्-'अनन्तरफलं यस्याः कल्पते तो कियां विदुः । प्रधानभूनां तादादन्यामां तु तदाख्यता' ॥ कात्स्न्येनेति । विजानीयाऽव्यवहितास्साकल्येनेत्यर्थः । अथेति । धातुरेव समभिहारविशिष्टक्रिया- उ.]मेव साध्यत्वमित्याह-साध्यैकेति । अत एव भवद्भिरास्यते' इत्यादी बहुवचनं नेति भावः । अधिश्रयणादीनां नानात्वादाह-अधोति । युगपदिति । उत्पन्नवि- नाशित्वादिति भावः। अमूर्तत्वाचेत्यपि बोध्यम् । भाप्ये-कोऽयमित्यम्य किमर्थको- ऽयमित्यर्थः । मालाऽभिहारे कर्मधारयः । उत्पलाऽभिहारे षष्टीतत्पुरुषः। बुद्धीति । अनेकासां सकलानामवयवक्रियाणां बुद्धिविषयत्वेन योगपद्यमिति भावः । वुद्धी युगपदवस्थानमत्र समभिहार इति बोध्यम् । प्रधानेति । पौनः पुन्येन तस्या एवाऽ- नुष्टानादिति भावः । अत्रापि समभिहारो बौद्ध एवेति बोध्यम् । क्रियाया जाति- त्वरूपसामान्यत्वाऽसम्भवादाह-साधारणीति । सकलाऽवयवसाधारणीत्यर्थः । तदाह-समूहरूपेति । गुणभूतैरिति । कमजन्मनामधिश्रयणादीनां वुद्ध्या प्रक- ल्पितो योऽभेदस्तद्रूपसमूहस्तैरेव गुणभूतैरवयवैः : सह क्रियेत्युच्यत इत्यन्वयः । ननु 'प्रकृतः कटं देवदत्त' इत्यादौ कथं भूते'क्त' इत्यत आह-समृहःस इति। तथाभूतः-उद्भूताऽवयवः॥समूहिपु-अवयवेषु। प्रतिभेदं-प्रत्येकम्। अभेद इति। बुद्धिकृताऽभेदेऽपीत्यर्थः । तस्याश्चेति । यदव्यवधानेन फलोत्पत्तिस्तस्या इत्यर्थः । अनन्तरमिति । अव्यवधानेन फलोत्पादिकां प्रधानां क्रियामाहुः । अन्यासां तु तादात्तदाख्यता, गौणो व्यवहार इत्यर्थः । विजातीयेति । यथा द्रव्याणां द्रव्या- न्तररव्यवेतानां समभिहारस्तथा क्रियाणामपि क्रियान्तरैरव्यवेतानामेव स इत्यर्थः । पुनः पुनर्वेति भाष्ये। समूहरूपायाः क्रियायाः कालभेदारेदेऽपि साजा- त्यात्सैव पुनः पुनरनुष्टीयत इति बुद्ध्या पौनःपुन्यमिति तात्पर्यम्। धातुरेवेति ।

ॐ कैयट-विवरणसहितं 8 [ धातोरेकाचो उत्तरं पठति-॥॥ यङिधौ धातुग्रहणे उक्तम् ॥ ॥ [ यतिधौ धातुग्रहणे उक्तम् ] ॥ किमुक्तम् ? ॥ तत्र तावदुक्तम्-“कर्मग्रहणात्सन्विधौ धातु- ग्रहणानर्थक्यं, सोपसर्ग कर्मेति चेत्कर्मविशेषकत्वादुपसर्गस्यानुपसर्ग कर्म ॥ सोपसर्गस्य हि कर्मत्वे धात्वधिकारेऽपि सनोऽविधानमकर्मत्वा"दिति । एवमिहापि'-क्रियासमभिहारग्रहणाद्यङिधौ धातुग्रहणानर्थक्यं,सोपसर्गः क्रियासमभिहार इति चेक्रियासमभिहारविशेषकत्वादुपसर्गस्याऽनुपसर्गः क्रियासमभिहारः, सोपसर्गस्य हि क्रियासमभिहारत्वे धात्वधिकारेऽपि यङोऽविधानमक्रियासमभिहारत्वा"दिति ॥ अथैकाज्झलादिग्रहणं किमर्थम् ॥ इह मा भूत्-जागर्ति भृशम् । ईक्षते भृशैमिति ॥ ॥ एकोझलादिग्रहणे च ॥ ॥ एकाउझलादिग्रहणे चोक्तम् ॥ किमुक्तम् ? ॥ तत्र तावदुक्तम्-॥ “कर्मसमानकर्तृग्रहणानर्थक्यं चेच्छाभिधाने प्रत्ययविधानादकर्मणो ह्यसमानकर्तृकाद्वाऽनभिधान"मिति ॥ इहापि-'एकाउझलादिग्रहणानर्थक्यं च क्रियासमभिहारे यचनाद- नेकाचो हलादेयनभिधान"मिति । तावश्यमनभिधानमाश्रयितव्यम् । क्रियमाणेऽपि ह्येकाज्झलादिग्रहणे यत्रैकाचो हलादेश्वोत्पद्यमानेन यडा- ऽर्थस्याभिधानं न भवति, न भवति तत्रोत्पत्तिः । तद्यथा-भृशं शोभते भृशं रोचते । यत्र चाऽनेकाचोऽहलादेवोत्पद्यमानेन यङाऽर्थस्या- ऽभिधानं भवति, भवति तत्रोत्पत्तिः। तद्यथा-अटाट्यते अरार्यते अशा- प्र.] वाची, द्योतकस्तूपसर्गो न तु वाचक इत्यर्थः। प्राटतीति। धातूपसर्गसमुदायस्य क्रियाविशेषावगतिहेतुत्वात्ततो यदि प्रत्यय: स्यात्ततः सोपसर्गस्य द्विवचनं प्रम- ज्येत । प्राटाट्यते इति चेष्यते । सन्सूत्रोक्तं वस्त्विहाप्यतिदिशति-यङिधाविति । धात्वधिकारेऽपीति । 'प्रपापच्यत'इत्यादौ । ऊोंतेश्चेति । यथान्यासे सिद्ध्यभावा- द्वचनम्। कार्यान्तरसिद्धयेऽवश्यमूतिर्नुबद्भावो वाच्यस्तेनेन यङोऽपि सिद्धिमाह- उ.] क्रियासमभिहारे' इत्यस्य समभिह्रियमाणक्रियावाचकादित्यर्थ इति भावः क्रिया- बोधकादित्यर्थोऽपि सम्भाव्यतेत्युत्तरम् । सनिति । एवञ्चाऽर्द्धधातुकसंज्ञार्थ धातु- ग्रहणमित्याद्यपि तत्रत्यमत्र बोध्यमिति ध्वनितम् । तत्फलञ्च ‘सोसूच्यते' इत्यादी णिलोपः । प्रपापच्यत इति । सूत्रन्तु केवले धातौ चरितार्थमिति भावः । एका- ज्झलादिग्रहणप्रत्याख्यानादाह-यथान्यास इति । वचनेन वचनप्रत्याख्याने लाघवा- ऽभावादाह-कार्यान्तरेति । इडुपग्रहस्य फलत्वेन हेतुत्वाऽभावादाह-फलस्य १ इदं लुप्तं । २ इतिः क्वचिन्न । ३ इदं प्रायिकम् । ४ 'काच्चानर्थक्यं पा०। ५ 'यत्र वैकाचो' पा० । ६ 'त्पद्यमानेन च यङा' पा० । . ।

३अ.१पा.२आ.२२सू.] 8 व्याकरणमहाभाष्यम् 8 । श्यते सोसूच्यते सोसूत्र्यते मोमूत्र्यते ॥ ॥॥ ऊर्णोतेश्चोपसङ्ख्यानम् ॥*॥ ऊर्णोतेश्चोपसङ्ख्यानं कर्तव्यम् । प्रोर्णोनूयते ॥ अत्यल्पमिदमुच्यते- 'ऊर्णोते'रिति । ॥ ॥ सूचिसृत्रिमंत्र्यट्यर्त्यशर्णोतिग्रहणं यतिधावनेकाजहला- द्यर्थम् ॥ ॥ सूचिसूत्रिमूर्यव्यय॑शूर्णोतीनां ग्रहणं कर्तव्यम् ॥ किं प्रयोज- नम् ?॥ ‘यङिधावनेकाजहलाद्यर्थम्'। सोसूच्यते । सोसूत्र्यते । मोमूत्र्यते । अटाट्यते । अरार्यते । अशाश्यते । प्रोर्णोनूयते ॥ ऊर्णोते वक्तव्यः । ॥ ॥ वाच्य ऊर्णिवद्भावो यप्रसिद्धिः प्रयोजनम् । आमश्च प्रतिषेधार्थमेकाचश्चेड्पग्रहात् ॥*॥ ॥*॥ क्रियासमभिहारे यङो विप्रतिषेधेन लोड्विधानम् ॥*॥ क्रियासमभि- हारे यङो लोद्भवति विप्रतिषेधेन । क्रियासमभिहारे यङ्भवतीत्यस्यावकाशः धातुर्य एकाझलादिः क्रियासमभिहारे वर्ततेऽधातुसंबन्धः । लोल्यने पोy- यते । लोटोऽवकाशः-धातुर्योऽनेकाजहलादिः क्रियासमभिहारे वर्तते धातु- संबन्धः। 'म भवान् जागृहि जागृहीत्येवायं जागर्ति' । 'स भवानीहस्व ईह- प्र.]वाच्य इति।तत्र यढि भावाऽतिदेश, आमिटोस्वभावातिदेशस्तयोनौतेरभावात्। इडुपग्रहादिति । इडुग्रहः-इछतिषेधः। विभाषा गुणे' इति पञ्चमी।फलस्य चाऽत्र हेतुत्वं, यथाध्ययनेन वसतीति। उदाहरणानि-प्रोर्णोनूयते प्रोणुनाव प्रोणुतः प्रोणुतवा- निति। यच च क्रियासमभिहारस्य द्योतितत्वान्नित्यवीप्सयोरिति, ‘क्रियासम- भिहारे द्वे भवत' इति वा द्विवचनं न भवति। यदा तु भृशार्थेऽपि पौनःपुन्यं विवक्ष्यते तदा ‘पापच्यते-पापच्यते' इति द्विवचनं भवत्येव । स भवानिति । मामान्यविशेषभावेन क्रियाभेदाश्रयो धातुसंवन्धः । स इति । भृशा[]र्थपौन:- पुन्ययोः प्रतिपिपादयिषितत्वादेकतरस्मिन यङ्प्रत्ययः । अपरस्मिस्तु लोट् । उ.]चेति। 'प्रोर्णन' इति श्युकः किती' तीतिषेधः। इति वेति । वस्तुतस्तद्वानि- कस्य लोषियनवेति लोविधायके वक्ष्यते । भवत्येवेति । 'नित्यवीप्सयो रित्यनेन। सामान्येति । लोडन्तार्थः सामान्यम् । अनुप्रयोगार्थश्च काद्यालिङ्गितत्वाद्विशेपः । अन्यथाऽर्थभेदाऽभावेन धातुसम्बन्धाऽभावात्प्रत्ययो दुर्लभः स्यादिति भावः । भाष्ये लोभवति विप्रतिषेधेनेति । पुनःपुनर्लवनाऽभिन्नं वर्तमानं लवनमित्येवं विव- क्षायां धातुसम्बन्धस्य सत्त्वादुभयप्राप्तिः । ननु विप्रतिषेधाश्रयणे लोटा भाव्यं, स्वार्थिकत्वाद्यडोऽन्तरङ्गत्वे तेनैव भाव्यमिति किमुच्यते भवति चे'तीत्यत आह- भृशार्थेति । तत्रैकतराऽर्थेऽधातुसम्बन्धे यढं कृत्वाऽपरार्थे धातुसम्बन्धे लोडिति १ केचित्त्विदं भाष्यवार्तिकमित्याहुः। इदं च प्रायिकम्। २'शृर्णग्रह' । ३ वक्तव्यम्' ४ 'लोभवति यङो विप्रति' । ', 'सम्बन्धश्च' । ६ इदं क्वचिन्न । ७ स भावान्', , * कैयट-विवरणसहितं ® [ धातोरेकाचो स्वेत्येवायमीहते'। धातुर्य एकाझलादिः क्रियासमभिहारे वर्तते धानुसंबन्धश्च तस्मादुभयं प्राप्नोति ‘स भवाँल्लुनीहि लुनीहीत्येवायं लुनीति' । लोभवति विप्रतिषेधेन ॥ न तीदानीमिदं भवति,-स भवाँल्लोलूयस्व लोलू- यस्वेत्येवायं लोलूयत इति ? ॥ भवति च ॥*॥ न वा नानार्थत्वात्कर्तृकर्मगों- हि लविधानं क्रियाविशेपे स्वार्थे यल् ॥ ॥ न वाऽर्थो विप्रतिपेधेन ॥ किं कार- णम् ? ॥ 'नानार्थत्वात्' । का नानार्थता ? ॥ 'कर्तृकर्मणोहि लविधानं'। कर्तृकर्मणोहि लोड्विधीयते । क्रियाविशेषे स्वार्थे यङ् । तत्रान्तरङ्गवाद्यङा भवितव्यम् ॥ न तहीदानीमिदं भवति-स भवॉल्लुनीहि लुनाहीत्येवायं लुनातीति ?॥ भवति च । विभाषा यङ् , यदा न यङ् तदा लोट् । [धानोरे- काची हलादः ] ॥ [नित्यं कौटिल्य गतौ ॥ ३॥१॥२३ ॥ लुपसदचरजपजभदहदशगभ्यो भावगर्हायाम् ॥ ३॥१॥२४॥ ] ॥*॥ उत्तरयोर्विग्रहण विशेषाऽसंप्रत्ययान्नित्यग्रहणानर्थक्यम्॥ ॥ उत्तरयो- योगयोर्विग्रहेण विशेषस्याऽसंप्रत्ययान्नित्यग्रहणमनर्थकम् । नहि कुटिलं क्रामतीति चङ्गम्यत इति गम्यते ॥ अथैतेभ्यः क्रियासमभिहारे या भवित- व्यम् ?॥॥॥ क्रियासमभिहारे च नंतेभ्यः ॥*॥ क्रियासमभिहारे च नेतेभ्यो प्र.] लोटश्च केवलस्य समभिहारमभिव्यकुमसामर्थ्यात्तदन्तस्य द्विवचनं प्रवर्तते । तत्रेति । लोड्बहिरङ्गः, काद्यपेक्षणाद्धानुसंबन्धापेक्षणाच्च । विभाषा यङिति । धातोः कर्मण' इत्यतो 'व'त्यनुवर्तनात् । [धातोरेकाचो हलादेः ] ॥ नित्यं कौटिल्ये। न हीति । चङ्गम्यत इत्यस्माद्योऽर्थः प्रतीयते नामी 'कुटिलं कामता तिवाक्येन शक्यः प्रत्याययितुमिति तदर्थाऽनभिधानादेव वाक्यं न भविष्यति। अर्थान्तरे च कौटिल्यमात्रप्रतिपादने वाक्यं निवारयितुमशक्यमिति नित्यग्रहण- मनर्थकमित्यर्थः । क्रियासमभिहार इति । तक्रकौण्डिन्यन्यायेन कौटिल्यभाव- उ.] भावः । लोटश्चेति । विध्यादिष्वपि लोटो विधानादिति भावः । [धातोरेका]। नित्यं को। उत्तरयोरिति पदस्वरसाद्धातोरेकाच इति सूत्र एवंदं वार्तिकमिति लभ्यते । तेनेतः पूर्व नित्यमित्यादिसूत्रद्वयलेखो लेखकप्रमादात् । तत्राद्यविषयं नित्यग्रहणानर्थक्यमिति । द्वितीयविषयं-क्रियासमभिहारे चेति । तथैव भाप्ये उदाहरणादिति मुधियो विभावयन्तु । नासाविति । कुटिलं पन्थानं क्रामतीत्यर्थ- प्रत्ययादित्यर्थः। अर्थान्तरे-पथि । नक्रकौण्डिन्यन्यायेनेति । चिन्त्यमिदं, विशेष- विहितेन सामान्यविहितस्य बाध उत्सर्गाऽपवादस्थले इत्यत्रैवायं दृष्टान्तो मिदचो- १ 'समभिहारें'। २'लो विधीयते'।३ क्वचित्विदं सूत्रद्वयं न दीयते।४ इदं क्वचिन्न ।

३अ.१पा.२आ.२५सू.] 8 व्याकरणमहाभाष्यम् * या भवितव्यं, भृशं जपति ब्राह्मणः भृशं समिधो दहतीत्येव । [नित्यं को]॥ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्ण- चुरादिभ्यो णिच् ॥ ३॥१॥२५ ॥ 'सत्यापति किं निपात्यते ? ॥*॥ सत्यस्य कृच्यापुक्क ॥॥ सत्यस्य कृश्यापुक्क निपात्यते, णिच्च । सत्यं करोति सत्यापयति ॥ अत्यल्पमिद- मुच्यते ॥ ॥ णिविधार्थवेदसत्यानामापुक्क ॥॥ णिविधावर्थवेदसत्यानामा- पुक्कोति वक्तव्यम् । अर्थापयति वंदापयति सत्यापयति ॥ यद्यापुक्कियते टिलोपः प्राप्नोति ॥ एवं तर्हि पुक्करिप्यते ॥ एवमपि टिलोपः प्राप्नोति ॥ एवं तांकरिप्यते ॥ एवमपि टिलोपः प्राप्नोति ॥ एवं तक्विरिप्यते ॥ एवमप्य- नाकारान्तत्वात्पुङ्ग प्राप्नोति ॥ [ एवं तेाकरिष्यते ॥ एवमप्यनाङ्गत्वापुङ्ग प्राप्नोति । ]॥ एवं तापुकरिष्यते ॥ अथ वा पुनरस्त्वापुगेव ॥ ननु चोक्तम्, 'एवमपि टिलोपः प्राप्नोतीति । आपुरवचनसामर्थ्यांन्न भविष्यति ॥ अ.]गाभ्यां यङः क्रियासमभिहाराशच्छिद्य स्वीकृतत्वादिति भावः ॥ सत्याप। एवन्तहीति । आचार्यमतभेदप्रदर्शनाऽर्थोऽनेकपक्षोपन्यासःोटिलोप इति । ‘णाविष्टव दित्यतिदेशादिति भावः। अक्करिष्यत इति । तत्र पररूपे कृतेऽ- चो डिणाति वृद्धो कृतायां पुगागम इति भावः।अनाकारान्तत्वादिति।यद्यत्र वृद्धिः स्यादग्विधानमनथकं स्यात् , अगागममन्तरेणाऽपि तस्याः प्रसङ्गात् । ततश्च तद्वाध- नार्थमगागमः स्यादिति भावः । आपुडिति । तस्य च णिज्भक्तत्वादकारस्य पूर्वस्य .]न्त्यात्सूत्रं भाये उक्तः । न हि विशेषाऽनुवादेन सामान्याऽनुवादवाधे दृष्टान्तो लौकिकोऽस्ति । नाऽप्येतद्विषये नियमेन तत्प्राप्तिरम्ति । तस्माच्चकारण ‘क्रिया- समभिहारे चेत्यत्रापि 'विशेषाऽसम्प्रत्यया'दित्यस्य सम्बन्धात् 'भृशं जपती'- त्याद्यर्थविशेषस्य यङन्तादप्रत्ययादित्यर्थ इत्याहुः । [नित्यं कौटिल्ये गतौ] । पत्याप। सर्वत्र सामर्थ्यादेव टिलोपवारणे नानामतोपन्यासो व्यर्थोऽत आह- आचार्येति । अग्विधी पुक्सिद्धय आह-तत्रेति । प्रातिपदिकाणिजिति भावः । यद्यप्यत्रापि टिलोपप्राप्तिरस्ति तथापि दूषणान्तरसद्भावात्तदनुपन्यासः । अनर्थकं स्यादिति । न च टिलोपबाधनद्वारा बृद्धिसिञ्चर्थमेव तदिति वाच्यम्, अन्त्यादेशा ऽकारविधानसामथ्र्य व टिलोपवाध सिद्ध आगमलिङ्गककारोच्चारणसामर्थ्येन वृद्ध- रपि बाधः स्यादित्यभिमानः । भाष्ये - एवन्ता डिति । नन्वत्र पक्षे ‘णौ चकी'- ति ह्रस्वाऽनापत्तिरापुकि प्राप्नोतीति फलभेद इतिचेन्न ; लुङ्यस्यानभिधानात् ॥ हेनुमति च । हेतुमच्छब्दार्थज्ञाने सन्देहस्योपपादयितुं शक्यत्वात्तमाह- १ इदं क्वचिन्न । २ अयं पाठः क्वचिन्नः । ३ 'वचनान्न' पा० । - ७८ * कैयट-विवरणसहितं 8 [हेतुमति च 'अथवा पुनरस्तु पुगेव ॥ ननु चोक्तमेवमपि टिलोपः प्राप्नोतीति ॥ पुग्वचनसामर्थ्यान्न भविष्यति ॥ अथ वा पुनरस्त्वागेव ॥ ननु चोक्तमेवमपि टिलोपः प्राप्नोतीति ॥ आग्वचनसामर्थ्यान्न भविष्यति ॥ [ सत्यापपाश ] ॥ हेतुमति च ॥ ३॥१॥२६॥ कथमिदं विज्ञायते 'हेतुमत्यभिधेये णिज्भवती'ति, आहोस्विद्धतुमति यो धातुर्वर्त्तते' इति ? ॥ युक्तं पुनरिदं विचारयितुम् । नन्वनेनाऽसन्दिग्धेन प्र.]टिलोपे सति ‘सत्यापयती'त्यादि सिध्यतीति भावः । सत्यापपाशरूपवीणा]॥ हेतुमति च । कृत्रिमस्य पारिभाषिकस्य प्रयोजकस्येह हेतोहणम् । तदीयो व्यापारः प्रेषणाऽध्येषणतत्समर्थाचरणलक्षणो हेतुमानिह गृह्यते । ननु सकलकारक- साध्यपाकाद्यपेक्षः प्रयोजकस्य हेतुव्यपदेशो, न तु तदर्थावान्तरस्वसाध्यप्रेषणाद्य- पेक्षः । यथा काष्टस्य पाकापेक्षं करणत्वं न तु ज्वलनापेक्षम् । तदपेक्षन्तु कर्तृत्व- मेव । ततश्च पाकादेरेव हेतुमद्यपदेशो युक्तो न तु प्रेषणादेः । नैष दोषः । णिच्प्र- कृत्या धातुनैव तस्याऽर्थस्य प्रकाशितत्वात् प्रयोजनाऽभावात्तवाऽर्थे णिचोऽनु- त्पादात् । प्रयोज्योऽपि हेतुमच्छब्दन न गृह्यते, तस्य द्रव्यत्वात् । णिचश्च स्वभा- वतः, करणाधिकाराद्वा क्रियावाचित्वात् । तस्मात्पारिशेष्या पाकाद्यर्थो यः प्रेषणादि- लक्षणो लब्धपाकाद्यपेक्षहेतुव्यपदेशहेतुत्वोपलक्षितप्रयोजकसाध्यो व्यापारः स एव गृह्यते । कथमिति । यदा ‘पचती'त्युक्तं प्रयोज्यसाध्य एव व्यापारो गम्यते उ.] कृत्रिमस्येति। तस्यैव व्याख्यानं क्वचित्-पारिभाषिकस्येति । तत्प्रयोजको हेतुरित्यस्येत्यर्थः । उत्कृष्टेन निकृष्टप्रेरणामाद्यम् । विपरीतं द्वितीयम् । प्रयोज्यव्या- पारानुकूलमाचरणं तृतीयम् । यथा 'भिक्षा वासयती'त्यादौ । पाकाद्यपेक्ष इति । तद्विषयत्वात्प्रेरणाया इत्यर्थः । न तु तदर्थेति । तन्निमित्तेत्यर्थः । हेतुरस्यास्तीति विग्रहेण हेतुत्वनिरूपकस्य तत्कार्यपाकादेरेव प्रतीतेस्तव णिच् स्यादित्याह-पाका. देरेवेति।तत्रैवार्थेति ।न चाऽन्यप्रयुक्तः पचनी'त्यर्थप्रतिपादनाय णिच् , णिजन्तेन तादृशार्थाऽप्रतीतेरिति भावः। एवमपि हेतुसंबन्धिकार्यरूपार्थाभिधायिना हेतुमच्छब्देन कथं प्रेरणोच्यतेऽत आह-तस्मादितिालब्धः पाकाद्यपेक्षा हेतुव्यपदेशो येन स चासो हेतुत्वोपलक्षितश्चासौ प्रयोजकश्च तत्साध्यो व्यापार इति विग्रहः। तत्प्रयोजक' इत्य- त्रापि 'कारक' इत्यधिकाराण्णिजुत्पत्तेः प्राग्घेतुत्वस्याऽभावाद्धेतुत्वोपलक्षितेत्युक्तम् । स च व्यापार एव, 'करणे' इत्यधिकारादिति भावः । तत्र मतुपः साधुत्वन्तु हेतुः कर्ताऽस्येत्यर्थेनेति भाष्यकृदेव वक्ष्यति । पक्षद्वयोपपादनपूर्वकं प्रत्ययार्थे नेति वक्त- व्ये प्रत्ययार्थविशेषणेनेत्युक्तरर्थमाह-यदेति । 'प्रत्ययार्थविशेषण'मित्यस्य प्रत्ययार्थ- १ 'आरवचनान्न' । २ 'प्रेरणादेः' पा० । ३ 'निकृष्टे ।

३अ.१पा.२आ.२६सू.] * व्याकरणमहाभाष्यम् | प्रत्ययार्थविशेषणेन भवितव्यं यावता 'हेतुमती'त्युच्यते । यदि हि प्रकृत्यर्थ- विशेषणं स्यातुमत इत्येवै ब्रूयात् ॥ नैतदस्ति । भवन्तीह हि विषय- सप्तम्योऽपि । तद्यथा-'प्रमाणे यत्प्रातिपदिकं वर्तते' 'स्त्रियां यत् प्रातिपदिकं वर्तत'इति । एवमिहाऽपि 'हेतुमत्यभिधेये णिज्भवतीति, 'हेतुमति वा यो धातुर्वर्त्तत' इति जायते विचारणा ॥ अत उत्तरं पठति-॥*॥ हेतुमतीति कारकोपादानं प्रत्ययार्थपरिग्रहार्थ, यथा 'तनूकरणे तक्षः'॥*॥ हेतुमतीति कारक- मुपादीयते ॥ किं प्रयोजनम् ? ॥ 'प्रत्ययार्थपरिग्रहार्थम्' । एवं सति प्रत्य- यार्थः सुपरिगृहीतो भवति ॥ [ 'यथा तनूकरणे तक्षः' ] । यथा 'तनूकरणे प्र.]न प्रयोजकसाध्योऽपि तदा प्रत्ययार्थस्य करणाधिकारोपस्थापितस्य करणस्य विशे- षणं हेतुमतीति संपद्यते । यदा त्वनेकार्थत्वाद्धातूनां तादाद्वाऽधिश्रयणादिवत्प्रयो- जकव्यापारोऽपि पचादिवाच्यो भवति,-यथा पञ्चभिर्हलैः कृषतीति,तदा प्रकृतिविशे- षणपक्षो भवति। तदा तु णिच्प्रत्ययो द्योतकः संपद्यत इति पक्षद्वयस्य संभवाद्दोष- दर्शनाच प्रश्नः। हेतुमत इति। हेतुमदर्थाऽभिधायिन इत्यर्थः।कारकोपादानमिति । कारकशब्देन प्रत्ययार्थ उच्यते,स हि प्रत्ययं करोति-निष्पादयति। प्रत्ययार्थ इति । प्रत्ययस्याऽर्थः प्रयोजनं, स सुष्टु परिगृहीतः परिपूर्णो भवति, वाचकत्वात् प्रत्ययस्य । प्रकृतिविशेषणे तु प्रत्ययस्याऽनुवादकत्वाघ्योतकत्वात्प्रयोजनमपरिपूर्ण स्यादित्यर्थः । अथ वाऽर्थोऽभिधेयमुच्यते,स चान्वयव्यतिरेकाश्रयव्यवस्थत्वात् प्रेषणादिःप्रत्ययस्यैव न प्रकृतेरिति मुष्ट परिगृहीतो व्यवस्थापितो भवति । यथा तनूकरण इति । यदा 'विकरणार्थाः कादय' इति पक्षस्तदा तनूकरणशब्देन कर्ताऽभिधीयते, तदा साध- उ.] परिच्छेदकमित्यर्थः । प्रकृतिविशेषणेति । भाष्ये 'प्रकृत्यर्थविशेषण'मित्यस्य प्रकृतेरर्थद्वारा विशेषणमित्यर्थ इत्यभिमानः । वस्तुतः प्रकृत्यर्थस्य पाकादेविशेषण- मित्यर्थः, द्योतकद्योत्यार्थस्य विशेषणत्वनियमात् । धातोः शब्दस्य प्रागुक्तहेतुत्वा- ऽसम्भवादाह-हेतुमदर्थेति । हेतुमदर्थविशेषणकाऽर्थाभिधायिन इत्यर्थः । भाष्ये- विषयसप्तम्योऽपीति । 'प्रमाणे' इत्यादेस्तद्विषयकबोधजनक प्रातिपदिकमित्यादि- क्रमेणाऽर्थ इत्याहुः। हेतुमच्छब्दस्य प्रेरणापरत्वात्कारकोपादानमसङ्गतमित्यत आह- कारकशब्देनेति । अन्वयव्यतिरेकाश्रयेति ।' पञ्चभिहलैः कृषति' इत्यादौ पञ्चभि- हलैरित्यस्याऽनन्वयाद्वाचकान्तराऽभावाच्च धातोर्लक्षणेति भावः। कर्ताऽभिधी- यत इति । बाहुलकात्कर्त्तर्यन इति भावः । तनूकरणस्य धात्वर्थत्वं विना तत्कर्त्तरि कथं प्रत्ययः स्यादिति तदर्थाक्षिप्तमिति बोध्यम् । 'यदीदं तद्वत्तर्हि प्रकृत्यर्थविशेष- १ हेतुमति चे' पा० । २ 'इत्येवं' पा० । ३ भवन्ति हि' पा० । ४ अयं पाठः सम्प्रति लुप्तः । ५ 'जनकप्राति' । । ..

कैयट-विवरणसहितं 8 [ हेतुमति च । तक्ष' इति तनूकरणमुपादीयते ॥ यदि तर्हितद्वत्प्रकृत्यर्थविशेषणमिदं भवति। प्रकृत्यर्थविशेपणं हि तत्तत्र विज्ञायते-'तनूकरणक्रियायां तक्ष' इति ॥ अस्तु प्रकृत्यर्थविशेषणं,को दोषः?॥इह 'ह्युक्तः करोति', प्रेषितः करोती'. ति णिच् प्राप्नोति । प्रत्ययार्थविशेषणे पुनः सति नैष दोषः । स्वशब्देनोक्त- त्वान्न भविष्यति ॥ प्रकृत्यर्थविशेषेणेऽपि सति नैष दोषः। यत्र नाऽन्तरेण शब्दमर्थस्य गतिर्भवति तत्र शब्दः प्रयुज्यते ॥ यत्र हि अन्तरेणाऽपि शब्द. मर्थस्य गतिर्भवति न तत्र शब्दः प्रयुज्यते ॥ इह तर्हि 'पाचयत्योदनं देवदत्तो यज्ञदत्तेने'त्युभयोः कोलेनाऽभिधानं प्रामोति । 'प्रत्ययार्थविशेषणे सति पुनर्नैष दोषः 'प्रधानकर्तरि लादयो प्र.]र्येण दृष्टान्तः।यदा तु 'सार्वधातुकार्थाः कादय' इति पक्षस्तदा वैधाण दृष्टान्त इति व्याख्यानम् । यथा तनूकरणं प्रकृत्यर्थो न तथा हेतुमद्यापार इत्यर्थः । परस्तु साधर्म्यण दृष्टान्तं सार्वधातुकत्वं च कादीनांमन्यमान आह—यदीति। अस्विति । विनापि णिचा ‘पञ्चभिर्ह लैः कृषती'ति प्रयोजकव्यापारावगमात् प्रकृ- र्थत्वं हेतुमत उपपद्यते । ‘पचती'त्यादौ तु द्योतको णिज्नास्तीति तदप्रतिपत्तिरिति भावः । उक्तः करोतीति । प्रकृतिविशेषणपक्षे यथा प्रकृत्यभिहिते प्रयोजकव्यापारे णिज्भवत्येवमुक्तप्रेषितादिशब्दाभिहितेऽपि प्राप्नोति, हेतुमद्विशेषणत्वात्करोत्य- र्थस्य । प्रत्ययार्थविशेषणपक्षे तूक्तार्थत्वाणिजभावः । यत्रेति । यस्याऽर्थस्य द्योत- नाय णिज्विधीयते स यदा शब्दान्तराऽवगतो भवति तदा प्रयोजनाऽभावाणिज्न भवतीत्यर्थः । उभयोरिति । धातुवाच्यस्य व्यापारस्य कर्तरि लकारणोत्पत्तव्यम् । यदा च पचिना द्वयोरपि प्रयोज्यप्रयोजकयोापारोऽभिधीयते, णिच्प्रत्ययः केवले स्वार्थिकत्वात् प्रयोजकव्यापारस्य द्योतकस्तदा धातुवाच्यव्यापारसाम्यात्कोरपि साम्यमिति द्वयोरप्यभिधानं स्यात् , ततः 'पाचयतो देवदत्तयज्ञदत्ता'विति प्रसज्ये- उ.]णमेव भवतीति भाष्येऽन्वयः। अस्त्वि'त्यनेन तत्पक्षोपपत्तिः सूचिता। तामाह- विनापीति । द्योतको णिज्नास्तीति । 'कृषती'त्यादौ तु पञ्चभिर्हरिति, एकान्ते तूष्णीमासीनत्वादिकञ्च तक्ष्योतकमिति भावः। एवमुक्तप्रेषितेति। प्रकृतिविशेषणपक्षे शब्दान्तराऽभिहितद्योतनायैव णिच्प्रवृत्तिरिति भावः । हेतुमद्विषयत्वादिति । प्रयो- जकव्यापारविषयत्वादित्यर्थः । ‘हेतुमती'त्यस्य विषयसप्तमीत्वादिति भावः । शब्दा- न्तरेति । वाचकशब्दान्तरेत्यर्थः । यदा चेति। पच्यादिभिः पाकानुकूलत्वेन द्वयो- रप्यभिधानमिति मते इदम्भाष्यमिति भावः । एवञ्चोभयोरपि व्यापारयोः समकक्ष- त्वेन विशेषणविशेष्यभावानापन्नतयोभयोरपि कोंः प्राधान्यमिति हृदयम् । अत १ 'विशेषणं भवति'। २ 'सतिपुनः' । ३ 'सति पुनर्नैष दोषो भवति'।४ 'न दोषः'।

va ३अ.१पा.२आ.२६सू.] व्याकरणमहाभाष्यम् * भवन्तीति प्रधानकर्ता लेनाऽभिधीयते, यश्चाऽनाऽप्रधानं कर्ता सिद्धा तत्र 'कर्तरीत्येव तृतीया ॥ इह च 'गमितो ग्रामं देवदत्ती यज्ञदत्तेने त्यव्यतिरिको गत्यर्थ इति कृत्वा 'गत्यर्थानां क्तः कर्तरी ति क्तः कर्तरि प्रामोति ॥ इह च 'व्यतिभेदयन्ते' 'व्यतिच्छेदयन्ते' इति। अव्यतिरिक्तो हिंसार्थ इति कृत्वा 'न गतिहिंसार्थेभ्य' इति प्रतिषेधः प्रामोति ॥ अस्तु तर्हि प्रत्ययार्थविशेषणम् ॥ यदि प्रत्ययार्थविशेषणं 'पाचयत्योदनं देवदत्तो यज्ञदत्तेने ति प्रयोज्ये कर्तरि कर्मसंज्ञा प्रामोति। भवति हि तस्य प्र.]तेत्यर्थः । प्रधानकर्तेति । प्रकृत्यर्थोपसर्जनत्वाण्यर्थस्य प्राधान्यात्तस्य कर्ताऽपि प्रधानमिति भावः । गमित इति । प्रयोजकव्यापारस्य गमिवाच्यत्वात्तस्य कर्तरि प्रयोजके क्तः प्राप्नोतीत्यर्थः । प्रयोज्यस्य तु कर्मत्वात्तत्रैव क्त इष्यते । तदुक्तम्- 'अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मण' इति ॥ व्यतिभेदयन्त इति । प्रयो- जकव्यापारस्य व्यतीहोरो न तु प्रयोज्यव्यापारस्येति द्रष्टव्यम् । भवति होति । व्यर्थस्य प्राधान्यात्तद्यापारेणेप्सिततमत्वात्प्रयोज्यस्येत्यर्थः । प्रकृत्यर्थविशेषणत्वे तु उ.]एवाऽत्र पक्षे प्रयोज्यस्य कर्मत्वं नाऽऽपादितम् , प्रयोज्यव्यापारस्य विशेषणतया:- बोधेन तस्य फलत्वाऽभावेन फलाश्रयत्वाऽभावात् । गत्यादिसूत्रश्चैतत्पक्षे विध्यर्थमे- वेति बोध्यम् । परे त्वेवं हि 'प्रकृत्यर्थविशेषण'मिति भाष्याक्षराऽसङ्गतिः। तस्मात्प्र- वर्तनाप्रयोज्यः पाकः पचेरर्थः । तत्राऽन्यानधीनत्वलक्षणमार्थम्प्राधान्यम्प्रयोजक- व्यापारस्य, शाब्दश्च प्रयोज्यव्यापारस्येत्युभयाश्रययोः कर्तृत्वं, 'स्वतन्त्रः कर्ते'त्यत्रो- भयविधप्राधान्यस्यापि विनिगमनाविरहेण ग्रहात् । एवञ्च ण्यन्तोत्तरलेन पर्यायेण द्वयोरप्यभिधानापत्तिरिति भाष्याशयः।प्रधानकर्तरीति। प्रकृतिभूतण्यन्तार्थकर्तरी- त्यर्थः । प्रयोज्यकर्त्ता तु पच्यर्थस्य, न तु ण्यन्तार्थस्येति न ण्यन्तप्रकृतिकलेन तदभिधानमिति भावः । प्रधानकर्ता-स्वप्रकृत्यर्थप्रधानव्यापाराश्रयरूपः कर्तेत्यर्थः । अप्रधानमिति। णिच्प्रकृत्यर्थप्रधानव्यापाराश्रय इत्यर्थः। अव्यतिरिक्त इति । प्रयोजकव्यापारवाचकातिरिक्ताऽवाच्य इत्यर्थः । णिचस्तदर्थकत्वे तु प्रयोजकका न गत्यर्थकर्ता, किन्तु ण्यन्तकर्तेति न दोष इत्याहुः । ननु प्रत्ययार्थविशेषणपक्षे- ऽपि कथमत्रात्मनेपदं, हिंसारूपप्रयोज्यव्यापारस्यैव व्यतीहारो, न तु णिज्वाच्यप्र- योजकव्यापारस्य सोऽत आह-प्रयोजकन्यापारस्य व्यतिहार इति । तद्यापारे- णेप्सिततमत्वादिति। तद्यापारप्रयोज्यव्यापाररूपफलाश्रयत्वादित्यर्थः। भाष्ये- तस्य-प्रयोजकस्य । तस्मिन्-प्रयोज्ये । एतेन 'खव्यापारे वातन्त्र्यात्परत्वेनाऽन्त- रङ्गत्वेन च कर्तृत्वमेवे'त्यपास्तम्, अन्तरङ्गादपि प्रधानकार्यस्य लोके बलवत्ताया १ इदं क्वचिन्न। २'कर्तरि क्तः' । ३ 'यते'। ४इदं क्वचिन्न। ५'व्यतिहारः' ।

८२ कैयट-विवरणसहितं [ हेतुमति च तस्मिन्नीप्साइह च 'ग्रामंगमयति' 'ग्रामाय गमयती'ति,-व्यतिरिक्तो गत्यर्थ इति कृत्वा 'गत्यर्थकर्मणी'ति द्वितीयाचतुथ्यौं न प्रामुतः ॥ इह च-एधोदक- स्योपस्कारयतीति,-व्यतिरिक्तः करोत्यर्थ इति कृत्वा 'कृतः प्रतियत्न' इति षष्टी न प्रामोति ॥ इह च 'भेदिका देवदत्तस्य यज्ञदत्तस्य काष्टाना मिति प्रयोज्ये कर्त्तरि षष्ठी न प्रामोति ॥ इह चाऽभिषावयति' 'परिषावयतीति, 'व्यतिरिक्तः सुनोत्यर्थ' इति कृत्वा 'उपसर्गात्सुनोतिसुवैती'त्यादिना पत्वं न प्रामोति॥नैष दोषः।यत्तावदुच्यते 'पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति प्रयोज्ये कर्तरि कर्मसंज्ञा प्रामोतीति । 'गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम- णी'त्येतनियमार्थ भविष्यति-'एतेषामेव ण्यन्तानां यः कर्ता स णो कर्मसंज्ञो भवति नान्येषा मिति॥यदप्युच्यते-'इह च ग्रामंगमयति ग्रामाय गमयती'- ति 'व्यतिरिक्तो गत्यर्थ' इति कृत्वा 'गत्यर्थकर्मणी'ति द्वितीयाचतुर्यों न प्र.द्वयोरपि प्रयोज्यप्रयोजकव्यापारयोरेकधातुवाच्यत्वाद्धातुवाच्यव्यापाराऽपेक्षया द्वयोरपि कर्तृत्वाल्लेनाऽभिधानं प्राप्नोतीति दोष उक्तः। ग्रामं गमयतीति । ण्यर्थस्यैव ग्रामः, प्रयोज्यश्च कर्मेति भावः । षष्टी न प्राप्नोतीति । ण्यर्थस्य कर्मत्वादिति भावः। सुट् तु करोतिधात्वाश्रयत्वाणिजुत्पत्तावपि तद्रूपसन्निधानात्सिध्यत्येवेति तन्नाऽ. चूचुदत् । प्रयोज्ये कर्तरीति । तस्याऽप्राधान्यादिति भावः । अभिषावयतीति । ण्यर्थस्योपसर्गो विशेषक इति भावः । एतेषामेवेति । ण्यर्थस्य प्राधान्यात्तेनेप्सित- तमस्य प्रयोज्यस्य सिद्धा कर्मसंज्ञा । न च स्वव्यापाराऽपेक्षया स्वातन्त्र्यात्पर- त्वात्कर्तृसंज्ञा प्राप्नोतीति युक्तं वक्तुम् । प्रयोज्यव्यापारस्याऽप्राधान्यात्प्रधानाऽ- प्रधानैव्यापारसंनिधौ च प्रधाननिमित्तस्य कार्यस्य युक्तत्वात् । नियमेन तु प्रधान- उ.]दर्शनादिति भावः । एकधातुवाच्यत्वादिति।ण्यन्तप्रकृतिधातुवाच्यत्वादित्यर्थः। ननु प्रयोज्यस्य व्यर्थव्यापारापेक्षया कर्मत्वेऽपि ग्रामादेर्गम्यर्थनिरूपितमेव कर्मत्वमत आह-ण्यर्थस्यैवेति । 'प्राधान्या'दित्यादि । उत्तरदेशसंयोगे ण्यर्थव्यापारजन्यत्व- स्यापि सत्वादिति भावः । प्रतियत्नवाचिकरोत्यपेक्षायाः सुक्षष्ठ्योर्विधावविशिष्टे षष्ठ्य- प्राप्तिरेव कथमुक्तेत्यत आह-सुट् त्विति । कर्मणि विधानादर्थसापेक्षा षष्टी, 'उपा- प्रतियत्ने ति सुट् धातुखरूपापेक्ष इति भावः । तस्थाऽप्राधान्यादिति । कृत्प्रकृत्य- र्थकादौ हि तेन षष्टी । कृत्प्रकृतिश्च ण्यन्ता । एवञ्च तदर्थकतर्येव स्यान्न तु णि- च्अकृत्यर्थकर्तरि । अप्राधान्यच्च कृत्प्रकृत्यर्थाऽकर्तृत्वमेवेति बोध्यम् । नियंमत्व उप- पत्तिमाह-ण्यर्थस्यति । परत्वादिति । अन्तरङ्गत्वादुपजीव्यत्वाच्चेत्यपि बोध्यम् । प्रधानेति । सर्वापेक्षया प्रधानकार्यस्य बलवत्त्वात् । न चोद्देश्यतालक्षणमार्थ प्राधा- १ 'सुनोत्यादीनामिति' 'सुनोतीत्यादीनामिति' । २'प्रधानव्यापार' । ३ गत्यर्थ' । ।

MYv. ३अ.१पा.२आ.२६सू.] ® व्याकरणमहाभाष्यम् 8 प्रामुत'इति,-नासावेवं प्रेष्यते 'गच्छ ग्राम'मिति ॥ कथं तर्हि ? ॥ साधन- विशिष्टामसी क्रियां प्रेष्यते-'ग्रामं गच्छ' 'प्रामाय गच्छेति ॥ यदप्युच्यते- “[इह च] एनो दकस्योपस्कारयतीति व्यतिरिक्तः करोत्यर्थ इति कृत्वा कृतः प्रतियत्न इति षष्ठी न प्रामोती"ति । नासावेवं प्रेष्यते-'उपस्कुरुष्वैधो दक- स्येति ॥ कथं तर्हि ? ॥ साधनविशिष्टामसौ क्रियां प्रेष्यते-'एधो दकस्यो- पस्कुरुष्वेति ॥ यदप्युच्यते-"इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठाना. मिति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोती"ति । उक्तं तत्र कृद्रहणस्य प्रयोजनं 'कर्तृभूतपूर्वमात्रेऽपि षष्टी यथा स्यादिति ॥ यदप्युच्यते "इह चाभिषाव- वति परिपावयतीति-व्यतिरिक्तः सुनोत्यर्थ इति कृत्वोपसर्गात्सुनोतीया- दिना षत्वं न प्राप्नोती'ति, नासावेवं प्रेष्यते-'सुनु-अभी ति ॥ कथं तर्हि ?॥ उपसर्गविशिष्टोमसो क्रियां प्रेष्यते-'अभिषुण्विति ॥ प्र.] प्रयुक्तकार्यव्यावृत्तौ गुणनिमित्तकार्यसद्भावात्कर्तृत्वं भवत्येव । तदुक्तं हरिणा- 'गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः । नियमात्कर्मसंज्ञायाः स्वध. मेणाभिधीयते' इति ॥ नासाविति । ग्रामः प्रकृत्यर्थस्य कर्म न तु ण्यर्थस्ये- त्यर्थः । साधनविशिष्टामिति । ग्रामक्रमिकां गमनक्रियां प्रयोज्यः प्रेष्यति-प्राप्नो- तीत्यर्थः । स च प्रेष्यते-प्राप्यते । कर्तृभूतपूर्वमात्रेपोति । प्रधानचरेऽपि कर्तरी- त्यर्थः । सुनु-अभीति । न प्रयोजकव्यापारस्याभिमुख्यमभिशब्देन द्योत्यते, अपि उ.]न्यम्प्रयोज्यव्यापारस्याप्यन्यानधीनत्वलक्षणार्थप्राधान्यस्य प्रयोजकव्यापारेऽपि स- स्वात् , शब्दशास्त्र शब्दप्राधान्यस्यैव मुख्यत्वाच्चेति भावः। गुणेति । प्रेषणे कर्मता- म्प्राप्तोऽपि पदार्थः कर्मसंज्ञाया नियमादप्राप्त्या गुणक्रियायां स्वातन्त्र्याचस्वधर्मेण कर्तृ- त्वेनाभिधीयत इत्यर्थः । 'स्वातन्त्र्येणे'ति पाठेपि-'कर्तृत्वेनेत्येवार्थः । ग्रामः प्रकृ- त्यर्थस्येति । गमेः सकर्मकत्वेनाऽवश्यं कर्मापेक्षत्वाण्ण्यर्थस्य कर्माकाङ्क्षायाः प्रयो. ज्यकर्मणा शान्तत्वाच्चेति भावः । 'साधनविशिष्टां क्रियामसौ प्रेष्यते' इत्यत्र कथं द्विकर्मकत्वं, कथञ्च प्रयोज्ये कर्मणि लकार झ्यत आह–प्रामोतीति । तथा च पूर्व इषिः प्राप्त्यर्थः । तस्माण्ण्यन्तात्कर्मणि प्रत्यये प्रेष्यत इतीति भावः। 'प्राप्नो- तीत्यर्थ' इति पाठे प्रेष्यतिपदस्य स्वोक्तस्येदमर्थकथनम् , न तु भाष्ये तथा पाठ इति भ्रमितव्यम्। भूतपूर्वत्वस्यानुपपत्तेराह-प्रधानचरेपीति । कृत्प्रकृतिघटक- धात्वर्थकतर्यपीत्यर्थः । तत्सूत्रस्थकृद्रहणमावृत्त्यैतदर्थकमपीति भावः । अपि- त्विति । एवञ्चाऽभेन कदाचिदपि ण्यर्थविशेषणतेति भावः । भाष्यसम्मतेन कैयटोक्तन प्रयोज्यव्यापारस्यैवेत्येवकारेण तु तदाभिमुख्यद्योकत्वाऽभाव एवाऽभे- १ इदं क्वचिन्न । २ 'किं तर्हि' पा० । ३ 'क्रियामसौ' । ४ 'सुनोत्यादीनामिति' । । ।

८४ कैयट-विवरणसहितं [ हेतुमति च युक्तं पुनरिदं विचारयितुं,-नन्वनेनाऽसन्दिग्धेन प्रत्ययार्थविशेषणेन भवितव्यं यावता व्यक्तमर्थान्तरं गम्यते-पचति पाचयतीति चै? ॥ बाढं युक्तम् । इह पचेः कः प्रधानार्थः १॥ याऽसौ तण्डुलानां विक्लित्तिः ॥ अथे- दानीं तदभिसन्धिसन्धिर्वकं प्रेषणमध्येषणं वा युक्तं यत्सर्वः पच्यर्थः स्यात्॥ प्र.]तु प्रयोज्यव्यापारस्यैवेत्यर्थः। युक्तं पुनरिति । सन्देह एव विचारनिमित्तं नोप- पद्यते, अन्वयव्यतिरेकाभ्यां भूयोदर्शनविषयाभ्यां प्रत्ययार्थविशेषणपक्षस्यैवोपप- नत्वादिति भावः । यासाविति । तदर्थत्वात्कारकग्रामस्य, तदनन्तरश्च फलोत्पा- दादिति भावः । तदुक्तं हरिणा-'अनन्तरं फलं यस्याः कल्पते तां क्रियां विदुः । प्रधानभूतां तादादन्यासां तु तदाख्यता' ॥ इति ॥ तत्र यथाऽधिश्रयणादय- स्तादर्थ्यात्पचिवाच्यास्तथा प्रेषणादिरपि, द्योतकस्तु णिजपेक्ष्यत इत्यर्थः । न च कारकाणामपि तादर्थ्यात्पच्यभिधेयत्वप्रसङ्गः, तेषामक्रियारूपत्वाद्धातोश्च क्रियावाचि- त्वात् । विक्लित्तिश्चाऽत्र फलानन्तरव्यापारोपलक्षणम्, 'इष्टकाः पचन्ती'त्यादौ तस्याऽ- संभवादित्याहुः । पच्यर्थः स्यादिति । संभावने लिङ् । संभाव्यते पच्यर्थत्वं प्रेष- णादेः।अत एव संशयाद्विचार्य प्रत्ययार्थविशेषणपक्षो भाष्यकारेण स्थापितः, तद्दोषाणां परिहतत्वात् , पक्षान्तरे दोषाणां चाऽपरिहारात् । अथ वा प्रकृत्यर्थविशेषण.. पक्षोऽपि स्थापितः,तत्पक्षभाविनां दोषाणां सुपरिहरत्वात् । तथा हि यदुक्तं- 'द्वयोः कर्लिनाभिधानं प्राप्नोती'ति, नाऽयं दोषः, प्रकृत्या प्रयोज्यव्यापारोपसर्जनस्य उ.]र्लभ्यत इति बहवः।यद्यपि पूर्व 'प्रमाणे द्वयसच्‘शेषे''सम्भृते' इति सप्तमीनि- देशस्योभयथापि दर्शनाद्विचार उपपादितस्तथाप्यन्वयव्यतिरेकाभ्यामिदानी विचार आक्षिप्यत इत्याह-अन्वयेति । भाष्ये-व्यक्तमर्थान्तरं गम्यत इति । ‘ण्यन्ताऽ- प्यन्ताभ्याम्परस्परस्मा दिति शेषः । विक्लित्तेः प्रधानार्थत्वे युक्तिमाह-तदर्थत्वा- दिति । विक्लित्तिग्रहणं फलाऽव्यवहितपूर्ववर्तिव्यापारोपलक्षणम् । स्पष्टञ्चेद- मनुपदं स्वयं वक्ष्यति । तद्धनयन्नाह-तदनन्तरञ्चेति । तथा प्रेपणादिरपीति । विक्लित्त्यनुकूलत्वेनेत्यर्थः । वस्तुतः प्रवर्त्तनाप्रयोज्यत्येवं तस्य विशेषणता न्याय्या। सम्भावन इति । उपसंवादाशङ्कयोश्च'ति सूत्रे भाप्ये पठितेन 'उपसंवादाशङ्कयोलिङि'त्यनेन । तत्राऽऽशङ्का-उत्प्रेक्षा । सम्भावनापि-उत्कट- कोटिका शङ्कवेति बोध्यम् । भाष्ये-तदभिसन्धिपूर्वकमित्यस्य-'तद्विशेषणभूत'- मिति शेषः । अपरिहारादिति। 'सर्वम्पच्यर्थः स्यादिति युक्तन्तथापि स पक्षी दुष्ट' इति शेषः, दोषाणामुक्तत्वादिति भाष्यार्थ इति भावः । अथ वेति । अत्र पक्षे 'सर्वं पच्यर्थः' स्यादिति यत् तद्युक्तमेवेति भाष्यार्थ इति भावः।प्रयोज्यव्यापा- १चः क्वचिन्न । २ तदभिसम्बन्धपूर्वकं' । ३ 'कल्प्यते' पा० ।

८५ ३अ.१पा.२आ२६सू.] ® व्याकरणमहाभाष्यम् ॐ अथ हेतुमतीति को मत्वर्थः ? ॥ हेतुः कर्ताऽस्य से हेतुमान्, 'हेतु- मती'ति॥॥ हेतुनिर्देशश्च निमित्तमात्रे, भिक्षादिषु दर्शनात् ॥ ॥ हेतुनिर्देशश्च निमित्तमात्रे द्रष्टव्यः। यावयानिमित्तं कारणमिति तावद्धतुरिति॥ किं प्रयो- जनम् ?॥ 'भिक्षादिषु दर्शनात्। भिक्षादिष्वपि हि णिश्यते-'भिक्षा वास- यन्ति, 'कारीषोऽग्निरध्यापयतीति ॥ किं पुनः कारणं पारिभाषिके हेतौ न सिध्यति ?एवंमन्यते-'चेतनावत एतद्भवति प्रेषणमध्येषणं चेति,मिक्षाश्चाs- चेतनाः'। नैष दोषः। नावश्यं सएव वासं प्रयोजयति य आह उष्यता मिति॥ प्र.प्रयोजकव्यापारस्याभिधानात्तस्यैव णिचा द्योतनात् प्रधान एव कर्तरि लो भवि- प्यति नाऽप्रधानोणिचा च द्योतकेन प्रधानभूतगत्यर्थत्वं निवर्तितं,गमनारूपस्य प्रधा- नस्याऽर्थस्याभिधानादिति ण्यन्तात्प्रयोजककर्तरि लस्याऽनुत्पत्तिः । 'व्यतिभेदयन्त' इत्यत्रापि हिंसनालक्षणः प्रधानं धात्वर्थो, न तु हिंसारूप इत्यात्मनेपदनिषेधाऽभावः। अथेति। यद्यपि षष्ठ्यर्थः सप्तम्यर्थश्च मत्वर्थत्वेन निर्मातस्तथापि हेतुशब्दस्याऽ. नेकार्थत्वे सति हेत्वर्थाऽपरिज्ञानात्तद्विशिष्टस्यापि मत्वर्थस्थाऽपरिज्ञानात् प्रश्नः । स चाऽर्थाद्धेतुविषय एवाऽवतिष्ठते । को हेतुरिति । किं प्रयोजको हेतुरंथ निमित्तमात्रम् ? । हेतुः कर्तेति । हेतुः प्रयोजक इति भावः ॥ नावश्यमिति । उ.] रेति । प्रयोज्यव्यापार उपसर्जनं यस्येति विग्रहः । लोके प्रयोज्यप्रयोजकयो- र्गुणप्रधानभावावगतेस्तद्व्यापारयोरपि तत्त्वमेवोचितं, न तु फलानुकूलत्वेन सम- कक्षतया बोध उचितः । एवञ्च वाचकतापक्ष इव द्योतकतापक्षेऽपि द्वयोर्व्यापारयो- गुणप्रधानभावेनैवोपस्थितेः प्रधानकर्तुरेव लेनाऽभिधानमित्यप्रधाने कर्तरि तृतीयादि भवति। परे तु द्योतकत्वात्तस्य विशेषणतैवोचितेति भाष्योक्तदोषाऽनुद्धारः।अत एवाऽ- स्य पक्षस्य भाष्ये प्रकृत्यर्थविशेषणशब्देनोल्लेखः । किञ्च ण्यन्तात्प्रत्ययस्तत्प्रकृत्यर्थ- कर्तरि सामर्थ्यादित्यवश्यं वाच्यमेतत्पक्षाएवञ्च प्रयोज्ये कर्तरि तृतीयेव लकारोऽपि दुर्वारः । दुहादीनामप्रधाने कर्मण्यपि लादिस्वीकारेण लादिविधौ कर्तृकर्माशे प्रधा- नाऽप्रधानन्याय्याऽप्रवृत्तेरुचितत्वाच्च । वाचकत्वे तु न दोषः, प्रयोज्यस्य ण्यन्त- प्रकृत्यर्थकर्तृत्वेऽपि ण्यन्तकर्तृत्वाऽभावात्तत्र कर्तरि ण्यन्तात्प्रत्ययाऽनुत्पत्तेः ।एवमन्य- योरपि दूषणत्वमेवेत्याहुः। णिचेति । प्राधान्येनोत्तरदेशसंयोगानुकूलव्यापारार्थक एव गत्यर्थ इति भावः।अर्थग्रहणसामर्थ्यादिति बोध्यम् । व्यतीति।सोऽपि प्रागुक्तयुक्त्यैव प्रधानभूतप्राणवियोगानुकूलव्यापारार्थक एवेति भावः।हेतुः प्रयोजक इति। तथा च १ 'यस्य' पा० । • 'स' इति क्वचिन्न । ३ 'मात्रं द्रष्टव्यम्' पा० । ४ अयं पाठः क्वचिन्न । ५ 'वासयति' । ६ 'यश्चाह । ७ 'य आह इहेहोष्यतामिति । :

कैयट-विवरणसहितं [ हेतुमति च किं तेहिं ? ॥ तूष्णीमप्यासीनो यस्तत्समर्थान्याचरति सोऽपि वासं प्रयोजयति । भिक्षाश्चापि प्रचुरा व्यञ्जनवत्यो लभ्यमाना वासं प्रयोजयन्ति । तथा कारीषोऽग्निनिर्वाते एकान्ते सुप्रज्वलितोऽध्ययनं प्रयोजयति ॥ कश्चित्कं चिदाह-'पृच्छतु मो भवान्, अनुयुतां मा भवा'निति, अत्र णिच्कस्मान भवति ? ॥ अकर्तृत्वात् । न ह्यसौ संप्रति पृच्छति, [नच प्रेक्ष्यति, ] तूष्णीमास्ते ॥ किं च भो वर्तमानकालाया एवं क्रियायाः प्र.]तत्समर्थाचरणमपि प्रयोजकव्यापारस्तत्सद्भावाधीनत्वात्प्रयोज्यक्रियासिद्धरित्यर्थः। पृच्छतु मा भवानिति । प्रष्टा प्रयोज्यस्तस्य प्रेरकः प्रयोजको भवतीति तयापारे णिच्कस्मान्न भवतीति प्रश्नः । एकविषयत्वालोडादेर्णिचश्च पर्याय- प्रसङ्गः ॥ अकर्तृत्वादिति । स्वतन्त्रस्य कर्तुः प्रयोजको हेतुरित्युच्यते, प्रयोज्यश्चाऽत्र न कर्तेति प्रयोजको न हेतुसंज्ञ इत्यर्थः । तूप्णीमिति । निर्व्यापारलात्कारकत्वमात्रमपि तस्य नास्ति कुतस्तद्विशेषः कर्तृत्वमित्यर्थः । उ.]पारिभाषिकस्यैव हेतोर्ग्रहणमिति भावः।वस्तुतस्तु 'को मत्वर्थ' इत्यस्य किं पाका- दिरुत प्रयोजकव्यापार इत्यर्थः । कृत्रिमाऽकृत्रिमन्यायेन हेतुसंज्ञाविधानसामर्थ्येन च तस्यैव ग्रहणं भविष्यतीति तत्प्रश्नाऽनौचित्यात् । हेतुः कर्ताऽस्येति। प्रयोजक- व्यापार एवेत्युत्तरम् । प्रयोजकस्य परिभाषिकहेतुत्वेऽपि लक्ष्यानुरोधेनाह भाष्ये-- हेतुनिर्देशश्चेति । पारिभाषिकेऽपि लक्ष्यसिद्धिमाह-नावश्यमिति । तदाशय- माह-तत्समर्थेति । भाष्ये 'ब्रवीती'त्यनेन तादृशशब्दप्रयोग एव मुख्या प्रव- तनेति सूच्यते। ननु प्रश्नक्रियाकर्तृतया कस्य चित्सिद्ध्यभावात्प्रयोज्यस्याऽभावे प्रयोजकस्याप्यभावात्कथं णिच्शङ्का?, तत्राह-प्रटेति । 'भावी'ति शेषः । समानार्थत्वाद्युगपल्लोणिचोरप्रसक्तराह-एकविषयत्वादिति । वस्तुतस्तु लोडन्त प्रयुज्यमानलोडन्तशब्द एव प्रयोजकव्यापारस्तस्य सत्त्वाण्णिच्स्यादिति प्रश्ना- शयः। पर्यायस्य प्रश्नविषयत्वे लोटोक्तत्वात्प्रेषणस्य णिज्न भविष्यतीत्युत्तरपर- भाष्याऽसङ्गतिः। न हि पर्याये लोटोक्तत्वमस्ति । पर्यायो नाम कदाचिल्लोडेव, कदा- चिण्णिजेवेत्याकारः । ननु 'उक्तः करोती'त्यत्रोक्तन्यायेनाऽत्रापि णिचोऽप्राप्त्या भवदुक्तव्याख्याने भाष्याऽसङ्गतिरिति चेन्न; लोडन्तशब्दप्रयोगरूपप्रयोजकव्यापारस्य लोडवाच्यत्वमित्यभिमानेन शङ्कासत्त्वात् । लोटोक्तत्वादित्युत्तरस्य चाऽयमाशयः स प्रेरणात्वेन लोड्वाच्य एवेति । एतच्च 'विधिनिमन्त्रणे'ति सूत्रे उपपादयिष्यते । मञ्जूषायाञ्च निपुणतरमुपपादितम् । न कर्त्तति । तत्र प्रश्ननियाया अभावादिति- भावः । कुतस्तद्विशेष इति । 'तूष्णीमास्त' इति भाष्यं कैमुतिकन्यायोपलक्षणं १ अयं पाठः क्वचिन्न । २ 'मां' पा० । ३ 'अनुयुक्तां' पा० ।

३अ.१पा.२आ.२६सू.] * व्याकरणमहाभाष्यम् , . का भवितव्यं न भूतभविष्यकालायाः ?॥ भूतभविष्यत्कालाया अपि भवि- तव्यम् । अभिसंबन्धस्तत्र क्रियते-'इमां क्रियामकार्षीदिमां क्रियां करिष्य- ती'ति ॥ इह पुनर्न कश्चिदभिसंबन्धः क्रियते, न चासौ संप्रति पृच्छति, नचासौ प्रक्ष्यति, तूष्णीमास्ते ॥ यदि तर्हि कर्ता नास्ति कथं तर्हि कर्तृप्रत्ययेन लोटाऽभिधीयते ?॥ अथ कथमस्मिन्नपृच्छत्ययं प्रच्छिवर्तते ? ॥ अभिसंबन्ध- स्तत्र क्रियते-'इमां क्रियां कुर्विति ॥ कापि तमिसंबन्धः क्रियते ॥ कथम् ?॥ 'कर्ता चौऽस्याः क्रियाया भवेति । एवं न च कर्ता, कर्तृप्रत्ययेन च लोटाऽभिधीयते ॥ अथापि कथं चित्कर्ता स्यादेवमपि न दोषः, लोटोक्तत्वात् प्रैपस्य णिज्न भविष्यति । विधीयन्ते ह्येतेष्वर्थेषु प्रैषादिषु लोडादयः । यत्र प्र.]कर्तृत्वमेव तस्याऽऽधीयमानं–'प्रश्नक्रियायाः कर्ता त्वं भवेति । यथा 'राजा भव युध्यस्वेति राजत्वमेवाऽऽधीयते। यस्तु प्रवृत्तक्रियः संभावितक्रियो वा प्रयोज्यः कर्ता तस्य प्रयोजको हेतुरित्यत्र णिजभावः॥ इतरो वर्तमानक्रियस्यैवाऽनेन कर्तृत्व- मुक्तमिति मत्वा चोदयति-किं च भो इति ॥ अभिसंबन्ध इति । भूताया भाविन्याश्च क्रियायाः काभिसंबन्धो भूतो भावी च प्रतिपाद्यत इत्यर्थः॥ अथ कथ- मिति। असत्यर्थे शब्दप्रयोगाऽसंभवात्॥अभिसंबन्ध इति।बुद्धिपरिवर्तिन्यर्थे बहि- रसत्यपि शब्दप्रयोगादिति भावः॥न च कर्तेति । तस्यैवाऽऽधीयमानत्वात् । तदुक्तं हरिणा- 'द्रव्यमानस्य तु प्रैषे पृच्छादेर्लोविधीयते । सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः ॥ इति ॥ अथापीति । दुर्बलपक्षाभ्युपगमेनाऽपि परिहारोऽ. भिधीयत इति भावः । लोटोक्तत्वादिति । एकविषयत्वाण्णिचो लोडादीनां च पाक्षिकत्वाद्यदा लोडुत्पद्यते तदा तेनैवाऽभिहितत्वात् षस्य णिज्न भविष्यति ॥ उ.]बोध्यम् । आधीयमानं-विधीयमानमित्यर्थः। एतेन 'लोटा कर्तृत्वस्याऽभिधानात् कथमकर्तृत्व'मित्यपास्तम् । तदुपपादयति-यस्तु प्रवृत्तेति । अस्य 'विध्यर्थक- लोडादिप्रयोगं विनापी'त्यादि । प्रवृत्तक्रियोऽपि शैध्याय प्रेर्यत एव भाष्ये-अभिसं. बन्ध इति । बुद्धिकृतोऽभिसम्बन्ध इत्यर्थः । भाष्ये-न चासौ प्रक्ष्यतीति । लोडन्तप्रयोगकृतप्रेरणां विनेत्यर्थः । बुद्धीति । बुद्ध्या विषयीकृतस्यैव सर्वत्र बोधात् । प्रकृते च क्रियाया इव कर्तृत्वस्यापि तथाभूतस्यैव विधानमिति भावः । आधीयमानत्वादिति । विधेयत्वादित्यर्थः। [प्रैष इति । द्रव्यमात्रस्य कर्तृत्वरहि- तस्य प्रयोगः-प्रेषः। दुर्बलेति। ईदृशकर्तुरपि यदि हेतुसंज्ञासूत्रे ग्रहणमिति भावः । पाक्षिकत्वात्-पर्यायेण जायमानत्वात् । एतद्भाष्यनिष्कर्षः प्रागेवोक्तः । कैयटोक्त- १ अयं पाठः क्वाचित्कः । २'पृच्छि' 'पृच्छति' पा०।३ चः क्वाचित्कः । ४ 'भवति' पा०। ५ 'प्रेषणस्य पा०। ६ 'त्वेतेष्वर्थे' पा० । ..

कैपट-विवरणसहितं. [हेतुमति च च द्वितीयः प्रयोज्योऽर्थो भवति, भवति तत्र णिच् । तद्यथा-आसय शाय- मेति ॥॥ कृष्यादिषु चानुत्पत्तिः ॥ ॥ कृष्यादिषु चानुत्पत्तिर्वक्तव्या । एकान्ते तूष्णीमासीन उच्यते-'पञ्चभिर्हलैः कृषतीति । तत्र भवितव्यं 'पञ्चभिहलैः कर्षयती'ति॥ ॥॥ कृष्यादिषु चानुत्पत्तिर्नानाक्रियाणां कृष्यर्थत्वात् ॥ ॥ कृष्या- दिषु चानुत्पत्तिः सिद्धा ॥ कुतः ? ॥ 'नानाक्रियाणां कृष्यर्थत्वात्' । नाना- क्रियाः कृषेराः । नावश्यं कृषिर्विलेखन एव वर्तते ॥ किं तर्हि ? ॥ प्रति- विधानेऽपि वर्तते। यदसौ भक्तबीजबलीपर्दैः प्रतिविधानं करोति स कृप्यर्थः । आतश्च प्रतिविधानेऽपि वर्तते, यदहरेवाऽसौ न प्रतिविधत्ते तदहरेव तत्कर्म न प्रवर्तते ॥॥ यज्यादिषु चोऽविपर्यासः ॥॥ यज्योदिषु चाऽविपर्यासो प्र.]एकान्त इति-कृषावसामर्थ्य दर्शयतिातूष्णीमासीन इति-व्यापाराऽभावकथ- नम् । कश्चिद्धि सामर्थ्यातिशयाधुगपत्पञ्चभिर्हलैः कृषेत्पर्यायेण वेति तन्निराकरणाय 'एकान्ते तूष्णीमासीन' इत्युक्तम् । तत्र पञ्चभिर्हलैर्भूमिमन्यैः कर्षयतीत्यर्थावगमा- ण्णिचि सति कृषतीति न प्राप्नोतीति तदनुत्पत्तिर्वक्तव्येत्यर्थः॥ प्रतिविधानेपीत । अनेकार्थत्वाद्धातूनां कृषिरेव प्रयोजकव्यापारे तत्समर्थाचरणलक्षणे वर्तत इत्यर्थः । धातुनैव चोपपदसहितेन तस्याऽर्थस्य प्रकाशितत्वाणिजभावः, 'विभाषोप- पदेन प्रतीयमान' इति पक्ष आत्मनेपदाऽभावश्च । यदा तु कृषिविलेखने वर्तते तदा भवत्येव 'पञ्चभिर्हलैः कर्षयतीति णिच् ॥ यज्यादिष्विति । यजेः उ.व्याख्याने हि लोड्विशिष्टे तद्वारणेऽपि तदुक्तरीत्या शङ्कितृतात्पर्यविषयस्य पर्याय- स्याऽवारणाच्चिन्त्यमिदम् । नन्वेवं णिज्लोटोः समावेशाऽभावे 'आसये'त्याद्य- नुपपत्तिरत आह-भाष्ये-यत्र च द्वितीय इति । प्रयोजकोऽपि ण्यों यदाऽन्याऽ. पेक्षया प्रयोज्यो भवति तदा तयोः समावेश इत्यर्थः । ननु प्रयोजकव्यापारस्य पञ्च- मिहलैरित्यनेनैव धोतितत्वात्तक्ष्योतनाय 'एकान्ते' इत्यादि व्यर्थमत आह-कश्चिदिति। तवेति । एवञ्च प्रयोजकव्यापारस्याऽत्र प्रतीतेस्तद्वोधनाय णिच्स्यादिति भावः । अनेकार्थत्वादिति । प्रतिविधानान्तोऽत्र धात्वर्थः । फलानुकूलत्वेन स एव वा । करणस्य च फले एवान्वयः । भाष्ये-तत्कर्मेत्यस्य कृष्यर्थफलमित्यर्थः । आयेऽत्र प्रयोज्यस्य कर्मत्व इष्टापत्तिः । 'गतिबुद्धीति सूत्रन्तु नियमस्य सजातीयापेक्षत्वाद- न्यष्यन्त एव व्यावतकम् । अन्ये तु तत्प्राप्तिरेव नेति दिक् । णिजभावइति । द्योतकतापक्षेऽप्युपपदेनैव द्योतितत्वाझ्योतकणिचोऽभाव इतिभावः। वस्तुतो द्योतक- त्वबादिनो वचनाऽऽरम्भः, द्योतकसमुच्चयदर्शनात् । वाचकत्ववादेन तत्खण्डनमिति तत्वम् । प्रयोजकव्यापारफलस्य कर्तृगामित्वात्कृषरात्मनेपदमाशङ्कयाह-विभाषेति । १ 'कृषति' । २ अपिः क्वचिन । ३ 'याज्यादेषु च विपर्यासः' । ४ 'बाऽविप' ।

३अ.१पा.२आ.२६सू.] 8 व्याकरणमहाभाष्यम् 8 ८९ वक्तव्यः । 'पुष्यमित्रो यजते, याजका याजयन्तीति । तत्र भवितव्यं 'पुष्यमित्रो याजयते, याजका याजयन्तीति । ॥*॥ यज्यादिषु चाऽविप- र्यासो नानाक्रियाणां यज्यर्थत्वात् ॥॥ यज्यादिषु चाऽविपर्यासः सिद्धः ॥ कुतः ? ॥ 'नानाक्रियाणां यज्यर्थत्वात्' । नाना क्रिया यजेराः। नावश्यं यजि- हविःप्रेक्षेपण एव वर्तते ॥ किं तर्हि ? ॥ त्यागेऽपि वर्तते । तद्यथा-'अहो यजत' इत्युच्यते यः सुष्टु त्यागं करोति । तं च पुष्यमित्रः करोति, याजकाः प्रयोजयन्ति । ॥*॥ तत्करोतीत्युपसङ्ख्यानं सूत्रयत्याद्यर्थम् ॥॥ तत्करोती- त्युपसङ्ख्यानं कर्तव्यम् । किं प्रयोजनम् ?॥ 'सूत्रयत्याद्यर्थम्' । सूत्रं करोति सूत्रयति । मूत्रर्यतीति ॥ इह 'व्याकरणस्य सूत्रं करोति व्याकरणं सूत्रयती- ति,-वाक्ये षष्ठी, उत्पन्ने च प्रत्यये द्वितीया, केनैतदेवं भवति ? ॥ योऽसौ सूत्रव्याकरणयोरभिसंबन्धः स उत्पने प्रत्यये निवर्तते । अस्ति च करोते- प्र.]प्रक्षेपविशेषवाचित्वात् प्रक्षेपे च ऋत्विजां कर्तृत्वाद्यजमानस्य प्रयोजककर्तृत्वा- णिच्प्रसङ्गनिवारणाय वचनम् ॥ नानाक्रिया इति । तत्र त्यागवचनाश्रयेण यः प्रयोगस्तद्विपरीतः प्रक्षेपवचने द्रष्टव्यः ॥ इह व्याकरणस्येति । लक्ष्ये लक्षणसमुदाय वा व्याकरणशब्दो वर्तत- इति भेदनिबन्धना षष्टी । यदा तु लक्षण एव सूत्रे व्याकरणशब्दो वर्तते तदा व्यपदेशिवद्भावनिमित्ता षष्ठी।यदा 'व्याकरणं सूत्रं करोती'ति सामानाधिकरण्यं तदा यथा 'मुण्डयति माणवक मिति भवति तथा 'व्याकरणं सूत्रयती'त्यपि भवति ॥ योऽसाविति । वाक्ये द्रव्यरूपं सूत्रं 'सूत्र'शब्देनोच्यते। णिचि तूत्पन्ने सत्त्व- भावातिवर्तनात्करोत्यर्थाभिधायी सूत्रशब्दः संपद्यते । तदुक्तं- 'परार्थाभिधानं वृत्ति'- उ.]सा च प्राप्तविभाषेति भावः। तद्विपरीतः प्रक्षेपेति । 'अविपर्यास'पदेनेष्टप्रयोग- सिद्धिरेव न तु विपरीतप्रयोगव्यावृत्तिरपीत्यर्थः । भाष्ये-तदिति,-प्रातिपदिकोप- लक्षणम् । प्रातिपदिकादित्यर्थः। कर्मत्वाद्यन्तर्भावेणैवैकार्थीभावः, लोकव्यवहारात्। करोतीति च धात्वर्थोपलक्षणम् । तेन 'अश्वेनाक्रामत्यश्वयती'त्यादि सिद्धम् । एवञ्च 'प्रातिपदिकाद्धात्वर्थ' इत्यादिगणसूत्राणि प्रक्षिप्तानि, धातुपाठे सूत्रमूत्रधातू चेति बोध्यम् । तत्सत्त्वेनैव सिद्ध वार्तिकमफलं स्यात् । ऋष्योस्तदज्ञानकल्पना:- पेक्षया मदुक्तस्यैवौचित्यात् । एवञ्च 'मुण्डमिश्रे'ति सूत्रस्थः कैयटश्चिन्त्य एवेति बोध्यम् । लक्ष्ये इति । 'व्याकरण'शब्दः कर्मल्युडन्त इति भावः । लक्षणसमु- दाये वेति । अध्यध्यायीरूपेऽर्थे । करणल्युडन्तः स इति भावः । यदा तु लक्षण एवेति । प्रतिसूत्रं 'व्याकरण'शब्द इत्यर्थः । यदेति । व्यपदेशिवद्भावाद्यनाश्रयणे १ 'याज्या' । २ हविष्प्रक्षेपणे पा० । ३न्तीति' पा० । ४ इदं क्वचिन ।

28 कैयट-विवरणसहित [ हेतुमति च ाकरणेन सामर्थ्यमिति कृत्वा द्वितीया भविष्यति॥ ॥*॥ आख्यानात्कृतस्तदा- चष्टे [इति] कृलुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम् ॥*॥ आख्यानास्कृदन्ता- ण्णिज्वक्तव्यस्तदाचष्ट इत्येतस्मिन्नर्थे । 'कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च प्र.]रिति । एतच्च प्रक्रियागतविभागाश्रयेणोक्तम् । परमार्थतस्तु धात्वन्तरं सूत्रिर्वि- शिष्टक्रियावचनः ॥ आख्यानादिति । आख्यायत इत्याख्यानम्-इतिवृत्तमुच्यते । प्रकृतिवदिति । णिचो या प्रकृतिः कंसवधादिः, तया तुल्यंकंसादि कारकं भवति । यथाख्यानक्रियापेक्षं कंसवधादेः कर्मत्वं तथा कंसादेरपि अप्रतिपन्नाख्यानकर्मभावस्य- त्यर्थः । प्रकृतिवद्भावातिदेशेन च कंसादेः पृथकृतत्वात् कंसमघातयदित्यादौ कंसा- दिशब्दवर्जितस्याङ्गसंज्ञायामडादयः कंसादेन भवन्ति । वत्करणाच्च स्वाश्रयमपि भव- तीति 'पुष्येण योजयतीति पुष्यस्य कर्मत्वाऽभावः । अथ वा प्रकृत्या तुल्यं वर्तत- इति प्रकृतिवत्, प्रकृतेरिव प्रकृतिवत्। ण्यन्तस्य कारकमित्युभयथातिदेशाश्रयणात् व चित्कश्चित्परिगृह्यते । प्रकृतिप्रत्यापत्त्या राजागमनादौ नलोपाद्यपि निवर्तत इति उ.]इत्यर्थः। करोत्यर्थाभिधायीति । करोत्यर्थविशेषणीभूतसाध्यावस्थस्वार्थाऽभिधा- यीत्यर्थः । सूत्रणे च सूत्रैर्वृत्तिर्बोध्या। भाष्ये-व्याकरणेन सामर्थ्य मिति। तजन्य- फलाश्रयत्वरूपमित्यर्थः नित्यशब्ददर्शने 'सूत्रयती'त्यत्राऽवयवार्थाऽभावा- च्छदैव नास्तीत्याह-एतच्चेति । आख्यायत इति । बाहुलकात्कर्मणि ल्युट् । भाव- ल्युटि ह्याख्यानक्रियायां कर्मत्वं न स्यात् । णिच इति । 'कृतो या प्रकृति'रिति तु नोक्तं, प्रत्ययलक्षणेन कृदन्ततयाऽनेनातिदेशेन च षष्टीप्रसङ्गात् , 'राजागमन'- मित्यादौ राज्ञः कर्तृतया 'राजान'मिति द्वितीयाऽनापत्तेश्च । तदयमर्थः-णिप्रकृते- र्यथाऽऽख्यानक्रियायां कारकता तथा कंसादेरपीति। तदाह-यथेति । नन्वेवमडाद्य- व्यवस्थेत्यत आह-प्रकृतिवद्भावातिदेशेनेति। प्रकृताविव प्रकृतिवत्। अत्र प्रकृति- शब्देन कृतः-प्रकृतिः । तस्यां यथा कंसादेरनन्तर्भावस्तथा कृदन्तप्रकृतिक- णिजन्तेऽपीत्यर्थः । नन्वेवं 'पुष्येण योजयती'त्यत्रापि द्वितीयापत्तिरत आह-वत्क- रणादिति । क्वचिदिति । 'पुष्ययोगे ज्ञी' इत्यत्र च प्रकृतेरिव प्रकृतिवदित्येवाश्रय- णीयमिति भावः । एवञ्च द्वितीयाद्यन्तत्वाय पृथत्वाय चाऽतिदेशद्वयमाश्रयणीयम्भ- वति, वैरूप्यञ्च भवतीति गौरवम् , अतः 'प्रकृतिवच्चे'त्यस्य कृत्प्रकृतेर्हन्त्यादेj- न्तत्वे यथा कारकं द्वितीयाद्यन्तं, धातावनन्तर्भूतञ्च तथेत्यर्थ उचितः । 'प्रकृति- प्रत्यापत्ति'रित्यत्र कृत्प्रकृतेरेव ग्रहणेनाऽत्रापि तथैवौचित्याच्च 'पुष्येण योजयती'- त्यत्र च न दोषः। प्रकृतिप्रेति । कृत्प्रकृतेः प्रत्यापत्तावपि राजन्शब्दे नलोप- निवृत्तिः कथमिति चिन्त्यम् । वस्तुतः 'प्रकृतिवत्कारक मित्यतिदेशात्पृथक्करणेन समासाऽभावेनाऽपदत्वात्तन्निवृत्तिरिति बोध्यम् । अत्र 'प्रकृतिवच्चेति 'चः"कारक'- ३अ.१पा.२आ.२६सू.] ® व्याकरणमहाभाष्यम् , कारकं । [ आख्यानात्कृदन्ताणिज्भवतीति वक्तव्यम् ] । कंसवधमाचष्टे कंसं घातयति । बलिबन्धमाचष्टे बलिं बन्धयेति ॥ ॥*॥ आख्यानाच्च प्रतिषेधः ॥*॥ आख्यानशब्दाच्च प्रतिषेधो वक्तव्यः । आख्यानमाचष्टे इति ॥ किं पुनर्यान्येतानि संज्ञाभूतान्याख्यानानि तत उत्पत्त्या भवितव्यम्, आहो स्विक्रियान्वाख्यानमात्रात् १॥ किं चातः ॥ यदि संज्ञाभूतेभ्यः, इह न प्रामोति,-राजागमनमाचष्टे राजनमागमयति। अथ क्रियान्वाख्यानमात्रात्, न दोषो भवति ॥ यथा न दोषस्तथाऽस्तु ॥ ॥ दृश्य- प्र.] राजानमागमयतीत्याद्युपपन्नं भवति।कंसवधमिति।यद्यप्यत्र 'सन्नियोगनिर्दिष्टाना- मन्यतराऽपाये उभयोरप्यभाव' इति वधादेशनिवृत्तिस्सिद्ध्यति तथापि पुष्येण योगं जानाति पुष्येण योजयतीति कुत्वस्य सन्नियोगशिष्टत्वाऽभावान्निवृत्तिर्न सिध्यतीति प्रकृतिप्रत्यापत्तिरुच्यते । किं पुनरिति । कंसवध-नलोपाख्यानादीनीत्यर्थः । दृश्य- र्थायामिति । यदाऽरण्यस्थो रममाणान् मृगान् प्रतिपद्य व्याचष्टे-एतस्मिन्नवकाशे- एवंविधा मृगा रमन्त इति तदा प्रतिपाद्यस्य दर्शनार्था प्रवृत्तिर्भवति । यदा- उ.] मित्यनन्तरं बोध्यः-प्रकृतिवत्कारकच्चे'ति । तेन तद्वत्कार्यमष्यतिदिश्यते । तेन 'घातयती'त्यादौ कुत्वतत्वे सिध्यतः, अन्यथा "धातोः स्वरूपग्रहण'इति परिभाषया न स्याताम् । केचित्तूभयत्रापि 'प्रकृति'पदेन हेतुमण्ण्यन्तप्रकृतिः हेतुमण्ण्यन्तश्च प्रत्यासत्योपस्थितकृत्प्रकृतिप्रकृति एव । प्रत्यापत्ति:-प्रत्यभिज्ञा । सा च तत्सत्त्वे तत्रत्यकार्यसत्त्वे च भवतीति । अनेनैव कारकबहिर्भावो वधादेशनिवृत्तिः कुत्वतत्वा- दिकञ्च सिद्धम्। नन्वेवं प्रत्ययलक्षणेन कृदन्तत्वात्कंसादेः षष्टी स्यादतः-प्रकृति- वञ्च कारकमिति। यद्विभक्त्यन्तं तत्र तादृशमत्रापीत्यर्थः । एवञ्चाऽऽवृत्तिकल्पना न कुत्रापि । 'प्रत्यापत्ति'शब्दस्य च प्रत्यभिज्ञाविषयतयाऽऽपत्तिः स्थितिरित्यर्थी नतु नष्टस्य पुनः प्रादुर्भावः प्रत्यापत्तिः । अतएव 'रात्रि विवासयति' 'मृगान् रम- यती'त्युदाहरणविषयवचने प्रकृतिप्रत्यापत्तिवचःसङ्गतिः । अन्यथा तत्र प्रकृतेरा- देशेनाऽनपहारात्प्रत्यापत्तिव्यवहाराऽसङ्गतिः स्पष्टैव । कारकबहिर्भावश्च तस्याः फलमित्याहुः । यद्यप्यत्र संनियोगेति । एवञ्च तदनित्यत्वज्ञापकम्प्रकृतिप्रत्यापत्ति- वचोऽत्रत्यमिति बोध्यम् । भाष्ये-संज्ञाभूतानीत्यस्य प्रसिद्धानीत्यर्थः । भाष्ये- राजानमागमयतीति । एवञ्च 'देवदत्तपाकमाचष्टे' इत्यर्थे देवदत्तेन पाचयतीत्येव, 'गतिबुद्धीतिनियमेन देवदत्तस्य कर्मत्वाऽभावात् । दृश्यर्थेति । इकृष्यादिभ्य' इति दृशिः साधुः । रममाणान्मृगानिति । एतेन 'भृगरमण'शब्द आखेटे १ अयं पाठः क्वचिन्न । २ 'बन्दि' 'बडिं' 'बन्धि' पा०। ३ 'यतीति' पा०। ४ 'सञ्ज्ञाभूताख्यातानि तेभ्यः' 'सज्ञीभूताख्याता' पा० । ५ 'क्रियाख्यान' पा०।

९२ - ॐ कैयट-विवरणसहित [ हेतुमति च यां च प्रवृत्तौ॥ ॥दृश्यर्थायां च प्रवृत्तौ कृदन्ताणिज्वक्तव्यस्तदाचष्टे इत्ये- तस्मिन्नर्थे । कल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवञ्च कारकं भवतीति वक्तव्यम् । मृगरमणमाचष्टे मृगान् रेमयतीति ॥ दृश्यर्थायामिति किमर्थम् ? ॥ यदा हि ग्रामे मृगरमणमाचष्टे मृगरमणमाचष्ट इत्येव तदा भवितव्यम्॥ ॥ आलोपश्च कालात्यन्तसंयोगे मर्यादायाम् ॥ ॥ कालात्यन्तसंयोगे मर्यादायां कृदन्ताणिज्व- वक्तव्यस्तदाचष्ट इत्येतस्मिन्नर्थे, आलोपँश्च कृल्लक्प्रतिप्रत्यापत्तिः प्रकृतिवञ्च- कारकं भवतीति वक्तव्यम् । आरात्रिविवासमाचष्टे रात्रि विवासयतीति । ॥*॥ चित्रीकरणे प्रापि ॥*॥ चित्रीकरणे प्राप्यर्थे कृदन्ताणिज्वक्तव्यः । कृल्लुक प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकं भवतीति वक्तव्यम् । उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं संभावयते-सूर्यमुद्गमयतीति ॥ ॥ नक्षत्र- योगे ज्ञि ॥*॥ नक्षत्रयोगे जानात्यर्थे कृदन्ताण्णिज्वक्तव्यः। कृल्लक प्रकृति. पत्यापत्तिः प्रकृतिवञ्च कारकं भवतीति वक्तव्यम् । पुष्ययोगं जानाति पुष्येण योजयति । मघाभिर्योजयेतीति ॥ तत्तौंदं बहु वक्तव्यम् ? ॥ ॥*॥ न वा समान्यकृतत्वाद्धेतुतो ह्यविशिष्टम् ॥*॥ न वा वक्तव्यम् ॥ किं प्र.हि ग्राम इति । ग्रामे मृगाणामसंभवान्न तद्दर्शनार्था प्रवृत्तिः। दृश्यर्थाया'मित्येतच्च मृगरमणादिविषयमेव द्रष्टव्यम् । राजागमनादिषु तु दृश्यर्थप्रवृत्त्यभावेऽपि णिज्भ- वति । आरात्रिविवासमिति । यावद्रात्रेर्विवासोऽतिक्रमणं तावत्कथाः कथयती- त्यर्थः । चित्रीकरण इति । आश्चर्यकरणे गम्यमाने तत्प्राप्नोतीत्यत्रार्थे णिज्वक्तव्यः । संभावयत इति । 'भू प्राप्तावात्मनेपदी'त्यस्य रूपम् । पुष्यणेति । पुष्यो योगक्रि- यायाः कर्ता, स हि चन्द्रमसं सम्बध्नाति। तत्रोभयप्राप्तौ कर्मणीति नियमात् षष्ठ्यभावे उ.] रूढ इत्यपास्तम् । प्रवृत्तिर्भवतीति । आख्यानविषयेत्यर्थः । इत्येतच्चेति । प्रयोगाऽनुसारादिति भावः। बावदिति । रात्रिरूपकालेनाऽत्यन्तसंयोगः । कथा- श्वाऽऽख्याने कर्मेति भावः 'आरात्रिविवास'शब्देन तावत्पर्यन्तकथा लक्ष्यन्त इति बोध्यम् । कालाऽत्यन्तसंयोगे गम्यमाने इत्यर्थः । वसेरकर्मकतया 'गति- बुद्धीति रात्रेः कर्मत्वं हेतुमण्णिचि तद्वदिहापि बोध्यम् । भाष्ये-पापीति,-सम्प- दादित्वेन भावक्विबन्तात्सप्तमी। एवं 'ज्ञी'त्यपि । भू प्राप्ताविति । 'सम्भावयत' इत्यस्य प्राप्नोतीत्यर्थः । उभयप्राप्ताविति । नियमेन चन्द्रमसः प्रतीतेरुभयप्राप्तिः । वस्तुतः सहयोगेऽत्र तृतीया, कर्तृप्रयोगाऽभावेनोभयप्राप्तेरभावात् । मतान्तरोक्त प्रकृतिवदित्यस्यार्थेऽपि न दोषः, हेतुमण्णिचि गत्यादिनियमातृतीयाया एव पुष्येणे- १ इदं क्वचिन्न । २ इतिः क्वचिन्न । ३ ‘भवतीति' । ४ 'आलोपश्च' 'आल्लो- पश्च' पा० । ५ 'प्राद्यर्थे' 'प्राप्त्यर्थे पा० । ६ इदं प्रायिकम् । ७ 'सूर्योद्गम पा०। - ~.../ ३अ.१पा.२आ.२६सू.] ® व्याकरणमहाभाष्यम् ॐ कारणम् ?॥'सामान्यकृतत्वात्।सामान्येनैवाऽत्र णिज्भविष्यति-हेतुमती ति। किं कारणम् ? ॥ हेतुलो ह्यविशिष्टम्'। हेतुतो विशिष्टमेतद्भवति । तुल्या हि हेतुता देवदत्ते चादित्ये च ॥ न सिध्यति । 'स्वतन्त्रस्य प्रयोजको हेतु- संज्ञो भवतीत्युच्यते, न चाऽसावादित्यं प्रयोजयति॥*॥ स्वतन्त्रप्रयोजकत्वा- दप्रयोजक इति चेन्मुक्तसंशयेन तुल्यम् ॥॥ यं भवान् स्वतन्त्रप्रयोजकं मुक्त- संशयं न्याय्यं मैन्यते-'पाचयत्योदनं देवदत्तो यज्ञदत्तेने ति, तेनैतत्तुल्यम् ॥ कथम् ? ॥ ॥*॥ प्रवृत्तिषुभयत्राऽनपेक्ष्ये ॥*॥ प्रवृत्तिषुभयत्रानपेक्ष्यैव किं चिद्भवति देवदत्ते चादित्ये च । नेह कश्चित्परोऽनुगृहीतव्य इति प्रवर्तते । [॥*॥ सर्व इमे स्वर्भूत्यर्थम् ॥*]॥ सर्व इमे स्वर्भूत्यर्थं प्रवर्तन्ते । ये तावदेते गुरुशुश्रूषवो नाम तेऽपि स्वभूत्यर्थमेव प्रवर्तन्ते, पारलौकिकं चनोभविष्यतीह च नः प्रीतो गुरुरध्यापयिष्यतीति । तथा य एते दासाः कर्मकरा नाम, ते ऽपि स्वभूत्यर्थमेव प्रवर्तन्ते,भक्तं चैलं , लप्स्यामहे,परिभाषाश्च ननो भवि- प्यन्तीति । तथा य एते शिल्पिनो नाम तेऽपि स्वभूत्यर्थमेव प्रवर्तन्ते वेतनं च लप्स्यामहे मित्राणि च नो भविष्यन्तीति । एवमेतेषु सर्वेषु स्वभूत्यर्थ प्रवर्तमानेषु-॥ ॥ कुर्वतः प्रयोजक इति चेत्तुल्यम् ॥ ॥ यदि कश्चित्कुर्वतः प्र.]तृतीयासमासः। तत्र प्रकृतेरिव प्रकृतिवदित्येवं प्रकृतिवदतिदेशात्कर्तरि तृतीया भवति । लकारस्तु प्रधान एव कर्तरि भवति नातिदेशिके । सामान्यकृतत्वादिति। सामान्यलक्षणेनैव सिद्धत्वादित्यर्थः । देवदत्ते चेति । देवदत्तविषया अन्यस्य हेतुते- उ.]त्यत्र प्राप्तेः। नातिदेशिके इति । णिच्प्रकृत्यर्थकर्तृत्वाऽतिदेशेऽपि णिजर्थकर्तृ- त्वाऽतिदेशाऽभावान्न तदुत्तरलेनास्याऽभिधानमित्यर्थः। 'सूर्यमुद्गमयते' इत्यादा- वादित्यस्य प्रयोज्यत्वात् चेन देवदत्तस्यापि तत्सजातीयताध्वननाद्धेतुतेत्यनुपपन्नमत आह-देवदत्तविषयाऽन्यस्येति । भाष्ये-स्वतन्त्रस्य प्रयोजक इति । स्वाभिप्रेत- मात्रोद्देशेन प्रवृत्तस्य प्रवर्तक इत्यर्थः । एवम्प्रयोजयती'त्यस्य च स्वाभिप्रेतोद्देशेन प्रवृत्तं प्रवर्तयतीत्यर्थः । स्वाभिप्रेतमात्रोद्देश्यकप्रयोज्यनिष्टप्रवृत्त्यनुकूलव्यापारवत्त्वं हि प्रयोजकत्वमिति फलितम् । सर्वत्र स्वशब्देन प्रयोजकः। एवं प्रयोजका- भिप्रेतमात्रोद्देश्यकप्रवृत्त्याश्रयत्वं प्रयोज्यत्वम् । तदेव च स्वतन्त्रत्वम् । न चैतत्सूर्ये इति भावः। समाधत्ते भाष्ये-स्वतन्त्रेति। स्वतन्त्रप्रयोजकस्य १ अत्र-'स्वतन्त्रप्रयोजकत्वादप्रयोजक इति' चेन्मुक्तसंशयेन तुल्यमेतद्भव- तीति व्याख्याभाष्यं लुप्तं स्यादित्यन्ये । २'मन्यते' । ३ 'पेक्षा' पा० । ४ इदं लुप्तम् । ५ 'भूत्यर्थमेव' । ६ 'यतहासकर्मकरं नामैतदपि' । ७ ‘एतेऽपि' । ८ 'चैलं' । ९ 'षाश्च नो' । 'षाश्च ततो' । १० 'कश्चित्प्रयोजको नाम कुर्वतः' ९४ कैयट-विवरणसहितं. [ हेतुमति च प्रयोजको नाम भवति तेनैतत्तुल्यम्॥ यदि तर्हि सर्व इमे स्वभूत्यर्थं प्रवर्तन्ते कः प्रयोज्यार्थः ? ॥*॥ यदभिप्रायेषु सजन्ते ॥ ॥ यदभिप्रायेषु[आ]सज्जन्ते- ईदृशौ वध्रौं कुरु, ईदृशौ पुटकौ कुर्विति । आदित्यश्चास्याभिप्राये सजते । एष तस्याऽभिप्रायः-'उजयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं संभावये. ये ति, तं चास्यादित्योऽभिप्रायं निर्वर्तयति ॥ भवेदिह वर्तमानकालता युक्ता स्यात्-'उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं संभावयते सूर्यमुद्गम- यती'ति, तत्रस्थस्य हि तस्यादित्य उदेति । इह तु कथं वर्तमानकालता.- कंसं घातयति बलिं बन्धयतीति, चिरहते [च कंसे चिरबद्धे च बलौ ?॥ प्र.त्यर्थः। परिभाषा इति । दण्डनादिकाः । यदभिप्रायेविति । तदुक्तं हरिणा- 'निमित्तेभ्यः प्रवर्तन्ते सर्व एव स्वभूतये। अभिप्रायानुरोधोऽपि स्वार्थस्यैव प्रसिद्धये ॥इति। सजन्त इति भाष्यकारवचनादात्मनेपदम्। परस्मैपदी तु सजिः- उ.]हि हेतुत्वम् , अयञ्च न तथेत्यप्रयोजकोऽहेतुरिति चेदित्यर्थः।प्रवृत्तिषुभयत्रा- ऽनपेक्षेति । प्रयोज्यप्रवृत्तिरुभयत्रापि प्रयोजकाभिप्रेतानपेक्षा तन्मात्रानुद्देश्यिकेत्य- र्थः । उभयत्रानपेक्ष्यैव किञ्चिदिति । 'किञ्चि'दित्यस्य प्रयोजकाभिप्रेतमात्रं । किञ्चिदनपेक्ष्यैवोभयोर्देवदत्तादित्ययोर्भवतीत्यर्थः । तस्मान्मात्रांशो न निवेश्यः । अन्यथा णिजनवकाश इति भावः । तदेव व्युत्पादयति-नेह कश्चिदिति । 'सत्या- मपि प्रेरणाया'मिति शेषः । सनिन्द उपालम्भः-परिभाषणम्।तदाह-दण्डना- दिका इति । अनेन सर्वत्र स्वेष्टसाधनताज्ञानं प्रवर्तकमित्युक्तम् । भाष्ये-कुर्वतः प्रयोजक इति । प्रयोजकाऽभिप्रेतमात्रोद्देशं विनापि स्वेष्टोद्देशेनैव कुर्वतः पुंसः प्रयो- जको दृश्यते । यथा गुरुः शिष्यानध्ययने प्रवर्तयतीत्यादौ, तद्वत्सूर्यस्यापीति भावः । कःप्रयोज्यार्थ इति। प्रेरणाजन्यप्रवृत्त्याश्रयः प्रयोज्यस्तस्य प्रेरणया कोऽर्थः, प्रयोजनं किमिति प्रश्नः । उत्तरमाह-यदभिप्रायेष्वासजन्त इति । प्रेरकाऽभि- प्रायेष्वासजन्ते । तदभिप्रायं ज्ञात्वा तं निवर्तयन्ति यदेष एव प्रयोज्यस्य प्रेरणया- ऽर्थ इत्यन्वयः। एवञ्च क्रियायां स्वाभिप्रायानुरोधफलकं तज्ज्ञापनमेव प्रेरणाफल- मिति भावः । 'अभिप्राय पदेन तद्विषय उच्यते। तदाह-ईदृशावित्यादिना । तदाह निमित्तेभ्य इति । स्वभूतिसाधनत्वज्ञापकप्रेरणादिभ्य इत्यर्थः । ननु स्वभूति- फलकप्रवृत्तिप्रयोजकाऽभिप्रायाऽनुरोधोऽपि किमर्थ इत्यत आह-अभिप्रायेति । ननु शिष्यादीनां स्वार्थसिद्धये गुर्वाद्यभिप्रायानुरोधेऽपि सूर्यस्य तदनुरोधे मानाऽभावः, फलाऽभावश्चेति चेन्न; अभिप्रायसम्पत्तिमात्रेण तदुद्देश्यकप्रवृत्त्याश्रयत्वादिरूपप्रयोज्य- प्रयोजकभावाऽध्यारोपेण णिजिति तात्पर्यात् । भाष्यकारवचनादिति । तत्प्र- योगादस्याऽनुदात्तत्स्वपि पाठोऽनुमीयत इति भावः । ननु 'चिरहते कसे' इत्युक्त्या ३अ.१पा.२आ.२६सू.] * व्याकरणमहाभाष्यम् * ९५ , अत्रापि युक्ता॥कथम् ? ॥ येतावदेते शौभिका नामैते प्रत्यक्षं कसं घातयन्ति, प्रत्यक्षं च बलिं बन्धयन्तीति॥ चित्रेषु कथं ?॥ चित्रेष्वपि उद्र्णा निपतिताश्च प्रहारा दृश्यन्ते कंसकर्षण्यैश्च ॥ ग्रन्थिकेषु कथं, यत्र शब्दग्रन्थगडमात्रं लक्ष्य- ते?॥ ते ऽपि हि तेषामुत्पत्तिप्रभृत्या विनाशाद्धीवा॒चक्षाणाः सतो बुद्धिवि- घयान् प्रकाशयन्ति॥आतश्च सतः-॥*व्यामिश्रीः॥*॥ व्यामिश्राश्च दृश्यन्ते । के चित्कंसभक्ता भवन्ति के चिद्वासुदेवभक्ताः। 'वर्णान्यत्त्वं' खल्वपि पुष्यन्ति। के चित्कॉलमुखा भवन्ति के चिद्रक्तर्मुखाः। 'त्रैकाल्यं खल्वपि लोके लक्ष्यते, प्र.]ग्लुच्चु षस्ज गताविति।चिरहत इति। चिरप्रवृत्तत्वाद्वध्यघातकभावस्य प्रयोजक- व्यापारस्य वर्तमानत्वाऽसंभवात् । उपसङ्ख्यानारम्भे तु न दोषः, आख्यानस्य वर्त- मानत्वादित्यर्थः । शौभिका इति । कंसानुकारिणां नटानां व्याख्यानोपाध्यायाः । कंसानुकारी नटः सामाजिकैः कंसबुद्ध्या परिगृहीतः कंसो भाष्ये विवक्षितः।ग्रन्थिके- विति । कथकेष्वित्यर्थः। तेपीति । तदुक्तं हरिणा-'शब्दोपहितरूपांस्तु बुद्धवि- उ.]प्रयोजकव्यापारस्य वर्तमानकालवाऽभावो नोक्त इत्यत आह-चिरप्रवृत्तेति।कंस- कृष्णयोर्वध्यघातकभावस्य चिरप्रवृत्तत्वेन तत्प्रयोजकव्यापारस्यापि तत्त्वमेवेति भावः । कंसाद्यनुकारिणां-कंसादिसदृशानाम् । भाष्य-प्रत्यक्षं कसं घातयन्ती- ति । तादृशेनैव वासुदेवेनेत्यर्थः । उद्गुर्णा इति । उद्यता इत्यर्थः । 'गूरी उद्य- मने' इत्यस्य रूपम् । एवञ्च चित्रलेखका अपि चित्रस्थं कसं तादृशेनैव कृष्णेन घातयन्तीत्यर्थः । 'ग्रन्थिक'पदे 'अत इनिठनौ' इति ठन् । शब्दग्रन्थगड्डेति । शब्दः-कथकमुखोच्चार्थमाणः। प्रन्थः-तद्धस्तस्थपुस्तकरूपः। गड्डः मनुष्यसङ्घातः । न तत्र क्वश्चिदपि कंसादिबुद्धिविषय इत्यर्थ इत्याहुः। तेऽपि-ग्रन्थिका अपि। तदृद्धी- याचक्षाणा इति । तदैश्वर्याणीत्यर्थः । तानि कथयन्तो ग्रन्थिकाः स्वबुद्धिविष- यभूतान् सतो विद्यमानान् कंसादीन् प्रकाशयन्ति-श्रोतृबुद्धौ समर्पयन्तीत्यर्थः विद्य- मानत्वेन बुद्धिविषयत्वे हेतुमाह-आतश्च सत इति । व्यामिश्राश्चेति । ची हेती। यतो विरुद्धपक्षाश्रिता दृश्यन्त इत्यर्थः । न ह्यतीतत्वबुद्धौ तत्संभवतीति भावः । तत्कालमृते स्वपक्ष इव वर्णान्यत्वं पुष्यन्ति-पुष्टं कुर्वन्ति, दधतीत्यर्थः । तत्रैव युक्त्यन्तरमाह-त्रैकाल्यं खल्वपीति । एवञ्च बुद्धिविषयसत्तयैव सर्वोऽपि व्यव- हार इति भावः। शब्देति । शब्दसमर्पितवुद्धिविषयाकारानित्यर्थः। साधनत्वेनेति । १ 'शोभनिका' 'शोभिका'पा०। २ 'कंसस्य वासुदेवस्य च' कंसस्य 'कृष्णस्य च' पा० । 'कंसकर्षण्यो हि रजवः'। कार्षण्यः' । ३ 'गडु' पा० । 'ग्रन्थनमात्रं'। ४ 'दृद्धी 'बुद्धी' 'तद्बुद्धी' पा०। ५ 'व्याश्रिताच' 'व्यामिश्रिताश्च'।'ताहि' । ६ इदं वार्तिकं । भाष्यमेव न वार्तिकमित्यन्ये । ७ 'केचिद्रक्तमुखा' । ८ 'कालमुखाः' । ।

९६ * कैयट-विवरणसहितं 8 [कण्ड्वादिभ्यो 'गच्छ हन्यते कंसः'। 'गच्छ घानिष्यते कंसः'। 'किं गतेन, हतः कंस' इति ॥ * इति श्रीमद्भगवत्पतअलिविरचिते व्याकरणमहाभाष्ये तृतीयाध्यायस्य प्रथमे पादे द्वितीयमाह्निकम् ॥* कण्ड्वादिभ्यो यक ॥ ३॥१॥२७ ॥ किमर्थः ककारः ? ॥ ॥ [ ककारो] गुणवृद्धिप्रतिषेधार्थः ॥ ॥ कृितीति गुणवृद्धिप्रतिषेधो यथा स्यात् ॥ नैतदस्ति प्रयोजनम् । सार्वधातुकार्द्धधातुक- योरकस्य गुण उच्यते, धातोश्च विहितः प्रत्ययः शेष आर्धधातुकसंज्ञां लभते, न चायं धातोर्विधीयते । कण्ड्वादीनि हि प्रातिपदिकानि ॥ ॥*॥ कण्ट्वादिभ्यो वावचनम् ॥ ॥ [ कंण्ड्वादिभ्यो वावचनं कर्त्तव्यम् ] । कण्ड्वादिभ्यो वेति वक्तव्यम् ॥*॥ अवचने हि नित्यप्रत्ययत्वम् ॥ ॥ अक्रियमाणे हि वावचने नित्यः प्रत्ययविधिः प्रसज्येत ॥ तत्र को दोषः ? ॥*॥ तत्र धातुविधितुक्प्र- प्र.] षयतां गतान् । प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते ॥इति। शिष्टं भाष्यं] स्पष्टम्॥ इतिकैयटकृते भाष्यप्रदीपे तृतीयस्य प्रथमे पादे द्वितीयमाह्निकम्॥ कण्ड्वादिभ्यो यक् । किमर्थ इति । द्वैविध्यं कण्ड्वादीनां दर्शयितुमुपन्यासः । ककारप्रयोजनमेव दर्शयितुं वस्त्वन्तरमुपक्षिप्यते-कण्ड्वादिभ्यो वावचनमिति । यदा कण्ट्वादीनि प्रातिपदिकानि तदा 'वेति वक्तव्यमित्यर्थः। तत्र को दोप इति । नित्येऽपि प्रत्यये क्विपा 'कण्डू'रित्यादि सिध्यतीति भावः।किपा यथेष्टं रूपं न सिध्य- तीति दर्शयितुमाह-तत्रेति । 'कण्ड्य' शब्दात् क्विपि विहितेऽकारलोपस्य स्थानिव- उ.] बुद्धिविषयवधादेरित्यर्थः ॥ इति नागेशभट्टविरचिते भाष्यप्रदीपोइयोंते तृतीयस्य प्रथमे द्वितीयमाह्निकम् । कण्ड्वादिभ्यो। धातुभ्यो यकि गुणनिषेधकतया कस्य चारितार्थ्यादाह-द्ववि- ध्यमिति । प्रातिपदिकत्वमात्रन्तु प्रष्टा मन्यते । उपक्षिप्यत इति । तत्समाधाने- नैव ककारप्रयोजनमप्युक्तमेव भवतीति भावः । यदेति । प्रातिपदिकान्येवेत्यर्थः । केवलधातुपक्षे तु वावचने क्रियमाणेऽपि 'कण्डवती'त्यनिष्टप्रसङ्गः, कण्ट्वावि- त्यादावुवादिप्रसङ्गश्चेतिभावः । न च प्रातिपदिकान्येव सन्तु,अत्र च सूत्रे 'करणे' इत्यनुवर्तते, तेन कण्ड्रंकरोतीत्यर्थे यक्। अन्यदा त्वभावः।तेन कण्ड्वावित्यादेः सिद्धिः। यगन्तेभ्यस्तु न विप् , अनभिधानात् । तेन नोवसहितः प्रयोगः । एवञ्च 'वा'- वचनं किमर्थमिति वाच्यं, सुख्यती'त्यादावतो लोपानापत्तेः। विपा-सम्पदादिक्विंपा। यथेष्टमिति । वीप्सायां 'यथा सादृश्ये' इत्यव्ययीभावः। एववचने कुतो नोदाहृतमि- त्यत आह-कण्डूप इति । क्वीति । 'क्वौ लुप्तं न स्थानिव'दिति निषेधादिति भावः। १ इदं क्वचिन । २ इदं वार्तिकं लुप्तं सम्प्रति .

.. ३अ.१पा.३आ.२७सू.] 8 व्याकरणमहाभाष्यम् । तिषेधः ॥ ॥ तत्र धातुविधेस्तुकश्च प्रतिषेधो वक्तव्यः स्यात् । कण्ड्वौ कण्ड्वः । 'अचिभुधातुभ्रुवां वोरियडुवङा वित्युवडादेशः प्रसज्येत । इह कण्ड्वा कण्ड्डे इति,–'नोचात्वो रिति[विभक्तरुदात्तत्व प्रतिषेधः प्रसज्येतातुक प्रतिषेध्यः- वल्गुः मन्तुरिति । 'हस्वस्य पिति कृति [तु'गिति ] तुक् प्रामोति॥*॥ हस्व- यलोपौ च ॥ ॥ हस्वयलोपौ च वक्तव्यौ स्याताम् । ह्रस्व-वल्गुमन्तुरिति ॥ किमर्थमिदं, न ह्रस्व एवायम् ?॥अन्तरङ्गत्वाद्यऽकृद्यकार इति दीर्घत्वं प्राप्नोति। हस्व ॥ येलोप-यलोपश्च वक्तव्यः। कण्डूः मन्तुः वल्गुरिति॥ किमर्थमिदं, न वलीत्येव सिद्धम् ?॥ वलीत्युच्यते न चाऽत्र लादिं पश्यामः ॥ ननु च क्विव- लादिः॥ कि ब्लोपे कृते वलाद्यभावान प्राप्नोति॥ इदमिह संप्रधार्य-किन्लोपः क्रियतां वलि लोप इति, किमत्र कर्तव्यम् ?। परत्वात्विब्लोपः । नित्यः ख- ल्वपि विब्लोपः । कृतेऽपि यलोपे प्रामोत्यकृतेऽपि प्रोमोति । नित्यत्वात्पर- प्र. त्वमुवङि कर्तव्ये नास्ति । 'किलुगुपधात्वचपरनिहाँसकुत्वेष्विति निषेधात् । अथापि स्थानिवत्त्वादुवङ् स्यात्तथापि वकारस्योट करिष्यते । 'आदिष्टादचः पूर्वो वकार' इत्यूठि कर्तव्ये स्थानिवत्त्वाऽभावः । अत एवोठः पुनरुवङ्ग भवति, तत्र उ.]अथापीति। तदसार्वत्रिकम्। किन्तु 'क्वौ विधौ नेत्येव सार्वत्रिकमिति भावः । इदं प्रौढ्या। आदिष्टादिति। 'कौ विधि मितिनिषेधादित्यपि बोध्यम् । अत एवेति । आदिष्टादचः पूर्वत्वेन स्थानिवत्त्वाऽभावादेवेत्यर्थः । पुनरुवङनेति । 'लक्ष्ये लक्षण- स्येति न्यायादित्यपि बोध्यम् । न चाऽनादिष्टादचः पूर्वत्वं स्थानिवद्भावेन लभ्यं, वस्यादेशत्वाऽभावात् , उव आदेशत्वेऽपि तस्य कार्याऽभावात् । न च 'सर्वे सर्वप- दादेशा' इति 'कण्डू'इत्यस्य कण्डुवादेशे तस्य स्थानिवत्त्वादनादिष्टादचः पूर्वत्वेन तस्य 'कण्डु ऊ' इत्यादेशे कार्ये स्थानिवत्त्वम्, 'सर्वे सर्वपदादेशा' इत्याश्रित्याऽचः पर- स्मिन्नित्यस्याऽप्रवृत्तेः। अत एव स्वरादिग्रहणस्य व्यवहितसाधारणपूर्वत्वग्रहणज्ञाप- कता आकरोक्ता सङ्गच्छते। न च 'प्रातिपदिकानी'त्युपक्रम्य भाष्ये वावचनात् , 'यदा कण्ड्वादीनि प्रातिपदिकानी'त्यादिना स्वयं तथैव व्याख्यानाच्च,अल्लोपस्य स्थानिवत्त्वेपि तत्र परे पूर्वस्य 'कण्डू' इत्यस्य धातुत्वाऽभावादुवङोऽप्राप्त्याऽसङ्गतोऽयं कैयटः।स्पष्ट- च्चेदं 'लोपो व्यो रिति सूत्रे कैयटे इति वाच्यम्, अतिदेशेनाऽकारे सत्यपि श्रवणा- ऽभावेन तस्य लौकिकसत्ताविरहात् , छिन्नपुच्छश्वदृष्टान्तमूलकेन 'प्राग्दीव्यतो णिति सूत्रभाष्योक्तेनैकदेशविकृतन्यायेन 'कण्डू' इत्यस्य धातुत्वमित्यभिमानात् । तत्रेति । औजनिमित्तक उव प्राप्नोति, एकदेशविकृतन्यायेन 'कण्डू' इत्यस्य धातुत्वात् । न १ इतिः क्वचिन्न। २ इदं क्वचिन्न। ३ 'प्रतिषेद्धव्यः' । ४ 'अन्तरगत्वादकृद्य- कारे'। ५ 'यलोपः। ६'वलं'। ७ 'विपो लोपेविपि लोपे'। ८ अपिः कृचिन्न ।'

कैयट-विवरणसहितं 8 [कण्ड्वादिभ्यो .. त्वाच्च किब्लोपे कृते वलाद्यभावान प्राप्नोति ॥ एवं तर्हि प्रत्ययलक्षणेन भविष्यति ॥ वर्णाश्रये नास्ति प्रत्यलक्षणम् ॥ अथ क्रियमाणेऽपि वावचने यदा यगन्तारिकप्तदैते दोषाः कस्मान्न भव- न्ति?॥ नैतेभ्यस्तदा विद्रक्ष्यते॥ किं कारणम् ?॥ अन्येभ्योऽपि दृश्यत इत्यु- च्यते न चैतेभ्यस्तदा विदृश्यते ॥ यथैव तर्हि क्रियमाणे[ऽपि]वावचनेऽन्ये- भ्योऽपि दृश्यत इत्येवमत्र किन्न भवत्येवमक्रियमाणेऽपि वावचैने न भवि- ष्यति । अवश्यमेतेभ्यस्तदा विबेषितव्यः ॥ किं प्रयोजनम् ?॥ एतानि रूपा- णि यथा स्युरिति ॥ तत्तर्हि वावचनं कर्तव्यम् ? ॥ न कर्तव्यम् । उभयं कण्ड्वादीनि,-धातवैश्चैव प्रातिपदिकानि च । आतश्चोभयं,-कण्डूयतीति हिं क्रियां कुर्वाणे प्रयुज्यते, 'अस्ति मे कण्डू' इरिति वेदनामात्रस्य सांनिध्ये ॥ प्र.]‘कण्डू' शब्दादोजसोः कृतयोरुवङ् प्राप्नोति । 'ओःसुपीति तु यणादेशोऽसंयोग- पूर्वस्योक्तः । नित्यत्वाञ्चेति । 'वेरपृक्तलोपात्पूर्वं वलि लोप' इत्येतदनाश्रित्येदमु- च्यते । वर्णाश्रय इति । वल्रूपाश्रयो व्योर्लोपो न तु प्रत्ययाश्रयः । वावचने तु सति पक्षे यगनुत्पादाद्यथेष्टसिद्धिः। नैतेभ्य इति। कर्तरि विपो विधानात् । कण्डूरिति च कानवगमादिति भावः । अवश्यमिति। संपदादित्वाद्भावे कर्तव्य इति भावः । वेदनामात्रस्येति । वेदना च सत्त्वरूपा प्रतीयते न च साध्यरूपेति भावः । तत्र धात्वधिकाराद्धातुभ्य एव स्वार्थे यग्भवति, प्रातिपदिकेभ्यस्तु स्वाद्युत्पत्तौ सत्यां उ.चैतन्निमित्ते उवङि अल्लोपस्य स्थानिवत्त्वम्, 'वो लुप्त'मिति निषेधादितिभावः । भाष्ये-हस्वस्य पितीति । ह्रस्वोच्चारणसामर्थ्याद्दीर्घाऽभावं मन्यते । तद्धनयन्नाह हस्वयलोपौ चेति। अन्तरङ्गत्वादिति। अकृतव्यूह'परिभाषा तु नास्त्येवेति भावः । वेरपृक्तलोपादिति । इदं क्वाऽस्तीति चिन्त्यम् । 'लोपो व्यो'रिति सूत्रे 'क्वावुपस- यान'मिति वार्तिकम् । कर्थाऽनवगमादिति।यत्र तु कर्थाऽवगमस्तत्र भवत्येव, यथा भिषज्यतेः क्विपि भिषक्शब्दे इत्याहुः । केचित्त्विदम्भाष्यमजन्तपरमेवेत्याहुः । सम्पदादित्वादिति । तेन वेदनामात्रप्रतिपादनेऽपि कण्डूरित्यादि सिद्धमिति भावः। भाष्य-एतानीति । कण्ड्ररित्यादीनि दीर्घान्तप्रथमैकवचनान्तानीत्यर्थः। एवमपि कण्ड्वावित्याद्यर्थ वावचनं कर्त्तव्यमेवेत्याह-तत्तौति । भाष्ये-उभयं कण्ड्वादी- नीति।उभथेत्यर्थे 'उभय'मित्यव्ययम्।द्विप्रकाराणीत्यर्थः।उभयाऽङ्गीकारे प्रमाणमाह- आतश्चेति । ननु भावक्किबन्तेन वेदनामात्रे कण्डूरित्यादिसिद्धिरत आह-सत्त्व- रूपेति। सैवेत्यर्थः । भावविबन्ते हि प्रकृत्या साध्यरूपेणापि प्रतीतिः स्यादिति भावः। १ 'क्विबुत्पद्यते' 'क्विबुत्पत्स्यते' 'दृश्यते' । २ इदं क्वचिन्न । ३ 'इत्यत्र विज्' पा० । ४ 'धातवश्च प्राति' पा० । ५ श्रित्यैतदु' । ।

३अ.१पा.३आ.३०सू.] 8 व्याकरणमहाभाष्यम् 8 ९९ ......... .. अपर आह-'धातुप्रकरणाद्धातुः कस्य चासअनादपि । आह चायमिमं दीर्घ मन्ये धातुर्विभाषितः' ॥ इति । कमेर्णिङ्॥ ३॥१॥३०॥ किमर्थोऽयं णकारः । [॥*॥ णकारो ] वैद्ध्यर्थः । ॥॥ "णितीति बृद्धिर्यथा स्यात् ॥ क्रियमाणेऽपि वै णकारे वृद्धिर्न प्राप्नोति ॥ किं कारणम्?॥ 'कृिति नेति प्रतिषेधात् ॥ णित्करणसामर्थ्याद्भविष्यति॥ अत उत्तरं पठति- ॥*॥ णिङि णित्करणस्य सावकाशत्वाद्वृद्धिप्रतिषेधप्रसङ्गः ॥*॥ णिङि णित्क- रणं सावकाशम् ॥ कोऽवकाशः ? ॥ सामान्यग्रहणार्थो गकारः ॥ क सामान्यग्रहणाऽर्थेन णकारेणाऽर्थः ? ॥ 'णेरनिटी'ति । णिङि णित्क- रणस्य सावकाशत्वादृद्धः प्रतिषेधःप्राप्नोति॥डित्करणमपितर्हि सावकाशम् ॥ कोऽवकाशः ? ॥ सामान्यग्रहणाऽविघाताऽर्थों डकारः ॥क सामान्यग्रहणा- ऽविघातार्थेनाऽर्थः ? ॥ अत्रैव ॥ शक्योऽत्र सामान्यग्रहणाऽविघातार्थोऽन्योs- नुबन्ध आसक्तुम् । तत्र डकारानुरोधाद्वृद्धिप्रतिषेधः प्राप्नोति ॥ अवश्य- मत्रात्मनेपदार्थों ङकारोऽनुबन्ध आसनव्यो डित इत्यात्मनेपदं यथा स्यात् ॥ प्र.] कण्डू'रित्यादिरूपसिद्धिः। कस्य चेति । धातुविधानप्रतिबद्धार्धधातुकसंज्ञाश्रय- गुणनिषेधार्थात्ककारासञ्जनादपि धातुः-कण्ड्वादिर्यकमुत्पादयतीति ज्ञायत इत्यर्थः । आह चेति । दीर्घान्तपाठाच पाक्षिकं धातुत्वमेषां निश्चीयते । नित्ये हि धातुत्वे नित्ये च यकि सति अकृद्यकार इति दीर्घस्य सिद्धत्वाद्दीर्घपाठोऽनर्थकः स्यादित्यर्थः। उ.]एतच्चैतेभ्यो भावे किनास्त्येवेति तत्त्वम् । स्वार्थे इति। 'नित्यमिति शेषः । वा- ग्रहणाऽननुवृत्तेः। तेन पक्षे कण्डवतीत्यादि न। आर्द्धधातुकसंज्ञेति । न च साऽपि माऽस्तु, कोऽपि मास्विति वाच्यम्, सुख्यतीत्यादावतो लोपार्थ तस्या आवश्यकत्वात्। दीर्घपाठ इति । 'वल्गु-मन्तु'प्रभृतीनां ह्रस्वपाठः प्रातिपदिकविषये चरितार्थ इति तेषामपि दीर्घो भवति । यत्तु केषाञ्चिद्दीर्घपाठेन वल्गुप्रभृतीनां दीर्घाऽभावो ज्ञाप्यते, तन्न, भाष्यविरोधात् , शास्त्रबाधकल्पनाऽपेक्षया प्रातिपदिकत्वकल्पनस्यैव लघुत्वाच्च । एतेन ककारेणार्द्धधातुकत्वमेव कल्प्यतामित्यपास्तं, धातुत्वकल्पनस्यैव लघुत्वात् ॥ [कवादिभ्यो यक्] । कमणि। भाष्ये-उित्करणमपि सावकाशमिति। एवञ्च परत्वादृद्धिः प्राप्नो- तीति भावः । यदयमिति । मित्त्वनिषेधो ह्रस्वाऽभावफलकः वृद्ध्यभावे स्वत एव ह्रस्वसत्त्वाद्यर्थः सन् वृद्धेः सत्तां ज्ञापयतीत्यर्थः । ननु णिज्येवेत्ययुक्तं, प्रतिषेध- १ किमर्थो णकारः' पा० । २ ‘णकारो वृद्ध्यर्थः' इति वार्तिकन्तच्च लुप्तमिति गौडाः । ३ 'अचो णितीति' पा० । ४ 'स्यादिति' पा० । ५ 'नुबन्धात्. पा० ।।

कैयट-विवरणसहितं [ कमेर्णिक एवमप्युभयोः सावकाशयोः प्रतिषेधबलीयस्त्वात्प्रतिषेधः प्राप्नोति ॥ एवं ताचार्यप्रवृत्तिापयति-'न कमेर्वृद्धिप्रतिषेधो भवतीति यदयं 'न कम्यमि- चमा मिति मित्संज्ञायाः प्रतिषेधं शास्ति ॥॥॥ मित्प्रतिषेधस्य चाऽर्थवत्त्वात् ॥॥ मित्प्रतिषेधस्य चार्थवत्त्वादृद्धिप्रतिषेधः प्राप्नोति ॥ अर्थवान् मित्प्रति- षेधः ॥ कोऽर्थः ?॥ णिङन्तस्य णिचि या वृद्धिस्तस्या हस्वत्वं मा भूदिति ॥ ननु च तस्यौ अपि 'क्कृिति नेति प्रतिषेधेन भवितव्यम्॥न भवितव्यम् । उक्तमेतत्-'कृिति प्रतिषेधे तलिमित्तग्रहणमुपधारोरवीत्यर्थमिति ॥ एवं तेहि न णिडन्तस्य णिचि या वृद्धिस्तस्या हस्वत्वं प्राप्नोति॥ किं कारणम् ॥ 'णिङा व्यवहितत्वात्॥लोपेकृते नास्ति व्यवधानम् ॥स्थानिवद्भावाध्यवधान- मेव ॥ णिज्येव तर्हि माभूदिति ॥ णिङि च न प्राप्नोति ॥ किं कारणम् ?॥ 'असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षण' इति॥नैव वा पुनर्णिडन्तस्य णिचिवृद्धिः प्रामोति ॥ किं कारणम् ? ॥ णिडा व्यवहितत्वात् ॥ लोपे कृते नास्ति व्यवधानम् ॥ स्थानिवद्भावाद्यवधानमेव॥ इदं तर्हि प्रयोजनं यत्तञ्चिण्णमुलो- र्दीर्घोऽन्यतरस्यामिति दीर्घत्वं शास्ति तत्कमेणिङि मा भूदिति ॥ किं पुनः कारणं तंत्र दीर्घोऽन्यतरस्यामित्युच्यते न हस्वोऽन्यतरस्यामित्येवोच्येत?॥ यथा- प्राप्त[चापि]कमेहस्वत्वमेव । तत्रायमप्यर्थो ह्रस्वग्रहणं न कर्तव्यं भवति, प्रकृ- तमनुवर्तते ॥ व प्रकृतम् ?॥ 'मितां हस्व' इति ॥ का रूपसिद्धिः-अशमि प्र.कमेणिङ् । प्रतिषेधबलीयस्त्वादिति।प्रतिषेधस्य विध्यपवादत्वाद्बाधकत्वा- द्बलीयस्त्वम् । णिङन्तस्येति। कामयमानं प्रयुत इति णिच्। णिज्येवेति। णिज्नि- मित्ता या वृद्धिस्तस्या णिङ्गिमित्तं ह्रस्वत्वं मा भूदित्येवमर्थो मित्प्रतिषेधः स्यादित्य- ज्ञापको णिवृद्धरित्यर्थः । णिङि चेति । 'ह्रस्वत्व'मिति शेषः । असिद्धमिति । ह्रस्वे कर्तव्ये बहिरङ्गा वृद्धिरसिद्धत्यर्थः । स्थानिवद्भावादिति । 'किलुगुपधात्वे'- त्युपधाविधौ स्थानिवत्त्वनिषेधः प्रत्ययविधावेवेति तत्रैवोक्तम् । तथा च ‘पटयती', त्यत्र वृद्धौ कर्तव्यायां निषेधो न भवति । किं पुनरिति । कमेणिङि वृद्धिप्रतिषेधा- न्नित्यं ह्रस्वत्वमेव स्थितमिति मित्प्रतिषेधो न कर्तव्यो भवति, क्रियमाणस्तु णिछि ऊ.]प्रवृत्तौ ह्रस्वस्यैव भावादत आह-णिज्निमित्तेति। तां त्वसौं मन्यते।हस्वे इति। वृद्धरसिद्धत्वे ह्रस्वस्य ह्रस्वे प्रयोजनाऽभावात्तस्याऽप्रवृत्ती ज्ञापकत्वमेव स्थितमिति भावः । ननु पर्जन्यवल्लक्षणप्रवृत्तेर्हस्वदृष्टावपि प्राप्तहस्ववारणेन दीर्घश्रवणाय मित्त्व- निषेधः सार्थक इत्यरुचेराह भाष्ये-नैव वेति । प्रत्ययविधावेवेति । 'पारिखीय' इत्यादौ । भाष्ये 'इदन्तर्हि प्रयोजनं यत्तञ्चिण्णमुलोरिति। 'मित्संज्ञाप्रतिषेधस्य'ति १ इदं क्वचिन। २ 'नन्वेतस्याः'। ३ 'तर्हि णि'। ४ 'हस्वत्वं न'। ५ 'न तत्र' ।

अ.१पा.३आ.३०सू.] & व्याकरणमहाभाष्यम् , अशामि, शमं शमम् शामंशामम् ?॥वृद्ध्या सिद्धम्॥ न सिध्यति-'नोदात्तो- पदेशस्य मान्तस्यानाचमेरिति वृद्धिप्रतिषेधः प्रामोति ॥ नैष दोषः । चिण्कृ- तोः स वृद्धिप्रतिषेधो, न णिचि॥ इदं तर्हि-अजनि अजानि, जनं जनम् जानं जानमिति। जनिवध्योश्चेति वृद्धिप्रतिषेधः प्राप्नोति ॥ सोपि चिण्कृतोरेव, न णिचि ॥ णिज्व्यवहितेषु तर्हि यलोपे चोपसङ्ख्यानं कर्तव्यं स्यात् । शमयन्तं प्रयोजितवान्-अशमि अशामि शमंशमम् शामंशाम। शंशमयतेः-अशंशमि- अशंशामि । शंशमं-शंशमम् शंशाम-शंशामम्॥किं पुनः कारणं न सिध्यति?॥ 'चिण्णमुल्परे णौमितामङ्गानां ह्रस्वो भवती'त्युच्यते,यश्चात्र णिश्चिण्णमुल्परो,न तस्मिन्मिदङ्ग,यस्मिश्चमिदङ्गनाऽसौणिश्चिण्णमुल्परः॥णिलोपेतर्हि कृते चिण्ण- मुल्परः ॥ स्थानिवद्भावान चिण्णमुल्परः ॥ अथ 'दीर्घोन्यतरस्या'मित्युच्य माने यावता स्थानिवद्भावः कथमेवैतसिध्यति ? ॥ एतदिदानीं दीर्घग्रहणस्य प्रयोजनं-'दीर्घविधिं प्रत्यजादेशो न स्थानिवद्भवतीति स्थानिवद्भावप्रतिषेधः प्र.वृद्धापक एवेति भावः । उपसङ्ख्यानं कर्तव्यं स्यादिति । पाक्षिकवृद्धिप्राप्त्यर्थ- मित्यर्थः।एतदिदानीमितिाततश्च पाक्षिकदीर्घनिवृत्त्यर्थो मित्प्रतिषेधो न ज्ञापकः। यंदे- ति।अणिङन्तात्कमर्यदा णिच्क्रियते तदा तत्र ह्रस्वनिवृत्यर्थो मित्प्रतिषेधः स्यादित्यर्थः।। उ.]शेषः। 'चिण्णमुलो रित्यत्रह्रस्वघटितन्यासे दोषमाह भाष्ये-णिज्व्यवहितेष्विति। पाक्षिकेति । वृद्ध वैकल्पिकत्वार्थ 'वृद्धि'त्युपसङ्ख्यानं कर्त्तव्यमित्यर्थः। दीर्घविधाने तु कृतह्रस्वस्य दीर्घविधानात्सिद्ध्यतीति भावः । भाष्ये-दीर्घविधिम्प्रतीति । 'न पदान्त'सूत्रे जशादिसाहचर्येण त्रैपादिकदीर्घस्यैव ग्रहणेन 'पूर्वत्राऽसिद्धे न स्थानि- व'दित्याश्रित्य भगवता 'न पदान्त' सूत्रे तेषां प्रत्याख्यानेन च स्थानिवत्त्वनिषेधाऽप्रस- तेरिदम्भाष्यमेकदेश्युक्तिरिति नार्थसाधकम् । णिजन्ताणिचि उपसङ्ख्यानेन सिद्धं । 'शंशमं शंशाम'मित्याद्यपि यङ्लुगन्ताण्णमुलि सिद्धम् । 'न च 'चिण्णमुलो'- रित्यत्र दीर्घविधानसामर्थ्यादत्रैपादिकेऽपि निषेध इति वाच्यम्, 'हेड'धातोरहिडि अहीडि-इति साधनेन चारितार्थ्यात् । ह्रस्वविधाने हि 'अहेडी'ति स्यादिति बोध्यम्। केचित्त्वेतद्भाष्यप्रामाण्यात्तत्रत्यवार्त्तिके 'वरेयलोपस्वरवर्ज'मित्यत्र दीर्घोऽप्यु- पलक्षणीयः। तदिदानी दीर्घग्रहणस्य प्रयोजनमिति । अत्रत्यभाष्यस्वारस्याद्धडधातो- घटादिष्वप्रामाणिकः पाठः, ऊकाल' सूत्रस्थभाष्यप्रामाण्याच्च ‘वा दान्ते'तिसूत्रस्थभा- ष्यप्रामा ण्याच्च चिण्णमुलोरिति सूत्रस्थभाष्याच्चेति यथाश्रुतभाष्यं रमणीयमेवेत्याहुः। 'तस्मात्प्रतिषेधः प्राप्नोती'त्यस्य 'तनिषेधो वक्तव्य' इति शेषः । अत एव १ इदं क्वचिन्न । २ 'इह तर्हि' । ३ 'श्चात्र चिण्णमुल्परों'। ४ 'स्थानिव- द्भावप्रतिषेधः । ५ 'मेवैतावता' । ६ 'बत्त्वप्र' । ७ 'एतदि' । - * कैयट-विवरणसहितं. [आयादय सिद्धो भवति ॥ यदा खल्वप्यायादय आर्धधातुके वा भवन्ति तदा णिचि णिङ्गास्ति तदर्थो मित्प्रतिषेधः स्यात् । तस्मात्प्रतिषेधः प्राप्नोति ॥॥ उक्तं वा ॥*॥ [उक्तं वा ]॥ किमुक्तम्!॥ 'तद्धितकाम्योरिकप्रकरणा'दि[ग्लक्षणेयो- गुणवृद्ध्योः प्रतिषेधः। नचैषेग्लक्षणा वृद्धिरि]ति । ॥ [ कमेणिङ् ॥] ॥ आयादय आर्द्धधातुके वा ॥ ३१॥३१॥ कथमिदं विज्ञायते-'आयादिभ्यो यदार्द्धधातुकं तस्मिन्नवस्थिते वाऽऽया- दीनां निवृत्तिर्भवतीति, आहो स्विदायादिप्रकृतेर्यदार्द्धधातुकं तस्मिन्नवस्थिते वाऽऽयादीनामुत्पत्तिर्भवतीति ॥ किं गतमेतदियता सूत्रेण, आहो स्विदन्य- तरस्मिन्पक्षे भूयः सूत्रं कर्तव्यम् ? ॥ गतमित्याह ॥ कथम् ? ॥ यदा ताव- दायादिभ्यो यदार्द्धधातुकं तस्मिन्नवस्थिते वाऽऽयादीनां निवृत्तिर्भवतीति तदाऽविशेषेण सर्वमायादिप्रकरणमनुक्रम्य 'आयादय आर्द्धधातुके वे'त्यु- च्यते । यदाऽप्यायादिप्रकृतेर्यदार्द्धधातुकं तस्मिन्नवस्थिते वाऽऽयादीना- मुत्पत्तिर्भवतीति, तदैकं वाक्यं तञ्चेदं च । गुपूधूपविच्छिपणिपनिभ्य आयः । 'आर्द्धधातुके वा' । ऋतरीयङ् । 'आर्द्धधातुके वा' । कमर्णिङ् । प्र.] आयादयः । आर्द्धधातुक इति परसप्तमीमाश्रित्य पक्षद्वयविचारः । द्वयोरपि च पक्षयोर्दोष इति मत्वा प्रश्नः कथमिति। आहोस्विदन्यतरस्मिमिति । निवृत्ति- शब्द उत्पत्तिशब्दो वा निर्देष्टव्य इति मन्यते । यदा तावदिति । एतद्वाक्य- निरपेक्षैरायादिविधानवाक्यैः परनिमित्तानपेक्षा आयादयो यदा विधीयन्ते तदाऽनेना- र्द्धधातुके तेषां पक्षे निवृत्तिः क्रियते । यद्यपि नित्याः शब्दास्तथापि शास्त्रप्रक्रियायां क्व चिदुत्पन्नस्य लोपादिद्वारेण निवृत्तिः क्रियते। क्वचिदपवादविधानेनोत्सर्गस्याड- नुत्पत्तिाप्यते । ततो निवृत्तिपक्षो नाऽनुपपन्नः । यदेति । यदा सूत्रत्रयस्याऽयं उ.] 'उक्तं वेति 'वा'शब्दः सङ्गच्छते । [ कमेणि] । आयादय । विषयसप्तम्यां विचाराऽनारम्भादाह-परेति । आयान्तादिभ्य आर्द्धधातुके सिद्धस्य॑ विध्यभावानिवृत्तिर्विधेया। तदर्थं तदुपादानं कार्यमित्याह- निवृत्तीति।उत्पत्तिशब्दो वेत्यस्य प्रयोजनं चिन्त्यं, सर्वत्र विधिवाक्ये तदभावे- ऽप्युत्पत्त्यवगतः। एकतरपक्षेऽधिककर्त्तव्यतायामेव भाष्यतात्पर्याच्च। क्वचिदनुत्पत्ति- शब्दो वेति पाठः । आयाद्यनुवृत्त्यैव सिद्ध 'आयादय' इति पञ्चम्या विपरिणम्यते । आयादिभ्यो यदार्द्धधातुकं तत्र परे गुपादिभ्य आयाद्यनुत्पत्तिरित्यर्थः । परन्तु इदं गुर्विति दिक् । पक्षे निवृत्तरिति । निवृत्तिपदं विनापि सामर्थ्यादिति भावः । कचिदिति । 'अदिप्रभृतिभ्य' इत्यादौ । कचिदिति । यथा दीर्घविषये यणः । १ 'तदर्थञ्च' । २ अयं पाठः क्वाचित्कः । ३ किति चेत्यत्रोक्तं। ४ सिद्धेऽस्य।

३१.१पा.३आ३१सू.] & व्याकरणमहाभाष्यम् ॐ १०३ । ? 'आर्द्धधातुके वेति ॥ कश्चात्र विशेषः ? ॥*॥ आयादिभ्यो यदार्द्धधातु- कमायादिप्रकृतेर्यदार्द्धधातुकमिति चोभैयथाऽनिष्टप्रसङ्गः ॥*॥ आयादिभ्यो यदार्द्धधातुकमायादिप्रकृतेर्यदार्द्धधातुकमिति चोभयथाऽनिष्टं प्रामोति । यदि विज्ञायते-'आयादिभ्यो यदार्द्धधातुकं तस्मिन्नवस्थिते वाऽऽयादीनां निवृत्ति- र्भवती'ति, गुप्तिः जुगोपेति चेष्टं न सिध्यति, इदं चाऽनिष्टं प्रामोति-गोपा- ञ्चकार गोपेति । इदं तावदिष्टं सिद्धं भवति गोपायांचकार गोपायेति ।। अथ विज्ञायते-'आयादिप्रकृतेर्यदार्द्धधातुकं तस्मिन्नवस्थिते वाऽऽयादीनामु- त्पत्तिर्भवतीति । गुप्तिर्जुगोपेति चेष्टं सिन्दं भवति।इदं चाऽनिष्टं न प्रामोति- गोपांचकार गोपेति । इदं त्विष्टं न सिध्यति-गोपायांचकार गोपायेति ॥ इदं तावदिष्टं सिंधति-गोपायां चकारेति ॥ कथम् ? ॥ अस्त्वत्रायादि- प्रकृतेर्यदार्द्धधातुकं लिट् , तस्मिन्नवस्थिते वाऽऽयादयः,आम्मध्ये पतिष्यति.यथा विकरणास्तद्वत् ॥ इदं तीष्टं न सिध्यति-गोपायेति॥॥सिद्धं तु सार्वधातुके नित्यवचनादनाश्रित्य वाविधानम् ॥ ॥ सिद्धमेतत् ॥ कथम् ? ॥ [ 'सार्व- धातुके नित्यवचनादनाश्रित्य वाविधानम्' ] । अविशेषणाऽऽयादीनां प्र.]योगः शेषस्तदैकवाक्यतायां सत्यामार्द्धधातुके परत आयादयो विकल्पेनोत्पद्यन्त इति पक्षः । यदि तयेकवाक्यता ततः सार्वधातुक आयादयो नोत्पद्येरन् । नैष दोषः । 'गुपधूपे'त्यत्रैवार्द्धधातुके वेति वक्तव्ये पृथक्पाठात्सार्वधातुकेऽप्यायादयो भवन्तीति ज्ञायते । आर्द्धधातुक एव त्वेकवाक्यतया विकल्पेन विधीयन्ते । गुप्तिरिति । 'गोपाय'शब्दस्य प्रत्ययान्तत्वादकारेण क्तिनो बाधनाद्गुप्तिन सिध्यति। आमि परत आयस्य पाक्षिक्यां निवृत्तौ जुगोपेति न सिध्यति।दोषोपलक्षणं उ.]सूत्रत्रयस्येति। 'आयादय' इति पदोपादानसामर्थ्यादित्यर्थः।अन्यथाऽव्यवहित- त्वात् 'कमेणि'ङित्यस्यैव शेषः स्यात् । पृथक्याठादिति । तत्सामाद्भिन्न- वाक्यतया एकवाक्यतया च वाक्यार्थ इति भावः। एकं वाक्यमिति-भाष्यस्य-एक वाक्यमपीत्यर्थः । अकारण-'अ प्रत्यया'दिति विहितेन । तिनो बाधादिति । स्त्र्यधिकारादूर्व वाऽसरूपविधेरभावादिति भावः। आमि परतइति। यद्यपि लिय्ये- वार्द्धधातुके आयादिनिवृत्तिस्तथापि प्रत्ययलक्षणेन प्रत्ययान्तत्वादाम्प्राप्नोति । वस्तुतः परत्वादामि कृते एवैतत्प्रवृत्तिरिति बोध्यम् । तद्भावितेति । अत एव लुकि लोप- संज्ञासिद्धिः । भाष्ये गुप्तिर्जुगोपेति चेष्टं सिद्धमिति । आयस्य वैकल्पिकत्वा- त्तदभावे सिद्ध्यतीत्यर्थः । इदन्तीष्टमिति । इदमुपलक्षणं, क्तिनि कृते आयप्रत्यये 'गोपायती'त्यनिष्टमपि प्राप्नोतीत्यपि बोध्यम् । अल्लोपस्तु न, आर्द्धधातुकोपदेशे १ इतिः क्वचिन्न । २ 'वोभयथा'। ३'सिद्धं भवति'। ४ 'विकरणः'। ५इदं क्वचिन्न । ।

१०४ * कैयट-विवरणसहित [आयादयः वाविधिमुत्वा 'सार्वधातुके नित्यमिति वक्ष्यामि ॥ ॥ स्यादिबलीयस्त्वं तु विप्रतिषेधेन तुल्यनिमित्तत्वात् ॥*॥ स्यादिभिस्त्वायादीनां बाधनं प्राप्नोति विप्रतिषेधेन ॥ किं कारणम् ? ॥ 'तुल्यनिमित्तत्वात्' । तुल्यं हि निमित्तमायादीनां स्यादीनां च । स्यादीनामवकाश:-करिष्यति हरिष्यति । आयादीनामवकाशः-गोपायतिधूपायति।इहोभयं प्राप्नोति-गोपायियतिधूपा- यिष्यतीति । परत्वात्स्यादयः प्रामुवन्ति ॥*॥ न वाऽऽयादिविधानस्यानवकाश- वात् ॥*॥ न वैष दोषः ॥ किं कारणम् ? ॥ 'आयादिविधानस्याऽनवकाश- त्वात् । अनवकाशा आयादयः, उच्यन्ते च ते, वचनाद्भविष्यन्ति ॥ ननु चेदानीमेवाऽवकाशः प्रक्लप्तः-गोपायति धूपायतीति?॥अत्रापिशप्स्या- दिर्भवति ॥ यद्यत्रापि शप्स्यादिर्भवति न त्वत्रास्ति विशेषः सति वा शप्य- सति वा ।।अन्यदिदानीमेतद्यदुच्यते-'नास्ति विशेष' इति।यत्तु तदुक्तम् 'आया- दीनां स्यादिभिरव्याप्तोऽवकाश' इति, स नाऽस्त्यवकाशः । अवश्यं खल्यप्यत्र शप्स्यादिरेषितव्यः ॥ किं प्रयोजनम् ? ॥ गोपार्यन्ती धूपायन्तीति, शश्यनो- नित्यमिति नित्यो नुम्यथा स्यादिति ॥ यदि तीनवकाशा आयादयः, आया- प्र.]चैतत् , 'गुप्त' इत्यपि न सिध्यति, क्तप्रत्यये परत आयस्य निवृत्तौ सत्यां प्रत्ययलक्षणेन गुणप्रसङ्गात्। न च प्रत्ययलोपसूत्रे लोपसज्ञासूत्रे वा तद्भावितग्रहणमाश्रितम्। गोपा- यतीति । विशेषाऽभावादत्र शपोऽनुत्पत्तिरित्यायादीनामवकाशं मन्यते । अन्यदि. दानीमिति । विशेषाऽभावेऽपि लक्षणवशात् प्रवयं शपेति भावः। 'कामयते'इत्यत्र उ.]तदभावात् ।सार्वधातुके नित्यमिति । अत्र नित्यग्रहणमार्थिकार्थकथनं,सामान्य- सूत्रे 'वे'त्येवाऽम्य नित्यत्वसिद्धः । स्यादिभिरिति । लादेशप्रवृत्त्युत्तरं 'स्यतासी' इति पक्षे इदम् । तुल्यं हि निमित्तमिति । अनेनाऽन्तरङ्गत्वं निरस्यति। परत्वा- त्स्यादय इति । तथा च 'सकृद्गति'न्यायेनाऽऽयो न स्यादेवेति भावः । न च 'सार्वधातुके नित्यमित्यस्य परत्वाद्वाधेऽपि सामान्यसूत्रेण वैकल्पिक आयो भविष्यति, न हि तेनाऽपि विप्रतिषेधः, तस्याऽनैमित्तिकत्वेनान्तरङ्गत्वादिति वाच्यम्, अपवाद- विषये उत्सर्गाऽप्रवृत्त्या सार्वधातुकविषये तदप्रवृत्तेः । न त्वत्रास्तीति । विशेष- कृच्छास्त्रं तदभावे न प्रवर्तते इति मन्यते । स नाऽस्त्यवकाश इति।पर्जन्यवलक्ष- णप्रवृत्तेरिति भावः । विशेषोऽप्यस्तीत्याह-कामयत इति । 'गोपायन्ती'त्यत्रापि विशेष भाष्ये दर्शयति-अवश्यं खल्वपीति । यदि तहीति । एवञ्चाऽनवकाशत्वे १ इदं क्वचिन्न। २ 'यस्त्वात्तु'। ३ इदमत्र क्वचिन्न । ४ 'विप्रतिषेधेन तुल्य'। ५ 'तीति' पा. । ६ 'यद्यन्यत्रापि' पा० । ७ 'सति वाऽप्यसति' पा० । ८ 'गोपायन्ति' पा० । ९ इदं क्वचिन्न ।

३अ.१पा.३आ.३२सू. ] 8 व्याकरणमहाभाष्यम् ® दिभिः स्यादीनां बाधनं प्राप्नोति ॥ यथा पुनरयं सूत्रभेदेन परिहारो यदि पुनः 'शपि नित्यमित्युच्यते ॥ सिध्यति, सूत्रं तहि भिद्यते ॥ यथान्यासमेवाऽ- स्तु॥ननु चोक्त मायादिभ्यो यदार्द्धधातुकमायादिप्रकृतेर्यदार्द्धधातुकमिति चोभ- यथाऽनिष्टप्रसङ्ग' इति ॥ नैष दोषः। आर्द्धधातुक इति नैषा परसप्तमी ॥ का तर्हि ?॥ विषयसप्तमी। आद्धधातुकविषये इति । तत्रार्द्धधातुकविषये आया- दिप्रकृतेरायादिषु वा कृतेषु यो यतः प्रत्ययः प्राप्नोति स ततो भविष्यति ॥ सनाद्यन्ता धातवः ॥ ३१॥३२॥ अन्तग्रहणं किमर्थं न 'सनादयो धातव' इत्येवोच्येत ?॥ केनेदानीं तद- न्तानां भविष्यति ? ॥ तदन्तविधिना ॥ अत उत्तरं पठति ॥*॥ सनादि- ध्वन्तग्रहण उक्तम् ॥ ॥ [सनादिप्वन्तग्रहण उक्तम् ॥ किमुक्तम् ?॥ “पदसं- संज्ञायामन्तवचनमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थ". मिति । इदं चाऽपि प्रत्ययग्रहणमयं चाऽपि संज्ञाविधिः ॥ किमर्थं पुनरिदमुच्यते, न भूवादयो धातव'इत्येव सिद्धम् ?॥ न सिध्य- तेि । पाठेन धातुसंज्ञा क्रियते न चेमे तत्र पठ्यन्ते ॥ कथं तयन्येषामपठ्य- प्र.]तु विशेषोऽस्त्येव, शपमन्तरेणाऽस्य रूपस्याऽभावात् । यथा पुनरिति। वार्तिक- कारेण तु 'सिद्धं सार्वधातुके नित्यवचनादिति ब्रुवता सूत्रभेदेन परिहार उक्तः । अवश्यकर्तव्ये च सूत्रभेदे 'शपि नित्यमिति न्यासः कर्तव्यो येन दोषो न भवती- त्यर्थः । ननु तौदादिकत्वाद्विच्छेः शेन भाव्यं न तु शपा । एवं तर्हि न्यासभेदोप- लक्षणार्थमिदमिति , शिति नित्यमिति तु न्यासः कर्तव्यः।[आयादयआर्द्धधातुकेवा]। सनाद्यन्ताः। भूवादय इत्येवेति। भुवो वादयो भूवादय इत्यर्थाश्रयणादिति भावः। ततश्च क्रियावाचित्वात्सनाद्यन्तानां धातुसंज्ञा सिध्यतीत्यर्थः। पाठेनेति। 'आदि'शब्दस्य प्रत्येकं संबन्धादर्थपाठाभ्यां धातुसंज्ञा विहिता, तेनाऽऽणवयत्यादयः समानशब्दाच सर्वनामादयो निवर्तिता भवन्तीति भावः । स्थानिवद्भावेन धातुसंज्ञासिद्धिं वक्ष्यामी- ति पृच्छति-कथं तहीति । ननु भूवचिख्यादिशब्दा धातुपाठे पठिता एव । उ.]तैः स्यादिबाधने ‘गोपायिष्यती'त्याद्यसिद्धिरिति भावः । यथा पुनर्वार्तिककृता सूत्रभेदेन परिहार उक्तस्तथा सूत्रभेदमङ्गीकृत्य यदि पुनः 'शपि नित्य'मित्युच्यते तदा सर्वदोष परिहार इति भाष्याक्षरार्थः। क्वचिद्भाष्ये एव 'शिती'ति पाउः । विषयसप्तमीति । 'आर्द्धधातुक' इति सूत्रभाष्योक्तरीत्या जातिनिर्देश इति भावः । सूत्रे 'आयादय' इत्युक्तिरनन्तरस्यैव संबन्ध इति भ्रमवारणार्थेति तत्त्वम् ।[आया] सनाद्यन्ता । गणपाठनिबन्धना संज्ञा कथमेषामत आह-भुवो वादय इति । १ 'मुच्यते'।२'आर्द्धधातुकेविषये'। ३ अयं पाठो लुप्तः। ४ 'विधीति क्वचिन्न।

कैयट-विवरणसहित [सनाद्यन्ता धातवः मानानां धातुसंज्ञा भवति-अस्तेर्भूः ब्रुवो वचिः चक्षिङः ख्यामिति॥ यद्यप्येते तत्र न पच्यन्ते प्रकृतयस्त्वेषां तत्र पठ्यन्ते, तत्र स्थानिवद्भावात्सिद्धम्॥इमेऽपि तहिं यद्यपि तत्र न पट्यन्ते येषां त्वर्थ आदिश्यन्ते ते तत्र पठ्यन्ते, तत्र स्थानिवद्भावात्सिद्धम् ॥ न सिध्यति । 'आदेशः स्थानिव'दित्युच्यते न चेमे आदेशाः ॥ इमेऽप्यादेशाः ॥ कथम् ? ॥ आदिश्यते यः स आदेशः । इमे चाप्यादिश्यन्ते ॥ एवमपि षष्ठीनिर्दिष्टस्यादेशाः स्थानिवद्भवन्तीत्युच्यते न चेमे षष्ठीनिर्दिष्टस्यादेशाः॥ षष्ठीग्रहणं निवर्तिप्यते ॥ यदि निवर्त्तते, अपवादे उत्सर्गकृतं प्राप्नोति 'कर्मण्यण' 'आतोनुपसर्गे कः' इति केऽप्यण्कृतं प्र.]नैतदस्तिानहि ये धातुपाठे पठितास्त इहाऽतिदिश्यन्ते, शब्दान्तरत्वादेशानां । जग्ध्यादीनां तु पाठशङ्कापि नास्ति। येषां त्वर्थ इति । इष्यादीनामित्यर्थः । न चेम इति । रूढिशब्दस्याऽऽदेशशब्दस्य तत्र ग्रहणाद्येषामेव स्थानिनिवृत्त्यादेशत्वं प्रसिद्धं तेषामेव तत्र ग्रहणमित्यर्थः । इमेऽपीति । क्रियानिमित्तकस्यादेशशब्दस्य तत्र ग्रहणमित्यर्थः । अत्र चोदयन्ति-यदि स्थानिवद्भावेन सनादीनां धातुसंज्ञा विधीयते,तदा तदन्तविध्यभावात् प्रत्ययानामेवाङ्गसंज्ञानिबन्धनान्यडादीनि प्राप्नुवन्ति, प्रत्ययान्तानां चेष्यन्ते। यङ्प्रत्ययश्च समभिहारविशिष्टक्रियावचनाद्धातोः स्वार्थे विधीयते, आयादयश्च शुद्ध एव स्वार्थे विधीयन्ते इति तेषां स्थानिनः कस्य चिन्निवृत्त्य- भावात् स्थानिवत्त्वाऽभावाद्धातुसंज्ञा न प्राप्नोति । अत्रोच्यते-कर्तुमिच्छतीति कर- उ.]वदन्तीति वादयः। भ्वर्थवाचकाः । क्रियावाचिन इति यावत् । यथा सूत्र्यादीनां क्रियावाचकत्वन्तथोक्तम् । तेनेति । पाठेन आणवत्यादयः, अर्थेन-'या' इत्येवमा- दय इत्यर्थः । 'पाठेने त्यादिः' 'न चैते तत्र पठ्यन्त' इत्यन्तैवाऽत्र भाष्यकारोक्तिः । धातुसंज्ञासिद्धिमिति । 'सनाद्यन्तेऽपीति शेषः । पृच्छतीत्यस्यैकदेशीति शेषः । शब्दान्तरत्वादिति। स्थानषष्टीनिर्देशादपूर्वोपदेशाच्च । तस्यैवात्र ग्रहणे तदीयप्रयोगनियम एव स्यादिति भवतीत्याद्यसिद्धिरिति भावः। पठितसादृश्येन भवतीत्यादिस्थानामिव एषामपि तेनेव धातुत्वेऽप्याह-जग्ध्यादीनामिति । भाष्यमुपलक्षणमिति भावः । अनेनास्यैकदेश्युक्तित्वं ध्वनितम् । रूढीति । तस्या योगाद्बलवत्त्वादिति भावः । न चेमे इति भाष्ये। इमे-सनादय इत्यर्थः । तत्रेति । 'स्थानिव'दित्यत्रेत्यर्थः। स्थानिनिवृत्त्येति । स्थानषष्टीनिर्देशादिति भावः । क्रिया- निमित्तकस्येति । आदेशग्रहणसामर्थ्यादानुमानिकस्येव यौगिकस्यापि ग्रहणमित्या- शयः । तदन्तविध्यभावादिति । स्थानिवत्सूत्रे विशेष्याऽसन्निधानात्तदभावेआ दे- शान्तस्यातिदेशेन धातुत्वाऽभाव इति भावः। यद्वा तिबादिविधौ तदभावादि- त्यर्थः । अत्रोच्यत इति । 'धातोः कर्मण'इत्यादेः समानकर्तृकर्मभूतधात्वर्थविशि- ।

३अ.१पा.३आ.३३सू.] 8 व्याकरणमहाभाष्यम् . १०७ प्राप्नोति ॥ नैष दोषः । आचार्यप्रवृत्तिापयति 'नापवादे उत्सर्गकृतं भव- तीति यदयं श्यन्नादीन् कांश्चिच्छितः करोति-श्यन्भेम्नानुरिति ॥ स्यतासी ललुटोः ॥३॥१॥३३ ॥ इमे विकरणाः पद्यन्ते तत्र न ज्ञायते क उत्सर्गः कोऽपवाद इति । तत्र वक्तव्यमयमुत्सर्गोऽयमपवाद इति॥ इमे ब्रूमः-॥ ॥यगुत्सर्गोऽपवादः शबादिः स्यादयश्च ॥ ॥ [ य[त्सर्गोऽपवादः शबादिः स्यादयश्च ] ॥ यद्येवम्-॥ ॥ अपवादविप्रतिषेध(च्छबादिबाधनम् ॥*॥ अपवादवि- प्रतिषेधाच्छबादिभिः स्यादीनां बाधनं प्राप्नोति। शबादीनामवकाशः- पचति यजति । स्यादीनामवकाशः-पक्ष्यते यक्ष्यते । इहोभयं प्राप्नोति- प्रणाङ्ग इष्यर्थे 'सर्वेसर्वपदादेशा' इति न्यायाद्वर्तमानस्य इषेः प्रसङ्गे चिकीर्षशब्दस्स- नन्त आदिश्यत इति सिद्धं तदन्तस्य धातुत्वम् । एवं समभिहारविशिष्टलवनक्रिया- वाचि'लू' शब्दप्रयोगप्रसङ्गे 'लोलूय'शब्द आदिश्यते, गुपेः प्रसङ्गे 'गोपाय'शब्द इति भगवतो भाष्यकारस्याभिप्रायः । [सनाद्यन्ता धातवः ॥ स्यतासी । उत्सर्गापवादधर्मज्ञानाय पृच्छति-इमे इति । यगुत्सर्ग इति । भावकर्मग्रहणाऽननुवृत्त्या सार्वधातुकमात्रे विधानादिति भावः । अपवादविप्रति- षेधादिति । यगपवादानामुभयेषां शबादीनां स्यादीनांच विप्रतिषेधे सति परत्वा- उ.प्टेच्छायां प्रतिपाद्यायां तत्स्थानेऽर्थाभिधानयोग्यो यद्धात्वर्थकर्मकत्वमिच्छायां प्रति- पिपादयिषितं तद्धात्वादिः सनन्त आदेश इत्यादि क्रमेणार्थ इति भावः। तत्तद्गणप्रयुक्ता विकरणास्तु न, अदादित्वादेरनतिदेशात्।करणाङ्गे इष्यर्थे कर्तुमि(च्छे)त्येतत्समभिव्या- हारेण वर्तमानस्येषेः प्रसङ्गे 'सर्वे सर्वपदादेशा' इति न्यायात्सनन्त आदिश्यत इत्य- न्वयः। भगवतो भाष्यकारस्येति । 'एकदेशिन' इति शेषः । अनेन इमे तर्हि यद्यपीत्यादिभाष्यग्रन्थ एकदेशिनोरुक्तिप्रत्युक्तिपरतयां प्रौढिवाद एवेति ध्वनितम् ॥ स्यतासी लुलुटोः। उत्सर्गापवादधर्मेति। स चाऽपवादविषयेऽवश्यं प्राप्तिरूप उत्सर्गस्य धर्मः। तदप्राप्तियोग्यविषयाऽभावेन निरवकाशत्वरूपोऽपवादस्य । भावकर्मग्रहणाऽनुवृत्तौ उत्सर्गत्वाऽसम्भवादाह-भावेति। भाष्ये-स्याचवकाशः पक्ष्यत इति । कर्मादौ शपोऽप्राप्तेरिति भावः । यत्रेति । 'अनेकलक्षणप्रसङ्ग इति बहुव्रीहिः । अपवादशब्दश्च तद्विषयपरः । अनवकाशोऽपवाद इति भावः । यग्विधौ विति। अन्यथाऽस्ति च सम्भवो यदुभयं स्यादिति वार्तिकमते 'पचती'- १'न'मिति क्वचिन्न । २ इदं भाष्यमित्यन्ये । वार्तिकमित्यपरे । ३ 'वादाः शबादयः' पा०।४ अयं पाठो लुप्तः।५ एतत्स्थाने-'यदि यगुत्सर्गोऽपवादः शबादिः स्यादिश्च' पा०। ६ 'पवादप्रतिषेधे शबादि' पा०१७ इदं प्रायो लुप्तम्।८ 'पठति । . ।

8 कैयट-विवरणसहितं [स्यतासी N .. पक्ष्यति यक्ष्यति । परत्वाच्छबादयः प्राप्नुवन्ति ॥ ॥ अपवादो नामानेकलक्ष- णप्रसङ्गः ॥ ॥ अपवादो नाम से भवति यत्राऽनेकलक्षणप्रसङ्गः। अत्रचे भाव- कर्मणोर्यग्विधीयते कर्तरि शप । कः प्रसङ्गो यगावकर्मणोर्यकं कर्तरि शवादयो बाधेरन् ?॥ ऐवं तर्हि-॥॥यक्शपावुत्सर्गावपवादाः श्यन्नादयाः स्यादयश्च ॥१॥ एवंमपि-॥*॥अपवादविप्रतिषेधाच्छयन्नादिबाधनम् ॥*॥ अपवादविप्रतिषेधा- च्छयनादिभिः स्यादीनां बाधनं प्रामोतिश्यन्नादीनामकाश:-दीव्यति सीव्यति। स्यादीनामवकाशः-पक्ष्यति यक्ष्यति। इहोभयं प्रामोति-देविष्यति सेविष्यती ति। परत्वाछयन्नादयः प्रामुवन्ति। नैष दोषः। शबादेशाः श्यनादयः करिष्य- न्ते, शच स्यादिभिर्बाध्यते। तत्र दिवादिभ्यः स्यादिविषये शबेव नास्ति कुतः श्यन्नादयः ॥ तत्तर्हि शपो ग्रहणं कर्तव्यम् ?॥ न कर्तव्यं । प्रकृतमनुवर्तते ॥ व प्रकृतम्?॥'कर्तरि श'बिति॥ तद्वै प्रथमानिर्दिष्टं पष्ठीनिर्दिष्टेन चेहार्थः॥नष दोषः। 'दिवादिभ्य' इत्येषा पञ्चमी 'श'बिति प्रथमायाः षष्टी प्रकल्पयिष्यति 'तस्मादित्युत्तरस्येति ॥ प्रत्ययविधिरयं, न च प्रत्ययविधौ पञ्चम्यः प्रकाल्प- का भवन्ति ॥ नाऽयं प्रत्ययविधिः। विहितः प्रत्ययः, प्रकृतश्चानुवर्तते ॥ अथ वाऽनुवृत्तिः करिष्यते।'सार्वधातुके यक्ास्यतासी ललुटो:च्लि लुडि च्ले: सिल्भवति । 'कर्तरि शप्' । स्यतासी ललुटोः च्लि लुङि च्लेः सिज्म- वति । 'दिवादिभ्यः श्यन् । स्यतासी ललुटोः च्लि लुङि च्लेः सिज्भवति ॥ तथ वाऽन्तरङ्गाः स्यादयः ॥ काऽन्तरङ्गता ? ॥ लावस्थायामेव स्यादयः सार्वधातुके श्यन्नादयः ॥ [स्यतासी ललुटोः ] ॥ प्र.]च्छबादयः स्युरित्यर्थः। अपवाद इति । यत्रोत्सर्गलक्षणस्याऽपवादलक्षणस्य च प्रसङ्गस्तत्राऽपवादव्यवहारः । यग्विधौ तु भावकर्मग्रहणानुवर्तनात्कर्तरि यकोऽप्रस- ङ्गानाऽस्ति तदपवादत्वमित्यर्थः 1 लावस्थायामिति । ननु च परत्वाल्लादेश - व्यम् । न च लादेशानामनित्यत्वम् , कृतेष्वपि स्यादिषु आतृतीयपरिसमाप्तेर्धात्व- धिकारेऽपि धातोर्विहितस्य लस्येत्येवं विहितविशेषणाश्रयणाल्लादेशानां प्रसङ्गात् । एवं तर्हि कृतेष्वपि लादेशेषु स्यादयो भवन्तोऽन्तरङ्गा एव भवन्ति । नहि तद्विधी उ.त्यादौ शपि कृते तमेव निमित्तीकृत्य यस्यादिति भावः।भाष्ये-अथवाऽनुवृत्ति- रिति । एवञ्च तत्तत्सन्निधौ विधानसामर्थ्यान्नास्त्यपवादत्वमिति भावः । लाव- स्थायामिति भाष्यस्य-आदेशोत्पत्तेः प्रागेव स्यादय इत्यर्थः प्रतिभाति । तत्र शङ्कते-ननु चेति । अनित्यत्वमिति । व्यवधानेन धातोः परत्वाऽभावादप्राप्तेरिति १ इदं भाष्यमित्यन्ये । २ इदं कचिन्न । ३ इदं भाष्यं न वार्तिकमित्यन्ये । ४ 'करिष्यन्ति' पा० । ५ 'भवतीति' पा० ।

३अ.१पा.३आ.३४सू.] * व्याकरणमहाभाष्यम् ७ सिब्बहुलं लेटि ॥ ३॥१॥३४ ॥ ॥*॥ सिवुत्सर्गश्छन्दसि [ सनाद्यन्ते नेषत्वाद्यर्थः ] ॥॥ सिबुत्सर्ग- प्र.]शब्देन सार्वधातुकत्वमर्थविशेषो वा कादिराश्रितः । श्यन्नादयस्तु तदाश्रयत्वा- द्वहिरङ्गाः । अवश्यं चैतदभ्युपगन्तव्यं-'कृतेषु लादेशेषु स्यादयः क्रियन्त' इति । अन्यथा तासेः परस्य लसार्वधातुकस्यानुदात्तत्वविधानेन विकरणस्य स्वरो लसार्व- धातुकस्वरं बाधत इति-अस्यार्थस्य कथं ज्ञापकं स्यात् ।यदि हि लावस्थायां तासिः क्रियेत पश्चात्सार्वधातुक, तदा सति शिष्टत्वात्सार्वधातुकस्योदात्तत्वे प्राप्तेऽप्राप्तानुदा- नार्थ वचनमिति ज्ञापकत्वं नोपपद्येत । ये वाहुः-सङ्ख्याविधानवाक्येनात्मनेपदपर- स्मैपदप्रकरणेन च लादेशविधानवाक्यस्यैकवाक्यतायां लादेशानां बहिरङ्गत्वालाव- स्थायामेवान्तरङ्गत्वात् प्रतिपदविधानाच्च स्यादयो भवन्तीति तैस्तासेः परस्य लसा. र्वधातुकस्यानुदात्तविधानस्य पूर्वोक्तार्थज्ञापकत्वमसमर्थितं भवति । [स्यतासी ] सिब्बहुलम् । सिबुत्सर्ग इति। परनिमित्तमनुपादाय सनादिवर्गे धातोः सि- उ.]भावः।अन्यथेति।इदञ्च ज्ञापकम्-‘अनुदात्तम्पदमेकवर्ज'मित्यत्र भाष्ये स्पष्टम् । लादेशोत्तरं स्यादिप्रवृत्तौ तु सति शिष्टस्यादिस्वरनिमित्तकवय॑मानस्वरेण लसार्व- धातुकानुदात्तत्वे सिद्धे पुनर्विधीयमानं तज्ज्ञापकाय सम्पद्यत इति भावः। ये विति । एतन्मते 'अन्यत्र विकरणेभ्य' इत्यंशो वाचनिक इति बोध्यम् । प्रतिपदविधाना- चेति चिन्त्यं, निरवकाशत्वाभावादिति कश्चित् ।परे तु-'अनुदात्त'मिति सूत्रे भाष्ये सतिशिष्टस्वरवलीयस्त्वे 'मुनुत' इत्यादी सार्वधातुकस्वरवाधः स्यादिति शङ्कायां वार्तिककारेणोक्तं 'स्यादिस्वराऽप्रसङ्गस्तासेः : परस्यानुदात्तवचनादिति। 'परत्वाल्ला- दशा' इत्येव च तन्मतम् । अत्राप्यपवादविप्रतिषेधाच्छयनादिभिः स्यादिबाधन- मिति वार्तिकोक्तपूर्वपक्षस्य तन्मताऽनुसारेण समाधानद्वयमुक्त्वाऽथ वेति तृतीयं समाधानम्भगवतोक्तम् । तस्याऽयम्भावः-'आर्द्धधातुक' इत्यनुवृत्त्याऽऽर्द्धधातुकत्वा- वस्थायां स्यादय इत्यन्तरङ्गा इति । विकरणस्वरस्य दुर्वलत्वन्त्वेतत्पक्षे वाचनिक- मेव । कयटोक्तमर्थापेक्षं सार्वधातुकादिसंज्ञापेक्षञ्च बहिरङ्गत्वं न युक्तं, तस्याऽत्र शास्त्रेऽनाश्रयणादित्युक्तम् । अत एवाऽत्र विप्रतिषेधो वार्तिककृतोक्तः सङ्गच्छते । न्याय्यमन्तरङ्गत्वमृषिभ्यां न ज्ञातमित्युक्तिरत्यन्याय्या, 'काऽन्तरङ्गता' 'लावस्थायां स्यादय' इति भाष्योक्तंर्गर्भलावाच्च । अल्पापेक्षत्वात्तिबादिभ्यः पूर्व स्यादय इत्येव वक्तुमौचित्याच्चेत्याहुः । [स्यतासी ललुटोः] ॥ सिब्बहुलम्। उत्सर्गपदार्थमाह-परनिमित्तमनुपादायेति। एवं हि सामान्य- विधित्वादुत्सर्गत्वं भवति। [भाष्ये]-सनाद्यन्ताधिकार इति। सनाद्यन्त इति येषा- १ 'वुत्सर्गाः' पा० । २ अयमंशः क्वचिन्नात्र, किन्त्वग्रे पृथग्वार्तिकतयाऽस्ति ।

