Sringeri Sharada Peetham

Mimamsanyayaprakasa

Narayana Ram Acarya · 2004/10/20

PDF Proofread

Front matter

THE
MĪMĀMSĀNYAYAPRAKĀS'A
OF
ĀPADEVA
11/-
मीमांसाप्रकरणग्रन्थः।
आपदेवप्रणीतः
मीमांसान्यायप्रकाशः।
टिप्पण्यादिसमलंकृतः।
बाक्रेइत्युपाहगंगाधरभसूनुना महादेवशर्मणा
पूर्वसंस्कृतस्य
चतुर्थं संस्करणम्
श्रीमदिन्दिराकान्तचरणान्तेवासिना
नारायण राम आचार्य "काव्यतीर्थ” इत्यनेन
संशोधितम् ।
मुम्बय्याम्
सत्यभामाबाई पाण्डुरङ्ग इत्येताभिः,
निर्णयसागरमुद्रणयन्त्रालयकृते तत्रैव चाङ्कयित्वा प्रकाशितम् ।
शाका १८६४, सन १९४३

[ All rights reserved by the publisher ]
Publisher:-Satyabhamabai Pandurang,
Printer:-Ramchandra Yesu Shedge,
* Nirnaya-sågar' Press,
26-28, Kolbhat Street, Bombay.

प्रस्तावः श्री ६ गुरुचरणारविन्दाभ्यां नमः । अथैष उपक्रम्यते मुद्रयित्वा प्रकाशयितुं मीमांसान्यायप्रकाशाख्यः पूर्व- मीमांसाप्रकरणग्रन्थः। पूर्वमीमांसा नाम अभ्युदयनिःश्रेयसोपायप्रतिपादकत्वाभ्यां द्विधाविभक्त- स्यात्यन्तदुरूहस्य वेदराशेरभ्युदयप्रतिपादकपूर्वप्रविभागविचारशास्त्रम् । ननु मीमांसकमते विधिना त्वेकवाक्यत्वादित्यादिनोपनिषदामपि पारलौकिकफल- हेतुकर्मानुष्ठानौपयिकशरीरातिरिक्तनित्यात्मसद्भावज्ञापकतया धर्मे प्रामाण्यो- पगमाद्विहितप्रतिषिद्धज्ञानस्यैव मोक्षं प्रति प्रयोजकत्वाचोक्तरूपाभ्यां विभा- गोऽनुपपन्न इति चेत् , अनुवचनपौर्वापर्येण तद्विषयविचारशास्त्रयोरपि पूर्वो- त्तरभावव्यवहारो बोध्यः ॥ न च पदतदर्थज्ञानवता वेदार्थः शक्यो विज्ञातुं किं विचारशास्त्रेणेति वाच्यम् । आपाततोऽर्थज्ञानसंभवेऽप्यनुष्ठानोपयोगिनो निर्विचिकित्सज्ञानस्या- संभवात् । दर्शितं चैतत्कात्यायनश्रौतसूत्रभाष्यकृता श्रीकर्काचार्येण द्विती- याध्यायोपोद्घाते- “स च विधिनिषेधरूपः शब्दसमूहोऽनेकशाखान्तरावस्थानरूपतया स्वतश्च प्रतिवाक्यमनेकवाक्यार्थप्रतिभानिरुद्धावतारतया महोर्मिमालाकुलार्णव इव दुरवगाहः । तद्यथा क्वचिदग्निहोत्रं जुहोतीत्यादौ धात्वर्थमात्रविधानं तत्राप्यमिहोत्रशब्दे गुण विध्याशङ्का तथा कि होमः स्वर्गाय उत स्वर्गों होमा- येति । एवं सर्वत्र । क्वचित्सोमेन यजेतेतिवद्विशिष्टधात्वर्थविधानम् । अग्निहोत्रं जुहुयात्स्वर्गकाम इति फले विधिः । कचिच्च सौर्यादौ विशिष्टं फले विधीयते । दध्ना जुहोतीत्यत्र गुणे विधेापारपर्यवसानम् । क्वचिच प्राकाशावध्वर्यवे ददातीत्यादिवद्धात्वर्थेनान्यसंबन्धविषयो व्यापारः । तथा क्वचिन्मुख्यार्थवृत्तिता शब्दस्य । कचित्सहस्रसंवत्सरादिवद्गुणवृत्त्या शब्द- वृत्तिः। विध्यर्थवादसंमोहश्च परस्परतो रूपव्यतिषङ्गात् । शूर्पण जुहोति तेन ह्यन्नं क्रियते इति विधिसरूपोऽर्थवादः । रात्रीः प्रतितिष्ठन्ति य एता - २ प्रस्तावः उपयन्तीत्यर्थवादसरूपं रात्रीणां फले विधानमिति । दिङ्मात्रमिदं दुरव- गाहत्वे" इति ॥ अतः परमर्षिणा भगवता जैमिनिना लोकाननुजिघृक्षुणा द्वादशभिरध्या- यैर्वेदार्थों विचारितः । येषु क्रमेण प्रमाण-भेद-शेषशेषिभाव-प्रयुक्ति-क्रमाधि- कार-सामान्य-विशेषातिदेशोह-निषेध-तन्त्र-प्रसङ्गाख्याः सन्ति विषया निरू- पिताः । तदेव तन्त्रमुपजीव्य कुमारिलप्रभृतिभिः पार्थसारथिमिश्रादिभिश्च बहुधा प्रपञ्चितोऽयं विषयः । स चालौकिकतया स्वरूपत एव दुरधिगमोऽपि पुनः पूर्वव्याख्यातृप्रदर्शितयुक्तीर्दूषयद्भिरुत्तरोत्तरग्रन्थकृद्भिरग्रिमविषयस्यापि प्रथमत एवोपन्यासस कर्तव्यतापातात्सर्वखापि तन्त्रस्य सामान्यतः खरूप- मविज्ञाय न बुद्धिमतापि सुज्ञानास्ते ग्रन्थाः । अतः सर्वस्यापि तन्त्रस्य सामा- न्यतः स्वरूपावगमाय मीमांसापारदृश्वना कुशाग्रधिषणेन श्रीमदापदेवेन धर्मप्रमाणचोदनानिरूपणव्याजेन प्रसङ्गात्यायो द्वादशाध्याय्याः प्रथमादिषष्ठा- न्तानां दशमस्स चाध्यायस्यार्थः संक्षेपेण तथा संगृहीतः, यथेमं ग्रन्थम- धीत्य शास्त्रदीपिकादिग्रन्थानधीयानस्य मतिर्न प्रतिघातं प्राप्नुयात् । अत्र ग्रन्थकृता प्रसङ्गागतं न किंचिदुपेक्षितम् । अत एव प्रकृतमनुसराम इत्युक्त्वा प्रथममुपक्रान्तस्य विषयस्यानुसरणं क्रियासमभिहारेण दृश्यते । अत एव चास्य विषयानुक्रमो नासंकीर्णमुपदर्शयितुं शक्य इति प्रथमनिर्दि- ष्टस्य प्रासङ्गिकनिरूपणानन्तरमनुवर्तमानस्यापि प्रासङ्गिकनिर्देशानन्तरं पुन- निदेशो न कृतः। अस्य संशोधनं श्रीक्षेत्रआळंदीस्थश्रीज्ञानराजमठाधिपतिभिर्मुद्रणाथै निर्णय- सागराधिपसात्कृतेषु पुस्तकेषु वर्तमानमेकं प्राचीनं लिखितं पुस्तकं, काश्यां हरिदासगुप्तमुद्रितं, कलिकातानगरे श्रीमहामहोपाध्यायश्रीकृष्णनाथन्याय- पञ्चाननभट्टाचार्यैः स्वयं व्याख्याय मुद्रितं, काश्यां शिलाक्षरैर्मुद्रितं चेति चत्वारि पुस्तकान्यवलम्ब्य कृतम् । कचिच्च पाठभेदस्थले मूलधृतपाठस्यैव युक्तत्वं प्रदर्शयितुं, कचिच्च मूलस्थपदानि विवरीतुं च टिप्पणी कृता । तदनेन व्यापारेणाध्येतॄणामुपकारो भूयादित्याशास्ते- शालीवाहनशाकः १८३३ बाक्रे इत्युपाह्वो गङ्गाधरभट्टसूनुः भाद्रपदमासः। महादेवशर्मा।

मीमांसान्यायप्रकाशस्य विषयानुक्रमणिका. पृ० पंक्तिः ... १ ... ... ... ... ६ १६ ... ३ ७ १० ... ३ ३ ३ १८ विषयः पृ० पंक्तिः | विषयः मङ्गलाचरणम् १ ५ सोमेन यजेतेत्यत्र गुण- विषयोपक्रमः ९ विधित्वमाशय कर्मो- धर्मलक्षणम् १ ११ त्पत्तिविधिलाक्षेपः चोदनाया विधायकलोप- अनुवादेऽपि मवर्थलक्षणा- पादनम् १ १३ शङ्का भावनालक्षणम् १ १६ | अनुवादे मलर्थलक्षणा- भावनाविभागः निरासः शाब्दीभावनानिरूपणम् १ १९ धावर्थस्य करणखान्वय- वेदापौरुषेयत्वसाधनम् नियमनिराकरणम् साध्याकामानिरूपणम् २ १० षष्टाद्यधिकरणार्थसंग्रहः करणाकासानिरूपणम् २ १४ वाजपेयाधिकरणार्थसंग्रहः इतिकर्तव्यताकाङ्क्षानि० २ २० गुणकामाधिकरणार्थसंग्रहः अध्ययनविधिः ३ १ प्राप्तेऽनेकविधानानुपपत्तिः वेदस्य पञ्चधा विभागः ४ अप्राप्ते. बहूनामेकयत्नेन विधिविचारः विधानम् गुणविधिविचारः ८ ग्रहैकलाधिकरणार्थसंग्रहः विशिष्टविधिविचारः ३ ११ रेवत्यधिकरणार्थसंग्रहः विशिष्ट विधौ मत्वर्थलक्षणा ३ १५ केवलस्य दनः करणलेना- गुणधात्वर्थयोरेकरूपेणान्वय- न्वयनिरासः दूषणम् . ३ ८ दधिकरणवस्य करणखेना. वैयधिकरण्यनान्वये न्वयः यागेन सोममिति प्रथम- दधिकरणले धातोराश्रय- विकल्पदूषणम् ३२५ खेनान्वयः सोमेन यागमिति द्वितीय- गुणविधौ धातर्थस्य साध्य- विकल्पदूषणम् ४ १२ खेनैवान्वयः धालर्थस्योभयरूपेणान्वय- विधाने वानुवादे वेति वार्ति- निराकरणम् .. कस्य प्रतीत्यालम्बनलम् धावर्थस्य स्वरूपमात्रेणा- प्रतिपदाधिकरणार्थसंग्रहः न्वयनिरासः ४ २६ भावार्थाधिकरणार्थसंग्रहः गुणस्येतिकर्तव्यताखेनान्वय- विधाने वेत्यादिवार्तिकस्या- निरासः धिकारविधिपरत्वम् .. ७ २२ ... ... ८ १० ... ८ १४ ... ... ८ १६ ... ... ९ १२ ... ९ २५ ... ... १० २ मीमांसान्यायप्रकाशस्य पृ० पंक्तिः पृ० पंक्तिः ... ... ९ ११ २३ विभक्तिश्रुत्याङ्गत्वम् ३ ... विषयः विषयः सोमेन यजेतेत्यस्य गुणवि- विनियोगविधेर्लक्षणम् १५ ३ धित्वोपसंहारः १० १३ तस्य सहकारिभूतानि षट सोमेन यजेतेत्यस्य गुण- प्रमाणानि ६. विधिवनिरासः १० १७ अङ्गखलक्षणम् १५ ज्योतिष्टोमेनेति वाक्यस्यो- श्रुतेर्लक्षणं विभागश्च त्पत्तिविधिवनिराकरणम् १० १९ विधात्र्याः श्रुतेरुदाहरणम् १५ ११ विशिष्ट विधौ विशेषणविधे- अभिधाच्या उदाहरणम् १५ ११ रार्थिकत्वम् ११ १५ विनियोज्या लक्षणम् १५ १२ लक्षणातो वाक्यभेदस्य विनियोत्रयाः श्रुतेर्विभागः १५ १३ जघन्यत्वम् १५ १४ जातपुत्रकृष्णकेशपदाभ्या- वीहीणां पुरोडाशप्रकृतितया- मवस्थाविशेषलक्षणा १२ इलम् १५ १६ श्रुत्यर्थविधिसंभवे वाक्यार्थ- अवदीयमानस्य हविष्ट्वम् ... १५ १९ विधेरन्याय्यत्वम् १२ १० पानीवतयागे साक्षात्पशो- यागस्य द्वे रूपे १२ १९ रेवाङ्गत्वम् १५ २४ अव्यचाखलक्षणम् १२ २० यत्र विशसनं तत्र पशुः अग्निहोत्रं जुहोतीत्यस्योत्प- प्रकृतिद्रव्यम् १५ २६ त्तिविधिलाक्षेपः अग्निहोत्रं जुहोतीत्यस्य तृतीयाश्रुतेरङ्गत्ववोधक- उत्पत्तिविधिलानङ्गी- खम् १ कारे दोषाः १३ आरुण्यस्य द्रव्यपरिच्छेदद्वारा दना जुहोतीत्यस्योत्पत्ति- क्रयाजखम् विधिले दोषाः १३ १५ द्वितीयाश्रुतेरङ्गत्वबोधक- सोमेन यजेतेत्यस्य कर्मो- खोदाहरणम् १६ त्पत्तिविधिखोपसंहारः १३ २४ अङ्गानामपूर्वप्रयुक्तत्वम् ९ विधेर्विभागः १४ ४ द्वितीयाश्रुत्या मन्त्रस्याश्वा- उत्पत्तिविधिलक्षणम् भिधान्यङ्गतम् १६ ११ उत्पत्तिविधौ कर्मणः करण- सप्तमीश्रुत्याङ्गखोदाहरणम् १६ २१ खेनान्वयः. १४ ११ समानाभिधानश्नुत्याङ्गलो- इष्टसाधनत्वस्य लिडर्थले दाहरणम् १६ २३ तृतीयान्तस्यान्वयानु- कर्ताऽऽक्षेपलभ्यः १६ २६ पपत्तिः १४ १४ | कर्तुराख्यातवाच्यत्वे उप- उत्पत्तिविधौ नामधेयोत्तर- पत्तिः ३ द्वितीयायास्तृतीयार्थ- कर्तुच्यवं भावनायाश्चा- लक्षकत्वम् १४ २१ क्षेपलभ्यत्वमस्तु १७ ३ ... ... ... ...

