Central Archaeological Library_ Asi_ New Delhi

The Kamasutra 1929

Vatsyayana Muni

PDF Proofread

Front matter

THE
KĀSHI SANSKRIT SERIES
( HARIDĀS SANSKRIT GRANTHAMĀLĀ)
NO. 29.
THE
KAMASUTRA
BY
SRI VATSYAYANA MUNI
With the commentary
Bayamangala of Yashodhar
295 Edited by
SĀHITYADARSHANĀCHĀRYA TARKARATNA NYĀYARATNA
SRĪ GOSVAMĪ DĀMODAR SHASTRI
...
Vat/ Gos
PRINTED, PUBLISHED & SOLD BY
JAI KRISHNADAS-HARIDAS GUPTA,
The Chowkhamba Sanskrit Series Office, Vidya Vilas Press,
North of Gopalmandir, Benares City.
1929.

ba
CENTRAL ARCHAEOLOGIGAL
LIBRARY, NEW DELHI.
Acc. No, 77.5.1
Date.....29.10..56
Call No....).vat/Gioca
Printed-Published & sold by
JAI KRISHNADAS-HARIDAS GUPTA,
The Chowkhamba Sanskrit Series Office,
VIDYA VILAS PRESS,
North of Gopal Mandir,
BENARES CITY,
ON
OA
OENTRALNARCH/BOLOGNAL
LIBRA
NEW DELEM.

हरिदास संस्कृत ग्रन्थ मा लास मा ख्य- काशीसंस्कृतसीरिज़पुस्तकमालायाः २६ कामसूत्रम्। श्रीवात्स्यायनमुनिप्रणीतं. बहुयत्नैरासादितया पूर्णया यशोधररचितया जयमङ्गलाख्यया टीकया समेतम् । श्रीमन्माध्वसम्प्रदायाचार्यदार्शनिकसार्वभौमसाहित्यदर्शनाद्याचार्य- तरत्नन्यायरत्नगोस्वामिश्रीदामोदरशास्त्रिणा बहुखण्डितपाठान् परिपूर्यः सूत्राकाँश्च संयोज्यः परिष्कृत्य; संशोध्यः सम्पादितम् । কাহ: APNA जयकृष्णदास-हरिदासगुप्तः- चौखम्बा संस्कृत सीरिज आफिस, विद्याविलास प्रेस, गोपालमंदिर के उत्तरफाटक, बनारस सिटी। विक्रम संवत् ORG COURSECORDEDiseDSODERRORISSEURSDS इस कार्यालय द्वारा “काशीसंस्कृतसीरिज" के अलावा और भी ३ सीरिज यथा "चौखम्वा संस्कृत सीरिज" "बनारससंस्कृतसीरिज" "हरिदाससंस्कृत सीरिज" प्रन्थ. मालायें निकलती हैं तथा इन ४ सीरिजों के पश्चात् और भी विविध शास्त्र की पुस्तकें प्रकाशित की गई है तथा अन्य सब स्थानों के छपे हुए संस्कृत तथा भाषा-भाष्य के प्रन्थ विक्रयार्थ प्रस्तुत रहते हैं, सूचीपत्र पृथक् मंगवाकर देखें, इसके अलावा हमारे यहां सर्व प्रकार की संस्कृत, हिन्दी, अङ्ग्रेजी की सुन्दर छपाई होती है, परिक्षा प्रार्थनीय है। पत्रादि प्रेषणास्थानम्- RSSMARGIARMAN जयकृष्णदास-हरिदास गुप्तः- चौखम्बा संस्कृतसीरिज़” आफिस, विद्याविलास प्रेस, गोपालमन्दिर के उत्तर फाटक, बनारस सिटी। DODGDopapAGrapGDAGDraprapapar श्रीश्रीहरिः शरणम् । द्वितीयसंस्करणोपसंहारः। विज्ञापयाम्येतद् विशेषशास्त्ररसशमहोदयान्, यद् बहुवर्षेभ्यः पूर्व- मुम्बईस्थिनिर्णयसागरयन्त्रालयाध्यक्षेण स्वीययन्त्रालये कामशास्त्रे शेष. स्यार्षग्रन्थस्य वात्स्यायनसूत्रस्य पुस्तकं कामतन्त्ररहस्यमधिजिगमि पूणामतिभूमि गताभिस्तद्वन्थदर्शनोत्कण्ठाभिर्विलम्बमसहमानेनेव व्यु रक्रान्तप्रक्षिप्तपरिष्कृतताऽऽदिदोषदृषितमप्रदर्शितसूत्रसंख्याविभागं ता- हशैव षष्ठाधिकरणान्तमुपलब्धया यशोधरकृतया जयमङ्गलाख्यया टी- कया सह मुद्रयित्वाऽनीयत प्रकाशम् , परंतु निर्दिष्टदोषैरेतद्न्थपर्यालोचने पानकरसास्वादे सिकतारे गुभिरिवारन्तुदतां सहृदयधुरीणानामवगम्य; यथाशक्त्येनां प्रतिचिकी. पुणा चौखम्भासंस्कृतसीरीजाध्यक्षेण मदीयजनकेन बावूहरिदासगुप्तेन शोधकस्य प्राचीनं प्रायः शुद्धं सटीक कामसूत्रपुस्तकमेकं, द्वितीयं च विविधग्रन्थसंग्रहरसिककाशीस्थबाबूश्रीयुक्तगोबिन्ददासमहोदयस्य ल. टीकं शुद्धं तत्पुस्तकमवलम्बय्या सूत्राणामांश्च यथास्थानं समावेशय्य; सुमुद्रणाय पुनरेतच्छोधनं प्रारम्भितम् , टीकाशून्यं च सप्तममोपनिषदिकमधिकरणं बहुयत्नैरासादितेन तट्टीकाऽवशिष्टांशेन संयोज्य प्राचीकटं, तथाऽपि अन्थमात्रमुद्रणमे- वावसितमियत्समयावधि, विशिष्टा भूमिकाऽऽदयः परिशिष्टाश्चान्येऽधि- अन्थप-लोचनवेलमुपकारकाः विशेषसूच्यादयो विषया नूनमवश्य सन्धेयं परिशिष्टत्वेन समाविवेशयिषितव्यं सन्धाय; सन्चाप्यच ना- तिचिरायैव प्रकाशयिष्यन्ते; तावञ्चिररात्रायोत्पन्नचरीदमीया बलवली दिदृक्षा दर्शकः फलवती विधेया, मानुध्यकनान्तरीयकानवधानजनिता. शुद्धयश्चात्रत्यानिजतितिक्षागुणगरिम्णो मर्षणीया इति । चौखम्भासंस्कृतसीरीजाध्यक्षौ- हरिदासगुप्तजयकृष्णदासगुप्तौ-

No text on this page.

श्रीकृष्णाय नमः। कामसूत्रविषयानुक्रमः- অন্যখিনি ৩ पृ० पू० ६२ १ २०० શિર २२२ २७१ २७२ ३२८ ३२९ ३४६ १साधारणम् २ साम्प्रयोगिकम् ३ कन्यासम्प्रयुक्तकम् ४ भार्याऽधिकारिकम् ५ पारदारिकम् ६ वैशिकम ७ औपनिषदिकम् १ अधिकरण १ अध्याये १ शास्त्रसङ्ग्रहः प्रकरणम् २ अध्याय २त्रिवर्गप्रतिपत्तिः ३ अध्याये ३ विद्यासमुद्देशः ४ अध्याये ४नागरकवृत्तम् ५ अध्याये ५नायकसहायत. कर्मविमर्श १० २५ ३८ ६२ २ अधिकरणे १ अध्याये ६प्रमाणकालभावर- २ कामसूत्रस्य पृ० ९० १०० १०७ २ अध्याये ८ उपगृहनविचार: प्रकरणम् ३ अध्याये ९ चुम्बनविकल्पाः ४ अध्याये १० नखच्छेद्यम् ५ अध्याये ११ दशनच्छेद्यम् १२ देश्योपचाराः ६ अध्याये १३ संवेशनम् १४ चित्ररतम् ७ अध्याये १५ प्रहणनम् १६ सीत्कृतम् ८ अध्याये १७ पुरुषायितं १८ पुरुषोपसृप्तम् १९ औपरिष्टकम ९ अध्याये २०रतारम्भावसा. १२१ १२५ १३७ १४१ १४१ १५६ " निकम १० अध्याये २१ रतविशेषाः २२ प्रणयकलह १५५ १५७ १५८ १६१ ३ अधिकरण १ अध्याये २३ वरणविधानम् प्रकरणम् १६२ १६७ विषयानुक्रमः। ३ पृ० २ अध्याये २५ कन्याविनम्भणम्प्रकरणम् ३ अध्याये २६ बालोपक्रमाः २७ इङ्गिताकारसूचनम् ,, १७६ १८२ ૨૮૨ ૨૮ ४ अध्याये २८९ १९२ २८ एकपुरुषाभियोगः २२ प्रयोज्योपावर्तनम् ३० अभियोगप्रयोज्य- कन्याप्रतिपत्तिः अध्याये ३१ विवाहयोगः १९२ १९४ ४ अधिकरणे १ प्रथमाध्याये ३२ एकचारिणी वृत्तम् प्रकरणम् ३३ प्रवालचर्या २ अध्याये ૨૬ २०६ २०८ २०९ २११ २१३ ३४ सपत्नीषु ज्येष्ठावृत्तम् ३५ लपत्तीधु कनिष्ठावृत्तम् ३६ पुनर्भूवृत्तम् ३७ दुर्भगावृत्तम् ३८ आन्नापुरिफवृत्तम् ३९ बहीषु प्रतिपत्तिः ५ अधिकरणे १. अध्याये ४० स्त्रीपुरुषशी- लावस्थापन प्रकरणाम २१९ २२० 703 कामसूत्रस्थ २२७ २२८ ४२स्त्रीषु सिद्धाः पुरुषाःप्रकरणम् ४३ अयतसाध्या- योषितः २ अध्याये ४४ परिचयकारणम् अभियोगाः ३ अध्याये ४६ भावपरीक्षा ४ अध्याये ४७ दूतीकर्म ५ अध्याये ४८ ईश्वरकामितम् ६ अध्याये ४९ आन्तःपुरिकावृत्तं- दाररक्षिकम् २४३ २५४ २५५ २६२ २६२ २६९ २६९ २७१ २७८ २८१ ६ अधिकरणे १ अध्याये ५० सहायगम्यागम्यगम- नकारणचिन्ता प्रकरणम् ५१ गम्योपावर्तनम् २ अध्याये ५२ कान्ताऽनुवृत्तम् ३ अध्याय ५३ अर्थागमोपायाः ५४ विरक्तप्रतिपत्तिः ५५ निश्कासनक्रमः ४ अध्याये ५६ विशीर्णप्रति- २८१ २९१ २९१ २९५ २९५ २९७

विषयानुक्रमः।
पृ०
३०८ ३१६
५ अध्याये
५७ लाभविशेषाःप्रकरणम्
६ अध्याये
५८ अर्थानानुबन्धसंशयवि.
चारा वेश्याविशेषाः,
७ अधिकरणे
१ अध्याये
५९ सुभगडुरणं प्रकरणम्
६० वशीकरणम्
६१ वृष्ययोगाः
२ अध्याये
६२ नष्टरागप्रत्यानयनम,
६३ वृद्धियोगाः
६४ चित्रयोगाः
शास्त्रोपसंहारः
३३५ ३३८
३४२ ३४३
कामशास्त्रसमाप्तिः।
अत्र शास्त्रे-
AND
अधिकरणानि ७
अध्यायाः
प्रकरणानि ६४
सूत्राणि १६६४
श्लोकाः-१२५०

No text on this page.

श्रीवात्स्यायनमुनिप्रणीतं- कामसूत्रम्। यशोधरकृतया जयमङ्गलाख्यया व्याख्यया समेतम् । । साधारणनामके प्रथमेऽधिकरणे प्रथमोऽध्यायः। नमो धर्मार्थकामेभ्यस्तत्कामेभ्यो नमो नमः। त्रिवर्गमोक्षकामेभ्योऽकामेभ्यस्त्वमितं नमः ।। वात्स्यायनीयं किल कामसूत्रं व्याख्यायि तत् कैश्चिदिहान्यथैव । तस्माद्विधास्ये जयमङ्गलाऽऽख्यां टीकामिमां सर्वविदं प्रणम्य ॥ इह चत्वारो वर्णा (१)ब्राह्मणादयः, चत्वारश्वाश्रमा ब्रह्मचारी, गृ- हस्थो, (२)वैखानसो, भिक्षुरिति, तत्र ब्राह्मणादीनां गृहस्थानां मोक्ष. स्यान(३)भिमतत्वात् (४)त्रिवर्गः पुरुषार्थः, तत्रापि धर्मार्थयोर्हेतुत्वा. काम एव फलभूतः प्रकृष्टः पुरुषार्थ इति कामवादिनः, स चोपायं- विना न भवतीति तदुपायमाचिख्यासुराचार्य(६)मल्लनागः पूर्वाचार्यम- तानुसारेण शास्त्रमिदं प्रणीतवान् । ननु तद्धेतुत्वाद्धर्मार्थावेवोपादेयौ, तौ च शास्त्रविहितौ ? सत्यम्, (१) आदिशब्दात् क्षत्रियवैश्यशूद्रा ग्राह्याः । तथा चामरः “वर्णाः स्युब्राह्मणा- दयः, विप्रक्षत्रियविट्शूद्रा" इति । (२) वानप्रस्थः । “वैखानसो वानप्रस्थ" इति विश्वः । (३) यद्यपि निरतिशयसुखादिरूपे मोक्षे कस्यापि नानभिमतत्वं सम्भवति विशे- षतो ब्राह्मणानां, "ब्राह्मणस्य च देहोऽयं क्षुद्रकामाय नेष्यते। कृच्छ्राय तपसे चेह प्रेत्या- नन्तसुखाय चे" त्यादिश्रीभागवतादिप्रामाण्यात् , तथाऽपि प्रकृतशास्त्राधिकारिताऽवच्छेद- ककोटी मोक्षानभिमतत्वाभ्युपगमादित्थमुक्तिः । ( ४ ) "त्रिवर्गों धर्मकामार्थरि"त्यमरः ।

२ सटीके कामसूत्रे [१ अधिकरणे, तद्धतुत्वेऽप्युपायान्तरापेक्षत्वात्(१)संप्रयोगपराधीनः कामः, सम्प्रयोग श्वोपायमपेक्षते, उपायपरिज्ञानं च कामशास्त्राद्, न धर्मार्थशास्त्राभ्याम् । वक्ष्यति च प्रयोजनवाक्यम्-"संप्रयोगपराधीनत्वात्स्त्रीपुंसयोरुपाय- मपेक्षते" अधि. ११ अ.२। प्र. २ । सू. २२ । “सा चोपायप्रतिप्रत्तिः (२)कामसूत्रादिति" अधि. १ : अ. २॥ प्र. २ । सू. २३ । तत्रोपायोऽभि- धेयः, तत्प्रकाशनं कामशास्त्रेण क्रियमाणं प्रयोजनम् , अन्यथा कथं. प्रतिपत्तिः शास्त्राद् ? अनधीतशास्त्राणां तु तच्छास्त्रोपायपरिज्ञानं स्व. तोऽसम्भवात् परोपदेशात्स्यात्, परोपदेशश्चेत्कथं न शास्त्राभ्युपग- मः, तथा चेदमुपायपरिज्ञानं तद् घुणाक्षरकल्पः सम्यक्करणीयवर्जनी- यापरिज्ञानात्, ततश्वोपायबाहुल्यातैनागरिकैरनागरिका नागरिकाः क्रियन्ते, तथा चोक्तम्- 'यदविज्ञातशास्त्रेण कदा चित्साधितं भवेत् । न चैतद् बहु मन्तव्यं धुणोत्कीर्णमिवाक्षरम् ॥ इति । यदपि कामशास्त्रविदां केषां चिद् व्यवहाराकौशलम् , तत्तेषामेव दोषो न शास्त्रस्य, प्रतिपत्तिदोषाच्च शास्त्रानर्थक्यं सर्वत्र तुल्यम् , न हि चिकित्साऽऽद्यर्थेषु शास्त्रेषु सर्वे तद्विदः पथ्याहारादिक सेव- न्ते. तस्मात्तदथिनो ये भक्तिश्रद्धाऽन्वितास्तेऽपि शास्त्रप्रयोजनहेतवः । तत्र देवतानमस्कारपूर्वकं शास्त्रप्रणयनमविधिनतप्रसरं भवती- त्याह- धर्मार्थकामेभ्यो नमः ॥ १ ॥ अर्थशब्दस्याजाद्यदन्तत्वेऽपि न पूर्वनिपातः, धर्मस्या(३)भ्यहित. स्वाद्, वक्ष्यति च-(४)पूर्वः पूर्वो गरीयान्" अधि. १ । अ.२ प्र. २। सू. १४ । इति ॥ १ ॥ (१) स्त्रीपुंसयोर्विशेषसामान्यकामहेतुः सम्बन्धविशेषः, स च रताख्याभ्यन्तर- सम्भोगसमागमाख्यबाह्यसम्भोगप्रभेदाभ्यां सम्भोगापरपर्यायायतनसम्प्रयोगनामा विशे- षकामहेतुः, स्त्रीपुंसान्योन्यसाक्षात्काररूपाङ्गसम्प्रयोगनामा सामान्यकामहेतुश्चेति द्विप्रकार: सम्प्रयोगः । (२) सूत्रलक्षणं च-"लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतः सारभू- तानि सूत्राण्याहुर्मनीषिण" इत्यभियुक्तोक्तमूह्यम् । (३) वासुदेवार्जुनाभ्यां वुन् । ४ । ३ । ९८ । इत्यत्र पूर्वनिपातितवासुदेवपदाद भ्यहितेतराजाद्यदन्तस्य पूर्वनिपात, इत्यर्थकत्वा "दजाद्यदन्तम् । २ । २ । ३३ । इतिसू- त्रस्येति भावः।

१ अध्याये] शास्त्रसङ्ग्रहप्रकरणम् । यथा अन्यदेवतासद्भावेऽपि किमिति तेभ्यो नम इत्याह- शास्त्रे प्रकृतत्वात् ॥२॥ 'अधिकृतानधिकृतयोरधिकृते प्रतिपत्तिबलीयसीति न्यायात् । च पुरुषार्थत्वेन कामोऽस्मिशास्त्रेऽधिकृतस्तथा तद्वारेण धर्मार्थावपि, एतदुपदिष्टोपायपूर्वकं प्रवर्तमानस्य त्रिवर्गसिद्धः, तथा च वक्ष्यति-"अन्योन्यानुबद्धं त्रिवर्ग सेवेत(१)", अधि.१ । अ.२ । प्र. २। सू. १। तथा, "सवर्णायामनन्थपूर्वायां शास्त्रतोऽधिगतायां धर्मो. ऽर्थः पुत्राः संबन्धः पक्षवृद्धिरनुपस्कृता रतिश्च' अधि.३ । अ. १ । प्र०१॥ सू.१ । इति । तेषां चाधिकारात्तदधिष्ठात्र्योऽपि देवता अधिकृताः, उप- चारात्तच्छब्दवाच्या, अन्यथा धर्मादीनां वक्ष्यमाणलक्षणानामदेव. ताऽऽत्मकत्वान्नमस्कारो नोपपद्यत, अधिष्ठातृदेवताऽस्तित्वं चागमात्, तथा हि-'पुरूरवाः शक्रदर्शनार्थमितः स्वर्ग गतो मूर्तिमतो धर्मादीन्दू. ष्ट्वोपागम्य धर्ममेवेतरावनादृत्य प्रदक्षिणीचकार, ततोऽसौ ताभ्यां तिर स्कारामर्षिताभ्यामभिशप्तः, ततोऽस्य कामाभिशापादुर्वशीविरहोत्प- त्तिरभूत्, तस्यां च कथं चिदुपशान्तायामर्थाभिशापादतिवृद्धलोभश्चा. तुर्वर्ण्यस्यार्थमशेषमाहृतवान्, ततोऽर्थापहाराद्यज्ञादिक्रियाबिरहोद्विग्नै. ब्राह्मणैर्दर्भपाणिभिर्हतो ननाशे' त्यतिहासिकाः ॥ २॥ तत्समयावबोधकेभ्यश्वाचार्येभ्यः ॥ ३ ॥ तेषां धर्मादीनां समयस्तत्त्वम् , अवबोधयन्तीत्यवबोधकाः, तत्सम. यावबोधका इति षष्ठीसमासप्रतिषेधस्यानित्यत्वं (२), 'तत्प्रयोजको. हेतुश्च' पा. १।४।५५ । इति निदर्शनाद्, ये तत्समयं प्रतिपादयितुं. तच्छास्त्रं प्रणीतवन्तस्तेभ्यो नमः, नान्येभ्यइत्यर्थः ॥३॥ कुत इत्यत आह- तत्संबन्धात् ।। ४ ॥ तेषामिह शास्त्रे सम्बन्धादित्यर्थः। तत्प्रणीतशास्त्रसंक्षेपेण हि शा. स्त्रस्यप्रणयनात् ॥४॥ 'प्रजापतिर्हि इत्यादिनाऽऽगमविशुद्ध्यर्थ गुरुपूर्वक्रमलक्षणं स. (१) सूत्रैकदेशोऽयम् । “शतायु पुरुषो विभज्य कालमन्योन्यानुबद्धं परस्परस्यानुः पधातकं त्रिवर्ग सेवेत अधि० १ । अ० २ । प्र० २ । सू० १ इत्यस्य । (२) चिन्त्यमेतद् , वस्तुतस्तु शास्त्रानित्यत्वकल्पनाऽपेक्षयेशस्थले शेषषष्ठीसमासो.

सटाक कामसूत्र ।१ आधकरण, - स्बन्धमाह- प्रजापतिर्हि प्रजाः सृष्ट्वा तासां स्थितिनिबन्धनं त्रिवर्गस्य साधनमध्यायानां शतसहस्रेणाने प्रोवाच ॥ ५ ॥ प्रजापतिहीति । हिशब्दो यस्मादित्यर्थे । अविपरीतोऽयमागमो गुरुपरम्परयाऽन्वाख्यायते यतः स्थितिनिबन्धनमिति । प्रजानां तितो. ऽवस्थाः सर्गस्थितिप्रलयलक्षणाः, तत्र सर्गादूश्व प्रबन्धेनावस्थानं स्थि तिः, सा हि द्विविधा, शुभा, चाशुभा च, त्रिवर्गोऽपि द्विविधः, उपादे योऽनुपादेयश्च, तत्र पूर्वो धर्मोऽर्थः काम इति, द्वितीयोऽप्यधर्मोऽनों- द्वेष इति, तत्र धर्मादमुत्र शुभा गतिः, अधर्मादशुभा, अर्थादिहैव शरी रपरिभोगो धर्मप्रवर्तन च, अनाक्लिष्टजीवनम् अधर्मप्रवर्तनं च, का. मात्सुखं, प्रजोत्पत्तिश्च, द्वेषान्नोभयं तस्य च निःसुखस्याप्रजस्य तृणस्येव स्थितिः, इत्येवं स्थितेस्त्रिवों निबन्धनम् , तस्योपेयानुपेय स्य प्राप्तिपरिहारौ नोपायं विनेति तदुपायशासनत्वाच्छास्त्रमप्युपचा- रात्स्थितिनिबन्धनम् । शतसहस्रणेति । लक्षेण । अग्रे प्रोवांचेति । तदा- नी शास्त्रान्तराभावादिदमेवाग्रयमिति । श्रुतिरपि सर्वजनविषयेति तामेव हृदि स्थितामनुसंचिन्त्य साधारणभूतं स्मार्तशास्त्रं प्रक. णोवाच ॥५॥ तस्यैकदेशं स्वायंभुवो मनुर्धर्माधिकारिक पृथक्चकार ॥ ६ ॥ तस्येति । प्रजापतिप्रोक्तस्यैकदेशास्त्रयः, तत्र यत्र धर्मोऽधिकृतस्त. म्मनुः पृथक्चकार' यत्रार्थस्तं बृहस्पतिः, यत्र कामस्तनन्दीति, "स्वायं भुव" इति वैवस्वत(१)निवृत्त्यर्थम् । धर्माधिकारिकमिति । धर्मप्रस्ता. वो यत्रास्ति तद् धर्मशास्त्रमित्यर्थः ॥ ६॥ बृहस्पतिराधिकारिकम् ॥ ७ ॥ अर्थाधिकारिकमिति । अर्थशास्त्रं चकारेत्यर्थः । द्वयोरप्यनयोरन. स्तुतत्वान्नाध्यायसंख्या दर्शिता ॥ ७ ॥ महादेवानुचरश्च नन्दी सहस्रेणाध्यायानां पृथक्कामसूत्रं प्रोवाच ॥८॥ महादेवेति । महादेवस्य पश्चाचरति यः; नान्योऽयं नन्दिनामा कश्चित् , तथा हि श्रूयते-"दिव्यं वर्षसहस्रमुमया सह सुरतसुखम- नुभवति महादेवे वासगृहद्वारगतो नन्दी कामसूत्र प्रोवाचे" ति। अ. त्राध्यायसंख्यानमुक्तं शास्त्रस्य प्रस्तुतत्वात् ॥ ८ ॥ (१) तथा च वर्तमानवैवस्वतमन्वन्तराव्यवहितपूर्ववर्तिमन्वन्तरे मानवशास्त्रप्रकाशः - १ अध्याय शास्त्रसङ्ग्रहप्रकरणम् । ५ . तदेव तु पञ्चभिरध्यायशतैरौदालकिः श्वेतकेतुः संचिक्षेप ॥ ९ ॥ तदेव त्विति । नन्दिप्रोक्तं, तस्यैकदेशम् । तुशब्दो विशेषणार्थः । औदालकिरित्युद्दालकस्यापत्यं यः श्वेतकेतुः, तथा हि, परदाराभिगमनं. लोके प्रागासीद्, यथोच्यते- 'पक्वान्नमिव राजेन्द्र ! सर्वसाधारणाः स्त्रियः। तस्मात्तासु न कुप्येत न रज्येत रमेत च ॥ इति । इयमौद्दालकिना व्यवस्था निवर्तिता, तथा चोक्तम्- 'मद्यपानान्निवृत्तिश्च ब्राह्मणानां गुरोः सुतात् । परस्त्रीभ्यश्च लोकानामृषरोहालकेरपि ॥ ततः पितुरनुज्ञानाद्गम्यागम्यव्यवस्थया । श्वेतुकेतुस्तपोनिष्ठः सुखं शास्त्रं निबद्धवान् ॥ इति ॥९॥ तदेव तु पुनरध्यर्धेनाध्यायशतेन साधारणसांप्रयोगिककन्या- संप्रयुक्तकभार्याऽधिकारिकपारदारिकवौशिकौपनिषदिकैः सप्तभिर. धिकरणैर्वाभ्रव्यः पाञ्चालः संचिक्षेप ॥ १० ॥ तदेव त्विति । यदेवौद्दालकिना संक्षिप्तम् ; पुनरर्थतो ग्रन्थतश्च सं. विक्षेप, पूर्वत्र परदाराभिगमनं सामान्येन प्रतिषिद्धम् , इह तु विशेषेणे. त्येवं पारदारिकमत्रोक्तम् , अध्यर्धेन पञ्चाशदधिकेनाध्यायशतेन, तत्रो. तरेषामधिकरणानामस्य साधारणत्वात्साधारणम् , संप्रयोगः प्रयोजन- मस्येति सांप्रयोगिकम् , कन्यायाः संप्रयुक्तं संप्रयोगो यस्मिन्निति क. न्यासंप्रयुक्तकम् , भार्याऽधिकारिणी यस्मिन्नस्तीति भार्याऽधिकारि, कम् , तथा पारदारिकम् , वेशो वेश्यावृत्तं तत्प्रयोजनमस्येति वैशि. कम् , तथौपनिषदिकम् , उपनिषद्रहस्यं साधारणाद्युपादानं शास्त्रशरी. रख्योपनार्थम् , एतावन्तोऽर्थाः शास्त्र इति । प्राचार्योऽपि तथैव स्वशा- स्त्रमतः संचिक्षेप । सप्तभिरिति नियमार्थम् । अधिक्रियन्ते प्रकरणार्था- येष्वित्यधिकरणानि, बाभ्रव्यो बभ्रोरपत्यं यः पाञ्चालः । मधुबम्बोः-- ४।१।१०६ इति यञ् ॥ १० ॥ तस्य षष्ठं वैशिकमधिकरणं पाटलिपुत्रिकाणां गणिकानां नि- योगादत्तकः पृथक्चकार ॥ ११ ॥ तस्येति । बाभ्रव्यसंक्षिप्तस्य । षष्ठमितीयमेवानुपूर्वी नान्येति प्र- दर्शनार्थम् अन्यथा पाठादेव संख्या लब्धा, तां चानुपूर्वी वर्णयिष्या- (१) मधबभ्ब्रोर्ब्राह्मणकौशिकयोः । ४ । १ । १०६ । ।

सटाक कामसूत्र ।१ आधकरण, - । मः । पाटलिपुत्रिकाणामिति । मगधेषु पाटलिपुत्रं माम नगरं, तत्र भवा इति । 'रोपधेतोः प्राचाम्' । ४।२। १०६ ।इति वुञ् । नियोगादि. ति । अन्यतमो माथुरो ब्राह्मणः पाटलिपुत्रे वसतिं चकार, तस्योत्तरे वयसि पुत्रो जातः, तस्य जातमात्रस्य माता मृता, पिताऽपि तत्रान्य. स्यै तं पुत्रत्वेन दत्त्वा कालेन लोकान्तरं गतः, ब्राह्मण्यपि ममायं. दत्तकः पुत्र इत्यनुगतार्थमेव नाम चक्र स च तया संबधितोऽचिरेणैव कालेन सर्वा विद्याः कलाश्चाधीतवान् व्याख्यानशीलत्वात्तकाचा- र्य इति प्रतीतिमुपागतः, एकदा च तस्य चेतस्येवमभवत्, लोक यात्रा परा ज्ञेयाऽस्ति, सा प्रायशो वेश्यासु स्थितेति ततो वेश्या. जनं परिचयपूर्वकं प्रत्यहमुपागम्य तथा तामधिविवेद यथा स. एवोपदेशस्य ग्रहणायास्य प्रार्थनीयोऽभूत् , ततोऽसौ वीरसेनाप्रमुखेण गणिकाजनेनाभिहितः, “अस्माकं पुरुषरञ्जनमुपदिश्यतामिति" तन्नि. योगात्पृथक्चकारेत्ययमानायः । अन्यस्तु शास्त्राभिगमयुक्तां युक्तिमाह- यत्र गर्भयात्रायां दत्तकनामा तत्पदावधूतेन प्रतिशयितेन त्र्य. क्षेण शप्तः स्त्री बभूव, पुनश्च कालेन लब्धवरः पुरुषोऽभूत्, ते. नोभयरसज्ञेन पृथकृतमिति, यदि बाभ्रव्योक्तमेव पृथकृतं किम पूर्व स्वसूत्रेषु दर्शितं येनोभयरसन्नता कल्प्यते, यदि चायमर्थः शास्त्रकृतोऽप्यभिमतः स्यात्तदानीं 'नियोगादुभयरसज्ञो दत्तकः' इत्ये. वमभिदध्यात् ॥ ११ ॥ तत्प्रसङ्गाच्चारायण साधारणमधिकरणं पृथक्मोवाच ॥१२॥ मुवर्णनाभः सांप्रयोगिकम् ॥ १३ ॥ घोटकमुखः कन्यासंप्रयुक्त कम् ॥ १४ ॥ गोनीयो भार्याऽधिकारिकम् ॥ १५ ॥ गोणिका- पुत्रः पारदारिकम् ॥ १६ ॥ कुचुमार औपनिषदिकम् ।। १७ ।। दत्तकेन वैशिकं पृथक्कृतमित्येतत्प्रसङ्गाच्चारायणादयोऽपि पृथ- कप्रकर्षणोचुः, प्रकर्षश्च यत्तेषु स्वमतप्रकाशनम् , तच्च स्थानस्थानेषु स्वशास्त्रेषु दर्शयिष्यति ॥ १२-१७ ॥ एवमित्यादिना स्वशास्त्रस्य प्रयोजनमाह- एवं बहुभिराचार्यैस्तच्छास्त्रं खण्डशः प्रणीतमुत्सन्नकल्पमभूत् ॥१८॥ तच्छास्त्रं बाभ्रव्योक्तम् । खण्डश इति खण्ड खण्डं कृत्वोत्सन्न. कल्पमीषदुत्सन्नमिव क्व चिद् दृश्यमानत्वात् । नन्द्यादिप्रणीतमुस्स नमेवेत्यर्थोक्तम् ॥ १८ ॥ Hamropansar १ अध्याय शास्त्रसङ्ग्रहप्रकरणम्। DODBEERID तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानामेकदेशस्वाद, महदिति च बाभ्रवीयस्य दुरध्येयत्वात् , संक्षिप्य सर्वमर्थमल्पेन ग्रन्थेन कास्त्रमिदं प्रणीतम् ॥ १९ ॥ तत्रेति । शास्त्रप्रस्थापने । शास्त्रावयवानामित्यत्रयवभूतानाम् , एक. देशार्थत्वान्न कामाङ्गीभूताशेषवस्तुपरिज्ञानम् । बाभ्रवीयस्येति । बाभ्र- व्यप्रोक्तस्य सम्पूर्णशास्त्रस्याप्रयोजनमाह-तस्य सम्पूर्णस्यापि महदि- ति कृत्वा दुःखेनाध्ययनम् । तत्सप्तभिरधिकरणैः सप्त सहस्राणि संक्षि. प्य; सर्वमल्पेन ग्रन्थेनेति सम्पूर्णतां स्वध्येयतां च दर्शयति । इदमिति बुद्धिस्थमाह । प्रणीतमिति समाप्तिमाशंसते ॥ १६ ॥ तस्येत्यादिना स्वशास्त्रस्यार्थावयवानाचष्टे- तस्यायं(१) प्रकरणाधिकरणसमुद्देश:- शास्त्रसङ्ग्रहः ॥ २० ॥ त्रिवर्गप्रतिपत्तिः ॥ २१ ॥ विद्या- समुद्देशः ॥ २२ ॥ नागरिकहत्तम् ॥ २३ ॥ नायकसहायदूती- कर्मविमर्शः ॥ २४ ॥ इति साधारणं प्रथममधिकरणम् । प्रकरणानि पञ्च । प्रमाणकालभावेभ्यो रतावस्थापनम् ॥ २५ ॥ प्रीतिविशेषाः ॥ २६ ॥ आलिङ्गनबिचाराः ॥ २७ ॥ चुम्बनविकल्पाः ॥ २८ ॥ नखरदनजातयः ॥ २९ ॥ दशनच्छेद्यविधयः ॥ ३०॥ देश्या- उपचाराः ॥ ३१ ॥ संवेशनप्रकाराः ॥ ३२ ॥ चित्ररतानि ॥ ३३ ॥ प्रहणनयोगाः ॥ ३४ ॥ तयुक्ताश्च सीत्कृतोपक्रमाः ॥ ३५ ॥ पुरुषायितम् ।। ३६ ॥ पुरुषोपसृष्टानि || ३७ ॥ औप. (१) इयता प्रबन्धेन प्रकृतशास्त्रस्थ समूलकतां संसूच्य, सम्प्रति तत्प्रतिपाद्यार्थ- निरूपयितुकामेनोद्देशलक्षणपरीक्षाविधामिस्त्रविधी शास्त्रप्रवृत्तरालोच्य, मुनिना क्रमायात. मुद्देशमादौ विधायोपक्रम्यते शास्त्रमिदं प्रतिपादयितुम् । तदुपक्रमवाक्यं चैतत् "तस्यायमि"त्यादि । सूत्रत्वं त्वस्य न भाति, उद्देशलक्षण- परीक्षाऽन्यतमासम्बन्धित्वाद् , अत एव तत्तत्प्रकरणादिसमाप्तिबोधकवाक्यानामपि न त- त्वं, स्पष्टावगत्याद्यर्थमेव निबन्धृणामारम्भावसानेषु तज्जातीयलेखोपलम्भाद्, "टिगटाने"न्यार्दिवाक्यानां सत्रात्मकशास्त्रघटकत्वेऽपि न तत्त्वं; किन्तु तथात्वमेवेति यथा- ।

सटीके कामसूत्रे [१ अधिकरणे, रिष्टिकम् ॥ ३८ ॥ रतारम्भावसानिकम् ।। ३९॥ रतविशेषाः ॥ ४० ॥ प्रणयकलहः ।। ४१ ॥ इति साम्प्रयोगिकं द्वितीयमधिकरणम् । अध्याया- दश । प्रकरणानि सप्तदश । वरणविधानम् ।। ४२ ॥ सम्बन्धनिर्णयः ॥ ४३ ॥ कन्या. विसम्भणम् ॥ ४४ ॥ बालाया उपक्रमाः ॥ ४५ ॥ इङ्गिताका. रसूचनम् ॥४६॥ एकपुरुषाभियोगः ॥ ४७ ॥ प्रयोज्यस्यो- पावर्तनम् ॥ ४८ ॥ अभियोगतश्च कन्यायाः प्रतिपत्तिः ॥ ४९ ॥ विवाहयोगः ॥५०॥ इति कन्यासम्प्रयुक्तकं तृतीयमधिकरणम् । अध्यायाः पञ्च । प्रकरणानि नव । एकचारिणीवृत्तम् ॥ ५१ ॥ प्रवासचर्या ॥ ५२ ॥ सपत्नी. घु ज्येष्ठावृत्तम् ॥ ५३ ॥ कनिष्ठावृत्तम् ॥ ५४॥ पुनर्भूत्तम् ॥ ५५ ।। दुर्भगावृत्तम् ॥ ५६ ॥ आन्तःपुरिकम् ।। ५७ ॥ पुरुष- स्य बहीषु प्रतिपत्तिः ॥ ५८ ॥ इति भार्याऽधिकारिक चतुर्थमधिकरणम् । अध्यायौ द्वौ । प्रकरणान्यष्टौ। स्त्रीषुरुषशीलावस्थापनम् ॥ ५९ ॥ व्यावर्तनकारणानि ॥ ६० ॥ स्त्रीषु सिद्धाः पुरुषाः ॥ ६१॥ अयत्नसाध्या योषितः ॥ ६२ ।। परिचयकारणानि ॥ १३ ॥ अभियोगाः ॥ ६४ ॥ भावपरीक्षा ॥ ६५ ॥ दृतीकर्माणि ॥ ६६ ॥ ईश्वर कामितम् ॥ ६७ ॥ आन्तःपुरिकं दाररक्षितकम् ॥ ६८ ॥ इति पारदारिकं पञ्चममधिकरणम् । अध्यायाः षट् । प्रकरणानि दश । गम्यचिन्ता ॥ ६९ ॥ गमनकारणानि ॥ ७० ॥ उपावर्त. नविधिः ॥ ७१ ॥ कान्ताऽनुवर्तनम् ॥ ७२ ॥ अथागमोपाया:

१ अध्याये] शास्त्रसङ्ग्रहप्रकरणम् । INEMAIN । ।। ७३ ॥ विरक्तलिङ्गानि ॥ ७४॥ विरक्तप्रतिपत्तिः ॥ ७५ ॥ निष्कासनप्रकाराः ॥ ७६ ॥ विशाणप्रतिसन्धानम् ॥ ७७ ॥ ला. भविशेषः ॥ ७८ ॥ अर्थानानुबन्धसंशयविचारः ॥ ७९ ॥ वे श्याविशेषाश्च ॥ ८॥ इति वैशिकं षष्ठमधिकरणम् । अध्यायाः षट् । प्रकरणानि द्वादश । सुभगङ्करणम् ।। ८१ ॥ वशीकरणम् ॥ ८२ ॥ वृष्याश्च योगाः ॥ ८३ ।। नष्टरागप्रत्यानयनम् ॥ ८४ ॥ बृद्धिविधय: ॥ ८५ ॥ चित्राश्च योगाः ॥ ८६ ॥ इत्यौपनिषदिकं सप्तममधिकरणम् । अध्यायौ द्वौ । प्रकरणानि षट् । एवं षट्त्रिंशदध्यायाः । चतुःषष्टिः प्रकरणानि । अधिकर. णानि सप्त । सपादं श्लोकसहस्रम् । इति शास्त्रसङ्ग्रहः। अयमिति वक्ष्यमाणो ग्रन्थः । प्रक्रियन्ते प्रस्तूयन्ते येष्वर्था इति प्रक- रणानि तेषामधिकरणानां च समुद्देशः संक्षेपेणाभिधानम् । शास्त्रस्य सं. ग्रहः, त्रिवर्गप्रतिपत्तिः, इत्यादय उक्तार्थाः तत्साहचर्याद् ग्रन्थभागा अपि सत्समाख्याः, यथा- कंस(१)बधं काव्यमिति, शास्त्रं चेदं तन्त्रमावा. पश्चेति द्विधा स्थितम् , तत्र तन्त्र्यते जन्यते रतियन तत्तन्त्रमालिङ्ग- नादि, तदुपदिश्यते येन तदपि तन्त्रं सांप्रयोगिकमधिकरणम् , समन्ता- दावाप्यन्ते स्त्रियः पुरुषाश्च येन स आचापः समागमोपाय इत्यर्थः, स- येनोपदिश्यते तदप्यावापः कन्यासंप्रयुक्तकाद्यधिकरणचतुष्टयम् , तत्र तन्त्रावापानुष्ठान न साधारणानुष्ठानं विनेति प्राक्साधारणमुच्यते, औपनिषदिकं तु तन्त्रावापाम्यामसिधे व्याप्रियत इत्यन्ते वक्ष्यति, तदुभयमपि तन्त्रावापान्तर्गतमेव तदङ्गत्वात् , तत्र साधारणे शास्त्र- संग्रहप्रकरणमादावुक्तम्, तत्र शास्त्रस्य संगृह्यमाणत्वात् ।। २०-८६ ॥ षत्रिंशदित्यादिना स्वशास्त्रस्यावयवसमुदायाभ्यां संख्यानमाह- तत्राध्यायसंख्यानं पूर्वशास्त्रेभ्य इदं स्तोकमिति दर्शनार्थम् , प्रकर- (१) षष्ठीतत्पुरुषतात्पर्यणेदम् । २का० सू० १० सटीके कामसूत्रे [ १ अधिकरणे, ANDRA णाधिकरणसंख्यानमन्यनिरपेक्षार्थम् , श्लोकसंख्यानमहीनाधिकत्वज्ञा. पनार्थम् । उत्तरग्रन्थसन्धानायाह- संक्षेपमिममुक्त्वाऽस्य विस्तरोऽतः प्रवक्ष्यते । इष्टं हि विदुषां लोके समासव्यास भाषणम् ॥ ८७ ॥ इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकणे शास्त्रसंग्रहः प्रथमोऽध्यायः प्रथमं प्रकरणम् । संक्षेपमिति । अस्येति शास्त्रस्थ । विस्तरोऽतः प्रवक्ष्यते संक्षेपा. दूर्ध्वम् । किमर्थमेवं शास्त्रविन्यास इत्यत आह-इष्टं हीति । लोके ये शास्त्रेऽधिकृतास्ते विद्वांसः, तेषां संक्षेपविस्तराभ्यां शास्त्रस्य मनसि धारणमिष्टम् , प्रज्ञातप्रकरणार्थक्रमत्वादसंमोहो यथाऽभिलषितप्रकरणा- र्थप्रत्यवमर्शश्च स्याद् ॥ ८७॥ इति शास्त्रसंग्रहः प्रथमं प्रकरणम् ॥१॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलायां साधारणे प्रथमेऽधिकरणे शास्त्रसङ्ग्रहः प्रथमोऽध्यायः ॥ १॥ द्वितीयोऽध्यायः। त्रिवर्गप्रतिपत्तिफलं शास्त्रम्, तस्मिन्नप्रतिपत्तौ विप्रतिपत्तौ वा तदुपायपर्युषणमपि युक्तम्, तस्माच्छास्त्रसंग्रहादनन्तरं त्रिवर्गप्रतिप- त्तिरुच्यत इति प्रकरणसम्बन्धः । उद्देशापेक्षया च सम्बन्धित्वे कथमु- देश इति चिन्त्यम् , प्रतिपत्तिस्त्रिविधा-अनुष्ठान,मवबोधः, संप्रतिप. त्ति,श्चेति । तत्र प्राधान्यादनुष्ठानमधिकृत्याह- शतायुर्वं पुरुषो विभज्य कालमन्योन्यानुबद्धं परस्परस्यानु पघातकं त्रिवर्ग सेवेत ॥ १ ॥ शतायुरिति । शतमायुरस्येति शतायुः, शतशब्दः सामान्यवाच्य- पि वर्षगतसंख्यानमाह, वृत्तौ तथाऽर्थस्य विवक्षितत्वात् , कालवि. भागार्थ वैतदपरिच्छिन्नायुषो विभागसम्भवात् पुरुष इति प्राधा. न्यख्योपनार्थम् , स्त्रीणां तु पुरुषाधीना त्रिवर्गसेवेत्यस्वातन्त्र्यम् । वि. भज्य वक्ष्यमाणेन न्यायेन । अन्योन्यानुबद्धमिति । धर्मादीनामन्यतमं द्वाभ्यामेकेन वाऽनुबद्धम् । तद्यथा-प्रजाऽथिनो धर्मपत्न्यामनभिप्रेताया- २ अध्याये] त्रिवर्गप्रातपत्तिप्रकरणम् । । MAITRace मृतावभिगमनं धर्मोऽर्थानुबद्धः, अप्रजार्थिनोऽभिप्रेतायां पल्यामभिगमनं. धर्मः कामानुबद्धः, अपरिणीतस्य सवर्णादनभिप्रेतकन्यालाभोऽथों ध. र्मानुबद्धः, परिणीतस्यासमवर्णादभिप्रेतकन्यालाभोऽर्थः कामानुबद्धः, धर्मपत्ल्यामभिप्रेतायामृतौ कामो धर्मानुबद्धः, परिणीतस्य निष्किञ्च- नस्याधमवर्णायामर्थवत्यामभिप्रेतायामधिगतायां कामोऽर्थानुबद्धः, इत्ये- कानुबद्धाः। अपरिणीतस्य सवर्णायामनन्यपूर्वायामभिप्रेतायां यथावि. घि संयोगोधर्मोऽर्थकामानुबद्धः, तस्यैवाभिप्रेतसवर्णकन्यालाभोऽर्थों ध. मकामानुबद्धः, तस्यैवार्थरूपवत्यां परस्परोत्कराठयोद्वाहितायां कामो ध- मार्थानुबद्ध , इति धनुबद्धाः। परस्परस्यानुपघातकमिति । यत्रानुबन्धो. नास्ति तत्रैकमितरयोरनुपघातकम्, एकानुबन्धे चान्यस्यानुपघातक- सेवेत । अत्रोदाहरणं वक्ष्यामः ॥ ४॥ वयोद्वारेण कालविभागमाह- बाल्ये विद्याग्रहणादीनान् ॥ २ ॥ बाल्य इति । क्योविभागस्तन्त्रान्तर उक्तः- 'आ षोडशाद्भवेद् बालो यावत्क्षीरानुवर्तकः । मध्यमः सप्तति यावत्परतो वृद्ध उच्यते ॥ इति । विद्याग्रहणमादिर्येषामर्थानां तान्सेवेतेति ॥ २॥ एवम्- कामं च यौवने ॥३॥ कामं यौवने तदोचितत्वात् ॥ ३ ॥ स्थाविरे धर्म मोक्षं च ॥ ४॥ स्थाविरे धर्ममोक्षावननुभूतविषयत्वाद्, मोक्षग्रहणं परमतापेक्षम् , ज्ञानवादिनां चतुर्वर्गः पुरुषार्थः, अस्मिन्नेव काले तैरप्याध्यात्मिक चि. नत्यमिति । ननु त्रिवर्गस्य नियतकालत्वादन्योन्यानुबन्धो नास्ति, ततश्चासेव. नप्रसङ्ग इति ?नायं नियमः, अनुबद्धत्वाभावे निरनुबद्धत्वमप्युक्तम् , अथ वा यथाकालमहन्यहनि सेवा प्रतिषेधपरत्वाद्धर्मादिनियमस्य, यथाका- लं तु धर्मादिषु सेव्यमानेषु यद्यदाऽनुषङ्गादितरानुबन्धो नास्ति ततश्च भवतु न दोषाय ॥४॥ अनित्यत्वादायुषो यथोपपादं वा सेवेत ॥ ५ ॥ अनित्यत्वादिति । वर्षशतादर्वाग्विनाशदर्शनात । यथोपपादमिति । यद्यदोपपद्यते तत् तदा सेवेत बाल्येऽर्थ धर्ममपि, यौवने कामं धर्मा- १२ सटीके कामसूत्रे [१ अधिकरणे, ANDAR विपि, स्थाविरे धर्मम् अर्थकामानुष्ठानसामर्थ्य चेत्तावपीति । अन्य. थैकसेवायामसमग्रः पुरुषार्थः स्यात् । सेवेतेति पुनर्वचनं पूवस्मात्य क्षात्पक्षान्तरादरार्थम् ॥ ५ ॥ अस्मिन्पक्षे विद्याग्रहणाद्यर्थस्य सेवायाः कालत्रयेऽपि संभवानि. यमयति- ब्रह्मचर्यमेव त्वाविद्याग्रहणात् ।। ६ ।। यावद्विद्या न गृह्यते तावत्कामं न सेवेत; अन्यथा ह्यधर्मस्तद्ग्रहण. विघाततः, विद्याऽर्थलाभाभावश्च, भूम्याद्यर्जने तु न नियमः, अन्ये तु विद्याग्रहणवर्ज प्रायेण भूम्याद्यर्जनं न संभवति; अतस्त्र यस्त्रिशदब्दाश्चत्वारश्च मासा इति प्रत्येक वयो विभज्य योजयन्ति, अस्मिन्विभागे षोडशवर्षादूर्व कामसम्भवाद्, बाल्येऽपि धर्मार्थकामा- न्सेवेतेत्युक्तमनुष्ठानम् ॥६॥ अवबोधस्वरूपं; यतश्च परिज्ञातं तदुभयमप्याह-अलौकिकत्या. दित्यादिना। अलौकिकत्वाददृष्टार्थत्वादप्रवृत्तानां यज्ञादीनां शास्त्रात्मवर्त- नम् । लौकिकत्वाद् दृष्टार्थत्वाच्च प्रवृत्तेभ्यश्च मांसभक्षणादिभ्यः शास्त्रादेव निवारणं धर्मः ॥ ७ ॥ तत्र लोके रूपादिवदविदितस्वरूपत्वादलौकिका यज्ञादयः। ननु विशिष्टद्रव्यगुणकर्मात्मकत्वाद्विदितस्वरूपाः कथमलौकिका ? इत्यत आह-अदृष्टार्थत्वादिति, तेषामनन्तरं फलस्थादर्शनात् । येऽद टफलाः सन्तोऽलौकिका न ते प्रेक्षावद्भिरदृष्टसामौषधिवत्प्रवर्त्यन्त. इत्यप्रवृत्ताः, आदिशब्दात्तपश्चरणादयः, तेषामप्रवृत्तानां शास्त्रात्प्रवर्त्त नं धर्म इति; अयं प्रवृत्तिरूपो धर्मः । लौकिकत्वाद् दृष्टार्थत्वादिति। ये दृष्ट तृप्त्यादिफलाः सन्तो लौकिकास्ते तदर्थिभिमंगादिमांसभक्षणवत्प्रव य॑न्ते; तस्मात्प्रवृत्तेभ्यश्च मांसभक्षणादिभ्य आदिशब्दात्सत्त्वाभिद्रोहप- रस्वादानादिभ्यःशास्त्रादेव निवारणं प्रतिषेधनमितिः अयं निवृत्तिरूपः। कथमिव शास्त्रं प्रमाणमिति चेदुत्तरत्र वश्यति ॥ ७ ॥ तं श्रुतेधर्मज्ञसमवायाच्च प्रतिपद्येत ॥ ८ ॥ तमिति । उक्तस्वरूपं धर्मम् । श्रुतेरिति । स्मृत्यनुगतादाद्, योऽधिकृतः शास्त्रे, अनधिकृतो वा धर्मज्ञसमवायात् स्मृत्यर्थतत्त्वज्ञर सर्गादित्यर्थः, प्रतिपद्यत-अवबुध्येत ॥ ८ ॥ -- २ अध्याय] त्रिवर्गप्रतिपत्तिप्रकरणम् । । विद्याभूमिहिरण्यपशुधान्यभाण्टोपस्करमित्रादीनामजनमर्जित स्य विवर्धनमर्थः ॥ ९॥ विद्या:-आन्वीक्षिक्यादयः । भूमिः-कृष्टा कृष्या वा। हिरण्पं-सु. वर्णादि, पशुः हस्त्यश्वादिः, धान्य-पूर्वमध्या ध्यावरवाप:भाण्डोपस्करं- गृहोपकरणं लोहकाष्ठमृद्विदलचर्ममयम्, मित्र-सहपांशुक्रीडितादि, आ- दिशब्दाद्वस्त्राभरणादयः । अर्जनं द्विविधम्-निष्पन्नानां हस्त्यादीनां स्वी. करणम् ; अनिष्पन्नानां च धान्यादीनां निष्पादनम् । अजितस्येत्येकवच. नमेकैकस्य द्रव्यस्यार्जनबर्धनयोरर्थतत्त्वे द्वाविति दर्शनार्थम् , अन्यथा समुदायस्यैवार्जनं बर्धनं चार्थः स्यात् । बर्धनमुपायः। भूम्यादिरर्जिता. वर्जितश्चार्था इति वक्तव्ये; अर्जनबर्धनग्रहणं शास्त्रव्यापारदर्शनार्थम् , तयोः शास्त्रेणोपदिश्यमानत्वात् ॥ ९॥ तमध्यक्षप्रचाराद्वार्तासमयविद्भ्यो वणिग्भ्यश्चेति ॥ १० ॥ तमिति। अर्जनबर्धनस्वरूपम् । अध्यक्षाः प्रचरन्त्यनेनेत्यध्यक्षप्र चारः शास्त्रम् ; तस्माच्छास्त्रे योऽधिकृतः, इतरश्च यार्तासमयविद्भ्यः कृषिपाशुपाल्यवाणिज्यादितत्त्वविद्भ्यः, वणिग्भ्य इत्युपलक्षणार्थम्, कर्षकेभ्यो गवादिपोषकेभ्यश्च प्रतिपद्यतेति ॥ १०॥ एवम् श्रोत्रत्वक्चक्षुर्जिबाघ्राणानामात्मसंयुक्तेन मनसाऽधिष्ठितानां. स्वेषु स्त्रेषु विषयेष्वानुकूल्यतः प्रवृत्तिः कामः ॥ ११ ॥ त्वगिति कामेन्द्रियम् , कामो द्विविधा-सामान्यो; विशेषश्व, तत्र सामान्यमाह--आत्मसंयुक्तेन मनसेति। आत्मा समवायिकार- णम् : सुखदुःखेच्छाद्वेषप्रयत्नादिगुणानां तत्र समवायात् , तत्र यदा- ऽस्य प्रयत्नगुण उत्पद्यते तदाऽयं मनसा संयुज्यते; मन इन्द्रियेण; इत्य- नेन क्रमेणाधिष्ठितानाम् । स्वेषु स्वेष्विति । यथाक्रमं शब्दस्पर्शरूपर- सगन्धेषु । आनुकूल्यत इति । यदाऽऽत्मनः शब्दादीनां बुद्धीन्द्रियाणा- मानुलोम्येन या प्रवृत्तिः, इच्छोपगृहीता श्रोत्रादिबुद्धिरित्यर्थः, सा वि- षयोपभोगस्वभावात् काम इत्युपचर्यते, आत्मा हि तद्वारेण विषयं. भुञ्जानः सुखमनुभवति यत्तत्सुखं प्रधानं कामः, तस्य निबन्धनमि- च्छोपगृहीता प्रवृत्तिः, साऽपि काम इत्युच्यते, तस्माद्धेतुफलभेदात्सा- मान्धकामो द्विविधः। प्रातिकूल्यतः प्रवृत्तिस्तु दुःखहेतुत्वाद् द्वेष इत्य- ोक्तम् ॥ ११ ॥ विशेषकामो द्विविधः-प्रधानम् । अप्रधानं च, तदुभयमपि दर्शयन्नाह सटीके कामसूत्रे [ १ अधिकरणे, । स्पर्शविशेषविषये स्वस्याभिमानिकमुखानुविद्धा फलवत्यर्थमा तीतिः प्राधान्याकामः ।। १२ ।। स्पर्शविशेषविषये विति । वाक्पाणिपादपायूपस्थानि-कर्मेन्द्रि- याणि तेषां वचनादानविहरणोत्सर्गानन्दकर्मनिष्पादनात , तत्र स्त्रीपुंस- योर्यदधो व्यञ्जनं संबाधकादि तन्मात्रस्वभावं तत्त्वगिन्द्रियमेवः तस्य कश्चिदेव प्रदेशविशेष उपस्थेन्द्रियमुच्यते, यो विसृष्ट्यवस्थायामानन्दजं. कर्म जनयति, तस्थ व्यञ्जनस्य योऽन्तर्गतः स्पर्शः स स्पर्शविशेषः; त. स्मिन्विषये प्रतीतिरसावर्थप्रतीतिस्त्वगिन्द्रियबुद्धिः, अस्याः संप्रयोगेच्छा. लक्षणः कामिताऽऽख्यो भावः कारणम् । अस्येति । ख्यात्मनः पुरुषा- स्मनश्च, तत्र च्यात्मनः पुरुषव्यञ्जनस्पर्शविशेषविषये स्त्रीव्यञ्जनत्वगि. न्द्रियप्रतीतिः; पुरुषात्मनश्च स्त्रीव्यञ्जनस्पर्शविशेषविषये पुरुषव्यञ्जनत्व. गिन्द्रियप्रतीतिरित्यर्थः । विशेषदेशोपग्रहणात्पुरुषस्योरुकक्षादिस्पर्शन- विषये, स्त्रियाश्चापद्रव्यस्पर्शविषये प्रतीतिनिरस्ता, तस्या अप्रधानत्वात्, एवंविधाप्रतीतिः सामान्यकाम एव, कथं विशेषत्वमिति चेद् ? आह-फल- वतीति । तस्यां प्रतीतौ प्रबन्धेनोत्पद्यमानायां शुक्रक्षरणेन तत्तुल्यकाल- मेव चानन्दाख्यं फलं सुखमित्युक्तम्, तेन युक्ता शुक्रस्पर्शविशेषविषये विषयप्रीतिरपरा भवति, तस्याश्च पूर्विकैव प्रतीतिरफला कारणम्, अतो- विषयभेदात्स्वरूपभेदाच द्विधा प्रतीतिः । अर्थप्रतीतिरिति । अर्थग्रहणा- स्वप्नव्यञ्जनस्पर्शार्थस्थालीकत्वात्फलवत्यपि न कामः, तस्या अप्रधान. त्वात्। यद्येवं वियोनावयोनौ वाऽनभिप्रेतेऽर्थप्रतीतिरेवंविधाऽप्यस्तीत्यत. आह-आभिमानिकसुखानुविद्धति । आभिमानिक चुम्बनादिसुखं व. भ्यति । चुम्बननखदशनच्छेद्यादिषु हि तत्र तत्र स्थानेषु प्रयुज्यमानेषु स्त्रीपुंसयो रागः संकल्पवशात्सुखमित्यभिमन्यते, तेन सुखेनानुविद्धत्या- क्षिप्तसंस्कारेऽर्थप्रतीतिः प्राधान्यात्कामः, तेन वियोनावयोनौ वाऽनभि. प्रेतस्त्रीपुंसयोः फलवत्यर्थप्रतीतिर्न कामः, आभिमानिकसुखाभावात्, त स्मात्स्प्रष्टव्यविशेषविषयो विशेषः कामः ॥ १२॥ कामसूत्रान्नागरिकजनसमवायाच प्रतिपद्येत ॥ १३ ॥ तमिति । उक्तस्वरूपं सामान्यं विशेष च, प्रधानमप्रधानं च । का. मसूत्रादस्मादेव, शास्त्रेऽधिकृतो यः, इतरश्च नागरिकसमवायाकामव्य- वहारज्ञसंपर्कात्प्रतिपद्यतेति ॥ १३ ॥ एवं धर्मादीनि युगपत्सवितुमधिगन्तुं वा न संभवन्तीति गौरवला- घवमपि बुध्येतेत्याह- तेषां समवाये पूर्वः पूर्वो गरीयान् ॥ १४ ।। । । त - २ अध्याये] त्रिवर्गप्रतिपत्तिप्रकरणम् । १५ - तेषामपि समवाये संनिपाते, तदुपायसंनिधानात् पूर्वः पूर्व इति कामादों गरीयान्, कामस्यार्थसाध्यत्वात्, ततोऽपि धर्मः अर्थस्य ध मसाध्यत्वात् ॥ १४ ॥ नायं सर्वविधिविषयक्रम इत्यत आह- अर्थश्च राज्ञः ॥ १५ ॥ अर्थस्तु राज्ञो गरीयान् इति ॥ १५ ॥ तन्मूलकत्वाल्लोकयात्रायाः ॥ १६ ॥ तन्मूलकत्वादिति । वर्णश्रमाचारलक्षणा लोकयात्रा, सा मा भूदन्य. थेति तस्याः पालनं राज्ञो धर्मः, तञ्च प्रभुशक्तौ सत्याम्, प्रभुशक्तिश्च कोषदण्डबलम्, ते चार्थत इति तन्मूला लोकयात्रा ॥ १६ ॥ वेश्यायाश्च ॥ १७॥ इति त्रिवर्गप्रतिपत्तिः। वेश्यायाश्चार्थों गरीयान् , अर्थनिबन्धनत्वात्तजीविकायाः । वेश्या हि कामातुरब्राह्मणाभिप्रेतनागरिकविषयौ धर्मकामावुपनतो त्यत्का प. श्वाद्भविष्यत इत्यनिष्टेऽप्ययमर्थद इति प्रवर्तत इति ॥ १७ ॥ त्रिवर्गप्रतिपत्तिरनुष्ठानावबोधलक्षणोक्तत्यर्थः । इदानीं विप्रतिपन्तिपूर्विकां संप्रतिपन्ति दर्शयन्नाह- धर्मस्यालौकिकत्वात्तदभिधायकं शास्त्रं युक्तम् ॥ १८ ॥ धर्मस्येत्यादि । कामसूत्र एव तद्विप्रतिपन्ति दर्शयति-अलौकिक- त्वादिति, यथोक्तं अभिधायकं ज्ञापकं शास्त्रम् ॥ १८ ॥ उपायपूर्वकत्वादर्थसिद्धेः ॥ १९॥ अर्थसिद्धेरिति । अर्जनबर्धनाख्या चार्थसिद्धिः ॥ १९ ॥ उपायप्रतिपत्तिः शास्त्रात् ॥ २० ॥ अन्यथोपायं विना प्रवर्तमानस्यार्थोऽपि न स्यात्, तत्संशयश्च ॥२०॥ तत्र धर्मार्थमर्थार्थ च शास्त्रं युक्तम्,कामार्थ त्वयुक्तमित्याह- तिर्ययोनिष्वपि तु स्वयं प्रवृत्तत्वात्कामस्य नित्यत्वाच्च न शास्त्रेण कृत्यमस्तीत्याचार्याः ॥ २१ ॥ तिर्यग्योनिष्वपीति । गवादिष्वपि तमोबहुलेषु शास्त्रोपदेशं विना कामः प्रवर्तमानो दृश्यते, किं पुनर्मनुष्येषु रजोबहुलेषु न प्रवर्ततेति, तथा चोक्तम्- 'विनोपदेशं सिद्धो हि कामोऽनाख्यातशिक्षितः । wmes प्राक, - सटीके कामसूत्रे [१ अधिकरणे, स्वकान्तारमणोपाये को गुरुर्मृगपक्षिणामिति ॥ नित्यत्वाच्चेति । आत्मनि द्रव्यपदार्थे सदैवेच्छाद्वेषादयो गुणाः स्थिताः, ततश्च नित्यः कामः । तथा चोक्तम्- 'मुमुक्षवोऽपि सिद्ध्यन्ति विरागाद्रागपूर्वकात् । विषयेच्छाऽनुवर्तिन्यो निसर्गात्प्राणिनां धियः ॥ तस्मात्प्रवर्तमानेन शास्त्रेण न कार्य: तन्निवर्तनं तु युक्तम्। आचा- =धर्मार्थमोक्षवादिनः ॥ २१ ॥ अत्र संप्रतिपत्तिमाह- सम्प्रयोगपराधीनत्वात्स्त्रीपुंसयोरुपायमपेक्षते ॥ २२ ॥ सम्प्रयोगपराधीनत्वादिति । विशेषः सामान्यो वा कामः सम्प्रयो गपराधीनः, सम्प्रयोगश्च द्विविधः-आयतनसम्प्रयोगोऽङ्गसम्प्रयोग श्च । तत्रायतनं कामस्य त्यधिष्ठानम् , अङ्गानि च माल्यादीनि । त. था चोक्तम्- 'सुखं कामस्तदङ्गानि भूषणालेपनस्रजः । तथोपवनहर्यश्च वल्लकीमदिराऽऽदयः ॥ अस्यायतनमुद्दामरूपयौवनविभ्रमाः। ललनाश्चाटुदाक्षिण्याश्चाऋष्टजनमानसाः ॥ इति । तत्रायतते यः सम्प्रयोगः स आयतनसम्प्रयोगः, स च द्विविधः बाह्य आभ्यन्तरश्च, तत्र यो रहसि स आभ्यन्तरो रताख्यः, स विशेष- कामस्य निमित्तम् , बाह्यः समागमलक्षणो रतस्य, यश्च बुद्धीन्द्रियाणां यथास्वमङ्गैः सम्प्रयोगः सोऽङ्गसम्प्रयोग इति इन्द्रियार्थसंनिकर्षलक्षणः स च सामान्यकामस्य निमित्तम् : अनयोश्च कामयोर्यथास्वं पूर्वोक्तमे. वेच्छा कारणम् तत्पूर्वकत्वात् , तदभावेऽभावात्। तत्राद्यः सम्प्रयोगः समागमलक्षणः, स स्त्रीपुंसयोरन्यतरानिच्छया रक्षणाल्लज्जया भया. द्वा परतन्त्रायां न घटत इत्यत्रायमुपायमपेक्षते; रताख्यश्न पाश्चा. त्यश्चतुःषष्टिप्रयोगानभिज्ञयोः कथं स्यादिति तमुपायम् : द्वियीयोऽपि सम्प्रयोगो नित्यनैमित्तिकनागरिकवृत्तं विना न भवतीत्युपायापेक्षा २२॥ सा चोपायप्रतिपत्तिः काममूत्रादिति वात्स्यायनः ॥ २३ ॥ उपायपरिज्ञानं च कामसूत्रात् , तेनोपदिश्यमानत्वात् । वात्स्यायन- इति स्वगोत्रनिमित्ता समाख्या, मल्लनाग इति च सांस्कारिकी ॥ २३ ॥ गवादिषु कथमिति चेत्तदाह- तिर्यग्योनिषु पुनरनावृतत्वात्स्त्रीजातेश्च ऋतौ यावदर्थं प्रवृत्त- रबुद्धिपूर्वकत्वाच्च प्रवृत्तीनामनुपायः प्रत्यक्षः ॥ २४ ॥ PARA २ अध्याये] त्रिवर्गप्रतिपत्तिप्रकरणम् । १७ पुनःशब्दो विशेषणार्थः । अनावृतत्वादिति। रक्षणाद्यावरणाभावा- त् स्त्रीजातिः स्वतन्त्रा; किं तत्रोपायेनेत्यनुपायः प्रत्यय इति सम्ब- न्धः । प्रत्ययशब्देनोभयरूपोऽपि सम्प्रयोग उक्त, तस्य कामोत्पत्ती निमित्तत्वात्, तत्रावरणाभावादाचार्योक्तोपायशून्यः समागम इत्य. र्थः। ऋतौ यावदर्थमिति। ऋतुकाल एष ते तिर्यञ्चः सम्प्रयुज्यन्ते, मनुप्यास्तु प्रजाऽर्थमृती, स्त्रीरमणार्थ चानृतावपीत्यसमानम् , तथा चोक्तम्-'ऋतावुपेयात्सर्वत्र वा प्रतिषिद्धवर्जम्' इति, तत्रापि यावदर्थः- यावदेव तृप्तिलक्षणोऽर्थो निष्पद्यते तावदेव सम्प्रयुज्यन्ते; न तु द्वितीयं- सम्प्रयोगमपेक्षन्ते-किमस्य तृप्तिरभून्न वा? इति, तस्मादसमानार्थत्वाद. नुपायप्रत्यय आभ्यन्तरसम्प्रयोगः, तत्र समानार्थतालक्षणं प्रेम स्त्रीरक्ष- णोपायो नास्तीति, मनुष्येष्वेवमिति चेद् ? अत एवास्योपदेशः, अन्यथा तया समानार्थत्वादनुपायः, तत्पत्न्याः पुरुषान्तरगमने न कश्चित्पुरुषा- थोऽस्य स्यात, तथा चोक्तम्- 'भजते संभृतप्रेमा परं चेदस्य कामिनी। नष्टे धर्मे हते वृत्ते सुखं दूरे हतं कुलम् ॥ तस्मात्समानार्थताजन्यमेव प्रेम स्त्रीरक्षणोपायः, यच्च स्त्रीरक्षणार्थ- मनुप्रोक्तमसुकुमारत्वसाधनार्थ कुट्टनादि गृहकर्म तदुपायोद्वेगजननाद. नुपाय एव, तथा चोक्तम्- 'कर्माण्यसुकुमाराणि रक्षणार्थेऽवदन्मनुः । तासां स्त्रज इवोद्दामगजालानोपसंहिताः ॥ असति प्रेमिण तत्सर्वमित्याचार्या व्यवस्थिताः । समानार्थतथा तच्च न शास्त्रेणोपदिश्यते ॥ इति, अबुद्धिपूर्वकत्वादिति । धर्मोऽर्थः पुत्राः सम्बन्धः पक्षवृद्धिः स्यादि. त्येवं बुद्धिपूर्वन प्रवर्तन्ते; केवलं पशुधर्ममात्रेणेत्यनुपायप्रत्यय आभ्यन्तर. संप्रयोगः; अनुबन्धोपायरहितत्वात्, तस्माद् दैवरक्ताः किंशुका इति किं. तिर्यग्योनिषु शास्त्रप्रणयनेन, अनुकूलेषु वा पुरुषेषु, इतरत्र तु विपर्ययेण स उपायप्रत्यय इति युक्तं शास्त्रप्रणयनम् ॥ २४ ॥ धर्म विप्रतिपत्तिमाह-- न धर्माश्चरेत् ॥ २५ ॥ एष्यत्फलत्वात् ॥ २६ ॥ एष्यत्फलत्वादिति । यज्ञादयो नैहलौकिका; जन्मान्तरफला इकाः, ३का० सू० सटीके कामसूत्रे [ १ अधिकरणे, man हस्तगतद्रव्यत्यागे न प्रेक्षावासमीहते किंस्विहैव कृष्यादिफलं निष्पा- द्योपभुर्के न परम्परामपेक्षते ॥ २६ ॥ सांशयिकत्वाच्च ॥ २७॥ सांशयिकत्वाच्च भविष्यतः फलस्येति । उपस्कारतस्तपश्चर्याक्ले. शादर्थक्षयाच्च निष्पादितेऽपि यज्ञादौ ततः किं स्वर्गादिफलं स्यान्न वेति ? सन्दिग्धम् , कारणानां कार्योत्पादननियमादर्शनात्(१) सन्दिग्धे च कोऽसंशयितार्थत्यागेन प्रवर्तत इति हेतुद्वयम् ॥ २७ ॥ तत्र प्रथमस्य लोकप्रसिद्धिमाह--- को ह्यबालिशो हस्तगतं परगतं कुर्यात् ॥ २८ ॥ को हीति । अबालिशप्रेक्षावान यथाकश्चित्स्वहस्तगतं द्रव्यं परह. स्तीकृतं कार्यकाले स्वयं गत्वा साध्यं हारितं भक्षितं वोऽनेन स्यादिति न विप्रकृष्टं करोति, तथा जन्मान्तरे भोक्ष्येऽहमिति यज्ञादिषु नियोज्य; विप्रकृष्टं कः कुर्याद् नैतत्स्याद् ॥ २८ ॥ इह द्रव्यं साध्यफलं तावन्मात्रकं तावत्कालं वाऽमुत्र विपरीत- मित्याह-- वरमद्य कपोतः श्वो मयूरात् ॥ २९ ॥ वरमद्येति । यथा पक्षिमांसार्थिनो महतः श्वो मयूरलाभादद्य कपो. तलाभोऽपि गरीयांस्तद्वदिहापीति ॥ २९ ॥ द्वितीयस्य लोकप्रसिद्धिमाह-- वरं सांशयिकानिष्कादसांशयिकः कार्षापणइति लोकायातकाः ॥ ३० ॥ वरमिति । गृहाण कार्षापणं, नो चेदेष्यति मेऽद्य हेमशतं ततो निष्कं. दास्थामीति, तत्र प्रत्युपस्थितकार्यस्यासंदिग्धं स्वल्पोऽपि कार्षापणो ग. रीयान् संदिग्धनिष्कात् । लौकायतिका इति लोकायतमधीयते ये (२) उक्थादिपाठाक्प्रत्ययः ॥ ३० ॥ तत्र संम्प्रतिपत्तिमाह- शास्त्रस्यानभिशक्यत्वादभिचारानुव्याहारयोश्च क चित्फलद- र्शनाद्, नक्षत्रचन्द्रसूर्यताराग्रहचक्रस्य लोकार्थ बुद्धिपूर्वकमिव प्रकृ. (१) अज्ञातहेतुताकसामग्रीघटककिञ्चिद्धत्वभावदशायामस्ति योग्यतेशव्यभिचा- रप्रतिपत्तेः। (२) ऋतूक्थादिसूत्रान्ताक् । ४ । २ । ६० । इतिसूत्रेण । APR २ अध्याये] त्रिवर्गप्रतिपत्तिप्रकरणम् । त्र्दर्शनाद्, वर्णाश्रमाचारस्थितिलक्षणत्वाच्च लोकयात्रायाः, हस्त- गतस्य च बीजस्य भविष्यतः सत्यस्यार्थे त्यागदर्शनाद , चरेद्धर्मा- निति वात्स्यायनः ॥ ३१ ॥ शास्त्रस्येति ।धर्मस्यालौकिकत्वात्तदभिधायक शास्त्रं युक्तम् , तच्छा. स्त्रं पौरुषेयमपौरुषेयं च, तत्र पूर्वमभिशङ्कनीयं-"किमिदं सत्यं मिथ्या वेति पुरुषा हि रागादिभिरविद्यया चोपप्लुता वितथमपि ब्रुवन्ति, अपौ. रुषेयं च वेदाख्यं पुरुषसम्बन्धाभावाददुष्टमनभिशङ्कनीयम् , यथोकम्-- 'दोषाः सन्ति न सन्तीति पौरुषेयस्य युज्यते । वेदे कर्तुरभावात्तु दोषशकैव नास्ति नः ॥ इति, अपौरुषेयत्वसाधनमन्य(१)त्रोक्तमिति नेहोपन्यस्तं ग्रन्थगौरवमया. त्, तस्मादनभिशङ्कयत्वात् तच्चोदितेऽर्थे न संशयीतेति चरेद् धर्मानिति सम्बन्धः, तेन संशयितत्वादित्येतदसिद्धम् अभिचार हिंसात्मकं कर्म, अनुव्याहारः-शान्तिकपौष्टिक, तयोश्वोदितयोः, अभिचरश्येनेन यजेते- त्यादिना यत्र प्रयुज्यते तत्र हिंसाशान्तिपुष्टिफलदर्शनाच्छेषस्याप्यग्निहो- त्रादेः स्वर्गादि फलं भविष्यतीति चरेद्धर्मान् नापौरुषेयत्वेनामिन्नयोवि. तथावितथत्वभेदो युज्यते वितथत्वे चेतरस्यापि वितथत्वप्रसङ्गाद्, अदृष्टसाधनमाह-नक्षत्रेति। नक्षत्राण्यश्विन्यादीनि चन्द्रसूर्यों प्रसिद्धौ ताराग्रहा अङ्गारकादयः पञ्च तेषां चक्रमिव चक्रं संनिवेशविशेषो द्वा. दशराशिविभक्तं तस्य; लोकार्थ नात्मार्थम्, बुद्धिपूर्वकमिवेति । बुद्धिपूर्व कस्येव, यथा कश्चित्पुरूषो बुद्धिपूर्व प्रवर्तते तद्वदेवैते सूर्यादयो नक्ष- त्रेण युज्यमाना अन्यथाऽन्यथा प्रवर्तमाना दृश्यन्ते न च तथैवेतीवार्थः, तथा ह्येषां न 'लोकस्येदं करिष्यामः इति प्रवृत्तिः, सा च शास्त्रान्तरे व. हुप्रकारोक्ता, दर्शनादितिवचनात्प्रत्यक्षप्रमाणसिद्धति दर्शयति, तस्यां च प्रवृत्तौ लोकस्य शुभाशुभात्मकं फलं द्विविधम्-साधारणमसाधा- रणं च, तत्र साधारणं सुभिक्षदुर्भिक्षादि तच्च ग्रहचारे द्रष्टव्यम्, असा. धारण तु प्रतिसत्त्वं प्रतिनियतं लाभालाभसुखदुःखादि, तच्च जातके द्रष्टव्यम्, सैव द्विधा प्रवृत्तिः कारणान्तरमदृष्टं गमयति, तच्च लोकस्य शुभाशुभात्कर्मणः; अन्यथैषामेकरूपाणां कारणान्तरनिरपेक्षाणां सदा. प्रवृत्तिरप्रवृत्तिर्वा स्यात्, कालान्नियम इति चेत् ? सोऽपि कारणनिरपेक्षः (१) वाचा विरूपनित्ययेति श्रुतिः । अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवेति स्मृतिश्च ।

- सटीके कामसूत्रे [१ अधिकरणे, सर्वदा स्यात्, तस्मादस्ति तत्प्रवर्तकमदृष्टमिति चरेद् धर्मान् , उक्तं च-- 'नक्षत्रग्रहपरमहर्निशं लोककर्मविक्षिप्तम् । भ्रमति शुभाशुभमखिलं प्रकाशयत् पूर्वजन्मकृतम् ॥ इति, वर्णाश्रमेति । वर्णाःब्राह्मणादयः, आश्रमाःब्रह्मचर्यगार्हस्थ्यादयः, तेषामाचारः स्वधर्मः तस्य स्थितियवस्था सैव लक्षणं यस्या लोक- यात्रायाः, सा लौकायतिकर्मा भूदव्यवस्थायां मात्स्यो न्याय इति दृष्टार्थ- वर्णिता, 'संवरणमात्रं हि त्रयी लोकयात्राविद'इति: तां च लोकविश्वास नार्थमाचरद्भिः कथं नाचरितो धर्मः, दृष्टार्थश्च यद्यदृष्टार्थोऽपि स्यात्को. विरोधः, एतेन 'न धर्माश्चरेद्' इति प्रतिज्ञाया अभ्युपगमबाधां दर्शयति, यञ्चोक्तम्-"एष्यत्फलत्वादिति तद् दृष्टेऽप्यस्तीति दर्शयन्नाह-हस्तगत- स्येति । तुल्ये भविष्यत्फलत्वे सति; नैकत्र प्रवृत्तिरन्यत्र निषेध इति यु- क्तियुक्तम्, न कदा चित्तत्र दृष्टमिति चेत् ? कथं तर्हि लोकवैचित्र्यम्, न हि सर्वत्र समानाद् दृष्टात्कारणादैश्वर्यादिफललामः, नापि स्वाभाविक- कर्म; सदा सिद्ध्यसिद्धिप्रसङ्गात् ॥ ३१ ॥ अर्थविप्रतिपत्तिमाह- नार्थाश्चरेत् ॥ ३२ ॥ मार्थानिति । उपायाकिलार्थसिद्धिः, उपायानुष्ठानं च यत्नस्तन्ना. नुतिष्ठेदित्यर्थः ॥ ३२॥ प्रयत्नतोऽपि ह्यतेऽनुष्ठीयमाना नैव कदा चित्स्युः ॥ ३३ ॥ न चान्वयव्यतिरेकानुविधानादर्थसिद्धः, यदाह-प्रयत्नत इति । प्रय- स्नेनावळमाना नैव कदा चित्स्युरित्यर्थोक्तम् , यदा स्युस्तदा कालसंनि- धानादिति मन्यन्ते; अनुष्ठीयमानाः प्रयत्नेनेत्यर्थः ॥ ३३ ॥ अननुष्ठीयमाना अपि यदृच्छया भवेयुः ॥ ३४ ॥ यदृच्छयेति । एवमेव स्युः, अकस्मानिधानादिदर्शनात् ; तस्मादु- पायपरिज्ञानार्थकम् ॥ ३४ ॥ किंकृत तह्येतद् ? इत्याह- तत्सर्व कालकारितमिति ॥ ३५ ॥ तत्सर्वमिति । अर्थस्य भवनमभवन, लोकस्येष्टमनिष्टं कालकारित- मिति; कालो नाम द्रव्यपदार्थो नित्यः तेन कारितमिति-प्रयोजकव्यापा- रेण पुरुषस्य परायत्ततामाह ॥ ३५ ॥ तदेव दर्शयन्नाह- काल एव हि पुरुषानर्थानर्थयोर्जयपराजययोः मुखदुःखयोश्च स्थापयति ॥ ३६॥ । । women २ अध्याये] त्रिवर्गप्रतिपत्तिप्रकरणम्। । १ woman काल एवेति। हेयोपादेयाः षट्पदार्था लाभालाभा(१)दयः; तेषु काल- एव प्रवर्तथति, न त्यागोपादानार्थ स्वयं यत्नमातिष्ठेदित्यर्थः ॥ ३६॥ लोकप्रसिद्धिमाह- कालेन बलिरिन्द्रः कृतः, कालन व्यवरोपितः काल एव पुन- रयेनं कर्तेति कालकाराणिकाः ॥ ३७॥ कालेनेति । इन्द्रः कृतः, हेयप्रकृतिकोऽप्यसुरत्वादनोंऽपि शक्रपदे प्रेरितः स्थापितः । व्यवरोपित इति । परिवर्तमानेन तस्मात्पदादपनीय पाताले नियोजितः। पुनरप्येनं कर्तति । विपरिवर्तिष्यमाणः प्रेरयन्निन्द्र करिष्यतीत्यर्थः, तथा चाहुः- 'कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ इति, कालकारणिका ये कालकारणमधीयते, ऐश्वरकारणिका अप्येवमेव द्रष्टव्याः, तुल्ययोगक्षेमत्वात् ॥ ३७ ॥ अत्र संप्रतिपत्तिमाह- पुरुषकारपूर्वकत्वात्सर्वपत्तीनामुपायः प्रत्ययः ॥ ३८ ॥ पुरुषकारपूर्वकत्वादिति । कालादुपायतो वाऽर्थसिद्धौ तदर्थिनो याः प्रवृत्तयस्ताः सर्वाः पुरुषकारपूर्विका दृष्टाः, उभयत्रापि पुरुषकारस्य व्याप्रियभाणत्वात् पुरुषकारश्चोपायं विना नार्थ साधयतीत्युपायः प्र. त्ययः, कारणमर्थसिद्धरित्यर्थः, यथैव हि पुरुषकारोऽर्थसिद्धौ कालम पेक्षते तथा हि शक्तिदेशसाधनान्युपायाः, तेषु सर्वेष्वसत्सु कालस्या किंचित्करत्वाद् असति काले तेषामसामर्थ्यात् तस्माच्छक्तिदेशकाल. साधनानि परस्परापेक्षाणि कार्यस्य साधकानीति नान्य एवोपायः, तत्र शक्त्यादिषु पुरुषकारार्थसिद्धरनुगुणेषु त्ववश्यमेव सिद्धिः॥ ३८ ॥ कदा चित्स्याद्यादृच्छिकी कस्य चिदर्थसिद्धिः साऽपि यादृच्छि. कमेवोपायमाश्रित्य; तदाह- अवश्यंभाविनोऽप्यर्थस्योपायपूर्वकत्वादेव न निष्कर्मणो भद्र- मस्तीति वात्स्यायन: ।। ३९ ।। अवश्यमिति । यतश्चैवं तस्मानिष्कर्मण उपायानुष्ठानरहितस्य भद्र- कल्याणम् पूर्वजन्मकृतं कर्म निष्फलं प्रसज्येतेति चेद् ? न-परस्परापेक्ष- मुभयं भवतीति द्रष्टव्यम् । यथोक्तम्-'दैवं मानुषं कर्म लोकं पालयति एतेन दैवमोत्रप्रवादोऽपि प्रत्युक्तः ॥ ३६॥ (१) जनननिधनकीर्त्यकीर्तय आदिपदग्राह्याः । ।

सटीक कामसूत्रे [१ अधिकरणे, Mamme प्रत्यक्षं कामविप्रतिपत्तिमाह- न कामांश्चरेत् ॥ ४० ॥ न कामानिति ॥ ४०॥ धर्मार्थयोः प्रधानयोरेवमन्येषां च सतां प्रत्यनीकत्वादनर्थज- नसंसर्गमसयवसायमशौचमनायति चैते पुरूषस्य जनयन्ति ॥४१॥ प्रधानयोरिति । ताभ्यां कामोत्पत्तेः, प्रत्यनीकत्वादिति कामासक्ततया धर्मस्यानाचरणाद्, धर्मविलोमाचरणाच्च, अर्थस्यानर्जनाद्; अर्जितस्य 'मद्यनटनर्तकीनटीपारितोषिकासद्व्ययाद्विरोधवर्ती कामः । सतामिति । ज्ञानवृद्धास्तपोबृद्धाः सन्तः कोमासक्तिं त्यजन्ति तेषां च प्रत्यनीकव. तिनोऽनर्थजनकनटनर्तकगायनादयस्तै. सम्पर्क जनयन्ति, असद्व्यव. सायमशोभनव्यवसायं निशीथाभिसरणप्राकारलधनादिकम्, अशौच= यथोक्तशौचाकरणम् , अनायतिमप्रभावं कामगर्दभ इति ॥ ४ ॥ तथा प्रमादं लाघवमप्रत्य यमग्राह्यतां च ॥ ४२ ॥ तथा प्रमादं शरीरोपघातं परदारादिगमनादौ; लाघवं तारल्यं सह सा प्रवर्तनाद्; अप्रत्ययमविश्वासमसत्संगमोद्, अग्राह्यतां हेयतामपू- ज्यवृत्तित्वात् ॥ ४२॥ बहवश्व कामवशगा: सगणा एव विनष्टाः श्रूयन्ते ।। ४३ ॥ बहवोऽनेके कामायत्ता विनष्टा इति सम्बन्धः, सगणा न केवलं. सेवितारः, तत्परिवारा अपीत्यर्थः ॥ ४३ ॥ तथा च दृढीकरणार्थमाख्यानकम्- यथा दाण्डक्यो नाम भोजः कामाहाह्मणकन्यामभिमन्यमान: सबन्धुराष्ट्रो विननाश ॥ ४४ ॥ दाण्डक्य इति संज्ञा, भोज इति भोजवंशजः, अभिमन्यमानोऽभिग- च्छन् , स हि मृगयां गतो भार्गवकन्यामाश्रमपदे दृष्ट्वा जातरागो रथमा. रोप्य जहार, ततो भार्गवः समित्कुशानादायागत्य तामपश्यन्नभिध्याय: च यथावृत्तं राजानमभिशशाप, ततोऽसौ सबन्धुराष्ट्रः पांसुवर्षेणावष्ट- ब्धो ननाश, तत्स्थानमद्यापि दण्डकारण्यमिति गीयते ॥४४॥ देवराजश्चाहल्यामतिबलश्च कीचको द्रौपदी रावणश्च सी- तामपरे चान्ये च बहवो दृश्यन्ते कामवशगा विनष्टा इत्यर्थचि. न्तकाः ॥ ४५ ॥ देवराज इन्द्रोऽहल्यामभिमन्यमान इत्येव, स हि गौतमाश्रमे तद्भा- २ अध्याये] त्रिवर्गप्रतिपत्तिप्रकरणम् । र्यामहल्यां चकमे, ततः समित्कुशानादायागते गौतमे तद्भार्याऽहल्या शक्र गर्भस्थमकरोत् । तदैवोपनिमन्त्रणेन गौतमः सभार्य एवाश्रमान्तरं- गतः, ततस्तेन योगचक्षुषा समुपलब्धेनेन्द्रागमनेनास्मै समुपस्थापित मासनत्रयं दृष्ट्वा चासौ "किमेतद्भार्याद्वितीयस्य ममे"ति जाताशङ्को ध्या- नेन यथावृत्तमालोक्य रोषात् "सहस्रभगो भवेति शशाप, ततोऽसौ देवराजोऽपि कामाद्विनाशप्रख्यां तादृशीमवस्थामाससाद, यस्याद्यापि कलको"ऽहल्यायै जार" इति नास्तमेति। अतिबलः नागसहस्रबलत्वात्, सोऽपि कामाद् द्रौपदीमभिलषन्भीमसेनेन हत इति प्रतीतमेतद्, विनश्य. न्तो दृश्यन्तइत्यत्र प्रत्यक्ष प्रमाणं; किं तत्र पूर्ववृत्तोदाहरणेनेति मन्यन्ते॥४५॥ अत्र संप्रतिपत्तिमाह- शरीरस्थितिहेतुत्वादाहारसधर्माणो हि कामा: 10:४६ ।। आहारसधर्माण इति । आहारतुल्याः, यथाऽऽहारोऽजीर्णादिदोषं ज. नयन्नपि प्रतिदिने शरीरस्थितये सेव्यते, तथा कामोऽपि, अन्यथा रागो. द्रेकादुन्मादादिदोषेण न शरीरस्थितिरिति ।। ४६ ।। फलभूताश्च धर्मार्थयोः ॥ ४७ ॥ फलभूताश्च धर्मार्थयोरिति । सुखार्थ धर्मार्थयोः सेवा, तदसेवा- तो बन्ध्यभूतो केवलमायासफलौ स्याताम् , तथा चोक्तम्- 'धर्ममूलः स्मृतः स्वर्गस्तत्रापि परमाः स्त्रियः। गृहस्थधर्मा दुर्वारो नराणां धर्मयलजः॥ हिताश्चापत्यसंतानैः स्त्रियस्त्विह परत्र च । परं सम्प्रत्ययो भोगप्रकर्षार्थाय वै स्त्रियः ॥ इति ॥ ४ ॥ यद्येवं तहिं दोषप्रसङ्गः? इत्यत आह- बोद्धव्यं तु दोषेष्विव. न हि भिक्षुकाः सन्तीति स्था- ल्यो नाधिश्रीयन्ते, न हि मृगाः सन्तीति यवा नोप्यन्त इति वात्स्यायनः॥४८॥ बोद्धव्यमिति । अजीर्णादिदोषेविव बोद्धव्यम् । प्रतिविधानमिति शेषः। इदमाह-यत्र क्व चन दोषप्राप्तिरवश्यं सेव्यश्च कामस्तं दोष प्रतिविधानेन सेवेतेति, अयं च न्यायो लोकेष्वप्यस्तीति दर्शयति-न हीत्यादिना, तथा चोक्तम् - 'तृणानामिव हि व्यर्थ नृणां जन्म सुखद्विषाम् । दोषास्तु परिहर्तव्या इत्याचार्यः स्थिरीकृतम् ॥ इति ॥ १८ ॥ Bhusaitary २४ सटीके कामसूत्रे [१ अधिकरणे, Wiousanmasta । अनुष्ठानलक्षणायाः प्रतिपत्तेः फलमाह- भवान्ति चात्र श्लोकाः- एवमर्थं च कामं च धर्म चोपाचरन्नरः । इहामुत्र च निःशल्य मत्यन्तं सुखमश्नुते ॥ ४९ ॥ एवमिति । यथोक्तेन न्यायेन प्रतिष्ठापिताचरणमर्थ प्रागाचरेत् , ततोऽधिगतार्थः कामं धर्म च । इहामुत्र चेति । इह लोके परलोके च, निःशल्यं सुखमश्नुत इति । अनुतापाभावात् “समग्रो मे पुरुषार्थ" इति मनःप्रीतिमवाप्नोतीत्यर्थः । त्रिवर्ग ह्यसेवमानश्च तावदिह लोके; नैहिक- सुखमवाप्तमिति विप्रतीकारं दुरन्तं; कामानुबन्धनाद्, नापि परलोके; न मया मूढेन प्राक्कृतमवदातं कर्मेति धर्मानुषक्तत्वात् , नास्तिका निरी हकाः सुखद्विषस्त्वेकाङ्गविकलस्वात्सशल्यमवाप्नुवन्तीति मन्यते ॥ ४२ ॥ 'परस्परस्यानुपधातकमन्योन्यानुबद्धम्' इत्युक्तम् , तस्यैव संग्रहः श्लोकद्वयेन- किं स्यात्परत्रेयाशङ्का कार्ये यस्मिन्न जायते । न चार्थघ्नं मुखं चेति शिष्टास्तत्र व्यवस्थिताः ॥ ५० ॥ कि स्यादिति । उपधातः पूर्वेणोत्तरस्य, उत्तरेण वा पूर्वस्य । तत्र यस्मिन्कार्येऽर्थोऽपि साधयिष्यते यस्तत्र किं स्यादपायोऽनपायो वेत्था- शङ्का नास्ति, धर्माबाधनाद्, बच्च सुखं नार्थ हन्ति तस्मिन्नर्थे सुखे च शिष्टास्त्रिवर्गविदः स्थिता अनुष्ठातुम् , पूर्वबाधके तु न स्थिताः, य. स्तु दानेन धर्मोऽर्थ बाधते, ब्रह्मचर्येण च बिद्याग्रहणमर्थः कामं, तस्मि- न्नुत्तरबाधके स्थिता इत्यर्थोक्तम्, तथा चाहुः- 'अपि नाम त्रिवर्गऽस्मिन्सेवेतोत्तरवाधकम् । पूर्वस्य तु प्रधानत्वान्न सेव्यः पूर्वबाधकः ॥ इति ॥ ५० ॥ त्रिवर्गसाधकं यत्स्यायोकस्य वा पुनः । कार्य तदपि कुर्वीत न त्वेकार्थ द्विवाधकम् ॥ २१ ॥ त्रिवर्गसाधकमिति । धर्मादीनां यदन्यतमं कार्यमनुष्ठेयमात्मन इतर. योस्तु साधकं तत्कुर्वीत, अयमुत्तमः पक्षो धनुबन्धेऽन्तर्भूतः। द्वयोवें- कस्येति । त्रयाणां यद् द्वयोरात्मन इतरस्य च साधकं तदपि कुर्वीतेति, अयं मध्यमः पक्ष एकानुबन्धेऽन्तर्भूतः, एतदुभयमपि प्रागुदाहृतम् । यदेकस्थात्मन एव साधकं तदपि कुर्वीतेति । अयं जघन्यो निरनुबन्धे- ऽन्तर्भूतः । तद्यथा-पञ्चानां महायज्ञानां प्रवर्तनं धर्मो निरनुबन्धः । ।

२५ ३ अध्याये] विद्यासमुद्देशप्रकरणम् । भूम्याद्यर्जनमों निरनुबन्धः, परिचारिकायामभिप्रेतायां कामो निरनु. बन्धः । अस्मिन्पक्षे परस्परस्यानुपधातकं प्रदर्शयन्नाह-न वेकार्थः- द्विवाधकमिति । एक आत्मैवार्थः प्रयोजनं यस्य तदेकार्थं द्वयोर्बाधक न कुर्याद्, अतिदानेन धर्मोऽर्थ बाधते कामं च बाधते, तपसा चात्यन्त- सेवितेन कामं वाधित्वा शरीरक्षयादर्थमुपहन्ति, तथाऽर्थस्तावदात्यन्ति. कउपादीयमानः पुरूरवस इव धर्मकामौ बाधते, कामस्तूत्तमवर्णासु दा. ण्डक्यस्येवान्यत्र वाऽत्यासेवित उभयं बाधते, यदेकस्य साधकमन्यस्य बाधकं तत्पूर्वोत्तरबाधापेक्षया कुर्यात् , तच्च यथोक्तं प्रागिति ! इति त्रिवर्गप्रतिपत्तिद्वितीयं प्रकरणम् ॥ २॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलायां साधारणे प्रथमेऽधिकरणे त्रिवर्गप्रतिपत्तिद्वितीयोऽध्यायः ॥ २ ॥ तृतीयोऽध्यायः । एवं प्रतिपन्नत्रिवर्गस्य कामसिद्धौ प्रथम उपायो यद्विद्याग्रह- णम्, अगृहीतविद्यस्यानन्तरव्यापारासंभवादिति विद्यासमुद्देश उ. च्यते । समुहेशश्च संक्षेपाभिधानम् , निर्देशश्च शास्त्रान्तरादुपदेशा. चापेक्षणीयः। यथा च तासां ग्रहणं तथा दर्शयन्नाह- धर्मार्थाङ्गविद्याकालाननुपरोधयन काममूत्रं तदङ्गाविद्याश्च पुरु- षोऽधीयीत ॥ १ ॥ धर्मेत्यादि । तत्र धर्मविद्या श्रुतिः स्मृतिश्च, अर्थविद्या वार्ताशा. स्त्रं, तयोरङ्गविद्या दण्डनीतिः, योगक्षेमसाधनाद्, आन्वीक्षिकी तु तत्त्वनिश्चयहेतुत्वात्, तासां प्रधानानां यथास्वमध्ययनकालाननुपरोध- यन्नहापयन् , अन्तराऽन्तरा कामसूत्रमिदमेव, तदविद्याश्च गीतादिका. अधीयीत पाठश्रवणाभ्याम् ॥ १ ॥ प्राग्यौवनात्स्त्री ॥ २ ॥ प्रागिति । प्राग्यौवनात्स्त्री कामसूत्र नदङ्गविद्याश्चाधीयोत पितुर्ग्रह- एव, तरुण्याः परिणीतत्वादस्वतन्त्रायाः कुतोऽध्ययनम् । 'युवतिः' इति पाठान्तरम् , तत्र स्त्रीपर्यायो द्रष्टव्यः ॥ २ ॥ प्रत्ता च पत्युरभिप्रायात् ॥ ३ ॥ प्रत्ता चेति । प्रकर्षेण दत्ता, निष्ठायामेव 'अच उपसर्गात्तः' ७४|४७। । ४ का० सू० सटीके कामसूत्रे [१ अधिकरणे, - इति तत्वम् , ऊढेत्यर्थः, त्रिविधं दानम् , मनसा वाचा कर्मणा चेति । पत्युरभिप्रायादिति । यदा पत्याऽनुज्ञाता तदाऽधीथीत, अन्यथा स्वोरणीत्याशङ्कनीया स्यात् ॥ ३ ॥ योषितां शास्त्रग्रहणस्याभावादनर्थकमिह शास्त्रे स्त्रीशासन- मित्याचार्याः ॥ ४॥ शास्त्र ग्रहणस्थाभावादिति । तासां शास्त्रानधिकारात्, शास्त्रं ग्रही. तुमसमर्थत्वाच्च । इहेति । कामशास्त्रे स्त्रिय मुद्दिश्य शासनम् , इदं का- यमिदं नेत्येवंरूपम् उपदेष्टुमनर्थकम् इत्याचार्या मन्यन्ते ॥४॥ प्रयोगग्रहणं त्वासाम् , प्रयोगस्य च शास्त्रपूर्वकत्वादिति वा- त्स्यायनः ॥ ५॥ प्रयोगग्रहणमिति । प्रयुज्यत इति प्रयोगोऽर्थस्तद्ग्रहणमासां, त. द्विज्ञेभ्यो मा भूच्छास्त्रग्रहणं, स च योषिदुपयोगीति शास्त्रेणानावेदितः कथमन्यैरुपदिश्यते तस्मानानर्थकं स्त्रीशासनम् ॥ ५ ॥ तन्न केवलमिहैच, सर्वत्र हि लोके कति चिदेव शास्त्रज्ञाः स. जनविषयश्च प्रयोगः ॥ ६॥ तन्न केवलमिहैवेति । तत्प्रयोगग्रहणं, केवलमिहैवास्मिन्नेव काम- शास्त्रे । सर्वत्र हीति । हिशब्दो हेतौ । सर्वेषु व्याकरणज्योतिःशास्त्रा. दिषु दृश्यते, तदेव दर्शयति-लोक इत्यादिना । कति चिदेव शास्त्रज्ञा- ये तद्हणसमर्थाः, तेभ्यः समर्थैरसमथैश्च प्रयोगो गृह्यत इति सर्वजन- विषयः, प्रयोगग्रहणं च शास्त्रग्रहणात्प्रधानम्, गृहीतशास्त्रस्य प्रयोग- ज्ञानफलत्वात् ॥ ६॥ प्रयोगस्य च दूरस्थमपि शास्रमेव हेतुः ॥ ७ ॥ प्रयोगस्य चेति । गृहीतशास्त्रस्य दूरस्थमपीति । शास्त्रज्ञजनाधार. त्वाद् विप्रकृष्टमपि शास्त्रं पारम्पर्येण हेतुः, एकः शास्त्रज्ञः प्रयोग गृहा- ति, ततोऽन्यः; तताऽन्य इति ॥ ७ ॥ अत्र दृष्टान्तमाह- अस्ति व्याकरणमित्यवैयाकरणा अपि याज्ञिका ऊहं क्र. तुषु प्रयुञ्जते ॥ ८॥ अस्तीति । शब्देनाचोदितार्थस्य युक्त्या विमृश्यावस्थापनमूहः, स च प्रातिपदिकलिङ्गवचनान्तरोपायेन व्याकरण उक्तः, तद्वयाकरणम. स्ति यतोऽयमूहः पारम्पर्याशयादित्यवैयाकरणा अपि याज्ञिकास्तं. । - ।

३ अध्याये]
विद्यासमुद्देशप्रकरणम् ।
।
ऋतुषु प्रयुञ्जते, तद्यथा-'आग्नेयमष्टाकपालं पुरोडाशं निर्वपेद्' इति प्रकृ-
तिप्रयोगः, 'सौर्य चकै निर्वब्रह्मवर्चसकाम' इति विकृतिप्रयोगः,
अन्न सूर्यमुद्दिश्योहो, निर्वपेदिति लिङ्गात्, सौर्य चळं निर्वपेदाग्ने-
यवदिति ॥ ८॥
अस्ति ज्योतिषमिति पुण्याहेषु कर्म कुर्वते ॥ ९॥
पुण्याहेष्विति । अस्ति ज्योतिषमित्यज्योतिषिका अपि कुतश्चिदुप.
लभ्य शस्तदिनेषु कर्म कुर्वते, तत्र शास्त्र मेव हेतुः ॥९॥
तथाऽश्वारोहा गजारोहाचाश्वान्गजांश्चानाधिगतशास्त्रा अपि
विनयन्ते ॥ १०॥
तथेति। अनधिगतशास्त्रा इति । हस्त्यश्ववैद्यकाद् हस्त्यादिशि-
क्षाऽऽद्यधीत्याप्तानायात्, पोषणदमनादिकं कर्म कुर्वत इत्येव, तत्रापि
शास्त्रमेव हेतुः ॥१०॥
न शास्त्र एवायं न्यायो यद् दूरस्थापि हेतुः, किं तु लोके-
पीत्याह-
तथाऽस्ति राजेति दूरस्था अपि जनपदा न मर्यादामतिवर्त-
न्ते, तद्वदेतत् ॥ ११ ॥
अस्ति राजेति । दूरस्था अदृष्टराजकाः, “अस्ति व्यवस्थापको यत.
इयं व्यवस्थे" ति तद्भयान्न मर्यादामतिकामन्ति, तद्वदेतदिति दाान्ति-
के योजनीयम् ॥ ११ ॥
अथ वाऽस्त्येव शास्त्रग्रहणं कासां चिदित्याह-
सन्त्यपि खलु शास्त्रप्रहतबुद्धयो गणिका राजपुग्यो महा-
मात्रदुहितरश्च ॥ १२ ॥
सन्त्यपीति । शास्त्रेण प्रहता खिन्ना बुद्धिर्यासामिति । महामा.
त्रेति । महती मात्रा येषामिति सामन्ता महासामन्ता वा, हस्तिशिक्षा
यां वा तल्लक्षणमनुसतव्यम् ॥ १२ ॥
तस्माद्वैश्वासिकाज नाद्रहसि प्रयोगाञ्छास्त्रमेकदेश वा स्त्री
गृह्णीयात् ॥ १३ ॥
तस्मादिति । यस्मात्प्रयोगप्रहगं शास्त्रग्रहणं चोभयं तस्माद्, वै.
श्वासिकाद्विश्वासार्हाल्, लज्जानिवृत्त्यर्थम् , प्रयोगान् ; ये शास्त्रग्रह-
णासमर्था दुर्मेधसः, शास्त्रं तद्हणसमर्था मेधाविनी, शास्त्रैकदेशं.
वा संप्रयोगाङ्गंया मध्यमेधाविनी सा गृहीयात् ॥ १३ ॥

२८ सटीके कामसूत्रे १ अधिकरणे, । Manus -- अभ्यासप्रयोज्यांश्च चातुःषष्टिकान्योगान्कन्या रहस्येका. किन्यभ्यसेत् ॥ १४ ॥ अभ्यालेति । अभ्यासेन प्रयोक्तं ये शक्यन्ते बाडबकभ्रमरकादयः, चातुःषष्टिकांश्चतुःषष्टिभवान् । कन्येति । तदानीमभ्यस्तं यौवने प्रयुज्यते । रहसीति लजानिवृत्त्यर्थम् । एकाकिन्याचार्यनिरपेक्षा ॥ १४ ॥ कः पुनर्वैश्वासिक इत्याह- आचार्यास्तु कन्यानां प्रवृत्तपुरुषप्रयोगा सहसंप्रबृद्धा धा. यिका, तथाभूता वा निरत्ययसम्भाषणा सखी, सवयाश्च मातृ. ध्वसा, विस्रब्धा तत्स्थानीया बृद्धदासी, पूर्वसंसृष्टा वा भिक्षुकी, स्वसा च विश्वाससंप्रयोगात् ॥ १५ ॥ आचार्यास्त्विति । तुशब्दो विशेषणार्थः, पुरुषाणां स्वातन्त्र्यात्सुलभा. उपदेष्टारः, तत्र प्रवृत्तपुरुषसंप्रयोगा पुरा चानुभूतरसत्वादभिज्ञा धात्रे. यिका, धाच्या अपत्यं सा हि सह संप्रवृद्धत्वाद्विश्वास्येत्येकाऽऽचार्या, तथाभूता चेति । प्रवृत्तपुरुषसंप्रयोगा सखी वा निर्दोषसंभाषणत्वाद्वि- श्वास्येति द्वितीया, सवयाश्चेति । तुल्यवयाः प्रीतिविश्वासयोरास्पदं:- चशब्दात्तथाभूतेति निवर्तते मातृवसा मातुर्भगिनीति तृतीया, विस्त्र ब्धेति । विश्वस्ता तत्स्थानीया मातृध्वस्तुल्या मातृभगिनीत्वेन गृहीता बृद्धदासी विदितबहुवृत्तान्तेति चतुर्थी, पूर्वसंसृष्टा पूर्व यया सह प्री तिरुत्पन्ना सा विश्वास्था भिक्षुकी भिक्षणशीला या का चित्सा देशहि- ण्डनात् कुशलेति पञ्चमी, स्वसा च ज्येष्ठा भगिनी, विश्वाससंप्रयो. गादिति । यदा तत्समक्षं विश्वासात्पुरुषान्तरेण संप्रयुक्ता स्याद्, अन्यथा स्वसा स्वसारमपि नेय॑या शिक्षयतीति षष्ठी। इत्युक्तं ग्रहणं कामसूत्रे तदङ्गविद्यासु च, तासामङ्गविद्यानामयमु. द्देशः-शास्त्रान्तरे चतुःषष्टिर्मूलकला उक्ताः-तत्र कर्माश्रया चतुर्विंशतिः- तद्यथा-गीतम् २नृत्यम् ३वाद्यम्४कौशललिपिज्ञानम् ५वचनं चोदा. रम् ६चित्रविधिः ७पुस्तकर्म पत्रच्छेद्यम् ९माल्यविधिः १०गन्धयुक्त्या स्वाद्यविधानम् ११रत्नपरीक्षा १२सीवनम् १३रङ्गपरिक्षानम् १४उपक. रणक्रिया १५मानविधिः १६आजीवज्ञानम् १७तिर्यग्योनिचिकित्सि. तम् १८मायाकृतपाषण्डसमयज्ञानम् १९क्रीडाकौशलम् २०लोकज्ञानम् २श्वचक्षण्यम् २२संवाहनम् २३शरीरसंस्कारः २४विशेषकौशलं चेति । द्यताश्रया विंशतिः-तत्र निर्जीवाः पञ्चदश, तद्यथा-२५आयुःप्राप्तिः २६अक्षविधानम् २७रूपसंख्या २८क्रियामार्गणम् २९बीजग्रहणम् -- चतस्त्र उत्तरकला:, ३ अध्याये ] विद्यासमुद्देशप्रकरणम् । ३०नयज्ञानम् , ३१करणादानम् , ३२चित्राचित्रविधिः ३३गूढराशिः ३४तु. ल्याभिहारः ३५क्षिप्रग्रहणम् ३६अनुप्राप्तिलेखस्मृतिः ३७अग्निक्रमः ३८छ- लव्यामोहनम् ३९ग्रहदानं चेति । सजीवाः पञ्च, तद्यथा-४०उपस्था- नविधिः ४१युद्धम्, ४२रुतम् ४३गतम्, ४४नृत्तं चेति । शयनोपचारिकाः षोडश, तद्यथा-४५पुरुषस्य भावग्रहणम् , ४६स्व. रागप्रकाशनम् ४७प्रत्यङ्गदानम् , ४म्नखदन्तयोविचारौ ४९नीवीस्त्रंसनम् ५०गुह्यस्य संस्पर्शनानुलोम्यम् ५१परमार्थकौशलम् ५२हर्षणम् ५३स. मानार्थताकृतार्थता ५४अनुप्रोत्साहनम् ५५मृदुक्रोधप्रवर्तनम् ५६सम्य- क्रोधनिवर्तनम् ५ क्रुद्धप्रसादनम् ५-सुप्तपरित्यागः ५९चरमस्वाप. विधिः ६०गुह्यगृहनमिति। तद्यथा-६२साश्रुपातं रमणाय शापदानम् स्वशपथक्रिया ६३प्रस्थितानुगमनम् ६४पुनःपुनर्निरीक्षणं चेति चतु:- षष्टिलकलाः । आस्वेव निविष्टानामवान्तरकलानामष्टादशाधिकानि पञ्च- शतान्युक्तानि, तत्र कर्माताश्रयाः प्रायश आवालं गच्छन्ति, ता एवा. न्यथा विभज्य चतुःषष्टिरत्रोक्ता, यास्तु शयनोपचारिका उत्तरकलाश्च, ताः प्रायशस्तन्त्रस्याङ्गतां प्रतिपद्यन्त इति पाश्चालिक्यामेव चतुःषष्टया. मवान्तरकला वेदितव्याः, ताश्च यथाप्रस्तावं वक्ष्यन्ते । तन्त्रावापौपयिकी चतुःषष्टिमाह- गीतम् , वाद्यम्, नृत्यम् , आलेख्यम्, विशेषकच्छेद्यम् , तण्डुलकुसुमवलिविकाराः, पुष्पास्तरणम् , दशनवसनारामः, म. णिभूमिकाकर्म, शयनरचनम्, उदकवाद्यम् , उदकाघाता, चित्रा. ३ योगाः, माल्यथन विकल्पाः, शेखरकापीडयोजनम्, नेपश्य- प्रयोगाः, कर्णपत्रभङ्गाः, गन्धथुक्तिः, भूषणयोजनम् , ऐन्द्रजालाः, कोचुमाराश्च योगाः, इस्तै लाघवम् , विचित्रशकियूषभक्ष्यविकार- क्रिया, पानकरसरागासवयोजनं, मुचीवान कर्माणि, सौक्रीडा, वीगाडमरुकवाद्यानि, प्रहेलिका, प्रतिमाला, दुर्गा,कयोगाः, पुस्तकवाचनम् , नाकारूपायिकादर्शनम् , कौव्य समस्यापूरणम् , पट्टिकावेत्रवानविकल्पाः, तक्षकमाणि, तक्षणम, वास्तुविद्या, रुप्य- रत्रपरीक्षा, धौतुवादः, मणिराँगाकरज्ञानम् , क्षायुर्वेदयोगाः मेषकुक्कुटलावकयुद्धविधिः शुकसारिकापलापनम् , उत्सादने सं- saman ३० सटीके कामसूत्र [१ अधिकरण, वाहने केशमर्दने च कौशलम् , अक्षरमुष्टिकाकथनम् , म्लेच्छितवि- कल्पाः, देशैभाषाविज्ञानम् , पुष्पर्श काटका, निमित्तानम् , यन्त्र- मातृका, धारणेमातृका संपोठ्यम्, मानसी काव्यक्रिया, अभि. धानकोषः, छन्दोज्ञानम् , क्रियाकल्पः, छलितकयोगाः, वस्त्रेगोप. नानि, धूतविशेषः, आकर्षक्रीडा, बालक्रीडनकानि, वैनयिकीना- वजयिकीनां व्यायामिकीनां च विद्यानां ज्ञानम्, इति चतुःषष्टिः रङ्गविद्याः कामसूत्रस्थात्रयविन्यः ॥ १६ ॥ गीतमित्यादि । गीतवाद्यश्नृत्याउलेख्यानि चत्वारि प्रायः स्वशा- स्त्रविहितप्रपञ्चानि तथाऽपि संक्षेषतः कथ्यन्ते- 'स्वरगं पदगं चैव तथा लयगमेव च । चेतोऽवधानगं चैव गेयं ज्ञेयं चतुर्विधम् ॥ घनं च विततं वाद्यं ततं सुषिरमेव च । कांस्यपुष्करतन्त्रीभिर्वणुना च यथाक्रमम् ॥ करणान्यङ्गहाराश्च विभावो भाव एव च । अनुभावो रसाश्चेति संक्षेपान्नृत्य सङ्ग्रहः ।। तद् द्विविधम्-नाट्यमनाट्यं चेति, तथोक्तम्- 'स्वर्गे वा मर्त्यलोके वा पाताले वा निवासिनाम् । कृतानुकरणं नाट्यमनाट्यं नर्तकाश्रितमितिः ॥ तन्त्रान्तरे तु नृत्यभेदज्ञापनार्थमेव पृथङ नाटयकलोक्तति विज्ञेयम् । आलेख्यमिति। 'रूपभेदाः प्रमाणानि भावलावण्ययोजनम् । सादृश्यं वर्णिका भङ्ग इति चित्रं षडङ्गमिति ॥ एतानि परानुरागजननान्यात्मविनोदार्थानि च । ५विशेषकच्छेद्य- मिति । विशेषकस्तिलको यो ललाटे दोयते, तस्य भूर्जादिपत्रमयस्याने- कप्रकारं छेदनमेव च्छेद्यम् , पत्रच्छेद्यमिति वक्तव्यम्, वक्ष्यति च-प- त्रच्छेद्यानि नानाऽभिप्रायाकृतीनि प्रेषयेद्' इति; सत्यम् ? विशेषकग्रहण- मादुरार्थम् , विलासिनीनामतिप्रियत्वात् । तण्डुलकुसुमवलिविकारा. इति । अखण्डतण्डुलै नावणैः सरस्वतीभवने कामदेवभवने वा मणि- कुट्टिमेषु भक्तिविकाराः,तथा कुसुमे नावग्रंथितैः शिवलिङ्गादिपूजाऽर्थ- भक्तिविकाराः, अत्र ग्रथनम् माल्यप्रथन एवान्तर्भूतम् । भक्तिविशेषेणाव. स्थापनं कलाऽन्तरम् । पुष्पास्तरणमिति । यश्चानावणः पुष्पैः सूचीवा. नादिबढेरभ्यस्यते तहेववासगृहोपस्थानमण्डपादिषुः यस्य पुष्पशयन. SAIR ३ अध्याये] विद्यासमुद्देशप्रकरणम् । मित्य परा संज्ञा । ८दशनवसनाङ्गराग इति । रागशब्दः प्रत्येक योज्यते, तत्राङ्गरागोऽङ्गमार्टिः कुङ्कमादिना, रञ्जनविधिरिति वक्तव्ये दशनादिन- हणमादरार्थ; विलासिनीनां दशनादिसंस्कारस्यात्यन्ताभीष्टत्वाद् इति । ९मणिभूमिकाकर्मेति । मणिभूमिका कृतकुट्टिमा भूमिः, ग्रीष्मे श- यनापानकार्थ तस्या मरकतादिभेदेन करणम् । १०शयनरचनमिति । शयनीयस्य कालापेक्षया रक्तविरक्तमध्यस्थाभिप्रायादाहारपरिणतिव. शाच रचनम् । ११उदकवाद्यमिति । उदके मुरजादिवद्वाद्यम् १२उदका घात इति । हस्तयन्त्रमुक्तैरुदकैस्ताडनं; तदुभयं जलक्रीडाऽङ्गम् १३चित्राश्च योगा इति । नानाप्रकारदौर्भाग्यैकेन्द्रियपलितीकरणादयः, ईयया पराभिसन्धानार्थाः; तानोपनिषदिके वक्ष्यति, एते च कौचु. मारयोगेषु नान्तर्भवन्तीति पृथगुक्ताः; कुचुमारेण तेषामनुक्तत्वात् । १४माल्यग्रथनविकल्पा इति । माल्यानां पुष्पमालाऽऽदीनां देवतापूज. नार्थानां नेपथ्यार्थानां ग्रथनविकल्पाः । १५शेखरकापीडयोजनमिति । प्रथनविकल्प एवायंः किं तु योजनं कलाऽन्तर, तत्र शेखरकस्य शि. खास्थानेऽवलम्वनन्यासेन परिधापनाद्, आपीडस्य च मण्डलाकारण प्रथितस्य काटिकायोगेन परिधापनाद नानावणैः पुष्पैविरचनं योजनम् , पुनर्विरचनवचनमादरार्थम्, तदुभयं नागरकस्य प्रधानं नेपथ्याङ्गम् । १६नेपथ्यप्रयोगा इति । देशकालापेक्षया वस्त्रमाल्याभरणादिभिः शोभा. ऽर्थ शरीरस्य मण्डनाकाराः १७कर्णपत्रभङ्गा इति । दन्तशङ्खादिभिः कर्णपत्त्रविशेषा नेपथ्यार्थाः । १८गन्धयुक्तिरिति । स्वशास्त्रविहितप्रपञ्चा प्रतीतप्रयोजनैव । १९भूषणयोजनमिति । अलङ्कारयोगः; स द्विविधः-सं- योज्योऽसंयोज्यश्च तत्र संयोज्यस्य कण्ठिकेन्द्रच्छन्दादेर्मणिमुक्ताप्रबालादि. भियोजनम्, असंयोज्यस्य कटककुण्डलादेविरचनं योजनम् , तदुभयं नेप- थ्याकंन तु शरीरे भूषणयोजनं तस्य नेपथ्यप्रयोगा इत्यनेनैव सिद्ध. त्वात् । २०ऐन्द्रजाला इति । इन्द्रजालादिशास्रप्रभवा योगाः सैन्यदेवाल- यादिदर्शनादहंभावविस्मापनार्थाः । २१कौचुमारा इति । कुचुमारस्यैते सु. भगंकरणादयः, उपायान्तरासिद्धसाधनार्थाः । २२हस्तलाघवमिति। सर्व- कर्मसु लघुहस्तता कालातिपातनिरासार्थ द्रव्यहानिषु वा लाघवं क्रीडा- ऽर्थ विस्मापनार्थ च । २३विचित्रशाफयूषभक्ष्यविकारक्रिया २४पानकरस. रागासवयोजनमिति । चतुर्विध आहारः-भोज्यं भक्ष्यं लेां पेयमिति, तत्र भोज्यम्-भक्तव्यञ्जनादि; तत्र व्यञ्जनरन्धनं प्रायशो न सुज्ञानमिति व्यञ्ज- नाग्रयस्य शाकस्योपादानेन दर्शयति, तत्र शाकं दशविधम् , यथोक्तम्- - Wom सटीके कामसुत्रे [१ अधिकरणे, Womance ‘ণসহীহঙ্গাগভমকক্ষ। त्वपुष्पं कण्टकं चेति शाकं दशविधं स्मृतम् ।। भक्ष्यं खण्डखाद्यादि, पेयं द्विविधम्-अग्निनिष्पाद्यमितरच्च, तत्र पूर्व यूषाख्यं तच्च द्विविधम्-मुद्रादिनि हकृतं मांसनियूंहकृतं च, एवं नानाप्रकाराणां क्रिया पाकविधानेन निष्पादनं, यदनग्निनिष्पादनं. पेयं तद् द्विविधम्-सन्धानकृतमितरच्च , तत्राद्यं-द्रावितमद्राचितं च; तत्र यद् गुडतिम्तिडिकाऽऽदि जलेन संयोज्य क्रियते तद् द्रावितं पान- काख्यम् , यद् द्रावकोषधेन तालमोचाफलानि संयोज्य निष्पाद्यते तदद्रा. वितं रसाख्यम् , आसवग्रहणेन सन्धानमुपलक्षयति: तन्मृदुमध्यतीक्ष्णस. धानयोजनात्तथाविधमेव निष्पाद्यते, रागग्रहणं लेग सूचयति, तस्य त्रै विध्यात् , तथा चोक्तम्- 'रागो रागविधान.लेह्यश्चूर्णो द्रवः स्मृतः । लवणाम्लकटुस्वाद ईषन्मधुरसंयुतः ॥ इति, एतच्चतुर्विधमास्वाद्यकलायां प्रपञ्चितं शरीरस्थित्यर्थ, योगविभागो- ऽग्निजानग्निजकर्मदर्शनार्थः, तत्र पाकेन शाकादिक्रिया, विना पाकेन पा. नकादियोजनम् अन्यथा ह्यास्वाद्यविधिरित्युक्तं स्यात् तस्मात्कर्मभेदादा- स्वाधविधानं द्विविध तशादेकाऽपि कला द्विधाकृत्योक्ता । २५सूची धानकर्माणीति । सूच्या यत्सन्धानकरणं तत्सूचीवानं त्रिविध-सीवनम् , ऊत्तनम्, विरचनम् , तत्राद्यं कञ्चुकादीनाम् , द्वितीयं त्रुटितवस्त्राणाम् , तृतीयं कुथास्तरणादीनाम् , इयं प्रतीतार्थव । २६सूत्रक्रीडेति । नालिका. सञ्चारनालादिसूत्राणामन्यथाऽन्यथा दर्शनं छित्त्वा दग्ध्वा च पुनरच्छि- स्वाऽदग्ध्वा दर्शन; तच्चाङ्गुलिन्यासाद् बकुलादिदर्शनम् इत्येवंप्रकारा क्रीडाऽर्थैव । २७वीणाडमरुकवाधानीति । वादित्रान्तर्गतत्वेऽपि तन्त्रीवा- यं प्रधान तत्रापि वीणावाद्यम्, डमरुकवाद्यमावश्यकार्थम् बालोपक महेतुत्वाद् दुर्विज्ञेयत्वाच्च ततो ह्यक्षराणि स्पष्टान्युच्चार्यमाणानि श्रूय. न्ते । २८प्रहेलिकेति । लोकमतीता, क्रीडाऽर्था वादार्था च २९प्रतिमाले. ति। यस्या अन्त्याक्षरिकेति प्रतीतिः सा क्रीडाऽर्था वादार्था च, यथोक्तम्- 'प्रतिश्लोकं क्रमाद्यत्र सन्धायाक्षरमन्तिमम् । पठेता श्लोकमन्योन्यं प्रतिमालेति सोच्यतः इति ।। ३०दुर्वाचकयोगा इति। शब्दतोऽर्थतश्च दुःखेनोच्यत इति दुर्वाचकं. तस्य प्रयोगाः क्रीडाऽर्था वादार्थाश्च, यथा काव्यादर्शे- 'दंष्ट्राऽग्रा प्राग्यो द्राक्क्षमामम्ब्चन्तःस्थामुच्चिक्षेप । देवध्रुझिक्युत्विक्स्तुत्यो युष्मान्सोऽन्यात्सोत्केतुः ।। इति, । । ।

३ अध्याये] विद्यासमुद्देशप्रकरणम् । ३३ अस्यार्थः-दंष्ट्राऽअस्य ऋद्ध्या प्राक्पूर्व द्राक्शीघ्रं मां पृथ्वीमम्ब्व- न्तःस्थां पातालस्थामुच्चिक्षेपोक्षिप्तवान् , देवान्द्रुह्यन्तीति देवदुहोऽसु- रास्तान्क्षिणोतीति देवध्रुट्क्षित् , हिशब्दः पादपूरणे, ऋत्विग्भिः स्तुत्यः, सानत्तीति सागरुडः स केतु जो यस्येति । ३०पुस्तकवा- चनमिति । भरतादिकाव्यानां पुस्तकस्थानां शृङ्गारादिरसापेक्षया गीति- तः स्वरेण वाचनम् , अनुरागजननार्थमात्मविनोदार्थ च । ३१नाटकाऽऽ. ख्यायिकादर्शन मिति । काव्येषु गद्यपद्येषु नाटकस्य बहुप्रपञ्चत्वाद्, आख्यायिकायाश्च प्रधानगद्यत्वाद्दर्शनं परिज्ञानमिति; आदरार्थ विशेषा. भिधानं काव्यदर्शनमिति नोक्तं, तत्र नाटके दश रूपकाणि; यथोक्तम्- 'नाटकमको वीथी प्रकरणमीहामृगो डिमो भाणः । व्यायोगसमवकारी प्रहसनमिति नाटकविकल्पाः ॥ ३२काव्यसमस्यापूरणमिति । समस्यते संक्षिप्यत इति समस्या 'ह- लोर्ण्यत्' ३।१।१२४ । इह सामान्यात् 'संज्ञापूर्वको विधिरनित्यः' इति बृ- द्धिर्न भवति, यद्वा 'कृत्यल्युटो बहुलम्' ३३।११३॥ इत्यन्यप्रकृतेरपि यद् बहुलग्रहणात् काव्यस्य श्लोकस्य समस्या पाद इत्यर्थः, तस्याः पूरणं क्रो- डाऽर्थ वादार्थ च, तद्यथा-काव्यादर्श-'आश्वासञ् जनयतिराजमुख्य- मध्ये' इत्ययं पाद उद्योगपर्वणि विष्णुयाने त्रिभिः पादैः संग्रथितव्य इति समस्या दत्ता, तत्रत्रयः पादा:- 'दौत्येन द्विरदपुरं गतस्य विष्णोर्बन्धार्थ प्रतिविहितस्य धार्तराष्ट्रः । रूपाणि त्रिजगति भूतिमन्ति रोषादाश्वासजनयतिराजमुख्यमध्ये ॥ इत्यादि, अत्र विष्णोर्बधार्थ दुर्योधनादिभिर्मन्त्रः कृतः, त्रिषु लो. केषु सर्वभूतिमन्ति रूपाणि आशु शीघ्रमासन्बभूवुः, जनस्य सभागत. स्य, यतीनां रामकर्णादीनां, राजमुख्यानां बाह्रीकप्रभृतीनां च मध्य- इतिः एताः प्रहेलिकाऽऽदयः षड् वचनकौशलान्तराः कला इह प्रायश. उपयुज्यन्त इति संगृहीताः ३३पट्टिकावेत्रवानविकल्पा इति । वेत्रखण्डै- ग्रंथिता खट्वारूपा पट्टिका, पट्टिकाया वानविकल्पाः, खट्वाया- आसनस्य च वेत्रैर्वानविकल्पाः प्रतीतार्थाः । ३४तकुकर्माणीति । कुन्दकर्माण्यपद्रव्यार्थानि । ३५तक्षणमिति । वर्धकिकर्म शयनासमा- द्यर्थम् । ३६वास्तुविद्येति । ग्रहकर्मोपयोगिनी ।३७रूप्यरत्नपरीक्षेति । रू. प्यमाहतद्रव्यं दोनारादि, रत्नं वज्रमणिमुक्तादि, तेषां गुणदोषमूल्या- दिभिः परीक्षा व्यवहाराङ्गम् । ३८धातुवाद इति । क्षेत्रवादः स हि मृत्प्रस्तररत्नधातूनां पातनशोधनमेलनादिज्ञानहेतुरर्थार्थः । ३९मणि- रागाकरज्ञानमिति । स्फटिकमणीनां रञ्जनविज्ञानमार्थ भूषणा- ५का० सू० सटीके कामसूत्रे [१ अधिकरणे, । ५८वस्त्रगोपनानीति । वस्त्रेणाप्रकाश्यदेशस्य संवरणं यथा तब्यमा- नमपि तस्मानापति, ऋटितस्यात्रुटितस्येव परिधानम्. महतो वस्त्रस्य संवरणं नीविसंकोचादिनाऽल्पीकरणम् इति गोपनानि ! ५९चूतविशेषा- इति । निर्जीवधूतविधानभेतद्, यत्र ये प्राप्त्यादिभिः पञ्चदशभिरङ्गै. मुष्टिक्षुलकादयो चूतविशेषाः प्रतीतार्थाः । ६०आकर्षक्रीडेति । पाशक- क्रीडा, द्यूतविशेषत्वेऽपि पुनर्वचनमत्रादरार्थम् , सशृङ्गारत्वाद् दुर्वि- शेयत्वाद्वा, अक्षहृदयापरिज्ञाने हि नलयुधिष्ठिरयोरपि पराजयात् । ६१बालक्रीडनकानीति । गृहकन्दुकपुत्रिकाऽऽदिभिर्यानि बालानां क्री- डनानि तानि बालोपक्रमार्थानि, एता एकषष्टिकला उक्ताः । ६२वैन- यिकीनामिति । स्वपरविनयप्रयोजनानयिक्यो विनयाऽऽचारशास्त्राणि, हस्त्यादिशिक्षा च । ६३वजयिकीनामिति । विजयप्रयोजना वैजयिक्यः, दैव्यो मानुष्यश्च तत्र दैव्योऽपराजितादयो, मानुष्यो याः साझामिक्यः शस्त्रविद्याः। ६४व्यायामिकीनामिति । व्यायामप्रयोजना व्यायामिक्यो. मृगयाऽऽद्याः, एतास्तिस्त्र आत्मोत्कर्षरक्षणार्थाः, जीवनार्थाः, इति चतु:- षष्टिरङ्गविद्याः कामसूत्रस्यावयवयोगिन्योऽवयवभूता , तदभावे कामसूत्र- स्याप्रवृत्तः ॥१६॥ पाञ्चालिकी च चतुःषष्टिरपरा ॥ १७॥ पाञ्चालिकी चेति । पञ्चालप्रभवा तत्प्रोक्तत्वाद्वा, चतुःषष्टिरङ्गविद्याः तद्भावे हि तस्याः प्रवृत्तः ॥१७॥ तस्याः प्रयोगानन्ववेत्य सांप्रयोगिक वक्ष्यामः ॥ १८ ॥ तस्या इति । पाञ्चालिक्याः, अन्ववेत्य यथायथं विषयमनुसृत्य; सांप्रयोगिकेऽधिकरणे प्रयोगान् वक्ष्यामः ॥ १८ ॥ कामस्य तदात्मकत्वात् ॥ १९ ॥ सदात्मकत्वादिति । चतुःषष्टिस्वभावत्वात् , स्यास्तु चतुःषष्टेस्तन्त्रान्तरे दृष्टप्रयोगत्वाद्, इह तदङ्गताप्रतिपत्त्यर्थ- मुद्देशमात्रमुक्तम् ॥ १९॥ कलाग्रहणे फलमाह- आभिरभ्युच्छ्रिता वेश्या शीलरूपगुणान्विता । लभते गणिकाशब्दं स्थानं च जनसंसदि ॥ २० ॥ आभिरिति । कलाभिरभ्युच्छ्रिता जातोत्कर्षा, वेश्येति प्रायशो ग्र. हणमस्या इति दर्शनार्थ शीलं सुस्वभावः, रूपं संस्थानं वर्णश्च, गुणा- नायिकाया वैशिके वक्ष्यमाणाः, गणिकाशब्दमिति, वेश्येतिसामान्य- कामस्य ३ अध्याये] विद्यासमुद्देशप्रकरणम् । शब्दवाच्याऽपि विशिष्टं गणिकाऽभिधानं लभत इत्यर्थः, एवंलक्षण. स्वागणिकायाः, स्थानं च जनसंसदीति । जनसभायामासनभूभि लभते, न वेश्येत्यवगण्यते ॥ २० ॥ पूजिता सा सदा राज्ञा गुणवद्भिश्च संस्तुता । प्रार्थनीयाऽभिगम्या च लक्ष्यभूता च जायते ॥ २१ ॥ राज्ञा पूजितो क्षेत्रागारादिदानेन, गुणवद्भिः संस्तुता 'असा. धारणमस्याः कलाकौशलमिति प्रशंसिता, प्रार्थनीया कलोपदेशार्थिनाम, भिगमनाए विदग्धानारतार्थिनां, लक्ष्यभूता निदर्शनभूता देवदत्तावत्॥२१॥ योगज्ञा राजपुत्री च महामात्रमुता तथा । सहस्रान्तःपुरमपि स्वशे कुरुते पतिम् ॥ २२ ॥ योगज्ञा-गीतादिप्रयोगशा, सहस्त्रान्तःपुरमिति प्रभूतदारोपलक्षणम्। स्ववशे-आत्मनो वशे ॥ २२ ॥ तथा पतिवियोगे च व्यसनं दारुणं गता। देशान्तरेऽपि विधाभिः सा सुखेनैव जीवति ॥ २३ ॥ तथा पतिवियोगे पत्यो प्रोषिते, तथा व्यसनं दारुणं वैधव्यलक्षणं- गता, निर्वेदात्त्यक्तस्वदेशा; अन्यस्मिन्नपि देशे सुखेनैव जीवति, विद्योप- देशदानात् ॥ २३ ॥ पुरुषमधिकृत्याह- नरः कलासु कुशलो वाचालश्चाटुकारकः । असंस्तुतोऽपि नारीणां चित्तमाश्वेव विन्दति ॥ २४ ॥ नर इति । वाचाल इति कलासंबन्धद्वारेणैव बहुभाषी नान्यथा, मा. भूदनागरकत्वप्रसङ्ग इति । चाटुकारका=प्रियस्य कर्ता, कलाग्रहणेन हि तत्संस्कारवत्त्वाद् असंस्तुतोऽप्यपरिचितोऽपि चित्तं विन्दति गृहाति, आश्वेव न कालमपेक्षते ॥ २४ ॥ कलानां ग्रहणादेव सौभाग्यमुपजायते । देशकालौ त्वक्ष्यातां प्रयोगः सम्भवेन वा ॥ इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिक वे. यासमुद्देशस्तृतीयोऽध्यायः, तृतीयं प्रकरणं ग्रहणादेवाभिजायते संप्रयोगात्स्त्रीपुंसयोः सौभ निर्थ. प्रतीपातः कामो यशश्चेत्यर्थोक्तं, तत्रापि देशकाला ना.