कैयट-विवरणसहित [ सिब्बहुलं श्छन्दसि कर्तव्यः॥ 'सनाद्यन्ते नेषत्वाद्यर्थः' । सनाद्यन्ताधिकारे च कर्तव्यः ॥ किं प्रयोजनम् ? ॥ 'नेषत्वाद्यर्थः । इन्द्रो नस्तेन नेषतु । गा वो नेष्टीदिति । ॥*॥ प्रकृत्यन्तरत्वात्सिद्धम् ॥*॥ प्रकृत्यन्तरवासिद्धमेतत्॥कथम्?॥ प्रकृत्य- न्तरं नेषेतिः। ॥*॥ नेषतु नेष्टादिति दर्शनात् ॥*॥नेषतु नेष्टादिति हि दृश्यते॥ अथ किमर्थः पकारः। ॥ ॥ [ पारः ] स्वरार्थः ॥ ॥ 'अनुदात्तौ सुप्पि- तावित्येप स्वरो यथा स्यात् ॥*॥ पित्करणानर्थक्यं चाऽनच्कत्वात् ॥*॥ पि- करणं चाऽनर्थकम् ॥ किङ्कारणम् ?॥ 'अनच्कत्वात्। अनच्कोऽयन्तत्र नाऽर्थः स्वरार्थेनाऽनुबन्धेन पकारेण ॥ इटि कृते साऽच्को भविष्यति ॥ ॥ इटोऽनु- दात्तीर्थमिति चेदागमानुदात्तत्वात्सिद्धम् ॥*॥ [ इटोऽनुदात्तार्थमिति चेदा- गमानुदात्तत्वात्सिद्धम् ] ॥ आगमानुदात्तत्वेनेटोऽनुदात्तत्वं भविष्यति ॥ एवं तहिं सबयं कर्तव्यः ॥ किं प्रयोजनम् ? ॥ यदवयासिसीष्टाः । एकाउलक्षण प्र.]ब्विधेयः।तेन तदन्तस्य धातुसंज्ञायां सत्या नेषत्वादीनि सिद्ध्यन्तिानीशब्दात्सिपि गुणे च कृते लोटि च नेषत्विति रूपम् । प्रकृत्यन्तरत्वादिति । जेषणेषप्रेषगता- विति पाठान्नयत्यर्थ उत्सर्गो न कर्तव्यः । अवयासिसीष्ठा इत्याद्यर्थस्तु कर्तव्य एव । सबयमिति । सनादिमध्येऽत्रैव वेति भावः। यदवयासिसीष्ठा इति । यातेरवपूर्वात् उ.]मधिकारो बुद्धिस्थता तेषु कर्तव्य इत्यर्थः। सिध्यन्तीति। लोट्यपि सिप्सिद्धिरि- त्यर्थः । नेषत्विति प्रयोगे सिप्शपोः समावेशः सिध्यति । विकरणत्वे तु स न स्यादिति भावः । लोट्त्वाच्छन्दसि 'लेटोऽडाटा'वित्यस्याऽप्राप्तिरिति बोध्यम् । अत्रोत्सर्गः कर्तव्यः, स च सनाद्यन्ते कर्तव्य इति पूर्वपक्षद्वयम्। तत्रान्त्यः खण्डित एव, उत्सर्गता त्वावश्यकोत्याह-अवयेति । लिङि सिप्सिद्ध्यर्थमुत्सर्गः कर्तव्य इत्यर्थः। भाष्ये-इति हीति । 'नेषतु'इत्यर्थ सनादिवर्गे करणे 'नेष्टा'दित्यस्याऽ- सिद्धिः । अत्र करणे 'नेषत्वि'त्यस्याऽसिद्धिः। प्रकृत्यन्तरत्वे तु 'नेष्टा'दिति नयतेः सिपि सिद्धम् , अत्रैव लेटीतिपदरहितसूत्रकरणादित्याशयः । यद्वा 'नेष्टा'दित्यत्र विकरणव्यत्ययेन शपो लुक । नेषतु नेषतादिति दृश्यते' इति भाष्ये पाठः। 'लोकेऽ- पी'ति शेषः । 'नेष्टादिति (हि)दृश्यते',इति लेखकप्रमादः।अन्यथा प्रकृत्यन्तराऽऽ- वश्यकत्वं न दर्शितं स्यात् । भाष्ये-आगमाऽनुदात्तत्वादिति । 'तारिष'दित्यादौ धातुस्वरप्रयुक्तशेषनिघातेनेति भावः । सनादिमध्ये इति। 'लेटी'ति पदरहितमिति १ अयमंशो वार्तिकतया पठ्यते क्वचित् ।२ 'कर्तव्यं' 'सनाद्यन्ते च कर्त्तव्यः' 'वक्तव्यः । ३ 'नेष्टाम्' पा० । ४ इदं क्वचिन्न । ५ 'नेषः' पा० । ६ इदं भाष्यमित्यन्ये । ७ 'स्यादिति' पा० । ८ 'कुतः' पा० । ९ 'पकारेणानुबन्धेन' पा० । १० 'इडनुदात्तार्थ' पा० । ११ अयं पाठो लुप्तः । १२ 'इडनुदा' ।

३अ.१पा.३आ.३४सू.] 8 व्याकरणमहाभाष्यम् ॐ इतिषेधो मा भूदिति ॥ कायमकारः श्रूयते ? ॥ न व चिच्छ्यते । लोपो- ऽस्य भविष्यत्यतो लोप आर्द्धधातुक इति ॥ यदि न व चियते नाऽर्थः स्व- रार्थेन पकारेणाऽनुबन्धेन ॥ एवमपि कर्तव्य एवं ॥ किं प्रयोजनम्?॥ अनु- दात्तस्य लोपो यथा स्यादुदात्तस्य लोपो मा भूदिति ॥ किं च स्यात् ? ॥ प्र.]सप् लिङ्थास् मुट् सीयुट् ।सबन्तस्याङ्गस्यानेकाच्त्वात्सीयुडादेरिडागमो भवति। यदि पुनः सिप्क्रियेत तदावश्यमिकार उच्चारणार्थो व्याख्येयः । अन्यथा तस्य श्रवणं स्यात् । तत्र सिबन्तस्य धातोरेकाच्वादिद्वतिषेधः प्रसज्येत । ननु योऽत्र धातुरुपदेशेऽनुदात्तो, याशब्दो न तस्मात् परमार्द्धधातुकं, सिपा व्यवधानात्। यस्मा- च्च सिवन्तात्परमार्द्धधातुकं नासावुपदेशेऽनुदात्तः। एवं तर्हि 'सनाद्यन्ता धातव' इत्यस्य यदा सनाद्यवयवा धातवो भवन्तीत्यर्थो व्याख्यायते तदा सिपो यात्यवय- वत्वाद्यातिग्रहणेन ग्रहणादिवतिषेधप्रसङ्गः । यदाऽपि स्थानिवद्भावाश्रयणेन सूत्रं प्रत्याख्यातं तदा स्थानिवद्भावनाऽनुदात्तादेकाचः श्रूयमाणात् प्राप्नोत्येवेद्रतिषेधः । अनुदात्तस्येति। "धातो'रित्यनाश्रित्योक्तम्। अथ वैतत्प्रदेशपाठाश्रयमेतद्भाष्यम् । उ.]भावः। एवञ्च सपः साच्कत्वेन पित्त्वं चरितार्थमिति बोध्यम् ।ननु स्थानपरिवर्त- नेन सनादिवर्ग करणे फलाऽभावस्य भाष्ये उक्तेराह-अत्रैव वेति । अत्राऽपि करणेनेसिद्धेरिति तात्पर्यम् । भाष्ये-किम्प्रयोजनमित्यकारविषयः प्रश्नः । यदवयासिसिष्ठा इति। नन्वत्र सिप्यपि तेन व्यवधानानिषेधाऽप्रवृत्ताविसिध्यत्ये- वेत्यत आह-सबन्तस्याऽङ्गस्येति । 'एकाच' इत्यङ्गस्यैव विशेषणम् । 'उपदेशे'- इति चाऽनुदात्तेनैव संबध्यते। उपदेशे योऽनुदात्तस्तघटितादेकाऽचोऽङ्गादिति चार्थः। सबनैमित्तिकत्वात्पूर्वमेव, ततश्च लादेशा इति भावः । उच्चारणार्थ इति । इत्संज्ञा- याम्फलान्तराऽभावादितिभावः।उच्चारणेसहायसम्पादनेन चरितार्थस्येत्संज्ञया लोपेने- निवृत्तिरिति बोध्यम् । सिवन्तस्य धातोरिति। अङ्गस्य'ति वक्तुमुचितम् । सीयुटः सस्य षत्वाऽभावश्छान्दसः । ननु चेति । तद्धटितादित्यर्थे न मानमित्यभिमानः । नाऽसावुपदेशे इति । सिबन्तस्योपदेशाऽभावादिति भावः । एवञ्च सिपैव सिद्धेऽ- कारोच्चारणं व्यर्थमिति पूर्वपक्षाशयः । सनादिवर्गपाठाऽभिप्रायेणेदम्फलमुक्तमिति समाधत्ते-एवन्तीति । अकारोच्चारणसामर्थ्यादुपदेशेऽनुदात्तघटितैकाचोऽङ्गादि- त्यर्थ इति न दोष इति तत्त्वम् । अनुदात्तादेकाच इति । सपि तु परत्वादिडा- दिषु कृतेषु अतो लोप इति भावः। अथ वेति । अत्र पाठे हि तदन्तस्याऽधातुवा- तदप्राप्तिरिति भावः । इदमेव युक्तम् । नन्वत्र योऽनुदात्त इकारस्तत्र परतो न लोपः । आर्द्धधातुके हि सः। न च तदनुदात्तमत आह-लसार्वधातुकाऽनुदात्तत्वे १ इदं क्वचिन्न । २ 'नेष्टसिद्धि'।

* कैयट-विवरणसहितं [कास्प्रत्यया उदात्तनिवृत्तिस्वरः प्रसज्येत ॥*॥ सिब्बहुलं छन्दसि णित् ॥ ॥ सिब्बहुलं छन्दसि णिद्वक्तव्यः । सविता धर्म साविषत् । प्रेण आयूंषि तारिषत् । कास्प्रत्ययादाममन्त्रे लिटि ॥ ३॥१॥३५ ॥ ॥ ॥ कास्ग्रहणे चकास उपसङ्ख्यानम् ॥ ॥ कास्ग्रहणे चकास उपस- यानं कर्तव्यम् । चकासांचकार ॥ न कर्तव्यम् । 'चकास्प्रत्यया'दिति वक्ष्य- मि ॥*॥ चकास्ग्रहणे कास उपसङ्ख्यानम् ॥॥ चकास्ग्रहणे कास उपासङ्ख्यानं कर्तव्यम् । कासांचके। सूत्रं च भिद्यते ॥ यथान्यासमेवास्तु ॥ ननु चोक्तं 'कास्ग्रहणे चकास उपसङ्ख्यान'मिति ॥ नैष दोषः ॥ चकास्शब्दे कास्शब्दो- ऽस्ति, तत्र 'कास्प्रत्यया'दित्येव सिद्धम् ॥ न सिध्यति ॥ किं कारणम् ? ॥ प्र.]उदात्तस्येति। 'छन्दस्युभयथेति सार्वधातुकत्वाददुपदेशादिति लसार्वधातुकाऽनु- दात्तत्वे सति प्रत्ययस्वरेण धातुस्वरेण वा सशब्दाऽकारस्योदासत्वादुदात्तनिवृत्तिवर इटः प्रसज्येत । पकारे तु सति अनुदात्त एवेड्भवति । पित्करणसामर्थ्यादेव च सशब्दाऽकारस्य धातुवरो न भवति, एतत्प्रदेशपाठाद्वा । याशब्दस्यैव तु भवति । 'तिङ्कुति' इति यो निघातः स 'निपातैयद्यदी'ति प्रतिषिद्धः । अवशब्दस्य 'तिङि चोदात्तवती'ति निघातः। साविषदिति । 'यू प्रेरणे' इत्यस्य लेटि रूपम् । 'तारि. पादिति तरतेः । [ सिब्बहुलं लेटि] ॥ उ.]सतीति।अत्र पाठे-प्रत्ययस्वरेणेति। सनादिपाठे-धातुस्वरेणेति। 'प्रत्ययस्वरेणे'- त्येव युक्तं, सनादिपाठस्य स्थानत्यागे फलाऽभावेन भाष्ये दूषितत्वात् । 'पित्करण- सामर्थ्या'दित्यपि चिन्त्यम् , एतत्प्रदेशेल्यायेव युक्तम् । याशब्दस्यैवेति । एवञ्च 'यासिसीष्टा' इत्याद्युदात्तमिति भावः । ननु 'तिङतिङ' इति निघातः स्यादत आह-तिङतिङ इति । अत्रेदं तत्त्वम् ,-अत्रैव पाठो 'लेटी'ति पदरहितः कार्यः, अकारस्तु लसार्वधातुकानुदात्तत्वायोक्तरीत्येवतिषेधाऽभावाय च। उदात्तनिवृत्ति- स्वरवारणाय च पकारः । अन्तरङ्गत्वाच्च पूर्वं सपिततो विकरणव्यवधानेप्यादेशाः । अत आर्द्धधातुकोपदेशेऽकारान्तत्वाल्लोपसिद्धिरिति । [ सिब्बहुलं लेटि] ॥ कास्प्रत्यया । नन्वत्र 'प्रत्यय'ग्रहणं व्यर्थम् 'आममन्त्रे लिटी'ति योग- विभागेन सामान्यत आमं विधाय कास्ग्रहणं नियमार्थ व्याख्येयम्- 'औपदेशिकधातोश्चेत्कास एवेति प्रत्ययान्ते सिद्धेरिति चेन्न, अनेकाच्प्रत्ययान्त- ग्रहणार्थत्वात् । तेन कादिभ्य आचारक्किबन्तेभ्य आम्न । ध्वनितञ्चेदं हरदत्तग्रन्थे । न च एकाच्प्रत्ययान्तपरमेवाऽस्तु, विग्रहणेनैव सिद्धे प्रत्ययग्रहणवैयर्थ्यापत्तेः, गोपायाञ्चकारेत्यादिभाष्यप्रयोगविरोधापत्तेश्च । कास्यनेकाच इति । कासि- पदमनेकाज्धातुमात्रस्य यथा भवति तथा व्याख्येयमित्यर्थः । तथा हि ३अ.१पा.३आ:३६सू.] 8 व्याकरणमहाभाष्यम् ॐ ११३ अर्थवतः कास्शब्दस्य ग्रहणं, न च चकास्शब्दे कास्शब्दोऽर्थवान् ॥ एवं तर्हि [॥*॥ 'कास्यनेकाज्ग्रहणञ्चुलुम्पाद्यर्थम्'॥*॥] कास्यनेकाध' इति वक्तव्यम्॥ किं प्रयोजनम् ? ॥ 'चुलुम्पाद्यर्थम् । चुलुम्पांचकार दरिद्रांचकार ॥ इजादेश्च गुरुमतोऽनृच्छः ॥ ३॥१॥३६ ॥ ॥*॥ गुरुमत आम्विधाने लिग्निमित्तात्प्रतिषेधः ॥*॥ गुरुमत आम्विधाने लिग्निमित्ताद्गुरुमतः प्रतिषेधो वक्तव्यः। इयेष उवोष । गुणे कृते 'इजा- देश्च गुरुमतोऽनृच्छ' इत्याम् प्रसज्यते॥ गुरुमद्वचनमिदानी किमर्थं स्यात् ?॥ ॥ ॥ गुरुमद्वेचनं किमर्थमिति चेण्णल्युत्तमे यजादिप्रतिषेधार्थम् ॥*॥ गुरुमद्व- प्र.]इजादेः। उवोषेति । नन्वत्रोषविदेति विकल्पेनाऽऽमा भाव्यम् । अत्राहुः। द्वि- वचनबहुवचनयोर्गुणाभावाद्गुरुमत्त्वाऽभावाद्विकल्पः सावकाश इति यत्र गुरुमत्त्वं तत्र नित्यमेवाम् प्राप्नोति । एतच्च 'विप्रतिषेधे पर मिति, प्रतिपदविधेश्च बलवत्त्वमना- श्रित्य भाष्यकारेणोदाहृतम्। तत्र ह्याश्रिते विकल्प एव भविष्यतीति नैतदिहोपन्य- मनीयम् । गुरुमद्वचनमिति । ईषतुरीषुरित्यत्रापि सवर्णदीर्घ गुरुमत्त्वादिजादेः सर्वत्र गुरुमत्त्वादामा भवितव्यमिति गुरुमद्वचनसामर्थ्यादुपदेशावस्थायां गुरुमत उ.] एकाचो धातोश्चेत्कास एवेति नियमपरतया तद्व्याख्येयमिति । एवञ्च 'चकास उपसङ्ख्यान'मिति वार्तिकं, सूत्रस्थम्प्रत्ययग्रहणञ्च न कार्यमिति भाष्यतात्पर्यम् । यथाश्रुतवार्तिकेऽपि प्रत्ययग्रहणस्थानेऽनेकाज्ग्रहणं कर्तव्यमित्येव तात्पर्यमिति हर- दत्तानुसारिणः। अन्ये तु 'कासी'ति सप्तमी, कास्घटिते सूत्रे इत्यर्थः । अन्यथा समाहारद्वन्द्वे टजापत्तिः । इतरेतरयोगे तु द्विवचनापत्तिः । प्र ययग्रहणाऽपनये च न मानम् । सूत्रे प्रत्ययग्रहणन्तु योगविभागनियमकल्पनारूपगौरवपरिहारेण स्पष्टा- र्थमेव । एवञ्च 'क' शब्दादिभ्य आचारक्विपि 'कामास' इत्यादिरूपाण्येव, सत्यभि- धाने इत्याहुः । [ कास्प्रत्ययादाममन्त्र] ॥ इजादेश्च। भाष्ये लिग्निमित्ताद्गुरुमत इति। गुरुमति लिग्निमित्तत्वं गुरुद्वारा बोध्यम् द्विवचनबहुवचनयोरिति। तयोः कित्त्वादिति भावः। तत्र द्विवचनाऽपेक्षया नित्यत्वाद्वैकल्पिक आम् । णलि तु परत्वाद्गुणेन नित्य आम्प्राप्नोतीति विशेषः। एतेन 'अत्रापि सवर्णदीर्घ गुरुमत्त्वमस्तीति कथमवकाश' इत्यपास्तम्। विप्रतिषेधे इति। यद्यसम्भवे विप्रतिषेधः,अस्ति चाऽत्रोभयोः संभववुद्धिरित्युच्यते तदापि विकल्पसिद्ध्या 'उवोषे'त्यस्य सिद्धिरितिभावः। प्रतिपदेति । अनवकाशत्वाऽभावेऽपि पूर्वप्रवृत्ताविदं नियामकमिति भावः। 'उवोखेति कवर्गद्वितीयान्तपाठ इत्यन्योननु द्विवचनादौ किति गुणाऽभावेआमभावाय गुरुमद्वचनं चरितार्थमत आह-ईषतुरिति।उपदेशेति । एवञ्च १ इदं लुप्तं । २ कास्यनेकाचश्चलुम्पाद्यर्थम्' इत्यन्ये पठन्ति । ३ 'प्राप्नोति'। ८ कैयट-विवरणसहितं [इजादेश्वगुरु चनं किमर्थमिति चेण्णल्युत्तमे यजादीनां मा भूदिति । इयजाऽहम् । उव- पाऽहम् । ॥*॥ उपदेशवचनात्सिद्धम् ॥ ॥ [ उपदेशवद्वचनासिद्धमेतत् ] । उपदेशे गुरुमत इति वक्तव्यम् ॥ यधुपदेशग्रहणं क्रियते उछेराम्वक्तव्यः । उच्छाञ्चकार । व्युच्छाञ्चकारेति ॥*॥ ऋच्छिप्रतिषेधो ज्ञापक उच्छेराम्भा- वस्य ॥ ॥ यदयमनृच्छ इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यस्तुङ्गिमित्ता यस्य गुरुमत्ता भवति तस्मादामिति । स तर्हि ज्ञापकार्थ ऋच्छिप्रतिषेधो वक्तव्यः॥ ननु चावश्यं प्राप्त्यर्थोऽपि वक्तव्यः ॥ नाऽर्थः प्राप्त्यर्थेन । 'ऋच्छत्य- तामिति ऋच्छेलिटि गुणवचनं ज्ञापकं 'नच्छेर्लिट्याम्भवतीति ॥ नैत- देस्ति ज्ञापकम् , अर्त्यर्थमेतत्स्यात् ॥ कथं पुनर्ऋच्छेलिटि गुण उच्यमानोऽ- र्त्यर्थः शक्यो विज्ञातुम् ?॥सामर्थ्यात् । ऋच्छिलिटि नास्तीति कृत्वा कृत्य- प्र.]इत्याश्रयिष्यत इति भावः। णल्युत्तम इति। एतचोपलक्षणं,तेन थलपि गृह्यते- इयष्ट इयजिथेति । लिट्यभ्यासस्य संप्रसारणे कृते यजादय इजादयो भवन्तीति । उपदेशवचनादिति।वचनं व्याख्यानमभिप्रेतम्।अन्यथा वचनेन वचनान्तरस्य निरामे को गुणः स्यात् । तस्मान्नित्ययोगे मतुप आश्रयणादुपदंशावस्थायां गुरुमत इत्या- श्रयिष्यत इत्यर्थः। 'उपदेशग्रहण'शब्देनाऽप्युपदेशो गृह्यतेनेनेति व्युत्पत्त्या व्याख्या- नमेवोच्यते।उछेरिति। उछी विवास इत्युपदेशे गुरोरपाठान्नाऽयं गुरुणा नित्ययुक्तः । तुङ्गिमित्तेति । तुग्ग्रहणमागममात्रोपलक्षणं, तेनेवांचकारत्यत्रापि भवति । प्राप्त्यर्थो- पीतिप्रतिषेधप्राप्त्यर्थ इत्यर्थः। ऋच्छेरिति ।आमा व्यवधानेऽपि वचनाद्गुणो भविष्य- तोति चेत्, एवं सति 'तस्मिन्निति निर्दिष्ट' इत्येतद्वाध्यत,तम्मादाम एवाऽभावो गुण- विधानेन ज्ञाप्यते। सामर्थ्यादिति ।'ऋ गतिप्रापणयो रित्यस्य शितपि शपि ऋच्छा- देशः कृतो न त्वनादेश ऋच्छिनिर्दिष्ट इत्यर्थः । ऋच्छिरिति । शिति ऋच्छादेश- विधानाल्लिटि तदभावः । तिष्ठतरिति । अत्रापि स्थः शिति तिष्टादेशं कृत्वा निर्देशः उ.]'लिग्निमित्ता'दिति प्रतिषेधोऽनर्थक इति भावः। इयष्टेति । संयोगपरत्वेन गुरुम- त्वेऽपि उपजीवव्यविरोधान्नाऽऽमिति गुरुमद्रहणस्येदम्फलमिति भावः। इयजिथेत्येव वा प्रत्युदाहरणम् । ननु यजादीनां कथमिजादित्वं, तत्राह-लिट्यभ्यासस्यति । तस्मानित्ययोग इति । 'भूमनिन्दाप्रशंसामु नित्ययोगेऽतिशायने' इत्युक्तः । प्रकृत लक्ष्यानुसारात्तत्रैव मतुबिति भावः । ननु वचनशब्दम्य व्याख्यानपरत्वेऽप्युपदेश- ग्रहणमित्यसङ्गतमत आह-उपदेशग्रहणेति । तुग्ग्रहणमिति । सामान्यापेक्षं ज्ञाप- कमित्यर्थः। ऋच्छावामोऽभावादाह-प्रतिषेधेति । तुग्निमित्तेत्याद्यर्थे ज्ञापिते ततोऽ- पि प्राप्तस्य प्रतिषेधार्थ इति भावः । तस्मादाम एवेति । यद्यप्यङ्गभूतपरिभाषाबाध १ इदं लुप्तं स्यात् । २ इदं न सार्वत्रिकम् । ३ 'प्रकृत्यर्थो' पा० ।

३अ.१पा.३आ.३६सू.] - व्याकरणमहाभाष्यम् 8 थं विज्ञायते । तद्यथा-तिष्ठतेरित् जिघ्रतेवेति, चडि तिष्ठतिजिघ्रती न स्त इति कृत्वा प्रकृत्यर्थ विज्ञायते ॥ किं पुनरतेर्लिटि गुणवचने प्रयोजनम् ?॥ आरतुः आरुः, एतद्रूपं यथा स्यात् ॥ किं पुनः कारणं न सिध्यति ॥ द्विर्व- चने कृते सवर्णदीर्घत्वे च कृते यदि तावद्धातुग्रहणेन ग्रहणमृकारान्तानां लिटि गुणो भवतीति गुणे कृते रपरत्वे च अरतुः अरुरित्येतद्रूपं प्रसज्येत । प्र.]कृतः,तत्राऽनेन रूपेण स्थाशब्द एव प्रतीयत इत्यर्थः। द्विर्वचन इति । यणादे- शात् पूर्वविप्रतिषेधेन द्विवचनं क्रियते। तथा हि-सति स्थानिवद्भावशास्त्रे द्वयो- रपि यद्विवचनयोर्नित्यत्वमिति विप्रतिषेध उपपद्यते । अथ वा यथा 'निन्यतु'रि- त्यत्र यणादेशेन भाव्यमिति द्विवचनात् पूर्वमेव इयङ्ग प्रवर्तते तथेहाऽपि द्विव- चने कृते सवर्णदीर्घेण भाव्यमिति यण्न प्रवर्तते । सति वा यणि तस्य स्थानिव- द्भावाद्विवचनम् । तत्र कृते यणादेशात् परत्वात्सवर्णदीर्घत्वम् । यदि तावदिति । अन्नादिवद्भावादुमयादेशस्याऽन्यतरतो व्यपदेशात्स्थानिवद्भावाद्वति भावः । अन्त- उ.]एवोचितस्तथाऽपि तस्या वाक्यार्थबोधप्राकालोपस्थितिकतया वैयर्थ्यस्य च लक्ष्य- संस्कारवेलायामुपस्थितत्वेनाऽसञ्जातविरोधन्यायेनाऽऽम्बाध एवेति भावः। एवञ्चतुग्नि- मित्तत्याद्यर्थे ज्ञापितेऽप्यस्य सार्थक्यं दुरुपपादम्, ऋच्छेरामभावस्य प्रकारान्तरण सिद्धरिति नैतज्ज्ञापकमिति तात्पर्यम् । ननु स्थानिकार्यस्याऽऽदेशे जायमानत्वेऽपि आदेशकार्यस्य कथं सामर्थ्यादपि स्थानिनि प्रवृत्तिः, तत्र स्थानिवद्भावस्येवाऽत्रो- पायाऽभावादत आह-ऋ गतीति । शितीति। स्वतन्त्रस्य त्वामा व्यवधानाल्लिट्- परत्वाऽभावो बोध्यः॥ननु परत्वाद्यणि 'द्विवचनेऽची'त्यनेन द्वित्वे स्थानिवद्भावाद्वित्वे कृते पुनरादेशरूपेणैवोत्तरखण्डस्याऽवस्थानादभ्यासस्योरति हलादिः शेषेऽत आदे- रिति दीर्घ आरतुरित्यादिसिद्धिरत आह-यणादेशादिति । ननु 'यनित्य' इति कथं विप्रतिषेधोऽत आह–सतीति । 'द्विवचनेऽचीत्यस्मिन्निति शेषः । द्विवचने- ऽची'ति सूत्रे स्थानिवद्भावपूर्वविप्रतिषेधयोः किं ज्याय इति भाष्योक्तः पूर्वविप्रतिषे- वारम्भे तदभावस्य लाभादयम्पूर्वविप्रतिषेधो नित्यानामपि वाधक इति वक्तुं युक्तम् । इत एवाऽरुचेराह-अथ वेति । सति वा यणीति । द्वित्वे रूपातिदेशेन द्वित्वे जाते पश्चाद्यथायथं योग्यशास्त्रप्राप्तिरिति दीर्घ एवेति भावः। अन्ता- दिवदिति । उत्तरखण्डस्यैव क्रियावाचकत्वेन धातुत्वमिति भावः । समुदायस्य धातुत्वे त्वेतदसङ्गतिः स्पष्टैवेति बोध्यम् । स्थानिवदतिदेशस्यापि सम्भवादाह- स्थानिवद्भावाद्वेति । स्थान्यलाश्रयत्वाऽभावाच्चाऽनल्विधाविति प्रतिषेधाऽभावः । स्थानिवत्त्वप्राप्त्युपपादकम्-उभयादेशस्येत्यादि। भाष्ये-गुणे पुनः सतीति। ननु १ 'विज्ञास्यते' पा० । २ 'कृते सवर्णदीर्घत्वं, सवर्ण' पा० । ३इदं वचिन्न । , ॐ कैयट-विवरणसहितं. [ इजादेश्च अथाऽभ्यासग्रहणेन ग्रहणम्-उरत्वं, रपरत्वं,हलादिः शेषोऽत आदेरिति दीर्घ- त्वमौतो लोप इटि चेत्याकारलोपः-अतुः उरिति वचनमेव श्रूयते । गुणे पुनः सति गुणे कृते रपरत्वे च द्विवचनं हलादिः शेषोऽत आदेरिति दीर्घत्वं तत सिद्धं भवति आरतुरारुरिति । यथा आटतुः आटुरिति ॥ किं पुनः कारणं सवर्णदीर्घत्वं तावद्भवति न पुनरुरत्त्वम्? परत्वादुरत्वेन भवितव्यम् ॥ अन्तरङ्गत्वात् [ सर्वर्णदीर्घत्वं प्रामोति ] । अन्तरङ्गं सवर्णदीर्घत्वं, बहिरङ्गमु- रत्वम् ॥ काऽन्तरङ्गता?॥वर्णावाश्रित्य सवर्णदीर्घत्वम् ,अङ्गस्योरत्त्वम् ॥ उरत्त्व- मप्यन्तरङ्गम् ॥ कथम् ? ॥ वक्षत्येतत्प्रागभ्यासविकारेभ्योऽङ्गाधिकार इति । उभयोरन्तरङ्गयोः परत्वादुरत्त्वम् । उरत्त्वे च कृते रपरत्वं हलादिः शेषोऽत आदेरिति दीर्घत्वं परस्य रूपस्य यणादेशः, सिद्धं भवति-आरतुः आरुरिति ॥ अथापि कथं चिदर्तेलिंटि गुणेनाऽर्थः स्यादेवमपि न दोषः । ऋच्छत्यतामि- त्यकारोऽप्यत्र निर्दिश्यते ॥ कथम् ?॥ प्रश्लिष्टनिर्देशोऽयम्। ऋच्छति-*-ऋ. ताम्-ऋच्छत्यतामिति ॥ इहापि तर्हि प्राप्नोति चक्रतुश्चक्रुरिति ॥ संयोगादि- प्र.]रङ्गत्वादिति। 'वर्णादाङ्ग बलीय' इत्येतत्तु समानाश्रयाङ्गचार्णविषयम्। यथा कारक- श्चयनमिति गुणवृद्धी भवतो यणादेशात् । इह तूरदत्वं लिडाश्रयं, वर्णद्वयाश्रयं तु सवर्णदीर्घत्वमिति भिन्नाश्रयत्वमनयोः । अथापीति । आसप्तमपरिसमाप्तेरङ्गाधिकारी वव्रश्चेत्यादिसिद्धय आश्रित इति भावः । ऋकारोऽपीति । बहुवचननिर्देशादिति भावः । इहापीति । 'ऋ'इति वर्णग्रहणात्तदन्तविधिसद्भावादिति भावः । संयोगादेरिति। अकेवलस्य । वर्णान्तरसहितस्येत्यर्थः।ततश्च धातोरेव ग्रहणमवति- उ.]परत्वात्कृतेऽपि गुणे द्विर्ववचनेऽचीति रूपातिदेशात् ऋशब्दस्यैव द्वित्वमिति को विशेष इति चेन्न; यत्राऽऽदेशे कृते एकाच्त्वादियाघातप्रयुक्ता द्वित्वाऽप्राप्तिस्तत्र- वातिदेशप्रवृत्तिरित्याशयात् । इह तूरदत्त्वमिति । आसप्तमसमाप्त्यङ्गाधिकारादिति भावः । इदम्प्रौढ्या कैयट आहेत्यनुपदमेव स्फुट भविष्यति । वव्रश्चेति । अत्राऽ- भ्यासे रेफस्य सम्प्रसारणे उरदत्त्वे तस्याऽङ्गाक्षिप्तपरनिमित्तत्वेन 'न सम्प्रसारण' इति तस्य तन्निषेधे स्थानिवत्त्वं सिध्यतीत्यर्थः । ऋकारनिर्देशे लिङ्गमप्याह- बहुवचनेति । धातोरेवेति । गत्यर्थस्य, न तु तदन्तविधिरित्यर्थः । भाष्ये -तद- न्तरेणातैरिति। वार्णपरिभाषयैवेति भावः । सा समानाश्रयविषयैवेति तु न, माना- भावादिति भावः। ननु पूर्व मुर(द)त्त्वेऽपि हलादिः शेषेऽत आदेरिति दीर्घे परखण्डे यणादेशं बाधित्वाऽतो गुण इति प्राप्नोतीत्यसिद्धिरत आह-अन्तरेण ऋच्छिग्रहण- १ 'उरदत्त्वं' 'उरदत्त्वे' पा० । २ 'दीर्घवन्तत आतो' पा० । ३ 'लोपे पा० । ४ 'श्रूयेत' पा० । ५ इदं क्वचिन्न । ६ इदं वार्तिकमित्यन्ये ।

३अ.१पा.३आ३६सू.] ® व्याकरणमहाभाष्यम् ® ग्रहणं नियमार्थ भविष्यति 'संयोगादेरेवाऽकेवलस्य नान्यस्याऽकेवलस्येति । तदेतदन्तरेणाऽर्तेलिटि गुणवचनं रूपं सिद्धं [ भवति ] अन्तरेण चछिग्रह- णमर्तेर्लिटि गुणः सिद्धः । स एषोऽनन्यार्थ ऋच्छिप्रतिषेधो वक्तव्य उच्छा- ऽऽम्वक्तव्यः ॥ उभयं न वक्तव्यम्। उपदेशग्रहणं न करिष्यते ॥ कस्मान भव- ति-इयेष उवोषेति ? ॥* उक्तं वा ॥*॥ [उक्तं वा ] ॥ किमुक्तम् । 'सन्नि- पातलक्षणो विधिरनिमित्तं तद्विघातस्येति ॥ ॥ ऊर्णोतेश्वोपसङ्ख्यानम् ॥१॥ ऊर्णोतेश्वोपसङ्ख्यानं कर्तव्यम् । प्रोणुनाव ॥ न कर्तव्यम् । ॥*॥ वाच्य ऊोर्णवद्भावो यप्रसिद्धिः प्रयोजनम् । आमश्च प्रतिषेधार्थमेकाचश्चेडुपग्रहात् ॥*॥ अथ वोकारोऽप्यत्र निर्दिश्यते॥कथम् ?॥ अविभक्तिको निर्देशः,-अनुच्छ प्र.]ष्टते। स एष इति। आगमनिमित्तगुरुमत्त्वधात्वर्थ इत्यर्थः। 'अनृच्छ' इति पर्यु- दासाश्रयेण तत्सदृशधातुग्रहणादुछेराम्भवति । अथ वा यद्यपि गुणविधानेन ऋच्छे- राम्न भवतीति ज्ञायते तथाप्यनृच्छ इति प्रतिषेधः प्राप्तिसम्भावनयाक्रियमाणो ज्ञाप- को यथोक्तस्यार्थस्य भवति । उपदेशग्रहणमिति । 'गुरुमत' इति गुरुमत्तामात्रा- श्रयो मतुप, यथा 'पितृमा'निति, न तु नित्ययोग इति व्याख्यास्यत इत्यर्थः। सन्नि- पातलक्षण इति । लिट्सन्निपातनिमित्तो गुणस्तद्विघातनिमित्तस्यामो निमित्तं न भवति। आमि सति हि लेलका भाव्यमिति लिट्सन्निपातस्य विघातः स्यात् । ऊों- तेरिति । प्रतिषेध इत्यर्थः । उकारोपीति । तेनोकारान्तस्यो!तेराम्न भवति । उ.]मिति। ऋकारनिर्देशेनेति भावः।अयमेव 'अथाऽपि कथञ्चिदिति भाष्यस्याऽऽ- शयः । ननु गुणविधिस्थऋच्छिग्रहणेन ज्ञापकेन ऋच्छेरामोऽप्राप्तावनृच्छ इत्यस्य ज्ञापितेऽपि चारितार्थ्याऽभावात्कथं ज्ञापकत्वमत आह-अनृच्छ इतीति । तत्सह- शागमवद्धातुलक्षणायैव तदुपादानमिति भावः । वाक्यभेदश्च बोध्यः । तेनैधादेः सिद्धिः । 'अन्यन्यार्थ' इत्यनेन भाष्ये ध्वनितमेतत् । अथ वेति । इदं प्रौव्या लेलुंकेति। अव्यवधानविघातश्च बोध्यः । एवञ्च 'अनृच्छ' इति, 'लिग्निमित्ता'दिति च प्रत्याख्यातम् । ननु 'उपदेश' इति व्याख्याने 'ईत्' 'ऊत्' शब्देभ्य आचार- क्विपि आम्न प्राप्नोति, तत्प्रत्याख्याने च प्राप्नोतीति चेन, प्रत्ययान्तत्वेनैव तत्राम्सि- द्धिरित्याशयात् । हलन्तेभ्य आचारक्विपोऽभावाच्च । भाष्ये-वाच्य ऊोरिति । तत्र यडि भावातिदेशः, आमिटोरभावातिदेश इति बोध्यम् । तेनेजादेरिति,अनेकाच इति चाम्नेति बोध्यम् । उकारप्रश्लेषेऽपि तत्सामर्थ्याद्वाध्यसामान्यचिन्तया सर्वस्याप्यामः प्रतिषेध इति बोध्यम् । तेनोकारान्तस्येति । ऋच्छिसाहचर्यादौपदेशिकस्येत्यर्थः । १ इदं क्वचिन्न । २ 'वक्तव्यम्' पा० ।

११८ कैयट-विवरणसहित [ उषविद उ-'अनृच्छो दयायासश्चेति । [इजादेश्च गुरुमतोऽनृच्छः] ॥ उपविदजागृभ्योऽन्यतरस्याम् ॥ ३॥१॥३८ ॥ ॥*॥ विदेराम्कित् ॥*॥ विदेराम्किद्वक्तव्यः। विदांचकार॥ न वक्तव्यः । विदिरकारान्तः ॥ यद्यकारान्तो 'वेत्तीति गुणो न सिध्यति । "लिट्सन्नियो- गेन" ॥ एवमपि 'विवेदेति न सिध्यति ॥ एवं तर्हि "आम्सन्नियोगेन" ॥ भारद्वाजीयाः पठन्ति- ॥*॥ विदेराम्किन्निपातनाद्वा गुणत्वम् ॥ ॥ इति । भीहीभृहुवां अलुवश्च ॥ ३॥१॥३९ ॥ श्लवदतिदेशे किं प्रयोजनम् ?॥ ॥*॥श्लुवदतिदेशे प्रयोजनं द्वित्वेत्त्वे॥१॥ [ श्लुवदतिदेशे द्वित्वेत्त्वे प्रयोजनम् ] । बिभरांचकार ॥ [ भीहीभृहुवाम् ] ॥ कृञ्चानुप्रयुज्यते लिटि ॥ ३।१।४० ॥ किमर्थमिदमुच्यते ?॥ अनुप्रयोगो यथा स्यात् ॥ नैतदस्ति प्रयोजनम् । प्र.]संहितया च सूत्रपाठ इति दर्शयति-अनृच्छो दयायासश्चेति। [ इजादेश्च ] । उपविद । विदिरकारान्त इति । सूत्रे अकारान्तत्वं विदर्निपात्यत इति भावः। इतरो धातुपाठ एवाऽकारान्तत्वमनेन विदेरुक्तमिति मलाह-यदीति । गुणी न सिध्यतीति । इकारस्योपधत्वाऽभावादकारलोपाऽभावाच विदतीति स्यादित्यर्थः । आम्सन्नियोगेनेति । आमः प्राधान्येन विधीयमानत्वात्तदनुयायिलमत्स्येत्यर्थः । भीही । द्विवचनमेव विधेयं किमतिदेशेनेति पृच्छति-श्नुवदतिदेश इति । 'न लुमताङ्गस्येति गुणप्रतिषेधो न भवति । 'प्रत्ययलोप' इत्यस्याः प्राप्तरयं निषेधी न चाऽत्रासौ प्राप्तिरस्ति । [ भीहीभृहुवां श्लुवञ्च ॥ कृञ्चानु । किमर्थमिति । अन्तरेणाऽपि सूत्रारम्भमनुप्रयोगः सिद्धः काल- उ.]तदाह ऊर्णोतेरिति ॥ [इजादेश्च गुरुमतोऽनृच्छः ] । उपविद । उषिजागृसाहचर्यात्परस्मैपदिन आदादिकस्यैव विग्रहणम् । अकारलोपाऽभावाच्चेति । गुणाऽसिद्धिर्दोषोपलक्षणमिति भावः । ननु लिटोप्युप- स्थित्या तत्सन्नियोगेनाऽपि विधानं स्यादत आह-आमिति। निपातनाद्वति भाष्ये। सूत्रेऽदन्तत्वनिपातनादित्यर्थः ॥ [ उपविदजागृभ्योऽन्यतरस्याम् ] । भीहीभृहुवां । न लुमतेति लुमच्छब्दवति कार्ये सत्यङ्गस्य कार्य नेत्यर्थ इति मन्यते । प्रत्ययेति । लुमता शब्देन लुप्ते प्रत्ययलक्षणेनाऽङ्गकार्य नेति तदर्थ इति भावः ॥ [ भीहीभृहुवां श्लुबच्च कृञ्चाऽनु । अनुप्रयोगायाऽन्यधात्वनुप्रयोगस्य वारणाय च सूत्रमावश्यकमित्यत आह-अन्तरेणाऽपीति। लिहरस्य कृत्र' इत्यस्याऽनुप्रयोगः सिद्ध' इत्यनेनाऽन्वयः। १ अत्र ॥ ॥ 'विदेराम्किल्लिट्सनियोगेन' ॥॥इति तु वार्तिकमिति गौडाः।

३अ.१पा.३आ.४०सू.] & व्याकरणमहाभाष्यम् 8 ११९ . आमन्तमव्यक्तपदार्थकं, तेनाऽपरिसमाप्तोऽर्थ इति कृत्वाऽनुप्रयोगो भविष्यति॥ अत उत्तरं पठति ॥॥ कृञोऽनुप्रयोगवचनमस्तिभूप्रतिषेधार्थम् ॥ ॥ कृशो- ऽनुप्रयोगवचनं क्रियते । [किं प्रयोजनम् ? ॥] 'अस्तिभूप्रतिषेधार्थम् । अस्तिभुवोरनुप्रयोगो मा भूदिति ॥*॥ आत्मनेपदविध्यर्थच ॥*॥ आत्मनेपद- विध्यर्थं च कृतोऽनुप्रयोगवचनं क्रियते । आत्मनेपदं यथा स्यात् ॥ उच्यमा- नेऽप्येतस्मिन्नवश्यमात्मनेपदार्थो यत्नः कर्तव्यः। अस्तिभूप्रतिषेधार्थेन चाऽपि नार्थः ॥ * ॥ इष्टः सर्वानुप्रयोगः ॥ ॥ सर्वेषामेव कृभ्वस्तीनामनुप्रयोग इष्यते। किमिष्यत एवाऽहो स्वित्प्राप्नोत्यपि ? ॥ इष्यते च प्राप्नोति च ॥ कथम् ? ॥ 'कृ'जिति नेदं धातुग्रहणं ॥ किं तर्हि ? ॥ प्रत्याहारग्रहणम् ॥ व संनिविष्टा- प्र.]साधनसङ्ख्याप्रत्यक्वादिप्रतिपादनाय लिहरम्य कृञः।आमन्ताद्धि कालविशेष एवा- वसीयते न त्वर्थान्तरं, तत्र समानार्थस्य धातोरनुप्रयोगो न भविष्यति ओषामुवोषेति। उत्तरेणैव सर्वार्थाभिव्यञ्जनादामन्तस्यानर्थक्यप्रसङ्गात् । नापि भिन्नार्थस्य-ईहांपपा- चेति। आमन्तसम्बद्धसाधनाद्यसम्प्रत्ययात्। कृज तु सामान्यवचनः। सामान्यविशेष- वाचिनोश्च प्रयोगोऽर्थविशेषप्रतिपादनेऽनुगुण इति भावः । अनुप्रयोग इति । यद्य- प्यामन्तात्सकलार्थाभिव्यक्तिर्न भवति तथापि प्रकरणादिवशाद्भविष्यति, तस्मादनुप्र- योगसिद्ध्यर्थमिदं वक्तव्यमिति भावः । आमन्तमिति । पूर्वोक्तानामर्थानां प्रकरणा- दिवशादशक्या प्रतिपत्तिरिति तदर्थाभिधानायानुप्रयोगः सिध्यत्येवेति भावः । करो- तेरेवाऽनुप्रयोगो यथा स्यारुमृस्त्योर्मा भूदिति नियमार्थमेतदिति दर्शयितुमाह-कृत- इति । आत्मनेपदेति । सिद्धे कृञोऽनुप्रयोगे पुनर्वचनमतिशयेनाऽनुगुणस्यानुप्रयो- गार्थ, तेनात्मनेपदप्रकृतेरामन्तस्यात्मनेपदान्त एव करोतिरनुप्रयुज्यत इत्याम्प्रत्यय- वदिति सूत्रं न कर्तव्यं भवतीत्यर्थः । अवश्यमिति । परस्मैपदेनाऽपि कर्बर्थस्या- वगमात्तदन्तस्थाऽनुप्रयोगः स्यादिति भावः। प्रत्याहारग्रहणमिति । एतच्चाम्प्रत्य- यवदित्यत्र कृग्रहणास्तिनिवृत्त्यर्थाद्विज्ञायते । सम्पदश्वार्थविरोधान्न भविष्यत्यनुप्र- उ.] आमन्ताद्धि क्रियाविशेष एवेति पाठः। 'कालविशेष' इति पाठे कालेन विशेष्यते यः स क्रियारूप इत्यर्थः । सामान्य इति। सामान्यस्याऽपि विशेषे पर्यवसानात्त- दुत्पन्नतिबादिनापि विशेषसंबन्धिसाधनाद्यवगतिरित्यर्थः। भ्वस्त्योरिति । तयोरपि सामान्यवाचकत्वादिति भावः। भाष्ये दूषयति-उच्यमानेऽपीति । परस्मैपदेनाs- पीति । सूत्रन्यासेन त्वदुक्तातिशयाऽलाभादिति भावः । सम्पदश्चेति। चेन 'सं'- रहितपदधातोरपीत्यर्थः । एतेन सम्पदो धातुत्वाऽभावात्कृम्बाद्यसाजात्येन प्रत्याहारे न सन्निवेश इत्यपास्तम् । मध्यवर्तिनः सजातीया एव ग्राह्या इत्यर्थे मानाऽभावाच्च । १ 'अस्तिभुवोः' ।२ अयं पाठो लुप्तः।३ इदं क्वचिन्न । ४ किमिष्यत्येव'1५'नैतत्'।

१२० .. कैयट-विवरणसहितं [कृञ्चानुप्र नां प्रत्याहारः ?॥ 'कृभ्वस्तियोग' इत्यतःप्रभृत्या कृतो अकारात् ॥*॥ सर्वा- नुप्रयोग इति चेदशिष्यमर्थाऽभावात् ॥*॥ सर्वानुप्रयोग इति चेदशिष्यं, कृमो- अनुप्रयोगवचनम् ॥ कि कारणम् ?॥ 'अर्थाभावात्' । आमन्तमव्यक्तपदार्थकं तेनाऽपरिसमाप्तोऽर्थ इति कृत्वाऽनुप्रयोगो भविष्यति ॥ इदं तर्हि प्रयोजनं 'कृभ्वस्तीनामेवाऽनुप्रयोगो यथा स्यात् पचादीनां मा भूदिति॥ एतदपि ना. स्ति प्रयोजनम् ॥ ॥ अर्थाऽभावाच्चान्यस्य [सिद्धम् ] ॥ ॥ अर्थाऽभावाच्चाs- न्यस्य सिद्धमेतत् ॥ कुतः ? ॥ कृभ्वस्तयः क्रियासामान्यवाचिनः, क्रियावि. शेषवाचिनः पचादयो, न च सत्मान्यवाचिनोरेव विशेषवाचिनोरेव वा प्रयोगो भवति । तत्र विशेषवाचिन उत्पत्तिः सामान्यवाचिनोऽनुप्रयोक्ष्यन्ते ॥*॥ लिदरार्थ वा ॥*॥ लिदरार्थ तर्हि कृतोऽनुप्रयोगवचनं क्रियते । लिवरस्यैवा- अनुप्रयोगो यथा स्यादन्यपरस्य मा भूदिति ॥ किंपरस्य पुनः प्रामोति ? ॥ लद्दरस्य॥ न लद्दरस्यानुप्रयोगेण भूतकालो विशेषितः स्यात्॥निष्ठापरस्य तर्हि प्र.]योगः। अशिष्यमिति । विद्यतिनिवृत्त्यर्थमपि नोपयुज्यते । प्रयुक्तानामन्वाख्या- नात्तस्य चानुप्रयोगादर्शनात् । न चेति । द्वयोरेकार्थयोः प्रयोगाऽभावादिति भावः। न्यायप्रदर्शनार्थं च 'सामान्यवाचिनो रित्युक्तम् , न तु सामान्यवाचिभ्यः कृभ्वस्ति- भ्य आम्विधानमस्ति। सामान्यवाचिनश्चार्थ द्योतयितुं विशेषवचनो न शक्तः । प्र- त्युत विशेषान्तरव्यावृत्त्या तदर्थविरोधी । लदरस्येति । भूतविशेषस्यामन्तेन प्रति- पादनाद्भूतस्याऽपि भूतपूर्वां वर्तमानतामाश्रित्य लट्योगः स्यादिति भावः । नलपरस्येति।आमन्तार्थाभिव्यक्त्यर्थत्वादनुप्रयोगस्य विरुद्धकालाभिधायिलडनु- प्रयोगो न भविष्यति। न च साम्प्रतिकवर्तमानतासम्भवे भूतपूर्वाश्रयो लद्योग उपप- उ.]विद्यतीति। 'विद सत्ताया मिति स्मरणादिति भावः। भाष्ये-अर्थाऽभावाञ्चेति। 'एधा'मित्यादिना पच्यादेरन्वयाऽयोग्यत्वात् , एधामित्याद्यग्रे स्वस्याऽनुप्रयोगोऽसम्भवी, तत्राप्यामः प्राप्तः। कृभ्वादिभ्यस्तु आम्प्राप्त्यभावादेव न तद्विषये तदनुप्रयोगः । तदाह भाष्ये-न च सामान्येत्यादिना। द्वयोरेकार्थयोरिति । आम्विषययोरित्यर्थः। द्वितीयप्रयोगेऽप्यामः प्राप्तेरिति भावः । न च 'पाचया मित्युत्तरं पचेरन्तर्भावितण्य- र्थस्य समानार्थतया प्रयोगः स्यादिति वाच्यम्, उत्तरेणैव सिद्धे पूर्वस्य वैयर्थ्यापत्ते- रिति भावः । न नु निवृत्तप्रेषणकृलो णिचि कारयामित्यतः पचेरनुप्रयोगः स्यादिति सामान्यविशेषवाचिनोरित्यपि वक्तुं युक्तमत आह-सामान्यवाचिनश्चेति। वर्तमान- विहितस्य लटः कथं भूते प्रसक्तिरत आह-भूतपूर्वामिति । न च साम्प्रतिकेति । १ इतिः क्वचिन्न । २ इदं कचिन्न । ३ 'असिद्धम् । सिद्धम् । ४ 'वचनाः पचादयः ।

१२१ .. ३अ.१पा.३आ.४० सू.] ® व्याकरणमहाभाष्यम् & मा भूत् [इति]॥ न निष्ठापरस्याऽनुप्रयोगेण पुरुषोपग्रहौ विशेषितौ स्याताम्॥ लुपरस्य तर्हि मा भूत्॥ न लुपरस्याऽनुप्रयोगेणाऽनद्यतनो भूतकालो विशे- षितः स्यात् ॥ लपरस्य तर्हि मा भूत् ॥ न लपरस्याऽनुप्रयोगेणाऽनद्य- तनः परोक्षः कालो विशेषितः स्यात् ॥ अयं तर्हि भूते पैरोक्षेऽनद्यतने लङ् विधीयते 'हशश्वतोर्लङ्, ति, तत्परस्य मा भूदिति ॥ एतदपि नास्ति प्रयो- जनम् । “एकस्या आकृतेश्चरितः प्रयोगो द्वितीयस्यास्तृतीयस्याश्च न भवति"। तद्यथा गोपु स्वामी-अश्वेषुचे तिान हि भवति गोषु-चाऽश्वानां च स्वामी'ति। ॥*॥ अर्थसाप्तेर्वाऽनुप्रयोगो न स्यात् ॥ ॥ अर्थसमाप्तेस्तईनुप्रयोगो न स्या- त् । आमन्तेन परिसमाप्तोऽर्थ इति कृत्वाऽनुप्रयोगो न स्यात् ॥ एतदपि ना- स्ति प्रयोजनम् । इदानीमेव युक्तमामन्तमव्यक्तपदार्थकं तेनाऽपरिसमाप्तोऽर्थ इति कृत्वाऽनुप्रयोगो भविष्यतीति ॥*॥ विपर्यासनिवृत्त्यर्थं वा ॥*॥ विपर्या- प्र.]द्यत इत्यर्थः।एकस्या इति । वेदलोकप्रसिद्धोऽयं न्यायः। तथा हि 'खादिरे बना- ति' 'पालाशे बनाती'त्यादौ विकल्पितेषु साधनेषु येनैव साधनेनोपक्रान्ता क्रिया तेनैव निर्वाह्यते । तत्र यदि कदा चित्खदिरस्य भ्रषो भवति तदा तत्सदृशः बर्बुरः सादृश्यात्खदिरबुद्ध्या प्रतिनिधीयते,न तु पलाशः परिगृह्यते। साधनभेदेन क्रियान्य- त्वादुपक्रान्तक्रियाऽनिर्वाहप्रसङ्गात् । लोकेऽपि यदा स्वस्वामिभावप्रतिपादनाय 'गवां स्वामी ति षष्ठ्युपक्रम्यते तदा 'अश्वानां चे'त्यत्रापि तत्प्रतिपादनाय सैव निर्वाह्यते । अन्यथा'ऽश्वेषु चे'त्युक्तेऽधिकरणप्रतिपत्तिरपि स्यादश्वेषु च तिष्ठतीति । तस्मा- द्योऽर्थी यया शब्दाकृत्या प्रतिपादयितुमुपक्रान्तस्तयैवाऽसौ निर्वाह्यो न बन्यया- शब्दाकृत्येत्यर्थः । एवं हि प्रतिपत्तिलाघवं भवति । अर्थसमाप्तेवेति । आमन्तं पदं यावन्तमर्थमभिधातुं शक्नोति तावानर्थस्तत्रैव परिसमाप्त इत्यनुप्रयोगो न स्यादिति भावः।एतद्भाष्यकारो दूषयितुमाह-एतदपीति । 'अशिष्यमर्थाऽभावा'दित्युक्तत्वात् । विपर्यासनिवृत्त्यर्थं वेति । सिद्धे कृप्रयोगे देशनियमार्थं वचनम् । अनुशब्दस्य उ.]वर्तमानसामीप्ये लट्यपि न विवक्षितमुख्यभूतत्वप्रतीतिः स्यादिति भावः।खादिरे- खदिरविकारे यूपे । सादृश्यादिति। एवञ्च बहुखदिराऽरयवसामान्ययोगो-बुर्घर- स्येति तत्र खदिरवुद्ध्युत्पादनेन खदिरारब्धैव क्रिया निर्वाहिता भवति । पालाशे तूपादीयमाने तत्र खदिरबुद्ध्यनुत्पादात्खादिरेणोपक्रान्ता क्रिया न निर्वाहिता स्यादिति न तदुपादानमिति भावः । अश्वेषु चेति । एवञ्च तथा प्रयोगेऽसावुतेति वदन्ति । वार्तिके 'वा'शब्दो विकल्पार्थकोऽपि पूर्वत्र प्रयोजनानां खण्डितत्वा- १ 'लुट्परस्य' पा० । २ 'अनद्यतन भूत' पा० । ३ 'परोक्षकालो पा० । ४ 'परो क्षानद्यतने' पा०। ५'श्च भविष्यति'। ६ इदं क्वचिन्न । ७ 'आमन्तेन च परि' पा०।

१२२ कैयट-विवरणसहित [च्लि लुङि सनिवृत्त्यर्थं तर्हि कृशोऽनुप्रयोगवचनं क्रियते । ईहांचके । चक्र ईहामिति मा भूत् ॥ ॥ व्यवहितनिवृत्त्यर्थं च ॥ ॥ व्यवहितनिवृत्त्यर्थं च कृतोऽनुप्रयोग- वचनं क्रियते । अन्धेव चाऽनुप्रयोगो यथा स्यात् ।ईहाञ्चके । व्यवहितस्य मा भूत्। ईहां देवदत्तश्चके इति॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरण- महाभाष्ये तृतीयाध्यायस्य प्रथमे पादे तृतीयमाह्निकम् ॥*॥ च्लि लुङि॥ ३॥१॥४३॥ क्वाऽयं च्लिः श्रूयते ? ॥ न केचिच्छ्रयते । एतस्य सिजादय आदेशा उच्यन्ते ॥ यदि न क्वचिच्छ्यते किमर्थस्तर्हि च्लिरुत्सर्गः क्रियते न सिजुत्सर्ग एव कर्तव्यः। तस्य क्सादयोऽपवादा भविष्यन्ति॥अत उत्तरं पठति॥॥ चल्यु- त्सर्गः सामान्यग्रहणार्थः॥ ॥ चिलरुत्सर्गः क्रियते ॥ [किं प्रयोजनं ?]॥ 'सामा- न्यग्रहणार्थः ॥ क सामान्यग्रहणार्थनाऽर्थः ? ॥ 'मन्त्रे घसह्वरणशवृदहाड- च्कृगमिजनिभ्यो ले'रिति । तत्राऽवरतस्त्रयाणां ग्रहणं कर्तव्यं स्यात् । चडोः प्र.]पश्चादर्थत्वात्। तेनाऽऽमन्तस्य पाश्चादेव कृप्रयुज्यते न पूर्व नापि व्यवहितमित्य- थसम्पत्तिः ॥ इति भाष्यप्रदीपे तृतीयस्याध्यायस्य प्रथमे पादे तृतीयमाह्निकम् ॥ चिल लुङि । आदेशः सर्वत्र वाधितत्वाऽन्नास्य प्रयोगः प्रयोजनं,नापि क्रिबा- दीनामिव कार्यार्थता दृश्यते । ततोऽस्यानर्थकं विधानमिति पृच्छति-कायमिति । च्लिरुत्सर्ग इति । स्थानीत्यर्थः । स ह्यादेशेनाऽपोद्यते । सिजुत्सर्ग इत्यत्र तु सामान्यविधिरुत्सर्गशब्देनोच्यते । च्ल्युत्सर्ग इति । च्लेरुत्सर्गो धातुमात्राद्विधान- मित्यर्थः । तत्रावरत इति । त्रयाणां तावदवश्यं कर्तव्यं, जनेस्तु दीपजनेति तशब्दे उ.]त्तयर्थे भाष्यकृता व्याख्यायते-विपर्यासनिवृत्त्यर्थं तहीति। भाष्ये-अन्वेवेति । पश्चादव्यवधानेनेत्यर्थः ॥ [कृञ्चानुप्रयुज्यते लिटि] ॥ * इति श्रीनागेशभट्टकृते भाष्यप्रदीपोद्योते तृतीयस्य प्रथमे तृतीयमाह्निकम् । च्लि लुङि । नन्वश्रवणेऽपि विबादिवत् कार्यार्थः स्यादत आह-नापीति । उत्सर्गपदस्याऽपवादप्रतियोगिन्येव प्रसिद्धराह-स्थानीत्यर्थ इति । ननु च्ल्युत्सर्ग इत्यनुपपन्नं, च्लेरन्यस्योत्सर्गस्याऽभावात् । कर्मधारये तून्सर्गशब्दस्य पूर्वनिपाता- पत्तिरत आह-च्लेरिति । च्लिरुत्सर्ग इति भाष्यन्तु फलिताऽर्थपरम् । क्वचित्तु- भाष्येऽपि 'च्ले'रित्येव पाठः । मन्त्रे' इति सूत्रे त्रयाणामपि चङसिचां लिग्रहणेन लुग्यथा स्यादिति प्रयोजनं चिलकरणस्य। अन्यथा सिच इत्यनुवर्तेतेति चङङोर्दोषः। लित्त्वं तु तेषां स्थानिवद्भावेन । अन्तरङ्गानपीति न्यायस्त्वत्र नास्ति, अनित्य- १ च कृशोऽनु' पा० । २ 'भूदिति' पा० । ३ 'न श्रूयते' पा० । ४ 'कि- मर्थं चिल' पा० ५ 'ल्युत्सर्गः' पा० । ६ अयं पाठः क्वचिन्न । ।

३अ.१पा.४आ.४३सू.] 8 व्याकरणमहाभाष्यम् . .. सिचश्वेति॥ ॥क्सविधाने चानिड्वचने चिलसंप्रत्ययार्थः।।*॥क्सविधाने चाऽनिव- चनेग्लिसंप्रत्ययार्थः च्लिरुत्सर्गःक्रियतेोच्लेरनिट इति क्सः सिद्धो भवति॥*॥ घस्लभावे च ॥*॥ घस्लु भावे च च्लावेव कृते लदित इत्यसिद्धो भवति ॥ अथ चित्करणं किमर्थम् ? ॥*॥ च्लेश्चित्करणं विशेषणार्थम् ॥१॥ च्लेश्चित्करणं क्रियते॥[किम्प्रयोजनं?]॥ 'विशेषणार्थम्॥क विशेषणार्थनार्थः॥ प्र.] विहितस्य चिणो मन्त्रं यदि लुग्दृश्यते तदा चतुर्थस्यापि ग्रहणं कर्त्तव्यमित्य- वरत इत्युक्तम् । तत्र धयतेराकारान्तत्वात्तदर्थ चसिज्ग्रहणं कर्तव्यं, घनश्गये- र्थमङ्ग्रहणं, धात्वन्तरार्थं तु सिज्ग्रहणमित्यर्थः । क्सविधान इति । 'अनिट' इत्येतत् ग्लेविशेषणं यथा स्यादित्यर्थः । तथा हि यद्यनिग्रहणेन धातुर्विशेष्यते 'यस्मादन्यत्रेडागमो न दृष्ट' इति विषयान्तरगतमनिटत्वमाश्रयणीयम् , लुङादेशानां सार्वधातुकत्वादिटः प्राप्त्यभावात् । ततश्च गुहादिभ्यः यसो न स्यात् , तेषां विक- ल्पितेनेटा सेट्त्वात् । अथापि पाक्षिकेनेडभावेन तेषामनिटत्वं स्यात् तथापि नित्यं क्सः स्यात् । चलो तु विशेष्यमाणे यदा तस्येण्नास्ति तदा क्सो भवति-'अघुक्ष'- दिति । यदा विड्भवति तदा सिच्–'अगूही दिति । घस्लभावे चेति । लुङि यदार्द्धधातुकं तत्रादेघस्लभावो विधीयते । तत्र च्लौ परतो घस्लभावे सत्यसिध्यति। अन्यथा सिच्येव घस्लुभावः स्यात् । ततश्च सिचः श्रवणं स्यात् । नहि प्रवृत्तस्यो- उ.]त्वात् । तेन मन्त्रे 'अधान 'अधुः' इत्युभयसिद्धिः।तद्धनयन्नाह-त्रयाणामिति। चढङोश्चेति कर्तव्यं, चेन सिचोऽनुकर्ष इति पदत्रयं कार्यमिति भावः । एतेन चङ्ग- हणं व्यर्थ, धयतावेव हि तदुपयोगः । तत्र सिचो लुकैव सिद्धमित्यपास्तम् । 'अधान्' इत्यसिद्ध्यापत्तेः । आकारान्तत्वादिति,-'मन्त्रे घस' इति सूत्रप्राप्ति- निमित्तकथनम् । भाष्ये-च्लिसम्प्रत्ययार्थ इति । अनिटम्प्रति च्लेविशेष्यत्वेन यः सम्प्रत्ययस्तदर्थः । यस्मादन्यत्रेति । अस्य 'तही त्यादिः । यस्माद्धातोलभिन्ने प्रत्यये इत्यर्थः । लुङि योऽनिडित्याश्रयितुमशक्यमित्याह-लुकादेशानामिति । ततश्चेति। विषयान्तरगताऽनिटत्वाश्रयणाच्चेत्यर्थः। अथापीति । इटोऽभावोऽनिट् , तस्मान्मतुपः सौत्रत्वाल्लुगिति भावः। यदा विडिति । तदा निर्दिश्यमानपरिभाषया इड्रहितस्य सिजित्यर्थः । 'धातो रित्यस्य विहितविशेषणत्वाश्रयणान्निर्दिश्यमानस्य व्यवहितत्वमिति न शक्यम् । अगूहीदिति । 'हृयन्ते'ति वृद्धिनिषेधः। गुणे 'ऊदु- पधाया' इत्यूत्त्वम्।आर्द्धधातुके विवक्षिते घस्लादेशविधानादाह-लु ति।परसप्तमी- त्यभिमानेनेदमिति भावः । ननु चिलन कार्यः, चक्सादयश्च सिच एवाऽऽदेशाः कार्याः। 'च्ले रित्यस्य स्थाने 'सिच' इति कार्यम् । 'मन्त्रे' इति सूत्रे च 'च्ले रिति १ 'सिच इति'। २ इतिः क्वचिन्न । ३ अयं पाठः प्रायो लुप्तः। ४ गमार्थ' ।

१२४ * कैयट-विवरणसहितं. [च्लिलुङि - 'ठलेः सिजिति । 'लेः सिजित्युच्यमाने लिडिटोरपि प्रसज्येत ॥ नैतदस्ति प्रयोजनम् । 'लुङी'त्युच्यते न च लुङि लिडिटौ स्तः ॥ अथेदिकरणं किमर्थम् ? ॥ ॥ इदित्करणं सामान्यग्रहणार्थम् ॥ ॥ इदि- करणं क्रियते॥ किं प्रयोजनं ?॥] 'सामान्यग्रहणार्थम् ॥क सामान्यग्रह- णार्थेनार्थः?॥ 'मन्त्रे घसह्वरणशवृदहादृच्कृगमिजनिभ्यो ले रिति, 'आम' इति च ॥ इकारे चेदानीं सामान्यग्रहणार्थे क्रियमाणेऽवश्यं सामान्यग्रहणाविघाता- र्थश्वकारः कर्तव्यः ॥क सामान्यग्रहणाऽविघातार्थेनाऽर्थश्चकारेण ? ॥ अत्रैव यत्तावदुच्यते 'च्ल्युत्सर्गः सामान्यग्रहणार्थ'इति । क्रियमाणेऽपि वै च्ल्युत्सर्गे तान्येव त्रीणि ग्रहणानि भवन्ति,-'च्लि लुङि' 'च्ले सिच्' 'ले रिति॥यदेत- 'ले रिति, तत्परार्थ भविष्यति ॥ कथम् ? ॥ यदेतद्गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेष्वित्यत्र सिचो ग्रहणमेतलेरिति वक्ष्यामि ॥ यदि 'ले'रित्युच्यते प्र.]त्सर्गस्यापवादेन बाधः कर्तुं शक्यत इति भावः। तथा 'मन्त्रे घसेति यदि सिचो लुक्क्रियते तदा 'आदिः सिचोन्यतरस्या'मिति स्वरः स्यात् । लुमता लुप्तेऽपि तस्मिन् प्रत्ययलक्षणेनाऽस्य स्वरस्येष्टत्वात् । लुङीत्युच्यत इति । लुङीत्यनुवर्तत- इत्यर्थः। तदनुबन्धकग्रहण इत्ययमपि परिहारः सम्भवति । भाष्यकारेण तु प्रकारा- न्तरेण परिहृतत्वानोक्तः। आम इति चेति । तत्र सामान्यग्रहणे सति यथासम्भवं कार्य विज्ञायत इति भावः । अत्रैवेति। अन्यथा तदनुबन्धपरिभाषयाऽस्यैव ग्रहणं स्यान्न लिटस्ततश्चाऽऽम इत्यनेन लिटो लुङ स्यादित्यर्थः । तान्येवेति । 'चिल'- 'च्ले'लेरिति । 'सिज्लुङी'त्येतत्त्वितरेणाऽपि कर्तव्यम् । 'मन्त्रे घसे'त्यत्र चडोऽ- ङः सिच इति तान्येव त्रीणीत्यर्थः । ब्ल्युत्सर्गवाद्याह-यदेतदिति । लेरिति वक्ष्यामीति । तदेव 'मन्त्रे घसे'त्यत्रानुवर्तिष्यते, ततश्च लाघवं भवतीत्यर्थः । धेट उ.] न कार्य, सिच इत्यनुवृत्त्यैवेष्टसिद्धेरिति नैते दोषा इति चेन्न; 'अपुष'नित्यादौ जुसापत्तेः। दोषान्तरमप्याह-तथा मन्त्रे इति । ननु 'लुमति प्रतिषेधे एकपदस्वर- स्योपसङ्ख्यान'मिति प्रत्ययलक्षणप्रतिषेधात् कथं स्वरप्राप्तिरत आह-लुमतेति। तस्य 'सर्वाऽऽमन्त्रितसिज्लुक्स्वरवर्ज' मिति निषेधादिति भावः। अस्य-'आदिः सिच' इत्यस्य । 'सर्वामन्त्रितसिज्लुक्स्वरवर्ज मिति निषेधादिति भावः । अस्य-'आदि:- सिच' इत्यस्य । 'सर्वामन्त्रितसिज्लुक्स्वरवर्ज मिति तत्रोक्तत्वादिति भावः । तदनुबन्धकेति । चकाराऽभावेऽस्यैकानुबन्धकत्वादिति भावः । तत्रेति । 'आम' इति सूत्रेऽनुवर्तमानेन 'ले रिति पदेन लिटोऽपि ग्रहणं सिध्यतीत्यर्थः । तदेव मन्त्रे इति। गातिस्थेति सूत्रे लिग्रहणे यदि 'अन्तरङ्गानपीति न्यायेन च्ल्यवस्थायां १ 'ले:' पा० । २ इदं क्वचिन्न । ।

३अ.१पा.४आ.४३सू.] व्याकरणमहाभाष्यम् 8 १२५ धेटश्चातुःशब्द्यं प्रामोति । अदधत् अधात् अधासीत् । अदधादित्येतदपि प्राप्नोति । ॥ ॥ न चङो लुकि द्विवचनम् ॥*॥ न चडो लुकि द्विर्वचनेन भवितव्यम् ॥ किं कारणम् ? ॥ 'चङी'त्युच्यते, न चाऽत्र चढं पश्यामः ॥ प्रत्ययलक्षणेन ॥ 'न लुमता तस्मिन्निति प्रत्ययलक्षणप्रतिषेधः ॥ बहुवचने तर्हि चातुःशब्द्यं प्राप्नोति। अदधन् अधुःअधासिषुः। अधानित्यपि प्राप्नोति ॥ नैष दोषः । 'आत' इति जुस्भावो भविष्यति ॥ न सिध्यति । सिज्ग्रहणं तत्राऽनुवर्तते॥सिग्रहणं [ तत्रै ] निवर्तिष्यते॥ यदि निवर्तते 'अभूव निति प्रत्ययलक्षणेन जुस्भावः प्रामोति॥एवं तर्हि लुक्सिजपवादो विज्ञास्यते ॥ यदि लुक्सिजपवादो विज्ञायते 'मा हि दातां माहि धातामित्यत्र 'आदिस्सिचो- प्र.]इति। विभाषा घ्राधे'डित्यत्र लिग्रहणाऽनुवृत्तौसत्यां लेरादेशेषु कृतेषु स्थानिवद्भा- वालिग्रहणेन तेषां ग्रहणाल्लुकि कृते चङ्गिमित्तं द्विवचनं प्राप्नोतीत्यदधादित्यपि स्यात् । ननु चल्लोपस्य स्थानिवद्भावादाकारलोपे सत्यधदिति भाव्यं, तत्कथमुच्यते 'अदधादिति प्राप्नोतीति ?। नैष दोषः। 'विलुगुपधात्वे'ति लुका लुप्तस्य स्थानिवत्त्व- निषेधान्न लुमताङ्गस्येति प्रत्ययलक्षणनिषेधाच्चाऽऽकारलोपाऽभावात् । आत इति । विध्यर्थमेतद्भविष्यति न तु नियमार्थमित्यर्थः । एवं तीति । अकृतेष्वादेशेषु तदपवादो लेरेव लुग्विधास्यते, तेनाऽभूवन्निति जुस्न भविष्यति । 'आत' इत्येतच उ.]लुक्तर्हि 'अगु'दित्यादौ 'सिजभ्यस्तै'ति जुस्न न स्यात्। 'मा हि गाता'मित्यादौ 'आदिः सिचोऽन्यतरस्या'मिति स्वरश्च न स्यात्। तस्मादन्तरङ्गानपीति न्यायाऽनाश्र- यणेनाऽऽदेशे कृते स्थानिवद्भावेन लित्वाल्लुगेषितव्यः।तत्राह भाष्ये-धेटश्चातुःशब्द्य- मिति । तद्भुनयन्नाह-लेरादेशेविति । आकारलोपे इति । तिपो हल्ड्यादिलोपे भष्भावे चेत्यपि बोध्यम्। अधदिति भाव्य'मिति पाठः। 'अदधदिति भाव्य'मित्यप. पाठः । नैष इतिअङ्गकार्यत्वादत्र 'न लुमते'ति निषेधो, न तु द्वित्वे इत्यभिमानः। विध्यर्थमिति । 'चङो लुकीति शेषः । भाष्ये-अभूवन्निति । चङ्लुकि विध्य- र्थत्वे सम्भवति नियमार्थत्वं न स्यादिति 'सिजभ्यस्ते'ति जुस्स्यादित्यर्थः। प्राप्तेष्वा- देशेष्विति। च्ल्यादेशेष्वित्यर्थः । अकृतेष्वादेशेष्विति पाठान्तरम् । नन्वेवमगुरि. त्यत्र जुन स्यादत आह-आत इत्येतदिति। नियमस्याऽसम्भवादित्यर्थः । न च च्ल्यभ्यस्तेति कार्य,तेन चङ्लुक्यपि जुस् ,च्लिपदानुवृत्त्या 'आत' इत्यस्य नियमत्वा- दभूवन्नित्यपि सिद्धमिति वाच्यम् , 'अघुक्षन्' 'अवोच'नित्यादौ क्सादिभ्योऽपि परस्य जुसापत्तेः। तस्मान्मन्त्रे इति सूत्रार्थ चिलर्न कार्य इति सिद्धम् । 'आम' इत्यत्राऽपि 'ले रित्यस्य नोपयोगः,प्रत्ययमात्रस्य तेन लुम्विधानात् । ननु धातुरपि १'दित्यपि'।'दित्यत्रापि'रभाष्यमिदमित्यन्यो३'भाव्यं'। ४इदंक्वचिन्ना५ विज्ञायते'। ।

१२६ कैयट-विवरणसहितं. [च्लि लुङि । न्यतरस्या'मित्येष स्वरो न प्राप्नोति। तस्मान्नैतच्छक्यं वक्तुं-'लुक्सिजपवाद' इति ॥ न चेदुच्यते-अभूवन्निति प्रत्ययलक्षणेन जुस्भावः प्रामोति । तस्मा. दात इत्यत्र सिग्रहणमनुवत्यं, तस्मिंश्चाऽनुवर्तमाने धेटश्चातुःशब्द्यं प्रामो- ति । तस्माद्गातिस्थाधुपाभूभ्यः सिचः परस्मैपदेष्वित्यत्र सिग्रहणं कर्तव्यम् । तस्मिंश्च क्रियमाणे तान्येव त्रीणि ग्रहणानि भवन्ति 'च्लि लुङि"च्लेः सिच्' -'ले रिति ॥यदप्युच्यते- क्सविधाने चानिवचने चिलसंप्रत्ययार्थ'इति। धातु- मेवाऽत्राऽनिट्वेन विशेषयिष्यामो-'धातोरनिट' इति ॥ कथं पुनर्धातुर्नामाऽ निट स्यात् ? ॥ धातुरेवाऽनिट् ॥ कथम् ? ॥ अनिमित्तं वा इटः,-अनिट् । न वा तस्मादिडस्ति सोऽयमनि[ट् अनि] डिति ॥ अथ धातौ विशेष्यमाणे व योऽनिडिति विशेषयिष्यसि ?॥ किज्ञऽऽत:?॥ यदि विज्ञायते 'निष्ठा-मनिट' इति, भूयिष्ठेभ्यः प्राप्नोति । भूयिष्टा हि शलन्ता इगुपधा निष्ठायामनिटः । अथ विज्ञायते-'लिटि योऽनि डिति, न कुतश्चित्प्राप्नोति, सर्वे हि शलन्ता इ. प्र.]विध्यर्थं भविष्यति, अधुरदुरपुरित्यादिसिद्ध्यर्थमिति भावः । तस्मादिति। स्वर- सिद्धये सिजादेशे कृते लुकर्तव्य इत्यर्थः । कथमिति । आर्द्धधातुकस्य हीट्वि- धीयते । तदेव तदभावादनिडिति व्यपदिश्यते, मत्वर्थ बहुव्रीहिविज्ञानादिति भावः । अनिमित्तमिति। धातोरिटश्च निमित्तनिमित्तिभावोऽस्तीति नाऽनुपपन्नः षष्ठ्यर्थे बहुव्रीहिरिति भावः । न वा तस्मादिति । 'अनिट' इति वचनसामर्थ्यात्पञ्चम्यर्थे बहुव्रीहिराश्रयिष्यत इत्यर्थः।क्क योऽनिडिति।असति च्लिविधाने विकरणेन क्सेनाऽ- निट्त्वाश्रयेण भाव्यम् । तत्राऽस्मिन विषय इटः प्राप्त्यभावाद्विषयान्तरमनिट्त्वस्या- पेक्षणीयमिति प्रश्नः । निष्ठायामिति । यद्यार्द्धधातुकानं परिगृह्यते ततो गुहा- दिभ्य अदिझ्यो न स्यादिति निष्टाश्रयणम् । तदाश्रये च गुहादिभ्यो नित्यं क्सः उ.] न विद्यते इड्यस्मा दिति व्युत्पत्त्याऽनिघदवाच्योऽत आह-मत्वर्थे इति। अव- यवाऽवयविभावादिरूपे षष्यर्थे इत्यर्थः । भाष्ये-अनिमित्तं वा इटइति । न विद्यते इट्कार्यं यस्येत्यर्थः। पञ्चम्यन्तार्थेऽन्यपदार्थ बहुव्रीहिरिति पक्षान्तरमाह-न वाऽस्मा- दिति । तयाचष्टे-वचनसामर्थ्यादिति ।मत्वर्थ इति। 'कर्मकर्तृवचनेनाऽप्रथमाया' इति च वार्निकोक्तरिति भावः। अस्मिन् विपये-लुपे विषये। तत्राऽनिटत्वस्याऽ- व्यभिचारात् ।विषयान्तरम्-प्रत्ययान्तररूपम्।ऊदियो नेति।आर्द्धधातुकतासादिवि- षये पक्षे सेट्त्वादिति भावः। नित्यः क्स इति। यस्य विभाषेति निष्ठायामनिटत्वादिति भावः।इष्यते इति।अनेनैषोऽपि तत्र पक्षे दोष इति सूचित।निष्ठाग्रहणपक्षे भूयिष्ठेभ्य १ 'न चेदेवमुच्यते' पा० । २ 'सिचो ग्रह' पा० । ३ 'वाऽस्मात्' । ४ अयं पाठः क्वचिन्न । ५ विशिष्यमाणे । ६ निष्ठायामिति' पा० ।

१२७ ३अ.१पा.४आ.४४सू.] * व्याकरणमहाभाष्यम् 8 गुपधा लिटिसेटः॥किं पुनः कारणं धातौविशेष्यमाणएतयोर्विशेषयोविशेषयिष्यते न पुनर्यत्र सामान्येनेटो विधिप्रतिषेधौ?॥क सामान्येन?॥ वलादावार्द्धधातुके। यदप्युच्यते 'घस्लभावे चेति। आर्द्धधातुकीयाः सामान्येन भवन्त्यन- वस्थितेषु प्रत्ययेषु। तत्रार्द्धधातुकसामान्ये घस्लभावे कृते 'लूदित' इत्यङ् भविष्यति । [ च्लि लुङि ] ॥ चले सिच ॥ ३१॥४४॥ किमर्थश्चकारः?॥॥॥[.कारो] विशेषणार्थः ॥ ॥क विशेषणार्थेनाऽर्थः?॥ 'सिचिवृद्धिः परस्मैपदे'विति॥ 'सौ वृद्धिरितीयत्युच्यमानेऽग्निर्वायुरित्यत्रापि प्रसज्येत॥ तदस्ति प्रयोजनम् । 'परस्मैपदेवि'त्युच्यते न चाऽत्र परस्मैपदं प्र.]प्रसज्येत, विकल्पितश्चेष्यते। भूयिष्ठाहीति। इषुरिपुरुपुश्रि पुष्वादीनां च निष्ठाया- मनिट्वात् क्सःप्राप्नोति । न पुनयंत्रेति । गुहादयो विकल्पितंट इटो भावाऽभावा- भ्यां भिद्यन्ते, तत्र ये सेटस्तेभ्यः सिज्भविष्यति, अनिड्भ्यस्तु क्स इति न कश्चि- होषः। आर्द्धधातुकसामान्य इति । अप्रत्ययगतमार्द्धधातुकसामान्यं लुकिशेषित- माश्रयिष्यतइत्यर्थः यदि तर्हि चिलः प्रत्याख्यायते तदा 'मन्त्रे घसे'ति सिचो लुक्यादिः सिंच इति स्वरः प्राप्नोतिानैष दोषः। तत्र हि छन्दसि व चिदडाटोरुदात्तत्वेन भाव्यं, वचिात्तङ्गिघातेन । यत्र वडाटोस्तितिघातस्य च निषेधः प्रत्ययस्वरश्चेष्यते स वि- षयश्छन्दासे नास्ति। एतच्च भाष्यकारेण चलेः प्रत्याख्यानाद्विज्ञायते।'मा हि लावी'- दित्यादौ तु सिच एव चित्त्वनाऽनन्याऽर्थन चागमानुदात्तत्वं बाधिष्यतइति तदर्थोऽ- प्यनुबन्धासङ्गार्थ च्लिर्न कर्तव्यः । [च्लि लुङि] ॥ च्लेः सिच् । अग्निरिति । सौ च परस्मैपदेषु चेति समुच्चयो विज्ञायेत, नथा चात्रापि स्यात् । साविति च सिसुशब्दयोः साधारणो निर्देशः स्यात् । आग- न्तुना चैकारेण सकारो निर्दिश्यतेति भावः । न चात्रेति । पृथग्विभक्तिनिर्देशा- उ.]इति सूचितं दोषमाह-इप्विति। भाप्ये-वलाद्यार्द्धधातुक इति । अयं भावः,- अनिटी धातोरित्युक्ते क्वेति विषयविशेषाऽऽकाङ्क्षायां लुपरवलार्द्धधातुके यदा योऽ- निडिति कालविशेषावच्छिन्नो विषयविशेषो ग्रहीष्यते लक्ष्याऽनुरोधादिति । तदाऽऽह- गुहादय इति । सामान्यमिति । 'आर्द्धधातुक' इति विषयसप्तमीति भावः । यत्र विति । 'मा हि दाता मित्यादौ । सिच एव चित्त्वेनेति । एतच्च्चोत्तरसूत्रे स्फुटम् ॥ [च्लि लुङि] । चलेः सिच। साधारण इति । तन्त्रेणति भावः । पक्षान्तरमाह-आगन्तुना १ 'विशेषयिष्यमाणे' पा० । २ 'विशेष्यते' 'विशेषयिष्यति' पा० । ३ अङ भविष्यति' । ४ इदं क्वचिन्न । ५ इदं भाष्यमित्यन्ये ।

१२८ कैयट-विवरणसहितं [च्ले: सिच् पश्यामः॥ स्वरार्थस्तहि ॥ 'चितोऽन्त उदात्तो भवती'त्यन्तोदात्तत्वं यथा स्यात् ॥एतदपि नास्ति प्रयोजम्,अनच्कोऽयं, तत्र नार्थः स्वरार्थेन चकारणा. ऽनुबन्धेन ॥ इटि कृते साऽच्को भविष्यति ॥ तत्र प्रत्ययाधुदात्तत्वेनेट उदा. त्तत्वं भविष्यति ॥ न सिध्यति । 'आगमा अनुदात्ता भवन्ती'त्यनुदात्तत्वं प्राप्नोति ॥ अत उत्तरं पठति-॥*॥सिचश्चित्करणानर्थक्यं स्थानिवत्त्वात् ॥*॥ सिचश्चित्करणमनर्थकम् ॥ किं कारणम् ? ॥ 'स्थानिवत्त्वात्' । चितोऽयमा. देशः स्थानिवद्भावाञ्चिद्भविष्यति ॥ ॥ अर्थवत्तु चित्करणसौमाद्धीट उदात्तत्व- म् ॥ ॥ नैष दोषः । अर्थवत्तु सिचश्चित्करणम् ॥ कोऽर्थः ?॥ 'सिचश्चित्करण- सामर्थ्याधीट उदात्तत्वं' [। सिचश्चित्करणसामर्थ्याद्धीट उदात्तत्वं ] भवि- ष्यति । नाऽप्राप्ते प्रत्ययस्वरे आगमानुदात्तत्वमारभ्यते तद्यथैव प्रत्ययस्वरं बाधते एवं स्थानिवद्भावादपि या प्राप्तिस्तामपि बाधेत ॥ *॥ तस्माच्चित्करणम् ॥*॥ तस्माञ्चकारः कर्तव्यः ॥ अथेदित्करणं किमर्थम् ? ॥ ॥ इदित्करणं नकारलोपाऽभावार्थम् ॥ ॥इदि- करणं क्रियते । [ किं प्रयोजनं ? ॥ 'नकारलोपाऽभावार्थम्' ? ] ॥ नकार- प्र.]दङ्गाऽङ्गिभावोऽत्र न तु समुच्चय इति भावः। स्वरार्थ इति। सिचोऽनच्कत्वेऽपि 'चितस्सप्रकृते रिति वचनान्मा हि कार्टामित्यादौ धातोरुदात्तार्थ इत्यर्थः। अनच्कोय- मिति । 'मा हि कार्टा मित्यादावादिः सिचोऽन्यतरस्यामिति पाक्षिकणोदात्तत्वेन भाव्यमिति चित्स्वरस्यायमविषय इति भावः ॥ अर्थवत्त्विति । च्लेश्चित्करणस्य सामान्यग्रहणाऽविघातार्थत्वान्मा हि लावीदित्यादौ स्थानिवद्भावप्राप्तं स्वरमागमानु- दात्तत्वं बाधेत । तस्मादन्तोदात्तार्थ सिचश्चित्त्वमित्यर्थः । नैप दोष इति । 'सिच- श्चित्करणानर्थक्य'मिति य उक्तः स नास्तीत्यर्थः । अत्र के चिदाहुः-प्रत्ययस्वरस्य द्वावपवादौ-आगमानुदात्तत्वं यासुडित्यत्र ज्ञापितं तद्देशं, चित्स्वरश्च षाष्टिकः। तत्रा- उ.]चेति। तथा च सकारमात्रे तात्पर्यमिति भावः।पृथगिति। अन्यथा सपरस्मैपद- यो'रित्येव वदेत् । 'स'इति वर्णमात्रम् । स च परस्मैपदसाहचर्यादङ्गाधिकाराच्च प्रत्यय एव ग्रहीष्यते । धातोरुदात्तार्थ इति । लादेशनिमित्तनिघाते जाते पुनरुदा- त्तार्थ इत्यर्थः । भाष्ये तत्र प्रत्ययाद्युदात्तत्वेनेति । सिज्विधावुपस्थितायुदात्त इति शास्त्रस्याऽनच्कत्वात्तत्र वैयर्सेन तदुत्तरकालमिटि स्वरविधायकतेत्यर्थः। अन- च्कविषये बाधेन लाघवात्तदसम्बन्ध एवेति 'धातो रित्यायेकवाक्यतापन्नशेष- निघातो भविष्यतीत्युत्तरयति-आगमा इति। एवञ्च तद्बाधेनोदात्तत्वाय चित्त्वं सार्थ- कमिति भावः ॥ स्थानिवद्भावप्राप्तमिति । 'स्थानिनि दृष्टस्यैवाऽतिदेश' इत्यत्र १ 'स्थानिवत्त्वा' । २ 'करणे साम' पा० । ३ इदं लुप्तं सम्प्रति। ४ 'बाधते'।

३अ.१पा.४आ.४४सू.] व्याकरणमहाभाष्यम् * १२९ .. लोपो मा भूदिति। अमंस्त अमंस्थाः। 'अनिदितां हल उपधायाः क्लिती'ति। ॥॥न वा हन्तेः सिचः कित्करणं ज्ञापकं नकारलोपाऽभावस्य॥ ॥न वैतत्प्र. योजनमस्ति ॥ किं कारणम् ? ॥ यदयं 'हनः सिजिति हन्तेः सिचः कित्त्वं शास्ति तज्ज्ञापत्याचार्यों 'न सिजन्तस्य नकारलोपो भवतीति ॥ नैतदस्ति ज्ञापकम् । अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् ॥ किम् ? ॥ सिच्येव ने. लोपो यथा स्यात् परस्मिन्निमित्ते मा भूदिति ॥ कः पुनरत्र विशेष:-सिचि वानलोपे सति परस्मिन्वा निमित्ते?॥अयमस्ति विशेषः-सिचिनलोपेसति नलो- पस्याऽसिद्धत्वादकारलोपो न भवति । परस्मिन्पुनर्निमित्ते नेलोपे सत्यकार: लोपः प्राप्नोति ॥ समानाश्रयमसिद्धं [ व्याश्रयं तु सिद्धमेव ] । व्याश्रयं चेदम् ॥ ननु च परस्मिन्नपि निमित्ते नलोपे सत्यकारलोपो न भवति ॥ प्र.]पवादविप्रतिषेधाच्चित्स्वर एव भविष्यति नाऽर्थः सिचश्चित्त्वेनेति। नैतदस्तिानहि प्रत्ययस्वरस्यैतावपवादौ, प्रकृत्यागमानामानुगादीनां तदप्रसङ्गात् । कुण्डिनजादीनां च चिताम् । 'स्थानिव'दित्ययं च कार्यातिदेश इति परत्वमपि चित्स्वरस्य नास्ति । आगमानुदात्तत्वेन चाऽविशेषात्सर्वः स्वरो बाध्यः । तस्मात्तद्वाधनाथ सिचश्चित्त्वं कर्तव्यमिति स्थितम् । परस्मिन्निति । सिचः परं यत्सार्वधातुकं तस्मिन्नित्यर्थः । उ.]न मानं, किन्तु तत्र सम्भावितस्याऽपीति भावः। कार्याऽतिदेशेऽतिदेशेनैव कार्य- विधानात्परत्वेन 'धातो रित्येकवाक्यतापन्नशेषनिघातबललभ्येनाऽऽगमाऽनुदात्तत्वेन बाध्येतेति तात्पर्यम् । न च च्लेश्चित्त्वसामर्थ्यादेव तद्बाधः, 'मन्त्रे' इति सूत्रे 'ले रिति सामान्यग्रहणार्थत्वात्। अन्यथा निरनुबन्धकत्वादस्यैव ग्रहणं स्यान्न लिटः। ततश्च 'आम' इति सूत्रे लेरित्यस्याऽसम्बन्धः स्यात् । ततश्च परत्वाऽन्तरङ्गत्वा- भ्यां तिबादिषु सत्सु लुकि प्रत्ययलक्षणेन तिङन्तत्वाद्देवदत्तः कारयाञ्चकारेत्यत्रा- ऽऽमन्तस्य निघातः ततः परस्य चाऽनिघातः स्यादिति 'आम' इत्यत्र 'ले'रित्य- नुवर्तनीयमित्यभिमानः । यदि त्वन्तरङ्गानपी'ति न्यायेन तिबादिभ्यः पूर्वमेव लुक्कदा न च्लौ चस्य प्रयोजनमिति तत्सामर्थ्यादेवाऽन्तोदात्तत्वं सिद्धम् । तस्मा- त्पूर्वाचार्याऽनुसारेण सिचि च्लो वा चकारोच्चारणमिति सूत्राशयः। अपवाद- विप्रतिषेधादिति। स्थानिवद्भावेन हि चित्त्वमात्रमतिदिश्यते,स्वरस्तु स्वशास्त्रेणैवेति भावः । न हि प्रत्ययस्वरस्यैताविति । एवञ्च 'नाऽप्राप्ते प्रत्ययस्वर' इत्यारभ्य 'स्थानिवद्भावादपि या प्राप्तिस्तामपि बाधेते'त्यन्तग्रन्थो भाष्यपुस्तकेषु प्रायेण दृश्य- मानोऽप्यग्रन्थ इति भावः। आगमाऽनुदात्तत्वेनेति । बाध्यसामान्यचिन्तयेति १ 'चित्करण पा०।२ 'नकारलोपः पा०। ३ 'स्मिन्निमित्त वापरला ४ 'सति नकारलोपे कृतेऽकारलोपः प्रसज्येत' पा०। ५ इदं क्वचिन । ६ 'नकार', .. ॐ कैयट-विवरणसहितं [रलेः सिच कथम् ?॥'असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षण ईति॥तदेतद्धन्तेः सिचः कित्क- रणं ज्ञापकमेव 'न सिजन्तस्य न[कोर] लोपो भवतीति॥ ॥ इदिद्वा स्थानिव- त्वात् ॥ ॥ अथाऽप्यनेनेदिताऽर्थः स्यात् । इदितोऽयमादेशः स्थानिवद्भावा- दिदिद्भविष्यति ॥*॥ स्पृशमृशकृषतृपपां सिज्वा ॥*॥ स्पृशमृशकृषतृपपां सिज्वेति वक्तव्यम् । स्पृश-अस्पृक्षत् अस्माक्षीत् । स्पृश ॥ मृश-अमृ. क्षत् । अम्राक्षीत् । मृश ॥ कृष-अकृक्षत् अकाक्षीत् । कृष । तृप-अतृ. पत् अत्राप्सीत् । तृप ॥ दृप-अपत् अद्राप्सीत् ॥ किं प्रयोजनम् ? ॥ सि. ज्यथा स्यात् ॥ अथ क्सः सिद्धः ॥[कथं सिद्धेः॥] सिद्धः ‘शल इगुपधाद. निटः क्स' इत्येव ॥ सिजपि सिद्धः ॥ कथम् ? ॥ च्लेश्चित्करणं प्रत्याख्या- यते, तत्र च्लावेव झलक्षणेऽमागमे कृते विहतनिमित्तत्वात्क्सो न भविष्यति॥ यद्येवमन्त्यस्य सिजादयः प्रामुवन्ति ॥*॥ सिद्धं तु सिचो यादित्वात्॥*॥ सिद्धमेतत्॥कथम् ?॥'यादित्वात्'। यादिः सिच्करिष्यते सोऽनेकाल्शित्सर्वस्ये- प्र.] असिद्धमिति । बाह्यसार्वध धातुकाश्रयस्य नलोपस्य बहिरङ्गत्वादसिद्धत्वमित्यर्थः। आर्द्धधातुकोपदेशे यदकारान्तं तस्य लोप इत्येवं वा हन्तेरतो लोपो न भविष्यति । तथा चोच्यते-'अवयवलोपिनामतो लोपो नास्तीति ॥ स्पृशेति । त्रिभ्यः क्से प्राप्ते, द्वाभ्यां पुषाद्यङि पक्षे सिज्विधीयते । च्लेश्चित्करणमिति । ततश्च प्रयोजना- ऽभावाचकारस्येत्सञ्ज्ञा नास्तीति च्लौ झलादौ पक्षेऽमागमे कृते सिच् । अमभावपक्षेतु उ.]भावः।वस्तुतस्तु 'लवितव्य'मित्यादौ प्रत्ययसन्नियोगेनाऽऽद्युदात्तत्वे कृते पश्चादिड् जायमानोऽस्वरकः स्यादिति सामान्यतः स्वराऽप्राप्तिविषये तस्य चारितार्थ्याद्वाध- कत्वोक्तिश्चिन्त्या, सुतरां सर्वस्वरस्य । यदि शेषनिघातेन तत्राऽनुदात्तत्वसिद्धिरित्यु- च्यते तदा तद्वचनमेव व्यर्थ नास्ति चेति 'आधुदात्तश्चेति भाष्ये ध्वनितम् । चित्त्वन्तु धातुस्वरेण प्रत्ययस्वरेण वैकवाक्यतापन्नशेषनिघातेन प्राप्तानुदात्तत्व- बाधनार्थ कार्यमेव । ननु सिचि जायमानोऽपि परस्मिन्निमित्त एव जायतेऽत आह- सिचः परमिति । भाष्ये-नलोपस्याऽसिद्धत्वादिति । 'असिद्धवदत्राभा'दित्यने. नेत्यर्थः । बहिरङ्गत्वादिति । ननु 'त'शब्दनिमित्तलोपे तस्य बहिरङ्गतयाऽसिद्ध. त्वादाहतेत्यादौ 'हस्वादङ्गा'दिति न स्यात् । सिज्नमित्तत्वे त्वसिद्धत्वाऽभावात्सेत्स्य- तीति चेन्न,-पादिकेऽन्तरङ्गे बहिरङ्गपरिभाषाऽप्रवृत्तेः । भाष्ये-अथाऽप्यनेनेत्येक- देश्युक्तिः ॥ एकदेश्येवाह-कथं च्लेरिति । ततश्चेति । स्वरस्य सिचश्चित्त्वेनैव सिद्धिरिति भावः। भाष्ये-चित्करणं प्रत्याख्यायत इत्यस्य इत्संज्ञा प्रत्याख्यायत १'लक्षणेत क्वचिन्न । २ अयं पाठः क्वाचित्कः । ३ 'इदित्त्वाद्वा' पा० । ४ 'दृपः' पा० । ५ 'सिद्ध'इति क्वचिन्न ।

३अ.१पा.४आ.४४सू. ] 8 व्याकरणमहाभाष्यम् 8 १३१ । ति सर्वादेशो भविष्यति॥ किं पुनर्न श्रूयते यकार: ?॥ 'लुप्तनिर्दिष्टो यकारः॥ चाडोः कथम् ? ॥*॥ चाङोः प्रश्लिष्टनिर्देशात्सिद्धम् ॥*॥ चाडोरपि [सिद्धम् ॥ कथं ?॥ 'प्रश्लिष्टनिर्देशात्'।] प्रश्लिष्टनिर्देशोऽयम् । च-अङ्-चङ्, अ-अङ्-अङ्। सोऽनेकाल्शित्सर्वस्यति सर्वादेशो भविष्यति ॥ चिणः कथ- म् ? ॥॥ चिणोऽनित्त्वात् ॥ ॥ चिणश्चकारस्याऽनित्त्वात्सिद्धम् ॥ किमिद- मनित्त्वादिति ?॥ अन्त्यस्याऽयं स्थाने भवन प्रत्ययः स्यात् । असत्यां प्रत्यय- संज्ञायामित्संज्ञा न । असत्यामित्संज्ञायां लोपो न । असति लोपेऽनेकाल । यदाऽनेकाल्तदा सर्वादेशः । यदा सर्वादेशस्तदा प्रत्ययः । यदा प्रत्ययस्तदे- त्संज्ञा, यदेत्सञ्ज्ञा तदा लोपः॥ एवं च तंत्र वार्तिककारस्य निर्णयः-'सप्रयोजन चित्करण मिति॥ अपि च त्रैशब्द्यं न प्रकल्पते-अस्पृक्षत् अस्पाक्षीत् । अस्पा- क्षीदिति न सिध्यति । सिचि पुनः सति विभाषा सिच् । सिच्यपि झल्लक्षणो- प्र.]तु क्स इति त्रयाणां ग्रहणं न कार्यमित्यर्थः।अन्त्यस्येति। अन्त्यग्रहणमुपलक्षणं, चङादयो ह्यादेः परस्य प्राप्नुवन्ति । चिणोऽनिस्वादिति । 'चिण्भावकर्मणो रित्यत्र धातुग्रहणं नापेक्ष्यत इत्यादेः परस्येति न भविष्यति । पदेर्दीपादिभ्यश्चादेः परस्येति प्राप्नोति। तस्माद्विहितविशेषणाश्रयेण परिहर्तव्यम् । सप्रयोजनमिति । सामान्य- ग्रहणाऽविघातार्थत्वस्योक्तत्वात् । सति च प्रयोजने चकारस्येत्संज्ञया भाव्यं, लकारश्च उ.]इत्येव तात्पर्यम् । चङादय इति । णिश्रिद्रुसुभ्य इत्यादि पञ्चमीनिर्देशेन विधानादित्यर्थः । 'णिश्रिद्रुस्रुभ्य' इति विहितविशेषणमिति भाष्याशय इत्यन्ये। भाष्ये-च अङिति । चिण्न्यायेनाऽत्रापि चस्येत्त्वाऽभावेऽनेकाल्त्वात्सिद्धमित्यत्र प्रश्लेषे फलं चिन्त्यम् , उपायान्तरपरमेतदभ्युपेत्यापीत्संज्ञालोपयोः पूर्वप्रवृत्ति, प्रवृत्तमिति बोध्यम् । नन्वन्त्यिस्याऽयं स्थाने भव'निति भाष्यमनुपपन्नम्, 'आदेः परस्ये'त्यस्य प्राप्तेः प्रत्ययादित्वेनेत्वसिद्धरत आह-चिण्भावेति। विहितेति। पदादिभ्यो विहितस्य च्लेरित्यर्थे परशब्देन विधानाऽभावादादेः परस्येत्यस्याऽप्रत्र- त्तिरिति भावः।भाष्ये-अप्रत्ययः स्यादिति।प्रत्ययाऽधिकारे पाठेऽप्यन्वर्थसंज्ञालभ्या- ऽभावात् , न हि प्रत्ययाऽवयवस्तदर्थवानिति भावः। ननु धात्वन्तःपातिनो- ऽपि श्नमोऽर्थवत्त्वमिवाऽन्याऽवयवस्याऽप्यर्थवत्त्वमस्तु, समुच्चित्य चाऽवयवसमु- दाययोोतकता। तद्वदेव चाऽर्थाऽधिकारात्प्रत्ययत्वेऽपि न बाधकमिति चेन्न, एक- देश्युक्तित्वेनाऽदोषात् । तद्धनयन्नाह-एष चेति। एतेन 'नाऽनुबन्धकृतमनेकाल्त्व'- मिति सर्वादेशत्वं दुर्लभमित्यपास्तम् । 'वार्तिककारस्य'त्युक्त्या स्वोक्तरीत्या चकारस्य १ इदं क्वचिन्न । २ इदं वार्तिकमित्यन्ये । ३. चिणोऽनित्त्वात्सिद्धं । ४ ‘एवं' । ५ 'च्लि लुकी'त्यत्र हि 'च्लेश्चित्करणं विशेषणार्थ'मित्युक्तम् । ।

१३२ 8 कैयट-विवरणसहितं [शल इगुपधा मागमो विभाषा। यस्य खल्वप्यमा [ अंडो] निमित्तं न विहन्यते स स्यादेव । तस्मात्सुष्टुच्यते-'स्पृशमृशकृषतृपहपां सिज्वेति ॥ [च्लेः सिच्] । शल इगुपधादनिटः क्सः ॥ ३॥१॥४५॥ ॥*॥ क्सविधान इगुपधाभावश्च्लेर्गुणनिमित्तत्वात् ॥॥ क्सविधान इगुपधस्याऽभावः॥ किं कारणम् ?॥ 'च्लेर्गुणनिमित्तत्वात्' । च्लिर्गुणस्य निमित्तम् । तत्र च्लावेव गुणे कृते 'इगुपधा दिति क्सो न प्राप्नोति ॥॥॥ न वा क्सस्याऽनवकाशत्वादपवादो गुणस्य ॥*॥ न वैष दोषः ॥ किं कारणम् ? ॥ ‘क्सस्याऽनवकाशत्वात्' । अनवकाशः क्सो गुणं बाधिष्यते ॥४॥ अनिड्वचनमविशेषणं च्लेर्नित्याऽऽदिष्टत्वात् ॥*॥ प्र.झल्न भवतीत्यमागमाऽभावात् क्स एव प्रसज्येतेत्यर्थः । यस्य खल्वपीति । पुषाद्यङः । स हि कृतेऽप्यमागमे प्रवर्तते । [च्लेः सिच् ] ॥ शल इगु । क्सविधान इति । विशेषणाऽसंभवालक्षणदोषमुद्भावयति । भूतपूर्वत्याश्रये विहितविशेषणाश्रये वा लक्ष्याऽसिद्धिः । कित्करणं तु क्सस्याचीति विशेषणार्थं वत्सा इत्यादौ लोपनिवृत्तये स्यात् ॥ न वा क्सस्येति । भूतपूर्वगत्या- श्रये कित्त्वमनर्थकं स्यादिति सानुबन्धक रूपमनवकाशमित्यपवादत्वाद्गुणस्य बाध- कमित्यर्थः । न च क्सस्याचीति विशेषणार्थ कित्त्वम् , प्रत्ययत्वादर्थवत्त्वाच्चास्यैव क्सस्य तत्र ग्रहणस्य सिद्धत्वात् । उणादीनामव्युत्पन्नत्वाद्वत्सा इत्यादौ प्रसङ्गाऽभावात्। अनिवाचनमिति । अनिट इत्येतच्च्लेविशेषणं यथा स्यादिति चिलरुत्सर्गः कृत उ.]च्लेरेव वा प्रत्याख्यानमिति सूचितम् । च्लावेव झलादिलक्षणेऽमि ‘अस्पार्शी- दिल्यस्याऽसिद्धिरूपं दूषणान्तरमाह-अपि चेति । तृपदपांशे फलं दर्शयति भाष्ये- यस्य खल्वपीति ॥ [च्लेः सिच् ] ॥ शल इगुप। लक्षणदोषमिति । असम्भवरूपमित्यर्थः । भूतपूर्वेति । विशे- षणसामर्थ्याद्धि तदाश्रयणम् । लक्ष्याऽसिद्धिरिति । सर्वत्र गुणश्रवणापत्तिरित्यर्थः । ननु क्सस्य कित्त्वसामर्थ्यात्पूर्वमपि गुणो न भविष्यतीत्यत आह–कित्करण- न्त्विति । वत्से वदेः स औणादिकः । क्सस्य गुणाऽपवादत्वे हेतुमाह-भूतेति । ननु भासावित्यादावपि लोपापत्तिरत आह-प्रत्ययत्वादिति। वत्सा' इत्यादौ दोष- वारणायाह-उणादीनामिति । तृणसावित्यादौ दोषस्तु 'लुग्वा दुहे'त्यत्रेतः क्स- दाऽनुवृत्तेराधिकाराऽनुरोधेन दुहादिषु यस्य सम्भवस्तस्यैव पूर्वसूत्रेऽपि ग्रहणाद्वा- रणीयः । अत एव दृशेः स तादृक्षावित्यादौ न दोष इति कित्त्वसामर्थ्याद्गुणो नेति बोध्यम् । 'दुधुक्ती'त्यादौ सनः सानुबन्धकत्वान्न दोषः। एतल्लोपविषये तृणस- १ इदं क्वचिन्न । २ 'दृपः पा० । ३ 'सपद' । । ।

३अ.१पा.४आ.४५सू.] व्याकरणमहाभाष्यम् अनिड्वचनमविशेषणम्॥ किं कारणम् ?॥ 'च्लेनित्यादिष्टत्वात्' । नित्यादिष्ट. विलन क्वचिच्छूयते । तत्र 'रलेरनिट' इति क्सो न प्राप्नोति । ॥ ॥ न वा क्सस्य सिजपवादत्वात्तस्य चानिडाश्रयत्वादनिटि प्रसिद्ध क्सविधिः ॥*॥ न वैष दोषः ॥ किं कारणम् ? । 'क्सस्य सिजपवादत्वात्' । सिजपवादः क्सः । स चाऽनिडाश्रयः । न चापवादविषय उत्सर्गोऽभिनिविशते । 'पूर्व ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः'। 'प्रकल्प्य वाऽपवादविषयन्ततउत्सर्गोभिनिवि- शते'। तन तावदत्र कदाचित् सिज्भवति,अपवादं क्स प्रतीक्षते। क्सस्य सिज- पवादत्वात्तस्य चानिडाश्रयत्वादनिट्त्वं प्रसिद्धम्। अनिटि प्रसिद्ध क्सविधिः। अनिटि प्रसिद्ध क्सो भविष्यति ॥ सिजिदानी व भविष्यति ? ॥*॥ शेषे सिज्विधानम् ॥*॥ शेषे सिविधानं भविष्यति । अकोषीत् अमोषीदिति ॥ श्लिष आलिङ्गने ॥ ३॥१॥४६॥ किमर्थमिदमुच्यते ?॥॥॥ नियमार्थम् ॥ ॥ [नियमार्थोऽयमारम्भः]- श्लिष आलिङ्गन एव क्सो यथा स्यात् । इह मा भूत्-उपाश्लिषजतु च काष्ठंच। समाश्लिषद्राह्मणकुलमिति ॥ अत उत्तरं पठति-॥ ॥*॥ श्लिष आलिङ्गने प्र.इत्युक्तम्। तत्रास्य सिचा नित्यं भाव्यमितीडभावोपलक्षितस्य रूपं न कचिद्विद्यत इति च्लेरनिट इति विशेषणस्याऽप्रसिद्धिरित्यर्थः॥न वा क्सस्येति । अयं भावः- लिह लित् इति स्थिते सिचा न भाव्यं,क्सस्यायं विषय इति। क्सेनाऽपि न ताव- द्भाव्यं यावदस्याऽनिट्त्वं न ज्ञातम् । तत्र लकारस्यैवेटः प्राप्तौ तन्निषेधादनिटत्वम- स्तीति क्सः सिद्धः-अलिक्षदिति । यत्र लिटःप्रतिषेधो नास्ति तत्र सिजेव भवति- अकोषीदिति ॥ [शल इगुपधादनिटः क्सः ] श्लिष आ ॥ किमर्थमिति । किं पुषादिपाठादडि प्राप्ते तद्वाधनाय विध्यर्थ- मिदम्, अथ पूर्वेण क्से सिद्ध नियमार्थमिति प्रश्नः ॥ इतरो वक्ष्यमाणयोग- विभागं मनसि कृत्वाह-नियमार्थमिति । उपाश्लिषदिति । प्रत्यासत्तावत्र उ.]तादृक्षादेरनभिधानमिति कश्चित्। सिचा नित्यमिति।आदेशान्तराऽभावेतस्याऽ- वश्यम्भावादित्यर्थः । सिजेव भवतीति । निर्दिश्यमानपरिभाषया लेरेव सः । 'धातो'रिति च विहितविशेषणमिति निर्दिश्यमानस्य ञ्यवहितत्वमिति भावः ॥ श्लिष आलिङ्गने। विधित्वसम्भवे नियमार्थत्वं कथमित्यत आह-इतर इति। प्रत्यासत्तिः-संबन्धमात्रम् । प्राणिकर्तृकतद्विशेषश्वाऽऽलिङ्गनमिति बोध्यम् । श्लिषेर्नाऽप्राप्ते इति । परस्मैपदविषये विधित्वं स्यादित्यर्थः । भाष्ये-आलिङ्गने- नालिङ्गने चेति । कर्मणि कर्मव्यतिहारे चाऽऽताम्प्रभृतिष्वित्यर्थः । तत्राऽऽलिङ्गने १ इदं भाष्यमित्यये । २ 'विषयमुत्स' । ३ 'दनिटप्रसिद्ध.४ लुप्तम् । ।

कैयट-विवरणसहितं . [श्लिषआलिङ्गने किं नियमानुपपत्तिर्विधेयभावात् ॥ ॥ श्लिष आलिङ्गन इति नियमस्यानुपत्तिः ॥ कारणम् ? ॥ 'विधेयभावात् ॥ कैमर्थक्यानियमो भवति? ॥ विधेयं नास्तीति कृत्वा ॥ इह चास्ति विधेयम् ॥ किम् ? ॥ पुषादिपाठादमाप्त- स्तद्धाधनार्थः क्सो विधेयः॥ तत्राऽपूर्वो विधिरस्तु नियमो वेत्यपूर्व एव विधिः स्थान नियमः ॥ किञ्च स्याद्ययं नियमो न स्यात् ?॥ आत्मनेपदेष्वालिङ्गने चाऽनालिङ्गाने च क्सः प्रसज्येत । यथैव च क्सोऽडं बाधत एवं चिणमपि बाधेत । उपाश्लेषि कन्या देवदत्तेनेति ॥ ॥*॥ सिद्धं तु श्लिष आलिङ्गनेऽचि- विषये ॥*॥ सिद्धमेतत् ॥ कथम् ? 'श्लिष आलिङ्गन्नेऽचिण्विषये क्सो भव- तीति वक्तव्यम् ॥ * ॥ अविधाने च श्लिषोऽनालिङ्गने॥* ॥ अड्विधाने च लिपोऽ. नालिङ्गने इति वक्तव्यम् ॥ सिध्यति । सूत्रं तर्हि भिद्यते ॥ यथान्यास- मेवास्तु। ननु चोक्तं-'श्लिष आलिङ्गने नियमानुपत्तिर्विधेयभावादिति । नैष दोषः। ॥ ॥ योगविभागात्सिद्धम् ॥*॥ योगविभागः करिष्यते। 'लिपः' । श्लिषः क्सो भवति ॥ किमर्थमिदम् ? ॥ पुषादिपाठादमामोति तद्वाध- नार्थम् ॥ ततः -आलिङ्गने' । 'आलिङ्गने च श्लिषः क्सो भवति' ॥ इद. मिदानी किमर्थ [स्यात्] ? । नियमार्थम् । 'श्लिष आलिङ्गने एव' ॥ क मा भूत् ? ॥ उपाश्लिषजतु च काष्ठं च, समाश्लिषद्राह्मणकुलमिति ॥ यदप्युच्यते-यथैवक्सोऽडं बाधत एवं चिणमपि बाधेतेति। 'पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरा' नित्येवं क्सोऽडं बाधिप्यते, चिणं न बाधि- प्र.]श्लिषिर्वर्तते, नालिङ्गने॥अप्राप्त इति। श्लिषे प्राप्ते अङि क्सस्यारम्भाद्वाधकत्व- मित्यर्थः । यथैवेति । विध्यर्थत्वे दोषान्तरोद्भावनम् । सिद्धं त्विति । पूर्वेण क्से सिद्धे नियमार्थमेतद्वचनं कर्तव्यम् । अचिण्विषय इति । अनेन नियमार्थत्वं सम- र्थ्यते । अन्यथा चिण्बाधनाय' तद्विषये विध्यर्थमेतत्स्यान्न तु नियमार्थम् । अडिधान इति । ततश्चाऽऽलिङ्गनेऽप्रतिषेधात्-भिलष आलिङ्गनेऽचिण्विषये इति नियमाथं भवति, अन्यथा विध्यर्थमेतत्स्यात् । श्लिषः क्स इति।श्लिष इत्यत्राऽनिट इत्यनुवर्तनाद्दाहार्थस्य सेटो ग्रहणाऽभावः । उ.]इष्टमेव, अन्यत्रापत्तिरेव दोषः । दोषान्तरेति। बाध्यसामान्यचिन्तया पदद्वय- विषयको विधिः स्यादिति भावः । नियमार्थमिति । अचिण्विषये श्लिष आलिङ्गन एवेत्यर्थः। अचिण्विषय' शब्देन भावकर्मार्थक त'शब्दभिन्नमात्मनेपदमुच्यते।अन्यथा विध्यर्थमिति । 'अचिण्विषय' इत्यनेन तद्भिन्नतिकामेव ग्रहणं स्यादित्यर्थः । तत्तु चिण्विषये विधिव्यवृत्त्यर्थं स्यादिति भावः । दाहार्थस्येति । अन्यथा तत्र चारि- तार्थ्यादडो बाधा न स्यादिति भावः । सानुबन्धकत्वाद्वेति । "श्लिषु दाहे' इति ।

३अ.१पा.४आ.४६सू.] & व्याकरणमहाभाज्यम् , १३५ ... . ज्यते । अथवा तत्र वक्ष्यति चिण्ग्रहणस्य प्रयोजनं-'चिणेव यथा स्याचदन्य- प्रामोति तन्मा भूदिति ॥ [ श्लिष आलिङ्गने ] ॥ णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ॥ ३॥१६४८ ॥ ॥॥ णिचिद्रुषु कमेरुपसङ्ख्यानम् ॥ ॥ णिश्रिगुस्रुषु कमेरुपसङ्ख्यानं कर्तव्यम् ॥ 'नाकमिष्टसुखं यान्ति सुयुक्तैर्वडवारथैः । अथ पत्काषिणो यान्ति येऽचीकमतभाषिणः' इति॥ प्र.]साऽनुबन्धकत्वाद्वा । तत्र पुषादित्वादनुमितोऽङ् प्रत्यक्षशिष्टेन क्सेन बाध्यते ॥ अथ वेति । समुदायापेक्षायां पुरस्तादपवादा इति परिभाषा नास्तीति परिहारान्तरोपन्यासः ॥ [श्लिष आलिङ्गने] ॥ णिश्रिद्रु। कमेरिति। आर्द्धधातुके विकल्पेन णिडो विधानादणिपक्षे सिचिप्राप्ते वचनम् । तत्राऽचकमतेति भवति। णिपक्षे तु सन्वद्भावादचीकमतेति। 'सन्वल्लघुनि चङीति वक्तव्ये परग्रहणसामर्थ्यादन्यपदार्थो णिराधीयते, अन्यस्याऽसंभवात् । तेन चपरे णौ परतो यल्लघु धात्वक्षरंतत्र परतोऽभ्यासस्य सनीव कार्य भवतीत्यर्थः।नाक- मिष्ट सुखमिति । नाकं स्वर्गमिष्टसुखं यान्ति सुयुक्तैर्वडवारः ‘कमेलङि किं रूपं भवतीति पृष्टैः ‘अचकमते'त्युक्तम् । यस्तु 'अचीकमते'त्युक्तं ते पत्काषिणो यान्ति । लक्षणाऽस्मरणान्निन्दार्थवादोऽयं लक्षणस्मरणादरार्थः। अन्ये त्वाहुः-अक- मिष्टेति यैरुक्तं त एवोपचारादकमिष्टशब्देनानुकरणशब्देनोच्यन्ते। अनुकार्यानुकर- णयोर्भेदस्याऽविवक्षितत्वाद्विभक्तिर्न कृता । ते सुयुक्तैरपि वडवारथैर्गच्छन्तः सुखं न उ.]पाठात् । अनुमित इति। न च क्सोऽचरितार्थः, तत्रादिपदस्यैतत्सामर्थ्य नेतर- पुषादिमात्रपरत्वमित्यभिमानः । पुषादिपाठोऽपि श्यन्नर्थः । न चाऽन्यत्रैव पाट्यः, अशोकवनिकान्यायात् । वस्तुतः पुषादिपाठसामर्थ्यादादिपदेन तत्र ग्रहणसामर्थ्या- चाऽङ्क्सयोः परस्मैपदे आलिङ्गनाऽनालिङ्गविषये सर्वत्र विकल्पे प्राप्ते, आत्मनेपदे चाऽऽलिङ्गनाऽलिङ्गनयोरविशेषण क्से प्राप्ते द्वितीयेन नियमः-'आलिङ्गन एवेति । एवञ्चाऽर्थान्तरे सावकाशोऽङ् आलिङ्गने क्सेन बाध्यते । तस्यैव बाधस्याऽनुवादो भाष्ये-तद्वाधनार्थमिति । न चाऽऽलिङ्गने क्स एवेति विपरीतनियमापत्तिः, लक्ष्यानुरोधात्प्रत्ययनियमस्यैवाङ्गीकारादित्यूह्यम् । योगविभागसामर्थ्याच्च नियमेन सर्व ‘क्स'प्राप्तिबाधः ॥ [श्लिष आलिङ्गने] ॥ णिश्रिद्रुस्रुभ्यः। ननु णिडभावपक्षेऽपि सन्वत्त्वं दुर्वारं, तत्र णावित्यनुक्तरत आह-सन्वल्लघुनीति । अन्ये त्वाहुरिति । अत्राऽरुचिस्तु भाल्याऽननुगुणत्वम् । १ 'सर्वाङ्प्राप्ति'। ।

.. , १३६ कैयट-विवरणसहितं. [ णिनिनु ॥*॥ कर्मकर्तरि च ॥॥ कर्मकर्तरि चोपसङ्ख्यानं कर्तव्यम् । कारयति कटं देवदत्तः। अचीकरत कटः स्वयमेव'। उच्छ्यति कटं देवदत्तः। 'उदशिश्रि- यत कटः स्वयमेवेति ॥॥॥ न वा कर्मण्यविधानात्कर्तृत्वाच्च कर्मकर्तुः सिद्ध- म्॥*॥न वा कर्तव्यम्॥ किं कारणम् ? ॥ 'कर्मण्यविधानात्' । नहि कश्चि- स्कर्मणि विधीयते यश्चङ बाधेत ॥ कर्तृत्वाच्च कर्मकर्तुः सिद्धम् ॥ अस्ति च कर्मकर्तरि कर्तृत्वमिति कृत्वा चङ् भविष्यति॥ननु चायं कर्मणि विधीयते-- 'चिण्भावकर्मणो रिति॥ प्रतिषिध्येते तत्र यक्चिणौ-'यक्चिणोः प्रतिषेधे हेतु- मण्णिश्रिबूजामुपसङ्ख्यान'मिति॥यस्त_हेतुमण्णिच्-'उदपुपुच्छत गौःस्वय- मेव'॥अत्रापि यथाभारद्वाजीयाः पठन्ति तथा भवितव्यं प्रतिषेधेन, यच्किणोः प्रतिषेधे णिश्रन्थिग्रन्थिजात्मनेपदाऽकर्मकाणामुपसङ्ख्यान'मिति ॥ अस्यतिवक्तिख्यातिभ्योऽङ्॥ ३॥१॥५२ ॥ अस्यतिग्रहणं किमर्थम् ?॥ ॥*॥ अस्यतिग्रहणमात्मनेपदार्थं [पुषादित्वा- त्]॥ ॥अस्यतिग्रहणमात्मनेपदार्थ द्रष्टव्यम्॥ किमुच्यते आत्मनेपदार्थमिति, न पुनः परस्मैपदार्थमपि स्यात् ? ॥ 'पुषादित्वात्' । पुपादिपाठात्परस्मै- पदेष्वङ्भविष्यति ॥ ॥ कर्मकर्तरि च ॥ ॥ कर्मकर्तरि चोपसङ्ख्यानं कर्त- प्र.प्रामुवन्ति,अपशब्दोच्चारणात्। ये खचीकमतभाषिणस्ते पत्काषिणोऽपि सुखं यान्ती- ति ॥ कर्मकर्तरि चेति । कर्तर्युच्यमानश्चकर्मकर्तरि न प्राप्नोतीति वचनम् । उद- पुपुच्छतेति । पुच्छमुदस्यति उत्पुच्छयते गौः, तत्र यदान्त वितण्यर्थत्वादस्य गवा सकर्मकत्वं भवति तदा 'उत्पुच्छयते गा मिति भवति । पुनर्गोरेव यदा सौक- र्यातिशयेन कर्तृत्वं विवक्ष्यते भूतकालश्च तदैतदुदाहरणम् ॥ [ णिश्रिद्रुस्रुभ्यः ] अस्यति । पुषादय आगणान्तात् । अन्तराले वृत्करणं रधादिसमाप्त्यर्थम् ,न तु पुषादिपरिसमाप्त्यर्थमिति प्रतिपादनाय सुहृद्भुत आचार्य आह-अस्यतिग्रहण- उ.]वार्तिकोत्तरं पाठेन तत्स्तुत्यर्थत्वस्य स्वरसतः प्रतीतेः। पूर्वव्याख्यायां विशेषलक्षण- स्मरणप्रयुक्ताऽधिकसुखप्राप्तिः। 'कमेटुंङि कीदृशं रूप'मिति प्रश्ने स्वरसतः कम्प्रकृ- तिके लुङीत्यर्थकेतस्य साधुत्वेऽप्यसमञ्जसोत्तरत्वान्न्यूनसुखप्राप्तिः। एवञ्च सामान्य- शास्त्राऽनुगतलक्ष्यप्रयोगाऽपेक्षया विशेषलक्षणानुगतशब्दप्रयोगे धर्माधिक्यमित्यस्य भाष्यस्य तात्पर्यम् । कर्मकर्तरीति । कर्मवद्भावाचिणा बाधः स्यादित्यभिमानः । भाष्ये-कर्मणि विधीयते य इति। कर्मवद्भावप्राप्त इति भावः । उत्पुच्छयते गामिति। 'कर्तुरीप्सिततम'मिति कर्मत्वं बोभ्यम्॥[णिश्रिदुस्रुभ्यःकर्तरि चङ्]॥ अस्यतिवक्ति ननु परस्मैपदेप्यदर्शनादात्मनेपदार्थमित्ययुक्तमत आह-पुषा- १ इदं श्रचिन्न । .

३अ.१पा.४आ५८सू.] * व्याकरणमहाभाष्यम् 8 १३७ व्यम् । पर्यास्थतां कुण्डले स्वयमेव ॥ अत्रापि-॥*॥ 'न वा कर्मण्यविधाना- त्कर्तृत्वाच्च कर्मकर्तुः सिद्धम् ॥ ॥ इत्येव ॥ [ अस्यतिवक्ति ] ॥ जृस्तम्भुम्रचुम्लुचुचुग्लुचुग्लुश्चश्विभ्यश्च ॥ ३॥११५८ ॥ इदं ग्लुचिग्रहणं ग्लुञ्चिग्रहणं च क्रियते । ॥ ॥ अन्यतरच्छक्यमकर्तु- म् ॥ ॥ कथम्?॥ यदि तावद्ग्लुचिग्रहणं क्रियते ग्लुञ्चिग्रहणं न करिष्यते । तेनैव सिद्धं न्यग्लुचत् न्यग्लोचीत् । इदमिदानी ग्लुञ्जे रूपं-न्यग्लुञ्चीत् ॥ अथ ग्लुञ्चिग्रहणं क्रियते ग्लुचिग्रहणं न करिष्यते तेनैव सिद्ध न्यग्लु- चत् न्यग्लुञ्चीत् । इदमिदानीं ग्लुचे रूपं-न्यग्लोचीदिति ॥ [स्तम्भु] ॥ चिण्ते पदः ॥ ३॥१॥६०॥ अयं तशब्दोऽस्येवात्मनेपदम् . अस्ति परस्मैपदम् , अस्येवैकवचनम्, अस्ति बहुवचनं, कस्येदं ग्रहणम् ? ॥ यः पदेरस्ति ॥ कश्च पदेरस्ति ? । ॥*॥ पदिरयमात्मनेपदी ॥॥॥ [चिण्ते पदः] ॥ चिभावकर्मणोः ॥ ३१॥६६ ॥ 'चिणिति वर्तमाने पुनश्चिण्ग्रहणं किमर्थम्?॥ नेत्येवंतदभूद्विध्यर्थमिदम्। अथ वा वेत्येवं तदभूनित्यार्थमिदम् ॥ अथ वा चिणिति वर्तमाने पुनश्चिण्ड- हणस्यैतत्प्रयोजनं-'चिणेव यथा स्याद्यदन्यत्प्रामोति तन्माभूदिति ॥ सार्वधातुके यक्॥ ३॥१॥६७ ॥ इह पश्यामः-कर्मणि द्विवचनबहुवचनान्युदाहियन्ते 'पंच्येते ओदनौ' प्र.]मिति । अत्रापीति । आतिदेशिकस्य कर्मकार्यस्य कस्यचिदत्राऽविधानात् स्वाश्रयं कार्य प्रतिबन्धकाऽभावात् प्रवर्तत एवेति भावः ॥ [ अस्यतिवक्ति ] । जृस्तम्भु। अन्यतरदिति। अनेकार्थत्वाद्धातूनामत्र विषयेऽर्थभेदो न प्रयोजक उभयोरुपादानस्येति भावः। यत्तूभयोपादानसामर्थ्यात् ग्लुञ्चेरङि नलोपो न भवति न्यग्लुञ्चदिति कैश्चिदभ्यधायि, तद्भाष्यविरोधादनादरणीयम् ॥ [जस्तम्भु] । चिण्भाव । नेत्येवमिति। प्रतिषेधसंबद्धं तदभूदित्यर्थः ॥ नन्वत्र प्राप्त्य- भावान्नेति नापेक्षिष्यत इत्याह-अथ वेति। विकल्पोऽपि पूर्वमेव निषेधेन निवर्तित- त्वान्नाऽपेक्षिष्यत इत्याह-अथ वेति । तेनोपाश्लेषीति क्सो न भवति ॥ सार्वधा । इह पश्याम इति । वक्ष्यमाणस्य वाक्यार्थस्य दृशिक्रियायां कर्मत्वं, उ.]दय आगणान्तादितिआतिदेशिकस्येतिायकश्लिना बाधाद्विवचने चिणोऽप्राप्तः। आत्मनेपदमपि 'उपसर्गादस्यत्यूह्योरिति वार्तिकेन सिद्धमित्यर्थः ॥ [अस्यति । जृस्तम्भु । ग्लुचेः स्तेयकरणार्थत्वात्कथं सिद्धिरत आह-अनेकार्थत्वादिति॥ १ इदं भाष्यमित्यन्ये । २ 'मस्त्येक' । ३ इदं कचिन्न ।

१३८ ॐ कैयट-विवरणसहितं. [ सार्वधातुके 'पच्यन्ते ओदना' इति । भावे पुनरेकवचनमेव-आस्यते भवता, आस्यते भवद्याम्, आस्यते भवद्भिरिति, केनैतदेवं भवति ?॥ कर्माऽनेकम्, तस्याऽ- नेकत्वाद्विचनबहुवचनानि भवन्ति । भावः पुनरेक एव ॥ कथं तहीह प्र.यथा ‘पश्य मृगो धावती'ति मृगकर्तृकायाः सरणक्रियायाः॥ कैनैतदिति । इह क्रियाप्रधानमाख्यातम् । सा च किया साध्यरूपत्वान्निवृत्तभेदा। तदुक्तम्-'निवृत्त- भेदा सर्वैव क्रियाऽऽख्यातेऽभिधीयत। श्रुतेरशक्या भेदानां प्रविभागप्रकल्पना'- इति ॥ तत्र यथा साधनभेदात्कर्तृकर्माभिधायिनि लकारे द्विवचनबहुवचने भवत- स्तथा भावाभिधायिन्यपि प्रसजतः । अथैकपदवाच्यसाधनसङ्ख्याश्रये द्विवचनबहु- वचने भवत इति पक्षस्तदा पाको पाका इत्यत्र न प्राप्नुतः, साधनस्य घनाऽनभि- धानादिति प्रश्नः ॥ कर्मानेकमिति । कर्मशक्त्याधारी द्रव्यमनेकम् । शक्तिशक्ति- मतोश्च शब्देन भेदो न प्रतिपाद्यत इति शत्तयभिधायिनाऽप्याख्यातेनौदनः पच्यत इति शक्तिमद्रव्यवाचिन ओदनशब्दस्य सामानाधिकरण्यं भवति ॥ भावः पुन- रिति । भेदाऽभावलक्षणेमभेदैकत्वं भावस्य, न त्वेकत्वसङ्ख्याऽऽख्यातवाच्यस्य भाव- उ.]सार्वधातुके यक् । दृशेः कर्मणि नियताकासत्वात्तद्दर्शयति-वक्ष्यमाणस्ये- ति । वाक्यार्थः-किया। सा चेह केनैतदेवम्भवतीत्येतद्रूपा । सरणं-धावनम् । अध्याहृतधावनादिति।पदोपस्थाप्यस्य कर्मत्वमित्यन्यत्रोक्तम् । ननु भावस्य क्रिया- रूपस्य सङ्ख्ययाऽयोगान्न द्विवचनादिकं भविष्यति । कर्मणि तु शक्तिशक्तिमतोर- भेदोपचाराच्छक्तिमतश्च सङ्ख्यायोगाद्विवचनादिकं सेत्स्यतीत्यत ताह-इहेति । श्रुते- रिति । साधनादिभेदाद्भिन्नत्वेऽपि श्रुतेराख्यातशब्दात् प्रविभागकल्पना भेदावगम- रूपाऽशक्येत्यर्थः । कथं तर्हि द्विचनादिकं, तत्राह-तत्रेति । साधनभेदादिति । साधनभेदकृतभेदारोपादित्यर्थः । अथैकेति । शब्दशक्तिस्वभावादिति भावः । तदा पाकाविति । क्रियारूपस्य स्वतः सङ्ख्यासम्बन्धाऽभावादिति तात्पर्यम् । ननु कर्मपदस्य शक्त्यभिधायित्वाच्छक्तेश्च विभक्तिवाच्याया असत्त्वभूतत्वात्सङ्ख्या- योगाऽभावेना'ऽनेक'मित्यनुपपन्नमत आह-कर्मशक्तीति । शब्देनेति। न हि घटस्य शुक्ल' इतिवत् 'घटस्य कर्मेति प्रयोगोऽस्तीति भावः । तदेवाह-सामानाधिक- रण्यमिति । कर्मादिपदैः शक्तिमदभेदमापनैव शक्तिरुच्यते। अत एव 'कर्मत्व'मिति भावप्रत्ययेन शक्तिरुच्यते । प्रवृत्तिनिमित्तेन व्यक्तस्तादात्म्यसम्बन्धस्याऽङ्गीकारा- दिति तत्त्वम् । एवञ्च कर्मणि विधीयमानाऽऽख्यातेनाऽपि तथैव शक्तिरुच्यते इति सामानाधिकरण्योपपचिरिति भावः । ननु भावस्यैकत्वयोगे द्वित्वादियोगोऽपि स्यादत आह-भेदाभावेति। परे त्वस्त्येवैकत्वसङ्ख्या क्रियायाम्। असत्स्वन्त्वनारो- १ इदं वचिन्न । २ 'लक्षणमेकत्वं'।

३अ.१पा.४आ.६७सू.] ® व्याकरणमहाभाष्यम् ॐ १३९ द्विवचनबहुवचनानि भवन्ति-पाको पाका इति ?॥ आश्रयभेदात् । यदसौ द्रव्यं श्रितो भवति भावस्तस्य भेदाद्विवचनबहुवचनानि भवन्ति ॥ इहापि तर्हि यावन्तस्ते तां क्रियां कुर्वन्ति, सर्वे ते तस्या आश्रयभूता भवन्ति, तद्भेदाद्विवचनबहुवचनानि प्राप्नुवन्ति॥एवं त_दं तावदयं प्रष्टव्यः-'किमभि- समीक्ष्यैतत्प्रयुज्यते-पाको पाका इति ?॥ यदि तावत्पाकविशेषानभिसमीक्ष्य, यश्चौदनस्य पाकोः, यश्च गुडस्य, यश्च तिलानां बहवस्ते शब्दाः सरूपाश्च । तत्र युक्तं बहुवचनमेकशेषश्च । तिङभिहिते चाऽपि तदा भावे बहुवचनं श्रूयते । तद्यथा-'उष्ट्रासिका आस्यन्ते', 'हतशायिकाः शय्यन्त' इति ॥ अथ कालविशेषानभिसमीक्ष्य,यश्चाद्यतनः पाको, यश्च ह्यस्तनो, यश्च श्वस्त- प्र.]स्याऽस्ति । तस्याद्रव्यधर्मत्वादसत्त्वभूतत्वाच्चाख्यातवाच्यस्य भावस्य॥ आश्रय- भेदादिति। गुडतिलौदनादीनामाश्रयाणां भेदादाश्रितोऽपि पाको भिद्यते। घनादिभिश्च सत्त्वरूपोऽर्थोऽभिधीयत इति द्रव्यधर्मसङ्ख्याभेदाश्रयो वचनभेदो न विरुध्यत इति भावः ॥ इहापीति । आख्यातवाच्यस्याऽपि भावस्याश्रयभेदाभेदोऽस्तु । ततश्च वचनभेदप्रसङ्ग इत्यर्थः ॥ पाकविशेषानिति । केचित्पाकशब्दं कर्मसाधनं व्याच- क्षते। पक्तव्यविशेषान् गुडादीनित्यर्थः । तत्त्वयुक्तम् । असंज्ञायां कर्मणि घओ दुर्लभत्वात् । तस्मादाश्रयप्रकारादिभेदभिन्नान् पाकविशेषानित्यत्राऽयमर्थः ॥ अथवा संज्ञाग्रहणस्य प्रत्याख्यातत्वादसंज्ञायामपि कर्मणि घश्भवति ॥ उष्ट्रासिका आस्यन्ते इति । अत्राश्रयाणामुष्ट्राणां भेदादनेकप्रकारयुक्तान्यासनानि भिन्नानि, तत्सामाना- उ.]पितयादिसम्बन्धाऽभावमात्रेणातदेव एक एवेत्येवकारेण भाष्येध्वनितमित्याहुः। आधारद्रव्याणाम्भेदेऽपि कुतः पाकादेर्भेदोऽत आह-गुडतिलेति । आश्रितः पाकोऽ- पीत्यन्वयः । आश्रयभेदात्तत्रापि भेदाऽध्यवसाय इति भावः। [नन्वेवं तिब्यपि द्विव- चनादि स्यान्न स्याद्वा कृत्यपीत्यत आह-घजादिभिरिति । तिब्वाच्यस्तु न सत्त्व- भूत इति भावः ] । उक्तार्थाऽज्ञानवतश्चोद्यमित्याह-आख्यातेति । वस्तुतः पूर्व- भाष्येण कृत्यपि तदनुपस्थाप्यसाधनगताया अपि सङ्ख्याया आरोपेण द्विवचनादी'त्यु- क्तम् । तत्र शङ्का समञ्जसवा घजो दुर्लभत्वादिति। यो गुडस्ये'त्यादि वक्ष्यमाणभाष्य- विरोधादित्यपि बोध्यम् । एतेनाऽथ वेत्यपि न समञ्जसम्। एवञ्चाऽऽश्रयप्रकारादि- कृतभेदानां पाकशब्दादवगतिसम्भवेन युक्तं बहुवचनं, न तु तिङन्ते तत्कृतभेदाऽनव- गमके इति भावः । यत्र त्वस्ति तत्कृतभेदावगमस्तत्र भवत्येव बहुवचनमित्याह भाष्ये-तिङभिहिते चापीति । ननू'ष्ट्रासिके'त्यादावाख्यातवाच्ये भावे कथं भेदा- वगमोऽत आह-अत्राश्रयाणामिति । तत्साम्याञ्चेति । न ह्यशासने तावत्साम्य- १ 'आश्रयाः' । २ 'तथा' । ३ इदं क्वचिन्न ।

१४. कैयट-विवरणसहितं [सार्वधातुके नस्तेऽपि बहवः शब्दाः सरूपाश्च। तत्र युक्तं बहुवचनमेकशेषश्च ॥ तिङभि- प्र.]धिकरण्याच्चोख्यातवाच्यभावभेदादास्यन्त इति बहुवचनमित्यर्थः।इवशब्दप्रयोग- मन्तरेणाऽपि चेवार्थगतिर्भवति । तदयमर्थः—यादृशान्युष्ट्राणामनेकप्रकाराण्यासनानि तादृशानि देवदत्तादिभिः क्रियन्त इति॥ भवद्भिरास्यते' इत्यत्र त्वाश्रयभेदादाश्रितभे. दस्य प्रतिपन्नत्वात् प्रयोजनाऽभावाद्भावो भेदं नोपादत्त इत्येकवचनमेव भवति । यथा 'ताम्रः पलाशेषु बभूव राग' इति। न च सर्वत्राश्रयभेदादाश्रितभेदस्य प्रतीतिः, 'घटान् पचती'त्यादौ पाकस्याऽभिन्नस्यैवाऽवगमात्॥ केचित्तूष्ट्रासिका आस्यन्त इति कर्मणि लकारमिच्छन्ति, उष्ट्रासिकालक्षणस्य भावस्य कर्मत्वात् । यथा 'गोदोहः सुप्यते' इति । एवं तु विवक्षान्तरे भवत्येवेति भाष्यकारेण भावेऽपि लविधाने बहु- वचनमुपपादितम् ॥ तेऽपि बहव इति । भिन्नकालत्वादेवेति भावः ॥ तत्र युक्त- मिति । शास्त्रैणैकशेषे सत्येकस्याऽनेकार्थाभिधायित्वादन्तरेण वैकशेषारम्भं सरू- उ.]सम्भवः,तत्प्रतिपादने फलञ्चेत्यर्थः। 'तत्सामानाधिकरण्याचे ति पाठेऽप्यमेवार्थः। उपमानोपमेययोः सामानाधिकरण्यादित्यर्थः । ननु साम्यवाचकेवाद्यभावात्कथं तत्प्र- तीतिरत आह-इवेति । 'परत्र परशब्दः प्रयुक्त' इति न्यायादिति भावः। प्रयोज- नाऽभावादिति । प्रकृते तु साम्यप्रतीत्युपपादनमेव प्रयोजनमिति भावः । यथेति । पलाशरूपाश्रयाऽनेकत्वेऽपि राग' इत्येकवचनमेवेति भावः । वस्तुतस्तत्रैकजातीय- रागप्रतिपादनायैकवचनमिति बोध्यम् । किञ्चाभयभेदादाश्रितभेदप्रतीतेरसार्वत्रिक- त्वादपि नसा भावाऽऽख्याते द्विवचनादिनियामिकेत्याह-न चेति एवञ्चासिका इत्यादि- क्रियाविशेषणम्प्रथमान्तं। क्तिन्नधिकारस्थण्वुलः स्त्रीत्वस्य सत्त्वेन सामान्ये नपुंसक'- मित्यस्याऽप्रवृत्या न क्लीबत्वम् । उपमानोष्ट्रासनाऽभिन्नान्यासनानीति बोधः । बहु- त्वाऽवधारणाञ्च नैकवचनमिति बोध्यम् । कर्मणीति । अत्र पक्षे आख्याताऽवय- वाऽऽसादेः परिच्छेदकत्वनिरूपके आसनादौ वृत्तिः । परिच्छेदकत्वरूपफलाश्रय- त्वात्कर्मत्वम् , दृष्टान्ते व्याप्त्याश्रयादिव । परिच्छेदकत्वञ्च सादृश्येन । नाऽयं भाष्यार्थ इत्याह-एवनिस्वति । विवक्षान्तरे-आसेः परिच्छेदत्वार्थरूपविवक्षा- विशेषे। 'भावेऽपि लविधाने यदुपपादितं बहुवचनं भाष्यकारेण तन्नोपपादितं स्यादिति शेषः । एवञ्च यथा पाकप्रकारानभिसमीक्ष्य पाकावित्यादि द्विवचनायेव- मासनप्रकारानभिसमीक्ष्याऽऽस्यन्त इत्यादि भावे बहुवचनमिति भाष्यार्थः ।आख्यात- वाच्येऽसत्त्वं लिङ्गकारकाऽनन्वयित्वमेव बोध्यम् । भिनकालत्वादिति । भिन्न- कालार्थवाचकत्वादित्यर्थः । नन्वेकशेषमात्रेणाऽविद्यमानाऽनेकार्थाऽभिधानशक्तिः कथमत आह-अन्तरेण चेति । तिङभिहिते चापीत्यादि भाष्ये । तिङन्तार्थे भावे १ तासाम्याच'।

१४१ ३अ.१पा.४आ.६७सू.] व्याकरणमहाभाष्यम् . हिते चापि तदा भावेऽसारूप्यादेकशेषो न भवति-आसि, आस्यते, आसि- प्यते इति ॥ अस्ति खल्वपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च । कृदभिहितो भावो द्रव्यवद्भवति॥ किमिदं 'द्रव्यव'दिति?॥द्रव्यं क्रियया समवायं गच्छति ॥ कं समवायं गच्छति ॥द्रव्यं क्रियाभिनिवृत्तौ साधन- त्वमुपैति। तद्वच्चाऽस्य भावस्य कृदभिहितस्य भवति-पाको वर्त्तत' इति । क्रियावन भवति ॥ किमिदं क्रियावदिति ? ॥ क्रिया क्रियया समवायं न गच्छति-पचति पठतीति। तदुच्चास्य कृदभिहितस्य न भवति-पाको वर्तत' इति ॥ अस्ति खल्वपि विशेषः-कृदभिहितस्य भावस्य, तिङभिहितस्य च । प्र.]पाणामेकस्यैव स्वभावतोऽनेकार्थत्वादिति भावः । तिङभिहित इति । नह्येक तिङन्तमनेककालभावप्रत्यायने समर्थ किंचिदस्तीति भिन्नकालासनक्रियाप्रत्यायनाय भिन्ना एव शब्दाः प्रयुज्यन्त इति भावः ॥ द्रव्यवदिति । द्रव्यत्वेन प्रसिद्धो यो घटादिस्तद्वदयं भावो भवति, लिङ्गसङ्ख्यासाधनसंबन्धप्रतिपत्त्या । तत्र 'वस्तूप- लक्षणं यत्रेति द्रव्यलक्षणयोगेऽपि प्रसिद्ध्यप्रसिद्ध्यपेक्ष उपमानोपमेयभावः ॥ क्रिया क्रिययेति । ननु 'भवति पचति''पश्य मृगो धावती'ति कर्तृकर्मभावेन क्रिया क्रियया संबध्यत एव । एवं तर्हि करणादिरूपेण समवायं न गच्छतीति विव- क्षितम् ॥ ननु साध्यत्वात् क्रियायाः कथं क्रियान्तरं प्रति कर्मकर्तृभावः । विषय- भेदादेकस्याप्यर्थस्य साध्यसाधनभावसंबन्धसंभवाददोषः ॥ तदुक्तं हरिणा-'तत्र यं प्रति साध्यत्वमसिद्धा तं प्रति क्रिया । सिद्धातु यस्मिन् साध्यत्वं न तमेव पुनः प्रति ॥ 'मृगो धावति पश्ये ति साध्यसाधनरूपता । यथा विषयभेदेन सरणस्योपपद्यते॥ इति । तत्र कर्तृकर्मत्वमाख्यातवाच्यस्य भावस्य न विरुद्धम् । उ.]तथात्वेऽपि कालभेदेन भेदेप्यसारूप्यादेकशेषाऽभावेन न बहुवचनादीत्यर्थः। तदे- वोपपादयति-न ह्येकमिति । इतः परं भिन्नपदवाच्यसाधनादिकृतभेदेन भेदावगमः कृदन्तेऽस्ति,न तिङन्ते इत्यत्र बीजभूतं तयोर्वैषम्यमाह-अस्ति खल्वपीति भाष्ये । ननु लिङ्गसङ्ख्याद्यन्वयित्वमेव द्रव्यत्वमिति वतिरनुपपन्नोऽत आह-तत्रेति । भाष्ये क्रियया समवायमिति । क्रियानिरूपितकर्मादिसंज्ञासमानाधिकरणशक्तिभिः सम्बन्धं गच्छतीत्यर्थः । द्रव्यं क्रियाऽभिनिवृत्तौ साधनत्वमित्यस्य कारकशक्तिमत्त्वमि- त्यर्थः। करणादिरूपेणेति । कृदन्ते 'पाकेन वैरं कृत'मित्यादौ तथान्वयादिति भावः। ननु साध्यत्वादिति । असिद्धस्य जनकत्वाऽसम्भवादिति भावः । सिद्धा त्विति । यन्निरूपितं सिद्धत्वं तमेव प्रति पुनः साध्यत्वं नेत्यन्वयः । एवञ्चाऽन्यनिरूपितसिद्ध- त्वेऽप्यन्यनिरूपितं साध्यत्वं सम्भवत्येवेति भावः । तथा विषरेति । तथा सति १ 'तथा' । २ इदं क्वचिन्न १४२ कैयट-विवरणसहित [ सार्वधातुके तिङभिहितेन भावेन कालपुरुषोपग्रहा. अभिव्यज्यन्ते, कृदभिहितेन पुनर्न व्यज्यन्ते ॥ अस्ति खल्वपि विशेषः-कृदभिहितस्य भावस्य, तिङभिहितस्य च-तिङभिहितो भावः क; संप्रयुज्यते, कृदभिहितः पुनर्न संप्रयुज्यते । यावता किंचिञ्च सामान्यं कश्चिञ्च विशेषो युक्तं यदयमपि विशेषः स्यात्- प्र.]तथा हि-भवतिक्रियापेक्षमेव तस्य कर्तृत्वम् । सर्वश्चार्थः स्वेन रूपेण भवतीति भवने कर्तृत्वमुपपन्नम् । एवं कर्मापि क्रियाफलत्वात् प्रधानमिति कर्मत्वमपि तस्यो- पपद्यते । करणावादीनि तु सर्वात्मना गुणभावमन्तरेण नोपपद्यन्त इति प्राधान्ये- नाऽत्यन्तविरोधात्तस्य नोपपद्यन्ते ॥कालेति । पुरुपशब्देन तदर्थः, प्रत्यक्पराग्भा- वश्वोच्यते । उपग्रहः-अनेकप्रकारः स्वार्थपरार्थत्वादिकः॥कृदभिहित इति । ननु कृदभिहितस्यापि भावस्य भवति का योगः, यथा 'ब्राह्मणानां प्रादुर्भाव' इति ॥ तत्राहुः-एकपदवाच्येन का न युज्यते, यथा पचतीति कर्ता वाच्यो, नैवं पाक इति । शुद्धस्यैव भावस्य प्रत्यायनात् । अथ वा घादिभिः सिद्धरूपता भावस्या- उ.विषयभेदेनेत्यर्थः । क्रियाफलत्वादिति । अर्श आद्यचा तद्वत्त्वादित्यर्थः । तस्य आख्यातवाच्यभावस्याऽन्वयस्त्वीदृशे विषयेऽन्यतराऽऽकाङ्क्षयैव, 'ज्योतिष्टोमेन यजेते'त्यादौ करणत्वेनाऽन्वयसत्त्वेऽपिस्वघटितपदाऽवाच्यक्रियायां तत्त्वाऽभाव एवेति बोध्यम् । गुणभावमिति । इदं चिन्त्यं, कर्मणः क्रियाफलाश्रयत्वादिव कर्तुः क्रियाश्रयत्वादिव च प्राधान्यवत् करणस्यापि स्वव्यापाराऽव्यवधानेन फलोत्पादकत- याऽन्यकारकापेक्षया प्राधान्यमस्त्येव। न हि कर्तृकर्मणोः प्राधान्यमेवाश्रयणीयं नेत- रस्येदृशमित्यत्र मानमिति । तस्मात्स्वभावत एव तदन्वयाऽभाव इति बोध्यम् । एवं करणत्वोद्देश्यत्वावधित्वैरन्वयित्वेन कृदभिहितो भावो द्रव्यधर्मैव, तिङभिहितस्तु तद्विरुद्ध एवेति बोध्यम् । अस्यैवाऽर्थस्य साधकं वैषम्यान्तरं दशर्ययति-कालपुरुषे. त्यादि । असत्त्वभूताया एवैतत्सम्भव इति भावः । प्रत्यक्त्वमुत्तमे, परावं मध्यमे । प्रत्यत्वं-स्वगतत्वं, परावं-संबोध्यगतत्वम् । युष्मदस्मयतिरेकेणापि मध्यमोत्तमाभ्यां तद्बोधः । स्वार्थत्वपरार्थत्वादिकमपि बोधविषय इति भावः । भाष्ये-का सम्प्र- युज्यत इति । तिङन्तवाच्यो भावो नियमेन काकासः, कृदुपात्तस्तु न तथा । न हि ‘पाको' 'राग' इत्युक्ते 'कस्येति नियमेन काकासा दृश्यते । नाऽपि तस्य नियमेन प्रयोगो दृश्यते। इदमेव ध्वनयितुं 'सम्' 'प्रेत्युपसर्गद्वयोपादानमित्यर्थो मम भाति । यतश्च क्रियात्वं सामान्यमुभयत्राऽपि, साध्यत्वसिद्धत्वकृतश्च पूर्वोक्तो विशेषो दृश्यते तथाऽयमपि । यत्तिङर्थस्य भावस्य लिङ्गबाह्यसाधनकृतसङ्ख्याद्ययोग्यता, कृद- र्थस्य तु तद्योग्यतेसि भाष्यार्थः । ब्राह्मणानामिति-कर्तरि षष्टी । एकपदेति । १ 'ग्रस व्यज्यन्ते' । २ 'प्रत्यक्त्वाऽपरभाव' । ३ 'एवञ्च' । । । ।

३अ.१पा.४आ.६७सू.] * व्याकरणमहाभाष्यम् 8 १४३ लिङ्गकृतः सङ्ख्याकृतश्चेति॥ इदं विचार्यते-भावकर्मकर्तारः सार्वधातुकार्था वा स्युर्विकरणार्था वेति ? ॥ कथं च सार्वधातुकार्था स्युः कथं वा विकर- णार्थाः ?॥ 'भावकर्मवाचिनि सार्वधातुके यग्भवति, कर्तृवाचिनि सार्वधातुके शब्भवतीति सार्वधातुकार्थाः ।' भावकर्मणोर्यग्भवति सार्वधातुके' 'कर्तरि शब्भवति सार्वधातुक' इति विकरणार्थाः ॥ कश्चात्र विशेषः ? ॥*॥ भाव- कर्मकर्तारः सार्वधातुकार्थाश्चेदेकद्विबहुषु नियमानुपपत्तिरतदर्थत्वात् ॥*॥भावकर्म- कर्तारः सार्वधातुकार्थाश्चेदेकद्विबहुषु नियमस्यानुपपत्तिः ॥ किं कारणम् ? ॥ 'अतदर्थत्वात् ॥ नहि तदानीमेकत्वादय एव विभक्त्यर्थाः ॥ किं तर्हि ? ॥ प्र.भिधीयत इति तेन रूपेण का योगाऽभावः।धातुरूपप्रतिपाद्यया तु साध्यतया कर्जा योगो भवति॥ अथवोपलक्षणभावेन भावः क; युज्यते कृत्यु 'पाचेक' इति। तिर्छ तु पचतीति साध्यमानतया प्राधान्येन । तत्र कृत्सु प्राधान्येन का योगो नास्तीत्य- यमत्रार्थः ॥ इदं विचार्यत इति । विचरति नाना गच्छति यद्वस्तु तद्विचार्यते नानात्वं नीयत इत्यर्थः । इहान्वयव्यतिरेकाश्रया शास्त्रीया पदावयवानामावापो- द्धारिक्यर्थवत्ता। तौ चाऽन्वयव्यतिरेकावेकतरस्यापि न व्यवतिष्ठते । सार्वधातुकम- न्तरेणाऽपि कर्ताद्यवगमात् । यथा गच्छ ग्रामम्,अशायि भवता, अकारि कट इति। तथा विकरणाऽभावेऽपि काद्यवगतिरस्ति-'लविषीष्ट क्षेत्र'मिति। उभयाभावप्यस्ति- 'अजागर्भवा'निति ॥ क्वचित्तूभयसंनिधौ काद्यवगतिः-पचति पच्यत इति । तत्र निश्चयाऽभावाद्विचारः क्रियते-कः पक्ष आश्रीयमाणः शास्त्रं न विरुणद्धीति ?॥ एकद्विबहुविति। 'एकत्व एवैकवचनं नार्थान्तरे' इति यो नियमः स नोपपद्यते, कादीनामपि तदर्थत्वादित्यर्थः । अतदर्थत्वादिति । सामर्थ्यादत्रावधारणमाश्री- उ.]इयं व्याख्या भाष्याऽननुगुणा, ‘पाचक' इति कृदन्ते तस्यापि सत्त्वात् । न च तत्र न कृदभिहितो भावः, पचतीत्यत्रापि न तिङभिहितो भाव इति तुल्यम् । उपलक्षणभावेनेति । विशेषणत्वेनेत्यर्थः।अत्रापि पक्षेभाष्यस्वरसश्चिन्त्य एव, पाकादिशब्दोपक्रमेणैव भाष्यस्य प्रवृत्तेः।भाष्ये-सार्वधातुकार्था इत्यत्र सार्वधातुक- पदं तिकुपलक्षकम् । नानापक्षोत्थितौ बीजमाह-इहेति । शास्त्रीयाऽर्थवत्ता पदाऽ- वयवानामावापोद्धारिकी अन्वयव्यतिरेकाश्रयेत्यन्वयः । आवापः-प्रक्षेपः। उद्धारः- अपनयस्तत्कृता । अत एव भाष्यकारः शास्त्रमेव पक्षद्वयसाधकत्वेनोपन्यसिष्यति । सार्वधातुकमिति । इदश्च तिङपरम् । अत एवाऽग्रे 'गच्छे'त्युदाहरणं सङ्गच्छते। एकद्वीति । 'धेकयो रित्यादिसूत्रेष्वित्यर्थः । ननु 'अतदर्थता'दित्यस्य तदर्थत्वाऽ- भावादित्यर्थो न युक्तः, एकत्वाद्यर्थत्वस्य सत्त्वादित्यत आहे-सामर्थ्यादिति । १ इदं क्वचिन्न । २ 'नहीदानी' । ३ 'पाक' । ४ 'द्धारिका' । .