. विषयानुक्रमणिका ३. पृ०. पंक्तिः स ... ... बलीयस्त्वम् ... ... १ ... विषयः पृ० पंक्तिः विषयः तृतीयादीनामपि करणादि- प्रबललिङ्गानुगृहीतया दुर्ब- वाचकवानुपपत्तिः १७ १२ लयापि समाख्यया कर्तुराख्यातवाच्यवानगी- प्रकरणस्य बाधः २१ १९ कारे दोषाः १७ १५ पूषशब्दस्य रूढत्वम् २२ कर्तुरनभिधेयखे व्याकरण- रथकारपदात्सौधन्वनापर- स्मृतिविरोधः १७ २० पर्यायस्य वर्णविशेषस्य कर्तुराख्यातवाच्यत्वनिरा- ग्रहणम् २२ करणम् १७ २३ लिझान्मन्त्रस्य मुख्य एवार्थ भावनाया आख्यातवाच्यले विनियोगः २२ १८ विनिगमकम् ... १८ ११ लिङ्गस्य प्रकरणादिभ्यो कारकान्तरेण भावनाया २२ २३ नियतसंबन्धाभावः १८ १५, 'स्योनं ते' इति मन्त्रार्धस्य कर्तुरवाच्यले उद्भावितानां सदनकरणे विनियोगो दोषाणां निरासः १८ २२ लिङ्गातू २३ व्याकरणस्मृति विरोधपरि- वाक्यप्रमाणनिरूपणम् २३ हारः १९ १८ जुहूशब्दस्यापूर्वलक्षकत्वम् श्रुतेर्लिङ्गादिभ्यः प्रबलले पर्णताया अनारभ्याधीत- उपपत्तिः १९ २६ खात्प्रकृतिगामित्वम् २३ १४ श्रुतेः प्रबलखादैन्या प्रकृतिलक्षणम् २३ २१ गार्हपत्योपस्थानार्थवम् २० ३ साप्तदश्यस्यानारभ्याधीत- लिङ्गस्य लक्षणम् २० ६ खेऽपि न प्रकृतिगामित्वम् २३ २६ लिशादङ्गत्वस्योदाहरणम् २० ९ उपसंहारलक्षणम् २४ लिङ्गस्य द्वैविध्यम् वाक्यस्य प्रकरणादलीय- सामान्यसंबन्धबोधकप्रमा- स्त्वम् २४ १४ णान्तरानपेक्षलिङ्गस्यो- प्रकरणनिरूपणम् २४ २५ दाहरणम् २० १० विश्वजिन्यायः २५ १९ सामान्यसं०रापेक्षस्योदा- रात्रिसत्रन्यायः २५ १९ हरणम् २० १५ द्रव्यसंस्कारकर्मसु फलश्रुति- समाख्यानुगृहीताल्लिङ्गात्पू- रर्थवादः २६ १ षानुमन्त्रणमन्त्राणां पूष- प्रकरणं क्रियाया एव विनि- यागाजखम् २१ योजकम् २६ पूषानुमन्त्रणमन्त्राणां प्रकर- कथंभावाका काशब्दार्थः २६ २३ णाद्दर्शपूर्णमासाङ्गलाशङ्का २१ ३ | इतिकर्तव्यताशब्दार्थः २७ १३ अनुमन्त्रणमन्त्राणामपूर्वसा- प्रकरणविभागः २७ २६ धनपूषप्रकाशनार्थत्वम् २१ १३ महाप्रकरणनिरूपणम् २८ १ ... ... ... ... ... ... ... ... ... ... १ ... ...

मीमांसान्यायप्रकाशस्य पृ०पंक्तिः ... ... ... ... ... ... ... ... विषयः पृ० पंक्तिः | विषयः प्रकृतिलक्षणम् २८ २ मतान्तरेण स्वापूर्वलक्षक- विकृतौ न प्रकरणं संभ- लान विकृत्यर्थत्वम् ३१ १६ वति २८ ५ विकृत्यर्थलेऽपि पृषदाज्यस्य विकृतिलक्षणम् २८ न प्रकरणं विनियो- उपमानाद्विकृतौ प्राकृता- जकम् ३१ २२ नोपस्थितिः २८ १३ अर्थसिद्धस्याशास्त्रीयवाद्वि- अपूर्वाङ्गाणां विकृतौ प्रक- कृतेस्तदनपेक्षा ३२ २१ रणाद्विनियोगः स्यात् २८ २३ प्राकृतधर्मानुवादेन विहित- प्रमाणबलात्प्रमेयबलस्य योधर्मयोरन्तरालविहि- ज्यायस्त्वम् २८ २९ तस्यापूर्वाशस्य प्रकरणा- विकृतौ प्राकृताङ्गानुवादेन द्रहणम् ३३ विधीयमानं प्रकरणा- अवान्तरप्रकरणम् ३३ १८ गृह्यते २९ संदंशलक्षणम् ३३ २२ यूपस्य केवलादृष्टरूपत्वा- दर्विहोमन्यायः ३४ ११ भावः २९ ११ अवान्तरप्रकरणं महाप्रकर- अदृष्टार्थस्य प्रतिनिध्यभावः २९ १४ णादलीयः ३४ २० विकृतेः कथंभावाकाङ्क्षा उप- कारपृष्ठभावेन पदार्था- प्रकरणस्य स्थानादेवलीय- स्वम् ३४ २४ न्वयं यावदनुवर्तते २९ २२ विदेवनादीनां प्रकरणाद्राज- चोदकस्य खादिरत्वविषयले सूयाजखम् औदुम्बरलेन खादि- रत्वबाधोऽप्राप्तबाधः राजसूयपदस्याख्यातपरत- बलेनेष्टिपशुसोमवाचि- स्यात् ३० ११ वाधद्वैविध्यम् वात्तेषां च प्राकृतैर्धमैं- अप्राप्तबाधनिरूपणम् नैराकाझ्यात्प्रकरणं न ३० १३ संभवतीत्याशङ्का प्राकृतस्य विकृतौ चोदक- प्राप्तस्य प्रत्याम्नानादर्थ- विदेवनादीनां संदंशपतित- लोपात्प्रतिषेधादा यो खात्प्रकरणं विनि- बाधः स प्राप्तबाधः ... ३० १७ योजकम् ३६ २२ तातीयप्रमाणविनियुक्तेनेत- स्थाननिरूपणम् १ रस्य बाधोऽप्राप्तबाधः ३० २४ यथासंख्यपाठाद्विनियोगः ३७ ६ औदुम्बरलेन खादिरखस्य संनिधिपाठाद्विनियोगः ३७ १४ बाधः प्राप्तबाधः ३० २८ अनुष्ठानसादेश्याद्विनियोगः ३७ १९ पृषदाज्यस्य प्रकरणाद्विकृ- पशोः सान्नाय्यप्रकृतिकवा- त्यङ्गत्वमिति केचित् ३१ १३ त्तद्धभैरेव नैराकाक्ष्यम् ३८ ... ... ... ७ no w w w विषयानुक्रमणिका पृ०पंक्तिः ... ४० ८ ... ... ४९ १ ... ... ... .. विषयः पृ०पंक्तिः विषयः स्थानस्य समाख्यातः प्रब. आर्थक्रमनिरूपणम् लखम् ३८ १३ | पाठक्रमनिरूपणम् ४४ १२ समाख्यानिरूपणम् ३९ २० | मन्त्रपाठक्रमनिरूपणम् ४४ १३ अद्वैविध्यम् ३९ २६ | ब्राह्मणपाठात्क्रमोदाहरणम् ४५ सिद्धरूपाण्यङ्गानि १ स्थानक्रमनिरूपणम् क्रियारूपाण्यङ्गानि २. मुख्यक्रमनिरूपणम् सन्निपत्योपकारकाण्यङ्गानि मुख्यक्रमः पाठक्रमाद्दुर्बलः ४८ प्रतिपत्तिकर्म ४० ११ मुख्यक्रमः प्रवृत्तिकमाइल- संनिपत्योपकारकमारादुप- वान् ४८ १५ कारकाद्वलीयः ४० १७ प्रवृत्तिक्रमनिरूपणम् । स्थावाहुति पसंस्कारार्था ४१ २४ | अधिकारविधिनिरूपणम् ५० १९ आरादुपकारककर्मनिरूप- पुरुषविशेषणवेनाश्रुतमपि णम् ४२ . १ पुरुषविशेषणं भवति अङ्गानामपूर्वप्रयुक्तत्वम् ४२ २ शूद्रस्य न यागादावधिकारः ५१ १० संनिपत्योपकारकाणामुत्प- रथकारस्याधानमात्रेऽधि- त्यपूर्वार्थत्वम् ... ४२ १६ कारः ५१ १५ आरादुपकारकाणां परमा- स्त्रियाः पत्या सहाधिकारः पूर्वार्थत्वम् ... ४२ २० निषादस्थपतिन्यायः ५२ १८ सन्निपत्योपकारकाणां पूर्वा- उत्तरकतुविधीनां न ज्ञाना- गानामुत्पत्त्यपूर्वोत्पत्ता- क्षेपकत्वम् ५२ २२ वुपयोगः ... ४२ २१ पत्नीमात्रकर्तृकाणामाज्या- उत्तराङ्गानामु- वेक्षणादीनां ज्ञानाक्षेप- त्पत्त्यपूर्वस्थितावुपयोगः ४२ २२ कत्वम् ५२ २५ आरादुपकारकाणां परमा- सामर्थ्यमप्यधिकारिविशे- पूर्वोत्पत्तावुपयोगः षणम् ५३ ३ प्रयोगबहिर्भूतस्यारादुपकार- साङ्गे प्रधाने समर्थस्यैव कस्य परमापूर्वस्थिता- काम्ये कर्मण्यधिकारः वुपयोगः .... ४२ २५ / नित्यकर्मणां यथाशक्ति- प्रयोगविधिनिरूपणम् ४३ न्यायः ५३ १४ प्रयोगविधेरेव नियतक्रम- मन्त्रनिरूपणम् ५३ २१ विधायकत्वम् ... ... ४३ १८ विधिनियमपरिसंख्या. तस्य सहकारीणि षट् प्रमा- लक्षणानि १ णानि. ४३ २३ | अपूर्वविधिनिरूपणम् श्रोतक्रमोदाहरणम् ... ४३ २४ | नियम विधिनिरूपणम् श्रुतिः पाठादेबलवती ३ परिसंख्याविधिनिरूपणादि ... ... " ... ... ३ ... ... my ०. :

६ मीमांसान्यायप्रकाशस्य पृ० पंक्तिः पृ० पंक्तिः ८ . ... ... ३ ३ ... ... ... ७ ७० विषयः विषय:- मन्त्राणामुत्कर्षः श्येनशब्दस्य तद्यपदेशा-- मन्त्राणामदृष्टार्थलम् कर्मनामधेयत्वम् नामधेयनिरूपणम् ५५ १२ वैश्वदेवशब्दस्योत्पत्तिशिष्टगुण- नामधेयस्य वैश्वदेव्यामिक्षे- बलीयस्त्वं पञ्चमं कर्म- त्यत्रामिक्षाशब्दवत्सा- नामधेयनिमित्तमिति मानाधिकरण्यम् ५५ २५ केचित् नामधेयवं निमित्तचतुष्ट- तत्प्रख्यशास्त्रादेवेत्यन्ये ६८ यात् ५६ १८ वैश्वदेवेन यजेतेति वाक्यं उद्भिच्छब्दस्य मत्वर्थलक्ष- देवताविशिष्टकर्मविधा- णाभयान्नामधेयलम् ५६ २० यकमस्तु वैश्वदेव्यामि- क्षेति तत्रैव द्रव्यविधा- आश्रयखलक्षणम् ६ सोमेन यजेतेत्यत्र सोमपदस्य यकमस्वित्याशय तन्नि- नामधेयत्वनिरा- रासः करणम् ... ५८ १० | निषेधनिरूपणम् चित्राशब्दस्य वाक्यभेद- निषेधानां निवर्तनाप्रतिपा- भयात्कर्मनामधेयत्वम् दकखोपपादनम् १४ अग्निहोत्रशब्दस्य तत्प्रख्य- नजः प्रत्ययेनान्वये बाधक शास्त्रान्नामधेयत्वम् द्विविधम् ७१ १९ ६० १२ गौश्चाश्वश्चेत्यत्र परस्परसा- पर्युदासलक्षणम् ७१ २२ पेक्षाणां गवादीनां विधा- प्रतिषेधलक्षणम् ७१ २३ नान्न वाक्यमेदः ६१ तस्य व्रतमित्युपक्रमात्पर्यु- तद्धितचतुर्थीमन्त्रवर्णानां दासोदाहरणम् देवताविधायकत्वम् ६२ विकल्पप्रसक्त्या पर्युदासो- चकारः समुच्चयं प्राधा- दाहरणम् न्येन न ब्रूते ૬૩ ९ प्रतिषेधस्य प्राप्तिसापेक्ष- एकोद्देशेन प्रधानद्वय विधाने लम् वाक्यभेदः ६४ २० नान्तरिक्षे न दिवीत्यस्य न गौश्चाश्वश्चेति वाक्ये उभय- प्रतिषेधत्वम् विशिष्टा दक्षिणैव विधी- शास्त्रयोहि तत्र बाध्यबाध- यते ६४ २६ कभावो यत्र परस्पर- समिदादिशब्दा अपि निरपेक्षिता तत्प्रख्यशास्त्रात्कर्मनाम- पर्युदासस्योपसंहारेणाभेदा- धेयानि ६५ २३ शङ्कापरिहारौ . ... ... ... ७४ १ ... ... ... ... -.- ...