३८
सनीके कामसूत्रे
[१ अधिकरणे,
गरकाः कलाकुशलाः घटानिवन्धनादिकामा वेति प्रयोगः, नागरकशू.
न्यो वा देशः, गुणद्विषो वाऽत्र प्रतिवसन्ति, व्यसनकालो वा नागरका.
णामिति न वा प्रयोगसंभवः, अन्यथा तत्परिज्ञानं दोषफलं स्यादिति॥२५॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलायां साधारणे
प्रथमेऽधिकरणे विद्यासमुद्देशस्तृतीयोऽध्यायः, तृतीयं प्रकरणं च ॥३॥
-
चतुर्थोऽध्यायः ।
शास्त्रकार एव प्रकरणसंबन्धमाह-
गृहीतविद्यः प्रतिग्रहजयक्रयनिर्वेशाधिगतैरथैरन्वयागतरुभ-
यैर्वा गाईस्थ्यमधिगम्य नागरकहत्तं वर्तेत ॥ १ ॥
गृहीतविद्य इति । तस्य नागरकवृत्तवर्तने योग्यत्वाद् गृहीतविद्यस्या-
प्यसति पलायोगे नागरकवृत्तस्यासंभवादाह-गार्हस्थ्यमिति । पत्नीसं-
योगेऽपि यदि गार्हस्थ्यं गृहकर्म नागरकयोग्यं तन्नार्थ चिनेत्याह-अथै-
रिति । तेऽपि न विनोपायरित्याह-प्रतिग्रहेति । तत्र ब्राह्मणः प्रतिग्रहण
तद्वृत्तित्वात्, क्षत्रियः शस्त्रजीवित्वाजयेन, वैश्यः क्रयेण वार्तापलक्ष.
णार्थेन, शूद्रः कारुकुशीलवादिः कृते कर्मणि यो निर्देशोभृतिस्तेनाजितैः
गृहस्थकर्म प्राप्येति, न निष्किञ्चनस्यायं विधिः, अन्वयागतैरिति। पि.
तृपितामहागतैः, अत्र पत्नोयोगादनन्तरमेव गार्हस्थ्याधिगमः, उभयै.
चेति । प्रतिग्रहाद्यागतैरन्वयागतैश्च, सत्स्वप्यन्वयागतेब्यपूर्वार्जनं का-
यमिति दर्शयति, नागरको विदग्धजनः, एतद्धृत्यपेक्षया वा भविष्यद्-
वृत्त्या नागरकस्तस्य वृत्तं वर्ततेति सामान्यवृत्तिर्नागरकाविशिष्टा वृत्तिः
कर्म वा भवति, चातुर्वर्ण्य गृहस्थमधिकृत्येदं शास्त्रम्, अस्य चेदं प्रक-
रणं शरीरम् , तदाश्रितस्य हि सर्वशास्त्रानुष्ठानात् ॥१॥
यत्र तस्य वृत्तं तत्र स्थितिमाह-
नगरे पत्तने खवटे महति वा सज्जनाश्रये स्थानम् ॥ २॥
नगर इति । नगरमष्टशतनामीमध्ये तयवहारस्थानम्, पत्तनं यत्र
राजधानी स्थिता, खर्वर्ट द्विशतग्रामीमध्ये, महति वेति । चतुःशतग्रा-
मीमध्ये, द्रोणमुखं नाम खर्घटान्महद्भवति, एषामन्यतमेऽवस्थानं युज्यते,
कुत इत्याह-सज्जनाश्रय इति प्रतिपदं योज्यम् ॥ २॥
यात्रावशाद्वा ॥ ३ ॥

४ अध्याये] नागरकवृत्तप्रकरणम् । । यात्रावशावति । यत्र वा स्याद्यापन शरीरस्थिति मे तत्रावस्थानं, तन्निबन्धनत्वादितरवृत्तेः॥३॥ तत्रापि गृहमन्तरेण न संभवतीत्याह- तत्र भवनमासन्नोदकं वृक्षवाटिकावद्विभक्तकमकक्षं द्विवास- गृहं कारयेत् ॥ ४ ॥ तत्रेति । नगरादीनामन्यतमे भवनं गृहं कारयेदिति संबन्धः, आस- नोदकं नदीवाप्यादिसमीपे जलमकदर्थितं क्रीडाऽङ्गं च, वृक्षकााटकाव- दिति । यस्यां दिशि जलं तस्यां वृक्षवाटिकया गृहोद्यानेन युक्तम् , वि. भक्तकर्मकक्षमिति । कर्मार्थ कक्षा प्रकोष्ठकानि ता विभक्ता यस्य, उच्चाव. चे हि गृहकर्मणि क्रियमाणे गृहं भग्नं स्याद्, द्विवासगृहमिति । द्विधा वासगृहमिति । शयनार्थेन रत्यर्थेन च युक्तम् , एतावद् वृत्तोपयोगिगृह- विधानं, शेषं वास्तुविद्यायां द्रष्टव्यम् ॥ ४॥ तस्मिन्कारित आधेयानां न्यासमाह- वाह्ये च वासगृह मुश्लक्ष्णमुभयोपधानं मध्ये विनतं शुक्लो- त्तरच्छदं शयनीयं स्यात्, प्रतिशख्यिका च ॥५॥ बाह्य इति । आभ्यन्तरं वासगृहमन्तराणां शयनार्थम् , बाह्ये च प्रकोष्ठे कृते रत्यर्थ शयनीयं स्यात् , सुश्लक्ष्णं खट्वाऽऽश्रयप्रतिपादिका ऽऽस्तरणतूलिकाऽऽदिभिः सुरभितंच,उभयोफ्धानं शिरश्चरणभागयोर्य- स्तोपधानम् , मध्ये विनतमाकान्तम् , मृदुकमित्यर्थः, शुक्लोसरच्छदमि- ति। शुक्लस्य प्रच्छदपटस्य प्रत्यहं द्वित्र दिवसैः,प्रक्षालबीयत्वादित्यवश्व. तदुपरि देयम् । प्रतिशय्यिका चेति । तस्य समीपे संप्रयोगार्थ तत्प्रति- च्छन्दिका किञ्चिन्यूनोत्सेधा यस्यानाशय्यिका स्यादित्येवं विधिरयमा. चारवतां, वेश्याकामिमस्तु शयनीयपद उभयं निवर्तयन्ति, न तेषां. प्रतिशाय्यिका, तथा चोकम् - 'संप्रयुज्येत यत्रस्थो नायकः प्रियया सह । न तत्रोपहते विद्वाञ्छयीत शयने शुचिः" इति ॥ ५॥ तस्य शिरोभागे कूर्चस्थानम् ॥ ६ ॥ तस्येति । शयनीयस्य पश्चात्पाश्वभागामां निकृष्टत्वाच्छिरोभाग- एच कूर्चासनस्य देवताऽनुस्मरणार्थस्य स्थापनं स्याद् , यथोक्तम्- 'शयनीयशिरोभागे न्यस्तकूर्चे शुचिः शुभे। कृत्तेष्टदेवतायोगो यायाच्छयनमात्मवान् ॥ ६॥ । -- 10

सटीके कामसूत्रे
[१ अधिकरणे,
R
वेदिका च ॥ ७ ॥
वेदिका चेति। कुड्योपाश्रया शयनीयतुल्योत्सेधा हस्तमात्रवि-
स्तारा कृतकुट्टिमा चतुरिका स्यात् ॥ ७ ॥
तत्र रात्रिशेपमनुलेपनं माल्यं सिक्यकरण्डकं सौगन्धिकपु.
टिका मातुलुङ्गस्वचस्ताम्बूलानि च स्युः ॥ ८॥
तत्र-वेदिकायां, राभिशेष राज्युपयुक्त रोषम् , अनुलेपनं चन्दनादिकं.
प्रातरुपभोगार्थ स्यात् , माल्यं रात्रिशेषम् सिक्थकरण्डक-सिक्थकसं.
पुटिका, सौगन्धिकं सुगन्धद्रव्यनिर्वृत्तं स्वेदापनोदार्थ तस्य पुटिका त-
मालादिपत्रमयी मातुलुङ्गत्वचो मुखवैरस्थापनोदार्थ दुष्टमारुतनिवार.
णार्थ च, यथोक्तम्-
सायं लोवा कामी मध्वक्तं मातुलुङ्गदलकल्कम् ।
स्त्रीभुजपञ्जरसंस्थः खलेन न हि हेप्यते मरुता' ॥ इति
ताम्बूलानि च सजितानि रात्रिपरिभोगार्थ स्युः॥८॥
भुमो पतगृहः ॥ ९॥
भूमौ पतद्गहः, न वेदिकायाम् . प्रक्रान्तत्वाद्वयवच्छिद्यते, यत्रस्थेन
वा नायकेनोपयुक्तताम्बूलादि निष्ठीवितं पतद् गृहाति सा भूमिः, तत्र
स्याद् नान्यत्र, अभूमित्वात् ॥ ४॥
नागढन्तावसक्ता वीणा, चित्रफलकं, वर्तिकासमुद्गको, यो
कश्चित्पुस्तकः, कुरण्टकमालाश्च ।। १० ।।
वीणा निचोलावगुण्ठिता वादनार्था, चित्रफलकमालेख्यार्थम् , व.
तिकासमुद्गकश्चित्रकर्मोपयोगी, यः कश्चिदिति सामान्यनिर्देशेऽपि यत्त-
दार्जी काव्यं भावितं तस्य पुस्तको वाचनार्थ स्थादित्यर्थादेवावगम्यते,
कुरण्टकमालाश्चेति । तासां शोभामात्रफलानां सुरतसंमनाप्यम्लायमा-
नत्वात् , तद्धारणे च सौभाग्यश्रुतेविशेषाभिधानम् , एता वीणादयोs.
नुपघातार्थ वासगृहभित्तिनिहितनागदन्तेष्वासज्य स्थापिता यथाप्रयो-
जनं चादातव्याः, अनुरूपस्थाननिवेशनमपिवैदग्ध्यजननमिति गम्यते ॥१०॥
नातिदूरे भूमौ वृत्तास्तरणं समस्तकम् ॥ ११ ॥
नातिदूरे शयनीयस्य, भूमौ; न पर्यंङ्क वेत्रासने वा, तत्रस्थस्याशो.
भितत्वाद् , वृत्तास्तरणं लोके प्रतीतम् , समस्तकमुपरिन्यस्तमस्तकमा.
सनार्थ स्यात् , कूर्चेषु तावत्कालिकमासनम् ॥ ११ ॥
आकर्षफलकं धृतफलकं च ॥ १२ ॥

४ अध्याये] नागरकवृत्तप्रकरणम् । । आकर्षफलक द्यूतफलकं च क्रीडाऽर्थ भूमौ कुड्योपाश्रितं स्यात् , काले च प्रसारयेत् ॥ १२ ॥ तस्य बहिः क्रीडाशकुनिपाराणि ॥ १३ ॥ तस्येति । वासगृहस्य, नातिदूरे बहिस्तत्सविधागारके क्रीडाऽर्थ- यानि शकुनिपूर्णानि पञ्जराणि नागदन्तावसक्तानि स्युः, नाभ्यन्तरे पुरीषोत्सर्गादिदोषात् ॥ १३ ॥ एकान्ते च तकुंतक्षणस्थानमन्यामां च क्रीडानाम् ॥ १४ ॥ एकान्त इति । एकदेशे यत्रासमये न पश्यति तत्र तर्कुकर्मणस्तक्ष. णस्य च स्थानम्, अन्यासां च क्रीडानां लजाहेतूनामेकान्ते स्थानम्॥१४॥ स्खास्तीर्णा प्रेक्षादोला वृक्षवाटिकायां सपच्छाया, स्थाण्डिल. पीठिका च मकुसुमेति भवनविन्यासः ॥ १५ ॥ स्वाम्तीर्णेति । आतपपरिहारार्थमुपरि घनशाखाप्रतानत्वात्सुसं. छन्ना, प्रेड्डादोला प्रेरणया यादोल्यते, सुखावहा वृक्षवाटिकायां क्रीडाऽर्थ- स्थात् , न गृहाभ्यन्तरे, चक्रदोला तु चक्रपरिचमणेन सा प्रेझेति निग. द्यते, सप्रच्छायेति, उपरिपुष्पलताऽवच्छिन्नत्वात्प्रकृष्टच्छायांपेता, स्थ. ण्डिलमयी पीठिका चेति कृतकुट्टिमा वेदिका, सकुसुमेति, लतानिपतत्कु. सुमावकीर्णा स्याद्, वृक्षवाटिकायामित्येव, लतामण्डपिकेत्यर्थः, तत्र पा नकादिभिरवस्थानाद्, भवनविन्यास उत्थापनावस्थापनाभ्याम् ॥१५॥ तत्रस्थस्य वृत्तं द्विविधम् । नित्यं, नैमित्तिकं च, तत्र पूर्वमधिकृत्याह- स प्रातरुत्थाय कृतनियतकृत्या, गृहीतदन्तधावनः, मात्र याऽनुलेपनं धूपं स्वजमिति गृहीत्वा, दत्त्वा सिक्थकमलक्तकञ्च,दृष्ट्वा. ऽऽदर्श मुखम्, गृहीतमुखवासताम्बूलः, कार्याण्यनुतिष्ठेत् ॥ १६ ॥ स इति । नायकः शयनात्प्रातरुत्थायाभ्युदितत्त्वापरिहारार्थ कृतनि- यतकृत्यः कृतमूत्रपुरीषोत्सर्गः, गृहीतदन्तधावनो जग्धदन्तकाष्ठः, अत्रा. न्तरे यथास्वं सन्ध्यावन्दनादेर्धर्मस्यानुष्ठानमर्थप्राप्तम्, मात्रयेति । प्रभू. तानुलेपनादिग्रहणादनागरकः स्यात् कार्यानुष्ठाने प्रस्तुतत्वाद्, धूरम- गुर्वादिना, नजं शेखरकमापोडं वा, अलक्तकं विशिष्टरागार्थ दरवेति, अर्थादोष्टयोः, ईषदायाऽलक्तकपिण्ड्या धृष्ट्वौष्ठं ताम्बूलमुपयुज्य; सि. क्थकगुटिकया ताडयेदित्ययं क्रमः, आदर्श मुखमवलोक्य, मङ्गलार्थ- प्रसाधनगुणदोषज्ञानाथं च, गृहीतमुखवासताम्बूल इति । गन्धयुक्तिवि. हितां मुखवासगुटिकां कपोले निधाय पुनरुपयोगार्थ च ताम्बूलं हस्त- वर्तिकायां गृहीत्वेत्यर्थः, कार्याणि त्रिवर्गसाधनान्यनुतिष्ठेत् ॥ १६ ॥ ६का०स० WALIDIDAR ४२ Ho । । JawaniMRAN सटीके कामसूत्रे [१ अधिकरणे, अनुष्ठितेषु तेषु शरीरसंस्कारार्थमाह- नित्यं स्नान, द्वितीयकमुत्सादनं, तृतीयक: फेनकः, चतुर्थक- मायुष्यम् , पञ्चमकं दशमकं वा प्रत्यायुष्यमित्यहीनम् ॥ १७ ॥ नित्यमिति । प्रत्यहं स्नानम् , ओजस्करत्वात्पवित्रत्वाच, द्वितीयक- मिति । यस्मिन्दिने कृतमुत्सादनं तदनन्तरं दिनं प्रथम, तस्माद् द्वितीये- ऽहि शरीरदायार्थ स्यात्, एकान्तरितमित्यर्थः, तृतीयक इति । तृतीये. ऽह्नि जघयोः फेनको देयः स्याद्, द्विदिनान्तरित इत्यर्थः, अन्यथा ऊर्ध्व जचे कर्कशे स्याताम्, चतुर्थकमिति । निः पक्षस्य च श्मश्रुनख. रोमाणि वर्धयेदित्ययमागमः, अत्र कषां चिन्नागरकाणामुपायभेदात्का - लभेदः, तत्रायुष्यं श्मश्रुकर्म क्षुरेण तश्चतुर्थेऽह्नि स्याद्, दिनत्रयान्तरि तमित्यर्थः, कता तु पञ्चमकमेव स्यात्, प्रत्यायुष्यमिति। यद् गुह्ये क्षुरेण कर्म तत्पञ्चमेऽहनि, यत्तु लोम्नामुत्पाटनेन तद्दशमे स्यादित्याह- दशमकं वेति । तत्र लोम्नां चिरेणोद्गमनात्, तथा चोक्तम्- 'आयुष्यं तच्चतुर्थेऽति स्याद्यत्तु क्षुरकर्मणा । प्रत्यायुष्यं यदुद्धाराल्लोम्नां तहशमेऽहनि' इति । एवमर्थ च सामान्येन त्रिः पक्षस्यालङ्कारकर्मेति नोक्तम्, अहीनमि ति । स्नानादिपञ्चकमविकलं स्यादित्यर्थः ॥ १७ ॥ सातत्याच्च संकृतकक्षास्वेदापनोदः ॥ १८ ॥ सातत्यादिति । सर्वदा कक्षा विवत्यं स्थातव्यम्, यदा तु किञ्चिकर्म कुर्वतस्संवृता स्यात्तदा संश्लेषानियतमस्यां स्वेदः, तं संततं कर्पटेना- पनुदे, अन्यथा वेगन्थ्यमवैदग्ध्यं च जनयेत् ॥ १८ ॥ पूर्वालापरायोर्भोजनम् ॥ १९ ॥ पूर्षाढापरावयोरिति । दिन रात्रिमष्टधा विभज्य पूर्वाहणे त्रिभिर्भागः कार्याण्यनुतिष्ठेत् , चतुर्थे स्नानादिकं कृत्वा भुञ्जीत, अपराणे च प- श्चिमे भागे बलाधानार्थ पुनर्भुजोतेत्याचार्याणां मतमनुक्तमपि शेयम्, मतान्तरोपन्यासात् ॥ १९ ॥ सायं चारायणस्य ॥ २० ॥ सायमिति । पूर्वाहणे प्रदोषे च चारायणस्थ मतम, न तथाऽपरा- णे द्वितीयभोजनं बलमाधत्ते यथा रात्राविति, तथा चोक्तम्- 'अजीर्ण भोजनं यच्च यच्च जीण न भुज्यते। रात्री न भुज्यते यच्च तेन जीर्यन्ति मानवाः ॥ २० ॥ भोजनाचन्तरं शुकमारिकामकापनच्यापारा, लावककुक्कु. 1 ४ अध्याये] नागरकवृत्तप्रकरणम् । ४३ । टमेषयुद्धानि, तास्ताश्च कलाक्रीडाः, पीठमर्दविटविकायत्ता- व्यापाराः, दिवाशय्या च ॥ २१ ॥ भोजनानन्तरमिति । पूर्वाणे भोजनानन्तरं शुकसारिकाप्रलापना- दयो दिवाशयनान्ता व्यापाराः स्युस्तेषामयमेव कालः, तास्ताश्चेति । या याः प्रहेलिकापतिमालाऽऽदिभिः क्रीडा उक्ताः, पीउमदीन्व(१)श्य- ति, तेष्वायत्ता व्यापारा: संधिविग्रहादयः, दिवाशय्येति। दिवाश. यनमधर्मोऽपि ग्रीष्म एव क्षयकाले शरीरपुष्ट्यर्थमनुज्ञातं, शरीरस्य ध- मसाधनत्वात् ॥ २१ ॥ गृहीतप्रसाधनस्थापराहे गोष्ठीविचाराः।। २२ ।। गृहीतप्रसाधनस्येति । प्रस्तुतव्यापारमुपसंहृत्य गृहीतवहारिकवे. षस्यापऽह्नश्चतुर्थभागे, गोष्ठीविहारा गोष्ठ्यां क्रीडा इति । एतदेव- सिक वृत्तम् ॥ २२॥ रात्रिभवमाह- प्रदोषे च संगीतकानि ॥२३॥ प्रदोषे चेति । प्रतिष्ठितायां संध्यायां रजनीमुखे सङ्गीतकानि नृत्य- मोतवादित्रकाणि प्रकाराणि स्युः ॥ २३ ॥ तदन्त च, प्रसाधिते वासगृहे संचारितसुरभिधूपे ससहाय- स्य शय्यायामभिसारिकाणां प्रतीक्षणं, दूतीनां प्रेषणं, स्वयं वा गमनम् ॥ २४ ॥ तदन्ते च सङ्गीतकान्ते, प्रसाधिते संमार्जनपुष्पप्रकरशयनरचना- ऽऽदिभिर्खासगृहे बाह्ये, संञ्चारितो विस्तारितः सुरभिधूपो यत्रेति, वास. गृहं व्याप्य बहिरुपकान्त इत्यर्थः, ससहायस्येति । सहायान्वक्ष्य(२)ति, तेषामप्यत्र व्यापारात्, शय्यायामिति । शग्यासमीपे स्थितस्य, गौरवानुरागख्यापनार्थ न तावदध्यासीत शयां, स्वयं वा गमनं- कदा चित्स्यादिति, आभिमुख्येन कान्तं सरन्तीत्यभिसारिकास्ता. सां कृतसङ्केतानां प्रतीक्षणं, दुतीनां संप्रेषणं; सङ्केतितकालाति- क्रमे तत्संप्रेषणेऽपि मानादनागमे स्वयं वा गमनं गौरवानुरागख्या- पनार्थम् ॥ २४ ॥ आगतानां च मनोहरैरालापैरुपचारैश्च ससहायस्योपक्रमा क- (१) अधि० १, अ. ४, प्र० ४, सू. ४४, ४५, ४६, । (२) अधि० १, अ० ५, प्र० ५, सू० ३५, ३६, ।

सटीके कामसूत्रे [१ अधिकरणे, प्रमृष्टनेपथ्याना दुर्दिनाभिसारिकाणां स्वयमेव पुनमण्डनम् , मि- बजनेन वा, परिचरणमित्याहारात्रिकम् ॥ २५ ॥ मनोहरैरिति । "स्वागतम्, इदमालनमास्यताम् , साधु कृतं दयिते ! यदागताऽसि, त्वत्प्रतिबद्धजीवित एवास्मि, तत्किमिति कालोऽनिक्रमि- तः” इत्यादिमिरालापैः, उपक्रमाः प्रत्युहमादयः, ससहायस्येति । सहाया अपि तद्वचनमनुकुर्वन्तः स्वव्यापारणोपक्रमेरन्, प्रमृष्टं विलु- दुर्दिनाभिसारिका दुर्दिनकालेऽभिसरन्ति याः, स्वयमेव नान्येन, लक्ष्यभूतानां गौरवानुरागख्यापनार्थम् , पुनर्मण्डनं वर्षेणोत्पादितवैकृत. स्वाद् आसन्नोपभोगकालत्वाच्च, मित्रजनेनात्मनिर्विशेषेण पुनर्मण्ड- नम्, मध्यवृत्तीनाम् , परिचरणं चेति संचाहनवीजनादिकं सर्वासामेव परिचारकै कारयितव्यम् , एतद् बाह्यस्त्रीधु, नान्तर्दारेषु, आहोरात्रिक- महोरात्रभवम् , सांप्रयोगिकं च रात्रिभवं सांप्रयोगिक वश्य(१)ति ॥२५॥ नैमित्तिकमाह-- घटानिबन्धन, गोष्ठीममवायः, समापानकम् , उद्यानगमनं, समस्याः क्रीडाश्च प्रवर्तयेत् ॥ २६ ॥ घटानिबन्धनमिति । देवानुद्दिश्य यात्रा घटा: नागरकाणां तत्र संघ. ट्यमानत्वात् , तस्या निबन्धनं गणधर्मेण व्यवस्थापनम्, गोटीसमवा. य इति । गोष्ठयां नागरकाणां काव्यकलाविषयं समवायनं संघधारण- प्रज्ञाविबृद्धये, यदपराहणे गोष्ठीविहार इति नित्यकर्मक्तं तस्य क्रीडामात्र- फलस्वादिदं विशिष्यते, समापानकमिति । संभूय समन्तात्पानमापान कमित्यर्थः, यनायिकया सहकस्य मात्रया पानं तत्सरकाख्यं नित्यमेव. स्यात्, उद्यानगमनमिति । बहिः स्वकारितेऽन्यकारिते वोद्याने गमनं- वनविहार इत्यर्थः, गृहवाटिकागमनं तु निस्यमेव स्यात्, समस्याः क्रीडा. श्चेति । समस्यन्ते समग्रीभवन्ति नागरका यासु ताः समस्याः, अधिकर- णे ण्य(२)त्प्रत्ययः, पूर्ववत् संभूय क्रीडा इत्यर्थः, ता द्विविधा-माहिमा- न्यो देश्याश्च, एतत् पञ्चविधं कर्म नैमित्तिकं नायकः प्रवर्तयेत् ॥ २६ ॥ तत्र घटानिबन्धनमाह- पक्षस्थ मासस्य वा प्रज्ञातेऽहनि सरस्वत्या भवने नियुक्तानां• नित्यं समाजः ॥ २७ ॥ Holian (१,) अधि. २, द्वितीयादिधु नवस्वध्याथेषु । (२) प्रसिद्धलक्ष्यानुरोधात्संज्ञापूर्वकाबधेरनित्यतया णित्त्वप्रयुक्तवृद्धयभावः । कृत्यल्युटो बहुलम् ।।३।११३। इत्यतोऽर्थान्तराभ्युपगमः ।

४ अध्याये] नागरकवृत्तप्रकरणम् । PAIRBADIO पक्षस्येति । पक्षस्य मासस्य वाऽतिक्रान्तस्यावसानिकेऽहनि, प्रज्ञात- इति । यद्दिनं यस्या देवताया लोकप्रसिद्धं तत् प्रज्ञातम्, यथा गणपतेश्च. तुर्थी, सरस्वत्याः पञ्चमी, शिवस्याष्टमीत्यादि, तत्र देवतायाः संनिधा- नात् , सरस्वती च नागरकाणां विद्याकलास्वधिदेवता, तस्या आयतने पञ्चभ्याम् ,नियुक्तानामिति । नायकेन पूजोपचारकत्वे प्रतिपक्ष प्रतिमालं- च ये नियुक्ता नागरकनटादयो नतितुं, तेषां समाजः, स्वव्यापारानुष्ठानेन मिलनं, यस्मिन् प्रवृत्ते नागरकाः सामाजिका भवन्ति, नित्यमिति । तत्र तत्राहनि ॥२७॥ अन्येष्वहःसु धूपविलेपनघटा, तस्या निबन्धनमाह- कुशीलवाश्चागन्तवः प्रेक्षणकमेषां दाः॥ २८ ॥ कुशीलवाश्चेति । आगन्तवोऽन्यस्मादायतनाद् नटनर्तकाः, प्रेक्षण- कमेषां प्रज्ञातेऽहन्यन्यत्र वाऽहनि दद्युदर्शयेयुः. नियुक्तास्तु भृतिप्रति- बद्धा यात्रायां कुशीलवत्वात् प्रशात एव दर्शयन्ति, इदमुक्तं भवति-पू. जोक्वारकैः पात्रापात्रत्वमनपेक्ष्यैव प्रेक्षणमवश्यं ते दर्शयितव्या इति॥२८॥ द्वितीयेऽहनि नेभ्यः पूजा नियतं लभेरन् ॥ २९ ॥ द्वितीय इति । प्रथमेऽहनि प्रेक्षणकव्यग्रत्वात् , तृतीयादिष्वपि क्लिष्ट. दानं स्यात्, तेभ्य इति । नियुक्तेभ्यः पूजोपचारकेभ्यः, पूजा प्रेक्षणक- फलम्, नियतमिति । एतावत् प्रेक्षणकमूल्यमागन्तूनामिति पूर्वकल्पितं- प्राप्नुयुः, अनियतात् प्रेक्षणकाद् रागाद्वस्त्रादिदानलक्षणं प्रथमे वाऽति रङ्गमध्ये नागरकेभ्यो लभेरन् ॥ २९ ॥ ततो यथाश्रद्धमेषां दर्शनमुत्सर्गो वा ॥ ३० ॥ तत उत्तरकालम् , यथाश्रद्धमिति । पुनद्रष्टुं यदि श्रद्धाऽस्ति पुनरा- गन्तूनां नृत्यतां दर्शनं, नो चेदुत्सर्गः प्रियालापैः संप्रेषणम् ॥ ३० ॥ यदा पुनः पुनदर्शनकौतुकं तदा दर्शनविशेषमाह- व्यसनोत्सवेषु चैषां परस्परस्यक कार्यता ॥ ३१ ॥ व्यसनोत्सवेषु चैषामिति । आगन्तूनां कस्य चिद्वयाधौ शोके व्य- सने वा तथा विवाहादावुत्सवे व्यग्रस्य यत्कर्म तनियुक्तेन कुशीलवेन प्रेक्षणकाविधातार्थ संपाद्यम् , नियुक्तानां वा कस्य चिद्वयसनोत्लवे, तदाऽऽगन्तुनेति परस्परैककार्यता स्यात् ॥ ३१ ॥ आगन्तूनां च कृतसमवायानां पूजनमभ्युपपत्तिश्चेति गणधर्मः॥३२॥ कृतसमवायानामिति । ये नागरकपदेऽभिषिक्ता घटां द्रष्टुमन्यस्मा- दागतास्तेषां पूजोपचारकर्माल्यानुलेपनादिभिः पूजनम् , पारिषदना. । . ।

४६
सटीके कामसूत्रे
[१ अधिकरणे,
।
।
wateAD
-
गरकैश्च यथापरिचयं माङ्गलिकम् , अभ्युपपत्तिश्चेति । व्यसने साहाय्यं-
तत्प्रतीकारेण, गणधर्म इति । तत्रत्यानामागन्तूनां कुशीलवनागरकाणां-
यथास्वं परिषद्धर्म उक्तः॥ ३२ ॥
एतेन तं तं देवताविशेषमुद्दिश्य सम्भावितस्थितयो विविधा.
घटा व्याख्याताः॥ ३३ ॥
एतेनेति । सरस्वतीघटाऽऽदिनिवन्धनेन, तं तमिति । यो यः सां.
निध्याल्लोके दृष्टातिशयः, संभावितस्थितय इति । देशकालापेक्षया कृत.
व्यवस्थाः॥ ३३ ॥
गोष्टीसमवायमाह-
वेश्याभवने सभायामन्यतमस्योदवसिते वा समानाविधाबुद्धि.
शीलवित्तवयसां सह वेश्याभिरनुरूपैरालापैरासनबन्धो गोष्ठी॥३४॥
वेश्याभवन इति । सभायां मण्डपे, अन्यतमस्य वा नागरकस्योद-
वसिते गृहे, एषु नागरकाणामविरुद्धं मिलनं समानविद्यादीनां सुखा.
तिशयाद्, नासमानविद्यादीनाम्, बुद्धिः प्रज्ञा, अभिप्रायो वा, सह
वेश्याभिरिति । स्त्रीप्रतिबद्धकलाप्रतिपत्त्यर्थमासां गोश्यामन्तर्भावः, अ.
नुरूपैः परस्परस्तुत्यनुरागपरिहासानुविद्धः, आसनबन्धो यथायथमा-
सनेऽवस्थानम् , पक्षस्थ मासस्य वा तद्योग्यतया प्रज्ञातेऽहनि स्यात्॥३४॥
तत्रैषां समवायमाह-
तत्र चैषां काव्यसमस्या कलासमस्या च ॥ ३५ ॥
काव्यसमस्या कलासमस्या चेति । संभूय दर्शनं निरूपणं तत्सम-
स्या चर्चेत्यर्थः, पूर्ववद्भावे (१)प्रत्ययः, 'अस गतिदीप्त्यादानेषु' इति
गत्यर्थस्य ज्ञानार्थत्वाद्, भरतादिकाव्यस्य नृत्यादिकलाण वा चर्चा
स्यात्, यत्तु काव्यसमस्यापूरणमित्युक्तं, तस्थ भिन्नार्थत्वात् कलासम
स्था चेत्यत्रान्तर्भावः ॥ ३५ ॥
तस्यामुज्ज्वला लोककान्ताः पूज्याः प्रीतिममानाश्चाहारिताः॥३६॥
तस्यामिति । गोष्ठयाम्, चर्चाऽवसाने प्रीतिबर्धनाथं वस्त्रादिदाने.
न परस्परस्य कलापूजाः स्युः, उज्ज्वला=अग्राम्याः, लोककान्ताः-लो.
कमनोहराः, प्रीतिसमाना: प्रीत्यनुरूपाः, आहारिताः परिचारिकैरा.
नायिताः ॥ ३६॥
समापानकमाह-
परस्परभवनेषु चापानकानि ॥ ३७ ॥

४ अध्याये] नागरकवृत्तप्रकरणम् । - N परस्परभवनेषु चेति । एकस्यैकदा भवनेऽन्यदाऽन्यस्य वा, पक्ष. स्य मासस्य वा तद्योग्यतया प्रज्ञातेऽहनि, आपानकानि-पानगो- यः स्युः ॥ ३७॥ आपानकेषु विधिमाह- तत्र मधुमैरेयासवान् विविधलबणफलहरितशाकतिक्तकटुका- म्लोपदंशान् वेश्याः पाययेयुरनुपिबेयुश्च ।। ३८ ॥ तत्रेति । मधु-माध्वीकम् , मैरेयासवौ मद्यविशेषौ, तथा चोक्तम्- 'मेषङ्गीत्वक्क्काथाभियुतो गुडप्रतीवापः, पिप्पलीमरिचसंभारस्त्रि- फलायुक्तो मद्यो मैरेयः। कपित्थतुल्यफाणितपञ्चतौलिकप्रस्थमधुनश्चा- सवयोगः, सुराकल्कतण्डुलाभ्यां निष्पन्नो गुडस्तत्र निक्षिप्यते' इति । मद्यमिति वक्तव्ये विशेषोपादानं त्रैविध्यख्यापनार्थम् , तथा चोक्तम्- 'गौडी पेष्टी च माध्वी च विज्ञेया त्रिविधा सुरा'। अत्र सुराशब्दः सामान्यवाची द्रष्टव्यः, एवं च विविधपानादापा- नकं भवति, विविधानि लवणतिक्तरसभूयिष्ठानि हरितकटुकानि च शिग्रुपर्णादीन्युपदंशो येषामिति; तान् वेश्याः पाययेयुरभ्यर्थनापुरःसर- मनुपिबेयुश्च, आदौ पिबद्भिौरनानुरागौ न प्रकाशितौ स्याताम् , अत्र सह पृथग्वेति देशप्रवृत्तिरपेक्षणीथा ॥ ३८ ॥ हतेनोद्यानगमनं व्याख्यातम् ।। ३९ ॥ एतेनेति । आपानकविधिना, उद्यानगतैरप्ययमेवापानकविधिःकार्य- इत्यर्थः ॥ ३९ ॥ तत्रोद्यानगमने विशेषमाह- पूर्वाह्न एव स्वलंकृतास्तुरगाधिरूढा वेश्याभिः सह परिचा- रकानुगता गच्छेयुः, देवसिकी च यात्रां तत्रैवानुभूय कुक्कुटला. वकमेषयुद्धातैः प्रेक्षाभिरनुकूलैश्च चेष्टितः कालं गमयित्वाऽपरा- हे गृहीततदुद्यानोपभोगचितास्तथैव प्रत्याव्रजेयुः ॥ ४० ॥ पूर्वाह्न एवेति । तदा हि गतानां दैवसिकी यात्रा संपद्यते, स्वलं- कृताः गृहीतवहारिकवेषाः, तुरगाधिरूढाः, तुरगाणां ललितयानत्वात् , वेश्याभिः सहेति । ता अपि पश्चादनतो वा तुरगमारोहयितव्याः, परि. चारकाः, यथास्वं कर्मभिः परिचरन्ति ये तैरनुगताः, पक्षस्य मासस्य वा गमनयोग्यतया प्रज्ञातेऽहनि गच्छेयुः, दैवसिका यात्रां, प्रत्यहं कि- (१) कृत्यप्रत्ययस्व बाहुलकत्वादिति भावः । । Heta सटीके कामसूत्रे [१ अधिकरणे, । । यमाणां शरीरस्थिति , तत्रैवोद्यानेऽनुभूय; कुक्कुटलावकमेषयुद्धद्यूतैः सजीवनिर्जीवनदादिप्रेक्षाभिरनुकूलैश्च चेष्टितैर्यथास्त्रं वेश्याप्रतिवद्धः केलिविशेषेण दिवसं गमयित्वा, अपराहणे प्रशान्तवेलायाम्, तथैवेति । स्वलंकृतास्तुरगाधिरूढाः सह वेश्याभिः परिचारकानुगता इति । वि. शेषोऽत्र गृहीततदुद्यानोपभोगचिन्हा इति तदुद्यानमुपभुक्तमिति' यानि सूचयन्ति कुसुमस्तवककिसलयादीनि तानि गृहीतानि शिरःकर्णकण्ठेषु कृतानि यैरिति, प्रत्याव्रजेयुः प्रतीपमागच्छेयुः॥ ४० ॥ एतेन रचितोदाहोदकानां ग्रीष्मे जलक्रीडागमनं व्याख्यातम् ॥४१॥ एतेनेति । उद्यानगमनविधिना, तत्रापि गमनं देवसिकयात्राऽनुभ- चनमागमनं च तुल्यं. किं तु गृहीततदुद्यानोपभोगचिन्हा इति; तेन तत्रैव प्रायशोऽन्तर्भूतमिति नैमित्तिकवर्गे पृथङ नोक्तं , योऽत्र विशेष. स्तमाह-रचितोद्गाहोदकानामिति । उद्वाहमविद्यमानकुल्याऽऽधुदकं य. स्य तोयस्थानस्य तदुवाहोदकं वापीदीर्घिकाऽऽदि, रचितमिति, स्वार्थिः कण्यन्तातुमण्ण्यन्तात् कृत्प्रत्यये रूपम् ; रच 'प्रतियत्ने' इत्यस्यादन्त- स्वान्न बृद्धिः तीर्थविन्यासादिभिः रचितं कारितमुद्दाहोदकं यै गरकैरि- ति, ग्रीष्म इति । अन्यदा तु पुनर्निमजनोदकवाद्यविधानादिप्रकारायाः क्रीडाया असंभवात् ॥ ४१ ॥ समस्याः, क्रीडा, आह- यक्षरात्रिः, कौमुदीजागरः, सुवसन्तकः, सहकारभञ्जिका, ऽभ्यूपखादिका, बिसवादिका, नवपत्रिका, उदकवेडिका, पाश्चा- लानुयानम् , एकशाल्मली, (१)यवचतुर्थी, आलोलचतुर्थी, मदनोत्स. वो, दमनभञ्जिका, होलाका, अशोकोत्तंसिका, पुष्पावचायिका, चूतलतिका, इक्षुभञ्जिका, कदम्बयुद्धानि, तास्ताश्च माहिमान्यो दे- श्याश्च क्रीडा जनेभ्यो विशिष्टमाचरेयुरिति संभूय क्रीडाः ॥ ४२ ॥ यक्षरात्रिरिति । सुखरा(३)त्रिर्यक्षाणां तत्र संनिधानात्; तत्र प्रा. यशो लोकस्य द्यूतक्रीडा, कौमुदोजागर इति । आश्वयुज्यां हि पौर्ण- मास्यां कौमुद्या ज्योत्स्नायाः प्रकर्षण प्रवृत्तेः तत्र दोलायूतप्रायाः को- डाः, सुवसन्तक इति । सुव(३)सन्तो मदनोत्सवः, तत्र नृत्यगीतवा- द्यप्रायाः क्रोडाः, एता माहिमान्यः क्रीडाः, देश्या आह-सहकारभञ्जि- (१) स्पृहयन्तीव्रतम् इति क० पु. अधिकम् । (२) कात्र्तिकामावस्यारात्रिः । (३,) माघशुक्लपञ्चमीदिनम् ।

४ अध्याये] नागरकवृत्तप्रकरणम् । केति । सहकारफलानां भजनं यत्र क्रीडायाम्, अभ्यूषखादिका, चण- कादिफलानां विट स्थानामग्नौ प्लोषितानां खादनं यत्रेत्येते द्वे क्व चित् क्व विद् दृश्येते, बिसखादिका; बिसानां मृणालानां खादनं यत्र, सरासमीपवासिनां, नव(१)पत्रिका प्रथमवर्षणेन प्ररूढनवपत्रासु वन- स्थलीषु या क्रीडा सा प्रायेणाटवीसमीपवासिनामाटविकानां च, उद- कक्षवेडिकेति। 'वंशनाडी स्मृता श्वेडा सिंहनादश्च कथ्यते' इति । उदकपूर्णा श्वेडा यस्यां क्रीडायां सा मध्यदेश्यानाम् ; यस्याः (२)ङ्गक्रीडेति प्रसिद्धिः, पाञ्चालानुयानम् भिन्नालापचेष्टितैः पाञ्चा- (३)लक्रीडा यथा मिथिलायाम, एकशाल्मली एकमेव महान्तं कुसु- मनिर्भर शाल्मलिवृक्षमाश्रित्य; तत् कुसुमाभरणानां क्रीडा यथा वैद- र्भाणां, यवचतुर्थी वैशाखशुक्लचतुर्था नायकानां परस्परं सुगन्ध- यवचूर्णप्रक्षेप इति पाश्चात्येषु प्रसिद्धा, आलोल चतुर्थी श्रावणशुक्लत- तीयायां हिन्दोलक्रीडा, मदनोत्सवो मदनप्रतिकृति(४)पूजनम् , दमन- भञ्जिका परस्परं दमनकपुष्पावतंसन(५)म् , होलाका फाल्गुनपूर्णि- मायां शृङ्गकादिमुक्तेन किंशुकादिकुसुमरागाम्भसा परस्परोक्षणम् । मिथःपटवासप्रक्षेपश्च, अशोकोत्तंसिको अशोकपुष्पैः शिरोभूषणर- च(६)ना, पुष्पावचायिका पुष्पावचयनक्रीडा, चूतलतिका चूतपल्ल- वावतंसनम्, इक्षुभञ्जिका इक्षुखण्डमण्डनम्, कदम्बयुद्धानि कदम्बकु. सुमैः प्रहरणभूतैद्विधा बलं विभज्य युद्धानि कदम्बग्रहणं सुकुमारप्र. हरणसूचनार्थम् ; यष्टीष्टकाऽऽदियुक्तानि तु न कार्याणि यथा पौण्डाणां युद्धं व चित् क्व चिद् दृश्यते, तास्ताश्चेति । या या लोके प्रवृत्तपूर्वाः, माहिमान्य इति । महिमा महत्त्वं तद्विद्यते यासामिति संज्ञायां मन्मा- भ्याम् ।५।२।१३७। इतीनिप्रत्ययः, सर्वदेशव्यापिन्य इत्यथः, देशे भवा- देश्याः प्रदेशिन्य इत्यर्थः, जनेभ्यो विशिष्टमिति । घटाऽऽदयो नागर- काणामेव, समस्यास्तु साधारण्यः; तत्र जना नागरकाश्च क्रीडन्ति, त- स्मात्तेभ्यो विशिष्टमाचरेयुः; नागरत्वद्योतनार्थम्, संभूय क्रीडा इति । आसु नागरकाणां द्रष्टव्यमपहाय संभूय क्रीडनात् ॥ ४२ ॥ एकचारिणश्च विभत्र सामान्ः गणिकाया नायिकायाश्च स- खीभिर्नागरकैश्च सह चरितमेतेन व्याख्यातम् ॥ ४३ ॥ (१) बृक्षोद्वाहकीडा। (२) 'होली' इति तद्देशप्रसिद्ध नाम । (३) पुत्तलिकाविवाहः । (४) चैत्रसितचतुर्दश्याम् । (५) चैत्रसितद्वादश्याम् । (६) चैत्रसिताष्टम्याम् । रचनेत्युपलक्षणमशोककलिकाऽऽस्वादस्यापि । ७ का० सू०

सटीके कामसूत्रे [१ अधिकरणे,
नागरकाणामभावाददृष्टदोषाद्वा यः कश्चिदेक एव चरति तस्य स्व-
विभवानुरूपेण परिचारकैः सह यक्षरात्र्यादयः समस्ता एव स्युः,
एतेनेति। स्थानगृहन्यासनित्यनैमित्तिकविधिना यथासंभवं गणिकाया-
नायिकायाश्च चरितं व्याख्यातम् , तत्र नागरकाणां स्थाने सख्या,
सखीनां स्थाने नागरका इति॥४३॥
उपनागरकाणां लक्षणद्वारेण वृत्तमाह-
अविभवस्तु शरीरमात्रो मल्लिकाफेनकषायमात्रपरिच्छदः पू
ज्यादेशादागतः कलासु विचक्षणस्तदुपदेशेन गोष्ठयां वेशोचित च
वृत्ते साधयेदात्मानमिति पीठमर्दः ॥ ४४ ॥
तुशब्दो विशेषणार्थः, यस्तु निष्किञ्चनो यथोक्तं नागरकवृत्तं वर्तितु.
मयोग्यः शरीरमात्रः पुत्रकलत्राद्यभावात् परिचारकद्वितीयो यथोत्पा.
दितवित्ताभावाद्देशहिण्डनकः, मल्लिका दण्डासनिका, शरीरधारणात्पू-
वनागरकाचार्यः संकेतिता 'मल मल्ल धारणे' इति धातुपाठात् सा
तस्य पृष्ठत एवासनार्थ भ्राम्यते. प्रवृत्तविषयेच्छन्वाञ्च जङ्घाघर्षणार्थ-
फेनकषायाविति, तन्मात्रं परिच्छदो विभवो यस्येति, पीठिकाऽऽद्या-
सनं तु नाहति, पूज्याद्देशाच्छास्त्रकलाविदध्युषितात्, तत्रत्य एव देश-
दिदृक्षयाऽऽगतः, कलासु कुशलः स्वदेश एव गीतादिचतुःषष्टिं पाञ्चा-
लकी चाधीतवान् , तदुपदेशेन कलोपदेशेन, गोष्ठयां नागरकाणाम् ,
वेशोचिते-वेश्याजनोचिते वृत्ते, साधयेदात्मानमिति ।आचार्यमात्माननि.
रुपादयेदित्यर्थः, स पीठमर्द उपदेशदानेऽधिकृतत्वान्मल्लिकाऽऽख्यं पीठं
मृद्नातीति कृत्वा, एतेनाचार्यवृत्तमस्य वृत्तम् ॥ ४४ ॥
भुक्तविभवस्तु गुणवान् सकलत्रों वेशे गोष्ठयां च बहुमतस्तदुः
पजीवी च विटः ॥ ४५ ॥
यस्तु यौवने नागरकवृत्या परिभुक्तसर्वस्वोऽप्यनुपरतो विषयेभ्यः,
सविभवस्तु नागरक एव स्यात् , तत्रत्यो नान्यस्माहेशादागतः, भुक्तवि.
भवस्वागन्तुकः, पीठमर्दात् स एव गुणवान्नायकगुणयुक्तः, प्राक्तस्य ना.
गरकत्वात् , सकलनः सानुबन्धत्वान्न स्वदेशत्यागी, बहुमत इति । बहु
मतं यस्य; विशेषपरिज्ञानात् , तदुपजीवी वेश्यागोठ्युपजीवी, वृत्तिम
न्यामनिच्छन् वेश्याजनं नागरकजनं चोपजीवति, तदुपजीवितया तयोः
सन्देशं परस्परं विटतीति विटः, 'विट शब्दे' इति धातुपाठात् , वक्ष्यति
च-'विटः पुरोगां प्रीति कुर्याद्' इति, तेन तदुपजीविवृत्तमेवास्य वृत्तम्॥४५॥
एकदेशाविद्यस्तु क्रीडनको विश्वास्यश्च विषको वैहासिको वा॥४६॥

४ अध्याये] नागरकवृत्तप्रकरणम् । यस्तु गीतादीनां प्रदेशज्ञः सोऽविभवो भुक्तविभवो वा शरीरमात्रः सकलत्रस्तत्रत्य आगन्तुको वा, पूर्ववृत्त्यसम्भवात् , क्रीडनको विश्वास्य. श्व भवति, वेशे गोष्ठयां च विश्वास्थतामुपगम्य परिहासशीलवृत्त्या वर्तत इत्यर्थः, स च वेश्यां नागरकं वा क्व चित् प्रमाद्यन्तं लब्धप्रणय. स्वादपवदत इति विदूषक., क्रोडनकत्वाच वेशे गोट्यां च विविधेन हासेन चरतीति वैहासिकः, इत्युपयनामा ॥ ४६ ॥ एते वेश्यानां नागरकाणां च मन्त्रिणः सन्धिविग्रहनियुक्ताः॥४७॥ एते नागरकाणां पार्श्ववर्तित्वादुपनागरका मन्त्रिण, सन्धिविग्रह- नियुक्ता इति । सामान्यवृत्ते सन्धिविग्रहयोर्ज्ञाने मन्त्रिणः कर्मणि सा. न्धिविग्रहिकाः, तथा हि-देशकालकार्यापेक्षया सन्धिविग्रहौ प्रधानगुणौ ज्ञानेनावधार्य तत्कर्मसु प्रवर्तन्त इति ज्ञानकर्मरूपी सन्धिविग्रहौ ॥४७॥ तैर्भिक्षुक्यः कलाविदग्धा मुण्डा वृषल्यो बृद्धगणिकाश्च व्या- ख्याता:॥४८॥ तैरिति । उभयात्मकैः, भिक्षुक्यः भिक्षुकस्य भार्याः, मुण्डाः-मुण्ड. गुणयुक्ताः वृषल्या=बन्धक्या, 'कलाविदग्धा' इति सर्वत्र योज्यम्, ता. अपि सन्धिविग्रहयोर्शाने कर्मणि च नियोक्तव्याः, ताश्च सन्धिषिग्रहार्थ- कुट्टनाञ्चालनात् कुट्टन्य इत्युच्यन्ते ॥४८॥ यात्रावशाग्रामवासिनो वृत्तमाह- ग्रामवासी च सजातान्विचक्षणान्कौतुहालिकान्प्रोत्साह्य; ना. गरकजनस्य वृनं वर्णयञ्छ्रद्धां च जनयंस्तदेवानुकुर्वीत, गोष्ठीश्च प्रवर्तयेत् , सङ्गत्या जनमनुरञ्जयेत् , कर्मसु च साहाय्येन चानुगृही- याद्, उपकारयेचेति नागरकत्तम् ॥ ४९ ॥ ग्रामवासी चेति । सजातान् समानजातीयान् , तत्रापि विचक्षणान् : प्राज्ञान् , कौतूहलिकान-कौतुकवतः, प्रोत्साह्य कथमित्याह-वृत्तं वर्णयन्न- गर इत्थं गोत्रपुत्राणां लोकमनोहारि चेष्टितं श्रूयते, भवतामपि युक्तं वै. चक्षण्यानुरूपं जीवितफलं तदनुकर्तुमिति श्रद्धां च जनयन्; यात्रामपि तद्द. र्शनेन गोष्ठीश्च प्रवर्तयेत् , तैः सह सङ्गत्या जनमनुरजयेत् , सङ्गतिमैत्री- भ्यामित्यर्थः, साहाय्येनानुगृह्णीयात् , यात्रोत्सवादिषु प्रवर्तमानमुपचार. यश्च परस्परमुपचरेत् ॥ ४९ ॥ तत्र चैषां काव्यसमस्याः कलासमस्याश्चेत्युक्तम्, तत्रविशेषमाह- भवन्ति चात्र श्लोकाः- नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया । .

५२ सटीके कामसूत्रे [१ अधिकरणे, . कथां गोष्ठीषु कथय लोके बहुमतो भवेत् ॥ ५० ॥ नात्यन्तमिति । कश्चिदेव संस्कृतं वेत्ति देशभाषां च, कथां काव्यक- लाविषयां चर्चाम् ॥ ५० ॥ या गोष्टी लोकविद्विष्टा या च स्वरविसर्पिणी । परहिंसाऽऽत्मिका या च न तामवतरेद् बुधः ॥ ११ ॥ या गोष्ठीति । यदा स्वयं गोष्ठी न प्रवर्तयेत्तदाऽन्यप्रवर्तितां यायात्, तत्रापि या लोकविद्विष्टा-लोकस्यासमता स्वैरविसर्पिणी-स्वातन्त्र्येण प्रवृत्ता निरङ्कुशेत्यर्थः परहिसाऽऽत्मिका-परदूषणपरा, न तत्रावतरे- इ बुधः, तत्र ह्यवतरणमबुधस्य दृश्यते ॥ ५१ ॥ लोकचित्तानुवर्तिन्या क्रीडामात्रैककार्य या । गोठ्या सह चरन्विद्वाँल्लोके सिद्धिं नियच्छति ॥ १२ ॥ इति श्रीवात्स्यायनीये कामसूत्र साधारणे प्रथमेऽ- धिकरणे नागरकवृत्तं चतुर्थोऽध्यायः । कया सह विचरेदित्याह-लोकचित्तेति । लोकचित्तानुरञ्जनं क्रीडा च फलं गोष्ठयाः, सिद्धि नियच्छति प्राप्नोति, लोकसिद्धो भवति, कि. पुनः स्त्रीवित्यर्थः, स्वयं गोष्ठीप्रवर्तनेऽप्ययमेव विधिः ॥ १२ ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायो यशोधररचितायां जयमङ्गलाऽऽख्यायां- साधारणे प्रथमेऽधिकरणे नागरवृत्तं चतुर्थोऽध्यायः । . पञ्चमोऽध्यायः। गार्हस्थ्यमधिगम्येति ससहायस्योपकमा इति दूतानां संप्रेषणमि- स्युक्तम्, तत्र को नायकः? कया नायिकया गार्हस्थ्यमधिगम्य नागरक- वृत्तं वर्तेत ? कैश्च सहायैः किं च दूतस्य कर्मेति? तेषां विमर्शो निरूपण- मिति नायकसहायदूतकर्मविमर्श उच्यते. नायक इति 'पुमान्स्त्रिया' ।१।२।६८। इत्येकशेषनिर्देशानायकयोरित्यर्थः, दूतकर्मेति । दूत्या दूतस्य चेत्यर्थः,तत्र बहु वक्तव्यत्वात्प्राङ्नायिका फलतोऽन्यकारणतश्च विमृश्यते- कामश्चतुषु वर्णेषु सवर्णतः शास्त्रतश्चानन्यपूर्वायां प्रयुज्यमान: पुत्रीयो यशस्यो लौकिकश्च भवति ॥ १ ॥ रामश्चतुष्विति । सवर्णत इति । यथा ब्राह्मणेन ब्राह्मण्याम् , यथा च शूद्रण शूद्रायाम् , शास्त्रत इति । शास्त्रोक्तेन वरणादिना विवाहविधानेन, भनन्यपूर्वायां भार्यात्वेनाधिगतायाम्, प्रयुज्यमानः प्रवर्त्यमानः, पुत्री. 1 - । ५ अध्याये] नायकसहायदूतकर्मविमर्शप्रकरणम् । यः औरसस्य पुत्रस्य निमित्तम् , 'पुत्राच्छ चा ।५।११४०। इति छप्रत्ययः, यथोक्तम्- 'स्वक्षेत्रे संस्कृतायां तु सुतमुत्पादयेद् द्विजः । तमौरसं विजानीयात् पुत्रं प्राथमकल्पिकम् ॥ इति ॥ तत्र स्वक्षेत्रं सवर्णः, यशस्या यशोनिमित्तम्, गोद्यावा-गा।३। इत्यादिना यत् , अत्र च यद्यपि कामो न संयोगस्तथाऽपि स्त्रीपुंसयो- योगे कामशब्द उपचरितः, तत्पूर्वकत्वात्कामस्येति भवति तत्पर्यायः, लौकिकश्च लोके विदितः, तदबाह्य इत्यर्थः ॥१॥ तद्विपरीत उत्तमवर्णासु परपरिगृहीतासु च प्रतिषिद्धः ॥२॥ उत्तमवर्णास्विति । क्षत्रियेण ब्राह्मण्याम् , वैश्येन ब्राह्मणीक्षत्रिययोः, शूद्रेण ब्राह्मणीक्षत्रियावैश्यास्वनन्यपूर्वास्वपि प्रयुज्यमानः परपरिगृही- तासु चान्योढासु सवर्णास्वपि कामो विपरीतः, न पुत्रीयः, न यशस्यः, न लौकिकश्च, एवंविधः प्रतिषिद्धः सुखार्थोऽपि न परपरिगृहीतासु, एकान्तेन धर्मविरोधित्वात् ॥ २॥ अवरवर्णास्वनिरवसितासु वेश्यासु पुनर्भुषु च न शिष्टो न प्रतिषिद्धः सुखार्थत्वात् ॥ ३ ॥ अवरवर्णास्विति । ब्राह्मणस्यावरवर्णाः क्षत्रियावैश्याशूदाः, क्षत्रिय- स्य वैश्याशूद्रे, वैश्यस्य शूदा, शूद्र एकजातिः, तस्य स्वजात्यपेक्षयाऽ- वरवर्णाः तत्रापि यद्यनिरवसिताः पात्रादबहिष्कृता इत्यर्थः, सन्त्येव हि काश्चित्क्षत्रियादयो याभिर्भुक्तं पात्रं न संस्कारमात्रेण शुद्धयति ता एवं विधा बाह्याः, तथा चोक्तम्- 'शूद्वैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते । तेच स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः ॥ इति । तासु च बाह्यास्वपि, पुनर्भूण्विति । या अन्यपूर्वाः क्षतयोनयो विधवा. इन्द्रियदौर्बल्यादन्यस्य पुनर्भवन्ति तासु स्वीकृतासु, वेश्यासु च सा- मान्यस्त्रीषु प्रयुज्यमानो न शिष्टो न विहितः, तत्र सवर्णामपरिगृह्य; तत्परिग्रहस्यानभिहितत्वात् , परिगृह्यापि न प्रतिषिद्धः, सुखार्थ- त्वात् , तदानीं सुखार्थेव प्रवृत्तिः, न पुत्रार्था, तत्रावरवर्णासूढासु ये पुत्रा- न तेषामौरसत्वम्, पुत्रकार्याकरणात् , पुनर्मूषु वेश्यासु च पुत्रा व नास्तीति द्विविधं फलम् ॥ ३ ॥ तत्र नायिकास्तिस्रः कन्या पुनर्वेश्या च ॥ ४ ॥ तत्र-तस्मिन् फलविभागे; तिस्रो नायिका:-कन्या, पुनर्भू, वेश्या चेति । तत्र कन्या द्विविधा-पुत्रफला, सुखफला चेति, पूर्वा सवर्णा सटीके कामसूत्रे [१ अधिकरणे, श्रेष्टा, द्वितीयाsधमवर्णा न्यूना, तस्था अपि न्यूना पुनर्भूः, स्वीकारेऽप्य. न्यपूर्वत्वात्, अस्या वृत्तं भार्याऽधिकारिके वक्ष्यति, या त्वक्षतयोनिः पुन- रुह्यते सा कन्या एव, यथोक्तम्- 'पुनरक्षतयोनित्वादुह्यते या यथाविधि । साधुन सुनस्तस्यां पौनर्भव उदाहतः । ततोऽपि वेश्या न्यूना सामान्यत्वात् ॥ ४ ॥ अन्यस्मात्कारणाद्विमर्शमाह- अन्य कारणवशात्परपरिगृहीताऽपि पाक्षिकी चतुर्थीति गोणि. कापुत्रः ॥ ५ ॥ अन्यकारणवशादिति । पुत्रात्सुखाच्च यदन्यत्कारणं तद्वशात् , पा- क्षिकीति । यदा कारणान्तरं तदा तस्मिन्पो भवतीति पाक्षिकी, अन्य- दा तु नैवेति बाभ्रव्यमतमनुसृत्याह-गोणिकापुत्रोऽपि पारदारिक पृथक कामसूत्रं प्रोवाचेत्युक्तम् ॥ ५ ॥ तत्र विषयशुद्ध्यर्थमाह- स यदा मन्यते स्वैरिणीयमन्यतोऽपि बहुशो व्यवसितचा- रिना तस्यां वेश्यायामिव गमनमुत्तमवर्णिन्यामपि न धर्मपीडां क- रिष्यति ॥६॥ स इति । नायकः, मन्यतेऽधिगच्छेत्स्वैरिणीयम् , स्वैरिणी स्वतन्त्रा, तदेव दर्शयति-अन्यतोऽपीति । यथा मामभियुञ्जाना शीलं खण्डयति, तथाऽन्येष्वपि बहून् वारान् , व्यवसितचारित्रा-खण्डितशीला, ततश्च वेश्यातुल्या, वेश्यायामिच, "पुनर्वामिव' इत्यनाम्नायः पाठः, यत एक- स्माद् द्वितीयं प्राप्ता पुनर्भूः, सा च न बहुशः खण्डितचारित्रेति न स. मानो दृष्टान्तः, उत्तमणिन्यामिति । किमसवर्णाधमवर्णयोरेवं वर्ण्यते? तत्रापि न दोषः, यथोक्तम्- 'जीवकामुकवस्त्रावीन् दद्यादात्मविशुद्धये। चतुर्णामपि वर्णानां नारीहत्वाऽव्यवस्थिताः ॥ इति । अस्यार्थः-ब्राह्मणी स्वच्छन्दवृत्ति हत्वा जीवश्चर्म उटं ब्राह्मणाय द- धात्, क्षत्रियां कार्मुकम् , वैश्यां वस्त्रम्, शूद्रामविमिति, यत्र हिंसाऽपि परिफल्गुदोषा तत्राभिगमनं न कस्यापि धर्मोपघाति स्यादित्याह- गमनमपि कारणवशात् क्रियमाणं न धर्मपीडां करिष्यति, अधर्मस्या- भावात् ॥ ६॥ पुनभूरियं कथमित्याह- पुनर्भूरियमन्यपूर्वाऽवरुद्धा नात्र शङ्काऽस्ति ॥ ७ ॥ aaman

५ अध्याये]
नायकसहायदूतकर्मविमर्शप्रकरणम् ।
अन्यः पूर्वो यस्याः सेयं क्षतयोनिरन्येनावरुद्धा सगृहीता नात्र श-
काऽस्ति, गमनेनाधर्मः स्यादिति, अनुत्तमवर्णिनीत्वात् , तत्र यद्यपि
धर्मस्य पीडा नास्ति; आशङ्का च,तथाऽपि सुखं निमित्तीकृत्य; न प्रवर्तते,
निषिद्धत्वात्, किन्तु वक्ष्यमाणमेव कारणं, तेन विषयविशुद्धयर्थमिदमादा-
वुक्तम् , यथोक्तम्-
'विशुद्धि विषयस्यादौ कारणानि च तत्त्वतः।
प्रसमीक्ष्य प्रवर्तेत परस्त्रीषु न भावतः ॥' इति ॥ ७ ॥
कारणान्याह
पति वा महान्तमीश्वरमस्मदमित्रसंसृष्टमियमवगृह, प्रभुत्वेन च.
रति, सा मया संसृष्टा स्नेहादेनं व्यावर्तयिष्यति ॥ ८॥
पति वा महान्तमिति । अस्मदमित्रेण जातसख्यं पति, तस्य शत्रो-
महत्वादैश्वर्याचापकारसमर्थम्, इयमिति । स्वैरिणी==पुनर्भूः, अवगृह्य;
प्रभुत्वेन चरति अवष्टभ्य स्वामिनं व्यवहरति,सा मया संसृष्टा; स्नेहासं.
योगात्प्रवृद्धस्नेहात्तस्मादेनं व्यावर्तयिष्यति, अस्मदमित्रादपकर्तुकामात्
पति प्रभवन्ती निवर्तयिष्यति, ततश्च विशिष्टभावो मे भविष्यति; अन्य-
था महान्तमीश्वरमाश्रितो मामेवाकृतपुरुषार्थ हनिष्यति ॥ ८ ॥
विरसंवा मयि शक्तमपकर्तुकामं च प्रकृतिमापादयिष्यति ॥९॥
विरसं वेति । कार्यवशान्मयि विरक्तं पति शक्तमप्रतिविधेयम्, अप-
कर्तुकामं "कदाऽहमस्यापकरिष्यामि" इति बद्धानुशयं, प्रकृतिमापादयि.
ष्यति, प्रभवन्ती मया संसृष्टा पूर्वावस्थं स्वभावं नेष्यति ॥ ९ ॥
तया वा मित्रीकृतेन मित्रकार्यममित्रातीघातमन्यद्वा दुष्पति-
पादक कार्य साधयिष्यामि ॥१०॥
तया वेति । प्रभवन्त्या मया संसृष्टया मित्त्रीकृतेन तस्याः पत्या
मित्रकार्य तत्साध्यम, मित्रकार्ये हि प्राणानपि त्यजेनरकमपि विशेदु,
अमित्रप्रतीघातं स्वशरीरत्राणार्थम्, अन्यद्वा स्वकीयं दुष्प्रतिपादक.
दुःसाधकं साधयिष्यामि ॥ १० ॥
संसृष्टो वाऽनया हत्वाऽस्याः पतिमस्मद्भाव्यं तदैवयमेवमधि-
गमिष्यामि ॥ ११ ॥
संसृटो वाऽनयेति । संप्रयोगादाहितस्नेहया कृतसंवित्को हत्वाऽस्याः
पतिं द्विषन्तं तूष्णीं दण्डेनास्मद्भाव्यमैश्वर्यमपि तदा भाव्यम् , केवल-
मस्मत्कुलं हत्वाऽपि मत्तोऽपि वा हठादाच्छिद्यानेन प्रसह्य भुज्यते त-
प्राप्स्यामि, ततोऽस्याततायित्वाद्यापादनमपि नाधर्माय ॥११॥

सटीके कामसूत्रे
[१ अधिकरणे,
।
निरत्ययं वाऽस्या गमनमर्थानुबद्धम् , अहं च निःसारत्वा.
क्षीणवृत्त्युपायः सोऽहमनेनोपायेन तद्धनमतिमहदकृच्छादधिगमि
ज्यामि ॥ १२ ॥
निरत्ययं रक्षाऽद्यमावानिर्दोषम् , अन्यत्राप्येतद् द्रव्यम् , अर्थानुव.
द्धम् , आढ्यत्वादस्याः, अहं च निःसारत्वान्निद्रव्यत्वात् , क्षीण वृत्युपाय.
इति । वृत्ति विका तदुपायः कृत्यादिः स क्षोणो यस्येति, सोऽहं कुटु-
स्वभरणासमर्थोऽनेनोपाये नाभिगमनलक्षणेन तद्धनमतिमहद् धर्मादिसाध.
नमधिगमिष्यामि, स्वल्याधिगमे तु नाधिगच्छेदिति मन्यते, अकृच्छा-
दिति । तया स्नेहाहीयमानम् अन्यथा दृष्टादृष्टदोषसाधनं स्यात् , तस्मा
स्कुटुम्बकार्थनकार्यमपि कार्य स्यात् , तथा चोक्तम्-
'माता वृद्धा पिता चैव साध्वी भार्या सुतः शिशुः
अप्यकार्य शतं कृत्वा भर्तव्या मनुरब्रवीत् ॥ १२ ॥
मर्मज्ञा वा पयि दृढममिकामा सा मामानच्छन्तं दोषविख्या.
पनेन दृषयिष्यति ॥ १३ ॥
मयि दृढमभिकामेति । आभिमुख्येन कामयत इत्यभिकामा, दृढं.
मयि जातरागेत्यर्थः , मामनिच्छन्तं स्वतोऽन्यस्माद्वा दोषाद् दोषविषय.
ख्यापनेन मर्मज्ञत्वालाके दूषयिष्यति 'राज्यकामुकोऽयमि' ति येन मे वि-
नाशः स्याद्, 'राजाऽपथ्यकारी' इति ॥ १३ ॥
अप्सर्भूतं वा दोषं श्रद्धेयं दुष्परिहरं मयि क्षेप्स्यति, येन
मे विनाशः स्यात् ॥ १४ ।।
असद्भूतं वात । मया संप्रयुयुक्षुरयमिति मिथ्यव दोषमुत्थाप्य;
श्रद्धेयं कृतकमदनलेखेन जातप्रत्ययम्, एवं च दुष्परिहरं मयि क्षेप्स्यति
समारोपयिष्यति, येन मे विनाशः स्यात् पारदारिक इति ॥ १४ ॥
आयतिमन्तं वा वश्यं पनि मत्तो विभिद्य द्विषतः संग्राहयि.
ष्यति, स्व यं वा तैः सह संसृज्येत ॥ १५ ॥
आयतीति । आयतिमन्तं प्रभावयुक्तं पति वश्यं यथोक्तकारिणं, मत्तो-
विभिद्य मत्तोऽनिच्छतोऽपि मिस्त्रीभूतं विश्लेष्य, द्विषतः संग्राहयिष्य-
त्यस्मच्छत्रन् मैत्रीपूर्व स्वीकारयिष्यति, ततश्च संगृहीतप्रभावा मां हनि.
यति, स्वयं वा तैः सह संसृज्येत समर्थरस्मदुपघातार्थम् ॥ १५ ॥
मदवरोधानां वा दृशयिता पतिरस्यास्तदस्याहमपि
दारानेव दूषयन् प्रतिकरिष्यामि ॥ १६ ॥

५ अध्याये] नायकसहायदूतकर्मविमर्शप्रकरणम् । । मदवरोधानां वेति । अस्मत्परिगृहीतानां दाराणामभिगमनेन दूषयि- ता, ततश्चानुरूपप्रत्यपकारेण शत्रोरानृण्यं गन्तव्यम् इति न्यायादस्यापि दारानेवाभिगमनेन दूषयन्, प्रतिकरिष्यामि प्रतीकारङ्करिष्यामि ॥१६॥ राजनियोगाच्चान्ततिनं शत्रु वाऽस्य निहनिष्यामि ॥ १७ ॥ राजनियोगादिति । राज्ञाऽहमभ्यन्तरप्रचारं निरूपयितु नियुक्तस्त. मुपायान्तराभावादस्य विश्वस्तया संसृज्य निष्कासथिष्यामि, गुरुत्वा- स्वामिकार्यस्य ॥ १७॥ यामन्यां कामयिष्ये साऽस्या वागा तामनेन संक्रमेणा- धिगमिष्यामि ॥ १८॥ यामन्यामिति । प्रस्तुतनायिकाया अन्यां यां प्रकृष्टकारणवशात्का- मयिष्ये, साऽस्या इति । प्रस्तुतनायिकायाः, वशगा-यथोक्तकारिणी, तामप्रस्तुतामुपायान्तराभावादनया संक्रामयमाणया प्राप्स्यामि ॥ १८ ॥ कन्यामलभ्यां वाऽऽत्माधीनामर्थरूपवती मयि संक्रामयिष्यति ॥१९॥ कन्यामिति । अलभ्या मया निर्धनत्वादियोगाद्, आत्माधीनां तदा. यत्ताम्, अर्थरूपवती त्रिवर्गहेतु मयि संक्रामयिष्यति माम्प्रापयिष्यति, सा वा संप्रयुज्यमानोभयं सङ्घटयतीति तामेव तावदधिगच्छामि, एवं च काञ्चित् सम्प्रयुज्य या स्त्री वस्तु सचटयतीति ॥ १९ ॥ ममामित्रो वाऽस्याः पत्या सहकीभावमुपगतस्तमनया रसेन योज- यिष्यामीत्येवमादिभिः कारणैः परस्त्रियमपि प्रकुर्वीत ॥ २० ॥ ममामित्रो वा प्राणहरोऽस्याः पत्या सहकीभावमुपगतः सहासन- शयनपानभोजनादिभिः, प्राक् 'पतिममित्रसंसृष्टम्' इति संश्लेषमात्रमु- क्तम्, तमनया संस्कृष्टया रसेन कालान्तरप्राणहारिणां विषेण योजयिष्या- मि, तदेवमादिकारणं यदा मन्येतेति प्रवर्तते तदा प्रकुर्वीत, अपूर्वः करो. तिरभिगमे वर्तत इति साहसिक्य आत्मनेपद (१)म् ॥ २० ॥ इति साहसिक्यं न केवलं रागादेवेति परपरिग्रहगमनकारणानि ॥२१॥ साहसिक्यं न रागेण केवलं विषयस्याशुद्धत्वात्प्रकुव त, किं तु का. रणरित्यर्थः ।। २१॥ एतैरेव कारणैर्महामात्रसम्बद्धा राजसम्बद्धा वा तत्रैकदेशचारिणी का चिदन्या वा कार्यसम्पादिनी विधवा पञ्चमीति चारायणः॥२२॥ (१) गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृनः । १।३ । ३२ । इत्यनेन । ८.का. सू० -- । सटीके कामसूत्रे [१ अधिकरणे, एतैरिति । यथोक्तैः, विधवा पञ्चमीति संबन्धः । प्रारजीवद्भर्तृकेति विशेषः, तत्रापि पत्युरभावात्, महामात्रस्य राज्ञो वा सङ्गाद्वा संबन्धा- द्वा संबद्धा प्रतिवद्धा वा, तत्रैकदेशचारिणी तदीयकुटुम्बैकदेशसंबद्धा, अन्या वा का चिदन्यजनसंबद्धा कार्यसंपादिनी यज्जनसंबद्धा तत्कार्येषु व्याप्रियमाणा, आसु तिसृषु विधवा स्वैरिणी पुनर्भूर्वेति विषयं विमृश्य; पतिस्थाने राजानं महामात्रम् अन्यं वा नियोज्य: नायिकाप्रतिबद्धानि कारणानि योजयेत् ॥ २२ ॥ सैव प्रश्नजिता षष्ठीति सुवर्णनाभः ॥ २३ ॥ सैवेति । विधवा प्रजिता राजमहामात्रयोरन्यस्य वा संबद्धा त. स्कुलान्युपगच्छन्तीति नायिकाऽनुवृत्त्या गृहधर्मत्वात्तत्रापि पूर्ववत्कार. णानि योजयेत् ॥ २३॥ गणिकाया दुहिता परिचारिका वाऽनन्य पूर्वा सप्तमीति घोटकमुखः २४ गणिकेति गणिकाया दुहिता, अनन्यपूर्वा=पुरुषेणासंसृष्टा, परिचा. रिका वा चन्द्रापीडस्येव पत्त्रलेखा, तत्र पूर्वा वेश्याऽपि कन्या तासां. वक्ष्यमाणपाणिग्रहणभेदाद्भिद्यते, द्वितीया कन्याऽप्यगृहीतपाणि यक. परिचरन्तीति विशिष्यते ॥ २४॥ उत्क्रान्तबालभावा कुलयुवतिरूपचारान्यत्वादष्टमीति गोनर्दीयः॥२५॥ उत्क्रान्तवालमावा कुलयुवतिरिति । कुलकन्यवोढा सती कालेना. पक्रान्तबालभावा समुपारूढयौवना कुलयुवतिः, उपवारान्यत्वादिति । उपचारभेदात् साहि न कन्यावदुपचयंते, कन्यायामुपचारा अपरिस्फुटा. विकल्पेन च प्रयुज्यन्ते, प्राप्तयौवनायास्तु परिस्फुटाः समुच्चयेन चेति॥२५॥ कार्यान्तराभावादेतासामपि पूर्वास्वेवोपलक्षणं तस्मादे- ता एव नायिका इति वात्स्यायनः ॥ २६ ॥ कार्यान्तराभावादिति । कन्याऽऽदिषु चतसृषु यत्कार्यमुक्तं तद्यति- रिक्तानां विधवाऽऽदीनां कार्याभावात्पूर्वास्वेचोपलक्षणमुपदर्शनम्, तत्रैव यथासंभवमुपलक्षयेदित्यर्थः, तत्र विधवा प्रव्रजिता वाऽन्यकारणवशा- स्परपरिग्रहे द्रष्टव्या, गणिकादुहिता परिचारिका च सुखकार्यत्वाद्वे- श्यायाम्, कुलयुवतिः पुत्रकलत्रफलत्वात्कन्यायाम् , उपचारभेदात्त दे नायिकाऽतिसंप्रयोगात्, दृश्यते हि देशकालप्रकृतिसात्म्यभेदादेकस्या- मुपचारबहुत्वम् ॥ २६ ॥ भिन्नत्वात्तृतीयाप्रकृतिः पञ्चमीस के ॥ २७ ॥ भिन्नेति । तृतीयाप्रकृतिः नपुंसका, स्त्रीत्वपुंस्त्वाभावाद्भिद्यते, तत्र Mahamand ५ अध्याये नायकसहायदूतकर्मविमर्शप्रकरणम् । चौपरिष्टिककर्मणा सुखलाभात्, तेन रूपव्यापारभेदात्पञ्चमीत्येके, अ. न्यथा सुखकार्यत्वाद्वेश्याविशेष एव ॥ २७ ।। नायकविमर्शमाह- एक एव तु सार्वलौकिको नायकः ॥ २८ ॥ एक एवेति । नायिकावद् भेदाभावादेक एव सार्वलौकिको नायकः कन्यापुनर्भूवेश्यासु प्रवर्तमानः सर्वलोकविदितः ॥ २८ ॥ प्रच्छन्नस्तु द्वितीयः विशेषलाभात् ॥ २९ ॥ प्रच्छन्नेति । स एव परपरिगृहीतासु सुखव्यतिरेकेण कार्यविशेषला. भाद् गुप्त्या च प्रवर्तमानः प्रच्छन्नो द्वितीयः ॥ २९ ॥ गुणद्वारेण स त्रिविध इत्याह- उत्तममध्यमाधमतां तु गुणागुणतो विद्यात् ।। ३० ॥ गुणागुणत इति । गुणसमुदायादुत्तमः, गुणपादद्वयाभावान्मध्यमः, पादत्रयाभावादधमः, सर्वगुणाभावादनायक इति ॥ ३० ॥ ताँस्तूभयोरपि गुणागुणान् वैशिके वक्ष्यामः ॥ ३१ ॥ उभयोरिति । नायकस्य नायिकायाश्च ॥ ३१ ॥ कन्याऽऽदीनां विशेषानभिधानात्पुनरगम्यतया विमर्शमाह- अगम्यास्त्वे वैताः, कुष्ठिन्युन्मत्ता पतिता भिन्नरहस्या प्रका- शप्रार्थिनी गतप्राययौवनाऽतिश्वेताऽतिकृष्णा दुर्गन्धा संबन्धिनी सखी वाजता सम्बन्धिसखिश्रोत्रियराजदाराश्च ॥ ३२ ॥ नायकस्य तु कन्याऽऽदिविधावगस्यात्वं सूचयति, तुशब्दो विशेष- णार्थः, एवकारो नियमार्थः, सत्स्वपि कार्येष्वेता अगम्या इत्यर्थः, कु- प्टिनीति । जुगुप्सितव्याध्युपलक्षणार्थम्, उन्मत्ता यत्किञ्चनका- रिणी न सुखावहा, पतिता स्वजात्यपेक्षया महापातकाचरणात् तत्स- म्पर्कात्पतितः स्याद्, भिन्नरहस्या लोके रहस्यं प्रकाशयन्ती नायकल. जयति, प्रकाशप्राधिनी प्रकट नायकमभिलषन्ती त्रपयत्यनर्थञ्च करोति, गतप्राययौवना तत्सेवायामायुस्तेजश्च हीयते, अतिश्वेता, अतिकृष्णा चाप्रशस्ता, कन्या पुनर्भूश्च ज्ञेया, निन्द्यत्वादन्या अपि यथासंभवं यो- ज्या, दुर्गन्धा गुह्ये वक्र च दुष्टगन्धा, संयोगे वैमुख्यं जनयति, सम्ब. धिनी भ्रातुरपत्त्यस्य भगिन्या वा सङ्गिनी या परिणयसम्बन्धबाह्येन सम्वद्धा, सखी भार्यावयस्था तदनुरोधात् , प्रवजिता व चिच्छासने गृहीतव्रता धर्मार्थयोर्वैलोम्यात् , सस्बन्धिसखिश्रोत्रियराजदाराश्चेति, विद्यासंबन्धेन राजसम्बन्धेन वा सम्बद्धाः सम्बन्धिनस्तेषां दारा, आ. MINS , ६० The सटीके कामसूत्रे [१ अधिकरणे, चार्याणां शिष्यभार्थ्या भ्रातृभार्या, इत्यादयोऽपि धर्मवैलोम्यात् , सखिदारा मित्रभार्या, अधर्मद्रोहादिभयात् , तथा चोक्तम्- 'रेतःसेकः स्वयोनिषु कुमारीप्वन्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसम विदुः ॥ श्रोत्रियदारा ज्वलदग्निप्रस्थाः, धर्मबैलोम्याद ,राजदाराश्च चतुराश्र मगुरुभार्याः, दृष्टादृष्टविरोधात् , इत्येतदाचार्याणां मतमनुक्तमपि शेयम् , अत्रच यथोक्तव्यतिरेकेण परपरिगृहीताः सर्वा एवागम्याः स्युरिति॥३२॥ बाभ्रव्यमतमाहweemaana meanine दृष्टपञ्चपुरुषा नागम्या का चिदस्तीति वाभ्रीयाः ॥ ३३ ॥ स्वपतिव्यतिरेकेण दृष्टाः पञ्च पुरुषाः पतित्वेन यया सा स्वैरिणी कारणवशासवरेव गल्या, तथा च पञ्चातीता बन्धकीति पराशरः, ए. कद्वयादिदर्शने तु सत्स्वपि कारणेषु नैवेत्यथोक्तम् , द्रौपदी तु युधिष्ठिरा. दीनां स्वपतित्वादन्येषामगस्या, कथमेका सत्यनेकपतिरिति चैतिहा- लिकाः प्रष्टव्याः, बाभ्रवीया इति । बाभ्रव्यशिष्याः, बाभ्रव्यमतानुसारिण- एवमाहुः ॥ ३३॥ तत्रापि गोणिकापुत्रो विशिष्य; वक्तव्यमित्याह संबन्धिसखिश्रोत्रियराजदारवर्जमिति गोणिकापुत्रः ॥ ३४ ॥ दृष्टपञ्चपुरुषा नागस्येति वर्तते, अयमभिप्राय:-सम्बन्धिभार्या स्वै. रियपि विद्यायोनिसम्बन्धेनान्तरेण सम्बन्धेन सम्बद्धत्वादशम्या, सम्बन्धिनी तु बाोनेति गम्यैव, सखिभार्याऽप्यन्यस्य गम्या, न नायक- स्य, सखी त्वस्य भार्यावयस्या स्वतो मैत्रीव्यवहारस्याप्रस्तुतत्वाद् ग म्यैव, श्रोत्रियस्य क्रियावत्वाद् दाराः खण्डित शीला अपि दृष्टादृष्टविरो- धागस्याः॥३४॥ सहायविमर्शस्त्रिधा-लेहतो गुणतो जातितश्च । तत्राद्यमधिकृत्याह- सहपांसुक्रीडितमुपकारसम्बद्धं समानशीलव्यसनं सहाध्या- यिनं यश्चास्य मर्माणि रहस्यानि च विद्याद् यस्य चायं विद्याद्वा धात्रपत्यं सहसंबृद्धं मित्रम् ॥ ३५ ॥ मिद्यति स्निह्यतीति मित्त्रं नवप्रकारम् , तत्र सहपांसुक्रीडितमेकत्रा. नुभूतवाल्यत्वास्निह्यति, उपकार सम्बद्धमर्थेन जीवितरक्षया चोपकृत. त्वाम्मैव्या वर्तते, समानशीलव्यसनं,समानं शीलं व्यसनश्च दैवम्मानुषं. यस्य तत्तुल्यगुणदोषत्वात् सख्यमाधत्ते, सहाध्यायी एकत्र कृताध्य- यनत्वान्मैत्रीमनुवर्तते, यश्चास्य नायकस्य मर्माध्यकार्याणि यश्च रहसि Neev KumatiPathane - ७ ५ अध्याये] नायकसहायदूतकर्मविमर्शप्रकरणम् । भवानि विद्यात्तदुभयं मर्मज्ञं रहस्यधरं च नायकप्रतीतेरास्पदत्वात्प्रति- स्निह्यति, यस्य चेति । यस्य नायको मर्माणि रहस्यानि च विद्यात्तदुभयं. तत्सम्मानितस्नेहत्वात्प्रीत्या वर्तते, सहसंबृद्धं धात्रीकोडे नायकेन सह स्तन्यपानादिना सम्बृद्ध, धात्रपत्यं सहपांसुक्रीडितत्वेऽप्यत्यर्थं स्निह्य. तीति प्रकर्षार्थ वचनम्, यदेकस्मिन्नामे वा सह सम्बृद्धं तत्सहपांसुक्रो- डितं द्रष्टव्यम् , इति नवधा मित्त्रम् ॥ ३५ ॥ गुणतो विमर्शमाह- पितृपैतामहमविसंवादकमदृष्टवैकृतं वश्यं ध्रुवमलोभशीलमप- रिहार्यममन्त्रविस्रावीति मित्रसंपत् ॥ ३६ ॥ पितृपैतामहम्, पितामहादागतं पैतामहं पितुः पैतामहम्, नायक- स्य तुप्रपितामहम्, यथाऽनयोमैत्री तथा पित्रोः पितामहयोश्चासीदिति, अविसंवादक, यथादृष्टश्रताधिकारिणम् , अदष्टवैकृतं तदात्मककार्यस्या. दिमध्यावसानेष्वदृष्टव्यभिचारं, वश्यं यथोक्तकारिणं, ध्रुवं न त्यजति, अलोभशीलं न तृष्णया प्रवर्तते, अपरिहार्य,न परेण ह्रियते; अनुरक्तत्वाद्, अमन्त्रविस्रावि, गूढमन्त्रम् , इति मित्रसंपत् ॥ ३६ ॥ मित्रसंबन्धाद् मित्रगुणा धर्मिद्वारेणोक्ता जातितो विमृश्यन्ते- रजकनापितमालाकारगान्धिकसौरिकभिक्षुकगोपालकताम्बू. लिकसौवर्णिकपीठमर्दक्टिविदूषकादयो मित्राणि ॥ ३७ ।। रजकादयो नायकं स्वकर्मभिरुपकुर्वन्तः परभवनं च विशन्ति, तत्र गान्धिको गन्धद्रव्यस्य विक्रेता, गन्धः पण्यमस्येति, तथा सौरिका शौण्डिकः, भिक्षुकः भिक्षणशीलः, पश्चात्कुत्सायां कः ॥ ३७॥ तघोषिन्मित्राश्च नागरकाः स्युरिति वात्स्यायनः ॥ ३८ ॥ तद्योषिन्मित्राश्चेति । न तथा पुरुषा यथा योषितः परभवनं विश- न्ति विश्वासयन्ति च स्त्रियः॥ ३८॥ दूतस्य यत्कर्म तत्कुर्यादित्याधारतो विमृश्यते- यदुभयोः साधारणमुभयत्रोदारं विशेषतो नायिकायाः मु. विस्तब्धं तत्र दूतकर्म ॥ ३९ ॥ यदिति । मित्रम्, उभयोरिति । नायकस्य नायिकायाश्च, मैत्र्या व. र्तमानत्वात्साधारणं यथोक्तमभिधत्ते, उभयत्रोदारम् आप्तभूतङ्कार्यकारि- स्वात् , विशेषत इति। नायिकाया विशेषतः सुष्टु, विस्रब्धं विश्वस्तम् , तस्याः साध्यमानत्वात् , तत्र-मित्त्रे, दूतकर्म दूतक्रिया, सिद्धिहेतुत्वाद, नान्यत्रेति ॥ ३९ ॥ . min सटीक कामसूत्र [१ अधिकरणे, IMINAR तत्रापि यदि दूतस्य गुणाः स्युरतो गुणतो विमृश्यते- पटुता धायमिङ्गिताकारज्ञताऽनाकुलत्वं परमर्मज्ञता प्रमा. णता प्रतारणं देशज्ञानं कालज्ञता विषयबुद्धित्वं लब्बी प्रतिपत्तिः सोपाया दृतगुणाः ॥ ४० ॥ पटुता प्रज्ञाऽनुबद्धया वाचा वक्तुंकुशलता,धाष्ट्यं प्रागल्भ्यमिति, इङ्गितमन्यथा वृत्तिः; आकारो वदननयनादिगतविकारः; तज्ज्ञतया तद. नुरूपमनुतिष्ठति, कालज्ञता; कालेऽस्मिन्प्रोत्साहयितुं शक्यत इति, विष. ह्या विमर्शक्षमा बुद्धिर्यस्येति विगृह्य भावप्रत्ययेन योज्यः,लध्वी प्रतिपत्तिः सोपाया चेति दूतगुणा इति, कार्य विवृश्य तदेवोपायपूर्वकमनुष्ठानं न कार्यातिपातनम् ॥ ४० ॥ इदानीमधिकरणार्थानुष्ठाने फलं प्रयोजनं चाह- भवति चात्र श्लोकः---- आत्मवामित्रवान्युक्तो भावज्ञो देशकालवित् । अलभ्यामप्पयत्नेन स्त्रियं संसाधयेन्नरः॥ ४१ ।। इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे नायकसहायदूतकर्मविमर्शः पञ्चमोऽध्यायः । आत्मवानिति । तत्र त्रिवर्गप्रतिपत्त्या विद्यासमुद्देशेन चात्मन्याहित. गुणत्वादात्मवान् , सहायविमर्शत मित्त्रवान, युक्त इति । नागरक. त्तानुष्ठानेन युक्तः स्वकर्मनिष्ठः,भावशो नायकस्य नायिकायाश्च विमर्शन तत्स्वरूपन इत्यर्थः, दूतकर्मचिचपरिमर्शनेनेति फलम् , अलभ्यामप्यय. स्नेन स्त्रियं विपरिमर्शितां साधयत इति फलप्रयोजन, एवंभूतस्य हि स्त्रीसाधनयोग्यत्वाद् ॥ ४१ ॥ इति नायकसहायदूतकर्मविमर्शः पञ्चमं प्रकरणम्, पञ्चमश्चाध्यायः । इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां- साधारणे प्रथमेऽधिकरणे नायकसहायदूतकर्मविमर्शः पञ्चमोऽध्यायः । - " समाप्त चेदं साधारणं प्रथममाधिकरणम् ।

सांप्रयोगिकं द्वितीयमाधिकरणम् । प्रथमोऽध्यायः । स्त्रियं साधयत इत्युक्तं, स्त्रीसाधनं चावापास चाविज्ञातशास्त्रस्य न युज्यत इत्यावापात्प्राक्तन्त्रं सांप्रयोगिकमुच्यते, तत्रापिसंप्रयोगे प्रथम- रतं, तस्मिन्प्रमाणादिभितिस्वरूपे यथायथमालिङ्गनादयः प्रयुज्यमाना. रत्यर्था इति प्रमाणकालभावेभ्यो रतावस्थापनमुच्यते, हेतौ पञ्चमी, प्र- माणादिना तस्य व्यवस्थापनमित्यर्थः, तत्र लिङ्गसंयोगाद्भावकालाविति ताभ्यामपि प्राक्प्रमाणतस्तावद्रतावस्थापनमाह- शशो वृषोऽश्व इति लिङ्गतो नायकविशेषाः ॥ १ ॥ लिङ्गत इति । लिङ्ग्यन्ते स्त्रीत्वादयोऽनेनेति लिङ्गम् , लोकप्रतीत्या लिङ्ग मेहनमुच्यते, तत्र पौंस्नमुन्नतं स्त्रीणां निम्नं, प्रमाणं च शास्त्रव्यव- हारयोः, अल्पात्पौंस्नाच्छश इव शशः, तथा समानुषः, महतोऽश्वः, इति नायकभेदाः ॥१॥ नायिका पुनमगी वडवा हस्तिनी चेति ॥ २ ॥ नायिका पुनरिति । पुनःशब्दो विशेषणार्थः, लिङ्गस्य भिन्नत्वात्संज्ञा. भेदः प्रयुज्यत इति पूर्वाचार्यैर्मुग्यादिभिरुपमिताः, न शशादिभिः, तथा चाहुर्लक्षणम्- 'षनव द्वादशेत्येवमायामेन यथाक्रमम् । शशादिभेदभिन्नानां त्रिधा साधनसंस्थितिः॥ परिणाहेन तुल्या स्यादायामस्य प्रमाणतः। नियता नेति, के चित्तु परिणाहे प्रचक्षते ॥ स्त्रीणां साधनमागोंऽपि तद्वदेव प्रभिद्यते। आयामपरिणाहाभ्यां मृग्यादीनां शशादिवत् ॥ इति ॥२॥ तत्र सशसंप्रयोगे समरतानि त्रीणि ॥३॥ तत्रेति । नायकस्य नायिकाथाश्च भेदे, सदृशो विसदृशो वा संप्र- योगः स्यादित्याह-सदृशसंप्रयोग इति । शशस्य मृग्या, वृषस्य वडव. यो, अश्वस्थ हस्तिन्या सह सदृशः सम्प्रयोगो रन्ध्रेन्द्रियसमाप्तिलक्षणः, अल्पत्वादिभिलिङ्गसादृश्यात्, तस्मिन्सति त्रीणि समरतानि, रन्ध्रसा- धनयोराश्रयाश्रयिभावेन यन्त्रसास्यात् ॥ ३ ॥ ।

सटीके कामसूत्रे
[२ अधिकरणे,
।
विपर्ययेण विषमाणि षट् ॥ ४ ॥
शशस्य वड़वया हस्तिन्या च, वृपस्य मृग्या हस्तिन्या च, अश्वस्य
मृग्या वडवया चेति विसदृशः संप्रयोगः, लिङ्गवैषम्यात् , तस्मिन्सति
षड् विषमाणि रतानि यन्त्रवैषम्यात् ॥ ४॥
विषमेवपि रतेषु व्यवहारार्थ विशेषसंज्ञामाह-
विषमेष्वपि पुरुषाधिक्यं चेदनन्तरसंप्रयोगे द्वे उच्चरते ॥ ५॥
पुरुषाधिक्यं चेदिति । यदा लिङ्गतः पुरुषाधिक्यं स्त्रियान्यूनत्वं तदा-
ऽनन्तरो व्यवहितो वा संप्रयोगः स्यात्, तत्राश्वस्य वडवया वृषस्य मृ
ग्येति वैलोम्येऽनन्तरसंप्रयोगः, तस्मिन् समरताद् द्वे उच्चरते, साधनस्यो-
श्वतया रन्ध्रमवपीड्य व्याप्रियमाणत्वात् ॥ ५॥
व्यवाहितमेकमुच्चतररतम् ॥ ६॥
व्यवहितमिति । अश्वस्य मृग्या सह व्यवहितसंप्रयोगः, वडवया
व्यवधानात् , तस्मिन्सति उञ्चरतादुम्चतररतम् , साधनस्यात्युच्चतया
निष्पीडितेन कथं चियापारात् ॥ ६ ॥
विपर्यये पुन नीचरते ॥ ७ ॥
विपर्यये द्वे, पुनरिति, पुनःशब्दो विशेषणार्थः, स्त्रिया आधिक्ये
त्वनन्तरसंप्रयोगे शशस्य बडवया, वृषस्य हस्तिन्येत्यानुलोम्येन समर-
ताद् द्वे नीचरते, साधनस्य निकृष्टतया रन्धं सम्यगनवपूर्य व्यवहारात्॥७॥
व्यवहितमेकं नीचतररतं च ॥ ८॥
व्यवहिते वडवयाऽन्तरिते संप्रयोगे शशस्य हस्तिन्या सहेति नीच-
रतानीचतररतम्, तत्रानवपूर्यैव व्यवहारात् ॥ ८॥
एषामुत्तमादीन्याह-
तेषु समानि श्रेष्ठानि ॥ ९ ॥
तेविति । नवसु रतेषु षड्भ्यो विषमरतेभ्यः समानि श्रेष्ठानि प्रश-
स्तानि, तत्र यन्त्रसाम्यादुभयोः परस्परसुखातिशयात् ।। ९ ।।
तरशब्दाङ्किते दे कनिष्ठे ॥ १० ॥
तरशब्दाङ्किते कनिष्ठे, उच्चतरनीचतरशब्दाङ्किते अधमे, अत्र यन्त्र-
स्यातिपीडनादतिशैथिल्याच्च स्पर्शसुखस्थाभावात् ॥ १० ॥
शेषाणि मध्यमानि ॥ ११ ॥
शेषाणि चत्वारि, उच्चरते द्वे नीचरते द्वे मध्यमानि, श्रेष्ठकनिष्ठरवा.
भावात् , तत्र ह्यनतिपीडनादनतिशैथिल्याच्च स्पर्शसुखस्य समत्वात् ॥११॥

१ अध्याये] प्रमाणकालभावरतावस्थापनप्रकरणम् । DB तत्रापि मध्यमानां विशेषमाह- साम्येऽप्युच्चाई नीचाङ्काज्याय इति प्रमाणतो नव रतानि ॥१२॥ ज्येष्ठकनिष्ठत्वाभावाद्रतस्य सास्येऽपि माध्यस्थ्येऽपीत्यर्थः, उच्चाई नीचाङ्काज्याय इति । उच्चरते हि योषित उत्फुल्लकादिना प्रसार्य जघनं. संविष्टायाः साधनाधिक्यात्कण्डूतिप्रतीकाराधिकलामः, नीचरते तु स: म्पुटकादिनाऽवहासितजघनाया अपि न तत्प्रतीकारोऽस्ति । यथोक्तम्- तन्वल्पसाधनः कामी चिरकृत्योऽपि वा नरः। कण्डूतेरप्रतीकारान्नातिनीप्रिय उच्यते' ॥ इति ॥ १२॥ भावतो रतावस्थापनमाह- यस्य संप्रयोगकाले प्रीतिरुदासीना वीर्यमल्पं सतानि च न सहते स मन्दवेगः ॥ १३ ॥ भावतो हि कालस्य पश्चाद्भावित्वात्फलरूपाभावात्तस्यापरिच्छे- दात् , तथा हि-हेतुफलभेदादत्र द्विविधो भावः, तत्र कामिताऽऽख्यो- हेतुः, तस्मिन्सति सम्प्रयोगाद् रतान्ते च भावः फलम् , तस्मादुभय- रूपाद्रतमवस्थाप्यते, स च मृदुमध्यमातिमात्रभेदास्त्रिविधः, तत्र यस्य सम्प्रयोगेच्छा मनाग्भवति रतिर्वा, वीर्यमल्पं सम्प्रयोगे मन्दो व्यापार: शुक्रधातुर्वा स्तोकः, क्षतानि च नायिकया दन्तनखैः प्रयुज्यमानानि, उपलक्षणत्वात्प्रहरणं च न सहते य इत्यर्थाद्विभक्तिविपरिणामः स मृदुः भावत्वान्मन्दवेगो मृदुराग इत्यर्थः ॥ १३ ॥ तद्विपर्यये मध्यमचण्डवेगौ भवतः ॥ १४ ॥ तद्विपर्यय इति । यथोक्तस्य विपर्यये; यस्य सम्प्रयोगे प्रीतिर्मध्या वीर्य मध्यं क्षतानि च यः सहते स मध्यभावत्वान्मध्यवेग इत्येको वि. पर्ययः, सम्प्रयोगे प्रीतिरधिका वीर्य महत् क्षतानि चात्यर्थ सहते सोऽधिकभावत्वाञ्चण्डवेग इति द्वितीयो विपर्ययः ॥ १४॥ तथा नायिकाऽपि ॥ १५ ॥ तथेति । पुरुषवद्, यस्य संप्रयोग इत्यादिना मन्दमध्यचण्डवेगा. इति नायिकास्तिस्रः॥१५॥ अत्रापि प्रमाणवदेव नव रतानि ॥ १६ ॥ अत्रापीति । भावेऽपि, प्रमाणवदेवेति । सदृशसम्प्रयोगे समरतानि त्रीणि, विपर्यये विषमाणि षट् ॥ १६ ॥ तद्वत्कालतोऽपि शीघ्रमध्यचिरकाला नायकाः ॥ १७ ॥ । ९ का० सू० सटीके कामसूत्रे [२ अधिकरणे, MARA तद्वदिति । यथा भावप्रमाणाभ्यां तथा कालतो नव रतानि, भावो. त्पत्तिनिमित्तस्य कालस्य शीघ्रादिभेदेन त्रैविध्याद् यदाह-"शीघ्रमध्य. चिरकाला" इति, शीघ्रण कालेन रतिर्यस्थ, तथा मध्यचिरकालाभ्याम् , नायका इति । नायकच नायिका चेति 'पुमास्त्रिया' ।१।२।७। इत्येकशेषनिर्देशः ॥ १७ ॥ तत्र स्त्रियां विवादः ॥ १८ ॥ तत्रेति । नायकयोः स्त्रीपुंसयोः, स्त्रियां विवादः, स्त्रीविषये मत- भेद इत्यर्थः ॥१८॥ तत्रौद्दालकर्मतम्- न स्त्री पुरुषवदेव भावमधिगच्छति ॥ १९ ॥ यादृशं सुखं विसृष्टिप्रभवं पुरुषोऽनुभवति तादृशमेव न स्त्री, शु. काभावात् ॥ १६॥ किमर्थ तहि पुरुषेण संप्रयुज्यत इत्याह- सातत्यावस्याः पुरुषेण कण्डूतिरपनुधते ॥ २० ॥ सम्बाधकस्य स्वभावतः कृमिजुष्टत्वात्तत्र निसर्गसिद्धा कण्डूतिः, तथा चोक्तम्- रक्तजाः कृमयः सूक्ष्मा मृदुमध्योग्रशक्तयः । स्मरसद्मसु कण्ट्रति जनयन्ति यथावलम् ॥ सा स्वस्याः पुरुषेणापनीयते, सातत्यादिति। अनवरतसाधनव्या- पारेणेत्यर्थः, अन्यथा तत्प्रतिबन्धे कण्ड्वा उत्कोप एव स्यात् ॥ २० ॥ अपरद्रव्येणापि सा स्वयमपनयतीति चेदाह- सा पुनराभिमानिकेन सुखेन संसृष्टा रसान्तरं जनयति ॥ २१ ।। सेति । सा च कण्डूतिरपनीयमाना शलाकिकया कर्णकण्डूतिरिव, आभिमानिकेनेति । आभिमानिक चुम्वनादिसुखं वक्ष्य(१)ति, तेन संसृष्टाऽनुगता, रसान्तरमिति । सुखान्तरं जनयति, यत्कण्डूत्यपनोद सुखं यच चुम्बनादिसुखं तयोः संसृष्टयो रसान्तरत्वात् ॥ २१ ॥ तस्मिन्मुखबुद्धिरस्याः ॥ २२ ॥ तस्मिन् रसान्तरे सुखवुद्धिरस्याः सुखिताऽस्मीति, कण्डूतिप्रतीका. रमात्रे तु न सुखबुद्धिः, तस्याप्राधान्यात् । ततः 'स्पर्शविशेषविषयाss. (१) "आलिङ्गनचुम्बन नखच्छेद्ये"त्यादिनाऽप्रिमेणैतदधिकरणस्थद्वितीयाध्यायगतेन बाभ्रव्यमतीयसूत्रण। AINION १ अध्याये] प्रमाणकालभावरतावस्थापनप्रकरणम् । ६७ madhaye भिमानकसुखानुविद्धा फलवत्यर्थप्रतीतिः' प्राधान्यादित्येतद्विशेषल. (१)क्षणं न तुल्य(२)म् , विशेषो यदत्र न फलवती, शुक्राभावात् , तश्च रसान्तरमारम्भात्प्रभृति सन्तानेन सर्वथा कण्डूत्यपनोदात्प्रवर्तते पुरुष- सुखं तु विसृष्टिभावित्वाद्, अत एव तयोः स्वरूपतः कालतश्च न सा- दृश्यमिति न कालभावाभ्यां नव रतानि ॥ २२ ॥ पुरुषप्रीतश्चानभिज्ञत्वात् ॥ २३ ॥ न च पुरुषवद्रति स्त्री नाधिगच्छतीति कथमेतदुपलभ्यते, यस्मात्पु- रु(३)षप्रीतेश्चेतोधर्मत्वेनातीन्द्रियायाः प्रत्यक्षेणानभिज्ञत्वात्, कस्य ज्ञा- तुः पुरुष(४)स्येत्यर्थः, चशब्दास्त्रीप्रीतेश्च ॥ २३ ॥ यदा स्त्री पुरुषायमाणा स्वव्यापारेणात्मनः प्रीति जनयति तत(५)श्च तद(६)संवेदनादेव स्वभा(७)वात्प्रीतिरस्या इति कथमुपलभ्यते, पृष्ट्वा ज्ञास्यतीत्यपि नास्तीत्याह- कथं ते सुखमिति प्रष्टुमशक्यत्वात् ॥ २४ ॥ कथमिति । कथं केन प्रकारेण तव सुखं, किं विसृथ्था यथाऽस्मा- कं, किंवाऽन्येनेति, तत्र स्त्रिया विसृष्टिसुखस्यासंवेदनात्प्रकारान्तरसु- (१) भावादिपर्याया रतिरत्र लक्ष्या, लक्षणेऽर्थपदं च भङ्ग या स्पर्शविशेषपरम् , तथा च स्पर्शविशेषविषयकाभिमानिकसुखविषयकफलविशिष्टप्रतीतिविषयत्वं प्रकृते रतित्वं- फलति, एवं च विषये विषय्युपचारेण निर्देशेन लक्षणं नासङ्गतम् , तस्य यथाश्रुतार्थकत्वे त्वसङ्गतिः प्रकृतानुपयोगश्च, फलं चेच्छाऽन्तरानधीनेच्छाविषयरूपं विसृष्टिप्रभवसुखं प्रकृते, तद्वैशिष्ट्यं च विषयितया, प्रतीतिश्च साक्षात्कृतिरूपा, नातो शब्दादिरूपायां तन्मितावति. प्रसङ्गः, साऽपि लौकिकसामग्रीप्रयोज्या जन्या च ग्राह्या,ऽन्यथा सामान्यप्रत्यासत्तिजायां- भगवत्समवेतायां च तत्रातिव्याप्तिः । भत्र प्रथमविशेषणानुपादाने चुम्बनादिजायाः कादाचित्क्या मन्दवेगसमवेततादृश- प्रतीतेविषयेऽतिव्याप्तिः, द्वितीयतदनुक्तौ चापरप्रकारजायास्तथा प्रतीविषये सा, तृतीय. तदभावे च रतादिपर्याये सम्प्रयोगे सेति । (२) न स्त्रीपुंसयो रतौ समन्वितम् , वस्तुतस्तु सिद्धान्ते ह्युक्तलक्षणे फलपदनिवेशो, म त्वौद्दालकिमते, तदनिवेशनिबन्धनदोषनिरासस्तु रतभेदनिवेशेन विधेय इति । (३) संप्रयुक्तपुरुषप्रीतेः । (४) उदासीनस्य । (५) अप्यर्थकश्वेज्ज्यावान् । (६) कण्डूत्यपनोदजन्यविसृष्टिजन्यमुखयोरन्यतरस्यानिर्णयात् । (७) स्वस्यात्मनो, भावाद्विसृष्टिसुखात् ।।

सटीके कामसूत्रे
२ अधिकरणे,
खस्य च पुरुषेणासंवेदनात् प्रष्टुमपि न शक्यते, किमुत तद्वचनात्परि-
ज्ञानम्, तस्मात्पुरुषवद्भावं नाधिगच्छतीति ॥ २४॥
कथमेतदुपलभ्यत इत्याशङ्कयौदालकिरुपलब्ध्युपायमाह--
कथमेतदुपलभ्यत इति चेत् पुरुषो हि रतिमधिगम्य स्वच्छ-
या विरमति, न स्त्रियमपेक्षते, न त्वेवं स्त्रीत्यौदालकिः ॥ २५ ॥
पुरुषो हीति । पुरुषो रतिमधिगम्य विसृष्टिसुखमनुभूय कृतकृत्य.
स्वात्स्वेच्छया व्यापाराद्विरमति, न स्त्रियमपेक्षते व्याप्रियमाणामपि, न
त्वेवं स्त्रीति, साऽपि यदि पुरुषवद्विसृष्टिसुखमधिगच्छेत्तदा तदधिगम्य
पुरुषनिरपेक्षा स्वेच्छया यन्त्रविश्लेषपूर्वक विरमेद्, न चैवम् , अन्यत्र
पुरुषविरामात् , विरतेऽपि पुंसि पुरुषान्तरसापेक्षत्वात्, तथा हि केन.
चित्पुंसा संप्रयुज्य तथाऽवस्थितवापरैः संप्रयुज्यमाना का चिद् दृश्यते,
अत एवोक्तम् ।
'अग्निस्तृप्यति नो काष्ठ पगाभिः पयोदधिः ।
नान्तकः सर्वभूतैश्च न पुंभिर्वामलोचना ॥ इति ॥
तस्मात्स्वेच्छया विरामाभावान विसृष्टिसुखाधिगमो, यथा प्रा.
ग्विसृष्टः पुरुषस्येति ॥ २५ ॥
तत्रतत्स्याच चिरवेगे नायके स्त्रियोऽनुरज्यन्ते शीघ्रवेगस्य
भावमनासायावसानेऽभ्यसूयिन्यो भवन्ति, तत्सर्व भावप्राप्तेरमा.
तेश्च लक्षणम् ॥ २६॥
मा भूत्स्वेच्छया विरामोपलम्भात्स्त्रीषु विसृष्टिसुखानुभूतिः, अनुरा
गदर्शनात स्यात्, तद्यथा, चिरवेगे नायके चिरमुपसृत्य; विसृष्टिसुखा-
धिगमाद्विरते स्त्रियोऽनुरज्यन्ते स्निह्यन्तीत्यर्थः, शीघ्रवेगस्य च नाय.
कस्य क्षिप्रमुपसृत्य सुखाधिगमाद्विरतस्य रतान्तेऽभ्यसूयिन्यो द्वेषिण्यो-
भवन्ति, तत्सर्वमिति । अनुरागो विरागश्चोभयं लक्षणं ज्ञापकमित्यर्थः,
कस्येत्याह-भावस्य प्राप्तेरप्राप्तेश्चेति । तत्रानुरागो योषितां सुखप्राप्ति-
ज्ञापयति, विरागश्च दुःखाधिगमात्सुखाप्राप्ति, विरागस्य विरुद्धकार्य:
त्वात् , अनुरागविरागौ च सुखदुःखहेतुको पुरुषेषु दृष्टान्तत्वेन सिद्धौ,
तेऽपि हि पुरुषायिते चिरं व्यापृत्य; विरतायां योषित्यधिगतसुखाश्चिर-
वेगा अनुरज्यन्ते, तरक्षणविरतायां च दुःखाधिगमादनवाप्य; ते रतिसुख.
विरज्यन्ते, तस्मात्पुरुषस्येव योषितोऽप्यनुरागोपलम्भाद्विसृष्टिसुखा-
धिगमः प्रतीयत इति ॥ २६ ॥

१ अध्याये] प्रमाणकालभावरतावस्थापनप्रकरणम् । तञ्चन ॥२७॥ तञ्च नेति । अनुरागो भावप्राप्तेलिङ्गमित्येतनास्ति, सा(१)धारण- त्वादस्य॥ २७॥ PMARARIA । कण्डूतिप्रतीकारोऽपि हि दीर्घकालं प्रिय इति ॥ २८ ॥ कण्डतिप्रतीकारोऽपि हीति । तस्माञ्चिरवेगेन कण्डतेयः प्रतीकारः प्रतिक्रिया, दीर्घकालमिति । अतिचिरकालं सोऽपि स्त्रीणां प्रियो, न केवलं विसृष्टिसुखजननम् ॥ २८ ॥ एतदुपपद्यत एक ॥ २९ ॥ एतदुपपद्यत एव, न तु नोपपद्यते, एवेत्यनेनायोगव्यवच्छेदेन भव- स्पक्षेऽप्येतदस्तीति दर्शयति, अन्यथा विसृष्टिसुखाधिगमेऽपि कण्डूतेर- प्रतीकारान्न तत्रानुरागः, ततश्च किं विसृष्टिसुखाधिगमादनुरागोऽस्याः किंवा कण्डूतिप्रतीकारसमुत्थ इति संदिग्धः, तथाऽनधिगमात् , विरा- गोऽपि शीघ्र वेगे युज्यते ॥ २६ ॥ तस्मात्संदिग्धत्वादलक्षणमिति ॥ ३० ॥ तस्मादेत(२)दुभयं संदिग्धत्वाद्विसृष्टिसुखस्य प्राप्तरप्राप्तेश्वालक्षणम. ज्ञापकम्, उभय(३)त्र वर्तमानत्वात् , तस्मात्स्वेच्छया विरामाविरामा- वेव ज्ञाप(४)कौ, तौ च स्त्रियां वर्तमानावर्तमा(५)नौ स्त इति न पुरुषवद्रगतिमधिगच्छतीति स्थितम् ॥ ३० ॥ एतदेव मतमौहालकिगीतेन श्लोकेनाह- संयोगे योषितः पुंसा कण्डूतिरपनुद्यते । तच्चाभिमानसंसृष्टं सुखमियभिधीयते ॥ ३१ ॥ कण्डूत्यपनोदसमुत्थं स्पर्शसुखमभिमानसंसमिति, कारणे कार्यो- पचारादाभिमानिकसुखानुविद्धं सुखमित्यभिधीयते योषिद्भिः ॥ ३१ ॥ बाभ्रव्यमतमाह- New (१) सपक्षभावप्राप्तिविपक्षकण्डूतिप्रतीकारोभयसम्बन्धित्वात् , (२) अनुरागविरागद्वयम् । (३) विसृष्टिसुखप्राप्त्यप्राप्त्योः । तत्राद्ये कल्पेऽनुरागः स्पष्ट एव त्यप्रतीकारदशायाम् । द्वितीये तु विरागः स्पष्ट एवानुरागस्तु कण्डूतिप्रत (४) विसृष्टिसुखलाभतदलाभयोः । (५) स्वेच्छया विरामोऽवर्तमानः, स्वेच्छयाऽविरामो वर्तमान सटीके कामसूत्रे [ २ अधिकरणे, ७० सातत्यायुवतिरारम्भात्प्रभृति भावमधिगच्छति पुरुषः पुत्र रन्त एव ॥ ३२॥ द्वावपि विसृष्टिसुखमधिगच्छतः, स्त्री वारम्भाद्यन्त्रयोगात्प्रभृ सातत्यान्नरन्तर्येण, सा हि पुरुषेणोपसृप्यमाणा प्रभिन्नजलभाण्ड कनैः क्लिन्नसम्बाधा भवतीति प्रत्यक्षसिद्धमेतत् , सुखं च पुरुषस कोही सृष्टयनुविद्धमित्यारम्भात्प्रभृति स्त्री भावमधिगच्छति, पुरुषः पुनः भावमधिगच्छति, तदानीं शुक्रविसर्गात् ॥ ३२ ॥ एतदुपपन्नतरम् ॥ ३३ ॥ एतदिति । यथोक्तमुपपन्नतरम् , प्रमाणसिद्धत्वात्, ततश्च तयोः भिन्नकालत्वान्न सादृश्यमिति न कालतो नव रतानि, भावतस्तु स. न्ति, विसृष्टिसुखसादृश्यात् ॥ ३३ ॥ ननु सम्बाधो व्रणस्वभावत्वादपनुद्यमानः क्लिद्यतीत्याह- न ह्यसत्यां भावप्राप्तौ गर्भसंभव इति बाभ्रवीयाः ॥ ३४ ॥ न हीति । रसप्राप्तौ विसृष्टिसुखाधिगमे तृप्ता हि स्त्री गर्भ धत्ते यथाऽऽह चरकः निष्ठीविका गौरवमङ्गसादस्तन्द्रा प्रह! हृदयव्यथा च । तृप्तिश्च बीजग्रहणं स्वयोन्यां गर्भस्थ सद्योऽनुगतस्य लिङ्गम् ॥ । MUSHAD इति । तृप्तिश्च भावः, स च न शुक्रविसृष्टिं विनेत्यभिप्रायः , आर्तवं विस. जति न शुक्रमिति के चिद्, यथाऽऽह- 'कामाग्नितप्तचित्तस्त्रीपुंसयोरन्यदेहसंसर्गादरणीदण्डाभ्यामिव व. ह्निः शुक्रार्तवमथनाद्' इति. अस्ति तावत्तृप्तिनिबन्धनं, किंतदिति चिन्त्यते, यदि तन्न शुक्र कथं. योषितो गर्भसम्भव उपपद्यते, यथा हि पुरुषसंसर्गास्त्री गर्भ धत्ते तथा योषित्संयोगादपि, यथोक्तं सुश्रुते- 'यदा नारी च नारी च मैथुनायोपपद्यते । अन्योन्यं मुञ्चतः शुक्रमनस्थिस्तत्र जायते ॥ इति, तस्माद्रसधातोरुत्पन्नोऽसृग्धातुरेव कस्यां चिदवस्थायामार्तवम, शुक्रधातुस्तु मजधातोरुत्पद्यत इति ॥ ३४ ॥ अत्रापि तावेवाशङ्कापरिहारौ भूयः ॥ ३५ ॥ अत्रापीति । बाभ्रव्यमतेऽपि, तावेवेति । पूर्वोक्तावाशङ्कापरिहारा वाच्यौ, तत्र यद्यारम्भात्प्रभृति भावाधिगमस्तदा चिरवेगेऽनुरज्यन्ते.

अध्याये] प्रमाणकालभावरतावस्थापन प्रकरणम् । ७१ प्रवेगस्य चावलानेऽभ्यसयिन्य इत्ययं भेदो न युज्यते; उभयत्राप्यो । भावाधिगमाद् दृश्यते च भेदः, यस्मादनुरागस्तस्मादन्ते पुरुषव- 'गवस्य प्राप्तिः, यतः सासूया तस्मान्नारम्भात भात्प्रभृतीत्याशङ्कापरिहारो, ज-कण्डूतिप्रतीकारोऽपि दीर्घकालः प्रियइति कण्डूत्यपनोदाभावाच ध्रवेगे च प्रद्वेषः, सत्यपि भावाधिगमे कण्डूत्यपनोदस्याधिककाल. स्याभावाद्, अथ वा दीर्घकालं भावजननमपि प्रियमिति योज्यम्, २, वस्याधिकृतत्वात् । शीघ्रवेगे च विरज्यन्ते, चिरकालं भावस्थाजनना योषितो हि चिरानुबन्धनं भावमुत्पद्यमानमिच्छन्ति, तासामष्टगुणकाम- त्वाद्, एवं सति न पुंभिर्वामलोचनास्तृप्यन्तीति युक्तम्, तेषामेकगु- णकामत्वात्, न पुनर्विसृष्टिसुखाभावादिति, भूयश्चेति पुनराशङ्का- रिहारो॥ ३५॥ तदाह- तत्रैतत्स्यात् सातत्येन रसमाप्तावारम्भकाले मध्यस्थचित्तता नातिसहिष्णुता च ततः क्रमेणाधिको रागयोगः शरीरे नि. रपेक्षत्वम् अन्ते च विरामाभीप्मेत्येतदनुपपन्नमिति ॥ ३६ ॥ रतस्यारम्भकाले मध्यस्थचित्तता नखक्षतादीनामप्रयोगः, नातिस. हिष्णुता च नखक्षतादीनां प्रयुज्यमानानां नातिक्षमता, ततश्च क्रमेणा- रम्भादुत्तरकालं तरतमभेदादधिकरागयोग इति, मध्यस्थचित्ततायां. विपर्ययः, शरीरेऽपि निरपेक्षत्वमित्यतिसहिष्णुतया, अन्ते च विरामा. भीप्सा प्रयोगनिवृत्तीच्छा. एतत्सर्वमवस्थाऽन्तरं योषितः सातत्याद्र- सप्राप्तौ सत्यामनुपपन्नम्, प्रारम्भात्प्रभृत्येकरूपतया सातत्येन विस. ष्टिसुखस्य प्रवृत्तत्वात् , पुरुषस्य विसृष्ट्यवस्थायामेतदवस्थान्तरः दृश्यत इति ॥ ३६॥ तच्चन॥३७॥ नैवानुपपन्नं, कुलालचक्रादिवदुपपद्यत एव ॥ ३७॥ सामान्येऽपि भ्रान्तिसंस्कारे कुल्लालचक्रस्य भ्रमरकस्य वा भ्रान्तावेव वर्तमानस्य प्रारम्भे मन्दवेगता ततश्च क्रमेण पूरणं वे. गस्येत्युपपद्यते ॥ ३८ ॥ भ्रमरकं काष्ठमयं क्रीडनकद्रव्यम् , तहीधैण सत्रेणावेष्टय लाडि- - का भ्रमयन्ति, यथा तयोर्दण्डे सूत्रप्रत्याक्षिप्ते भ्रान्तिसंस्कारे समानेऽप्या दिमध्यावसानेषु भ्रान्त्यामेव वर्तमानयोः, अन्यथा भ्रान्त्यभावात्तत्सं स्कारोऽस्तीति कथं प्रतीयेत? प्रारम्भे मन्दवेगता मन्दभ्रमणं, ततः क्र.

सटीके कामसूत्रे [२ अधिकरणे, ७२ moon मेण तरतमभेदेन परणं वेगस्य, यथा तत्कुलालचक्र भ्रमरकं वा निश्च. लतरमिव स्थितमिति, एवं योषितोऽपि पुरुषेणोपसृतादिभिः प्रत्ययैरु- त्पद्यमाने विसृष्टिसुखे समानेऽप्यादिमध्यावसानेषु प्रारम्भकाले मन्द- वेगता मृद्वी रतिः- तत्र मध्यस्थचित्तता नातिसहिष्णुता च, ततः क्रमेण पूरणं वेगस्याधिक्यं रतेः, यत्राधिकचित्तवृत्त्या शरीरनिरपेक्ष- त्वमिति ॥ ३८॥ सातत्येन भावस्य प्रवृत्तत्वात्कथं विरामाभीप्सेत्याह- धातुक्षयाच्च विरामाभीप्सेति ॥ ३९ ॥ धातुक्षयाच्चेति । समुत्पन्ने कामिताऽऽख्ये भावे यः शुक्रधातुः स्थानाच्च्युतः स्वनाडौं प्रतिपद्यते तस्यारम्भात्प्रभृति शनैः शनैः स्य. न्दनारक्षये निवृत्तरागत्वाद्विरामाभीप्सेति ॥ ३९ ॥ तस्मादनाक्षेप इति ॥ ४० ॥ तस्मादनाक्षेप इति । अचोद्यं विसृष्टिप्रभवस्य भावस्य संतानेन प्रवृ. त्तस्यावस्थाऽन्तरमनुपपन्नमिति ॥ ४०॥ अमुमेवार्थ बाभ्रव्यगीतेन श्लोकेनाह- मुरतान्ते सुखं पुंसां स्त्रीणां तु सततं सुखम् । धातुक्षयनिमित्ता च विरामेच्छोपजायते ॥ ४१ ॥ BOSS hema एवं पक्षद्वयमुपन्यस्य सिद्धान्तमाह- तस्मात्पुरुषवदेव योषितोऽपि रसव्यक्तिद्रष्टव्या ॥४२॥ यत एवं विवादस्तस्माद्रसव्यक्ती रत्युत्पत्तिर्यथा पुरुषस्य विस. ष्टिरन्ते च तद्वदेव योषितोऽपि द्रष्टव्या ॥ ४२ ॥ पुरुषसुखेन हि स्त्रीसुखस्य वैसादृश्य स्वरूपतः कालतो वा स्यात्, तदुभयथाऽपि न युज्यत इति प्रतिपादयन्नाह- कथं हि समानायामेवाकृतावेकार्थमभिप्रपन्नयोः कार्यवै- लक्षण्यम् ॥ ४३॥ तत्र विजातीययोः पुरुषबडवयोः सम्प्रयुक्तयोर्भवेत्सुखवैसादृश्य- मित्याह-समानायामेवाकृताविति । तुल्यायां मनुष्यजातौ तुल्यजा- तीययोरपि स्नानभोजनादौ भन्नेऽर्थे प्रवर्तमानयोः स्यादित्याह- एकमिति । एक रताख्यमर्थमाभमुख्येन प्रवृत्तयोः कथं कार्यवैलक्षण्यं- स्यात् , तत्र विजातीययोः पु . डवयोर्भावसुखस्य कार्यस्य स्वरूपतः कालतश्च भेदादित्यर्थः, ये च समानाकृतयः सन्त एककार्यमभिप्रप.

१ अध्याये] प्रमाणकालभावरतावस्थापनप्रकरणम् । saas नास्तेषां सदृशं कार्यम् , न हि मेषयोः समानाकृत्योरेकस्मिन्युद्धलक्ष. णार्थे प्रवृत्तयोरभिघातः कार्य कालस्वरूपाभ्यां भिद्यते ॥४३॥ पुनः पुनः शास्त्रकार एव परपक्षमुपोद्वलयन्नाह- स्यादुपायवैलक्षण्यादभिमानवैलक्षण्याञ्च ॥ ४४ ।। स्थादुपायवैलक्षण्यादिति । भवेत्तत्र कार्यभेद उपायभेदादभिमान- -भेदाचेत्यर्थः ॥ ४४ ॥ कथम् ? ॥ ४५ ॥ कथमिति ॥४५॥ स चोपायभेदो निरूप्यमाणः स्त्रीपुंसव्यापारव्यतिरेकेण नास्तीत्याह- उपायवैलक्षण्यं तु सर्गात कर्ता हि पुरुषोऽधिकरणं युवतिः ॥४६॥ उपायवैलक्षण्यं तु सर्गादिति । उपायभेदः, सृष्टेरित्यर्थः, एषैव हि सृष्टिः स्त्रीपुंसयोर्यदेकः कर्ताऽन्यश्चाधार इति ॥ ४६॥ तदेव योजयन्नाह- अन्यथा हि कर्ता क्रियां प्रतिपद्यतेऽन्यथा चाधारः ॥ ४७ ॥ अन्यथेति । एकस्य निम्नं मेहनमपरस्योन्नतम् , प्रास्यमासकभा. वान्मेहनयोः क्रियाभेदः ॥४७॥ तस्माच्चोपायचैलक्षण्यात्, सर्गादभिमानवैलक्षण्यमपि भवति ॥४८॥ तस्माच्चैवंभूतव्यापारात्मकत्वादुपायवैलक्षण्यान्न केवलं भवत्प रिकल्पितः कार्यभेदो,ऽभिमानभेदोऽपि भवति ।। ४८ ॥ तदेव दर्शयन्नाह- अभियोक्ताऽहमिति पुरुषोऽनुरज्यते, आभियुक्ताऽहमनेनेति युवतिरिति वात्स्यायनः ॥ ४९ ।। अभियोक्तेत्यादि । अहमेनां रन्तुमनुयुञ्ज इति कर्तृव्यापारापेक्षया पुरुषोऽभिमन्यमानोऽनुरज्यते, अहमनेनाभियुक्ता रन्तुमिति चाधार- व्यापारापेक्षया युवतिरभिमन्यमाना ऽनुरज्यते, ततश्च तावुत्पन्नाभिमा. नानुरागौ संप्रयोगे व्याप्रियमाणावपि कालस्वरूपाभ्यां सदृशं भावमभि- गच्छतो न तु क्रियाभेदमात्राद्विसदृशम्, ततो ह्यभिमानमात्रं भिद्यते न कार्यमित्येतच्चेतसि कृत्वा शास्त्रकारो व्यक्ताभिप्रायं स्वपतं दर्श- यति स्वनाम्ना ॥ ४९ ॥ परस्यापि शास्त्रकारेणाभिमानवैलक्षण्यमभ्युपगच्छतोपायवैलक्ष- ण्यमभ्युपगत स्तस्मात्त्वयं कथं कार्यभेदः, परं नाभ्युपगच्छेदित्यभिप्रा- योवर्तते तंनिराकर्तुं शास्त्रकारः प्रकटयति-- १० का० सू०

सटीके कामसूत्रे [ २ अधिकरणे,
तत्रैतत्स्यादुपायवलक्षण्यवदेव हि कार्यवै लक्षण्यमपि कस्मान
स्यादिति ॥ ५० ॥
उपायवैलक्षण्यवदिति । यथाऽनयोापारो भिन्नोऽभ्युपगतस्तद्व-
देव सुखाण्यमपि कार्य भिन्न कस्मान्नाभ्युपगम्यते तजन्यत्वादिति ५०॥
AND
maduINDIA
तच्च नेति।
तज्जन्यत्वे कार्यस्य न वैलक्षण्यमपि तूपायवैलक्षण्यमेव युक्तम् ॥५१॥
हेतुमदुपायवैलक्षण्यम् ॥ ५२ ॥
तस्माद्धेतुमदुपायबैलाण्यम् ॥ ५२ ॥
कुत इत्याह-
तत्र कर्मधारयोर्मिनलक्षणत्वाद् ॥ ५३ ॥
कर्मधारयोभिन्नलक्षणत्वादिति । स्वतन्त्रः कर्ता, अधिकरणमाधारः,
तयोर्हेत्वोभिन्नस्वभावत्वात्तयापारावपि तज्जन्यत्वाद्भिन्नावित्यर्थः ॥५३॥
यत्तु कार्यस्य तजन्यत्वेऽपि वैलक्षण्यमुक्तं तस्य निरूप्यमाणोऽन्यो.
हेतु स्तीत्याह-
अहेतुमत्कार्यलक्षण्यमन्याय्यं स्यात् ॥ २४ ॥
अहेतुमदिति । अहेतुत्वाञ्च कार्यवैलक्षण्यमित्यन्याय्यं युक्तिशून्यम-
भ्युपगतं स्यात् ॥ ५४॥
तामेव युक्ति स्मारयन्नाह-
आकृतरभेदादिति ॥ ५५ ॥
आकृतेरभेदादिति । समानामेव मनुष्यजातावेकाभिसन्धानयोः स्त्री. सु.
पुरुषयोर्व्यापारौ परस्परापेक्षौ कालस्वरूपाभ्यां सदृशं सुखं जनयतः॥५५
तत्रैतत्स्यात् ,संहत्य कारकैरेकोऽर्थोऽभिनिर्वय॑ते, पृथक्पृथ. 'न्,
क्स्वार्थसाधको पुनरिमौ तदयुक्तमिति ॥ ५६ ॥
देवदत्तः काष्ठः स्थाल्यामोदनं पचतीत्यादौ देवदत्तादिभिः कर्तृकर-
णाधारैः कारकैः संभूयौदनो दृश्यते, स्वकार्यसाधको पुनरिमौ स्त्रीपुं.
सौ, यतो युवतिराधारः पुरुषव्यापारापेक्षः स्वसन्तानेषु सुखाख्यं स्वा.
थै साधयति, पुरुषश्च कर्ता स्त्रीव्यापारापेक्ष इति, एतञ्च भिन्नार्थसा.
धकत्वं कारकाणामयुक्तम् , ओदनादविद्ष्टत्वाद्, दृश्यते च स्त्रीपुंस-
योः, तत्र भिन्नार्थसाधकत्वेऽपि कारकाणां यथा स्त्रीपुंसयोः सुखरूपं.
पृथक्कार्य, तथा समानाकृतित्वेऽपि तदेव कार्य कालस्वरूपाभ्यां विस.
दृशं स्यादित्यभिप्रायः ॥ १६॥

१ अध्याय) प्रमाणकालभावरतावस्थापनप्रकरणम् । ७५ - तचन ।। ५७॥ तञ्च नेति । नैतदयुक्तं किं तु युक्तमेव ॥ ५७ ॥ युगपदनेकार्थसिद्धिरपि दृश्यते, यथा मेषयोरभिघाते कपि- स्थयोर्भेदे मल्लयोर्युद्ध इति ॥ ५८ ॥ युगपदनेकार्थसिद्धिदर्शनाद्, यथा मेषयोरभिघात इति । अभिघा. तविषये युगपदनेकार्थसिद्धिर्दृश्यते, युगपद् द्विधा चाभिघातो भवती- त्यर्थः, एवं कपित्थयोर्भेदे मल्लयोयुद्ध इति, तथा स्त्रीपुंसयोः कारकयोः पृथक्कार्य सदृशं च स्यादिति, मेषकपित्थमल्लग्रहणं तिर्यगचेतनमनुष्ये. प्वप्यस्य न्यायस्य प्राप्तिख्यापनार्थम् ।। ५८ ॥ तत्र को भेद इति चेत्, तत्रैतस्स्यात्- न तत्र कारकभेद इति चेद् ? ॥ ५९ ।। मेषादियुद्धादावपि द्वावपि प्रतियोगिनौ कर्तारौ न तत्र कारका- न्तरमिति ॥ ५९॥ इह तु क धाराविति कथं न विसदृशं कार्यमित्याशङ्कयाह- इहापि न वस्तुभेद इति ॥ ६० ॥ इहापीति । स्त्रीपुंसयोरपि न कश्चित्परमार्थतः कारकयोर्भेदः, अपि तु द्वावप्येतौ कर्तारौ क्रियां निर्वर्तयतः, केवलं करणाधिकरणादयो भे. दा बुद्धिकल्पिता व्यवहारार्थ व्यवस्थाप्यन्ते ॥ ६ ॥ उपायवैलक्षण्यं तु सर्गादिति तदभिहितं पुरस्तात् ॥ ६१ ॥ एवं च सति उपायवैलक्षण्यं तु सर्गात्' ।२।१ । १। ४६ । इति यदुक्तं तदभिहितं प्रतिविहितं पुरस्ताद् द्रष्टव्यम् , कळधारलक्षण- स्यैव वास्तवत्वात् ॥ ६१ ॥ तेनोभयोरपि सदृशी सुखप्रतिपत्तिरिति ॥ ६२ ।। तेन प्रतिविहितेनोभयोरपि स्त्रीपुंसयोः सदृशी सुखप्रसिद्धिः, काल- स्वरूपाभ्यां सदृशं सुखमुत्पद्यत इत्यर्थः, अन्यथा कथं तयोरागज्वरोपशमः, तामेवात्यानन्दावस्थामधिकृत्योपस्थेन्द्रियमानन्देन्द्रियमिति गीयते ॥ ६२॥ अमुमेवार्थ शास्त्रकारः संग्रहश्लोकेनाह- जातेरभेदाम्पत्योः मदृशं सुखमिष्यते । तस्मात्तथोपचर्या स्त्री यथाऽने प्राप्नुयादतिम् ॥ ६३ ॥ दम्पत्योः स्त्रीपुंसयोः, एकार्थमभिप्रपन्नयोरित्यर्थः, एतावत्तु स्यात्, अवान्तरस्त्रीजातिभेदाद्यदपरमस्याः, कण्डत्यपनोदसुखं यच्चोपमृद्यमाने anemING तज्जन्यत्वे । रतत्वात्। सटीके कामसूत्रे [२ अधिकरणे, ७४ ततस्य संबाधे स्यन्दनं शुक्रस्य, विसृष्टिसुखं तु पुरुषवदन्त एवेति यथोक्तम्- स्यादिति ॥ 'कण्डूत्यपगमास्त्रीणां क्षरणाञ्च सुखं द्विधा । उपायवैलक्ष स्यन्दनं च विसृष्टिश्च शुक्रस्य क्षरणं द्विधा । देव सुखाख्यमः क्लिन्नता केवलस्यन्दाद्विसृष्टेमथनात्सुखम् । अन्ते स्वाक्षिप्त वेगाया विसृष्टिनरवत्स्मृताः ॥ तञ्च नेति। भिन्तकाला चेत् पुरुषस्य प्रागधिगतभावत्वाद् ध्वजमङ्गन स्त्रीभावमा धिगच्छेत् तस्मात्समरताद्विषमरते तथा स्त्री चुम्बनालिङ्गनादिभिरुप. तस्मा चरणीया यथाऽने प्राप्नुयादतिम् , स्त्रिया प्रागधिगते भावे पुरुषो युक्त कुत यन्त्रो वेगं कुर्यादात्मनो भावं निवर्तयितुमिति ॥ ६३ ॥ सदृशत्वस्य सिद्धत्वात् , कालयोगीन्यपि भावतोऽपि कालतः कर्मधारयो प्रमाणवदेव नव स्तानि ॥ ६४ ॥ तयोर्हेत्वोभिन्नर कालयोगीन्यपीति । अपिशदाद्भावयोगीन्यपि; अन्यथा कण्डूत्यप. यत्तु कार्यस नोदसुखस्य विसृष्टि सुखस्य वा वैतादृश्यात्कथं भावतो नव रतानि ६४ हेतु स्तीत्याह- रतिरतयोर्व्यवहारार्थ पर्यायानाह- अहः रसो रतिः प्रीतिर्भावो रागो वेगः समाप्तिरिति रतिपर्यायाः, अहेतुमदि भ्युपगतं स्यात् संप्रयोगो रतं रहः शयनं मोहनं सुरतपर्यायाः ॥ ६५ ॥ तामेव युक्ति र फलावस्था रतिः, हेत्ववस्था च रतम्, तयोः पर्यायशब्दानामे काविषयत्वेऽपि निमित्तं भिद्यते, यथा-ऐश्वर्ययोगादिन्द्रः, शक्तियो- आकृतेरभेद ग ---, तत उपस्थेन्द्रियेण रसनादनुभवनाद्रसः, फलावस्थायां सुख- स्वेन चित्तपरिस्यन्देन रमणादतिः, चित्तप्रणयनात्प्रीतिः, कामिता पुरुषयोापारी ऽऽख्येन भावेन भाव्यमानत्वाद्भावः, कामिताऽऽख्योऽपि भाव्यते फल- तत्रतत्र रूपोऽनेनेति भावः, चित्तरञ्जनाद्रागः, शुक्रधातोः सुखानुविद्धस्य ना. स्वार्थसाधक डीसुखात्पृथग्भवनाद्वेगः, रतस्य समापनात्समाप्तिरिति, सङ्गतयोः देवदत्तः व स्त्रीपुंसयोः सम्यक्प्रकृष्टो योगः संप्रयोगः, हेत्ववस्थायां वाक्का- गाधारैः कारवै यचित्तपरिस्यन्देन रमणाइतम्, दम्पतिव्यतिरिक्तमन्यं रहयतीति रहः, यतो युवा शयनीयप्रतिशय्यिकयोः शयनाच्छयनम् , अन्यव्यापारेषु मोहनाद्वौच. चयति, त्यकरणान्मोहनमिति ॥ ६५ ॥ प्रमाणकालभावजानां संप्रयोगाणामेकैकस्य नवविधत्वात्तेषां- व्यतिकरे मुरतसंख्या न शक्यते कर्तुमतिबहुत्वात् ॥ ६६ ॥ प्रमाणकालभावजानां त्रयाणां रतानामेककस्य नवविधत्वात्समुदायेन कारक । १ अध्याये] प्रमाणकालभावरतावस्थानपप्रकरणम् । ७ सप्तविंशतिः, द्विविधं रतम्-शुद्धं संकीर्ण च, तत्र शुद्धस्यासम्भवात्सं. कीर्णमेव युक्तमभिधातुमिति मन्यमानः शास्त्रकार आह-तेषामिति । सप्तविंशतिसंख्यानां व्यतिकरे संयोगे, तत्रापि न द्वाभ्याम्, असंभवात्, त्रिभिरेव व्यतिकरः, सुरतसंख्या न शक्यते वक्तुम् , प्रत्येकनिर्देशेनाति. बहुत्वात् , तेषु हि प्रत्येकं निर्दिश्यमानेषु ग्रन्थगौरवं स्यात्, संक्षेपेण च संख्यानस्य प्रयोजनं नास्ति, तस्मात्पूर्वसंख्ययैव योजनीयमित्यभिप्रायः, तत्र समं विषमं च संकीर्णकम् , तद्यथा-शशस्य मन्दशीघ्र वेगस्य मृग्या तथाविधया, शशस्य मध्यमध्य वेगस्य मृग्या तथाविधया, शशस्य शी. नचिरवेगस्य मृग्या तथाविधया, शशस्य मन्दमध्यवेगस्य मृग्या तथा. विधया, शशस्य मन्दचिरवेगस्य मृग्या तथाविधया, शशस्य मध्यशी. ध्रवेगस्य मृग्या तथाविधया, शशस्य मध्यचिरवेगस्य मृग्या तथावि- धया; शशस्य चण्डशीघ्र वेगस्य मृग्या तथाविधया, शशस्य चण्ड- चिरवेगस्य मृग्या तथाविधया, इति सदशसंप्रयोगे समानि नव सं- कीर्णरतानि । एषामेव नवानां शशानामे कैकस्य सदृशीं मृगीमेकां त्यक्त्वा शेषाभिरतथाविधाभिरष्टभिर्योगे द्वासप्ततिरिति विषमाणि संकीर्णर- तानि, यथा शशस्य नवप्रकारस्य नवप्रकारया तथाविधया बडवया विषमाणि नव संकीर्णरतानि, अतथाविधाभिरष्टभिर्योगे द्वासप्तति- रिति विषमाण्येव एवं हस्तिन्या तावन्त्येव विषमाण्यतिविषमाणि चेति संक्षेपेण शश- स्य त्रिचत्वारिंशच्छतद्वयम्(२४३), तावदेव वृषस्याश्वस्य च, सदा, येन चैकोनत्रिंशत्सप्तशतानि (७२९) ॥ ६६ ॥ तेषु तांदुपचारान्प्रयोजयेदिति वात्स्यायनः ।। ६७ ॥ संकीर्णरतेषु बुद्धया परिच्छिन्नेषु तर्कादुपचारान्प्रयोजयेत् , प्रमा- णकालभावजेषु ये यथायथमालिङ्गनादय उपचारास्तारहयित्वा संकी, नेव योजयेत्, तथा तत्समरतमेव प्रायनिक स्यादित्यर्थः, अत्र बा- भ्रवीयाः श्लोकाः- 'पौरुष मेहनं यत्र मेहने परिवृष्यते । भावकालो समानौ च तद्रतं श्रेष्ठमुच्यते ॥ भिद्यते मेहनं यत्र धृष्यते च न सर्वशः । विषमौ कालभावौ च कनिष्ठं तदुदाहृतम् ॥ सुरतं सर्वसाम्ये स्थाद्वैषम्पे दूरतं स्मृतम् । मध्यमानि तु सर्वाणि तेषु चाहुर्बलाबलम् ॥

सटीके कामसूत्रे [२ अधिकरणे, बलीयान्सर्वतः कालः कालेऽपि हि शशोऽपि सन् । संस्पृशत्येव सर्वत्र हस्तिनीमेहनोदरम् ॥ एवं वाजी विरुध्येत मृगीकालप्रकर्षतः । तस्मात्प्रमाणमेवाहुबलीयः सर्वतः परे॥ बलीयान्वेग इत्यन्ये यस्मादश्वोऽप्यवेगवान् । नैव साधयितुं शक्तो वेगः कालप्रकर्षणः ।। एवं तु नैव खिोत मन्दवेगाऽपि नायिका । यथाविषयमेतासां तस्माज्ज्ञेयं बलाबलम् ॥ हीनो भावप्रमाणाभ्यां वेगवान्कालवर्जितः। कालप्रमाणहीनश्च तत्र शेषेण साधयेद्' इति ॥ ६७ ॥ तत्र स्वभावतो यो यस्य भावः कालश्च स भावान्तर कालान्तरं. च यदा प्रतिपद्यते तदा भावकालान्तरसंक्रान्तिः, तां दर्शयितुमाह- प्रथमरते चण्डवेगता शीघ्रकालता च पुरुषस्य तद्विपरीतमुत्त. रेषु, योषितः पुनरेतदेव विपरीतमाधातुक्षयात् ॥ ६८ ।। शीघ्रमध्यचिरवेगा(१)णां मन्दमध्यवण्डवेगानामन्यतमस्य प्रकृति- स्थस्य प्रथमरते स्वभेदापेक्षया शीघ्र वेगता चण्डवेगता च द्रष्टव्या, त दानी प्रबृद्धत्वाद्रागश्चण्डायमानो द्रुतं प्रशाम्यति, तद्यथा-चिरचण्ड- वेगस्य प्रथमरते मध्यवेगता चण्डतरवेगता च कालभावाभ्याम्, म. ध्यमध्यवेगस्य शीघ्रवेगता चण्डवेगता च, शीघ्रमन्दवेगस्य शीघ्रतरवेग- ता मध्यवेगता च, शीघ्रमध्यवेगस्य शीघ्र तरवेगता चण्डवेगता च, शी- प्रचण्डवेगस्य शीघ्रतरवेगता चण्डतरवेगता च, मध्यमन्दवेगस्य शीघ्र वेगता मध्यवेगता च, मध्यवण्डवेगस्य शीघ्रवेगता चण्डतरवेगता च, चिरमन्दवेगस्य मध्यवेगता, चिरमध्यवेगस्य मध्यवेगता चण्डवेगता, चेति(२) नव प्रथमरते संक्रान्तिरतानि, तद्विपरीतमुत्तरेविति, प्रथमरते पदुक्तं तस्य विपरीतं द्वितीयादिषु रतेष्वित्यर्थः, तत्र कामस्यैकगुणस्वा- त्पुरुषस्य प्रशान्तरागत्वाद् द्वितीये रते प्रकृतिस्थैव भावकालान्त- रसंक्रान्तिः, योषितः पुनरेतदेव विपरीतमिति । अत्रापि प्रकृतिस्थायाः प्रथमरते स्वभेदापेक्षया चिरवेगता मन्दवेगता च द्रष्टव्या, तस्या अष्टगुणोऽपि रागो निसर्गादेव प्रथमरतेन संधुक्षते, ततश्च तदानीं मन्दायमानश्चिरेण. . । (१) वैयधिकरण्ये षष्ठी। (२) कालभावाभ्यामिति क्रमेण सर्वत्रान्वितम् ।

१ अध्याये] प्रमाणकालभावरतावस्थापनप्रकरणम् । ७९ प्रशाम्यति, तद्यथा-चिरचण्डवेगाथाः प्रकृतिस्थायाचिरतरवेगता म. ध्यवेगता च कालभावाभ्याम् , मध्यमध्यवेगायाश्चिरवेगता मन्दवेगता च, शीघ्रमन्दवेगाया मध्यवेगता मन्दतरवेगता च, इत्येवं शेषास्वपि षट्(१)सु योज्यम् , तद्विपरीतमुत्तरेषु द्वितीये रते प्रकृतिस्थैवं सं क्रान्तिः, ततः शनैः शनैः संधुक्षणात्प्रवर्धमानरागवेगयोः स्वभेदापे. क्षया तृतीयादिरतेषु शीघ्रतरतमवेगताऽऽदयश्चण्डतरतमवेगताऽऽद- यश्च धर्माः यावच्छुक्रधातुक्षय इति स्त्रीपुंसयोस्तुल्ये धातुक्षये विशेषः ॥ ६८॥ -- MINION यत्पुरु षस्यादौ धातोरेकगुणत्वाद्योषितच पश्चादष्टगुणत्वात्सदाह- प्राक् च स्त्रीधातुक्षयात्पुरुषधातुक्षय इति प्रायोचादः ॥६९॥ प्राक्चेति । प्रायोवाद इति । न पुम्भिर्वामलोचना तृप्यतीति,प्रमाणा- न्तरसंक्रान्ति च योषितो जघनप्रसारणावहासाभ्यां पुरुषस्थ च वृद्धि विधिना वक्ष्यति ॥ ६९ ॥ शीघ्रमध्यचिरवेगा नायिका इत्युक्तम् , काः पुनस्ता इत्याह- मृदुत्वादपमृद्यत्वान्निसर्गाच्चैव योषितः । प्राप्नुवन्त्याशु ताः प्रीतिमित्याचार्या व्यवस्थिताः ॥७॥ निसर्गात्स्वभावतो या स्त्रियो मृद्वङ्गयः, अमृद्वङ्गयोऽपि याश्चुम्बना. दिभिर्बाद्यैरान्त रैश्चाङ्गलिक दिभिरुपमृद्यन्ते ताः शीघ्रतरं प्रीतिं प्राप्नु- वन्ति ताः शीघ्रवेगा इत्यर्थः, तद्विपर्ययेण मध्यचिरवेगा इत्यर्थ इ- त्युक्तं, तथा पुरुषोऽपीति, तत्र मृदुत्वं स्वाभाविक लक्षणम्, शेषं- कृत्रिमम् , इत्याचार्या व्यवस्थिता इति । सर्वेषामेतदेव मतमव्यभि- चारित्वात् ॥ ७॥ एतावदेव युक्तानां व्याख्यातं सांप्रयोगिकम् । मन्दानामवबोधार्थ विस्तरोऽत: प्रवक्ष्यते ॥ ७१ ॥ रतावस्थापनमात्रेण सांप्रयोगिकं संक्षेपेण व्याख्यातम् , युक्ता प्राज्ञाः शास्त्रेण विदित्वाऽऽलिङ्गनादीनुपचारानुत्प्रेक्ष्य योजयन्ति न मन्दबुद्धय इति तदवबोधनार्थ विस्तराभिधानम् ॥ ७१ ॥ (१) शीघ्रमध्यवेगाया, मध्यवेगता मन्दवेगता च । शीघ्रचण्डवेगाया, मध्यवेगते । मध्यमन्दवेगायाः, चिरवेगता मन्दतरवेगता च । मध्यचण्डवेगाया, चिरवेगता मध्यवेगता च । चिरमध्यवेगायाः, चिरतरचेगता मन्दवेगता च । चिरमन्दवेगायाः, चिरतरवेगता मन्दतरवगेता च । एतच्च स्वभावस्थाया योषितः प्रथमरते कालभावाभ्यां क्रमेण ज्ञेयम् । हि सटीके कामसूत्रे [२ अधिकरणे, प्रमाणकालभावेभ्यो रतावस्थापनं नाम षष्ठं प्रकरणम् । यथा त्रिधा रतमवस्थापितं तथा स्थूलसूक्ष्मरूपाभ्यां प्रीतिरपि व्य. वस्थापितो, किं तु तद्वयतिरेकेणान्या अपि प्रीतयोऽस्मिन्छास्त्रे. संभव. न्तीति दर्शनार्थ प्रीतिविशेषा उच्यन्ते -'अभ्यासाद्' इत्यादिना । अभ्यासादभिमानाच्च तथा संप्रत्ययादपि । विषयेभ्यश्च तन्त्रज्ञाः प्रीतिमाहुश्चतुर्विधाम् ॥ १ ॥ तन्त्रज्ञा-कामसूत्रज्ञाः॥१॥ आसां लक्षणमाह-'शब्दादिभ्य' इत्यादिना शब्दादिभ्यो बहिर्भूता या कर्माभ्यासलक्षणा । प्रीतिः साऽऽभ्यासिकी ज्ञया मृगयाऽऽदिषु कर्मसु ॥ २ ॥ कर्मसु क्रियमाणेषु तत्रत्याशब्दादिविषयानाश्रित्य या स्यात्सा वि. षयप्रीतिरेव कर्माभ्यासलक्षणा कर्मणां पुनः पुनरनुष्टानमभ्यासः तेन लक्ष्यमाणत्वात्तलक्षणा प्रीतिः सक्तिः साऽभ्यासेन निवृत्ताऽऽभ्यासिकी कर्माश्रयकलाव्यासकानां भवति, यदाह-मृगयाऽऽदिग्विति । आखे. टकं मृगया, व्यायामिकी विद्या, आदिशब्दान्नृत्यगीतवाद्यचित्रपत्रच्छे. द्याद्युपसंग्रहः ॥ २॥ अनभ्यस्तेष्वपि पुरा कर्मस्व विषयात्मिका। संकल्पाजायते प्रीतिर्या सा स्यादाभिमानिकी ॥ ३ ॥ पुरा पूर्व कर्मस्वनभ्यस्तेष्वपीत्यपिशब्दादभ्यस्तेष्वपीति, येनापि मृगयाकर्म नाभ्यस्तमभ्यस्तं वा सोऽपि तत्कर्म कृत्वा मनसा सु. खायते, आभ्यासिकी तु कर्माभ्यासादेवेति विशेषः, अविषयात्मि- केति, नापि विषयेभ्यः शब्दादिभ्य आत्मलाभः स्यादित्यर्थः, कुत स्तही त्याह-सङ्कल्पाजायत इति, मनसः संकल्पात्मकत्वान्मानसीत्यर्थः, सा सा चैवंविधाऽऽभिमानिकीत्युच्यते. अभिमानोऽहंकारः स प्रयोजन- मस्या इति ॥ ३ ॥ सा कथमस्मिशास्त्र सम्भवतीत्याह प्रकृतेर्या तृतीयस्याः स्त्रियाश्चैवोपरिष्टिके । तेषु तेषु च विज्ञया चुम्बनादिषु कर्मसु ॥ ४ ॥ तृतीया प्रकृतिर्नपुंसकं तस्याः, स्त्रियाश्च मुखचपलायाः प्रयुक्त्या. औपरिष्टिके मुखे जघनकर्मण्यभ्यस्तेऽपि विज्ञया, प्रयोजयितुः पुनः क्रायिकी विषयप्रीतिः, तेषु तेषु चेति । स्वभेदभिन्नेषु चुम्बनादिषु, १ अध्याये] प्रीतिविशेषप्रकरणम् । ८१ आदिशब्दादालिङ्गानन खरदनच्छेद्यग्रहणनेष्वभ्यस्तेष्वनभ्यस्तेष्वपि रति- काले प्रयोक्तुर्मानसी प्रीतिः, यस्या अपि प्रयुज्यन्ते तस्या अपि तत्र तत्र स्थाने प्रयुज्यमानेषु राग संकल्पयशान्मानसी प्रीतिर्न कायिकी स्पर्श- मात्रसंवेदनात्, दुःखाभिभूते तु काये तत्प्रीतिकारणाभावात् सान कायिकी॥४॥ नान्योऽयमिति यत्र स्यादन्यस्मिन्प्रीतिकारणे । तन्त्रज्ञैः कथ्यते सापि प्रीतिः संप्रययात्मिका ॥ ५॥ स एवायमित्यर्थः, यत्र-क्व चन,अन्यस्मिन्निति । अपूर्वस्मिन्विषये पुंसि स्त्रियां वा, स एवायमिति पूर्वप्रीत्यध्यारोपणाय स्त्रियाः पुंसो वा चित्तवृत्तिः, प्रीतिकारण इति। प्रीतिहेतावध्यारोपणनिबन्धनमेतत् , पूर्व- प्रीतस्य ये गुणाः प्रीति हेतवस्तेऽत्रापि सन्तीति दर्शयति, एवं च सा पूर्वप्रीतिः संप्रत्य यादुत्पन्न स्वभावत्वात्सम्प्रत्ययात्मिका, तन्त्रः काम- सूत्रविद्भिः, कथ्यते, तथा च प्रियसादृश्यं गमनकारणम् ,इति वक्ष्यति॥५॥ प्रत्यक्षा लोकत: सिद्धा या प्रीतिर्विषयात्मिका । प्रधानफलवच्चात्सा तदर्थाश्वेतरा अपि ॥ ६॥ शब्दादिविषयाननुकूलानालम्व्य श्रोत्रादिद्वारेण या प्रीतिरुत्पद्यते सा विषयव्यवसायानुगतत्वात्प्रत्यक्षा सती लोकत एव सिद्धत्वान्नात्र लक्षणाभिनिवेशः, सा चैवंविधा नित्यनैमित्तिकनागरकवृत्ते द्रष्टव्या, प्रधानफलवत्त्वात्सेति । साक्षाद्विषयोपभोगफलेन युक्तत्वादित्यर्थः, इतरा अपि तिनस्तदर्थाश्चेति, विषयप्रीत्यर्था एव तदत्वात् , चशब्द. एवकारार्थः ॥ ६॥ प्रतिीरेताः परामृश्य शास्त्रतः शास्त्रलक्षणाः । यो यथा वर्तते भावस्तं तथैव प्रयोजयेत् ॥ ७ ॥ इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिक- रणे प्रमाणकालभावेभ्यो रतावस्थापनं, प्रीतिवि. शेषा इति प्रथमोऽध्यायः । आदितः षष्ठः। चतस्त्रः शास्त्रतः परामृश्य निरूप्य, शास्त्रलक्षणा इति । तेषु तेषु स्थानेषु शास्त्रेणानेन लक्ष्यमाणत्वात् . यो यथा वर्तते भाव इति । कर्मा- भ्यासादीनां चतुर्णा प्रकाराणां येन प्रकारेण योऽभिप्रायो वर्तते स तेनैव ११ का० सू० ८२ सटीके कामसूत्रे [ २ अधिकरणे, प्रकारेण वर्तयेत् तजन्यप्रीत्यर्थमेव, तथा हि-अतथाप्रवर्तनादनीप्सिता प्रतिरप्रीतिरेव स्यात् ॥ ७॥ इति प्रीतिविशेषाः सप्तमं प्रकरणम् । आदितः षष्ठ इति । प्रथमाध्यायात्प्रभृति षष्ठोऽयमित्यर्थः, एवमुत्त. रत्रापि योज्यम् । इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे प्रमाणकालभावेभ्यो रतावस्थापन प्रीतिविशेषाः प्रथमोऽध्यायः । MORNIMAR द्वितीयोऽध्यायः। एवं रतमवस्थाप्य तदङ्गभूतां चतुःषष्टिं निर्दिदिक्षुराह- संप्रयोगाङ्गं चतुःषष्टिरित्याचक्षते चतुःषष्टिप्रकरणत्वात् ॥ १॥ संप्रयोगस्य चतुःषष्टयात्म कत्वात्तस्याङ्गं चतुःषष्टिरित्याचक्षते पूर्वा- चार्यास्तस्मात्तां वक्ष्यामः॥१॥ तत्र चतुःषष्टिशब्दः शास्त्रे तदेकदेशे वा वर्तते, उभयथाऽपि व्यवहा- राङ्गमिति दर्शयन्नाह- शास्त्रमेवेदं चतुःषष्टिरित्याचार्यवादः ॥२॥ शास्त्रमेवेदमिति । इदमिति शास्त्रमाह, तच्च संप्रयोगस्याङ्गम् , तदुपायस्य तन्त्रावापाख्यस्य प्रकाशनात्, आचार्यवाद इति । शब्द- विदो ह्याचार्या एवंविधमेव किञ्चिन्निमित्तमाश्रित्य चतुःषष्टिशब्दस्य प्रवृत्तिं वदन्ति तच्चेहाप्यस्तीति ॥ २॥ शास्त्रैकदेशे वा विद्यासमुद्देशे वर्तत इत्याह- कलानां चतुःषष्टित्वात्तासां च संप्रयोगाङ्गभूतत्वात्कलाम मूहो वा चतुःषष्टिरिति ॥ २॥ अत्र हि गीतादयः कलाश्चतुःषष्टिरुक्ताः, ततस्तत्समूहो वा संप्रयो. गाङ्गम् ॥ ३॥ ऋचां दशतयीनां च संज्ञितत्वादिहापि तदर्थसंबन्धात् पञ्चा- लसंबन्धाच बच्हृचैरेषा पूजाऽर्थं संज्ञा प्रचार्तितैसके ॥ ३ ॥ चतुःषष्टिः सांप्रयोगिक वा शास्त्रकदेशे वर्तते तत्र हि पाञ्चालिकी चतुःषष्टिः कश्यते, कथं ताश्चतुःषष्टिरित्याह-दशतयीनां चेति । दशाव. यवा मण्डलानि यासामृचाम् , इत्यवयवे तयप्, दशतय्यस्ताश्चतुःषष्टिरि- MINIMAR Brmanan २ अध्याये] उपगूहनविचारप्रकरणम्। ति संशिताः, इहापीति । संप्रयोगाङ्गे, तदर्थसम्बन्धादिति । दशावयवम- ण्डलार्थसम्बन्धात्, चतुःषष्टिरिति संज्ञा प्रवर्तत इति सम्बन्धः, संप्रयो. गाङ्गं हि दशावयवम् , यथोक्तम्- 'आलिङ्गन चुम्बनदन्तकर्मनखक्षतं सीत्कृतपाणिघातम् । संवेशन चोपस्मृतोपरिष्टं नरायितं चेति दशाङ्गमाहुः ॥ इति, पञ्चालसम्बन्धाच प्रवर्तिता, पञ्चालेन महर्षिणा ऋग्वेदे चतुःषष्टि- निगदिता, बाभ्रव्येणापि पाञ्चालेन स्वकृते सांप्रयोगिकेऽधिकरणआलि- ङ्गनादय उक्ताः, ततश्च द्वयोरप्येकगोत्रनिमित्तसमाख्येन पाञ्चालेन निगद- नात्सम्बन्धोऽस्ति, पूजाऽर्थेति। उभयोरपि पक्षयो ऋग्वेदैकदेशवर्तिन्यपि संज्ञा बढचैरभीष्टाचारैरालिङ्गनादिषु पूजार्था प्रवर्तितेति के चिदाहुः, "तत्पूजां च वक्ष्यति- 'विद्वद्भिः पूजितामेतां खलैरपि सुपूजिताम् । पूजितां गणिकासंधैर्नन्दिनी को न पूजयेत् ॥ इति ॥ ४॥ आलिङ्गनचुम्बननखच्छेयदशनच्छेद्यसंवेशन सीत्कृतपुरुषायि. तोपििष्टकानामष्टानामष्टधा विकल्प भेदादष्टावष्टकाश्चतुःषष्टिरिति बाभ्रवीयाः ॥ ५॥ आलिङ्गनेत्यादि । बाभ्रव्यस्य शिष्याः पुनरन्वर्थतामाहुः-अष्टधा विकल्पभेदादिति । एकैकस्याष्टधा विकल्पमेदादित्यर्थः, ततश्चाटौ सन्तो- ऽगुणा अष्टावष्टकाश्चतुःषष्टिः ॥ ५ ॥ विकल्पवाणामष्टानां न्यूनाधिकत्वदर्शनात्महणनविरुतपुरुषा- पमृप्तचित्ररतादीनामन्येषामपि वर्गाणामिह प्रवेशनात्यायोवादोऽयं. यथा सप्तपर्णो वृक्षः पञ्चवर्णो बलिरिति वात्स्यायनः ॥ ६ ॥ विकल्पेति । न्यूनाधिकत्वदर्शनादिति । आलिङ्गनादीनां ये विकल्प. वर्गा वक्ष्यमाणास्तेषां, कस्यचिदूनत्वं दृश्यते पुरुषायितस्य, केषाश्चिदा- धिक्यमेवालिङ्गनादीनाम्, ततश्च नाष्टावष्टावेव, विकल्पवर्गाणामष्टानां- न्यूनाधिकत्वदर्शनाद्, अन्येषामपीति । प्रकृतत्वाच्चुम्बनादीनाम् , तेभ्योऽन्येषामपि प्रहणनविरुतपुरुषोपसृप्तचित्र रतादीनामिति सम्बन्धः, न तु प्रहणनादिभ्यश्चतुभ्योऽन्येषामपीति तेषामसम्भवाद्, इति । 'अष्ट- वर्ग प्रवेशनादेतान्यपि हि संप्रयोगोऽपेक्षते, ततश्च नाष्टावेवाष्टधा, कथं. तर्युक्तमित्याह-प्रायोवादोऽयमिति । प्रायिकमेतद्वचनम् , कथमित्याह- यथेति । पर्णानां न्यूनत्वेऽपि पर्णानां च बहुत्वेऽपि बाहुल्येन क्व चिद्द- ८४ । सटीके कामसूत्रे [२ अधिकरणे, र्शनात्तव्यपदेशो रूढिवशात् , तथाऽष्टानां बाहुल्येनाष्टधा भेदात्तद्यपदेशो- नाष्टावेवेति ॥६॥ तत्र शास्त्रस्य चतुःषष्टया: प्रस्तुतत्वात्कलासमूहस्य च विद्यालमु. द्देशे समुद्दिष्टत्वात्पाञ्चालिकी चतुःषष्टिमाह-तत्रालिङ्गनपूर्वकत्वाच्चुम्ब- नादीनामालिङ्गनविचारा उच्यन्ते, विचाराश्च कालस्वरूपाभ्याम् , तत्रालिङ्गनमसमागते समागते च, तत्र पूर्वमधिकृत्याह- तत्रासमागतयोः प्रीतिलिङ्गद्योतनार्थमालिङ्गनचतुष्टयं स्पृष्ट कं, विद्धकम् , उद्धृष्टकम् , पीडितकमिति ॥ ७ ॥ असमागतयोरिति । असंघटितपूर्वयोः संजिवदियिष्योः, प्रीतिलिङ्ग धोतनार्थमिति । अनुरागस्य लिङ्गिनःस्पृष्टकादि लिङ्गम् , तत्प्रकाशनात् , तदभियोगकाले द्रष्टव्यम् , स्पर्शगोचरे सति तदभावे सति संक्रान्तक- माभियोगिकं वक्ष्यति ॥७॥ सर्वत्र संज्ञाऽर्थेनैव कर्मातिदेशः ॥ ८॥ सर्वत्रेति । चुम्बनादिष्वपि संज्ञाऽर्थेन कर्मातिदेश इत्यन्वर्थतां दर्शयति, स्पृष्टकादिसंज्ञानां प्रवृत्तिनिमित्तार्थः स्पर्शनादिकः, तेनैव कामातिदेश- इदमेव कार्यमिति ॥ ८॥ संमुखागतायां प्रयोज्यायामन्यापदेशेन गच्छतो गात्रेण गा. त्रस्य स्पर्शनं स्पृष्टकम् ॥ ९॥ संमुखागतायामिति । नायिकायामभिमुखमागतायाम् , प्रयोज्याया- मिति, आलिङ्गनादि प्रयोजयितुं, तत्र वा प्रयोक्तु या शक्यते, अन्यापदे- शेनेति । अन्यदपदिश्यागच्छतः प्रयोक्तुः, यथाऽन्यो न जानाति बुद्धि. कारितमस्येति, गात्रेण स्वगात्रस्य प्रयोज्यायाः स्पर्शन मिति संज्ञात्वेन कर्मातिदिशति, पृष्टकमिति 'नपुंसके भावे क्तः । ३।३। १४ । पश्चात् 'संज्ञायां कन्' ।५।३।८७। एवमुत्तरत्रापि योज्यम् , अस्याः संमुखागते नायके नायिकाऽपि प्रयोक्त्री ॥ ६ ॥ प्रयोज्यं नायिका स्थितमुपविष्टं वा विजने किंचिद् गृह्णती पयो. घरेण विध्येन्नायकोऽपि तामवपीड्य गृह्णीयादिति विद्धकम् ॥१०॥ नायिका प्रयोक्त्री प्रयोज्यं नायकं स्थितमुपविष्टं वा न गच्छेत् तत्प. योक्तुमप्रयोगात्, न संविष्टम् असंगतत्वाद् विजने, अन्यत्र तु स्तनप्रदर्श नस्यापि दुर्लभत्वात् , अथ व्यधनोपायमाह-किश्चिदिति । तद्धस्तात्तत्स- मीपे वा किञ्चिदर्थजातमाददाना, पयोधरेणेति । शृङ्गारित्वात् स्तनप्रहण- नस्य । स्वेनांसकूटादिनाऽपविध्येदिति वक्षसि पृष्ठपाश्वयोर्वा यथास-