१४४ . कैयट-विवरणसहितं 8 [ सार्वधातुके भावकर्मकारोऽपि ॥ सन्तु तर्हि विकरणार्थाः ॥ ॥ विकरणार्या इति चेत् कृताऽभिहिते विकरणाऽभावः ।।*॥ विकरणार्था इति चेत्कृताऽभिहिते विकरणो न प्राप्नोति-धारयः पारय इति ॥ किमुच्यते 'कृताऽभिहित' इति, न लेना- प्यभिधानं भवति ?॥ ने शक्यं लेनाऽभिधानमाश्रयितुम् । पक्षान्तरमिदमा- स्थितं 'भावकर्मकर्तारः सार्वधातुकार्था वा स्युर्विकरणार्था वे'ति, यदि च लेनाऽप्यभिधानं स्थानेदं पक्षान्तरं स्यात् ॥ कथमशक्यं यदा भवानवाह- 'लः कर्मणि च भावे चाऽकर्मकेभ्य' इति?॥एवं वक्ष्यामि 'लः कर्मणो भावा- चाऽकर्मकेभ्य' इति ॥ यस्मिस्तर्हि ले विकरणा न श्रूयन्ते कस्तत्र भावकर्म- कर्तृनभिधास्यति ? ॥ क च न श्रूयन्ते ? ॥ य एते लुग्विकरणाः श्लुविकर- प्र.]यते न तान्येवैकत्वादीन्यर्थः। अपि तु कादयोऽपीत्यर्थः। कृताऽभिहित इति। क्वचिदेव कृति विकरणो विधीयते न सर्वत्रेति कृत एव 'कर्तरि कृ'दिति कर्तार्थो नि- दिश्यते, तेनैव च कर्तुरुक्तत्वात्तदभिधायी विकरणो न प्राप्नोति। ततश्च धारय' इत्या दावसति शपि गुणो न स्यात् । न लेनापीति। 'लः कर्मणि चेति वचनालादेशैरपि कर्नादरभिधानमिति तत्रापि विकरणाऽप्राप्तिः किं न चोद्यत इत्यर्थः। ततो 'लः कर्म- णी'ति वचनात्कादीनां विकरणार्थत्वं नैव संभवतीत्युक्तं भवति। एवं वक्ष्यामीति। व्याख्यास्यामीत्यर्थः । लः कर्मणीति। कर्मणि वर्तमानाद्विकरणादिति व्याख्या- स्यत इत्यर्थः। तत्र कर्माभिधायी विकरणः 'कर्म'शब्देन भाष्य उक्तः। ननु सार्वधा- तुकनिमित्तो विकरणो न तु विकरणनिमित्तो लकारः,तत्कथमेवं व्याख्यायते?॥ एवं उ.]नतान्येवेति। न तानि एवार्थो यस्येति विग्रह इत्यर्थः।तत्पदार्थमाह-एकत्वा- दीनीति । तन्मात्रार्थत्वाऽभावादित्यर्थ इति तात्पर्यम् । ननु विकरणानां तदर्थत्वे 'कृताऽभिहित' इत्यनुपपन्नमत आह-क्वचिदेवेति । एवञ्च सर्वत्र विकरणाऽभावात् कृतां तेषु शक्तिकल्पनाऽऽवश्यकोति भावः। विकरणार्थत्वपक्षे शङ्कते भाष्ये-किमु- च्यते कृतेत्यादिना । इतर आह-न शक्यमिति । तत्र तदुक्तदूषणे ‘कृते'त्ययुक्तम्, 'अभिहिते' इत्येव युक्तमित्याह-पक्षान्तरमिति । यदि चेति । यदि लेनाऽभि- धानं स्यान्नेदम्पक्षान्तरं स्यादित्यर्थः । कथमिति । पक्षान्तरत्वाऽसम्भवेऽपि लेनाऽ- भिधानमाश्रयितुं कथमशक्यमित्यर्थः । तदाश्रयणस्य शक्यत्वमुपपादयति-यदा भवानेवेति । तद्याचष्टे-ततो ल इति । अत एव लिडादिषु कर्ताद्यर्थावगति- रिति बोध्यम् । इतरोऽशक्यत्वमुपपादयति-एवं वक्ष्यामीत्यादिना । 'लः कर्मण' इति न्यासे गौरवं, सूत्रभेदश्च स्यादत आह-व्याख्यास्यामीति । उक्तऽर्थे भाष्य योजयति-तत्र कर्मेति । कृते लकारे इति। 'वर्तमाने लडि- १ 'अस्य । २ 'भवानाह।

१४५ । । ३अ.१पा.४आ.६७सू.] 8 व्याकरणमहाभाष्यम् 8 णाश्च ॥ अत्राप्युक्त कर्तृत्वे लुग्भविष्यति। यस्मिंस्तर्हि ले विकरणा नैवो- त्पद्यन्ते कस्तत्र भावकर्मकर्तनभिधास्यति ॥ क्व च नैवोत्पद्यन्ते ? ।। लिडिटोः । तस्मान्नैतच्छक्यं वक्तुं 'न लेनाप्यभिधानं भवतीति । भवति चेदभिहिते विकरणाभाव इत्येव॥एवं तीदं स्यात्,-यदा भावकर्मणोलेस्तदा कर्तरि विकरणाः, यदा कर्तरि लस्तदा भावकर्मणोर्विकरणाः॥ इदमस्य यद्यव स्वाभाविकमथापि वाचनिकं प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इति न चास्ति सम्भवो यदेकस्याः प्रकृतेर्द्वयोर्नानार्थयोर्युगपदनुसंहायीभावः स्यात् । एवं च प्र.]तर्हि कृते लकारे सार्वधातुक इति विषयसप्तम्याश्रयणात् कृते विकरणे'लः कर्मणि चे'त्यनेन भावकर्मकत्रभिधायिनो विकरणात्परो लः साधुर्भवतीति व्याख्यानाददोषः । अत्राप्युक्त इति।विकरणलोपद्वारेण प्रकृतिरेवतत्र काद्यभिधायिनीति प्रतिज्ञातं भवतीत्यर्थः । यस्मिंस्तीति । ततश्च विकरणानुत्पादालादेशस्याऽसाधुवप्रसङ्गो, वि- धानसामर्थ्याद्वा साधुत्वे भावाद्यर्थावगतिर्न स्यात् , 'कर्तरि कृ'दिति वचनात्कर्तर्येव लकारः स्यादित्यर्थः । भवति चेदिति । ततश्च विकरणार्थपक्षोऽनुपपन्न एवेति भावः। एवं तहीति। प्रकारान्तरेण विकरणार्थत्वपक्षं समर्थयते। यथा 'ग्रामं गच्छतीति गमिक्रियायाः कर्तृकर्मणी साधने। तत्र कर्तरि लकारः, कर्मणि द्वितीया । तथाऽत्रा- प्येकस्मिन्नर्थे सार्वधातुकमपरस्मिन्विकरणो भविष्यतीति भावः। इदमस्येति । अय- मर्थः-यत्र पदद्वयवाच्ये कर्तृकर्मणी[साधने]तत्र विरोधाऽभावात्तन्निबन्धनः कार्य- उ.]त्यादिभिःपरत्वादिति भावः।यथान्यासेऽपि वर्तमाने ल'डित्यादिभिः सिद्धलकारा- नुवादेन काद्यर्थसंबन्धेन साधुत्वविधायकमेवेदम् । लस्य साधुत्वञ्चाऽऽदेशद्वारा बोध्यम् । ननु लुकि तदभावात्कोऽभिदध्यादत आह-लोपद्वारेणेति । 'कर्बभीति पाठः । कर्ताद्यभीति पाठे 'आदि'शब्दार्थश्चिन्त्यः । लादेशस्येति । लस्य कापि प्रयोगाऽभावादेवमुक्तम् । विधानेति । लिडिटोविधानसामर्थ्यादित्यर्थः । भाष्ये- तस्मानवमिति। 'लः कर्मण' इत्येतदित्यर्थः। 'तस्मान्मत'दिति पाठान्तरम् । ततः किम् ?। तत्राह-शक्यं नेति । यदुक्तं 'न लेनाप्यभिधानं भवतीति तद्वक्तुं शक्य- मित्यर्थः । भवति चेदिति । लेनाऽभिधानं भवति चेद्विकरणार्थत्वपक्षेऽभिहिते विकरणानामनापत्तौ तच्छास्त्रवैयर्थ्य स्यादित्यर्थः । तदाह-ततश्चेति । भाष्ये- 'एवन्तही त्यादिनोक्तं विकरणार्थत्वं दूषयति-इदमस्येति । इदम्-'प्रकृती'त्यादि । अस्य-आचार्यस्य । स्वाभाविक-लोकव्युत्पत्तिसिद्धं । वाचनिक-व्याकरणान्तर इव। प्रत्ययार्थ सहेति। प्रतीयमानार्थ सह । ब्रूतः:-एकोपस्थितिलिष्यीकुरुतः। लोके तथैव व्युत्पत्तेरिति भावः । नानार्थयो:-भिन्नार्थयोः। सहायीभावः-सहायत्वम् । १ नैवं' । २ 'लेनाऽस्याभि' । ३ 'पत्सहायी' । ४ 'अकृते' । ५ चिन्न । १० १४६ 8 कैयट-विवरणसहितं [सार्वधातुके कृत्वैकपक्षीभूतमेवेदं भवति-'सार्वधातुकार्था एवेति ॥ ननु चोक्तं 'भाव- कर्मकर्तारः सार्वधातुकार्थी इति चेदेकद्विबहुषु नियमानुपपत्तिरतदर्थत्वादि- ति ?॥ नैष दोषः। ॥*॥ सुपा कर्मादयोऽप्यर्थाः सङ्ख्या चैव तथा तिडाम् ॥॥ सुपां तिडां च सङ्ख्या चैवार्थः, कर्मादयश्च ॥*॥ प्रैसिद्धो नियमस्तत्र ॥* ॥ प्रसिद्धस्तत्र नियमः। ॥*॥नियमः प्रकृतेषु वा ॥*॥ अथ वा प्रकृतानर्थान- पेक्ष्य नियमः ॥ के च प्रकृताः?॥ एकत्वादयः। 'एकस्मिन्नेवैकवचनं, न द्वयोर्न बहुषु' । 'द्वयोरेव द्विवचनं, नैकस्मिन बहुषु । बहुष्वेव बहुवचनं, नैकस्मिन्न द्वयो'रिति॥ ॥॥ भावकर्मणोर्यग्विधाने कर्मकर्तर्युपसङ्ख्यानम्॥*॥ भावकर्मणो- प्र.]भेदो युक्तः। एकस्मिंस्तु पदे विरुद्धार्थयोर्विकरणसार्वधातुकयोर्विशिष्टार्थप्रतिपादने साहायकाऽभावात्परस्परानुपकारादप्रयोग एव स्यात्।तथा हि-'पचती'ति क्रियाविशि- छः कर्ताऽभिधीयते। 'पच्यते' इति क्रियाविशिष्टं कर्म । न त्वेकेन साधनद्वयं क्रिया- विशिष्टं प्रतिपादयितुं शक्यते । एकपक्षीभूतमिति । एक एव पक्षः-सार्वधातुका- र्थाः कर्मादय इत्यर्थः। पूर्वभेदाऽपेक्षश्च विप्रत्ययनिर्देशः । प्रसिद्धो नियम इति । अर्थनियम इत्यर्थः । कर्माद्यर्थान्तरनिर्देशान्नै प्रत्ययनियमः प्रमाणसिद्धः । तत्रै- कत्व एकवचनमेवेत्येवमेकत्वादिरों नियम्यते न तु प्रत्यय इति तस्याऽर्थान्तर- मपि कर्मादि न विरुध्यते । अथ वेति । कर्माद्यर्थविधानसामर्थ्यात्तुल्यजातीयसङ्ख्या- पेक्ष एव नियम इत्यर्थः। कर्मकर्तरीति। 'कर्मव'दित्यतिदेशेन वाश्रयस्य कार्यस्या- उ.] अयम्भावः-'पच'न्नित्यादी प्रत्ययार्थः प्रधान'मित्युत्सर्गरीत्या द्वयोरपि प्रत्य- यार्थयोःप्राधान्ये एकत्र विशेषणतयाऽन्वितप्रकृतेरपरत्र विशेषणतया संबन्धो व्युत्प- त्तिविरुद्धः,तदर्थाऽनालिङ्गितप्रत्ययार्थभानमप्युक्तव्युत्पत्तिविरुद्धमित्ययं पक्षोऽसङ्गत इति भावः । विशिष्टार्थप्रतिपादने साहायकाऽभावादिति । 'प्रकृते'रिति शेषः । पर- स्परेति।प्रकृतिप्रत्यययोरित्यर्थः।पंचतीति।आख्याते कारकविशिष्टक्रियाप्राधान्यादिदं- चिन्त्यम्।भाष्यन्तु ‘पचन्' 'पच्यमान' इत्याद्यभिप्रायकतया नेयम् । कैयटे 'पचती'- त्याद्यपि पिच'न्नित्यादेरुपलक्षणं वा। 'सहायीभाव' इत्यत्र विस्तूभयत्र तस्या असहायत्वादुपपन्नः। केचित्तु-'क्रियाविशिष्ट' इत्यस्य क्रियासहित इत्यर्थः।कर्तृविशेष- णिका कर्मविशेषणिका चेति यावत् । एकेन चोभयविशेषणिका क्रिया न प्रतिपाद- यितुं शक्येति भाष्यार्थमाहुः । तच्चिन्त्यम् । न त्वेकेनेति । धातुनेत्यर्थः । अत्र केचित्-सुपामिव तिडामपि कादिद्योतकत्वमेव, भाष्यमत्राऽपि सुयोजमेवेत्याहुः। निरूपितञ्चैतद्विस्तरेणं मजूषायामाख्यातवादे । भाष्ये-प्रसिद्धो नियमस्तत्रेति । तत्र-अर्थविषये । यतः सुपां तिडाचाऽर्थद्वयं दृश्यतेऽतः प्रत्ययनियमाऽसम्भवा- १ यीश्चेदेक' । २ श्लोकवार्तिकम् । ३ 'शातु न' । ४ 'तया' । ५ 'सहा' ।

३अ.१पा.४आ.६७सू.] व्याकरणमहाभाष्यम् 28 १४७ यग्विधाने कर्मकर्त्तर्युपसङ्ख्यानं कर्तव्यम् । पच्यते ओदेनः स्वयमेव । पठ्यते विद्या स्वयमेव ॥ किं पुनः कारणं न सिध्यति ? ॥ ॥ विप्रतिषेधाद्धि शपो बलीयस्त्वम् ॥*॥ विप्रतिषेधाद्धि शपो बलीयस्त्वं प्राप्नोति । शपोऽव- काश:-पचति पठति । यकोऽवकाश:-पच्यते ओदनो देवदत्तेन, पठ्यते विद्या देवदैत्तेनेति । इहोभयं प्राप्नोति-पच्यते ओदनः स्वयमेव,पट्यते विद्या स्व- यमेवेतिापरत्वाच्छप्पामोति॥*॥योगविभागात्सिद्धम्॥*॥योगविभागः करिष्यते- 'चिण्भावकर्मणोः। ततः] सार्वधातुके यक्' । सार्वधातुके यग्भावकर्मणोः । ततः 'कर्तरि' । कर्तरि च यम्भवति भावकर्मणोः॥ यथैव तर्हि कर्मणि कर्तरि यग्भवत्येवं भावे कर्तरि प्राप्नोति । एति जीवन्तमानन्दो नरं वर्षशतादपि' । 'नास्य किं चिजति रोग'इँति॥द्वितीयो योगविभागः करिष्यते । 'चिण्भावे'। ततः 'कर्मणि'। कर्मणि च चिण्भवतीति । ततः-'सार्वधातुके यक्' । सार्व- धातुके यग्भवति भावे च कर्मणि च ॥ ततः 'कर्तरि'। कर्तरि च यग्भवति 'कर्मणी'त्यनुवर्तते, 'भाव' इति निवृत्तम् । ततः-'शप्' । शप् च भवति । 'कर्तरी'त्येव । 'कर्मणी'त्यपि निवृत्तम् । एवमप्युपसङ्ख्यानं कर्तव्यम् । [॥*॥ विप्रतिषेधौद्धि श्यनो बलीयस्त्वम् ॥*विप्रतिषेधाद्धि श्यनो बलीयस्त्वं प्राप्नोति । श्यनोऽवकाशः-दीव्यति सीव्यतीति। यकोऽवकाशः-पच्यते ओदनो देवदत्तन, पठ्यते विद्या देवदत्तेनेति । इहोभयं प्राप्नोति-दीव्यते स्वयमेव, सीव्यते स्वयमेवेति । परत्वाच्छयन्प्रामोति ॥ ननु चैतदपि योगविभोगेनैव सिद्धम् ॥ न सिध्यति । अनन्तरा या प्राप्तिः सा योगविभागेन शक्या. प्र.]ऽबाधनात्काश्रयविकरणप्राप्तौ वचनम्। विप्रतिषेधादिति । यदा शास्त्रातिदेश- पक्षस्तदा शपो बलीयस्त्वम् । कार्यातिदेशे तु यक एव बलीयस्त्वम् । ननु चेति । उ.]दिति भावः। नियम इत्यर्थ इति । प्रत्ययनियम इत्यर्थः । ननु कर्मवद्भावादेव यक् सिद्धोऽत आह-कर्मवदिति । स्वाश्रयस्य कार्यस्येति । परत्वेन बलवत इत्यर्थः । अतिदेशस्त्वात्मनेपदादिविधानेन चरितार्थ इति भावः। बलीयस्त्वमिति । 'कर्मवदिति सूत्रस्य परत्वा'दिति शेषः । वस्तुतः कार्यातिदेशेऽप्यतिदिश्यमान- कार्याणामुत्पत्तिदेश एव देश इति प्रत्ययलक्षणसूत्रोक्तरीत्या भाष्यं समञ्जसमेव । भाष्ये एवमप्युपसङ्ख्यानं कर्त्तव्यमिति । कर्मकर्तर्युपसङ्ख्यानमित्यर्थः [भाष्ये]- १ इदं क्वचिन्न । २ इतिः क्वचिन्न । ३ 'योगविभागात्सिद्धमेतत्' इत्येवमस्य व्याख्या त्रुटिता स्यात् । ४ 'ततः सार्वधातुके यक्' इति केरिन्न । ५ भावेऽपि'। ६ ‘यक्प्राप्नोति' । ७ इदं क्वचिन्न । ८ 'कर्मणीति' । ९ इदं वार्तिकं लुप्तं प्रायः। १० इतिः क्वाचिकः । ११ 'गादेव' । १२ 'शक्यते निवारयितु ।

१४८ कैयट-विवरणसहितं. [ सार्वधातुके बाधितुम् ॥ कुत एतत् ? ॥ 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति ॥ परा प्राप्तिरप्रतिषिद्धा तया प्राप्नोति ॥ ननु चेयं प्राप्तिः परां प्राप्ति बाधेत ॥ नोत्सहते प्रतिषिद्धा सती बाधितुम् ॥ एवं तर्हि शबादेशाः श्यन्नादयः करि- ष्यन्ते, शप् च यका बाध्यते।तत्र दिवादिभ्यो यग्विषये शबेव नास्ति कुतःश्य- बोदयः ? ॥ तत्तर्हि शपो ग्रहणं कर्तव्यम् ? ॥ न कर्तव्यम् ॥ प्रकृतमनु- वर्तते ॥ व प्रकृतम् ?॥ 'कर्तरि शबिति ॥ तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः ॥ 'दिवादिभ्य' इत्येषा पञ्चमी 'श'बिति प्रथमायाः षष्टी प्रकल्पयि- प्यति-'तस्मादित्युत्तरस्येति॥ प्रत्ययविधिरयं, न च प्रत्ययविधौ पञ्चम्यः प्रक- ल्पिका भवन्ति ॥ नाऽयं प्रत्ययविधिः, विहितः प्रत्ययः, प्रकृतश्चानुवर्तते ॥ अथ वा-॥॥ भावकर्मणोरित्यनवृत्त्यैव सिद्ध सत्यनुवृत्तिर्यको भावाय ॥*॥ इह सार्वधातुके यगित्यन्तरेण भावकर्मणोरित्यनुवृत्ति सिद्धम्। सोऽयमेवं सिद्ध- सति यद्भावकर्मणोरित्यनुवर्तयति तस्यैतत्प्रयोजनं 'कर्मकर्तर्यपि यग्यथा स्या- दिति ॥ ॥ कर्तरीति च योगविभागः श्यनः पूर्वविप्रतिषेधाऽवचनाय ॥ ॥ कर्त- रीति च योगविभागः कर्तव्यः,-श्यनः पूर्वविप्रतिषेधं मा वोचमिति ॥ अथ वा कर्मवद्भाववचनसामर्थ्याद्यग्भविष्यति॥ अस्त्यन्यत्कर्मवद्भाववचने प्र.]सर्वा प्राप्तिर्योगविभागेन बाधिष्यत इति भावः। परा प्राप्तिरिति । परत्वाद्वलीय- स्त्वादित्यर्थः । ननु चेयमिति । योगविभागप्राप्तिः पूर्वविप्रतिषेधेन बाधिका भवि- ष्यतीत्यर्थः। नोत्सहत इति । न्याय्यविप्रतिषेधाश्रयणस्य युक्तत्वादुर्वलो योगविभाग- प्राप्तिक इत्यर्थः । इहेति । 'सार्वधातुके यग्भवतीति सामान्योक्तावपि कर्तरि शबा- द्यपवादविधानाद्भावकर्मणोरेव यग्भविष्यतीति भावकर्मानुवृत्तिरधिको यत्न इति कर्म- कर्तर्यपि यग्भविष्यतीत्यर्थः । अत्रापि व्याख्याने योगविभागः कर्तव्य एवेत्याह-कर्त- रीति चेति। अन्यथा भावकर्मानुवृत्तियत्नाच्छप एवानन्तरस्य बाधः स्यान्न तु श्य- उ.]परत्वाच्छयनिति । श्यन्यकोःस्वरे विशेषः। सर्वा प्राप्तिरिति। बाध्यसामान्य- चिन्तयेति भावः । भाष्ये-अप्रतिषिद्धति । अबाधितेत्यर्थः । नोत्सहते प्रतिपि- दति । 'अनन्तरस्य'ति न्यायेन तद्विषयाधीना कृता सती तां बाधितुं नोत्सहत इत्यर्थः । तद्युत्पादयति-न्याय्येति । परविप्रतिषेधेत्यर्थः । पूर्वविप्रतिषेधकल्पने न मानमिति भावः । ननु कर्त्तयपि यक्प्राप्तेः कथं सिद्धमत आह-सार्वधात्विति । भाष्ये-कर्मकर्तर्यपीति । 'पच्यते स्वयमेवे'त्यादौ शबादीन् बाधित्वेति भावः । भाष्ये पूर्वविप्रतिषेधं मा वोचमिति । अनेन पूर्वविप्रतिषेधोऽपूर्ववचनसाध्य इति १'श्यन्प्राप्नोति' ।२ 'श्यनादयः' । ३ 'अथ' । ४'त्यनुवृत्त्यैव' । 'त्यनुवृत्तिं विमा'। ५ ‘भावकर्मयहणमनु' । ६ 'य'गिति क्वचिन्न । ७ इतिः क्वचिन्न । ८ 'षेधवचनया'। ।

३अ.१पा.४आ.६७सू.] & व्याकरणमहाभाष्यम् ® प्रयोजनम् ॥ किम् ?॥आत्मनेपदं यथा स्यात् ॥ वचनादात्मनेपदं भविष्यति॥ चिण तर्हि यथा स्यात् ॥ चिणपि वचनाद्भविष्यति ॥ चिण्वगावस्तर्हि यथा स्यात्?॥ नैकं प्रयोजनं योगारम्भं प्रयोजयति । तत्र कर्मवद्भाववचनसामर्थ्या- द्यग्भविष्यति॥अथवाऽऽचार्यप्रवृत्तिापयति- भवति कर्मकर्तरि ये गिति,यदयं 'न दुहस्नुनमा यक्किणा'विति यक्किणोः प्रतिषेधं शास्ति॥ [सार्वधातुके यक् ] यसोऽनुपसर्गात् ॥ ३॥११७१ ॥ अनुपसर्गादिति किमर्थम् ? ॥ आयस्यति प्रयस्यति ॥*॥ अनुपसर्गादिति शक्यमैकर्तुम् ॥*॥ कथमायस्यति प्रयस्यती[ति] ?॥ 'संयसश्चेत्येतनियमार्थ भविष्यति-'संपूर्वादेव यसो नान्यपूर्वा'दिति ॥ [ संयसश्च ] ॥ रुधादिभ्यः श्नम् ॥३॥११७८ ।। किमर्थः शकारः?॥*॥[शकारः]सार्वधातुकार्थः॥ ॥शित्सार्वधातुकमिति सार्वधातुकसज्ञा, सार्वधातुकमपि'दिति डिन्त्वं, 'ङितीति गुणप्रतिषेधो यथा स्यात्-भिनत्ति छिनत्तीति॥ नैतदस्ति प्रयोजनं, सार्वधातुकार्द्धधातुकयोरङ्गस्य गुण उच्यते । यस्माञ्च प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गसंज्ञं भवति । यस्माश्चात्र प्रत्ययविधिर्न तत्प्रत्यये परतो, यच्च प्रत्यये परतो न तस्मात्प्रत्ययविधिः ॥ इदं तर्हि प्रयोजनम्-'आर्द्धधातुकसंज्ञा मा भूदिति ॥ किं च स्यात्?॥ वलादिलक्षण इट्वसज्येत ॥ एतदपि नास्ति प्रयोजनं, वलादेरार्द्धधातुक- प्र.]न्नादीनाम्।योगविभागेन तु तेऽपि बाध्यन्ते। वचनादिति। कर्तरि कर्मव्यतिहारे' इत्यत्र 'कर्तरी ति योगविभागात्।तत्र च कर्मग्रहणानुवर्तनादन्तरेणाप्यतिंदेशमात्मनेपदं भविष्यतीत्यर्थः । चिणपीति। चिण्ग्रहणेऽनुवर्तमाने पुनश्चिण्ग्रहणमधिकबिधानार्थ- मिति कर्मकर्तर्यपि चिण्भविष्यतीत्यर्थः । नैकमिति । अन्यथा 'स्यसिच्सीयु'- डित्यत्रैव 'कर्मणा तुल्यक्रिये कर्तरी'ति वाच्यं स्यादित्यर्थः । [सार्वधातुके ] रुधादि । भिनत्तीति । भिशब्दस्याङ्गसंज्ञानिबन्धनो गुणो मा भूदिति शित्त्वं कृतमित्यर्थः । यस्माञ्चेति । भिद्शब्दादित्यर्थः । तस्यैव रुधादित्वात्, न तु तद- उ.] सूचयति । भाष्ये-कर्मवद्भाववचनसामर्थ्यादिति । तत्सामर्थ्यादनन्तरस्येति न्यायो नाऽऽश्रीयते । किन्तु बाध्यसामान्यचिन्तैवेति भावः । [सार्वधातुके यक्] । यसोऽनु। इदं विकल्पेन श्यन्विधायकम् ।'संपूर्वादेव यस' इति सोपसर्गविषयो नियम इति भावः । एतेन एवं नियमे केवलान्न स्यादित्यपास्तम् । तदाह- नाऽन्यपूर्वादिति । [ यसोऽनुपसर्गात् ] ॥ १ 'कर्मकर्तरि यम्भवतीति' । २ इदं भाष्यमेव न वार्त्तिकमित्यन्ये । ३ इदं लुप्तं सम्प्रति । ४ 'प्रत्यये परतोऽङ्ग' । ५ 'स्माच्च प्रत्यय N १५० कैयट-विवरणसहितं, [रुधादिभ्यः स्याङ्गस्येडुच्यते । यस्माच्च प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गसंज्ञं भवति । यस्माचात्र प्रत्ययविधिर्न तत्प्रत्यये परतो, यच्च प्रत्यये परतो, न तस्मात्प्रत्ययविधिः॥ अत उत्तरं पठति-॥*॥ श्रमि शित्करणं प्वादिह्रस्वार्थम् ॥*॥ श्रमि शिकरणं क्रियते । [किं प्रयोजनं ?॥ 'प्वादिहस्वार्थम्' ] । प्वादीनां शिति हस्वत्वं यथा स्यात्-पृणति मृणतीति । ॥॥ न वा धात्वन्यत्वात् ॥*॥ न वा कर्तव्यम् ॥ किं कारणम् ? 'धात्वन्यत्वात्' । धात्वन्तरं पृणिमृणी ॥ यत्तर्हि न धात्वन्तरं-यत्र भूभ्यां वृणसे॥नैष श्नम् । श्न एतद्धस्वत्वम्॥यदि नो ह्रस्वत्वं स्वरो न सिध्यति-वृणसे । 'अदुपदेशाल्लसार्वधातुकमनुदात्तं भवती'त्येष स्वरो न प्राप्नोति । तस्माच्छमेषः ॥ यदि श्नम् , 'नसोरल्लोपः' इति लोपः प्राप्नोति । 'उपधाया' इति वर्ततेऽनुपधात्वान्न भविष्यति ॥ न स शक्य उपधाया इति विज्ञातुम् । इह हि दोषःस्यात्-अङ्गः अों- न्तीति । तस्माच्छ एवं ह्रस्वत्वम् ॥ [यद्येवं] स्वरः कथम् ? ॥ ॥*॥ बहुलं पित्सार्वधातुकं छन्दसि ॥*सार्वधातुकस्य बहुलं छन्दसि पित्त्वं वक्तव्यम् । पितोऽपित्त्वं दृश्यते,-अपितश्च पित्त्वम् । पितस्तावदपित्वं,-मातरं प्रमि- णीमि"जनित्रीम् । अपितः पित्त्वं-शृणोत ग्रावाणः॥तत्तर्हि [श्नो"]हस्वत्वं वक्तव्यम् ?॥ अवश्यं छन्दसि ह्रस्वत्वं वक्तव्यम्-'उपगायन्तु मां पत्नयो गर्भि. गयो युवतय' इत्येवमर्थम् ॥ विशेषणार्थस्तर्हि ॥ व विशेषणार्थनार्थः ? ॥ प्र.वयवाद्भिशब्दात्प्रत्ययविधानम् । पृणतीति। पृ मृ इति ज्यादिषु पठितो, ताभ्यां व्यत्ययेन श्नम्प्रत्ययः। धात्वन्तरमिति । तौदादिकावित्यर्थः । वृणस इति । .' वरणे' इति कथादिस्तस्माद्यत्ययेन श्रम्थासौ । न इति । छान्दसमिति भावः । अङ्ग इति । 'श्नान्नलोप' इत्यस्याऽसिद्धवदत्राभादादित्यसिद्धत्वादकारस्योपधात्वा- ऽभावः । प्रमिणीमीति । मीनो 'मीनातेनिगम' इति ह्रस्वः । मिपोऽपित्त्वान्डित्त्वे उ.] रुधादिभ्यः श्रम् ।भाष्ये-आर्द्धधातुकस्याङ्गस्येति । अङ्गसंज्ञानिमित्तस्यार्द्धधातु- कस्येत्यर्थः। पृम्रोः क्रयादित्वात्तयोः श्नम् दुर्लभोऽत आह-व्यत्ययेनेति । 'इति क्रयादि'रिति, कैयादिक' इति वा पाठः । ननु श्रान्नलोपे उपधात्वं सुलभमत आह- असिद्धत्वादिति । भाष्ये-पित्वं वक्तव्यमिति । एवञ्च तेनाऽनुदात्तत्वं सिद्धमि- १ प्रत्यये परतोऽङ्ग' । २ इदं क्वचिन्न । ३ इदं प्रायिकम्' । ४ 'वक्तव्यं । ५ 'धात्वन्तरे' । ६ भूम्या' । ७ 'एवैतद्भ'। ८ 'लोपः प्रसज्येत' । ९ 'न शक्य- मुप'।१० इतिः क्वचिन्न । ११ एवैतद्रस्व'। १२'छन्दसि बहुलं'। १३श्चैवाऽपित्त्वं'। १४ 'जनयिनी' । १४ 'अपितश्च पित्त्वं' । १६ 'विशेषणार्थ' । ।

३अ.१पा.४आ.७९सू.] 28 व्याकरणमहाभाष्यम् 8 .. 'भान्नलोप' इति॥ 'नानल्लोप' इ[तीय]त्युच्यमाने यज्ञानां यत्नानामित्यत्रापि प्रसज्येत ॥ दीर्घत्वे कृते न भविष्यति ॥ इदमिह संप्रधायं दीर्घत्वं क्रियतां नलोपं इति, किमत्र कर्तव्यम्?॥ परत्वाबलोपः स्यात्। तस्माच्शकारः कर्तव्यः। अथ क्रियमाणे शकारे इह कस्मान्न भवति विश्नानां प्रश्नानामिति ?॥ 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ॥ [रुधादिभ्यः श्नम् ] ॥ तनादिकृभ्य उः ॥ ३॥१॥७९॥ अथ किमर्थं करोतेः पृथग्ग्रहणं क्रियते न 'तनादिभ्य' इत्येवोच्येत ?॥ अन्यानि तनोत्यादिकार्याणि मा भूवन्निति ॥ कानि?॥अनुनासिकलोपादीनि । दैवरक्ताः किंशुकाः ॥ अनुनासिकाऽभावादेवानुनासिकलोपो न भविष्यति ॥ इदं तर्हि-तनादिकार्य मा भूत्तनादिभ्यस्तथासोरिति ॥ ननु च भवत्येवाऽत्र 'हस्वादङ्गा दिति ॥ तेनैव यथा स्यादनेन मा भूदिति ॥ कश्चाऽत्र विशेषस्तेन वा सत्यनेन वा?॥तेन सति सिज्लोपस्याऽसिद्धत्वाचिण्वद्भावः सिद्धो भवति । अनेन पुनः सति चिण्वद्भावो न स्यात् ॥ अनेनाऽपि सति चिण्वद्भावः सिद्धः : । कथम् ?॥ विभाषा लुक् । यदा न लुक्तदा तेन लोपः। तत्र सि- प्र.]सतीत्वम्। परत्वादिति। यत्तु 'सुपि चेति दीर्घत्वं,तत् सन्निपातलक्षणपरिभाषा- वशान्न प्रवर्तते । यत्त्वन्यत्रोक्तं 'नामि दीर्घात्परत्वात् मुपि चेति भवितव्य'मिति तत्सन्निपातपरिभाषाया अनित्यत्वाश्रयेणेति न विरोधः । लक्षणेति । लाक्षणिकस्या- ऽनुमीयमानरूपत्वात्प्रतिपदोक्तस्य तु प्रत्यक्षत्वादितिभावः । [ रुधादिभ्यःश्नम् ॥ तनादि । विभाषा लुगिति। ननु येन नाप्राप्तिन्यायेन लुका 'ह्रस्वादशादिति उ.]त्यर्थः। अनित्यत्वाश्रयणेनेति । ननु तत्सूत्रविषये तत्परिभाषायाः ‘कष्टाये'त्या- दिनिर्देर्शरनित्यत्वावश्यकत्वेनाऽऽम्विषयेऽपि तत्त्वमाश्रित्य शः प्रत्याख्येय इति चेन्न, नलोपविधायकेऽङ्गाऽवयवश्नमः परस्य नस्य लोप इत्यर्थेऽनैमित्तिकतयाऽन्तरङ्गत्वेन, 'मुपि चे'त्यस्य परनिमित्तकतया बहिरङ्गत्वेन तस्याऽसिद्धतया नलोपप्राप्तेरित्याश- यात् । भाष्ये-परत्वादिति । अन्तरङ्गत्वस्याऽप्युपलक्षणम् । किञ्च 'सुपि चे'त्यतो 'नामीति नित्यं,विशेषाऽभावेऽपि शास्त्रप्राप्तेः सत्त्वात् । ध्वनितञ्चेद'मायादय' इति सूत्रे 'इको झलित्यत्र च भाष्ये इति वदन्ति ॥ [ रुधादिभ्यः श्नम् ] ॥ तनादिकृभ्यः । भाष्ये-अनेन माभूदिति । अन्यथा तस्याऽसिद्धत्वादनेनैव स्यादिति भावः । ननु येन नेति । न च 'ह्रस्वादङ्गा'दित्यस्याऽसिद्धत्वात्कथं तेन १ नान्नलोप' । २ 'माणेऽपि'। ३ 'अथेति कचिन्न । ४ 'करोतः पृथग्ग्रहणं तनादिकार्याऽभावार्थमिति वार्तिकं लुप्तमत्र भवेत् । ५ 'कः पुनरत्र' । ६ 'सिद्धश्चिण्वद्भावः' । ७ 'तदा सिज्लोपः' । ॥

१५२ * कैयट-विवरणसहितं. [ तनादिक .. .. ज्लोपस्याऽसिद्धत्वाचिण्वद्भावः सिद्धो भवति ॥ *॥ तनादित्वात्कृञः सिद्धं सिज्लोपे च न दुष्यति ॥ चिण्वद्भावेऽत्र दोषः स्यात्सोऽपि प्रोक्तो विभाषया ॥*॥ धिन्विकृण्व्योर च ॥ ३३११८० ॥ कायमकारः श्रयते ?॥ न व चिच्छ्रयते, लोपोऽस्य भवत्येतो लोप आर्द्धधातुक इति ॥ यदि न क चिच्छूयते किमर्थमत्वमुच्यते न लोप एंवो- च्येत ॥ नैवं शक्यं, लोपे हि सति गुणः प्रसज्येत । अत्वे पुनः सति अकार- लोपस्य स्थानिवद्भावाद्गुणो न भवति ॥ ननु च लोपेऽपि सति 'न धातु- लोप आर्द्धधातुक' इति प्रतिषेधो भविष्यति ॥ आर्द्धधातुकनिमित्ते लोपे स प्रतिषेधो, न चैष आर्द्धधातुकनिमित्तो लोपः। अपि च प्रत्याख्यायते से योगः। तस्मिन्प्रत्याख्याते गुणः स्यादेव । तस्मादत्वं वक्तव्यम् ॥ अथ किमर्थ नुमनुषक्तयो र्धिन्विर्कण्व्यो]र्ग्रहणं क्रियते न 'धिविकृव्यो रित्ये- वोच्येत ?॥ 'धिविकृव्यो रित्युच्यमानेऽत्वे कृतेऽनिष्टे देशे नुम् प्रसज्येत॥ इद- मिह संप्रधार्यमत्वं क्रियतां नुमिति, किमत्र कर्तव्यम् ? ॥ परत्वानुमागमः॥ अन्तरङ्गमत्वम् ॥ काऽन्तरङ्गता ? ॥ प्रत्ययोत्पत्तिसंनियोगेनाऽत्वमुच्यते । प्र.]लोपो बाध्यत इति कथं लुगभावपक्षे लोपः स्यात् । नैष दोषः । यत्र पक्षे लुक् प्रवर्तते तत्राऽसौ लोपस्य बाधको न त्वप्रवर्तमानः । [ तनादिकृन्भ्य उः] । धिन्वि । आर्द्धधातुकनिमित्त इति । 'धातुलोप' इति बहुव्रीह्याश्रयणादिति भावः । न चैष इति । सन्नियोगशिष्टत्वान्निमित्तनिमित्तिभावाऽसङ्गः । अत्वे कृत- उ.]येननाप्राप्तिन्यायः,तनादिपाठस्तु विकरणार्थः स्यात् ,विकल्पोऽपि तनादौ चरितार्थ इति वाच्यम् , असिद्धत्वेऽपि यदीदं न स्यात्तदा स्यादेव 'हस्वादङ्गादित्यस्य प्राप्ति'- रित्याशयात् । यदुत्सर्गप्रवृत्तौ विकल्पवैयर्थ्यं स उत्सर्गोऽपवादाऽभावपक्षेऽपि न प्रवर्तत एवेत्युत्तराशयः। भाष्ये-सोऽपि प्रोक्त इति । लुक् , चिण्वद्भावश्चेत्यर्थः एवञ्च सूत्रे कृञ्ग्रहणम्प्रत्याख्यातम् । एतेन कृञ्ग्रहणं गणकार्याऽनित्यत्वज्ञापनार्थम् , तेन 'न विश्वसे'दित्यादिसिद्धिरित्यपास्तम् । 'न विश्वसे'दित्याद्यसाध्येव ॥ धिन्विकृण्व्यो।भाष्ये-ननु चलोपे सति न धात्विति।समुच्चयविषये एकसम- भिव्याहृतस्याऽपरसमभिव्याहृतार्थाऽधीनत्वप्रतीतेरनुभवसिद्धतया 'द्विवंचनेऽची'ति च तद्भावभावितामात्रेणाऽऽर्द्धधातुकनिमित्तो लोपः । तद्भावभाविता च समकालो- १ 'वो वा भविष्यति'। २ 'भावे न दो'। ३ 'भविष्यत्यतो। ४ 'मय- मुच्य' । ५'इत्येवो'। ६ 'भविष्यति' । ७ 'खल्वपि स योगः' ।८ 'षक्तयोर्ग्रहणं' । ९ इदं क्वचिन्न । १० 'रितीयत्यु' । ११ 'नुम्क्रियतामत्वमिति' ।१२ भावाऽभावः'।

.. ३अ.१पा.४आ८३सू.) 8 व्याकरणमहाभाष्यम् & १५३ उत्पन्न प्रत्यये प्रकृतिप्रत्ययावाश्रित्याङ्गस्य नुमागमः॥ नुमप्यन्तरङ्गः ॥ कथम् ?॥ वक्ष्यत्येत 'सुम्विधावुपदेशिवद्वचनं प्रत्ययविध्यर्थ'मिति। उभ- योरन्तरङ्गयोः : परत्वानुमागमः। तस्माद्धिविकृव्योरिति वक्तव्यम् ॥[धिन्विकृ] । हलः श्नः शानज्झौ ॥ ३॥११८३॥ किमर्थः शकारः ? ॥ 'शित्सार्वधातुक'मिति सार्वधातुकसंज्ञा, सार्वधा- तुकमपि'दिति ङित्त्वं,डितीति प्रतिषेधोयथास्यात्कुषाण पुषाणेति।अत उत्तरं- पठति ॥*॥ नाविकारस्य शित्करणानर्थक्यं स्थानिवत्त्वात् ॥*॥ भाविकारस्य शित्करणमनर्थकम् ॥ किं कारणम् ? ॥ 'स्थानिवत्त्वात्' । शितोऽयमादेशः स्थानिवद्भावाच्छिद्भविष्यति ॥ ॥अर्थवत्तु ज्ञापकं सार्वधातुकादेशेऽनुबन्धाऽस्था- निवत्त्वस्य ॥*॥ अर्थवत्तु भाविकारस्य शित्करणम् ॥ कोऽर्थः ? ॥ 'ज्ञापका- र्थम् ॥ किं ज्ञाप्यं ? ॥ एतज्ज्ञापयत्याचार्यः'-'सार्वधातुकादेशेऽनुबन्धा न स्थानिवद्भवन्तीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ॥*॥ प्रयोजनं हितातडो- रपित्त्वम् ॥ ॥[प्रयोजनं हितातडोरपित्त्वं] ॥ हेः पित्त्वं न प्रतिषेध्यं, पितो. ऽयमादेशः स्थानिवद्भावात्पित्स्यात् ॥ सार्वधातुकादेशेऽनुबन्धा न स्थानिवद्भ- वन्तीति नायं पिद्धविष्यति । तातङि च डकारो नोञ्चार्यो भवति । पितोऽय- मादेशः स्थानिवद्भावात्पित्स्यात्॥सार्वधातुकादेशेऽनुबन्धा न स्थानिवद्भवन्ती- ति नाऽयं पिद्भविष्यति॥ ॥तबादिषु चाऽङित्त्वम्॥ ॥तबादिषु चाऽङित्त्वं प्रयो- जनम् । [तर्बादिषुचाऽडित्वं प्रयोजनम्]। शृणोत ग्राघाणः । ङित इमे आदे- प्र.]इति । अकारात्परः स्यादित्यर्थः । उत्पन्ने प्रत्यय इति । नुम्विधावङ्गाधिकारा- दिति भावः । [धिन्विकृणव्योर च] ॥ हलः श्नः शा। तबादिप्विति । 'तप्तनप्तनथनाश्चेति शृणोतेत्येवमादौ ये उ.]त्पत्तावप्यन्वयव्यतिरेकगम्या सन्नियोगशिष्टानां सह प्रवृत्तेनिवृत्तेश्चेति भावः । सन्नियोगेतिाननु तादृशविषये परनिमित्तत्वाऽभावेऽपि केवलनिमित्तत्वाऽभावे माना- ऽभावः । 'जीरदानोरुदाहरणत्व'मिति वदतो वाक्यकारस्य तद्भावभावितामात्रेणैव निमित्तत्वनिवेशस्येष्टत्वाच्चेति चेन्न; पूर्वकालवत्तिबुद्ध्या विषयीकृतस्यैव निमित्त- त्वमित्याशयात् । भाष्ये-अपि च प्रत्याख्यायत इति । अनेन सूत्रमताऽपेक्षया प्रत्याख्यानवादिमतम्प्रबलमिति ध्वनितम् । एतन्मूलकमेव पठ्यते-'यथोत्तरं मुनी- नाम्प्रामाण्य मिति ॥ [धिन्विकृण्व्योर च] । हलः नः। भाष्ये-ज्ञापनार्थ इति । ज्ञापनरूपोऽर्थः प्रयोजनमित्यर्थः । हे: १ 'कृतीति गुणप्रति । २ 'स्थानिवद्भावात्' । ३ 'ज्ञाप्यते'।४ इदं व्याख्या- भाष्यं त्रुटितं स्यात् । ५ 'ङित्त्वं न प्रतिषेध्यं । ६ अयं पाठो लुप्त इत्यनुमीयते ।

१५४ कैयट-विवरणसहित [हलः श्नः . शाःस्थानिवद्भावान्डितःस्युः। सार्वधातुकादेशेऽनुबन्धा न स्थानिवद्भवन्तीति नेमे डिस्तो भवन्ति ॥॥ तस्य दोषो मिप आदेशे पिदभावः ॥*॥ तस्यैतस्य लक्षणस्य दोषो मिप आदेशे पितोऽभावः। अचिनवम् असुनवम् , अकरवम् । पितोऽयमादेशः स्थानिवद्भावात्पिद्भवति, सार्वधातुकादेशेऽनुबन्धा न स्थानि- वनवन्तीति नायं पित्स्यात्॥अत्यल्पमिदमुच्यते 'मिप आदेश' इति।॥॥ति- सिम्मिपामादेशा इति वक्तव्यम्॥*॥। वेद वेत्थ॥ ॥ विदेर्वसोः शित्त्वम् ॥१॥ विदेरुत्तरस्य वसोः शित्त्वं वक्तव्यम् । शितोऽयमादेशः स्थानिवद्भावाच्छिद्भ- वति । सार्वधातुकादेशेऽनुबन्धा न स्थानिवद्भवन्तीति नाऽयं शित्स्यात् ॥ ॥*॥कित्करणाद्वा॥* ॥[कित्करणाद्वा सिद्धम् ]॥ अथ वाऽवश्यमत्र सामा- न्यग्रहणाऽविघातार्थः ककारोऽनुबन्धः कर्तव्यः ॥क सामान्यग्रहणाविघातार्थे- नाऽर्थः ?॥'वसोः संप्रसारण मिति । तेनैव यत्नेन गुणो न भविष्यति॥ अस्य ज्ञापकस्य सन्ति दोषाः सन्ति चे प्रयोजनानि । समा दोषा भूयांसो वा । तस्मानार्थोऽनेन ज्ञापकेन।कथं यानि प्रयोजनानि?क्रियन्ते न्यास एव॥एवमपि भवेत्पित्करणसामर्थ्यात्पित्कृतं स्यान्डित्करणसामर्थ्यान्डित्कृतम् , यत्तु खलु पिति डिस्कृतं प्राप्नोति ङिति च पित्कृतं केन तन्न स्यात् ? ॥ तस्माद्वक्तव्यं- 'पिन्न ङिद्भवतीति, डिच्च न पिद्भर्वतीति ॥ न वक्तव्यम् ।एवं वक्ष्यामि ['सा- प्रतिडां ङितामादेशा विधीयन्ते ते तबादयः।एवमपीति। पित्त्वनिमित्तमनुदात्तत्वं, भवतु ब्रूताद्भवानीतीडागमश्च। ङित्त्वनिमित्तश्च गुणवृद्धिप्रतिषेध इत्यर्थः। पिन्नेति । अपिदिति प्रसज्यप्रतिषेध आधीयते । पिद्भवन् डिन्न भवतीत्यर्थः। योगविभागाद्या च यावती सार्वधातुकस्य ङित्त्वप्राप्तिस्सर्वाऽमा निषिध्यते।असंयोगादिति ।अत्र ढिद- पिदिति वर्तते।तेन ढिद्भवन् पिन्न भवतीति तातङः स्थानिवद्भावप्राप्तं पित्त्वं निषिध्यते। उ.]पित्त्वं नेति । अपिद्रहणं नं कार्यमित्यर्थः। शङ्कते-पितोऽयमिति। उत्तरयति- सार्वधातुकादेश इति । तबादिषु च डिवं न प्रतिषेध्यमिति भाष्ये। ङित्व- प्रतिषेधाय पित्त्वं न कार्यमिति भावः । तबादिष्विति निर्धारणे सप्तमी । न च स्थानिवत्त्वप्रयुक्तङित्त्ववारणेऽपि स्थानिवद्भावेन सार्वधातुकत्वात् 'सार्वधातु- कमपिदिति उित्त्वप्रतिषेधाय पित्त्वमावश्यकमिति वाच्यम् , एतदाशये- नैव 'क्रियन्ते न्यास एवेति वक्ष्यत इत्यदोषात् । हेरपित्त्वमनुदात्तसेः स्थाने आन्तरतम्यात्प्राप्तस्यानुदात्तहेर्वारणार्थमावश्यकमिति तातोऽपि डित्त्वमन्त्या- देशार्थमावश्यकमिति न तद्भावः। [भाष्ये-]अवश्यमत्रेति । उकार इत्संज्ञकत्वेऽपि १'भविष्यन्ति'।२ इदं क्वचिन्न । सिद्ध'मिति वार्तिकेऽपि पठन्ति। ३'तानि क्रियन्ते'। ४ 'पिन्न भवतीति'। इतिः क्वचिन्न । इदं वार्तिकं वा । ५ अयं पाठो लुप्तः स्यात् ।

३अ.१पा.४आ.८४सू.] - व्याकरणमहाभाष्यम् , र्वधातुकर्मपित्']। सार्वधातुकं ङिद्भवति पिन ॥ एवं तावपितो ङित्त्वं प्रति- षिद्धम् । ततः-[ 'असंयोगाल्लिट्वित्'] । असंयोगाल्लिविद्भवति, डिच्च पिन्न भवति । एवं डितः पित्त्वं प्रतिषिद्धम् ॥ [ हलः श्नः शानज्झौ] । छन्दसि शायजपि ॥ ३१॥८४॥ ॥*॥ शायच् छन्दसि सर्वत्र ॥ ॥ शायच् छन्दसि सर्वत्रेति वक्तव्यम्। क सर्वत्र ?॥ हो चाहौ च ॥ किं प्रयोजनम् ?॥ ॥ [प्रयोजन] मही अस्कभी- यझ्यौरस्कभौयदुभायत उन्मथायतेत्यर्थम् ॥ ॥ [छन्दसि शायजपि] । व्यत्ययो बहुलम् ॥ ३३११८५ ॥ ॥*॥ योगविभागः कर्तव्यः ॥॥ [ व्यत्ययः'] । व्यत्ययो भवति स्यादी- नामिति । आण्डा शुष्णस्य भेदति। भिनत्तीति प्राप्ते । स च न मरति । म्रि- यत इति प्राप्ते । ततो 'बहुलम्'। बहुलं छन्दसि विपये सर्वे विधयो भव- न्तीति । सुपां व्यत्ययः,तिङां व्यत्ययः,वर्णव्यत्ययः, लिङ्गव्यत्ययः, कालव्यत्य- यः, पुरुषव्यत्ययः, आत्मनेपदव्यत्ययः, परस्मैपदव्यत्यय इति । सुपां व्यत्ययः- युक्ता मातासीद्धरि दक्षिणायाः । दक्षिणायामिति प्राप्ते ॥ तिङां व्यत्ययः-च- पालं ये अश्वयूपाय तक्षति। तक्षन्तीति प्राप्ते ॥ वर्णव्यत्ययः-त्रिष्टुभौजः शुभि- तमुग्रवीरम् । सुहितमिति प्राप्ते। लिङ्गव्यत्ययः-मधोर्गृह्णाति । मधोस्तृप्ता प्र.] छन्दसि। अस्कभायदिति।स्कम्भुः सौत्रो धातुः।लङि तिप्नः शायच् ,अडागमः। उ.]सामान्यग्रहणार्थो वा तदनुबन्धकपरिभाषाप्रवृत्त्यर्थो वेति सन्देहः स्यादिति।तस्मा- सार्थोऽनेनेति । न च वक्ष्यमाणेति ङीबापत्तिनुंडादेशत्वेन टित्त्वादिति वाच्यं, सत्यभिधाने तत्राऽजादिपाठाट्टासिद्धः। एतेन इदं शित्वं क्वचित्स्थानिवत्त्वेनाऽनुब- न्धकार्याऽभावस्य ज्ञापकमित्यपास्तम् । भाप्ये-एवमपीत्यस्य केन तन्न स्या'दित्यने- नान्वयः । पिति ङित्कृतमिति । 'अवे'दित्यादौ लङस्तिपः पित्त्वादनुदात्तत्वमस्तु, स्थानिवद्भावेन ठित्त्वाद्गुणनिषेधश्च प्राप्नोतीत्यर्थः। आदेशविधी विशिष्टस्याऽननु- वादान्ठित्त्वाद्यतिदेशेऽनल्विधाविति निषेधाऽप्रवृत्तेः । 'डिति पित्कृत'मित्यस्योदाहर- णमाह-ब्रूतादिति । अत्राऽनुदात्तत्त्वं, 'ब्रुव ईडितीडागमश्चापाद्यौ ॥ छन्दसि शाय । अडागम इति । 'लुङ्लङ्लङ्खिति ॥ [ छन्दसिशा] ॥ व्यत्ययो ब । भाष्ये-स्यादीनामिति । स्यतासिप्रभृतीनामित्यर्थः । मधुन इति प्राप्ते इति । अमृतक्षीराऽन्यतरवाचिनित्यनपुंसकाभिप्रायमिदम् । उपग्रहः- लादेशव्यङ्गं स्वार्थत्वादि। इह तत्प्रतीतिनिमित्ते परस्मैपदात्मनेपदे उपग्रहशब्देन १ इदं क्वचिन्न । २ 'भवतीति' । ३ 'महीरस्क' । यो अस्क'। ४'त्येवम'। " इदं भाष्यमित्यन्ये । ६ पुरुषव्यत्ययः कालव्यत्ययः' ।७ शुनित' ।८'शुधित' 'शुफित'।

* कैयट-विवरणसहितं. [ लिब्याशि इवासते । मधुन इति प्राप्ते । कालव्यत्ययः-श्वोऽमीनाधास्यमानेनाश्वः सोमेन यक्ष्यमाणेन । आधाता यष्टेत्येवंप्राप्ते । पुरुषव्यत्ययः-अधा स वीरैर्दशभिर्वि- यूयाः। वियूयादिति प्राप्ते । आत्मनेपदव्यत्ययः-ब्रह्मचारिणमिच्छते । इच्छ- तीति प्राप्त। परस्मैपदव्यत्ययः-प्रतीपमन्य ऊर्मियुध्यति । युध्यत इति प्राप्ते । ॥*॥ सुप्तिङपग्रहलिङ्गनराणां कालहलच्खरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन ॥*॥ लिड्याशिष्यङ्॥ ३३१२८६ ॥ अयमाशिष्यविधीयते तस्य कि प्रयोजनम् ? ॥*॥ आशिष्यप्रयोजनं स्थागागमिवचिविदयः ॥ ॥ [आशिष्यङः प्रयोजनं स्थागागमिवचिविदयः] ॥ स्था-उपस्थेयं वृषभं तुग्रियाणाम् । स्था ॥ गा-अञ्जसा सत्यमुपगेयम् । गा ॥ गमि-यज्ञेन प्रतिष्टां गमेयम् । गमि॥ वचि-मन्त्रं वोचेमाग्नये । वचि॥विदि- विदेयमेनां मनसि प्रविष्टाम् । [विदि] ॥ ॥ शकिरेहोश्च ॥ ॥ शकिहोश्चेति वक्तव्यम् । शकेम त्वा समिधं [साधया श्रियः] । अस्रवन्तीमारुहेमा स्व- स्तये ॥*॥ दृशेरक् पितरं च दृशेयं मातरं च [दृशेयम् ]॥*॥ दृशेरग्वक्तव्यः । [किं प्रयोजनम्?]॥ पितरंच दृशेयं मातरं च दृशेयमित्येवमर्थम्।इह उपस्थेयामे- त्यापि वक्तव्यो न ह्यडैव सिध्यति॥न वक्तव्यः॥ सार्वधातुकत्वात्ति:सलोप आर्द्धधातुकत्वादेत्वम् । तत्रोभयं लिङ्गासिद्धम् ॥ इति श्रीमद्भगवत्पतञ्जलि- विरचिते व्याकरणमहाभाष्ये तृतीयस्याऽध्यायस्य प्रथमे पादे चतुर्थमाह्निकम्॥ कर्मवत्कर्मणा तुल्यक्रियः ॥ ३११८७ ॥ वत्करणं किमर्थम् ? ॥ स्वाश्रयमपि यथा स्यात्-भिद्यते कुसूलेनेति । प्र.] लिड्याशि । दृशेरगिति । अङि गुणः स्यात् । उपस्थेयामेति । स्था, लि- ङ्, मस् ,यासुट ,अङ्, आकारलोपः,सलोपश्च। अतो येय' इति इय् ।मस्याडागमः कार्योऽन्यथा यलोपे सति उपस्थेमेति स्यात् ॥ इति श्रीमदुपाध्यायजैयटपुत्रकैयट- विरचिते भाष्यप्रदीपे तृतीयस्याध्यायस्य प्रथमे पादे चतुर्थमाह्निकम् ॥ कर्मवत्कर्मणा । वत्करणमिति । विनापि वतिना परार्थे शब्दप्रयोगात्तदर्थ- उ.] लक्षणयोच्यते ॥ [ व्यत्ययो बहुलम् ] ॥ लिड्याशिष्यङ्। गास्थोरङभावे 'अतो येय'इति न स्यात् । अङि गुण इति। 'ऋदृशो ङि' इत्यनेनेति भावः । भाष्ये-आडपीति। 'मस्य'ति शेषः। आकारलोप इतिअङमाश्रित्य आतो लोप इटि चे त्यालोपः। भाष्ये आर्द्धधातुकत्वादेत्त्वमिति । १ इदं क्वचिन्न । २ इदं व्याख्याभाष्यं त्रुटितं स्यात् । ३ ‘ह्योश्च'। इदं वार्तिकं प्रायो लुप्तम् । ४ 'मेत्याङपि' । ५ 'कत्वात्सलोपः' । ६ 'भयलिङ्गत्वा' । .. .

३अ.१पा.५आ.८७सू.] ॐ व्याकरणमहाभाष्यम् 28 अकर्मकाणां भावे लो भवतीति भावे यथा लो स्यात्॥कर्मणेति किमर्थम् ?॥ करणाधिकरणाभ्यां तुल्यक्रियः कर्ता यः सकर्मवन्मा भूत, साध्वसिछिनत्ति प्र.]लाभ इति भावः। स्वाश्रयमपीति। असति वत्करणे कर्तुः कर्मसंज्ञा विज्ञायेत । ततश्चाऽकर्मकव्यपदेशाऽभावाद्भावे लो न स्यात् । वत्करणे तु सति कर्मकार्याणि कर्तुरतिदिश्यन्ते न तु स्वाश्रयं कार्य निवार्यत इति भावे लस्सिद्धो भवतीति लादे- शेन कर्तुरनभिधानात्तृतीया भवति,-भिद्यते कुसूलेनेति । न चाऽसत्यपि वत्क- रणे लान्तस्य कर्तेति वक्ष्यमाणेन भावे लस्सिध्यति । यस्माद्भावे लविधिान्तस्य कार्यमिति स्वाश्रयनिवारणं स्यादेव । कर्मणेति किमिति । धातुवाच्या क्रिया कर्तृ- कर्मणोरेव समवेता, तत्र कर्तृस्थया क्रियया तुल्यक्रियः कर्ता न संभवतीति कर्म- स्थैव क्रियाऽऽश्रयिष्यत इति भावः । साध्वसिश्छिनत्तीति । ननु करणादिव्यापारो धातुना नाऽभिधीयते, यदा त्वभिधीयते तदा तेषां कर्तृत्वमेव,न तु करणादिरूपता। न च कर्तृकर्मव्यतिरेकेण कारकान्तराश्रयत्वं क्रियाया उपपद्यते । नैष दोषः । उ.] वाऽन्यस्यसंयोगादेः' इत्यनेन । अङभावोऽपि छान्दसत्वादिति बोध्यम् । उभय- लिङ्गत्वादिति । 'छन्दस्युभयथे'त्यनेनोभयसंज्ञकत्वादित्यर्थः ॥ इति श्रीनागेशभट्टविरचिते भाष्यप्रदीपोझ्योते तृतीयस्य प्रथमे चतुर्थमाह्निकम् ॥ कर्मवत्क । 'तेन तुल्य'मिति वतिः, उपमेये प्रथमादर्शनात् । कर्मणेति पारिभाषिकस्य कर्मणो ग्रहणं, कृत्रिमत्वात, सामर्थ्याच्च 'तुल्यक्रिय' इत्येतावतैव क्रियया तुल्यत्वस्य लाभात् । न ह्यक्रियया क्रिया तुल्या भवति । ननु वत्यर्थलाभे स्वाश्रयमपि भविष्यतीत्यत आह-असतीति । तदभावे तल्लाभ एव न भवतीति भावः । संज्ञेति । 'अधिशी डितिवदिति भावः । अकर्मकव्यपदेशाऽभावादिति । एतच्छास्त्रीयकर्मसंज्ञकाऽन्वयित्वमेव सकर्मकत्वमिति भावः। ननु भावे ले कर्तरि वा ले को विशेषोऽत आह-लादेशेनेति । तृतीया भवतीति । कर्तरि लादेशे तु सा दुर्लभेति भावः । न चाऽसत्यपीति । लान्तवाच्यः कर्ता कमत्यर्थं मत्वा शङ्का । ततश्च यावत्कर्तरि न लस्तावत्कर्मसंज्ञाऽभावादकर्मकत्वेन भावे लेऽपि सिध्यती- त्यर्थः। 'लान्तस्य कार्ये कर्तव्ये कर्ता कम'त्यर्थं मत्वोत्तरयति-यस्मादिति। ततश्च भावे लेऽपि कर्तव्ये कर्त्तः कर्मत्वं स्यात् । ततश्चाऽकर्मकत्वाऽभावाद्भावे लो न स्यादिति भावः । 'लः कर्मणीति विधेर्यग्विध्युक्तरीत्या साधुत्वाऽऽख्यापकत्वाल्ला- न्तकार्यत्वं बोध्यम् । वस्तुतो लवाच्यस्यैव कर्तुः कर्मवत्त्वेन नेदं वतेः प्रयोजनम्। 'नमते दण्ड' इत्यादौ शप्सिद्धिस्तु मुख्यं प्रयोजनं वक्ष्यति । धातुवाच्येति । प्रत्यासत्त्या धातुवाच्यक्रियापेक्षयैव तुल्यक्रियत्वस्य ग्रहणमिति भावः । प्रत्यासत्ति- १ इदं क्वचिन्न । २ 'ख्यायक' । ३ 'क्रिययैव' ।

१५८ कैयट-विवरणसहितं [ कर्मवत् साधु स्थाली पर्चति ॥ तुल्यक्रिय' इति किमर्थम् ? ॥ पचत्योदनं देवदत्तः ॥ 'तुल्यक्रिय' इत्यप्युच्यमानेऽत्र प्रामोति । अत्रापि हि कर्मणा तुल्यक्रियः कर्ता। प्र.]यद्यपि करणादिव्यापारो धातुवाच्यो न भवति तथापि स्वव्यापारं कुर्वन्ति करणा- दीनि प्रधानक्रियां साधयन्ति । तत्राऽवश्यं तुल्यक्रियत्वं कर्तुराश्रयितुमवस्थान्तर- मपेक्षणीयम्-'अवस्थाऽन्तरयुक्तक्रियया तुल्यक्रियः कर्ते'ति। ततश्च कर्मावस्थावत्कर- रणाद्यवस्था अप्याश्रीयेरन्। प्रधानन्यापारश्च कर्तृकर्मणोरेव स्थितो न त्ववान्तरव्यापा- रोऽपि, तस्य सर्वत्रैव कारके व्यवस्थानात्।यद्यपि स्वव्यापारे कर्तृत्वंतस्य तथापि प्रधा- नक्रियापेक्षलब्धकरणादिव्यपदेशवस्तुव्यवस्थितक्रियातुल्यत्वग्रहणनिवारणाय 'कर्मणे'- ति कर्तव्यमेव । यद्यपि करणादिव्यापारस्य धातुवाच्यत्वं नास्ति, तथापीह सूत्रे धातुवाच्यत्वस्य शब्देनाऽनाश्रयणाद्वस्तुसद्भावाश्रयेण प्रसङ्गः स्यादेव। साधु स्थाली पचतीति । स्थाल्या अधिकरणत्वे यादृशी धारणसंभवनादिरूपा किया तादृश्येव कर्तृत्वेऽपीति स्यात्कर्मवत्त्वम् । तुल्यक्रिय इति किमर्थमिति । कर्मणेति तृतीया तुल्यशब्दाध्याहारेण व्याख्यास्यते। तुल्यक्रियत्वाच्च कर्तुस्तुल्यत्वमिति प्रश्नः । अथवा क्रियमाणेऽपि तुल्यक्रियग्रहणेऽतिप्रसङ्ग इति प्रश्नः। पचत्योदनमिति । सहा. र्थेऽपि तृतीया विज्ञायेत, तेन कर्मणा सह यः कर्ता प्रतिपाद्यत इति भावः । अक- मकनिवृत्त्यर्था कर्मश्रुतिः स्यादास्ते शेत इति । अत्रापीति । तुल्यशब्दस्य साधा- उ.]माश्रित्य शङ्कते-नन्विति।कारकान्तराधयेत्वमिति।कारकान्तरस्याश्रयत्वेनाश्र- यणमित्यर्थः । व्याप्तिन्यायाश्रयेणोत्तरयति-नैष दोष इति । स्वव्यापारमिति । स्वव्यापारावेशं विना क्रियासाधकत्वाऽयोगादिति भावः । तत्राऽवश्यमिति । एकाऽवस्थायां भेदनिवन्धतुल्यत्वाऽसम्भवादिति भावः । करणाद्यवस्था अपीति । व्याप्तिन्यायादिति भावः । प्रधानव्यापारः-धात्वर्थव्यापारः । कर्तृत्वमिति । आश्रयतामात्रमित्यर्थः । तन्निरूपितकरणत्वाऽभावप्रतिपादनपरञ्चैतत् । प्रधान- क्रियापेक्षो लब्धः करणादिव्यपदेशो येन वस्तुना तत्र व्यवस्थिता या क्रिया त- त्तुल्यत्वग्रहणनिवारणायेत्यर्थः। यदि तु लक्ष्याऽनुरोधात्प्रत्यासत्त्या धातुवाच्यक्रिययैव तुल्यक्रियत्वं विवक्ष्यते, प्रत्यासत्तिस्तु यस्य धातोर्यत्कर्म तत्रत्यक्रियया तस्यैव धातोः कर्ता यदि तुल्यक्रिय इति वक्ष्यमाणार्थलाभार्थमावश्यकी, तदा नेदम्प्रयोजनम् । अतो 'यत्र कर्मणि क्रियाकृतविशेषस्तदर्थ मिति प्रयोजनान्तरं वक्ष्यति । ननु कर्मकोंः साधनयोरत्यन्तभेदाल्कथं तुल्यत्वमत आह-तुल्यक्रियत्वाञ्चेति । अतिप्रसङ्ग इति प्रश्न इति । इदि व्युत्पादयितुं प्रश्न इत्यर्थः । साधारणेति । यथा 'एतौ तुल्यधना'वित्यत्रेत्यर्थः। कर्तृकर्मसाध्यत्वाचति । 'जन्यत्वेनोभयोः साधारणी क्रिये'- १। 'पचतीति' । २ 'कर्मवद्भावः' । ३ 'श्रयण' ।

३अ.१पा.५आ.८७सू.] व्याकरणमहाभाष्यम् 8 न तुल्यक्रियग्रहणेन समानक्रियत्वमभिधीयते॥ किं तहि?॥यस्मिन्कर्मणि कर्तृभूतेऽपि तद्वक्रिया लक्ष्यते, यथा कर्मणि, सकर्मणा तुल्यक्रियः कर्ता कर्म- वद्भवतीति ॥॥ कर्मवदकर्मकस्य कर्ता ॥*॥ अकर्मकस्य कर्ता कर्मवन- वतीति वक्तव्यम् ॥ किं प्रयोजनम् ? ॥ सकर्मकस्य कर्ता कर्मवन्मा भूदिति। भिद्यमानः कुसूलः पात्राणि भिनेत्तीति । तथा-॥*॥ कर्म दृष्टश्चेत्समान- प्र.]रणवचनत्वात् कर्तृकर्मसाध्यत्वाचात्र क्रियाया इति भावः।समानक्रियत्वमिति। साधारणक्रियत्वमित्यर्थः । एतच्च तुल्यक्रियग्रहणादेव लभ्यते । अन्यथा 'कर्मवत्क- मणे'त्येव ब्रूयात् । यस्मिन्निति । सादृश्यवाची तुल्यशब्द आश्रीयत इत्यर्थः। कर्तृ- भूत इति । च्वेर्विकल्पेन विधानादत्राऽभावः । कर्तरि संपन्न इत्यर्थः । अथ वा 'भू प्राप्ता वित्यस्याधृषाद्वेति णिचो विकल्पनाद्रूपमेतत् । तेन कर्तृत्वं प्राप्त इत्यर्थः । वृत्तिविषये कर्तृशब्दः कर्तृत्वे वर्तते । कर्तृकर्मावस्थाभेदाच एकस्या अपि क्रियाया भेदाश्रयं सादृश्यमुपपद्यते । कर्मणेति । कर्मस्थया किययेत्यर्थः । साध्यसाधनयो- रत्यन्तभेदात्तुल्यत्वाऽसंभवात् कर्मस्था क्रिया कर्मशब्देनोच्यते । भवति हि तात्स्थ्या- त्ताच्छब्यं यथा 'मञ्चाः क्रोशन्तीति। तत्र पचत्योदनमित्यत्र कर्तृकर्मव्यापारयोर- त्यन्तभेदात्सादृश्याऽभावात्कर्मवद्भावाभावः। 'लूयते केदारः स्वयमेवे'त्यत्र केदारस्य तु द्विधाभवनलक्षणा कर्मावस्थायां यादृशी किया तादृश्येव कञवस्थायामपीति भवति कर्मवद्भावः । भिद्यमान इति । पात्राणामपि द्विधा भवनं कुसूलस्यापीति प्राप्नोति कर्मवद्भावः । कर्म दृष्ट इति । समान एकस्मिन् धातौ कर्ता कर्मत्वेन यदि दृष्टो उ.]त्यर्थः। समानशब्दे सदृशवाचकत्वस्याऽपि सत्त्वादाह-साधारणेति। एतच्चेति । 'किन्तही त्यादि चेत्यर्थः । सादृश्यवचनतुल्यशब्दस्य प्रसिद्धतरत्वाच्चेत्यपि बोध्यम् । इत्येवेति । सहार्थयुक्ततृतीयया एकक्रियाजनकत्वरूपसाहित्यलाभेन त्वदुक्तार्थ- लाभादिति भावः । विप्रत्यये कर्तृशब्दे रीङ् स्यादत आह-च्वेरिति । ननु च्वेरभावेऽकर्तरि कर्तरि भूते इत्येवोचितम्प्रकृतिविकृतिभावप्रतीतयेऽत आह- अथ वेति । भाष्ये-यथा कर्मणीति पूर्वान्वयि । ननु विक्तित्तिद्विधाभवनरूपायाः क्रियाया एकत्वात्कथम्भेदनिबन्धनसादृश्योपपत्तिरत आह-कर्तृकर्मेति । तत्तत्संज्ञा- लाभरूपाऽवस्थाभेदादाश्रयस्य भेदाऽवसाये तन्मूलकः क्रियाया भेदाऽवसाय इति सादृश्योपपत्तिरिति भावः। लक्षणायां हेतुमाह-साध्येति । साध्या-क्रिया। साधनं- कारकम् । व्यापारयोरिति। व्यापारशब्देन धात्वर्थ उच्यते। तद्धात्वर्थत्वरूपं सादृश्यं न विवक्षितम् । किन्तु सामर्थ्यादवान्तरसादृश्यमेव विवक्षितमिति तात्पर्यम् । भाष्ये-कर्ता कर्मवदिति । 'कर्तरि शबित्यतोऽनुवृत्तस्य कत्तरीत्यस्य प्रथमया १ 'मभिसम्बध्यते' । २इतिः क्वचिन्न । ३ 'इत्यत्र तु केदारस्य' । ४ धात्वर्थावु'।

कैयट-विवरणसहितं. [कर्मवत्क धातौ ॥ ॥कर्म दृष्टश्चेत्समानधाताविति वक्तव्यम् । इह मा भूत्-पचत्योदनं देवदत्तः । राध्यत्योदनः स्वयमेवेति । तथा-॥*॥ कर्मस्थभावकानां कर्मस्थ- क्रियाणां च ॥*॥ [तथा ] कर्मस्थभावकानां कर्मस्थक्रियाणां वा कर्ता कर्म- वद्भवतीति वक्तव्यम् । कर्तृस्थभावकानां कर्तृस्थक्रियाणां वा कर्ता कर्मवन्मा भूदिति । [कर्मस्थभावकानाम् -आसयति देवदत्तं, शाययति देवदत्तं, स्थापयति देवदत्तम् ॥ कर्मस्थक्रियाणां गामवरुणद्धि, करोति कटम् । कर्तृस्थभावकानां चिन्तयति, मन्त्रयते । कर्तृस्थक्रियाणां गच्छति धावति हसति ॥ यत्तावदुच्यते-अकर्मकस्य कर्ता कर्मवद्भवतीति वक्तव्यमिति प्र.] भवति तदा कर्मवद्भावो, यदा त्वन्यस्मिन्धातौ कर्माऽन्यस्मिंश्च कर्ता तदा मा भूत्कर्मवद्भाव इत्यर्थः।पचत्योदनमितिाओदनस्य कर्मत्वे यादृशी क्रिया विक्लित्तिलक्षणा तादृश्येव कर्तृत्वेऽपिाराध्यतेविक्लित्तिवचनलात्।नचास्य वाक्यद्वयस्य युगपत्प्रयोगः।कर्म- स्थक्रियातुल्यत्वप्रतिपादनाय तु वाक्यद्वयोपन्यासः।अन्यथा समानधातावपि व्याख्या. तृभिः कथं तुल्यक्रियत्वं प्रदर्श्यते । यद्येवं लुनातौ केदारस्य कर्मत्वमिति लावयते केदारः स्वयमेवेति कर्मद्भावो न स्यात् । अत्र केचिदाहुः-'लुनातिरेव णिचि लाविः संपन्न इत्यस्ति समानधातुत्वम्। अन्ये त्वाहुः- 'लावयतावेव केदारस्य कर्तृत्वं कर्मत्वं चेति दोषाऽभावः' । कर्मस्थभावकानामिति । अपरिस्पन्दनसाधनसाध्यो धात्वर्थो भावः। सपरिस्पन्दनसाधनसाध्यस्तु क्रिया । यत्र च क्रियाकृतविशेषदर्शनं तत्स्था क्रियोच्यते । ततश्च ‘पश्यति राजा स्वयमेव' 'आरोहति हस्ती स्वयमेवेति उ.]विपरिणाम इति भावः। पात्राणामपीति । एवञ्च भिदेः कर्मसु पात्रेषु या क्रिया सा तत्कर्तरि कुसूलेऽपीति भावः । समानगन्दः साधारणपर्याय एकस्मिन्नित्यर्थे पर्यवस्यतीत्याह-एकस्मिन्निति । ननु युगपत्स्वातन्त्र्यपारतन्त्र्ययोर्विरुद्धत्वात्कथ- म्भाष्येऽनयोर्वाक्ययोयुगपत्प्रयोगोऽत आह-न चाऽस्येति । प्रतिपादनायेति । तत्प्रयोगे या कर्मस्था साऽत्र प्रयोगे कर्तृस्थेति प्रदर्शनायेत्यर्थः । लुनाताविति । 'लुनाति केदारं देवदत्त'इति प्रयोग इत्यर्थः। लावयते केदार इति । 'णिश्रन्थीति यक्चिणोः प्रतिषेधः । कर्मवद्भावफलन्त्वात्मनेपदमेव । 'णिचश्च'त्यनेन तु न सिद्धिः, क्रियोद्देश्यफलस्य कर्तृगामित्वाऽभावात् । आहुरिति । अत्राऽरुचिस्तु ण्यन्तस्य धात्वन्तरत्वम् । लावयताविति। निवृत्तप्रेषणपक्ष इति भावः । अन्यत्र भावक्रिययोरभेदेन व्यवहारादाह-अपरिस्पन्दनेति । इदश्च प्रकृताऽभिप्रायेण । 'भावे घनित्यादौ तु सिद्धावस्थापन्नो धात्वर्थो भाव इति बोध्यम् । यत्र चेति । यथा लूभिदादौ कर्मणि क्रियाकृतविशेषदर्शनात्तत्स्था सा । 'पश्यती'त्यादौ राजादिदर्शन- १ इदं क्वचिन्न । २ केचित्तु वार्तिकघटकं तथेत्याहुः । ३ इतिः क्वचिन्न ।

३अ.१पा.५आ.८७सू.] व्याकरणमहाभाष्यम् 8 न वक्तव्यम् । वक्ष्यत्येतत् 'सकर्मकाणां प्रतिषेधोऽन्योन्यमाश्लिष्यत' इति । यदप्युच्यते-कर्म दृष्टश्चेत्समानधाताविति वक्तव्य'मिति । न वक्तव्यम् । धातोरिति वर्तते । धातोः कर्मणः कर्तुरयं कर्मवद्भावोऽतिदिश्यते । तत्र संबन्धादेतद्न्तव्यं 'यस्य धातोर्यत् कर्म तस्य चेत् कर्ता स्या'दिति । तद्यथा-धातोः कर्मण्यण्भवतीति, तत्र सम्बन्धादेतद्गम्यते-'यस्य धातो- यत्कर्मे ति। इह मा भूत्-'आहर कुम्भं करोति कट'मिति । यदप्युच्यते- प्र.कर्मवद्भावाऽभावः।सकर्मकाणामिति।अन्योन्यमाश्लिष्यत इत्युदाहरणमात्रमेतन्न तु व्यतीहारविशिष्टक्रियाविषयकर्मवद्भावप्रतिषेधप्रतिपादनार्थमित्यर्थः। धातोः कर्मण इति । कर्मणः सतः कर्तुरित्यर्थः । कर्मणेति चोपादानादयमर्थो लभ्यते,-'यस्य धातोर्यत्कर्म तत्स्थया क्रियया तुल्यक्रियः कर्ता तस्यैव धातोर्यदि भवति ततः कर्म- वद्भवति'। आहर कुम्भमिति । समर्थपरिभाषोपस्थानमन्तरेणापि भवत्येवेष्टसिद्धि- उ.]कर्तर्येव हर्षादिलक्षणविशेषदर्शनात्तत्स्थैवेति भावः । न चैवं पच्यादिकर्त्तर्यपि- श्रमादिरूपविशेषस्य दर्शनादिदमयुक्तम् , किञ्च पश्यत्यादीनां कर्तृस्थभावकत्वाऽना- पत्तिः, कर्तरि क्रियाकृतविशेषाऽभावादिति वाच्यम् , येन धातुना कर्तृकर्मसाधारणं फलं शब्देन प्रतिपाद्यते स-कर्तृस्थभावकः। यथा 'पश्यति', 'गच्छती'त्यादौ। तत्र विषयतासमवायाभ्यां ज्ञानमुभयनिष्ठम् । संयोगश्चोभयनिष्ठः । एवं हासोऽपि । यत्र तु कवृत्तिधर्मरूपं फलं स कर्मस्थभावकादिः । यथा भिदादिरित्यत्र तात्पर्यात् । भाष्ये-वक्ष्यत्येतत्सकर्मकाणामिति । अयं भावः-कालादिभिन्नकर्माऽभाववतामन्य- त्राऽकर्मकग्रहणेन ग्रहणदर्शनादत्राऽपि तथात्वापत्तौ 'मासम्पचत्योदनःस्वयमेवे'त्यादौ कर्मवदकर्मकस्येति वचनेन कर्मवत्त्वं प्राप्नोतीति 'सकर्मकाणां प्रतिषेध' इत्यावश्यक- मिति । अन्यथा वचनेन वचनप्रत्याख्याने लाघवं न स्यात् । नत्विति। उदाहरण- बलात्तादृशे विषय एव प्रतिषेध इति न भ्रमितव्यमिति भावः। अन्ये त्विदमुदा- हरणञ्चिन्त्यम् , आश्लेषः-संयोगविशेषाऽनुकूलव्यापारः। तत्र संयोगाश्रयत्वेन तयोः कर्मत्वं, व्यापाराश्रयत्वेन कर्तृत्वम् । तत्र संयोगाऽनुकूलक्रियायाः कर्तृत्वोपयोगि- त्वेऽपि व्यक्तिभेदोऽवश्यमङ्गीकार्यः। अन्यथोभयोरपि कर्तृत्वमेव स्यात् । 'इमावा- श्लिष्यत' इति यथा । भेदे त्वन्यनिष्ठाम्प्रत्यन्यस्य कर्मत्वमुपपद्यते । एवञ्च कर्म- त्वोपयोगिक्रियया तुल्यक्रियस्य तदीयकर्तुरभावात् कर्मवत्त्वाऽप्राप्तेरित्याहुः । तन्ने- त्यग्रे वक्ष्यते । ननु 'कर्मणः' 'कर्तु'रिति युगपद्विरुद्धमत आह-सत इति । कर्म णेति चोपादानादिति । प्रत्यासत्त्येति भावः । समर्थपरिभाषयैवेदं सिद्धमत आह-समर्थेति । एवञ्च दृष्टान्त एकदेश्युक्तिरिति ध्वनितम् । क्रियया कर्तुरुपमा- १ 'कर्मणः सतः' । २ 'द्भाव उच्यते' । ३ 'नुपपत्तिः । ११ ।

कैयट-विवरणसहितं [कर्मवत्क 'कर्मस्थभावकानां कर्मस्थक्रियाणांवा कर्ता कर्मवद्भवतीति वक्तव्यं । कर्तृस्थ- भावकानां कर्तृस्थक्रियाणां वा कर्ता कर्मवन्मा भूदिति ॥ न वक्तव्यम् । कर्मस्थया क्रिययाऽयं कर्तारमुपमिमीते, न च कर्तृस्थभावकानां कर्तृस्थ- क्रियाणां वा कर्मणि क्रियायाः प्रवृत्तिरस्ति । किं पुनः कर्मकर्तरि कर्माश्रयमेव भवत्याहो स्वित्काश्रयमपि ?॥ किं चातः ॥ यदि कर्माश्रयमेव,-चशप्कृद्विधयो न सिध्यन्ति॥ चङ्-अचीकरत कटः स्वयमेव [ इति] । चङ्॥ शप्-नमते दण्डः स्वयमेव । श५ ॥ कैद्विधिः-भिदुरं काष्ठं स्वयमेव॥अथ काश्रयमपि सिद्धमेतद्भवति। किं तहीति। ॥॥ आत्मनेपदशबादिविधिप्रतिषेधौ ॥*॥ आत्मनेपदं विधेयं, शबादीनां च प्रतिषेधो वक्तव्यः ॥ उभयं क्रियते न्यास एव ॥ प्र.]रिति प्रदर्शनायोपन्यासः। कर्तारमिति। कर्तृस्थां क्रियामित्यर्थः। किं पुनरिति । किमतिदेशेन स्वाश्रयं निवर्त्यते आहो स्विन्नेति प्रश्नः । यद्यपि स्वाश्रयमपि यथा स्यादित्यत्र निर्णयः कृतस्तथापि दोषान्तरोद्भावनाय पुनर्विचार्यते। अचीकरतेति । यश्किणोः प्रतिषेधेऽपि स्वाश्रयौ चशपौ न प्रामुतः। भिदुरमिति । कर्तरि कुरज्न प्राप्नोति । 'लान्तस्य कर्ता कर्मव'दिति न तावत्स्थापितमिति कृद्विधेरसिद्धिरुक्ता । उभयमितिकर्तव यः कर्ता तत्र परस्मैपदमिति परस्मैपदाभावादात्मनेपदं भवति । कर्तरि शबित्यत्र कर्तरीति योगविभागेन शबादीनां यका बाधनं भवति । कार्याति- उ.]ऽसम्भवादाह-कर्तृस्थामिति।भाष्ये-न च कर्तृस्थेति । तेषां धातूनां वाच्यायाः फलरूपक्रियायाः कर्ममात्र प्रवृत्तिर्नास्तीत्यर्थः । करणादितुल्यक्रियेऽतिव्याप्तिवारणस्य प्रत्यासत्त्यैव सिद्ध्या 'कर्मणे'त्युपादानसामर्थ्यात्कर्ममात्रनिष्टफलरूपकर्मस्थक्रिया लक्ष्यत इति भावः । यथाश्रुतप्रागुक्तकैयटरीत्या व्याख्याने तु जानात्यादिकर्तर्यपि क्रियाकृतविशेषाऽनुपलम्भेन 'चिन्तयती'त्याधुपक्रमेणैतदुक्त्यसङ्गतिः । एतेन क्रियायाः क्रियाकृतविशेषाणामित्यर्थ इत्यपास्तम् । तदुक्तं हरिणा-'विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता। क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकल्पिता ॥' इति । अन्येषामिति । 'मते' इति शेषः । इदमेव मतं युक्तम्, उक्तयुक्तः । दोषान्तरेति । तदुद्भावनपूर्वकं मुख्यफलप्रदर्शनायेत्यर्थः । प्रतिषेधेपीति । 'न 'दुहे'ति णिश्री तिचा शपाविति। ममतिविषयकमिदं । कतैवेति। शेषादिति सूत्रे 'कर्तरि कर्मव्यतिहार' इत्यतः कर्तरीति पदानुवृत्त्याऽयमर्थो लब्ध इति भावः । योगविभागेनेति । इंदश्च यग्विधायके निरूपितम् । कार्यातिऽदेशो वाऽयमिति । एवञ्च परत्वादात्मनेपदविधिः शब्बाधश्च सिद्ध इत्यर्थः । नन्वेवं स्वाश्रयनिवृत्तिरेव १'च' । २ इदं क्वचिन्न । ३ 'कृद्विधि। ४ 'प्रतिषेधः' ।

३अ.१पा.५आ.८७सू.] व्याकरणमहाभाष्यम् . १६३ किमर्थं पुनरिदमुच्यते ! ॥ ॥ कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्षित- त्वात्॥*॥ कर्मकसरि कर्तृत्वमस्ति ॥ कुतः?॥ स्वातन्त्र्यस्य विवक्षितत्वात्' । स्वातन्त्र्येणैवाऽत्र कर्ता विवक्षितः॥किं पुनः सतः स्वातन्त्र्यस्य विवक्षा,आहो स्विद्विवक्षामात्रम् ?॥'सत' इत्याह॥ कथं ज्ञायते?॥इह भिद्यते कुसूलेनेति,- न चान्यः कर्ता दृश्यते क्रिया चोपलभ्यते ॥ किं च भो विग्रहवतैव क्रियायाः का भवितव्यं, न पुनर्वातातपकाला अपि कर्तारः स्युः ॥ भवेत्सिद्धं यदि वातातपकालानामन्यतमः कर्ता स्यात् । यस्तु खलु निवाते निरभिवर्षेऽचिरका- लकृतः कुसूलः स्वयमेव भिद्यते तस्य नाऽन्यःकर्ता भवत्यन्यदतः कुसूलात् ॥ यद्यपि तावदत्रैतच्छक्यते वक्तुं यत्रान्यः कर्ता नास्ति इह तु कैथं न स्यात्- लूयते केदारः स्वयमेवेति, यत्रासौ देवदत्तो दात्रहस्तः समन्ततो विपरिपत- न्दृश्यते ? ॥ अत्रापि याऽसौ सुकरता नाम तस्या नान्यः कर्ता भवत्यन्यदतः केदारात् ॥ अस्ति प्रयोजनमेतत् ? ॥ किं तहीति ॥*॥ तत्र लान्तस्य कर्म- प्र.देशो वाऽयमाश्रीयते।यच्चाऽविरुद्धमतिदेशेन स्वाश्रयं तद्भवति न तु विरुद्धमिति शबादिपरस्मैपदाभावः । स्वातन्त्र्यस्येति । 'पच्यते ओदनः स्वयमेवेति विक्लित्ति- मात्रवाची पचिः। तत्र चौदनस्य कर्तृत्वमेव । 'लूयते केदार' इति द्विधाभवनवाची लुनातिस्तथा च केदारस्य कर्तृत्वम्। क्रिया चेति । विशरणक्रियेत्यर्थः। किञ्च भो- इति। कारणाऽभावे विशरणाख्यकार्याभावादवश्यं केन चिद्वातादिना कारणेन भाव्य- मिति भावः । अन्यदत इति । कुसूलस्यैव विसरणक्रियायां कारणत्वोपपत्तावदृश्य- मानकारणान्तरकल्पनाया अयुक्तत्वादिति भावः । सुकरतेति । द्विधाभवनलक्षण- क्रियेत्यर्थः । अन्यथा पर्वतमपि देवदत्तो लुनीयादिति भावः । लान्तस्य कर्तेति । .]पर्यवसन्नेत्यत आह-यश्चेति।अतिदेशेन-तदाश्रयकार्येण। एवञ्च 'नमते दण्डोऽ- चीकरते'त्यादौ यक्चिणोरभावे चशपौ भवतोऽन्यत्र च न भवत इति भावः । भाष्ये-किमर्थं पुनरिदमुच्यत इति। कर्मणः कर्तृत्वाऽसम्भवात् सूत्रं व्यर्थमिति प्रश्नः । तत्सम्भवम्प्रदर्शयति-कर्मकर्तरीति । स्वातन्त्र्यच्च प्रधानधात्वर्थाश्रयत्वम् । तच्च कर्मव्यापारमात्रस्य धात्वर्थत्वे सम्भवतीत्याह-पच्यत इति । कुसूले क्रियाs- दर्शनादाह-विशरणेति । भाष्ये-विग्रहवतैवेति। सशरीरेण चेतनेनैवेत्यर्थः। निर- भिवर्षे इति । अनातपे इत्यर्थः । ननु सुकरता यदि प्रयोजकव्यापारस्तर्हि तस्य देवदत्तः कर्तेति, 'नाऽन्य' इति भाष्यमनुपपन्नं स्यादत आह-द्विधेति । सुकरता- विषयक्रिया सुकरताशब्देनोच्यत इत्यर्थः । कर्मगतसौकर्य निरीक्ष्यैव देवदत्तादेः कर्तृत्वम् , नाऽन्यथेत्याह-अन्यथेति । एवञ्च सौकर्यातिशयविवक्षया विद्यमानोऽपि १ इदं वचिन्न । २ 'कथं स्यात्' । ३ इदं वार्तिकादहिरित्यन्ये ।

१६४ , - * कैयट-विवरणसहितं. [ कर्मवत्कर्म वदर्नुदेशः ॥॥ तत्र लान्तस्य कर्मवदनुदेशः कर्तव्यः । 'लान्तस्य कर्ता- कर्मवद्भवतीति वक्तव्यम् ॥॥ इतरथा हि कृत्यक्तखलर्थेषु प्रतिषेधः ॥ॐ॥ अक्रियमाणे हि लग्रहणे कृत्यक्तखलर्थेषु प्रतिषेधो वक्तव्यः स्यात् । कृत्य-भेत्तव्यः कुसूल इति कर्म । स यदा स्वातन्त्र्येण विवक्षित- स्तदाऽस्य कर्मवद्भावः स्यात् । तस्य प्रतिषेधो वक्तव्यस्तस्मिन् प्रति- षिद्धकर्मकाणां भावे कृत्या भवन्तीति भावे यथा स्यात् । [ भेत्तव्यं कुसू. लस्य ] भेत्तव्यं कुसूलेनेति । कृत्य ॥ क्त-भिन्नः कुसूल इति कर्म । स यदा स्वातन्त्र्येण विवक्षितो भवति तदाऽस्य कर्मवद्भावः स्यात्तस्य प्रतिषेधो वक्तव्यः, तस्मिन् प्रतिषिद्धकर्मकाणां भावे तो भवतीति भावे तो यथा स्यात्-भिन्नं कुसूलेनेति । क्त ॥ खलर्थ-ईषद्भेदःकुसूल इति कर्म । स यदा स्वातन्त्र्येण विवक्षितो भवति तदाऽस्य कर्मवद्भावः स्यात्, तस्य प्रतिषेधो वक्तव्यः। तस्मिन्प्रतिषिद्धऽकर्मकाणां भावेखल्भवतीतिभावे खेल्यथा स्यात्,- प्र.]लान्तवाच्यो यः कर्ता स लान्तकार्य एव कर्मवद्भवतीत्यर्थः।तेन कर्मणि विधीय- मानाः कृत्यादयोऽतिदेशात्कर्मकर्तरि न भवन्तीति भाव एवोत्पद्यन्ते । ततश्चैतैः कर्तु- रनभिहितत्वात्कर्तृविभक्ती षष्टीतृतीयेभवतः-भेत्तव्यं कुसूलस्य भेत्तव्यं,भेत्तव्यं कुसूले- मेति। भिद्यते कुसूल'इत्यत्र च द्वितीया न भवति। क्तग्रहणस्याऽत्र प्रयोजनं न दृश्यते। उ.]कर्तृव्यापारो न विवक्ष्यते । किन्त्वनेकार्थत्वाद्धातूनां कर्मनिष्टव्यापारमात्रपरता तदा कर्मणः कर्तृत्वं । 'कर्मणा तुल्यक्रिय' इत्यत्राऽवस्थान्तरीयकर्मणा तुल्यक्रियत्व- मित्येचार्थो विवक्षित इति दिक् । 'लान्तस्येति षष्टी वाच्यवाचकसम्बन्धे, निमित्त. निमित्तिभावे चेत्याह-लान्तेति । 'लान्तवाच्य' इत्यर्थस्य फलमाह-तेनेति । षष्ठीतृतीये इति । 'कृत्यानां कर्तरि वेति वचनादिति भावः । यद्यपि स्वाश्रयाऽ- निवृत्तेर्भावे सिद्ध्यन्त्येव तव्यादयस्तथापि 'भेत्तव्यः कुसूलः स्वयमेवे'त्यपि स्यादिति दोषः । भाष्यस्यापि-'भेत्तव्यं कुटूंलेनेति भाव एव कृत्यो यथा स्यादित्यर्थो बोध्यः । लान्तकार्य एवेत्यस्य फलमाह-भिद्यते कुसूर्ल इति । कर्तरि लेऽपि कर्मवद्भा- वेन द्वितीया स्यादिति भावः। ननु द्यङ्गविकलमेतत् , कर्मत्वेनाऽनभिहितत्वेन च । तत्राऽतिदेशेन कर्मत्वेऽपि अभिहितत्वात्कथं द्वितीयेति चेन्न, कार्यातिदेशेऽनेनैव द्वितीया विधीयते।तत्र चाऽनभिहिताऽधिकाराऽभाव इत्यभिमानात्।वस्तुतः कर्मव'. दित्युक्तः कर्मणि यत्कार्य येनोपाधिना यथा भवति तथा कर्तर्यपीत्यर्थादभिहितत्वेन द्वितीयावारणस्य सुकरत्वालान्तस्य कार्ये इति चिन्त्यफलम्।अत्र-'भिन्नं कुसृ- १ 'अतिदेशः' । २ 'अन्यथा' । ३ नास्तीदं कचित् ४ 'भावे कृत्यो' । ५ 'क्षितस्तदाऽस्य' । ६ 'कुशल' । - ३अ.१पा.५आ.८७सू.] ® व्याकरणमहाभाष्यम् ® १६५ ईषद्भेदं कुसूलेनेति ॥ तत्तर्हि लग्रहणं कर्तव्यम् ? ॥ न कर्तव्यम् । क्रियते न्यास एव । ल्लिख्याशिष्यङिति द्विलकारको निर्देशः ॥*॥ सिद्धं तु प्राकृत- कर्मत्वात् ॥ ॥ सिद्धमेतत् ॥ कथम् ? ॥ 'प्राकृतकर्मत्वात् । प्राकृतमेवैतत् कर्म । यथा-कटं करोति, शकटं करोतीति ॥ कथं पुनर्ज्ञायते-'प्राकृतमेवै- तत्कौ ति ?॥*॥ आत्मसंयोगेऽकर्मकर्तुः कर्मदर्शनात् ॥*॥ आत्मसंयोगेऽकर्म- कर्तुः कर्म दृश्यते ॥ क ? ॥ हन्त्यात्मानं, हन्यत आत्मेति ॥ विषम उप- प्र.]गवा दुग्धं पय इत्यत्र दृश्यत इत्याहुः।तथा ह्यकर्मकत्वाद्गत्यर्थाकर्मकेति वचनात् कर्तरि भवितव्यमेव क्तेन,-भिन्नः उसूलः स्वयमेवेति । तथा च सिनोतेासकर्म- कर्तृकस्येति वक्तव्यमिति सिनो ग्रासः स्वयमेवेति क्तः कर्तर्युदाहरिष्यते । सिद्धं विति । प्राकृतं स्वाभाविकमेवैतत्कर्म न त्वातिदेशिकमित्यर्थः । आत्मसंयोग इति । एकस्यैव वस्तुनो भेदेनात्मा कर्मत्वेन कर्तृत्वेन च विवक्ष्यत इत्यर्थः । तदु- क्तम् 'एकस्य बुद्ध्यवस्थाभिभेदे च परिकल्पिते । कर्मत्वं करणत्वं च कर्तृत्वं चोपजायते' । इति । कर्म दृश्यत इति । कर्मत्वं दृश्यत इत्यर्थः । विषम उप- न्यास इति । अयं भावः-दृष्टान्ते आत्मभेदस्य शब्देन प्रतिपादितत्वाद्युक्तं कर्म- त्वम् । इह तु 'लूयते केदारः''पच्यते ओदन' इत्यादौ यदा 'स्वय'मिति शब्दो न प्रयुज्यते, तदात्मभेदाऽविवक्षायां कर्मत्वाऽभावात्कर्तृत्वमेव द्विधाभवनादौ केदारा- दीनामिति कर्मवदतिदेशः कर्तव्य एव । 'नमते दण्ड' इत्यादौ च प्राकृतकर्मत्वे उ.]लेने'त्यत्र । अत्र कर्मवत्त्वाऽभावेऽपि अकर्मकत्वनिबन्धनकर्तृत्वमादाय 'भिन्नः कुसूल' इत्यस्य दुर्वारत्वेन तत्प्रवृत्त्यप्रवृत्योर्न फलमिति भावः । तद्वक्ष्यति-तथा हीत्यादिना। गवा दुग्धमिति। अत्र गोः कर्मवत्त्वे अप्रधाने दुहादीना'मिति वचना- त्तस्मिन्नेव कर्मणि क्तः स्यात् । तदभावे तु कर्मान्तराऽभावात्पयस्येव कर्मणि ते 'गवा दुग्धं पय' इति भवतीत्यर्थः। वस्तुतस्तु कर्मवद्भावेन कर्मणि क्त 'परशुभिन्नः कुसूल' इत्यादौ तृतीयान्तं पूर्वपदं कर्मवाचकक्तान्त उत्तरपदे प्रकृतिस्वरमित्यर्थक- 'तृतीया कर्मणी'त्यनेन पूर्वपदप्रकृतिस्वरः प्राप्नोति, कर्तरि तु नेति फले विशेषस्य स्पष्टतया चिन्त्योऽयं कैयटः। कर्मणि प्रत्ययेनैव प्रयोगाणां सिद्धेः सूत्रं व्यर्थमित्या- शङ्कते भाष्ये-सिद्धन्विति । आत्मसंयोग इति । आत्मवाचकपदसमभिव्याहारे इत्यर्थः । अकर्मकर्तुरिति । कर्मभिन्नस्य कर्तुरात्मनः सत्त्वेऽपि कर्म दृश्यत इत्यर्थः । तथा 'भिद्यते कुसूल' इत्यादावपि आत्मनः कर्तृत्वात्कर्मण्येव लकारेण सिद्धम् । अत एव 'आत्मनेत्यर्थकं 'स्वयमेवेति कर्मकर्तृाहरणेषु प्रयुज्यत इति तात्पर्यम् । समाधत्ते-विषम इति । तत्र हृत्स्थं वैषम्यं दर्शयति-दृष्टान्त इति । १ 'लिड्या' । २ 'कर्मकर्तुः । ३ ‘हन्यत आत्मनेति' 'आत्मना हन्यते इति' । ।

• कैयट-बिवरणसहितं [कर्मवत्कर्मणा न्यासः। 'हन्त्यात्मान'मिति कर्म दृश्यते कर्ता न दृश्यते। आत्मना हन्यत इति च कर्ता दृश्यते कर्म न दृश्यते ॥*॥ पदलोपश्च ॥॥ पदलोपश्चात्र द्रष्टव्यः । हन्त्यात्मानमात्मा । आत्मना हन्यत आत्मेति ॥ कः पुनरात्मानं हन्ति को वाऽऽत्मना हन्यते ! ॥ द्वावात्मानौ, अन्तरात्मा शेरीरात्मा च । अन्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवति । शरीरात्मा तत्कर्म करोति येनान्तरात्मा सुखदुःखे अनुभवति । ॥॥ सकर्मकाणां प्रति- प्र.]यक्चिणोः प्रतिषेधे शप्चङौ न स्याताम् । 'भिद्यते कुसूलेने ति च सकर्मकत्वा- द्धातो वे लो न स्यात्। कर्म दृश्यतइति। 'आत्मान'मिति द्वितीयान्तवाच्यं कर्म कर्ता न दृश्यत इति । 'हन्तीति कर्तरि लकारोत्पत्तावपि कर्तृविशेषानुपादाना- दिति भावः । कर्ता दृश्यत इति । तमन्तरेण क्रियाया अभावादात्मनेत्येतद्वाच्य इति भावः। कर्म न दृश्यत इति । कर्तृविशेषव्यतिरेकेणाऽन्यस्याऽत्र कर्मणो पपादत्वादिति भावः । पदलोपश्चेति । गम्यमानार्थत्वादप्रयोगः पदस्येत्यर्थः । यत्तु 'लूयते केदारः स्वयमेवेति वृत्तिकाररुदाह्रियते तत्र करृन्तराऽभावप्रतिपादनेन केदारस्यैव कर्तृत्वप्रतिपादनाय स्वयंशब्दः प्रयुज्यते, नत्वेतत्कर्मवद्धावस्योदाहरणं, स्वयंशब्दस्यात्मनेति तृतीयान्तार्थे वर्तनादात्मनः कर्तृत्वे केदारस्य प्राकृतकर्मत्व- सद्भावात् । द्वावात्मानाविति,-णेरणावित्यत्र व्याख्यातमिति तत एवावधायम् । आश्लिष्यत इति । क्रियाफलस्य संयोगस्य कर्मणि दर्शनात्कर्मस्थक्रियत्वमत्र द्रष्ट- उ.]भावे ल इति। इदमुपलक्षणं तव्यादीनाम्। एतेन 'भिद्यते कुसूलेनात्मेति कर्म- ण्येवाऽयम्प्रयोग इत्यपास्तं, भेत्तव्यमीषदिमित्याद्यसिद्ध्यापत्तेः । न च तत्राऽपि कर्मणि, नियमेन नपुंसकप्रयोगाऽनापत्तेः । हृत्स्थमुक्तं वैषम्यं विघटयति भाष्ये- हन्त्यात्मानमित्यादिना । एवञ्चात्र शब्देन प्रतिपादनाऽभावेऽपि यथा कर्मत्वं तथा प्रकृतेऽपि भविष्यतीति भावः । वैषम्यमुपपादयति-पदलोपश्चति । तद्याचष्टे- गम्यमानेति । एवञ्च इटित्यध्याहारसम्भवाद्वाक्यैकदेशन्यायेन बोधसम्भवाद्वा तत्राऽऽत्मभेदस्य शब्देन प्रतिपादनमिति वैषम्यमस्त्येवेति भावः । ननु कर्म- वद्भावविषयेऽपि 'स्वय'मित्यस्य प्रयोग उदाहरणेषु दृश्यत इति तत्राऽप्यस्त्येव भेदस्य शब्देन प्रतिपादनमत आह-यविति । न त्वेतदिति । 'आत्मने'त्यर्थक- 'स्वयं पदघटितं विवक्षितात्मकर्तृकमित्यर्थः । नन्वेकस्यैव वस्तुनः कथं शब्दभेदमात्रेण भिन्नधर्मतेति शङ्कते भाष्ये-कः पुनरिति । आत्मानं हन्ति य आत्मा स क इत्यर्थः । औपाधिकभेदेन भेदमारोप्य भिन्नधर्मतेत्युत्तराशयः। संयो- गस्य कर्मणीति । अन्योन्यसंयोगकृतहर्षादिलक्षणस्येत्यर्थः । ननु संयोगस्य तत्कृत- १ 'इदं वचिन । २ 'मात्मना' । ३ 'शरीरात्मा अन्तरात्मा च ।

३अ.१पा.५आ.८७सू.] ® व्याकरणमहाभाष्यम् , धोऽन्योन्यमाश्लिष्यंत इति ॥*॥ सकर्मकाणां प्रतिषेधो वक्तव्यः ॥ किं प्रयो- जनम् ? ॥ [ 'अन्योन्यमाश्लिष्यत इति' ] ? ॥ अन्योन्यमाश्लिष्यतः अन्योन्यं संस्पृशतः अन्योन्यं गृह्णीत इति ॥*॥ तपेर्वा सकर्मकस्य वचनं नियमार्थम्॥*॥ तपेर्वा सैकर्मकस्य वचनं नियमार्थ भविष्यति-'तपेरेव सकर्मकस्य नान्यस्य सकर्मकस्येति॥ तस्य तमुन्यकर्मकस्यापि प्राप्नोति-उत्तपति सुवर्ण सुवर्ण- कारः। उत्तप्यमानं सुवर्ण सुवर्णकारमुत्तपति ॥ ॥*॥ तस्य च तपःकर्म- कस्यैव ॥*॥ तस्य च तपःकर्मकस्यैव कर्ता कर्मवद्भवति नान्यकर्मकस्येति ॥ प्र.व्यम्। तपेति।तप इति योगविभागेन नियमः क्रियत इति भावः। ननु 'तप्यते तपस्तापस' इत्यत्र कर्मस्थक्रियया तुल्यक्रियत्वं कर्तुर्नास्ति, उपवासादेस्तपसः कर्तृत्वे तपेर्दुःखार्थत्वात्तापसस्य तु कर्तृत्वेऽर्जनार्थत्वात् । नैष दोषः।शरीरसंतापलक्ष- णायाः क्रियायास्तुल्यत्वादवस्थाद्वयेऽपि शरीरसंतापलक्षणमेवार्जनं तापसस्य यतो उ.]हर्षादेश्चकर्तर्यपि सत्त्वेनोक्तरीत्या कथं कर्मस्थत्वमिति चेन्न,हर्षरूपविशेषस्यधात्व- र्थकर्मत्वकृतत्वेन कर्मस्थत्वमेवेत्याशयात्। यद्यप्युत्तरीत्या नेदमुदाहरणं तथाप्ययमत्र भाष्यार्थः, कर्मपदेन तत्स्थक्रिया लक्ष्यते, 'मञ्चाः क्रोशन्ती तिवत् । अन्यतरक्रियां प्रति कर्मण्यन्यतरस्मिन् या संयोगानुकूलक्रियातादृश्येवाऽपरस्मिन् कर्तरीति स्यादेव प्रसङ्गः । यद्यपि 'देवदत्तादयः पचन्ती'त्यादाविव धातुना भेदस्याऽप्रतीतिस्तथाप्या- श्रयभेदकृतं वास्तवं भेदमादाय तुल्यत्वाऽक्षतिः । 'कर्मत्वोपयोगिकर्मस्थक्रियया कर्तृत्वोपयोगिक्रिया तुल्या यस्य कर्तु'रित्यर्थे तु न मानमिति बोध्यम् । एकयोगे नियमद्वयाऽलाभादाह-योगविभागेनेति । भाष्ये-किमिदं तप इति । सूत्रे 'तपः कर्मकस्ये'त्यत्र 'तपः' पदेन किमुच्यत इति प्रश्नः । 'धात्वर्थः सन्ताप' इत्युतरम् । दुःखार्थत्वादिति। 'तापसं तपस्तपती'त्यतस्तं दुःखयतीत्यर्थावगमात् । अर्जनार्थत्वादिति । 'तापसस्तपस्तप्यते' इत्यतोऽर्जयतीत्यर्थावगमादिति भावः । शरीरेति । शरीरसन्तापलक्षणायाः क्रियाया अवस्थाद्वयेऽपि तुल्यत्वात् , यतः शरीरसन्तापलक्षणमर्जनमेव तापसस्य व्यापारी नाऽन्य इत्यन्वयः । अयं भावः 'तपति तापसं तप' इत्यस्य सन्तापविशेषस्तापसं तपतीत्यर्थः। तपतिरत्राऽन्त- भांवितण्यर्थः । तापसवृत्तिशरीरसन्तापसामान्यानुकूलव्यापारानुकूलव्यापारः सन्ताप- विशेषवृत्तिरिति बोधः । तदनुकूलो व्यापारश्च सन्तापविशेष स्वरूपावस्थानरूप एव। तापसे शरीरसन्तापसामान्यानुकूलव्यापारश्च सन्तापविशेषस्वीकार एव। प्यर्थ- त्यागे तापसस्य कर्तृत्वम् । 'तापसस्तपः सन्तप्यते' इत्यत्र सन्तापविशेषाऽभिन्न- शरीरसन्तापाऽनुकूलव्यापारस्तापसकर्तृक इति बोधः । कैयटे शरीरसन्तापपदेन १ इदं लुप्तं स्यात् । २ 'सगृह्णीतः' । ३ पुनः सकर्म । ४ इतिः क्वचिन्न ।

ॐ कैयट-विवरणसहितं [कर्मवत्कर्म किमिदं तप इति ? ॥ तपेरयमौणादिकोऽस्कारो भावसाधनः ॥ कः प्रकृत्यर्थः का प्रत्ययार्थः ? ॥ स एव सन्तापः ॥ कथं पुनः स एव नाम प्रकृत्यर्थः स्यात्स एव च प्रत्ययार्थः ॥ सामान्यतपरवयवतपिः कर्म भवति । तद्यथा स एतान्पोषानपुषत् ,-गोपोषमश्वपोषं रैपोषमिति सामान्यपुषेरवयवपुषिः कर्म भवति । एवमिहापि सामान्यतपेरवयवतपिः कर्म भवति । ॥१॥ दुहिपच्योर्बहुलं सकर्मकयोः ॥ ॥ दुहिपच्योः सकर्मकयोः कर्ता बहुलं कर्म वद्भवतीति वक्तव्यम्। दुग्धे गौः पयः [स्वयमे] । तस्मादुदुम्बरः स लोहितं फलं पच्यते ॥ बहुलवचनं किमर्थम् ? ॥ 'परस्मैपदार्थम् ॥ यद्येवं नार्थों प्र.व्यापारः। कः प्रत्ययार्थ इति । तापसेन तपस्तप्यत इति कर्मणि लकारोत्पत्तौ प्रकृत्यर्थस्यैव क्रियारूपस्य प्रत्ययार्थत्वं दृश्यतेक्रियाकर्मणोश्च साध्यसाधनभावा- नेदेन भाव्यम् । इह तु भेदाऽभावात् प्रकृतिप्रत्ययार्थानुपपत्तिः । अथ वा 'तपः कर्मकस्येति वचनात् प्रकृत्यर्थस्यैव कर्मत्वमाश्रितं, तच्च विरुद्धमिति भावः । अव- यवतपिरिति । विशेषतपिर्ज्ञानलक्षणं तप इत्यर्थः । दुग्धे गौरिति । गौर्मुञ्चति पय इत्यर्थः । दुहेर्द्विकर्मकत्वात्कर्मस्थक्रियातुल्यक्रियत्वेऽपि सकर्मकत्वादप्राप्ते वच- नम् । 'फलं पच्यत' इत्यत्र वृक्षस्य कर्तृत्वविवक्षायामत्यन्तमप्राप्ते वचनम् । अन्ये उ.]स व्यापार एव। तदेव चाऽर्जनमिति बोध्यम्।तत्र क्रियाविशेषणत्वात् स्तोकमेधते' इत्यादाविव तपसः कर्मत्वमिति । भाष्ये-तपेरयमौणादिकोऽस्कारो भावसाधन इति । इदमुणादीनां व्युत्पन्नत्वमिति मते उक्तम् । अव्युत्पन्नत्वमिति पाणिनिसम्मते पक्षे तु 'तपः'शब्दस्य सन्तापोऽर्थ इति बोध्यम् । एतदेव परसम्मताऽन्वाख्यानेन दर्शितम् । ननु प्रकृतिप्रत्यययोरप्रकृतत्वात्प्रश्नाऽनुपपत्तिरत आह-तापसेनेति।प्रकृ- त्यर्थस्यैवेति । सन्तापस्येत्यर्थः । तस्यैव तपःपदार्थत्वादिति भावः । प्रत्ययार्थत्वम्। तिप्रत्ययार्थकर्मरूपत्वम् । यद्यपि क्रियाविशेषणरूपे कर्मणि लकारो न, कर्तृसाह- चर्येण धात्वर्थे भेदेनान्वयिकर्मण एव तत्र ग्रहणात्, तथाऽपि भाष्यप्रामाण्यात्सा- मान्यविशेषभावेनान्वयिनि क्रियाविशेषणे कर्मणि लकारो भवत्येव । अत एव 'स्तोक'मित्यादेः क्रियाविशेषणस्यैकत्वनपुंसकत्वे अपि । 'एतान् पोषानपुष'दित्यादौ पुंस्त्वबहुवचने इति बोध्यम् । ज्ञानलक्षणं तप इति । ज्ञानजनकोपवासादिरूप- मित्यर्थः । स एव सन्ताप इति भाष्यस्य स एव सन्तापविशेष इत्यर्थः । विशेषेऽ- पि सामान्यसत्त्वात् ‘स एवे'त्यस्य नाऽनुपपत्तिः । भाष्ये 'एतान् पोषा'नित्यस्य विशेषसमर्पकाणि 'गोपोष'मित्यादीनि घनम्तानि बोध्यानि । अत्यन्तमप्राप्त इति । १ 'प्रत्ययार्थः स्यात्स एव प्रकृत्यर्थः' । २ 'अपुष्यत्' । ३ 'कर्मबहुलं भवतीति' । ४ इदं क्वचिन्न । ५ अत्र- 'बहुलवचनं परस्मैपदार्थम्' इति वार्तिकमासीदित्यन्ये । ।

३अ.१पा.५आ.८७सू.] * व्याकरणमहाभाष्यम् 8 १६९ ते मालाम्, बहुलवचनेन । न हि परस्मैपदमिष्यते ॥ ॥*॥ सृजियुज्योः श्यंस्तु ॥ ॥ सृजियुज्योः सकर्मकयोः कर्ता बहुलं कर्मघद्भवतीति वक्तव्यम् । श्यंस्तु भवति । सृजेः श्रद्धोपपने कर्तरि कर्मवद्भावो वाच्यश्चिणात्मनेपदार्थः । सृज्य- असर्जि मालाम् । युजेस्तु न्याय्ये कर्मकर्तरि,-यकोऽभावाय । प्र.]त्वाहुः-पचिरत्र विषये द्विकर्मको वृक्षस्य पाकमन्तरेण फलपाकाऽसम्भवादृक्षो- ऽकथितं कर्म, तस्यैव च यदा कर्तृत्वविवक्षा तदाऽयं कर्मवद्भावः । एवंविध एव च विषये कर्मवद्भाव इष्यते न पुनरोदनं पचतीत्यादौ । श्रद्धोपपन्न इति । श्रद्धायुक्त कर्तरीत्यर्थः। चिणात्मनेपदार्थ इति। श्यना यगेव बाध्यते न तु चिणित्यर्थः। श्यनि तु प्रकृतेराद्युदात्तत्वं(भवति), यकि तु लसार्वधातुकानुदात्तत्वे यक एवोदात्तत्वमिति श्यन्यकोरत्रस्वरे विशेषः। सृज्यते मालामिति । श्रद्धया मालां निष्पादयतीत्यर्थः । असर्जि मालामिति । मालां निष्पादितवानित्यर्थः । यकोऽभावायेति । अकार- उ.]तुल्यक्रियत्वस्याप्यभावादिति भावः । सकर्मकाणाम्प्रतिषेधोत्तरमस्योक्तत्वेन दुहि- साहचर्येण च सकर्मकत्वप्रयुक्ताऽप्राप्तावेवैतस्य विध्यर्थतोचितेति ध्वनयन्नाह-अन्ये त्वाहुरिति । वृक्षस्य पाकमिति । वृक्षनिष्ठपाकानुकूलव्यापार विनेत्यर्थः । तदा च कालस्य कर्तृत्वं बोध्यम्। एवञ्च पचेः फलपाकानुकूलव्यापाराऽनुकूलव्यापारोऽर्थः। तत्र फलपाकानुकूलव्यापाराऽऽश्रयत्वात् 'कर्तुरीप्सिततम मिति वृक्षः कर्म । तस्य कर्तृत्वविवक्षायां भाष्योदाहरणसाम्राज्यात्। अकथितं कर्मे'त्यत्र अफथितपदमविवक्षित- परम् । कर्मत्वेनाऽविवक्षितमित्यर्थः। किं त्वेन तर्हि विवक्षेत्यत्राह-तस्यैव चेति। न तु तत्सूत्रविषयता अस्य, दुहादिषु भाष्येऽगणनात् । 'गोर्दुग्धे' इत्यपि 'कर्तुरी- प्सिततम मिति कर्मत्वे एवोदाहरणं बोध्यम् । विभागानुकूलव्यापारार्थकत्वे एव दुहे- स्तदुदाहरणमिति तु न युक्तं, तत्रार्थे कर्मस्थक्रियया तुल्यक्रियत्वाऽनुपपादनादि- त्याहुः । यद्यपि कालस्य कर्तृत्वविवक्षायां कर्मणि लंकारेऽपीदं सिद्ध्यति तथाऽप्युदु- म्बरस्य कर्तृत्वविवक्षायामुदुम्बरःफलं पचतीत्येतद्यावृत्तये इदम् । न पुनरोदनमिति। कर्मस्थक्रियया तुल्यक्रियत्वाऽभावादिति भावः । श्रद्धायुक्त कर्तरीति । मुख्य कर्तरीत्यर्थः :। श्रद्धा-आदरः । तेन युक्तो मुख्य एव, तस्यैव क्रियायामादरादिति बोध्यम्। तेनाऽत्यन्ताऽप्राप्तौ विध्यर्थोऽयमंशः । श्यन्यकोर्विशेषमाह-श्यनि विति । मुख्यकर्तृत्वं निदर्शयति-श्रद्धयेति । तत्र सृजेः कर्तरि श्यन्सिद्धः । चिणात्मने- पदे एव कर्मवद्भावप्रयोजने । श्यनस्तु कर्मवद्भावलब्धयका बाधा माभूदिति प्रति- प्रसवमात्रम् । 'दैवादिकः सृजिरकर्मक एवेति त्वश्रद्धेयमेवेति केचित् । न्याय्ये इति । न्यायः-उत्सर्गसूत्रं 'कर्मवत्कर्मणे'ति । तदनपेते । तत्प्राप्तियोग्ये इति यावत् । सकर्मकत्वात्तदप्राप्तौ विधिः । श्यंस्तु अप्राप्त एव विधीयते यग्बाधनायेति * कैयट-विवरणसहितं. [ कर्मकर्मणा . युज्यते ब्रह्मचारी योगम् ॥*॥ करणेन तुल्यक्रियः कर्ता बहुलम् ॥*॥ करणेन तुल्यक्रियः कर्ता बहुलं कर्मवद्भवतीति वक्तव्यम् । परिवारयन्ति कण्टकैर्वृक्षम्। परिवारयन्ते कण्टका वृक्षमिति ॥॥ स्रवत्यादीनां प्रतिषेधः ॥*॥ स्रवत्या- दीनां प्रतिषेधो वक्तव्यः । स्रवति कुण्डिकोदकं, स्रवति कुण्डिकाया उदकम् । स्रवन्ति वलीकान्युदकं, स्रवति वलीकेभ्य उदकैमिति ॥ स तर्हि प्रतिषेधो वक्तव्यः?॥ न वक्तव्यः । 'तुल्यक्रिय' इत्युच्यते । क्रियान्तरं चाऽत्र गम्यते । इह तावत्स्रवति कुण्डिकोदकमिति,-विसृजतीति गम्यते। स्रवतिकुण्डिकाया उदक'मिति,-निष्कामतीति गम्यते । 'स्रवन्ति वलीकान्युदक'मिति,-विस- जन्तीति गम्यतेस्रवति वलीकेभ्य उदकमिति,-पततीति गम्यते ॥*॥ भूषा- कर्मकिराँदिसनां चाऽन्यत्रात्मनेपदात् ॥*॥ भूषाकर्मकिराँदिसनां चान्यत्रात्मने- पदात्प्रतिषेधो वक्तव्यः। भूषयते कन्या स्वयमेव । अबुभूषत कन्या स्वयमेव । प्र.प्रश्लेषाद्यग्बाधनायेत्यर्थः। युज्यत इति । योगो ब्रह्मचारिणं युनक्ति, सम्वनाती- त्यर्थः । ततो ब्रह्मचारिणः कर्तृत्वविवक्षायां 'युज्यते ब्रह्मचारी योग'मिति भवति । करणेनेति । बहुलग्रहणात्साध्वसिश्छिनत्तीत्यादौ न भवति । स्रवति कुण्डिकेति । निष्कामदुदकं निष्कामयतीत्यस्मिन्नर्थे तुल्यक्रियत्वात् प्राप्तः कर्मवद्भावो निषिध्यते । विसृनतोति गम्यत इति।तथा च लोके कथ्यते 'कृपणोऽसौ न किञ्चित् स्रवती'ति। विसर्गश्च दानमुच्यते इति तुल्यक्रियत्वाऽभावः। भूषाकर्मेति । कर्मशब्दः क्रिया- वाची । भूषाफलं च शोभाख्यं कर्मणि दृश्यते इति कर्मस्था भूषा । अण्यन्तार्थं च भूषाग्रहणं,ण्यन्तानां च वक्ष्यमाणेन यक्किणोः प्रतिषेधस्य सिद्धत्वात् । तेन अलं- उ.]विशेषः । यकोऽभावायेत्यस्य 'श्यंस्त्वि'त्यादिः। योगो ब्रह्मचारिणमिति-पूर्व- कक्षेयम् । 'सम्बनाती'त्यस्य सम्बन्धानुकूलव्यापारवान् भवतीत्यर्थः । तत इति । प्रतियोगित्वावच्छिन्नः सम्बन्धों युजेरर्थः । प्रतियोगिताश्रयत्वाच्च योगस्य कर्मत्वम् । यत्तु 'योग'मिति प्रतियोगे द्वितीया। एवञ्चाऽकर्मकत्वात्कर्मवद्भावे सिद्धे यग्बाधनाय श्यन्मात्रविधानार्थमिदमिति, तन्न, ‘सृजियुज्यो'रिति वार्तिके 'सकर्मकयो'रिति भाष्य- विरोधापत्तेः । भाष्ये परिवारयन्ते कण्टका इति । न च 'णिचश्चे'त्यनेनैवात्मने- पदं सिद्धम्, यक्चिणौ तु 'णिश्रन्थिग्रन्थी'ति प्रतिषिद्धावेवेतिव्यर्थमिदमिति वाच्यं, कर्तृगामित्वाऽभावेऽप्यात्मनेपदार्थ चिण्वद्भावार्थश्च वार्तिकस्याऽवश्यकत्वात् । स्रवति कुण्डिका उदकमित्यस्य निष्कामयतीत्यर्थः । स्रवति कुण्डिकाया इत्यस्य निष्का- मतीत्यर्थः। तदाह-निष्क्रामदिति । ननु विसर्गोऽपि विभागाऽनुकूलव्यापारो निष्कमणादनतिरिक्तोऽत आह-विसर्गश्च दानमिति । मुख्यदानपदार्थस्याऽत्राऽऽ- १ 'यति' । 'वृक्षः' । २ इदं क्वचिन्न ।

३अ.१पा.५आ.८९सू.] 8 व्याकरणमहाभाष्यम् , मण्डयते कन्या स्वयमेव। अममण्डत कन्या स्वयमेव। किरादि-अवकिरते हस्ती स्वयमेव । अवाकीष्टहस्ती स्वयमेव । [गिरते ग्रासः स्वयमेव । अगीर्ट ग्रासः स्वयमेव ] । सन् चिकीर्षते कटः स्वयमेव । अचिकीर्षिष्ट कटः स्वयमेव ॥ न दुहस्नुनमां यक्चिणौ ॥ ३॥११८९ ॥ ॥*॥ यक्चिणोः प्रतिषेधे हेतुण्णिश्रिबूजामुपसङ्ख्यानम्॥*॥ यक्किणोः प्रति- षेधे हेतुमण्णिश्रिबूजामुपसङ्ख्यानं कर्तव्यम्। णि-कारयते कटः स्वयमेव । अची- करत कटः स्वयमेव । णि ॥ श्रि-उच्छयते दण्डः स्वयमेव । उदशिश्रियत दण्डः स्वयमेव । श्रि ॥ ब्रू-ब्रूते कथा स्वयमेव । अवोचत कथा स्वय- मेव ॥ भारद्वाजीयाः पठन्ति ॥ * ॥ 'यक्चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिबूजात्मने- पदाऽकर्मकाणामुपसङ्ख्यानम् ॥ ॥ इति ॥ [न दुहस्नुनमां] ॥ प्र.]कुरुते स्वयमेव कन्या,अलमकृत स्वयमेव कन्येति भवतिअवकिरत इतिहस्तिनं कश्चित्पांस्वादिनाऽवकिरति, तत्र सौकर्याकर्तृत्वेन हस्ती विवक्ष्यते । चिकीर्षत- इति । करोतिक्रियापेक्षमत्र कर्मस्थक्रियत्वम् , इच्छा तु कर्तृस्थैव, अर्थाच्च करोतेः प्राधान्यं, तदर्थत्वादिच्छायाः । [ कर्मवत्कर्मणा तुल्यक्रियः ] ॥ नदुहस्नु । यक्किणोरिति । आत्मनेपदविधावकर्मका ये धातवो निर्दिष्टास्ते यदा- न्तर्भावितण्यास्सकर्मका भवन्ति तदा कर्मवद्भावात् प्राप्तौ यक्चिणौ प्रतिषिध्येते । यथा 'विकुर्वते सैन्धवाः'। वल्गन्तीत्यर्थः। तान्यदा अन्यो वल्गयति तदा तेषां कर्म- उ.] रोप इति भावः । सिद्धत्वादिति । वक्ष्यमाणेन यक्चिणोः प्रतिषेधे सिद्धेऽपि स्यतासिविषये चिण्वद्भावाऽभावाय ण्यन्तेऽपि एतत्प्रवृत्तिरावश्यकी, 'अन्यत्रात्म- नेपदा'दित्यनेन तस्याऽप्यत्र निषेधात् । 'णिश्रन्थी'त्यनेन तु न सिद्धिः, न हि चिनिषेधेन चिण्वद्भावनिषेधो लभ्यत इति चिन्त्यमेतत् । कर्तृत्वेन हस्तीति । अवकिरते-व्याप्तो भवतीत्यर्थ इति भावः । आद्यकक्षायां विक्षेपणेन व्याप्तं करोती- त्यर्थः। भाष्ये-अवाकीटेंति। 'अन्यत्राऽत्मनेपदा'दित्युक्तेश्चिण्वद्भावोऽपि नेति भावः। अत एवेदं वार्तिकं 'न दुहे'त्यत्र न पठितम् । चिकीर्षेरिच्छावाचकत्वात्कर्मस्थक्रिय- त्वाऽभावमाशङ्कयाह-करोतिक्रियापेक्षमिति । ननु यतः परलवाच्यस्य कर्मवद्भाव- स्तत्प्रधानार्थस्य न कर्मस्थत्वमित्यत आह-अर्थाचेति। [ कर्मवत्कर्मणा ] म न दुहनुनमां। अकर्मकाणां कर्मस्थक्रियया तुल्यक्रियकप्रभावात्कर्मवत्त्वाऽ- प्राप्तौ निषेधो व्यर्थोऽत आह-आत्मनेपदेति । सकर्मका भवन्तीति । 'ततो व्यापारनिवृत्तौ यदा कर्मकर्तृत्व'मिति शेषः । व्यकृपतेति । अत्र 'चिण्वद्भावोऽपि- नेति कैयटाशयमाहुः केचित् । 'कृष' इत्यनुवर्तमाने 'वेः शब्दकर्मणः' 'अकर्मकाचे'त्यत्राऽयं निर्दिष्टः । परे तु पक्षे चिण्वद्भावे 'व्यकारिषते त्यपि । कैयट-विवरणसहितं. [कुषिरजोः कुषिरजोः प्राचां श्यन्परस्मैपदं च ॥ ३॥१॥९० ॥ ॥*॥ कुषिरजोः श्यन्विधाने सार्वधातुकवचनम् ॥*॥ कुषिरजोः श्यन्वि- धाने सार्वधातुकग्रहणं कर्तव्यम् ॥ ॥ अवचने हि लिडिटोःप्रतिषेधः ॥ ॥अक्रि. यमाणे हि सार्वधातुकग्रहणे लिङिटोः प्रतिषेधो वक्तव्यः स्यात् । चुकुषे पादः स्वयमेव । ररले वस्त्रं स्वयमेव । कोषिषीष्ट पादः स्वयमेव । रसीष्ट वस्त्रं स्व- यमेव । क्रियमाणे चापि सार्वधातुकग्रहणे-कैतीह कुष्णानाः पादा इत्यत्रापि प्राप्नोति । श्यना च स्यादीनां बाधनं प्राप्नोति । कोषिष्यते पादः स्वयमेवे । कोषिता पादः स्वयमेव । अकोषि पादः स्वयमेवे । रसयते वस्त्रं स्वयमेव । अरञ्जि वस्त्रं स्वयमेव ॥ रङ्गा वस्त्रः स्वयमेव । प्र.]त्वम्।पुनः सौकर्यातिशयात्कर्तृत्वविवक्षायां-'विकुर्वते सैन्धवाः स्वयमेव' 'व्यकृ- षत सैन्धवाः स्वयमेवेति यक्चिणौ न भवतः । 'उत्पुच्छयते गौ'रित्यत्राप्यन्त- र्भावितण्यर्थत्वात्कर्मवद्भावाद्यक्चिणोः प्राप्तिः। ब्रूते कथेति । वचनं शब्दप्रकाशन फलत्वात्कर्मस्थम् । [न दुहस्नुनमा यक्किणौ ॥ कुषिरजोः । यकि प्राप्ते श्यन्विधीयते, तेन श्यनि 'नित्यादि रित्याद्युदात्तं पदं भवति । 'शष्श्यनोनित्य'मिति नित्यश्च नुमागमः,-कुष्य॑न्ती जोति । सार्व. धातुकवचनमिति । सार्वधातुके विषयभूतेश्यन्परस्मैपदेभवत इत्यर्थः । कुष्माना इति । 'ताच्छील्यवयोवचने'ति चानश् । तत्र श्यन् प्राप्नोति, परस्मैपदं चान्वाचय- शिष्टं मन्यते । श्यना चेति । विशेषविहितत्वादिति भावः । यक्प्रतिषेधसंब- उ.] बोध्यम् । यदि चिण्प्रतिषेधे चिण्वद्धावप्रतिषेधोऽपीष्टः स्यात्तर्हि 'भूषाकर्मेति पूर्ववार्तिकमप्यत्रैव कुर्यात् । एतद्वा तत्रैव कुर्यात्। विभेदेन करणाच्च चिण्वद्भावस्य प्रतिषेधोऽनेन नेति ध्वनयति । चिण उदाहरणमेकवचने बोध्यमित्याहुः । भारद्वा- जीयानां ‘हेतुम'त्पदत्यागे बीजमाह-उत्पुच्छयतेति । अत्र यगादिकं न । ब्रूते कथेति । 'अत्रे'ति शेषः । प्रकाशनफलकं वचनं ब्रूजोऽर्थः, प्रकाशनस्य कर्ममात्र- निष्ठत्वाच्छब्दे प्रकाशनकृतविशेषदर्शनाच्च कर्मस्थत्वं बोध्यम् ॥ [ नु दुहनु] कुषिरजोः । यक्श्यनोविशेष दर्शयति-ग्नित्यादिरित्यादिना । परस्मैपदस्य सार्वधातुके विधानाऽसम्भवादाह-विषयेति । लिडिटोः प्रतिषेध इति । तत्र नित्यात्मनेपदस्यैवेष्टत्वादिति भावः । ननु 'कुष्णाना' इत्यत्र परस्मैपदाऽप्राप्तेस्तत्सह- चरितः श्यन्नपि नेत्यत आह-परस्मैपदञ्छति । विशेषविहितत्वादिति । ललुट् लुब्यतिरिक्त श्यनश्चारितार्थ्यादिदञ्चिन्त्यम् । 'परत्वाद्बाध' इत्युचितमिति कश्चित् । १चः कचिन्नार इहापि प्राप्नोति कतीह कुष्णानाः पादा इति'1३'इदं क्वचिन्न'।४इतः परं 'रयते' इत्याद्युदाहरणं क्वचित्। ५ इतः परम्-'अरजी' त्याद्युदाहरणं क्वचित् ।

३आ.१पा.५आ.९१सू.] * व्याकरणमहाभाष्यम् 28 १७३ यत्तावदुच्यते "सार्वधातुकग्रहणं कर्तव्य"मितिान कर्तव्यम् । प्रकृतमनु- वर्तते ॥ व प्रकृतम् ? ॥ 'सार्वधातुके य'गिति ॥ यदि तदनुवर्तते पूर्वस्मि- म्योगे किं समुच्चयो-ले च सार्वधातुके चेति, आहो स्विल्लग्रहणं सार्वधातुक- विशेषणम् ? ॥ किं चातः ? ॥ यदि समुच्चयः 'कतीह भिन्दानाः कुसूला' इत्यत्रापि प्राप्नोति । अथ लग्रहणं सार्वधातुकविशेषणं,-लिडिटोर्न सिध्य- ति-बिभिदे कुसूलः स्वयमेव, मित्सीष्ट कुसूलः स्वयमेवेति ॥ अस्तु लग्रहणं सार्वधातुकविशेषणम् ॥ ननु चोक्तं 'लिडिटोर्न सिध्यतीति । लिङिम- हणमपि प्रकृतमनुवर्तते॥क प्रकृतम् ?॥ 'कास्प्रत्ययादाममन्त्रे लिटि' 'लिज्या- शिष्य'ङिति चै । एवं च कृत्वा सोऽप्यदोषो भवति यदुक्तं-'कतीह कुष्णानाः पादा इत्यत्रापि प्रामोतीति अत्रापि लविशिष्टं सार्वधातुकग्रहणमनुवर्तते ॥ यदप्युच्यते-'-श्यना च स्यादीनां बाधनं प्रामोतीति । यक्प्रतिषेधसंबन्धन श्यनं वक्ष्यामि । 'न दुहस्नुनमा यकिणौ' । ततः 'कुषिरजोः प्राचाम्' । कु- पिरजोः प्राचां यक्किणौ न भवतः। ततः 'श्यन्परस्मैपदं चेति ॥ यथैव तर्हि यको विषये श्यन्भवत्येवं चिणोऽपि विषये प्रमोति-अकोषि पादः स्वय- मेव, अलि वस्त्रं स्वयमेव ॥ एवं तर्हि द्वितीयो. योगविभागः करिष्यते [नदुहस्नुनमा] । न दुहस्नुनमां चिण्भवात । ततो 'यक'। 'यक्क न भवति दुहस्नुनमाम् । ततः 'कुषिरजोः प्राचा' । [कृषिरजोः प्राचां] यग्न भवति । ततः 'श्यन्परस्मैपदं चेति । अथ वाऽनुवृत्तिः करिष्यते-‘स्यतासी लुलुटोः' च्लि लुङि च्लेः सिज्भर्वतीति । 'कर्तरि शप्स्यतासी लुलुटोः च्लि लुङि च्ले: सिज्भवतीति । 'दिवादिभ्यः श्यन्' । स्यतासी ललुटोः चिल लुङि ग्लेः सिज् भवतीति। 'कुषिरजोः प्राचां श्यन्परस्मैपदं च' । स्यतासी ललुटोः चिल लुङि च्लेः सिज्भवतीति ॥ अथ वाऽन्तरङ्गाः स्यादवः ॥कान्तरङ्गता ?॥ लकाराव- स्थायामेव स्यादयः । सार्वधातुके श्यन् ॥ [ कुषिरजोः प्राचां श्यन् ] ॥ प्र.]न्धेनेति।तेन यत्र यकः प्राप्तस्य प्रतिषेधस्तत्र श्यन्परस्मैपदे भवतो नान्यत्रेतिस्यादि- विषये न भवतः।लकारावस्थायामेवेति। अकृतेष्वेव लादेशेषु विशेषविहिताः स्यादयो उ.]भाष्ये-पूर्वस्मिन्योग इति। 'कर्मवत्कर्मणे'त्यत्रा ले च सार्वधातुके चेति। लसार्वधातुकयोर्वाच्यत्वेन स्थितः कर्मवदित्यर्थः । भिन्दाना इति । चानश् । इहाऽपि लेति । 'कुषिरजोः' इत्यत्रापि। लादेशसार्वधातुकविषये इत्यर्थ इति भावः। अकृतेष्वेव लादेशेष्विति । निरवकाशत्वाऽभावेऽपि बिशेषविहितत्वस्य पूर्वप्रवृत्ति- १ 'कुशूलाः' । २ चः क्वचिन्न । ३ 'इति प्राप्नोति' । ४ 'इहापि । ५ इदं कचिन्न । ६ इतिः क्वचिन्न । ७ 'लावस्थायां ।

१७४ कैयट-विवरणसहितं. [ धातोः धातोः॥ ३२११९१॥ आ कुतोऽयं धात्वधिकारः?, किं प्राग्लादेशाहो स्विदा तृतीयाध्यायपरि- समाप्तः॥१॥*॥ धावधिकारः प्राग्लादेशात् ॥॥ प्राग्लादेशाद्धात्वधिकारः॥ ॥*लादेशे हि व्यवहितत्वादप्रसिद्धिः॥ ॥अनुवर्तमाने हि लादेशे धात्वधिकारे व्यवहितत्वादप्रसिद्धिः स्यात्॥किञ्च स्यात्?॥* ॥ आये योगे नै व्यवाये तिङः स्युः ॥ ॥ आये योगे विकरणैर्व्यवहितत्वात्तिडो न स्युः। पचति पैठतीति । इदमिह सम्प्रधार्य विकरणाः क्रियन्तामादेशा इति, किमत्र कर्तव्यम् ? ॥ परत्वादादेशाः ॥ नित्या विकरणाः। कृतेष्वप्यादेशेषु प्रामुवन्त्यकृतेष्वपि प्रामु. वन्ति । नित्यत्वाद्विकरणेषु कृतेषु विकरणैर्व्यवहितत्वादादेशा न प्रामुवन्ति ॥ अनवकाशास्तादेशाः ॥ सावकाशा आदेशाः ॥ कोऽवकाशः ? ॥ य एते लुग्विकरणाः, श्लुविकरणाश्चै, लिडिटौ च॥॥न स्यौदेत्वं टेष्टितां यद्विधत्ते॥॥ यञ्च टिसज्ञानां 'टेरेत्वं विधत्ते तच्च विकरणैर्व्यवहितत्वादादेशानां न स्यात्। ॥*॥ एशः शिस्वैम् ॥*॥ एकारश्च शित्कर्तव्यः ॥ किं प्रयोजनम् ? ॥ शित्सर्वस्येति सर्वादेशो यथा स्यात् । अक्रियमाणे हि शकारे 'तस्मादित्यु- प्र.]भवन्ति,पूर्व तैश्चश्यनो विरोधाद्वाधितत्वात् संनियोगशिष्टं परस्मैपदमपि नभवति। धातोः। स्वरितत्वप्रतिज्ञानादधिकारत्वमस्य ज्ञायते न त्ववधिविशेषः । अथापि स्वरिते सति नाधिकारी भवतीति व्याख्यानं तथापि दुर्लक्ष्यत्वान्न ज्ञायते क स्वरितत्वं धात्वधिकारनिवृत्त्यर्थं प्रतिज्ञातमिति पृच्छति-आ कुत इति । आधे योग इति । 'तिप्तस्झी'त्यत्र । विकरणैरिति । स्यादयोऽत्र विकरणा अभिप्रेता न शबादयः, तेषां सार्वधातुकाश्रयत्वादकृते लादेशे प्राप्त्यभावात् । यदा तु सार्व- उ.]प्रयोजकतेति भावः।परे तु ‘स्यतासी' इति सूत्रे 'आयादय' इत्यत आर्द्धधातुके' इत्यनुवर्त्य तत्त्वावस्थायामेव स्यतासी । अतोऽकृतेष्वेवादेशेषु तत्प्रवृत्तिः। इदमेवा- ऽभिप्रेत्य भाष्ये लावस्थायामित्युक्तमित्याहुः । श्यनो विरोधादिति । उभयोः परत्वाऽसम्भवरूपो विरोधः ॥ [ कुषिरजोः प्राचां श्यन् ] ॥ धातोः। तथाऽपीति । धात्वधिकारनिवृत्यर्थ प्रतिज्ञातं यत्स्वरितत्वं तत् क्वेति न ज्ञायत इति योजना । 'अनुदात्तङित' इत्यादिभिर्लादेशविधानात्तत्र धात्व- धिकाराऽभावाद्भाष्ये उक्तम्-आधे योग इति। सर्वेषामेतन्नियामकत्वात्तिप्तस्झी- त्यस्याऽऽद्यत्वमिति भावः । 'आद्ये योगे धातोरित्यस्य सम्बन्धे व्यवधाने तिलो न स्युरिति सम्बन्धः । 'पचति पठतीति भाष्योदाहरणाऽसङ्गतिं मत्वाऽऽह- यदा विति । इदमेवाऽभिप्रेत्य विकरणानामादेशाऽपेक्षया नित्यत्वं वक्ष्यति। भाष्ये- १ इदं कचिन्न ।२ श्लोकवार्तिकम् । ३'चः क्वचिन्न ।४ संज्ञानां'। ५'वान्नस्यात्'।

३अ.१पा.५आ.९१सू.] व्याकरणमहाभाष्यम् , १७५ . त्तरस्यादेः परस्येति तकारस्यैत्वे कृते द्वयोरेकारयोः श्रवणं प्रसज्येत । निवृत्ते पुनर्लादेशे धात्वधिकारेऽलोन्त्यस्य विधयो भवन्तीत्येकारस्य एकारवचने प्रयो. जनं नास्तीति कृत्वाऽन्तरेणापि शकारं सर्वादेशो भविष्यति ॥*॥ यच्चे लोटो विधत्ते ॥ ॥ [ यच्चे लोटो विधीयते ] तच्च विकरणैर्व्यवहितत्वान्न स्यात् ॥ किं पुनस्तत् ? ॥ 'लोटो लङ्कत्' 'एरुः' 'सेपिच्च' 'वा छन्दसी'ति ॥ ॥॥ यच्चाप्युक्तं लढिोस्तच्च न स्यात् ॥ ॥ [ यच्चाऽप्युक्तं लडिङोस्तञ्च न स्यात् ] ॥ किं पुनस्तत् ? ॥ 'नित्यं ङितः' 'इतश्च' 'तस्थस्थमिपां ताम्त- म्ताऽमः' 'लिङः सीयुट्“यासुपरस्मैपदेषूदात्तो ङिच्चेति । तस्मात्प्राग्लादेशा- द्धात्वधिकारः ॥ यदि प्राग्लादेशाद्धात्वधिकारः । अकारः शित्कर्तव्यः ॥ किं प्रयोजनम् ?॥ 'सित्सर्वस्येति सर्वादेशो यथा स्यात् । अनुवर्तमाने पुन- लादेशे धात्वधिकारे 'तस्मादित्युत्तरस्यादेः परस्येति थकारस्याऽत्वे द्वयोर- कारयोः पररूपेण सिद्धं रूपं स्यात् 'पेच यूयं' 'चक्र यूय मिति ॥ ननु च निवृत्तेऽपि लादेशे धात्वधिकारेऽलोन्त्यस्य विधयो भवन्तीत्यकारस्याऽकार- वचने प्रयोजनं नास्तीति कृत्वाऽन्तरेणापि शकारं सर्वादेशो भविष्यति ॥ अस्त्यन्यदकारस्थाऽकारवचने प्रयोजनम् ॥ किम् ? ॥ वक्ष्यत्येतत् 'अकारस्या- कारवचनं समसङ्ख्यार्थ'मिति॥ [॥*॥आर्द्धधातुकसज्ञायां धातुग्रहणम्॥१॥] आर्द्धधातुकसंज्ञायां धातुग्रहणं, कर्तव्यं धातोः परस्यार्द्धधातुकसंज्ञा यथा स्यादिह मा भूदृक्षत्वं वृक्षतेति । तस्माल्लादेशे धात्वधिकारोऽनुवर्त्यः ॥ ननु चोक्त माद्ययोगे न व्यवाये तिङः स्युरिति ॥ नैष दोषः। आनु. पूर्व्यात्सिद्धमेतत् । नानाऽकृतेष्वादेशेषु विकरणाः प्रामुवन्ति ॥ किं कारणम् ? सार्वधातुके विकरणा उच्यन्ते । न चाऽकृतेष्वादेशेषु सार्वधातुकत्वं भवति ॥ ये तर्हि नैतस्मिन्विशेषे विधीयन्ते ॥ के पुनस्ते ! ॥ स्यादयः॥ अत्रापि विहि- प्र.]धातुक इति विषयसप्तमीपक्षस्तदाऽकृतेपिलादेशे शबादीनां प्राप्तिरस्तिाद्वयोरेका- रयोरिति । यद्यप्येकस्यायादेशस्तथाप्यादेशश्रवणद्वारेण तस्यापि श्रवणप्रसङ्ग इति भावः । अकार इति । यस्थस्य स्थाने विधीयते । थकारस्यात्व इति । ननु उ.]टित्संज्ञानामिति। इत्संज्ञकटकारवतामित्यर्थः एकारस्यैकारवचने इति। यद्यपि विशेषविहितत्वात् 'टित' इति बाधित्वा 'लिटस्तझयो रिति प्राप्नोति तथापि एका- रस्य सिद्धावेकारवचने प्रयोजनं नास्तीति व्याख्येयम् । सर्वादेशो भविष्यतीति । निर्दिश्यमानपरिभाषयेति भावः । यस्थस्यति । 'परस्मैपदाना'मित्यनेन । भाष्ये- सार्वधातुके विकरणा इति । विषयसप्तम्यान्तु परिभाषाबाधः स्यादिति भावः । १ श्लोकवार्तिकम् ।२ इदं कचिन्न ।३ 'विधत्ते'।४इदं वार्तिकमित्यन्ये ।५'तत्रापि। ..

१७६ कैयट-विवरणसहितं [ धातोः तविशेषणं धातुग्रहणं-'धातोविहितस्य लस्येति ॥ ययेवं विन्दतीति गला- दयः प्रामुवन्ति ॥ धातुनाऽत्र विहितं विशेषयिष्यामो विदिना चाऽऽनन्तर्य- 'धातोर्विहितस्य लस्य विदेरनन्तरस्येति ॥ इह तर्हि-अजक्षिप्यन् अजागरि- प्यनिति,-अभ्यस्ताझे स्भवतीति जुस्भावः प्रामोति ॥ अत्रापि धातुना विहितं विशेषयिष्यामोऽभ्यस्तेनानन्तयं-'धातोविहितस्याभ्यस्तादनन्तरस्ये'- ति ॥ आत इत्यत्र कथं विशेषयिष्यसि ?। यदि तावद्धातुग्रहणं विहितविशे- षणमाकारग्रहणमानन्तर्यविशेषणम् ,-अलुनन्नपुनन्नित्यत्रापि प्राप्नोति।अथाऽs- कारग्रहणं विहितविशेषणं धातुग्रहणमानन्तर्यविशेषणम् ,-अपिबन् अजिघ्रन्नि- त्यत्रापि प्राप्नोति ॥ अस्तु तर्हि धातुग्रहणं विहितविशेषणमाकारग्रहणमान- न्तर्यविशेषणम् ॥ ननु चोक्तमलुननपुननित्यत्रापि प्रामोतीति ॥ नैष दोषः । लोपे कृते न भविष्यति ॥ नाऽत्र लोपः प्राप्नोति ॥ किं कारणम् ? ॥ ईत्वेन बाध्यते ॥ नात्वं प्रामोति ॥ किं कारणम् ? ॥ अन्तिभावेन बाध्यते ॥ नात्राऽन्तिभावः प्राप्नोति ॥ किं कारणम् ? ॥ जुस्भावेन बाध्यते ॥ नाऽत्र जुस्भावः प्राप्नोति ॥ किं कारणम् ? ॥ लोपेन बाध्यते ॥ लोप ईत्वेन ईत्व. मन्तिभावेनाऽन्तिभावो जुस्भावेन जुस्भावो लोपेनेति चक्रकमव्यवस्था प्रसज्येत ॥ नास्ति चक्रकप्रसङ्गः । न ह्यव्यवस्थाकारिणा शास्त्रण भवितव्यम् । शास्त्रेण नाम व्यवस्थाकारिणा भवितव्यम् । न चाऽत्र हलादिना मुहूर्तमपि शक्यमवस्थातुम् । तावत्येवाऽन्तिभावेन भवितव्यम् । प्र.] पच् थ इति स्थिते परत्वादिवाप्नोति । नैष दोषः। अकारो नित्यः, कृते- ऽपीटि प्राप्नोत्यकृतेऽपि । इट् तु कृतेऽकारे वलादित्वाऽभावान्न प्राप्नोतीत्यनित्यः । यद्यपि शब्दान्तरस्य प्राप्त्या अकारस्याऽनित्यत्वं तथापि कृताऽकृतप्रसङ्गित्वा- नित्यत्वमस्त्येव । न च शब्दान्तरप्राप्तिकृतमनित्यत्वमिह सर्वत्र शास्त्र आश्रीयते । तावत्येवेति । कृत एव झिशब्देऽकृत एव विकरण इत्यर्थः । आयन्ना- दिषूपदेशिवद्वचनादुपदेशकाल एव झस्याऽन्तादेशेन भाव्यमिति भावः । प्राति- उ.]अत्राऽपीति 'सिद्ध मिति शेषः। कथं ?,तत्राह-धातुग्रहणमिति । टेरेत्वसिद्धये विषयसप्तमीवादिनोऽपि विहितविशेषणमावश्यकमिति भावः । अपिबन्निति । शबे. कादेशस्य परादिवत्वेन ग्रहणादिति भावः। 'लङः शाकटायनस्येति जुस्प्राप्तः । वस्तुतः क्वचिद्विहितविशेषणमिति सर्वत्र तदेवाश्रयणीयमिति न नियम इति न दोषः । भाष्यकारस्तु तथाऽऽश्रयणेप्यभ्युपेत्यवादेन दोषाऽभावं प्रतिपादयति । चक्रकमव्यवस्थेति-भाष्ये । चक्रकरूपाऽव्यवस्थेत्यर्थः । आयज्ञादिग्विति । आदिना झोऽन्तस्यापि ग्रहादिति भावः । उपदेशकाल एवेति । उपदेशोत्तरकाले ३अ.१पा.५आ.९१सू.] * व्याकरणमहाभाष्यम् & अन्तिभावे कृते लोपः । लोपेन व्यवस्था भविष्यति ॥ यदप्युच्यते 'एशः शित्त्व'मिति क्रियते, न्यास एव ॥ कानि पुनरस्य योगस्य प्रयोजनानि?॥*॥प्रयोजनंप्रातिपदिकप्रतिषेधः॥ ॥ प्रातिपदिकप्रतिषेधःप्रयोजनम् । धातोस्तव्यदादयो यथास्युःप्रातिपदिकान्मा- भूवन्निति ॥ नेतदस्ति प्रयोजनं, साधने तव्यदादयो विधीयन्ते, साधनं च क्रियायाः । क्रियाऽभावासाधनाऽभावः, साधनाऽभावादसत्यपि धात्वधिकारे प्रातिपदिकात्तव्यदादेयो न भविष्यन्ति॥॥स्वपादिषु (तर्हि)॥*॥स्वपादिषुतर्हि प्रयोजनम् । स्वपिति । सुपंतीति मा भूत् । ॥ ॥ अङ्गसञ्ज्ञा च ॥ ॥ अङ्ग- सज्ञा च प्रयोजनम्। यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्ग'मिति धातोरङ्गसंज्ञा सिद्धा भवति । ॥ ॥ कृत्सञ्ज्ञा च ॥*॥कृत्सा च प्रयोजनम् । धातोर्वि- हितः प्रत्ययः कृत्संज्ञो भवतीति कृत्संज्ञा सिद्धा भवति ॥॥उपपदसंज्ञा च॥ प्र.] पदिकान्मा भूवन्निति । द्वितीयादिवदिति भावः । साधन इति । प्रकृति- वाच्यान्तरङ्गक्रियासाधनसंभवे शब्दान्तरवाच्यबहिरङ्गक्रियासाधने तव्यदादयो न भविष्यन्ति । द्वितीयादयस्तु प्रातिपादिकादेव विधीयमानाः शब्दान्तरवाच्य- क्रियापेक्ष एव साधने वचनसामर्थ्याद्भवन्तीति भावः । स्वपादिष्विति । येऽपभ्रंशरूपाः क्रियावचना आणवयत्यादितुल्यास्तेभ्यस्तव्यदादयो मा भूवन् । न हि ते धातवः। पाठेन धातुसंज्ञायास्तेषां निरस्तत्वात् । ततः स्वपितीति प्रयोक्तव्ये सुपतीति प्रयोगोऽपभ्रंशः, ततः प्रत्ययोत्पत्तिर्मा भूदित्यर्थः । अङ्गसंज्ञेति । असति धात्वधिकारे धातूपसर्गसमुदायस्य क्रियाविशेषवाचित्वात्ततः प्रत्ययविधाने तस्यैवाङ्गसंज्ञायां सत्यामडादिप्रसङ्गः-प्राऽस्थितेत्यादावित्यर्थः। तत्रै. उ.]कार्यान्तरात्पूर्वमेवेत्यर्थः। भाष्ये-अन्तिभावे कृते लोप इति। नचाऽन्तरङ्गत्वा- त्पूर्वं कृतेऽप्यन्तौ लोपात्पूर्वं स्थानिवद्भावेन झित्वाज्जुस्प्राप्नोति अनाङ्गत्वेनाऽन्तरङ्ग- त्वादिति वाच्यं, 'झे 'सित्यत्रेकारस्योच्चारणार्थत्वेनाऽल्विधित्वेन स्थानिवत्त्वा- ऽभाव इत्याशयात् । वस्तुत 'आत' इत्यत्र सिज्ग्रहणाऽनुवृत्तेस्तत्सूत्रस्थभाष्ये, 'चिल लुङी'ति सूत्रस्थभाष्ये चोक्तत्वेन न काऽपि दोषप्रसङ्ग इति ध्येयम् । प्रकृत- सूत्रस्थभाष्यन्त्वेकदेश्युक्तिः। द्वितीयादीति । ता हि यथा शब्दान्तरवाच्यक्रिया- ऽपेक्षे स्वप्रकृत्यर्थस्य कर्मत्वे विधीयन्ते तथा तव्यादयोऽपि स्युरित्यर्थः । द्वितीया- दिभ्यो वैषम्यमुपपादयति-प्रकृतीति । येऽपभ्रंशेति । स्वप्यपभ्रंशत्वात् क्रियावा- चकत्वमेषामस्तीति भावः । ततः प्रत्ययोत्पत्तिरिति । 'मुपती'त्येतद्धटकात्सुपे- रित्यर्थः । भाष्ये-कृत्संज्ञा च प्रयोजनमिति । एतद्धात्वधिकारे धातोर्विहितस्य १ इदं क्वचिन्न ।२'तव्यदाद'। ३'सुपितीति'। ४'धातुविहितस्य प्रत्ययस्य कृत्सज्ञा'। १२ ॐ कैयट-विवरणसहितं ® [धातोः ॥*॥ उपपदसंज्ञा च प्रयोजनम् । तत्रैतस्मिन् धात्वधिकारे येत्सप्तमीनि- र्दिष्टं तदुपपदसंज्ञं भवतीत्युपपदसंज्ञा सिद्धा भवति । कृदुपपदसंज्ञे तावन्न प्रयोजयतः। अधिकारादप्यते सिद्ध ॥ स्वपादिषु तङ्गिसंज्ञा च प्रयोजनम् ॥ ॥*॥ धातुग्रहणमनर्थकं यदिधौ धात्वधिकारात्॥ ॥ धातुग्रहणमनर्थकं ॥ किं कारणं?॥' यङिधौ धात्वधिकारात्' । यतिधौ धातुग्रहणं प्रकृतमनुवर्तते । तञ्चावश्यमनुवर्त्यम् ॥* ॥ अनधिकारे ह्यङ्गसंज्ञाऽभावः॥ * ॥अनधिकारे हि सत्य. गसंज्ञाया अभावः स्यात्-करिष्यति हरिप्यतीति ॥ यदि तदनुवर्तते चूर्णचुरा- दिभ्यो णिज्भवति धातोश्चेतिधातुमात्राणिप्राप्नोति॥॥हेतुमद्वचनं तु ज्ञापक- मन्यत्राऽभावस्य॥ ॥ [हेतुमद्वैचनं तु ज्ञापकमन्यत्राऽभावस्य] ॥ यदयं हेतुमति चेत्याह तज्ज्ञापयत्याचार्यों 'न धातुमात्राणिज्भवतीति ॥ इह तर्हि कण्ड्वा- दिभ्यो यम्भवति धातोश्चेति धातुमात्राद्यप्राप्नोति ॥ * ॥ कण्ड्वादिषु च व्यंव- देशिवद्वचनात्॥*[कण्ड्वादिपु च व्यपदेशिवद्वचनासिद्धम्]। यदयंकण्ड्वादिभ्यो प्र.]तस्मिन्निति। सत्यस्मिन्धात्वधिकारे तत्रोपपद'मित्यस्य तच्छब्देन परामर्श उप- पद्यते नान्यथा । यदयमिति । यद्यविशेषेण धातुमात्राण्णिच्स्यात्तदा करणे करो- त्यर्थे विधीयमानो हेतुमत्यपि करणे सिद्ध इति पुनस्तत्र णिचं न विदध्यादित्यर्थः । चुरादिग्रहणं तु 'प्रातिपदिकाद्धात्वर्थ' इत्याद्यर्थं स्यादित्यज्ञापकम् । व्यपदेशिवद्वच. नादिति । धातुव्यपदेशो विद्युते येषां ते पचादयो धातुपाठपठिता व्यपदेशिनस्तै- स्तुल्यं कण्ड्वादयो वर्तन्ते । यकः कित्त्वेन तेषां धातुत्वानुमानात् । तदयमर्थः-यदि धातुमात्राद्यक्प्रत्ययःस्यात्ततः कण्ड्वादिग्रहणमनर्थकं स्यात् , तेषामपि क्रियावाचिवा- उ.]कृत्संज्ञकत्वम् । अन्यथा स्यादीनामपि तत्त्वं स्यादिति भावः। एवं चिल लुडी' त्यादे ढन्ते उपपदे इत्यादिकमेणाऽर्थः स्यादिति बोध्यम्। अधिकारादप्येत इति । 'कृदतिङ्' 'तत्रोपपद'मित्यनयोरधिकारत्वादित्यर्थः । ननु 'चुरादिभ्य' इत्यनेन स्वार्थे विधानात्प्रयोजकव्यापारे णिजथं 'हेतुमति चेत्यावश्यकमत आत-यद्य- विशेषेणेति । हेतुमत्यपीति । अपिना स्वार्थरूपकरणसङ्ग्रहः। नन्वेवं चुरादि- ग्रहणमेव ज्ञापकं किमिति नोक्तमत आह-चुरादीति । प्रातिपदिकाद्धात्वर्थे 'सङ्ग्राम युद्धे' इत्यादितद्गणपठितेभ्योऽधातुभ्यो णिजर्थमित्यर्थः । परे तु चुरादिग्रहणं स्वार्थरूपकरणे विध्यर्थम् , अन्यथाऽन्यधातुभ्य इव तेभ्योऽपि प्रयोजकव्यापाररूपे करणे एव स्यात् । एवञ्च 'प्रातिपदिकाद्धात्वर्थ' इत्यस्याऽनार्षत्वेऽपि न दोष इत्याहुः । धातुमात्रांद्यक इति । धातुमात्राद्यको विधायकेन तेषामपि यकः सिद्ध- १ यत्तदिति क्वचिन्न । २ इतिः क्वचिन्न । ३ 'न्यत्राऽप्रसङ्गस्य' । ४ इदं क्वचिन्न । ५ 'कण्ड्वादिभ्यो व्यप' ।

३अ.१पा.५आ.९१सू.] & व्याकरणमहाभाष्यम् - Ouvey यग्भवतीयाह तज्ज्ञापयत्याचार्यों 'न धातुमात्राथग्भवतीति ॥ अथ वा कण्ड्वादीनेव धातुग्रहणेनाऽभिसंभन्स्यामः-'कण्ड्वादिभ्यो धातुभ्य' इति ॥ तत्रोपपदं सप्तमीस्थम् ॥ ३॥१॥९२ ॥ 'स्थ'ग्रहणं किमर्थम् । 'तत्रोपपदं सप्तमी'तीयत्युच्यमाने यत्रैव सप्तमी श्रूयते तत्रैव स्यात्-स्तम्बेरमः कर्णेजपः। यत्र वैतेन शब्देन निर्देशः क्रियते- 'सप्तम्यां जनेर्ड' इति । इह न स्यात्-कुम्भकारो नगरकारः । स्थग्रहणे पुनः क्रियमाणे यत्रं च सप्तमी श्रूयते यत्र च [सप्तमी] न श्रूयते यत्र चैते. प्र.द्धातुमात्राद्यकःसिद्धत्वात्। अथ वेति। सामानाधिकरण्येन संबन्धे संभवति समु- च्चयाश्रयणस्याऽयुक्तबादिति भावः । आर्द्धधातुकसंज्ञार्थोऽप्ययं धात्वधिकारो नोपयु- ज्यने । यतिधावेवोपात्तस्यानुवृत्तस्य विहितविशेषणार्थत्वाज्जुगुप्सते लूभ्यामित्यादा- वार्द्धधातुकसंज्ञानिवृत्तेःसिद्धत्वात् । शमिघातोरित्यतो द्वितीयधातुग्रहणानुवर्तनाद्वा । तत्रोपपदं । स्थग्रहणमिति । सप्तमीशब्देन साहचर्यात्सूत्रेषु सप्तमीनिर्दिष्टा ग्रहीष्यन्त इति प्रश्नः। यत्रैव सप्तमीति । मुख्यार्थसंभवे गौणग्रहणस्याऽन्याय्यत्वा- त्सप्तम्या एवोपपदसंज्ञा स्यात् । संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेः प्रतिषेधात् । समासस्तु समर्थपरिभाषोपस्थानात्तदन्तस्यैव स्यात् । यत्र वेति। सप्तमीति यदा रूपग्रहणं। तथा सति ‘सप्तम्यां जनेर्ड'इत्यादावेव स्यात् , उपसरजादिसिद्ध्यर्थः कुम्भ- कारादिषु तु नैव स्यादित्यर्थः । स्थग्रहण इति । स्थग्रहणे तु सति सौत्रसप्तम्यु- उ.]त्वादित्यर्थः । विहितविशेषणेति । स्वरितत्वद्वयं प्रतिज्ञाय तत्सामर्थ्याद्धातो- रित्येवं विहितेत्यर्थः कार्य इति भावः । तदाह-जुगुप्सत इत्यादि। नन्वेकैन धातुग्रहणेन कथमेषोऽर्थो लभ्येताऽत आह-शमिधातोरिति । 'वासरूप' इत्य- प्यधिकार एवेति एतदभावे क्सादिभिः सिचः समावेशः स्यादिति न शङ्कयम् ॥ तत्रोपपदं। ननु ‘स्थ'ग्रहणाऽभावे सप्तम्या एव संज्ञा स्यादत आह-सप्तमी- शब्देनेति । सूत्रस्थसप्तम्यन्तपदनिर्दिष्टं सप्तमीपदेन लक्ष्यत इत्यर्थः । ननु प्रत्यय- ग्रहणे तदन्तग्रहणात्कथं सप्तम्या एव संज्ञेत्यत आह-संज्ञेति । नन्वेवमुपपदसमा- सोऽपि सप्तमीमात्रस्य स्यादत आह-समासस्त्विति । सूत्रे सप्तमीपदं विभक्तिपरं खरूपपरं वा। आद्य सप्तम्या एव संज्ञा । अन्त्ये तु यत्र सप्तमीपदं तत्रैव स्यादि- त्याह-यदेति । तथा सति । तदेत्यर्थः । इत्यादावित्यादिना 'सप्तम्यां चोपपीडेति सङ्ग्रहः । ननु 'स्थ' ग्रहणेऽपि कुम्भादीनां सप्तमीस्थत्वाऽभावात्कथमुपपदत्वं तत्राह स्थग्रहणे त्विति । अयं भावः-सप्तमीपदं तदन्तपरं, संज्ञाविधौ प्रत्ययांशे तदन्त- विधिप्रतिषेधस्तु उद्देश्यप्रत्ययांशे एव । तत्स्थत्वञ्च तद्वाच्यत्वमिति तदाह-सौत्रसप्त- १ 'ग्रहणेन संभन्त्स्यामः' । २ 'धातुभ्यो यगिति' । ३ 'यत्र' । ४ 'वैतेन'।

-- कैयट-विवरणसहितं . [ तत्रोपपदं शब्देन निर्देशः क्रियते यत्र-चान्येन [शब्देन] सप्तमीस्थमात्रे सिद्धं भवति॥ अथ 'तत्र'ग्रहणं किमर्थम् । ॥*॥ तत्रग्रहणं विषयार्थम् ॥ ॥ [ तत्रै ग्रहणं क्रियते ॥ किं प्रयोजनं ?विषयार्थम्'।]। विषयः प्रतिनिर्दिश्यते । तत्रैतस्मिन्धात्वधिकारे यत्सप्तमीनिर्दिष्टन्तदुपपदसंज्ञं भवतीत्युपपदसंज्ञा सिद्धा भवति । ॥ ॥उपपदसंज्ञायां समर्थवचनम् ॥*॥ उपपदसंज्ञायां समर्थ- ग्रहणं कर्तव्यम् । 'समर्थमुपपदं प्रत्ययस्येति वक्तव्यम् । इह मा भूत्- आहर कुम्भं करोति कटमिति॥[अथ] क्रियमाणे चाऽपि समर्थग्रहणे 'महान्तं प्र.]पलक्षितस्य संज्ञाविधानात्सर्वत्र सिध्यतीत्यर्थः। अथ तत्रग्रहणमिति। 'धातो'रि- त्यनुवर्तनादस्मिन्नेव धात्वधिकारे उपपदसंज्ञा भविष्यतीति प्रश्नः । तत्रैतस्मिन्निति । तत्रग्रहणेनाधिकारपरामर्श स्पष्टा प्रतिपत्तिर्भवतीति भावः । अथ वोपपदसंज्ञोत्तर- त्राधिकारादत्रैव धालधिकारे भविष्यतीति प्रश्नः । प्रतिसूत्रमधिकार आश्रीयमाणं गौरवं स्यात् । तत्र'ग्रहणे तु क्रियमाणे अनेनैवैकवाक्येन परिपूर्णत्वात्संज्ञा विधीयत- इति प्रतिपत्तिलाघवं भविष्यतीत्युत्तरम् । समर्थवचनमिति । इह यदा त्रिकः प्रातिपदिकार्थः स्वार्थद्रव्यलिङ्गलक्षणस्तदा विभक्तिमन्तरेण कर्माऽधिकरणाद्युपपदं न भविष्यतीत्यवश्योत्पत्तव्यं विभक्तया। ततश्च पदविधित्वात्समर्थपरिभाषाया उपस्थान भवत्येव । चतुष्कपक्षे पञ्चकपक्षे वा प्रातिपदिकस्यैव कर्मादिवाचित्वात्पदविधित्वा- उ.]म्युपलक्षितस्येति। सौत्रसप्तम्यन्तपदबोध्यस्येत्यर्थः। धातोरित्यनुवर्त्तनादिति। धातोरित्यधिकारविहितप्रत्ययविधी सप्तमीस्थमित्यर्थादिति भावः । धातोरित्यनुवृत्ता- वपीदृशार्थाऽलाभादाह-अथ वेति । अत्रैवेति । न तु 'च्लि लुडी'त्यादाविति भावः । 'उपपदसंज्ञा सिद्धा भवतीति भाष्यस्याऽपीष्टविषये स्फुटतया सिद्धा भवतीत्यर्थः विभक्तिमन्तरेणेति।तामन्तरेण कर्मवाद्यभावादित्यर्थः । शब्दस्य कर्मत्वादि हि तद्वि- शिष्टार्थवाचकत्वमेवेति भावः।चतुष्कपक्षे इति। 'द्योतसमभिव्याहारे चतुष्कं प्राति- पदिकार्थ' इति पक्षे इत्यर्थः । प्रातिपदिकस्यैवेति । चिन्त्यमिदम् , पञ्चकपक्षेऽपि द्योतकसमभिव्याहारं विना प्रातिपदिकमात्रस्य तद्बोधकलाऽभावात्।प्रं विना जयतेः प्रकृष्टजयबोधकत्ववत् । एवञ्च तत्पक्षेऽपि पदविधित्वं दुर्वारमेव। तस्मादयमत्र भाष्यार्थः, सुबन्तत्वेन पदत्वेन वा यत्र निमित्तता तत्रैव तत्परिभाषाप्रवृत्तिरिति प्रकृते तदभावात्परिभाषाऽनुपस्थित्या समर्थग्रहणं कर्त्तव्यमिति युक्तमाभाति । भाष्ये समर्थमुपपदमिति । सामर्थ्यच प्रत्यासत्त्या प्रत्ययान्तेनैवेति बोध्यम् । प्रत्ययस्यो- त्पत्तौ निमित्तं यत्समर्थ सप्तम्यन्तपदवाच्यं तदेवोपपदसंज्ञमिति वक्तव्यमित्यर्थः । १ 'यत्र वान्येन' । २ इदं वचिन्न । ३ 'ष्टमुपपद' । ४ 'सङ्ख्यातिरिक्तं चतुष्क' । ।

यावता . ३अ.१पा.५आ.९२सू.] 8 व्याकरणमहाभाष्यम् , कुम्भं करोती'त्यत्रापि प्राप्नोति ॥ न वा भवितव्यं महाकुम्भकार इति ? ॥ भवितव्यं यदेतद्वाक्यं भवति-महान्कुम्भो महाकुम्भः,महाकुम्भं करोती]ति महाकुम्भकार[इति । यदा त्वेतद्वाक्यं भवति-'महान्तं कुम्भं करोती'ति,तदा न भवितव्यम् । तदा च प्रामोति,तदा मा भूदिति ॥ यत्तावदुच्यते-'समर्थ- ग्रहणं कर्तव्य मिति । न कर्तव्यम् । 'धातो'रिति वर्तते 'धातोः कर्मण्य- ण्भवति' । तत्र सम्बन्धादेतद्गन्तव्यं-'यस्य धातोर्यत्कमें'ति । यदप्युच्यते- 'क्रियमाणे चापि समर्थग्रहणे महान्तं कुम्भं करोतीत्यत्रापि प्राप्नोतीति । 'उपपदमिति महतीयं संज्ञा क्रियते । संज्ञा च नाम यतो न लघीयः॥ कुत एतत् ? ॥ लघ्वर्थ हि संज्ञाकरणम् ॥ तत्र महत्याः संज्ञायाः करणे एतत्प्रयोजनम्-'अन्वर्थसंज्ञा यथा विज्ञायेत'। उपोचोरि पदमुपपद मिति । यच्चाऽत्रोपोच्चारि न तत्पदं, यञ्च पदं न तदुपोचोरि । प्र.]भावात्समर्थपरिभाषानुपस्थानात्समर्थवचनं कर्तव्यमितिभावः।आहर कुम्भमिति। कुम्भशब्द उपपदे करोतेरण्प्रत्ययः स्यात् । उपपदसमासस्तु सामर्थ्याऽभावान्न म्यात्। महान्तं कुम्भमिति । महत्त्वयुक्तस्य कुम्भस्य करोतिना सामर्थ्यमस्तीति भावः । चदि चाऽत्र प्रत्ययः स्यात्तदा कुम्भशब्दस्य कारशब्देन समासे कृते कारार्थ एकार्थी- भावान्महच्छब्देन समासो न स्यात् । सुबन्तसमुदायस्याप्यसुबन्तत्वात्।उपपदसमासे नृतीयान्तस्य सुब्ग्रहणस्य निवृत्तावपि प्रथमान्तस्यानुवर्तनात्समासाऽभावः । न तत्प- दमिति । पदसमुदायत्वादिति भावः। यच्च पदमिति । 'महान्त'मित्येतत् । कुम्भ- मित्येतच्चै यद्यपि पदं भवति उपोचारि च, तथापि सापेक्षत्वादसामर्थ्यात्प्रत्ययोत्पत्ति- उ.] ननु ‘महान्तं कुम्भ'मिति सविशेषणे कथं सामर्थ्यमत आह-महत्त्वयुक्तस्येति। विशिष्टस्यैव कर्मत्वेन विशिष्टेन सामर्थ्यमस्तीति भावः। तदा न भवितव्यमिति भाष्ये। 'अणेति शेषः।तदाच प्रामोतीत्यस्याऽपि- अणित्येव शेषोन तु 'महाकुम्भ- कार' इति,तद्धनयन्नाह-महच्छब्देन समासो न स्यादिति । कारार्थविशेषण- तयोपस्थितस्येतरविशेष्यत्वाऽसंभवेन महच्छब्देन कुम्भशब्दस्य कर्मधारयो न स्यादिति भावः । बहुलवचनेनोत्तरपदे ‘विशेषणं विशेष्येणे'त्यस्य तत्प्रपञ्चभूता- नाम्पूर्वनिपातनियमार्थानाञ्च निवृत्तः समर्थसूत्रे भाष्ये ध्वनितत्वादिति निरूपितं समर्थसूत्रे भाष्ये । न च पूर्वं कर्मधारयः, उपपदसमासस्य परत्वादिति बोध्यम् । ननु समुदायेनैवोपपदसमासो भविष्यतीत्यत आह-सुबन्तसमुदा- यस्येति । वस्तुतः प्रथमान्तनिवृत्तावपि समुदायेन समासेऽपि 'कुम्भ'शब्द- स्योत्तरपदत्वाऽभावादात्वाऽभावे 'महत्कुम्भकार' इत्यनिष्टस्याऽऽपत्तिरिति भाष्या- १ इतिः कचिन्न । २ 'उपोच्चारितं' । ३ 'त्येतत्तु' । ४ 'कारस्याऽनिष्टस्या' ।

१८२ ॐ कैयट-विवरणसहितं [ तत्रोपपदं चेदानी पदगन्धोऽस्ति पदविधिरयं भवति । पदविधिश्च समर्थानां भवति । तत्राऽसामर्थ्यान भविष्यति ॥ अथ व्यन्त उपपदे किमणा भवितव्यम्- अकुम्भं कुम्भं करोति कुम्भीकरोति मृदमिति ? ॥ न भवितव्यम् ॥ किं कारणम् ?[॥*॥प्रकृतिविवक्षितत्वात् ॥*॥] प्रकृतिविवक्षायां विविधीयते । तत्सापेक्षम् । सापेक्षं चाऽसमर्थं भवति ॥ न तीदानीमिदं भवति-'इच्छा- म्यहं काशकटीकार मिति ॥ इष्टमेवैतद्गोनर्दीयस्य ॥*॥ निमित्तोपादानं च ॥*। निमित्तोपादानं च कर्तव्यम् । 'निमित्तमुपपदं प्रत्ययस्येति वक्तव्यम् । ॥*॥ अनुपादाने ह्यनुपपदे प्रत्ययप्रसङ्गः॥*॥ अक्रियमाणे हि निमित्तोपादानेऽ. प्र.]निमित्तं न भवति।अन्वर्थसंज्ञाकरणादेव सप्तमीनिर्दिष्टत्वेऽपि प्रकृत्यर्थविशेषणानां प्रत्ययार्थानां तद्विशेषणानां चोपोच्चारि(त)त्वाभावादुपपदसंज्ञा न भवति। पदविधि- रिति । पदनिमित्तत्वात्प्रत्ययविधेरितिभावः । अथ व्यन्त इति । इह व चित्सा- पेक्षत्वे प्रत्ययो न भवति 'महान्तं पुत्रमिच्छतीति । क चित्तु भवति माणवकं मुण्ड. यतीति, तत्र सन्देहात्प्रश्नः। च्च्यन्तस्य चाऽव्ययत्वेऽपि कर्मत्वं मन्यते। सत्त्वभूतत्व- स्याऽनिवर्तनात् । प्रकृतिविवक्षायामिति । प्रकृतिविकारयोरभेदविवक्षायां चिर्वि- धीयते । तत्राऽवश्यं विकारेण प्रकृतिविशेषोऽपेक्षणीयः। तदनपेक्षायां च्वेरभावात् । ततश्च यथा महान्तं कुम्भं करोतीत्यत्राऽण्न भवत्येवं मृदं कुम्भीकरोतीत्यादावपी- त्यर्थः। काशान्कटीकरोतीत्यत्र त्विष्ट्याऽण्प्रत्ययो भवति । तस्मिन्नुत्पन्ने काशशब्दात् उ.] शयः । यदुक्तं 'कुम्भशब्दस्य 'कारशब्देन समास'इति, तदपि चिन्त्यम् , कुम्भशब्दस्य केवलस्य सविशेषणत्वेनाऽसमर्थत्वात् । समासविधौ समर्थ- परिभाषोपस्थानेन समासाऽप्राप्तेः । भाष्यं तु सर्वथा समासाऽभावेऽप्यणापत्ति- परतया योजयितुं शक्यमेवेति दिक् । यावना चेदानीमिति भाष्यमवतारयति- कुम्भमित्येतञ्च यद्यपीति । समाधानाशयमाह--तथाऽपीति । भाष्ये 'गन्ध'शब्दः संबन्धवाची, स च महासंज्ञाबलात्प्रत्ययविधौ पदत्वेन निमित्तत्वात्स्पष्ट एव । असा- मर्थ्यात्प्रत्ययाऽभावे चोपपदसंज्ञाऽपि फलाऽभावान्नेत्युपपदसंज्ञायां समर्थवचनमनर्थ- कमिति भावः। एवञ्च सुबन्तस्यैवोपपदत्वम् । 'स्तम्वकर्णयो'रित्यादौ तु तत्प्रकृतिके लक्षणा । इदमेवाऽभिप्रेत्य 'उपपदमति किति सूत्रे प्रथमान्तमुप्पदस्याऽपि निवृत्ति- भगवतोक्तेति दिक् । कर्मत्वं मन्यत इति । 'स्वरादिव'दिति शेषः। तत्र हेतु- माह-सत्त्वेति । विप्रत्ययेऽपि स्वाश्रयसत्त्वभावस्य निवृत्ती मानाऽभावादिति भावः। 'सत्त्वभूतस्येति पाठेऽपि भावे क्तः । प्रकृतिविवक्षायामिति भाष्यस्य,- प्रकृतेर्विकृत्यभिन्नत्वेन विवक्षायां विकृतिवाचकाच्च्चिरित्यर्थः । तत्फलितमाह- प्रकृतीति । तत्राऽवश्यमिति । नन्वेवं नित्यसापेक्षत्वेनाऽसामर्थ्याऽभावादण्दुर्वारः, - १८३ .. । ३अ.१पा.५आ.९३सू.] ® व्याकरणमहाभाष्यम् ॐ नुपपदेऽपि प्रत्ययः प्रसज्येत ॥ निर्देश इदानी किमर्थः स्यात् ? ॥*॥ निर्देशः संज्ञाकरणार्थः ॥४॥ [ निर्देशः सञ्ज्ञाकरणार्थः ]॥ यदोपपदे प्रत्ययस्तदोप- पदसंज्ञां वक्ष्यामीति ॥ तत्तर्हि निमित्तोपादानं कर्तव्यम् ! ॥ न कर्तव्यम् । ॥॥ तत्रवचनमुपपद[सज्ञा]सन्नियोगार्थम् ॥ ॥ तत्रवचनं क्रियते तदुपपद. [सज्ञा] संनियोगार्थ भविष्यति। कर्मण्यविधीयते तत्र चेप्रेत्ययो भवतीति॥ ननु चान्यत्तत्रग्रहणस्य प्रयोजनमुक्तम्॥ किम्?॥ 'तत्रग्रहणं विषयार्थ', मिति । अधिकारादप्येतत्सिद्धम् ॥ [ तत्रोपपदं सप्तमीस्थम् ] ॥ कृदतिङ् ॥ ३॥११९३ ॥ अतिङिति किमर्थम् ? ॥ पचति करोति ॥ ॥ अतिङिति शक्यमकर्तु- म्॥ ॥कस्मान्न भवति पचति करोतीति ? ॥ धातोः परस्य कृत्संज्ञा प्राक्क प्र.कृद्योगे षष्टी तस्याः षष्ठीति समासः। समासरूपस्यैव चेष्टत्वेनोपात्तत्वात् काशानां कटीकार इति वाक्यं न भवतीत्याहुः।निर्देश इति । 'कर्मणीति सत्सप्तमीविज्ञाना- सत्येव कर्मणि प्रत्ययो भविष्यतीति भावः । निर्देशः संज्ञाकरणार्थ इति । यथे- त्संज्ञार्थमनुनासिकत्वं प्रतिज्ञायते तथाऽर्थनिरपेक्षा कर्मणीत्यादिसप्तमीउपपदसंज्ञालिङ्गं सौत्रीति भावः। अर्थापेक्षायां तु सप्तम्यामण्प्रत्ययस्याभिधेयं कर्म स्याद्यथा 'धःकर्मणि ट्र'न्निति । तथा च उपपदत्वं न प्रतीयेत । अर्थानपेक्षत्वे च सप्तम्या धातोरण्भवति कर्म चोपपदसंज्ञमित्यर्थः स्यादिति कर्मणः प्रत्ययोत्पत्तिनिमित्तत्वं न प्रतीयेत तत्रवचनमिति । तत्रैव सति प्रत्ययो भवति नासतीति तत्रग्रहणालभ्यते। कथमिति चैत्-उच्यते,-प्रत्यय इत्यत्रानुवर्तते । तत्रायमर्थः, सप्तमीस्थमुपपदसंज्ञं भवति । तत्र चोपपदे प्रत्ययो भवतीति । [ तत्रोपपदं सप्तमीस्थम् ] ॥ उ.]तदनपेक्षायां च्वेरभावेन च्व्यन्तस्य नित्यसापेक्षताया उपपादितत्वादिति चेदत्र महद्भिर्यतनीयम् । मम तु प्रतिभाति,-न नित्यसापेक्षत्वं वृत्तौ प्रयोजकं, किन्तु गम- कत्वम् । एवञ्च नित्यसापेक्षत्वेऽप्यगमकत्वान्न वृत्तिः। 'काशकटीकार'मित्यत्र तु गमकत्वाद्भवत्येवेति स्पष्टच्चेदं 'समर्थ' सूत्रे 'सुप आत्मन' इति सूत्रे च भाष्ये सूक्ष्मदृशाम् । भाष्ये-अधिकारादपीति । नन्वधिकारादेतस्मिन्धात्वधिकार इत्यर्थ- वत्तत एव प्रतिसूत्रमुपपदसंज्ञाविधानेन 'सन्नियोगशिष्ट'न्यायात्तत्र सत्येव प्रत्ययो भविष्यति किं तत्र' ग्रहणेनेति चेन्न, नदभावे 'अन्वाचयशिष्टत्वमपि सम्भाव्यते'ति स्पष्टप्रतिपत्त्यर्थमिति तत्त्वम् ॥ [ तत्रोपपदं सप्तमीस्थम् ] ॥ कृदतिङ् । भाष्ये एकदेश्याह-पचतीत्यादि। शङ्किताऽऽह-शक्यमकर्तुमिति। १ इदं क्वचिन्न । २' च प्रत्ययो' । ३ 'पठति । ४ इदं भाष्यमित्यन्ये । वार्तिकमित्यन्ये । ५ 'प्रतीयते' । ६ शङ्कते।

१८४ कैयट-विवरणसहितं [कृदतिङ् लादेशाद्धात्वधिकारः॥ एवमपि स्थानिवद्रावात्कृत्सज्ञा प्रामोति॥ अथाऽति- डिन्त्युच्यमाने यावता स्थानिवद्भावः कथमेवैतसिध्यति ? ॥ प्रतिषेधवचन- सामर्थ्यात् ॥ अथ वा तिङ्भाविनो लकारस्य कृत्संज्ञाप्रतिषेधः ॥ किं च स्याद्यद्यत्र कृत्संज्ञा स्यात् ? ॥ 'कृत्प्रातिपदिक'मिति प्रातिपदिकसंज्ञा स्यात् । प्रातिपदिकादिति स्वाद्युत्पत्तिः प्रसज्येत ॥ नैष दोषः। एकत्वादिष्वर्थेषु स्वादयो विधीयन्ते ते चाऽत्र तिडोक्ता एकत्वादय इति कृत्वोक्तार्थत्वान भवि- प्यन्ति ॥ टाबादयस्तहिं तिङन्तान्मा भूवैन्निति ॥ स्त्रियां टाबादयो विधी- यन्ते, न च तिङन्तस्य स्त्रीत्वेन योगोऽस्ति ॥ अणादयस्तर्हि तिङन्तान्मा भूव- निति ॥ अपत्यादिष्वर्थेष्वणादयो विधीयन्ते न च तिङन्तस्याऽपत्यादिभि. प्र.] कृदतिङ् । स्थानिवद्भावादिति। 'अति'ङिति प्रतिषेधःस्वाश्रयामेव तिङः कृत्संज्ञां बाधितुमुत्सहते नत्वतिदेशशास्त्रेण प्रसक्ताम् । 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति वचनादिति भावः । प्रतिषेधेति । अन्यथाऽनर्थकः प्रतिषेधः स्या- दिति भावः। अथ वेति।तिभावी लकार एव तिशब्देनोच्यत इति मूलोच्छेद एव कृत्संज्ञाप्रतिषेधेन कियते । टाबादय इति । यथा साधनाश्रयसंख्यानिमित्तैकव- चनाद्युत्पत्तिस्तथैव तद्गतलिङ्गाश्रयाष्टाबादयः स्युरिति भावः।स्त्रियामिति। शब्दशक्ति- उ.]तदुपपादयति स एव-धातोः परस्येति । 'धातो'रिति पदमुच्चार्य धातोः परत्वेन विहितस्येत्यर्थः। अत एव वक्ष्यति-प्राक्क लादेशाद्धात्वधिकार इति । एवञ्च तिषु कृत्संज्ञाया अप्राप्त्या निषेधो व्यर्थ इति भावः । तत्सार्थक्यमेकदेशी शङ्कते-एवं- मपीति । सिद्धान्ती शिष्यबुद्धिपरीक्षायै प्रतिवन्दीमाह-अथेति । एकदेश्याह-प्रति- पेधेति । तृतीयाऽध्यायान्तं धात्वधिकारे तिङो व्यावृत्त्या तत्सार्थक्यमत आह- अथ वेति । तिङ्भावीति । अत एवाऽऽमन्तविषयलकारस्य कृत्त्वम्भवत्येव, तस्य तिङभावित्वाऽभावात् । तिङ्भावित्वस्य फलोपहितस्यैव निवेशात् । मूलोच्छेद इति। मूलभूते लकार एव कृत्वोच्छेदः क्रियत इत्यर्थः । 'भोभगो' इति सूत्र- भाष्योक्तरीत्याऽल्विधित्वादप्यत्र स्थानिवत्वप्रतिषेध इत्यपि बोध्यम्।अथ तृतीयाऽध्या- यान्तं धात्वधिकारेऽपि भाष्ये फलाऽभावान्निषेधम्प्रत्याख्यातुमाह-किञ्च स्यादिति । एकत्वादिष्विति। ननूक्तेऽप्येकत्वे एकशब्दात्कर्मत्वमात्रप्रतिपत्तये द्वितीयावत् 'पचति पश्ये'त्यादौ कर्मत्वोक्तये द्वितीया स्यात् । किञ्च-'एकवचनमुत्सर्ग' इति तदुर्वारमिति चेन्न, कर्मत्वस्याऽपि वाक्येन प्रतीत्या तदनुत्पत्तेः। तिङोक्ता इत्यस्य च-तिङ्घटितवाक्येनोक्ता इत्यर्थः । 'एकत्वादिष्वित्यादिपदेन कर्मवादीनामपि ग्रहणं बोध्यम्। उत्सर्गोऽव्ययविषय एवेत्याशयात्। तिङन्तस्येति। तदर्थक्रियाया इत्यर्थः। १ 'ड्या प्रातिपदिकादिति' । २ इतिः कचिन्न ।

1 - ३अ.१पा.५आ९३सू.) & व्याकरणमहाभाष्यम् & योगोऽस्ति॥ अथापि कथं चिद्योगः स्यादेवमपि न दोषः । आचार्यप्रवृत्तिाप. यति-'न तिङन्तादणादयो भवन्तीति, यदयं क चित्तद्धितविधौ तिङ्ग्रहणं करोति ‘अतिशायने तमबिष्टनौ' 'तिङश्च'[इति] ॥ इह तर्हि पचति पठतीति, 'हस्वस्य पिति कृति तुग्भवतीति तुक् प्राप्नोति ॥ धातोरिति वर्तते ॥ एव- मपि 'चिकीर्षती'त्यत्र[अपि]प्राप्नोति॥अत्रापि शपा व्यवधानम्॥एकादेशे कृते नास्ति व्यवधानम् ॥ 'एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावा- ब्यवधानमेवेति॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाप्ये तृती- यस्याऽध्यायस्य प्रथमे पादे पञ्चममाह्निकम्॥ [समाप्तमिदं वासरूपान्तं शास्त्रम् ॥ प्र.]खाभाव्यात्साधनाश्रयसङ्ख्योपादानमस्ति तिङन्तस्य न लिङ्गोपादानमिति भावः । धातोरिति । 'धात्वादे'रित्यतः । एकादेश इति । ननु स्थानिवद्भावं बाधित्वा पर- वादन्तवद्भावेन भाव्यम् । नैष दोषः । परशब्दस्येष्टवाचित्वात् स्थानिवद्भाव एवा- न्तवद्भावस्य बाधकः। नन्वतिङिति प्रत्याख्यायमाने पचेरन्निति प्रातिपदिकान्तत्वान्न- कारलोपः प्राप्नोति । 'झस्य रन्निति नकारोच्चारणसामर्थ्यान्न भविष्यति । इह तर्हि 'विचीया'दिति कृयकारत्वाद्दीक़ न प्राप्नोति । एषोऽप्यदोषः । सार्वधातुकप्रतिषेधो ज्ञापयत्यकृदिति प्रतिषेधस्तिङो न भवतीति । यदि हि स्यात् मुनुयाच्चिनुयादित्यादा- वपि सार्वधातुके कृत्प्रतिषेधेन दीर्घो न भविष्यतीति पृथक्सार्वधातुकप्रतिषेधोऽन- थंकः स्यात् ॥ इति कैयटीये भाष्यप्रदीपे तृतीयस्य प्रथमे पादे पञ्चममाह्निकम् ॥ उ.]भाष्ये-अथाऽपि कथञ्चिद्योगः स्यादिति। शेष' इत्यस्य विधायकत्वात् ‘दृषदि पिष्टा' इत्याद्यर्थे इव पचत्यादिभ्यः पश्यत्याद्यर्थ प्रत्ययः स्यादिति भावः । न तिङ- न्तादिति । अयमत्राऽभिसन्धिः,-तिङन्तानां कृदन्तत्वप्रयुक्तप्रातिपदिकत्वाऽभावो ज्ञाप्यत इति ‘पचति भवती'त्यादौ प्रथमाऽपि नेति बोध्यम् । ‘पचेरन्' इत्यादी नलोपश्चाऽत एव न । अत एव 'अह'नित्यादौ न दोषः। परशब्दस्येष्टेति । अन्त- वद्भावस्य प्रायिकत्वेन स्थानिवद्भावस्याभावाऽतिदेशकत्वेन निषेधकतया 'निषेधाश्च वलीयांस' इति न्यायेन 'अचः परस्मिन्नित्यस्यैव प्रवृत्तिरित्यपि बोध्यम् । यत्कि- ञ्चित्स्थानिभूतादचः पूर्ववृत्तिधर्माऽवच्छिन्नोद्देश्यकत्वादचः परस्मिन्नित्यस्य प्रवृत्तिः । एतेन 'अन्तवद्भावेन शबन्तस्यैव कार्यमिति पूर्वविध्यभावात्कथं स्थानिवत्त्व'मिति परास्तम् । स्थानिभूतादचः पूर्वोऽस्थानिभूत एव गृह्यत इत्यत्र न मानम् , तक्र- कौण्डिन्यन्यायस्याऽनवकाशविषयकत्वेन विधेयविषयकत्वेन चेदृशे विषयेऽप्राप्तेः । नत्र सूत्रेऽभावाऽतिदेशस्याऽप्यङ्गीकारेण स्थानिनि सत्यभवतस्तुक एकादेशेऽप्यभा- वाऽतिदेशो बोध्यः । एतेन 'स्थानिवद्भावेऽपि शबन्तस्य शपा व्यवधानाऽभावा- त्तुग्दुर्वार' इत्यपास्तम्। 'धीः धियौ धिय' इत्यत्र तु न दोषः, ध्यायतेः सम्प्रसारणच्चे' ..

