Asr Melkote
Tapachakrankana Paramana Vrutti And Sudarshanavada
Front matter
No text on this page.
॥ श्रीलक्ष्मीहयवदनपरब्रह्मण नमः ॥
श्रीमते
रामानुजाय नमः
।। श्रीमते निगमान्तमहादशिकाय नमः ।।
तप्तचक्राङ्कनप्रमाणविवृतिः
श्रीनिवासब्रह्मतन्त्रपरकाल गुरूत्तमैः ।
क्रियते तप्तचक्राङ्कप्रमाणविवृतिः स्फुटम् ।।
तप्तचक्राङ्कनादिसहितोर्ध्वपुण्डधारणे परस्परविरुद्धानि वहूनि प्रमाणा
नि संदृश्यन्ते । तत्रोत्सर्गापवादन्यायन केषांचिद्वयवस्था, केषां चिदधिका-
रिभेदेन व्यवस्थोच्यते। तथा हि-तत्रादौ चक्राङ्कननिषेधवचनान्युदाह्नियन्ते
विष्णुस्मृतौ-
शङ्खचक्राद्यनङ्कश्च नृत्तगीतादिकं तथा।
एकजातेरयं धर्मो न द्विजातेः कथं च न ।।
न जातु स्यात् द्विजन्मनः इति पाठान्तरम् ।
निर्णयसिन्धौ-
यस्तु सन्तप्तशङ्खादिलिङ्गचिह्ननर्द्विजः ।
स सर्वयातनःभोगी चण्डाला जन्मकाटिषु ।।
यस्तु सन्तप्तशङ्खादिलिङ्गाङ्किततनुर्नरः ।
सम्भाष्य नरकं याति यावदिन्द्राश्चतुर्दश ॥
इति बृहन्नारदवचनम् । अत्र तमित्यध्याहार्यम् ।
इदमाप निर्णयसिन्धावुदाहृतम् --
चक्राङ्किततनुर्वाऽपि तथा लिङ्गाङ्कितोऽपि वा ।
नाधिकारी स विज्ञेयः श्रौतस्मार्तेषु कर्मसु ।।
गोखिलोऽपि-
श्रौतस्माक्रियो विप्रो नाङ्कयेदङ्गमङ्कनैः ।
आप विष्ण्वादिसम्बन्धस्तप्तैर्वा पतितो भवेत् ॥
२
अज्ञानादथ वा लाभाद्रागतो वा सुदर्शनम् ।
धत्ते कुलघ्नं तं दृष्ट्वा सवासा जलमाविशेत् ॥
भुजाग्रे सलिलेनैव लिखेद्यस्तु सुदर्शनम् ।
वेदाग्निज्ञानवान् सोऽपि दहत्यासप्तमं कुलम् ।।
शङ्ख चक्रं च पद्मं च यो मूढो धारयेत्तनौ ।
पाषण्डरसहि विज्ञेयस्सर्वकर्मबहिष्कृतः ॥
शातातपः-
-
अङ्गेषु नाङ्कयेद्विप्रो देवताऽऽयुधलांछनैः ।
दहनाल्लेखनाद्विप्रः पातित्यं याति तत्क्षणात् ।।
बोधायनोऽपि-
नाङ्कयेन्नदहेद्देहं दहेच्छेत्कामकारतः ।
नाधिक्रियेत दग्धाङ्गः श्रौतस्मार्तेषु कर्मसु ।।
चक्रांकयद्यदि वा दोषात्पतत्येव न संशयः ।
यमोऽपि-
नांकेयन्नदहेगात्रं देवताऽऽयुधलांछनैः ।
चक्रोपनिषदि-
तस्मात् शूद्राणामेव शङ्खचक्रं भुजे धार्यमिति ।
स्मृतिरत्ने-
भूदेवस्तप्तमुद्राभिः चिह्नं कृत्वा विमूढधीः ।
इहजन्मनि मूढस्स्यात् प्रेत्य च श्वा भविष्यति ॥
स्मृत्यन्तरे-
यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विविधानि तु ।
श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी ॥
शवं चक्रं मृदा यस्तु कुर्यात्तप्तायसेन वा।
स शूद्रवहिष्कार्यः सर्वस्मात् द्विजकर्मणः ॥
यथा श्मशानगं काष्ठमनर्ह सर्वकर्मसु ।
तथा चक्रांकितो विप्रोऽप्यनहस्सर्वकर्मसु ॥
ब्राह्मपुराणे--
३
तप्तमुद्रात्वन्यजाय हरिणा निर्मिता पुरा ।
गोपीचन्दनसंलिप्तफालकाश्चान्त्यजातयः ।।
मानवे च--
आयुधैश्शङ्खचक्राद्यैर्नदहेच्च कदाच न ।
मनुष्याणां तु नाम्नैव विलिखेच्चोरसि क्रमात् ।।
दग्धाङ्गश्चायुधैर्दिव्यः लिख्यते नरनामतः ।
श्रौतस्मातसमाचारे नाधिकारी कदा च न ।
दग्धाङ्गा लिखिताङ्गाश्च न संभाष्या द्विजातिभिः ।
न द्रष्टव्यांश्च तान् राजा देशाच्छीघ्रं प्रवासयेत् ॥
नारदीये -
स्वधर्मत्यागिनो राजन् वेदमार्गबहिष्कृताः ।
आगमान् पश्चरात्रादीन् विशन्ते नरकान्नराः ।।
अनिमित्तं दहेहेहं यः पुमान् बाधवर्जितः ।
हव्यकव्यादिदानेषु तं त्यजेदन्त्यजं यथा ।।
कौमें -
अतीव पतितानां हि श्वापदाद्यङ्कनं नृणाम् ।
विधीयते न शुद्धानां ततश्शुद्धं न चाङ्कयेत् ॥
अध्यापनेचाध्ययने श्रौतस्मार्तेषु कर्मसु ।
संभाषणे च संबन्धे नाधिकारी च लांछितः ।।
निर्णयसिन्धौ--
शिवकेशवयोरङ्कांग्छूलचक्रादिकान् द्विजः ।
न धारयेत मतिमान् वैदिके वर्त्मनि स्थितः ।।
स्कान्दे सूतसहितायाम्--
स्वदेहे परदेहे वा न कुर्यादङ्कन नरः ।
यदि कुर्याच्च चक्राद्यैः पतत्येव न संशयः ।।
मानवे पुराणे--
केन चिल्लांछितो मर्यो न साक्षी सर्वदा भवेत् ।
श्रौतस्मातसदाचारे नाधिकारी च लांछितः ।।
लांछिताश्च न संभाष्या न स्पृश्याश्च तथैवच । न दर्शनीयास्तान् राजा देशाच्छीनं प्रवासयेत् ।। इत्यादीनि बहूनि वचनानि सन्ति । इमानि वचनानि निर्णयसिन्धु हेमादि वैद्यनाथीयेषु कानिचिदुदाहतानि ।। अब चक्राकनविधायकानि बहूनि स्मृतीतिहासपुराणादिपु दृष्टान प्रमा णान्युदाहियन्ते ॥ नत्र श्रुतयः । त्रिष्वपि वेदेषु-- 'पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनून तदामो अभुते श्रिता स इद्वन्तस्समाशत ' इति । अस्यार्थः- हे ब्रह्मणस्पत ? चतुर्मखस्यापि नायक विभो त्वम् , विश्वतस्सर्वेषां गात्राणि शरीराणि पर्येपि व्याप्नोषि । व्यापकस्य तव विततं पवित्रं चक्र सुदर्शनं सहस्रारं पवित्रं च रणं पविः ' इति नैघण्टुकाः । श्रीशास्त्रे च 'पवित्रं चरणं चक्रं लोकद्वार सुद- र्शनम् । पर्यायवाचकाहते चक्रम्य परमात्मन: ' इति । अत्र यदस्तीत्यध्या- हार्यम् । तेन अतप्ततनूः अत एवामः- अपक्कः अदग्धपाप इति यावत् । तत् । प्रसिद्धं मोक्षलक्षणं सुखविशेषं नाचते तत्पवित्रं सदा वहन्तः अत एव श्रिता- स:- परिपक्काः नत्सुखमाशत अनन्ति । अत्रातप्ततनूरित्यस्य प्रतिसंवन्धितया श्रितास इत्यस्य परिपक्का इत्यर्थोऽवगम्यते । अस्या एव ऋचस्तात्पर्य सामवेदे मैत्रायणायशाखायां काचन श्रुतिविंशदीकरोति । पवित्रामित्यग्निः । अग्नि सहस्रारः । सहस्लारो नेमिः । नेमिना तमतनूर्ब्रह्मणस्सायुज्यग सलोकतामाप्नो- नि' इति । अन्न नमिशब्देन नेमियुक्तं सहस्त्रारं लक्ष्यते । सहस्त्रारशब्दानु. गुण्यान् । अन्यथा सामानाधिकरण्यानुपपत्तेः । ऋग्वेदे वाकलसहितायामाथर्वणे च --- • चक्र विर्भात वपुषाऽभितप्नं बल देवानाममितस्य विष्णोः । स एति नाकं दुरिता विधूय प्रयांति यद्यतयो वीतरागाः' इति। आमतस्यापरिमितस्य सर्वव्याप्रस्य विष्णोः अभिननं तापयुक्तं बलं देवानां बलभूतं चक्रं वपुषा यो विर्भात म दुरितानि विधृय वीनरागा यत्पदं प्रयान्ति प्राप्नुवन्ति तत् नाकं परमं पदं प्राप्नोतीत्यर्थः ।। तत्रैव-. 'एभिर्वयमुस्लमस्य चिह्नः अङ्किता लोके सुभगा भवामः । तद्विष्णोः परमं पदं ये गच्छन्ति लांछिताः ' एभिरिति प्रकृतचक्रादिपरामर्शः ।
उरुक्रमस्य त्रिविक्रमस्येति यावत् ।। तत्रैवाथर्वणे - 'चक्रमादायाग्नौ प्रताप्य ब्राह्मणस्य दक्षिणे बाहौ धारयेत् । पाञ्चजन्यमादाया नौ प्रताप्य ब्राह्मणस्यान्यबाहौ धारयेत् । ब्रह्मवादिनो वदन्ति' इति ।। यजुषि बृहदारण्यकभेदे सुदर्शनोपनिषदि च-- निचिक्षेप सुषणाभिद्यमान मध्येबाहुमदधत्सुदर्शनम् । विष्णेरिद भरि तेजः प्रधति दिवानक्तं बिभ्युस्तजनासः' इति । यो मध्येबाहुम् बाह्वोर्मध्ये सुदर्शनमदधत् दधार, भिद्यमानमनेकप्रकारेण विभज्यमानं नानाविधामिति यावत् । यद्वा भिद्यमानं जनाद्भिन्दानं, कर्मणिप्रयोगश्छान्दसः । सुषणमन्तः- करणपापं नितरां चिक्षेप क्षिप्तवान् भूरिद बहुफलप्रदं भूरितेज: सुदर्शन प्रध र्षति पापराशिं विनाशयतीति यावत् । तस्मात् जनासः जनाः दिवानक्तं तद्धि भृयुरिति । सुषणति षोऽन्तकर्मणात्यस्य कृति टिलोपश्छान्दसः ।। ऋग्वेदे बढचे- प्रते विष्णो अब्जचक्रे पवित्रे जन्मांबोधिं ततवे चर्षणीन्द्राः । मूल बा. ह्वोदधते ऽन्ये पुराणाः लिङ्गान्यन्ये तावकान्यर्पयन्ति ' हे विष्णो ते पवित्रे शङ्ख चक्रे जन्माम्बोधिं ततवे ततु, चर्षन्द्रिाः ज्ञानपरिपूर्णाः बाह्वोर्मूले दधते । अन्ये पुराणा ऋषयः तावकानि पञ्चायुधानि अङ्गे शरीरे अर्पयन्तीति । यजुष्षु कठशाखायाम् धृतोर्ध्वपुण्ड्रः कृतचक्रधारी विष्णुं परं ध्यायति यो महात्मा । स्वरेण मन्त्रेण सदा हृदिस्थं परात्परं यो महतो महान्तम्' इति । यो महात्मा सदा हृदये निवसन्तं परतोऽपि परं महतोऽपि महान्तं विष्णुं प्रणवन मन्त्रेण ध्या. यति स धृतोर्ध्वपुण्ड्रः कृतचक्रधारणश्च भवेदित्यर्थः ।। अथर्वणे महोपनिषदि ब्रह्मसूक्ते- 'दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् । सव्ये तु शङ्ख बिभृया- दिति ब्रह्मविदो विदुः यजुषि काठके-- चरणं पवित्रं विततं पुराणं येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूताः । अतिपाप्मानमरातिं तरेम । लोकस्य द्वारमर्चिमत्पवित्रम् । ।
६ ज्योतिष्मदाजमान महम्बत् । अमृतस्य धारा बहुधा दोहमानम् । चरण ना लोके मुधितां दधातु' इति । येन चरणेन पूनः यदकनेन शुद्धः दुष्कृतगन मवाणि पापान नराते । तत् विनतं विस्तृत पुराण पुराननं चरणं चक्र रथचरणगब्दम्याथाक्त्या 'चरण चक्रम' इति निघण्टुपाठाद्वा चरणश- दस्पदयनपरः । पावत्र पावन बनः स्वसम्बन्धन सकलमाप पापसमुदाय निवारयनि अतोऽनाव पावनामात वाक्यार्थः । शुद्धन पवित्रेण स्वसम्बान्धना- मात्र शुद्धदेतुभूतन चरणन पूतास्तदनन शुद्धाः पाप्मानं पापरूपमरातिं उमरिनरंम आनेक्रम्य वानपीमहात स्वात्मन्याशासनम । आचमत् ज्योति- मन मदम्बादान बालाकिरणप्राशभदस्य विवक्षितत्वादपोनरुक्त्यम् । एत. न्मुदनन्य म्वना छोप्यमानना धारणदशायां तमतयाचोपपद्यते । अत एव भाजनानं दोभमान पावत्रामात पापानवर्तकत्वमुच्यते । लोकम्यद्वारमिति वाढले कवायत्व. अमृतम्य धारा बहुधा दोहमानमिीत मोनहेतुत्व अमृ- नन्य यागः ने.भानुभकन बहुधा नानाविधोपायः दोहमानं दुहानम् । छा- न्दनत्य लाधुः . पादशं चर चक्र लोके अस्मिन् लोके नः अस्मान् सुधि- नान गरिनन्दधातु करोतु : अत्रापि पूर्वमन्त्रानुगुण्यात् स्वदेहभृतं चक्र- भव गतीन गम्यंत्र ऋच नानि च.. 'चमृगनयनदटाकुनो विभृत्वा गोविन्दुर्दफ्स आयुधानि बिभ्रत् । अकामा सुचनानम्मनुढे तुरीयं धाम महिपो विवक्ति, इति ।। इध- 'अ कात्यायनेनि होवाच । परं ब्रह्मत्येके देवो विश्वतश्चक्षुरिति विश्वा- स्मा विश्व बाहेर न पाय पुरुषाऽन्ताम्यस्य विश्वने मुखर्क्सवात्मा विश्वत न्यादिति नारयण ब्रह्मा जायने नाराअण बुद्रो जायन ' इलि ! ‘सबाहुभ्यां पतति नत्रय व भून जनयन देव एकः । एषोऽन्नमोऽन्नामस्न आदि योजो भवति न आदित्यलोको भवति स विष्णुलोको भवति स विष्णुरेव भवति त्यं चक्र विभुजे धामित्यग्निहोत्रमेव लोको भवत्यूध्वपुण्डमालिखत्त दिवरखं भवति भूयस्वयं ब्रह्मणस्नायुज्यन् सलोकतां जयनि य एवं वेद ॥ १ अथ कात्यनिहोवाच ' ज्ञान वै पुम्पो ब्राह्मणो जायते । स वैसाह्मणो भवनि मिष्टः काट्यपाऽग्निर्जमदग्निविश्वामित्रोऽयं व्यानः पाराशर्यस्मनका.