Hani
२ अध्याये] उपगूहनविचारप्रकरणम् ।
८५
म्भवं प्राप्तेष्वङ्गेषु सा तमाक्षिपेदित्यर्थः, नायकोऽप्यपविध्यमानस्तां तथा
बहुशो व्याप्रियमाणां पार्श्वयोस्तद्भावित्वात्स्तनप्रहणनस्य स्वेनांसकूटे-
नापविध्येदिति वक्षसि पृष्ठे पार्श्वयोरेकेन बाहुपाशेन पुरस्ताद् द्वाभ्यां
पृष्ठतश्च प्रतिनिवृत्ताभ्यामवपीड्य गृह्णीयाद् , यथा कथञ्चिदनुरागं मयि
यदि प्रकाशेत मामपविध्यतीति, एवं च द्वयोः स्तनस्य शल्यवदन्तः-
प्रविष्टत्वाद्विद्धकं भवतीति, क्षेपणं तु केवलमपविद्धकं नाम तदेकशत्वादत्रै-
वार्तगतम् , अस्य नायिकैव प्रयोक्त्री, विद्धकस्योभयजन्यत्वाद् द्वावपि,
तथा चोक्तमः
'विचेष्टितापविद्धन कामिनी स्तनशालिनी।
विद्धकेनेतरस्तत्र कचाकर्षणकर्मणि' ॥ इति ॥ १० ॥
तदुभयमनतिप्रवृत्तसंभाषणयोः ॥ १६ ॥
तदुभयमिति । स्पृष्टकं विद्धकं च, अनतिप्रवृत्तसम्भाषणयोरेवास.
मागतयोः, तत्रोभयस्य साधयितुं शक्यत्वाद्, अतिप्रवृत्तसम्भाषणयो.
स्तु न सिद्धमेव, अप्रवृत्तसम्भाषणयोः पुनः साधयितुमशक्यत्वादश.
क्यमेव विशेयम् ॥ ११ ॥
तमसि जनसंबाधे विजने वाऽध शनकैगच्छतो तिहस्वकाल
मुद्धर्षणं परस्परस्य गात्राणामुघृष्टकम् ॥ १२ ॥
जनसंबाध इति । जनसंकुले, अन्धकारादिषु शङ्काऽभावात्प्रयोगसौ
कर्यम् , तथा शनैर्गमनमपि युक्तम् ,एवं च सति नातिहस्वकालं चिर.
कालमुद्धर्षणं सिद्धं भवति, परस्परस्येति । नायकगात्रेण नायिकागात्र-
स्य तद्गात्रेण चेतरगात्रस्य घर्षणमुष्टकमुभयजन्यम् , एकनिष्पाद्यं तु
घृष्टकं नाम तत्रैवान्तर्गतम् ॥ १२ ॥
तदेव कुड्यसन्दंशेन स्तम्भसन्दंशेन वा स्फुटकमव पीडयेदिति
पीडितकम् ॥ १३ ॥
तदेवेति । उद्घृष्टकं पीडितकं भवति, कथमित्याह-कुडयसन्दं.
शेनेति । सन्दंश उभयतो ग्रहणम् , अर्थान्नायकः परतः कुड्यं स्त.
म्भो वा, तेन स्फुटकं दृढमवपीडिते सति तत्पीडितकमेकजन्यमेव
द्विविधम् ॥ १३ ॥
तदुभयमवगतपरस्पराकारयोः ॥ १४ ॥
उभयमुद्धृष्टकं पीडितकं च द्रष्टव्यम्, अवगतपरस्पराकारयोरिति ।
गृहीतान्योन्यभावयोः समागतयोः, पूर्वस्मादनयोरधिकोपक्रमत्वाद् ,
गृहीताकारयोस्तु नैवेत्यर्थोक्तम् ॥ १४ ॥

सटीके कामसूत्र [२ अधिकरणे, ८६ लतावेष्टितकं वृक्षाधिरूढकं तिलतण्डुलक क्षीरनीरकमिति च. स्वारि संप्रयोगकाले ॥ १५ ॥ संप्रयोगकाल इति । कृतार्दीकरणयोस्तु समागतयोः संप्रयोगः, तत्काले चत्वार्युपगृहनानि, तत्राद्ययोरेकजन्यत्वेऽपि नायिकैव प्रयोक्त्री तदनुरूपत्वात् , शेषयोरुभयजन्यत्वादुभावपि ॥ १५ ॥ लतेच शालमावेष्टयन्ती चुम्बनार्थ मुखमवनमयेदुद्धृत्य म- न्दसीत्कृता तमाश्रिता वा किञ्चिद्रामणीयकं पश्येत् तल्ल तावेष्टि- तकम् ॥ १६॥ लतेव शालमिति । यथा लता वृक्षमावेष्टते तद्वन्नायिका नायक- मू(१) स्थितमभिमु(२)खं कक्षयोः कण्ठे बाहुलताभ्यामावेष्ट्येति च(३) तुर्विधं लतावेष्टितकम्, चुम्बनार्थिनी तन्मुखमवनमयेद्, नायकवृक्षस्यो- चत्वात् , तथा श्लिष्टाभ्यामेव बाहुपाशाभ्यां तच्छरीरावनमनान्मुखम- वनमितं भवति, अनेन प्रयोगफलं दर्शयति, अत्र प्रयोक्न्याः चुम्बनकल. स्यापरस्य विवक्षितत्वाद्, मौलन्तु फलं प्रयोगः; स यद्रागस्य जननं- बर्धनं च, मन्दसीत्कृतेति । सीत्कृतं वक्ष्यति तन्मन्दं यस्याः, उल्वण- स्य रागकालभावित्वाद् , अनेन प्रयोगसंस्कारमाह, प्रयोगान्तरपरि- कृतं सुतरां मनोहारि स्यात् , तमाश्रिता वेति द्वितीयं फलम्, यद्वा तथैव नायकमाश्रिता, अन्यत्र आलेख्यादेस्तन्मुखस्य दशनपदा. ङ्कितस्य वा रामणीयकमुन्मुखी पश्येत्तल्लतावेष्टितमिव लतावेष्टितकम्, प्रतिकृती कन् ॥ १६ ॥ चरणेन चरणमाक्रम्य द्वितीयेनोरुदेशमाक्रमन्ती वेष्टयन्ती वा तत्पृष्ठसक्तैकबाहुतीयेनांसमवनमयन्तीषन्मन्दसीत्कृतकूजिता चु- बनार्थमेवाधिरोदुमिच्छेदिति वृक्षाधिरूढकम् ॥ १७ ॥ चरणेनेति । स्वेन चरणेन नायकस्य चरणमाक्रम्य; द्वितीयन च(४). (१) शयनसमये। (२) स्थितावुपवेशे च। (३) कक्षाश्लिष्टबाहुकं कण्ठाश्लिष्टबाहुकं चेति द्विधा । द्वयमप्यूर्ध्वस्थितावभिमुख. स्थितौ चेति चतुर्विधम् , यद्यपि स्थित्युपवेशनावान्तरभेदकादरेणाभिमुखपक्षत एव चा- तुर्विध्यादूर्ध्वस्थिाततस्तु षाविध्यप्रसक्त्या चतुर्विधोक्तिरसंगतैव स्यात्तथाऽपि स्थितोपविष्टा वभिमुखत्वेनानुगमय्य सोक्तिः संगमनीया, इदमपि फलस्य भेदकत्वाविवक्षापक्षेऽन्यथा तु चुम्बनरामणीयकदर्शनभेदादष्टत्वं द्वादशत्वं वा स्यादिति भावः । (४) उत्तरकल्पविभेदार्थं नायकपादावन्तरा निवेशितेनेतिभावः । ।

FAR २ अध्याये] उपगृहनविचारप्रकरणम् । ८७ रणेनोरुदेशपार्श्वभागेनाक्रमन्ती यथा जघनस्थलं संश्लिष्टं स्यात्, तद् वामदक्षिणभेदाद् द्विविधम् , वेष्टयन्ती वेति । बहिर्नीव्या द्वितीयोरुदेश- पार्श्वभागमानमयेञ्चरणमित्यर्थः, तदपि वामदक्षिणभेदाद् द्विविधम्, द्वाभ्यां च यदाऽऽक्रमणमूर्वोर्वेष्टनं वा तदुभयमपि वृक्षाधिरूढकमत्रैवा- न्तर्गतं, सामान्यविधिमाह-तत्पृष्ठसक्तैकबाहुरिति । नायकपृष्ठे ल. तावेष्टनवल्लग्न एको बाहुमो दक्षिणो वा यस्याः, द्वितीयेन बाहुना- ऽस्य स्कन्धभागमवनमयन्ती, ईषदिति । अनुरागकालत्वाद् मन्दा. नि रतान्तखिन्नानि सीत्कृतादीनि यस्या इत्यर्थः, अनेन संप्रयोगसं. स्क्रारमाह, अत्र सीत्कृतं सीकरणमेव, कूजितस्य लक्षणं वक्ष्य ति, चुम्बनार्थमेव न रामणीयकदर्शनार्थम् , अनारुह्यापि तस्य संभ- वाद्, अधरपल्लवचुम्बनं तु नानारुह्येति प्रयोगफलम् , वृक्षाधिरूढ- कमिति पूर्ववत् ॥१७॥ तदुभयं स्थितकर्म ॥१८॥ तदुभयं स्थितकर्मेति । ऊ(१र्ध्वस्थितयोर्यत्र योगः स्याद्, द्वाभ्यां- रागजननार्थ तावदिदं कर्म ॥ १८ ॥ शयनगतावेवोरुव्यत्यासं भुजव्यत्यासं च ससंघर्षमिव घनं- संस्वजेते तत्तिलतण्डुलकम् ॥ १९ ॥ शयनगतावेवेति । अत्रोरुव्यत्यासं भुजव्यत्यासं चेति क्रियाविशेष- णम् , व्यत्यासो विपर्यासः, तत्र वामपार्श्वसुप्तायाः स्त्रिया ऊर्वन्तरे दक्षिणपार्वे सुप्तः पुमान्वाममूरुम्, दक्षिणकक्षान्तरे च वामभुजं प्रवेश- येद्, योषिदपि पुंस इत्येको व्यत्यासः, इतरपार्श्वसुप्तायाः स्त्रिया- ऊर्वन्तरे वामपायें सुप्तः पुरुषो दक्षिणोरं वामकक्षान्तरे च दक्षिणभु. जं प्रवेशयेद्, योषिदपि पुंस इति द्वितीयो व्यत्यासः, द्वितीयस्य संघ. र्थिमिव घनं निरन्तरं संस्वजेते स्त्रीपुंसावुपगृहेते इति । तिलतण्डु. लकमिति । ऊरूभुजानां तनुस्थानां तिलतण्डुलानामिवोर्ध्वस्थित्या सं- मिश्रणात् ॥ १९॥ रागान्धावनपेक्षितात्ययौ परस्परमनुविशत इवोत्सङ्गगतायाम- भिमुखोपविष्टायां शयने वेति क्षीरजलकम् ॥ २० ॥ अनपेक्षितात्ययाविति । रागान्धत्वादनपेक्षितास्थिभङ्गदोषौ परि. रष्वजमानौ परस्परमनुप्रविशत इव, बाहुयन्त्रेणातिपीडनान्मृत्यिः (१) रागवृद्धिसमयात प्राक् स्थितयो यकयोरित्येवार्थः, "तदुभयं रागकाले" ॥२१॥ इति सत्रस्वरसात् ।

सटीके कामसूत्रे
[२ अधिकरणे,
ण्डाविव क्षीरोदकवच्च तादात्म्यं प्रतिपद्यते इव, यथोक्तम्-
'भावासकाः कामुकाः कामिनीनामिच्छन्त्यङ्गवम्भसीव प्रवे.
ष्टुम् इति,
कथमिदं निष्पद्यत इत्याह-उत्सङ्गगतायामिति । नायकोत्सङ्गे
बहिरू विग्यस्याभिमुखमुपविष्टायाँ सत्याम्, अत्र कक्षयोर्यथायोगं-
संश्लिष्टमुभयोर्वाहुयानं स्यात्, शयने वेति । पार्श्वसुप्तयोरित्यर्थः,
तिलतण्डुलकं पुनरत्रैव ॥ २० ॥
तदुभयं रागकाले ॥ २१ ॥
तदुभयमिति । रागस्य वृद्धत्वात्तत्काल एव द्रष्टव्यम्, संप्रयोग
कालविशेषश्च रागकाला,
यत्र पुंसः स्थिरलिङ्गता, स्त्रियाश्च क्लिनसं.
बाधता, तत्र च यन्त्रयोगात्प्राग्यथोक्तमेवालिङ्गनम् , यन्त्रयोजनेन तु
संवेशनप्रकारानुरोधाद्योज्यम् ॥ २१ ॥
इत्युपगृहनयोगा बाभ्रवीयाः ॥ २२ ॥
बाभ्रवीया इति । बाभ्रव्येन प्रोक्ता उपगूहनप्रकाराः ॥ २२ ॥
सुवर्णनाभस्य त्वधिकमेकाङ्गोपगृहनचतुष्टयम् ॥ २३ ॥
सुवर्णनाभस्य बाभ्रवीयादुपगूहनाष्टकादनेन विकल्पवर्गस्याधिक्यं-
दर्शयति, एकाङ्गोपगृहनचतुष्टयं संप्रयोगकाल इति वर्तते, एकनाङ्गेन स.
जातीयस्याङ्गस्य प्राधान्येन संश्लेषणात्तथोक्तम् ॥ २३ ॥
तत्रोरुसंदंशेनैक मूरुमूरुद्रयं वा सर्वप्राणं पीडयेदित्यूरूपगृहनम् ॥२४॥
एकमुरुमूरुद्वयं वेति । पार्श्वसुप्तस्य पुंसः स्त्रियश्चात्र विशेषाभा-
वाद् द्वयोरपि प्रयोक्तृत्वम्, यस्योरुस्थलमतिविपुलं स प्रयोक्तति के
चित्, सर्वप्राणमिति क्रियाविशेषणम्, अतिपीडनं हि मांसलस्था.
नेऽत्यन्तसुखकारि स्थात् ॥ २४ ॥
घनेन जघनमवपीड्य प्रकीर्यमाणकेशहस्ता नखदशनप्रहणनचु-
म्बनप्रयोजनाय तदुपरि लङ्घयेत्तज्जघनोगूपहनम् ॥ २५ ॥
जघनेन जघनमिति । पार्श्वशयनेन वराङ्गण साधनं बाडवकेना.
पीड्यत्येकः प्रकारः, जघनेन यन्त्रस्यायोगे योगे वा जघनमवपीड्येति.
द्वितीयः, तत्र स्त्रीजघनस्यातिशृङ्गारत्वात्सैव शोभते, विशेषतो विपुल.
जघना, प्रकीर्यप्राणकेशहस्तेति प्रयोगसंस्कारः, नखादीनि स्वेच्छया-
प्रयोश्यामीति, तत्प्रयोजनं तु फलम् , उपरिलङ्घयेन्नायकस्योपरि
तिष्ठेदित्यर्थः ॥ २५ ॥

२ अध्याये] उपगृहनविवारप्रकरणम् । । - स्तनाभ्यामुरः प्रविश्य तत्रैव भारमारोपयदिति स्तनालिङ्गनम॥२६॥ स्तनाभ्यामुर इति । आसने पार्श्वशयने वा पृष्ठभागं निम्नीकृत्य स्तनाभ्यां नायकोरः स्थलं प्रविश्य, तत्रैवेति । उरसि; भारमारोपयेत्, स्तनस्येत्यर्थाद्, एवं हि नायकः स्तनभाराकान्तः पिण्डीकृतमिवोरसि स्पर्शसुखमनुभवति ॥ २६ ॥ मुखे मुखमासज्याक्षिणी अक्ष्णोर्ललाटेन ललाटमाहन्यात्सा ललाटिका ॥ २७॥ उत्तानसंपुटे पार्श्वसंपुटे वा वक्त्रे वक्त्रं संयोज्य, अक्षणोरक्षिणी दृष्टया लक्ष्यीकरणेनासज्य, नासिकाया मुखनयनमध्यानुवर्तित्वात्तत्सं. योजनमर्थोक्तम् , ललाटे ललाटं द्विस्त्रिराहन्यादाहत्य च तत्रैव भारमा- रोपयेदित्येवमस्य नायिका प्रयोक्त्री, तेन ललाटिकेव ललाटिका, नाय- कललाटस्य संक्रान्तिविशेषेणालंक्रियमाणत्वात् ॥ २७ ॥ संवाहनमप्युपगृहनप्रकारमिले के मन्यन्ते संस्पर्शत्वात् ॥२८॥ संवाहनमपीति । त्वङ्मासास्थिसुखकरणेन त्रिविधं संवाहन- मङ्गमर्दनम् , तदपि संस्पर्शयुक्तत्वादुपगृहनप्रकारमेव द्रष्टव्यमि- त्येके ॥ २८ ॥ पृथक्कालवाद्भन्नप्रयोजनवादसाधारणत्वान्नेति वात्स्या- यनः॥ २९ ॥ पृथक्कालत्वादिति । पृथक्कालोऽस्येति पृथक्वालम् , उपगृहनात्संस्प- शित्वेनाभेदेऽपि संवाहनं कालतो भिन्नम् , भिन्नप्रयोजनत्वात् पृथक् फ- लकत्वाद् असाधारणत्वाद् , उपगूहनं ह्यन्यतरप्रयुक्तं द्वयोरप्येकस्मि- न्काले कार्यकारीति साधारणम् , संवाहनं तु पुंसा प्रयुक्तं स्त्रियाः का- र्थकारि स्त्रिया च नायकस्येत्यसाधारणम् ; अतो गीतादिचतुःषष्टयाम् 'उत्सादने केशमर्दने च कौशलम्' इत्यत्र द्रष्टव्यम् , संस्पर्शत्वे च चु- म्बनादीनामपि तद्विकारत्वप्रसङ्गात् ॥ २९ ।। आलिङ्गनविधावादरार्थमाह- पृच्छतां शृण्वतां वाऽपि तथा कथयतामपि । उपगृहविधिं कृत्स्नं रिरंसा जायते नृणाम् ॥ ३० ॥ पृच्छतामिति । पृच्छतां ज्ञातुं, शृण्वतां पार्श्वस्थानां, कथयतां- परेभ्यः, उपगूहविधिमिति । उपगृहनमुपगूहः, भावे घञ् वा, कृत्स्नं- निरवशेषम् , क्व चित्कस्य चिदभिप्रायाद् , रिरंसा रन्तुमिच्छा संजा- यते, किं पुनर्ये प्रयुञ्जते ॥३०॥ १२ का० सू० , HAINDIA

सटीके कामसूत्रे
[२ अधिकरणे,
९०
Jimmatuna
MONSID
अनुक्तातिदेशमाह-
येऽपि ह्यशास्त्रिता के चित्संयोगा रागवर्धनाः।
आदरेणैव तेऽप्यत्र प्रयोज्याः सांप्रयोगिकाः ॥ ३१ ॥
येऽपीति। अभिधायकत्वेन शास्त्रं संजातं येषां ते शास्त्रिताः,
ये नैवंविधाः किं तु स्वेच्छयोत्प्रेक्षिताः संयोगाः संश्लेषाः, आदरेणैव,
अवज्ञया न, अशास्त्रिता अपि अत्र ते सुरते रागवर्धनत्वात्प्रयोज्याः,
सांप्रयोगिकाः संप्रयोगप्रयोजनाः॥३१॥
किमित्यशास्त्रिताः प्रयोज्या इत्याह-
शास्त्राणां विषयस्तावद्यावन्मन्दरसा नराः ।
रतिचक्रे प्रवृत्ते तु नैव शास्त्रं न च क्रमः ।। ३२ ॥
इति श्रीवात्स्यायनीये कामसत्रे सांप्रप्रोगिके द्वितीयेऽधिकरण-
आलिङ्गनविचारो द्वितीयोऽध्यायः ।
आदितः सप्तमः।
शास्त्राणामिति । अप्रवृद्धरागा हि शास्त्रोक्तप्रयोगक्रम चापेक्षमाणाः
शास्त्राणां विषयः, रतिचक्रे रागोत्पीडे प्रवृत्ते तद्वशादशास्त्रितानामप्य-
नुष्ठानोत्तदानीं न शास्त्रं स्थानापि क्रमः संयोगानां पौर्वापर्यमुच्चाव-
चेन प्रवर्तनम् , तस्मान्मा भूच्छास्त्रस्य क्रमस्य चानर्थक्यमित्यनुक्तम-
तिदिश्यते ॥ ३२॥
इत्युपगूहनविचारोऽष्टमं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाख्यायां सां-
प्रयोगिके द्वितीयेऽधिकरण आलिङ्गनविचारो द्वितीयोऽध्यायः ।
तृतीयोऽध्यायः ।
एवं परिरभ्य चुम्बनादयः प्रयोक्तव्याः, तत्रापि कि प्राक्चुम्बनं-
नखच्छेद्यं दशनच्छेद्यं वा पश्चादिति नास्त्येषां प्रयोगक्रम इत्याह-
चुम्बननखदशनच्छेद्यानां न पौर्वापर्यमस्ति रागयोगात् ॥१॥
न पौर्वापर्यमिति । रागयोगादिति रागवशाद्, रागाविष्टो हि
न क्रममपेक्षते ॥१॥
प्राक्संयोगादेषां प्राधान्येन प्रयोगः, प्रहणनसीत्कृनयोश्च
संप्रयोगे ॥ २ ॥

३ अध्याये] चुम्बनविकल्पप्रकरणम् । ९१ Assame अयं तु विशेषः-यदेषां प्रासंयोगात् धाग्यन्त्रयोगात् , यन्त्रयोगे प्राधान्येन बाहुल्येन रागाभ्यासाद्वा प्रबोधनार्थ प्रयोगो नायकाभ्यां यन्त्रयोगे प्राधान्येनेत्यर्थोक्तम् , प्रहणनसोत्तयोस्तु संप्रयोगे यन्त्रयो- गे प्राधान्येन प्रयोग इत्येव, तदा हि प्रबृद्धरागयोः प्राधान्येन घातसह- स्वम्, प्रहणनबाहुल्ये च तदुद्भवस्य सीत्कृतस्यापि बाहुल्यं, प्रागप्रा. धान्येनेत्यर्थोक्तम् ॥ २॥ एकीयमतमेतदुत्तरपक्षदर्शनाद्, यदाह- सर्व सर्वत्र रागस्यानपेक्षितत्वादिति वात्स्यायनः ।। ३ ।। सब सर्वत्रेति । चुम्बनादिपञ्चकं प्राक्प्रयोगे च प्राधान्येन प्रयोक्त. व्यम् , रागस्यानपेक्षितत्वादिति चण्डवेगो हि न प्राधान्येनाप्राधान्येन वा प्रयोगमपेक्षने, मन्दमध्य वेगयोस्तु पूर्व एव पक्षः ॥ ३ ॥ अयं तु विशेषः पक्षद्वयेऽपि तुल्य इत्याह- तानि प्रथमरते नातिव्यक्तानि विश्रब्धिकायां विकल्पेन च प्रयुञ्जीत तथाभूतत्वाद्रागस्प ॥४॥ तानि चुम्बनादीनि पञ्च, प्रथमरत इति । रतस्यारम्भे, नातिव्यक्ता- नि नातिस्फुटानि, यथालक्षणस्यासमापनाद् , नातित्त्वरितेन विश्रब्धि. कायां विकल्पेन चेति, इदं वेदं वेत्येकमेव प्रयुञ्जीत न समुच्चयेन, त. द्यथा-चुम्बनं वा नखच्छेयं वा, चुम्बनं वा दशनच्छेद्यं वा, चुम्बनं. वा प्रहणनं वा; चुम्बनं वा सीत्कृतं वे, ति चतुर्धा, नखच्छेद्यं त्रि(१)धा, दशनच्छेद्यं द्विधा(२), प्रहणनमे(३)कमेवेत्यनुलोमा दश, तावन्त एव प्रतिलो(४)माः, एक(५)व विंशतिः प्रयोगाः; तथाभूतत्वादिति । आर- म्भकाले हि मन्दो रागः, ततश्च मध्यस्थचित्तता नातिसहिष्णुता चेति तदनुरूप एव प्रयोगः ॥ ४॥ ततः परमतित्वरया विशेषवत्समुच्चयेन रागसंधुक्षणार्थम् ॥५॥ (१) नखच्छेद्यं वा दशनच्छेद्यं वा, नखच्छेद्यं वा प्रहणनं वा, नखच्छेद्यं वा सीत्कृतं वा। (२) दशनच्छेद्यं वा प्रहणनं वा, दशनच्छेद्यं वा सीत्कृतं वा, (३) प्रहणनं वा सीत्कृतं वा । (४) दशसंख्यकाः, ते यथा-नखच्छेद्यं वा चुम्बन वा, दशनच्छेद्यं वा चुम्बनं वा, प्रहणनं वा चुम्बनं वा, सीत्कृतं वा चुम्बनं वा । दशनच्छेद्यं वा नखच्छेद्यं वा, प्रहणनं वा नखच्छेद्यं वा, सत्कृितं वा नखच्छेद्यं वा । प्रहणनं वा दशनच्छेयं वा, सीत्कृतं वा दशनच्छेद्यं वा, । सीत्कृतं वा प्रहणनं वा । (५) अनुलोमप्रतिलोमसङ्कलने । --

MINS
९४
।
सटीके कामसूत्र
[२ अधिकरणे,
अगुलिसंपुटेनेति । तर्जन्यङ्गुष्ठसंपुटेन, पिण्डीकृत्य गृहीत्वा, त.
तो निर्दशनं दशनव्योपारं विनोष्टपुटेनावपीडयेद् , अत्र पीडनेऽपि
बहिः पिण्डिताकर्षणं विशेषः, एवञ्च तदाकृष्टचुम्बननाम ग्रहणम् ॥१४॥
एवं कर्मभेदादष्टविधमधरचुम्बनमुक्तं त्रीणि कन्याचुस्वनानि पञ्च
ग्रहणचुम्बनानीति, तत्र कर्षणचुम्बनभेदमशेषं समाप्यैवमवसरप्राप्तत्वा.
दधरचुम्बने द्यतमाह
द्यूतं चात्र प्रवर्तयेत् ॥ १५ ॥
द्यूतं चेति । अत्रेत्यस्मिन्नधरचुम्बने, नान्यस्थाने चुम्बने, विशोभ-
त्वाद् द्यूतमनुरागवर्धनार्थ स्यात् ॥ १५ ॥
तत्र जयपराजयफलत्वाद्धूतस्य लक्षणमाह-
पूर्वमधरसंपादनेन जितमिदं स्यात् ॥ १६ ॥
पूर्वमिति । आवयोः परस्परं चुम्बतोर्येन पूर्व प्रथमतोऽधरस्य ग्रह
गविधिना संपादनं कृतं तस्मिन्सति तेन जितम्, किं तदित्याह-इद-
मिति । अनेन द्वयोरभिमतपगं सवति, युतं च कपटेनाकपटेन वा
स्यात् , तत्र यल्लौकिकेनैव चुम्बनेन द्वावेव परस्परस्याधरं चुम्बतस्तद-
कपटं च वक्ष्यति, तत्र तस्मिन्नकण्टे द्यूते प्रवृत्ते नायकेन पूर्वमन्यतमेन
ग्रहणम् , चुम्बनेन गृहोताधरवाजिता, अकपटद्यूते नायिकाया अब.
लात्वात्सव जिता शोभते, कपटद्यूते चास्यास्तदनुरूपत्वाजयं वक्ष्यति,
नायकेन तु कपटद्यूते न जेतव्या, तस्या अननुरूपत्वात् ॥ १६ ॥
तत्रान्यतरस्य जयेऽपरस्य कलहोऽवश्यं भावी; द्यूतस्य कलहा.
स्पदत्वादिति कलहयोजनं रागोहोपनार्थमाह-
तत्र जिता साधरुदित करं विधुनुयात्मणुदेद्दशेत्परिवर्तयेद्ध-
लादाहृता विवदेत पुनरप्यस्तु पण इति ब्रूयात् , तत्रापि जिता द्वि.
गुणमायस्येत् ॥ १७ ॥
सार्धरुदितमिति । क्रियाविशेषणं चैतत् , अधरपीडोपख्यापनार्थ.
सहारुदितेन कृतकेन करं विधुनुयात्कम्पयेत्, प्रणुदेत्तजयेद् भङ्गिवैल-
श्यान्नायकं क्षिपेद्, दशेच्छलेषमधरग्रहणं बद्ध्वा दन्तैः खण्डयेत्,
परिवर्तेत मुखेनाशका चेत्कायेनाधरमोक्षार्थम् , विवदेत "नैव जिताs-
स्मि मयैव जितमिति कलहायेत, पुनरस्त्वपरः पण इति । “पुनः क्री-
डामः, पूर्वस्मात्पणादयमपरः पण" इति ब्रयात् , तत्रापोति । द्वितीयेऽ
पि पणे, द्विगुणमायस्येदिति । करधूननाद्याधिम्येन कुर्यादि त्यर्थः ॥१७॥

३ अध्याये] चुम्यनविकल्पप्रकरणम् । कपटधूतमाह- विश्रब्धस्य प्रमत्तस्य वाऽधरमवगृह्य दशनान्तर्गतमानिर्गमं कृ. त्वा हसे दुत्क्रोशेतर्जयेद्वल्गेदाहयेन्नृत्येत्पनर्तितभ्रुणा च विचल- नयनेन मुखेन विहसन्ती तानि तानि च ब्रूयादिति चुम्बनचूत. कलहः ॥ १८ ॥ विश्रब्धस्येति । तस्मिन्नेव मुखचुम्बनतेऽन्तरा विश्रब्धिकया नायिका विश्रम्भयेत् , ततो विश्रब्धस्य प्रमत्तस्याप्रमत्तस्य वाऽकस्माद- न्यत्र गतचेतसोऽधरमवगृह्यौष्ठसंपुटेन ततो दशनान्तर्गतमनिर्गमं कृत्वा यथा तदन्तर्गतमपि प्रमादान्न निर्गच्छति सापराधत्वात् पश्चाद् गृहोता. धरा मुक्ताघरा वा यथासंभवमुत्तरं व्यापारमनुतिष्टेन, इतरत्रापि क- पटङ्ते स्खलितप्रमादापेक्षयैव जयो दृष्टः; इत्येवं कपटेन जित्वा हसेत्, सशब्दमितरं चाऽत्यन्तपरितोषणाद्, उत्क्रोशेन्मया जितमिति फूत्कु- ाद , यथाऽस्य मित्राणि शृण्वन्ति स्वसस्यो वा, तर्जयेत् “लब्धोऽसी. दानी खण्डयामि तेऽधरमिति, बलाद् हन्तुं सविलासं गात्राणि विक्षि- पेद्, आह्वयेत्सखेदन्तमेवोपसृत्य “आगच्छ दर्श्यतां स्वपौरुषमिति, नृ. त्येत्तत्परितुष्टया, प्रनर्तितभ्रुणा चेति । एकोद्धारक्रमेण समुन्नमितम्रणा मुखेनेति विहसितसंस्कारः, विहसन्ती कलहावसानत्वात् , तानि ता- नीति । यानि यथार्थयुक्तानि रागदीपनानि मन्यते, चुम्बनद्यूतकलह इति। अकपटे कपटे व चुम्बनते कलह उक्तः, यदि नायकोऽपि जेता जितो- वा तथा चेष्टेत यथा कथं चित् कलहः स्थात् , तद्यथा-दृढमधर. मवपीडयन ससीत्कृतं च शिरो विधुनुयाद् , नुदन्तीमुपसर्वत्। दश- न्ती प्रतिदशेत् , परिवर्तमानां प्रतिनिवर्तयेत्, विवदमानां प्रतिचिवदेत, तिष्टत्वयमपरः पण इति पूर्वकमेव तावत्प्रथच्छेति च ब्रूयात् , तत्रापि जेता द्विगुणमायस्येदिति पणद्वयसाधनार्थ साधयेत्, जितोऽपि वैलण्या- द्विहसेत्, जितं जितं मयेत्युत्क्रोशन्त्यां मिथ्या मिथ्येति प्रत्युत्क्रोशेत्, तर्जयन्ती प्रतितर्जयेद् । वल्गन्ती तगात्रसंयमनेन प्रतिवल्गयेद् , आह्वय- न्ती प्रत्याह्वयेत् , नृत्यन्ती करतालिकया प्रतिनर्तयेत्, विहसन्तीं तानि तानि ब्रुवन्तीं तद्वचननिषेधार्थ प्रतिबयादिति । यथा चोक्तम्- 'जितो वा यदि वा जेता तस्या एव विचेष्टाभिः कलहं प्रतियोजयेद्' इति ॥ १८ ॥ एतेन नखदशनच्छेद्यग्रहण नद्यूतकलहा व्याख्याताः ॥ १९ ॥ एतेनेति । चुम्बनद्यतेन कपटेनाकपटेन च, तत्राप्ययमेव विधिः, त. । चुम्बनचूतकर्मणि।

सटीके कामसूत्रे [२ अधिकरणे, ९६ memes धथा-पूर्व नखच्छेद्यादिसंपादिते जितमिदं स्यादित्यादि, अत्र च द्यूत- प्रवर्तनं नखदशनहस्तानां प्रहणनस्थानेष्वेव मोहनेन स्यात्, सीत्कृता- तकलहस्तु पृथग न संभवति, प्रहणनकलहे द्रष्टव्यस्तदुद्भवत्वात् , तत्र जेता ससीत्कृतं प्रहण्यात् , जीयमानश्च ससीत्कृतं ग्रहणनं प्रतीच्छेत् ॥१९ चण्डवेगयोरेव त्वेषां प्रयोगः तत्सात्म्यात् ॥२०॥ एषामिति । कलहानाम् , तत्सात्म्यादिति । ईदृशैरेव चेष्टितैश्चण्ड- वेगयोः सात्म्यम् , न मन्दवेगयोः, तद्विमक्षमत्वात् ॥ २०॥ तत उत्तरोष्ठविधिमाह- तस्यां चुम्बन्यामयम प्युत्तरं गृह्णीयादित्युत्तरचुम्बितम् ॥२१॥ तस्यामिति । समग्रहणेन नायकाधरं चुम्बन्त्यां नायिकायामयमपि नायकः सङ्गादस्या उत्तरोष्ठं समग्रहणेन गृह्णीयाद् , उत्तरचुम्बितमुत्त- रोष्ठग्रहणेन, प्रासङ्गिकमिदम् , केवलं तु न प्रयोक्तव्यं ग्राम्यत्वान्नासिका- पुटपानवत् , प्रासङ्गिके च तिर्यग्ग्रहणादीनामसंभवाद्, एवमुत्तरचुम्बि- तमेकविधमेव ॥ २१॥ समग्रहणेनास्या नायिकाऽपि प्रयोक्त्री, यदि पुरुषो न जातव्यञ्जन- स्तदा द्वयोरपि युगपद्विधिमाह- ओष्ठसंदंशेनावगृह्यौष्ठद्वयमपि चुम्बेदिति संपुटकं स्त्रियाः, पुंसो वाऽजातव्यञ्जनस्य ॥ २२ ॥ ओष्ठसंदंशेनेति । उभाभ्यां ग्रहणं संदंशः, तेनौष्ठद्वयमवगृह्य वक्त्रा. न्तःप्रवेश्याभिचुम्बेदिति, सफूत्कार स्वमोष्टपुटं संकोचयेदित्यर्थः, स. र्वत्र चुम्बनविधावायाते शब्दोच्चारणं कार्यम् , संपुटकमोष्ठद्वयग्रहणाद्, एतच्चतुर्विधम्-समं तिर्यगुभ्रान्तमवपीडितं च, आकृष्टं न योज्यमशो. भित्वात् , स्त्रिया इति । पुंसा प्रयोक्तन्यम् , तदोष्ठयोनिलोमत्वात् , स्त्रि- याऽपि पुंसश्चाजातव्यञ्जनस्याप्ररूढश्मश्रोः इतरथा लोमभिर्वक्त्रपूरण- मसुखावहं स्यात् ॥ २२॥ एवमोष्ठचुम्बनं त्रिविध क्त्वा संपुटान्तर्गतत्वादन्तर्मुखचुम्बनवि- कल्पानाह- तस्मिन्नितरोऽपि जिह्वयाऽस्या दशनानि घट्टयेत्तालु जिहां- चेति जिहायुद्धम् ॥ २३ ॥ तस्मिन्निति । संपुटचुम्बने, इतरो नायको नायिका वा यस्य संपु- टकं प्रयोक्तुमिच्छति, प्रयोक्तुर्विवृतास्यत्वादुपर्यधश्च दशनानि जि- हया घट्टयेत् संमार्जयेदित्यर्थः, ताल जिह्वयोर्ध्वप्रसारितया, जिह्वां- । . ।

३ अध्याये] चुम्बनविकल्पप्रकरणम् । वा ऋजुप्रसारतया घट्टयेद् , जिह्वायुद्धं च कुर्यादिति शेषः, प्रेरणेन, एतञ्चतुर्विधम्--अन्तर्मुखचुम्बनं दशनचुम्बनं जिह्वाचुम्बनं- तालुचुम्बनं चेति ॥ २३ ॥ एतेन बलाद्वदनरदनग्रहणं दानं च व्याख्यातम् ॥ २४ ॥ एतेनेति। जिह्वायुधेन, वदनरदनग्रहणमिति । हठाद्वदनेन बदनस्य दशनैर्दशनानां ग्रहणे परस्परस्य युद्धमिति ग्रहणपूर्वकं ददन- युद्धं रदनयुद्धं च व्याख्यातं, दानं चेति । एकश्चुम्बयितु हठाद्वदनं- ददाति ग्राहयितुं वा दशनान्यन्यो गृह्णातीत्युभयोHहणदानपूर्वकं वद- नयुद्धं चेति ॥ २४॥ समं पीडितमश्चितं मृदु शेषाङ्गेषु चुम्बनं स्थानविशेषयोगादि- ति चुम्बनविशेषाः ॥ २५॥ शेषाङ्गेविति । ओष्ठान्तर्मुखेभ्योऽन्येषु ललाटादिस्थानेषु कर्मभेदा- समचुम्बनं पीडितचुम्बनमश्चितचुम्बनं मृदुचुम्बनं चेति चतुर्विधं, स्थानविशेषयोगादिति । यद्यत्र प्रयुज्यते तत्तत्र स्यादित्यर्थः, तत्रोरुसं- धिकक्षावक्षःसु समं न पीडितं नातिमृदु, स्तनकपोलनाभिमूलेषु पीडि- तं, कुचयोः कक्षापर्यन्ते चुम्बनमञ्चितं, ललाटे नयनयोर्मूदु स्पर्श- मात्रकरणमिति, एवमेते कर्मभेदाच्चुम्बनभेदा उक्ताः ॥ २५ ॥ त एवावस्थाभेदानामान्तरं प्रतिपद्यन्त इत्याह- सुप्तस्य मुखमवलोकयन्त्याः स्वाभिप्रायेण चुम्बनं रागदीपनम् ॥२६॥ सुप्तस्येति । मुखमालोकयन्त्या इत्याहितभावत्वं दर्शयति, स्वाभिप्रा. येणेति । यथा स्वयं धृति लभते तथा चुम्बतीत्यर्थः, एवं च सति तस्या एव रागसंधुक्षणाद्रागदीपनं, नायकस्य च तथा चुम्ब्यमानस्य प्रतिबो. धाद् जाग्रतोऽप्येतत्सम्भवति, तत्र तदवस्थकं सांप्रयोगिकमेव स्यात् ॥२६॥ प्रमत्तस्य विवदमानस्य वाऽन्यतोऽभिमुखस्य सुप्ताभिमुखस्य वा निद्राव्याघातार्थ चलितकम् ॥ २७ ॥ निद्राव्याघातार्थमित्युपलक्षणमेतत्, प्रमत्तस्य गीतालेख्यादिषु प्र- सक्तस्य प्रमादव्याघातार्थ, विवदमानस्य तया सह कलहव्याघातार्थम्, अन्यतोऽभिमुखस्यान्यतो दृष्टिव्याघातार्थ, सुप्ताभिमुखस्य सुषुप्सतो. निद्राव्याघातार्थ चलितकमिति, प्रमादादिना नायकस्य चलनं चलि. तं, तत्करोति-' इति णिच्, तदन्ताञ्चलयतीत्यच्, ततः संज्ञायां कन्, चलितकम्, अत्र नायिकैव प्रयोक्त्री शोभते ॥ २७ ॥ १३ काकसू० सटीके कामसूत्रे [२ अधिकरणे, । man चिररात्रावागतस्य शयनमुप्तायाः स्वाभिप्रायचुम्बनं मातिबो. धिकम् ॥ २८॥ चिररात्राविति । असञ्चारवेलायामागतस्य प्रयोक्तुः सम्बन्धलक्षणा षष्ठी, शयनसुप्तायाः प्रयोज्यायाः "नागतश्चपल" इति प्रातिबोधिक प्रति. बोधप्रयोजनम्, मुखावलोकनं स्वाभिप्रायाभावादागदीपनान्न विद्यते, तत्र विरब्धिकायां रागदीपनम् ॥ २८ ॥ साऽपि तु भावजिज्ञासाऽर्थिनी नायकस्यागमनकालं संलक्ष्य व्याजेन मुप्ता स्यात् ॥ २९ ॥ साऽपि विति । भावजिज्ञासाऽर्थिनी "किं चित्पश्यामि मय्यतुरा. गोऽस्ति न" इति सम्मानार्थिनी नायकादेव वैलक्ष्यमुप्ता स्यादिति व्या जेन कृतकनिद्रया शयितेत्यर्थः, यदि मयि भावितस्तदा प्रातिबोधिक विदध्यान्मानयिता वा, "कुपिते ति मानेन पादपतनादिना संमान्यो- स्थापयेद्, एतत्रिविधमावस्थिकम् ॥ २९ ॥ समागतयोराह- आदर्श कुड्ये सलिले वा प्रयोज्यायाश्छायाचुम्बनमाकार प्रदर्शनार्थमेव कार्यम् ॥ ३० ॥ आदर्श इति । कुड्ये दीपाद्यालोकयुक्त, प्रयोज्याया इत्युपलक्षणार्थ. त्वानायकस्यापि प्रयोज्यस्य, विशेषाभावात्. छायात्रुम्बन मिति । दर्पणा- दिषु प्रयोज्यप्रतिबिम्बस्य समीपे लौकिकमिव चुम्बनं वैहासिक कार्यम्, आकारप्रदर्शनार्थमिति । भावसूचकमाकारं प्रदर्शयितुमित्यर्थः, यतस्तद्- वस्थां दृष्ट्वेतरो मन्यते मय्यनुरक्तो यदेवमाकारयतीति, कुड्ये तु न वै. हासिकं, किं तु च्छायावदने वदनं विदध्यादेवमित्याकारप्रदर्शनार्थम्॥३०॥ बालस्य चित्रकर्मणः प्रतिमायाश्च चुम्वनं संक्रान्तकमालि इग्नं च ॥ ३१॥ बालस्येति । स्वाङ्कगतस्य लाडीकस्य चित्रकर्मण आलेख्यस्य प्रतिमाया मृच्छिलाकाष्टादिमय्याः प्रयोज्यासमक्षं चुम्बनं संक्रान्तकं, तध्यारोपादालिङ्गनं च संक्रान्तकं, यथासंभवं चुम्बनाधिकारे प्रस. ङ्गादुक्तं, तत्र च्छायाचुम्बनं संक्रान्तकं चोभयमावस्थिक, स्पर्शगोचरा- तीतयोरनभिवृत्तसंभाषणयोरसमागतयोर्द्रष्टव्यम् ॥ ३१ ॥ तथा निशि प्रेक्षण के स्वजनसमाजे वा समीपगतस्य प्रयो. ज्याया हस्ताङ्गुलिचुम्बनं संविष्टस्य वा पादाङगुलिचुम्बनम् ॥३२ Kation --- ३ अध्याये चुम्बनविकल्पप्रकरणम् । तथेति आकारप्रदर्शनार्थ, निशि रात्रौ प्रेक्षणके वा नटादिदर्शने वा स्वजनसमाजे वा ज्ञातिसंबन्धिषु संभूय स्थितेषु प्रयोज्यायाः समीपो- पविष्टस्य प्रयोक्तुरुपलक्षणार्थत्वात्प्रयोज्यस्य वा समीपोपविष्टायाः प्रयोज्याया:, हस्ताङ्गुलिचुम्बनमिति । तदा हस्तस्य सुलभत्वात् , त- मन्यापदेशेनाकृष्य तदङ्गुलिचुम्बन, संविष्टस्येति । नायिकासमीपे शयितस्य चशब्दाद्धस्ताङ्गलिचुम्बनं च तदानीमुभयोरपि सुलभत्वात्, तत्र हस्ताङ्गुलिचुम्बनस्य द्वावपि प्रयोक्तारो, पादाङ्गुलिचुम्बनस्य नायि. कैव, न नरो गर्हितत्वात् ॥ ३२ ॥ संवाहिकायास्तु नायकमाकारयन्त्या निद्रावशादकामाया• इच तस्यो?दनस्य निधानमूरुचुम्बनं पादानुष्ठचुम्बनं चेत्याभि- योगिकानि ॥ ३३ ॥ संवाहिकायास्त्विति । नायकं संवाहयति या का चित्संवाहनद्वा- रेण नायकमभियुत, आकारयन्त्या भावसूचकमाकारं ग्राहयन्त्याः, अकामाया इवेति । चुस्बितुमनिच्छन्त्या इव, नायकाकारस्यागृहीत. त्वाद् , अतः कृतकनिद्रया सा नायकस्योवोश्चुम्बितुं वदनं निधत्ते, पादाङ्गुष्ठचुम्बनं तु पादावाकृष्य संवाहयन्त्या बुद्धिकारितमपि न दोषाय, मुखाङ्गुष्ठयोस्तदानी परस्पराश्लेषसंभवाद्, एतान्यङ्गुलिचुम्बनादीनि स्पृष्टकादिना सोढ गावस्पर्शयोरनतिप्रवृत्तसंभाषणयोरसमागतयोः, आ- भियोगिकानीति । अभियोगप्रयोजनानि च्छायाचुम्बनादीनि तदानीं- प्रयोगान्तानि च लौकिकचुम्बनवत्प्रयोक्तव्यानि कर्मभेदासंभवात् ॥३३॥ संप्रयोगाभियोगकालयोः सामान्यविधिमाह- कृते प्रतिकृतं कुर्यात्ताडिते प्रतिताडितम् । करणेन च तेनैव चुम्बिते प्रतिचुम्बितम् ॥ ३४ ॥ इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे चुम्बनविकल्पास्तृतीयोऽध्यायः। आदितोऽधमः। कृत इति । सांप्रयोगिक आभियोगिके वा प्रयोक्तृकृते प्रयोज्या प्रति- कृतं कुर्यात् , तदेवोदाहरणार्थमाह-ताडिते चुम्बित इति । अन्यतरः संप्रयोगे स्तम्भमिवैनं मन्यमानां निविद्यते ततश्च निकृष्टः संप्रयोगः स्याद् , आभियोगिके च कारितोऽपि नावध्यत इति पशुमिव परिभवेत् ततश्च न समागमोऽर्थः सिध्येत् , तत्रापि करणेन च, तेनवेति । येनैव manome ।

सटीके कामसूत्रे [२ अधिकरणे, कर्मभेदेन संप्रयुत तेनैव प्रयोजयेद्, एवं रतमाकारग्रहणेन स्फुटरसं. स्यात् तञ्चित्तानुविधानादिति । इति चुम्बनविकल्पा नवमं प्रकरणम् । इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधरचितायां जयमङ्गलाऽऽस्थायां- सांप्रयोगिके द्वितीयेऽधिकरणे चुम्बनविचारस्तृतीयोऽध्यायः । and चतुर्थोऽध्यायः । एवं चुम्बनेनोपक्रम्य ततोऽधिकेन नखच्छेद्येनोपक्रमयितुं नखरदन- जातय उच्यन्ते, नखविलेखनप्रकारा इत्यर्थः । तदेव स्वरूपेण दर्शयन्नाह- रागबृद्धौ संघर्षात्मकं नखविलेखनम् ॥ १॥ संघर्षात्मकमिति । प्रदेशस्य नखैर्यत्समन्ततो घर्षणमवपृथक्करण- तन्नखविलेखनं तत्स्वभावत्वात् , तच रागवृद्धौ सत्याम्, यत्तु नखानेण तुदनं तद्रागमान्ये सति तत्र च्छेद्यस्याभावाद् , नख. विलेखनस्यैव प्रकाराः कथ्यन्ते ॥१॥ तस्य क्व प्रयोगः कदा चेत्याह- तस्य प्रथमसमागमे प्रवासप्रत्यागमने प्रवासगमने क्रुद्धप्रप्त. नायां मत्तायां च प्रयोगो न नित्यमचण्डवेगयोः ॥२॥ तस्येति । नखविलेखनस्य, अचण्डवेगयोरिति । मन्दमध्यवेगयोः, न नित्यप्रयोगः, कदा तहत्याह-प्रथमसमागमे तथा प्रवासप्रत्यागमने तयोरुत्कण्ठितयोः प्रवृद्धरागत्वात् , प्रवासगमने स्मरणार्थ, क्रुद्धप्र- सन्नायामिति । नायकेन प्रसादिता सती हर्षाद्विवृद्धरागा भवति, मचा- यां च मद्यमदेन राभस्योच्छितत्वाद् , एवं क्रुद्धप्रसन्ने मत्ते च नायके द्रष्टव्यं , चण्डवेगयोस्तदाऽन्यदा च प्रयोगो नित्यमोक्तम् ॥२॥ तथा दशनच्छेद्यस्य सात्म्यवशाद्वा ॥३॥ तथा, दशनच्छेद्यस्य प्रयोग इत्येव, तस्यैतावता तुल्यत्वादित्यति- देशः, तेन स्वरूपमपि योज्यं, रागविबुद्धौ संघर्षात्मकं दशनच्छेद्यं, रागमान्ये तु दशनग्रहणमिति, सात्म्यवशाद्वा तयोः प्रयोगो यदि तदा. प्रचण्डवेगौ प्रकृतिसात्म्यान्न सहेतां तदा नैवेत्यर्थः ॥ ३ ॥ तदाछुरितकमर्धचन्द्रो मण्डलं रेखा व्याघ्रनखं मयूरपदकं- शशप्लुतकमुत्पळपत्त्रकमिति रूपतोऽष्टविकल्पम् ॥ ४ ॥ ।

PRATHAMAND ४ अध्याये] नखच्छेधप्रकरणम् । १०१ तदिति। नखविलेखन , रूपत इति संस्थानता, द्विविधं हि तद् रूपवदरूपवञ्च, तत्र यत्कस्य चिदनुकारि तद्रूपबदष्टप्रकारकमाच्छुरित- कादि, तस्य लक्षणं वक्ष्यति, यदननुकारि तदरूपवत् त्रिविधं, मृदुम- ध्यातिमात्रभेदात् ॥ ४॥ कक्षौ स्तनौ गलः पृष्ठं जघनमूह च स्थानानि ॥ ५ ॥ स्थानानि । कक्षस्तनगलपृष्ठजघनोरुपाश्र्वानि तेष्वेव षट् नख- क्षतैः स्त्रीपुंसयोरत्यर्थनिर्वृतिरित्याचार्याणां मतम् उत्तरपक्षदर्शनात् , तत्र गल इति सामीप्यात्तत्पार्श्व, जघनशब्दः समुदायेन कटिभागे तदेकदेशे च पुरोभागे वर्तते, तदिह समुदायवृत्ति, तेन नितम्बलेखन. मपि सिद्धं, तथा चोक्तम्- 'ग्रीवापाश्वोरुकक्षेषु कटिपृष्ठस्तनेषु च । संप्रयोगे प्रयुञ्जीत नखच्छेद्यानि योषिताम्' इति ॥५॥ प्रवृत्तरतिचक्राणां न स्थानमस्थानं वा विद्यत इति सुवर्णनामः ॥६॥ प्रवृत्तरतिचक्राणामिति । प्रवृत्तरागोत्पीडानां, न स्थानमिति । अङ्ग प्रत्यङ्ग वा सिद्धं सर्वमेव नखक्षतस्य स्थान, यद्यप्येवं तथाऽपि शास्त्रकारो रूपवतां नियतस्थानं वक्ष्यति, तत्र हि परभागं लभन्त इति॥६॥ छेद्यस्य नखाधीनत्वात्तेषामाश्रयतः कल्पनातो गुणतः प्रमाणतश्च विधिमाह- तत्र सव्यहस्तानि प्रत्याशिखराणि द्वितशिखराणि चण्डवेग- योनखानि स्युः ॥ ७॥ तत्रेति । नखकर्मणि, सव्यहस्तानीति । आश्रयभावेन वामो हस्तो ये- षामिति, दक्षिणस्य प्रायशोऽन्यव्यापारादेषां भङ्गोऽपि स्यात्, प्रत्याशि- হীনি। শিলম্ববিনালি, ব্লিচ্চিাoিr মিহিভাজালি অ্য क्रकवमुखवत्कल्पितानि, तत्त्रिशिखरकाण्यनतिविस्तीर्णस्थलत्वाद् द्रुतं. भिद्यन्ते, तद्विपर्ययाणि मध्यमन्दवेगयोरित्यर्थोक्तं, तत्रेषत्प्रसृष्टाग्राणि शूकाकृतीनि मध्यवेगयोः, प्रभृष्टानाण्यर्धचन्द्राकृतीनि मन्दवेगयोरिति तिनो नखविकल्पनाः ॥ ७ ॥ गुणानाह- अनुगतराजि सममुज्ज्वलममलिनमविपाटितं विवर्धिष्णु मृदु स्निग्धदर्शन मिति नखगुणाः ॥ ८॥ अनुगतराजीति । अनुगता विवर्णा मध्ये लेखा यस्य, सममनिनो. नतपृष्ठम् , उज्वलमागन्तुकमलामावादमलिनं कान्तिमद्, अविपाटितम. mpanion । - . १०२ सटीके कामसूत्र [२ अधिकरणे, विस्फुटितं, विवर्धिष्णु बर्धनशीलं, मृदु, न काष्ठप्रख्यं, स्निग्धदर्श नमिति । दृश्यत इति दर्शनं रूपं, 'कृत्यल्युटो बहुलम् । ३।३।११३ । इति ल्युट्, तदरूसमस्येति ॥ ८॥ दीर्घाणि हस्तशोभीन्यालोके च योषितां चिचग्राहीणि गौडा. नां नखानि स्युः ॥ ९॥ प्रमाणतस्त्रिधा। तत्र दीर्धाणि हस्तशोभीनि हस्तं शोभयितुं शीलं येषां, नखच्छेद्यं कर्तुमक्षमत्वाद् , आलोके दर्शने, चित्तग्राहीणि योषि- द्भिद्देश्यमानानि तासां चित्तं हरन्तीति गुणद्वययुतानि स्पर्शमात्रकर. त्वात्प्रायशो गौडानाम् ॥ ९ ॥ इस्वानि कर्मसहिष्णूनि विकल्प योजनासु च स्वेच्छाऽवपाती. नि दाक्षिणात्यानाम् ॥ १०॥ हस्वानि, कर्मसहिष्णूनि लेखनादि कर्म सहन्ते, दीर्घाणि तु भज्यन्ते, विकल्पयोजनास्वर्धचन्द्रादयो ये विकल्पास्तत्संपादनासु स्वेच्छाऽवपा. तीनि प्रयोक्तुरिच्छया स्थाने योऽवपातःस विद्यते येषां न तु दीर्घाणाम् , इति गुणद्वयं, तानि खररागत्वात्प्रायशो दाक्षिणात्यानाम् ॥ १०॥ मध्यमान्युभयभाञ्जि माहाराष्ट्रिकाणामिति ॥ ११ ॥ मध्यमानि न दीर्घाणि नातिहस्वानि, उभयभाञ्जि दीर्घहस्वगुणभा जि, तानि वैचक्षण्यात्प्रायशो माहाराष्ट्रिकाणाम् ॥ ११ ॥ आच्छुरितकादेलक्षणं परभागार्थं च प्रयोगस्थानमाह- तैः सुनियमितैहनुदेशे स्तनयोरघरे वा लघुकरणमनुद्तलेखं स्पर्श मात्रजननाद्वोमाञ्चकरमन्ते संनिपातवर्धमानशब्दमाच्छुरितकम्।।१।। तैरिति । मध्यमै खैः पञ्चभिरपि, सुनियमितैरिति । सुसंश्लिष्टैः, म- ध्यमावस्थापेक्षयेदं वचनं, प्रागसंश्लिष्टान्येव स्थाने निवेश्यन्ते ततश्च शनैरोकृष्यमाणानि सुसंयमितानि भवन्ति न प्रागेव सुसंयमितानि, लो. के तथा प्रयोगदर्शनाद्, लघुकरणमिति । लध्वी क्रिया यस्मिन्निति, य. था क्षतं न भवति, यदाह-अनुगतलेखमिति । किमर्थं तहस्त्याह-रूप. प्रमात्रजननाद्रोमाञ्चकरमिति, अन्तइति । स्पर्शनक्रियाया नखघातादिभिः रिति, अङ्गुष्ठनखेन प्रतिनखस्फालनाद्वर्धमान वटवटाशब्दं यदेवंविधं क मतदाच्छुरितकं नखैराच्छुरणाद् , एवं च नखच्छेद्याभावेऽप्यस्यैवानु. रूपं, तत्र हनुदेशेऽधरे च सर्वासामेव नायिकानामाच्छुरितकमेव ना. न्यन्नखकर्मेति दर्शनार्थमुभयोHहणं, स्तनयोराधिक्येन प्रयोक्तव्यमि- तिख्यानार्थ वचनं, तत्रापि स्पर्शकरत्वात् ॥ १२ ॥ ।

४ अध्याये] नखच्छेद्यप्रकरणम् । अन्येषु तु स्थानेष्ववस्थाऽपेक्षया प्रयोगमाह- प्रयोज्यायां च तस्याङ्गसंवाहने शिरसः कण्डूयने पिटकभेद. ने व्याकुलीकरणे भीषणे च प्रयोगः ॥ १३ ॥ प्रयोज्यायां च कन्यायां तस्य प्रयोग इति विस्त्रम्भणार्थ नान्यस्येत. रस्य नखकर्मणः, संवाहने यत्र यत्र स्थाने मर्दनं तत्र तत्र, शिरःकण्डू- यने शिरस्येव, पिटकभेदने स्वल्पपिटकानां शरीरस्थानो भेदने, तद्देश. एव व्याकुलीकरणे किं चित्कर्तुमप्रयच्छन्त्या भीषणे भयं दर्शयितुमित्य. र्थः, एते संवाहनादिष्वावस्थिकाः सर्वास्वेव नाथिकासु, अस्यावस्थि. ककार्यवशान्नायिकाऽपि प्रयोकी ॥ १३॥ ग्रीवायां स्तनपृष्ठे च वक्रो नखपदनिवेशोऽर्धचन्द्रकः ॥१४॥ ग्रीवायामिति । ग्रीवापावें बहिर्मुखाः स्तनपृष्ठे चोर्ध्वमुखाः, अर्ध- चन्द्रवद्वक्रोऽर्धचन्द्रः, सूच्यग्रेण कनिष्टानखेन निष्पाद्यो मध्यमानखेना- र्धचन्द्रेण ॥१४॥ तावेव द्वौ परस्पराभिमुखौ मण्डलम् ॥ १५ ॥ तावेव द्वाविति । अर्धचन्द्रौ क्रोडभावेन परस्पराभिमुखौ मण्डलं. तदाकारत्वात् ॥ १५ ॥ नाभिमूलककुन्दरवङ्कणेषु तस्य प्रयोगः ॥ १६ ॥ नाभिमूले रशनानायकवदेव स्थितं, ककुन्दरयोनितम्बस्योपरि- कूपकयोरन्तर्निहितप्रतिकूपकं मनोहारि, बङ्घणयोरूरुसन्ध्योः कर्णिकाs- लंकारवजघनस्य ॥१६॥ सर्वस्थानेषु नातिदीर्घा लेखा ॥ १७ ॥ सर्वस्थानेति । लेखायाः स्थानविशेषाभावान्न स्थाने विशेषः, तेन ग्री- वात्रिकपृष्ठपावोरुमूलबाहुषु नातिदीर्घस्थानविशेषाद् व्यङ्गुला व्यङ्गुला वा प्रत्याशिखरा निष्पाद्या ॥ १७॥ सैव वक्रा व्याघ्रनखकमान्तनमुखम् ॥ १८ ॥ सैवेति । लेखा, स्तनमुखादुत्थाप्याप्रतो वक्रीकृता व्याघ्रनखखण्ड- वत्स्तनकण्ठमलंकरोति ॥ १८ ॥ पञ्चभिरपि नखैलेखा चूचुकाभिमुखी मयूरपदकम् ॥ १९॥ पञ्चभिरपि नखैः सूच्यनशिखरकैः, चूचुकाभिमुखीति । स्तनमुखस्या. धस्तादङ्गुष्ठनखं विन्यस्योपरि च संश्लिष्टाङ्गुलिनखानि चूचुकाभिमुखमा- कर्षयेद्, मयूरपदकं तदाकारत्वात्, ॥ १९ ॥ ।

सटीके कामसूत्रे [२ अधिकरणे, । - तत्संप्रयोगश्लाघायाः स्तनचूचुके संनिकृष्टानि पञ्चनखपदा- नि शशप्लुतकम् ॥ २०॥ तदिति । मयूरपदकं, संप्रयोगलाधाया इति । नायकसंप्रयोगे श्लाघा यस्यास्तस्या विधेयं, सर्वा एव हि स्त्रियः स्तनमुखं सर्वनख. विप्लुतं बहु मन्यन्ते, यथोक्तम्-- 'स ते मनसि तन्वङ्गि! सखि ! प्रागिव वर्तते । स्तनवत्र विशालाक्षि! यत्ते शिखिपदाङ्कितम् ॥ इति, स्तनचूचुक इति । सामीप्ये सप्तमी, संनिकृष्टानीति । नखानपञ्चकमेकीक- त्यावष्टभ्य निदध्यात्ततः पञ्च पदानि संनिकृष्टानि शशप्लुतक, तदाका- रत्वात्, ॥२०॥ स्तनपृष्ठे मेखलापथे चोत्पलपत्रावृत्तीत्युत्पलपत्रकम् ॥ २१ ॥ उत्पलपत्राकृतीति । उत्पलपत्त्रसंस्थान ; तदेकमेव स्तनपृष्ठे मेख. लापथे चेति । यत्र मेखला निवध्यते तत्र, पथग्रहणान्नकम् अपितु तिर्यगुत्पलपत्नमालामिव शोभार्थ निदध्याद्, नाभिमूलस्थमण्डलं. मध्यस्थनायकरत्नवदाभाति ॥ २१ ॥ ऊों: स्तनपृष्ठे च प्रवासं गच्छतः स्मरणीयकं संहताश्चतस्त्र स्तिस्रो वा लेखा इति नखकर्माणि ।। २२ ॥ स्मरणीयकमिति । प्रोषितं स्मारयति यनखच्छेद्यं लेखाऽऽख्यं, 'कृत्यल्युटो बहुलम् ।।३।३।११३॥ इति कर्तर्यनीयर् , ततः संज्ञायां कन्, ततः प्रयोज्याया ऊर्वोः प्रवासं गच्छतः प्रच्छन्नस्य नायकस्य प्रयोक्तः, स्तनपृष्ठे सार्वलौकिकस्य, संहता इति । निरन्तरा मङ्गलार्थं मा भूञ्चिर- विप्रयोग इति, चतस्रो दीर्घप्रवासे,तिस्रो हस्वप्रवासे, संख्याऽङ्कबल्लेखाः, एषामर्धचन्द्रादीनां देशकालकार्यवशान्नायिकाऽपि प्रयोक्री, नखकर्मा. णोति । एतानि नखच्छेद्यानि रूपवन्तीत्यर्थः, अरूपिणां त्वनिबद्धरूपत्वा- तत्स्थानानियमः, सर्वत्रैवोक्तस्थाने प्रयोगः ॥ २२ ॥ अन्येषामतिदेशमाह- आकृतिविकारयुक्तानि चान्यान्यपि कुर्वीत ॥ २३ ॥ आकृतिविकारयुक्तानीति । संस्थानविशेषयुक्तानि, अन्यान्यपि पक्षि- कुसुमकलशपत्त्रवल्लयादीनि नखकर्माणि प्रयोक्तव्यानि, अनेन विकल्प- स्याधिक्यं दर्शयति ॥ २३ ॥ विकल्पानामनन्तत्वादानन्त्याच कौशल विधेरभ्यासस्य च स. womed ४ अध्याये]. नखच्छेद्यप्रकरणम् । वगामित्वाद्रागात्मकत्वाच्छंद्यस्य प्रकारान् कोऽभिसमीक्षितुमर्हतीत्या. चार्याः ।। २४ ॥ आचार्याणां मतं विकल्पानामिति । अष्टविकल्पमेवास्तु नान्यानि तेषां छेद्यप्रकाराणां निरूप्यमाणानामानन्त्याद् , अतस्तान् कोऽभिसमी- क्षितुमहतीति संवन्धः, तदभिसमीक्षिणा कौशलमप्यपेक्षणीयं, तस्य च प्रतिविकल्पं भिन्नत्वादानन्त्यमित्याह-आनन्त्याञ्चेति । कौशलविधि: कौशलकरणं, स च नाभ्यासं विनेत्ययमपरस्तृतीयोऽपेक्षणीयः, सोऽ- प्येकत्र कृतोऽन्यत्र न कौशलं निष्पादयतीति सर्वगामिना भवितव्यमि- त्याह-अभ्यासस्य च सर्वगामित्वादिति । तदियं महती परम्परेति कः प्रकारानभिसमीक्षते, किं च रागात्मकत्वाच्छेद्यस्येति । रागजन्यत्वा- सदात्मकं नखच्छेद्यं, रागविवृद्धौ हि नम्खविलेखनं, तञ्च तदानीं रागा. न्धत्वादरूपवदेव प्रयुङ्क्ते, कोऽत्र च्छेद्यवस्तुनि प्रकारान् प्रयोक्तुमर्हति तदानीमष्टविकल्पमपि न वक्तव्यम् ॥ २४ ॥ भवति हि रागेऽपि चित्रापेक्षा वैचित्र्याच परस्परं रागो ज. नायितव्यो, वैचक्षण्ययुक्ताश्च गणिकास्तत्कापिनश्च परस्परं प्रार्थ- नीया भवन्ति, धनुर्वेदादिष्वपि हि शस्त्रकर्मशास्त्रेषु वैचित्र्य मेवा- पेक्ष्यते किं पुनरिहति वात्स्यायनः ॥ २५ ॥ भवति हि रागेऽपोति । हिशब्दोऽवधारणे, रागकालेऽपि केषां चित् सत्यप्यानन्त्ये वैचित्र्यापेक्षा भवत्येव, अपिशब्दादरागकालेऽपि, यदा. ह-वैचिच्याञ्चेति । आहार्यरागे कृत्रिमरागे च रते परस्परस्य राग- उत्पद्यमानः स न विना वैचित्र्यमिति तजननाथं च वैचित्र्यापेक्षा, के पुनस्ते रागे सत्यपि वैचित्र्यमपेक्षन्त इत्याह-वैचक्षण्ययुक्ताश्चेति, तज्ज्ञतया युक्ता देवदत्तासदृश्यो गणिकास्तत्कामिनश्च मूलदेवसदृशाः, ते च विशिष्टरतार्थिनः परस्परस्य प्रार्थनीयास्तज्ञा भवन्ति, मा भूदन्यत्र खलरतमिति । ततश्च तेषां वैचित्र्यमेव रागं जनयति, धनुर्वेदादिष्वपी- ति । शास्त्रान्तरेणास्य साधयं दर्शयति-आदिशब्दात्कुन्तखड्गादिशा. स्त्रपरिग्रहः, शस्त्रकर्मशास्त्रग्विति । ज्ञानविद्या, कर्मविद्या चेति द्विविधा विद्या, धनुर्वेदे हि परशराणामागच्छतां शरैश्छेदनमेकसंधानेनानेकश- रमोक्षणमित्यादिकं कर्मवैचित्र्यं, किं पुनरिह कामसूत्रे यत्र वैचित्र्यमेव मुख्यमभिप्रेतम्, अन्यथा नागरकानागरकयोः को भेदः ॥ २५ ॥ सर्वत्र च वैचक्षण्ययुक्तेषु वैचित्र्यप्रसङ्गप्रतिषेधमाह- न तु परपरिगृहीतास्वेवं कुर्यात् , प्रच्छन्नेषु प्रदेशेषु तासा- १४ का० सू० । - दूरादिति । तत्प्रकारमनुपलभ्यापि, उच्छिष्टं परिभुक्तं, बहुमानो- कविषयत्वाद्, दशनरदनस्थानानि, दन्तविलेखनस्थानानि, उत्तरोत्तर- सटीके कामसूत्रे १०७ दशनच्छेद्यप्रकरणम्। [ २ अधिकरणे, ५ अध्याये ] मनुस्मरणार्थ रागबर्धनाच विशेषान्दर्शयेत् ॥ २६ ॥ आदितो नवमः। न त्विति । परपरिगृहीतासु वैचक्षण्ययुक्तास्वपि, एवमिति । वैचि. नान्यदिति । रागयोगेभ्यः, पटुतरं रागवृद्धौ योग्यतरं, दन्तन- त्र्यं युक्तं, तासां प्रच्छन्ननायकोपभोग्यत्वात्, प्रच्छन्नेविति। ऊरुज- हणं तुल्यफलत्वदर्शनार्थं प्रासङ्गिकं, कर्मणां गतय इति । छेद्यानां- धनवङ्क्षणादिषु, अनुस्मरणार्थमिति । ये नखच्छेद्यविशेषास्तान्दृष्ट्वा वर्धन, पूर्वपूर्वमिति वक्ष्यति ॥ १३ ॥ प्रवृत्तयो यथा देहान्तरस्थिता न तथा लोकेऽन्यदस्ति संप्रयोगेऽपि राग- स्मरन्ति, नित्यसमागमस्य दुर्लभत्वाद् , रागवर्धनाश्चेति । प्रमोदमात्र स्वरूपत्वाद्विसृष्टिलक्षणां प्रीति महतीं जनयन्ति ॥ २६ ॥ इति नखजातयो दशमं प्रकरणम् ॥ स्मरणमधिकृत्यान्वयव्यतिरेकाभ्यां प्रशंसामाह इति भीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके नखक्षतानि पश्यन्त्या गूढस्थानेषु योषितः द्वितीयेऽधिकरणे नखजातयश्चतुर्थोऽध्यायः । चिरोत्सृष्टाऽप्यभिनवा प्रीतिर्भवति पेशला ॥ २७ ॥ नखक्षतानीति । गूढस्थानादिषु, अभिनवा प्रथमसमागम इव, प्रीतिः अथ पञ्चमोऽध्यायः। नेहः, पेशला-अकृत्रिमा ॥ २७ ॥ एवं नखच्छेद्यानुपक्रम्य तदधिकेन दशनच्छेद्येनोपक्रमितुं दशन- चिरोत्सृष्टेषु रागेषु प्रीतिगच्छेत्पराभवम् । च्छेद्यविधयस्तथाऽऽलिङ्गनादयो, देशप्रवृत्तिमनिरूप्य प्रयुज्यमाना न रा- रागायतनसंस्मारि यदि न स्यानखक्षतम् ॥ २८ ॥ गहेतव इति देशेषु भवा देश्या उपचारा, इति प्रकरणद्वयमत्राध्याये, चिरोत्सृष्टेष्वनुभूय चिरपरित्यक्तेषु, पराभवं विनाशं, रागायत. तत्र च्छेद्यस्य विषयस्वरूपकालानां पूर्वत्रानिर्दिष्टत्वात्स्थानादीन्याह- नसंस्मारीति । रूपं यौवनं गुणाश्चेति रागायतन, तत्स्मारयितुशात: उत्तरोष्ठमन्तर्मुखं नयनमिति मुक्त्वा चुम्बनवदशनरदनस्थानानि ॥१॥ यस्येति, नखक्षतदर्शनात्तद्रूषादिषु स्मरणं, ततः प्रीतिवासनात्प्रबोधः॥२८॥ उत्तरोष्ठमिति । चुम्बनस्येवात्राप्युत्तरौष्ठं छिद्यमानमसुखावहम् , सामान्येन प्रशंसामाह- अन्तर्मुखं जिह्वां, शेषमपि दशनागोचरत्वाद्, नयनयोश्छेद्यत्वासंभवा- पश्यतो युवति दूरान्नखोच्छिष्टपयोधराम् । त्पर्यन्तपीडाकरत्वाद्वैरूप्यकरणाञ्च मुक्त्वा, शेषा ललाटाधरोष्ठगलक- बहुमान परस्यापि रागयोगश्च जायते ॥ २६ ॥ पोलवशास्तनाः, तथा लाटानामूरुसंधिबाहुमूलनाभिमूलानि सन्ति तानि तिगौरवं, परस्यापि येनापि न संगता, रागयोग इति । रागेण युज्यत इत्यर्थः ॥ २९॥ वैचित्र्यदर्शनार्थ चुम्बनविकल्पानन्तरमिदं नोक्तम् ॥ १ ॥ पुरुषश्च प्रदेशेषु नखचिरैर्विचिह्नितः । गुणानाह- चित्तं स्थिरमपि प्रायश्चलयत्येव योषितः ॥ ३० ॥ समाः स्निग्धच्छाया रागग्राहिणो युक्तप्रमाणा निश्छिद्रास्ती. पुरुषश्चेति । यथा पुरुषस्य तथा योषितोऽपि पुरुषं दृष्ट्वा रागः, प्रदे- शे दष्टेषु, विचिह्नितो विलिखितः, स्थिरमपि तपश्चरणादिभिर्नियतमपि समा अकरालास्तुल्यच्छेद्यं निष्पादयन्तीति, स्निग्धच्छाया अपरु- प्रायश्चलयतीति प्रकृतरित्यर्थः ॥ ३०॥ षाः, रागग्राहिणस्ताम्बूलभक्षणादौ,न पुष्पावदाताः, इति गुणद्वयं शोभा- तीक्ष्णांना इति निश्छिद्रा-घनाः, नान्यत्पटुतरं किञ्चिदस्ति रागविवर्धनम् । ऽर्थ,युक्तप्रमाणा न श्लक्ष्णा न पृथवः, नखदन्तसमुत्थानां कर्मणां गतयो यथा ॥ ३१ ॥ इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे चतुर्थोऽध्यायः। इति च दोषाः ॥ ३ ॥ AARAMMA क्ष्णाग्रा इति दशनगुणाः ॥ २ ॥ गुणत्रयं छेद्यार्थं शोभायं च ॥२॥ कुण्ठा राज्युद्गताः परुषा विषमाः श्लक्ष्णाः पृथको विरला.

१०८ सटीके कामसूत्रे [२ अधिकरणे, -- dmunde राज्युद्गता इति । मध्ये स्फुटिता लेखा उद्गता येषामित्याहितान्या- दिषु द्रष्टव्यं, गुणविपर्यये दोषाः सिद्धा अपि प्रधानदोषख्यापनार्थ पुन. रुक्ताः, तेन रागाग्राहित्वं न दोषः, यतः शुद्धा एव दशनाः प्रायशो वर्ण्य- न्ते, अत्रापि राज्युद्गतपरुषविषमाणामाननकान्तिपरिपन्थित्वं, कुण्ठा- दीनां तु शेषाणां कार्यकरणेऽसामर्थ्य दोषश्च ॥३॥ गूढकमुच्छ्रनकं बिन्दुर्बिन्दुमाला प्रबालमणिमणिमाला खण्डा. भ्रकं वराहचर्वितकमिति दशनच्छेदन विकल्पाः ॥ ४ ॥ छेदनविकल्पा इति । रूपत उक्ताः॥४॥ तेषां लक्षणं प्रयोगस्थानं चाह- नातिलोहितेन रागमात्रेण विभावनीयं गूढकम् ॥ ५ ॥ रागमात्रणेति । राग एव रागमात्र क्षताभावाद्, अतिलोहितेनेति । तस्याधिक्यमाह, तेन विभावनीयं विज्ञेयम्, एवं च गूढमिव गूढकम् , अस्फुटितत्वात्, तदेकेनैव राजदन्ताग्रेणावष्टभ्य निष्पाद्यम् ॥ ५॥ तदेव पीडनादुच्छूनकम् ॥ ६ ॥ तद् गूढकं यदाऽऽपीड्य निष्पाद्यते तदा जातश्वयथुत्वादुच्छूनकम्६॥ तदुभयं विन्दुरधरमध्य इति ॥ ७॥ तदुभयं गूढकमुच्छ्रनकं च, बिन्दुरिति । अयमितिशब्दश्चार्थे, वि. न्दुश्च वक्ष्यमाणलक्षणः, त्रितयमधरमध्ये, तेषां स्वल्पाभोगत्वात् ॥ ७॥ उच्छूनकस्य वैशेषिकं स्थानमाह- उच्छूनकं प्रबालमणिश्व कपोले ॥ ८ ॥ उच्छूनकं, प्रबालमणिश्च वक्ष्यमाणलक्षणः, कपोले तस्य शक्य- क्रियत्वात् ॥ ८॥ कस्मिन्कपोल इत्याह- कर्णपूरचुम्बनं नखदशनच्छेद्यामिति सव्यकपोलमण्डनानि।।९।। सव्यकपोलमण्डनानीति । यथा कर्णपूरश्चारुत्वाद्वामे कर्णे विन्य. स्तो वामकपोलस्य मण्डनं तथा, यथोक्तं- 'दन्तच्छेधं चुम्बनं सताम्बूलं रागमण्डनम् ॥ ९ ॥ दन्तोष्ठसंयोगाभ्यासनिष्पादना प्रबालमणिसिद्धिः ॥ १० ॥ दन्तौष्ठसंयोगाभ्यासनिष्पादनेति। उत्तरदन्ताधरोष्ठाभ्यामुत्तरोष्ठा- धरदन्ताभ्यां वा स्थानस्य संयोगो यद् गृहीत्वा पोडनं तस्याभ्यास: पुनः पुनः करणं स एव निष्पादनं यस्याः सिद्धे, निष्पाधतेऽनेनेति क. । - NANDED

।
६ अध्याये] दशनच्छेद्यप्रकरणम् ।
११०९
त्वा, तथा हि तदभ्यासाप्रबालमणिरिव लोहितः क्षतविवर्जितो दन्तौ-
ष्ठपदविन्यासो निष्पाद्यते ॥ १० ॥
सर्वस्येयं मणिमालायाश्च ॥ ११ ॥
मणिमालायाश्च दन्तौष्ठसंयोगाभ्यासनिष्पादना सिद्धिरित्येच,
अत्राप्ययमेव प्रकार: किं त्वेकं निष्पाद्यं, तदनन्तरमपरमपरं यावन्मा.
ला भूतेति ॥ ११ ॥
अल्पदेशायाश्च स्वचो दशनद्वयसंदंशजा बिन्दुसिद्धिः ।। १२ ॥
अल्पदेशाया इति । स्थानापेक्षया, तत्र गले मुद्गमात्राया, अधरे ति.
लमात्रायास्त्वचा, दशनद्वयसंदंशजेति । उत्तरेणाधरेण च दशनाने
त्वचमाकृष्य संदंशः खण्डनं तस्माजात इत्यर्थः, बिन्दुसिद्धिरिति ।
बिन्दुः स्वल्प देशखण्डनात्, सिद्धिरित्युत्तरैश्चतुभिर्दशनैरल्पदेशाया.
स्वचो युगपत्संदंशजेत्यर्थः ॥ १२ ॥
सविन्दुमालाश्च ॥ १३ ॥
बिन्दुमाला, तदाकारत्वात् ॥ १३ ॥
तस्मान्मालाद्वयमपि गलेकक्षवङ्क्षणप्रदेशेषु ॥ १४ ॥
तस्मान्मालाद्वयमपीति । मणिमाला विन्दुमाला च, गलकक्षवङ्क-
णप्रदेशेषु श्लथत्वक्त्वादेषाम् ॥ १४ ॥
ललाटे चोर्वोबिन्दुमाला ॥ १५ ॥
ललाटे चोर्वोरिति । तत्राप्यूर्वोस्तिलपङ्क्तिरिव स्थिता स्यान्न
तिर्यकपरिमण्डलमिवेति, सृक्वभागयोविच्छेदेऽपि परिमण्डलमिव ल-
क्ष्यते ॥ १५॥
मण्डलमिव विषमकूटकयुक्तं खण्डाभ्रकं स्तनपृष्ठ एव ।।१६।।
विषमकूटकयुक्तमिति । विषमैः पृथुमध्यसूक्ष्मैर्दशनपदैः समन्त-
तो युक्तं खण्डानकं तत्सादृश्यात्, स्तनपृष्ठे सौकर्याच्छोभित्वाच्च,
पुरुषस्य वक्षसीत्यर्थादवगन्तव्यं, तच्च कण्ठोपग्रहेण निष्पाद्यम् ॥१६॥
संहताः प्रदीर्घा बढयो दशनपदराजयस्ताम्रान्तराला बरा.
हचर्वितकं स्तनपृष्ठ एव ।। १७ ॥
संहता इति । स्तनपृष्ठस्यैकतो भागात्स्वल्पदेशां त्वचं दशनसंद-
शेन चर्वयेद्, यावदपरं भागमित्यनेन क्रमेणोपर्युपरि चर्वणान्निरन्तराः
प्रदीर्घा बह्वयश्चतस्त्रः षड् वा दशनपदपतयो निष्पाद्याः, तासां.
चान्तरालानि संमूच्छितरक्तत्वात्ताघ्राणि भवन्ति, अतो वराहस्येव
चर्वणाराहचर्वितकं , स्तनपृष्ठ एव बहुलमांसत्वात् ॥ १७॥

सटीके कामसूत्र [२अधिकरणे, ११० त्वाद्, , । तदुभयमपि च चण्डवेगयोः ॥ १८ ॥ इति दशनच्छेद्यानि । तदुभयपि खण्डाभ्रक वराहचर्वितकं च छेद्यं चण्डवेगयोः, तत्सा. ध्याद्, एषां नायिकाऽपि प्रयोक्त्री द्रष्टव्या, उभयोरपि शास्त्राधिका. राद् , देशकालकार्यवशात् किञ्चिदेव कस्य चिदसाधारणम् , एताव- न्ति दशनच्छेद्यानि सांप्रयोगिकान्युक्तानि, प्रयोज्याशरीरे प्रयोज्यमान- अभियोगे त्वसंभवात् ॥ १८॥ आकारप्रदर्शनार्थ सांक्रान्तिकमाभियोगिकमाह- विशेषके कर्णपूरे पुष्पापीडे ताम्बूलपलाशे तमालपत्त्रे चेति प्रयोज्यागामिषु नखदशनच्छेद्यादीन्याभियोगिकानि ॥ १९ ॥ विशेषक इति । भूर्जपत्रादिकल्पिततिलके, कर्णपूरे नीलोत्पलादौ, पुष्पापीड इत्युपलक्षणं शेखरे, सुसज्जित ताम्बूलीपत्त्रे, तमालपत्त्रे सुर भिण्यनङ्गलेखीकृते, एषां छेद्यविषयत्वाद् , इतिशब्दः प्रकारे, प्रयोज्या. गामिष्विति । गमिष्यन्तीति गामिनः, 'भविष्यति गम्यादयः, ३।३।३ इति सूत्रात्, प्रयोज्यागामिनो विशेषकादयः, 'गमि गम्यादी. नाम्-२२१०२४ सू० वार्ति० इति समासः । तेषु हि च्छेद्यानि संक्रान्त- कान्याभियोगिकानि भवन्ति, नखदशनच्छेद्यादीनीति । नखच्छेद्यमाभि. योगिकं प्राङ् नोक्तम् , इहैकविषयत्वादेकीकृत्योक्तम् ॥ १९ ॥ दशनच्छेद्यविधय एकादशं प्रकरणम् देशप्रवृत्तयो देश्या उपचारास्तानाह- देशसात्म्याच योषित उपचरेत् ॥ २० ॥ देशसात्म्यादिति । ल्यब्लोपे पञ्चमी, सात्म्यं द्विविध-देशतः, प्रकृतितश्च, तत्र चुम्बनादीनां येन यस्मिन्देशे सात्स्यमवस्थितं तदपेश्य, तेन तत्र योषित उपचरेत्, स्वयं तच्छीलवगवेद, उपलक्षणमेतत् , पु. रुषानपि योषित् ॥ २० ॥ तत्र मध्यदेशस्य प्रधानत्वात्तत्सात्म्यमाह- मध्यदेश्या आर्यमायाः शुच्युपचाराश्चुम्बननखदन्तपदद्वे- पिण्यः ॥ २१ ॥ मध्यदेश्या इति । 'हिमवद्विन्ध्ययोर्मध्ये यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच मध्यदेशः प्रकीर्तितः ॥ इति भृगुः, ५ अध्याये] दशनच्छेद्यप्रकरणम्। १११ a menu । 'गङ्गायमुनयोरित्येके, इति वशिष्ठः, अयमेव शास्त्रकृतां प्राधान्ये- नाभिप्रेतः, तत्र भवा मध्यदेश्याः, शुच्युपचाराः सुरते शुचिसमुदाचा. राः, आर्यप्रायत्वात् , चुम्बनादित्रयं द्वेष्टुं शीलमासाम् , आलिङ्गनमि- च्छन्ति, ग्रहणनेषु मध्याः ॥२१॥ बाह्रीकदेश्या आवन्तिक्यश्च ॥ २२ ॥ बाह्रीकदेश्या:उत्तरापथिकाः, आवन्तिक्या-उज्जयिनीदेशभवाः, ता एवापरमालव्यः, चुम्बनादिद्वेषिण्यः ॥ २२ ॥ पूर्वाभ्यो विशेषमाह- चित्ररतेषु त्वासामाभिनिवेशः ॥ २३ ॥ चित्ररतेविति । चित्ररतानि वक्ष्यन्ते, तेवभिनिवेशोऽतिप्रीतिकर- त्वात् ॥ २३॥ परिष्वङ्गचुम्बननखदन्तचूषणप्रधानाः क्षतवर्जिताः प्रहणन. साध्या मालव्य आभीर्यश्च ॥ २४ ॥ मालव्य इति । पूर्वमालवभवाः, परिष्वङ्गचुम्बनादीनि प्राधान्येने- च्छन्ति, क्षतविवर्जिताः तोदन्तु नखदन्ताभ्यामिच्छन्ति, प्रहणनसाध्याः प्रहणनेन जातरतयः, भाभीर्य इति । आभीरदेशः श्रीकण्ठकुरुक्षेत्रादि. भूमिः, तत्र भवाः ॥ २४॥ सिन्धुषष्ठानां च नदीनामन्तरालीया औपरिष्ठिकसात्म्याः ॥२५॥ सिन्धुषष्टानां चेति । सिन्धुनदः षष्टो यासां नदीनां, तद्यथा. विपाद शतदुरिरावती चन्द्रभागा वितस्ता चेति पञ्चनद्यः, तासाम- न्तरालेषु भवाः, औपरिष्टिकसात्म्या इति । सत्यपि परिष्वङ्गचुम्बना- दौ मुखे जघनकर्मणा प्रीयन्त इत्यर्थः, खरवेगाः प्रीयन्त इति भावः॥२५॥ चण्डवेगा मन्दसीत्कृता आपरान्तिक्यो लाट्यश्च ॥२६॥ आपरान्तिक्य इति । पश्चिमसमुद्रसमीपेऽपरान्तदेशः, तत्र भवाः, अत्रत्यैः किलार्जुनसकाशाद्विष्णोरन्तःपुरमाच्छिन्नमिति, लाट्यश्चे. ति । अपरमालवात्पश्चिमेन लाटविषयः, तत्र भवाः चण्डवेगाः, म. न्दसीत्कृता इति । क्षतानि मन्दं च प्रहार सहन्त इत्यर्थः, तदुद्भ- वत्वात् सीत्कृतस्य ॥ २६ ॥ दृढमहणनयोगिन्यः खरवेगा एवापद्रव्यप्रधानाः स्त्रीरा. ज्ये कोशलायां च ॥ २७ ॥ स्त्रीराज्य इति । बङ्गप्रदेशात्पश्चिमेन स्त्रीराज्यं तत्र, कोशलायां.

Hindi सटीके कामसूत्रे [२ अधिकरणे, च योषितः सत्यप्यालिङ्गनादौ दृढप्रहारैः प्रीयमाणाः संप्रयुज्यन्ते, खरवे. गा एवेत्यवधारणात्सर्वदैवेत्यर्थः, कराडूते रताधिक्याद्रागःखर इत्युच्यते, तदभावे तु चण्ड इति विशेषः, एवं च सत्यपद्रव्यप्रधानाः, कण्डूति प्रतीकारार्थ प्राधान्येन कृत्रिमसाधनमिच्छन्तीत्यर्थः ॥ २७ ॥ प्रकृत्या मृयो रतिप्रिया अशुचिरुचयां निराचाराश्चान्ध्यः ॥२८॥ आन्ध्य इति। नर्मदाया दक्षिणेन देशो दक्षिणापथः, तत्र कर्णाट- विषयात्पूर्वेणान्ध्रविषयः, तत्र भवाः, प्रकृत्या स्वभावेन मृङ्गयो. न प्रहणनादि सहन्ते, किं तु रतिप्रियाः, पुरुषोपसृप्तमिच्छन्तीत्यर्थः, अ. शुचिरुचयोऽविविक्तसमुदाचाराः निराचाराश्च, भिन्नमर्यादा इत्यर्थः॥२८॥ सकलचतुःषष्टिप्रयोगरागिण्योऽश्लीलपरुषवाक्यप्रियाः शय. ने च सरभसोपक्रमा माहाराष्ट्रिक्यः ॥ २९॥ माहाराष्ट्रिक्य इति । नर्मदाकर्णाटविषययोर्मध्ये महाराष्ट्रविषयः, तत्र भवाः, सकलायाश्चतुःषष्टेः पाञ्चालिक्या गीताधायाश्च प्रयोगेण राग- स्तासां भवतीति तत्प्रयोगरागिण्यः, अश्लील ग्राभ्यं परुषं च निष्ठुर. वाक्यं वदन्ति सहन्ते चेति तत्प्रियाः, शयने चेति । संप्रयोगे, रभसोप- क्रमा इति । धृष्टत्वादादावेव रभसेन पुरुषमभियुअत इत्यर्थः ॥२९॥ तथाविधा एव रहसि प्रकाशन्ते नागरिक्यः ॥ ३०॥ नागरिक्य इति । पाटलिपुत्रियः, तथाविधा एवेति । तेनैव प्रका- रेण सकलचतुःषष्टिप्रयोगरागितयाऽश्लीलपरुषवाक्यप्रियतया च रहसि विजने प्रकाशन्ते सत्रपत्वाद्, माहाराष्ट्रियस्तु प्रकाशे रहसि चेति वि. शेषः, शयने च रभसोपक्रमत्वं तुल्यम् ॥ ३० ॥ मृधमानाश्चाभियोगान्मन्दं मन्दं प्रसिञ्चन्ते द्राविडयः ॥३१॥ द्राविड्य इति । कर्णाटविषयाइक्षिणेन द्रविडविषयः, तत्र भवाः, अ. भियोगादिति। यन्त्रयोगात्प्रागालिङ्गनाद्यभियोगात्प्रभृति पुरुषेण मृधमा- ना बहिरन्तश्च शिथिलीक्रियमाणावयवा मन्दं मन्दं प्रसिञ्चन्त इति स्तो स्तोकं मूर्छनासुखवर्जितं क्षरणं कार्यत इति, अमन्दत्वात्, ततोऽन्ते समा क्षिप्तवेगा विसृष्टिः, तेनैकस्मिन्नेव रते निवृत्तरागा भवन्तीति दर्शयति ॥३१॥ मध्यमवेगाः सर्वसहाः स्वाङ्गप्रच्छादिन्यः पराङ्गहासिन्य: कुत्सिताश्लीलपुरुषपरिहारिण्यो वानवासिक्यः ॥ ३२ ॥- वानवासिक्य इति । कोङ्कणविषयात्पूर्वेण वनवासविषयः, तत्र भवाः मध्यमवेगा भावतः कालतश्च सर्वमालिङ्गनादिकं सहन्ते, । सर्वमालिङ्गनानि ५ अध्याये] देश्योपचारप्रकरणम् । व्यक्तमात्मनः शरीरे दोषं प्रच्छादयन्ति, परस्योपहसन्ति, कुत्सित- रूपेण व्यवहारेण चाश्लीलं ग्राभ्यं पुरुषं परिहरन्ति, न तेन सं. प्रयुज्यन्ते ॥ ३२॥ मृदुभाषिण्योऽनुरागवत्यो मृदङ्गयश्च गौड्यः ॥ ३३ ॥ गौड्य इति । गौड्यः पूर्वदेशभवा मृदुभाषिण्यः प्रदर्शनार्थे चैतद. न्यदपि लक्षयेत् ।। ३३ ॥ देशसात्म्यात्प्रकृतिसात्म्यं बलीय इति सुवर्णनाभो, न तत्र देश्या उपचाराः ॥ ३४ ॥ प्रकृतिसात्म्यमिलि । प्रकृतिः स्वभावः, तत्सात्म्यमेव मन्यते, दे- शप्रकृतिसात्म्येनैवोपचाराः कर्तव्याः, उभयसंनिपाते विरोधे सति देशसात्म्यात्प्रकृतिसात्म्यं बलीयोऽन्तरङ्गत्वाद्, न तत्र देश्या उपचारा- इति सुवर्णनाभस्थ, आचार्याणां तु प्रकृतिसात्म्यपरिहारेणैव देशसा- त्म्येनोपचरेदिति मतं, शास्त्रकृतोऽपि सुवर्णनाभमतमेवाभिमतमप्र- तिषिद्धत्वात् ॥ ३४॥ कालयोगाच देशाद्देशान्तरमुपचारवेषलीलाश्चानुगच्छन्ति, तच्च विद्यात् ॥ ३५ ॥ कालयोगाच्चेति । कालान्तरण, देशादेशान्तरं, तथा तत्रत्यानुपचा. रान् वेषं नेपथ्यं लीलां चेष्टाविशेषमनुगच्छन्ति, तच्चेति । देशान्तराद्य. नुगमनं तत्त्वतो विद्याद्, अन्यथोपचारादिदर्शनेन तद्देशजेयमित्युपचर्य- माणादालिङ्गानादितो विगुणा स्यात् , तस्मात्संचारिगुणत्यागेन स्थायि- देशप्रचारैरेवावधार्य; प्रकृतिसात्म्येनोपचरेत् ॥ ३५ ॥ उपगृहनादिषु च रागवर्धनं पूर्व पूर्व विचित्रमुत्तरमुत्तरं च ॥३६॥ उपगृहनादिष्विति । आलिङ्गनचुम्बननखदशनच्छेद्यग्रहणनसीत्कृतेषु षट्सु बहिः कर्मसु पूर्व पूर्व रोगवर्धनं, तत्र सीत्कृताच्छतिरमणीया. प्रहणनं स्पर्शकरं रागबर्धनं, ततो दशनच्छेद्यमतिस्पर्शकर, ततो. ऽपि परिहारेण नखच्छेद्यं, तस्मादपि चुम्बनं मृदुस्पर्शकर, ततोऽपि सर्वाङ्गिकमालिङ्गनमतिस्पर्शकारीति, विचित्रमुत्तरोत्तरमिति, तत्रोपगू- हनात्स्थूलकर्मणश्चुम्बनं कुटिलकर्म विचित्रं, ततो नखविलेखन, तस्मादपि दशनच्छेद्यमतिकुटिलं, ततोऽपि प्रहणनं यतस्तद्धस्तला. घवान्मृदुपरिहारेण रागं दीपयति, ततोऽपि सीत्कृतं यदुपदेशेऽपि दुर्ग्रहमिति ॥ ३६॥ एवं देशसात्म्यात्परस्परमुपवरतोश्छेद्यकलहोऽपि स्यात्, तत्र प्रीति- १५का० सु० ।

J सटीके कामसूत्रे [२ अधिकरणे, स्थिरीकरणार्थ चेष्टितमुच्यते, तद् द्विविध-रहसि प्रकाशे च सेवने, तत्र पूर्वमधिकृत्याह- वार्यमाणश्च पुरुषो यत्कुर्यात्तदनु क्षतम् । अमृष्यमाणा द्विगुणं तदेव प्रतियोजयेत् ॥ ३७ ॥ वार्यमाण इति । आङ्गिकेन वाचिकेन वाऽभिनयेन निषिध्यमानः प्र. कृतिसारम्याद्, यदा त्वनिषिध्यमानस्तदा कृते प्रतिकृतं कुर्यादि- त्ययमेव पक्षः, न द्विगुणयोजनं कलहो वा, द्यूतकलहोऽपि द्यूतम. धिकृत्योकम् , इह सात्म्यं विशेषः, अमृष्यमाणेति । अक्षममाणा, द्वि. गुणं प्रयुक्तादधिकच्छेद्यं यत्तदेव न विजातीयम्, प्रतियोजयेत्-प्रतीपं. योजयेत् ॥ ३७॥ कस्य किं द्विगुणमित्याह- बिन्दोः प्रतिक्रिया माला मालायाश्चाभ्रखण्डकम् । इति क्रोधादिवाविष्टा कलहान्प्रतियोजयेत् ॥ ३८ ॥ बिन्दोरिति । मालेति विन्दुमाला, तस्या अप्यभ्रखण्डकं प्रतीकारः, इत्येवं द्विगुणं प्रतीकारं बुद्ध्वा योजयेत्कल प्रति, तथाऽभ्रखण्डस्य वराहचर्वितकं, गूढस्योच्छ्नकं, तस्य प्रबालमणिः, तस्यापि मणि माला, तस्या अपि बिन्दुरिति, तत्र पूर्वाणि चत्वारि त्वचि स्थितानि, शेषाणि त्वचमतिक्रम्य; क्रोधादिवाविष्टेति । कृतककोपेन दर्शिताव. स्थाऽन्तरा, कलहान्तरं कृतककलहदर्शनार्थम् ॥ ३८ ॥ सकचग्रहमुन्नम्य मुखं तस्य ततः पिवेत् । निलीयेत दशेच्चैव तत्र तत्र मदेरिता ॥ ३९ ।। मुखं पिबेदधरपानाख्येन चुम्बनेन, तत्र चायं विदग्धक्रमः, सकच- ग्रहमुन्नम्येति । पाणिनैकेन कचेषु द्वितीयेन चिबुके परिगृह्योत्ता- नीकृत्येत्यर्थः, निलीयेत दृढं संश्लिष्येद् , दशेच्च तत्र तत्र च्छेद्य- स्थाने यत्र यत्र वा तेन दष्टा, मदेरिता-पानमदप्रेरिता, तदेव चेष्टितं. सुखयति ॥ ३९॥ विधानान्तरमाह उन्नम्य कण्ठे कान्तस्य संश्रिता वक्षस: स्थलीम् । मणिमालां प्रयुञ्जीत यच्चान्यदपि लक्षितम् ।। ४० ॥ उन्नम्येति । संश्रिता वक्षसः स्थलीमेकेन बाहुपाशेनावेष्टय कण्ठमु- नम्य द्वितीयेन हस्तेन चिबुकं गृहीत्वा; मणिमालां प्रयुञ्जीत, गले स्व- ५ अध्याये] देश्योपचारप्रकरणम्। । . स्थाने कण्ठिकामिव, यच्चान्यदपि लक्षितं दशनच्छेद्यं मनोहारि, अत्रा. पि वैचित्र्यापेक्षेति सूचयति ॥ ४० ॥ प्रकाशे चेष्टितमाह- दिवाऽपि जनसंबाधे नायकेन प्रदर्शितम् उद्दिश्य स्वकृतं चिदं हसेदन्यैरलक्षिता ॥ ४१ ।। दिवाऽपीति । रात्रौ नायिकया यत्कृतं सिद्धं तदिवाऽपि नायकेन क- थमस्मिानसमूहे प्रच्छाद्यमिति भावमाकारं ग्रोहयेत्प्रदर्शयेद्, उद्दिश्य स्वयं कृतं चिह्नमिति दुष्टस्यायमेव निग्रहो युक्त इति भावं ग्राहयन्ती हसेद्, अन्यरलक्षितेति । नायकेनाप्यलक्षितेति योज्यम्, अन्यथा द्वा. वयनागरको जनसम्बाधे स्यातामिति ॥४१॥ साऽपि तत्कृतानि चिह्नानि प्रदर्शयेदित्याह- विकूणयन्तीव मुखं कुत्सयन्तीव नायकम् । स्वगात्रस्थानि चिह्नानि सासू येव प्रदर्शयेत् ॥ ४२ ।। विकूणयन्तीव । व्यर्थचुम्बनार्थ सङ्कोचयन्तीव सङ्कोचस्येष्टत्वात्, कुत्सयन्तीव भ्रूनयनविकारैर्धिग्धिग्दुर्विदग्धमिति, 'तर्जयन्ती' इति पाठान्तरं, फलमस्य प्राप्स्यसीति तर्जनं, सासूयेवाक्षममाणेव ॥ ४२ ॥ परस्परानुकूल्येन तदेवं लजमानयोः । संवत्सरशतेनापि प्रीतिर्न परिहीयते ॥ ४३ ॥ इति श्रीवात्स्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीयेऽधिकरणे दशनच्छेद्यविधयो देश्याश्चोपचाराः पञ्चमोऽध्यायः। आदितो दशमः। तदिति । तस्मात् संवत्सरशतेन पुरुषायुः प्रमाणेनेत्यर्थः, प्रीतिर्न परिहीयते स्थिरीभवतीत्यर्थः, भोजनमपि होकरसमुपसेव्यमानं विरा. गं जनयति ॥४३॥ देश्या उपचारा द्वादशं प्रकरणम् । इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिक द्वितीयेऽधिकरणे दशनच्छेद्यविधयो देश्या उपचाराश्च पञ्चमोऽध्यायः ।

सटीके कामसूत्रे [२ अधिकरणे, १ D षष्ठोऽध्यायः। एवं देशप्रकृतिसात्म्यापेक्षयाऽऽलिङ्गनाद्युपचाराजातरागयोः संवेश. नयोग्यत्वात्संवेशनप्रकाराः, तथा संवेशनविशेषत्वाच्चित्ररतानीति प्र. करणद्वयमत्राध्याये। यदाह रागकाले विशालयन्त्येव जघनं मृगी संविशेदुञ्चरते ॥ १ ॥ रागकाल इति । रागकालो यत्र स्तब्धलिङ्गता, साधनसम्बाधयोः संयोगार्थ संवेशनं, तच्च तदानीमेव युज्यते, तेन प्रमाणतो रतमधि. कृत्य; संवेशनप्रकाराः, तेनात्र विषमरतेषु प्रमाणान्तरासक्रान्तिद्रष्ट व्या, विशालयन्त्येवेति । ऊर्वोविश्लेषणात् प्रसारयन्ती तत्प्रसारणादस्य बर्धन, केवलं जघनं विवृतमुखम्भवति, उच्चरत इति । वृषेण सम्प्रयु. ज्यमाना मृगी संविशेच्छयीत, तस्याः संवृतरन्ध्रत्वाद्, उपलक्षणं चै उच्चतररते चाश्वेन सम्प्रयोक्ष्यमाणा जघनं विशालयन्तीय संवि- शेद् , अत्रातिदेशं वक्ष्यति ॥१॥ अवहासयन्तीव हस्तिनी नीचरते ॥ २ ॥ अवहालयन्तीवेति । ऊर्वोः संश्लेषणात्सङ्कोचयन्तीव, यथा संवृतमु. खं भवति, हस्तिनी नीवरते वृषेण सम्प्रयोक्ष्यमाणा संविशेदित्येव, तस्या बहलरन्ध्रत्वाद् , शशेन तु नीचतररतेऽवहासयन्तीव, अत्राप्य- तिदेशं वक्ष्यति ॥ २॥ न्याय्यो यत्र योगस्तत्र समपृष्ठम् ॥ ३ ॥ यत्र यस्मिन्रते न्यायादनपेतो योगः स्वभावसिद्धत्वात् समरत. इत्यर्थः, तत्र समपृष्ठं संविशेदित्येव क्रियाविशेषणमेतत् , सङ्कोचनप्रसा. रणाभावात्सम जघनपृष्ठं यस्यां क्रियायामिति ॥ ३ ॥ आभ्यां बडवा व्याख्याता ॥ ४ ॥ साऽप्युञ्चरतेऽश्वेन संप्रयोश्यमाणा विशालयन्तीव, शशेनावहास यन्तीव, न्याय्यो यत्र वृषेण तत्र समपृष्ठं संविशेदिति, आभ्यां मृगीह स्तिनीभ्यां, व्याख्याता, यथा चोक्तम्- 'विवृतोरुकमुच्चं तु नीचं स्यात्संवृतोरुकम् । तथा स्थितोरुकं चापि समपृष्टं समे रते ॥४॥ संवेशनस्य प्रतिग्रहफलत्वात्प्रतिग्रहमाह- तत्र जघनेन नायकं प्रतिगृह्णीयात् ॥ ५ ॥ तत्रेति । संकोचनप्रसारणभेदात्समपृष्ठाच्च विविधे संवेशने जध.

IA ६ अध्याये। संवेशनप्रकरणम् । नेन स्वेन नायकं प्रतिगृह्णीयात्, स्तब्धलिङ्गप्रतीच्छेदित्यर्थः ॥ ५ ॥ अपद्रव्याणि च सविशेषं नीचरते ॥६॥ अपद्रव्याणि चेति । वृषेण शशेन वा प्रयुज्यमानानि कृत्रिमसा- धनानि वडवा हस्तिनी वा प्रतिगृह्णीयादित्येव, तत्रापि विशेषः-यदि समरतं साधनसदृशं कृत्रिमं तदा नावहासयन्ती विशालयन्ती वा, त- तोऽप्यधिकं चेद्विशालयन्तीव प्रतिगृह्णीयादित्यर्थः, नीचरत इति । उच्च- रतेऽपद्रव्यप्रयोगासम्भवात् ॥ ६ ॥ यया युक्त्या दिवृतं संवृतं वा जघनं स्यात्तद्यथाक्रममाह- उत्फुल्लकं विजृम्भितकमिन्द्राणिकं चेति त्रितयं मृग्याः प्रायेण||७॥ उत्फुल्लकमिति । समरते लौकिकी युक्तिरुका न शास्त्रीया, लोके हि ग्राम्यनागरभेदादुत्तानायाः संवेशनद्वयं प्रतीतं पार्वे च संपुटकं,- तत्रितयमपि समपृष्ठं घटयतीति, यथा चोक्तम्- 'ग्राम्यमासीनकान्तोविन्यस्तप्रमदोरुकम् । नागरं च नरोरुस्थं स्त्रीपादाम्भोरुहद्वयम् ॥' त्रितयमिति । त्र्यवयवं संवेशनम्, प्रायेणेत्येकान्तेन ॥ ७ ॥ शिरो विनिपासोय जघनमुत्फुल्लकम् ॥ ८ ॥ शिर इति । शिरोभागमधस्ताच्छय्यायां विनिपात्योत्तानमूर्व ज- धनं कुर्यादितिभेदमेवंरूपं पश्चाद्भागेनेत्यर्थः, यद्यपि तत्स्वतो भवति तथाऽप्यतिविस्तारणार्थमुपर्युपरिस्थितपृष्ठे त्रिकभागं विनिवेशयेत्, पादपाष्र्णी च स्फिचोर्बाह्यतः, एवं जघनस्योर्ध्व विवृतत्वादुत्फुल्ल- मिवोत्फुल्लकम् ॥८॥ तत्रापसारं दद्यात् ।। ९ ॥ तत्रेति । उत्फुल्लके, अपसारं दद्यादिति । नायकेन यन्त्रेण संयोज्य- माना कटिभागेनापसरे, नायको वा शनैः शनैः संयोज्यापसरे, या वदाईसंबाधता न भवति, सहसोपसृप्ताया हि पीडा, नाथकस्य च लि- चर्मोद्वर्तन, यदवपाटिकेति वैद्यैरुच्यते ॥९॥ अनीचे सक्थिनी तिर्यगवसज्य प्रतीच्छेदिति विजृम्भितकम्।।१०॥ अनीचे इति । सक्थिनी-ऊरू, तिर्यगवसज्येति । तिरश्चीने कृत्वा, तत्रापि शय्यायां पादयोरुत्तानविन्यासादपि तिरश्चीने भवतः, किंतु नीचैरित्याह-अनीचेति । प्रतीच्छेन्नायकमित्यर्थः, जृम्भितमिवेति । जघनमिति, विवृतास्यत्वाज्जृम्भितमिव ॥ १० ॥ । : ।

ऋज्विति । प्रगुणं प्रसारितो यथा यन्त्रयोगः स्याद्, उभयोरिति । । . । सटीके कामसूत्रे [२अधिकरणे, पार्श्वयोः सममूरू विन्यस्य पार्ययोर्जानुनी निदध्यादित्य- भ्यासयोगादिन्द्राणी ॥ ११ ॥ पार्श्वयोरिति । जङ्घासंश्लिष्टावूरू पार्श्वयोः सममनुकायं विन्य- स्य पार्श्वयोर्जानुनी निदध्यात्, कक्षावहिर्भागयोरित्यर्थः, एवं च बाहु- मूलाभ्यामवष्टभ्य गृहीतत्वात्पूर्वस्माद्विवृततरं भवति, अभ्यासयोगादि- ति । सहसा निष्पादयितुमशक्यत्वादस्याः, इन्द्राणीति । शचीप्रोक्तत्वा तत्संशया व्यपदेशः, तत्राप्यपसारं दद्यादिति योज्यम् ॥ ११ ॥ तयोच्चतररतस्यापि परिग्रहः ॥ १२ ॥ तयेति । इन्द्राण्या, उच्चतररतस्थापीति । न केवलमिन्द्राण्या मृगी वृषं प्रतीच्छेत् प्रतिगृह्णीयाद्, अश्वमपि, तस्या धृतरागत्वाद्विवृतराग. हेतुत्वात्, तत उच्चतररतेति । विशालयन्तीवेति सिद्धं भवति,तदुत्फुल्ल- कजृम्भितकाभ्यां तु मृगी वृषमेव, बडवाऽपि ताभ्यामेवाश्वमित्यर्थो. कम् ,पूर्वमतिदिष्टत्वात् ॥ १२ ॥ संपुटेन प्रतिग्रहो नीचरते ॥ १३ ॥ संपुटेनेति । हस्तिनी संपुटेन वक्ष्यमाणलक्षणेन वृषं प्रतिगृह्णी- यादित्यर्थः ॥ १३॥ एतेन नीचतररतेऽपि संपुटकं पीडितकं चेष्टितकं वाडवक. मिति हस्तिन्याः ॥१४॥ नीचतररतेऽपीति । शशमपि प्रतिगृह्णीयादित्यर्थः, तस्य संवृतहेतु. त्वात् , तेन च प्रतिगृहीते पीडितकादि प्रयोक्तव्यं, तेनाप्यवहासयन्ती. वेति सिद्धं, बड़वाऽपि संपुटकेन शशं प्रतिगृह्णीयादित्यर्थोक्तम्, पूर्व मतिदिष्टत्वात् ॥ १४॥ संपुटकयुक्तिमाह- ऋजुप्रसारितावुभावप्युभयोश्चरणाविति संपुटः ॥ १५ ॥ स्त्रीपुंसयोः, संपुट इति । संपुट इवोभयोरेकत्र संश्लेषात् ॥ १५॥ स द्विविधा पार्श्वसंपुट उत्तानसंपुटश्च तथा कर्मयोगात् ॥१६॥ तथा कर्मयोगादिति । तेन प्रकारेण रतानुष्ठानयोगादित्यर्थः, तत्र पार्श्वसंविष्टयोः पार्श्वसंपुटः, उत्तानसंविष्टाया उपर्याक् संविष्टस्यैकः, विपर्ययेण द्वितीय इति द्विविध उत्तानसंपुटकोऽन्यतरेण व्यपदिश्यते, कथमत्र यन्त्रयोग इति नाशङ्कनीयं सुकरत्वात् , पार्श्वसंपुटके तु ना.

६ अध्याये] संवेशनप्रकरणम्। । यकस्य कटिरुपधानिकायां तिष्ठद्, नायिकोयाश्च शयनीये, अन्यथा शयनीयस्थयोईयोः कटिभागयोविश्लेषाद्यन्त्रं कदा चिद्विघटेत, कात्या- यनस्तु संपुटकमन्यथा प्राह- 'कुञ्चितस्तनना'रुसंक्रान्तनृकटिः पुरः। व्यस्रस्थनरयोगात्तु संमुखः संपुटः स्मृतः ॥ इति, अत्रासंहतोरुत्वाजघनावह्रासो न संभवति, अतो न नीचरते हस्ति- न्याः, समरते तु स्याद्, यथास्थितोरुकतयाऽस्य लौकिकत्वात् ॥ १६ ॥ पार्श्वेण तु शयानो दक्षिणेन नारीमधिशयीतेति सार्वत्रिकमेतत्॥१७॥ पार्वेण तु शयान इति। निद्रां गन्तुं, दक्षिणेन नारीमिति । एन. पा योगे द्वितीया, नार्या दक्षिणे भाग आत्मनो वामेन पार्श्वेणासनपरि. णता शयनीयमधिशयीतेत्यर्थः, सार्वत्रिकमिति । सर्वास्वेव मृग्यादिना. यिकास्वयं निद्राकाले भवत्यविरोधाद्, रतकाले तु तद्विपरीतो. हस्तिन्या एव संकोचहेतुत्वाद्, वामहस्तेन तत्र गुह्यस्पर्शनादौ शि. ष्टानुज्ञातत्वात् ॥ १७॥ संपुटकयुक्तयन्त्रैव दृढमूरू पीडयेदिति पीडितकम् ॥ १८ ॥ संपुटकप्रयुक्तयन्त्रैवेति । उत्तानसंपुटे पार्श्वसंपुटे वा, तत्प्रयुक्तयन्त्रा नायिका दृढं द्वावूरू परस्परं पीडयेत्ततोऽतिपीडनात्संपुटकमेव पीडित- कमिति संवृताकारं भवतीति ॥ १८॥ ऊरू व्यत्यस्येदिति चेष्टितकम् ॥ १९ ॥ संपुटकप्रयुक्तयन्त्रैवेत्यर्थः । तत्राप्युत्तानसंपुटके वाम दक्षिणतो न- येद् दक्षिणं वामत इति, तदेवं परस्परोरुवेष्टनाजघनं पूर्वस्मात्संवृततरं. भवति, तत्र स्वभावेन सिद्धत्वात् ॥ १६ ॥ बडवेव निष्ठुरमवगृह्णीयादिति बाडवकमाभ्यासिकम् ॥२०॥ निष्ठुरं निश्चलम् , अवगृह्णीयात् संबाधौष्टपुटेन साधनमित्यर्थः, बाडवकंबडवाया इदं कर्म, आभ्यासिकं, सहसा सम्प्रयोगे प्रयोक्त. मशक्यत्वात् ॥ २०॥ तदान्ध्रीषु प्रायेणेति संवेशनप्रकारा बाभ्रवीयाः ॥ २१ ॥ आन्ध्रीषु प्रायेण दृश्यते, तासां यत्नपरत्वात्, तस्याभ्यासोपायश्च संप्रदायनिरूप्यः, ततोऽभ्यासात्तन्निरपेक्षग्रहणमिति, बाभ्रवीया-बान- व्येण प्रोक्ताः, सप्तैव संवेशनप्रकाराः ॥ २१ ॥ अनेन विकल्पवर्गस्य न्यूनतामाह- सौवर्णनाभास्तूभावप्यूरू ऊर्धाविति तद्भुग्नकम् ॥ २२ ॥ - १२० सटीके कामसूत्रे [२ अधिकरणे, सौवर्णनाभास्तु । हस्तिन्या इति वर्तते, सुवर्णनाभेन प्रोकाः, अनेन द्वैविध्यमाह, उत्ताना नायिका द्वावप्यूरू संश्लिष्टावूर्वावेवावस्थापयेद्, नायकोऽपि जान्वन्तरेण दोर्ध्या तावाश्लिष्योपसत्, तद् भुनकमिति, ऊर्वोरूवं निःसृतत्वात् ॥ २२ ॥ चरणावूर्व नायकोऽस्या धारयेदिति जृम्भितकम् ॥ २३ ॥ चरणामिति । नायिकाजानुसंधी स्कन्धयोर्विन्यस्य; चरणावू. व नायकेन धारितौ भवत इति जृम्भितकम् ॥ २३ ॥ तत्कुञ्चितावुत्पीडितकम् ॥ २४ ॥ तत्कुञ्चितौ । धारयेदित्येव, नायकोरसि चरणौ निदध्याद्, नाय- कोऽपि बाहुपाशेन नायिकाया प्रीवामावेष्टयोपस, एवं चरणावूध्वं. संकुचितावधस्तादुरसा धारितौ स्यातां, द्वयोश्चोरसि पीडनादु- त्पीडितकम् ॥ २४ ॥ तदेकस्मिन्प्रसारितेऽर्धपीडितकम् ॥ २५ ॥ तदिति । पीडितकम्, एकस्मिश्चरणे प्रसारते व्यत्यासेनेति द्विती- यमप्यर्धपीडितकम् अर्धपीडनात् ॥ २५ ॥ नायकस्यांस एको द्वितीयकः प्रसारित इति पुनः पुनयं- त्यासेन वेणुदारितकम् ॥ २६ ॥ नायकस्यांसे स्कन्धे वामश्चरणः स्थितः, क्षणादनु तदधस्ताप्रसा- रित इत्येकम् , पुनर्व्यत्यासेन दक्षिणस्कन्धे वामः प्रसारित इति द्विती. यं, वेणुदारितकमिति । वंशस्येव दारणं पाटनम् ॥ २६ ॥ एकः शिरस उपरि गच्छेद्वितीयः प्रसारित इति शूलाचित. कमाभ्यासिकम् ॥ २७ ॥ एक इति । वामो दक्षिणो वा चरणः, शिरस इति । नायिकायाः, द्वि- तीय इति । दक्षिणो वामो वाऽधः, एवं द्विविधं शूलाचितकं, शूल इवा. रोपणाच्छूलभिन्नवच्छरीरस्य लक्ष्यमाणत्वाद्, आभ्यासिकम्, अन्यथा कथमुपरितनजधाकाण्डः स्थगितकः स्यात् ॥ २७ ॥ संकुचितौ स्ववस्तिदेशे निदध्यादिति कार्कटकम् ॥ २८ ॥ संकुचितौ नायिकाचरणौ जानुसंकोचात्स्ववस्तिदेशे स्वनाभिमूले निदध्यानायका, कार्कटकमिति । कर्कटस्येवेदं कर्म, यदप्रचरणौ तथा तिष्ठतः ॥ २८ ॥ ऊर्चावूरू व्यत्यस्येदिति पीडितकम् ॥ २६ ॥ - ६ अध्याये] संवेशनप्रकरणम् । Roman ऊर्ध्वावूरू व्यत्यस्येदिति । उत्तानं वामं दक्षिणतो नये, दक्षिणं. वामतः, पीडितकं जधनपीडनात् ॥ २९ ॥ जवाव्यत्यासेन पदमासनवत् ॥ ३० ॥ जङ्घाव्यत्यासेनेति । उत्ताना नायिका दक्षिणपादं वामे स्वोरुमूले निध्याद्, वामं च दक्षिणे, पद्मासनमिति प्रतीतम् ॥ ३० ॥ पृष्ठं परिष्वजमानायाः पराङ्मुखेण परावृत्तकमाभ्यासिकम् ॥३१॥ पृष्ठमिति । यन्त्रमविश्लिष्य; पूर्वकायेन परावृत्तस्य नायकस्य पृष्ठ- मुपगृहमानायाः परावृत्तकम्, पराङ्मुखेण नायकेन संप्रयोगाद् , उप- लक्षणं चैतत्, पृष्टमुपगृहमानस्य परामुख्या परावृत्तकम् , आभ्या- सिकं, सहसा कर्तुमशक्यत्वाद्, उभयकायं परिवृत्याः संविष्टायाः पृष्ठ- मुपगृहमानस्य पराङ्मुख्या परावृत्तकमाभ्यासिकमर्थोक्तम् ॥ ३१ ॥ एते संवेशनप्रकारान चित्राः, लोके हि स्थले पृष्टतः पार्श्वतो वा शयनं प्रतीतं, ततोऽन्यचित्रं, तदेतैरुपलक्षयेदिति दर्शयन्नाह- जलं च संविष्टोपविष्टस्थितात्मकांश्चित्रान्योगानुपलक्षयेत् तथा मुकरत्वादिति सुवर्णनाभः ।। ३२ ।। जले चेति । चकारात्स्थले च, तत्राप्सु क्रीडायां कूले शिरो निधाय; संविष्टयोः संवेशनात्मकोऽपि यः स्थलाभावाचित्रयोगस्तं संपुटेन परा. वृत्त केन चोपलक्षयेद्, उपविष्टस्य नायकस्योपवेशनात्मकैस्तैः सर्वैरेव प्रकारैः, ऊर्ध्वस्थिताया स्थितात्मकःस्थले शयनाभावाद्, चित्रो योगस्तं- शूलाचितके, तथा सुकरत्वादिति तैः प्रकारैः संयोगस्याप्सुसौकर्यात्॥३२॥ वार्त तु तत् शिष्टैरपस्मृतत्वादिति वात्स्यायनः ॥ ३३ ॥ वातं त्विति । तथा सुकरत्वादिति सत्यं वार्त तु तद्, असारमि. त्यर्थः । शिष्टैरपस्मृतत्वादिति । स्मृतिकारैनिषिद्धत्वादित्यर्थः, तथा च गौतमीयवचनम्-'अप्सु मिथुनसंयोगे नरक, इति, प्रायश्चित्तविधाने भार्गववचनम्- 'रेतः सिक्त्वा जले चैव कृच्छ चान्द्रायणं चरेद्' इति, तस्मात्स्थलप्रयोज्यमेव चरेत् ॥ ३३ ॥ संवेशनप्रकारास्त्रयोदशं प्रकरणम् ॥ प्रकरणसम्बन्धमाह- अथ चित्ररतानि ॥ ३४ ॥ अथेति। संवेशनप्रस्तावे तद्विशेषत्वात्स्थलप्रयोज्यानीत्युच्यन्ते॥३४॥ १६ का० सू० -- ।

सटीके कामसूत्रे [२ अधिकरणे, १२२ ७ तत्रोप्रमधिकृत्याह-- ऊर्ध्वस्थितयोयूनोः परस्परापाश्रययोः कुड्यस्तम्भापाश्रितयो- वा स्थितरतम् ॥ ३५॥ परस्परापाश्रययोरिति । आश्रयान्तराभावाद्वाहुपाशेनान्योन्योपल- नयोः, कुड्यस्तम्भापाश्रितयोरिति । नायिकायां कुड्ये स्तम्भे वाऽपाधिः तायां द्वितीयोऽपि तदाश्रयादाश्रित इत्युक्तं, स्थितरतं च द्वयोरूध्वं स्थितत्वात् , करणत्रयमत्रान्तर्भूतं, यथोक्तम्- 'उत्क्षिप्तप्रमदापादमेकेन नरपाणिना । प्रसारणविशेषेण व्यायतं संमुखं स्मृतम् ॥ नारीपादतलन्यासान्नरहस्ततले तु यत् । कुञ्चितप्रमदाजानुद्वयं द्वितलसंज्ञितम् ॥ नरकूर्परविन्यस्तस्त्रीनिकुञ्चितजानुकम् । जानुकूर्परमुद्दिष्टमिति शुद्धो विधिः स्मृतः' इति ॥ ३५ ॥ कुड्यापाश्रितस्य कण्ठावसक्तबाहुपाशायास्तद्धस्तपञ्जरोपवि. टाया ऊरुपाशेन जघनमभिवेष्टयन्त्या कुड्ये चरणक्रमेण वलन्त्या. अवलम्बितकं रतम् ॥ ३६ ॥ कुड्यापाश्रितस्येत्युपलक्षणार्थत्वात्स्तम्भापाश्रितस्य नायकस्य फ. ण्ठेऽवसक्तोऽवलग्नो बाहुपाशो यस्या इति विग्रहः, तद्धस्तपञ्जरेति । नायकस्य हस्ताभ्यां वेणीबन्धेन घटितपञ्जरे समुपविष्टाया ऊरुपाशेन जघनं नायकस्य वेष्टयन्त्याः, चरणक्रमेण वलन्त्या इति । कुड्ये स्तम्भे वा पुनः पुनश्चरणविक्षेपेण कटिं प्रेङयन्त्याः, अवलम्बितकं , नायकक ण्ठान्नायिकाया अवलम्बनाद्, एतदुभयं वहायसिकत्वाच्चित्रम् ॥ ३६॥ भूमौ वा चतुष्पदवदास्थिताया वृषलीलयाऽवस्कन्दनं धैनुकम् ॥३७॥ चतुष्पदवदिति । सामान्यनिर्देशो वक्ष्यमाणापेक्षस्तत्र धेनुकावञ्च- तुभिर्गारधोमुखमवस्थितायाः, वृषलीलयेति । वृषचेष्टया नायकस्याव स्कन्दनं कटिभागेऽभिपतनं , धेनुकमिति । धेनुकाया इदम् , एतचा मनुष्यधर्माचरणाञ्चित्रम् ॥ ३७ ॥ तत्र पृष्ठमुर कर्माणि लभते ॥ ३८ ॥ तत्रेति । धेनुके, पृष्ठमुरःकर्माणि लभत इति । यानि नायिकोरसि प्रहणनच्छेद्योपगूहनादीनि तानि पृष्ठे प्रयुञ्जीतेत्यर्थः ॥ ३८ ॥ एतेनैव योगेन शौनमैणेयं छागलं गर्दभाक्रान्तं मारिलाल- ६ अध्याय] বিনম। - तकं व्याघ्रावस्कन्दनं गजोपमर्दितं वराहधृष्टकं तुरगाधिरूढकमिति यत्र यत्र विशेषो योगोऽपूर्वस्तत्तदुपलक्षयेत् ॥ ३९ ॥ एतेनेति । धेनुकयोगेन शौनादिकमुपलक्षयेदित्यर्थः, श्वादीनां चतुष्प- दत्वात्तद्रतमनेन व्याख्यातमित्यवगच्छेदित्यर्थः, विशेषप्रतिपत्तौ तु कार- णमाह-यत्र यत्रेति । यस्मिन्यस्मिन् येन येन विशेषेण स्वरगतेन च कायग- तेन योगोऽपूर्वो दृश्यते तत्तदुपलक्षयेत् , तत्र शुनीवदवस्थिता श्वलीलया नायकस्यावस्कन्दनम्, एवं छगलीवच्छगललीलया च्छागलम्, एणीवदेण- लीलयैणेयम् , 'एण्या ढञ्' ।५।२।१६। व्यापारस्यापि विकारत्वाद्, गर्दभी. वद् गर्दभलीलयाऽऽक्रमण गर्दभाक्रान्तकम्, मार्जारीवन्मार्जारलीलया च ललितकं मार्जारललितकं, व्याघ्रीवद्याघ्रलीलयाऽवस्कन्दितं व्याघ्रा- वस्कन्दनं, गजवद्जलीलयोपमर्दन गजोपमर्दितं, तुरगीवत्तुरगलीलया. ऽधिरोहणं तुरगाधिरूढकम् , अत्र श्वादीनां स्वरकायगतं चेष्टितं प्रत्यक्षः तोऽवगन्तव्यम् , अप्रत्यक्षीकृतस्य प्रयोक्तुमशक्यत्वात् ॥ ३९ ॥ मिश्रीकृतसद्भावाभ्यां द्वाभ्यां सह संघाटकं रतम् ॥ ४० ॥ मिश्रीकृतसद्भावाभ्यामिति । दंपत्योहि रतं, द्वाभ्यां तु परस्परो पजनितविश्वासाभ्यां नायिकाभ्यां सहैकस्य नायकस्य रतं चि संघाट- काख्यम् , एकशयने स्त्रीयुग्मस्य युगपत्संप्रयुज्यमानत्वाद्, यदव हि पुरुषोपसृप्तैरेकस्या रागापनयनं तदैवापरस्याश्चुम्बनादिना रागजननं, ततोऽस्या रागापनयनं प्रशान्तरागायाश्च रागजननमिति ॥४०॥ बहीभिश्च सह गौयूथिकम् ॥ ४१ ।। बह्वीभिश्च मिश्रीकृतसद्भावाभिः, सहैकस्य चित्ररतं गौयूथिक, वृषस्येव गोयूथे स्त्रीसमूहे वर्तनात् ॥४१॥ वारीक्रीडितकं छागलमैणेयमिति तत्कर्मानुकृतियोगात् ॥४२॥ वारीक्रीडितकमिति । वार्या गजस्येव करिणीभिः स्त्रीभिः सह रमणात् , तथा छगलवदेणवच्च स्त्रीभिः सह क्षागलमैणेयमिति, तत्क- मानुकृतियोगादिति । वृषादीनां गवादिषु यत्स्वरगतं कायगतं च कर्म तदनुकृतियोगात्तथा व्यपदिश्यत इत्यर्थः, यथैकस्य द्वाभ्यां बहीभिश्च तथा द्वाभ्यां नायकाभ्यां बहुभिश्चैकस्था रतं सम्भवति, तत्र नायक- संघाटकेनैकस्या वक्ष्यमाणयोगेन काम्यमानत्वात्संघाटकं रतं, द्वयोग ा संविष्टयोः पुरुषायितेन काम्यमानत्वाद्, यथोक्तम्--- 'ऊरुव्यत्याससंविष्टपरिवर्तितदेहयोः । वृषयोरुन्नतं चिह्न हस्तिन्याः पुरुषायिते ॥

यथासात्स्यं यथायोगं चेति । येन यस्या उपचारेण सात्म्यं यत्र यस्य च सटीके कामसूत्र [२ अधिकरणे, बहुभिश्च गौयूथिक, वृषगोयूथस्येवैकस्यां गवि स्त्रियां नायक यूथस्य प्रवर्तनात् , तथा वारीक्रीडितकमित्यादि तत्कर्मानुकृतियोगात्त. देव गौयूथिकादिरतम् ॥ ४२ ॥ देशप्रवृत्ति दर्शयन्नाह- ग्रामनारीविषये स्त्रीराज्ये च बाह्रीके बहवो युवानोऽन्तःपुर- सधर्माण एकैकस्याः परिग्रहभूताः , तेषामेकैकशो युगपञ्च यथा. सात्म्यं यथायोगं च रअयेयुः ॥ ४३ ॥ ग्रामनारीविषय इति । स्त्रीराज्यसमीप एव परतो ग्रामनारीविषयः, युवानो व्यवायक्षमाः, अन्तःपुरसधर्माणो रक्षणयोगादस्वतन्त्राः, एक स्था योषितः परिग्रहं गताः, खरवेगवान्नैकेन तुष्टिरिति, ते तां कथं. रञ्जयेयुरित्याह-एकैकशो युगपञ्चेति । एकैकेन कर्मणा योगपद्येन चेत्यर्थः, Jesus युज्यते प्रयोगस्तेन तामनुरञ्जयेयुः, तस्यास्तृप्तिं जनयेयुरित्यर्थः ॥ ४३ ॥ तदेवैकैकं कर्म योगपद्यं च दर्शयन्नाह- एको धारयेदेनामन्यो निषेवेतान्यो जघनं मुखमन्यो मध्य. मन्य इति वारं वारेण व्यतिकरण चानुतिष्ठेयुः ॥ ४४ ॥ एको धारयेदिति । यस्याङ्कमपाश्रित्य संविष्टा, मुखभन्यो निषेवेत चुम्बनदशननखक्षतैः, जघनमन्य उपसृप्तकैः, मध्यं मुखजघनयोश्चुम्ब- ननखदशनच्छेद्यप्रहणनैरन्य इत्येकैकेन कर्मणा, युगपञ्चेति । तत्रापि पुन- विधानान्तरमाह-वारं वारेणानुतिष्ठेयुरिति । वारं नियोगं वारेण परि. पाट्या, तत्र यो जघनं निषेवितवान् , स निवृत्तरागत्वाद्वारेण वा. रमनुतिष्ठेद् , वारेण वारिको मुखवारं तद्वारिको मध्यवारं तद्वारिकश्च जघनवारमिति, व्यतिकरण चेति । द्वितीयकर्मसंयोजनेन च, तद्यथा- जघनसेवको जघनं मध्यं च निषेवेत, मध्यसेवको मध्यं मुखं च, तत्से- वकश्च मुखं मध्यं च, वारिको धारयन्मुखं च निषेवेतेति, अनेन विधि- ना तावदनुतिष्ठेयुर्यावत्सर्व एव जघनवारमनुप्राप्ताः ॥ ४४ ॥ एतया गोष्ठीपरिग्रहा वेश्या राजयोषापरिग्रहाश्च व्याख्याताः ॥४५॥ एतयेति । यथोक्तया स्त्रिया, अन्यत्रापि देशे सम्भवत्येतदतिदेशेन दर्शयति-गोष्ठीपरिग्रहा इति । विटः सम्भूय परिगृह्यते था वेश्या, गोष्ठी येषां परिग्रह इति योषिच्छब्दसमानार्थो योषाशब्दः, संह- त्यान्तःपुरिकाभिर्योषिद्भिर्ये परिगृह्यन्ते परपुरुषाः, वक्ष्यति च-. 'संहत्य नव दशेत्येकैकं युवानं प्रच्छादयन्ति प्राच्यानाम्' इति, HAL ।

६ अध्याये] चित्ररतप्रकरणम् । वक्ष्यामः॥४७॥ वेश्यां विटाः, युवानं च स्त्रियः पूर्ववदनुरक्षयेयुरित्यर्थः, बह्वीभिश्च गौयूथिकमित्येतत्स्वदारेषु नायकव्यापारमधिकृत्योत्तम् ॥ ४५ ॥ अधोरतं पायावपि दाक्षिणात्यानाम् ।। ४६ ।। इति चित्ररतानि । अधोरतमिति । अपानस्य जघनाधःस्थितत्वात् , तच्च स्त्रीपुंसविष यभेदेन द्विविधं, तदपि विमार्गमेहनाच्चित्रम् , औपरिष्टिकं तु तृतीया. प्रकृतिविषयत्वान्न चित्रं, स्त्रीपुंसयोश्च चित्रमेव, विमार्गमेहनाद् , दा. क्षिणात्यानामिति । देशप्रवृत्ति दर्शयति ॥ ४६॥ पुरुषोपस्तकानि पुरुषायिते वक्ष्यामः ॥ ४७॥ पुरुषोपसृतानि तु संवेशनानन्तरत्वादवसरप्राप्तान्यपि पुरुषायिते तत्राप्युपयोगित्वाच्चित्रस्थ बर्धनमाह- भवतश्चात्र श्लोको- पशूनां मृगजातीनां पतङ्गानां च विनमः तैस्तैरुपायश्चित्तज्ञो रतियोगान्धिवर्धयेत् ॥ ४८ ॥ पशूनामिति । तत्राधोदशनाः पशवः, ऊर्ध्वाधोदशनामृगाः, पतङ्गाः- पक्षिणः, तैस्तैरिति । ये ये प्रत्यक्षत उपलब्धाः, विभ्रमैरिति । विचेष्टितैः स्वरकायगतैः, चित्तज्ञ इति । स्त्र्यभिप्रायं बुवेत्यर्थः, रतियोगानिति । रत्यर्थान्योगान् , विवर्धयेदपरानपरान्प्रयोजयेदित्यर्थः ॥ ४ ॥ तद्विबर्धने किं फलमित्याह- तत्सात्म्यादेशसात्म्याच तैस्तै वैः प्रयोजितः । स्त्रीणां स्नेहश्च रागश्च बहुमानश्च जायते ॥ ४९ ॥ इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे संवेश- नप्रकाराश्चित्ररतानि च षष्ठोऽध्यायः। आदित एकादशः। तत्सात्म्यादिति । नायिकायाः प्रकृतिसात्म्याद्, देशसात्म्यं प्रागु- क्तं, तैस्तैरिति । पश्वादिविभ्रमैः, भावैरिति । भावहेतुत्वात्प्रयोजितैः, नायिकया प्रयोजितया तदभिप्रायेण हि नायकेन प्रयुज्यमानत्वाद्, भावैर्वा प्रयोजकैरिति योज्यं, स्नेहः सक्तिः, रागस्तृप्तिः, बहुमानो. गौरवं विदग्ध इति ॥ ४९ ॥ चित्ररतानि चतुर्दशं प्रकरणम् ।। इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे संवेशनप्रकाराश्चित्ररतानि च षष्ठोऽध्यायः । । ।

822/45
सटीके कामसूत्र
[ २ अधिकरणे,
Roman
सप्तमोऽध्यायः
एवं संविष्टाया यन्त्रयोगे प्राधान्येन प्रहणनमिति प्रहणनप्रयोगाः,
प्रहणनोद्भवत्वाञ्च सीत्कृतस्य तद्युक्ता एव सीत्कृतकमा इति प्रकरणद्वय
मत्राध्याये, यथा प्रहणनस्य प्रयोग इति सूचनार्थ क्रमग्रहणम् ,
प्रहणनं द्वेषजननं कथं सुरतोपयोगीत्याह-
कलहरूपं सुरतमाचक्षते विवादात्मकत्वाद्वामशीलत्वाच का.
मस्य ॥ १॥
कलहरूपमिति । कलहसदशमित्यर्थः, कथमित्याह-विवादात्मक-
स्वादिति । स्त्रीपुंसयोः स्वार्थसिद्धये परस्पराभिभवेन संप्रयुज्यमानत्वा-
द्विवादात्मक, वामशीलत्वाञ्चेति । प्रतिकूलस्वभावत्वात्कामस्य,
त्सुकुमारक्रमलब्धजन्मनोऽपि मनोभवस्य सुरते निर्दयोपक्रमेणातिवा-
ह्यमानत्वात् , तथा चोक्तं-किरातार्जुनीये ९४२
'आवृता नखपदैः परिरम्भाश्चुम्बितानि नखदन्तनिपातैः ।
सौकुमार्यगुणसम्भृतकीर्तिर्वाम एव सुरतेष्वपि कामः ॥,
अत्रापिशब्दो भिन्नक्रमः सौकुमार्यगुणसंभृतकीतिरपि सुरतेषु वाम.
एवेति, तेन हेतुफलभावेनावस्थानात्कामस्थ स्वभावश्यम्, एकः संप्र.
योगेच्छालक्षणः, अन्यो विसृष्टिलक्षण इति ॥ १ ॥
तस्य रागवशात्महणनमङ्गं स्कन्धौ शिरः स्तनान्तरं पृष्ठ-
जघन पार्श्व इति स्थानानि ॥ २॥
तस्य-सुरतस्य, प्रहणनमङ्गमुपकरणं, स्थानानीति । प्रहणनस्य ॥२॥
तच्चतुर्विधमपहस्तकं प्रस्तकं मुष्टिः समतलकमिति ॥ ३ ॥
तदिति । प्रहणनं घातश्चतुर्विधम् , अपहस्तकादिप्रहणनस्य चतुः
विधत्वात् , प्रहण्यते वा स्थानमनेनेति प्रहणनमपहस्तकादीनि, क.
रणे ल्युट, तत्रापहस्तको हस्तपृष्ठ प्रसृताङ्गुलि, प्रसृतकं वक्ष्यति,
मुष्टिः प्रसिद्धः, समतलक-मुस्थिरहस्ततलं, यस्य मुस्तकेति प्रसिद्धिः॥३॥
द्वितीयं प्रकरणं प्रहणनान्तर्गतमिति दर्शयन्नाह-
तदुद्भवं च सीत्कृतं तस्यातिरूपत्वात् तदनेकविधम् ॥ ४ ॥
तदुद्भवं चेति । तदुद्भवं प्रहणनादुद्भवतीति, कुत एतदित्याह-तस्या-
तिरूपत्वादिति। सीत्कृतं हि पीडया जन्यमानत्वात्तद्रूपमित्युक्तं, यथा
कलहे प्रहणनात्पीडया सीत्कृतं क्रियते तथेहापि पीडाद्योतनार्थ यच्छ.
ब्दितं तत्सीत्कृतमिव सीत्कृतं पूर्वाचार्यैः संज्ञित, न तु सीत्करणमेव
सीत्कृतं, यदाह-तदिति । सीत्कृतमनेकविध, हिं कारादिभेदात् ॥४॥

६ अध्याये]
चित्ररतप्रकरणम् ।
१२७
७
विरुतानि चाष्टौ ॥ ५॥
विरुतानीति । तानि मूलवर्गेण संगृहीतानि सीत्कृतप्रकरण एव
ध्वनिस्वभावत्वादुक्तानि, तेषां च रतिजन्यत्वात्प्रहणने च मनोज्ञत्वात्प्र.
योगः, सीत्कृतस्य तु प्रहणन एवेति विशेषः ॥५॥
हिंकारस्तनितकूजितरुदितमत्कृतदूत्कृतफूत्कृतानि ॥ ६ ॥
तत्र हिंकारो यः सानुनासिकेन हिशब्देन क्रियते कण्ठनासिका.
भ्यामूर्ध्व गच्छन्मधुरो ध्वनिनिष्पाद्यते, स्तनितं मेघस्येव यद्गम्भीर ध्व.
नितं; तच्च कण्ठाद्धंशब्देन निष्पाद्यते, रुदितं प्रतीतं तच्च मनोहारि
स्यात्, सूत्कृतं सूत्करणं च श्वसितापरनाम, कूजितदूत्कृतफूत्कृतानां.
लक्षणं वक्ष्यति, सप्तैतान्यव्यक्ताक्षराणि, अम्बाऽर्थादयो गण एको.
व्यक्ताक्षरः॥६॥
अम्बार्थाः शब्दाः, वारणार्थी मोक्षणार्थाश्चालमस्तेि ते चा.
र्थयोगात् ॥७॥
अम्बाऽर्था इति । अम्ब मातरित्यादयः, वारणार्था मा तिष्ठत्या.
दयः, अलमर्था भवतु पर्याप्तमित्येवमादयः, मोक्षणार्थास्त्यज मुश्चेत्या.
द्रयः, ते ते चार्थयोगादिति । अन्येऽपि पीडार्थयुक्ता मृताऽस्मि परित्रा.
यस्वेत्येवमादयः॥७॥
पारावतपरभृतहारीतशुकमधुकरदात्यूहहंसकारण्डवलावकवि-
रुतानि सीत्कृतभूयिष्ठानि विकल्पशः प्रयुञ्जीत ॥ ८ ॥
पारावतादीनामिव विरुतानि पारावतविरुतान्यष्टौ, दात्यूहो यस्य
'डाउक' इति प्रसिद्धिः, सीत्कृतभूयिष्ठानीति । सीत्कृतबहुलानि, प्रहण-
नकालेऽपि सीत्कृतस्य प्राधान्यादन्तरा प्रयुञ्जीतेत्यर्थः, सीत्कृते हि स्व.
रान्तरसंश्लिष्टं मनोहारि स्याद्, विभाषाश्लिष्टगीतवत्, तत्रापि विक-
ल्पशो विकल्पं विकल्पमेकैकमित्यर्थः ॥ ८॥
प्रहणनसीत्कृतयोर्यत्र देशेऽवस्थायां च प्रयोगस्तदुभयमाह-
उत्सङ्गोपविष्टायाः पृष्ठे मुष्टिना प्रहारः ॥ ९ ॥
उत्सङ्गोपविष्टाया इति । नायकस्योत्सङ्गे, पृष्ठे मुष्टिना प्रहारः, ना-
न्यैरनुरूपत्वात् ॥६॥
तत्र सासूयाया इव स्तनितरुदितकूजितानि प्रतीपातश्च स्यात्॥१०॥
तत्रेति । मुष्टिना प्रहारे, सासूयाया इव प्रहारमक्षममाणाया इव
प्रयोकत्र्यास्तदर्तियोतकानि स्तनितकूजितरुदितानि स्युस्तत्प्रहारानु-
रूपत्वात् ,
प्रतीघातश्चेति । मुष्टिनैव तत्पृष्ठ प्रतीघातः स्यात् ॥ १० ॥

सटीके कामसूत्रे
[२ अधिकरणे,
,
युक्तयन्त्रायाः स्तनान्तरेऽपहस्तकेन प्रहरेत् ॥ ११ ॥
युक्तयन्त्राया: उत्तानायाः, स्तनान्तरे स्तनयोर्मध्ये, अपहस्तकेन
प्रहरेद् नान्यैरननुरूपत्वात् ॥ ११ ॥
मन्दोपक्रमं बर्धमानरागमापरिसमाप्तः ॥ १२ ॥
मन्दोपक्रमं बर्धमानरागमिति क्रियाविशेषणम् , आरम्भे मन्दया
वृत्त्या प्रहारः, ततो यथा रागो बर्धते तथाऽधिक एवेत्यर्थः, आपरिस-
माप्तेस्तृप्तिं यावत् , स्तनान्तरे हि रागास्पदस्य हृदयस्यावस्थानाद्,
योषितो हि त्रीणि रागस्थानानि-शिरो जघनं हृदयं चेति, तेषु दश्य.
मानेषु चिरचण्डवेगाऽपि राग मुञ्चति ॥ १२ ॥
तत्र हिकारादीनामनियमेनाभ्यासेन विकल्पेन च तत्कालमत्र
प्रयोगः॥१३॥
तत्रेति । अपहस्तप्रहणने, हिकारादीनां सप्तानाम् , अनियमेनेति । मृ-
दुना हृदयस्य हन्यमानत्वात्सर्वेषामेवातिसूचकानां संभवः, विकल्पेन मृ.
दुमध्यातिमात्रभेदेनाभ्यासेन च पौनःपुन्येन, तत्कालमेवेति । युगपदपह-
स्तप्रहणनकालमेव तस्य समाप्त्यवधिकः कालः ॥ १३ ॥
शिरसि किंचिदाकुञ्चिताङ्गुलिना करेण विवदन्त्याः फूत्कृ-
त्य प्रहणनं तत्पमृतकम् ॥ १४ ॥
किंचिदाकुञ्चिताङ्गलिना करेण फणाकारेणेत्यर्थः, विवदन्त्या.
इति । अपहस्तेनासुखायमाना यदि प्रहारान्तराकाङ्क्षया प्रत्यवति-
प्ठेत , तदाऽस्याः प्रथमे रागास्पदे शिरसि तदनुरूपेण प्रसृतकेन प्रह
णनमपरं मन्दोपक्रमं बर्धमानरागमापरिसमाप्तेविधेयम् , फूत्कृत्येति ।
रागदीपनार्थम् ॥ १४॥
सत्रान्तर्मुखेण कूजिते फूत्कृतम् ॥ १५ ॥
तत्रेति । प्रसृतकाघाते, कूजितं फूत्कृतं च नायिकायाः स्यात्, क-
थमित्याह-अन्तर्मुखेणेति । मुखस्यान्तः स्थानमन्तर्मुखं , तत्र कूजि-
तं, तत्संवृतेन कूजितमित्यनेनाव्यक्तं शब्दितं, यदा विवृतेन जिह्वा.
मूलेन च तत्फूत्कृतं, तस्यानुकार्य वक्ष्यति-बदरस्येवेति ॥ १५॥
रतान्ते च श्वसितरुदिते वेणोरिव स्फुटतः शब्दानुकरणं.
दूस्कृतम् ॥ १६॥
रतान्ते च श्वसितरुदिते, तदानीं धातुक्षयाच्छमोत्पत्तेः, श्वसितं-
रुदितं च मधुरं काङ्ख्या प्रयोक्तव्यं, वेणोरिव पुरुषव्यापारेण ग्रन्थि-
स्थाने स्फुटतस्तच दूत्कृतम् ॥ १६ ॥

७ अध्याये] सीत्कृतप्रकरणम्। १२९ अप्सु बदरस्येव निपततः फूत्कृतम् ॥ १७ ॥ ताल्वग्रादुपरिभागस्य जिह्वाऽग्रे संश्लेषादुत्पद्यते, बदरस्येवेति वृत्तगुटिकोपलक्षणार्थ, निपततः, शब्दानुकरणमिति वर्तते, य. स्येदं लक्षणं- 'सलिले शर्करापातकाले निःस्तिमितध्वनिः' इति ॥१७॥ सर्वत्र चुम्बनादिधूपक्रान्तायाः ससीत्कृतं तेनैव प्रत्युत्तरम् ॥१८॥ चुम्बनादिधूपक्रान्ताया इति। चुम्बननखदशनच्छेद्येषु पुरुषेणाभियु- कायाः, ससीत्कृतं तेनैव प्रत्युत्तरं येनैव चुम्बनादीनामन्यतमेनोपक्रा. न्ता, तेनैव हिंकारादिसहायेन प्रत्युत्तरयेदित्यर्थः, अनेन 'कृते प्रतिकृतं. कुर्याद्' इति स्मरयति ॥ १८ ॥ रागवशात्महणनाभ्यासे वारणमोक्षणालमर्थानां शब्दानाम- म्वाऽर्थानां च सतान्तश्वसितरुदितस्तनितपिश्रीकृतःप्रयोगो विरु- तानां च रागावसानकाले जघनपार्श्वयोस्ताडनमित्यतित्वरया चापरिसमाप्तः ॥ १९ ॥ रागवशात्प्रहणनाभ्यास इति । यदा रागस्योद्रकान्नायकः पौनःपुन्येन प्रहरेत्तदा वारणार्थानां प्रयोगो युक्तः, किंरूप इत्याह-सतान्तेति । सह खिन्नाभ्यां श्वसितरुदिताभ्यां वर्तते यत्र स्तनितं तेन योजित इत्यर्थः, पारावतादिविरुतानां च प्रयोग एवंविध एव, रागावसानकाल इति। लिङ्गादासन्नवर्तिनी रतिरिति ज्ञात्वा जघने तृतीयरागास्पदे पा. वयोः कक्षाधस्ताडनं समतलेनेति पारिशेष्याद्, अन्ये 'समतल- केनेति पठन्त्येव, अतित्वरयेति । विश्रब्धिकया हि ताडने मार्गा- सन्ना रतिनिवर्तते ॥१६॥ तत्र लावकहंसविकूजितं त्वरयैवैते स्तननप्रहणनयोगाः ॥ २० ॥ तत्रेति । समतलकरताडने लावकहंसयोरिव कूजितं शब्दितं स्याद्, मृदुमधुरत्वात्, तच्च स्वरयैव, प्रहणनस्य त्वरितत्वात्, स्तननग्रहणनयोगा. इति । सीत्कृतविरुतात्मनः शब्दितस्य प्रहणनस्य च प्रयोगा उक्ताः ॥२०॥ स्त्रीपुंसयोः प्रहणनसीत्कृतेषु कस्य किं सहजं तेज इत्याह- भवतश्चात्र श्लोको- पारुष्यं रभसत्वं च पौरुषं तेज उच्यते । अशक्तिरार्तिव्यावृत्तिरबलत्वं च योषितः ॥ २१ ॥ १७ का० सु० । WHAPER सटीके कामसूत्रे [२ अधिकरणे, १३० । रागात्प्रयोगसात्म्याच व्यत्ययोऽपि क चिद्भवेत् । न चिरं तस्य चैवान्ते प्रकृतरेव योजनम् ॥ २२ ॥ पारुष्यमिति । चेतला शरीरस्य च कठोरता, रभसत्वमिति । अवि- मृश्यकारिता धाष्ट्यं च, एतदुभयं पुरुषस्येदं तेजो धर्म इत्यर्थः, तद्योगा- स्पुरुषः प्रहरति, अशक्तिहन्तुमसामर्थ्य, हस्तलौकुमार्यादार्तिः पीडा, न- त्या ज्यावृत्तिः, पुरुषेण हन्तुं नियुक्तायाः स्त्रिया अबलत्वं निष्प्राणता, स्वयमोषदाहरणाद्, एते स्त्रैणा धर्मास्ताक्तत्वाद् , न प्रहणनं, सीत्कृ. तमेव तदुद्भवम् , अतः सीत्कृतप्रहणने विषयप्रतिनियते, कचिदिति । न सर्वत्र रते व्यत्ययोऽपि स्यात् , कारणमाह-रागप्रयोगसारस्यादिति। रागस्य प्रकर्षण योगाद्देशलात्म्याञ्च स्त्री स्वधरित्यक्त्वा पौरूष तेजो- बिभ्रती प्रहन्ति, तदा पुरुषः स्त्रीप्रोत्साहनार्थ स्वधर्म त्यक्त्वा तद्धर्माना- लम्ब्य; सीत्कृतविरुतानि कुर्यात् , तत्रापि न चिरं कियतीमपि कालक लां व्यत्ययः स्यात् , ततः किं स्यादित्याह-तस्य चत्रेति । तस्येव व्य- त्ययस्यान्ते प्रकृतेरेव योजनं स्याद् , यथा स्वतेजसा स्त्रो'लयोर्वर्तनमि- त्यर्थः, तदिमौ व्यत्ययप्रकृतियोजनाभ्यां प्रवर्त्तयानामासमाप्तः, रागप्रयो. गसात्म्याभावे तु प्राक्तन एव विधिः, तत्र व्यत्ययाभावात् ॥ २१ ॥२२॥ प्रहणनं चतुर्विधमुक्तं यथा तदष्टधा दर्शयन्नाह- कीलामुरसि कतरी शिरसि बिद्धा कपोलयोः संदंशिका स्त- नयोः पाच योश्चति पूर्वैः सह महणनमष्टविधमिति दाक्षिणात्या. नां, तद्युवतीनामुरसि कीलानि च तत्कृतानि दृश्यन्ते, देश- सात्म्यमेतत् ॥ १३ ॥ कीलामुरसीति । तत्र मुष्टिरेव तर्जनीमध्यमयोबहिःपृष्ठभागेन नि- क्रान्तयोरुपर्यङ्गुष्ठयोजनात्कीला; तयाऽधोमुख्या ताडनं, कर्तरी द्विवि घा-प्रसृतकुश्चितागुलिभेदात् , तत्र प्रसृतागुलिद्विविधा, हस्तेनै. केन भद्रकतरी, द्वाभ्यां संश्लिष्टाभ्यां यमलकर्तरी, या कुञ्चिताङ्गल्य- ङ्गुष्ठानोपरि न्यस्तकुञ्चिततर्जनीका सा शब्दकर्तरी प्रयुज्यमाना लथा. गुलित्वादमितशब्दवती भवति, कैश्चिदुत्पलपत्रिकेन्युच्यते, उभा. भ्यामपि कनिष्टिकाऽग्रभागेण शिरसि ताडन, तर्जनीमध्यमयोर्मध्य. मानामिकयोर्वा मध्येनाङ्गुष्ठं निष्कास्य बद्धा मुष्टिविद्धा तयाऽगुष्ठ- कवदनया कपोलयोन्यधनमेष ताडनम् , मुष्टिरेव तर्जन्यङ्गुष्ठकाभ्यां तर्जनीमध्यमाभ्यां वा संदंशनात्संदशिका, तया स्तनयोः पार्श्वयोश्च मलनपूर्वकं मांसस्याकर्षणमेव ताडनं, पूर्वैरित्यपहस्तादिभिः, अष्ट.