१८६ * कैयट-विवरणसहितं [ वासरूपो . वाऽसरूपोऽस्त्रियाम्॥ ३॥११९४॥ कथमिदं विज्ञायते 'स्त्रियामभिधेयायां वाऽसरूपो न भव[ती']ति, आहो. स्वित्स्त्रीप्रत्ययेष्विति?॥किं चातः?॥यदि विज्ञायते 'स्त्रियामभिधेयाया'मिति । लव्या लवितव्या,-अत्र वाऽसरूपो न प्राप्नोति। अथविज्ञायते 'स्त्रीप्रत्ययेवि'- ति । व्यावक्रोशी व्यावक्रुष्टिरिति न सिध्यति ॥ एवं तर्हि नैवं विज्ञायते- 'स्त्रियामभिधेयायां' नापि 'स्त्रीप्रत्यये विति ॥ कथं तर्हि ?॥ "स्त्रीग्रहणं स्व- रयिष्यते"। तत्र स्वरितेनाधिकारगतिर्भवतीति स्त्रियामित्यधिकृत्य ये प्रत्यया विहितास्तेषां प्रतिषेधो विज्ञास्यते ॥ किमर्थं पुनरिदमुच्यते ?॥ ॥*॥ असरू- पस्य वावचनमुत्सर्गस्य बाधकविषयेऽनिवृत्त्यर्थम् ॥ ॥ असरूपस्य वावचनं प्र.] वासरूपोऽस्त्रियाम् । कथमिति-स्त्रियामित्यभिधेयसप्तमी वा स्यात स्त्रियामित्यस्यैव वा स्वरूपस्य निषेधः स्यात् ,-'स्त्रियामित्युच्चार्य ये प्रत्यया विधीयन्ते तेषु वासरूपो न भवतीति संदिहानः पृच्छति । लव्यति । 'अचो यदिति यता तव्यादीनां नित्यं बाधनं प्राप्नोतीत्यर्थः । व्यावक्रोशीति । 'कर्मव्यतिहारे णस्त्रिया'मिति णचा क्तिनो बाधः प्राप्नोतीत्यर्थः। स्त्रियामित्यधिकृत्येति। 'स्त्रियां क्ति'नित्यस्मिं स्त्र्यधिकारे ये उत्सर्गापवादास्तेष्वपवाद उत्सर्गस्य बाधक एवं. उ.]त्यनेन सम्प्रसारणे पूर्वत्वे 'हल' इति दीर्घत्वे च कृते एकादेशस्य निवृत्तेस्तस्य स्थानिवत्त्वाऽप्रवृत्तेः। 'जुहुवतु'रित्यादावपि ह्वेोऽन्तरङ्गत्वादात्त्वे 'वार्णादाङ्गमि- त्यालोपे सम्प्रसारणे एकादेशस्यैवाऽभावान्न दोपः। स्पष्टं चेदं सर्वत्र संप्रसारणिभ्य' इति वार्तिकभाष्ये। धियावित्यादावियङ आकारात्पूर्ववृत्तिधर्मावच्छिन्नोद्देश्यकत्वा- ऽभावाच्च । नकारोच्चारणेति । समाध्यन्तरमपि प्रागुक्तम् । पृथक्सार्वधातुकेति । न च श्यनर्थ, दीर्घप्रवृत्तियोग्याऽजन्तेभ्यः इयनभावात् ॥ इति श्रीनागेशभविर- चिते भाष्यप्रदीपोझ्योते तृतीयस्यं प्रथमे पञ्चममाह्निकम् ॥ ५ ॥ वाऽसरूपो । ननु स्वरूपस्य निषेधे तदभाव एव स्यादतस्तत्पक्षे वाक्यार्थ दर्शयति-स्त्रियामित्युच्चायति।स्वरूपस्येत्यस्य,-स्वरूपपरस्येत्यर्थः । निषेधः स्या- दित्यस्य निषेधान्वय्यन्वयित्वं स्यादित्यर्थः। ननु ये विहितास्तेषाम्प्रतिषेधे विधिवैयर्थ्य स्यात्, विहितप्रतिषिद्धत्वाद्विकल्पो वा स्यादत आह-स्त्रियां क्तिन्नितिातदधिकारे ये विहिता उत्सर्गास्तेषां वासरूपविधिना प्रसक्तानां प्रतिषेधो-बाधो विज्ञास्यत इति भाष्याक्षरार्थ इति भावः। एवञ्चोत्सर्गाऽपवादयोद्वयोरपि स्त्र्यधिकारनिवेशित्वेसत्यस्त्रिया- मिति प्रतिषेध इति लभ्यते। अन्येनाऽपि यत्राऽसमावेश इष्टः सोऽनभिधानात्साध्यः। भाष्ये तत्रोत्पत्तिवाप्रसङ्ग इति। उत्पत्तेर्वार्थविकल्पप्रसङ्ग इत्यर्थः। ननु बाधकत्वविकल्पे नाऽयंदोष इत्याशङ्कय तद्विकल्प एवन सिध्यतीत्याह-वाऽसरूप इति । असरूपोऽ.

३अ.१पा.६आ.९४सू.] व्याकरणमहाभाष्यम् * १८७ . क्रियते॥[किं प्रयोजनम्?॥'उत्सर्गस्य बाधकविषयेऽनिवृत्त्यर्थम्' 1] । उत्सर्गस्य बाधकविषयेऽनिवृत्तिर्यथा स्यात् । तव्यत्तव्यानीयर उत्सर्गास्तेषामजन्ताद्य- दपवादः । चेयं। चेतव्यमित्यपि यथा स्यात् ॥ नैतदस्ति प्रयोजनम् । अज- न्तायद्विधीयते हलन्ताण्ण्यद्विधीयते । एतावन्तश्च धातवो यदुताऽजन्ता हल- न्ताश्च । उच्यन्ते च तन्यदादयस्ते वचनाद्भविष्यन्ति ॥ एवं तर्हि ण्वुल्तृचा- वुत्सर्गों, तयोः पचादिभ्योऽजपवादः। पचतीति पचः। पक्ता पाचक इत्यपि यथा स्यात् ॥ एतदपि नास्ति प्रयोजनम् । वक्ष्यत्येतत् 'अजपि सर्वधातुभ्यो वक्तव्य' इति ॥ एवं तर्हि ण्वुल्तृजच उत्सर्गाः, तेषामिगुपधात्कोऽपवादः । विक्षिपः विलिखः। विक्षेप्ता विक्षेपक इत्यपि यथा स्यात्॥अस्ति प्रयोजनमेतत् । किं तहीति ॥॥ तत्रोत्पत्तिवाप्रसङ्गो यथा तद्धिते ॥*॥ तत्रोत्पत्तिविभाषा प्रामोति यथा तद्धिते ॥ अस्तु यदा विक्षिपो विलिख इत्येतन[॥]तदा विक्षेप्ता विक्षेपक इत्येतद्भविष्यति ॥ यद्यतल्लभ्येत कृतं स्यात्तत्तु न लभ्यम् ॥. किं कारणम् ? ॥ यथा तद्धित इत्युच्यते । तद्धितेषु च सर्वमेवोत्सर्गापवादं प्र.]त्यर्थः । तत्रोत्पत्तिवाप्रसङ्ग इति । वासरूप इत्येतावच्छ्रयते । तत्र वाग्रहणेन किं भावो विकल्प्यताम्-असरूपोऽपवादो वा भवति पक्षे न भवतीति । अथ बाधकत्वं विकल्प्यतां-वा बाधको भवति पक्षे न बाधक इति । तत्राऽन्तरङ्ग- त्वात्सत्ताया एव विकल्पः स्यात् । यथोक्तम्-'यत्रान्यक्रियापदं न श्रूयते तत्रास्तिर्भवन्ती पर' इति । न तु बहिरङ्गस्य बाधकत्वस्येत्युत्पत्तरेव विकल्पः स्यात् पक्षे तु न कश्चित्प्रत्यय उत्पद्यतेत्यर्थः । अस्त्विति । बाधकाऽभावे उत्सर्ग- स्याऽनिवार्यत्वादिति भावः । यद्येतदिति। अपवादशास्त्रंणोत्सर्गशास्त्रस्य बाधि- तत्वादपवादाऽभावपक्षेप्युत्सर्गस्याऽप्रवर्तनादिति भावः । तत्र यथा 'अत इ'- जिति विकल्पितेनेजा मुक्त पक्षेऽग्न भवति अपि तु वाक्यमेव, तथेहाप्यप- वादाऽभावपक्षे प्रकृतिरेव कादीनानभिदध्यात् । यथाग्निचिदित्यादौ क्विबादिलोपे उ.]पवादोवा भवतीति। अपवादपदं वक्ष्यमाणसिद्धान्ताऽभिप्रायेण। बहिरङ्गस्येति। शब्दानुपात्तस्येत्यपि बोध्यम् । 'इत्येतन्ने'त्यन्तो भाष्ये छेदः । भाष्ये-यद्यतल्लभ्ये- तेति।अपवादपदाऽभावादपवादविषय एव विकल्प इत्यत्र मानाऽभावादपवादोत्सर्गोभय- विषयो विकल्पः स्यात् । एवञ्च तद्धित इवोत्सर्गाऽपवादयोर्विकल्पाद्यत्रोत्सर्गाऽपवादी विभाषा, तत्राऽपवादेन मुक्त उत्सर्गाऽप्रवृत्त्या पक्षेऽनुत्पत्तिरेव प्राप्नोतीति भावः । 'अपवादशास्त्रेणे'ति कैयटोपपत्तिस्तु चिन्त्या, तद्धितेषु सर्वमुत्सर्गाऽपवादं विभाषेति दृष्टान्तेन मदुतार्थस्यैव लाभात्। सिद्धन्त्विति भाष्ये। वाधकपदे कृतेऽसरूपस्य बाध- कस्यैव विकल्पे उत्सर्गविकल्पाऽभावात्सिद्धमिति भावः । इदश्चापवादशास्त्रेणैक- ।

१८८ * कैयट-विवरणसहितं [वाऽसरूपो । विभाषा । उत्पद्यते वा न वा॥*॥ सिद्धं त्वसरूपस्य बाधकस्य वावचनात्॥*॥ सिद्धमेतत् ॥ कथम् ? ॥ 'असरूपस्य बाधकस्य वावचनात्' । असरूपो बाधको वा बाधको भवतीति वक्तव्यम् ॥ सिध्यति । सूत्रं तर्हि भिद्यते ॥ यथान्यासमेवाऽस्तु ॥ ननु चोक्तं 'तत्रोत्पत्तिवाप्रसङ्गो यथा तद्धित' इति । नैष दोषः । अस्ति कारणं येन तद्धितेषु विभाषोत्पत्तिर्भवति ॥ किं कारण- म् ? ॥ प्रकृतिस्तत्र प्रकृत्यर्थे वर्तते, अन्येन च शब्देन प्रत्ययार्थोऽभिधीयते । इह पुनर्न केवला प्रकृतिः प्रकृत्यर्थे वर्तते । नचाऽन्यः शब्दोऽस्ति यस्तमर्थम- भिदधीतेति कृत्वाऽनुत्पत्तिर्न भविष्यति ॥ अथ वा समयः कृतो 'न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्यय' इति । एतस्मात्समयादनुत्पत्तिर्न भविष्यति ॥ ननु च य एव तस्य समयस्य कर्ता स एवेदमप्याह । यद्यसौ प्र.] कृते। सिद्धं स्विति। बाधकत्वे विकल्पिते यत्र पक्षेऽपवादस्य बाधकत्वं नास्ति तत्र बाधकत्वाऽभावादुत्सर्गः प्रवर्तते । अन्येनेति । दक्षस्यापत्यमित्यादावपत्यादिशब्देने- त्यर्थः। इह पुनरिति।केवला प्रकृतिः स्वार्थमात्रमपि नाभिधत्ते किं पुनः कादिकमर्थ- मभिधास्यति। तथाहि प्रकृतिप्रत्ययसमुदाये प्रयुज्यमानेऽन्वयव्यतिरेकाभ्यां प्रकृतिः प्रकृत्यर्थे वर्तते,प्रत्ययस्तु प्रत्ययार्थे इत्युच्यते अनुत्पन्नप्रत्यया तु प्रकृतिर्न कञ्चिदर्थ गमयति।अथापि क्षिपेः कर्तेति कादिशब्दाःप्रयुज्यन्ते । तथापि करोतिक्रियापेक्षमपि कर्तृत्वं प्रतीयेत न तु क्षिपिक्रियापेक्षमेव तस्मात्सामर्थ्याद्वाधकत्वं बहिरङ्गमपि विक- उ.]वाक्यताऽऽपन्नम्। न चैवमसरूपो वा बाधको भवतीति भाष्येण बाधकत्वविक- ल्पप्रतिपादनं व्यर्थमिति वाच्यम्, 'असरूपस्य बाधकस्य वावचनादिति वार्तिक- स्वारस्येनाऽसरूपो बाधको वा भवतीत्येव भाष्येऽन्वयात्।वार्त्तिकाद्धि बाधकाऽनुवादेन विकल्पविधिरित्येव स्वरसतो लभ्यते न तु बाधकत्वाऽनुवादेनेति दिक् । प्रत्यासत्त्या च यन्निरूपितं बाधकत्वं तस्यैव पक्षेऽभ्यनुज्ञानमिति नाऽतिप्रसङ्गः । कैयटे-बाध- कत्वे विकल्पित इत्यादि। इदश्चिन्त्यं, वार्तिकोक्तबाधकपदार्थंकदेशस्य बाधक- त्वस्य विकल्पेनाऽन्वयाऽयोगात् । किञ्च-पक्षे बाधकलाऽभावे शप्तिपोरिव समुच्चयः स्यादिति महदनिष्टं, धर्मनिषेधे धर्म्यभावाऽप्रतीतेः । अत एव 'न वेति सूत्रे साधुत्वविकल्पे पक्षे तस्यैवाऽसाधुत्वमापादितम् । क्षिपेरिति । धात्वर्थनिर्देशे इक्प्र- त्ययः । 'इकृष्यादिभ्य' इति इग्वा । तथापीति । 'कर्ते'त्यत्र तस्याऽपि सत्त्वादिति भावः। बाधकत्वं बहिरङ्गमपीति । इदञ्चिन्त्यम् । सामर्थ्यादपवाद एवाऽसरूपशब्देन विवक्षितो न तूत्सर्गोऽपीति तु भाष्यतात्पर्य बोध्यम् । भाष्ये-अथवा समय इति । एवञ्च समयैतत्सूत्रयोरन्यतरस्याऽप्यबाधाय 'असरूप'पदेनाऽपवाद एव गृह्यत इति भावः । इहापि प्रमाणञ्चेत्किमेतावता,तत्राह-समयस्येति। अर्थः प्रत्याययितु- ३अ.१पा.६आ.९४सू.] व्याकरणमहाभाष्यम् , तत्र प्रमाणमिहाऽपि प्रमाणं भवितुमर्हति ॥ प्रमाणमसो तत्र चेह च । सामर्थ्य विह द्रष्टव्यं शब्दानां प्रयोगे । न चाऽनुत्पत्ती सामर्थ्यमस्ति । तेनाऽनुत्पत्तिर्न भविष्यति॥ कथं तर्हि तद्धितेष्वनुत्पत्तौ सामर्थ्य भवति ? ॥ अन्येन प्रत्ययेन सामर्थ्यम् ॥ केन ?॥ षष्ठ्या॥अथ वा रूपवत्तामाश्रित्य वाविधिरुच्यते । न चाऽनुत्पत्ती रूपवती । तेनानुत्पत्तिर्न भविष्यति ॥ एवमपि कुत एतदपवादो विभाषा भविष्यति न पुनरुत्सर्ग इति ? ॥ नचैवाऽस्ति विशेषो-यदपवादो विभापा स्यादुत्सर्गो वा ॥ अपि च सापेक्षोऽयं निर्देशः क्रियते-'वासरूप' इति । न चोत्सर्गवेलायां किं चिदपेक्ष्यमस्ति । प्र.]लप्यते। य एवेति।समयस्यायं बाधकोऽस्त्विति भावः। सामर्थ्य मिति।अर्थप्रत्या- यनाय शब्दाः प्रयुज्यन्ते न च प्रत्ययस्याऽनुत्पत्तावर्थः प्रत्याययितुं शक्यत इत्यर्थः । पूर्वस्मिन् परिहारे प्रकृतेरेव केवलायाः स्वार्थमात्राभिधानेपि सामर्थ्य नास्तीत्युक्तम् । उत्तरत्र तु समयात् प्रयोग एव केवलाया नास्तीत्युच्यते । कथं तीति । समयात् केवलस्य प्रातिपदिकस्य तद्धितानुत्पन्नौ साधुत्वं न प्राप्नोतीत्यर्थः । अन्येनेति । दक्ष- स्यापत्यमिति षष्ठ्यन्तस्य प्रातिपदिकस्य प्रयोगो न केवलस्य, इह तु कृदनुत्पत्ती सत्यां केवल एव धातुः स्यात्तस्य च समयात् प्रयोगाऽभावः । अथ वेति । अस- रूपशब्देन भिन्नरूप उच्यते। तस्य च भिन्नरूपत्वं रूपवदुत्सर्गापेक्षया भवतीति स एव पक्षेऽभ्यनुज्ञायते, न त्वरूपानुत्पत्तिरित्यर्थः। न चैवास्तीति । उत्सर्गविकल्पेड- उ.]मितिान च प्रत्ययाऽनुत्पत्तौ प्रयोगे सामर्थ्यमस्ति न केवला प्रकृति'रिति निषे- धात्, नापि प्रयुक्तादर्थबोध इति भाष्यार्थ इति भावः । असरूपशब्देनेति । भिन्न- रूपो वेत्युक्त भावाऽभावयोः परस्परभिन्नरूपस्य सत्ताप्रतीतिरिति नाऽनेनोभयोरुत्स- र्गापवादयोर्विभाषाबोधनम् । तथा सति पक्षेऽनुत्पत्तिः स्यात् । सा च न रूपवती- त्यभावपक्षे न भिन्नरूपस्य सत्ता स्यादिति भावः । नन्वस्तु सामर्थ्यादन्यतरस्य विकल्पो न तूभयोरिति वाधकपदाऽभावे अपवाद एवेति कुतो लभ्यत इत्याशङ्कत भाष्ये-कुत एतदिति। इष्टापत्त्या समाधत्ते-न चैवास्तीति । तद्याचष्टे-उत्सर्गेति। 'असरूप उत्सर्गा वा भवती'त्यनेन प्रत्यासत्त्याऽसरूपोऽपवाद एव पक्षे स्थाप्यत इति 'क'विषये नाऽणिति भावः।वस्तुतोऽसरूपपदेनाऽपवाद एवोपतिष्टत इत्याह-भाष्ये- अपि च सापेक्ष इति । अवधिसापेक्ष इत्यर्थः । भिन्नरूपत्वं हि-असरूपत्वम् । तत्र 'कुतो भिन्नरूप' इत्यपेक्षायां स्खविधानवेलायां यः खविषये प्राप्तः स एव बुद्धिस्थो गम्यतेऽपवादविधिसमये चोत्सर्गस्तमपि विषयमुपढौकमान उपारूढो वुद्धौ भवतीति तदपेक्षया भिन्नरूपोऽपवाद एव गृह्यत इत्यर्थः। न चोत्सर्गवेलाया- १ ततोऽनुत्पत्ति' । २ 'नैतदस्ति' ।

8 कैयट-विवरणसहितं [ वासरूपो । अपवादवेलायां पुनरुत्सर्गोऽपेक्ष्यते । तेन यो रूपवानन्यपूर्वो बाधकः प्रामो- ति स वा बाधको भविष्यति ॥ कः पुनरसौ ?॥ अपवादः ॥ यदि यो रूप. वानन्यपूर्वो बाधकः प्राप्नोति स वा बाधको भवती'त्युच्यते क्विबादिषु समावेशो न प्राप्नोति-ग्रामणीः, ग्रामणाय इति । न ह्येते रूपवन्तः॥एतेऽपि रूपवन्तः॥ कस्यामवस्थायाम् ? ॥ उपदेशावस्थायाम् ॥ यद्येवम्-॥ ॥ अनुबन्धैभिन्नेषु विभाषाप्रसङ्गः ॥ ॥ अनुबन्धभिन्नेषु विभाषा प्राप्नोति । कर्मण्यण् । 'आतो- नुपसर्गे क' इति कविषयेऽपि प्राप्नोति ॥॥ सिद्धमनुबन्धस्याऽनेकान्तत्वा- त् ॥*॥ सिद्धमेतत् ॥ कथम् ? ॥ 'अनुबन्धस्याऽनेकान्तत्वात्' । अनेकान्ता अनुबन्धाः । अथवा प्रयोगेऽसरूपाणां वाविधिाय्यः ॥*॥ प्रयोगे चेल्लादे- शेषु प्रतिषेधः ॥*॥ प्रयोगे चेल्लादेशेषु प्रतिषेधो वक्तव्यः । 'ह्योऽपच'दित्यत्र लुङपि प्राप्नोति । 'श्वः पक्त त्यत्र लुडपि प्राप्नोति ॥ नैष दोषः । आचार्य- प्र.]प्राप्तविभाषा,अपवादविकल्पे तु प्राप्तविभाषेति न कश्चिद्विशेषः।अपवादवेलाया- मिति । बाध्यत्वेन यावदुत्सर्गो नापेक्ष्यते तावदपवादस्य प्रवृत्तिरेव नास्तीत्यर्थः । उपदेशावस्थायामिति । प्रत्यासत्तिन्यायादुपदेशावस्थायामसारूप्यमाश्रीयते इत्यर्थः। ह्योऽपचदिति । लड्यनच्कस्तकारप्रत्ययः, लुङि त्वपाक्षीदिति ईच्छब्द इति भिन्न- रूपत्वात्समावेशप्रसङ्गः । यदयमिति । परोक्षे लिडिति लिटा लङः समावेशोऽसा- रूप्यात्सिद्ध एवेति नार्थो लकिंधानेन। विहितस्तु लकाराणामसमावेशं ज्ञापयतीत्यर्थः । उ.]मिति । नन्वपवादवादवाक्यार्थोत्तरमुत्सर्गस्य लक्ष्यसंस्कारकतेति प्रातिपदिकार्थ- सूत्रभाष्ये उक्तत्वेनोत्सर्गोऽपि स्ववेलायामपवादमपेक्षत इति कथमेतदिति चेन्न; लक्ष्य- संस्कारवेलायामपेक्षायामपि वाक्यार्थबोधवेलायां तदभावात् । अस्य च तदैवैक- वाक्यतेति भावः। स वा बाधको भवतीति भाष्ये। स बाधको वा भवतीत्यन्वयः। सिद्धमनुबन्धस्याऽनेकान्तत्वादिति । ननु यद्यनुवन्धोऽनवयवस्तदा कथं कप्र. त्यये कस्येत्त्वम्प्रत्ययादित्वाऽभावात् । कथं वा डादीनामनेकाल्वेन सर्वादेशत्वम् । न चाऽऽदेशप्रवृत्तिकालेऽनुबन्धत्वाऽभावादनेकाल्वं, तर्हि केऽपि वाक्यार्थबोधात्पूर्व प्रत्ययत्वाऽज्ञानेन तदुत्तरमेवेत्संज्ञाप्रवृत्तौ सर्वत्र 'नाज्झला वितिसूत्रभाष्योक्तरीत्या उपदेशोत्तरकालमेवेत्संज्ञाप्रवृत्या चोपदेशेऽनुबन्धसत्त्वादसारूप्यकरत्वंस्यादिति चेन्न; 'चुटू' इत्यादावादिशब्दस्य समीपपरत्वान्न दोषः। 'अनेका'लित्यत्र संवन्धसामान्य- षष्ठ्यर्थे बहुव्रीह्यङ्गीकारान्न दोषः । 'डा'देशेऽपि 'डा-आ' इत्याकारप्रश्लेषात्सर्वादेश- त्वम् । इत एव वाऽस्वरसात्-'अर्थकान्तेषु दोष एवेति वक्ष्यति भाष्यकृत् । अथवा प्रयोगे इति । विरूपाऽभावादेव स प्रयोगेऽसरूपः। 'असरूप'पदेन च १ 'पूर्वको'। २ 'विभिन्नेषु'। ३ 'प्रयोगेऽसरूपाणां वा विधि'रिति वार्तिकं लुप्तम् ।

३अ.१पा.६आ.९४सू.] 8 व्याकरणमहाभाष्यम् , १९१ :॥ अथ वाऽस- प्रवृत्तिापयति न लादेशेषु वासरूपो भवतीति यदयं 'हशश्वतोर्लङ् चे'त्याह। अथ वा प्रयोगेऽसरूपाणां वाविधौ न सर्वमिष्टं सगृहीतमिति कृत्वा द्वितीयः प्रयोग उपास्यते ॥ कोऽसौ ? ॥ उपदेशो नाम । उपदेशे चैतेऽसरूपाः । ननु चोक्त मनुबन्धविभिन्नेषु विभाषाप्रसङ्ग' इति॥ परिहृतमेतत् ॥ कथं ?॥ 'सि. द्धमनुबन्धस्यानेकान्तत्वादिति ॥ अथैकान्ते दोष एव ॥ एकान्ते च न दोषः। आचार्यप्रवृत्तिापयति-'नानुबन्धकृतमसारूप्यं भवतीति,-यदयं ददाति- दधात्योविभाषा शं शास्ति ॥ अथ वाऽसरूपो बाधको वा बाधको भवतीत्यु- च्यते । अपवादो नामाऽनुबन्धभिन्नो वा भवति रूपान्यत्वेन वा । तेनाऽने- नाऽवश्यं किं चित्त्याज्यं किं चिच्च सङ्ग्रहीतव्यम् । तद्यदनुबन्धकृतमसारूप्यं तन्नाश्रयिष्यामो, यत्तु रूपाऽन्यत्वेनाऽसारूप्यं तदाश्रयिप्यामः रूपो बाधको वा बाधको भवतीत्युच्यते । सर्वश्चाऽसरूपः, तत्र प्रकर्षगति- विज्ञास्यते -साधीयो योऽसरूप' इति॥कश्च साधीयान्?॥ यः प्रयोगे , प्राक्क प्रयोगात्।अथवाऽसरूपो बाधको वा बाधको भवतीत्युच्यते,न चैवं सति कश्चि- प्र.] अथ वेति । विबादयो न सङ्ग्रहीतास्तेषां प्रयोगे रूपाऽभावादित्यर्थः । उ.]समानरूपाऽभाववानुच्यत इति भावः। न लादेशेषु वाऽसरूप इति । आदेश- गतमसारूप्यं गृहीला लकारविषये वाऽसरूपविधिर्नास्तीति तात्पर्यम्। आदेशप्रवृत्त्यु- तरकालिकवरूप्यवत्सु लकारेष्वित्यक्षरार्थः। तदाह-लकाराणामसमावेश इति । सर्वेष्टाऽसङ्ग्रहमुपपादयति-विबादय इति । 'असरूप'पदेन भिन्नरूपस्यैव ग्रहण- मित्याशयः । भाष्ये-नाऽनुबन्धकृतमिति । भाव्यनुबन्धत्वज्ञानविषयवर्णकृतमसा- साप्यं नेत्यर्थः । ददातिदधात्योर्विभाषा शः । पक्षे णः। डादौ तु प्रश्लेषानिर्वाहः । 'चुट्' इत्यादावादिशब्दस्य समीपपरत्वे चुञ्चुप्चणपोर्यादित्वेऽपीत्त्वापत्तः । अथ वेति । उभयकृताऽसारूप्ये गृह्यमाणे व्यावाऽभावादसरूप इति व्यर्थ, स्पष्टत्वा- याऽपवाद इत्येव वदेत् । तत्सामादनुवन्धकृताऽसारूप्यं नाऽऽश्रीयते, किन्तु रूपा- ऽन्यत्वेनैवैत्यर्थः । तत्सामर्थ्यात्प्रकर्षगतिः। तेन प्रयोगे उपदेशे चाऽसरूप इति द्वितीयः पक्षः । तत्सामर्थ्यात्प्रायोगिकमसारूप्यमिति तृतीयः पक्षः । तत्राऽन्त्ययोः विबादिसङ्ग्रहः कथमिति चेद्रूपाऽभावादेव सारूप्याऽभावस्याक्षतेः । 'असरूप'पदेन च सारूप्याऽभाववानुच्यत इत्याहुः। प्रागिति। अत्र पक्षे सूत्रे सन्धिः सौत्रः। यद्वा परिभाषापक्षे प्रथमः पक्षः। अधिकारत्वे द्वितीयः, तदा स्त्रिया' मित्यस्य 'स्त्रिया'मिति दृष्ट्वा निवर्त्तत इत्यर्थः । 'समानकर्तृकेषु तुमुन्' लिङ् चेति वचनाल्लिङ इष्टवादाह- १ 'अथैकादेशेषु' । २ 'विभाषा शास्ति' । ३ इदं क्वचिन्न । ४ 'अपवादश्च'1५ 'साधीयः' । ६ 'प्रयोगे तेषां रूपा'।

१९२ ® कैयट-विवरणसहितं ® [ वासरूपो दपि सरूपः । त एवं विज्ञास्यामः 'क्वचिद्येऽसरूपा' इति । अनुबन्धभिनाश्च प्रयोगे सरूपाः॥अथ कथमिदं विज्ञायतेऽस्त्रिया'मिति,-किं स्त्रियां न भवती'- ति,आहो स्वित्प्राक् स्त्रिया भवतीति?॥कश्चात्र विशेषः?॥*॥स्त्रियां प्रतिषेधे क्त- ल्युट्तुमुन्खलर्थेषु विभाषाप्रसङ्गः॥ ॥स्त्रियां प्रतिषेधे क्तल्युतुमुन्खलर्थेषु विभाषा प्राप्नोति । क्त-हसितं छात्रस्य शोभनम् । घनपि प्राप्नोति । [क्त ] ॥ ल्युट्- हसनं छात्रस्य शोभनम् । घजपि प्रामोति । [ल्युट् ] ॥ तुमुन्-इच्छति भोक्तुम् । लिङ्लोटावपि प्रामुतः । [ तुमुन् ] ॥ खलर्थः-ईपत्पानः सोमां भवता । खलपि प्रामोति॥एवं तर्हि 'स्त्रियाः प्रा'गिति वक्ष्यामि॥ ॥ स्त्रियाः प्रागिति चेत्कायां वावचनम् ॥*॥ 'स्त्रियाः प्रागिति चेत्त्वायां वावचनं कर्त- व्यम्। आसित्वा भुङ्क्ते । 'आस्यते भोक्तु'मित्यपि यथा स्यात् ॥*॥ कालादिषु तुमुन्विधाने वाचनम् ॥*॥ कालादिषु तुमुन्विधाने वावचनं कर्तव्यम् । कोलो- प्र.]क चिद्य इति। प्रयोग इत्यर्थः। उपदेशे सर्वस्यैवासारूप्यमित्यसरूपग्रहणमनर्थक स्यात्। कथमिति । स्त्र्यधिकारविहितेष्वेव किं प्रतिषेधः, परस्तात् स्त्र्यधिकारस्य भवत्येव वाऽसरूपविधिः, अथ स्त्र्यधिकारात्प्राग्वासरूपविधिर्भवति स्त्र्यधिकारेण विच्छिद्यत इति प्रश्नः। लिङोटाविति। लिङ्चेति लिङ् भवत्येव। 'इच्छार्थेषु लिङोटा'- वित्यत्र तु लिङ्लोटोः सहनिर्देशादत्रापि सहनिर्देशः कृतः। लिङ्चेति नियमालोन- भविष्यतीति शक्यते वक्तुम् । ननु तुमुन् भावे कर्तृकर्मणोलिलोटाविति भिन्नार्थत्वात. कुतो बाध्यबाधकभावः ? । नैप दोषः । भावेऽपि लिल्लोटोरस्ति विधानमिति तद- पेक्षया बाध्यत्वाधकभावोऽभिमतः । आस्यते भोक्तुमिति । भोजनार्थत्वादासनस्य पौर्वकाल्यमानं गम्यते इति समानविषयत्वाद्वाध्यबाधकभावप्रसङ्गः।वा भावे, तत्रैव च लकारोत्पत्तिरत्रेति समानार्थत्वमपि विद्यते।तत्रायं निर्णयः-स्त्र्यधिकारस्य परस्तादपि उ.लिङ् चेतिालोडापादन एव भाष्यतात्पर्यमिति भावः। नियमादिति। नियमो वा कल्प्यो,ज्ञापकं वा कल्प्यमिति तु भाष्याशयः।किञ्च,-लिङ् कर्तृकर्मणोश्चरितार्थः,भावे तुमुन्भावार्थयोस्तयोरपवाद एवेतीष्टं भगवत इति ज्ञायते इति लिङ्भवत्येवेत्यपि कैय- टश्चिन्त्यः।ननु लिङोटौ कामप्रवेदने विधीयेते, 'इच्छामि भुञ्जीत' 'इच्छामि भुता- म्भवानिति हि तदुदाहरणम् । इदं त्वकामप्रवेदनेऽपीति कथमनयोर्बाध्यबाधक- भावः। न चेदमपि कामप्रवेदनविषयम् ,इच्छति भोक्तुमित्युदाहरणाऽसङ्गतेः,वऋभि- प्रायाविष्करणमेव हि 'कामप्रवेदन'शब्देनोच्यत इति चेन्न ; 'तव भोजनमिच्छ- तीति तदर्थेनाऽत्राऽपि तत्सत्त्वात् । ननु पौर्वकाल्याऽप्रतीतेः कथं त्वाविषये लकारप्राप्तिरत आह-भोजनार्थत्वादिति । 'स्त्रियाः प्रा'गित्यत्र पक्षे दूषणान्तरमाह- १ इदं लुप्तम् । २ इदं क्वचिन्न । ३ 'स्त्रियां' । ४ 'तुमुनि' ।

३अ.१पा.६आ.९५सू.] 8 व्याकरणमहाभाष्यम् 8 १९३ भोक्तुम् । कालो भोजनस्येत्यपि यथा स्यात् ॥ ॥ अर्हे तृज्विधानम् ॥ ॥ अहें तृविधेयः । इमेऽहे कृत्या विधीयन्ते ते विशेषविहिताः सामान्य- विहितं तृचं बाधेरन्।नैष दोषः। भावकर्मणोः कृत्या विधीयन्ते। कर्तरि तृच । कः सप्रनो यद्भावकर्मणोः कृत्याः कर्तरि तृचं बाधेरन् ?॥ एवं तर्हि॥* ॥अहें कृत्यतृज्विधानम् ॥ ॥ अहे कृत्यतृचो विधेयाः । अयमहें लिविधीयते स विशेषविहितः सामान्यनिहितान् कृत्यतृचो [वा बाधेत ॥ [वासरूपो] ॥ कृत्याः॥३॥११९५ ॥ ॥॥ कृत्यसंज्ञायां प्राण्वुल्वचनम् ॥*॥ [कृत्यसज्ज्ञायां प्राण्वुलवच- नम् ] कृत्यसंज्ञायां प्राण्वुल इति वक्तव्यम् ॥ किं प्रयोजनम् ? ॥ ण्वुलः कृत्यसंज्ञा माभूदिति ॥ ॥अर्हे कृत्यतृज्वचनं तु ज्ञापकं प्राङ् ण्वुल्वचनानर्थक्य- स्य॥ ॥यदयमहे कृत्यतृचश्चेति तृज्ग्रहणं करोति तज्ज्ञापयत्याचार्यः-'प्राण्वुलः कृत्यसंज्ञा भवतीति॥एवमपि ण्वुलः कृत्यसंज्ञा प्रामोति। योगापेक्षं ज्ञापकम् ॥ तव्यत्तव्यानीयरः ॥ ३२१९६॥ ॥*॥ केलिमर उपसङ्ख्यानम्॥*॥ केलिमर उपसङ्ख्यानं कर्तव्यम् । पचे. लिमा माषाः पक्तव्याः । भिदेलिमाः सरला भेतव्याः ॥*॥ वसेस्तव्यत्कर्तरि णिच्च ॥*॥ वसेस्तव्यत्कर्तरि वक्तव्यः । णिच्चाऽसौ भवतीति वक्तव्यम् । वस- तीति वास्तव्यः । ॥*॥ तद्धितो वा ॥*॥ तद्धितो वा पुनरेष भविष्यति । वास्तुनि भवो वास्तव्यः ॥ [ तव्यत्तव्याऽनीयरः] ॥ प्र.]वासरूपविधिर्भवति। अर्हे कृत्यतृचश्चे'त्यत्र तु कृत्यतृज्ग्रहणेन तस्याऽनित्यत्वं ज्ञाप्यते। कृत्याः । 'कृत्या' इत्येतावत्सूत्रमित्याह-कृत्यसंज्ञायामिति । योगापेक्ष- मिति । ण्वुल्तृचावित्येतस्माद्योगात्प्राक्कृत्यसंज्ञाधिकार इत्येवं तृज्ग्रहणेनानुमा- स्यत इत्यर्थः । [कृत्याः] । तव्यत्तव्या । केलिमर इति । कर्मकर्तरि चायं कैश्चिदिष्यते । भाष्यकारेण तु कर्मणि प्रदर्शितः। वास्तुनि भव इति। दिगादिभ्यो यदिति दिगादित्वाद्यत्प्रत्ययः। नित्यानां शब्दानां यथाकथञ्चिदन्वाख्यानं कर्तव्यमिति मन्यते। यथोक्तम्-'उपादा- यापि ये हेयास्तानुपायान् प्रचक्षते । उपायानां च नियमो नावश्यमव- उ.] भाष्ये-कालादिष्विति । 'अर्हे तृ'जिति च ॥ तव्यत्तच्या। कैश्चिदिति। वृत्तिकाररित्यर्थः।कर्मणि प्रदर्शित इति । पक्तव्या' इति विवरणात् । न हि तव्यः कर्मकर्तरि, 'लवाच्यः कर्ता कर्मव'दिति वचना- दिति भावः । ननु बोधे विशेषात्कथं तद्धितेन सिद्धिरत आह-नित्यानामिति । वास्तुभवत्वेनापि वासकर्तुरेव रूढ्या बोधानार्थविशेषः, [रूढ्या] सर्वदोषपरिहारा- ।

१९४ ® कैयट-विवरणसहितं [ अचो यत् अचो यत् ॥ ३॥११९७॥ अज्ग्रहणं किमर्थम् ? ॥ अजन्ताद्यथा स्याद्धलन्तान्मा भूदिति ॥ नैत- दस्ति प्रयोजनम् । हलन्ताण्ण्यद्विधीयते स बाधको भविष्यति ॥ यथैव तर्हि ण्यद्यतं बाधते एवं तव्यदादीनपि बाधेत । अज्ग्रहणे पुनः क्रियमाणेऽजन्ता- यद्विधीयते हलन्ताण्ण्यत् [ विधीयते ] । एतावन्तश्च धातवो यदुताऽजन्ता हलन्ताश्च । उच्यन्ते च तव्यदादयः। ते वचनाद्भविष्यन्ति ॥ नैतदस्ति प्रयो- जनम् । वासरूपेण तव्यदादयो भविष्यन्ति ॥ इदं तर्हि प्रयोजनम्,-अजन्त- भूतपूर्वमात्रादपि यथा स्यात् । लव्यम् पव्यम् । आर्द्धधातुकसामान्ये गुणे कृते यि प्रत्ययसामान्ये च वान्तादेशे कृते 'हलन्ता'दिति ण्यत्प्राप्नोति । तथा दित्स्यं धित्स्यम्,-आर्द्धधातुकसामान्येऽकारलोपे कृते 'हलन्ता दिति ण्यत्प्रामोति । अज्ग्रहणसामर्थ्याद्यदेव भवति॥*॥यति जनेरुपसङ्ख्यानम्॥*॥ यति जनेरुपसङ्ख्यानं कर्तव्यम् ॥ जन्यं वत्सेन॥ अत्यल्पमिदमुच्यते [जनेः इति] | ॥*॥ 'तकिशसिचेतियतिजनीनामुपसङ्ख्यानमिति वक्तव्यम्' ॥ ॥ तकि तक्यम् । शसि-शस्यम् । चति-चत्यम् । यति-यत्यम् । जनि-जन्यम् । ॥*॥ हनी वा वध च ॥*॥ हेनो वा यद्वक्तव्यः । 'वध' इत्ययं चाऽऽदेशो वक्तव्यः। वध्यः। घात्यः । ॥ ॥ तद्धितो वा ॥*॥ तद्धितो वा पुनरेष भविष्यति-वधमर्हति वध्यः॥ यदि तद्धितः, समासो न प्रामोति-असिवध्यः प्र.]तिष्टते।'इति॥अवास्तव्य इत्यत्र स्वरे भेदोऽपि नास्ति।कृत्योकेष्णुजिति यदन्तो- दात्तत्वं विधीयते तदेव ययतोश्चाऽतदर्थ इत्यनेन । [ तव्यत्तव्यानीयाः ] ॥ अचो यत् । यति जनेरिति । यतोऽनाव इति स्वरार्थ जनेद्विधानम् । जन्य- मिति तु ण्यताऽपि सिध्यति, जनिवध्योश्चेति बृद्धिप्रतिषेधात् ॥ वधमहंतीति । दण्डादिभ्य इति यत्प्रत्ययः । यदि तद्धित इति । तेन सह समासस्य लक्षणा- उ.]दिति भावः। उपादायापि ये हेया इति,-उपायशब्दव्युत्पत्तिः। पृषोदरादित्वा- साधुः । रेखागवयस्थानीयत्वादिति भावः। कृत्योकेति, ययतोरिति चान्तोदात्त- विधायके । नजिति च तत्र वर्तते। अन्नेन वास्तव्योऽनवास्तव्य इत्यादिसमास- स्त्वनभिधानान्न भवतीति भाष्याशयः ॥ [तव्यत्तव्यानीयरः] । अचो यत् । भाष्ये आर्द्धधातुकसामान्य इति । विषयसप्तम्यामपि परभूत- विषयसत्त्वे एव प्रवृत्त्या परनिमित्तत्वमस्त्येवेति 'कथयती'त्यादौ स्थानिवत्त्वनिर्वाहः । आर्द्धधातुके इति च जातिनिर्देश इति भावः। यतोऽनाव इति । आधुदात्तस्वरार्थमि- त्यर्थः । यत्प्रत्यय इति । एतेन 'दण्डादिभ्यो य' इति वृत्तिपाठ एतद्भाष्यविरुद्ध १ इदं क्वचिन्न २ 'ऽपि'1३'सामान्येऽपि' ।४भाष्यवार्तिकमिदं स्यात् । ५ 'हन्ते'।

१९५ । ३अ.१पा.६आ.१००सू.] ® व्याकरणमहाभाष्यम् ® मुसलवध्य इति । यति पुनः सति-'साधनं,-कृतेति वा पादहारकाद्यर्थ, मिति समासः सिद्धो भवति ॥ यदि पुनरसिवधशब्दादुत्पत्तिः स्यादसिवध- महतीति ?॥ नैवं शक्यं वक्तुम् । स्वरे हि दोषः स्यात्-‘असिवध्यः' एवं स्वरः प्रसज्येत । असिवध्य इति चेप्यते ॥ [ अचो यत् ] । गदमदचरयमश्वाऽनुपसर्गे ॥ ३॥१११०० ॥ ॥*॥अनुपसर्गाच्चरेराङिचाऽगुरौ॥ ॥अनुपसर्गाचरेरित्यत्राङि चागुराविति वक्तव्यम् । आचर्यों देशः॥ अगुराविति किमर्थम् ?॥ आचार्य उपनयमानः॥ अर्यः स्वामिवैश्ययोः ॥३।१।१०३॥ ॥*॥ स्वामिन्यन्तोदात्तत्वं च ॥*॥ स्वामिन्यन्तोदाचत्वं च वक्तव्यम् । अयः स्वामी ॥ [ अर्यः स्वामिवैश्ययोः ] ॥ अजय सङ्गतम् ॥ ३।१।१०५॥ 'सङ्गत मिति किं प्रत्युदाहियते ?॥ अजरः कम्बलः । अजरिता कम्बल इति ॥ किं पुनः कारणं कर्तृसाधनः [ एवं ] प्रत्युदाहियते, न भावसाधनः प्रत्युदाहार्यः ॥ एवं तह,-॥*॥ अजयं कर्तरि ॥*॥ 'अजयं कर्तरीति वक्त- प्र.]ऽभावात्। स्वरे [हिं] दोष इति । असिवधशब्दाद्येति सति तित्स्वरितमिति स्वरितः प्रसज्येत । कृदन्तेन तु समासे कृदुत्तरपदप्रकृतिस्वरेण वध्यशब्द आधुदात्तो भवति। न चाऽसिवधशब्दात् प्राप्नोति यत् , दण्डादिषु केवलस्य वध- शब्दस्य पाठात्तदन्तविध्यभावाच ॥ [अचो यत् ] ॥ अजर्यम् । तयोरेवेति वचनाद्भावेऽजर्यशब्दः प्राप्नोति- 'अजय सङ्गतेनेति । कर्तरि च सङ्गते इष्यते-'अजयमार्यसङ्गत'मित्यतः पृच्छति-कि प्रत्युदाहियत इति। अजर इति । कर्तर्ययं प्रत्ययो निपात्यते । ततो सङ्गविकलतापरिहाराय कतैव उ.]इति भावः। लक्षणाऽभावादिति । 'सुप्सुपे'ति तु न सार्वत्रिकमित्यर्थः। कृदु- त्तरपदेति । 'वर्य' शब्दो हि यतोऽनाव' इति द्यच्कत्वादाद्युदात्तः । भाष्ये-यदि पुनरिति । असिवध्यादयः समस्ता अपि गणे पाट्याः, आकृतिगणो वा स इति भावः । एतेन 'न चाऽसिवधे'त्याद्यपास्तम् । एवञ्च तद्धितेनाऽसिद्धिरिति वार्तिकं कार्यमेवेति भावः ॥ [अचो यत् ] । अजय सङ्गतम् । कर्तरि च सङ्गत इष्यत इति । कर्तर्यर्थे सङ्गते विशेष्ये इष्यत इत्यर्थः । कर्तर्ययमिति । अत एव 'अजय मिति निपातनाश्रयणम् । झ्यङ्गे- ति । कर्बर्थत्व-सङ्गतविशेष्यकत्वरूपेत्यर्थः। गत्यर्थानामिति भाष्यं दृष्ट्वा 'सङ्गतमिति कर्तरि क्तः, तदर्थे च निपात्यमानमजयं कर्तरीति प्रतीयते, तदसङ्गतम् , सङ्गत- १ 'देवोत्पत्तिः' । २ अयं पाठः क्वचिन्न। ३ 'यति'।

* कैयट-विवरणसहितं. [अजयं व्यम् ॥ तत्तहि वक्तव्यम् ?॥ न वक्तव्यम् । गत्यर्थानां क्तः कर्तरि विधीयते, तेन योगादजयं कर्तरि भविष्यति ॥ गत्यर्थानां वै क्तः कर्मण्यपि विधीयते, तेन योगादजयं कर्मण्यपि प्राप्नोति॥ जीर्यतिरकर्मकः॥ भावे तर्हि प्राप्नोति ॥ सङ्गतग्रहणमिदानी किमर्थं स्यात् ? ॥ कर्तृविशेषणं सङ्गतग्रहणम् । सङ्गतं कर्तृ चेद्भवतीति । तद्यथा-'हृषेर्लोमसु' इति लोमानि चेत्कर्तृणि भवन्तीति॥ वदः सुपि क्याच ॥ ३॥१॥१०६ ॥ ॥॥वदः सुप्यनुपसर्गग्रहणम्॥ ॥वदः सुप्यनुपसर्गग्रहणं कर्तव्यम्। इह मा भूत्-प्रवाद्यम् ,अपवाद्यमिति तत्तर्हि कर्तव्यम्!॥न कर्तव्यम्। 'अनुपसर्ग' प्र.प्रत्युदाहरणे प्रदर्शनीय इति भावः। गत्यर्थानामिति। यद्यपि सङ्गमनं सङ्गतमिति भावे इह तो चिहितस्तथापि गत्यर्थानां क्तः प्रत्ययः कर्तरि दृष्टो-गतो ग्रामं देवदत्त इति । ततो गत्यर्थधातुसाहचर्यादजयमिति कर्तरि निपातनमिति मन्यते । जीर्य- तिरकर्मक इति । सोपसर्गस्य सकर्मकत्वेपीहानुपसर्गस्य निपातनादकर्मकत्वं बोद्ध- व्यम् । द्रव्यकर्माभावाश्रयेण चाऽकर्मकत्वमुक्तम् । कालादिना तु सर्वस्यैव सकर्म- कत्वम् । सङ्गतग्रहणमिति।नहि गर्भावस्य जीर्यते वन सामानाधिकरण्यमुपपद्यत इति प्रश्नः । कर्तृविशेषणमिति । वैयधिकरण्यमनयोः पदयोः स्यादिति भावः । लोमानि चेदिति । तथा च हृष्टं लोमभिर्हषितं लोमभिरिति वैयधिकरण्येऽपीवि- कल्पो भवति। तस्मात्कर्तरीति वक्तव्यम् । अथ वा सामानाधिकरण्यत्यागेन वैयधिकरण्याश्रयणस्याऽयुक्तत्वान्निपातनाद्वा कर्तर्येव प्रत्ययो भवतीति स्थितम् ॥ उ.]मिति मैत्रीपर्यायस्य भावक्तान्तस्यैवाऽत्र ग्रहात्। अतस्तत्तात्पर्यमाह-तथापीति। तेन योगादिति भाष्यस्य,-तेन साहचर्यादित्यर्थः । सोपसर्गस्येति । अर्थान्तर- वृत्त्येति भावः । ननु कालादिकर्मसद्भावात्कथमकर्मकत्वन्तत्राह-द्रव्येति । एतच्च 'गतिबुद्धी'ति सूत्रे 'कालाध्वनो रिति सूत्रे च निरूपितम् । 'कर्तरी ति वार्तिका- रम्भवाद्याह भाष्ये-भावे तीति। गत्यर्थेभ्यो विशिष्य विधानेन भावेऽपि 'क्त'दर्श- नादिति भावः । प्रत्याख्यानवाद्याह-सङ्गतग्रहणमिति । तथा च तत्सामर्थ्या- कर्तर्येव भविष्यति नाऽर्थो वार्तिकेनेत्यर्थः । वार्तिकारम्भवाद्याह-कर्तृविशेषण- मिति । कर्तृपदाऽध्याहारेणेति भावः । तयाचष्टे-वैयधिकरण्यमिति । 'अजयं सङ्गतेने'त्युदाहरणमिति भावः । एवञ्च तत्सामर्थ्याऽभावेन भावे प्रत्ययव्यावृत्त्यर्थ- कर्तरीति वाच्यं, निपातनसामर्थ्याद्वा कर्तरीति भावः। वैयधिकरण्येऽपीडिति । कर्तरि निष्ठायां सामानाधिकरण्येऽपि तद्विकल्प इति भावः ॥[अजयं सङ्गतम् ॥ १ ‘सगतं चेत्कर्तृ भवतीति' । २ इतिः क्वचिन्न । ३ 'संवाचं' । ४ वक्तव्यं ।

३आ.१पा.५आ.१०७सू.] 8 व्याकरणमहाभाष्यम् 8 १९७ इति वर्तते ॥ एवं तन्वाचष्टे-'अनुपसर्ग'इति वर्तते' इति ॥ नैतदन्वाख्ये- यम्-‘अधिकारा अनुवर्तन्ते' इति । एष एव च न्यायो यदुत 'अधिकारा अनुवर्तेर मिति ॥ [वदः सुपि क्याच ] ॥ भुवो भावे ॥ ३॥१॥१०७॥ भावग्रहणं किमर्थम् ? ॥ कर्मणि मा भूदिति ॥ नैतदस्ति प्रयोजनम् । भवतिरयमकर्मकः । अकर्मका अपि वै धातवः सोपसर्गाः सकर्मका भवन्ति [इति]तेनाऽनुभव्यमामन्त्रणमित्यत्रापि प्राप्नोति॥ एतदपि नास्ति प्रयोजनम् । 'अनुपसर्गे' इति वर्तते। [॥*॥ भावग्रॅहणमुत्तरार्थम् ] ॥ ॥ उत्तरार्थ तर्हि भावग्रहणं कर्तव्यम् । 'हनस्त च'। भावे यथा स्यात्-श्वहत्या वर्तते॥ व मा भूत्-'श्ववात्यो वृषलः' इति ॥ [ भुवो भावे ] ॥ हनस्त च ॥३।१।१०८॥ ॥*॥ हनस्तथिस्त्रियां छन्दसि ॥*॥ 'हनस्त चेत्यत्र 'चित्नियां छन्दसि वक्तव्यः । 'तां भ्रूणहत्यां निगृह्यानचरणम्। 'अस्यै त्वा भ्रूणहत्यायै चतुर्थं प्रतिगृहाण।।स्त्रियामिति किमर्थम् ?||आने ते दस्युहत्याय॥ छन्दसीति किमर्थम् ?॥ दस्युहत्या, श्वहत्या वर्तते ॥ एतिस्तुशास्त्रजुषः क्यप् ॥ ३॥१॥१०९ ॥ 'क्य बिति वर्तमाने पुनः क्यब्ग्रहणं किमर्थम्?॥ क्यबेव यथा स्याद्य- प्र.] वदः सुपिानैतदिति। यत्राधिकारस्य विच्छेदोऽवध्यपरिज्ञानं वा सिंहावलोकित- न्यायाश्रयणं वा तत्रावश्यवक्तव्यो विशेषः। एवमादौ तु प्रयोजनाभावादवक्तव्य इत्यर्थः। भुवो भावे । भवतिरकर्मक इति । ननु प्राप्त्यर्थः सकर्मकोऽस्ति । नैष दोषः । प्राथम्यात्सत्तार्थस्यैवेह ग्रहणात् । ननु कालादिकर्मणि प्राप्नोति । अनभि- धानात्कालादिकर्मणि न भविष्यतीति मन्यते । [ भुवो भावे] । हनस्त च। दस्युहत्यायेति।छन्दस्यैवेतत्क्यबन्तं नपुंसकं,भाषायान्तु स्त्रीलिङ्गमेव। उ.] वदः सुपि । यत्राधिकारस्येति । यथा मण्डकाऽनुवृत्तिविषये धान्याना'मि- त्यादौ । अवधीति । यथाऽलुगधिकारः प्रागानङ' इति । सिंहति । यथा 'प्राचा' प्फे'इत्यत्र 'सर्वत्रेति ॥ [ वदः सुपि क्यच ] । भुवो। प्राथम्यादिति । धातुपाठे इति भावः । प्रसिद्धत्वाच्चेत्यपि बोध्यम् । हनस्त च । भाषायान्विति। शब्दशक्तिस्वभावादेतद्विहितक्यबन्तस्य स्त्रीव- मित्यर्थः ।। [हनस्त च ॥ १ 'इत्येव' । २ 'रकर्मकः' । ३ 'भाव्य' । ४ इदं लुप्तं स्यात्' । ५ 'इह मा भूत्' । ६ 'छन्दसीति वक्तव्यं । ७ 'त्वा' । ८ 'गृह्यते' ।

१९८ कैयट-विवरणसहितं. [ एतिस्तु दन्यत्प्रामोति तन्मा भूदिति ॥ किं चान्यत्प्रामोति ?॥ ण्यत् ॥ 'ओरावश्यके ण्यतः स्तोतेः क्यापूर्वविप्रतिषिद्ध मिति वक्ष्यति, स पूर्वविप्रतिषेधो न पठितव्यो भवति । अथवा हनस्तश्चिस्त्रियां छन्दसि चोदितः, स न वक्तव्यो भवति ॥*॥ क्यब्विधौ ग्रहणम् ॥*॥ क्यविधौ वृन्ग्रहणं कर्तव्यम् । इह मा भूत्-'वार्या ऋत्विजः' इति ॥*॥ अजेश्वोपसङ्ख्यानं संज्ञायाम् ॥*॥ संज्ञायामजेश्वोपसयानं कर्तव्यम् । आज्यम् । यदि क्यप्-वृद्धिर्न प्राप्नोति । तस्माएण्यदेषः । यदि ण्यत्,-उपधालोपो न प्राप्नोति । तस्मात्क्यबेवेषः । ननु चोक्तम्-'वृद्धिर्न प्रामोती'ति ?॥ आपूर्वस्यैष प्रयोगो भविष्यति ॥ यद्यवमवग्रहः प्रामोति ॥ न लक्षणेन पदकारा अनुवाः, पदकारैर्नाम लक्षणमनुवर्त्यम् । यथालक्षणं पदं कर्तव्यम् ॥ [ एतिस्तुशास्वृदृजुषः] ॥ च खनः ॥ ३११११११ ॥ दीर्घोच्चारणं किमर्थं न 'इ च खनः' इत्येवोच्येत ?॥ का रूपसिद्धिः- प्र.] एतिस्तु । अथवेति । पूर्वस्मात् क्यपोऽस्य वैलक्षण्यप्रदर्शनाय क्यब्ग्रहणं कृतम् । तेन पूर्वः क्यप्छन्दसि स्त्रियां चिद्भवति। क्यविधाविति। 'ईडवन्दवृ- शंसदुहां ण्यत इति' वार्यशब्दस्याद्युदात्तविधानादेतज्ज्ञायते।तत्र हीडिवन्दिभ्यामा- त्मनेपदिभ्यां साहचर्यादृशब्देन वृणातिर्गृह्यते । तस्माण्ण्यदेष इति । ननु स्वर- भेदो भवति, क्यपि सत्याधुदात्तं पदं, ण्यति सत्यन्तस्वरितम् । नैष दोषः। 'नब्वि- षयस्यानिसन्तस्ये त्याद्युदात्तविधानात् । न लक्षणेनेति। संहिताया एव नित्यत्वम् । पदविच्छेदस्य तु पौरुषेयत्वम् । तथा च यत्रार्थनिश्चयाभावस्तत्राऽवग्रहो न क्रियते। तदुक्तम्-‘हरिद्र्रनवगृह्यते' इति । हरिदूरित्यत्र किं हरिशब्दः इकारान्तः, अथ हरिच्छब्दस्तकारान्त इति सन्देहात् ॥ [ एतिस्तुशास्वृदृजुषः] । ई च खनः । दीर्घोच्चारणे भाष्यकारेण प्रत्याख्याते केचित् प्रश्लेषनिर्देशन द्वितीय इकारो 'ये विभाषे'त्यात्वस्य पक्षे परत्वात्प्राप्तस्य बाधनार्थ इत्याहुः । उ.] एतिस्तु। आत्मनेपदिभ्यामिति । अकारवद्विकरणाभ्यामित्यपिबोध्यम्। एत- दशे उत्तरसाहचर्यमप्यनुग्राहकम् । वृणातिरिति। 'वृङ् संभक्ता'वित्ययम् । एवञ्च क्यप् वृञ एवेति भावः । वस्तुतो व्याख्यानादन वृो ग्रहणमित्येव तत्त्वम् । संहिताया एव नित्यत्वमिति । अविच्छिन्नपारम्पर्यत्वमेवाऽत्र नित्यत्वम् । अर्थ- निश्चयाऽभाव इति । आज्यशब्दस्य रूढत्वादार्थोऽस्ति न वेति निश्चयाऽभाव इत्यर्थः । 'समासे संहिता नित्ये'त्यवग्रहस्य साधुत्वाऽभावात्सम्प्रदायमात्रशरणस्य तस्य लक्षणाऽविषयते'त्यर्थ मन्ये ॥ [ एतिस्तुशास्वृ] । १ 'अजेश्वोपसङ्ख्यानं सज्ञायां' । २ 'क्यवेषः' । ३ इदं कचिन्न ।

३अ.१पा.आ.११२सू.] 8 व्याकरणमहाभाष्यम् ® खेयम् ?॥ आद्गुणेन सिद्धम्॥ न सिध्यति । 'षत्वतुकोरसिद्ध एकादेश'इत्येका. देशस्याऽसिद्धत्वात्तुकप्रसज्येत ॥ नैतदस्ति । पदान्तपदाद्योरेकादेशोऽसिद्धो, नैष पदान्तपदाचोरेकादेशः। तस्मा दिच खनः' इत्येव वक्तव्यम् ॥ भृञोऽसंज्ञायाम् ॥ ३१११११२ ॥ असंज्ञायामिति किमर्थम् ? ॥ भार्या ॥* ॥ भृञः संज्ञाप्रतिषेधे स्त्रियाम- प्रतिषेधोऽन्येन विहितत्वात् ॥*॥ भृजः संज्ञाप्रतिषेधे स्त्रियामप्रतिषेधः । अन- र्थकः प्रतिषेधोऽप्रतिषेधः ॥ किं कारणम् ? ॥ 'अन्येन विहितत्वात् । अन्येन लक्षणेन स्त्रियां क्यविधीयते,-'संज्ञायां समजनिषदनिपतमनविदषु- न्शीभृजिणः' इति ॥ प्रतिषेध इदानीं किमर्थः स्यात् ? ॥*॥ प्रतिषेधः किमर्थ इति चेदस्त्रीसंज्ञाप्रतिषेधार्थः ॥ ॥ प्रतिषेधः किमर्थ इति चेदस्त्रीसंज्ञाऽ- प्र.]तदयुक्तम् । क्यप्सन्नियोगेन विधीयमानस्येत्वस्यान्तरङ्गत्वात्।आत्वस्य तु यका- रादावुत्पन्ने विधीयमानस्याऽऽङ्गस्य बहिरङ्गत्वाद्विप्रतिषेधाऽभावात्प्राप्त्यभावात् ॥ भृतोऽसं । असंज्ञायामिति किमर्थमिति। क्रियमाणेऽपि प्रतिषेधे इष्टं न सिध्य- तीति प्रश्नः ॥ भायेति । गृहिण्या इयं संज्ञति क्यबभावे ण्यत्प्रत्ययः ॥ अनर्थक इति। भृज इति प्राप्तेरयं प्रतिषेध आनन्तर्यात् ,नतु लक्षणान्तरप्राप्तेः,व्यवधानादिति भावः । प्रतिषेध इदानीमिति । प्रतिषेधविधानसामर्थ्यालक्षणान्तरेण प्राप्तस्यापि क्यपः प्रतिषेधो भविष्यतीति भावः। अस्त्रीसंज्ञेति । संज्ञायत इति संज्ञेति। कर्म- उ.] ई च खनः । क्यप्सन्नियोगेनेति । नन्वन्तरङ्गे इत्वे कृते एकदेशविकृत- न्यायेन प्राप्ताऽऽत्त्ववारणार्थं तदावश्यकम् । इत्वन्तु पक्षे चरितार्थम्। किञ्च 'अचः कर्तृयकी'ति सूत्रे भाष्ये 'ये विभाषे'त्यत्र 'ये' इत्यस्य विषयसप्तम्यन्तताया उक्त- तया परत्वेन क्यपः पूर्वमेवात्वे ततः परत्वात्सवर्णदीर्घे एकदेशविकृतन्यायेन 'इ च खन' इत्यस्य प्रवृत्तौ 'खिय'मिति स्यात्तद्वारणार्थ दीर्घनिर्देश इति केषाञ्चिदाशय इति चिन्त्यमेतदिति केचित् । भाष्याशयस्तु व्यवस्थितविभाषयाऽत्राऽऽत्वाऽप्रवृत्ति- रिति। इदञ्च तवाऽप्यावश्यकम्, अन्यथा आकारस्य दीर्घकारेऽपि 'खीय'मिति स्यान्न तु खेयमिति । न च खनेर्नस्याऽनुनासिकेकारः स्यात्तस्याद्गुणोऽपि कदाचित्तादृश एव स्यात् , तद्वारणाय इकाररूप एवेकार इत्यर्थं दीर्घनिर्देश इति वाच्यं, स्थान्य- नुरूपेऽनुनासिके एवोच्चारणीयेऽननुनासिकोच्चारणात् । स्पष्टञ्चेदं 'पथिमथि' 'अष्टन आ' इत्यत्र भाष्यकैयटयोरित्याहुः ॥ [ई च खनः] । भृतोऽसं। स्त्रियामप्रतिषेध इति भाष्ये। स्त्रीलिङ्गभार्यांशब्दविषयेऽनर्थकोऽसं- ज्ञायामिति प्रतिषेध इत्यर्थः । अस्त्रीशब्दस्य संज्ञाशब्देन समानाऽधिकरणसमा सम- १ अयं क्वचिन्न । २ संज्ञा' । ३ 'दी?' । ४ 'तस्माद्गुणेऽपि' । ।

२०० । कैयट-विवरणसहितं, [ भृशोऽसं स्ति तदर्थः प्रतिषेधः स्यात्-भार्या नाम क्षत्रियाः ॥ ॥ सिद्धं तु स्त्रियां संज्ञा- प्रतिषेधात् ॥ ॥ सिद्ध मेतत्॥कथम् ?॥['स्त्रियां सज्ञाप्रतिषेधात्'] । स्त्रियां संज्ञाप्रतिषेधो वक्तव्यः। 'संज्ञायां समजनिषदनिपतमनविदषुशीभृमिणः'। ततो 'न स्त्रियां भृजः'इति॥सिध्यति । सूत्रं तर्हि भिद्यते॥यथान्यासमेवास्तु॥ ननु चोक्तम्-मृञः संज्ञाप्रतिषेधे स्त्रियामप्रतिषेधोऽन्येन विहितत्वादिति । नैष दोषः । भावे इति नत्रानुवर्तते, कर्मसाधनश्वायम् । अथ वा य एते संज्ञायां विधीयन्ते तेषु नैवं विज्ञायते-'संज्ञायामभिधेयाया'मिति ॥ किं तर्हि ?॥ 'प्रत्ययान्तेन चेत्संज्ञा गम्यत' इति ॥ अपर आह-॥*॥ संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिध्यति ॥*॥ संज्ञायां पुंसि दृष्टत्वात्तव भार्याशब्दो न सिध्यति । ॥*॥ स्त्रियां भावाऽधिकारोऽस्ति तेन भार्या प्रसिध्यति॥*॥ [ स्त्रियां भावाऽधि- प्र.] साधनोऽत्र संज्ञाशब्दः॥ ततो न स्त्रियामिति । स्त्रीशब्देनाऽत्र स्तनकेशवती गृह्यते । अन्यथा विधिप्रतिषेधयोर्विषयविभागो न स्यात् । तस्माद्भरणं भृत्येति विधेविषयः । लौकिकी तु स्त्री प्रतिषेधस्य । भाव इति तत्रेति । 'ब्रजयजो वे क्य बित्यतः। संज्ञायामिति संज्ञाशब्दः कर्मसाधनो न गृह्यते, किं तर्हि ?, भाव- साधनः । तेन प्रत्ययान्तेन यदि रूढिर्गम्यते ततः प्रत्ययः । न च मृत्याशब्देन हि गृहिण्यभिधीयत इति क्यपोऽप्रसङ्गः । संज्ञायामिति । 'भार्या नाम क्षत्रिया' इत्य- त्राऽसंज्ञायामिति प्रतिषेधस्य चरितार्थत्वात्सूत्रान्तरेण स्त्रियां संज्ञायां क्यपः प्रसङ्गा- द्भार्याशब्दो न सिध्यतीति चोद्यम् । स्त्रीप्रकरणे भावग्रहणानुवर्तनात्कर्मणि क्यब- उ.भिप्रेत्य तत्सिद्धये कर्मणि संज्ञाशब्दं व्युत्पादयति-संज्ञायत इति। अस्त्री रूट्या बोध्या यस्याऽस्तीत्यर्थः । अन्यथेति । 'संज्ञायां समजे'ति क्यबन्तानां 'समज्ये'- त्यादीनां स्त्रीलिङ्गत्वादिति लौकिकी विति । न च विपरीतं किन्न स्या- दिति वाच्यं, 'स्त्रियां क्तिन्नित्यंत्र शास्त्रीयस्यैव ग्रहेणाऽस्थाऽपि तत्रैव प्रवृत्तेरिति भावः । भाष्ये-यथान्यासमिति । 'संज्ञायां समेति सूत्रे यदधिकं 'न स्त्रिया'मि- त्यादि कृतं तन्न कार्यमित्यर्थः। भाव इति तत्र वर्तते इति । ननु समन्यानिषद्या- निपत्यानामधिकरणे, मन्याविद्ययोः करणे तेन सिद्धेरङ्गीकारेण कथं 'भावे' इत्यस्य तत्र सम्बन्ध इति चेन्न; भृविषये भाव इति वर्तते इत्यर्थः । एवञ्च भृजो भाव एवेष्यत इति भावः । एवमग्रे 'भावाऽधिकारोस्ती'त्यपि व्याख्येयम् । संज्ञाशब्द इति । संज्ञाशब्देन कर्मसाधनेन संज्ञायमानमभिधीयते । तत्राऽभिधेये प्रत्ययश्चे- त्तर्हि मृत्याशब्देन स्यादेव गृहिण्यभिधानमिति भावः । भावसाधनेन धातूनामनेका- र्थत्वादूढिरुच्यते, तदाह-रूढिरिति । तद्विषयोऽर्थ इत्यर्थः । तेन रूढयों गम्यत १ मन्ये इदं लुप्तं स्यात् । २ श्लोकवार्तिकम् । भावः। ।

३अ.१पा.६आ.११४सू.] 8 व्याकरणमहाभाष्यम् , २०१ ... .. कारोऽस्ति तेन भार्या प्रसिध्यति]। भाव इति तत्र वर्तते, कर्मसाधनश्वायम् । ॥*॥ अथ वा बहुलं कृत्याः संज्ञायामिति तत्स्मृतम् ॥ ॥ अथ वा 'कृत्य- ल्युटो बहुल'मितित्येवमत्रापि ण्यद्भविष्यति ॥ ॥ यथा यत्यं यथा जन्यं यथा भित्तिस्तथैव सा ॥ ॥ [येथा यत्यं यथा जन्यं यथा भित्तिस्तथैव सा] । ॥ ॥ समश्च बहुलम् ॥ ॥ समश्च बहुलमुपसङ्ख्यानं कर्तव्यम् । संभृत्या एव संभाराः । संभार्या एव संभाराः । [ भृञोऽसंज्ञायाम् ] । राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याऽव्यथ्याः ॥ ३।१।११४ ॥ ॥*॥ सूर्यरुच्याव्यथ्याः कर्तरि॥ ॥सूर्य रुच्य अव्यथ्य इत्येते कर्तरि निपा- त्यन्ते ॥ किं निपात्यते ॥ सूर्यः-॥॥ सूसर्तिभ्यां संरतेरुत्वं सुवतेर्वा रुडा- गमः' ॥॥ सरणाद्वा, सुवति वा कर्मणीति सूर्यः॥ सूर्य ॥ रुच्यः-रोचतेऽसौ रुच्यः । [रुंच्यः]॥ न व्यथत इत्यव्यथ्यः॥ ॥ ॥ कुप्यं संज्ञायाम् ॥*॥ 'कुप्यं संज्ञाया'मिति वक्तव्यम् । गोप्यमन्यत् ॥ ॥ कृष्टपच्यस्यान्तोदात्तत्वं च कर्म- कर्तरि च ॥ ॥ कृष्टपच्यस्याऽन्तोदात्तत्वं च [वक्तव्यं, संज्ञायां ] कर्मकर्तरि चेति वक्तव्यम् । कृष्टे पच्यन्ते स्वयमेव । 'कृष्टप च्याश्च मे । अकृष्टपच्याश्च मे । यो हि कृष्टे पक्तव्यः कृष्टपाक्यः स भवति ॥ [ राजसूयसूर्य ] । प्रत्यपिभ्यां ग्रहः ॥ ३।१।११८ ॥ ॥॥प्रत्यपिभ्यां ग्रहेश्छन्दसि॥*॥ प्रत्यपिभ्यां ग्रहश्छन्दसीति वक्तव्यम्। 'मत्तस्य न प्रतिगृह्यम्'। 'अनृतं हि मत्तो वदति तस्मानापिगृह्यम्' । प्र.]भावाण्ण्यदेव भवतीत्युत्तरम्।यथेति। अजन्ताद्विधीयमानो यद्यथा हलन्तात्कुत- श्चिद्भवति बहुलवचनात् , यथा च भित्तिरित्यविषये क्तिन्भवति, एवं भार्येति क्याप्रसङ्गे ण्यद्भवतीत्यर्थः । [ भृशोऽसंज्ञायाम् ] ॥ उ.]इत्यर्थः।नामधेयवाची संज्ञाशब्दस्तु करणव्युत्पन्न इति बोध्यम् । अपर आहेति भाष्ये । 'सिद्धन्तु स्त्रियां संज्ञाप्रतिषेधा'दित्यायकरणेन पक्षान्तरत्वम् । कर्मणि क्यबभावादिति । 'भृत्र' इति शेषः । जन्ये स्वरार्थं यदेवेष्यते, स बाहुलकादेव सिद्ध इति 'यति जने'रित्युक्तमुपसङ्ख्यानान कार्यमिति बोध्यम्।भाष्ये-सम्भार्या एव सम्भारा इति।सम्भरा इति पाठे 'भ'इति दीर्घान्तात् ऋयादेः'दोर'विति बोध्यम्। राजसूयसूर्य । सूसतिभ्यामिति भाष्यस्य-'क्यन्निपात्यत' इति शेषः । कुप्ये गुपेरादेः कत्वम् । सुवर्णरजतभिन्नं धनं कुप्यम् । [ राजसूयसूर्य] । प्रत्यपिभ्यां ग्रहः। 'अपिगृह्य'शब्देन बलात्कारग्राह्यमुच्यत इति केचित् ॥ १ इदं लुप्तं स्यात् । २ 'शत्यं । ३ 'इति कर्तरि'। ४ इदं भाष्यमित्यन्ये । ५ 'सुवति कर्मणीति वा' । ६ इदं क्वचिन्न। ७'स कृष्टपाक्यो भवति'। ८रब्बोध्यः।

२०२ ॐ कैयट-विवरणसहित [अमावस्यद प्रतिग्राह्यम्, अपिग्राह्यमित्येवाऽन्यत्र॥ [प्रत्यपिभ्याम् ] । अमावस्यदन्यतरस्याम् ॥ ३॥१॥१२२ ॥ कस्याऽयमनुबन्धः?॥प्रधानस्य॥ यदि प्रधानस्य,-अमावस्या इत्येवं स्वरः प्रसज्येत। अमावस्या इति चेष्यते। तथा-अमावास्याग्रहणेनाऽमावस्याग्रहणं न प्राप्नोति ॥ एवं तर्हि निपातनस्य॥यदि तर्हि निपातनान्यप्येवंजातीयकानि भवन्ति 'श्रोत्रियंश्छन्दोऽधीते' इति । व्यपवर्गाभावान्नित्याधुदात्तत्वं न प्रामोति ॥ एवं तर्हि- ॥ ॥ अमावसोरहं ण्यतोर्निपातयाम्यवृद्धिताम् ॥ तथैकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति ॥*॥ [अमावस्यद] । प्र.] अमावस्यत्। प्रधानस्येति। विधीयमानत्वात्प्रत्ययस्य प्राधान्यमिति यत्प्रत्ययों निपात्यत इत्युक्तं भवति । एवं स्वर इति । 'यतोऽनाव' इति उत्तरपदमाद्युदात्तं स्यात् । अन्तस्वरितं चेष्यते । अमावास्याग्रहणेनेति।शब्दान्तरत्वात्। अमावास्या- शब्दस्य ण्यदन्तत्वादमावस्याशब्दस्य यदन्तत्वादिति भावः । एवं तीति । यत्प्र- त्ययान्तत्वं न निपात्यत इत्यर्थः । ननु तिति प्रत्ययग्रहणं चोदयिष्यते, निरस्त- विभागे च निपातन आश्रीयमाणे स्वरितत्वं न सिध्यतीति मत्वाह-यदि तौति । एवंजातीयकानीति । निरस्तावयवविभागानीत्यर्थः । अमावसोरिति । वृद्धिभावा- भावकृतभेदाश्रयो द्विवचननिर्देशः। निपातयामीति । 'एकतरस्येति' शेषः । एक- वृत्तितेति । एका तद्धितवृत्तिरुभयोः सिध्यति, एकदेशविकृतस्याऽनन्यत्वात् । तथा हि ण्यत्यमावास्याशब्दस्य न्याय्यत्वादाकारस्य प्रकृतिसमकारस्य तु विकारत्वम् ।। उ.] अमाव । यत्प्रत्यय इति। सूत्रेतदानुपूर्व्या एव श्रवणादित्यर्थः।अन्तस्वरित- मिति । 'अमेति लुप्तसप्तमीकमित्युपपदत्वान्निपातनेन वा तत्त्वादुपपदसमासे कृदुत्तरपदप्रकृतिस्वरेणेति भावः । यत्प्रत्येति। निरस्ताऽवयवविभागः समुदाय एव निपात्यते । तस्य च तकारोऽन्त इत्यन्तस्वरितत्वं सिध्यतीति भावः। 'अमावस्या'- शब्दस्थाने चेदं निपातनमिति तद्रहणेनाऽस्य ग्रहणमपि सिद्धमिति तात्पर्यम् । भाष्ये नितीत्याधुदात्तत्वं न प्रामोतीति । नितीति परसप्तमीत्यभिप्रायेणेदम् । प्रकृते स्वरितत्वं न प्राप्नोतीत्यपि बोध्यम् । तत्सूत्रे प्रत्ययग्रहणस्य प्रत्याख्यास्य- मानत्वात्तद्रीत्येदम्भाष्यमित्यन्ये । एकतरस्येतीति । वस्धातुभ्यां ण्यतोः कृतयोर- न्यतरस्येत्यर्थः। वसोरिति पञ्चम्यर्थे षष्ठीद्विवचनम् । ण्यदप्यमाशब्दे उपपदे निपा- त्यते इति बोध्यम् । अन्यथोपपदत्वाऽभावे समास उत्तरपदप्रकृतिस्वरश्च न स्यादिति वोध्यम् । वार्तिके 'अवृद्धिता'शब्देन ह्रस्वो लक्ष्यते । तद्धनयन्नाह-एकदेशेति । १ ‘एवं स्वरः । ।

३अ.१पा.आ.१२३सू.] 8 व्याकरणमहाभाष्यम् २०३ छन्दसि निष्टयंदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यरतर्याध्वर्य- खन्यखान्यदेवयज्यापृच्छयप्रतिषीव्यब्रह्मवाद्य- भाव्यस्ताव्योपचाय्यपृडानि ॥ ३२१११२३ ॥ 'निष्टक्य' इति किं निपात्यते ?॥॥॥ निष्टक्र्ये कृतेराद्यन्तविपर्ययश्छन्दसि कृतार्थः ॥॥ यथा कृतेस्तैः, कसेः सिकता, हिंसेः सिंहः ॥ अपर आह- ॥*॥ निष्टक्ये व्यत्ययं विद्यान्निसः षत्वं निपातनात् । ण्यदायादेश इत्येतावुपचाय्ये निपातितौ ॥ ॥ निष्टक्यं चिन्वीत पशुकामः॥ ॥॥ ण्यदेकस्माच्चतुर्थ्यः क्यप्चतुर्थ्यश्च यतो विधिः । ण्यदेकस्माद्यशब्दश्च द्वौ क्यपौ ण्यविधिश्चतुः ॥*॥ 'ण्यदेकस्मात्'-निष्टयः। चतुर्यःक्यप्'-देवहूयः,प्रणीयः,उन्नीयः,उच्छिष्यः। 'चतुर्थ्यश्च यतो विधिः',-मर्यः, स्तर्या,ध्वर्यः, खन्यः। 'ण्यदेकस्मात्',-खान्यः 'यशब्दश्च',-देवयज्या । 'द्वौ क्यपी',-आपृच्छयः' प्रतिषीव्यः । 'ण्यद्विधि- प्र.] छन्दसि। कृताद्यर्थ इति । कृतशब्दस्य धातोर्य आदिः ककारस्तत्प्रयोजनः । आदेरन्तत्वम् , अन्तस्य चादित्वं यथा स्यादित्यर्थः । आद्यन्तयोः परस्पररूपापत्तिन उ.]भाष्ये-स्वरश्च मे इति। 'तित्प्रत्ययप्रयुक्तः स्वरित इत्यर्थः।[अमावस्यदन्य]॥ छन्दसि निष्टयं । 'कृतेराद्यन्तविपर्ययः कृताद्यर्थ' इत्यसङ्गतं मत्वाऽऽह-कृत- शब्दस्येति।तत्प्रयोजन इत्यस्याऽन्तस्थाने तदुत्पत्तिप्रयोजनस्तत्स्थानेऽन्तोत्पत्तिप्रयो- जनश्चेत्यर्थः । तद्धनयन्नाह-परस्परेति । अन्यथाऽऽद्यन्तयोः स्थाने तृतीयवर्ण- करणमप्याद्यन्तविपर्ययः स्यादिति भावः। 'निष्टक्र्ये कृतेरावन्तविपर्ययश्छन्दसि कृताद्यर्थ' इत्येव भाष्यपाठ इति कैयटतात्पर्यम् । साम्प्रतिकपुस्तकेषु तु 'निष्टयं कृतेराद्यन्तविपर्ययश्छन्दसि कृताद्यर्थो 'यथा कृतस्तर्क इत्यादि दृश्यते। तत्र 'निष्टक्य कृतेश्छन्दसि' इत्यन्वयः। 'निपात्यते' इति शेषः। प्रत्ययप्रकरणाण्यन्निपात्यः, षत्वञ्च निपात्यमित्यर्थः । अन्यथा ऋदुपधत्वात्क्यबेव स्यादिति भावः । 'आद्यन्तविपर्ययः कृताद्यर्थ' इत्यस्य कृताद्यर्थ आद्यन्तविपर्यय आवश्यकस्तेनाऽत्राऽपि सिद्ध तदर्थं न निपातनमित्यर्थः । 'कृताद्यर्थ' इत्यादिशब्दार्थमेव दर्शयति-कृतस्तर्क इत्या- दिना । अपर आह निष्टक्य व्यत्ययमिति । वर्णव्यत्ययं, प्रत्ययव्यत्ययश्चेत्यर्थः । 'व्यत्ययो बहुल'मिति सूत्रेणेति भावः । एवञ्च षत्वमात्रफलकं निपातनमित्याह- निसः षत्वमिति । भाष्ये-ण्यद्विधिश्चतुरिति । सुजन्तमेतत् । चतुरो वारा- नित्यर्थः । चतुर्थ इति यावत् । उपपूर्वाचिनोतेरिति । पृडे उत्तरपदे इति १ व्याख्या लुप्ता स्यात् । २ 'त':' । ३ दशो निपा'।४ इदं क्वचिन्न। ५'सा'।

२०४ कैयट-विवरणसहितं [ऋहलो । श्चतुः',-ब्रह्मवाचः, भाव्यः, स्ताव्यः, उपचास्यपृडम् । उपपूर्वाचिनोतेराया- देशोऽपि] निपात्यते । नहि ण्यतैव सिध्यति । ॥*॥ हिरण्य इति च ॥१॥ हिरण्य इति च वक्तव्यम् । उपचेयपृडमित्येवान्यत्र । [छन्दसि निष्टर्य ] ॥ ऋहलोर्ण्यत् ॥ ३॥११५२४ ॥ ॥*॥ पाणौ सृजेर्ण्यद्विधिः ॥ ॥पाणौ सृजेयेद्विधेयः। पाणिसर्या रजुः । ॥*॥ समवपूर्वाच्च ॥ ॥ समवपूर्वाञ्चेति वक्तव्यम् । समवसर्ग्यः ॥*॥ लपि- दभिभ्यां च ॥ ॥लपिदभिभ्यां चेति वक्तव्यम् । अपलाप्यम् । अवदाभ्यम्॥ ओरावश्यके ॥ ३११११२५ ॥ कथमिदं विज्ञायते-आवश्यके उपपदे, आहोस्विदावश्यके द्योत्य इति? कश्चात्र विशेषः ? । ॥*॥ आवश्यक उपपद इति चेयोत्य उपसङ्ख्यानम् ॥॥ आवश्यके उपपदे इति चेयोत्येउपसङ्ख्यानं कर्तव्यम् । पाव्यं लाव्यम् । अस्तु तर्हि द्योत्ये । ॥*॥ द्योत्य इति चेत्स्वरसमासानुपपत्तिः ॥ ॥ द्योत्य इति चेत्स्वरसमासानुपपत्तिः [प्राप्नोति] । अवश्यलाव्यम् । अवश्यपाव्यम् ॥ नैष दोषः। मयूरव्यंसकादित्वात्समासः । विस्पष्टादिवत्स्वरो भविष्यति। ॥ ॥ ओ- रावश्यके ण्यतः स्तोतेः क्यप्पूर्वविप्रतिषिद्धम् ॥*।। ओरावश्यके ण्यतः स्तोतेः क्यब्भवति पूर्वविप्रतिषेधेन । ओरावश्यके ण्यगवतीत्यस्यावकाशः-अवश्य- लाव्यम् । अवश्यपाव्यम् । क्यपोऽवकाशः-स्तुत्यः। इहोभयं प्रामोति-अव- श्यस्तुत्यः । क्यब्भवति पूर्वविप्रतिषेधेन। स तर्हि पूर्वविप्रतिषेधो वक्तव्यः?॥ प्र.]तु वर्णान्तररूपापत्तिरिति प्रदर्शनाय 'कृताद्यर्थ' इत्युक्तं भवति॥[छन्दसिनिष्ट]॥ ओरावश्यके। कथमिति । किमावश्यकार्थवाचिन्युपपदे प्रत्ययः,उत प्रत्ययेन आवश्यके द्योत्य इति प्रश्नः । अवश्यलाव्यमिति । 'द्वावपूपा वित्यादौ गतार्थस्यापि क्वचित् प्रयोगो लोके दृश्यते लाघवं प्रत्यनादरादिति मन्यते । विस्पष्टादिवदिति । यथा 'विस्पष्टकटुक मित्यत्र मयूरव्यंसकादित्वात्समासे कृते पूर्वपदप्रकृतिस्वरो भवति, उ.] यावत् । पृडेरिगुपधलक्षणः कः ॥ [ छन्दसि निष्टयं] । ऋहलोय॑त् । पाणौ सृजे धंदुपधा'दिति क्यपोऽपवादो ण्यत् । 'लपिदभि- भ्यां 'पोरदुपधा'दिति ॥ [ ऋहलोर्ण्यत् ] । ओरावश्यके । ननूक्तार्थत्वादवश्यशब्दप्रयोग एव न स्यात् , ण्यदेव वा न स्यादिति कुतो नोक्तमत आह-द्वावपूपाविति । 'द्योत्य' इत्युक्तेोतकसमुच्चय इष्ट एवेति लभ्यते । उपपदत्वाऽभावात्स्वरसमासयोरनुपपत्तिरिति भावः । ननु 'विस्प- टादीनि गुणवचनेषु' इत्यनेन पूर्वपदप्रकृतिस्वरविधानादत्र चोत्तरपदप्रकृतिस्वरस्येष्ट- त्वेन 'विस्पष्टादिव'दित्यसङ्गतमिति मत्वाऽऽह-यथेतिाएवञ्च मयूरव्यंसकादिषु निपा- २०५ ३अ.१पा.६आ.१२७सू.] 8 व्याकरणमहाभाष्यम् 8 न वक्तव्यः । उक्तं तत्र क्यबिति वर्तमाने पुनः क्यब्ग्रहणस्य प्रयोजनम्,- 'क्यबेव यथा स्याद्यदन्यत्प्रामोति तन्मा भूदिति । [ ओरावश्यके । आनाय्योऽनित्ये ॥३।१।१२७ ।। ॥*॥ दक्षिणाग्नौ ॥*॥ दक्षिणाग्नाविति वक्तव्यम् । आनेयोऽन्यः ।। ॥*॥ आनाय्योऽनित्य इति चेद्दक्षिणाग्नौ कृतं भवेत् ॥ एकयोनी तु तं विद्यादानेयो ह्यन्यथा भवेत् ॥*॥ पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु।३।१२२९ पाय्यनिकाय्ययोः किं निपात्यते ? ॥*॥ पाय्यनिकाय्ययोरादिपत्वकत्व- निपातनम् ॥*॥ पाययनिकाय्ययोरादिपत्वमादिकत्वं च निपात्यते । मेयं निचेयमित्येवान्यत्र । [ पाय्यसानाय्य ] ॥ ऋतौ कुण्डपाय्यसंचाय्यौ ॥३।१।१३० ॥ ॥*॥ कुण्डपाय्ये यद्विधिः ॥*॥ कुण्डपाय्ये यद्विधेयः। कुण्डपाययः क्रतुः॥ अग्नौ परिचाय्योपचाय्यसमूह्याः ॥ ३।१।१३१ ॥ ॥॥ समृद्य इत्यनर्थकं वचनं सामान्यकृतत्वात् ॥ ॥ समूह्य इत्यनर्थक वचनं ॥ किं कारणं?॥ 'सामान्यकृतत्वात्। सामान्येनैवाऽत्र ण्यद्भविष्यनि- 'ऋहलोमे दिति ॥ वह्यर्थं तर्हि निपातनं कर्तव्यम् । वर्ण्यद्यथा स्यात् । ॥ ॥ वह्यर्थमिति चेदूहेस्तैदर्थत्वात्सिद्धम् ॥ ॥ वह्यर्थमिति चेदृहेस्तदर्थ- प्र.]एवमवश्यलाव्यमित्यादावपि मयूरव्यंसकादिषु निपातनादुत्तरपदप्रकृतिस्वरो भविष्यतीत्यर्थः ॥ [ ओरावश्यके ] ॥ आनाख्यो । आनाग्योऽनित्य इति चेदिति। 'घटादिष्वपि प्रसङ्ग' इति शेषः। भवेदिति । संभावने लिङ् । निपातनौद्धि रूढिराधीयते । एकयोनाविति । यो गार्हपत्यादानीयतै आहवनीयेन सहकयोनिर्दक्षिणाग्निस्तत्रेत्यर्थः । यस्तु वैश्यकुलोंदा- नीयते तत्राऽऽनाय्यशब्दो न भवति । [ आनाय्योऽनित्ये ] ॥ अग्नौ प। ऊहिविग्रहादिति । वहिसमानार्थेनोहिना ब्राह्मणे समूह्यशब्दस्य निर्वचनं कृतमित्यर्थः । [ अग्नौ परिचाय्यो ] ॥ उ.]तनादेव सिद्धे 'विस्पष्टादीनीति सूत्रमपि न कार्यमिति भावः॥ [ओरावश्यक]। आनाल्यो।सम्भावने लिङिति।दक्षिणानौ युक्तत्वं सम्भाव्यते निपातनादित्यर्थः। पाय्य। भाष्ये-पाट्यनिकाय्ययोरिति। आयादेशोऽपि निपात्यत इति बोध्यम् । ऋतौ कुण्ड । यद्विधेय इति । तेन 'यतोऽनाव' इत्याधुदात्तः, कृदुत्तरपद- प्रकृतिस्वरेण तत्सत्ता च । युक निपात्यत इत्यपि बोध्यम्। [ऋतौ कुण्डपाय्य ]॥ १ 'सामान्येन' । २ 'दुहेः' । ३ हिः क्वचिन्न । ४ 'लादेरानीयते' ।

२०६ 8 कैयट-विवरणसहित [चित्यामि त्वात्सिद्धम् ॥ उहिरपि वह्यर्थे वर्तते ॥ कथं पुनरन्यो नामान्यस्यार्थे वर्तते, कथमूहिर्वह्यर्थे वर्तते ? ॥ बह्वर्था अपि धातवो भवन्तीति ॥ अस्ति पुनः व चिन्यत्रापि ऊहिर्वह्यर्थे वर्तते ॥ 'अस्ती'त्याह ॥ ॥*॥ ऊहिविग्रहाच्च ब्राह्मणे सिद्धम् ॥*॥ ऊहिविग्रहाच्च ब्राह्मणे सिद्ध- मेतत्। समूह्यं चिन्वीत पशुकामः। पशवो वै पुरीषं पशूनेवास्मै तत्समूहति । चित्याग्निचित्ये च ॥ ३॥१॥१३२ ॥ ॥*॥ अग्निचित्या भावेऽन्तोदात्तः ॥*॥ अग्निचित्येतिभावेऽन्तोदात्तो' भवति । अनिचयनमेवाग्निचित्या ॥ [ चित्यानिचित्ये च । ण्वुल्तृचौ ॥ ३।१।१३३॥ किमर्थश्वकारः ? ॥॥ चकारः स्वरार्थः॥ * ॥ चितोऽन्त उदात्तो भवती- त्यन्तोदात्तत्वं यथा स्यात् ॥ नैतदस्ति प्रयोजनम् । एकाऽजयं तत्र नाऽर्थः स्वरार्थेन चकारेणाऽनुबन्धेन, प्रत्ययस्वरेणैव सिद्धम् ॥ विशेषणार्थस्तहि ॥ क विशेषणार्थेनार्थः?॥ 'अप्तन्तृ'जिति । 'तृ' इत्युच्यमाने मातरौ मातरः पितरौ पितरः,-अत्रापि प्राप्नोति ॥ स्वसृनप्सृग्रहणं नियमार्थ भविष्यति,- 'एतयोरेव योनिसम्बन्धयोर्नान्येषां योनिसम्बन्धाना मिति ॥ सामान्यग्रहणाविघातार्थ- स्तहि ॥ क सामान्यग्रहणाविघातार्थनार्थः ? ॥ अत्रैव ॥ यदेतत्तन्तृचोर्ग्रहण- मेतत्तु' इति वक्ष्यामि ॥ यदि 'तृ' इत्युच्यते मातरौ मातरः पितरौ पितरः] प्र.] ण्वुल्तृचौ । मातराविति । उणादिषु तृप्रत्ययान्ता मात्रादयो निपातिता इति उ] अग्नौ परि। भाष्ये-वहेर्ण्यदिति । 'समूह्यशब्दे' इति शेषः। तत्र कृते सम्प्र- सारण-दीर्घत्वे निपात नादित्यर्थः। [भाष्ये 'वर्ण्यति यथा स्या'दिति पाठः]। वहिस- मानार्थेनेति । संवाह्यमित्यग्नौ तु न, अनभिधानादिति भावः। उहिविग्रहादिति । ब्राह्मणे ऊहिना विग्रहदर्शनादूहेयर्थत्वं सिद्धमित्यर्थः॥ [अग्नौ परिचाल्योपचाग्य]॥ ण्वुल्तृचौ।भाष्ये यदि 'तृ' इत्युच्यते मातरौ मातरः अत्रापि प्रोमोतीति। न च निरनुबन्धकत्वादस्यैव ग्रहणं स्यादिति वाच्यम् , लक्ष्याऽनुरोधेन ज्ञापकसिद्ध- तयाऽनित्यत्वेन च तस्या इहाऽप्रवृत्तेरिति भावः । तृप्रत्ययान्ता इति । निरनुबन्ध- क'तृप्रत्ययान्ता इत्यर्थः। अस्यापि तृच्त्वे यथान्यासेऽप्यापत्तेः सत्त्वेन 'यदितृ इत्यु- च्यमाने इत्यस्याऽसङ्गत्यापत्तेः । भाष्ये-तृ इति वक्ष्यामीति । एवञ्च तृनो ग्रहण- सिध्यर्थं चकार इति भावः। यदि तृ इत्युच्यमाने इति । चकारकरणसामर्थ्यात्सानु- बन्धकग्रहणेऽपि निरनुबन्धकग्रहणं दुर्वारमेवेति भावः। अन्यत्राऽपि तदर्थत्वं दर्श- १अयं पाठः क्वचिन्न। २'इत्यत्रापि'1३"प्राप्नोतीति द्वितीयप्रतीकोअत्रैव प्रापोतीत्यर्थः। निरनुबन्धकत्वादस्यैव ग्रहणं स्यादिति भावः। तृप्रत्ययान्ता इति।" ४ 'त्युच्यते'। - ३अ.१पा.आ.१३४सू.] व्याकरणमहाभाष्यम् 8 २०७ .. अत्रापि प्रसज्येत ॥ स्वसृनप्तृग्रहणं नियमार्थ भविष्यति-'एतयोरेव योनि- सम्बन्धयोर्नान्येषां योनिसम्बन्धाना मिति । [तुश्छन्दसि' 'तुरिष्ठेमेयःस्थिति चोभयोर्ग्रहणं यथा स्यात् ] ॥ ॥ ण्वुलि सकर्मकग्रहणम् ॥ ॥ ण्वुलि सक- मैकग्रहणं कर्तव्यम् । इह मा भूत्-आसिता शयितेति ॥ ॥ न वा धातुमात्रा- दर्शनाण्ण्वुलः ॥*॥ न वा वक्तव्यं ॥ किं कारणम् ? ॥ 'धातुभात्रादर्शना. एण्वुलः' । धातुमात्राण्ण्वुल्दृश्यते । इमेऽस्य आसकाः । इमेऽस्य शायकाः । उत्थिता आसका वैश्रवणस्येति । ॥॥ तृजादिषु वर्तमानकालोपादानमध्यायक- वेदाध्यायाद्यर्थम् ॥ ॥ तृजादिषु वर्तमानकालोपादानं कर्तव्यम् ॥ किं कार- णम् ? ॥ 'अध्यायकवेदाध्यायाद्यर्थम्' । अध्यायकः वेदाध्यायः । अधीतवत्य- ध्येप्यमाणे वा मा भूदिति ॥ ॥ नवा कालमात्रे दर्शनादन्येषाम् ॥*॥ न वा वक्तव्यम् ॥ किं कारणम् ? ॥ 'कालमात्रे दर्शनादन्येषाम्' । कालमाने यन्येऽपि प्रत्यया दृश्यन्ते । चर्चापारः शमनीपारः गमनीपारः॥ [ण्वुल्तृचौ] । नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ॥ ३॥१॥१३४ ॥ ॥*॥ अजपि सर्वधातुभ्यः ॥ ॥ अजपि सर्वधातुभ्यो वक्तव्यः । इहापि यथा स्यात्-भवः सव इति ॥ न तर्हिदानीमिदं पचाद्यनुक्रमणं कर्तव्यम् ? ॥ कर्तव्यं च ॥ किं प्रयोजनम् ?॥ ॥ पचाद्यनुक्रमणमनुबन्धासञ्जनार्थमपवादबाध- नार्थं च ॥ ॥अनुबन्धासंजनार्थं तावत् । नदट्-नदी। चोरट्-चोरी । अप- प्र.]भावः। स्वसृनप्लग्रहणमिति। नप्तृग्रहणं नियमाथ। स्वसशब्दस्तु अन्प्रत्ययान्त- वाद्धिध्यर्थ एव । सामान्यग्रहणाऽविघातार्थत्वं चकारस्य स्थितम् । तुभ्छन्दसि तुरि- प्टेमेयःस्वित्यत्राप्येतत्प्रयोजनसद्भावात् । [ ण्वुल्तृचौ] ॥ नन्दि । श्वपचेति । कर्मण्यण्बाध्यते । न्यक्वादिषु श्वपाकशब्दस्य पाठात्पक्षे उ.]यति-इति चोभयोर्ग्रहणमिति । इदमुणादयो व्युत्पन्ना इति शाकटायनादिमते। अव्युत्पत्तिवादिमते तु प्राप्तिरेव न । 'मातयती'त्यादौ 'तृ'लोपवारणायाऽत्राऽव्युत्प- त्तिपक्ष एवाऽवश्यक इति अचि र ऋत इति सूत्रे कैयटः । किं कारणमिति । कस्माद्धेतोरित्यर्थः । हेतुमाह-धातुमात्रादित्यादिना । अन्येषामिति । ण्वुल्तृज्व्य- तिरिक्तानामित्यर्थः । एवञ्च 'वर्तमान' इति कृते दोषः । ण्वुल्तृचोस्त्वन्यत्र काले- ऽनभिधानं स्वीकार्यमिति भावः ॥ [ ण्वुल्तृचौ] ॥ नन्दिग्रहि । 'भवः सव' इति भाष्ये पाठः ॥ [ नन्दिग्रहि ] ॥ १ अयं पाठः क्वाचित्कः । २ 'धातुमात्रे' । ३ 'ध्यापक' । ४ 'ध्यापकः' । ५ 'भूतामिति' । ६ 'ह्यन्ये प्रत्ययाः' । ७ 'शर्व' 'शवः' 'सर्वः' । ८ अस्य व्याप्ता लुप्ता भवेत् । ९ 'ऋप्रत्ययान्त' ।

२०८ कैयट-विवरणसहितं [इगुपधज्ञा वादवाधनार्थम्-जारभरा, श्वपचेति । [ नन्दिग्रहि ] ॥ इगुपधशाप्रीकिरः कः ॥ ३॥१॥१३५ ॥ ॥ ॥ इगुपधेभ्य उपसर्गे कविधिर्मेषाद्यर्थः ॥ ॥ इगुपधेभ्य उपसर्गे को विधेयः ॥ किं प्रयोजनम् ?॥ 'मेषाद्यर्थः' । मेषः देवः सेवः॥ ॥न वा बुधा- दीनां दर्शनादनुपसर्गेऽपि ॥ ॥न वो को विधेयः ॥ किं कारणम् ?॥[बुधादीनां दर्शनादनुपसर्गेऽपि] । बुधादीनामनुपसर्गेऽपि को दृश्यते । बुधः भिदः युधः सिर्व इति ॥ कथं मेषः देवः सेव इति ?॥ पचादिषु पाठः करिष्यते ॥ पाघ्राध्माधेदृशः शः ॥ ३।१।१३७ ॥ ॥॥ जिघ्रः संज्ञायां प्रतिषेधः ॥॥ जिघ्रः संज्ञायां प्रतिषेधो वक्तव्यः । व्याजिघ्रतीति व्याघ्रः । इह केचिच्छस्यैव प्रतिषेधमाहुः, के चिजिघ्रभावस्य किं पुनरत्र न्याय्यम् ? ॥ शस्यैव प्रतिषेधो न्याय्यः । जिघ्रभावे हि प्रति- षिद्धे केन शे आकारलोपः स्यात् ॥ [ पाघ्रामाधेशः शः ] ॥ अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च ॥ ॥॥ अनुपसर्गानौ लिम्पः ॥*॥ अनुपसर्गानौ लिम्पेरिति वक्तव्यम् । निलिम्पा नाम देवाः ॥ ॥ गवि च विन्देः संज्ञायामुपसङ्ख्यानम् ॥ ॥ गवि. चोपपदे विन्देः संज्ञायामुपसङ्ख्यानं कर्तव्यम् । गोविन्द इति ॥ अत्यल्प- मिदमुच्यते-गवी'ति॥*॥गवादिष्विति वक्तव्यम्॥*॥ गोविन्दः । अरविन्दः॥ ज्वलितिकसन्तेभ्यो णः ॥ ३॥१॥१४० ॥ ॥*॥ तनोतर्ण उपसङ्ख्यानम् ॥ ॥ तनोतर्ण उपसङ्ख्यानं कर्तव्यम् । अवतनोतीत्यवतानः ॥ शिल्पिनि वुन् ॥ ३२॥१४५॥ ॥*॥ नृति«निरज्जिभ्यः ॥॥ नृतिखनिरञ्जिभ्य इति वक्तव्यम् । इह मा भूत् । ह्वायक इति ॥ प्र.]सोपि भवति॥इत्यु भाष्यप्रदीपे तृतीयाध्यायस्य प्रथमे पादे षष्टमाह्निकम्॥पादश्च॥ उ.] पाघ्राधमा । केचिदिति भाष्ये । 'जिघ्रः संज्ञाया'मित्यादेशेऽकार उच्चारणार्थ इति जिघ्र इति पञ्चमीति भावः।केजिजिघ्रभावस्येति। वार्तिके 'जिघ्र' इति षष्ठ्य- न्तं मन्य॑न्ते । केन शे आकारलोप इति। आतो लोप इत्यत्रार्द्धधातुक इत्यधिकारा- दिति भावः । 'नाऽभ्यस्तयोः' इत्यस्य प्राप्तिरेव न ॥ [पाघ्राध्माधेट ] ॥ अनुसर्गा । अरविन्दोऽर्द्धर्चादिः ॥ [ अनुपसर्गात् ] ॥ १ 'मेषाद्यर्थम् । २'न वा वक्तव्यः' । ३ अयं क्वचिन्न । ४ अयमंशः क्वचिन्न । ५ 'वायकः' । ६ 'मन्यते। ।

२०९ ॥*॥ ३अ.१पा.६आ.१४९सू.] व्याकरणमहाभाष्यम् , प्रसृल्वः समभिहारे वुन् ॥ ३॥१११४९॥ ॥ ॥ अ॒सृल्वः साधुकारिणि बुन्विधानम् ॥*॥ पुसल्वः साधुकारिणि वुन्विधेयः । सकृदपि यः सुष्टु करोति तत्र यथा स्याबहुशोऽपि यो दुष्टु करोति तत्र मा भूदिति॥ इति श्रीमद्भगवत्पतञ्जलिमुनिविरचिते व्याकरणमहाभाप्ये तृतीयस्याध्यायस्य प्रथमे पादे पष्टमाह्निकम् ॥ पादश्च समाप्तः ॥३॥१६॥ कर्मण्यण ॥ ३॥२॥१॥ कर्मणि निर्वय॑मानविक्रियमाणे चे ॥॥ कर्मणि निर्वय॑मान- विक्रियमाणे चेति वक्तव्यम्।इह मा भूत् आदित्यं पश्यति, हिमवन्तं शृणोति ग्रामं गच्छतीति ॥॥ कर्मणि निय॑मानविक्रियमाणे [इति] चेद्वेदाध्यायादीनामु. पसङ्ख्यानम् ॥ ॥ कर्मणि निर्वयंमानविक्रियमाण इति चेद्वेदाध्यायादीनामुप- सङ्ख्यानं कर्तव्यम् । वेदाध्यायः चर्चापारः शमनीपारः ॥ ॥ यत्र च नियुक्तः प्र.] कर्मण्यण् । निर्वच॑मानेति । हरिणा निर्वादीनां विशेषो दर्शितः । 'सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी। यस्य नाश्रीयते तस्य निर्वय॑त्त्वं प्रच- क्षते॥यस्योपादानकारणं नास्ति तन्निर्वयं,यथा-'संयोगं करोती तिायस्यापि संदप्यु- पादानकारणं न विवक्ष्यत तन्निर्वयं, यथा-'घटं करोती तिायदा तूपादानकारणमेव परिणामित्वेन विवक्ष्यते-'मृदं घटं करोती'ति, तदा विकार्य कर्म। भेदविवक्षायां तु 'मँदा घटं करोती'ति निवर्त्यमेव कर्म । विकार्यमपि द्विविधम् । 'प्रकृत्युच्छेदसं- भूतं किं चित्काष्टादिभस्मवत् । किं चिद्गुणान्तरोत्पत्त्या सुवर्णादिविकारवत्'॥ इति॥ प्राप्यमपि-'क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते। दर्शनादनुमानाद्वा उ.] घुसल्वः । साधुकारिणीति । समभिहारग्रहणस्थाने इदं कार्यमित्यर्थः ॥ इति भाज्यमदीपोझ्योत तृतीयाऽध्यायस्य प्रथमे पादे षष्ठमाह्निकम्पादश्चायं समाप्तः॥ कर्मण्यण । यम्य सती परिणामिनी प्रकृति श्रीयते यस्य चाऽविद्यमाना तन्निवर्त्यमित्युच्यत इत्यर्थः । तदेवाह-यस्येति । कार्यसामानाधिकरण्येन प्रतीयमानं नास्तीत्यर्थः। यथा 'मृदं घटं करोती'ति । विवक्ष्यत इति । 'कार्याऽभेदेने'तिशेषः। तदा विकार्य कर्मेति । अवस्थाद्वयाऽनुगमेन पूर्वाऽऽकारपरित्यागेनाऽऽकारान्तर- प्राप्त्यवगमादिति भावः । भेदविवक्षायामिति । कर्मणः सकाशादुपादानस्य भेद- विवक्षायामित्यर्थः। मृदा घटमिति । करणत्वविवक्षायां तृतीया। नो चेत्संबन्ध- सामान्यविवक्षायां 'मृदो घट'मिति षष्ठीति बोध्यम् । विकार्यमपीति । पूर्वरूपस्य सर्वात्मना परित्यागतदभावाभ्यामित्यर्थः । दर्शनादिति । प्रत्यक्षादित्यर्थः । निर्वत्यै खरूपलाभ एव क्रियाकृतो विशेषो, विकार्ये विकाररूप एव सः । घटं करोति, १लुप्तमिदम् ।२ निर्वय॑मानविक्रियमाणे इतिवक्त'। ३इदं क्वचिन्न ।४ 'मृदो'।५'वा'। १४ २१० 8 कैयट-विवरणसहितं [कर्मण्यण ॥*॥ यत्र च नियुक्तस्तत्र चोपसङ्ख्यानं कर्तव्यम् । छत्रधारः द्वारपालः । ॥॥हग्रहिनीवहिभ्यश्च॥*॥हृाहिनीवहिभ्यश्चेति वक्तव्यम्। हृ-भारहारः[ ग्रहि-कमण्डलुग्राहः । [ग्रहि]॥ नी-उष्ट्रप्रणायः।।[ 'नी] वहि-भारवाहः । ॥॥ अपरिगणनं वा ॥*॥न वाऽर्थः परिगणनेन ॥ कस्मान्न भवति-आदित्यं पश्यति हिमवन्तं शृणोति ग्रामंगच्छतीति ?॥॥*॥ अनभिधानात् ॥*॥ अन- भिधानादेव ने भविष्यति ॥*॥ अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेन ॥*। अकारादनुपपदात्कर्मोपपदोभवति विप्रतिषेधेन । अनुपपदस्यावकाशः-पच- तीति पचः। कर्मोपपदस्याऽवकाशः कुम्भकारः-नगरकारः। ओदनपाच उभयंप्राप्नोति। कर्मोपपदो भवति विप्रतिषेधेनाअनुपपदस्यावकाशः-विक्षिपः विलिखः । कर्मोपपदस्य स एव । काष्टंभेद उभयं प्राप्नोति । कर्मोपपदो प्र.]तत्प्राप्यमिति कथ्यते ॥इति॥ तत्र प्राप्यत्वं सर्वस्य कर्मणोऽस्तिक्रियया प्राप्य- माणत्वात्।अवान्तरविवक्षायां तु त्रैविध्यमुच्यते। वेदाध्याय इतिानित्यो वेदः स्थित एवाधीयते इति निर्वय॑त्वाऽभावः । छत्रधार इति । वेदाध्यायादिग्रहणेन च्छत्रधा- रादीनां ग्रहणं नास्ति,प्रकारार्थेनाऽऽदिशब्देन सदृशानां शास्त्राध्यायादीनामेव शब्दानां ग्रहणात् । तत्प्राप्यमेव न विकार्यम् । नहि धारणादृवं छत्रस्य कश्चित् क्रियाकृतो विशेषः प्रत्यक्षानुमानपरिच्छेद्योऽस्ति । अनभिधानादिति । नित्यानां शब्दानामिद- मन्वाख्यानमात्रम् । न चादित्यं पश्यतीत्याद्यर्थप्रतिपादनायादित्यदर्शादयः शब्दा लोके प्रयुज्यन्त इति शास्त्रेणापि साधुत्वेन नाऽनुमास्यन्त इत्यर्थः । कर्मोपपदस्थे- ति । यदा गणपठितधातुविषय एवाऽच्प्रत्ययम्तदायं विप्रतिपंधी यदा तु सर्वधातुवि- षयोऽच्प्रत्ययस्तदा येन नाप्राप्तिन्यायादण्प्रत्ययस्यापवादलादुत्सर्गापवादयोर्विप्रतिषेधो- नुपपन्नः । तथा च करोतेरच्प्रत्ययः कृतः 'शिवशमरिष्टस्य कर' इति । ततश्च कुम्भकारादिरपि नाऽणोऽवकाशः, तत्राप्यन्प्रत्ययप्रसङ्गात् । अत एव भाष्यकार उ.]स्वर्णं कुण्डलं करोति,काप्टं भस्म करोति। अनुमानाद्यथा-पुत्रः मुग्वं करोतीति । अत्र सुखरूपलाभो मुखप्रसादाऽनुमेयः । नित्यः। तत्तत्कल्पेऽविच्छिन्नपार- पर्य इत्यर्थः । ननु 'वेदाऽध्यायादी' नामित्यादिनैव सर्वसङ्ग्रहे सिद्ध 'यत्र च नियुक्त' इत्यादेवंयर्थ्यमत आह-वेदाऽध्यायादीनामिति । वस्तुतः प्रपञ्चार्थमेव तानीति बोध्यम् । शास्त्रेणाऽपि-'कर्मण्य णिति सामान्यशास्त्रेणापि। ननु सर्वधातुभ्योऽज्वि- धानेन 'कुम्भकार' इति कथमणोऽवकाश इत्यत आह-यदेति । सर्वधातुविषयश्चा- ऽच्प्रत्यय आवश्यक इत्याह-तथा चेति । उदाहरणान्तराणि-काऽण्विपयाणि ॥ १ अयं पाठः क्वचिन्न । २ 'परि'। ३ 'दत्र' 'देवात्र'। ४ 'इहोभयं प्राप्नोति- ओदनपाचः' । ५ 'इहोभयं प्राप्नोति-काष्ठभेदः' । ६ 'नुशास्यन्त' ।

३अ.२पा.आ.१सू.]] ® व्याकरणमहाभाष्यम् ® भवति विप्रतिषेधेन । अनुपपदस्यावकाशः-जानातीति ज्ञः। कर्मोपपदस्य स एव । इहोभयं प्राप्नोति-अर्थज्ञः । कर्मोपपदो भवति विप्रतिषेधेन ॥ नैष युक्तो विप्रतिषेधः :। अनुपपदस्तृतीयः । ण्वुल्तृजचः । तेषां णः । णस्य कः । स यथैव कोणं बाधते एवं कर्मोपपदमपि बाधेत॥कर्मोपपदोऽपि तृतीयः । ण्वुल्तृजचः । तेषामण् । अणः कः । उभयोस्तृतीययोर्युक्तो विप्रति- षेधः ॥ अनुपपदस्यावकाशः-लिम्पतीति लिम्पः। कर्मोपपदस्य स एव ॥ कुंड्यलेप उभयं प्राप्नोति । कर्मोपपदो भवति विप्रतिषेधेन ॥ नैष युक्तो विप्र- तिषेधः । अनुपपदस्तृतीयः । ण्वुल्तृजचः । तेषां कः । कस्य शः । स यथैव शः कं बाधते एवं कर्मोपपदमपि बाधत ॥ का तर्हि गतिः ? ॥ 'मध्येऽप. वादाः पूर्वान् विधीनबाधन्ते [ नोत्तरा'न् ] इत्येवं शः कं बाधिष्यते कर्मोप. प्र.]उदाहरणान्तराणि काष्टभेदादीनि विप्रतिषेधस्य वक्ष्यति । काष्टभेद इति। सर्व धातुभ्यो विधानादच उत्सर्गस्य काऽणावपवादो तयोर्विप्रतिषेधादणेवात्र भवति। स यथैव क इति । प्राप्तिमात्रस्य बाध्यत्वमपेक्ष्यैतदुच्यते । यदा तु प्राप्तिविशेषोऽपे- श्यते तदा तु येन नाप्राप्तिन्यायाण्णस्यैव को बाधको न तु कर्मोपपदस्याऽणः । कः उ.] काऽणाविति । 'इगुपधेति कः । 'कर्मण्यण्' । भाष्ये-अर्थज्ञः कर्मोपपद इति । विप्रतिषेधेन प्राप्तमणं वाधिला 'आतोऽनुपसर्ग' इति 'क' इति तात्पर्यम् । एवं]तत्तात्पर्यमजानान एकदेश्याह-नैपयुक्त इति। ज्ञाविषये काऽणोर्य इत्यर्थः। तेपांण इति । 'श्यायधे ति विहितः । तत्र हि 'श्या-आदिति च्छेदः। स यथै- वेति। बाध्यसामान्यचिन्तयाऽणोऽपि स बाधक इत्यर्थः सिद्धो विप्रतिषेधं विनाऽपी- त्यर्थः । तदाह-प्राप्तिमात्रस्यति । न तु कर्मोपपदस्येति । एवञ्च विप्रतिषेधो युक्त एवेति भावः । नन्वर्थज्ञ इत्यत्राऽणं विधातुं न 'क'प्रत्ययेन विप्रतिषेध उच्यते किन्तु 'आतोऽनुपसर्गे क' इति कं विधातुम्। एवञ्च 'इगुपधेति कस्याऽणा बाधेऽप्यातोऽनुपसर्ग इति केन तृतीयकक्ष्याप्राप्तस्येगुपधेति कस्य विप्रतिषेधः सम्भ- वत्येवेत्याह सिद्धान्त्येकदेशी-कर्मोपपदोऽपीति । अणः क इति । 'आतो- ऽनुपसर्ग' इत्ययमिति भावः। उभयोरिति । सोपपदनिरुपपदयोः कयोरित्यर्थः । कर्मोपपदस्य कस्य विषय इति । अनाकारान्तत्वादिति भावः । किन्तु 'गोद' इत्यवकाश इति वक्तुं युक्तमिति तात्पर्यम् । क्रममादृत्येति । 'अर्थज्ञः कर्मोपपदो भवति विप्रतिषेधेने'त्युत्तरं 'नैष युक्त' इत्यादियुक्तो विप्रतिषेध'इत्यन्तं भाष्यन्त्वेकदझ्युक्तिरित्युक्तमेव । अथ विप्रतिषेधस्योदाहरणान्तरमाह-अनुपपद- स्येत्यादिना । भाष्ये-का तहि गतिरिति तृतीयस्य प्रश्नः । समासे पूर्वपद- १ 'अर्थज्ञ उभयं प्राप्नोति'।२ 'तस्य'1३'इहोभयं प्राप्नोति कुड्यलेपः'।४ कः शं'।

२१२ * कैयट-विवरणसहितं [कर्मण्यण पदं न बाधिष्यते ॥ अनुपपदस्थावकाशः-सुग्लः सुम्लः । कर्मोपपदस्य स एव । इहोभयं प्राप्नोति-गोसंदायः वडवासंदायः । कर्मोपपदो भवति विप्र. तिषेधेन ॥ नैष युक्तो विप्रतिषेधः। अनुपपदस्तृतीयः । ण्वुल्तृजचः । तेषां गः । णस्य कः । स यथैव को गं बाधते एवं कमापपदमपि बाधेत ॥ का तर्हि गतिः? ॥ पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते [ नोत्तरीन् ] इत्ये- वमयं को गं बाधिष्यते कर्मोपपदं न बाधिप्यते ॥ ॥ शीलिकामिभक्ष्याचरिभ्यो णः, पूर्वपदप्रकृतिस्वरं च ॥ ॥ शीलिकामिभक्ष्याचरिभ्यो णो वक्तव्यः,पूर्वपद- प्रकृतिस्वरत्वं च वक्तव्यम् । शीलि-मांसशीलः,मांसशीला । शीलि।कामि- मांसकामः मांसकामा । कोमि ॥ भक्षि-मांसभक्षः मांसभक्षा ॥ भक्षि ॥ आचरि-कल्याणाचारः कल्याणाचारा ॥-॥*॥ ईक्षिक्षमिभ्यां च ॥॥ ईक्षिक्षमिभ्यां चेति वक्तव्यम् । सुखप्रतीक्षः सुखप्रतीक्षा । कल्याणक्षमः।। कल्याणक्षमा॥ किमर्थमिदमुच्यते?।। पूर्वपदप्रकृतिस्वरत्वञ्च वक्ष्यामि, ईकारश्च मा भूदिति ॥ नैतदस्ति प्रयोजनम् । इह यो मांसं भक्षयति मांसं तस्य भक्षो भवति । [तत्र] योऽसौ भक्षयतेरच्तदन्तेन बहुव्रीहिः॥ एवं तर्हि सिद्धे सति यत्कर्मोपपदं णं शास्ति तज्ज्ञापयत्याचार्यः 'समानेऽर्थे केवलं विग्रह- प्र.]पुनरनयोः प्रत्यययोर्विशेषः?। उच्यते। कर्मोपपदे के सति नित्यसमासो भवति । अकर्मोपपदे तु विकल्पेन षष्टीसमासः स्यात् । नन्वर्थज्ञ इत्यत्रातोऽनुपसर्गे क इति कः प्राप्नोति न त्वण्प्रत्ययः,तत्कथमुच्यते 'कर्मोपपदस्य स एवेति,न हि कुम्भकारः कपिपदस्य कस्यै विषयः।एवं तर्हि काऽणोविप्रतिषेधे परत्वादण कं बाधते,अणमपि कोपपदः कोऽपवादत्वादिति क्रममादृत्यैतदुक्तमित्यदोषः । मांसकाम इति । मांसशब्दः'स'प्रत्ययान्तोऽन्तोदात्तः। कल्याणशब्दो 'लघावन्ते द्वयोश्च बह्वषो गुरु'- रिति मध्योदात्तस्तत्र कृदुत्तरपदप्रकृतिवरे प्राप्ते पूर्व पदप्रकृतिस्वरो विधीयते । भक्षयतेरजिति। एरजण्यन्ताना'मित्येतत्तु मुनित्रयस्य मते नास्ति।कल्प्यादिभ्यः? उ.]प्रकृतिस्वरत्वं दर्शयितुं पूर्वपदस्वरान्दर्शयति-मांसेति । 'एकस्मिन्नन्ते लघौ द्वयोर्वाऽन्तयोर्लध्वोः सतोर्बह्वषः बह्वच्कस्ये'त्यर्थः । भाष्ये-ईकारश्च माभू- दिति । अतो णः कृत इति भावः । मांसं तस्य भक्ष इति । भक्षेः कर्मण्यच् । 'घजजपाः पुंसि' इति नित्यं पुंस्त्वम् । एतेन 'इदं भावघविषयमेवे'त्यपास्तम् । भक्षणं भक्ष इतिभावेऽजिति भावः। कर्माऽजन्तेन समानाधिकरणबहुव्रीहिस्तु ना- ऽनभिधानात् । तच्च तवाऽप्यावश्यकमिति बोध्यम् । भाष्ये तज्ज्ञापयत्याचार्य इति । नन्वणि सति 'मांसभक्षीति प्रयोगः स्यादिति तद्वारणेन चरितार्थ वार्तिक १'वडवासंदाय उभयं प्राप्नोति'। गोसंदाये उभयं'।२ इदं क्वचिन्न ।३ चः क्वचिन्न ।

३अ.२पा.आ.१सू.] & व्याकरणमहाभाष्यम् 8 २१३ भेदाद्यत्र कर्मोपपदश्च प्रामोति बहुव्रीहिश्च, कर्मोपपदस्तत्र भवतीति॥ किमेतस्य ज्ञापने प्रयोजनम्?॥काण्डलावःशरलाधः।काण्डानिलावोऽस्ये- ति बहुव्रीहिर्न भवति॥भवति[तु]बहुव्रीहिरपि,-मांसे कामोऽस्य मांसकामः, मांसकामक इति वा ॥*॥ न त्वम्भोऽभिगेमा ॥॥ न विदं भवति अम्भोऽ- मिगमोऽस्या [अम्भोभिगमा] इति॥ किं तर्हि?॥ अम्भोभिगामीत्येव भवति । काण्डलावेऽपि च विग्रहाऽभावान ज्ञापकस्य प्रयोजनं भवतीति ॥ नैषोऽस्ति विग्रहः-काण्डानिलावोऽस्येति ॥*॥ अन्नादायेति च कृतां व्यत्ययश्छन्दसि॥* ॥ अन्नादायेति च कृतां व्यत्यय छन्दसि द्रष्टव्यः।अनादायाऽनपतये य आहुति- मन्नादी कृत्वा ॥ [ कर्मण्यण् ] ॥ आतोऽनुपसर्गे कः ॥ ३२॥३॥ ॥*॥ कविधौ सर्वत्र प्रसारणिभ्यो डः ॥*॥ कविधौ सर्वत्र प्रसारणिभ्यो प्र.प्रतिषेध एवास्ति । ननु च बहुव्रीहौ सति बहवो भक्षा अस्य बहुभक्ष इत्यत्र 'वहोर्नवदुत्तरपदभूम्नी'त्वन्तोदात्तत्वं प्राप्नोतीति पूर्वपदप्रकृतिम्वरो न सिध्यति । नैष दोषः । भक्षणं भक्षः, बहुषु भक्षोऽस्येत्येवं व्यधिकरणपदो बहुव्रीहिः करिष्यते । तत्रोत्तरपदभूमाऽभावाद्वहुव्रीहौ प्रकृत्येति खरो भविष्यति। काण्डानि लावोऽस्येति। लावयतेरच् [प्रत्ययः] भवति बहुव्रीहिरपीतिातेन ज्ञापनस्य प्रयोजनाऽभावदण्बाधना- र्थमेवेदं वक्तव्यमित्यर्थः । न त्वम्भोभिगमेति । तेनाऽत्रानभिधानाद्बहुव्रीहिर्न भव- तीति भावः । नैषोस्तीति । काण्डानि लुनातीति प्रकृत्यर्थविवक्षायामभावाण्णिचः । लूयत इति लवः, काण्डानि लवोऽस्येति विग्रहेण भाव्यमिति भावः। अन्नादायेति । अन्नमत्तीत्यणः प्रसङ्गेऽच्प्रत्ययः क्रियते। तेनान्न अदायेत्येवमवग्रह उपपद्यते ॥ उ.]कथं ज्ञापकमिति चेत् ,अनभिधानादणभावंमन्यतेोलावयतेरच्प्रत्यय इतिानिवृत्त- प्रेषणप्रकृतिकप्राकृतार्थणिजन्तादच्प्रत्यय इत्यर्थः । अन्यथा 'काण्डानि लुनाती'त्य- नेन समानार्थत्वं न स्यात् 'काण्डानि लाव' इत्यत्र 'लाव' इति जातावेकवचनं बोध्यम् । अण्बाधनार्थमेवेति। अनभिधानेन प्रत्याख्यानन्तु न चमत्कारीति भावः । भाष्ये-न त्वम्भोऽभिगमति अम्भोऽभिगमा तु नेष्यते,तस्मादनभिधानमेव तद- र्थमाश्रयणीयम् , नत्वेकप्रयोजनार्थ सामान्यज्ञापकाश्रयणमिति भावः । लयत इति लव इति । न च निवृत्तप्रेरणादिति प्रागुक्तरीत्या तदर्थो लावशब्दोऽप्यस्तीति वाच्यं, सा हि कल्पना क्वचिदिष्टप्रयोगसिद्धये न त्वनिष्टायेति भावः । चतुर्थ्यन्त- प्रयोगे एव व्यत्ययोक्तस्तत्राऽविशेषोऽणचोरत आह-अवग्रह इति । 'न लक्षणेन पदकारा अनुवा' इत्यादि भाष्येणाऽवग्रहार्थताया लक्षणस्य दूषितत्वादिदं व्यर्थ- १ इदं क्वचिन्न । २ इदं भाष्यवार्तिकमित्यन्ये । ३ 'मन्नादां हुला' ।

8 कैयट-विवरणसहितं. [आतोनुपसर्ग डो वक्तव्यः । ब्रह्मज्य इति ॥ किमुच्यते सर्वत्रेति ?॥ अन्यत्रापि नावश्यमि- हैव ॥ काऽन्यत्र ?॥ आह्वः प्रत इति॥॥के हि संप्रसारणप्रसङ्गः॥ ॥ के हि सति संप्रसारणं प्रसज्येत । संप्रसारणे कृते संप्रसारणपरपूर्वत्वे चोवडादेश 'आहुव' इत्येतद्रूपं प्रेसज्येत॥स तर्हि वक्तव्यः?॥न वक्तव्यः। अस्त्वत्र संप्रसा- रणं, संप्रसारणे कृते आकार लोपस्तस्य स्थानिवद्भावादुवदेशो न भविष्य- ति ॥ पूर्वत्वे कृते प्राप्नोति। एवन्तौंदमिह सम्प्रधार्यम् आकारलोपः क्रियतां पूर्वत्वमिति, किमत्र कर्तव्यम् ? ॥ परत्वादाकारलोपः॥ न सिध्यति । अन्तर- गत्वात्पूर्वत्वं प्राप्नोति ॥ एवं तर्हि वार्णादाङ्ग बलीयो भवतीत्याकारलोपो भ. विष्यति ॥ एवं तीदमिह संप्रधार्यम् आकारलोपः क्रियतां संप्रसारणमिति किमत्र कर्तव्यम् ? ॥ परत्वादाकारलोपः ॥ नित्यं संप्रसारणं । कृतेऽप्याकार- लोपे प्रामोत्यकृतेऽपि प्राप्नोति ॥ आकारलोपोऽपि नित्यः। कृतेऽपि संप्रसारणे प्रामोत्यकृतेऽपि प्राप्नोति ॥ अनित्य आकारलोपः, न हि कृते संप्रसारणे प्रा- मोति । अन्तरङ्ग[हि पूर्वत्वं बाधते। यस्य लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् ॥ न च संप्रसारणमेवाकारलोपस्य निमत्तं विहन्ति । अवश्यं लक्ष- णान्तरं पूर्वत्वं प्रतीक्ष्यम् । उभयोर्नित्ययोः परत्वादाकारलोपः । आकारलोपे कृते संप्रसारणं । संप्रसारणे कृते यणादेशेन सिद्ध रूपम्-आह्वः प्रह्व इति ॥ एवमपि न सिध्यति । योऽनादिष्टादचः पूर्वस्तस्य विधि प्रति स्थानिवद्भावः । प्र.]आतोऽनुपस ॥ ब्रह्मज्य इति । ब्रह्म जिनातीति डप्रत्ययः। 'वार्णादाङ्गंवलीय' इत्युक्ते यो ब्रूया समानाश्रयानवाविषयमेतदिति,तं प्रत्याह-एवं तीति । नित्य- मिति । संप्रसारणे कृते पूर्वत्वेन भाव्यमित्याकारलोपस्याऽनित्यत्वं मन्यते । अन्तरङ्ग- मिति। 'वार्णादाझं बलीय' इत्येतत्तु समानाश्रयविषयमेवेत्युक्तम् । एवमपि न सि. ध्यतीति । 'आह्व इत्यादिरूप'मिति शेषः । योऽनादिष्टादिति । उकारश्चानादिष्टा- उ.]मित्यनेन सूचितम् ॥ [कर्मण्यण ] ॥ आतोऽनुपसर्गे॥ प्रसारणिनः-संप्रसारणभाजः। ब्रह्मज्य इति। के हि सम्प्र- सारणे इयङ् स्यादिति भावः । भाष्ये-किमुच्यते सर्वत्रेति । सर्वत्रेत्यस्य 'क' मात्रे इत्यर्थः । तमाह-अन्यत्राऽपीति । 'आतश्वोपसर्गे' इत्यत्राऽपीत्यर्थः । एव- न्तर्हि वार्णादिति । 'इयायेत्यादिसिद्धयेऽस्या विभिन्ननिमित्तकेऽपि प्रवृत्तिराव- श्यकीति भावः । समानाश्रयेति । तदनाश्रयणेऽप्याहेति वक्तुमुचितम् । एवञ्च 'एवन्तही ति 'किञ्चे'त्यर्थकमिति भावः । भाष्ये-अन्तरङ्गं पूर्वत्वमिति । यद्यपि वार्णपरिभाषयाऽपि आलोपस्य नित्यत्वं वक्तुं शक्यन्तथापि तदनाश्रयणेनाऽस्य १ इतिः क्वचिन्नार ‘णस्य पूर्व'।३ स्यात् ।। क्वचिन्न। ५ 'यमित्यु'। ६ नैवाऽस्य ।

३अ.२पा.१आ३सू.] & व्याकरणमहाभाष्यम् ॐ २१५ आदिष्टाश्वेषोऽचः पूर्वो भवतीति । एवं तर्हि आकारलोपस्याऽसिद्धत्वादुवडा- देशो न भविष्यति ॥ इहापि ताकारलोपस्याऽसिद्धत्वादुवडादेशो न स्यात् जुहुवतुः जुहुवुरिति॥ अस्त्यत्र विशेषः,-अकृतेऽत्राऽत्वे पूर्वत्वं भवति ॥ इद- मिह संप्रधार्यम्-आत्वं क्रियतां पूर्वत्वमिति,-किमत्र कर्तव्यम् ?॥ परत्वात्पूर्व- त्वम् ॥ न सिध्यति । अन्तरङ्गत्वादात्वं प्राप्नोति ॥ एवं तहीदमिह संप्रधा- र्यम् , आत्वं क्रियतां संप्रसारणमिति, किमत्र कर्तव्यम् ?॥ परत्वादात्वम् ॥ नित्यं संप्रसारणं। कृतेप्यात्वे प्राप्नोत्यकृतेऽपि ॥ आत्वमपि नित्यम् । कृतेऽपि संप्रसारणे प्राप्नोत्यकृतेऽपि प्राप्नोति ॥ अनित्यमात्वम् । नहि कृते संप्रसा- रणे प्राप्नोति, परत्वात्पूर्वत्वेन भवितव्यम्॥ यस्य लक्षणान्तरेण निमित्तं विह- न्यते न तदनित्यम् ॥ न च संप्रसारणमेवात्वस्य निमित्तं विहन्ति । अवश्यं लक्षणान्तरं पूर्वत्वं प्रतीक्ष्यम् । उभयोर्नित्ययोः परत्वादात्वम्,आत्वे कृते संप्र- सारणम् ॥ एवं तर्हि पूर्वत्वे योगविभागः करिष्यते-[ 'संप्रसारणात् ] । प्र.]दचः पूर्वो न भवति। नन्वनादिष्टादचः पूर्वो वकार इति तदादेशस्यापि स्थानि- वद्भावादनादिष्टादचः पूर्वत्वं भविष्यति । नैतदस्ति । शास्त्रीयकार्यसिद्धये स्थानि- वद्भावो विधीयते न त्वनादिष्टादचः पूर्ववे लौकिके। आकारलोपस्यासिद्धत्वा- दिति । 'असिद्धवदत्राऽभा'दित्यनेनेति भावः । जुहुवतुरिति । हो लिटि ह्वः संप्रसारणमभ्यस्तस्य चेति संप्रसारणे रूपम् । परत्वादात्वमिति । 'अशितीति पर्युदासाश्रयेणैतदुक्तं । प्रसज्यप्रतिषेधे त्वनैमित्तिकत्वादात्वमन्तरङ्गं, न चाऽन्त- रङ्गबहिरङ्गयोर्युक्तो विप्रतिषेधः। एवं तहीति । 'एङः पदान्तादती'त्ययं योगो विभ- उ.ग्रन्थस्य प्रवृत्तंर्न दोषः। प्रकारान्तरेण तदुपपादयितुमाह-यस्येति। नन्वनादि- टादच इति । अत एव 'न पदान्त'सूत्रस्थ सवर्ण' ग्रहणं भगवता प्रत्याख्यातम् । 'न धानु'सूत्रस्थं भाष्यन्तु तत्रैव योजितमिति न तद्विरोध इति बोध्यम् । समा- धानान्तरस्य सम्भवादनित्यमिदं नाश्रितमिति तत्त्वम् । 'हु'धातुना सिद्धमिदं रूप- मत आह-ह्वेज इति । 'वार्णादाङ्ग बलीय' इति पूर्वरूपं वाधित्वा लोप इति पक्षेऽ- प्यस्याऽसिद्धिर्बोध्या। भाष्ये-अन्तरङ्गत्वादात्त्वमिति। एवञ्चाऽऽत्वे पूर्वरूपलोपयोः प्राप्तयोर्वार्णादिति न्यायेन लोपे तस्य स्थानिवत्त्वादुवस्यादिति भावः । एवन्तीति प्राग्वदेव किञ्चेत्यर्थे । प्रसज्यप्रतिषेधे स्विति । 'वचिस्वपी'त्यत्र कितीत्यपि यदि विषयसप्तमी तदा भाष्यं सम्यगंव । भाष्ये-आत्त्वे कृते सम्प्रसारणमिति । आत्त्वे कृते लोपे कृते सम्प्रसारणे कृते प्राप्तोवढि स्थानिवत्त्वाऽभावेऽप्यसिद्धत्वादुव- कोऽसिद्धिरिति भावः । समाधत्ते-एवन्तीति । योगविभागसामर्थ्यादन्तरङ्गम- १ 'भवति' । २ 'किमिह' । ३ इदं क्वचिन्न । ४ 'न त्वना' । ..

२१६ कैयट-विवरणसहितं & [ आतोऽनुपसर्गे , संप्रसारणात्परः पूर्वो भवति । तत 'एङः'। एडश्च संप्रसारणात्पूर्वो भवति ॥ किमर्थमिदमुच्यते?॥ अकृते आत्वे पूर्वत्वं यथा स्यात् । ततः ‘पदान्तादति' । 'एङ' इत्येव॥ इहापि तीकृत आत्वे पूर्वत्वं स्यात्-आह्वः प्रह्व इति॥अस्त्यत्र विशेषः। आकारान्तलक्षणः कैविधिः, तेनाऽनेनाऽवश्यमात्वं प्रतीक्ष्यम् । लिट् पुनरविशेषेण धातुमात्राद्विधीयते ॥ ॥*॥ नित्यं प्रसारणं हो यण्वार्णादाङ्गं न पूर्वत्वम् । योऽनादिष्टादचः पूर्वस्तत्कार्ये स्थानिवत्वं हि ॥१॥ प्रोवाच भगवान्कात्यस्तैनाऽसिद्धिर्यणस्तु ते । आतः को लिण् नैङः पूर्वः सिद्ध आह्वस्तथा सति ॥२ ॥१॥ प्र.]ज्यते 'एङ'इति। तेनात्वं बाध्यते पूर्वत्वविधानेनआकारान्तलक्षण इतिाअशि- तीति पर्युदासाश्रयेऽपि ह्वावामश्चेति ज्ञापकादाकारान्तलक्षणे कप्रत्यये कर्तव्ये पूर्व- मेवात्वं भवति, ततस्तन्निमित्तःप्रत्यय इति भावः।उक्तार्थसङ्ग्रहश्लोको-नित्यं प्रसारण- मिति । कृताऽकृतप्रसङ्गित्वादिति भावः । तत्र कृते पूर्वत्वं क्रियतामाकारलोप इति वार्णादाङ्गमिति वचनादाकारलोपो भवति न तु पूर्वत्वं, तत्राकारलोपस्य स्थानिवत्त्वा- दुवङ्गास्तीति हो यण्प्रवर्तत इत्यर्थः।इतर आह-योऽनादिष्टादिति। तेनासिद्धिरिति। 'असिद्धवदत्राभा'दित्याकारलोपस्येत्यर्थः। तस्याऽसिद्धत्वाद्यणादेशो भवत्वित्यर्थः। जुहु- वतुरित्यत्रापि तथैव यस्यादित्याह-एङः पूर्व इति । 'आई' इत्यत्रापि तथैव पूर्वत्वं स्यादित्याह-आतः क इति । लिण्नेति। लिड् धातुमात्राद्विधीयते न त्वाका- रान्तादेवेत्यर्थः । [आतोऽनुपसर्गे कः ॥ उ.प्यात्त्वं बाधित्वा पूर्व सम्प्रसारणं पूर्वत्वञ्चेत्युवसिद्धो 'जुहुवुरित्यादाविति भावः। पर्युदासाश्रयेऽपीति । अन्यथाऽन्योन्याश्रयः स्यादिति भावः । आभीयाऽसिद्धाऽ- नित्यत्वेनाऽपि 'जुहुवतु'रिति सिध्यति । हः के कृते आलोपात्पूर्व सम्प्रसारणं, यतो नित्यम् । नित्यत्वं दर्शयति-कृतेति । एवञ्च हो यण्फलतीत्यर्थः । वार्णादित्यादि व्याचष्टे-तत्र कृते इति । 'यतोऽनादिष्टादचः पूर्वत्वे स्थानिवत्त्वमतो भगवान् कात्यः प्रसारणिभ्यो डं प्रोवाचे'त्यन्वयः । प्रत्याख्यानवाद्याह-तेनाऽसिद्धिर्यणस्तु त इति । तेन-आभा'दिति सूत्रेण,यतोऽसिद्धिरतो यणस्त्वित्यर्थः। प्रोवाच भगवान् कात्य' इत्युक्त्या 'ड'विधानस्य 'आह्व'सिध्यर्थमावश्यकता ध्वनिता । तथा चेदमेव ज्ञापकमीदृशे विषये आभीयाऽसिद्धत्वाऽभावस्य, वार्णादाङ्गमित्येतदभावस्य वेति जुहुवतुरित्यादिसिद्धिः।योगविभागस्य तवाऽपि कर्तव्यत्वेन गौरवस्य तदवस्थत्वादिति च ध्वनितम् । एवञ्च 'तेनाऽसिद्धिरित्युक्तिरेकदेशिनः प्रौव्येति च ध्वनितम् । १ ‘पदान्तादिति' २ 'कप्रत्ययविधिः' । ३ 'पूर्वत्वं हि' । ४ 'प्रहः' । ५ न्तादि' ..

३१.२पा.१आ.४सू.] ® व्याकरणमहाभाष्यम् 8 सुपि स्थः ॥ ३॥१४॥ ॥*॥ सुपि स्थो भावे च ॥॥ सुपि स्थ इत्यत्र भावे चेति वक्तव्यम् । इहापि यथा स्यात्-आखून्थो वर्तते, श्येनोत्थः, शलभोत्थः ॥ तत्तर्हि वक्तव्य- म् ? ॥ न वक्तव्यम् ॥*॥ योगविभागात्सिद्धम् ॥*॥ योगविभागः करिष्यते । [ 'आतोऽनुपसर्गे कः' ] । आतोनुपसर्गे को भवति । ततः 'सुपि'। सुपि चाऽऽतः को भवति । कच्छेन पिति कच्छपः । कटाहेन पिबति कटाहपः । द्वाभ्यां पिबति द्विपः ॥ ततः स्थः' । स्थश्च को भवनि सुपीति ॥ किमर्थमि- दम् ?॥ भावे यथा स्यात् ॥ कुतो नु खल्वेतद्भावे भविष्यति न पुनः कर्मा- दिष्वपि कारकेष्विति ?॥ योगविभागादयं कर्तुरपकृष्यते । न चान्यस्मिन्नर्थे आदिश्यते । 'अनिर्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्तीति स्वार्थ भविष्यति । तद्यथा 'गुप्तिज्किन्धः सन्' । 'यावादिभ्यः कन्निति । सोऽसौ स्वार्थे भवन्भावे भविष्यति ॥ [ सुपि स्थः] ॥ प्र] सुपि स्थः । कच्छेन पिबतीति । अत्र के चिदाहुः-कच्छं पिव- तीत्येवमसन्तमप्यवयवार्थमाश्रित्य कर्मोपपदः को विधास्यते किं योगविभागेन ? । नैतत्साधूच्यते । कच्छेन पिबति द्वाभ्यां पिबतीत्येतस्मिन् सत्येवार्थेऽसदाश्रयेण रूढिशब्दानामपि व्युत्पत्तेरयुक्तत्वात् । यत्र तु सर्वात्मनाऽर्थानुगमो नास्ति यथा 'तैलपायिके'ति तत्रैवाऽसदर्थाश्रया व्युत्पत्तिः क्रियते। भावे यथा स्यादिति। अत्रा- प्याहुः-'घजर्थे कविधान'मिति कः सिद्ध इति । एवं तर्हि नित्यसमासार्थ स्थ' इत्य- नेन उपपदाश्रयः को विधीयते । अन्यथा पाक्षिकः षष्ठीसमासः स्यात् । अनिर्दि- टार्था इति । प्रत्यासन्नत्वात्तस्यार्थस्येति भावः। यद्येवं 'स्थ' इत्यनेन भावे विधीय. मानः कः कर्तारं बाधेत। तथा च 'समस्थ' इति कर्तरि न स्यात् । नेष दोषः।यद्यत्र साक्षाद्भावशब्दोपादानेन भावे को विधीयेत तदा भावः कर्तारं तक्रकौण्डिन्य- उ.] सुपि स्थः। भाष्ये-भावे चेति। चात्कर्तरि। कच्छेन पिवतीति । अकर्मण्यु- पपदे प्रत्ययार्थ सुपीति योगविभाग इति भावः । सत्येवार्थे इति । 'एव'शब्दो वाक्यालङ्कारे । संभवति योग्येऽर्थेऽसदाश्रयेण व्युत्पादनमयुक्तमित्यर्थः । नित्य- समासेति। उपपदमति कित्यनेनेति भावः। घअर्थ कविधान नित्येतदुदाहरणपरे 'स्था- स्नापाव्यधिहनियुध्यर्थ'मित्यत्र 'स्था' ग्रहणन्तु कर्माद्यर्थमिति बोध्यम् । प्रत्यासन्न- त्वादिति । अत एवाऽस्य नित्यमेकत्वमेव न तु घनादिवाच्यवद्वित्वादियोगोऽपीति भावः। तक्रकौण्डिन्येति । विधेयविषय एव स न्यायो नाऽनुवादविषय इत्यन्ये ॥ १ इदं लुप्तं स्यात् । २ 'पिबतीति' । ३ 'सुपि को भवति' । ४'त्तावदयं । ५ इदं क्वचिन्न । ६ 'भविष्यन्ति' । ७ इतिः क्वचिन्न ।

कैयट-विवरणसहितं [ तुन्दशोकयो तुन्दशोकयोः परिमृजापनुदोः ॥ ३२॥५॥ ॥*॥ तुन्दशोकयोः परिमृजापनुदोरालस्यसुखाहरणयोः ॥* ॥ तुन्दशोकयोः परिमृजापनुदोरित्यत्रालस्यसुखाहरणयोरिति वक्तव्यम् । तुन्दपरिमृजोऽलसः। शोकापनुदः पुत्रो जातः । यो हि तुन्दं परिमार्टि तुन्दपरिमार्जः स भवति । यश्च शोकमपनुदति शोकापनोदः स भवति ॥ ॥ कप्रकरणे मूलविभुजादिभ्य उपसङ्ख्यानम् ॥ ॥ कप्रकरणे मूलविभुजादिभ्य उपसङ्ख्यानं कर्तव्यम् । मूल- विभुजो रथः । नखमुचानि धनुषि । काकगुहास्तिलाः। सरसीरुहं कुमुदम् ॥ गापोष्टक ॥ ३२॥८॥ ॥*॥सुराशीध्वोः पिबतेः॥ ॥सुराशीध्वोः पिबतेरिति वक्तव्यम् । इह मा भूत् । क्षीरपा ब्राह्मणीति॥पिबतेरिति किमर्थम्?|या हि सुरां पाति सुरापा सा भवति॥ * ॥बहुलं तणि॥*बहुलं तणीति वक्तव्यम् ॥ किमिदं 'तणीति?॥ ॥ ॥[तैणीति] संज्ञाछन्दसोर्ग्रहणम्॥ ॥ या ब्राह्मणी सुरापी भवति नैना देवाः पतिलोकं नयन्ति। या ब्राह्मणी (रापा भवति नैनां देवाः पतिलोकं नयन्ति॥ प्र.न्यायेन वार्धेत । सामर्थ्यात्वयं भावे व्यवतिष्ठते इति भावेन न वाध्यत कर्ता। तुन्द । आलस्यसुखाहरणयोरिति । आलस्ये गम्यमाने मुखोत्पादन च प्रत्ययो भवतीत्यर्थः। तत्र सामर्थ्यादलसे कर्तरि मुखस्य चाऽऽहर्तरि प्रत्ययो भवती- त्युक्तं भवति । शोकापनोद इति । यः संसारानित्यतोद्भावनादिना शोकमेव निवर्त- यति न तु मुखमुत्पादयति स शोकापनोदः । [तुन्दशोकयोः ] ॥ गापोष्टक् । पिबतेरिति । लुग्विकरणपरिभाषालभ्यार्थकथनम्। गापोप्टक् ]॥ च.] तुन्दशोकयोः । तत्र सामर्थ्यादिति । एवं सति ते गम्ये भवत इत्यर्थः । तुन्दपरिमृजे मृजेरचि 'किति चेति पक्षे वृद्धिः प्राप्नोति, सा भवत्येव सत्यभि- धाने । यत्तु 'अची'त्येव वक्तव्धे अजादावित्युक्तरादिग्रहणसामर्थ्यान्मुख्याजादावेव प्रवृत्तिरिति, तन्न ; तत्र तदभावात्, 'यस्मिन्विधि'रिति परिभाषालभ्याऽऽदिग्रह- णस्यैव तत्राऽनुवादाच्च । अत्रत्यभाष्यस्वरसात्तत्र 'वित्पदेनातिदेशिकवितोरेव ग्रहणम् । व्याकरणान्तरे-'सङ्क्रम'पदेन तयोरेव ग्रहणाचेति परे । 'मूलविभुजा- दिभ्य' इति तु तादर्थ्य चतुर्थी । काकगुहा इति । काकेभ्यो गृहितव्या इत्यर्थः । 'घनर्थे कविधान'मित्यनेनाऽत्रापि सिध्यत्येतत् । सरसि सरन्यां वा रोहति । को मोदत इत्यर्थः । [ तुन्दशोकयोः ] ॥ गापोष्टक् । बहुलं. तणीति । पक्षे 'आतोऽनुपसर्गे' इति कः । या ब्राह्मणी सुरापेति । सुरां पिबतीत्यर्थे एवाऽयं प्रयोग इति बाहुलकाश्रयणम् ॥ १ 'सीध्वोः' । २ इदं क्वचिन्न । ३ इदं लुप्तं । ४ भाष्यमिदमित्यन्ये । .

३अ.२पा.१आ.९सू.] - व्याकरणमहाभाष्यम् 8 २१९ हरतेरनुद्यमनेऽच् ॥ ३२२९ ॥ ॥*॥ अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुष्षु ग्रहेरुपङ्ख्यान- म् ॥*॥ अप्रकरणे शक्तिलाङ्गलाकुशयष्टितोमरघटघटीधनुष्षु ग्रहरुपसङ्ख्यानं कर्तव्यम् ।-शक्तिग्रहः । शक्ति।लाङ्गल-लाङ्गलग्रहः ॥ लागल ॥ अङ्कुश- अङ्कुशग्रहः॥ यष्टि-यष्टिग्रह- । यष्टि ॥ तोमर-तोमरग्रहः। तोमर॥ घट- घटग्रहः ॥वट ॥ घटी-घटीग्रहः । घटी ॥ धनु:-धनुर्ग्रहः॥ ॥ सूत्रे च धार्यर्थे ॥॥ सूत्रे च धार्यर्थे ग्रहेरुपसङ्ख्यानं [कर्तव्यम् ] । सूत्रग्रहः । धार्यर्थे इति किमर्थं ?॥ यो हि सूत्रं गृह्णाति सूत्रग्राहः स भवति ॥ [ हरतेरनु ] ॥ स्तम्बकर्णयो रमिजपोः॥ ३॥२॥१३॥ ॥*॥स्तम्बकर्णयोर्हस्तिसूचकयोः॥ ॥स्तम्बकर्णयोरित्यत्र हस्तिसूचकयोरिति वक्तव्यास्तम्बेरमो हस्ती। कर्णेजपः सूचकः स्तम्बे रन्ता कर्णे जपितेत्येवान्यत्र॥ शमि धातोः संज्ञायाम् ॥ ३।२।१४ ॥ धातुग्रहणं किमर्थम् ? ॥*॥ शमि संज्ञायां धातुग्रहणं कृतो हेत्वादिपु ट- प्रतिषेधार्थम् ॥ ॥ शमि संज्ञायां धातुग्रहणं क्रियते ॥ [किं प्रयोजनं ?॥ 'कृजो हेत्वादिषु टप्रतिपेधार्थम्'] । कृमो हेत्वादिषु टो मा भूदिति । शमि संज्ञायां धातोरज्भवतीत्यस्यावकाशः-शंवदः शंभवः । टस्यावकाशः-श्राद्धकरः पिण्ड- करः । शङ्करा नाम परिव्राजिका, शङ्करा नाम शकुनिका तच्छीला चे,तस्या- मुभयं प्राप्नोति । परत्वाः स्यात् । धातुग्रहणसामर्थ्यादजेव भवति ॥ कुणर- वाडवस्त्वाह-नपा शङ्करा । शङ्गरेपा ॥ [कुत एतत् ?] ॥ गृणातिः शब्द- कर्मा तस्यैष प्रयोग इति ॥ [ शाम धातोः] । अधिकरण शेतेः ॥ ३।२।१५॥ ॥*॥ अधिकरणे शेतेः पार्थादिषूपसङ्ख्यानम् ॥ ॥ अधिकरणे शेतेः पार्था- प्र.] हरतेरनु । अच्प्रकरणे इति । घटग्रहणेनैव सिद्ध घटीग्रहणं लिङ्गविशिष्टपरि- भाषाऽनित्यत्वज्ञापनार्थम् । [ हरतेरनुद्यमनेऽच् ] ॥ शमि धातोः। शङ्गरेति । पोदरादित्वात्संज्ञायां गकारस्य ककारव्यत्ययेन शङ्कराशब्दस्य सिद्धत्वात्तदर्थं धातुग्रहणं न कर्तव्यमित्यर्थः । [शमि धातोः] । उ.] हरतेरनु। लिङ्गेति । तत्फलन्तु 'देवदत्तसखी'त्यादी टजभावः । भाष्ये-धा- यर्थे इति । ग्रहणपूर्वकधारणे लाक्षणिकाङ्ग्रहेरित्यर्थः ॥ [ हरतेरनुथमनेऽच ] शमि धातोः। ककारव्यत्येयेनेति । 'नैषा शङ्करे'ति भाप्यविरोधाच्चिन्त्यमे- तत् । धातुग्रहणं न कर्तव्यमिति । 'ट'बाधनार्थं न कर्तव्यमित्यर्थः। विपो बाध- १ इदं कचिन्न । २ 'स्तम्बकर्णयोरमिजपोरित्यत्र' । ३ 'शंभवः शंवदः' । । ..

२२० कैयट-विवरणसहितं [ अधिकरणे दिषूपसङ्ख्यानं कर्तव्यम् । पार्श्वशयः पृष्ठशयः उदरशयः ॥ ॥ दिग्धसहपूर्वाच्च ॥*॥ दिग्धसहपूर्वाञ्चेति वक्तव्यम् । दिग्धसहशयः ॥ ॥ उत्तानादिषु कर्तृषु ॥*॥ उत्तनादिषु कर्तृष्विति वक्तव्यम् । उत्तानशयः । अवमूर्द्धशयः ॥ ॥*॥गिरौ डश्छन्दसि॥*गिरावुपपदे छन्दसि डो वक्तव्यः।गिरौशेते गिरिशः। ॥*॥ तद्धितो वा [ यथौ लोमशस्तथा गिरिशः ] ॥॥ तद्धितो वा पुनरेष भविष्यति । गिरौ [गिरौ शेते, गिरिरस्यास्तीति गिरिशः ॥ इति ॥ चरेष्टः ॥ ३२॥१६॥ इह कस्मान भवति,-कुरूंश्वरति पञ्चालांश्चरतीति ? ॥ अधिकरण इति वर्तते ॥ ननु च कर्मणीत्यपि वर्तते,तत्र कुत एतदधिकरणे भविष्यति न पुनः कर्मणीति ? ॥*॥ चरेभिक्षाग्रहणं ज्ञापकं कर्मण्यप्रसङ्गस्य ॥ ॥ [ चरेभिक्षा. ग्रहणं ज्ञापकं कर्मण्यप्रसङ्गस्य]।यदयं 'भिक्षासेनादायेषु चेति चरेभिक्षाग्रहणं करोति तज्ज्ञापयत्याचार्यो-'न भवति कर्मणी'ति ॥ [चरेष्टः ] ॥ प्र.] अधिकर । दिग्धसहपूर्वाञ्चेति । 'दिग्धसह' शब्दस्य समुदायस्य पूर्वत्वमाश्री- यते न तु प्रत्येकम् । तत्र दिग्धेन सह शेत इत्यचि कृते मयूरव्यंसकादित्वात् समासः । तद्धितो वेति । यो गिरौ शेते गिरिरस्यास्तीति लोमादिषु दर्शना- च्छप्रत्ययः।अन्ये त्वाहुः-गिरौ गिरी शेत इति ‘सङ्ख्यैकवचनादिति सप्तम्यन्ताच्छस् प्रत्ययः। व्युत्पत्तिर्हि यथाकथंचित्कर्तव्या, उपायानामनियमात् । तदुक्तं हरिणा- 'वैरवासिष्टगिरिशाम्तथैकागारिकादयः। कैश्वित्कथं चिदाख्याता निमित्तावधि- सङ्करैः ॥ इति । 'छन्दसी ति वचनाद्भाषायां गिरिशशब्दस्याऽसाधुत्वमाहुः ॥ चरेष्टः । कुरूंश्वरतीति । यस्य कुरव एव प्राप्याः स कुरूंश्चरतीत्युच्यते । यश्च कुरुषु भ्रमति स कुरुषु चरतीत्युच्यते। [ चरेष्टः ] उ.]नार्थन्तु तदावश्यकमिति 'स्थः क चेति सूत्रे भाष्ये स्पष्टम्॥[शमि धातोः॥ अधिकरणे। मयूरव्यंसकेति । दिग्धसहपूर्वता प्रायोगिकी बोध्या, पृथग् 'दिग्धसह'शब्दस्य सिद्ध्यभावात् । 'गिरौ शेते' इत्यर्थे तद्धितस्याऽविधानादाह-यो गिराविति । अन्ये त्वाहुरिति। अत्राऽरुचिस्त्वदन्तशब्दाऽसिद्धिः, अव्ययत्वापत्तिः, शसः स्वार्थिकत्वेन 'गिरौं गिरी शेते' इति विग्रहाऽसङ्गतिश्चावरेतिावीरस्येदं वीराया वा वीरादागतं तत्र भवमिति। वसिष्ठस्येदं तेन कृतं प्रोक्तं वा। गिरौ शेते गिरिंश्यति वा गिरिशः । निमित्तम् -अर्थः, अवधिः-प्रत्ययानाम्प्रकृतिः, तत्सङ्कररित्यर्थः ॥ चरेष्टः । कुरूंश्चरतीति । तान् गच्छतीत्यर्थः । यद्यर्थभेदो न स्यात्तर्हि द्विती- यान्तात्प्रत्ययाऽनुत्पत्तिप्रतिपादनं व्यर्थं स्यादत आह—यश्चेति । भिक्षाचरे[ति] १ इदं क्वचिन्न । २ 'उरःशयः' । ३ इदं लुप्तं स्यात् । ४ 'गिरौ शेते' ।

३अ.२पा.१आ.२१सू.] व्याकरणमहाभाष्यम् 8 २२१ दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबि- बलिभक्तिकर्तृचित्रक्षेत्रसङ्ख्याजङ्घाबाहर्यत्तद्धनुररुष्षु ॥२१॥ ॥*॥ किंयत्तद्बहुषु कृञोऽज्विधानम् ॥*॥ किंतत्तबहुषु कृतोऽज्विधानं कर्तव्यम्। किंकरा। किम्॥यत्-यत्करा । यत्॥तत्-तत्करा तत्॥बहु-बहुकरा ॥ स्तम्बशकृतोरिन् ॥ ३।२।२४ ॥ ॥*॥ स्तम्बशकृतो/हिवत्सयोः ॥*॥ स्तम्बशकतो/हिवत्सयोरिति वक्तव्यम् । स्तम्बकरि/हिः । शकृत्करिर्वत्सः ॥ [स्तम्बशकृतोरिन् ] । फलेग्रहिरात्मम्भरिश्च ॥ २६ ॥ आत्मभरिरिति किं निपात्यते ॥ ॥॥ [आत्मैम्भरिरिति ] आत्मनो मुम्भृजश्चेन्प्रत्ययः॥ ॥ अत्यल्पमिदमुच्यते ॥ ॥ भृञः कुश्यात्मनोमुम् च ॥१॥ भृजः कुक्ष्यात्मनोर्मुम् चेति वक्तव्यम् । कुक्षिम्भरिः। 'आत्मम्भरिश्चरति यूथमसेवमानः' ॥ [ फलेग्रहिरात्मम्भरिश्च ] ॥ एजेः खश ॥ ३२॥२८॥ ॥*॥ खरप्रकरणे वातशुनीतिलशर्धवजर्धेट्तुदजहातिभ्यः ॥ ॥ खइप्रकरणे वातशुनीतिलशर्तेप्वजधेट्तुदजहातिभ्य इति वक्तव्यम् ॥ वातमजाः मृगाः। वात ॥ शुनी-शुनिंधयः। शुनी ॥ तिल-तिलंतुदः। तिल ॥ शर्द्ध-श जहा माषाः ।। [एजेःखश् ] । प्र.] दिवाविभा । किं चदिति । वार्तिकेन सूत्रस्य बाधितत्वादृस्याऽभावे किङ्करी- त्यसाधुरित्याहुः । [ दिवाविभा] ॥ उ.]चरतिश्चरणकरणकाऽर्जने लाक्षणिका, भिक्षार्थो वा, तत्रैव चाऽयं प्रयोग इष्यते, भाष्यप्रामाण्यात् । एतेन 'भिक्षया हेतुना चरतीत्यर्थक-'भिक्षाचर'प्रयोगसाधन तत्सूत्रेण विपरीतं 'कर्मणी'त्यस्य संवन्ध एव ज्ञाप्येतेति परास्तम् । सेनाग्रह- णस्य ज्ञापकत्वं तु नोक्तं, सेनां चरति सेनायां चेत्यर्थद्वये अपीष्टेः । एवञ्च ‘अधि- करण' इति 'कर्मणीति चोभयोरग्रंऽधिकारो, यथायोगञ्च संबन्ध इति ध्वनितम्॥ दिवाविभा। इत्याहुरिति । अत्राऽरुचिवीजन्तु वार्तिकस्य हेत्वादी 'ट'- बाधनेन चरितार्थतया सूत्रस्थकिमादिग्रहणात्य भाष्येऽप्रत्याख्यानेन वा हेत्वादौ सूत्रे किमादिग्रहणसामर्थ्याट्टो भवत्येवेति । न च विपरीतमेवाऽस्तु, सूत्रस्थकिमादि- ग्रहणस्य सार्थक्याऽनुपपादनात् ॥ [ दिवाविभा] । फलेग्रहि । भाष्ये-आत्मनो मुमिति । समासे कृते नलोपे च कृते ततः प्राग्वा मुन्निपात्य इत्यर्थः। [ फलेग्रहि] । १ 'शकृतीरित्यत्र व्रीहि'। २ इदं लुप्तं स्यात् । ३ भाष्यमित्यन्ये ।

२२२ * कैयट-विवरणसहितं. [ नासिकास्तन नासिकास्तनयोधेिटोः॥ ३२।२९ ॥ ॥स्तने धेटः। *। स्तने धेट इति वक्तव्यम्। स्तनन्धयः। [॥*नासि- कायां ध्मश्च[धेटचे]॥*।। नासिकायां ध्मश्च धेटश्चेति वक्तव्यम्।नासिकन्धमः । नासिकन्धयः] । ततो ॥*मुष्टौ ध्मश्च।।* ॥ मुष्टौ ध्मश्च धेटश्चेति वक्तव्यम् । मुष्टिन्धमः मुष्टिन्धयः ॥ अत्यल्पमिदमुच्यते ॥॥ नासिकानाडीमुष्टि- घटीखोरीविति वक्तव्यम्।।। नासिकैन्धमः नासिकन्धयः । नासिका ॥ नाडी- नाडिं_मः नाडिंधैयः । नाडी ॥ मुष्टि-मुष्टिन्धमः मुष्टिन्धयः । मुष्टिाघटी घटिन्धमः घटिंधयः । घटी॥ खारी-खारिन्धमः खारिन्धयः ॥ प्रियवशे वदः खच् ॥ ३२॥३८ ॥ ॥*॥ खच्प्रकरणे गमेः मुप्युपसङ्ख्यानम् ॥*॥ खच्प्रकरणे गमेः सुप्यु- पसङ्ख्यानं कर्तव्यम् । मितङ्गमो हस्ती, मितङ्गमा हस्तिनी। ॥*॥ विहायसो विह च॥॥विहायसो विह इत्ययमादेशो भवतीति वक्तव्यम् ,खञ्चाविहङ्गमः। ॥*॥ खच्च डिद्वा ॥॥ खञ्च डिहा वक्तव्यः । विहङ्गः । ॥*॥ डे च ॥*॥ डे च विहायसो 'विह' इत्यर्यमादेशो वक्तव्यः । विहगः। [प्रियवशे वदः ] । अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः ॥ ३।।४८ ॥ ॥॥ डप्रकरणे सर्वत्रपन्नयोरुपसङ्ख्यानम् ॥ ॥ उप्रकरणे सर्वत्रपन्नयोरुप- सङ्ख्यानं कर्तव्यम् । सर्वत्रगः, पन्नगः ॥ ॥ उरसो लोपश्च॥ ॥ उरसो लोपश्च वक्तव्यः । उरगः ॥ ॥ मुदुरोरधिकरणे ॥ ॥ सुदुरोरधिकरणे डो वक्तव्यः । सुगः दुर्गः ॥ ॥ निसो देशे ॥ ॥ निसो देशे डो वक्तव्यः । निर्गो देशः । प्र.] नासिका । स्तने धेट इति। यथासङ्ख्याऽभावार्थ एतावान्योगः कर्तव्य इत्यर्थः। वार्तिकस्याप्यव्याप्तिमुद्भावयन् भाष्यकार आह-अत्यल्पमिति ।डे चेति।विहायःशब्द- पूर्वाद्गमेरन्येष्वपि दृश्यत इति डप्रत्यये सति विद्यादेशः । [नासिकास्तनयो] ॥ उ.] नासिका । एतावान्योग इति। एतदन्वाख्यायकं वार्तिकमित्यर्थः । वार्ति- कस्याऽपीति । अपिना 'नाडीमुष्ट योश्चेति सूत्रस्याऽपि । 'मुष्टौ धमश्चेति वार्तिक 'नाडीमुष्टयोश्चेति पठितसूत्रस्य व्यवस्थापकमेव । नैतावता तत्सूत्रमप्रामाणिक- मिति भ्रमः कार्यः, 'यथासङ्ख्य'सूत्रस्थभाष्ये स्पष्टन्तत्सूत्रोपादानात् । यद्यपि नाडी- मुष्टिविषये तत्सूत्रे यथासङ्ख्यमुक्तन्तथाप्येतद्भाष्यवार्तिकविरोधातद्भाष्यं प्रौढिवाद इति वोध्यम् । एवञ्चाऽत्र 'नाडी'शब्देन 'म' एव संबन्धो, 'मुष्टि' शब्दे- नोभयोरिति बोध्यम् । पूर्ववार्तिकदूषणेन नाडीशब्दसम्बन्धोऽप्युभयोरित्याह- नासिकानाडीत्यादि । अत्र ध्मश्च धेटश्चेति वर्तते ॥ [ नासिका] । . १ क्वचिन्न । २'खरी'। ३पूर्वापरवैपरीत्यं क्वचित् । ४'चादेशो'।५'सुर्ग' 'दुर्गम' ।

३अ.२पा.१आ.४९सू.] 8 व्याकरणमहाभाष्यम् 8 २२३ अपर आह॥॥डप्रकरणेऽन्येष्वपि दृश्यते ॥*॥ डप्रकरणेऽन्येष्वपि डो दृश्यते इति वक्तव्यम्। ततः स्व्यगारगोऽनुते यावदन्नाय ग्रामगः।ध्वंसते गुरुतल्पगः। आशिषि हनः ॥ ३२॥४९॥ ॥*॥ दारावाहनोऽणन्त्यस्य च टः संज्ञायाम् ॥*॥ दारावुपपदे आङपूर्वा- द्धन्तेरण्वक्तव्यः । अन्त्यस्य च टो वक्तव्यः। दार्वाघाटस्ते वनस्पतीनाम् । ॥*॥ चारौ वा ॥*॥ चारावुपपदे आयूर्वाद्धन्तेरण्वक्तव्यः। अन्त्यस्य च टो वा वक्तव्यः। चार्वाघाटः चार्वावातः ॥ ॥ कर्मणि समि च ॥ ॥ कर्मण्यु- पपदे सम्पूर्वाद्धन्त[तो रण्वक्तव्योऽन्त्यस्य च टो वो वक्तव्यः । वर्णसङ्घाटः वर्णसङ्घातः । पदसङ्घाटः पदसङ्घातः ॥ [ आशिषि हनः ] ॥ लक्षणे जायापत्योटक ॥ ३२२५२ ॥ कथमिदं विज्ञायते-लक्षणे कर्तरीति, आहो स्विल्लक्षणवति कर्तरीति ?॥ किं चातः ? ॥ यदि विज्ञायते 'लक्षणे कर्तरी'ति । सिद्धं जायाघ्नस्तिल- कालकः पतिनी पाणिरेखेति । इदं तु न सिध्यति-जायानो ब्राह्मणः । पतिनी वृपलीति ॥ अथ विज्ञायते-लक्षणवति कर्तरीति ॥ सिद्धं जायानो ब्राह्मणः पतिनी वृपलीति । जापानस्तिलकालकः पतिनी पाणिरेखेति न सिध्यति ॥ अस्तु तर्हि लक्षणे कर्तरीति।। कथं जायानो ब्राह्मणः पतिनी वृपलीति?॥ "अकारो मत्वर्थीयः"। जायानोऽस्मिन्नस्तीति सोऽयं जायान्न [इति ॥ पतिनी वृपलीति न सिध्यति॥ अस्तु तर्हि 'लक्षणवति कर्तरी ति॥ कथं जायाघ्नस्ति- लकालकः पतिन्नी पाणिरेखेति ? ॥ अमनुष्यकर्तृके [चे]त्येवं भविष्यति । अमनुप्यकर्तृके च ॥ ३।२।५३ ॥ ॥॥[अाणिकर्तृके ॥ ॥ अप्राणिकर्तृक इति वक्तव्यम् । इह मा भूत् नगरपातो हस्ती । यद्यप्राणिकर्त्तक इत्युच्यते शशनी शकुनीति न सिध्यति ॥ अस्तु तर्हि 'अमनुष्यकर्तृके चे'त्येव ॥ कथं नगरघातो हस्ती ? ॥ ‘कृत्य- ल्युटो बहुल'मित्येवाऽवाऽभविष्यति ॥ [अमनुष्यकर्तृके च ] ॥ पाणिघताडघौ शिलियन ॥ ॥ ३२०५५ ॥ ॥*॥ राजघ उपसङ्ख्यानम् ॥ ॥ राजघ उपसङ्ख्यानं कर्तव्यम् । राजघः॥ आढयसुभगस्थूलपलितनग्नान्धप्रियेषु च्च्यर्थप्वच्यौ कृत्रः करणे ख्गुन् ॥ ३२॥५६॥ ॥*॥ ख्युनि च्विप्रतिषेधानर्थक्यं ल्युट्युनोरविशेषात् ॥ ॥ ख्युनि च्चि- उ.] आढ्यसुभग । ख्युनभावे करणे ल्युटोऽवश्यं सत्त्वेनाऽच्चाविति व्यर्थमित्याह १ 'भवतीति वक्त'। २ 'वा टो। ३ 'लखा'। ४इदं लुप्तं स्यात्।५'त्येवमत्रा'।

२२४ कैयट-विवरणसहितं. [ आव्यसुभग प्रतिषेधोऽनर्थकः ॥ किं कारणम् ?॥ 'ल्युट्ख्युनोरविशेषात्' । ख्युना मुक्त ल्युटा भवितव्यं । न चैवाऽस्ति विशेषत्रव्यन्त उपपदे वा ख्युनो वा ल्युटो वा । तदेव रूपं स एव च स्वरः॥ अयमस्ति विशेष:-ल्युटि सतीकारेण भवितव्यं, ख्युनि सति न भवितव्यम्॥ख्युन्यपि सति-[ईकारेण] भवितव्यम् । एवं हि सौनागाः पठन्ति-॥*॥ 'नग्नजीकक्ख्युंस्तरुपतलुनानामुपसङ्ख्यानम्' ॥*॥ इति । अयं तर्हि विशेषः,-व्युनि सति नित्यसमासेन भवितव्यम्, उपपद- समासो हि नित्यसमास इति । ल्युटि सति न भवितव्यम्॥ल्युट्यपि [संति] भवितव्यम् । गतिसमासोऽपि हि नित्यसमासः, च्च्यन्तं च गतिसंज्ञं भवति । [॥*॥ मुंमर्थन्नु ॥*] ॥ मुमर्थं तर्हि प्रतिषेधो वक्तव्यः । ख्युनि सति मुमा भवितव्यं ल्युटि सति न भवितव्यम् ॥॥ मुमर्थमिति चंन्नाऽव्ययत्वात् ॥६॥ मुमर्थमिति चेत्तन्न ॥ किं कारणम् ? ॥ 'अव्ययत्वात्' । अनव्ययस्य मुमु. च्यते, च्व्यन्तं चाऽव्ययसंज्ञं [भवति]॥ ॥उत्तरार्थं तु॥*॥ उत्तरार्थं तर्हि प्रति. षेधो वक्तव्यः । 'कर्तरि भुवः खिष्णुच्खुको' । 'अच्वा वित्येव । आयीभ- विता ॥ अथेदानीमनेन मुक्त ताच्छीलिक इष्णुविधीयते सोऽत्र कस्मान्न भवति?॥ रूढिशब्दप्रकारास्ताच्छीलिकाः। न च रूढिशब्दा गतिभिर्विशेष्यन्ते। प्र.] आक्ष्य । उत्तरार्थमिति । उत्तरत्र विप्रतिषेधस्य चरितार्थत्वादान्यीकरण- मिति ल्युटा भाव्यम् । तत्र यदन्यरुक्तं-'प्रतिषेधसामर्थ्याख्युन्यसति ल्युदपि न भवतीति ल्युटोऽप्ययमर्थतः प्रतिपेध' इति । तदयुक्तम् । रूढिशब्दप्रकारा इति । यथा रूढिशब्देषु क्रिया केवलं व्युत्पत्त्यर्थमाश्रीयते गच्छतीति गौरिति । तेन गमन- क्रिधारहितोऽपि गौर्भवति । गोपिण्डाच्चाऽन्योऽर्थी गमनविशिष्टोऽपि गौन भवति । तथा ताच्छीलिका अपि क्रियाविषयं ताच्छील्यमुपादाय क्रियावंशाऽभावेपि प्रयुज्य- न्ते, के चिदेव तु गतिना संबध्यन्ते,-आगामुकः प्रवर्धक इति। न तु सर्वे । यथा कामुक इति । न भवति 'प्रकामुक' इति । अत एव प्रकार ग्रहण सादृश्यार्थम् । रूढिशब्दानां न केषांचिद्गतिसंबन्धो भवति ताच्छीलिकानां तु भवति केषां चिन्न सर्वेषामिति प्रतिपादयति । द्रव्योपलक्षणाय क्रियायाः प्रवृत्तत्वादात्मातिशयं प्रति आकाक्षाया अभावात्तदतिशयद्योतनाथ गतिसंबन्धाभावस्ताच्छीलिकेवित्यर्थः । उ.]भाष्ये-ख्युना मुक्त इति । भाष्ये स एव स्वरःालित्स्वरनित्स्वराभ्याम् । ल्युटा भाव्यमिति। अवश्यभाव्यमित्यर्थः।तदयुक्तमिति । भाष्यविरोधादित्यर्थः । उत्तरा- र्थत्वं वदता इहार्थत्वाऽभावस्य भाष्यकृता बोधितत्वादिति भावः। केचिदेवेति । स्पष्टं प्रतीयमानक्रियावेशा इति भावः। द्रव्योपलक्षणायेति । अवस्थाविशेषविशिष्ट- १ इदं क्वचिन्न । २ 'ल्युटः ख्युनो वा' । ३ इदं वार्तिकमित्यन्ये ।

३अ.२पा.१आ.५७सू.] - व्याकरणमहाभाष्यम् . २२५ न हि भवति देवदत्तः प्रदेवदत्त इति । [ आब्यसुभगस्थूल ] ॥ कर्तरि भुवः खिष्णुच्खुको ॥ ३२।५७ ॥ किमर्थं खिष्णुजिकारादिः क्रियते न च रुस्नुरित्यवोच्येत । तत्रायमप्यर्थः स्वरार्थश्चकारो न कर्तव्यो भवति ॥ केनेदानीमिकारादित्वं क्रियते ? ॥ ॥ ॥इष्णुच इंकारादित्वमुदात्तत्वात्कृतं भुवः॥ ॥भवतिरुदात्तस्तस्योदात्तत्वादिड्- भविष्यति ॥ इदं तर्हि प्रयोजनं-खिदयं क्रियते तत्र चर्वे कृते सन्देहः स्यात् किद्वा खिद्वेति ॥ सन्देहमात्रमेतद्भवति॥सर्वसन्देहेषु चेदमुपतिष्ठते 'व्याख्या- नतो विशेषप्रतिपत्तिन हि सन्देहादलक्षण मिति । खिदिति व्याख्यास्यामः । ॥॥ नअस्तु स्वरसिद्ध्यर्थमिकारादित्वमिष्णुचः ॥ ॥ इदं तर्हि प्रयोजनं 'कृत्यो- केप्णुञ्चार्वादयश्चे'त्येष स्वरो यथा स्यात् ॥ एतदपि नास्ति प्रयोजनम्, अय- प्र.] प्रदेवदत्त इति।प्रकर्षेण देवनक्रिया न विशेष्यते, देवशब्दस्य रूढिशब्दत्वात् , तदवयवस्य च देवदत्तशब्दस्येत्यर्थः । व्याघ्रादयस्तु सोपसर्गा एव रूढिशब्दा इति तद्यतिरिक्तगत्यन्तरयोगस्तेषां नास्ति ॥ [ आढ्यसुभग] । कर्तरि । नज इति पञ्चमी। नत्र उत्तरस्य स्वरसिद्ध्यर्थमित्यर्थः । अयम- पीति । क्नुच्प्रत्ययः क्रियते, चकारः सामान्यग्रहणार्थ इति मन्यते । खिष्णुचि तु कृते इकारोचारणसामर्थ्यात्तदनुबन्धकपरिभाषा नाश्रीयते । [कर्तरि भुवः ॥ उ.] स्योपलक्षणायेत्यर्थः। न तु क्रियाप्रकारको वोध इति तात्पर्यम् । वस्तुतस्त्वभि- धानस्वाभाव्यात्केषाञ्चिदेव क्लुप्तप्रयोगाणां गतिसंम्बन्धो न सर्वेषामिति भाष्यतात्पर्यम्। भाष्ये-इप्णुजिति । 'भुवश्चे'त्यनेन । 'प्रदेवदत्त' इत्यत्र 'प्र'शब्दस्य देवन- क्रियायां दानक्रियायां वाऽन्वयः। नाद्य इत्याह-देवशब्दस्यति । नान्त्य इत्याह- तदवयवस्य चेति । 'तदवयवस्येति बहुव्रीहिः । व्याघ्रादौ तर्हि संज्ञाशब्दे कथं गतिसंबन्धोऽत आह-व्याघ्रादयस्त्विति । [ आद्यसुभग] ॥ कर्तरि भुवः। भाष्ये-'न च क्ष्णु रिति पाठः । उदात्तत्वादिति । तेन 'एकाच उपदेश' इत्यस्याऽप्रवृत्तिरिति भावः । ननु ‘कृत्योकेष्णु जिति सूत्रेण नजः स्वराऽभावादाह-नज उत्तरस्येति । अन्तोदात्तविधायकमिदम्पूर्वपदप्रकृतिस्वराप- वादः । ननु 'तदनुबन्धक परिभाषया इष्णुच एव ग्रहणं भविष्यति न खिष्णुच इत्यत आह-इकारोचारणेति । चकारोच्चारणेनैव द्वयोर्ग्रहणे लक्षणप्रतिपदोक्तपरि- भाषातदनुबन्धकपरिभाषाबाधे च ख्ष्णुचः करणेन षलणत्वयोरसिद्धत्वाऽभावे च सिद्ध इकारोचारणं व्यर्थमिति 'अयमपीटि कृते' इति भाष्यतात्पर्यमान सिध्यती- त्यादि त्वेकदेश्युक्तिरिति बोध्यम् ॥ [ कर्तरि भुवः] । १'कस्नु'न ख्ष्णु'।२श्लोकवार्तिकम्।३ भवतेरुदात्तत्वादिकारादित्वं भविष्यति'।

२२६ * कैयट-विवरणसहितं. [स्पृशोऽनु मपीटि कृते षत्वे त्वे चेष्णुजेव भविष्यति ॥ न सिध्यति-'लक्षणप्रतिपदो- क्तयोः प्रतिपदोक्तस्यैवेति । अथ वाऽसिद्धं खल्वपि षत्वं, तस्योऽसिद्धत्वा- दिस्तुंजेव भविष्यति । ॥*॥ इष्णुच इकारादित्वमुदात्तत्वात्कृतं भुवः । नजस्तु स्वरसिद्ध्यर्थमिकारादित्वमिष्णुचः ॥॥ [ कर्तरि भुवः ] ॥ स्पृशोऽनुदके किन् ॥ ३॥२॥५८ ॥ किमर्थो नकारः ?॥*॥[नकारः] स्वरार्थः ॥ ॥न्निती'त्याधुदात्तत्वं यथा स्यात् । नैतदस्ति प्रयोजनम् । एकाचोऽयं विधीयते । तत्र नाऽर्थः स्वरार्थन नकारेणाऽनुबन्धेन । धातुस्वरेणैव सिद्धम् ॥ यस्तीनेकान्दगिति ? ॥ वक्ष्यत्येतत्,-'पृषे₹िर्वचनमन्तोदात्तत्वं च निपात्यत' इति॥विशेषणार्थस्तहि॥ [विशेषणार्थस्तैर्हि भविष्यति ] ॥ व विशेषणार्थनार्थः ? ॥ 'क्विन्प्रत्ययस्य कुरिति। 'विप्रत्ययस्य कुरित्युच्यमाने सन्देहः स्यात् विपप्रत्ययः क्विब्वेति॥ सन्देहमात्रमेतद्भवति । सर्वसन्देहेषु चेदमुपतिष्ठते 'व्याख्यानतो विशेषप्रति- पत्तिर्नहि सन्देहादलक्षण मिति विप्रत्ययस्येति व्याख्यास्यामः।[स्पृशोनुदके]॥ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चयुजिकुञ्चां च ॥ ३२।५९ ॥ दगिति किं निपात्यते ? ॥ * ॥ धृषेर्विचनमन्तोदात्तत्वं च ॥ * ॥ पेर्द्विवचनमन्तोदात्तत्वं च निपात्यते ॥ [ ऋत्विग्दटक्] ॥ त्यदादिषु दृशोऽनालोचने कञ्च ॥ ३२॥६० ॥ किमर्थो जकारः ? ॥ ॥॥ [ अकारः ] स्वरार्थः ॥ ॥ जितीत्याधु- प्र.] स्पृशोनु । संदेहः स्यादिति । किमेकपकारको निर्देश उत द्विपकारक इत्य- थः । व्याख्यानत इति । तदनुबन्धकपरिभाषया च विपो ग्रहणाऽभावः ॥ त्यदादिषु। जकारस्य कार्यद्वयं प्रति युक्तत्वं प्रश्नद्वारेण प्रदीते-किमर्थ इति। उ.] स्पृशोऽनु । एकाचोऽयमिति भाष्ये । यङलुगन्तात्त्वयं न किन् , अनभिधा- नादिति भावः । ननु 'क्वि'ग्रहणे विपोऽपि ग्रहणं स्यादत आह-तदनुबन्धेति । अत्र सूत्रे 'कर्मणी ति सम्बध्यत एव । 'मन्त्रस्मुगित्यादि तु किपा सिद्धम्। 'विन्प्र- त्ययस्येति बहुव्रीह्याश्रयणात्कुत्वमपि सिद्धम् ॥ [ स्पृशोऽनु] । ऋत्विग्द । अन्तोदात्तत्वञ्चेति । इदञ्च क्विनो नकारसत्त्वे उक्तम् । स्रगु- ष्णिहोर्निपात्यमानवस्तुनः स्पष्टत्वात्तन्नोक्तम् । 'क्रुञ्चा'मिति निपातनान्नलोपाऽभाव १इदं क्वचिन्ना२ 'दिष्णुजेव'।३ षत्वस्या'।४ भवति'।५ 'उदात्तत्वाद्भुवः सिद्ध- मिकारादित्वमिणुचः'। ६ 'त्वमिष्यते' । ७ इदं भाष्यमित्यन्ये । ८ किनिति' । .. ..