दयो स ब्रह्मलोको भवति तप्तं चक्रं द्विभुजे धार्यमिति सविष्णुलाको भवति य एवं वेद ॥२॥ अथ कात्यायनेतिहोवाच । आदित्यः पुरुषस्स आदित्यः क स्मिन्प्रतिष्ठितं चाध्यात्म प्रतिष्ठित वेद प्रतितिष्ठति प्रजापशुभिः यस्मिन् लोकेऽमृ तत्वमिति पापः पापं हरति सुदर्शनं धार्यामत्यूर्ध्वपुण्ड्रं द्विरखं भवति ब्रह्मण स्सायुज्यग सलोकतां जयति य एवं वेद ॥ ३ ॥ अथ कात्यायनेतिहोवाच । आप एवं यस्यायतनं हृदयं लोको मनो ज्योतिर्वैतं पुरुषं विद्यात् सर्वस्यात्मनः परायणं नारायणं पुरुषं सर्वस्यात्मनः परायणं विष्णुरेव भवति । सतप्तं चक्रं द्विभुजे धार्यमिति ब्रह्मणस्सायुज्य सलोकतां जयति य एवं वेद ॥ ४॥ अथ कात्यायनेति होवाच । इदं वै तत्पुरुषस्य परायणो भवति तप्तं चक्रं द्विभुजे धार्यमिति इमामेव गौतम भरद्वाजा वयमेव गौतमोऽयमेव भर- द्वाज इमामेव विश्वामित्रजमदग्नी इमामेव वसिष्ठकश्यपा वयमेव वसिष्ठोऽ यं कश्यपो वागेवात्रिर्बाह्मान्नमद्यतैतद्यदत्तीति तस्यैव सर्वस्यात्ता भवति सर्वम- स्यान्नं भवति स विष्णुरेव भवति य एवं वेद ।। ५।। अथ कात्यायनोतहोवाच । पृच्छामि त्वा परमं तं पृथिव्याः पृच्छामि यत्र पुरुषस्य नाभि ब्रह्मणो जायत इति देवासः पितरो येन विधृतेन बाहुना सु- दर्शनं धार्यमिति प्रयतास्स्वर्गमायन् येनांकिता मनवो लोकसृष्टिं वितन्वन्ति ब्राह्मणास्तद्वहन्ति अग्निना वै होत्रा तप्तं चक्रं द्विभुजे धार्यमित्यूर्ध्वपुण्ड्रमालि खेत्तविरखं भवति पुनरागमनं नयति ब्रह्मणस्सायुज्यग सलोकतां जयति य एवं वेद ॥६॥ अथ कात्यायन इति होवाच । विष्णुरिन्द्रो वै देव इन्द्रो वा नारायणो ऽनुजायते किंदेवतोऽस्यां विष्णुदेवत इति स विष्णुः कस्मिन् प्रतिष्ठित इति रूपाणि पश्यति कस्मिन् रूपाणि प्रतिष्ठितानाति हृदय इतिहोवाच तप्तं चक्र द्विभुजे धार्यमिति ब्रह्मणस्सायुज्यग सलोकतां जयति य एवं वेद ॥ ७ ॥ अथ कात्यायनेतिहोवाच । परमपुरुषो ह वै देवा मनो वै ब्रह्म मना- नन्तानन्तलोके निवसति ब्राह्मणास्तद्वहन्तीत्याग्निना वै होत्रा तप्त तुरीत्यापो री- त्यापोऽन्तरिक्षस्समुद्रं गच्छन्त्यापो वै देवा ब्राह्मणाः केशवं प्रति गच्छन्ति । अथ कात्यायनेतिहोवाच । पुरुषश्चन्द्रस्सादित्यः कस्मिन्प्रतिष्ठित इति आदित्योऽन्तःपुरुषस्य देवस्य देवनादिगुणयुक्तस्य स हिरण्यगर्भोपाध्यवच्छि- अति ब्राह्मणा भगवन्तः यो वः कामयते मनो वै काम मनोऽनन्ता मनो वै ८ .. ब्रह्म मनो वै विष्णुरिति ब्राह्मणा धारयन्त्यूर्ध्वपुण्डं द्विरेखं भवति ब्रह्मणस्सा- युज्यग सलोकतां जयति य एवं वेद ॥ ९॥ अथ कात्यायनेतिहोवाच । सर्व तदिदं सर्वात्मनः परायणं नारायणं महाज्ञेयं विश्वात्मानं परायणमिति देवो भूत्वा देवास: पितरो विदुरित्यात्मा गुहायां निहितोऽस्येत्यन्तर्यामिवर्म दयस्व स्वाहोर्वन्तरिक्षमन्वेति स्वांकृतोऽ माति ब्रह्मणेतिहोवाच तप्तं चक्रं द्विभुजे धार्यमिति ब्रह्मणस्सायुज्यन् सलो- कतां जयति य एवं वेद ।।१०।। तत्रैवोत्तरत्र ‘दिवस्पतेऽस्य सुविततं पवित्रं यस्य दक्षिणे तप्यते सम्य- क्चक्र विभर्ति रागा इति ॥ दाक्षिणे तु भुजे, 'धृतोर्ध्वपुण्डः, 'प्रते विष्णो 'निचिक्षेप, चमूपज्येन, 'एभिर्वयं, 'चक्रं विभर्ति, 'पविमित्यग्निः, • पवित्रं ने, 'चरगं पवित्रं, 'अथ कात्यायनेति, एताः श्रुतयः सच्चरित्ररक्षायां श्रीमन्निगमान्नमहादेशिकैः सोपबृंहणतया सुदर्शनादिधारणे विनियुज्यन्त इति विस्तरण साथ प्रतिपादिताः ॥ महाचार्यश्च पूर्वोक्ताश्रुतयः शतपथब्राह्मण विद्याविजये उदाहृताः । एनदन्याश्रुतयः तप्तचन्द्रिकादिषु बहुशस्सन्ति विस्तरभयान्न लिखिताः । सञ्च- रित्ररक्षायां चमूषन्' इत्यादेरर्थः प्रदर्शितः । यथा-द्रफ्स:-भगवद्विभूत्येक- देशः इयेनः श्येनसजातीयः शकुनः पक्षी वैन तेय इत्यर्थः । वैनतेयस्य कर्मा- धानपदलाभत्वकथनं कर्मवश्यत्वाभिनयकृतम् । यद्वाऽन्योऽत्र श्येनसजा- नीयः पक्षी विवक्षितः । गांविन्दतीति गोविन्दः । गोशब्देन महीप्रभावादयो विवक्षिताः । ‘गवादिषु विन्देन संज्ञायाम्' इति छान्दसत्वात्तज्वद्भावः । ऋन्नन्तता वा । तस्यायुधानिक्षिप्त्वाकनरूपण सार्वकालीनत्वलक्षणविशेष विभृत्वा धारयित्वा, विभृत्वति क्तिन्नन् इदं पदम् । चमूषन् अभूत् भग- वत्सेवाधुरन्धरोऽभूदित्यर्थः । यद्वा चमूशब्देन नित्यसूरिपरिषद्विवक्षिता । तसादतीनि चमूषन्नित्यसूरिपरिषन्मध्यवर्तीत्यर्थः । क्रियाऽपेक्षायामभूदिति योग्याक्रया ध्याहारः । आयुधानि पञ्चायुधानि विभ्रत् । एवमपां मूर्ति समुद्रं सचमानः अन्योऽपि कश्चिद्भगवच्छरीरतया द्रफ्सः तदंशभूतो जीवः संसा- रात्तिापया भगवदीयानि पञ्चायुधानि विभ्रत् । तत एव महिषः पूजित मह पूजायाम, इति धातोः 'अपि मह्योष्टिघच, इनि टिषच् । अपां सदमुं .
सागरं ऊर्मिमत्त्वात् लक्षणया मिमित्युच्यते । अचिद्व्यसम्बन्धिनमू- मिमन्तं संसारसागरमित्यर्थः । समुद्रं समुद्रिक्तं अचिगव्यसम्बन्धिनमू- मिशब्दाभिलप्यमशनायादिषट्कं जन्मादि विकारजातं वा । एकवचनं स- मुदायाभिप्रायम् । अप्छब्देन भूतान्तरस्याप्युपलक्षणम् । सचमानः 'पच- समवाये , इति धातुः । अनुप्रविशन तन्मध्ये निमजन्नित्यर्थः । एतेन दुःखसमयसंसारसागरनिमग्नत्वात् तदुत्तितीर्णायोगित्वमस्तीनि फलितम् । यथा राजचिह्नधारी राज्ञा जगता च पूज्यते । तद्वदयं भगवञ्चि- हधारी भगवता देवमनुष्यादिनित्यसूरिभिश्च पूज्यत इति भावः । तुरीयं चतुर्थ धामतेज: व्यूहत्रयात् जाप्रदादि पदत्रयाद्वा परं वासुदे- वसंझं तेज इत्यर्थः । यद्वा कर्मवश्यानां प्राप्यात् स्थानत्रयाद्विलक्षणत्वेन सर्वस्मात्परं मुमुक्षु प्राप्यं परमपदं विवक्ति स्तुत्या सेवते धातूनामनेकार्थत्वात् अत्र योग्यार्थे तात्पर्यमित्यादि सच्चरित्ररक्षायामनुगृहीतम् श्रीमनिगमान्त गुरुचरणैः- अत्रोदाहृतासु काश्चन श्रुतयः निर्णय सिन्धौ हेमाद्रौ च सुद- र्शनादिधारणपरतयोदाहृताः ॥ तत्र वृद्धमनुः ऊर्ध्वपुण्ड्र तथा चक्रं नित्यं धारयते तु यः । तेन तस्याशुभं नश्येत् शुभं तस्य प्रवर्धते ॥ इति शाण्डिल्यः--- पशुपुत्रादिकं सर्व गृहोपकरणानि च । अङ्कयेच्छङ्खचक्राभ्यां नामकुर्याच वैष्णवम् ।। विष्णुधर्मे यमकिंकरसंवादे- भवतां भ्रमतामत्र विष्णुसंश्रयमुद्रया । विनाऽऽज्ञाभङ्गकृन्नैव भविष्यति नरः कचित् ॥ इति मात्स्ये मञ्चक्रांकितदेहोयं मद्भक्तो भुवि दुर्लभः । नैवाप्नोति वशं मृत्योरप्याज्ञा भङ्गकन्नरः ॥ नान्यं देवं नमस्कुर्यान्नान्यं देवं निरीक्षयेत् । चक्रांकितः सदा तिष्ठेन्मद्भक्तः पाण्डुनन्दन । श्रीविष्णुतत्वे- - -- - 2 - चक्रादिधारणं पुंसां पर सम्बन्धवर्धनम् । पतिव्रता निमित्तं हि वलयादि विभूषणम् ।। वैष्णवेभ्योपि बिभ्यन्ति देवा नरकरक्षकाः । (पा) चक्रांकितेभ्यो बिभ्यन्ति देवा नरकरक्षकाः ॥ अवमानक्रिया तेषां संहरत्यखिलं जगत् । कालेनैतावता तेषु नरकेषु कथञ्चन ।। न दृश्यते महावीरप्रभवात्परमेष्ठिनः । इति न दृश्यत इत्यत्र सामर्थ्यादेषु निवास इत्यध्याहर्तव्यम् इतिहाससमुच्चये पुण्डरीकाख्याने ॥ केचित् चक्रांकितस्तत्र प्राणिनःपुण्यदर्शिनः ॥ विचरन्ति यथा कामं पुण्यतीर्थप्रशंसिनः । इति तत्रव-नारदोहमिह प्राप्तस्त्वदर्शनकुतूहलात् ।। प्रभवो भगवद्भक्ता मादृशां सततं द्विज । स्मृतस्सम्भाषितो वापि पूजितो वा द्विजोत्तम ।। पुनातिभगवद्भक्तश्चण्डालोपि यदृच्छया। इति भीष्म पर्वणि ब्राह्मगैः क्षत्रियैवैश्यैः शूद्रैश्च कृतलक्षणैः ॥ अर्चनीयश्च सेव्यश्च नित्ययुक्तैः स्वकर्मसु । सात्वतं विधिमास्थाय गीतसंकर्षणेन यः ।। इति श्री विष्णुतत्वे तृतीये पादे-- एवं हि ज्ञापिता विष्णोश्चक्रचिह्नसमन्विताः । देवा एव भवन्येते नान्येषां कर्मकारकाः ।। इति तत्रैव नवम पटले-- संस्कारव्यञ्जितात्मानः पतिचिह्नन लांछिताः । देवाभिधानवन्तश्च त्यक्तास्पदपरिग्रहाः ॥ तमेव सर्वभावेन संप्रयाति महामुने । इति अन्तिमे पटले-. ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः ।। एतेह्याश्रमिणः प्रोक्ताः चत्वारः क्रमयोगतः । इत्यारभ्य -- -- ११ चक्रचिह्नधराः सर्वे समय व्रतनिष्ठिताः ॥ इति पराशर संहितायाम् - श्रोत्रियो विष्णुभक्तस्तु गृहस्थः शास्त्रवित्तमः । चक्रचिह्नधरो विप्रः प्रतिष्ठयं कर्तुमर्हति ।। तेन प्रतिष्ठितः तत्र सन्निधत्ते सखा (सदा) हरिः । देवतान्तरभक्तो वा समबुद्धिरथापि वा ।। नास्तिको वेदहीनो वा न प्रतिष्ठां समाचरेत् । नारदीय पद्धतौ च-- गृहस्थ: श्रोत्रियो विप्रो नित्यकर्मरतश्शुचिः ।। शान्तश्चक्रधरो दान्तः सद्भक्तो विजिवन्द्रियः । शास्त्रज्ञः कर्मदक्षश्च प्रतिष्ठयं कर्तुमर्हति ॥ इति भारतोदाहरणे कृत लक्षणैरित्यत्र लक्षण शब्दस्य सामान्यत्वेपि सात्वततन्त्र- विहितलक्षणपर परत्वात्तत्र तप्तचक्रांङ्कनस्य विहितत्वात् तत्परत्वमेव ॥ पाने- धारयेद्विष्णुभक्तस्तु चक्र बाहौ तु दक्षिणे। वामे तु शङ्खराजनं ततो वै विष्णुमाप्नुयात् ।। चक्रेणैवांकितो विद्वान् वासुदेवं समाश्रयेत् । भावभक्तिं समास्थाय ब्रह्मलोकं प्रयास्यति ॥ इति आग्नेय पुराणे- पञ्चायुधानि धार्याणि भक्तिश्रद्धोपबृंहितैः । ललाटे मूर्ध्नि हृदये बाह्वो रेकं पृथक् पृथक् ॥ ललाटे तु गदा धार्या मूर्ध्नि चापं ततः परम् । नन्दकञ्चैव हृन्मध्ये शङ्खचक्रे भुजद्वये ॥ यथा च विधिवत् कृत्वा पञ्चायुधविधानतः । तत्तन्मन्त्रेण मन्त्रज्ञाः प्रतिष्ठाप्य पृथक् पृथक् ।। वह्निमध्ये समारोप्य विधिवत् पूजयेत्ततः । अङ्कयेत् विधिवत् ब्रह्मन्नप्रमत्तः समाहितः ।। वर्णाश्रमेषु निष्ठानां अन्येषां च विशेषतः । कर्तव्यं भगवद्भक्तः सिद्धैर्मुग्धैश्च योगिभिः ।।
चक्रादिधारणात् ब्रह्मन् विष्णुलोके महीयते ।
इति भविष्यपुराणे-
चक्रांकितभुजं दृष्ट्वा यस्तु तं नाभिनन्दयेत् ॥
तिर्यग्योनि शतं प्राप्य विष्ठायां जायते क्रिमिः।
ब्रह्मवैवर्ते-
विष्णुचक्रांकितं मयं यो निन्दयति सर्वदा ।।
स याति नरकं घोरं यावदाभूत संप्लवम् ।
-
अष्टाक्षरविदः सर्वे विष्णुचक्रांकितास्तथा ।।
श्रावका वासुदेवस्य तथैव नटनर्तकाः ।
अन्ये च वैष्णवास्तत्र सर्वे चक्रेण लाग्छिताः ।।
श्री वाराहे-
वासुदेवानं कुर्यादात्मनो बाहुमूलयोः ।
सोऽश्वमेधफलं प्राप्य विष्णुलोके महीयते ।।
तत्रैव क्षेत्रमाहात्म्ये-
मचक्रांकितदेहो यो मनको भुवि दुर्लभः ।
मामेवैष्यति धर्मात्मा मदेकान्तेन चेतसा ॥
चक्रांकितमुजाः केचिद्यत्र यत्र वसन्ति वै ।
योजनानि तथा त्रीणि मम क्षेत्र वसुन्धरे ।
ये केचिचत्र पुरुषा विष्णुचकांकमुद्रिताः ।
तेषां दर्शनमात्रेण महापातकनाशनम् ।।
भूतप्रेतपिशाचाश्च डाकिन्यश्च वसुन्धरे ।
सर्व तत्प्रशमं याति यत्र चक्रांकितो वसेत्॥
स्कान्दे च यमवचनम्-
येषां चक्रांकितं गात्रं शुद्धेष्वपि च दृश्यते ।
ते वै स्वर्गस्य नेतारो ब्राह्मणा भुवि देवताः ।।
वामने-
लीलयापि लिखेद्यस्तु बाहुमूले सुदर्शनम् ।
कुलकोटि समुदत्य सगच्छेद्वैष्णवं पदम् ।।
१३ - मात्स्ये- चक्रांकितभुजाः केचिच्छंखचक्रधरास्तथा। पञ्चायुधधराः कचित् कुले विष्णुपरिग्रहे ॥ शङ्खचक्रांकनं कुर्यान् आत्मनो बाहुमूलयोः । कळवापत्यभृत्येषु पश्वादिष्वपि मुक्तये ।। मञ्चक्रांकितदेहोयं मद्भक्तो भुवि दुर्लभः । नैवाप्नोति वशं मृत्यो रप्याज्ञाभङ्गकृन्नरः ।। गारुडे-- विष्वक्सेनःस्वयं चक्रं आदायात्मविभूषणम् । प्रयच्छति महातेजा हरिभक्तानुकम्पया ॥ विष्णुचक्रांकितं गात्रं पवित्रमिति वैश्रुतिः । चक्रांकिताय दातव्यं हव्यकव्यं द्विजोत्तमैः ॥ इति तत्रैव-अग्निनैव तु सन्तप्तं चक्रमादाय वैष्णवः । बाहयेत्सर्ववर्णानां हरिसालोक्य सिद्धये ॥ तत्रैव प्रथमेऽध्याये- वैष्णवाः मुनयः पुण्य विष्णु लक्षण लक्षिताः । ध्यानिनो योगनिरताः सदा विष्णुपरायणाः ॥ उमामहेश्वर संवादे- शङ्खचक्रांकितान् भक्ताऽन्यः पूजयति मानवः । स साक्षाद्विष्णु सामीप्यं लभते नात्र संशयः ॥ वायव्ये- उपवीतादिवद्धार्याः शङ्खचक्रादयस्तथा । ब्राह्मणस्य विशेषेण वैष्णवस्य विशेषतः ॥ आदित्य पुराणे- चक्रादि धारयेद्विनो ललाटे मस्तके भुजे । पातकादि विशुद्धयर्थ भवक्लेशविनाशनम् ।। विहगेशेशनामाङ्कारशङ्खचक्राङ्किता नराः। निश्शङ्काश्च निरातकाः ते सङ्कर्षणकिंकराः । इति यमस्मृतौ-उपवीतं शिखाबन्धं चक्रलाञ्छनसंयुतम्। इत्यादि
शवस्मृतौ-
उपवीतादिवद्धार्याः शङ्खचक्रादयः सदा ।
ब्राह्मणस्य विशेषेण वैष्णवस्य विशेषतः ॥
हारीत स्मृतौ-
प्रतन शङ्खचक्रादि हेतिभिः मन्त्रमुच्चरन् ।
दक्षिणे तु भुजे चक्र वामांसे शङ्खमेव च ॥
गदां च बाहुमध्ये तु हृढ़ये नन्दकं तथा ।
मस्तके तु तथा शाङ्ग अङ्कयेद्विमलं तथा ॥
एवं तापक्रिया कार्या वैष्णवी कलुषापहा ।
प्रधानं वैष्णवं तत्र तापसंस्कार उच्यते ।।
तापसंस्कारमात्रेण परिशुद्धिमवाप्नुयात् ।
केचित्तु शङ्खचक्रे द्वे प्रतप्ते वाहुमूलयोः ।।
धारयन्ति महात्मानः चक्रमेकं तु धारयेत् ।
वैष्णवानान्तु हेतीनां प्रधानं चक्रमुच्यते ॥
तेनैव बाहुमूले तु प्रतप्तेनांकयेद्बुधः ।
अनङ्कयित्वा चक्रेण यत्किंचित्कर्मसञ्चरेत् ।।
तत्सर्व याति विफलमिष्टापूर्तादिकं नृप ।
अचक्रधारणो विप्रः सर्वकर्मसु गर्हितः ॥
अवैष्णवत्वमाफ्नो नरकं चैव गच्छति ।
चक्रचिनादि रहितं प्राकृतं कलुषान्वितम् ।।
अवैष्णवन्तु तं दूरात श्वपाकमिव संत्यजेत् ।
तस्माञ्चक्र विधानेन तप्तं वैधारयेत् द्विजः ।।
सर्वाश्रमेषु वसतां स्त्रीणाश्च श्रुति चोदनात् ।
अनायुधा सो असुरा अदेवा इति वै श्रुतिः ।।
चक्रेण ता वर्ष इत्युचा समुदाहृतम् ।
अपेत्यङ्कनमित्युक्तं वपेति ग्रहणं तथा ।।
अस्माद्वै तप्तचक्रस्य मुकनं मुनिभिः स्मृतम् ।