७ अध्याये]
सीत्कृतप्रकरणम्।
नेति ॥ २५ ॥
विधमिति दाक्षिणात्यानाम् , आचार्याणां तु चतुर्विधमस्ति, एतत्प्रत्य-
क्षेण दर्शयन्नाह-कीलानि चेति । तद्युवतीनां दाक्षिणात्यतरुणीनाम्,
उरसीत्युपलक्षणम् , उरसि कोलाकृतं शिरसि सीमन्तमुखे कर्तरी.
कृतं, कपोलयोविद्धाकृतं, देशसात्म्यमेतद्, यद्रागवशात्तत्कृतं.
चिहूं वैरूप्यकारणमशिलाध्यते ॥ २३ ॥
तन्नान्यत्र प्रयोक्तव्यमित्याह -
कष्टमनायनमनास्यामिति वात्स्यायनः ॥ २४ ॥
कष्टमिति । दुःखावहं निर्दयकर्मत्वाद् , अनार्यवृत्तमसाधुचरितम्,
अनागत्यमित्यनादरणीयं, दोषावहत्वात् ॥ २४ ॥
तथाऽन्यदपि देशमात्म्यात्पयुक्तमत्र न प्रयुञ्जीत ॥ २५ ॥
तथाऽन्यदषि, प्रस्तराद्याहननं, देशसात्म्यात्प्रयुक्तं दाक्षिणात्यैः, अत्र
आत्ययिकं तु तत्रापि परिहरेत् ॥ २६ ॥
आत्ययिकं विनाशाङ्गवैकल्यकरणं, तत्रापि परिहरेद्यत्रापि प्रयुक्तम् २६
तमेवात्ययं दर्शयन्नाह-
रतियोग हि कीलया गणिकां चित्रसेनां चोलराजो जघान ॥२७॥
रतियोग इति । रत्यर्थे योगे यन्त्रसंप्रयोगे, चोलराजश्चोलविषये
राजा, तेन हि चित्रसेना गणिका रतारम्भे गुढ मालिङ्गिता सौकुमार्याच्छ-
रीरपीडामभजत्, तथा प्रदर्शितावस्थामपि तां सुकुमारोपक्रमां रागा-
न्ध्यादगणिततद्बलः कीलयोरसि प्रयुक्तया व्यापादितवान् ॥ २७ ॥
कर्तर्या कुन्तलः शातकर्णिः शातवाहनो महादेवी मलयवतीम्।।२८॥
कुन्तल इति । कुन्तलविषये जातत्वात्तत्समाख्यः, शातकर्णिः शत-
कर्णस्यापत्यं, शातवाहन इति यस्य संज्ञा, स हि महादेवीं मलयव.
तीमचिरप्रतिविहितमान्द्यामजातबलामपि मदनोत्सवे गृहीतवेषां दृष्ट्वा;
जातरागस्तामभिगच्छन्रागाक्षिप्तचेताः शिरसि कर्तर्याऽतिबलप्रयुक्त.
या जघान ॥२८॥
नरदेवः कुपाणिर्विद्धया दुष्प्रयुक्तया नटी काणां चकार ॥ २० ॥
नरदेवः पाण्ड्यराजस्थ सेनापतिः, कुपाणिः शस्त्रप्रहारात्किणह-
स्तः, स हि राजकुले नटी चित्रलेखां नृत्यन्तीं दृष्ट्वा जातरागः सन्
प्रयोगे रागान्धो विद्धया कुपाणित्वाद्, दुष्प्रयुक्तया कणेलतलमप्राण्या-
क्षिप्राप्तया काणां चकार, संदांशिका नोदाहृता, स्वभावतोऽनास्य.
यित्वात् ॥ २९ ॥

१३२
सटीके कामसूत्रे
[ २ अधिकरणे,
SED
यद्वशादयुक्तं न परिहरन्ति तद् दर्शयन्नाह-
भवन्ति चात्र श्लोकाः-
नास्त्यत्र गणना का चिन्न च शास्त्रपरिग्रहः ।
प्रवृत्ते रतिसंयोगे राग एवात्र कारणम् ॥ ३० ॥
नास्तीति । द्विविधो हि कामी शास्त्रतत्त्वज्ञस्तद्विपरीतश्च, तत्राशा.
स्वतत्त्वज्ञस्यात्रास्मिन् प्रहणनविधौ न स्वभावतो गणनाऽस्ति का चिद्
आत्ययिकमिदमपेक्षयेत्यर्थः, न च शास्त्रपरिग्रहः शास्त्रविहितान नुष्ठा-
नात्, तस्मादस्य प्रवृत्ते रतिसंयोगे राग एवात्र प्रहणनविधौ प्रयोक्तव्ये
कारणं, नापरज्ञानं , शास्त्रतत्त्वज्ञस्य तु सत्यपि रागे प्रवृत्तिकारणे ज्ञा-
नमपरं कारणं, ततश्च विमृश्यकारिणो गणना शास्त्रपरिग्रहश्चोभयमेव
भवति, तस्मादुभयोरपि प्रवृत्तौ रागः कारणं, तत्रैकस्य शानपरिष्क-
तोऽन्यस्य तद्विकल इति विशेषः॥३०॥
यदा चानयोरतिप्रबृद्धो रागस्तदा तद्वशाददृष्टश्रुता अपि प्रयागा.
भवन्तीति दर्शयन्नाह
स्वप्नेष्वपि न दृश्यन्ते ते भावास्ते च विभ्रपाः ।
मुरतव्यवहारेषु ये स्युम्तत्क्षणकल्पिताः ॥ ३१ ॥
स्वप्नेष्वपीति । असंभाव्यवस्तुप्रकाशनयोग्येष्वपि, भावा-अभिः
प्रायाः, विभ्रमाः=चेष्टितानि, सुरतव्यवहारेषुपरस्परचुम्बनाभिगमना-
दिव्यापारेषु, तत्क्षणकल्पिता: तत्कालनिर्मिताः, न शास्त्रत इत्यर्थः ॥३१॥
तत्रैकस्य ज्ञानपरिष्कृतत्वाइतिजनन एवोत्पद्यन्ते, अन्यस्य ज्ञानवै.
कल्यादत्ययावहा अपीति, तस्मादयं ज्ञानविकलोऽतिप्रवृद्धाद्रागात्प्रक-
र्तमानोऽत्ययं न पश्यतीति दृष्टान्तेन दर्शयन्नाह-
यथा हि पञ्चमी धारामास्थाय तुरगः पथि ।
स्थाणु श्वभ्रं दरी वाऽपि वेगान्धो न समीक्षते ॥ ३२ ॥
एवं सुरतसमर्दे रागान्धौ कामिनावपि ।
चण्डवेगौ भवतेते समीक्षेते न चात्ययम् ॥ ३३ ॥
यथा हीति । यथाऽश्वस्य विक्रमो वलिगतमुपकण्ठमुपजवो जवश्चेति,
पञ्चधारागतयस्तुरगशिक्षायामुक्ताः, तत्र पञ्चमी जवाख्यां प्रकृष्टामास्थाय
स्थित्वेत्यर्थः, तत्रस्थो हि वायुगतिर्भवत्यश्वः, श्वध्र-पौरुषं गर्त', दरी
देवनिर्मिताम् , एवमिति । दान्तिकयोजनं, सुरतसकुले, कामि
नौ स्त्रीपुंसौ, 'पुमान्स्खिया' इत्थेकशेषः ॥ ३२ ॥ ३३ ॥

। answer ८ अध्याये] पुरुषायितप्रकरणम् यस्माज्ञानवैकल्यादयुक्तं दृश्यते, तस्माज्ज्ञानप्रधानेन भवितव्यमि- ति दर्शयनोह- तस्मान्मृदुत्वं चण्डत्वं युवत्या बलमेव च। आत्मनश्च बलं ज्ञात्वा तथा युञ्जीत शास्त्रवित् ॥ ३४ ॥ तस्मादिति । मृदुत्वं चण्डत्वमिति । मन्दवेगतां चण्डवेगतां चे. स्यर्थः, बलं-प्राणः. आत्मनश्न मृदुत्वचण्डत्वे इति योज्यं, तथेति । मृद्रादिप्रकारेण, प्रयुञ्जीत प्रयोगान् शास्त्रविद् , अन्यथा शास्त्रतरयो.. को भेदः स्याद्, वक्ष्यति च- 'अस्य शास्त्रस्य तत्त्वज्ञो न स रागात्प्रवर्तते' इति ॥ ३४॥ मृद्वादिभेदेन प्रयोगयोजने सर्वेसर्वदा सर्वासु स्त्रीषु स्युरिति चेदाह- न सर्वदा न सर्वासु प्रयोगाः सांप्रयोगिकाः । स्थाने देशे च काले च योग एषां विधीयते ॥ ३५ ॥ इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे प्रहणनप्रयोगास्तद्युक्ताश्च सीत्कृतक्रमाः सप्तमोऽध्यायः। आदितोद्वादशः। न सर्वदेति । तत्र स्थाने प्रयोगो यथा-अपहस्तस्य स्तनान्तरे, प्रसू. तस्य शिरसीत्यादि, देश इति । प्रयोगविषय इत्या, यथा-मालव्यां. प्रहणनस्याभीर्यामीपरिष्टकस्येत्यादि, युक्तयन्त्रायामपहस्तस्योत्सङ्गोप- विष्टायां मुष्टिरित्यादि कालप्रयोग इति ॥ ३५॥ प्रहणनप्रयोगाः पञ्चदशं प्रकरणम् । तद्युक्ताश्च तदन्तर्गताः सीत्कृतक्रमाः षोडशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे प्रहणनयोगाः सीत्कृतक्रमाश्च सप्तमोऽध्यायः । अष्टमोऽध्यायः। एवं प्रहणनादिव्यापारेण परिश्रान्ते नायके नायिका पुरुषपदाचरे- दिति पुरुषायितं, तदुपयोगित्वाच्च तदन्तर्गतानि पुरुषोपसृतानीति प्रक- रणद्वयमत्राध्याये। तत्र कारणान्याह- नायकस्य संतताभ्यासात्परिश्रममुपलभ्य रागस्य चानुपश- मम् , अनुमता तेन तमधोऽवपात्य पुरुषायितेन साहाय्यं दद्यात् सटीके कामसूत्रे [२अधिकरणे, । स्वाभिप्रायादा विकल्पयोजनार्थिनी नायककुतूहलाद्वा ॥ १ ॥ नायकस्येति । संतताभ्यासादिति । रतस्य पौनःपुन्येनानुष्ठानात्, परिश्रमं सार्वाङ्गिक सम, रागस्य चानुपशममशान्तिमुपलभ्यः तत्राप्य. नुमता, तेनेति । नायकेन, अननुज्ञाता हि योषिद्धिसदृशमाचरन्ती निस्त्र- पैव स्यात्, तमधोऽवपात्य-नायकवस्तात्कृत्वा, एवं हि पुरुषवदाच. रितं, तेन साहाय्यं सहायकर्म प्रतिपद्येत कार्यस्यानिष्पन्नत्वात् , स्वा- भिप्रायाद्वेति । अननुमनाऽपि तेन जातविनम्मा विकल्पं पुरुषायितभेदं. योजयितुमर्थिनी तच्छीलवाद्, नायककुतूहलाद्वेति । नायकस्यात्र कौतुकमस्तीति ज्ञात्वा वा तेनाननुमताऽपरिश्रान्तस्यापि दद्यादित्येव ॥१॥ तत्र युक्तयन्त्रणवेतरेणोत्थाप्यमाना तपत्रपातयेदेवं च रतम. विच्छिन्नरसं तश प्रवृत्तयेव स्यादित्येकोऽयं मार्गः, पुनरारम्भे. णादित्त एवोपक्रमेदिति द्वितीयः ॥ २ ॥ तत्रेति । पुरुषायिते द्विविधः क्रमः, तत्रायं प्रथमो यद् युक्तयन्त्रेणैवा- परित्यक्तशल्यसंयोगेनैवेतरेण नायकेन व्यनस्थितेनासीनेन चोत्था- प्यमाना बाहुपाशसंदानिता सत्युपरि क्रियमाणा, तं नायकमवपानये- दिति । एवं सति रतमविच्छिन्नरसं तथा प्रवृत्तमेव स्याद् , यन्त्रं हि विश्लेष्य पुनः संधाने रतमपूर्वमेव स्याद्, न पूर्वप्रकारप्रवृत्तं यथो प्रवृत्तश्चात्र रागो विच्छि येत, तस्य चाकस्माद्विच्छेदे न सौमनस्यमित्यत्र कामिनः प्रमाणम्, अयं मार्गः श्रमवृद्धौ रागस्यानुपशमे द्रष्टव्यः, स्वाभि- प्रायादिषु, पुनरारम्भेणेति । यदा रतस्य पुनरारम्भस्तदा तेनारम्भेण पुरुषवदादावेवोपक्रमेत प्रवर्तेत द्वितीयो मार्गः, नापरस्तृतीयो. यदन्तरा यन्त्रं विश्लंध्य प्रयोक्तव्यम् ॥२॥ पुरुषायितं द्विविधम् , बाह्यमाभ्यन्तरं च, तत्र प्रथममधिकृत्याह- सा प्रकीर्यमाणकेशकुसुमा श्वासविच्छिन्नहासिनी वक्त्रसंसर्गा- थै स्तनाभ्यामुरः पाड यन्ती पुनः पुनः शिरो नमयन्ती याश्चेष्टाः पूर्वमसौ दर्शितवांस्ता एव प्रतिकुर्वीत पातिता प्रतिपातयामीति इसन्ती तर्जयन्ती प्रतिघ्नती च ब्रूयात पुनश्च ब्रीडां दर्शयेच्छूमं. विरामाभीप्सां च, पुरुषोपमृप्तैरेवोपसर्पत् ॥ ३ ॥ सेति। स्वशिरसः प्रकीर्यमाणानि केशकुसुमानि चेष्टमानया ययेति विग्रहः, श्वासेन विच्छिन्नो यो हासः सोऽस्ति यस्याः, असदृशव्या- पारेण जातश्रमत्वाद्, वसंसर्गाथं लजया न तु चुम्बनदशनच्छेद्या.

. GOS ८ अध्याये] पुरुषोपसृप्तप्रकरणम् । र्थ, स्तनाभ्यामुरो नायकस्य, पीडयन्तीति । स्तनोपगृहनमेतत्, पुन:- पुनः शिरो नमयन्ती लजया, सर्वमेतत्स्त्रैणेन तेजसा चेष्टिनमुक्तम्, पौ- स्नेनाह-या इति । चेष्टायाश्चुम्बनादिव्यापारात् पूर्वमसौ दर्शितवान् पारुप्यरभसत्वाभ्यां ता एव प्रतीपं कुर्वीत, तदेव स्फुटयन्नाह-पातिते. ति । यथाऽहं त्वया निर्दयरतेन क्लेशिता तथाऽहं त्वामपि प्रतीपं पात. यामीति व्रयादिति लेबन्धः, तत्रापि परिहारेऽन्यत्रापि प्रयुक्त हसन्ती, राभसिकतया तर्जयन्ती तर्जन्या, प्रतिघ्नती चात्यर्थमपहस्तादिना, तदुभयं पारुष्यं दर्शयति, ततश्चासौ गतेजः प्रख्यापनार्थमन्त्रीडिता. ऽपि ब्रीडाम् , अश्रान्ताऽपि श्रम, रन्तुमिच्छन्यपि विरामाभोप्सामुपेत्य दर्शयेत्, पुरुषवदाचरितं हि योषितः पुरुषायितं, ततश्च पुरु- षस्य योषिति यदुपसर्पणमुपसृतं तदप्याचरन्त्या पुरुषायितं, प्रा. यशश्च पुरुषोपसृतान्नान्यत्पुरुषायितमिति नियमयन्नाह-पुरुषोपसृप्तरे. वोपसदिति ॥ ३॥ इतः प्रभृति पुरुषोपसृप्ताख्यं प्रकरणमिति दर्शयति तानि च वक्ष्यामः ॥ ४ ॥ तानि द्विविधानि, बाह्यान्याभ्यन्तराणि च ॥४॥ तत्र बाह्यान्याह-- पुरुषः शयनस्थाया योषितस्तद्वचनव्याक्षिप्तचित्ताया इव नीवीं विश्लेषयेत् , तत्र विवदमानां कपोलचुम्बनेन पयर्याकुलये- द, स्थिरलिङ्गश्च तत्र तत्रैनां परिस्पृशेत्, प्रथमसंगता चेत्संह-: तोोरन्तरे घट्टन, कन्याषाश्च तथा स्तनयोः संहतयोईस्तयोः- कक्षयोरंसयो वायामिति च, स्वैरिण्यां यथासात्म्यं यथायोगं. च, अलके चुम्बनार्थभेनां निर्दयमवलम्बेन हनुदेशे चाङ्गुलि. संपुटेन, तवेतरस्या ब्रीडा निमीलनं च प्रथमसमागमे क. न्यायाश्च॥५॥ यदा पुरुषः प्रयोक्ता तदा पुरुषोपसृप्तकं, स्त्री चेत्पुरुषायितमिति दर्शनार्थ पुरुषग्रहणम्, एवं च पुरुषायितेन सहास्यं वचनं, शयन- स्थाया इति । शयनात्प्राग्रतारम्भ प्रकरणं वक्ष्यति, तद्वचनव्याक्षिप्तचि- ताया इवेति। नायकोक्तिभिरन्यचित्ताया नायिकायाः, लज्जाख्यापनार्थ- दर्शनीयेति वाऽर्थः, नीवी-निवसनबन्धनं, तत्रेति । विश्लेषणे विवद. मानां कर्तुमददती कपोलचुम्बनेन समन्तादाकुलं यद् यथा नीवी सुखेन सटीके कामसूत्रे [२ अधिकरणे, । संसते, स्थिरलिङ्गश्चेति । जातरागत्वात्स्तब्धलिङ्गः, तस्यां च जात- रागायां सिद्ध कार्य, न चेदत्राह-तत्र तत्रेति । कक्षोरुस्तनादिष्वेना- नायिकां रागजननार्थ हस्तेन, परिस्पृशेदिति । एतदसकृन्नायकेन संगता. यामतिविस्त्रब्धायामुक्तं, यदि प्रथमसंगता तदाऽस्या नीवोस्रंसनस्प. र्शनं नास्त्येव, लजया संहतयोश्वोवॉरन्तरे च संधौ हस्तेन घट्टनं चल- नं, यथा विवृतौ स्यातां , कन्यायाश्चेति । कन्याविनम्मणेन विस्त्र. ब्धाया अप्यस्या लजया संहतयोरन्तरे घट्टनं नीवीस्रंसनं स्पर्शनं च, अस्या अधिकमाह-स्तनयोः संहतयोर्भुजमय्या सूच्या हस्तयोः पर स्पराश्लिष्टयोः प्रत्येकं वा बद्धमुष्ट्याः, कक्षयोः प्रत्येक कृतसंकोचयोः, अंसयोर्हस्तयोजनाद् ग्रीवाबाहुशिखरयोजनाद्वा संहतयोः, ग्रीवायां ह- स्तपाशसंश्लेषात्संहतायां, घट्टनमित्येव, स्वैरिण्यामिति। या नायिका रूढविस्रम्भस्वात्सुरते निस्पं यथेष्टचारिणी सा स्वैरिणी अभियोक्रीत्या थः, तस्याः, यथासात्म्यं यथायोगं चेति । यद्येन सात्म्यं यच्च यत्र युज्य ते तत्तस्य स्पर्शनमित्यर्थः, चुम्बनार्थमेनामिति। कृतक्षान्ति पूर्वोक्तां स्वै. रिणी चाके निर्दयमवलम्बेत, हस्तेन गुढं गृह्णीयाद्, यथा तद्वदनमाकृष्य चुम्बेत, हनुदेशे वाऽङ्गुलिसम्पुटेन तर्जन्यङ्गुष्ठकल्पितेन चुम्बनार्थनिर्द- यमवलम्बेतेत्येव, तत्रेत्यवलम्बने, इतरस्या इति । नायिकायाः, विधिमा- ह-या प्रथमसंगता कन्या च तस्या ब्रीडा लज्जा निमीलनं चाक्ष्णोः स्याद्, न तदतिविस्रब्धायाः स्वैरिण्याश्चेत्येवं नीवीविलंसनस्पर्श- नघट्टनावलम्बनैश्चतुभिर्बारुिपसृप्तः शयनस्थां विश्वास्य सांप्रयोगिकां- श्चुम्बनादीन्प्रयुञ्जीत ॥५॥ आभ्यन्तराण्यभिधातुमाह- रतियोगे चैषा कथमनुरज्यत इति प्रवृत्या परीक्षेत ॥ ६ ॥ रतिसंयोगे चेति । रत्यर्थे यन्त्रसंयोगे सत्येनामिति, बाहौर पसृतां प्रवृत्त्या चेष्टया परीक्ष्य यथा कथं चिदाभ्यन्तरैरुपस- दित्यर्थः ॥ ६॥ तत्र प्रवृत्तिमाह- युक्तयन्त्रेणोपमृप्यमाणा यतो दृष्टिमावर्तयेत्तत एवेनां पीडये. देतद्रहस्यं युवतीनामिति सुवर्णनाभः ॥ ७ ॥ युक्तयन्त्रेणेति । यत इति । यत्र संबाधस्यान्तरं भाग लक्षीकृत्य सा- धनेनोपसृप्यमाणा तत्स्पर्शसुखाद्, इष्टिमावर्तयेद् दृष्टिमण्डल भ्रमयेत, सत एवेति । तामाश्रित्य पीडयेत्, तस्मिन्नेव साधनेनात्यर्थमुपसत्, .

८ अध्याये] पुरुषोपसृप्तप्रकरणम्। १३७ - तत्र हि पीडनाद् द्रुतं रतिमधिगच्छति, एतद्रहस्यं स्त्रीभिरप्रकाश्य- त्वात्, तथा हि रतिप्राप्त्यर्थमन्यैः प्रकारान्तरमुकं शास्त्रकृतः सुवर्णना- भमतमभिमतमप्रतिषिद्धत्वाद्, अत्र च रतिबर्धनमेको बहव इति केषां. चित्प्रदेशविवादः, तत्रोपसृप्यमाणा यस्मिन्नेकस्मिन्नियते वा देशे स्पृष्टा दृष्टिमावर्तयेत्तस्मिन्नेव पीडयेदित्येकः प्रकारः, बहुषु वा यस्मिन् य. स्मिन्नुपसृप्यमाणा दृष्टिमावर्तयेत्तस्मिस्तस्मिन्नेव पीडयेदिति द्वितीयः, तत्रापि यस्मिन्नत्यर्थ दृष्टिमावर्तयेत्तस्मिन्नत्यर्थमेव पीडयेदिति बोद्ध- व्यम्, एतेन नाडीप्रदेशा अप्यन्यतन्त्रोक्ता व्याख्याताः, तेषामनेनैव प्र. कारेण ज्ञायमानत्वात् ॥ ७॥ उपसृप्यमाणाया भावस्य तिस्रोऽवस्था:-प्राप्ता, प्रत्यासन्नः, संधु- क्ष्यमाणश्चेति त्रयाणां लक्षणमाह- गात्राणां स्प्रेसनं नेत्रनिमीलनं ब्रीडानाशः समधिका च रति- योजनेति स्त्रीणां भावलक्षणम् ॥ ८॥ तत्र गात्रावासादो नेत्रनिमीलनं च प्राप्तस्य लिङ्ग, ब्रीडानाशो ल. जानिवृत्तिः, रतियोजनेति।रत्यर्थ योजना यन्त्रयोजनेत्यर्थः, सास्वजघन- स्यनायकजधनेनात्यन्तलगनात्, समधिकेति, प्रत्यासन्नभावलक्षणमिति, प्राप्तप्रत्यासन्नस्येत्यर्थः ॥ ८॥ सन्धुक्ष्यमाणस्याह- हस्तौ विधुनोति स्विति दशत्युत्थातुं न ददाति पादेनाह- न्ति रतावसाने च पुरुषातिवर्तिनी ॥९॥ हस्ताविति । विधुनोति कम्पयति, उत्थातुं न ददाति यन्त्रयोगात्, पुरुषातिवर्तिनीति। पुरुषस्य रतिप्राप्तौ तमतिक्रम्य; स्वजधनव्यापारण वर्तत इत्यर्थः॥8॥ तस्याः प्राग्यन्त्रयोगात्करेण संवाधं गज इव क्षोभयेदामृदुभा- वात् ततो यन्त्रयोजनम् ॥१०॥ तस्याश्चेष्टितमीदृशं बुद्ध्वा यन्त्रयोगात्प्राग न तु स्वयं रतमधि- गम्य; पश्चात्तदानीमस्या रतं विच्छिन्नरसं स्यात्, सम्बाधो भागतश्चतु. विधः, यथोक्तम्- 'अन्तः पद्मदलस्पर्श गुटिकावञ्च योषितः । वलिभं च वराङ्ग स्थानोजिह्वाकर्कश तथा' इति ॥ तत्राद्यं त्यक्त्वा शेष कण्डूतिबहलत्वात्करण क्षोभयेद्, आमृदु- भावादिति । यावन्मृदुतां गतं, ततो यन्त्रयोजनम्, मृदुभूते हि तस्मि- १८का० सू० NEEDIO

सटीके कामसूत्रे
[ २ अधिकरणे,
।
OMEN
न्नुपसृप्यमाणा द्रुतं रतिमधिगच्छति, गज इवेति । करौपम्यार्थ, गजा-
कारणेत्यर्थः, तथा चोकम्-
'अनामिकाप्रदेशिन्यौ श्लिष्टाने ज्येष्ठया सह ।
गजहस्ताग्रसादृश्यात्तत्संज्ञं कृत्रिमं स्मृतम्' इति ॥
एवं च करग्रहणं कृत्रिमसाधनोपलक्षणार्थ, तेन कृत्रिमेणाभ्यन्त.
राण्युपसृतानि द्रष्टव्यानि ॥१०॥
तान्याह
उपमृप्तकं मन्थन हुलोऽत्रमर्दनं पीडितकं निर्घातो वराहघातो-
हषाघातश्चटकविलसितं संपुट इति पुरुषोपमृप्तानि ॥ ११ ॥
लिङ्गेन सम्बाधस्य मिश्रणात्सर्वमेवोपसृप्तकम् ॥ ११ ॥
न्याय्यमृजु संमिश्रणमुपसप्तकम् ॥ १२ ॥
तत्र यद्जु प्रगुणं न्याय्यमागोपालानाप्रसिद्ध मिश्रणं तद्, उपस.
तकमिति । तत्र कन्प्रत्ययेन विशेषसंज्ञां दर्शयति ॥ १२ ॥
हस्तेन लिङ्ग सर्वतो भ्रमयेदिति मन्थनम् ॥ १३ ॥
हस्तेन लिङ्ग गृहीत्वा सम्बाधाभ्यन्तरे सर्वतो मथ्नन्निव भ्र.
मयेत् ॥ १३॥
नीचीकृत्य जघनमुपरिष्टाछट्टयेदिति हुलः ॥ १४ ॥
नीचीकृत्य जघनमिति । स्वकटिमधः कृत्वा, उपरिष्टादिति । अ.
भ्यन्तरस्योर्वभागे भगं बहुलेनैव लिङ्गनावघट्टयेत् ॥ १४ ॥
तदेव विपरीतं सरभसमवमर्दनम् ॥ १५ ॥
तदेवेति। घट्टनं, विपरीतमुच्चीकृत्य जघनमधस्तादिति, विशेष-
श्वापरो यः, सरभसमिति । रभसेन मृद्रीयादित्यर्थः, अधोभागस्य कण्डू.
तिबहुलत्वात् ॥ १५॥
लिङ्गेन समाहत्य पीडयंश्चिरमवतिष्ठतेति पीडितकम् ॥१६॥
लिङ्गेनेति। वेगादामूलं प्रवेश्यमानेन समाहत्य पीडयन्भगमव.
तिष्ठेत, चिरमिति । यावन्तं कालं लिङ्गोन्नमनावनमनानि कर्तु
समर्थः ॥ १६॥
सुदूरमुत्कृष्य वेगेन स्वजघनमवपातयेदिति निर्घातः ॥ १७ ॥
सुदूरमिति । प्रवेशितं लिङ्गमाबन्धमाकृष्य वेगेन जधन एव निर्धा-
तवक्षिपेत् ॥ १७ ॥
एकत एव भूयिष्ठमवलिखेदिति वराहघातः ॥ १८ ॥

८ अध्याये]
पुरुषाथितप्रकरणम् ।
-
..
।
एकत एवेति । एकस्मिन्नेव पावें भूयिष्ठं बहून्वारान् वराहवई-
ष्ट्रयाऽवलिखेत् ॥ १८॥
स एवोभयतः पर्यायेण वृषाघातः ॥ १९ ॥
स एवेति । वराहस्य घातः, उभयत इति । उभयपार्श्वयोः परिपा.
ट्या वृषभवच्छृङ्गाभ्यामवलिखेत् ॥ १९ ॥
सकृन्मिश्रितमनिष्क्रमय्य द्विस्त्रिश्चतुरिति घट्टयेदिति चटक-
विलसितं रागावसानिकम् ।। २० ॥
सकृन्मिश्रितमिति । एकवारं प्रवेशितं लिङ्गमनिष्क्रमय्यानिष्कास्य
बहिरभ्यन्तरमेव किं चिदाकृष्याकृष्य चटकवत्तत्र लिङ्ग संघट्टयेद्, द्वि-
स्त्रिर्वा प्रघर्षणं, चतुरिति । रागावसानिकमेतद्, विसृष्ट्यवस्थायामेवं-
स्वभावत्वात् ॥ २०॥
व्याख्यातं करणं संपुटमिति ॥ २१ ॥
व्याख्यातमिति । करणं संपुटं, तञ्च ब्याख्यातम्-'ऋजुप्रसारि-
तावुभयोश्चरणो' इति तत्र लिङ्गमनिष्क्रमय्य जघनेन जघनमवगृह्य य-
संमिश्रणं तदपि संपुटमित्युक्तम् ।। २१ ॥
तेषां स्त्रीसात्म्याद्विकल्पेन प्रयोगः ॥ २२ ॥
तेषामिति । उपसृप्तकादीनां, स्त्रीसात्म्यादिति। येन यस्याः सा.
भ्यं तेन तस्यां प्रयोगः, विकल्पेन मृदुमध्यातिमात्रभेदेन, तत्र पुरु-
षोपसृप्तेषु यद्वाह्यं नीवीविश्लेषणादिकं तद् द्वितीये मार्गे नायककक्षाव.
न्धविश्लेषणादिबाह्यं पुरुषायितं, यच्चाभ्यन्तरमुपसृप्तं तन्मार्गद्वयेऽप्या.
भ्यन्तरं पुरुषायितं द्रष्टव्यम् ॥ २२ ॥
पुरुषोपसृतं प्रकरणमुक्त्वा विशेषाभिधित्सया पुनः पुरुषायि-
तमाह-
पुरुषायिते तु संदंशो भ्रमरकः प्रेडोलितमित्यधिकानि ॥२३॥
पुरुषायिते विति । आभ्यन्तरे पुरुषायिते प्रवर्तमानायास्त्रीण्य.
धिकानि ॥ २३॥
वाडवेन लिङ्गमवगृह्य निष्कर्षन्त्या पीडयन्त्या वा चिराय
स्थानं संदंशः॥२४॥
बाडवेनेति । वराङ्गोष्ठसंदंशेन लिङ्गमवगृह्य, निष्कर्षन्त्या अन्तः स.
माकर्षन्त्याः स्थानमवस्थितिः ॥ २४ ॥
युक्तयन्त्रा चक्रवद् भ्रमेदिति भ्रमरक आभ्यासिकः ॥ २५ ॥

सटीके कामसूत्रे [२ अधिकरणे, १४० । युक्तयन्त्रेति । भगप्रवेशितलिङ्गा कुलालचक्रवत्कुञ्चितचरणा नाय- काङ्गे हस्ताभ्यां शरीरावष्टम्भं कृत्वा भ्रमेद्, अयमभ्यासाद्भवति ॥ २५ ॥ तत्रेतरः स्वजघनमुक्षिपेत् ॥ २६ ॥ तत्रेति । भ्रमरके, इतरो नायको यन्त्राविश्लेषार्थ भ्रमरकसौकर्याथ- च स्वजघनमूर्व क्षिपेत् ॥ २६ ॥ जघनमेव दोलायमानं सर्वतो भ्रमयेदिति प्रेढोलितम् ॥ २७॥ दोलायमानमिति। पृष्ठतो नीत्वाऽग्रतो नयेद् ,एक पाश्वं नीत्वा द्वि. तीयमित्येवं, तत्प्रेडोलितकम्, मण्डलेन तु भ्रमितं मन्थनान्तर्भूतं, तेषां- पुरुषसात्म्याद्विकल्पेन च प्रयोग इत्यत्रापि योज्यम् ॥ २७ ॥ युक्तयन्त्रैव ललाटे ललाटं निधाय विश्राम्येत् ॥ २८ ॥ युक्तयन्त्रैव विश्राम्येद् न विश्लिष्टयन्त्रा रागस्यानुपशान्तत्वाद्, ललाटे ललाट निधायेति । श्रमापनयनकारणम् ॥ २८ ॥ विश्रान्तायां च पुरुषस्य पुनरावर्तनमिति पुरुषायितानि ॥ २९ ॥ पुनरावर्तन पुनरुपरि गमनमित्यर्थः, रत्यधिगमात्तु परिश्रान्तायां- पुनरावर्तनमित्यर्थोक्तं , यथा रतपरिश्रान्तेन • साहायकार्थ पुरुषाथिते. ऽनुमन्यते, तथा तत्स्वभावप्रतिपत्त्यर्थमिति ॥ २९ ॥ तत्र नियोज्येति दर्शयन्नाह- भवन्ति चात्र श्लोकाः प्रच्छादितस्वभावाऽपि गूढाकाराऽपि कामिनी । विवृणोत्येव भावं स्वं रागादुपरिवर्तिनी ॥ ३० ॥ प्रच्छादितस्वभावाऽपीति । लजया प्रच्छादितोऽभिप्रायो यया, क. थमित्याह-गूढाकारेति । अभिप्रायसूचकस्याकारस्य गोपितत्वात् , साऽप्युपरिवर्तिनी कामिनी कामयमाना स्वभावमात्मीयमभिप्राय रागा. प्रकाशयति न गृहितं शक्नोत्यतो नियोज्या ॥३०॥ तदेव स्फुटयन्नाह- यथाशीला भवेन्नारी यथा च रतिलालसा । तस्या एव विचेष्टाभिस्तत्सर्वमुपलक्षयेत् ॥ ३१ ॥ यथाशीलेति । यादृशः स्वभावो यस्याः, यथा च रतिलालसा, येन प्रकारेण रतौ जाततृष्णा, तस्या उपरिवर्तिन्या विचेष्टाभिस्तत्प्रकारा- भिः, तत्सर्वमिति । शीलं रतिप्रकारं च सर्वमुपलक्षयेद्, येनोत्तरकाले तथैव सुरते समुपक्रमेत ॥ ३१ ॥ या ९ अध्याये] पुरुषोपसृप्तप्रकरणम् । - तत्रापवादमाह- न त्वेवौं न प्रसूता न मृगी न च गर्भिणीम् । न चातिव्यायतां नारी योजयेत्पुरुषायिते ॥ ३२ ॥ इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे पुरुषोपहप्तानि पुरुषायितं चाष्टमोऽध्यायः ।। आदितस्त्रयोदशः। न त्वेवेति । ऋतौ न योजयेद्, गर्भाग्रहणभयात्, पुनरावर्तने च ग- र्भग्रहणादारकदारिके व्यस्तशीले स्योतां, न प्रसूतामचिरप्रसूताम् प्रदरकटिनिर्गमभयाद्, न मृगी वृषाश्वयोरवपाटिकाभयाद्, न गभि- णी गर्भस्रावभयाद् , नातिव्यायतामतिस्थूलां व्यापारयितुमशक्य- त्वात् ॥ ३२॥ पुरुषायितं सप्तदशं प्रकरणम् । तदन्तर्गतानि पुरुषोपसृप्तान्यष्टादशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे पुरुषायितं पुरुषोपसृप्तानि चाष्टमोऽध्यायः । eraman नवमोऽध्यायः॥ आलिङ्गनादिपुरुषायितान्तं चतसृषु नायिकासूक्तं, तृतीयाप्रक- तिः पञ्चमीत्येके' इत्युक्तं, तद्विषयमोपरिष्टकमुच्यते द्विविधेत्यादिना- द्विविधा तृतीयाप्रकृतिः स्त्रीरूपिणी पुरुषरूपिणी च ॥१॥ तृतीयाप्रकृतिः=नपुंसकं, स्त्रीरूपिणी=स्त्रीसंस्थाना स्तनादियोगात्, पुरुषसंस्थाना श्मश्रुलोमादियोगाद्, यदृत्तिमाश्रित्यौपरिष्टकमनयो- स्तदुच्यते ॥१॥ तत्र पूर्वमधिकृत्याह- तत्र स्त्रीरूपिणी स्त्रिया वेषमालापं लीला भावं मृदुत्वं भीरु- त्वं मुग्धतामसहिष्णुतां ब्रीडां चानुकुर्वीत ॥ २ ॥ तत्रेति । तयोः सम्यक्स्त्रीत्वख्यापनार्थ तावत्स्त्रीधर्मानुकर, तत्र वेषः केशपरिधानादिविन्यासेन, आलापं-काकल्यनुगतं, लीलां-म. न्थरादिगमनम् , भावं-हासादिकम्, मृदुत्वम् अकार्कश्यम्, भीरुत्वं भयशीलताम्, मुग्धताम्-ऋजुताम् ,असहिष्णुतां-प्रहणनवातातपाद्य. क्षमताम्, ब्रीडां लज्जाम् , अनुकुर्वीत ॥२॥ - सटीके कामसूत्र [२ अधिकरणे, Catesame तस्या वदने जघनकर्म तदौपरिष्टकमाचक्षते ॥ ३ ॥ तस्या इति । स्त्रीधर्माननुकुर्वत्याः, वदने-मुखे, जघनकर्मेति । स्वरू- पाख्यान , भगे लिङ्गेन यत्कर्म तन्मुखे क्रियमाणमौपरिष्टकम् , आचक्ष- त इति । पूर्वाचार्यकृतेयं संज्ञा, उपरियान्मुखे भवतीत्यण--'अव्ययानां- भमात्रे टिलोपः पश्चात् 'संज्ञायां कन्', 'अमेहकतसिनेभ्य एव इति परिगणनात्यन्न भवति ॥३॥ फलमाह- सा ततो रतिमाभिमानिकी वृत्तिं च लिप्सेद् वेश्यावच्चरितं. प्रकाशयेदिति स्त्रीरूपिणी ॥ ४ ॥ सा तत' इति । औपरिष्टकाति प्रीतिमाभिमानिकी प्रागुक्तलक्ष- णाम् , वृत्ति जोविकाम् भाटीलाभाद्, चरितमिति । वेश्याया वृत्तं वै. शिके वक्ष्यति, तद्वेश्येव प्रकाशयन्ती गम्यैरभिगम्यमाना रतिं वृत्ति च प्राप्नोति ॥४॥ द्वितीयामधिकृत्याह- पुरुषरूपिणी तु प्रच्छन्नकामा पुरुषं लिप्समाना संवाहकभा- वमुपजीवेत् ॥ ५॥ तुशब्दो विशेषणार्थः, रतिरोपरिष्टकं च तुल्यं; वृत्तं तु पृथगिति यदाह-प्रच्छन्नकामेति । आभिमानिकी प्रीतिः कामः, स प्रच्छन्नो यस्याः सा पुरुषरूपिणीत्वात्पुरुषेण सहसा न सम्प्रयुज्यत इति लन्धुमिच्छन्ती, संवाहकभावमुपजीवेदिति । लोकेऽङ्गमर्दनकर्मणा जीवेदित्यर्थः ॥ ५॥ एवमपि विश्वासाभावात्कथं रतिरिति विश्वासनार्थमाह- संवाहने परिष्वजमानेव गात्रैरूरू नायकस्य मृदुनीयात् , प्र. मृतपरिचया चोरुमूलं सजघनमतिसंस्पृशेत् ॥ ६ ॥ संवाहने संविष्टस्य नायकस्योरू स्वगात्रैरुपवृत्तपरिचयत्वादुपगृह- मानेव मृद्गीयाद्, एवं मृद्नती प्रसृतपरिचया चेदूरुमूलमपि संस्पृशेत्, सजघनमिति । लिङ्गस्थानं त्यक्त्वा सह जघनस्य स्तोकेन भागेनो. रुमूलमित्यर्थः ॥ ६॥ तत्र स्थिरलिङ्गतामुपलभ्य चास्य पाणिमन्थेन परिघट्टयत् चापलमस्य कुत्सयन्तीव हसेत् ॥ ७॥ स्थिरलिङ्गतामिति । सजघनभागोरुमूलसंस्पर्शात्स्तब्धलिङ्गताम्, पाणिमन्थेनेति । आगोपालादिप्रतीतेन लिङ्गं घट्टयेद्, न यथा कथञ्चित्, भRA ९ अध्याये ] पुरुषोपसृप्तप्रकरणम् । । mpu । । चापलं कुत्सयन्तीवेति । ईदृशस्त्वं चपलो यदूरुस्पर्शमात्रेण स्तब्धलिङ्गो ऽसीति निन्दयन्ती स्वाभिप्रायख्यापनार्थ हसेद् न तु रुष्यात् ॥ ७ ॥ कृतलक्षणेनाप्युपलब्धवैकृतेनापि न चोद्यत इति चेत् ? स्वयमु. पक्रमेत पुरुषेण च चोद्यमाना विवदेत कृच्छेण चाभ्युपगच्छेत् ॥८॥ कृतलक्षणेनापीति । स्तब्धलिङ्गत्वं रागस्य लक्षणं तत्कृतं यस्य नाय- कस्य, उपलब्धवैकृतेनेति । ज्ञातमुखचापलेन यदि न चोद्यते कुरु मुख. चापलमिति, तदा तस्मिन्स्वयमेव विना चोदनयोपक्रमेत, पुरुषेण तूप. लब्धवैकृतेनानुपलब्धवैकृतेन वा चोद्यमाना नाहमेवंविधकर्मेति सहसा- ङ्गीऽकारप्रतिषेधार्थ विवदेत, तदेव स्फुटयति-कृच्छ्रेण चेति । स्त्रीरू- पिणी तु प्रकटकामत्वादचोदिताऽप्यादित एवोपक्रमेत ॥८॥ तस्थ क्रियाभेदाद् भेदमाह- तत्र कर्माष्टविधं समुच्चयप्रयोज्यं निमितं पार्वतो दष्ट बहिःस. दंशोऽन्तःसन्देशश्चुम्बितकं परिमृष्टकमाम्रचूषितकं मगर इति ॥९॥ तत्रेति । औपरिष्टके, समुञ्चयप्रयोज्यमिति । क्रमेण सर्व समुच्चयेन योज्यमित्यर्थः ॥९॥ तत्रापि नात्माभिप्रायेणेत्याह- तेष्वेकैकमभ्युपगम्य विरामाभीप्सां दर्शयेत् ॥ १० ॥ तेष्विति । निमितादिषु, एकैकं प्रथमात्प्रभृत्यभ्युपगम्य कृत्वा; परि- त्यागेच्छां दर्शयेत्, कौतुकजननार्थमभ्यर्थनयाऽपरं प्रयोक्ष्यामीति ॥१०॥ नायकेऽस्मिन्नभ्युपगते किं प्रतिपद्यत इत्याह- इतरश्च पूर्वस्मिन्नभ्युपगते तदुत्तरमेवापरं निर्दिशेत् तस्मि- नपि सिद्धे तदुत्तरमिति ॥ ११ ॥ इतरश्चेति । नायकः, पूर्वस्मिन्निति । निमिते, तदुत्तरमिति । तस्मा. निमितादन्तरं पातो दष्ट, निर्दिशेदिदं च कुर्विति, तस्मिन्नपि पा. वतो दष्टे क्रियया सिद्धे तदुत्तरं बहिःसन्दंशमिति, अनेन क्रमेण सर्व समुच्चयेन निर्दिशेत् , स्वरागपरिसमाप्त्यर्थः, तस्माञ्चाभिमानिकसुख. जननार्थ नायिकाऽपि तथैव प्रयुञ्जीतेत्ययं चोदनायां विधिः, स्वयमुपक्रमे तु स्वाभिप्रायेणैव समुच्चयप्रयोज्यम् ॥ ११ ॥ तत्कर्म द्विविधम-बाह्यमाभ्यन्तरं च, तत्र बाह्यमाह- करावलम्बितमोष्ठयोरुपरि विन्यस्तमपविध्य मुखं विधुनुया- व तनिमितम् ॥ १२॥ । MORNSS-

सटीके कामसुत्रे
[२ अधिकरणे,
।
करावलम्बितमिति । अवनमनवारणार्थ करेण गृहीतम्, ओष्ठयोरुप-
रि विन्यस्तमग्रभागेनापविध्योष्ठेन वर्तुलीकृतेनावष्टभ्य; मुखं स्वं विधुनु-
यात्कम्पयेद्, ओष्ठयोरुपरि विन्यस्तत्वान्निमितम् ॥ १२ ॥
हस्तेनाग्रमवच्छाध पार्श्वतो निर्देशनमोष्ठाभ्यामवपीड्य भव-
स्वेतावदिति सान्त्वयेत् तत्पावतो दष्टम् ॥ १३ ॥
हस्तेनावच्छाद्य मुष्टिग्रहणेन, ततः पार्श्वतो लिङ्गमोष्ठाभ्यामवपीड्य,
निर्दशनमिति । क्रियाविशेष, दन्तवर्जमित्यर्थः, दन्तस्तु ग्रहणमस्ति,
यदाह-भवत्वेतावदिति । एतावदेवास्तु यद् ग्रहणं, नापरं खण्डन-
मिति सान्त्वयेत् ॥ १३ ॥
भूयश्वोदिता संमीलितोष्टी तस्याग्रं निष्पीड्य कर्षयन्तीच
मुश्चेदिति बहिःसन्देशः ॥ १४ ॥
भूयश्चोदितेति । पावतो दष्टे सञ्चोदिता पुनरन्यत्र चोदिता, स्वय-
मुपक्रमे त्वचोदितैव संमीलितोष्ठी लिङ्गस्याग्रमन्तः प्रवेश्य; मीलिता-
वोष्ठौ यया सा, ताभ्यामेव निष्पीड्य कर्षयन्तीव मुञ्चेदिति । ओष्ठाभ्या.
मेवास्य कर्षणं कुर्वाणेव त्यजेदित्यर्थः, बहिःसन्देशश्चर्मणो बहिः-
सन्दंशनात् ॥ १४॥
आभ्यन्तरमाह-
तस्मिन्नेवाभ्यर्थनया किञ्चिदधिकं प्रवेशयेत् साऽपि चाग्रमो.
ष्ठाभ्यां निष्पीड्य निष्ठीवेदित्यन्तःसन्देशः ॥ १५॥
तस्मिन्निति। बहिःसन्दंशे क्रियमाणे, अभ्यर्थनया याचनया, कि-
श्चिदधिकमिति । निष्कास्य ग्रन्थि यावन्नायकः प्रवेशयेदित्ययं चोदना.
पक्षः, स्वयमुपक्रमे तु किञ्चिदधिकं प्रवेश्याग्रं मणिबन्धमोष्ठाभ्यां नि:
पीड्य; निष्टीवेद्-निरस्येद्, अन्तःसन्दंशो निष्कोशितस्य संदंशनात्॥१५॥
करालम्बितस्यौष्ठवद्हणं चुम्बितकम् ॥ १६ ॥
ओष्ठवदिति । यथाऽधरौष्ठस्यौष्ठाभ्यां ग्रहणं, तथा निष्कोशितस्येति
चुम्बितकं, समग्रहणांख्यम् ॥ १६॥
तत्कृत्वा जिहाऽग्रेण सर्वतो घट्टनमग्रे च व्यधनमिति परिमृ.
टकम् ॥१७॥
तदिति । चुम्बितकं कृत्वा, अन्यथा ह्ययोगाद् जिह्वाऽग्नेणान्तः परि-
भ्रमता सर्वतो घट्टयेत्स्पृशेद् , अग्रे च व्यधनं स्रोतःस्थाने ताडनं जिह्वा-
ऽग्रेणैव, परिमृष्टकं समन्तात् स्पर्शनात् ॥ १७ ॥

९ अध्याये] औपरिटकप्रकरणम् । १४ - तथाभूतमेव रागवशादर्धप्रविष्टं निर्दयमवपीड्यावपीड्य मुञ्चे- दिल्याम्रचूषितकम् ॥ १८ ॥ तथाभूतमेवेति । निष्कोशितमेव, रागवशादिति । नायकस्य रागा- धिक्यात्, तदर्धप्रविष्टं ग्रन्थिसतीत्य प्रविष्टं, निर्दयमत्यन्तम् , अवपीड्या. वपीड्येति । जिह्वौष्ठपुटेन द्विस्त्रिरवपीड्यावपीडय मुञ्चेदभ्यन्तर एव, तदाम्रस्येव चूषितकम् ॥ १८ ॥ पुरुषाभिप्रायादेव गिरेत्पीडयेच्चापरिसमाप्तरिति संगरः ॥ १९ ॥ पुरुषाभिप्रायादेवेति । पुरुषाभिप्रायमेव बुद्ध्वा; प्रत्यासन्नाऽस्य रतिरिति, गिरेत् पीडयेच्चेति । जिह्वाव्यापारण पीडयित्वा गिरेद्, ओष्ठव्यापारेण पीडयेद्, आसमाप्तरिति । शुक्रविसृष्टिं यावत्, सङ्गरः समन्ताद् गिरणात् ॥ १९ ॥ यथार्थ चात्र स्तननप्रहणनयोः प्रयोग इत्यौपरिष्टकम् ॥२०॥ यथार्थमिति । यथा रागो निमितादिषु मृदुमध्याधिमात्रादिभेदेन स्थितस्तथा स्तननग्रहणनयोः प्रयोगः, आलिङ्गनादीनामत्रासम्भवाद्, इत्यौपरिष्टकमिति। एवं विषयस्वरूपफलवृत्तिप्रकारैरौपरिष्टकमुक्तम्॥२०॥ देशसात्स्यवशादविषयेऽप्यस्य वृत्तिरिति दर्शयन्नाह- कुलटा: स्वैरिण्यः परिचारिकाः संवाहिकाश्चाप्येत्प्रयोजयन्ति॥२१॥ कुलटा इति । यः स्वकुलादन्यदेशसदृशमटन्त्यो भ्रष्टशीलास्ता:- कुलटाः, याः सदृशमसदृशं वा कुलमविचार्य; स्वच्छन्दचारिण्यस्ता:- स्वैरिण्यः, या अन्यपूर्वा वा मुक्तप्रमहा नायकमुपचरन्ति ताः परिचो- रिकाः, याः संवाहनकर्मणा जीवन्ति ताः संवाहिकाः, एतत्प्रयोजय- न्तीत्यौपरिष्टकं कारयन्ति, न केवलं तृतीया प्रकृतिरित्यपिशब्दार्थः॥२॥ तदेतत्तु न कार्य समयविरोधादसभ्यत्वाच्च पुनरपि ह्यासा वदनसंसर्गे स्वयमेवाति प्रपद्यतेत्याचार्याः ॥ २२ ॥ तदेतत्तु न कार्यमिति । प्रयोज्यमानमाप, समयविरोधादिति । धर्म- शास्त्रे प्रतिषिद्धमेतद्, 'न मुखे मेहेत' इति, असभ्यत्वाच्चेति । सद्भि- गर्हितत्वादसभ्यत्वं, तस्मादसभ्यत्वात्, प्रयोक्तुरप्यसभ्यत्वं दृष्ट एव दोषः, अयं चापर इत्याह-पुनरपि हीति । यदि हि कुलटाऽऽदीनां मुखे जघनकर्म कुर्यात्तदा पुनरपि जघनकर्मकाले रागवशाद्वदनस्य संसर्ग संस्पर्श सत्यति प्रतिपद्यत दुःखमधिगच्छेद्, विचलितोऽस्मीति, स्वयमेवेति । न तत्र नायिकाऽपि ॥ २२ ॥. १९ का०स० ।

सटीके कामसूत्रे [२ अधिकरणे, - वेश्याकामिनोऽयमदोषोऽन्यतोऽपि परिहार्यः स्यादिति वा. त्स्यायनः ॥ २३॥ वेश्याकामिन इति । कुलटाऽऽदयोऽपि वेश्याविशेषाः, तत्कामिनो. नायकस्यादोषोऽथमिति, समयविरोधादित्ययं दोषो न भवतीत्यर्थः; पल्यानने चौपरिष्टकादौ दोषः, 'न मुखे मेहेत' इति, यदाह वसिष्ठः- 'यस्तु पाणिगृहीतायां मुख मैथुनमाचरेत् । पितरस्तस्य नाश्नन्ति दशवर्षाणि पञ्च च ॥ इति, अन्यतोऽपि परिहार्य इति । असभ्यत्वाद्वदनसंसर्गाच्च, असभ्यत्व- मतिश्चेत्ययं दोषः परिहार्यः, गुप्त्या वसंरक्षणाच्च, कस्य चिद्देशप्र- वृत्तरदोषत्वादपरिहार्य इत्यपिशब्दात् ॥ २३ ॥ उभयमपि देशप्रवृत्या दर्शयन्नाह- तस्माद्यास्त्वोपरिष्टकमाचरन्ति न ताभिः सह संसृज्यन्ते भाच्याः॥ २४ ॥ तस्मादिति । यतश्चैवं तस्मान्न संसृज्यन्त इति संबन्धः, यास्त्वि. ति । या वेश्यास्त्वोपरिष्टकमाचरन्ति मुखे जघनकर्म कुर्वन्ति, न ता. भिः सह संसृज्यन्ते संप्रयुज्यन्ते, मा भूत्तद्वदनसंसर्ग इति, अन्याभिर- दृष्टदोषत्वात्संसृज्यन्त एवेत्यर्थोक्तम्, प्राच्या अङ्गात्पूर्वेण ॥ २४ ॥ वेश्याभिरेव न संसृज्यन्त आहिच्छत्रिकाः संसृष्टा अपि मुखकर्म तासां परिहरन्ति ॥ २५ ॥ आहिच्छत्रिकाःअहिच्छत्रभवाः, न संसृज्यन्ते, अदृष्टमश्रुतमप्यौप. रिष्टकं तासु संभाव्यत इति, संसृष्टा अपि त एव कथं चिद्रागवशाद्, मुखकर्म चुम्बनम् ॥ २६ ॥ निरपेक्षाः साकेताः संमृज्यन्ते ॥ २६ ॥ साकेता=आयोध्यिकाः, ते निरपेक्षाः, वेश्यानां संप्रयोगे मुखकर्म- णि च शौचाशौचविकल्पाभावात् ॥ २६ ॥ न तु स्वयमापरिष्टकमाचरन्ति नागरकाः ॥ २७ ॥ नागरका:=पाटलिपुत्रकाः, संप्रयुज्यन्ते वेश्याभिः न तु स्वयं तासां- मुखे जघनकर्म कुर्वन्ति, मा भूद्वदनसंसर्ग इति, प्रयोजितास्त्वाचरन्ति वदनसंगर्गवर्जम् ॥ २७॥ सर्वमविशङ्कया प्रयोजयन्ति सौरसेनाः ॥ २८ ॥ सर्वमिति। संप्रयोगमोपरिष्टकं मुखकर्म च, अविशङ्कयेति। सर्व शुची.

९ अध्याये] औपरिष्टकप्रकरणम् । १४७ त्यभिप्रायेणेत्यर्थः, सौरसेनाः कौशाम्ब्या.दक्षिणतःकूले ये निवसन्ति ॥२८॥ शङ्कायां हि स्वभार्यास्वप्यनाश्वासतामेव दर्शयन्नाह- एवं ह्याहुः को हि योषितां शीलं शौचमाचारं चरित्रं प्रत्य- यं वचनं वा श्रद्धातुमईति, निसर्गादेव हि मलिनदृष्टयो भवन्त्येता. न परित्याज्याः, तस्मादासां स्मृतित एव शौचमन्वेष्टव्यम् ॥२९॥ एवं ह्याह- 'वत्सः प्रस्नवने मेध्यः श्वा मृगग्रहणे शुचिः । शकुनिः फलपाते तु स्त्रीमुखं रतिसंगमे ॥ इति ॥ एवं होति । शीलं =स्वभावं, शौचम् = अशुचिगव्यविश्लेषणम् , आ. चारं त्रयीकर्मानुष्ठान, चरित्र-कुलक्रमागतां स्थिति, प्रत्ययं-विश्वासं, वचनं वल्गितक, कः श्रद्धातुमहंति, परमार्थतः प्रत्येतुं नवेत्यर्थः, कुत इत्याह-निसर्गादेवेति । आत्मलाभादेव नान्यस्माद्, मलिनदृष्टयः मलि- नबुद्धयः, यल्लोकशास्त्रविरुद्धमप्याचरन्ति, न च परित्याज्या एवंभूता. अपि, पुरुषार्थहेतुत्वात् , तस्माद्रतविधौ स्मृतित एव शौचमन्वेष्टव्यं. लोके स्मृतेः प्रामाण्यात्, तां स्मृतिमाह-एवं हीति । आह-स्मृतिकारः, मुखवर्ज गौः सर्वतो मेध्येत्युक्तं, प्रस्तवनकाले तु मुखं शुचि तत्स्पृष्टं- क्षीरमपि, श्वपश्युच्छिष्टं त्यजेदित्युक्तम्, मृगग्रहणे फलपातकाले च मुखस्य शुचित्वान्मांसं फलंच शुचि, तथा, रतिसङ्गमे-रत्यर्थसङ्गमे, स्त्रीमुखं कृतौपरिष्टकमन्यद्वा मेध्यं, नान्यदा सर्वाशुचिनिधानत्वादिति, अस्मिन्स्मृत्यर्थे सर्वत्र चुम्बनप्रसङ्ग इति ॥ २९ ॥ स्वमतं दर्शयन्नाह- शिष्टविप्रतिपत्तेः स्मृतिवाक्यस्य च सावकाशत्वाद्देशस्थितेरा- मनश्च वृत्तिप्रत्ययानुरूपं प्रवततेति वात्स्यायनः ॥ ३० ॥ शिष्टविप्रतिपचेरिति । शिष्टानां प्राच्याहिच्छत्रिकनागरकाणां वि. प्रतिपत्तिर्दृश्यते, यथोक्तम्प्राक् , तस्माद्रतिसङ्गमेऽपि स्त्रोमुखन मेध्यं, शिष्टाचारस्य प्रामाण्याद्, यद्येवं विगीता स्मृतिरप्रामाण्यिका स्याद्, यथोक्तम्- 'विरुद्धा च विगीता च दृष्टार्था दृष्टकारणा। स्मृतिनं श्रुतिमूला स्याद्या चैषा भवनश्रुतिः' इति । अत्रात्तरमाह-सावकाशत्वादिति । पत्नीमेवाधिकृत्येत्युक्तम्- 'स्नोमुखं रतिसङ्गमे' इति, यद्येवं वेश्यासु चुम्बनविकल्पानर्थक्यमित्यत्र amasan १४८ सटीके कामसूत्रे [२ अधिकरणे, "पाक्षिकमभ्यनुज्ञानमाह-देशस्थितेरिति । यो यस्मिन्देश आचारस्तद- नुरूपं प्रवर्तेत, देशाचारस्य तत्रत्यानां प्रामाण्याद्, वृत्तिप्रत्ययानुरूप मिति । यथा सौमनस्यं यथा च विश्वासस्तथा प्रवर्तेत न शास्त्रेणैव केवलेनेति ॥ ३०॥ इदं स्त्रीविषयमसाधारणमौपरिष्टकमुक्तं स्त्रिया एव कर्तृत्वात् , पुरुषविषयमाह- भवन्ति चात्र श्लोका:- प्रमृष्टकुण्डलाश्चापि युवानः परिचारकाः । केषाश्चिदेव कुर्वन्ति नराणामोपरिष्टकम् ॥ ३१ ॥ प्रमुष्टकुण्डला इति । उज्ज्वले कुण्डले येषामिति, नेपथ्योपलक्षणं. गृहीतनेपथ्या इत्यर्थः, युवानः प्राप्तरागत्वात्कर्तुं कुशला नटस्वरूपाः, नान्ये दोषाद् , यथोक्तम्- 'अजातश्मश्रवश्चेटा विश्वास्या मुखकर्मणि : योज्या गृहीतनेपथ्या नेतरे श्मश्रुदोषतः' इति । केषां चिदिति । ये मन्दागा गतवयसोऽतिव्यायता ये च स्त्रीष्व- लब्धवृत्तयः ॥३१॥ इदमप्यसाधारणम् एकस्यैव कर्तृत्वात् , द्वयोः कर्तृत्वे साधार. णं, यदाह- तथा नागरकाः के चिदन्योन्यस्य हितैषिणः । कुर्वन्ति रूढ विश्वासाः परस्परपरिग्रहम् ॥ ३२ ॥ तथेति । नागरका ये नागरवृत्तावधिकृताः, के चिदिति । योषा- प्रायाः, हितैषिणः, विसृष्टिसुखकारित्वाद्, रूढविश्वासा मैल्या, प. रस्परपरिग्रहमिति । मम तावत्कुरु पश्चात्तवापि करिष्यामोति, युग- पद्वा देहव्यत्यासेन रागात्कालमनपेक्षमाणाविति द्विविधं साधारण- नागरका इत्युपलक्षणं, स्त्रियोऽपि कुर्वन्ति, यथाक्तम्- 'अन्तःपुरगताः काश्वित् स्त्रियश्चाप्राप्तभाण्डकाः । भगे ह्यन्योन्यविश्वासाकुर्वन्ति मुखचापलम्' इति ॥ ३२ ॥ पुरुषाश्च तथा स्त्रीषु कमैतत्किल कुर्वते । व्यासस्तस्य च विज्ञेयो मुखचुम्बनवद्विधिः ॥ ३३ ॥ तथा स्त्रीष्वति । यथा स्त्रियः पुरुषेषु तथा स्त्रीषु पुरुषाः परिचा. रका नायका वा के चिद्भगे मुखेन कर्म कुर्वन्ति, किलेति । संभावना.

साधारणयोरसाधारण श्रो. ९ अध्याये] औपरिष्टकप्रकरण १४९ यां, तस्य चेति । पुरुषकर्तृकस्य, व्यासः प्रकारः, मुखचुम्बनवदिति । कन्याचुम्बने निमितादिना, अन्यत्र समादिग्रहणेन यो विधिः सोऽस्यापि यथासम्भवं विज्ञेयः॥३३॥ ... तत्र परिचारके कर्तर्यसाधारण नायके तु साधारणमपि संभवति, यञ्च युगपत्परिपाट्या वा, तत्र युगपत्कथमित्याह- परिवर्तितदेहौ तु स्त्रीपुंसौ यत्परस्परम् । युगपत्सम्प्रयुज्यते स कामः काकिलः स्मृतः ॥ ३४ ॥ परिवर्तितदेहाविति । पार्श्वसंपुटे पुमान् स्त्रिया ऊर्वोः शिरो निधत्तेस्त्री च पुंस इति युगपत्संप्रयुज्येते, एकस्मिन्काले मुखेन परस्परोपस्थेन्द्रिय. ग्रहणात् , काकिलः स्मृत इति । स्त्री पुमांश्च काक इव काकः, मुखेना- मेध्यग्रहणात् , तौ विद्यते यस्मिन् , काम इति । पिच्छादिषु द्रष्टव्यं, ककनं वा काको लौल्यं, 'कक लौल्ये' इति धातुपाठात् , तद्विद्यते ययोः स्त्रीपुंसयोरितीनिप्रत्ययः, तौ लात्यादत्त इति ॥ ३४ ॥ एतेन नरयोोषितोश्च परिवर्तितदेहयोाख्यातः, तत्र साधारणा- हि खलसंसर्गादपरिशुद्धमिति दर्शयन्नाह- तस्माद् गुणवतस्त्यक्त्वा चतुरांस्त्यागिनो वरान् । वेश्याः खलेषु रज्यन्ते दासहस्तिपकादिषु ॥ ३५ ॥ तस्मादिति। गुणवतः=नायकगुणयुक्तान् , चतुरान् -लोकयात्राकु. शलान्, त्यागिनः दानशूरान्, वरान =अभिजनाद्युपेतान् ,खलेषु =नी. चेषु, तानेव दर्शयति-दासहस्तिपकादिष्विति । रज्यन्त इति । स्वभावा- ख्यानम्, अशिष्टधर्माचरणाद्वा, तेषु च रक्ता अपरचरितमपि प्रकाश- यन्ति ॥३५॥ न त्वेतद्धाह्मणो विद्वान्मन्त्री वा राजधूर्धरः । गृहीतप्रत्ययो वाऽपि कारयेदोपरिष्टकम् ।। ३६ ॥ न वेतदिति नैवं वेश्याभिः कारयेद्, ब्राह्मणो विद्वान्, श्रुतिस्मृत्य. र्थतत्वज्ञः, मन्त्री राजधूर्धरः प्राधान्येन यो राज्यं संवाहयति, समा. सान्तोऽत्रानित्यत्वान्न भवति, अन्यो वा कश्चिद् गृहीतप्रत्ययो. लोके विश्वास्यः, तासु क्रियमाणं लोके लब्धसमाख्यान-गौरवं व्या. वर्तयति , अतो मा भूद्वदनसंस्पर्शदोषः, असभ्यत्वदोषस्तु दुर्निवारो- नेतरेषामविवक्षितत्वात् ॥ ३६ ॥ ननु च व्यासस्तन्मुखचुम्बनवद्विधिरिति शास्त्रेऽभिहितत्वात्साधा- ।

सटीके कामसूत्रे [२अधिकरणे, । । RDC रणस्यापि प्रयोगप्रसङ्ग इत्याह- न शास्त्रमस्तीत्येतावत्प्रयोगे कारणं मवेत् । शास्त्रार्थान्व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान् ॥ ३७॥ न शास्त्रामिति । अभिधायक शास्त्रमस्तीति नैतावत्प्रयोगे कारणं,. शास्त्रार्थान्व्यापिन इति । आलिङ्गनादेरर्थस्य रत्यौपयिकत्वात् , सर्वा- नेव कामिनोऽधिकृत्य प्रवृत्तत्वात्, प्रयोगानेकदेशिकान् , कस्य चिदे. वार्थस्य शिष्टैः प्रवर्तनात् ॥ ३७ ॥ अयं च न्यायोऽन्यत्रापीत्याह- रसवीर्यविपाका हि श्वमांसस्यापि वैद्यके । कीर्तिता इति तत्कि स्याद्भक्षणीयं विचक्षणैः ॥ ३८ ॥ रसवीर्यविपाका इति । रसो मधुरादिः, वीर्य सामर्थ्यम् , पाक उ पयुक्तस्य परिणामो मधुरादिः, श्वांसस्यापि कोर्तिता इति व्यापित्वं. रसादीनां , किम् भक्ष गोयं विचक्षणैरित्येकदेशित्वम् ॥ ३८ ॥ यद्येवं शिष्टपरिहतत्वादिहोपदेशानर्थक्यमित्याह- सन्त्येव पुरुषाः के चित्सन्ति देशास्तथाविधाः । सन्ति कालाश्च तेष्वेते योगा न स्युनिरर्थकाः ॥ ३९ ॥ सन्त्येवेति। सन्ति तादृशाः पुरुषा ये शुच्यशुचिषु निर्विकल्पाः, देशा. स्तथाविधा लाटसिन्धुविषयादयः, काला औपरिष्टकसात्म्याः, स्त्रयायत्ता यदायत्तजीवितादयः, योगा इति । मुखचुम्बनवद्विधयः ॥ ३९ ॥ तस्माद्देशं च कालं च प्रयोग शास्त्रमेव च । आत्मानं चापि संप्रेक्ष्य योगान्युञ्जीत वा न वा ॥ ४० ॥ तस्मादिति । यतश्चैवं तस्मात्साधारणस्य वा यथास्वं देशकालौ संवीक्ष्य,प्रयोगमुपायं च प्रयुज्यतेऽनेनेति, शास्त्रमभिधायकम् , आत्मानं. च, कतरन्मे युक्तमिति, न वा प्रयुञ्जीतोभयमपि विद्वान् स्त्रमात्मान- संवीक्ष्य ॥ ४० ॥ अथ वा नायं पुरुषादिनियम इत्याह- अर्थस्यास्य रहस्यत्वाञ्चलत्वान्मनसस्तथा । कः कदा किं कुतः कुर्यादिति को ज्ञातुमर्हति ॥ ४ ॥ इति श्रीवात्स्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीयेऽधिकरण- औपरिष्टक नवमोऽध्यायः । आदितश्चतुर्दशः। wal

९ अध्याये]
रतारम्भावसानिकप्रकरणम् ।
अर्थस्येति । औपरिष्टकस्य रहसि भवत्वात् चित्तस्यास्थिरत्वात्,
विशेषतो रागसंयुक्तस्य, कः कुर्याद् विद्वानितरो वेति, कदा कि-
मत्तावस्थायामितरस्यां वेति, किं कुर्यात् साधारणमसाधारणं लौकिक.
वा सम्प्रयोगमिति, कुतो हेतोः किं रागाहेशप्रवृत्तेर्वेति, को ज्ञातुमर्हति
नैवेत्यर्थः॥४॥ औपरिष्टकमेकोनविंशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां-
साम्प्रयोगिके द्वितीयेऽधिकरण औपरिष्टकं नवमोऽध्यायः ।
SOUR-
दशमोऽध्यायः ।
एवमौपरिष्टकान्तं रतमुक्तं, तस्यारम्भेऽवसाने च किं प्रतिपत्तव्य.
मिति तदुद्भवं रतारम्भावसानिकमुच्यते, तत्र यद्यपि प्रीतिविशेषान-
न्तरं रतारम्भिकं युक्तं रतावसानिक चेहैव तथाभूतत्वादनुष्ठान
क्रमस्येति, तथाऽपि प्रतीतिसम्भवत्वादालिङ्गनादीनां तदभिधा-
नं तदनन्तरं च प्रतीकन्यायेन सर्वशेषतया रतारम्भः, तत्प्रतिबद्ध-
त्वाच्चावसानिकम् ।
तत्र पूर्वमधिकृत्याह-
नागरकः सह मित्रजनेन परिचारकैश्च कृतपुष्पोपहारः सञ्चा-
रितसुराभिधूपे रत्यावासे प्रसाधिते वासगृहे कृतस्नानप्रसाधनां यु-
क्या पीतां स्त्रियं सान्त्वनैः पुनः पानेन चोपक्रमेत ॥ १॥
दक्षिणतश्चास्या उपवेशनम् ।। २ ॥
केशहस्ते वस्त्रान्ते नीव्यामित्यवलम्बनम् ॥ ३ ॥
रत्यर्थ सव्येन बाहुनाऽनुद्धतः परिष्वङ्गः ॥ ४ ॥
पूर्वप्रकरणसंबद्धैः परिहासाऽनुरागैर्वचोभिरनुवृत्तिः ।। ५ ॥
गूढाश्लीलानां च वस्तूनां समस्यया परिभाषणम् ॥ ६॥
सनृत्तमतृत्तं वा गीतं वादित्रम् ॥ ७ ॥
कलासु संकथाः ॥ ८ ॥
पुनः पानेनोपच्छन्दनम् ॥ ९॥
जातानुरागायां कुसुमानुलेपनताम्बूलदानेन च शेषजन-
विसृष्टिः ॥ १०॥

Malamausamundry, सटीके कामसूत्रे [२ अधिकरणे, ઉપૂર । . विजने च यथोक्तैरालिङ्गनादिभिरेनामुपयेत् ॥ ११ ॥ ततो नीवीविश्लेषणादि यथोक्तमुपक्रमेतेत्ययं रतारम्भः॥१२|| नागरक इति । नागरकवृत्ताधिकृतः, तत्र मित्रजनेन पीठमदादि परिचारकैस्ताम्बूलदायकसंरककर्मान्तकारिभिः सहोपक्रमेतेति सम्बन्धः, पुष्पोपहारः पुष्पप्रकारः, रत्यावास इति। रत्यर्थी य आवासो- बाह्यं वासगृहं, तत्र हि शयनीयं प्रकल्पेतेत्ययं वासगृहसंस्कारः, स्त्रि- या द्विविधः-स्नानं नेपथ्यग्रहणं चेति शरीरसंस्कारः, असंस्कृताया. दर्शनमपि प्रतिषिद्धं, युक्त्या पीतामिति । मनःसंस्कारः, नातिपीतां- विभ्रमकरस्वात्, पीतमस्या विद्यत इति मत्वर्थो द्रष्टव्यः, यथा पीतागावा, प्रथमं सान्त्वनैः प्रियवाक्यैः कुशलप्रश्नादिभिरुपक्रसेत, पुनः पानेन सरकः पीयतामिति, तत्र दक्षिणे पाचेऽस्या उपवेशनं, स्त्री वामपा. ★ उपविशेद्, येन दक्षिणहस्तेन चषको वामेन च बाहुना परिष्वङ्गः, तत्र प्रथमं केशहस्तादिष्ववलम्बनं संस्पर्शनं, ततः सव्येन वामेन परिष्वङ्गः, अनुद्धत इति । यथा नोद्विजते, पूर्वप्रकरणसम्बद्धैरिति । अति. क्रान्तेन प्रस्तावेन युक्तः 'स्मरसि सुभगे यदावयोस्तत्र तत्र परिहासोऽ. नुरागश्चासीद्' इत्येवं वचोभिरनुवर्तनं गूढाश्लीलानां चेति । यद्- गूढं दुर्बोधमश्लीलं ग्राम्य लोकप्रतीतं वस्तु गाथास्कन्धकादिषु निबद्धं. तस्योभयस्यापि बुभुत्लायां समस्यया संक्षेपेण परिभाषणम्, परिकथन- मित्यर्थः, सनृत्तमनृत्तं वा गीतमिति । या नृत्ताभिज्ञा तत्समक्ष गीतार्थ. माङ्गिकाद्यभिनयेन प्रकाशयेद्, आसीननृत्तं स्याद्, इतरस्या गीतमेव केवलं, वादित्रमिति। नागदन्तावसक्तां वीणामादाय; तत्रान्यस्या- सम्भवात् , कलासु सङ्कथाः, शेषास्वालेख्यादिषु कौशलख्यापनार्थम्, एवमावर्त्य पुनः पानेनोपच्छन्दनं प्रोत्साहननं, जातरागायां च यथोक्ता नुष्ठानेन ताम्बूलदानसम्प्रेषणोपायः, शेषजना मित्रपरिचारकादयः, यथोक्तैरिति । रतात्प्रागुक्तानि यानि, उद्धर्षयेदुत्कृष्टेन हर्षेण योजयेद् , यथा शयनीयं प्रतिपद्यते, तत इति । उत्तरकाले शयनीयगतायो नीवी- विश्लेषणायोपक्रमेत, इतः प्रभृति बाह्य पुरुषोपसृप्तमिति ॥ १॥ २ ॥ ॥३॥ ४॥ ५॥ ६॥७॥८॥९॥ १० ॥ ११ ॥ १२॥ रतावसानिकं रागमतिबाह्यासंस्तुतयोरिव सब्रीडयोः परस्पर मपश्यतोः पृथक्पृथगाचारभूमिगमनम् ॥ १३ ॥ प्रतिनिवृत्य च ब्रीडायमानयोरुचितदेशोपविष्टयोस्ताम्बूल.

१० अध्याये] रतारम्भावसानिकप्रकरणम् । १५३ ग्रहणमच्छीकृतं चन्दनमन्यद्वाऽनुलंपने तस्याः गात्रे स्वयमेव नि. वेशयेत् ॥१४॥ सव्येन बाहुना चैनां परिरभ्य चषकहस्तः सान्त्वयन्पाययेत्॥१५॥ जलानुपानं वा खण्डखाद्यकमन्यद्वा प्रकृतिसात्म्ययुक्तमुभाव- प्युपयुञ्जीयाताम् ॥ १६॥ अच्छरसकयूषमम्लयवागू भृष्टमांसोपदंशानि पानकानि चूत. फलानि शुष्कमांसं मातुलुङ्गचक्रकाणि सशर्कराणि च यथादेश- सात्म्यं च ॥ १७॥ तत्र मधुरमिदं मृदु विशदमिति च विदश्य विदश्य तत्तदुपाहरेत् १८ हर्म्यतलस्थितयो; चन्द्रिकासेवनार्थमासनम् ॥ १९ ॥ तत्रानुकूलाभिः कथाभिरनुवर्तेत ॥ २० ॥ तदङ्कसंलीनायाश्चन्द्रमसं पश्यन्या नक्षत्रपतिव्यक्तीकरणम् ॥२१॥ अरुन्धतीध्रुवसप्तर्षिमालादर्शनं चेति रतावसानिकम् ॥ २२ ॥ रतावसानिकमिति । वक्ष्यत इति शेषः, रागमतिबाह्य-रतिमनुभूय, असंस्तुतयोरिवेति । अपरिचितयोर्यथा ब्रीडा तद्वत्सब्रीडयोरविनयाच: रणाद्, एवं परस्परमपश्यतोः, तदवस्थदर्शनाद्वैराग्यमपि स्यादतः पृ. थक्पृथगाचारभूमिगमनं, नैकत्र शौचभूमौ शौचं कार्यमित्यर्थः, प्रति. निवृत्त्याचारभूमीडायमानयोः, एकान्तेनापरित्यक्तलजत्वाद्, उचित- देशस्तदानीं शयनीयमपास्यान्यदेशः, ताम्बूलस्य ग्रहणं भक्षणं, तदानी मुखस्याश्रीकत्वाद्वैरस्थाञ्च, तत्र क्षीणप्रधानधातुत्वाच्छरीरस्थ बृहणं बाह्यमाभ्यन्तर च, तत्र बाह्यं ग्रीष्मकाले, अच्छीकृतं चन्दनमन्यद्वाऽनुले- पनं कालोपयिक, स्वयमित्यनुरागख्यापनार्थ, निवेशयेत् पश्चादा. त्मन इत्यर्थः, आभ्यन्तरं पानादि, तत्रापि परिरभ्यालिङ्गय, चषको म धभाजनं, सान्त्वयन्प्रियाणि ब्रुवन् पाययेद्, जलानुपानं वा खण्ड- खाद्यकं बृहणीयत्वाद्, अन्यद्वा तिलगभॊत्करादिप्रकृतिसात्म्ययुक्तमु- भावप्युपयुञ्जीयाताम्, अच्छरसकयूषमिति, यूषं द्विविधं-मांसनि!हं. व्रीहिनियूह च, बृंहणीयत्वान्मांसनियुहं रसकयूषमच्छमुपयुञ्जीयाताम्, अम्लयवागूं माससिद्धाम्, बृंहणीयत्वात् , भृष्टं भर्जितं मांसं तदेवोप- दंशो येषां पानकानां, चूतफलानि पक्कानि, 'शुष्कमांसं बलहणत्वा- द्, मातुलुङ्गचक्रकाणीति । बीजपूरमीषदपनीतत्त्वकं खण्डशः कृत्तं श. २० का० सू० १५४ सटीके कामसूत्रे [२ अधिकरणे, 4 करायुक्तं, हृद्यत्वाद्, यथादेशसात्म्यमिति । यस्मिन्देशे येन सात्म्य तत्रेति । भक्ष्याधुपयोगेऽनुरागस्यापनार्थो विधिः, विदश्य विदश्यति । उपलक्षणं चैतत, इदं मृष्टमिदं वृष्यमित्यास्वाद्यास्वाद्य पानमपि तत्तदु. पाहरेद्, हऱ्यातलस्थितयोर्वेति । यदि वासगृहस्थितयोरासने तापश्चन्द्रि- का चोदिता, तदा तदुपरि सौधस्थितयोरुव॑मासनं, तत्सेवन व तापापनयनाथै, यदि च तापेन न तत्र ताम्बूलग्रहणाधनुष्ठितं तदा नीमिहानुष्ठेयं, तत्रेति । हर्म्यतले, भुक्तविरसत्वात्कामस्य बृंहणानन्तरं कामजननार्थं तदनुकूलाभिः कथाभिरनुवर्तेत, तदङ्कसलीनायाश्चेति । आसीनस्य नायकर याङ्के न्यस्तदेहाया नियतं गगनतले दृष्टिः, तत्र चन्द्र- मसं नयनानन्द जननम् पश्यन्त्याः प्रसङ्गान्नक्षत्रपङ्क्तिव्यक्तीकरणं, प्रा- यशः स्त्रीणां नक्षत्रपङ्क्तिष्वपरिचयात्, इयमरुन्धती भगवती सूक्ष्मा य एनां न पश्यति स षण्मासाम्रियते, अयं ध्रुवः पञ्चदशतारकः, यद्दर्श नादिवसगतं पापम पैति, एते च सप्तर्षयः पङ्क्त्या स्थिता इति सन्दर्श. येत् ॥१३॥ १४॥ १५ ॥ १६ ॥ १७॥ १८ ॥ १९ ॥ २० ॥ २१ ॥२२॥ द्वयमप्यधिकृत्याह- तत्रैतद्भवति-- अवसानेऽपि च प्रीतिरुपचारैरुपस्कृता। सविसम्भकथायोगै रति जनयते पराम् ॥ २३ ॥ परस्परप्रीतिकरैरात्मभावानुवर्तनैः । क्षणात्क्रोधपरानैः क्षणात्पीतिविलोकितैः ॥ २४ ॥ हल्लीसकक्रीडनकैयनै व्यरासकैः । रागलोलार्द्रनयनैश्चन्द्रमण्डलबीक्षणैः ॥ २५ ॥ आये संदर्शने जाते पूर्व ये स्युमनोरथाः । पुनर्वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः ॥ २६ ॥ कीर्तनान्ते च रागेण परिष्वङ्गैः सचुम्बनैः । तैस्तैश्च भावैः संयुक्तो यूनो रागो विवर्धते ॥ २७॥ तत्रेति । आरम्भेऽवसाने चोभयत्राप्येतद्वश्यमाणकं भवति, अवसा- नेऽपीति । अपिशब्दादारम्भेऽपीति, प्रीतिः, स्त्रियाः पुंसश्च स्नेहः, उप. चारैः स्रग्गन्धादिभिः पानादिभिश्च, उपस्कृतेत्यभिबधिता, सविस्वम्भक थायोगैरिति । सविश्वासाभिः कथाभिः सविश्वासैश्च योगैः, रति वि. - : . ।

१० अध्याये] रतारम्भावसानिकप्रकरणम् । १५५ . सृष्टिलक्षणां परामुस्कृष्ट जनयते, कारणस्य तथाविधत्वात् , तत्र विस्त्रम्भ योगमधिकृत्याह-परस्परप्रीतिकरिति । स्त्रीपुंसयोस्तदन्ते सुखकरैः, कैरित्याह-आत्मभावानुवर्तनैरिति । आत्माभिप्रायेण यान्यनुवर्तनान्या- लिङ्गनादीनि,अनुवर्त्यन्ते एभिरिति कृत्वा, क्षणाक्रोधपरावृत्तः क्षणात्प्री- तिविलोकनैरिति । अन्तरा प्रणयकलहात्क्षणक्रोधेन यानि परावर्तनानि पुनःप्रसादात्क्षणं प्रीत्या यानि विलोकनानि तैः, स्नेहो विवर्धत इति प्र. तिपदं योज्यं, हल्लीलकक्रीडनकैरिति । हल्लोसकक्रीडनं येषु गीतेषु, य. थोक्तम् । 'मण्डलेन च यत्स्त्रीणां नृत्तं हल्लीसकं तु तत् । नेता तत्र भवेदेको गोपस्त्रीणां यथा हरिः॥" नाट्यरासकैरन्योन्यदेशीयः, तेषां श्रात्यत्वाद्गीतविशेषणमेतद्, राग- लोलाईनयनैरिति । रागेण चञ्चलानि सबाष्पाणि च नयनानि येषु गी. तकेषु, अनेन रक्तकण्ठत्वं दर्शयति, चन्द्रमण्डलवीक्षणैरिति । मनोहारिव. स्तूपलक्षणम्, एतेऽनुवर्तनादयो विस्रम्भधोगाः, विश्वासेन प्रयुज्यमान- स्वाद्, विनम्मकथामधिकृत्याह-आद्य इति । प्रथमे मनोरथाः कदाऽ. नेन वा सङ्गमोऽस्त्वित्यादयः, पुनर्वियोगे सन्तप्तयोर्दुःखमस्वास्थ्य की- र्तनान्ते चेति । पुनर्वित्रम्भयोगस्यावर्तनमिति दर्शयति, तैस्तैरिति । अ. न्यैपि विस्त्रम्भयोगैर्भावसंयुक्तः, यून इत्येकशेषनिर्देशाद्, यूनो युवत्याश्च ॥ २३॥ २४॥॥ २५॥ २६ ॥२७॥ रतारम्भावसानिकमेकोनविंशं प्रकरणम् ॥ आरम्भावसानयो रतावयवत्वात्तग्रहणे यथा रतं व्यवस्थं तथा व्यवस्था स्वाभाविकादिरागभेदादपि विशिष्यत इत्यतो रतविशेषा उ. च्यन्ते- रागवदाहार्यरागं कृत्रिमरागं व्यवहितरागं पोटारतं खलरत. मयन्त्रितरतमिति रतविशेषाः ॥ २८ ॥ रागवदित्यादिना स्वभाविक आहार्यः कृत्रिमो दर्पजो विस्रम्भज- श्चेति रागविशेषाः, तभेदादागवदादयोऽपि रतविशेषाः ॥ २८ ॥ एषां लक्षणमुपचारं चाह- संदर्शनात्मभृत्युभयोरपि प्रबुद्धरागयोः प्रयत्न कृते समागमे. प्रवासप्रसागमने वा कलहवियोगयोगे तद्रागवत् ॥ २९ ॥ सन्दर्शनादिति । प्रथमदर्शनारप्रभृति चक्षुःप्रीत्याद्यवस्थावशात्मा वृद्ध रागयोतसम्प्रेषणादिप्रयत्नात्कृते समागमे यद्रतं, यच्च प्रवा- - सटीके कामसूत्रे [२ अधिकरणे, सात्प्रत्यागमने विरहिणोरुत्कण्ठितयोः, यच्च प्रणयकलहे प्रशान्ते प्रस. न्नयो रतं तदागवत्, स्वाभाविकस्य रागस्यातिशयेन योगात् ॥ २९ ॥ तत्रात्माभिप्रायाद्यावदर्थं च प्रवृत्तिः ॥ ३० ॥ यावदर्थमिति । प्रवृद्धरागत्वान्न किञ्चित्क्षमते, केवलं स्वाभिप्रायव- शात्तयोर्यावद्गति प्रवृत्तिः ॥ ३० ॥ मध्यस्थरागयोरारब्धं यदनुरज्यत तदाहार्यरागम् ॥ ३१ ॥ मध्यस्थरागयोरिति । इच्छामात्रस्योत्पन्नत्वाच्चक्षुःप्रीतिरेव न मनःसम्प्रयोगादयोऽवस्था इत्यतो मध्यस्थो रागः, तयोर्यदारब्धरतमा. रम्भकेण विधिनाऽनुरज्यत इति पश्चाद्रागेण संश्लिष्यते कारणेन कार्योपचारान्मिथुनमेव रतमित्युक्तम् , आहार्यरागं तत्र रागस्योत्पा- द्यमानत्वात् ॥ ३१॥ तत्र चतुःषष्टिकर्योगैः सात्म्यानुविदैः संधुक्ष्य संधुक्ष्य राग. प्रवर्तत तत्काहतारन्यत्र सक्तयो कृत्रिमरागम् ॥ ३२ ॥ तत्र चतुःषष्टिकैरिति । आलिङ्गनादिभिर्योगैः, सात्म्यानुविर्यस्य यैः सात्म्यं तद्युक्तः, रागमिच्छामात्रमात्मनः स्त्रियाश्च सन्दीप्य प्रवर्तेत, कार्यहेतोरिति । अर्थादानादनर्थप्रतीकाराद्वा न रागाद्, अन्यत्र सक्तयो. वेति । अन्यस्मिन्पुंसि स्त्री सक्ता, पुमानप्यन्यस्यां स्त्रियां तयोर्यदनुरोधा. द्रतं कृत्रिमरागम्, उभयत्रापि स्वाभाविकरागस्यानुत्पत्तेः ॥ ३२ ॥ तत्र समुच्चयेन योगाशास्त्रतः पश्येत् ।। ३३ ।। समुच्चयेनेति । न विकल्पेन द्वयोर्योंगयोरन्यतरयोगे स्वाभावि. करागस्यानुत्पत्तः, यस्मात्समुच्चयेन सर्वानेवालिङ्गनादिप्रयोगान् प्र. यागकाले पश्येत् , तत्रापि शास्त्रतः, तत्रापि स्थानकालस्वभावानाम. पेक्षयेत्यर्थः ॥ ३३ ॥ पुरुषस्तु हृदयप्रियामन्यां मनासि निधाय व्यवहरेत् संप्रयो गात्प्रभृति रतिं यावदत्तस्तब्यवहितरागम् ॥ ३४ ॥ पुरुष इति । योऽन्यप्रसक्तोऽप्यभावितसन्तानस्तस्यापरस्यामपि रा. ग उत्पद्यत एवास्वाभाविकत्वात्कृत्रिम इत्युच्यते, यस्तु सम्भावित- सन्तानः सोऽन्यस्यां न रमते रागाभावाद्, यदा तु तामेव हृदयप्रिया. मिष्टां मनसाऽभिध्याय; चेतसि रागमुत्पाद्य, सम्प्रयोगात्प्रभृति रतिं या- वयवहरेत्प्रवर्त्तत तदा तद्यवहितरागमित्युच्यते हृदयप्रियथा रागस्य व्यवहितत्वाद्, एवं योषिदपि हृदये प्रियं निधायेति योज्यम् , अत्र स.

MARKAND योगः खलरतं, न पोटारतं विगोपनस्थापि तत्र सम्भवात् , तत्र, १० अध्याये ] रतारम्भावसानिकप्रकरणम् । मुच्चयेन योगानित्ययमेवोपचारः ॥ ३४ ॥ स्वाभाविकाहार्यकृत्रिमभेदात्त्रयो नायका नायिकाश्च, तत्र सदश- संयोगे त्रीणि शुद्धानि, विपर्यये षट् सङ्कीर्णानि, तत्र सङ्कीर्णानेवोपचा- रान्योजयेद्, एतत् सर्व समानप्रतिपत्योः स्त्रीपुंसयोः, हीनाधिकयोद- पंजाद्विशेषमाह- न्यूनायां कुम्भदास्यां परिचारिकायां वा यावदर्थ सम्प्रयो. गस्तत्पोटारतम् ॥ ३६॥ न्यूनायां कुम्भदास्यामिति । अधमायां परिचारिकायां वा न्यूना. यां न समायां चन्द्रापीडस्येव पत्रलेखायां यावदति, पोटारतमिति । उभयव्यञ्जना पोटा नपुंसकम् ॥ ३५ ॥ तत्रोपचारान्नाद्रियेत ॥ ३६ ॥ तस्यामुपचारानालिङ्गलादोन्नाद्रियेत, अरञ्जनीयत्वात् , केवलं दर्पा- दुत्पन्नो रागोऽपनेयः ॥ ३७॥ तथा वेश्याया ग्रामीणेन सह यावदर्थ खलरतम् ॥ ३७॥ तथेति । यथा नायकस्यासादृश्यात् सम्प्रयोगः, वेश्याया इति । गणि- काया रूपाजीवायाः न कुम्भदास्याः, अभिप्रेतमलभमानाया दर्पाद्वामी. न कर्षकादिना सम्प्रयोगः खलरतं, ग्रामीणस्य खलत्वेन विगोपन- करत्वात् ॥३७॥ ग्रामत्रजप्रत्यन्तयोषिद्भिश्च नागरकस्य ॥ ३८॥ तथा प्रामादियोषिद्भिर्नागरकस्य पत्तनवासिनो दर्पाद्यावदथं सम्प्र- - ONAR ग्रामयोषितःकर्षकादिस्त्रियः, वनयोषितः गोप्यः, प्रत्यन्तयोषितः श. बर्यादयः॥ ३८॥ विस्तम्भरागाद्विशेषमाह- उत्पन्नविसम्भयोश्च परस्परानुकूल्यादयन्त्रितरतमिति रतानि ॥३९॥ उत्पन्न विस्त्रम्भयोश्चेति । चिरकाल सम्प्रयोगाजातविश्वासयोः पर- स्परानुकूल्यादिति । स्त्रिया आनुकूल्येन पुमानारभेत, तदानुकूल्येन च स्त्री, अयन्त्रितरतं यन्त्रणाऽभावात् , तञ्च विरत पुरुषायितादिभेदाद- नेकविधमिति बहुवचनेन दर्शयति-रतानीति ॥ ३९ ॥ इति रतविशेषा एकविंशतितमं प्रकरणम् । प्रणयकलहं वक्ष्यामः- SU ૫૮ सटीके कामसूत्र [२ अधिकरणे, ७ , SHIRED यथा जातविसम्भयोरयन्त्रितरतं तथा प्रणयात्कलहोऽपीति प्रणय. कलह उच्यते, तत्र कलहकारणमाह- वर्धमानप्रणया तु नायिका सपत्नीनामग्रहणं तदाश्रयमाला- वा गोत्रस्खलितं वा न मर्षयेद् नायकव्य लीकं च ॥ ४० ॥ बर्धमानप्रणया त्विति । यथा यथा विश्वासो बर्धते तथा तथा मृदुमध्याधिमात्रेण न मर्षयेदित्यर्थः, प्रायशश्च नायको विप्रियकारी तन्मूलश्च कलह इति दर्शयन्नाह-नायिकेति । नायकस्य विप्रियकरण- वाचा क्रियया वा, तत्र वाचा सपत्नीनामग्रहणं, तदाश्रयमिति । अगृहीत्वैव नाम सपत्नीसम्बद्धं गुणसूचकमालापं गोत्रस्खलितं. तन्नाम्ना नायिकाऽऽह्वानं, नायकव्यलीकमिति । लपत्न्या गृहगमनं ता- म्बूलादिप्रेषणं संयोगादिकं नायकस्यापराधं न मर्षयेत् , क्रियया विप्रि. यकरणमेतत् ॥ ४० ॥ अमर्षेण वाऽनुष्ठानादित्याह- तत्र सुभृशः कलहो रुदितमायासः शिरोरुहाणामवक्षोदनं. प्रहणनमासनाच्छयनाद्वा मह्यां पतनं माल्यभूषणावमोक्षो भूमौ शय्या च ॥४१॥ तत्रेति । सपस्नीनामग्रहणादिषु, अनुष्ठानं वाचा क्रियया च, तत्र धाचा कलहः सुभृशोऽतीव महान् पुनमैवं कार्षीरिति, क्रियया रुदि. तादि, आयासः शरीरवेदनाकम्पादिजः, अवक्षोदनं विधूननम् , प्रहण- नमात्मनः, अन्ये नायकस्य शिरोरुहावलम्बनं प्रहणनं चेत्याहुः, मह्यामि- ति। आसनादिति । यतः पतिताया न दुःखोत्पत्तिः, माल्यभूषणयोरपि. नद्धयोर्मोक्षणं त्यागः, भूमौ शय्या, न तेन सह शयनम् ॥ ४१ ॥ स नायकोऽपि सापराधत्वारिक प्रतिपद्यतेत्याह- तत्र युक्तरूपेण सान्ना पादपतनेन वा प्रसन्नमनाखामनुनय- न्नुपक्रम्य शयनमारोहयेत् ॥ ४२ ॥ तत्रेति । तस्मिन्ननुष्ठाने, साम्नेति। प्रियंववनेन; तस्य युक्तरूपताऽप. राधविशेषात् , पादपतनं नायकविशेषात् , प्रसन्नमना इति । अप्रदर्शित. विकारः, मा मूत्क्षते क्षार इति, तामिति । भूमौ सुप्ताम् , अनुनयन् प्रसा. दयन् , उपक्रम्योत्थापयितुं , शयनमारोहयेत् , प्रिये ! प्रसीदोत्तिष्ठ शय- नमध्यास्यतामिति ॥ ४२ ॥ तस्य च वचनमुत्तरेण योजयन्ती विबुद्धक्रोधा सकचग्रहम । AUR । ar १० अध्याये ] रतारम्भावसानिकप्रकरणम् । । स्यास्य मुन्नमय्य पादेन बाहौ शिरसि वक्षसि पृष्ठे चा सकृतिस्विर- वहन्यात् ॥ ४३ ॥ द्वारदेशं गच्छेत्तत्रचोपविश्याश्रुकरणमिति ॥ ४४ ॥ अतिक्रुद्धाऽपि तु न द्वारदेशाद् भूयो गच्छेद दोषवत्वादिति दत्तकः ॥ ४५ ॥ तस्य चेति । अनुनयतः, वचनमुत्तरेण योजयन्ती तत्कालोचितेन, वि. बृद्धक्रोधा पुनःपुनरपराधस्मरणात्, सकचग्रहमस्यास्यं मुखमुन्नमय्य, किंचिद्भावितचेष्टितो नेति ज्ञातुं सकृदवहत्य, द्विस्त्रिरिति । क्रोधवशात्, तदानीं शिरसि पादताडनमपि न दोषाय, सौभाग्यचिह्न तदिति नागर. कवृद्धाः, तत्र चेति । द्वारदेशे, अश्रुकरणमश्रुविमोचनं , न भूयो न बहिः, दोषवत्त्वाद् भूयोगमनस्य कोपव्याजेनान्यत्र गमनाशङ्कोत्पत्तः, दत्तकग्रहणं पूजार्थ, तन्मतस्याप्रतिषिद्धत्वात् ॥ ४३ ॥ ४४ ॥ ४५ ॥ तत्र युक्तितोऽनुनीयमाना प्रसादमाकाङ्केत प्रसन्नाऽपि तु सक पायैरेव वाक्यैरेनं तुदतीव प्रसन्ना रतिकाङ्क्षिणी नायकन परि- रभ्येत॥४६॥ तत्रेति । अश्रुकरणे पादताडनं क्रोधस्यावधिरिति मन्यमानो ना- यकः पुनस्तां युक्त्याऽनुनयेत्, सा तेन युक्तितोऽनुनीयमाना पादपतनं. प्रसादनोपायस्यावधिरिति मन्यमाना प्रसादमाकाक्षेत, ततः प्रसन्ना नायकनालिझ्यते तत्रापि सकलुषैः सासूयैर्वाक्यैरेनं नायक तुदती व्य. थयन्ती, प्रसन्ना रतिकाङ्किणी प्रसन्ना रतिमाकाक्षमाणा, अन्यथा न यदि परिरभ्येत तदाऽतिभूमि गतात्कोपान्नायकोऽप्यप्रसन्न इति मतोऽयं. कुलयुवत्याः पुनर्वाश्च विधिः ॥ ४६॥ वेश्यायाः परपरिगृहीतायाश्च विशेषमाह- स्वभवनस्था तु निमित्तात्कलहिता तथाविधचेष्टेव नायकमाभि गच्छेत् ॥ ४७॥ स्वभवनस्था त्विति । निमित्तात्पूर्वोक्तात्, कलहितेति । कलहः सं- जातो यस्याः, कृतकलहेत्यर्थः, वाचिकममर्षणमेतत् , कायिकमाह-त. थाविधचेष्टैवेति । असूयासूचकैदुनिरीक्षणभूभङ्गादिभिः, नायकमभि- गच्छेदिति, तस्य समीपे ढौकेतेत्यर्थः ॥४७॥ तत्र पीठमर्दविटविदुषकर्नायकप्रयुक्तरुपशामितरोषा तैरेवा. Read अलंकृतः प्रयोगतोऽर्थतश्च ज्ञातत्वाद्, गोष्ठयां नरनारीणामासनबन्धे. सटीके कामसूत्रे [ २ अधिकरणे, नुनीता तैः सहैत्र तभवनमाधगच्छचत्र च वसेदिति प्रणय- कलहः॥४८ तत्र तस्मिन्कापानुष्ठाने, नायकप्रयुक्तैस्तस्याः प्रत्यानयने, उपशमि- तरोषा साना तैरेवानुनीता, अपादपतनेन नायकेन बहिः स्त्रीषु पादप- तनस्य प्रतिषिद्धत्वात् , सहैव गच्छेत् स्वगौरवोत्पादनार्थः, तत्रैव वसेद् नायकभवने तां रात्रि रागसंधुक्षणार्थम् ॥ ४८ ॥ अधिकरणार्थमुपसंहरति- भवन्ति चात्र श्लोकाः एवमेतां चतुःषष्टिं वाभ्रव्येण प्रकीर्तिताम् । प्रयुञ्जानो वरस्त्रीषु सिद्धिं गच्छनि नायकः ॥ ४९ ॥ एवमिति । चतुःषष्टिमालिङ्गनादिकाम् , बाभ्रव्येण पाञ्चालेन, वर, स्त्रीषु तद्विज्ञासु, सिद्धि गच्छति सौभाग्यमाप्नोति, तस्माच्चतुःषष्टिरा. लिङ्गनादीनां ज्ञातव्या, अन्यथा ह्यपरिज्ञानेऽन्यशास्त्रपरिज्ञानेऽपि न केव. लं सिद्धि नाधिगच्छति, अन्यत्रापि नात्यर्थं पूज्यते ॥ ४९ ॥ अस्थास्तु परिज्ञानेऽन्यशास्त्रापरिज्ञानेऽपि केवलं सिद्धा पूज्यश्चान्य- त्राप्यग्रणीः स्यादिति दर्शयन्नाह- ब्रुवन्नप्यन्य शास्त्राणि चतुःषष्टिविवर्जितः । विद्वत्संसदि नात्यर्थ कथासु परिपूज्यते ॥ ५० ॥ ब्रुधन्नपीति । अर्थतः प्रयोगतश्च कथयन् , विद्वत्संसदीति । त्रिवर्गप्र. तिपत्तौ येऽधिकृतास्ते विद्वांसः, तत्सभायां, कथासु त्रिवर्गस्य ॥ ५० ॥ वर्जिताऽप्यन्यविज्ञानरेतया यस्त्वलंकृतः। स गोष्ठयां नरनारीणां कथास्वयं विगाहते ॥ ५१ ॥ अन्यविज्ञानाकरणादिशास्त्रपरिज्ञानैः, एतयेति । चतुःषष्टया, - 44100 ऽन्यशास्त्रं नाधिक्रियते, कथासु कामसूत्रस्य, अग्रं विगाहते, अग्र. णीर्भवतीत्यर्थः ॥५१॥ ननु चतुःषष्टेरपूज्यत्वात्कथं ज्ञाता विद्वरसंसदि पूज्यत इति चेदाह- विद्वद्भिः पूजितामेनां खलैरपि सुपूजिताम् । पूजितां गणिकासङ्घर्नन्दिनी को न पूजयेत् ॥ ५२ ॥ विद्वद्भिरिति । त्रिवर्गवेदिभिः स्त्रीसंरक्षणोपायत्वात्पूजिता, खलैरपि सुपूजितां, वस्तुतस्तथाविधत्वात् , पूजितां गणिकासंध, जीविकोपा.

१० अध्याये] प्रणयकलहप्रकरणम् । SARAMIND हा सुभगकरणीति च । यत्वाद्, एवं च कृत्वा नन्दिनीत्युच्यत इत्याह-नन्दिनीमिति । नन्दनं. नन्दः पूजा, सा विद्यते यस्या इति ॥ ५२ ॥ यथेयमनुगतार्था संज्ञा तथाऽन्याऽपीत्याह- नन्दिनी सुभगा सिद्धा नारीप्रियेति चाचार्य शास्त्रेष्वेषा निरुच्यते ॥ ५३ ॥ नन्दिनीति । सुभगा सवैगुहिभिरनुष्ठीयमानत्वात् , सिद्धा विद्येव वशङ्करणी, सुभगङ्करणी स्त्रीपुंसयोः सौभाग्य करणाद्, नारीप्रिया विशेषतस्तत्सुखकरणाद्, एवमनेकार्थसाधिका, कस्तां न पूज- येत् ॥ ५३॥ अतो ज्ञाताऽपि तद्योगात्पूज्यः, विशेषतो नायिकानामित्याह- कन्याभिः परयोषिद्भिर्गणिकाभिश्व भावतः । वीक्ष्यते बहुमानेन चतुःषष्टिविचक्षणः ॥ ५४ ।। इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे रता- रम्भावसानिक रतविशेषाः प्रणयकलहश्च दशमोऽध्यायः । आदितः पञ्चदश। कन्याभिरिति । पुनर्भूः परयोषित्येवान्तर्भूता, सैव हि विधवा पुन. र्भवतीति, वेश्येति वक्तव्ये गणिकाग्रहणं योषिदपि चतुःषष्टिविचक्षणेति दर्शनार्थम् , भावत इति । भावेन हेतुना, बहुमानेन गौरवेण ॥ ५४ ॥ प्रणयकलहो द्वाविंशं प्रकरणम् । इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे रतारम्भावसानिकं स्तविशेषाः प्रणयकलहश्च दशमोऽध्यायः । । समातमिदं सांप्रयोगिकं द्वितीयमधिकरणम् । २१ का०स० कन्यासम्प्रयुक्तकं नाम तृतीयमधिकरणम् । प्रथमोऽध्यायः। चतुःषष्टिविचक्षणः कन्याभिर्भावतो वीक्ष्यमाणोऽपि न समागम विना सम्प्रयुज्यत इति तत्समागमोपाय आवाप उच्यते, समन्तादावाप्यन्ते स्त्रियोऽनेनेति, तत्र कन्यायाः प्रधानत्वात्कन्योसम्प्रयुक्तकमुच्यते, तत्रो. द्वापा अष्टौ विवाहा:-ब्राह्मः प्राजापत्य आों दैवो गान्धर्व आसुरः पै. शाचो राक्षस इति, तत्र पूर्वे चत्वारो धा इति तदर्थ वरणसंविधान- प्रकरणमुच्यते, किमर्थमेवमनुष्ठीयत इति चेद् ? आह- सवर्णायामनन्यपूर्वायां शास्त्रतोऽधिगतायां धर्मोऽर्थः पुत्रा:- सम्बन्धः पक्षबृद्धिरनुपस्कृता रतिश्च ॥ १ ॥ सवर्णायामिति । ब्राह्मणादीनां यथास्वं सवर्णायाम् , अनन्यपू. यामिति । मनसा कर्मणा वचसा वाऽन्यस्मै या न दत्ता, तत्र हि प्रगूढमपत्यं तदस्यैवेति स्मृत्यर्थः, शास्त्रत इति । शास्त्रोक्तेन वरण- पूर्वेण परिणयविधिनाऽधिगतायां स्वीकृतायां सत्यां ध: पत्नीसंयो. गाख्य इत्यादिप्रवर्तनं च, अर्थों यौतुकलाभाद् गार्हस्थ्यानुष्ठानाच्च, पुत्रा दृष्टादृष्टार्थाः, सम्बन्धः सहकभोजनादिहेतुः, पक्षवृद्धिरिति । स्वपक्षस्य बृद्धिः पक्षान्तरलाभाद्, अनुपस्कृता रतिरकृत्रिमा विश्वा. सातिशययोगात् ॥१॥ यतश्चैवम्- तस्मात्कन्यामभिजनोपेतां मातापितृमती त्रिवर्षात्प्रभृति न्यू. नवयसं श्लाघ्याचारे धनवति पक्षवति कुले सम्बन्धिप्रिये सम्ब. धिभिराकुले प्रस्तां प्रभूतमातापितृपक्षां रूपशीललक्षणसम्पन्ना- मन्यूनानधिकाविनष्टदन्तनखकर्णकेशाक्षिस्तनीमरोगिप्रकृतिशरीरा तथाविध एव श्रुतवाशीलयेत् ॥ २॥ तस्मात्कन्यां शीलयोंदति सम्बन्धः, अशीलितायां वरणासम्म वात् . तत्र शीलनमभिजनतः सनाथतो वयसः कुलाचारतो द्रव्यतोऽनुरा. गतो रूपतः शीलतो बाह्यलक्षणत आरोग्यतश्चेति, यथाक्रममाह-अ. भिजनः कुलम् , मातापितृमती सनाथत्वात् , त्रिवर्षादिति । वर्ष- त्रयात्प्रभृति न्यूनेवयसं, नैकेन द्वाभ्यां वाऽपि समवयसमधिकवmah ।

१ अध्याये] वरणविधानप्रकरणम् । यसं वा, श्लाध्यः स्पृहणीय आचारो यस्मिन्कुले, धनवति धनधान्या- व्ये, सम्बन्धिप्रियेऽनुरागिणि, पक्षवति, सम्बन्धिभिराकुले, प्रभूत- मातापितृपक्षामित्यनेनातिसनाथतां दर्शयति, रूपं शरीरस्थ शो. भनो यो वर्णः संस्थानं च, शीलं सुस्वभावता, लक्षणमवैध- व्यादिसूचकम् , अन्यूनेति । तत्प्रत्येकं योज्यं, यथासम्भवमन्यून. मनधिकमनष्टं च दन्तादि यस्याः, अवयवरूपेणापि युक्तामित्यर्थः, क. न्यायो दन्तादीनां प्रधानावयवत्वाद्, अरोगिप्रकृतिशरीरामिति । स्वभावतो न रोगवच्छरीरं यस्था इत्यर्थः, तथाविध एवेति। अभि. जनाद्युपेतोऽन्यथा ह्यगम्य एव स्याद् , विशेषमाह-श्रुतवानिति। गृ- हीतविद्य इत्यर्थः, शीलयेन्मनसि समादध्याद्, शील समाधावि- ति धातुपाठात् ॥ २॥ यां गृहीत्वा कृतिनमात्मानं मन्येत न च समानै निन्धेत तस्यां. प्रवृत्तिरिति घोटकमुखः ॥ ३ ॥ गृहीत्वा परिणीय, कृतिनं कृतार्थ, न च समानिन्धत, कुत्सा- जनकं कृतमनेनेति, प्रवृत्तिवरणसंविधानं, घोटकमुखग्रहणमधिकरण प्रावीण्यख्यापनार्थम् ॥ ३॥ वरणं द्विविधम् -पौरुषेण दैवेन च विधिना, तत्र पूर्वमधि- कृत्याह- तस्या वरणे मातापितरौ संबन्धिनश्च प्रयतेरन् मित्राणि च गृहीतवाक्यान्युभयसंबद्धानि ॥ ४ ॥ तस्या इति । शीलितायाः, वरणे याचने, मातापितरौ नायकेन मित्रजनमभिधाय प्रेरितो प्रयतेतां, वरयितृपुरुषप्रेरणेन संबन्धि. नो ये नायककुले संबन्धं कृतवन्तः, मित्राणि च नायकस्य प्रयतेरन्नि- त्येव, गृहीतवाक्यानि, तद्वचनस्यानतिक्रमणीयत्वाद्, उभयकुलसंबद्धा. नि मातृसम्बन्धेन पितृसम्बन्धेन च ॥४॥ तान्यन्येषां वरयितॄणां दोषान्प्रत्यक्षानागमिकांश्च श्रावयेयुः ॥५॥ कौलान्पौरुषेयानभिप्राय संबर्धकांश्च नायकगुणान् विशेष तश्च कन्यामातुरनुकूलांस्तदात्वायतियुक्तान्दर्शयेयुः ॥ ६ ॥ तानीति । मित्राणि, अन्येषामिति । नायकादन्ये ये वरयितारः, वर ईसायामदन्तश्चौरादिकः, प्रत्यक्षान्दोषान्विरूपकान्धकुब्जत्वादीन् , आगमिकान्सामुद्रोक्तान् , आगामिकानिति पाठान्तरम् , भाविन इत्य- सटीके कामसूत्रे [ ३ अधिकरणे, HD र्थः, श्रावयेयुः, तस्याः पितरावित्यर्थात्, कौलान्कुले भवान् , शील शौण्डीर्यादीन् नायकगुणान् , पौरुषेयान् पुरुषकारनिष्पन्नाञ् शास्त्रकलाग्रहणादीन्, अभिप्रायसंवर्धकांश्चेति । पित्रोः कन्यादानाभिप्रायं संवर्धयन्ति ये, विशेषतः कन्यामातुर्येऽनुकूला भवन्ति ते बाल्यवयस्त्वादयः, तदात्वायतियुक्तानिति । वर्तमानेनाना. गतेन च कालेन फलदानात्संयुतान् , 'तत्कालस्तु तदात्वं स्यादायतिः काल उत्तरः' इत्यमरः, दर्शयेयुः, मित्राणीत्येव ।। ५-६॥ देवमधिकृत्याह- दैवचिन्तकरूपश्च शकुननिमित्तग्रहलग्नबल लक्षणदर्शनेन ना. यकस्य भविष्यन्तमर्थसंयोगं कल्याणमनुवर्णपेत् ॥ ७ ॥ देवचिन्तकरूपश्चेति। सांवत्सरव्यञ्जनो नायकप्रहितः, शान्तायां. दिशि रटतः काकादः शकुनस्य निमित्तस्य तज्जात्यादेः, शुभग्रहाणां. लग्नादुपचयस्थानेषु स्थितानां यद् बलं दिक्कालस्थानस्वभावैस्तस्य दर्शनेन, लक्षणस्य शङ्खचक्रादेर्दर्शनेन भविष्यन्तमनागतमर्थसंयोग. सैनापत्याध्यक्ष्य पत्तनादिलाभ, कल्याणमिति । कल्याणहेतुत्वाद्, अर्था- नुबन्धमित्यर्थः ॥ ७ ॥ अपरे पुनरस्यान्यतो विशिष्टेन कन्यालाभेन कन्यामातर- मुन्मादयेयुः ॥ ८॥ अपर इति। देवचिन्तकरूपाः, अस्य नायकस्य, अन्यत इति । यतो वियते कन्या ततोऽन्यस्माद्, विशिष्टेनेति । अमुष्य सेनापते. रर्थरूपवती दुहिताऽस्मै दातुमिष्यते; येन वयं ह्यस्तने नक्षत्रसंयो. गं पृष्टा इत्यनेन कन्यामातरमुन्मादयेयुरनुरञ्जयेयुः, येनानुरक्ता दुहिः तरं दद्यात् ॥ ८॥ देवनिमित्त शकुनोपश्रुतीनामानुलोम्येन कन्यां वरयेद्याच्च ॥९॥ देवनिमित्तशकुनोपश्रुतीनामिति । पूर्वजन्मकृतं शुभमशुभं वा कर्म दैवं, तस्याभिव्यञ्जकत्वान्नक्षत्रग्रहा अपि दैवमुच्यते, अ. स्यानुकूल्येन षट्काष्टकादियोगाभावात् , किमियमूढा कल्याणक. री नेति ? शास्त्रोक्तं निमित्तं; शुकुनपृच्छा च कार्यानिशीथे चो. पश्रुतिर्लाह्या, तेषामानुकूल्येन परयेद् दीयमानामीप्लेत, दद्याच्च कन्यापक्षः ॥९॥ न यदृच्छया केवलमानुषयेति घोटकमुखः ॥ १० ॥ केवलमानुषयेति । केवलं मानुषं कर्म यस्यां यदृच्छायामभिजन- १ अध्याये] वरणविधानप्रकरणम्। सामर्थ्यादिकमस्ति तया, नैवान्येच्छया वरयेद्दद्याच्चेत्यर्थः, घोटक मुख इति । परमतमभिमतमप्रतिषिद्धत्वात् ॥ १० ॥ वरणकाले कन्यां दृष्ट्वा निमित्तं पश्येदिति दर्शयन्नाह- सुप्तां रुदती निष्क्रान्तां वरणे परिवर्जयेत् ॥ ११ ॥ सुप्तामिति । शयनमल्पायुषं सूचयति, रुदतीं दुःखभागिनी, नि. क्रान्तां गृहान्निष्क्रामन्ती गृहत्यागिनीं दृष्ट्वा, वरणकाले वरयिता वर्जयेत् ॥ ११ ॥ अप्रशस्तनामधेयां च गुप्तां दत्तां घोनां पृषतामृषभा विना- विकटो विमुण्डां शुचिदूषितां सांकरिकी राकां फलिनी मित्रां. स्वनुजां वर्षकरी च वर्जयेत् ॥ १२ ॥ अप्रशस्तनामधेयामिति । भङ्गिका विभ्राटिकेति, गुप्तामप्रदर्शिता- माशयमानदोषां, दत्तामित्यनन्यपूर्वामित्यस्य, घोनादयश्च लक्ष. णसम्पन्नामित्यस्य प्रपञ्चोऽवश्यत्यागार्थः, तत्र घोनां कपिलां पतिघ्नी. म्, पृषतां शुक्लबिन्दुयुतामर्थहानिकरी पतिघ्नीं च, ऋषमा पुरुषसं. स्थानां दुःशीला, विनतां स्कन्धदेशावनतां दुःशीलां, विकटामसंह- तोरूं दुःखभागिनी, विमुण्डां बृहल्ललाटां पतिध्नी, शुचिदूषितां पितु. मृतस्य दत्तोल्कां क्रियया न प्रशस्तां, सांकरिकी पुरुषदूषितां, तस्या- पत्नीयोगो न धर्मः, राकां जातरजसं रजसा क्षतयोनित्वाद्, फलिनी मूकां संव्यवहारबाह्याम्, मित्रां मित्रत्वेन गृहीतामगम्यां, स्वनुजा- मिति । त्रिवर्षात्प्रभृति न्यूनवयसमित्यस्य शेषः, सुष्ठु पश्चाज्जातामि. त्यर्थः, यथोक्तम्- 'चतुर्थादष्टमं यावत्कनिष्ठा बत्सरे वरात् । कन्यां परिणयेच्छस्तां नेतराऽतिवयाश्च या॥ वर्षकरी स्विद्यत्करवरगां पतिघ्नीम् ॥ १२ ॥ नक्षत्राख्यां नदीनाम्नी वृक्षनाम्नी च गर्हिताम् । लकाररेफोपान्तां च वरणे परिवर्जयेत् ॥ १३ ॥ नक्षत्राख्यां श्रवणां विशाखामित्येवमादि, नदीनाम गङ्गायमुनेत्या. दि, वृक्षनाम जम्बूः प्रियङ्गुरित्यादि, लकाररेफोपान्तां चेति । लकाररे. फावन्ताक्षरसमीपे नाम्नि यस्याः, कमलू विमलू चारू तारू चेति ॥१३॥ यस्यां मनश्चक्षुषोर्निबन्धनं तस्यामृद्धिर्नेतरामाद्रियेतेत्यके ॥१४॥ मनश्चक्षुषोनिबन्धनमिति केषाञ्चिन्मतं, यस्यामभिजनादिसद्भावे. ।

१६६
६
सटीके कामसूत्रे
[ ३ अधिकरणे,
ऽपि मनासङ्गश्चक्षुःप्रीतिश्चोभयमपरमस्ति, तस्यां पत्न्यां सत्यां सिद्धि.
स्त्रिवर्गप्राप्तिरित्ययमुत्तमः पक्षः, नेतरामिति । यस्यां नास्ति न तामा.
द्रियेतेत्यधमः पक्षः, केवलमभिजनाद्यपेक्षा वरयेत्, पूर्वामादरेणेति वि.
शेषः, दोषेषु तु मनश्चक्षुनिबन्धनेऽप्युपेक्षां, तत्रापि दोषाणां गौरव.
लाघवं परीक्ष्यमिति ॥ १४ ॥
कन्यापक्षे वरणनिमित्तं संविधानमाह-
तस्मात्पदानसमये कन्यादारवेषां स्थापयेयुरापराह्निकश्च ॥१५॥
तस्मादिति । यतः सुप्ताद्यनिमित्तात्कन्या न वियते तस्मात् , प्रदा.
नसमय इति । उपलक्षणार्थत्वावरणकालेऽपि प्रसाधितां स्थापयेयुः
कन्यापक्षीयाः, आपराह्निकमिति । प्रदानात्प्रागपराह्णभवं विधि स्था-
पयेयुरित्येव ॥ १५ ॥
ERON
१
.
नित्यं प्रसाधिताया: सखीभिः सह क्रीडा यज्ञविवाहादिषु
जनसन्द्रावेषु प्रायनिक दर्शनं तथोत्सवेषु च पण्यसधर्मत्वात् ॥१६॥
नित्यमिति । सखीभिः सह क्रीडा रथ्याचत्वरादिषु, यज्ञविवाहादिषु
चान्यदीयेषु, जनसंद्रावेविति । जनाः संभूय द्रवन्ति येषु, प्रायनि-
कमिति । प्रयत्नसाध्यम् , परिचाराधिष्ठितत्वात्कौतुकेन लोको यत्नेन
पश्यति, तथोत्सवेषु च वसन्तकादिषु जनसंगावेषु प्रायनिकम् , पण्य-
सधर्मत्वादिति । विक्रेतव्यतुल्यं कौतुकेन हि लोको यत्नेन पश्यति, न
दृश्यमाना पण्यवद् ध्रियेत ॥ १६ ॥
वरयितृणां च लक्षणमुपचारं चाह-
वरणार्थमुपगतांश्च भद्रदर्शनान्प्रदक्षिणवाचश्च तत्सम्बन्धिस-
तान्पुरुषान्मङ्गलैः प्रतिगृह्णीयुः ॥ १७ ॥
वरणामिति । अहीनाङ्गत्वान्मङ्गलाचारयुक्तत्वात् , प्रदक्षिणवाच.
इति । अनुकूलवाचा, तत्सम्बन्धिसंगतानिति । यत्प्रागुक्तं मित्राणि स.
म्बन्धिनश्चेति तैः सहेत्यर्थः, मङ्गलैर्दध्यक्षतादिभिः प्रतिगृह्णीयुः कन्या-
पक्षीयाः॥१७॥
कन्यां चैषामलंकृतामन्यापदेशेन दर्शयेयुः ॥१८॥
अन्यापदेशेनेति । अन्यकार्यमपदिश्य न तूपेत्य दर्शयेद्, दानस्या-
निश्चितत्वात् ॥ १८॥
दैवं परीक्षणं चावधि स्थापयेयुरापदाननिश्चयात् ॥ १९ ॥

१ अध्याये] वरणविधानप्रकरणम् । ॥ .. देवं परीक्षणं चेति । यावत्प्रदान न निश्चीयते तावद् दैवं प्रजाप- त्यधीनमिति, परीक्षणं च मित्तस्वजनैः सह निरूपयाम इत्यवधिं स्था पयेयुः, अन्यस्त्वाह- 'गोष्ठसीताहदवृक्षश्मशानेरिणदेवतः । चतुष्पथाच्च मृत्पिण्डैः कुर्याद् दैवपरीक्षणम् ॥ १९ ॥ स्नानादिषु नियुज्यमाना वरयितारः सर्व भविष्यतीत्युक्त्वा न तदहरेवाभ्युपगच्छेथुः ॥ २० ॥ स्नानादिषु नियुज्यमानाः कन्यापक्षीयाः, वरयितार इति । वृण्वन्ति ये, सर्वमिति । स्नानादिकम् , भविष्यति प्रजापतावनुकूले, न तदहरे. वेति । ते दिवसं स्नानादिभिर्नाडीकुर्युः ॥ २० ॥ देशप्रवृत्तिमात्म्यावा. ब्राह्मप्राजापत्यार्षदेवानामन्यतमेन वि. वाहेन शास्त्रतः परिणयेदिति वरणविधानम् ॥ २१ ॥ देशप्रवृत्तिसात्म्यावति। यस्मिन्देशे या प्रवृत्तिस्तदानुकूल्यादित्य. र्थः, ब्राह्मप्राजापत्यार्षदेवानामिति । एषां धर्म्यत्वाद, अन्यतमेन, तथा चोक्तम्- 'सकृदाहूय कन्या तु ब्राह्मे दद्यात्स्वलंकृताम् । सह धर्म चरेत्येवं प्राजापत्योऽभिधीयते ।। वसुगोमिथुनं दत्वा विवाहस्त्वार्ष उच्यते । अन्तवद्यां तु देवः स्यावृत्विजे कर्म कुर्वते ॥ शास्त्रत इति । गृह्योकेन विधिना ॥ २१ ॥ वरणसंविधान त्रयोविंशं प्रकरणम् ॥ अभिजनादिभिः शीलितायामप्यनिश्चिते सम्बन्धे वरणाभावात्स. म्बन्धनिश्चय उच्यते- भवन्ति चात्र श्लोकाः- समस्याद्याः सहक्रीडा विवाहाः सङ्गतानि च । ताशैरेव कार्याणि नोत्तमै पि वाऽधमैः॥ २२ ॥ समस्याद्या इति । सम्भूय क्रीडामादि कृत्वा क्रीडाः, सङ्गतानि स- ख्यानि, तादशैरिति । समानैः तुल्यजात्यभिजनद्रव्यायतित्वात् ॥ २२ ॥ तेन समानाधमोत्तमसम्बन्धिभेदात्सम्बन्धस्त्रिविधः, तस्य कार्यद्वा Mamataonline MOHABINAya सटीके कामसूत्रे [३ अधिकरणे, chotanya - । रेण लक्षणमाह- कन्यां गृहीत्वा वर्तेत प्रेष्यवधत्र नायकः । तं विद्यादुच्चसम्बन्धं परित्यक्तं मनस्विभिः ॥ २३ ॥ कन्यामिति । गृहीत्वा परिणीय, प्रेष्यवद्-भृत्यवद्, द्रव्यायत्यभा. वाद्, उच्चसम्बन्धमिति । अधिकेन सम्बन्धिना, परित्यक्तं मनस्थिभिः, ये तु नैवं ते कुर्वन्त्येव ॥ २३ ॥ स्वामिवद्विचरेद्यत्र बान्धवैः स्वैः पुरस्कृतः । अश्लाघ्यो हीनसम्बन्धः सोऽपि सद्भिर्विनिन्द्यते ॥ २४ ॥ स्वामिवदिति । कन्यां गृहीत्वा प्रभुवद्विचरेद्, द्रव्यायतिमत्त्वाद्,बा. ग्धवैः श्वशुरश्यालकादिभिः प्रेष्यभूतैः परिवृतः,अश्लाघ्य इति । अश्ला- घनीयस्तदनुरूपलोकाचाराभावात् , सद्भिरिति । लोकव्यवहारज्ञैः ॥२४॥ परस्परमुखास्वादा क्रीडा यत्र प्रयुज्यते । विशेषयन्ती चान्योन्यं सम्बन्धः स विधीयते ॥ २५ ॥ परस्परसुखास्वादेति । वरपक्षस्य कन्यापक्षस्य च सुखानुभवो य. स्यां परस्परप्रयुक्तायां क्रीडायां, विशेषयन्ती चान्योन्यं प्रयुज्यते यस्मि- न्सः; सम्बन्धी विधीयत इति । सद्भिः क्रियत इत्यर्थः, पूर्वी तु न विधी. येते इत्यर्थोक्तम् ॥२५॥ तयोरपि कः श्रेयानित्याह- कृत्वाऽपि चोचसम्बन्धं पश्चाज्ज्ञातिषु संनमेत् । न त्वेव हीनसम्बन्धं कुर्यात्सद्भिर्विनिन्दितम् ॥ २६ ॥ इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे वरणविधानं सम्बन्धनिश्चयश्च प्रथमोऽध्यायः। कृत्वाऽपीति । शातिषु संनमेदिति । ज्ञातिगृहे स्वयं यायाद्, न श्वशुरगृह इत्यर्थः, न त्वेवेत्येकान्तेनैव प्रतिषेधः ॥ २६ ॥ सम्बन्धनिश्चयश्चतुर्विशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां कन्यासम्प्र. युक्तके तृतीयेऽधिकरणे वरणविधानं सम्बन्धनिश्चयश्च प्रथमोऽध्यायः । MARAHIRD २ अध्याये] कन्याविनम्भणप्रकरणम् । MARRIANS हमिति । द्वितीयोऽध्यायः एवमधिगताऽप्यविश्वासिता न संप्रयोगाति, कन्याविनम्भणमु. च्यते, तत्र विवाहानन्तरं मङ्गलाचारमाह- संगतयोस्त्रिरात्रमधःशय्या ब्रह्मचर्य क्षारलवणवर्जमाहारस्त. था सप्ताहं सतूर्य मङ्गलस्नानं प्रसाधनं सहभोजनं च प्रेक्षा संबन्धि. नां च पूजनमिति सार्ववर्णिकम् ॥ १ ॥ संगतयोरिति । परिणयात्प्राप्तसमागमयोः, त्रिरात्रमिति । रात्रिन- हणं रात्रिकर्मप्रदर्शनार्थम्, अधःशय्या भूमौ शयनं, न खट्वायाम् , ब्रह्मचर्य यावञ्चतुर्थिकाहोमो न क्रियते दिवामैथुनस्य प्रतिषिद्धत्वात् । क्षारः फाणितगुडादिः, लवणं सैन्धवादि, तद्वज भोजनं मधुक्षीरघृत. संस्कृतप्रायं, तच्च नक्तं स्याद्, रात्रिकर्मवर्ग पठितत्वात्, तथा सप्ता. यथा ज्यह, तदूर्ध्वमपराणि सप्ताहानीत्यर्थः, अहर्ग्रहणं. दिनकर्मप्रदर्शनार्थ, सवाद्यं समङ्गलं सगीतं स्नानं च, प्रसाधन मण्ड- नं, सहभोजनं चेति । एकस्मिन्स्थाने, पूर्वत्रापि सहभोजनं किं तु व्रतस्थत्वात्क्षारलवणवर्ज नक्तं च तदिति, प्रेक्षा संबन्धिनां नटादीनां- च दर्शनम् , पूजनं च गन्धमाल्यादिभिः, सार्ववणिकमिति । चतुर्वपि ब्राह्मणादिवर्णेषु भवमविरुद्धत्वाद् , एतञ्च लोके दशरात्रिकमित्युच्यते, तथा चोक्तं-- 'कन्यावेश्मनि निर्वर्त्य राजवदशरात्रिकम् । सभार्यः स्वगृहं यायास्थितेर्वा कुलदेशयोः' इति ॥ १ ॥ वित्रम्भणोपायमाह- तस्मिन्नेता निशि विजने मृदुभिरुपचारैरुपक्रमेत ॥ ३ ॥ तस्मिन्निति । दशरात्रिके, कन्या द्विविधा, संसर्गयोग्या; इतरा च, पूर्वस्या विस्तम्भणं रतापेक्षया, द्वितीयाया भयलजाऽपगमापेक्षया, नि- शि मन्दसाध्वसत्वाद्, विजने कौतुकगृहे लजाऽपगमाद्, मृदुभिरु- पचारैरिति । अनुद्वेगकरैरालापस्पर्शनादिभिः ॥ ३ ॥ किमर्थमुपक्रम्यत इत्याह- त्रिरात्रमवचनं हि स्तम्भमिव नायकं पश्यन्ती कन्या निर्वि- घेत परिभवेच्च तृतीयामिव प्रकृतिमिति बाभ्रवीयाः ॥४॥ त्रिरात्रमिति । स्तम्भमिव मूकं निश्चेष्टं तत्र निर्वचनं पश्यन्ती नि- विद्यत, मूकेन ग्राम्येण चाहमूदेति खिद्येत्, परिभवेञ्चेति । निश्चेष्टत्वा. २२ का सू० । । । ।