अ.२पा.१आ.६.सू.] 8 व्याकरणमहाभाष्यम् २२७ दात्तत्वं यथा स्यात्॥ नैतदस्ति प्रयोजनम् ? । नकारेणाऽप्येष स्वरः सिद्धः । [॥*॥ विशेषणार्थस्तर्हि ॥*॥] विशेषणार्थस्तर्हि भविष्यति ॥ व विशेषणार्थे- नार्थः ? ॥ 'कचर'बिति । कन्क्वरबिति युच्यमाने याचितिकेत्यत्रापि प्रस- ज्येत ॥ ॥ दृशेः समानान्ययोश्चोपसङ्ख्यानम् ॥॥ दृशेः समानाऽन्ययोश्चोप- सङ्ख्यानं कर्तव्यम् । सदृक् । सदृशः। अन्यादृक् । अन्यादृशः। ॥*॥ कृदर्थानुपपत्तिस्तु॥ ॥कृदर्थस्तु नोपपद्यते । दृशेः कर्तरि प्रामोति। ॥ॐ॥ इवार्थे तु तद्धितः॥ ॥ इवार्थे त्वयं तद्धितो द्रष्टव्यः । स इवायं तादृक् । तादृशैः । अन्य इवापमन्यादृक् । [अन्यादृश इति ] ॥ अथ वा युक्त एवात्र कृदर्थः । कर्मकर्ताऽयम् । तमिवेमं पश्यन्ति जनाः, सोऽयं स इव दृश्यमानस्तमिवात्मानं पश्यति-तादृक् । अन्यमिवेमं पश्यन्ति जनाः, सोऽयमन्य इव दृश्यमानोऽन्यमिवात्मानं पश्यति-अन्यादृगिति॥ सत्सद्विषद्रुतदुहयुजविदभिदच्छिदजिनीराजामुपसर्गे- ऽपि विप ॥ ३।२।६१ ॥ प्र.] कृदनुपपत्तिस्त्विति। यः कृतोऽर्थः स तादृशादिशब्दवाच्यो न भवति। ताह- शादयो हि सदृशलक्षणमर्थमाचक्षते न तु दर्शनक्रियायां कर्तारमित्यर्थः । कर्म- कर्तेति । कर्मण एव सौकर्याकर्तृत्वविवक्षायां कर्तर्येव प्रत्ययः क्रियत इत्यर्थः ॥ उ.] इति ‘परेश्चेति सूत्रे भाष्ये स्पष्टम् ॥ [ ऋत्विग्दरक] । त्यदादिपु ।कारः केवलस्वरार्थ उताऽन्यार्थोऽपीति विचारतात्पर्यमाह-कार- स्येति । भाष्ये-याविका अत्राऽपीति । न च यनुबन्धकत्वादस्य कनो ग्रहणं न स्यादिति वाच्यं, येनाऽनुबन्धेन यनुबन्धकत्वं तदनुच्चारण एव तत्प्रवृत्तः । यः कृतोऽर्थ इति । प्रकृते दृशेः कर्तेत्यर्थः । भाष्ये-इवाऽर्थेऽयं तद्धित इति । अयं भावः-यथा 'दृग्शवतुष्वि'ति सूत्रे 'दृक्षे' इतिवार्तिकवलादनुक्तोऽपि क्सः कल्प्यते, तथा इवाऽधिकारे तद्धिते त्यदादिभ्यो दृगशट दृक्षाः प्रत्ययाः कल्प्याः। दृशटष्टित्त्वाच्च डीबपि सिद्ध इति 'टिड्डे'तिसूत्रे कञ्ग्रहणमपि न कार्यमिति लाघवमिति । भाष्ये- तमिवात्मानं पश्यतीति । प्रेरणावृद्धावन्यन्त वितण्यर्थत्वान्न णिच् । तमिवा- त्मानं जनान्दर्शयतीत्यर्थः । अत्र प्रेरणाद्ध्याऽधिकार्थत्वेनाऽज्ञानार्थत्वम् । कर्मण्यु- पपदे एवाऽयम् , तेन निवृत्तप्रेषणतया ‘स इव पश्यतीति विग्रहोऽनुचितः, सत्सू- द्विषे'ति सूत्रे एव कर्मणी'त्यस्य निवृत्तेः सत्सू' इति सूत्रे भाष्ये.ध्वनितत्वेनाऽत्राऽनु. वृत्तः सत्त्वात् । ननु 'कर्मकते'ति व्यवहारोऽनुपपन्नः, कर्मत्वाऽभावात्कर्मवद्भावाऽ- भावाचेत्यत आह-कर्मण एवेति [ त्यदादिपु दृशो] । १इदं लुप्तं भवेत् ।२ 'त्युच्यमाने'।३ याविकात्रा'।४इदं क्वचिन्ना५ र्थेऽयं'।६ 'एवाऽयं'। ।

२२८ ॐ कैयट-विवरणसहितं. [ सत्सू । ॥*॥ सदादिषु सुब्ग्रहणम् ॥ ॥ सदादिषु सुग्रहणं कर्तव्यम् । होता वेदिषत् । अतिथिर्दुरोणसत् ॥ न तीदानीमुपसर्गेऽपीति वक्तव्यम् ? ॥ वक्तव्यं च ॥ किं प्रयोजनम् ? ॥ 'ज्ञापकार्थम् ॥ किं ज्ञाप्यम् ? ॥ एतज्ज्ञा- पयत्याचार्यो'ऽन्यत्र सुब्ग्रहणे उपसर्गग्रहणं न भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ वदः सुप्यनुपसर्गग्रहणं चोदितं तन्न वक्तव्यं भवति ॥ अदोऽनन्ने ॥ ३।२।६८ ॥ क्रव्ये च ॥ ३३॥६९ ॥ किमर्थमिदमुच्यते नाऽदोऽनन्न इत्येव सिद्धम्?॥ न सिध्यति । छन्दसी. त्येतदंनुवर्तते । भाषार्थोऽयमारम्भः। पूर्वस्मिन्नेव योगे छन्दोग्रहणं निवृत्तं, तञ्चावश्यं निवर्त्यम्,-आमात् , सस्यादित्येवमर्थम् ॥ अत उत्तरं पठति ॥॥ अदोऽनन्ने क्रव्यग्रहणं वासरूपनिवृत्त्यर्थम्॥ ॥ अदोनन्ने क्रव्येहणं क्रियते॥[किं प्रयोजनं ? ॥ 'वासरूपनिवृत्त्यर्थम् ॥] वासरूपोमा भूदिति । [ अदोनन्ने] प्र.] सत्सूद्विष । सदादीनां केषां चित्सकर्मकत्वात्कर्मैवोपपदं प्राप्नोतीति मत्वाह- सदादिग्विति । वेदिषदिति । वेद्यां सीदतीति क्विप् । पूर्वपदादिति षत्वं । दुरोणे सीदतीति दुरोणसत् । दुरोणं गृहम् । तन्न वक्तव्यमिति । अनुपसर्गग्रहणानुवृत्ति- मन्तरेणैवोपसर्गनिवृत्तेः सिद्धत्वादनुवृत्तिप्रदर्शनमपि न युज्यते । यत्र चानुपसर्ग- ग्रहणानुवृत्तिर्न संभाव्यते,-स्पृशोऽनुदके क्विन्नित्येतदपि ज्ञापनम्य प्रयोजनम् । तेनो- पस्पृशतीत्यादौ क्विन्न भवतीति। [सत्सूद्विष] ॥ क्रव्ये च । वासरूपो मा भूदिति । तेन ‘क्रव्याद' इत्यण्न भवतीत्यर्थः । उ.] सत्सू । कमैवोपपदमिति । 'कर्मणी'त्यधिकारादिति भावः । सुग्रहणन्तु तैन्निवृत्तिद्योतनायेति बोध्यम् । वस्तुतः सुब्ग्रहणमेवाऽत्राऽनुवर्तते, 'कर्मणीति निव- त्तमित्यन्वाख्यानमेवैतत् ।अत्र' सूत्रे ‘उपसर्गेऽपि' ग्रहणम् ‘अनुपसर्ग' इत्यस्य आतो नुपसर्गे'इति सूत्रादनुवर्तमानस्याऽग्रे निवृत्तिद्योतनाय । भाष्यकार एतज्ज्ञापकेनैव सुब्ग्रहणस्योपसर्गेतरसुप्परत्वं व्याख्याय 'अनुपसर्गे' इत्यस्याऽनधिकारं द्योतयति। तत्फलं ज्ञापकसिद्धस्याऽसार्वत्रिकत्वेन 'प्रष्ट' इत्यादिसिद्धिः। ननु ‘वदः सुपी'त्यत्र 'गदमदे'त्यतोऽनुपसर्गग्रहणाऽनुवृत्तिप्रदर्शनपरं वार्तिकं नाऽपूर्वकरणपरमत आह- अनुपसर्गेति । यत्र चेति । यत्र 'स्पृशोऽनुदके' इत्यादावनुपसर्गग्रहणानुवृत्तिन सम्भाव्यते एतदपि ज्ञापनस्य प्रयोजनमित्यन्वयः। इदञ्चिन्त्यम् । अत्रापि 'आतोऽ- नुपसर्गे' इत्यतोऽनुवृत्तिसम्भवात् ॥ [ सत्सूद्विषद्रुह ] ॥ अदोऽनन्ने । भाष्ये-आमादित्येवमर्थमिति । लोके एतत्सिद्ध्यर्थमि- त्यर्थः । क्रव्याद इत्यण्नेति । आममांसभक्षणकर्तेत्यर्थे इति भावः । पक्वमांस- १ 'सीति वर्तते' । २ इदं वचिन्न ।३'क्रव्यग्रह' । ४ 'तृन्नि' 'तुन्नि' । - ३अ.२पा.१आ.७१सू.] * व्याकरणमहाभाष्यम् , २२९ .. मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ॥ ३२२७१ ॥ ॥*॥ श्वेतवहादीनां डस् ॥ ॥ श्वेतवहादीनां डस्वक्तव्यः । श्वेतवा इन्द्रः॥१॥ पदस्य च [वर्थम् ॥*।। पदस्येति च वक्तव्यम् । इह मा भूत् । श्वेतवाही श्वेतवाह इति ॥ किं प्रयोजनम् ?॥॥र्वर्थम् ॥ ॥ यथा स्यात्॥ क्रियते वर्थ निपातनम् , 'अवयाः श्वेतवाः पुरोडाश्चेति । आतश्च वर्थम् । उक्थशःशब्दस्य हि सामान्येन रुःसिद्धो न तस्य निपातनं क्रियते। तन्न वक्तव्यं प्र.] मन्त्रे । डस्वक्तव्य इति । ण्विन्प्रत्ययबाधनार्थ इति भावः । पदस्यति । भाविपदाश्रयेणेदमुच्यते। यत्र डसन्तस्य पदत्वं भविष्यति तत्र डस्प्रत्ययोऽन्यत्र ण्विन्नेवेत्यर्थः । तन्न वक्तव्यमिति । डसैव सिद्धत्वान्निपातनं न कर्तव्यमित्यर्थः । वक्तव्यश्चेति । अवया इत्यादीनि प्रथमान्तान्येव निपात्यन्त इति 'श्वेतवोभ्या'मि- त्यादिरूपमन्यथा न स्यात् । अथापि पदमात्रविषयं निपातनमाश्रीयते, तथाप्यत उत्त्वं विधीयमानमाकारान्न स्यात् । तस्मात्संबुद्ध्यर्थं निपातनमपि कर्तव्यम् । डस- प्युत्त्वार्थो वक्तव्यः । 'उक्थशा' इत्येतदपि संबुद्ध्यर्थं निपातनं कर्तव्यम् । 'उक्थ- शोभ्या'मित्यादिसिद्धये डसपि कर्तव्यः। ण्विनि हि नलोपे निपात्यमाने वृद्धौ सत्या- मुत्वं न स्याद्यदि मन्त्रे दर्शनमस्ति। [मन्त्रे श्वेतवहोक्थ ] ॥ उ.]शब्दे उपपदेऽदेरण् ,उपपदस्य क्रव्यादेशः।पृषोदरादित्वादित्यत्रतुन भाष्यानुग्रहः, क्रव्यशब्देन तदबोधाच्च । एवञ्च 'क्रव्याद' इत्यसाध्वेवेति बहवः ॥ मन्त्रे श्वेत। भाष्ये-श्वेतवहादीनामिति । अनन्तरयोगे षष्टी । पदस्येत्यस्य तदन्ते पदत्वस्य सम्भावनायामित्यर्थः । केचित्तु तत्संवन्धिनो ण्विनः स्थाने डस्व- क्तव्य इत्यर्थ इत्याहुः । ननु डसुत्पत्तिवेलायां कथम्पदत्वमत आह-भावीति । भाष्ये-क्रियते वर्थमिति । तेन हकारादीनामेव रुत्वमिति भावः। भाष्ये-उक्थ- शस्शब्दस्येति । तत्प्रकृतिकस्येत्यर्थः । तन्न वक्तव्य मिति । ननु 'वासरूप'- न्यायेन डविषये ण्विनोऽपि सत्त्वेन तदर्थ निपातनमावश्यकमिति चेन्न; एतद्भाष्य- प्रामाण्येनाऽऽदेशपक्षस्यैवौचित्यात् । कयटे 'डस्प्रत्यय'इति व्यवहारः स्थानिवद्भाव- लब्धप्रत्ययत्वेनेति बोध्यम् । अवश्यं तद्वक्तव्यमिति । डसारम्भेऽपीत्यर्थः । न तहीदानीमिति। हादीनामेव रुत्वं विधेयम् , दीर्घस्तु ण्विनि वृद्ध्यैव सिद्ध इतिभावः। अन्यथा-डसभावे । इत्येतदपि संबुद्ध्यर्थमिति । पदान्ते डसन्तत्वादिति भावः । ननु डसेव मास्तु, तत्राऽऽह-उक्थशोभ्यामिति । यदि मन्त्रे इति । 'उक्थशस्शब्दस्य'ति भाष्याच्छंसे लोपोपधावृद्ध्यभावयोर्निपातनाच्छासेर्वोपधाहस्व- निपातनादृद्ध्यभावे 'उक्थशोभ्या मित्यस्य सिद्धेः, शासेर्विचि संबुद्धौ ‘उक्थशा' १ केचित्तु पृथग्वार्तिकतयेदं पठन्ति । २ इदं क्वचिन्न । ।

२३० * कैयट-विवरणसहितं. [स्थः क च [भवंति] ॥ अवश्यं तद्वक्तव्यं दीर्घार्थम् ॥ नैतदस्ति प्रयोजनम् । सिद्धमत्र दीर्घवम् 'अत्वसन्तस्य चाधातो'रिति ॥ यत्र तेन न सिध्यति तदर्थम् ॥ व च तेन न सिध्यति ? ॥ संबुद्धौ हे श्वेतवा इति॥ न तीदानी डस्वक्तव्यः? ॥ वक्तव्यश्च ॥ किं प्रयोजनम् ? ॥॥ उत्वार्थम् ।।*॥ श्वेतवोभ्यां श्वेतवोभिः । स्थः कच॥ ३२७७॥ किमर्थ स्थः कक्विपावुच्यते न क्विप्सिद्धोऽन्येभ्योपि दृश्यत इति, कश्च आतोऽनुपसर्ग क इति ? ॥ न सिध्यति । विशेषविहितः कः सामान्य- विहितं किपं बाधते ॥ वासरूपेण विबपि भविष्यति ॥ इदं तर्हि-शंस्थः शंस्थाः॥ उक्तमेतत् 'शमि संज्ञायां धातुग्रहणं कृतो हेत्वादिपु टप्रतिषेधार्थ'- मिति । स यथैवाऽटं बाधते एवं कविपावपि बाधेत ॥ [ स्थः क च ]॥ सुष्यजातौ णिनिस्ताच्छील्ये ॥ ३२२७८ ॥ सुपीति वर्तमाने पुनः सुग्रहणं किमर्थम् ? ॥ अनुपसर्ग इत्येवं तद- भूत् इदं सुम्मात्रे यथा स्यात् ,-प्रत्यासारिण्य उदासारिण्य इति॥*॥णिन्विधौ प्र.] स्थः क च। शंस्था इति । 'ईत्वमवकारादा'विति वचनाद्भाष्यकारवचन- प्रामाण्याद्वा प्रत्ययलक्षणेनेत्वाऽभावः । [ स्थः क च ] उ.] इत्यस्याऽपि सिद्धेयमपि न कार्यमित्यन्ये । [ मन्त्रे श्वेतवहोक्थ] । स्थः क चासप्तमीनिर्देशादेव तदादिविधौ लब्धे पुनर्वकारादाविति वचनं मुख्य- वकारादिप्रतिपत्त्यर्थमिति वदन्तम्प्रत्याह-भाष्यकारवचनेति । यद्वा यावान इति प्रयोगस्य वनिपा सिद्धिमाश्रित्य तत्प्रत्याख्यानादाह-भाप्यति । अत एव 'ध्यायतेः सम्प्रसारण मिति वार्तिके 'दधातेर्वा धी'रिति भाष्ये क्विप्यपीत्वं कृतम् । वस्तुतो भाष्ये किप्पदेन सादृश्याद्विजुच्यते इतीत्वाऽप्रसक्तिरेवाऽत्रेति बोध्यम् । भाष्ये- कविपाविति । 'आतोऽनुपसर्गे'इति 'वि'चेति विहितौ। तत्र कस्य बाधे 'शंस्थ' इति न सिध्येत्तदर्थ स्थः को विधेयः । कस्य चाऽज्वाधकत्वेन क्विबपवादत्वाऽ- भावात्परत्वेन विपो नित्यबाधवारणाय क्विबपि विधेय इति भावः । न चाऽचव 'शंस्था' इत्यस्य सिद्धत्वेन विपो बाधे फलाऽभावः । शंस्थाशब्दाच्छसि आतो लोपानापत्तेः । 'कृदति'ङिति .सूत्रस्थभाष्योक्तरीत्यकादेशस्य स्थानिवत्त्वात् । 'पुर- स्ता'दिति न्यायेन टस्यैव तेन बाध इति तु न शङ्कयं, 'येन नाऽप्राप्ति'न्यायेन क्किप एव बाध इत्यस्याऽपि वक्तुं शक्यत्वात् । तस्माद्बाध्यसामान्यचिन्तयोभयोरपि स बाधकः स्यादिति तात्पर्यम्॥ [स्थाक च] ॥ १ इदं क्वचिन्न । २ अत्र 'श्वेतवादीनां डस् , उत्त्वार्थम्' इति वार्तिकशरीर- मिति तु गौडाः । ३ 'बाधेत' ।

. ३१.२पा.१आ.७८सू.] - व्याकरणमहाभाष्यम् २३१ साधुकारिण्युपसङ्ख्यानम् ॥ ॥ णिन्विधौ साधुकारिण्युपसङ्ख्यानं कर्तव्यम् । साधुकारी साधुदायी ॥ ॥ ब्रह्मणि वदः ॥ ॥ ब्रह्मणि वद उपसङ्ख्यानं कर्त- व्यम् । ब्रह्मवादिनो वदन्ति ॥ [ सुप्यजातौ णिनिस्ताच्छील्ये ] ॥ व्रते ॥ २२।८०॥ किमुदाहरणम् ? ॥ अश्राद्धभोजी ॥ किं योऽश्राद्धं भुते सोऽश्राद्ध- भोजी ? ॥ किं चातः ? ॥ यदाऽसावश्राद्धं न भुझे तदाऽस्य व्रतलोपः स्यात् । तद्यथा स्थायी। यदा न तिष्ठति तदास्य व्रतलोपो भवति ॥ एवं तह णिन्यन्तेन समासो भविष्यति,-न श्राद्धभोजी अश्राद्ध- भोजीति ॥ नैवं शक्यम् । स्वरे हि दोपः स्यात् । अश्राद्धभोजीत्येवं स्वरः प्र.] सुप्य । णिन्विधाविति । अताच्छील्यार्थमिदम् । एवं-'ब्रह्मणि वद'इति । व्रते। उदाहरणे विचार्यमस्तीति प्रश्नः-किमिति । यदाऽसाविति । ननु बुभुक्षाप्रयुक्तं श्राद्धाऽश्राद्धभोजनं प्रसक्तम् , तत्राऽश्राद्धं भुङ्ग इत्यनेन श्राद्धभोजनं निषिध्यते। यथा ‘पञ्च पञ्चनखा भक्ष्या' इति शशादिव्यतिरिक्तपञ्चनखभक्षणं निव- य॑ते तत्रं कथं व्रतलोपः स्यात् । 'स्थण्डिलस्थायी'त्यत्र तु स्थानविपरीतगमनाचरणे युक्तो व्रतलोपः। उच्यते। 'अश्राद्धं मया भोक्तव्य मिति येन संकल्पः कृतः स यदा बुभुक्षायां सत्यां यस्मिन्नहन्यश्राद्धं न भुङ्क्ते तदा तस्य स्यादेव व्रतलोपः । न श्राद्धभोजीति। समासाथ प्रक्रियावाक्यमिदं न तु लौकिकम्। न हि केवल: श्राद्धभोजिशब्दो व्रतविषय उपपद्यते । अश्राद्धभोजिशब्दस्यैव व्रतविषयत्वात् । एवं स्वर इति । अव्ययपूर्वपदप्रकृतिस्वरत्वेनाद्युदात्तं पदं स्यात् । कृदुत्तरपदप्रकृति- स्वरत्वेनाऽन्तोदात्तत्वं चेष्यत इत्यर्थः । ननु च 'णिनी'त्यनेन पूर्वपदाद्युदात्तत्वेनैव उ.] सुप्यजाती। भाष्ये-अनुपसर्ग इत्येवमिति। 'उपसर्गेऽपीति ग्रहणाज्ज्ञापका- दित्यर्थः। एतेन 'सुब्ग्रहणमुपसर्गनिवृत्त्यर्थ मिति वृत्तिकारोक्तमास्तम्। सुप्यजाती]। बते । स्थायीत्यति । नन्वत्र कथं णिनिः सुप उपपदस्याऽभावादिति चेन्न, उत्तरसूत्राद्वहुलग्रहणमपकृप्य केवलादपि विधानेनाऽक्षतेः । 'उत्थित एवाऽद्य भवि- ध्यामि न तूपवेश्यामी'त्येवं संकल्परूपं व्रतमेतत् । 'तिष्ठन् मूत्रयत' इत्यादिव- दुत्थाने स्थाधातुरत्रेति परे । ग्रह्यादिणिन्यन्तस्यैव वा प्रकरणातपरत्वम् । परि- सङ्ख्यया पूर्वपक्षः, बिधिमाश्रित्य परिहारः। यस्मिन्नहनीति। एकादश्यादौ। भाष्ये- तद्यथा स्थायीति । स्थायी' त्यत्रोपपत्तिरुक्ता। 'आस्थायी ति पदमन्ये । 'स्थण्डिल- स्थायी'ति पाठ इति केचित् , तदुभयमपि भाष्यकैयटविरुद्धम् । व्रतविषय इति । न हि तादृशव्रतसम्भवः,व्रते णिनेः प्रकृतत्वाच्च । प्रागुक्तसंकल्पस्त्वप्रसिद्ध १ 'स्थण्डिलस्थायी यदा स्थण्डिले न तिष्टति तदा' । २ 'तत्कथं' । ३"णिनः' । ।

कैयट-विवरणसहितं [ व्रते प्रसज्येत । अश्राद्धंभोजीत्येवं चेष्यते ॥ एवं तर्हि नत्र एवाऽयं भुजिप्रतिषेध- वाचिनः श्राद्धशब्देनाऽसमर्थसमासो,-न भोजी श्राद्धस्येति॥ स तीसमर्थ- समासो वक्तव्यः ? ॥ यद्यपि वक्तव्योऽथ वैतर्हि बहूनि प्रयोजनानि ॥ कानि?॥॥॥ [प्रैयोजनानि] असूर्यपश्यानि मुखान्यपुनर्गेयाः श्लोका अश्राद्धभोजी ब्राह्मणः सुडनपुंसकस्येति ॥*॥। [व्रते] । आत्ममाने खश्च॥ ३२२८३॥ आत्मग्रहणं किमर्थम् ? ॥ परमाने मा भूदिति । क्रियमाणेऽपि वै आत्मग्रहणे परमाने प्राप्नोति ॥ किं कारणम् ? | 'आत्मन' इतीयं कर्तरि षष्ठी, 'मान' इत्यकारो भावे । स यद्येवात्मानं मन्यतेऽथापि परमात्मन एवाऽसौ मानो भवति ॥ नैष दोषः । आत्मन इति कर्मणि पेष्ठीयं॥कथम् ?॥ 'कर्तृकर्मणोः कृतीति ॥ ननु च कर्तर्यपि वा एतेनैव विधीयते तत्र कुत एतत्-कर्मणि भविष्यति न पुनः कर्तरीति ? ॥ एवं तर्हि-॥॥ कर्मकर्तरि प्र.]भाव्यमिति नास्ति स्वरभेदः।अत्राहुः-यदा णिनीत्यत्र संज्ञायामित्यनुवर्तते तदा- ऽसंज्ञायामस्ति स्वरभेदः । अथ नानुवर्तते खरभेदाऽभावः । भोजीति । एतदपि भुजिना संबन्धं नञः प्रदर्शयितुं प्रक्रियावाक्यमुपात्तम् । न हि केवलस्य भोजि- शब्दस्य प्रयोगः, सुप्युपपदे प्रत्ययविधानात् । तदेतदुक्तं भवति,-न श्राद्धं भुङ्ग इति वाक्यं कृत्वा नञः श्राद्धशब्देनाऽसमर्थसमासं विधायाऽश्राद्धशब्द उपपदे णिनिः कर्तव्यः । णिनीत्यत्र संज्ञानुवृत्तौ सत्यामत्र कृत्स्वरः । [ व्रते ] ॥ आत्ममाने। आत्मशब्दःप्रत्यगात्मवचनः परव्यावृत्तिं करोति । कर्मकर्तरीति । यदा प्रत्ययार्थः कर्ता, आत्मानमेव पाण्डित्यादियुक्तं मन्यते तदाऽसौ कर्मकर्ता भवति। तत्र यदि कर्तरि षष्टी स्यात्तदात्मग्रहणमनर्थकं स्यात् । कर्तृसम्बन्धाऽव्यभिचारा- उ.]एवेति भावः।अथ नाऽनुवर्त्तत इति। उपमानं शब्दार्थ' इति सूत्रस्थषाष्ठभाष्येऽ- यमपि पक्षो दृश्यत इति भावः । अत्र पक्षे स्वरभेदोक्तिरेकदेश्युक्तिरिति बोध्यम् । षाष्ठभाष्यं वैकदेश्युक्तिः । भाष्ये भुजिप्रतिषेधवाचिन इति । तदर्थवोधकस्य नत्र इत्यर्थः । सुप्युपपद इति । बहुलग्रहणन्तु क्वचिदिष्टसिद्धय इति भावः॥[ व्रते ] । आत्ममाने । पूर्व कर्मण इदानी कर्तृत्वाऽभावेन युगपदेकस्य कर्मकर्तृत्वविरो- धेन चेदमसङ्गतमत आह-यदेति । केवलविशिष्टभेदेन शब्दभेदेन वा न कर्तृकर्म- विरोध इति भावः । आत्मग्रहणमनर्थकमिति । यद्यपि 'उभयप्राप्ताविति नियमा- १ 'जीति चेष्यते'। २ 'अश्राद्धभोजीत्यसमर्थसमासः' इत्येवमत्र वार्तिकं लुप्त- मितिगौडाः । ३ इदं वार्तिकमित्यन्ये । भाव्यमेवेत्यन्ये । ४ इदं क्वचिन्न । ५ 'इतीयं कर्मणि षष्टी' । ६ 'वै तेनैव' ।

खशः स्वः ३आ.२पा.१आ.८३सू.]® व्याकरणमहाभाष्यम् , २३३ च ।।*। कर्मकर्तरि चेति वक्तव्यम् । तत्तर्हि वक्तव्यम् ? ।। न वक्तव्यम् । आत्मन इति कर्मणि षष्ठी ॥ कथम् ? ॥ 'कर्तृकर्मणोः कृतीति । ननु चोक्तं 'कर्तर्यपि वा एतेनैव विधीयते, तत्र कुत एतत्कर्मणि भविष्यति न पुनः कर्तरी ति ॥ [एवं तेहिं] आत्मग्रहणसामर्थ्यात्कर्मणि विज्ञास्यते ।। एवमपि कर्मकर्तृग्रहणं कर्तव्यं कर्मापदिष्टो यग्यथा स्याच्छयन्माभूदिति ।। कश्चात्र विशेषो यको वा श्यनो वा?॥ यकि सत्यन्तोदात्तत्वेन भवितव्यं श्यनि सत्याधुदात्तत्वेन ॥ श्यन्यपि सत्यन्तोदात्तत्वेनैव भवितव्यम् ॥ कथम् ? ॥ : श्यनः स्वरं बाधिष्यते ॥ सति शिष्टत्वाच्श्यनः स्वरः प्रामोति ॥ आचार्यप्रवृत्तिापयति- 'सतिशिष्टोऽपि विकरणस्वरः सार्वधातुकस्वरं न बाधत' इति यदयं तासेः परस्य लसार्वधातुकस्याऽनुदात्तत्वं शास्ति ॥ लसार्व- धातुक ए[वै]तज्ज्ञापकं स्यात् ॥ 'ने'त्याह । अविशेषेण ज्ञापकम् । इति श्री. मद्भगवत्पतञ्जलिमुनिविरचिते महाभाप्ये तृतीयस्य द्वितीये प्रथममाह्निकम् ॥ भूते ॥ ३२२८५ ॥ भूत इत्युच्यते कस्मिन् भूते ? ॥ काले ॥ न वै कालाधिकारोऽस्ति ॥ प्र.]न्मननक्रियायाः। कर्मापदिष्ट इति। लान्तस्य कर्ता कर्मवदित्यनपेक्ष्योक्तं, श्यनैव सिद्धर्वक्ष्यमाणत्वात् , यकः सिद्धान्तत्वाऽभावादुपेक्षणीयत्वात् । अविशेषेणेति । सार्वधातुकमात्र इत्यर्थः । इति उपाध्यायजेयटपुत्रकैयटकृते भाष्यप्रदीपे तृतीया- ध्यायस्य द्वितीये पादे प्रथममाह्निकम् ।३।२।१॥ भूते । यस्य स्वसत्ता व्यपवृक्ता तत्सर्व भूतशब्देनोच्यते । तत्र विशेष- उ.]दपि न कर्तरीति वक्तुं शक्यं,तथाऽपि उभयोःप्रयोगाऽभावादन तदप्राप्तिः।किञ्च तेन षश्यां समासाऽप्राप्तिः, कर्मणि चेति निषेधादित्याशयमाहुः । तद्वक्ष्यति भाष्य- कृत्-'आत्मग्रहणसामर्थ्यात्कर्मणी'ति । लान्तस्येति । इदमुपलक्षणं कर्मस्थया क्रियया तुल्यक्रियत्वस्याऽपि । वस्तुतः 'कर्मकर्तृग्रहण'मिति भाष्यस्य कर्म- वडावो वक्तव्य इत्यर्थः । यथाऽस्याऽपि कर्मकर्तृत्वेन ग्रहणं व्यवहारो भवति तथा वक्तव्यमित्यक्षरार्थः । श्यनैव तत्फलसिद्ध्या तत्प्रत्याख्यानम् । भाष्ये-यदयं तासेरिति । लाऽवस्थायां स्यतास्योरुत्पत्तौ तु वाचनिकमेवेदमिति बोध्यम् । * इति श्रीशिवभट्टसुतसतीगर्भजनागोजीभट्टकृते भाष्यप्रदीपोक्ष्योते तृतीयस्य द्वितीये पादे प्रथममाह्निकम् ॥ ३।२।१ ॥ भूते। यस्य स्वसत्ता व्यपवृक्तेति। अतीतेत्यर्थः। तस्यैवेति। अन्यत्र तत्काल. वृत्तित्वेन भूतशब्दप्रयोगो गौण इति भावः । एतदाशयाऽनभिज्ञस्य 'न वै' १ कर्तरि खश्चेति'। २ 'इतीयं कर्म'। ३ इदं क्वचिन्न । ४ 'खशस्वरः श्यन्वरं'।

२३४ कैयट-विवरणसहितं [भूते एवं तर्हि 'धातो रिति वर्तते । धातो भूते॥ धातुर्वै शब्दो न च शब्दस्य भूत- भविष्यद्वर्तमानतायां संभवोऽस्ति ? ॥ शब्देऽसंभवादर्थे कार्य विज्ञास्यते ॥ कः पुनर्धात्वर्थः ?॥ क्रिया । क्रियायां भूतायाम् ॥ यद्येवं ॥*॥ निष्टाया- मितरेतराश्रयत्वादप्रसिद्धिः॥*॥ निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः स्यात् ॥ के प्र.]ज्ञानाय पृच्छति-कस्मिन्निति । इतर आह-काल इति । तस्यैव भूतादिशब्द- वाच्यत्वेन सुप्रसिद्धत्वादिति भावः । तत्र केचिन्नित्यं कालं पदार्थानामनुज्ञाप्रतिबन्धा- भ्यां स्थित्युत्पत्तिप्रलयहेतुमाचक्षते । तत्र संसर्गिसूर्यादिक्रियाभेदाश्रयो मासादिभेद- व्यवहारो भूतादिव्यपदेशश्च । अन्ये तु प्रसिद्धपरिमाणक्रिया सूर्यादिकर्तृका अप्र- सिद्धपरिमाणायाः क्रियायाः परिच्छेदायोपात्ता अहरादिव्यपदेश्या काल इत्याहुः । न वै कालाधिकार इति । ततश्च सामान्यशब्दस्य विशेषेऽवस्थानं न लभ्यत इत्यर्थः। न च शब्दस्येति । शब्दस्याऽर्थे गुणभावाद्गुणस्य विशेषणसंबन्धाऽयोग्य- त्वान्नित्यत्वाद्वा शब्दस्यानित्यत्वेऽपि भूतात्प्रत्ययविधानासंभवादुच्चरितत्वलक्षणभूत- उ.]इत्यादिग्रन्थ इति तात्पर्यम्। अभ्यनुज्ञाप्रतिवन्धार्थाभ्यामिति। तद्रूपाभ्यामर्था- भ्यामित्यर्थः । तत्राऽभ्यनुज्ञया-स्थित्युत्पत्तिहेतुः । प्रतिबन्धेन-प्रलयहेतुः । ईश्वराऽधिष्ठितत्वेन च तदुपपत्तिः। ननु नित्ये काले तत्सत्ताया व्यपवृक्तत्वाऽभावा- त्कथं भूतत्वव्यवहार इत्यत आह-तत्र संसर्गीति । तक्रिययोपाधिभूतया यो भेद उपधेयस्य तत्कृतो मासादिव्यवहार इत्यर्थः । अन्ये विति । तथा च तस्या अनित्यत्वात्सिद्ध एव भूतादिव्यवहार इत्यर्थः । आये पक्षे क्षणोपार्निवक्तुमशक्य- त्वम् । उत्तरदेशसंयोगाऽवच्छिन्नक्रियेति चेत्तस्या विशेष्यविशेषणसंवन्धरूपत्वे त्रयाणामपि स्थिरत्वात्क्षणव्यवहारनियामकत्वाऽभावः । अतिरिक्तत्वे सिद्धोऽतिरिक्तः क्षणपदार्थ इति तत्प्रचयैरेव कलामुह दिव्यवहारोपपत्तौ किमखण्डेन तेन । स्पष्टश्चेदं 'कालाः परिमाणिने त्यत्र भाष्ये इति निरूपितं तत्रैव । ईश्वरस्यापि कालनियामकत्वेन कालत्वव्यवहारः श्रुत्यादिष्विति बोध्यम् । अन्ये विति मतेऽ- प्येष दोषोऽस्त्येव । किञ्च 'प्रसिद्धपरिमाणे'त्युक्तिरसङ्गता, तस्या अपि क्रियान्त- रस्यैव परिच्छेदकत्वेऽनवस्थापत्तिरिति दिक् । शब्दस्येति । स्वाऽभिधेयप्रतिपादने व्यग्रतया विशेषणसंबन्धाऽयोग्यत्वादिति भावः । तदाह-गुणस्येति । नित्यत्वा- द्वत्यनेन भूतादिव्यवहाराऽयोग्यत्वं दर्शयति । वैयर्थ्यादिति । अनुच्चारिता- प्रत्ययविधेरसम्भवादिति भावः । न च शब्दस्येति-भाष्ये । तस्य नित्यत्वेन भूतादिविशेष्यतायां सम्भवो नेत्यर्थः । अनित्यत्वपक्षेऽपि यथा वर्तमानशब्दस्य प्रकृतित्वसम्भवो न तथा भूतभविष्यतोः शब्दयोः प्रकृतित्वसम्भव इति योजना १ 'तायाः' । २ इदं क्वचिन्न । ।

३अ.२पा.२आ.८४सू.] * व्याकरणमहाभाष्यम् - . तरेतराश्रयता ? ॥ भूतकालेनाऽयं शब्देन निर्देशः क्रियते, निर्देशोत्तरकालं च भूतकालता । तदेतदितरेतराश्रयं भवति । इतरेतराश्रयाणि [कार्याणि] च न प्रकल्पन्ते ॥* ॥ अव्ययनिर्देशात्सिद्धम् ॥ ॥ [ अव्ययनिर्देशासिद्धमेतत् ] ॥ अव्ययवता शब्देन निर्देशः करिष्यते । अवर्तमानेऽभविष्यतीति ॥ स त_- व्ययवता शब्देन निर्देशः कर्तव्यः ? ॥ न कर्तव्यः । अव्ययमेष 'भूते'शब्दो, नेपा भवतेर्निष्ठा ॥ कथमव्ययत्वम् ? ॥ ['उपसर्ग] विभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा । निपातोऽव्ययमित्यव्ययसंज्ञा ॥ अथापि भवतेर्निष्टैवमप्यव्ययमेव ॥ कथम् ? ॥ न व्यतीत्यव्ययमिति ॥ व पुनर्न व्येति ?॥ एतौ कालविशेषी भविष्यद्वर्तमानौ । स्वभावतो भूते एव वर्तते ॥ यदि तर्हि न व्यतीत्यव्ययम् ॥ ॥ न वा तद्विधानस्याऽन्यत्राऽभावात् ॥॥ न वा भूताधिकारेणाऽर्थः ॥ किं कारणम् ?॥ 'तद्विधानस्थान्यत्राऽभावात्'। ये- ऽपि ह्यते इत उत्तरं प्रत्ययाः शिप्यन्ते एतेऽप्येतो कालविशेषो न वियन्ति भविष्यद्वैतमानौ । स्वभावतः [एव ते] भूत एव वर्तन्ते॥ अत उत्तरं पठति प्र.]त्वाश्रये च विशेषणवैयर्थ्यादिति भावः।भूतकालेनेति । भवतेनिष्टाप्रत्ययो भूत- क्रियावाचिनो विधातव्यः, न च भूताधिकारमन्तरेण निष्टाप्रत्ययस्य भूत- क्रियाविषयत्वं लभ्यते । न च भूतक्रियाविषयनिष्टाविधानमन्तरेण भूताधिकार उप- पद्यते । ततश्चाधिकाराश्रयो निष्टाप्रत्ययस्तदाश्रयश्चाधिकार इतीतरेतराश्रयत्वमित्यर्थः। एवमपीतिान शास्त्रीयमव्ययत्वमभिमतं किं तर्हि नित्यत्वमित्यर्थः।ततो नित्योभूतशब्दो- निकान्तार्थवाची नित्येनार्थेन भविष्यद्वर्तमानप्रतिद्वन्द्विना संबद्धोऽधिक्रियत इत्यर्थः। उ.]बोध्या। क्रियायाम्भूतायामिति । तस्याम्भूतत्वञ्च वर्तमानध्वंसप्रतियोगिकाल- वृत्तित्वम् । भूतकालेनेति । भूतकालक्रियावाचकेनेत्यर्थः । अव्ययनिर्देशादिति । वार्तिकेऽव्ययपदमर्श आद्यजन्तं, न्यासान्तरपरञ्चेत्याशयेनाह-अव्ययवतेति । अव्ययमेप इति । अव्ययस्य भूतशब्दस्य निर्देशादिति वार्तिकार्थ इति भावः । नित्येनाऽर्थेनेति । साधुत्वज्ञानं न शाब्दे कारणं नाऽप्यसाधुत्वज्ञानं प्रतिबन्धक- मित्यर्थः । परमतेऽपि शिष्टोच्चारितत्वेन साधुत्वाऽनुमानाबोधः । शास्त्र तत्प्रत्यक्षन्तु पश्चाद्भविष्यतीत्यदोषः। यदि तु शास्त्रेणैव निष्पाद्यः स्यात्स्यादयं दोष इति भावः । भाष्ये-न व्यतीति । विविधमर्थ न प्राप्नोतीत्यक्षरार्थः । शास्त्राऽभावेऽपि तदर्थक एवाऽयमिति भावः । तदुक्तं कैयटेन-नित्यत्वमित्यर्थ इति । क पुनर्न व्यतीति। कति विषयसप्तमी, कस्मिन्विषये विविधमर्थ न प्राप्नोति । किं रूपं विविधमर्थन प्राप्नोतीत्यर्थः । तत्रोत्तरमाह भाष्ये-एती १कचिन्ना२ वर्तमानभवि'1३'येऽप्ये'।४तेऽप्येतो'५'कान्तवाची'।६ शास्त्रजतत्प्र' ।

२३६ कैयट-विवरणसहितं [भूते ॥ ॥ भूताधिकारस्य प्रयोजनं कुमारघाती शीर्षघात्याखुहा बिडालः सुखानः प्र.कुमारघातीति। यदीह भूताधिकारो न क्रियते तदा 'कर्मणि हन' इति णिनिः सामान्येन विधीयते । 'कुमारशीर्षयोणिनि'रित्ययमपि [णिनिः] तथैव काल- सामान्ये । पुनर्विधानं तु वासरूपनिवृत्त्यर्थं स्यात् । ततश्च विशेषविहितः कुमार- शीर्षयोणिनिरित्ययं भूतेऽपि प्रसज्येत। सति तु भूताधिकारे तक्रकौण्डिन्यन्यायेन कुमारशीर्षयोरित्यनेन भूतणिनि बाधित्वा भविष्यद्वर्तमानयोरेव णिनिर्विधीयते । आखुहेति । सति भूताधिकारे ब्रह्मादिष्वेव हन्तेर्भूते क्विब्भवतीति नियमेन भूत- एवोपपदान्तरे विनिवर्त्यते न तु कालान्तर इत्याखुहेति भविष्यद्वर्तमानयोः प्रयोग उपपन्नो भवति । सुन्वन्त इति । 'मुजो यज्ञसंयोग' इति शतृप्रत्ययः । तत्र यदि भूताधिकारो वर्तमानाधिकारश्च न क्रियते तदा यज्ञसंयोगे विशेषविधीयमानः शता कालत्रयेऽपि निपं वाधेत । ततश्च भूते यज्ञसंयोगे मुत्वेति न स्यात् । अथ वास- उ.]कालविशेषाविति । तद्विधानस्यति । तस्मिन्विधानं यस्येत्यर्थः। भूतशब्दवत् तेऽपि स्वभावत एव भूतमात्रवाचका भवन्ति, किमधिकारेणेति भावः । सामान्ये- नेति। कालसामान्येनेत्यर्थः। 'सामान्ये' इति सप्तम्यन्तपाठस्तु युक्त एव । ननु वृत्ती 'कर्मणी'ति सूत्रे कुत्सित'ग्रहणं कृतमिति अकुत्सितार्थन्तदिति चेन्नः कुत्सित'ग्रहणस्य भाष्येऽभावात् । शब्दशक्तिस्वभावसिद्धञ्चत्तत्राऽपीति भाष्याशयः। ननु तेनैव सिद्ध 'कुमार'त्यादि व्यर्थमिति चेत्तत्राह-पुनर्विधानंत्विति। 'कुमारहन्ते'त्यादिव्यावृत्तय इत्यर्थः । विशेषविहितः-उपपदविशेषे विहितः। इत्ययम्भूतेऽपीति । इत्ययमपि भूते प्रसज्येतेत्यन्वयः । तक्रकौण्डिन्येति । कुमारशीर्षयोर्विशेषविहितो णिनिः 'कर्मणि हन' इत्येतं बाधते । तत्र तेनाऽपि णिनेरेव विधानेन णिनेर्बाधस्य वक्तुम- शक्यतया तत्सहचरितभूतकालो बाध्यत इति वर्तमानभविष्यतोरेव 'कुमार'त्यादि- णिनिर्भवति । एवञ्च तद्बाधनेन चरितार्थ शास्त्रमिति 'वासरूप'न्यायबाधे माना- ऽभावेन 'कुमारहन्ते त्याद्यपि सिद्ध्यतीति भावः । 'कुमारघाती'त्यादौ विधीयमानः 'कुमारे'त्यादिणिनिर्भविष्यद्वर्त्तमानयोर्यथा स्यात्तस्य भूतार्थे निवृत्तिश्च यथा स्या- दिति भूताधिकार इति भाष्याक्षरार्थः । इदञ्चिन्त्यं, तक्रकौण्डिन्यन्यायस्य विधेय- विषयत्वात् । तस्माद्भूताऽधिकारसामर्थ्यात् 'कर्मणि हन' इत्यत्राऽयमेव णिनिः । 'भूत' इति नियमादन्यस्य णिने ते निवृत्तिरिति भाष्यार्थः । यथाऽस्य णिनेरधि- काराऽभावेऽपि स्वभावत एव भूते वृत्तिस्तथा 'कुमार' त्यस्य स्वभावत एव भूते निवृत्तिभविष्यतीत्यरुचेः प्रयोजनान्तरमाह भाष्ये-आखुहेति। यज्ञसंयोग इति । यज्ञसंयोगविषये शता निपस्त्रिषु कालेष्वपवादो माभूदित्यन्वयः। प्रसङ्गाद्वर्त्तमानाs. धिकारस्याऽपि प्रयोजनप्रदर्शन। वार्तिके 'भूताऽधिकारस्ये'त्युपलक्षणम्। तत्र नि- २३७ . ३अ.२पा.२आ.८७सू.] ® व्याकरणमहाभाष्यम् 8 सुन्वन्तः सुषुपुषोऽनेहा अग्निमादधानस्य,[भूतकालनिवृत्त्यर्थ भविष्यद्वर्तमानकालसंप्र- त्ययार्थम् ]॥ ॥ कुमारघाती शीर्षघातीति भविष्यद्वर्तमानार्थों भूतनिवृत्त्यर्थः । आखुहा बिडाल इति, भविष्यद्वर्तमानार्थः। इतरथा हि ब्रह्मादिषु नियमस्त्रिषु कालेषु निवर्तकः स्यात् ॥ सुत्वानः सुन्वन्तः, यज्ञसंयोगे निपस्त्रिषु कालेषु शताऽपवादो मा भूत् ॥सुषुपुपः, नजिङ् सर्वकालापवादो मा भूत् । अनेहा इति, वर्तमानकाल एव । अन्यत्र-'अनाहन्ता' ॥ आदधानस्य ।-कानच- श्वानर ताच्छील्यादिषु सर्वकालापवादो मा भूत् । अग्निमादधानस्य । आदधानस्येत्येवान्यत्र ॥ प्र.] रूप इति निविधीयते तथापि मुत्वा मुन्वन्निति कालभेदो न स्यात् । सति त्वधिकारे कालभेदेन तयोरवस्थानं भवति । सुपुपुप इति । असति भूतवर्तमाना- धिकारे विशेषविहितेन नजिला लिटो वाधनं स्यात्। ताच्छीलिकेषु च वासरूपविधि- नास्ति । सति त्वधिकारे भूते लिवर्तमाने नजिङिति बाध्यबाधकभावाऽभावः । अनेहा इति। नत्र्याहन एह चेति असिप्रत्ययोऽसत्यधिकारे सर्वस्मिन्काले तृचं बाधता सति त्वधिकार वर्तमानकाल एवौणादिकस्तृचं बाधेत। चानशिति। असत्यधिकारे कानचश्चानश्वाधकः स्यात्।कः पुनरनयो दो यावताऽभ्यस्तानामादिरिति लसार्वधातुके उ.]भूताऽधिकारे। शता वर्त्तमानाऽधिकारे।कनिप्- 'सुयजोर्ध्वनिबिति विहितम्। कालभेदो न स्यादिति । वाऽसरूपेण वर्तमानेऽपि निष्प्राप्नोतीति भावः । नजि- वेति । 'स्वपितृषोर्नजिङ' । अयं वर्तमानाऽधिकारे । लिट्-भूताऽधिकारे। लिट:- 'छन्दसि लिट्' लिटः कानज्वा' 'कमुश्च'त्यस्य । भाष्ये-सर्वकालाऽपवाद इत्यस्य सर्वकालद्योतकप्रत्ययाऽपवाद इत्यर्थः । भूतकाललिटोऽपीति यावत् । असत्यधिकार इति । 'वर्तमान' इत्यधिकारेऽसतीत्यर्थः । सति विति । 'वर्तमान' इत्यधिकारे सति 'उणादय' इत्यस्य तदधिकारस्थत्वादसिर्वतमानकाल इति भावः । रूढिशब्द- त्यादेवोणादिषु वाऽसरूपविधिर्नास्तीति तात्पर्यम् । एतत्प्रयोजनोक्तिरेकदेशिनः, उणादीनामव्युत्पन्नत्वेऽसम्भवात् । ण्वुल्तृचोरपि वर्तमानकाल एव साधुत्वस्य तत्सूत्रे भाष्य उक्तत्वेन ‘अन्यत्र अनाहन्ता' इत्यस्याऽसङ्गत्तेश्च । असत्यधिकार इति । भूतवर्तमानयोरधिकारयोरसतोरित्यर्थः । कानच इति । वसोरप्युपलक्षणमिदम् । यद्वा कानजुपलक्षितस्य लिट इत्यर्थः। लसार्वधातुक इति । तत्र चानशः सार्व- धातुकत्वेऽपि लादेशत्वाऽभावः । कानचो लादेशत्वेऽपि आर्द्धधातुकत्वमित्युभयत्रा- ऽप्यन्तोदात्तत्वमेवेति भावः । कत्रभिप्राय एवेति । अतस्मिस्तु कसुरिति भावः । भाष्ये 'चानश्ताच्छील्यादिषु सर्वकालाऽपवादो माभूदित्युत्तरम्-'अग्निमादधानस्ये'- १ इदं क्वचिन्न । २ इदं लुप्तं स्यात् ।

२३८ कैयट-विवरणसहितं. [ ब्रहाभ्रूण ब्रह्मभूणवृत्रेषु विप् ॥ ३२॥८७ ॥ किमर्थं ब्रह्मादिषु हन्तेः विविधीयते न विप्चान्येभ्योपि दृश्यत इत्येव सिद्धम् ? ॥ * ॥ ब्रह्मादिषु हन्तेः क्विब्वचनं नियमार्थम् ॥१॥ [ब्रह्मादिषु हन्तेः क्विब्वचनं नियमार्थम् ]॥ नियमार्थोऽयमारम्भः। ब्रह्मादिष्वेव हन्तेर्भूते वि. व्यथा स्यादिति ॥ किमविशेषेण?॥'ने'त्याह । उपपदविशेषे, एतस्मिंश्च विशे- पे ॥ अथ ब्रह्मादिषु हन्तेणिनिना भवितव्यम् ? ॥ न भवितव्यम् ॥ किं कार- णम् ?॥ 'उभयतो नियमात्'। उभयतो नियमोऽयम् । 'ब्रह्मादिष्वेव हेन्तेर्भूते क्विन्भवति' । 'विबेव च [हन्तेर्भूते ] ब्रह्मादिग्विति ॥*॥ तथा चोत्तरस्य प्र.] विधीयते न सार्वधातुकमात्रे।एवं तद्युपग्रहकृतो.भेदः।कानजात्मनेपदत्वात्क-- भिप्राय एव भवति, चानश्पुनरविशेषेण । सति त्वधिकारे भूते कानज्वर्तमाने चानशिति बाध्यवाधकभावाऽभावः । [ भूते ] । ब्रह्मभ्रूणाकिमविशेषेणेति।किंधातूपपदकालप्रत्ययाश्चत्वारोऽपि नियम्यन्ते अथ किं चिदेव नियम्यत इति प्रश्नः। उपपदविशेष इति। अनेन धातुनियमं दर्शयति, 'ब्रह्मादिष्वेव हन्तेर्भूते किन्भवति नोपपदान्तरे' । तेन पुरुषं हतवानित्यत्र किन भवति।अथेति कर्मणि हन' इत्यनेनेति भावः।विबेवेति। ब्रह्मादिषु हन्तेर्भूते क्विवेव भवति न प्रत्ययान्तर'मिति किपि भूतकालो नियम्यत इति कालनियमोऽयं भवति। एतदेव नियमद्वयं भाष्यकारेणाश्रितम्। ब्रह्मादिषु हन्तेरेवभूते किन्भवति' 'ब्रह्मादिषु हन्तेः क्विव्भूत एवे'त्येतत्तु नियमद्वयं नाभ्युपगतम् । अन्यस्त्वाहोपुरुषिकया चतु- विधी नियमो व्याख्यातः, स भाष्यविरोधान्नादरणीयः । तथा चेति । यस्माद्ब्रह्मा- उ.] त्येव । सुपुपुषोऽनेहाऽग्निमित्यपाठः । आदधानस्येत्येवाऽन्यत्रेति । भूतार्था- ऽतिरिक्तवर्तमानत्वविवक्षायामकर्बभिप्राये कञभिप्राये च 'आदधानस्येत्येव । भूते नु कर्बभिप्राये एव तथा । अकञभिप्राये तु क्वसुरेवेत्यर्थः ॥ [ भूते ] ब्रह्मभ्रूण। किं धातूपपदेति । भाष्य-'नियमार्थोऽयमारम्भः किमविशेषेणे'- त्येव पाठः । 'ब्रह्मादिष्वेवे'त्यादिनियमाकारलेखस्तु लेखकप्रमादात् , अन्यथा तदाकारप्रदर्शनेनैव नियमान्तरतिरस्कारात्पुनः प्रश्नाऽनुपपत्तेः। उपपदविशेप इति । नियमम्य सजातीयापेक्षत्वात् 'हन्तेः विवुपपदविशेष एवेत्यर्थः। एतस्मिश्च विशेष इति। भृत इत्यर्थः तेना भूते हन्तेः विब्रह्मादिष्वेवेति नियम इति भावः। तदाह-अनेनेति । धातोर्ब्रह्माद्यतिरिक्त उपपदे भूतकालाऽवच्छिन्नेऽर्थे वर्तमानात् क्रिपोऽसंबन्धबोधकत्वादिति भावः । भाष्ये-अथेति । एतन्मात्रनियमाऽङ्गीकारे इत्यर्थः । कालनियम इति । भूतकालाऽवच्छिन्नाऽर्थाद्धातोः क्विबतिरिक्ताऽसंवन्ध- १ इदं लुप्तं । २ 'हन्तेः विप्' । ३ इदं क्वचिन्न । ४ 'किन्भूतकाले निय' ।

३१.२पा.२आ.९३सू.] * व्याकरणमहाभाष्यम् 8 २३९ वचनार्थः ॥ ॥ एवंच कृत्वोत्तरस्य योगस्य वचनार्थ उपपन्नो भवति,-'बहुलं छन्दसी'ति । यो मातृहा पितृहा भ्रातृहा । न च भवति 'अमित्रघात' इति ॥ कर्मणीनिविक्रियः ॥ ३२।९३॥ ॥*॥ कर्मणि कुत्सिते ॥॥ कर्मणि कुत्सिते इति वक्तव्यम् । इह मा भूत् । धान्यविक्राय इति ॥[कर्मणीनि]॥ अन्येप्वपि दृश्यते ॥ ३।२।१०१ ॥ ॥॥ अन्येभ्योऽपि दृश्यते ॥ ॥ अन्येभ्योपि दृश्यत इति वक्तव्यम् ॥ इहापि यथा स्यात्-आखा उखा परिखा ॥ [अन्येष्वपि दृश्यते । निष्ठा ॥ ३।२।१०२॥ ॥*॥ निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः ॥॥ निष्टायामितरेतराश्रयत्वा- दप्रसिद्धिः स्यात् ॥ केतरेतराश्रयता ? ॥ सतोः क्तक्तवत्वोः संज्ञया भवि. तव्यं, संज्ञया च तक्तवतू भाव्यते । तदेतदितरेतराश्रयं भवति । इतरेतराश्र- याणि च [कार्याणि] न प्रकल्पन्ते॥ ॥द्विर्वा तक्तवतुग्रहम् ॥*॥ द्विर्वा तक्त- वतुग्रहणं कर्तव्यं भवति 'क्तक्तवतू भूते' । क्तक्तवत् निष्ठेति। यदि पुनरिहैव प्र.] दिष्वेवेति नियमोऽनेन क्रियते तस्मादुत्तरस्य योगस्य वचने प्रयोजनमस्ति,- उपपदान्तरेऽपि हन्तेश्छन्दसि किव्यथा स्यादिति । [ब्रह्मभ्रूणवृत्रेषु ॥ कर्मणि । कर्मणि कुत्सित इति । यस्य सोमघृतादेः शास्त्रेण विक्रयः प्रति- षिद्धस्तत्कर्म विक्रये कुत्सितम् । [ कर्मणोनिविक्रियः ] ॥ अन्येष्वपि । अन्येष्विति सप्तमीनिर्देशादुपपदान्तरमेवाश्रितं न तु धात्व- न्तरमित्याह-अन्येभ्योपीति । [अन्येष्वपि दृश्यते ॥ उ.]बोधकत्वादिति भावः। तत्र केवलधातोः प्रत्ययान्तरसंवन्धस्याऽवारणात्तात्पर्यतः कालनियमोऽयमिति बोध्यम् । नियमद्वयमिति। ब्रह्मादिष्वेव''क्विवेवेति च कल्प्य- मानस्यैवकारस्य श्रुत्युपस्थापितेऽन्वयो न्याय्यः। स च भाष्यप्रामाण्यादुभयत्राऽपीति तत्त्वम् । उत्तरस्य वचनार्थ इति । सापेक्षत्वेऽपि गमकत्वात्समासः । धातुनिय- मस्येदं मानमिति दर्शयति-यस्मादिति । नन्वेतदर्थ 'छन्दसि' इत्येवास्तु, सामर्थ्यादुपपदान्तरे भविष्यति किं बहुलग्रहणेनेत्यत आह भाष्ये-न च भवति अमित्रेति । तावन्मात्रोक्तौ 'विवेवेति नियमान्न स्यात्स भवस्वित्येतदर्थं बहुल. पदमिति भावः ॥ [ब्रह्मभ्रूण] ॥ कर्मणीनि । ननु कर्मणः कथं कुत्सितत्वमत आह-यस्य सोमेति ॥ निष्टा । 'तौ सदिति वचन' मित्यादि वार्तिक 'ती स'दिति सूत्रे तेन समान- १ इदं क्वचिन्न । २ 'निर्विक्रियः' । ३ 'उत्खा'।

२४० ॐ कैयट-विवरणसहितं [निष्ठा निष्ठासंज्ञाप्युच्येत । 'तक्तवतू भूते' । ततो-'निष्ठा' । निष्ठासंज्ञौ च तक्तवतू भवत इति ॥ किं कृतं भवति ? ॥ द्विःक्तक्तवतुग्रहणं न कर्तव्यं भवति ॥ एवमपि 'ताविति वक्तव्यं स्यात्। वक्ष्यति ह्येतत् 'तौ सदिति वच- नमसंसर्गार्थ मिति। असंसक्तयोर्भूतकौलेन तक्तत्वोर्निष्ठा संज्ञा यथा स्यात् । जिमिदा-मिन्नः । जिश्विदा-क्ष्विण्णः ॥ यदि पुनरदृष्टश्रुतावेव क्तक्तवतू गृही. त्वा निष्टासंज्ञोच्येत ? ॥ नैवं शक्यम् । दृष्टश्रुतयोर्न स्यात् । जिमिदा-मिन्नः। [लिक्ष्विदा-विणे इति ] । तस्मान्नैवं शक्यम् ॥ न चेदेवं द्विःक्तक्तवतु- ग्रहणं कर्तव्यं भवति इतरेतराश्रयं वा भवति ॥ नैप दोषः, इतरेतराश्रयमात्र- मेतद्भवति । सर्वाणि चेतरेतराश्रयाण्येकत्वेन परिहृतानि 'सिद्धं तु नित्यशब्द- त्वादिति ॥ नेदं तुल्यमन्यैरितरेतराश्रयैः। न हि संज्ञा नित्या ॥ एवं तर्हि प्र.] निष्ठा । यदि पुनरिति।यौ लौकिके प्रयोगे न दृष्टौ नापीह शास्त्रे श्रुतौ तौ क्त- क्तवतू निर्दिश्य संज्ञा विधीयते।एतदुक्तं भवति,-इहैव प्रकरणे क्तत्तवतू निष्ठेति सूत्रं कर्तव्यम्। । यो भूते क्तक्तवतू तौ निष्टासंज्ञौ भवतः । तत्र संज्ञाविधानाऽन्यथा- नुपपत्त्या तयोर्भूते विधानमनुमाम्यते, इतरेतराश्रयदोषश्च न भविष्यतीति । दृष्ट- श्रुतयोरिति।यद्यपि क्तवतुरन्यो नास्ति तथापि संज्ञाविधाने द्वयोः सह निर्देशादत्रापि द्विवचनेन निर्देशो न तु द्वित्वं विवक्षितम्।एकत्वेनेति ।सामान्येनेत्यर्थः।न हि संज्ञा नित्यति । वृद्ध्यादिका संज्ञा विषयनियतत्वान्नित्या । आकारादयो हि प्रयोगे विद्यन्ते तत्र 'मृजेर्वृद्धि'रित्यादिना साधुत्वमात्रमन्वाख्यायते-मृजेवृद्धिः साधुर्भवति । तक्त- वतू तु सानुबन्धको प्रयोगे न विद्यते इति नित्यत्वाऽभावं संज्ञिनोऽभिप्रेत्यैतदुक्तम् । उ.]न्यायमिदमित्याह भाष्ये-असंसक्तयोरिति।तावित्युक्ते हि अगृहीतविशेषस्वरूप- मात्रपरामर्शान्न दोष इति भावः । 'भिन्न' इत्यादौ 'जीतः क्त' इति वर्तमाने क्तः । यदि पुनरिति भाष्यम्पूर्वोक्तेन पुनरुक्तमित्याशङ्कयाह-यौ लौकिके इति । न दृष्टाविति । अनुबन्धविशिष्टौ न दृष्टावित्यर्थः । कथमश्रुतत्वमत आह- एतदुक्तम्भवतीति । भाष्ये-दृष्टश्रुतयोरिति । 'जीतः क्त' इत्यादौ । अत्र शास्त्र- ज्ञानां तत्त्वप्रत्यभिज्ञानात्प्रयोगेऽनुबन्धविगमेऽपि दृष्टत्वं बोध्यम् । भाष्ये-द्विः- तेति।तद्बोधकग्रहणमित्यर्थः। तक्तवतू भूते तो निष्टेति। सामान्येनेति। एकत्वपदेन तदाश्रयो लक्ष्यते । साधारणपर्यायश्च 'एक'शब्द इत्यन्ये । ननु वृद्ध्यादिसंज्ञाऽपि कृत्रिमत्वादनित्यैव, तत्कथं तत्राऽयं समाधिर्नेहेत्यत आह-वृद्ध्यादिकेति । विषय- नियतत्वादिति । संज्ञाविषयस्य शास्त्रे प्रयोगे चैकरूपत्वेन संज्ञिनो नित्यत्वात्संज्ञा नित्या, साधुत्वाऽन्वाख्यानस्य च सम्भवो, नैवम्प्रकृते इति भावः । ननु संज्ञायाः १ 'तक्तवतू निष्टासंज्ञौ'।२ 'भूतेन कालेन निष्टा' । ३ 'हिं न स्यात्।४ क्वचिन्न । ..

३अ.२पा.२आ.१०२सू.] * व्याकरणमहाभाष्यम् ® भाविनी संज्ञा विज्ञास्यते । तद्यथा कश्चित्कं चित्तन्तुवायमाहा'ऽस्य सूत्रस्य शाटकं वयेति । स पश्यति-'यदि शाटको, न वातव्यः, अथ वातव्यो न शाटकः; शाटको वातव्यश्चेति विप्रतिषिद्धम् , भाविनी खल्वस्य संज्ञाऽभि- प्रेता, ‘स मन्ये वातव्यो यस्मिन्नुते शाटक इत्येतद्भवतीति । एवमिहापि तौ भूते काले भवतो ययोरभिनिर्वृत्तयोनिष्टेत्येषा संज्ञा भविष्यति ॥ ॥॥ आदिकर्मणि निष्टा ॥ ॥ आदिकर्मणि निष्ठा वक्तव्या । प्रकृतः कटं देवदत्त इति॥ किं पुनः कारणं न सिध्यति ?॥*॥ यद्वा भवन्त्यर्थे ॥*॥ यद्वा भवन्त्या अर्थेभाप्यते । प्रकृतः कटं देवदत्तः। प्रकरोति कटं देवदत्त इति ॥*॥ न्याय्या खाद्यपवर्गात् ॥*॥ न्याय्या त्वेषा भूतकालता ॥ कुतः ? ॥ 'आध- पवर्गात्' । आदिरवाऽपवृक्तः। एष च नाम न्याय्यो भूतकालो यत्र किं चिद- प्र.]भाविनी संज्ञेति। संज्ञिनो भावित्वात्संज्ञा भाविनीति। तथा हि निष्ठेत्युक्त संज्ञा- वाक्यं 'क्तक्तवतू निष्ठे'ति स्मयते। तत्र सामर्थ्यात् क्तक्तवतुविधानं संपद्यते। आदि- कर्मणीति । आयेषु क्रियाक्षणेषु भूतेषु सर्वस्याः क्रियाया भूतत्वाऽभावान्निष्टा न प्रा- मोतीति वचनम् । न चादिकर्मणि क्तः कर्तरि [च]इत्येतदर्थादेशनमादिकर्मणि नि- ष्ठाया ज्ञापकम् । 'जीतः क्त' इत्यादिना वर्तमानकालविषयस्य तस्य संभवात्तस्यैव- तदर्थादेशनं स्यात्। यद्वा भवन्त्यर्थ इति । यस्माल्लटोऽर्थे विकल्पेन भाष्यते निष्ठा तस्माद्वक्तव्येत्यर्थः । न्याय्येति । आदिभूत एवावयवे समूहरूपस्य समाप्तत्वादस्ति उ.]स्वतो भावित्वमनुपपन्नमत आह-संज्ञिन इति । सामर्थ्यादिति। अन्यस्योत्प- नस्य निष्ठासंज्ञाया अभावादिति भावः । आदिकमणीति 'कर्म'शब्दः क्रिया- वाची। एकफलोद्देशप्रवृत्तसमूहरूपा च क्रिया। तत्र वार्तिकफलं दर्शयति- आयेष्विति । सम्पूर्णसमूहस्य व्यपवृक्तत्वे हि भूतन्यवहार इति भावः । क्रिया- क्षणेष्विति । अत्र 'क्षण'शब्दः सूक्ष्मग्राह्यकालोपलक्षणम्, अन्यथा क्षणरूपत्वे क्रियायास्तद्वदेव सूक्ष्मकालाऽवच्छिन्नत्वात्प्रत्यक्षत्वाऽनापत्त्या 'पश्य मृगो धावती'- त्यादेलेपिापत्तिरिति बोध्यम् । वस्तुतः क्रिया प्रत्यक्षैव फलाऽनुमेया च । तद्वक्ष्यति भाष्ये-अत्यन्ताऽपरदृष्टेति । अवयवरूपेण समुदायरूपेण चाऽप्रत्यक्षेत्यर्थः । 'पश्य मृगो धावती'त्यादिप्रयोगस्तत्फलसंयोगदर्शनाऽभिप्रायेण, दृशेर्वा ज्ञानसामान्ये लक्षणा। निरूपयिष्यते चेदं 'वर्तमाने ल'डिति सूत्रे । 'आयेषु क्रिया लक्षणेष्विति क्वचित्पाठः । तत्रायेषु क्रियाऽवयवेष्वित्यर्थः । 'जीतः क्त' इति,-यदि तद्विषयमेव स्थाद्वर्त्तमानग्रहणमेव कुर्यादिति चिन्त्यमिदमिति हरदत्तः । तेन ताऽनुमानेऽपि क्तवत्वर्थं वचनमावश्यकमित्यपरे। यस्माहट इति। धात्वर्थस्य वर्तमानव एव यतो लोके विकल्पेन प्रयुज्यतेऽतो वक्तव्येत्यर्थः। 'यद्भवन्त्यर्थे वा भाष्यत' इति भाष्येऽ- १६ २४२ कैयट-विवरणसहितं [निष्टा । पवृक्तं दृश्यते ॥ ॥ वा चाऽद्यतन्याम् ॥॥ वा चाऽद्यतन्यां भाष्यते । प्रकृतः कटं देवदत्तः । प्राकार्षीत्कटं देवदत्त इति॥ किं शक्यं त एते शब्दाः प्रयोक्तु- मित्यतो न्याय्यैषा भूतकालता ? ॥ नावश्यं प्रयोगादेव । क्रिया नामेयमत्य- न्ताऽपरदृष्टाऽनुमानगम्याऽशक्या पिण्डीभूता निदर्शयितुम् । यथा गर्भो निलुंठित इति । साऽसौ येन येन शब्देनाऽभिसंबध्यते तावति तावति परि- समाप्यते । तद्यथा कश्चित्पाटलिपुत्रं जिगमिषुरेकमहर्गत्वाऽऽह-'इदमद्य गत'- मिति। न च तावताऽस्य वजिक्रिया परिसमाप्ता भवति । यत्तु गतं तदभिस- मीक्ष्यैतत् प्रयुज्यते 'इदमद्य गत मिति। एवमिहापि यत्कृतं तदभिसमीक्ष्यत- प्र.]भूतत्वोपपत्तिरित्यर्थः। तदुक्तं हरिणा-'समूहःस तथाभूतः प्रतिभेदं समूहिषु। समाप्यते ततोऽभेदे कालभेदस्य संभवः' ॥ इति । वाचाद्यतन्यामिति । यदुक्तं 'भवन्त्यर्थे भाष्यत' इति, तस्य व्यभिचारः । लुङोऽपि विषय निष्ठाया अयं प्रयोगस्तस्मादवश्यमाद्यपवर्गाद्धृततै वे ]ष्टव्या । अन्यथा लुङः प्रयोगो न स्यादि- त्यर्थः । किं शक्यन्त इति । यावदभिमतफलप्रयोजनसकलक्रियापरिसमाप्तिन भ- वति तावद्वर्तमानत्वमेव क्रियाया न तु भूतत्वम्। ततश्च वस्तुशून्या एवाऽमी शब्दाः प्रयुज्यन्त इति भावः । अत्यन्ताऽपरदृष्टेति । परं-प्रधानं प्रमाणं प्रत्यक्षम् । अनु- मानस्य तत्पूर्वकत्वात्। तेन क्रिया न दृश्यते।अवयवसमूहस्य युगपदनुत्पादादनवस्था- नाच्च । तदुक्तम्-'क्रमात्सदसतां तेपामात्मानो न समूहिनाम् । सद्वस्तुविषय- यन्ति संबन्धं चक्षुरादिभिः ॥ इति ॥ येन येनेति । शब्देन प्रत्याय्यमाना येन येनावयवेन संबध्यते समूहरूपा क्रिया तस्मिन्नेवावयवे समाप्यते। तत्रावयवानां उ.]न्वयः।भाष्ये-आदिरत्रेति। आद्यक्रियाक्षण इत्यर्थः। ननु तस्य भूतत्वेऽपि धाव- थस्य किमायातमत आह-आदिभूत एवेति । समाप्तत्वात्-आरोपितलात् । प्रतिभेद-प्रत्यवयवम् । समूहिषु-अवयव । समाप्यते-आरोप्यत इत्यर्थः । अभेदे-अवयवे समूहाऽभेदे । तेन क्रिया न दृश्यत इति । अत्यन्तमवयवशः समूहशश्च न दृश्यत इत्यर्थः । अनवस्थानाञ्चेति । अनेनाऽवयवस्याऽप्यप्रत्यक्षत्वं, क्षणिकत्वेनाऽनवस्थानादित्यर्थः। कमात्सदसतामिति। भूयोऽवयवसन्निकर्षः समूह- प्रत्यक्षे कारणमिति भावः । चक्षुरादिभिरसंबन्धे हेतुः-सद्वस्तुविषयैरिति । येन शब्देनेति। सामानाधिकरण्ये तच्छब्देनाऽपि तस्यैव परामर्शात् शब्दे परिसमाप्ति- रुक्ता स्यात् , न च सा युक्तिमती,अतो वैयधिकरण्येन व्याचष्टे-येनाऽवयवेनेति । संबध्यते-यत्र यत्राऽवयवे आरोप्यत इत्यर्थः । यो योऽवयवः फलाऽनुकूलत्वेन विवक्ष्यते तत्रैव समाप्यते । तत्रावयवे समाप्ते समूह एव समाप्यतेऽतीतो भवती- १ 'परिदृष्टा' । २ 'न शक्या'। ३ इदं क्वचिन्न । ४ 'तस्य' ।

३अ.२पा.आ.१०६सू.] 8 व्याकरणमहाभाष्यम् 8 २४३ प्रयुज्यते 'प्रकृतः कटं देवदत्त' इति । यदा हि वेणिकान्तः कटोऽभिसमी- क्षितो भवति 'प्रकरोति कट'मित्येव तदा भवति ॥ [ भूते ] । लिटः कानज्वा ॥ ३।२।१०६॥ क्वसुश्च ॥ ३।२।१०७ ॥ किमर्थं कानच्वस्वोर्वावचनं क्रियते ? ॥*॥ कानच्वस्वोर्वावचनं छन्दसि तिङो दर्शनात् ॥ ॥ कानच्वस्वोर्वावचनं क्रियते ॥ किं कारणम् ? ॥ 'छन्दसि तिङो दर्शनात्' । छन्दसि तिङपि दृश्यते । अहं सूर्यमुभयतो ददर्श । अहं द्यावापृथिवी आततानेति ॥॥ न वाऽनेन विहितस्यादेशवचनात् ॥॥ न वैतत्प्रयोजनमस्ति ॥ किं कारणम् ? ॥ 'अनेन विहितस्यादेशवचनात् ॥ अस्त्वनेन विहितस्यादेशः केनेदानीं छन्दसि विहितस्य लिटः श्रवणं भविष्यति ?॥ 'छन्दसि लुकुडिट' इत्यनेन ॥ तदेतद्वावचनं तिष्ठतु तावत् सन्यासिकम् ॥ अथ कित्करणं किमर्थं नाऽसंयोगाल्लिविदित्येव सिद्धम् ॥ ॥ कित्करणं संयोगान्तार्थम् ॥ ॥ कित्करणं क्रियते ॥ [किं प्रयोजनं ? ] । 'संयोगान्ता. थम्' । संयोगान्ताः प्रयोजयन्ति। बैन्धेः-'वृत्रस्य यवधानस्य रोदसी'। त्वम- प्र.]कालत्रययोगात् क्रियाया अपि कालत्रययोगः । [ भूते] ॥ लिटः कानन्। छन्दसि तिङो दर्शनादिति।वासरूपविधिश्च लादेशेषु नास्ती- ल्युक्तम् । अनेनेति । 'छन्दसि लि'डित्यनेनेत्यर्थः । तस्यैव लिट इहाऽनुकृतवा- दानन्तर्यादिति भावः । तदेतदिति । उत्तरत्रोपयोक्ष्यत इति भावः । बद्धधान- स्येति । 'बन्ध बन्धने। छान्दसत्वादभ्यासधकारस्य हलादिशेषेण निवृत्त्यभावे झलां जश्झशीति जश्त्वं दकारः । [लिटः कानज्वा] ॥ उ.]त्यर्थः । वेणिका-कटचरमाऽवयवः। तदन्तः कट इत्यस्य तदन्तकटनिवर्तकः क्रियासमूह इत्यर्थः । [ भूते ] ॥ लिटः कानज्वा। वसुश्च । वाऽसरूपविधिरिति । ननु 'हशश्वतोर्लङ् चे'ति ज्ञापकादादेशगतवैरूग्यमादाय 'ल'विधौ वाऽसम्पो नास्तीत्युक्तम्, एवञ्च प्रकृते स्यादेव, न च प्रत्ययविधिविषयस्याऽऽदेशेप्वभावः, आदेशविधावपि 'प्रत्यय' इत्य- स्योपस्थितेः 'आधुदात्तश्चेति सूत्रभाष्यसम्मतत्वादिति चेन्न, एतद्वाग्रहणा- दादेशरूपप्रत्ययविधौ तदनुपस्थितिकल्पनात् । तत्फलं सदादिभ्योभूतसामान्ये लिटः क्वसुरेव न पक्षे तिङ इति भावः। उत्तरत्रेति। केचित्तु 'तस्य धातुसम्बन्धे विधाने- नाऽधातुसम्बन्धे पक्षे भूतसामान्ये लिट्स्थानिकतिङ्कवणार्थमिदमावश्यकमित्याशयो यत्त वृत्ती 'लिडि'त्यनुवर्त्य विभक्तिविपरिणामेन सिद्ध १ 'भवितव्यम्'।२ इदं कचिन्न। ३ 'अनेन'। ४ 'लिटस्तिङः'। ५ 'सान्यासिके । । भाष्यस्ये'त्याहुः ।

२४४ .. * कैयट-विवरणसहितं. [ लिटः कान र्णवान् बदधाना अरम्णाः। अजेः-आजिवानिति॥ छान्दसौ कानच्क्वसू । लिट च च्छन्दसि सार्वधातुकमपि भवति । तत्र सार्वधातुकमपिन्डि[व]द्भवतीति ङित्त्वादुपधालोपो भविष्यति ॥ ॥ ऋकारान्तगुणप्रतिषेधार्थ वा॥ ॥ ऋकारा. न्तानां गुणप्रतिषेधार्थ तर्हि कित्त्वं वक्तव्यम् । अयं [ हि ] लिटि ऋकारा- न्तानां प्रतिषेधविषये गुण आरभ्यते स यथैवेह प्रतिषेधं बाधित्वा गुणोभवति तेरतुः तेरुरिति, एवमिहापि स्यात्-तितीर्वान् तितिराण इति ॥ पुनः कित्क- रणात्प्रतिषिध्यते। [तस्मारिकत्त्वं कर्तव्यम् ॥ [लिटः कानज्वा ] भाषायां सदवसभुवः ॥ ३२॥१०८ ॥ ॥*॥ भाषायां सदादिभ्यो वा लिट् ॥*॥ भाषायां सदादिभ्यो वा लिड्व- क्तव्यः ॥ किं प्रयोजनम् ? ॥*॥ तद्विषये लुङोऽनिवृत्त्यर्थम् ॥*॥ तस्य लिटो विषये लुडोऽनिवृत्तिर्यथा स्यात् । उपसेदिवान् कौत्सः पाणिनिम् । उपास- दत् ॥*॥ अनद्यतनपरोक्षयोश्च ॥ ॥ अनद्यतनपरोक्षयोश्च वा लिवक्तव्यः । उपसेदिवान् कौत्सः पाणिनिम् । उपासीदत् । उपससाद ॥*॥ अपवाद- विप्रतिषेधाद्धि तयोर्भावः ॥*॥ अपवादविप्रतिषेधाद्धि तौ स्याताम् ॥ कौ ? ॥ ललिटौ ॥ ॥ तस्य क्वसुरपरोक्षे नित्यम् ॥*॥ तस्य लिटो भाषायां क्वसुरपरोक्षे नित्यमिति वक्तव्यम् ॥ अपरोक्षग्रहणेन नार्थः। तस्य कसुनित्यमित्येव ॥ प्र.] भाषायां स। इह क्वस्वादेशविधानाद्भूतसामान्ये लिट् सदादिभ्योऽनुमीयते स वि- शेषविषयत्वालको बाधकः प्राप्नोतीति मत्वाह-भाषायामिति। अपवादविप्रतिषेधा- दिति । लुडोऽपवाद एतत्सूत्रानुमितो लिट् , तथाऽनद्यतने लङ् ,परोक्षे लिडिति च, तत्राऽस्य लिटो लडिटोश्च विप्रतिषेधे परत्वालिटौ स्यातामित्यर्थः । अस्य तु भूत- सामान्यमवकाशः। एतदादेशविधानानुमितस्यैव सदादिभ्योः लिटः क्वसुर्न तु परोक्षे लिडित्यनेन विहितस्य,तस्याऽप्रकृतत्वात्। तस्येति। नित्यग्रहणं वेति प्रकृतस्य विक- ल्पस्य निवृत्त्यर्थम्, अपरोक्षग्रहणं 'परोक्षे लि'डित्यनेन विहितस्य लिटस्तिढां श्रवणा- र्थम्। अपरोक्षग्रहणेति। अनद्यतनपरोक्षयोश्चेति वचनेन वा लिडयं विधीयते, तत्र उ.]लिग्रहणेन लिण्मात्रस्यादेशो ज्ञाप्यते इति वा वचनमावश्यकमेवे'त्युक्तं, तन्न, प्रकृतभाष्यविरोधादित्याहुः। भाष्ये-पुनः कित्करणादिति । आरिवा'नित्यादी गुणस्तु 'गच्छत्यृता'मित्यत्र ऋकारान्तरप्रश्लेषेण 'ऋ'धातोः पुनर्विधानाद्बोध्य इति दिक् ॥ भाषायां सद। इति मत्वाहेति । एवञ्च विकल्पमात्रविधानेऽस्य तात्पर्यमिति भावः । 'अनद्यतनपरोक्षयो'रिति वचनस्य तयोरपि वसुर्विधेयः, तेन च तद्वि- षयो लिडनुमातव्यः, स च वेत्यर्थः । ननु भूतसामान्येऽनुमितस्य विशेष. १ 'अरम्णः'। २ 'कारान्तगुण'। ३ कित्करणं कर्त्तव्यम्'। ४ इदं क्वचिन्न ।

३अ.२पा.आ.१०९सू.] व्याकरणमहाभाष्यम् & २४५ - केनेदानी लिटः परोक्षे श्रवणं भविष्यति ? ॥ 'परोक्षे लि'डित्यनेन ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् । अनुवृत्तिः करिप्यते । भाषायां सदादिभ्यो वा लिभवति । लिटश्च वसुर्भवति। ततो 'लुङ् । लुङ् भवति भूते काले । भाषायां सदादिभ्यो वा लिड्भवति, लिटश्च वसुर्भवति । ततोऽनद्यतने लङ्' । अनद्यतने भूते काले लङ् भवति । भाषायां सदादिभ्यो वा लिड भवति, लिटश्च क्वसुर्भवति । 'परोक्षे लिट्' । परोक्षे लिड्भवति। भाषायां सदादिभ्यो वा लिभवति । लिटश्च कसुर्भवति । तत्रायमप्यर्थः-'तस्य वसु- रपरोक्षे नित्यमित्येतन वक्तव्यं भवति॥ [ भाषायां सद] ॥ उपेयिवाननाश्वाननूचानश्च ॥ ३।२।१०९ ॥ किमर्थमुपेयिवानिति निपातनं क्रियते ? ॥॥ उपेयुषि निपातनमिड. र्थम् ॥ ॥ उपेयुषि निपातनं क्रियते ॥ [ किं प्रयोजनम् ? ॥] 'इडर्थम्' । इड्यथा स्यादिति ॥ नैतदस्ति प्रयोजनं, सिद्धोऽब्रेड्वस्वेकाजाद्धसामित्येवें । द्विर्वचने कृतेऽनेकाच्त्वान्न प्राप्नोति ॥ इदमिह संप्रधार्य-द्विर्वचनं क्रियता- मिडिति, किमत्र कर्तव्यम् ? ॥ परत्वादिडागमः ॥ नित्यं द्विर्वचनं ॥ कृते. ऽपीटि प्रामोत्यकृतेऽपि प्राप्नोति॥इडपि नित्यः । कृतेऽपि द्विर्वचने एकादेशे च प्राप्नोत्यकृतेऽपि प्राप्नोति ॥ नात्रैकादेशः प्राप्नोति ॥ किं कारणम् ? ॥ 'दीर्घ प्र.यस्मिन् पक्षेऽयं लिण्न भवति तत्र लक्लिटौ भवतः। ततश्च 'परोक्षे लि'डिति विहि- तस्य लिटः सूत्रान्तरविहितत्वात् क्वस्वभावात्तिको भवन्ति । भापायां सदादिभ्यो वा लिडिति । 'लिटः कानज्वे'त्यतो 'व'त्यनुवर्तते । तच न क्वमुना संबध्यते, किं नर्हि, लिटा । तत्र वावचनात्पक्षे लुङ्भावः सिध्यति । ततोऽनद्यतने लङ्' 'परोक्षे लिडित्यत्रास्य सूत्रस्यानुवर्तनादनद्यतनपरोक्षयोरपि सदादिभ्यो वा लिङ्भवतीत्यर्थः ॥ उपेयिवान् । उपसर्गस्याऽतन्त्रवादीयिवान् समीयिवान् इत्याद्यपि भवति । उपेयुषीति । इणो लिटाक्कसुः। तत्रेडागमात्पूर्वं नित्यवाद्विवचनं, दीर्घ इणः किती- उ.]परताऽपि भविष्यति किमनेनेत्यत आह-भाष्ये-अपवादेतिातड्याचष्टे-लुङोऽप- वाद इति । नन्वनद्यतनादौ लिट्वैकल्पिकस्तस्य नित्यं वसुरिति 'उपससादे'ति म्यादत आह-एतदादेशेति । 'अनद्यतने त्यादिवचनेन तयोरप्यनेन लिडनुमानान्न दोषः । ननु 'वा'ग्रहणाऽनुवृत्तौ वसोर्विकल्पः स्यादत आह-तच्च नेति । व्याख्या- नादिति भावः ॥ [ भाषायां सदवसश्रुवः ] ॥ उपेयिवान । इडागमादिति। 'वस्वेचाद्धसा'मित्येकाज्लक्षणादित्यर्थः। द्वित्वे कृतेऽनेकाच्वात्तदप्राप्तेरनित्यत्वमिट इति भावः । नन्वेकादेशे कृते एकाच्वात्त- १ ततोऽनद्यत' । २ इदं क्वचिन्न । ३. 'इति' । ।

२४६ कैयट-विवरणसहितं [उपेयिवान .. इणः कितीति दीर्घत्वेन बाध्यते। तदेतदुपेयुषि निपातनमिडथं क्रियते ॥॥ उपेयुषि निपातनमिडर्थमिति चेदजादावतिप्रसङ्गः ॥ ॥उपेयुषि निपातनमिडर्थ- मिति चेदजादाविटोऽतिप्रसङ्गो भवति।उपयुषा उपेयुषे उपयुषः उपेयुषीति॥॥ एकादिष्टस्येय्भावार्थ तु ॥ ॥ एकादिष्टस्येयभावार्थं तु निपातनं क्रियते । एका- दिष्टस्य 'ईय' इत्येतद्रूपं निपात्यते ॥ ननु चोक्तं नात्रैकादेशः प्राप्नोति ॥ किं कारणम्!॥दीर्घ इणःकितीति दीर्घत्वेन बाध्यत इति॥तद्धि न सुप्ठूच्यते। नहि दीर्घत्वमेकादेशं बाधते॥कस्तर्हिबाधते?॥यणादेशः॥स चापि क बाधते?॥ य. त्रास्य निमित्तमस्ति । यत्र हि निमित्तं नास्ति निष्प्रतिद्वन्द्वस्तत्रैकादेशः ॥४॥ प्र.त्यभ्यासस्य दीर्घत्वंातत्सामर्थ्यादेकादेशो न प्रवर्तते।न च दीर्घस्यावकाश ईयतु- रित्यादिः,तत्रापि पूर्वपरविधेः पूर्वविधित्वात्तत्र कर्तव्ये यणादेशस्य स्थानिवत्त्वादेकः- देशप्रसङ्गात्। तत्रानेकाच्यादिडप्राप्तो निपात्यत इत्यर्थः । अजादावतिप्रसङ्ग इति । यदाऽपूर्व इण्निपात्यते तदा विशेषानुपादानादजादावपि प्राप्नोति । यथा स्यसिस:- युडित्यत्रोक्तं 'नित्यश्चायं वल्निमित्तो विघाती'ति । यदि त्वनेन निपातनेन क्रादि- नियमप्राप्तस्य 'वस्वेकाजाद्धसा'मित्यनेन नियमेन निवारितस्य प्रतिप्रसवमात्रमिटः क्रियते न त्वपूर्वो विधिस्तदाऽजादावतिप्रसङ्गाऽभावः ॥ इदानीमजादावतिप्रसङ्गपरि- हाराय प्रकारान्तरमाश्रयति—एकादिष्टस्येति।द्विवंचने कृतेऽभ्यासस्य दीर्घत्वे चै- कादेशस्तस्येयादेशो निपात्यते । यद्यप्युपेथिवानित्येतदियादेशनिपातनेन सिध्यति तथापि समीयिवानित्यादि न सिध्यतीति तदर्थमीयादेशो निपात्यते । क्व चित्तु भाष्ये 'इय्' इति पाठः, स उपेयिवानित्येतद्रूपसिद्ध्यपेक्षया द्रष्टव्यः । कस्तीति । 'इणो य'णित्यनेनाऽजादौविधीयमान इत्यर्थः। ननु चोक्तमीयतुरित्यत्राप्यभ्यासदीर्घत्वे कृते एकादेशात् पूर्व 'वार्णादाङ्गंबलीय' इति यणि कृते स्थानिवत्त्वादेकादेशः प्राप्नोति उ.प्राप्तिरिति सोऽपि नित्य इत्यत आह-तासामर्थ्यादिति। न चेति। तत्र द्वित्वे सवर्णदीर्घ बाधित्वेणो यणि निमित्ताऽभावादेकादेशाऽप्राप्तौ दीर्घः साऽवकाश इति भावः । विशेषेति । वलादित्वरूपेत्यर्थः। तदाऽजादाविति । प्राप्तविषय एवं प्रति- प्रसवसम्भवादिति भावः । किञ्च पूर्वस्यैव विधौ स्थानिवत्त्वं, न पूर्वपरयोरिति सिद्धान्तादीयतुरित्यादौ तदप्रवृत्त्या सवर्णदीर्धाऽप्राप्तेरभ्यासदीर्घस्य नैकादेशबाध- कत्वमितीट सिद्ध एवेति न तन्निपातनफलमित्यपि बोध्यम् । ईयादेश इति । अन्यथेटि कृते इणो यणिति स्यादिति भावः । तदर्थमिति । ईयादेशे दीर्घाच्चारण- मसन्ध्युच्चारणञ्च उपेत्यस्याऽविवक्षायां बीजं द्रष्टव्यम् । भाष्ये 'इ'यिति ह्रस्वपाट 'ईयिवा'नित्यादौ छान्दसो वर्णव्यत्ययो बोध्यः । लोके तु-'उपेयिवा'नित्येव साधु, 'उपे'त्यविवक्षायां मानाऽभावादित्यन्ये । भाष्ये-न हि दीर्घत्वमिति । 'ईयतु- २४७ ३अ.२पा.२आ.१०९सू.] व्याकरणमहाभाष्यम् 8 व्यञ्जने यणादेशार्थ वा ॥*॥ अथ वा व्यञ्जन एव यणादेशो निपात्यते । यणा- देशे कृते 'एकाच'इतीसिद्धो भवति ॥ अपर आह-॥ ॥ नोपेयिवान्निपात्यो द्विवचनादिभविष्यति परत्वात् ॥ * ॥ द्विर्वचनं क्रियतामिडितोड्भविष्यति विप्रतिषेधेन ॥ इहापि तर्हि द्विर्वचना- दिट् स्यात्-बिभिद्वान् चिच्छिद्वानिति ॥*॥ अन्येषामेकाचां द्विवचनं नित्यमि- त्याहुः ॥ ॥ अन्येपामेकाचां नित्यं द्विवचनं । कृतेऽपीटि प्राप्नोत्यकृतेऽपि प्राप्नोति । ॥*॥ अस्य पुनरिट नित्यो द्विवचनं च न विहन्यते ह्यस्य ॥ ॥अस्य पुनरिट्वैव नित्योऽस्य हि द्विवचनं च नै विहन्यते ॥ ॥ द्विवचने चैका- च्त्वात् ॥ ॥ द्विवंचने च कृते एकार्भवति ॥ कर्थम् ? ॥ एकादेशे कृते ।। ॥*॥ तस्मादिड्बाधते द्वित्वम् ॥*॥ तस्मादिड् द्विर्वचनं बाधते ॥ ॥ अनू- चानः कर्तरि ॥॥ अनूचानः कर्तरीति वक्तव्यम् । अनूक्तवाननूचानः।अनूक्त- प्र.] ततश्चाऽवश्यमभ्यासदीर्घत्वेनैकादेशो बाध्यः । नैष दोषः । नहि स्थानिवद्भावेन रूपमतिदिश्यते। रूपाश्रयश्च पूर्वपरयोरेकादेशो न यकारस्य भवितुमर्हति । अथ वा यणादेशेन वार्णादाङ्गमिति वचनेन बाधितस्यैकादेशस्य पुनः स्थानिवद्भावाद्वाधितत्वादेव प्रवृत्त्यभावात् । व्यञ्जन इति।अभ्यासदीर्घत्वे कृतेऽजादौ विधीयमान इणो यणिति- यणादेशो हलादौ न प्राप्नोतीति निपाल्यते।तश्चैकाच्त्वाद्वस्वेकाजाद्धसामित्यनेनैवेज्जवती- त्यजादौ न भवति। नोपेयिवानिति।इणो भाषायां केवलं भूतमात्रे वा लिविधेयस्तस्य च नित्यं क्वमुरादेशः, कार्यान्तरं तु सिध्यत्येवेत्यर्थः अन्येषामिति । भिदा- दीनां द्विवंचने कृतेऽनेकाच्त्वादिटोऽप्रसङ्गादनित्यत्वम् । [ उपेयिवानना] । उ. रित्यादौ प्रागुक्तरीत्या चारितार्थ्यादिति भावः। न हीति । किन्तु शास्त्राऽतिदेश इति भावः । रूपाश्रयश्चेति । अगच्पदाभ्यां तत्तद्रूपेणोपस्थितयोरेव दीर्घ इति भावः । ननु कार्याऽतिदेशे दोषस्तदवस्थ इत्यरुचेराह-अथ वेति । वस्तुतः पूर्व- स्यैव विधौ स्थानिवत्त्वमिति नाऽत्र स्थानिवत्त्वमिति बोध्यम् । भाप्ये-निष्प्रति. द्वन्द्व इति । एकादेशात्पूर्वमिटोऽभावेन यणप्राप्तेरिति भावः। यणादेशो निपात्यत इति । एकादेशबाधकतयेति भावः । इणो भापायामिति । पूर्वसूत्र एवेण्ग्रहणं कार्यमिति भावः । भाष्ये-अस्य पुनरिटुति । द्वित्वे कृते एकादेशे तत्प्राप्तेरिति भावः । न विहन्यते ह्यस्येति । अस्य इटो निमित्तं द्विवचनेन न विहन्यते यत इत्यर्थः । लकाराणां भावकर्मणोरपि सत्त्वेन तत्राऽप्यनुचानः स्यादतो भाष्ये- कर्तरीति ॥ [उपेयिवाननाश्वाननूचानश्च ] । १ इदं श्लोकवार्तिकम् । २ 'मिडिति परत्वादिड्। ३ 'द्विवचनं नित्यं' । ४ इदं क्वचिन्न । ५ 'वचने कृते एकादेशे चैकाज्भव' । ६ 'चैकान्त्वं' ।

२४८ * कैयट-विवरणसहितं [ अधिकरणे मित्येवान्यत्रानोपेयिवान्निपात्यो द्विवचनादिनविष्यति परत्वात् । अन्येषामेकाचां द्विर्वचनं नित्यमित्याहुः ॥ अस्य पुनरिद्ध नित्यो द्विर्वचनं च न विहन्यते ह्यस्य॥ द्विर्वचने चैकाच्त्वात्तस्मादिड्बाधते द्वित्वम् ॥॥॥ लुङ्॥ ३।२।११०॥ ॥*॥ लुङ्लुटोरपवादप्रसङ्गो भूतभविष्यतोरविशेषवचनात् ॥॥ लुङ्ल- टोरपवादः प्रामोति । अगमाम घोषान् , अपाम पयः, अशयिष्महि पूतीक- तृणेषु । गमिप्यामो घोषान्, पास्यामः पयः, शयिप्यामहे पूतीकतृणेषु ॥ किं कारणम् ? ॥ 'भूतभविष्यतोरविशेषवचनात्' । भूतभविष्येतोयविशेषे. गैतौ विधीयते लुङ्लटौ, तयोर्विशेषविहितौ लङलुटावपवादौ प्रामुतः । ॥॥न वापवादस्य निमित्ताभावादनद्यतने हि तयोर्विधानम्॥ ॥ न वैष दोपः ॥ किं कारणम्?॥'अपवादस्य निमित्ताभावात्'। नात्राऽपवादस्य निमित्तमस्ति॥ किं कारणम् ? ॥ 'अनद्यतने हि तयोविंधानम्' । अनद्यतने हि तौ लंङ्लुटी विधीयेते, न चात्रानद्यतनः कालो विवक्षितः ॥ किं तर्हि ? ॥ भूतकाल- सामान्यं भविष्यकालसामान्यंच॥ यद्यपि तावदतच्छक्यते वक्तुं-गमिप्यामो घोषान्पास्यामः पयः शयिष्यामहे पूतीकतृणेप्विति, यत्रैतन ज्ञायते॥ किं ?॥ कदेति । इह तु कथम्-अगमाम घोपान् , अपाम पयः,अशयिष्महि पूतीक- तृणेष्विति, यत्रैतन्नितिं भवत्ति-अमुग्मिन्नहनि गतमिति॥ अत्रापि 'नवाप- वादस्य निमित्ताऽभावादनद्यतने हि तयोर्विधान' मित्येव ॥ कथं पुनः सतो नामाऽविवक्षा स्यात् ? ॥ सतोऽप्यविवक्षा भवति। तद्यथाऽलोमिका एडका । अनुदरा कन्येति ॥ असतश्च विवक्षा भवति । तद्यथा-समुद्रः कुण्डिका, विन्ध्यो वर्धितकमिति॥ ॥वसेर्लुङ् रात्रिशेषे॥ ॥वसेर्लुङ् रात्रिशेषे वक्तव्यः । प्र.] लुङ् । लुङ्लटोरिति । कालविशेषसद्भावाश्रयेण चोद्यम् । सामान्यविवक्षा- श्रयेण प्रतिसमाधानम्-न वेति । यत्रैतदिति । विशेषनिश्चयाऽभावात्सामान्य- स्यैव युक्ता विवक्षेति भावः । असतश्चेति । विवक्षोपारूढ एवाऽर्थः शब्दप्रयोग- निमित्तमित्येतदनेन द्रढयति । इह तु सदेव विशेषेषु सामान्यमाश्रित्य लुगादिप्रयोग उ.] लुङ् । भाष्ये लुङ्लटोरिति । तुल्यन्यायवाटोऽप्युपन्यासः । काल- विशेषेति । 'अगमाम' इत्याद्युदाहरणेषु अनद्यतनरूपेत्यर्थः । सतोऽप्यविव- क्षयति । सतामेव लोम्नां सत्त्वेनाऽविवक्षया नघटितप्रयोग इति भावः। नन्वसतो विबक्षानिरूपणस्य प्रकृते नोपयोगोऽत आह-विवक्षोपेति । भाष्ये-न्याय्ये प्रत्यु- १ 'विधीयेते लङ्लुटौ' । २ हिः क्वचिन्न ।

३अ.२पा.२आ.११०सू.] व्याकरणमहाभाष्यम् , न्याय्ये प्रत्युत्थाने प्रत्युत्थितं कश्चित्कं चित्पृच्छति 'क्व भवानुपित' इति । स आह-'अमुत्राऽवात्स'मिति । 'अमुत्राऽवस'मिति प्रामोति ॥ ॥ जागरण- सन्ततौ॥*॥ जागरणसन्तताविति वक्तव्यम् । यो हि मुहूर्तमानमपि स्वपिति तत्राऽमुत्राऽवसमित्येव भवितव्यम् । [ लुङ् ] ॥ अनद्यतने लङ ॥ ३२॥१११॥ ॥*॥ अनद्यतन इति बहुव्रीहिनिर्देशोऽद्य ह्योऽभुक्ष्महीति ॥ ॥ अनद्यतन इति बहुव्रीहिनिर्देशः कर्तव्यः । अविद्यमानाऽद्यतनेऽनद्यतन इति ॥ किं प्रयोजनम् ?॥ 'अद्य ह्योऽभुक्ष्महीति ? । अद्य च ह्यश्चाऽभुक्ष्महीति व्यामिश्रे लुङव यथा स्यात् ॥ यद्येवमद्यतनेऽपि लङ् प्राप्नोति । न ह्यद्यतनेऽद्यतनो विद्यते ॥ अद्यतनेऽपि बंद्यतनो विद्यते ॥ कथम् ? ॥ व्यपदेशिवद्भावेन ॥ ॥*॥ परोक्षे च लोकविज्ञाते प्रयोक्तुदर्शनविषये ॥ ॥ परोक्षे च लोकविज्ञाते प्र.]उपपद्यत एव । विशेषविवक्षायां तु लङादिप्रयोग इति न कश्चिद्दोषः । वसेल- डिति । रात्रेश्चतुर्थे यामे प्रबुद्धो यदा वाक्यं प्रयुक्ते 'अमुत्रावात्स'मिति तदा तत्राs- तिक्रान्तरात्रिप्रहरत्रयवसनमनद्यतनमिति लमसले लुङ् वक्तव्यः । एकस्या रात्रे- श्चतुर्थो यामो, दिवसश्च सर्वो, द्वितीयायाश्च रात्रेः प्रथमोऽद्यतन इत्याहुः । जाग- रणसन्तताविति । यदा प्रयोक्ता सकलमतिक्रान्तरात्रिप्रहरत्रयं जागरितवांस्तदा लुप्रयोगः । यदा तु सुप्त्वा प्रवुध्य प्रयुङ्क्ते तदा लङ्प्रत्यय एवेत्यर्थः [ लुङ् ॥ अनद्यतने । व्यपदेशिवद्भावेनेति । यथा मुख्ये भेद आधाराधेयभावो भवति 'तटे तिष्टती'ति, तथेहापि समुदायावयवभेदाश्रयेण समुदायेऽद्यतनेऽवयवा अद्यतनाः सन्तीत्यनद्यतनो न भवतीत्युच्यते । नतु तत्त्वतोऽवयवव्यतिरिक्तोऽत्र उ.]त्थाने इति।प्रत्युत्थानं जागरणं,तत्समये प्रत्युत्थितं प्रबुद्धमित्यर्थः। 'प्रत्युपस्थित'- मिति पाठेऽप्ययमेवार्थः। प्रस्थित मिति क्वचित्पाठः तत्रापि प्रत्युत्थाय प्रस्थितमित्यर्थः। स च रात्रेश्चतुर्थयाम एव,तत्र स्मृत्या प्रबोधस्योक्तः। तदाह-रात्रेरिति। अतिक्रान्त- रात्रिप्रहरत्रयं जागरितवानिति । एवं हि पूर्वतनस्य 'प्रत्युत्थितं कश्चित्पृच्छतीति ग्रन्थस्याऽसङ्गतिः,स्वापं विना प्रत्युत्थानाऽसम्भवात् । तस्माच्चतुर्थे यामे यदा जागरण- सन्ततिरिति भाज्यार्थः। तत्र मुहूर्तमपि स्वापे लळेवेत्यर्थ इति केचित् ।[ लुङ्] । अनद्यतने लङ् । अनद्यतन इति । यदि तत्पुरुषः पर्युदासश्च तर्हि व्यामिश्रे दोषः । प्रसज्यप्रतिषेधेऽसमर्थसमासो भृतसामान्ये च स्यादत आह भाष्ये-बहु- बीहिनिर्देश इति । तथा चाऽविद्यमानाऽद्यतनभूतकालार्थवृत्तेर्धातोर्लङित्यर्थः एवञ्च व्यामिश्रे न, भूतसामान्येऽपि नेत्यर्थः । गौणाधारत्वाश्रयणे वीजमाह- १ 'प्रस्थितं' । २ 'अभुज्महि' । ३ 'द्यतनोऽनद्यतन'। ४ 'नेऽप्यद्यतनो' ।

२५० * कैयट-विवरणसहितं. [अनद्यतने प्रयोक्तुदर्शनविषये लक्तव्यः । अरुणद्यवनः साकेतम् । अरुणधवनो मध्यमिकाम् । परोक्ष इति किमर्थम् ?॥ उदगादादित्यः॥ लोकविज्ञात इति किमर्थम् ?॥ चकार कटं देवदत्तः ॥ प्रयोक्तुर्दर्शनविषय इति किमर्थम् ? ॥ जघान कंसं किल वासुदेवः ॥ [अनद्यतने लङ् ] । विभाषा साकाङ्क्ष ॥ ३।२।११४ ॥ किमुदाहरणम् ? ॥ अभिजानासि देवदत्त ! कश्मीरान् गमिष्यामः, तत्र सक्तून् पास्यामः । अभिजानासि देवदत्त ! कश्मीरानगच्छाम, तत्र सक्तूनपि- बाम । भवेत्पूर्व परमाकाङ्क्षतीति साकाझं स्यात्, परं तु कथं साकासम् ?॥ परमपि साकाङ्क्षम् ॥ कथम् ? ॥ अस्त्यस्मिन्नाकाङ्क्षत्यतः साकासम् ॥ ॥॥ विभाषा साकास सर्वत्र ॥ ॥ विभाषा साकाङ्क्ष सर्वत्रेति वक्तव्यम् ।। प्र.]समुदाय आधारोऽस्तिातदुक्तं हरिणा-'कालस्याप्यपरं कालं निर्दिशन्त्येव लौकि- काः । न च निर्देशमात्रेण व्यतिरेकोनुगम्यते ॥' इति ॥ परोक्षे चेति । अन. नुभूतत्वात्परोक्षोऽपि प्रत्यक्षयोग्यतामात्राश्रयेण दर्शनविषय इति विरोधाऽभावः ॥ विभाषा सा। भवेत्पूर्वमिति । यदतिप्रसिद्धं वासगमनादि तल्लक्षणं, तच्च परार्थमुपादीयमानं यत्तत्स्मार्यमाणत्वालक्ष्यं भोजनादि प्रति भवतु साकाङ्क्ष, लक्ष्यन्तु प्रधानमपरोपकारि कथं साकाङ्क्षमित्यर्थः। अस्त्यस्मिन्निति। सहशब्दो विद्यमानार्थ- वृत्तिः।तेन विद्यमानाकाङ्क्षः साकाङ्क्षोऽर्थ उच्यते।लक्ष्यलक्षणयोश्च परस्परापेक्षत्वाद्ध्यो- रपि साकासत्वमित्यर्थः। सर्वत्रेति। यदी'ति नानुवर्तते,तेनोभयत्र विभाषेयमितिभावः उ.] न तु तत्वत इति। कालस्याऽपीति। यथा दिने 'मुहूर्त' इति । न च तावता मुहूर्तसमुदायाऽतिरिक्तं दिनमस्तीत्यर्थः। अनुगम्यते-प्रमाविषयो भवति । भाष्ये- जघानेति । कंसवधो हि नेदानीन्तनप्रयोक्तुर्दर्शनयोग्योऽपीत्यर्थः । 'अरुण'दित्यु- दाहरणे तु तुल्यकालः प्रवक्तेति बोध्यम् ॥ [ अनद्यतने] ॥ विभाषा सा । साकाङ्क्षऽर्थे वर्तमानाद्धातोरित्यर्थः। तत्रैकस्य साकासत्वेऽप्युभ- यत्र कथं लूडिति शङ्कते-भवेत्पूर्वमिति । यदतीति । वासगमनादेर्लक्षणत्वे हेतु- माह-तच्चेति । यत्परवोधनार्थमुपादीयते तदेव लक्षणमित्यर्थः । यत्तत्स्माईमाणेला- दृश्यं भोजनादि; तत्प्रति भवतु लक्षणं साकाङ्क्षमित्यन्वयः । यद्यपि पुरुषगताकाङ्क्ष- येवाऽर्थानां साकाङ्गत्वव्यवहारः,आकाङ्क्षायाश्चंतनधर्मत्वात् , तथाऽपि तस्यापि 'गम- नेन सक्तुपानं बोधयिष्यामी'त्येवाकाङ्क्षा न तु विपरीतंति भावः । द्वयोरपीति । उक्ताऽऽकालायां द्वयोरपि विषयत्वादिति भावः । परस्पराऽपेक्षत्वादिति चिन्त्यं, १ 'मध्यमिकान्। साकेतः-अयोध्या।मध्यमिका च तत्कालप्रसिद्धा नगरी (वर्तमान 'मऊ' एवं जि० आजमगढ ) इति गौडाः । २ ‘स्मर्यमाण' । ।

३अ.२पा.२आ११४सू.) * व्याकरणमहाभाष्यम् ® २५१ क सर्वत्र?यदि चाऽयदि च । यदि तावत्,-अभिजानासि देवदत्त! यत्कश्मी- रान् गमिष्यामः, यत्कश्मीरानगच्छाम । यत्तत्रौदनं भोक्ष्यामहे यत्तत्रौदनम- भुमहि । अयदि-अभिजानासि देवदत्त! कश्मीरान् गमिष्यामः कश्मीरान- गच्छाम । तत्रौदनं भोक्ष्यामहे, तत्रौदनमभुज्महि [ विभाषा साकाङ्क्ष।] परोक्षे लिट् ॥ ३२२११५ ॥ परोक्ष इत्युच्यते किं परोक्षं नाम ? ॥ परमक्ष्णः परोक्षम् ॥ अक्षि पुनः किम् ? ॥ अश्नोतेरयमौणादिकः करणसाधनः सिप्रत्ययः । अश्नुतेऽनेनेत्यक्षि । यद्येवं 'पराक्ष मिति प्राप्नोति ॥ नैष दोपः ॥ ॥ परीभावः परस्याक्षे परोक्षे लिटि दृश्यताम् ॥*॥ परशब्दस्याऽक्षशब्दे उत्तरपदे परोभावो वक्तव्यः॥ ॥*॥ उत्वं वाऽदेः परादक्ष्णः ॥*॥ अथ वा परशब्दादुत्तरस्याऽक्षिशब्दस्योत्वं वक्तव्यम् ॥*॥ सिद्धं वाऽस्मान्निपातनात् ॥ ॥ अथ वा निपातनादेव सिद्धं प्र.] परोक्षे लिट् । किं परोक्षमिति। यद्यपीन्द्रियाऽविषयोऽर्थः परोक्षशब्दवाच्य इति जानाति तथापि सर्वस्याः कियायाः परोक्षत्वाद्विशेषणानर्थक्यमिति पृच्छति । परमक्ष्ण इति । मयूरव्यंसकादित्वात्समासः। 'अप्रत्यन्वषपूर्वे'त्यत्राऽजिति योगविभागादत एव वा निपातनादच्समासान्तः । यद्वा 'प्रतिपरसमनुभ्योऽक्षण' इति टच्समासान्तः। स च यद्यप्यव्ययीभावे विधीयते तथापि परशब्दस्याऽक्षिशब्द- नाव्ययीभावाऽसंभवात्समासान्तरे विज्ञायते। वृत्तिविषये चाऽशिशब्दः सर्वेन्द्रियवाची न तु चक्षुर्मात्रेपर्यायः । अन्यथेन्द्रियाऽन्तरविज्ञातं वस्तु परोक्षशब्दवाच्यं स्यात् । अत एवान्ये दर्शनपर्यायोऽयमक्षिशब्दो न भवतीति 'अक्ष्णोदर्शना'त्येवमच्समासान्तं कुर्वन्ति। ततो यदिन्द्रियात्परमिन्द्रियगोचरतामनापन्नं वस्तु तत्परोक्षमित्यर्थः। अक्षि पुनरिति । किं चक्षुरेवाऽक्षिशब्देनोच्यते अथ सर्वमिति प्रश्नः । अश्नोतेरिति । व्युत्पत्तिद्वारेण विषयव्यापनात्सर्वमिन्द्रियं वृत्तिविषयेऽक्षिशब्दो वक्तीत्यर्थः । सिद्धं उ.]लक्ष्यस्य लक्षणाऽनपेक्षाया भाष्ये दर्शितत्वात् ॥ [ विभाषा साकाङ्क्ष] ॥ परोक्ष लिट् । इन्द्रियाऽविपय इति । इन्द्रियजन्यज्ञानाऽविषय इत्यर्थः । तथाऽपीति । यस्य क्रियायां व्यभिचारमतत्यारोक्ष्यं किमिति प्रश्नार्थ इति भावः । इन्द्रियाऽगोचरत्वमेव पारोश्यम् । तच्च साधनद्वारा क्रियायामित्याशयेनोत्तरयति- परमित्यादि । मयूरेति । तत एव परशब्दस्य पूर्वनिपात इति बोध्यम् । योग- विभागस्य भाष्येऽदर्शनादाह-अत एव वेति। प्रतिपरेति। शरदाद्यन्तर्गणसूत्रम् । इन्द्रियाऽजन्यं ज्ञानं परोक्षम् । अत एव परोक्षं ज्ञानमित्युपपद्यते । अर्श आद्यचा तद्विषयोऽपि तथा । अत एव 'क्रियायाम्परोक्षाया'मिति भाष्यप्रयोग उपपन्नः । १ श्लोकवार्तिकम् । २ इदं क्वचिन्न । ३ 'क्रियायाः' ।

. २५२ कैयट-विवरणसहितं [ परोक्षे लिट् 'परोक्षे लि'डिति ॥ कस्मिन्पुनः परोक्षे [लिभवति ] ? ॥ काले ॥ न वै कालाधिकारोऽस्ति ॥ एवं तर्हि धातोरिति वर्तते, धातौ परोक्षे ॥ धातु शब्दो न च शब्दस्य प्रत्यक्षपरोक्षतायां संभवोऽस्ति ॥ शब्देऽसंभवादर्थे कार्य विज्ञास्यते, परोक्षे धातौ,परोक्षे धात्वर्थ इति ॥ कः पुनर्धात्वर्थः ?॥ क्रिया । क्रियायां परोक्षायोमिति । यद्यवं ह्योऽपचदित्यत्रापि लिनाप्नोति ॥ किं कार- णम् ? ॥ क्रिया नामेयमत्यन्ताऽपरदृष्टोऽनुमानगम्याऽशक्या पिण्डीभूता निद- शयितुम् । यथा गर्भो निलुंठितः ॥ एवं तर्हि साधनेषु परोक्षेषु ॥ साधनेषु च [परोक्षेप] भवतः कः संप्रत्ययः?। यदि तावद्गुणसमुदायः साधनं, साधन प्र]वेति। निर्भागः समुदाय एवेन्द्रियाऽगोचरार्थवाची निपात्यत इत्यर्थः।काल इति । यथा कालस्य नित्यपक्ष उपाधिभेदामृतादिव्यपदेशस्तथा परोक्षत्वमपि।अनित्यक्रिया- रूपकालपक्षे तु स्वत एव परोक्षत्वम् । न च शब्दस्यति। प्रत्ययप्रकृतेः शब्दस्यो- चार्यमाणस्याऽनुभूतत्वात्परोक्षत्वाऽसंभवः । ततो यथा प्रत्यक्षत्वमव्यभिचारा- च्छब्दस्य विशेषणं न संभवति, एवं परोक्षत्वमण्यसंभवादविशेषणमित्यर्थः। कः पुन- रिति। यद्येकैकः क्षणो धात्वर्थस्तदा तस्य प्रत्यक्षत्वपरोक्षत्वसंभवाद्युक्तं विशेषणम् । अथ समूहस्तस्य युगपदसंनिधानादप्रत्यक्षत्वाऽव्यभिचारात्परोक्षत्वमविशेषणमिति मत्वा प्रश्नः । क्रियेति । समूहरूपेति भावः। साधनेविति । शक्तिशक्तिमतोरभेद- विवक्षया साधनशब्देन शक्तिमन्ति द्रव्याण्युच्यन्ते। इतरो यथोक्तमभिप्रायमप्रति- पद्य पृच्छति-साधनेष्विति । गुणसमुदाय इति । शक्तीनां समुदाय इत्यर्थः । उ.]निर्भाग इति । सभागनिपातनस्य गुरुत्वादिति भावः, अवयवाऽर्थाऽप्रतीतेश्च । इन्द्रियाऽगोचरार्थवाचीति । तद्विषयकज्ञानवाचीत्यपि बोध्यम् । ननु कालः सर्व- स्याऽपि 'इदानी'मित्यादिव्यवहारेणाऽपरोक्ष एवेत्यत आह-यथेति । नित्यपक्ष इति । नित्यत्वपक्ष इत्यर्थः । भाष्ये-प्रत्यक्षपरोक्षतायामिति । प्रत्यक्षत्वपरोक्ष- योर्विशेषणतायामित्यर्थः। तत्र प्रत्यक्षत्वेन विशेषणस्य काऽप्यभावात्तदुपादानमसङ्गत- मत आह-यथा प्रत्यक्षत्वमिति । युगपदसन्निधानादिति । अतः सद्वस्तुविषयें- रिन्द्रियैर्न गृह्यते इत्यप्रत्यक्षवेत्यर्थः । एवञ्चैकैकस्य प्रत्यक्षत्वेऽपि समूहरूपो धात्वर्थः परोक्ष एव । अत एव 'पिण्डीभूता निदर्शयितुमशक्ये'त्युक्तमिति भावः । वस्तुतोऽ- वयवशोऽप्यप्रत्यक्षत्वेमेवेत्युक्तं प्राक् । किञ्चाऽवयवशः प्रत्यक्षत्वे एकैकत्राऽवयवे समुदायरूपारोपेण भूतत्वादिवत् प्रत्यक्षत्वस्याऽपि सम्भवेन तथ्यावृत्त्यर्थं 'परोक्ष' इति विशेषणोपपत्तौ साधनादिप्रत्यक्षत्वेन तत्प्रत्यक्षत्वोपपादनं भाष्योक्तमसङ्गतं स्यात् । अत एव ‘अत्यन्ताऽपरदृष्टे'ति ‘अत्यन्त' पदं चरितार्थम् । नन्ववयवानां १ इदं क्वचिन्न । २ इतिः क्वचिन्न । ३ अपरि ।

३अ.२पा.२आ.११५सू.] * व्याकरणमहाभाष्यम् , २५३ मप्यनुमानगम्यम् । अथाऽन्यद्गुणेभ्यः साधनं, भवति प्रत्यक्षपरोक्षतायां संभवः ॥ अथ यदाऽनेन रथ्यायां तण्डुलोदकं दृष्टं कथं तत्र भवितव्यम् ? ॥ यदि तावत्साधनेषु परोक्षेषु, पपाचेति भवितव्यम् । भवन्ति हि तस्य साध- नानि परोक्षाणि॥ अथ य एते क्रियाकृता विशेषास्सीत्काराः फूत्काराश्चेति तेषु परोक्षेषु ? ॥ एवमपि पपाचेति भवितव्यम् ॥ कथंजातीयकं पुनः परोक्षं नाम?॥के चित्तावदाहुः-'वर्षशतवृत्तंपरोक्ष मिति ॥ [अपर आहुः-'वर्पसहस्र- प्र.]समुदायग्रहणं सर्वासां करणादिशक्तीनां क्रियासिद्धौ निमित्तत्वाऽविशेषात्साधनत्व- प्रतिपादनार्थम् । तेन यावदुक्तं 'सर्वाः शक्तयः साधन' मिति, ताव द्गुणसमुदायः साधन'मिति। साधनमपीति । शक्तीनां नित्यानुमेयत्वात् । अथान्यदिति ।शक्ति- व्यतिरिक्तं शक्तिमद्रव्यमित्यर्थः । तत्र द्रव्यप्रत्यक्षत्वे लोकस्य क्रियाप्रत्यक्षत्वाभि- मानः, तत्परोक्षत्वे क्रियापरोक्षत्वमित्यर्थः । यदि तावदिति । दृष्ट्वापि तण्डुलोदकं यदा न निश्चितवान्-किमेते तण्डुलाः पच्यन्तेऽथ हृयन्तेऽथ कुट्यन्ते इति, प्रमाणाऽन्तरेण यदा कालान्तरे प्रयोक्ता पाकमवगम्य वाक्यं प्रयुङ्क्ते तदा साधन- त्वस्य संरम्भरूपस्य परोक्षत्वात्पपाचेति युक्तम् । अथेति । क्रियाकृतविशेषप्रत्यक्ष- त्वेऽपि लोकस्य क्रियाप्रत्यक्षत्वाऽभिमानः। तत्परोक्षत्वे तु पपाचेत्येव भाव्यमित्यर्थः। कथं जातीयकमिति । यस्मिन् भूतानद्यतनपरोक्षे लिटा भाव्यं तत्परिज्ञानाय प्रश्नः। के चिदिति । मतभेदप्रदर्शनायाऽनेकदर्शनोपन्यासः। इन्द्रियाऽगोचरसाधन- साधितानद्यतनक्रियावाचिनस्तु धातोलिदत्यय इति निर्णयः। तथा 'ह्यःपपाचे'- उ.]सौम्यादप्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्षत्वं स्यादत आह-अशक्येति। पिण्डी- भूताऽपि निदर्शयितुमशक्या, अवयवानां क्षणिकत्वेन पिण्डीभावस्यैवाऽभावादिति भाव इति बोध्यम् । साधनेषु चेति भाष्ये साधनपदेन किं भवान्मन्यत इत्यर्थः । नन्वेककस्या अपि शक्तरप्रत्यक्षत्वात्समुदायग्रहणे व्यर्थमत भाह-समुदायेति। नित्याऽनुमेयत्वादिति । तत्त्वञ्चाऽतीन्द्रियत्वाद्बोध्यम् । ननु तण्डुलोदकदर्शनकाले पाकस्य भूतत्वाऽभावात्कथं लिट्रयोगोऽत आह-दृष्ट्वाऽपीति । साधनस्य-तच्छत्तया- श्रयस्य । संरम्भरूपस्येति । संरम्भः शक्तिस्तदाविष्टरूपस्येत्यर्थः । 'संरम्भ'- शब्दोऽर्श आद्यजन्तः । 'पपाचेति युक्त मिति पाठः। भाष्ये-'सीत्काराः फूत्कारा- श्थेति पाठः। क्रियाकृतविशेषप्रत्यक्षवेऽपीति। अपिना साधनप्रत्यक्षत्वेऽपीत्यर्थः। इन्द्रियाऽगोचरसाधनेति । तत्र क्रियाकृतविशेषरूपसीत्कारादिविशिष्टस्य संरब्ध- रूपस्य चेन्द्रियाऽगोचरत्वं बोध्यम् । अचित्तव्याक्षेपस्थले उत्तमाऽसिद्धाविष्टापत्ति सूचयन् चित्तव्याक्षेपे तदुदाहरणमाह भाष्ये-सुप्तेति । जागरेऽमत्तत्वेऽपि पारोक्ष्यं १ इदं क्वचिन्न । २ 'श्चीत्काराः' । ३ 'प्रयुते ।

२५४ कैयट-विवरणसहितं ७ [ परोक्षे लिट् वृत्तं परोक्ष मिति ] । अपर आहुः—कुड्यंकटान्तरितं परोक्षमिति । अपर आहुः 'व्यहवृत्तं त्र्यहवृत्तं चेति । सर्वथोत्तमो न सिध्यति ॥*॥ सुप्त- मत्तयोरुत्तमः ॥*॥ सुप्तमत्तयोरुत्तम इति वक्तव्यम् । सुप्तोऽहं किल विललाप । मत्तोऽहं किल विललाप । सुप्तो न्वहं किल विललाप । मत्तो न्वहं किल विललाप ॥ अथवा भवति वै कश्चिजाग्रदपि वर्तमान- कालं नोपलभते । तद्यथा वैयाकरणानां शाकटायनो रथमार्गे आसीनः शकटसार्थ यान्तं नोपलेभे ॥ किं पुनः कारणं जाग्रदपि वर्तमानकालं नोप- लभते?॥ मनसा संयुक्तानीन्द्रियाण्युपलब्धौ कारणानि भवन्ति, मनसोऽसां- निध्यात् ॥*॥ परोक्षे लिडत्यन्तापह्नवे॥परोक्षे लिडित्यत्राऽत्यन्तापहवेचेति वक्तव्यम्। 'नो खण्डिकान् जगाम।नो कलिङ्गाञ्जगामानकारिसोमंप्रपपावग्ने! न दार्वजस्य प्रतिजग्राह । को मे मनुष्यः प्रहरेद्वधाय'॥॥* ॥परोभावः परस्याक्षे परोक्षे लिटि दृश्यताम् ॥ उत्वं वाऽऽदेः परादक्ष्णः सिद्धं वाऽस्मान्निपातनात् ॥*॥ प्र.]त्याद्यपि भवति। सर्वथेति। आत्मसाध्ययाः क्रियायाः प्रत्यक्षत्वाभिमान इतिभावः। सुप्तमत्तयोरिति। सुप्तमत्तग्रहणं चित्तव्याक्षेपनिमित्तोपलक्षणम् । असान्निध्या- दिति । विषयान्तरेणाकृष्टत्वान्मदाद्यभिभवाद्वति भावः । अत्यन्तापह्नवे चेति । न कंवलं तद्देशस्य भोमनादेरपह्नवो यावत्तद्देशगमनादेरपि यदि भवतीत्यर्थः। खण्डिकी नाम जनपदः । त्वया अयाज्यो याजित इत्युक्तः कश्चिदाह-न कारियोममिति । कारी-याजक ऋत्विगुच्यते । तस्य सोमं नाहं पपौ । ऋत्विम्भूत्वा सोमं न पीतवान् । अपि तु यजमान एव भूत्वेत्यर्थः । ऋत्विक्त्रमेवाऽपहृते । तथा प्रतिग्रह- मन्वयाऽयोग्याद्गृहीत इत्युक्त आह-न दार्वजस्येति । दाो नाम]जनपदविशेषः । नत्र जातम्याहं न प्रतिजग्राहेति सर्वथा प्रतिगृहीतृत्वमपद्भुते । को मे मनुष्य उ.]दर्शयति-अथ वेति। 'वैयाकरणानां शाकटायन' इत्यनेन तस्याऽमत्ततोक्ताऽन्य- चित्तता च । भाष्ये-वर्तमानकालमिति । वर्तमानकालं वस्त्वित्यर्थः । भाष्ये- मनस इति । यद्यपि पातञ्जलानामन्तःकरणं व्यापकं, तथापि तत्परिणामविशेषो मनश्चिरस्थायि मध्यमपरिमाणं संकोचविकासशालि ज्ञानकारणमिति भावः । अत एव सदा न ज्ञानयोगपद्यं कदाचित्तद्योगपद्यमपीति दिक्। जनपद इति । 'कलिङ्ग- खण्डिकादिषु त्वया भुक्त'मिनि पृष्टे तत्कारणीभूतगमनप्रतिषेधादत्यन्ताऽपलवोऽत्रेति बोध्यम् । तस्य सोममिति । तदंशभूतं सोममित्यर्थः । फलितमाह-ऋत्विग्भू. वति । त्वयाऽयोग्यादिति । 'दार्वदेशीया'दिति शेपः । को मनुष्य इति । १इदं क्वचिन्न । २ 'वर्तमानं कालं'।३ कश्चिन्जान' ।४ 'संप्रयुक्तानि'। ५'अग्रे दाई'। ६ खण्डिका-'खण्डवा' 'भूसावल' इति प्रसिद्धो जनपदः । दार्वः-मिश्रदेशः । । .

३अ.२पा.आ.११८सू.] व्याकरणमहाभाष्यम् * rimur- लट् स्मे ॥ ३२११८॥ ॥॥स्म पुराभूतमात्रे॥*-*॥ नस्मपुराद्यतने॥*॥ स्मपुराभूतमात्रे न स्मपुराद्यतन इति वक्तव्यम्॥ किमयं स्मादिविधिः पुरान्तोऽविशेषेण भूतमात्रे भवति तत्र वक्तव्यं 'स्मलक्षणः पुरालक्षणश्चाद्यतने न भवत' इति, आहो स्वित् स्मलक्षणः पुरालक्षणश्चाऽविशेषेण भूतमात्रे भवत इति, तत्र स्माद्यर्थ न स्मपुराद्यतन इति वक्तव्यम् ? ॥ किं चातः ?॥ ॥*॥ स्मादिविधिः पुरान्तो प्र.]इति । को मनुष्यो वधाय ममाऽसत्यारोपणेन प्रहरेदित्यर्थः । [परोक्षे लिट् ] लट् स्मे। इत आरभ्य पञ्चसूत्र्यां कालविभागप्रतिपादनाय वार्तिकद्वयम्- 'म्मपुराभूतमात्रे' 'न स्म पुराद्यतन' इति । तस्याऽयमर्थः,-प्रथमे वार्तिके स्मपुरा- शब्दाभ्यामाद्यन्ताभ्यां पञ्चसूत्री लक्ष्यते । तत्र भूतमात्रे प्रत्ययो भवति । स्मपुरा- लक्षणस्तु प्रत्ययोऽद्यतने न भवति। एतदुक्तं भवति-लट् स्मे अपरोक्षे च पुरि लुङ् चास्मे इति सूत्रत्रयेणाऽनद्यतने भूतविशेषे प्रत्ययो भवति । 'ननौ पृष्टप्रतिवचने' 'नन्वोर्विभाषे'त्येताभ्यां तु भूतमात्रे प्रत्ययः । तत्र स्मपुरेति वार्तिकद्वये विधिप्रति- पंधयोरुपदानाद्धृतमात्रस्य विधानात्तस्यैव चाद्यतननिषेधद्वारेणानद्यतनलक्षणविशेष- प्रतिपादनेन निषेधादेकस्मिन्विषय एकस्य विधिप्रतिषेधयोरत्यन्तविरोधात् पूर्वोक्तो- विषयविभाग आधीयते । किमयमिति । 'स्मपुराभूतमात्र' इत्यत्र वार्तिके म्मपुराशब्दाभ्यां यदि इयं पञ्चसूत्री लक्ष्यते तदा मध्यमौ योगी भूतमात्रे भवतः, न म्मपुराद्यतन इति वचनाच स्मपुरालक्षणां विधिरनद्यतन एव। अथ स्मपुराभूतमात्र इत्यनेन स्मपुरालक्षणस्यैव विधैर्भूतमात्रं निर्दिश्यते, न स्मपुराद्यतन इत्यत्र वार्तिके स्मपुराशब्दाभ्यां मध्यमौ योगी लक्ष्येते तदा ननौ पृष्टप्रतिवचने 'नन्वोर्विभाषे'- त्येताभ्यां योगाभ्यामनद्यतन एव विधिना भवितव्यमिति प्रश्नः । किं चात इति । उ.] यतोऽहं न प्रतिजग्राह अत' इत्यादिः ।परेतु 'मरुत्तस्त्वयि प्रहरिष्यती'त्यग्निनोक्त इन्द्रस्येदं वाक्यं । खण्डिकादिषु भोजनवतोऽयाज्यऋत्विकर्मकृतवतोऽसतो दार्वजा- प्रतिगृहीतुर्वा मनुष्यप्रहारो न मम, तद्देशगमनस्यैवाऽभावात् ,ऋत्विकस्यैवाऽकरणा- हार्वजतःप्रतिग्रहस्यैवाऽग्रहणान्मयि तस्य न प्रहारे सामर्थ्यमित्याहुः। [परोक्षेलिट्]। लट् स्मे । प्रथमे वात्तिके इति । यद्यपि उपसञ्जातविरोधाद्वितीयवार्तिके लक्षणा युक्ता, तथाऽपि लक्ष्याऽनुरोधादग्रिमभाष्याचाऽत्रैव लक्षणेति भावः । तत्र लक्षणाश्रयणे बीजमाह-तत्र स्मेति । भूतमात्रस्य विधानादिति । आधे वार्तिके इति भावः । निषेधादिति । अनद्यतनलक्षणविशेषप्रतिपादने निषेधतात्पर्यादि- त्यन्वयः । एकस्मिन्विषये- 'लट्स्म' 'अपरोक्षे च' 'पुरि लुछ्' इति सूत्रत्रयविषये। भूतमात्रविध्यद्यतननिषेधयोर्विरोधः । पूर्वोक्त इति। आद्य पञ्चसूत्रीलक्षणरूपः । ।

२५६ कैयट-विवरणसहितं . [ लट् स्मे यद्यविशेषेणे किं कृतं भवति। न स्मपुराद्यतन इति ब्रुवता कात्यायनेनेह॥ ॥स्मादि- विधिः पुरान्तो यद्यविशेषेण भवति किं वार्तिककारः प्रतिषेधेन करोति-नस- पुरातन इति? ॥॥॥अनुवृत्तिरनंद्यतनस्य लट् स्म इति तत्रै नास्ति नकार्यम्॥*॥ लट् स्म इत्यत्रानद्यतन इत्येतदनुवर्तिप्यते ॥*॥ अपरोक्षानद्यतनौ ननौ च नन्वोश्च विनिवृत्तौ॥ न पुराऽद्यतन इति भवेदेतद्वाच्यम्-॥॥ तत्रैतावद्वक्तव्यं स्यान पुराद्यतन इति॥*॥-तत्र चापिलङ्ग्रहणम्॥ ॥ तत्र चापिलुङ्ग्रहणं ज्ञाप- कंन पुरालक्षणोद्यतने भवतीति ॥ ॥ अथै वुद्धिरविशेषात्स्मपुरा हेतू-॥॥ प्र.]एकतरस्मिन् वार्तिके स्मपुराशब्दावुपलक्षणत्वेनाश्रयणीयौ।तत्र पूर्वस्मिन् परस्मिन् वा विशेषमपश्यन् पृच्छति । इतरो वार्तिकप्रत्याख्यानाय मया विकल्पितमेतदित्या- ह-स्मादिविधिरिति । लट्स्मे, अपरोक्षे च, पुरि लुङ् चास्मे इत्येतेषु योगेष्वनद्यतनग्रहणानुवृत्त्येष्टस्यार्थस्य सिद्धत्वान्न स्म पुराद्यतन इति वार्तिकं न कर्तव्यमित्यर्थः। यदि 'लट् स्म'इत्यत्राऽनद्यतनग्रहणमनुवर्तते तदा 'ननी पृष्टप्रतिवचने 'नन्वोर्विभाषे'त्यनयोरप्यनुवर्त्ततेत्यत आह-अपरोक्षानद्य- तनाविति । तेन भूतमात्रे एताभ्यां योगाभ्यां विधिरित्यर्थः । पुरि लुङ् चास्म इत्यत्राप्यनद्यतनग्रहणनिवृत्तौ भूतमात्रे विधिः प्राप्नोतीत्याह-न पुरेति । तत्रेति । पुरि लुङ् चास्म इत्यत्रानद्यतनग्रहणमनुवर्तत इत्येतलुङ्ग्रहणेन ज्ञाप्यते । यदि तु भूतमात्रेऽयं विधिः स्यात्तदा 'नन्वोर्विभाषे'त्यतो विभाषाग्रहणा- नुवृत्त्या विकल्पेन लटो विधानात् पक्षे लुङ् भविष्यति किं लुङ्ग्रहणेन । अनद्य. तनानुवृत्तौ तु लुङ्ग्रहणमन्तरेण पक्षे लुङ्ग लभ्यते, लङा बाधितत्वादिति भावः । अथ बुद्धिरिति । लट्स्मे पुरि लुङ् चास्मे इत्येतावाद्यन्तौ योगौ यदि भूतमात्रे भवत इत्यर्थः । स्मपुराहेतू इति । स्मपुराशब्दौ प्रत्ययोत्पत्तेनिमित्त इत्यर्थः । उ.मध्यमौ योगी लक्ष्यते इति।आद्यन्ताभ्यां पञ्चसूत्रीग्रहणेऽपि सूत्रत्रये ‘भूतमात्रे' इति विशेषोत्तमध्यमयोरेवैतत्फलमित्याशयेनेदमुक्त। ननाविति नन्वोरिति च मध्यमौ योगी । इति प्रश्न इति । तत्र विनिगमकाऽभावादिति भावः । भाष्ये-स्माद्यर्थ- मिति । अतद्गुणसंविज्ञानो बहुव्रीहिरिति बोध्यम् । विशेषमपश्यन्निति । अक्षर- लाघवगौरवरूपं विनिगमकमित्यर्थः । अन्यथा फलविशेषस्य स्पष्टतया तदसङ्गतिः स्पष्टव। अपरोक्षाऽनद्यतनावितीति । 'अपरोक्षे चेति सूत्रस्थमपरोक्षग्रहणमिति बोध्यम् । एवञ्च तन्निवृत्तिरिव 'अनद्यतन' इत्यस्याऽपि निवृत्तिभविष्यतीति निषेध- वात्तिकं व्यर्थमित्याशयः। तन्निवृत्तौ यत्फलितं तदाह-तेनेति । इत्यत्राऽनद्यत- नेनेति । मण्डूकप्लुत्येति भावः। ज्ञापकमुपपादयति-यदि त्विति । द्वितीयपक्षेऽपि १ श्लोकवार्तिकम् । २ 'इत्यत्र'।

२५७ .. ३१.२पा.२आ.११८सू.] व्याकरणमहाभाष्यम् , अर्थ बुद्धिरियमविशेषण स्मपुराहेतू इति । ॥*॥तत्र चापि श्रेणु भूयः॥अपरोक्षे चेत्येष प्राक् पुरिसंशब्दनादविनिवृत्तः ॥ सर्वत्रानद्यतनस्तथा सति नआ किमिह कार्यम् ॥ स्मादावपरोक्षे चेत्यकार्यमिति' शक्यमेतदपि विद्धि ॥ शक्यं हि निवर्तयितुं परोक्ष इति लट् स्म इत्यत्र ॥ स्यादेषा तव बुद्धिः स्मलक्षणेऽप्येवमेव सिद्धमिति । लट् स्म इति भवेन्नार्थस्तस्मात्कार्य परार्थं तु ॥*॥ एवं तर्हि ज्ञापयत्याचार्यः 'स्मलक्षणः पुरालक्षणश्चानघतने भवन इति'॥ [॥*॥ स्मादिविधिः पुरान्तो यद्यविशेषेण किं कृतं भवति । न स्म पुराऽद्यतन इति ब्रुवता कात्यायनेनेह ॥१॥ अनुवृत्तिरनद्यतनस्य लट् स्म इति तत्र नास्ति नकार्यम् । अपरोक्षानद्यतनौ ननौ च नन्वोश्च विनिवृत्तौ ॥२॥ नपुराऽद्यतन इति भवेदेताच्यं तत्र चाऽपि लुङ्ग्रहणम् । अथ बुद्धिरविशेषात्स्मपुरा हेतू तत्र चापि शृणु भूयः ॥३॥ प्र.]तत्रचापीति।अयमर्थः।न स्म पुराद्यतन इत्ययं निषेधो यद्याद्यन्तोपलक्षितमध्यम- योगविषयस्तदा न कर्तव्य एव । अपरोक्षग्रहणं ननौ पृष्टप्रतिवचने नन्वोर्विभाषे- त्यत्रानुवर्तिष्यते, तदनुवृत्त्याऽनद्यतनग्रहणानुवृत्तिरनुमास्यते । यस्मात्परोक्षानद्यतन- योः प्रकृतत्वेऽन्यतरनिवृत्तियत्नेन क्रियमाणा द्वितीयस्याऽनुवृत्तिमनुमापयति । अप- रोक्षग्रहणेन हि परोक्षाधिकारो निवर्त्यते। यथाऽद्वन्द्वग्रहणं द्वन्द्वाधिकारग्रहणनिवृत्त्य- र्थमित्युक्तम्॥ इदानीमपरोक्षे चेत्येतत् सूत्रं प्रत्याख्यातुमाह-स्मादाविति । स्मादि- ग्रहणेन स्मादिविधिः पुरान्त इत्येष पक्षो लक्ष्यते । लट् स्म इत्यादिसूत्रेषु परोक्ष- ग्रहणस्य निवृत्तत्वादपरोक्षे चेत्येतत्सूत्रं न कर्तव्यमित्यर्थः । इदानीमाचार्यः सूत्रं समर्थयितुमाह-स्यादेषेति।यदि त्वं मन्यसे लट् स्म इत्यत्र परोक्षग्रहणनिवृत्ती उ.] वैयर्थ्यमुपपादयति भाष्ये-अथ बुद्धिरिति । भूतमात्रे लटः 'स्म' 'पुरा'शब्दो हेतू इत्यर्थः । निवर्त्यत इति । 'लट् स्मे' इत्यत्र परोक्षाऽनद्यतनयोनिवृत्त्या स भूतमात्रे सिद्धः । एवञ्च 'अपरोक्षे' इत्यस्याऽयमर्थः,-उत्तरसूत्रद्वये 'परोक्षे' इति निवृत्तमिति । तेन तत्र अनद्यतनाऽनुवृत्तिर्भवतीत्युत्तरवार्तिकं व्यर्थमेवेति भावः । प्रत्याख्यातुमाहेति । 'प्रथमपक्ष' इति शेषः । प्रथमपक्षे लाघवेन स एव पक्षः परिग्राह्य इति बोधयितुमिति भावः । इदानीमिति । तत्पक्षस्यैव ज्ञापकतया सूत्र १ इदं प्रायो लुप्तम् । २'कार्यमपि शक्यमेतदिति'। ३ इमानि श्लोकवार्तिका- न्यन्ते भाष्यशैल्या पाल्यान्यपि सर्वत्र लुप्तानीति गौडाः। ४ 'देव तद्वाच्यं । ..

२५८ ॐ कैयट-विवरणसहितं. [ ननौ पृष्ट अपरोक्षे चेत्येष प्राक्पुरिसंशब्दनादविनिवृत्तः । सर्वत्रानद्यतनस्तथा सति नआ किमिह कार्यम्? ॥४॥ स्मादावपरोक्षे चेत्यकार्यमिति शक्यमेतदपि विद्धि । शक्यं हि निवर्तयितुं परोक्ष इति लट्स्म इत्यत्र ॥५॥ स्यादेषा तव बुद्धिः स्मलक्षणेऽप्येव सिद्धमिति । लट्स्म इति भवेन्नार्थस्तस्मात्कार्यं परार्थन्तु ॥६॥ ॥ ॥] ननौ पृष्टप्रतिवचने ॥ ३२२१२० ॥ ॥*आननौ पृष्टप्रतिवचन इत्यशिष्यं क्रियाऽसमाप्तेर्विवक्षितत्वात्॥*॥'ननौपृष्ट- प्रतिवचन' इत्यशिष्यो लट् ॥ किं कारणम्!॥ 'क्रियाऽसमाप्तर्विवक्षितत्वात्'। क्रियाया अत्राऽसमाप्तिर्विवक्षिता। एष नाम न्याय्यो वर्तमानः कालो यत्र क्रियाया असमाप्तिभवति, तत्र 'वर्तमाने ल'डित्येव सिद्धम् ॥ यदि 'वर्तमान ल'डित्येव लभवति शतृशानेची प्रामुतः ॥ इप्येते शतृशानचौ । ननु मां कुर्वन्तं पश्य । ननु मां कुर्वाणं पश्यति ॥ [ ननौ पृष्टप्रतिवचने ] । प्र.]सत्यां परोक्षे चापरोक्षे च लड् भविष्यतीति नार्थोऽपरोक्षे चेत्येतत्सूत्रेणेति।तन्न। यस्मादपरोक्षग्रहणमनद्यतनानुवृत्तिज्ञापनार्थ कर्तव्यम् । लट्स्म इत्ययं योगः परोक्षा- ऽनद्यतने वर्तते । यदि ह्यत्र परोक्षग्रहणं निवर्तेत तदा तत्संबद्धमनद्यतनग्रहणमपि निवर्तेत। तस्मादपरोक्षे चेतिसूत्रारम्भाल्लट्स्मे इत्ययं योगः परोक्षानद्यतनविषयः, अपरोक्षे चेत्ययमपरोक्षानद्यतनविषयः, 'पुरि लुङ् चास्मे' इत्ययं तु लुङ्ग्रहणाद- नद्यतनविषयः, मध्यमौ तु भूतमात्रविषयाविति सूत्रेणैव व्यवस्थायाः सिद्धत्वान्ना- ऽर्थो वार्तिकारम्भेणेत्यर्थः।ननौ पृष्टप्रतिवचन इत्ययं च योगो येन नाप्राप्तिन्यायेन लुको बाधकः, परत्वेन लब्लिटोः । [ लट् स्मे ] ॥ ननौ पृष्ट । असमाप्तिरिति । निवृत्तायामपि पाकादिक्रियायां तत्कृतस्य श्रमादेरनुवर्तनात्तस्या एवाऽसमाप्तिविवक्षायां लसिद्ध इत्यर्थः । 'इप्येते' इत्यनेन प्रत्याख्यानं द्रढयति । यदि हि भूताश्रयो लट् क्रियेत तदा वर्तमानाधिकाराद्वर्तमाने उ.]समर्थयितुमित्यर्थः मध्यमौ विति। परोक्ष'ग्रहणस्याऽपरोक्षग्रहणस्य च निवृत्त्या तत्सहचरिताऽनद्यतनग्रहणस्याऽपि निवृत्तेरिति भावः । भाष्ये-एवन्तर्हि ज्ञापय- त्याचार्यः स्मलक्षणः पुरालक्षणश्चाऽनद्यतने इति । तत्र स्मलक्षण इदं ज्ञाप- कम्, पुरालक्षणे तु लुहणमिति विवेको बोध्यः । नन्वेवं 'ननु'योगेऽनद्यतने लकिटौ स्याताम्, ताभ्यां येन नाप्राप्त्यभावेन तद्वाधाऽयोगादत आह-ननाविति । ननौ पृष्ट। असमाप्तिविवक्षायां हेतुमाह-तत्कृतस्य श्रमादेरिति। प्रत्याख्यान- १ 'एष एव' । २ चौ च प्रा' ।

३अ.२पा.२आ.१२२सू.] 8 व्याकरणमहाभाष्यम् . २५९ पुरि लुङ् चास्मे ॥ ३२।१२२ ॥ ॥ ॥ हशश्वभ्यां पुरा ॥ ॥ हशश्वल्लक्षणात्पुरालक्षणो भवति विप्रतिषे- धेन । हशश्वलक्षणस्यावकाशः-इति हाऽकरोत् । इति ह चकार । शश्वदक- रोत्। शश्वञ्चकार। पुरालक्षणस्यावकाशो-रथेनायं पुरा याति।रथेनायं पुराऽया- सीत्। इहोभयं प्रामोति-रथेन ह शश्वत्पुरा याति। रथेन ह शश्वत्पुराऽयासीत्। पुरालक्षणो भवति विप्रतिषेधेन । ॥*॥ स्मः सर्वेभ्यो विप्रतिषेधेन ॥*॥ स्म- लक्षणः सर्वेभ्यो भवति विप्रतिषेधेन, हशश्वल्लक्षणात्पुरालक्षणाच्च। हशश्वल्लक्ष- णस्यावकाशः-इति हाकरोत्, इति ह चकार । शश्वदकरोत् शश्वञ्चकार। पुरा- लक्षणस्यावकाश: -रथेनायं पुरा याति रथेनायं पुराऽयासीत् । स्मलक्षणस्या- वकाश:-धर्मेण स्म कुरवो युध्यन्ते। इह सर्व प्रामोति-न ह स्म वै पुरा शश्व- दग्निरपरशुवृक्णं दहति । स्मलक्षणो लभवति विप्रतिषेधेन । [पुरि लुङ् ॥ वर्तमाने लट् ॥३।२।१२३॥ ॥ ॥ प्रवृत्तस्याऽविरामे शिष्या भवन्त्यवर्तमानत्वात्॥*॥ प्रवृत्तस्याऽविरामे शासितव्या-भवेन्ती । इहाधीमहे । इह वसामः। इह पुष्यमित्रं याजयाम इति ॥ किं पुनः कारणं न सिध्यति ? ॥ 'अवर्तमानत्वात् ॥॥ नित्यप्रवृत्ते च कालाऽविभागात्॥॥नित्यप्रवृत्ते च शासितव्या भवन्ती। तिष्ठन्ति पर्वताः। प्र.विहितस्य लटो विधीयमानौ शतृशानचावस्य लटो न स्याताम् । अथ पृष्टग्रहणं किमर्थं यावता प्रश्नपूर्वकमेव प्रतिवचनं भवति।नैतदस्तिाविरुद्धमपिवचनं, वचना- भिमुख्यमपि तथा,वचनं वचनं प्रति प्रतिवचनमित्यनेकार्थसंभवात्पृष्टग्रहणं कर्तव्यम्। पुरि लुङ् । स्मः सर्वेभ्य इति । परविप्रतिषेधेन पूर्वविप्रतिषेधेन च । त- तश्च पुरिलुङ् चाऽस्मे इत्यत्र 'अस्मे' इति न वक्तव्यं भवतीति भावः॥[पुरि लुङ्]॥ वर्तमाने। प्रवृत्तस्येति । इहाधीमह इत्यध्ययनं प्रवृत्तं प्रारब्धं, न च तद्विर- तम् । यदा च भोजनादिकां क्रियां कुर्वन्तो नाधीयते तदाऽधीमह इति प्रयोगो न प्राप्नोतीति वचनम् । भवन्तीति, लटः पूर्वाचार्यसंज्ञा । नित्यप्रवृत्ते चेति । उ.]मिति।सूत्राऽऽरम्भे इष्टाऽसिद्ध्येति भावः। 'ननु' शब्दयोगे लुङिटामनभिधाना- माश्रयणीयमिति तात्पर्यम् । [ ननौ पृष्ट] । पुरि लुङ् । पूर्वविप्रतिषेधेनेति । 'पुरि लुङ्चाऽस्मे' इत्यतः स्मे लडित्यतः पूर्व इति भावः । ननु 'अस्मे' इत्युक्ते स्मयोगे 'पुरि लुङ्' इत्यस्याऽप्राप्तेः कथं विप्रतिषेधोऽत आह-ततश्चेति । [पुरि लुङ्] । वर्तमाने । ननु प्रवृत्तं न च विरतमथ च न वर्तमानमिति विरुद्धमत आह- १ इदं क्वाचित्कम् । २ श्लोकवार्तिकम् । ३ 'भवन्तीति । .. - २६० कैयट-विवरणसहितं [ वर्तमाने स्रवन्ति नद्य इति॥किं पुनः कारणं न सिध्यति?॥ 'कालाऽविभागात् । इह भूतभविष्यत्प्रतिद्वन्द्वो वर्तमानः कालः, न चात्र भूतभविष्यन्तौ कालौ स्तः। ॥॥ न्याय्या वारम्भानपवर्गात् ॥*॥ न्याय्या त्वेषा वर्तमानकालता।कुतः?॥ 'आरम्भानपवर्गात्। आरम्भोऽत्राऽनपवृक्तः।एष नाम न्याय्यो वर्तमानः कालो यत्रारम्भोऽनपवृक्तः ॥ ॥ अस्ति च मुक्तसंशये विरामः ॥ ॥ [ अस्ति च मुक्त- संशये विरामः], यं खल्वपि भवान्मुक्तसंशयं वर्तमानकालं न्याय्यं मन्यते मुझे देवदत्त इति, तेनैतत्तुल्यम्। सोऽपि वश्यं भुजानो हसति वा जल्पति प्र.] पर्वतास्तिष्ठन्ती'त्यादौ स्थानादेः सर्वदा सद्भावात्साध्यत्वाभावात्क्रियारूपत्वाभावा- त्तद्धर्मस्य वर्तमानत्वस्याप्यभाव इति भावः। भूतेति । साध्यस्यार्थस्याऽनित्यत्वा- दवश्यं भविष्यत्त्वेन भाव्यम् । उत्पन्नस्यापि नाशाद्भूतत्वेनेति भूतभविष्यत्प्रतिद्वन्द्वो वर्तमानो धात्वर्थः, नित्यप्रवृत्तस्य भूतभविष्यत्त्वाऽभावाद्वर्तमानत्वाऽभावः,क्रियारूप- त्वाऽभावश्चेत्यर्थः । न्याय्या त्विति । अध्ययनं यदा प्रवृत्तं न चोपरतं तदा तस्य भोजनादिक्रियानान्तरीयकत्वादव्यवधायिका।अथ वाऽध्ययनस्यैवावयवक्रियेति भावः। तदुक्तं हरिणा-'व्यवधानमिवोपैति निवृत्त इव दृश्यते। क्रियासमूहो भुज्यादि- उ.] इहेत्यादि । न च तद्विरतमिति। सर्वथा न समाप्तमित्यर्थः। क्रियारूपत्वाऽ- भावादिति । भूतभविष्यद्वर्तमानव्यवहारविषयत्वस्वभावलात्तस्या इति भावः । त्रिविधव्यवहारविषय एव हि साध्यत्वमित्यभिमानः । ननु विद्यमानकालसंबन्धित्व- रूपं वर्तमानत्वमसाध्यस्यापि संभवतीत्यतो भाष्ये-भूतेत्यादि । तद्याचष्टे-साध्य- स्येति । अनिव्यत्वात्-वर्त्तमानप्रागभावप्रतियोगित्वात् । उत्पन्नस्याऽपीति। भाव- स्येति शेषः। तेन ध्वंसव्यावृत्तिरिति केचित् । वस्तुतो ध्वंसस्याऽपि प्रलयेऽदर्शन- रूपो नाशोऽस्त्येव, न ह्यभावनाशः प्रतियोगिरूप एवेति नियमः, अधिकरणरूप- त्वादिति परे । प्रतिद्वन्द्व इति । प्रतियोगिसत्ताकाले तयोरसम्भवात्तद्विरोधि वर्त्त- मानत्वमिति भावः । वर्तमानत्वाऽभाव इति । भूताऽऽदिविरोधिवर्तमानत्वाऽ- भाव इत्यर्थः । तादृशमेव वर्तमानत्वं सूत्रे विवक्षितम् ,पूर्व 'भूते' इत्युक्तः, अग्रेच 'भविष्यतीति वक्ष्यमाणत्वादिति भावः । क्रियारूपत्वाऽभावश्चेति । यतो भूत- भविष्यद्विरोधिवर्तमानत्वाऽभावोऽतः क्रियात्वाऽभाव इत्यर्थः । तदुक्तम्-'क्रियाभे- दाय कालस्तु सङ्ख्या सर्वस्य भेदिका'। इति । भाष्ये-आरम्भोऽत्रेति । कर्मणि घञ् । आरब्ध इत्यर्थः।अथवाऽध्ययनस्यैवेति। भोजनादिकं विना तदनिर्वाहात्तदव- यवत्वेनैव तस्या ग्रह इति भावः। व्यवधानमिवेति। अव्यवधायकोऽपि व्यवधान- १ 'एष एव च नाम'। २ इदं लुप्तं स्यात् । ३ 'वर्तमानं कालं'। ४ 'मन्येत' । ५ 'भुज्यादि' ।

३आ.२पा.आ.१२३सू.] व्याकरणमहाभाष्यम् 8 २६१ । वा पानीयं वा पिबति । यद्यत्र युक्ता वर्तमानकालता दृश्यते इहापि युक्ता दृश्यताम् ॥*॥ सन्ति च कालविभागाः ॥ ॥ सन्ति [] खल्वपि काल- विभागाः । तिष्ठन्ति पर्वताः स्थास्यन्ति पर्वतास्तस्थुः पर्वता इति॥ किं शक्य. न्त एते शब्दाः प्रयोक्तुमित्यतः सन्ति कालविभागाः ? ॥ नावश्यं प्रयोगा- देव। इह हि भूतभविष्यद्वर्तमानानां राज्ञां याः क्रियास्तास्तिष्ठतेरधिकरणम् । इह तावत्तिष्ठन्ति पर्वता इति,-संप्रति ये राजानस्तेषां याः क्रियास्तासु वर्त- मानासु । स्थास्यन्ति पर्वता इति,-इत उत्तरं ये राजानो भविष्यन्ति तेषां याः क्रियास्तासु भविष्यन्तीषु। तस्थुः पर्वता इति,-इह हि ये रोजानोबभूवु- प्र.]रन्तरालप्रवृत्तिभिः॥न च विच्छिन्न रूपोऽपि सोऽविरामानिवर्तते।सर्वैव हि क्रियाऽन्येन संकीर्णवोपलभ्यते ॥ तदन्तरालदृष्टा वा सर्वैवावयवक्रिया । सादृश्यात्सति भेदे तु तदङ्गत्वेन गृह्यते' । इति । 'नित्यप्रवृत्तस्य चे'त्यस्योत्तरं सन्तीति । इहेति । प्रसिद्धपरिमाणा क्रियैव क्रियान्तरपरिच्छेदात्काल इत्युक्तम् । तत्र राज्ञां स्थितिर्भूतादिभेदेन भिन्ना पर्वतादिस्थित्यादेर्भेदिकेति क्रियारूपत्वं कालत्रय- योगश्चोपपन्न इत्यर्थः। उक्तञ्च हरिणा-'परतो भिद्यते सर्वमात्मा तु न विकल्पते। पर्वतादिस्थितिस्तस्मात्पररूपेण भिद्यते ॥ प्रसिद्धभेदा व्यापारा विरूपावयव. क्रियाः। साहचर्येण भिद्यन्ते सरूपावयवक्रियाः॥' इति ॥ ता इति । तासामेव उ.]मिव प्राप्नोति, अनिवृत्तोऽपि निवृत्त इव दृश्यत इत्यर्थः। अन्तरालप्रवृत्तिभिः- हासादिभिः। अविरामात्-फलनिवृत्त्या विरामाऽभावात् । विच्छिन्नरूपोऽपि- विच्छिन्न इव भासमानोऽपि, फलानिवृत्तेन निवर्तते-सर्वथा न निवर्तत इत्यर्थः । सवैवेति । तथा च नान्तरीयकत्वात्तासां न व्यवधायकत्वमिति भावः । पक्षान्तर- माह-तदिति । तन्मध्यदृष्टा सर्वा तदवयवक्रियैवेत्यन्वयः । एवञ्च स्वाऽवयवक्रिया यथा स्वस्या न व्यवधायिकास्तथेमा अपीत्यर्थः। एवञ्चाऽत्र पक्षे भोजनाद्यप्यध्ययन- शब्दार्थत्वेनाश्रितमिति तात्पर्यम् । ननु कथं तदवयवत्वेन ग्रहोऽत आह-सादृश्या- दिति । तत्फलनिर्वाहकत्वेनेत्यर्थः । सतिभेदे विति । तुरप्यर्थे । अत्यन्तभिन्नाया अपि क्रियाया मध्यपातितया तदङ्गत्वेन ग्रहात्स्वाङ्गं न व्यवधायकमिति भावः । भाष्ये-नाऽवश्यमिति। किन्वर्थसत्त्वादपीत्यर्थः। ननु कालः क्रियाऽधिकरणं, न तु क्रियाऽत आह-प्रसिद्धति । वस्तुतोऽनवस्थापत्त्या चिन्त्यमिदम्। भाष्ये 'क्रिया'- पदेन तदधिकरणकालो लक्ष्यत इति वक्तुं युक्तम् । तिष्ठतेरिति । तत्तत्क्रियाविशिष्ट- तिष्ठतेरित्यर्थः । क्रियारूपत्वमिति । तत्तद्राजक्रियासमानाऽधिकरणपर्वतादि- स्थित्यादरित्यर्थः । यतः कालत्रययोगोऽतः क्रियारूपत्वमित्यर्थः । आत्मा-द्रव्यम् । १ इदं क्वचिन्न । २ 'हैहयेषु राजानो' । । ।

२६२ * कैयट-विवरणसहितं. [ वर्तमाने स्तेषां याः क्रियास्तास्वतिक्रान्तासु ॥ अपर औह,-नास्ति वर्तमानः काल इति॥अपि चात्र श्लोकानुदाहरन्ति॥ 'न वर्तते चक्रमिषुर्न पात्यते न स्यन्दन्ते सरितः सागराय । कूटस्थोऽयं लोको न विचेष्टिताऽस्ति यो ह्येवं पश्यति सोऽप्यनन्धः॥ प्र.] कालरूपत्वात्कालस्य च क्रियाधिकरणत्वादिति भावः। नास्तीतिानिष्पन्नस्याऽर्थ- स्यभूतत्वादनिष्पन्नस्यार्थस्य भावित्वान्निष्पन्नाऽनिष्पन्नव्यतिरेकेण रूपान्तरस्याऽभावः। न वर्तत इति । परिवर्तनक्रियाया वर्तमानाया अभावादिति भावः । कूटस्थ इति । स्वरूपस्थो न तु वर्तमानक्रियाविशिष्ट इत्यर्थः । अत एवाह-न विचेष्टितेति । व्यापारस्य न कर्तेत्यर्थः । एवं यो वेत्ति सोऽप्यनन्धः-किं पुनर्योऽनुष्टाता योगीत्यर्थः । स ह्यविकृतमात्मतत्वं भावयन्प्रत्यक्षीकरोति । तथा चोक्तं उ.]न विकल्पत इति। न स्वरूपेण भिन्न इत्यर्थः । विरूपाऽवयवक्रियाः व्यापाराः प्रसिद्धभेदा न तु साध्यभेदा इत्यर्थः । स्वरूपाऽवयवक्रियास्तु गिरिस्थित्यादयो राज- क्रियादेः साहचर्येण भियन्त इत्यर्थः । साहचर्यमत्र कालघटितं बोध्यम् । तासामे- वेति । अत्र यद्वक्तव्यं तदुक्तम् । क्रियाकारणत्वादिति । आधारतयेति भावः । 'क्वचित्कियाऽधिकरणत्वा'दित्येव पाठः । इदानी क्षणभङ्गवादी सूत्रमाक्षिपतीत्याह- अपर आह नास्तीति । वर्तमानकालक्रिया नास्तीत्यर्थः। एवञ्च क्षणभङ्गुरे पदार्थ- मात्रे क्रियाश्रयत्वाऽसम्भवाक्रियायां भूतभविष्यत्प्रतिद्वन्द्विवर्त्तमानत्वाऽभावेन कालविभागाऽनवगतेः 'वर्तमाने ल'डिति सूत्रमसङ्गतमिति भावः । तद्धनय- न्व्याचष्टे-निष्पमस्येतिारूपान्तरस्याऽभाव इति। प्रतिक्षणनश्वरत्वाद्वर्त्तमानक्रिया- श्रयस्याऽभावेन सर्वथा वर्तमानत्वाऽभाव इति भावः । अतीताऽनागतानां तत्त्वादेव न वर्तमानत्वेन व्यवहारप्रयोजकता,क्रियां प्रति द्रव्यस्य समवायिकारणतयोत्तरक्षणे क्रिया वाच्या, तत्तु न, उत्तरक्षणेऽन्यस्यैव भावादिति तात्पर्यम् । तदुपपादयति भाष्ये-अपि चाऽत्रेत्यादिना । 'वर्त्तते चक्र'मित्यादिवर्तमानप्रयोगो निरालम्ब इत्यर्थः। तदाह-परिवर्त्तनेति । अत्र 'विचेष्टिता लोको नास्ती'त्यनेन दृश्यस्य क्षण- भङ्गुरता सूचिता । यद्यप्ययं श्लोकः-'क्रियाश्रयो नात्मा, यतोऽयं कूटस्थोऽपरिणा- मीत्यर्थः,नाऽपिलोको दृश्यः पदार्थः,यतो दृश्यश्चेष्टाश्रयः स्थिरो नास्ति,प्रतिक्षणपरि- णामित्वात्पदार्थानामिति संसाराऽनित्यत्वाऽतिशयबोधकः, तथापि आपातार्थमादाय क्षणभङ्गवादिना स्वसाधकत्वेनोपन्यस्तः । एवं यो वेत्तीति । यथाकथञ्चिज्जानाती- त्यर्थः । 'अपि द्योत्यमर्थमाह-किम्पुनरिति । सर्वदा तथाभावनावानित्यर्थः । एवञ्च चकादेः क्रियाराहित्यज्ञानवानपि योगितुल्यः, अत्यन्ताऽस्थिरत्वस्य दृश्येषु १ तासु भूतासु' । २ 'अपर आहुः' । ३ 'हरति' ।.