पवित्र विततं ब्रह्म प्रभोः गात्रेषु लाञ्छितम् ।।
(धारिती श्रुत्यैत्र चांकयेदात्रे तद्ब्रह्मसमवाप्तये ।
यत्ते पवित्रमार्चिष्यग्ने विततमन्तरा।।
पुनाहितेनैव ब्रह्मनोहीति श्रुति चोदितम् ।
पवित्रमिति चैवाग्निः अग्नि चक्रमुच्यते ।।
अग्नि सहस्रारः सहस्रारो नेमिरुच्यते ।
नेमिना तप्ततनुर्यो ब्रह्मणा समतां व्रजेत् ॥
यत्ते पवित्रमर्चिष्यग्ने तेन पुनीहि मा।
दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् ।।
वामे तु शङ्ख विभृयादिति ब्रह्मविदो विदुः ।
इत्यादिश्रुतिभिः प्रोक्तं विष्णोश्चक्रस्य धारणम् ॥
पुराणेष्वितिहासेषु सात्विकेषु स्मृतिष्वपि ।
शङ्खचक्रोर्ध्वपुण्डादि रहितं ब्राह्मणं नृप ।।
यः श्राद्धे भोजयेद्विप्रः पितॄणां तस्य दुर्गनिः ।
शङ्खचक्रोर्ध्वपुण्ड्रादि चिह्नः प्रियतमैः हरेः ॥
रहितस्सर्व धर्मेभ्यः प्रच्युतो नैनमाप्नुयात् ।
पाद्म-एवमुक्त्वा विधातारं देवदेवो हरिः पिता ।।
सचक्रणांकयित्वा तं तस्य मन्त्रमदात्स्वयम् ।
सर्व लोकेश्वरो देवो ब्रह्मा मम पिता प्रभुः ॥
ममापि विधिवन्मन्त्रं प्रददौ मुनिसत्तमः ।
तस्माद्यूयं मुनिश्रेष्ठा धारयध्वं सुदर्शनम् ॥ इति
तत्रैव- शङ्ख वा शङ्खचक्रे वा तथा पञ्चायुधानि वा ।
धारयित्वैव विधिवद्ब्रह्मकर्म समारभेत् ।।
सुदर्शनं धारयित्वा वह्नितप्तं द्विजोत्तमः ।
उपनीयविधानेन पश्चात्कर्मसु योजयेत् ।।
दद्याद्गोभूहिरण्यादि चक्रांकितभुजाय वै। ति
वैष्णवत्वस्य सिद्धयर्थ ज्ञानसिद्धयै विशेषतः ।।
प्रतपेच्छङ्खचक्राभ्यां हुत्वा होमं विधानतः । इति
अन्यैनंदाहयेगात्रं ब्राह्मणो हरिलांछनात् ।।
शङ्खचक्रगदाखड्गशाङ्गोदन्यैः हरेरपि ।
न लक्षणैः दहेदनं नान्यदग्धार्हतिक्रियाम् ॥
-- अचक्रधारिणं विप्रं दूरतः परिवर्जयेत् । तत्रैव-निर्मलांश दया युक्ताः शुक्लदन्ता दृढव्रताः॥ अक्षिताश्चैव चक्रेण देव देवस्य चक्रिणः। इति मार्कण्डेये- शङ्खचक्रांकनं कुर्यादात्मनो भुजमूलयोः । सोऽश्वमेधशतं प्राप्य परं निर्वाणमृच्छति ॥ तद्धारणान्महापापैः मुच्यते नात्र संशयः । ब्राह्म- शरीरं दृश्यते यस्य कृष्णचक्रेण लांछितम् ।। गङ्गाजलमयं मन्ये देहं तत्पापवर्जितम् । इति तत्रैव-विष्णुचक्रांकितं विप्रं यो भूम्यामभिवादयेत् । ललाटपांसु संख्यानि ब्रह्मलोके महीयते ॥ विष्णुचत्रांकितं दृष्ट्वा योऽभ्युत्थाय कृताञ्जलिः । स्वकीयं कुलमुद्धृत्य ब्रह्मलोके महीयते ॥ चक्रांकितभुजा यस्मिन् पङ्किमध्ये तु भुखते । सा पड्डिस्वर्गलोकेषु देवपतिषु युज्यते ॥ शङ्खचक्रांकितं विप्रं दृष्ट्वा यो साइतो भवेत् । परमानन्दमाप्नोति किं पुनस्त्वैहिकं फलम् ॥ ये केचिद्यत्र पुरुषा विष्णुचक्रेण मुद्रिताः । तषां दर्शनमात्रेण महापातकनाशनम् ।। चक्रांकितस्य नामानि यो वदेद्भक्तिमानरः। सर्वपातकनिर्मुक्तः स याति परमं पदम् ॥ अग्नितप्तेन चक्रेण बाहुमूले तु लांछिताः। रौरवादशमुद्धृत्य यान्ति विष्णोः परं पदम् ॥ विष्णुपत्रांकिता यत्र वसन्ति नरपुंगवाः । बदेशोत्पन्नमात्राश्च वैष्णवत्वं व्रजन्ति ते ॥ विष्णुचक्रांकितं विप्रं एकरात्रन्तु वासयेत् । विष्णुलोकनिवासैस्तु पूज्य एव नसंशयः ॥ विष्णुभक्तियुता मुख्याः शङ्खचक्रादि लांछिताः ।
१७ - क्रीडार्थमपि यब्रूयुः स धर्मः परमो मतः ।। यस्मिंस्तीर्थे कृतस्त्राना वैष्णवाश्चक्रलांछिताः । तस्मिन् स्नानं प्रकुर्वीत विष्णुलोकमवाप्नुयात् ।। अतिपापप्रसक्तोपि विष्णुचक्राङ्कितस्य तु । पादोदकं पिवेद्यस्तु सर्व पापैः प्रमुच्यते ।। शङ्खचक्राङ्कितान् विप्रान् यः पूजयति मानवः । स साक्षात् विष्णुसालोक्यं लभते नात्र संशयः ।। ब्रह्माण्डे- ततः प्रभृति शकाद्याः सर्वे देवा मुनीश्वराः। चिह्न कृष्णायुधानान्तु नित्यं कुर्वन्ति हि श्रुतम् ॥ ऋषयः सिद्धगन्धर्वाः पाताळे पन्नगेश्वराः । देहे कुर्वन्ति नियतं शङ्खचक्रादि लांखितम् ॥ तस्मात् त्वमपि देवर्षे कुरु कृष्णायुधांकितम् । स्वदेहं तव सर्वत्र सर्व सिद्धिः भविष्यति ।। स्कांदे 'पृथु सनत्कुमार संवादे' पृथु:- सुदर्शनस्य माहात्म्यं वैष्णवानां महामुने । वक्तुमर्हसि सर्वज्ञ परं कौतूहलं हि मे ॥ सनत्कुमारः- शङ्खचक्रांकितं दृष्ट्वा देवताः पितरो ग्रहाः । इच्छन्ति मङ्गळं नित्यं तुष्टाः तस्य परं भुवि ।। कृष्णायुधैः लांछितानां मृत्युः नाभिभवेत् क्वचित् । विदेशेपि भवेन्मुक्ति: पातकैः वेष्ट)ष्टितामपि । उपसर्गाः क्षयं यांति रोगा नश्यन्ति दूरतः । दृष्ट्वा चक्रांकितं देहं विमुखा यांति शत्रवः ।। वृत्रेण निर्जिताः सर्वे पुरा देवाः स वासवाः । ब्रह्मादयो गताभूप शङ्करप्रमुखाः तथा ॥ त्राहि त्राहि जगन्नाथ वृत्रेण विजिता वयम् । 3 श्री भगवानुवाच- ममायुधांस्तु देहेषु लांछयित्वा सुरोत्तमाः ।। युध्यन्तां समरे दैत्यान् मत्प्रसादेन भूयसा । मदायुधांकितान् दृष्ट्वा भवतः सुरशत्रवः॥ क्षयं यास्यन्ति समरे मत्प्रसादात्सुरेश्वराः। प्रणामं दण्डवद्भूमौ ब्रह्मरुद्रपुरोगमाः ॥ हत्वा(हृत्वा) वृत्रं गता देवाः स्वस्थानन्तु मुदान्विताः । तदा प्रभृति ब्रह्माद्याः सर्वे देवाः स वासवाः ।। ऋषयः सिद्धगन्धर्वाः पाताळे पन्नगेश्वराः । वह्नि तप्तं हरेश्चक्रं शङ्खश्चैव विधानतः ॥ धारयन्ति मुदा युक्ता वृत्रस्य जयकांक्षिणः । तस्मात् त्वमपि राजेन्द्र कुरु कृष्णायुधांकितम् ।। स्वदेह निजसंग्रामे ह्यजेयस्त्वं भविष्यसि । कृष्णचक्रांकितो भूत्वा संग्रामे प्रविशेद्यदि ॥ विजित्य च रिपून सर्वान् स्वदेशं प्राप्नुयात् नृप । पाझे- सुदर्शनं पाञ्चजन्यं सुवर्णेन प्रकारयेत् ॥ रौप्येण वापि ताम्रण कांस्येनापि प्रकारयेत् । आचारादीनभिप्राप्तः प्राप्तो वा भूरिदक्षिणाम् ॥ अङ्गोपाङ्गैश्च संयुक्तः कृतोपि न कृतो भवेत् । हारीत स्मृतौ- रागसन्दग्धगात्राणां न स्यात् पारत्रिकं शुभम् ॥ अन्यत्र s- ब्रह्महत्या सुरापान स्तेयं गुवंगनागमः । चक्रांकितस्य निंदा च पञ्चैतत्वनिपातकाः ॥ विष्णुचक्रांकितो विद्वान् यस्मिन् देशे वसेत्सुखम् । स तु वै मत्प्रियःपुण्यो वैष्णवानामपि प्रियः ।। विष्णुचक्रांकिता विप्रा शङ्खचक्रांकिताश्च वा । क्रीडार्थमपि यत्रूयुः स धर्मः परमोमतः ॥
तीर्थस्नानफलं नास्ति यागदानफलं तथा ।
अवैष्णवे तथा विप्रे सर्व शश्वद्विनश्यति ॥
यथा दारूमयो हस्ती यथा चर्ममयो मृगः ।
अवैष्णवस्तथा विप्रः ततो व्यर्थो भविष्यति ।।
हारीत स्मृतौ-
शङ्खचकोर्ध्वपुण्यादि धारणं वाऽस्य लक्षणम् ।
तन्नामकरणञ्चैव वैष्णवं तदिहोच्यते ॥
अवैष्णवास्तु ये विप्राः चण्डालाद्धमा स्मृताः ।
तेषां तु नरके वासः कल्पकोटिशतैरपि ।।
तापादिपञ्चसंस्कारी मन्त्ररत्नार्थतत्त्ववित् ।
वैष्णवः स जगत्पूज्यो याति विष्णोः परं पदम् ॥
अचक्रधारी विप्रश्च बहुवेदश्रुतोऽपि वा।
स जीवन्नैव चण्डालो मृतो निरयमाप्नुयात् ।।
तस्मात्तापादिसंस्काराः कर्तव्या धर्मकांक्षिणाम् ।
अयमेव परो धर्मः प्रधानं सर्वकर्मणाम् ।।
संस्काराणान्तु सर्वेषामाद्यं चक्रादि धारणम् ।
तत्कर्तव्यं हि सर्वेषां विधिना वै द्विजन्मनाम् ।।
उत्तर पराशरस्मृतौ-
संस्काराः पञ्चकर्तव्याः ब्राह्मणस्य विधानतः ।
विना यज्ञोपवीतेन विना चक्रस्य धारणम् ।।
विना द्वयेन वै विप्रः चण्डालत्वमवाप्नुयात् ।
आद्यन्तु शङ्खचक्रादि धारण वैष्णवं स्मृतम् ।।
पौंडूं नामक्रिया चैव मन्त्रञ्चैवार्चनं हरेः ।
संस्काराः पञ्चकर्तव्याः ब्राह्मणस्य विधानतः ॥
विधिना शङ्खचक्रादि धारयेदूर्ध्वपुण्ड्रकम् ।
अचक्रधारिणं विप्रं यः श्राद्ध भोजयिष्यति ॥
रेतो मूत्रपुरीषाणि सपितृभ्यः प्रयच्छति ।
तस्माञ्चक्रादि संस्काराः कर्तव्या मुनिसत्तमाः ।।
चक्रलांछनहीनेन कृतं कर्म च निष्फलम् ।
- हरिवम्शे- चक्रांकिताः प्रवेष्टव्या यावदागमनं मम ।। अत्र केषुचित्पुस्तुकेषु 'नामुद्रिता' इति पूर्वार्धतया, चक्रांकिता इत्युत्त- A - रार्धतया पाठः॥ ब्रह्म पुराणे- आद्यन्तु वैष्णवं प्रोक्तं शङ्खचक्रादि लांछनम् । धारणञ्चोर्ध्वपुण्ड्राणां तन्मन्त्राणां परिग्रहः ।। शङ्खचक्रांकनं कुर्यात् आत्मनो बाहुमूलयोः । हुतामिनैव संतप्य सर्वपापापनुत्तये ।। अग्नितप्त पवित्रं च धृत्वा वै बाहुमूलयोः । त्यक्त्वा यमपुरं घोरं याति विष्णोः परं पदम् ।। शङ्खचक्रादिहीनस्तु यः पूजयति केशवम् । तत्सर्व विफलं याति पूजामन्त्रजपादिकम् ॥ अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः । अङ्कयित्वा जपेन्मन्त्रं संसारान्मोक्षवान् भवेत् ।। सुदर्शनं धारयित्वा वह्नितप्तं द्विजोत्तमः । उपनीयविधानेन पश्चात्कर्मसु योजयेत् ॥ चक्रचिह्नविहीनन्तु यः श्राद्धे भोजयिष्यति । व्यर्थ भवति तत्सर्व निराशाः पितरो गताः॥ विष्णुचक्रांकितं विप्रं भोजयेच्छाद्धकर्मणि । विष्णुचिह्नविहीनन्तु प्रयनेन विवर्जयेत् ॥ हुताग्नितप्तचक्रेण शरीरं यस्य चिह्नितम् । तस्य तीर्थानि यज्ञाश्च लभन्ते नात्र संशयः ॥ अग्नितप्तेन चक्रण बाहुमूले तु लांछिताः । सर्वपापविनिर्मुक्ता यान्ति विष्णोः परं पदम् ॥ सर्ववेदविनीतश्च सर्वशास्त्रविशारदः । अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेत् ।। नारदीये- अग्निहोत्रं यथा नित्यं वेदस्याध्ययनं यथा ।
-- - ब्राह्मणस्य तथा नित्यं तमचक्रांधारणम् ॥ शाण्डिल्यः-- कारयित्वा सुवर्णेन पञ्चायुधगणं हरेः । वनीयात् कण्ठदेशेषु बालानां सूतिकागृहे ।। नामुद्रये दासनानि शयनानि महीतलम् । स्थापयेत् क्षेत्रमध्ये तु शिलां चक्रादिमुद्रिताम् ।। मुक्तामाणिसुवर्णाद्यैः कृत्वा चक्रादिभूषणम् । यथार्ह विभूयुः सर्वे पुमांसः स्त्रीजनो-पि वा ॥ श्री विष्णुमन्दिरे प्रतिऽष्टाध्याय - प्रतिष्ठादिवसं ज्ञात्वा ऋत्विग्भिः द्विजसत्तमैः । एकांति मुनि मुख्यैश्च कृतचक्रादिलक्षणैः ।। यजमानः प्रकुर्वीत वेद्यादि स्थापनं पुरः। इति पारमेश्वरे च- येषु व्यक्तेषु चिह्नानि नाभिव्यक्तानि सत्तमः । तान्यपि स्वानि चिह्नानि ललाटेवांसपृष्टयोः ।। पृष्ठेवाप्यंकपट्टे वा पाणिपादतलेषु वा । मूनि वा दधते तस्मात्तत्र तत्र परीक्षयेत् ।। तस्मादलक्षणाव्यक्तिः विद्यते न कदाचन । एवं तदीया विप्राश्च क्षत्रिया वैश्यजातयः ।। मौद्गल्याश्च तथाचान्ये न सच्चिदविवर्जिताः । भवेयुः सर्वदातस्माच्चक्रशङ्खगदांबुजैः ।। लोहरनलसंतप्तः तत्तन्मन्त्राधिवासितैः । पूजितैरर्घ्यगन्धाद्यैः अङ्कितव्याः क्षणेन तु (ते) ।। क्षणेन सावधानेनेति ब्रह्मविधानेनति ब्रह्मविद्याविजये महाचार्याः- त्रय्यन्त ज्ञानसम्पन्ना यथोक्ताचारनिष्ठिताः । विप्रास्तेऽपि च शूद्राश्च यथैवं कृतलक्षणाः ॥ तथापि योग्या विज्ञेयाः समयश्रवणादिषु । शास्त्रोदितासु सर्वासु सामग्रीषु महामते ॥ योगोपकरणान्येवमयंपाद्यादिकान्यपि । .
२२
लांछितानि यथा योग्यं शङ्खचक्रादि लक्षणैः !!
तथा यानासनादीनि विभोः सर्वाणि यत्नतः ।
आत्मापकरणं सर्वमासनादि विवर्जितम् ॥
अङ्गुळीयकपर्यन्तं भूषणं कटकादिकम् ।
उत्तमाङ्गसमुद्धार्य सर्वमुष्णीष पूर्वकम् ।।
चक्रादिलांछनं कुर्यात्तदीयाश्च गवादयः ।
विप्रादिवल्लांछितव्या तदीया भूरुहादयः ॥
लांछितव्या यथा योग शङ्खचक्रादिलांछनैः ।
आराधनाहाः कर्मण्या एवं चक्रादि लांछिताः॥
देवतान्तरचिह्नस्तु अकर्मण्याश्च लांछिताः।
यत्र वा भगवन्मूर्तेः लांछनं न च दृश्यते ।।
तत्र वै लक्षणन्यासं न कुर्यात् स्वेच्छया द्विज(नृप) ।
यथा स्थितैव सा व्यक्तिः पूज्या व्यापकमन्त्रतः ॥
तदन्ये लांछितव्यास्स्युः सर्वे पूर्वमलांछिताः। इति
श्री सात्वते-
नास्त्रैःवस्त्रैः ध्वजैर्येषां व्यक्तिय॑क्ता जगत्रये ।
तेऽपि लांछनबृन्दन्तु धारयन्त्यवि गोचरे ॥
ललाटे वांसपट्टे वा पृष्ट पाणितलद्वये ।
तनूरुहचये मूर्ध्नि कर्मिणां प्रतिपत्तये ॥
अपि संसारिणो जन्तोः स्वभावाद्वैष्णवस्य च ।
न जहात्यच्युतं लिंग किं पुनर्विभवाकृतेः । इति
सनत्कुमार संहितायाम्--
सर्वपापविनाशस्य रथांगस्य तु धारणम् ।
सर्वकल्याणदमिह पश्चात्संसारनाशनम् (कम् ) ।।
सुवर्णरौप्य ताम्राद्यैः लोहेन च तथैव च ।
तथा रथांगमष्टारं सुनाभं च सुवृत्तकम् ।।
ज्वाला चतुष्कसंयुक्तं कृत्वा चैव विधानतः ।
अग्नौ प्रताप्य विधिवद्धारयेद्भक्तिसंयुतः ॥
वासिष्ठसंहितायाम्--
२३ - विधिनैव प्रतप्तेन चक्रेणैवांकयेद्भुजम् । तथैव बिभृयात् फाले पुण्डं शुभतरं मुद्रा ॥ बिभृयादुपवीतन्तु सव्यस्कन्धे विधानतः । कण्ठे पद्माक्षमालां तु कौशेयं दक्षिणे करे ।। एभिः चिह्नविना विप्रो न भवेद्धि कथंचन । न भवेत्कर्मणां सिद्धिः वैदिकानां विशेषतः ।। पराशरः- उपवीतं शिखावन्धं विप्रस्य सततं स्मृतम् । उपवीतं शिखाबन्धमूर्ध्वपुण्डं तथैव च । चक्रलांछनहीनस्य विप्रस्य विफलं भवेत् ।। भारद्वाज संहितायाम्- ब्राह्मणः क्षत्रियो वैश्यः शूद्रो नारी तथेतरः । चक्राद्यैः अङ्कयेद्गात्रं आत्मीयस्याखिलस्य च ।। अनिष्ठानां निवृत्यर्थमैकान्त्याय जगत्पतेः सिद्धयर्थ कर्मणां चैव धार्य चक्रादिलांछनम् ॥ बाह्वोर्ललाटे शिरसि हृदये चारयजन्मनः । शङ्खचक्रगदाशाखड्गैर्मन्त्रेण धारयेत् ।। विष्णोरायतनाग्नौ वा गुरोरात्मन एव च । हुते होमादिभिस्तप्तैः स्वरूपरर्चितैः क्रमात् ।। दासभूतं यदात्मानं बुध्येत परमात्मनः । तथैव रात्रं कुर्वीत शङ्खचक्रादिलांछितम् ।। शङ्खचक्रोर्ध्वपुण्ड्राद्यैः चिह्नः प्रियतमैः हरः । रहितस्सर्व धर्मेभ्यः प्रच्युतो नैनमाप्नुयात् ।। चक्रांबुजगदशाखिनेभ्योऽन्यः हरेरपि । न लक्षणैः दहेगात्रं नान्यदग्धोर्हतिक्रियाः ।। लक्षणानि स्फुटान्येव क्रिया सिद्धिकराणि तु । धारयन्नोपहन्येत कदाचित् किंकरादिभिः ।। पाझे- धारयेद्विष्णुभक्तस्तु चक्रं बाहौ तु दक्षिणे। .