विषयानुक्रमणिका पृ० पंक्तिः विषयः पृ० पंक्तिः । विषयः प्रसङ्गादुपसंहारलक्षणम् ७६ १५ मतान्तरेण समीहितसाध- यत्र प्रतिषेध आश्रयितुं न नवस्यैव प्रवर्तनालेन शक्यते तत्र विकल्पप्र- रूपेण विधिप्रत्यय- सक्तावपि निषेधाश्रयणम् ७७ १८ वाच्यत्वनिरूपणम् ८० २० प्रतिषिध्यमानस्यानर्थहेतु- आर्थीभावनास्वरूपविचारः ८१ २८ खाहेतुत्वविचारः प्रयत्न एवाख्यातार्थ आर्थी- अर्थवादानां लक्षणया प्रयो- भावनेति मतसमर्थनम् ८२ जनवदर्थपर्यवसानम् अन्योत्पादानुकूलव्यापार- प्राशस्त्यज्ञानस्य शाब्द- सामान्यमेवाख्यातार्थः भावनायामितिकर्तव्यता- खेनान्वयः स एवार्थी भावनेति मत- ३ ८२ १९ शाब्दभावनाखरूपविचारः समर्थनम् प्रैषादीनां प्रवर्तनाखेन रूपेण धर्मस्यैवेश्वरार्पणवुद्ध्या क्रिय- विधिप्रत्ययवाच्य- माणस्य निःश्रेयसहेतु- खम् त्वम् ૬ ३ ८४ समाता न्यायप्रकाश विषयानुक्रमणिका।

आपदेवकृतः मीमांसान्यायप्रकाशः। (आपदेवी) .... ५ श्रीगणेशाय नमः। यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् । प्राप्यते तमहं वन्दे गोविन्दं भक्तवत्सलम् ॥ १ ॥ अनन्तगुणसंपन्नमनन्तभजनप्रियम् । अनन्तरूपिणं वन्दे गुरुमानन्दरूपिणम् ॥ २ ॥ इह खलु परमकारुणिकेन भगवता जैमिन्य॒षिणा 'अथातो धर्मजिज्ञासा' इत्यादिना द्वादशस्वध्यायेषु धर्मों विचारितः । तत्र १० वेदेन प्रयोजनमुद्दिश्य विधीयमानोऽर्थो धर्मः । यथा यागादिः । स हि 'यजेत स्वर्गकाम' इत्यादिवाक्येन स्वर्गमुद्दिश्य विधीयते । तथा हि-यजेतेत्यत्रास्त्यंशद्वयम् , यजिधातुः प्रत्ययश्च । तत्र प्रत्ययेऽप्यस्त्यंशद्वयम् , आख्यातत्वं लित्त्वं च । आख्यातत्वं च दशसु लकारेषु विद्यते । लित्वं पुनः केवलं लिङयेव । तत्रा-१५ ख्यातत्वलित्वाभ्यां भावनैवोच्यते । भावना नाम भवितुर्भवना- नुकूलो भावकव्यापारविशेषः । सा च द्विविधा,-शाब्दी भावना आर्थी भावना चेति । तत्र पुरुषप्रवृत्त्यनुकूलभावकव्यापारविशेषः शाब्दी भावना । सा च लिङ्त्वांशेनोच्यते, लिङ्गवणे 'अयं मां प्रवर्तयति, मत्प्र-२० वृत्त्यनुकूलव्यापारवानयम्' इति नियमेन प्रतीयमानत्वात् । यच्च यस्मात्प्रतीयते तत्तस्य वाच्यम् , यथा गोशब्दस्य गोत्वम् । स च रप प्रवृत्त्यनुकूलव्यापारविशेषो लोके पुरुषनिष्ठोऽभिप्रायविशेषः, वेदे- तु पुरुषाभावाल्लिङादिशब्दनिष्ठ एव । न हि वेदः पुरुषनिर्मितः । १०लो व्या०.

आपदेवकृतः . 'वेदस्याध्ययनं सर्व गुर्वध्ययनपूर्वकम् । वेदाध्ययनसामान्यादधुनाध्ययनं यथा ॥ इत्यादिना वेदापौरुषेयत्वस्य साधितत्वात् । 'यः कल्पः स कल्पपूर्वः' इति न्यायेन संसारस्यानादित्वादीश्वरस्य च सर्वज्ञत्वा- ५दीश्वरो गतकल्पीयं वेदमस्मिन् कल्पे स्मृत्वा उपदिशतीत्येतावतै- वोपपत्तौ प्रमाणान्तरेणार्थमुपलभ्य रचितत्वकल्पनानुपपत्तेश्च । ततश्च पुरुषाभावाच्छन्दनिष्ठैव सा । अत एव शाब्दी भावनेति व्यपदिशन्ति । सा च शाब्दी भावनांऽशत्रयमपेक्षते, साध्यं साधनमिति- १० कर्तव्यतां चेति । तत्र साध्याकालायां वक्ष्यमाणांशत्रयोपेताऽऽर्थी भावना साध्यत्वेन संबध्यते, एकप्रत्ययगम्यत्वेन* समानाभिधान- श्रुतेः । यद्यपि सिंख्यादीनामप्येकप्रत्ययगम्यत्वं समानं तथाप्य- योग्यत्वान्न तेषां भाव्यत्वेनान्वयः। करणाकालायां लिङादिज्ञानं करणत्वेन संबध्यते । तस्य च १५ करणत्वं न भावनोत्पादकत्वेन, सन्निकर्षस्येव रूपादिज्ञाने, सन्नि- कर्षात्प्राक् रूपज्ञानस्येव लिङादिज्ञानात्प्राक् शब्दधर्मभावनाया अभावप्रसङ्गात् , किंतु भावनाभाव्यनिर्वर्तकत्वेनैव । लिङादिज्ञानं हि शब्दभावनाभाव्या भावनां निवर्तयति, कुठार इव च्छेदनम् । अतो लिङादिज्ञानस्य करणत्वेनान्वयः। इतिकर्तव्यताकाङ्क्षायां प्राशस्त्यज्ञानमितिकर्तव्यतात्वेन संव- ध्यते । तच्च प्राशस्त्यज्ञानं 'वायुर्वै क्षेपिष्टा देवता' इत्याद्यर्थवादै- जन्यते । ते ह्यर्थवादाः स्वार्थप्रतिपादने प्रयोजनमलभमाना लक्ष- णया क्रतोः प्राशस्त्यं प्रतिपादयन्ति । स्वार्थमात्रपरत्वे आनर्थक्य- प्रसङ्गात् । न चेष्टापत्तिः, अध्ययनविध्युपात्तत्वेनानर्थक्यानुपपत्तेः। * विभिन्नशक्ततावच्छेदकनानाशक्तिनिरूपकं पदं समानाभिधानश्रुतिः । प्रकृते प्रत्ययस्य लिङ्त्वाख्यातत्वाभ्यां क्रमेण शाब्दभावनार्थभावनोपस्थापकत्वा- तथात्वं बोध्यम् । आदिपदाद्वर्तमानत्वादेर्ग्रहणम् । लिज्ञानादिनानुत्पाद्यत्वात् । १०र्थभा. २ मनुपल°. ...

मीमांसान्यायप्रकाशः। ३ तथा हि-स्वाध्यायोऽध्येतव्यः' इत्यध्ययनविधिः सकलस्य वेदस्या- ध्ययनकर्तव्यतां बोधयन् सर्वो वेदः प्रयोजनवदर्थपर्यवसायीति सूचयति, निरर्थकस्याध्ययनानुपपत्तेः । स च वेदो विधिमन्त्रनामधेयनिषेधार्थवादात्मकः। तत्र विधि: प्रयोजनवदर्थविधानेनार्थवान् । स चाप्राप्तमर्थं विधत्ते । यथा 'अग्नि-५ होत्रं जुहुयात् स्वर्गकामः' इति विधिरप्राप्तं प्रयोजनबद्धोमं विधत्ते, 'अग्निहोत्रहोमेन स्वर्ग भावयेत्' इति । यत्र तु कर्म प्रकारान्तरेण प्राप्तं तत्र तदुद्देशेन गुणमात्रंविधानम् । यथा 'दध्ना जुहुयात्' इत्यत्र होमस्य 'अग्निहोत्रं जुहुयात्' इत्यनेन प्राप्तत्वाद्धोमोद्देशेन दधिमात्रविधानम् , 'दना होमं भावयेत्' इति । १० यन्त्र तूभयमप्राप्तं तत्र विशिष्टं विधत्ते । तदुक्तम्-'न चेदन्येन शिष्टाः' (जै० सू० ११४।९) इति, शिष्टा उपदिष्टा इत्यर्थः । यथा 'सोमेन यजेत' इत्यत्र सोमयागयोरप्राप्तत्वात्सोमविशिष्टयाग- विधानम्, 'सोमवता यागेनेष्टं भावयेत्' इति । न चोभयविधाने वाक्यभेदः, विशिष्टस्यैकत्वात् । विशिष्टविधौ च मत्वर्थलक्षणा । १५ यथा सोमपदेन मत्वर्थो लक्ष्यते सोमवतेति । न हि मत्वर्थलक्षणां विना सोमस्यान्वयः संभवति । (न तावत्सामानाधिकरण्येना- न्वयः, तथा सति प्रत्यक्षविरोधापत्तेः । न हि सोमो यागो भवितुमर्हति ।) यदि तावत्सोमयागयोरैक्यरूपेण भावनायां करणत्वेनैवान्वयः 'सोमेन यागेनेष्टं भावयेत्' इति, तत उभय-२० विधाने वाक्यभेदः । सोमस्य यागवत्फलभावनाकरणत्वेने प्राधा- न्यापातश्च, यागार्थत्वानुपपत्तिश्च, यागे द्रव्यानुपपत्तिश्च, प्रत्यय- वाच्यभावनायाः समानपदोपात्तेन यागेन करणाकाङ्क्षाया निवृत्त- त्वेन भिन्नपदोपात्तस्य सोमस्य करणत्वेनान्वयानुपपत्तिश्च स्यात् । यदि च वैयधिकरण्येनान्वयः, तत्र न तावत् 'यागेन सोमम्'२५ इत्यन्वयः, समानपदोपात्तत्वात्प्रत्ययवाच्यफलभावनायां करणत्वे- १त्रं विधत्ते. २ °कार्थकत्वात्. ३ ( ) चिह्नितपाठः पुण्यपत्तनमुद्रित- पुस्तकेऽधिकः। ४ °त्वेनान्व. ५ °त्वेन प्रत्यक्षविरोधश्च । नहि सोमो यागो भवितुमर्हति प्राधा ६ °फलभा.