३अ.२पा.२आ.१२३सू.] 8 व्याकरणमहाभाष्यम् . २६३ मीमांसको मन्यमानो युवा मेधाविसंमतः । काकं स्मेहाऽनुपृच्छति 'किं ते पतितलक्षणम् ॥ अनागते न पतसि अतिक्रान्ते च काक न । यदि संप्रति पतसि सर्वो लोकः पतत्ययम् ॥' हिमवानपि गच्छति ॥ 'अनागतमतिक्रान्तं वर्तमानमिति त्रयम् । सर्वत्र च गतिर्नास्ति गच्छतीति किमुच्यते' ?॥ प्र.]भगवता-'ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ इति । मीमांसक इति । विचारकः । युवेत्यनेन प्रज्ञायां पाटबं दर्शयति। मेधाविसंमत इति ।मेधावी चासौ सम्मतश्चेति विशेषणसमासः । षष्टीसमासस्य तु 'क्तेन च पूजाया'मिति निषेधात् । पतितलक्षणमिति । पातः पतितं । तस्य किं रूपं, नास्त्येव पतनक्रियेत्यर्थः। अनागत इति । अनागतत्वादे- वाऽसत्त्वात् पातक्रियायाः ‘पतसीति व्यपदेशोऽनुपपन्न इत्यर्थः । अतिक्रान्त इति। तथैव क्रियाया असत्त्वात् । सर्वो लोक इति । क्रियाया वर्तमानत्वाभावेऽपि यदि 'पतसी'ति व्यपदेशस्तदा विशेषाऽभावात् पर्वतादावपि 'पतसी ति व्यपदेश- प्रसङ्ग इत्यर्थः । अनागतमिति । एक एव क्षण उपलभ्यते, नातीतोऽनाप्यनागतो, उ.]ग्रहात्, आत्मन्यपरिणामित्वस्थिरत्वग्रहाचैत्युक्तंभवति । अविकृतमात्मतत्त्वम्- अपरिणाम्यात्मतत्त्वम् । स हि तथा जडं भावयन् तत्कारणतयाऽविकृतमात्मतत्त्वं प्रत्यक्षीकरोतीत्यन्वयः । अत्रैवाऽर्थे सम्मतिमाह-तथाचेति । प्रकृतिपुरुषविवेकादेव हि तथा साक्षात्कार इति योगसाङ्ख्ययोः सिद्धान्तः। अथ पदार्थानां स्थिरत्वेऽपि वर्त्त- मानकालाऽभावमुपपादयति भाध्ये-मीमांसक इति । मन्यमानः-आत्मानं विचा- रकं मन्यमान इत्यर्थः । संमतश्चेतीति । अर्थान्मेधाविनामेवेति गम्यते । पृच्छति स्म-पप्रच्छ। लट्स्मे इति लट्। भाष्ये ऽतिक्रान्ते च न पतसी'त्यन्वयः। काकपर्या- य'काकन' शब्दस्य 'काकनेति संबोधनम्। सम्प्रति-प्रयोगकाले।वर्तमानत्वाऽभावे. ऽपीति। क्रियाया वर्तमानत्वाऽभावेऽपि यदि 'पतसी'ति व्यवहारस्तदाऽयं सर्वो लोकः पततीति व्यवहारविषयः स्यादित्यर्थः । तदाह-हिमवानपीत्यादि । भाष्यस्य 'व्यवहारः स्यादिति शेषः। अयं भावः,-त्रिक्षणस्थायिन्या अपि क्रियाया अतिसूक्ष्म- कालाच्छिन्नत्वरूपदोषवशाज्ञानाऽसम्भवेनाऽज्ञातेन च व्यवहाराऽसम्भवो, ज्ञातेन च व्यवहारेऽतिप्रसङ्ग इति । उक्तमेवाऽर्थ दाव्याह-अनागतमिति । एक एव क्षण उपलभ्यत इति । उपलम्भयोग्यो भवितुमर्हतीत्यर्थः । न चैकस्येति । एकक्षणवर्ती पदार्थगतः क्रियावेशो ज्ञानयोग्यः सम्भवतीत्यर्थः । ननु कालवाचक- । ।

२६४ कैयट-विवरणसहितं [ वर्तमाने 'क्रियाप्रवृत्तौ यो हेतुस्तदर्थ यद्विचेष्टितम् । तत्समीक्ष्य प्रयुञ्जीत गच्छतीत्यविचारयन्' ॥ प्र.]न चैकस्य क्षणस्य गमनादिक्रियावेशः सम्भवतीति भावः।सर्वत्रेति।कालवृत्तित्वा- ऽविवक्षायां दाप्रत्ययो न कृतः। क्रियाप्रवृत्ताविति-परिहारः । हेतुः प्रयोजनं, गमनस्य देशान्तरप्राप्तिः तदर्थ फलार्थमित्यर्थः । इह प्रत्यभिज्ञानात् क्षणभङ्गनिरास देवदत्तस्य देशान्तरप्राप्तिर्निर्हेतुका न संभवतीति गमनक्रियैव तस्या निमित्तम् । तदानलम्बनश्च गच्छतीतिप्रत्ययोऽबाधित उपपद्यत इति सत्त्वं तावदवगम्यते क्रिया- याः। वर्तमानत्वाऽभावे च भूतभविष्यतोरप्यभावप्रसङ्गः, वर्तमानो हि भूतत्वं भविष्य- त्वञ्च प्रतिपद्यते । तत्राऽनेकक्षणसमूहात्मकं क्रियाप्रबन्धरूपं वुद्ध्या सङ्कलय्य गच्छतीत्यादिप्रयुज्यत इत्यर्थः। अविचारयन्निति । कुविकल्पकलङ्करहितमित्यर्थः । उ.]त्वात् 'सदेति भाव्यमत आह-कालेति।भाष्ये 'सर्वत्रे'त्यस्य ‘काले' इति शेषः। सर्वत्र गतिर्नास्तीत्यस्योपलब्धियोग्या नास्तीत्यर्थः। अनुपलब्धिप्रमाणाच्च तदभाव. निश्चय इति भावः । क्षणभङ्गवाद्येवाऽत्र वक्तंति तु न युक्तं, तस्य 'मेधाविसंमत' इति विशेषणाऽनुपपत्तेः। 'यदि सम्प्रती'त्यादेस्तन्मते उक्तिसम्भवाऽभावाच्च । इदानीं सिद्धान्तमाह-क्रियाप्रवृत्ताविति भाष्ये । क्रियाऽऽरम्भे यो हेतुः प्रयोजकः, फलं, तदर्थ-यद्विचेष्टितं क्रियासमूहस्तदनुकूलत्वेन समीक्ष्य-बुद्धिविषयीकृत्य बौद्धसमूह- स्य बौद्धवर्तमानत्वमादाय 'गच्छती'ति प्रयोगोपपत्तिरित्यर्थः । क्षणभङ्गवादे वुद्धे- रप्येकस्या अभावादाह-इहेति। कदाऽप्यवर्त्तमानस्य शशविषाणादितुल्यस्य भूतभवि- ष्यत्वे अपि त्वत्सम्मते न सम्भवत इति 'गच्छती'त्यबाधितप्रत्ययस्तत्सत्तायां मान- मिति भावः । गच्छतीति प्रत्ययोऽबाधित उत्पद्यत इति सत्त्वं तावदवग- म्यत इति । एतेनाऽवयवशोऽपि अप्रत्यक्षत्वं सूचितम् । अन्यथा 'अवयवगतस्य समूहे आरोप' इत्येव वदेत् । ननु अवयवानामभावे समूहोऽसम्भवी, तत्राह-तत्रा- ऽनेकेति । बौद्धो वैकल्पिक एवाऽयं समूह इत्यर्थः, 'शब्दज्ञानाऽनुपाती वस्तुशून्यो विकल्प' इति पातञ्जलोक्तेः । समूहस्य वर्तमानत्वं तु प्रारब्धाऽपरिसमाप्तत्वमुक्त- मेव । तदपि बौद्धमेव । तस्याऽनेकक्षणसमूहात्मकं-तदात्मकत्वेन प्रसिद्ध क्रियाप्र- बन्धरूपं तत्त्वेन च प्रसिद्धमविचारितरमणीयमेव बुद्ध्या विषयीकृत्येत्यर्थः । अन्य- था पूर्व सर्वथा वर्तमानकालाऽभावस्योक्तत्वेन तमसाध्यैवेदृशोक्तेरसङ्गत्यापत्तेः । एवं वास्तववर्तमानक्रियाऽभावमङ्गीकृत्याऽनुमितबौद्धसमूहरूपक्रियां तद्वर्त्तमानत्वञ्च बौद्ध- माश्रित्य प्रयोगानुपपायेदानी वास्तववर्त्तमानक्रियां तत्तत्क्षणवर्तिनी योगिप्रत्यक्षप्रमा- णिकामाश्रित्य समाधत्ते-अपर आह अस्ति वर्तमानः काल इति । क्रियाणां त्रि- १ 'भ्यते इति' । २ 'बौद्धम् । ३ इदं क्वचिन्न । ..

३१.२पा.आ.१२३सू.] * व्याकरणमहाभाष्यम् २६५ अपर आह-अस्ति वर्तमानः काल इति । आदित्यगतिवन्नोपलभ्यते । अपि चात्र श्लोकमुदाहरन्ति,- 'विसस्य बाला इव दह्यमाना न लक्ष्यते विकृतिः सन्निपाते । अस्तीति तां वेदयन्ते त्रिभावाः,सूक्ष्मो हि भावोऽनुमितेन गम्यः॥इति। ॥*॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये तृतीया. ध्यायस्य द्वितीये पादे द्वितीयमाह्निकम् ॥*॥ लटः शतृशानचावप्रथमासमानाधिकरणे ॥ ३।२।१२४ ॥ ॥*॥ लस्याऽप्रथमासमानाधिकरणेनाऽयोगादादेशानुपपत्तिर्यथाऽन्यत्र ॥१॥ प्र.विसस्येति।विसस्य वाला विसे दह्यमाने दह्यमानाअपि न प्रत्यक्षं दह्यमानत्वेनावसी- यन्ते।किं तर्झनुमानेन विसान्तर्गतत्वात्तद्दाहे तेषामपि दाहः प्रतीयते। तथा कारक- संनिपात एकैकक्षणग्रहणे क्रियावेशलक्षणा विकृतिःप्रत्यक्षेण न लक्ष्यते।तां तु त्रिभावा 'अस्तीति निश्चिन्वन्ति। त्रिषु कालेषु भावो भावना येषां ते त्रिभावाः योगिनः ये भावनावशेन त्रीनपि कालान् योगिप्रत्यक्षेण विदन्ति । सूक्ष्म इति । अनेक- क्षणसमूहात्मकस्य धातुवाच्यस्य अर्थस्य क्रियारूपस्य युगपदसंनिधानादनुमीयत इत्य. थः॥ इतिकैयटकृते भाष्यप्रदीपे तृतीयस्याध्यायस्य द्वितीये पादे द्वितीयमाह्निकम् ॥ उ.]क्षणाऽवस्थायित्वादिति भावः।आदित्यगतिवन्नोपलभ्यते। प्रत्यक्षेणेति शेषः। क्रिया- प्रत्यक्षत्वाऽभिमानिनो यथाऽतिदूरत्ववशात्तद्गतिरनुमेया तथाऽतिसूक्ष्मकालाऽवच्छि- नत्वादेकैकक्षणाऽवच्छिन्ना क्रियाऽप्यनुमेयैवेति भावः । ननु कार्येणोत्तरदेशसंयोगा- दिना एकैकक्षणवर्त्यतिसूक्ष्मवर्तमानक्रियायाः कथमनुमानमत आह भाष्ये-अपि चेति । विसदाहे वालदाहवत्कारकसन्निपाते विकृतिः । एकैका क्रिया यद्यपि न लक्ष्यते तथापि त्रिभावा योगिनस्तामस्तीति वेदयन्त इत्यर्थः । अनेन योगिप्रत्यक्षं प्रमाणं दर्शितम्। नन्वस्मदादिव्यवहारः कथमत आह-सूक्ष्मो हीति। समूहान्यथा- ऽनुपपत्तिः, वर्तमाने लडिति शास्त्रञ्च तदनुमापकमिति भावः। एकैकक्षणग्रहणे, एकेकक्षणस्य वर्तमानग्रहणेन ग्रहणे, तत्क्षणाऽवच्छेदेन कियाविशेषलक्षणा विकृतिः प्रत्यक्षेण न लक्ष्यत इत्यक्षरार्थः । नन्वेकैकक्षणस्य सूक्ष्मत्वेऽपि समूहः प्रत्यक्षः स्या- दत आह-अनेकेति । एवञ्चाऽवयवरूपा समुदायरूपा च क्रियाऽनुमानगम्यैवेति तात्पर्यम् । अत्र पक्षेऽनुमितैकैकक्षणवृत्तिक्रियायां धात्वर्थसमूहरूपाऽऽरोपेण वर्त्त- मानप्रयोग इत्याशय इति दिक् । इति० नागेशभट्टविरचिते भाष्यप्रदीपोद्योते तृतीया- ऽध्यायस्य द्वितीयपादे द्वितीयमाह्निकम् ॥ लटः शतृ । भाष्ये-लस्येत्यादि। समानाधिकरणेनाऽप्रथमान्तेन लवाच्यस्य १ 'बिसस्य बाला' । २ इतिः क्वचिन्न ।

* कैयट-विवरणसहितं. [लटः शत- लस्याऽप्रथमासमानाधिकरणेनाऽयोगादेशयोरनुपपत्तिर्यथाऽन्यत्र । तद्यथा, अन्यत्रापि लस्याऽप्रथमासमानाधिकरणेन योगो न भवति ॥ कान्यत्र ? ॥ लङि । अपचदोदनं देवदत्त इति ॥*॥ योग इति चेदन्यत्रापि योगः स्यात् ॥ ॥ अथ मतमेतत् , भवति योग इति, अन्यत्रापि योगः स्यात् ॥ कान्यत्र ? ॥ लङि । अपचदोदनं देवदन इति । न कचिद्योग इति कृत्वाऽ- तः सर्वत्र योगेन भवितव्यम् । व चिद्वाऽयोग इति कृत्वा सर्वत्राऽयोगेन । तद्यथा समानमीहमानानां चाऽधीयानानां च के चिदथैर्युज्यन्तेऽपरे न । न वेदानी कश्चिदर्थवानित्यतः सर्वैरर्थवद्भिः शक्यं भवितुं, कश्चिद्वाऽनर्थक इति सर्वैरनर्थ कैः । तत्र किमस्माभिः शक्यं कर्तु-यलटोऽप्रथमासमानाधिकर- प्र.] लटः शतृ । लस्येति । इहायं लकारो 'लः कर्मणि च भावे चे'त्यनेन कर्तृ- कर्मणोर्विधीयमानो गुणभूते क्रियां प्रति कर्तृकर्मणी प्रतिपादयति । तथा च ‘पच- त्योदनं देवदत्तः' 'ओदनः पच्यते देवदत्तेने ति क्रियाप्रधानत्वात् क्रियान्तरयोगाऽ- भावाच्छत्तयन्तरावेशाऽभावः । अन्ये तु कृतः प्राधान्येन कादीनि प्रतिपादयन्ति। तथा च क्रियान्तरयोगे शक्त्यन्तरावेशो भवति,-पाचकं पश्य, पक्केन तृप्त इति । ततश्च लङादिवल्लटोऽपि क्रियान्तरयोगाऽभावाद्वितीयाद्यनुत्पत्तावप्रथमान्तेन सामा- नाधिकरण्यं नोपपद्यत इत्यर्थः । अपचदिति । तथा चाऽपचदोदनं देवदत्तं पश्ये- त्यादि प्रसज्येतेत्यर्थः । न क्वचिदिति । तिङ्भाविनो लकारस्य गुणभूतकाद्यभि- धानम् । शत्रादिविषयस्य तु क्रियोपसर्जनकर्ताद्यभिधानम् । तथा च क्रियान्तर- निमित्तद्वितीयादिसामानाधिकरण्योपपत्तिरित्यर्थः। शक्यं कर्तुमिति । प्रतिपत्तुमित्य- उ.] कारकस्याऽयोगादित्यर्थः। ननु ‘पचन्तं देवदत्तं पश्ये' त्यादी तत्सामानाऽधिक- रण्यमस्त्येवेत्यत आह-इहेति.। गुणभूने इति । 'क्रियाप्रधानमाख्यात'मिति सिद्धान्तादिति भावः। इति क्रियेति । इत्यस्य क्रियाप्रधानलादित्यर्थः । क्रियान्तर- योगाऽभावादितिाएकत्र विशेषणत्वेनान्वितस्य कारकस्याऽन्यत्र तथाऽन्वयाऽयोगा- स्कर्तृवायतिरिक्ताऽनभिहितशत्यन्तराऽऽवेशाऽभावेन नियमेन प्रथमान्तेनैव सामा- नाऽधिकरण्यादिति भावः । प्राधान्येनेति । 'सत्त्वप्रधानानि नामानी'त्युक्तः । लडा. दिवदिति । लडादिवाच्यकारकसमानाऽधिकरणवल्लवाच्यकारकसमानाऽधिकरण- स्येत्यर्थः । अप्रथामान्तेन-तदर्थेन । इत्यादि प्रसज्यतेति । शतरीव लड्यपि लकाराऽर्थकर्तुः प्राधान्यं स्यादिति भावः । यद्यप्यन्तरङ्गा प्रथमा तथाऽपि प्रधाना- ऽनुरोधित्वेन बलवती द्वितीयैव स्यादित्यर्थः । कर्ताद्यभिधानमिति । तदभिधान. शक्तिरित्यर्थः । द्वितीयादीति । द्वितीयाद्यन्तार्थेत्यर्थः । प्रतिपत्तुमित्यर्थ इति । लडाच्यस्याऽप्रथमान्तसामानाऽधिकरण्यं न भवति, लड्वाच्यस्य भवति यत्तत्र किं ।

३अ.२पा.२आ.१२४सू.] ® व्याकरणमहाभाष्यम् 8 २६७ णेन योगो भवति, लङो न [ भवति ] । स्वाभाविकमेतत् । अथ वाऽऽदेशेन सामानाधिकरण्यं दृष्ट्वाऽनुमानाद्गन्तव्यं प्रकृतेरपिसामानाधिकरण्यं भवतीति। तद्यथा,-धूमं दृष्ट्वाऽग्निरत्रेति गम्यते, त्रिविष्टब्धं दृष्ट्वा परिव्राजक इति॥विषम उपन्यासः।प्रत्यक्षस्तेनाऽग्निधूमयोरभिसंबन्धःकृतो भवति, त्रिविष्टब्धकपरिवा- जकयोश्च। स तद्विदेशस्थमपि दृष्ट्वा जानात्यग्निरत्र, परिव्राजकोऽत्रेति॥ भवति वैप्रत्यक्षादप्यनुमानबलीयस्त्वम् । तद्यथाऽलातचक्रं प्रत्यक्षं दृश्यतेऽनुमानाच प्र.]र्थः।अथ वेति । सिद्धानां शब्दानामिदमन्वाख्यानं प्रवृत्तम् । तत्र ‘पचन्तं देव- दत्तं पश्येत्यादिप्रयोगदर्शनात् स्थानिनोऽपि लटः प्रक्रियार्थं विहितस्याऽप्रथमासा- मानाधिकरण्यमनुमीयत इत्यर्थः । विषम इति । अग्निधूमयोर्हि प्रत्यक्षेण सम्बन्धो गृह्यते । लकारस्य तु प्रयोगाऽभावादप्रथमासामानाधिकरण्यं न व चिदुपलब्धमिति भावः । भवतीति । यद्यपि लटोऽप्रयोगादप्रथमासामानाधिकरण्याऽभावः प्रत्यक्षेण निश्चीयते तथापि प्रत्यक्षस्याऽन्यथासिद्धत्वालकाराऽप्रयोगनिमित्तत्वादभावग्राहिणो बाध्यत्वम् , अनन्यथासिद्धेन तु सामान्यतोदृष्टेनाऽनुमानेन लटोऽप्रथमासामानाधिक- रण्यावगमः, न ह्यन्यथादेशस्य तदुपपद्यते इति भावः। तद्यथेति। आशुसञ्चाराचक्र- भ्रान्तिरुत्पद्यते । रूपसहचारिणस्तु स्पर्शस्याऽनेकदिक्कस्य युगपदग्रहणादनन्यथा- उ.]कारणं प्रतिपत्तुं शक्यं स्वभावाऽतिरिक्तं,न किमपीति भाष्यार्थ इति भावः।ततश्च शत्रादिविषयलटोऽस्त्येव शतृविधायकशास्त्रबललब्धस्वभावादप्रथमासामानाऽधिकर- ण्यमिति न दोष इति तात्पर्यम् । ननु लस्य क्वाऽपि प्रयोगाऽभावेन कथमीदृश- स्वभावाऽवगतिरतः पक्षान्तरमाह भाष्ये-अथ वेतिाननु यावदप्रथमासामानाऽधिक- रण्यं न निर्णीतं तावदादेश एव न, आदेशेन चाऽनुमानमित्यन्योऽन्याश्रयग्रस्तमत आह-सिद्धानामिति । नित्यानामित्यर्थः। प्रक्रियाऽर्थ विहितस्येति । अनेन प्रक्रि- यार्थं कल्पितानामबोधकत्वं दर्शयति । विषम उपन्यास इति वदन्प्रष्टव्यः, किम्प्रत्यक्षेण बाधनिश्चयादनुमानं न, उत व्याप्तिग्रहणाऽभावादिति। तत्राये आह- यद्यपीति । 'प्रत्यक्षस्तेनाऽग्नी'त्यादिग्रन्थेनापि भाष्ये तत्र बाधनिश्चयाऽभावः प्रति- पाद्यत इति बोध्यम् । प्रत्यक्षेण तत्राऽभिसंबन्ध एव पुरुषेण कृतो गृहीतो न तु विपरीतमित्यर्थात् । लकाराऽप्रयोगनिमित्तकत्वेनाऽन्यथासिद्धत्वादभावग्राहिणः प्रत्यक्ष- स्य बाध्यत्वमित्यन्वयः । सामान्यतो दृष्टेन-कार्यकारणभिन्नलिङ्गकेन । न ह्यन्य- थेति । एवञ्च शतृशास्त्रवैयर्थ्यरूपाऽनुकूलतर्कसहितमनुमानमन्यथासिद्धप्रत्यक्षा- प्रबलमिति भावः । रूपसहचारिणस्त्विति । शुक्लभाखररूपव्यापकस्येत्यर्थः । तमस्तु न तद्रूपवत् । स्पर्शस्य-उद्भूतस्येति द्रष्टव्यम् । तेन दीपप्रभायां स्पर्शाऽग्र- हेऽपि अनेकदिक्करूपस्य युगपद्हणेऽपि न दोषः। व्याप्तिग्रहणाऽभावं समाधत्ते २६८ कैयट-विवरणसहितं [लटः शतृ गम्यते नैतदस्तीति।कस्य चित्खल्वपिसकृत्कृतोऽभिसंबन्धोऽत्यन्ताय कृतो भवति। तद्यथा, वृक्षपर्णयोरयं वृक्ष इदं पर्णमिति । स तद्विदेशस्थमपि दृष्ट्वा जानाति 'वृक्षस्येदं पर्ण'मिति ॥ किं पुनरयं पर्युदासो 'यदन्यत्प्रथमासमानाधिकरणादिति, आहो स्वि. प्रसज्यप्रतिषेधः-'प्रथमासमानाधिकरणे नेति ?॥ कश्चात्र विशेषः?॥ ॥*॥ लटः शतृशानचावप्रथमासमानाधिकरणे [इति चेत्प्रत्ययोत्तपपदयोरुपसङ्ख्यानम्॥*॥ लटः शतृशानचावप्रथमासमानधिकरण इति चेत्प्रत्ययोत्तरपदयोरुपसङ्ख्यानं कर्तज्यम् । कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः कुर्वाणभक्तिः पचमान- भक्तिरिति ॥ अस्तु तर्हि प्रसज्यप्रतिषेधः-'प्रथमासमानाधिकरणे नेति । ॥*॥ प्रथमाप्रतिषेध उत्तरपद आदेशानुपपत्तिः ॥*॥ प्रथमाप्रतिषेधे उत्तरपदे आदेशयोरनुपपत्तिः । कुर्वती चासौ भक्तिश्च कुर्वद्भक्तिः, पचद्भक्तिः, कुर्वाण- प्र.]सिद्धानुमानेन प्रत्यक्षाभासो बाध्यते।तदुक्तं हरिणा-'स्पर्शप्रबन्धो हस्तेन तथा चक्रस्य सन्ततः। न तथाऽलातचक्रस्य विच्छिन्नं स्पृश्यते हि तत्'।इति॥कस्य चिदिति। न भूयोदर्शनैव सम्बन्धग्रहणमपि तु सकृद्दर्शनेनापीत्यर्थः । वृक्षपर्ण- योरिति भाष्यकारवचनप्रामाण्याज्जातिरप्राणिनामित्येकवद्भावो न कृतः । किं पुनरि- ति । यद्यपि प्रसज्यप्रतिषेधे वाक्यभेदागौरवप्रसङ्गस्तथापि लक्ष्यसिद्धये शास्त्रे क्व चिदसावङ्गीकृत इति विचार्यते। कौर्वत इति । कुर्वतो देवदत्तस्याऽपत्यमित्यत्र सापेक्षत्वात्तद्धितो नोत्पद्यतेोपदान्तरनिरपेक्षेत्वे च पदान्तरेण सामानाधिकरण्याभावा- दादेशाऽप्रसङ्ग इति भावः । कुर्वद्भक्तिरिति । षष्टीसमासः। समानाधिकरणसमासे तु उ.भाष्ये-कस्यचिदिति । तयाचष्टे-न भूय इति । ननु-'लट् अप्रथमान्तसामा- नाऽधिकरण्यवान् , तदनुवादेन विहिताऽऽदेशस्थानित्वा दित्यनुमानम् ,तत्र दृष्टान्ता- ऽभावेन कथं व्याप्तिग्रह इति चेन्न ; 'यः स्थानी स आदेशसमानधर्मे ति सामा- न्यतो व्याप्त्यैव सहकारिविशेषबलाद्विशेषाऽनुमितिः । अत्राऽपि शतृविधायक- शास्त्रमेवाऽनुकूलस्तर्क इत्याहुः। वृक्षपर्णयोर्जातित्वादेकवद्भावः स्यादत आह-भाष्य- कारेति । व्यक्तिप्राधान्यविवक्षणादिति भावः । भाष्ये -यदन्यत्प्रथमासमानाधिक- रणादिति । तत्राऽवध्यवधिमतोः साजात्यादन्यत्किञ्चित्समानाऽधिकरणमेव गृह्यते। तेन अप्रथमान्तेन समानाऽधिकरणस्य लट इति फलति । यथाश्रुते तु 'कौर्वत' इत्यादौ दोषाऽऽपादनाऽसङ्गतिः स्पष्टैव । नन्वत्रापि 'कुर्वतो देवदत्तस्ये'त्यादिपदा- न्तरसामानाऽधिकरण्यमस्त्येवेत्यत आह-कुर्वत इति । वृत्तिघटकाऽतिरिक्तविशेष्या- ऽपेक्षमपि सापेक्षमिति भावः। पदान्तरेति । देवदत्तस्येत्यादीत्यर्थः । देवदत्ता. १ इतिः क्वचिन्न । २ इदं क्वचिन्न ।

३अ.२पा.आ.१२४सू.] व्याकरणमहाभाष्यम् * २६९ . भक्तिः, पचमानभक्तिरिति । ये चाप्येते समानाधिकरणवृत्तयस्तद्धितास्तेषु शतृशानचौ न प्रामुतः,-कुर्वत्तरः पचत्तरः । कुर्वाणतरः पचमानतरः । कुर्व- द्रूपः पचद्रूपः। कुर्वाणरूपः पचमानरूपः। कुर्वकल्पः पचत्कल्पः। कुर्वाणकल्पः पचमानकल्प इति ॥*॥ सिद्धं तु प्रत्ययोत्तरपदयोश्चेति वचनात् ॥*॥ सिद्ध- मेतत् ॥ कथम् ? ॥ [ 'प्रत्ययोत्तरपदयोश्चेति वचनात्' ]। प्रत्ययोत्तरपद- योश्च शतृशानचौ भवत इति वक्तव्यम् ॥*॥ तत्र प्रत्ययस्यादेशनिमित्तत्वाद- प्रसिद्धिः ॥ ॥ तत्र प्रत्ययस्यादेशनिमित्तत्वादप्रसिद्धिः । आदेशनिमित्तः प्रत्ययः, प्रत्ययनिमित्तश्चादेशः,तदेतदितरेतराश्रयं भवति। इतरेतराश्रयाणि च न प्रकल्पन्ते । ॥*॥ उत्तरपदस्य च सुबन्तनिमित्तत्वाच्छतृशानचोरप्रसिद्धिः॥ ॥*॥ उत्तरपदस्य च सुबन्तनिमित्तत्वाच्छतृशानचोरप्रसिद्धिः। उत्तरपद- निमित्तः सुप्सुबन्तनिमित्तं चोत्तरपदम् , तदेतदितरेतराश्रयं भवति । इत- रेतराश्रयाणि च न प्रकल्पन्ते ॥*॥ न वा लकारस्य कृत्त्वात् प्रातिपदिकत्वं, तदाश्रयं प्रत्ययविधानम् ॥*॥ न वैष दोषः ॥ किं कारणम् ? ॥ 'लकारस्य कृत्त्वात्प्रातिपदिकत्वम्' । लकारः कृत् । 'कृत्प्रातिपदिक मिति प्रातिपदिक. संज्ञा । 'तदाश्रयं प्रत्ययविधानम्' । प्रातिपदिकाश्रयास्वाद्युत्पत्तिर्भविष्यति । प्र.प्रसज्यप्रतिषेधेऽपि दोषः। स च वक्ष्यत एव। कुर्वत्तर इति । अत्र देवदत्तादिना पदान्तरेण सामानाधिकरण्यादादेशाऽप्रसङ्गः । पूर्वस्मिन्नपि पक्षे एष दोषः । सिद्धं विति । लक्षणशेषः कर्तव्य इत्यर्थः। पृथगुत्तरपदग्रहणमन्तरङ्गानपि विधीन्वहिरङ्गो लुग्बाधत इति लुकि कृते प्रत्ययलक्षणप्रतिषेधादप्रत्ययपरत्वार्थम् । उत्तरपद- निमित्त इति । सत्युत्तरपदे शतृशानचौ भवतः । तयोश्च कृत्त्वात्सुवुत्पत्तिः, सुम्नि- मित्तः समासः, समासनिमित्तं चोत्तरपदमित्यर्थः। न वेति। लस्य कृत्त्वात्सुबुत्पत्ती सत्यामणादिषु तरबादिषु चोत्पन्नेष्वादेशविधानमिति नास्तीतरेतराश्रयदोष इत्यर्थः । उ.]दिना पदान्तरेणेति। 'प्रथमाऽन्तेने ति शेषः। पूर्वस्मिन्नपीति। समानाऽधिक- रणसमार्संरूपे। 'कुर्वद्भक्तिरित्यादिः, कुर्वत्तर इत्यादिश्च। कुर्वद्भक्तौ 'पुंवत्कर्मधारय' इति पुंवत् । ननु लक्षणान्तरे 'अपचत्कल्पं देवदत्त' इत्यादौ स्यादत आह-लक्षण- शेष इति । अन्तर्वतिसुपा प्रत्ययपरत्वेनैव सिद्ध किमुत्तरपदग्रहणेनेत्यत आह- पृथगिति । भाष्ये-आदेशनिमित्त इति । तस्मिन् हि प्रातिपदिकत्वे सुबन्तत्वे च तद्धितोत्पत्तेरिति भावः। सुप उत्तरपदनिमित्तत्वमुत्तरपदस्य च सुबन्तनिमित्तत्वं दर्शयति-सत्युत्तरपदे इति । तिङादेशादिति । तिपादादेशादित्यर्थः। एवञ्च पच्-ल इत्यत्र तिङो बाधित्वा सुपि समास उत्तरपदे शत्रादि तिङां बाधकमिति १ 'येवाऽप्येते' 'तत्र च'। २ इदं क्वचिन । ३ 'समासरूपं समानाधिकरणं'।

कैयट-विवरणसहितं. [लटः शतृ . .. ॥*॥ तिादेशात्सुबुत्पत्तिः ॥॥ [ तिङादेशात्सुबुत्पत्तिः] । तिङादेशः क्रियतां सुबुत्पत्तिरिति, परत्वात्सुबुत्पत्तिर्भविष्यति । ॥ ॥ तत्स्मादुत्तरपद- प्रसिद्धिः ॥*॥ तस्मादुत्तरपदं प्रसिद्धम् । उत्तरपदे प्रसिद्ध 'उत्तर- पद'-इति शतृशानचौ भविष्यतः ॥ इहापि तर्हि तिङादेशात्सुबुत्पत्तिः स्यात्-‘पचति पठतीति ॥ अस्त्यत्र विशेषः, नित्योऽत्र तिडादेशः। उत्पन्नेऽपि सुपि प्रामोत्यनुत्पन्नेऽपि प्राप्नोति॥ नित्यत्वात्तिडादेशे कृते सुबुत्पत्तिर्न भवि- प्यति ॥ इहापि तर्हि नित्यत्वात्तिङादेशः स्यात्, कुर्वद्भक्तिः पचद्भक्तिः कुर्वा- णभक्तिः पचैमानभक्तिरिति ॥ अस्त्यत्र विशेषः, शतृशानचौ तिङपवादौ, तौ चात्र निमित्तवन्तौ। न चाऽपवादविषये उत्सर्गोऽभिनिविशते । 'पूर्व ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः' । 'प्रकल्प्य वाऽपवादविषयं तत उत्सर्गोऽभिनिविशते' । न तावदन कदाचित्तिङ् भवत्यपवादौ शतृशानचौ प्रतीक्षते॥तदेतत्व सिद्धं भवति ?॥ यत्र सामान्यादुत्पत्तिः। यत्र हि विशेषा- दत इजितीतरेतराश्रयमेव तत्र भवति,-वीक्षमाणस्थापत्यं वैक्षमाणि- रिति । इह च शतृशानचौ प्रामुतः-पचतितरां जल्पतितरांपचतिरूपं जल्प- तिरूपं । पचतिकल्पं जल्पतिकल्पं । पचति पठतीति ॥ तदेतत्कथं कृत्वा सिद्धं भवति? ॥ ॥ शतृशानचौ यदि लटो वा ॥ ॥ यदि लटः शतृशानचौ वा भवतो व्यवस्थितविभाषा च । तेनेह च भविष्यतः, -कौर्वतः : पाचतः । कुर्व- शक्तिः पचद्भक्तिः। कुर्वाणभक्तिः पचमानभक्तिः। कुर्वत्तरः पचत्तरः। [कुर्वाण- तरः] पचमानतरः। कुर्वद्रूपः पचद्रूपः। कुर्वाणरूपः पचमानरूपः।कुर्वत्कल्पः पचत्कल्पः। कुर्वाणकल्पः पचमानकल्पः। पचन्पठन्नितिच लटः शतृशानची इहच न भविष्यतः,-पचतितरांजल्पतितरां,पचतिरूपं जल्पतिरूपं,पचतिकल्पं जल्पतिकल्पं, पचति पठतीति च लटः शतृशानचौ ॥ तत्तर्हि वावचनं कर्त- व्यम् ? ॥ न कर्तव्यम् । प्रकृतमनुवर्तते ॥ व प्रकृतम् ?॥ 'नन्वोर्विभाषेति॥ प्र.] उत्तरपदे इतरेतराश्रयं परिहरति- तिङादेशादिति । वीक्ष्यमाणस्येति । अत्राऽकृते शानच्यकारान्तत्वाऽभावादियोऽप्रसङ्ग इत्यर्थः। पचतितरामिति। तिङ. श्चेत्येतत्तु लकारान्तरार्थ स्यात्-अपचत्तरामिति। पचतीति। अत्रापि लस्य कृत्वात् सुप्युत्पन्ने प्रत्यये विधीयमान आदेशः स्यादित्यर्थः । तिडां तु लिडादयोऽवकाशाः । उ.]भावः।भाष्ये-निमित्तवन्ताविति। उत्तरपद'रूपनिमित्तस्य सम्पन्नत्वादपवादत्वेन शतृशानचावेवेति भावः । ननु 'पचती'त्यादौ प्रत्ययोत्तरपदत्वाऽभावात्कथमादेश- प्रसक्तिरत आह-अत्राऽपीति । सुबेव प्रत्यय इति भावः ॥ [ लटः शतृ ] ॥ १ लुप्तं । २ इदं क्वचिन । ३ क्वचिन्न । ४ 'चाऽपवाद' । ५ 'प्रजल्पतिरूपं ।

३अ.२पा.आ.१२४सू.] * व्याकरणमहाभाष्यम् & यदि तदनुवर्तते 'वर्तमाने ल'डिति लडपि विभाषा प्रामोति ॥ सम्बन्धमनु- वर्तिप्यते । नन्वोर्विभाषा । 'पुरि लुङ्चास्मे' विभाषा' । वर्तमाने लट् । 'पुरि लुङ् चास्मे' 'विभाषा'। लटः शतृशानचौ। 'विभाषा'।'पुरि लुङ्चास्म' इति निवृत्तम् ॥ न तस्दानीमप्रथमासमानाधिकरण इति वक्तव्यम् ? ॥ वक्तव्यं च ॥ किं प्रयोजनम् ?॥ 'नित्यार्थम्'। अप्रथमासमानाधिकरणे नित्यौ [शतृशानचौ ] यथा स्यातामिति ॥ क तहीदानी विभाषा ? ॥ प्रथमास- मानाधिकरणे । पचन् पंचति पचमानः पचते इति ॥ [लटःशतृशानचौ] । लक्षणहेत्वोः क्रियायाः॥ २२।१२६ ॥ ॥*॥ लक्षणहेत्वोः क्रियाया गुण उपसङ्ख्यानम् ॥*॥ लक्षणहत्वोः क्रियाया गुण उपसङ्ख्यानं कर्तव्यम् । तिष्ठन्मूत्रयति । गच्छन्भक्षयतीति ॥*॥ कर्तुश्च लक्षणयोः पर्यायेणाऽचयोगे॥*॥ कर्त्तश्व लक्षणयोः पर्यायेणाऽचयोग उपसङ्ख्यानं कर्तव्यम् । योऽधीयान आस्ते स देवदत्त [इति । य आसीनोऽधीते स देव- दत्त [इति ॥ अच'योग इति किमर्थम् ?॥ य आस्ते चाधीते च स चैत्रः। प्र.] तदेतदिति । व्यवस्थितविभाषाविज्ञानाच्च यथेष्टं प्रयोगसिद्धिः । न तहीति । व्यवस्थितविभाषयैव सिद्धत्वान्नित्ययोरादेशयोरिति भावः । नित्यार्थमिति । 'लटः शतृशानचा वित्येको योगः क्रियते । तत्र च विभाषेति वर्तते । ततोऽप्रथमासमा- नाधिकरण' इति द्वितीयो योगो नित्यार्थः । व्यवस्थितविभाषाश्रयेण तु विस्पष्टा प्रतिपत्तिर्न स्यादिति तदर्थो द्वितीयो योगः । [ लटः शतृशानचौ ] लक्षण । गुण इति । गुणशब्देनाऽत्र साधनमुच्यते। 'तिष्ठन् मूत्रयती'त्यादौ यदा स्थानादिना मूत्रादिक्रिया लक्ष्यते तदा सूत्रेणैवादेशसिद्धिः । यदा तु कारक लक्ष्यते तदर्थमिदं वचनम् । 'बहुषु मूत्रयत्सु को देवदत्त' इत्युक्ते 'यस्तिष्टन्मूत्रय- ती'ति प्रतिवचनेन देवदत्तो लक्ष्यते । अथ वा अशौचादिगुणो गृह्यते । कतुश्चेति । यदा पूर्ववाक्ये गुणः साधनं गृह्यते तदा तेनैव सिद्ध पर्यायार्थ । यदा त्वशौचादे- उ.] लक्षणहेत्वोः। भाष्ये-क्रियाया गुणे इति । क्रियायाः कारके इत्यर्थः। कारक- निरूपितं यदा लक्षणत्वं धात्वर्थस्य तदर्थमिदं, तदाह-गुणशब्देनेति । यदा स्था- नादिनेति । 'कथमयं मूत्रयती' त्यादिप्रश्ने यदेदमुत्तरं तदा तया सा लक्ष्या भवतीति बोध्यम् । यदा विति । यदा कियया कारक लक्ष्यते तदा तदर्थमिदमित्यर्थः । देवदत्तो लक्ष्यत इति। मूत्रणसमानकालिकस्थानक्रिययेत्यर्थः । गृह्यत इति । गुणशब्देनेत्यर्थः। अत्र पक्षेऽशुचित्वादिगुणस्येदं लक्षणं न तु क्रियाया इति भावः। अत्र पक्षे 'लक्षणहेत्वोः क्रियाया' इति सूत्रे गुणे लक्ष्ये उपङ्ख्यानं कार्यमित्यर्थः १ 'विभाषा । ततो लटः' । २ इतिः क्वचिन्न । ३ 'पचतीति' ।

२७२ * कैयट-विवरणसहितं. [ लक्षणहेत्वः ॥*॥ तत्त्वाऽन्वाख्याने च ॥*॥ तत्त्वान्याख्याने चोपसङ्ख्यानं कर्तव्यम् । शयाना वर्द्धते दूर्वा । आसीनं वर्द्धते विसमिति । ॥॥ सदादयश्च बहुलम्॥*॥ सदादयश्च बहुलमिति वक्तव्यम् । सन्त्रा- ह्मणः, अस्ति ब्राह्मणः, विद्यते ब्राह्मणः, विद्यमानो ब्राह्मण इति ॥ ॥इजु- होत्योर्वावचनम्॥ ॥ इजुहोत्योर्वेति वक्तव्यम् । अधीते, अधीयानः । जुहोति, जुह्नत् । ॥ ॥ माड्याक्रोशे ॥*॥ माड्याक्रोश इति वक्तव्यम् । मा पचन् । मा पचमानः ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् । 'लक्षणहेत्वोः क्रियाया' इत्येव सिद्धम् ॥ इह तावत्तिष्ठन्मूत्रयतीति,-तिष्ठतिक्रिया मूत्रयतिक्रियाया लक्षणम् । गच्छन्भक्षयतीति,-गच्छतिक्रिया भक्षयतिक्रियाया लक्षणम् । योऽधीयान आस्ते स देवदत्त इति,-अध्ययनक्रियाऽऽसनक्रियाया लक्षणम् । य आसीनोऽधीते स देवदत्त इति,-आसिक्रियाऽध्ययनक्रियाया लक्षणम्॥ इदं तर्हि प्रयोजनम् 'अचयोग इति वक्ष्यामी'ति, इह मा भूत्-य आस्ते चाs- धीते च स चैत्र इति॥ एतदपि नास्ति प्रयोजनम्। नैतक्रियाया लक्षणम्॥किं तर्हि ? ॥ कर्तृलक्षणमेतत् ॥ शयाना वर्द्धते दूर्वेति,-शेतिक्रिया वृद्धिक्रियाया प्र.]र्गुणस्यतत्र ग्रहणं तदा विध्यर्थम्। तत्त्वाख्यान इति।स्वभावाख्याने विनापि लक्ष्य- लक्षणभावेनेत्यर्थः । नह्यासनं वृद्धलक्षणं, किं तर्हि, स्वभावमात्रकथनम् ,-आसीनं विसमिति । सदादयश्चेति । वाग्रहणस्याऽयं प्रपञ्चः । सच्छब्दो विद्यमानवाचीति तत्सदृशाः सदादिशब्देनोपात्ता नान्ये इत्याह-इजुहोत्योश्चेति । माड्याक्रोश इ. ति । लुङि प्राप्तेऽस्मादेवादेशाविधानाल्लडनुमीयते। तिष्ठतिक्रियेति । स्थितिक्रिया- लक्षिता तु मूत्रणक्रिया 'यस्तिष्टन्मूत्रयति स देवदत्त' इति सर्वनामपरामर्शे देव- दत्तस्य लक्षणं, तद्गतस्य वाऽशौचादेरिति भावः । नैतदिति । समुच्चीयमानं किया- द्वयं परस्परस्याऽलक्षणं, कर्तृविशेषस्य लक्षणमित्यर्थः। शेतिक्रियेति । तत्त्वाख्यान- उ.]भाष्ये-कर्तुश्चेति। कर्तृलक्षणभूतयोः क्रिययोर्वाचकाभ्याम्पर्यायेणेत्यर्यः सदादय- श्रेति । प्रथमासमानाऽधिकरणार्थमिदम् । वाग्रहणस्याऽयमिति । 'लटः शतृशा- नचा' विति विभक्तसूत्रेऽनुवर्तमानवाग्रहणस्य 'सदादयश्च'त्यादिवचनसमुदाय इत्यर्थः। ननु क्रिययोरेव लक्ष्यलक्षणभावे 'को देवदत्त' इति प्रश्ने इदमुत्तरं न स्यादत आह-स्थितिक्रियेति । सर्वनामपरामर्श इति । यत्तद्रूपसर्वनामपरामृष्टदेवदत्तस्य लक्षणमिति फलितम् । अन्यथा वचनान्तरारम्भेऽपि तिष्टतेः शत्रनापत्तिः। न हि तद्वाच्या क्रिया देवदत्तस्य लक्षणं,किन्तु तदुपलक्षितमूत्रणक्रियेति बोध्यम् । समु. चीयमानमिति । परस्परलक्षणतामनापन्नं समुच्चीयमानं सत्कर्तृविशेषस्य लक्षण- १ 'तत्त्वाख्याने च'। २ इदं कचिन । ३ 'नैतदस्ति प्र।

३अ.२पा.२आ.१२७सू.] व्याकरणमहाभाष्यम् , २७३ लक्षणं भवति]। आसीनं वर्द्धते विसमिति,-आसिक्रिया वृद्धिक्रियाया लक्ष- णमिति । 'सदादयश्च बहुलम्' इजुहोत्योर्वा' 'माझ्याक्रोश' इत्येतद्वक्तव्य. मेव ॥ [ लक्षणहेत्वोः] ॥ तौ सत् ॥ ३।२।१२७ ॥ 'तो'ग्रहणं किमर्थम् ? ॥ शतृशानची प्रतिनिर्दिश्यते ॥ नैतदस्ति प्रयो- जनं, प्रकृतौ शतृशानचावनुवर्तिष्यते ॥ व प्रकृतौ ?॥ 'लटः शतृशानचाव- प्रथमासमानाधिकरण' इति ॥ अत उत्तरं पठति ॥*॥ तौ सदिति वचनम- संसर्गार्थम् ॥ ॥ 'तौ'ग्रहणं क्रियते ॥ [किं प्रयोजनम् ?]॥ 'असंसर्गार्थम्' । 'असंसक्तयोरेतैर्विशेपैः शतृशानचोः सत्संज्ञा यथा स्यादिति ॥ ननु चैते विशेषा निर्वतैरन्?॥यद्यप्येते विशेपा निवर्तन्तेऽयं तु खलु वर्तमानः कालोs- वश्यमुत्तरार्थोऽनुवर्त्यः । तस्मिन्ननुवर्तमाने वर्तमानकालविहितयोरेव शतृ- शानचोः सत्संज्ञा स्याद्भूतभविष्यत्कालविहितयोर्न स्यात्॥किं पुनर्भूतभविष्य- प्र.]मपि लक्षणं भवति । यथा चैतन्यलक्षणः पुरुष इति भावः ।[ लक्षणहेत्वोः]॥ तौ सत् । तौग्रहणमिति । शतृशानचोरनुवर्तनादेव संज्ञा भविष्यतीति प्रश्नः । शतृशानचाविति । असति 'तो'ग्रहणे प्रत्ययविधिरयं स्यान्न तु संज्ञा- विधिरिति भावः। तौ सदिति,-तच्छब्देन शतृशानचो रूपमात्रं परामृश्यत इति लट्स्थानिकत्वादिधर्माऽसंबद्धयोरपि संज्ञा भवतीत्यर्थः । ननु चेति । अस्वरितत्वा- दनपेक्षणाचेति भावः । भूतेति । 'वर्तमानसामीप्ये वर्तमानवद्वे'ति वचनाद्भूतपि शतृशानचौ भवतः । किं पुनरिति । अतिदेशाद्भुते शतृशानची भविष्यतः । उ.मित्यन्वयः। यथा चैतन्येति।तत्स्वरूपत्वात्पुरुषस्य यथा तत्र लक्षणत्वाऽऽरोपेण शब्दप्रयोगस्तथाऽत्रापि तदारोपेण प्रत्यय इति भावः । भाष्ये-इति वक्तव्य- मेवेति । 'लक्षणहेत्वो रित्यनेनाऽसिद्धेः, यथास्थितसूत्रन्यासे सूत्रे 'वा'ग्रहणाऽनुवृत्ते. रभावाच्चेत्यभिमानः ॥ [ लक्षणहेत्वोः क्रियायाः] । तो सत् । प्रत्ययविधिरिति। 'स'दित्यस्य [प्रत्ययस्य] विधिरित्यर्थः। भाष्ये- प्रकृताविति । एवञ्च प्रत्ययविधौ शतृशानचावित्यस्याऽनन्वयाऽऽपत्त्या संज्ञाविधि- रेवेति भावः । धाऽसंबद्धयोरपीति । 'लटः सद्वे'त्यादिविहितयोरित्यर्थः । ननु भूते शतृशानचोर्विध्यदर्शनादाह-वर्तमानसामीप्ये इति । अतिदेशादिति । तेन प्रत्ययवत्संज्ञाऽप्यतिदेशेनैव सिद्धा, तस्या अपि वर्तमानाऽधिकारे विहितत्वात् । 'लुटः सद्वेति वचनादेव भविष्यदर्थयोरपि सा सिद्धेत्यर्थः । शतृशानचावित्यस्य १ 'इति वक्तव्य' ।२ 'एतदपि नास्ति' । ३ 'असंसङ्गार्थ'।४ इदं लुप्तं स्यात् । ५ इतिः क्वचिन्न । ६ निवर्तन्ते'। ७ इदं क्वचिन्न । . .. १८ २७४ कैयट-विवरणसहितं [तौ सत् कालविहितयोः सत्संज्ञावचने प्रयोजनम् ?॥*॥ [प्रयोजनं] पूरणैगुणसुहितार्थ- सदिति ॥*॥ ब्राह्मणस्य पक्ष्यन् । ब्राह्मणस्य पक्ष्यमाणः ॥ अथ क्रियमाणेऽ. पितो' ग्रहणे कथमेवाऽसंसक्तयोरेतैविशेपैः सत्संज्ञा लभ्या ?॥ 'लभ्ये'त्याह ।। कथम् ? ॥ ॥ ताविति शब्दतः ॥ ॥ सैदिति योगे क्रियमाणे तौग्रहणं योगाऽङ्गमुपजायते । सति च योगाऽङ्गे योगविभागः करिष्यते । तौ। तावेतौ शतृशानचौ धातुमात्रात्परस्य प्रत्ययस्य भवतः। ततः 'सत्' । सत्संज्ञौ भवतः प्र.] लटः सद्वेति वचनाद्भविष्यत्यपीति प्रश्नः। पूरणेति। 'वर्तमानव'दित्यतिदेशा- द्विधानमेव भूते शतृशानचोः स्यान्न तु संज्ञा। प्रत्ययाधिकाराद्धि प्रत्यय एवातिदिश्यते न तु संज्ञा। तथा लटः सवति सत्संज्ञकप्रतिरूपकविधानं स्यात्। यथा 'पिष्टपिण्डाः सिंहाः क्रियन्ता'मिति तदाकाराः क्रियन्ते। विहितयोस्तु तयोः सत्संज्ञानिबन्धनकार्या- ऽप्रसङ्गः।अथेति।सन्निहितस्यैव वस्तुनः सर्वनाम्ना परामर्शादिति प्रश्नः।यद्यप्यनुवृत्त्या प्रकृतयोः संज्ञासिद्धौ प्रयोजनसम्पादनाय 'तो'ग्रहणं क्रियते तथापि न प्रयोजनानुवर्ति प्रमाणमपि तु प्रमाणानुवर्ति प्रयोजनमिति क्रियमाणमपि 'तो'ग्रहणं प्रयोजनसंपाद- नाय नाऽलमिति भावः । ताविति शब्दत इति । शब्देनैवाऽभिमतोऽर्थः सति योगविभागे लभ्यत इत्यर्थः। तावेताविति । पूर्वसूत्रे तयोरादेशत्वादिहाप्यादेशयो- उ.] सत्संज्ञा विति शेषः। ननूक्तरीत्या सत्संज्ञासिद्धिरत आह-वर्तमानवदित्यादि । न तु संज्ञेति । अनधिकारादिति भावः।ननु 'लुटः सद्वे'त्यनेन सच्छब्देन विधाना- त्तद्विहितयोः सा सिद्धेत्यत आह-तथा लुट इति । भाष्ये-ब्राह्मणस्य पक्ष्य- निति । यद्यपि 'पूरणेति सूत्रे 'अत्राऽसामर्थ्यात्समासो नेति भाष्ये उक्तं, तथापि तत्रत्यसिद्धान्तोदाहरणस्य 'ब्राह्मणस्य द्वेक्ष्य'नित्यस्योपलक्षणमिदम् । सन्निहितस्यै- वेति । सन्निहितगुणविशिष्टस्यैवेत्यर्थः। तादृशस्यैव तत्र वुद्धिस्थत्वादिति भावः । नाऽलमिति । वाच्यवृत्त्या तदर्थाऽप्रतीतेरिति तात्पर्यम् । शब्देनैवेति । योग- विभागबोधनद्वारा बोध्यत इत्यर्थः। शब्दत इति भाष्ये आद्यादित्वात्तृतीयान्तात्तसि- रिति भावः । भाष्ये-सदिति योगे इति । 'स'दित्येव सूत्रे इत्यर्थः । योगाऽङ्गा- मिति । योगः-सूत्रसमुदायरूपाऽष्टाऽध्यायी, तदङ्गं सूत्रत्वेन, तच्च योगविभागे सतीत्यर्थः । ननु स्थानिनिर्देशाऽभावात्प्रत्ययाऽधिकाराचाऽऽदेशत्वं कथं,प्रत्ययस्येति च कथं लब्धमित्यत आह-पूर्वसूत्रे इति । प्रत्ययप्रकरणाच्च 'प्रत्ययस्येति लब्ध- मिति भावः । अनुवर्तमानप्रत्ययपदं षठ्या विपरिणम्यत इति बोध्यम् । ननु 'धातो'रित्यधिकारात्तृतीर्यधात्वधिकारविहितानामादेशेऽपि तव्यादीनामपि प्रसङ्गः १ इदं क्वचिन्न । २इदं वार्तिकमित्यन्ये । भाष्यमित्यपरे । वार्तिकत्वे व्याख्याऽत्र लुप्ता ऊहनीया।३ इदं भाष्यमित्यन्ये । ४ 'योगविभागे'। ५'झं जायते'। ६ तृतीये'।

३अ.२पा.२आ.१२७सू.] ® व्याकरणमहाभाष्यम् 8 २७५ शतृशानचाविति ॥ इहापि तर्हि प्रामुत:-कारक हारक इति ॥ ॥ अवधा- रणं लुटि विधानम् ॥*॥ [ अवधारणं लुटि विधानम् ]। लुटः सद्वेत्येतन्निय- मार्थ भविष्यति-'लट एव धातुमात्रात्परस्य नान्यस्येति ॥ कैमर्थक्यानि- यमो भवति ? ॥ विधेयं नास्तीति कृत्वा ॥ इह चास्ति विधेयम्॥ किम् ?॥ नित्यौ शतृशानची प्राप्तौ तौ विभाषा विधेयौ । तत्राऽपूर्वो विधिरस्तु निय- मोऽस्त्वित्यपूर्व एव विधिर्भविष्यति न नियमः। ॥॥ योगविभागंतश्च विहितं सत् ॥*॥ [योगैविभागतश्च विहितं सत् ]। एवं तर्हि योगविभागः करि- प्यते-'लुटः सत्' । लुटः सत्संज्ञको भवतः ॥ किमर्थमिदम् ? ॥ नियमा- र्थम्-'लुट एव धातुमात्रात्परस्य नान्यस्येति ॥ ततो 'वा' । वा च लटः शतृशानचौ सत्संज्ञौ भवतः। तत्रायमप्यर्थः-'सद्विधिनित्यमप्रथमासमाना- धिकरण' इति वक्ष्यति तन्न वक्तव्यं भवति ॥ अथ यावेतावुत्तरौ शत्रानो प्र.]रेव विधानमिति भावः। कारक इति। तृजादीनां विधानसामर्थ्याच्छतृशानचौ न भविष्यतः, क्विबादीनामपि लोपविधानसामर्थ्यादिति यः प्रत्यय आदेशेन निवर्त्यत तम्य तदादेशापवादौ शतृशानचौ प्राप्मुत इत्यभिप्रायेण ण्वुलुदाहृतः। एवं च नन्दना- द्यप्युदाहायम् । 'युवोरनाका वित्यस्य तु तद्धितोऽवकाशः । तन्न वक्तव्यमिति । कथमिति चेदुच्यते । तावित्यत्र योगेऽप्रथमासमानाधिकरणादीन् विशेषाननुवर्त्य- शतृशानचौ विधीयेते,तावेव च 'लटःस'दित्यनेन नियम्येते।''त्यनेन तु प्रथमास- मानाधिकरणादौ लट इव विकल्पेन विधीयते । शत्रानाविति । 'इचार्योः शत्रक- च्छ्रिणि' 'पूड्यजोः शानन्' 'ताच्छील्यवयोवचनशक्तिषु चान'शिति प्रत्ययानां ग्रहणं, उ.] कस्मान्नोक्तोऽत आह-तृजादीनामिति । 'लोपविधानसामर्थ्यान्न भविष्यत' इत्यनुषङ्गः । ण्वुल्विधानन्त्वादेशप्रवृत्तये एव स्यात्, न हि स क्वचित्प्रयोगे श्रूयत इत्यभिमानः । नियमं साधयति भाष्य-योगविभांगतश्चेति । ताविति योग- विभागेन यतः सत्सज्ञकं विहितमतः लुटः सदिति योगविभागेन नियम उपपद्यत इत्यर्थः । तयाचष्टे-एवन्तीत्यादि । तावेवेति । 'ता'वित्यनेन पुनर्विहितो 'स'दित्यनेन च प्रक्रान्तत्वाऽविशेषात्सर्वेषामपि संज्ञा । नन्वेवमपि 'द्विषोऽमित्रे' इत्यादिविहितशतुः संज्ञा न स्यादिति चेन्न, 'लुटः सद्वे'ति ज्ञापकात्तच्छब्देन शतृत्वशानच्वाभ्यामेव परामर्शी न तु लस्थानिकत्वादिविशेषम्याऽप्याश्रयण. मित्याशयात् । लट इवेति । पूर्वविहितशतृशानज्मात्राऽनुवादेन विकल्पो- ऽनेन विधीयत इत्यर्थः । एवञ्च लट्लुटोरुभयोरपि प्रथमासामानाऽधिकर- ण्ये आदेशविकल्पसिद्धिरिति भावः। एवञ्च यथान्यासेऽप्ययं विकल्पः प्रथमासामाना- १ इतिः क्वचिन्न ।२ इदं लुप्तं स्यात् । ३ विधिः स्यान'। ४ 'गाच' ५ 'सज्ञौ ।

कैयट-विवरणसहितं [ तौ सत् किमेतौ लादेशावाहोस्विदलादेशौ ?॥ कश्चात्र विशेषः ? ॥*॥ उत्तरयो- लादेशे वावचनम् ॥ ॥ [उत्तरयोर्लादेशे वाषचनं कर्तव्यम् ]। उत्तरयोर्लादेशे वेति कर्त्तव्यम् ॥ पवमानः यजमानः । पर्वते यजत इत्यपि यथा स्यात् । ॥*॥ साधनाभिधानं [9] ॥॥ साधनाऽभिधानं च प्राप्नोति । 'लः कर्मणि च भावे चाकर्मकेभ्यः' [ इति ] भावकर्मणोरपि प्रामुतः ॥ ॥ स्वरः ॥*॥ स्वरश्च साध्यः । कतीह पर्वमानाः । 'अदुपदेशाल्लसार्वधातुकमनुदात्तं भवती'त्येष स्वरः प्रामोति । ॥*॥उपग्रहप्रतिषेधश्च ॥*॥ उपग्रहस्य च प्रति- षेधो वक्तव्यः । कतीह निनानाः। 'तङानावान्मनेपदमित्यात्मनेपदसंज्ञा प्रामोति ॥ स्तां तर्हि अलादेशौ ॥*॥ अलादेशे षष्टीप्रतिषेधः ॥ ॥ अलादेशे षष्टीप्रतिषेधो वक्तव्यः । सोमं पवमानः । नडमानानः । अधीयन्पारायणम् । 'लप्रयोगे नेति प्रतिषेधो न प्राप्नोति ॥ मा भूदेवं 'तृ'नित्येवं भविष्यति ॥ कथम् ? ॥ [॥ ॥तृन्निति प्रत्याहारग्रहणम् ॥*] ॥ तृनिति नेदं प्रत्ययग्रहणं ॥ किं तर्हि ?॥ प्रत्याहारग्रहणम् ॥ क संनिविष्टानां प्रत्याहारः ? ॥ 'लटः श'नित्यत आरभ्याऽऽतृनो नकारात् ॥ यदि प्रत्याहारग्रहणं-चौरस्य द्विषन्वृष- लस्य द्विषन्,-अत्रापि प्रामोति । ॥ ॥ द्विषः शतुर्वावचनम्॥ ॥[द्विषः शतु. वचनं कर्त्तव्यम् ]। द्विषः शतुर्वेति वक्तव्यम् । तच्चावश्यं वक्तव्यं प्रत्यय- ग्रहणे सति प्रतिषेधार्थम् । तदेव प्रत्याहारग्रहणे सति विध्यर्थम्भविष्यतीति । तृन् ॥ ३।२।१३५॥ ॥॥ तृन्विधावृत्विक्षु चानुपसर्गस्य ॥*॥ तृन्विधावृत्विक्षु चाऽनुपस. प्र.]तत्र लटोऽनुवृत्त्यननुवृत्तिभ्यां पक्षद्वयसंभवः। उत्तरयोरिति। लादेशेषु वासरूप- विधिर्नास्तीत्युक्तत्वादिति भावः । साधनाभिधानं चेति । तदाऽनिष्टस्याऽपि साध. नस्याऽभिधानं प्राप्नोति, कर्तुरेव चेष्यते। स्वर इति । चित्करणन्तु 'निघ्नाना' इत्यादौ सावकाशम् । उपग्रहस्येति । आत्मनेपदसंज्ञाया इत्यर्थः । अन्यथा परस्मैपदिभ्यश्चानश्न स्यात् । [ तौ सत् ]॥ तृन् । तृन्विधाविति । अताच्छील्यार्थमिदम् । प्रशास्तेति । तृजेव भवति उ.]धिकरण्यविषय एवेति ध्वनितम् । लादेशेष्विति । 'वाऽसरूप'न्यायस्य अना- देशप्रत्ययविषयत्वादिति भावः । साधनाऽभिधानस्येष्टत्वादाह-अनिष्टस्याऽपीति । निनाना इत्यादाविति । अदुपदेशात्परत्वाऽभावादिति भावः ॥ [ तौ सत् ] । तृन् । अताच्छील्यार्थमिति । अनुपसर्गस्येति विशेष वक्तुमित्यन्ये । तन- १ अन्यतरल्लुप्तम् । २ 'पच'। ३ इदं क्वचिन्न । ४ इदं वार्तिकं लुप्तमिति गौडाः । ५ इदं लुप्तं स्यात् । ६ 'प्रतिषेधार्थ प्रतिषिद्धार्थ । ७ इतिः क्वचिन्न ।

२७७ ३अ.२पा.२आ.१३७सू.] व्याकरणमहाभाष्यम् , र्गस्येति वक्तव्यम् । होता पोता ॥ अनुपसर्गस्येति किमर्थम् ? ॥ प्रशास्ता प्रतिहर्ता । ॥*॥ नयतेः षुक ॥*॥ नयतेः पुग्वक्तव्यः, सुंश्च प्रत्ययो वक्तव्यः । नेष्टा । ॥*॥ न वा धात्वन्यत्वात् ॥*॥ न वा वक्तव्यं ॥ किं कार- णम् ? ॥ 'धात्वन्यत्वात् । धात्वन्तरं नेषतिः ॥ कथं ज्ञायते ! ॥*॥ नेषतु- नेष्टादिति दर्शनात्॥*॥नेपतु नेष्टादिति [ हिं] प्रयोगो दृश्यते । इन्द्रो वस्तेन नेषतु । गावो नेष्टात् ॥ ॥ त्विषेर्दैवतायामकारश्चोपधाया अनिट्त्वं च ॥॥ त्विषेर्देवतायां तृन्वक्तव्योऽकारश्वोपधाया अनिट्वं . [वक्तव्यम् ] । त्वष्टा ॥ किं पुनरिदं त्विषेरेवाऽनिट्त्वम् ? ॥ 'ने'त्याह ॥ यच्चानुक्रान्तं यच्चानुकंस्यते सर्वस्यैष शेषोऽनिट्वं चेति ॥ ॥क्षदेश्च युक्त॥*॥ क्षदेश्च युक्त तृन्वक्तव्यः । क्षत्ता । ॥ ॥ छन्दसि तृच्च ॥ ॥ छन्दसि तृञ्च तूंश्च वक्तव्यः । क्षत्तृभ्यःसन- हीतृभ्यः । क्षत्तृभ्यः सङ्ग्रहीतृभ्यः ॥[ तृन् ] ॥ ग्लाजिस्थश्च क्स्नुः ॥ ३।२।१३९ ॥ ॥*॥नोः कित्त्वेस्थ ईकारप्रतिषेधः॥*॥नोः किस्वेस्थ ईकारस्य प्रतिषेधो वक्तव्यः । स्थास्नुरिति । 'घुर्मीस्थागापाजहातिसां हली'तीत्वं प्राप्नोति ॥ एवं त_कित्करिष्यते ॥ ॥ अकिति गुणप्रतिषेधः ॥*॥ यद्यकिस्क्रियते गुणप्रतिषेधो वक्तव्यः । जिष्णुरिति॥ ॥ भुव इतिषेधश्च ॥*॥ भुव इतिषेधश्च वक्तव्यः। किं चान्यत् ? ॥ गुणप्रतिषेधश्च । भूष्णुरिति ॥ अस्तु तर्हि कित् ? ॥ ननु चोक्तम्-'नोः कित्त्वे स्थ ईकारप्रतिषेध' इति ॥ नैष दोषः ॥ ॥ स्थादंशिभ्यां प्र.] 'तूंस्तृचौ शास्तिक्षदादिभ्यः संज्ञायां चीनिटा'वित्यनेन । स्वरे च विशेषः। तृनि 'तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरोभवति । तृचि कृत्स्वरः । नवेति । नयतेस्तु षुकि गुणो न स्यात् । नेषतेस्तु ऋत्विजि तूंनि वक्ष्यमाणादनिड्वचना सर्वोपसङ्ख्यानशेषादिडभावः । नेत्याहेति । त्विषः खत एवाऽनिटत्वादिति भावः । ग्लाजि । 'क्नु'रिति श्रवणात् कित्त्वं निश्चित्याह-क्नोः कित्त्व इति । एवं उ.]भावे कथम्प्रशास्तेत्यत आह-तृजेवेति । नन्वेवं 'प्रशासितेति स्यादत आह- तृस्तृचाविति। 'शंसिक्षदादिभ्य' इति हरदत्तोक्तपाठे तु वृद्धिनलोपौ दुर्लभौ। नन्वत्र गतिसमासे उभयथाऽप्यव्ययपूर्वपदप्रकृतिखर एवेति कथं स्वरे विशेषोऽत आह- तादौ चेत्यादि । षुकि 'ति'प्रत्ययसन्नियोगशिष्टतयाऽन्तरङ्गत्वाद्गुणात्पूर्वमेव षुक स्यादिति भावः। ननु नेषतेरिड् दुर्वारोऽत आह-नेषतेस्त्विति। त्विषेरिति। तथा च तत्राऽनुपयोगात्सर्वशेष इति भावः। भाष्ये-क्षत्तेति। द्वाराऽधिकृतो रथसूतश्चेत्याहुः। १ वक्तव्यः'। २ इदं क्वचिन्न। ३ 'नस्तेन'। ४ चेति । त्वष्टा'। ५ 'क्लोः' 'नोः' । ६ 'घुमास्थे' । ७ 'न कित्' । ८ 'चा निट्वं चेत्य'। ९ 'तृचि । १० 'टत्व' । .

२७८ कैयट-विवरणसहितं. [ शमित्यष्टा । । स्नुश्छन्दसि ॥ ॥ स्थादंशिभ्यां स्नुभ्छन्दसि वक्तव्यः। स्थास्नु जङ्गमं, 'दङ्- श्णवः पशव इति ॥ स इदानीं स्थैः स्नुरविशेषेण विधास्यते । सिध्यति । सूत्रं तर्हि भिद्यते ॥ यथान्यासमेवास्तु ॥ ननु चोक्तं 'स्नोः कित्त्वे स्थ ईकार- प्रतिषेध' इति ॥ एवं तर्हि गित्करिष्यते ॥ ॥ स्नोर्गित्वान्न स्थ ईकारः ॥ ॥ नोनित्वात्स्थ ईकारो न भविष्यति ॥ किं कारणम् ? ॥*॥ कृितोरीत्त्वशासनात् ॥*॥वितोरीत्वं शिष्यते ॥ इह तर्हि जिष्णुरिति गुणः प्राप्नोति ॥ ॥ गुणाऽ- भौवस्त्रिषु स्मार्यः॥ ॥ गुणाभावस्त्रिषु स्मर्तव्यः । गिति किति ङिति चेति ॥ तद्कारग्रहणं कर्तव्यम् ? ॥ न कर्तव्यम् ॥ क्रियते न्यास एव । ककारे गकारश्चवंभूतो निर्दिश्यते-'रिकुति चे'ति, इह तर्हि भूष्णुरिति 'श्युकः किती'तीद्रतिषेधो न प्रामोति॥ ॥ श्रूयुकोऽनिट्त्वं गकोरितोः ॥ ॥ श्युकोऽ. निटत्वं गकारककारयोरिति वक्तव्यम् ॥ तद्गकारग्रहणं कर्तव्यम् ? ॥ न कर्त- व्यम् । क्रियते न्यास एव । ककारे गकारश्चलभूतो निर्दिश्यते-'युकः कितीति ॥ यद्येवं चर्वस्याऽसिद्धत्वाद्धशि चेत्युत्वं प्राप्नोति॥सौत्रो निर्देशः। अथ वाऽसंहितया निर्देशः करिष्यते युक:-कितीति । ॥*॥ स्नोर्गिवान्न स्थ ईकारः क्कितोरीत्वशासनात् । गुणाभावस्त्रिषु स्मार्यः ,युकोऽनिट्वं गकोरितोः ॥४॥ शमित्यष्टाभ्यो घिनुण ॥ ३।२।१४१ ॥ घिनणयं वक्तव्यः । घिनुणि हि सति शमिनौ शमिनः तमिनौ तमिन प्र.]तीति। गकारस्य चढेन निर्देशो व्याख्यास्यत इत्यर्थः। ककार इति । परभूत इत्यर्थः । एतच्च लक्ष्यमूलायाख्यानालभ्यते । सौत्र इति । तेनाऽसिद्धत्वाऽभावा- दुत्वाऽभावे विसर्जनीयो भवतीत्यर्थः । अथवेति । संहितायामुत्वविधानात् , इह तु तदभावादवसानविषयत्वाद्विसर्जनीयो भवति । [ग्लाजिस्थश्च ] ॥ शमित्य। घिनणयमिति। उकारे हि सति कार्यार्थत्वसंभवात्तस्योचारणार्थत्वं उ.] ग्लाजि । ननु न कद्वयमुपलभ्यतेऽत आह-लक्ष्यति । तेनेति । निर्देशे- नाऽसिद्धत्वं बाध्यत इत्यर्थः । तदभावादिति । असंहिताकृताऽर्द्धमात्राकालन विच्छेदादवसानविषयत्वमिति भावः । ननु संहिताया अविवक्षायां विसर्गोऽपि कथं, तत्राऽपि संहिताऽधिकारादिति स्पष्टमष्टमे भाष्ये इति चेन्न, पूर्वेण संहिताया एवा- ऽवसानकार्यनिमित्तलादिति भावः ॥ [ग्लाजिस्थश्च क्स्नुः] । शमित्य । उच्चारणार्थत्वमिति । केवलोच्चारणार्थत्वमित्यर्थः। शमिनीतरेति । १ 'स्थोऽविशे' । २ 'श्लोकवार्तिकम् । ३ 'कडितो' 'किङितो' । ४ 'डिती- ति' । ५ 'द्धसीत्युत्त्वं' । ६ 'क्नोः' । ७ 'व्याख्यायते' । ।

.. ३अ.२पा.२आ.४६सू.]] 8 व्याकरणमहाभाष्यम् ॐ [इति] 'उगिदचा सर्वनामस्थानेऽधातो रिति नुम्प्रसज्येत॥ नैष दोषः।झल्प- हणं तत्र चोदयिष्यति ॥ इह तर्हि शमिनितरा शमिनीतरा तमिनितरा तमि- नीतरा,-'उगितो घादिषु नद्या अन्यतरस्यां ह्रस्वो भवती'त्यन्यतरस्यां हस्वत्वं प्रसज्येत । [ तस्मादिनुणेयं वक्तव्यः] ॥ इण्यत एव हस्वत्वम् ॥ ॥*॥ घिनुणकर्मकाणाम् ॥*॥ घिनुणकर्मकाणामिति वक्तव्यम् । इह मा भूत् 'संपृणक्ति शाक'मिति ॥ उक्तं वा ॥*॥ [उक्तं वा] ॥ किमुक्तम् ? ॥ 'अनभिधानादिति ॥ [ शमित्यष्टाभ्यो घिनुण् ] । निन्दहिंसक्तिशखादविनाशपरिक्षिपपरिरटपरिवादि- व्याभाषासूयो वुञ् ॥ ३।२।१४६ ॥ किमर्थं निन्दादिभ्यो वुविधीयते न ण्वुलैव सिद्धं, नास्ति विशेषो निन्दादिभ्यो ण्वुलो वा वुओ वा, तदेव रूपं स एव स्वरः ॥ ॥*॥ वुजमने- काचः ॥*॥ वुजमनेकाचः प्रयोजयन्ति । असूयकः ॥ अथ येऽत्रकाचः पठ्यन्ते तेषां ग्रहणं किमर्थं, न तेषां ण्वुलैव सिद्धम् ? ॥ न सिध्यति । अयं तच्छीलादिप्वर्थेषु तृन्विधीयते स विशेषविहितः सामान्यविहितं ण्वुलं बाधेत ॥ वासरूपेण न्यायेन ण्वुलपि भविष्यति ॥ अत उत्तरं पठति- ॥*॥ निन्दादिभ्यो बुञ्चचनमन्येभ्यो ण्वुलः प्रतिषेधार्थम् ॥*॥ निन्दादिभ्यो वुवचनं क्रियते ज्ञापकार्थम् ॥ किं ज्ञाप्यम् ?॥ एतज्ज्ञापयत्याचार्यः 'तच्छी- लादिषु वासरूपन्यायनाऽन्येभ्यो ण्वुल्न भवतीति ॥॥॥ तृजादिप्रतिषेधार्थ वैके ॥ ॥ अथ वैके मैन्यन्ते-एतज्ज्ञापयत्याचार्यः 'ताच्छीलिकेपु सर्व एव प्र.]न स्यादिति भावः। इष्यत इति । विकल्पेनैव ह्रस्वत्वमिष्यते न तु नित्यमि- त्युकार उगित्कार्यार्थ इति स्थितम् । [ शमित्यष्टाभ्यो] । निन्द । वुजमनेकाच इति । जातो बहुवचनम् , असूयशब्दस्यैकस्यैव प्रयोजकत्वात् । तृजादिप्रतिषेधार्थं चेति । प्रत्ययसामान्यापेक्षं च ज्ञापकमाश्रीयते, न तु ण्वुलभावार्थमेव । [ निन्दहिंस] । उ.]ननु ह्रस्वाऽभावे 'तसिलादिषु'इति पुंवत्त्वंयुक्तमिति कथं दीर्घप्रयोग इति चेन्न ; ताच्छीलिकानाम्प्रायेण रूढितुल्यताया भगवतोक्तत्वेन संज्ञात्वात् 'संज्ञापूरण्योश्चेति निषेधादित्याहुः ॥ [ शमित्यष्टाभ्यो घिनुण] । निन्दहिंस। जातौ बहुवचनमिति। तत्र बहुवचनस्य भगवता प्रत्याख्याना- देकव्यक्तिविषये जात्याश्रयणे फलाऽभावाच्चेदच्चिन्त्यम् । 'प्रयोगबहुत्वाश्रयं बहु- वचन मिति परे ॥ [ निन्दहिंस] । १ इतिः क्वचिन्न । २ अयं पाठः क्वचिन्न । ३ 'अथवैतज्ज्ञापयत्याचार्यः' । ..

कैयट-विवरणसहित [निन्दहिंस सृजादयो वासरूपेण न भवन्तीति ॥[ निन्दहिंस] ॥ जुचक्रम्यदंद्रभ्यसगृधिज्वलशुचलषपतपदः ॥३२॥१५०॥ ॥*॥ पदिग्रहणमनर्थकमनुदात्तेतश्च हलादेरिति सिद्धत्वात् ॥*॥ पदिग्रहण मनर्थकम् ॥ किं कारणम् ?॥ 'अनुदात्ततश्च हलादेरिति सिद्धत्वात्। 'अनु- दात्तेतश्च हलादे रित्येवान युच् सिद्धः ॥ न सिध्यति ॥ अयं पदेरुका विधी- यते 'लषपतपदस्थाभूवृषहनकमगमशृभ्य उक'निति,स विशेषविहितः सामा- न्यविहितं युचं बाधेत ॥ वासरूपन्यायेन युजपि भविष्यति ॥*॥ असरूप- निवृत्त्यर्थं तु ॥*॥ असरूपनिवृत्त्यर्थं तर्हि पदिग्रहणं क्रियते ॥ एतज्ज्ञापय- त्याचार्य:-'ताच्छीलिकेषु ताच्छीलिका वासरूपेण न भवन्तीति ॥ यद्येत. ज्ज्ञाप्यते 'सूददीपदीक्षश्चेति दीपिग्रहणमनर्थकम् । अयं दीपे रो विधीयते 'नमिकम्पिस्म्यजसकमहिंसदीपो र'इति,-स विशेषविहितः सामान्यविहितं युचं बाधिष्यते ॥ एवं तर्हि सिद्ध सति यहीपिग्रहणं करोति तज्ज्ञापयत्या- चार्यो-'भवति युचो रेण समावेश' इति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ कम्रा कन्या, कमना केन्येत्येतत्सिद्धं भवति ॥ [जुचङ्गम्य ] । स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् ॥ ३२।१५८ ॥ किमर्थमालज्विधीयते न लुशेवोच्यते ॥ का रूपसिद्धिः-स्पृहयालुः गृह- यालुः दयालुः ॥ शपि कृते 'अतो दी? यजी'ति दी| भविष्यति॥ एवं तर्हि प्र.]जुचक्रम्य । पदिग्रहणमिति । न च सकर्मकार्थं पदिग्रहणम् ,अनभिधानादनेन सकर्मकादविधानात् । [जुचङ्क्रम्य ] । स्पृहि । शपि कृत इति । 'तुरुस्तुशम्यम' इत्यतस्तत्र सार्वधातुकग्रहणमनु- वर्तते न तु तिङ्ग्रहणमिति भावः । एवं तहीति । ननु लुशि सति लकारस्येत्संज्ञा प्राप्नोति, श्रद्धालुश्च न सिध्यति श्रद्दधुरिति प्रामोतीत्याहुः। नैष दोषः। यादि- वादित्संज्ञा न भविष्यति । यकारश्च लुप्तनिर्दिष्टः। प्रयोजनाऽभावाद्वा । नपत्र लिस्वरप्रत्ययस्वरयोर्विशेषोऽस्ति, उभयत्रैकादेश उदात्तेनोदात्त इत्युदात्तत्वस्य उ.] जुचक्रम्य। सकर्मकार्थमिति । 'अनुदात्तेतश्चेति सूत्रे 'चलनशब्दार्था'दित्य- तोऽकर्मकादित्यनुवर्तते । तत्त्वञ्च सोपसर्गत्वेनाऽन्तर्भावितण्यर्थत्वेन वेति बोध्यम् । 'सूददीपे'ति युज्निषेधकम् ॥ [जुचक्रम्य ] । स्पृहिगृहि । ननु ‘अतो दीर्घ' इत्यत्र 'तिडी'त्यनुवृत्त्या कथमत्र दीर्घ इत्यत आह-तुरुस्तु इति । अत एव 'ज्ञाजनोर्जे ति दीर्घविधानस्याऽङ्गवृत्तपरिभाषाज्ञाप- कत्वं सङ्गच्छते। प्रयोजनाऽभावाद्वेति । 'नेत्संज्ञेति शेषः । उभयत्रैकादेश इति । १ 'युवतिः' । २ 'लुजुच्यते' ।३ 'उच्यते' ।४. इदं क्वचिन । ५ 'दीर्घत्वं'।

३अ.२पा.२आ१७१सू.) 8 व्याकरणमहाभाष्यम् * २८१ सिद्धे सति यदालुचं शास्ति तज्ज्ञापयत्याचार्यो'ऽन्येभ्योप्ययंभवतीति ॥ किमे तस्य ज्ञापने प्रयोजनम्?॥ आलुचि शीङ्ग्रहणं चोदयिष्यति तन्न कर्तव्यं भवति ॥ ॥ आलुचि शीङ्ग्रहणम् ॥ ॥ आलुचि शीग्रहणं कर्तव्यम् । शयालुः ॥ आगमहनजनः किकिनौ लिट्र ॥ ३२॥१७१ ॥ किमर्थं किकिनोः कित्त्वं क्रियते न 'असंयोगालिदिदित्येव सिद्धम् ? ॥ ॥॥ किकिनोः कित्वमकारगुणप्रतिषेधार्थम् ॥*॥ किकिनोः कित्करणं क्रियते ।। किं प्रयोजनम् ? ] ॥ 'ऋकारगुणप्रतिषेधार्थम्' । अयमकारान्तानां लि- टि गुणः प्रतिषेधविषये आरभ्यते'ऋच्छत्यतामिति स यथेह भवति-आतस्तरतुः आतस्तरुरिति, एवमिहापि प्रसज्येत मित्रावरुणौ ततुरिः, दूरे ह्यध्वा जगुरि- रिति, स पुनः कित्त्वेन बाध्यते ॥॥ उत्सर्गश्छन्दसि सदादिभ्यो दर्शनात् ॥ ॥ उत्सर्गश्छन्दसि किकिनौ वक्तव्यौ ॥ किं प्रयोजनम् ? ॥ 'सदादिभ्यो दर्श. नात्' । सदादिभ्यो हि किकिनौ दृश्यते । संदिरमिनमिमनिविचीनां-सेदिः रेमिः मेनिः। नेमिश्चक्रमिवाभवत् । विविचिं रत्नधातमम् ॥*॥ भाषायां धाञ्कृसृजनिनमिभ्यः ॥*॥ भाषायां धाकृसृजनिनमिभ्यः किकिनौ वक्तव्यौ । धाञ्-देधिः। धाञ् ॥ कृ-चक्रिः । कृ ॥ स-सस्रिः । स ॥ जनि-जज्ञिः । जनि ॥ प्र.]भावात्। श्रद्धालु' शब्दस्याप्यनेकार्थत्वाद्धातूनामत्र विषये दधात्यर्थे वर्तमानस्य धेटो भविष्यति । ननु शिदाश्रयोऽशितीत्यात्वप्रतिषेधः प्राप्नोति । एवं तर्हि श्रद्धा आश्र. द्धत्याकारप्रश्लेषादात्वं भविष्यति । अथवा दधातेरेव 'संज्ञापूर्वको विधिरनित्य' इति द्विवचनं न प्रवर्तिष्यते । [स्पृहिगृहि ] आग । दकारो मुखसुखार्थः । सन्देहार्थो वा, तकारे तु सति तादपि पर- उ.]लित्स्वरे प्रत्ययस्वरे वा कृते उकारेण गुणरूपे एकादेशे इत्यर्थः। एवञ्चेत्त्वेलकारी- च्चारणवैयर्सेन सामर्थ्यान्नेत्त्वमिति भावः । नन्वेवमपि 'श्रद्दधालु'रिति स्यादत आह-श्रद्धालुशब्दस्याऽपीति । 'सिद्धि'रिति शेषः । धेट इति-करणस्य शेषत्व- विवक्षायां षष्टी। तस्य च भौवादिकत्वात् श्लोरभावेन द्वित्वाऽभाव इति भावः । शिदाश्रय इति । शबाश्रय इति भावः । अथ वेति । संज्ञापूर्वकतया श्लोरभावेन द्वित्वं नेत्यर्थः। द्वित्वन्तु न संज्ञापूर्वकम् , विधेयकोटौ संज्ञापूर्वकस्यैव तेनाऽनि- त्यत्वबोधनादित्याहुः । भाष्याऽनुक्तत्वेन 'संज्ञापूर्वक' इत्यस्याऽप्रामाणिकत्वे तु इद- ञ्चिन्त्यम् । परे त्वर्जसव्यथिभ्यामिवाऽत्राऽपि 'श्रद्धे'ति समुदायात्प्रत्यय इति न काचिच्छङ्केत्याहुः । दयेर्यलुक् नास्त्यनभिधानादिति बोध्यम् ॥ [स्मृहिगृहि ॥ १'मुच्यते'।२इदं लुप्तम्।३'तेरतुः तेरुः'। ४'सदिमनिरमिनमिविचीनां 'सेदिः मेनिः रेमिः नेमिः' पा० । ५ 'दधि' । ६ 'अजव्यथि' ।

.. २८२ * कैयट-विवरणसहितं [अन्येभ्योऽपि नमि नेमिः ॥॥ सासहिवावहिचाचलिपापतीनां निपातनम् ॥*॥ सासहि. वावहिचाचलिपापतीनां निपातनं कर्तव्यम् । वृषा सहमानं सासहिः।वावहिः चाचलिः पापतिः॥ अपर आह ॥*॥ सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनी वक्तव्यौ ॥*॥ एतान्येवोदाहरणानि॥[ आगमहन ]॥ भियः क्रुक्लकनौ ॥ ३।२।१७४ ॥ ॥*॥ भियः क्रुकन्नपि ॥ ॥ भियः क्रुकन्नपि वक्तव्यः । भीरुकः ॥ अन्येभ्योपि दृश्यते ॥ ३।२।१७८॥ किमर्थमिदमुच्यते न विप्चान्येभ्योपि दृश्यत इत्येव सिद्धम् ? ॥*॥ क्विब्बिधिरनुपपदार्थः॥* ॥ अनुपपदार्थोऽप्रमारम्भः। पचेः-पक् । भिदेः-भित् । छिदेः-छित् ॥ अथ योऽत्र सोपपदस्तस्य ग्रहणं किमर्थं, न तेनैव सिद्धम् ?॥ न सिध्यति । इह के चिदा केरिति सूत्रं पठन्ति, केचित्प्राक् केरिति, तत्र य आ केरिति पठन्ति तैः किबप्याक्षिप्तो भवति । तत्र तच्छीलादिष्वर्थेषु प्र.]स्तपर इत्यृकारस्य तपरत्वाकारग्रहणं न स्यात्।ऋकारगुणनिषेधार्थाच्च किकिनोः- कित्वादृकारनिर्देशाऽवसायः।सासहीति। पापतीति निपातनाद्यङि नीगभावः,विधी तु भाष्यकारवचनप्रामाण्यात् । तेनाप्युक्तं-तान्येवोदाहरणानीति । अथ लिट्वद्भावे किकिनोः परस्मैपदसंज्ञा कस्मान्न भवति।तथा चात्मनेपदिभ्यो देउडादिभ्यो न प्राप्नु- तः । नैष दोषः । लादेशानां परस्मैपदसंज्ञा न तु लकारस्य । भावकर्मकर्तृषु तर्हि लिड्पत्किकिनौ प्राप्नुतः। एषोऽप्यदोषः। उत्पन्नयोः कार्यातिदेशात् , उत्पत्तिश्च ‘कर्तरि कृ'दित्यनेनास्यैकवाक्यत्वात्कर्तरि तयोर्भवति । वर्तमानाधिकाराच्च वर्तमान इति। भूतकालतापि विरोधान्नाऽतिदिश्यते । स्वरूगऽबाधेन च कार्याण्यतिदिश्यन्त इति क्वसुकानचावपि किकिनोर्न भवतः । [ आगमहन ] ॥ अन्येभ्योऽपि । विविधिरिति । 'क्विप् चे'त्यत्र सुप्युपसर्गेपीति च वर्तत इति भावः । अथेति । पूर्वसूत्रे ग्रावस्तुशब्द इत्यर्थः । आकरिति । अभिविधा- उ.] आगम । कारगुणनिषेधार्थादिति।'ऋ'धातोः किकिनोर्गुणनिषेधाऽनिषे- धयोः फले विशेषाऽभावः । 'आरि'रिति रूपमेव गुणे, तन्निषेधेऽपि 'अत आदे'रिति दीर्घ यणि च तदेवेति भावः । ऋकारनिर्देशेति । दीर्घग्रहणेत्यर्थः । 'जगुरि'रि- त्यादौ कित्त्वाद्गुणाऽभावे ओष्ठ्यपूर्वत्वाऽभावेऽपि छान्दसत्वादुत्वम्। भाष्यकारवच- नेति । संसादिबहुसहचरितस्यैव पतेस्तत्र ग्रहणमित्यन्यविकरणस्य तदभावः । यद्वा प्रसिद्धस्य पतेर्ग्रहणं, न देवादिकस्य, तस्य चेदं रूपम् ॥ [आगम] । अन्येभ्योऽपि । ग्रावस्तु इति । दिद्युतोऽप्युपलक्षणम् । तत्र कृते इति । १ 'तान्ये' । २ इदं प्रायो लुप्तम् ।३ 'विद्युतो' । ।

३अ.२पा.२आ.१७८सू.] 8 व्याकरणमहाभाष्यम् 8 २८३ क्विव्यथा स्यात् ॥ नैतदस्ति प्रयोजनम् । य एवासावविशेषविहितः स तच्छीलादिषु भविष्यत्यन्यत्र च ॥ न सिध्यति । अयं तच्छीलादिष्वर्थेषु तृन्विधीयते स विशेषविहितः सामान्यविहितं विपं बाधेत ॥ वासरूपेण विबपि भविष्यति ॥ न सिध्यति । इदानीमेव युक्तं-'तच्छीलादिष्वर्थेषु वासरूपेण तृजादयो न भवन्तीति, विप्चापि तृजादिः ॥ * ॥ वचि- प्रच्छयायतस्तुकटग्रुजुश्रीणां दीर्घश्च ॥ ॥ वचित्रच्छयायतस्तुकटपुजुश्रीणां दीर्घ- त्वं च वक्तव्यम् , क्विाचा वचि-वाक् । वचि ॥ प्रच्छि-शब्दप्राट् [प्रच्छि ]॥ आयतस्तु-आयतस्तूः। आयतस्तु ॥ कटग्रु-कटमः । [ कटा ] ॥ जु-जूः । [ जु] ॥ श्रि-श्रीः ॥ अपर आह-॥ ॥ वचिप्रच्छयोरसम्प्रसारणं चेति वक्त- व्यम् ॥ ॥ तत्तर्हि वक्तव्यम् ॥ न वक्तव्यम् । दीर्घवचनसामर्थ्यात्सम्सा- रणं न भविष्यति ॥ इदमिह सम्प्रधार्य, दीर्घत्वं क्रियतां सम्प्रसारणमिति किमत्र कर्तव्यम् ?॥ परत्वात्सम्प्रसारणम् ॥ अन्तरङ्गं दीर्घत्वम् ॥ काऽन्त- रङ्गता ? ॥ प्रत्ययोत्पत्तिसन्नियोगेन दीर्घत्वमुच्यते, उत्पन्ने प्रत्यये सम्प्रसार- णम् । तत्राऽन्तरङ्गत्वाद्दीर्घत्वे कृते सम्प्रसारणम् । प्रसारणपरपूर्वत्वे कृते कार्यकृतत्वात्पुनर्दीर्घत्वं न स्यात् । 'तस्मात्सुष्टुच्यते-'दीर्घवचनसामर्थ्यात्स. म्प्रसारणं न भवतीति॥ ॥द्युतिगमिजुहोतीनां द्वे च॥ ॥द्युतिगमिजुहोतीनां द्वे चेति वक्तव्यम्।द्युति-दिद्युत्ाद्युति॥गमि-जगत्।गमि॥जुहोति-जुहोतेर्दीर्घश्च । जुहूः॥ ॥णातेर्हस्वश्चद्वे च विच॥ ॥णातेर्हस्वश्च द्वे च क्विप्चेति वक्तव्यम् । प्र.वाकारः। दीर्घवचनसामादितिादीर्घश्रुत्याऽच्परिभाषोपस्थानाद्वचिप्रच्छयोर- चोर्दीर्घत्वेन भाव्यं, तत्र कृते संप्रसारणे पूर्वैकादेशे च दीर्घविधानमनर्थकं स्यादिति भावः । न स्यादिति । संभावने लिङ् । पूर्वमेव प्रवृत्तत्वात् पुनर्दी! न प्रवर्तत इत्यर्थः । दिद्युदिति । 'द्युतिस्वाप्यो'रित्यभ्यासस्य संप्रसारणम्। जगदिति । 'गमः क्वाविति मलोपः । जुहूरिति । दीर्घ समुच्चीयमाने दीर्घश्रुत्याऽच्परिभाषोपस्थाना- उ.प्रत्ययसन्नियोगशिष्टतयाऽन्तरङ्गत्वाद्दीर्घत्वे कृत इत्यर्थः। ननु दीर्घत्वं न स्यादित्य- युक्तम् ,अस्यानुवादत्वेन विधिलिङोऽसम्भवादत आह-सम्भावने इति।दीर्घत्वं सम्भ- वेदिति नेत्यर्थः । यद्यपि दीर्घवचनसामर्थ्यालश्ये लक्षणस्येति न्यायबाधेन पुनर्दीर्घ- प्रवृत्तिरेव वक्तुं युक्ता, तथापीष्टाऽनुरोधात्सम्प्रसारणाऽभाव एव भाष्यकृतोक्तः। भाष्ये कार्यकृतत्वादिति । विकारकृतलक्ष्यभेदस्तु नाऽत्र न्याये आधीयते, एतद्भाष्यप्रामा- ण्यात् । वचिप्रच्छयोमुत्र वार्तिके सूत्रेणैव विपि सिद्धे दीर्घवार्थमेव ग्रहणमिति बोध्यम् । चेन दीर्घसमुच्चये दिद्युदादेरपि स्यात् , असमुच्चये जुहूर्न सियेदत १ 'विप्वापि' । २ 'प्रसारणं' । ३ 'सम्प्रसारणपूर्वत्वे' । ३ इदं क्वचिन्न ।

२८४ कैयट-विवरणसहित [विप्रसंभ्यो ददृत् । जुहूर्जुहोते यतेर्वा । ददृत्-दृणातेीर्यतेर्वा । जू:-ज्वरतेर्जीर्यतेर्वा । ॥*॥ ध्यायतेः सम्प्रसारणं च ॥*॥ ध्यायतेः सम्प्रसारणं च विच वक्तव्यः । धीायतेर्दधातेर्वा । [ अन्येभ्योऽपि दृश्यते ॥ विप्रसंभ्यो वसंज्ञायाम् ॥ ३२॥१८० ॥ ॥*॥ डुप्रकरणे मितद्वादिभ्य उपसङ्ख्यानं धातुविधितुकप्रतिषेधार्थम् ॥४॥ डुप्रकरणे मितद्वादिभ्य उपसङ्ख्यानं कर्तव्यम् ॥ किं प्रयोजनम् ? ॥ 'धातु- विधितुक्प्रतिषेधार्थम्' । धातुविधेस्तुकश्च प्रतिषेधो यथा स्यात्। मितद्रुः मित- दू मितद्वः। 'अचिनुधातुभ्रुवा'मित्युवडादेशो मा भूत् । इह च मितद्वा। मितछ । 'नोधात्वोरिति प्रतिषेधो मा भूत् । तुग्विधिः-मितद्रुः । 'हस्वस्य पिति कृति 'गिति तुड्या भूदिति ॥ [ विप्रसंभ्यो] ॥ मतिबुद्धिपूजार्थेभ्यश्च ॥ ३।२।१८८ ॥ ॥*॥ शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि । रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि ॥ हृष्टतुष्टौ तथाकान्तस्तथोभी संयतोद्यतो कष्टं भविष्यतीत्याहुरमृताः पूर्ववत्स्मृताः ॥*॥ प्र.]दचा च तदन्तविध्याश्रयणाजुहोतेरेवाऽजन्तत्वसंभवाद्भवति। [अन्येभ्योऽपि ] विप्रसम्भ्यो इसं । किं प्रयोजनमिति । किपा सिद्धिं मन्यमानस्य प्रश्नः ॥ मतिबुद्धि । तस्य मत्याद्यर्थेभ्यः परस्य भूतविषयताऽपि वर्तमानविषयतया तक्रकौण्डिन्यन्यायेन बाध्यते । ज्ञातमित्येतत्तु भूतेऽपि भवति । तेनेत्यधिकारात्तृती- यान्तादुपज्ञातेऽर्थेऽप्रत्ययविधानात् । वर्तमाने हि 'क्तस्य च वर्तमान' इति षष्ठ्या भवितव्यम्॥इति कैयटकृते भाष्यप्रदीपेतृतीयस्याध्यायस्य द्वितीये तृतीयमाह्निकम्॥ उ.]आह-दीर्घ इति।द्युतिगमिभ्यामन्वये वैयधिकरण्यापत्तिभिया ताभ्यामसम्बन्धो दीर्घस्येत्यर्थः । भाष्ये-दीर्यतेति । एतद्भाष्यप्रामाण्यादेव 'दृ'धातुर्दिवादावपि बोध्यः । जीर्यतेति । अत्र पक्षे उत्वं चेन विधेयम् । दधातेति । 'घुमास्थे- तीत्त्वम् । 'ईत्वमवकारादा' विति वचनन्तु भगवता प्रत्याख्यास्यते । वस्तुतोऽस्मात् 'विबेव ने'तीदमेकदेश्युक्तिरिति बोध्यमिति केचित्। वस्तुतो दृशिसमुच्चेयमपूर्वमीत्व- म्भगवदभिमतम्पूर्वत्र पक्षेऽपूर्वोत्ववदिति बोध्यम् ॥ [ अन्येभ्योऽपि] ॥ मतिबुद्धि।प्रत्ययविधानादिति । तेन हि विधेयविषयेऽयं न्यायो नाऽनुवाद्य- विषय इति ज्ञाप्यते । कालस्त्वनुवाद्य इति भावः । तेन 'पूजितो यः सुराऽसुरै रि- त्यपि सिद्धम् । भाष्ये-शीलित इत्यादि । अनुक्तसमुच्चयार्थेन चेनैतेषां' सङ्ग्रह १ 'तुग्भवतीति' । २ 'चेनैषां'।

३अ.३पा.१आ.१सू.] व्याकरणमहाभाष्यम् . २८५ न म्रियन्ते अमृताः॥ इति श्रीभगवत्पतअलिविरचिते व्याकरणमहा- भाष्ये तृतीयस्याध्यायस्य द्वितीये पादे तृतीयमासिकम् । पादश्च समाप्तः । उणादयो बहुलम् ॥ ३॥३॥१॥ बहुलवचनं किमर्थम्?॥*॥ बाहुलकं प्रकृतेस्तनुद्देष्टेः॥ ॥ तन्वीभ्यः प्रकृ- तिभ्य उणादयो दृश्यन्ते न सर्वाभ्यो दृश्यन्ते ॥*॥ प्रायसमुच्चयनादपि तेषाम् ॥ ॥ प्रायेण खल्वपि ते समुच्चिता, न सर्वे समुचिताः ॥ ॥ कार्यसशेष- विधेश्च तदुक्तम्॥ ॥कार्याणि खल्वपि सशेषाणि कृतानि, न सर्वाणि लक्षणेन परिसमाप्तानि ॥ किं पुनः कारणं तन्वीभ्यः प्रकृतिभ्य उणादयो दृश्यन्ते न प्र.] उणादयो बहुलम् । बहुलवचनमिति । 'उणादय' इत्येव सूत्रमुणादीनां शास्त्रान्तरपठितानां साधुत्वाभ्यनुज्ञानार्थमस्त्विति भावः। बाहुलकमिति । 'प्रकृते'- रिति जातावेकवचनम् । तनुशब्दोऽत्र वृत्तिविषये गुणमात्रवचनः । प्रकृतीनां तानवं दृष्ट्वा बाहुलकं बहुलशब्दप्रवृत्तिनिमित्तं बह्वादानमुक्तम् । तेनाऽपठिताभ्यो- ऽपि प्रकृतिभ्य उणादयो भवन्ति । यथा हृषेरुलच्शकेरपि भवति शङ्कुलेति । तथा तेषामुणादीनां प्रायेण समुच्चयनं कृतं न तु साकल्येनेति बहुलवचनादविहिता अपि भवन्ति । तेनाऽर्तेः फिडफिड्डौ भवतः, ऋफिड ऋफिड्ड इति । सशेषाणि च कार्या- णि उणादिषु विहितानि न तु निःशेषाणि । बहुलवचनात्वविहितान्यपि भवन्ति । तेन 'षण्ड' इत्यत्र सत्वाऽभावः । सकारस्य वा षत्वं भवति । किं पुनरिति । उ.]इति भावः। कष्टम्भविष्यतीति। कषिष्यतीत्यर्थे 'कष्ट' शब्द इत्यर्थः। पूर्ववत्,- शीलितायुद्यतान्तवद्वत्तमाने इत्यर्थः। तदाह-न म्रियन्त इति॥ [मतिबुद्धिपूजार्थे ] इति श्रीकालोपनामकनागेशभट्टविरचिते भाष्यप्रदीपोझ्योते तृतीयाऽध्यायस्य द्वितीये पादे तृतीयमाह्निकम् । पादश्चाऽयं द्वितीयः समाप्तः । उणादयो। शास्त्रान्तरेति । व्याकरणान्तरेत्यर्थः। साधुत्वेति । वर्तमानकाले तत्त्वार्थमिति भावः । 'प्रकृते रित्यस्य तन्वीभ्य इति व्याख्यानमननुगुणमत आह- जातावितिाननु 'तनु'शब्दस्य प्रकृतेरिति विशेषणतया कथं समासोऽत आह-तनुशब्द इति।तथा च गमकत्वात्समास इति भावः।तानवमितिव्याकरणान्तरे तासामल्पत्वं दृष्ट्वेत्यर्थः। बाहुलकमिति । 'बहूनान् लाती'त्यर्थकबहुलशब्दाद्भावे वुजा सिद्ध- मिति बोध्यम् । बहवोऽर्थाश्च प्रवृत्तिनिवृत्त्यादयो वृद्धरुक्ताः । बह्वादानमिति । बह्वर्थग्रहणरूपं प्रवृत्तिनिमित्तमित्यर्थः । तेनाऽपठिताभ्य इति । व्याकरणाऽन्तरेऽ- पठिताभ्य इत्यर्थः । भाष्ये-उणादयो दृश्यन्त इत्यादेर्व्याकरणाऽन्तर इति शेषः । तदाह-हृषेरुलजित्यादि । प्रायेण समुच्चयनमिति । व्याकरणाऽन्तर इत्यर्थः । १ श्लोकवार्तिकम् । २ 'यथाऽर्तेः' । ३ 'चाऽषत्वं'। ।

२८६ । * कैयट-विवरणसहितं. [उणादयो सर्वाभ्यो दृश्यन्ते । किं च कारणं प्रायेण समुच्चिता न सर्वे समुश्चिताः । किञ्च कारणं कार्याणि सशेषाणि कृतानि न सर्वाणि लक्षणेन परि- समाप्तानि ॥॥ नैगमरूढिभवं हि सुंसाधु ॥*॥ नैगमाश्च रूढिभेवा- चौणादिकाः सुसाधवः कथं स्युः? । ॥ ॥ नाम च धातुजमाह निरुक्ते ॥*॥ नाम खल्वपि धातुजम् । एवमा नैरुक्ताः ॥ ॥ व्याकरणे शकटस्य च तोकैम् ॥*॥ वैयाकरणानां च शाकटायन आह-'धातुजं नामे ति॥अथ यस्य विशेप. पदार्थो न समुत्थितः कथं तत्र भवितव्यम् ? ॥ ॥ यन्न विशेषपदार्थसमुत्थं प्र.]यावत्यः प्रकृतयः यावन्तश्च प्रत्ययाः यावन्ति च कार्याणि तावन्त्येव भवन्विति प्रश्नः । नैगमेति । निगमश्छन्दस्तत्र भव इत्यणगयनादिभ्य इत्यण् । रूढिः- प्रसिद्धिः,तत्र भवाः। संज्ञाशब्दा इत्यर्थः। ते सुष्ठ साधवो यथा स्युरित्येवमर्थमपरि- पूर्णत्वं प्रकृत्यादीनामुच्यते । अपरिपूर्णानां हि पूर्णत्वं बहुलग्रहणेन क्रियत इति नैगमरूढिभवानां व्याकरणेऽस्मिन्व्युत्पादनादसंदिग्धं साधुत्वमवगम्यत इत्यर्थः । अन्यैरप्याचार्यः शब्दानां प्रकृत्यादिविभागेन व्युत्पादनमभ्युपगतमित्याह-नामेति । तोकमिति । अपत्यमित्यर्थः । यन्नेति । पदमर्थः प्रयोजनं यस्य व्युत्पाद्यत्वेन उ.] ननु स्वतन्त्राणामृषीणामेवंन्यूनं शास्त्रं कृतमिति पर्यनुयोगोऽयुक्तोऽत आह-ताव- न्त्येव भवन्त्विति प्रश्न इति । ननु 'प्रकृतीनां निर्देशोऽत्रे'त्यादि वया केन मानेन ज्ञातमिति भाष्याक्षराऽर्थः । तदिति । नैगमरूढिभवमित्यर्थः । जातावेकवचन- मिति । 'साधव' इत्यनेन नाऽन्वयः।ते सुष्विति पाठस्तु सम्यगेव। तस्य चाऽशेषेण सङ्ग्रहोऽशक्यः। तस्य साधुत्वञ्च सर्वसम्मतम् । अतो ज्ञायते 'प्रकृतेस्तनुदृष्टे'रि- त्यादीति भाष्यार्थः। सुसाधवः कथं स्थारनि भाष्यस्य ‘अतो बाहुलक'मिति शेषः । ते पाणिनिना बोधितसाधुत्वकाः कथं स्युरित्यर्थः । पाणिनिना बोधितसाधुत्वमेव सुसाधुत्वं, सम्प्रति प्रयोगार्हत्कत्, तदाह-अपरिपूर्णानामिति । सर्वाभ्यः प्रकृ- तिभ्यः सर्वप्रत्ययानां तत्तद्रूपेण विधानन्तु ब्रह्मणाऽपि दुरुपपादमिति भावः । ननु तेषामेवं व्युत्पादनं कैवैयाकरणैः कृतमित्याशङ्कयाह भाष्ये-नाम चेत्यादि । तद्व्या- चष्टे-नाम खल्वपीति । 'नाम धातुज'मित्येवमाहु रुक्ता इत्यक्षरार्थः । तदाह- अन्यैरित्यादिना । पाणिनेस्तु तानि अव्युत्पन्नान्येवेति भावः । इदञ्च 'आयनेयीनीति सूत्रे भाष्ये स्पष्टम् । एवञ्च 'कृवापे'त्याधुणादिसूत्राणि शाकटायनस्येति सूचितम् । 'धातुजं नामे'ति निरुक्त आह निरुक्तकारः, शाकटायनश्च स्वकृते व्याकरणे आह धातुजं नामेति भाष्येऽन्वयः। ‘पदार्थ' इत्यत्र 'अर्थ' शब्दः प्रयोजनवाचीत्याह- अर्थः प्रयोजनमिति । विशेषश्वाऽसाविति । उक्तप्रकृतिप्रत्ययादेर्यन समुत्थितम्, १ श्लोक वार्तिकम्'। २'रूढिशब्दाश्चाऽवैदिकाः।३ मेवाहुः'।४अपिः क्वचिन्न ।

३अ.३पा.१आ.३सू.] ® व्याकरणमहाभाष्यम् ® २८७ प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥*॥ प्रकृतिं दृष्ट्वा प्रत्यय ऊहितव्यः। प्रत्ययं च दृष्ट्वा प्रकृतिरूहितव्या । संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्याद्विद्यादैनूबन्धमेतच्छास्त्रमुणादिषु ॥ भविष्यति गम्यादयः ॥ ३३॥३॥ ॥॥ भविष्यतीत्यनद्यतन उपसङ्ख्यानम् ॥*॥ भविष्यतीत्यनद्यनत उप- सङ्ख्यानं कर्तव्यम् । श्वो ग्रामं गमी ॥ किं पुनः कारणं न सिध्यति ? ॥ लुटाऽयं निर्देशः क्रियते रद्धाऽनद्यतने लुटा बाध्यते । तेन लट एव विपये एते प्रत्ययाः स्युर्लुटो विषये न स्युः। ॥ ॥ इतरेतराश्रयं च ॥ ॥ इतरेत- राश्रयं च भवति ॥ केतरेतराश्रयता ? ॥ भविष्यत्कालेनाऽयं निर्देशः क्रियते, निर्देशोत्तरकाला च भविष्यत्कालता । तदेतदितरेतराश्रयं भवति । इतरेतरा- श्रयाणि च न प्रकल्पन्ते ॥॥ उक्तं वा ॥॥ [ उक्तं वा ]॥ किमुक्तम् ? ॥ एकं तावदुक्तं 'नवोऽपवादस्य निमित्ताभावादनद्यतने हि तयोर्विधान'मिति । अपरमप्युक्तम्-'अव्ययनिर्देशासिद्ध मितिअव्ययवता शब्देन निर्देशःकर्तव्यः। अवर्तमानेऽभूत इति ॥ स तथा निर्देशः कर्तव्यः?॥ न कर्त्तव्यः॥ अव्ययमेष भविष्यतिशब्दो नै भवतेलट् ॥ कथमव्ययसंज्ञा ? ॥ 'विभक्तिस्वरप्रतिरूप. काश्च निपाता भवन्तीति निपातसंज्ञा, 'निपातोऽव्यय मित्यव्ययसंज्ञा । अथापि भवतेल, एवमप्यव्ययमेव ॥ कथम् ? ॥ न व्यतीत्यन्ययमिति ॥ क्व पुनर्न व्येति ?॥ एतौ कालविशेषौ भूतवर्तमानौ । स्वभावतो भविष्यत्येव प्र.]स पदार्थः प्रकृत्यादिःविशेषश्चासौ पदार्थस्तस्माद्यन्न समुत्थितं विशिष्टप्रकृतिप्रत्ययो- त्पादनेन व्युत्पादितमित्यर्थः । प्रकृतिमिति। प्रसिद्धाम्-अादिकामित्यर्थः॥प्रत्यय इति । फिडादिकः । प्रत्ययं चेति । प्रत्ययत्वेन प्रसिद्धमित्यर्थः । तेन 'हृषेरुल'- जिति प्रत्ययं दृष्ट्वा शकि प्रकृतिरूह्यते, तेन सिद्ध 'शङ्कुल'ति । न सर्वत्र ऊहः कर्तव्यः । किं तर्हि ?। साधुत्वेनाभिमतासु संज्ञास्विति प्रदर्शयति-संज्ञास्विति । भविष्यति।अनद्यतन इति।भविष्यच्छब्दो भविष्यन्मात्रे वर्तते नतु तद्विशेषे- ऽनद्यतने,तस्य लुट्विषयत्वात्।ततश्च गम्यादयो भविष्यदधिकारे भविष्यच्छब्दार्थेऽन्वा- उ.]विशिष्टाया उक्तायाः प्रकृतेरुक्तप्रत्ययोत्पादनेन न व्युत्पादितमित्यर्थः। 'संज्ञासु धातुरूपाणीत्यवतारयति-न सर्वत्रेत्यादि । संज्ञासु-प्रसिद्धसंज्ञाशब्देषु ॥ भविष्यति। विशेष इति । सत्यपि वास्तवे विशेषे तस्याऽविवक्षितत्वात्सामान्य- १ इदं क्वचिन्न । २ 'दनुबन्ध' । ३ 'नचा' । ४ 'नचैषा' । ५ 'भविष्यत्यर्थे' । ६ 'किन्तु' । ।

२८८ 8 कैयट-विवरणसहित [ यावत्पुरा वर्तते ॥ यदि तर्हि न व्यतीत्यव्ययमिति ॥ ॥ न वा तद्विधानस्यान्यत्राभावात् ॥*॥ न वा भविष्यदधिकारणाऽर्थः॥ किं कारणम् ? ॥ तद्विधानस्यान्यत्राs- भावात्' । येऽपि ह्यते इत उत्तरं प्रत्ययाः शिष्यन्ते एतेऽप्येतौ कालविशेषौ न वियन्ति भूतवर्तमानौ, स्वभावतो भविष्यत्येव वर्तन्ते ॥ अत उत्तरं पठति ॥*॥ भविष्यदधिकारस्य प्रयोजनं यावत्पचति पुरापचतीत्यनपशब्दत्वाय॥ ॥ यावत्पुरानिपातयोर्लट् ॥ ३३॥४॥ ॥*॥ यावत्पुरादिषु लविधि टः पूर्वविप्रतिषिद्धम् ॥*॥ यावत्पुरादिपु लड्विधिर्भवति लुटः पूर्वविप्रतिषेधेना यावत्पुरानिपातयोर्लभवतीत्यस्यावकाशः यावद्भुत पुराभुङ्क्ते । लुटोऽवकाशः-श्वः कर्ता श्वोऽध्येता। इहोभयं प्राप्नोति यावत् श्वो भुङ्क्ते । पुरा श्वो भुते । लड्भवति पूर्वविप्रतिषेधेन । स तर्हि पूर्व- प्र.]ख्यायमाना अनद्यतने न सिध्यन्तीति वार्तिकारंभः।इतरेतराश्रयं चेति। एतद्भुते इत्यत्र व्याख्यातं, तत एवावधारणीयम् । न वेति । विशेषे यत्सामान्यमस्ति तदा- श्रयेण गम्यादयः प्रयुज्यते इत्यर्थः । विशेषविवक्षायां चाऽपवादविप्रतिषेधालडेव भवति-'श्वो गन्ता ग्राम'मितिावासरूपइतिवचनामृडपि भवति।तेन गमिष्यति भवि- ध्यतीत्यादयः प्रयोगा उपपद्यन्ते । यावत्पचतीति । सति भविष्यदधिकारे भविष्य- त्येव यावत्पुराशब्दयोगे लटः साधुत्वं भवति, भविष्यकालेन वर्तमानकालस्य बाधनात् , असति भविष्यदधिकारे भूतेऽपि साधुत्वं लटः स्यात् । शब्दोपात्तकाल- विशेषविधानाऽभावे वर्तमानकालस्य बाधो न स्यात् । [भविष्यति गभ्यादयः ]॥ उ.]स्यैव विवक्षामाश्रित्य तदाश्रयो णिनिः। अनद्यतनाख्यस्तु विशेषः पश्चात् 'श्वः'- शब्दमहिना गम्यत इति भावः । विशेषविवक्षायामिति । प्रथमत एव विशेष- विवक्षायामित्यर्थः । अपवादेति । लटो हि द्वावपवादौ णिनिलुं । नन्वेवं 'श्वो ग- मिष्यती'त्यादिप्रयोगाऽनापत्तिगिनिना बाधादत आह-वाऽसरूपेति । सामान्यविव- क्षायामिति भावः । भाष्ये-पुरा पचतीत्यनपशब्दत्वायेति । भविष्यत्येवाऽनप- शब्दत्वं यथा स्याद्भूते तु नेत्येतदर्थमित्यर्थस्तदाह-सतीति। भविष्यद्भुतयोरसाधुत्व- प्राप्तौ भविष्यत्येवाऽनेन साधुत्वं क्रियते न तु भूते । वर्तमानकाले साधुत्वाऽ- भावे तु न मानम् ,भाष्यादलाभात् ,कालस्याऽनुवाद्यतया तक्रकौण्डिन्यन्यायाऽप्राप्तेश्च। 'भविष्यकालेन वर्तमानकालस्य बाधना'दिति कैयटश्चिन्त्यः । भूतेऽपीति । भवि- प्यत्पदाऽभावे ‘याव'दिति सूत्रे यत्र विहितो लट् ततोऽन्यत्रापि यथा स्यादित्यर्थ स्यात्, एवञ्च भूतेऽपि साधुत्वं स्यादिति भावः । दूषणान्तरमाह-शब्दोपात्तेति । अनुवाद्यविषये 'तक्रकौण्डिन्य'न्यायाऽभावादिदंचिन्त्यम्। भविष्यति गभ्यादयः]। १ इतिः क्वचिन्न । २ 'नद्यतेऽत उत्तरं । ३ 'श्वो भोक्ता' । ४ 'नचेति' ।

३अ.३पा.१आ..सू.] 8 व्याकरणमहाभाष्यम् ® २८९ विप्रतिषेधो वक्तव्यः ?॥ न वक्तव्यः । 'अनद्यतने लु'डित्यत्र 'यावत्पुरानिपा. तयो लडित्येतदनुवर्तिष्यते॥ [ यावत्पुरा] ॥ लिप्स्यमानसिद्धौ च ॥ ॥३॥७॥ किमर्थमिदमुच्यते न लिप्स्यमानसिद्धिरपि लिप्लैव, तत्र 'किंवृत्ते लिप्सा- या मित्येव सिद्धम् ? ॥[*॥अंकिंवृत्तार्थः॥*] ॥ अकिंवृत्तार्थोऽयमारम्भः । यो भवतामोदनं ददाति स स्वर्ग लोकं गच्छति। यो भवतामोदनं दास्यति स स्वर्ग लोकं गमिष्यति ॥ [ लिप्स्यमानसिद्धौ च ॥ तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ॥ ३॥३॥१०॥ किमर्थं क्रियायामुपपदे क्रियायां ण्वुल्विधीयते नाऽविशेषेण विहितो ण्वुल्स क्रियायामुपपदे क्रियायामन्यत्र च भविष्यति ॥ ण्वुलि सकर्मक- ग्रहणं चोदितम् , अकर्मकार्थोऽयमारम्भः। आसको व्रजति, शायको ब्रज- तीति ॥ प्रत्याख्यातं तत् 'न वा धातुमात्रादर्शनाण्ण्वुल' इति ॥ एवं तर्हि- नृजादियु वर्तमानकालोपादानं चोदितम्, अवर्तमानकालार्थोऽयमारम्भः॥ तदपि प्रत्याख्यातं 'न वा कालमात्रे दर्शनादन्येपामिति ॥ इदं तर्हि प्रयो- जनम्, 'अकेनोर्भविष्यदाधमय॑यो रित्यत्र पठ्याः प्रतिपेध उक्तः स यथा प्र.] लिप्स्यमान । अकिंवृत्तार्थ इति । पूर्वत्र तु किंवृत्तग्रहणं लिप्स्यमानसिद्धि- रहितायां लिप्सायामकिंवृत्ते लड्निवृत्त्यर्थम् । [ लिप्स्यमानसिद्धौ च ] । तुमुन् । अकेनोरिति । सति भविष्यत्काले ण्वुल्विधौ तदनुवादेन षष्टीनिषेधो विधातुं शक्यते नान्यथेति भावः। लप्स्यन्तेऽस्येति । याजकशब्दो भविष्यति वर्तते, यस्मात्तं तं याजयिष्यन्ति न तु ते याजितवन्तः। तत्र भविष्यदधिकारविधानाऽभावा- उ.] यावत्पुरा । यावत्पुरादिग्विति भाष्ये,-आदिना इत आरभ्य तुमुन्सूत्र- पर्यन्तसूत्रसन्दर्भसङ्ग्रहः । लडित्येतदनुवर्तिष्यत इति । इत्यादिसूत्रसन्दर्भो- पलक्षणमिदम् ॥ [ यावत्पुरानिपातयोर्लट] । लिप्स्यमान । भाष्ये-न लिपस्यमानसिद्धिरपि लिप्सैवेति । लिप्सा- व्याप्यैवेत्यर्थः । एवञ्च लिप्सायास्तत्राऽपि गम्यमानत्वमस्त्येवेत्याशयः । सिद्धिरहि- तायामिति । 'भवानद्य ब्राह्मणानामन्त्रयिष्यती'त्यादी। सिद्धिविषयोदाहरणन्तु 'यो भक्तं ददाति स स्वर्ग गच्छती'त्यादौ ॥ [ लिप्स्यमानसिद्धी च] ॥ तुमुन्ण्वुलौ । भाष्ये-इत्यत्र षष्ठ्या इति । अत्र सूत्रे, 'अकस्य भवि. ष्यती'त्यन्वाख्यानवार्तिके चेत्यर्थः। ननु सामान्यण्वुल्येवाऽयं निषेधोऽस्त्वत आह- १ इदं लुप्तं स्यात् । २ 'स्वर्गलोक' । ३ 'चोपपदे' । ४ 'मात्रदर्शनात् । - २९० कैयट-विवरणसहितं. [तुमुन्ण्वु स्यात्॥एतदपि नास्ति प्रयोजनं-य एवासावविशेषेण विहितःसयदाभविष्यति भविष्यति तदाऽस्य प्रतिषेधो भविष्यति॥ एवं तर्हि भविष्यदधिकारविहितस्य प्रतिषेधो यथा स्यादिह माभूत्,-'अङ्ग! यजतां लप्स्यन्तेऽस्य याजकाः। य ऐनं याजयिष्यन्तीति ॥ नैष भविष्यकालः ॥ कस्तर्हि ? ॥ भूतकालः ॥ कथं तर्हि भविष्यत्कालता गम्यते ? ॥ 'धातुसंबन्धे प्रत्यया' इति ॥ यस्तर्हि न धातुसंबन्धः 'इमेऽस्य याजका' 'इमेऽस्य लावका' इति॥ एषोऽपि भूतकालः॥ कथं तहि भविष्यत्कालता गम्यते ? ॥ संबन्धात् । स च तावत्तैरयाजितो भवति, तस्य च तावत्तैर्यवा अलूना भवन्ति । उच्यते च ॥ इदं तर्हि प्रयो- जनम्, अयं क्रियायामुपपदे क्रियार्थायां तुमुन्विधीयते स विशेषविहितः सामा. न्यविहितं ण्वुलं बाधेत ॥ एतदपि नास्ति प्रयोजनम् । भावे तुमुन्विधीयते कर्तरि ण्वुल् , तत्र कः प्रसङ्गो यद्भावे विहितस्तुमुन्कर्तरि विहितं ण्वुलं बाधेत ?॥ लट् तर्हि बाधेत ॥ वासरूपेण ण्वुलपि भविष्यति ॥ अत उत्तरं पठत्ति-॥*॥ ‘ण्वुलः क्रियार्थोपपदस्य पुनर्विधानं तृजादिप्रतिषेधार्थम् ॥ ॥ ण्वुलः क्रियार्थोपपदस्य पुनर्विधानं क्रियते ॥ [ किं प्रयोजनम् ? ] ॥ ज्ञापैकार्थम् ॥ प्र.]दस्येति षष्टी न प्रतिषिध्यते । अस्य याजका इति। एतद्व्याचष्टे-य एनमिति। कस्तहि भूतकाल इति । शब्दशक्तिस्वाभाव्याद्याजकशब्दस्य भूतकालविषयत्व- मिति भावः। धातुसम्बन्ध इति । याजकत्वस्यैव भविष्यत्त्वं प्रतीयत इत्यर्थः । सम्बन्धादिति । भावियाजकत्लादिकमारोप्य तथाऽभिधानादित्यर्थः । तृजादिप्रति- षेधार्थमिति । तेन कर्ता व्रजति विक्षिपो व्रजतीत्यादि न प्रयुज्यत इत्यर्थः ॥ उ.]सतीति । तदनुवादेन विहितो हि तदर्थको भवतीत्यर्थः। भाष्ये-य एवाऽसा. विति । भविष्यत्क्रियावाचकप्रकृतिकत्वमेव ण्वुलि भविष्यत्त्वमिति भावः । धातु. सम्बन्ध इति। लप्स्यन्त इति धात्वर्थसम्बन्धोऽत्रेति भावः । न च 'धातुसंबन्ध' इत्यनेनाऽपि कालाऽन्तरे प्रत्यया विधीयन्त इत्यस्यापि भविष्यत्कालत्वमस्त्येवेति वाच्यं, 'धातुसंबन्ध' इत्यादिना तत्प्रत्याख्यानप्रकारस्मारणेनाऽदोषात् । 'याजका' इत्यस्य तथा व्यवहरिष्यमाणा इत्यर्थात् । यदाह-याजकत्वस्यैवेति । तद्यवहार- स्यैवेत्यर्थः । भाष्ये-यस्तीति। तत्र लक्षणायां न प्रमाणमिति तत्र शब्दार्थ एव भविष्यत्त्वमिति भावः ॥ तत्राऽपि 'प्रकरणालक्षणे'त्युत्तरम् । संबन्धशब्देन प्रकरणमुच्यत इत्याह-स च तावदिति । भावियाजकत्वादिकमारोप्येति । तद्यवहारमित्यर्थः । 'ओदनं भोजको व्रजती'त्यादौ च भविष्यत्त्वेनैव धात्वर्थ- प्रतीतेनिषेधसिद्धिरिति भावः । कर्ता व्रजतीति । करिष्यामीति व्रजतीत्यर्थः ॥ १ 'वविशेषविहितः' । २ 'एतं' । ३ इदं लुप्तं स्यात् । ४ 'ज्ञापनार्थम् । ।

अ.३पा.आ.११सू.] व्याकरणमहाभाष्यम् 8 २९१ किं ज्ञाप्यम् ?॥ एतज्ज्ञापयत्याचार्य:-'क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयो न भवन्तीति । ण्वुलपि तृजादिः ॥ [ तुमुन्ण्वुलौ ] ॥ भाववचनाश्च ॥३॥३॥११॥ किमर्थमिदमुच्यते नाऽविशेषेण भावे प्रत्यया ये विहितास्ते क्रियायामुपपदे क्रियायामन्यत्र च भविष्यन्ति॥[अत उत्तरं पठेति]॥*भावचनानां यथावि- हितानां प्रतिपदविध्यर्थम् ॥*॥भाववचनाना[]यथाविहितानां प्रतिपदविध्य- र्थोऽयमारम्भः । इदानीमेव धुक्तं, 'क्रियायोमुपपदे क्रियार्थायां घासरूपेण तृजादयो न भवन्तीति । भाववचनाश्चापि तृजादयः॥अस्ति प्रयोजनमेतत् । किं तहीति॥ ॥यथाविहिता इति तु[वक्तव्यम्]॥*॥[यथाविहिताइति तु वक्त- व्यम् ॥किं प्रयोजनम् ?॥याभ्यः प्रकृतिभ्यो येन विशेषेण भावे प्रत्यया विहि- तास्ताभ्यः प्रकृतिभ्यस्तेनैव विशेषेणे क्रियायामुपपदे क्रियार्थायां यथा स्युर्व्यति- करो मा भूदिति॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्।इह भावे प्रत्यया भवन्ती- तीर्यता सिद्धम्।सोऽयमेवं सिद्ध सति यद्वचनग्रहणं करोति तस्यैतत्प्रयोजनवा- चका यथा स्युरिति । यदि च याभ्यः प्रकृतिभ्यो येन विशेषेण भावे प्रत्यया विहितास्ताभ्यःप्रकृतिभ्यस्तेन विशेषेण क्रियायामुपपदे क्रियार्थायाम् [अंपि] भवन्ति ततोऽमी वाचकाः कृताः स्युः।अथ हि प्रकृतिमात्रीद्वा स्युः, प्रत्ययमानं वा स्यान्नाऽमी वाचकाः कृताः स्युः ॥ [ भाववचनाश्च ] ॥ अण्कर्मणि च ॥३३॥१२॥ किमर्थमिदमुच्यते नाऽविशेषेण कर्मण्यणित्यण्विहितः स क्रियायामुपपदे प्र.]भावव। प्रतिपदविध्यर्थमिति । ज्ञापकेन निराकृतानां पुनः प्रतिपदं-साक्षा- द्विधानार्थो योग इत्यर्थः । यथा विहिता इति । येन प्रकारेण विहिता यथा विहिता इत्यसमस्तं पदद्वयम् । अथ वा यथा विहितं विधानं येषां ते 'यथाविहिता' इति बहुव्रीहिः । अव्ययीभावे तु 'यथाविहित मिति स्यात् । वचनग्रहणमिति । वचन- ग्रहणेन लोकप्रसिद्धं वाचकत्वमवगम्यत इत्यसामञ्जस्यं न भवति। [भाववचनाच]। उ.] भाववचनाश्च । ज्ञापकेनेति । यद्यपि तुम्लडर्थो भावोऽसत्त्वभूतो, घबा- दिवाच्यस्तु सत्त्वभूत इति 'तुमर्थेसेसेन्' इति सूत्रे भाष्यकैयटयोरुक्तत्वेन तेषां कथं तुमा लुटा वा बाधः,तथाऽप्यवान्तरविशेषाऽविवक्षया भाष्यं बोध्यम् । एकदेश्युक्ति- र्वेदम्भाष्यम् । यथा विहिता इति । सादृश्यद्योतकत्वान्नाऽव्ययीभावः । लोकप्रसि. द्धमिति । यथाविधानं विहितानामेव तथा वाचकत्वमिति भावः ॥ [भाववच]॥ १ 'ये प्रत्ययाः' । २इदं क्वचिन्न । ३ इदं भाष्यमित्यन्ये। ४ 'इह याभ्यः'पा० । ५ 'विशेषणेन' । ६ भवन्तीयता'। ७ 'धातुमात्रात् । ८ मात्राद्वा स्युः ।

२९२ कैयट-विवरणसहितं ® [अण्कर्मणि क्रियार्थायामन्यत्र च भविष्यति?॥*॥अणःपुनर्वचनमपवादविषयेऽनिवृत्त्यर्थम्॥॥ अणः पुनर्वचनं क्रियते॥[किं प्रयोजनम्?]॥ 'अपवादविषयेऽनिवृत्त्यर्थम्'। अप- वादविषयेऽनिवृत्तिर्यथा स्यात्। गोदायो ब्रजति कम्बलदायो व्रजतीति॥किमु- च्यते अपवादविषये अनिवृत्त्यर्थमिति, न पुनरुत्सर्गविषये प्रतिपदविध्यर्थ स्यात् । इदानीमेव युक्तं 'क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयो न भवन्तीति, अण्चापि तृजादिः?॥ एवं तर्जुभयमनेन क्रियते । अपवाद- विषये चाऽनिवृत्तिरुत्सर्गविषये च प्रतिपदैविधिः ॥ कथं पुनरेकेन यत्नेनोभयं लभ्यम्?॥'लभ्य'मित्याह॥कथम्?॥कर्मग्रहणसामर्थ्यात्॥ कथं पुनन्तरेण कर्म- ग्रहणं कर्मण्यण् लभ्यः?॥वचनग्रहणमपि प्रकृतमनुवर्तते॥अस्ति प्रयोजनमेतत्। किंतीति॥[*॥अपर्यायेणेति तु॥]*॥अपर्यायेगेति तुर्वक्तव्यम्।कदा चिद्धि कर्मणि स्यात्कदा चिक्रियायामुपपदे क्रियार्थायामिति॥तत्तर्हि वक्तव्यम्?॥न वक्तव्यम् । चेन संनियोगः करिष्यते-'अण्कर्मणि च'॥ किं चाऽन्यत् ?॥ क्रियायाञ्चोपपदे क्रियार्थायामिति॥ एवमपि प्रत्येकमुपपदसंज्ञा न प्राप्नोति ॥ चेनैव संनियोगः करिष्यते । प्रत्येकं च वाक्यपरिसमाप्तिदृष्टेति प्रत्येकमुपपदसंज्ञा भविष्यति । प्र.] अण्कर्म । कथं पुनरिति । अपूर्वविधानात्प्रतिप्रसवस्य लाघवादुत्सर्गविषय एव ण्वुलं बाधित्वाऽस्यात् ,काण्डलावो व्रजतीति। तथा चाऽपवादविषये न स्यादिति प्रश्नः । वचनग्रहणमपीति । ततश्च वचनग्रहणात्कर्मण्येवोपपदेऽणि सिद्धे पुनः कर्मग्रहणं कर्ममात्रपरिग्रहार्थमित्यपवादविषयेऽप्यसिद्धोभवतीत्यर्थः।कदा चिदिति। वचनं तु भविष्यति कालेऽपवादवाधनाथ स्यादिति भावः । एवमपीति । ततश्च 'काण्डलावो व्रजतीति केवलस्य कर्मण उपपदसंज्ञाया अभावात्समासो न प्राप्नोतीति उ.] अण्कर्मणि च । प्रतिप्रसवस्य लाघवादिति । काण्डलावादौ वाऽसरूपेण ण्वुला बाधितस्याऽप्यणः प्राप्त्या तृजादयो वाऽसरूपेण न भवन्तीति निषेधनिवृत्ति- मात्रेण प्रतिप्रसवत्वं, सिद्धाऽनुवादेन च तन्निषेधनिवृत्तिः । अत एवाऽपूर्वविध्यपे- क्षया लाघवम् । अपवादकादिविषये तु परत्वाण्ण्वुलेव स्यान्नत्वण । न च परत्वा- दण्-कादीनामपि बाधकः, अपूर्वविधित्वापत्तेरिति भावः। ततश्चेति । अण्वचनो वा- चको भवतीत्यर्थे कर्मण्युपपदे एव तस्य वाचकत्वमिति भावः । कर्ममात्रेति । एवञ्च तत्सामर्थ्यात्परत्वेनाऽपवादकादिविषयेऽपि प्रतिप्रसवविधित्वमस्येति भावः । ननु क्रियार्थोपपदे विधानाऽर्थमणित्येवाऽस्तु 'कर्म'ग्रहणं व्यर्थ, केवलकर्मोपपदे सामान्यसूत्रेण 'कर्मण्य'णित्यनेनैव सिद्धरत आह-वचनन्विति । कर्मग्रहणन्त्वि- १ इदं लुप्तं । २ 'अनिवृत्तिर्यथा स्यादिति' । ३' विधान' । ४ 'भाष्यमित्यन्ये' । ५ 'यामुपपपदे'।

। ३१.३पा.१आ.१३सू.] ® व्याकरणमहाभाष्यम् , २९३ लट शेषे च ॥ ३३॥१३॥ शेषवचनं किमर्थम् ?॥ ॥ लटि शेषवचनं क्रियायां प्रतिपदविध्यर्थम् ॥*॥ लुटि शेषवचनं क्रियते॥[किं प्रयोजनं ?] ॥ 'क्रियायां प्रतिपदविध्यर्थम्' ?॥ [क्रियायां] प्रतिपदविधिर्यथा स्यात्॥*॥अविशेषेण विधाने लुटोऽभावः प्रतिषि- द्धत्वात् ॥*॥ अविशेषेण हि विधाने सति लटोऽभावः स्यात् । करिष्यामीति बजतिाहरिष्यामीति बजतीति ॥ किं कारणम्?॥ 'प्रतिषिद्धत्वात् ॥ इदानी- मेव युक्तम्-'क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयो न भवन्तीति। लट्वापि तृजादिः' ॥ अस्ति प्रयोजनमेतत् ॥ किं तीति ॥ साधीयैस्तु खलु शेषग्रहणेन क्रियार्थोपपदालनिर्भज्यते ॥ किं कारणम् ? 'अक्रियार्थोपपैद- त्वात्' । शेष इत्युच्यते । शेषश्च कः ?॥ यदन्यक्रियायाः क्रियायाः ॥ एवं प्र.]भावः।प्रत्येकं चेति। 'कर्मणि' 'क्रियाया'मिति पृथक्सप्तमीनिर्देशात्प्रत्येकमुपपद- संज्ञा भवति, निमित्तसद्भावादित्यर्थः । [अण्कर्मणि च । लट् शेषे च । शेषग्रहणमिति । 'क्रियायां कियार्थाया'मिति निवर्तिष्यत इति भावः । लूटीति । अयं भावः-'ल'डित्येतावत्युच्यमाने करिष्यतीत्यादावेव स्यात् 'करिष्यामीति व्रजनी'त्यादौ ण्वुला बाधितत्वान्न स्यात्। शेषग्रहणात्तु क्रियायां क्रियार्थायामित्यस्य संनिधिरनुमीयते इति तत्रापि लसिध्यति, शेषे च विषये । साधीयस्त्विति । विपर्ययसाधनं प्रत्युत शेषग्रहणमिति भावः । एवं तीति । 'च'शब्दसहिताच्छेषग्रहणाक्रियायामप्युपपदे लट्सिध्यतीति वार्तिककारस्याशय उ.]त्यर्थः भविष्यति काले क्रियार्थोपपदेऽसत्यपि 'कम्बलदाय' इत्यादौ कादिबाधना- र्थमेव स्यादिति भावः । भाष्ये-चेनैवेति । उपपदसंज्ञयोरपि समुच्चय इति भावः । युक्त्यन्तरमाह-प्रत्येकञ्चेति । तयाचष्टे-कर्मणीति ॥ [अण्कर्मणि च] । लट् शेषे च । क्रियायामिति । तन्निवृत्त्येवोभयत्र सिद्धिरिति भावः। ण्वुला बाधितत्वादिति । वाऽसरूपन्यायाऽभावस्य ज्ञापनात् । 'वाऽसरूपन्यायेन ल'- डिति हरदत्तस्तु चिन्त्य एव। शेषग्रहणादिति । तत्सामर्थ्याद्योगविभाग इति भावः। सूत्रपाठस्तु 'च'रहित इति तात्पर्यम् । अन्यथा 'शेषवचनं क्रियार्थक्रियायां प्रति- पदविध्यर्थमिति भाष्याऽसङ्गतिः । चकारसत्त्वे हि तस्याऽयमों, न 'शेष'ग्रहण- स्येति स्पष्टमेव। ननु तत्सामर्थ्यात्कियोपपदे नेत्येव कल्पना स्यादिति मत्वा शङ्कते- साधीय इत्यादि । भाष्ये-निर्भज्यते। विभज्यत इत्यर्थः । अक्रियाऽर्थोपपद- त्वादिति । क्रियाऽर्थोपपदभिन्नोपपदार्थकत्वादित्यर्थः । स्वाशयम्प्रकटयति-एवं. तीति । 'च'घटितः पाठः कर्तव्य इति भावः। वार्तिककारस्येति । तेन वार्तिक- १'ग्रहणं'।२इदं क्वचिन्ना३इदं भाष्यमित्यन्ये। वार्तिकमित्यन्ये ।४'कश्च शेषः। ।

। . कैयट-विवरणसहितं , [ लटः सद्वा तहि ॥*॥ लटि शेषवचनं क्रियायां प्रतिपदविध्यर्थम् ॥॥ लुटि शेषवचनं क्रियते ॥ [किं प्रयोजनं ? ॥ 'क्रियायां प्रतिपदविध्यर्थम्' ] । क्रियायां प्रतिपदविधिर्यथा स्यात् । 'लुटशेषे च'। करिष्यति हरिष्यतीति ॥ क 'च' ? ॥ क्रियायामुपपदे क्रियार्थायामिति ॥ स तर्हि चकारः कर्तव्यः ? ॥ न कर्तव्यः । [कथम् ?॥] । इह लड्भवतीतीयता सिद्धम् । सोऽयमेवं सिद्ध सति यच्छेषग्रहणं करोति तस्यैतत्प्रयोजनं योगाङ्गं यथोपजायते। सति च योगाङ्गे योगविभागः करिष्यते । [ 'लुट्' ] । लभवति क्रियायामुपपदे क्रियार्थायामिति । ततः शेषे' । शेषेच लड्भवतीति । लटः सद्वा ॥३॥३॥१४॥ ॥*॥ सद्विधिनित्यमप्रथमासमानाधिकरणे ॥*॥ [संविधिनित्यमप्रथमा- समानाधिकरणे ] । सद्विधिरप्रथमासमानाधिकरणे नित्यमिति वक्तव्यम् । पक्ष्यन्तं पश्य, पक्ष्यमार्ण पश्य ॥ व त_दानी विभापा ? ॥ प्रथमासमाना- धिकरणे । पक्ष्यन्, पक्ष्यति । पक्ष्यमाणः, पक्ष्यते ॥ [ लटः सद्वा ] ॥ अनद्यतने लुट्॥३॥३॥१५॥ ॥*॥ योगविभागः ॥ ॥ [ योगविभागः ] कर्तव्यः । 'अनद्यतने' । [ अनंद्यतने] लुटः सत्संज्ञौ भवतः। श्वोऽग्नीनाधास्यमानेन । श्वः सोमेन यक्ष्यमाणेन । ततो 'लुट्' । लुभवत्यनद्यतने । श्वःकर्ता । श्वोऽध्येता ॥ केन विहितस्यानद्यतने लुटः सत्संज्ञावुच्येते ? ॥ एतदेव ज्ञापयति 'भवत्यनद्यतने ल'डिति यदयमनद्यतने लटः सत्संज्ञौ शास्ति । एवं च कृत्वा सोऽप्यदोषो प्र.]इत्यर्थः । इदानीं योगविभागाश्रयणेन चकारं प्रत्याख्यातुमाह-स तौति ॥ लटः सदा । सद्विधिरिति । अप्रथमासमानाधिकरणग्रहणमुपलक्षणं सूत्रो- पात्तानामर्थानामिति संबोधनं लक्षणं हेतुश्च कियाया गृह्यते । [लटः सद्वा] । अनद्य । एवं चेति । भविष्यच्छन्दस्याऽनद्यतनेपि वर्तनात्तन्त्रेण, एकशेषेण वा द्वयोर्भविष्यच्छब्दयोर्निर्देशादिति भावः । भविष्यन्त्यर्थ इति । 'भविष्यन्ती'- उ. कृत्कृतोऽयं 'च'शब्दघटितो न्यास इति सूचितम्। चकारं-वार्तिककृदुक्तम् ॥ लुटः स। सूत्रोपात्तानामिति।इदश्च वृत्त्यादिव्यवहारात्प्रयोगबलाच्चाऽवसेयम्॥ अनद्यतने लुट् । अनद्यतनेऽपीति । 'लट् शेष' इति सूत्रेण केवलं भवि- ष्यति, ज्ञापकेन अनद्यतने भविष्यतीत्यर्थः। तत्राऽन्यतरनिर्देशेऽन्यतरस्मिन्न स्यादत आह-तन्त्रणेति । एकशेषेणेति । विभक्त्यन्तैकशेषेणेत्यर्थः । एतच्च ज्ञापक १ 'प्रतिपदविध्यर्थं स्यात्' । २इदं लुप्तं स्यात् ।३ 'यथा विज्ञायेत' । 'विज्ञा- यते' । ४ 'पक्ष्यतीति' । ५ 'इदं भाष्यमित्यन्ये । ६ चः क्वचिन । ।

३अ.३पा.१आ.१६सू.] 8 व्याकरणमहाभाष्यम् ॐ २९५ भवति यदुक्तं-'भविष्यतीत्यनद्यतन उपसङ्ख्यान'मिति ॥॥ परिदेवने श्व- स्तनीभविष्यन्त्यर्थे ॥ ॥ [परिदेवने श्वस्तनीभविष्यन्त्यर्थे]। परिदेवने श्वस्तनी- भविष्यन्त्या अर्थे इति वक्तव्यम् ॥ इयं न कदा गन्ता यैवं पादौ निदधाति । अयं न कदाऽध्येता य एवमनभियुक्त इति ॥*॥ कालप्रकर्षात्तूपमानम् ॥१॥ कालप्रकर्षात्तपमानं भविष्यति । गन्तवेयं गन्ता। नेयं गमिष्यति। अध्येतेवाड- यमध्येता। नाऽयेमध्येष्यते ॥ न वै तिङन्तेनोपमानमस्ति । एवं तीनद्यतन इवानद्यतन इति । [ अनद्यतने लुट् ] ॥ पदरुजविशस्पृशो घम् ॥३॥३।१६ ॥ ॥*॥ स्पृश उपतापे ॥॥ स्पृश उपतापे इति वक्तव्यम् । इह मा भूत् कम्बलस्पर्श इति । [ पदरुज ] ॥ स स्थिरे ॥३॥३॥१७॥ ॥ ॥ व्याधिमत्स्यबलेषु ॥ ॥ व्याधिमत्स्यबलेष्विति वक्तव्यम् । अतीसारो व्याधिः । विसारो मत्स्यः । बले-शालसारः । खदिरसारः। [स स्थिरे ] ॥ प्र.शब्देन पूर्वाचार्यसंज्ञया लुडुच्यते।अनद्यतन इति।प्रयोगदर्शनवशाच्च गौणेऽप्य- नद्यतने प्रत्ययो भवति । [अनद्यतने लुट् ] । पदरुज। स्पृश उपताप इति। उपतापो रोगः। स्पर्शो नाम व्याधिविशेषः। अन्यत्र पचाद्यज्भवति । स्वरे विशेषः । [ पदरुजविशस्पृशो] ॥ मृस्थिरे॥स्थिरः कालान्तरस्य प्रापकोऽर्थ उच्यतेोव्याधीति।अस्थिरार्थं वचनम्। उ.] सद्विषयलट एवेति तिविषयलटोऽनद्यतनेऽसाधुत्वमेवेति केचित् । सामा- न्यत एव ज्ञापकमित्यन्ये । भाष्ये-परिदेवनम्-अनुशोचनम् । श्वस्तनीति लुटः संज्ञा । भविष्यन्त्यर्थे-लडथै भविष्यत्सामान्य इत्यर्थः । यैवमिति। विलम्बि- तम् । अनभियुक्तः-अभ्यासहीनः । अनद्यतनविषयमेतत्प्रयोगद्वयम् ॥ पदरुज । स्पर्शो नामेत्युदाहरणम् । अन्यत्र-व्याध्यतिरिक्ते ॥ [पदरुज । सृ स्थिरे । कालान्तरस्य प्रापक इति । प्राप्तिमानित्यर्थः, कालान्तरस्थायी- ति यावत् । अस्थिराऽर्थमिति । 'विसारो मत्स्य' इत्यत्रैकदेशस्थस्य कालान्तरा- ऽप्राप्त्याऽस्थिरत्वम् । बलं-दृढोंऽशः। सारो बलमित्यपि शरीरे दृढशुक्रांऽश- स्यैव बलपदार्थत्वादुपपन्नम् । न्याय्यस्याऽपि दृढत्वादेव तत्राऽपि सारशब्दः सिद्धः । एवं श्रेष्टेऽपि । खदिरसारादौ कैयटोक्तस्थिरत्वाऽभावश्चिन्त्यः । तस्मात् सूत्रस्यैव विषयपरिगणनमिदं, त्रिष्वेकरूपाऽस्थिरत्वस्य कैयटोक्तस्थिरत्वप्रतिद्वन्द्विनी १ इदं लुप्तं । २ 'तु' । ३ 'कम्बलस्य स्पर्शः' पा० । ४ इदं क्वचिन्न । ५ 'साल' । ६ 'अन्यथा' । ७ 'दृढार्थ' ।

२९६ कैयट-विवरणसहितं [ भावे भावे ॥३॥३॥१८॥ ॥*॥ भावे सर्वलिङ्गो निर्देशः ॥*॥ भावे सर्वलिङ्गो निर्देशः कर्तव्यः । भूतौ भवने भावे इति ॥ किं प्रयोजनम् ? ॥ सर्वलिङ्ग भावे एते प्रत्यया यथा स्युरिति ॥ किं पुनः कारणं न सिध्यति ? ॥ पुंल्लिङ्गनायं निर्देशः क्रियते, एकवचनान्तेन च। तेन पुल्लिङ्ग एव भावे एकवचने चैते प्रत्ययाः स्युः स्त्रीनपुंसकयोर्द्विवचनबहुवचनयोश्च न स्युः॥ ॥ ॥ नाऽत्र निर्देशस्तन्त्रम् ॥ ॥ कथं पुनस्तेनैव च नाम निर्देशः क्रियते, तञ्चाऽतन्त्र स्यात् । तत्कारी च भवांस्त- देषी च!॥ नान्तरीयकत्वादन पुल्लिङ्गन निर्देशः क्रियते एकवचनेन च । अवश्यं कया चिद्विभक्त्या केन चिच्च लिङ्गेन निर्देशः कर्तव्यः । तद्यथा, कश्चिदन्नार्थी शालिकलापं सतुषं सपलालमाहरति, नान्तरीयकत्वात् । स यावदादेयं ताव- प्र.] भावे । सर्वलिङ्ग इति । लिङ्गस्योपलक्षणार्थत्वात्सर्वसङ्ख्य इत्यपि बोद्धव्यम् । पुल्लिङ्गनेति। ततश्च शब्देन योऽर्थः प्रतिपाद्यते यल्लिङ्गसङ्ख्यायुक्तस्तस्यैवाभिधायकेन भाव्यमिति स्त्रियां भाव इति सामानाधिकरण्येन संबन्धस्याऽसंभवात् स्त्रियामकर्तरि कारके क्तिन्प्रत्ययः स्यात् । भावे तु पुंसि । एवं 'नपुंसके भावे क्त' इत्यत्राऽ- कर्तरि च कारके इत्यस्य निवृत्तत्वान्नपुंसके कर्तरि क्तः स्यात् । भावे तु पुंसि । द्वित्ववहुत्वयोश्च पाको पाका इत्यादौ प्रत्यया न स्युरित्यर्थः । नाति । सत्त्व- भूतोऽर्थो विना लिङ्गं सङ्ख्यां च न निर्देष्टुं शक्यत इति तयोः शब्देनोपादानांशब्द- संस्कारमात्रमेव तु तदुपादाने प्रयोजनमित्यर्थः । नान्तरीयकत्वादिति । अन्तर- शब्दो गहादिषु पठ्यते, स च विनार्थे वर्तते। अन्तरे भवम् अन्तरीय। तत्र नस- मासे कृते पृषोदरादित्वाद्भाष्यकारवचनप्रामाण्याद्वा नलोपाऽभावः । ततः स्वार्थ उ.] निरूपयितुमशक्यत्वाचत्यन्ये ॥ [स स्थिरे] । भावे । ततश्च शब्देनेति । 'भाव' इति शब्देनेत्यर्थः । योऽर्थः-सिद्धाऽ- वस्थः । नन्वेवं 'स्त्रियां क्ति'निति सूत्राऽसङ्गतिरत आह-स्त्रियां भाव इति । नन्वेवमपि 'नपुंसके भावे' इत्यसङ्गतं स्यात् , तत्राऽर्थान्तराऽनुवृत्त्यभावादत आह- एवमिति। कर्तरीति । 'कर्तरि कृ'दित्यनेन लब्धे इत्यर्थः। लिङ्गसङ्ख्ययोर्नान्तरीय- कत्वमुपपादयति-सत्त्वेति । प्रातिपदिकमात्रं निर्दिश्यतामिति वदन्तम्प्रत्याह- शब्देति । 'न केवला प्रकृति'रिति निषेधादिति भावः। भाष्य-कयाचिद्वि- भक्त्येति । सङ्ख्ययेत्यर्थः । विनाऽर्थे इति । एवञ्च यद्विना यन्न भवति तन्नाऽन्त- रीयकमित्यर्थः । भाष्यकारवचनप्रामाण्याद्वेति । 'वा' शब्दो हेतौ, ततो हेतोः पृषोदरादित्वमित्यर्थः । नलोपाऽभाव इति । निषेधार्थकोऽननुबन्धको 'न'. १ इदं वार्तिकं । भाष्यमित्यन्ये' । २ 'चिल्लिङ्गेन' । ----ruwaamster ३अ.३पा.१आ.१८सू.] ® व्याकरणमहाभाष्यम् ॐ २९७ : । दादाय तुषपलालान्युत्सृजति । तथा कश्चिन्मांसार्थी मत्स्यान्सशकलान्स- कण्टकानाहरति नान्तरीयकत्वात् । स यावदादेयं तावदादाय शकलकण्टका- न्युत्सृजति । एवमिहापि नान्तरीयकत्वात्पुंल्लिङ्गेन निर्देशः क्रियते एक- वचनान्तेन च । न ह्यत्र निर्देस्तन्त्रम् । कया चिद्विभक्त्या केन चिच्च लिङ्गेन निर्देशः कर्त्तव्यः । अथ वा कृभ्वस्तयः क्रियासामान्यवाचिनः, क्रियाविशेषवाचिनः पचादयः। यच्चाऽत्र पचतेर्भवतिर्भवति न तद्भवतेः पचतिभवति । यच्च भवतेः पचतिर्भवति न तत्पचतेभवतिर्भवति ॥ प्र.कन्प्रत्ययः। तुषपलालानीति। तुषसहितानि पलालानीत्युत्तरपदलोपी समासः । द्वन्द्वे तु 'जातिरप्राणिना'मित्येकवद्भावप्रसङ्गः। एवं शकलकण्टकानीति बोद्धव्यम् । कण्टकशब्दश्चोभयलिङ्गः। एवमिहापीति । प्रयोगमूलत्वाध्याकरणस्मृतेः, प्रयोगे च सर्वलिङ्गसङ्ख्ये भावे प्रत्ययानां दर्शनादिह च लिङ्गसङ्ख्ययोरविवक्षेत्यर्थः। अथ वेति । पाकादिषु क्रियाविशेषेषु भिन्नलिङ्गसङ्ख्यानुगतेष्वपि भावशब्दवाच्यं सामान्य-शाव- लेयादिष्विव गोत्वं-विद्यते, तच्चैकं पुंस्त्वानुगतं चेति तदाश्रित्य प्रत्यया विधास्यन्त इत्यर्थः । यच्चानेति । भावः सामान्यमेव, पचादयो विशेषा एवेत्यर्थः। भूतिर्भवन- मित्यपि पाकादिवत्कादिभेदाद्भावविशेष एव भावसामान्यानुगत इति द्रष्टव्यः । उ.] शब्दो नास्त्येवेति भावः। ननु कण्टकस्य पुंस्त्वात्कण्टकानीत्यनुपपन्नमत आह- कण्टकशब्दश्चेति । अर्द्धर्चादित्वादिति भावः । प्रयोगमूलत्वादिति । अनुवाद्य- गतत्वादविवक्षेति तत्त्वम् । न ह्यत्रेति भाष्यस्य-अत्राऽनुवादे इत्यर्थः ॥ किञ्चिद- धिकं वक्तुं विवक्षायामपि न दोष इत्याह-अथ वेति । भाष्ये क्रस्त्योदृष्टान्तार्थ ग्रहणं । घसमभिव्याहारे साध्यत्वेन भासमानं भुवोऽर्थ इति तस्य सामान्य- वाचित्वम् । भिन्नलिङ्गति । पाकः पक्तिः पचनमित्येवमिति भावः । भिन्नलिङ्ग- सङ्ख्याऽनुगतेषु-तद्विशिष्टेषु । सामान्य-सत्त्वभावरूपसिद्धत्वाऽऽख्यम् । तञ्चकं पुंस्त्वाऽनुगतञ्चेति। अतएव पक्तिर्भाव' इत्याद्युपपद्यते। धर्मपरस्याऽपि धर्मधर्मिणो- रभेदात्सामानाऽधिकरण्यम् । तदाश्रित्येति । एवञ्च लिङ्गसङ्ख्ययोर्विवक्षायामपि न दोषः । न चैवं 'पक्ति'रित्यादौ पुंस्त्वापत्तिः, तादृशविशेषगतसामान्यस्य भावशब्द- वाच्यस्य सिद्धत्वरूपस्य पुंस्त्वैकत्वयोः सत्त्वेऽपि तदाश्रयविशेषस्य नानालिङ्गत्वा- स्त्रीत्वाद्युपपत्तिरिति भावः। सामान्यमिति । तद्गतसिंद्धत्वाख्यो धर्म इत्यर्थः । विशेपा इति। तदाश्रया व्यक्तय इत्यर्थः । ताश्च भावविहितकृत्प्रत्ययान्तवाच्या अनेकलिङ्गा इति भावः । कादिभेदादिति । स्त्र्यादिभेदादित्यपि बोध्यम् । क- चित्तु कैयटे तथैव पाठः । सामान्याऽनुगत इति । सिद्धत्वरूपसामान्याऽनुगत १'नान्तरीयकत्वात्' इति वार्तिकमिति गौडाः ।२'एकवचने' ।३ यच्चाऽत्र'।

२९८ 8 कैयट-विवरणसहितं. [भावे ... - किं च पचतेर्भवतिर्भवति ?॥ सामान्यम् ॥ किं च भवतेः पचतिर्भवति ?॥ विशेषः।तद्यथा, उपाध्यायस्य शिष्यो मातुलस्य भागिनेयं गत्वाह, 'उपाध्याय 'भवानभिवादयता' मिति । स गत्वा मातुलमभिवादयते । तथा मातुलस्य भागिनेय उपाध्यायस्य शिष्यं गत्वाह-'मातुलं भवानभिवादयतामिति । स गत्वोपाध्यायमभिवादयते । एवमिहापि पचतेर्भवतौ यत्तनिर्दिश्यते॥ अकर्तरि च कारके संज्ञायाम् ॥ ३॥३॥१९॥ ॥*॥ कारकग्रहणं किमर्थम् ! ॥*॥ कारकग्रहणमनादेशे स्वार्थविज्ञानात् प्र.]तद्यथेतिायथैकस्मिन्वस्तुनि मातुलत्वमुपाध्यायत्वं च भिन्नसंबन्ध्याश्रयं परस्परम- बाधेन व्यवस्थितं,तथा पाकादिषु विशेषरूपताभावशब्दस्य वाच्यञ्च सामान्यं। तदुक्तं हरिणा-'आचार्यों मातुलश्चेति यथैको व्यपदिश्यते । संबन्धिभेदादर्थात्मा स विधिः पक्तिभावयोः ॥ इति ॥ भवती यदिति । भवतौ धातौ वाच्यत्वेनावस्थितं यत्सामान्यं पचादिधातुवाच्यविशेषसमवेतं तत्प्रत्ययार्थत्वेन निर्दिश्यत इत्य पाक इत्यादौ प्रकृतिभागः साध्यरूपमर्थमाह । प्रत्ययभागस्तु सत्त्वरूपताम् । तदुक्तं हरिणा-'आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता। प्रकल्पिता यथा शास्त्रे स घजादिष्वपि क्रमः ॥ साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । सत्व- भावस्तु यस्तस्याः स धजादिनिबन्धनः ॥' इति ॥ [भावे । अकर्तरि । कारकग्रहणं किमर्थमिति । अकर्तरीति पर्युदासपक्षे कर्तृसदृशस्य उ.]इत्यर्थः। स विधिरिति । प्रकार इत्यर्थः। यथैकस्य॑वाचार्यत्वं मातुलत्वं संबन्धि- भेदात्, तथैकस्मिन्नेव पाकादिषु साध्यत्वविशिष्टतत्तक्रियात्वरूपविशेषरूपता, भावशब्दवाच्यं सामान्यञ्चेत्यर्थः । तच तत्र यथा निरूपकभेदाद्भिन्नम्, एवम्प्रकृतेऽपि वाचकभेदात् कारकनिरूपितं साध्यत्वं, क्रियान्तरनिरूपितञ्च सिद्धत्वमिति बोध्यम् । वाच्यत्वेनेति । अनेकार्थत्वाद्धातूनां सिद्धत्वमपि घअन्तभूधातोरर्थ इति भावः । यत्सामान्यमिति । साध्यत्वविशिष्टतत्तत्कियात्वरूपविशेषसत्त्वेऽपि यत्सिद्धत्वाख्यं सामान्यं पचाद्यर्थगतं घअन्तभवतिवाच्यं तत्प्रत्ययार्थत्वेन निर्दिश्यत इत्यर्थः । न च तस्यैकत्वात्पुंस्त्वाच्च 'चिकीर्षे त्यादौ टाबादि न स्यादिति वाच्यं,तस्य भावस्य सिद्धत्वरूपस्यैकत्वपुंस्त्वविशिष्टस्य विशेषणत्वेन लिङ्गाद्यनियामकत्वात् । विशेष- णत्वेन भासमानेनाऽपि तेन स्वाश्रयस्य लिङ्गाद्ययोग्यताऽपनीयत इति न दोषः । सत्वरूपतामितिाएवञ्च सिद्धत्वसाध्यत्वरूपोभयधर्मविशिष्टो धात्वर्थः पाकादि- पदार्थ इति भावः। आख्यातशब्दे-पचतीत्यादौ। भागाभ्यां-प्रकृतिप्रत्ययाभ्याम् । साध्यसाधने-क्रियाकारके बोध्येते इत्यर्थः । [ भावे ॥ अकर्तरि च। विधिप्रतिषेधयोरिति । एकविषयत्वे विकल्पाऽऽपत्तेस्तदितर- । ."