-- वामे तु शङ्खराजानं ततोऽयं सिद्धिमाप्नुयात् ।। वाराहे-- वासुदेवांकनं कुर्यात् आत्मनो बाहुमूलयोः । सोऽश्वमेधफलं प्राप्य विष्णुलोके महीयते ॥ गारंडे-- अग्निनैव तु संयुक्तं चक्रमादाय वैष्णवम् । दाहयेत्सर्ववर्णानां हरि सालोक्य सिद्धये ॥ ब्राह्म- यो नरो मम भक्तस्तु मम चिह्नन्तु धारयेत् । श्वपाको वाऽथ गोनो वा मम लोकमवाप्नुयात् ॥ हारीतः- अचक्रधारी विप्रस्तु सर्वकर्मसु गहितः । अवैष्णवत्वमापन्नो नरकं चैव गच्छति ॥ चक्रचिह्नादि रहितं प्राकृतं कलुषान्वितम् । अवैष्णवन्तु तं दूरात् श्वपाकमिव संत्यजेत् ॥ तस्माच्चक्रं विधानेन तप्तं वैधारयेत् द्विजः । सर्वाश्रमेषु वसतां विप्राणां श्रुतिचोदनात् ।। अनायुधास्ते असुरा अदेवा इति वै श्रुतिः । इत्यादि स्मृतीनिहासपुराणवचनानि सन्ति विस्तरभयान्न लिख्यन्ते । अत्रोदाह- नानि वचनानि सच्चरित्ररक्षायां ब्रह्मविद्याविजये प्रमाणसङ्ग्रहे च उदाहृतान्येव । तत्र च पूर्वोदाहृतासु श्रुतिषु- दक्षिणे तु भुजे विप्रो विभृयाद्वै सुदर्शनम्' इत्य- नेन सामान्यतः सुदर्शनादि धारणम् । चक्र विभर्ति वपुषाऽभितप्तमिति श्रुत्या तप्तमद्राधारणम् । एभिर्वयमुरुक्रमस्येति मन्त्रेण पवित्रमित्यग्निरित्य- नेन च, अङ्कनलांछनरूपतया विष्णुपदप्राप्ति ब्रह्मसायुज्यादि प्राप्तफलसंव- न्धितया च सुदर्शनादि धारणं प्रतीयते । तत्र च इति कर्तव्यता रूपतया स्वामौ होमं प्रकुर्वीत इध्माधानादि पूर्वकम् । पौरुषेण तु सूक्तेन पायसं गुडमिश्रितम् ।। आज्यन मूलमन्त्रण हुत्वा चाष्टोत्तरं शतम् । वैष्णव्या चैव गायत्र्या जुहुयात्प्रयतो गुरुः ।।
२५ पश्चादग्नौ विनिक्षिप्य चक्राद्यायुधपञ्चकम् । पूजयित्वा सहस्रारं ध्यायेत्तद्वह्निमण्डले ॥ षडक्षरेण जुहुयात् आज्यं विंशतिसंख्यया । सर्वैश्च हेति मन्त्रैश्चैकैकान्याहुती क्रमात् ।। ततः प्रदक्षिणं कृत्वा स शिष्यो वह्निमात्मवान् । नमस्कृत्य ततो विष्णुं जप्त्वा मन्त्रवरं शुभम् ॥ प्राङ्मुखं तु समासीनं शिष्यमेकाग्रचेतसम् । प्रतपच्छङ्खचक्रादि हेतिभिः मन्त्रमुञ्चरन् ।। दक्षिणे तु भुजे चक्रं वामांसे शङ्खमेव च । गदां फालस्य मध्ये तु हृदये नन्दकं तथा ॥ मस्तके तु तथा शार्ङ्गमङ्कयेद्विमलं तथा । पश्चात्प्रक्षाल्य तोयेन पुनः पूजां समाचरेत् ।। होमशेष समाप्याथ वैष्णवान् भोजयेत्ततः । एवं तापक्रियाःकार्याः वैष्मव्याकलुषापहाः ॥ इत्यादि हारीतादिवचनैः होमपूर्वकमन्त्रसंस्कारादिसंस्कृत चक्रादिधारणस्य वि- हितत्वात् ॥ अतएवोदाहृतवचनेषु- यथा च विधिवत्कृत्वा पञ्चायुधविधानतः । लोहरनलसंततैस्तत्तन्मन्त्राधिवासितैः ।। तत्कर्तव्यं हि सर्वेषां विधिना वै द्विजन्मनाम् । जाते पुत्रे पिता स्नात्वा होमं कुर्याद्विधानतः ।। तस्माञ्चक्र विधानेन तप्तं वै धारयेद्विजः । सर्वाश्रमेषु वसतां स्त्रीणाञ्च श्रुतिचोदनात् ॥ संस्काराः पञ्चकर्तव्या ब्राह्मणस्य विधानतः । हुतामिनैव संन्तप्य सर्वपापापनुत्तये ॥ हुतामितप्तचक्रेण शरीरं यस्य चिह्नितम् ।। इत्यादिभिः वैदिकामौ संस्कृततप्तमुद्राधारणस्य स्वरसत एव प्रतीतेः। श्रुतिस्मृ- तीतिहासपुराणवचननिचयपर्यालोचनेन च 'तप्तमुद्राधारणं विहितमित्येव प्र- तीयते' इदच तप्तमुद्रापारणं ब्राह्मणादि सर्ववर्णधिकारमिति--'दक्षिणे तु मुजे विप्र' इति मन्त्रे विप्रशन्देन, शतपथब्राझने षष्ठखण्डे-'देवा सः पितरो 4 येन वि(ध्याद्यते । बाहुना सुदर्शनं धार्यमिति प्रयाया)तास्वर्गलोकमायन्' इति । येनांकिता मनवो लोकविसृष्टिं वितन्वन्ति ब्राह्मणास्तद्वहन्ति । अग्मिना वै होत्रा तप्तं चक्रं द्विभुजे धार्यम्' । इति ॥ तत्रैवाष्टमखण्डे- 'मनो नन्तानन्तलोके निवसन्ति ब्राह्मणास्तवहन्ति । अग्निना वै हो- त्रा तप्ततनुः' इत्यत्र ब्राह्मणशब्देन च ब्राह्मणानां ये गच्छन्ति हि लांछिता अन्ये पुराणाः स एति नाकमिति विभूयुः ते जना स, इत्येतैस्सर्वेपाञ्च धारण- स्य श्रुतिषु प्रतिपन्नत्वेनोदाहृतस्मृतीतिहासपुराणेषु च ॥ श्रोत्रियो वै विष्णुभक्तः चक्रचिह्नधरो विप्रः । अङ्ग्यविधिवद्ब्रह्मन्नप्रमत्तस्समाहितः॥ वर्णाश्रमेषु निष्ठानां अन्येषां च विशेषतः । दाहयेत्सर्ववांनां हरिसालोक्य सिद्धये ॥ ब्राह्मणस्य विशेषेन वैष्णवस्य विशेषतः । उपवीतादिवद्धार्याः शङ्खचकादयस्तथा ॥ 'ब्राह्मणस्य विशेषेण' इत्यादिभिः ब्राह्मणादि सर्ववर्णाधिकार प्रतीतेः । इयांस्तुविशेषः-- होमपूर्वकतप्तमुद्राधरणं त्रैवर्णिकानामेव । अन्येषां तु ता- न्त्रिकमेव । ब्राह्मणस्य होममन्तरातप्तमुद्राधारणे प्रत्यवायः स्मयते ॥ सर्ववेदविनीतश्च सर्वशास्त्रविशारदः। अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेत् ॥ इत्यनेन । नन्वधृत्वा विधिना चक्रमित्यनेन विधिपूर्वकधारणाभावस्य प्रत्यवाय प्रयोजकत्वं प्रतीयते । होमादिरूपविधानमन्तरातप्तमुद्राधारणस्य प्र- त्यवाय संपादकत्वं न वचनतः प्रतीयत इति कथं प्रकृतोपयोगीदं वचनमि- तिचेत् सत्यम् । होमादिविधानविना तसमुद्राधारणस्य विधिविहितमन्त्रसंस्कारा दिसंस्कृततप्तमुद्राधारणाभावव्याप्यतया प्रत्यवायजनकतथाविधविधिपूर्वकधारणा भावप्रयोजकतया केवलतममुद्राधारणस्यापि प्रत्यवायसंपादकत्वमस्त्येवेति तस्यापि प्रत्यवायसम्पादकत्वस्याक्षुण्णत्वात् ॥ न च विधिविहिततप्तमुद्राधारणाभावस्य प्रत्यवायसंपादकत्वमसिद्धम् । विधिविहितकर्मपरित्यागस्य प्रत्यवायसंपादकत्वस्य वचनसिद्धत्वात् । तथाहि व्यास: नास्तिक्यादथवाऽऽलस्यात् शास्त्रोक्तं न करोति यः । स याविनरकान् घोरांविर्यग्योनिषु जायते ॥
२७ यो यस्य विहितो धर्मः स जातिरिति कीयते । निजधर्मपरिभ्रष्टः सद्यः पतति जातितः ॥ भगवद्गीतायाम्- यश्शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं नपरांगतिम् ।। तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्मकर्तुमिहार्हसि ॥ इति । याज्ञवल्क्य:- विहितस्याननुष्ठानानिन्दितस्य निषेवणात् । अनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति ॥ इति । तथा च ब्राह्मणस्य केवलतप्तशङ्खचक्रादिधारणं प्रत्यवायापादकमेव । अन्यथा ‘तप्तांगा लिखितांगाश्च , इत्यादिवचनानामत्यन्ताप्रामाणतापत्तेः । एतानि वचनानि स्मृतिरत्नाकरे उदाहृतानि ।। रागसन्दग्धगात्राणां न स्यात् पारत्रिकं शुभम् । अङ्कये न दहेदेहं दहेच्चत्कामकारतः ।। नाधिकुवति दग्धांगाः श्रौतस्मार्तेषु कर्मसु । इति । मोक्षप्रयोजनातिरिक्तप्रयोजनोद्देशेन तप्तमुद्राधारणेऽपि प्रत्यवाय एव । पूर्वो- दाहृत सुवर्णरौप्यताम्राद्यैरिति वचनोपात्तसौवर्णादि भगवञ्चिह्नव्यतिरिक्तायसा- दिचिह्वेन धारणेऽपि प्रत्यवायः । शङ्खचक्रं मृदा यस्तु कुर्यात्तप्तायसेन वा। स शूद्रवहिष्कार्यस्सर्वस्मात् द्विजकर्मणः ॥ इति वचनात् । अत्र मृदेत्यनेन ‘पर्वताने नदीतीरे ममक्षेत्रे विशेषतः । सिन्धुतीरे च व- ल्मीके तुलसीमूलमाश्रिते ॥' इत्येतादृशवचनोपात्तमृत्तिकाद्यतिरिक्तमृद् एव ग्रहणम् । तथाचानेकश्रुतिस्मृतीतिहासपुराणादिवचनैः होमपूर्वकतप्तमुद्राधार- णस्य विशेषतो विहितत्वेन 'शङ्खचक्राद्यङ्कनं च ' इत्यादितप्तमुद्राधारणनिन्दा- वचनानां 'न हिंस्यात् सर्वा भूताानि , ' अग्नीषोमीयं पशुमालभेत , इत्यत्र च वेदविहितपश्वालम्भनादिव्यतिरिक्त रागप्राप्तहिंसाऽऽदिपरतया ' नहिंस्यात् , इति वाक्यव्यवस्थितिवत् विधिविहितचक्रमुद्राधारणव्यतिरिक्तामन्त्रकरागप्रा- , २८ - समुद्राधारणनिन्दाऽभिप्रायकतया अन्यथासिद्धत्वम् । 'न हिंस्यात्सर्वाभूतानि , अमीषोमीयम्' इत्यनयोरुसर्गापवादरूपतायाः 'अशुद्धमितिचेत् न शब्दा. न्' इति सूत्रे शङ्करभाष्य एव स्फुटतरमुपपादितत्वात् ॥ विशेषतोऽपि निन्दा- वचनानामन्यथासिद्धिर्वर्ण्यते ॥ यत्तु 'शङ्खचक्राद्यनं च , इति वचनं तत्र च नृत्तगीतादिकम् , इत्यत्र च गतिसामान्यस्य शूद्रधर्मत्वं न सम्भवति । श्रुतिस्मृत्यादिषु ब्राह्मणानधि- कृत्य गानस्य प्रवृत्तः । तथा च छान्दोग्ये - तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयोऽथ य एवं विद्वान् साम गायत्युभौ स गायति ॥ इति यजुषि च- ब्राह्मणो वीणगाधिनी गायतः । श्रिया वा एतद्रूपम् यद्वीणा । श्रियमेवा- न्तर्धत्त इति ।। , याज्ञवल्क्य:-- यथा विधानेन पठन् सामगेयमविच्युतम् । सावधानस्तथाऽभ्यासात्परं ब्रह्माधिगच्छति ।। इति । एतद्वचनव्याख्यानान्तरं विज्ञानयोगिना- 'सामगानाद्यशक्तस्य भगवद्विषय लौकिकगानादिकं कर्तव्यम् , इति । 'अपदां (रा) तकमुल्ला (लो) प्य मद्रक प्रकरौं तथा , इति श्लोकमुदाहत्य विस्तरेण तत्प्रकारमभिधाय 'वीणा- वादनतत्वज्ञः श्रुतिजातिविशारदः । ताज्ञश्चाप्रयासेन मोक्षमार्ग तु गच्छति' इति वचनमुदाहृत्य भरतादिमुनिप्रणीतवीणावादनतत्क्वेदीत्यादिना एतद्वचनस्या- र्थमभिधाय एतदन्ते आत्मैकाग्रतायास्सुकरत्वात् अप्रयासेनैव मुक्तिपदं गच्छ- ति प्राप्नोतीति व्याख्याय अन्ते 'गीतितो यदि योगेन न प्राप्नोति परं पदम् । स्द्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ , इत्याभिहितम् । अतएतद्वचन- घटकगीतशब्दस्य भगवदानव्यतिरिक्तवन्दिवैताळिकादिगानवत् उपजीवनहेतु- भूतराबादिगानपरत्वम् , नृत्तशब्दस्यापि राजादिप्रीतिहेतुभूतखजीविकाहेतुनृत्तप रत्वमकामेनापि स्वीकार्यम् । अन्यथोदाहृतश्रुतिस्मृतिविरोधापत्तेः । तत्स- हपठित 'शङ्कचनाद्यनम् , इत्यंकनशब्दस्यापि पूर्वोदाहृतश्रुतिस्मृत्यादिप्रति- पन्नसंस्कारादिरहितकेवलांकनपरतयाऽन्यथासिद्धत्वेन श्रुतिविहित तासमुद्रादि- २९ धारण बाधकं नेदं वचनम् । 'एकजातेः , इत्युत्तरवाक्येन अवैदिकांकनम्य तद्धर्मत्वेन सर्वसम्प्रतिपत्तेः ।। यत्तु 'यस्तु सन्तप्तशवादि , इत्यादिवचनद्वयं लिङ्गचक्रोभयसमुञ्चय- परम्, तत्तु 'अन्यै न दाहयेद्गात्रं ब्राह्मणो हरिलांछनात् , इति पूर्वोदाहत- हारीतवचनेन भगवद्भक्तस्य भगवल्लांछनव्यतिरिक्तलिङ्गादिचिह्नधारणात्य नि- षिद्धतया प्रत्यवायज्ञापकतया अविधिपूर्वकचक्रादिधारणे च प्रत्यवायज्ञापक- तयाचान्यथासिद्धम् । अनेनैव न्यायेन 'न चक्रांकिततनुर्वाऽपि , इति वचनम प्यविधिपूर्वकचक्रांकनज्ञापकतयाऽन्यथासिद्धम् । ' श्रौतस्मातक्रिय , इति वच- नमपि 'विष्ण्वादिसम्बन्धैः, इत्यत्र तप्तशब्देन 'शङ्खचक्रगदाखड्गशााद- न्यैहरेरेपि , इति वचनात् पञ्चायुधव्यतिरिक्त भगवदायुधतप्तमुद्राधारणस्य- निषिद्धतया प्रतिपदोक्तपञ्चायुधव्यतिरिक्त भगवदायुधतप्तमुद्राधारणे प्रत्यवाय- ज्ञापकतया चरितार्थम् । 'अज्ञानादथवा लोभात् , इति वचनं अज्ञानादि- त्यनेन तन्माहात्म्यज्ञानाभावं लोभादित्यनेन मोक्षव्यतिरिक्तार्थित्वं द्रव्यलोभ वा रागत इत्यनेन मात्सर्यादिकं वा प्रतिपादयत्सदन्यथासिद्धम् ॥ पूर्वोदाहृतवचनेषु आचार्योपसदनतन्माहात्म्यज्ञानादिर्पूवकतया विधि पूर्वकचक्रांकनधारणस्य विहितत्वात् । अननैव न्यायेन ‘भुजाग्रे सलिलेन , इति वचनं हेळनादिपुरस्कारेण चक्राङ्कनधारणं प्रतिपादयत्सदन्यथासिद्धम् । अन्यथा 'लीलयाऽपि लिखेद्यस्तु बाहुमूले सुदर्शनम् । कुलकोटि समुद्धत्य स गच्छेद्वैष्णवं पदम् ॥ , इति तन्माहात्म्यज्ञानपूर्वक रेखादिधारणानिमित्तव.- पुण्यलोकप्राप्तिप्रतिपादकवचनविरोधापत्तेः ॥ 'शङ्ख चक्रं च पद्मं च ' ' अंगेषु नाइयेद्विप्रः , 'नांकयेन दहेगात्रम्। एतद्वचनत्रयं होमादिसंस्कारसंस्कृतचक्रांकनादिव्यतिरिक्तलौकिकाङ्कनादिनिमि- त्तप्रत्यवायपरतया चरितार्थम् । 'नांकयेन्न दहत् , इति यद्बोधायनवचनं तत् बहुषु पुस्तकेषु अङ्कयेन्न दहेहेहम् इत्येव दृष्टम् । अंकयेदिति पाठे तु अंकये- दित्यनेन मन्त्रसंस्कारपूर्वकांकनं विधीयते । न दहेदित्यनेन अमन्त्रकांकन निषिध्यते । 'कामकार , इति तत्रैव श्रुतेः । नांकयेदिति पाठे तु केवलांकन- मेव निषिध्यते । 'न दहेत् , इत्यनेन भगवल्लांछनव्यतिरिक्तायुधदाहादिकं निषिध्यते ॥ यत्तु चक्रोपनिषद्वाक्यम् ' तस्माच्छूद्राणामेव शङ्ख चक्र भुजे धार्यम् , .. - इति तत्तु पूर्वोदाहन 'दाहयेत् सर्ववर्णानां हरिसालोक्यसिद्धये ' इति वचन- बलान् एवकारस्याप्यर्थकतया अन्यथासिद्धम् ॥ 'भूदेव , इति वचनं पूर्वोक्तन्यायनैवान्यथासिद्धम् । 'यानि शा- आणि दृश्यन्ते , इति वचनं प्रकृतनासमुद्रादिधारणविरोधि ने भवति । तद्धा- रणस्य पूर्वोदाहनश्रुतिस्मृतिपुराणवचनसिद्धत्वात् । 'यथा श्मशानग काष्ठम् , इति वचनं पूर्वोदाहतन्यायनेवान्यथासिद्धम् । यत्तु तप्तमुद्रा तु, इति वचनं वत् काशिखण्डे मित्रजिदुपाख्याने- तास्मिन प्रशासंति भुवं संप्राप्ते हरिवासरे। स एव दण्ड्योऽभूत्तस्य राष्ट्रे मित्रजितः क्षितौ ।। यो विष्णुभक्तिरहित: प्राणैरपि धनैरपि । अन्त्यबा अपि तद्राष्ट्र शचक्रांकधारिणः ॥ संप्राप्य वैष्णवी दीक्षा दीक्षिता इव शांभवाः । इत्येतद्वचनसमानार्थकतया अन्त्यजाय इत्यस्याप्यर्थगर्भतया अन्यथासिद्धम् ॥ गोपीचन्दनलिप्ताङ्गः, इत्येतदपि ॥ स्कान्दे काशीखण्डे- शङ्गचक्रांकिततनुस्तुलस्या मञ्जरीधरः । गोपीचन्दनलितांगो दृष्टश्चेत्तदधं कुतः ॥ इति वचनेन गोपीचन्दनधारणस्य पापनिवर्तकतया प्रसक्तिस्तद्धारणस्यान्य- जानामप्युचिततया प्रकृतानुकूलमेव । 'गोपीचन्दनसंलिपफालका येऽन्त्यजा- इत्यर्थकरणे अनेकश्रुतिस्मृतीतिहासपुराणवचन विरोधापत्तेः । परंतु गोपीचन्दनधारणं ब्राह्मणानां तत्तन्मन्त्रादिपूर्वकम् , शूद्रादीनां तु केवलचन्दन- धारणमेवेति प्रतीयते । एतच्च विस्तरतः ऊर्ध्वपुण्ड्रधारणप्रकरणे वक्ष्यते ॥ आयुधः शङ्खचक्राद्यैः , 'दग्धांगाश्चायुधैर्दिव्यैः, 'दग्धांगा लिखि- वाङ्गाश्च , इत्येतद्वचनत्रयं पूर्वोक्तश्रुतिस्मृतिसंप्रतिपन्नवैदिकांकनव्यतिरिक्तांकन धारिनिन्दापरतया अन्यथासिद्धम् ।। यतु 'स्वकर्मत्यागिनो राजन , इति तत् वेदविहिताचारपरित्यागपूर्वक- भगवत्पाञ्चरात्रव्यतिरिक्त नारदपावरात्रोक्तकविपयाचारपरपुरुषनिन्दापरतया अन्ययासिद्धम् ।। वेदमानुसारिभगवत्पाश्चरात्रोक्तकर्मानुष्ठानाक्षणानन्दापरं नमवति । एतच पांचरात्रप्रभेदादिकं पांचरात्रप्रामाण्यविचारप्रकरणे उपपादयि- तयः, .