१७० सटीके कामसूत्रे [३ अधिकरणे, ७ नपुंसकमिति, तिरस्कारबुद्धिं तत्र कुर्यात् ॥ ४ ॥ अस्मिन्पक्षे सर्वस्याविशङ्कया करणे प्राप्त प्रतिषेधमाह- उपक्रमेत विसम्भयेञ्च, न तु ब्रह्मचर्यमतिवर्तेतेति वात्स्यायनः॥५॥ उपक्रमेत यथा न निविद्येत, विनम्भयेञ्च यथा सम्प्रयोगेऽनुकूला भवति न तु ब्रह्मचर्यप्रतिवर्तेत; अनुकूलायामप्यकाले व्रतखण्डनस्या- धर्मत्वात् ॥ ५॥ उपक्रममाणश्च न प्रसह्य किञ्चिदाचरेत् ॥ ६ ॥ उपक्रममाणश्चेत्यादिना मृदुभिरुपचारित्यस्य प्रपञ्चः, न प्रसह्य किश्चिदिति । स्पर्शनमपि नाभिभूय कुर्यादित्यर्थः ॥ ६ ॥ किमर्थमित्याह- कुसुमसधर्माणो हि योषितः सुकुमारोपक्रमाः, तास्त्वनधिः गतविश्वास प्रसभमुपक्रम्यमाणाः सम्प्रयोगद्वेषिण्यो भवन्ति तस्मा. सानैवोपचरेत् ॥ ६ ॥ कुसुमसधर्माण इति । कुसुमतुल्याः, योषित इति । सर्वा एव, वि शेषतः कन्याः, सुकुमारोपक्रमा इति । मृदुरुपक्रमः स्पर्शनादिलक्षणो यासु, अनधिगतविश्वासैरिति । लब्धविश्वासैस्तु प्रसह्योपक्रमो न दो. पाय, सम्प्रयोगद्वेषिण्यो जातानिच्छकत्वात् , तस्मात्सास्नेति । मृदुना, सर्वोपचाराणामयं प्राथमिको विधिः ॥ ६ ॥ तत्रालब्धप्रसरस्योपचारयोगासम्भवात्तदुपायमाह- युक्त्याऽपि तु यतः प्रसरमुपलभेत तेनैवानुमविशेत् ॥ ७ ॥ युक्त्येति । कया चिदर्थयुक्त्या तत्कालभाविन्या, यतः प्रसरमिति । तत्सख्या सह सम्भाषणे क्रीडने वाऽऽत्मनोऽवकाशमुपलभेत, तेनव सम्भाषणेन क्रीडनेन वा द्वारेण तामनुप्रविशेत् ॥ ७॥ ततो लब्धप्रसरस्थ प्रथममुपगृहनेनोपक्रम इत्याह- तत्मियेणालिङ्गनेनाचरितेन नातिकालत्वात् ॥ ८ ॥ तप्रियेणेति । कथं तत्प्रियमित्याह-नातिकालत्वादिति । यद्दत्वा. ऽनन्तरमेवापनीयते तस्यानुद्वेजनकरत्वात् ॥ ८॥ पूर्वकायेन चोपक्रमेत विषह्यत्वात् ॥ ९ ॥ पूर्वकायेन चेति । तस्या यो नाभेरूर्वभागस्तेन प्रथममुपक्रमेत, विषयत्वादिति । तेनोपक्रमः शक्यते सोढुं नाधरकायेनोद्वेजनकरत्वात्॥९॥ दीपालोके विगाढयौवनायाः पूर्वसंस्तुतायाः, बालाया अपू. । memAR २ अध्याये] कन्याविनम्भणप्रकरणम् । १७१ १ याश्चान्धकारे ॥१०॥ दीपालोके कौतुकगृहवर्तिनि, विगाढयौवनापूर्वसंस्तुतयोर्भयलजा. ऽभावाद्, बालाऽपूर्वयोरन्धकारे लजाऽऽधिक्याद्, विगाढयौवनाs. प्यन्यशुभलक्षणयोगादूढा लघुदोषत्वात् ॥ १० ॥ अङ्गीकृतपरिष्वङ्गायाश्च वदनेन ताम्बूलदानं तदप्रतिपद्य- मानां च सान्त्वनैवाक्यैः शपथैः प्रतियाचितैः पादपतनैश्च ग्राह- येद् ब्रीडायुक्ताऽपि योषिदत्यन्तक्रुद्धाऽपि न पादपतनमतिवर्तत. इति सार्वत्रिकम् ॥ ११॥ वदनेन ताम्बूलदानमिति । स्वेन मुखेन, चुम्बनक्षान्तेरभिप्रेतत्वात् , तदप्रतिपद्यमानामिति । ताम्बूलमगृह्णती, सान्त्वनवाक्यैः प्रियाभि. धायिभिः, शपथैरिति । मच्छरीरेण शताऽसीति, प्रतियाचितैस्त्वमे- तन्मे देहीति, पादपतनेन चान्त्यावस्थायां ग्राहयेद्, यतः स्त्रिया ब्री. डात्याजने क्रोधापनयने च न पादपतनादूर्ध्वमुपायोऽस्ति, सार्वत्रिक- मिति । न कन्यायामेवान्यस्यामपि भवति ॥ ११ ॥ तदानप्रसङ्गेन मृदु विशदमकाहलमस्याश्चुम्बनम् ॥ १२ ॥ तत्र सिद्धामालापयेत् ॥ १३॥ तच्छवणार्थं यत्किचिदल्पाक्षराभि- धेयमजानन्निव पृच्छेत् ॥१४॥ तत्र निष्पतिपत्तिमनुद्वेजयन्सान्त्व. नायुक्तं बहुश एव पृच्छेत् ॥१५॥ तत्राप्यवदन्तीं निबंधीयात् ॥१६॥ मृद्विति । यत्र ग्रहणं नास्ति, तस्योद्वेजकत्वाद् , विशदं स्पर्शकरम्, अकाहलमशब्दं सशब्देन लज्जिता स्यात्, तत्र सिद्धा, चुम्बनेनानु कूलामालापयेद् यथा ब्रवीति, अत्रोपायमाह-तच्छवणार्थमिति । आलापश्रवणार्थ, यत्किचिदिति । दृष्टं श्रुतं वा तदानीम्, अल्पाक्षरा. भिधेयं सुकथनीयत्वाद् , अजाननिवेति । अन्यथा विहावयतीति जा- नीयाद्, निष्प्रतिपत्ति तूष्णी स्थितां, सान्त्वनायुक्तं चाटुयुक्तं, निर्बध्नी- याद् अनेनैव क्रमेण ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ निर्बन्धे विरज्यतीति चेदाह- सर्वा एव हि कन्याः पुरुषेण प्रयुज्यमानं वचनं विषहन्ते, न तु लघुमिश्रामपि वाचं वदन्तीति घोटकमुखः ॥ १७ ॥ सर्वा एवेति । प्रयुज्यमानमिति । पुनः पुनरुच्यमानं विषहन्ते, आ- विर्भवन्मन्मथत्वाद्, लघुमिश्रामपीति। कतिपयाक्षरामन्यार्थश्लिष्टामपि न वदन्ति, लज्जापरतन्त्रस्वात् ॥ १७ ॥ ।

सटीके कामसूत्रे [३ अधिकरणे, awana अत्र कन्याया आलापयोजनोपायमाह- निबंध्यमाना तु शिरः कम्पेन प्रतिवचनानि योजयेत् , कलहे तु न शिरः कम्पयेत् ॥ १८ ॥ निर्बध्यमानेति। शिरः कम्पनेति। किमिदं जानासीति ? पृष्टा, जाना. मीत्यूर्वाधः शिरश्चालनेन, न जानामीति तिर्यक् शिरश्चालनेन योज- येद्, धाष्ट्यपरिहारार्थ, कलहे विति। अस्यामवदन्त्यां यदि कदा- चिदर्थयुक्त्या प्रेरणप्रतिप्रेरणादिलक्षणो वाकलहो जातस्तस्मिन् किं- कुपिताऽसि नेति पृष्टा, न शिरः कम्पयेत् कोपख्यापनार्थम् ॥ १८ ॥ अकलहे तु स्नेहजिज्ञासायामालापयोजनमाह इच्छसि मां नेच्छासि वा, किं तेऽहं रुचितो न रुचितो वेति पृष्टा चिरं स्थित्वा निबंध्यमाना तदानुकूल्येन शिरः कम्पयेत् अपञ्च्यमाना तु विवदेत ॥ १९ ॥ इच्छसि मां नेच्छसि वेति ? वार्तमानिकः प्रश्नः, किं तव रुचितो- ऽहमरुचितो वेति ? परिणयापौर्वकालिका प्रश्नः,चिरं स्थित्वेति। संकट:- प्रश्न:-यदि पूर्वपक्षमाश्रयेयं तदा धाष्टय लाघवं च, इतर चेत्तदा नैष्ठु. र्यमिति निर्वध्यमाना नायकेन संकटप्रश्ने किमनुष्ठास्यतीति तस्या नि. वध्यमानाया उभयपक्षाश्रयणमेव युक्तमित्याह-तदानुकूल्येनेति । पूर्व पक्षोत्तरपक्षानुकूल्येनोभयथाऽपि शिरः कम्पयेदित्यर्थः, प्रपञ्च्यमाना त्विति । अनिश्चितार्थप्रकाशनानायकेन प्रताय॑माणा विवदेत, कोप- ख्यापनार्थ विरुद्धं वदेद्, न मे रुचितोऽसि नेच्छामि त्वामिति ॥१९॥ यदि पूर्वपरिचिता तदाऽऽलापयोजने विधिमाह- संस्तुता चेत्सखीमनुकूलामुभयतोऽपि विस्रब्धां तामन्तरा कृत्वा कथां योजयेत्॥२०॥तस्मिन्नधोमुखी विहसेत्॥२१॥तां चा. तिवादिनीमधिक्षिपेद्विवदेत च॥२२॥सा तु परिहासार्थमिदमनयो. तमिति चानुक्तमपि ब्रूयात् ॥ २३ ॥ तत्र तामपनुद्य प्रतिवचना. र्थमभ्यर्थमानां तूष्णीमासीत ॥ २४ ॥ निर्बध्यमाना तु नाहमेवं- बधीमीत्यव्यक्ताक्षरमनवसितार्थ वचन ब्रूयात् ॥२५॥ नायकं च विहसन्ती कदा चित्कटाक्षः प्रेक्षतेत्यालापयोजनम् ॥ २६ ॥ संस्तुता चेदिति। सखीमिति । सखीनां मध्ये याऽनुकूला विस्रब्धा, उभयत इति । द्वयोरपि विस्रब्धा विदितपूर्ववृत्तान्तत्वात्, तामन्तरा २ अध्याये कन्याविरम्भणप्रकरणम् । १७३ कृत्वा व्यवधाय कथायोजनं, नायकस्य तु पूर्ववृत्तां कथां योजयेत् , किमहमस्या रुचितो न वेत्यर्थः, तस्मिन्निति । यदैव तस्यां क्रीडायां परिचयोऽभूत्तत एव प्रभृति रुचितोऽसीति सख्या कथने क्रियमाणे- ऽधोमुखी लज्जया विहसेदेवमेतदिति ख्यापनार्थ नायिका, तां चेति । सखीम्, अतिवादिनीमिति । अनुरागातिशयं कथयन्तीमधिक्षिपेदभि- नुदेद्, विवदेत च, तया सह कलहायेत, सात्विति । सखी, अनुक्तमपि नायिकया, ब्रयाद् अद्यैव यदि पाणि गृह्णासि साधु भवतीति, तत्रेति । अनुक्तकथने, अनवसितार्थमक्षराणामस्पष्टत्वाद् ब्रूयाद् मुग्धत्वख्याप. नार्थ, नायकं च विहसन्ती कदा चिदन्तराऽन्तरी परिचयवशात्क- टाक्षेणोन्मुखीव प्रेक्षेतीनुरागातिशयख्यापनार्थम् ॥ २०॥ २१ ॥ २२ ॥ ॥ २३ ॥२४ २५॥ २६ ॥ एवं जातपरिचया चानिर्वदन्ती तत्समीपे याचितं ताम्बूलं. विलेपनं नजं निदध्यादुत्तरीये वाऽस्य निबधीयात् ।। २७॥ तथा युक्कामाच्छुरितकेन स्तनमुकूलयोपरि स्पृशेत् ॥२८॥ वार्यमाणश्च त्वमपि मा परिष्वजस्व ततो नैवमाचरिष्यामीति स्थित्या परिष्व. ञ्जयेत् , स्वं च हस्तमानाभिदेशात्प्रसार्य प्रसार्य निवर्तयेत् क्रमेण चैनामुत्सङ्गमारोप्याधिकमधिकमुपक्रमेताप्रतिपद्यमानांच भीषयेत् २९ एवमालिङ्गनताम्बूलचुम्बनालापैर्जातपरिचयाऽनिर्वदन्ती, गृहाणेति याचितं नायकेन निदध्यात्स्थापयेत् , तथा युक्तामिति । निद्धतीमुत्त. रीये वा निबध्नतीम् , आच्छुरितेन पूर्वोक्तेन, स्तनमुकुलयोरिति । मु. कुलग्रहणमतिस्पर्शनिवृत्त्यर्थ बालत्वाद्, वार्यमाणश्चेति । स्पर्शनस्थि- त्या व्यवस्थया परिष्वञ्जयेत्, स्थितिमाह-त्वमपीति । आनाभिप्रदे. शादिति । नाभिप्रदेशं यावत् , प्रसार्य प्रसार्य निवर्तयेदिति । वी. प्साऽत्र क्षान्त्यर्थम् , प्रसार्य प्रसार्येत्यर्थः, क्रमेणेति । न सहसोत्सङ्ग- मारोपयेद् , अधिकमधिकमिति । नखदशनपदैरप्रतिपद्यमानामधिको- पक्रमं भीषयेत् ॥ २७ ॥ २८ ॥ २९ ॥ कथमित्याह- अहं खलु तव दन्तपदान्यधरे करिष्यामि स्तनपृष्ठे च नख- पदम् आत्मनश्च स्वयं कृत्वा त्वया कृतमिति ते सखीजनस्य पुर:- कथयिष्यामि सा त्वं किमत्र वक्ष्यसीति बालविभीषिकाभिर्वालम. त्यायनैश्च शनैरेनां प्रतारयेत् ॥ ३० ॥ द्वितीयस्यां तृतीयस्यां च क । । ।

१७४ सटीके कामसूत्र [ ३ अधिकरणे, a Suman रात्रौ किञ्चिदधिकं विसम्भिता हस्तेन योजयेत् ॥ ३१ ॥ अहमिति । आत्मनश्च स्वयं कृत्वा दन्तपदं नखपदं च, किमसौ प्रतिपत्स्यते सखीजनो नवोढादुश्चेष्टितादन्यत्रेत्येतद्वालविभीषिका, अ. स्मिन्वचनानुष्ठाने तु नाहमेवं करिष्यामीति, बालप्रत्यायनमर्थोक्तं, शनैरेनां प्रतारयेत् , कार्याभिमुखीं कुर्यादिति, एतत्प्रथमायां रात्रौ विस्र. म्भणं, तस्मात्किश्चिदधिकं द्वितीयस्यां रात्रौ, तृतीयस्यां च हस्तेन योजयेदिति । कक्षोरुजघनेषु हस्तस्पर्शसंबन्धिनी कुर्यात् ॥ ३० ॥ ३१ ॥ हस्तेन योजनोपायमाह- सर्वाङ्गिक चुम्बनमुपक्रमेत ॥ ३२ ॥ सर्वाङ्गिकमिति । ललाटनयनादिषु विचुम्ब्यमाना पर्याकुला सर्व- मभ्युपगच्छति ॥ ३२ ॥ हस्तयोजनविधिमाह- ऊर्वोचोपरि विन्यस्तहस्तः संवाहन क्रियायां सिद्धायां क्रमे गोरुभूलमपि संवाहयेत् ॥ ३३ ॥ तत्र निवारिते संवाहने को दोष इत्याकुलयेदेनाम् ॥ ३४ ॥ तच्च स्थिरीकुर्यात् तत्र सिद्धायां- गुह्यदेशाभिमर्शनं रशनावियोजनं नीवीविप्रेसनं वसनपरिवर्तनमू- रुमूलसंवाहनं चैते चास्यान्यापदेशाः ॥ ३५ ॥ युक्तयन्त्रां रञ्ज- येद् न त्वकाले व्रतखण्डनमनुशिष्याच ॥ ३६ ॥ आत्मानुरागं. दर्शयेद्, मनोरथांश्च पौर्वकालिकाननुवर्ण येदायत्यां च तदानुकू- त्याने प्रवृत्ति प्रतिजानीयात् सपत्नीभ्यश्च साध्वसमवच्छिन्द्यात् ॥ ३७॥ कालेन च क्रमेण विमुक्त कन्याभावामनुद्वेजयन्नुपक्रमे- तेति कन्याविसम्भणम् ॥ ३८ ॥ ऊर्वोरिति । तत्राय क्रमः-प्रथमं पूर्वकायस्य संवाहनक्रिया, त. स्यां सिद्धायामूरुमूले, आकुलयेत् चुम्बनाच्छुरितकैः, तच्चेति । यत्पू. र्वाभ्युपगतं संवाहनं तच्च स्थिरीकुर्यात् क्षान्त्यर्थः, तत्रेति । ऊरुमूल. संवाहने सिद्धायां गुह्यदेशाभिमर्शनं, संवाहनव्यपदेशेन रसनावियोज- नाद्यपि कुर्यात्, पुनरूरुमूले संवाहनग्रहणमपरित्यागार्थ, गुह्यस्पर्श हेतुत्वाद् , एत इति । गुह्यस्पर्शनादयो व्यापाराः, अस्येति । नायकस्य, अन्यापदेशा इति । त्रिरात्रादर्वागन्यमपदिश्य कर्तव्या न तु व्रतखण्ड- नमधिकृत्येत्यर्थः, युक्तयन्त्रां च चातुर्थिकहोमादूवं रञ्जयेदिति । रञ्जन. ।

२ अध्याये] कन्याविलम्भणप्रकरणम् । Patpatapatoile मनुद्वेज्य सुखोत्पादनम्, अनुशिष्याद्, चातुःषष्टिकान्योगान् शिक्षयेद् , आत्मानुरागं च दर्शयेद् इङ्गिताकाराभ्याम् , मनोरथान् पौर्वकालीना. ननुवर्णयेद्, ये ये तस्यामधरपानादयश्चिन्तिताः, आयत्यामिति । अना- गतकाले तदानुकूल्येन प्रवृत्ति प्रतिजानीयाद्, 'यदाह भवती तन्मया विधातव्यमिति, सपत्नीभ्यः साध्वसमवच्छिन्द्याद्, यद्यधिविना स्यात्, कालेन च गच्छता मुक्तकन्याभावां युवतीमनुद्वेजयन्नुपक्रमेत , तदाऽ. प्ययमेव क्रमः स स्फुटः कर्तव्यः ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६॥ ३७ ॥३८॥ उक्तमुपसंहरन्नाह- भवन्ति चात्र श्लोका:- एवं चित्तानुगो बालामुपायेन प्रसाधयेत् । तथाऽस्य साऽनुरक्ता च सुविस्तब्धा प्रजायते ॥ ३९ ॥ एवमिति । चित्तानुग इति । चित्ताभिप्राय बुवा, उपायेनेति। युक्त्या, प्रसाधयेद्विश्वासयेत्, किमेवं स्थादित्याह-तथेति । सुविस्त्र- ब्धा सती, अनुरक्ता प्रजायत इति योज्यम् ॥ ३९ ॥ तत्रापि विशेषमाह- नात्यन्तमानुलोम्येन न चातिप्रातिलोम्यतः। सिद्धिं गच्छति कन्यासु तस्मान्मध्येन साधयेत् ।। ४० ॥ नात्यन्तमिति । सिद्धिं सुखं, तत्र तदानुलोम्येन प्रवृत्तौ स एवो. सरकालमपि मार्गः स्यात् । ततश्चास्य स्वेच्छाविघातात्तद्विषया सिद्धिः, प्रातिलोम्येनातिप्रवृत्तौ तु तदानीमेव विरक्तत्वात्कथं तद्विषया सिद्धिः? तस्मान्मध्येनोपायेन साधयेत् ॥ ४० ॥ विनम्भणं किंफलमिति ? आह- आत्मनः प्रीतिजननं योषितां मानवर्धनम् कन्याविसम्भणं बत्ति यः स तासां प्रियो भवेत् ॥ ४१ ॥ आत्मन इति । बर्धनमिति । उपचारस्य तथाविधत्वात् , कन्याना. मिति वक्तव्ये, योषिग्रहणं प्रथमसमागमे सर्वविषयमिदमिति दर्शना. र्थ, तत्परिज्ञानफलमाह-प्रियो भवेदिति ॥ ४१ ॥ अतिलज्जान्वितेत्येवं यस्तु कन्यामुपेक्षते । सोऽनभिप्रायवेदीति पशुवत्परिभूयते ॥ ४२ ॥ सहसा वाऽप्युपक्रान्ता कन्याचित्तमाविन्दता। भयं वित्रासमुद्वेगं सद्यो द्वेषं च गच्छति ॥ ४३ ॥ 4INRN -

सटीके कामसूत्रे
[३ अधिकरणे,
सा प्रीतियोगमप्राप्ता तेनोद्वेगेन दृषिता ।
पुरुषद्वेषिणी वा स्याद्विद्विष्टा वा ततोऽन्यगा ॥४४॥
इति श्रीवात्स्यायनीये कामसूत्रे कन्यासम्प्रयुक्तके तृतीयेऽधिकरणे
कन्याविनम्मणं द्वितीयोऽध्यायः।
अतिलजाऽन्वितेति । अस्मात्कारणात्कन्या नोपेक्षणोया, अनेन
त्रिरात्रं निर्वचन पश्यन्ती निविद्येत, परिभवेच्चेत्यस्य प्रपञ्चः, सहसेति।
अनेनापि न प्रसह्य किं चिदाचरेदित्यस्य प्रपञ्चः, उपक्रान्तेति। उपसर्पिता,
भयं यतो दर्शनपथेऽपि न तिष्ठति, वित्रासं तत्स्मरणाच्छरीरविधूननम् ,
उद्वेग भोजनादिभ्यो व्यावर्तनम् , प्रीतियोगमप्राप्ता, लजाऽन्वितेत्यु.
पेक्षितत्वाद् , उद्वेगेन दूषिता, सहसोपक्रान्तत्वात् , पुरुषद्वेषिणी स.
र्वान्पुरुषान्द्वेष्टि, सर्वोऽप्येवंविध इति द्विष्टा प्रीतियोगमप्राप्तत्वात्, ततश्च
तं मुक्त्वाऽन्यं पुरुषं गच्छति ।
इति कन्याविरम्भणं पञ्चविंशंप्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां कन्या-
संप्रयुक्तके तृतीयेऽधिकरणे कन्याविनम्भणं द्वितीयोऽध्यायः ।
तृतीयोऽध्यायः ।
वरणसंविधानपूर्वकमधिगतायां विस्रम्भणमुक्तं, या तु त्रिय-
माणा न लभ्यते, तत्र गान्धर्वादयश्चत्वारो विवाहाः, तत्रालाभकारणा-
न्येव तावदाह-
धनहीनस्तु गुणयुक्तोऽपि, मध्यस्थगुणो हीनापदेशो वा, स.
धनो वा प्रातिश्यो, मातापिताभ्रातृषु च परतन्त्रो, बालवृत्तिरु-
चितप्रवेशो वा कन्यामलभ्यत्वान्न वरयेत् ॥१॥ बाल्यात्ममृति
चैनां स्वयमेवानुरञ्जयेत् ॥ २॥ तथायुक्तश्च मातुलकुलानुवर्ती द.
क्षिणापथे बाल एव मात्रा च वियुक्तः परिभूतकरपो धनोत्कर्षाद-
लभ्यां मातुलदुहितरमन्यस्मै वा पूर्वदत्तां साधयेत् ॥ ३ ॥ अन्या-
मपि बाह्यां स्पृहयेद् बालायामेवं सति धर्माधिगमे संवननं ३ला.
घ्यमिति घोटकमुखः ॥ ४ ॥

३ अध्याये] बालोपक्रमप्रकरणम् । धनहीनस्त्वभिजनादिगुणयुक्तोऽपि दरिद्रः कन्यां न लभते, मध्य. स्थगुणो हीनापदेशो वेति । मध्यस्था रूपशीलादयो गुणाः, अभिजन:- प्रधानं तदभावाद्धीनव्यपदेशः, सधनो वा प्रातिवेश्य इति। स्वगृहसमी. पवासी सीमासम्बन्धेन कलहादिजनकत्वाद् धनगर्वान्न लभते, माता- पित्रोतृषु च सत्सु, परतन्त्रोऽन्यप्रधानः सधनोऽपि न लभते, बालवृ. त्तिरुचितप्रवेशो वेति । यो लाडीकवद् दृश्यते सोऽनिषिद्धगृहप्रवेशोऽ. पि परिभवान्न लभते, यदि न वरयेत्कथमधिगच्छेदित्याह-बाल्यादिति । अनुरञ्जयेद् , अनुरक्ता हि स्वयमेव गान्धर्वेण विवाहेन पाणिं ग्राहयति, यतः 'स्वयं संयोगे गान्धर्वः' इति, तस्मादनुरञ्जनार्थ बालायामुपक्रमा. दनेकप्रकारा उच्यन्ते, यत्र च देशे प्रायेणैवंविधा वृत्तिस्तामधिकृत्याह- तथायुक्तश्चेति । धनहीनत्वादियुक्तः, दक्षिणापथ इति । तत्र हि मातुल- दुहिता परिणीयते, वियुक्तः पित्रोद्धृतत्वात्परिभूतकल्पो मातुलकुलगतः, अन्यस्मै वा पूर्वदत्तामदत्तां वा, अन्यामपि बाह्यामिति । या मातुल दुहिता न भवति पित्रोः सम्बन्धबाह्या तामपि स्पृहयेत्, तत्र कर्तुः क्रि. ययाऽऽप्तुमिष्टतमत्वेन विवक्षितत्वात्कर्मत्वम् , अनेनान्यस्मिन्नपि देशे विधिरयमिति दर्शयति, बाल्यात्प्रभृति सति धर्माधिगमे बालायां धर्मा- र्थमधिगमे सन्दर्शनालापलक्षणे सति संवननं वशीकरणमनुरञ्जनलक्षण- श्लाघ्यम् , अन्यथा दर्शनात्कथं संवननं स्याद्, धर्म्यश्च गान्धर्वो. विवाहः, यथोक्तं-'तत्र पूर्वे धाश्चत्वारः, षडित्येके' ॥२॥३॥ ४ ॥ उपक्रान्तो वरो द्विविधो, बालो युवा च, तत्र पूर्वमधिकृत्यानुर. अनमाह- तया सह पुष्पावचयं ग्रथनं गृहक दुहितकाक्रीडायोजनं भक्त पाककरणमिति कुर्वीत परिचयस्य वयसश्वानुरूप्यात् ॥ ५ ॥ तयेति । बालया, अवचयमुञ्चपादपाद्, ग्रथनं पुष्पाणां, गृहक. काष्ठमयं मृण्मयं वा स्वल्पं, दुहितृका सूत्रदादिमयी, भक्तपाकक रणमिति । सद्भक्तं तण्डुलैरितरत्पांसुभिः, परिचयस्य वयसश्चेति । आत्मनः स्वल्पमधिकं वा परिचयं, बाल्यं तारुण्यं वा वयो बुद्ध्वा तदनुरूपमाचरेद् नोक्तमित्येव ॥५॥ आकर्षक्रीडापट्टिकाक्रीडामुष्टियूतक्षुल्लकादिद्यूतानि मध्यमाङ्गु- लिग्रहणं षट्पाषाणकादीनि च देश्यानि तत्सात्म्यात्तदासदासचे. टिकाभिस्तया च सहानुक्रीडेन ॥ ६ ॥ आकर्षक्रीडा पाशकक्रीडा, पट्टिकाप्रथनम् , मुष्टिधतं प्रसिद्ध, क्षु. २३ का० सू० सटीके कामसूत्रे [ ३ अधिकरणे, लुकद्यूतं पञ्चसमयादि, मध्यमा गङ्गुलिग्रहणमिति । अङ्गुलिविपर्यासेन गो. पितुर्मध्यमाङ्गुलेञहणं, षट्पाषाणकादीनीति । यत्र स्वलगानि षटपाषा- णानि हस्तस्य कोडेनोत्क्षिप्य पृष्ठेन गृह्यन्ते, आदिशब्दादन्यानि च देश्यानि पञ्चिकांप्रमृतकादीनि, तत्सात्म्यादिति । यत्र नायिकाया अ- भिनिवेशः, तदाप्तदासचेटिकाभिरित। तस्या ये दासाश्चेटिकाश्च ताभिः क्रीडन्ताभिः सहानुक्रीडेत ततोलब्धप्रसरस्तया च ॥ ६॥ वेडिनकानि सुनिमीलितिकामारब्धिका लवणवीथिकाम- निलताडिति का गोधूमपुञ्जिकामङ्गुलि ताडितिका सखीभिरन्यानि च देश्यानि ॥ ७॥ श्वेडितकानि येवङ्गव्यायामाः, तान्याह-सुनिमीलितिकामि- ति । यत्रैकस्य कश्चिन्नेले निमीलयति शेषाः प्रच्छन्नेष्वात्मानं गो. पायित्वा तिष्ठन्ति, ततोऽसावुन्मीलितचक्षुर्य गृह्णाति तस्य नेत्रनिमी- लनमिति, भारब्धिकां, हस्तेन छोटिकां दत्वा यत्र पलायते परस्य संग्रहार्थं तां क्रीडामारविधकामाहुः, लवणवीथिकां लवणवीथिकाभ्यां- कृतयोस्तीथिकान्तरयोर्मध्ये लवणे स्वस्थानमाक्राम्यति तदा लवणयोगो भवति तां क्रीडा, लवणहार इति प्रतीताम्, अनिलताडि तिकां, यत्र पक्षवद् भ्रमण , गोधूमपुञ्जिकामिति । गोधूमग्रहणं ब्रीद्युपल. क्षणं, यत्र बहूनामेकः प्रत्येक रूपकानादाय व्रीहिषु क्षिप्त्वा संमिश्रय च तावतो भागान्करोति, अतस्ते यथेच्छमेकैकं भागमादाय रूपकमन्वि. व्यन्ते, तत्र यो न लभते सोऽन्यद्ददाति, अङ्गुलिताडितिकामिति । यत्रैक निमीलितनेत्रमन्यैर्ललाटे आहत्य केनाभिहतोऽसीति? पृष्टो यमाघातकर चेतयति स आहन्यते, अन्यानि च देश्यानि मण्डूकिकैकपादिकादीनि, एते प्रायशो बालस्योपक्रमाः ॥ ७॥ यूनस्तु ये प्रायशस्तानाह- यां च विश्वास्यामस्यां मन्यते तया सह निरन्तरां प्रीति- कुर्यात् परिचयाच्च बुध्येत ॥ ८ ॥ अस्यामिति । नायिकायां विश्वास्यां, निरन्तरामनवच्छिन्नां प्रीति- कुर्याद्, साऽपि हि धात्रेयिका मत्कार्य करिष्यतीति परिचयाचावबुध्येत, प्रीति किमप्यस्यामपि करोतीति ॥ ८ ॥ धात्रेयिकां चास्याः प्रियहिताभ्यामधिकमुपगृह्णीयात् , सा हि प्रीयमाणा विदिताकाराऽप्यप्रत्यादिशन्ती तं तां च योजयितुं श- ।

३ अध्याये] बालोपक्रमप्रकरणम्। १७९ - । क्नुयादनभिहिताऽपि प्रत्याचार्यकम् ॥ ९ ॥ धायिकां धाच्या दुहितरम् , प्रियं तदात्वे सुखकरं, हितमायः त्याम्, अधिकोपनहे फलमाह-सा हीति । प्रीयमाणा स्निह्यमाना, विदिताकाराऽपीति । नायको नायिकामिच्छतीति ज्ञाताभिप्रायाऽपि, अप्रत्यादिशन्ती तमिति । नायकमप्रत्याचक्षाणा, तां चेति । नायिका- भयलजाव्यपनयनेन प्रतार्य योजयितुं शक्नुयाद् , अनभिहिताऽपि प्रत्या. चार्यकमिति । संयोजने त्वमाचार्या भवेत्येतत्प्रति, नायकेनानुक्ताऽपि सती योजयितुं शक्नुयादिति योज्यम् ॥ ६॥ अविदिताकाराऽपि हि गुणानेवानुरागात्प्रकाश येद्, यथा प्र. योज्याऽनुरज्येद् ॥ १०॥ अविदिताकाराऽपीति । यद्यपि नायक एनामिच्छतीति न ज्ञातवती तथाऽपि गुणानेव प्रकाशयेद् , अनुरागादिति । नायकविषये धात्रे यिकाऽनुरागाद् ॥ १०॥ यत्र यत्र च कौतुकं प्रयोज्यायास्तदनुपविश्य साधयेत् ॥११॥ यत्र यत्र चेति । प्रतारणप्रकारे, तदनुप्रविश्यति। विज्ञाय, साधये- दिति । संपादयेत्॥ ११ ॥ क्रीडनकद्रव्याणि यान्यपूर्वाणि यान्यन्यासां विरलशो वि. धेरंस्तान्यस्या अयत्नेन संपादयेत् ॥ १२ ॥ क्रीडनकद्रव्याणि वक्ष्यति, अन्यासामिति । कन्यायां, विरलशो, न बाहुल्येन, अयत्नेनेति । संपादनसामर्थ्य दर्शयति ॥ १२ ॥ तत्र कन्दुकमनेकभक्तिचित्रमल्पकालान्तरितमन्यदन्यच्च संद. शैयेद्, तथा सूत्रदारुगवलगजदन्तमपीदुहितका मधूच्छिष्टपिष्टम मयीश्च ॥ १३ ॥ क्रीडनकद्रव्याण्याह-कन्दुकमिति । अल्पकालान्तरितमिति । कौतुक प्रबन्धाभ्युपगमार्थम् , अन्यदन्यद् भक्तीनां वैसादृश्याद्, दारु-काष्ठ, गवलं झं, दुहितुका:-पुत्रिकाः, संदर्शयेदित्येव, मधूच्छिष्टं सिक्यम्१३ भक्तपाकार्थमस्या महानसिकस्य च दर्शनं काष्ठपढ़कयोश्च, संयुक्तयोः स्त्रीपुंसयोरजैडकानां देवकुलगृहकानां मृद्विदलकाष्ठवि- निर्मितानां शुकपरभृतमदनसारिकालावककुक्कुटतित्तिरिपनरका- गां च विचित्राकृतिसंयुक्तानां, जलभाजनानां च यन्त्रकाणां. । ।

सटीके कामसूत्रे
[३ अधिकरणे,
वीणिकानां पिण्डोलिकानां पटोलिकानामलक्तकमनःशिलाहरिता.
लहिङ्गुलकश्यामवर्णकादीनां, तथा चन्दनकुङ्कुमयोः पूगफलानां.
पत्राणां कालयुक्तानां, च शक्तिविषये प्रच्छन्नं दानं प्रकाशद्रव्याणां
च प्रकाश, यथा च सर्वाभिप्रायसंवर्धकमेनं मन्येत तथा प्रयति-
तव्यम् ॥ १४ ॥
महानसिकस्येति । महानसविषयं कर्म महानसिकमित्युक्तम् , भक्तन-
हणमुपलक्षणार्थम् भक्तादिवाकार्थस्य कर्मणस्तत्तच्छास्त्रोक्तेन विधिना
दर्शनं, स्त्रीणां प्रधानविद्यात्वाद्, संयुक्तयोरिति । एककाष्ठघटितयोः.
स्त्रीपुंसयार्मेढकयोरविप्रयोगार्थ दर्शनम्, अजैडकानां काष्ठमयानाम्,
उपलक्षणार्थत्वाद् गवाश्वादीनां च, मृदा वंशविदलैः काष्ठैर्वा विनिर्मि-
तानां देवकुलानां देवगृहाणां च, शुकादिपञ्जराणां मृदादिनिर्मितानां-
तत्र मदनसारिका पठति, जलभाजनानां शङ्कशुक्तिखण्डानां मृत्काष्टशि
लानिर्मितानां, विचित्राणां वर्णिकयाऽऽकृतियुक्तानां संस्थानवता,
यन्त्रकाणामिति । यन्त्रमातृकोक्तानां, वीणिका स्वल्पवीणा, पिण्डो-
लिका यत्र दुहितकाः स्थाप्यन्ते, पटोलिका यत्र प्रसाधन विधीयते,
श्यामवर्णकं राजावर्तचूर्ण चित्रकर्मोपयोगि पत्राणि ताम्बूलस्य,
कालयुक्तानामिति । यस्मिन्काले येनार्थिनी, तत्र तस्य दर्शनमित्त्यर्थः,
शक्तिविषय इति । यस्मिन् प्रच्छन्ने स्वयं प्रवेष्टुं सामर्थ्य तत्र दानं, कुङ्क
मादीनामप्रकाश्यत्वात्, प्रकाशद्रव्याणां कन्दुकादीनां प्रकाशदान, तैरव
कल्पनीयत्वाद्, सर्वाभिप्रायसंवर्धकमिति । सर्वाभिलाषपूर्वकं यद्यन्म-
मेप्सितं तत्तसंपादयतीति, दीयमानं च यथा प्रच्छन्नमर्थयेत् ॥ १४ ॥
किनिमित्तमित्याह--
वीक्षणे च प्रच्छन्नमर्पयेत् , तथा कथायोजनम् ॥ १५ ॥
वीक्षणे चेति । दर्शननिमित्तम्, प्रच्छन्ने दृश्यमाना
निःशङ्कमुपच
यते; तथा कथायोजनमिति । अन्यमुखेन संवर्धनार्थं च कथा यो.
जयेत् ॥ १५॥
मच्छन्नदानस्य तु कारणमात्मनो गुरुजनाद्भय ख्यापयेद्,
देयस्य चान्येन स्पृहणीयत्वमिति ॥ १६ ॥
प्रच्छन्नस्य तु कारणमुभयं, तत्रात्मनो गुरुजनाद्भय ख्यापयेत्,
तव पितरौ रुप्यत इति, अन्येन स्पृहणीयत्वमिति । अन्योऽप्येतद् दृष्ट्वा
स्पृहयति ततश्च गृह्णीयादिति ॥ १६ ॥

MINEN । ३ अध्याये] बालोपक्रमप्रकरणम् । वर्धमानानुरागां चाख्यानके मनः कुर्वतीमन्वभिः कथाभि- श्चित्तहारिणीभिश्च रञ्जयेत् ॥१७॥ अन्वर्थाभिः, स्वयं प्रयुक्ताभिः शकुन्तलाराजदारिकाभिः, चित्तहार- णीभिरन्याभिरनुरागयुक्ताभिः॥ १७ ॥ विस्मयेषु प्रसज्यमानामिन्द्रजालैः प्रयोगैर्विस्मापयेत् , कलासु कौतुकिनी तत्कौशलेन, गीतप्रियां श्रुतिहरैर्गीतः, आश्वयुज्यामष्ट- मीचन्द्रके कौमुद्यामुत्सवेषु यात्रायां ग्रहणे गृहाचारे वा विचित्र. रापीडैः कर्णपत्रभङ्गैः सिक्थकरघानस्वाङ्गुलीयक भूषणदानश्च नो चेदोषकराणि मन्येत ।। १८ ॥ विस्मयेषु प्रसज्यमानामिति । आश्चर्येषु प्रसक्ति यान्ती, कलासु पत्रच्छेद्यादिषु, गीतप्रियामिति । कलान्तर्गतमपि पुनर्गीतग्रहणं प्राधा- न्यार्थम् , प्रायेण हि गीतप्रियो लोकः, आश्वयुज्यां की जागरे, अष्टमी- चन्द्रके, मार्गशीर्षबहुलाष्टम्यां, तत्र हि दिनमुपोष्योदिते चन्द्रमसि भुज्यते, कौमुद्यामिति । सामान्योपादानेऽपि यत्र कन्याभिज्योत्स्नामण्ड. लकपूजा क्रियते साऽत्र द्रष्टव्या सा कार्तिक्यां भवति, उत्लवेषु इन्द्र- महादिषु, यात्रायां देवतायाः, अहणे सूर्याचन्द्रमसोः, गृहाचारे गृहमाग- तायाम् , आपीडादिभिविस्मापयेदिति सम्बन्धः, नो चेदोषकराणीति । तहाने यद्यात्मनोऽपायं न पश्येत् ॥ १८ ॥ अन्य पुरुषविशेषाभिज्ञतया धात्रेयिकाऽस्याः पुरुषप्रवृत्तां चा. तुःषष्टिकान्योगान्ग्राहयेत् ॥ १९ ॥ अन्यपुरुषविशेषाभिज्ञतयेति । अन्येभ्यः पुरुषेभ्यो मम विशेष धात्रे. यिका जानात्विति पुरुषप्रवृत्तां जातसंप्रयोगाम्, अन्यथा कथं विशेष. मवैति ॥ १९ ॥ तद्भहणोपदेशेन च प्रयोज्यायां रतिकौशलमात्मनः प्रकाश येत् ॥ २० ॥ तद्ग्रहणोपदेशेनेति । धात्रेयिकोपदेशद्वारेण, रतिकौशलमिति । तज्ज्ञताम् ॥२०॥ उदारवेषश्च स्वयमनुपहतदर्शनश्च स्यात् ॥ २१ ॥ अनुपहतदर्शन इति । अस्थोपाय उदारवेषत्वम् ॥ २१ ॥ भावं च कुर्वतीमिङ्गिताकारैः सूचयेत् ॥ २२ ।। AMER.OM CHAR १८२ सटीके कामसूत्र [३ अधिकरणे, - तथाभूतं तं च दृष्ट्वा, भावं कुर्वतीमनुरागं चेतसि जनयन्तीमिङ्गिता. कारलिङ्गैविद्यात् ॥ २२ ॥ किमित्यनुपहतदर्शनः स्यादित्याह-- युक्तयो हि संसृष्टमभीक्ष्णदर्शनं च पुरुषं प्रथमं कामयन्ते कामयमाना अपि तु नाभियुञ्जन इति प्रायोवाद इति बाला. यामुपक्रमाः ॥ २३ ॥ युवतय इति । जातयौवनाः, संसृष्टं जातपरिचयम् , अभीक्ष्णदर्शनं. सदा दृश्यमानं, कामयन्त इति । इच्छन्ति, नाभियुञ्जते कया चिल्लज्जा. प्रद्यर्थयुक्त्या ॥ २३ ॥ बालायामुपक्रमाः षड्विंशं प्रकरणम् ॥ भावं च कुर्वतीमिङ्गिताकारैः सूचयेदित्युक्तं, तेषां सूचनं प्रकाशनमु. च्यते, यदाह- तानिङ्गिताकारान्वक्ष्यामः ॥ २४ ॥ तानिति । तत्रेङ्गितमन्यथा वृत्तिः, आकारो मुखनयनरागः, तदुभ. यमुत्तरत्र यथायोगं योज्यम् ॥ २४ ॥ संमुखं न वीक्षते, तं तु वीक्षिता ब्रीडां दर्शयति ॥ २५ ॥ संमुखं न वीक्षत इति । लजया पराङ्मुखी, तं तु नायक, वी. तितेति । नायकेन, ब्रीडां दर्शयति, अधोमुखी भूत्वा ॥ २५ ॥ रुच्यमात्मनोऽङ्गमपदेशेन प्रकाशयति ॥ २६ ॥ रुच्यमतिमनोहरम् , आत्मनोऽङ्गं स्तनबाहुमूलादि, अपदेशेनेति । प्रावरणव्याजेन ॥२६॥ प्रमत्तं प्रच्छन्नं नायकमतिक्रान्तं च वीक्षते ॥ २७ ॥ प्रमत्तमनवहितम् , प्रच्छन्नमेकाकिनम् , अतिक्रान्तं दूरगतम् ॥२७॥ पृष्टा च किश्चित्सस्मितमव्यक्ताक्षरमनवासितार्थं च मन्दं मन्द- मधोमुखी कथयति ।। २८ ॥ पृष्टा च किञ्चिदिति । नायकेन, सस्मितमित्यादिनाऽनुरागोन्मुखता ब्रीडा चाख्यायते॥२८॥ तत्समीपे चिरं स्थानमभिनन्दति ॥ २९॥ तत्समीप इति । नायकलमीपे ॥ २६ ॥ दूरे स्थिता पश्यतु मामिति मन्यमाना परिजनं सवदनवि.

३ अध्याये] इङ्गिताकारसूचनप्रकरणम् । . कारमाभाषते तं देशं न मुञ्चति ॥ ३० ॥ परिजनमिति । आत्मीयं, सवदनविकारमिति । सभ्रूभङ्गकटाक्ष, तं देशमिति । यत्र स्थिता तं पश्यति ॥३०॥ यत्किञ्चिद् दृष्ट्वा विहसितं करोति तत्र कथामवस्थानार्थमनु- बध्नाति ॥ ३१॥ तत्रैव यत्किञ्चिद् दृष्ट्वा विहसितं करोति तिर्यक्पश्यन्ती, तत्र कथा- मनुबध्नाति सखी प्रोत्साह्य ॥ ३१ ॥ बालस्याङ्कगतस्यालिङ्गन चुम्बनं च करोति, परिचारिकाया. स्तिलकं च रचयति ॥ ३२ ॥ बालस्येति । लाडीकस्य स्वाङ्कमारोपितस्य, चुम्बनावगूहनं च सं. क्रान्तकम्, परिचारिकायाः स्वस्यास्तिलक रचयति नायकं पश्यन्ती३२ परिजनानवष्टभ्य तास्ताश्च लीला दर्शयति ॥ ३३ ।। परिजनानवष्टभ्येति । परिजनकोडापाश्रया, तास्ताश्चेति । केशवि. रचनाकवलनविजृम्भिकाः॥ ३३ ॥ तन्मित्रेषु विश्वासिति वचनं चैषां बहुमन्यते करोति च ॥३४॥ तन्मिन्त्रेषु नायकमिन्त्रेषु, विश्वसिति स्वभावं प्रकटयति, वचनं चै. षां बहुमानं कुरुते तदनुरूपानुष्ठानात् ॥ ३४ ॥ तत्परिचारकैः सह प्रीति संकथां द्यूतमिति च करोति ॥३५॥ तत्परिचारकैरिति । नायकपरिचारकैः॥ ३५ ॥ स्वकर्मसु च प्रभविष्णुरिवैतान्नियुङ्क्ते ॥ ३६ ।। एतानिति । नायकपरिचारकान् ॥ ३६॥ तेषु च नायकसंकथामन्यस्य कथयत्स्ववाहिता तां शृणोति ३७॥ तेष्विति । परिचारकेषु, कस्य चिदन्यस्य कथयत्सु, तां संकथाम् ३७ धात्रेयिकया चोदिता नायकस्योदवासितं प्रविशति ॥ ३८॥ धात्रेयिकया चोदिता प्रविशाव इति, उदवसितं गृहम् ॥ ३८॥ तामन्तरा कृत्वा तेन सह द्यूतं क्रीडामालापं चायोजयितु- मिच्छति ॥ ३९॥ तामन्तरा कृत्वेति । धात्रेयिकां व्यवधानीकृत्य, नायकेन सह उता. दि नियोजयितुमिच्छति ॥ ३९ ॥ । ।

सटीके कामसूत्रे [३ अधिकरणे, अनल ड्कृता दर्शनपथं परिहरति ॥ ४०॥ दर्शनपथमिति । नायकस्य ॥४०॥ कर्णपत्रमङ्गुलीयकं सजे वा तेन याचिता सधीरमेव गाबाद- बतार्य सख्या हस्ते ददाति तेन च दत्तं नित्यं धारयति ॥ ४१ ॥ सधीरमवतार्य कि प्रहीष्यतीति, सख्या हस्त इति । लजया न त. द्धस्ते ददाति, नित्यं धारयति श्लाघ्यमाना ॥ ४१ ॥ अन्यवर संकथासु विषण्णा भवति तत्पक्षकैश्च सह न सं. ज्यत इति ॥ ४२ ॥ तत्परिति । अन्यवरपः ॥ ४२ ॥ प्रकरणद्वयमुपसंहरन्नाह- दृष्ट्वैतान्भावसंयुक्तानाकारानिङ्कितानि च । कन्यायाः संप्रयोगार्थ तांस्तान्योगान्विचिन्तयेत् ॥ ४३ ॥ दृष्ट्वति । एतानिति । आकारान, इङ्गितानि चेति लिङ्गविपरिणामेन योज्यम्, भावसंयुक्तानिति । अनुरागसङ्गतान् , संप्रयोगार्थमिति । सं- प्रयोगोऽत्र समागमलक्षणो गान्धर्वो ज्ञेयः, योगानिति । अभियो. गान् ॥४३॥ त्रिविधा कन्या-चाला तरुणी प्रौढा चेति, यथाक्रममुपक्रममाह- बालक्रीडनाला कलाभियोक्ने स्थिता । वत्सला चापि संग्राहा विश्वास्य जनसंग्रहात् ॥ ४४ ॥ इति श्रीवात्स्यायनीये कामसूने तृतीयेऽधिकरणे बालोपक्रमा. इङ्गिताकारसूचनं च तृतीयोऽध्यायः । बालक्रीडनकैरिति । कलाभिरनुरागिणी, वत्सला प्रौढा, यस्तस्या- विश्वास्यस्तदुपग्रहात्स्वीकर्तव्या ॥ ४४ ।। इङ्गिताकारसूचनं सप्तविंशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां कन्यासं- प्रयुक्तके तृतीयेऽधिकरणे बालोपक्रमा इङ्गिताकारसूचनं च तृतीयोऽध्यायः । । inIL - ४ अध्याये] एकपुरुषाभियागप्रकरणमा चतुर्थोऽध्यायः। शास्त्रकार एव प्रकरणसम्बन्धमाह- दर्शितेङ्गिताकारां कन्यामुपायतोऽभियुञ्जीत ॥ १ ॥ दर्शितेङ्गिताकारामिति । उपायत इति । उपाया एवाभियोगा अभि- युज्यते तैरिति, ते चासहायस्येत्येकपुरुषाभियोगा उच्यन्ते, ससहाय स्थापि के चित्सम्भवन्ति, ते द्विविधा:-बाह्या आभ्यन्तराश्चेति ॥१॥ तत्र पूर्वानधिकृत्याह- द्यूते क्रीडनकेषु च विवदमानः साकारमस्याः पाणिमव- लम्बेत ॥ २ ॥ धूत इति । विवदमानो वाकलह कुर्वन, साकार पाणिमयलम्बेत यथाऽवगच्छेद् 'अहमनेनोति ॥२॥ यथोक्तं च स्पृष्टकादिकमालिङ्गनविधि विदध्यात ॥ ३ ॥ स्पृष्टकादिकमिति । स्पृष्टकं विद्धकमुद्धृष्टकं पीडितकमिति, चतुष्ट यमवसरप्राप्तत्वाद्यथायोग्यं विदध्यात् ॥ ३ ॥ पत्रच्छेद्यक्रियायां च स्वाभिप्रायसूचकं मिथुनमस्या दर्श. येत् ॥ ४ ॥ पत्त्रेति । स्वाभिप्रायसूचक संप्रयोगसूचकं हंसादिमिथुनम् ॥४॥ एवमन्यद्विरलशो दर्शयेत् ॥ ६ ॥ एवमिति । अन्यदपि यन्मिथुनं भवति, तिलकादिकं साकार, विर. लश इति । सततदर्शने हि ग्राम्यता सम्भाव्यते कौतुकं चापैति ॥५॥ जलक्रीडायां तद्रतोऽप्सु निमग्नः समीपमस्या गत्वा स्पृष्ट्वा चैनां तत्रैवोन्मजेत् ॥ ६ ॥ जलेति । स्पृष्ट्वा चैनामिति । निमग्न एव, तत्रैवोन्मजेद्, नायिकास- । नवपत्रिकादिषु च सविशेषभावनिवेदनम् ॥ ७ ॥ नवपत्रिकादिषु चेति । देश्यक्रीडासु, सविशेषभावनिवेदनमिति । पूर्वोक्तनैव स्वाभिप्रायसूचकेन पत्त्रच्छेद्यादिना ॥ ७ ॥ आत्मदुःखस्यानिदेन कथनम् ॥ ८ ॥ आत्मदुःखस्य च कथनं 'न जाने किं कृता मम चेतसि पीडा' इति, तत्राप्यनिदेन भूयो भूयः प्रधानकार्यत्वात्कथनम् ॥ ८ ॥ २४ का० सु० सटीके कामसूत्रे [३ अधिकरणे, स्वमस्य च भावयुक्तस्यान्यापदेशेन ॥ ९ ॥ अन्यापदेशेनेति । त्वत्तुल्यवयोरूपया सहोपगमः स्वप्ने ममाभूदिति कथनम् ॥8॥ प्रेक्षणके स्वजनसमाजे वा समीपोपवेशनं तत्रान्यापदिष्टाप. शनम् ।। १० ॥ स्वजनसमाजः स्वजनगोष्ठी, समीपोपवेशनमिति । नायिकायाः, तत्रेनि । समीपे प्रेक्षणकादिषु, अन्यापदिष्टमन्यदपदिश्य स्पर्शनम् ॥१०॥ अपाश्रयाथै च चरणन चरणस्य पीडनम् ॥ ११ ॥ अपाश्रयार्थमिति । अपाश्रयस्तदङ्गे स्वाङ्गस्थापन, चरणस्य पीडन- स्वचरणेन ॥११॥ ततः शनकैरकै कामङ्गुलिमभिस्पृशेत् ॥ १२ ॥ तत इति । तस्मात्सिद्धादुत्तरकाले, शनकैरिति । कियती काल- कलामतिक्रम्य तस्या अङ्गुलिमभिस्पृशेत् ॥ १२ ॥ पादाङ्गुष्ठेन च नखाग्राणि घट्टयेत् ॥ १३ ॥ पादाङ्गुष्ठेनेति । नखानाणि, घट्टयेच्चालयेत् ॥ १३ ॥ तत्र सिद्धः पदास्पदमधिकमाकाङ्केत ॥ १४ ॥ तत्रेति । सिद्धो नखाग्रघट्टने, पदात्पदमिति । स्थानात्स्थानान्तरं. जघनोरुनितम्बादिकं स्पष्टुं सोपानक्रमेणाकाङ्क्षत ॥ १४ ॥ क्षान्त्यर्थं च तदेवाभ्यस्येत् ॥ १५ ॥ क्षान्त्यर्थं चेति । सहनार्थम्, अभ्यस्येत् तदेव यत्पूर्वाभ्युः पगतम् ॥ १५॥ आन्तरानधिकृत्याह-- पादशौचे पादाङ्गुलिसन्दंशेन तदङ्गुलिपीडनम् ॥ १६ ॥ पादशौच इति । पादधावनं ददत्याः स्वपादाङ्गुलिसन्दंशेन पी- डनम्॥ १६॥ द्रव्यस्य समर्पणे प्रतिग्रहे वा ततो विकारः ॥ १७॥ तद्गतो विकार इति । द्रव्यं पूगफलादिकं समर्पयता प्रतिगृह्णता वा द्रव्यगतो विकारः कार्यः, सनखस्पर्शमर्पयेत्प्रतिगृह्णीयादेत्यर्थः ॥१७॥ आचमनान्ते चोदकेनासेकः ॥ १८ ॥ आचमनान्त इति । उपस्प्रष्टुं ददतीं तदन्ते जलचुलकेनाहन्यात् ॥१८॥ । -

४ अध्याये]
एकपुरुषाभियोगप्रकरणम्।
१८७
विजने तमसि च द्वन्द्रमासीनः क्षान्ति कुर्वीत समानदेशश-
व्यायां च ॥ १९ ॥
द्वन्द्वमिति । साहचर्येणासीनः, क्षाान्त कुर्वीतेति । करस्पर्शादिना, त-
काले लज्जाऽभावात्कन्यायाः, समानदेशशय्यायां च क्षान्ति कुर्वीत॥१९॥
तत्र यथार्थमनुद्वेजयतो भावनिवेदनम् ॥ २० ॥
तत्रेति । आसने शयने च, यथार्थ भावनिवेदनमाकारेण न वाचा
प्रत्याख्यानभयाद्, अनुद्वेजयत इति । यथा नोद्विजते ॥ २० ॥
यदा वाचा तदा विधिमाह-
विविक्ते च किंचिदस्ति कथयितव्यमित्युक्त्वा निर्वचन,मा.
वं च तत्रोपलक्षयेद् यथा पारदारिके वक्ष्यामः ।। २१ ॥
विविक्त चेति। 'किंचिदस्ति कथयितव्यम्' इत्येतावद्वक्तव्यं, 'किं.
तद्' इति तयोच्यमाने निर्वचनं बयादित्यर्थः, तत्रेति । वचनोपन्यासे,
भावं संप्रयोगाभिलाषमस्या लक्षयेत् , कथमित्याह-यथेति। तत्रप्रवृत्त्या
भावपरीक्षा वक्ष्यति, इङ्गिताकारैश्च यद्भाववेदनं तदनुरागमात्रवेदन:
मिति विज्ञेयम् ॥ २१ ॥
विदितभावस्याभ्यन्तरमभियोगमाह-
विदितभावस्तु व्याधिमपदिश्यैनां वार्ताग्रहणार्थ स्वमुदव.
सितमानयेत् ॥ २२॥
विदितेति । व्याधिमपदिश्येति । कृतकं शिरःशूलादिकमपदिश्य,
स्वमुदवसितं स्वगृहम्, आनयेद् विश्वास्यया प्रहितया ॥ २२ ॥
आगतायाश्च शिरःपीडने नियोगः, पाणिमवलम्ब्य चास्या:-
साकारं नयनयोललाटे च निदध्यात् ॥ २३ ॥
शिरस्पीडन इति। शिरो मे दुःखयति पीडय हस्तेनेति नियोगः ॥२३॥
औषधापदेशाथै चास्याः कर्म विनिर्दिशेत् ॥ २४ ॥
औषधेति । यथा जानात्यस्मत्कृतेयमस्यावस्थेति कर्माणि दर्श.
येत् ॥ २४॥
स्वयैवेदं कर्तव्यं, न ह्येतहते कन्याया अन्येन कार्यमिति
गच्छन्ती पुनरागमनानुबन्धमेनां विसृजेत् ॥ २२ ॥
त्वयैवेति । स्वया साधितं सिद्धिदं भवतीति पुनरागमनानुबन्ध.
पुनरागन्तव्यमित्येवंरूपम् ॥ २५ ॥

सटीके कामसूत्रे [ ३ अधिकरणे, अस्य च योगस्य त्रिरात्रं त्रिसंध्यं च प्रयुक्तिः ॥ २६ ॥ अस्येति । कन्यालाध्यस्य, विरानं त्रिसंध्यं, प्रयुक्ति प्रयोगः, कार्यः॥ २६॥ एतनिदेशे फलमाह--- अभीक्ष्णदर्शनार्थमागतायाश्च गोष्ठी वर्धयेत् ॥ २७ ॥ अभीक्ष्णेति । गोष्ठीसिति । कलानामाख्यायिकानां वा येन तदास का चिरं तिष्ठेदित्यर्थः ॥ २७ ॥ अन्याभिरपि सह विश्वासनार्थमधिकमधिकं चाभियुनीत न तु वाचा निर्वदेत् ॥ २८ ॥ अन्याभिरिति । यथाऽयमेकोऽभियुञ्जीत, तथाऽन्याभिरपि स्त्रीभिः- सहाधिकमधिकं, किमर्थमिति चेत् ? तद्विश्वासनार्थ, ताभिः कायं. विश्वसिति, न तु स्वयं वाचा निर्वदेत् ॥ २८ ॥ कोदोष इत्याह- दूरगतभावोऽपि हि कन्यामु न निदेन सिद्ध्यतीति घोट- कमुखः॥ २९ ॥ दूरेति । अत्यर्थजातविनम्भोऽपि न सिद्ध्यति, बहुशोऽभियोगापेक्ष. णीयत्वात्कन्यानां, घोटकमुखग्रहणं पूजार्थं तन्मतस्याप्रतिषिद्धत्वात्॥२९॥ यदा तु बहुसिद्धां मन्येत तदैवोपक्रमेत ॥ ३० ॥ यदा विति । बहुसिद्धां बहुभिरभियोगैः, गान्धर्वेण विधिना श्रो. त्रियागारादग्निमाहत्येत्यादिना कार्योन्मुखीमुपक्रमेत ॥ ३० ॥ intende तत्र कालमाह- प्रदोषे निशि तमसि च योषितो मन्दसाध्वसाः सुरतव्यव. सायिन्यो रागवत्यश्च भवन्ति न च पुरुषं प्रत्याचक्षते तस्मान- स्कालं प्रयोजयितव्या इति प्रायोवादः ॥ ३१ ॥ प्रदोष इति । रात्रिप्रारम्भे, निशि=रात्रौ त्रियामालक्षणायां, तत्रा- प्यन्धकारे प्रतार्य योषिग्रहणं सर्वस्त्रीप्रतिपत्त्यर्थम् , मन्दसाध्वसाः कै- श्चिददृश्यमानत्वाद्, सुखेन व्यवसायिन्यः सङ्केतदेशयायिन्यो रागवस्य:- संप्रयोगाभिलाषिण्यो न प्रत्याचक्षते न निषेधन्ति तद्वचनानुष्ठानेन, तस्मात्तत्कालमिति । अत्यन्तसंयोगे द्वितीया, प्रयोजयितव्या योज्या बाञ्छितकार्येषु ॥ ३१ ॥ एकपुरुषाभियोगानां स्वसम्भने गृहीतार्थया धात्रेयिकया स.

१८९ १ - ४ अध्याये] प्रयोज्योपावर्तनप्रकरणम् । ख्या वा तस्यामन्तभूतया तमर्थमनिर्वदन्त्या सहैनामङ्कमानाययेत् ततो यथोक्तमभियुञ्जीत ॥ ३२ ॥ एकेति । असम्भव इति । नायिकाया विप्रकृष्टत्वात्स्वयमेकस्याभि- योगो न सम्भवति सहायमपेक्षते, गृहीतार्थयेति । नायकोऽपि नायिका- समीपमानेतुमिच्छतीत्येतद्रूपार्थज्ञानवत्या, तस्यामन्तर्भूतया नायिकायां- प्रभवन्त्या, तादृशी तु धात्रेयिका सखी वा यदाह तत्करोति, अर्थ ना यकपार्श्वगमनरूपमनिर्वदन्त्या, अन्यव्यपदेशिन्येत्यर्थः, अङ्कमानाययेद्- ससम्भाषणं, ततो यथोक्तमिति द्यूतक्रीडनकेषु विवदमान इति, य. थासम्भवं पूर्वोक्तं योज्यमित्यर्थः ॥ ३२॥ स्वांचा परिचारिकामादावे सखीत्वेनास्याः प्रणिदध्यात् ॥३३॥ स्वामिति । सहायार्थमिति भावः, सखीत्वेन, प्रणिध्याद् निक्षि- पेत् , सा हि प्रणिहिता सहायताम्प्रतिपद्यते ॥ ३३ ॥ यज्ञे विवाहे यात्रायामुत्सवे व्यसने प्रेक्षणकव्यापृते जने तत्र तत्र च दृष्टेङ्गिताकारां परीक्षितभावामेकाकिनीमुपक्रमेत ॥ ३४ ॥ यज्ञ इति । यज्ञादयो लोकव्यग्रत्वहेतवः, तत्र तत्रेति । अन्यत्राप्येवं. प्रकारो यत्रजनो व्याप्रियते, परीक्षितभावामिति । नेयं शुल्कप्रतिग्राहिणी द्विधाभूतमानसा वा, किं त्वितरेति, एकाकिनीमुपक्रमेत, गान्धर्वेण वि. धिनेत्यर्थः ॥ ३४॥ न हि दृष्टभावा योषितो देशे काले च प्रयुज्यमाना व्यावर्त- न्तइति वात्स्यायनः ॥ ३५ ॥ इत्येकपुरुषाभियोगाः । दृष्टभावा उपलब्धभावाः, देशेऽभिप्रेते, काले यज्ञादिकाले प्रदोषादौ च प्रयुज्यमानो वाञ्छितकार्येण व्यावर्तन्ते ३५ ॥ इत्येकपुरुषाभियोगा अष्टविंशं प्रकरणम् ॥ यथा धनहीनत्वादियुक्तः कन्यामलभ्यत्वात्स्वयमेवानुरजयेत् , तथा कन्याऽपि तथाविधा कैश्चिदयाच्यमाना स्वयमुपावर्तेत, तत्प्रयोज्यस्यो- पावर्तनमाह-उपावर्तनमभिमुखीकरणम्, कथं न वियत इत्याह- मन्दापदेशा गुणवत्यपि कन्या धनहीना कुलीनाऽपि समानर- याच्यमाना मातापितृवियुक्ता वा ज्ञातिकुलवर्तिनी वा प्राप्तयौवना

सटीके कामसूत्रे
[३ अधिकरणे,
m
RANAND
पाणिग्रहणं स्वयमभीसेत ॥ ३६॥
मन्देति । मन्दापदेशा-हीनाभिजना, गुणवत्यपि सा तैरदास्यमाना
वा, धनहीना वा कुलोनाऽपि, समानस्तुल्याभिजनैर्धनिभिः, माता-
पितृवियुक्ता वा, अनाथत्वादयाच्यमाना, प्राप्तयौवनेति । प्रत्येकं योज्यं,
स्वयं पाणिग्रहं लिप्सेत, तदानीं स्वयंवरस्याभ्यनुज्ञानाद्,
यथोक्तं
'त्रीणि वर्षाणयुदीक्षेत कन्या ऋतुमती सती ।
ऊवं तु कालादेतस्माद्विन्देत सदृशं पतिम्' इति ॥ ३६ ॥
सशप्रतिपत्तावुपायमाह-
सा तु गुणवन्तं शक्तं सुदर्शनं बालप्रीत्याऽभियोजयेत् ॥३७॥
सात्विति । गुणवन्तं नायकगुणयुक्त, शक्तं युद्धादिषु, सुदर्शन-
रूपवन्तम्, बालेति । बाल्ये क्रीडमानयोर्या प्रीति स्तया प्रयोज्यकोऽ.
भियोजयेत् , स तथाऽभियुञ्जानः सिद्ध्यतीत्यर्थः ॥ ३७॥
गुणान्तरमाह-
यं वा मन्येत मातापित्रोरसमीक्षया स्वयमध्ययमिन्द्रियदौर्ब
ल्यान्मयि प्रवर्तिष्यत इति प्रियहितोपचारैरभीक्ष्णसन्दर्शनेन च
तमावर्जयेत् ॥ ३८॥
यं वेति । इन्द्रियदौर्बल्यादिति । इन्द्रियाणि नियन्तुमसमर्थत्वाद्, य.
मेवं मन्येत तमपि योजयेदिति संबन्धः, प्रियहितेति । प्रियोपचारा एत-
दर्थ सुखं कुर्वन्ति, अवर्जनमभिमुखीकरणम् ॥ ३८ ॥
माता चैनां सखीभिर्धात्रेयिकाभिश्व सह तदभिमुखी कु-
र्यात् ॥ ३९ ॥
माता चैनामिति । नायिकाया माता यदि जीवति, सान जावति
चेत्कृतकमाता बा, सखीभिः सह लजाऽपगमार्थ, तदभिमुखीमिति ।
नायकाभिमुखीम्, उपचारै बैराभ्यन्तरैश्चेति शेषः ॥ ३ ॥
तत्र पूर्वमधिकृत्याह-
पुष्पगन्धताम्बूलहस्ताया विजने विकाले च तदुपस्थानम्।।४०॥
पुष्पेति । तदुपस्थानं नायकसमीपगमनं, कलाकौशलप्रकाशनार्थ.
गुणवत्त्वज्ञापनार्थम् ॥ ४ ॥
कलाकौशलप्रकाशने वा संवाहने शिरसः पाडने चौचित्यः
दर्शनम् ॥ ४१ ॥

४ अध्याये] अभियोगप्रयोज्यकन्याप्रतिपत्तिप्रकरणम् । IAN औचित्यदर्शन मिति । सहसा न प्रतिजानीयाद् , अनुबन्ध्यमानम- नुकुर्यादित्यर्थः ॥४१॥ प्रयोज्यस्य सात्म्ययुक्ताः कथायोगाः बालायामुपक्रमेषु यथो. क्तमाचरेत् ॥ ४२ ॥ प्रयोज्यस्य सात्म्ययुक्ताः प्रयोज्यानुकूलाः , बालायां ये नायक स्योपक्रमा उक्तास्तेषु यथोक्तं साऽप्याचरेत् ॥ ४२ ॥ न चैवातुराऽपि पुरुष स्त्रयमभियुञ्जीत, स्वयमभियोगिनी हि युवतिः सौभाग्यं जहातीत्याचार्याः ॥ ४३ ॥ आतुराऽपीति । कामपरवशाऽपि न स्वयमभियुञ्जीत सद्यःसौभा. ग्यहानेः, आचार्यग्रहणं पूजार्थं तन्मतस्याप्रतिषिद्धत्वात् ॥ ४३ ॥ स चेदभियुञ्जीत प्रतिगृह्णीयाद्यदाह- तत्प्रयुक्तानां त्वभियोगानामानुलोम्येन ग्रहणम् ॥ ४४ ॥ तत्प्रयुक्तानामिति । बाह्यानामभियोगानाम् , आनुलोम्येन यथाऽयं. न विमुखीभवति ॥४४॥ आभ्यन्तरमधिकृत्याह-- अङ्कपरिष्वक्ता च न विकृति भजेत् ॥ ४५ ॥ अङ्कपरिष्वक्तेति । न विकृतिमिति । मा ज्ञासीनायको मामुद्विग्ना- मिति तोरित्यर्थः ॥ ४५ ॥ श्लक्ष्णमाकारमजानतीव प्रतिगृह्णीयात् ॥ ४६ ॥ आकारमिति । नायकस्य भावसूचकमाकारं प्रतिगृह्णीयाद्, न प्र- त्याचक्षीत, तत्रापि श्लक्षणमस्फुट क्रियाविशेषणमेतद्, अजानतीवेति । धाष्टमंपरिहारार्थम् ॥ ४६ ॥ वदनग्रहणे बलात्कारः ॥४७॥ बलात्कार इति । तथा कार्य यथाऽयं चुम्बितुं हठाद्वदनं गृह्णाती- त्यर्थः॥४७॥ रतिभावनामभ्यर्थ्यमानायाः कृच्छ्राद् गुह्य संस्पर्शनम् ॥४८॥ रतिभावनामिति । आत्मनो रत्युत्पत्ति नायकेन यदा साऽभ्यर्थ्यते, स्वगुह्ये तत्पाणिन्यासेन, तदा तस्याः कृच्छान्नायकगुह्यस्पर्शनम् ॥४८॥ तत्रापि विशेषमाह- अभ्यर्थिताऽपि नातिविता स्वयं स्यादनिश्चयकालात ॥४९॥ ।

सटीके कामसूत्रे [अधिकरणे, १९२ नातिविवृतेति । अडोपाङ्गप्रत्यङ्गदर्शनेनेत्यर्थः, तत्र हेतुः-अनिश्च- येति ॥४९॥ निश्चितकालं दर्शयन्नाह-- यहा तु मन्येतानुरक्तो मयि न व्यावतिष्यत इति तदैवैनमभियु. खानं बालभावमोक्षाय स्वरयेत ॥ ५० ॥ यदा विति। न व्यावर्तिष्यते, न मां त्यक्ष्यति, अभियुञ्जानं प्रच्छ- भप्रदेशे, बालभावमोक्षायेति । गान्धर्वविधिपूर्वकं कौमारहरणाय स्व. रयेद् ॥५०॥ विमुक्तकन्याभावा च विश्वास्येषु प्रकाशयेदिति प्रयोज्यस्यो. पावर्तनम् ॥ ५१॥ विश्वास्येषु सखीधात्रेय्यादिषु, प्रकाशयेत् कथयेद्, गान्धर्वेण वि. वाहेनाहमूढेति ॥ ५३॥ इति प्रयोज्यस्योपावर्तनमेकोनत्रिंशं प्रकरणम् ॥ यदा प्रयोज्यमुपावर्तमाना बहुभिरभियुज्यते तदाऽभियोगतः कन्या- याः प्रतिपत्तिरुच्यतेऽभियोगं दृष्ट्वा कन्याया अनुष्ठानमित्यर्थः । भवन्ति चात्र श्लोकाः- कन्याऽभियुज्यमाना तु यं मन्येताश्रयं सुखम् । अनुकूलं च वश्यं च तस्य कुर्यात्परिग्रहम् ॥ १२ ॥ कन्येति । आश्रयमिति । आश्रीयत इति कृत्वा, सुखमिति । बाह्य. स्योपभोगसुखस्य, आन्तरस्य च रतसुखस्य हेतुत्वाद् , अनुकूलं तच्चि- सानुविधायिनं, वश्यं वशं गतं यथोक्तकारिणं मन्येत, ततस्तस्य प्रति. अहं कुर्यात् स्वयंवरे तस्योत्तमत्वात्, सोऽपि तथैवाचरेदित्यर्थः ॥५२॥ अनपेक्ष्य गुणान्यत्र रूपमौचित्यमेव च । कुर्वीत धनलोभेन पति सापनकेष्वपि ॥ ५३॥ अनपेक्ष्येति । गुणान् यत्रेति, यस्मिन्स्वयंवरे गुणाननपेक्ष्य तदभावा. देवौचित्यमाभिजन्यं, धनलोभेन धनवानेव केवलमिति मत्वा, साप- नकेष्वपि, न केवलमसापत्नकेषु, प्रायेण धनिनां बहुदारत्वात् ॥ ५३ ॥ तत्र युक्तगुणं वश्यं शक्तं बलवदर्थिनम् । उपायैरभियुञ्जानं कन्या न प्रतिलोमयेत् ॥ ५४॥ तत्र स्वयंवरे युक्तगुणं सगुणं शक्तं समर्थ बलवदर्थिनमेकान्ततो. ऽथिनं न प्रतिलोमयेदपाकुर्यात् ॥ ५४ ॥ ।

maaNAMA प्रायेण धनिनां दारा बहवो निरवग्रहाः । ४ अध्याये] अभियोगप्रयोज्यकन्याप्रतिपत्तिप्रकरणम् । यस्तु धनवान्बहुपत्नीको गुणवानप्यवश्यस्तमभियुञ्जानं प्रतिलो. मयेदिति दर्शयन्नाह- वरं वश्यो दरिद्रोऽपि निर्गुणोऽप्यात्मधारणः । गुणैर्युकोऽपि न त्वेवं बहुसाधारणः पतिः ॥ ५५ ॥ वरमिति । आत्मधारणः कुटुम्बमात्रधारकः, बहुसाधारणो बहूना. मेकः, यस्तु धनवान् कृतपरिग्रहो गुणवान् वश्यः, तं न प्रतिलोमये- दित्यर्थः॥ ५५॥ यस्तु न वश्यस्तत्र दोषमाह- DBIPANAMIN बाह्य सत्युपभोगेऽपि निर्वित्रम्भा बहिःसुखाः ॥ ५६ ॥ प्रायेणेति । स्वत एव धनवान्बहून्दारान्प्रतिगृह्णाति, विशेषतस्ता- श्व, निरवग्रहाः-निरङ्कुशाः, तत्र कारण-बाह्य इति । अशनाद्युपभोगेन बहिःसुखाः, निर्विरम्भा आन्तरेण रताख्यसुखेन वर्जिता इत्यर्थः ॥५६॥ नीचो यस्त्वभियुञ्जीत पुरुषः पलितोऽपि वा। विदेशगतिशीलश्च न स संयोगमहति ॥ ५७॥ नीचोऽधमजातिः पूर्वगुणयुक्तोऽपि, पलितः=बृद्धः, विदेशगति. शील:=सदा प्रवासी ॥ ५७ ॥ यहच्छयाऽभियुक्तो यो दम्भद्यूताधिकोऽपि वा । सपत्नीकश्च सापत्यो न स संयोगमहति ॥ ५८ ॥ यदृच्छयेति । स्वेच्छाभियोगशीलो बलात्कारेणेति भावः, दम्भा. धिको व्याजबहुलो, धूताधिको तासक्तश्च, सपत्नीकः सापत्यश्च परि. णीतभार्यायुक्तस्तदपत्यवांश्च, एकतरवान्वा ॥ ५८ ॥ घश्यस्तु तादृशोऽपि संयोगमहत्येवेत्याह- गुण साम्येऽभियोक्तृणामेको वरयिता वरः। तत्राभियोक्तरि श्रेष्ठयमनुरागात्मको हि सः ॥ ५९ ॥ इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे एकपुरुषाभियोगाः प्रयोज्योपावर्त्तनमभियोगतश्च कन्यायाः- प्रतिपत्तिश्चतुर्थोऽध्यायः। M २५ का०सु० सटीके कामसूत्रे [३ आंधकरण, गुणेति । यथोक्तगुणानां साम्ये, एको वरयिता वर इति । वियन्त. इति वराः सर्व एवाभियोक्तारः, तेषां वर एको वरयिता वरणे साधुः, 'वर ईप्सायां' साधुकारिणि तृन्, तस्मिन्नभियोक्तरि वरयितृत्ववि. शिष्टे, श्रेष्ठता तस्यानुरागात्मकत्वात् ॥ ५९ ॥ इत्यभियोगतः कन्यायाः प्रतिपत्तिस्त्रिंशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽल्यायो कन्यासं- प्रयुक्तके तृतीयेऽधिकरणे एकपुरुषाभियोगाः, प्रयोज्योपावर्तनमभियोगतश्च कन्यायाः प्रतिपत्तिश्चतुर्थोऽध्यायः । .. । पञ्चमोऽध्यायः। एवमनुरजिता स्वयंवरप्रवृत्तां च गान्धर्वेण योजयेद्, विपरीतामा- सुरादिभिरिति विवाहयोगा उच्यन्ते-तत्र गान्धर्वेण या प्रायशो विविक्ता. दृश्यन्ते, तस्या बहुसिद्धायाः सुकरमभिप्रेतदेशनयनं , या तु न प्रायश- स्तस्यास्तावत्सहायसाध्यविधिमाह- प्राचुर्येण कन्याया विविक्तदर्शनस्यालाभे धात्रेयिका प्रिय- हिताभ्यामुपगृह्योपसत् ॥१॥ प्राचुर्येणेति । धात्रेयिकां पुरुषप्रवृत्तामत्यर्थाद् , उपगृह्य प्रियहिता- भ्यामुपसत् , तस्याः समीपे निसृष्टार्था प्रेषयेत् ॥१॥ सा चैनामविदिता नाम नायकस्य भूत्वा तद्गुणैरनुरञ्ज- येत ॥२॥ सा चेति । सा=उपसर्पिता, अविदिता नाम, नायकस्याविदितेव भूत्वा; कृतकप्रयोगपरिहारार्थ, तद्गुणरिति । तस्य नायकस्य गुणः॥२॥ तस्याश्च रुच्यानायकगुणान्भूयिष्ठमुपवर्णयेत् ॥ ३ ॥ तस्याश्चेति । रुच्यानभीष्टान् ॥३॥ अन्येषां वरयितृणां दोषानभिप्रायविरुद्धान्प्रतिपादयेद् माता- पित्रोश्च गुणानभिज्ञता लुब्धतां च चपलतां च बान्धवानाम् ॥४॥ अभिप्रायविरुद्धानिति । यथा नेच्छति तानियं तथेत्यर्थः, गुणानभि- शतां लुब्धतां चेति । 'अगुणज्ञौ तव पितरौ लुब्धौ च, येन गुणवन्तमप- हायान्यं धनिनं निर्गुणं गवेषयतः' इति प्रतिपादयेत् ॥ ४॥ -- ६ अध्याये विवाहयोगप्रकरणम् । । याश्चान्या अपि समानजातीयाः कन्याः शकुन्तलाऽऽद्या: स्व. बुद्ध्या भर्तारं प्राप्य संप्रयुक्ता मोदन्ते स्म ताश्चास्या निदर्शयेत्॥५॥ समानजातीया इति । मोदन्ते स्म =प्रमुदितवत्यः, नानुरूपोऽयं म. मेति स्वबुद्ध्याऽवधारणं, न पित्रोरिच्छया, तथा कर्तव्ये शकुन्तलाऽऽदि. कृताः कथाः कथयेत्, कौशिकः स्वतपोविन्नार्थमिन्दसंप्रेषितामप्सरसं- मेनकां दृष्ट्वा जातरागश्चकमे, सा च तवीर्यग्रहणात्तत्रैव कन्यां प्रसूय त्य- क्त्वा चारण्ये दिवं जगाम, शकुन्तसंपातमध्यगतां च तां कन्यां कण्व. र्षिः करुणयाऽऽश्रममानीय बर्धितवान्,यथाऽर्थं च शकुन्तलेति नाम चक्र, सा च कालेन प्राप्तयौवना मृगयाप्रसङ्गादागतं दुष्यन्तं राजानं दृष्ट्वा स्वबुद्ध्या पाणि माहितवतीति, आदिशब्दाद्राजदारिकाः कन्या नि- दर्शयेत् ॥ ५॥ महाकुलेषु सापन कैर्वाध्यमाना विद्विष्टा दुःखिताः परित्यक्ताव दृश्यन्तयायति चास्य वर्णयेत् ॥ ६ ॥ महाकुलेष्विति । महाकुलेषु च लोभारिपत्रा दत्ता नियतं सापत्नकै- बर्बाध्यन्ते, ततश्च विद्विष्टाः परिजनस्य परित्यक्ताः सत्यो दुःखिता दृश्यन्त- इति दर्शयेद्, आयतिमुत्तरभाविनमर्थम्, भविष्यति चेति ॥ ६ ॥ सुखमनुपहतमेकचारित्तायां नायकानुरागं च वर्णयेत् ॥ ७ ॥ एकचारितायामिति । एकपत्नीत्वे सुखमनुपहतं वर्णयेत् सापत्न्यदुः खामावाद्, नायकानुरागं चति ॥ ७॥ समनोरथापाश्चास्या अपायं साध्वसं नीडां च हेतुभिरक. च्छिन्द्यात् ॥ ८ ॥ समनोरथाया इति। अस्त्येवायमस्या मनोरथः, किं तु दोषा- पश्यतीत्युत्प्रेक्ष्याह-अपायमिति । विनाशं कुतश्चित् , साध्वसं =भयं, गुरुजनाद्, ब्रीडां परिजनेषु, हेतुभिरयायदर्शनैरपनयेत् ॥ ८ ॥ दृतीकल्पं च सकलमाचरेत् ।। ९ ॥ दूतीकल्पं च पारदारिके वक्ष्यमार्ण प्रतारणप्रकरणम्, ॥ ६ ॥ त्वामजानतीमिव नायको बलाद्रहीष्यतीति तथा सुपरि- गृहीता स्यादिति योजयेत् ॥ १० ॥ त्वामजानतीमिवेति । अजानतीमिव बलात्कारेण ग्रहीष्यति तदा न तव दोषः, तथेति । तेन प्रकारेण सुगृहीतं स्यादु वचनोयाभावादित्यमुं- वार्थ योजयेत् ॥१०॥ ।

सटीके कामसूत्रे [३ अधिकरणे, । CHORIGand प्रतिपन्नामभिप्रेतावकाशवर्तिनी नायकः श्रोत्रियागारादग्निमा. नाय्य कुशानास्तीर्य यथास्मृति हुत्वा च त्रिः परिक्रमेत ॥ ११ ॥ प्रतिपन्नामिति । अभ्युपगतार्थामेकान्तदेशवर्तिनी, श्रोत्रियेति । तत्राग्नेः संस्कृतत्वादित्यर्थः, यथास्मृति स्वगृह्योक्तविधिना, त्रिः परिक्र- मेत् कन्यामग्निं भ्रमयेत् ॥११॥ ततो मातरि पितरि च प्रकाशयेत् ॥ १२ ॥ प्रकाशयेत् , प्रणिधिना यथा नायकेनोदेति ॥ १२॥ अग्निसाक्षिका हि विवाहा न निवर्तन्त इत्यायिममयः ॥ १३ ॥ न निवर्तन्त इति । नान्येनोह्यत इति दर्शयति, तेन धर्मविवाहेवाग्नि- संनिधान कार्यमिति ॥ १३ ॥ दृषयित्वा चैनां शनैः स्वजने प्रकाशयेत् ॥ १४ ॥ दूषयित्वेति । अभिगम्येत्यर्थः, नोद्वाहितमात्रां, शनैः स्वजने प्रका- शयेत् , तस्या आत्मीयकरणार्थम् ॥ १४ ॥ यथा पितरौ तथाविधामपि न प्रयच्छत इति तदाह- तद्वान्धवाश्च यथा कुलस्याचं परिहरन्तो दण्डभयाच्च तस्मा- एवैनां दद्युस्तथा योजयेत् ॥ १५ ॥ तद्बान्धवा इति । नायिकाबान्धवाः, नायकोपगृहीतेत्यघं दोषं प- रिहरन्तो, यदि तस्म न प्रतिपाद्यते तदा कुलं दुष्यत इति, दण्डभया- चेति। एवं चानुष्ठीयमानं यदि राजा शृणुयात्तदा दण्डं पातयेदिति, त. स्मा एव नायकायैव, तथा योजयेत् प्रतिविदध्यानायकः ॥ १५ ॥ अनन्तरं च प्रीत्युपग्रहेण रागेण तद्वान्धवान्पणियेदिति ॥१६॥ अनन्तरं च तत्प्रतिपादनस्य, प्रीत्युपग्रहेण मुकुरवस्त्रादिदानेन बा. ह्यानुरागेण चान्तरेण वा प्रीणयेत्तर्पयेत् ॥ १६ ॥ गान्धर्वेण विवाहेन वा चेष्टत ॥ १७ ॥ गान्धर्वेण चेष्टेतेति । एवं गान्धर्वविधिरुक्तः ॥ १७ ॥ आन्तरस्थामधिकृत्याह- अप्रतिपद्यमानायामन्तश्चारिणीमन्यां कुलप्रमदां पूर्व संसृष्टां प्री. यमाणां चोपन तया सह विषयमवकाशमेनामन्यकार्यापदेशे. मानायचेत् ॥ १८॥ ।

५ अध्याये] जीवितमपि त्यजन्ति ततस्तेनैवान्यकार्यात्तामानाययेद् विषा सा वकाशमिति समान पूर्वण ॥ २३ ॥ विवाहयोगप्रकरणम् । अप्रतिपद्यमानायामिति । स्वयं पाणिग्रहणमकुर्वत्याम्, अन्तश्चा- रिणीमन्यामिति । अन्तरङ्गां कुलस्त्रियम् , पूर्वसंबद्धां पित्रोः सौजन्येन प्रीयमाणां नायकस्य, उपगृह्येति । द्रव्येण स्वीकृत्य, विषह्यमिति गम्यम्, अन्यका-पदेशेनेति । अन्य कार्यमपदिश्यानाययेत्प्रणि. धिना॥१८॥ ततः श्रोत्रियागारादग्निमिति समानं पूर्वेण ॥ १९ ॥ समानं पूर्वेणेति । श्रोत्रियागारादित्यादि पूर्ववदित्यर्थः, अग्न्याहरण- मात्रेण गान्धर्वेण तुल्यमित्ययमेकः प्रकारः ॥ १९ ।। आसन्ने च विवाहे मातरमस्यास्तदभिमतान्यवरदोषैरनुशयं- ग्राहयेत् ॥ २० ॥ आसन्ने चास्या विवाहेऽन्येन वरेण सह, तदभिमतान्यवरदोषै. रिति । नायिकामातुरभिमतो योऽन्यो वरस्तस्य दोषैः क्लैव्यपतनादिभि- स्तामनुशयं ग्राहयेत् ॥ २०॥ ततस्तदनुमतेन प्रातिवेश्याभवने निशि नायकमानाय्य श्रो. त्रियागारादग्निमिति समानं पूर्वेण ॥ २१ ॥ तत इति । अनुशयग्रहणादृवं, तदनुमतेन =मातुरभिप्रायेण, प्राति. वेश्याभवन इति । तस्या द्रव्येगोपगृहीतत्वादिति द्वितीयः ॥ २१॥ भ्रातरमस्या वा समानवयसं वेश्यासु परस्त्रीषु वा प्रसक्त. मसुकरण साहाय्यदानेन मियोपग्रहैश्च सुदीर्घकालमनुरजयेदन्ते च स्वाभिप्रायं ग्राहयेत् ॥ २२ ॥ अस्या भ्रातरं तुल्यवयसमेकान्तप्रसक्तमसुकरेण कष्टसाध्येन साध्यस्त्रीसंपादनादिना, प्रियोपग्रहैरिति । सामदानैरन्यैर्वेत्यनुरा- नविधिः, स्वाभिप्रायमिति । त्वद्भगिनीं परिणेतुमिच्छामि ॥ २२ ॥ प्रायेण हि युवानः समानशीलव्यसनवयसां वयस्यानामर्थे वयस्थानामिति । मित्राणामर्थे जीवितमपि परित्यजन्ति किमु भगि- नीं न प्रयच्छन्ति, तत इति । प्रदानादूर्ध्व, तेनैवेति । भ्रात्रा, अन्य- कार्यादिति । ल्यश्लोपे पञ्चमी, अन्य कार्यमुद्दिश्येत्यर्थः, तत्रापि नायिका- मानाययेदिति तृतीयः ॥ २३ ॥ । । । ।

सटीके कामसूत्रे [ ३ अधिकरणे, OMANSOORTIO HINN है HD सुप्तप्रमत्तोपगमात्पैशाचा, तमधिकृत्याह- अष्टमीचन्द्रिकाऽऽदिषु च धात्रेयिका मदनीयमेनां पाययित्वा किं चिदात्मनः कार्यमुद्दिश्य नायकस्य विषयं देशमानवेत् ॥२४॥ अष्टमीचन्द्रिकाऽऽदिग्विति। अष्टमीचन्द्रिकाऽऽदिषु, तन्त्र दिवसमुष्य पूजापुरःसरं रात्रिजागरणमाचन्द्रोदयम् , अनन्तरं तां धात्रेयिका नाय. कप्रसक्ता मदनीयं सुराऽऽदिकं पाययित्वा, किंचिदात्मनः कार्यमिति । अङ्गुलीयकं विस्मृत्यागताऽस्मि तत्र गच्छाव इत्युपदिश्यानयेदित्यर्थः ॥२४ तत्रैना मदात्संज्ञामप्रतिपद्यमानां दृषयित्वेति समानं पूर्वेण ॥२५॥ तत्रेति । विषह्यदेशे, संज्ञा=चेतनां, दूषयित्वेति । दूषयित्वा चैनां- शनैः स्वजनेषु प्रकाशयेत् , तद्वान्धवाश्चेत्यादि पूर्ववदित्येकः प्रकारः॥२५॥ सुप्तां चैकचारिणी धात्रेयिकां वारयित्वा संज्ञामप्रतिपद्यमानां- दृषयित्वेति समानं पूर्वेण ॥ २६ ॥ सुप्तां चैकचारिणीमिति । एकाकिनी, तत्र सुप्तेति द्वितीयः, अत्रा. न्याहरणादिकं नास्ति, अधर्मत्वादिति ॥ २६ ॥ प्रसह्याहरणाद्राक्षसस्तमधिकृत्याह- ग्रामान्तरमुद्यानं वा गच्छन्ती विदित्वा सुसंभृतसहायो ना- यकस्तदा रक्षिणो वित्रास्य हत्वा वा कन्यामपहरेदिति वि- वाहयोगाः ॥ २७ ॥ ग्रामान्तरेति । स्वस्माद् ग्रामादन्यं ग्राम, सुलभृतसहाय इति । सुसंनद्धबहुसहायः, रक्षिणः = कन्यारक्षकान् , वित्रास्य, ते यथा त्यक्त्वा पलायन्ते, हत्वा वा प्रहारैः, कन्यामपहरेत् , कृष्णवदुक्मिणीम्, अत्रा. प्यधर्मत्वान्नान्याहरणादि, स्वगृहमेव च नीत्वा दूषणमिति, न किञ्चि- दतिदिष्ट, विवाहयोगा गान्धर्वादीनां विषयाः ॥ २७ ॥ अष्टानां विवाहाना मध्ये किमपेक्षया कस्य प्राधान्यमित्याह- पूर्वः पूर्वः प्रधान स्वाद्विवाहो धर्मसंस्थित्तेः । पूर्वाभावे ततः कार्यो यो य उत्तर उत्तरः ॥ २८ ॥ पूर्वः पूर्व इति । धर्मसंस्थितेरिति । धर्मनो व्यवस्थानादित्यर्थः, तत्र पूर्वे धाश्चत्वारः, अस्मिन्दर्शने गान्धर्वाद् ब्राह्मादयः प्रधान, तत्रापि के चित्तरतमभेदेन पूर्वः पूर्व इत्याहुः, गान्धर्वो ह्यासुरात् , पडित्येक स्मिन्पक्षे एतौ द्वावति धन्यौ, किं तु यथा पूर्वे न तथा परतः, यथा च गान्धर्वो न तथाऽऽसुर इति । ।

५ अध्याय] विवाहयोगप्रकरणम् । १९९ के चिद् 'आसुरोऽपि पैशाचाचथा धर्मत्वात् , पैशाचोऽधोऽपि राक्षसात्प्रधान राक्षसस्य साहसकर्मत्वाद्, यो य उत्तर उत्तर इति । अन्य गत्या अन्य इत्याहुः ॥२८॥ गान्धर्व एव प्रधानमित्याह- ब्यूढानां हि विवाहानामनुरागः फलं यतः । मध्यमोऽपि हि सद्योगो गान्धर्वस्तेन पूजितः ॥ २९ ॥ व्यूढानामिति । कृतानामनुरागः फलम् , अन्यथाऽनुरागाभावे नि- फलः स्याद् , मध्यमोऽपि हि षडित्येकस्मिन्पक्षे, सद्योग इति । शो- भनोऽनुरागारमको योगोऽस्येति, तेन च सद्योगेन गान्धर्व इत्युच्य. ते ॥ २९॥ एवं च कृत्वाऽस्य प्राधान्यमित्याह- मुखत्वादबहुक्लेशादपि चावरणादिह । अनुरागात्मकत्वाच गान्धर्वः : प्रवरो मतः ॥ ३० ॥ इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे विवाहयोगाः पञ्चमोऽध्यायः। सुखत्वादिति । सुखहेतुत्वाद्, अबहुक्लेशात, प्रायेणेति, प्रायशो न यत्नसाध्य इत्यर्थः, अवरणा=वरणसंविधानाभावात् ॥ ३० ॥ इति विवाहयोगा एकत्रिंशं प्रकरणम् ॥ autari इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां- कन्यासंप्रयुक्त के तृतीयेऽधिकरणे विवाहयोगाः पञ्चमोऽध्यायः । [समाप्तं चेदं कन्यासंप्रयुक्तकं नाम तृतीयमधिकरणम् ]

भार्याऽधिकारिकं नाम चतुर्थमधिकरणम् ।
प्रथमोऽध्यायः।
कन्या पुरुषेण संयुक्ता भार्या संवृत्ता तया पुंसि कथं ? वर्तितव्यमि-
त्यतो भार्याऽधिकारिकमुच्यते, तञ्च कन्यासंप्रयुक्तकशेषभूतम् , अन्यथा
विशेषाधिकाननुष्ठानात्सयुक्ताऽप्यसंयुक्तकल्पैव स्थाद्,
स्थाद्, भार्या च
द्विविधा-एकचारिणी सपत्निका च, तत्र प्राधान्येनैकचारिणी वृ.
त्तमुच्यते-
भाकचारिणी गूढविश्रम्भा देववत्पतिमानुकूल्येन वर्तेत ॥१॥
भार्येति । गूढविश्रम्भा, इतरस्याः कपटव्यवहारः, सम्भावितत्वा-
हेववद्, 'भर्ता तु देवता स्त्रीणाम्' इति न्यायाद्, आनुकूल्येन चित्तानुवि-
धानेनैव, वर्ततेत्यन्तर्भावितो ण्यर्थः, शरीरस्थितिविषयमेतत् ॥ १ ॥
वृत्तं सूचयति-
तन्मतेन कुटुम्बचिन्तामात्मनि संनिवेशयेत् ॥ २ ॥
तन्मतेनेति । यदा तु नायकेनानुज्ञाता, कुटुम्बचिन्तां गृहचिन्ताम्,
बाह्यवस्तुविषयमेतद्, आत्मनि संनिवेशयेद् आत्माधीनां कुर्याद्, वृत्त-
मुभयमुत्तरत्र यथायोगं योज्यम् ॥२॥
तत्र गृहप्रतिबद्धत्वाद् वृत्तस्य गृहचिन्तामाह-
वेश्म च शुचि सुसंमृष्ट स्थानविरचितविविधकुममं संश्लक्ष्ण-
भूमितलं हृद्यदर्शनं त्रिषवणाचरितबलिकर्म पूजितदेवायत्तनं-
कुर्यात् ॥ ३ ॥
वेश्म चेति । कुर्यादित्यनेन सम्बन्धा, सुसंमृष्टं सुशोधितं स्थानेषु
भोग्येषु विरचितानि विप्रकीर्णानि विविधानि कुसुमानि यस्य, संश्ल.
क्षणभूमितलमिति । मसृणभूतलं, हृद्यं = हृदयप्रियं, दर्शनं यस्य, विषवणं-
त्रिसंध्यमाचरितं कारितं बलिकर्म यत्र, देवताऽऽयतनं देवगृहं तत्पूजितं.
यस्मिन् ॥ ३॥
न ह्यतोऽन्यद् गृहस्थानां चित्तग्राहकमस्तीति गोनीयः ॥४॥
अतोऽन्यदिति । यथोपवर्णितवेश्मनः, चित्तग्राहक मनोहारि,
गोनर्दीय इति । पूजाऽर्थमधिकरणेऽधिकृतत्वात् ॥ ४ ॥

१ १ अध्याये] एकचारिणीवृत्तप्रकरणम् । २०१ तत्र वृत्तद्वयं दर्शयन्नाह- गुरुषु मन्त्रवश्येषु भृत्यवर्गेषु नायकभगिनीषु तत्पतिषु च यथाई प्रतिपतिः॥ ५ ॥ गुरुध्विति । श्वशुरादिषु, नायकभगिनीषु, ननान्दृषु, तत्पतिषु =न. नान्द्रुपतिषु, यथाऽहं प्रतिपत्तिरिति । यथा यस्यां प्रतिपत्तिर्वाक्काया- भ्यामनुष्ठानम् ॥ ५॥ परिपूतेषु च हरितशाकवमानिक्षुस्तम्बाजीरकसर्षपाजमोदश- तपुष्पातमालगुल्मांश्च कारयेत् ॥ ६॥ परिपूतेषु चेति । पवित्रेषु, हरितं धान्यकाकादि, शाकं पालया. दि च, एषां वप्रान्केदारान् , इक्षुस्तम्बानिक्षुविटपाञ्, जीरकादीश- तपुष्पापर्यन्तान् कारयेत्, तत्राजमोदोऽनेनैव नाम्ना प्रतीतः, तमाल- गुल्मांस्तमालविटपान् ॥६॥ कुब्जकापळकमल्लिकाजातीकुरण्टकनवमालिकातगरनन्याव- तंजपागुल्मानन्यांश्च बहुपुष्पान्यालकोशीरकपातालिकांच वृक्षवाटि- कायां च स्थण्डिलानि मनोज्ञानि कारयेत् ॥ ७॥ यत्र कुब्जकादीनां गुल्मान् , तगरः=पिण्डीतगरः, जपा=ओड़पु. पम् , बहुपुष्पा ये निर्भरं पुष्प्यन्ति, वालकोशीरयोः, पातालिका के दारः, स्थण्डिलान्यवपट्टकानि ॥७॥ मध्ये कूपं वापी दीर्घिकां वा खानयेत् ॥ ८॥ वापी समचतुरस्रां पुष्करिणी, दीर्घिकामायतचतुरस्रां, खानयेद्- वास्तुवशात् ॥८॥ भिक्षुकीश्रमणाक्षपणाकुलटाकुइकेक्षणिकामूलकारिकाभिर्न स- सृज्येत ॥ ९॥ भिक्षुकी भिक्षणशीला, श्रमणाक्षपणा प्रवजिता रक्तपटिका च, कु लटा प्रच्छन्नं खण्डितचारित्रा, कुहका कौतुककारिका, ईक्षणिका-विप्र- श्निका, मूलकारिका वशीकरणेन मूलेन या कर्म करोति, ताभिर्न संसृ. ज्येत, भर्तुविकल्पहेतुत्वात् ॥९॥ भोजन रुचितमिदमस्मै द्वेष्यमिदं पथ्यमिदमपथ्यमिदमिति च विद्यात त्यागोपादानार्थम् ॥ १० ॥ भोजने चेति । भोजनकाले रुचितादीन विद्यात् ॥१०॥ २६ का० सू० सटीके कामसूत्रे [४ अधिकरणे, । । स्वरं बहिरुपश्रुत्य भवनमागच्छत्तः किं कृत्यमिति त्रुवती स. ज्जा भवनमध्ये तिष्ठेत् ॥ ११ ॥ किं कृत्यमिति । आदिश्यमानकार्यस्यानुष्ठानबुद्ध्या, सज्जा-साव. धाना भवनमध्येऽङ्गनके ॥ ११ ॥ परिचारिकामपनुद्य स्वयं पादौ प्रक्षालयेत् ॥ १२ ॥ परिचारिकामिति । पादप्रक्षालनोद्यतामपनुद्यापास्य ॥ १२ ॥ नायकस्य च न विमुक्तभूषणं विजने संदर्शने तिष्ठेत् ॥१३॥ संदर्शन इति । अग्रतो न तिष्ठेद, अकृतशरीरसंस्कारां दृष्ट्वा वैरा. ग्यमपि स्यात् ॥१३॥ अतिव्ययमसद्व्ययं वा कुणिं रहसि बोधयेत् ॥ १४ ॥ अतिव्ययमुचितव्ययादधिकम् , असययं यदनथिजने प्रतिपाद्यते, रहसि बोधयेद, लोकमध्ये हि लज्जित एव स्यात् ॥ १४॥ आवाहे विवाहे यज्ञ गमने सखीभिः सह गोष्ठी देवताऽभिगम- नमित्यनुज्ञाता कुर्यात् ॥ १५ ॥ आधाहे-वरगृहे, विवाहे, कन्यागृहे, गोष्टी सम्भूय पानभोजनं, देवताऽभिगमन, द्रष्टुमनुज्ञाता कुर्याद् , अन्यथा स्वैरिणीत्याश. क्येत ॥ १२॥ सर्वक्रीडासु च तदानुलोम्येन प्रवृत्तिः ॥ १६ ॥ सर्वक्रीडासु चेति । यक्षराव्यादिषु लोके वृत्तासु तच्चित्तानुवि- धानेन प्रवृत्तिः ॥ १६ ॥ पश्चात्संवेशनं पूर्वमुत्थानमनवबोधनं च सुप्तस्य ॥ १७ ॥ पश्चात्संवेशनं, शयितस्य नायकस्य, पूर्वमुत्थानमनुस्थितान्नायका- दहनि यावन्न प्रतिबुध्येत ॥ १७ ॥ महानसं च सुगुप्तं स्यादर्शनीयं च ॥ १८ ॥ महानसं सुगुप्तं स्याद्, यथाऽन्योऽत्र परकीयो न विशेद्, दर्शनीयं. चान्धकाराभावात् ॥ १८ ॥ नायकापचारेषु किं चित्कलुषिता नात्यर्थं निर्वदेव ॥ १९ ॥ नायकापचारेविति। नायकापराधेषु, किञ्चित्कलुषिता धीरास्व- ख्यापनार्थ निर्वदेत् , पुनर्मा कार्करिति, तत्रापि नात्यर्थ मा भूद्वैलक्ष्य मस्येति ॥ १९ ॥ ।

१ अध्याये]
एकचारिणीवृत्तप्रकरणम् ।
-
साधिक्षेपवचनं त्वेनं मिस्त्रजनमध्यस्थमेकाकिनं वाऽप्युपाल-
भेत न च मूलकारिका स्यात् ।। २० ॥
मित्रजनमध्यस्थं यदि कार्यवशात्साधिक्षेपवचनमुपालभेत, न च
मूलकारिका स्यात् ॥२०॥
सत्स्वप्यपचारेषु युक्तिमाह--
न हतोऽन्यदप्रत्ययकारणमस्तीति गोनीयः ॥ २१ ॥
न द्यत इति । मूलकर्मणः, अप्रत्ययकारणम् = अविश्वासकारणं, गो.
नर्दीयमतमनुमतमप्रतिषिद्धत्वात् ॥ २१ ॥
दुर्व्याहृतं दुर्निरीक्षितमन्य तो मन्त्रणं द्वारदेशावस्थानं निरी-
क्षणं वा निष्कुटेषु मन्त्रणं विविक्तेषु चिरमवस्थानमिति वर्ज-
येत् ॥ २२ ॥
दुाहृतं दुर्मन्त्रितं, दुर्निरीक्षितं अस्निग्धवीक्षणम् , अन्यतो मन्त्र
णं-तिर्यङ्मुख कृत्वा भाषणम्, एतात्त्रतयं वैराग्यजनक, द्वारदेशा-
वस्थानं, गृहद्वारस्थितिनिरीक्षणं च, तदुभयमयत्नसाध्यत्वसूचकं,
निष्कुटेष्विति । गृहवाटिकायां निर्गत्य कया चित्सह मन्त्रणं, वि.
विक्तेषु-निर्जनेषु गृहप्रदेशेषु, चिरमवस्थान, तदुभयमसद्विकल्पज-
नकं भवेत् ॥ २२ ॥
स्वेददन्तपङ्कदुर्गन्धांश्च बुध्येतेति विरागकारणम् ।। २३ ॥
स्वेदादीन्बुध्येतापनयनार्थ', दन्तपङ्का दन्तमलः, विरागकारणमि-
ति। वैराग्यजनकं भवेद्भर्तुः ॥ २३ ॥
बहुभूषणं विविधकुसुमानुलेपनं विविधाङ्गरागसमुज्वलं वास-
इत्याभिगामिको वेषः ॥ २४ ॥
नानावण कालवशाद्यद्यद्विराजते वर्णतस्तत्तदुपादेयमिति,आभिगा-
मिको नायकाभिगमनप्रयोजनकः, तदा हि बहुभूषणादिभिः कालौपयि.
केन च रक्तवाससा प्रसाधिता मनोहरेति ॥ २४॥
प्रतनुश्लक्ष्णाल्पदुकूलता परिमितमाभरणं सुगन्धिता नात्यु-
ल्वणमालेपनं तथा शुक्लान्यन्यानि पुष्पाणीति वैहारिको वेषः॥२६॥
प्रतनु श्लक्ष्णमल्पं सूक्ष्मं यत्संयन्तुं शक्यं वस्त्रं, परिमितं कर्णयो-
ग्रीवायां च, नात्युद्धतं वर्णविन्यासाभ्यां चेति, वैहारिको, यात्राक्रीडा-
विहारप्रयोजनकः ॥ २५ ॥

२०४ सटीके कामसूत्र [४ अधिकरणे, नायकस्य व्रतमुपवासं च स्वयमपि करणेनानुवर्तेत वारिता. यां च नाहमत्र निर्बन्धनीयेति तद्वचसो निवर्तनम् ॥ २६ ॥ व्रतं नियम स्वयमनुकरणेनानुवर्तत भक्तिख्यापनार्थ, वारितायां- नायकेन व्रतोपवासाभ्यां, नाहमत्र निर्बन्धनीया निषेधनीयेति वाक्येन नायकवचसो निवर्तनं भक्त ट्यार्थम् ॥२६॥ मृद्विदलकाष्ठचर्मलोहभाण्डानां च काले समर्घग्रहणम् ॥ २७ ॥ मृद्भाण्डं घटादि, विदलभाण्ड-पिटकादि, काष्ठमाण्डं-पीठखट- धाऽऽदि, लोहभाण्डं-ताम्रादिमयं, काले = इत्युपयोगकाले, तत्रापि यत् समर्घ प्राप्यते ॥ २७॥ तथा लवणस्नेहयोश्च गन्धद्रव्यकटुकमाण्डौषधानां च दुर्ल- भानां भवनेषु प्रच्छन्नं निधानम् ॥ २८ ॥ लवणं सैन्धवादि, स्नेहः-घृततैलवसामज्जाना, गन्धद्रव्यं-तगरादि, कटुकं-तुम्ब्यादि, औषधं-द्विपञ्चमूलादि, दुर्लभा ये न तत्रत्याः, अपि तु दुःखेन लभ्यन्ते, प्रच्छन् निधानं यत्र तानि भवन्ति, न विनश्यन्ति घा ॥२८॥ मूलकालुकपालङ्कीदमनकाम्रातकैर्वारुकत्रपुसवार्ताककूष्माण्डा- लाबुमरणशुकनासास्वयंगुप्तातिलपर्णिकाऽग्निमन्थलशुनपलाण्डुम- भृतीनां सर्वोषधीनां च वीजग्रहणं काले वापश्च ॥ २९ ॥ मूलकादीनां च बीजग्रहणमिति संबन्धः, एर्वारुकाकर्कटिका, अलाबु-तुम्बी, सूरणा कन्दः, शुकनासा=सर्वतोभद्रा, स्वयंगुप्ताक पिकच्छूः, तिलपर्णिका-काश्मरी, अग्निमन्था=अनेनव नाम्ना प्रथितः, पलाण्डुः लशुनाकारो लोहितः ॥ २६ ॥ स्वयं च सारस्थ परेभ्यो नाख्यानं भर्तृमन्त्रितस्य च ॥३०॥ सारस्य-द्रव्यस्य, परेभ्यो नाख्यानं 'धनायुषी गुप्ततमे कार्ये' इति वचनाद्, भर्तृमन्त्रितस्य च नाख्यानं मा ज्ञासीद्भिनरहस्येति ॥ ३० ॥ समानाश्च स्त्रियः कौशलेनोज्ज्वलतया पाकेन मानेन तथोप- चारैतिशयीत ॥ ३१॥ समाना:-तुल्याभिजनाः, कौशलेन कलासु, मानेन मनस्वितया, उपचारैभर्तरि क्रियमाणैरुपचारैरतिशयीतात्मनोऽधिकत्वख्यापनार्थम्३१॥ सांवत्सरिकमायं संख्याय तदनुरूपं व्ययं कुर्यात् ।। ३२ ।।

१ अध्याये] एकचारिणीवृत्तप्रकरणम् । २०५ - संख्यायेति । आयमुखाद् वर्षेणैतावदुत्पद्यत इति व्ययं कुर्यात् , तद. नुरूपम् आयानुरूपं, कालयापनार्थम् ॥ ३२ ॥ भोजनावशिष्टाद्वोरसात् सारग्रहणं तथा तैलगुडयोः, को- सस्य च सूत्रकर्तनं, सूत्रस्य वानं, शिक्यरज्जुपाशवल्कलसं. ग्रहणं, कुट्टनकण्डनावेक्षणम् , आचाममण्डतुषकणकुव्यङ्गाराणा- मुपयोजनम् , भृत्यवेतनभरणज्ञानं, कृषिपशुपालनचिन्तावाहन- विधानयोगाः, मेषकुक्कुटलावकशारिकापरभृतमयूरवानर मृगाणा- मवेक्षणं, दैवसिकायव्ययपिण्डीकरणमिति च विद्यात् ।। ३३ ।। सारग्रहणमिति । यज्ञादिषु ब्राह्मणान्भोजयित्वा; यदवशिष्टं तस्मा- त् सारग्रहणं, मथितं चापरं भवति, तैलगुडयोः सारग्रहणं सर्षपेक्षुका- ण्डपीडनात्, कर्पासस्य सूत्रकरणं, वानमाच्छादनार्थ, शिक्यस्य भाण्डारोपणार्थ, रज्ज्वा जलोद्धरणार्थम् , पाशस्य पशुबन्धनार्थ, वल्कलस्य रज्ज्वाधर्थ संग्रहणं, कुट्टनं धान्यानां, कण्डनं तण्डुला- नां, तयोरवेक्षणं परीक्षणम् , आचामस्य मण्डस्य च पानार्थ चेटि- कादिषूपयोजनं, तुषाणां धारणं कुडघलेपनादिषु, कणानां क्षुद्रत. ण्डुलानां कुक्कुटाद्यर्थ, कुटोनां तण्डुलपरागाणां गोमेषाद्यर्थम् , अङ्गाराणां महानसादुत्पन्नानां लोहभाण्डकरणादिषु, भृत्या ये बहि- रन्त:कर्मसु नियुक्ताः, तेषां वेतनं प्रतिमासं प्रतिवर्ष वा यो निबन्धः, भरणं प्रतिदिनं भक्तकं तयोर्शानं देशकालकर्मवशेन, कृषिपशुपालनचि- तेति । कर्षणवापनरोपणादिप्रत्यवेक्षणं कृषिचिन्ता, मुष्टिव्याधिचि- कित्साऽऽधनुष्ठानचिन्ता पशुपालनचिन्ता, वाहनविधानयोगा अश्वा- दीनां विधानयोजनम् , मेषादीनां क्रीडनाथ नायकपरिगृहीतानामवेक्षण- मशनपानरक्षणः, प्रत्यहायव्ययस्य पिण्डीकरणमेकीकरणमिति, विद्या- दिति, सारग्रहणादि ॥ ३३ ॥ तज्जघन्यानां च जीर्णवाससां सञ्चयस्तैर्विविधरागैः शुद्धैर्वा कृतकर्मणां परिचारकाणामनुग्रहो मानार्थेषु च दानमन्यत्र वोपयोगः॥ तजघन्यानामिति । नायकोपभुक्तानां, तैः सञ्चितैः, कृतकर्मणा- मिति । यैः कर्म कृतम्, मानार्थेषु चेति । मान एवार्थों येषां, ते हि तैर्दत्तैर्मानिता भवन्ति, अन्यत्र वेति । दीपवादिषु ॥ ३४ ॥ सुराकुम्भीनामासवकुम्भीनां च स्थापनं बदुपयोगः क्रयवि- क्रयायव्ययावेक्षणम् ॥ ३५ ॥ ।

२०६ सटीके कामसूत्रे [ ४ अधिकरणे, । स्थापनमिति । प्रच्छन्नं, तदुपयोग इति । कार्यवशात्सुराऽऽदीनामु- पयोजन, क्रयविक्रयौ समर्घमहार्घतथा, आयव्ययावल्पमहत्तयाऽ. वेक्षेत ॥ ३५॥ नायकमित्राणां च स्रगनुलेपनताम्बूलदानैः पूजनं न्यायतः॥३६॥ न्यायत इति ! गुणजातिवयोऽपेक्षया, पूजनं स्वीकरणार्थ परिचय. धर्मार्थ भक्तिख्यापनार्थ च ॥ ३६ ॥ श्वश्रश्वशुरपरिचर्या तत्पारतम्यमनुचरवादिता परिमिताम- चण्डालापकरणमनुचैासः ।। ३७ ॥ तत्पारतन्त्र्यं तद्वचनानुष्ठानाद् , अनुत्तरवादिता तयोः प्रत्युत्तरं न देयम्, परिमिताप्रचण्डालापकरणमिति । तयोरग्रतः स्वल्पं च मृदु च ज्याद्, अनुच्चैर्हासस्तत्समीपे ॥ ३७॥ तत्मियाप्रियेषु स्वप्रियाप्रियेष्विव वृत्तिः ॥ ३८ ॥ तत्प्रियाप्रियेविति । तयोरिटानिष्टेषु, स्वप्रियाप्रियेष्विव वृत्तिर्यथा- ऽऽत्मनः प्रियाप्रियौ भवतः ॥३८॥ भोगेष्वनुत्सेकः ॥ ३९ ॥ भोगेषु महत्स्वपि सत्स्वनुत्सेको लाघवपरिहारार्थ चित्तविकारो- न कर्तव्यः ॥ ३९ ॥ परिजने दाक्षिण्यम् ॥ ४० ॥ परिजने नायकस्य सर्वदा दाक्षिण्यमुपसंग्रहार्थम् ॥ ४० ॥ नायकस्यानिवेद्य न कस्मै चिदानम् ॥ ४१ ॥ अनिवेद्य न कस्मैचिहानं, सपुत्राया अपि स्वातन्त्र्यपरिहारार्थम्॥४॥ स्वकर्मसु भृत्यजननियमनमुत्सवेषु चास्य पूजनमित्येकचा- रिणीवृत्तम् ॥ ४२ ॥ स्वकर्मस्विति । यो यत्र नियुक्तस्तत्र तस्य नियमनं कर्मानतिपात. नार्थम् , अस्येति । भृत्यजनस्य, पूजनं पानभोजनादिना ॥ ४२ ॥ एकचारिणीवृत्तं द्वात्रिंशं प्रकरणम् ॥ एकचारिण्याः संनिहिते नायके वृत्तमुक्ता, प्रोषिते तु तवृत्तशेष- भूता प्रवासचर्याऽऽरभ्यते- प्रवासे च मङ्गलमात्राभरणा देवतोपवामपरा वार्तायां स्थिता गृहानवेक्षेत ॥ ४३ ॥ ।

१ अध्याये]
प्रवासचऱ्याप्रकरणम् ।
२०७
mematun
--
प्रवासे चेति । मङ्गलमात्रमारणं शङ्कवलयादिकं यस्याः, नायका.
भिवृद्धये देवतामुहिश्य य उपवासस्तत्परा, परग्रहणं कादाचित्कत्वनि-
वृत्यर्थ, वार्तायां स्थितेति । नायकवार्ताऽन्वेषणपरेत्यर्थः, ॥ ४३ ॥
गृहानवेक्षतेति तात्स्थ्यात्कर्माण्याह-
शयया च गुरुजनमूले ॥४४॥
गुरुजनमूल इति । श्वश्रजनसमीपे, शयनमात्मविशुद्धयर्थम् ॥ ४४ ॥
तदभिमता कार्यनिष्पत्तिः॥ ४५ ॥
तदभिमतेति । गुरुज नाभिमतस्य कार्यस्यानुष्टानमानुकूल्यख्या-
पनार्थम् ॥ ४५॥
नायकाभिमतानां चार्थानामजने प्रतिसंस्कारे च यत्रः॥४६॥
अर्जने प्रतिसंस्कारे च यत्न इति । नायकस्य येऽभिमताः, न च तेना.
पवर्जितास्तेषाम् ॥ ४६॥
नित्यनैमित्तिकेषु कर्मसूचितो व्ययः ॥ ४७॥
नियं कर्माशनपानादि, नैमित्तिकं कर्म बालकोत्सवादि, उचितो.
ध्ययो यावता विधिः संपद्यते, नायककल्पितो वा ॥ ४७ ॥
तदारब्धानां च कर्मणां समापने मतिः॥४८॥
तदारब्धानामिति । नायकारब्धानां देवकुलोद्यानादिकर्मणां समा-
पने मतिः, येन प्रकारेण निष्पद्यते तथा कार्यमित्यर्थः॥४८॥
ज्ञातिकुलस्यानभिगमनमन्यत्र व्यसनोत्सवाभ्याम् ।। ४९ ॥
जातिकुलस्य-पितृगृहस्य, अनभिगमनं, कारणं विना तद्गमनं हि
विनाशकारणं स्त्रीणां, कस्य चिद् व्यसने पुत्रशोकादौ, उत्सवे विवा-
हादौ यातव्यम् ॥ ४ ॥
तत्रापि नायकपरिजनाधिष्ठिताया नातिकालमवस्थानमपरि-
वर्तितप्रवासवेषता च ॥ ५० ॥
नायकपरिजनाधिष्ठिताया गमनमात्मविशुद्ध्यर्थ, नातिकालमय-
स्थानमिति । नातिचिरकालमवस्थानं श्वशुरकोपभयाद्, अपरिवर्ति-
तप्रवासवेषता चेति । उत्सवमधिकृत्येदं वचनम् ॥ ५० ॥
गुरुजनानुज्ञातानां करणमुपवासानाम् ॥ ११ ॥
गुरुजनानुज्ञातानां करणं, स्वातन्त्र्यपरिहारार्थम् ॥ ५१ ॥

सटीके कामसूत्र [४ अधिकरणे, NWARIOR परिचारकैः शुचिभिराज्ञाऽधिष्ठितैरनुमतेन क्रयविक्रयकर्मणा सारस्यापूरणं तनूकरणं च शत्या व्ययानाम् ॥ ५२ ॥ शुचिभिरिति । अर्थोपधाशुद्धरास्माधिष्ठितैर्न स्वतन्त्रैः, अनुमतेन युक्तेन, क्रयवि यकर्मणेति । वणिज्याधर्मेण, सारस्यापूरणं द्रव्यस्या- भिवर्धनं, तनूकरणं चेति । कृशीकरणं, शक्त्या व्ययानामिति । कार्यवशाद्यदि व्ययस्य महत्ता स्यात्तदा कृशं सारं कुर्यादित्यर्थः ॥५२॥ आगते प्रकृतिस्थाया एव प्रथमतो दर्शनं दैवतपूजनमुपहा- राणां चाहरणमिति प्रवासचर्या ॥५३॥ आगते चेति । प्रवासात्प्रत्यागते नायके, प्रकृतिस्थाया इति। प्रवा- सवेषावस्थाया एव प्रथमतो दर्शनं स्यात्स्वरूपख्यापनार्थ,न पुनरागत- इत्यात्मानं प्रसाधयेद् , देवतापूजन सह परिजनेन, उपहाराणाम् =उप. याचितकानाम् , आहरणं दानं देवताभ्यः ॥ ५३॥ प्रकरणद्वयोपसंग्रहार्थमाह- भवतश्चात्र श्लोको- सद्वृत्तमनुवर्तेत नायकस्य हितैषिणी। कुलयोषा पुनर्भू; वेश्या वाऽप्येकचारिणी ॥ ५४॥ सदिति । शोभनं वृत्तं प्रत्यक्षे प्रोषिते च, यदुक्तं-हितैषिणी न कपटे. नानुवर्तनाम् , इति दर्शनार्थम् , अस्मिन्वृत्ते नायिकात्रयमधिकृत्याह- कुलयोषेति । कन्यैवोढा कुलयोषिदित्युच्यते, ॥ ५४॥ वृत्तानुवर्तने फलमाह- धर्ममर्थं तथा कामं लभन्ते स्थानमेव च । निःसपत्नं च भतारं नार्यः सद्वृत्तमाश्रिताः ॥ ५५ ॥ इति श्रीवात्स्यायनीये कामसूत्रे भार्याऽधिकारिके चतुर्थेऽधिकरणे एकचारिणीवृत्तं प्रवासचर्या च प्रथमोऽध्यायः । धर्ममिति । स्था प्रतिष्ठान, निःसपत्नं निष्कण्टकम् ॥५५॥ इति प्रवासचा त्रयस्त्रिंशं प्रकरणम् । इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां भाया॑ऽधिका- रिके चतुर्थेऽधिकरण एकचारिणीवृत्तं प्रवासाचा च प्रथमोऽध्यायः । ammam BAURIER २ अध्याये] सपत्नीषु ज्येष्टावृत्तप्रकरणम् । -- द्वितीयोऽध्यायः। सैव यदा सपत्नीभिर्युज्यते, तदा कथं वर्तितव्यमिति ? सपत्नीषु ज्येष्ठावृत्तमुच्यते, तत्र सापत्न्यकारणमाह- जाड्यदौ शील्यदौर्भाग्येभ्यः प्रजाऽनुत्पत्तेराभीक्ष्ण्येन दारि- कोत्पत्तेनायकचापलाद्वा सपत्न्यधिवेदनम् ।। १ ॥ जाड्येति । जाड्यात्-शाठ्याद्, दौःशील्याद्-चारित्रखण्डनात्, प्रजाऽनुत्पत्तेर्वन्ध्यवाद , आभीक्षायेनेति । पौनःपुन्येन दुहितुरुत्पादा- दित्येतानि स्त्रीगतानि कारणानि, नायकचापलादिति। नायकस्येन्द्रिय- लौल्यात् , सपल्यधिवेदनं सपत्नीलाभः ॥ १॥ तदादित एव भक्तिशील वैदग्ध्यख्यापनेन परिजिहर्षित् ॥२॥ तदिति । तस्मादादित एवादावेव यदवोढा भक्तिशीलवैदग्ध्यख्या- पनेन यथाक्रमं जाड्यादित्रयं परिहर्तुमिच्छेद्, नायकचापलं वैदग्ध्य- ख्यापनेनैव ॥२॥ प्रजाऽनुत्पत्तौ च स्वयमेव सापत्न्ये चोदयेत् ॥ ३ ॥ प्रजाऽनुत्पत्तौ स्वयमेवान्यथा तेन कर्तव्यमेव, सापत्न्ये चोदयेत् , कुरु विवाहमिति, दारिकोत्पत्ताचप्ययमेव क्रमः, स्त्रीपरिग्रहस्य पुत्रफलकत्वात् ॥३॥ आधिविद्यमाना च यावच्छक्तियोगादात्मनोऽधिकत्वेन स्थिति- कारयेत् ॥ ४॥ अधिविद्यमानेति । सापत्न्ये युज्यमाना न त्वधिविन्ना, यावच्छ. क्तीति । यावती शक्तिस्तदपेक्षयाऽऽत्मनः स्थिति कारयेद्, अधिकत्वेने. ति । सपत्न्याः सकाशादाधिक्येनेत्यर्थः॥४॥ अधिविन्ना तु किं कुर्यादित्याह- आगतां चैनां भगिनिकावदीक्षेत ॥ ६॥ आगतामिति । सपत्नी भगिनिकावत् कनीयसीमिव भगिनीम्, अल्पे कन् ॥ ५॥ नायकविदितं च प्रादोषिकं विधिमतीच यत्नादस्याः कारयेत् ॥६॥ नायकविदितमिति । यथा नायको जानात्यनया कारितमिति,प्रादो- षिकं प्रदोषभवं संस्कारम् , अतियत्नादनिच्छन्त्या अपि तस्याः स्नेह- ख्यापनार्थ परिवारिकया कारयेत् ॥ ६ ॥ सौभाग्यजं वैकृतमुत्सेकं वाऽस्या नाद्रियेत ॥ ७ ॥ । । २७का०सु० सटीके कामसूत्रे [४ अधिकरणे, -- । । सौभाग्यजं वैकृतं यदहकृत्या व्याहृतम् , औत्सुक्यमुत्सेकं चित्तवि- कारं नाद्रियेत नापेक्षेत, अभिभवभयात् ॥ ७ ॥ भर्तरि प्रमाद्यन्तीमुपेक्षेत ॥ ८ ॥ भर्तरीति। भर्तृविषये प्रमाद्यन्ती प्रमाद यान्तीमुपेक्षेत, अनेनव स्खलितदोषेण दौर्भाग्यं स्यादिति ॥८॥ यत्र मन्येतार्थमियं स्वयमपि प्रतिपत्स्यत इति तनामादरत. एवानुशिष्यात् ॥ ९ ॥ योति । यस्मिन्प्रमाई मन्येत, नायकसंभोगार्थमियं कृत्वा सपत्नी स्वयमेव प्रतिपत्स्यते प्रमादो माभूदिति, तनां स्नेहख्यापनार्थमादरतो. ऽनुशिष्यात्पुना कार्षीरिति ॥९॥ नायकसंश्रचे च रहसि विशेषानधिकान्दर्शयेत् ॥ १० ॥ नायकसंश्रवे चेति । नायकस्य श्रुतिगोचरे सति, रहसि च यत्रान्यो- न शृणोति, विशेषानिति । कलाविशेषान् , अधिकानिति । ये नायकस्य न दर्शिताः, तदर्शने धुभावपि स्निह्यतः ॥ १० ॥ तदपत्ये ध्वविशेषः ॥११॥ तदपत्येष्विति। अत्रया सपुत्राया दर्शयितव्यः ॥ ११ ॥ परिजनवर्गेऽधिकानुकम्पाः ॥ १२ ॥ परिजनवर्ग इति । सपत्न्याः, अधिकानुकम्पा यद्यसौ नायकस्या प्यभिमतः॥१२॥ मित्रवर्गे प्रीतिः ॥ १३ ॥ मित्रवर्ग इति । तस्या विवाहकाले यो मित्रवर्गस्तस्मिन्प्रीतिः स्वी- कारार्थम् ॥ १३ ॥ आत्मज्ञातिषु नात्यादरः ॥ १४ ॥ आत्मनो ज्ञातिषु नात्यादरो वचनीयतापरिहारार्थम् ॥ १४ ॥ तज्ज्ञातिषु चातिसंभ्रमः ॥ १५ ॥ तज्ज्ञातिविति । सपत्नीज्ञातिप्वतिसंभ्रमोऽत्यादरः स्नेहख्यापना- र्थम् ॥ १५ ॥ बहीभिस्त्वधिविन्नाऽव्यवहितया संसृज्येत ।। १६ ॥ बहीभिस्त्वधिविना, सपत्नीभिरव्यवहितयाऽनन्तरया कनीयस्या संसृज्येत विदितशीलत्वात् ॥ १६ ॥ यां तु नायकोऽधिको चिकीर्षेचां भूतपूर्वसुभगया प्रोत्साह्य २ अध्याये सपनीषु कनिष्टावृत्तप्रकरणम् । , कलहयेत् ॥ १७ ॥ या त्विति । सपत्नी, तासु बहीषु नायकोऽधिका स्नेहमानाभ्यां चि. कीरेत्कर्तुमिच्छेद् , भूतपूर्वसुभगयेति । नायकस्य प्राक्तन्या सुभगया, प्रोत्साद्य तामेव सौभाग्यवीजोपन्यासेन च तयैव कलहयेत् ॥ १७ ॥ ततश्चानुकम्पेत ॥ १८ ॥ तत इति । उत्तरकालमनुकम्पेत कलहितां प्रच्छन्ने समाश्वासये- कलहभञ्जनार्थम् ॥ १८ ॥ ताभिरेकत्वेनाधिकां चिकीर्षितां स्त्रयमविवदमाना दुर्जनी- कुर्यात् ॥ १९ ॥ ताभिरेकत्वेनेति । सपत्नीभिरन्याभिरेकत्वेनेत्यैक्येन संहतिधर्मेण स्थिताभिरित्यर्थः, एकीभावेऽपि सैव सौभाग्यबीजोपन्यासहेतुं नायक- स्थाग्रतो दुर्जनीकुर्याद, येन नायकस्य तस्यां न सद्बुद्धिः स्याद्, दृष्टो- हि बहुभिः सकलैश्चाहियमाणः, तत्रापि स्वयमविवदमाना मध्यस्था सती, नैतत्कृतः प्रयोग इति ख्यापनार्थम् ॥ १९ ॥ नायकेन तु कलहितामेना पक्षपातावलम्बनोपबृंहितामा. श्वासयेत् ॥ २० ॥ नायकेन तु कलहितामेनां, दोर्जयोपन्यासेन, पक्षपातावलम्बनोप- इंहितामिति । तत्परिग्रहेणोपगृहीता दापितप्रत्युत्तरामाश्वासयेत् ॥ २०॥ कलहं च वर्धयेत् ॥ २१ ॥ नायकेन सह, यत्नस्य तदर्थत्वात् ॥ २१ ॥ मन्दं वा कलहमुपलभ्य स्वयमेव संधुक्षयेत् ।। २२ ॥ भिद्यमानं तूपलभ्य, कलहं संधुश्शयेद्यथा न मन्दीभवति ॥ २२ ॥ यदि नायकोऽस्यामद्यापि सानुनय इति मन्येत तदा स्वयमेव संधौ प्रयतेत ।। २३ ॥ इति ज्येष्ठावृत्तम् । स्वयं वा संधौ प्रयतेत, यद्ययमेकान्तेनास्यां निरनुनयस्तदा तिष्ठ- त्वस्मद्विधैव मैनामवमन्यस्वेति प्रसादयेत् ॥ २३ ॥ इति ज्येष्ठावृत्तं चतुस्त्रिंशं प्रकरणम् । कनिष्ठाऽपि भार्या कथं वर्ततेति ? कनिष्ठावृत्तमुच्यते- कनिष्ठा तु मातृवत्तपत्नी पश्येत् ।। २४ ॥ कनिष्ठा विति । मातृवन्मातरमिव ज्येष्ठाम् ॥ २४ ॥ ,

२१२
सटीके कामसूत्रे
[४ अधिकरणे,
ज्ञातिदायमपि तस्या अविदितं नोपयुञ्जीत ॥ २५ ॥
ज्ञातिदायमिति । पितृभ्यां दत्तम् , भर्नु दत्तमित्यपिशब्दाद् , अवि.
दितं नोपयुञ्जीत, अङ्गार्पणोपाय एषः ॥२५॥
आत्मवृत्तान्तांस्तदधिष्ठितान्कुर्यात् ॥ २६ ॥
आत्मवृत्तान्तानिति । आत्मनि प्रतिबद्धान् व्यवहारान् , तदधिष्ठि-
तान् ज्येष्ठस्वामिकान् ॥ २६ ॥
अनुज्ञाता पतिमधिशयीत ॥ २७ ॥
अनुज्ञाता ज्येष्टया, क्रमप्राप्तेऽधिशयने पतिमधिशयीत, 'अधिशीङ्.
स्थाऽऽसां कर्म' इति कर्मसंज्ञा ॥ २७ ॥
न वा तस्या वचनमन्यस्याः कथयेत् ॥ २८॥
तस्या वचनं ज्येष्ठावचनं सदसद्वाऽन्यस्था अग्रे न कथयेत् , कलह-
परिहारार्थम् ॥ २८ ॥
तदपत्यानि स्वेभ्योऽधिकानि पश्येत् ॥ २९ ॥
तदपत्यानि ज्येष्ठापत्यानि ज्येष्ठान्यज्येष्ठानि च, स्वेभ्योऽपत्येभ्यो-
ऽधिकं पश्येत् ॥ २९ ॥
रहसि पतिमधिकापचरेत् ॥ ३० ॥
रहसि शयने, अधिकमुपवरेयेनायमन्याभ्यस्तस्यामनुरज्येत ॥३०॥
आत्मनश्च सपत्नीविप्रकारचं दुःखं नाचक्षीत ॥ ३१ ॥
सपत्नीविप्रकारजं सपत्नीपरिभव, नात्मना परस्याचक्षीत,
स्वयं कथ्यमान नायको न प्रतीयाद् , अन्येन तु कथयेत् ॥ ३१ ॥
पत्युश्च सविशेषकं गूढं मानं लिप्सेत ॥ ३२ ॥
पत्युः सविशेषकमिति । अन्यतरभार्याभ्यो वैशेषिकी पूजां पत्युः स-
काशादप्रकट लन्धुमिच्छेत् ॥ ३२ ॥
अनेन खलु पथ्यदानेन जीवामीति ब्रूयात् ॥ ३३ ॥
अनेनेति । सविशेषेण मानेन पथ्यदानेन शम्बलभूतेन जीवामि सप-
त्नीवागुरायामिति बयात् ॥ ३३ ॥
तत्तु श्लाघया रागेण वा बहिर्नाचक्षीत ॥ ३४ ॥
तन्मानं, श्लाघया विकत्थनेन, रागेण वेति । सपनोक्रोधेन, बहिः-
सामान्यजनस्य नाचक्षीत ॥ २४॥
दोषमाह--
मिन्नरहस्या हि भर्तुरवज्ञां लभते ॥ ३५ ॥

२ अध्याये] पुनर्भूवृत्तप्रकरणम् । । भिन्नरहस्या हीति । अवज्ञा तिरस्कारम् ॥ ३५ ॥ ज्येष्टामयाच निगूढसंमानार्थिनी स्यादिति गोनीयः ॥ ३६ ।। ज्येष्ठाभयादिति । अन्यथा सविशेष मानं पश्यन्ती कुप्येदनर्थ वा चिन्तयेद्, गोनीयमतमनुमतमप्रतिषिद्धत्वात् ।। ३६ ॥ दुर्भगामनपत्यां च ज्येष्ठामनुकम्पेत नायकेन चानुकम्पयेत् ॥३७॥ ज्येष्ठामनुकम्पेत नैकान्तेनाभिभवेत् , तथाभूताया निष्प्रत्याधार- त्वाद् , नायकेन चानुकम्पयेत्संभाषणं क्रियतामिति, आत्मसाधुत्व ख्यापनार्थम् ॥ ३७॥ प्रसह्य त्वेनामेकचारिणीवृत्तमनुतिष्ठेत् ॥ ३८ ॥ इति कनिष्ठावृत्तम् ।। एनामिति । दुर्भगामनपत्यां ज्येष्ठामाक्रम्या, ज्येष्ठाकनिष्ठयोर्मध्यव- तिनीनां पूर्वापरापेक्षया ज्येष्ठाकनिष्ठावृत्तं योज्यम् ।। ३ ।। इति कनिष्ठावृत्तं पञ्चनिशं प्रकरणम् । यथा कन्या भार्या तथा पुनर्भूरिति पुन वृत्तमुच्यते, पूनर्भूद्विविधा- क्षतयोनिरक्षतयोनिश्च, तत्रान्त्या संस्कारार्हत्वात्कन्यायामेवान्तर्भूता, यथोक्तम्- 'पुनरक्षतयोनित्वादुह्यते या यथाविधि' इति । द्वितीयाया न संस्कारः, स्वीकार एव केवलं, सा च लोकेऽवरु- द्धत्युच्यते, सा चैवं विधा शास्त्रेऽनुशातैव, यथाऽऽह वसिष्टः 'मनोदत्ता वचोदत्ता था च मङ्गलवाचिका । उदकस्पर्शिका चैव या च पाणिगृहीतिका ।। अग्निं परिगता चैव पुनर्भूः प्रसवा च या' इति । अत्र पूर्वाः षडक्षतयोनयः, प्रसवेति । क्षतयोनिरित्यर्थः । तामेवाधिकृत्य वृत्तमाह- विधवा विन्द्रियदौर्बल्यादातुरा भोगिनं गुणसंपन्नं च या पुनर्विन्देत्सा पुनर्भूः ॥ ३९ ॥ विधवेति । मृतभर्तृका, इन्द्रियदौर्बल्यादिति । इन्द्रियाणि नियन्तुम- समर्थत्वाद्, आतुरा कामेन बाध्यमाना,भोगिनमिति । उपभोगसम्पन्न, गुणसम्पन्नमिति । नायकगुणर्युक्तं, या पुनर्विन्देद् द्वितीयं पतिं लभेत, सा पुनर्भूर्भार्यात्वेन पुनर्भवतीति कृत्वा भोगिनं गुणसम्पन्नमिति, गो- नर्दीयमतमेतद्भविष्यति ॥ ३९ ॥ anima IN ।

२१४ सटोके कामसूत्रे [ ४ अधिकरणे, यतस्तु स्वेच्छया पुनरपि निष्क्रमणं निर्गुणोऽयमिति तदाऽन्यं. काङ्केतेति बाभ्रवीयाः ।। ४० ॥ यतस्त्विति।भर्तृगृहादातुरा स्वेच्छया निष्क्रान्ता. पुनरपि यतः पुरु. पात्स्वेच्छया निष्क्रमणं स्याद्, निर्गुणोऽयमिति, निष्क्रमणोपायान्निर्गु. णमपि भोगिनमाकाक्षेत ॥ ४० ॥ सौख्यार्थिनी सा किलान्यं पुनर्विन्देत ॥ ४१ ॥ सौख्यार्थिनी विषयपरिभोगार्थिनी, किलेति वितर्के । ४१ ॥ गुणेषु सोपभोगेषु मुख साकल्यं तस्मात्ततो विशेष इति गोनीयः॥४२॥ सुखसाकल्यमिति । गुणसुरतपरिभोगसुखयोः समवायात्, तकि. मिति निष्कामति, यतश्चैवं तस्मात्ततो निर्गुणभोगिनो विशिष्यते गुण- वान्भोगी, या तु पुनः पुनर्निष्कामत्यसौ वेश्याविशेषेऽन्तर्भवति ॥४२॥ आत्मनश्चित्तानुकूल्यादिति वात्स्यायनः ॥ ४३ ॥ आत्मनश्चित्तानुकूल्यादिति । सत्यपि गुणवति भोगिनि चित्तं चेन्ना. नुकूलं तथाऽपि न सुखसाकल्यं, तस्मादयमपरो विशेषः, तेनोक्तलक्षणाद्- गम्योऽन्य इति दर्शयति ॥ ४३ ।। सा बान्धर्नायकादापानकोद्यानश्रद्धादानमित्रपूजनादि व्य- यसहिष्णु कर्म लिप्मेत ॥ ४४ ॥ सेति । विधवा विन्दमाना, बान्धवैः स्वैः, नायकाद्यत्कर्मणा लव्धु. मिच्छेत्तत्रापानकं मद्यगोष्ठी, उद्यानं = पुष्पफलौपयिक, श्रद्धादानं यच्छ- द्धया दीयते, मित्रपूजनादीति । आदिशब्दात्स्वजनं च वस्त्रादिना, एतेषु कर्तव्येषु यद्ययं सहते कर्म न तु ग्रासाच्छादनमात्रमिति, इयमुत्तम प्रकृतेर्लिप्सा ॥४४॥ आत्मनः सारेण वाऽलङ्कारं तदीयमात्मीयं वा बिभूयात् ॥४५॥ आत्मनः सारेण वेति । मध्यमाधमप्रकृतेलब्धे कर्मणि व्यापारमा. ह-अलङ्कारमिति । तदीयं नायकसम्बन्धिनं, सावधानीभूय धारये. दित्यर्थः ॥ ४५ ॥ प्रीतिदायेष्वनियमः ॥ ४६॥ प्रीतिदायेष्विति । प्रीत्या दत्तेष्वनियमो धारणं प्रति ॥ ४६ ॥ स्वेच्छया च गृहान्निर्गच्छन्ती प्रीतिदायादन्य नायकदत्तं दी. येत निष्कास्यमाना तु न किञ्चिद्दद्यात् ।। ४७ ॥ । ।

HIROIRAM २ अध्याये] पुनर्भूगावृत्तप्रकरणम् । स्वेच्छया चेति । न तु नायकदोषात्तेन गृहानिर्गच्छन्ती प्रीतिदाया. दन्यन्नायकदत्तं लोहक्षुरं दीयेत दाप्येत ॥४७॥ सा प्रभविष्णुरिव तस्य भवनमाप्नुयात् ॥ ४० ॥ सेति । जिगमिषुः, प्रभविष्णुरिव स्वामिनीव नायकगृहं स्वीकुर्यात्॥४८॥ तावन्तमपि कालं निजासु किं कुर्यादित्याह- कुल जासु तु भीत्या वर्तेत ॥ ४९ ॥ कुलजास्विति । धर्मोढासु, प्रीत्या स्नेहेन ॥ ४९ ॥ दाक्षिण्येन परिजने सर्वत्र सपरिहासा मित्रेषु प्रतिपत्तिः ॥१०॥ परिजने सर्वत्र कुलजानां नायकस्य दाक्षिण्येन वर्तेत, सपरिहासा सविकारा ॥५०॥ कलासु कौशलमधिकस्य च ज्ञानम् ॥ ५१ ॥ कलातु कौशलं दर्शनीयमधिकस्य नायकाचिदितस्य ज्ञानं दर्श- यितव्यम् ।। ५१॥ कलह स्थानेषु च नायकं स्वयमुपालभेत ॥ ५२ !! कलहस्थानेष्विति । उचितविच्छेदः स्वैरिणीसंसर्गोऽचिरात्तत्र गमनं. वासकान्निष्क्रमणं चेत्यस्याः कलहस्थानानि, तेषु स्वयमुपालभेत॥५२॥ रहमि च कलया चतुःषष्ट्याऽनुवर्तेत ।। ५३ ॥ रहसि चेति । नायकं शयनागतं, कलयेति । आलिङ्गनादिभिः पुरुषो- पसृप्तान्तः ॥ ५३॥ सपत्नीनां च स्वयमुपकुर्यात् ।। ५४ ॥ सपत्नीनां कुलजानाम् , उपकुर्यादुत्पन्ने प्रयोजने ॥ ५४॥ तासामपसेवाभरणदानम् ॥ ५५ ॥ आभरणं मण्डनकादि ॥ ५५ ।। तेषु स्वामिवदुपचारः ॥ ५६ ॥ स्वामिवदुपवारस्तेषां कुलसंततिहेतुत्वाद् ॥ ५६ ॥ मण्डनकानि वेषानादरेण कुर्वीत ॥ ५७ ।। मण्डनकानि पुष्पानुलेपनादीनि ॥ ५७ ।। परिजने मित्रवर्गे चाधिकं विश्राणनम् ।। ५८ ॥ परिजन इति । आत्मीये, विश्राणनमिति । दानम् ॥ १८ ॥ समाजापानकोद्यानयात्राविहारशीलता च॥ ५९॥ इति पुनर्भूत्तम् ॥

२१६ सटीके कामसूत्रे [४अधिकरणे, ROMANAS - समाजेति । गोष्ठीशीलता, आपानशीलता, उद्यानविहारशीलता, यात्राविहारशीलता चेति ॥ ५९ ॥ पुनर्भूवृत्तं षट्त्रिंशं प्रकरणम् ॥ आसां भार्याणां दुर्भगाऽपि का चित्संभवति, तया कथं वर्तितव्य- मिति दुर्भगावृत्तमुच्यते- दुर्भगा तु सापत्न्यपीडिता या तासामधिकमिव पत्यावुपच रेत्तामाश्रयेत् ॥ ६ ॥ दुर्भगा त्विति । सापत्न्यपीडितेति । दौर्भाग्यफलं, तासामिति । सपत्नीनां मध्ये या पत्यावुपचरेद् , अधिकमिवेति । नायकेनाधिकृतेन या त्वधिका सपत्न्युपचिता तां सुतरामेवाश्रयेत् ॥ ६० ॥ प्रकाश्यानि च कलाविज्ञानानि दर्शयेत् ॥ ६१ ॥ तामाश्रित्य प्रकाश्यानि कलाविज्ञानानि पत्रच्छेद्यादिकौशलानि दर्शयेत् ॥ ६१॥ दौर्भाग्याद्रह स्यानामभावः ॥ ६२ ।। दौर्भाग्याद्रहस्यानामभावः, वैदग्ध्यस्यापनं हि दौर्भाग्यनिवृत्ति- कारणम् ॥ ६२॥ नायकापत्यानां धात्रीकर्माणि कुर्यात् ।। ६३॥ धात्रीकर्माण्यभ्यञ्जनोद्वर्तनस्नपनादीनि ॥ ६३ ॥ तन्मित्राणि चोपगृह्य तर्भक्तिमात्मनः प्रकाशयेत् ॥ ६४ ॥ तन्मित्राणि चेति । नायकमित्राणि च, उपगृह्य प्रियहिताभ्यां, तैरिति । उपगृहीतैर्भक्तिमात्मनः श्रावयेदशाठ्यख्यापनार्थम् ॥ ६४ ॥ धर्मकृत्येषु च पुरश्चारिणी स्याद् व्रतोपवासयोश्च ॥ ६५ ॥ धर्मकृत्येषु = श्राद्धादिषु, पुरश्चारिणी प्रारम्भिका, स्याद्, व्रतोप. वासयोश्च नायकेन क्रियमाणयोः पुरश्चारिणी ॥ ६५ ॥ परिजने दाक्षिण्यं, न चाधिकमात्मानं पश्येत् ॥ ६६ ॥ परिजने नायकस्य, दाक्षिण्यमानुकूल्यं दर्शयितव्यं , न चाधिक मात्मानं पश्येत्सपत्नीभ्यः परिजनेभ्यश्च दौर्भाग्यहेतुत्वात् ॥ ६६ ॥ इति बाहामेतद् वृत्तम् ॥ शयने तत्सात्म्येनात्मनोऽनुरागप्रत्यायनम् ॥ ६७ ॥ शयन इति । तत्सात्म्येनेति । नायकानुकूल्येन, यथैव नायकोऽभि. युङ्क्ते, तथैवानिच्छन्त्यप्यात्मनोऽनुरागमातृप्तिं प्रत्याययेत् ॥ ६७ ॥ आभ्यन्तरमाह- २ अध्याये ] आन्तःपुरिकवृत्तप्रकरणम् । न चोपालभेत वामतां च न दर्शयेत् ॥ ६८ ॥ न चोपालभेतेति । तवाहमप्रियेति, वामतां प्रातिकूल्यमङ्गगृहनेन न दर्शयेत् ॥ ६८॥ यया च कळहितः स्यात्काम तामावर्तयेत् ॥ ६९ ।। यया च सपत्न्या कलहितः स्यात्तामावर्तयेदभिमुखीकुर्यात्, काम- मिति । अभ्युपगमे, अनेनापि प्रकारेण ममाभिमुखः स्यादिति ॥ ६९ ॥ यां च प्रच्छन्नां कामयेनामनेन सह मंगमयेद्दोपयेच्च ॥७॥ यां प्रच्छन्नां परस्त्रियं कामयेदनेन दूतीकर्मणा तां संगमयेत्, का. ममित्येव, मर्माणि चास्य शयनगताऽवबुध्येत, मर्मज्ञतया च विधेयः- स्यादिति, गोपयेच्चेतरस्मै नाचक्षीत ॥ ७० ॥ यथा च पतिव्रतात्वमशाठ्यं नायको मन्येत तथा प्रतिविद. ध्याद् ।। ७१ ॥ इति दुर्भगावृत्तम् प्रतिविध्यादतिष्ठेद्, जाडयदौःशील्ययोः प्रायेण दौर्भाग्यहे. तुत्वात् ॥ ७१॥ इति दुर्भगावृत्तं सप्तत्रिंशं प्रकरणम् ॥ यथा भार्याया अधिकारो भार्याऽधिकारस्तथा भार्याय नायकस्या. पीति, सप्तमीसमासोऽपि द्रष्टव्यः, अन्यथा नायकेन सङ्गताऽप्यनुवर्ति ता न सम्प्रयुज्यते, तत्र नायको द्विविधः-राजा जानपदश्च, तत्र पूर्व- मधिकृत्यान्तःपुरिकमुच्यते, अन्तःपुरे भवं वृत्तमान्तःपुरिकम्, 'रोप- घेतोः प्राचाम' इति वु, ननु च यथा राज्ञो वृत्तं तथाऽन्तःपुराणामपि वक्तव्यमित्याह- अन्तःपुराणां च वृत्तमेतेष्वेव प्रकरणेषु लक्षयेत् ।। ७२ ॥ अन्तःपुराणां चेति । तत्स्थस्त्रीणामेवाभिधानम्, एतेष्वेव प्रकर- णेषु लक्षयेत् , तत्राप्येकचारिणीज्येष्ठाऽऽदयः सन्तीति पृथङ्नोक्तम् ॥७२॥ राज्ञस्तु पृथगुच्यते- माल्यानुलेपनवासांसि चासां कञ्चुकीया महत्तारका वा राज्ञो निवेदयेयुर्देवीभिः प्रहितमिति ॥ ७३ ॥ आसामिति । आन्तःपुरिकाणां, वासांसि च यथासम्भवं गृहीत्वा, कचकीया महत्तरिका वा राज्ञो निवेदयेयुः, देवीभिः प्रहितमिति ॥ ७३ ॥ तदादाय राजा निर्माल्यमासां प्रतिमाभृतकं दद्यात् ।। ७१ ॥ २८ का० सू० MAama सटीके कामसूत्रे [४ अधिकरणे, * । तदादायेति । माल्यादिकं गृहीत्वा राजा निर्माल्यकं स्वदेहादवता- रितं प्रतिप्राभृतकं प्रतिकौशलिकं दद्यादनुरागस्यापनार्थम् ॥ ७४ ॥ अलंकृतश्च स्वलंकृतानि चापराह्ने सर्वाण्यन्त पुराण्यकव्येन पश्येत् ॥ ७५ ॥ अलंकृतश्चेति । गृहीत नेपथ्यो राजा, ऐकध्येनेति । एकधाशदाद्भावे ध्यमुञ्, एकीभूतानित्यर्थः, न तु पृथक पृथक, तुल्यवृत्तत्वख्यापना. र्थम् ।। ७५॥ तासां यथाकालं यथाऽहं च स्थानमानानुत्ति सपरिहासाश्च कथाः कुर्यात् ।। ७६ ॥ यथाकालमिति । यद्यस्मिन् काले युज्यते, यथाऽहं चेति । यद्यस्याः- कुलवयोऽपेक्षया, स्थान = नियोगो, मानः = पूजा, आभ्यामनुवृत्तिः कार्या, सपरिहासाः सर्वाकाराः कथाः, परिणीतास्विदं वृत्तम् ॥ ७६ ॥ तदनन्तरं पुनर्भुवस्तथैव पश्येत् ॥ ७७ ।। तदनन्तरमिति । परिणीतादर्शनानन्तरम् , पुनर्भुवस्तथैव पश्येदैक. ध्येन, तथा स्थानमानानुवृत्तिभिश्च ॥ ७ ॥ ततो वेश्या आभ्यन्तरिका नाटकीयाश्च ।। ७८ ॥ आभ्यन्तरिकाः = आन्तःपुरिकाः, नाटकीयाश्च नाटकहिताच, तथैव पश्येदेव ॥ ७८॥ तासां यथोक्तकक्षाणि स्थानानि ॥ ७९ ॥ तासामिति । पुनर्वादीनां, यथोक्तकक्षाणीति । मध्ये देवीनां स्था- नं, ततो बहिःकक्षे पुनर्भुवां, ततो बहिर्वेश्यानां; ततोऽपि नाट- कीयानामिति ॥ ७९ ॥ चासकपाल्यस्तु यस्पा वासकः, यस्याश्चातीतः, यस्याश्च ऋतुस्तत्परिचारिकाऽनुगता दिवा शय्योस्थितस्य राज्ञस्ताभिः प्र. हितमङ्गुलीयकमनुलेपनमृतुं वासकं च निवेदयेयुः ॥ ८० ॥ वासकं पालयन्ति या महत्तरिका राजनियुक्तास्ता राज्ञो निवेदयेयु: रिति सम्बन्धः, यस्या वासक्रमः प्राप्तः, यस्याश्चातीतो व्यसनोत्सवाभ्या- मन्तरितः, ऋतुश्च यस्याः प्रत्युपस्थितः, तत्परिचारिकाऽनुगता इति । तिसृणामपि देव्यादीनां याः परिचारिकास्ताभिरनुगता वासकपाल्यो- दिया शय्योत्थितस्य भुक्त्वा शयितोत्थितस्य, ताभिरिति । यस्या वा- सक्रमोऽतीतो यस्याश्च वर्तमानो यस्याश्च ऋतुः, अङ्गुलीयकमिति। मुद्रि.