३आ.३पा.१आ.१९सू.] 8 व्याकरणमहाभाष्यम् ॥ ॥ कारकग्रहणं क्रियते॥ [किं कारणम् ] ?॥ 'अनादेशे स्वार्थविज्ञानात्'। निर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीति । तद्यथा, 'गुप्तिकिझ्यः सन्' 'यावा- दिभ्यः कनिति । एवैमिमेऽपि प्रत्ययाः स्वार्थे स्युः । स्वार्थे मा भूवन्कारके यथा स्युरित्येवमर्थमिदमुच्यते ॥ नैतदस्ति प्रयोजनम् । विहितः प्रत्ययः स्वार्थे 'भावे घ'जिति । तेनाऽतिप्रसक्तमिति कृत्वा नियमोऽयं विज्ञायेत 'अकर्तरि संज्ञायामेवेति ॥ अस्ति चेदानी कश्चित्संज्ञीभूतो भावो यदर्थो विधिः स्यात् ?॥ 'अस्ती'त्याह । आवाहः विवाह इति॥कैमर्थक्यानियमो भवति ?॥ विधेयं नास्तीति कृत्वा ॥ इह चास्ति विधेयम् ॥ किम् ? ॥ अकर्तरि च कारके संज्ञायां वन्विधेयः । तत्राऽपूर्वो विधिरस्तु नियमोऽस्त्वित्यपूर्व एव विधिर्भविष्यति न नियमः ॥ तदेव तर्हि प्रयोजनं 'स्वार्थे मा भूव निति ॥ ननु चोक्तं 'विहितः प्रत्ययः स्वार्थे भावे घजिती'ति॥ अन्यः स भावो बाह्यः प्रकृत्यर्थात् । अनेनेदानीमाभ्यन्तरे भावे स्यात् ॥ कः पुनरेतयोर्भावयो- विशेषः ?॥ उक्तो भावभेदो भाष्ये ॥ एतदपि नास्ति प्रयोजनम् ॥॥नजिव- प्र.]कारकस्य ग्रहणं विज्ञास्यते । प्रसज्यप्रतिषेधेऽपि वाक्यभेदेन संज्ञायां घञ्भवति कर्तरि न भवतीति विधिप्रतिषेधयोविधानाद्भावे च पूर्वसूत्रेण विहितत्वात्संज्ञायां घञ्धात्वर्थसंबन्धिनि कारके एव सामर्थ्याद्विज्ञास्यत इति प्रश्नः । स्वार्थ इति । साध्यमानरूपः स्वार्थ इत्यर्थः। विहित इति ।-भावभेदमबुध्यमान आह। आवाह इति । कन्याया आनयनमुच्यते। विवाहस्तु नयनम् । तत्राऽपूर्व इति । अन्यथा भावे संज्ञायामित्येकमेव योगं कुर्यात् । योगविभागात्तु विध्यर्थत्वमस्य योगैस्येत्यर्थः । अन्य इति । सत्त्वभावमापन्न इत्यर्थः । अनेनेति । साध्यमानरूपो धातुवाच्य आभ्यन्तरः । उक्त इति । 'सार्वधातुके य'गित्यत्र भावभेदः प्रतिपादितः । उत्त- उ.कारकविषयता विधेरिति भावः।ननु भावविषयत्वमेव स्यादत आह-भावे चेति। ननु स्वार्थेऽस्य विधानमपि भावे'इत्येव सिद्धमत आह-साध्यमानेति। अकर्तरी ति तु सामान्यप्राप्तकर्थाऽसंबन्धार्थं स्यादिति भावः । भाष्ये-विहित इति । एवञ्च सामर्थ्यात्कारक एव भविष्यतीति भावः । इतर आह-तेनेति । 'अकर्तरि संज्ञाया- मेवेति सामान्यतः 'कर्तरि कृ'दिति सूत्रप्राप्तकर्तरि न, किन्तु भावे, तत्र च संज्ञायामेवेत्यर्थः । संज्ञाभूत इति । संज्ञात्वम्प्राप्त इत्यर्थः । भावः-भावप्रत्ययान्त इत्यर्थः । यदर्थो विधिरिति। नियमविधिरित्यर्थः। योगविभागात्त्विति । 'अक- तरि'ग्रहणाचेत्यपि बोध्यम् , नियमपक्षे तस्याऽपि वैयर्थ्यादित्याहुः। उक्तो भाव- १. इदं लुप्तं स्यात् ।२ 'अनादेशे अनादिष्टार्थाः'३'मिहापि' । ४इदं क्वचिन्न । ५ 'नियमो विज्ञायते'। ६ 'सज्ञाभूतो' । ७ 'मभ्यन्तरे' ।८ रनयोः ।

कैयट-विवरणसहितं [ अकत्तरि च युक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः ॥॥ नन्युक्तमिवयुक्तं चान्यस्मिंस्त- सदृशे कार्य विज्ञायते । तथा ह्यर्थों गम्यते । तद्यथा 'अब्राह्मणमानये'त्युक्त ब्राह्मणसदृशं पुरुषमानयति नासौ लोष्टमानीय कृती भवति । एवमिहापि- 'अकर्तरी ति कर्तृप्रतिषेधादन्यस्मिन्नकर्तरि कर्तृसदृशे कार्य विज्ञास्यते ॥ किं चान्यदकर्तृ कर्तृसदृशम्?॥ कारकम् ॥४॥[उत्तरार्थ तु कारकग्रहणम् ]॥ ॥उत्त- रार्थं तर्हि कारकग्रहणं कर्तव्यम् । 'परिमाणाख्यायां सर्वेभ्यः कारके यथा स्या- दिह मा भूत्,-'एका तिलोच्छितिः' 'द्वे संती' इति । 'घननुक्रमणमजब्वि. षये, अवचने हि स्त्रीप्रत्ययानामप्यपवादविज्ञान मिति वक्ष्यति तन वक्तव्यं भवति ॥ एतदपि नास्ति प्रयोजनम् । अत्राप्यकर्तरीत्येवानुवर्तिष्यते ॥*॥ संज्ञाग्रहणानर्थक्यं च सर्वत्र घो दर्शनात् ॥ ॥ संज्ञाग्रहणं चानर्थकम् ॥ किं कारणम् ? ॥ 'सर्वत्र घो दर्शनात्' । असंज्ञायामपि हि घन्दृश्यते । को भवता दायो दत्तः। को भवता लाभो लब्ध इति ॥ यदि संज्ञाग्रहणं न क्रियतेऽतिप्रसङ्गो भवति । 'कृतः कट' इत्यत्र 'कारः कट' इति प्रामोति ॥ ॥॥अतिप्रसङ्ग इति चेदभिधानलक्षणत्वात्प्रत्ययस्य सिद्धम् ॥ ॥ अतिप्रसङ्ग इति चेतन ॥ किं कारणम् ?॥'अभिधानलक्षणत्वात्प्रत्ययस्य सिद्धम्' । अभिधान- लक्षणाः कृत्तद्धितसमासा अनभिधानान्न भविष्यन्ति । [अकर्तरि च] ॥ परिमाणाख्यायां सर्वेभ्यः ॥ ३॥३॥२०॥ सर्वग्रहणं किमर्थम् ?॥ सर्वेभ्यो धातुभ्यो घन्यथा स्यादजपोरपि विषये। एकस्तण्डुलनिश्वार्यः । द्वौ शूर्पनिष्पावौ ॥१॥ सर्वग्रहणमनर्थक परिमाणाख्या- प्र.] रार्थमिति । तेन परिमाणाख्यायां सर्वेभ्य'इत्यनेन घञ्कारके भवति न तु भाव इति एका तिलोच्छिति संती इत्यत्र भावे घोऽप्रसङ्गादेतदर्थं 'घअनुक्रमण'मि. त्यादि न वक्तव्यं भवति । [ अकर्तरि च कारके ] ॥ परिमाणा । अजपोरपीति । अन्यथा 'पुरस्तादपवादा' इति न्यायेनाऽचमेव उ.]भेदो भाप्ये इति,शङ्किनतिरिक्तस्य च्छात्रस्य वाक्यमित्येकोभगवत एवेत्यन्ये। भाष्ये-नभिवयुक्तमिति । प्रसज्यप्रतिषेधात्पर्युदासो न्याय्य इति भावः । घअनु- क्रमणमित्यादीति । 'परिमाणाख्यायामित्यादि घविधानमजपोरेव बाधकं न तु स्त्रीप्रत्ययाना'मित्यर्थकं हि तद्वार्तिकमिति भावः । ननु 'परिमाणाख्याया'मित्यत्र 'कारके' इत्यनुवृत्तावपि कर्मणि क्तिनं बाधित्वा घमा भूदित्यर्थं तदावश्यकमिति चेन, परिमाणाख्यायां भाव एव क्तिनं मन्यतेऽभिधानस्वाभाव्यादिति न दोषः ॥ परिमाणा । परिमाणं-परिच्छित्तिः, तस्या आख्यानं-कथनं तत्रेत्यर्थः । १'इदं भाष्यमित्यन्ये'। २इदं लुप्तं । ३ श्रुती'। ४इदं क्वचिन्ना५'दनभि'।६'चायः'।

३अ.३पा.१आ.२०सू.] ७ व्याकरणमहाभाष्यम् . ३०१ यामिति सिद्धत्वात् ॥*॥ सर्वग्रहणमनर्थकम् ॥ किं कारणम् ? ॥ 'परिमाणा. ख्यायामिति सिद्धत्वात्। 'परिमाणाख्याया'मित्येव घन्सिद्धोऽजपोरपि विषये, नार्थः सर्वग्रहणेन ॥ अस्त्यन्यदेतस्य वचने प्रयोजनम् ॥ किम् ? ॥ एकः पाकः द्वौ पाको त्रयः पाका इति ॥ पूर्वेणाप्येतसिद्धम्॥ न सिध्यति। 'संज्ञा- या मिति पूर्वो योगो, नचैषा संज्ञा ॥ प्रत्याख्यायते संज्ञाग्रहणम् ॥ अथापि क्रियते एवमपि न दोषः । अजपावपि संज्ञायामेव । यथाजातीयक उत्सर्ग- स्तथाजातीयकेनाऽपवादेनापि भवितव्यम् ॥*॥ उत्तरार्थं तर्हि ॥*॥ [ उत्त- रार्थ सर्हि वक्तव्यम्]॥'इडश्च'।सर्वेभ्योपि यथा स्यात्।ननु चायमिङ् एक एव वण्ठरण्डाकल्पः । सर्वेषु साधनेषु यथा स्यात् । उपेत्याऽधीयते तस्मादुपा- प्र.]घञ्चाधेत नाऽपमिति भावः। द्वौ शूर्पनिप्पावाविति। यद्यप्यत्र निरभ्योः पूल्वो'- रिति घसिध्यति तथापि सर्वापवादार्थ सर्वग्रहणोपादानादनेनैव भवितुमर्हतीत्यु- पन्यासः । सर्वग्रहणमिति । बाध्यमात्रापेक्षायां समुदायापेक्षयां वा पुरस्तादपवाद- न्यायो नास्तीति भावः । एकः पाक इति । कर्मण्यपि घञ् भवतीति भावः । सर्वेविति । सर्वेभ्य इति तादर्थे चतुर्थी, तेनायमर्थो गृह्यत इति भावः । तेना- उ.] परिच्छित्तिश्च प्रत्ययार्थस्येति भावः । सा चैकादिशब्दरुदाहरणेषु स्पष्टव । पुनर्विधानादेवाऽजब्विषये भवतीत्यत आह-अन्यथेति । उपादानादनेनैवेति । 'परिमाणाख्याया'मित्यनेनैवेत्यर्थः। 'निरभ्योः पूल्चोरिति च न कार्यमिति भावः । निश्चायनिष्पाचौ कर्मणि घजन्ती। 'तण्डुल'शब्देन 'शूर्प'शब्देन च तत्पुरुषः । निश्चीयतेः : स भावसाधनो वा । निश्चायो-राशिः। अत्र राशेरेकत्वेन परिच्छेदः । निप्पूयते तुषाद्यपनयनेन स निष्पाबस्तण्डुलराशिः। अत्राऽपि संख्यया परिच्छेदः । निश्चाये ‘ग्रहवृद्रि'त्याप्राप्तिः। बाध्यमात्राऽपेक्षायामिति । सामान्यचिन्तायामिदम् । वाध्यविशेषचिन्तायामपि प्रकारविशेषमाह-समुदायांऽपेक्षायां वेति । ननु 'भावे' इत्यनेनैव सिद्धमत आह-कर्मण्यपीति । परिमाणज्ञापनाथं भाष्ये एकादिपदोपादानम् । भाष्ये-अथाऽपीति । एवञ्च पाकादिशब्दानामसंज्ञात्वादक- तरि चेत्यनेन न सिद्धमित्यर्थः । एवञ्चाऽसंज्ञार्थं 'परिमाणाऽऽख्याया'मित्यस्य चारितार्थ्यादजपोर्विषये घअर्थ 'सर्व' 'ग्रहणमावश्यकमिति भावः। समाधत्ते-अजपा- वपीति । एवञ्च 'तण्डुलनिश्चाय' इत्यादावप्यसंज्ञात्वादपोऽप्राप्तौ 'परिमाणाख्या- या'मित्येव घसिद्ध इति नार्थः सर्वग्रहणेनेत्यर्थः । अजपोः संज्ञाविषयत्वे युक्ति- माह-यथाजातीयक इति । अन्यथाऽसंज्ञायां तयोश्चारितार्थ्येन घअपवादत्वमेव न स्यादिति भावः । वण्ठो-मृतभार्यः। ननु धातुविशेषणात्सर्वेभ्य' इति पञ्चम्यन्तात् सर्वेष्विति कथं लभ्यतेऽत आह-सर्वेभ्य इति । तादर्थे इति।नन्वपादानेऽकर्तरि- ३०२ कैयट-विवरणसहित [परिमाणाख्या ध्यायः। अंधीयते तस्मिन्नध्यायः। अध्यायन्यायोग्रावसंहारा[धारावाया श्वे'त्ये- तनिपातनं न कर्तव्यं भवति ॥ एतदपि नास्ति प्रयोजनम् । क्रियते न्यास एव ॥ उत्तरार्थमेव तर्हि वक्तव्यम् । 'कर्मव्यतिहारे स्त्रिया मिति सर्वेभ्यो यथा स्यात् ॥ एतदपि नास्ति प्रयोजनम् । वक्ष्यत्येतत्-“कर्मव्यतिहारे स्त्री- ग्रहणं व्यतिपाकार्थम् । पृथग्हणं बाधकबाधनार्थ व्यावचोरीव्यावचर्च्यर्थम् । तत्र व्यतीक्षादिषु दोषः,सिद्धं तु प्रकृते स्त्रीग्रहणे णग्रहणं णिज्ग्रहणं चे"ति॥ उत्तरार्थमेव तर्हि । 'अभिविधौ भावइनुणासर्वेभ्यो यथा स्यात् । सांराविणम्॥ एतदपि नास्ति प्रयोजनम् । वक्ष्यत्येतत् "अभिविधौ भावग्रहणं नपुंसके तादिनिवृत्त्यर्थम् । पृथग्ग्रहणं बाधकबाधनाथ, न तु ल्युट' इति ॥ इदं तर्हि प्रयोजनं,प्रकृत्याश्रयो योऽपवादस्तस्य बाधनं यथा स्यादर्थाश्रयो योऽपवादस्तस्य बाधनं मा भूदिति । एका तिलोच्छितिः। द्वे स॒ती इति ॥ 'घजनुक्रमणमज- विषये, अवचने हि स्त्रीप्रत्ययानामप्यपवादविज्ञान'मिति चोदयिष्यति तन्न वक्तव्यं भवति । ॥॥ घजनुक्रमणमजब्विषये ॥॥ घजनुक्रमणमजविषय. इति वक्तव्यम् । ॥*॥ अवचने हि स्त्रीप्रत्ययानामप्यपवादविज्ञानम् ॥ ॥ अनु. च्यमाने घेतस्मिन्स्त्रीप्रत्ययानामप्यपवादोऽयं विज्ञायेत । एका तिलोच्छितिः, द्वे सैंती इति ॥*॥ दारजारौ कर्तरि णिलुक्क ॥*॥ दारजारौ कर्तरि वक्तव्यौ प्र.]धिकरणे घं बाधित्वा घञ् भवति । प्रकृत्याश्रय इति । 'सर्वेभ्य' इति पञ्चमी- निर्देशादयमों लभ्यत इति भावः। अर्थाश्रय इति। 'स्त्रिया मित्यर्थ निर्दिश्य क्तिनो विधानादर्थाश्रयत्वम् । एकेति । ननु कारकानुवृत्त्याऽत्र भावे घञ् न भविष्यति । नैतदस्ति । उभयाधिकारात् । दारजाराविति । णिलोपे सति तस्य स्थानिवत्त्वा- द्धाश्रया वृद्धिर्न स्यादिति णिलुग्विधीयते। तस्य हि अपरनिमित्तकत्वात् , क्विलुगु- उ.] च कारके इत्युक्तेः सिद्धमत आह-तेनाऽधिकरणे[ई]ति।अपादानन्तु दृष्टान्ता- र्थमिति भावः। तदुदाहरणम्-अधीयते तस्मिन्नित्यध्याय इति । स्वाध्यायकाल इत्य- र्थः । भाष्ये-णच्चियामिति सर्वेभ्य इति । 'व्यावचोरी'त्यादौ युजादिविषये- ऽपीत्यर्थः । भाष्ये-कर्मव्यतिहारे इत्यादि । 'तत्र णज्विधायके सूत्रे 'स्त्री'ग्रहणं 'व्यतिपाको वर्त्तते' इत्यत्र णजभावाऽर्थम् , 'स्त्रियां क्तिन्नि'त्यतः पृथग्ग्रहणन्तु 'व्यावचोरी'त्यादौ ‘ण्यासे'ति युजादीनां बाधकानों बाधनार्थम् , न च व्यतीक्षा- दिषु 'गुरोश्च हल' इत्यस्याऽपि बाधप्रसङ्गः, 'स्त्रियां क्तिन्नित्यधिकारे एव 'कर्मव्य- तिहारे णच्', ततो 'णिच'इति न्यासेन सिद्धेरिति तद्वार्तिकार्थः । इनुण्सर्वेभ्य इति । 'सांराविण'मित्यादौ भावक्तादिविषयेऽपीत्यर्थः । अभिविधाविति । 'शब्द- १ 'ऽस्मिन्न अस्मिन्नधीयते इत्य' । २ क्वचिन्न ।३ 'पृथक्तु'।४ 'सुती' 'श्रुती' । । .

३अ.३पा.१आ.२१सू.] ® व्याकरणमहाभाष्यम् 8 णिलुक वक्तव्यः । दारयन्तीति दाराः । जारयन्तीति जाराः ॥*॥ करणे वा ॥*॥ करणे वा वक्तव्यौ । दीर्यन्ते तैः। जीर्यन्ति तै राः। [ परिमाणा] इङश्च ॥ ३।३।२१ ।। ॥*॥ इङश्चेत्यपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च वा ङीष् ॥ ॥ इङश्चे- त्यत्रापादाने स्त्रियामुपसङ्ख्यानं कर्तव्यं, तदन्ताच वा ङीष्वक्तव्यः । उपेत्याs. धीयते तस्या उपाध्यायी । उपाध्याया। ॥ ॥ शृ वायुवर्णनिवृत्तेषु ॥ ॥ 'शू' इत्येतस्माद्वायुवर्णनिवृत्तेषु घवक्तव्यः। शारो वायुः । शारो वर्णः । 'गौरिवाऽकृतनीशारः प्रायेण शिशिरे कृशः' । [ इङश्च] ॥ समि मुष्टौ ॥ ३३॥३६॥ ॥*॥ समि मुष्टावित्यनर्थकं वचनं परिमाणाख्यायामिति सिद्धत्वात् ॥॥ प्र.]पधात्वेति प्रतिषेधाद्वा स्थानिवत्त्वाऽभावाज्जारशब्दः सिध्यति । करणे वेति । अण्यन्तयोरेव दृणातिजीर्यत्योः करणे घे प्राप्ते घञवोच्यत इत्यर्थः। [अकर्तरि च]॥ इङश्च । प्रकृत्याश्रयस्यैवाऽचो घना बाधकेन भाव्यम् , न त्वर्थाश्रयस्यापि क्तिन इति मत्वाह-इङश्चेति । शृ वारिवति । 'ऋदोर'बिति प्राप्ते वचनम् । शार इति कर्मणि घञ् । अकृतनीशार इति । अकृताच्छादन इत्यर्थः । [ इङश्च ]॥ समि मुष्टौ । परिमाणवाचिमुष्टिशब्दाश्रयेण पूर्वः पक्षः । अङ्गुलिसंनिवेश- उ.]शक्तिस्वभावाद्भावे एवेनुण्सिद्धौ ‘भाव'ग्रहणं 'वाऽसरूप'न्यायन पक्षप्राप्तक्तादि- निवृत्त्यर्थम् । 'नपुंसके भावं' इत्यनन्तरमेव वक्तव्ये पृथग्ग्रहणन्तु क्तस्य बाधकानां खलानामपि वाधनार्थम्पूर्वविप्रतिषेधेनेति भावः । क्त वढ्युटो बाधस्तु नेष्यत इत्यत आह-न तु ल्युट इती'त्येतद्वार्तिकार्थः । उभयाऽधिकारादिति । परिमाणाख्यायां भावेऽपीष्टेरिति भानः । उदाहरणयोर्भावे तिन् , पूर्वसूत्रस्थभाष्यस्वरसात् । घनाश्रयेति । ण्याश्रयायान्तु'जनीजृषकस्वि'ति मित्त्वेन ‘जार'शब्दे ह्रस्वापत्ति- रिति भावः । ननु जृणातिरपि क्रयादौ पट्यते, अत एव तव्यावृत्तये 'जनीषिति गणसूत्रे षकारोच्चारणम् । एवञ्च तस्याऽमित्त्वेन तस्माद्धलि णिलोपेनाऽपि सिद्धं जार इतीति चेन्न, मितो 'जर' इति रूपव्यावृत्त्यर्थत्वात् । दारयतेर्यद्यपि पचाद्यचा सिद्धं तथापि 'अच्कावशक्ता विति स्वरव्यावृत्तय इदम् । करणे घे इति । 'पुंसि संज्ञायां घ' इत्यनेन । इदमुपलक्षणं ल्युटोऽपि ॥ [परिमाणा] । इडश्व। ननु सूत्रेणैव सिद्धमत आह-प्रकृत्येति।सजातीयत्वादित्यर्थः।तथा च स्त्रियां क्तिनो बाधार्थमिति भावः।कर्मणीतिहरदत्तस्तु 'करणे इत्याह,निवियतेऽनेने- इति निवृतम्-आच्छादनम् । बाहुलकात्करणे क्तः। तदाह-अकृताच्छादन इति ॥ १ 'जरयन्तीति' । २ 'तेन दाराः' 'तेन जाराः' । ३ 'अस्या' । ४'बाधनार्थ । .

.. ३०४ कैयट-विवरणसहितं [ समिमुष्टी समि मुंष्टाविति वचनमनर्थकम् ॥ किं कारणम् ? ॥ 'परिमाणाख्यायामिति सिद्धत्वात्' । 'परिमाणाख्याया'मित्येवान घन्सिद्धः ॥॥ अपरिमाणार्थ ॥*॥ अपरिमाणार्थोऽयमारम्भः । मल्लस्य सङ्ग्राहः । मुष्टिकस्य सङ्ग्राह इति । ॥*॥ उद्घाभनिग्राभौ च च्छन्दसि जुगुद्यमननिपातनयोः ॥ ॥ उदाभो निग्राभ इतीमौ शब्दो छन्दसि वक्तव्यौ,जुगुद्यमननिपातन[योरे] योः।उदाभं च निग्राभं च ब्रह्म देवा अवीवृधन् ॥ [ समि मुष्टौ ] ॥ कर्मव्यतिहारे णच्त्रियाम् ॥ ४॥३॥४३ ॥ स्त्रीग्रहणं किमर्थम् ? ॥*॥ कर्मव्यतिहारे स्त्रीग्रहणं व्यतिपाकार्थम् ॥* ॥ कर्मव्यतिहारे स्त्रीग्रहणं क्रियते ॥ [किं प्रयोजनम् ?n] 'व्यतिपाकार्थम्'। इह मा भूत् ,-व्यतिपाको वर्तते ॥ अथ किमर्थं पृथग्ग्रहणं ? ॥॥ पृथग्ग्रहणं वाधकबाधनार्थम् ॥ ॥ पृथ- ग्ग्रहणं क्रियते॥[किं प्रयोजनम् ?]॥ 'बाधकबाधनार्थ'। ये तस्य बाधकास्तद्वा. धनार्थम् ॥ किं प्रयोजनम् ? ॥ ॥ व्यावचोरीव्यावचय॑म् ॥*॥ [व्यावैचोरी- व्यावचर्च्यर्थम् ] । व्यावचोरी वर्तते । व्यावचर्ची वर्तते ॥*॥ तत्र व्यतीक्षा- दिपु दोषः ॥ ॥ तत्र व्यतीक्षादिषु दोषो भवति । व्यतीक्षा वर्तते । व्यतीहा वर्तते । ॥॥ सिद्धं तु प्रकृते स्त्रीग्रहण णज्ग्रहणं णिज्ग्रहणं च॥॥सिद्धमेतत्॥ प्र.वाच्याश्रणेन तु परिहारः । [ समि मुष्टौ ] ॥ कर्म । पृथग्ग्रहणमिति । प्रकरणोत्कर्षात् तिनो वाधकानामप्यनेन बाधन- मिति भावः । व्यतीक्षादिप्विति । 'अप्रत्ययात्' 'गुरोश्च हल' इत्यकारस्यापि बाधप्रसङ्गादित्यर्थः। सिद्धं त्विति । यद्येवं व्यावक्रुष्टिरिति क्तिन्न प्राप्नोति । उ.] समि मुष्टौ। अङ्गुलाति । दृढमुष्टिताऽनेनाऽन्वाख्यायते । मुष्टिकस्येति भाष्ये । 'मुष्टौ कुशल' इत्यर्थे आकर्षादित्वात्ष्टल् । निपातनम्-अधः पातनम् ॥ कर्मव्य । भाष्ये-व्यतिपाकार्थमिति । पुंलिङ्ग भावे मा भूदित्यर्थमित्यर्थः । अकर्तृकारके तु नाऽनभिधानादितिभावः।प्रकरणोत्कर्षादिति। स्त्रियां क्तिन्नि'त्येतद. पेक्षयेति भावः। बाधकानामिति। 'व्यावचोरी'त्यादौ ‘ण्यासे'ति युजादीनामित्यर्थः । अत्रेदं बोध्यम्-क्तिनोऽयमपवादः,अत एव पक्षे वासरूपविधिना सोऽपि । अन्येषां तदपवादानान्तु पृथक पाठेन पूर्वविप्रतिषेधकल्पनया बाधकः । अत एव व्यतीक्षाया असिद्धिः शङ्किता भाष्ये, विप्रतिषेधविषये वाऽसरूपाऽप्रवृत्तेः । णिज्ग्रहणञ्चेति । इदं 'व्यावचोरी'त्यादौ बाधकबाधनार्थम् । व्यावक्रुष्टिरिति। स्मष्टश्चाऽयम्प्रयोगो वाऽसरूपसूत्रे । 'व्यात्युक्षीति च माघकाव्ये । क्तिति । स्त्र्यधिकारे वाऽसरूप- १“वित्येतद्वच'। २'मित्येव सिद्ध"मिति सिद्ध।३ 'योरर्थयोः।४ कचिन्ना५ 'पृथक्तु। ।

३अ.३पा.१आ.४४सू.] * व्याकरणमहाभाष्यम् , कथम् ?॥ प्रकृत एव स्त्रीग्रहणेऽयं योगः कर्तव्यः। 'स्त्रियां क्तिन्। ततः 'कर्म- व्यतिहारे णच्' । ततो 'णिचः ॥ [ कर्मव्यतिहारे णच् ] ॥ अभिविधौ भाव इनुण ॥३॥३४४ ॥ भावग्रहणं किमर्थम् ? ॥*॥ अभिविधौ भावग्रहणं नपुंसके तादिनिवृत्त्य- र्थम् ॥ ॥ अभिविधौ भावग्रहणं क्रियते॥ [किं प्रयोजनम् ]॥ 'नपुंसके तादि- निवृत्यर्थम्' । नपुंसकलिङ्ग भावे क्तादयो मा भूवन्निति ॥ अथ किमर्थ पृथ- ग्ग्रहणं क्रियते ? ॥ ॥ पृथग्हणं बाधकबाधनार्थम् ॥*॥ पृथग्ग्रहणं क्रियते ॥ [किं प्रयोजनम्? ] ॥ 'बाधकबाधनार्थम्'। ये तस्य बाधकास्तद्वाधनार्थम् । ॥*॥ न तु ल्युटः ॥ ॥ ल्युटो बाधनं नेष्यते सङ्कटनमित्येव भवति ॥ एरच ॥३॥३॥५६॥ ॥*॥ अज्विधौ भयस्योपसङ्ख्यानम् ॥॥ अज्विधौ भयस्योपसङ्ख्यानं कर्तव्यम् । भयम् ॥ अत्यल्पमिदमुच्यते 'भयस्येति । ॥ ॥ भयादीनामिति प्र.व्यात्युक्षी च न सिध्यति। नैष दोषः। कृत्यल्युटो बहुल'मिति बहुलवचनाद्यथेष्ट- लाभप्रयोजनात् । [ कर्मव्यतिहारे णच् ] ॥ अभिविधौ। भावे कारक इति द्वयेऽपि प्रकृते शब्दशक्तिस्वाभाव्याद्भाव एवेनुण्भविष्यतीति मवाह-भावग्रहणमिति। नपुंसक इति । 'मध्येऽपवादाः पूर्वा- न्विधीन् बाधन्त इति इनुण घनमेव बाधेत न तु क्तादीन्।भावग्रहणात्वधिकविधाना- त्तिानपि बाधत इति भावः। अथेति । 'नपुंसके भाव' इत्यस्यानन्तरमिदं वक्तव्य- मिति भावः। पृथग्ग्रहणमिति। 'वासरूपोऽस्त्रिया मिति वचनात्पक्षे क्तादयःस्युरिति उ.]विधेरभावाद्यात्युक्ष्यामपवादविप्रतिषेधेन 'गुरोश्चे'त्यप्रत्ययप्रसङ्गादिति भावः। एवञ्च 'वाऽसरूप'सूत्रस्थप्रयोगाऽनुष्ठानरूपभाष्यविरोधात् सिद्धन्त्वित्याद्येतत्सूत्रस्थवार्तिक- मेकदेश्युक्तिरिति भावः । व्यावचोरीव्यतीक्षे बहुलग्रहणात्साध्ये इति तात्पर्यम् । उत्तरन्तु-स्त्रियामित्यकरणप्रयुक्तलाघवाद्बाहुलकस्य तवाऽप्यावश्यकत्वाच्च वार्त्तिको- क्तमेव युक्तमिति ॥ [कर्मव्यतिहारे णच ] । अभिविधौ । द्वये अॅपि प्रकृते इति । प्रकरणे इत्यर्थः । 'द्वयोरपि प्रकृते' इति पाठान्तरम्। भाव एवेति । णज्वदिति भावः । मध्येऽपवादा इति । बाध्य- सामान्यचिन्तयेदं सिद्धमिति 'वाऽसरूप'न्यायेन पक्षेप्राप्तयोरपि तयोर्बाधनार्थ भाव- ग्रहणमिति भाष्याऽभिप्रायवर्णनमुचितम् । वाऽसरूप इति । स्त्र्यधिकारे एव 'वाऽ- सरूप'निषेध इति प्राक् प्रतिपादनादिति भावः । भाष्ये-ये तस्येति । तस्य बाध- काः खला इत्यर्थ उचितः। कैयटोक्तार्थे नाऽक्षरस्वारस्य, भावग्रहणफलादविशे- १इदं लुप्तं । २'पृथक्तु' । ३ इदं भाष्यमित्यन्ये । ४ प्रयोजकात्' । ५ द्वयोरपि । २० ३०६ 8 कैयट-विवरणसहितं [ग्रहवृद्ध - वक्तव्यम् ॥ ॥ इहापि यथा स्यात् भयं वर्षम् ॥ किं प्रयोजनम् ? ॥*॥ नपुं. सके क्तादिनिवृत्त्यर्थम् ॥*॥नपुंसलिङ्ग भावे तादयो मा भूवन्निति ॥*॥कल्पा- दिभ्यश्च प्रतिषेधः ॥*॥ कल्पादिभ्यः प्रतिषेधो वक्तव्यः। कल्पः अर्थः मन्त्र [इति ] 1॥॥ जवसवौ छन्दसि ॥ ॥ जवसवी छन्दसि वक्तव्यौ । उर्वो. रस्तु मे जवः । अयं मे पञ्चौदनः सवः । [ एरच् ] ॥ ग्रहवृदृनिश्चिगमश्च ॥ ३॥३॥५८ ॥ किमर्थं निष्पूर्वाचिनोतेरब्विधीयते नाऽचैव सिद्धं, न ह्यस्ति विशेषो निष्पूर्वाचिनोतेरपो वा, अचो वा, तदेव रूपं स एवं [च] स्वरः॥ न सिध्यति 'हस्तादाने चेरस्तेये' इति घन्प्रामोति तद्वाधनार्थम् । अत उत्तरं पठति॥*॥ अब्विधौ निश्चिग्रहणमनर्थक स्तेयस्य घविधौ प्रतिषेधात्॥ ॥ अब्विधौ निश्चि- ग्रहणमनर्थकम् ?॥ किं कारणम् ॥ 'स्तेयस्य घविधौ प्रतिषेधात्' । स्तेयस्य घम्विधौ प्रतिषेध उच्यते । निष्पूर्वश्चिनोतिः स्तेये वर्तते ॥ [॥*॥ अस्ते- यार्थन्तु ॥*॥] अस्तेयार्थं तीदं वक्तव्यं निष्पूर्वाञ्चिनोतेरस्तेयेऽब्यथा स्यात् । ॥॥अस्तेयार्थमिति चेन्नाऽनिष्टत्वात्॥*॥अस्तेयार्थमिति चेत्तन।किं कारणम्!॥ 'अनिष्टत्वात्। नहि निष्पूर्वाचिनोतेरस्तेयेऽबिप्यते॥ किं तर्हि?॥ घवेष्यते ॥ एवं तर्हि सिद्ध सति यन्निपूर्वाचिनोतेरपं शास्ति तज्ज्ञापयत्याचार्थो यत्तदन्तः- प्र.प्रकरणोत्कर्षेण वासरूपविधिर्बाध्यत इत्यर्थः । [ अभिविधौ भावे ] ॥ एरच । वर्षमिति । वर्षणमित्यपि भवति । 'वृषभो वर्षणा'दिति भाष्यकार- वचनात् । कल्प इति । ण्यन्तेभ्योऽचि प्रतिषिद्धे घव भवति। 'एरजण्यन्ताना'- मिति तु वचनमनार्षम् । जवसवाविति । अपि प्राप्तेऽज्विधिः। खरे विशेषः । ग्रहवृ । एष स्वर इति । मध्योदात्तत्त्वं कृत्वरेण भवति। वशिरण्योरिति। उ.]षश्च। अत्राऽप्येवंकरणात्पूर्वविप्रतिषेधकल्पनेति तात्पर्यम् । सङ्कटनमित्येवेति । सङ्कटनमिति भवत्येवेत्यन्वयः । अत एव 'पुंयोगा'दिति सूत्रस्थः ‘सांकूटिन मिति भाष्यप्रयोगः सङ्गच्छते ॥ [ अभिविधौ ] एरच । भाष्यकारवचनादिति । ततो बाहुकाल्ल्युडपीति भावः । स्वरे इति । अपि आधुदात्तम् , अच्यन्तोदात्तमित्यर्थः ॥ [ एरच ] । ग्रहवृ । भाष्ये स एव[च] स्वर इति। थाऽथघ'जिति सूत्रेणेति भावः।भाष्ये- स्तेये वर्तते इति । हस्तादानविषये इति भावः। किन्तर्हि घनेवेति। हस्ताऽऽदान- विषये इत्यर्थः । 'प्रकृतसूत्रे 'निश्चि'ग्रहणं स्तेयार्थञ्चेद्धोऽप्राप्तेरचैव सिद्धम् । १ 'कल्प्यादिभ्यः प्रति' । २ इतिः क्वचिन्न । ३ 'एवाऽस्य'। ४ 'चर्घञ्- प्राप्तस्तद्वा । ५ इदं लुप्तं स्यात् । ६ 'ये यथा' ।

३अ.३पा१.आ.८३सू.] & व्याकरणमहाभाष्यम् , थाथघन्ताजबित्रकाणामिति तनिष्पूर्वाचिनोतेर्न भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ?॥ निश्चयः । एष स्वरः सिद्धो भवति ॥ ॥ वशिरण्योश्चो- पसङ्ख्यानम् ॥*॥ वशिरण्योश्चोपसङ्ख्यानं कर्तव्यम् । सवशं सैन्धवम् । धनं- जयं रणे रणे ॥*॥ घअर्थे कविधानं स्थानापाव्यधिहनियुध्यर्थम् ॥ * ॥ घअर्थे को विधेयः ॥ किं प्रयोजनम् ? ॥ 'स्थानापान्यधिहनियुध्यर्थम् । स्था-प्रति- ष्ठन्तेऽस्मिन्धान्यानीति प्रस्थः। प्रस्थे हिमवतः शृङ्गे । स्था ॥ स्ना-प्रना- न्ति तस्मिन्निति प्रस्तः । त्रा। पा-प्रपिबन्त्यस्यामिति प्रपा । पा॥ व्यधि- आविध्यन्ति तेनाऽऽविधम् । व्यधि ॥ हनि-विघ्नन्ति तस्मिन्मनांसि विघ्नः । हनि ॥ युधि-आयुध्यन्ते तेनाऽऽयुधम् ॥ [ ग्रहवृदृनिश्चि] । स्तम्ब क च ॥ ३३.३॥ कस्मादयं को विधीयते ॥ 'हन्ते रित्याह ॥ तद्धन्तिग्रहणं कर्तव्यम् ?॥ न कर्तव्यम् । प्रकृतमनुवर्तते ॥ क्व प्रकृतम् ? ॥ 'हनश्च वध' इति ॥ तद्वा अनेकेन निपातनेन व्यवच्छिन्नं न शक्यमनुवर्तयितुम् ॥ नैतानि निपातनानि । हन्तेरेते आदेशाः ॥ यद्यादेशा घनस्वरो न सिध्यति । घनः ॥ सन्तु तर्हि निपातनानि ॥ ननु चोक्तं 'तद्वा अनेकेन निपातनेन व्यवच्छिन्नं न शक्यम- नुवर्तयितु'मिति ॥ संबन्धमनुवर्तिष्यते ॥ अथ वा पुनः सन्त्वादेशाः ॥ ननु चोक्तं 'स्वरो न सिध्यतीति ॥ नैष दोषः । अकारान्ता आदेशाः॥ अथ यदे- पीकया स्तम्बो हन्यते कथं तत्र भवितव्यम् ? ॥ के चिनावदाहु:-'स्तम्बन्ने'. प्र.]पनि प्राप्ते वचनम् । वशनं वशः। रणेन्त्यस्मिन्निति रणः । घनर्थ इति। भावः कनुवर्जितं च कारकं घजर्थः । [ ग्रहवृदृनिश्चिगमश्च ] । स्तम्बे क च । घनस्वर इति । अन्तोदात्तत्वं न सिध्यति, अप्वरेणाद्युदात्त- त्वप्रसङ्गादित्यर्थः । अकारान्त इति । तत्राऽतो लोपे कृते उदात्तनिवृत्तिवरेणाप उ.]अस्तेयार्थं चेत्तन्न, निःपूर्वचिनोतेः पूर्वविप्रतिषेधेन घञ एवेष्टे'रिति भाष्यार्थः। घन चेति पाठे 'च'शब्द एवार्थो द्रष्टव्यः । कृत्स्वरेणेति । 'गतिकारकोपपदादिति विहितेन ॥ [ग्रहवृदृनिश्चिगमश्च ] । स्तम्बे क च । अनेकेनेति । घनाऽन्तर्धनप्रघणप्रघाणोद्धनाऽपघनरूपेणे- त्यर्थः । अप्स्वरेणाधुदात्तेति । निपातने तु निपातनात् 'फिषोऽन्त' इति सिद्धि- रिति भावः । तत्राऽतो लोप इति । प्रत्ययसन्नियोगशिष्टतया विधानादार्द्धधातुक इति लोप इति भावः। आदेशाश्च स्थानिखरेणान्तरतम्यादन्तोदात्ता इति तात्पर्यम् । तस्य सर्वाऽपवादत्वादिति । यद्यपि पुंस्ययं चरितार्थस्तथापि 'बहुल'ग्रहणादिति १ 'अस्मिन् । २ इतिः क्वचिन्न । ३ आविधः' । ४ 'धन इति' । ५ 'रणति' ।

३०८ 8 कैयट-विवरणसहितं. [ स्त्रियां क्तिन् ति भवितव्यम् ॥ अपर आहुः-'स्तम्बहेति'रिति भवितव्यम्, ऊतियूति- जूतिसातिहेतिकीर्तयश्चेति निपातनमिति। अपर आहुः-स्तम्बहननीति भवि- तव्यमिति वक्ष्यत्येतत्"अजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेने ति। यजयाचयतविच्छप्रच्छरक्षो नङ् ॥ ३॥३॥९० ॥ ॥*॥ यजादिभ्यो नस्य ङित्त्वे संप्रसारणप्रतिषेधः ॥॥॥*॥ यजादिभ्यो नस्य डिन्त्वे संप्रसारणस्य प्रतिषेधो वक्तव्यः । प्रश्न इति ॥ एवं तांडित्करि- ष्यते ॥*॥ अङिति गुणप्रतिषेधः ॥ ॥ यद्यङिद्गुणस्य प्रतिषेधो वक्तव्यः । विश्न इति । सूत्रं च भिद्यते ॥ यथान्यासमेवास्तु । ननु चोक्तं 'यजादिभ्यो नस्य ङित्त्वे संप्रसारणप्रतिषेध' इति ॥ नैष दोषः [ ॥*॥ निपातनात्सि- द्धम् ॥ ॥ ] निपातनादेतत्सिद्धम् ॥ किं निपातनम्?॥प्रश्ने चासन्नकालइति॥ स्त्रियां क्तिन् ॥ ३॥३९४ ॥ ॥*॥ स्त्रियां क्तिनाबादिभ्यश्च ॥*॥ स्त्रियां क्तिनित्यत्राबादिभ्यश्चेति वक्त. व्यम् । आप्तिः । राद्धिः। दीप्तिः॥*॥निष्ठायां वा सेटोऽकारवचनात् [सिद्ध]॥ * ॥ निष्टायां वा सेटोऽकारवचनासिद्धम् । अथ वा निष्ठायां सेटोऽकारो भवतीति वक्तव्यम् ॥ यदि निष्ठायां सेटोऽकारो भवतीत्युच्यते स्रंसा ध्वंसेति न सिध्य. ति । स्रस्तिः ध्वस्तिरिति प्राप्नोति ॥ किं पुनरिदं परिगणनं त्रय एवाबादय आहो स्विदुदाहरणमात्रम् ?॥ किं चातः ? ॥ यदि परिगणनं भेदो भवति । अथोदाहरणमात्रं नास्ति भेदः । स्रस्तिः ध्वस्तिरित्येव भवितव्यम् ॥ स्थागापापचो भावे ॥३३९५॥ ॥*॥ स्थादिभ्यः सर्वापवादप्रसङ्गः ॥*॥ स्थादिभ्यः सर्वापवादः क्तिन्- प्र.]उदात्तत्वं भवतीति भावः । स्तम्बन्नेति कप्रत्यये रूपं । तस्य सर्वापवादत्वादिति भावः । स्तम्बहेतिरिति । निपातनस्य सर्वापवादत्वादिति भावः ॥ स्त्रियां क्तिन् । स्रस्तिरिति । संसा ध्वंसेति नैव भवतीति भावः । स्थागापा । स्थादिभ्य इति । बाध्यमात्रापेक्षायां, बाध्यसमुदायापेक्षायां वा उ.भावः । भाष्ये-अजब्भ्यामिति । 'हेति'रिति निपातनमःकरणे चारितार्थमिति भावः । निपातितहेतिशब्दः शस्त्रे रूढ इत्यन्ये ॥ [स्तम्बे क च] । स्त्रियां क्तिन्।क्तिनाबादिभ्य इति वचनं 'गुरोश्च हल' इत्येतत्प्राप्तियोग्यविषयं, 'निष्ठायां वा सेटोऽकारवचना'दित्यनेन समानयोगक्षेमत्वादित्याहुः । एवञ्च निष्टाया- मनिटस्तत्सूत्रप्राप्तिविषया आबादय इति फलितम् ॥ [ स्त्रियां क्तिन् ] ॥ १ 'निपातनादिति'। २ इदं क्वचिन्न। ३ 'क्तिनाबा'। ४ केचित्तु सिद्धत्यमिन्त- मिदं वार्तिकमित्याहुः ।

३अ.३पा.१आ.९८सू.] ® व्याकरणमहाभाष्यम् . ३०९ .. प्रामोति, स यथैवाऽहं बाधते एवं ण्वुलिभावपि बाधेत । कां त्वं स्थायिका- मस्थाः। कां त्वं स्थायिम् ॥ ॥ सिद्धं त्वनिधाने स्थादिप्रतिषेधात् ॥ ॥ सिद्ध- मेतत् ॥ कथम् ?॥[अडिधाने 'स्थादिप्रतिषेधात्'॥]अडिधाने एव स्थादीनां प्रतिषेधो वक्तव्यः । प्रतिषिद्धे तस्मिन् क्तिनेव भविष्यति ॥ सिध्यति । सूत्रं तहि भिद्यते ॥ यथान्यासमेवास्तु । ननु चोक्तं 'स्थादिभ्यः सर्वापवादप्रसङ्ग' इति ॥ नैष दोषः। 'पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरा नित्येव- मयं स्त्रियां क्तिन्नडं बाधिष्यते ण्वुलिजौ न बाधिष्यते ॥ ॥ ॥ श्रुर्यंजीषिस्तुभ्यः करणे ॥॥ श्रुयजीषिस्तुभ्यः करणे क्तिन्वक्तव्यः। श्रूयतेऽनयेति श्रुतिः । इज्यतेऽनयेति इष्टिः । इष्यतेऽनयेति इष्टिः । स्तूयते- ऽनयेति स्तुतिः ॥॥ ग्ला[म्ली]ज्याहाभ्यो निः ॥*॥ ग्ला[म्लाज्याहाभ्यो निर्वक्तव्यः । ग्लानिः [म्लोनिः] ज्यानिः हानिः ॥ [ स्थागापापचो ] । वजयजोर्भावे क्यप् ॥३३॥२८॥ ॥*॥ क्यब्विधिरधिकरणे च ॥*॥ क्यविधिरधिकरणे चेति वक्तव्यम् । समजन्ति तस्यां समज्या ॥[ व्रजयजोर्भावे ] । कृञःशच ॥३।३।१००॥ ॥ ॥कृञः श चेति वावचनं क्तिनर्थम्॥*॥ कृषः श चेति वावचनं कर्त- व्यम् ॥ [ किं प्रयोजनम् ? ॥ 'क्तिनैर्थम्'] । क्तिन्नपि यथा स्यात् । कृतिः ॥ इच्छा ॥ ३।२।१०१।। किं निपात्यते ? ॥*॥ इषेः शे यगर्भावः ॥ ॥ अत्यल्पमिदमुच्यते प्र.] पुरस्तादपवादन्यायो नास्तीति भावः।वुलिजाविति। 'विभाषाख्यानपरिप्रश्नयो'- रित्यनेन विहितौ । पुरस्तादिति । अनन्तरबाधने लब्धावकाशो विधिः परत्वादुत्त- रेण बाध्यत इत्यर्थः । श्रुयजीति । ल्युड्वाधनाथ वचनम् । [स्थागापापचो] । ब्रजयजो । क्यविधिरिति । उत्तरसूत्रे इति भावः । [बजयजो] । कृजः श च। चकारेणानन्तरस्य क्यप एव समुच्चयो न तु व्यवहितस्य क्तिन इति मत्वाह-वावचनमिति । तेन क्रिया कृत्या कृतिरिति रूपत्रयसिद्धिः ॥ उ.] स्थागापा । बाध्यमात्रेति । बाध्यसामान्यचिन्तेयम् । बाध्यसमुदायेति । विशेषचिन्तायामपि प्रकारविशेषः । [स्थागापा] ॥ वजयजो। उत्तरेति ।भाष्ये तद्विषयोदाहरणदानादिति भावः। [ब्रजयजो] ॥ कृतः श च । वा वचनमिति । इदमेव ज्ञापयति 'वर्णगौरवादपि योग- १ 'आस्थाः'।२इदं क्वचिन्न ।३'कां त्वं स्थायिमास्थाः'।४ 'जिषि'।५ इतिः क्वचिन्न । ६ 'इषेः शे यगभावो निपात्यते' इत्यस्यव्याख्या। इदं भाष्यमित्यन्ये। ७'इतिभावः'। ।

३१० * कैयट-विवरणसहितं. [षिद्भिदादि इच्छेति[*॥इच्छापरिचर्यापरिसर्यामृगयाऽटाट्यानामुपसङ्ख्यानम् ॥*] ॥ इच्छा- परिचर्यापरिसर्यामृगयाऽटाट्यानामुपसङ्ख्यानं कर्तव्यम् ॥ ॥ जागर्तेरकोरो वा ॥॥ जागर्या । जागरा ॥ [इच्छा ] ॥ षिद्भिदादिभ्योऽङ्॥ ३॥३॥१०४॥ ॥॥ भिदा विदारणे ॥*॥ भिदा विदारण इति वक्तव्यम् । भित्ति- रन्या ॥*॥ छिदा द्वैधीकरणे ॥ ॥ छिदा द्वैधीकरण इति वक्तव्यम् । छित्ति- रन्या ॥*॥ आरा शस्त्र्याम् ॥*॥ आरा शस्त्र्यामिति वक्तव्यम् । आर्तिरन्या । ॥*॥ धारी प्रपाते ॥॥धारा प्रपात इति वक्तव्यम् । धृतिरन्या ॥ ॥ गुहा गिर्योषध्योः ॥ ॥ गुहा गिर्योषध्योरिति वक्तव्यम् । गृढिरन्या। [षिद्भिदा] ॥ ण्यासश्रन्थो युच् ॥ ३।३।१०७ ॥ किमर्थश्चकारः ? ॥ ॥*॥ [चकारः] स्वरार्थः ॥*॥ 'चितोऽन्त उदात्तो भवती'त्यन्तोदात्तत्वं यथा स्यात् ॥ नैतदस्ति प्रयोजनम् । 'उदात्त' इति वर्तते 'भूवीरा उदात्त' इति ॥ यधुदात्त इति वर्तते 'वजयजो वे क्यप'-किमर्थः पकारः ? ॥ तुगर्थः । हस्वस्य पिति कृतीति ॥ उदात्त इति वर्तते ॥ एव- मपि कुत एतत्तदन्तस्योदात्तत्वं भविष्यति न पुनरादेरिति ? ॥ उदात्त इत्य- नुवर्तनसामर्थ्याद्यस्याऽप्राप्तः स्वरस्तस्य भवति ॥ कस्य चाऽप्राप्तः ?॥ अन्त्य- स्य ॥ सामान्यग्रहणाऽविघाताऽर्थस्तहि ॥ व सामान्यग्रहणाविघातार्थे- नार्थः ? ॥ युवोरनाकाविति ॥ एतदपि नास्ति प्रयोजनम् । वक्ष्यत्येतत्- प्र.] षिद्भिदादि॥ आर्तिरिति । आङोऽर्तेश्च 'उपसर्गादृति धाताविति वृद्धिरेका- देशः । गुहा गिर्योषध्योरिति । गिरिशब्दोऽत्र गिर्यवयवे वर्तते। [षिद्भिदा ], ण्यासश्रन्थो ॥ युवोरिति । अन्यथा निरनुबन्धकत्वादस्यैव ग्रहणं स्यान्नतु ल्युडादीनामिति भावः । अनुनासिकवचनादिति । तत्र ल्युडादीनामपि अनु- उ.] विभागो गरीया'निति भावः । [ कृजः श च ] । इच्छा । शे यगभाव इति । भावार्थकत्वाद्यकः प्राप्तिः । [ इच्छा ] विद्भिदा । ननु गुहा न गिरिरत आह-गिरिशब्द इति [पिद्भिदा] ॥ ण्यास । भाष्ये न पुनरादेरिति। एवञ्च पाक्षिकाऽनिष्टप्रसङ्ग इति भावः। यत्तु प्रथमाऽतिक्रमे कारणाऽभावादादेरेव स्यादिति तन्न ; तन्न्यायस्याऽत्र शास्त्रेऽनङ्गी- कारात् । अत एव 'आद्युदात्तश्चेति सार्थकम् । अत एव 'तित्स्वरित'मिति तव्या- दावन्तस्वरितसिद्धिरिति बोध्यम्। अन्त्यस्येति। आदेस्तु 'आधुदात्तश्च'त्यनेन सिद्ध १ भाष्यवार्तिकमित्यन्ये । भाष्यमित्यपरे । इदं क्वचिन्न । २ नां निपातनं कर्तव्यं । ३ इदं लुप्तं । ४ भाष्यमिदमित्यन्ये । ५ 'इत्येव हि वर्तते । । ..

३अ.३पा.१आ.१०८सू.] * व्याकरणमहाभाष्यम् , 'सिद्धं तु युवोरनुनासिकवचना'दिति ॥ ॥ युप्रकरणे घट्टिघंटि वन्दिविदिभ्य उपसङ्ख्यानम् ॥*॥ युप्रकरणे घहि[घटि]वन्दिविदिभ्य उपसङ्ख्यानं कर्त- व्यम् । घटना । [ घटना] । वन्दना । वेदना ॥ ॥ इषेरनिच्छार्थस्य ॥ॐ॥ इषेरनिच्छार्थस्येति वक्तव्यम् । अन्विष्यते अन्वेषणा ॥*॥ परेर्वा ॥*॥ परे- ति वक्तव्यम् । अन्यां परीष्टिं चर । अन्यां पर्येषणां चर ॥[ण्यासश्रन्थो] । रोगाख्यायां ण्वुल्बहुलम् ॥३॥३॥१०८॥ ॥*॥ धात्वर्थनिर्देशे ण्वुल् ॥ ॥ धात्वर्थनिर्देशे ण्वुल्वक्तव्यः । का नामाऽऽसिकाऽन्येवीहमानेषु । का नाम शायिकाऽन्येप्वधीयानेषु ॥*॥ इश्तिपौ धातुनिर्देशे ॥ ॥ इश्तिपावित्येतौ प्रत्ययौ धातुनिर्देशे वक्तव्यौ । पचे—हि, पचते—हि ॥ ॥ वर्णात्कारः॥ ॥ वर्णात्कारप्रत्ययो वक्तव्यः। अकारः इकारः ॥ ॥ रादिफः ॥*॥ रादिफो वक्तव्यः । रेफः ॥॥मत्वर्थाच्छः ॥*॥ मत्वर्थाच्छो वक्तव्यः । मत्वर्थीयः ॥ ॥ इणजादिभ्यः ॥*॥ इणजादिभ्यो वक्तव्यः । आजिः आतिः आदिः ॥ ॥ इञ्चपादिभ्यः ॥ ॥ इञ्वपादिभ्यो वक्तव्यः । वापिः वासिः । वादिः ॥ ॥ इक्कृष्यादिभ्यः ॥ ॥ इक्वंप्यादिभ्यो प्र.]नासिकत्वप्रतिज्ञानसामर्थ्यागृहणं भविष्यतीत्यर्थः । [ण्यासश्रन्थो युच् ] रोगाख्या । धात्वर्थनिर्देश इति । क्रियानिर्देश इत्यर्थः । इश्तिपाविति । बहुलवचनात्तु क्वचिन्न भवति, श्तिपः शित्करणादकर्तृवाचिन्यपि तस्मिन् शबादयो भवन्ति । यगपि क्वचिद्भवति, यथा-'विभाषा लीयते'रिति । अत्र हि लीलीडो- र्यका शितपि निर्देशः कृतः । श्यनि तु लीङ एव ग्रहणं स्यानु तु लीनातेः । वर्णादिति । वर्णवाचिनो वर्णानुकरणादित्यर्थः । बहुलवचनात् कं चिन्न भवति,- 'अस्य च्चा'विति यथा । तथा व चिद्वर्णसमुदायानुकरणादपि-एवकार इति । कार- प्रत्ययस्य ककारस्येत्संज्ञा प्रयोजनाऽभावान्न भवति । ननु करणं कारः, अस्य कारः अकार इत्येवं सिध्यति । नैतदस्ति । एवं हि विज्ञायमाने'ऽकारकरण'मित्यादि न उ.]इति भावः । प्रतिज्ञानसामर्थ्यादिति।इदच चित्त्वेऽपि तदनुबन्धकपरिभाषया ल्युटोऽग्रहणशङ्कावारणायाऽऽवश्यकमिति भावः । [ण्यासश्रन्थो युच् ] । रोगाख्यायां। धातुकृतोऽर्थः साधनमिति भ्रमं वारयति-क्रियेतिाभावाधिकारेऽपि कारकनिवृत्त्यर्थमिदम् । इश्तिपो । कचिन्नेति । 'भुवो वुगिल्यादौ । शित्करणा- दिति । शित्करणस्य पिवाद्यादेशविधानेन चारितार्थ्यादिदश्चिन्त्यम् । तस्मानिर्देशै- रेव विकरणःसाध्यः।भाष्ये-पचे पचतेरिति,-कर्मणः शेषत्वविवक्षायां षष्टी। 'प्रयोगा'. निति शेषो वा। धात्वर्थनिर्देशेऽप्येतौ बाहुलकात् । अत एव 'ईक्षते ऽशब्दम्', १ इदं कचिन्न । २ 'तेरन्वेष' । ३ इदं क्वचिन्न । ४ 'च' । ५ 'विवक्षया' । - ।

३१२ कैयट-विवरणसहितं. [कृत्यल्युटो वक्तव्यः । कृषिः । किरिः। गिरिः ॥ ॥ संपदादिभ्यः क्विप् ॥ ॥ संपदा- दिभ्यः क्विब्वक्तव्यः। संपत् । विपत् । प्रतिपत् । आपत् । परिषत् । पर्षत् । कृत्यल्युटो बहुलम् ॥ ३॥३॥११३ ॥ ॥ ॥केल्ल्युटः॥ ॥कल्ल्युट इति वक्तव्यम्॥॥॥कृतो बहुलमिति वा ॥४॥ कृतो बहुलमिति वा वक्तव्यं। पादहारकाद्यर्थम्॥पादाभ्यां ह्रियते पादहारकः। गले चोप्यते गलेचोपकः । श्वोऽनीनाधास्यमानेन । श्वः सोमेन यक्ष्यमाणेन ॥ गोचरसंचरवहव्रजव्यजापणनिगमाश्च ॥ ३॥३११९ ॥ ॥*॥ गोचरादीनामग्रहणं प्रायवचनाद्यथा कषो निकष इति ॥*॥ गोच- रादीनां ग्रहणं शक्यमकर्तुम् ॥ घकस्मान भवति ?॥ 'प्रायवचनाद्यथा कपः निकष इति' । प्रायवचनात् [ कंषो निकष इति ] घञ् न भवति ॥ हलश्च ॥ ३।३।१२१ ॥ ॥*॥ घविधाववहाराधारावायानामुपसङ्ख्यानम् ॥॥ धविधाववहारा. धारावायानामुपसङ्ख्यानं कर्तव्यम् । अवह्रियन्तेऽस्मिन्नवहारः। आध्रियन्ते स्मिन्नाधारः। एत्यैतस्मिन्वयन्त्यावायः। [ हलश्च ] ॥ उदङ्कोऽनुदके ॥ ३३॥१२३ ॥ प्र.]सिध्येत्। कारप्रत्ययस्य 'कृदति ङित्यधिकाराद्धात्वविहितत्वेऽपि कृत्संज्ञा। ततस्त- दन्तस्य प्रातिपदिकत्वाद्विभक्त्युत्पत्तिः । एवं 'मत्वर्थीय' इति । अकारलोपस्त्वत्रा- ऽभत्वेऽपि भाष्यकारवचनाद्बहुलग्रहणाद्वा। संपदादिभ्य इति। क्तिन्नपि वहुलवचना- द्भवति-संपत्तिरिति । [ रोगाख्यायां] । कृत्य । कृल्युट इति। कृत्यग्रहमपनीय कृद्रहणं व्यापकत्वात्कर्तव्यं। तस्मिंश्व- कृते ल्युग्रहणं न कर्तव्यं, तस्यापि कृत्त्वात्। श्वोग्नीनिति । अनद्यतनेपि लभवति । गोचरसंचर। प्रायवचनादिति । 'हलश्चे'त्यत्र प्रायग्रहणानुवर्तनाद्धञः क्वचिदभावाद्ध एव भवतीत्यर्थः । [ गोचरपंचर ] । उ.] आहौ प्रभूतादिभ्यः' 'गच्छतौ परदारादिभ्य' इति प्रयोगाः सङ्गच्छन्ते । कृत्सं- ज्ञेति । बाहुलकादित्यन्ये । एवं मत्वर्थीय इति । 'प्रातिपदिकत्वाद्विभक्तयुत्पत्ति'- रित्यनुषङ्गः। आर्द्धधातुकत्वाऽभावादतो लोपाऽप्राप्तेः स्वादित्वाऽभावेनाऽभत्वाद्यस्येति लोपाऽप्राप्तेश्चाह-भाष्यकारेति । बहुलग्रहणादिति सारम् । तदाश्रयणे भाष्यकार- वचनं हेतुः। बहुव्रीहेः स्वार्थिकोऽयं छः।षष्ठीतत्पुरुषाद्गहादित्वाच्छेन कश्चित्साधयति। हलवाभाष्ये-एत्येति।आङोऽर्थप्रदर्शनमिदम्।वेज आत्वे 'आतो युगि ति युक्॥ १ इदं क्वचिन्न । २ ॥*॥ कृतो बहुलमिति वक्तव्यं पादहारकाद्यर्थम् ॥१॥ [कृतो बहुलमिति वक्तव्यं॥ किं प्रयोजनं ? ॥ 'पादहारकाद्यर्थम्']॥पा० ।

३.३पा.१आ.१२५सू.] व्याकरणमहाभाष्यम् & .. .. किमर्थमिदमुच्यते न 'हलश्चे'त्येव सिद्धम् ?॥अनुदक इति वक्ष्यामीति। इह मा भूत् । उदकोदञ्चनः ॥*॥ उदकोऽनुदकग्रहणानर्थक्यं च प्रायवचना- द्यथा गोदोहनः प्रसाधन इति॥*॥ उदकोऽनुदकग्रहणं चानर्थकम् ॥ घन्कस्मा- न भवति ?॥['प्रायवचनाद्यथा गोहनः प्रसाधनः']प्रायवचनाद्धन भवति । यथा गोदोहनः । प्रसाधन इति ॥ [ उदकोऽनुदके ] । खनो घ च ॥ ३।३।१२५॥ ॥[*॥ खंनो डडरेकेकवकाः ॥*]॥ डो वक्तव्यः। आखः। डरो वक्तव्यः । आखरः । इको वक्तव्यः । आखनिकः । इकवको वक्तव्यः । आखनिकवकः ॥ ईषदुःसुषु कृच्छाकृच्छार्थेषु खल् ॥ ३॥३६१२६ ॥ ॥*॥ अजब्भ्यां स्त्रीखलनाः ॥*॥ अजब्भ्यां स्त्रीखलना भवन्ति विप्रति- पेधेन । अजपोरवकाशः-चयः लवः। स्त्रीप्रत्ययानामवकाशः-कृतिः हृतिः। इहोभयं प्राप्नोति-चितिः स्तुतिः । खलोऽवकाशः-ईपद्धेदः सुभेदः । अजपोः स एव । इहोभयं प्राप्नोति-ईपञ्चयः सुचयः। ईषल्लवः सुलवः। अनस्याऽव. वकाशः-इध्मप्रवश्वनः । अजपोः स एव । इहोभयं प्राप्नोति-पलाशचयनः अविलवनः । स्त्रीखलना भवन्ति विप्रतिषेधेन ॥*॥ स्त्रियाः खलनौ विप्रतिषे- धन ॥॥ स्त्रियाः खलनौ भवतो विप्रतिपेन । स्त्रीप्रत्ययानामवकाश: -कृतिः हृतिः। खलोऽवकाशः-ईपद्भेदः सुभेदः [सुलवः]। इहोभयं प्रामोति-ईपढ़ेदा सुभेदा । अनस्यावकाशः-इध्मप्रव्रश्चनः। स्त्रीप्रत्ययानां स एव । इहोभयं प्राप्नोति-सक्तुधानी तिलपीडनी । खलनौ भवतो विप्रतिषेधेन ॥ कर्तृकर्मणोश्च भूकृमोः ॥ ३३॥१२७ ॥ ॥॥ खल्कर्तृकर्मणोश्चव्यर्थयोः ॥*॥ खल्कर्तृकर्मणो व्यर्थयोरिति वक्त- व्यम् । अनाढ्येन भवता ईपदाढ्यन शक्यं भवितुम्-ईषदाढ्यंभवं भवता । दुराढ्यंभवम् । स्वाढ्यंभवम् । ॥ ॥ कर्तृकर्मग्रहणं चोपपदसंज्ञार्थम् ॥॥ कर्तृकर्मग्रहणं चोपदसंज्ञार्थं द्रष्टव्यम् । तद्वेष्यं विजानीयादभिधेययोरिति । प्र.] हलश्च । अध्यायसूत्रे आधारावायशब्दौ वार्तिके दर्शनादभियुक्तः प्रक्षिप्तौ । उदको । प्रायवचनादिति । घञ्चद्धोपि न भवतीति ल्युडेव भवति । कर्तृ । व्यर्थयोरिति । तेनाऽभूततावादन्यत्र खल्न भवति, आख्येन उ.] उदको । घन्वद्धोऽपीति । सति सूत्रे 'अनुदक' इति प्रतिषेधसामर्थ्यात्प्रत्या- ख्याने प्रायग्रहणादिति भावः। [ उदकोऽनुदके ] । कर्तृकर्मणो।खल न भवतीत्यस्योदाहरणमाह-आढ्येन सुभूयत इति॥खित्क- १ इदं क्वचिन्न । २ इदं लुप्तम् । ३ 'द्वेष्यं ।

३१४ कैयट-विवरणसहितं. [अन्येभ्योऽपि : तदाचार्यः सुहृद्भूत्वाऽन्वाचष्टे-'कर्तृकर्मग्रहणं चोपपदसंज्ञार्थमिति॥ अन्येभ्योऽपि दृश्यते ॥ ३।३।१३०॥ ॥*॥ भाषायां शासियुधिदृशिधृषिभ्यो युच् ॥ ॥भाषायां शासियुधिदृशि- भ्यो युज्वक्तव्यः । दुःशासनः । दुर्योधनः। दुर्दर्शनः। दुर्धर्षणः। ॥[*॥ मृषेश्व ॥*]॥ मृषेश्चेति वक्तव्यम् । दुर्मर्पणः । इति श्रीमद्भगवत्पतञ्जलिमुनिविरचिते व्याकरणमहाभाष्ये तृतीयस्याध्यायस्य तृतीये पादे प्रथममाह्निकम् । वर्तमानसमीप्ये वर्तमानवद्वा ॥ ३३॥१३१ ॥ प्र.]सुभूयत इति। अत्र गतित्वात्सुशब्दस्य धातोः प्राक्प्रयोगः। 'स्वाट्यं भवं भवते'. त्यादौ खलः खित्करणसामर्थ्याद्धातोरनन्तरं कर्तृकर्मणी प्रयुज्यते। तदाचार्य इति । एतच्च खित्करणादनव्ययस्य मुमालभ्यते। चकारस्य सन्नियोगार्थत्वादीषदुस्सवो- ऽप्युपपदान्याश्रीयन्ते । [ कर्तृकर्मणोश्च ] । अन्येभ्यो। भाषायामिति । छन्दसीत्यधिकाराद्भाषायां न प्राप्नोतीति वचनम्॥*॥इति०महाभाष्यप्रदीपे तृतीयस्याध्यायस्य तृतीये पादे प्रथममाह्निकम्॥*॥ वर्तमान सा । समीपमेव सामीप्यमिति स्वार्थे ष्यवर्णयन्ति । अन्ये समी- पस्य भावः सामीप्यं, वर्तमानस्य सामीप्यं वर्तमानसामीप्यमिति व्याचक्षते । ननु भूतभविष्यतोरनेन प्रत्ययानामतिदेशात्तयोरेव सामीप्यसंबन्धोन वर्तमानस्येति समा- साऽप्रसङ्गः।नैष दोषः। पारंपर्येण संबन्धसद्भावात् । अथाऽस्मिन् पक्षे 'गुणेन नेति षष्ठीसमासप्रतिषेधः कस्मान्न भवति?। अत्र केचिदाहुः-शौक्ल्यादीनां रूपादिविशे. उ.]रणसामर्थ्यादिति। न च 'कुलमुद्रुज' इत्यादिवट्यवहितेऽपि कृद्रहणपरिभाषया मुम्प्रवर्तकत्वेन तच्चरितार्थमिति वाच्यं, भाष्यप्रयोगेणैव व्यवस्थाकल्पनादिति तत्त्वम् । बहुलग्रहणेनेत्यन्येोदुःसवोऽन्युपपदानीति।समासस्तु पर्यायेणेति बोध्यम्॥ अन्येभ्यो । छदसीत्यधिकारादिति । 'छन्दसि गत्यर्थेभ्य' इत्यतः ॥ ॥*॥ इति श्रीशिवभट्टसुतसतीगर्भजनागोजीभट्टकृते महाभाष्यप्रदीपोयोते तृतीयाध्यायस्य तृतीये पादे प्रथममाह्निकम् ॥॥ वर्तमान ॥ समीपमेवेति । कालप्रकरणात् कालेन सामानाऽधिकरण्यार्थमिति भावः । अत्राऽपि पक्षे षष्टीसमास एव । समासाऽप्रसङ्ग इति । भूतभविष्यन्नि- रूपितं वर्तमानस्य यत्सामीप्यं तत्र वर्तमानवत्प्रत्ययाऽतिदेशोऽनर्थकः । ये हि वर्तमाने प्रत्ययास्ते समीपभूतेऽपि तस्मिन् सिद्धा एव, अतो वर्तमाननिरूपितं भूत- भविष्यतोर्यत्सामीप्यं तत्रेत्यर्थः स्वीकार्यः।तथा च वर्तमानपदेन समासाऽप्रसङ्ग इति भावः। सामीप्यसंबन्ध इति तृतीयातत्पुरुषः।सामीप्यनिरूपितः सम्बन्ध इत्यर्थः । सामीप्येनाऽऽश्रयतारूपः साक्षात्सम्बन्धस्तयोरेवेत्यर्थः । पारम्पर्येणेति । तत्र ३१.३पा.२आ.१३१सू.] 8 व्याकरणमहाभाष्यम् 8 ३१५ वत्करणं किमर्थम् ? ॥ 'वर्तमानसामीप्ये वर्तमाने वे'तीयत्युच्यमाने वर्तमाने ये प्रत्यया विहितास्ते [वा] वर्तमानसामीप्ये धातुमात्रात्स्युः । वत्करणे पुनः क्रियमाणे न दोषो भवति ॥ यदि च याभ्यः प्रकृतिभ्यो येन विशेषेण वर्तमाने प्रत्यया विहितास्ताभ्यः प्रकृतिभ्यस्तेनैव विशेषेण वर्तमान- सामीप्ये भवन्ति ततोऽमी वर्तमानवत्कृताः स्युः। अथ हि प्रकृतिमात्राद्वा स्युः प्रत्ययमानं वा स्यानाऽमी वर्तमानवत्कृताः स्युः॥ इह वर्तमानसामीप्ये वर्तमानवद्वेत्युक्त्वा लैंडेवोदाहियते, यदि पुनर्वा लड्भवतीत्येवोच्येत ? ॥ अत उत्तरं पठति ॥ ॥वर्तमानसामीप्ये वर्तमानवद्वचनं शत्राद्यर्थम् ॥ ॥ वर्तमान- सामीप्ये वर्तमानवद्वचनं क्रियते ॥ [किं प्रयोजनम् ?] । 'शत्राद्यर्थम्'। शत्रा- द्यर्थोऽयमारम्भः । एषोऽस्मि पचन् । एषोऽस्मि पचमान इति ॥ नैतदस्ति प्रयोजनम्। लडादेशौ शतृशानचौ, तत्र 'वा लड्भवती'त्येव सिद्धम्॥ यो ती. प्र.]षाणां समासप्रतिषेध इति।अन्ये त्वाः,-अयमेव निर्देशो ज्ञापयति 'अनित्यःसमास- प्रतिषेध' इति । अपरे ब्रुवते,-गुणशब्दस्य संबन्धिशब्दत्वाद्गुणाक्षिप्तस्य गुणिन एव समासप्रतिषेधः, न च वर्तमानः सामीप्यस्य गुणी, भूतभविष्यतोस्तद्गुणत्वात् । वत्करणमिति । 'वर्तमान' इत्येतावतैव वर्तमानसहचरितानां प्रत्ययानां सिद्धत्वा- दिति प्रश्नः । धातुमात्रादिति । वर्तमानग्रहणेन साहचर्यात्प्रत्ययानां रूपमात्रमेव लक्ष्येत, ततश्च सङ्करोपि स्यात्। यस्माद्धातोर्वर्तमाने यः प्रत्ययो विहितः स विशेषा- नुपादानाद्धात्वन्तरादपि स्यादित्यर्थः । लडेवेति । वृत्तिष्विति भावः । शत्राद्यर्थ- मिति । 'लटः शतृशानचा'वित्यनेन वर्तमानाधिकाराद्वर्तमानकालविहितस्यैव लटः शतृशानचौ भवतः,न तु कालान्तरविहितस्येति भावः। लडादेशाविति । लण्मात्रा- देशी । वर्तमानग्रहणस्य तत्रानपेक्षणादिति भावः। यो तहीति। 'पूड्यजोः शानन्' उ.]समीपद्वारा सामीप्येन सम्बन्ध इति भावः।प्रतियोगितासम्बन्धेनाऽन्वयः। वर्त- मानकालप्रतियोगिकसामीप्ये सतीत्यर्थ इत्यन्ये । 'भूतादौ वर्त्तमानसामीप्ये सति वर्तमानवत्प्रत्यया' इति वाच्योऽर्थः। एवञ्च तत्समीपे भूतादौ फलन्तीति बोध्यम् । तद्गुणित्वात् । सामीप्यगुणित्वादित्यर्थः । 'तद्गुणत्वा'दिति पाठे बहुव्रीहिः । अय- मेव युक्तः पाठः । 'वर्तमान' इति प्रथमान्तेन 'वर्तमाने ये प्रत्यया' इत्यर्थः कथं लभ्यतेऽत आह-सहचरितानामिति । लक्षणयेति भावः । रूपमात्रमिति । न तूपाधिविशिष्टमित्यर्थः । वत्करणे तु 'वर्तमानेऽर्थे यथा भवन्ति तथा सामीप्येऽपि भवन्ती'त्यर्थान्न दोष इति भावः । लण्मात्रेति । मात्रशब्दः कात्स्न्र्ये । भाप्ये- यौ तहीति । शत्रानावित्यर्थः। नन्वयमपि वर्तमानसमीपभूतभविष्यतोर्विधीयमानः १ इदं क्वचिन्न । २ 'विशेषणेन' । ३ किं लडेवो' । ४ इदं लुप्तम् ।

३१६ कैयट-विवरणसहितं. [आशंयासां किं कारणम् लडादेशी, एषोऽस्मि पवमानः एषोऽस्मि यजमान इति॥यो चापि लडादेशी तावपि प्रयोजयतः । वर्तमानविहितस्य लटः शतृशानचावुच्येते, अविशेष- विहितश्चाऽयं योगः ॥ शत्राद्यर्थमिति खल्वप्युच्यते बहवश्व शत्रादयः एषोऽ- स्म्यलङ्करिष्णुः । एषोऽस्मि प्रजनिष्णुः ॥ [ वर्तमानसामीप्ये ] ॥ आशंसायां भूतवञ्च ॥३॥३३१३२॥ आशंसा नाम भविष्यत्काला । ॥ ॥ आशंसायां भूतदतिदेशे लडिटोः प्रतिषेधः ॥ ॥ आशंसायां भूतवंदतिदेशे ललिटोः प्रतिषेधो वक्तव्यः ॥ ॥ न वाऽपवादस्य निमित्ताऽभावादनद्यतने हि तयोर्विधानम् ॥*॥ न वा वक्तव्यः ॥ ? ॥ 'अपवादस्य निमित्ताऽभावात्' । नात्राऽपवादस्य निमित्त- मस्ति ॥ कथम् ? ॥ अनद्यतने हि तयोर्विधानम् ॥ अनद्यतने हि तौ विधीयते लडिटौ । न चाऽत्राऽनद्यतनः कालो विवक्षितः ॥ कस्तर्हि ? ॥ भूतकालसामान्यम् । ॥ ॥ आशंसासंभावनयोरविशेषात्तद्विधानस्याऽप्राप्तिः॥ ॥ प्र.] 'ताच्छील्यवयोवचनशक्तिषु चानश्'इवार्यादिभ्यः शतृप्रत्यय इत्यर्थः।वर्तमानविहि- तस्येति। लट्स्म इत्यादिविहितलनिवृत्त्यर्थमवश्यं तत्र वर्तमानग्रहणमपेक्षणीयमिति भावः। अविशेषविहित इति।वर्तमानलक्षणाद्विशेषादन्यस्मिन्विशेषे विहित इत्यर्थः। आशंसायाम् । आशंसेति।आशंसा-अभिमतार्थवाञ्छा,सा वर्तमानापि विष- यस्यभविष्यत्त्वाद्भविष्यत्कालेत्युच्यते।इह चौशंसातिदेशस्य विषयभावेनोपात्ता। आशं- सायां विषय आशंस्यमानक्रियावचनाद्धातोर्भूतवद्वर्तमानवच्च प्रत्ययाभवन्ती'त्यर्थःसंप- द्यते।नवेति।अत्र सूत्रे भूतशब्देन भूतमात्रमुच्यते न तु तद्विशेषोऽनद्यतनस्तत्र सामा- न्यातिदेशे विशेषानतिदेश इति न्यायालकिटौ न भवत इत्यर्थः। आशंसासंभाव- नयोरिति । यद्यविशेषः कथं द्वन्द्वनिर्देश इति चेत् ,शब्दस्वरूपाभिधायित्वाददोषः। उ.]कथमविशेषविहित इत्यत आह-वर्तमानलक्षणादिति।भाष्ये-अयं योग इति। एतद्योगविहित इत्यर्थः । प्रयोजनान्तरमायाह भाष्ये-शत्राद्यर्थमिति । इष्णुजा- दयोऽपि वर्तमान एव विधीयन्त इति भावः । मुत्रः शतुर्नजिङश्चानशश्च सर्व- कालत्वमुक्तं 'भूत' इति सूत्रे भाष्य इति चानशुक्तिः कैयटे चिन्त्या ॥[वर्तमान] आशंसायां। सूत्रप्रयोजनं दर्शयति भाष्ये-आशंसा नामेति। आशंसाया भविष्य- त्कालत्वं कथमत आह-आशंसेति । ननुभविष्यन्त्यामाशंसायामेव प्रत्ययः कस्मा- नेत्यत आह-इह चेति । एवञ्च कालस्य सर्वत्र लकारप्रकृत्यर्थ एवाऽन्वयस्य क्लुप्तत्वान्नाऽऽशंसायां तदन्वय इति भावः। अपवादस्येति भाष्यस्य,-अपवादस्य निमित्तमुपादायाऽतिदेशाऽभावादित्यर्थः। तदाह-नाऽत्राऽपवादस्यतिानिमित्तमुपात्त- १ 'दनुदेशे' । २ इदं भाष्यमिति केचित् । ३ 'भूतसामान्यं । ४ 'इहत्विति' ।

३अ.३पा.२आ.१३२सू.] व्याकरणमहाभाष्यम् , आशंसासंभावनमित्यविशिष्टावेतावौँ । 'आशंसासंभावनयोरविशेषात्तद्विधा- नस्याप्राप्तिः' । आशंसायां ये विधीयन्ते ते संभावनेऽपि प्राप्नुवन्ति, ये च संभावने विधीयन्ते ते आशंसायामपि प्रामुवन्ति ॥ किं तर्युच्यते 'अप्राप्ति'- रिति ? ॥ न साधीयः प्राप्तिर्भवति ॥ इष्टा व्यवस्था न प्रकल्पेत । न सर्वे सर्वश्रेष्यन्ते । ॥*॥ न वा संभावनावयवत्वादाशंसायाः॥*॥ न वैष दोषः॥ किं कारणम् ? ॥ 'संभावनावयत्वादाशंसायाः'। संभावनावयवात्मिकाऽऽशंसा । आशंसा नाम प्रधारितोऽर्थोऽभिनीतश्चाऽनभिनीतश्च । संभावनं नाम प्रधारि. तोऽर्थोऽभिनीत एव ॥॥अर्थाऽसन्देहो वाऽलमर्थत्वात्संभावनस्य॥*॥अथ वाs- र्थाऽसन्देह एव पुनरस्य ॥ किं कारणम् ?॥ 'अलमर्थत्वात्संभावनस्य' । संभा- वने आलमयं गम्यते, आशंसायां पुनरनालमर्थ्यम् ॥ आचार्यप्रवृत्तिापयति संभावने[ऽप्य]नालमर्थ्य गम्यत' इति यदयं संभावनेऽलमित्याह । तस्मा- त्सुष्टच्यते 'न वा संभावनावयवत्वादाशंसाया'इति ॥ [ आशंसायां ] । प्र.]आशंसासंभावनयोरर्थभेदाऽभावादविशेष इत्यर्थः। आशंसा-अनागतवस्तुवाञ्छा। संभावनमपि भाविवस्तूत्प्रेक्षणमिति भावः। नवेति । अवयवशब्दः पृथग्भाववाची। संभावनात् पृथगेवाशंसेत्यर्थः । प्रधारितोऽर्थ इति । 'इदं मे भृया दिति मनसा विषयीकृतोऽर्थः-आशंसाविषयत्वादाशंसाशब्देनाऽत्र उक्तः।अभिनीत इति। कारण- योग्यतावशाच्छक्यप्राप्तिरित्यर्थः। ततोन्योऽनभिनीत इत्यर्थः । अन्ये त्वप्रधारित इति पठन्ति । अनिर्धारितोऽवश्यंभावितया अनिश्चित इत्यर्थः।संभावनं चाऽसति विधुर- प्रत्ययोपनिपाते भवितव्यमनेनार्थेनेति ज्ञान'मित्यनयोर्मेदः। यदयमिति। यदि संभावने उ.मस्तीत्यर्थः।ततः किमत आह-अत्रेति। कथं द्वन्द्वति। विरूपाणामपि समानार्था- ना'मित्येकशेषारम्भादिति भावः । शब्देति । तस्य भिन्नत्वाद्भिन्नार्थत्वमिति भावः। उत्प्रेक्षणमिति । तदपीच्छाविशेष एवेत्यभिमानः । नन्वाशंसायाः सम्भावनाऽ- वयवत्वं बाधितमत आह-अवयवशब्द इति । प्राप्यत्वेन निश्चयविषयत्वरूपप्रधा- रितत्वस्याऽऽशंसाविषयेऽसम्भवादाह-मनसेति । सङ्कल्पात्मकेनेत्यर्थः। अनेनेच्छा- रूपता आशंसाया उक्ता । आशंसायाः प्रधारितार्थत्वाऽसम्भवादाह-आशंसाविष- यत्वादिति । अनिश्चित इति । अत एवेच्छाविषयः । अनेनेच्छारूपता तस्या उक्ता । विधुरप्रत्ययो-विपरीतकारणम् । तेन सम्भावितस्यार्थस्य शक्यप्राप्तित्वं सूचितम् । सम्भावनं नामाऽप्रधारित' इति पाठे एककोट्यंशे उत्कटत्वेऽप्यन्यांशेऽ- नुत्कटज्ञानसत्त्वादनिश्चयरूपज्ञानविषयः । तेन ज्ञानरूपतोक्ता । 'प्रधारितोऽर्थ' इति पाठे अंशेऽवश्यभावित्वेन निश्चित इत्यर्थः । अभिनीत एवेति । शक्यप्राप्तिरि- १ 'नामाऽप्रधारित' । २ 'मिति चेदित्याह' । ३ इदं क्वचिन्न । ४ 'इति' । ।

३१८ ® कैयट-विवरणसहितं. [क्षिप्रवचने vie क्षिप्रवचने लट् ॥ ३॥३॥१३३ ॥ ॥*॥ क्षिप्रवचने लट आशंसावचने लिङिप्रतिषेधेन ॥ ॥ क्षिप्रवचने लूट आशंसावचने लिङ्भवति विप्रतिषेधेन । क्षिप्रवचने लड्भवतीत्यस्याऽव. काश:-उपाध्यायश्चेदागतः क्षिप्रमध्येप्यामहे । आशंसावचने लिङ् भवतीत्य- स्यावकाशः-उपाध्यायश्चेदागतः आशंसे युक्तोऽधीयीय । इहोभयं प्रामोति- उपाध्यायश्चेदागतः आशंसे क्षिप्रमधीयीय । लिङ्भवति विप्रतिषेधेन ॥ ॥*अनिष्पन्ने निष्पन्नशब्दः शिष्योऽनिष्पन्नत्वात् ॥ ॥ अनिष्पन्ने निष्पन्नशब्दः शिष्यः-शासितव्यः ॥ किं कारणम् ? ॥ 'अनिष्पन्नत्वात्' । देवश्चेदृष्टो निष्पन्नाः शालयः। तत्र भवितव्यं 'संपत्स्यन्ते शालय' इति ॥ ॥ सिद्ध तु भविष्यत्प्रतिषेधात् ॥*॥ सिद्धमेतत् ॥ कथम् ? ॥ 'भविष्यत्प्रतिषेधात्' । यल्लोको भविष्यद्वाचिनः शब्दस्य प्रयोगं न मृप्यति । कश्चिदाह 'देवश्चेदृष्टः संपत्स्यस्यन्ते शालय' इति । स उच्यते 'मैवं वोचः, संपन्नाः शालय इत्येवं ब्रूहि' ॥ ॥ ॥ हेतुभूतकालसंप्रेक्षितत्वाद्वा ॥*॥ हेतुभूतकालसंप्रेक्षितत्वाद्वा प्र.]नियमेनालमर्थो गम्येत तदा व्यभिचाराभावादलमिति विशेषणं नोपाददीतेत्यर्थः। क्षिप्रवच । अनिष्पन्न इति। अनाशंसार्थमिदम् । 'वृष्टश्चे'दित्यादि वस्तुस्व- रूपकथनम् । सिद्धंत्विति । अपशालिबीजसंयोग एव निष्पत्तिः। शालीनां तत्रैव निष्पत्तेर्वर्तनादिति भावः । हेतुभूतकालसंप्रेक्षितत्वावति । कारणसम्बन्धी काल: कार्यस्य व्यवस्थाप्यते कारणान्तरापेक्षाभावप्रतिपादनायेत्यर्थः । हेतुभूतस्य वर्षादेर्यः कालः स एव कार्ये संप्रेक्षितः, कारणस्यैव कार्यरूपतया विवक्षितत्वात्। कार्यकारण- उ.]त्यर्थः। ज्ञानमिति । ज्ञानेच्छयोश्च भेदः स्पष्ट एवेत्यर्थः। तयो दे युक्त्यन्तरमाह भाष्ये-अर्थाऽसन्देहो वेति । तयोराऽविशेषेऽप्यालमाऽनाल- मर्थ्यकृतो भेद इति भावः । तद्दूषयति-आचार्येति । नाऽऽलमर्थ्यमिति । निय- मेनाऽऽलमर्थ्य न गम्यत इत्यर्थः ॥ [ आशंसायां ] ॥ क्षिप्रव । भाष्ये-निष्पन्ने इति । भविष्यति भूतप्रत्ययो वक्तव्य इत्यर्थः । अनाशंसार्थमिति । आशंसायां पूर्वेण भूतवदतिदेशाद्भविष्यत्यपि क्तः सिद्ध इति भावः। आशंसाऽभावं दर्शयति भाष्ये-देवश्चेदृष्ट इति । तदेवाह-वस्तुस्वरूपेति। न त्वस्याऽऽशंसाविषयतेति भावः । वृष्टौ जातायामेवं वादो लोकस्य । भाष्ये- यल्लोक इति । यल्लोको भविष्यत्प्रयोगं न मृष्यति तस्मान्न मुख्या निष्पत्तिनिष्पदे- रर्थः, किन्त्वन्य एवेत्यर्थः । तमेवाह-अप्शालीति । अयमेव निष्पत्तिपदार्थोऽ- भिमतस्तस्येति भावः । शालीनामिति-पूर्वाऽन्वयि । तत्रैवेति । अप्शालिबीज- १ 'निष्पद्यन्ते' 'संपद्यन्ते' 'निष्पत्स्यन्ते । ।

। ३अ.३पा.२आ१३३सू.) 8 व्याकरणमहाभाष्यम् पुनः सिद्धमेतत् । हेतुभूतकालं वर्ष, वर्षकाला च क्रिया ॥ यदि तर्हि निष्प- मोऽर्थः किं निष्पन्नकार्याणि न क्रियन्ते?॥ कानि?॥ भोजनादीनि ॥ अन्यदि- दांनीमेतदुच्यते-'किं निष्पन्नकार्याणि न क्रियन्त इति। यत्तु तन्निप्पन्नोऽर्थो न निष्पन्न इति स निष्पन्नोऽर्थः॥ अवश्यं खल्वपि कोष्टगतेष्वपि शालिप्ववहन. नादीनि प्रतीक्ष्याणि । एवमिहापि निष्पन्नोर्थोऽवश्यं तु जननादीनि प्रती. क्ष्याणि ॥ ॥ अस्त्यर्थानां भवन्त्यर्थे सर्वा विभक्तयः, कर्तुर्विद्यमानत्वात् ॥॥ प्र.योरभेदाध्यवसायादित्यर्थः। भाष्यकारस्त्वेतदेव च वस्वन्यथा व्याचष्टे-हेतुभूत- कालं वर्षमिति। हेतुभूतस्य हेतुत्वं प्राप्तस्य मेघादेर्यः कालः स एव वर्षस्य । वर्ष- स्य च यः कालः स एव निष्पत्तिक्रियाया इत्यर्थः। जननादीनीति । जननम्-अ- भिव्यक्तिः । एतदुक्तं भवति-विद्यमानोप्यर्थोऽनभिव्यक्तोर्थक्रियां न करोति । न चैता- वता तस्याऽसत्त्वम् । कारणसामय्या कार्योत्पादानुमानात् । स्थूलेन तु रूपेणाभि- व्यक्तोऽर्थक्रियां संपादयति । अस्त्यर्थानामिति । सत्तावाचिनामित्यर्थः । भवन्ती' शब्दो लटः पूर्वाचार्यसंज्ञा । कर्त्तर्विद्यमानत्वादिति । ततश्च सत्ताया वर्तमानत्वं उ.]संयोगरूपनिष्पत्तावेवाऽत्र प्रायो निःपूर्वकपवर्तमानत्वात्तद्वाचकत्वादित्यर्थः । निष्पदेरित्युपलक्षणं सम्पदेरपि। निष्पत्ते रिति पाठेऽप्ययमेवार्थः श्तिपा निर्देशात् । श्यन् तु कर्थकत्वाऽभावान कृतः। यद्वा सत्कार्यवादे तत्रैव निष्पत्तेवर्तमानत्वम् । आयं व्याख्यानमेव युक्तम् ।भाष्ये-हेतुभूतेति। हेतुभूतस्य कारणत्वं प्राप्तस्य कार- णस्य कालं कार्ये आरोष्य प्रयोग इत्यर्थः । तदारोपफलमाह-कारणान्तरेति । तेन चाऽवश्यभावित्वं फलति । कारणस्यैवेति । अपामप्युपादानकारणत्वादिति भावः । अन्यथेति। वृष्टेः प्रागपि मेघोत्पत्त्यनन्तरमीदृशप्रयोगस्य दर्शनात्तत्र च वृष्ट- रपि वास्तवभूतत्वाऽभावात्तदुपपत्तिमपि दर्शयितुमिति भावः। मेघादेरिति । मेघाधु- त्पत्तेरित्यर्थः। तत्राद्यपक्षे शङ्कते-भाष्ये-यदि तीति । अभिव्यक्तिरिति । स्थूल. रूपेणाऽभिव्यक्तिरित्यर्थः । निष्पत्तिस्त्वत्राऽप्शालिबीजसंयोग एव, तत्राऽपि कार्य- सत्त्वादिति भावः । तद्दर्शयति-एतदिति । कारणसामय्येति । ननु कार्यसम- धिगम्यं सामग्रीत्वं, तथा च कार्याऽनुमाने इतरेतराश्रय इति चेन्न, वृद्धपरम्परया सामग्रीत्वग्रहात् । तेनाऽवश्यभावित्वेन कार्योत्पत्तावनुमितायां तत्र कारणकालारो- पेण भूतप्रयोगेऽपि स्थूलरूपेणाऽभिव्यक्तिरूपमुख्यजननोत्तरमेव क्रियाकारित्वमिति भावः ॥ नन्वस्त्यर्थानामित्ययुक्तं, न ह्यस्तिः केषाश्चिद्धातूनामर्थोत आह-सत्तेति । अस्तेरर्थोऽर्थो येषामित्यर्थ इति भावः। कर्तुर्विद्यमानत्वेऽपि क्रियायाः कालत्रय- योगदर्शनादाह-ततश्च सत्ताया इति। कर्तृसत्तयोः समनियतत्वादिति भावः। अवि- १ 'कालवर्ष' । २ 'दानीमुच्य' । । :

३२० कैयट-विवरणसहितं [क्षिप्रवचने अस्त्यर्थानां भवन्त्यर्थे सर्वा विभक्तयः शासितव्याः। कूपोऽस्ति, कूपो भवि- प्यति, कूपो भविता, कूपोऽभूत्, कूप आसीत्, कूपो बभूवेति ॥ कथं पुन- ज्ञायते भवन्त्या एषोऽर्थ इति ?॥ 'कर्तुर्विद्यमानत्वात् ॥ कर्ताऽत्र विद्यते ॥ कथं पुनर्ज्ञायते कर्ताऽत्र विद्यत इति ? ॥ कूपोऽनेन कदा चिदृष्टो न चास्य किं चिदप्यपायं पश्यति । स तु तत्र बुद्ध्या नित्यां सत्तामध्यवस्यति,-कूपोऽ. स्तीति ॥ ॥ सिद्धं तु यथास्वं कालसमुच्चारणात्॥*॥ सिद्धमेतत् ॥ कथम् ?॥ [ 'यथास्वं कालसमुच्चारणात्' ] । यथास्वमेता विभक्तयः स्वेपु स्वेषु कालेषु प्रयुज्यन्त इति॥ कथं पुनर्ज्ञायते यथास्व मेता विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्त इति ? ॥॥ अवात्वात् ॥ ॥ यन्न वा भाष्यन्ते ॥ ॥ असिद्धविप- यासश्च ॥ ॥ असिद्धश्च विपर्यासः। न हीह कश्चित्कूपोऽस्तीति प्रयोक्तव्ये 'कृपोऽभूदिति प्रयुङ्क्ते ॥ किं पुनः ‘कारणं न वा भाष्यन्ते' 'असिद्धश्च विप. र्यासः' ?॥ इह हि किं चिदिन्द्रियकर्म, किं चिदुद्धिकर्म । इन्द्रियकर्म समा. प्र.]न तु भूतभविष्यद्रूपत्वमित्यर्थः। अवात्वादिति । अविकल्पितत्वादित्यर्थः। एत- देवाह-यन्न वा भाष्यन्त इति । एतदुक्तं भवति, यदि वचनेन वर्तमाने लडादयो विधीयेरन् तदा लोके विकल्पेन प्रयुज्येरन । 'कूपोऽभूदिति प्रयोक्तव्ये 'कूपो- भविष्यती'त्यपि प्रयुज्येत। तदेव दर्शयति-असिद्धविपर्यासश्चेति । इह किं चिदि- ति । इन्द्रियव्यापारकालस्य कूपसत्त्वं प्रति भेदकत्वेनाश्रयणात्तस्यापि तत्काल- वमित्यर्थः । तदुक्तं हरिणा-'सतामिन्द्रियसंबन्धात्सैव सत्ता विशिष्यते । भेदेन व्यवहारो हि वस्त्वन्तरनिबन्धः॥ अस्तित्वं वस्तुमात्रस्य बुद्ध्या तु परिगृह्यते । यः समासादनादिः स तत्र न विवक्षितः ॥' इति ॥ उ.]कल्पितत्वादिति । प्रयोगे इत्यर्थः। यन्न वेति। 'प्रयोगे' इति शेषः। वचनेन- 'अस्त्यर्थाना'मिति वार्तिकेन। असिद्धविपर्यास इति भाष्येऽपि,-'लोके' इति शेषः। चो हेतौ।यतः शिष्टलोकानामसिद्धो विपर्यासो विपरीतःप्रयोगोऽतो न विकल्पेन प्रयु- ज्यन्तेऽन्यैरतोऽत्र यथाकालमेव प्रत्यया इत्यर्थः।किं पुनः कारणमितिाकिं पुनः कारणं वान भाष्यन्ते,किञ्च कारणं शिष्टानां विपर्यासाऽसिद्धिरिति भावः। वास्तवकालभेदस्या- ऽभावाद्वचनेनैव साधने प्राप्नोत्येव विपर्यासादिकमिति भावः । इन्द्रियव्यापारः-त- प्राप्तिः । इन्द्रियपदेनाऽत्र कर्मेन्द्रियं । सतां वस्तूनामिन्द्रियसम्बन्धात्-तत्कृत- प्राप्तिसंबन्धादेकैत्र सत्ता कालभेदमापद्यते। वस्त्वन्तरम्-इन्द्रियव्यापारः। तदेवाह- यः समासादनादिति । तत्र-बुद्धिकर्मव्यवसायविषये। वर्तमानेति । वर्तमाना- १ 'कूपोऽत्रास्तीति'। २ 'यथास्वकालं समु' । ३ इदं लुप्तम् । ४ 'यथा स्वकालमेता' । ५ इदं क्वचिन्न ।

३अ.३पा.आ.१३५सू.] ® व्याकरणमहाभाष्यम् & ३२१ सादनं, बुद्धिकर्म व्यवसायः ॥ एवं हि कश्चित्पाटलिपुत्रं जिगमिषुराह 'योs- यमध्वा गन्तव्य आ पाटलिपुत्रादेतस्मिन्कूपो भविष्यति' ॥ अनद्यतने कुपो भविते'ति । समासाद्य 'कूपोऽस्तीति । समासाद्यातिक्रम्य 'कूपोऽभूदिति । समासाद्यातिकम्योषित्वा 'कृप आसी'दिति । समासाद्यातिक्रम्योपित्वा विस्मृत्य 'कूपो बभूवेति । तद्यदेन्द्रियकर्म तदेता विभक्तयो, यदा हि बुद्धि- कर्म तदा वर्तमाना भविष्यति ॥ [क्षिप्रवचने लट् ] ॥ नाऽनद्यतनवत् क्रियाप्रबन्धसामीप्ययोः॥ ३॥३॥१३५ ॥ किमर्थमिमौ द्वौ प्रतिषेधावुच्यते नाऽद्यतनवदित्येवोच्येत? ॥*॥ नाऽन- द्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः ॥ ॥ नानद्यतनवत्प्रतिषेधे लङलुटोः प्रति- षेधो द्रष्टव्यः ॥ ॥ अद्यतनवद्वचने हि विधानम् ॥*॥ अद्यतनवद्वचने हि सति विधिरयं विज्ञायेत ॥ तत्र को दोषः ? ॥*॥ तत्र लविधिप्रसङ्गः ॥*॥ तत्र लड्विधिः प्रसज्येत । ॥ ॥ लुङ्लुटोश्चाऽयथाकालम् ॥*॥ लुङ्लटोश्चाऽयथा. कालं प्रयोगः प्रसज्येत । लुडोऽपि विपये लट् स्यात्, लटश्च विषये लुङ् प्र.] नानद्यतन । तत्र लविधिप्रसङ्ग इति । अपूर्वविधानेऽद्यतने लटो दृष्टत्वा- द्भुतभविष्यदनद्यतने प्रसङ्गः । लुङ्लुटोश्चेति । ननु वत्करणात्सादृश्यार्थात्संकरो न भविष्यति । नैतदस्ति । अप्राप्तप्रापणार्थत्वादतिदेशस्य भूतभविष्यच्छब्दोपादानेन लुङ्लटोविधानेऽप्यद्यतने दृष्टत्वमात्रेणाऽयथाकालमपि प्रसङ्ग उच्यतोवत्करणं तु तदा विस्पष्टार्थमेव स्यात् । प्रतिषेधोपादाने तु वत्करणमनद्यतनविशेषविहितानामपि प्रतिषेधार्थम्। अन्यथा वत्करणमनर्थकं स्यात् ,नानद्यतनइत्येव यात्। तेन ‘परोक्षे उ.] थिंकेत्यर्थः ॥ [ क्षिप्रवचने] । नाऽनद्यतन । अपूर्वेति । अद्यतनशब्दोपादानेन कस्याऽपि विध्यभावात्तत्र दृष्टत्वमात्रेणाऽतिदेशो वाच्यः।तथा च भूतादिरूपेऽद्यतने लंडपि स्यादितिभावः।भाष्ये- लुङ्लटोरिति। भविष्यत्यद्यतने लुङ्, भूताद्यतने लट् स्यादिति भावः। अप्राप्तेति । लुङ्लटौ भूतभविष्यतोरद्यतने दृष्टौ, तत्राऽद्यतनवदित्युच्यमाने तस्मिन्नेवाऽद्यतने तयोरतिदेशोऽनर्थक इति कश्चिदंशस्त्याज्यः । तत्राऽद्यतनांऽशत्यागेनाऽतिदेशे भूता- ऽनद्यतने लुङ, भविष्यति तत्र लुडिति प्रयोगसिद्धावपि अद्यतनव'दिति विरुध्यत। तस्माद्भुतांशपरित्यागेनाऽतिदेशे आश्रीयमाणे यथाकालप्रसङ्ग इति भावः। भाष्ये- यथाप्राप्तमेवेति । स्वैरेव विधायकैः स्वेषु स्वेषु कालेषु भवन्तीति न संकरप्रसङ्ग इत्यर्थः । तेन परोक्षे इति । परन्त्वत्र मानं चिन्त्यम्, भाष्ये लुङ्लुटोरेवोपक्रमे उत्तेरिति दिक् ॥ [ नानद्यतनवत् ] । १ इतिः क्वचिन । २ 'भविष्यन्ति' । ३ 'विधानमिदम्' । ४ 'भूताचंश । २१ ३२२ कैयट-विवरणसहितं [ भविष्यति मर्यादा . स्यात् ॥ अद्य पुनरयं द्वौ प्रतिषेधावुत्वा तूष्णीमास्ते यथाप्राप्तमेवाद्यतने भविष्यतीति । [नानद्यतनवत्कियाप्रबन्ध ] ॥ भविष्यति मर्यादावचनेऽवरस्मिन् ॥ ३॥३॥१३६ ॥ किमर्थमिदमुच्यते न 'नानद्यतनव'दित्येव सिद्धम् ? ॥*॥ भविष्यति- मर्यादावचनेऽवरस्मिन्नित्यक्रियाप्रबन्धार्थम् ॥ ॥ [ भविष्यति मर्यादावचनेऽवर- स्मिन्नित्यक्रियाप्रबन्धार्थम् ] । अक्रियाप्रबन्धार्थोऽयमारम्भः ॥ किमुच्यते- ऽक्रियाप्रबन्धार्थ इति, न पुनः क्रियाप्रबन्धार्थोऽपि स्यात्।।*॥ क्रियाप्रबन्धार्थ- मिति चेद्वचनानर्थक्यम् ॥ ॥ क्रियाप्रबन्धार्थमिति चेद् [ वचनानर्थक्यम् ] वचनमनर्थकं [भवंति], सिद्धं क्रियाप्रबन्धे पूर्वेणैव ॥ इदं तर्हि प्रयोजनम् 'अनहोरात्राणामिति वक्ष्यामीति । इह मा भूत्-'योऽयं त्रिंशद्रात्र आ- गामी तस्य योऽवरः पञ्चदशरात्र' इति ॥॥ अहोरात्रप्रतिषेधार्थमिति चेन्नाऽ- निष्टत्वात् ॥ ॥ अहोरात्रप्रतिपेधार्थमिति चेत्तन ॥ किं कारणम् ? ॥ 'अनि- ष्टत्वात् । अत्रापि नानद्यतनवदित्येवेप्यते ॥ इदं तर्हि प्रयोजनं-भविष्यतीति वक्ष्यामीति । इह मा भूत्,-'योऽयमध्वा गत आ पाटलिपुत्रात्तस्य यदवरं साकेता दिति ॥ 'नानिष्टत्वात्' । अत्रापि नानद्यतनवदित्येवेप्यते ॥ इदं तर्हि प्रयोजन-मर्यादावचन इति वक्ष्यामीति । इह मा भूत् योयमध्वाऽपरिमाणो गन्तव्यस्तस्य यदवरं साकेता दिति ॥ 'नानिष्टत्वात् । अत्रापि नानद्यतनव- प्र.लिट्' 'हशश्वतोर्लङ् च' 'लट् स्म' 'पुरि लुङ् चास्मे' इत्येतत्सूत्रविहिता अपि प्रत्ययाः प्रतिषिध्यन्ते। [नानद्यतनवत् ] । भविष्यति । अक्रियाप्रबन्धार्थमिति । एतच्चोपलक्षणं, तेन असामीप्या- थं चेति द्रष्टव्यम् । वचनसामर्थ्याच्च क्रियाप्रबन्धसामीप्योरिति निवृत्तम् । अन- होरात्राणामिति । उत्तरसूत्रस्य प्रयोजनमेतत्स्यादिति भावः । अनिष्टत्वादिति । कियाप्रबन्धसामीप्ययोरहोरात्रविभागेऽप्यनद्यतने प्रतिषेध इष्यत इत्यर्थः।मर्यादावचन इति । नियमार्थमेतत् स्यान्मर्यादावचन एवेति भावः । अनापीति । विधिनियम- संभवे विधेया॑यस्त्वात् । [ भविष्यति मर्यादावचने ] उ.] भविष्यति। उत्तरसूत्रे सप्रयोजनमेतदिति पाठः । भाष्ये त्रिंशदात्र इति । 'संख्यापूर्वं रात्रं क्लीब'मिति त्वस्मादेव भाष्यप्रयोगात् , 'लिङ्गमशिष्यं लोकाश्रयत्वा- लिङ्गस्ये'त्युक्तेश्चाऽनित्यमिति भाष्ये-योऽयमध्वापरिमाण इति । 'अपरिमाण' इति च्छेदः । नियमार्थमिति । क्रियाप्रबन्धविषय इति भावः । विधीति । अक्रियाप्रबन्धादाविति भावः ॥ [ भविष्यति मर्यादा ] ॥ १ इदं लुप्तं स्यात् । २ इदं वचिन्न । ३ साकेतः-अयोध्या । भावः ।

३अ.३पा.२आ.१३८सू.] 8 व्याकरणमहाभाष्यम् ३२३ .. दित्येवेष्यते ॥ इदं तर्हि प्रयोजनम्-अवरस्मिन्निति वक्ष्यामीति । इह मा भूत् , 'योऽयमध्वाऽऽपाटलिपुत्राद्गन्तव्यस्तस्य यत्परं साकेता दिति। 'नानिष्ट- त्वात्। अत्रापि नानद्यतनवदित्येवेष्यते। तस्मात्सष्ठुच्यते 'भविष्यति मर्यादा. वचनेऽवरस्मिन्नित्यक्रियाप्रबन्धार्थ, क्रियाप्रबन्धार्थमिति चेद्वचनानर्थक्य मिति। कालविभागे चाऽनहोरात्राणाम् ॥ ३॥३॥१३७ ॥ ॥*॥ अनहोरात्राणामिति तद्विभागे प्रतिषेधः ॥*॥ अनहोरात्राणामिति चेत्तद्विभागे प्रतिषेधो वक्तव्यः । योऽयं त्रिंशदात्र आगामी तस्य योऽवरोऽर्द्ध- मास' इति । ॥*॥ तैश्च विभागे ॥ ॥ तैश्च विभाग इति वक्तव्यम् । 'योयं मास आगामी तत्य योऽवरः पञ्चदशरात्र' इति। तदप्यं विजानीयात्, 'अहो- रात्राणामेवाहोरात्रैविभागे प्रतिषेधो भवतीति । तदाचार्यः सुहृद्भूत्वा- ऽन्वाचष्टे 'अनहोरात्राणामिति तेपां विभागे तैश्च विभाग' इति ॥ परस्मिन्विभाषा ॥३॥३११३८ ॥ कस्मिन्परस्मिन् ? ॥ 'कालविभागे' ॥ कुत एतत् ? ॥ योगविभाग- करणसामर्थ्यात् ॥ [ परस्मिन्विभाषा] । लिङिमित्ते लङ् क्रियातिपत्तौ ॥३॥३॥१३९ ॥ साधनातिपत्तावित्यपि वक्तव्यम् । इहापि यथा स्यात् , अभोक्ष्यत भवा- प्र.] कालविभा । तद्विभाग इति। अनहोरात्राणामिति संबन्धसामान्ये षष्टी, न कर्मणि, नापि करि। तेन यदाऽहोरात्राणामन्येन कालेन विभागोऽन्यस्य वा अहो- रात्रैरहोरात्राणां वाऽहोरात्रैः सर्वथा प्रतिषेध इत्यर्थः ॥ [कालविभागे चान] ॥ परस्मिन् । योगविभागकरणसामर्थ्यादिति । इह 'भविष्यति मर्यादावचने- बरस्मिन्ननहोरात्राणा'मित्येकयोगे कर्तव्ये पृथग्योगकरणं परस्मिन्विभाषे'त्यत्र काल- विभागग्रहणसंबन्धार्थमेवेत्यर्थः ॥ [ परस्मिन्विभाषा] ॥ लिङ्गिमित्ते । साधनातिपत्ताविति । साधनं-मांसादि। तस्याऽतिपत्तौ क्रियानिष्पत्तावपि लुङ्भवतीति भावः। अभोक्ष्यतेति। मांसस्यात्राऽनिष्पत्तिः।भोजन- उ.] कालविभागे चा । 'द्वन्द्वश्च प्राणी त्यादिवदहोरात्राणामहोरात्रैविभागे एव स्यादतो वार्निकमनहोरात्राणामिति । तयाचष्टे-संबन्धसामान्ये इति ॥ परस्मिन्विभाषा । एकयोगेति । सामर्थ्यात्कालविभागविषय एव निषेधः, नहि देशविभागस्याऽहोरात्रैः सम्बन्धोऽस्तीति भावः । पृथग्योगेति । कालविभाग- ग्रहणसामर्थ्याच्चेत्यपि बोध्यम् ॥ [ परस्मिन्विभापा] ॥ लिनिमित्ते। कुतश्चिन्निमित्तात् क्रियाया अनिष्पत्तिः-क्रियाऽतिपत्तिः । १'विभागे प्रतिषेधो वक्तव्यः। २इदं क्वचिन्न।३'द्वेष्यं'।४इदं वार्तिकमित्यन्ये ।

३२४ कैयट-विवरणसहितं [भूते च न्मांसेन यदि मत्समीप आसिष्यतेति ॥ तत्तर्हि वक्तव्यम् ?॥ न वक्तव्यम् । नाऽन्तरण साधनं क्रियायाः प्रवृत्तिरस्तीति साधनातिपत्तिश्चेक्रियातिपत्तिरपि भवति । तत्र क्रियातिपत्तावित्येव सिद्धम् । [ लिनिमित्ते] ॥ भूते च ॥ ३३१४० ॥ ॥१॥ भूते लताप्यादिषु ॥*॥ भूते लडुताप्यादिषु द्रष्टव्यः । उताध्यै- प्यत । अप्यध्यैष्यत ॥ [ भूते च ] । वोताप्योः ॥ ३३।१४१ ॥ ॥*॥ विभाषा गर्हाप्रभृतौ प्रागुताऽपिभ्याम् ॥ ॥ विभाषा गर्हाप्रभृती प्रागुतापिभ्यामिति वक्तव्यम्। वोताप्योरिति ह्युच्यमाने सन्देहः स्यात्, प्राग्वो- ताऽपिभ्यां, सह वेति । तदाचार्यः सुहृद्भुत्वाऽन्वाचष्टे 'विभाषा गर्हाप्रभृतौ प्रागुताऽपिभ्या मिति ॥ [ घोताप्योः ] ॥ गर्दायां लडपिजात्योः॥ ३।३।१४२॥ ॥॥ गर्दायां लविधानानर्थक्यं क्रियाऽसमाप्तिविवक्षितत्वात् ॥ ॥ गर्हायां लविधिरनर्थकः ॥ किं कारणम् ? ॥ 'क्रियाऽसमाप्तिविवक्षितत्वात् । क्रियाया अत्राऽसमाप्तिर्गम्यते । एप च नाम न्याययो वर्तमानः कालो प्र.]क्रियायास्तु निष्पत्तिरेव । साधनातिपत्तिश्चेदिति । करणभेदादिन्नर भोजन- किया। तेन मांसातिपत्तौ मांसभोजनक्रियाऽतिपत्तिरेवेत्यर्थः॥[लिनिमित्ते ] ॥ भूते चाभूत इति। वक्ष्यमाणसूत्रार्थपर्यालोचनलभ्यं चैतत्। उताग्यो'रिल्यारभ्य यल्लिङ्गिमित्तं तत्र भूते क्रियातिपत्तावनेन लढप्रत्ययः, प्राक ततो विकल्प इत्यर्थः।। वोताप्योः । विभापेति । 'गर्हायां लडपि जावो रित्यनेन लविधानालिङ्गि- मित्ताऽभावाद्विभाषा कथमि लिङ् चत्यतः प्रभृति प्रागुताप्योः समर्थयोरत्यतः सूत्रा- द्यल्लिङ्गिमित्तं तत्र लूल्लिकल्पः । मर्यादायां ह्यत्राल् ,नाभिविधावित्यर्थः। गांप्रभृता- विति । गर्हादिविशिष्ट प्रकृत्यर्थ इत्यर्थः ॥ [ बोताप्योः ] ॥ उ.]साधनाऽतिपत्तिः-साधनविशेषविशिष्टक्रियाऽतिपत्तिरित्यर्थः ॥ भूते चाउताप्योः प्राग 'वा' इत्यस्याऽधिकार इत्युक्त्याऽन्यस्य तदुत्तरमप्यधिकार इति लभ्यते, तदन्वाचष्टे इत्याह-वक्ष्यमाणेति । तत्रेति। तत्रापीत्यर्थः। लुङ्प्रत्यय इति । 'नित्य'मिति शेषः ॥ [ भूते च] ॥ वोताप्योः । भाष्ये विभाषा गर्दाप्रभृताविति । गह्रविशिष्टप्रकृत्यर्थविषय- विभाषापदघटित-'विभाषा कथमि लिङ् चेति सूत्रप्रभृतिष्वित्यर्थः । अनन्तरसूत्र- त्यागे बीजमाह-गर्हायां लडपीति ॥ [वोताप्योः] । १'समाप्ते विव'।२ विधानानर्थक्यं'।३ क्रियाया असमाप्तेवि' ४'प्तिर्विवक्षिता'। ।

३अ.३पा.२आ.१४५सू.] * व्याकरणमहाभाष्यम् , ३२५ V/v :v :vvvvv यत्र क्रियाऽपरिसमाता भवति तत्र 'वर्तमाने ल'डित्येव सिद्धम् ॥ यदि वर्त- माने लडिल्येवमत्र लड्भवति शतृशानचापि तर्हि प्रामुतः । इप्येते च शतृ- शानचौ । अपि मां याजयन्तं पश्य । अपि मां याजयमानं पश्य ॥ अनवक्लुप्त्यमर्षयोरकिंवृत्तेऽपि ॥ ३॥३॥१४५ ॥ ॥*॥ किंवृत्तस्यानधिकारादुत्तरत्राऽकिंवृत्तग्रहणानर्थक्यम् ॥*॥ किंवृत्तस्या- नधिकारादुत्तरवाऽकिंवृत्तग्रहणमनर्थकम् । निवृत्तं 'किंवृत्त' इति, तस्मिन्नि- वृत्तेऽविशेषेण किंवृत्ते चाऽकिंवृत्ते च भविष्यति ॥ इदं तर्हि प्रयोजनम्,-उप- पदसंज्ञां वक्ष्यामीति ॥ उपपदसंज्ञावचने किं प्रयोजनम् ? ॥ 'उपपदमति'. डिति समासो यथा स्यात् ॥ 'अति'ङिति प्रतिषेधः प्राप्नोति॥यदा तर्हि लुटः सत्संज्ञौ तदोपपदसंज्ञा भविष्यति ॥ भविष्यदधिकारविहितस्य लटः सत्संज्ञावुच्यतेऽविशेपविहितश्चायम् ॥ [अनवकृप्त्यमर्ष] ॥ जातुयदोलिंङ् ॥ ३।३।१४७ ॥ ॥*॥ जातुयदोर्लिविधाने यदायद्योरुपसङ्ख्यानम् ॥ ॥ जातुयदोलिङिधाने यदायद्योरुपसङ्ख्यानं कर्तव्यम् । यदा भवद्विधः क्षत्रियं याजयेत् । यदि भव- द्विधः क्षत्रियं याजयेत् । [ जातुयदोर्लिङ् ॥ शेपे लडयदौ ॥ ३॥३॥१५१ ॥ प्र.] गर्दायाम् । इप्येते इति। तौ च सूत्रारम्भे सत्यवर्तमानकालविहितलालटो न प्राप्नुत इति दोषवानेव सूत्रारम्भ इत्यर्थः । [ गर्दायां लडपि] ॥ अनव । इदं तहीति । 'अकिंवृत्त'शब्देन किंवृत्तादन्यत्पदं पर्युदासाश्रयणेन गृह्यते। तस्योपपदसंज्ञार्थमकिंवृत्तग्रहणीतेन किंवृत्ताऽकिंवृत्तयोरुपपदसंज्ञा सिध्यतीति भावः। अतिङिति प्रतिषेध इति । न विद्यते तिङस्मिन् समासे सोऽतिङिति बहु- बीहिसमासाश्रयणादिति भावः। उपपदसंज्ञेति । उपपदसंज्ञाकार्य समास इत्यर्थः । भविष्यदाधिकारविहितस्येति । 'लुटः सद'त्यत्र भविष्यतीत्यधिकाराद्भविष्यती- त्येवं विहितस्य 'लूटशेषे चे'त्यस्य लुट आनन्तर्याद्वा शतृशानचौ। अविशेषेति । कालमात्रे विधानादयं लड्यद्यपि भविष्यति भवति, तथापि भविप्यदधिकारविहितो न भवतीति शतृशानचावस्य न भवतः । [ अनवक्लवमर्पयोर ] ॥ उ.] गर्दायां ल । अपि मां याजयन्तमिति । ताच्छील्यप्रतिपादनेन गर्दा । यद- नेन क्रियते तत्सर्वं याजनार्थमिति सर्वदा याजयन्नेवाऽसाविति क्रियायाः समाप्ति- रविवक्षितेति भावः॥ [गर्दायां लडपि] ॥ अनवक । ननु किंवृत्ते नेत्यर्थात्कथमुपपदत्वमत आह-अकिंवृत्तेति। उपपद- संज्ञाया अन्यदाऽपि भावात्तदा भविष्यती'त्यनुपपन्नमत आह-उपपदसंज्ञाकामिति॥

8 कैयट-विवरणसहितं [शेषे लुडयदौ ॥*॥ चित्रीकरणे यदिप्रतिषेधानर्थक्यमर्थाऽन्यत्वात् ॥॥ चित्रीकरणे यदिप्रतिषेधोऽनर्थकः ॥ किं कारणम् ? ॥ ‘अर्थान्यत्वात्' । नहि यदावुपपदे चित्रीकरणं गम्यते ॥ किं तर्हि ? ॥ संभावनम् ॥ हेतुहेतुमतोर्लिङ् ॥ ३॥३॥१५६ ॥ ॥ ॥ हेतुहेतुमतोलिया ॥ ॥ हेतुहेतुमतोलिङ्कति वक्तव्यम् । अनेन चेद्यायान शकटं पर्याभवेत् । अनेन चेद्यास्यति न शकटं पर्याभविष्यति ॥*॥ भविष्यदैधिकारे॥॥भविष्यदधिकारे इति वक्तव्यम् । इह मा भूत् । वर्पतीति धावति। हन्नीति पलायत इति॥अथेदानीं शतृशानचावत्र कस्मान्न भवतः?॥ ॥*॥ देवत्रातो गलो ग्राह इतियोगे च सद्विधिः । मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः ॥४॥ इच्छाथषु लिङोटौ ॥ ३॥३॥१५७ ॥ प्र] शेपे ल। नहि यदाविति । 'आश्चर्यं यदि स भुञ्जीते'त्यत्र संभावनं तात्पर्येण प्रतीयत इति तन्निमित्त एव लिङ् भविष्यति 'संभावनेऽलमितिचे'दित्यनेनेत्यर्थः। संभावने हि यदिशब्दः प्रयुज्यते । [ शेषे लडयदौ ]॥ हेतु । देवत्रात इति । व्यवस्थितविभाषाश्रयणादिति भावः । तेन देवत्रात इति संज्ञायां भवति, न तु देवत्राण इति । गलशब्दः प्राण्यङ्गं भवति न तु गर इति । विषे तु गर इति,न तु गल इति। जलचरे ग्राह एव, ज्योतिषि ग्रह एव । इतिशब्दप्रयोगे च सत्संज्ञो न प्रवर्तते। गवाक्ष इति । वातायने नित्यमेवाव भवति । संशितव्रत इति। व्रतविपये श्यतेनित्यमित्वं भवति। मिथै इति।परस्परेण देवत्राणादिभिरेकस्मिन्विषये न विकल्पन्त इत्यर्थः । एषु च 'नुदविदोन्दत्रे'ति वा नत्वम् ,अचि विभाषेति लत्वं,विभाषाग्रह इति णप्रत्ययः, लक्षणहेत्वोः क्रियाया इति शतृशानचौ नन्वोर्विभाषेत्यतो विभाषानुवर्तनाद्विकल्पितौ, अवम्फोटायनस्येति विभाषाऽवङ् , शाच्छोरन्यतरस्यामित्येते विधयः ॥ [ हेतुहेतुमतो ] ॥ उ.] शेपे लडासम्भावनं तात्पर्येणेति। 'यदि'शब्दस्य सम्भवनार्थत्वेन सम्भावन- म्प्रतीयत इत्यर्थः । तदेवाह- सम्भावने हि यदिशब्द इति । भाष्ये-न हि यदाविति । चित्रीकरणत्वाश्चर्यपदगम्यम् , न त्वन्धो नाम पर्वतामारोक्ष्यतीत्या- दावुदाहरण इव तत्समभिव्याहारं विनाऽपि गम्यमिति भावः॥ [ शेपे सृडयदौ] ॥ हेतुहेतु । लक्षणहेत्वोरिति । क्रियाया लक्षणे हेतौ च वर्तमानाद्धातोः कर्तरि शत्रानावित्यर्थः सूत्रस्य । किञ्च लक्षणत्वादेस्तक्ष्योत्यत्वेऽपि द्योतकसमुच्चयस्य दृष्टत्वादितिशब्देन तझ्योतनेऽपिशत्रादिप्राप्तिरिति भावः ॥ [ हेतुहेतुमतोर्लिङ] १ 'दक्षिणेन'। २ 'भविष्यत्यधि'। ३ इदं क्वचिन्न । ४ 'मिथस्तु परस्परेण ।

३अ.३पा.२आ.१५७सू.] 8 व्याकरणमहाभाष्यम् , । ॥ ॥ इच्छार्थेषु लिकोटौ कामप्रवेदनं चेत् ॥॥ [इच्छार्थेषु लिङ्लोटौ ] कामप्रवेदनं चेद्गम्यत इति वक्तव्यम् । इह मा भूत्,-इच्छन्कटं करोतीति । विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ॥ ३३॥१६१ ॥ विध्यधीष्टयोः कोविशेषः ?॥ विधिर्नाम प्रेषणम् । अधीष्टं नाम सत्कार- पूर्विका व्यापारणा ॥ अथ निमन्त्रणामन्त्रणयोः को विशेषः ? ॥ संनिहि- तेन निमन्त्रणं भवत्यसंनिहितेनामन्त्रणम् [इति]॥ नैपोऽस्ति विशेषः । असं- निहितेनाऽपि निमन्त्रणं भवति,संनिहितेन चौमन्त्रणम्॥एवं तर्हि यन्नियोगतः कर्तव्यं तन्निमन्त्रणम्॥ किं पुनस्तत्?॥हव्यं कैव्यं वा । ब्राह्मणेन 'सिद्धं भुज्य- ता'मित्युक्तऽधर्मः प्रत्याख्यातुः । आमन्त्रणे कामचारः । कथं पुनरिदं विज्ञा- प्र.] विधिनिमन्त्रणा। विध्यधीष्टयोरिति । उभयोरपि नियोगरूपत्वादिति प्रश्नः । प्रेपणमिति । भृत्यादेः कस्याञ्चित् क्रियायां नियोजनमित्यर्थः । . अधीष्टं नामेति । गुर्वादेस्तु पूज्यस्य व्यापारणमधीष्टमित्यर्थः । प्रपञ्चार्थ न्यायव्युत्पादनार्थ वार्थभेदमाश्रित्य भेदेनोपादानं विधिनिमन्त्रणादीनां कृतम्। विधिरूपता हि सर्वत्रा. न्वयिनी विद्यते । संनिहितेनेति । धात्वर्थनाऽऽसनादिना । यथेह भवानासी- तेति सन्निहितमासनं, तदनुपरमार्थं च निमन्त्र्यते । असन्निहितेति । यथेह भवान् भुञ्जीतति भोजनमसन्निहितं तदर्थमामन्यते। यन्नियोगत इति । अवश्यकर्तव्यं नित्यं नैमित्तिकं च। तन्निमन्त्रणमिति।निमन्त्रणविषयत्वात्तदेव निमन्त्रणम्।अधर्म उ.] इच्छार्थेषु । कामप्रवेदनमिति । प्रयोक्तुः स्वाऽभिप्रायाऽऽविष्करणमित्यर्थः।। विधिनि। नियोगेति । नियोगः-प्रवर्त्तना,प्रवर्तकनिष्टः प्रवृत्त्यनुकूलो व्यापारः। एतदेव-प्रेषणम् । भाष्ये-व्यापारणेति । प्रवर्तनेत्यर्थः। एतेन नियोग इष्टसाधनता- ज्ञानमिति परास्तम् । 'हेतुमति चे'तिसूत्रस्थलिडादिणिचोः पर्यायत्वशवापरभाष्य- विरोधापत्तेश्चत्याहुः । न्यायेति । शब्दशक्तिविषयेत्यर्थः । अयं भावः-निमन्त्रणा- दिशब्दानां प्रयोजकनिष्टव्यापारवाचकत्वस्य सर्वसम्मततया विधिशब्दस्याऽपि प्रयोजकनिष्ठव्यापारवाचित्वं न त्विष्टसाधनत्वादिबोधकत्वमिति । स चाऽत्र प्रयुज्यमानलिडादिरूपः । स च प्रेरणात्वेन लिङशक्यः। प्रेरणात्वञ्चाऽखण्डो- पाधिः । एकस्यैव रूपभेदन वाच्यवाचकत्वे उपपद्यते। स च लोके पुरुषनिष्ठो, वेदे ईश्वरनिष्ठः । वेदस्याऽकर्तृकत्ववादिनां मते-शब्दनिष्टः । शब्दरूपत्वाच्च स 'शाब्दी भावने'त्युच्यत इति मञ्जूषायां विस्तरः । विधिरूपतेति । प्रेरणेत्यर्थः । यन्नियोगतः कर्तव्यं श्राद्धादि, तस्य निमन्त्रणत्वाऽभावादाह-निमन्त्रणविषयत्वा- दिति । भाष्ये-ब्राह्मणेनेति । 'सिद्ध हव्यं कव्यं वा भुज्यतामिति ब्राह्मणेनोक्तं- १ इदं क्वचिन्न । २ इतिः क्वचिन्न । ३ 'तनाऽप्यामन्त्र' । ४ 'कव्यंच' ।

३२८ कैयट-विवरणसहितं. [विधिनिमन्त्रणा यते,-निमन्त्रणादीनामर्थ इति, आहो स्विनिमन्त्रणादिषु गम्यमानेविति ?॥ कश्चात्र विशेषः ? ॥॥ निमन्त्रणादीनामर्थे चेदामन्त्रयै निमन्त्रयै भवन्तमिति प्रत्ययानुपपत्तिःप्रकृत्यभिहितत्वात्॥*॥ निमन्त्रणादीनामर्थे चेदामन्त्रयै निमन्त्रय भवन्तमिति प्रत्ययानुपपत्तिः । [ निमन्त्रणादीनामर्थ चेदामन्त्रयै निमन्त्रय भवन्तमिति प्रत्ययो नोपपद्यते॥ किं कारणम्?॥ 'प्रकृत्यभिहितत्वात्। प्रकृ- त्याऽभिहितः सोऽर्थ इति कृत्वा प्रत्ययो न प्रामोति ॥॥ द्विवचनबहुवचना- ऽप्रसिद्धिश्चैकार्थत्वात् ॥ ॥ द्विवचनबहुवचनयोश्चाऽप्रसिद्धिः॥ किं कारणम् ?॥ 'एकार्थत्वात्' । एकोऽयमों निमन्त्रणं नाम तस्यैकत्वादेकवचनमेव प्राप्नो- ति ॥ अस्तु तर्हि 'निमन्त्रणादिपु गम्यमाने विति ॥ इहापि तर्हि प्राप्नोति 'देवदत्तो भवन्तमामन्त्रयते, देवदत्तो भवन्तं निमन्त्रयते' इति ॥*॥ सिद्धं प्र.]इतिायदाऽन्यो ब्राह्मणो भोक्ता न लभ्यते तदा दौहित्रादि जयितव्यः,तस्य च प्रत्याख्यानेऽधर्म इति स्मार्तः समाचारः । आमन्त्रण इति । काम्बकर्मणि काम- नया प्रवृत्तिर्नाऽन्यथा । कथमिति । किमिह विध्यादयः प्रत्ययस्याभिधेयत्वेन निर्दिष्टाः,उत विषयभावेनेति प्रश्नः। निमन्त्रणादीनामिति । आदिशब्दम्य प्रकारा- र्थत्वाद्विधिरपि गृह्यते । प्रकृत्यभिहितत्वादिति । प्रकृल्या योऽर्थो नाभिधीयते तत्रैव प्रत्ययेन भाव्यं, न तु प्रकृत्यभिहितेऽर्थे, उक्तार्थानामप्रयोग' इति न्यायात् । विषयपक्षाश्रये तु प्रकृत्यभिहितेष्वपि विध्यादिषु तत्सत्तामात्राश्रयः प्रत्ययः सिध्य- ति। द्विवचनेति । नाऽप्राप्तेषु कादिषु विध्यादयोऽर्था निर्दिश्यमानास्तेषां वाधकाः प्रसजन्तीति कादिगतायाः संख्याया अभिधानं न प्राप्नोतीति भावः । सिद्धत्विति । उ.]अर्थाद्राह्मणं प्रति, तत्र प्रत्याख्यातुर्ब्राह्मणस्याऽधर्म इत्यर्थः । 'ब्राह्मणेने'त्युक्तर- न्यदीयनिमन्त्रणप्रत्याख्याने ब्राह्मणकृतेऽपि हव्यकव्याऽतिरिक्तविषयाऽऽमन्त्रणे प्रत्याख्याते नाऽधर्म इति लभ्यते । 'यदाऽन्य' इत्यादिव्याख्याने कैयटकृते बीजं, भाष्याऽनुग्रहश्च चिन्त्यः । सामान्यत एव ब्राह्मणस्य श्राद्धादिनिमन्त्रणप्रत्याख्याने- ऽधर्मः स्मृतिष्वपि स्मर्यत इति बोध्यम् । काम्यकर्मणीति । यत्र भोजनाद्यननु. टानेऽपि न प्रत्यवायस्तद्विषया प्रवर्तना-आमन्त्रणमिति तात्पर्यम्। उत विपयेति। लिङादयस्तु द्योतका इति भावः । विध्यादीनामर्थे इति वक्तुमुचितमत आह- आदिशब्दस्येति। 'प्रेरयै भवन्त'मित्यादि तदुदाहरणं वोध्यम् । निमन्त्रणादीना- मिति भाष्यम्य,-निमन्त्रणादिपदानामित्यर्थः । भाष्ये-निमन्त्रय इत्याद्युपलक्षणं,- 'निमन्त्रये'दित्यादेरपि । ननु निमन्त्रणस्यैकत्वेऽपि कादिसङ्ख्याश्रये द्विवचनबहु- वचने भविष्यत इत्यत आह-नाऽप्राप्तेविति। एवञ्च कायप्रतीत्यापत्तिरपि दूष- १ अयं पाठो लुप्तः स्यात् । २ 'प्रत्ययानुपपत्तिः' ३ रेकार्थत्वात्। ४ 'वाचित्वा' । ७ ३अ.३पा.२आ.१६१सू.] 8 व्याकरणमहाभाष्यम् , ३२९ तु द्वितीयाकाङ्क्षस्य प्रकृते प्रत्ययार्थे प्रत्ययविधानात्॥*॥ सिद्धमेतत् ॥ कथम्?॥ [ 'द्वितीयाकाङ्क्षस्य प्रकृते प्रत्ययार्थे प्रत्ययविधानात्' ] । द्वितीयाकासस्य धातोः प्रकृते प्रत्ययार्थे प्रत्ययो भवतीति वक्तव्यम् ॥ के चै प्रकृता अर्थाः?॥ भावकर्मकर्तारः ॥ [एवंमपि भवेत्सिद्धं,-प्राप्नोतु भवानामन्त्रणम् । अनु- भवतु भवानामन्त्रणमिति,यत्र द्वितीय आकाङ्क्षयते।इदंतु न सिध्यति,-निम- प्र.द्वितीयं विध्यादिकमर्थं यदा धात्वर्थ आकाङ्क्षति तदा लिङ्प्रत्ययः।यदा च धात्वर्थे संपाद्ये नियोज्यो नियुज्यते तदा द्वितीयाकासिखम् । इह तु 'देवदत्तो भवन्त- मामन्त्रयत' इति नास्ति धालर्थस्य द्वितीयाकासिवमिति लिङ् न भवति । प्रामो- विति । धात्वर्थस्य प्राप्त्यादेर्भिन्नमामन्त्रणं प्रत्याकाला विद्यत इति भावः। आमत्र- उ.]णान्तरं बोध्यम् । कादिगतायाः सङ्ख्याया इति। 'क्रियायामारोपिताया' इति शेषः । वस्तुतः प्रवर्तकनिष्टप्रेरणायाः प्रयोज्यकर्तृकत्वाऽभावात्तद्गतसङ्ख्याऽऽरोपे न मानं,वाच्य वे च तस्या एव विशेष्यत्वं, सा चैवति द्विवचनाद्यनापत्तिः।धात्वर्थस्य कर्तृद्वित्वादिना द्वित्वादावपि तस्य विशेषणत्वान्न द्विवचनादिनियामकता । कादि- वाधस्तु न युक्त इत्यग्रे स्फुटं भविष्यति । अत एव भाष्ये द्विवचनाद्यसिद्धावे- कार्थत्वादित्येव हेतुरुक्तः। वितञ्चैकोऽयमों निमन्त्रणं नाम तस्यैकत्वादिति । अनेकविषयकमपि निमन्त्रणमेकमेवेति तदर्थः । एतेन विशेष्यगतसङ्ख्यकवचनादि- बोध्येति सूचितम् । अत एवाऽत्र पक्षे भावकादीनां बोधाऽनापत्तिरिति दूषणं नोक्तम् । भाष्ये-इहाऽपि प्राप्नोतीति । लडादयस्तेभ्यो न स्युः, अनेन लिला बाधितत्वादिति भावः । द्योतकतापक्षीयं दूषणमुद्धर्तुमाह-सिद्धन्त्विति । द्वितीया- काङ्क्षधातोः प्रकृते प्रत्ययार्थे कर्नादौ लिडित्यर्थः । कादीनामपि द्योत्यसमितिपक्षे 'प्रत्ययार्थे' इत्यस्य प्रत्ययद्योत्ये इत्यर्थः । नन्वेवं 'पश्य मृगो धावती'- त्यादावपि लिङ् स्यादत आत-द्वितीयं विध्यादिकमिति । द्वितीयशब्देन विध्यादिरेव गृह्यत इति भावः । नियोज्यः-प्रेयः। नियुज्यते-प्रेर्यते । प्रेरणाविषय- धात्वर्थे यदा धातोर्लक्षणा तदा प्रकृतेऽर्थे प्रत्यय इति भावः । प्रकृते प्रत्ययार्थ इत्यनेनाऽऽमन्त्रणादीनामर्थ इति पक्षेऽपि तदत्यागः सूचितः, विरोधाऽभावात् । 'कादयो द्योत्या' इति पक्षस्य 'स्नुक्रमोः' इति सूत्रस्थभाप्यसम्मततया बाधे माना- ऽभावाच । अत एव वाचकत्वपक्षे द्विवचनाद्यसिद्धिवत्तिवाद्यसिद्धित्तिा। भाव- कर्मकर्थकलस्यैवात्मनेपदपरस्मैपदविभागेन तद्विधानात् । युष्मदस्मच्छेषसामाना- धिकरण्याऽभावेन प्रथमपुरुषाद्यसिद्धि!क्ता, अनियमश्च नोक्त इति दिक् । भिन्न- मामन्त्रणम्प्रतीति । धात्वर्थाऽतिरिक्तं प्रेरणारूपव्यापार प्रतीत्यर्थः। प्राप्नोतु भवा'- १ इदं क्वचिन्न । २ 'के पुनः प्रकृताः' । ३ 'द्यसिद्धिश्च' ।

३३० * कैयट-विवरणसहितं. [विधिनिमन्त्रणा न्त्रय आमन्त्रय इति ॥ अत्रापि द्वितीय आकाङ्कयते ॥ कः ? ॥ निमन्त्रि- रेव । निमन्त्रयै निमन्त्रणमामन्त्रय आमन्त्रणमिति ॥ कथं पुनर्निमन्त्रि म प्र.ये इति। आमन्त्रणस्य धात्वर्थत्वात्तस्य चैकत्वाद्भेदपूर्विकाया आकाङ्क्षाया आम- न्त्रणं प्रत्यभाव इति भावः । निमन्त्रयै निमन्त्रणमिति । प्रकृतिवाच्यं निमन्त्रणं विशिष्टकर्मकमन्यत् , तद्विषयं त्ववश्यकर्तव्यतालक्षणं निमन्त्रणमन्यदिति भिन्नत्वा- दस्त्येव द्वितीयाकासित्वम् । तदयमर्थः,-त्वत्कर्मकं भोजनादिषु निमन्त्रणं ममानु- ष्टयम् , ततो भोजनादिषु त्वां निमन्त्रय इति।अत्र चामन्त्रय आमन्त्रणं निमन्त्रय निमन्त्रणमिति,प्रकृत्यर्थव्यतिरिक्तामन्त्रणसद्भावप्रदर्शनायाऽऽमन्त्रणनिमन्त्रणशब्दौ प्रयुक्तौ, नत्वयं लौकिकः प्रयोगः,लोटैव प्रकृत्यर्थव्यतिरिक्तस्यामन्त्रणादेर्गमितत्वात् । उ.]नित्यादेः-अङ्गीकरोतु भवान्। आमन्त्रणाऽङ्गीकारविषया प्रेरणेत्यर्थः। ननु 'पाकं पचतीतिवत् प्रवर्त्तनाविशेषरूपाऽऽमन्त्रस्यापि तद्विशेषामन्त्रणान्तरविषयाऽऽका- सत्यत आह-भेदपूर्विकाया इति । तत्र सामान्यविशेषतयाऽभेदाऽन्वयो न तु तथा प्रकृते इति भावः । आमन्त्रणम्प्रतीति । धात्वर्थव्यापाराऽतिरेकेण प्रेरणाम्प्रतीत्यर्थः । अत्रेदं तत्त्वं-स्वविषया प्रेरणा तु नाऽत्र प्रत्ययार्थः, स्वेच्छयैव तत्प्रवृत्तिसिद्धेः । स्वग्रवृत्तेः स्वप्रेरणाऽनपेक्षत्वेन तस्यास्तदर्थत्वाऽभावात् । इदमेवाऽभिप्रेत्य-'उत्तमपुरुषो विधिशक्तिप्रतिबन्धक' इतिन्यायविदः । अत एव भगवतोत्तमपुरुषविपये एव शङ्कितम् । विशिष्टकर्मकमिति । संवोध्यकर्मक- मित्यर्थः । अवश्यकर्तव्यतालक्षणम्-अवश्यानुष्टयत्वलक्षणम् । ततो भोजनादि- विति । तद्वोधनार्थं च निमन्त्रय' इत्यादिप्रयोग इति भावः । नन्ववं 'निमन्त्रयै निमन्त्रण मिल्यादौ निमन्त्रणादिपदप्रयोगोऽयुक्तः, लोटेंव तदर्थप्रत्याय- नादत आह-नत्वयं लोकिक इत्यादि । धातूनामनेकार्थत्वात्-निमन्त्रणामन्त्रण- शब्दावहत्वार्थको। अर्हत्त्वञ्चाऽवश्यकर्त्तव्यतालक्षणं कैयटोक्तम् । एवञ्च 'अहे कृत्यतृचश्च'त्यनेन लिङ्लोटावुत्तमपुरुषविषये इत्युक्तं भवतीति बोध्यम्।भाष्ये-कथं पुनरितिधिर्मिणो हि धर्माऽऽकाला न तु धर्मस्येति प्रश्नः। स्त्रीत्वञ्च स्त्रीत्वेनेत्यस्य स्त्रीताशब्द उदाहरणम्। प्रवर्तनाविषय एककर्तृकः पाक इति बोधः। 'अहं पाचयेय'- "कथं निमन्त्रिर्निमन्त्रिणा,आमन्त्रिश्चामांन्त्रणा युज्यते!]॥निमन्त्रिरपि निमन्त्रिणा युज्यते आमन्त्रिश्चामन्त्रिणा । दृष्टश्च भावेन भावयोगः । तद्यथा-इपिरिषिणा युज्यते-एषितुमिच्छत्येषिषिषतीति । स्त्रीत्वं स्त्रीत्वेनेति । एकस्याश्रेषेरिषिः साधनं, वर्तमानकालश्च प्रत्ययः । अपरस्य वाह्यं साधनं सर्वकालश्च प्रत्यय इति॥सूत्रं तर्हि भिद्यते ॥ यथान्यासमेवास्तु ॥ ननुचोक्तं-'निमन्त्रणादिषु गम्यमाने इहापि प्रा- मोति-देवदत्तो भवन्तं निमन्त्रयत इति ॥ अस्तु तर्हि निमन्त्रणादीनामर्थ इति ॥"

३अ.३पा.२आ.१६१सू.] 8 व्याकरणमहाभाष्यम् , ३३१ . निमन्त्रणमाकाङ्क्षत्? ॥ ॥ दृष्टश्च भावेन भावयोगः ॥ ॥ तद्यथा इपिरिषिणा युज्यते स्त्रीत्वं च स्त्रीत्वेन॥यावता [चा]त्रापि द्वितीय आकासयतेऽस्तु तर्हि निमन्त्रणादीनामर्थ इति ॥ ननु चोक्तं 'निमन्त्रणादीनामर्थ चेदामन्त्रयै निमन्त्रय भवन्तमिति प्रत्ययानुपपत्तिः प्रकृत्यभिहितत्वादिति॥ नैष दोषः । योऽसौ द्वितीय आकाङ्क्ष यते स एव मम प्रत्ययार्थों भविष्यति ॥ अयं तर्हि दोपो द्विवचनबहुवचनाप्रसिद्धिरेकार्थत्वादिति ॥ एषोऽप्यदोषः ॥ ॥ सुपां कर्मादयोऽप्यर्थाः सङ्ख्या चैव तथा तिडाम् ॥*॥ सुपां सङ्ख्या चैवार्थः, कर्मा- दयश्च ॥ ॥प्रसिद्धो नियमस्तत्र ॥॥ प्रसिद्धस्तत्र नियमः ॥*॥ नियमः प्रकृ- तेषु वा ॥ ॥ अथ वा प्रकृताननपेक्ष्य नियमः ॥ के च प्रकृताः ? ॥ एक- त्वादयः । 'एकस्मिन्नेवैकवचनं न द्वयोर्न बहुपु । 'द्वयोरेव द्विवचनं, नैकस्मिन्न बहुपु' । 'बहुम्वेव बहुवचनं, नैकस्मिन्न द्वयोरिति ॥ [ विधिनिमन्त्रणा ॥ प्रैपातिसर्गप्राप्तकालेषु कृत्याश्च ॥ ३॥३२१६३ ।। किमर्थं प्रैपादिष्वर्थेषु कृत्या विधीयन्ते नाऽविशेषेण विहिताः कृत्यास्ते प्रैषादिपु भविष्यन्त्यन्यत्र च?॥ ॥ प्रैषादिषु कृत्यानां वैचनं नियमार्थम् ॥१॥ प्रैषादिपु कृयानां वचनं क्रियते ॥ किं प्रयोजनम् ?॥ 'नियमार्थम्' । निय- प्र.]तदयमर्थः,-आमन्त्रय आमन्त्रणमिति,-आमन्त्रय इत्यत्र लोटि प्रयुज्यमाने आम- न्त्रणं धात्वर्थविषयमाकाङ्क्षयमाणमस्ति। इपिरिति । एपितुमिच्छतीति कालसाधन- भेदादिच्छयोर्मेंदाश्रयो योगः । स्त्रीत्वमिति । 'कुमारी'त्यादी स्त्रीत्वं द्रव्यस्य विशे- षणं, यदा तु तदेव प्राधान्यनाश्रीयते तदा तस्य स्त्रीत्वादिना योगः,-स्त्रीत्वं स्त्रीतेति। स एव ममेति । 'निमन्त्रय भवन्त'मित्यवश्यकर्तव्यं भवतो भोजनादिषु मया निमन्त्रणमिति निमन्त्रणस्यावश्यकर्तव्यतालक्षणं निमन्त्रणमिति प्रकृतिप्रत्ययार्थ- योर्भेद इत्यर्थः। सुपामिति । विध्यादिभिर्विरोधाऽभावलः कर्मणि च'त्यत्र वहुव- चननिर्देशात्सर्वलकारसङ्ग्रहार्थाद्वा उभयानुग्रहाच कादयो न वाध्यन्त इति कर्तृकर्म- गतद्वित्वनिबन्धनानि द्विवचनबहुवचनानि भवन्तीत्यर्थः। [विधिनिमन्त्रणा ] ॥ उ.]मित्यादौ पाकप्रवर्तनाऽवण्याऽनुष्ठेयति बोधः।भाष्ये-यावता चाऽति। यद्यत्रे- त्यर्थः। बहुवचनेते । अत एव सर्वलकारान्ते 'लः कर्मणी'त्यकारि। इदञ्चिन्त्यम् । 'एतावांश्च ल' इति तत्सूत्रस्थभाष्यखग्रन्थाभ्यां 'ल' इत्यस्यैकवचनान्तताया एव लाभात् । 'सुपा कर्मादय' इत्यस्याऽयम्भावः-धात्वर्थक्रियायामिय प्रेरणायाः स्वत एकत्वेऽपि प्रेर्यगतसङ्ख्यायाः स्वनिष्ठधात्वर्थे इव स्वविषयकोरणायामप्यारोपाद्विवच- १ 'श्चैकार्थ' । २ 'नैष दोषः' । ३ श्लोकवार्तिकम् । ४ 'विधान' । ५ इदं वार्तिकं वचिन्न । ६ अयं पाठः प्रायिकः ।

३३२ कैयट-विवरणसहित [कालसमय मार्थोऽयमारम्भः, 'पादिष्वेव कृत्या यथा स्युरिति ॥ ॥ प्रैषादिषु कृत्यानां वचनं नियमार्थमिति चेत्तदनिष्टम् ॥*॥ त्रैषादिषु कृत्यानां वचनं नियमार्थ- मिति चेत्तदनिष्टं प्राप्नोति । न हि प्रैषादिष्वर्थप्वेव कृत्या इप्यन्ते ॥ किं तहि?॥विशेषेणेष्यन्ते । बुसोपेन्ध्यं तृणोपेन्ध्यम् । घनघात्यम्॥*॥ विध्यर्थं तु स्त्रियाः प्रागिति वचनात् ॥॥ विध्यर्थ तु प्रैषादिषु कृत्यानां वचनम् । अयं प्रैषादिप्वर्थेपु लोड्विधीयते स विशेषविहितः सामान्यविहितान्कृत्यान्बाधते॥ वासरूपेण कृत्या अपि भविष्यन्ति ॥ न स्युः ॥ किं कारणम् ? ॥ 'स्त्रियाः प्रागिति वचनात्' । प्राक्स्त्रियां वाऽसरूपः ॥ [प्रैषातिसर्ग] ॥ कालसमयवेलासु तुमुन् ॥ ३॥३॥१६७॥ ॥॥ प्रथमान्तेषु ॥ ॥ प्रथमान्तेष्विति वक्तव्यम् ॥ किं प्रयोजनम् ?॥ इह मा भूत्,-काले भुते ॥ तत्तर्हि वक्तव्यम् ?॥ न वक्तव्यम् । प्रैपादिष्विति वर्तते । तञ्चावश्यं प्रैषादिग्रहणमनुवर्यम् । प्रथमान्तेष्विति ह्युच्यमाने इहाs. पि प्रसज्येत, 'कालः पचति भूतानि कालः संहरति प्रजाः' ॥ ॥8॥इति श्रीमद्भगवत्पतञ्जलिमुनिविरचिते व्याकरणमहाभाष्ये तृतीय- स्याध्यायस्य तृतीये पादे द्वितीयमाह्निकम् ॥ पादश्च तृतीयः समाप्तः ॥७॥ धातुसबन्धे प्रत्ययाः ॥ ३॥४१॥ प्र.] प्रैषाति । बुसोपेन्ध्यमिति । अग्निस्तोकं बुसेन ज्वलनीयमिति वस्तुस्वरूप- कथनं, न तु प्रैषादिप्रतिपत्तिः। घनघात्यमिति । घनेन लोहादिना घात्यमिति, कठि- नत्वादित्यर्थः ॥ इति श्रीमन्महामहोपाध्यायजैयटपुत्रकैयटकृते भाष्यप्रदीपे तृतीय- स्याऽध्यायस्य तृतीये पादे द्वितीयमाह्निकम्॥ पादश्च तृतीयः ॥३॥२॥२॥ उ.]नादीति । वस्तुतो 'यावता चाऽ'त्यादिर्ग्रन्थ एकदेशिनः । एतेन 'प्रत्ययार्थे व्यापार सङ्ख्यान्वयेऽपि प्रत्ययानाम् प्रकृत्यान्वितस्वार्थबोधकत्वमिति व्युत्पत्तिभङ्ग' इत्यपास्तम्, एकदेश्युक्तित्वेनाऽक्षतेः । नन्वेवमपि नियमेन न स्यादधिकार्थ- म्याऽपि भानादत आह-प्रसिद्ध इत्यादि। तत्र-अर्थे । अत्र द्योतकतापक्षो युक्तः, उक्तयुक्तः पचे'त्यादावपि तत्प्रतीतेश्च, सङ्ख्याकालकारकाणामिवाऽस्याअपि द्योत्यताया एवौचित्याच्च । एवञ्च 'प्रवर्त्तनाविषयः पाकः' इत्येव बोध इति बोध्यम् ॥ प्रैपाऽति। भाष्ये-स्त्रियाः प्रागिति। इदमपि ज्ञापक-'स्त्र्यधिकारादूर्ध्व क्वचि- द्वाऽसरूपविध्यभावस्येत्यर्थः ॥ इति श्रीनागेशभट्टविरचिते महाभाष्यप्रदीपोड्योते तृतीयाऽध्यायस्य तृतीयपादे द्वितीयमाह्निकम् ॥ पादश्च तृतीयः समाप्तः ॥ धातुसंबन्धे । धातोः सवन्ध इत्यर्थः। अव्यावर्तकमेतत् , धातोः कारक- १ 'अविशेषेण । २ 'बाधेत' । ३ इदं क्वचिन्न । ..

३आ.४पा.१आ.१सू.] ॐ ब्याकरणमहाभाष्यम् ॐ ३३३ प्रत्यय इति वर्तमाने पुनः प्रत्ययग्रहणं किमर्थम् ? ॥ अधातुप्रत्ययाना- मपि धातुसंबन्धे साधुत्वं यथा स्यात् । गोमानासीत् गोमान्भवितेति ॥ इह पश्यामो,-भूतकालो भविष्यत्कालेनाभिसंबध्यमानो भविष्यत्कालः संपद्यते । कस्मान्न भविष्यत्कालो भूतकालेनाऽभिसंवध्यमानो भूतकालः संपद्यते ?॥ ॥ प्र.] धातुसंबन्धे प्रत्ययाः संबन्धस्य अनेकाधिष्टानत्वात्सामर्थ्या दृत्तावपि सङ्ख्याविशेषो द्वित्वमवगम्यते । धात्वोः संबन्धो-धातुसंबन्धः । धात्वर्थश्चात्रोप- चाराद्धातुशब्देनोच्यते। न हि स्वार्थे गुणीभूतयोर्धात्योः परस्परेण संबन्ध उप- पद्यते । धात्वर्थयोस्तु विशेषणविशेष्यभावलक्षणसंबन्धोपपत्तिः । तत्र धातुसंवन्धे कालान्तरविहितानां प्रत्ययानामन्यस्मिन् काले साधुत्वाभ्यनुज्ञानार्थमिदं सूत्रम् । प्रत्यय इति वर्तमान इति । यद्यपि स्वरूपपदार्थकः प्रत्ययशब्दः प्रकृतस्तथा- पीह संज्ञिनिर्देशाऽभावात्संज्ञिपदार्थको विज्ञास्यत इति भावः।। अधातुप्रत्ययानाम- पीति । अन्यथा प्रकृतानामेव धातुप्रत्ययानां ग्रहणं स्यात् । प्रत्ययग्रहणात्तु सर्व- प्रत्येयपरिग्रहार्थात्तद्धितानामपि कालभेदे साधुत्वं भवति । गोमानासीदिति । तद- स्याऽस्त्यस्मिन्निति मतुष्प्रत्ययो वर्तमानसत्ताविशिष्टप्रकृत्यर्थयुक्तऽर्थे विहितः । धातु- संबन्धे तु प्रकृत्यर्थस्य भूतभविष्यत्त्वेऽपि साधुर्भवति । इह पश्याम इति । 'अग्नि- टोमयाज्यस्य पुत्रो जनित'ति कालभेद साधुत्वाभ्यनुजानाय सूत्रम् । तत्र विशेषा- नुपादानाद्यथा भूतकालपरित्यागेन जनित्येतत्संबन्धाणिनिर्भविष्यति काले भवति उ.]संबन्धस्य कारकाणो वा धातुसंबन्धस्य सार्वत्रिकत्वात्।धात्वोः सबन्ध इत्यर्थे तु समासो दुरुपपादो, वृत्तौ सङ्ख्याविशेषम्याऽभानादत आह-संबन्धस्येति । द्वित्वम- वगम्यत इति । वस्तुतो द्वित्वाऽबोधेऽपि धातुत्वेनैव धातुद्वयबोध इति बोध्यम् । गुणीभूतयोरिति। स्वार्थप्रतिपादनव्यग्रयोरित्यर्थः । नन्वर्थद्वारकसंबन्धी धात्वोरेवा- श्रीयतां कर्मत्वसमानकर्तृकत्वादिवदिति चेन्न, 'गोमानासी' दित्यादौ प्रवृत्त्यनापत्तेः । न ह्यप्रयुज्यमानयोरर्थद्वारकोऽपि संवन्धो वक्तुं शक्य इति भावः । अर्थयोश्च कः संवन्ध इत्यत आह-विशेषणेति। स च प्रत्ययार्थद्वारको वाक्यार्थ इति बोध्यम् । अन्यस्मिन्काल इति। उपपदोपाधिप्रकृत्यर्थानान्तु न वाधः, वर्तमानसामीप्य' इत्यारभ्य कालाऽन्यत्वस्यैव प्रतिपादनादिति भावः । प्रकृतानामिति । प्रकरणा- दिति भावः । वर्तमानसत्तेति । न च तदस्याऽस्ती'त्यत्र सङ्ख्यावद्वर्त्तमान- कालोऽप्यविवक्षित इति वाच्यं, 'दण्डिनमानये'त्युक्तंऽतीतदण्डस्याप्यानयनापत्तेः । इदश्च तत्रैव भाष्येऽत्र च स्पष्टम्। भाष्ये-'भूतकाल' इत्यादयो बहुव्रीहयः । भाविव्यपदेशेति । भाविव्यवहारेत्यर्थः । अग्निष्टोमयाजीत्युत्तरम्-इति 'व्यव- १ 'धातुत्वं' । २ 'धात्वर्थोत्रायं'। । .

ॐ कैयट-विवरणसहितं. [ धातुसम्बन्धे .. धातुसंबन्धे प्रत्ययस्य यथाकालविधानात्सिद्धम् ॥*॥धातुसम्बन्धे प्रत्ययस्य यथा कालविधानासिद्धम्।यथाकालविहिता एवैतेप्रत्ययाःस्वेपु स्वेषुकालेपु प्रयुज्य- न्त॥ कथं तर्हि कालाऽन्यत्वं गम्यते?॥*॥ उपपदस्य तु कालान्यत्वम्॥*॥उप- पदस्यैतत्कालान्यत्वम्॥कुतो नु खल्वेतत्,-अग्निष्टोमयाजीत्येतदुपपदं भविष्य- ति, न पुनर्जनितेनि॥एवं तर्हि-॥*॥अस्त्यादिभियोगे ॥*॥ अस्त्यादिविपयाः प्र.]तथा जनितेति लुपत्ययो भविष्यत्कालत्यागेनाग्निष्टोमयाजीत्येतत्संबन्धाद्धृते कस्मा- न भवतीति प्रश्नः । यथाकालविधानादिति ।-सूत्रप्रत्याख्यानेनोत्तरम् । 'अग्नि- ष्टोमयाजी'ति भूत एव णिनिर्विधीयते 'जनिते'त्येतत्संबन्धात्तु भाविव्यपदेशप्रति- पत्तिः,यथास्य सूत्रस्य शाटकं वयेतीत्यर्थः। इतरोऽगृहीताभिप्राय आह-कथं तहीति। 'पुत्रोऽस्य जनिता स चाग्निष्टोमेन यप्टे'त्यत्र यदि भूते णिनिर्विधीयते तदा याग- स्य भविष्यत्ताऽवगमो न प्राप्नोतीति प्रश्नः । उपपदस्येति । भाविव्यपदेशविज्ञाना- द्विशेषणस्य कालान्यत्वं वाक्यार्थवशादसत्यपि सूत्रारम्भे प्रतीयत इत्यर्थः । विशे- ष्याया आख्यातादिपदवाच्यायाः क्रियायाः प्राधान्यात् स्वकाल एवावस्थानं, विशेष- णभूतायास्तु क्रियाया उपलक्षणभावेनोपादानाद्भाविभृतव्यपदेशविषयताप्रतिपादना- कालान्यत्वागम इत्यर्थः । इतरो यथोक्तमभिप्रायमवुवा समीपे श्रूयमाणमुपपदमि- त्यवगम्य चोदयति-कुत इति । ततश्चाग्निष्टोमयाज्यस्य पुत्रो जात इत्ययमपि वाक्यार्थः कस्मान्न भवतीति प्रश्नः । आचार्यदेशीय आह-एवं तीति । धात्वधि- काराद्धातुग्रहणे सिद्ध धातुसंबन्ध इति पुनर्धातुग्रहणं धातुविशेषपरिग्रहार्थ,तेनास्ति- भूजनिसंबन्ध एव प्रत्ययानां कालान्तरे साधुत्वमन्वाख्यायत इति सूत्रारम्भे सति विपर्ययो न भवतीत्यर्थः । अस्त्यादिविषया इति । अस्त्यादिविशेषणाय प्रयुक्ता उ.]रिष्यमाण' इति शेष इति भावः । यष्टेतीति । 'इत्यर्थः प्रतीयत' इति शेषः । भाविव्यपदेशादिति । भाविव्यवहारविषयादग्निष्टोमयाज्यादिपदादित्यर्थः । वाक्या- र्थवशादिति । 'जनिते'त्येतत्समभिव्याहारात्तत्प्रतीतेस्तस्य वाक्यार्थत्वमित्यर्थः । व्यवहारस्य भविष्यत्वं विषयभविष्यत्त्वकृतमिति भावः । वैपरीत्यनिवारणाय मूल- युक्तिं दर्शयति-विशेप्याया इति । भाष्ये-'उपपदस्थे'त्यस्य गुणभूतस्येत्यर्थः । सूत्रारम्भे तु नाऽयं न्यायः । न्यायेन वचनसङ्कोचे मानाऽभावात् । धात्वोः संवन्धे ताभ्यां धातुभ्यां ये ये प्रत्ययास्तेऽन्यत्राऽपि काले भवन्तीति वाक्यार्थादित्याशयः । सूत्रारम्भे इति।तथा च सूत्रस्य 'धातोरस्त्यादेः संबन्धे सति धातोः प्रत्ययाः कालान्तरे' इत्यर्थ इति भावः । नन्वस्त्यादिप्रकृतिकत्वाऽभावात्कथं तद्विषयत्वमत आह-अस्त्यादिविशेषणायेति । पूर्वोक्तनेति । गुणप्रधानभावरूपन्यायाश्रयणाऽ- १ इदं कचिन्न। २ भवति'1३इदं वार्तिकमित्यन्यो३भाष्यमित्येको४ 'विज्ञानात् ।

३अ.४पा.१आ.२सू.] & व्याकरणमहाभाष्यम् ३३५ .. .. प्रत्ययाः साधव इति वक्ष्यामि॥ के पुनरस्त्यादयः?॥ अस्तिभूजनयः। एवमपि- यदाऽस्त्यादीनामेवाऽस्त्यादिभिर्योगस्तदा न ज्ञायते कः कस्य कालमनुवर्तते इति। भावि कृत्यमासीत्।पुत्रो जनिष्यमाण आसीत्॥एवं तर्हि वाश्यमेवैतदेवं- जातीयकं प्रयुज्यते । अग्निष्टोमयाजीत्येतत्तस्मिन्भविता॥कस्मिन् ?॥ योऽस्य पुत्रो जनिता ॥ कदा ?॥ यदाऽनेनाग्निष्टोमेनेष्टं भवति ॥ क्रियासमभिहारे लोट् लोटो हिस्वी वा च तध्वमोः ॥३४॥२॥ ॥*॥ हिस्वयोः परस्मैपदात्मनेपदग्रहणं लादेशप्रतिषेधार्थम् ॥ ॥ हिस्वयोः परस्मैपदात्मनेपदग्रहणं कर्तव्यम् । हिः परस्मैपदानां यथा स्यात्स्व आत्मने- पदानामिति ॥ किं प्रयोजनम् ? ॥ 'लादेशप्रतिषेधार्थम्'। लादेशौ हिस्वी मा भूतामिति ॥ किं च स्याद्यदि लादेशौ हिस्त्रो स्याताम् ?॥ 'तिङन्तं पद'- मिति पदसंज्ञा न स्यात्॥ मा भूदेवं, 'सुबन्तं पद'मिति पदसंज्ञा भधिप्यति॥ कथं स्वाद्युपत्तिः ? ॥ ॥ लकारस्य कृत्त्वात्प्रातिपदिकत्वं, तदाश्रयं प्रत्ययविधा- नम्॥*॥ लकारः कृत्, तस्य कृत्त्वात् 'कृत्प्रातिपदिक'मिति प्रातिपदिकसंज्ञा, तदाश्रया-प्रातिपदिकाश्रया-स्वाद्युत्पत्तिरपि भविष्यति ॥ यदि स्वाद्युत्पत्तिः प्र.]इत्यर्थः।आचार्थः पूर्वोक्तनाभिप्रायेण सूत्रप्रत्याख्यानेनैव वाक्याथ स्थापयति-एवं तहीति। अवश्यं च स्वकाल एव प्रत्ययविधिरेष्टव्यः । 'भावि कृत्यमासीदित्यत्र भाविशब्दस्य भूतकालत्वे भाव्यासीच्छब्दयोः पर्यायत्वाद्युगपत्प्रयोगो न स्यात् ॥ क्रियासम । हिस्वयोरिति । सामान्यविहिताना तिडां शतृशानज्भ्यामिव हिस्वाभ्यां बाधः प्राप्नोतीति स्थानिनिर्देशार्थ परस्मैपदात्मनेपदग्रहणं कर्तव्यमित्यर्थः। लकारःकृदिति । तत्र स्थानिवद्भावाद्धिस्वयोरपि कृत्वात्तदन्तस्य प्रातिपदिकत्वात् उ.]भिप्रायेणेत्यर्थः। भाविशब्दस्यति। यदि यत्कालं भावितया व्यवहृतं तदासीदिति हि तदर्थ उचितः न तु अतीतमासीदिति । तथा सति पर्यायत्वापत्तिरिति भावः । भाष्ये-इत्येतत्तस्मिन्निति। इत्येतत्पदं तस्मिन् भवितेत्यर्थः । एवं प्रत्याख्याते सूत्रे 'वसन्ददर्शे' त्यादौ वर्तमानत्वमारोप्य शता । तत्फलं तु तत्समानकालत्वस्य दर्शने लाभः, शतृस्थले क्रिययोः समानकालत्वप्रतीतेः । यद्वा दर्शनकालिकं वासस्य वत्त- मानत्वमाश्रित्य प्रत्ययः । एवमेव 'ननु चोत्पततैवं वचनलोपं चोदिताः स्म' इति सरूपसूत्रस्थभाष्यप्रयोगोपपत्तिः। 'गोमानासी'दित्यत्र देवदत्तस्य विद्यमानत्वेऽपि गोमत्त्वस्याऽतीतत्वाद्धृते प्रत्ययः । तत्राऽर्थाद्गवामप्यतीतत्वप्रतीतिरिति दिक् ॥ क्रियासमभि । भाष्ये-हिस्वयोरिति । तद्विधायके इत्यर्थः। ननु परत्वात्तिक्षु कृतेषु तेषामेवैतौ भविष्यत इत्यत आह-सामान्येति । लस्य कृत्वेऽपि हिस्वयोः १ ‘एवंविषयं । २ 'आत्मनेपदपरस्मैपद' ।

8 कैयट-विवरणसहितं 8 [क्रियासमभिहारे सुपां श्रवणं प्राप्नोति ॥ 'अव्यया'दिति सुब्लुग्भविष्यति ॥ कथमव्ययत्वम्?॥ 'विभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा, निपातोव्यय- मित्यव्यसंज्ञा ॥इह तर्हि ‘स भवाल्लुनीहि लुनीहीत्येवायं लुनाति, 'तिङ्कतिङ' इति निघातो न प्राप्नोति ॥*॥ समसङ्ख्यार्थं च ॥*॥ समसङ्ख्यार्थं च हिस्व- योः परस्मैपदात्मनेपदग्रहणं कर्तव्यम् । हिः परस्मैपदानां यथा स्यात् , स्व आत्मनेपदानाम् । व्यतिकरो मा भूदिति ॥*॥ न वा तध्वमोरादेशवचनं ज्ञापकं पदादेशस्य ॥ ॥ न वा हिस्वयोः परस्मैपदात्मनेपदग्रहणं कर्तव्यम् ॥ किं कारणम् ? ॥ 'तध्वमोरादेशवचनं ज्ञापकं पदादेशस्य'। यद्यं वा च तध्व- मोरित्याह तज्ज्ञापयत्याचार्यः- पदादेशी हिस्वा'विति ॥॥ तत्र पदादेशे पित्त्वाटोः प्रतिषेधः॥*॥ तत्र पदादेशे पित्वस्याटश्च प्रतिषेधो वक्तव्यः। पित्त्वस्य प्र.]खाद्युत्पत्तिर्भवतीत्यर्थः। विभक्तीति।विभक्तिसंज्ञकहिस्वसदृशत्वादनयोर्हिस्खयोरव्य. यत्वमित्यर्थः । व्यतिकरो मा भूदिति । यदि लकारस्यैव स्थाने हिस्वी विधीये- यातां तदा 'लः परस्मैपद'मिति द्वयोरपि परस्मैपदसंज्ञा स्यात् , ततश्च द्वावपि परस्मैपदिभ्य एव स्यातामित्ययं व्यतिकरः स्यादित्यर्थः । न वेति । यदि लस्यैव हिस्वौ स्यातां तदा तध्वमयोर्लोट्स्थानिकयोरभावाद्वा च तध्वमोरिति स्थानित्वेनोपा- दानमनुपपन्नं स्यादिति तध्वमोः स्थानित्वोनोपादानाछोट्शब्देन लोडादेशानां परस्मै- पदात्मनेपदानां स्थानित्वमवसीयत इत्यर्थः । पदादेशस्येति । पदशब्देन पदसंज्ञा- निमित्तानि तिङ उच्यन्ते । अथ वा 'सर्वे सर्वपदादेशा' इति न्यायात्तिङन्तस्य हिस्वान्तादेशा प्रवृत्तिः। पित्त्वस्येति । तिप्सिब्मिपां स्थाने विधीयमानो हिः स्थानिवद्भावात्पित्स्यात् , ततश्च डित्त्वाऽभावालनीहि लुनीहीतीत्वं न स्यात्।अनुदात्तत्वं च हेः प्रसज्येत 'लुनीहि लुनीहि स भवा'नित्यादौ परस्य तु लुनीहिशब्दस्य 'तस्य उ.]किमायातमित्यत आह-तत्रेति।अव्ययत्वमिति। तदन्तस्य विभतयन्तप्रतिरूप- कत्वादव्ययत्वमिति भावः । 'हिस्वयो रित्यस्य हिस्वान्तयोरित्यर्थः। ननु 'व्यति- करो नामाऽऽत्मनेपदिभ्योऽपि हिः, परस्मैपदिभ्योऽपि स्त्र' इत्याकारः, स चाऽनुप- पन्नः,आत्मनेपदसंज्ञाऽभावेन लादेशत्वेन परस्मैपदसंज्ञासत्त्वेन चात्मनेपदिभ्यो विधा- नाऽनुपपत्तेरत आह-यदीति । ननु तिङो हिस्वौ, न च तावन्मात्रम्पदं, तदन्तस्य पदत्वादिति ‘पदादेशस्ये'त्ययुक्तमत आह-पदशब्देनेति। निमित्तानीति। निमित्त- शब्दो नित्यनपुंसक इति भावः। केचित्तु नामैकदेशग्रहणेन परस्मैपदात्मनेपदे 'पद'शब्देन भाष्ये उच्यते इत्याहुः । स्थानिवद्भावादिति । न च 'सार्वधातुक- मपिदि'त्यतिदेशान्डिरवं स्यात्परत्वादिति वाच्यम्, एतद्विषयेऽपि स्थानिवद्भावप्र- त्याऽऽतिदेशिकपित्त्वमादायाऽपिदिति निषेधप्रवृत्तेः, अन्यथा 'एतु"अकरव'मित्यादौ ३अ.४पा.१आ.२सू.] व्याकरणमहाभाष्यम् ॐ ३३७ तावत्स-भवॉल्लुनीहि लुनीहीत्येवायं लुनाति।आटः खल्वपि-'सोऽहं लुनीहि लुनीहीत्येवं लुनानि ॥ पित्वस्य तावन्न वक्तव्यः । पित्प्रेतिषेधे योगविभागः करिष्यतोइह-['सेहिः'] सेर्हिर्भवति । ततः अपिच्च'। 'अपिञ्च भवति यावान् हिर्नामेति । आटश्चापि [प्रतिषेधों ] न वक्तव्यः। आटि कृते साकस्यादेशो भविष्यति॥ इदमिह संप्रधार्यम्,-आट्कियतामादेश इति किमत्र कर्तव्यम् ?॥ परत्वादाडागमः ॥ नित्य आदेशः। कृतेऽप्याटि प्राप्नोत्यकृतेऽपि प्रामोति ॥ आडपि नित्यः ! कृतेप्यादेशे प्राप्नोत्यकृतेपि प्राप्नोति ॥ अनित्य आट् । अन्यस्य कृतेऽप्यादेशे प्राप्नोत्यन्यस्याऽकृतेपि प्राप्नोति, शब्दान्तरस्य च प्राप्नुवन्विधि. रनित्यो भवति ॥ आदेशोप्यनित्यः । अन्यस्य कृते आटि प्राप्नोति, अन्यस्याऽ. कृते प्राप्नोति, शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति । उभयोरनि- त्ययोः परत्वादाडागमः । आटि कृते साकस्यादेशो भविष्यति ॥ इदं तर्हि- सोऽहं भुङ्क्ष भुङ्केत्येवं भुनजै इति। 'श्नसोरल्लोप' इत्यकारलोपो न प्राप्नोति ॥ समसङ्घयार्थत्वं चाप्यपरिहृतमेव ॥॥ सिद्धं तु लोग्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्विवचनात् ॥ ॥ सिद्धमेतत् ॥ कथम् ? ॥ [ लोण्मध्यम- पुरुषकवचस्य क्रियासमभिहारे द्विर्वचनात्'। ] । लोण्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे हे भवत इति वक्तव्यम् ॥ केन विहितस्य क्रियासमभिहारे लोण्मध्यमपुरुषैकवचनस्य द्विवचनमुच्यते ? ॥ प्र.]परमानंडितमनुदात्तंचे'ल्यनुदात्तत्वंभवतिायावानिति।योगविभागकरणसामर्थ्यादान- न्तयं नाऽपेक्ष्यत इत्यर्थः। भुङ्खभुकेतिापरत्वादाटि कृते उत्तमस्यं पित्त्वे च स्वादेशः स्थानिवद्भावात्पित्स्यादिति ङित्त्वाऽभावालोपाऽप्रसङ्गः । समसङ्ख्यार्थत्वमिति । सर्वेषां तिडां द्वावपि पर्यायेण स्यातामित्यर्थः। एतदेवेति। 'वृद्धकुमारीवर'न्यायेन उ.]गुणाऽनापत्तिरिति दिक्ास भवानित्यादाविति! आदिखण्डे' इति शेषः। तद्धन- यन्नाह-परस्येति । नन्वनन्तरस्येति न्यायाद्यावानित्यसङ्गतमत आह-योग- विभागेति । भाष्ये-'भुझे'त्यस्याऽनुप्रयोगे 'भुनजै' इति पाठः । 'पित्त्वेन स्वादेश' इति पाठः कैयटे । सर्वेषां तिङामिति । तिडादेशत्वे ज्ञापितेऽप्ययं दोष इत्यर्थः। वृद्धकुमारीति । एतद्भाष्यवार्तिकस्वरसात् 'क्रियासमभिहार' इति वार्तिकं लोडन्त- विषयकमेव द्रष्टव्यम् ,अन्यथा तस्येतो भिन्नवचनत्वे गौरवं स्यादित्याहुः । दोषा- न्तरमप्याह भाष्ये-लोण्मध्यमेति । ननु सर्वेषां स्थाने इत्यर्थेऽसम्भवः परस्मैप- १ 'त्येवं लुनामि' 'लुनानि । २'पित्त्व'। ३ इदं लुप्तं स्यात् । ४ इतिः क्वचिन्न ।५ इदं क्वाचिकम् । ६ 'त्येवं भुन्ने' । ७इदं लुप्तं स्यात् । ८ 'पुरुषस्य' । ९ 'इत्यनेन न्यायेन'। २२ । ..