, . ध्यते ॥ 'अनिमित्तं दहेत् , इति यद्वचनं तदपि वाधकं न भवति । सम- स्तपापनिवृत्तिहेतुतया पूर्वोदाहृतवचनप्राप्तविधिपूर्वकतप्तमुद्राधारणादिरूपनिमि तं विना दाहे प्रत्यवायप्रतीतेः ॥ यत्तु 'अव पतितानाम् ' इति वचन तत्तु कृतापराधनिवृत्तयर्थ तत्त- च्छिक्षाऽनुरोधेन राज्ञा कारयितव्यमिति तत्र तत्र व्यवहारशास्त्रेषु प्रायाश्च- त्तेषु च विहितत्वेन तथाविधांकनपरतयाऽन्यथासिद्धं न प्रकृतविरोधि ।। अत एव हेमाद्रौ- गुरुतल्पे भगः कार्यस्सुरापाने सुराध्वजः । स्तये तु श्वपदं कार्य ब्रह्महत्यां शिरः पुमान् ॥ एवं कृत्वा तु शास्त्रेण निर्वास्यो विषयाहिः । अन्यथा दोषमाप्नोति राज्ञोऽयं धर्म उच्यते ॥ इति अतीव पतितानाम् , इति वचनसजातीयानामन्येषामपीदमेवोत्तरम् । अत्रैव 'ततश्शुद्धं न चांकयेत् , इति पूर्वोक्ताभिप्रायस्मारकम् । 'अध्यापने च इत्यपिवचनं केवलं लांछितम् इति लांछनमात्रज्ञापकं सत् पूर्वोदाहृतन्यायैरेव अन्यथासिद्धम् ॥ यत्त 'शिवकेशवयोः , इति वचनं तत्तु शिवकेशवायुधलांछनसमुच्चया- भिप्रायकत्वे 'चक्रलिङ्गतनुर्द्विजः , इत्यत्र प्रतिपादितन्यायैरेवान्यथासिद्धम् । प्रत्येकाभिप्रायकत्वे तु विधिविहितमन्त्रसंस्काराद्यसंस्कृतचक्रांकननिन्दापरतया अन्यथासिद्धम् ॥ यत्तु 'स्वदेहे परदेहे वा ,इति वचनं तदपि पूर्वोक्तन्यायेनैवान्यथा- सिद्धम् । 'केनचिल्लांछित , इति वचनं विधिविहितचक्रादिधारणनिन्दापरमेव न । किं तु पूर्वोदाहृतहेमाद्रिवचनप्राप्तराजादिलांछितपुरुषसाक्षित्वाभावप्रति- पादकतया अन्यथासिद्धम् । 'श्रौतस्मार्तसमाचार , इति तत्रैव श्रुतेः । भ्र- ष्टस्य तथाविधाचारसाक्षित्वानुपपत्तेः ॥ 'लांछिताश्च न संभाष्याः, इति वचनं 'अतीव पतितानाम् , इत्यत्रोक्तान्यथासिद्धिन्यायेनैव चरितार्थम् । एवं विधिविहिततप्तमुद्रानिन्दावचनानां उत्सर्गापवादन्यायेन सामान्यतो विशे- पतश्चान्यथासिद्धिरेवांगीकर्तव्या । अन्यथा निन्दावचनसद्भावात्रेण तप्तमु- द्राधारणस्याननुष्ठेयत्वे भस्मात्रिपुण्डादिधारणनिन्दावचनसद्भावात्तस्यापि वैदि- कैरननुष्ठेयत्वप्रसक्तर्दुवारत्वात् । तत्रोत्सर्गापवादन्यायेन नहि निन्दान्यायेन वा ३२ २ अधिकारिभेदेन निन्दावचनानामन्यथासिद्धिश्चेत् इहापि उत्सर्गापवादन्यायस्य दर्शितत्वेन विधिविहिततप्तमुद्राधारणप्रशंसापरतया शैववैष्णवादिरूपाधिकारि- भेदेन च विष्णुभक्तैर्धार्यतया तदन्यैः न धार्यमित्यर्थकतया वा नेतुं शक्यत्वेन विधिविहिततममुद्राधारणस्य न कदाऽप्यवैदिकत्वमिति तुल्यमेव ॥ तथा हि भस्मत्रिपुण्ड्रादिधारणनिन्दावचनान्युदाह्रियन्ते । पाझे- कपालकेश भस्मास्थिशक्तिपाषाणधारिणम् 1 त्रिपुण्ड्रधारिणं विप्रं चण्डालमिव संत्यजेत् ॥ कुलीनो ब्राह्मणो विद्वान् भस्मग्राही भवेद्यदि । वर्जयेत्तादृशं देवि मद्योच्छिष्टघटं यथा ।। त्रिपुण्ड्धारणं विद्वान् लीलयापि न कारयेत् । त्रिपुण्ड्रधारणाद्विप्रः पतत्येव न संशयः ।। बालेन्दुवत् क्षत्रियाणां वैश्यानां वर्तुलाकृतिः । त्रिपुण्ड्रं शूद्रकल्पानां विधिरेष सनातनः ।। तामसेषु पुराणेषु मोहनार्थ सुराद्विषाम् । त्रिपुण्ड्धारणं प्रोक्तं तामसैमुनिसत्तमैः ॥ तामसानि पुराणानि दृष्ट्वा मोहाच्च यो द्विजः । त्रिपुण्ड्रधारणं कृत्वा तमस्यन्धे निमज्जति ॥ तिर्यक्पुण्ड्रं न कुर्वीत संप्राप्ते मरणेऽपि च । तिर्यक्पुण्ड्रागतिस्तिर्यक् ऊर्ध्वपुण्ड्रात्तथोर्ध्वगा ।। शस्त्रधार्यस्त्रधारी च धनुर्धारी धनापहः । तिर्यक्पुण्डूधरो विप्रः स चण्डालसमो भवेत् ।। ब्राह्मणः कुलजो विद्वान् तिर्यक्पुण्डधरो यदि । तं गर्दभे समारोप्य राजा राष्ट्रात्प्रवासयेत् ॥ ब्रह्मरात्र- ब्राह्मणस्योर्ध्वपुण्डं स्यात् क्षत्रियस्यार्धचन्द्रकम् । वैश्यस्य वर्तुलाकारं शूद्रस्यैव त्रिपुण्डकम् ॥ वसिष्ठसंहितायाम् - यत्तु रुद्रार्चनं प्रोक्तं त्रिपुण्डू काऽाप सप्तमाः । - ३३ तदब्रह्मण्यविषयं नतु विप्रस्य कस्यचित् ॥ न त्रिपुण्डू द्विजैर्धाय पट्टिकाकारमेव च । नचान्यदेवताभक्तरापद्यपि कदाचन ॥ ब्रह्माण्डे- त्रिपुण्डू शूद्रकल्पानां शूद्राणां च विधीयते । वाराहे गौतमः- शशाप तान् जटामस्मदीक्षाव्रतधरांस्तथा । त्रिपुण्ड्यारिणो नित्यं भस्मोद्धलनतत्पराः ॥ भविष्यथ त्रयीबाह्या मिथ्याज्ञानालापिनः ।। बौद्धे चाप्याहते चैव तथा पाशुपतेऽपि च । शाम्भवे दीक्षिता यूयं भवथ ब्राह्मणाधमाः ॥ हारीते- रुद्रार्चनं त्रिपुण्ड्रस्य धारण यत्र दृश्यते । तच्छूद्राणां विधिः प्रोक्तो न द्विजानां कदा च न ॥ न भस्म धारयोद्विप्रः परमापद्गतोऽपि वा। मोहाद्वै धारयेद्यस्तु स सुरापो भवेत् ध्रुवम् ॥ तिर्यक्पुण्डधरं किं पट्टाकारधरं तथा । श्वपाकमिव नेक्षेत न संभाषेत कुत्रचित् ।। तिर्यक्पुण्ड्रधरं विप्रं यश्श्राद्धे भोजयिष्यति । पितरस्तस्य यान्त्येव कालसूत्रं सुदारुणम् ॥ इत्यादीनि बहूनि निन्दाक्चनानि सन्ति । अत्र हारीतवचनव्यतिरिक्तानि सर्वाण्यपि वैद्यनाथीये उदाहृतानि । भस्मत्रिपुण्ड्रधारण विधायकानि वच- नानि ॥ अथर्वशिरसि- व्रतमेतत्पाशुपतं पाशविमोक्षायानिरिति, भस्म अग्निः अस्मिन् जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् । अर्कस्त्रिधारू रजसो विमानः अग्नि रिति, भस्म वायुरिति भस्मजलमिति भस्मस्थलमिति भस्मव्योमेति भस्मसर्व हव इदं भस्म मन एतानि चक्षुषि करणानि भस्मानि तस्मादमिरित्यादिना भस्म गृहीत्वा विमृज्यांगानि संस्पृशेत् तस्माद्रतमेतत्पाशुपतं पशुपाशक्मिाक्षायेति ।। -- 5 कालाग्निरुद्रोपनिषदि- 'तहोवाच भगवान् कालाग्निरुद्रो यद्रव्यं तदाग्नेयं भस्मसद्योजाता- दि' पञ्चब्रह्ममन्त्रैः परिगृह्याग्निरिति भस्मेत्यनेन चाभिमन्त्र्य मानस्तोक इति समुद्धृत्य जलेन संमृज्य व्यायुषमिति शिरो ललाटवक्षस्स्कन्धेषु त्र्यायषैः त्र्यंब- कैस्तिर्यक् तिखोरेखाः प्रकुर्वीत व्रतमेतच्छांभवमिति बोधायनेनोक्तम् । 'अथा- तो द्विजातीनां त्रिपुण्ड्धारणविधि व्याख्यास्यामो भूत्यै न प्रमदितव्यम, इति विज्ञायते ॥ तथापि उदाहरन्ति- मध्यमाऽनामि कऽङ्गुष्ठैः त्रिपुण्डं भस्मनाकृतम् । तत् त्रिपुण्ड्रं भवेच्छस्तं महापातकनाशनम् ॥ इति अथ त्र्यम्बकमिति सवांगं संस्पृशेत्पूतो भवति । दश पूर्वान् दशा- परान् आत्मानमेकविगंशतिं पङ्गिं च पुनाति ब्राह्मणः सायुज्यं सलोकतामा- प्रोति इत्याह-भगवान् बोधायन इति ॥ क्रियासरे- मध्याङ्गुळित्रयेणैव स्वदक्षिणकरस्य तु । षडङ्गुळायतं मानमथवाऽधिकमानकम् ।। नेत्रयुग्मप्रमाण वा फाले दीप्तं त्रिपुण्ड्रकम् । कदाचिद्भस्सना कुर्यात् सरुद्रो नात्र संशयः ॥ अकारोऽनामिका प्रोक्ता उकारो मध्यमाङ्गुळिः । मकारस्तर्जनी तस्मात् त्रिभिः कुर्यात् त्रिपुण्ड्रकम् ॥ इति । स्कान्दे- भस्मना वै त्रिसन्ध्यश्च तांत्रिकाणां जलैर्युतम् । धार्य त्रिपुण्ड्रं स्त्रीणां च यतीनां जलवर्जितम् ॥ वनस्थव्रतिकान्यानां दीक्षाहीननृणां तथा । मध्याह्वात्प्राग्जलैर्युक्तं परतो जलवर्जितम् ॥ इति वासिष्टलैंगे-- औपासनसमुत्पन्नं गृहस्थानां विशेषतः । समिदग्निसमुत्पन्नं धार्य वै ब्रह्मचारिणाम् ।। बाबमारिणां धारणप्रकारमाह बोधायनः-यस्मिन्ननौ कर्म कृत्वोपति- ३५ -- ष्ठते तस्मात्तूष्णीं भस्मादायतूष्णीमभिमन्व्यामिमृश्य मानस्ताकेति मन्त्रणा दाय धारयेत् । मेधावीति ललाटे तेजस्वीति दक्षिणे बाहौ वर्चस्वीति सव्ये ब्रह्मवर्चसीति हृदये आयुष्मानिति कण्ठे भूयांसं स्वस्तीति सर्वत्रानुषज्यते ।। क्रियासरे-- शूद्रहस्तस्थितं भस्म द्विजाति व धारयेत् । तथैवान्त्यजहस्तस्थं शूद्रैः धार्य न जातुचित् ।। यावन्तः पतिता भूमौ भस्मनः परमाणवः। तावद्वर्षसहस्राणि रौरवं नरकं व्रजेत् ॥ इत्यादीनि सन्ति । अत्र त्रिपुण्डधारणनिषेधवचनानां तद्विधायकवच- नानाश्चोत्सर्गापवादन्यायेन विधिविहितमन्त्रपूतभस्मत्रिपुण्ड्रधारणव्यतिरिक्ता- योग्यभस्मधारणपुण्ड्रनिन्दाभिप्रायकतया बिधिविहितमन्त्रपूतभस्मधारणविधा- यकतया यथा न विरोधः तथाऽनेकश्रुतिस्मृतीतिहासपुराणवचननिचयविहित- तप्तचक्राङ्कनतदतिरिक्तावैदिकायसचक्राद्यङ्कनपरतया विधायकनिषेधकवचनान्यं चाविरोधनयनं युज्यते । अन्यथा निन्दावचनसद्भावमात्रेण तसचकाङ्कनस्य तांत्रिकत्वमवैदिकत्वं वा आपद्येत । भस्मत्रिपुण्ड्रधारणस्य तथात्वमनिवार्यम् । निन्दावचनेषु ' चण्डालः कोटिजन्मसु , 'प्रेयचश्वा भविष्यति, पाषण्ड इत्यादिशब्दः चण्डालत्व, श्वत्व , पाषण्डत्वजात्याकान्तता नैव प्रतीयते ॥ किंतु औपासनपरित्यागी सुरापीत्युच्यते बुधैः । नकर्मा) भवेदत्र शूद्र एव न संशयः ।। इत्यादिवचनेषु औपासनत्यागिनो ब्राह्मणस्य न शूद्रजात्याक्रान्तता नवा सुरापाता परन्तु प्रत्यवाय एव यथा , तथा पूर्वोक्ततादृशवचनेष्वपि प्रत्यवायः प्रतीयत इति वक्तव्यम् । तत्तु द्विजस्यावैदिकांकनधारणे तथा भवत्येवेति सर्वमनवद्यम् ॥ इति श्रीमच्छीनिवासब्रह्मतन्त्रपरकालगुरवरविरचित सुदर्शनपाञ्चजन्यादिधारणनिर्णयःसमाप्तः ।।
!! श्रीमते लक्ष्मीहयवदनपरब्रह्मणे नमः ॥
श्रीमते रामानुजाय नमः
।। श्रीमते निगमान्तमहादोशकाय नमः ॥
श्री रङ्गाचार्यविद्वदनुगृहीतः
..