४ आपदेवकृतः नान्वितस्य यागस्य सोमकर्मकभावनान्वयानुपपत्तेः, यागस्य सोमार्थत्वापत्तेश्च । न चेष्टापत्तिः, अदृष्टद्वयापत्तेः । न हि यागस्य सोमार्थत्वं दृष्टद्वारेण संभवति, व्रीहिष्ववघातेनेव यागेन सोमे कस्यचिद् दृष्टस्याजननात् । अतस्तेन तावत्सोमे किञ्चिददृष्टं जन- ५ नीयम् , प्रोक्षणेनेव व्रीहिषु । तथा यागस्य सोमार्थत्वे फलभावनायां सोमस्य करणत्वेना- न्वयो वक्तव्यः । भावनाकरणत्वं च भावनाभाव्यनिर्वर्तकत्वेनेत्यु- क्तम् । न च सोमोऽदृष्टमन्तरेण फलं जनयितुं समर्थः, 'ग्रहै र्जुहोति' इति वाक्यविहितहोमेन तस्य भस्मीभावात् । अतोऽदृष्टद्वयापातान्न १० यागस्य सोमार्थत्वमिति न 'यागेन सोमं भावयेत्' इत्यन्वयः संभवति, करणत्वेनोपस्थितस्य सोमस्य साध्यत्वेनान्वयानुपपत्तेश्च । अथ 'सोमेन यागं भावयेत्' इत्यन्वयः, तत्र यद्यपि सोमस्य करणत्वेन यागार्थत्वाद्यागनिर्वृत्तिदृष्टमेव प्रयोजनं लभ्यते इति नादृष्टद्वयापत्तिः, नापि करणत्वेनोपस्थितस्य सोमस्य साध्यत्वा- १५न्वयानुपपत्तिः । करणत्वेनैवान्वयात् । तथाऽप्यप्राप्तत्वाद्भावना- करणत्वेनान्वितस्य यागस्य साध्यत्वेनान्वयानुपपत्तिस्तदवस्थैव । ननु यजेतेत्यत्र यागस्य न करणत्वेन नापि साध्यत्वेनोपस्थितिः। तद्वाचकतृतीयाद्यभावात् , किंतु भावनायां यागसंबन्धमानं प्रती- यते । यागस्य च भावनासंबन्धः करणत्वेन साध्यत्वेन च संभवति । २० तत्र करणत्वांशमादाय फलसंबन्धः। साध्यत्वांशमादाय गुणसंब. न्धश्च स्यात्, इति चेत-मैवम् । यद्यपि भावनया यागस्य संबन्ध- मात्रं प्रतीयते तथाऽपि करणत्वेनोपस्थितिदशायां न साध्यत्वेनोप- स्थितिः संभवति, विरोधात् ( विरुद्घत्रिकद्वयापत्तेश्च ।) तदवश्यं 'यागेन स्वर्ग भावयेत्' इति करणत्वेनान्वये सति पश्चात् 'सोमेन ३५ यागं भावयेत्' इति साध्यत्वेनान्वयो वक्तव्यः । ततश्च वाक्य- भेदः । न च प्रत्ययाभिहितभावनास्वरूपे यागस्वरूपमात्रमन्वेतीति ३ चिह्नितो भागः काशी-पुण्यपत्तन- "...१पातश्च. २ कस्यचिददृष्टस्य. मुद्रितपुस्तकयोदृश्यते. G मीमांसान्यायप्रकाशः। वक्तुं युक्तम्, कारकाणामेव क्रियान्वयात् । तत्सिद्धं सोमस्य न यागे सामानाधिकरण्येन वैयधिकरण्येन वाऽन्वयः संभवतीति । ननु यजेतेत्यत्र प्रत्ययाभिहितभावनायाः करणाकाङ्क्षायां यथा यागः करणत्वेनान्वेति तथेतिकर्तव्यताकाङ्क्षायां सोमस्येतिकर्तव्य- तात्वेन भावनायामेवान्वयोऽस्तु, कृतं मत्वर्थलक्षणया इति चेत्-५ न। सोमेनेति तृतीयया करणत्ववाचिन्या सोमस्येतिकर्तव्यता- त्वानभिधानात् । तत्र यदीतिकर्तव्यतात्वं लक्षणयोच्यते ततो वरं सोमपद एव प्रकृतिभूते मत्वर्थलक्षणा । *गुणे त्वन्याय्यकल्पना' (जै० सू० ९।३।१५) इति न्यायात् । अथ 'वेदो वा प्रायदर्शनात्' ( जै० सू० ३।३।२) इत्यधिकरणोक्तासंजातविरोधित्वन्यायेनान्त्ये १० प्रत्यय एव लक्षणेति चेत्, तथापि सोमस्येतिकर्तव्यतात्वेनान्व- यानुपपत्तिः । सिद्धस्य वस्तुन इतिकर्तव्यतात्वाभावात् , क्रियाया एवेतिकर्तव्यतात्वात् , द्रव्यस्य केवलमङ्गत्वात् । अत एवेति- कर्तव्यतात्वाभावात् द्रव्यस्य प्रकरणादग्रहणम् । यथाहुः नावान्तरक्रियायोगाहते वाक्योपकल्पितात् । गुणद्रव्ये कथंभावैलन्ति प्रकृताः क्रियाः ॥ (त० वा० ११४१३) इति । तदेतद्ने वक्ष्यामः । किंच सोमेन यजेतेति हि यागस्योत्पत्ति- वाक्यं नाधिकारवाक्यम् । ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यस्याधिकारवाक्यत्वात् । उत्पत्तिवाक्ये च नेतिकर्तव्यताकाङ्क्षा, २० इष्टविशेषाकासाकलुषितत्वेनेतिकर्तव्यताकाङ्काया विस्पष्टमनुत्थानात्। तत्सिद्धं सोमस्य नेतिकर्तव्यतात्वेन भावनायामन्वयः । तस्मा- द्विशिष्टविधावन्वयानुपपत्त्याऽवश्यं मत्वर्थलक्षणा वाच्येति । नन्वेवमपि सोमेन यजेतेत्यत्र न विशिष्टविधानम् , गौरवात् , * गुणो नाम विशेषणम् । अन्याय्यं लक्षणा । प्रकृत्यर्थस्य प्रत्ययार्थविशेषण- त्वेन भाननियमात्प्रकृतावेव लक्षणोचिता । न विशेष्यसमर्पके प्रत्यये इति भावः। १ न सा. २ किम ६ आपदेवकृतः मत्वर्थलक्षणापाताच्च । किंतु दध्ना जुहोतीतिवद्गुणमात्रविधानमस्तु, विधिशक्तेर्गुणे संक्रमात् । यथाहुः- सर्वत्राख्यातसंबद्धे श्रूयमाणे पदान्तरे । विधिशक्त्युपसंक्रान्तेः स्याद्धातोरनुवादता ॥ (त० वा. १।४।३) इति । न च यागस्याप्राप्तत्वान्न तदुद्देशेन सोम विधानमिति वाच्यम् । 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यनेन यागस्य प्राप्तत्वात् । न चास्याधिकारविधित्वेन नोत्पत्तिविधित्वमिति वाच्यम् । 'उद्भिदा यजेत पशुकामः' इतिवदेकस्यैवोभयविधित्वोपपत्तेः । १० एवं च सोमेन यजेतेत्यत्र न मत्वर्थलक्षणा । यदि ह्यत्र विशिष्ट- विधानं स्यात्तदान्वयानुपपत्त्या मत्वर्थलक्षणा स्यात् । 'ज्योति- ष्टोमेन स्वर्गकामो यजेत' इत्यत्र तु यागविधाने क्वचिन्न मत्वर्थ- लक्षणा । न तावदेतस्मिन् वाक्ये, ज्योतिष्टोमेन यागेन स्वर्ग भावयेदिति सामानाधिकरण्येनैव नामपदस्यान्वयात् । नापि सोमेन १५ यजेतेत्यत्र । यागोदेशेन सोमविधानात् , सोमेन यागं भावयेदिति । नन्वनुवादेऽप्यस्ति मत्वर्थलक्षणा । अत एवोक्तम्- विधाने वानुवादे वा यागः करण मिष्यते । तत्समीपे तृतीयान्तस्तद्वाचित्वं न मुञ्चति ॥ (त० वा० १।४।२) इति । २० अतश्च विशिष्टविधाविव गुणविधावप्यस्त्येव मत्वर्थलक्षणेति चेत्,-मैवम् । गुणान्वयानुपपत्त्या हि मत्वर्थलक्षणाऽङ्गीक्रियते । यदा तु भावनायां धात्वर्थस्य करणत्वेनान्वयस्तदान्वयानुपपत्त्या साङ्गीकर्तव्या। गुणविधौ च न धात्वर्थस्य करणत्वेनान्वयो माना- भावात् । न हि दध्ना जुहोतीत्यत्र होमस्य करणत्वं श्रूयते, तद्वाचक- २५ तृतीयाद्यभावात् । कल्प्यते इति चेन्न । गुणस्य तत्र विधित्सित- त्वेन साध्याकाङ्क्षायां साध्यत्वकल्पनाया एवोचितत्वात् । दना होम १०णे उपसं. २ °बन्धे. ३ त्वेनोप०. ४ स्यात्र विधि'.

मीमांसान्यायप्रकाशः। भावयेदिति । न चायमस्ति नियमो भावनायां धात्वर्थस्य करणत्वे- नैवान्वयो न प्रकारान्तरेणेति, षष्ठाद्यपूर्वपक्षानुत्थानापत्तेः । षष्ठाये हि 'यजेत स्वर्गकाम' इत्यादौ प्रत्ययवाच्यायां वक्ष्यमाणा- र्थभावनायां समानपदश्रुत्या यागस्य भाव्यत्वमाशङ्कयापुरुषार्थत्वेन परिहृतम् । यदि च धात्वर्थस्य करणत्वेनैव भावनायामन्वयस्तदा ५ भाव्यत्वशङ्कव नोदेतीति व्यर्थ षष्ठाद्यमधिकरणमापद्येत । किंच वाजपेयाधिकरणे (जै० १।४।६) *तत्रसंबन्ध आशय परिहृतः। धात्वर्थस्य करणत्वेनैवान्वये तत्रसंबन्धशकैव न स्यात् । तत्रसंबन्धशङ्कापरिहारौ च व्याख्यातौ । किंच धात्वर्थस्य न करणत्वेनैवान्वयः । गुणकामाधिकरणे १० (जै० २।२।२५) आश्रयत्वेन धात्वर्थान्वयस्योक्तत्वात् । तथा हि- 'दध्नेन्द्रियकामस्य जुहुयात्' (तै० ब्रा० २।१।५।६, आ० श्रौ० ६।१५।१) इत्यत्र न तावद्धोमो विधीयते, तस्य वचनान्तरेण विहितत्वात् । नापि होमस्य फलसंबन्धः, गुणपदानर्थक्यापत्तेः । नापि गुण- संबन्धं विधत्ते, फलपदानर्थक्यापातात् । नाप्युभयसंबन्धं विधत्ते, १५ प्राप्त कर्मण्यनेकविधाने वाक्यभेदापत्तेः । यथाहु:- प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥ (त० वा० २।२।६) इति । अत्र च कर्मपद्वत् गुणेत्युपलक्षणम् । एकोद्देशेनानेकविधाने २० वाक्यभेदात् । अत एव ग्रहैकत्वाधिकरणे (जै० ३।१।१२ अ० ७) ग्रहं संमाष्टी- त्यत्र ग्रहोद्देशेन एकत्वसंमार्गविधौ वाक्यभेदाद् ग्रहैकत्वमविव- क्षितमित्युक्तम् । सकृदुच्चरितस्योभयत्र संबन्धस्तन्त्रसंबन्धः । 'वाजपेयेन वाराज्यकामो यजेत' इत्यत्र सकृच्छ्रुतस्य धातोः फलभावनायां करणत्वेन वाजपेयरूपगुण- भावनायामुद्देश्यत्वेन चान्वय आशङ्कितः । १°दार्थस्या . २ गुणोऽप्यु - । : आपदेवकृतः रेवत्यधिकरणे (जै० २।२।२७ अ० १२) च 'एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत' (तार ब्रा० १७७।१) इत्यत्र वारवन्तीयस्य रेवतीसंबन्धे 'अग्निष्टोम- सामसंबन्धे फलसंबन्धे च विधीयमाने वाक्यभेदाद्भावनो- ५पसर्जनं भावनान्तरं विधीयते इत्युक्तम् । तस्मात्प्राप्ते होमे नोभय- विधानं संभवति, नापि होमान्तरं विधीयते, गौरवात् , प्रकृतहांना- प्रकृतकल्पनाप्रसङ्गात् , मत्वर्थलक्षणाप्रसङ्गाच्च । नापि दध्येव केवलं करणत्वेन विधीयते इति युक्तम् । केवलस्य व्यापारानाविष्टस्य करणत्वानुपपत्तेः, कर्तृव्यापारव्याप्यत्वनियमा- ३० करणत्वस्य । किं तर्हि विधीयते इति चेत् दन्नेति तृतीययोपात्तं दधिकरणत्वं फलभावनायां करणत्वेन विधीयते, प्रत्ययार्थत्वेन दनोऽपि तस्य प्राधान्यात् । एवं च दधिकरणत्वेनेन्द्रियं भावयेदिति वाक्यार्थः। करणत्वं च किंप्रतियोगिकमित्यपेक्षायां सन्निधिप्राप्तो होम आश्रयत्वेन संबध्यते । ततश्च सिद्धो धात्वर्थस्याश्रयत्वेनान्वयः । प्रकृतमनुसरामः । तत्सिद्धं धात्वर्थस्य न करणत्वेनैवान्वय इति । किं तर्हि कचित्करणत्वेन कचित्साध्यत्वेन कचिदाश्रय- त्वेनेति । गुणविधौ साध्यत्वेनैवान्वयः संभवतीति न मत्वर्थ- लक्षणायाः प्रयोजनम् । किंच' गुणविधौ मत्वर्थलक्षणायां गुणस्य धात्वर्थाङ्गत्वे किं मानमिति वक्तव्यम् । न तावच्छ्रुतिः । २० मत्वर्थलक्षणायां तृतीयाश्रुतिर्मत्वर्थस्यैवाङ्गत्वे मानं स्यात् , न गुण- स्याङ्गत्वेऽपि । समभिव्याहारात्मकं वाक्यमिति चेत्तत्किं स्वतत्रमेव मानमुत लिङ्गश्रुती कल्पयित्वा ? नाद्यः, बलाबलाधिकरण- जै • ३।३।१४)विरोधात् । तत्र हि वाक्यं लिङ्गश्रुती कल्पयि-. त्वाऽङ्गत्वे मानमित्युक्तम् । द्वितीये प्रत्यक्षां श्रुतिमुत्सृज्य श्रुत्यन्तर- २५कल्पने तस्या एव वा आवृत्तिकल्पने व्यर्थः प्रयासः समाश्रितः स्यात् । विशिष्टविधौ चागत्या तदाश्रयणम् । किंच भवतु श्रुत्यन्तरकल्पनम् । तथापि तत्सहकृतः प्रत्यक्ष १°हानप्रसं०.