२ अध्याये]
बहीषु प्रतिपत्तिप्रकरणम् ।
RA
।
तम्, अनुलेपन सम्बन्धित्वख्यापनार्थ, वासक क्रमप्राप्तमतीतं वा,
ऋतुं च प्रत्युपस्थितम् ॥ ८ ॥
तत्र राजा यद् गृहीयात्तस्या वासकमाज्ञापयेत् ॥ ८१ ॥
तत्रेति । निवेदिते, यद् गृह्णीयादिति । यदीयमङ्गलीयकम् ॥ ८१ ॥
उत्सवेषु च सर्वासामनुरूपेण पूजाऽऽपानकं च सङ्गीतदर्श-
नेषु च ॥ ८२॥
अनुरूपेण पूजेति । कुलवयोऽनुरूपा,आपानकं च ताभिः सह ॥२॥
अन्तःपुरचारिणीनां बहिरनिष्क्रमो बाह्यानां चाप्रवेशोऽन्यत्र
विदितशौचाभ्यः ॥ ८३ ॥
अप्रवेश इति । संगीतकव्यग्रेषु तद्वेशधारिणां नागरिकाणामपि प्र.
वेशः संभाव्यते, विदितशौचाभ्य इति । ता ह्युपधाशुद्धत्वान्नान्यत्प्रयोज-
यन्ति ॥८३॥
अपरिक्लिष्टश्च कर्मयोगः ।। ८४ ॥
इत्यान्तःपुरिकम् ।
अपरिक्लिष्टश्च कर्मयोग इति । रतोपचारेऽकर्थितः स्यात् , कर्थिते
च तस्मिन्नकार्यमपि कुयुः॥ ८४॥
इत्यान्तःपुरिकमष्टत्रिंशं प्रकरणम् ॥
यथा राज्ञो बह्वयः स्त्रियस्तथा जानपदस्यापि भवन्तीति जानपदस्य
बह्वीषु प्रतिपत्तिरुच्यते,
तत्र सामान्यमाह-
भवन्ति चात्र श्लोकाः-
पुरुषस्तु बहून्दारान्समाहृत्य समो भवेत् ।
न चावज्ञां चरेदासु व्य लीकान्न सहेत च ॥ ८ ॥
पुरुषस्त्विति । समो भवेदिति । नैकत्र स्नेहेन वर्तेत, न चावां चरे-
दिति । गुणरूपरहितास्वपि तिरस्कारं न कुर्वात, व्यलीकानपराधान्न
सहेत, अन्यथा क्षान्तेषु पुनः पुनर्विशेषतः कुर्युः ॥ ८५॥
एकस्यां या रतिक्रीडा वैकृतं वा शरीरजम् ।
विसम्भाद्वाऽप्युपालम्भस्तमन्यासु न कीर्तयेत् ॥ ८६ ॥
एकस्यामिति । या चित्ररतेनान्येन वा क्रीडा रतानुगता, अन्यावा.
कृतं गुह्यगतं, विनम्भाद्रोपालम्भयुक्तं वासकसंज्ञामनुबन्धयितुम् ,
अन्यासु न कीर्तयेदिति । स्त्रीणां वैराग्यहेतुत्वात् ॥ ८६ ॥

सटीके कामसूत्रे [४ अधिकरणे, न दद्यात्मसरं स्त्रीणां सपत्न्याः कारणे क चित् । तथोपालभमानां च दोषैस्तामेव योजयेत् ॥ ८७ ॥ प्रसरं न दद्यात्कलहपरिहारार्थ, सपल्याः कारण इति । साप. ल्यसंबन्धिनि सत्यपि निमित्ते, तथा तेनैव प्रकारेण निष्प्रसरतयोपाल- भमानां युक्तमेवोपेक्षितमिति, दोषैस्तामेव योजयेत्तवैव दोषो न तस्या इति ॥ ७॥ अन्यां रहसि विस्रम्भैरन्यां प्रत्यक्षपूजनैः । बहुमानस्तथा चान्यामित्येवं रञ्जयस्त्रियः ॥ ८८ ॥ रहसि विनम्भविश्वासैर्या लज्जावती, प्रत्यक्षपूजनर्या सपत्नीषु भक्तिमिच्छति, बहुमानेया मनस्विनी ॥ ८८ ॥ उद्यानगमनेर्भोगानस्तज्ज्ञातिपूजनैः । रहस्यैः प्रीतियोगैश्वेत्येकै कामनुरञ्जयेत् ॥ ८९ ॥ उद्यानगमनैर्या तच्छीला, भोगेर्या परिभोगलालसा, तज्ज्ञातिण्ज- नर्या झातिषु कर्तव्यबुद्धिः, रहस्ये रहसि भवः, प्रीतियोगैःप्रीत्यर्थयोगैः कार्या रतिक्रिया ॥८६॥ अधिकरणार्थानुष्ठाने फलमाह- युवतिश्च जितक्रोधा यथाशास्त्रप्रवर्तिनी। करोति वश्यं भर्तारं सपत्नीश्चाधितिष्ठति ॥ ७० ॥ इति श्रीवात्स्यायनीये कामसूत्रे भार्याऽधिकारिके चतुर्थेऽधिकरणे सपत्नीषु ज्येष्ठावृत्तं कनिष्ठावृत्तं पुनर्भूवृत्तं दुर्भगावृत्तमान्तःपुरि- कं पुरुषस्य बह्वीषु प्रतिपत्तिद्वितीयोऽध्यायः । जितक्रोधेति । शास्त्रार्थानुष्ठानकरणाद्, यथाशास्त्रप्रवर्तिनीति । यद्यस्याः शास्त्रमेकचारिणीज्यष्ठाऽऽदिवृत्तं, सपत्नीश्चाधितिष्टतीति। स- पत्नीनामुपरि स्थिति लभत इति, 'अधिशीस्थाऽऽसां कर्म'इति कर्म- संज्ञा ॥७॥ इति पुरुषस्य बहीषु प्रतिपत्तिरेकोनचत्वारिंशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां भायर्या- ऽधिकारिके चतुर्थेऽधिकरणे सपत्नीषु ज्येष्ठावृत्तं कनिष्ठावृत्तं पुनर्भूवृत्तमा- न्तःपुरिकं पुरुषस्य बह्वीषु प्रतिपत्तिद्धितीयोऽध्यायः । समाप्तं चेदं भार्याऽधिकारिकं चतुर्थमधिकरणम् ।

२ पारदारिकं नाम पञ्चममधिकरणम् । प्रथमोऽध्यायः। कन्यापुन नायिकयोः समागमोपायः सविशेष उक्तः,तत्र वेश्याया:- काम एव, परदारेभ्योऽर्थकामाविति, तत्समागमोपायदर्शनार्थं वैशिका. प्राक्पारदारिकमुच्यते, तत्र स्त्रीपुंसयोः शीलमनवस्थाप्योत्तरव्यापारासं. भवात्स्त्रीपुरुषशीलावस्थापनमुच्यते, परपरिगृहीतासु कामः प्रतिषिद्ध- इति चेदाह- व्याख्यातकारणाः परपरिग्रहोपगमाः ॥ १ ॥ व्याख्यातकारणा इति । परपरिग्रहगमनस्य सुखपुत्रव्यतिरेकेण कार- णानि विशुद्धिपूर्वकाणि नायिकाविमर्श व्याख्यातानीति स्मारयति ॥ १॥ तेषु साध्यत्वमनत्ययं गम्यत्वमायति वृत्तिं चादित एव परीक्षेत ॥ २ ॥ तेष्विति । परपरिग्रहेषु, सत्स्वपि कारणेविदमादित एव परीक्षेते. त्याह-साध्यत्वमिति । साधयितुं शक्येति, अनत्ययं प्रत्यवायाभावाद्, गम्यत्वं कुष्ठिन्युन्मत्ताद्यभावाद्, आयति प्रभावं तत्संयोगाद्, वृत्तिमा. स्मनः प्रवृत्तिम् ॥२॥ सुखमपि गमनकारणं यदा शरीरोपघातं पश्यदित्याह- यदा तु स्थानात्स्थानान्तरं कामं प्रतिपद्यमानं पश्येत्तदाss. स्मशरीरोपघातत्राणार्थ परपरिग्रहानभ्युपगच्छेत् ॥ ३ ॥ यदा स्विति । कां चित्स्त्रियं दृष्ट्वा संप्रयोगेच्छालक्षणः काम उत्पन्नस्तं. यदा प्रथमात्स्थानात्स्थानान्तरमवस्थाऽन्तरं प्रतिपद्यमानं गच्छन्तं पश्ये. दनुभवेन च प्रतिसंव्यानेन निवर्तयितुमीशस्तदा तस्मिन् काले शरीरो- पघातत्राणार्थमुपगच्छेद्, अन्यथा महाश्वेतासकचेतस इव पुण्डरी- कस्य विनाशः स्यात् ॥ ३ ॥ तस्य कति स्थानानीत्याह- दश तु कामस्य स्थानानि ॥ ४ ॥ कामो झुत्पादात्प्रभृति विषयप्राप्तावनुकूलप्रत्ययवशात्प्रतिक्षणमुपब- धमान आप्राणत्यागं वर्तते, तस्यासाधारणकार्योत्पत्त्या व्यवहारार्थ दश स्थानानि पूर्वाचार्यरुक्तानि ॥ ४॥ ।

२२२ सटीके कामसुत्रे [ ५ अधिकरणे, तानि क्रमेणाह- चक्षुःप्रीतिर्मन सङ्गः संकल्पोत्पत्तिनिद्राच्छेदस्तनुता विषयेभ्यो. व्यावृत्तिर्लज्जाप्रणाश उन्मादो मूर्छा परणमिति तेषां लिङ्गानि ॥५॥ चक्षुःप्रीतिरिति । स्त्रियं दृष्टवतः संयोगेच्छालक्षणात्कामादनन्तरं दृशौ स्निग्धे भवतः, ततो विषयाप्राप्तौ मनसः सक्तिः, तस्मिन्सक्ने संक- ल्पोत्पत्तिः, कथं प्राप्स्यामि ? प्राप्य चैवमनुष्ठातव्यमिति,ततः संकल्पयतो निद्राछेदः, ततो निद्रामलभमानस्य तनुला शरीरकाश्यं , ततो विषयेभ्यो व्यावृत्तिः,सर्वथा तद्गतचित्तत्वादन्यविषयावलदनलप्रख्यान्नोपयाति, तेभ्यश्च व्यावर्तमानस्य लजाप्रणाशनं,गुरुभ्योऽपि न लजते, उपक्षीणार्थ. त्वाञ्च न बिभेति, विप्रणष्टलजस्य निर्भयस्य चोन्मादः प्रवर्तते, ततो मूर्छा भवत्यस्वास्थ्यसंशिका, ततो मरणं प्राणत्यागः, तेषामिति । कामस्था- नानां प्रतिपत्त्यर्थमेते चक्षुःप्रीत्यादयो लिङ्गानि तत्कार्यत्वात् ॥ ५ ॥ तत्राकृतितो लक्षणतश्च युवत्याः शीलं सत्यं शौचं साध्यतां. चण्डवेगतां च लक्षयेदित्याचार्याः ॥ ६ ॥ तत्रेति। तस्मिन्रागवशादभिगमने शीलादिकमेव प्राधान्येन लक्षयेद्, आकृतित इति । शरीरस्थानेन, लक्षणतः शरीरस्थेन चिन्हेन, शीलं वश्य- माणं, सत्यं यथार्थवादितां, शौचं चारित्रविशुद्धिम् ॥ ६ ॥ व्यभिचारादाकृतिलक्षणयोगानामिङ्गिताकाराभ्यामेव प्रवृत्ति- बोद्धव्या योषित इति वात्स्यायनः ॥ ७ ॥ व्यभिचारादिात । सत्यप्याकृतियोगे लक्षणयोगे च नावश्यं शीलस. त्यशौचानि गम्यन्ते, साध्यासाध्यतां चण्ड मृदुवेगतां पुनर्गमयन्त्येव, कर्थ- तर्हि ? लक्षयेदित्याह-इङ्गिताकाराभ्यामिति, बोद्धव्या शीलादियुक्तत्यर्थः, तत्रेङ्गिताकारौ कन्यासं प्रयुक्तकेऽभिहितो, प्रवर्तनं प्रवृत्तिः, इङ्गितव्यति. रेकेण, तत्र त्रिभिरेव शील, शौचादीनि शेषाणि प्रवृत्त्या स्त्रीपुंसयोः ॥७॥ कस्याः कि शीलमित्याह- यं कश्चिदुज्ज्वलं पुरुषं दृष्ट्वा स्त्री कामयते, तथा पुरुषोऽपि योषितम् , अपेक्षया तु न प्रवर्तेते, इति गोणिकापुत्रः ॥ ८ ॥ यं कञ्चिदिति । स्वकीयं परकीयं वा पुरुषम् , उज्ज्वलं वर्णवेषा. भ्यां , कामयते सञ्जातरागा भवति, पुरुषोऽपि योषितमुज्ज्वलां दृष्ट्वा कामयते, अपेक्षया तु कस्य चित्कार्यस्य न प्रवर्तेते, द्वावपि न संप्र- युज्यते, तदुभयोरप्युज्ज्वलकामित्वं च कार्यापेक्षित्वं च शोलं, गोणि- कापुत्रग्रहणं प्रावीण्यख्यापनार्थम् ॥ ८ ॥ , अध्याये] ভীষণহীতাঘাঘলম। -- तत्र स्त्रियं प्रति विशेषः ॥ ९ ॥ तत्रेति । तयोस्तुल्यशीलत्वेऽपि, विशेषः प्रत्येक विशेष उच्यते ॥ ९८ ॥ न स्त्री धर्ममधर्म चापेक्षते कामयत एक कार्यापेक्षया तु नाभियुङ्क्ते ॥ १०॥ न स्त्रीति । प्रवृत्तौ धर्म: स्यान्न वेति, नापेक्षते, तमोबहुलत्वात्का. मयत एकान्तेनागम्यमपि कार्यापेक्षया तु नाभियत एवेति, तत्रात्मनि च दोषदर्शनाद् , इदं दृष्टदोषदर्शित्वं शीलं नादृष्टदोषदर्शित्वम् ॥ १० ॥ स्वभावाच्च पुरुषेणाभियुज्यमाना चिकीर्षन्त्यपि व्यावर्तते ॥११॥ चिकीर्षन्त्यपीति । तेन सह योगं कर्तुमिच्छन्त्यपि, व्यावर्तते नाय. काभियोगात् , कारणापेक्षया यावदभियुक्तकामित्वं कारणापेक्षित्वं च शीलम् ॥ ११ ॥ पुनःपुनरभियुक्ता सिद्ध्यति ॥ १२ ॥ पुनःपुनरभियुक्ता सिद्ध्यतीति । भूयोऽभियुक्तकामित्त्वं शीलम् ॥१२॥ पुरुषस्तु धर्मस्थितिमार्यसमयं चापेक्ष्य कामयमानोऽपि व्यावर्तते ॥ १३ ॥ धर्मस्थितिमिति । श्रुतिस्मृतिविहितमद्रष्टार्थम्, आर्यसमयं = शिष्टा- चार, दृष्टार्थ, कामयमानोऽपीति । इच्छन्नपि, व्यावर्तत इति । दृष्टा- दृष्टदोषदर्शित्वं शीलम् ॥ १३ ॥ तथाबुद्धिश्चाभियुज्यमानोऽपि न सिद्ध्यति ॥ १४ ॥ तथावुद्धिश्चेति । धर्मस्थित्यपेक्षी आर्यसमयापेक्षी, चाभियुज्यमा. नोऽपि स्त्रिया न सिद्ध्यति न प्रवर्तते, अस्य पूर्वोक्तमेव शील, कर्तृकर्म- भेदाद् भेदः॥ १४॥ निष्कारणमभियुङ्गेऽभियुज्यापि पुनर्नाभियुके, सिद्धायां च माध्यस्थ्यं गच्छति ।। १५ ।। निष्कारणमिति । सुख कारणान्तरं चानपेक्ष्य, अभियुज्य पुनर्नाभि- युक्त कारणस्यासमोहितत्वाद्, इदं शुद्धकामित्वं शीलं, सिद्धायां च माध्य स्थ्यं गच्छतीत्यभियुङ्क्ते न च संप्रयुज्यत इति शुद्ध कामित्वं शीलम् ।१५॥ सुलभामवमन्यते, दुर्लभामाकाङ्कत इति प्रायो वादः ॥ १६ ॥ सुलभामवमन्यते, दुर्लभामाकाङ्क्षत इति वामशीलत्वम् ॥ १६ ॥ इति स्त्रीपुरुषशीलावस्थापनं चत्वारिंशं प्रकरणम् ।

२२४
सटीके कामसूत्रे
[५ अधिकरणे,
है
।
तत्र व्यावर्तनकारणानि ॥ १७॥
तत्रेति । स्त्रीपुरुषशीलावस्थापने, यानि व्यावर्तनकारणानि तानि
प्रकरणान्तर्गतान्युच्यन्ते ॥ १७॥
पत्यावनुरागः ।। १८॥
पत्यावनुरागो व्यावृत्तिकारणम् , उत्पन्नायामपीच्छायाम् ॥ १८ ॥
अपत्यापेक्षा ॥ १९ ॥
अपत्यापेक्षेति । स्तनधयं ममापत्यमिति ॥ १४॥
अतिक्रान्तवयस्त्वम् ।। २० ।।
अतिक्रान्तवयस्त्वमिति । पारणतवया लजते बलात्परपुरुषायाङ्गा.
पणेनेति ॥ २० ॥
दुःखाभिभवः ॥ २१ ॥
दुःखाभिभवः, इष्टमरणादिदुःखाभिभूता जातेच्छाऽपि व्यावर्तते, ॥२१॥
विरहानुपलम्भः ॥ २२ ॥
विरहानुपलम्भो भर्तुः सदा सन्निहितत्वाद्वियोगं न पश्यति येन
सम्प्रयुज्यते ॥ २२ ॥
अवज्ञयोपमन्त्रयत इति क्रोधः ॥ २३ ॥
अवश्योपमन्त्रयतेऽनादरेणाभियुत इति, परिभवात्क्रोधो व्यावृत्ति-
कारणम् ॥ २३॥
अप्रतयं इति सङ्कल्पवर्जनम् ।। २४ ।।
अप्रतक्यों दुरवगाहचित्त इति, तस्मिन्नबहुमानात्सङ्कल्पवर्जनम्,
मनो न सङ्कल्पत इत्यर्थः ॥ २४ ॥
गमिष्यतीत्यनायतिरन्यत्र प्रसक्तमतिरिति च ॥ २५ ॥
गमिष्यतीति । न चिरकालमनेन सम्प्रयोग इत्यनायातर्भविष्यका-
लाभावः कारणम् , अन्यत्र प्रसक्तमतिरिति वाऽनायतिस्तावत्कालि-
कत्वात् ॥ २५॥
असंवृताकार इत्युद्वेगः ॥ २६ ॥
असंवृताकार आकारसंवरणमकुर्वल्लोके मामुद्गतिकां करोतीति
परिभवादुद्वेगः ॥ २६ ॥
मित्रेषु निसृष्टभाव इति तेष्वपेक्षा ॥ २७ ॥
मिस्त्रेषु निसृष्टभावस्तानि च यदाहुस्तत्करोतीति च तेष्वपेक्षा मयि
त्ववज्ञा॥२७॥

१ अध्याये] व्यावर्तनकारणप्रकरणम् । २२५ शुष्काभियोगीत्याशङ्का ॥ २८ ॥ शुष्काभियोगी निष्कारणमभियुत इत्याशङ्का ॥ २८ ॥ तेजस्वीति साध्वसम् ॥ २९ ।। तेजस्वीति साध्वस, प्रमादावस्खलितेऽनर्थ करिष्यतीति ॥ २९ ॥ चण्डवेगः समर्थों वेति भयं मृग्याः ।। ३०॥ मृग्या इति । मन्दवेगायाः, चण्डवेगः समर्थों वेत्यश्व इति भयम् ॥ ३०॥ नागरका कलासु विचक्षण इति ब्रीडा ॥ ३१ ॥ नागरक इति । यो नागरकवृत्तावधिकृतः, कलासु च विचक्षणो- नागरकादन्यो ब्रीडाप्राम्याया अविदग्धायाश्च ॥ ३१ ॥ सखित्वेनोपचरित इति च ॥ ३२ ॥ सखित्वेनेति । मित्रत्वेन मयाऽयमुपचरितः कथं ? पुनरेवं कुर्यामिति च ब्रीडा ॥ ३२॥ अदेशकालज्ञ इससूया ॥ ३३ ॥ अदेशकालज्ञ इति । असूया देशकालयो भियुत इति ॥ ३३ ॥ परिभवस्थानमित्यबहुमानः ॥ ३४ ॥ परिभवस्थानं नीचत्वात्, ततश्च सखीजनोऽन्यो वा मां परिभविष्य- त्यसत्संगतेति, तस्मिन्नबहुमानः कारणम् ॥ ३४ ॥ आकारितोऽपि नावबुध्यत इत्यवज्ञा ॥ ३५ ॥ आकारित इति । अभिप्रायं दर्शितो नौवबुध्यत इत्यवज्ञा, न विदग्ध. इति ॥ ३५॥ शशो मन्दवेग इति च हस्तिन्या: ।। ३६ ॥ हस्तिन्या इति । चण्डवेगायाः, शशो मन्दवेग इति चावज्ञा ॥ ३६॥ मत्तोऽस्य मा भूदनिष्टमित्य नुकम्पा ॥ ३७॥ मत्तोऽस्येति । मन्निमित्तेन मामधिगच्छतो मा भूदनिष्टं शरीरतोऽर्थ. तो वेत्यनुकम्पा ॥ ३७॥ आत्मनि दोषदर्शनानिर्वेदः ।। ३८॥ आत्मनि दोषदर्शनादिति। शरीरे रोगादिकं वैगन्ध्यादिकं पश्यन्त्या- निवेदः ॥ ३८॥ विदिता सती स्वजनबहिष्कृता भविष्यामीति भयम् ॥३९॥ -- । २९ का० स०

२२६
सटोके कामसूत्रे
[५ अधिकरणे,
विदिता स्वजनस्य विप्रतिपन्नेति, तस्माद् बहिष्कृता भविष्यामीति
भयम् ॥ ३९॥
पलित इत्यनादरः॥ ४० ॥
पलितो वृद्ध इत्यनादरः॥ ४० ॥
पत्या प्रयुक्तः परीक्षत इति विमर्शः ॥ ४१ ।।
पत्या प्रयुक्त इति । किं पतिव्रता नेति, ज्ञातुं नियुक्तः परीक्षत इति
।
विमर्शः ॥४॥
BRHI
RS
धर्मापेक्षा चेति ॥ ४२ ॥
धर्मापेक्षा च कारणम्, अस्त्येव हि का चित्स्त्री या धर्ममपेक्षते ॥४२॥
प्रतिविधानमाह-
तेषु यदात्मनि लक्षयेत्तदादित एव परिच्छिन्द्यात् ।। ४३ ॥
तेष्विति । व्यावर्तनकारणेषु, यदात्मनि कारणं लक्षयेन्ममेदं भविते.
ति, तदादित एव परिच्छिन्द्यात्परित्यजेद्यथा न भवति ॥ ४३ ॥
उत्पन्नानि चात्मनि स्त्रियां वा परिच्छिन्द्यादुपायरित्याह
आर्यत्वयुक्तानि रागवर्धनात् ।। ४४ ॥
आर्यत्वयुक्तानीति । पत्यावनुरागोऽपत्यापेक्षाऽतिक्रान्तवयस्त्वं दुः-
खाभिभवो धर्मापेक्षा चेत्येतानि स्त्रीगतान्यार्यत्वयुक्तानि रागवर्धना
परिच्छिन्द्याद्यथा तस्या रागो बर्धेत तथा प्रतिविधेयम् ॥ ४४ ॥
अशक्तिजान्युपाय प्रदर्शनात् ॥ ४५ ॥
विरहानुपलम्भोऽस्य मा भूदनिष्टमात्मनि दोषदर्शनादिति स्त्रीग-
तानि, गमिष्यत्यन्यत्रासक्तमतिरित्यात्मगतम्, एतान्यशक्ति जान्युपा
यदर्शनात् ॥ ४५ ॥
बहुमानकृतान्यतिपरिचयात ॥ ४६ ॥
अप्रतक्यों नागरकः, कलासु विचक्षणः, सखित्वेनोपचरितः, पत्या
प्रयुक्तः परीक्षत इत्यात्मगतानि बहुमानकृतान्यतिपरिचयात् ॥ ४६ ॥
परिभवकृतान्यतिशौण्डीर्याचक्षण्याच्च ॥ ४७ ॥
कृतेऽतिपरिचये तस्योपरि मानो विगलति, शुष्काभियोगी, अदेश-
कालज्ञः, परिभवस्थानमाकारितो नाववुध्यते. पलित इत्यात्मगतानि
नायिकाकत्तु कपरिभवकृतानि, अतिशौण्डीर्यादिति। परिभवख्यापनाद्,
वैचक्षण्याञ्चेति । शास्त्र कलाप्रकाशनात् ॥ ४७ ॥
तत्परिभवजानि प्रणत्या ॥ १८ ॥

अध्याये ] स्त्रीषु सिद्धाः पुरुषाः प्रकरणम् । - क अवशयोपमन्त्रयते, असंवृताकारो मित्रेषु निसृष्टभाव इत्यात्मग- तानि, तत्परिभवजानि-नायिकाकर्तृकपरिभवजानि, प्रणत्येति । तत्रै- कान्तप्रसृतया॥४॥ भययुक्तान्याश्वासनादिति ॥ ४९ तेजस्वी चण्डवेगः समों वेति, शशो मन्दवेगो विदिता सती स्व. जनवहिष्कृता भविष्यामीत्यात्मगतानि, भययुक्तान्याश्वासनादिति । यथा न भयं तथा प्रतिविधानेनेति ॥ ४२ ॥ इति व्यावर्तनकारणान्येकचत्वारिंशं प्रकरणम् ॥ एवं शीलमवधार्यात्मनः सिद्धतां पश्येदन्यथाऽभियोगासम्भवादिति स्त्रीषु सिद्धाः पुरुषा उच्यन्ते- पुरुषास्त्वमी प्रायेण सिद्धा:-कामसूत्रज्ञा, कथाऽऽख्यानकु. शलः, वाल्याप्रमृति संसृष्टः, प्रबृद्धयौवनः, क्रीडनकर्मादिनाऽऽग. तविश्वासः, प्रेषणस्य कर्ता, उचितसम्भाषणः, मियस्य कर्ता,ऽन्य. स्य भूतपूर्वो दूनो मर्मज्ञः, उत्तमया प्रार्थिता, सख्या प्रच्छन्नं संमृ. टः, सुभगाभिख्यातः, सह संवृद्धः, भातिवेश्यः कापशीलः, तथा. भूतश्च परिचारकः, धात्रेयिकापरिग्रहः, नववरकः, प्रेक्षोद्यानत्या- गशीलः, वृष इति सिद्धप्रतापः, साहसिकः, शूरः, विद्यारूपगु. णोपभोगैः पत्युरतिशयिता, महाहवेषोपचारश्चति ॥ ५० ॥ पुरुषास्त्विति । अमी वक्ष्यमाणाः, प्रायेण बाहुल्येन, कामसूत्रन:- कथाऽऽख्यान कुशल इति । द्वावपि कामशीलत्वात्स्त्रीषु सिद्ध्यतः, बाल्या. प्रभृतीति । योऽन्यस्माद् गृहादागतो बाल्यात्प्रभृति संसृज्यते, स प्रव. द्धस्नेहत्वादस्याः सिद्धः, प्रवृद्धयौवन इति । स हि वयःसामर्थ्यास्त्रीषु सिद्धः, क्रीडनकर्मादिनेति। कीडनव्यापारण, आदिशब्दाञ्चित्रपत्रच्छेद्या- दिना यस्या आगतविश्वासः स तस्याः सिद्धः, प्रेषगस्य कर्ता, यस्या. वचनकरः स तस्याः सिद्धः, उचितसम्भाषणोऽनियन्त्रणासिद्धः, प्रियस्य कर्ता यस्या य इष्टं सम्पादयति स तस्याः सिद्धः, अन्यस्य भूतपूर्वो दूतः, पूर्वसंस्तुतत्वादस्याः सिद्धः, यस्या अपि मर्मज्ञस्स तस्याः सिद्धः, उत्तमयेति । अधिकया यः प्रार्थितः स पूर्वायाः सिद्ध्यति, सख्या प्र- च्छन्नं संसृष्टः, प्रच्छन्नं कामितस्तत्परिचयान्नायिकायाः सिद्धः, सुभ गाभिख्यातः, सौभाग्यख्यातिमावहन स्त्रीषु सिद्धः, सह संबृद्धो यया एकस्मिन् गृहे स तस्याः सिद्धः, प्रातिवेश्यः कामशीलः, सोऽस्या वच- २२८ सटीके कामसूत्रे [५ अधिकरणे, है नमात्रसाध्यः, तथाभूतश्च परिचारकः कामशोलः सोऽस्याः सिद्धः, धात्रेयिकापरिग्रहः, धात्रेयिकया पतित्वेन यो गृहीतस्तत्परिचयादस्या:- सिद्धः, नववरक इति । यस्मिन्गृहे नबो जामाता तत्रत्यासु स्त्रीषु सिद्धः, प्रेक्षोद्यानत्यागशील इति । नटादिप्रेक्षणशील उद्यानक्रीडाशीलस्त्याग- शीलस्त्रयोऽपि कामशीलत्वात्स्त्रीषु सिद्धा, वृषइति सिद्धप्रतापः, व्य- वायीति यो लब्धप्रतापः स स्त्रीषु सिद्ध एवास्ति, साहसिक इति । ना- वमृष्य सहसा यः प्रवर्तेत स स्त्रीणां वचनमात्रमपेक्षते, शूर इति । अकु. तोभयत्वात्परस्त्रियमपेक्षमाण एव तिष्ठति, पत्युरतिशयितेति । यस्या भ- तारं विद्याऽऽदिभिरतिशेते स तस्याः सिद्धः, महाही वेषोपचारो यस्य स. कामशीलत्वात्स्त्रीषु सिद्धः ॥ ५० ॥ इति स्त्रीषु सिद्धाः पुरुषा द्वावत्वारिंशं प्रकरणम् ॥ यथाऽऽत्मनः सिद्धतां पश्येदेवं योषितोऽप्ययनसाध्यतामि- त्य यत्नसाध्या योषित उच्यन्ते ॥ ५१ ॥ योषितास्त्विमा अभियोगमात्रसाध्या-द्वारदेशावस्थायिनी, मा. सादाद्राजमार्गावलोकिनी, तरुणप्रातिवेश्यगृहे गोष्ठीयोजिनी, सत. तपेक्षिणी, प्रेक्षिता पार्शविलोकिनी, निष्कारणं सपत्न्याऽधि- चिन्ना, भर्तृतषिणी, विद्विष्टा च, परिहारहीना, निरपत्या, ज्ञाति- कुळनित्या, विपन्नापत्या, गोष्ठीयोजिनी, प्रीतियोजिनी, कुशी. लवभार्या, मृतपतिका बाला, दरिद्रा, बहूपभोगा, ज्येष्ठभार्या बहुदेवरिका, बहुमानिनी न्यूनभर्तृका, कौशलाभिमानिनी भर्तुः मौख्र्येणोद्विना, अविशेषज्ञतया लोभेन, कन्याकाले यत्नेन वरि- ता कथं चिदलब्धाऽभियुक्ता च सा तदानीं समानबुद्धिशीलमे- धाप्रतिपत्तिसात्म्या, प्रकृत्या पक्षपातिनी, अनपराधेऽवमानिता, तुल्यरूपाभिश्चाधःकृता, प्रोषितपतिका, ईर्ष्यालुपूतिचोक्षक्लीब दीर्घसूत्रकापुरुषकुजवामनविरूपमणिकारग्राम्यदुर्गन्धिरोगिबृद्धभा. यश्चेिति ॥ ५२॥ योषितस्त्विति । इमा इति । वक्ष्यमाणाः, अभियोगमात्रसाध्या इति। या अभियोगमात्रमपेक्षन्ते नाधिकं ता अयत्नसाध्या इत्युच्यन्ते, द्वार २ अध्याये] अयत्नसाध्ययोषित्प्रकरणम् । तस्य देशावस्थायिनीति । पुरुषदिदृक्षया द्वारदेशेऽवस्थातुं शीलं यस्याः सा चपलाऽभियोगमात्रसाध्या, प्रासादमारुह्य राजमागविलोकिनी, राज. मार्गे हि पुरुषाणां संनिधानात् , सतरुणेति । सतरुणाः पुमांसो यत्रेति प्रातिवेश्यगृहे, तत्रत्याभिः स्त्रीभिगोष्ठीयोजिनी सा चापल्यं द्योतयति, सततपेक्षिणी चेति । या सततं प्रेक्षते सा साध्या, प्रेक्षितेति । नायकेन, पार्श्वविलोकिनी, या पार्श्वमवलोकयति कि- मन्येन ? दृष्टाऽस्मीति, साऽपि चापल्यं कथयति, निष्कारणमिति । जा- ड्यदौःशील्यादिकं विना, सपत्न्याऽधिविना, युक्तामर्षात्परपुरुषमि- च्छति, भर्तृवेषिणी, गुणवन्तमपि भर्तारमनिच्छन्ती, विद्विष्टा चेति। भर्ता यां द्वेष्टि, द्वे अपि चञ्चले, परिहारहीना, निष्परिहारा परिहार्येषु सा स्वभावत एव व्यभिचारिणी, निरपत्या, भर्तुरपत्यमपश्पन्ती परा- नुपैति, ज्ञातिकुलनित्या, ज्ञातिगृहे सदाऽवस्थिता स्वातन्त्र्याद्भिन्न. वृत्तिः, विपन्नापत्या, भतुर्यद्यदपत्यं तत्तद्विपद्यत इति परपुरु- षापेक्षाऽपत्याभावाद्, गोष्ठीयोजिनी, स्वगृहे सखीगृहे वा चापल्यं. सूचयति, प्रीतियोजिनो, येन सह प्रीति योजयति तस्य साध्या, कुशी. लवभार्या, नटनर्तकादीनां भार्या वेश्यामायाः, मृतपतिका बाले- ति । बाला च या विधवा सा तारुण्ये निषीदन्ती शीलं खण्डयति, दरिद्रा, बहूपभोगान्वितं दातारमभिगच्छत्ति, ज्येष्ठभार्या बहुदेवरि- का, प्रायशो देवरैरेव व्युत्पादिता, बहुमानिनी न्यूनभर्तृकेति । आत्मनि बहुमानो यस्या न्यूनश्च भर्ता सा न तत्र रमते, कौशलाभिमानि- नी, कलानां परिज्ञानाभिमानो यस्याः सा, भर्तुमौर्येण, मूर्खत्वेनोद्वि- ना, नियतं तत्कुशलमन्यमिच्छतीति, अविशेषज्ञतया भर्तुरुद्विग्ना विशेषज्ञानलोमेन सुखमलध्वा न तत्र रमते, कन्याकाल इति । कन्याऽवस्थायां यत्नानायकेन वृता कथं चिद् वयोगात्तेन न लब्धा सत्यन्येनोढेत्यभियुक्ता तदानीं यदा तस्येच्छा सा तस्य साध्या पूर्वानु- रागात्,समानवुद्धिरिति । नायकेन तुल्या बुद्ध्यादयो यस्याः सा तस्य साध्या, तत्र वुद्धिोध्येषु, शीलं = स्वभावः, मेधाविद्याकलासु ग्रहण- शक्तिः,प्रतिपत्तिः अनुष्ठान, सात्म्यं =देशसाम्य कृतिसात्म्यं च, प्रकृत्ये. ति। स्वभावेन यं प्रति पक्षपातो यस्याः सा तस्य साध्या, अनपराध- इति । दोषं विना भर्ना त्ववमानिता परिभूता न तत्र सज्जतेऽन्यमि- च्छति, तुल्यरूपाभिश्वाधः कृतेति । समानपत्नीभियंकृता विरागाद- न्यमिच्छति, प्रोषितपतिका, ब्रह्मचर्येण भग्ना कथमन्यन्नेच्छेद्, ईर्ष्या. ल्विति । योनिष्कारणमीय॑ति तस्य भार्या विटैश्चिरमपहृतैव, पूतिः- D २३० सटीके कामसूत्र [ ५ अधिकरणे, mania ॥ । शरीरसंस्कार रहितः, तस्य भार्या कश्मलस्वाद्विमुखी भवति, चोक्षः= जातिविशेषः, तद्भार्या वेश्याप्राया, क्लीवः =नपुंसकः, दीर्घसूत्रः, कार्य. मवमृश्य तदा नारभते, कापुरुषः पौरुषहीनः, द्वयोरपि भार्या परस्यैव, कुब्जवामनयोर्विरूपयोरप्युपादानं वैरूप्यभेदप्रदर्शनार्थ, द्वयोरपि भार्या खण्डितशीला, मणिकार:=मणीनां संस्कर्ता, तद्भार्या सदेव हट्टचारिणी खण्डितशीला, ग्राम्यभार्या नागरकस्यायत्नसाध्या, ऋजुत्वाद,दुर्गन्धिः, शरीरे यस्य दुष्टो गन्धः स उद्वेगकरः, रोगी यो दीर्घरोगयुक्तः, वृद्धः व्यवायाक्षमः, एषां भार्या व्यभिचारिण्यः ॥१२॥ प्रकरणत्रयार्थमुपसंहरन्नाह- श्लोकावत्र भवत:- इच्छा स्वभावतो जाता क्रियया परिबृंहिता । बुद्ध्या संशोधितोदेगा स्थिरा स्यादनपायिनी ॥ ५३ ।। इच्छेति। स्वभावतो यं कं चिदुज्वलं दृष्टा कामयत इति, क्रिय. येति । परिचयाभियोगलक्षणया, परिवृहिता बधिता, बुद्ध्येति । प्रज्ञया, संशोधितोद्वेगेति । सम्प्रयोगोपायमपश्यन्ती, उद्वेगयुक्ताऽपि स्यात्, तदुपायदर्शनेनापनीतोद्वेगा सा चैवंविधा स्थिरा स्यादनपायि. नीत्वात् ॥ ५३ ॥ सिद्धतामात्मनो ज्ञात्वा लिङ्गान्युन्नीय योषिताम् । व्यावृत्तिकारणोच्छेदी नरो योषित्सु सिध्यति ।। १४ ॥ इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे स्त्रीपुरुष. शीलावस्थापनं व्यावतनकारणानि स्त्रीषु सिद्धाः पुरुषा अयत्न. साध्या योषितः प्रथमोऽध्यायः। सिद्धतामिति । ज्ञात्वा, किमहमस्याः सिद्ध इति, लिङ्गानि = इच्छा- सूचकानि, इङ्गिताकारादोनीत्यर्थः, उन्नीयेति । ज्ञात्वा, व्यावृत्तिका रणोच्छेदी, रागबधनादिभिः, योषित्सु सिद्ध्यत्यभियुञ्जानः फलं लभत. इत्यर्थः ॥ ५४॥ इत्ययत्नसाध्या योषितस्त्रयश्चत्वारिंशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां पारदारिके पञ्चमेऽधिकरणे स्त्रीपुरुषशीलावस्थापनं, व्यावर्तनकारणानि, स्त्रीषु सिद्धाः पुरुषाः, अयत्नसाध्या योषितः प्रथमोऽध्यायः । ।

२ अध्याय] परिचयकारणप्रकरणम् । Nama । द्वितीयोऽध्यायः। क्रियया परिबृंहितेत्युक्तं तां क्रियां दर्शयितुमाह- यथा कन्या स्वयमभियोगसाध्या न तथा दृत्या, परस्त्रियस्तु सूक्ष्मभावा दूतीसाध्या न तथाऽऽत्मनेत्याचार्याः ॥ १॥ यथेति । अभियोगसाध्ये द्वे नायिके, कन्या परयोषिच्च, अभियो- गो द्विविधः-आत्मना दूत्या च, अत्राचार्याणां मतं, यथा कन्येति । क. म्यानामसम्प्रयुक्तत्वात्तासु प्रायेण युक्त्याऽभियोगाः, तांश्च नायक- एव प्रयोक्तं शक्कोति न दूती, एवं च तास्वेकपुरुषाभियोगा उक्ताः, सूक्ष्मभावा इति । प्रवृत्तसंप्रयोगत्वात्परपुरुषसंदर्शनमपि न सम्भवति, किमु तस्मिन्भावप्रकाशनं, दूत्यामुभयं सम्भवति, तस्माद् दूत्यैव सा- ध्या इति ॥१॥ सर्वत्र शक्तिविषये स्वयं साधनमुपपन्नतरकं दुरुपपादत्वात्त. स्य दुतीप्रयोग इति वात्स्यायनः ॥ २ ॥ सर्वत्रेति । कन्यासु परस्त्रीषु चेति, शक्तिविषय इति । यत्र स्वयम भियोक्तुं शक्नोति, उपपन्नतरक, दूतीसाधनात्, तस्येति । स्वयमभि योगस्य, दुरुपपादत्वादिति । यत्र दुःखेनोपपाद्यते तत्र दूतीप्रयोगः ॥२॥ तदेव प्रायोवादेन दर्शयन्नाह- प्रथम साहसा अनियन्त्रणसम्भाषाश्च स्वयं प्रतार्याः, तद्विपरी- ताश्च दृत्येति प्रायोवादः ॥ ३ ॥ प्रथमेति । प्रथम साहसं चारित्रखण्डनं यासा; तासु नायक एव समर्थो न दूती, अनियन्त्रणमनिषिद्धं सम्भाषणं यासां, नायकेन सह तास्वपि कि दूत्येति, स्वयं प्रतार्या इति । स्वयमुपपन्नतरकत्वं प्रदर्शय- ति, दुरुपपादत्वमाह-तद्विपरीता इति । बहुशः खण्डितचारित्रा नि- यन्त्रणसम्भाषिण्यः ॥३॥ ननु प्रथमसाहसायां गमनं प्रतिषिद्धं, विषयस्याशुद्धत्वात् , सत्य शरीरोपघातत्राणार्थमुक्तं, स्वयमभियोगस्तु न परिचयं विनेति, परिचयकारणान्युच्यन्ते, यदाह- स्वयमभियोक्ष्यमाणस्त्वादावेव परिचयं कुर्यात् ॥ ४ ॥ अभियोक्ष्यमाणोऽभियोगं करिष्यन् ॥४॥ परिचयश्च संदर्शनपूर्वका, संदर्शनं च द्विविधमित्याह- तस्याः स्वाभाविक दर्शनं प्रायनिक च ॥ ५ ॥ ADD । salesale सटीके कामसुत्रे [५ अधिकरणे, स्वाभाविकमात्मनो भवनसंनिकर्षे, प्रायनिक मिस्त्रज्ञातिमहा- मात्रवैद्यभवनसंनिकर्षे विवाहयज्ञोत्सवव्यसनोद्यानगमनादिषु ॥६॥ भवनसंनिकर्ष इति । गृहसमीपे क्वचिदागताया दर्शनं स्वाभाविक- न प्रयत्नकृतम् , मित्रादीनां यद् गृहं तत्समीपे यदर्शनं विवाहादिषु च तत्प्रायत्निकं, गमनप्रयत्नसाध्यत्वात् ॥६॥ तत्र च द्विविधे संदर्शने परिचयकारणं द्विविधं वाह्यमाभ्यन्तरं च तत्र पूर्वमधिकृत्याह- दर्शने चास्याः सततं साकारं प्रेक्षणं केशसंयमनं नखाच्छुर- णमाभरणप्रहादनमधरौष्ठविमर्दनं तास्ताश्च लीला वयस्यैः सह में. क्षमाणायास्तत्सम्बद्धाः परापदेशिन्यश्च कथाः, त्यागोपभोगप्रका- शनं, सख्युरुत्सङ्गनिषण्णस्य साङ्गमङ्गं जृम्भणम् , एकभ्रक्षेपणं, मन्दवाच्यता, तद्वाक्यश्रवणं, तामुद्दिश्य बालेनान्यजनेन वा स. हान्योपदिष्टा यर्था कथा, तस्यां स्वयं मनोरथावेदनमन्यापदेशे- न, तामेवोद्दिश्य बालचुम्बनम्, आलिङ्गनं च, जिया चास्य ता. म्बूलदानं, मदेशिन्या हनुदेशघट्टनं, तत्तद्यथायोगं यथाऽवकाशं च प्रयोक्तव्यम् ॥ ७॥ साकारमिति । भावसूचकेन मुखनयनगतेनाकारेण सह सततं प्रे. क्षणं कर्तव्यं, केशसंयमन केशानवमुच्य बन्धनं, नखाच्छुरणं स्वा. ड्रेष्वाच्छुरितकम् , आभरणस्य प्रहादनं शब्दनम् , अधराष्ठविमर्दनम- ङ्गुष्ठसम्पुटेन परिघर्षणं, तास्ताश्चेति । गुणसंवर्णनप्रधानाः कथाः, वयस्यैः मित्त्रैः, प्रेक्षमाणाया इति। नायिकायाः पश्यन्त्याः, तत्सम्बद्धा- इति । नायिकासम्बद्धाः, परापदेशिन्य इति । नायकापदेशिन्यः, त्या गोपभोगप्रकाशनमन्येन दातृत्वभोगित्वख्यापनार्थ, सख्युरिति । मित्रस्योत्सङ्गे निषण्णस्य, साङ्गभङ्गमिति । साङ्गस्फोटनं जम्भणं- विजृम्भिका स्यात् ,एकभ्रूक्षेपणं निषण्णस्यैव, मन्दवाक्यपा गद्गदव- चनता किमु मां किञ्चिद्वतीति, तामिति, नायिकाम् , बालेनेति, तत्पा- ववर्तिनाऽप्रगल्भरूपेण, जनेन चान्येन, अन्योपदिष्टेति, तत्सुहृदा कृता न स्वयम्, द्या कथेत्येको बालेन सम्बद्धोऽर्थो द्वितीयो नायिकया, तस्यामिति । कथायां क्रियमाणायां स्वयमात्मतो मनोरथावेदनम्, अ. न्यापदेशेनेत्यस्मन्मित्रस्य तस्यामतिदुर्घटो मनोरथः स किं भविष्यति न भविष्यतीति न जाने, तामेवेति, नायिकाम् , बालस्य चुम्बनमालि २ अध्याये] परिचयकारणप्रकरणम् । । ङ्गनं संक्रान्तकं, जिह्वया च प्रसारितया, प्रदेशिन्या = तर्जन्या, हनुदेश- घट्टनं = कपोलयोरधस्ताञ्चालनं, तामुहिश्येति सर्वत्र योज्यं, तत्तदि. ति । अन्यदप्येवंविध, यथायोगमिति। यद्यस्य युज्यते स्पर्शनं ताडनं वा, यथाऽवकाशमिति । यथाप्रदेशं कक्षयोहरसि पृष्ठे वा बालस्य विधेयम्॥७॥ तस्याश्चाङ्कगतस्य बालस्य लालनं, बालक्रीडनकानां चास्य दानं, ग्रहणं, तेन संनिकृष्टत्वात्कथायोजनं, तत्सम्भाषणक्षमेण ज- नेन च प्रीतिमासाद्य कार्य, तदनुबन्धं च गमनागमनस्य योजनं,- संश्रवे चास्यास्तामपश्यतो नाम काममूत्रसंकथा ॥ ८॥ तस्याश्चेति । नायिकायाः, अङ्कगतस्य-क्रोडस्थस्य, लालनं मृदुना वचसा, बालक्रीडनकानां = जातुषगुलिकाऽऽदीनां दानं, तेनेति । दानग्रह- णसम्बन्धेन संनिकृष्टत्वात्कथायोजन कार्यशरीरगर्भस्य वाक्यस्य योजना मित्यर्थः, तत्संभाषणक्षमेणेति । तया सह बत्संभाषणं तत्र क्षमो यो. जनस्तत्प्रीतिमित्यर्थः, तेन सह प्रीतिमासाद्य संयोज्य कार्य प्रयोक्तव्य- मिति शेषः, तदनुबन्धं चेति । कार्यानुबन्धं गमनागमनस्य प्रयोजनं, येन लोकोऽनेन कार्येणास्य गमनागमनं नान्येनेति मन्यते, संश्रवे चास्या- इति । यत्र सा शृणोति तत्र कामसूत्रसङ्कथा विज्ञत्वख्यापनार्थ, तत्रापि तामपश्यतो नामेति । न किलाहमेनां पश्यामीति, अन्यथा तां पश्यतः- कथयतो दुर्विदग्धता स्यात् ॥ ८ ॥ आभ्यन्तरमधिकृत्याह- प्रस्ते तु परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यात ॥९॥ प्रसृत इति । प्रसृते न तु सर्वथोत्पशे परिचये, न्यासा: संस्था- प्याश्चिरकालग्राद्याः, निक्षेपं यदल्पकालग्राह्यम् ॥९॥ तत्पतिदिनं प्रतिक्षणं चैकदेशतो गृहीयात सौगन्धिकं पूग- फलानि च ॥१०॥ तत्र प्रतिदिनं न्यासं, प्रतिक्षणं निक्षेपक, तदुभयमेकदेशतः स्तो- कस्तोकेन गृह्णीयात्, तदेव यथाक्रमं दर्शयति--सौगन्धिकं पूगफलानि चेति । सौगन्धिकं = सुगन्धिद्रव्याणां समूहः, तद्वारेण प्रतिदिनं न्यासं- निक्षेपं च, यदल्पकालबाह्य प्रतिक्षणं च दृश्यते ॥ १० ॥ तामात्मनो दारैः सह विस्रम्भगोष्ठयां विविक्तासने च यो- जयेद् विश्वासनार्थं च ॥ ११ ॥ विनम्भगोष्ठयां विविक्तासने चेति । तामुपनिमन्त्र्यास्माभिः प्रच्छन्ने ३० का० ० । Mewar ।

सटीके कामसूत्रे [५ अधिकरणे । । समुपविश्य; पानगोष्टी कर्तव्येत्यभिधाय; स्वदारैः सह तत्र विश्वासना. थै योजयेत् ॥११॥ नित्यदर्शनार्थ सुवर्णकारमणिकारवैकटिकनीली कुसुम्भरञ्ज. कादिषु च कर्मार्थिन्यां सहात्मनो वश्यैश्चैषां तत्सम्पादने स्वयं- प्रयतेत ॥ १२ ॥ नित्यदर्शनार्थ चेति । प्रतिक्षणं दर्शनार्थ, स्वयं प्रयतेतेति, वक्ष्यमाणेन सम्बन्धः, वैकटिकः- रत्नानां परिशोधकः, नीलीरजककुसुम्भरञ्जको प्रतीतो, आदिशब्दात्त्वष्टकांस्यकारादयः, तेषां कर्मार्थिन्यां सत्यामात्मव. श्यविधेयैः सुवर्णकारादिभिः, तत्सम्पादने = सुवर्णादिकर्मसम्पादने॥१२॥ तदनुष्ठाननिरतस्य लोकविदितो दीर्घकालं संदर्शनयोगः ॥१३॥ तदनुष्ठाननिरतस्येति । सुवर्णादिकर्म स्वयमधिष्टाय कारयतः संद. र्शनयोगा न प्रच्छन्नयोगः स्याद्, अपि तु दीर्घकालं लोकस्य विदिता, अन्यथा लोकस्तं दृष्ट्वा सहसा विकल्पयति ॥ १३ ॥ तस्मिंश्चान्येषामपि कर्मणामनुसन्धानं येन कर्मणा द्रव्येण कौशलेन चार्थिनी स्यात्तस्य प्रयोगमुत्पत्तिमागममुपायं विज्ञान- चात्मायत्तं दर्शयेत !! १४ ॥ तस्मिन्निति ! कर्मण्यनुष्ठीयमानेऽसमाप्त एवान्येषां कर्मणामनुसन्धानं- कर्तव्यं, मा भूदर्शनविच्छेद इति, येनेति । कर्मणा = दुष्करण, द्रव्येण = दुष्प्रापेण, कौशलेन = दुरागमेन, तस्येति । यथोक्तस्य कर्मणः प्रयोगं यथा तत्प्रयुज्यते, द्रव्यस्योत्पत्तिं यथा तद् भवति, कौशलस्यागमं यथा तदा- गम्यते, उपायं विज्ञानं चेति । त्रयाणामपि यथासंभवमुपायं विज्ञानं चा. त्मायत्तं , सर्वमेतद् दर्शयेत् ॥ १४ ॥ पूर्वप्रवृत्तेषु लोकचरितेषु द्रव्यगुणपरीक्षासु च तया तत्परि- जनेन च सह विवादः ॥ १५ ॥ पूर्वप्रवृत्तेष्विति । नेदानी प्रवृत्तेषु तेषामनार्षत्वाद्, लोके प्रवृत्तेषु पुराणरामायणभारतोक्तेषु प्रसङ्गादुदीरितेषु, द्रव्याणां च गुणपरी- क्षासु, तया नायिकयाऽन्यैस्तत्परिजनैः सह विवादः कर्तव्यः, नैवमि. दमेवमिति ॥ १५॥ तत्र निर्दिष्टानि पणितानि तेष्वेनां प्राश्निकत्वेन योजयेत् ॥१६॥ तत्रेति । विवादे, निर्दिष्टानीति । यद्यन्यथा स्यादिदं देयमिति, तेषु च पणितेषु, एनां नायिकाम् , प्राश्निकत्वे नियोजयेद्, यद्यन्यैः सह , ।

२ अध्याये] अभियोगप्रकरणम् । । m CRETED विवादः॥१६॥ तया तु विवदमानोऽन्यं तद्भक्तमिति परिचयकारणानि॥१॥ तया त्विति । नायिकया, अन्यमिति । परिजनं, तद्भक्तमिति । नायिकापक्षपातिनं, योजयेद् नायिकाविजयस्याभिप्रेतत्वात् ॥ १७ ॥ इति परिचयकारणानि त्रयश्चत्वारिंशं प्रकरणम् ॥ शास्त्रकार एव प्रकरणसंबन्धमाह- कृतपरिचयां दर्शितेङ्गिताकारां कन्यामिवोपायतोऽभियु- जीतेति ॥ १७ ॥ कृतपरिचयामिति। कन्यामिवेति । तस्या अपि दर्शितेङ्गिताकाराया. एवाभियोग उपायत इत्युपाया अभियोगाः, अभियुज्यन्त एभिरिति कृत्वा त एवात्रापि द्रष्टव्या; ये कन्यासंप्रयुक्तकेऽभिहिताः॥ १७ ॥ विशेषमाह- प्रायेण तत्र सूक्ष्मा अभियोगाः कन्यानामसम्पयुक्तत्वात् ॥१०॥ प्रायेणेति । तत्रेति । कन्यायां, सूक्ष्मा इत्यनभिव्यक्तभावाः, असम्प्र- युक्तत्वादव्युत्पन्चत्वादित्यर्थः ॥ १८ ॥ इतरासु तानेव स्फुटमुपदध्यात् सम्पयुक्तत्वात् ॥ १९ ॥ इतरासु तु परस्त्रीषु, तानेव ये कन्यासूक्ताः, स्फुटमिति । क्रियावि. शेषणम् , अभिव्यक्तभावं प्रयुञ्जीतेत्यर्थः, तासां संप्रयोगे प्रवृत्तत्वाद्, ये तु तास्वेव विशेषेण युज्यन्ते, ते द्विविधा:-बाह्या आभ्यन्तराश्च, ॥ १९ ॥ तत्र पूर्वानधिकृत्याह- संदर्शिताकारायां निर्मिनसद्भावायां समुपभोगव्यतिकरे तदीयान्युपयुञ्जीत ॥ २० ॥ संदर्शिताकारायामिति । निर्मिनसद्भावायामिति । प्रकटितसद्भा- वायां सत्यां, समुपभोगव्यतिकरे तदीयानीति । नायिकावस्तूनि स्व. यमुपयुज्यात्स्वानि च स्वमिव तामुपयोजयेत् ॥ २० ॥ तत्र महाहंगन्धमुत्तरीय कुसुमं चात्मीयं स्यादङ्गुलीयकं च तद्ध- स्तात् ताम्बूलग्रहणं गोष्ठीगमनोद्यतस्य केशहस्त पुष्पयाचनम् ॥२६॥ तत्रेति। परिवर्तमाने, महार्हगन्धम् = अत्यन्तसुरभि, उत्तरीयं कुसुमं. च, आत्मीयं स्यात् =स्वीकुर्यादित्यर्थः, अङ्गुलोयकं च महार्ह स्यात्, तद्धस्तान्नायकहस्ताद्यदि तया ताम्बूलं गृहोत, गोष्ठीगमनोद्यतस्येति ।

a यस्मिन्प्रच्छन्ने देशे तिष्टति, तत्र चालिङ्गनादयः प्रयोक्तव्याः, सटीके कामसूत्रे [५ अधिकरणे, मेतदिति ॥२१॥ तत्र महार्हगन्धं स्पृहणीयं स्वनखदशनपदचिहितं साकारं- दद्यात् ॥ २३ ॥ स्वयं तु ददन्नाय को यन्महाहगन्धं स्पृहणीयं लोकस्य, तदन्यहस्तेन यदा दद्यात्तदा स्वनख दशनपदचिह्नितं, यदा स्वहस्तेन तदा साकारं, क्रियाविशेषणमेतद्, एवं प्रकारद्वयेऽपि भावः सूचितो भवति ॥ २२ ॥ अधिरधिकश्चाभियोगेः साध्वविच्छेदनम् ।। २३ ॥ अधिकैरधिकः पूर्वपूर्वेभ्यः, साध्वसविच्छेदनम्, प्रायेण परयोषि- त्परपुरुषेषु ससाध्वसा भवति ॥ २३ ॥ आभ्यन्तरानधिकृत्याह-- क्रमेण च विविक्तदेशे गमनमालिङ्गन चुम्बनं ताम्बूलस्य ग्राहणं दानान्ते द्रव्याणां परिवर्तनं गुह्यदेशाभिमर्शनं चेत्य- भियोगाः ॥ २४ ॥ क्रमेण चेति । यदेकान्तेन गतसाध्वसा, तदा विविक्तदेशगमनं- गुह्यदेशा. भिमर्शनं = कक्षोरुमूलजघने विमर्दनम् , उरिक्षसकेन ॥ २४ ॥ अभियोगस्याविषयमाह- यत्र चैकाभियुक्ता न तत्रापरामभियुञ्जीत, तत्र या वृद्धा- ऽनुभूतविषया प्रियोपग्रहैश्च तामुपगृहीयात् ॥ २५ ॥ यत्र चेति । गृहे, अपरामिति । द्वितीयां नाभियुञ्जीत, परस्परक- लहाद् विगोपनं स्याद्, यत्र वा गृहे वृद्धा स्त्री, अनुभूतविषया प्रवृत्त. परपुरुषसंप्रयुक्तत्वाद्, न तत्र स्त्रियमभियुञ्जीतेत्येव, प्रियोपग्रहैश्चेति । प्रियं यदा स्वसुखकारणं तदैवोपग्रहः, उपगृह्यतेऽनेनेति, उपगृह्य स्वीक. त्योपन्यस्यात् ॥ २५ ॥ श्लोकावत्र भवतः- अन्यत्र दृष्टसंचारस्तद्भता यत्र नायकः । न तत्र योषितं कां चित्सुप्रापामपि लवयेत् ॥ २६ ॥ यत्रेति । यस्मिन्गृहे नायिकाया भर्ता, अन्यस्यां योषिति दृष्टसं- चारो दृष्टाभिगमो न तत्र गृहे, सुप्रापामपि =सुलभामपि, लङ्घयेदधि. गच्छेदित्यर्थः ॥ २६ ॥ - ३ अध्याये] भावपरीक्षाप्रकरणम् । शाङ्कतां रक्षितां भीतां सश्वश्रूकां च योषितम् । न तर्कयेत मेधावी जानन्प्रत्ययमात्मनः ।। २७ ।। इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे परिचयकारणान्यभियोगा द्वितीयोऽध्यायः । शङ्कितामभियोक्तरि जाताशङ्का, रक्षितां शस्त्रिभिः, भीतां पत्युः, सश्वभूकां श्वश्र्वधिष्ठितां, न तर्कयेत नाभिलषेद्, जानन्प्रत्ययमिति । अहमत्राशक्त इति निश्चयमधिगच्छन् ॥ २७॥ इत्यभियोगाश्चतुश्चत्वारिंशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधरचितायां जयमङ्गलाऽऽख्यायां पारदारिके पञ्चमेऽधिकरणे परिचयकारणान्यभियोगा द्वितीयोऽध्यायः । तृतीयोऽध्यायः। सत्यप्यभियोगे धीराः प्रगल्भाः परीक्षियो याः स्त्रियस्ता न निर्मि. नसद्भावास्ततश्च न तासु विशेषाभियोग इति भावपरीक्षोच्यते-- अभियुञ्जानो योषितः प्रवृत्ति परीक्षेत तया भावः परीक्षि- तो भवति ॥ १ ॥ कन्यामिवाभियुञ्जानः, प्रवृत्ति चेष्टां, परीक्षेत, अनया हि परोक्षि- तया भावः परीक्षितो भवति ॥१॥ कथं साध्येत्याह- मन्त्रमण्वानां दूत्यैनां साधयेत् ॥ २ ॥ मन्त्रमवृण्वानामिति । सांप्रयोगिक भावमप्रकाशयन्ती, दूत्या साध. येद् अप्रगल्भत्वात् ॥२॥ अप्रतिगृह्याभियोग पुनरपि संसृज्यमानां द्विधाभूतमानसां वि- यात तां क्रमेण साधयेत् ॥ ३ ॥ अप्रतिगृह्याभियोगं नायकेन क्रियमाणं प्रत्याख्याय, पुनरपि कियतो- दिवसास्थित्वा; संसृज्यमानां नायकेन संसर्ग याता, द्विधाभूतमानसां. विद्यात् , परीक्षणीयस्वात्, किं कुर्यामहं न वेदमीति, तांक्रमेण साधयेद् न सहसा परित्यजेत् ॥ ३ ॥ अत्र विशेषमाह- अप्रतिगृह्याभियोग सविशेषमलंकृता च पुनदृश्येत तथैव त- । measure २३८ सटीके कामसूत्रे [५ अधिकरणे, --- मभिगच्छेच्च विविक्त बलाद्हणीयां विद्यात् ॥ ४ ॥ सविशेषमिति । यथा पूर्वमलंक्रियमाणा ततः सविशेषमलंकृता, पु. नायकेन दृश्येत, तथैव चाभिगच्छेन्नायक, नायिका विविक्त स्थितां, वलाद् ग्रहणीयां हठाद् ग्राह्यां, विद्याद् धीरात्वात् ॥ ४ ॥ बहूनपि विषहतेऽभियोगान्न च चिरेगापि प्रयच्छत्यात्मानं. सा शुष्कप्रतिग्राहिणी परिच याविघटनसाध्या ॥ ५॥ बहूनपि विषहते ये ये क्रियन्ते, न च चिरेणापीति । बहुभिरपि दिवसैः, शुष्कप्रतिग्राहिणीति । अर्थशून्यानभियोगान्प्रतिग्रहीतुं शीलम. स्थाः, अतिपरोक्षणीयत्वात् , परिचयविघटनसाध्येति । परिचयापनय. साध्या॥ ५॥ कथं तदपनयनासिध्यतीत्याह- मनुष्यजातश्चित्तानित्यत्वात् ॥ ६ ॥ मनुष्यजातेरिति । तद्वतोऽभिधानं, चित्तानित्यत्वादिति । मनसश्च. लत्वाद्, यतो विच्छिन्ने परिचये पुनः स्वयं संधत्ते ॥६॥ आभियुक्ताऽपि परिहरति न च संसृज्यते न च प्रत्याचष्टे त स्मिन्नात्मनि च गौरवाभिमानात साऽतिपरिचयात्कृच्छ्रसाध्या मर्मज्ञया दृत्या तां साधयेत् ॥ ७ ॥ अभियुक्ताऽपि परिहरति, अधियोगं परिहत्यापि का चित्संसर्ग या त्यपीत्याह-न च संसृज्यत इति । तस्या आत्मन्यभिमानाद्, न च प्र त्याचष्टे, नायकमेकान्तेन, तस्मिन्नायके च गौरवाभिमानात्, साऽतिपरि- चयाकृच्छण साध्या तस्या ह्यतिधीराया अतिपरिचयेन गौरवाभिमानौ कृच्छण स्फुटतः, मर्मज्ञया वा दूत्या साध्या तद्वशत्वात् ॥ ७ ॥ तत्र विशेषमाह- सा चेदभियुज्यमाना पारुष्येण प्रत्यादिशत्युपेक्ष्या ॥ ८ ॥ सा चेदिति । पारुष्येण प्रत्यादिशति, निष्ठुरवाक्येन नायकं प्रत्या- चष्टे, उपेक्षेत नाभियुञ्जीत ॥ ८ ॥ अत्रापि विशेषमाह- परुषयित्वाऽपि तु प्रीतियोजिनीं साधयेत् ॥ ९ ॥ परुषयित्वाऽपि त्विति । परुषमुक्त्वाऽपि, प्रीतियोजनशीलां, साधये- पुनरभियुञ्जोत, तस्या जातविप्रतिपत्तिसारत्वात् ॥९॥ कारणासंस्पर्शनं सहते नावबुध्यते नाम द्विधाभूतमानसा सा. - Matest

३ अध्याये ]
भावपरीक्षाप्रकरणम्।
२३६
।
।
।
तत्येन क्षान्त्या वा साध्या ॥ १०॥
कारणादिति । कुतश्चिन्निमित्तात्संस्पर्शनमभियोगं सहते न शुष्कप्र.
तिग्राहिणीत्यर्थः, नावबुध्यते नामेति। नायकाभिप्रायमजानतीव संस्पर्श
नं सहते सैवम्भूता द्विधाभूतमानसा परीक्षणीयत्वात् , सातत्येन क्षान्त्या
वा साध्येति । अविच्छेदेन संस्पर्शस्य क्षमणं कार्यमित्यर्थः ॥ १० ॥
समीपे शयानायाः सुप्तो नाम करमुपरि विन्यस्येत् साऽपि
सुप्ता नामोपेक्षते जाग्रती स्वपनुदेद् भूयोऽभियोगाकाङ्किणी ॥११॥
समीपे शयानाया अान्तराभियोगेन प्रवृत्ति परीक्षेत, सुप्ता नामेति ।
कृतकसुप्तः करमुपरि विन्यस्येन्नायिकायाः, सुप्ता नामेति । कृतकसुप्तोपे.
क्षते हस्तं नापनुदति, जाग्रती स्विति । पुनर्जागरणमपदिश्यापनयति,
किमर्थमित्याह-भूयोऽभियोगाकाङ्क्षिणीति । अन्यथा कि सुप्तेनैव न्य-
स्तः किंवाऽभियोगार्थ कृतकसुप्तेनेति सन्देहः ॥ ११ ॥
एतेन पादस्योपरि पादन्यासो व्याख्यातः ॥ १२ ॥
एतेन हस्तन्यासेन ॥ १२॥
तस्मिन्प्रसृते भूयः सुप्तसंश्लेषणमुपक्रमेत ॥ १३ ॥
तस्मिन्निति । हस्तन्यासे पादन्यासे च, प्रसृते निर्बन्धेन प्रवृत्ते,
सुप्तसंश्लेषणमिति । कृतकसुप्ताया आलिङ्गनमेवोपक्रमेत न चुम्बना.
दिकम् ॥ १३॥
तदसहमानामुत्थितां द्वितीयेऽहनि प्रकृतिवर्तिनीमभियोगार्थिनीं-
विद्याद् अदृश्यमानां तु दूतीसाध्याम् ॥ १४ ॥
तदिति संश्लेषणम् , उस्थितां शयनात् , प्रकृतिवर्तिनीमकुपिताम् ,
अभियोगार्थिनीं विद्याद् , दृश्यमानां पुनरभियुञ्जीतेत्यर्थः, अस्या अप्रग-
ल्भत्वाद्, अदृश्यमानां तु प्रकृतिवर्तिनी दूतीसाध्या विद्यात् , तद्विषय-
त्वात् ॥ १४॥
चिरमदृष्टाऽपि प्रकृतिस्थैव संसृज्यते कृतलक्षणां तां दर्शिता.
कारामुपक्रमेत ॥ १५ ॥
यदा तु तदसहमानोत्थिता चिरं बहून्दिवसान्दृष्टा सती पुनरपि
प्रकृतिस्थैवाकुपिता संसृज्यते संसर्ग करोतीति, यद्यप्येवं तथाऽपि, कृत-
लक्षणां तामिति । जातावसरां दर्शिताकारामुपक्रमेताभियुञ्जीत, तस्या-
अतिशयेनाप्रगल्भत्वात् ॥ १५ ॥
अनभियुक्ताऽध्याकारयति विविक्ते चात्मानं दर्शयति ॥ १६ ॥

सटीके कामसूत्रे [५ अधिकरणे, अनभियुक्तति । अभियुक्ता सुतरां तावद्भावसूचकमाकारं दर्शयत्येव ॥१६॥ सवेपथुगद्दं वदति ॥१७॥ तत्र च यदि वदति सवेपथु सगद्गदम् ॥ १७ ॥ स्विन्नकरचरणाङ्गुलिः स्विन्नमुखी च भवति ॥ १८ ॥ स्विन्न करचरणागुलिः स्विन्नमुखी च भवत्येकान्तेनाहितभाव- त्वात् ॥ १८॥ शिर:पीडन संवाहने चोर्वोरात्मानं नायके नियोजयति ॥१९॥ आतुरा संवाहिका चैकेन हस्तेन संवाहयन्ती द्वितीयेन बा- हुना स्पर्शमावेदयति श्लंषयति च ॥ २० ॥ आतुरेति । कामातुरैकान्तेन प्रगल्भा, एवमवस्थाऽपि विविक्ते, सं. वाहिका चेति कदा चिदप्रगल्भसंवाहनद्वारेण प्रवृत्ति दर्शयति, स्प- र्शमावेदयतीत्यात्मीयं नायकं ज्ञापयति ॥ २०॥ विस्मितभावा निद्राऽन्धा वा परिस्पृश्योरुभ्यां वाहुभ्यामपि तिष्ठति ॥ २१ ॥ विस्मितभावेति । विस्मिताख्यो भावो यस्याः, स्पर्श निवेदयमाना तत्स्पर्शसुखाजातविस्मया सती तेनैव द्वितीयबाहुना श्लेषं करोति, निद्राऽन्धा वेति । वा शब्दो भिन्नक्रमः, उभाभ्यां बाहुभ्यां कृतकनिद्रा प- रिस्पृश्याप्यूरुभ्यां तिष्ठति ॥ २१ ॥ अलिकैकदेशमूर्वोरुपरि पातयति ॥ २२ ॥ अलिकैकदेशमग्रभागं पातयति ॥ २२ ॥ ऊरुमूलसंवाहने नियुक्ता न प्रतिलोमयति ॥ २३ ।। संवाहयन्ती न प्रतिलोमयति, तत्संवाहनस्येष्टत्वात् ॥ २३ ॥ तत्रैव हस्तमेकमविचलं न्यस्यति ।। २४ ॥ तत्रैवेति । ऊरुमूले, अविचलं, न्यस्यति लजयो न व्यापारयति, मा भूजघनपार्श्वसंस्पर्श इति ॥ २४॥ अङ्गसंदंशेन च पीडितं चिरादपनयति ॥ २५ ॥ अङ्गसन्दंशेन चेति। ऊरुद्वयसंदंशेन नायकन पीडितं चिरादपनयति, मा भूदिच्छाविघातोऽस्येति ॥ २५ ॥ प्रतिगृह्येवं नायकाभियोगान् पुनर्दितीयेऽहनि संवाहनायो- पगच्छति ॥ २६ ॥ 5 ३ अध्याये] भावपरीक्षाप्रकरणम् । २४१ SHRA नायकाभियोगानिति । तस्यामवस्थायामन्यदा वा नायकाभि. योगान्दृष्ट्वा; तदीयं भावं प्रतिगृह्य पुनःसंवाहनायोपगच्छति कार्यस्या. निष्पन्नत्वात् ॥ २६ ॥ नात्यर्थ संसृज्यते न च परिहरति ।। २७ ॥ नात्यर्थमिति । कदा चिदतिधैर्याद् गूढभावैव प्रवृत्ति दर्शयति, स्व. यं नात्यन्तं संसृज्यते, न च परिहरति संसृज्यमाना ॥ २७ ॥ विविक्ते भावं दर्शयति निष्कारणं चागूढमन्यत्र प्रच्छन्न- प्रदेशात् ।। २८ ॥ विविक्त भावं दर्शयति, माऽन्यो ज्ञासीदिति, अन्यत्र प्रच्छन्नप्रदेशा. दिति । जनसंबाधे गूढ इत्याह-निष्कारणमिति । कारणं विना, गूढत्वा. दिति । प्रच्छन्नत्वात् ॥ २८ ॥ संनिकृष्टपरिचारकोपभोग्या सा चेदाकारिताऽपि तथैव स्यात् सा मर्मज्ञया इत्या साध्या ॥ २९ ॥ गूढभावत्वेनैव; यः संनिकृष्टः परिचारकस्तेनोपसृज्यते, तेनैव तिष्ठ- तीति ज्ञातव्या, कथं तहि ? तस्यां नायकस्य प्रतिपत्तिरित्याह-सा चेदिति। यथोक्ता, आकारिताऽपि नायकेन पुनराकारं ग्राहिताऽपि, तथैव स्याद्- यथैव प्रागुक्ता, दूत्या साध्या तद्वशत्वाद् ॥ २९ ॥ व्यावर्तमानात तर्कणीयेति भावपरीक्षा ॥ ३० ॥ व्यावर्त्तमाना दूत्या साध्यमाना मा भूवमिति, सद्भूतं व्यावर्त्तन- कारणमुपन्यस्यति, किं वा सव्याजमिति ॥ ३० ॥ इति भावपरीक्षा पञ्चचत्वारिंशं प्रकरणम् ॥ उक्तमेवार्थ यथाक्रमं दर्शयन्नाह- भवन्ति चात्र श्लोका:- आदौ परिचयं कुर्यात्ततश्च परिभाषणम् । परिभाषणसंमिश्रं मिथश्चाकारवेदनम् ॥ ३१ ॥ आदाविति । दर्शनानन्तरं प्रथमं परिचयः, तत इति। प्रकृतात् परिच. यान्यासनिक्षेपादिना, परिभाषणसंमिश्रमिति । परिभाषणकाल एवा. कारवेदनं भावसूचकोपलक्षणत्वाद्, इतीङ्गितवेदनं च, यमधिकृत्योक्तं- कृतपरिचयाद् दर्शितेङ्गिताकारामिति ॥ ३१ ॥ ३१ का० सू० मर्मज्ञया mummone सटीके कामसूत्रे [४ अधिकरणे, - प्रत्युत्तरेण पश्येच्चेदाकारस्य परिग्रहम् । ततोऽभियुञ्जीत नरः स्त्रियं विगतसाध्वसः॥ ३२ ॥ प्रत्युत्तरेणेति । नायकेन दर्शितस्याकारस्य परिग्रह नायिकया प्रत्यु- त्तरेण प्रत्याकारेण प्रक्रियमाणं पश्येत् , तत इति । दृष्टात् परिग्रहाद्, विगतसाध्वस इति । निःशङ्कः, कि सेत्स्थति न वेति शङ्काशून्यः ॥ ३२ ॥ द्विविधाः-स्त्रियः, स्फुटा अस्फुटाश्च, तत्र स्फुटासु नायं विधिरिति दर्शयन्नाह- आकारेणात्मनो भावं या नारी प्रायोजयेत् । क्षिप्रमेवाभियोज्या सा प्रथमे स्वेव दर्शने ॥ ३३ ॥ आकारेणेति । नारी याऽन्यदृष्टपूर्वा, प्राक् प्रदर्शयेद् भावम्, प्रथमे त्वेव दर्शने, न द्वितीयादिदर्शनमपेक्षते ॥ ३३ ॥ श्लक्ष्णमाकारिता या तु दर्शयेत्स्फुटमुत्तरम् । साऽपि तत्क्षणसिद्धति विज्ञेया रतिलालसा ॥ ३४ ॥ श्लक्ष्णमाकारितेति । अस्फुटमाकारं ग्राहिता, स्फुटमुत्तरं प्रत्याका- रम् , रतिलालसेति । रतिश्रद्धा ॥ ३४॥ अस्फुटासु विधिमाह- धीरायामप्रगल्भायां परीक्ष्यायां च योषिति । एष सूक्ष्मो विधिः प्रोक्तः सिद्धा एव स्फुटं स्त्रियः ॥ ३५॥ इति वात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे भावपरीक्षा तृतीयोऽध्यायः। धीरायामिति । धीरायां शनैः प्रवर्तते, अप्रगल्भा न शनैरपि परीक्षणीया विमृष्य स्फुटा इति, अनन्तरोक्ते द्वे, याश्चाभियोगमात्रसा. ध्या उक्तास्ताः स्फुटाः सिद्धा एव ॥ ३५॥ इति भावपरीक्षा पञ्चचत्वारिंशं प्रकरणम् । इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां पारदारिके पञ्चमेऽधिकरणे भावपरीक्षा तृतीयोऽध्यायः । । ।

४ अध्याये] दूतीकर्मप्रकरणम् । २४३ INDIA . चतुर्थोऽध्याय:। अभियुञ्जानः प्रवृत्ति परीक्षेत, यत्र स्वयमभियोगासम्भवस्तत्र दूती- प्रयोग इति दूतीकर्माण्युच्यन्ते यदाह- दर्शितेङ्गिताकारां तु प्रविरलदर्शनामपूर्वा च दूसोपसर्प- येत् ॥ १॥ दर्शितेङ्गिताकारामिति । इङ्गिताकारौ दर्शयित्वा; का चिदात्मानं द. र्शयति न दर्शयति च, कार्ययोगात् , तामपूर्वा चापरिचितां, न दर्शिते. ङ्गिताकारामित्यर्थः, दूत्योपसर्प येदात्मसमीपं ढोकयेत् ॥ १ ॥ तत्र मूलभूतास्तिस्रो दूत्यः-निसृष्टार्था परिमितार्था पत्त्रहारी चेति, तासां सामान्येन कर्माण्याह- सैनां शीलतोऽनुपविश्याख्यानकपः, सुभगकरणयोगैः, लो- कवृत्तान्तः, कविकथाभिः, पारदारिककथाभिश्वः तस्याश्च रूपवि. ज्ञानदाक्षिण्यशीलानुप्रशंसाभिश्च तां रञ्जयेत् ॥ २॥ सैनामिति । शोलत इति । शीलेनादावनुप्रविश्य; विश्वासार्थ शील- वती भूत्वेत्यर्थः आख्यानकपटैरिति । येषु पटेष्वाख्यानकानि चित्रलि. खितानि, सुभगङ्करणैर्योगवश्यमाणैः, लोकवृत्तान्तः पुराणनिबन्धनः, कविकथाभिरिति । कविभिर्निबद्धाभिविन्दुमतीप्रभृतिभिः, अन्ते पारदा. रिककथाभिर्गोतमबृहस्पत्यादिदाराणामिन्द्रचन्द्रादिभिरपहरणकथाभिः, अनुप्रविश्य किं कुर्यादित्याह-तस्या इति । नायिकाया रूपं वर्ण संस्था. नं च, विज्ञानं शास्त्रकलासु, दाक्षिण्यम्=आनुकूल्यं, शीलं-सुस्वभावता, तेषां प्रशंसाभिः ॥ २॥ कथमेवंविधायास्तवायमित्थम्भूतः पतिरिति चानुशयं ग्राह- येत् ॥ ३ ॥ कथमेवंविधायाः ययाक्त गु गायाः, इत्थंभूतो वैरूप्यादिप्रकारमापन्नः, अनुशयं विप्रतीसारं, ग्राहयेद्, न भद्रकं पतितं यदहमनेनोवेति ॥३॥ न तब सुभगे ! दास्यमपि कर्तुं युक्त इति ब्रूयात् ॥ ४ ॥ सुभगे ! इत्यामन्त्रणं जनसौभाग्यख्यापनार्थ, दास्यमपि किमु तव पतित्वम् ॥ ४॥ मन्दवेगतामीर्ष्यालुतां शठतामकृतज्ञतां चासम्भोगशीलतां. कदर्यतां चपलतामन्यानि च यानि तस्मिन्गुप्तान्यस्या अभ्याशे सटीके कामसूत्रे [ ४ अधिकरणे, । सति सद्भावेऽतिशयेन भाषेत ॥५॥ मन्दवेगा च भाषेत, यदि सा चण्डवेगा, उपलक्षणं चौतद्, शीघ्र- वेगतां च यदि चिरवेगा, असंभोगशीलतामिति । विषयान्भोक्तुमशी. लतां, कदर्यतामहीनकामताम्, अन्यानि चेति । पारुष्यनैपृण्यदाम्भि- कत्वादीनि, तस्मिन्पत्यौ, अस्या अभ्याश इति । नायिकायाः समीपे यथा- ऽन्यो न शृणोति, सति सद्भाव इति । विश्वासे सति, अतिशयन भाषेत, येन सा तथैव प्रतिपद्यत ॥ ५ ॥ येन च दोषेणोद्विग्नां लक्षयेत्तेनैवानुप्रविशेत् ॥ ६ ॥ येन चेति । प्रत्यक्षीकृतेन तद्दोषेण तेनैवैनामनुप्रविशेत् , कथितमेव मया यथाऽयं दोषबहुल इति ॥६॥ यदाऽसौ मृगी तदा नैव शशतादोषः ॥ ७ ॥ नैव शशतादोषः, किं त्वश्वत्वदोषो वाच्यः ॥ ७ ॥ एतेनैव वडवाहस्तिनीविषयश्चोक्तः ॥ ८॥ एतेनैवेति । अनन्तरोक्तेन स्वजातीयन्यायेन, वडवाहस्तिनीविषयो न दोषो वृषत्वमश्वत्वं च, किं तु शशत्वं दोषः ॥ ८ ॥ दूस्योपसर्पयेदिति सामान्येनोक्तमत्र गोणिकापुत्रदर्शनमाह- नायिकाया एव तु विश्वास्यतामुपलभ्य दृतीत्वेनोपसर्पये- प्रथमसाहसायां सूक्ष्मभावायां चेति गोणिकापुत्रः ॥ ९ ॥ विश्वास्यतामुपलभ्य दूतीत्वेनोपसर्पयेत्, कस्मिन्विषय इत्याह-प्र- थमसाहसायामिति । या प्रथमं चारित्रं खण्डयति, सूक्ष्मभावायामस्फुट. भावायाम्, एतदनुमतमप्रतिषिद्धत्वात् ॥ ९ ॥ सा नायकस्य चरितमनुलोमतां कामितानि च कथयेत् ॥१०॥ चरितं शोभनमनुलोमतामानुलोम्यं कामितानि चेति, त्रिविधं कामि. तं, रतस्यारम्भे मध्येऽवसाने च ॥ १० ॥ प्रमृतसद्भावायां च युक्त्या कार्यशरीरमित्थं वदेत् ॥ ११ ॥ प्रसृतसद्भावायां नायिकायां सत्याम् अन्यथाक्त दोषकरमपि स्याद्, युक्त्या, न यथा कथंचिद्, यदर्थ दूतीकल्पस्तत्कार्यशरीरम् , इत्थमिति। वक्ष्यमाणप्रकारम्॥ ११ ॥ शृणु विचित्रमिदं मुभगे ! त्वां किल दृष्ट्वाऽमुत्रासावित्थं गोत्र- पुत्रो नायकश्चित्तोन्मादमनुभवति प्रकृत्या सुकुमारः कदा चिदन्य.

। ४ अध्याये] दूतीकर्मप्रकरणम् । २४५ त्रापरिक्लिष्टपूर्वस्तपस्वी ततोऽधुना शक्यमनेन मरणमध्य नुभवितुः मिति वर्णयेत् ॥ १२ ॥ चित्रमिदं, यदार्याभिः काम्यमानोऽपि त्वां दृष्ट्वाऽपि चित्तोन्माद- मनुभवति, एवं च सुभगे! इत्यामन्त्रणमर्थवद्भवति, किलेति । त्वं दृष्टा- ऽसीति, परोक्षं ममेत्याह, इत्थं गोत्रपुत्रः, न यस्य कस्य चित्पुत्रः, कार्य- स्य बलीयस्त्वं दर्शयन्नाह-प्रकृत्येति । अन्यत्रेति । अन्यस्याम् , अपरिक्लि- टपूर्वस्तद्वचनसिद्धत्वात्स्त्रीणां, तपस्वीति । अनुकम्पायां, शक्यमनेन मर- णमप्यनुभवितुं विनश्यतीत्यर्थः ॥ १२ ॥ तत्र सिद्धा द्वितीयेऽहनि वाचि वक्के दृष्टयां च प्रसादमुपलक्ष्य पुनरपि कथां प्रवर्तयेत् ॥ १३ ॥ तत्रेति । तस्मिन्नभिधीयमाने, सिद्धा-न प्रत्याख्याता, वाचि वक्त्रे दृष्ट्यां च त्रिष्वपि, प्रसाद प्रसन्नता, कथा प्रवर्तयेत्सामान्याम् ॥ १३ ॥ शृण्वत्यां चाहल्याऽविमारकशाकुन्तलादीन्यन्यान्यपि लौकि- कानि च कथयेत्तयुक्तानि ॥ १४ ॥ शृण्वत्यां स्वकथाम्. अहल्या गोतमभार्या, तयोत्कण्ठितया देवराजः- कामितः, अग्निहोत्रकेणाग्निपरिचरणे वधूनियुक्ता, सा च कुण्डादुत्थि- तेन मूर्तिमताऽग्निना कामिता, जातगर्भा च तां श्वशुरः कुलदोषभयाद- टव्यां तत्याज, प्रसूतां च सह सुतेन शबरसेनापतिरपत्यबुद्धया सं. बर्धितवान् , तत्पुत्रश्चाजाविकसमूहेन बालवयस्त्वात्क्रीडमानः परिभ्रम- स्तत्क्षीरपानान्महाबलोऽभूद, येन शिशुरेव हस्तग्रहणाद जाविकं जघान, सेनापतिरप्यन्वर्थमस्य नाम चक्रेऽविमारक इति, ततः प्रबृद्धयौवन:- कदा चिद्राज्ञोऽटव्यांसमावासितस्य दुहितरं हस्तिना व्यापाद्यमानां तं- हत्वा ररक्ष, ततो जातोत्कण्ठा सा स्वयमेव पाणिं ग्राहितवती, तद्यु. तानि-पारदारिकयुक्तानि ॥ १४ ॥ वृषतां चतुःषष्टिविज्ञतां सौभाग्यं च नायकस्य, श्लाघनीयता- चास्य प्रच्छन्नं संप्रयोगं भूतमभूतपूर्व वा वर्णयेदाकारं चास्य लक्षयेत् ॥ १५ ॥ वृषतां-व्यवायितां, चतुःषष्टिविज्ञतामिति । गीतादिकायां पाञ्चालि- कायां च विज्ञतां, सौभाग्यं पुरुषेणाप्यभिलप्यत इति, श्लाघनीयेति । या स्त्रियं श्लाघते, प्रच्छन्नं लोकस्याविदितम् , एवं चाभूतमपि भूतमिव जातम्, आकारमिति । आक्रियते गृह्यते भावो येनेति, वाकायव्यापारोऽत्र । ।

२४३
सटीके कामसूत्रे
[४ अधिकरणे,
गृह्यते ॥ १५॥
सविहसितं दृष्ट्वा संभाषते ॥ १६ ॥
सविहसितमिति । सम्भाषणक्रियाविशेषणमेतत् ॥ १६ ॥
आसने चोपनिमन्त्रयते ॥ १७ ॥
उपनिमन्त्रयते, इदमासनमास्यतामिति ॥ १७॥
कासितं क शयितं क भुक्तं क चेष्टित किंवा कृतमिति
पृच्छति ॥ १८ ॥
चेष्टितं भ्रान्तं, कृतमवश्यकर्तव्यमिति पृच्छति, तेन द्वारेण नाय
कसम्बद्धं किञ्चिदभिधास्थतीति ॥ १८ ॥
विविक्ते दर्शययात्मानम् ॥ १९ ॥
विविक्त दर्शयत्यात्मानं, रहस्यं किञ्चिद्रक्ष्यतीति ॥ १२ ॥
आख्यानकान्यनुयुक्त ॥ २० ॥
आख्यानकान्यनुयुक्तऽधृतिकथनार्थ नायककथा
वा करिष्य.
तीति ॥ २० ॥
चिन्तयन्ती निःश्वसिति विजृम्भते च ॥ २१ ॥
चिन्तयन्तीति । अन्यगतमानसा, निःश्वसिति विजृम्भते मदनला.
लसा॥ २१ ॥
प्रीतिदायं च ददाति ॥ २२ ॥
प्रीतिदायमिति । यत्प्रीत्या दीयते कटकमुत्तरीयं वा तदस्य
ददाति ॥ २२॥
इष्टेपूत्मवेषु च स्मरति ॥ २३ ॥
इष्टेषु कार्येषूट सवेषु च स्मरति, कथमद्य नायातेति ॥ २३ ॥
पुनदर्शनानुबन्धं विसृजति ॥ २४ ॥
पुनदर्शनानुबन्धमिति । पुनर्मया द्रष्टव्याऽसीति ॥ २४ ॥
त्वदर्शनवन् नामश्रवणमपि तं सुखयतीति दूत्या कथायां प्रवर्तिता.
यामाह-
साधुवादिनी सती किमिदमशोभनमाभिधत्स इति कथामनु-
बध्नाति ॥ २५ ॥
साधुवादिनीति । साधुवादिनी सती किमिदमशोभनमयुक्तमभि-
धस्स इत्यभिधाय; कथामनुबध्नाति प्रवर्तयति ॥ २५ ॥

४ अध्याये] दूतीकर्मप्रकरणम् । नायकस्य शाठ्यचापल्यसम्बद्धान्दोषान्ददाति ॥ २६ ॥ दोषान्ददातीति । शठोऽसौ न निर्व्याज व्यवहरति लोके, चपलश्च नैकस्यां रमत इति ॥ २६ ॥ पूर्वप्रवृत्तं च तत्सन्दर्शनं कथाऽभियोगं च स्वयमकथयन्ती तयोच्यमानमाकाङ्क्षते ॥ २७ ॥ तत्सन्दर्शनमिति । नायकदर्शनं यत्तस्याः पूर्वप्रवृत्तं यत्र यदा यथा, कथाऽभियोगं च, पुनः पुनः कथायोगं पूर्ववृत्तं स्वयमकथयन्ती लजया, तयोच्यमान-दूत्या कथ्यमानं, काङ्कते तेनापि सुखं स्थीयते ॥ २७ ॥ नायकमनोरथेषु च कथ्यमानेषु सपरिभवं नाम हसति न च निर्वदतीति ॥ २८ ॥ नायकमनोरथेविति। स सुदिवसो भविष्यति, यत्र पादपतनैः प्रसा- दिताया अधरं पास्यामीत्येवमादिषु, दूत्या कथ्यमानेषु, सपरिभवमिव हसति दुराशा तस्य धूर्तस्येति, न च निर्वदति, निश्चयेनाभिधत्ते, सि. ध्यत्येव तस्य मनोरथ इति ॥२८॥ दूतीविषये नायिकाया आकारे लक्षिते किं फलमित्याह- दुखेनां दर्शिताकारां नायकाभिज्ञानरुपद्व्हयेत् ॥ २९ ॥ नायकाभिज्ञानैरिति । यानि नायकस्य तया सह पूर्व वृत्तानि, तैरुप- बृहयेदत्यन्तमनुरक्तां कुर्यात् ॥ २९ ॥ असंस्तुतां तु गुणकथनैरनुरागकथाभिश्चावर्जयेत् ॥ ३० ॥ असंस्तुतामिति । अपरिचिताम् , अभिज्ञानासम्भवाद्, नायकस्य गुणकथनैरनुरागकथाभिश्चावर्जयेदभिमुखीकुर्यात् ॥ ३० ॥ अत्राचार्याणां मतभेदमाह- नासंस्तुतादृष्टाकारयोर्दयमस्तीत्यौदालकिः ।। ३१ ॥ नासंस्तुतादृष्टाकारयोरिति । ययोन परिचयो न चाकारदर्शनं च, तस्मिन्विषये न दूत्या कर्म विषयो वाऽस्ति, यत्रेदमुक्तम्- 'कृतपरिचयां दर्शितेङ्गिताकारां कन्यामिवोपायतोऽभियुञ्जीत' ॥ ३१ ॥ संसृष्टाकारयोरसंस्तुतयोरप्यस्तीति बाभ्रवीयाः ॥ ३२ ॥ संसृष्टाकारयोरिति । यौ परस्परस्य संसृष्टाकारौ, तयोरसंस्तुतयो. रप्यस्त्याकारस्यैव दूत्यनिमित्तत्वाद्, यथोक्तम्- 'आकारेणात्मनो भावं या नारी प्राक्प्रदर्शयेत् । क्षिप्रमेवाभियोज्या सा प्रथमे चैव दर्शने ॥ ३२ ॥ ।

सटीके कामसूत्रे [४अधिकरणे, । संस्तुतयोरप्यसंसृष्टाकारयोरस्तीति गोणिकापुत्रः ॥ ३३ ॥ असंसृष्टाकारयोरिति । व्यामिश्रभावत्वात्तदाकारोऽपि संसृष्टशुद्धौ भवति, ततश्च तयोस्संस्तुतयोरपि, यत्रेदमुक्तम्-~ इत्यादि ॥३३॥ "धीरायामप्रगल्भायाम्- असंस्तुतयारदृष्टाकारयोरपि दृतीप्रत्ययादिति वात्स्यायनः ॥३४॥ दूतीप्रत्ययादिति । दूतीसामर्थ्यादसंस्तुततोरपि, अस्मिन्पक्षे त्रित- याभावेऽपि दूत्यमस्ति, यत्रेदं वक्ष्यति- कौतुकाचानुरूपौ युक्ताविमौ परस्परस्येति ॥ ३४॥ तासां मनोहराण्युपायनानि ताम्बूलमनुलेपनं सनमङ्गुलीयक- वाप्सो वा तेन प्रहितं दर्शयेत् ॥ ३५ ॥ तासामिति । असंस्तुतानां नायिकानाम्,मनोहराण्युपायनानि कौश. लिकास्ताम्बूलादीनि ॥ ३५ ॥ तेषु नायकस्य यथार्थ नखदशनपदानि तानि तानि च चितानि स्युः ॥ ३६॥ तेष्विति । उपायनेषु, यथाऽर्थमिति ! यथाप्रयोजनं च संप्रयोगसूचक मेव चिहं स्यात् ॥ ३६॥ वाससि च कुङ्कुमाङ्कमञ्जलिं निदध्यात् ॥ ३७ ॥ कुङ्कुमाङ्कमञ्जलिमिति । कुङ्कुमेनाङ्कितमञ्जलिं निदध्याद्यथा प्रतिनि- म्बमुत्पद्यते, स्वदाराधनपरोऽयं जन इति ख्यापनार्थम् ॥ ३७॥ पत्रच्छेद्यानि नानाऽभिप्रायाकृतीनि दर्शयेद्, लेखपत्रगर्भाणि कर्णपत्राण्यापीडांश्च ।। ३८ ॥ नानाऽभिप्राथाकृतीनीति। नानाऽभिप्राया रतिशोकक्रोधविस्मयादि. भावसूचना आकृतिः संस्थानं येषां, लेखपत्नगर्भाणि, मध्ये लेखपत्त्रं. प्रक्षिप्य वेष्टितानि, आपीडांश्च लेखपत्नगर्भान् ॥ ३८ ॥ तेषु स्वमनास्थाख्यापनम् प्रतिप्राभृतदाने चैनां नियोजयेत् ।।३९।। मनोरथाख्यापनमिति । लेख लिखित्वा; आचक्षीत, प्रतिप्रामृतं प्रति कौशलिकाम् ॥ ३९ ॥ एवं कृतपरस्परपरिग्रहयोश्च दृतीप्रत्ययः समागमः ॥ ४० ॥ कृतपरस्परपरिग्रहयोरिति । कृतान्योन्यस्वीकारयोः, दूतीप्रत्ययः, तयैव तदानीं निर्दिश्यमानत्वात् ॥ ४० ॥ । - ४ अध्याये] दूतीकर्मप्रकरणम् । - स तु देवताऽभिगमने यात्रायामुद्यानक्रीडायां जलावतरणे विवाहे यज्ञव्यसनोत्सवेष्वग्न्युत्पाते चौरविभ्रमे जनपदस्य चक्रा- रोहणे प्रेक्षाव्यापारेषु तेषु तेषु च कार्येष्विति बाभ्रवीयाः ।। ४१ ॥ देवताऽभिगमने, देवतामभिपूजयितुं यद्गमनं तत्र, यात्रायां कस्याश्चि. देवतायाः, जलावतरण इति । यदा स्नातुं जनसमूहो जलमवतरति, न चालक्ष्यते स्थानात्स्थानान्तरगमनम् , अग्न्युत्पाते, दह्यमानात्प्रातिवेश्य- गृहाद् गृहान्तरगमनं संभवति, चौरविभ्रमे, चौराः किल पतन्तीत्यन्यत्र सुप्यते, चकारोहणे, जनपदं निवेशयितुं शिविकारोपणे, तदा ह्यनुष्ठा- पितप्रकारत्वात्स्त्रीजनो न रक्षितो भवति, तेषु तेषु च कार्येष्विति। तेषु तेषु जनानां संमर्दः शून्यता वा ॥४१॥ सखीभिक्षुकीक्षपणिकातापसीभवनेषु सुखोपाय इति गोणि. कापुत्रः ॥ ४२ ॥ सुखोपाय इति । यदैवेच्छति तदैव भवति ॥ ४२ ॥ तस्या एव तु गेहे विदितनिष्क्रमप्रवेशे चिन्तितात्ययप्र- तीकारे प्रवेशनमुपपन्नं च निष्क्रमणमविज्ञातकालं च तन्नित्यं. सुखोपायं चेति वात्स्यायनः ॥ ४३ ॥ तस्या एवेति । नायिकायाः, निष्क्रम्यते प्रविश्यते च येन मार्गेण तदुभयं विदितं वीक्षितं यत्र, गेह इति । तत्राप्यविज्ञातकालमनियतकालं, प्रवेशनं निष्क्रमणं चोपपन्नं युक्तमनुपलक्ष्यमाणत्वात् , तदिति । प्रवेशनं- निष्क्रमणं चानित्यं, तस्याः सदा संनिहितत्वाद्, न सख्यादिगृहेषु, सुखोपायं च, विदितमार्गत्वात्प्रतिविहितदोषत्वाञ्च ॥ ४३ ॥ सामान्येन कर्माण्युक्त्वा दूतीभेदं प्रदर्शयन्नाह- निसृष्टार्थी परिमितार्था पत्रहारी स्वयंदूती मूढती माया- दूती मूकदृती वातदूती चेति दूतीविशेषाः ॥ ४४ ॥ निसृष्टार्थेति ॥ ४४॥ नायकस्य नायिकायाश्च यथामनीषितमर्थमुपलभ्य स्वबुद्ध्या कार्यसम्पादिनी निसृष्टार्थी ॥ ४५ ॥ यथामनीषितमिति । यथेप्सितम् , अयमेनां जिगमिषुरियमेनमिति, स्वबुद्ध्या = स्वप्रशया, कार्यसम्पादिनीति । यथा तावनुरज्येते, यथा कृत- परस्परपरिग्रहौ संप्रयुज्येते, तत्त्रिविधं कार्य सम्पादयति दूती, निसृष्टा- ३२ का० स० । ।

सटीके कामसूत्रे
[५ अधिकरणे,
थेति। इदं करणीयमित्येतावतोऽर्थस्य निसृष्टत्वात् ॥ ४५ ॥
अस्या विषयमाह-
सा प्रायेण संस्तुतसम्भाषणयोः ॥ ४६॥
सम्भाषत इति सम्भाषणः, 'कृत्यल्युटो बहुलम्' इति ल्युट्,
संस्तुतौ च तौ सम्भाषणौ च, यदि वा संस्तुतं च संभाषणं च ययोर.
स्तीति मत्वर्थीयोऽकारः, तयोः प्रायेण दृश्यते ॥ ४६ ॥
नायिकया प्रयुक्ता संस्तुतासम्भाषणयोरपि ।। ४७ ॥
अन्यतरप्रयुक्तविषयस्य सिद्धिगोचरत्वाद्, नायिकया प्रयुक्ता, प्रायेण
संस्तुतासम्भाषणयोरपि परिचितावेव केवलं, न तु सम्भाषणमनयो.
रस्ति यत इदमुक्तम्-
आदौ परिचयं कुर्यात्ततश्च परिभाषणम्' इति,
तत्रासंभाषमाणोऽपि नायकः संस्तुतत्वात्सुसाध इति प्रायेण दृश्यते,
न तु नायिकेति न प्रायेण ॥ ४७ ॥
कौतुकाच्चानुरूपौ युक्ताविमौ परस्परस्येत्यसंस्तुतयोरपि॥४८॥
युक्ताविति । युक्ताविमौ समान रूपशीलवयस्कत्वात्परस्परसंयोजने,
निसृष्टार्थाया यदा कौतुकमुत्पद्यते तस्माचासंस्तुतयोरपि द्रष्टव्या न तु
प्रायेण, तथाविधार्थस्य कादाचिकत्वात् ॥ ४८ ॥
कार्यैकदेशमभियोगेकदेशं चोपलभ्य शेषं सम्पादयतीति
परिमितार्था ।। ४९ ॥
कार्यस्याभियोगस्य चैकदेशमसमापितमन्यतरस्मादुपलभ्य, शेष.
म् = असमापित, सम्पादयतीति परिमितार्था, परिमितः परिच्छिन्नो-
ऽर्थोऽस्याइति ॥ ४९ ॥
विषयमाह-
सा दृष्टपरस्पराकारयोः प्रविरलदर्शनयोः ॥ ५० ॥
सेति । दृष्टपरस्पराकारयोरिति। आकारग्रहणेन दृष्टं परस्परं याभ्यां-
किश्चित्तयोः कार्यशेषं संभाषणं, प्रविरलदर्शनयोरभियोगमात्रशेषम् ॥५०॥
संदेशशमानं प्रापयतीति पत्रहारी ॥ ५१ ॥
सन्देशमात्रमिति । कार्यस्य स्थिरत्वात्तन्मात्रं, पत्रेण वचसा वा
प्रापयतीति पत्त्रहारीत्यर्थः ॥ ५१ ॥
कस्मिन्विषय इत्याह-
सा प्रगाढसद्भावयोः संसृष्टयोश्च देशकालसम्बोधनार्थम् ॥५२॥

ATHeal ४ अध्याये] दूतीकर्मप्रकरणम्। २५१ सेति । प्रगाढसद्भावयोः सम्प्रयोगं प्रत्यभिमुखीभूतत्वात् , संसृष्ट- योश्च कृतसंसर्गयोर्द्रष्टव्या, किमर्थमित्याह-देशकालेति। अस्मिन्काले स्थाने वाऽनयोः समागम इति, प्रबोधनार्थमन्यतरेण प्रयुज्यते, आसा. मुक्तेष्वेव कर्मसु यथासम्भवं कर्म द्रष्टव्यम् ॥ ५२ ।। निसृष्टार्था द्विविधा-तत्रैका परार्था या परेण प्रयुज्यते, द्वितीयाऽऽ. स्मार्था सा स्वयंदूतीति द्वितीयं नाम लभते, तस्या विधिमाह-- दौत्येन प्रहिताऽन्यया स्वयमेव नायकमभिगच्छेदजानती नाम तेन सहोपभोगं स्वप्ने वा कथयेद्, गोत्रस्खलिते भायाँ चास्य निन्देन् , तद्व्यपदेशेन स्वयमीयों दर्शयेद्, नखदशनचिन्हित वा किं चिद्दद्याद, भवतेऽहमादौ दातुं सङ्कल्पितेति चाभिदधीत, मम त्वार्याया वाऽऽकाररमणीयतेति विविक्ते पर्यनुयुञ्जीत, सा स्वयंदूती ॥ ५३ ॥ दौत्येनेति । दूतक्रियया, अन्यया नायिकया प्रहिता या स्वयमेव नायकमभिगच्छेत्कामयेत्सा स्वयंदूतीति संबन्धः, अभिगमोपायोप- देशमाह-अजानतो नामेति । अद्य स्वप्ने त्वयाऽहं किलापमुक्तति, गो. त्रस्खलितं निन्देद्, नेतदीदशं तदस्मदीयं नाम भूतं येन त्वया भार्याss. हूयत इति, भार्या चास्य निन्देद् युक्तमाह्वातुं यदेयं रूपवती गुणवती वा स्याद्, तद्वय पदेशेनेति । गोत्रस्खलितमपदिश्य स्वयमीळ दर्शयेत् सा हि दर्शिता कामं सूचयति, नखादिचिन्हितं भावसूचनार्थ, कविदिति । ताम्बूलशेखरयूगादिकं ददती चानुरागख्यापनार्थमिदं ब्रयादित्याह-भवत. इति । आकाररमणीयतेति। रमणहिततेति, विवि के तम्पर्यनुयुञ्जोत, किमयं? प्रतिपत्स्यत इति ॥ ५३ ।। तस्या विविक्ते दर्शन प्रतिग्रहश्च ॥ ५४ ॥ तस्या इति । स्वयं दूत्याः, विवि के दर्शनं प्रतिग्रहश्चाभियोगश्वास्या. नायकेन कार्य, यदि तामभिगच्छेद् ॥ १४ ॥ नायिकाऽपि कदा चिदातुरा विश्वास्यामपश्यन्ती स्वयं दूत्यं पति- पद्यत इत्याह-- दूतीच्छलेनान्यामभिसन्धायास्पाः सन्देशश्रावणदारेण नायकं. साधयेत् तां चोपहन्यात्साऽपि स्वयंदूती ॥ ५५ ॥ दूतीच्छलेनेति । दूतीव्याजेनान्यां काञ्चिदभिसंधाय; देवदत्तया प्रहिताऽहमिति; तस्या नायिकायाः सन्देशश्रावणद्वारेण नायकं साध- .

. . २५२ सटीके कामसूत्रे [ ५ अधिकरणे, येत्, तां तु नायिकामुपहन्याद् दोषख्यापनेनेति, स्वयंदूती साऽपि स्वयं सिद्धये प्रवृत्तत्वान्निसृष्टार्था एव द्रष्टव्या ॥ ५५ ॥ एतथा नायकोऽप्यन्यदूतश्च व्याख्यातः ॥५६॥ एतयेति । स्वयं दूत्या, दूतो व्याख्यातो द्विविधः ।। ५६ ॥ यदा सैत्र नायिका गूढत्वान्न स्वयं दूत्यं प्रतिपद्यते, तदा नायक तद्भार्ययाऽऽकारयेदित्याह-- नायकमायाँ मुग्धां विश्वास्यायन्त्रणयाऽनुपविश्य नायकस्य चेष्टितानि पृच्छेद्, योगाशिक्षयेत् , साकारं मण्डयेत्, कोपमेना. ग्राहयेद्, एवं च प्रतिपद्यस्वेति श्रावयेत् , खयं चास्यां नखदश- नपदानि निर्वतयेत् , तेन द्वारेण नायकमाकारयेत्सा मूढदूती॥५७॥ नायकभार्या चेति । मुग्धां = मृद्धी, विश्वास्य = विश्वासं प्राप्य, अयन्त्रणयेति । तस्या आत्मनश्च विविक्ते वियोगावेगेनानुप्रविश्य चेष्टि- तानि पृच्छेत्, साऽभिमुखा विश्वासिता निर्विशेषा सती नायकचेष्टितानि कथयति, योगा शिक्षयेदिति । बुद्ध्वा चेष्टितानि, तदनुरूपान् योगाञ्- शिक्षयेद्, योगज्ञां नायको ज्ञास्यतीति, साकारं मण्डयेत् , स्वाभिप्रायसू. चनार्थ, कोपमस्मिन्ग्राहयेद्, आत्मनोऽपीा दर्शयितुं चपलोऽय- मन्यस्यां सक्तः किमस्ति ? येन न कुप्यसीति, एवं व प्रतिपद्यस्व, यथा- हिमाचक्ष इति तां श्रावयेत् , तत्प्रतिपत्त्या नामानुकूल्यं ज्ञास्यतीति, स्वयं चास्यां भार्यायां नखदशनपदानि विदधीत संप्रयोगाभिलाषख्या- पनार्थ, तेनेति । यथोक्तेन द्वारेण, नायकमाकारयेदाकारं ग्राहयेद्, येनासौ संप्रयोगार्थिनीति विद्यात्, सेति । भार्या मूढदूती, दूत्यर्थापरि- ज्ञानादियं पत्नहारीप्रकारा द्रष्टव्या ॥ ५७ ॥ तस्यास्तयैव प्रत्युत्तराणि योजयेत् ॥ ५८ ॥ तस्या इति । नायिकायाः, तयैवेति । मूढदूत्या, प्रत्युत्तराणि = प्रत्य- भियोगान् योजयेत् ॥ ५८ ॥ 'नायकोऽप्यन्यदूतश्च व्याख्यातः' इत्युक्तं, तत्रागोवरे लजायां वा यदि स्वयं दौत्यं न प्रतिपद्यत, तदा स्वमायया तामाकारयेदित्याह-- स्वमायाँ वा मूढां प्रयोज्य तया सह विक्षासेन योजयित्वा तयैवाकारयेदात्मनश्च वैचक्षण्यं प्रकाशयेत् , सा भार्यादती तस्या- स्तयैवाकारग्रहणम् ॥ ५९ ॥ मूढाम् = अज्ञां, विज्ञा हि विकल्पयति,किमिति ? मामनया योजयतीति, । ।

। ४ अध्याये] दूतीकर्मप्रकरणम् । विश्वासेन हेतुना योजयित्वा, तयैवाकारयेत् स्वभार्ययाऽऽकारं ग्राहयेत्, प्रकाशयेत् , तदैवात्मनश्च कलासु वैचक्षण्यं कलाकौशल तयैव प्रकाश येत् , ला भार्यादूती पत्नहारीप्रकारा, तयैवभार्यादूत्या, तस्याः = ना- विकायाः, आकारग्रहणं प्रत्युत्तरग्रहणमित्यर्थः ॥ ५९ ॥ यदि स्वभार्याया न गोचरस्तदा किं प्रतिपद्यतेत्याह-- बालां वा परिचारिकामदोषज्ञामदुष्टेनोपायेन प्रहिणुयात् , तत्र स्रजि कर्णपत्रे वा गूढलेखनिधानं नखदशनपदं वा सा मूकदुती, तस्यास्तयैव प्रत्युत्तरमार्थनम् ॥ ६० ॥ बाला वा परिचारिकां न यां का चिद्,अदोषज्ञाम् = अधूर्ताम्, अदुष्टे- नेति । बालक्रीडनकायुपायेन, नायिकागृहं प्रति प्रतिदिनं प्रहिणुयात् , तत्रेति । तस्यां जातपरिचयायां गूढ लेखविधानं च वाचयित्वा, मां नाय. कोऽप्याकारयतीति, सा प्रतिपद्यते, नखदशनपदानि च सजि कर्णपत्रे वा निदध्यादिति योज्यं, सा मूकदूती, अर्थानभिलपनादियं पत्त्रहारी- प्रकारा, तस्या नायिकायास्तयैव प्रत्युत्तरप्रार्थनं, यदि तया कर्ण- पत्त्रात् पत्त्रं गृहीतं किमन्यन्न मृगयस इति ॥ ६०॥ यत्र बालाया अप्यगोचरस्तत्र किं प्रतिपद्यतत्याह- पूर्वप्रस्तुतार्थलिङ्गसम्बद्धमन्यजनाग्रहणीयं लौकिकार्थ व्यर्थ वा वचनमुदासीनया श्रावयेत्सा वातदृती, तस्या अपि तयैव प्रत्यु. तरमार्थनमिति तासां विशेषाः ॥ ६१ ॥ पूर्वप्रस्तुतेति । नायकयोर्यत्पूर्वप्रस्तुतं प्रवृत्तं कार्य तस्य चिह तेना. भिज्ञानार्थ सम्बद्धं वचनम्, अन्यजनाग्रहणीयं, ताभ्यामेव तदर्थस्य ग्रहणाद्, अत्र म्लेच्छित्तकविकल्पकला द्रष्टव्या, लौकिकार्थ च लोक. विदितार्थ, ह्यर्थमप्रस्तुतार्थस्यापि वाचकत्वाद्, उदासीनया न क्व चित्प्रतिबद्धया, एवं च सा वातदूतीत्युच्यते, पत्त्रहारीप्रकारैव चेति, तयैव प्रत्युत्तरप्रार्थनं, तया हि प्रश्नस्य प्रतिप्रश्न याचेतेत्यर्थः, तासां. विशेषा निसृष्टार्थाऽऽदीनां स्वयंदूत्यादयो विशेषाः, एवमन्येऽपि विशेषा. यथासंभवमत्रैव द्रष्टव्याः, यथाहुर्बाभ्रवीया:--- 'पुत्रिका चित्ररूपाणि पशवः शुकसारिकाः । सर्वेषां गूढभावानां दूतकर्माणि कुर्वते, इति ॥ ६१ ॥ यास्तिस्रो दूत्य उक्तास्ताः का इत्याह- भवन्ति चात्र श्लोकाः- विधवेक्षणिका दासी भिक्षुकी शिल्पकारिका ।

ઉપૃષ્ઠ सटीके कामसूत्रे [५ अधिकरणे, । प्रविशत्याशु विश्वासं दूतीकार्य च विन्दति ॥ ६२ ॥ प्रविशति गृहमिति शेषः, विश्वासं दूतीकार्य च बिन्दति लभते ॥१२॥ सझेपेण दूतीकर्माण्याह- विद्वेषं ग्राहयेत्पत्यौ रमणीयानि वर्णयेत् । चित्रान्मुरतसम्भोगानन्यासामपि दर्शयेत् ॥ ६३ ॥ विद्वेषं ग्राहयेदिति । तस्य रूपादिप्रशंसाभिः 'अनुशयं ग्राहयेदु' इत्यादिना, रमणीयानि वर्णयेद् 'नायकस्य चरितमनुलोमतों कामितानि च कथयेद्' इत्यनेन, चित्रान्सुरतसम्भोगान्दर्शयेद् 'वृषतां चतुःषष्टिवि ज्ञतां संवर्णयेद्' इत्यनेन, अन्यासामपि तत्सखीनामग्रतो न केवलं. नायिकाया यतस्तास्तस्यै कथयन्ति ॥ ६३ ॥ नायकस्यानुरागं च पुनश्च रतिकौशलम् । प्रार्थनां चाधिकस्त्रीभिरवष्टम्भं च वर्णयेत् ॥ ६४ ।। नायकस्यानुरागं वर्णयेद् 'श्णु विचित्रम् इत्यादिना, पुनश्च रति- कौशलं वर्णयेत्प्रधानत्वादस्य प्रार्थनां चाधिकं स्त्रीभिर्वर्णयेद्, श्लाघ नीयया चास्य प्रच्छन्नं संयोगं भूतमभूतपूर्व वा वर्णयेद्' इत्यनेन, अवष्टम्भं च नायिकाविषयं निश्चयं तदङ्क शयनं श्मशान शयनं वा, यदु. कम्-- 'शक्यमनेन मरणमप्यनुभवितुम्' इति ॥ ६४ ॥ प्रथमेऽधिकरणे पटुताऽऽदयो दूतगुणा उक्ताः, तेषां पटुता प्रधान मिति दर्शनार्थमाह-- असङ्कल्पितमप्यर्थमुत्सृष्टं दोपकारणात् । पुनरावर्तयसेव दूती वचन कौशलात् ।। ६५ ॥ इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे दूतीकर्माणि चतुर्थोऽध्यायः। असंकल्पितमपीति । दोषकारणादिति । व्यावृत्तिकारणाद्, नायकेन सन् विकल्पितो न विचिन्तितः, दूती पुनस्तमावर्तयत्यभिमुखीकरोति, वचनकौशलात् पटुतायोगात् ॥ ६५ ॥ इति दूतीकर्माणि षट्चत्वारिंशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां पारदारिके पञ्चमेऽधिकरणे दूतीकर्माणि चतुर्थोऽध्यायः ।

५ अध्याये] ईश्वरकामितप्रकरणम् । २५५ Manipawan STEM क पञ्चमोऽध्यायः। ईश्वराणां परगृहप्रवेशाभावात्कामितं न सम्भवति, प्रायशस्तत्र दूतीकर्माधिक्रियत इति, तदनन्तरमीश्वरकामितमुच्यते, यदाह- न राज्ञां महामात्राणां वा परभवनप्रवेशो विद्यते, महाजनेन हि चरितमेषां दृश्यतेऽनुविधीयते च ॥ १ ॥ महाजनेनेति। जनसमूहेनैतेषां चरितं दृश्यते सर्वदा तदनुगतत्वाद्, यदि दृष्टं तदा को दोष इत्याह--अनुविधीयते चेति। 'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः' इति ॥ १॥ तदेव दृष्टान्तेन दर्शयति- सवितार मुद्यन्तं त्रयो लोकाः पश्यन्त्यनूद्यन्ति च, गच्छन्त- मपि पश्यन्त्यनुप्रतिष्ठन्ते च ॥ २ ॥ संवितारमिति । सविता लोकेषु श्रेष्ठः, तमुद्यन्तं, पश्यन्तीति च. रित दर्शनम्, अनूद्यन्ति च तस्मिस्तूगते सुप्ताः प्रबुध्यन्त इति, चरितानु- विधानं, गच्छन्तमपि देशान्तरं पश्यन्तीति, चरितदर्शनम् , अनुप्रति- ष्ठन्ते च यथास्वं क्रियासु प्रवर्तन्त इति, चरितानुविधानम् ॥ २॥ तस्मादशक्यत्वाद्गहणीयत्वाच्च न ते वृथा किञ्चिदाचरेयुः ॥ ३ ॥ तस्मादिति । परगृहं प्रविश्य यत्परदाराभिगमनं तदशक्यं, महाज- नेन गहणीयत्वाच्च, इतरोऽपि जनोऽनुविदध्यादिति, शिष्टानां कुत्सनी. यं तस्मात्तदर्थ न ते किञ्चिदनुष्ठानमाचरेयुनिष्फलत्वात्स्वपरिग्रहेष्वपि सुखसम्भवात् ॥३॥ अवश्यं त्वाचरितव्ये योगान्प्रयुञ्जीरन् ॥ ४ ॥ अवश्यं त्विति । अन्यकारणवशात्स्थानान्तरयायिनो वा रागवशा. दाचरितव्ये, योगानिति । प्रयोगान् ॥४॥ ते द्विविधाः-प्रच्छन्नाः प्रकाशाश्च, ईश्वरा अपि द्विविधा:-क्षुद्रा- मुख्याश्च, तत्र क्षुद्रानधिकृत्य प्रच्छन्नानाह- ग्रामाधिपतेरायुक्तकस्य हलोत्थतिपुत्रस्य यूनो ग्रामीणयो- पितो वचनमात्रसाध्या, ताश्चर्षण्य इत्याचक्षते विटाः ॥ ५ ॥ ग्रामाधिपतेरिति । ग्रामभोक्तुरायुक्तस्याधिकृतस्य, हलोत्थवृत्तिा. मकूटः, तस्य ग्रामीणैः कर्षणफलिका दीयन्ते, तस्य पुत्रस्य, यून इति । प्रत्येक योज्यं, तेषामीश्वरत्वाद्वचनमात्रसाध्या नाभियोगमपेक्षन्ते, किं. सर्वा एवेत्याह-ताश्चर्षण्य इति ॥ ५ ॥ । ।

सटीके कामसूत्रे [५ अधिकरणे, । । ताभिः सह विष्टिकर्मसु कोष्ठागारप्रवेशे द्रव्याणां निष्क्रमण प्रवेशनयोर्भवनप्रतिसंस्कारे क्षेत्रकर्माण कर्पासोर्णाऽतसीशणवल्क लादाने मूत्रप्रतिप्रहे द्रव्याणां क्रयविक्रयविनिमयेषु तेषु तेषु च कर्मसु संप्रयोगः ॥ ६॥ ताभिरिति। चर्षणीभिः सह संप्रयोग इति, वक्ष्यमाणेन सम्बन्धः, अत्रोपायमाह-विष्टिकर्मस्विति । भक्तमात्रेण यानि पेषणकुट्टनरन्धना- दीनि कार्याणि तानि विधिकर्माणि, कोष्टागारप्रवेशे तत्रत्यं कर्म कर्तुः- प्रविष्टाभिः, द्रव्याणां धान्यादीनां कोष्ठागारान्निष्क्रमणे तत्र च प्रवेशे तत्र कर्म कर्तुं प्रविष्टाभिः, क्रियमाणे भवनप्रतिसंस्कारे गृहमण्डने क्षेत्र कर्मणि बीजानां रक्षणोत्पाटनादौ, कांसस्योर्णाया अतसीशणबल्क- लस्य च भाण्डागारात्सूत्रकर्तनाय दाने, सूत्रस्य च कर्तितस्य प्रतिग्रहे स्वीकारे कर्तनिकाभिः, द्रव्याणामिति । धान्यादीनां, क्रयविक्रयवि- निमयेष्विति । क्रतुं विक्रेतुवा प्रविष्टाभिः, तेषु तेषु चेति । राजकुलप्र. वेशहेतुषु ॥ ६॥ तथा ब्रजयोषिद्भिः सह गवाध्यक्षस्य ॥७॥ गोपीभिर्गवाध्यक्षस्य दधिमथनादिकर्मसु ॥७॥ विधवाऽनाथाप्रत्रजिताभिः सह मूत्राध्यक्षस्य ॥ ८॥ स ह्यधिष्ठाय राजकीयसूत्राणि विधवाऽऽदिभिः कर्तनिकाभिः कर्तः यति ॥८॥ मर्मज्ञत्वाद्रात्रावटने चाटन्तीभिनागरस्य ॥ ९ ॥ नगरे नियुक्तस्य दाण्डपाशिकस्य स्त्रीमर्मज्ञत्वाद्रात्रावटने चोदि. ताभिः ॥९॥ क्रयविक्रये पण्याध्यक्षस्य ॥ १० ॥ राजकीयपण्यानि ऋतुं विक्रेतुं च नियुक्तस्य ऋतृविक्रेतृस्त्रीभिः, संप्रयोग इति सर्वत्र योज्यम् ॥ १० ॥ मुख्यानधिकृत्य प्रच्छन्नानाह- अष्टमीचन्द्रकौमुदीमुवसन्तकादिषु पत्तननगरखर्चटयोषितामी- श्वरभवने सहान्तःपुरिकाभिः प्रायेण क्रीडा ॥ ११ ॥ अष्टमीति । कौमुदी कोजागरः, नगरखर्वटौ व्याख्यातो, पत्तनादि- कमुपलक्षणार्थ द्रोणमुखस्य, ईश्वरभवन इति । यस्य नगरादि भुज्यते तस्य भवने, आन्तःपुरिकाः = अन्तःपुरस्त्रियः ॥ ११ ॥ THURA ५ अध्याये] ईश्वरकामितप्रकरणम् । । BAR तत्र चापानकान्ते नगरस्त्रियो यथापरिचयमन्तःपुरिकाणां- पृथक्पृथग्भोगावासकान्प्रविश्य कथाभिरासित्वा पूजिताः प्रपीता- श्वोपनदोष निष्काम्येयुः ॥ १२ ॥ तत्रेति । क्रीडायाम्, आपानकान्त इति । आन्तःपुरिकाभिः सर्वाभि:- सह पेयं पीत्वा तदन्ते विशेषविधिमाह-नगरस्त्रिय इति । अत्रापि नगरखर्वटद्रोणमुखस्त्रियश्च, भोगावासकानिति । परिभोगप्रदेशान्, कथाभिरासित्वेति । आन्तःपुरिकाभिः सह कथाभिः स्थित्वा; पूजिता. आन्तःपुरिकाभिः, प्रपीता इति । प्रपीतमासां विद्यत इति मत्वर्थेऽकारः, उपप्रदोष-प्रदोषसमीपे, निष्क्राम्येयुर्दिनं राजभवनेऽतिवाह्य ॥ १२ ॥ तत्र प्रणिहिता राजदासी प्रयोज्यायाः पूर्व संसृष्टा तां तत्र संभाषेत ॥ १३॥ तत्रेति । अष्टमीचन्द्रादिषु, प्रणिहिता राज्ञा प्रयुक्ता, प्रयोज्याया इति । यामभिगन्तुमिच्छेत्, पूर्वसंसृष्टेति । पूर्वमेव या गृहं यात्वा संसर्ग कृत. वती, तामिति । प्रयोज्यां राजभवने प्रविष्टां, भाषेत कुशलपूर्वकम् ॥१३॥ रामणीयकदर्शने च योजयेत् ॥ १४ ॥ रामणीयकदर्शने च योजयेच , चित्तहरणार्थम् ॥ १४ ॥ प्रागेव स्वभवनस्थां ब्रूयात् ॥ १५ ॥ प्रागेवेति । राजभवनप्रवेशात्, स्वभवनस्थां ज्यादौत्सुक्यवार- णार्थम् ॥ ५॥ अमुष्यां क्रीडायां तव राजभवनस्थानानि रामणीयकानि दर्शयिष्यामीति काले च योजयेत् ॥ १६ ॥ अमुष्यामिति । येयमेष्यति, काले प्रज्ञाते च योजयेत् ॥ १६ ॥ रामणीयकरोचनान्याह- बहिः प्रबालकुट्टिमं ते दर्शयिष्यामि मणिभूमिकां वृक्षवाटिका मृद्वीकामण्डपं समुद्रग्रहमासादान्गूढभित्तिसंचारांश्चित्रकर्माणि क्री. डामृगान्यन्त्राणि शकुनान्व्याघ्रसिंह पारादीनि च यानि पुरस्ता. द्वर्णितानि स्युः ॥ १७ ॥ बहिरिति । प्रबालकुट्टिमं मणिभूमिकां स्फटिकाद्याकारां कृतकु. हिमां भूमि, वृक्षवाटिकां-पुष्पफलसमृद्धां, मृद्रीकामण्डपं द्राक्षाम- ण्डपं, समुद्रगृहप्रासादानिति । धारागृहान् प्रासादांश्च, गूढभित्तिसञ्चा- ३३ का० सू० MARA PARAN सटीके कामसूत्रे [५ अधिकरणे रानिति । गूढो भित्तिमध्यगतत्वाद् जलसञ्चारो येषु समुद्रगृहेषु, प्रासा- देष्वपि निष्कासनप्रवेशनलक्षणसञ्चारानिति योज्यं, यन्त्राणि सजी. वानि निर्जीवानि घटितान्यन्यानि च यानि कौतुकानि, क्रीडार्था ये मृगाः, शकुनकान्हंसादीन् , व्याघ्रपञ्जरान्व्याघ्राधिष्ठितान् , कस्याश्चि- देव व चित्कौतुकमुत्पद्यत इत्यनेकोपदर्शनम् ॥ १७ ॥ एकान्ते च तद्तमीश्वरानुरागं श्रावयेत् ॥ १८ ॥ एकान्त इति ! ईश्वरः कृतसङ्कतस्तिष्ठति, तद्गतमिति । त्वय्यनुर- क्त ईश्वर इति ॥ १८ ॥ संप्रयोगे चातुर्य चाभिवर्णयेत् ॥ १९ ॥ संप्रयोगेऽपि स्वेश्वरेण सत्यायति प्रभावं वर्णयेद्, येनापरिभूता वत्स्यसि ॥ १९ ॥ अमन्त्रश्रावं च प्रतिपन्नां योजयेत् ॥ २० ॥ अमन्त्रश्रावं च वर्णयेद् , आवाभ्यामन्यो न कश्चिजानातीति, प्रति- पन्नां संप्रयोग, योजयेदीश्वरेण ॥ २० ॥ अप्रतिपद्यमानायां विधिमाह- अप्रतिपद्यमानां तु स्वयमेवेश्वर आगत्योपचारैः सान्वितां. रञ्जयित्वा संभूय च सानुरागं विसृजेत् ॥ २१ ॥ अप्रतिपद्यमानां त्विति । उपचारैरिति । सगादिभिः पानादिभिश्च स्फीतैः सान्वितामभिमुखीकृताम् , उपचारैः स्त्रियो ह्रियन्त इत्यतिप्र. तीतमेतद् , रञ्जयित्वा तदनुकूलेन रतेन, सम्भूय चेति । दास्या नगर स्त्रीभिः संयोज्य विसृजेत् , सानुरागमिति क्रियाविशेषणं, यथा जानाति मय्यनुरक्त ईश्वर इति ॥ २१ ॥ प्रयोज्यायाश्च पत्युरनुग्रहोचितस्य दारान्नित्यमन्तःपुरमौ. चित्यात्प्रवेशयेत् , तत्र प्रणिहिता राजदासीति समानं पूर्वेण ॥२२॥ अनुग्रहोचितस्येति । ईश्वरस्य यः प्रसादवित्तकः, स च प्रयोज्यायाः- पतिः तस्य दारा, नित्यमिति । प्रत्यहमन्तःपुरं प्रविशन्ति, औचित्या. दिति । अनुग्रहोचितत्वादेव प्रवेशोऽपि तस्या उचित एवेति, तत्रेति । प्रविष्टायां प्रयोज्यायां, प्रणिहिता राजदासीत्यनेन पूर्वोक्तन समानम्, प्रयोगद्वयेऽप्यत्र प्रयोज्यानुप्रवेशस्य सुकरत्वाद्, दास्येव प्रयुक्ता ॥ २२ ॥ आन्तः पुरिका वा प्रयोज्या सह स्वचेटिकासंप्रेषणेन प्रीति. कुर्यात् , प्रमृतप्रीतिं च सापदेशं दर्शने नियोजयेत् , प्रविष्टां पूजितां. पीतवतीं प्रणिहिता राजदासीति समानं पूर्वेण ॥ २३ ॥ , । -- ५ अध्याये] ईश्वरकामितप्रकरणम् । . आन्तःपुरिका चेति । या का चिदीश्वरप्रयुक्ता चेटिकासंप्रेषणेन प्रीतिं कुर्यादात्मनो विश्वासासंभवात्, प्रसृतप्रोति च प्रयोज्यां सापदेशं- किंचित्कार्यमपदिश्य; तयैव चेट्या दर्शनेऽपि नियोजयेद्, यथा मां. द्रष्टुमागच्छेदिति ॥ २३ ॥ यस्मिन्या विज्ञाने प्रयोज्या विख्याता स्यात्तदर्शनार्थमान्तः- पुरिका सोपचारं तामाह्वयेत् , प्रविष्टा प्रणिहिता राजदासीति समानं पूर्वेण ॥ २४ ॥ यस्मिन्वेति । गीततन्त्रीवाद्यादिविज्ञाने, विख्यातां प्रवीणा, सोप- चारमिति । वस्त्रादिदानपूर्वकमाह्वयेद् , अत्र च प्रवेशस्यासंभवाद् आन्तःपुरिका द्वितीया प्रयुक्ता ॥ २४ ॥ उद्भूतानर्थस्य भीतस्य वा भार्या भिक्षुकी ब्रूयादसावान्ता. पुरिका राजनि सिद्धा गृहीतवाक्या मम वचनं शृणोति, स्वभाव. तश्च कृपाशीला तामनेनोपायनाधिगमिष्याम्यहमेव ते प्रवेश कार- यिष्यामि, सा च ते भतुर्महान्तमन) निवर्तयिष्यतीति प्रतिपन्नां- द्विस्त्रिरिति प्रवेशयेद्, आन्तःपुरिका चास्या अभयं दद्यादभयश्रव. णाच्च संप्रहृष्टां प्रणिहिता राजदासीति समानं पूर्वेण ॥ २५ ॥ उद्भूतानर्थस्येति । अर्थप्रतिघाति यत्कार्यं तदुत्पन्न यस्य, भीतस्य चेति । यो राजकुलाद्भोतस्तस्य जायां भिक्षुकी राजप्रणिहिता ब्रयाद् अस्मिन्प्रयोगे तृतीयाऽपरा प्रयुक्ता, साऽप्येवंविधं कार्य बुद्ध्वा; प्रयो. ज्यामान्तःपुरिकायां योजयति, राजनि सिद्धा प्रसादवित्तिका, गृहीत. वाक्येति । सा यदाह तद्राजा करोति, मम ववनं शृणोतीत्यात्मनो गृही- तवाक्यतामाह-स्वभावतः कृपाशीलेति । उत्कोचाभावं दर्शयति, तामने- नेति । तदानी बुद्धिविकल्पितेनोपायेन, कथं मम ? प्रवेश इति चेदाह- अहमेवेति । अनर्थमित्युपलक्षणार्थम्, भयं च निवर्तयिष्यति, द्विस्त्रिरिति । प्रवेशयेत्पश्चाज्जातपरिचया स्वयमेव प्रवेक्ष्यति, अभयमस्य दद्याद् , अभयं निवेदितवत्यै संप्रदृष्टामनुदिनां सम्भाषेत ॥ २५ ॥ एतया वृत्यर्थिनां, महामात्राभितप्तानां, बलाद्विगृहीतानां, व्य. वहारे दुर्बलानां, स्वभोगेनासंतुष्टानां, राजनि प्रीतिकामानां, रा. जभजनेषु व्यक्तिमिच्छता, सजातैर्वाध्यमानानां, सजातान्बाधितुका- मानां, सूचकानाम् , अन्येषां कार्यवशिनां, जाया व्याख्याताः॥२६॥ । ।

. । २६० सटीके कामसूत्रे [ ५ अधिकरणे, एतयेति । उद्भूतानर्थभीतजायया, वृत्यर्थिनां=जीवनार्थिनाम् , महामात्राभितप्तानां महामाः प्रभवद्भिः पीडितानाम् , बलाद्विगृहीतानां. राजवल्लभैव्यवहारे दुर्वलानां न्यायबलाभावात् , स्वभोगेन तावन्मात्रे. णासन्तुष्टानामधिकमिच्छता, राजनि प्रीतिकामानां क्व चित्परिभवं- मम मा काषींदिति, बाह्यजनेषु, व्यक्ति प्रसिद्धिम् , इच्छता, राज्ञः प्र. साद्योऽयमिति, सजातः=दायादैः, सूचकानाम् = उद्भाषकाणां, कार्य- वशिनामिति । कार्यार्थिनां, जाया व्याख्याताः, अत्रापि भिक्षुकी ब्रया. दिति योज्यम् , एते प्रच्छन्नयोगा अत्याजितस्वकुलासु स्त्रीषु ॥ २६ ॥ अन्येन वा सह संसृष्टां सङ्ग्राह्य प्रयोज्यां दास्यमुपनीतां क्र- मेणान्तःपुरं प्रवेशयेत् ॥ २७ ॥ अन्येनेति । येन केन चित्संसृष्टां कृतसंसर्गा, संग्राह्येति । नागर- केण संग्रहविधिना ग्राहयित्वा, दास्यमुपनीतामिति । प्रकाशविनष्ठाया. वेश्याविशेषत्वाद्, तां सामान्यस्त्रियं क्रमेणान्तःपुरं प्रवेशयेद्, न झटि- ति समनन्तरमेव मा भूदेतत्कृतः प्रयोग इति ॥ २७ ॥ प्रणिधिना चायतिमस्याः सन्दृष्य राजनि विद्विष्ट इति कल. प्रावग्रहोपायेनैनामन्तःपुरं प्रवेशयेदिति प्रच्छन्नयोगाः, एते राज- पुत्रेषु प्रायेण ॥ २८ ॥ प्रणिधिना =चारेण, सन्दूष्य सद्भतेनैव दोषेण, अन्यथा-अदुष्टदूष. णमधर्माय भवति, एवं चास्य कलत्रावग्रहो न दोषाय, एतद्योगद्वयं- स्याजितस्वकुलासु, एते राजपुत्रेषु प्रायेण न तु राज्ञः, तस्य मण्डले प्रतिष्ठितत्वात्कादाचिस्काः स्युः ॥ २८ ॥ ननु परभवनप्रवेशेनापि प्रच्छन्नयोगाः सम्भवन्ति, यदा दूत्या प्रयो- ज्यां सङ्केत्य प्रच्छन्नः प्रविशति, न च तदानी चरितं महाजनेन दृश्यतेऽ. नुविधीयते चेत्यत्राह- न त्वेव परभवनमीश्वरः प्रविशेत् ॥ २९ ॥ प्रविशेत्प्रच्छन्नोऽपीत्यर्थः ॥ २९ ॥ अत्र पूर्ववृत्तं दोषं दर्शयति आभीरं हि कोहराजं परभवनगतं भ्रातृप्रयुक्तो रजको जघान, काशिराज जयत्सेनमश्वाध्यक्ष इति ॥ ३० ॥ भाभीरं हीति । गूर्जराते कोर्ट नाम स्थानं, तस्य राजानमाभीरना- मानं, परभवनगतमिति । श्रेष्ठिवसुमित्रस्य भार्यामधिगन्तुं तद्भवनगतं.