३३८ * कैयट-विवरणसहितं [क्रियासमभिहारे एतदेव ज्ञापयत्याचार्यो-'भवतिक्रियासमभिहारे लो'डिति -यदयं क्रियासमा भिहारे लोण्मध्यमपुरुषैकवचनस्य द्विवचनं शास्ति ॥ कुतो नु खल्वेतत् ज्ञापकादत्र लोड्भविष्यति न पुनर्य एवासावविशेषविहितः स यदा क्रियासम- भिहारे भवति तदा तस्य द्विर्वचनं भवतीति ?॥ लोण्मध्यमपुरुषैकवचन एव खल्वपि सिद्धं स्यादिमौ चान्यौ हिस्वौ सर्वेषां पुरुषाणां सर्वेषां वचना- नामिप्यते ॥ सूत्रं च भिद्यते ॥ यथान्यासमेवास्तु ॥ ननु चोक्तं 'हिस्वयोः परस्मैपदात्मनेपदग्रहणं लादेशप्रतिषेधार्थ समसङ्ख्यार्थ चेति ॥ नैष दोषः । ॥*॥ योगविभागात्सिद्धम् ॥*॥ [ योगैविभागासिद्धमेतत् ] । योगविभागः करिष्यते । 'क्रियासमभिहारे [ लोट् । क्रियासमभिहारे ] लोभवति । ततो [ 'लोटो हिस्वौ'] । लोटो हिस्वी भवतः । लोडित्येवानुवर्तते लोटो यौ हिस्वाविति॥ कथं 'वा च तध्वमोरिति?॥ 'वा च तध्वंभाविनो लोट' इत्ये- वमेतद्विज्ञायते ॥ [ क्रियासमभिहारे लोट ] । यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥ ३॥४॥४॥ किमर्थमिदमुच्यते ? ॥ अनुप्रयोगो यथा स्यात् ॥ नैतदस्ति प्रयोजनम् । प्र.]क्रियासमभिहारविषयो लोडनुमीयत इत्यर्थः। कुतो न्विति। ज्ञापकं विघटयति। विध्यादिविषयस्य लोटो विद्यमानत्वात् क्रियासमभिहारविर्षेये तस्यैवादेशयोद्विर्व- चनार्थ ग्रहणं स्यादित्यर्थः। सर्वेषामिति । प्रसङ्ग' इति शेषः।लोटो याविति। लोडा- देशौ यौ हिस्वौ दृष्टौ तत्तुल्यावनेन हिस्वौ भवत इत्यर्थः । तेन तदीयकार्यातिदेशा- परस्मैपदात्मनेपदसंज्ञे हिस्वयोर्भवतः। तेन परस्मैपदिभ्यो हिरात्मनेपदिभ्यस्तु स्वो भवति । हिशब्दस्य कर्ता वाच्यः, स्वशब्दस्य भावकर्मकर्तारः। तिङ्त्वं च भवतीति तिङतिङ इत्यादिकार्य भवति । पुरुषकवचनसंज्ञे तु सामर्थ्यान्न भवतः । यदि हि ते अपि स्यातां हिस्वयोरनेन विधानमनर्थकं स्यात् , वचनान्तरेण तयोः सिद्धत्वात्। तध्वंभाविन इति । मुख्यार्थाऽसंभवे गौणी कल्पनाश्रीयते, ततश्च तध्वंभावित्वा- ल्लोडेव 'तध्वं'शब्दाभ्यामुच्यत इति भावः। [क्रियासमभिहारे ] उ.]दादिग्रहणाऽभावादत आह-प्रसङ्ग इति शेष इति।दोषान्तरमण्याह भाष्ये-सूत्र- ञ्जेति।लोडादेशाविति। लो'डित्यस्य च लोवदित्यर्थः।स्थानिवत्त्वेनैव लोड्धर्माऽति- देशस्य सिद्धेः पुनर्लोसदिति वचनं लोट्स्थानिकहितवदतिदेशार्थमिति भावः । अतिदेशफलमाह-तेनेति ।। वचनान्तरेणेति । पुरुषादिसंज्ञायां युष्मत्सामानाधि- करण्ये एकत्वे च भाव्यम् । तत्र च व्यर्थस्तयोविधिरिति भावः ॥ यथाविध्य । ननु क्रियारूपाऽर्थप्रतीतेः कथमनभिव्यक्तपदार्थकत्वमत आह- १ इदं लुप्तं स्यात् । २इदं क्वचिन्न । ३ 'लोटौं' । ४'विषयस्य' ।

३अ.४पा.१आ.५सू.] ® व्याकरणमहाभाष्यम् ® . हिस्वान्तमव्यक्तपदार्थकं तेनाऽपरिसमाप्तोऽर्थ इति कृत्वाऽनुप्रयोगो भवि- प्यति ॥ इदं तर्हि प्रयोजनं-'यथाविधीति वक्ष्यामी'ति ॥ एतदपि नास्ति प्रयोजनं, 'समुच्चये सामान्यवचनस्येति वक्ष्यति । तत्राऽन्तरेण वचनं यथा- विध्यनुप्रयोगो भविष्यति ॥ [ यथाविध्यनुप्रयोगः पूर्वस्मिन् ] समुच्चये सामान्यवचनस्य ॥ ३४॥५॥ किमर्थमिदमुच्यते ?॥ अनुप्रयोगो यथा स्यात् ॥ नैतदस्ति प्रयोजनम् । हिस्वान्तमव्यक्तपदार्थकं तेनाऽपरिसमाप्तोऽर्थ इति कृत्वाऽनुप्रयोगो भविष्यति ॥ इदं तर्हि प्रयोजनं,- सामान्यवचनस्येति वक्ष्यामी'ति॥एतदपि नास्ति प्रयोजनम्। सामान्यवचनस्याऽनुप्रयोगोऽस्तु विशेषवचनस्येति सामा. न्यवचनस्यैवानुप्रयोगो भविष्यति, लघुत्वात् ॥ [ समुच्चये सा] ॥ प्र.] यथावि । हिस्वान्तमिति । संख्याकालपुरुषाणामनभिव्यक्तत्वात् । एतद- पीति । 'समुच्चय एव धावन्तरस्याऽनुप्रयोग'इति नियमात् क्रियासमभिहारे यथाविध्यनुप्रयोगो भविष्यति । ननु 'समुच्चये सामान्यवचनस्यैवेति नियमः स्यात् , ततश्च धात्वन्तरस्यापि लोद्रकृतिसमानार्थस्य क्रियासमभिहारेऽनुप्रयोगः स्यात् । नैतदस्ति । 'नटेकस्या आकृतेश्वरितः प्रयोगो द्वितीयस्याश्च तृतीयस्याश्च भवतीति न्यायाल्लोद्रकृतिरेवानुप्रयोक्ष्यते।पूर्वव्यवहितप्रयोगनिवृत्तिरपि नेष्टा, यतस्तदर्थो योगः स्यात् । [ यथाविध्यनुप्रयोगः] समुच्चयोलघुत्वादिति।एतच्च लाघवं व चिदेव विषये शिष्टप्रयोगदर्शनादाद्रि- यते न सर्वत्र, अन्यथा तरुद्रुमादीनामेव प्रयोगः स्यान्न वनस्पत्यादिशब्दानाम् । उ.]सङ्ख्येति। न टेकस्या इति। एतेन ‘समुच्चये एव सामान्यवचनस्येति नियम- ऽपि प्रकृते न पर्यायव्यावृत्तिरित्यपास्तम् । समुच्चयविषये सामान्यवचनस्येति वच- नान्न्यायबाधेऽपि प्रकृतविषये तन्न्यायबाधे मानाऽभावाद्विनाऽपि वचनं सिद्धमिति भाष्यऽक्षरार्थः। नेटेति । अत एव 'लुनीहि लुनीहीत्येवाऽयं लुनातीति भाष्ये व्यव- हितप्रयोगः सङ्गच्छते । तेनाऽनुप्रयोगशब्दार्थव्यभिचार उक्तः । पूर्वप्रयोगस्तु यदि नेष्टस्तदाऽनभिधानाद्वारणीयः । यद्वेष्ट एव स इत्याहुः । [ यथाविध्यनु ] । समुच्चये सा। भाष्ये-लघुत्वादिति । सर्वविशेषाऽनुगतैकसामान्यवाचका- ऽनुप्रयोगे सामान्यस्य सन्निहितविशेषपर्यवसानात्सर्वेषां कालाद्यभिव्यक्तौ सिद्धायां विशेषवाचकनानाधातुप्रयोगे गौरवादिति भावः । क्वचिदेवेति । अपर्यायविषये इत्यर्थः । एवञ्च तरुद्रुमवनस्पत्यादिषु पर्यायेषु लाघवगौरवाऽनादरान्न दोषः । इह त्वपर्यायत्वं स्पष्टमेवेत्याहुः । [समुच्चये सामान्यवचनस्य १ 'मनभिव्यक्तपदार्थक'।

३४० कैयट-विवरणसहितं. [उपसंवादा उपसंवादाशङ्कयोश्च ॥ ३४॥ ॥*॥ उपसंवादाशङ्कयोर्वचनानर्थक्यं लिङर्थत्वात् ॥*॥ उपसंवादाशङ्कयो- र्वचनमनर्थकम्॥ किं कारणम् ?॥ 'लिङर्थत्वात्। 'लिङर्थे ले'डित्येव सिद्धम्। कः पुनलिंडर्थः?॥ के चित्तावदाहुहेंतुहेतुमतोर्लिङिति । अपर आहुः-वक्तव्य एवैतस्मिन्विशेषे लिङ् । प्रयुज्यते हि लोके-'यदि मे भवानिदं कुर्यादहमपि त इदं दद्यामिति ॥ [ उपसंवादाशङ्कयोश्च ] ॥ तुमर्थ सेसेनलेअसेन्कसेकसेनध्यैअध्यैन्कध्यैन्कध्यैन्शध्यै- शध्यैन्तवैतवेड्सवेनः ॥ २४॥९॥ तुमर्थे इत्युच्यते कस्तुमर्थः [नाम]॥कर्ता [तुमर्थः] ॥ यद्येवं नार्थस्तुमर्थ- ग्रहणेन । येनैव खल्वपि हेतुना कर्तरि तुमुन्भवति तेनैव हेतुना सयादयोपि भविष्यन्ति॥ एवं तर्हि सिद्धे सति यत्तुमर्थग्रहणं करोति तज्ज्ञापयत्याचार्योs- प्र.] उपसंवा।उपसंवादेति । नित्यार्थमिदमिति चेच्छन्दसि नित्योऽत्र लेड् दृश्यत- इत्यत्र प्रमाणाऽभावः । व्यवस्थितविभाषया वा नित्यं लेड्भविष्यति । हेतुहेतुमतो- रिति । उपसंवादः-कर्तव्ये पणबन्धः, यदि मे भवानिदं कुर्यादहमपि ते इदं दद्या'- मिति। तत्र करणं हेतुर्दानं हेतुमत्। आशङ्कापि कारणात्कार्योत्प्रेक्षेति हेतुहेतुमद्भावः। अपर इति । करणमवधिनमवधिमदित्यवध्यवधिमद्भाव उपसंवादे प्रतीयते न तु हेतुहेतुमद्भावः । आशङ्कायामपि निश्चितो हेतुहेतुमद्भावो नास्तीति भावः । लिङ्- प्रयोगसिद्धये अवश्यवक्तव्यो लिङ , न तु सूत्रप्रत्याख्यानायैव । [उपसंवादा] उ.] उपसंवादा । इदं नित्यं लेड्विधानार्थ, तदाह-नित्यार्थमिति । पूर्वसूत्रे हि 'लिङर्थे ले'डित्यत्राऽन्यतरस्यांग्रहणमनुवर्तत इति भावः । व्यवस्थितेति। वेदे आपाद्यरूपाऽभावात्सर्वविधीनां छन्दसि वैकल्पिकत्वाददोष इत्यन्ये । करणं हेतु. रिति । तदुत्तरकालत्वादानस्येति भावः । करणमवधिरिति । तद्वस्तुदानस्य तत्क- रणाऽभावेपि बहुशो दृष्टत्वात्तत्करणे सत्यपि वहुशस्तद्दानाऽभावाच्च व्यक्तिविशेषयोः सत्यपि पूर्ववर्तित्वोत्तरवर्तित्वे नियमघटितकारणत्वस्य नैतच्छन्दतो भानं, किन्त्ववध्यवधिमद्भावस्यैवेति भावः। भाष्ये-इदमेवाशङ्काया अप्युदाहरणं । सम्भा- वनापरत्वेन तयाख्यानस्य सम्भवात्सम्भावनैव चाऽत्राऽऽशङ्का, तदाह-आशङ्का- यामपीति । अकारणादकार्योत्प्रेक्षाया अपि दर्शनादित्यपि बोध्यम् । लिड्मयो- गेति । लोकेऽपीत्यर्थः । एवञ्चाऽनयोरपि लिङर्थत्वा हिडर्थे ले'डित्येव सिद्धे इदं न कार्यमिति भावः ॥ [ उपसंवादाशङ्कयोश्च ] ॥ तुमर्थे से । ननु कर्मादिपदाऽनुपादानात्कथं तेषु प्रसक्तिरत आह-क्रिययेति। १ इतिः क्वचिन्न । २ इदं प्रायः क्वचिन्न। ३ इदं वार्तिकमित्यन्ये । ४'कर्तव्यः' ।

३अ.४पा.१आ.९सू.] व्याकरणमहाभाष्यम् ३४१ 'स्त्यन्यः कर्तुस्तुमुनोऽर्थ' इति ॥ कः पुनरसौ ?॥ भावः ॥ कुतो नु खल्वे- तद्भावे तुमुन्भविप्यति न पुनः कर्मादिषु कारकेष्विति । ज्ञापकात्तिाव]दयं कर्तरपकृष्यते । न चान्यस्मिन्नर्थे आदिश्यते, अनिर्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्तीति स्वार्थे भविष्यति। तद्यथा गुप्तिकिझ्यः सन् , यावादिभ्यः कन्निति। सोऽसौ स्वार्थे भवन्भावे भविष्यति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ 'अव्ययकृतो भावे भवन्ती'त्येतन वक्तव्यं भवति । [ तुमर्थेसेसेन ] ॥ उदीचां माङो व्यतीहारे॥ ३॥४॥१९॥ किमर्थं मेङःसानुबन्धकस्याऽऽत्वभूतस्य ग्रहणं क्रियते नोदीचां मेङ इत्ये- वोच्यत?॥तत्रायमप्यर्थः-उदीचां मेङ इति व्यतीहारग्रहणं न कर्तव्यं भवति॥ किं कारणम् ?॥ तद्विषयो हि सः' । व्यतीहारैविपय एव हि मयतिः ॥ एवं तर्हि सिद्धे सति यन्मेङः सानुबन्धकस्यात्वभूतस्य ग्रहणं करोति तज्ज्ञापय- त्याचार्यों 'नानुबन्धकृतमनेजन्तत्वं भवतीति ॥ किमेतस्य ज्ञापने प्रयोज- नम् ? ॥ तत्रासरूपसर्वादेशदाप्रतिषेधे पृथत्वनिर्देशोऽनाकारान्तत्वादि- युक्तं तन्न वक्तव्यं भवति ॥ किमर्थ पुनरिदमुच्यते न समानकर्तृकयोः पूर्व- काल इत्येव सिद्धम्?॥[* ॥ अपूर्वकालार्थः ॥ ॥ अपूर्वकालार्थोऽयमारम्भः । पूर्व ह्यसौ याचते पश्चादपमयते । [उदीचां मालो व्यतीहारे ] ॥ प्र.] तुमर्थ सेसे । कुतो न्विति । क्रियया कर्मादीनामाक्षेपात्तेष्वेव तुमुन् स्यादिति भावः। न वक्तव्यमिति । तुमर्थग्रहणानुवृत्त्या लादीनां भावे सिद्धत्वात् । साध्यमान- रूपश्च भावः त्रादीनामर्थः । स एव[च]धात्वर्थः । घादीनान्तु धात्वर्थव्यति- रिक्तः सिद्धरूपो वाच्यः । [तुमर्थे सेसेनसे] । उदीचाम् । नानुबन्धकृतमिति । एतच्च ज्ञापनमनुबन्धानामेकान्तत्वे उप- युज्यते । अनेकान्तत्वे स्वत एव एजन्तत्वाज्ज्ञापनप्रयोजनाऽभावः। 'पृथत्वनिर्देशो नाकारान्तत्वा'दित्येतद्दाप्रतिषेधग्रहणेनैव संबध्यते । 'दाधाघ्वदा बित्यत्र दैपो- ऽपि पृथक् प्रतिषेधो वक्तव्यः, अनाकारान्तत्वादाब्रूपत्वाऽभावादित्यर्थः । अपमयत उ.]नन्वव्ययकृतो भाव इत्येतत्सत्त्वे घजादिवत्सिद्ध भावे तुमुनादयः स्युः,स्वार्थे विधाने तु साध्ये भावे इति विशेषोऽत आह-साध्यमानेतिावार्तिकेऽपि 'भाव'शब्देन साध्य- भावस्यैव ग्रहणमिति भावः।तुमर्थ इत्यनुवादाच तुमोऽपि भावे सिद्धिरिति बोध्यम् ॥ उदीचामा। नाऽनुबन्धेति। तेनाऽनुबन्धविशिष्टस्याप्यात्वमिति भावः। एका- न्तत्वे इति । अयमेव पक्षो न्याय्य इति तस्य लोप' इति सूत्रे भाष्ये । १ 'कारकेषु स्यादिति'।२ 'वार्तिकमिदमित्यन्ये । ३ 'व्यतिहार'। ४ दाप्रतिषेधेषु'। ५ 'तस्यलोपः' (१-३-९) इत्यत्रोक्तम् । ६ इदं वात्तिकं लुप्तं स्यादितिमन्ये ।

३४२ कैयट-विवरणसहितं [ समानकर्तृ समानकर्तृकयोः पूर्वकाले ॥ ३॥४॥२१॥ इह कस्मान भवति-पूर्व भुते पश्चाइजतीति ? ॥ स्वशब्देनोक्तत्वान्न भवति॥ न तहीदानीमिदं भवति 'पूर्व भुत्का ततो ब्रजतीति?॥ नैतक्रिया- पौर्वकाल्यम् ॥ किं तर्हि ? ॥ कर्तृपौर्वकाल्यमेतत् । पूर्व ह्यसौ भुक्त्वाऽ- न्येभ्यो भोक्तभ्यस्ततः पश्चाद्वजत्यन्येभ्यो ब्रजितृभ्यः ॥ इह कस्मान्न भवति. आस्यते भोक्तुमिति ? ॥ कुतः कस्मान्न भवति । किमासेराहो स्विद्भुजे?॥ भुजेः कस्मान भवति ?॥ अपूर्वकालत्वात् ॥ आसेस्तर्हि कस्मान भवति ?॥ प्र.]इति । वस्त्रादिकं परिवर्तयतीत्यर्थः । [ उदीचां माङो व्यतीहारे ] । समान। 'समान'शब्द एकवाची,शक्तिशक्तिमतोश्वाऽभेदेन विवक्षायां क्रिययो. रेककर्तृकत्वम् । स्वशब्देनेति । पौर्वकाल्ये द्योत्ये त्वादिर्विधीयतेन तु विषय इति भावः । पूर्वशब्दस्याऽत्र क्रियापौर्वकाल्यवाचित्वादग्रादिसूत्रेणापि न भवति, अग्रा- दीनां साधनपौर्वकाल्यविषयाणां तत्र ग्रहणात् । नैतदिति । द्विविधाऽत्र भुजेः पूर्व- कालता,वजिक्रियापेक्षा,तस्यां त्वाप्रत्ययो, भोक्रन्तरसाध्यभुजिक्रियापेक्षा च, तां पूर्व- शब्द उपादत्ते । ततश्चाऽग्रादिसूत्रेणाऽत्र वाणमुलौ भवत इति भावः । कर्तृपौर्व- काल्यं च क्रियाद्वारकमेव बोद्धव्यम् , क्रियाविषयत्वात् कालव्यवहारस्य । आस्यत इति । आसेः पूर्वकालत्वाद्भावस्य च प्रतिपाद्यत्वात् , 'आसित्वा भोक्तु'मिति उ.] समानकर्तृकयोः । ननु कर्तृशब्देन शक्तरभिधानात्तस्याश्च क्रियाद्वयविषयाया भेदान्नैककर्तृत्वं युक्तं क्रिययोरत आह-शक्तीति। शक्तिमद्गतैकत्वस्य शक्त्योरारोपेणे- ककर्तृकत्वोपपत्तिरिति भावः । भाष्ये-स्वशब्देनेति । नाऽत्र धातोः पूर्वकाल- विशिष्टक्रियावृत्तिता, किन्तु स्वार्थमात्रवृत्तितेति भावः। पूर्वकालश्च त्वाद्योत्यस्तदाह- पौर्वकाल्ये द्योत्य इति । न तु 'उक्तार्थाना मिति न्यायस्य विषयोऽयं, द्योतकस्थले प्रायशस्तदप्रवृत्तेः। तद्धनयन्वक्ष्यति-'इह कस्मान्न भवति आस्यते भोक्तु'मिति । अन्यथा तत्र तुमुनाऽऽसिक्रियानिष्ठपूर्वकालस्य द्योतितत्वात्तदसङ्गतिः स्पष्टैवेति दिक। भाष्ये-स्वशब्देनेति । पूर्वशब्देनेत्यर्थः । नन्वत्र 'विभाषाऽग्रे' इति सूत्रेण भव- त्येव त्वाऽत आह-पूर्वशब्दस्येति । तत्र ग्रहणादिति । अत्र चेदमेवं भाष्यं मान। भोनन्तरेति। 'कर्तृपौर्वकाल्य'मित्यस्य कत्रन्तरसाध्यस्वजातीयक्रियापेक्षपौर्वकाल्य- मित्यर्थ इति भावः। तद्धनयन्नाह-कर्तृपौर्वेति । पूर्वकालत्वादिति । तत्र भोजन- फलकं पूर्वकालमासनमिति बोध इति भावः। तुमुन्समभिव्याहारे समभिव्याहृत- क्रियायां पूर्वकालत्वं तुमुन्द्योत्यं प्रतीयते । एवञ्च तत्र वा स्यादिति तात्पर्यम् । एवञ्च यत्र धातोः पूर्वकालविशिष्टक्रियावाचकत्वं तत्र त्वा, तदाह-लद्धाऽत्र वासs- रूपेणेति । अन्यथाऽस्य पूर्वकालाऽर्थवाऽभावेन कथं वाऽसरूपेण सः, समानार्थत्वे ३अ.४पा.१आ२१सू.] * व्याकरणमहाभाष्यम् 8 यस्मादत्र लड्भवति ॥ एतदत्र प्रष्टव्यं-लडन कथं भवतीति ?॥ लछात्र वाs- सरूपेण भविष्यति ॥*॥ समानकर्तृकयोरिति बहुष्वप्राप्तिः [ द्विवचननिर्दे- शात् ॥ ॥ समानकर्तृकोरिति बहुपु त्वा न प्राप्नोति । स्नात्वा भुक्त्वा पीत्वा व्रजतीति ॥ किं पुनः कारणं न सिध्यति?॥* ॥ द्विवचननिर्देशात् ॥*॥ द्विव- चनेनाऽयं निर्देशः क्रियते, तेन द्वयोरेव पौर्वकाल्ये स्थावहूनां न स्यात् ॥ ॥ सिद्धं तु क्रियाप्रधानत्वात् ॥ ॥ सिद्धमेतत् ॥ कथम् ? ॥ 'क्रियाप्रधानत्वात् । क्रियाप्रधानोऽयं निर्देशः॥ नात्र निर्देशस्तन्त्रम्॥ कथं पुनस्तेनैव नाम]निर्देशः क्रियते, तञ्चाऽतन्त्रं स्यात् ? । तत्कारी च भवास्तद्वेषी च ॥ नान्तरीयक- त्वादन द्विवचनेन निर्देशः क्रियते । अवश्यं कया चिद्विभक्त्या केन चिद्वचने- न निर्देशः कर्तव्यः। तद्यथा,-कश्चिदन्नार्थी शालिकलापं सतुपं सपलालमाह- रति नान्तरीयकत्वात्, स यावदादेयं तावदादाय तुषपलालान्युत्सृजति । तथा कश्चिमांसार्थी मत्स्यान्सशकलान् सकण्टककानाहरति नान्तरीयकत्वात् , स यावदादेयं तावदादाय शकलकण्टकान्युत्सृजतिाएवमिहापि नान्तरीयकत्वा- द्विवचनेन निर्देशः क्रियते न ह्यत्र निर्देशस्तन्त्रम् ॥ एवमपि-॥*॥ लोक- प्र.प्राप्नोतीति भावः। लट्वात्रेति। 'वासरूपोऽस्त्रिया मित्यत्र 'स्त्रियाः प्रा'गिति पक्षो नाश्रितः, किन्तर्हि, स्त्र्यधिकारे वासरूपविधिर्नेति । यदा त्वासः वा भवति तदा भुजेः तुमुन्न भवति,अनभिधानात् ,न ह्यासित्वा भोक्तुमित्याद्यभिधानमस्ति। तस्मा- डादय एव भुजेर्भवन्ति-'आसित्वा भुङ्क्ते' इति । क्रियाप्रधानत्वादिति । समान- कर्तृकक्रियान्तरापेक्षपौर्वकाल्यक्रियाप्रतिपादनपरत्वान्निर्देशस्य नान्तरीयकत्वादुपात्तं द्वित्वमत्राऽविवक्षितमित्यर्थः । लोकविज्ञानादिति । 'अमीषां ब्राह्मणानां पूर्व- उ.]हि तत्सूत्रप्रवृत्तः। एवञ्च 'भुक्का व्रजती'त्यादौ पूर्वकालभोजनकर्तृकर्तृकं व्रजन- मिति बोधः । ननु ख्यधिकारात्परतोऽपि वाऽसरूपविधेरभावात्कथमत्र तेन लडि. त्यत आह-वाऽसरूप इति । तदूर्व वाऽसरूपविध्यभावस्तु क्वाचिक इति भावः । ननु वाऽसरूपेण लटः सिद्धावपि कदाचित्तुमुनपि स्यादत आह-यदा विति। न हीति। तुमुनन्तार्थस्य स्वार्थफलकक्रियां प्रति विशेषणवनियमात्, वान्तार्थस्य च स्वोत्तरकालकियां प्रति विशेषणत्वनियमात् । न चैतदुभयं युगपत्सम्भवतीति भावः। समानकर्तृकेति । समानकर्तृकक्रियान्तराऽपेक्षं पौर्वकाल्यं यस्यास्तत्प्रतिपादनपर- त्वादित्यर्थः। निर्धारणे षष्ठी। तत्र द्विवचनबहुवचनाऽन्यतराऽऽवश्यकत्वेनैकतरोपा दानेऽन्यत्र न स्यादिति साधुत्वार्थमेव तत्, नतु विवक्षितमिति तात्पयम् । 'इमो चेयाधितौ स्यातां देयं स्यादिदमौषध'मित्यादौ लोके द्वित्वस्याऽप्यविवक्षादर्शनात् । १ इदं लुप्तं स्यात्। २ इदं भाष्यमित्यन्ये। ३ इदं वार्तिकमित्यन्ये। ४ 'कान्याहर' ।

३४४ ॥*॥ कैयट-विवरणसहितं [ समानकर्तृक विज्ञानात् [ न सिध्यति ] ॥॥ [ लोकविज्ञानानं सिध्यति ] । तद्यथा लोके 'ब्राह्मणानां पूर्व आनीयता'मित्युक्त सर्वपूर्व आनीयते, एवमिहापि सर्वपूर्वायाः क्रियायाः प्राप्नोति ॥॥ अनन्त्यवचनात्तु सिद्धम् [अनन्त्यवचनात्तुसिद्धम् । समानकर्तृकयोरनन्त्यस्येति वक्तव्यम्॥ सिध्यति । सूत्रं तर्हि भिद्यते ॥ यथान्यासमेवास्तु ॥ ननु चोक्तं 'समानकर्तृकयोरिति बहुष्वप्राप्ति'रिति ॥ परिहृतमेतत् 'सिद्धं तु क्रियाप्रधानत्वादिति ॥ ननु चोक्त मेवमपि लोकविज्ञानान्न सिध्यतीति ॥ नैष दोपः । सर्वेषामत्र ब्राजिक्रियां प्रति पौर्वकाल्यम्। स्नात्वा व्रजति भुत्का व्रजति पीत्वा व्रजतीति। एवं च कृत्वा प्रयोगो[ऽप्य]नियतो भवति स्नात्वा भुत्का पीत्वा व्रजति। पीत्वा भुत्वा स्नात्वा व्रजतीति ॥*॥ व्यादाय स्वपितीत्युपसङ्ख्यानमपूर्वकालत्वात् ॥॥ व्यादाय स्वपितीत्युपसङ्ख्यानं कर्तव्यम् ॥ किं पुनः कारणं न सिध्यति ?॥ 'अपूर्वकालत्वात्' । पूर्व ह्यसौ स्वपिति पश्चाध्याददाति ॥ ॥*॥ न वा स्वप्न- स्याऽवरकालत्वात् ॥ ॥ न वा वक्तव्यम् ॥ किं कारणम् ? ॥ 'स्वप्नस्याऽवर- कालत्वात्' । अवरकालः स्वप्नः । अवश्यमसौ व्यादाय मुहूर्तमपि स्वपिति॥ विभाषाऽग्रेप्रथमपूर्वषु ॥ ३।४।२४ ॥ किमयं प्राप्त विभाषाऽऽहो स्विदप्राप्त ? ॥ कथं च प्राप्ते कथं वाऽप्राप्ते?॥ प्र.]मानये'त्युक्ते पसौ यः सर्वेषामादिः स एवानीयते तथेहापि 'स्नात्वा भुक्का पीत्वा व्रजतीति स्नानस्यैव पूर्वत्वात्नातेरेव प्रत्ययेन भाव्यं न तु भुजिपिवतिभ्यामित्यर्थः सर्वेषामिति । आख्यातवाच्याया क्रियाया विशेष्यत्वात्प्राधान्यात्तां प्रति सर्वासां विशेषणत्वात्परस्परेणाऽसम्बन्धः। यथोक्तम्-'गुणानाञ्च परार्थत्वादसंवन्धः समत्वा'- दिति । अवरकाल इति । यद्यपि स्वपक्षणानां व्यादानात्पूर्वकालता तथापि व्यादानानन्तरभाविस्वप्नक्रियापेक्षं व्यादानस्य पूर्वकालत्वमस्तीत्यर्थः ॥ विभाषाग्रे । इहाऽग्रादयः साधनपौर्वकाल्यविषया गृह्यन्ते न तु क्रियापौर्व- काल्यविषयाः। तेषां हि क्रियापौर्वकाल्यविषयत्वे तैरेव पौर्वकाल्यस्योक्तत्वात् त्वाणमुलो- उ.]गुणानाञ्चेति । प्रधानक्रियाऽन्वये सम्भवति गुणभूतक्रियाऽन्वयोऽनुचित इति भावः। प्रत्येकानन्तर्यविवक्षायामिष्टाऽसिद्धिमप्याह भाष्ये-एवञ्च कृत्वेति । तेन प्रत्येकाऽऽनन्तर्यविवक्षायां का न साधुरित्याहुः । [ समानकर्तृकयोः ] ॥ विभाषाऽ । साधनेति । साधनाऽन्तरजन्यस्वजातीयक्रियाऽपेक्षपौर्वकाल्य- विषया इत्यर्थः । न तु क्रियेति । एककर्तृकभिन्नक्रियानिरूपितपौर्वकाल्यविषया इत्यर्थः । साधनपौर्वकाल्यविषयाणामेव ग्रहणे प्रमाणमाह-तेषां हीति । पूर्वादीना- १ इदं क्वचिन्नाभाष्यमित्यन्ये । २'पीत्वास्नात्वाभुत्वा' । ३'स्या पर'।४ 'चाऽप्राप्ते'।

३अ.४पा.१आ.२४सू.] 8 व्याकरणमहाभाष्यम् & ३४५ आभीक्ष्ण्य इति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राहे ॥ किञ्चातः ?॥ यदि प्राप्त आभीक्ष्ण्येऽनिष्टा विभाषा प्रामोत्यन्यत्र चेष्टा न सिध्यति ॥ अथाऽप्राप्ते- ॥ ॥ अग्रादिष्वप्राप्तविधेः समासप्रतिषेधः ॥ ॥ अग्रादिष्वप्राप्तविधेः समासस्य प्रतिषेधो वक्तव्यः॥स तर्हि [प्रतिषेधो]वक्तव्यः?॥न वक्तव्यः॥*॥उक्तं वो॥॥ प्र.]र्गतार्थत्वादुत्पत्त्या न भाव्यम् । न चैतत्सूत्रारम्भादुक्तेऽपि पौर्वकाल्ये तयोरुत्पत्ति- रिति शक्यते वक्तुम् । अस्य साधनपौर्वकाल्यविषयाऽग्राद्युपपदत्वे चरितार्थत्वात् । भाष्यकारेण च समानादिसूत्रे पूर्वशब्देन क्रियापौर्वकाल्ये उक्त काप्रत्ययस्यानुत्पत्तेः प्रतिपादितत्वात् । यदि चाऽत्र अग्रादयः क्रियापौर्वकाल्यविषया गृोरन् तदा अप्राप्तविभाषेव निःसन्देहा स्यादिति 'किमियं प्राप्त विभाषे'ति संशयो नैवोपपद्येत। यस्मादाभीक्ष्ण्ये णमुल्चेति वाणमुलौ क्रियापौर्वकाल्ये एव विधीयते । तच्चेदग्रादि- भिरुच्यते तदाऽऽभीषण्यग्रहणानुवृत्तावप्यप्राप्तविभाषेव स्यात्। आभीक्ष्ण्यञ्च द्विवचन- मन्तरेण काणमुल्भ्यां न द्योत्यत इति तद्द्योतनायाऽपि तयोविधानं नोपपद्यते । तस्मात्साधनपौर्वकाल्यविषया इहाऽग्रादय इति स्थितम् । यद्यपि देशविशेषवचनो- ऽग्रशब्दोऽस्ति-प्रभोरग्रे भुङ्क्ते' इति, तथापि पूर्वप्रथमसाहचर्यात्कालविशेषवृत्तिरेव गृह्यते । अनिष्टा विभाषेति । आभीक्ष्ण्ये नित्यो काणमुलौ इष्येते,-अग्रे भुका भुका बजतीति । लडादयस्तु नैवेष्यन्ते,-अग्रे भुङ्क्ते मुळे तेती बजतीति भावः । अन्यत्र चेति । आभीक्ष्ण्यग्रहणानुवृत्तौ सत्यामनाभीक्ष्ण्य काणमुली न स्याता- मित्यर्थः । अप्राप्तविधेरिति । विभाषायामग्रादीनां प्रत्ययोत्पत्तिं प्रति निमित्तत्वा- निमित्तस्य चोपपदसंज्ञाविधानादुपपदसमासः प्रतिषेध्यः । प्राप्तविभाषायां त्वग्रादीनां पक्षे प्रत्ययनिवृत्ती निमित्तत्वं नतु प्रत्ययोत्पत्ती, प्रत्यययोराभीक्ष्ण्ये णमुल्चेत्यनेना- ऽविशेषेण विहितत्वादिति भावः । न वक्तव्य इति। अप्राप्तविभाषात्वमनेन द्रढयति। उ.]मित्यर्थः। मानान्तरमप्याह-भाष्यकारेण चेति । प्रकृतसूत्रभाष्यपर्यालोचनयाऽ- प्येवमेवेत्याह-यदि चेति । निःसन्देहा । सन्देहान्निष्कान्तेति समासः । संशयाऽ- नुपपत्तिं दर्शयति-यस्मादिति । तदाभीक्ष्ण्येति । उक्तार्थत्वेन त्वाणमुलोरप्राप्ते- रिति भावः। ननु पौर्वकाल्योक्तावप्याभीक्ष्णप्रतिपादनाय तयोः प्राप्तिरत आह-आभी- क्षण्यञ्चेति । एवञ्चावश्यकद्विवचनेनैव तक्ष्योतनसम्भवेनाऽस्य तत्राऽप्यप्राप्तिरिति भावः । तयोविंधानं-तयोः प्राप्तिः। पूर्वप्रथमेति । यद्यपि पूर्वशब्दो देशवाच्यपि तथापि प्रथमसाहचर्य नियामकमिति बोध्यम् । निमित्तस्य चेति । 'उपपद'मिति महासंज्ञया प्रत्ययनिमित्तस्योपपदत्वं । न ह्यभावस्योपपदमिति वक्तुं शक्यमितिभावः। भाष्ये-न वक्तव्य इत्युक्ते अवचने हेतुमाह-उक्तञ्चेति । चो हेतौ । यत उक्तमतो १ 'समासप्रतिषेधो'। २ इदं क्वचिन्न । 'उक्तं च' । ३ 'नोपपद्यते' । ।

३४६ कैयट-विवरणसहितं . [विभाषाग्रे उक्तमेतत् अमैवाव्ययेनेत्यत्रैवकारकरणस्य प्रयोजनम् 'अमैवाव्ययेन यत्तुल्य- विधानमुपपदं तत्र समासो यथा स्यादमा चान्येन च यत्तुल्यविधान- मुपपदं तत्र मा भूदिति । [ विभाषाग्रेप्रथमपूर्वेषु ] ॥ स्वादुमि णमुल् ॥३॥४॥२६॥ किमर्थ स्वादुमि मकारान्तनिपातनं क्रियते न खमुप्रकृतः सोऽनुवर्ति- प्यते ? ॥ ॥*॥ स्वादुमि मान्तनिपातनमीकाराऽभावार्थम् ॥*॥ स्वादुमि मान्तनिपातनं क्रियते॥[किं प्रयोजनम् ?]॥ 'ईकाराभावार्थम्' । ईकारो मा भूदिति । स्वाद्वीं कृत्वा यवागू भुङ्क्ते। स्वादुङ्कारं यवागू भुत इति । ॥१॥ प्र.पूर्वविप्रतिषेधाच्चाग्रादिष्वाभीक्ष्ण्ये नित्याभ्यां त्वाणमुल्भ्यां भाव्यमित्युभयत्र विभाषा इयं न भवति।ननु च णमुल्यप्राप्ते, क्वाप्रत्यये तु समानादिसूत्रेण प्राप्ते सत्यारम्भादुभ- यत्र विभाषेयं युक्ता। नैतदस्ति। समानादिसूत्रविहितं त्वां प्रति विभाषाग्रहणमनर्थक- मेव, वासरूप इत्यनेनैव पक्षे लडादीनां सिद्धत्वात्।कः पुनरस्य त्वः समानादिसूत्र- विहिताद्विशेष इति चेत् , णमुल्सहितत्वमेव विशेषः।णमुल्सहितत्वाविधौ विभाषाश्रुति . रिहोपादीयमाना ज्ञापकाऽर्था संपद्यते। ‘काणमुलौ यत्र सह विधीयते तत्र वासरूपविधिर्न भवती'तितेनाऽऽभीक्ष्ण्ये पौर्वकाल्ये लडादयो न भवन्ति। तत्र यदि केवलो णमुल्वि- धीयेत विभाषाश्रुतिरभिमतमर्थ ज्ञापयितुं न क्षमतेति खोऽप्यनुवादः कर्तव्यः । स्वादुमि । ईकाराभावार्थमिति । मान्तत्वे भाविप्रत्ययविषये निपात्यमाने उ.]न वक्तव्य इत्यर्थः। उक्तं वेति पाठेऽपि 'वा' शब्दोऽत्र चाऽर्थे एव बोध्यः,अव- चने वैकल्पिकहेत्वन्तराऽनुक्तेः। नन्वननुवृत्तावप्याभीक्ष्ण्ये परत्वादिदमेवोचितमि- त्युभयत्रविभाषात्वमुचितमित्यत आह-पूर्वविप्रतिषेधादिति । साधनपौर्वकाल्यविषये क्रियापौर्वकाल्यस्यापि सत्त्वादिति भावः । वाऽसरूपेण लडा- दीनां सिद्धत्वाद्विभाषाग्रहणं किमर्थमिति शङ्कायामपि ‘ज्ञापकार्थ'मित्युत्तरं बोध्यम् । वाऽसरूपन्यायेन लडादिसिद्धेय॑र्थमेतदिति शङ्कते-कः पुनरिति । वक्ष्यमाण- रीत्या ज्ञापकार्थत्युत्तरम् । एवञ्च प्रकृतसूत्रविषये लडादिसिध्यर्थं विभाषाग्रहणम् । ज्ञापनफलन्तु पूर्वसूत्रे । यदि तु णमुल्विषये वाऽसरूपो नाऽस्तीत्येव ज्ञाप्यते तदो- त्तरसूत्रविषयेऽपि वालडादयो न स्युः । तद्धनयन्नाह-तत्र यदीति । आभीक्ष्ण्य इति सूत्रे इत्यर्थः । अभिमतम) । यत्र सह विधीयत इत्येवं रूपमित्यर्थः। स्वादुमिाभाविप्रत्ययविषये इति।णमुल्विषये इत्यर्थः। 'स्वादुमी'त्यनूद्य प्रत्य- यविधानात्प्रत्यये भाविनि सति पूर्वमेव निपात्यत इति भावः। भावप्रत्ययविषय इति १ 'मकारान्तत्वं निपात्यते' । २ लुप्तं स्यात् । ३ इदं कचिन्न । ४'चेयं'। ५ 'सूत्रे विहितं' । ६ 'भवन्तीति' । ७ 'यते' । ८ 'क्षमेति' । . ननु चेति ।

३अ.४पा१.आ.२६सू.] 8 व्याकरणमहाभाष्यम् & ३४७ च्व्यन्तस्य च मकारान्तार्थम् ॥*॥ व्यन्तस्य च मकारान्तत्वं निपात्यते । अस्वार्दू स्वादु कृत्वा भुले स्वादुङ्कारं भुते॥ ॥*॥ आ च तुमुनः समानाधि- करणे ॥ ॥ आ च तुमुनः प्रत्ययाः समानाधिकरणे वक्तव्याः ॥ केन ? ॥ अनुप्रयोगेण ॥ किं प्रयोजनम् ? ॥ 'स्वादुङ्कारं यवागूर्भुज्यते देवदत्तने ति देवदत्ते तृतीया यथा स्यात् ॥ किं [च] कारणं न स्यात् ? ॥ णमुला- भिहितः कर्तेति ॥ ननु च भुजिप्रत्ययेनाऽनभिहितः कर्तेति कृत्वाऽनभिहि. ताश्रयो विधिर्भविष्यति तृतीया ॥ यदि सत्यभिधाने चाऽनभिधाने च कुत- प्र.विहितनिमित्तत्वाद्वोतो गुणवचनादिति ङीष् न भवतीत्यर्थः । च्व्यन्तस्य चेति। खमुञ्यपि सर्वत्र मुम् न सिध्यति, 'अनव्ययस्ये'त्यधिकारादिति भावः। यद्येवं मान्तत्वमेव निपात्यतां प्रत्ययस्तु खमुबेव विधेयः । नैतदस्ति । अव्ययार्थमेव मान्तनिपातनं स्यादिति लीष् स्यादेव । णमुलि तु मान्तत्वमपूर्व विधीयमान- मीकाराभावार्थ च्यन्तस्य च मकारान्तार्थं विज्ञायते । अवश्यं चोत्तरार्थों णमुल् विधेय इति लाघवादिहेव विहितः। आ च तुमुन इति । पूर्वोक्तवाक्यार्था पेक्षया समुच्चयप्रतिपादनार्थश्चशब्दः। न केवलं स्वादुमि मान्तनिपातनमपि तु इदमपि वक्तव्यमित्यथः । शकधृषादिसूत्रविहितस्तुमुन् गृह्यते । अभिविधौ चाऽय- माकारः। णमुलेति । असत्यस्मिन्वचने कर्तरि कृदिति णमुला कर्तरि भाव्यमिति भावः। अनभिहिताश्रय इति । अनभिहित इति पर्युदास आश्रीयते न तु प्रसज्य- उ.]पाठेऽप्ययमेवाऽर्थः। यत्त्वेवं पाठं दृष्ट्वा भावप्रत्ययमात्रविषयं निपातनं, तेन वा- योगेऽपीति। तन्न। स्वादी कृत्वा यवागू भुतं अस्वादु स्वादु कृत्वा भुत इति भाष्य- प्रयोगविरोधात् । स्वाद्वी कृत्वेतिवत् स्वादुङ्कारमित्यत्राऽपीकारः स्यात्तदभावाय निपातनमित्यर्थो भाप्यस्य। विहतेति । उकारान्तत्वाऽभावादित्यर्थः।अव्ययार्थमेवेति। अपूर्व विधानात्प्रतिप्रसवस्य लघुत्वादितिभावः । 'आ च तुमुन' इत्यत्र चकारः किम- पेक्ष इत्यत आह-पूर्वोक्तति । 'मान्तनिपातन'मित्यस्य 'वक्तव्य मिति शेषः । अभिविधौ चेति । एवञ्च तुमुनन्तधातुसंबन्धाऽधिकारविहिता अव्ययकृत इत्यर्थः । तुमुन्त्वसामान्यात् 'तुमुन्ण्वुला वित्यस्याऽपि ग्रहणं बोध्यम् । अत एवाऽग्रे 'भोक्तुमो- दनः पच्यत' इत्युदाहरणं सङ्गच्छते। भाष्ये-समानाधिकरणे इति। स्वाऽन्वयि. समभिव्याहृताख्यातवाच्यकारके इत्यर्थः । [भाष्ये]-अनुप्रयोगशब्देनेदमेवोच्यते । समानाधिकरणे कारके वर्तमानाद्धातोरित्यर्थः। तेन तस्य धात्वर्थ प्राति विशेषण- त्वमेवेति न बोधे वैषम्यम् । ननु सत्यन्यस्मिन्कारके कर्तव कस्मादभिधीयतेऽत आह,-असत्यन्यस्मिन्निति । नन्वभिहिते प्रतिषेधात्कथमनभिहिताऽऽश्रयो विधि- १'मकारान्तत्वं यथा स्यात् ।२ 'स्वादु अस्वाहूं'।३ समानाधिकरणे भवन्तीति वक्तव्यं ।

३४८ -na- . कैयट-विवरणसहितं. [स्वादुभि श्चिदनभिधानमिति कृत्वाऽनभिहिताश्रयो विधिर्भविष्यति तृतीया, यवाग्वां द्वितीया प्रामोति॥किं कारणम् ? ॥ णमुलाऽनभिहितं कर्मेति ॥ यदि पुनरयं कर्मणि विज्ञायेत ? ॥ नैवं शक्यम्, इह हि 'स्वादुङ्कारं यवागू भुङ्क्ते देवदत्त' इति यवाग्वां द्वितीया न स्यात् ॥ किं कारणम् ? ॥ णमुलाभिहितं कर्मेति ॥ ननु च भुजिप्रत्ययेनाऽनभिहितं कर्मेति कृत्वाऽनभिहिताश्रयो विधिर्भ- विष्यति द्वितीया । यदि सत्यभिधाने चाऽनभिधाने च कुतश्चिदनभिधानमिति कृत्वाऽनभिहिताश्रयो विधिभविष्यति द्वितीया, देवदत्ते तृतीया प्राप्नोति ॥ किं कारणम् ?॥ णमुलाऽनभिहितः कर्तेति॥ अथाऽनेन त्वायामर्थः 'पत्वौदनो भुज्यते देवदत्तेनेति ? ॥ बाढमर्थः । देवदत्ते तृतीया यथा स्यात् ॥ किं च कारणं न स्यात् ? ॥ त्वयाऽभिहितः कर्तेति ॥ ननु च भुजिप्रत्ययेनाऽनभि- हितः कतति कृत्वाऽनभिहिताश्रयो विधिभविष्यति तृतीया। यदि सत्यभिधाने चानभिधाने च कुतश्चिदनभिधानमिति कृत्वाऽनभिहिताश्रयो विधिर्भविष्यति तृतीया, ओदने द्वितीया प्राप्नोति ॥ किं कारणम् ?॥ त्वयानभिहितं कर्मेति ॥ यदि पुनरयं कर्मणि विज्ञायेत ?॥ नैवं शक्यम् । इह हि ‘पचौदनं भुङ्क्ते देव- दत्त' इत्योदने द्वितीया न स्यात् ॥ किं च कारणं न स्यात् ? ॥ त्वयाऽभि. हितं कर्मेति ॥ ननु च भुजिप्रत्ययेनाऽनभिहितं कर्मेति कृत्वाऽनभिहिताश्रया विभक्तिर्भविष्यति द्वितीया ॥ यदि सत्यभिधाने चानभिधाने च कुतश्चिदन. भिधानमिति कृत्वाऽनभिहिताश्रयो विधिर्भविष्यति द्वितीया, देवदत्ते तृतीया प्राप्नोति ॥ किं कारणम् ? ॥ कयानभिहितः कर्तेति ॥ अथानेन तुमुन्यर्थः- भोक्तुमोदनः पच्यते देवदत्तेनेति ? ॥ बाढमर्थः । देवदत्ते तृतीया यथा स्यात्॥ किं च कारण न स्यात् ? ॥ तुमुनाऽभिहितः कर्तेति ॥ ननु च पचिप्र. त्ययेनाऽनभिहितः कर्तेति कृत्वाऽनभिहिताश्रयो विधिर्भविष्यति तृतीया । यदि सत्यभिधाने चाऽनभिधाने च कुतश्चिदनभिधानमिति कृत्वाऽनभिहिताश्रयो विधिर्भविष्यति तृतीयौदने द्वितीया प्रामोति ॥ किं कारणम् ? ॥ तुमुनाऽन- भिहितं कर्मेति कृत्वा ॥ यदि पुनरयं कर्मणि विज्ञायेत ? ॥ नैवं शक्यम् । इह हि भोक्तुमोदनं पचति देवदत्त इत्योदने द्वितीया न स्यात् ॥ किं च कारणं न स्यात् ? ॥ तुमुनाभिहितं कर्मेति ॥ ननु च पचिप्रत्ययेनानभिहितं कर्मेति प्र.प्रतिषेध इति भावः। यदि पुनरिति। 'अव्ययकृतः कर्मणी ति वचनं यदि क्रिय- त इति भावः। अथानेनेति । 'आ च तुमुन' इत्यनेन वचनेनेत्यर्थः । अनेकप्रयो- जनत्वमस्य वचनस्य प्रश्नद्वारेण दर्शयति । पत्कौदनमिति। भिन्नधात्वर्थविषयकर्म- १ भवति' । २ कि कारणं न स्यात् । ३ इदं क्वचिन्ना ४ विधिर्भविष्यति'।

३अ.३पा.२आ.१३२सू.] 8 व्याकरणमहाभाष्यम् ॐ ३४९ . कृत्वाऽनभिहिताश्रयो विधिभविष्यति द्वितीया। यदि सत्यभिधाने चानभिधाने च कुतश्चिदनभिधानमिति कृत्वाऽनभिहिताश्रयो विधिर्भविष्यति द्वितीया,देव- दत्ते तृतीया प्राप्नोति ॥ किं कारणम् ?॥ तुमुनाऽनभिहितः कर्तेति ॥ अथा- ऽनेनेहार्थः पत्तौदनं ग्रामो गम्यते देवदत्तेनेति ? ॥ बाढमर्थः । देवदत्ते तृतीया यथा स्यात् ॥ किंच कारणं न स्यात् ? ॥ त्वयाभिहितः कर्तेति ॥ ननु च गमिप्रत्ययेनाऽनभिहितः कर्तेति कृत्वाऽनभिहिताश्रयो विधिर्भविष्यति तृती. या । यदि सत्यभिधाने चानभिधाने च कुतश्चिदनभिधानमिति कृत्वाऽनभि- हिताश्रयो विधिभविष्यति तृतीया, यदुक्तमोदने द्वितीया प्रामोतीति- स इह दोषो न जायते ॥ तत्तहि वक्तव्यमा च तुमुनः समानाधिकरण इति ?॥ न वक्तव्यम् । 'अव्ययकृतो भावे भवन्तीति भावे भविष्यन्ति ॥ किं वक्तव्यमे- प्र.]भेदेऽपि वचनस्याऽस्य दर्शयितुं प्रयोजनमुपन्यासः । अव्ययकृत इति । यद्येवं 'पक्वौदनं भुङ्क्ते देवदत्तः' 'पक्वौदनो भुज्यते देवदत्तेने ति त्वाप्रत्ययेन कर्तृकर्मणो- रनभिधानात्पाकापेक्षया तृतीयाद्वितीये कस्मान्न भवतः ? । उच्यते । आख्यातादि- पदवाच्या क्रिया विशेष्यत्वात् प्रधानम् । विशेषणभूता त्वप्रधानम् । तत्कियासाध- न्योरपि शक्तयोस्तद्वारको गुणप्रधानभावः। तत्र प्रधानशत्तयभिधाने गुणक्रिया- उ.]रत आह-पर्युदास इति। भिन्नधात्वर्थेति।पाके ओदनो, गमने ग्राम इत्यर्थः। 'अस्य वचनस्य प्रयोजनं दर्शयितु'मित्यन्वयः । भाष्ये-स इह दोषो न जायत इति । नन्वनभिहिताश्रया तृतीया सिद्धा, द्वितीयाप्राप्तिरूपो दोषश्च न, तत्किमत्र प्रयोजनमिति 'प्रयोजनं दर्शयितुमुपन्यास' इति कयटाऽसङ्गतिरिति चेत्, अत्र वदन्ति-'दर्शयितु'मिति कैयटस्य,-विचारयितुमित्यर्थः । स दोष इह न जायते तस्मान्नार्थ एतदुदाहरणविषये इति भाष्यार्थः। यदि प्रवर्त्तत तदेतत्प्रयोगाऽभाव- रूपमनिष्टञ्च स्यात् । तस्मात्समानशब्द एकपर्याय इति तात्पर्यम् । आख्यातादि- पदवाच्येति । अत्रेदं तत्वम्, उपात्तकारकाणाम्प्रधानाऽन्वये सम्भवति न गुणे शाब्दाऽन्वयः, अर्थत एव तदीयकारकाकासाशान्तौ तत्राऽन्वये मानाऽभावात् । तवारक इति । क्रियाद्वारकः । गुणक्रियानिरूपिता शत्तिरपि गुणीभृतेति भावः। नन्वार्थाऽन्वयेऽपि तक्रियानिरूपिता शक्तिस्तत्राऽस्त्येव, अन्यथा 'ग्रामायाऽद्य गन्तु. मिच्छती'त्यादि न स्यात् । एवञ्च द्वितीयादिकं स्यादेवाऽत आह-तत्र प्रधानेति । अत्र 'प्रधान'शब्देन सर्वतः प्रधानमाख्यातवाच्यक्रियेव, तच्छक्तरेव वस्तुस्वभाव- माहात्म्येन स्वसमानाऽधिकरणेतरशत्यभिभावकत्वात् । अत एव 'क्षुधम्प्रति- हन्तुं शक्यमित्यपि भवतीति पस्पशायां कैयटेनोक्तं सङ्गच्छते। तत्र 'शक्य'मित्य- स्याऽपि नामत्वेनेतरक्रियाम्प्रति गुणत्वेन स्वसमानाऽधिकरणेतरशक्त्यभिभवे सामा- ३५० कैयट-विवरणसहितं [वर्षप्रमाण तत्?॥नहि॥कथमनुच्यमानं गंस्यते?॥तुमर्थ इति वर्तते॥तुमर्थश्च कः?॥भावः॥ वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् ॥ ३।४।३२ ॥ ॥*॥ ऊलोपश्चास्यान्यतरस्यांग्रहणं शक्यमकर्तुम् ॥ ॥ कथं गोष्पदनं वृष्टो देव इति ? ॥ प्रातिः पूरणकर्मा तस्मादेष कः ॥ यदि को विभक्तीनां श्रवणं प्र.]शक्तिरभिहितवत्प्रकाशते। प्रधानानुरोधाद्गुणानां तन्मुखप्रेक्षित्वात् पृथक्वद्विरुद्ध- खकार्यारम्भाऽभावात् । वर्ष । तस्मादेष क इति । गोष्पदं प्रातीत्यातोऽनुपसर्गे क इति कप्रत्ययः । क्रियाविशेषणत्वाच्च कर्मत्वनपुंसकत्वे। 'गोष्पदप्रङ्कल्प' 'गोष्पदप्रन्तरा'मित्यादिप्रयोग- सिध्यर्थमूलोपो न विधेयः । एषां प्रयोगाणां भाष्यकारेणानभ्युपगमात् । अनभ्युपग- मस्तु ऊलोपप्रत्याख्यानान्यथानुपपत्त्या विज्ञायते । 'गोष्पदपूर'मित्यादेरपि घना सिद्धत्वाण्णमुल कस्मान्न प्रत्याख्यायते । स्वरे दोषप्रसङ्गात् । तथा हि-यदि करणे घनं विधाय षष्ठीतत्पुरुषः क्रियते तदा थाथादिसूत्रेणान्तोदात्तत्वं भवति । भावे तु घनि बहुव्रीही पूर्वपदप्रकृतिस्वरः। णमुलि तु लित्स्वरेणोकार उदात्तः । गोष्पद- उ.र्थ्याऽभावादिति दिक्।अन्ये तु समानाऽधिकरणे इत्यस्याऽनुप्रयोग इत्येवव्याख्या- नादयमपि प्रयोगश्चिन्त्य एव । तद्वचनवादिमतेऽसिद्धः। न च तदाऽऽख्याताऽन्ताऽ नुप्रयोगविषयं, 'क्षुदुपहन्तुं शक्य मिति भाष्यप्रयोगाऽसिद्ध्यापत्तेः,तुमुना कर्मणोऽन- भिधानाद्वितीयापत्तेरित्याहुः । पृथक्त्वादिति । भिन्नत्वाद्विरुद्धं यत्स्वकार्य तदारम्भ- कत्वाऽभावादित्यर्थः । एतेन 'यदा यत्र शाब्दोऽन्वयस्तदा तद्विभक्तेः साधुत्वम्, ओदनं पत्वा भुज्यते, पक्वौदनौ भुज्यत इत्युभयमपि साध्विति परास्तम् । प्रकृत- सूत्रस्थभाष्यवार्तिकयोरनुक्तिसम्भवग्रस्तत्वाऽऽपत्तेरित्यलम्।यत्तुहरदत्तेन वयन्तुब्रूमः- सकृच्छ्रुतस्य युगपदुभाभ्यां सम्बन्धाऽभावादेकेनैव प्रधानेन शाब्दोऽन्वयः, इतरेण तु सन्निधानादार्थ इति गुणनिरूपिती शक्तिस्तत्र नाऽस्त्येवे'त्युक्तं, तन्न,ग्रामाय गन्तुमि- च्छतीति सन्सूत्रस्थभाष्यप्रयोगविरोधाऽऽपत्तः ग्रामस्य गतिकर्मत्वाऽभावेन चतुर्थ्यप्राप्तेः । मम तु शाब्दाऽन्वयाऽभावेऽपि तन्निरूपितकर्मत्वस्य सत्त्वेन परत्वाद्गत्यर्थकर्मणीत्यस्य प्रवृत्त्या न दोषः । एवं 'ग्रामाय गत्वा द्रक्ष्यती'त्यपि साध्विति दिक् ॥[ स्वादुमि णमुल्] ॥ वर्षप्रमाणे । गोष्पदं प्रातीति । पूरयतीत्यर्थः । नन्वस्मात्कल्पपि वृत्ती 'प्र'मित्यनुस्वारश्रवणं न स्यात् , णमुलन्तात्तु भवतीत्यत आह-गोष्पदप्रमिति । करण इति । तथा सति वृष्धात्वर्थेन सामानाऽधिकरण्यं भवति । बहुव्रीहाविति । गोष्पदस्य पूरः पूरणं यत्र क्रियायामित्यर्थः । लित्स्वरेणोकार इति । तत उपपद- १ इदं भाष्यमित्यन्ये । वार्तिकमित्यन्ये । २ 'शाब्दाऽन्वयः' ।

३अ.४पा.१आ.३७सू.] ® व्याकरणमहाभाष्यम् ® ३५१ प्रामोति ॥ श्रूयन्त एवात्र विभक्तयः । तद्यथा एकेन गोष्पदेणेति ॥ करणे हनः ॥ ३।४।३७ ॥ ॥॥ हनः करणेऽनर्थकं वचनं हिंसार्थेभ्यो णमुल्विधानात् ॥ ॥ हनः करणेऽनर्थकं वचनम्॥किं कारणम्!॥'हिंसार्थेभ्यो णमुल्विधानात्'। हिंसार्थेभ्यो णमुल्विधीयते तेनैव सिद्धम् ॥ ॥ अर्थवत्त्वहिसार्थस्य विधानात्॥*॥ अर्थवत्तु हन्तेर्णमुल्वचनम्॥कोऽर्थः?॥ अहिंसार्थस्य विधानात्'। अहिंसााण्णमुल यथा स्यात्॥अस्ति पुनरयं वचिद्धन्तिरहिंसार्थो यदर्थो विधिः स्यात्?॥अस्तीत्याह॥ पाण्युपघातं वेदि हन्ति ॥॥ नित्यसमासार्थं च ॥*॥ नित्यसमासार्थञ्च हिंसाादपि हन्तेरनेन विधिरेषितव्यः । कथं पुनरिच्छतापि हिंसा- द्धन्तेरनेन विधिर्लभ्यः । अनेनाऽस्तु तेन वेति तेन स्याद्विप्रतिषेधेन ॥ हन्तेः पूर्वविप्रतिषेधो वार्तिकेनैव ज्ञापितः यदयं 'नित्यसमासार्थ चे'त्याह । तज्ज्ञापयत्याचार्यो 'हिंसार्थादपि हन्तेरनेन विधिर्भवतीति॥ [ करणे हनः] । अधिकरण बन्धः ॥ ३४॥४१॥ इह कस्मान भवति ग्रामे बन्धं इति ? ॥ एवं वक्ष्यामि ‘अधिकरणे प्र.पूरंतरामित्यादि च सिध्यति। गोष्पदप्र'मित्यत्र तु नास्ति स्वरभेदः।कप्रत्यये थाथा- दिस्वरेणान्तोदात्तत्वाण्णमुलि ऊलोपे कृते पूर्वस्योदात्तभाजोऽभावात् कृत्स्वरेणा- ऽन्तोदात्तत्वात् । [ वर्षप्रमाण ऊलोपश्चा] ॥ करणे । बाहुल्येन हन्तिहिसार्थो दृश्यत इति मत्वाह-हन इति। हन्तेः पूर्व- विप्रतिषेध इति । यद्येवं हिंसानामित्यत्र 'दण्डोपघातं गाः कालयती'त्युदाहरणं नोपपद्यते । नैष दोषः । यत्रक एव धात्वर्थः सामान्यविशेषभावेन भिद्यमानी विशेष्यभावमनुभवति सोऽस्य विषयः। 'कषादिषु यथाविध्यनुप्रयोग' इति वचनात् , अन्यत्र भिन्नधात्वर्थसंबन्धे तु हिंसानामित्यनेनैव णमुल भवति॥ [करणे हनः]॥ उ.]समासे कृदुत्तरपदप्रकृतिस्वरः। कृत्स्वरेणेति । प्रत्ययस्वरेण प्रत्ययस्योदात्तत्वे कृदुत्तरपदप्रकृतिस्वरेणेत्यर्थः । [ वर्षप्रमाण ऊलोप ] । करणे ह । बाहुल्येनेति । अन्ये तु हन्तिहिंसार्थ एव, पद्धत्यादौ हिंसारोप इत्याहुः । भाष्ये-पाण्युपघातमिति । पाणिना वेदि हन्तीत्यर्थः । हिंसा च प्राणि- विषयेति भावः । सामान्येति । यत्राऽनुप्रयोगणमुलन्तयोः सामान्यविशेषभावेना- ऽन्वयस्तत्रेदमेव, यत्र तु भेदसंबन्धेनाऽन्वयस्तत्र तेनैवेति भावः । हिंसार्था- नामिति णमुलि 'तृतीयाप्रभृतीन्यन्यतरस्या'मिति वैकल्पिकः समासः ॥ अधिकरणे । ग्रामे बन्ध इतीति । यद्यपीदं वाऽसरूपन्यायेन घञा सिद्ध, १ इतिः क्वचिन्न । २ 'वचनमनर्थकं' । ३ 'हिंसार्थस्य हन्तेर्णमुल्' । ४ 'बद्धः' । ।

* ३५२ * कैयट-विवरणसहितं [अधिकरणे बन्धः बन्धः संज्ञायां' । ततः-'कोंर्जीवपुरुषयो शिवहोरिति॥ कथमट्टालिकाबन्धं बद्धः चण्डालिकाबन्धं बद्धः? ॥ 'उपमाने कर्मणि चेत्येवं भविष्यति ॥ तिर्यच्यपवर्गे ॥ ३।४।६०॥ अयुक्तोऽयं निर्देशः । तिरश्चीति भवितव्यम् ॥ ॥ सौत्रो निर्देशः ॥ॐ॥ नाधार्थप्रत्यये च्व्यर्थ ॥३॥४॥६२ ।। अर्थग्रहणं किमर्थ? ॥ 'नाधाप्रत्यय' इतीयत्युच्यमाने इहैव स्यात्,-द्विधा- कृत्य । इह च न स्यात्,-वैधं कृत्य । अर्थग्रहणे पुनः क्रियमाणे न दोपो भवति । नाधाप्रेत्यये च सिद्धं भवति, यश्चान्यस्तेन समानार्थः । अथ प्रत्ययग्रहणं किमर्थम् ?॥ इह मा भूत् ,हिरुकृत्वा पृथक्कृत्वा॥ अन्वच्यानुलोम्ये ॥ २४६४ ॥ अयुक्तोऽयं निर्देशः । अनूचीति भवितव्यम् । ॥[*॥सोत्रो निर्देशः ॥3॥ सौत्रोऽयं निर्देशः॥ प्र. अधिक । ग्रामे बन्ध इति । णमुलि सति 'ग्रामबन्धं वद्ध' इति प्राप्नोति ॥ तिर्य । सौत्रो निर्देश इति । अनुक्रियमाणरूपविनाशप्रस्तु न परिहारो, न हि प्रयोजनानुवर्ति प्रमाणम् । [ तिर्यच्यपवर्गे] ॥ नाधा । द्वैधं कृत्येति । यदा 'द्वित्र्योश्च धमु'जित्यादौ प्रत्ययपक्षस्तदेतदर्थ- ग्रहणस्य प्रयोजनम् । आदेशपक्षे तु स्थानिवद्भावाद्धाग्रहणेन ग्रहणात्सिध्यति । तथा च 'धमुजन्तात्स्वार्थे डदर्शन मिति डप्रत्यय उदाहार्यो 'द्वैधकृत्येति । 'ना'ऽर्थमप्यर्थग्रहणं कर्तव्यमन्यथा निरनुबन्धकपरिभाषया नासो ग्रहणं न स्यात् । उ.]तथाऽप्यनिष्टमपि प्राप्नोतीत्याह-ग्रामबन्धमित्यादिना। ग्रामे बद्ध' इति त्वप- पाठः, कर्मणि क्तस्य विषये भावविषयणमुलोऽप्राप्तेः। यद्यप्ययं साध्यो भावः, स च सिद्धस्वभावस्तथापि सिद्धत्वस्वाऽधिक्येऽपि तस्याऽक्षतेः। भाष्ये-एवं वक्ष्यामीति । 'संज्ञाया'मित्यनेनैकवाक्यतापन्नम् । कथमिति । संज्ञात्वाऽभावात्प्रश्नः । उपमान इति । एवमनधिकरणविषयेऽपि तेनैव साध्यमिति भावः। [अधिकरणे बन्धः ॥ तियच्य । तिर्यक्शब्दोऽनृजुवाची,अपवर्गः-समाप्तिस्तद्वाची च । न हीति । सौत्रत्वेन शास्त्राऽप्रवृत्तौ तु तद्विनाशप्रसको बीजमित्यन्यदिति भावः॥ तिर्यच्यप]। नाधाऽर्थप्रत्यये । तथा चेति । तदा चेत्यर्थः । द्वैधकृत्येति । डान्तन समासे विभक्तिलोपः। एतद्भाष्यस्वरसात्प्रत्ययपक्ष एव तत्र न्याय्य इति तत्त्वम् । नाऽर्थमपीति। निरनुबन्धकमादाय रूपाणां सिद्धरनिष्टाऽभावाच्च तदर्थत्वं चिन्त्यम्। 'हिरु'गिति। नाऽर्थत्वात्प्राप्तिः ॥ [ नाधार्थप्रत्यये ] । १ इदं भाष्यमित्यन्ये । २ द्विधा कृत्वा' । ३ 'नाधार्थ' । ४ इदं लुप्तं स्यात् ।

- vvvvvvvvvv.. VVVN ३अ.४पा.१आ.६७सू.] - व्याकरणमहाभाष्यम् , ३५३ कर्तरि कृत् ॥ २४॥६७ ॥ किमर्थमिदमुच्यते ? ॥*॥ कर्तरि कृद्वचनमनादेशे स्वार्थविज्ञानात् ॥ ॥ कर्तरि कृतो भवन्तीत्युच्यते॥[किं प्रयोजनं ?॥ ] 'अनादेशे स्वार्थविज्ञानात्' । अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति। तद्यथा गुप्तिज्किन्धः सन् , यावादिभ्य: कन्निति । एवमिमे प्रत्ययाः कृतः स्वार्थे स्युः । स्वार्थे मा भूवन्कर्तरि यथा स्युरित्येवमर्थमिदमुच्यते ॥ नैतदस्ति प्रयोजनं, यमिच्छति स्वार्थे आह तं 'भावे घन्भवतीति॥ कर्मणि तर्हि मा भूवन्चिति ॥ कर्मण्यपि यमिच्छत्याह तं 'धः कर्मणि ष्ट्रनिति ॥ करणाधिकरणयोस्तर्हि मा भूवनिति ॥ करणाधि. करणयोरपि यमिच्छत्याह तं 'ल्युकरणाधिकरणयोर्भवतीति ॥ संप्रदानापा- दानयोस्तर्हि मा भूवन्निति ॥ संप्रदानापादानयोरपि यमिच्छत्याह तं,-दाश- गोनौ संप्रदाने, भीमादयोपादान इति ॥ य इदानीमतोऽन्यः प्रत्ययः शेषः प्र.] कर्तरि । किमर्थमिति । वक्ष्यमाणोऽभिप्रायः। अनादेश इति । यत्र वचनेना- ऽर्थो नादिश्यते तत्र प्रत्यासत्त्या प्रकृत्यर्थ एव प्रत्ययो भवति । यमिच्छतीति । असत्यस्मिन् सूत्रे 'घ'जित्येतावत्सूत्रं कर्तव्यम् । धातोर्घञ्भवतीति । तत्रानिर्दिष्ट- त्वाद्भावे घन भविष्यति । ततः ‘पदरुजविशस्पृश' इति द्वितीयं सूत्रं कर्तव्यं,ततश्च भाव इति न कर्तव्यम् । क्रियमाणं तु नियमार्थं भविष्यति–'घव भावे नान्य' इति। ततो धात्वक्षिप्ते कर्तरि कृद्भविष्यति नार्थः सूत्रेणेत्यर्थः । कर्मणीति । तस्यापि धात्वर्थेनाक्षेपादिति भावः। धः कर्मणि ष्ट्रमिति) 'ष्ट्रन्नेव कर्मणि नान्य' इति नियमो विज्ञास्यते । यद्येवं कर्मणो नियमात्प्रत्ययो न नियत इति कारकान्तरेपि ष्ट्रन् प्राप्नोति । नैष दोषः । एकमिद वाक्यं 'धः कर्मणि ष्ट्रनिति । तेन च कर्मणि विधीयमानः कथं कारकान्तरे स्यात् । अथवा द्वितीयो नियमः करिष्यते 'कर्मण्येव ष्ट्रनिति। य इदानीमितिानन 'कर्तरि भुवः खिष्णुच्खुको' 'कर्तरि चर्षिदेवतयो'- उ.] कर्तरि कृत् । ननु 'भाव' इति सूत्रं धातुमात्राद्धविपये आवश्यकमत आह-घमित्येतावदिति । भावपदोपादानं विनाऽप्यन्यप्रत्ययवत्स्वार्थे विधाने व भावे सिद्धमिति भावः । ततः पदरुजेति । कर्थमिदम् । ष्ट्रन्प्रामोतीति । 'धः ष्ट्र'नित्येकं वाक्यं विध्यर्थम्, ततः 'कर्मणी'ति नियमार्थमिति भावः । परिहरति- एकमिदं वाक्यमिति । कथं कारकान्तरे इति । एकवाक्येऽपि विशेषणोपादानं नियमफलमित्यर्थः। नन्वेवं विधित्वमेव स्यात् ,विशेषणोपादानात् कर्मण्येवेत्येव स्यान्न तु ष्ट्रनवेतीत्यरुचेराह-अथ वेति । आवृत्त्येति भावः । धात्वर्थाक्षिप्ते कर्मण्यपि सिद्धेनियमार्थत्वमिति तात्पर्यम्। एवं करणाधिकरणयोरित्यत्राऽपि बोध्यम् । सार्व- १ इदं लुप्तं स्यात् । २ 'अनादिष्टार्थाः । ३ 'रेवमर्थ । । .. ।

३५४ कैयट-विवरणसहितं 8 [ कर्तरि कृत् सोऽन्तरेण वचनं कर्तर्येव भविष्यति ॥ तदेव तर्हि प्रयोजनं,-'स्वार्थे मा भूव निति ॥ ननु चोक्तं 'यमिच्छति स्वार्थे आह तं-भावे घन्भवतीति ॥ अन्यःस भावो बाह्यः प्रकृत्यर्थात्। अनेनेदानीमाभ्यन्तरे भावे स्युः । तत्र मा भूवन्निति कर्तृग्रहणम् ॥ कः पुनरेतयोर्भावयोर्विशेषः ? ॥ उक्तो भावभेदो भाष्ये ॥ अस्ति प्रयोजनमेतत् ॥ किं तौति ॥*॥ तत्र ख्युनादिप्रतिषेधो नानावाक्यत्वात् ॥*॥ तत्र ख्युनादीनां प्रतिषेधो वक्तव्यः । ख्युनादयः कर्तरि मा भूवन्निति॥ ननु च करणे ख्युनादयो विधीयन्ते ते कर्तरि न भविष्यन्ति॥ तेन च करणे स्युरनेन च कर्तरि ॥ ननु चापवादत्वात्स्युनादयो बाधकाः स्युः ॥ न स्युः ॥ किं कारणम् ? ॥ 'नानावाक्यत्वात्' । नानावाक्यं तच्चेदं च । समानवाक्येऽवादैरुत्सर्गा बाध्यन्ते । नानावाक्यत्वाद्धाधनं न प्राप्नोति॥ प्र.]रिति कर्तुरपि नियमः प्राप्नोतिनैष दोषः।उभयत्र करणनिवृत्त्या कर्तृश्रुतिर्विध्य- थैव न नियमार्था। उक्त इति। सार्वधातुके य'गिल्यत्र बाह्याभ्यन्तरयोर्भावयोर्विशेषो दर्शितः । ननु चेति । ख्युनादिषु करणादिरों विशेषविहितत्वात्कर्तुर्बाधको भवि. ध्यतीति भावः । नाना वाक्यत्वादिति । 'इह ब्राह्मणेभ्यो दधि दीयतां तकं कौ- ण्डिन्यायेत्यभिन्नकालत्वादेकं वाक्यं विशिष्टस्य दानस्य प्रतिपादकमिति तण दधि बाध्यते । यदा तु कालभेदेन वाक्यद्वयमुच्चार्यते 'पूर्वाह्न ब्राह्मणभोजनप्रकरणे दधि ब्राह्मणेभ्यो दीयता मिति। अपराह्न तु 'तकं कौण्डिन्याय दीयतामिति। तदा तक्रंण दधि न वाध्यते । तथेहापि कालभेदेन वाक्यद्वयोच्चारणाद्वाध्यबाधकभावो नास्ती- उ.] धातुके यगित्यत्रेति । नन्वाभ्यन्तरेऽपि भावे न भविष्यन्ति, 'तुमर्थे से' इति तुमर्थग्रहणेनाभ्यन्तरे भावे सयादीनां नियमादिति चेन्न; सति ह्यस्मिन्नत्र तुमर्थ- ग्रहणेन 'भाव'ग्रहणम् , असति त्वस्मिन् विधित्वसम्पत्तये तुमर्थग्रहणेन कर्त्त- रेव ग्रहणं स्यात् , तुमुनोऽप्युक्तन्यायेन कर्तर्येव प्रसक्तरित्याशयः । लः कर्मणि च भावे चेति । भावग्रहणे तु न नियमः शक्यो विज्ञातुम् , 'अकर्मकेभ्य' इति विशेषणाय तदावश्यकत्वात् । भाष्ये-ख्युनादयः कर्तरीति । अयं भावः,-'स्वस्व- विधायकैर्विहितानाम्प्रत्ययानां पश्चादनेनाऽर्थाऽऽदेशन मिति पक्षे यथा तृजादीनामर्थ आदिश्यत एवं ख्युनादीनामप्यादिश्येताऽविशेषात् । ततश्च तेऽप्यनेन कर्तरि स्युः, तत्तद्वाक्ये उपादानात्करणादिषु चेति करणादिरों विशेषविहितत्वादिति । कार्यशब्दवादेऽर्थस्याऽपि शास्त्रमात्रगम्यत्वेन विधेयत्वमिति भावः । भाष्ये-ननु चाऽपवादत्वादिति । ख्युनादिशास्त्रोपात्ताः करणादय इत्यर्थः । इहाऽपि काल- भेदेनेति । पूर्व करणे विधानं, तदा तु न कर्थोपस्थितिरिति बाधाऽभावः, १ 'स्वार्थे यमिच्छति' । २ 'भावो' ।३ 'तेन कर्तरि'। ४ 'समासे वाक्येचाऽप'। ।

३आ.४पा.१आ.२६सू.] & व्याकरणमहाभाष्यम् ॐ ३५५ .. ॥*॥ तद्वच्च कृत्येष्वेवकारकरणम् ॥॥ एवं च कृत्वा कृत्येष्वेवकारः क्रियते,-तयोरेव कृत्यक्तखला इति, भावे चाकर्मकेभ्य इति ॥ किं प्रयो- जनम् ? ॥*॥ तच्च भव्याद्यर्थम् ॥ ॥ भव्यादिषु समावेशः सिद्धो भवति । गेयो माणवकः सानां, गेयानि माणवकेन सामानीति ॥*॥ ऋषिदेवतयोस्तु प्र.]त्यर्थः । यत्त्विगादिवाक्ये 'यच्चेकं वाक्यं तच्चेदं च ततस्तच्छेषोऽथ नानावाक्यं नदा तदपवाद' इत्युक्तम् । तदसंभवाश्रयेण। यदाऽङ्गस्येति इगपेक्षावयवावयविसंबन्धे षष्टी तदा स्थानषष्ठ्यभावादलोन्त्यस्येत्यस्यानुपस्थानं, तदेव चापवादत्वम् । ख्युना- दयस्तु कृत्त्वादनेन कर्तरि स्युः । करणादिश्रुत्या च करणादिषु। तत्राऽनेकस्यार्थ- म्य युगपदभिधानाऽसंभवात् पर्यायः स्यात् । कदा चित्कर्तरि,कदा चित्करणादिषु । तद्वच्चेति । योऽयमर्थ उक्त स्तेन तुल्यमेवकारकरणमित्यर्थः। तथाहि,-कृत्त्वात्क- तरि कृत्यादयः प्राप्ता एवकारेण कर्तुरपकृष्यन्ते, भावकर्मणोरेव यथा स्युरित्येवमर्थ- मित्यर्थः । 'भावे चाऽकर्मकेभ्य' इत्यनेनाधिकारसहितं वाक्यं दर्शयति । किं प्रयो- जनमिति । एवकारेणाऽन्यत्र समावेशज्ञापनेन किं प्रयोजनमिति प्रश्नः । तच भव्याद्यर्थमिति । भव्यगेयादिसूत्रे वाग्रहणं न कर्तव्यम् , तदन्तरेणापि भव्या- दयः कर्तरि भवन्तीत्यनेन समावेशज्ञापनादेवकारकरणाद्धावकर्मणी न बाधिष्येते इत्यर्थः । इदानीं 'तत्र ख्युनादिप्रतिषेध' इत्यस्य परिहारमाह-ऋपिदेवतयोरिति । उ.]विधानोत्तरं पश्चादुपस्थितस्य कथं वाधः,तत्प्राप्तिकाले तस्य नाऽप्राप्त्यभावात् । यथा अपराह्नतक्रदानेन पूर्वाह्नदधिदानस्य न बाध इति भावः।ननु 'इको गुणवृद्धी' इति सूत्रे नानावाक्यत्वमङ्गीकृत्य कथमपवादत्वोक्तिरत आह-यत्त्विति । तदस- म्भवाश्रयणेति । 'अलोऽन्त्यस्य'त्यस्योपस्थित्यसम्भवाऽभिप्रायेणेत्यर्थः, तदेवाह- यदेति । कृत्त्वादनेनेति । विध्युत्तरकालमर्थसमर्पकेणेत्यर्थः। तत्राऽनेकस्येति । कर्तृकरणयोः स्वातन्त्र्याऽस्वातन्त्र्याभ्यां भिन्नकक्षत्वादिति भावः। योऽयमिति । अवाधकारणनानावाक्यस्वरूप इत्यर्थः । तेन तुल्यमिति । तम्याऽपि तद्बोधकत्वा- दिति भावः । इत्येवमर्थमिति । यदि बाध्यबाधकभावः स्यात्तदा भावकर्मभ्यां कर्तुर्वाधसम्भवात्तद्वैयर्थ्यं स्पष्टमेव । तस्मादेवकारेण ज्ञाप्यते-'अर्थस्याऽर्थान्तरं न बाधकमिती'ति भावः । ननु 'भावे चे'त्याद्यंशोच्चारणं किमर्थमत आह-भावे चेत्यादि। ननु कृत्यादीनां कर्त्तर्यप्रवृत्तिरेवकारप्रयोजनमिति ज्ञातत्वात्प्रश्नाऽनुप- पत्तिरत आह-एवेति । 'वा'ग्रहणेन तत्सिद्धमत आह-भव्येति। कर्तरि भवन्ती- ति । 'कर्तरि कृदिति शास्त्रादिति भावः । इति हेतोर्न कर्त्तव्यमित्यन्वयः। नन्वेवमपि का भावकर्मणोर्वाधः स्यादत आह-अनेनेति। अनेन-का। समा- १ इदं क्वचिन्न । । - . ३५६ कैयट-विवरणसहितं. [ कर्तरि कृत् कृद्भिः समावेशवचनं ज्ञापकमसमावेशस्य ॥ ॥ [ ऋषिदेवतयोस्तु कृनिः समा. वेशवचनं ज्ञापकमसमावेशस्य । यदयं कर्तरि चर्षिदेवतयो'रिति सिद्धे सति समावेशे समावेशार्थ चकार शास्ति तज्ज्ञापयत्याचार्यो-'न भवति समावेश' इति ॥ किमर्थतर्हि कृत्येष्वेवकारः क्रियते ?॥*॥ एवकारकरणं च चार्थे ॥॥ एवकारकरणं च चाऽर्थे द्रष्टव्यम् । तयोर्भावकर्मणोः कृत्या भवन्ति, भव्या- दीनां कर्तरि चेति॥कि प्रयोजनम्?॥* ॥तच्च भव्याद्यर्थ॥ ॥ तच्च भव्याद्यर्थम्]। भव्यादिषु समावेशः सिद्धो भवति।गेयो माणवकः साम्नांगेयानि माणवकेन सामानीति ॥ यत्तावदुच्यते 'ऋषिदेवतयोस्तु कृद्भिः समावेशवचनं ज्ञापक- मसमावेशस्येति । नैतज्ज्ञापकसाध्यमपवादैरुत्सर्गा बाध्यन्त इति । एष एव न्यायो यदुतापवादैरुत्सर्गा बाध्येरन् ॥ ननु चोक्तं-'नानावाक्यत्वाद्वाधनं न प्रोमोतीति ॥ न विदेशस्थमिति कृत्वाऽतो नाना वाक्यं भवति । विदेशस्थ- मपि सदेकं वाक्यं भवति। तद्यथा-द्वितीयेऽध्यायेलुगुच्यते, तस्य चतुर्थपष्टयो. प्र.द्भिरिति जातो बहुवचनम्।अत्र च यथासंख्यं वार्तिककारस्यानभिमतम्।यथासङ्ख्ये हि चशब्दस्य ज्ञापकत्वन्न स्यात्, समावेशाऽभावात्।भव्याद्यर्थमिति। भव्यगेयोदि- सूत्रं न कर्त्तव्यं भवतीत्यर्थः । अन्ये तु कृत्यादयोऽनभिधानात्कर्तरि न भविष्य- न्तीति भावः । इदानी भाष्यकारो वार्तिकदूषणमाह-यत्तावदिति । न विदेशस्थ. मिति । न कालभेदान्नानावाक्यत्वं भवति । शास्त्रे विदेशस्थानामप्यवान्तरवाक्या- नामाकासावशादेकवाक्यत्वदर्शनात् । देशग्रहणं चाऽत्र कालस्योपलक्षणम् । शब्दक्रमस्य कालकृतत्वात् । चतुर्थपष्ठयोरिति । चतुर्थे 'गोत्रेऽलुगची'ति । षष्ठे तु उ.]वेशेति।करणव्युत्पत्त्या समावेशज्ञापकादेवकारकरणादित्यर्थः।प्रत्ययस्यैकत्वादर्थयोरपि द्वित्वाद्बहुवचनमनुपपन्नमत आह-जाताविति । जातिविवक्षायामेकवचनस्य, व्यक्तिविवक्षायां बहुवचनस्य साधनेन भाष्ये 'जात्याख्याया'मिति सूत्रप्रत्याख्याना- दिदञ्चिन्त्यम् । प्रयोगभेदेनाऽर्थबाहुल्याद्बहुवचनमिति वक्तुं युक्तम् । भाष्ये-कृद्भि- रित्यस्य कृदर्थकर्तृकरणयोरित्यर्थः । ननु तत्र ऋषौ करणे देवतायां कर्तरीत्यन्वया- त्समावेश एव नास्तीत्यत आह-अत्र च यथासङ्ख्यमिति । तत्सत्त्वे हि तथा संबन्धार्थमेव चस्य सार्थकत्वात्सति प्रयोजने ज्ञापकत्वं न स्यादिति भावः । भाष्ये- समावेशवचनमिति । समावेशबोधकचकारवचनमित्यर्थः । सूत्र नेति । भव्या- दीनां कर्तरि चेति भाष्यस्वरसेन सूत्राऽभावस्यैव लाभादिति भावः। ननु तत्सूत्रा- ऽभावे पूर्वोक्तरीत्या अन्येऽपि कृत्याः कर्तरि स्युरत आह-अन्ये विति यत्ताव- दितीति। कृदुत्पत्तिवाक्यानामेवायं शेषः। तथा च समानकालतयाऽनिर्दिष्टार्थेषु चरि- १ इदं भाष्यमित्यन्ये। पूर्व भाष्यमिदं वार्तिकमित्यपरे ।२क्वचिन्न ।३ 'गेयेति'।

३अ.४पा.१आ.२६सू.] ® व्याकरणमहाभाष्यम् 8 । रलुगुच्यतेऽपवादः। यदप्युच्यते-'एवकारकरणं च चार्थ' इति । कथं पुन- रन्यो नामाऽन्यस्यार्थे वर्तते। कथमेवकारश्चार्थे वर्तते ?॥ स एष एवकारः स्वार्थे वर्तते ॥ किं प्रयोजनम् ?॥ ज्ञापकार्थम् ॥ किं ज्ञाप्यं ?॥ एतज्ज्ञापय- त्याचार्य 'इत उत्तरं समावेशो भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ?॥ 'तच भव्याद्यर्थम्' । भव्यादिषु समावेशः सिद्धो भवति, गेयो माणवकः सानां, गेयानि माणवकेन सामानीति ॥ यद्येतज्ज्ञाप्यते इहापि समावेशः प्राप्नोति,-दाशगोनौ संप्रदाने, भीमादयोऽपादान इति॥अत्रापि सिद्धं भवति यदयमादिकर्मणि क्तः कर्तरि चेति सिद्धे समावेशे समावेशार्थ चकारं शौस्ति तज्ज्ञापयत्याचार्यः-'प्रागमुतः समावेशो भवतीति ॥ प्र.] अलुगुत्तरपदे'इति।तदुक्तं हरिणा-'अनेकाख्यातयोगेपि वाक्यंन्यायापवादयोः। एकमेवेष्यते कैश्चिद्भिनरूपमिव स्थितम् ॥ नियमः प्रतिषेधश्च विशेषश्च तथा सति । द्वितीये यो लुगाख्यातस्तच्छेषमलुकं विदुः ॥' इति ॥. कथमिति । एवकारस्य लौकिके प्रयोगे न क्वचिच्चाऽर्थवृत्तित्वं दृश्यत इति भावः।उत्तरमिति। 'कर्तरि कृ'दित्यस्मादुत्तरमित्यर्थः । तच्चेति । भव्यगेयादिसूत्रे 'वेति न कर्तव्यं भवतीत्यर्थः । यदयमिति। 'आदिकर्मणि क्तः कर्तरी'त्येतावदस्तु नाऽर्थश्वशब्देन। समावेशोप्येवकारज्ञापितो भविष्यति । कृतस्तु 'च'शब्दो ज्ञापयति-आदिकर्मणी- उ.]तार्थस्याऽस्य विशेषार्थनिर्देशेन बाध इति भावः । यद्वा तेषामर्थांशे निराकास- त्वात्तेष्वनुपस्थितिरेव । तृजादिविधौ तु तेषामर्थाऽऽकाजासत्त्वात् ‘कर्तरी त्यस्याऽ- प्यर्थवत्याकासासत्त्वेनोभयाऽऽकासया तत्रैवाऽन्वयो, न ख्युनादिषु, साक्षादर्थ- निर्देशेन तेषां निराकासत्वादिति तत्त्वम्। अनेकाख्यातयोगः-'यण भवति' 'दी? भवती'त्यादिरूपः । न्यायः-उत्सर्गः । 'विधिशेष' इति पाठे नियमप्रतिषेधौ विधि- शेषावेव न तु स्वतन्त्रावित्यर्थः। तदुदाहरणमाह-द्वितीये इति। 'विशेषश्च तथेति पाठे विशेषोऽपवादः। एतत्रितयं विध्येकवाक्यतापन्नमित्यर्थः।न कर्त्तव्यं भवतीति । न च चार्थे वृत्तिमाश्रित्य सूत्रमेव न कार्यम् , अतिप्रसङ्गस्त्वनभिधानाद्वारणीय इति प्रागुक्तं युक्तम् , अनभिधानेन प्रत्याख्यानस्याऽयुक्तत्वादित्याहुः। एवञ्च स्वार्थे कृतां व्यावत्तये सूत्रं कार्य, ख्युनादिषु च करणरूपार्थेन बाधान्न दोषः। तत्र 'किमिद- मपूर्वतयाऽर्थ बोधयत्प्रत्ययमितरार्थेभ्यो व्यावतयति, किं वा तत्राऽर्थे लोके प्रयुज्य- मानस्यैव कृदादिसंज्ञेति प्रतिपादयतीति सन्दिा,-तत्र द्वितीयस्य सिद्धान्तत्वकरणे. नाऽपि ख्युनादीनां तत्र प्रतिषेध'इति वार्तिकं प्रत्याख्यातुमुपक्रमते भाष्ये-किम्पुन- रिति । कृत्प्रत्ययो नियम्यत इति । एतावानेव सूत्रव्यापारः, 'कर्तारं ब्रुवन् १ 'विद्यते । २ 'ज्ञाप्यते' । ३ 'समावेशं शास्ति' ।

३५८ * कैयट-विवरणसहितं [कर्तरि कृत् । । किं पुनरयं प्रत्ययनियमो,-'धातोः परोऽकारोऽकशब्दोवानियोगतः कर्तारं ब्रुवन्कृत्संज्ञश्च भवति प्रत्ययसंज्ञश्चेति, आहो स्वित्संज्ञानियमो,-'धातोः परोऽ. कारोऽकशब्दो वा स्वभावतः कर्तारं ब्रुवन्कृत्संज्ञश्च भवति प्रत्ययसंज्ञश्चेति ॥ कश्चात्र विशेषः ? ॥॥*॥ तत्र प्रत्ययनियमेऽनिष्टप्रसङ्गः ॥*॥ तत्र प्रत्यय- नियमे सत्यनिष्टं प्राप्नोति । काष्ठभिदब्राह्मणः । बलभिदब्राह्मणः। एषोऽपि नियोगतः कर्तारं ब्रुवन्कृत्संज्ञश्च स्यात्प्रत्ययसंज्ञश्चेति ॥ ॥ संज्ञानियमे सिद्धम् ॥*॥ संज्ञानियमे सति सिद्धं भवति ॥ यदि संज्ञानियमो-॥*॥ विभक्ता- प्र.]त्यस्मात् सूत्रात् परेषु योगेषु समावेशोन भवतीति । किं पुनरिति,-सिद्धे शब्दा. र्थसंबंध इति यदुक्तं तत्स्मारयितुं विचार्यते । प्रत्ययनियम इति । धातोः परः कृत्प्रत्ययः कर्तरि वर्ततामिति कर्तृलक्षणेऽर्थे कृत्प्रत्ययो नियम्यते । नियोगत इति । 'कर्तरि कृ'दित्यस्मादाचार्यनियोगादित्यर्थः। कार्यशब्दाभ्युपगमे चाऽस्य पक्षस्य संभवः । आहो स्विदिति । नित्यशब्दार्थसंबन्धाभ्युपगमनिबन्धनोयं पक्षः। 'यः स्वभावतः कर्तरि वर्तते स एव कृत्संज्ञो नान्य'इति कृत्संज्ञा नियम्यते। यद्येवं ख्युनादीनां कृत्संज्ञा न प्राप्नोति । नैष दोषः । एतत्सूत्रव्यापारो नियम्यते । करणे ख्युन्नित्यादावप्ययमेव विचारः,-किमयमर्थः-'करणे ख्युन्वर्तता'मिति, उत 'यत् स्वभावतो वर्तते तस्य साधुत्व'मिति । कृत्संज्ञा तु प्रतिप्रत्ययमधिक्रियमाणा ख्युनादिषु प्रवर्तत एव । काष्ठभिदब्राह्मण इति । अनित्यशब्दाभ्युपगमे काष्ठभेद इत्यत्राऽप्यण्प्रत्ययो वचनादेव कर्तारमाचष्टे । उत्पाद्यशब्दपक्षे चाऽकाराणां विशेषा- उ.कृत्संज्ञे'त्यादि तु सकलशास्त्रैकवाक्यतालभ्याऽर्थकथनमिति बोध्यम्।ननु सिद्ध- शब्दाऽन्वाख्याने कथमाचार्यनियोगादर्थविशेषे प्रवृत्तिरित्यत आह-कार्यशब्देति । तत्राद्यपक्षे कृत्प्रत्ययः कर्तरि वर्त्ततामित्युक्तेऽर्थादन्यत्राऽऽवृत्त्या प्रत्ययनियमः, द्वितीये त्वर्थस्य लोकत एव सिद्धत्वात्तद्विध्यसम्भवेन कृत्संज्ञाया अप्यधिकारेण सिद्ध- त्वेन कर्तारं ब्रुवन्नेव कृत् प्रत्ययसंझको नाऽन्यादृश इति तत्तच्छास्त्रैकवाक्यतया संज्ञानियम इति भावः । ख्युनादीनामिति । 'करणादिषु वर्तमानाना'मिति शेषः। एतत्सूत्रव्यापार इति । एतत्सूत्रविषय इत्यर्थः । कृत्संज्ञा विति । प्रत्ययसंज्ञाया अप्युपलक्षणम् । प्रतिसूत्रमुपस्थानवैयर्थ्येन सर्वत्र प्रवर्तत एवेत्यर्थः । वचना- देवेति। 'कर्तरि कृ'दिति वचनादेवेत्यर्थः। नन्वेवमप्येतत्प्रकरणविहितानामेव नियो- गेन कर्थकत्वमाख्यायेत नत्वन्येषामपीत्यत आह-उत्पाद्येति। धातोः परेऽकाराः कर्तर्येव वर्तन्त इत्यादिति भावः । अर्थविधानञ्च प्रयोगे दृश्यमानानामेवेति ना. ऽनुबन्धा भेदका इति तात्पर्यम् । अतएव भाष्ये 'अकारोऽकशब्दो वा नियोगत' १ इदं क्वचिन्न । २ 'बलमिद्राह्मणः' 'लवणभिद्राह्मणः' । ३ इदं भाष्यमित्यन्ये ।

३अ.४पा.१आ.६७सू.] 8 व्याकरणमहाभाष्यम् ॐ ३५९ दिषु दोषः ॥*॥ विभक्ता भ्रातरः पीता गाव इति न सिध्यति । प्रत्यय- प्र.] भावादब्राह्मणशब्दाऽकारस्यापि कर्तरि नियोगत्वं प्राप्नोति । आचार्यनियोगाच कर्तारं ब्रुवतः कृत्प्रत्ययसंज्ञाप्रसङ्गः । तत्र कृत्संज्ञायां सत्यां स्वाद्युत्पत्तिप्रसङ्गः, प्रत्ययसंज्ञायां च सत्यां तन्निवन्धनाऽङ्गसंज्ञाश्रय आर्द्धधातुकनिमित्तो गुणः प्राप्नोति । ननु नाऽयं धातोर्विहितः, ततो दोषाऽभावः । नैतदस्ति । लक्षणवशाच्छब्दार्थ- संबन्धव्यवस्थानुविधाने कुतोऽयं नियमः,-अयं धातोर्विहितो नाय'मिति । काष्ट- शब्दो हि कर्मोपपदं. भिदिर्धातुः, तस्माच्च परोऽकार इति-तस्य कर्तरि स्यादेव नियोगः । यदा हि स्ववाक्यैर्विहितानां प्रत्ययानामनेनार्थविशेषे नियोगः क्रियते तदा विशेषाऽभावादस्यापि नियोगः प्राप्नोति। विपो लुप्तत्वाद्धातुरेव कर्बर्थे नियुक्त इत्यकारस्य कर्ताऽर्थो न भविष्यतीति चेत् , यावकादिष्विव सर्वाभिधानमस्तु।लौकि- कार्थानपेक्षायां हि धातोः परस्य कृत्प्रत्ययसंज्ञाकर्तृनियोगप्रसङ्गः । संज्ञानियमे सद्धमिति । नद्यत्राऽकारो लौकिके प्रयोगे कर्तारं ब्रवीति, प्रतिषेधवाचित्वादिति कृत्प्रत्ययसंज्ञयोरप्रवृत्तिरित्यर्थः । प्रत्ययनियमवाद्याह-यदीति। अत्र. हि क्तः स्वभावतः कर्तारमाह, भ्रातृभिगोभिश्च सामानाधिकरण्यात् । ततश्च कर्तरि साधुत्वं प्राप्नोतीत्यसाधुत्वं मन्यते। क्रियाकारकसंबन्धेन विभक्तादीनां कर्तरि वृत्तिरनभिमते- उ.] इत्युक्तम् । नियोगः-नियमः। नियोगत्वमिति पाठे नियोगविषयत्वमित्यर्थः । धातोः परः कृत्प्रत्यय इति । सर्वसङ्ग्रहप्रदर्शकम् । कृत्यप्रत्ययसंज्ञेति । प्रकृत- सूत्रे विद्यमानाऽनुवर्तमानकृत्प्रत्ययपदाभ्यामित्यर्थः। गुण इति। 'कितीति निमित्त- सप्तमीति क्विबाश्रयो निषेधो नेति भावः । ननु नाऽयं धातोरिति । 'धातो'- रित्येवं विहितस्यैवार्द्धधातुकत्वादित्यर्थः । ननु कार्यशब्देऽपि य एते कृत्संज्ञकास्त- त्तच्छास्त्रेनिष्पन्नास्ते कर्तर्येव वर्तन्त इत्यर्थः । एवञ्च कथमस्याऽकारस्य नियोगेन कर्थकत्वमित्यत आह-काष्टशब्दो हीति । एवञ्च स्वरूपे विशेषाऽभावेन सादृश्या- दस्मिन्नपि तत्त्वबुद्धिरस्त्येवेति धातोविहितत्वबुद्धिरप्यस्तीत्यार्द्धधातुकल्लमस्त्येवेति भावः । नन्वेकवाक्यतयवाऽर्थविधानान्न दोष इत्यत आह-यदा हीति । प्रत्य- यानामिति । प्रयोगे दृश्यमानरूपाणामित्यर्थः । धातुरेवेति । विप्सहचरितो धातु- रेवेत्यर्थः । सर्वाऽभिधानमिति । सर्वेरभिधानमित्यर्थः । एवं कृदादिसंज्ञा अपि विहितानामेव पश्चात् क्रियन्त इति लौकिकार्थानपेक्षया शास्त्रेणैवाऽर्थविधाने धातोः परत्वात्स्यादेव प्रत्ययवादीत्याह-लौकिकेति । नाति । एवञ्च ख्युनोऽपि लोके कर्त्तवृत्तेस्ततम्याऽनुपस्थानमिति न कर्नाद्यर्थकत्वप्रसङ्ग इति तत्प्रतिषेधो व्यर्थ इति भावः । ननु साधुत्वमिष्टमेवेति साधुत्वम्प्राप्नोतीत्यसङ्गतमत आह-असाधुत्वं मन्यत इति । एवञ्च 'इति न सिध्यती'त्यत्र इत्येतेषु क्तस्य कर्तरि असाधुत्वं न ३६० कैयट-विवरणसहित [ कतरि कृत् .. नियमे पुनः सति परिगणिताभ्यः प्रकृतिभ्यः परः तो नियोगतः कर्तारमाह न चेमास्तत्र परिगण्यन्ते प्रकृतयः॥*विभक्तादिषु चाऽप्राप्तिः प्रकृतेः प्रत्ययपर- वचनात् ॥*॥ विभक्तादिषु च प्रत्ययनियमस्याऽप्राप्तिः ॥ किं कारणम् ? ॥ 'प्रकृतेः प्रत्ययपरवचनात्' । परिगणिताभ्यः प्रकृतिभ्यः परः क्तः स्वभावतः कर्तारमाह, न चेमास्तत्र परिगण्यन्ते ॥ न त_दानीमयं साधुर्भवति ? ॥ भवति साधुन तु कर्तरितकथं तीदानीममत्र कर्तृत्वं गम्यते?॥ अकारो मत्व- र्थीयः । विभक्तमेषामस्ति विभक्ताः । पीतमेषामस्ति पीता इति ॥ ॥[*उत्तरपदैलोपो वा ॥*]॥ अथ वोत्तरपदलोपोऽत्र द्रष्टव्यः । विभक्तधनाः विभक्ताः । पीतोदकाः पीता इति ॥ [ कर्तरि कृत् ] ॥ प्रति दोषोपन्यासः। प्रकारान्तरेण साधुत्वं दर्शयिष्यते। प्रत्ययनियमवादिनस्त्वय- मदोषः। 'गत्यर्थाकर्मके त्यत्र परिगणिताभ्यः प्रकृतिभ्यः परः क्तः कर्तरि नियुज्यते । नहि तत्र भजिपिबती परिगणितावित्यर्थः। संज्ञानियमवाद्याह-विभक्तादिषु चेति। ममापि 'गत्यर्थाकर्मके'ति सूत्रं न दण्डवारितम्। तत्र गत्यर्थादिभ्य एव क्तः स्वभा- वतः कर्तारं ब्रुवन् कृत्प्रत्ययसंज्ञो भवतीति भजिपिबतिभ्यां क्तस्य कर्तरि साधुत्वा- ऽप्रसङ्गः । प्रकृतेरिति । गत्यादिकाया इत्यर्थः। प्रत्ययपरवचनादिति । क्तप्रत्यस्य कर्तरि वर्तमानस्य साधुत्वेन प्रतिपादनादित्यर्थः । तदेवं स्थितमेतत्-स्वभावतस्तेषु तेष्वर्थेषु वर्तमानानां प्रत्ययसंज्ञाविधानद्वारेण साधुत्वमन्वाख्यायते । इदानी भाष्य- कारः प्रश्नपूर्वकं प्रयोगसमर्थनं करोति-न तहीति । न तु कर्तरीति । 'तयो- रेवेति वचनाकर्मण्येव साधुरित्यर्थः। विभक्तमिति । धनमिति भावः। पीतमिति। उदकमित्यर्थः । आकृतिगणश्चाऽर्श आदिः । अथ वेति । गम्यमानार्थस्य शब्दस्या- ऽप्रयोग एव लोपोऽभिमतः । 'विभक्ता भ्रातर' इत्यत्र च धनस्य यद्विभक्तत्वं तद्भातृषूपचर्यते । 'पीता गाव' इत्दत्राप्युदकस्य पीतत्वं गोष्वारोप्यते । [कर्तरि]॥ उ.] सिध्यतीत्यर्थ इति भावः। असाधुत्वे बीजमाह-क्रियाकारकसंबन्धेनेति। धन- कर्मकविभागकर्तार इत्यर्थे इति भावः।प्रकारान्तरेण-मत्वर्थसंबन्धित्वेन बोधे इत्य- र्थः । क्तः कर्त्तरि नियुज्यत इति। शास्त्रेण बोध्यत इत्यर्थः । भाष्ये-प्रकृतः प्रत्ययेति । प्रकृतिविशेषाद्गत्यादेः परस्य क्तप्रत्ययस्य कर्तरि साधुत्ववचनादित्यर्थः। तदाह-क्तप्रत्ययस्यति । 'भवति साधुन तु कर्तरी ति भाष्याद्यत्र कर्मणि स्वरसतो विधानं तत्रेति लभ्यत इत्याशयेनाह-धनमिति भाव इति । एतेन इदम्भाष्यं सकर्मकेभ्योऽपि भावे क्ते साधकमुपन्यस्यन्तः परास्ताः । उत्तरपद- लोपविधायकवचनाऽभावादाह-गम्यमानेति । [ कर्तरि कृत् ] ॥ १ तर्हि कर्तृ' । २ इदं वार्तिकमित्यन्ये । ३ 'मस्तीति' । ४ इदं लुप्तं स्यात् । .

३अ.पा.१आ.६९सू.] 8 व्याकरणमहाभाष्यम् 8 ३६१ लः कर्मणि च भावे चाकर्मकेभ्यः ॥ ३४॥६९ ॥ किमर्थमिदमुच्यते ? ॥ ल एतेषु साधनेषु यथा स्यात् , कर्तरि चे, कर्मणि च, भावे चाकर्मकेभ्य इति॥ नैतदस्ति प्रयोजनम् । भावकर्मणोरात्म- नेपदं विधीयते, शेषात्कर्तरि परस्मैपदम्, एतावांश्च लो यदुत परस्मैपदमात्म- नेपदं च । स चायमेवं विहितः ॥ अत उत्तरं पठति ॥*॥ लग्रहणं सकर्मक- निवृत्त्यर्थम् ॥ ॥ लग्रहणं क्रियते॥ [किं प्रयोजनं ?] ॥ सकर्मकनिवृत्यर्थः । सकर्मकाणां भावे लो मा भूदिति॥ यदि पुनस्तत्रैवाऽकर्मकग्रहणं क्रियेत ?॥ प्र.] लः कर्मणि । केचिल्ल इति प्रथमां व्याचक्षते । अपरे षष्टी, लस्य य आदेश इति । तत्र लकारो द्विविधः तिङ्भावी,अतिङ्भावीति । तत्र तिङ्भाविनः कृत्संज्ञा- निषेधात् 'कर्तरि कृ'दित्यस्यानुपस्थानात् स्वार्थ भावे विधानं प्राप्नोति । अति- ङ्भाविनस्तु 'कर्तरि कृ'दिति वचनात्कर्तर्येव साधुत्वं प्राप्नोतीति वचनम् । किमर्थमिति । वक्ष्यमाणोऽभिप्रायः । ल एतेविति । लकार इत्यर्थः । अथ वा लस्य य आदेश इति भावः । भावकर्मणोरिति । असत्यस्मिन सूत्रे भावकर्मणो- रात्मनेपदविधानात् 'शेषात्कर्तरी'ति च परस्मैपदविधानालकारस्य भावकर्मकर्ता- रोऽर्था अनुमास्यन्ते । लकारस्य प्रयोगासमवायाद्वा लादेशानामेवैतेऽर्था भविष्यन्ती- त्यर्थः । एतावानिति । नन्वाम्विषयोऽपि लो विद्यते। नैष दोषः । तस्य लुकाऽप- हारात् , अनुप्रयोगलकारेण भावादीनां प्रतिपाद्यत्वात् । लग्रहणमिति । यदीदं नारभ्येत तदा यथा भावे विधीयमाना घनादयः सकर्मकेभ्यो भवन्ति-'ओदनस्य पाकः''सूत्रस्य कृति'रिति तथा भावकर्मणोरित्यनेन भावे आत्मनेपदं सकर्मकेभ्योपि स्यात् । ततश्च ‘पच्यते यवागू देवदत्तेने त्यपि स्यात् । यदि पुनरिति। 'भावकर्म- उ.] लः कर्मणि च । केचिदिति। उच्चारणाऽर्थाकारेण सूत्रे लस्येति षष्ठ्येकव- चनवत् प्रथमैकवचनं जातौ । एतावांश्च लो यदुत परस्मैपदमिति भाष्य परस्मैपदादिशब्दानां तद्विषये लक्षणेति तद्भावः। अपरे इति । लस्य प्रयोगा- ऽसमवायित्वात्तस्याऽर्थकथनं व्यर्थ,भाष्ये लक्षणाप्रसङ्गश्चति तद्भावः। वर्तमाने लडि- त्यादौ प्रतिज्ञाप्रापितद्योतकत्वं यथा लकारस्य तथाऽत्रापि भविष्यतीत्याद्यमतमेव युक्तम् , अन्त्येऽपि वाक्यैकदेशन्यायेन प्रयोगस्य लक्षणया समत्वात् । ननु भावा- दिष्वात्मनेपदादिविधानेऽपि लां किमागतमत आह-असतीत्यादि । भावकर्मणो- रात्मनेपदेति । भावकर्मणोलस्याऽऽत्मनेपदमिति तदर्थः । आदेशानामेवेति । लस्य स्थाने भावकर्मणोरात्मनेपदमित्यर्थ इति भावः । तस्य लुकेति । एतद्विषयं निष्कर्षमग्रे वक्ष्यति । अनुप्रयोगेति । एवञ्च स निरर्थक एव, सङ्ख्याप्रतिपत्तये १ चः क्वचिन्न । २ 'लकारो यदुत' । ३ इदं क्वचिन्न । ४ 'क्रियते' । । ।

- ॐ कैयट-विवरणसहितं. [लः कर्मणि च तत्तत्राऽकर्मकग्रहणं कर्तव्यम्॥ ननु चेहापि 'क्रियते भावे चाकर्मकेभ्य' इति॥ परार्थमेतद्भविष्यति-'तयोरेव कृत्यक्तखलाः',भावे चाकर्मकेभ्य इति॥यावदिह लग्रहणं तावत्तत्राऽकर्मकग्रहणम्।इह वा लग्रहणं क्रियते तत्र वाऽकर्मकग्रहणं को न्वत्र विशेषः?॥ अयमस्ति विशेषः,-इह लग्रहणे क्रियमाणे आनः कर्तरि सिद्धोभवति। तत्र पुनरकर्मकग्रहणे क्रियमाणे आनः कर्तरि न प्राप्नोति।तत्रा. प्यकर्मकग्रहणे क्रियमाणे आनः कर्तरि सिद्धो भवति॥कथम् ॥भावकर्मणोरि- त्यतो यदन्यदात्मनेपदानुक्रमणं तत्सर्वं कर्बर्थम् ॥*॥ विप्रतिषेधाद्वानः कर्तरि ॥*॥ विप्रतिपेधाद्वाऽऽनः कर्तरि भविष्यति । तत्र भावकर्मणोरित्येतदस्तु प्र.]णोरकर्मका'दित्येवं करिष्यते,सामर्थ्याच्चाकर्मकग्रहणं भावार्थ भविष्यति। अकर्म- काणां कर्माऽसंभवात्। सूत्रारम्भवाद्याह-तत्रेति।सूत्राप्रत्याख्यानवाद्याह-ननु चेति। 'त्वयापी'ति शेषः । आरम्भवाद्याह-परार्थमिति । सूत्रप्रत्याख्यानवाद्याह-याव- दिहेति । कर्मणि च भावे चाकर्मकेभ्य इत्येतदत्र प्रदेशे द्वाभ्यामपि वक्तव्यम् । त्वया तु 'ल' इत्येतत्पदमत्र कर्तव्यम् , मया 'भावकर्मणो'रित्यत्र अकर्मकग्रहण- मिति पदेन पदस्य साम्यम् । मात्रालाघवं त्वत्र न विवक्षितम् । आरम्भवाद्याह- अयमस्तीति । आन इति । आत्मनेपदसंज्ञत्वाद्भावकर्मणोरिति वचनाद्भावकर्मा- भिधायित्वमेव स्यान्न तु कर्तृवाचित्वमिति 'शयान' इत्यादौ कर्तर्यानो न स्यात् । सूत्रारम्भे तु कर्तर्यष्यानः सिध्यतीत्यर्थः । प्रत्याख्यानवाद्याह-तत्रापीति । 'अनु- दात्तङित' इत्यादिभिः सूत्रः कर्तर्यात्मनेपदविधानार्थैरानः कर्तरि ‘शयान' इत्यादौ भविष्यतीत्यर्थः । विप्रतिषेधावति । 'भावकर्मणो'रित्यस्य तङवकाशः, यत्र कृ- संज्ञाया अभावात्कर्तरि कृदिति न प्रवर्तते 'आस्यते पच्यत' इति । 'कर्तरि उ.]तदनुसरणस्याऽऽवश्यकत्वादिति भावः । स चाऽयमेवंविहित इति । सोऽयं लकार एवं 'लः कर्मणि चेति सूत्रसत्त्वे यथा विहितस्तथा विहित इत्यर्थः । अतोऽपि 'ल' इत्यस्य षष्ट्यन्तत्वपक्षोऽयुक्तः । तथा सति 'ते चेमे' इति वदेत् । भाष्ये-इत्यपि स्यादिति । लकारेण कर्तृकर्मणोरनभिधानादिति भावः । इत्येत- दत्र प्रदेश इति । तयोरेवेति सूत्रार्थमित्यर्थः । पदेनेति । पदसमुदायात्मके सूत्रे भगवान्मात्रालाघवं नाद्रियत इति भावः । वस्तुतस्त्वत्र लग्रहणे कर्मभावाभ्यां कर्तृ- रूपाऽर्थाऽबाधाय 'च'द्वयं कार्यम्, उत्तरसूत्रे च 'तयो'रिति वाच्यम् । मम तु कर्मणि कृत्यक्तखला भावेऽकर्मकेभ्य इत्येवेति मात्रालाघवमप्यस्त्येवेति बोध्यम् । भाष्ये सूत्राऽनुसारेण 'च'घटितो न्यासः, कैयटे च तथैव न्यासो दर्शितः । १ 'एवमपि यावदिह' । २ 'क्रियते' । ३ 'तोऽन्यद्यदा' । ४ 'सर्व तत्' । ५ भाष्यमिदमित्यन्ये ।

३अ.४पा.१आ.६९सू.] 8 व्याकरणमहाभाष्यम् * ३६३ कर्तरि कृदिति,-कर्तरि कृदित्येतद्भविष्यति विप्रतिषेधेन ॥*॥ सर्वप्रसङ्गस्तु ॥*॥ सर्वेभ्यस्तु धातुभ्य आनः कर्तरि प्रामोति । परस्मैपदिभ्योपि ॥ नैप दोषः । अनुदात्तडिन्त इत्येष योगो नियमार्थो भविष्यति॥ यथेष योगो निय- मार्थो विधिर्न प्रकल्पते । आस्ते शेते इति ॥ अथ विध्यर्थः,आनस्य नियमो न प्रामोति । आसीनः शयान[इति । तथा नेविंश इत्येवमाद्यनुक्रमणं यदि नियमार्थ, विधिर्न प्रकल्पते । अथ विध्यर्थमानस्य नियमो न प्राप्नोति ॥ अस्तु तर्हि नियमार्थम् ॥ ननु चोक्तं 'विधिर्न प्रकल्पते' इति ॥ विधिश्च प्रक्लप्तः ॥ कथम् ? ॥ 'भावकर्मणो रित्यत्राऽनुदात्तङित इत्येतदनुवर्तिप्यते ॥ यद्यनुवर्तते एवमप्यनुदात्तडिन्त एव भावकर्मणोरात्मनेपदं प्राप्नोति ॥ एवं तर्हि योगविभागः करिष्यते । 'अनुदात्तङित [ आत्मनेपदम्'। अनुदात्त- डित ] आत्मनेपदं भवति । ततो 'भावकर्मणोः' । ततः 'कर्तरि' । कर्तरि- चात्मनेपदं भवति । 'अनुदात्तङित इत्येव । [आस्ते शेते] । 'भावकर्मणोरिति निवृत्तम् । ततः 'कर्मव्यतिहारे'। 'कर्तरी'त्येवानुवर्तते । 'अनुदात्तङित' इत्यपि निवृत्तम् ॥ यदप्युच्यते 'तथा नेविंश इत्येवमाद्यनुक्रमणं यदि निय- मार्थ विधिन प्रकल्पते, अथ विध्यर्थमानस्य नियमो न प्रामोती'ति । अस्तु प्र.कृ'दित्यस्य तृजादयोवकाशः।आनस्य तूभयप्रसङ्ग कर्तरि कृदिति परत्वात्कर्ताऽर्थों भविष्यतीत्यर्थः । आरम्भवाद्याह-सर्वप्रसङ्ग इति । परस्मैपदिम्यो धातुभ्य आनः कर्तरि प्राप्नोतीत्यर्थः । प्रत्याख्यानवाद्याह-नैष दोष इति । 'अनुदात्तडित आत्म. नेपदं नान्यस्मादिति नियमादानः कर्तरि परस्मैपदिभ्यो न भविष्यतीत्यर्थः । आरम्भवाद्याह-यदीति । भावकर्मणोरात्मनेपदविधानात्तकोऽनुदात्तङितो न प्राप्नु- वन्ति । 'अनुदात्तहित' इत्यनेन आन एव धातुविशेषे नियम्यत इत्यर्थकत्वादेकस्य वाक्यस्य विधिनियमावेकेन सूत्रेण न प्रकल्पेत इत्यर्थः । प्रत्याख्यानवाद्याह-अस्तु तीति । भावकर्मणोरित्यति । 'अनुदात्तढित आत्मनेपद'मित्यनेनैकेन वाक्येन आनस्य नियमः क्रियते । 'भावकर्मणो'रित्यत्र त्वनुवृत्त्या द्वितीयेन वाक्येन तडां विधिः क्रियत इत्यर्थः । एवमपीति । 'भावकर्मणो'रित्यस्यानुदात्तडित इत्यनेनैक- उ.]तृजादय इति । तेषामात्मनेपदादिसंज्ञाऽभावादिति भावः।परत्वाकर्बर्थ इति। इदं कार्यशब्दवादे । एवं हि भावकर्मणोर्न स्यादिति त्वग्रे भाष्य एव स्पष्टम् । सर्वप्रसङ्ग इति । विप्रतिषेधवादे दूषणम् । तडोऽनुदात्तेति । 'कर्तरी'ति शेषः। एवं 'नेविंश' इत्यादीनां नियमत्वे कर्तरि तङ् न स्यात्, विधित्वे केवलादप्यानः स्यादित्यादि बोध्यम् । तङ विधिरिति । 'कर्तरीति शेषः । भावकर्मणोरिति । १ इतिः क्वचिन्न । २ इदं लुप्तं स्यात् । ३ 'नियतः' ।

३६४ कैयट-विवरणसहितं. [लः कर्मणि च भावे विध्यर्थम् ? ॥ ननु चोक्तमानस्य नियमो न प्रामोतीति ॥ नैष दोषः । यथै- वात्राऽप्राप्तास्तको भवन्त्येवमानोऽपि भविष्यति ॥*॥ सर्वत्राऽप्रसङ्गस्तु ॥ ॥ सर्वेषु च साधनेष्वानो न प्रामोति । विप्रतिषेधाद्वाऽऽनः कर्तरीति भावकर्म- णोर्न स्यात् , कर्तर्येव स्यात्। इह पुनर्लग्रहणे क्रियमाणे 'कर्तरि कृ'दित्येतदस्तु लः कर्मणि च भावे चाकर्मकेभ्य इति,-लः कर्मणि च भावे चाकर्मकेभ्य इत्ये. तद्भविष्यति विप्रतिषेधेन ॥*॥ सर्वप्रसङ्गस्तु ॥ ॥ लादेशः सर्वेषु साधनेषु प्राप्नोति।शतृक्कसू च भावकर्मणोरपि प्रामुतः ॥ नैष दोषः ॥ शेपात्परस्मैपदं कर्तरीत्येवं तौ कर्तारं हियेते ॥ [लः कर्मणि च भावे चा] ॥ प्र.]वाक्यता सत्यामनुवृत्तौ स्यात्।ततश्चाऽऽस्यते गुरुणा अतिशय्यते गुम[भि]रित्यादौ आत्मनेपदं स्यात , भूयते गम्यते शेते आस्ते इत्यादौ तु नैव स्यादित्यर्थः । यथैवात्रेति । अनुदात्तरित इत्यनेनाऽऽनस्य नियमादप्राप्तिः। तोऽपि भावकर्मणो- विधीयमानाः निविशत इत्यादौ कर्तरि न प्राप्नुवन्ति । तत्राऽविशेषान्नेविंश इत्यादिभिः सूत्रस्तानाः कर्तरि विधास्यन्त इत्यर्थः । सर्वत्राप्रसङ्गस्त्विति । असत्यस्मिन् सूत्रे भवदुक्तेन विप्रतिषेधेनाऽऽनः 'कर्तरि कृ'दिति कर्तयेव म्यान्न तु भावकर्मणोः। ततश्च भूयमानं गम्यमानमित्यादिप्रयोगो न स्यादिन्यर्थः । इह पुनरिति। यदि 'ल' इति षष्ठी तदाऽस्य निडोऽवकाशः।कर्तरि कृदित्यस्यतृजादयः। आनस्यपरत्वादनेनार्थनिर्देशः। अथ ल इति प्रथमा तदास्यतिभावी लकारोऽवकाशः। आनभाविनस्तु लकारस्य परत्वादनेनार्थव्यवस्था। शेषादिति। कर्तवैव परस्मैपद'मि- त्येवं नियमात् शतृक्कम भावकर्मणोर्न भविष्यत इति भावः। 'ल' इत्यादेशापेक्षषष्टी- निर्देशपक्षे 'आम' इति विधीयमानस्य लुकोऽप्ययमर्थनिर्देशः, अभावम्याप्यादेश. त्वात्। तथा च 'अचः परस्मिन्पूर्वविधा वित्यत्र लोपस्याऽप्यजादेशस्य स्थानिवद्भावः प्रदर्शितः।लुकोऽभावरूपत्वात्कथमर्थाऽभिधानमिति चेत् । प्रतिज्ञाप्रापितं क्रिवादीना. उ.]तथा चाऽऽसादिभ्यः कर्तरि न स्यादन्येभ्यो भावकर्मणोर्न स्यादित्यर्थः।भाष्ये- भावकर्मणोस्ततः कर्तरीति योगविभागसामर्थ्याद्भावकर्मणोरित्यत्राऽसंबद्धमेव अनुदात्तन्द्रिहणं 'कर्तरी'त्यत्र संबध्यत इति भावः । तदाऽस्येति । 'लः कर्मणि चे'त्यस्यैत्यर्थः। षष्ठ्यन्तत्वं न भाष्यसम्मतमित्युक्तम् । वक्ष्यते च-'शेषादेव परस्मै- पद'मिति । नियमे तदवस्थो दोष इत्यत आह-कर्त्तयैवेति । लक्ष्याऽनुसारादिति भावः । लुकोऽप्यर्थमिति । नन्वनुप्रयोगस्य लादेशैरेव भावाद्यभिव्यक्तौ किमस्या- ऽर्थाऽऽदेशनेनेति चेन्न, एवं हि आम्विषयस्य 'कर्तरि कृदिति कत्रर्थकत्वमेव स्यात् । एवं हि विरोधादन्यवाचिप्रत्ययपरोऽनुप्रयोगो न स्यादिति भावः । लोप- स्याऽप्यजेति । पटयतीत्यादौ । प्रतिज्ञेति । अनेन प्रथमान्तत्वमेव युक्तमिति , ३अ.४पा.१आ.७७सू.] व्याकरणमहाभाष्यम् . ३६५ लस्य ॥ ३४७७॥ ॥*॥ लादेशे सर्वप्रसङ्गोऽविशेषात् ॥*॥ लादेशे सर्वप्रसङ्गः । सर्वस्य लकारस्यादेशः प्रामोति । अस्यापि प्रामोति,-लुनाति लभते॥ किं कारणम्?॥ 'अविशेषात् । न हि कश्चिद्विशेष उपादीयते एवंजातीयकस्य लकारस्यादेशो भवतीति। अनुपादीयमाने विशेपे सर्वप्रसङ्गः ॥ ॥॥ अर्थवद्रहणात्सिद्धम् ॥*॥ अर्थवतो लकारस्य ग्रहणम् । न चैपोऽर्थवान् ॥ ॥ अर्थवद्हणासिद्ध. मिति चेन्न वर्णग्रहणेषु ॥ ॥ अर्थवद्रहणात्सिद्धमिति चेत्तन्न ॥ किं कारणम्!॥ वर्णग्रहणमिदम् । न चैतद्वर्णग्रहणेषु भवत्यर्थवद्हणे नानर्थकस्येति ॥॥ तस्माद्विशिष्टग्रहणम् ॥ ॥ तस्माद्विशिष्टस्य लकारस्य ग्रहणं कर्तव्यम् ॥ न कर्तव्यम् । 'धातो रिति वर्तते ॥ एवमपि शाला माला मल्ल इत्यत्रापि प्राप्नोति । ॥ ॥ उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ॥ ॥ एवमपि नन्दनः अत्रापि प्राप्नोति॥ इत्संज्ञाऽत्र बाधिका भविष्यति।इहापि तर्हि बाधेत-पचति पठतीति ॥ इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ॥ इदमस्तीत्कार्य 'लिति प्रत्ययात्पूर्वमुदात्तं भवतीत्येष स्वरो यथा स्यात् ॥ 'लिती'त्युच्यते न चाऽत्र प्र.] मिव प्रयोगऽश्रवणेपि लुकोर्थवत्त्वम् ,अनुप्रयोगात्तु तदर्थाभिधानव्यक्तिरित्यदोषः। लस्य । अर्थवद्रहणादिति । लडादय एव भावाद्यर्थाभिधायिनः स्थनित्वेन गृह्यन्त इत्यर्थः । न वर्णग्रहणविति । लस्येत्यत्र लकारेऽकार उच्चारणार्थः ततश्च वर्णमात्रस्याऽयं निर्देशः।वर्णानदेशेषु च विद्यमानाप्यर्थवत्ता शब्देन नाश्रिता, वर्णरूपमात्रम्याश्रयणात् । तथा च यस्येति लोपोनर्थकस्यापि भवति-देवदत्तिरिति। तस्मादितिभावाद्यर्थाभिधायिनो लस्यति वक्तव्यमित्यर्थः। धातोरिति वर्तत इति । विहितावेशेषणं च धातुग्रहणमाश्रीयत इत्यग्निचिल्लभ्यत इत्यत्रापि न भवति । शालेति । शामामलिभ्य औणादिको लन्प्रत्ययः । इत्संज्ञानेति । तस्यां च तस्यां लोपे [च] कृते स्थान्यभावादल्विधित्वाच्च स्थानिवद्भावाऽभावादादशो न भविष्यती- त्यर्थः । इहापीति । ततश्चात्राप्यादेशा न म्युरित्यर्थः । लितात्युच्यत इति । उ.] सूचयतिालग्रहणं सकर्मकनिवृत्यर्थमिति भाष्याचाषष्ट्यन्तत्व ल इति ग्रहणमिति स्यात् । समासेऽपि विभक्तिलोपेऽकारश्रवणाऽनापत्तिः, अलोपे विसर्गश्रवणापत्तिः । अन्यदपि प्रथमान्तत्वसाधकम्प्रागुक्तम् ॥ [ लः कर्मणि च लस्य । भावाद्यर्थाऽभिधायिन इति । शास्त्रप्रतिज्ञाताऽर्थवन्त इति भावः । अकार उच्चारणार्थ इति । अन्यथा लिडादीनां तिलो न स्युः । ततश्च 'परस्मैप- १'सर्वस्य'। २अपिः क्वचिन्ना३इदं वार्तिकं वाचनिकी वार्तिककृतः परिभाषा। भाष्यमित्यन्ये । ४ 'इत्यत्र' । 'अत्र' । - ।

.. ३६६ ॐ कैयट-विवरणसहितं [लस्य लितं पश्यामः ॥ अथापि कथं चिद्वचनाद्वाऽनुवर्तनाद्वेत्संज्ञकानामादेशः स्या- देवमपि न दोषः । आचार्यप्रवृत्तिापयति-'न लादेशे लित्कृतं भवतीति यदयं णलं लितं करोति ॥ अथाप्युणादयो व्युत्पाद्यन्ते एवमपि न दोषः । क्रियते विशिष्टग्रहणं 'लस्येति ॥ ॥ लादेशो वर्णविधेः पूर्वविप्रतिषिद्धम् ॥*॥ लादेशो वर्णविधेर्भवति पूर्वविप्रतिषेधेन । लादेशस्थावकाशः-पचतु पठतु । प्र.]ल इदस्येति बहुव्रीहिराश्रितः।अत्र च लस्य लोपे कृते न कश्चिद्धकार इत्संनकः प्रत्ययोऽस्तीत्यर्थः । अथापीति । ल एवेत् -लिदित्येवं तत्पुरुषो यद्याश्रीयेत तथापि लस्येति स्थानित्वेनाश्रयणात्सत्यामपीत्संज्ञायां लोपो न क्रियते। अनुवर्तनाद्वेति । भावादीनामनुवृत्त्या भावकर्मकर्तृवाचिनो लस्यादेशः । न च लोपे सति भावाद्यर्था- भिधायित्वं संभवतीत्यकृतलोपानामेव लकाराणामादेशाः करिष्यन्ते । ज्ञापकात्तु लित्स्वरो न भविष्यतीत्यर्थः। क्रियत इति। अनुनासिको लकारः स्थानि- त्वेनोपात्त इत्यर्थः । अथ वा ल अस्य लस्येत्येवं निर्देशः कृतः। अस्येति सर्व- नाम्ना भावाद्यर्थाभिधायी परामृश्यते । पचत्वत्रेति । वाक्यम्य विभज्यान्वाख्यानं उ.]दानां ण'लित्याद्यसङ्गतं स्यादिति भावः।विहितविशेषणमिति। न चैवं 'शाला- दिषु प्राप्नोतीति भाष्याऽसङ्गतिः, समुदायस्य ततो विधानेऽपि निर्दिष्टस्य लकारस्य वर्णस्य ततोऽविधानादिति वाच्यम् ,समुदायविधानेऽवयवविधानस्याऽपि सत्त्वमित्य- भिमानेन एवमपीत्यादिभाष्यस्यैकदेश्युक्तित्वेनाऽक्षतेः। एतेन ल्युट्धातोर्विहितो न तु लकार इति परास्तम्।अथाऽपिकथञ्चिदिति।अस्य 'लित्स्वरार्थमित्त्वं स्यादितिशेषः। तदेवाह-ल एवेदिति।तत्रेत्संज्ञासामर्थ्यालोपात्पूर्व,लोपेऽपि स्थानिवत्त्वाद्वा स्वर इति भावः।तत्पुरुषत्वे ण्वुलादौ कथं स्वर इति चिन्त्यम्। इत्संज्ञकलस्य परत्वाऽभावात् , तदव्यवहितपूर्वस्य तदनिष्टेश्च । तस्माद्बहुव्रीहिरेव । 'अथाऽपि कथञ्चि'दिति भाष्य. स्य 'व्यपदेशिवद्भावेने'त्याशय उचितः । 'वचनाद्वे' त्यस्ये त्वे यद्यप्यादेशा न स्यु- स्तथाऽपी'त्यादिस्तदाह-तथाऽपि लस्यति । एवञ्चत्संज्ञायामप्यादेशसिद्धिर्भावादिवि- हितस्य लस्य। ल्युटि तु दोषः । भाष्ये-एवमपीति । एवञ्चाऽत्र प्रयोजनाऽभावा- दित्त्वाऽभावेन लादेशस्वराऽभावौ सिद्धौ । ल्युटि तु इत्संज्ञया लोपेन च बाधान्न दोष इति भावः। ल् अस्येति। अत्र पक्षे 'ल्' इति लुप्तषष्टीकम् , 'अस्येति समाना- ऽधिकरणं तस्य विशेषणम् । वस्तुतो धातोरित्यनुवृत्त्या धातुविहितलकारस्य वर्णस्य तत्र ग्रहणम् । अकारस्योच्चारणार्थत्वात् । शालादौ तु न व्यञ्जनमात्रं धातोर्विहितं, किन्त्वकारविशिष्ट इति भाष्यार्थः । भाष्ये-लादेशी वर्णविधेरिति । लादेशादेश इत्यर्थः । ननु वर्णविधिलादेशयोयुगपत्प्राप्त्यभावेन विप्रतिषेधाऽसङ्गतिरत आह- १ 'अनुवर्तनसामर्थ्याद्वेत्सझको नामादेशः'। २ 'लादेशेषु'।३ विधेर्नभव' ।

३अ.४पा.१आ.७७सू.] - व्याकरणमहाभाष्यम् स्यात् यद्यवं वर्णविधेरवकाशः-दध्यत्र मध्वत्र । इहोभयं प्राप्नोति-पचत्वत्र पठत्वत्रेति । लादेशो भवति पूर्वविप्रतिषेधेन ॥ स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ॥ न वक्तव्यः ॥ ॥ उक्तं वा ॥ ॥ किमुक्तम् ? ॥ 'लादेशो वर्णविधेरिति ॥ टित आत्मनेपदानां टेरे ॥३॥४॥७९॥ ॥*॥ टित एत्व आत्मनेपदेष्वानप्रतिषेधः ॥॥ टित एत्व आत्मनेपदे- प्वानस्य प्रतिषेधो वक्तव्यः । पचमानः यजमानः। टित इत्येत्वं प्रामोति ।। ॥ ॥ उक्तं वा ॥ ॥ [ उक्तं वा ] ॥ किमुक्तम् ? ॥ 'ज्ञापकं वा सानुब- न्धकस्यादेशवचन इत्कार्याभावस्येति ॥ नैतदस्त्युक्तम् ॥ एवं किल तदुक्तं विज्ञायत टित्-आत्मनेपदं टिदात्मनेपदं, टिदात्मने- पदानामिति । तञ्च न । टितो लकारस्य यान्यात्मनेपदानीत्येवमेतद्विज्ञायते । अवश्यं चैतदेवं विज्ञेयं । टित्-आत्मनेपदं टिदात्मनेपदं, टिदात्मनेपदानामिति हि विज्ञायमानेऽकुर्वित्येत्रापि प्रसज्येत ॥ नैप टित् ॥ कस्तर्हि ? ॥ ठित् । स चावश्यं ठित्कर्नव्यः । आदिर्मा भूदिति ॥ कथमिटोऽदिति ? ॥ इठोदिति वक्ष्यामीति । तच्चावश्यं वक्तव्यम् । पर्यवपाद्यस्य मा भूत् । लविपीष्ट ॥इह तर्हि 'इपमूर्जमहमित आदि',-आतो लोप इटि चेत्याकारलोपो न प्राप्नोति । म.] कियत इत्येवमुपन्यासः । लादेशो वर्णविधेरिति । विप्रतिषेधसूत्रे बहिरङ्ग- परिभाषाया इदं प्रयोजनमित्यर्थः । लस्य ॥ टित आत्म । यद्येवमिति । यदि 'टित' इत्येकवचन बहुवचनप्रसङ्गे व्यत्ययेन क्रियतेत्यर्थः । अथ या केचिट्टितामित्येव पठन्ति, तदाश्रयेणेतदुक्तम् । अकुर्वीति । लङः स्थाने उत्तमैकवचनमिट । पर्यवपाद्यस्येति । पर्यवपादः- रूपान्तरापत्तिः। तत्र साधुरागमः- :-पर्यवपाद्यः। 'तत्र साधु'रिति यत् । आदीति । दाओ लङ उत्तमैकवचनम् । शपः श्लुः, द्विवचनप्रमुझे छन्दसि वेति वक्तव्य'मिति द्विर्वचनाभावः । यदि ठिदिट् स्यात्तदा 'आतो लोप इटि चे'त्याकारलोपो न स्यात्। उ.] वाक्यस्येति । [ लस्य ] । टित आ।भाष्ये-ज्ञापकञ्चेति। 'गाङ् लिटी'ति सूत्रे इदमुक्तम् । नैतदिति । एतदुक्तमत्र नास्तीत्यर्थः । तदुक्तमेवं किलाऽत्र स्यादित्यन्वयः । ननु भिन्नवचनानां कथं सामानाधिकरण्येन संवन्धोऽत आह-यदि टित इति । टिदात्मनेपदाना- मिति भाष्यस्य तदर्थकं यदि विज्ञायत इत्यर्थः । भाष्यप्रामाण्यात्तादृश एवाऽष्टा- ध्यायीपाठ इत्यन्ये । भाष्ये-आदिर्मा भूदिति । श्नमीवाऽत्रापि 'परश्च'त्यस्याऽ- ऽप्रवृत्तेरिति भावः । तत्र साधुरागम इति । योगरूढिरिति भावः । नन्वस्य इट १'विधेरन्तरङ्ग इति'।२क्वचिन्न। ३इतिः क्वचिन्ना ४ आदीत्यातोलोप'।५ यदीट ठित्'। - कैयट-विवरणसहित [टित आत्मनेपदा ." तस्माट्टिदेषः ॥ आदिस्तहि कस्मान भवति ?॥ सप्तदशादेशाः स्थानेयोगत्वं प्रयोजयन्ति तानेको नोत्सहते विहन्तुमिति कृत्वाऽऽदिर्न भविष्यति ॥ पर्यवपाद्यस्य तर्हि कस्माल भवति-लविषीष्टेति ? ॥ 'असिद्धं बहिरङ्ग- लक्षणमन्तरङ्गलक्षण' इति ॥ इदं तर्युक्तं-'प्रकृतानामात्मनेपदानामेत्वं भवतीति ॥ के च प्रकृताः ? ॥ तादयः । ॥*॥ आने मुग्ज्ञापकं त्वेत्वे टित्तडामिशिसीरिचः । डारौरःसु टिदटितः प्रकृते तद्गुणे कथम् ॥ * ॥ प्र.अत्र च छन्दस्युभयथेत्यार्द्धधातुकत्वमिट एष्टव्यम् । आर्द्धधातुक इत्याल्लोपविधा- नात् । सप्तदशेति । लस्येत्येका षष्टी, सा यद्यवयवावयविसंबन्धे स्यात्तदा इट एवानुग्रहः स्यान्न तिबादीनाम् , तस्माद्भूयसां स्थान्यादेशसंबन्धस्य प्रयोजकत्वा- लस्येति स्थानेयोगा षष्टीत्यादेश एवेभवति न त्वागमः । असिद्धमिति । वला- द्यार्द्धधातुकापेक्षणादङ्गापेक्षत्वाच्च बहिरङ्ग इडागमः। 'इटोऽ'दित्यद्भावस्तु लिड- संबन्धीडपेक्षणादन्तरङ्गः । तत्र कर्तव्ये आगमस्यासिद्धत्वाददावाऽभावः । प्रकृता- नामिति । तिबादय इहानुवर्तन्ते, तैरात्मनेपदानि विशेष्यन्ते । अथवा प्रकरणस्य विशेषस्मृतिहेतुत्वात्प्रकृतान्येवात्मनेपदानीहात्मनेपदशब्देनोच्यन्ते । ज्ञापकमप्याह- आने मुगिति । यद्येत्वमानस्य स्यादानयि मुगिति वक्तव्यं स्यादित्यर्थः। टित्तडामिति। टितः स्थाने ये तङः तेषामेत्वं न त्वानस्यापि। अथाध्येतेत्यादौ डारौरसामेत्वं कस्मान्न भवतीत्याह-इशिसीरिच इति । 'लिटस्तझयोरेशिरेच्' 'थासः से' इत्ये- ताभ्यां सूत्राभ्यां लाघवाय इश् सि इरिच् इत्येते आदेशा विधेयाः । एत्वस्याऽनेन सिद्धत्वात् । ज्ञापनाय तु सयादयो विहिता लादेशादेशानामेत्वाऽभावस्य । टिदटित उ.]आर्द्धधातुकत्वाऽभावादालोपो न स्यादत आह-अत्र चेति।स्थान्यादेशसंबन्ध- स्येति । स्थान्यादेशसंबन्धं प्रति भूयसां प्रयोजकत्वात्स्थानषष्टीत्यन्वयः । टकारस्तु 'इटोऽदित्यत्र विशेषणार्थः । वलाधार्द्धधातुके इति । अनेन प्रकृतिप्रत्ययोभया- ऽपेक्षत्वमागमस्य दर्शयति । भाष्ये-इदन्तर्युक्तमिति। इदमपि 'गालिटी'त्यत्रै- वोक्तम् । तैरात्मने इति । तिबादीनां मध्ये यान्यात्मनेपदानीत्यर्थः । न च तन्मध्ये शानज्निविष्ट इति भावः । अनुवृत्तिं विनाऽपीष्टसिद्धिमाह-अथ वेति । भाष्ये एक- देश्याह-आने मुगिति। 'आनयी ति प्रयोगे दृश्यमानरूपस्यैवानुकरणं न्याय्यमिति भावः। वस्तुतस्त्वलादेशे शानच्चानशादिसंबन्ध्यानेऽपि मुक्सिद्धये तथा निर्देश आवश्यकः । पचमानो यजमान इति । भावकर्मणोरप्रवृत्तये न ते लादेशा इति,- ज्ञापकाऽसङ्गत्यरुचेर्वक्ष्यति-प्रकृते तदिति । ज्ञापनाय तु सयादय इति । ननु परत्वादेत्वे पुनः प्रसङ्गविज्ञानेन डादिषु 'लक्ष्ये लक्षणस्येति न्यायेनैत्वाऽप्रवृत्तौ किमvvvvv ३अ.४पा.१आ.८२सू.] * व्याकरणमहाभाष्यम् , परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ॥ ३।४।८२ ॥ ॥॥ णलः शित्करणं सर्वादेशार्थम् ॥*॥णल्शिकर्तव्यः॥कि प्रयोजनम्?॥ 'सर्वादेशार्थ'। शित्सर्वस्येति सर्वादेशो यथा स्यात्। अक्रियमाणे हि शकारेऽ- लोन्त्यस्य विधयो भवन्तीत्यन्त्यस्य प्रसज्येत ॥* ॥ उक्तं वा ॥ ॥[उक्तं वा]॥ किमुक्तम् ? ॥ 'अनित्त्वात्सिद्ध"मिति । णकारः क्रियते तस्याऽनित्वात्सि- द्धम् ॥ क एष परिहारो न्याय्यः-शकारमसि चोदितो 'णकारं करि- ष्यामि शकारं न करिष्यामी'ति । णकारो वाऽत्र क्रियेत शकारो वा को न्वत्र विशेषः?॥ अवश्यमत्र णकारो वृद्ध्यर्थः कर्तव्यो 'णितीति वृद्धिर्यथा स्यात् ॥ नार्थों वृद्ध्यर्थेन णकारेण । णित्त्वे योगविभागः करिष्यते । इदमस्ति 'गोतो णित्' । ततः 'अल्' । अल्च णिद्भवति । तत 'उत्तमो वेति ॥ एवं तर्हि लकारः क्रियते तस्याऽनित्त्वात्सिद्धम् ॥ एवमपि क एष परिहारो न्याय्यः शकारमसि चोदितो 'लकारं करिष्यामि शकारं न करिष्यामी'ति। लकारो वा क्रियेत शकारो वा कोऽन्वत्र विशेषः ?॥ [अयमस्ति विशेषः]॥ अवश्यमेवात्र प्र.]इति-'अकुर्वी त्यत्र परिहारः।अटितो लङः स्थाने टिदिट् कृत इत्येत्वं न भवति। प्रकृते तदिति। तत्-एत्त्वं प्रकृते तड्यात्मनेपदे भवति न त्वाने। गुणे कथमिति । श्लोकपूरणायैतदुक्तम् । एत ऐ इत्यत्र पचावेदम् इत्याद्गुणे कृते कथमेत्वं न भवतीति चोद्यम् । परिहारस्तु वक्ष्यते,-बहिरङ्ग आद्गुण इति ॥ [टित आत्मने] ॥ परस्मै । णल इति । व पुनरस्य शकारः क्रियते, यद्यादौ णकारस्य अना- दित्वादित्संज्ञा न प्राप्नोति । मध्ये शस्येत्संज्ञाया अभावः । अन्ते तु लस्येत्संज्ञाया अप्रसङ्गः । एवं तर्हि लश्विधातव्यः । लशुत्तमो वेति करिष्यते । योगविभागश्चेति मन्यते । अथवा णल् शिदित्यतिदेशः कर्तव्यः । अक्रियमाणे हीति । नानुबन्ध- उ.]र्थमिदं, स्पष्टश्च ‘डा विधायके भाष्ये एतदिति चेन्न, एकदेश्युक्तित्वेनाऽक्षतेः । ज्ञापकस्य फलाऽभावाच्चाऽस्यास्तत्त्वम्। 'एधन्त' इत्यादौ परत्वा'द्वार्णादाङ्ग'मिति वा पूर्वमन्तादेशे पूर्वरूपे 'सर्वे सर्वपदादेशा' इति न्यायेनाऽन्तस्याऽऽदेशादेशत्वेन ज्ञापकेन नैत्वाऽऽपत्तिरित्यन्ये । श्लोकेति । श्लोकपूरणायाऽन्यसूत्रविषयपूर्वपक्षोऽत्र दर्शित इति भावः । तद्धनयन्नाह-एत ऐ इत्यत्रेति । अनेनाऽस्य श्लोकस्यैक- देश्युक्तित्वं स्फुटीकृतम् ॥ [टित आत्मनेपदानां टेरे] ॥ परस्मैपदानां मध्ये शस्येति। 'अनादित्वादिति शेषः। प्रथमपुरुषे 'पपाचे': त्यादौ वृद्धिसिद्धय आह-योगविभागश्चेति । धात्वधिकारे विति । परविशेषण. १ इदं क्वचिन्न । २ 'सिद्धमिति' । ३ 'कथमेष' । ४ इदं भाष्यं वार्तिक- वेति सन्दिग्धम् । ५ अयं पाठः क्वचिन्न । ६ 'मत्र' । २४ कैयट-विवरणसहितं [ परस्मैपदानां स्वरार्थो लकार इत्कर्तव्यः । 'लिति प्रत्ययात्पूर्वमुदात्तं भवतीयेष स्वरो यथा स्यात् ॥ नैतदस्ति प्रयोजनम् । धातुस्वरे कृते द्विर्वचनं, तत्रान्तर्यतोऽन्तोदात्त- स्याऽन्तोदात्त आदेशो भविष्यति ॥ कथं पुनरयमन्तोदात्तः स्याद्यदेकाच्?॥ व्यपदेशिवद्भावेन ॥ यथैव तर्हि व्यपदेशिवदावेनाऽन्तोदात्त एवमायुदात्तोपि, तत्रान्तर्यत आधुदात्तस्याऽऽद्युदात्त आदेशः प्रसज्येत ॥ सत्यमेवमेतत् । न त्विदंलक्षणमस्ति 'धातोरादिरुदात्तो भवतीति,इदं पुनरस्ति 'धातोरन्त उदा- प्र.] कृतमनेकाल्त्वमित्यन्त्यस्य स्यादित्यर्थः। एतच्च प्राग्लादेशाद्धात्वधिकार इति पक्षमा- श्रित्योच्यते । धात्वधिकारे तु सत्यादेः परस्येत्यादेः प्राप्नोति । धातुस्वर इति । प्रत्ययस्य पित्त्वादनुदात्तत्वाद्धातुस्वरः प्रवर्तते । यदेकाजिति । योऽनेकाच् जजा- गारेति,-तत्र धातुखरे कृते शिष्टस्यानुदात्तत्वे प्रथमैकाचो द्विवचनं सर्वानुदात्तं सिध्यतीत्येकाजेव धातुर्निरूप्यते । व्यपदेशिवद्भावेनेति । 'आद्यन्तवदेकस्मिन्नित्य- नेनेत्यर्थः । यथैवेति । कार्यातिदेशं मन्यते । न त्विदमिति । शास्त्रातिदेश इति उ.]पक्षे इदम्। विहितविशेषणे तु तदप्रवृत्याऽन्त्यस्यैव प्रामोतीति यथाश्रुतमेव भाष्यं रमणीयमिति दिक्। भाष्ये-अनित्त्वादिति।वाक्यार्थबोधे सति प्रत्ययत्वज्ञाने इत्संज्ञा- समकालमेव सर्वादेशतेति तदाऽनेकाल्त्वस्याऽक्षतिरित्यर्थः । [भाष्ये तस्याऽनित्त्वा- दिति । वाक्यार्थबोधात्प्रागनित्त्वादस्याऽन्वाख्यातुरनित्त्वज्ञानादित्यर्थः । एवञ्चाऽ- नुबन्धत्वज्ञानाऽभावात्तत्समये 'नाऽनुबन्धकृत'मित्यस्याऽप्राप्तिरिति भावः । यदि तु भाव्यनुबन्धत्वं गृहीत्वा तत्प्रवृत्तिस्तदा 'डा'वत् ‘ण-अल्' इति प्रश्लेषेणाऽनेका- ल्वात्सर्वादेशत्वम् । निरूपितञ्चेदं 'लुटः प्रथमस्येति सूत्रेऽस्माभिः । क एप परिहारो न्याय्य इति । अन्याय्य एष परिहारः क उच्यत इत्यर्थः । एवं तर्हि लकार इति । 'ल' इति 'ल'णिति वादेशः कार्य इति भावः । धातुस्वरः प्रवर्त्तत- इति । प्रवृत्तः सतिशिष्टस्वरेण न निवखंत इत्यर्थः । भाष्ये-अन्तोदात्त आदेश इति । स्थाने द्विवचनमिति भावः । सर्वाऽनुदात्तम्-अनुदात्ताऽभ्यासमपीत्यर्थः । निरूप्यत इति । विचारविषयीक्रियत इत्यर्थः । भाष्ये-कथम्पुनरयमिति । द्विर्व- चनप्रकृतिरित्यर्थः । यदैकाजिति । यदैकाजिणादिः प्रकृतिरित्यर्थः। धातोरन्तो. ऽजुदात्त इत्यर्थ इति भावः । व्यपदेशिवदिति । तेनाऽतिदेशेनाऽन्तत्वातिदेशा- स्वरसिद्धिरित्यर्थः । अस्य आद्यन्तवत्सूत्रपरतया कैयटोक्ते व्याख्याने बीजं चि- न्त्यम् । इतरोऽन्तोदात्तत्वव्यवहार एवाऽनेन व्यपदेशिवद्भावेनोक्त इति मत्वाह- यथैवेति । अन्तोदात्तत्वादिधर्माऽतिदेश एव कैयटे कार्याऽतिदेशपदेनोक्तः। नत्वि. दमिति । एवञ्चाऽनेनाऽन्तलाऽतिदेशे शास्त्रेणाऽन्तत्वप्रयुक्तोदात्तत्वे तयवहार- सिद्धिः, आधुदात्तविधायकशास्त्राऽभावात्तु न तव्यबहार इति भावः । 'शास्त्राऽति- - ३अ.४पा.१आ.८२सू.] व्याकरणमहाभाष्यम् & तो भवतीति । सोऽसौ' लक्षणेनान्तोदात्तस्तत्रान्तर्यतोऽन्तोदात्तस्याऽन्तो. दात्त आदेशो भविष्यति ॥ एतदप्यादेशे नास्ति-'आदेशस्यान्त उदात्तो भवती'ति, प्रकृतितोऽनेन स्वरो लभ्यः। प्रकृतिश्चाऽस्य यथैवान्तो- दात्तैवमायुदात्ताऽपि । द्विःप्रयोगे खेल्वपि द्विवचने उभयोरन्तोदात्तत्वं प्रस- ज्येत ॥ 'अनुदात्तं पदमेकवर्ज'मिति नास्ति योगपद्येन संभवः॥ पर्यायः प्रस- ज्येत । तस्मात्स्वरार्थों लकारः कर्तव्यः ॥ लकारः क्रियते, तस्याऽनित्त्वा- सिद्धम् ॥ ॥अकारस्य शित्करणं सर्वादेशार्थम्॥ ॥ अकारः शित्कर्तव्यः ॥ किं प्रयोजनम्?॥ 'सर्वादेशार्थ' । शिल्सर्वस्येति सर्वादेशो यथा स्यात् । अक्रिय- माणे हि शकारेऽलोन्त्यस्य विधयो भवन्तीत्यन्त्यस्य प्रसज्येत ॥ ननु चाs- कारस्याऽकारवचने प्रयोजनं नास्तीति कृत्वाऽन्तरेण शकारं सर्वादेशो भवि- प्यति ॥ अस्त्यन्यदकारस्याऽकारवचने प्रयोजनम् ॥ किम् ? ॥ ॥*॥ अकार- वचनं समसङ्ख्यार्थम् ॥*॥ [ अकारवचनं क्रियते॥कि प्रयोजनं?॥ 'समसङ्ख्या- र्थम्']॥ 'सङ्ख्यातानुदेशो यथा स्यात् । ॥॥तस्माच्छित्करणम् ॥*॥ तस्मा- च्छकारः कर्तव्यः॥ न कर्त्तव्यः। क्रियते न्यास एव । प्रश्लिष्टनिर्देशोऽयम् अ अ इति । सोऽसविनेकाल् । अनेकाल्शित्सर्वस्येति सर्वादेशो भविष्यति ॥ प्र.भावः।एतदपीति। 'स्थानिवदिति कार्यातिदेशः,प्राधान्यादिति भावः। प्रकृतित- इति । स्थानित इत्यर्थः । द्विःप्रयोग इति । षाष्टिकं द्विवचनं द्विःप्रयोगो न तु स्थाने द्विवचनमिति निर्णयः। लकार इति । ततश्च 'ल उत्तमो वेति कर्तव्यं, योगविभागश्च कार्यः। अकारस्येति । यस्थस्य स्थाने विधीयते तस्येत्यर्थः। एतदपि प्राग्लादेशाद्धालधिकार इति पक्षाश्रयेणोच्यते । धात्वधिकारे ह्यादेः परस्यादेरकारे सति रूपं सिद्धम् । अ अ इति । अकारद्वयसमुदायस्य आदेशत्वमित्यर्थः । उ.]देश' इत्यम्य शास्त्रप्रवृत्ती निमित्तस्याऽन्तत्वस्याऽनेनाऽतिदेश इत्यर्थः । भाष्ये- सोऽसाविति । प्रकृतिभूतो धातुरित्यर्थः। अन्तोदात्तः-तथाव्यवहारविषयः । तद्द- षयति-एतदपीति । 'अन्तोदात्त आदेश' इति वचनं नास्तीत्यर्थः । 'स्थानिव'दिति न धर्माऽतिदेशकमित्याह-स्थानिवदिति । कार्यातिदेशः प्रकृतित इति । आदेशे प्रकृतिसादृश्यबोधकात् 'स्थानेऽन्तरतम' सूत्रादित्यर्थः। सादृश्यञ्च तेंवृत्तिधर्मवत्त्वम् । स च यथा व्यपदेशिवद्भावेनाऽन्तोदात्तत्ववान् तथाऽऽद्युदात्तवानपीति भावः । स्थाने द्विवचनपक्ष एवाऽसङ्गत इत्याह-द्विःप्रयोगे चापीति । तदाह-निर्णय इति । योगविभागश्चेति । णकाराऽभावे इदम् । धात्वधिकार इति । परविशे- १ 'सोऽयं' । २ 'चापि' । ३इदं क्वचिन्न ।४ 'च्छित्कर्त्तव्यः' ५ 'अ-अ अ इति'। ६ 'सोऽनेकाल्शित्सर्वस्येति' । ७ 'प्रकृतिधर्मवत्त्वं' ।

३७२ ॐ कैयट-विवरणसहितं [ लोटो लङ्कत् hhhh.. लोटो लङ्कृत् ॥ ३।४।८५॥ ॥*॥ लदतिदेशे जुस्भावप्रतिषेधः ॥ ॥ लकुदतिदेशे जुस्भावस्य प्रति. षेधो वक्तव्यः। यान्तु वान्तु । 'लङः शाकटायस्येवैति जुस्भावः प्रामोति। ॥*॥ उत्ववचनात्सिद्धम् ॥॥ [उत्ववचनासिद्धम् । उत्वमत्र बाधकं भवि- प्यति॥ अनवकाशा हि विधयो बाधका भवन्ति,सावकाशं चोत्वम् ॥ कोऽव- काशः ? ॥ पचतु पठतु । अत्रापीकारलोपः प्राप्नोति । तद्यथैवोत्वमीकारलोपं बाधते एवं जुस्भावमपि बौधते ॥ न बाधते ॥ कि कारणम् ? ॥ येन नाप्राप्ते तस्य बाधनं भवति,न चाऽप्राप्ते इकारलोपे उत्वमारभ्यते, जुस्भावे पुनः प्राप्ते चाऽप्राप्तेचाअथ वा 'पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते' इत्येवमिदमुत्व- मिकारलोपं बाधते जुस्भावं न बाधते ॥ एवं तर्हि वक्ष्यति तत्र लङ्ग्रहणस्य प्रयोजनम् 'लव यो लङ्गमन्त्र यथा स्याल्लद्भावेन यो लक्षत्र मा भूदिति ॥ सेयपिच्च ॥ ३२४८७॥ मर्निः ॥ ३।४।८९ ॥ ॥*॥ हिन्योरुत्वप्रतिषेधः॥*हिन्योरुकारस्य प्रतिषेधो वक्तव्यः । लुनी- हि । लुनानि । एरुरित्युत्वं प्राप्नोति ॥*॥ न वोच्चारणसामर्थ्यात् ॥ ॥ न वा वक्तव्यः ॥ किं कारणम् ?॥ ['उच्चारणसामर्थ्यात्'] । उच्चारणसामर्थ्यादत्रोत्वं न भविष्यति । अलघीयश्चैव हीकारोच्चारणमुकारोच्चारणात् । इकारं चोच्चार- यत्युकारं च नोच्चारयति । तस्यैतत्प्रयोजनमुत्वं मा भूदिति ॥[ सेपिच्च ] ॥ प्र.] लोटो ल । 'लोट' इत्युपमेये षष्टीनिर्देशादुपमानं षष्ठ्यन्तं विज्ञायते, तेन लडो यत्कार्य तल्लोटोऽतिदिश्यते न तु लङि यत्कार्य तदित्यडाटो लोटि न भवतः। उत्व- वचनादिति । नाप्राप्ते लद्भावे उत्वमारब्धं तस्य बाधकमित्यर्थः । अनापीति । लङ्कदभावा दितश्चे'त्यनेनेत्यर्थः । [ लोटो लङ्कृत् ] ॥ सेयं । अलघीय इति । उकारे सति प्रक्रियायां लाघवं भवति । इकारे तु उ.]षणे इदम् । विहितविशेषणपक्षे त्वन्त्यादेश एव प्राप्नोति। अत एव 'नित्यं ङित' इत्यादौ न दोष इति बोध्यम् । अकारद्वयेति । एवं 'ण-अलित्यत्रापि प्रश्लेषो बोध्यः ॥ लोटो ल । अस्मादतिदेशाल्लोटि अडाटावपि प्राप्नुत इत्यत आह-लोट इ. तीति । ननु झिविषये परत्वाजुसा 'इतश्च'त्यस्य बाधान्न तस्याऽप्येतद्विषये सर्वत्र प्राप्तिः, जुसा इकाराऽपहारे तदभावादितश्चे'त्यस्याऽप्राप्तिः। इकारलोपे झेर- भावाजुसोऽप्राप्तिरिति योगपद्याऽसम्भवात् । स्थानिवत्त्वन्तु आदेशप्रवृत्त्युत्तरं, न तत्समकालम् , एवं सत्यन्यतरविषयत्वे मानाऽभावाद्विनिगमनाविरहेणोभयबाधक स्यादत आह भाष्ये-अथ वा पुरस्तादपवादा इति। तत्र लङ्ग्रहणस्येति । तत्र- 'लङः शाकटायनस्येति सूत्र इत्यर्थः ॥ [ लोटो लत् ] ॥ सेयपिञ्च । भाष्ये-अलघीयश्चैव हीति । मात्राकृतलाघवाऽभाव इत्यर्थः । १ इदं लुप्तं । २ 'बाधेत' ३ 'वमुत्त्वं । ४ 'रुत्वस्य' । ५ क्वचिन्न ।

३अ.४पा.१आ.९३सू.] 8 व्याकरणमहाभाष्यम् , : पत ऐ॥ ३४९३॥ ॥*॥ एत ऐत्वे आद्गुणप्रतिषेधः ॥*॥ एत ऐत्वे आद्गुणस्य प्रतिषेधो वक्तव्यः । पचावेदम् । पचामेदम् । आद्गुणे कृते 'एत ऐ इत्यत्वं प्राप्नोति । ॥॥ न वा बहिरङ्गलक्षणत्वात् ॥*॥ न वा वक्तव्यः ॥ किं कारणम् ? ॥ 'बहिरङ्गलक्षणत्वात्' । बहिरङ्गालक्षण आद्गुणः, अन्तरङ्गमैत्वम् । 'असिद्ध बहिरङ्गमन्तरङ्गे'। [एत ऐ] ॥ लिङः सीयुट ॥ ३।४।१०२ ॥ ॥*॥ यासुडादेः सीयुट्टतिषेधः॥ * ॥यासुडादेः सीयुटः प्रतिषेधो वक्तव्यः। चिनुयुः । सुनुयुः । 'लिङ सीयु'डिति सीयुगामोति ॥*॥ न वा वाक्यापक- र्षात् ॥*॥ न वा वक्तव्यः ॥ किं कारणम् ?॥ 'वाक्यापकर्षात्' । वाक्यापक- र्पाद्यासुसीयुटं बाधिप्यते । ॥* ॥सुतियोस्त्वपकर्षविज्ञानम् ॥ * ॥ सुटोऽपीदानी तिथोरपकर्षों विज्ञायेत । कृषीष्ट [कृषीष्टाः। हृषीष्ट हृषीष्ठाः । ॥ ॥ अनादेश्व सुवचनम् ॥*॥ अनादेश्च सुवक्तव्यः। कृषीयास्तां कृषीयास्थाम् । तकार- थकारादेलिङ इति सुण्न प्राप्नोति ॥*॥ न वा तिथोः प्रधानभावात्तद्विशेषणं लिङ्ग्रहणम् ॥॥न वा वक्तव्यम् ॥ किं कारणम् ?॥ 'तिथोः प्रधानभावात् । तिथावेवाऽत्र प्रधान, तयोर्विशेषणं लिङ्ग्रहणम् । नैवं विज्ञायते तकारथकारा- देलिङ इति ॥ कथं तर्हि ? ॥ तकारथकारयोः सुभवति तौ चेल्लिङ' इति ॥ प्र.]सति लक्षणान्तरेणोत्वे प्रक्रियागौरवं स्यात् । न चेकारोच्चारणे लाघवं भवति । तस्मादिकारोच्चारणमुत्वस्य बाधकमेवेत्यर्थः । [सेपिञ्च ॥ लिङः सी।यथैव कृषीष्ट कृषीष्टा इत्येवमादौ सुटि कृते विरोधाऽभावाद्बाध्यबाधक- भावाऽभावात्सीयुभवति, एवं यासुट्यपि कृते तस्य लिङ्भक्तत्वात्तदादेः सीयुगसङ्ग इति मलाह-यासुडादेरिति । न वेति । लिङः सीयुडित्यम्य वाक्यस्य यासुविधि- वाक्येनापकर्षों वाधनमित्यर्थः । विनापि विरोधेन सामान्यविधिर्विशेषविधिना वाध्यते तक्रणेव दधीति भावः । अनादेश्चेति । तिथोरिति सप्तमी मन्यते। ततस्त- दादिविधिसद्भावात्तकारथकारादेरेव लिलादेशस्य सुट् स्यात् कृषीष्ट कृषीष्टा इत्यादाविति भावः । नवेति । चोद्यद्वयमपि परिहृतम् । सुटस्तकारथकारावागमिनी, सीयुटस्तु समुदाय इति कार्यिभेदाद्वाध्यवाधकभावाऽभावः । 'तिथो रिति च षष्टीनिर्देशा- उ.]प्रक्रियालाघवन्तूकारोच्चारणेऽस्त्येवेति भावः। उत्वस्य बाधकमेवेति। उत्वग्रहण. मिकारलोपस्याऽप्युपलक्षणम् ॥ [ सेयपिञ्च ] ॥ लिङ सीयुट् । नन्वपवादतया यासुटा बाधात्कथं तद्विषये सीयुडत आह- यथैवेति । विनाऽपीति । अत एव पूर्वमपि सीयुग्न, अपवादविषये उत्सर्गा- ऽप्रवृत्तेरिति भावः । भाष्ये-सुटोऽपीति । कर्तरि षष्टी । कर्मणोऽनुपादानादुभय- १ 'ऐ दित्येत्त्वं । २ 'वक्तव्यम्' । ३ इदं क्वचिन्न ।४ 'थावत्र'। ५ तद्विशेषणं'।

.. ॐ कैयट-विवरणसहितं 8 [यासुट्परस्मै यासुदरस्मैपदेषूदात्तो ङिच्च ॥३॥४॥१०३ ॥ किमर्थं यासुटो ङित्त्वमुच्यते?॥ ॥यासुटो ङिद्वचनंपिदर्थम् ॥ ॥[योसुटो डित्त्वं क्रियते॥किं प्रयोजन?॥ 'पिदर्थम्']पिति वचनानि प्रयोजयन्ति॥ अथ किमर्थमुदात्तवचनं क्रियते?॥ ॥उदात्तवचनं च॥॥[उदात्तवचनञ्च]॥किम्?॥ 'पिदर्थमेव' ॥ ॥ आगमानुदात्तार्थ वा ॥*॥ अथ वैतज्ज्ञापयत्याचार्यः 'आगमा अनुदात्ता भवन्तीति ॥ असत्यन्यस्मिन्प्रयोजने ज्ञापकं भवति । उक्तं चैत- द्यासुटो डिद्वचनं पिदर्थमुदात्तवचनं चेति ॥ शक्यमनेन वक्तुं-यासुदर- स्मैपदेषु भवति अपिञ्च लिङ्भवतीति,सोऽयमेवं लघीयसा न्यासेन सिद्ध सति यद्गरीयांसं यनमारभते तज्ज्ञापयत्याचार्य:-'आगमा अनुदात्ता भवन्तीति । आतः॥३४॥११०॥ किमदं जुस्याकारग्रहणं नियमार्थमाहो स्वित्प्रापकम् ? ॥ कथं च निय- मार्थं स्यात् , कथं वा प्रापकम्?॥ यदि सिज्ग्रहणमनुवर्तते ततो नियमार्थम्, अथ निवृत्तं ततः प्रापकम् ॥ कश्चात्र विशेषः ? ॥*॥ जुस्याकारग्रहणं निय- मार्थमिति चेत्सिग्लुग्ग्रहणम् ॥*॥ जुस्याकारग्रहणं नियमार्थमिति चेसिज्लु- ग्ग्रहणं कर्तव्यम् । 'आतः सिज्लुगन्ता दिति वक्तव्यम् । इह मा भूत्- अकार्षु अहार्युः ॥ अस्तु तर्हि प्रापकम् ॥*॥ प्रापकमिति चेत्प्रत्ययलक्षण. प्र.]त्तदादिविध्यभावादनाद्योरपि तिथोः सुभवति ॥ [ लिङः सीयुट् ] ॥ आतः। अकार्षुरिति । अत्र नाकारान्तात्सिज्विहितः, नापि परः, रेफेण व्य- वधानादिति जुस्न स्यात् । ननु यद्यकावुरित्यादावपि नियमः स्यात्तदा पूर्वसू- त्रेण सिजन्ताजुखिधानमनवकाशं स्यात् । नैष दोषः । अ[रस्थुरित्यादेरवकाशस्य संभवात्। विषयविभागश्च न लभ्यते,यतोऽकार्युरिति जुस् भवति, अभूवन्नित्यत्र तु उ.]प्राप्त्यभावः। सुकर्तृकः सीयुटो वाधः स्यादित्यर्थः। कार्यिभेदादिति। प्रथमद्विर्व- चनस्य द्वितीयद्विर्वचनेन कार्यिभेदेऽपि बाधदर्शनाच्चिन्त्यमिदम् । 'तस्मादपकर्षों विज्ञायते'त्युत्तरं भाष्ये 'तस्माद्यासुडादेः सीयुटः प्रतिषेधो वक्तव्य' इति शेषः । तदेव च वचनं ज्ञापकमत्र प्रकरणे बाध्यबाधकभावाऽभावस्येति सुटा सीयुटो न बाध इति भाव इत्युचितम् ॥ [ लिडः सीयुट् ] ॥ यासुट् प । आगमा अनुदात्ता इति भाष्ये । 'अनुदात्तम्पद'मित्येकवाक्यता- पन्नोदात्तादिविधिप्रवृत्तिकालेऽसन्निहितानामपि तेन निघातप्रवृत्तिाप्यत इत्यर्थः । विस्तरेण चैतदाद्युदात्तश्चेत्यत्र निरूपितं, प्रकृतसूत्रे शब्देन्दुशेखरे च ॥ आतः भाष्ये-इह माभूदकार्युरिति । नियमेन व्यवच्छेदो मा भूदित्यर्थः । ननु सिचः परस्य झेर्जुश्चदाकारपरसिचः परस्यैवेति न दोष इत्यत आह-अत्रेति । नियमः स्यादिति । नियमेन व्यवच्छेदः स्यादित्यर्थः । अगुरिति । योगविभागा- १ इदं लुप्तम् । २ 'अयुः ।

३अ.४पा .१आ.११०सू.] व्याकरणमहाभाष्यम् | ३७५ .. प्रतिषेधः ।।* ।। प्रापकमिति चेत्प्रत्ययलक्षणस्य प्रतिषेधो वक्तव्यः। अभूव- चिति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति ॥*॥एवकारकरणं च ॥ ॥ एवकार- करणं च कर्तव्यम् । 'लङः शाकटायनस्यैवेति । नियमाथे पुनः सति नार्थ एवकारकैरणेन॥ननु च प्रापकेऽपि सति सिद्धे विधिरारभ्यमाणोऽन्तरेणैवकारं नियमार्थो भविष्यति॥ [*इष्टतोऽवधारणार्थः*]॥ इष्टतोऽवधारणार्थस्तोवकारः कर्तव्यः। यथैवं विज्ञायत-लङः शाकटायनस्यैवेति,मवं विज्ञायि-'लिङ एव शाकटायनस्येति॥किं च स्यात् ? ॥ लुङः शाकटायनस्य न स्यात् । अदुः । अयुः अधुःअस्थुः॥ लङ्ग्रहणं च॥ ॥लङ्ग्रहणं च कर्तव्यमालङः शाकटायन- स्यैवेति । नियमार्थे पुनः सति नार्थो लङ्ग्रहणेन। 'आतो डित' इति वर्तते । न चान्य आकारादनन्तरो ङिदस्त्यन्यदतो लङः ॥ अस्तु तर्हि नियमार्थम् ॥ ननु चोक्तं 'जुस्याकारग्रहणं नियमार्थमिति चेसिज्लुग्ग्रहण'मिति ॥ नेप दोषः । तुल्यजातीयस्य नियमः ॥ कश्च तुल्यजातीयः ? ॥ यो द्वाभ्यामनन्तर आतश्च सिचश्च ॥ अथ तदेवकारकरणं नैव कर्तव्यम् ? ॥ कर्तव्यं च ॥ प्र.]न भवतिायद्येवं पूर्वसूत्रे सिज्ग्रहणमकृत्वा 'आतः सिच' इति वक्तव्यं स्यात्।नैत- दस्ति । उत्तरत्राऽऽत इत्यस्यानुवृत्त्यर्थो योगविभागः स्यात् । अथ वा योगविभागो- ऽस्य नियमार्थत्वाय स्यात् । अस्य हि नियमार्थत्वे उत्तरत्र लङ्ग्रहणं न कर्तव्यं भवति। एवकारकरणं चेति । यदा सिज्ग्रहणमिह नानुवर्तते तदानेनैव लङादेशस्य झेरात उत्तरस्याऽयुरित्यादौ जुसि सिद्धे 'लङः शाकटायनस्यैवेति नियमार्थ एवकारः कर्तव्यः, अन्येषां मतेन अयानित्यादि यथा स्यात् । यदा तु सिज्ग्रहणानुवृत्त्या नियमार्थमिदं तदा 'लछः शाकटायनस्येत्येव पक्षे विध्यर्थं कर्तव्यं, नार्थ एवकारेणे- त्यर्थः। मैवं विज्ञायीति । 'लङ एव शाकटायनस्य'ति विज्ञायमाने लुङः शाकटाय- नस्य न स्यात् । ततश्च लुङि विकल्पः प्रसज्येत । लढि तु नित्यः स्यादित्यर्थः । नुल्यजातीयस्येति । सिज्लुकं विना आतः सिचश्चानन्तरो झिन भवतीति सिज्लु- उ.]नर्थक्यन्त्वनुपदमेव परिहरिष्यति।अत एव दूषणान्तरमाह-विषयविभागश्चेति । अभूवन्निति । अत्र प्रत्ययलक्षणेन सिच्सत्ता बोध्या। योगविभागः स्यादिति । 'लङः शाकटायनस्ये'त्यत्र सिच्पदाऽसंसृष्टस्य 'आत' इत्यस्याऽनुवृत्त्यर्थों योग- विभाग इत्यर्थः।ननु 'आतः सिच' इत्युच्यमानेऽपि स्वरितलिङ्गाऽऽसङ्गादात इत्येवा- ऽनुवर्तिष्यते न तु सिच इति, उत्तरत्र लङ्ग्रहणाचाऽत आह-अथ वेति । निय- मार्थत्वायेति।तत्फलन्तु 'अभूवन्नि'त्यस्य व्यावृत्तिः । नियमपक्षे योगविभागप्रयुक्त- गौरवेऽपि लाघवान्तरं दर्शयति-अस्यहीतिततश्च लुडीति। शाकटायनमते लङ एवा. ऽन्यस्य तन्मते नेत्यर्थे लुङि शाकटायनमते निषेधः,अन्यस्य मते जुसित्याद्विकल्पः फलितः :। ललितु शाकटायनमतेऽन्यमते च प्राप्त्या नित्यत्वं फलतीति भावः । १ 'ग्रहणं' । 'वक्तव्यं । ३ 'एवकारेण' । ४ लुप्तं स्यात् । १ 'विज्ञायते' । ।

कैयट-विवरणसहितं
[आर्द्धधातुकं
किं प्रयोजनम् ? ॥ उत्तरार्थम् ॥ लिटु लिङाशिषि आर्द्धधातुकमेव यथा
स्यात् । इतरथा हि वचनादार्द्धधातुकसंज्ञा स्यात् , तिङ्ग्रहणेन च ग्रहणा-
सार्वधातुकसंज्ञा ॥ अथ तल्लजहणं नैव कर्तव्यम् ? ॥ कर्तव्यं च ॥ किं
प्रयोजनम् ? ॥ लव यो लङ्गत्रयथा स्याल्लङ्गद्भावेन यो लतन्त्र मा भूदिति ॥
आर्द्धधातुकं शेषः ॥ ३।४।११४ ॥
॥॥ आर्द्धधातुकसंज्ञायां धातुग्रहणम् ॥*॥ आर्द्धधातुकसंज्ञायां धातु-
ग्रहणं कर्तव्यम्। धातोः परस्यार्द्धधातुकसंज्ञा यथा स्यात् । इह मा भूत्
वृक्षत्वं वृक्षतेति । क्रियमाणे चापि धातुग्रहणे-॥*॥ स्वादिप्रतिषेधः ॥*॥
स्वादीनां प्रतिषेधो वक्तव्यः । इह मा भूत्-लूभ्यां लूभिरिति ॥ अनुक्रान्ता-
पेक्षं शेषग्रहणम्॥एवमपि अग्निकाम्यति वायुकाम्यतीति प्राप्नोति। तस्माद्धातु-
ग्रहणं कर्तव्यम्॥तत्तर्हि धातु ग्रहणं कर्त्तव्यं?॥न कर्तव्यम्॥आतृतीयपरिसमाप्ते-
र्धात्वधिकारः प्रकृतोऽनुवर्तते॥कप्रकृतः?॥'धातोरेकाचो हलादे'रिति॥एवमपि
श्रीकाम्यति भूकाम्यतीति प्राप्नोति॥॥तद्विधानात्सिद्धम्॥॥ [तद्विधानान्सि-
द्धम् ॥विहितविशेषणं धातुग्रहणं 'धातोर्यो विहित' इति॥धातोरेष विहितः॥
सङ्कीर्त्य धातोरित्येवं यो विहित इति॥ इति श्रीभगवत्पतञ्जलिमुनिविरचिते
व्याकरणमहाभाष्ये तृतीयस्याध्यायस्य चतुर्थे पादे प्रथममाह्निकम् ॥
प्र.]गन्तस्याकान्तस्येह ग्रहणमिति नियमेन सिज्लुगन्तमेव निवर्त्यते।उत्तरार्थमिति
अन्यथैकसंज्ञाधिकारादन्यत्र संज्ञासमावेशस्य दृष्टत्वालिलिडादेशानां सार्वधातुकसञ्ज्ञा-
ऽपि स्यात् । ततस्तन्निमित्तविकारणप्रसङ्गः। आर्द्धधातुकसञ्ज्ञा चेडाद्यर्था स्यात् ॥
आर्द्धधा । अनुक्रान्तापेक्षमिति । अनुक्रान्ता ये प्रत्ययास्तिशिद्वर्जितास्ते
आर्द्धधातुकसंज्ञा भवन्ति न त्वनुकंस्यमाना इत्यर्थः । धातोरित्येवमिति । धातो.
रित्येवं धातुशब्दमुच्चार्य ये विहिता इत्यर्थः । इति महामहोपाध्यायश्रीमज्जैय्यट-
पुत्रकैयटकृते महाभाष्यप्रदीपे तृतीयाध्यायस्य चतुर्थे पादे प्रथममाह्निकम् ।
उ.]भाष्ये-लङ्ग्रहणञ्चेति। असति लङ्ग्रहणे लुड्यपि विकल्पः स्यात्। न च 'आत'
इति योगविभागाल्लुङि नित्य इति वाच्यं, लुङि विकल्पो लङि नित्य इति वैपरीत्य-
स्याऽपि सम्भवादिति भावः। एवञ्च 'आत'इति सूत्रं 'सिच'इत्यनुवृत्त्या नियमार्थम् ,
उत्तरसूत्रन्तु विध्यर्थम् । 'शाकटायनस्यैवेत्येवकार उत्तरार्थः । लङ्ग्रहणं लङ.
वद्भावेन लङोऽग्रहणार्थमिति बोध्यम् । एवञ्च 'धातो'रिति सूत्रस्थभाष्यं प्रौढ्या,
एतत्सूत्रस्थभाष्यविरोधादिति बोध्यम् ॥ [ आतः ॥
आर्द्धधाभाष्ये-धातोरेकाच इति। धातो'रिति पृथक्सूत्रन्तु प्रत्याख्यातमेव।
धातोरित्येवमिति । व्याख्यानादिति भावः ॥ इति शिवभट्टसुतसतीगर्भजनागोजी-
भट्टकृते महाभाष्यप्रदीपोक्ष्योते तृतीयस्याऽध्यायस्य चतुर्थे पादे प्रथममाह्निकम् ॥१॥

No text on this page.

No text on this page.

No text on this page.

Panajjal Mahavashyam

Author
Muni, Patanjjali
Other authors
Bhatta, Nagaji
Title
Panajjal Mahavashyam
File name
Panajjal Mahavashyam
Text
OCR done
Citation
1939
Published
2007/02/20
Publisher
Pandit Nandikishore Shastri Ayurvedacharya, Benares
Language
Sanskrit
Pages
384
Library
Uttarpara Jaykrishna Public Library, Hooghly
Classification
Grammar
Keywords
Sanskrit Grammar
DLI number
292819
Barcode
4990010200595.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
19SDnB4bmWZ
Download PDF

Panajjal Mahavashyam