मीमांसान्यायप्रकाशः। तस्य एव विधिर्धात्वर्थाङ्गत्वेन गुणं विधत्ते, उत कल्पितं विध्यन्तरम् ? कल्पितमिति चेन्न, श्रुतविधेय॑र्थतापत्तेः । न हि तेन तदा गुणो विधीयते, कल्पितविध्यन्तराङ्गीकारात् । नापि धात्वर्थ, वचनान्तरेण विहितत्वात् । अथ श्रूयमाण एव विधिः कल्पितश्रुतिसहकृतो धात्वर्थाङ्गत्वेन ५ गुणं विधत्ते इति चेत् तर्हि तत्र कथं धात्वर्थस्यान्वयः ? करण- त्वेनेति चेन्न, अन्वयानुपपत्तेः । न हि संभवति दना होमेनेति चान्वयः । साध्यत्वेनैवान्वयः-दना होमं भावयेदिति चेत्-न । तथा. सत्यनुवादेऽपि धात्वर्थः करणत्वेनैवान्वेतीत्येतदुपेक्षितं स्यात् । विवक्षितवाक्यार्थश्च विनैव मत्वर्थलक्षणयाङ्गीकृतः स्यात् । १० तस्मान्न गुणविधौ मत्वर्थलक्षणा। यत्तु 'विधाने वानुवादे वा' इति वार्तिकं, तत्प्रतीतिमवलम्ब्य, न वस्तुगतिम् । तथा हि-----यावद्धि अग्निहोत्रं जुहुयादिति वाक्यं नालोच्यते, केवलं दध्ना जुहोतीति वाक्यमालोच्यते, तदा षष्ठा- द्यन्यायेन होमस्याभाव्यतां जानतां प्रतिपदाधिकरणभावार्थाधि-१५ करणवासनावासितान्तःकरणानां भवत्येतादृशी मतिः, यद्दधि- मता होमेनेष्टं भावयेदिति । प्रतिपदाधिकरणे (जै० २।१।१) हि सोमेन यजेतेत्यादिषु किं गुणधात्वर्थयोः फलभावनाकरणत्वे- नान्वयः, उत एकस्यैवेति संदिह्य प्रधानसंबन्धलाभात्, विनिगम- नाविरहाच सर्वेषां फलभावनाकरणत्वेनान्वयमाशय लाघवादे-२ कस्यैव फलभावनाकरणत्वमित्युक्तम् । भावनाकरणत्वं हि भाव- नाभाव्यनिर्वर्तकतया, भाव्यं च स्वर्गादि नादृष्टमन्तरेणेति अनेकेषां करणत्वेऽनेकादृष्टकल्पनाप्रसङ्गात् । तस्मादेकस्यैव करणत्वम् । यदाप्येकस्य तदापि किं द्रव्यगुणयोः फलभावनाकरणत्वम् , उत धात्वर्थस्येति भावार्थाधिकरणे (जै० २।१।१) संदिह्य द्रव्यगुण-२५ योरेव भावनाकरणत्वम् , 'भूतं भव्यायोपदिश्यते', इति न्यायादित्याशङ्कय धात्वर्थस्यैव भावनाकरणत्वम्, पदश्रुतेर्बलीय- १ १°तानां. २ हि. ३त्वेनाने.

आपदेवकृतः स्वादित्युक्तम् । अतश्च सिद्धमेतद्वाक्यान्तरानालोचनदशायां गुणविधावपि धात्वर्थस्य करणत्वाशङ्कायां गुणपदे मत्वर्थलक्षणेति । यदा त्वग्निहोत्रं जुहोतीति होमविधायकं वाक्यान्तरमालोच्यते तदा होमस्य वाक्यान्तरेणैव विहितत्वात्तदुद्देशेन गुणमानं विधी- ५ यते इत्यालोचनान्न मत्वर्थलक्षणेति । अत एवोक्तं पार्थसारथिमित्रै- राधाराग्निहोत्राधिकरणे (जै० २।२।१३) 'फलतो गुणविधिरयं न प्रतीतितः' (शा० दी० २।२ अ०५) इति। यद्वा, एतद्वार्तिकमधिकारविध्यभिप्रायम् । 'उद्भिदा यजेत' (ता. ब्रा० १९७२) इत्यादीनामधिकारात् । तत्र हि यागो १० विधीयताम् , उत्पत्तिवाक्यसिद्धो वानूद्यताम्, उभयथापि धात्व- र्थस्य करणत्वेनान्वयात् तृतीयान्तस्य तद्वाचित्वम् । अन्यथान्व- यानुपपत्तेरिति । तस्माद् गुणविधौ विनापि लक्षणामन्वयोपपत्तेन मत्वर्थलक्षणेति । अतश्च सोमेन यजेतेयत्र न विशिष्टविधानम् , किंतु गुणमात्रविधानम् , यागस्तु ज्योतिष्टोमेन वर्गकामो यजेते- १५ त्यस्मिन्वाक्ये विधीयते इत्येव युक्तम् । अन्यथा मत्वर्थलक्षणा- पत्तरिति । अनोच्यते--यद्यपि यागोद्देशेन सोमविधौ न मत्वर्थलक्षणा, तथापि यागस्याप्राप्तत्वात्सोमेन यजेतेत्यत्र न यागोदेशेन सोम- विधानं संभवति । न च 'ज्योतिष्टोमेने त्यादिना यागस्य प्राप्तत्वा- २० त्तदुद्देशेन गुणमानं विधीयत इति वाच्यम् । तस्याधिकारविधि- त्वेनोत्पत्तिविधित्वानुपपत्तेः । कर्मस्वरूपमात्रबोधको विधिरुत्पत्ति- विधिः । तेन च विहितस्य कर्मणः फलविशेषसंबन्धमात्रमधिकार- विधिना क्रियते । फलविशेषसंबन्धबोधकस्याधिकारविधित्वात् । यथा आमेयोऽष्टाकपालो भवतीत्येतद्विहितस्य कर्मणः फलविशेष- २५ संबन्धमात्रं दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति वाक्यं विधत्ते इति तस्याधिकारविधित्वं, नोत्पत्तिविधित्वम् । स्यादेतत् । दर्शपूर्णमासाभ्यामित्येतस्य नोत्पत्तिविधित्वं संभ- १०त्तिरि.

मीमांसान्यायप्रकाशः। ११ वति, आग्नेयोऽष्टाकपाल इत्यादिवाक्यानर्थक्यापत्तेः। न हि तदा तेन कर्म विधीयते, तस्य दर्शपूर्णमासाभ्यामित्यनेन विहितत्वात् । नापि गुणविधानं संभवति, प्राप्ते कर्मणि अनेकगुणविधाने वाक्यभेदा- पत्तेः । अतः आग्नेयोऽष्टाकपाल इत्यस्योत्पत्तिविधित्वं दर्शपूर्णमासा- भ्यामित्यस्य चाधिकारविधित्वं युक्तम् । ज्योतिष्टोमेनेत्यस्य तु अधि-५ कारविधेरुद्भिदा यजेत पशुकाम इत्यादिवदुत्पत्तिविधित्वेऽपि स्वीक्रि- यमाणे न कस्यचिदानर्थक्यम् । सोमेन यजेतेत्यस्य गुणविधित्वा- द्यागोदेशेन सोममात्रविधानाच न वाक्यभेद् इति चेत्-मैवम् । यद्यपि सोमेन यजेतेत्यत्र न वाक्यभेदः, तथापि ज्योतिष्टोमेने- त्यस्मिन्वाक्ये कर्मस्वरूपे तस्य च फलसंबन्धे विधीयमाने गौरव-१० लक्षणो वाक्यभेदोऽस्त्येव । सोमेन यजेतेत्येतद्वाक्यविहितकर्मणः फलसंबन्धमात्रविधाने तदभावात् । उद्भिदा यजेतेत्यत्र तु वचनान्तराभावेनागत्या तदाश्रयणम् । न च सोमेन यजेतेत्यत्रापि कर्मणः स्वरूपे गुणे च विधी- यमाने वाक्यभेदः स्यादिति वाच्यम् । श्रूयमाणेन विधिना गुण-१५ स्याविधेयत्वात् , विशेषणविधेरार्थिकत्वात् । सर्वत्र हि विशिष्ट- विधौ विशेषणविधिरार्थिकः । ज्योतिष्टोमेनेत्यस्य तूत्पत्तिविधित्वे कर्मस्वरूपं फलसंबन्धश्चेति उभयं श्रूयमाणेनैव विधिना विधात- व्यमिति दृढो गौरवलक्षणो वाक्यभेदः। यथाहुः- श्रोतव्यापारनानात्वे शब्दानामतिगौरवम् । एकोक्यवसितानां तु नार्थाक्षेपो विरुध्यते ॥ (त० वा० २।३।३) इति । न च सोमेन यजेतेत्यस्योत्पत्तिविधित्वे यद्यपि न वाक्यभेदः तथापि मत्वर्थलक्षणा स्यादेवेति वाच्यम् । तस्याः स्वीक्रियमा- णत्वात् , लक्षणातो वाक्यभेदस्य जघन्यत्वात् । लक्षणा हि पद-२५ दोषः, वाक्यभेदस्तु वाक्यदोषः । पदवाक्यदोषयोर्मध्ये पदे एव - १ लाघवात् . २ °स्याविहितत्वातू. ३ क्ययोर्म .

१२ आपदेवकृतः ब दोषकल्पनाया उचितत्वात् । गुणे त्वन्याय्यकल्पना' (जै० सू० ९३।१५) इति न्यायात् । अत एव 'जातपुत्रः कृष्णकेशोऽग्नीनादधीत' इत्यत्राधानानु- वादेन जातपुत्रत्वकृष्णकेशत्व विधाने वाक्यभेदात्पदद्वयेनावस्था- ५विशेषो लक्ष्यते इत्युक्तम् । तस्माद्वाक्यभेदप्रसक्तो लक्षणैव स्वीकार्यां । तस्मात् सोमेम यजेतेत्ययमेवोत्पत्तिविधिन ज्योतिष्टोमेने- त्ययं, गौरवलक्षणवाक्यभेदापत्तेः । किंच सोमेन यजेतेत्यत्र यागविधाने श्रुत्यर्थविधानं गुण- विधाने तु वाक्यार्थविधानम् । तच्च श्रुत्यर्थविधानसंभवेऽयुक्तम् । १० यथाहुः वाक्यार्थविधिरन्याय्यः श्रुत्यर्थविधिसंभवे । आप० श्रौ० १२।१४।८) (मान० श्री० २।३।५।४) (कात्या० श्री० ९।६।६) इति । वाक्यार्थः, पदान्तरार्थ इत्यर्थः । ज्योतिष्टोमेनेत्यत्रापि फलो- १५ देशेन यागस्यैव विधानान वाक्यार्थविधानम् , तदुत्पत्तिविधि- त्ववादिनापि तदङ्गीकाराच्च । तस्मात् ज्योतिष्टोमेनेत्ययमधिकार- विधिरेव। अपि च कर्मस्वरूपविधिस्तत्र स्वीकार्यों यत्र कर्मणो रूपमुप- लभ्यते । यागस्य च द्वे रूपे, -द्रव्यं देवता चेति । सोमेन यजेते- २० त्यत्र यद्यपि देवता नोपलभ्यते सोमयागस्याव्यक्तत्वात् , अव्यक्तत्वं च स्वार्थचोदितदेवताराहित्यम्, न तु देवताराहित्यमात्रम् , ऐन्द्र- वायवं गृह्णातीत्यादिवाक्यविहितग्रहदेवतानां सत्त्वात् , ग्रहणार्था- भिरपि देवताभिः प्रसङ्गतो यागोपकारस्य क्रियमाणत्वात् , तथापि द्रव्यमुपलभ्यत एव । तेनापि यागस्वरूपं ज्ञातुं शक्यमेव । ज्योति- २५ष्टोमेन स्वर्गकामो यजेतेत्यत्र न द्रव्यं देवता वा श्रूयते । अत- स्तस्योत्पत्तिविधित्वे यागविशेषज्ञानं यागसामान्यस्यौविधेयत्वात् १°ने संभवत्ययु .२ °स्याविहितत्वात.

मीमांसान्यायप्रकाशः। विशेषस्यैव विधेयत्वादित्यादिक्केशेन स्यात् , अतो नायं कर्मोत्पत्ति- विधिः। नन्वेवमपि अग्निहोत्रं जुहोतीत्ययमपि होमोत्पत्तिविधिर्न स्यात् , रूपाश्रवणात् । तच्छ्रवणाच्च दना जुहोतीत्ययमेवोत्पत्तिविधिः स्यात् । तथा चाघारोग्निहोत्राधिकरण(जै० २।२। अ० ५)विरोधः ।५ तत्र हि अग्निहोत्रं जुहोतीत्यस्योत्पत्तिविधित्वं ना जुहोतीत्यादीनां च गुणविधित्वमुक्तमिति चेत्-सत्यम् । अग्निहोत्रं जुहोतीत्यत्र यद्यपि रूपं नोपलभ्यते, अग्निहोत्रशब्दस्य तत्प्रख्यन्यायेन (जै० १।४।४) नामधेयत्वात् , तदेतद्ने वक्ष्यामः, तथापि तस्यो- त्पत्तिविधित्वं स्वीक्रियते, अन्यथा नर्थक्यापत्तेः । दना जुहोती-१० त्यस्य च नानर्थक्यं गुणविधित्वात् । अतः अमिहोत्रं जुहोतीत्ययं कर्मोत्पत्तिविधिरिति युक्तम् । ज्योतिष्टोमेनेत्यस्य च नानर्थक्यम- धिकारविधित्वोपपत्तेः । अतः किमर्थ संभवति रूपवति वाक्ये कर्मविधाने तद्रहिते तत्स्वीकार्यम् । किंच दन्ना जुहोतीयस्य कर्मोत्पत्तिविधित्वे पयसा जुहोतीत्यनेनै-१५ तत्कर्मानुवादेन न पयो विधातुं शक्यते, उत्पत्तिशिष्टदध्यवरोधात्। उत्पत्तिशिष्टगुणावरुद्धे हि न गुणान्तरं विधीयते, आकाङ्क्षाया उत्पत्तिशिष्टेनैव निवृत्तत्वात् । अतस्तेनापि विशिष्टं कर्मान्तरं विधे- यम् । तथा चानेकादृष्टकल्पनागौरवम् । अमिहोत्रं जुहोतीत्यस्य तु उत्पत्तिविधित्वे एतद्वाक्यविहितस्य कर्मणो द्रव्याकाङ्क्षायां युग-२० पदेव खलेकपोतन्यायेन ‘दना जुहोति', “पयसा जुहोति' इत्यादि- वाक्यैर्गुणा विधीयन्त इति नानेकादृष्टकल्पनागौरवम् । अतोऽग्निहोत्रं जुहोतीत्ययमुत्पत्तिविधिः, पयसा जुहोतीयाद- यस्तु गुणविधय इति युक्तम् । सोमेन यजेतेत्यत्र तु रूपवति वाक्ये कर्मोत्पत्तिविधाने स्वीक्रियमाणे न किंचिदूषणं, पक्ष-२५ द्वयेऽप्येकस्यादृष्टस्य तुल्यत्वात् । तस्मायुक्तं सोमेन यजेतेत्यय- १°त्वात्लेशेन. २०राधि०. ३ °त्यस्य च गु. २ मी. न्या. ४ ततो.