५ अध्याये] ईश्वरकामितप्रकरणम् । २६१ । -- । रजको राज्याहेण तद्भात्रा प्रयुक्तो जघान, काशिराजं चेति। काशीस्थ. राजानं जयत्सेनमश्वाध्यक्षस्तद्भार्यामधिगन्तुं तद्भवनगतं जघानः ॥३०॥ प्रकाशास्तु योगा राज्ञः प्रायेण द्रष्टव्या यदाह- प्रकाशकामितानि तु देशप्रवृत्तियोगात् ।। ३१ ॥ देशप्रवृत्तियोगादिति । यो यस्मिन्देशे समाचारः पूर्वैः स्थापितस्त- द्योगादिति, अतो दृश्यमानान्यपि कामितानि महाजनेन नानुविधी यन्ते, राज्ञामेव तत्राधिकारात् ॥ ३१ ॥ प्रत्ता जनपदकन्या दशमेऽहनि किंचिदौपायनिकमुपगृह्य प्रविशन्त्यन्तःपुरमुपभुक्ता एव विसृज्यन्त इत्यान्ध्राणाम् ॥ ३२ प्रत्ता इति । ऊढा औपायनिकमुपायप्रयोजनं वस्त्रादि, उपभुक्ता राज्ञा संप्रयुक्ताः, विसृज्यन्ते त्यश्यन्ते, इत्यान्ध्राणां प्रवृत्तिः ॥ ३२ ॥ महामात्रेश्वराणामन्तःपुराणि निशि सेवाऽथ राजानमुपग- च्छन्ति वात्सगुल्मकानाम् ॥ ३३ ॥ महामात्राणां य ईश्वरा मुख्यास्तेषामन्तःपुराणि स्त्रियः, सेवाऽर्थ- मिति । सेवां कर्तुं, वात्सगुल्मकानामिति । दक्षिणापथे सोदयौँ राजपुत्रौ वत्सगुल्मौ ताभ्यामध्यासितो देशो वत्सगुल्मक इति प्रतीतः, तत्र भवानामियं प्रवृत्तिः ॥ ३३ ॥ रूपवतीर्जनपदयोषितः प्रीत्यपदेशेन मासं मासाध वा वास. यन्त्यान्तःपुरिका वैदर्भाणाम् ॥ ३४ ॥ रूपवतीरिति । प्रशंसायां मतुप , प्रीत्यपदेशेनेति । परस्परस्नेहभावः- प्रीतिस्तस्यापदेशः,संप्रयोगस्तु प्रयोजन, वासयन्ति, अन्तःपुर एवान्तः- पुरिकाः स्त्रियः, वैदर्भाणामिति । कालाञ्जराहक्षिणेन विदर्भो नामदेशः, तत्र भवानाम् ॥ ३४॥ दर्शनीयाः स्वभार्याः प्रीतिदायमेव महामात्रराजभ्यो ददत्य- परान्तकानाम् ॥ ३५ ॥ प्रीतिदायमिति । प्रीत्या यत् स्वस्वनि वृस्या दीयते ॥ ३५ ॥ राजक्रीडाऽर्थ नगरस्त्रियो जनपदस्त्रियश्व सङ्घ एकशश्च राज. कुलं प्रविशन्ति सौराष्ट्रकाणामिति ॥ ३६ ॥ राजक्रीडाऽर्थमिति प्रवेशस्य मिमित्तं, संप्रयोगस्तु प्रयोजन, नग- रं यत्र राजधानी तत्र स्त्रियो नगरस्त्रियः, ततो बाह्या जनपदस्त्रियः, ।

૨૨ सटीके कामसूत्रे [५ अधिकरणे, andeianRA संघश इति । संभूय, एकश इति । एकैकशश्च सौराष्ट्रकाणामिति ॥३६॥ उक्तमनुक्तं चोपसंहरन्नाह-- श्लोकावत्र भवतः- एते चान्ये च बहवः प्रयोगा: पारदारिकाः। देशे देशे प्रवर्तन्ते राजभिः संप्रवर्तिताः ॥ ३७॥ एते चेति । अन्ये चैवं प्रकाराः, पारदारिकाः = परदारप्रयोजनाः, एते देशे देशे प्रवर्तन्ते, पूर्वराजभिः संप्रवर्तितत्वात् ॥ ३७ ॥ अत्र प्रतिष्ठेयमाह- न त्वेवैतत् प्रयुञ्जीत राजा लोकहिते रतः । निगृहीतारिषड्वर्गस्तथा विजयते महीम् ॥ ३८ ॥ इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरण. ईश्वरकामितं पञ्चमोऽध्यायः । न त्वेवैतदिति । एतदिति, ईश्वरकामितम्, प्रवर्त्ततामिति, न प्रयु. जीत, लोकहिते रतः, यस्तु नैवं; स महीपतिर्न विजयते, अनिगृहीतारि. षड्वर्गत्वाद्, विजयस्य कारणं कामक्रोधलोभमानमदहर्षजय इति ॥३८॥ ईश्वरकामितं सप्तचत्वारिंशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां- पारदारिके पञ्चमेऽधिकरण ईश्वरकामितं पञ्चमोऽध्यायः। षष्ठोऽध्यायः। यथेश्वराणां परभवनप्रवेशो नास्ति तथाऽऽन्तःपुरिकाणां, नागर- काणां चान्तःपुरवेशः, इत्यान्तःपुरिकाणां नागरकाणां चोभयथाऽप्या- न्तःपुरिकावृत्तमुच्यते, तत्र पूर्वमधिकृत्याह- नान्तःपुराणां रक्षणयोगात्पुरुषसंदर्शनं विद्यते पत्युश्चकत्वाद नेकसाधारणत्वाचातृप्तिस्तस्मात्तानि योगत एव परस्परं रञ्ज. येयुः ॥ १ ॥ नान्तःपुराणामिति । तास्थ्यादान्तःपुरिकाणामित्यर्थः, तासां पतिर. स्यैवैति चेदाह-पत्युश्चैकत्वादिति । एकोऽपि तृप्तिं कुर्यादिति चेदाह- अनेकसाधारणत्वाञ्चेति । स हि तासां साधारणः कथं ? तृप्ति कुर्याद्, योगतः, परस्परमिति । या रतिमन्यस्यां कुर्यात्तस्यामन्येति ॥ १॥ -- winnar ६ अध्याये] आन्तःपुरिकाप्रकरणम्। प्रयोगमाह- धात्रेयिका सखी दासी वा पुरुषवदलंकृत्याकृतिसंयुक्तैः- कन्दमूलफलावयवैरपद्रव्यैर्वाऽऽत्माभिप्राय निवर्तयेयुः ॥ २ ॥ धात्रेयिकामिति । पुरुषवदलंकृत्येति । तत्र हि पुरुषवद् बुद्ध्याऽति मात्रे भावे तृप्तिरतिशयितवती भवति, आकृतिसंयुक्तैरिति । पुरुषेन्द्रिय संस्थानवद्भिः, कन्दमूलफलावयवैरिति । तत्र कन्दा आलुककदल्यादी. नाम्, मूलं तालकेतकीनाम्, फलमलाबुकर्कटिकाऽऽदीनाम्, एतानि संशोध्य ग्राह्याणीति, अवयवग्रहणे फलं दर्शयति-आत्माभिप्रायमिति । रागभावं, निवर्तयेयुः, केवलं श्रद्धाविनोदनं तथाविधकामस्याप्राधा- न्यात् ॥२॥ पुरुषप्रतिमा अव्यक्तलिङ्गाश्चाधिशयोरन् ॥ ३ ॥ पुरुषप्रतिमाः पुरुषदेहान् , अव्यक्तलिङ्गा अजातश्मश्रुत्वात्स्त्रीरूपा- भासानित्यर्थः॥३॥ एकोऽपि पतिः तृप्ति कुर्याधः कामार्तासु कृपाशीलः, यथा प्राच्या- नामित्याह- राजानश्च कृपाशीला विनाऽपि भावयोगादायोजितापद्रव्या. यावदर्थमेकया राज्या बहीभिरपि गच्छन्ति, यस्यां तु प्रीतिर्वासक- ऋतुर्वा तत्राभिप्रायतः प्रवर्तन्त इति प्राच्योपचाराः ॥ ४ ॥ राजान इति । विनाऽपि भावयोगादिति । अजातसंप्रयोगेच्छा अपि, आयोजितापद्रव्या इति । कट्यामाबद्धकृत्रिमसाधनाः,यावदर्थ = यावत्तृ- प्ति, बह्वीभिरपिस्त्रीभिः सह गच्छन्ति संप्रयोगमित्यर्थः, विशेषमाह-यस्यां- त्विति । प्रीतिः सहजः स्नेहः, वासका परिपाट्या शयनम्, ऋतु: अप. त्यार्थ, तत्र= तस्याम्, अभिप्रायतो भावेनेत्यर्थः, अयमन्तःपुरविषये योग उक्तः ॥ ४॥ स्त्रीयोगेणैव पुरुषाणामप्पलब्धवृत्तीनां वियोनिषु विजातिषु स्त्रीप्रतिमासु केवलोपमर्दनाच्चाभिप्रायनिवृत्तिाख्याता ॥५॥ स्त्रीयोगेणैवेति । यथा स्त्रीणां क्व चित्पुरुषबुद्धिमुत्पाद्याभिप्रायनिवृ. त्तिरेवं पुरुषाणामपि केषां चिदित्याह-अलब्धवृत्तीनामिति । ये स्त्रियं. न प्राप्नुवन्ति, वियोनिषु = बालोरुकवादिषु, विजातिषु = एडीबडवाऽऽ. दिषु, स्त्रीप्रतिमासु-स्त्रीप्रतिकृतिषु, समुत्कीर्णस्त्रीलिङ्गादिषु, केवलोप- मर्दनाच्चेति । सिंहाक्रान्तेन करेण वा साधनस्य मन्थनादेव केवलाद, ।

सटीके कामसूत्रे [५ अधिकरणे, २६४ AUR । यथोक्तम्-- 'भुवि विन्यस्तहस्ताभ्यामवष्टभ्योत्कटासनः। बाहुमध्ये विमृद्गीयास्सिहाक्रान्तेष्वयं विधिः ॥ अस्थानेषु शुक्रविसृष्टिर्विधर्म इति चेत् , स्वप्नाभिमाने कथं ? तत्र प्रायश्चित्तविधानादिति चेदिहापि विहितत्वात् ॥५॥ बहिर्विषयमाह- योषावेषांश्च नागरकान्प्रायेणान्तःपुरिकापरिचारिकाभिः सह प्रवेशयन्ति ॥६॥ योषावेषानिति । स्त्रीवेशान् , परिचारिकाभिरिति । प्रदोषे परिच. रितुमन्तःपुरं प्रविशन्तीभिः ॥६॥ तेषामुपावर्तने धात्रेयिकाश्चाभ्यन्तरसंसृष्टाः, आयति दर्शयन्य:- प्रयतेरन् ॥ ७॥ तेषामिति। नागरकाणामुपावर्तनेऽभिमुखीकरणे प्रयतेरन्, आभ्यन्त. रसंसृष्टा इति। तासु नागरकाणां यथाऽर्थबुद्धिः, न बाह्यासु, आयतिमिति। आगामि फलमेवं भविष्यतीति ॥७॥ सुखप्रवेशितामपसारभूमि, विशालतां बेश्मनः, प्रमादं रक्षिणा- मनित्यतां परिजनस्य, वर्णयेयुः ॥ ८ ॥ अपसारभूमि अपक्रमणमार्ग, विशालामिति । विस्तीर्णत्वान्न ज्ञायते क किं वर्तत इति, प्रमादम् = असावधानताम् , अनित्यतामिति । राजपरिजनो न नित्यं संनिहित इति ॥ ८॥ न चासद्भूतेनार्थेन प्रवेशयितुं जनमावर्तयेयुर्दोषात् ॥ ९ ॥ असदुद्भतेनेति । विना भावेन, सुप्रवेशितां विना च, जनमिति । ना. गरकम् , आर्वतयेयुरभिमुखीकुर्युः, दोषादिति । विना भावमदुष्टदूषणे, आत्मनः सुप्रवेशिताद्यभावे च जनस्यापकारः ॥ ९ ॥ द्वितीयं वृत्तमधिकृत्याह- नागरकस्तु सुप्रापामप्यन्तःपुरमपायभूयिष्ठत्वान्न प्रविशेदिति वात्स्यायनः ॥ १० ॥ अपायभूयिष्ठत्वादिति । बहूनां विनाशकारणानां संनिधानात् ॥१०॥ अत्र विशेषमाह- सापसारं तु प्रमदवनावगादं विभक्तदीर्घकक्षमल्पप्रमत्तरक्षक dam ६ अध्याये] आन्तःपुरिकावृत्तप्रकरणम् । प्रोषितराजकं कारणानि समीक्ष्य बहुश आहूयमानोऽर्थबुद्ध्या कक्षाप्रवेशं च दृष्ट्वा ताभिरेव विहितोपायः प्रविशेत् ॥ ११ ॥ प्रमदवनं क्रीडावनं, तेनावगाढंगहनं, कक्षाः =प्रकोष्ठकानि, प्रोषि. तराजकं राज्ञोऽन्यत्र गतत्वात् , कारणान्यभिगमनस्य, बहुश आहूय- मानोऽर्थबुद्ध्या, कक्षाप्रवेशं दृष्ट्वा; अनेन मार्गेण मया प्रवेष्टव्यमिति, ताभि- रिति । या उपावर्तयन्ते, विहितोपाय इति । एवं वेषोऽस्मिन्काले, गृही. त्वा चेममिति ॥ ११॥ शक्तिविषये च प्रतिदिनं निष्क्राम्येत् ॥ १२ ॥ शक्तिविषये चेति । येन प्रतिदिनं निष्क्रमितुं शक्तिस्तस्मिन्सति॥१२॥ इदमुपावर्तनस्य वृत्तं, यस्तु स्वयमुपावर्तते तस्य वृत्तमाह- बहिश्च रक्षिभिरन्यदेव कारणमपदिश्य संसृज्येत ॥ १३ ॥ बाह्या ये रक्षिणस्तैः सह, अन्यदेवेति । अमुकसम्बन्धेन मम त्वं भ्राता भगिनीपतिति, संसृज्येत=प्रीतिं कुर्याद्, येन तेषां तन्निवारणे शथि- ल्यं स्यात् ॥ १३ ॥ अन्तश्चारिण्यां च परिचारिकायां विदितार्थायां सक्तमात्मानं. रूपयेत , तदलाभाच्च शोकम् ॥ १४ ॥ विदितार्थायामिति । मय्यनुरक्त इति, विदितार्थायां, सक्तं निरूपये. प्रकाशयेदाकारसंचरणार्थम् , एवं च दाढ्यार्थमाह-तदलाभादिति । परिचारिकाया अप्राप्तः शोकं निरूपयेदित्येव ॥१४॥ अन्तःप्रवेशिनीभिश्च दृतीकल्पं सकळमाचरेत् ॥ १५ ॥ अन्तःप्रवेशिनीभिश्चेति। बाह्याभिरन्तःपुरप्रवेशनशीलाभिः स्त्रीभिः- कारणभूताभिः, दूतीकल्पं = दूतीविधानं यथोक्तम् ॥ १५ ॥ राजप्रणिधींश्च बुध्येत ॥ १६ ॥ राजप्रणिधींश्चेति । राजचरान् बुध्येतात्मसंरक्षणार्थ, यत्र यस्मि- प्रदेशे दूरस्थाया एव दर्शनयोगः ॥ १६ ॥ दूत्यास्त्वसंचारे यत्र गृहीताकारायाः प्रयोज्याया दर्शनयोग- स्तत्रावस्थानम् ॥ १७ ॥ गृहीताकाराया इति । अन्यथा सत्यपि दर्शनयोगेऽवस्थानं निष्फल- मेव स्यात् ॥ १७॥ तस्मिन्नपि तु रक्षिषु परिचारिकाव्यपदेशः ॥ १८ ॥ तस्मिन्नपि तु प्रदेशे स्थितेन रक्षिषु परिचारिकाव्यपदेशः कार्यः, यस्यामात्मा सक्तो निरूपितः ॥ १८ ॥ ३४ का० सु० सटीके कामसूत्रे [५ अधिकरणे, । NRNAMHARAN चक्षुरनुवघ्नत्यामिङ्गिताकारनिवेदनम् ॥ १९ ॥ चक्षुरनुबध्नत्यामिति । पुनः पुनः पश्यन्त्यां प्रयोज्यायाम्, इङ्गिताका. रनिवेदनं भावसूचनार्थम् ॥ १९ ॥ यत्र संपातोऽस्यास्तत्र चित्रकर्मणस्तयुक्तस्य व्यर्थानां गीतवस्तुकानां. क्रीडनकानां कृतचिहानामापीडकस्याङ्गुलीयकस्य च निधानम् ॥२०॥ सम्पात इति । यत्रोद्देशे सम्यग्गमनं, तद्युक्तस्येति । प्रयोज्यायुः तस्थ, सानुरागमात्मानं फलके भित्तौ वा विलिख्य निदध्याद्, द्या. नामिति । यानि प्रयोज्याविषयमनुरागं सूचयन्ति, गीतवस्तूनां खण्डगा. थावर्णादीनां पत्रस्थानां, क्रीडनकानां पुत्रिकाकन्दुकादीनां कृतचिह्नानाम् , आपीडकस्य नखदशनपदाङ्कितस्य, अङ्गुलीयकस्य स्वनामाङ्कितस्य ॥२०॥ प्रत्युत्तरं च तया दत्तं प्रपश्येत, ततः प्रवेशने यतेत ॥२१॥ प्रत्युत्तरं चेति । तयाऽन्यया वा दत्तं प्रकण पश्येत्, तत इति । ल्यब्लोपे पञ्चमी, सानुरागं प्रत्युत्तरं दृष्ट्वेत्यर्थः, यत्नः क्रमणम् ॥ २१ ॥ प्रवेशोपायमाह- यत्र चास्या नियतं गमनमिति विद्यात्तत्र प्रच्छन्नस्य प्रागेवा- वस्थानम् ॥ २२॥ यत्रेति । उद्यानादौ, प्रच्छन्नस्य गूढस्यावस्थानं प्राङ् नायिकागम नात्, तदानीं गमनं तु लक्षितं भवति ॥ २२ ॥ रक्षिपुरुषरूपो वा तदनुज्ञातो वेलायां प्रविशेत् ॥ २४ ॥ रक्षिपुरुषरूपो वेति । रक्षिपुरुषव्यञ्जनः, तदनुज्ञातो रक्षिणाऽनुमतो वेलायां रात्रौ॥ २३॥ आस्तरणप्रावरणवेष्टितस्य वा प्रवेशनिहारौ ॥ २३ ॥ आस्तरणं-कुथातूलकादि, आवरणं = कम्बलादि, तद्वेष्टितस्य तस्य स्त्रिया पुरुषेण वा गृहीतस्य, निहार:= निष्क्रमणम् ॥ २४ ॥ पुटापुटैयोगैर्वा नष्टच्छायारूपः ॥ २५ ॥ पुटापुटैरिति । मञ्जूषायां सपिधानायां प्रक्षिप्तस्य योगैरन्तर्धानयो- गैराम्नायागतैः ॥ २५॥ तत्रायं प्रयोगो नकुलहृदयं चोरकतुम्बीफलानि सर्पाक्षीणि चान्तधूमेन पचेत्, ततोऽञ्जनेन समभागेनोदकेन पेषयेदनेनाभ्यक्तः नयनो नष्टच्छायारूपश्चरति ॥ २६॥ ।

६ अध्याये] आन्तःपुरिकावृत्तप्रकरणम् । Mayamani MOHARIOR । नष्टच्छायारूपश्वरतीति । कश्चिद्पमेव तिरस्करोति न च्छायां, यैरु- भयमपि न दृश्यते ॥ २६ ॥ रात्रिकौमुदीषु च दीपिकासंबाधे सुरङ्गया वा ॥ २७ ॥ रात्रिकौमुदीषु चेति । सुखरात्रिकासु वा, दीपिकासंबाधे गृहीत. दीपिकानां चेटिकानां समूहे, तद्वेषधारिणः, सुरङ्गया वा, अन्तःपुरोद्भि- नया, प्रवेशनिहर्हारी सर्वत्र योज्यौ ॥ २७ ॥ प्रवेशननिर्हारयोरेतद्वक्ष्यमाणमुपायान्तरमाह भवन्ति चात्र श्लोकाः 'द्रव्याणामपि निहारे यानकानां प्रवेशने । आपानकोत्सवार्थेऽपि चेटिकानां च संभ्रमे ॥ २८ ॥ द्रव्याणामिति । सारदादीनां, यानकानां-युग्यादीनां, कर्मकरै। निहारे प्रवेशने च तन्मध्यवर्तिनोऽपि प्रवेशनं निष्क्रमणं चेति, सर्वत्र यो. ज्यम् , आपानकमुत्सवः, चार्थेऽपिः, चेटिकानां च, संभ्रमे = इतस्ततो. गमने ॥ २८॥ व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये । उद्यानयात्रागमने यात्रातश्च प्रवेशने ॥ २९ ॥ व्यत्यास इति । आन्तःपुरिकाणां वेश्मपरिचये कर्मकरवेशस्य, रक्षिणां विपर्यये द्वारान्तरगमने, तथा हि-न ज्ञायते क प्रात्मीयः कः- पर इति, यात्रातश्चेति । चकारादुद्यानतश्च ॥ २९ ॥ दीर्घकालोदयां यात्रां प्रोषिते चापि राजनि । प्रवेशने भवेत्यायो यूनां निष्क्रमणं तथा ॥ ३० ॥ दीर्घकालोदयामिति । दीर्घकाल उदयः फर यस्याः, शत्रुन यान- मात्रसाध्यो भवतीत्यर्थः। ॥३०॥ ननु या नैवंविधा आन्तःपुरिकास्ताभिर्मन्त्रो भिद्यतेत्याह- परस्परस्य कार्याणि ज्ञात्वा चान्त:पुरालयाः । एककार्यास्ततः कुर्युः शेषाणामपि भेदनम् ॥ ३१ ॥ परस्परस्येति । कार्याणि रहस्यानि, आन्तःपुरिकाः, एककार्या इति । एकस्या यत्कार्य तत्सम्भूयास्माभिनिष्पाद्यमिति, कृतसङ्गानां, शेषाणां- भेदनं कुर्युर्यथा ता अपि समानधर्मिण्यः स्युः ॥ ३१ ॥ किं फलमिति चेदाह- दृषयित्वा ततोऽन्योन्यमेककार्यार्पणे स्थिरः । अभेद्यतां गतः सद्यो यथेष्टं फलमश्नुते ॥ ३२ ॥ क an सटीके कामसूत्रे [ ५ अधिकरणे, दूषयित्वेति । एककार्यार्पण इति । एकं चारित्रखण्डनाख्यं कार्य: परस्परस्यार्पयति य आन्तःपुरिकासंघः,अभेद्यतां गतो मन्त्रभेदाभावादेवं. च स्थिरः॥ ३२॥ इदमान्तःपुरिकावृत्तं प्रच्छन्नमुक्तम् , प्रकाशं तु देशप्रवृत्त्या, यदाह- तत्र राजकुलचारिण्य एव लक्षण्यान्पुरुषानन्तःपुरं प्रवेशयन्ति नातिसुरक्षत्वादापरान्तिकानाम् ॥ ३३ ॥ तत्रेति । राजकुलचारिण्यो या राजकुले चरन्ति स्त्रियः, लक्षण्या- निति । ये स्यादिलक्षणे साधवस्तज्ज्ञास्तानित्यर्थः, नातिसुरक्षत्वादिति । नात्यन्तं स्वा राजकीयास्तत्र रक्षन्ति ॥३३॥ क्षत्रियसंज्ञकैरन्त पुरक्षिभिरेवार्थ साधयन्त्याभीरकाणाम्॥३४॥ क्षत्रियसंज्ञकैरिति । नान्यै रक्षिभिः, तेषां तत्राभ्यन्तरप्रवेशाद्, अर्थ. मिति | सम्प्रयोगं साधयन्ति राजकुलचारिण्य इत्येव ।। ३४ ॥ प्रेष्याभिः सह तद्वेषान्नागरकपुत्रान्प्रवेशयन्ति वात्सगुल्मका• । । नाम् ॥ ३५॥ प्रेष्याभिरिति । दासीभिः, तद्वेषान् = दासीवेषान्, प्रवेशयन्ति, राज कुलचारिण्य इति वर्तते ॥ ३५॥ स्वैरेव पुत्रैरन्तःपुराणि कामचारैजननीवर्जमुपयुज्यन्ते वैदर्भ- काणाम् ।। ३६ ॥ स्वैरिति । राजापेक्षया, कामचारैरिति । अनिषिद्धसञ्चारैः, जन- नीवर्जमिति । मुख्यमातरं मुक्त्वा, उपयुज्यन्ते = अभिगम्यन्ते ॥ ३६ ॥ तथा प्रवेशिभिरेव ज्ञातिसंबन्धिभिनान्यरुपयुज्यन्ते स्वैराज- कानाम् ॥ ३७॥ तथा प्रवेशिभिरिति । राजपुत्रवत् प्रवेशिभिः, ज्ञातिसम्बन्धिभिः, नान्यरुपभुज्यन्ते, स्त्रैराजकानामिति । स्त्रीराजः स्त्रीपुरी, तत्र भवा. नाम् ॥ ३७॥ ब्राह्मणैर्मित्र त्यासचेटैश्च गौडानाम् ॥ ३८ ॥ मित्वैर्भूत्यैरिति । मिस्त्रैर्भूत्यैश्च, दासचेटैरिति । दासा गृहजाता स्ततोऽन्ये चेटाः, गौडानामिति । गौडाः कामरूपकाः प्राच्यविशेषाः ॥३८॥ परिस्कन्दाः कर्मकराश्चान्त:पुरेष्वनिषिद्धा अन्येऽपि तद्रूपाश्च सैन्धवानाम् ॥ ३९ ॥ परिस्कन्दाः-प्रतीहाराः, कर्मकराः = शयनासनचमरादिकर्म करा, - ।

। । ६ अध्याये] दाररक्षिकप्रकरणम् । २६९ अन्येऽपि तद्रूपा येऽनिषिद्धसंचाराः, उपयुज्यन्त इत्यर्थकत्वाद्विभक्तिवि परिणामेन संबन्धः, सैन्धवानामिति । सिन्धुनामा नदस्तस्य पश्चिमेन सिन्धुदेशस्तत्र भवानाम् ॥ ३९ ॥ अर्थेन रक्षिणमुपगृह्य साहसिकाः संहताः प्रविशन्ति हैमवता. नाम् ॥ ४०॥ अर्थेनोपगृह्य रक्षिणां लुब्धत्वात्, साहसिका निर्भया नान्ये, संहता. एकीभूय, हैमवतानामिति । हिमवद्रोणीभवानाम् ॥ ४० ॥ पुष्पदाननियोगानगरब्राह्मणा राजविदितमन्तःपुरानि गच्छ. न्ति पटान्तरितश्चैषामालाप:, तेन प्रसङ्गेन व्यतिकरो भवति बङ्गाङ्गकलिङ्गकानाम् ॥ ४१ ॥ नेगरब्राह्मणा इति । तत्रैव नगरे ये ब्राह्मणास्ते पुष्पाणि दातुमन्तःपुरं. गच्छन्ति, राजविदितमिति । राजप्रज्ञातम् , पटान्तरितश्चैषामालापो. न ताभिः साक्षाद् दृश्यमानाभिरिति देशस्थितिः, तेनेति । पुष्पदानप्र- सङ्गेन, व्यतिकरः संप्रयोगः, बङ्गाः तिरुहितात् पूर्वेण, अङ्गा महानद्याः पूर्वेण, कलिङ्गा गौडविषयाइक्षिणेन ॥४१ ॥ संहत्य नव दशेत्येकैकं युवानं प्रच्छादयन्ति प्राच्यानामिसेवं- परस्त्रियः प्रकुर्वीत ॥ ४२ ॥ इत्यानतःपुरिकावृत्तम् ॥ संहत्य नव दशेतीति । अत्रेतिशब्दः प्रकारे, एकैकं युवानं व्यवायक्ष. मं प्रच्छादयन्ति न यथा दृश्यते, एवमित्युक्तेन पारदारिकेण विधिना प्र. कुर्वीताभिगच्छेत् ॥ ४२ ॥ इत्यान्तःपुरिकावृत्तमष्टचत्वारिंशं प्रकरणम् ॥ यथा परस्त्रियमेभिरुपायैरभिगच्छेत्तथा तद्दारानपरोऽपीति, दार- रक्षिकमुच्यते, दाररक्षा प्रयोजनमस्येति, यदाह- एभ्य एव च कारणेभ्यः स्वदारान्रक्षेत् ॥ ४३ ॥ एभ्य एवेति । कारणेभ्य इति । निमित्तेभ्यः, तत्र व्यावर्तनकारणब. धनेन तदुच्छेदनकारणेभ्यो रक्षेत्, तथा सिद्धपुरुषेभ्यः, यैश्च द्वारदे. शावस्थानादिभिः कारणैरभियोगमात्रसाध्यत्वं, यानि च परिचयकार- णानि, अभियोगदूतीकर्माणि, ईश्वरकामितोपाय आन्तःपुरिकावृत्तं च तेभ्यो रक्षेत्, तत्रायं प्रथमो रक्षणोपायो यद्रक्षानिवेशनम् ॥ ४३ ॥ यदाह- कामोपधाशुद्धान्रक्षिणोऽन्तःपुरे स्थापयेदियाचार्याः ॥४४॥ ।

२७०
सटीके कामसूत्रे
[५ अधिकरणे
कामोपधेति । कामविषये या परीक्षा तया शुद्धान् ॥ ४४ ॥
ते हि भयेन चार्थेन चान्य प्रयोजयेयुस्तस्मात्कामभयार्थीपधा.
शुद्धानिति गोणिकापुत्रः ॥ ४५ ॥
ते होति । यद्यपि स्वयं कामोपधाशुद्धा नाभिगच्छन्ति, तथाऽपि भयेन
लोभेन वाऽन्यं प्रयोजयेयुस्तदशुद्धिसंभवात्तस्मात् कामभयार्थोपधाशु.
द्धान् स्थापयेदिति गोणिकापुत्रः ॥ ४५ ॥
अद्रोहो धर्मस्तमपि भयाज्जह्यादतो धर्मभयोपधाशुद्धानिति
वात्स्यायन:॥ ४६॥
धर्मभयोषधाशुद्धानिति । वात्स्यायन एवं मन्यते धर्मोपधाशुद्धो न
परदारानभिगच्छति, नार्थलोभात्स्वामिद्रोहमाचरति, भयात्तु धर्म परि-
त्यजेदिति ॥ ४६॥
स्वदारेषु परीक्षणमपि रक्षणोपाय इति के चिदित्याह-
परवाक्याभिधायिनीभिश्च गूढाकाराभिः प्रमदाभिरात्मदारा.
नुपदध्याच्छौचाशौचपरिज्ञानार्थमिति बाभ्रवीयाः ॥ ४७ ॥
परवाक्येति । अमुकस्त्वय्यनुक्तः स एवमाह-मम प्राणा धार्यन्ता-
मिति । गूढाकाराभिरिति । यथा सा न जानाति पत्या प्रयुक्तति, तयो-
पदध्यात्परीक्षेत, तथा ह्यप्रतिपन्नायाः शौचं, प्रतिपन्नायाश्चाशौचं ज्ञातं.
भवति॥४७॥
दुष्टानां युवतिषु सिद्धत्वान्नाकस्माददुष्टदूषणमाचरेदिति वा.
त्स्यायन: ।। ४८॥
दुष्टानामिति । विनाशकारणानामित्यर्थः, एवं मन्यते विनाशकारणेषु
सत्स्वसत्सु वा परीक्षावान्स्यात् , तत्र पूर्वस्मिन्पक्षे दुष्टानां युवतिषु
प्रत्यक्षेण सिद्धत्वात् कि परीक्षया, द्वितीयेऽप्यकस्मात् कारणेन विना,
नादुष्टानामविद्यमानविनाशकारणानां दूषणमाचरेद्, शुद्ध शोधनस्य दोष-
वत्त्वाद्, यथाक्तम्--
न शोधनमदुष्टस्य विशेषेणाभ्भसश्चरेत् ।
कदा चिद्धि प्रदुष्टस्य नाधिगम्येत भेषजम् ॥४८॥
तस्माद्विनाशकारणान्येव निरूप्यानि, येभ्यो व्यावर्तनेनोपध्या-
दित्याह-
अतिगोष्टी, निरङ्कुशात्वं, भर्तुः स्वैरवा, पुरुषैः सहानियन्त्र-
णता, प्रवासेऽवस्थानं, विदेशे निवासः, स्वत्त्युपघाता, स्वैरिणी-
संसर्गः, पत्युरी|लुता, चेति स्त्रीणां विनाशकारणानि ॥ ४९ ॥

६ अध्याये] दाररक्षिकप्रकरणम् । २७१ अतिगोष्ठी = स्त्रीभिः सह सदा गोष्ठी, भर्तुःस्वैरता भर्ना स्वातन्त्र्येण व्यवहारिता, पुरुषैः यः कैश्चिदनियन्त्रणता=नियन्त्रणाभावः, प्रघासेऽव. स्थानं = भर्तरि प्रोषिते यदेकोकिन्याऽवस्थातव्यं, विदेशे वासः = स्वस्था- नादन्यस्मिन् स्थाने वासः, स्ववृत्त्युपघातः = स्वशरीरस्थित्युपधातो ग्रा. साच्छादनवैकल्याद्, स्वैरिण्याः पुंश्चल्याः संसर्गः, पत्युरीयालुतेति । पत्याचीासम्भव इति विनाशकारणानि, एषु सत्सु परदाराभिमर्शयो- गसम्भवात् ॥ ४९ ॥ अधिकरणार्थमुपसंहरन्नाह- संदृश्य शास्त्रतो योगान पारदारिकलक्षितान । न याति च्छलनां कश्चित्स्वदारान्मति शास्त्रविद ॥ ५० ॥ पारदारिकलक्षितानिति । पारदारिकेऽधिकरणे ये प्रोक्तास्तैर्लक्षि. तान् , शास्त्रविदिति । अन्यथा कथमेताः शास्त्रतः पश्येत् ॥ ५० ॥ पाक्षिकत्वासयोगाणामपायानां च दर्शनात् । धर्मार्थयोश्च वैलोम्यान्नाचरेत्पारदारिकम् ॥ ५१ ॥ पाक्षिकत्वादिति । यदाऽन्यकारणानि पश्येद् , अपायानां च शरी- रोपघातादीनां, वैलोम्यादिति । विपक्षत्वात् , परदारप्रयोजनप्रयोग- नाचरेदिति ॥५१॥ तहि किमर्थं ? तदधिकरणमुक्तमिति चेदाह- तदेतदारगुप्त्यर्थमारब्धं श्रेयसे नृणाम् । प्रजानां दृषणायैव न विज्ञेयो ह्ययं विधिः ॥ ५२ ॥ इति श्रीवात्स्यायनीये कामसत्रे पारदारिके पञ्चमेऽधिकरण- आन्तःपुरिकं दाररक्षिकं षष्ठोऽध्यायः । तदेतदिति । श्रेयस इति । अन्यथा खण्डितचारित्रायां सर्वधर्मवि. लोप: स्यात् , प्रजानामिति । न हि तदर्थमुख्यं विधानमित्यर्थः इति दाररक्षिकमेकोनपञ्चाशत्तमं प्रकरणम् । इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां पारदारिके पञ्चमेऽधिकरण आन्तःपुरिकं दाररक्षिकं षष्ठोऽध्यायः । । 000000 ALNA IMIRECIATASUR HOM समाप्तं चेदं पारदारकं नाम पञ्चममधिकरणम् । Docio- वैशिकं नाम षष्ठमधिकरणम् । प्रथमोऽध्यायः। तिसृभिर्नायिकाभिः समागमोपाय उक्तो वेश्याभिः सह वक्तव्य- स्तदर्थं वैशिकमधिकरणमुच्यते, तत्र सहायादिनिरूपणव्यापारपूर्वक त्वादुत्तरव्यापारस्य सहायगम्यागम्यगमनकारणचिन्तोच्यते, 'वेश्य योस्तुल्येऽपि रतिफले वेश्याया एव प्रयोक्तृतया तत्राधिकारः, न पुंसः तत्प्रतिबद्धत्वाजीविकायास्तदाह- वेश्यानां पुरुषाधिगमे रतिर्दृत्तिश्च सर्गात् ॥ १॥ मिति । पुरुषस्याधिगमे प्राप्तौ सतीति शेषा, रतिविसृष्टि- सुखं, वृत्ति विका, अर्थोपादानात, सादिति । सृष्टः, एषैव हि सृष्टिर्य- कामोऽर्थाधिगमश्च वेश्यानां, कामोऽर्थनाशश्च पुंसामिति ॥ १॥ रतितः प्रवर्तनं स्वाभाविक, कृत्रिममर्थार्थम् ॥ २ ॥ रतित इति । तत्र द्वयोः फलयोर्यदा रतिमभिसंधाय प्रवर्तनं तदा स्वाभाविक, तत्र रागस्य सहजत्वाद्, यदा त्वर्थमभिसंधाय तदा कृत्रिम, रागाभावात् ॥२॥ तदपि स्वाभाविकवद्रूपयेत् ।। ३ ।। तदपीति । तदपि कृत्रिमं स्वाभाविकवद्र्पयेत्प्रकाशयस्कान्ता- नुवृत्त्या ॥३॥ किमर्थ तत्राह- कामपरासु हि पुंसां विश्वासयोगात् ॥ ४ ॥ कामेति । स्नेहन मयि वर्तत इति पुंसां विश्वासयोगः =सकियांगः, न त्वर्थपरासु ॥ ४॥ कामपरतां च ख्यापयन्ती नार्थरूपतामपि ख्यापयेदित्याह- अलुब्धतां च ख्यापयेत्तस्य निदर्शनार्थम् ॥ ५ ॥ अलुब्धतामिति । तस्य निदर्शनार्थमिति । स्वाभाविकत्वस्य ख्याप नार्थम् ॥ ५॥ एवं च सति सक्ताद्वित्तादानमपि स्वाभाविक सिद्धं भवति, तत्रापि विनोपायेन नाददीतेत्याह- न चानुपायेनार्थान्साधयेदायतिसंरक्षणार्थम् ॥ ६ ॥ ANAANANEL १ अध्याये] सहायगम्यागम्यगमनकारणचिन्ताप्रकरणम् । २७३ MANOR नचेति। आयतीति । आयतिः प्रभावः ॥६॥ तत्र सहायचिन्तामाह-- नित्यमलंकारयोगिनी राजमार्गावलोकिनी दृश्यमाना न चातिविवृता तिष्टेत पण्यसधर्मत्वात् ॥ ७ ॥ नित्यमिति । सदाऽलंकृता स्यादन्यथाऽऽयतिहानिः, निरुज्ज्वलत्वाइ, হাজমারাদিনী ত্যা কথা হইল নখ, নাৰি মালা नातिविवृता नाति प्रकटा स्यात्, पण्यसधर्मत्वादिति । अतिप्रकट एण्यमपि न श्लाघनीयं भवति ॥ ७ ॥ यैायकमावर्जयदन्याभ्यश्चावच्छिन्द्यादात्मनश्चानथ प्रतिकु- योदयं च साधयेन च गम्यैः परिभूयेत तान्सहायान्कुर्यात् ॥ ८ ॥ यैरिति । आवर्जयेदभिमुखीकुर्याद्, अन्याभ्यश्च स्त्रीभ्योऽवच्छि- न्धात्संसृष्टमाकर्षयेद्, आत्मनश्चानथं राजकुलादन्यस्माद्वोत्पन्न प्रतिकु- याद्, अर्थ च प्राप्तं साधयेद्, न च गम्यैः कामुकैः परिभूयेत, याना- चित्य तान सहायान्कुर्याद्यथोक्तकार्यसाधकानित्यर्थः ॥ ८॥ ते त्वारक्षकपुरुषा धर्माधिकरणस्था दैवज्ञा विक्रान्ताः शूरा:- समानविद्याः कलाग्राहिणः पीठमर्दविटाविदृषकमालाकारगान्धि. कशौण्डिकरजकनापितभिक्षुकास्ते च ते च कार्ययोगात् ॥ ९ ॥ आरक्षका=नागरकादयः, धर्माधिकरणस्था: प्राड्विवाकादयः, उ- भयेऽप्यनर्थघातिनोऽर्थसाधकाः, दैवज्ञाः ज्योतिर्गणकाः, ये शुभाशुभंक- थयन्तीति तया संयोगे ते वृद्धिर्भविष्यतीति गम्यं प्रोत्साह्य योजयन्ति, विक्रान्ता शरीरनिरपेक्षाः साहसिकाः, ततोऽन्ये शूराः; उभयेऽनर्थे धन स्त्यर्थं च साधयन्ति, समानविद्या इति। ते स्निह्यन्तोऽस्यास्त्वर्थ साधय- न्ति, कलेति। ये नायिकातः कलां गृह्णन्ति ते तद्विज्ञता प्रकाशयन्तो ग. म्यान्योजयन्ति, पीठमादयः स्वकर्मभिरर्थकृतः परभवनप्रवेशाद्गम्यं यो. जयन्ति, तेच तेच कार्ययोगादिति। कश्चिदेव किञ्चित्कार्य साधयतीति, तद्वशादन्येऽपि स्युः, सहायाः प्रियहिताभ्यामनुवर्तनीयाः, न त्वभिगम्याः, तदभिगमने स्वार्थमेवैते कुर्युनं तदर्थम् ॥ ९ ॥ गम्यचिन्तामाह- केवलार्थास्त्वमी गम्याः स्वतन्त्रः, पूर्वे वयसि वर्तमानः,वित्तवा- ,अपरोक्षवृत्तिः,अधिकरणवान् ,अकृच्छाधिगतपित्ता, संघर्षवान्, सन्ततायः, सुभगमानी, श्लाघनकः, पण्डकश्च, पुंशब्दार्थी, समा. ३५का० सू० । RDAST

२७४
सटीके कामसूत्रे
[६ अधिकरणे
नस्पर्धी, स्वभाव तस्त्यागी, राजनि महामात्रे वा सिद्धः, दैवप्र-
माणः, वित्तारमानी, गुरूणां शासनातिगः, सजाताना लक्ष्यभूत:,
सवित्तः, एकपुत्रः, लिङ्गी, प्रच्छन्नकाम:, शूरः, वैद्यश्चेति ॥ १० ॥
गमनारे गम्याः, अहे कृत्यप्रत्ययः, ते द्विविधाः केवलार्थाः केवल:-
प्रीतिरहितोऽर्थो येभ्य इति, प्रीतियशोऽर्थाश्च रतियशसी अर्थः प्रयोजन.
येभ्योऽर्थस्त्वानुषङ्गिकः, स्वतन्त्रो गुरुष्वपरायत्तः, पूर्वे वयसि वर्तमा.
नो न वृद्धः, वित्तवान् न दरिद्रः, अपरोक्षेति। अपरोक्षा प्रत्यक्षा न दे.
शान्तरवृत्ति वनं यस्य, परोक्षवृत्तेस्तु यदा ततः किञ्चिदेष्यति
तदा दास्यतीति कदथितं दानं स्याद्, अधिकरणवानध्यक्षो योऽर्था-
धिकारेऽधिकृतः सोऽर्थदः, अकृच्छति । येन क्लेशं विनाऽन्वयाधि-
गतं निधिलाभाहा राजप्रसादाद्वाऽधान्तं धनं सोऽकृच्छण ददाति, अ-
न्यथा कृच्छ्रप्रदः स्यात्,
संघर्षवानिति । स्पर्धावानन्येन गम्येन
बहु ददाति, सन्ततायः शौलिकको बाधुषिकश्च, सुभगाभिमानी-
ति। दुर्भगोऽपि यः सुभगमात्मानमभिमन्यते दुर्भगत्वमात्मनोऽप्रक-
टयितुं नायिकामन्यतो व्यावर्तयन् बहु ददाति, श्लाघनिकः स्वश्लाघा-
कर्तुर्वहुप्रदः, पण्डको नपुंसकः स पुंस्त्वख्यापनार्थ बहु ददाति, पुंश
ब्दार्थी मां लोकः पुमानित्यभिदध्यादित्यपेक्षी याच्यमानो ददाति, समा-
नस्पर्धाति । यो कुलविद्यावित्तवयोभिः समानौ तयोरन्यतरं स्पर्धते
वेश्या सेयमनेन समानेनाधिका कृता, अहमपि यां काश्चिदधिकतर-
करोमीति, स आधिक्यमिच्छन्नाश्वेवाधिकव्ययेन गभ्यः, संघर्षिता चैक-
स्मिन् विषये द्रष्टव्या, स्वभावतस्त्यागी सोऽवश्यं ददाति दातृस्वभाव-
सिद्धो ग्राह्यवचनः स यदि स्वयं न ददाति राजानममात्यं वाऽ-
भिधाय दापयति ममेयं प्रीतेति, दैवप्रमाणो भाग्यक्षयेण क्षीयते नोपमो.
गेन संपदिति मन्यमानो बहु ददाति, वित्तावमानीति । कुलसमं द्रव्य
मित्यवमन्यमानो ददाति, गुरूणामिति । तद्धीनस्य पराधीनत्वादबहुदा.
तृत्वं गुरुवचनमतिक्रम्य यः प्रवर्तते सोऽपकार्यमपि कृत्वा ददाति,
सजातानामिति । दायादानामेकस्मिन् गृहे वर्तमानानां यो लक्ष्यभूतः
प्रधानभूतः स दाता नान्यः, एकपुत्र इति । बहु प्रयच्छन्नपि न पितृ.
भ्यां स निवार्यते माऽन्यत्र यासीदिति, लिङ्गी प्रवजितः, प्रच्छन्नकामी
प्रकटं न कामयते लोको मा ज्ञासीदिति स कामेन बाध्यमानो बहु
ददाति, शूरो यः सहायभावेनोपचरितो वित्तवांश्च स हि नार्थगृधनुः,
वैद्यस्य दातृत्वाभावेऽपि व्याधितायाश्चिकित्साकारित्वाहातृत्वमेव ॥१०॥

१ अध्याये] सहायगम्यागम्यगमनकारणचिन्ताप्रकरणम् ।
२७५
PARATE
HENGA
प्रीतियशोऽर्थास्तु गुणतोऽधिगम्याः ॥ ११ ॥
प्रीतीति । यतो गुणवद्भ्य एव प्रीतिर्यशश्च भवति ॥ ११ ॥
यञ्चोक्तमुभयोरपि गुणागुणान्वैशिके वक्ष्याम इति तानाह-तत्र ना.
यकमधिकृत्याह--
महाकुलीनः, विद्वान् , सर्वसमयज्ञः, कविः, आख्यानकुशलः,
वाग्मी, प्रगल्भः, विविधशिल्पज्ञः, बृद्धदर्शी, स्थूललक्षा, महो-
त्साहः, दृढभक्तिः,अनसूयकः, त्यागी, मित्रवत्सलः घटागोष्ठीप्रेक्ष-
णकसमाजसमस्यक्रीडनशीलः, नीरुजा,अव्यङ्गशरीरः, प्राणवान् ,
मद्यपः, वृषः, मैत्रः, स्त्रीणां प्रणेता लालयिता च, न चासांव-
शगः, स्वतन्त्रवृत्तिः, आनष्ठुरः, अनीर्ष्यालुः, अनवशङ्की, चेति
नायकगुणाः॥ १२ ॥
महेति । महत् कुलं यस्य तस्यापत्य, विद्वान् आन्वीलिक्यादिनः,
आख्यानकुशल कथाकुशलः, वाग्मी-वक्ता, सर्वेति । पाषण्डादिसमय
परिज्ञाता, कविः संस्कृतादिकाव्यकृत् , प्रगल्भः प्रतिभावान् , शिल्पं=
लेख्यादि, बृद्धदर्शी =विद्यावयाबृद्धानामुपासका, स्थूललक्षा-महेच्छः,
महोत्साह इति । यो महतोत्साहेन युक्तः, महत्त्वं च गुणान्तरयोगाद्,
यथोक्तं-शौर्यममर्षता शीघ्रता दाक्ष्यं चोत्लाहगुणा' इति, दृढभक्तिः-
न हरिद्राराग इव प्रीतिर्यस्य, अनसूयुः क्षमावान् , त्योगी दाता, मित्रव.
त्सलः, मित्रवत्यन्तप्रीतिमाधत्ते, घटाऽऽदिशीलः, घटाऽऽदि यः शीलयति
सः, घटागोष्टयौ व्याख्याते, प्रेक्षणक-नटादिदर्शनं, समाजा-पानगोष्ठी,
समस्यक्रीडा-संभूय क्रीडा,नीरुजा=अरोगप्रकृतिः,अन्यङ्गम् अहीनम् ,प्रा-
णः बलम् ,अमद्यपः ब्राह्मणः,अर्थाल्लभ्यते, बृषा व्यवायक्षमः मैत्रः करु-
णावान् , स्त्रीणां प्रणेता प्रणेतृत्वमुपदेशेन तासां समुदाचारेषु स्थापनं,.
लालनं तासां शरीरस्थितिवैकल्यसंवरणं, न चासामिति । स्त्रीणां वशगो-
वश्यः, स्वतन्त्रवृत्तिः, स्वतन्त्रकृत्येषु न परायत्तः,अनीालु: ईयारहितः,
अनवशङ्की निःशङ्कमारम्भवान् , नायकगुणा इति। गुणिद्वारेण गुणा-
भिधानमत्र प्रकरणायत्तत्वाद्, गम्यगुणा इति वक्तव्ये नायकग्रहणं-
सामान्यसंज्ञाप्रतिपत्त्यर्थः; ततश्च पूर्वोक्तं गुणागुणान् वैशिके वक्ष्याम
इति तद्याख्यातं भवति, स एव नायको गुणान्तरयोगात् कन्यापुनर्भू-
परदारवेश्याऽपेक्षया यथाक्रमं वरो जारः सिद्धो गम्यश्चेति संज्ञाऽन्त-
राणि लभते ॥ १२॥

। २७६ सटीके कामसूत्रे [६ अधिकरणे, रुपयौवनलक्षणमाधुर्ययोगिनी,गुणेष्वनुरक्ता न तथाऽर्थेषु, प्रीतिसंयोगशीला, स्थिरमतिः, एकजातीया, विशेषार्थिनी, नित्यम- कदर्यवृत्तिः,गोष्ठीकलाप्रिया, चेति नायिकागुणाः ॥ १३ ॥ रूपेति । रूपं वर्णसंस्थानं यच्छोभन, लक्षणं सौभाग्यादिसूचकम् , माधुर्य-प्रियवाक्यत्वं, तैोगः स यस्यास्तद्योगिनीति, तेषु गुणेषु नायकसंबन्धिष्वनुरक्ता, न तथाऽर्थेषु तदीयेषु, प्रीतिसंयोगशीलेति । प्रीतिग्रहणं बाह्यसंयोगनिवृत्यर्थ रतिसंभोगशीलेत्यर्थः, स्थिरमतिः, कर्तव्यमिति निश्चित्यान्यथा न करोति,एकजातीयेति । एकप्रकारा, न मा. याविनी, विशेषार्थिनी न यत्र वचन वस्तुनि रमते, अकदर्यवृत्तिरिति । आत्मवृत्यवरोधेनार्थसंचयः कदर्यवृत्तिः सा न यस्याः, तत्रापि न कदा. चिदित्याह-नित्यमिति। गोष्ठीकलाप्रियेति । गोष्ठी या क्रीडामात्रैककार्या, नायिकागुणा इति । अत्रापि पूर्ववद्वेश्याया इति नोक्तम् ॥ १३ ॥ एते द्वयोरप्यसाधारणास्साधारणानाह- बुद्धिशीलाचारः,आर्जवं,कृतज्ञता,दीर्घदूरदर्शित्वम् , अविसंवा- दिता, देशकालज्ञता,नागरकता, दैन्यातिहासपैशुन्यपरिवादक्रोध. लोभस्तम्भचापलवर्जनं,पूर्वाभिभाषिता,कामशास्त्रे कौशलं, तदङ्गवि. द्यासु चेति साधारणगुणाः ॥ १४ ॥ बुद्धीति। बुद्धिःप्रज्ञा, शील-सुस्वभावता, आचार: देशकालोचितः- समुदाचारः, आर्जवम् अवक्रता, कृतज्ञता= पूवापकारस्मरणं, दीर्घदू. रदर्शित्वम् आगामिनोऽर्थस्य देशान्तरगतस्य परिज्ञानम्, अविसंवा. दिता-प्रतिज्ञायान्यथा न करणं, देशकालज्ञता, अस्मिन् देशे काले चेदं प्रयुज्यत इति, नागरकता=नागरकवृत्तानुष्ठान, दैन्यं याच्या, अति- हासा=नित्य हसनता, पैशुन्यं परस्परसंभेदनम्, परिवादः परदोषोदाह- रणं, क्रोधः कोपः, लोमा तृष्णा, स्तम्भ-मान्येष्वप्रतिपत्तिशीलता, चाफ्लम् अधैर्य तेषां, वर्जनं त्यागः, तेन गुणा एवोक्ता अदैन्यादयः, पू भिभाषिता यावदेव परोन संभाषते,कामशास्त्रे कौशलं कामशास्त्र. परिज्ञानं, तदङ्गविद्यासु च नृत्यादिषु कौशलम् , अत्र न गुणिद्वारेण गुणाभिधानं, साधारणत्वादु, अन्यतरलिङ्गनिर्देशेन हि गुणाभिधाने साधारणत्वन गम्यते ॥ १४ ॥ गुणविपर्यये दोषाः ॥ १५ ॥ गुणविपर्यय इति । साधारणानां विपर्यये, दोषा दौष्कुलेयत्वादयो- वैरुप्यादयो दौर्बुद्ध्यादयश्च,तद्योगान्न नायको नापि नायिकोच्यते ॥१५॥ , १ अध्याये ] सहायगम्यागम्यगमनकारणचिन्ताप्रकरणम् । २७७ my सत्स्वपि गुणेषु दोषान्तरयोगादगम्या इत्यगस्यचिन्तामाह- क्षयी, रोगी, कृमिशद्, वायसास्यः,प्रियकलत्रः, परुषवाक्, कदर्यः, निर्धणः, गुरुजनपरित्यक्तः, स्तेनः, दम्भशीलः, मूलकर्मणि प्रसक्तः, मानापमानयोरनपेक्षी, द्वेष्यैरप्यर्थहार्यः,अतिलजा, इत्य- गम्या: ॥१६॥ क्षयीति । क्षया=राजयक्ष्मा, रोगशब्दः सामान्यवाच्यपि लोकप्र. सिद्ध्या कुष्ठवाची, द्वयोरपि सांक्रामिकत्वात् , कमिशकदिति । पुरोषम- क्षिकेति प्रसिद्धा, सा हि यस्मिन्त्रणे पुरीषं मुश्चति तत्र कृमिर्भवति, तद्व- द्यच्छुक तत्संसर्गाद्या हि गर्भमाधत्ते सा स्त्री जरां धत्ते, वायसास्या दुर्गन्धमुखः,स वैमुख्यं जनयति, यद्वा काकः शुच्यशुचौ मुखं निक्षिपति, एवं निर्विचारं स्त्रीत्येव यः कामयते स तासामनभिगमनीयः स्यात् , प्रियकलत्र इति । तस्यान्यत्रानासक्तः नाप्यर्थदः,परुषवाग् असह्यवाक्, कदर्यः, य आत्मानं भृत्यांश्च संपीड्यार्थसंचयकरः,निघृणः निर्दयः,उभा. वन्यदातारावकार्यकरौ च, गुरुजनपरित्यक्तः, दुष्टत्वात् सोऽभिगतो दोष- मपि कुर्यात् , स्तेना=चोरः,तत्संपर्कादर्थापगमः,दम्भशीलः, मायया व्यव- हरन् कथमर्थदः,मूलकर्मणि-वशीकरणादौ प्रसक्तः, तेन हि वशीकृतायां. नान्यत्र प्रवृत्तिः शरीरवैरूप्यं च, अनपेक्षी यो मानमपरेण क्रियमाणमगु- णज्ञतया नापेक्षते; अपमानमपि नीचप्रकृतित्वात् तस्य संपर्काद् भूमिका- ऽपि पतति, द्वेष्यैरप्यर्थहार्यः, यो द्वेष्यैरप्यर्थलोभारसंधत्ते स लुब्धः कथं- ददाति, अतिलज्जः, यो लोके वेश्यासंपर्केणातिलजते स कथं तामभि. गच्छेद्दद्याच ॥ १६॥ यैः कारणैरभिगमनं तत्र चिन्तामाह- रागः, भयम् , अर्थः, संघर्षः, वैरनिर्यातनं, जिज्ञासा, पक्षा, खेदः, धर्मः, यशः, अनुकम्पा, सुहृद्वाक्यं, ही, पियसादृश्यं, धन्यता, रागाफ्नयः, साजात्यं, साहवेश्यं, सातत्यम् , आपतिश्च, गमनकारणानि भवन्तीत्याचार्याः ॥ १७॥ राग इति । व चित्स्वाभाविक उत्पन्नः, भयं व्यापादनभयं, यथा रम्भाया रावणाद्, यदि मां न कामयसे व्यापाद्यसे मयेति, अर्थः भूम्या- दिलाभः, संघर्ष: स्पर्धा यथा देवदत्ताया अनङ्गसेनयेति ततो हि समाकृष्य स्पर्धया मूलदेवः कामितः, वैरं निर्यातयन्ती क्वचिदभिगच्छ. ति, जिज्ञासेति। विदग्धोऽयमिति श्रूयते तत्कि तथैवेति, पक्ष आश्रयः, . 000 ૨૯૮ सटीके कामसूत्रे [ ६ अधिकरणे, यमाश्रित्य कार्य साधयति, खेदा परिश्रमः संप्रयोगो हि जीविका तत्र चाकृतखेदा सहसाव चित्क्व चित्प्रवृत्ताविमर्दन सहेत, धर्मः अकिञ्च- नविद्ब्राह्मणाभिगमनाद् , यशः कस्यां चित्तिथौ कामसत्त्रप्रदानाद्, अनुकम्पा अकामयमानायां त्वयि म्रियेऽहमित्येवंवादिनि दया भवति, सुहृद्वाक्यं मम प्रीतिकरः समायातस्तेन सहाद्य शयितव्यमिति, हीः, यो- गुरुस्थानीयोऽभिमतं भाणयति सोऽपि लज्जयाऽभिगम्यते, प्रियसा दृश्य मत्प्रियस्यायं सदृश इत्यनुरागवशात् काभ्यते, धन्यतेति । पुण्य वानयमतोऽस्य संयोगात् कीर्तनीयाऽहं भविष्यामि, यत एष गुणवान्. कुलीनो धनवानरूपवांश्च, रागापनयः शुक्रधातोरुद्रिक्तस्य कं चिदभिग म्यापनयनं, साजात्यं सजातिरयमिति विप्रतिपन्नायाः कुलयोषितोऽ. भिगमनकारणमेतत् , साहवेश्यं सहवेशकोऽयमिति, सातत्य-नित्यसा. हचर्यम् , आयति:-प्रभावः ॥ १७ ॥ अर्थोऽनर्थप्रतीघातः प्रीतिश्चेति वात्स्यायनः ॥ १८ ॥ अत्राह शास्त्रकार:-पारगणनमेतत्प्रदर्शनं वा, तत्र परिगणने चि- कित्सा मैत्री शोकापनयः कलाऽऽगम इत्येवमादीनामपि सम्भवात् , प्रदर्शने चार्थोऽनर्थप्रतीघातः प्रीतिरिति तावद्वक्तव्यं सर्वेषामत्रैवान्त- भर्भावात्, तत्र संघर्षाजज्ञासापक्षखेदधर्मयशःसुहृद्वाक्यायतिकलाऽऽगमा- अर्थ, भयं वैरमनुकम्पा शोकापनय इत्यनर्थप्रतीघाते, शेषाः प्रोतौ स्नेह इत्यर्थाः, हीरपि प्रीत्यंशमेव स्पृशति ॥ १८ ॥ अर्थ तु प्रीत्या न बाधेतास्य प्राधान्यात् ॥ १९ ॥ अर्थमिति । अर्थाप्रीत्योर्यथास्वं विषयेषु युगपत्प्रत्युपस्थिते प्रीतिवि. षयं त्यक्त्वाऽर्थाविषयमधिगच्छेदित्यर्थः, अर्थस्य प्राधान्यात्तत्प्रतिबद्ध. त्वात्तज्जीविकायाः ॥ १९ ॥ भवादिषु तु गुरुतालाघवं परीक्ष्यम् ।। २० ।। ॥ इति सहायगम्यागम्यगमनकारणचिन्ता ॥ भयादिषु स्वनर्भेषु गुरुतालाघवं परीक्ष्यं कोऽत्र गुरुर्य प्रति करि- प्यामीति, अर्थानाप्रतीकारयोस्तु गुरुतालाघवमग्ने वक्ष्यति ॥ २० ॥ इति सहायगम्यागम्यगमनकारणचिन्ता पञ्चाशत्तमं प्रकरणम् ।। एवं सहायं निरूप्य गम्यमभिमुखीकुर्यादिति गम्योपावर्तनमुच्यते- उपमन्त्रिताऽपि गम्येन सहसा न प्रतिजानीयात् पुरुषाणां. मुलभावमानित्वाद् ॥ २१ ॥ dreau १ अध्याये] गम्योपावर्तनप्रकरणम् । २७९ women उपेति । स्वयमनुपावर्तितेन नायकेनाभिगन्तुं प्राथिता न सहसा प्रतिजानीयात् तत्क्षणमेव नाङ्गीकु र्यादित्यर्थः, सुलभावमानित्वात् , तथा. युक्तं "सुलभामवमन्यते, दुर्लभामभिकाङ्क्षत इति प्रायोवादः," पुनःपुन- रुपमन्त्र्यमाणा तु प्रतिजानीयादित्यर्थोक्तम् ॥ २१ ॥ यदा तु तामुपावर्तयेत्तदाऽयं प्रथम उपायः, यत्तेषु प्रणिधानमित्याह- भावजिज्ञासाऽर्थं च परिचारकमुखान् संवाहकगायनवहासिकान गम्ये तद्भक्तान्या प्रणिदध्यात् तदभावे पीठमादीन् ॥ २२ ॥ भावाजज्ञासाऽर्थ चेति । परिचारकमुखान् परिचारकरूपान्, वैहा. सिकः विदूषकः तस्य गम्यस्य, भक्तान् सेवापरान, प्रणिदध्याद नियुञ्जीत, पीठमर्दादीत्यादिशब्दाद्विटमालाकारगान्धिकशौण्डिकादयः- सहायाः॥२२॥ भावोऽभिप्रायः तस्मिन्ननेकप्रकारेऽपि प्राधान्याच्छौचादिभावेष्वेव जिज्ञासनमित्याह- तेभ्यो नायकस्य शौचाशौच रागापरागी सक्तासक्ततां दाना- दाने च विद्यात् ॥ २३ ॥ तेभ्य इति । नायकस्येति । गम्यसंज्ञकस्य, शुचिसमुदाचाराद् शौचं. भावं तद्विपरीतमशौचं, यतः कश्चित्स्वयमोपरिष्टकं प्रयुक्त प्रयोज- यति नोभयं वेति, रागः-संयोगेच्छा, तद्विपरीतोऽपरागः, सक्तता. वक्ष्यमाणलक्षणां, तद्विपरीतामसक्ततां, दानं =दातृत्वं, तद्विपरीत- मदानम् ॥ २३॥ संभावितेन च सह विटपुरोगां प्रीति योजयेत् ॥ २४ ॥ सम्भावितेन चेति । भावाञ् ज्ञात्वा, संयुज्यतैवं प्रयोग इति निश्चित्य, विटपुरोगामिति । विटो हि जीर्णनागरकवृत्तः, तेन पूर्वप्रहितेन प्रीति- योजयेत् ॥ २४॥ योजितायां विधिमाह- लावककुक्कुटमेषयुद्धशुकशारिकाप्रलापनप्रेक्षणककलाव्यपदे- शेन पीठमर्दो नायकं तस्या उदवसितमानयेत् तां वा तस्य ॥२५॥ लावकेति । लावकादीनां युद्ध, शुकादेः प्रलापनम्=पाठनम् , प्रेक्ष- णक-नटादिदर्शनं, कला-गीतादिका, तद्व्यपदेशेनानयेद्, उदवसितं गृहं, तां वेति । नायिकां.वा, तस्योद्वसितम् ॥ २५ ॥ - ।

२८० सटीके कामसूत्रे [६ अधिकरणे, NAIRS । । । आयतस्य प्रीतिकौतुकजननं किञ्चिद् द्रव्यजातं स्वयमिदमा साधारणोपभोग्यमिति प्रीतिदायं दद्यात् ॥ २६ ॥ प्रीति कौतुकजननमिति । यत्प्रीति जनयति तस्मै हितत्वात् , कौतुक. चादृष्टपूर्वत्वाद् , द्रव्यजातं, स्वयमिति । अनुरागण्यापनार्थ नान्येन, असाधारणेति । भवत एवेदमुपभोगाह नान्यस्येत्युक्त्वा देयम, प्रीति- दायं यत्पुनर्नादीयते ॥ २६ ॥ यत्र च रमते तया गोष्टयनमुपचारेश्च रञ्जयत ॥ २७ ॥ यत्र चेति । काव्यगोष्टयां कलागोष्टयां वा, उपचारैः सरकताम्बूल. स्नगादिभिः ॥ २७॥ प्रत्यवच्छेदनार्थ विधिमाह- गते च सपरिहासप्रलाप सोपायना परिचारिकामभीक्ष्णं प्रे. षयेत् , सपीठमायाश्च कारणापदेशेन स्वयं गमनम् ॥ २८ ॥ इति गम्योपावर्तनम् । गते चेति । सपरिहासेति । सक्रीडप्रकृष्टालापा हि प्रीति बर्धयति, सोपायनामभिज्ञानार्थ सह कौशलिकया प्रेषयेत् , तत्राप्यभीक्षणम् अन्तरा नायिकाऽन्तरप्रवेशो मा भूदिति, सपीठमर्दायाश्चेति । पीटमर्दो हि मन्त्री संयोगस्य घटयिता, कारणापदेशेन स्वयं गमनमिति । सहसा गमने हि हेया स्यात् ॥ २८॥ उक्तं च श्लोकैराह भवन्ति चात्र श्लोकाः ताम्बूलानि सजश्चैव संस्कृतं चानुलेपनम् । आगतस्याहरेत्प्रीत्या कलागोष्ठीश्च योजयेत् ॥ २९ ॥ ताम्बूलानीति । संस्कृतमिति सर्वत्र योज्यं, कलागोष्टीश्चेति । चशब्दात्काव्य गोष्टीश्च ॥ २९ ॥ द्रव्याणि प्रणये दद्यात्कुर्याच परिवर्तनम् । संप्रयोगस्य चाकूतं निजेनैव प्रयोजयेत् ॥ ३० ॥ द्रव्याणीति। प्रीतिकौतुकजनकानि परिवर्तनमुत्तरीयांशुकानामङ्गुली. यानां, तत्रापि प्रणये सति,अनुत्पन्नप्रणयाया दानं परिवर्तनं च कपट- ज्ञायेत, आकृतम् =अभिप्रायम् , प्रयोजयेत्प्रकाशयेत ॥ ३० ॥ यस्तु कथञ्चिदागत्यागत्य गच्छति यत्र योज्यमानं लाघवं जनयति । Mamme Nam १ अध्याये] गम्योपावर्तनप्रकरणम्। NOUNIRAM तञ्च कथं ? योजयेदित्याह- प्रीतिदायरूपन्यासैरुपचारैश्च केवलैः ॥ गम्येन सह संसृष्टा रञ्जयत्तं ततः परम् ॥ ३१ ॥ इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्टेऽधिकरणे सहायगम्यागम्य गमनकारणचिन्ता गम्योपावर्तन प्रथमोऽध्यायः। प्रीतिदायैरिति । प्रीत्यर्थ यानि दीयन्ते, उपन्यासः पीठमर्दादिकृतैर. त्रैव किं न सुप्यत इति, केवलैः शुद्धः, ये सम्प्रयोगमेव सूचयन्ति, संसृष्टा सम्प्रयुक्ता, ततः परमिति । अनन्तरप्रकरणानुसन्धानम् ॥ ३१ ॥ इति गम्योपावर्तनमेकपञ्चाशत्तमं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्ठे- ऽधिकरणे सहायगम्यागम्यगमनकारणचिन्ता गम्योपावर्तनं प्रथमोऽध्यायः। । द्वितीयोऽध्यायः। उक्तमपि संबन्ध स्पष्टीकुर्वन्नाह-- संयुक्ता नायकेन तद्रानार्थमेकचारिणीवृत्तमनुतिष्ठेत् ॥ १ ॥ तद्गुञ्जनार्थमिति । तद्रञ्जनार्थम् एकचारिणीवृत्तमनुतिष्ठेघद्यकचा- रिणी स्यात्, तथा चोक्तं प्राग्-'वेश्या वाऽप्येकचारिणी' इति, यदा तु नैकचारिणी तदा कान्ताऽनुवृत्तमुच्यते, सम्प्रयुक्तस्य गम्यस्य कान्त त्वात्, तच्च संक्षेपेण विस्तरेण च ॥१॥ तत्र पूर्वमुद्घाटितबुद्धीनामाह- सञ्जयेन तु सजेत् सक्तवच्च विचेष्टेतेति संक्षेपोक्तिः ॥ २॥ सञ्जयेदिति । षञ्ज-सङ्गे प्रयोजकव्यापारे णिज', न तु सजेत् , स्वयं सक्ता स्यात्, कथं ? तस्यां पुंसो विश्वासयोग इत्याह-सक्तवच्च विचेष्टेतेति । सक्तमिवात्मानं प्रकाशयेदित्यर्थः, विस्तरोक्तावपि प्रथम परतन्त्रा स्याद्, व्याधि चात्मनः प्रकाशयेद् ॥ २ ॥ मा भूत्कार्यहानिरित्याह- मातरि च क्रूरशीलायामर्थपरायां चायत्ता स्यात् , तदभावे मातृकायाम् ॥ ३॥ मातरीति । मातुरयमप्युपदेशो यदपिधानपरयाऽर्थपरया च भवि- तव्यमिति, तस्यामायत्ता स्थान तद्वचनमतिकामेदिस्यर्थः, मातृकायां- कृतकमातरि॥३॥ ३६ का० सू० Nisaan - सटीके कामसूत्रे [६ अधिकरणे - । । सा तु गम्येन नातिप्रीयेत प्रसह्य च दुहितरमानयेत् ॥ ४ ॥ सा स्विति । सत्या कृतका वा, नातिप्रीयेत नातिस्निोद्, अयमु. पदेशो यदि प्रीयेत कार्यमेव हन्यादित्यर्थः, अप्रीयमाणाया व्यापारमा- ह-प्रसह्य च दुहितरमानयेदिति । गम्यमभिभूय कार्यवशाद् गम्यान्त- रं नयेदित्यर्थः॥ ४॥ तत्र तु नायिकायाः सन्ततमरतिनिवेदो ब्रीडा भयं च न त्वेव शासनातिवृत्तिः ॥६॥ तत्र विति । तस्मिन्गमने सति, नायिकायाः कालविशुद्ध्यर्थमाह- सन्ततमिति । अरतिः = असुखं, रम्येऽपि स्याद्, निर्वेदः=निर्विष्णता, ब्रीडा, कथं ? पुनर्मया द्रष्टव्य इति, भयं किमपि प्रतिविधास्यतीति, न त्वेवेति । काममरत्यादयः स्युन पुनर्मातुराज्ञामतिकामेदित्यर्थः ॥ ५ ॥ व्याधि च कृतकमेकमनिमित्तमजुगुप्सितमचक्षुग्राह्यपनित्य- ख्यापयेत् ॥ ६॥ व्याधि चेति। व्याधि च कृतकं ख्यापयेत् , किं विशिष्टमित्याह-एक- मिति । अनन्यं ख्यापयेद्, येन कृतको ज्ञायेत, अनिमित्तम् = आकस्मिकम्, अजुगुप्सितम् = अनिन्दितं, निन्दिते ह्यानभिगमनीया स्याद्, अचक्षु. रिति । इन्द्रियोपलक्षणार्थ चक्षुर्ग्रहणं, शिरोऽतिमुदरशूलं च, अनित्य. मस्थायिनम् ॥ ६॥ अस्मिन्ख्यापिते किं फलमित्याह- सति कारणे तदपदेशं च नायकानभिगमनम् ॥ ७॥ सतीति । कारणे कामुकान्तराभिगमने, तदपदेशं व्याध्यपदेशम् ॥७॥ अनभिगमने च व्याधिपीडाख्यापनार्थ विधिमाह- निर्माल्यस्य तु नायिका चेटिकां प्रेषयेत्ताम्बूलस्य च ॥ ८ !! निर्माल्यस्य त्विति । कृते, इत्यध्याहार्य, नायिकेत्युक्ते न माता चेटिका- प्रेषयेद्, अनेनापि सुखं स्थास्यामीत्युक्त्वा ताम्बूलस्योपयुक्तस्य वा कृते॥८॥ वृत्तच प्रत्यक्षे परोक्षे वा कान्तेन, तत्र पूर्वमधिकृत्य रहोगतमाह- व्यवाये तदुपचारेषु विस्मयः, चतुःषष्ट्यां शिष्यत्वं, तदुपदि- ष्टानां च योगानामाभीक्ष्ण्येनानुयोगः, तत्सात्म्याद्रहसि वृत्तिः, मनोरथानामाख्यानं, गुह्यानां चैकृतप्रच्छादनं, शयने परावृत्त स्यानुपेक्षणम्, आनुलोम्यं गुह्यस्पर्शने, मुप्तस्य चुम्बनम् , Wire HamaHA

२ अध्याये]
कान्ताऽनुवृत्तप्रकरणम् ।
२८३
आलिङ्गनं, च ॥ ९ ॥
व्यवाय इति । व्यवाये =मैथुने, नायकसम्बन्धिनि, तदुपचारेषु मैथु.
नोपचारेषु च सरकताम्बूलादिषु, विस्मयोऽननुभूतपूर्व सर्वमेतदिति,
चतुःषष्ट्यां पाञ्चालिक्यां शिष्यत्वं, तद्विज्ञाय कर्तव्यं शिक्षय मामिति,
योगानामिति। चातुःषष्टिकानां तेनोपदिष्टानामाभीक्ष्ण्येनानुयोगः, पश्चा-
त्तस्मिन्नेव नायके पुनर्योजना, येनायमवगच्छेदस्मत्सुखार्थमेवास्या यत्न.
इति, तत्सात्म्यादिति । यथा तस्य सुखं तथैकान्ते वर्तेतेत्यर्थः, मनोरथे.
ति' । रहसीत्यनुवर्तते, मम मनोरथा एवमासन् कदा त्वया सह दीर्घ-
रजन्यां सपरिहासः सम्प्रयोगः स्यादिति, गुह्यानामिति । नाभिकक्षोरु:
जघनस्य यद्वैकृतं वैरूप्यं, किञ्चित्तस्य प्रच्छादनं, स्प्रष्टुं द्रष्टुं न दद्यादि.
त्यर्थः, मा भूद्वैराग्यमस्येति, शयने परावृत्तस्यानुपेक्षणं, स्नेहख्याप.
नार्थमभिमुखं स्वपेदित्यर्थः, गुह्यस्पर्शन आनुलोम्यं, कक्षां वराङ्गं च स्पृ.
शन्तं न वारयेद्, मा भूत्सम्प्रयोगेच्छाविघात इति, सुप्तस्य चुम्बनमालि.
ङ्गनं च, येन स्नेहात्स्वप्तुमपि न ददातीति जानीयात् ॥९॥
प्रत्यक्ष एव बहिर्गतं वृत्तमाह-
प्रेक्षणमन्यमनस्कस्य राजमार्गे च प्रासादस्थायाः, तत्र विदि.
ताया ब्रीडाशाठ्यनाशः, तत् द्वेष्ये द्वेष्यता, तत्प्रिये प्रियता, तद्रम्ये
रतिः, तमनु हर्षशोको, स्त्रीषु जिज्ञासा, कोपश्चादीर्घः, स्वकृतेष्वपि
नखदशनाचविन्याशङ्का ॥ १० ॥
प्रेक्षणमिति । अन्यचित्तं पश्येत् , किमयमुत्कण्ठयोवेगाद्वाऽन्यमन-
स्क इति, राजमार्गे वर्तमानस्य प्रेक्षणं, तत्रापि प्रासादस्थायाः, कर्बर्थयं-
षष्ठी, तत्रेति ।प्रेक्षणे, विदिताया नायकस्य माम् पश्यतीति, ब्रोडा लज्जा
स्यात्, सैव शाठ्यनाश इत्युच्यते, तधेतुत्वादस्या यदि ब्रीडां न दर्श-
येत्, कृतकस्नेहोऽस्याः, यन्मामसकृत्पश्यतीति, शाठ्यं सम्भाव्येत, तवे-
श्य इति । नायकद्वेष्ये कस्मिंश्चित् प्रियेऽपि द्वेषणं ख्याप्यं, तत्प्रिये
वेष्येऽपि प्रियता, तथा च तदानुलोम्यं ख्यापितं भवति, तद्रम्य इति ।
यद्यसावसम्प्रयोगशीलस्तदा रम्ये प्रदेशेऽनया रतिः कार्या, येन तद्गत.
स्य सम्प्रयोगेच्छा भवति, तमन्विति । तस्य हर्षशोकाभ्यां हर्षशोको,
स्त्रीषु जिज्ञासा कार्या, किमेवं स्यादित्याह-कोपश्चादीर्घः,यदि तत्र स्नेह-
ईर्ष्या तदा कोपः स्नेहख्यापनार्थ कार्यः, स चादीर्घः, कदा चिद्विरागः-
स्याद् , अन्याशङ्केति । अन्यया तव कृतानि न मयेत्याशङ्ग्य तत्स्नेहब.
न्धनमा ख्यापयितुम् ॥ १० ॥

सटीके कामसूत्रे [६ अधिकरणे, । अनुरागस्यावचनमाकारतस्तु दर्शयेन्मदस्वप्नव्याधिषु तु नि- चनं, श्लाघ्यानां नायककर्मणां च ॥ ११ ॥ अनुरागस्येति । जातरागाऽस्मि कामयस्व मामिति, न वाच्यं लज्जा- परिहारार्थ, कथमनुरागं ख्यापयेदित्याह-आकारतस्तु दर्शयेद्, यथा नाति कामातुरेति, तत्राप्यपरिज्ञाने मदस्वप्नव्याधिषु निर्वचनं, कृत. मत्ता कृतकसुप्ता च व्याद्, अगत्या व्याधिमपदिशेन, असम्भोगेनैव पाधिताऽस्मीति, श्लाध्यानामिति । श्लाघनीयानां देवकुलतडागादीनां- मयशोऽर्थानां निर्वचनं साधु कृतमिति ॥ ११ ॥ तस्मिन्त्रुवाणे वाक्यार्थग्रहणं, तदवधार्य प्रशंसा, विषये भा- णं, तद्वाक्यस्य चोत्तरेण योजनं, भक्तिमांश्चेत् ॥ १२ ॥ तस्मिन्निति ! नायके किंचिद् वस्तुब्रुवाणे वाक्यार्थग्रहणम्, इदमने. तमिति, न त्ववधीरयेदन्यथा मयि जातावनेत्याशङकेत, तदवधायें । न केवलमर्थग्रहणं तदुक्तमवधार्य प्रशंसा कर्तव्या, सुभाषितमुक्तं को. यो नाम जानात्येवमभिधातुमिति, विषये भाषणं, शब्दस्पर्शादिपूक्तिः व्या, कस्मिन्विषये स्वाभिरुचिरिति ज्ञापनार्थ तथैवानुतिष्ठेद्, वा. स्योत्तरेण योजनं बुद्धिवैदग्ध्यख्यापनार्थ, तत्रापि भक्तिमांश्चेद् यदि हवान् अजातस्नेहस्य वचने प्रत्युतावधीर्यमाणं वैलक्ष्यं स्यात्॥ १२॥ कथास्वनुत्तिरन्यत्र सपत्न्याः ॥ १३ ॥ कथास्वनुवृत्तिस्तेन कथ्यमानास्वनुवर्तनं तन्मुखावलोकनहुंकारा. म्, अन्यथाऽस्या मय्यवक्षेति मन्येत, अन्यत्रेति। सपन्याः सपत्नी- पायामीाकोपख्यापनार्थ नानुवृत्तिः ॥ १३ ॥ बासे जृम्भिते स्खलिते पतिते वा तस्य चार्तिमाशंसीत ॥ १४ ॥ निःश्वासे दीर्घनिःश्वसिते, जृम्भिते-क्षणं क्षणं जृम्भिकायां, स्ख- =अर्थविस्मरणे, पतिते वा समेत्य पिच्छिले भूमिभागे पतने, तस्य एकस्यातिमाशंसोत, मा भूत्पीडेति, तेषामनिष्टसूचकत्वात् ॥ १४ ॥ क्षुतव्याहृतविस्मितेषु जीवेत्युदाहरणम् ॥ १५ ॥ क्षुतं छिक्का,त दादिषु, जीवेत्युक्तिः स्नेहसूचिका ॥ १५ ॥ दौर्मनस्ये व्याधिदौहदापदेशः ॥ १६ ॥ दौर्मनस्य इति । नायकान्तरसम्बन्ध्यनिष्टश्रवणाद् दौर्मनस्ये जाते, परणं पृच्छतेऽपि तस्मै न कथयेत्, तद्गतस्नेहाच्छादनार्थ, तु व्याधिदौर्डदापदेशः, व्याधेः शत्रुत्वं व्यपदिशे, चिरानुबन्धो मे Some १ अध्याये] कान्ताऽनुवृत्तप्रकरणम् । व्याधिः शत्रुर्बाधत इति ॥ १६ ॥ गुणतः परस्याकीर्तनं, न निन्दा समानदोषस्य, दत्तस्य धा. रणम् ॥ १७॥ Blog गुणतः परस्याकीर्तनम्, अन्यथाऽन्यासक्तेति जानीयात्, समा- नदोषस्येति । नायकेन तुल्यदोषस्यान्यस्य न निन्दा, मा भूदेतद्वारेण मां जुगुप्सत इत्यस्याशङ्का, दत्तस्य तेन दत्तस्य खर्परखण्डकस्यापि ग्रहणम् ॥१७॥ तथाऽपराधे तासने वाऽलङ्कारस्याग्रहणमभोजनं च ॥ १८ ॥ वृथाऽपराधे, यावदेव जानात्यनपराद्धमिति, तावदेव प्रतिविधानाथ- स्वेदाभ्यङ्गोपवासादिभिः शरीरपीडा दर्शयितव्या, तद्व्यसने नायकस्य पुत्रभ्रात्रादिनाशे, व्याधौ वा ज्वरादावुत्पन्नेऽलंकाराग्रहणमिति, मण्डन. प्रतिषेधः, भोजनाभावश्च ॥ १८ ॥ तयुक्ताश्च विलापाः, तेन सह देशमोक्षं रोचयेद,राजनि निष्क्र. यं च ॥ १९ ॥ तद्युक्ताश्चेति । नायकेन व्याधिव्यसनाभ्यां च युक्ताः कथमपा. पस्य पतितमेतद् इति विलापाः कार्याः, तथा च त्वदुःखेनाहं दुःखि. तेति सूचितं भवति, तेनेति । नायकेन सह देशमोक्षः स्वदेशत्यागस्त- मेव रोचयेद्, माता मे विषमशीला; अपलाप्य मां देशान्तरं नये: येन स्वातन्त्र्यात्तवानुवृत्ति विधास्य इति, राजनि निष्क्रयं च, यदि राज. प्रतिबद्धा तदानीं राज्ञः सकाशान्मां निष्क्रीणीहीति रोचयेद्, अन्यथा पलायितां मामानाययेत् ॥ १९ ॥ सामर्थ्यमायुषस्तदवाप्तौ तस्यार्थाधिगमेऽभिप्रेतसिद्धौ शारी- पचये वा पूर्वसम्भाषित इष्टदेवतोपहारः ॥ २० ॥ तदवाप्ताविति । यत्प्रायशो न घटते, तस्यावाप्तौ सत्यां समर्थ ममा युः येन त्वं घटितः, अन्यथा नियतं विनष्टाऽस्मीति ब्रयाद्, अर्थाधिगम- इति । अचिन्तितस्यार्थस्य लाभेऽभिप्रेतसिद्धावीप्सितार्थप्राप्तौ शरीरो. पचये वा ब्याध्याद्यपगमात्, पूर्वेति । न तदानीमेव संभाषेत, अर्थला- भादिनिमित्तमाशापूरिकाया देव्या मयोपयाचितकं कृतं तेन च तव संपन्ना मनोरथाः सांप्रतं तस्य बलिरुपहर्तव्य इति ॥ २० ॥ नित्यमलङ्कारयोगः, परिमितोऽभ्यवहारः ॥ २१ ॥ नित्यमिति । यत्तु 'नित्यमलंकारयोगिनी स्याद्, इत्युक्तं तदुपावर्तन । । ।

सटीके कामसूत्रे २८६ [ ६ अधिकरणे, काले द्रष्टव्यं , परिमित इति । बहुभक्षणे प्रायशो वेश्यानां दोषवत्त्वात्, तत्रापि स्निग्धं, न रूक्षं, ज्वरकारित्वाद्रूक्षस्य ॥ २१ ॥ गीते च नामगोत्रयोहणं, ग्लान्यामुरासि ललाटे च कर- कुर्वीत ॥ २२ ॥ गीते चेति ! गीते प्रस्तुते, विष्णुमित्रो वात्सगोत्र इति प्रस्तुत्य गा. तव्यमित्यर्थः, ग्लान्यामिति । करं प्रकुर्वीत, नायकसंबन्धिनं स्वहस्तेन गृहीत्वा स्थापयेदित्यर्थः ॥ २२ ॥ तत्सुखमुपलभ्य निद्रालाभे, उत्सङ्गे चास्योपवेशनं स्वपनं च, गमनं वियोगे॥ २३ ॥ तत्सुखमिति। न्यस्तहस्तस्पर्शसुखम, उपलभ्य = अनुभूय, निद्रा. लाभः, यथा मत्करस्पर्शान्निद्रासुखं लब्धवतीति मन्यते, उत्सङ्गेति । यदि न शयनीयं तर्हि तदुत्सङ्गे ग्लानावनया स्वकायवयो बुद्ध्वोपवेशनं. स्वपनं च, गमनं वियोग इति । सुहृद्गृहं देवतां वा द्रष्टुं गच्छति, तदा मा भूत् क्षणमप्यनेन वियोग इति, तन्निमित्तं स्वयमनुगच्छेत् ॥ २३ ॥ तस्मात्पुत्रार्थिनी स्यादायुषो नाधिक्यामिच्छेत् ॥ २३ ॥ तस्मात्पुत्रार्थिनीति । ऋतुमत्यहमन्यत्र त्वया न शयितव्यमिति, नाधिक्यमिति । एतस्मान्मम मृतिः प्राग्भवति चेद्भद्रमिति ॥ २४ ॥ तस्याविज्ञातमर्थ रहसि न ब्रूयाद् ॥ २५ ॥ तस्येति । नायकस्य, अविज्ञातमर्थ रहसि न मन्त्रयेत केन चित्स- ह, मा भूदस्याशङ्काऽस्मद्गतं किमपि मन्त्रयत इति ॥ २५ ॥ व्रतमुपवासं चास्य निर्वतयेद् , मयि दोष इत्यशक्ये स्वयमपि तपा स्यात् ॥ २६ ॥ मयि दोषमिति। व्रतोपवासयोर्भङ्गे कामं मयि दोषोऽस्तु, न त्वया. ऽनुष्ठेयं शरीरं तव न क्षमत इति, अशक्ये निवर्तयितुं, स्वयमपि तद्रूपा गृहीतव्रता स्यात् ॥ २६ ॥ विवादे तेनाप्यशक्यमित्यर्थनिर्देशः ॥ २७ ॥ विवाद इति । कस्मिश्चिद्वस्तुनि केन चिद्विप्रतिपत्तौ, तेनाप्यशक्य- मिति निर्देशः, नायकेनाप्येतजातुमशक्यं किमु त्वया, यदि शक्तश्चेत्स. एवेति कथयदित्यर्थः॥ २७ ।। तदीयमात्मीयं का स्नमाविशेषेण पश्येत् ॥ २८ ॥ , २ अध्याये] कान्ताऽनुवृत्तप्रकरणम् । स्वमिति द्रव्य, नायकसंबन्धि, आत्मीयं वा स्थापनपालनाभ्याम. विशेषेण पश्येत् ॥ २८॥ तेन विना गोष्टयादीनामगमनमिति ॥ २९ ॥ तेनेति । नायकेन विना गोष्टयादीनामगमनं, यदि गमनं तेनैव, तत्र गोष्टी सखीभिस्सह, आदिशब्दाद् घटोधानादयः ॥ २९ ॥ निर्माल्यधारणे श्लाघोच्छिष्टभोजने च ॥ ३० ।। निर्माल्येति । स्वकीयं माल्यादि मम देयमिति, मदीयं वा स्पृष्ट्वा परिधार्यमिति, निमन्त्रितो न मां नयसि भुक्तशेषमवश्यम् प्रेषयित- व्यमिति ॥३०॥ कुलशीलशिल्पजातिविद्यावर्णवित्तदेशमित्वगुणवयोमाधुर्यपूजा ॥३१॥ कुलशीलेति । उदितोदितं कुलमस्य नानुदितानुदितम् अनुदितो. दितं वेति, शोभनं शोलं न विषममिति, प्रकृष्टमालेख्यादि शिल्पं नाप्रकृ- टमिति, विशुद्धाऽस्य जातिर्न संकीर्णेति, निर्मलाऽस्यान्वीक्षिक्यादिवि. द्या न दुर्गृहीतेति, कनकपिञ्जरोऽस्यवर्णो न पाण्डुरिति, न्यायेनोपार्जितं- वित्तं नान्यायेनेति, पूज्योऽस्य देशो नापूज्य इति, गुणवन्त्यस्य मित्राणि न दोषवन्ति, शोभना अस्य गुणा न स्वशोभनाः, प्रथमं वयो न तृतीय- मिति, मधुरं वचो नामधुरं चेति, पूजा-स्तुतिः कर्तव्या ॥ ३१ ॥ गीतादिषु चोदनमभिज्ञस्य ॥ ३२ ॥ अभिज्ञस्य तद्विद्याज्ञस्य गीतादौ प्रेरणम् , अनभिज्ञश्वोद्यमानो मामु- पहसतीत्याशङ्केत, अभिनस्तु मद्विज्ञानं श्लाघत इति मन्येत ॥ ३२ ॥ भयशीतोष्णवर्षाण्यनपेक्ष्य तदभिगमनम् ॥ ३३ ।। भयेति । रात्रावन्धकारेऽपि भयं, हेमन्ते शीतं, ग्रीष्म उष्णं, वर्षासु वर्षमनपेक्ष्य तदभिगमनम् , इदमासक्तिख्यापनार्थम् ॥ ३३ ॥ स एव च मे स्यादित्यौवंदेहिकेषु वचनम् ॥ २४ ॥ और्ध्वदेहिकेष्विति । वर्तमानाद् देहात् परलोके यो देहस्स ऊर्ध्व- देहः तत्प्रयोजनकेषु दानादिषु, स एव मे स्यादिति, अनेन पुण्येन जन्मान्तरेऽपि स एव मे वल्लभो भूयादिति वचनमुदाहर्त्तव्यम् ॥ ३४ ॥ तदिष्टरममावलीलाऽनुवर्तनम् ॥ ३५ ॥ तदिष्टेति । नायकस्य शृङ्गारादिषु य इष्टो रसो भावः, स्थायिसंचा- रिसात्त्विकेषु, लीलाचेष्टितानि तेषामनुवर्त्तनम् ॥ ३५ ॥ मूलकाभिशङ्का ।। ३६ ॥

सटीके कामसूत्रे [६ अधिकरणे, । मूलेति । नियतं मयि वशीकरणमूलिका त्वया प्रयुक्ता, येन तव विधेयाऽस्मीत्याशङ्का कार्या,नैवमहं क्व चिदेवं प्रवृत्तेति ज्ञापनार्थम्॥३६॥ तदभिगमने च जनन्या सह नित्यो विवादः ॥ ७ ॥ तदभिगमन इति । नायकमनुगच्छन्ती किं मां धारयसीति, मात्रा सह नित्यं कृतककलहोऽनुरागप्रकटनार्थः ॥ ३७ ॥ बलात्कारेण च यद्यन्यत्र तया नीयते तदा विषमनशन शस्त्रं. रज्जु वा कामयेत ॥ ३८ ॥ बलात्कारेण चेति । हठात्, तया जनन्या, अन्यत्र-गम्ये, कार्यापे. क्षया नीयेत मात्रा यदा तदा तत्समक्षं पूर्वोक्ता अरत्यादयः सम्भवन्त्येव, किं स्वेतदधिकं विषमिति । विषं भक्षयामीति, अशनं न भक्षयामीति, शस्त्रेण कुक्षिमुत्पाटयामीति, रज्जुमुध्यात्मानं व्यापादयामीति, आपा. तमृत्युहेतं कामयेत वाचैव न तु क्रियया ॥ ३ ॥ प्रत्यायनं च प्रणिधिभिनायकस्य ॥ ३९ ॥ प्रत्यायनं च प्रणिधिभिरिति । मातुरेवास्या दोषो यदन्यत्र गमनं न त्व. स्या अनभीष्टत्वादिति चारैः परिबोधनमिति ॥ ३९ ॥ स्वयं वाऽऽत्मनो वृत्तिगहणम् ॥ ४० ॥ स्वयं वेति । कुत्सिता वेश्यानां जीविका, यस्निग्धं सन्त्यज्यार्थतृष्ण- या मातरोऽन्येन योजयन्तीति ॥ ४० ॥ न त्वेवार्थेषु विवादः॥ ४१ ॥ न त्वेवेति । कामं तदभिगमने विवादः स्याद्, नायकेन तु यद्येवं त. साधयन्त्या जनन्या न विवादस्तदर्थत्वात्प्रयासस्य ॥ ४१ ॥ मात्रा विना किं चिन्न चेष्टेत ॥ ४२ ॥ मात्रा विना न कि चिच्चेष्टेतेति । अन्ततो भोक्तुमपि यदाऽऽह माता तदेव कुर्यादन्यथा न कुर्यात् , कार्येषु सैव व्यापारयितव्येत्यर्थः ॥ ४२ ॥ प्रवासे शीघ्रागमनाय शापदानम् ॥ ४३ ।। प्रवास इति । नायकस्य कार्यवशाद् देशान्तरगमने शापदानं शपथ- दानं, मजीवितेन शापितोऽसि यदि शीघ्र नागच्छेरिति ॥ ४३ ॥ परोक्षे वृत्तमाह- पोषिते मृजानियमश्वालङ्कारस्य प्रतिषेधः मङ्गलं स्वपेक्ष्यम् , एकं शङ्खवलयं वा धारयेत् ॥ ४४ ॥ प्रोषित इति । मृजानियमा=शरीरासंस्कृति, परोक्षे विफलमिति २ अध्याये] कान्ताऽनुवृत्तप्रकरणम। २८९ । चेन्न, तदीयजनसमक्षे सफलत्वात् : प्रवासचर्यायामुक्तमपि चैतत्प्रायशः- कुलयोषितस्तद्, इदं तु वेश्याया एवेति; अलंकारस्य, प्रतिषेधः- अधारणम् , मङ्गलं शकुवलयादि त्वपेक्ष्यम्, प्रोषितस्य मङ्गलापे. क्षया तावन्मात्रं धार्यमित्यर्थः ॥४४॥ स्मरणमतीतानां, गमनमीक्षणिकोपश्रुतीनां, नक्षत्रचन्द्रसूर्यता- राभ्यः स्पृहणम् ॥ ४५ ॥ स्मरणमतीतानां नायकेन सहोपभुक्तानाम् , ईक्षणिकाः ईक्षणिकाः विप्रश्निकाः, तासां गमनं गृहे इत्यर्थाद्, उपश्रुतिनिशीथे शुभाशुभपरिज्ञानार्थ प्रथ. मवाक्यग्रहणं तेन तस्याः कृते रथ्याचस्वरेषु गमनमिति, नक्षत्रादिभिः- स्पृहणमिति, पुण्यवन्त एते यन्नायकेन दृश्यन्ते, अहमपुण्या यन्मां- नेक्षत इति ॥४५॥ इष्टस्वमदर्शने तत्संगमो ममास्त्विति वचनम् ॥ ४६ ॥ इष्टस्वप्नेति । सद्भूतं शुभं स्वप्नं दृष्ट्वा प्रत्यूषे तजनसमक्षं प्रका. श्य; आस्तां तावदन्यत्तत्समागम एव ममास्त्विति वचनमुदाहर्तव्यम्, अदृष्ट्वाऽपि कृतकमिष्टं स्वप्नं प्रकाशयेद्, यदि देशान्तरस्थस्य नायक- स्थाभिप्रेतसिद्धिश्चारैरुपलब्धा स्यात् ॥ ४६ ॥ उद्वेगोऽनिष्टे, शान्तिकर्म च ॥ ४७ ॥ उद्वेगोऽनिष्ट इति । अशुभसूचके स्वप्नदर्शने सन्युद्वेगः, तस्य किम- प्यनिष्टमस्तीति, शान्तिकर्म ब्राह्मणानाहूय कार्य, कृतके चानिष्टे विधि. रयमेव यापलब्धमनिष्टं किञ्चित् ॥ ४७ ।। प्रत्यागते कामपूजा ॥ ४८ ॥ प्रत्यागत इति । प्रतीपमागते नायके, प्रत्यक्षे वृत्तमाह-कामेति । त्वत्प्रसादादागत इति, कामदेवपूजनम् ॥४८॥ देवतोपहाराणां करणम् ॥ ४९ ॥ देवतोपहाराणामिति । तजनसमक्ष प्रतिपनानां, करणं =निष्पाद- नम् ॥ ४९॥ सखीभिः पूर्णपात्रस्याहरणम् ॥ ५० ॥ पूर्णपात्रस्येति । दिष्टिवृद्धया स्निग्धजनेन यदुत्तरीयमाच्छिद्य गृह्यते, तत्पूर्णपात्रं, तस्य सखीभिराहरणम् ।। ५० ।। वायसपूजा च ।। ५१ ॥ वायसेति । यत्मया प्रतिज्ञातं, संक्रामवायस ! वल्लभे समागते पिण्डं. ते दास्यामीति, तदिदं प्रतिज्ञातं गृहाणेति ॥ ५१ ॥ ३७ का० स०

सटीके कामसूत्रे
[ ६ अधिकरणे,
प्रथमसमागमानन्तरं चैतदेव वायसपूजावर्जम् ॥ १२ ॥
नायकेन सह यःप्रथमः समागमस्तदनन्तरमेतत्कामपूजाऽऽदिकमनु-
प्ठेयं सम्भवाद्, वायसपूजावजं तस्या असम्भवात् ॥ ५२ ॥
प्रत्यक्ष परोक्षे च वृत्तमाह--
सक्तस्य चानुमरणं ब्रूयात् ॥ ५३ ॥
सक्तस्य चेति । अनुमरणं बयात् , स्वर्याते न मया जीवितव्यमिति,
सक्तो ह्येवं सम्मावयति नान्यः ॥ ५३॥
का पुनः सक्त इत्याह-
निसृष्टभावः, समानवृत्तिः, प्रयोजनकारी, निराशङ्कः, नि-
रपेक्षोऽर्थेषु, इति सक्तलक्षणानि ॥ ५४॥
निसृष्टभाव इति । सर्वात्मना विश्वस्तः, समानवृत्तिस्तावत्प्रवृत्तौ
निवृत्तौ च, प्रयोजनकारी नायिकाया यत्कार्य तदुदीरितमात्रं यः कर्तुं.
शक्नोति, निराशङ्कः न कुतश्चिदाशते तस्यां प्रवर्तमानः, निरपेक्षो.
ऽर्थेष्वात्मीयेषु तया गृह्यमाणेष्वपि ॥ ५४॥
तदेतन्निदर्शनार्थ दत्तकशासनादुक्तमनुक्तं च लोकतः शील-
येत्पुरुषप्रकृतितश्च ॥ ५५॥
तदिति । उक्तं वृत्तं निदर्शनार्थ = प्रदर्शनार्थ, दत्तकशासनादिति ।
दत्तकशास्त्रं दृष्ट्वा, लोकत इति । पराराधनकुशलाद्, शीलयेद् =
आगमयेत् ।। ५५॥
गम्यस्याप्यनुवर्तमानस्य वेश्यास्वरूपप्रतिपत्त्यर्थमाह-
भवतश्चात्र श्लोको-
सूक्ष्मत्वादति लोभाच प्रकृत्याज्ञानतस्तथा ।
कामलक्ष्म तु दुर्ज्ञानं स्त्रीणां तद्भावितैरपि ॥ ५६॥
सूक्ष्मत्वादिति । स्त्रीणामिति । वेश्याशब्दवाच्यानां, य इच्छालक्षणः-
कामस्तस्य लक्ष्म स्वरूपं दुर्ज्ञानं, किमिदं स्वाभाविक वा कृत्रिममिति
दुःखेन ज्ञायते, कथमित्याह-सूक्ष्मत्वादिति । चेतोधर्मत्वेनातीन्द्रिय-
स्वात्, क्रियया सुज्ञानमिति चेदाह-अतिलोभादिति । लुब्धा हि स्वा-
भाविकमिव रूपयन्ति, प्रकृत्याऽज्ञानत इति । कामपरासु हि विश्वसन्ति
पुमांसः, ततश्च तेषां स्वभावत एव रागाचरणसंभवादज्ञानमेव प्रादुर्भ
वति न ज्ञानं, तद्भावितैरपि, लक्ष्मपरिज्ञानाभियुक्तैरपि दुज्ञेयं, किमि
दं स्वाभाविकं कृत्रिमं वेति ॥ ५६ ॥

३ अध्याये]
अर्थागमोपायप्रकरणम् ।
२९१
HOM
तदेवाकृतकं कृतकं च कामलक्ष्म दर्शयन्नाह--
कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च ।
कर्षयन्त्योऽपि सर्वार्थाज्ञायन्ते नैव योषितः ॥ ५७ ।।
इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे
कान्ताऽनुवृत्तं द्वितीयोऽध्यायः ।
कामयन्त इति। अकृतकं कामयन्ते पुरुष, तदपि न स्थिरमित्याह-
विरज्यन्त इति । कृतकं केलिवशाद्रञ्जयन्ति, तदपि न स्थिरमित्याह-
त्यजन्तीति, किमर्थमित्याह-कर्षयन्त्योऽपीति । सर्वार्थान् गृह्णन्त्योऽपि
त्यजन्तीत्यर्थः, अलक्तकवन्निष्पीडितसारत्वाज्ञायन्ते नैव किंरूपा इति,
योषितो वेश्या इत्यर्थः, तस्मात्तास्वतिसक्तिं न कुर्यात् , केवलं यावदर्थ:-
प्रतिपद्यरन्नित्युपदेशः ॥ ५७ ॥
इति कान्ताऽनुवृत्तं द्विपञ्चाशत्तमं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां-
वैशिके षष्ठेऽधिकरणे कान्ताऽनृवृत्तं द्वितीयोऽध्यायः ।
।
तृतीयोऽध्यायः।
एवमनुवर्तितात्कान्ताद्वित्तमाददीत, तच्च नानुपायेन साधयेदित्यु.
तम्, इदानीमर्थागमोपाया उच्यन्ते, तच्चादानं द्विविधं-स्वाभाविक-
मितरच, यदाह-
सक्ताद्वित्तादानं स्वाभाविकमुपायतश्च ॥ १ ॥
सक्तादिति । उक्तलक्षणात् , स्वाभाविकं न यत्नमपेक्षते, सक्तस्या-
थेषु निरपेक्षत्वाद्, उपायतश्च यदसक्ताद्भवति तत्प्रायनिकम् ॥ १ ॥
तत्र स्वाभाविकं संकल्पितं संकल्पसमधिकं वा लभमाना नो.
पायान्प्रयुञ्जीतेत्याचार्याः ॥ २ ॥
तत्र स्वाभाविक वित्तं संकल्पितम्, एतावत्वया देयमिति संकल्पि.
तात्समधिकं वा लभमाना नोपायान्प्रयुञ्जीत, सुलभत्वात् , तेनासं.
कल्पिते च प्रयोगः ॥ २ ॥
विदितमप्युपायैः परिष्कृतं द्विगुणं दास्यतीति वात्स्यायनः ॥३॥
विदितमपीति । स्वाभाविकत्वेन समधिकत्वेन च, परिच्छिन्नमप्यु-
पायैः परिष्कृतमुपबृंहितं द्विगुणं दास्यतोति, तत्र प्रयोगो युक्तः ॥ ३ ॥

२९२ सटीके कामसूत्रे [६ अधिकरणे, santos - यैरुपायैरादीयमानेऽप्यर्थ नार्थपरता ज्ञायते तानुपायानाह- अलंकारभक्ष्यभोज्यपेयमाल्यवस्वगन्धद्रव्यादि व्यवहारिषु कालिकसुद्धार्यमर्थप्रतिनयनेन तत्समक्षम् ॥ ४ ॥ अलंकारेति । भक्ष्यं = लड्डुकादि, भोज्यम् = अन्नादि, कृतमकृतं वा, पेयं =सुरादि, वस्त्रं, चतुर्विधं-त्वक्फल कृमिरोमज, गन्धः = कुङ्कमादिः, माल्यं = अथितकुसुमादि,आदिशदात्ताम्वूलपूगफल पशुभाण्डोपस्करादि, तदुद्धार्यमिति संबन्धः, व्यवहारिग्विति । विक्रेतृषु व्यवस्थितं, कालि कमिति । कालेन देयम् , उद्धार्यमादातव्यमित्यर्थः, अर्थप्रतिनयनेनेति मूल्यप्रतिदानेन न तु द्रव्यस्यैव प्रतिनयनेन तत्समक्षं यतो दृष्ट्वा स्वय- मेव मूल्यं दास्यति ॥४॥ तद्वित्तमशंसा ॥५॥ तद्वित्तप्रशंसा, तत्समक्षमित्येव, रोचयते मदीयमिति तत्प्रशंसत इति ददाति ॥५॥ व्रतक्षारामदेवकुलतडागोद्यानोत्सवप्रीतिदायव्यपदेशः ॥ ६ ॥ व्रतेति । आगाम्यष्टम्यां मन व्रतं, तत्रानेन प्रयोजनमिति, दर्श मया वृक्षो रोपितस्तस्य प्रतिष्ठेति, आन्त्राणां मधूकानां मयाऽऽरामः कार्यः, कृतस्य वा कर्णवेधादिकं कार्यमिति, देवकुलमुत्थापितमुत्थापितस्य वा प्रतिष्ठेति, तडागं पुष्करिण्यादिकं खानितस्य वा प्रतिष्ठेति, उत्सवः पर- श्वो भविता तत्रानेन प्रयोजनमिति, स्निग्धोऽयमागतस्तस्य प्रीत्याऽव- श्यं किंचिद्देयमिति तद्व्यपदेशः ॥ ६ ॥ तदभिगमननिमित्तो रक्षिभिश्चौरैर्वाऽलङ्कारपरिमोषः ॥ ७ ॥ तदभिगमनेति । नायकाभिगमनं निमित्तं यस्य, रक्षिभिर्दाण्डपा. शिक सहायैः कृतसंविकैश्चोरा कृतसंवित्रलंकारपरिमोषः कार्यः, येनेयमस्मन्मूलमागच्छन्ती मुषितेति ज्ञात्वाऽन्यमलंकारं प्रयच्छति ॥७॥ दाहाकुड्यच्छेदात्प्रमादावने चार्थनाशः ॥ ८॥ दाहादिति । प्रमादादुत्थितेऽग्नौ च दग्धमिति, नाशा प्रकाश्यः न तु स्वयपादीप्योऽनेकप्राण्युपधात दोषात् , कुड्यच्छेदादिति । चोरैः सं धि खात्वाऽपहृतमिति नाश, चोरव्यञ्जनैर्वा कुड्यच्छेदानाशा, प्रमादा- दिति । मम मातुर्वा प्रमादाद् गृह पव द्रव्यनाशः ॥ ८॥ तथा याचितालंकाराणां नायकालंकाराणां च तदभिगमना. थस्य व्ययस्य प्रणिधिभिनिवेदनम् ॥ ९ ॥ ।

३ अध्याये] अर्थागमोपायप्रकरणम् । २९३ । HALA ESH SH ARTHA BHARA HARYAN तथेति । यथा स्वद्रव्यस्य दाहादिना नाशस्तथा याचितालंकाराणां- कार्यवशादन्यतो मागितानां, नायकालङ्काराणां तेन स्थापितानां, दाहा- दिना नाशे प्रकाशितेऽवश्यं प्रयच्छति, स्वकीयं च न मृगयते, प्रणिधि. भिरिति । परिचारकमुखा ये नायकेन प्रणिहितास्तैर्व्ययस्य निवेदनं,- नायकाप्रतस्त्वामभिगन्तुमस्याः सरकताम्बूलादिभिरियान् व्यय उत्थि- त इति ॥९॥ तदर्थमृणग्रहणं, जनन्या सह तदुद्भवस्य व्ययस्य विवादः ॥१०॥ तदर्थमिति । नायकनिमित्तव्ययार्थम् , ऋणग्रहणं, तत्समक्षमित्य- र्थाद्, जनन्येति । ऋणं किमिति गृह्णासि कथं त्वया शोधयितव्यम् ? इ. त्यभिदधत्या मात्रा सह, तदुद्भवस्य नायकसंबन्धिनः कृते नात्मीयस्य, विवादः कर्तव्यः किं तवाहमेवात्मानमपि विक्रीय शोधयिष्यामीति, तेन तथाविधं दृष्ट्वाऽवश्यं ददातीत्यर्थः ॥ १० ॥ मुहकार्येष्वनभिगमनमनभिहारहेतोः ॥ ११ ॥ सुहृत्कार्येष्विति । नायकमित्रोत्सवादिष्वनभिगमनं कार्यमाहूयमा. नयाऽपि नायकेन शब्द्यमानयाऽपि, कारणमाह-अनभिहारहेतोरिति । अभिहारः = उपायनं, तन्मम नास्तीति ॥ ११ ॥ तैश्च पूर्वमाहृता गुरवोऽभिहाराः पूर्वमुपनीताः पूर्वं श्राविता:- स्युः ॥ १२ ॥ तैश्च पूर्वमाहृता इति । सुहृद्भिरस्माकमप्युत्सवे महान्तोऽभिहारा:. पूर्वमुपनीता इति नायकस्य पूर्व श्राविताः स्युः, यावदेव सुहृत्कार्य न संभवति, पूर्व याचितं हि कार्यकाले प्रयच्छति, यदि न दद्यादवश्यमेव तदानीमनभिगमनम् ॥१२॥ उचितानां क्रियाणां विच्छित्तिः ॥ १३ ॥ उचितानामिति । प्रत्यहं शरीरस्थित्यर्थ क्रियमाणानां, विच्छेदः- कार्यः, येनायमिदानीं शरीरस्थितिरप्यस्था न संभवतीति ॥ १३ ॥ नायकार्थ च शिल्पिषु कार्यम् ॥ १४ ॥ नायकार्थ चेति । नायकादों यस्मिन् कार्ये तत् कार्य, शिल्पिषु निर्देश्यमिति शेषः, अयमुस्कृष्टः शिल्पी कारयेयं बहु मृगयते, तच्च मम नास्ति यदि त्वं प्रयच्छसि नो चेद्यदा भविष्यति तदा कारयि- ज्यामीति ॥ १४॥ वैद्यमहामात्रयोरुपकारक्रिया कार्यहेतोः ॥ १५ ॥ उपकारक्रिया= उपकारकरणं, कार्यहेतोरिति । इदं तत्कायं यदुप- Ansity ।

२९४
सटीके कामसूत्रे
[६ अधिकरणे,
कृतो वैद्यो भेषजापदेशेन नायकेन दापयति, महामात्रश्वोपकृतो हठाददा.
तुकामेनापि ॥ १५ ॥
मित्राणां चोपकारिणां व्यसनेष्वभ्युपपत्तिः ॥ १६ ॥
मित्राणामिति । नायकसम्बन्धिनामुपकर्तुं शीलं येषां नान्येषां,-
व्यसनेषु दैवमानुषेषु, अभ्युपपत्तिःसाहाय्यं, तानि हि व्यसनेप्वभ्यु-
पपन्नानि नायकमभिधायोपकुर्वन्ति ॥ १६ ॥
गृहकर्म, सख्याः पुत्रस्योत्सअनं, दोहदं, व्याधिः, मित्रस्य
दुःखापनयनमिति ॥१७॥
गृहकर्म-छादनवेष्टनादि कारयितव्यं, सख्याः स्वस्याः पुत्रस्योत्सञ्जनं.
यस्योत्सवताप्रतिपत्तिः, क्रियाकालोपलक्षणं चैतद्, अन्नप्राशनं चूडाकर-
णादि वा करणीयं, दोडदः= अभिलाषः, अस्मत्सख्याः, व्याधिर्वाऽऽक-
स्मिकः प्रतिकर्तव्यः, मित्रस्य च युष्मदीयस्य, पुत्रादिमरणान्ममेह दुःख-
मुत्पन्नं तस्य दर्शनादपनेतव्यमित्येवं गृहकर्मादि व्यपदेश्यमिति शेषः ॥१७॥
अलङ्कारैकदेशविक्रयो नायकस्यार्थे ॥ १८ ॥
अलङ्कारैकदेशविक्रय इति । स्वस्यालङ्कारस्यैकदेशमाकृष्य तत्स.
मक्ष विक्रयो येनायं मदर्थ विक्रीणातीति प्रयच्छति ॥१८॥
तया शीलितस्य चालकारस्य भाण्डोपस्करस्य वा वणिजो.
विक्रयार्थ दर्शनम् ॥ १९ ॥
तया नायिकया, शीलितस्य रुचितालङ्कारस्य, भाण्डोपस्करस्य
बा शीलितस्य, वणिजः कृतसङ्केतस्थ,नायकसमक्षं दर्शनं कर्तव्यं येनायं.
नास्त्यस्याः किमपि यच्छीलितमपि विक्रेतुमारब्धमिति प्रयच्छति ॥१९॥
भाण्डसंप्लवे विशिष्टग्रहणम्'इति, दत्तकसूत्रम् , अस्य स्पष्टार्थ सूत्रा.
स्तरमाह-
प्रतिगणिकानां च सशस्य भाण्डस्य व्यतिकरे प्रतिविशिष्ट
स्य ग्रहणम् ॥ २० ॥
प्रतिगणिकानामिति । भाण्डस्य सादृश्यात्म्वेन भाण्डेन व्यति-
करे परिवर्ते सति, मा भूत्पुनरेवमिति प्रतिशिष्टस्य, प्रमाणसंस्थाना-
भ्यां ततोऽधिकस्य, ग्रहणं, वणिजो हस्तात् क्रमेण नायकसमक्षं कुर्याद्,
थेनायं क्रीत्वा प्रयच्छति, प्रायशश्व वेश्यानां सामान्यानां कार्योत्पत्ताव
म्योन्यस्य भाण्डं याचितकं भवतीति प्रतिगणिकाग्रहणम् ॥ २० ॥
पूर्वोपकाराणामविस्मरणमनुकीर्तनं च ॥ २१ ॥

३ अध्याये] विरक्तप्रतिपत्तिप्रकरणम् । । NEPALI ॥ अविस्मरणमिति । विस्मरणे हि तवेदं मयोपहतमिति यदि तेना- भिहिता किं ब्रयाद्, अनुकीर्तनं च तत्समक्षं येनोपकृतमत्र ने नश्यतीति, पुनः प्रयच्छति ॥२१॥ प्रणिधिभिः प्रतिगणिकानां लाभातिशयं श्रावयेत् ॥ २२ ॥ प्रणिधिभिः = चारैः, प्रतिगणिकानामात्मना तुल्यदानसनर्हाणां, ला. भातिशयश्रावणं नायकसमक्ष, भवदावासाद्विष्णुमित्त्रया लब्धमिदमधि. कमित्यादि ॥ २२ ॥ तासु नायकसमक्षमात्मनोऽभ्यधिकं लाभं भूतमभूतं वा ब्री. डिता नाम वर्णयेत् ॥ २३॥ तास्विति । प्रतिगणिकासु, यो लामस्तस्मादप्यधिकमिति योज्यम्, भूतं वा नायकेन दत्तम् , अभूतमदत्तम् , ब्रीडिता नामेति । लज्जितेव वर्णयेद्, येन सोऽपि लज्जितः प्रयच्छेत् ॥ २३ ॥ पूर्वयोगिनां च लाभातिशयेन पुन: संघाने यतमानानामावि. कृतः प्रतिषेधः ॥ २४ ॥ पूर्वयोगिनामिति । पूर्वसंसृष्टानां विशीर्णानां, लाभातिशयेनाधिकेन लाभेन, पुनः सन्धाने यतमानानां यत्नं कुर्वताम्, आविष्कृतः प्रकटः, प्रतिषेधः कर्तव्यः, यथाऽसौ श्रुत्वा मय्यनुरक्तति प्रयच्छति ॥ २४ ॥ तत्स्पर्धिनां च त्यागयोगितानिदर्शनम् ॥ २५ ॥ तत्त्पधिनां चेति । नायकस्पर्धिनां त्यागयोगितानिदर्शनं प्रणिधि- भिस्त्यागयोगित्वख्यापनार्थमित्यर्थः, येनायं श्रुत्वाऽवतार एषां मा भूदिति प्रयच्छति ॥ २५ ॥ न पुनरेष्यतीति बालयाचितकमित्यर्थागमोपायाः ॥ २६ ॥ न पुनरेष्यतीति । न पुनर्गृहमनेनागन्तव्यमिति, बालेन प्रयुक्तेन याचितकं कार्यमिदं मे देहीति, बालवद्वा लज्जां त्यक्त्वा याचितव्यमि. त्यर्थः, एतेऽर्थागमोपाया देशकालावस्थाऽपेक्षया प्रयोक्तव्याः ॥ २६ ॥ इत्यर्थागमोपायास्त्रिपञ्चाशत्तमं प्रकरणम् ॥ सक्ताद्वित्तादानमुपायैरुक्तं, विरक्त किं प्रतिपद्यतेति, विरक्तप्रति- पत्तिरुच्यते, तत्र विरक्तस्य लक्षणमाह- विरक्तं च नित्यमेव प्रकृतिविक्रियातो विद्याद् मुखवर्णाच॥२७॥ विरक्तं चेति। नित्यमेवेति । सर्वत्र क्रियासु वर्तमानम्, प्रकृतिविक्रि. यात इति । स्वभावान्यथात्वेनेत्यर्थः, अनेनेङ्गितमन्यथावृत्तिलक्षणं दर्श- SHREAWARAN ।

सटीकेकामसूत्रे [६ अधिकरणे, यति, मुखवर्णाच्च विद्यादित्येव, मुखरागादित्यर्थः, कश्चिदेव मुखरागे विराग सूचयति, तेनेड़िताकाराभ्यां रक्तवाद्विरक्तमपि विद्यादित्युक्तम्॥२७॥ तामन्यथावृत्तिमाह- ऊनमतिरिक्तं वा ददाति ॥ २८ ॥ ऊनमिति । अतिरिक्तं वा यथादीयमानात् ॥ २८ ॥ प्रतिलोमैः सम्बध्यते ॥ २१ ॥ प्रतिलोमैः संबध्यते, नायिकाया विपक्षैः सह प्रीति करोति ॥ २९ ॥ व्यपदिश्यान्यत्करोति ॥ ३० ॥ व्यपदिश्य 'स्नातव्यम्' इति, अन्यस्करोति, सज्जीकृतेऽपि स्नानोप- करणे भुङ्क्ते ॥ ३० ॥ उचितमाच्छिनात्त॥३१॥ उचितमाच्छिनत्ति, प्रत्यहं दीयमानं न ददाति ॥ ३१ ॥ प्रतिज्ञातं विस्मरत्यन्यथा वा योजयति ॥ ३२॥ प्रतिज्ञातमिदं मया देयमिति विस्मरति, न प्रतिज्ञातमिति, अन्यथा योजयति न विदमिति ॥ ३२ ॥ स्वपक्षः संज्ञया भाषते ॥ ३३ ।। स्वपक्षैरिति । मित्रादिभिः सह, संशया भाषते न वचसा मा श्रीषी. दियमिति ॥ ३३॥ मित्रकार्यमपदिश्यान्यत्र मोते ॥ ३४ ॥ मित्रकार्यमपदिश्य, मयाऽद्य कर्तव्यमित्यन्यत्र शेते, नायिकाऽन्त- रगृहे ॥ ३४॥ पूर्वसंसृष्टायाश्च परिजनेन मिथः कथयति ॥ ३५ ॥ पूर्वसंसृष्टायाश्च नायिकायाः परिचारकेण सह, मिथः = रहसि, क. थयति यत्पर्यवृत्तं वर्तमाननायिकागतं बा ॥३५॥ तस्मिन्विरक इति ज्ञातेऽनुष्ठानमाह- तस्य सारद्रव्याण प्रागवबोधादन्यापदेशेन हस्ते कुर्वीत ॥३६॥ तस्येति । विरक्तस्य, सारद्रव्याणि= सुवर्णरजतादीनि, हस्ते कुर्चीत, प्रागवबोधादिति । यावदसौ न जानाति, ज्ञातोऽहमनया विरक्त इति, अन्यथा प्रतिविधानान्तरं चिन्तयेत् , तत्राप्यन्यापदशेन यकिन चियाज कृत्वेत्यर्थः ।। ३६ ॥ वानि चास्या हस्तादुत्तमर्णः प्रसाद गृह्णीयात् ।। ३७ ॥ MUMME ३ अध्याये] निष्कासनक्रमप्रकरणम् । AND FROM तानि चेति । सारद्रव्याणि, अस्या इति । नायिकाया हस्ताद्, उत्तमर्ण इति । यस्मादुत्तमर्णानायकार्थमृणमाहृतं गृहीतवती स त. या कृतसंकेतः प्रसह्याभिभूय गृह्णीयात् ॥ ३७ ॥ विवदमानेन सह धर्मस्थेषु व्यवहरेदिति विरक्तप्रतिपत्तिः ॥ ३८ ॥ विवदमानेनेति । मदीयमेतत्त्वं किं गृह्णासीति विवादं कुर्वता नाय- केन सह, धर्मस्थेषु प्राड्विवाकादिषु च, व्यवहरेदुत्तमः, यदि तु न विवदेत सिद्ध कार्यम्॥३८॥ इति विरक्तप्रतिपत्तिश्चतुःपञ्चाशत्तमं प्रकरणम् ॥ विरक्तस्य स्वयमेव निष्कासितत्वान्न निष्कासन, यस्तु सक्तत्वा- स्वयं न निष्कसति, तस्य निष्कासनक्रमा उच्यन्ते, तत्रायं प्रथम:- कल्पो यदस्यानुपालन, यदाह-- सक्तं तु पूर्वोपकारिणमप्यरूपफलं व्यलीकेनानुपालयेत् ॥ ३९ ॥ सक्तमिति । अल्पं ददतमपि, व्यलोकेनापराधेनानुपालयेत् , तस्य सक्तत्वात्, पूर्व बहुधा कृतोपकारोऽपि परामिच्छति यदा तदा निष्का- सयेदित्यर्थः ।। ३९ ॥ असारं तु निष्पतिपत्तिकमुपायतोऽपवाहयेदन्यमवष्टभ्य ॥ ४०॥ असारं =निद्रव्यम् , अपवाहयेद् =निष्कासयेद्, यद्यपि तदात्वे ना. स्ति, तथाऽपि भविष्यतीति चेदाह-निष्प्रतिपत्तिकमिति । निरनुष्ठान- मित्यर्थः, ननु रतिफलत्वात्कथं निष्कास्य इति-चेन्न, अन्यमवष्टभ्येति । अन्यस्मादुभयोपपत्तेः, वर्तमानादन्यं पूर्वसंसृष्टं विशीर्णम् , अन्यं वा. ऽऽसृत्यापवाहयेदिति योज्यम्, अन्यथा विपक्षस्याभावात् सत्यप्यु. पायप्रयोगे सक्तस्यानिष्कासनात् ॥ ४० ॥ ते च निष्कासनोपायाः प्रकाशे रहसि वा स्थितस्य, तत्र पूर्वमधि. कृत्याह- तदनियमेवा,निन्दिताभ्यास:, ओष्ठनिर्भोगः, पादेन भूमेरभि- घातः, अविज्ञातविषयस्य संकथा,तद्विज्ञातेष्वविस्मयः, कुत्सा च, दर्पविघातः,अधिकैः सह संवासा,अनपेक्षणं, समानदोषाणां निन्दा, रहसि चावस्थानम् ॥ ४१ ॥ तदनिष्टसेवेति । तस्य नायकस्य यदनिष्टं तस्य सेवा कर्तव्या, येनार्य- प्रागेवेयं मम च्छन्दानुवर्तिनी संप्रति कामं परीवादयुक्ता विरक्तति व्या. वर्तते, निन्दितं तृणच्छेदलोष्टमर्दनादि तस्याभ्यासः पुनः पुनः करणं- तदनतो, येनायं ममाशुभं कासत इति जानाति, ओष्ठनिर्भोगः, तं दृष्ट्वा ३८ का०सु० - सटीके कामसूत्रे [६ अधिकरणे, wwwammar स्वमोष्ट च क्रोडीकृत्य बहिनिष्कासयेत् , पादेन भूमेरभिघातः, भूमौ पा. दास्फालनं, तदुभयं नित्यक्रद्धताख्यापनार्थम् ,अविज्ञातविषयस्य संकथे. ति। यस्मिन्विषये नायकस्य परिज्ञानं नास्ति, तस्मिन् तस्य संबन्धिन:- शोभनमिदं जानातीति संकथा कर्तव्या, यथाऽस्य लोकमध्ये वैल- श्यं भवति, विज्ञातेवविस्मयो विरागख्यापनार्थ, कुत्सा च, दुःशिक्षि. तमस्यैतदिति, दर्पविधातः शौर्यादिजनितदर्पस्थापनयनम् ,अन्यं प्रोत्साह्य येनायं विलक्षीभवति, अधिकैः सह संचालः, येन तेभ्यो विभ्यन्न ढोकते, अनपेक्षणमिष्टानिष्टवस्तु ववज्ञाख्यापनार्थ, समानदोषाणां निन्दा, य- थाऽयं तद्वारेण मां कुत्सयतीति जानाति, रहसि चावस्थान, रताऽर्थः संकथाऽर्थ वा ॥४१॥ तत्र रतमधिकृत्याह- रतोपचारेषूद्वेगः, मुखस्यादानं, जघनस्य रक्षणे, नखदशन- क्षतेभ्यो जुगुप्सा, परिष्वङ्गे भुजमथ्या भूच्या व्यवधानं, स्तब्धता गात्राणां, सक्थनोर्व्यत्यामः, निद्रापरत्वं च, श्रान्तमुपलभ्य चोद. ना, अशक्तौ हासः, शक्तावनभिनन्दनं. दिवाऽपि भावमुपलभ्य महाजनाभिगमनम् ॥ ४२ ॥ रतोपचारेविति । रतार्थ सरकताम्बूलादिपूपचारेषु, उद्वेग इत्यप्र. तिग्रहणम्, प्रतिग्रहणे वाऽसौमनस्यम् , मुखस्यादानं मुखं चुम्बितुं न देयं, जघनस्य रक्षणं द्रष्टुं स्प्रष्टुं वा न देयं , नखदशनक्षतेभ्यस्त. स्कृतेभ्यः जुगुप्सा=निन्दा, भुजमय्येति । भुजौ व्यत्यस्य स्तनस्कन्धयो. निदध्यात् ततो भुजावेकीकृत्य सूचीव सूची नया व्यवधान परिष्वङ्गस्य, स्तब्धता गात्राणां कर्तव्या नाक्रष्टुं दद्यादित्यर्थः, सक्थ्नोर्व्यत्यासः, सक्थिनी व्यत्यस्येद् यन्त्रयोगे प्रतिषेधार्थमूरू व्यत्यस्येदित्यर्थः, निद्रा. परत्वं चात्मनः ख्याप्य, श्रान्तमुपलभ्येति। यदि कथं चिद्रन्तुं प्रवृत्त. स्तत्र श्रान्तं चोदयेत्प्रवर्तयितुं न पुरुषायितेन साहाय्यं दद्यात्, तत्र चोदितस्याशक्तौ हासः कर्तव्यः; पायाऽभिहत्य यथाऽयं विरक्तीभवति, शक्तावनभिनन्दनं वैराग्यख्यापनार्थ, दिवाऽपोति । अस्त्येव कश्चि- स्कामगर्दभो यः प्रतिषिद्धमपि दिवा मेथुनमाचरति, भावमुत्कण्ठां संप्र. योगेच्छामुपलभ्य; चेगिताकाराभ्यां महाजनाभिगमनं, रतिगृहानिर्गत्य तदिच्छाव्याघातार्थम् ॥ ४२ ॥ संकथामधिकृत्याह- वाक्येषु च्छलग्रहणम् , अनमणि हासः, नमणि चान्यमपदिश्य ।

। ३ अध्याये] निष्कासनक्रमप्रकरणम् । हसेद, वदति तस्मिन्कटाक्षेण परिजनस्य प्रेक्षणं ताइनं च, आहत्य चास्य कथामन्याः कथाः, तब्धलीकानां व्यसनानां चापरिहार्या. णामनुकीर्तनं, मर्मणां च चेटिकयोपक्षेपणम् ॥ ४२ ॥ वाक्येष्विति । छलग्रहणं विरूपकमुक्तमिति, अनर्मणीति । क्रीडार- हितेऽपि संकथने हासोऽकस्मात्कर्तव्यः, येनायं विनैव क्रीडाक्रियया मामुपहसतीति मन्यते, नर्मणि चेति । क्रीडायां प्रस्तुतायामर्थान्तरमप- दिश्य हसेत् , तस्मिन्नायके वदति सति परिजनस्य स्वस्य कटाक्षेण प्रेक्षणं कर्तव्यं, ताडनं च, सहासं हस्तेन येनायं जानाति नास्मकथायां. रमत इति, आहत्य चेति । तेन क्रियमाणां कथामपास्यान्याः कथा:- कर्तव्याः, तधलीकानां नायकापराधानां व्यसनानां द्यतादी- नाम् , अपरिहार्याणामिति । यान्युभयान्यपि परिहतुमशक्यानि तेषा. मनुकीर्तनं वैराग्यजननार्थम्, मर्मणां चानुकोर्तनं येषूक्तेषु दुःखमास्ते, चेटिकामुपक्षिप्य सर्वमभिधापयेद्, एभिरुपायैर्निष्क्रमणयोग्यतामापा. दितस्योपायद्वयं यतः पुन गच्छतीति ॥ ४३ ॥ यदाह- आगते चादर्शनमयाच्ययाचनमन्ते स्वयं मोक्षश्चेति परिग्रह- कल्पो दत्तकस्य ॥ ४४ ॥ आगते चादर्शनमिति । यावद्यावदागच्छति तावत्तावदात्मान- न दर्शयेत् , पश्यति चेदयाच्यवाचन, यन्न याचितुमहीत तद्या- चेत, अन्ते चावसाने मोक्षः स्वयमेव परित्यागः कर्तव्यः, तस्योपाय:- प्रायेण निवारितत्वात्, परिग्रहकल्प इति । वेश्याया गम्यस्य यः परि- ग्रहस्तस्य कल्पो विधिरेतावानेव दत्तकप्रोक्तो न मयाऽभिहितः, तेन हि गणिकानां नियोगात्संक्षेपेणाभिधातुमीप्सितत्वात् ॥ ४४ ॥ यत्तु तच्छेषभूतं विशीर्ण प्रतिसंधानादिकमपि बाभ्रव्योक्तं, तदहं व. क्ष्यामीति मन्मते, यदि परिग्रहः कर्तव्योऽनेनाधिकरणेन कथ्यते, कथं वैशिकम् ? इत्युच्यत इत्याह- भवतश्चात्र श्लोको- परीक्ष्य गम्यैः संयोगः संयुक्तस्यानुरञ्जनम् । सक्तार्थस्य चादानमन्ते मोक्षश्च वैशिकम् ॥ ४५ ॥ परीक्ष्येति । सहायगम्यागम्यगमनकारणचिन्तां कृत्वेत्यर्थः, गम्यैः- संयोगो गम्योपावर्तनेन, संयुक्तस्यानुरञ्जनं कान्तानुवृत्तः, सकादर्थस्य चादानं तदुपायों, अन्ते मोक्षश्च निष्कासनक्रमः, एतत्सर्व वेश्योचितं न amariya ३०० सटीके कामसूत्रे [६ अधिकरणे, कुलयोषिदुचितं, तच वैशिकमिति संज्ञितं, यदाह कात्यायन:-'वेशं. वेश्याजनोचितम् इति, स प्रयोजनमस्येति वैशिकम् ॥ ४५ ॥ तस्य वेशस्य प्रयोजनमाह- एवमेतेन कल्पेन स्थिता वेश्या परिग्रहे । नातिसंधीयते गम्यैः करोत्यर्थीश्च पुष्कलान् ॥ ४६ ॥ इति श्रीवात्स्यायनीये कामसूत्रे वैशिके पष्ठेऽधिकरणेऽर्थागमो- पाया विरक्तप्रतिपत्तिनिष्कासनक्रमा- स्तृतीयोऽध्यायः। एवमिति । कल्पेनेति । वैशिकाख्येन, नातिसंधीयते नातिवाच्यते, पुष्कलानिति । अनेकानित्यर्थः ॥ ४६॥ इति निष्कासनक्रमाः पञ्चपञ्चाशत्तमं प्रकरणम् ।। इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमालाऽऽख्यायां वैशिके षष्ठेऽधिकरणेऽर्थागमोपाया विरक्तप्रतिपत्तिनिष्कासनक्रमास्तृतीयोऽध्यायः । । । B.ME অনুষ্ঠাঁstঘাষ शास्त्रकार एव प्रकरणसंवन्धमाह- वर्तमानं निष्पीडितार्थमुत्सृजन्ती विशीर्णेन मह संदध्यात् ॥१॥ वर्तमानमिति । तस्यां यो वर्तते तमलतकवनिष्पीडितार्थमुत्सृजन्ती यदा त्यक्तुकामा तदा, विशीर्णेनेति । पूर्वसंसृष्टेन निष्कासितेन संधि. सुना सह संदध्याद्, एवं सति 'अपवाहयेदन्यमवष्टभ्यः इत्यनुगतं भव. तीति विशोर्णप्रतिसंधानमुच्यते ॥ १ ॥ विशीर्णस्यालक्तकवदुत्सृष्टस्य किं संधानेनेति चेदाह- स चेदवसितार्थो वित्तवान्सानुरागश्च ततः संधेयः ॥ २ ॥ सेति । वित्तवानपि यदाऽवसितार्थोऽवश्यं दास्यतीति, सानुरागश्च, अन्यथा विश्वसनार्थ यत्किचिहत्त्वाऽपि निष्कासितोऽहमनयेति विर- तोऽपकुर्यात्, तत इति । तस्मात्कारणात्संधेयः, सोऽप्यन्यया यदि न संसृष्टः ॥२॥ यस्तु संसृष्टस्तत्र विधानान्तरमाह- अन्यत्र गतस्तर्कयितव्यः स कार्ययुक्त्या षड्विधः ॥ ३ ॥ अन्यत्र गत इत्यनेन षड्विधा विशीर्ण इति, तर्कयितव्य इति । निरू- प्यो वक्ष्यमाणेन न्यायेन सहसा न संधेयः, स इति । योऽन्यत्र गतः, कार्ययुक्त्येति । कार्ययोगाद् षड्विधः, असंसृष्टस्त्वेकविधः ॥ ३ ॥ - ARE HARING- गतस्ततोऽपि निष्कासित ४ अध्याये] विशीर्णप्रतिसंधानप्रकरणम् । ३०१ कार्ययुक्तिमाह- इतः स्वयमपमृतस्ततोऽपि स्वयमेवापसृतः ॥ ४ ॥ इत इति । स्वदोष एवास्य, यदस्या नायिकातः स्वयमेवापसृत्यान्यत्र गतः, यत्रापि गतस्तत्रापि स्वयमेवापसृत इत्येकः ॥ ४॥ इतस्ततश्च निष्कासितापमृतः ॥ ५ ॥ इतस्ततश्चेति । अत्राश्रययोर्दोषो नाश्रितस्य दोषः,यस्मादितो निष्का- इत: स्वयमपमृतस्ततो निष्कासितापमृतः ॥ ६ ॥ इतः स्वयमपरसृत इति । आश्रितस्य दोषः, ततोऽपि निष्कासितोऽप- सृत इत्याश्रयस्य चेति तृतीयः॥६॥ इतः स्वयमपमृतस्तत्र स्थितः ॥ ७ ॥ इतः स्वयमपसृत इत्याश्रितस्य दोषः, तत्र स्थित इति । नोभ. योरिति चतुर्थः ॥ ७॥ इतो निष्कासितापसृतः ॥ ८॥ इतो निष्कासितापसृत इति । उभयस्य दोषः, ततः स्वयमपसृत- इत्याश्रितस्येति पञ्चमः॥८॥ इतो निष्कासितापमृतस्तत्र स्थितः ॥ ९॥ इतो निष्कासितः सन्नपसृत इत्याश्रयदोषः, तत्र स्थित इति । नो- भयोरपीति षष्ठः ॥९॥ एषु संधेयासंधेयतया तर्कमाह- इतस्ततश्च स्वयमेवापमृत्योपजपति चेदुभयोर्गुणानपेक्षी चल. बुद्धिरसंधेयः ॥ १० ॥ उपजपति चेदिति । यदि संधातुं पीठमर्दादिमुखेनोपसृत्य भणतीत्यर्थः, तत्र द्वितीयपझाभावात्तयितव्य इति नोक्तं, यदाह-उभयोरिति । तस्यास्तस्याश्च, ताभ्यामनिष्कासितत्वात् , सतोऽपि गुणाननपेक्ष्य चलबुद्धित्वात्स्वदोषेणैवापसृतः, स संहितोऽपि न स्थायी न च तस्मा- दर्थन योग इत्यसंधेयः ॥१०॥ इतस्ततश्च निष्कासितापमृतः स्थिरबुद्धिः स चेदन्यतो बहु लभमानया निष्कासितः स्यात्ससारोऽपि तया रोषितो ममामा, बहु दास्यतीति संधेयः ॥ ११ ॥ इतस्ततश्च निष्कासितेति । उपजपति चेदिति वर्तते, स्थिरबुद्धिः- ।

सटीके कामसूत्रे [६ अधिकरणे,
स्वयमनपसृतत्वाद्, अत्र पक्षद्वयमप्यस्ति, यदाह-स चेदिति । अत्र तर्क-
यितव्य इति नोक्तं, चेच्छब्देनैव यद्यर्थन तदर्थस्योक्तत्वाद् , अन्यत-
इति । अन्यस्माद्गम्याद्वहु लभमानया निष्कासितः, ससारोऽपि सद्-
व्योऽपि, ततश्च तया सरोषितो जनितरोषोऽमर्षाद्वहु दास्यतीति ज्ञात्वा;
तदानीमेव संधेयस्तयैव रोषितत्वात् , तस्यामनुशयं बध्नाति ॥ ११ ॥
नि:सारतया कदर्यतया वा त्यक्तो न श्रेयान् ॥ १२ ॥
निःसारतया निदव्यतया ससारश्च कदर्यतयाऽवदान्यतया,त्यक्तो नि-
कासितः, न श्रेयान् संधातुमिहापि तुल्यत्वात् ॥ १२ ॥
इतः स्वयमपसृतस्ततो निष्कासितापमृतो यद्यतिरिक्तमादौ च
दद्यात्ततः प्रतिग्राह्य: ।। १३ ॥
इतः स्वयमपसृतस्ततो निष्कासितापस्तृत इति । अत्राप्युपजपेदिति
वर्तते, अत्रापि यदिशब्दात्तयितव्य इति नोक्तम् , अतिरिक्तं पूर्वस्मा-
दानाद्, आदौ च यावन्न संप्रयोगः, कृतकृत्यस्य हि स्वयमपसर्पण-
संभवात् , प्रतिग्राह्यः, संधेयः अत्र विपर्ययेणाप्रतिग्राह्य इत्यर्थोको द्वि.
तीयपक्षः ॥ १३ ॥
इतः स्वयमपमृत्य तत्र स्थित उपजस्तयितव्यः ॥ १३ ॥
तर्कयितव्यः किमुपकर्तुपकर्तु वोपजपतीति ॥ १४ ॥
अत्र संधेयपक्षमाह-
विशेषार्थी चागतस्तत्र विशेषमपश्यन्नागन्तुकामो मयि मां जि.
ज्ञासितुकामः स आगत्य सानुरागत्वादास्यति ॥ १५ ॥
विशेषार्थितया यत्र गतस्तत्र विशेष सुरतगतमपश्यंस्तस्या अवि.
दग्धत्वात्, तत इति ।
तस्याः सकाशाद्, अस्मन्मूलमागन्तुकामो-
मयि दृष्टविशेषत्वाद्, मां जिशासितुकाम इति । तत्रत्य एवं मयि जिज्ञा.
सां कर्तुमिच्छुः,किमियं मां स्वयमपसृतमिच्छति न वेति, सानुरागत्वा.
हास्यति दृष्टविशेषत्वात् ॥ १५ ॥
तस्यां वा दोषान्दृष्ट्वा मयि भूयिष्ठान्गुणानधुना पश्यति स
गुणदर्शी भूयिष्ठं दास्यति ॥ १६ ॥
तस्यां वा दोषान्गुणविपर्ययान्दृष्टवान् , आगन्तुकाम इति योज्यं,
सत्तु वा गुणेषु मयि भूयिष्ठान्प्रभूततमान्गुणानधुना पश्यति, तद्गुणा-
न्स्तोकान्दृष्ट्वा, स उभयस्मिन्नपि पक्षे मयि गुणदर्शी, भूयिष्ठं =प्रभूतं,-
दास्यति ॥ १६ ॥

४ अध्याये] विशीर्णप्रतिसंधानप्रकरणम् । ARMIREO । । असंधेयपक्षमाह: बालो वा नैकत्रदृष्टिरतिसंधानप्रधानो वा हरिद्रारागो वा य. किचनकारी वेत्यवेत्य संदध्यान्न वा ॥ १७॥ बालो वेति । आरोहद्यौवनत्वाद्, नैकत्रदृष्टिस्तत्रान्यत्र वाऽभिप्रायो. ऽस्य स काकाक्षिवद् वर्तमानः किं दास्यति, अतिसंधानप्रधानो वा, वञ्चनैकनिष्ठः, हरिद्रारागो वेति । हरिद्राराग इव रागो यस्य, न चिर: स्थायी, मयि विरक्तो यत्र गतस्तत्रापि विरक्तः पुनरागन्तुकामः किं- दास्यति, यात्कचनकारी वा सोऽनर्थमपि कुर्याद्, इत्येवमवेत्य ज्ञात्वा संदध्यात् प्रथमे पक्ष, न वेति । नैव संदध्यादिति द्वितीये ॥ १७ ॥ इतो निष्कासितापमृतस्ततः स्वयमपमृत उपजस्तर्क- यितव्यः॥ १८ ॥ तर्कयितव्य इत्युपकारापकाराभ्याम् ॥ १८ ॥ अनुरागादागन्तुकामः स बहु दास्यति मम गुणैर्भावितो योऽ. न्यस्यां न रमते ॥ १९ ॥ अनुरागादागन्तुकामः, तत्रानिष्कासितत्वाद्, मम गुणैर्भावितोऽ- नुरजितोऽयं, योऽन्यस्यां न रमते, येन ततोऽपि स्वयमेवापसृतः ॥ १९ ॥ पूर्वमयोगेन वा मया निष्कासितः स मां शीलायित्वा वैरं नि. तियितुकामा, धनमभियोगाद्वा मयाऽस्यापहृतं तद्विश्वास्य प्रती. १मादातुकामः, निर्वेष्टुकामो वा, मां वर्तमानाद्भदयित्वा त्यक्तुका- म इत्यकल्याणबुद्धिरसंधेयः ॥ २० ॥ पूर्वमयोगेनेति । अन्यायेन निष्कासितः, स मां शोलयिस्वेति । अनु. रागप्रदर्शनेनानुप्रविश्य, वैरं निर्यातयितुकामः प्रयच्छन्नप्यहमनया हठा- निस्कासित इति, धनमभियोगाद्वेति । अस्याभियोगमेव कुर्वत्या मया धनं बह्वपहृतमाकृष्टं, संप्रयोगश्च कादाचित्कः कृतः, तद्धनं स्नेहोपदर्श- नेन मां विश्वास्य प्रतीपमादातुकामः, निर्वेष्टुकामो वेति । निष्पूर्वो विश. तिनिर्वेशे भृतौ वर्तते, इदानींतनसंप्रयोगे तदेव धनं निर्वेशं कर्तुकामो- नान्यदातुकामः, मां वा वर्तमानादिति । निष्कास्यैनं येन सह वर्तेऽहं. तस्माद्वर्तमानादातुकामात् संधानेन मां भेदयति, मा भूदस्या लाभेन योग इति, स्वयं दास्यतीति चेदाह-त्यक्तुकाम इति । अकल्याणबुद्धि- र्वैरनिर्यातनाद्यभिप्रायः ॥ २० ॥ अन्यथाबुद्धिः कालेन लम्भयितव्यः ॥ २१ ॥ अन्यथाबुद्धी रागाद् दातुकामः कालेन, न तदानीमेव तस्य निष्का- SH ३०४ । सटीके कामसूत्रे [६ अधिकरणे, सनेनापादितवैकृतत्वाद् , लम्भयितव्य इति । प्रापयितव्यो न तु प्राप्यः- स्वातन्त्रेण लाघवात् ॥ २१ ॥ इतो निष्कासितस्तत्र स्थित उपजपनेतेन व्याख्यातः ॥२२॥ एतेनेति । अनन्तरोक्तेन विशीर्णेन व्याख्यातः, अयमपि तथैव तर्क- यित्वा; अकल्याणबुद्धिरसंधेयोऽन्यथाबुद्धिः कालेन, न तदानीमेव लम्भ- यितव्य इति ॥ २२॥ तेषूपजपत्स्वन्यत्र स्थिता स्त्र यमुपजपेत् ॥ २३ ॥ येऽन्यत्र ये च न गताः संधेयास्तेषूपजपत्सु, न स्वनुपजपत्सु लाघ- वाद्, अन्यत्र स्थितेति । द्विधा-वर्तमाना, त्याज्य इतरस्मिश्च, कारणापे. क्षया स्वयमुपजपेत् ॥ २३ ॥ बहूनि कारणान्याह- व्यलीकार्थ निष्कासितो मया, असावन्यत्र गतो यत्नादा- नेतव्यः ॥ २४ ॥ व्यलीकार्थमिति । व्यलीकमपराधो यदन्यस्याभिगमनं तन्निमित्त मया निष्कासितः स पुनर्ददातीति, यत्नादानेतव्यः, ततोऽपि फलेन योगात् ॥ २४॥ इतः प्रवृत्तसम्भाषो वा ततो भेदमवाप्स्यति ।। २५ ।। इतः प्रवृत्तसम्भाषो वेति । मामुद्दिश्य प्रवृत्तसम्भाषः, इदं ते दास्या. मीति, तत इति । यत्र गतस्तस्याः सकाशाद् भेदमवाप्स्यतीति ॥ २५ ॥ वर्तमानस्य वा दर्पविघातं करिष्यामि ॥२६॥ किमन्यस्या ददासीति तदर्पविघातं करिष्यामि, येन तद्दों वर्तमा. नो विलक्षीभूतो निष्कामति ॥ २६ ॥ अर्थागमकालो वाऽस्य, स्थानबृद्धिरस्य जाता,लब्धमने ना. धिकरणं, दारैर्वियुक्तः, पारतन्त्र्यायावृत्तः, पित्रा भ्रात्रा वा विभक्तः ॥ २७ ॥ अर्थागमकालो वाऽस्य, वणिज्यया सेवया वा, स्थानवृद्धिर्वा, ग्रामा. देरधिकस्य लाभाद्, लब्धं वाऽनेनाधिकरणमक्षपटलादिकं, दारैवियु- ता, ममेदानीमवसरःप्राप्तः, पारतन्त्र्यायावृत्तः, कर्मस्थानेषु गृहे वा स्व. तन्त्रः सुखं दास्यति, पित्रा जीवतैव विभक्तः, भ्रात्रा पितरि मृते ॥ २७॥ अनेन वा प्रतिबद्धमनेन संधिं कृत्वा नायकं धनिनमवा. प्पयामि ॥ २८ ॥ ।

४ अध्याये] विशीर्णप्रतिसंधानप्रकरणम् । । । अनेन वा प्रतिबद्धमिति । तस्य मित्रत्वाद्, अनेन संधि कृत्वा संक्र. मस्थानीयेन ॥ २८॥ विमानितो वा भार्यया तमेव तस्यां विक्रमयिष्यामि ॥ २९ ॥ विमानितो वेति। मत्तो विशीर्णः स्वभार्यया संसृष्टः, तया चास्म- दमर्षादवमानितोऽहं चाकृष्टा तमेव संधाय: तस्यां विक्रमयिष्यामि विग्रहं कारयिष्यामि, आक्रोशस्य निर्यातनार्थम् ॥ २९ ॥ अस्य वा मिस्त्रं महषिणी सपनी कामयते तदमुना भेद. यिष्यामि ॥ ३०॥ अस्य वा विशीर्णस्य मित्त्रं शक्तिद्रव्यसंपन्नं मवेषिणीमपकर्तुकामां- मम सपत्नीं वर्तमानां भूतपूर्वा वा कामयते, तन्मित्त्रमधुना विशीर्णेन भेदयिष्यामि, येन सा लाभेन न योक्ष्यते, मां चोपकरिष्यति ॥ ३०॥ चलचित्ततया वा लाघवमेनमापादयिष्यामीति ॥ ३१ ॥ चलचित्ततया वेति । इतोऽन्यत्र गतस्ततोऽन्यत्र गतस्तमपि चल. चित्ततया लाघवमापादयिष्यामि ॥ ३१ ॥ स्वयमुपजपेदित्युक्तं तस्य स्वरूपमाह- तस्य पीठमर्दादयो मातुदीशील्येन, नायिकायाः सत्यप्यनु रागे विवशायाः पूर्व निष्कासनं वर्णयेयुः ॥ ३२ ॥ तस्येति । विशीर्णस्य, मातुदीशील्येनेति । मातैवास्या दुःशीला, तयाऽर्थपरतया त्वं निष्कासितः, नायिका त्वय्यनुरक्तैव ॥ ३२ ॥ वर्तमानेन चाकामायाः संसर्ग विद्वेषं च ॥ ३३ ॥ केवलं परवशा वर्तमानेन गन्येन यः संसर्गः सम्प्रयोगो नायिकाया- अनिच्छन्त्या अकामाया औषधपानवद् विद्वेषः परमार्थतो यस्य दर्श. नपथेऽपि न तिष्ठतीति वर्णयेयुः ॥ ३३ ॥ तस्याश्च साभिज्ञानः पूर्वानुरागैरेनं प्रत्यायेयुः ॥ ३४ ॥ तस्याश्चेति । नायिकायाः, साभिज्ञानै रिति । अभिज्ञानं वक्ष्यति, पूर्वानुरागैरिति । पूर्वमविशीर्णे येऽनुरागा आसंस्तएनं प्रत्याययेयुर्नायकं. बोधयेयुः, तथैव प्रतिपद्यते ॥ ३४ ॥ अभिज्ञानं च तत्कृतोपकारसंबद्धं स्यादिति विशीर्णप्रतिसं. धानम् ॥ ३५ ॥ तत्कृतोपकारसंबद्धमिति । नायकेन यः कृत उपकारोऽर्थेनानर्थप्रती. कारेण वा तेन युकं स्यात् कृतज्ञतासूचनार्थम् ॥ ३५ ॥ ३९ का० सू० RECENSE ।

सटीके कामसूत्रे [६ अधिकरणे 100RSH । अपूर्वस्यासम्भवे विशीर्णप्रतिसंधानमुक्तं, सम्भवति चापूर्वे, विशी. णे चोपजपति सति, केन संधानं युक्तमित्याह- अपूर्वपूर्वसंसृष्टयोः पूर्वसंसृष्टः श्रेयान् , स हि विदितशीलो. दृष्टरागश्च सूपचरो भवतीत्याचार्याः ॥ ३६॥ अपूर्वेति । विदितशील इति । संवासेन ज्ञातस्वभावः, दृष्टानुरागश्च पूर्वमासक्तत्वात् , स भयधर्माध्यासितत्वात्कान्तानुवृत्या सुखेनोपचर्य- त इति सूपचरो न त्वपूर्वः ॥ ३६ ॥ पूर्वसंसृष्टः मर्वतो निष्पीडितार्थत्वान्नात्यर्थमर्थदो दुःखं च पुनर्विश्वासयितुपपूर्वस्तु सुखेन नुरज्यत इति वात्स्यायनः ॥ ३७॥ नात्यर्थमर्थद इति । अर्थार्थ सन्धीयते स चेन्न यथावत् किं तेन सं. हितेन, दुःखं च पुनर्विश्वासयितुं तस्य सत्यपि विदितशीलत्वे दृष्टानु- रागत्वे च निष्कासनेनोत्पादितवैकृत्यात्, सुखेनानुरज्यत इति । तदो- पस्यादृष्टत्वात्, तस्य वा निष्पीडितार्थत्वादत्यर्थमर्थद इत्यर्थोक्तम्, अ. पूर्वो द्विविधः-अन्यवेश्यास्सृष्टोऽसंसृष्टश्चेति, संसृष्टोऽपि द्विवि. धः-निष्कासितोऽनिष्कासितश्च, तेषां सन्धानोपायो गभ्योपावर्तने द्रष्टव्यः॥३७॥ तथाऽपि पुरुषप्र कृतितो विशेषः ॥ ३८ ॥ पुरुषप्रकृतित इति । पुरुषस्वभावात्, कश्चिदपूर्वोऽपि दुरुपचरः- कदर्यश्च भवति, पूर्वसंसृष्टश्च निष्पीडितार्थोऽपि दाता, निष्कासितो. ऽपि सविश्वास इति ॥ ३८ ॥ संक्षेपेण सन्धाने कारणं त्रिविध नायिकान्तरस्थ विशीर्णस्थं वर्तः मानस्थं चेति, तदेव दर्शयन्नाह -- भवन्ति चात्र श्लोकाः- अन्यां भेदयितुं गम्यादन्यतो गम्यमेव वा । स्थितस्य चोपघातार्थ पुनः संधानमिष्यते ॥ ३९ ॥ अन्यामिति । भेदयितुं विशीर्णात् , 'तदनेन विमानितो वा भार्य या तमेव तस्यां विक्रमयिष्यामि', 'अस्य वा मिस्त्रं मवेषिणीं काम यते तदमुना भेदयिष्यामि' इत्युभयमुक्त वेदितव्यं, स्थितस्योपघातार्थ- मित्यनेन 'वर्तमानस्य वा दर्पविघातं करिष्यामि'इत्येतदुक्तम् , अन्य तो गम्यमेव वेति । अन्यस्या नायिकातो विशीर्ण भेदयितुमित्यनेन च विशीर्णस्थं कारणमुक्तम् ॥ ३९ ॥ संप्रयोगार्थ' विशीर्णः संधत्ते, तादृशमस्ति संधानं यत्र वर्तमानम HAHANI ४ अध्याये] विशीर्णप्रतिसंधानप्रकरणम् । ३०७ - तिसक्तं विशीर्ण वाऽनुरक्तमपेक्ष्य तदैव सम्प्रयोग इति दर्शन्नाह- विभत्यन्यस्य संयोगायलीकानि च नेक्षते । अतिसक्तः पुमान्यत्र भयावहु ददाति च ॥ ४० ॥ बिभेतीति । यत्र यस्मिन्सनिधाने वर्तमानेऽतिसंसक्तोऽप्यन्यस्य संयोगाद्विभेति, संयुक्तोऽयं कदा चिदपकरिष्यतीति, व्यलीकानि च नायिकाकृतानपराधान्नेक्षतेऽवधीरयत्यतिसक्तत्वादेव, भयादिति । परित्यागभयाद् बहु ददाति ॥४०॥ असक्तमभिनन्देच सक्तं परिभवेत्तथा । अन्यदूतानुपाते च यः स्यादतिविशारदः ॥ ४१ ॥ असक्तमिति । यो विशीर्णोऽप्यनुरकत्वाद्वर्तमानमसक्तमभिनन्देद्- विज्ञातभावस्वाद्, यदस्यां न रक्त इति, सक्तं परिभवेद्, अलक्तकावस्था- प्राप्स्यस्यचिरेणेति, अन्यदूतानुपाते चेति । अन्यस्य सम्बन्धिन्यायाति दूतेऽतिविशारदोऽत्यर्थमर्थदो मा भूदन्येन सन्धानमिति ॥ ४१ ॥ तत्रोपजापिनं पूर्व नारी कालेन योजयेत् । भवेच्चाच्छिन्नसंधाना न च सक्तं परित्यजेत् ॥ ४२ ॥ तति । तस्मिन्संधाने, पूर्वमिति । पूर्वसंसृष्टं विशीर्णमुपजापिनं, नारीति । सामान्याभिधानेऽपि प्रकरणाद्वेश्यक द्रष्टव्या, कालेन योजयेद्, न तदैव सम्प्रयोजयेद्, अन्यथा तदात्व एव वर्तमानेनातिसक्तेन फल- वतां विश्लेषः स्याद्, विशीर्णोऽप्यतिरक्तत्वात् प्रत्याशया कालान्तर- मपेक्षत एव, यदाह-भवेच्चाच्छिन्नसंधानेति । विशोर्णेन सहेत्यर्थः, न च सक्तं परित्यजेत् , तदात्व एव तस्य सफलस्वात् ॥ ४२ ॥ सक्तं तु वशिनं नारी संभाष्याप्यन्यतो व्रजेत् । ततश्चार्थमुपादाय सक्तमेवानुरञ्जयेत् ॥ ४३ ॥ यस्य तदात्वेऽन्यस्माल्लाभो महान् ; न च सम्प्रयोग विना तत्र किं. प्रतिपत्तव्यमित्याह-सक्तं त्विति । वशिनं यथोक्तकारिणम् , अन्यत इति । अन्यमुहिश्य, ततश्चेति। यत्र व्रजिता सक्तमेवानुरञ्जयेत् कान्ता. नुवृत्त्या तत्र स्थितत्वाद्, नान्यम् ॥ ४३ ॥ प्रतिसन्धानात् प्राक् चतुष्टयं निरूप्यमित्याह- आयति प्रसमीक्ष्यादौ लाभं प्रीतिं च पुष्कलाम् । सौहृदं प्रतिसंदध्याद्विशीर्ण स्त्री विचक्षणा ॥ ४४ ॥ इात श्रीवास्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे विशीर्णः प्रतिसंधानं चतुर्थोऽध्यायः ।

३०८ सटीके कामसूत्रे [६ अधिकरणे, आयतिमिति प्रभावं, लाभमायत्यां, तदात्वे प्रीति पुष्कलां निर्व्याज तस्यात्मविषये, सौहृदमात्मनस्तस्मिन् विषये, विचक्षणेति । परीक्षणे विचक्षणा = कुशला ॥४४॥ इति विशीर्णप्रतिसन्धान षट्पञ्चाशत्तमं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्टे. ऽधिकरणे विशीर्णप्रतिसन्धानं चतुर्थोऽध्यायः । AHAN पञ्चमोऽध्यायः त्रिविधा वेश्या-एकपरिग्रहा, अनेकपरिग्रहा, अपरिग्रहा चेति, तत्र पूर्वस्या लाभ उक्तः, द्वितीयां वक्ष्यति, तृतीयाया विना परिग्रहमनेक- स्माल्लभमानाया लाभविशेषा उच्यन्ते, तत्रापरिग्रहकारणमाह- गम्यबाहुल्ये बहु प्रतिदिनं च लभमाना नैकं प्रतिगृह्णीयात् ॥१॥ गम्येति । यदा गम्या बहवस्तेभ्यः स्पर्धया बहु लभते, प्रतिदिनं. चैकैकमभिगच्छन्ती तदा नैक प्रतिगृह्णीयात्, स हि बहु प्रतिदिनञ्च न ददाति ॥१॥ यद्येवमनियतो लाभः ततश्च कश्चित्स्वल्पमपि दद्यात् तद्ग्रहणे चान्ये- ऽपि तावन्मात्रकमेव दारित्याह- देश कालं स्थितिमात्मनो गुणान्सौभाग्यं चान्याभ्यो न्यूना. तिरिक्ततां चावेक्ष्य रजन्यामर्घ स्थापयेत् ॥ २॥ देशं सम्पन्नमितरं वा, कालं यत्र काम उद्भूतशक्तिरनुद्भूतशक्तिर्वा, स्थितिः-देशप्रवृत्तिः, यथाऽपरकायं सेवमानस्यैकगुणः पूर्वकायमपि द्विगुणः, आत्मनो गुणान्रूपवेदग्ध्यादीन् सतोऽसतो वा, तथा सौभाग्यम्, अन्याभ्य इति । वेश्याभ्यः स्थानमानाभ्यामात्मनो न्यूनत्वं चाधिक्यं चावे- क्ष्य तदनुरूपं रजन्यामधं स्थापयेद् , इयमेकां रात्रिमियता शेत इति ॥२॥ तत्र यदाऽवस्थापितेनार्धेण गम्य एव स्वदूतसम्प्रेषणेन भाणयति सिद्धं कार्य, नो चेत्तत्राह- गम्ये दुतांश्च प्रयोजयेत् तत्पतिबद्धांश्च, स्वयं पहिणुयात् ॥३॥ तत्प्रतिबद्धान् = गम्यप्रतिबन, प्रयोजयेदभिप्रायजिज्ञासाऽर्थ, वि. दिताभिप्राया तु स्वयं प्रहिणुयात् प्रेषयेदात्मीयानित्यर्थः ॥ ३ ॥ दूतसम्प्रेषणाद्गम्यसम्प्रयागे रजन्यर्घलामः, तस्मानियमितादधिको- ware ५ अध्याये ] लाभविशेषप्रकरणम्। ASMINS । । योऽनुरागालभ्यते स लाभातिशयः, तं चेत्तदैव लभते भद्रकमेव नो चेदत्राह- द्विस्त्रिश्चतुरिति लाभातिशयग्रहार्थमेकस्यापि गच्छेत् परिग्रह- कल्पं सकलं च चरेत् ॥ ४ ॥ द्वीति । इतिशब्दो विकल्पार्थः, द्वौ त्रीश्चतुरो वा वारानेकस्यापि मूलं गच्छेत् , परिग्रहकल्पं सकलं चेति । तावत्सु दिवसेष्वन्यनिरपेक्षा- ऽनुरञ्जनविधिमाचरेदित्यर्थः॥४॥ इदानीनियमितमतिशयवन्तं रजन्यर्घलाभमधिकृत्यार्थितया द्रव्य. स्वरूपतो गम्यतश्च विशेषमाह- गम्ययोगपद्ये तु लाभसाम्ये यद्रव्यार्थिनी स्यात्तदायिनि विशेषः प्रत्यक्ष इत्याचार्याः ॥ ५॥ गम्येति । यदि बहवो गम्या युगपदुपस्थिता एको हिरण्यमपरस्त- तुल्यमूल्यं दातुं, ततो येन द्रव्यार्थिनी तहायिनि गम्ये लाभविशेषः- प्रत्यक्षः, तेनार्थिनी स्यादित्याचार्याः ॥ ५ ॥ अप्रत्यादेयत्वात्सर्वकार्याणां तन्मूलत्वाद्धिरण्यद इति वा. त्स्यायनः ॥ ६॥ अप्रेति । हिरण्यमत्र लोकप्रतीत्या कपर्दकाः, ते च दत्ता गम्येन पुनर्न प्रत्यादीयन्ते, वस्त्रादिकं दत्त्वाऽपि किञ्चित्प्रत्यादत्ते, सर्वकार्याणा- मिति । तद्रव्यमन्यच्च कार्य सवं हिरण्यमूलं, तेन लभ्यमानत्वात् , तेन तत एव विशेषः, तस्मात्तत्रैवार्थित्वं कर्तव्यम् ॥ ६ ॥ मुवर्णरजतताम्रकांस्यलोहमाण्डोपस्कारास्तरणप्रावरणवासो. विशेषगन्धद्रव्यकटुकमाण्डघृततैलधान्यपशुजातीनां पूर्वपूर्वतो वि. शेषः ॥ ७॥ सुवर्णेति । सुवर्णरजते घटिते अघटिते वा, ताम्रकांस्यलोहैर्घटितं. भाण्डोपस्करम् , आस्तरण =तूलिकादि,प्रावरणं = कम्बलादि,वासोवि. शेषःक्षौमादिः,गन्धद्रव्यं = चन्दनादि, कटुकं मरिचादि, भाण्डः = पट्ट. खट्वाऽऽदिः, पूर्वपूर्वत इति । क्षुद्रपशुजातेर्धान्यं ततस्तैलादिरित्यादिना विशेषः॥७॥ पचनसाम्यावा द्रव्यसाम्ये मित्रवाक्यादतिपातित्वादायतितो. गम्यगुणतः प्रीतितश्च विशेषः ॥८॥ पत्तनसाम्यावति । यद्वा गृहस्वरूपानुरूप्येण विशेषः, द्रव्यसाम्य.