॥ सुदर्शनवादः ॥
करोतु स्वस्ति नश्चक्र हरेः करविभूषणम् ।
यदकेन जनास्सर्वे मुच्यन्ते सर्वपातकैः ॥
पायादपायादनिशं प्रपन्नान्नस्सुदर्शनम् ।
यत्प्रभावात्पलायन्ते पाषण्डमतमाश्रिताः ॥
अथ तप्तचक्रादिधारणं सर्वाधिकारिकत्वेन सर्वैः कर्तव्यमिति यद्यपि
स्मृतिकौस्तुभ सुदर्शनमीमांसाऽदिषु महता प्रबन्धन परमतनिराकरणपूर्वकं
व्यवस्थापितमेव पूर्वाचार्यः ; तथाऽपि तदनभिज्ञाः केवलरूढिद्विवेदिनामानः
पण्डितमन्या ये केचिदाधुनिकाः वादासमर्थतया भग्नाः दातृपुरनिवासि.
प्रभृतयः स्ववेश्मसु प्रलपान्त तप्तचक्रादिधारण न सर्वाधिकारिकमिति- तन्मु-
खविलाच्छादनाय तप्तचक्रादिधारणं सर्वैरपि कर्तव्यमिति अनन्यपरप्रमाणैः
सङ्घपतो व्यवस्थाप्यते श्रीमद्रामानुजसिद्धान्तनिर्धारणसार्वभौमेन श्रीरङ्गाचा-
र्येण विदुषा ॥
तत्र संशयः- तप्तचक्रादिधारणं सर्वैः कर्तव्यं नवेति । किं युक्तम् ?
न कर्तव्यमिति । कुतः ?
यस्तु संतप्तचक्रादिलिङ्गांकिततनुर्नरः ।
स सर्वयातनाभोगी चण्डालः कोटिजन्मभिः ॥
तं द्विजं तप्तशङ्खादिलिङ्गांकिततर्नु नरः ।
संप्राप्य रौरवं याति यावदिन्द्राश्चतुर्दश ।।
चत्रांकिततनुर्यत्र तत्र कोऽपि न संवसेत् ।
यदि तिष्ठेन्महापापी सहस्रब्रह्महा भवेत् ॥
गङ्गास्नानरतो वाऽपि अश्वमेधरतोऽपि वा ।
शङ्खचक्रांकिततनुं स्पृष्ट्वा रौरवमश्नुते ॥ चक्रांकिततनुं दृष्ट्वा पश्येत्सूर्य जपन्नरः । प्रजपेत्पौरुषं सूक्तमन्यथा नरकं व्रजेत् ।। ब्राह्मणस्य तनुज्ञेया सर्ववेदसमन्विता । सा चेत्प्रतापिता राजनिमं वक्ष्यामहे वयम् ।। शङ्खचक्राद्यनञ्च गीतनृत्तादिकं च यत् । एकजातरयं धर्मो नचायं स्यात् द्विजन्मनः ।। शङ्खचक्रे मृदा यस्तु कुर्यात्तप्तायसेन वा । स शूद्रवदहिष्कार्यः सर्वस्मात् द्विजकर्मणः ।। यथा श्मशानगं काष्टमनहं सर्वकर्मसु । तथा चक्रांकितो विप्रः सर्वकर्मसु गर्हितः ॥ शिवकेशवयोरङ्कान् शूलचक्रादिकान् द्विजः । न धारयेत्तु मतिमान् वैदिके वर्त्मनि स्थितः ।। ब्राह्मणो यदि मोहेन धारयेद्वह्निमुद्रिकाम् । न कर्मा) भवेदन स वै पाषण्डसंज्ञितः ।। प्रतप्तमुद्राऽन्त्यजाय हरिणा निर्मिता पुरा । भूदेवस्तप्तमुद्रां तु चिह्नं कृत्वा विमूढधीः ।। इह जन्मनि शूद्रस्स्यात् प्रेत्य च श्वा भविष्यति । इति विष्ण्वाश्वलायनवायुपुराणादिवचनैः द्विजातीनां तप्तचक्रादिधारणनिषे- धात् ॥ न च 'अनप्ततनूः , इत्यादिश्रुत्या मुमुक्षूणां तप्तचक्रादिधारणं प्रतीयत इति वाच्यम् । अतप्ततनूः , इत्यस्य तप्तं तपः भावे निष्ठा तद्र- हिता तनुर्यस्य स तथोक्त इत्यर्थकत्वेन तस्याश्श्रुतेस्तमचक्रादिधारणाप्रतिपदक- त्वात् । नच तथाऽपि अग्निहोत्रं यथा नित्यं वेदस्याध्ययनं तथा । ब्राह्मणस्य तथैवेदं तप्तचक्रादिधारणम् ।। धृत्वैव विधिवच्चक्र हरेस्तप्तं द्विजोत्तमः कर्म कुर्याद्भगवतः तस्यैवाज्ञामनुस्मरन् । नान्यं देवं नमस्कुर्यात् नान्यं दैवं निरीक्षयेत् । चक्रांकितस्सदा तिष्ठेत्स भक्तः पाण्डुनन्दन ।। , ३८ इत्यादिपाझ हारीत भारतादिवचनैः द्विजातीनामपि तप्तचक्रादिधारणं प्रती- यत इति वाच्यम् । एषां वचनानां पूर्वोक्तवचनविरोधेन द्विजोत्तमपदे द्विज उत्तम इव द्विजोत्तम इति समासाश्रयणेन भाक्तद्विजाधिकारप्रतिपादनपरत्वेन द्विजातिपदाघटितवचनानां एकजातिसङ्करजातिपरतया निर्वाहेण च द्विजत्वा- वच्छेदेन तप्तचक्रादिधारणप्रतिपादकत्वाभावात् । तस्मात् तप्तचक्रादिधारण न सर्वः कामिति प्राप्तेऽभिधीयते- सवैरेव तप्तचक्रादिधारणं कर्तव्यम् । कुतः ? श्रुतिभ्यः । तथाहि ऋचि तैत्तरीयके च पठ्यमानया पवित्रं ते विततं ब्रह्मणस्पेत प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनून तदामोऽनुते श्रितास इद्वहन्तस्तत्समासत, इति श्रुत्या चक्रं विभर्ति वपुषाऽभितप्त बलं देवानाममृतस्य विष्णोः । स एति नाकं दुरिता विधूय प्रयान्ति यद्यतयो वीतरागाः, इत्याथर्वणश्रुत्या चरणं पवित्रं विततं पुराणम्, इत्यादिकया चरणं नो लोके सुधितां दधातु, इत्यन्तया काठकश्रुत्या धृतोर्ध्वपुण्डः कृतचक्रधारी , इत्यादिकया 'परात्परं यन्महतो महा- न्तम् , इत्यन्तया ठकवल्लीश्रुत्या, ‘चमूषच्छयेनश्शकुन , इत्यारभ्य 'तुरीयं धाम महिषो विवक्ति , इत्यन्तया ऋक्सामयोः पठ्यमानया श्रुत्या 'निचि क्षेप सुषेणं भिद्यमानम् , इत्यादिकया 'बिभृयुस्तजनासः , इत्यन्तया बृहदा- रण्यकश्रुत्या 'प्रते विष्णो अब्जचक्रे पवित्रे, इत्यादिकया 'लिङ्गान्यङ्गे तावकान्यर्पयन्ति , इत्यन्तया बढ़चबाष्कलसंहिताश्रुत्या 'एभिर्वयमुस्क्रमस्य चिह्नः , इत्यादिकया 'एभिर्गच्छन्ति लांछिताः, इत्यन्तया आथर्वणश्रुत्या 'दक्षिणे तु भुजे विप्र , इत्यादिकया 'ब्रह्मविदो विदुः , इत्यन्तया महोपनि- पदन्तर्गतब्रह्मसूत्राधिकरणकश्रुत्या 'अग्नि, सहस्रारः । सहस्रारो नेमिः । नेमिना तप्ततनुः , इत्यादिकया 'सलोकतामाप्नोति , इत्यन्तया मैत्रावरुण- शाखाश्रुत्या 'अग्निना वै होत्रा चक्र पाञ्चजन्यं सुतप्तं द्विभुजे धार्यम् , इ- त्यादिकया ' इत्युपनिषत् , इत्यन्तया आथर्वणश्रुत्या 'चक्रमादायाग्नौ ताप्य ब्राह्मणस्य दक्षिणे बाही धारयेत् , इत्यादिकेन 'ब्राह्मणास्तद्वहन्ति , इत्य- न्तन आथर्वणश्रुत्यन्तरेण शतपथब्राह्मणेषु 'अथ कात्यायनेतिहोवाच , इ- त्यादिनवखण्डयधिकरणकैः ‘तप्तचक्रं द्विभुजे धार्यम् , इत्यादिकैर्वाक्यैश्च . .
३९ ब्राह्मममधिकृत्यापि तप्तचक्रादिधारणविधानात् ॥ नच 'अतप्ततनूः, इत्यत्र तप्तपदस्य तपोऽर्थकत्वमेव न दाहार्थक- त्वमिति वाच्यम् । वेदस्य इतिहासपुराणाभ्यां वेदं समुपबृह्मयेत् । बिभेत्यल्पश्रुताद्वेदः मामयं प्रतरिष्यति । इति प्रमाणप्रतिपन्नावश्यकर्तव्यताकापबृंहणत्वेन 'पवित्रं ते, इति श्रुत्यु- पबृहणभूते- पवित्रं ब्रह्मणस्सत्यं जगद्व्याप्तं हरेस्सदा । तेन तप्ता तनुर्येषां ते यान्ति परमां गतिम् ।। इति पाद्मवचनेन योगरूढिभ्यां पवित्रशब्दोपदर्शितसुदर्शनपरामर्शितच्छब्दा- र्थस्य तप्तपदार्थ प्रति करणत्वप्रतीत्या निर्णीतदाहार्थतप्तादिपदघटित श्रुत्यन्तरै कार्येन च दाहार्थकत्वनिर्णयात् तपोऽर्थकत्वे तनुपवैयथ्याच्च । एवमासु श्रुतिषु कासुचित् शाखान्तराधिकरणन्यायेन वाक्यान्तरस्थ. तप्तपदाद्युपसंहारसम्भवात् कासुचित् विधिप्रत्ययाश्रवणेऽपि ' उपांशुयाजम- न्तरा यजति , इत्यादाविव विधित्वप्रयोज्याया अप्राप्तस्सत्वेन 'वचनानित्व- पूर्वत्वात् ' इति न्यायेन विधिप्रत्ययकल्पनया विधायकत्वसम्भवात् । 'विष्णु रुपांशु यष्टव्यः' इत्यादौ विधित्वप्रयोजकाप्राप्त्यभावेन विधिप्रत्ययश्रवणेऽपि विधायकत्वादर्शनात् ॥ कासुचित् अनुवादलिङ्गसत्वेऽपि 'उपरि हि देवेभ्यो धारयति ' इत्य- त्रेव सर्वानुवादलिङ्गभञ्जकाप्राप्तिसत्वेन 'विधिस्तु धारणेऽपूर्वत्वात्' इति न्यायेन विधायकत्वसम्भवाच सर्वासामप्यासां तप्तचक्रादिधारणविधायकत्व- मुपपन्नतमं मन्तव्यम् ॥ नच पूर्वोदाहृतविष्ण्वादिवचनविरोधेन उक्तश्रुतीनां तप्तचक्राधारणवि- धायकत्वसम्भव इति वाच्यम् । समबलयाऽपि श्रुत्या बाधितुमशक्यायाः श्रुतेः दुर्बलया स्मृत्या बाधासम्भवात् । अन्यथा 'न हिंस्यात्सर्वा भूतानि' 'अहिंसा परमो धर्मः' इत्यादिना 'वायव्यग श्वेतमालभेत भूतिकामः' 'चित्रया यजेत पशुकामः' 'अग्नीषोमीयं पशुमालभेत' इत्यादिविधीना मात्रि बाधापत्तिः । नचैवमिष्यते शास्त्रविद्भिः ।। ७ . ननु तमुधिकारिभेदेन तप्तचक्रादिधारणतन्निषेधयोः व्ववस्था कल्पनी- येति चेत्- तहिं उच्यतां कः तप्तचक्रादिधारणाधिकारी ? अब्राह्मण इतिचेत् नहि दक्षिणे तु भुजे विनः , 'चक्रमादायाग्नौ प्रताप्य ब्राह्मणस्य दक्षिणे वाही धारयेन् , इत्यादिश्रुत्या ब्राह्मणमधिकृत्यैव तप्तचक्रादिधारणविधायिन्या विरोधापत्तिः । नच भवन्मतेऽपि ब्राह्मणमात्राधिकारपरतया श्रुत्या विरोधः दुष्परिहरः तप्तचक्रादिधारणस्य सर्वाधिकारिकत्वस्य भवन्मतसिद्धत्वादिति वाच्यम् । इदं शास्त्रमधीयाना ब्राह्मणो वेदपारगः (संश्रितव्रतः) । मनोवाग्देहनित्यं कर्मदोषैर्नलिप्यते ॥ इनि वचनस्थब्राह्मणशब्दस्य 'इदं शास्त्रमधीयानो ब्राह्मणः क्षत्रियो विट् , इति वचनकवाक्यतया त्रैवर्णिकोपलक्षकत्ववत् अग्मिनैव तु सन्तप्तं चक्रमादाय वैष्णवः । दाहयेत्सर्वपापानां हरिसालोक्यसिद्धये ॥ इत्यादिव्यासगारुडवचनैः एवं तदीया विप्राश्च क्षत्रिया वैश्यजातयः । स्त्रियश्शूद्रास्तथैवान्ये न तञ्चिह्नविवर्जिताः ।। भवेयुस्सर्वदा तस्माच्छङ्कचक्रगदांबुजैः । लोहरनलनसन्तप्तः तत्तन्मन्त्राधिदेवतैः ॥ पूजितः पुष्पगन्धाद्यैः अंकितव्यास्तु लक्षणैः ।। इत्यादिपरमेश्वरसंहितावचनेन, ताशेरेव स्त्रियश्शूद्रास्तथा चान्ये , इत्यत्र मौद्गव्याद्यास्तथाचान्ये , इति चरणघटितेन पराशरवचनेन तस्मात्सुदर्शन चक्रं प्रतप्तं धारयेत् द्विजः। कमसिद्धयै विशेषेण तदास्यैककलामयः ॥ इत्यत्रिस्मृतिवचनेन ब्राह्मणः क्षत्रियो वैश्यः शुद्रो नारी तथेतरः । इति भरद्वाजवचनन, तस्माञ्चक्र विधानेन प्रतप्तं धारयेत् द्विजः। सर्वाश्रमेषु वसतां स्त्रीणांच श्रुतचोदनात् ॥ इति हारीतवचनेन .. .