आपदेवकृतः १ मेवोत्पत्तिविधिरित्यलमनया विधिनिरूपणानुगतप्रपञ्चनिरूपण- चिन्तया । प्रकृतमनुसरामः । तत्सिद्धं विधिः प्रयोजनवन्तमप्राप्त- मर्थ विधत्त इति। स च विधिश्चतुर्विधः-उत्पत्तिविधिर्विनियोगविधिः प्रयोग- ५विधिरधिकारविधिश्चेति । तत्र कर्मखरूपमात्रबोधको विधिरुत्प- त्तिविधिः । यथाग्निहोत्रं जुहोतीति । उत्पत्तिविधौ च कर्मणः करणत्वेनैवान्वयः, होमेनेष्टं भावयेदिति । न तु होमं कुर्यादिति साध्यत्वेन । तथा सति साध्यस्य साध्यान्तरान्वयायोगेनाधिकार- वाक्यावगतफलसंबन्धो न स्यात् । करणत्वेने त्वन्वये होमेनेष्टं ७० भावयेत् , किं तदिष्टमित्याकाङ्क्षायां फलविशेषसंबन्धो घटते । न च उत्पत्तिविधाविष्टवाचकपदाभावेन कर्मणा इष्टं भावये- दिति कथं वाक्यार्थ इति वाच्यम् । विधिश्रुतेरेवेष्टबोधकत्वात् । सा हि पुरुषार्थे पुरुषं प्रवर्तयन्ती कर्मणः फलसंबन्धमात्रं बोध- यति । तस्माद्युक्तमुत्पत्तिविधौ कर्म करणत्वेनान्वेतीति । अत १५ एवोद्भिदा यजेत (ता० ब्रा० १९१७१२) इत्यादौ तृतीयान्त उद्भि- च्छब्द उपपद्यते, उद्भिदा यागेन इष्टं भावयेदित्यन्वयोपपत्तेः । येषामपीष्टसाधनत्वं लिङर्थस्तेषामपि तृतीयान्तानां कर्मनामधेया- नामन्वयोऽनुपपन्न 'एव । न हि संभवति याग इष्टसाधनमु- द्भिदेति । तृतीयोपात्तस्य कारकस्य लिङ्गसंख्यान्वयायोग्यस्य क्रिय- २० यैवान्वयात् । ननु तवाप्यग्निहोत्रं जुहोतीत्यादिषु कर्मोत्पत्तिविधिषु द्विती- यान्तानां कर्मनामधेयानामन्वयोऽनुपपन्नः । न हि संभवति होमेन भावयेदग्निहोत्रमिति । सत्यम् । श्रूयमाणा तावहितीयाऽर्थाक्षिप्त- साध्यत्वानुवादः, होमस्य हि करणत्वेनान्वयादसाधितस्य च २५ करणत्वानुपपत्तेः । तस्याश्चान्वयोपस्थितौ सा सक्तून् जुहोती- तिवत् तृतीयार्थ लक्षयति । अग्निहोत्रेण होमेनेष्टं भावयेदितीत्युक्तं १ अप्रसक्तविधिनिरूपणानुगत; विधिनिरूपणागतप्रसङ्गचिन्तया. २ °नान्वये.

मीमांसान्यायप्रकाशः। पार्थसारथिमित्रैः। अतश्च द्वितीयान्तानां कर्मनामधेयानामन्वयो नानुपपन्नः । तत्सिद्धमुत्पत्तिविधौ कर्म करणत्वेनान्वेतीति । अङ्गप्रधानसंबन्धबोधको विधिर्विनियोगविधिः । यथा दना जुहोतीति । स हि तृतीयाप्रतिपन्नाङ्गभावस्य दनो होमसंबन्धं विधत्ते दना होमं भावयेदिति । एतस्य च विधेः सहकारिभूतानि षट् प्रमाणानि श्रुतिलिङ्ग- वाक्यप्रकरणस्थानसमाख्यारूपाणि । एतत्सहकृतेन विधिनाङ्गत्वं परोद्देशंप्रवृत्तकृतिव्याप्यत्वरूपं पारार्थ्यापरपर्यायं ज्ञाप्यते । तत्र निरपेक्षो रवः श्रुतिः । सा च त्रिविधा-विधात्री अभिधात्री विनियोकी चेति । तत्र विधात्री लिङाद्यात्मिका । अभिधात्री ब्रीह्यादिश्रुतिः । यस्य च शब्दस्य श्रवणादेव संबन्धः प्रतीयते सा विनियोकी। सा च त्रिधा-विभक्तिरूपा समानाभिधानरूपा एकपदरूपा चेति । तत्र विभक्तिश्रुत्याङ्गत्वं यथा ब्रीहिभिर्यजेतेति तृतीयाश्रुत्या ब्रीहीणां यागाङ्गत्वम् । न च उत्पत्तिशिष्टपुरोडाशावरुद्धे यागे कथं बीहीणामङ्गत्वमिति वाच्यम् । पुरोडाशप्रकृतितयोपपत्तेः । पशोरिव हृदयादिरूपहवि- प्रकृतितया यागाङ्गत्वम् । न च साक्षात्पशोरेवाङ्गत्वं किं न स्यादिति वाच्यम्, तस्य विशसनात्, अवदीयमानत्वाञ्च हृदयादी- नाम् । अवदीयमानं हि हविः । यथा पुरोडाशादिः । मध्यात्पूर्वा- च्चिावद्यतीति वाक्यात् । हृदयादीनि चावदीयमानानि न पशुः, हृदयस्याग्रेऽवद्यति (तै. सं. ६।३।१०।४) इति वाक्यात् । अतो हृदयादीन्येव हवींषि, पशुस्तु प्रकृतिद्रव्यम् । पानीवतयागे तु साक्षात्पशुरेवाङ्गम् । तस्य जीवत एव 'पर्य- ग्निकृतं पानीवतमुत्सृजति' (ते. सं. ६।६।३।१) इत्युत्सर्गविधानात् ।२५ यत्र तु विशसनं तत्र पशुः प्रकृतिद्रव्यमित्येव सिद्धम् । १०द्देश्य. २ °एकाभि.

आपदेवकृतः एवं ब्रीहयोऽपि प्रकृतिद्रव्यतया यागाङ्गं तृतीयाश्रुत्येति । आरु- ण्यस्यापि क्रयाङ्गत्वं तृतीयाश्रुत्या । न चामूर्तस्य तस्य कथं क्रयाङ्ग- त्वमिति वाच्यम् । एकहायनीरूपद्रव्यपरिच्छेदद्वारा तदुपपत्तेः । ब्रीहीन्प्रोक्षतीत्यत्र प्रोक्षणस्य ब्रीह्यङ्गत्वं द्वितीयाश्रुत्या । तच्च ५प्रोक्षणं न ब्रीहिवरूपार्थम् , स्वरूपे आनर्थक्यात् , ब्रीहिस्वरूपस्य प्रोक्षणं विनाऽनुपपत्त्यभावात् , किंत्वपूर्वसाधनत्वप्रयुक्तं यदि ब्रीहिषु प्रोक्षणं क्रियते तदा तैर्यागे अनुष्ठितेऽपूर्व भवति नान्यथेति । अतः प्रकरणसहकृतया द्वितीयाश्रुत्या तण्डुलनिर्वृत्तिप्रणाड्या यदपूर्वसाधनं तदङ्गत्वं प्रोक्षणस्योच्यत इति । एवं सर्वेष्वप्यङ्गेषु अपूर्वप्रयुक्तत्वं १० वेदितव्यम्। एवम् 'इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते' (तै० सं० ५।१।२।१) इत्यत्रापि द्वितीयाश्रुत्या मत्रस्याश्वाभिधान्यङ्गत्वम् । यत्तु वाक्यीयोऽयं विनियोग इति तन्न । तथा सति वाक्याल्लिङ्गस्य बलीयस्त्वेन यावद्वाक्यादश्वाभिधान्यङ्गं भवति तावल्लिङ्गाद्रशना- १५मात्राङ्गत्वमेव स्यात् , 'स्योनं ते सदनं कृणोमि' (तै० ब्रा० ३।७५) इत्यस्येव सदनाङ्गत्वम् । श्रौतविनियोगपक्षे तु यावल्लिङ्गादशनामा- त्राङ्गत्वं संभवति तावच्छुत्या 'ऐन्या गार्हपत्यमुपतिष्ठते' (मै० सं० ३।२।४) इत्यत्र तृतीयाश्रुत्या ऐन्या ऋचो गार्हपत्योपस्थानाङ्गत्वव- दश्वाभिधान्यां विनियोगः क्रियते इति युक्तं मन्त्रस्याश्वाभिधान्य- २० गत्वम् । तस्माच्छौत एवायं विनियोगः । यदाहवनीये जुहोतीत्याहवनीयस्य होमाङ्गत्वं सप्तमीश्रुत्या । एवमन्योऽपि विभक्तिश्रुत्या विनियोगो ज्ञेयः । पशुना यजेतेत्यत्रैकत्वपुंस्त्वयोः समानाभिधानश्रुत्या कारकाङ्ग- त्वम् । यजेतेत्याख्याताभिहितसङ्ख्याया भावनाङ्गत्वं समानाभिधान- २५ श्रुतेरेकपदश्रुत्या च यागाङ्गत्वम् । न चामूर्तीयास्तस्याः कथं यागाङ्गत्वमिति वाच्यम् । कर्तृपरि- १विशेषणतयेत्यर्थः । २ व्रीहिषु प्रोक्षणं. ३ °नप्र. ४ङ्गवं संभ.

मीमांसान्यायप्रकाशः। ७ च्छेदद्वारा तदुपपत्तेः । कर्ता चाक्षेपलभ्यः । आख्यातेन हि भाव- नोच्यते । सा च कर्तारं विनाऽनुपपन्ना तमाक्षिपति । ननु किमित्येवं वर्ण्यते आक्षेपलभ्यः कर्तेति । आख्यातवाच्य एव किं न स्यात् । आख्यातश्रवणे भावनाया इव कर्तुरपि प्रतिपत्तेः। न च भावनयैवाक्षेपसंभवे किमिति तद्वाचकत्वं कल्पनीयमिति साम्प्रतम् । तथा सति आख्यातवाच्यकत्रैव भावनाक्षेपसंभवे तद्वा- चकत्वमपि न स्यात् । किं च भावनाया न केवलं कत्रैव संबन्धः, कारकान्तरेणापि संबन्धात् । अतः सा न झटिति कर्तारमेवाक्षि- पेद्विशेषाभावात् । कर्ता तु भावनयैव संबद्धो न कारकान्तरेण, 'गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्' (जै० सू० ३।१।२२) १० इति न्यायात् । अतः स झटिति तामाक्षिपेदिति स एवाख्यात- वाच्यः । भावना तु आक्षेपलभ्यैव किं न स्यात् । किंचैवं तृतीयादि- विभक्तीनामपि करणादिवाचकत्वं न स्यात्, तेषामपि कर्तृवदा- क्षेपलाभसंभवात् । किंच यदि कर्ता न वाच्यः स्यात्कथमेकत्वं तेनान्वियात् ११५ न हि शाब्दमशाब्देनान्वेतीति युक्तम् । अन्यथा ऊहादिलोपप्रसङ्गः। किंच देवदत्तः पचतीति सामानाधिकरण्यं न स्यात् । न हि केवलं > भावनावाचकस्याख्यातस्य देवदत्तपदेन सामानाधिकरण्यमुपपद्यते, एकार्थनिष्ठत्वाभावात् । कर्तृवाचकत्वे तूपपद्यत एव । लः कर्तरीति व्याकरणस्मृतिविरोधस्तु कर्तुरनभिधेयत्वे स्पष्ट एव । २० किं च कर्तुरनभिधेयत्वे देवदत्तेन पचतीति प्रयोगप्रसङ्गः । तृतीया हि अनभिहितयोः कर्तृकरणयोर्विहिता, आख्यातेन कर्ता नाभिहित इति कर्तृवाचिनी तृतीया स्यादेव । कर्तुरभिधाने तु अभिहितत्वादेव तृतीया न प्राप्नोति, तस्या अनभिहिताधिकारत्वात् । देवदत्तः पचतीति प्रथमा तु प्राप्नोत्येव, प्रथमाया अभिहितकारकविभक्ति-२५ त्वात्, प्रातिपदिकार्थमात्रवाचित्वाद्वा । न च तदा प्रातिपदिकेनैवार्थस्योक्तत्वात्प्रथमावैयर्थ्यम् । लिङ्ग- १०न्वेति. २ लः कर्मणीति. ३ निभि...