३१० सटीके कामसूत्रे [२ अधिकरणे, । इति । यद्वा द्वावपि रूपतः प्रमाणस्तुल्यं द्रव्यं प्रयच्छतस्तत्र मित्रव- चनमनुष्ठेयं, यत्र वा तदानीमदीयमानमतिपतति, यत्र चायति:- प्रमावः पुरुषगुणा वा, यत्र गम्ये सति प्रीतिर्वा नायिकाया, नायकस्य नायिकायां वेति ॥ ८ ॥ गम्यतो विशेषमाह- रागित्यागिनोस्त्यागिनि विशेषः प्रत्यक्ष इत्याचार्याः ॥ ९ ॥ रागीति। रक्तात् त्यागिनो विशेषः प्रत्यक्षः, तदात्व एव द्रव्यप्राप्तेः॥९॥ शक्यो हि रागिणि त्याग आधातुं, लुब्धोऽपि हि रक्तस्त्यजति न तु त्यागी निबन्धाद्रज्यत इति वात्स्यायनः ॥ १० ॥ शक्य इति । रागिण्यत्यागिनि, रक्ते शक्यस्त्याग आधातुमुपायेन, कुत इत्याह-लुब्धोऽपि त्यजति द्रव्यं ददाति, निर्बन्धादिति । प्रयासेना. पिन रज्यते तस्य तेजस्वित्वाद्, अरक्तस्तु न त्यजति ॥ १० ॥ तत्रापि धनवदधनवतोधनवति विशेषः, त्यागिप्रयोजनकों:. प्रयोजनकर्तरि विशेषः प्रत्यक्ष इत्याचार्याः ॥ ११ ॥ तत्रापि धनवदधनवतोरिति । रागित्यागिनोर्यो धनवान्स विशि घ्यते नेतरो निर्धनः, प्रयोजनकर्तरीति । नायिकायाः कार्यस्य यः कर्ता तस्मिन्नत्यागिनि विशेषः प्रत्यक्षः, तदात्व एव कार्यकरणात् , त्यागी तु दास्यतीति न प्रत्यक्षः ॥ ११ ॥ प्रयोजनकर्ता सकृत्कृत्वा कृतिनमात्मानं मन्यते त्यागी पुनर- तीत नापेक्षत इति वात्स्यायनः ॥ १२ ॥ सकृत्कृत्वेति । एकवारं कृत्वा, कृतिनमिति । कृतमस्याः कार्य किम- परं करिष्यामीति, अतीतमिति । दत्तमेवास्यै न पुनर्ददामोति नाक्षेपते स्यागशीलत्वात् ॥ १२ ॥ तत्राप्यायतितो विशेषः ॥ १३ ॥ आयतित इति । यदा तत्प्रयोजनमधीरितमवपतति तदा तत एव विशेषः ॥ १३॥ कृतज्ञत्यागिनोस्त्यागिनि विशेषः प्रत्यक्ष इत्याचार्याः ॥१४॥ कृतज्ञात् त्यागिनि विशेषः प्रत्यक्षो द्रव्यदर्शनाद्, न तु कृतज्ञे तस्या- त्यागिस्वात् ॥ १४॥ चिरमाराधितोऽपि स्यागी व्यलोकमेकमुपलभ्य, प्रतिगणि. कया वा मिथ्यादूषिता, श्रममतीतं नापेक्षते, प्रायेण हि तेजस्विन । ।

५ अध्याये] लाभविशेषप्रकरणम् । । । , । ऋजवोऽत्यादृताश्च त्यागिनो भवन्ति, कृतज्ञस्तु पूर्वश्रमापेक्षी न सहसा विरज्यते परीक्षितशीलत्वाच न मिथ्या दृष्यत इति वा- स्थायन:॥ १५ ॥ चिरमिति । दीर्घकालम्, आराधितोऽपि कान्तानुऽवृत्त्या, व्यलीक. नायिकाऽपराधमुपलभ्य, मिथ्यादूषित इति । मिथ्यैव दोषं ग्राहितः स. दैवेयं व्यलीकं कुरुत इति, श्रममतीतमाराधनक्लेशं नापेक्षते, कुत इत्याह- प्रायेण हीति । बाहुल्येन त्यागिनां तेजस्विताऽऽदयस्त्रयो धर्माः संभव. न्ति, तत्र तेजस्वितया व्यलीक नोपेक्षन्ते, ऋजुतया मिथ्यादोणं ग्राह्यन्ते, अत्यागृतत्वाच्छमं नापेक्षन्ते, ततश्च कथं दातारः, पूर्वश्रमापेक्षीति । कृतज्ञत्वादेव सहसा न विरज्यते व्यलीकमुपलभ्यापि, परीक्षितशीलत्वा- च्चेति । कृतज्ञतयैव परीक्षणस्वभावत्वान्न मिथ्यैव दोणं ग्राह्यते ॥ १५ ॥ तत्राप्यायतितो विशेषः ॥ १६ ॥ तत्रेति । स्पष्टम् ॥१६॥ यत्र प्रभावोऽस्ति यथाऽर्थोपगमनहेतुस्तथा मित्रवचनमनर्थप्रतीघा- तोऽर्थसंशयश्च तेषां विशेषमाह- मित्रवचनार्थागमयोरागमे विशेषः प्रत्यक्ष इत्याचार्याः ॥१७॥ मित्रवचनादर्थः प्रत्यक्षस्तस्य दृश्यमानत्वाद्, अन्यत्र तु मित्रव. चनमेव केवलम् ॥ १७॥ सोऽपि ह्यर्थागमो भविता, मित्रं तु सकृद्वाक्ये प्रतिहते कलु- षितं स्यादिति वात्स्यायनः ॥ १८ ॥ सोऽप्यर्थागमः, भविता भविष्यति, प्रतिहत इत्यननुष्ठिते, कलुषि- तं रोषितं स्यात् , ततश्च तत्प्रतिबद्धकार्यहानिरेव स्यात् ॥ १८ ॥ तत्राप्यतिपाततो विशेषः ॥ १९ ॥ अतिपातत इति । यदा तदानीमुपेक्षितोऽर्थोऽतिपतति तत एव विशेषः ॥ १९॥ मित्वं कलुषितं स्यादिति चेदाह- तत्र कार्यसंदर्शनेन मित्रमनुनीय श्वोभूते वचनमस्त्विति ततोऽतिपातिनमर्थ प्रतिगृह्णीयात् ॥ २० ॥ तत्रेति । कार्यसंदर्शनेनेति । यन्मम कार्य तत्तवापि कार्य चेदिदं मह. दुपस्थितमतिपतति त्वद्वचनं च श्वः कर्तास्मीत्यनुनयपूर्वमुक्त्वा प्रति- गृह्णीयात् ॥ २० ॥ FAf ३१२ सटीके कामसूत्रे [६ अधिकरणे, । अर्थागमानर्थप्रतीपातयोरागमे विशेषः प्रत्यक्ष इसाचार्याः ॥२१॥ अर्थागमे विशेषः प्रत्यक्ष इति । दृश्यमानत्वात् ॥ २१ ॥ अर्थः परिमितावच्छेदोऽनर्थः पुनः सकृत्महतो न ज्ञायते. कावतिष्ठत इति वात्स्यायनः ॥ २२ ॥ अर्थ परिमितावच्छेद इति । अस्यावच्छेद इयत्ता सा परिमिता स्वल्पा रजन्यर्घस्यानतिशयात् , सकृत्प्रसृत इति । अखण्डितप्रसरत्वा. देकपुरुषप्रसृतो न ज्ञायते क्वावतिष्ठते किं मूलघाते शाखाघाते वेति, अत्र मधुबिन्दुपाख्यानमुदाहरणम् ॥ २२ ॥ तत्रापि गुरुतालाघवकृतो विशेषः ॥ ६३ ।। गुरुतालाघधकृत इति । लघोरनर्थात्प्रतिकर्तव्याद् गुरुरनों विशि- ष्यते लघुश्चेद् गुरुरनर्थ इति ॥ २३ ॥ एतेनार्थ संशयादनर्थप्रतीकारे विशेषो व्याख्यातः ॥ २४ ॥ एतेनेति । अनन्तरोक्तेन पूर्वोत्तरपक्षेण, एकस्मादर्थः स्यान्न वेति संशयः, अन्यस्मादनर्थप्रतीकारः, तदाऽर्थसंशये विशेषः प्रत्यक्षः, तत्र हि संशयितेऽपि लोकस्य प्रवर्तनात्, परिमितावच्छेदोऽर्थोऽनर्थः पुनः सक- प्रसृतो न ज्ञायते क्वावतिष्ठत इति, अत्रैव विशेषः, न लघोरनर्थात्प्रति- कर्तव्याद् गुरावर्थे संशयिते विशेष इति व्याख्यातः ॥२४॥ एवं द्विविधेन रजन्यश्रृण विशेषितेन यदुपवितं धनं स प्रकृष्टो नाम लाभातिशयः प्रधानार्थस्य साधनाद्, अतस्तद्वारा कर्त्तव्यं दर्शयन्नाह- देवकुलतडागारामाणां करणं, स्थलीनामग्निचैत्यानां निव. न्धन, गोसहस्राणां पात्रान्तरितं ब्राह्मणेभ्यो दानं, देवतानां पूजो. पहारप्रवर्तनं, तब्धयसहिष्णोवा धनस्य परिग्रहणम्, इत्युत्तमगणि. कानां लाभातिशयः ॥ २५ ॥ देवेति । त्रिविधा वेश्या-गणिका रूपाजीवा कुम्भदासी च, ता. प्रत्येकमुत्तममध्यमाधमभेदात्विविधाः, तडागं = पुष्करिणी, स्थलीनामि- ति । निम्नेषु प्रदेशेषु लोकागमार्थ सेतूनां निबन्धनम, अग्निचैत्याना- मिति । स्थानाद्वहिद्भिर्गेहानि कृत्वा सर्वे रसगन्धवीहिरनेरापूर्याग्नये समुत्सृज्यन्ते, पात्रान्तरितमिति। वेश्याद्रव्यस्याप्रतिग्राह्यत्वादन्यहस्तेन दानं, देवतापूजनानां प्रवर्तन घटानिबन्धेन, उपहाराणां भक्ष्यादी. नां, देवतांशमुद्दिश्य सर्वमेतत्प्रधानभूतोऽर्थः, तव्ययसहिष्णोरिति ।

५ अध्याय लाभविशेषप्रकरणम् । । तस्मिन्प्रधानेऽर्थे साध्ये यद्ययं सहते धनं तस्य परिग्रहणभयं प्रकृष्टो- लाभातिशयः, उत्तमगणिकानामिति । रूपादिभिर्नायिकागुणः, काला- दिभिश्चान्विता उत्तमगणिकाः, गुणानां च पादार्धाभ्यां शून्या मध्य- माधमाः॥२५॥ सार्वाङ्गिकोऽलंकारयोगः, गृहस्योदारस्य करणं, महर्हिर्भाण्डै:- परिचारकैश्च गृहपरिच्छदस्योज्ज्वलतेति, रूपाजीवानां लाभाति- शयः ॥ २६ ॥ सार्वाङ्गिक इति । सर्वेष्वङ्गेषु यो भवति, उदारस्येति । संस्थानत:- संस्कारतश्चेति, महाहरिति । लोहताम्रराजतैः, परिचारकैरिति । यथा- स्वं कर्मणा परिचरन्ति थे, गृहपरिच्छदस्येति । गृहसंविधानकस्योज्व. लतेत्ययं प्रधानार्थः, तद्वययसहिष्णोर्धनस्य परिग्रहणमिति वर्तते, अयं प्रकृष्टो लाभातिशयः, रूपाजीवानामिति । उत्तमानां, सत्स्वपि गुणेषु रूप. मेवाजीवो यासां, रूपस्य प्रधानत्वात् कलास्तु न सन्ति, तत्र रूपस्य गुणानां पादार्धहान्या मध्यमाधमाः, अत्र यः प्रधानार्थः स गणिका नामस्त्येव ॥ २६ ॥ नियं शुक्लमाच्छादनमपक्षुधमनपानं नित्यं सौगन्धिकेन ताम्बू- लेन च योगः सहिरण्यभागमलंकरणमिति कुम्भदासीनां लाभा- तिशयः ॥ २७ ॥ नित्यमिति । आच्छादनमिति ! परिधानीयं प्रावरणीयं च सदैव शु. क्लम् , अपक्षुधमिति । अकदर्थितत्वात्क्षुधमपनयति, सौगन्धिकेन सुग न्धिसमूहेन चतुःसमकादिना ताम्बूलेन च नित्यं योगः, एतत्सर्वं गणि- कानां रूपाजीवानां चास्त्येव, विशेषमाह-सहिरण्यभागमिति । सुव. र्णलेशेन युक्तमित्यर्थः, अयं स्वप्रधानार्थ', तद्वययसहिष्णोर्धनस्य परि- ग्रहणमिति वर्तते, अयं च कर्मोपलक्षणार्थ, कर्मकरीणामित्यर्थः, आसां- चोत्तममध्यमाधमकर्मापेक्षयैव तथाविधत्वं द्रष्टव्यम् ॥ २७ ॥ एतेन प्रदेशेन मध्यमाधमानामपि लाभातिशयान्सर्वासामेव योजयेदित्याचार्याः ॥ २८ ॥ एतेनेति। प्रदेशेनेति । उत्तमानां लाभातिशयमार्गेण, मध्यमाधमाना. मपीति । गणिकारूपाजीवाकुम्भदासीना, लाभातिशयानिति । प्रकृष्टा- पेक्षं मध्यमाधमान्योजयेत् , तथा चोक्तम्- 'यन्निशाऽर्धार्जितं द्रव्यं प्रधानार्थस्य साधकम् । व्यवस्थानं हि वेश्यानां सलामस्तूत्तमो मतः' इति ॥ २८ ॥ ४० का० सू० PAPARAN सटीके कामसूत्र [६ अधिकरणे, Mota देशकालविभवसामर्थ्यानुरागलोकप्रवृत्तिवशादनियत्तलाभादि- यमवृत्तिरिति वात्स्यायनः ॥ २९ ॥ देशति । देशस्य सुसंपन्नस्यासंपन्नस्य वा, कालस्य सुभिक्षस्य दुर्भिक्षस्थ वा, विभवस्यात्मीयस्य महतोऽल्पस्य वा, सामर्थ्यस्यावि- पन्नशक्तमहत्या इतरस्या वा, गम्यानुरागस्य महतोऽल्पस्य वा, लोकप्र वृत्तेर्व्यवस्थायाः, वशादनियतो लाभस्तासां, ततश्च नेयं वृत्तिरियताऽप्र- धानार्थद्वारेण या निर्दिया, कदा चित्ततो न्यूनाऽधिका वा सम्भवति ॥२९॥ एवं च कार्यनिरपेक्षया कश्चित्स्वल्पोऽपि लाभो गृह्यते कश्चिन्नैव कश्चित्तदात्वे गृह्यते कश्चिदायत्यां यदाह- गम्यमन्यतो निवारयितुकामा, सक्तमन्यस्यामपहर्तुकामा वा, अ. न्यां वा लाभतो वियुयुक्षमाणा, गम्यसंसर्गादात्मनः स्थानं वृद्धिमा यतिमभिगम्यतां च मन्यमाना, अनर्थप्रतीकारे वा साहाय्यमेनं कार- यितुकामा, सक्तस्य वाऽन्यस्य व्यलीकार्थिनी पूर्वोपकारमकृतमिव पश्यन्ती, केवलप्रीत्यर्थिनी वा, कल्याणबुद्धिः, अल्पमपि लाभं- प्रतिगृह्णीयात् ॥ ३०॥ गम्यमिति । अन्यत इति । अन्यस्या नायिकातो निवारयितुकामा माऽन्यत्र यासीदिति, अपहर्तुकामा मवेषिण्यां सक्तं त्यक्ष्यामीति, लाभत इति । गम्यसम्बन्धिनो लाभाद्, वियुयुक्षमाणा वियोक्तुमि च्छन्ती, गम्यसंसर्गादिति । येन गम्येन सह संसर्गस्तस्मात् स्थानं जन- संसदि विशिष्टदेशावस्थानं मन्यमाना वृद्धि प्रकृष्टाख्यां लाभातिशयमा. यति प्रभावमभिगम्यतामन्येषां नायकानामभिगमनीयत्वम्, अनर्थप्रती- कारे वेति । अनर्थ प्रतिकर्तु सहायमेनं कर्तुकामा, सक्तस्य वेति । यस्त. स्यांसक्तोऽन्यत्र वर्तमानस्तेन यः पूर्वमुपकारः कृतस्तं स्वल्पत्वादकृतमिव पश्यन्ती, तस्यातीतस्य व्यलोकाथिनी, अपराधं कतुंकामाऽल्पमपि गृह्णीयाद् येनायमपराद्धमनयेति सक्तस्त्यजति, केवलप्रीत्यर्थिनी वेति । प्रीत्यैव केवलमर्थिनी नार्थः, कल्याणबुद्धिरिति । अविसंवादिका ॥ ३० ॥ यदाऽऽयतिमनर्थप्रतीकारे चेत्युभयमुक्तम् , अत्र विशेषमाह- आयत्यार्थिनी तु तमाश्रिताऽनर्थ अतिचिकीर्षन्ती नैव प्रतिगृ. हीयात् ।। ३१ ॥ आयेति । यदाऽऽयतिमहती स्थादनर्थश्च न महान्प्रातकर्तव्यस्तदा नैव प्रतिगृह्णीयात् ॥ ३१॥ Imamanane ।

५ अध्याये]
लाभविशेषप्रकरणम् ।
३१५
त्यक्ष्याम्येनमन्यतः प्रतिसन्धास्यामि, गमिष्यति दारैर्योक्ष्यते,
नाशयिष्यत्यनर्थान, अङ्कुशभूत उत्तराध्यक्षोऽस्यागमिष्यति स्वामी
पिता वा, स्थानभ्रंशो वाऽस्य भविष्यति, चलचित्तश्चेति मन्यमाना
तदात्वे तस्माल्लाभमिच्छेत् ।। ३२ ।।
त्यक्ष्याम्येनं तदात्वे ततो लाभं गृहीत्वाऽन्यतः प्रतिसन्धास्यामि
तस्याधिकत्वाद्, गमिष्यति दारैर्योक्ष्यते, गतः कृतदारपरिग्रहो वा
कथं दास्यति तस्य परवशप्रायत्वाद्, नाशयिष्यत्यानर्थात्स्वकीयान् ,
अस्येति । गम्यस्य कर्मणि स्वामी पिता वाऽङशभूत इति दमयिता,
उत्तराध्यक्षः = उपरिकर्ता, आगमिष्यति तदाऽयमस्वतन्त्रः कथं दास्य-
तीति, स्थानभ्रंशो वेति । यस्मिन्स्थानेऽस्याधिपत्यं तस्माद्विच्युतिः,
चलचित्तो वा प्रतिज्ञायापि न दास्यति, तदात्व इति। तदानीम् ॥ ३२ ॥
प्रतिज्ञातमीश्वरेण प्रतिग्रह लप्स्यते, अधिकरणं स्थानं वा
प्राप्स्यति, वृत्तिकालोऽस्य वाऽऽसन्नः, वाहनमस्यागमिष्यति,
सस्यमस्य पक्ष्यते, कृतमस्मिन्न नश्यति, नित्यमविसंवादको वेत्या.
यत्यामिच्छेत् परिग्रहत्त्वं चास्याचरेत् ॥ ३३ ॥
प्रतिग्रहं लप्स्यत इति । स ाक्लेशेनोपलब्धार्थों दास्यति, अधिकर.
णमक्षपटलादिकं स्थानं यत्राधिपत्यं करिष्यति, वृत्तिकालो वेति । सेव.
कत्वान्जीवनकालोऽस्यासन्नो राजकुले ग्रामविलग्नस्य वर्तमानत्वाद्,
वाहनं यानपात्रमागमिष्यति वाणिज्यधर्म स्थितत्वात् , स्वराष्ट्रादिसस्य-
मस्य पक्ष्यत इति, कृषिवृत्तित्वात् , ततश्व पक्वं सस्यं दास्यति, कृत-
मस्मिन् न नश्यति, अभिगमनं न निष्फलं, कृतज्ञत्वाद्, नित्यमविसं-
वादको वा, प्रतिज्ञायावश्यं दास्यति, आयत्यामिति । अनागतकाले,
परिग्रहत्वं चास्याचरेत् तत्रार्थस्य लिप्स्यमानत्वात् ॥ ३३ ॥
भवन्ति चात्र श्लोका:-
कृच्छ्राधिगतवित्तांश्च राजवल्लभानिष्ठुरान् ।
आयत्यां च तदात्वे च दूरादेव विवर्जयेत् ॥ ३४ ॥
कृच्छ्राधिगतवित्तांश्चेति । क्लशेनाजितधनान्, राजवल्लभनिष्ठुरानि-
ति। ये राज्ञ इटा निष्ठुरा का येषां नाकरणोयमस्ति, आयत्याश्च तदा-
स्वे चासत्यपि लोभप्रतिग्रहगकारणे दूरादेव विवर्जयेद्, न तदर्शनं.
सम्भाषणं च कुर्यादित्यर्थः, प्रायशस्तेभ्याऽनर्थसंभवात् ॥ ३४ ॥

३१६
सटीके कामसूत्रे
[६ अधिकरणे,
।
NEPAER
के तहि ? उपादानमित्याह-
अनर्थो वर्जने येषां गमनेऽभ्युदयस्तथा ।
प्रयत्नेनापि तान्गत्वा सापदेशमुपक्रमेत् ॥ ३५ ॥
अनर्थ इति । यांस्त्यक्त्वाऽन्यस्मादनर्थोऽभिगमने चाभ्युदयस्तानु.
भयप्रयोजनत्वात् , प्रयत्नेनापि तान्गत्येति । अभिगम्य, सापदेशमुपक्रमे
दिति । यत्किचिनिमित्तीकृत्यानभिगच्छन्तमप्यभिगच्छेदित्यर्थः, वृत्ता-
द्यमावादात्मनेपदं न भवति ॥ ३५ ॥
येष्वर्थ एव प्रयोजनं तानाह-
प्रसन्ना ये प्रयच्छन्ति स्वल्पेऽप्यगणितं वसु ।
स्थूललक्षान्महोत्साहांस्तान्गच्छेत्स्वैरपि व्ययैः ॥ ३६ ।।
इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे
लाभविशेषाः पञ्चमोऽध्यायः।
प्रसेति स्थूललक्षा:- महेच्छाः, महोत्साहा महानुत्साहो येषां,
महत्त्वं चोत्साहस्य शौर्यादिभिः, ते तुष्टाः स्वल्पेऽपि वेश्याविषये प्रभूतं.
द्रव्यं प्रयच्छन्ति तस्मात्तान्गच्छेत् स्वैरपि व्ययरूपचारलक्षणः ॥ ३६ ॥
इति लाभविशेषाः सप्तपञ्चाशत्तम प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽस्वायां वैशिके
षष्टेऽधिकरण लाभविशेषाः पञ्चमोऽध्यायः ।
.
WHAIR
।
षष्ठोऽध्यायः ।
शास्त्रकार एव प्रकरणसंबन्धमाह-
अर्थानाचर्यमाणानना अप्यनूद्भवन्यनुबन्धाः संशयाश्च ॥१॥
अर्थेति । अर्थानिति लाभविशेषाननन्तरोक्तान्, आचर्यमाणान्सा-
ध्यमानान्, अपरिग्रहाया वेश्याया इत्यर्थः, अनर्था इति । अर्थविरुद्धाः,
अनूद्भवन्तीति, 'अनुर्लक्षणे' इत्यनोः कर्मप्रवचनीयत्वेऽर्थानिति द्वितीया,
अर्थान्साध्यमानांल्लक्ष्यीकृत्यानर्था अपि स्वहेतुभ्य उत्पद्यन्ते, तत्र यदा-
ऽर्था एवोत्पद्यन्ते तदा निरनुवन्धोऽर्थपक्षः यदाऽर्थ बाधित्वाऽनर्थास्तदा
निरनुबन्धोऽनर्थपक्षः, अनुबन्धा इति । अर्थानर्थयोः संशयाश्चोभयोरेव
गृह्यन्ते, तस्मात्तेषु हानोपादानाओं तद्विचारो युक्तः, इत्यर्थानानुव.
म्धसंशयविचारा उच्यन्ते ॥ १ ॥

६ अध्याये] अर्थानानुबन्धसंशयविचारप्रकरणम् । तत्रास्तिदनुबन्धाश्चोपादेया एव, तत्संशयाश्च केषां चित्प्रवृत्तः, येऽनास्तदनुबन्धास्तत्संशयाश्च तेषामनुपादेयत्वादुत्पत्तिकारणान्याह- ते बुद्धिदौर्बल्यादतिरागादत्यभिमानादतिदम्भादत्यार्जवाद- तिविश्वासादतिक्रोधात्प्रमादात्साहसाईवयोगाच्च स्युः॥२॥ त इति । अनर्थादयः, बुद्धिदौ ल्यादिति । ऊहापोहतत्त्वाभिनिवेशा विवेकाभ्यां वैकल्यं,बुद्धिदौर्बल्यं, रागः सक्तिः,अभिमानः = अहंकारः, दम्भःछद्म, आर्जवम् = ऋजुता, विश्वासः=वित्रम्भः, क्रोधः = कोपः, एते कार्यवशायुक्तितः प्रयुज्यमाना नैव दोषाय, आधिक्येन तु दो. षायैवेत्यतिशब्देनाह, प्रमादः = योऽन्यत्र व्यासङ्गः, साहसम् = अविमृ. प्यकारित्वम्, एतन्नवधा मानुषं निमित्तं, दैवयोगादिति । देवेनाशुभ- कर्मसंज्ञकेन योगादित्यर्थः ॥२॥ तेषां फलं कृतस्य व्ययस्य निष्फलत्वम्, अनायतिः,आगमि- ध्यतोऽर्थस्य निवर्तनम्,आप्तस्य निष्क्रमणं,पारुष्यस्य प्राप्तिः,गम्यता, शरीरस्य प्रघातः, केशानां छेदनं, यातनम्, अङ्गवकल्यापत्तिः ॥३॥ तेषां बुद्धिदौर्बल्यादीनाम्, अथ वा तेषामित्यनर्थानां सानुबन्धा- नां तत्संशयानांच फलमिति परिणामः, अनर्थ एव हि विपरिणामरूपेण संशय्यमानत्वादनासंशयानामपि फल, व्ययस्येति । गभ्याभिगमना. य कृतस्य, अनायतिः-प्रभावहानिः, आगमिष्यत इति । अधिकृते व्यये लप्स्यमानस्य निवर्तनमिति बोद्धव्यम् , आप्तस्येति । प्राप्तस्यार्थस्य नि क्रमणमन्येन गृद्यमाणत्वात्, पारुष्यस्येति। दुरुक्तस्य, गम्यता= अपरि. चेयता, शरीरस्य प्रधातः =प्राणैवियोगः, केशानां, छेदनं = लवनं, या. तनं = बन्धनं ताडनम् , अङ्गवैकल्यं = कर्णनासाविच्छेदः ॥३॥ तस्मात्तानादित एव परिजिहीदर्थभूयिष्ठांश्चापेक्षेत ॥ ४॥ तान्वुद्धिदौर्बल्यादीनादित एव परिहर्तुमिच्छेद्, यावदर्थहेतूनुपा. यान्न प्रयुतऽन्यथा ह्यर्थ बाधित्वाऽनर्थोऽपि स्यात् कारणानां संनिहि- तत्वाद् , अर्थभूयिष्ठांश्चेति । अर्थबहुलाननर्थहेतूनुपेक्षेत, तत्र ह्यर्थहेतूना. मेवोपायानां बाहुल्यात् ॥ ४ ॥ इदानीं निरनुबन्धान्विचारयितुमाह- अर्थो धर्मः काम इत्यत्रिवर्गोऽनर्थोऽधर्मो द्वेष इत्यनयंत्रिवर्गः ॥५॥ अर्थ इति । अर्थत्रिवर्गो ह्यर्थ इति कृत्वा तद्विरुद्धोऽनर्थत्रिवर्गः, तत- श्वार्थानानुबन्धसंशयविचारा इत्यस्मिन्सूत्रे धर्माधर्मयोः कामद्वेषयो. रपि संग्रहः सिद्धः, अनेन निरनुबन्धपक्ष उक्तो वेदितव्यः ॥ ५ ॥ MAINA सटीके कामसूत्रे [ ६ अधिकरणे, तेष्वाचर्यमाणेष्वन्यस्यापि निष्पत्तिरनुबन्धः ॥ ६॥ तेष्विति । अर्थादिषु षट् साध्यमानेषु, अन्यस्यापीति । न केवलं साध्यमानस्यान्यस्यापि सजातीयस्य विजातीयस्थ वा पञ्चानामन्यतमः स्योत्पत्तिरनुवन्ध इति ॥६॥ संदिग्धायां तु फलप्राप्तौ स्याद्वा न वेति शुद्धसंशयः ॥ ७ ॥ अभिगमने क्रियमाणेऽर्थादिफलस्य संप्राप्तौ संदिग्धायां स्याद्वान वेति यो विकल्पः स शुद्धसंशयः एकस्यैव भावाभावाभ्यां संशय्यमा- नत्वाद॥७॥ इदं वा स्यादिदं वेति संकीर्णः ॥ ८॥ इदं वा स्यादिदं वेति सङ्कीर्णः संशयः, द्धयोरन्यतरोत्पत्या विकल्प स्य संकीर्यमाणत्वात् ॥ ८ ॥ एकस्मिन् कार्य क्रियमाणे कार्यद्वय स्योत्पत्तिरुभयतो योगः ॥९॥ एकस्मिन्कार्य इति । अर्थादिसाधने कार्य क्रियमाणे, द्वयस्येति । अर्थादीनां षण्णामन्यतमस्य सजातीयस्य विजातीयस्य वा द्वयस्योत्प. त्तिरुभयतो योग इत्युभाभ्यां द्वयस्योत्पत्तिः ॥९॥ समन्तादुत्पत्तिः समन्ततो योग इति तानुदाहरिष्यामः ॥१०॥ समन्तादिति । एकस्मिन् क्रियमाणे कार्ये बहुभ्योऽर्थादीनामुत्पत्तिः, समन्ततो योगः, अस्य योगद्वयस्य निरनुबन्धपक्ष एवान्तर्भावः, तानिति । निरनुबन्धादीनुदाहरणानुदाहारष्यामः, स्पष्टोऽर्थः ॥ १० ॥ ननु च त्रिवर्गोऽर्थोऽनर्थश्च तयोः स्वरूपतोऽपरिज्ञाने कथमुदाहरण. मित्याह- विचारितरूपोऽर्थत्रिवर्गः, तद्विपरीत एवानर्थत्रिवर्गः ॥ ११ ॥ विचारितरूप इति । त्रिवर्गप्रतिपक्षो निरूपितस्वभाव इत्यर्थः, तद्वि. रुद्धत्वादनर्थोऽपि विचारितरूप इत्याह-तद्विपरीत इति ॥ ११ ॥ तत्रार्थानर्थयोस्त्रिवर्गयोरर्थानावाद्यावधिकृन्याह- यस्योत्तमस्याभिगमने प्रत्यक्षतोऽर्थलाभो ग्रहणीयत्वमायति- रागमः प्रार्थनीयत्वं चान्येषां स्यात्सोऽर्थोऽर्थानुबन्धः ॥ १२ ॥ यस्येति । उत्तमादिभेदात्त्रिविधो नायको व्याख्यातः, तत्र यः सम. स्तगुणस्तस्योत्तमगुणस्याभिगमने, प्रत्यक्षतोऽर्थलाभ इति । तत एव प्रत्य. क्षात्तदानीमर्थलाभः, ग्रहणीयत्वमिति । लोकग्राह्यत्वमुपादेयत्वम् , आय. तिःप्रभावः, आगमस्तत्कालीयानां प्रार्थनीयत्वमन्येषां गम्यादीनां, ६ अध्याये] अर्थानानुबन्धसंशविचारप्रकरणम् । ३१९ । सोऽर्थ इति । योऽसौ तदात्वे लाभः, अर्थानुबन्ध इति । ग्रहणीयत्वादि. भिरथैरनुबन्धो यस्य, अयं सजातीयानुबन्धः ॥ १२ ॥ लाममात्रे कस्य चिदन्यस्य गमनं सोऽथों निरनुबन्धः ॥१३॥ लाभमात्र इति । तदात्वे यो लाभस्तन्मात्रमेव निमि कस्य चिदिति । लोके यो गुणदोषैर्वा न विवक्षितस्तस्याभिगमनमात्रोऽर्थी- निरनुबन्धो, ग्रहणीयत्वाद्यभावात् ॥ १३ ॥ अन्यार्थपरिग्रहे सक्तादायतिच्छेदनमर्थस्य निष्क्रमणं लोकवि- द्विष्टस्य वा नीचस्य गमनमायतिघ्नमर्थोऽनर्थानुबन्धः ॥ १४ ॥ सक्तादिति । यः सतो निःसारत्वादन्यदीयमर्थमपहृत्य प्रयच्छति तस्मादन्यार्थस्य परिग्रहे, आयतिच्छेदन प्रभावहानिर्दस्युना सह तिष्ठ- तीति, अर्थस्येति । पूर्वोपात्तस्य निष्क्रमणं चात्र द्रव्यस्य नागरकेण गृह्य- माणत्वाद्, लोकविद्विष्टस्य च चौर्यमकुर्वतोऽपि, नीचस्य वा जातिन्यून- स्थ, गमनमायतिध्नमिति । प्रभावं हन्ति, अत्रार्थोऽनर्थानुबन्धः, तदा. ऽर्थलाभस्यायतिच्छेदाधनानुबन्धित्वाद् अयं विरुद्धानुबन्धः ॥ १४ ॥ स्वेन व्ययेन शूरस्य महामात्रस्य प्रभवतो वा लुब्धस्य गमनं. निष्फलमपि व्यसनप्रतीकारार्थ महतश्चार्थघ्नस्य निमित्तस्य प्रशम. नमायत्तिजननं च सोऽनर्थोऽर्थानुबन्धः ॥ १५ ॥ स्वेनेति । आत्मीयद्रव्यपरिक्षयेण गमनं निष्फलं लुब्धत्वान्न प्रयच्छ- ति, तथाऽपि व्यसनप्रतीकारार्थ शत्रूपघातार्थ महामात्रस्य शूरत्वाद्, महतश्चार्थस्येति । अप्रयुक्तमर्थ साध्यमानं यस्मिन्महत्वान्निबध्य तिष्ठति तं प्रशमयति तस्य शूरस्यापि राजकुले लब्धप्रभावत्वाद्, आयतिजननं. चेति । शूरस्य प्रभाववतो वा सम्पर्को लोके महतीमायतीं जनयति सोऽनर्थ इति । यः कृतो व्ययो निष्फलः, अर्थानुबन्धः, व्यसनप्रतीका- रादिनाऽर्थेनानुबद्धत्वादयं विरुद्धानुबन्धः ॥ १५ ॥ कदर्यस्य मुभगमानिनः कृतघ्नस्य वाऽतिसन्धानशीलस्य स्वै. रपि व्ययैस्तथाऽऽराधनमन्ते निष्फलं सोऽनर्थों निरनुबन्धः ॥१६॥ कदर्यस्येति । आत्मानं भृत्यांश्च पीडयित्वा योऽर्थान्सञ्चिनोति तस्य, सुभगमानिन इति । असुभगः सन्नात्मानं सुभगं यो मन्यते स न प्रयच्छति, यस्तु दुर्भगः सुभगमानी स केवलार्थों गम्य उक्तः, कृत धनस्य वेति । अकृतज्ञस्य, वाशब्दः पूर्वापेक्षया सर्वत्र योज्यः, अतिस. न्धानशीलस्य छलनपरस्य, तथाऽऽराधनमिति । यथा स्वैरपि व्ययरभि- TIPS SARAN सटीकेकामसूत्रे [६ अधिकरणे, गमनं निष्फलं, तदनुरक्षमप्यन्ते निष्फलं, सोऽनर्थ इति । यः कृतो व्ययो- निरनुबन्धोऽर्थानाभ्यां निरनुबन्धत्वात् ॥ १६ ॥ कदर्यादेविशेषताह- तस्यैव राजवल्लभस्य क्रौर्यप्रभावाधिकस्य तथैवाराधनमन्ते निष्फलं निष्कासनं च दोषकर मोऽनर्थोऽनर्थानुबन्धः ॥ १७ ॥ तस्यैवेति । क्रौर्यप्रभावाधिकस्येति । दापत्रयमत्राधिकं, तथैवा. राधनमिति । यथा स्वैय॑यैरभिगमन निष्फलं कदर्यादीनामदातृत्वाद्, निष्कासनमददतां दोषकरं, ते हि निष्कासिता दोषत्रययुक्तत्वात्पारुष्य. शरीरमधातादीननर्थान्कुटुंरित्यनर्थोऽनर्थानुबन्धः, अयं सजातीयानु- बन्धः॥१७॥ एवं धर्मकामयोरप्यनुबन्धान्योजयेत् ॥ १८ ॥ एवमिति । एवमन्यानपि धर्मकामयोरनुबन्धान्योजयेत्, तत्र ब्राह्म- णस्य गृहस्थस्यानुरक्तस्य मुमूर्षोर्गमनात्प्राणसंरक्षणं कुटुम्बसंधारण गार्हस्थ्यधर्मप्रवर्तनं च धर्मों धर्मानुबन्धः, काममात्रं धर्मों निरनुबन्धः, तस्यैवाकृतस्नानभोजनस्य ब्राह्मणस्यातिव्यवायाद् धातुक्षये मुमूर्षु. स्वाद् धर्मोऽधर्मानुबन्धः, अभिप्रेतस्य धनवतो भोगिनोऽभिगमने कामः कामानुबन्धः, रागापनयनमात्रेऽभिप्रेतस्थ गमनं कामो निरनुबन्धः, अभिप्रेतस्य हरिद्रारागस्य गमनं कामो द्वेषानुबन्ध इति,अत्र निरनुबन्धाः- विजातीयविरुद्धाभ्यामनुबन्धा द्वादश ॥ १८ ॥ परस्परेण च युक्त्या सङ्किरदित्यनुबन्धाः ॥ १९ ॥ परस्परेण च युक्त्येति । विरुद्धं त्यक्त्वा शेषाणां विजातीयानाम- न्योन्ययोगादित्यर्थः, तत्रार्थो ध धर्मकामद्वेषः प्रत्येकमनुबद्धश्चतुर्विधः, तथाऽनर्थोऽपि, धर्मोऽर्थानर्थकामद्वेषः प्रत्येकमनुबद्धश्चतुर्विधः, तथाऽ. धर्मोऽपि, कामोऽर्थानर्थधर्माधर्मः प्रत्येकमनुबद्धश्चतुर्विधः, तथा द्वेषोऽपि, इति चतुर्विंशतिः संकीर्णानुबन्धाः ॥ १६ ॥ शुद्धसंशयमधिकृत्याह- परितोषितोऽपि दास्यति न वेत्यर्थसंशयः ॥ २० ॥ परीति । यदि तदात्वे न ददाति सुरतोपचारेण परितोषितोऽपि दास्यति, तत्राज्ञातदानशीलत्वाद्यान्न वेत्यर्थसंशयः ॥ २० ॥ निष्पीडितार्थमफलमुत्सृजन्त्या अर्थमलभमानाया धर्मः स्थान वेति धर्मसंशयः ॥ २१ ॥ ।

६ अध्याये] अर्थानानुबन्धसंशयविचारप्रकरणम् । ३२१ । उत्सृजन्त्या इति । कामुकेभ्योऽङ्गानि दत्त्वाऽर्थार्जनं वेश्याया धर्मः, तथा हि-"यथास्वं वृत्तिर्धर्मः" इत्याचार्याः, तत्रार्थमलभमानाया निष्पी. डितार्थस्योत्सर्जनमपि किं धर्मो न वेति संशयः ॥ २१ ॥ अभिप्रेतमनुपलभ्य परिचारकमन्यं वा क्षुद्रं गत्वा काम: स्यान वेति कामसंशयः ॥२२॥ अभिप्रेतमत्र रुचिरं नायकं परिचारकमात्मीयमन्य वा क्षुद्रं निकृष्टं. गत्वा तयोरनभिप्रेतत्वादज्ञातकामत्वाञ्च कामः स्याद्वा न वेति सं. शयः॥ २२॥ प्रभाववान् क्षुद्रोऽनभिमतोऽनर्थ करिष्यति न वेत्यनर्थसंशयः॥२३॥ अनभिमत इति । अभिगन्तुमिच्छन् क्षुद्रत्वात्प्रत्याख्यातः, स हि राज. कुले लब्धप्रभावत्वादनथं करिष्यति न वेति संशयः ॥ २३ ॥ अत्यन्तनिष्फल: सक्तः परित्यक्तः पितृलोक यायात्राधर्म:- स्यान्न वेत्यधर्मसंशयः ॥ २४॥ सक्त इति । अनुरक्तोऽभिगन्तुमिच्छन् परित्यक्तो निष्फलस्वाव, पितृलोकं यायादिति । अवस्थाऽन्तरप्राणौ यमलोक यायादिति सम्भा व्यते, तत्रेति । परित्यागेऽधर्मः स्यान्न वेति संशयः ॥ २४ ॥ रागस्यापि विवक्षायामभिप्रेतमनुपलभ्य विरागः स्यान्न वेति द्वेषसंशय इति शुद्धसंशयाः ॥ २५ ॥ रागस्याऽपि विवक्षायामिति । कामो न भविष्यतीति न विवक्षितं. रागेण पीड्यमानत्वाद्, अभिप्रेतोऽपि नास्ति यमाश्रित्य स्यादित्याह- अभिप्रेतमनुपलभ्येति । केवलमेव वर्तमानाया विद्वेषः स्यान्न वेति संश: यः, शुद्धसंशया इति । एकस्यैव भावाभावाभ्यां संशय्यमानत्वाद् ॥२६॥ अथ संकीर्णाः ॥ २६ ॥ अथेति । आनन्तर्ये, संकीर्णा निर्दिश्यन्ते, शुद्धानन्तरं हि संकीर्ण- स्योद्दिष्टत्वाद्, इदं वा स्यादिदं वेति संकीर्ण इति ॥ २६ ॥ स च विरुद्धाविरुद्धाभ्यां; तत्र पूर्वमधिकृत्याह- आगन्तोरविदितशीलस्य वल्लभसंश्रयस्य प्रभविष्णोर्चा स. मुपस्थितस्याराधनमर्थोऽनर्थ इति संशयः ॥ २७ ॥ आगन्तोरिति। कुतश्चिदागतस्याभिगमनेऽविदितशीलत्वादर्थोऽनों- वेति संशयः, तस्य चार्थितया समुपस्थितत्वादर्थः, वल्लभसंश्रयत्वात्प्र. भविष्णुत्वाद्वाऽनर्थ इति कारणद्वयसंनिधानात्संशयः ॥ २७ ॥ श्रोत्रियस्य ब्रह्मचारिणो दीक्षितस्य व्रतिनो लिङ्गिनो वा मां. ४१ का०सु० । - teaspapta सटीके कामसूत्रे [६ अधिकरणे, दृष्ट्वा जातरागस्य मुमूर्षामित्रवाक्यादानृशंस्याच गमनं धर्मोऽधर्म- इति संशयः॥ २८॥ श्रोत्रियस्येति । गृहस्थस्यापि क्रियावतः, ब्रह्मचारिण इति । प्रथ- माश्रमस्य, दीक्षितस्थ प्रतिन इति । चितव्रतस्य कियन्तं कालं गृहीत. पराकादिव्रतस्य, लिडिन इति । भौतादेशवतः, मुमूर्षोरिति ! मर्तुमि- छोः कामस्यावस्थाऽन्तरप्राप्तत्वाद्, मित्यवाक्यादिति । श्रोत्रियादीनां मित्रस्याभ्यर्थनावचनादानृशंस्याञ्च करुणयाऽभिगमने, धर्मोऽधर्म इति । मा भूत्प्राणत्याग इति धर्मः नियमभ्रंशः कृत इत्यधर्मः, तदुभयमपि का स्मान भवतीति चेद्, न, अन्यतरस्य बलीयस उत्पादनात् ॥ २८ ॥ लोकादेवाकृतप्रत्ययादगुणो गुणवान्वेत्यनवेक्ष्य गमनं कामो- द्वेष इति संबायः ॥ २९ ॥ अकृतप्रत्ययादिति । अकृत निश्चयाल्लोकात् , किमयं गुणवान वेति, स्वयमनवेक्ष्यानिश्चित्य केवलं लोकप्रवादाद् गुणवानित्यभिगमनादभि- सरणे कि कामो द्वेषो वेति विरुद्धसंकीर्णास्त्रयः ॥ २६ ॥ अविरुद्धमधिकृत्याह- संकिरेच्च परस्परेणेति संकीर्णसंशयाः ॥ ३० ॥ संकिरेच्चेति । तत्रार्थो धर्माधर्मकामवैश्चतुर्भिः प्रत्येकं विकल्पि- तश्चतुर्विधः, तथाऽनर्थोऽपि: धर्मोऽर्थानर्थकामद्वेषैर्विकल्पितश्चतुर्विधः, तथा द्वेषोऽपि, विरुद्धसंकीर्णाश्चतुर्विंशतिः पूर्वः सह सप्तविंशतिरित्युक्ताः- संकीर्णसंशयाः॥३०॥ उभयतो योगमधिकृत्याह- यत्र परस्याभिगमने सक्ताच संघर्षतः स उभयतोऽर्थः॥३१॥ अत्रेति । यस्मिन्नुभयतो योगे, परस्येति । अपूर्वस्य, उत्तरत्राप्यधि. कृतं वेदितव्यम्, अभिगमनेऽर्थः । परस्मादेव, सक्ताच्चेति । अनुरक्तात्, सङ्घर्षत इति । स्पर्धमानादर्थः, स मा भूदनेनास्याः संप्रयोग इति स्पधया ददाति, स इति । उभयतो योग उभयतोऽर्थनामा, अन्यत्र यस्मिन् परस्मिन् सक्त चेदभिगमनं तदेकमेवार्थसाधककार्यन विजा- तीयमन्यदस्ति, उभयस्माच्च सकाशात् फल द्वयं प्रत्युपस्थितं तेनै कस्मिन् क्रियमाणे कार्यद्वयस्योत्पत्तिरुभतो योग इति मूलसूत्रार्थो योज्यः ॥ ३१ ॥ यत्र स्वेन व्ययेन निष्फलमभिगमनं सक्ताचामर्षितादित्तप्र- त्यादानं स तूभयतोऽनर्थः ॥ ३२ ॥ यस्मिन्नुभयतो योगे स्वेन व्ययेनाभिगमनम् , परस्येति वर्तते, नि. । AND । ।

।
६ अध्याये] अर्थानानुबन्धसंशयविवारप्रकरणम् ।
फलमित्यनर्थः, सक्ताच्चानुरक्ताद्, अमर्षितादिति । कया चिदर्थयुक्त्या
प्राक् क्रुद्धाद्, वित्तप्रत्यादानमिति । तेनैव दत्तं प्रतीपमादीयमानम-
नर्थः, आत्तस्य निष्क्रमणात्, स उभयतो योग उभयतोऽनर्थनामा, उभ-
यतो योगस्य भिन्नविषयत्वाद्, निरनुबन्धपक्षेऽन्तर्भावः ॥ ३२ ॥
संशयोऽत्रास्त्येवेत्याह-
यत्राभिगमनेऽर्थो भविष्यति न वेत्याशङ्का सक्तोऽपि सङ्घर्षा-
हास्यति न वेति स उभयतोऽर्थसंशयः ॥ ३३ ॥
योति । यस्मिन्नुभयतो योगे, अभिगमन इति । परस्य, भविष्यति न
वेत्याशङ्का न निश्चयः, सक्तश्चाभिगमने सङ्घर्षात्स्पर्धया दास्यति न वेति,
स उभयतो योग उभयतोऽर्थसंशयनामा ॥ ३३ ॥
यत्राभिगमने व्ययवति पूर्वो विरुद्धः क्रोधादपकारं करिष्य-
ति न वेति सक्तो वा मर्षितो दत्तं प्रसादास्यति न वेति स उभ-
यतोऽनर्थसंशयः ॥ ३४॥
इत्यौदालकेरुभय तो योगाः ॥
यत्रेति । यस्मिन्नुभयतो योगे, व्ययवतीति । व्ययं कृत्वा यत् परस्या-
भिगमनम् , पूर्व इति । पूर्वसंसृष्टः, विरुद्धः क्रोधादिति । स्वेन व्ययेनाय.
मनयाऽभिगम्यत इति तद्वारेण क्रोधान्ममापकारं करिष्यति न वेति
संशयः, सक्तश्च प्राकया चिदर्थयुक्त्याऽमर्षितो गमने दत्तं प्रत्यादास्यति
न वेति संशयः स उभयतो योग उभयतोऽनर्थसंशयनामा ॥३॥
बाम्रवीयास्तु-
यत्राभिगमनेऽर्थोऽनभिगमने च सक्तादर्थः स उभयतोऽर्थः॥३५॥
बाभ्रवीयास्त्विति । उमयतो योगा वश्यन्त इति शेषः,
यत्रेति । उभयतो योगे, अभिगमने परस्य, अनभिगमने च सत्ता-
दिति । अनभिगतात्सतादित्यर्थः, यः सको वशी सोऽनभिगत एव
दास्यति, यथोक्तं प्राक्-'सक्तं तु वशिनं नारी सम्भाष्यान्यत्र वा व्रजेद्'
इति, पूर्वस्मिन्दर्शनेऽन्यतराभिगमनेऽन्यतरस्मादर्थः, इह त्वेकस्यैवाभि-
गमन उभयस्मादर्थः, ततश्च स्पष्ट एवात्र मूलसूत्रार्थः ॥ ३५ ॥
यत्राभिगमने निष्फलो व्ययोऽनभिगमने च निष्पतीकारोऽ-
नर्थः स उभयतोऽनर्थः ॥ ३६ ॥
यत्रेति । उभयतो योगे,प्राभगमन इति । परस्य, निष्फलो व्यय इति।
अनर्थः, अनभिगमने च सक्तादित्यनुवर्तते, यः पराभिगमनेन सतो जाता-
मर्षस्तस्मानिष्प्रतीकाराऽनों यद्वित्तपत्यादानं स उभयतोऽनर्थनामा॥३६॥

३२४
सटीके कामसूत्रे
[६ अधिकरणे,
--
।
BIDHAN
यत्राभिगमने निव्ययोदास्यति न वेति संशयोऽनभिगमने सक्तो-
दास्यति न चेति स उभयतोऽर्थसंशयः ॥ ३७॥
यत्रेति। उभयतोयोगे, अभिगमने परस्य, निव्यंय इति । विना व्ययेन,
अनभिगमने सक्त इति ।विनाऽभिगमनं दास्यति न वेति, तस्य वशित्वं.
न निश्चितं स चोभयतोऽर्थसंशयनामेति ॥ ३७ ॥
यत्राभिगमने व्ययवति पूर्वो विरुद्धः प्रभाववान् प्राप्स्यते न
वेति संशयोऽनभिगमने च क्रोधादनर्थ करिष्यति न वेति स उभ-
यतोऽनर्थसंशयः ॥ ३८॥
यत्रेति । उभयतो योगे, अभिगमने परस्य पूर्वो विरुद्धःप्राप्स्यते मया
तद्वारेणायमपकरिष्यति न वेति संशयः, अनभिगमने च सक्त इति वर्त-
ते, क्रोधादनर्थ करिष्यतिन वेति संशयः, पराभिगमने तदीयामपस्यानि-
श्चितत्वात् स उभयतोऽनर्थसंशयनामा, एते चत्वार उभयतो योगा द.
र्शनद्वयेऽपि शुद्धा उक्ताः ॥ ३८ ॥
सङ्कीर्णानाह-
एतेषामेव व्यतिकरेऽन्यतोऽर्थोऽन्यतोऽनर्थः ॥ ३९ ॥
एतेषामेव व्यतिकर इति । सजातीयं त्यक्त्वा शेषाणां परस्परसङ्की.
र्णत्वे षट् सङ्कीर्णयोगाः, यदाह-अन्यत इति । यत्र परस्याभिगमनेऽर्थ.
इत्येकतोऽर्थः, सक्ताचामषिताद्वित्तप्रत्यादानमित्यन्यतोऽनर्थोयमुभयतो.
योगोऽर्थानर्थरूपः ॥ ३६॥
अन्यतोऽर्थोऽन्यतोऽर्थसंशयः॥ ४० ॥
अन्यतोऽर्थ इति । पूर्ववत् , सक्तः सङ्घर्षादास्यति न वेत्यन्यतोऽर्थः
संशयोऽयमार्थसंशयरूपः ॥ ४० ॥
अन्य तोऽर्थोऽन्यतोऽनर्थसंशयः ॥ ४१ ॥
अन्यतोऽर्थ इति । पूर्ववत् , सक्तोऽमर्षितो दत्तं प्रत्यादास्यति न वे.
त्यन्यतोऽनर्थसंशयोऽयमर्थानर्थसंशयरूपः ॥ ४२ ॥
अन्यतोऽनर्थोऽन्यतोऽर्थसंशयः ॥ ४२ ॥
अत्र परस्य स्वेन व्ययेन निष्फलमभिगमनमित्यन्यतोऽनर्थः, सक्तः-
सङ्घर्षाद् दास्यति न वेत्यन्यतोऽर्थसंशयोऽयमनर्थार्थसंशयरूपः ॥ ४२ ॥
अन्यतोऽनर्थोऽन्यतोऽनर्थसंशयः ॥ ४३ ॥
अन्यतोऽनर्थ इति । पूर्ववत्, सकोऽमर्षितो दत्तं प्रत्यादास्यति न
वेत्यन्यऽतोऽनर्थसंशयोऽयमर्थानर्थसंशयरूपः॥४३॥
अन्यतोऽर्थसंशयोऽन्यतोऽनर्थसंशय इति षट् सङ्कीर्णयोगा:॥४४॥

६ अध्याये] अर्थानानुबन्धसंशयविचारप्रकरणम् । । HANUARL HAMATA SHARMA REHSAALA यत्र परस्याभिगमनेऽर्थो भविष्यतीत्याशंलेत्यन्यतोऽर्थसंशयः सक्तो- ऽमषितो दत्तं प्रत्यादास्यति न घेत्यन्यतोऽनर्थसंशयोऽयमर्थसंशयानर्थ- संशयरूप इति, एवं बाभ्रव्यदर्शनेऽपि योज्यम् ॥४४॥ तेषु सहायैः सह विमृश्य यतोऽर्थभूयिष्ठोऽर्थसंशयः, गुरुरन. र्थप्रशमी वा ततः प्रवर्तेत ॥ ४५ ॥ तेष्विति । दर्शनद्रयेऽपि शुद्धेषु सङ्कीर्णषु च, सहायः पूर्वोक्तः, यत. इति । यं गम्यमाश्रित्य, अर्थभूयिष्ठ इति। अर्थबहुलो योऽर्थसंशयो नेतरः, गुरुरनर्थप्रशमो वा, यतोऽर्थाद्धि महतोऽनर्थस्य प्रतिकार्यस्य गुरुत्वात्, तत इति । तं लक्षीकृत्य प्रवर्तेत ॥ ४५ ॥ एवं धर्मकामावप्य नयैव युक्त्योदाहरेत् , सङ्किरेच्च परस्परेण व्यतिषञ्जयेञ्चेत्युभयतो योगाः॥ ४६ ॥ अनयैवेति । अर्थयुक्त्योदाहरेत्, तत्र परस्य द्विजत्वादभिगमने धम:- सक्ताश्चानुरागान्मुमूर्षोः स उभयतो धर्मः, यत्र ब्रह्मचारिणोऽभिगमनेऽ. धर्मः सक्ताच्च व्रतस्थादनिच्छतः स उभयतोऽधर्मः, यत्र परस्य निद्रव्य- स्याभिगमने धर्मो न भविष्यतीत्याशंसा, सत्ताञ्च निष्पादितार्थत्वादप्रय- च्छतो धर्मो न वेति स उभयतोऽधर्मसंशय इति, यत्र परस्याभिप्रेतस्या- भिगमने कामासक्ताचाभिप्रेतात्स उभयतः कामः, यत्र परस्यानभिप्रेतस्य गमने विरागः सत्ताञ्चानभिप्रेतात्स उभयतो द्वेषः, यत्र परस्याविदितशी- लस्य गमने कामो भविष्यति न वेतिस उभयतः कामसंशयः, यत्र परस्या- भिगमने रागापनयनविवक्षायां विरागः स्थान वेति संशयः सकाच्च तथैव विरागः स्यान्न वेति स उभयतो द्वेषसंशयः, इत्यौहालकः शुद्धा उ. भयतो योगाः, तथैव गमनागमनाभ्यां बाभ्रवीयेषूदाहरेत्संकिरच, परस्प- रेणेति । सजातीयांस्त्यक्त्वा, तथाऽन्यतो धर्मोऽन्यतोऽधर्म इति धर्मसं- शयेनाधर्मसंशयेन च संकीर्णस्त्रिविधः, तथाऽन्यतो धर्मोऽन्यतो धर्माधर्मः संशयाभ्यामन्यतो धर्मसंशये वाऽन्यतोऽधर्मसंशयेन संकीर्णास्त्रयः, इति षट् संकीर्णाः, औद्दालके भ्रन्यस्य च,एवमन्यतः कामोऽन्यतो द्वेषेण काम- संशयेन द्वेषसंशयेन च सङ्कीर्णस्त्रिविधः, तथाऽन्यतो द्वेषोऽन्यतः कामद्वे. षसंशयास्यामन्यतः काम संशयश्चान्यतो द्वेषसंशयेन च संकीर्णास्त्रय इति षडौहालकेर्वाभ्रव्यस्यापि,इहापि सहायविमृश्य यतोधर्मभूयिष्ठस्तत्संशयो- गुरुरधर्मद्वेषप्रशमश्च ततः प्रवर्तेत, न तु यतोऽधर्मो द्वेषस्तत्संशयश्चेति योज्यं, व्यतिषञ्जयेञ्चेति । अर्थादीनां विरुद्धत्वं त्यक्त्वा शेषान्परस्परतः संश्लेषयेदित्यर्थः, तत्रान्यतोऽर्थोऽन्यतो धर्माधर्मकामद्वेषोस्तत्संशयैश्च संयोजितोऽष्टप्रकारः, तथाऽनर्थोऽनर्थसंशयोऽर्थानर्थसंशयश्च समुदायेन HAINEER HASTRARASHRSS HTRA RLPEPAR SHEVANESS IANS Sala BARE HASRANA S Bhosal CHAR ३२६ सटीके कामसूत्रे [६ अधिकरणे, । द्वात्रिंशद्भवन्ति,एवमन्यतो धर्मोऽन्यतोऽर्थानर्थकामः संयोजितोऽष्टप्रकारः, तथाऽधर्मो धर्मसंशयोऽधर्मसंशयश्चेति द्वात्रिंशद, एवमन्यतः कामोऽ. न्यतोऽर्थानर्थधर्माधर्मेस्तत्संशयैश्च संयोजितोऽष्टप्रकारः, तथा द्वेषः काम- संशयो द्वेषसंशयश्चेति द्वात्रिंशत्, समुदायेन षण्णवतिः, विपर्ययेणे ताब न्तः, एवमौद्दालकेय॑तिषङ्गयोगानां च द्वानवतिशतम्, एवं बाभ्रव्यः स्थापि, तेष्वपि सहायैर्विमृश्यत्यादि योज्यम् , उक्ता उभयतो योगास्त्रि. विधाः-शुद्धाः संकीर्णा व्यतिषक्ताश्च ॥ ४६ ॥ समन्ततो योगं दर्शयितुं विशेषमाह- संभूय च विटाः परिगृह्णन्त्येकाममा गोष्ठीपरिग्रहः॥४७ ।। संभूयेति । एकीभूय जातविश्वासत्वात्परिगृह्णन्त्येवैकां विटाः प्रायश. एवं समाचाराद्, असौ गोष्टीपरिग्रह उच्यते यो बहुभिरेकस्याः परि. ग्रहः ॥४७॥ तेनानेकपरिग्रहायाः समन्ततो योग इति तामेवाधिकृत्याह- सा तेषामितस्ततः संपृच्यमाना प्रत्येक संघर्षादर्थ निर्वत येत्॥४८॥ सेति । अनेकपरिग्रहा, तेषामितस्तत इति । अनियमेन कदा चिदेकेन कदा चिद् द्वाभ्यां बहुभिर्वा, संपृच्यमाना=संपक यान्ती, संघर्षादिति । परस्परस्पर्धया तेषां संपृच्यमाना प्रत्येकमेकैकशोऽर्धानिर्वतयेत् ॥४८॥ स्पर्धाकारणमाह- मुवसन्तकादिषु च यो म इमममुं च मनोरथं संपादयिष्यति तस्याद्य गमिष्यति मे दुहितेति मात्रा वाच येत् ॥ ४१ ।। सुवसन्तकादिष्विति । तेषूतलवेषु विटानां कामदौर्बल्यं जायते, म. नोरथमिति । अभिप्रेतं वाचयेत्, सा हि निरनुरोधत्वाद् शक्ता व्यवस्था- पयितुम् ॥ ४९ तेषां च संघर्षजेऽभिगमने कार्याणि लक्षयेत् ॥ ५० ॥ संघर्षज इति । स्पर्धाजनिते, कार्याणीति लाभान् ॥ ५० ॥ तान्याह- एकतोऽर्थः, सर्वतोऽर्थः, एकतोऽनर्थः, सर्वतोऽनर्थः, अर्धतोऽर्थः सर्वतोऽर्थः, अर्धतोऽनर्थः, सर्वतोऽनर्थ इति समन्ततो योगाः ॥१॥ एकतोऽर्थ इति । यावद्भिः परिगृहीता तेषामन्यतमस्यैकस्य, द्वयोर- न्यतरस्यैकस्य वा शेषः सह स्पर्धा तस्मादेकतोऽथं लक्षयेत्, सर्वत इति । सर्वेभ्योऽर्थम्, एकतोऽनथं सर्वतोऽनथ, यदोभौ स्पर्धते तदोभयतोऽर्थ- सर्वतोऽर्थमुभयतोऽनर्थ सर्वतोऽनामिति, यदाऽर्भ स्पर्धते तदाऽर्धतोs: मिर्धतोऽनर्थम्, इति समन्ततो योगास्त्रिधा भिन्नाः ॥ ५१ ॥ SHARMA ।

६ अध्याये] वेश्याविशेषप्रकरणम्। sunate BAISA अत्र भिन्नविषयत्वादनुबन्धो नास्ति संशयस्तु विद्यत इत्याह- अर्थसंशयमनर्थमंशयं च पूर्ववद्योजयेत् संकिरेञ्च ॥ १२ ॥ पूर्ववदिति । एकतोऽर्थसंशयः सर्वतोऽर्थसंशयः, एकतोऽनर्थसंशय:- सर्वतोऽनर्थसंशय इति द्रौ, पूर्वोक्तौ च द्वाविति चत्वारः शुद्धाः, संकिरे. च्चेति । सजातीयं त्यक्त्वा, तत्रैकतोऽर्थः सर्वतोऽनर्थ इत्येकः, सर्वतोऽ- नर्थसंशये च द्वितीयः, एकतोऽर्थः सर्वतोऽर्थसंशय इति तृतीयः, एकतो. ऽनर्थः सर्वतोऽर्थसंशयश्चेति चतुर्थः, एकतोऽनर्थः सर्वतोऽनर्थसंशय- इति पञ्चमः, एकतोऽर्थसंशयः सर्वतोऽनर्थसंशय इति षष्ठः ॥ ५२ ॥ इति संकीर्णाः। तथा धर्मकामावपि ॥ ५३ ।। इत्यर्थानानुबन्धसंशयविचाराः ॥ तथा धर्मकामावपीति । एकतो धर्मः सर्वतो धर्मः, एकतोऽधर्म:- सर्वतोऽधर्मः, एकतो धर्मसंशयः सर्वतो धर्मसंशयः, एकतोऽधर्मसंशयः सर्वतोऽधर्मसंशय इति शुद्धाश्चत्वारः, एवं सजातीयं त्यक्त्वा संकीर्णाः षट्, तथैकतः कामः सर्वतः कामः, एकतो द्वेषः सर्वतोद्वेषः, एकतः काम- संशयः सर्वतः कामसंशयः, एकतो द्वेषसंशयः सर्वतो द्वेषसंशय इति शुद्धाश्चत्वारः, एवं सजातीयं त्यक्त्वा सङ्कीर्णाः षड्, व्यतिषञ्जयेच्चेति, अर्थादीनां शुद्धसङ्कीर्णभिन्नानां व्यतिषङ्गे संख्या द्वानवतिशतं भवति, एवमुभयतोऽर्थतश्च योजयेत्, संघर्षजेऽभिगमने कार्याण्येतान्युक्तानि, यदा स्वसङ्घर्षजमभिगमनं तदा तेषामेकाभिप्रायत्वाद् द्वादश समन्तता. योगाः, सर्वतोऽर्थः, सर्वतोऽनर्थः, सर्वतो धर्मः, सर्वतोऽधर्मः, सर्वतः- कामः, सर्वतो द्वेषः, इति षट्, त एव संशयिताः षट् ॥ ५३ ॥ इत्युक्ता अर्थानर्थानुवन्धसंशयविचाराः॥ वेशप्रयोजनमिदमधिकरण, वेशश्च कासांस्त्रीणामिति, अस्यैव प्रक- रणस्य शेषभूतमाह- कुम्भदासी परिचारिका कुलटा स्वैरिणी नटी शिल्पकारिका प्रकाशविनष्टा रूपाजीवा गणिका चेति वेश्याविशेषाः ॥ ५४॥ कुम्भदासीति । कुम्भग्रहणं निकृष्टकर्मोपलक्षणं, लोके सामान्या:- स्त्रियः प्रसिद्धाः, कुम्भदासी गणिका रूपाजीवा चेति, शेषाणामपि सामान्यात्तत्रैवान्तर्भावः, परिचारिका याः स्वामिनं परिचरन्ति, परि- चरितस्योपनिषदिके विधि वक्ष्यति, कुलटा या पतिभयाद् गृहान्तरं गत्वा प्रच्छन्नमन्येन संप्रयुज्यते, स्वैरिणी या पति तिरस्कृत्य स्वगृहेऽन्यगृहे वा संप्रयुज्यते, नटो रङ्गयोषिद्, शिल्पकारिका रजकतन्तुवायादिभार्या, सटीकेकामसूत्रे [६ अधिकरणे, । प्रकाशविनष्टा या जीवति मृते वा पत्यो संग्रहधर्मेण गृहोता कामचार- प्रवर्तते, एताः षड् रूपाजीवायामेवान्तर्भवन्तीति वेश्याविशेषा इति वेशेन सम्पच्यन्ते ॥ ५४॥ सर्वासां चानुरूप्येण गम्याः सहायास्तदुपरञ्जनमर्थागमोपाया. निष्कासनं पुनःसन्धानं लाभविशेषानुवन्धा अर्थानर्थानुबन्धसंश- यविचाराश्चेति वैशिकम् ॥ ५५ ॥ सर्वासामिति । आनुरूप्येणेति । श्रात्मनो हीनमध्यमोत्तमापेक्षयेत्यर्थः, तदुपरञ्जनमिति । कान्ताऽनुवृत्तम्, पुनःसन्धानमिति । विशीर्णप्रतिस- न्धानं, चैशिकमिति । वेशो वेश्याजनोचितं वृत्तं दत्तकाचार्य्यदर्शनेन षड्विधं सहायग्रहणं गम्यपरीक्षणमनुरञ्जनमर्थादानं निष्कासनं विशी. प्रतिसन्धानं चेति, बाभ्रव्यमतेन दर्शनेनाष्टविधं शेषाभ्यां सह तत् प्रयो. जनमस्येति वैशिकम् ॥ ५५ ॥ ननु च शतायुः पुरुषो विभज्य कालं त्रिवर्ग सेवेतेत्युक्तं, ततश्च तस्यैवात्र शास्त्रोपदेशो युक्तो न योषित इत्याह- भवतश्चात्र इकोको- रत्यर्थाः पुरुषा येन रत्यर्थाश्चैव योषितः । शास्त्रस्यार्थप्रधानत्वात्तेन योगोऽत्र योषिताम् ॥ ५६ ॥ रत्येति । रतिरर्थः प्रयोजनं तुल्यं शास्त्रस्थार्थप्रधानत्वात् , तेनोपदि. श्यत इति कृत्वा योगोऽत्र योषितामधिकार इत्यर्थः ॥ ५६ ॥ सन्ति रापगरा नार्यः सन्ति चार्थपरा अपि । प्राक्तत्र वर्णितो रागो वेश्यायोगाश्च वैशिके ॥ २७॥ इति श्रीवात्स्यायनीये कामसूत्रे वशिके षष्ठेऽधिकरणेऽर्थान- नुबन्धसंशयविचारा वेश्याविशेषाश्च षष्ठोऽध्यायः। ताश्च द्विविधाः-रागपरा अर्थपराश्च, तत्र पूर्वासां प्रणीतो राग:- कन्यासंप्रयुक्तकभार्याऽधिकारिकपारदारिकैस्त्रिभिरधिकरणैस्तासां रा. गपरत्वात् तदनुरूपमेव वृत्तमुक्तं, वेश्यायोगाश्चेति । वेश्यानां सत्यपि रत्यर्थेऽर्थपरत्वाद् वैशिकेऽधिकारः, तासां हि पुरुषाधिगमे रति- त्तिश्च सर्गादिति ॥५७ ॥ इत्यर्थानानुबन्धसंशयविचारा वेश्याविशेषाश्चाष्टा- पञ्चाशत्तमं प्रकरणम् ।। इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽत्यायां वैशिके षष्टे- ऽधिकरणेऽर्थानानुबन्धसंशयविचारा वेश्याविशेषाश्च षष्ठोऽध्यायः । समाप्तं चेदं वैशिकं नाम षष्ठमधिकरणम् ।

औपनिषदिकं नाम सप्तममधिकरणम् । mite । प्रथमोऽध्यायः । शास्त्रकार एवाधिकरणसम्बन्धमाह व्याख्यातं कामसूत्रम् ॥ १॥ व्याख्यातमिति । कामसूत्रमिति । तन्त्रावापात्मक, साधारणं तु तद- ङ्गत्वादुभयात्मकम् ॥ १॥ तदुक्तैस्तु विधिभिरभिप्रेतमर्थगनधिगच्छन्नौपनिषदिकमाचरेत् ॥२॥ तदुक्तैरिति। तदुक्तःतन्त्रावापोक्तः, अभिप्रेतमनधिगच्छन्निति । ईप्सितमप्राप्नुवन् , औपनिषदिकमित्यभिधाकमात्मनो विधेयमिति ॥२॥ सुभगङ्करणमुच्यते- रूपं गुणो वयस्त्याग इति सुभगङ्करणम् ॥ ३ ॥ रूपमिति । रूपं वर्णसंस्थानं सहजम्, इतरदनित्यं नित्यस्नानं द्विती- यमुत्सादनमित्यादि संस्कारवशाच्चेतोहारि भवति, गुणा ये नायक- स्योक्तास्ते विरूपमपि सुभगकुर्वन्ति, अतस्तेषु यत्नः कार्यः, वय इति । यौवनं सर्वकार्यसमथं तत् पुनस्तन्मतेन स्थिरं कार्य बार्धक्ये हि पलि- तइति; अनादरो विशेषतः स्त्रीणां तदपि केशरञ्जनादिसंस्कारापाते वैमु. ख्यं नोत्पादयति, त्याग इति । दानन्तत्सर्व बाधते यतो विरूपो निर्गुणो. वृद्धो वा दाता सर्वेरेवाभिगम्यते ॥३॥ यत्र रूपादयो न सन्ति तत्र विधिमाह- तगरकुष्ठतालीसपत्रकानुलेपनं सुभगङ्करणम् ॥ ४॥ तगरेति । तगरन्तु कन्दमौत्तरापथिकं न नेपालभवं, कुष्ठं यच्छ्वेतं, तालीसपत्रकम्प्रतीतम् , एतैरनुलेपनं शरीरस्य ॥४॥ एतैरेव मुपिष्टैर्तिमालिप्याक्षतलेन नरकपाले साधितमञ्जनं च ॥५॥ एतैरेवेति । वर्तिमालिप्य दुकूलमयीम् , अक्षतैलेन - बिभीतकतैलेन, साधितमिति । नरकपाले पातितमित्याम्नायः, कज्जलं तेन स्नेहन यो- ज्यं, सुभगङ्करणमिति सर्वत्र योजनीयम् ॥ ५ ॥ पुनर्नवासहदेवीसारिवाकुरण्टकोत्पलपत्रैश्च सिद्धं तैलमभ्यञ्ज. नम् ॥ ६॥ ४२का०सु० ।

। सटीके कामसूत्रे [७ अधिकरणे, पुनर्नवेति । युनर्नवा, सहदेवी = इण्डोत्पलक, सारिवेति उत्पलशा. रिवा ग्राह्या, कुरण्टकः प्रतीता, उत्पलपत्रमिति, यदाभ्यन्तरं न बाहां, शेषाणां मूलं, सिद्धमिति । तैलविधानेन पक्वम्, एतैरेव कषायं कल्कं च कृत्वा, तैलामिति । तिलानाम् , अभ्यञ्जन सुभगङ्करणम् ॥ ६ ॥ तद्युक्ता एव स्त्रजश्व ॥७॥ तद्युक्ता इति । पुनर्नवादिचूर्णयुक्ताः सजो धारिताः सुभगङ्करणम् ॥७॥ पद्मोत्पलनागकेसराणा शोषितानां चूर्ण मधुघृताभ्यामवलिह्य सुभगो भवति ॥ ८॥ पद्मोत्पलेति । नाग इति नागकेसरः, पक्षादीनासराण्येकीकृत्य संचू. j, अवलिहोति । वमनविरेचनं कृत्वा तत्रापि न तदैव सुभगो मासा- दूर्ध्वं दृष्टशक्तिः ॥ ८॥ तान्येव तगरतालीसतमालपत्रयुक्तान्यनुलिप्य ॥ ९ ॥ तान्येवेति । पनादिकेसराणि तगादियुक्तानि, अनुलिप्येति । अनु. लेपनं कृत्वा शरीरस्य, सुभगो भवति ॥ ६ ॥ मयूरस्याक्षि तरक्षोर्चा सुवर्णेनावलिप्य दक्षिणहस्तेन धारये. दिति मुभगङ्करणम् ॥ १० ॥ मयूरस्येति । यो न विशीर्णवहः, तरक्षोर्वेति । यो मत्तः स हि ग्रीष्मे माद्यत्ति, अक्षीति । दक्षिणं वामं च ग्राह्यन्वयोरेव सामर्थ्यमित्याम्नायः, सुवर्णेनावलिप्येति । शुद्धसुवर्णपत्रेण पुष्ययोगेन वेष्टयित्वा ॥ १० ॥ बादरमाणे शङ्खमाण च तथैव तेषु चाणान् योगान् ग- मयेत् ॥ ११ ॥ बादरमणिमिति । बदरस्य बदरीवृक्षस्योत्तरशिफाघटितां वृत्तगुलि- कां, शङ्खमणिमिति । दक्षिणावर्तशडनाभिघटितां, तथैवेति । सुवर्णेनाव- लिप्य हस्तेन धारयेत, तेषु चेति । धारणायोगेषु, आथर्वणानिति । अथ- ववेदे बहवो धारणायोगा उक्ताः ॥ ११ ॥ विद्यातन्त्राच्च विद्यायोगात प्राप्तयौवनां परिचारिकां स्वामी संवत्सरमात्रमन्यतो वारयेत् ततो वारितां वालां वामत्वाल्लाल- सीभूतेषु गम्येषु योऽस्यै संघर्षण बहु दद्यात्तस्मै विसृजेदिति सौ. भाग्यबर्द्धनम् ॥ १२ ॥ विद्यातन्त्रेति । मन्त्रवादात्तत्रापि भूर्जपत्रलिखितविद्याधारणयोगाः, । ।

१ अध्याये] सुभगंकरणप्रकरणम् । अनुष्ठानविशेषोऽपि क्व चित्सौभाग्यनिबन्धनमित्याह-प्राप्तयौवनामिति। या बाल्य इवानन्यपूर्वा स्वामिनं परिचरति तां तरुणीमन्यतो वारयेद्क्ष. येद्, यथाऽन्य भिगम्येत स्वयत्वभिगच्छेदित्यर्थोक्तं, तत इति । तस्या- वारितत्वाद्, वामत्वादिति । रक्षणयोगात् कामिनो वारिताः कौतूहला- प्रतिकूला भवन्ति, ततश्च तेषु लालसीभूतेषु = अत्यन्तं गृनुषु, योऽस्यै परिचारिकाय, संघर्षेणेति । स्पर्द्धया, बहु द्रव्यं दद्याद् दुर्लभं हि प्रिय. मन्वितं च भवतीति प्रायोवादः, विसृजेदिति । अभिगन्तुन्दद्याद्, विशे- षतो वेश्यापाणिग्रहणेऽपि विधिः सौभाग्यनिबन्धन,पाणिग्रहश्च द्विविधः, यथोतं- 'दैवमानवभेदेन वेश्याविवहनं द्विधा । देवं मन्मथकाण्डेन गम्येनाप्यपरं भवेद् इति ॥ १२ ॥ तत्र मानुषमधिकृत्य विधिमाह- गणिका प्राप्तयौवनां स्वां दुहितरं तस्या विज्ञानशीलरूपानु- सूप्येण तानभिनिमन्त्र्य सारेण योऽस्या इदमिदं च दद्यात्स पाणिं- गृह्णीयादिति संभाष्य रक्षयेदिति ॥ १३ ॥ गणिकेति । प्राप्तयौवनां रक्षयेदिति सम्बन्धः, तस्या इति । स्वदुहि. तुः, यादृशं रूपादि तदानुरूप्येणेति तत्सद्दशः, तानिति । दुहितुर्ये गम्याः, अभिनिमन्व्य सारेणेति। विभवेन स्वेनाभिमुख्येन स्वगृहे निमन्त्र्य योऽस्यै दुहितो, इदमिदञ्चेति । ईप्सितमाह, संभाष्येति । सम्भावयेदित्युक्त्वा, रक्षयेत् पण्यधर्मत्वात् ॥ १३ ॥ सा च मातुरचिदिता नाम नागरिकपुत्रैर्धनिभिरत्यर्थं प्रीयेत ॥१४॥ सा चेति । दुहिता, अविदिता नामेति । यथैते जानन्त्यस्मास्वनुरक्तेयं. येन रक्ष्यमाणाऽपि मातुरविदितवागच्छतीति, धनिभिर्नान्यनिरर्थत्वाद्, प्रीयेत प्रीति कुर्यात् ॥ १४ ॥ प्रीतिश्च दर्शनपूर्विका दर्शनं च विशिष्टे देशे काले चेत्याह- तेषां कलाग्रहणे गान्धर्वशालायां भिक्षुकीभवने तत्र तत्र च संदर्शनयोगाः ॥ १५ ॥ तेषामिति । कलाग्रहणकाले, गान्धर्वशालायामिति । यत्राचार्यों नृत्य- गीतं शिक्षयति, भिक्षुकीभवन इति । भिक्षुक्यादिः कलाविदग्धोपगम्यते, तत्र तत्र चेति । सरस्वतीभवनोद्यानादिषु ॥ १५ ॥ तेषां यथोक्तदायिनां माता पाणिं ग्राहयेत् ॥ १६ ।। तेषामिति । प्रीत्यनुबद्धानामिति, यथोकदायिनामिति । मात्रा यस्सं- । ।

MAN सटोके कामसूत्रे [७ अधिकरणे, भाषितं तदायिना, पाणि ग्राहयेदिति । देशप्रवृत्तिरत्रानुसतव्या॥ १६ ॥ तावदर्थमलभमाना तु स्वेनाप्येकदेशेन दुहित्र एन. दत्तम नेनेति ख्यापयेत् ॥ १७ ॥ तावदिति । यावत्प्रमाणं संभाषितमलमनाना पाणिग्रहणादूर्व, स्वेनापीति । आत्मीयेन, एकदेशेनेति । सम्भाषितार्धपादमात्रकमनेन द. ऊहाया वा कन्यामा विमोचयेत् ॥ १८ ॥ ऊढाया वति । देवेन विवाहेन यो जताया इत्यर्थः, कन्यामा वि. मोचयेदिति । पूर्वेणैव प्रकारेग कौमारं हारयेदित्यर्थः, तेन प्राप्तयौवनामू. ढां स्वदुहितरमित्यादि सर्व योज्यं, विशेषोऽत्र स पाणि गृह्णीयादि त्यस्य स्थाने स कौमारकं हरेदिति, यथोक्तदायिन ग्राहयेदित्यस्य स्था. ने कौमारक हारयेदिति ॥ १८ ॥ प्रच्छन्नं वा तैः संयोज्य स्वयमजानती भूत्वा ततो विदिते वेतं धर्मस्थेषु निवेदयेत् ॥ १९ ॥ प्रच्छन्नं वेति । योऽभिप्रेतः कन्यामा विमोचयेत् , तेन प्रच्छन्न- संयोज्य, अजानती भूत्वति । न नयाऽनुज्ञातमिति दर्शनार्थम् , एवं च सति तत उत्तरकालं विदितेषु धर्मस्थेवेतं निवेदयेद्, अभिसंभाषित- मर्थ येन दद्यादित्यभिप्रायः, तावदलभमाना तु स्वेनाप्येकदेशेनेति, त. त्रापि योज्यम् ॥ १९॥ यस्यास्तु न कश्चित् कन्याभावं भोचयति, तत्र विधि माह- सख्येव तु दास्या वा मोचितकन्याभावां मुगृहीतकामसूत्रा- माभ्यासिकेषु योगेषु प्रतिष्ठितां प्रतिष्ठिते वयसि सौभाग्ये च दुहि- तरमवसृजन्ति गणिका इति प्राच्योपचाराः ॥ २० ॥ सख्यैव विति । दास्या वा कुशलया, मोचितकन्याभावामिति । अ- ङ्गुलिकर्मणा हारितकौमारविधि, कथमेवं सौभाग्यमिति चेदत्राह-सुग- हीतकामसूत्रामिति । आभ्यासिकेषु बाडवकादिषु प्रतिष्ठितां शिक्षितां- वयसि तारुण्ये प्रतिष्ठितां यदा रूपयौवनवती विदग्धेत्यभिपतन्ति ना- गरिकाः, तदा सौभाग्ये प्रतिष्ठितेत्यवस्जन्ति व्यवहारे प्रवर्तयन्ति, प्राच्योपचारा इति । व्यवहारात् पूर्वकालिको विधिर्यत् कन्याभाव- मोचनम् ॥ २० ॥ पाणिग्रहश्च संवत्सरमव्यभिचार्यस्ततो यथा कामिनी स्यात्॥२१॥ IMAINA १ अध्याये] वशीकरणप्रकरणम् । पाणिग्रह इति । यः पाणि गृहीतवान् , गृहातीति ग्रहः पाणेग्रह इति समासः, अव्यभिचार्य इति । संवत्सरं तेनैव सह वसेत्, तत इति । संव- त्सरादूर्ध्व, यथा कामिनीति । यथेप्सिता कामयते, वेश्याधर्मस्थित त्वात् ॥ २१॥ ISRORAN ऊर्ध्वमपि संवत्सरात् परिणीतेन निमन्व्यमाणा लाभमप्यु. सृज्य तां रात्रि तस्यागच्छेदिति बेश्यायाः पाणिग्रहणविधिः- सौभाग्यवर्द्धनं च ॥ २२ ॥ ऊर्चेति परिणीतेनेति । गृहीतपाणिना, निमन्त्र्यमाणेति । अद्य रात्री मया सह शयितव्यमिति, लाभमुत्सृज्य; अन्यस्माद् भवन्तमपि, सौ. भाग्यवर्द्धनं चेति । एवं च कृत्वा पुनरभियातव्यमिति वैशिकेनोक्तम् ॥२२॥ एतेन रङ्गोपजीविनां कन्या व्याख्याताः ॥ १३ ॥ रङ्गोपजीविनामिति । नटादीनाम् ॥ २३ ॥ विशेषमाह- तस्मै तु तां दधुर्य एषां तूर्ये विशिष्टमुपकुर्थात् ॥ २४ ॥ इति मुभगङ्करणम् । तूर्य इति । नृत्यविधौ विशिष्टमुपरजयेद् नृत्यगीतादिभिः ॥२॥ इति सुभगङ्करणमेकोनषष्टितमं प्रकरणम् । एवं लोकप्रियतामात्मनो विहितवतोऽभिप्रेतसिद्धयर्थ वशीकरण- मुच्यते- धत्तूरकारिचपिप्पलीचूर्णैर्मधुमिलिप्तलिङ्गस्य सम्प्रयोगो व. शीकरणम् ॥ २५ ॥ धत्तरकेति । धत्तूरकबीजानि, चूर्णैरिति । समीकृतानाम् , मधुमि- रिति । माक्षिकमधुमित्रैः, यथा न च प्रयोज्या जानाति लिप्तलिङ्गो. मामभिगच्छतीति ॥ २५ ॥ वातोद्भ्रान्तपत्रं मृतकनिमौल्यं मयूरास्थिचूर्णावचूर्ण वशी- करणम् ॥ २६ ॥ वातोद्भ्रान्तपत्रं वामहस्तेन ग्रहीतव्यं, मृतकनिर्माल्यं यत्तदुरसि स्थितं, मयूरास्थि जीवञ्जीवकास्थि न केकिसम्बन्धि ग्राह्यमेषां चूर्णेना- वचूर्णनं स्त्रीणां शिरसि पुरुषाणां पादयोः ॥ २६ ॥ स्वयं मृताया मण्डलकारिकायाश्चूर्ण मधुसंयुक्तं सहामलक: स्नानं वशीकरणम् ।। २७ ।। ।

सटीके कामसूत्रे [७ अधिकरणे, स्वयं मृताया इति । तस्या एव कार्यकरणाद्, मण्डलकारिकायाः= गृध्रधाः, मण्डलकारिकाया इति, या मण्डलेन पानीये सङ्घशो- भ्रमन्ति ॥ २७॥ वज्रस्नुहीगण्डकानि खण्डशः कृतानि मनःशिलागन्धपापा. णचूर्णेनाभ्यज्य सप्तकुत्तः शोषितानि चूर्णयित्वा मधुना लिप्त- लिङ्गस्य सम्प्रयोगो वशीकरणम् ॥ २८ ॥ वज्रस्नुहीति । या साधिः, गण्डकानि खण्डश इति । खण्ड खण्ड. कृतानि, सप्तकृत्व इति । सप्तवारान् ॥ २८॥ एतेनैव रात्रौ धूमं कृत्वा त मतिरस्कृतं सौवर्ण चन्द्रमसं. दर्शयति ॥ २९ ॥ एतेनैवेति । चूर्णेन सौवर्ण दर्शयति विस्मापनमेतत्प्रासङ्गिकम्॥२९॥ एतैरेव चूर्णितैर्वानरपुरीपमिश्रितैयाँ कन्यामवकिरत्साऽन्य- स्मै न दीयते ॥ ३० ॥ एतैरेवेति । वज्रस्नुह्यादिचूर्णैः, वानरपुरीषमिश्रितैरिति । जातमुख. रागो यो वानरः, तस्य पुरीषेणेत्याम्नायः ॥ ३० ॥ बचागण्टकानि सहकारललिप्तानि शिंशावृक्षस्कन्धमुत्कीर्य पण्मासं निदध्यात् ततः षद्भिर्मासैरपनीतानि देवकान्तमनुलेपन वशीकरणं चेत्याचक्षते ॥ ३१ ॥ वचेति । वचागण्डकानि श्वेताया वचायाः, वृक्षस्कन्धमिति । यतः- शाखा निःसृता, देवकान्तं देवप्रियं, वशीकरणं चेति । स्वहृदयान्मूल- मुत्पाट्य योजितमित्याम्नायः, केवलं त्वात्मनोऽनुलेपनं सुभगङ्करणं न वशीकरणम् ॥३१॥ तथा खदिरसारजानि शकलानि तनूनि यं वृक्षमुत्कीर्य ष. मासं निदध्यात्तत्पुष्पगन्धानि भवन्ति गन्धर्वकान्तमनुलेपनं वशी. करणं चेत्याचक्षते ॥ ३२ तथेति । सहकारतैललितानीति वर्त्तते, यं वृक्षमिति । सुरभिकुसु. ममुत्कीर्य, स्कन्धदेश इत्युत्तरत्रापि योज्यम् ॥ ३२ ॥ पियङ्गवस्तगरमिश्राः सहकारतैलदिग्धा नागवृक्षमुत्कीर्य प. मासं निहिता नागकान्तमनु लेपनं वशीकरणमित्याचक्षते ॥३३॥ प्रियङ्गव इति । प्रियङ्गुकुसुमानि, तगरमिश्रा इति । कौर टकेन तुल्यभा. । ।

- । १ अध्याये] वृष्ययोगप्रकरणम्। गेन मिश्राः, नागवृक्षं नागकेसरम्, एतत् त्रिविधमनुलेपनं देवगन्धर्वना. गसत्वेष्वेव योजयेत्, सत्त्वपरिज्ञानं च शास्त्रान्तरादवगन्तव्यम् ॥ ३३ ॥ उष्ट्रास्थि भृङ्गराजरसेन भावितं दग्धमानं नलिकायां निहि. तमुष्ट्रास्थिशलाकयैव स्रोतोऽञ्जनसहितं पुण्यं चक्षुष्यं वशीकरणं. चेत्याचक्षते ॥ ३४॥ उष्ट्रास्थीति । तण्डुलभेदं कृत्वा, भावितं त्रिःसप्तकृत्वः, दग्धमिति । अन्तधूमम् , अञ्जनमिति । मषीभावमुपगतं, नलिकायामिति । उष्ट्रास्थि- नलिकायां, स्रोतोऽञ्जनेन तुल्यभागेन सह द्वषदि श्लक्ष्णीकृत्य निहितम्, उष्ट्रास्थिशलाकयैव घटितया चक्षुषो?जितं , पुण्यमिति । पवित्रं, चक्षु- प्यन्तिमिराद्यपनयाद्, वशीकरणं चेति । यः प्रथम दृश्यते स वशीभवति, शेषं सुभगङ्करणमित्युपदेशः ॥ ३४ ॥ एतेन श्येनभासमयूरास्थिमयान्यअनानि व्याख्यातानि ॥३५॥ इति वशीकरणम् । एतेनेति । उष्ट्रास्थ्यञ्जनविधानेन, तत्र भासो गोष्ठः, कर्कटकः पक्षी ॥३०॥ इति वशीकरणं षष्टितमम्प्रकरणम् । वशीकृताऽपि प्रयोज्या रन्तुमसमर्थस्य निष्फलैवेति, वृषाय हिता. वृष्या योगा उच्यन्ते- उच्चटाकन्दश्वव्या यष्टीमधुकं च सशर्करेण पयसा पीत्वा वृषीभवति ।। ३६ ॥ उच्चटा प्रसिद्धा, तस्याः कन्दः, चव्या वणिगद्रव्यं, यष्टीमधुकं च, एतद् गोपयसा सह क्वथितं, सशर्करेणेति । शीतीभूतं शर्करां दत्वा- पीत्वा वृषीभवति व्यवायक्षम इत्यर्थः ॥ ३६ ॥ मेषवस्तमुष्कसिद्धस्य पयसः सशर्कस्य पानं वृषत्वयोगः॥३७॥ मेषः प्रसिद्धः, वस्तः-छागः, तयोरन्यतरस्य, मुष्कः = वृषणं, तेन सिद्धस्य क्वथितस्य ॥ ३७॥ तथा विदार्याः क्षीरिकायाः स्वयंगुप्तायाश्च क्षीरेण पानम्॥३८॥ विदारी प्रसिद्धा तस्याः कन्दं, क्षीरिका=राजादनं, तस्याः फलानि, स्वयं गुप्ता कपिकच्छुः, तस्या मूलं, क्षीरेण पानं क्वथितेन वृषत्वयोगः, असमासनिर्देशात् प्रत्येकं योगः ॥ ३० ॥ तथा प्रियालबीजानां मोरटात्रिदार्योश्च क्षीरेणैव ॥ ३९ ॥ RE HARMA RAHA MARANA

सटीके कामसूत्रे
[७ अधिकरणे,
प्रियालबीजानामिति ! अस्थ्यपनीय गृहीतानामित्येको योगः, मोर
टाविदाॉरिति द्वितीयः, तत्र, मोरटा इक्षुमूलम् ॥ ३९ ॥
शृङ्गाटककसेरुकामधूलिकानि क्षीरकाकोल्या सह पिष्टानि स.
शर्करेण पयसा घृतेन मन्दाग्निनोत्कारका पक्वा यावदर्थ भाक्षि-
तवाननन्ताः स्त्रियो गच्छतात्याचार्या प्रचक्षते ॥४॥
शृङ्गारका प्रसिद्धः, तस्य सर्व ग्राह्य, कशेरुका प्रतीता, क्व च मल्लि-
काऽऽख्या ग्राह्या, मधूलिका मधुकफलत्वाइ, मधुकं = यटीमधु, क्षीर
काकोली वणिगद्रव्य, पिष्टा समांशानि, उत्करिका = अपूपिका, यावदर्थ-
मिति । यावतृप्ति भक्षितवान् , अनन्ता इति । बह्वीः ॥ ४० ॥
माषकमलिनी पयसा धौतामुष्णेन घृतेन मृदृकृत्योद्धृतां.
बृद्धवसायाः गोः पयःसिद्धं पाथसं मधुमर्पिभ्यामशित्वाऽनन्ताः-
स्त्रियो गच्छतीत्याचार्याः चक्षते ॥ ४१ ॥
माषकमलिनी माषद्विदलिकां, पयसा धौतामिति । जलेन निस्तुषी.
कृत्य संशोध्य च धौता, वृद्धवत्साया इति । वरिकायाः, अशित्वेति ।
शीतीभूतं मधुसोपा विषमाभ्यां सहेत्यर्थः ॥ ४ ॥
विदारी स्वयं गुप्ता शर्करा मधुपियाँ गोधूमचूर्णेन पालिका
कृत्वा यावदर्थं भक्षितवाननन्ताः स्त्रियो गच्छतीत्याचार्याः प्र.
चक्षते ॥ ४२ ॥
गोधूमचूर्णेनेति । कणिक्यया ॥ १२ ॥
चटकाण्डरप्तभावितैस्तण्डुलैः पापसं सिद्धं मधुसर्पियो प्ला
वितं यावदर्थमिति समानं पूर्वेण ॥ ४३ ॥
चटकेति । ग्राम्यपक्षियोऽण्डानां रले भावितैस्तण्डुलैः संपादितं.
पायस मधुवृतप्लाचितं यदि भुङ्क्ते, ततः प्रभूतरतिशक्तिस्तरुणोऽनन्ताः-
स्त्रिय उपगच्छत्तीति पूर्वेणान्वयः ॥ १३ ॥
चटकाण्डरसभावितानपगतत्वचस्तिलाञ् शृङ्गारककसेरुक-
स्त्रयंगुप्ताफलानि गोधूममाषचूणः सशर्करेण पयसा सर्पिषा च पकं.
संयावं यावदर्थं प्राशितवानिति समानं पूर्वेण ॥ ४४ ॥
वटकाण्डरसेति । ग्राम्य चटकस्य स्वयं स्फुटितेऽण्डे स्वयं मृतेन
पोतेन रसकः कार्य, तेन भावितानीत्यर्थः, अपगतत्वच इति । निस्नुषाः,
स्वयं गुप्तायाः फलानि न तु मूलं ग्राह्य, पक्वं संयावमिति पानकम् ॥४४॥

१ अध्याये] वृध्ययोगप्रकरणम् । । । सर्पिषो मधुनः शर्कराया मधुकस्य मधुकस्य च द्वे द्वे पले मधुरसायाः कर्षः प्रस्थं पयस इति षडङ्गममृत मेध्यं वृष्यमायुष्यं युक्तरसमि- त्याचााः प्रचक्षते ॥ ४५ ॥ सपीति । द्वे द्वे इति । एकैकस्य, मधुरसाया इति । तिक्तवल्लिकाया:- प्रस्थं पयस इति । द्वात्रिंशत्पलानि, पडङ्गमिति । सर्पिरादयः षडिति कृत्वा, अमृतं स्वादुत्वाद्, मेध्यं = मेधाहितं, युक्तरसमिति । योगवाहि स्त्रीसहायमित्यर्थः ॥ ४५ ॥ शतावरीश्वदंष्ट्रागुडकषाये पिप्पलीमधुकल्के गोक्षीरच्छामः घृते पक्के तस्य पुष्यारम्भेणान्वहं प्राशनं मेध्यं वृष्यमायुष्यं युक्त- रसमित्याचार्याः प्रचक्षते ॥ ४६ ॥ शतावरी प्रतीता, श्वदंष्ट्रा=गोक्षुरकः, एभिः कषायो यस्मिन् घृते पिप्पलीमधुककल्को यस्मिन् गोक्षीरस्य प्रक्षेपो यस्मिन्, पक्व इति । पा- कविधानेन, पुष्यारम्भेणेति । पुष्यनक्षत्रे प्राशितमारब्धव्यम् ॥ ४६ ॥ शतावर्याः श्वदंष्ट्रायाः श्रीपर्णीफलानाञ्च क्षुण्णानाञ्चतुर्मू- णितजलेन पाक आप्रकृत्यवस्थानात् तस्य पुष्यारम्भेण प्रात:- प्राशनं मेध्यं वृष्यमायुष्यं युक्तरसमित्याचार्याः प्रचक्षते ॥ १७ ॥ श्रीपर्णी काश्मीरी॥४७॥ श्वदंष्ट्राचूर्णसमन्वितं तत्सममेव यवचूर्ण प्रातरुत्थाय द्विपल- कमनुदिनं प्राश्नीयान्मेध्यं वृष्यं युक्तरसमित्याचार्याः प्रचक्षते॥४८॥ यद्भाण्डस्थापितं ततो द्विपलकं चूर्णमादाय प्राश्नीयात् ॥ ४८ ॥ उक्तमेवार्थ पङ्क्तिपरिहारार्थमाह - आयुर्वेदाच्च वेदाच्च विद्यातन्त्रेभ्य एव च । आप्तेभ्यश्चावबोद्धव्या योगा ये प्रीतिकारकाः ॥ ४९ ।। आयुर्वेदेति । वैद्यकाद्, वेदाश्चेति । अथर्ववेदाद्, विद्यातन्त्रोभ्य इति। मन्त्रवादेभ्यः, आतेभ्य इति । तन्त्रकुशलेभ्यो विश्वासिभ्यः ॥ ४९ ।। न प्रयुञ्जीत सन्दिग्धान् न शारीरात्ययावहान् । न जीवघातसंबद्धान नाशुचिद्रव्यसंयुतान् ॥ ५० ॥ नेति । सन्दिग्धान् द्रव्ययोगे मात्रयाऽपि सन्दिग्धान्, शरीरात्यया. वहान् ये प्रयुक्ताः शरीरविनाशमप्यावहन्ति, जीवघातसम्बद्धान् ये प्रा. णिनो विनाश्य युज्यन्ते, अशुचिद्रव्यसंयुताञ् शुक्रशोणितादिभिः संयो ज्याशनपानेन दीयन्ते ॥५०॥ ASTRATE MARA । - ४३ का सू०

सटीके कामसूत्रे
[७ अधिकरणे
तपोयुक्तः प्रयुञ्जीत शिष्टरनुगतान विधीन् ।
ब्राह्मणश्च मुहृद्भिश्च मङ्गलैरभिनन्दितान् ॥ ५१ ।।
इति वृष्ययोगप्रकरणम् ।
इति श्रीवात्स्यायनीये कामसूत्र औपनिषदिके सप्तमेऽधिकरणे
सुभगङ्करणं वशीकरणं वृष्ययोगाः प्रथमोऽध्यायः।
तपोयुक्त इति । प्रयुञ्जीत सर्वसिद्धीनान्तपोमूलकत्वाद्, शिष्टरा.
चारविद्भिः, विधीनिति । अविधिपूर्व हि सुभगङ्करणादिः क्रियमाणो न
सिद्ध्यति, मङ्गलैः प्रशस्तवचनादिभिः ॥ ५१ ॥
इति वृष्ययोगा एकषष्टितमम्प्रकरणम् ।
इति वात्स्यायनीयकामसूत्रटीकायां यशोधररचितार्या जयमङ्गलाऽऽख्यायाम!पिनिषदिके
सप्तमेऽधिकरणे सुभगकरणं वशीकरणं वृध्ययोगाः प्रथमोऽध्यायः ।
SANA
द्वितीयोऽध्यायः।
द्विविधं रतमपत्यफलं रतिफलञ्च, पूर्वत्र वृष्ययोगा उक्ता,
द्वितीये
नष्टरागप्रत्यानयनमुच्यते, कस्य चित्स्वभावतोऽवस्थाया वा विनष्टो.
रागः प्रयोगात्प्रत्यानीयते-
यदाह-
चण्डवेगां रचयितुमशक्नुवन्योगानाचरेत् ॥ १ ॥
चण्डवेगामिति । रञ्जयितुं सुखयितुमशक्नुवन् नष्टरागत्वाद्, योगा-
निति । प्रयोगान् ॥१॥
नष्टो रागो द्विविधः-मन्दो ध्वस्तश्च, तत्र मन्दः प्रवर्तकोऽप्रवर्त-
कश्च, तत्र पूर्वमधिकृत्याह-
रतस्योपक्रमे संबाघस्य करेणोपमर्दनं तस्या रसप्राप्तिकाले
च रतयोजनमिति रागप्रसानयनम् ॥ २ ॥
रतस्येति । सम्प्रयोगस्य, उपक्रम इति । अयमारम्भे, यद्यपि मन्दो रागो
रते प्रवर्तयति स्तब्धलिङ्गत्वात् , तथाऽपि प्रथमतः सम्बाधस्य भगस्य
करेणोपमर्दनं गजहस्तेन क्षोभणार्य, तस्या इति । चण्डवेगायाः करो
पमर्दनाद्रसप्राप्तिकाले, रतयोजनमिति । यन्त्रयोजनं, रागप्रत्यानयन-
मिति । स्त्रीच्छया तावन्तं कालं रागस्य प्रवर्तितत्वात् ॥ २॥
अप्रवर्तकमधिकृत्याह-
औपरिष्टकं मन्दवेगस्य गतवयसो व्यायत्तस्य रतश्रान्तस्य
च रागप्रसानयनम् ॥ ३॥

२ अध्याये नष्टरागप्रत्यानयनप्रकरणम् । DAINoma मन्दवेगस्येति । यस्योत्पन्नोऽपि रागो न प्रवर्तयति लिङ्गस्यानति- स्तब्धत्वात् तस्योपरिष्टकेन रागप्रत्यानयनं तेनैव विसृष्टिसुखस्योत्पा- दनाद्, गतवयस इति । बृद्धस्य, व्यायतस्य चेति । मेदस्विनः, उभ. यस्यापि ध्वस्तो रागो लिङ्गस्य दुः खेनोत्थाप्यमानत्वात् ताभ्यामे. वोपरिएकमेव रागप्रत्यानयनं रतयोजने प्रवर्तयितव्यमसमर्थत्वात् ॥३॥ अपद्रव्याणि वा योजयेत् ॥ ४ ॥ अपेति । अपद्रव्याणि च योजयेद्, यस्य प्रवर्तकोऽप्रवर्तकश्च राग:- स कृत्रिमाणि साधनप्रकाराणि च योजयेत् ॥ ४॥ तान्यविद्धस्य विद्धस्य वा लिङ्गस्य, तत्र पूर्वमधिकृत्याह तानि सुवर्णरजतताम्रकालायसगजदन्तगवलद्रव्यमयाणि ॥ ५ ॥ तानीति । सुवर्णादयो द्रव्याणि येषामपद्रव्याणामिति समासः, तत्र कालायसंलोहं, गवलं-शृङ्गं प्रतीतं, द्रव्यशब्दः प्रत्येक योज्यः ॥ ५ ॥ त्रापुषाणि सैसकानि च मृदूनि शीतवीर्याणि कर्मणि च धृष्णनि भवन्तीति बाभ्रवीया योगाः ॥ ६ ॥ त्रापुषाणि पुषो विकारत्वात्, "त्रपुजतुनोः षुक्" तेषां गुणानाह- मृदूनीति । मृदुत्वात् साधनस्पर्श नयन्ति, शीतवीर्यत्वञ्च प्रवेशकाले शीतलं स्पर्श', कर्मणि च व्यवहारे धृष्णूनि धर्षणशीलानि भवन्ति, अ. त्युत्तेजकत्वाद्, दारुमयाणि तु विपरीतानीत्यभिप्रायः ॥ ६॥ दारुमयाणि साम्यतश्चेति वात्स्यायनः ॥ ७ ॥ साम्यतश्चेति । किञ्चिदेव कस्याश्चित् प्रियम्भवति, अतो दारुम- याण्यपि योज्यानीति मन्यते ॥७॥ तानि प्रकारान्तरेण दर्शयन्नाह- लिङ्गप्रमाणान्तरं विन्दुभिः कर्कशपर्यन्तं बहुलं स्यात् ॥ ८ ॥ लिङ्गप्रमाणान्तरमिति । यत् स्तब्धस्य लिङ्गस्यानाहः प्रमाणं, तद- न्तरं छिद्रं यस्य, बिन्दुभिरिति । उत्कोणेः कर्कशपर्यन्तं कर्कशपृष्ठमि. श्यर्थः, तलद्वयमिव पिनद्धं स्तब्धलिङ्गं संपिण्ड्य तिष्ठति ॥ ८ ॥ एते एव द्वे संघाटी ॥ ९ ॥ एते एवेति । वलये द्वे चर्तुषु त्रिषु वा स्थानेषु विशिष्टसन्धिनी घटित ॥8॥ त्रिप्रभृति यावत्प्रमाणं वा चुडकः ॥ १० ॥ त्रोति । त्रिप्रभृति यावत्प्रमाणं लिङ्गस्यायामस्तावत्प्रमाणश्चडकः॥१॥ एकामेव लतिका प्रमाणवशेन वेष्टयेदियेकचूडकः ॥ ११ ॥ । MANHAR ३४० सटीके कामसूत्रे ७ अधिकरणे, । । एकामेव लतिकामिति । लताऽऽकारा सोसकादिमयी, प्रमाणवशे नेति । लिङ्गस्यायामपरिणाहवशेन वेष्टयेदेकचूडकः ॥ १६ ॥ उभयतो मुखच्छिद्रः स्थूलककैशपणगुटिकायुक्तः प्रमाणवश योगी कव्यां बद्धः कञ्चुको जालकं वा ॥ १२ ॥ उभयत इति । द्वयोः पार्श्वयोः, मुखच्छिद्र इति । येन भागेन लिङ्ग प्रवे. श्यते तन्मुखन्तद्वयोः पार्श्वयोश्छिदं कटिबन्धनसूत्रप्रक्षेपणार्थ यस्य, क कशवृषणगुटिकायुक्त इति । उत्कीणः कर्कशबिन्दुभिर्युक्तः कन्चुकः सर्व लिङ्गमवच्छाद्यावस्थितत्वाद्, यस्य जालकमिति, प्रतीतिः स द्विधा-खर. कञ्चुको योमसृणपृष्ठः, तदुभयमपि समन्तात् कञ्चुका, यस्तु मणिभा. गमाच्छाद्य तिष्ठति सोऽर्धकञ्चुको यस्य मणिरक्ष इति प्रतीतिः, गुलि. काभिरन्तरान्तरामुक्तसन्धिकतयोकाभिर्युक्तो जालकं तद् द्विविधम्, उत्कीर्णजालकं यदिदमुक्तं, वलयं बहुच्छिद्रं कृत्वा दृढसूत्राण्यवबध्य छिद्रस्फोटितगुलिकादिभिर्विवृद्धगुलिको दत्वा विरच्यते, तन्मणिजालक तस्याने विधानिकायोजन कार्य, प्रमाणवशयोगीति । उभयोरपि घटित- लिङ्गस्यायामपरिणाहावपेश्य समन्तात्कञ्चुकस्य जालकस्य च योग. इत्यर्थः ॥१२॥ तदभावेऽलाबूनालकं वेणुश्च तैलकपायैः सुभावितः सूत्रेण कव्यां बद्धः श्लक्ष्णा काष्ठमाला वा ग्रथिता बहुभिरामलकास्थिभिः संयुक्तेत्यपविद्धयोगाः ॥१॥ तदभाव इति । यथोक्तसंस्थानघटमाभावे वेण्वादीनां योजनं तेषां- लिङ्गसंस्थानत्वाद्, अत्र वेण्वलावूनालयोरगं तु प्रमृष्ट कार्य सूत्रेण का ट्यां बद्ध इति । प्रमाणवशेन निर्मोकवदाकृष्य चर्म, सुभावित इति । तैलकषायैः कषायितैस्तैलैः स्नेहितः कर्मण्यो भवति, श्लक्ष्णा काष्ठमाला वेति । मसृणाभिः काष्ठगुलिकाभिरन्तरान्तराऽऽमलकास्थीनि दत्वा अथिता माला, तया तथा लिङ्गस्य वेष्टनं यथा सुश्लिष्टं भवति ॥ १३ ॥ विद्धमधिकृत्याह- न त्वविद्धस्य कस्य चिद् व्यवहृतिरस्तीति ॥ १४ ॥ न विति । अविद्धस्य लिङ्गस्येति सम्बन्धः, व्यवहतिः संप्रयोगः ॥१४॥ दाक्षिणायानां लिङ्गस्य कर्णयोरिव व्यवन बालस्य ॥ १५ ॥ बालस्येति । कर्णयोर्खालावस्थायामेव व्यधनं तथा लिङ्गस्य यूना च तत्रान्यस्य वा लिङ्गस्य ॥ १५ ॥ ।

२ अध्याये] नष्टरागप्रत्यानयनप्रकरणम् । MINS व्यधनविधिमाह- युवा तु शस्त्रेण छेदयित्वा यावद्रुधिरस्यागमनं तावदुदके तिष्ठेत् ॥१६॥ युवा तु शस्त्रेणेति । भेदयित्वेत्यनेन कुशलेन बहिश्चर्माकृष्याम्यत्र स्था- पयित्वा शिरां त्यक्त्वा तिर्यग् छेदयेद् यथोभयतश्छिद्रम्भवति, उदके तिष्ठेद्रुधिरस्तम्भनार्थम् ॥ १६ ॥ वैशद्यार्थं च तस्यां रात्री निर्बन्धाद् व्यवायः ।। १७ ।। वैशद्यार्थमिति । छिद्रस्यासकोचार्थ, निबन्धाद् व्यवाय इति । बहून् वारान् मैथुनं कार्य, ममत्वे हि तस्प्रतीकारस्य पीडाऽभावात् ॥ १७ ॥ ततः कषायरेकदिनान्तरित शोधनम् ॥ १८ ॥ ततः कषायैरिति । पञ्चकषायशोधन प्रक्षालनं व्रणस्य ॥ १८ ॥ वेतसकुटजशङ्कुभिः क्रमेण बर्द्धमानस्य वर्धनैर्बन्धनम् ॥ १९ ॥ वेतसादिशङ्कभिः कीलकादिभिः क्रमेण बर्द्धनन्तेषां क्रमेण बर्द्धमा- नत्वात् ॥ १९ ॥ यष्टीमधुकेन मधुयुक्तेन शोधनम् ॥ २० ॥ यष्टीमधुकेन मधुयुक्तेन प्रलेपनं शोधनं शुद्ध हि वर्ण रोहति ॥२०॥ ततः सीसकपत्रकार्णिकया बर्धयेत् ॥ २१ ॥ तत इति । उत्तरकालं, सीसकपत्रकणिकयेति । सीसकस्य बर्द्धनहे. तुत्वात्, तत्परन्तु तालपत्रवत्संवेष्टितं क्षिप्रं बर्द्धयेत् ॥ २१ ॥ म्रक्षयेद्भल्लातकतैलेन ॥ २२ ॥ इति व्यधनयोगाः। नक्षयेद् भल्लातकतैलेन प्रवेशनार्थम् ॥ २२ ॥ तस्मिन्ननेकाकृतिविकल्पान्यपद्रव्याणि योजयेत् ॥ २३ ॥ तस्मिन्निति । बहुच्छिद्रे, अनेकाकृतिविकल्पानीति। अनेकसंस्थानेन कल्पितानि ॥ २३॥ वृत्तमेकतो वृत्त मुदुःखलकं कुसुमकं कण्टाकितं कङ्कास्थि गज- करकमष्टमण्डलकं भ्रमरकं शृङ्गाटकमन्यानि वोपायतः कर्मतश्च बहुकर्मसहता चैषां मृदुकर्कशता यथासात्म्यमिति ॥ २४ ॥ इति नष्टरागमत्यानयनं द्विषष्टित्तमं प्रकरणम् । वृत्तमिति । वर्तुलं मध्येऽस्य द्रोणिका कार्या यत्र चर्मपाशस्तिष्ठति, एकतो वृत्तमिति । अन्यतो दीर्घमष्टमोचन्द्रसदृशन्द्रोणिका तथैव, उदूख. लकमुलुखलाकृति मध्ये निम्नं यत्र पाशस्तिष्ठति,कुसुमकं पद्मकलिकाकृति TRENANCES FIRST । CHANNSE BREASTHAN SHAR BETITION ३४२ सटीके कामसूत्रे [७ अधिकरणे, मध्येऽस्य द्रोणिका, कण्टाकितं कारविल्लसंस्थानन्द्रोणिका तशैव, छ- योरप्यायामेन योजनं, कङ्का स्थिसमं चतुरस्त्रन्द्रोणिका तथैव, गज- कराकृति तस्य ग्रीवाशिरोदन्तान्तरभागेन द्रोणिका, अष्टमण्डलक- मष्टाधि तस्योर्ध्वाधाकोणेन द्रोणिका, भ्रमरकंशकटाकृति पार्श्वतः की- लिकायोगाच्च चलच्चक्रमायामेन द्रोणिका, द्वयोरपि कोणेन प्रवेशनम् , अन्यानि च योजयेत् , तत्राप्युपायतो य उपायारते प्रतिपद्यन्ते, कर्मत. श्चेति । यानि चर्मपाशेन संयोज्य कर्मणि निरपायव्यापार्यन्ते, यथासा- म्यमिति । मृदुमध्यातिमात्रेण सम्बाधस्य कार्कश्यबुद्ध्वा तदनुरूपं कार्कश्यं विधेयं मार्दवं च येषां मसृणता विद्यते ॥२४॥ इति नष्टरागप्रत्यानयनन्द्विषष्टितमं प्रकरणम् । यथाऽपद्रव्यसंयोगाल्लिङ्गं कर्मण्यं तथाऽऽकारस्य वर्द्धनमपीति वृद्धिविधय उच्यन्ते- एवं वृक्षजानां जन्तूनां शूकैरुपहितं लिङ्ग दशरात्रं तैलेन मृदितं पुनरूपतहितं पुनः प्रमृदितमिति जात शोफ खट्वायामधोमुख. स्तदन्तरे लम्बयेत् ॥ २५ ॥ एवमिति । वृक्षजातानामन्येषामनुपयोगित्वाद्,जन्तूनामिति । कन्द. लिकानां, शूकैलॊममिः, उपतॄहितमिति । संदंशिकया जन्तून् गृहीवा शूकैः पार्श्वेषु लिङ्गं ताडयेत्, टुहू हिंसायामिति धातुपाठात् , तैलमृदि- तमाकृष्य, जातशोफमिति । जातश्वयथु, शुल्वान्तरेणेति खट्वावस्त्रान्त. रेग लम्बयेद् दैार्थम् ॥ २५ ॥ तत्र शीतैः कषायैः कृतवेदनानिग्रहं सोपक्रमेण निष्पादयेत् ॥२६॥ तत्रेति । ईप्सिते प्रमाणे जाते शोतैः पञ्चकषायः,कृत वेदनानिग्रहामति । परिषिच्य परिषिच्यापनीतवेदनम् ,अन्यथा शोको बर्द्धते वेदना चेति॥२६॥ स यावज्जीवं शूको नाम शोफो विटानाम् ॥ २७ ॥ स इति । स पूर्वोक्तः शूकजा नाम शोफो यावजोवं चिरस्थायो विटानां भवति ॥ २० ॥ अश्वगन्धाशवरकन्दजलशुक्रबृहतीफलमाहिषनवनीतहस्तिक. वज्रवल्लीरसैरेकैकेन परिमर्दनं मासिक बर्धनम् ॥ २८ ॥ शबरकन्दकं - शबरमूलं, जलशूक लाकप्रतीतं, हस्तिकर्ण -बृहत्पत्रम् , अटव्यां भवति, वज्रवल्लो = अस्थिसंहारः, मसिकमिति बर्द्धितं मासे तिष्ठति ॥२८॥ एतैरेव कषायैः पक्केन तैलेन परिमर्दनं पाण्मास्यम् ।। २९ ॥

- । । । २ अध्याये] बृद्धिविधिचित्रयोगप्रकरणम् । एतैरेवेति । अश्वगन्धादिभिः कषायैरिति । कल्कीकृतैः, तैलेन परिमः दनं पाण्मास्यमिति । वर्धनमिति योज्यम् ॥ २६ ॥ दाडिमत्रापुषबीजानि बालुकाबृहत्तीफलरसश्चेति मृद्वग्निना पक्केन तैलेन परिमर्दनं परिषेको वा ॥ ३० ॥ दाडिमत्रापुषबीजानीति । बालुकेति । एडबालुका, बृहती बृहत्येव कबृहती हस्तिनस्तुम्बा, अनयोः फलरसः परिमर्दनं परिषेको वा बर्द्धनं पाण्मास्यमिति योज्यम् ॥ ३० ॥ तांस्तांश्च योगानाप्लेभ्यो बुध्येतेति बर्धनयोगाः ॥ ३१॥ तास्तांश्च योगानिति । बर्द्धनस्य योगाः, बृद्धिविधयः ॥ ३१ ॥ इति वृद्धियोगास्त्रिषष्टितमं प्रकरणम् । उक्तव्यतिरिक्तकार्यसाधनार्थ प्रकीर्णकन्यायेन चित्रा योगा उच्यन्ते- अथ स्नुहीकण्टकचूर्णैः पुनर्नवाचानरपुरीषलाङ्गलिकामूलमि. धैर्यामचकित्सिा नान्यं कामयेत ॥ ३२ ॥ अथेति । प्रकरणाधिकारार्थ, स्नुहीति । वज्री ग्राह्या, अवकिदिति । शिरस्यवचूर्णयेद्, नान्यं कामयेत, तस्या अनेन रक्षितत्वात् ॥ ३२ ॥ तथा सोमलताऽवल्गुजाभृङ्गलोहोपजिहिकाचूणव्याधिघातकज- म्बूफलनिर्यासेन धनीकृतेन च लिप्तसम्बाधां गच्छतो रागो नश्यति३ सोमेति । सोमलता,अवल्गुजं बाकुचीबीजं,भृङ्गःभृङ्गराजा,लोहं लोहचूर्णम् ,उपजिविका या बल्मीकं चिनोति । व्याधिघातकः = सुवर्ण- शेफालिका, तस्याः पत्रत्वनिर्यासः, जम्बूफलं तस्य च निर्यासः फाणि- तीकृतेन, तैस्सह कल्कीकृतेन रागो नश्यति संस्पर्शमात्रेण लिङ्गं नोत्त. हतीत्यर्थः ॥ ३३॥ गोपालिकाबहुपादिकाजिहिकाचूर्णैाहिषतक्रयुक्तः स्नातां ग. च्छतो रागो नश्यति ॥ ३४ ॥ बहुपादिका रुण्डिका या वर्षासु भवति, स्नातां गच्छतो रागो नश्यति३४ नीपाम्रातकजम्बूकुमुमयुक्तमनुलेपनं दौर्भाग्यकरं, सनश्च ॥३५॥ सजश्चेति । कुसुमयुक्ताः पिनद्धा दौर्भाग्यकृतः ॥ ३५ ॥ कोकिलाक्षप्रलेपो हस्तिन्याः संहतमेकरात्रे करोति ॥ ३६ ॥ कोकिलाक्षः श्वेतः, संहतमिति । सङ्कोचम् ॥ ३६ ॥ पद्मोत्पलकदम्बसर्जकसुगन्धचूर्णानि मधुना पिष्टानि लेपो. मृग्या विशालीकरणम् ॥ ३७ ॥ - ।

सटीके कामसूत्रे [ ७ अधिकरणे, - पद्मोत्पलेति । कदम्बमिति, ब्रजकदम्ब, सर्जकसुगन्धौ वीरणस्थाने वर्षासु जायेते, विशालीकरणमेकरात्र ॥ ३७॥ स्नुहीसोमार्कक्षारैरवल्गुजाफलै वितान्यामलकानि केशानां. श्वेतीकरणम् ॥ ३८॥ स्नुहीसोमार्कक्षारैरिति । दग्ध्वा परिस्राव्य च जलं ग्राह्यम् , अव. ल्गुजाफलैश्च क्षारैः ॥ ३८ ॥ मदयन्तिकाकुटजकाञ्जनिकागिरिकर्णिकाश्लक्ष्णपर्णीमूलैः- स्नानं केशानां प्रत्यानयनम् ॥ ३९ ॥ मदयन्तिका प्रसिद्धा, कुटजको यस्येन्द्रयवाः फलानि, अञ्जनिका कृष्णकुसुमा प्रतीता, गिरिकणिका प्रतीता, श्लक्ष्णपर्णी काश्मीरी, केशानामिति । श्वेतीकृताना प्रत्यानयनं पुनः कृष्णीकरणमित्यर्थः ॥३९॥ एतैरेव सुपक्केन तैलेनाभ्यङ्गाकृष्णीकरणात् क्रमेणास्य प्रत्यानयनम् ४० एतैरेवेति । कषायकल्कीकृतैः, क्रमेणेति । दिवसक्रमेण स्वयमेव निवर्तते काय॑म् ॥ ४० ॥ श्वेताश्वस्य मुष्कस्वेदैः सप्तकत्वो भावितेनालक्तकेन रक्तो- ऽधरः श्वेतो भवति ॥४१॥ भ्वतेति । मुष्कस्वेदेनेति । वृषणप्रस्वेदेन ॥४१॥ मदयन्तिकादीन्येव प्रत्यानयनम् ॥ ४२ ॥ मदयन्ति केति । स्पष्टम् ॥ ४२॥ बहुपादिकाकुष्ठतगरतालीसदेवदारुव नकन्दकैरुपलितं वंशं. वादयतो या शब्दं शृणोति सा वश्या भवति ॥ ४३ ॥ वह्विति । उपलिप्तमिति । औषधजलेन बहिरन्तश्च बहुशः क्षालित. उपलिप्तो भवति ॥ ४३ ॥ धत्तूरफलयुक्तोऽभ्यवहार उन्मादकः ॥ ४४ ॥ धत्तरेति । अभ्यवहार इति । यदशनं पानं वा ॥ ४४ ॥ गुडो, जीणितश्च प्रत्यानयनम् ॥ ४५ ॥ गुडो भक्षितः प्रत्यानयनम् , अभ्यवहारो वा यदा जीर्णो भवति तदा स्वच्छता॥४५॥ हरितालमन:शिलाभक्षिणो मयूरस्य पुरीषेण लिप्तहस्तो यद् द्रव्यं स्पृशति तन्न दृश्यते ।। ४६ ।। हरितामालमनःशिलाभक्षिण इति । उपचासं कारितस्य मासेन देयम्॥४६॥ अङ्गारतृणभस्मना तैलेन विमिश्रमुदकं क्षीरवणं भवति ॥४॥ । ।

२ अध्याये] चित्रयोगप्रकरणम् । । Drama अङ्गारेति । तृणं लोकप्रतीतम् ॥ ४७ ॥ हरीतकाम्रातकयोः श्रवणप्रियङ्गुकाभिश्च पिष्टाभिर्लिप्तानि लो हभाण्डानि ताम्रीभवन्ति ॥ ४८ ॥ हरीतकाम्रति । यस्य चटचट इति प्रतीतिः, आम्रातकः प्रसिद्धः, तयोः पत्रमित्यर्थः श्रवणप्रियङ्गुका ज्योतिष्मतीति तत्फलैः सह पिष्टा॥४८॥ श्रवणप्रियङ्गुकातैलेन दुकूलसर्पनियोंकण वा दीप प्रज्वा- ल्य पार्षे दीर्घाकृतानि काष्टानि सर्पवद् दृश्यन्ते ॥ ४९ ॥ श्रवणेति । दुकूलं शुद्धं गृहीत्वा सर्पनिर्मोकेण सह वर्तिका कार्या, दीपे प्रज्वलिते सति सर्पवद् दृश्यन्ते तदाकारमात्रदर्शनाद् विस्मापनमेतत् ४६ श्वेतायाः श्वेतवत्साया गोः क्षीरस्य पानं यशस्यमायुष्यम् ॥५०॥ श्वेतेति । क्षीरपानं धन्यं पवित्रत्वाद् यशस आयुषे च हितं भवति सर्वदा सेव्यमित्युपदेशः ॥ ५० ॥ ब्राह्मणानां प्रशस्तानामाशिषः ॥ ५१ ॥ ब्राह्मणानामिति । तथाऽऽशिषश्च प्रसन्नेभ्यो मृग्याः ॥ ५१ ॥ इति चित्रा योगाश्चतुःषष्टितमं प्रकरणम् । एवं संक्षेपविस्तराभ्यां शास्त्रं प्रणीय ग्राह्यतां प्रतिपादयितुमाह- पूर्वशास्त्राणि संदृश्य प्रयोगाननुसृत्य च । कामसूत्रमिदं यत्नात्संक्षेपेण निवेदितम् ॥ ५२ ॥ पूर्वशास्त्राणीति । संदृश्येति । शब्दतोऽर्थतश्च दृष्ट्वा, तेषां प्रमाणत्वात् , प्रयोगाननुसृत्य च प्रयोगतश्च ज्ञात्वेत्यर्थः, संक्षेपेणेति । स्वशास्त्रस्य प्रयो- जनं निवेदितं = कथितम् ॥५२॥ ननु च संप्रयोगानं शास्त्रमिदं, संप्रयोगश्च रागहेतुः, तं च रागमेवा- नर्थहेतु दीपयत्येतदित्याह- धर्ममर्थं च कामं च प्रत्ययं लोकमेव च । पश्यत्येतस्य तत्वज्ञो न च रागात्मवर्तते ॥ ५३ ।। धर्ममिति । एतस्येति । शास्त्रस्य यस्तत्त्वज्ञः स नियतं धर्मादीन् पश्यति, तांश्च पश्यन् न रागादनर्थहेतुकात् प्रवर्तते, प्रत्ययं विश्वास, लोकमिति । शिष्टमशिष्टं चेति ॥ ५३ ॥ यद्येवं किमिति धर्मविरुद्धा औपरिष्टकादयोऽत्र विहिता इत्याह- अधिकारवशादुक्ता ये चित्रा रागबर्द्धनाः । तदनन्तरमत्रैव ते यत्नाद्विनिवारिताः ।। ५४ ।। अधिकारवशादिति । प्रकरणवशाद, रागबधना इति । रागहेतवः, तद. ४४ का०सु० सटीके कामसूत्र [७ अधिकरणे, । । नन्तरमिति विधानानन्तरं,प्रयत्नान्निर्धारितदेशपुरुषापेक्षया निषिद्धा॥५॥ तदेव स्फुटयन्नाह- न शास्त्रमस्ती येतेन प्रयोगो हि समीक्ष्यते । शास्त्रार्थान् व्यापिनो विद्यात्प्रयोगांस्त्वैकदेशिकान् ॥ ५५ ॥ न शास्त्रमस्तीति । व्याख्यातं चैतत्प्राक् ॥ ५५ ॥ यतश्च शास्त्रात् प्राधान्येन संक्षिप्य निबद्धं: येन च तदुभयं दर्शयन्नाह- बाभ्रवीयांश्च सूत्रार्थानागमय्य विमृश्य च । वात्स्यायनश्चकारेदं कामसूत्रं यथाविधि ॥ ६ ॥ बाभ्रवीयांश्चेति । आगमय्य गुरुभ्यः, विमृश्य च स्वबुद्ध्या ॥५६॥ ययाऽवस्थया यदर्थं च विहितं तद्दर्शयन्नाह- तदेतद् ब्रह्मचर्येण परेण च ममाधिना । विहितं लोकयात्रार्थ न रागार्थोऽस्य संविधिः ।। ५७ ॥ तदेतदिति । परेण च समाधिना समाहितेन, लोकयात्राऽर्थमिति । चातुर्वण्र्ये गृहस्थव्यवहारार्थ न पुना रागार्थोऽस्य संविधिः ॥ १७ ॥ कथं न रागाों भवतीत्याह- रक्षन्धर्मार्थकामानां स्थिति स्वां लोकवर्तिनीम् । अस्य शास्त्रस्य तत्वज्ञो भवत्येव जिनन्द्रियः ॥ ५८ ॥ रक्षन्निति । अस्य शास्त्रस्य यस्तत्त्वं वेत्ति सोऽवश्यं धर्मादीन् पर- स्परस्यानुपघातेन रक्षन् , लोकयतिनीमिति । इहलोकपरलोकमार्ग- शोभनाशोभनात् ॥ ५८ ।। तदेतत्कुशलो विद्वान्धर्मार्थाचवलोकयन् । नातिरागात्मकः कामी प्रयुञानः प्रसिध्यति ॥ ५९॥ इति वात्स्यायनीये कामसूत्र औपनिषदिके सप्तमेऽधिकरणे नराग प्रत्यानयनं वृद्धियोगाश्चित्रयोगा द्वितीयोऽध्यायः ।। समाप्तमौपानषादिकं सप्तममधिकरणम् । ममाप्त वात्स्यायनमूत्रम् । तदेतत्कुशल इति । एतस्मिन् शास्त्रे कुशलो विद्वाञ् ज्ञानवान्, धर्मा- र्थाविति । धर्मार्थोभयं यथा कामेन न बाध्यते, कामीति । गृहस्थः, प्रयु. जान इति । शास्त्रार्थ, प्रसिद्ध्यति लेोकेषु प्रमाणपुरुषो भवति नातिरागा- त्मकत्वादिति॥ इति चित्रयोगाश्चतुःषष्टितमं प्रकरणम् । इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधरराचितायां जयमालाऽऽव्यायामोपनिषदिके सप्तमेऽधिकरणे नष्टरागप्रत्यानयन बृद्धियोगाधित्रयोगा द्वितीयोऽध्यायः । समाप्तं सव्याख्यानं कामशास्त्रम् । - ।

The Kamasutra 1929

Author
Vatsyayana Muni
Title
The Kamasutra 1929
File name
The Kamasutra 1929
Text
OCR done
Publisher
Jai Krishnadas Haridas Gupta Banares City
Language
Sanskrit
Pages
353
Library
Central Archaeological Library_ Asi_ New Delhi
Classification
Literature
DLI number
281236
Barcode
5990010902158.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
1AKqC9NPUtW
Download PDF

The Kamasutra 1929