, गरुत्मानुवाच- चक्रादिधारणं देव घोरसंसारतारणम्। अत्राधिकारण ब्रूहि विधेः के वाऽधिकारिणः ।। श्रीभगवानुवाच गरुत्मन्नविशेषेण सर्ववर्णेष्वयं विधिः । वहस्व नित्यमेव त्वं मम प्रीतिकरं शुभम् ।। विप्रोवा यदिवा क्षत्रः वैश्यश्शूद्रस्तथैव च । अन्ये संकरजाताश्च तप्तचक्रादिधारिणः ॥ इति विहगेश्वरसहितावचनेन, अन्यैश्च चतुर्णामपि सामान्य विष्णोश्चक्रस्यधारणम् । इत्यादिवचनैरेकवाक्यतया तप्रचक्रादिधारणपरश्रुतिस्थविप्रादिपदस्य ब्राह्मणादि- सकलतदधिकार्युपलक्षकत्वेन विरोधाभावात् ।। ननु तथाऽपि द्विजोत्तमपदे द्विज उत्तम इव द्विजोत्तम इति समा. साश्रयणेन भाक्तद्विजो धारणेऽधिकारी, निषेधे तु मुख्यद्विज इति व्यवस्था इति चेत् - विनिगमकाभावात् विशेषवाचकपदस्य लक्षणादिनाऽन्यपर- त्वकल्पनाऽपेक्षया सामान्यवाचकपदस्य विशेषे पर्यवसानस्यैव न्यायसिद्ध त्वेनोचितत्वाच्च तप्तचक्रादिधारणनिषेधकवचनस्थ द्विजातिपदस्यैव भाक्तद्विजा तिपरत्वं कुतो नानुमन्यसे ? किं च उपमानत्वावच्छेदकावच्छिन्नप्रतियोगि ताकभेदमात्रतात्पर्यकोपमानदृष्टचरी सामान्यधर्मबोधनद्वारा सहृदयहृदयाहा- दस्यैव तत्फलत्वादित्यादिदोषापत्तिः ॥ अस्तु वा यथाकथञ्चित् । तथाऽपि निरुच्यतां किं भाक्तत्वं किंवा मुख्य- त्वम् ? नहि ब्राह्मणादीनां ब्राह्मणत्वादिजात्या मुख्यत्वभाक्तत्वे सम्भवतः । ययोर्येन रूपेण साजात्यं तयोस्तेन रूपेण मुख्यत्वभाक्तत्वयोर्वक्तुमशक्यत्वात् । अन्यथा साजात्यस्यैव भङ्गापत्तेः । नच मुख्यत्वं स्ववर्णाश्रमविहितयावत्कर्मकर्तृत्वं तच्छ्न्यत्वं तु भाक्तत्व- मिति वाच्यम् । तथा सति आधुनिकानां सर्वेषामाप भाक्ततया निषेधाधि- कारिणो दुर्लभत्वापातात् । वस्तुतस्तु शङ्खचक्रोर्ध्वपुण्डादिरहितो ब्राह्मणाधमः । 6
४२
स जीवन्नेव चण्डालः सर्वकर्मबहिष्कृतः ॥
विना यज्ञोपवीतेन विना चक्रस्य धारणात् ।
विना द्वयेन वै विप्रः चण्डाल्त्वमवाप्नुयात् ॥
उपवीतं शिखाबन्धमूर्ध्वपुण्डू तथैव च ।
चक्रलांछनहीनस्य विप्रस्य विफलं भवेत् ॥
इत्यादिपराशरवचनैः
अधृत्वा वैष्णवं चक्रं यत्कर्म क्रियते नरैः ।
तत्सर्व राक्षसैर्नीतं इष्टापूर्न द्विजोत्तम ॥
इंति अत्रिवचनेन
अचक्रधारी यो विप्रः बहुवेदश्रुतोऽपि वा ।
स जीवन्नेव चण्डालः मृतश्वानोऽभिधीयते (भिजायते) ।।
अचक्रधारी विप्रस्तु सर्वकर्मसु गर्हितः ।
अवैष्णवत्वमापन्नो नरकं चाधिगच्छति ।।
चक्रादिचिह्नरहितं प्राकृतं कलुषान्वितम् ।
अवैष्णवं तु तं दूरात् श्वपाकमिव सन्त्यजेत् ।।
शङ्खचक्रोर्ध्वपुण्ड्रादिरहितो ब्राह्मणाधमः ।
प्रच्युतस्सर्वधर्मेभ्यो निरयं गच्छति ध्रुवम् ॥
हित्वा यज्ञोपवीतं तु हित्वा चक्रस्य धारणम् ।
हित्वा शिखोर्ध्वपुण्ड़े तु विप्रत्वादश्यते ध्रुवम् ।।
इत्यादिहारीतवचनैः
अधृत्वा विधिवच्चक्र यदि कर्म समाचरेत् ।
निष्फलं तु भवेत्सर्वमिष्टापूर्त द्विजोत्तम ॥
इत्यादिवसिष्ठवचनैः
ऊर्ध्वपुण्ड्रं शिखाबन्धमुपवीतं सुशोभनम् ।
चक्रलांछनहींनस्य विप्रस्य विफलं भवेत् ।।
इति वृद्धमनुवचनेन
शङ्खचक्रोर्ध्वपुण्ड्रादिचिह्नः प्रियतमैहरेः ।
रहितः सर्वधर्मेभ्यः प्रच्युतो नैनमानुयात् ॥
४३ इत्यादिभारद्वाजवचनेन शङ्खचक्रोर्ध्वपुण्ड्रादिचिह्नः प्रियतमैहरेः । रहिता ये द्विजा देवि ते वै पाषण्डिनस्स्मृताः ।। ऊर्ध्वपुण्ड्रविहीनो यः शङ्खचक्रविवर्जितः । तं गर्दभे समारोप्य बहिष्कुर्यात्स्वपट्टणात् ।। इत्यादिपाद्मादिवचनैश्च तप्तचक्रावधारणे बहुदोषप्रतिपादनेन तस्य नित्यत्वात् मुख्यभाक्तविभागेन व्यवस्था न शक्यकल्पना ॥ नचैतद्वचनैस्सामान्यतश्चक्राद्यधारण एव प्रत्यवायः प्रतिपाद्यते, नतु तप्त- चक्राद्यधारणे, तप्तादिपदाभावात् । तथा च शीतलचक्रादिधारणेनापि प्रत्य- वायपरिहारस्सम्भवतीति वाच्यम् । तप्तचक्रादिधारणविधायकोपक्रमानुरोधे- नैव उपसंहारस्थतद्वाक्यार्थवर्णनस्य उपक्रमाधिकरणराद्धान्तसिद्धत्वात् । एषां वचनानां तप्तचक्रादिधारणपरप्रकरणसंवलितत्वेन तप्तचक्रादिधारणपरत्वस्य प्रकरणसंवलनन्यायसिद्धत्वात् सर्वशाखाप्रत्ययमकं कर्मेति न्यायेन एकस्य तप्तचक्रादिधारणकर्मणः तद्विधायकनानाविधवाक्यगतेतिकर्तव्यताकलापोपसं- हारेण अनुष्ठेयतया तप्तपदाद्युपसंहारस्यावर्जनयित्वात् । सामान्यवाचकपदस्य विशेषे पर्यवसानस्य ‘पशुना यजेत' इत्यादौ जमिनिना 'छागो वा मन्त्र- वर्णात् ' इत्यादिना निर्णीतसामान्यविशेषन्यायसिद्धत्वेन चक्रादिपदस्य तप्त- चक्रादपरत्वाच्च उदाहृतानामुदाहरिष्यमाणानां च सर्वेषां वचनानां तपच क्रादिधारणपरत्वेन शीतलचक्रादिधारणे प्रमाणाभावात् ॥ नच कृष्णायुधांकितो देहे गोपीचन्दनमृत्स्नया । प्रयागादिषु तार्थेषु स गत्वा किं करिष्यति ।। इति वराहपुराणीयवचनमेव प्रमाणमिति वाच्यम् । तत्र तच्छब्दश्रवणेनान्व यानुपपत्त्या च यस्येतिपदस्याध्याहार्यनया तद्वचास्य विद्वद्वाक्यवत् अनुवाद- रूपतया विधिसाकाङ्कत्वात् सामान्यवाचकपदस्य सति विशेषे तत्पर्यवसा- नस्य न्यायसिद्धत्वाच्च ॥ स्त्रीशूद्राणां सदा धार्य चन्दनेन सुगन्धिना । बाहुमूले लिखेच्चक्रम्- इत्यादितद्विधायकपाद्मवचनेन तद्वचनस्य स्त्रीशूद्रपरत्वात् । अन्यथा ‘तप्तं तु ४४ ब्राह्मणस्यैव , , तमेनैवांकनं कुर्यात् ब्राह्मणस्य विशेषतः । श्रौतस्मादिसिद्धयर्थ मन्त्रसिद्धथै तथैव च ।। इति तदुत्तरवचनेन 'श्रुतमेवाकयेत् , इत्यादिहारीतादिवचनेन विरोधापनिः। स्त्रावधारणेन ब्राह्मणस्यातमचक्रादिधारणनिषेधान् । नच तर्हि स्त्रीशद्रयोः तसचक्रादिधारणे अधिकारो न स्यादिति वाच्यम् । अयेत्तप्तचक्रावैरात्मनो बाहुमूलयोः । कब्जापत्यभृत्येषु पश्वादिषु च मुक्तये ॥ इत्यादितत्रत्येनैव वचनेन ब्राह्मणः क्षत्रियो वैश्यः शूद्रो नारी तथेतरः । स्त्रीणां च श्रुतिचोदनात्, 'वैश्यश्शूद्रस्तथैवच , 'अन्ये सङ्करजाताश्च इत्यादिभिः सर्वेषां तमचक्रादिधारणविधायकवचनैः नीशूद्रयोरपि तप्तचक्रादि- धारणेऽधिकारे सिद्धे विकल्पस्याष्टदोषदुष्टत्वेनान्याय्यत्वात् गुरावधायकशा- स्त्रस्याप्रामाण्यापत्तिमिया गुरुलघुविकल्पस्यासम्भवाञ्च समुञ्चयस्यैव स्त्रीशूद्र- विषये उरीकर्तव्यत्वात् ॥ एवं सचक्रादिधारणस्य क्षेत्रविशेषाधिकरणकत्वप्रतिपादकानामन्यः निषेधप्रतिपादकानामपि वचनानां 'जाते पुत्रे पिता सात्वा , 'प्रामे व यदि वाऽरण्ये, इत्यादिबहुप्रमाणविरोधेन ‘नहिनिन्दा' न्यायेन च उदिता- नुदितहोमस्थलवत् क्षेत्रविशेषप्रशंसापरत्वमेव । तदीप तप्तचक्रादिधारणपद्धः त्युक्तेतिकर्तव्यताकलापसम्भवे बोध्यम् ।। अन्यथा 'विधिना वैष्णवं चक्रम तस्माचक्र विधानेन' विधिना धारयेदेवम् ' 'तस्मात्तु विधिवश्चक्रम् तस्माद्वै विधिवद्धार्या' 'अक्योद्विधिषद्ब्रह्मन्' इत्यादि बहुप्रमाणविरो धापत्तिः ॥ यतु -दीक्षाकाले शीतलचक्रादिधारणं कार्यम्, कालान्तरे गुर्वा झया द्वारकायामेव तप्तचक्रादि धार्यम् । द्वारकां गन्तुमसमर्थेस्तु शीतल चायव धार्यम् । समथैस्तु द्वयमापि धार्यमिति तदसत् । ब्राह्मणान शीतलचक्रादिधारणे प्रमाणमेव नास्तीति व्यवस्थापितत्वात् । वसिष्ठान्मुनिशार्दूलात् दिलीपप्रमुखा नृपाः ।
४५ धारयिष्यन्ति भूलोके महाशस्त्रं सुदर्शनम् ॥ रामो राजीवताम्राक्षो भूत्वा दशरथात्मजः । धृत्वा ततायी मुद्रां देवकार्य करिष्यति । इत्यादिपाश्चरात्रान्तर्गत सुदर्शनगीतादिवचनैः अन्यैश्च स्कान्दादिवचनैः द्वार- काशून्यकालेऽपि तप्तचक्रादिधारणप्रतिपादनेन तदसङ्गतत्वापत्तेश्च । न च तथा सति द्वारकायाः नित्यत्वात् न तच्छून्यकालप्रसिद्धिरति वाच्यम् । द्वारकायाः विश्वकर्मनिर्मितत्वप्रतिपादकप्रमाणविरोधात् । नच सा भिन्नति वाच्यम् । द्वारकाद्वये प्रमाणाभावात् ।। किंच दीक्षाकाले शीतलचक्रादि धार्यमित्यापि न सङ्गच्छते । अचक्रधारिणं विप्रं योऽध्यापयति देशिकः । शिष्येण नरकं याति कल्पकोटिशतं द्विजः ॥ तस्मात्तापादिसंस्कारात्सर्वमन्त्राननुत्तमान् । अध्यापयेद्गुरुस्सम्यक् अन्यथा नरकं व्रजेत् ॥ इत्यादिपराशरवचनैः 'तापादिपञ्चसस्काराः' इत्यादिना महताप्रबन्धन तन- चक्रादिधारणं विधाय, मन्त्रापदेशविधायकैः- अचक्रधारिणं विप्रं मन्त्रमध्यापयेत्तु यः । रौरवं नरकं याति चाण्डाली योनिमाप्नुयात् ॥ तस्मादीक्षाविधानेऽपि शिष्य भक्तिसमन्वितम् । मन्त्रमध्यापयद्विद्वान् वैष्णवं पापनाशनम् ॥ इत्यादेहातिवचनैः, तथैव तापः पुण्ड्रस्तथा नाम मन्त्रो यागश्च पञ्चमः । अमी च पञ्चसस्काराः पारमैकान्त्यहेतवः ।। तापयि यन् गुरुश्शिष्यं चक्राद्यैर्हेतिभिहरेः । पुण्येऽह्नि नियतः स्नात्वा स्रातं मन्त्रजलाप्लुतम् ।। इत्यादितप्तचक्रादिधारणविधायकप्रकरणोत्तरैः ततश्च व्यापकान्मन्त्रानन्यांश्चांगैस्समन्वितान् । दत्वाऽस्मै पुनरेवैनं गृहीत्वा वृत्तिमादिशेत् ॥ मन्त्रसंस्कारयुक्तस्य नचेत्तापादिकं तदा । , ४६ परमाख्या भवेच्छान्तिरविभागे सतामपि ॥ अपिचेल्सवनपरो नचेत्तापादिसंस्कृतः । अनर्चाऽर्हतया विष्णोर्दास्यात्प्रच्यवते ध्रुवम् ॥ इत्यादिभरद्वाजवचनैः अन्यैश्च वसिष्ठादिवचनैः तापसंस्कारं विना मन्त्रसं कारकरणे बहुदोषप्रतिपादनेन मन्त्रादिसंस्कारस्य तापसंस्कारपूर्वकत्वनिय- मेन दक्षिाऽऽदिकाले अवश्यं तप्तचक्रादेरेव धार्यतया शीतलचक्रादिधारणे प्रमाणाभावात् ॥ आप च कालान्तरे गुर्वाज्ञया द्वारकायामेव तप्तचक्रादि धार्यमि- त्याप न सङ्गच्छते। चक्रं वै कर्मसिद्धयर्थ जातकर्मणि धारयेत् । मन्त्रसंस्कारसिद्धयर्थ मन्त्रदीक्षाविधौ तथा ॥ उद्वाहसमये स्त्रीणां पुंसां चैवोपनायने । चक्रस्य धारणं प्रोक्तं मन्त्रैः पञ्चायुध (नि) स्य वा ।। इत्यादिपराशरवचनैः चक्रस्य धारणे कालं ब्राह्मणानां विदुर्बुधाः । जातकर्मणि वै कुर्यादत्र चक्रादिधारणम् ॥ इति शेषः । चौलोपनयनेऽपि वा मन्त्राध्ययनकाले वा चक्र धार्य विधानतः । तथा- जातकर्मण्यभावे तु विष्णोश्चक्रादिधारणम् । षष्ठयर्थे प्रथमा । चौलोपनयने वाऽपि तन्मन्त्राध्ययनेऽपि वा । विधिना वैष्णव चक्र धारयित्वा द्विजोत्तमः ॥ कर्म कुर्यात्ततः पश्चात् श्रौतं स्मात विधानतः । इत्यादिवसिष्ठवचनैः तेनाग्निनैव सन्तप्तं चेक्रण भुजमूलयोः । अङ्कयित्वा शिशोः पश्चान्नाम कुर्याच्च वैष्णवम् ॥ तथा-मन्त्रग्रहणकाले तु विष्णोः पञ्चायुधानि च। धारयेद्विधिवद्विप्रः होमं कृत्वा सदक्षिणम् ॥ इत्यादिवृद्धमनुवचनैश्च जातकर्म नामकरण चौलोपनयन मन्त्राध्ययनान्यतम- कालस्यैव तप्तचक्रादिधारणकालत्वप्रतिपादनेन कालान्तरे तद्धारणे प्रमाणामा भावात् ॥ नचैतद्वचनैः जातकर्मादिकाले तप्तचक्रादिकं कर्मादिसिद्धयर्थतयैव धा- यमिति प्रतीयते न मोक्षार्थतया । तथा च मोक्षार्थत्या कालान्तरेऽपि द्वार- कायां तप्तचक्रादिधारणं युज्यत एवेति वाच्यम् । तप्तादिधारणस्य साक्षान्मोक्षा- नुपायत्वात् । अन्यथा ' तमेवं विद्वानमृत इह भवति नान्यः पन्था अय- नाय विद्यते' भक्त्या परमया वाऽपि प्रपत्त्या वा महामते । प्राप्यो ऽहं नान्यथा प्राप्यः' इत्यादिबहुप्रमाणविरोधः । तथा च कर्मयोगादेर्यथा भाक्तयोगद्वारा मोक्ष पायत्वं तथा तप्तचक्रादिधारणस्यापि कर्मादिसिद्धिद्वारैव माक्षोपायत्वं स्वीकर्तव्यमिति मोक्षार्थतया कालान्तरे तप्पचक्रमादधारणे माना भाव एवेत्यादिकं बहुतरमूहनीयम् ॥ ननु तथाऽपि वैष्णवसंप्रदायवतां ब्राह्मणानां तप्तचक्राधिारणे अधिकारः तद्रहितब्राह्मणानां तु तनिषेधे अधिकार इति व्यवस्थाऽस्त्विति चेत्-न । तस्माच्च वैष्णवा विप्राः प्रकृत्या द्विजसत्तमाः । अवैष्णवत्वं विप्राणां महापातकसम्मितम् ।। अवैष्णवस्तु यो विप्रः सर्वकर्मसु गर्हितः । रौरव नरकं प्राप्य चाण्डाली योनिमाप्नुयात् ॥ अवैष्णवत्वं विप्राणामात्मनाशाय कारणम् । तस्मात्तु वैष्णवत्वं वै विप्राणां श्रुतिचोदितम् ।। नित्यं नैमित्तिकं काम्यं त्रिविधं श्रुतिचोदितम् । अवैष्णवानां विप्राणां कर्म तनिष्फलं भवेत् ।। इत्यादिवसिष्ठस्मृतिवचनैः अवैष्णवत्वं विप्राणां अब्रह्मण्यमिति स्मृतम् । अवैष्णव ब्राह्मणं तु श्वपाकमिव संत्यजेत् ।। इत्यादिवसिष्ठसंहितावचनैः क्रतुसाहस्रिणं वाऽपि लोके विप्रमपापिनम् । चण्डालमिव नेक्षेत वर्जयेत्सर्वकर्मसु ॥ शङ्खचक्रविहीनास्तु देवतान्तरपूजकाः ।