आपदेवकृतः सङ्ख्याप्रतिपत्त्यर्थं तस्या आवश्यकत्वात् । केवलप्रातिपदिकस्य प्रयोगासाधुत्वाच्च । ततश्च यदि कर्ता न वाच्यः स्यादेवदत्तेन पचतीति प्रयोगः स्यात् । तस्मादाख्यातवाच्यः कर्तेति सिद्ध- मिति पूर्वपक्षसंक्षेपः। अनाहुः स एव हि शब्दस्यार्थो यः प्रकारान्तरेण न लभ्यते, अनन्यलभ्यः शब्दार्थ इति न्यायात् । अत एव न गङ्गापदस्य तीरमर्थः, लक्षणयैव प्रतिपत्तिसंभवात् । अत एव च न वाक्यार्थे शक्तिः । एवं चाख्यातवाच्यभावना कर्तारं विनानुपपन्ना तमा- क्षिपतीत्याक्षेपादेव कर्तुः प्रतिपत्तिसंभवे किमिति तद्वाचकत्वमा- १. ख्यातस्य कल्पनीयम् । न च विनिगमनाविरहः । कृतिमान् हि कर्ता । एवं च कृतेरेव भावनापरपर्यायाया आकृत्यधिकरणन्यायेनाख्यातवाच्यत्वसंभवे न तद्वतः कर्तुर्वाच्यत्वं कल्पनीयम् , गौरवप्रसङ्गात् । न च भावना कारकान्तरेणापि संबद्धा तदुज्झित्वा न झटिति कर्तारमाक्षिपतीति १५ वाच्यम् । सा हि यथा नियमेन का संबद्धा, न तथा करणादि- कारकान्तरेण, तिष्ठतीत्यादिषु तया तदनाक्षेपात् । अतः प्रथमं सा कर्तारमेवाक्षिपति न कारकान्तरम् । अत एव चाख्याताभिहिता सङ्ख्या न कारकान्तरेण संबध्यते, तस्य प्रथममनुपस्थितेः। अत एव तृतीयादिविभक्तीनां करणादिवाचित्वम्, भावना- यास्तैः सह नियतसंबन्धाभावेन तया तेषां नियमेनानाक्षेपात् । आख्यातश्रवणाप्रागपि तृतीयादिविभक्तिश्रवणे करणादिप्रतीतेर्जा- यमानत्वाच । न च शाब्दी सङ्ख्या कथमशाब्देन कान्वेतीति वाच्यम् । कर्तुर्लक्षणाङ्गीकारात् । यथा च लक्षितं तीरं शाब्देन घोषणान्वेति, एवं लक्षितः कर्ता एकत्वेनान्वेष्यति । अत एव २५ देवदत्तः पचतीति सामानाधिकरण्यमुपपद्यते, कर्तुर्लक्षणात् । न च मुख्य संभवति किमिति लाक्षणिकत्व स्वीकार्यमिति वाच्यम् । अनन्यलभ्यशब्दार्थत्वस्य व्यवस्थापितत्वात् । अन्यथा २० १ तस्यावश्य. २ कं स्वी.

मीमांसान्यायप्रकाशः। सिंहो देवदत्त इत्यपि सामानाधिकरण्यं मुख्यं स्यात् । किंच आख्यातवाच्यः कर्तेति वादिनोऽपि मते देवदत्तः पचतीति सामा- नाधिकरण्यं न मुख्यम् । तन्मते आख्यातेन तृतीयावन्निष्कृष्टशक्ति- मात्ररूपकर्तृकारकाभिधानात्, शक्तिमद्रव्यस्याकृत्यधिकरणन्याये- नानभिधानात , देवदत्तशब्देन च द्रव्यमात्राभिधानात् । अतश्च ५ भिन्नार्थनिष्ठत्वात्तन्मतेऽपि न मुख्यं सामानाधिकरण्यम्, किंतु लाक्षणिकमेवेति न कश्चिद्विशेषः । न च लैः कर्तरीति व्याकरणस्मृतिबलादाख्यातवाच्यः कर्तेति वाच्यम् । न हि वाच्यवाचकभावो व्याकरणस्मृत्यधीनः । तस्य न्यायसहितान्वयव्यतिरेकगम्यत्वात् । भवतु वा स्मृतिगम्यः ।१० तथापि नेयं स्मृतिः कर्तुराख्यातवाच्यत्वे प्रमाणम् , किंतु कर्तु- रेकत्वे एकवचनात्मको लकारः द्वित्वे द्विवचनात्मकः बहुत्वे बहु- वचनात्मक इत्यस्मिन्नर्थे प्रमाणम् , ब्येकयोर्द्विवचनैकवचने बहुषु बहुवचनमित्यनेनास्याः स्मृतेरेकवाक्यत्वात् । यत्तूक्तम् कर्तुरनभिधाने देवदत्तेन पचतीति तृतीयाप्रसङ्ग इति १५ तन्न । तृतीया हि कर्तुः प्रतिपत्त्यर्थं तद्गतसंख्याप्रतिपत्त्यर्थं वा । तत्र कर्ता तु भावनाक्षेपादेव लभ्यते इति न तत्र तृतीयापेक्षा । तत्सङ्ख्या तु आख्यातेनैव प्रतीयते इति न तत्राप्यपेक्षा । यथाहु:- सङ्ख्यायां कारके वा धीर्विभक्त्या हि प्रवर्तते । उभयं चात्र तत्सिद्धं भावनातिङ्विभक्तितः॥ (त० वा० ३।४।१३) इति । यत्र तु नाख्यातेन तद्गता सङ्ख्योच्यते तत्र भवत्येव तृतीया । यथा देवदत्तेन ओदनः पच्यते इति । तस्मान्न कर्तुरनभिधाने किंचिदूषणमित्यलमतिविस्तरेण । प्रकृतमनुसरामः । तत्सिद्धस्त्रि- विधः श्रुतिविनियोगः। सेयं श्रुतिर्लिङ्गादिभ्यः प्रबलं प्रमाणम् । लिङ्गादिषु हि न प्रत्यक्षो विनियोजकः शब्दोऽस्ति, किंतु कल्प्यः । यावच्च वैर्विनि- -- २० १ लः कर्मणीति.

२० आपदेवकृतः - १० योजकः शब्दः कल्प्यते तावत्प्रत्यक्षया श्वत्या विनियोगस्य कृतत्वा- तेषां कल्पकत्वशक्तिर्विहन्यते इति श्रुतेः प्राबल्यम् । अत एव 'ऐन्या गार्हपत्यमुपतिष्ठते' (मै० सं० ३।२।४) इत्यत्र यावल्लिङ्गादैन्द्रया इन्द्रोपस्थानाङ्गत्वं कल्प्यते तावत् प्रत्यक्षया श्रुत्या ५ गार्हपत्योपस्थानाङ्गत्वं क्रियत इति ऐन्द्री गार्हपत्योपस्थानाङ्गम् । सामर्थ्य लिङ्गम् । यदाहुः- 'सामर्थ्य सर्वभावानां लिङ्गमित्यभिधीयते' (त. वा० १॥३॥३) इति । तेनाङ्गत्वं, यथा 'बहिर्देवसदनं दामि' (मै० सं० १११॥३) इत्यस्य लवनाङ्गत्वम् । स हि लवनं प्रकाशयितुं समर्थः। तच्च लिङ्ग द्विविधम् । सामान्यसंबन्धबोधकप्रमाणान्तरानपेक्षं तदपेक्षं च । तत्र यदन्तरेण यन्न संभवत्येव तस्य तदङ्गत्वं तदनपेक्षं केवल- लिङ्गादेव । यथाऽर्थज्ञानस्य कर्मानुष्ठानाङ्गत्वम् । न हि अर्थज्ञान, मन्तरेणानुष्ठानं संभवति । १५. यदन्तरेण यत्संभवति तस्य तदर्थत्वं तदपेक्षम् , यथोक्तस्य मनस्य लवनाङ्गत्वम् । लवनं हि मत्रं विनापि उपायान्तरेण स्मृत्वा कर्तुं शक्यम् । अतो न मनो लवनस्वरूपार्थः संभवति, किंत्व- पूर्वसाधनीभूतलवनप्रकाशनार्थः । तत्त्वं च न सामर्थ्यमात्रावग- भ्यते, लवनप्रकाशनमात्रे सामर्थ्यात् । अतोऽवश्यं प्रकरणादि २० सामान्यसंबन्धबोधकं स्वीकार्यम् । दर्शपूर्णमासप्रकरणे हि मत्रस्य पाठादेवमवगम्यते अनेन मत्रेण दर्शपूर्णमासापूर्वसंबन्धि किंचित् प्रकाश्यते इति । अन्यथा प्रकरणपाठवैयर्थ्यप्रसङ्गात् । किं तदपूर्व- संबन्धि प्रकाश्यमित्यपेक्षायां सामर्थ्यादहिवनमित्यवगम्यते । तद्धि बर्हिःसंस्कारद्वारा पूर्वसंबन्धीति मत्रस्य सामर्थ्यात्तदर्थत्वे २५सति नानर्थक्यं प्रसज्यते । तस्मादहिर्देवसदनं दामीत्यस्य प्रकरणा- दर्शपूर्णमाससंबन्धितयावगतस्य सामर्थ्याल्लवनाङ्गत्वमिति सिद्धम् । १°नार्थ. २ वा. ३ गवं. ४ तदङ्गलं. ५ युक्तं.

मीमांसान्यायप्रकाशः। २१ अत पूषानुमत्रणमत्राणां तु यागानुमत्रणसमाख्यया यागसामान्य- संबन्धेऽवगते सामर्थ्यात्पूषयागसंबन्धोऽवगम्यते । ननु तेषां यावत्समाख्यया पूषयागेन सामान्यसंबन्धोऽवगम्यते, तावत् प्रकरणादर्शपूर्णमासाभ्यामेव सामान्यसंबन्धोऽवगतः, समा- ख्यातस्तस्य बलीयस्त्वात् । एव पौरोडाशिकमिति समाख्याते ब्राह्मणे आनातानामपि प्रयाजानां प्रकरणात्सान्नाय्यो- पांशुयागाङ्गत्वमपीत्युक्तम् । किंच यागानुमत्रणसमाख्ययापि न पूषयागेन सामान्यसंबन्धोऽवगम्यते किंतु यागमात्रेण, प्रकरणेन तु दर्शपूर्णमासाभ्यामेव विशेषसंबन्धोऽवगम्यते । अतः प्रकरणा- ज्झटिति तत्संबन्धस्यैवावगतत्वात्तदर्थत्वमेव तेषां युक्तम् । पूषेति १० शब्दस्य पुष्णातीति व्युत्पत्त्या कथंचिदम्याद्यभिधायित्वात् । मैवम् । पूषानुमत्रणमत्रे हि श्रूयमाणे एवमवगम्यते-पूषाभिधा- नसमर्थत्वादयं मत्रस्तत्प्रकाशनार्थ इति लवनमत्र इव लवनप्रका- शनार्थः । न तत्र प्रकरणाद्यपेक्षा, येन तेषामुपजीव्यत्वेन प्राबल्यं स्यात् । प्रकरणात्तु दर्शपूर्णमासार्थत्वे तस्य वाक्यलिङ्गश्रुतिकल्पनेन १५ विनियोजकत्वात् लिङ्गस्योपजीव्यत्वेन प्राबल्यम् । अतो लिङ्गात्पूष- प्रकाशनार्थत्वेऽवगते तन्मात्रप्रकाशनमनर्थकमित्यपूर्वसाधनपूष- , प्रकाशनार्थत्वं वक्तव्यम् । किं तदपूर्वमित्यपेक्षायां यागानुमत्रणसमाख्यानुगृहीताल्लिङ्गा- त्पूषयागापूर्वसंबन्धिदेवताप्रकाशनार्थोऽयमित्यवगम्यते । यद्यपि समाख्यातः प्रकरणं बलीयस्तथाऽपि तस्य लिङ्गेन बाधि- तत्वात् समाख्याया दुर्बलाया अपि प्रबललिङ्गाश्रितत्वेन प्राबल्या- सैव सामान्यसंबन्धे प्रमाणं संभवति, दुर्बलस्यापि प्रबलाश्रितस्य प्राबल्यात् । अत एव श्रुत्यपेक्षया दुर्बलाया अपि स्मृतेराचमनरूपप्रेबलपदा-२५ । थांश्रितत्वेन प्राबल्यात्पदार्थधर्मगुणभूतश्रौतक्रमत्यागेन वेदकरणा- नन्तरं क्षुते आचमनमेव कार्यमित्युक्तम् (जै० १॥३७)। यथाहुः- अतो २० १ मितीत्यु. २ प्रबलार्था.