द्वादशीविमुखा विप्राश्शैवाश्चावैष्णवास्स्मृताः ॥ अवैष्णवस्स्यायो विप्रो बहुवेदश्रुतोऽपि वा। स जीवन्नेव चण्डाल: मृतश्श्वानोऽभिजायते ॥ इत्यादिभिः हारीतादिवचनैश्च ब्राह्मणस्यावैष्णवत्वे बहुदोषप्रतिपादनेन ब्राझ णत्वस्य वैष्णवत्वव्याप्यतायाः प्रमाणानुमतत्वात् वैष्णवावैष्णवब्राह्मणविभ गेन व्यवस्थाऽनुपपत्तेः ॥ एवं च रामार्चनचन्द्रिकाग्रन्थस्यापि सर्वैरपि ब्राह्मणैः वैष्णवसं. प्रदायस्यैवानुसतव्यतया संप्रदायानुरोधेन सर्वैरपि ब्राह्मणैस्तप्तचक्रादिधारणं कर्तव्यमित्यभिप्रायः ॥ नच- 'ब्राह्मणस्य विशेषेण वैष्णवस्य विशेषतः' इति पाद्मादिवच- नेषु ब्राह्मणस्य पृथग्रहणात् अवैष्णवस्यापि ब्राह्मणत्वं प्रामाणिकमिति वाच्यम् तयाऽपि तद्वचनस्य तप्तचक्रादिधारणविधायकत्वेन अवैष्णवेनापि ब्राह्मणेन वाचनादिधारणस्य कर्तव्यतया तदनधिकारासिद्धेः ॥ वस्तुतस्तु पृथग्रहणमवैष्णवस्य ब्राह्मणत्वं नावमगमयति उक्तस्मृत्यादि विरोधात् । अपि तु आहितामयनृतवादनिषेधवत् आत्रेयब्राह्मणहनननिषेधवञ्च ब्राह्मणस्य तप्तचक्रावधारणे अब्राह्मणापेश्चया प्रत्यवायाधिक्यमेवावगमयति ॥ यत्तु त्रिपुण्ड्रोर्ध्वपुण्ड्र भस्म शीततप्तशङ्खचक्रादिकं यथाऽऽचारं धार्य- मिति व्यवस्थेति, तत् अनधीतवेदतया अनधिगतवैदिकावैदिकाचारवि- भागस्य यथेच्छाचरणेनोदरंभरेः कुतर्ककल्पितमेवेति सन्तो नाद्रियन्ते । तथा हि- यत्र कर्मणां प्रामाणिकविकल्प प्रमाणाविरुद्धं वाऽनुष्ठानं तत्रैव यथाऽऽचारं व्यवस्था न सर्वत्र । तथा सति श्रुतिस्मृत्यादिविरुद्धस्य पर- दारगमन सुरापानादेः आचारप्राप्तत्ववादिनः कथं पराजिताः स्युः ? तया च प्रकृते ब्राह्मणस्य भस्मत्रिपुण्ड्रादिधारणे ऊर्ध्वपुण्ड्रतप्तचक्राद्यधारणे प्रत्यवायश्रवणेन ब्राह्मणैः भस्मत्रिपुण्डादिकं परित्यज्यावश्यमूर्ध्वपुण्ड्र तप्त- चादेरेव धार्यतया यथाचारं व्यवस्थायाः असम्भवात् ॥ तथा हि महोपनिषदि- 'धृतोर्ध्वपुण्ड्रः परमीशितारम्' इत्यादि, अथ- चणि- 'हरेः पादाकृतिमात्मनो हि-कायमध्ये छिद्रमूर्ध्वपुण्ड्रम्' इत्यादि श्रूयते ॥
४९ -- ब्रह्मरात्रे- ब्राह्मणस्योर्ध्वपुण्डं स्यात् क्षत्रियस्यार्धचन्द्रकम् । वैश्यस्य वर्तुलाकारं शूद्रस्यैव त्रिपुण्डूकम् ॥ त्रिपुण्ड्रं ब्राह्मणो विद्वान् लीलयाऽपि न धारयेत् । धारयेत्प्रयतस्सम्यगूर्ध्वपुण्ड्रं प्रयत्नतः ॥ ब्राह्मणेन न कर्तव्यं तिर्यक्पुण्ड्रस्य धारणम् । स शूद्र इति मन्तव्यः तिर्यक्पुण्ड्रस्य धारणात् ॥ इति वृद्धजाबाल- शस्त्रधार्यत्रधारी च धनुर्धारी धनापहः । त्रिपुण्ड्धारी यो विप्रः स चण्डालसमो भवेत् ।। इति पराशर:- अच्छिद्रमूर्ध्वपुण्ड्रं तु त्रिपुण्ड्रं यस्तु धारयेत् । स जीवन्नेव शूद्रत्वं आशु गच्छत्यसंशयः ।। कपाल केश भस्मास्थि शुक्तिपाषाणधारिणम् । त्रिपुण्ड्रधारिणं विप्रं चण्डालमिव संत्यजेत् ।। अग्निदं गरदं चैव लिङ्गपाषाणधारिणम् । तिर्यक्पुण्ड्रं नृपो विनं स्वराष्ट्राद्विप्रवासयेत् ॥ तस्मात्तु ब्राह्मणो नित्यमूर्ध्वपुण्ड्रं हि धारयेत् । इति हारीत:-- न भस्म धारयद्विप्रः परमापद्गतोऽपि वा। मोहेन बिभृयाद्यो वै स सुरापो भवेद्धृवम् ॥ तिर्यङ्नधारयेत्पुण्ड्रमापद्याप कदाचन । तिर्यक्पुण्ड्रधरं विप्रं चण्डालमिव संत्यजेत् ॥ इति वसिष्ठः-- तस्मात् त्रिपुण्डू विप्राणां न धार्य मुनिसत्तमाः । यद्यज्ञानाच बिभृयुः पतितास्ते न संशयः ॥ इति पाझे- ब्राह्मणः कुलजो विद्वान् भस्मधारी भवेद्यादि । 7 ५० ता शं वर्जयेदेवि मद्योच्छिष्टघटं यथा ॥ इति एवमन्यान्यपि बहूनि त्रिपुण्ड्रभस्मादिधारणनिषेधोर्ध्वपुण्ड्धारणप्रति- पादकानि वचनानि सन्ति । ग्रन्थविस्तरभयान्नेहोदाह्रियन्ते । नच येषां भस्मनि विद्वेषो वर्तते हृदये सदा । संकीर्णा सा भवेद्ब्रह्मन् एषां वंशपरम्परा || त्रिपुण्डं धारयेद्भक्त्या मनसाऽपि न लयेत् । त्रिपुण्डू परमं पुण्यं ब्रह्मविष्णुशिवात्मकम् ॥ इत्यादिलङ्गनारदीयादिवचनैः भस्मात्रिपुण्डादिधारणमापि प्रतीयतइति वाच्यम् । पार्वत्युवाच- मगवन् परमं गुह्यं पृच्छामि सुरसत्तम । मयि प्रीत्या समाचक्ष्व संशयो वर्तते भृशम् ॥ कपालभस्मचास्थिधारणं श्रुतिगर्हितम् । यत् त्वया धार्यते देव गर्हित केन हेतुना ॥ इत्यारभ्य इयं देवहितार्थाय वृत्तिवेदविगर्हिता । विष्णोराज्ञां पुरस्कृत्य कृतं भस्मास्थिधारणम् ॥ बाह्याचितमिदं देवि मोहनार्थ सुरद्विषाम् । इत्यन्तेन पायोचरखण्डाधिकरणकोमामहेश्वरसंवादीयेन महता प्रकरणेन, तामसेषु पुराणेषु मोहनार्थ सुरद्विषाम् । त्रिपुण्डधारणं प्रोक्तं तामसर्मुनिसत्तमैः ।। असुराणां मोहनाय त्रिपुण्डूं विहितं पुरा। त्रिपुण्डं तु न कुर्वीत संप्राप्ते भरणेऽपि च ॥ इत्यादिवचनैश्च भस्मत्रिपुण्ड्रादिधारणपराणां वचनानामसुरमोहनार्थत्वेन ताम- सत्वप्रतिपादनात् तेषामप्रामाण्यात् ।। ननु तर्हि ब्राहियवयोरिव तप्तचक्रादिधारणतनिषेधयोः विकल्प एव उरीक्रियतामिति चेत्- न। यत्रैककार्यावच्छेदेन युगपत् समसाधनद्वयस्य प्राप्तिस्तत्रैव विकल्पः । अन्यथा अग्नीषोमीयाश्वमेधयोरपि विकल्पस्स्यात् । प्रकृते च धारणाविधिकले मोक्षादौ न तनिषेधस्य साधनत्वेन प्राप्तिः तथा सति दास्वरूपे वाचकादिधारणे न कोजप प्रवर्ततेति विधेरननुष्ठापकत्वल- ५१ क्षणाप्रामाण्यापत्तथा साधु विकल्पस्समर्थितस्स्यात् । षोडशिग्रहणाग्रहण विकल्पोक्तेस्तु यदा यागः शीघ्र समापनीयः अल्पीयान् वा सोमरसः तदा षोडश्यग्रहणेऽपि न तोर्वैगुण्यम् । अन्यथा तु गृहीतव्य इत्यभिप्राय इति न तत्र विधेरननुष्ठापकत्वलक्षणाप्रामाण्यम् । प्रकृते च निरुक्तरीत्या तप्तच- क्रादिधारणस्य नित्यतया न केनाप्यप्रामाण्यव्यवस्थासम्भवः ।। यत्तु 'अग्निहोत्रम्' इत्यादिपाद्मवचने अग्निहोत्र वेदाध्ययनोपमान- व्यभिचारेणोपमेयव्यभिचार इति न तप्तचक्रादिधारणं नित्यम् अन्यथा अग्नि- होत्रवेदाध्ययनरहितब्राह्मणोऽपि विरुद्धस्स्यादिति-तन्न । आग्निकार्यात्परिभ्रष्टाः संध्योपासनवर्जिताः । वेदं चैवानधीयानाः सर्वे ते वृषलास्स्मृताः ।। इत्यादिपराशरादिवचनैः अकरणे प्रत्यववायप्रतिपादनेन अग्निहोत्रवेदाध्यय- नयोः संध्योपासनवन्नित्यत्वेन उपमानव्यभिचाराभावात् ॥ इयांस्तु विशेष: अग्निहोत्रं तु आश्रमविशेषे नित्यम् , वेदाध्ययनं तु वर्णविशेष इति ॥ अत एवाग्निहोत्रे नित्यत्वानपायेऽपि किंचिद्वैषम्यं मनसि निधाय वेदा- ध्ययनं निदर्शितम् । तर्हि कुतो नाधीयते वेदं केचिदाधुनिका इतिचेन्– त एव प्रष्टव्याः ये नाधीयते न वयम् । तस्मादुपमानव्यभिचाराभावान्नोपमेव्ययभि- चार इत्यवश्यमेव कर्तव्यं तप्तचक्रादिधारणं सर्वैाह्मणैस्तदितरैश्चेत्यनवद्यम !! यत्तु वैदिके कर्मणि कथं शूद्रादेरधिकार इति तन्न । सत्यवदनादौ इव वैदिकेऽपि तप्तचक्रादिधारणे शूद्रादेरयधिकारसम्भवात्तस्य वाचनिक- त्वेनासङ्गतिविरहात् । कर्मविशेषे शूद्राधिकारकत्वस्य मीमांसकैरपि निर्म- तत्वाचेति यत्किंचिदेतत् ॥ ननु तहि तप्तचक्रादिधारणनिषेधकोदाहृतविष्ण्वादिवचनानां का गतिः इति चेत् अत्र केचित् - तप्तचक्रादिधारणनिषेधक विष्ण्वादिवचनानि मूल कोशेष्वदर्शनात् रत्नावलीकारकल्पितान्येवेति न तेषां प्रानाण्यम । आश्वला यनवचनं तु शिवचिह्नसहितविष्णुचिह्नधारणनिषेधपरत्वेन नैकैकनिषेधकम् ।। न चैवं विष्णुचिह्नवत् शिवचिह्नस्यापि धारणप्रसङ्गः । तद्विधायक- वचनाभावात् । आराधकाद्याः कर्मण्याः विष्णुचक्रेण लांछिताः । देवतान्तरचिद्वैस्तु अकर्मण्यास्तु लांछिताः ।।
૬૨ इत्याधनेकवचनविरोधाच्चेत्याहुः ॥ अन्ये तु तप्तचक्रादिधारणनिषेधक- वचनानां सर्वेषामर्थान्तरपरत्वेन वा 'न हिंस्यात् । इत्यादिहिंसानिषेधवच- नाबामवैधहिंसानिषेधपरत्ववत् 'विधिना वैष्णवं चक्रम्' इत्यादिवचनैः संस्कृततप्तचक्रादिधारणस्यैव विहिततया असंस्कृततप्तचक्रादिधारणनिषेधप- रत्वेन वा निर्वाह इत्याहुः ॥ वस्तुतस्तु 'औदुम्बरी स्पृष्ट्वोहायेत्' इति श्रुतिविरुद्धायाः 'औदु- म्बरी सर्वा वेष्टवितव्या' इति स्मृतेः 'विरोधेत्वनपेक्षं स्यादसति बनुमा- नम्' इति न्यायेन अप्रामाण्यस्य जमिनिना पूर्वमीमांसायां व्यवस्थापि. तत्वात् स्मृत्यन्तरविरुद्धायाः कापलहिरण्यगर्भादिस्मृतेः अप्रामाण्यस्य व्या- साचायैर्व्यवस्थापितत्वाच्च तद्वदेव तप्तचक्रादिधारणनिषेधकविष्ण्वादिवचनानां अदिबायकोदाहृतश्रुतिविरोधेनाप्रामाण्यमेव गतिः ॥ किंच पाझे बह्वीः श्रुतीरुपन्यस्य इत्येवं श्रुतयस्सर्वाः कथयन्ति वरानने । तथैव सेतिहासेषु पुराणेष्वपि कथ्यते ॥ तस्माद्वै विधिवद्धार्याः शङ्खचक्रादिहेतयः । ब्राह्मणानां विशेषेण वैष्णवानां विशेषतः ।। होमामिसंतप्तपवित्रलांछितान् मूले तु बाह्वोः परमात्मनो हरेः । सन्तारायित्वा भवसागर महत्परं पदं याति परेशलोकम् ॥ तथा- शङ्खचक्राङ्कनं कुर्यात् ब्राह्मणो बाहुमूलयोः । हुताग्मिनैव सन्तप्तं सर्वपापापनुत्तये ॥ शङ्ख वा अङ्खचक्रे वा तथा पञ्चायुधानि वा । धारयित्वैव विधिवद्ब्रह्मकर्म समाचरेत् ॥ अग्नितप्तं पवित्रं च धृत्वैव भुजमूलयोः त्यक्त्वा यमपुरं घोरं याति विष्णोः परं पदम् ।। अमितोन चक्रेण ब्राह्मणो बाहुमूलयोः । अयित्वा जपन्मन्त्रं संसारान्मोक्षमाप्नुयात् ॥ इत्यादिवचनैः शङ्खचके फुटे कुर्यात् आत्मनो बाहुमूलयोः । सर्वाश्रमेषु वसतयं स्त्रीणां च श्रुतिचोदनात् ।।
होमाग्निनैव सन्तप्तं चक्रमादाय वैष्णवः।
दक्षिणं बाहुमूलं तु दग्ध्वा कर्म समाचरेत् ।।
इत्यादिवासिष्ठवचनैः
प्राङ्मुखस्तु समासीनं शिष्यं मन्त्रजलालुतम् ।
प्रतप्तश्शङ्खचक्राद्यैर्हेतिभिः प्रयतो गुरुः ।।
चक्रेण प्रतपेत्पूर्व वाहुमूलं तु दक्षिणम् ।
इत्यादिपराशरवचनैः
तेनाग्निनैव सन्तप्तचक्रेण भुजमूलयोः ।
अवयित्वा शिशोः पश्चान्नाम कुर्याच्च वैष्णवम् ॥
इत्यादिवृद्धवसिष्ठवचनैः
शेषधर्मे उमामहेश्वरसंवादे-
शङ्खचक्रांकिवान भक्तान् यः पूजयति मानवः ।
स साक्षाद्विष्णुसामीप्यं लभते नात्र संशयः ॥
शङ्खचक्रांकितं मयं यो भूम्यामभिवादयेत् ।
ललाटे पांसुसंख्याब्दं ब्रह्मलोके महीयते ॥
विष्णुचक्रांकितं दृष्ट्वा योऽभ्युत्थाय कृताञ्जलिः ।
वयं स कुलमुद्धत्य ब्रह्मलोके महीयते ॥
अग्नितप्तेनं चक्रेण बाहुमूले तु लांछिताः ।
दहन्ति सर्वपापानि ईश्वरत्वं लभान्ति च ॥
विष्णुचक्रांकितो विद्वान् यस्मिन्देशे तु संवसेत् ।
स देशो मत्प्रियः पुण्यो वैष्णवानामपि प्रिये ॥
ब्रह्महत्या सुरापांनं स्तेयं गुर्वङ्गनागमः ।
चक्रांकितस्य हिंसा च पश्चैतत्वतिपातकाः ॥
इत्याद्यनेकवचनैः,
'आग्नेये पञ्चायुधानि' इत्युपक्रम्य
अग्निमध्ये समारोप्य विधिवत्पूजयेत्ततः ।
अङ्कयद्विधिवद्ब्रह्मन् अप्रमत्तस्समाहितः ॥
सर्वाश्रमेषु निष्ठानामन्येषां च विशेषणैः ।
- - इत्यादिवचनैः, ब्रह्माण्डे मोक्षधर्मे- ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः । अवश्यं धारयेच्चक्रमाग्नितप्तमतन्द्रितः ॥ इत्यादिवचनैः, स्कान्दे- भुजद्वये शङ्खचक्रे अग्नितप्ते वहन्नरः । परमानन्दमाप्नोति हरिसायुज्यलक्षणम् ॥ इत्यादिवचनैः, विष्णुपुराणे- भुजयुगमपि चिह्नराश्चितं यस्य विष्णोः परमपुरुषनाम्नां कीर्तनं यस्य वाचि । ऋजुतरमपि पुण्ड्र मस्तके यस्य कण्ठे सरसिजमणिमाला यस्य तस्यास्मि दासः ॥ इत्यादिवचनैः प्राङ्मुखं तु समासीनं शिष्यमेकापमानसम् । प्रतपेच्छङ्खचक्रादिहोतभिर्मन्त्रमुच्चरन् !! अन्यत्र-- तस्माच्चक्रं विधानेन तप्तं वै धारयेद्विजः । सर्वाश्रमेषु वसतां स्त्रीणां तु श्रुतिचोदनात् ।। अन्यत्र- -- वैष्णवानां तु हेतीनां प्रधानं चक्रमुच्यते । तेनैव बाहुमूले तु प्रतप्तेनांकयेद्बुधः ।। अङ्गत्वात्सर्वकर्माणां वैष्णवत्वाच्च सर्वतः । धृत्वैव विधिवञ्चक्रं हरेस्तप्तं द्विजोत्तमः ॥ कर्म कुर्याद्भगवतस्तस्यैवाज्ञामनुस्मरन् । इत्याद्यनेकहातिवचनैः ह्मणः क्षत्रियो वैश्यश्शूद्रो नारी तथेतरः ।
चक्राद्यैरयेद्गात्रमात्मीयस्याखिलस्य च ॥ अनिष्टानां निवृत्त्यर्थमैकान्याय जगत्पतेः । सिद्धयर्थ कर्मणां चैव धार्य चक्रादिलांछनम् ॥ वाहोर्ललाटे शिरसि हृदयेचाग्रजन्मनाम् । शङ्खचक्रगदाशार्ङ्गख मन्त्रेण दाहयेत् ॥ विष्णोरायतनाग्नौ वा गुरोरात्मन एव वा । हुते होमादिभिस्तप्तैः सुरूपैरर्चितैः क्रमात् ॥ इत्यादिभरद्वाजवचनैः अग्निनैव तु सन्तप्तं चक्रमादाय वैष्णवः । दाहयेत्सर्ववर्णानां हरिसालोक्यसिद्धये ॥ इत्यादिव्यासगारुडवचनैः तस्मात्सुदर्शनं चक्रं प्रतप्तं धारयेत् द्विजः । कर्मसिद्धथै विशेषेण तद्दास्यैककलामयः ॥ इत्याद्यत्रिवचनैः भुजे चक्रं द्विजातीनां शिरश्चक्रं तु दैवतम् । अचक्रद्विजदेवानां पूजनं निष्फलं भवेत् ॥ इत्यादिशिल्पिशास्त्रवचनैः अन्यैश्च बहुभिः वराह वामन लैङ्ग मार्कण्डेयादित्य- पुराणादिवचनैः अत्र्यादिस्मृतिवचनैः, पाञ्चरात्राद्यागमैः पराशरसंहितावच- नैश्च तप्तचक्रादिधारणाविधायकोदाहृतश्रुत्युपेद्वीलतत्वेन 'विप्रतिषिद्धधर्मसम- वाये भूयसां स्याद्बलीयस्त्वम् ' इति न्यायेन च प्रबलैः श्रुत्यनुपोदलितत्वेन अल्पीयस्त्वेन च दुर्बलानां तप्तचक्रादिधारणनिषेधकविष्ण्वादिवचनानामप्रा- माण्यमेव गतिः ॥ न च विष्ण्वादिस्मृया तन्मूलभूता काचित् श्रुतिरनुमीयत इति तदु- पोदलितत्वेन तस्या अपि प्रबलतया प्रामाण्यं दुरपह्नवमिति वाच्यम् । प्रमाणतया निश्चिताया एव स्मृतेः श्रुत्यनुमापकत्वेन प्रत्यक्षश्रुतिबाधितत्वेन अप्रमाणभूतया विष्ण्वादिस्मृत्या श्रुत्यनुमानासम्भवात् । अन्यथा औदु- म्वरीवेष्टनस्मृत्यादितोऽपि श्रुत्यनुमानसम्भवेन 'विरोधेत्वनपेक्षं स्यात् ' इति न्यायस्य काप्यप्रवृत्त्या निरवकाशत्वापत्तेः ।। - किंच कपिलादिस्मृवरप्युक्तरीत्या प्रामाण्यापत्त्या सर्वे वेदान्ता व्याकुला भवेयुः । तस्मादनाघातदोषगन्धाविच्छिन्नसंप्रदायश्रुतिस्मृत्यादिप्रमाणप्रतिपन्न- त्वेन सचक्रादिधारणं सवैरेव कर्तव्यमिति दिक् ॥ विस्तरस्तु स्मृतिकौस्तुभसुदर्शनमीमांसादावनुसन्धेयः ।। वाधूलकुलसम्भूवरजाचार्येण धीमता। कृतस्सुदर्शनो वादः करोतु कृतिनां मुदम् ।। इति सुदर्शनवादः समाप्तः ॥ ..
No text on this page.
No text on this page.