२२ . आपदेवकृतः - अत्यन्तबलवन्तोऽपि पौरजानपदा जनाः। दुर्बलैरपि बाध्यन्ते पुरुषैः पार्थिवाश्रितैः ।। (त० वा० ३।३।७) इति । यत्तु पूषेति शब्दः कथंचिदग्न्याद्यभिधायीति तन्न । 'तस्या- ५दन्तको हिस' (तै० सं० २।६।८१५) इत्यादिवाक्यशेषेण वैदिकप्रसिद्ध्या च अर्थविशेष रूढत्वात् । रूढेश्चावयवार्थालोचनसव्यपेक्षाद्योगा- दलीयस्त्वात् । अत एव 'वर्षासु रथकारोऽमीनादधीत' (बौ० श्री. सु० २।१२।५३।१७) इत्यत्र रथकारशब्देन सौधन्वनापरपर्यायो वर्णविशेष उच्यते, रूढेः प्राबल्यात्, न तु रथं करोतीति १० व्युत्पत्त्या द्विजातीयः, योगस्य दौर्बल्यादित्युक्तं षष्ठे (६।१।४४)। तस्माद्युक्तं समाख्यया सामान्यसंबन्धेऽवगते सामर्थ्यात्पूषयाग- संबन्धः पूषानुमत्रणमत्राणामिति । यथाहुः- यागानुमत्रणानीति समाख्या ऋतुयोजिका । तस्माच्छक्त्यनुरोधेन प्राप्तिस्तद्देवते क्रतो ।। (त० वा० ३।२।२) इति । तत्सिद्धं प्रमाणान्तरसिद्धसामान्यसंबन्धस्य पदार्थस्य विनियोजक लिङ्गमिति । तत्र मत्रविनियोजकं लिङ्गं मुख्य एवार्थे विनियोजकं न गौणे। मुख्यार्थस्य प्रथममुपस्थितत्वेन तत्रैव विनियोगबुद्धौ पर्यवसन्नायां २० पुनर्गौणेऽर्थे विनियोगकल्पनायां गौरवप्रसङ्गात् । अत एव 'बहिर्देव- सदनं दामि' (तै० सं० १।१।२) इति मत्रः सामर्थ्यात्कुशलवना- ङ्गम् , तेषां मुख्यत्वात् , न उलपराजिलवनाङ्गमित्युक्तम् । तदिदं लिङ्गं वाक्यादिभ्यो बलवत् । तेषां हि न साक्षाद्विनियोज- कत्वं किंतु लिङ्ग श्रुतिं च कल्पयित्वा । न चासमर्थस्य श्रुति २५ कल्पयित्वा विनियोगकल्पना संभवतीति सामर्थ्यस्यापि कल्प्यत्वेनो- पजीव्यत्वात् । अतस्तैर्यावत्सामर्थ्य कल्पयित्वा श्रुतिः कल्प्यते तावदेव क्लुप्तेन सामर्थेन श्रुति कल्पयित्वा विनियोगः क्रियते इति तस्य प्राबल्यम्।

मीमांसान्यायप्रकाशः। २३ अत एव 'स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्प- यामि' (तै० ब्रा० ३७५) इत्यस्य सदनाङ्गत्वं लिङ्गात्, नतु वाक्या- त्सादनाङ्गत्वम् , तस्य दौर्बल्यादिति । समभिव्याहारो वाक्यम् । समभिव्याहारो नाम साध्यत्वादि- वाचकद्वितीयाद्यभावे वस्तुतः शेषशेषिणोः सहोच्चारणम् । यथा५ 'यस्य पर्णमयी जुहूर्भवति न स पाप५ श्लोक ५ शृणोति' (तै० सं० ३।५।७।२) इति। अत्र हि न द्वितीयादि विभक्तिः श्रूयते, केवलं पर्णता- जुह्वोः समभिव्याहारमात्रम् । तस्मादेव च पर्णताया जुह्वङ्गत्वम् । न चानर्थक्यम् , जुहूशब्देनापूर्वलक्षणात् । तदयं वाक्यार्थ:- पर्णतया अवत्तहविर्धारणद्वारा यदपूर्वसाधनं तद्भावयेदिति । एवं ३० च पर्णतया यदि जुहूः क्रियते तदैव तत्साध्यमपूर्व भवति नान्य- थेति गम्यते इति न पर्णताया वैयर्थ्यम् । अवत्तहविर्धारण- द्वारेति चावश्यं वक्तव्यम् , अन्यथा सुवादिष्वपि पर्णतापत्तेः । सा चेयं पर्णताऽनारभ्याधीता न सर्वक्रतुषु गच्छति, विकृतिषु चोदकेनापि प्राप्तिसंभवेन द्विरुक्तत्वापत्तेः । किंतु प्रकृतिषु । १५ तदुक्तम्- 'प्रकृतौ वाऽद्विरुक्तत्वात्' (जै० ३॥६॥४) इति । अत्र विकृतियतोऽङ्गानि गृह्णाति सा प्रकृतिरिति न प्रकृतिशब्देन विवक्षितम् , गृहमेधीये पर्णताया अप्राप्तिप्रसङ्गात् , न हि गृहमेधी- यात्काचन विकृतिरङ्गानि गृह्णाति मानाभावात् , किंतु चोदकाद्यत्रा-२० झाप्राप्तिस्तत्कर्म प्रकृतिशब्देन विवक्षितम् । यथा दर्शपूर्णमासौ । तत्र हि न चोदकादङ्गप्राप्तिः, प्रकरणपठितैरेवाडैनैराकाङ्ख्यात् । गृहमेधीयादिष्वपि न चोदकादङ्गप्राप्तिः, क्लृप्तोपकारैरेव आज्य- भागादिभिर्नैराकाङ्क्षयात् । अतो यत्र चोदकाप्रवृत्तिस्तत्रानारभ्याधीतानां संनिवेशः ।२५ साप्तदश्यं त्वनारभ्याधीतमपि न प्रकृतौ मच्छति, प्रकृतेः पाञ्च- दश्यावरोधात्। किंतु विकृतिषु गच्छति । तत्रापि न सर्वासु गच्छति, , २४ आपदेवकृतः चोदकप्राप्तपाञ्चदश्यबाधप्रसङ्गात् । किंतु प्रत्यक्षश्रुतसाप्तदश्यासु मित्रविन्दादिषु गच्छति । यथाहुः- एवं च प्रकृतावेतत्पाञ्चदश्यं प्रतिष्ठितम् । विकृतौ च न यत्रास्ति साप्तदश्यपुनःश्रुतिः॥.. (त० वा० ३।६।९) इति । न च वाक्यवैयर्थ्यम् । अनारभ्याधीतस्यैव साप्तदश्यस्य मित्रविन्दादिप्रकरणस्थेन वाक्येनोपसंहारात् । उपसंहारो नाम सामान्यप्राप्तस्य विशेषे नियमनम् । यथाहुः- सामान्यविधिरस्पष्टः संह्रियेत विशेषतः । (त० वा० ३।४।४७) इति । तत्रानारभ्यविधिः सामान्यविधिः, मित्रविन्दादिप्रकरणस्थस्तु विशेष विधिरित्यास्तां तावत् । प्रकृतमनुसरामः । तत्सिद्धं वाक्याद- गत्वम् । तदिदं वाक्यं प्रकरणादलीयः । प्रकरणं हि न साक्षाद्विनियो- १५ जकम् , तद्ध्याकाङ्क्षारूपम् । न चाकाङ्क्षा स्वयं प्रमाणं किंतु साकाङ्क्ष वाक्यं दृष्ट्वा भवत्येतादृशी मति:-नूनमिदं वाक्यं केनचिद्वाक्येनैक- वाक्यभूतमिति । ततश्चाकावारूपं प्रकरणं वाक्यस्य वाक्यान्तरैक- वाक्यत्वे प्रमाणम् । एवं च यावत्प्रकरणं वाक्यं कल्पयित्वा विनियोजकं भवति तावद्वाक्यं लिङ्गश्रुती कल्पयित्वा विनियोजक २० भवतीति प्रकरणाद्वाक्यं बलीयः। अत एव 'इन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महो ज्यायो- ऽक्राताम्' (तै० ब्रा० ३।५।१०।३) इत्यनेन्द्राग्नीपदस्य लिङ्गादर्शाङ्गत्वे सिद्धे इदं हविरित्यादेरपि तदेकवाक्यत्वादर्शाङ्गत्वम्, न तु प्रकरणाद्दर्शपूर्णमासाङ्गत्वम्, प्रकरणाद्वाक्यस्य बलीयस्त्वादिति ॥ उभयाकाङ्क्षा प्रकरणम् । यथा प्रयाजादिषु । समिधो यजती- त्यत्र हि इष्टविशेषस्यानिर्देशात्समिद्यागेन भावयेत् किमित्यस्त्युप- १. हास्वरूपं.

मीमांसान्यायप्रकाशः। - कार्याकाङ्क्षा । दर्शपूर्णमासवाक्येऽपि दर्शपूर्णमासाभ्यां स्वर्ग भाव- येत्कथमित्यस्त्युपकारकाकाङ्क्षा । अत उभयाकाङ्ख्या प्रयाजादीनां दर्शपूर्णमासाङ्गत्वं सिध्यति । ननु यदि प्रयाजादिवाक्ये इष्टविशेषो न श्रूयते तर्हि विश्वजि- न्यायेन स्वर्गः फलं कल्प्यताम् । विश्वजिद धिकरणे (जै० सू०५ ४।५।७) हि विश्वजिता यजेतेत्यत्र फलस्याश्रवणात्, फलमन्तरेण च विधिश्रुतेरनुपपत्तेरवश्यं फले कल्पयितव्ये सर्वाभिलषितत्वेन स्वर्गः फलमित्युक्तम् । तदुक्तम्- 'सस्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वात्' (जै० सू० ४।३।१५) इति । रात्रिसत्रन्यायेन (जै० सू० ४।३।१५) वार्थवादिकं फलं कल्प्य-१० ताम् । रात्रिसत्राधिकरणे हि प्रतितिष्ठन्ति ह वै य एता रात्रीरुप- यन्तीत्यत्र विध्युद्देशे फलाश्रवणात्फलमन्तरेण च विधिश्रुतेरनुपपत्ते- रवश्यं फले कल्पयितव्ये आर्थवादिकं प्रतिष्ठाख्यं फलमित्युक्तम् । विश्वजिदधिकरणन्यायेनानुपस्थितस्वर्गकल्पने तस्य प्रकृतसंबन्ध- कल्पने गौरवादर्थवादोपस्थितस्यैव प्रकृतफलत्वकल्पने लाघवात् । १५ तदुक्तम्- 'फलमात्रेयो निर्देशादश्रुतौ हनुमानं स्यात्' (जै० सू० ४।३।१८) इति । तस्माद्विश्वजिन्न्यायेन रात्रिसत्रन्यायेन वा स्वतत्रफलार्थत्वे संभवति किमिति दर्शपूर्णमासाङ्गत्वं स्वीक्रियते इति । मैवम् । स्वतत्रफलार्थत्वेऽन्यतराकाङ्क्षया संबन्धः स्यात् । न ह्यत्र फलस्य साधनाकाङ्क्षाऽस्ति । श्रयमाणं हि फलं साधनमाकाङ्क्षति न चात्र तच्छ्रयते । एवं च फलस्याकाङ्क्षाभावात् केवलं किं भाव- येदिति प्रयाजानां भाव्याकाङ्यैव स्वतत्रफलार्थत्वं स्यात् । दर्शपूर्ण- मासार्थत्वे तूभयाकाङ्क्षा प्रमाणम् । प्रयाजानां 'भाध्याकाहाया २५ इतरत्र च कथंभावाकाङ्क्षायाः सत्त्वात् । अन्यतराकाङ्क्षातश्चोभया- काङ्क्षा बलीयसीति वक्ष्यते । ततश्च दर्शपूर्णमासार्थत्वमेव युक्तं न स्वतत्रफलार्थत्वमिति । तदुक्तम्- ३ मी. न्या. है - आपदेवकृतः 'द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात् (जै. • सू० ४।३।१) इति । अत्र द्रव्ये बलश्रुतिर्यस्य पर्णमयी जुहूर्भवति न स पाप५ श्लोक शृणोति (तै० सं० ३॥५॥७॥२) इत्येवमाद्या । संस्कारे फलश्रुतिर्यदक्ते चक्षुरेव भ्रातृव्यस्य वृड्के (तै० सं० ६।११११५) इत्येवमाद्या । कर्मणि फलश्रुतिवर्म वा एतद्यज्ञस्य. क्रियते यत्प्रयाजानूयाजा इज्यन्ते (तै० सं० २।६।११५) इत्याद्या । कर्मपदं चारादुपकारककर्मपरं द्रष्टव्यम् , संस्कारकर्मणः पृथक्संकीर्तनादित्यास्तां तावत् । तदिदं प्रकरणं क्रियाया एव विनियोजकम् , न द्रव्यगुणयोः । १० तयोस्तु क्रियायोगाद्विनियोजकम् । कुत इति चेत्,-शृणु। यजेत स्वर्गकाम इत्यत्राख्यातांशेनार्थीभावनाभिधीयते-भावयेदिति । सा चांशत्रयमपेक्षते-किं भावयेत्केन भावयेत्कथं भावयेदिति । तत्र भाव्याकाङ्क्षायां षष्ठाद्यन्यायेन स्वर्गो भाव्यतयान्वेति-स्वर्ग भावयेदिति । करणाकाङ्क्षायां समानपदोपात्तो यागो भावार्थाधि- १५ करणन्यायेन (जै० सू० २।११) करणतयान्वेति-यागेन स्वर्ग भावयेदिति । ततः कथमिति कथंभावाकाङ्क्षायां यत्संनिधौ पठित- मश्रूयमाणफलकं च क्रियाजातं तदेवोपकार्याकासयेतिकर्तव्यता- त्वेनान्वयमनुभवितुं योग्यं, क्रियाया एव लोके कथंभावाकाङ्क्षाया- मन्वयदर्शनात् । न हि कुठारेण छिन्द्यात्कथमित्याकाङ्क्षायां हस्त २० इति केवलमुच्चार्यमाणोऽपि हस्तोऽन्वयं प्राप्नोति । किं तर्हि हस्तेनो- द्यम्य निपात्येति उच्चार्यमाणे उद्यमननिपातने एव । हस्तोऽपि तहारेणैवान्वयं प्राप्नोतीति सार्वजनीनमेतत् । किं च कथंभावाकाङ्क्षा नाम करणगतप्रकाराकाङ्क्षा । थमोः प्रकारवाचित्वात् । सामान्यस्य भेदको विशेषः प्रकारः । सामान्य २५ च क्रियारूपमेवाख्यातेनोच्यते । यजेत स्वर्गकाम इत्यस्य ह्ययमर्थः- यागेन तथा कर्तव्यं यथा स्वर्गा भवतीति । क्रियासामान्यस्य च विशेषः क्रियैव भवति । न हि ब्राह्मणविशेषः परिव्राजकादिरब्राह्मणो १क्रथमः प्रकार.

मीमांसान्यायप्रकाशः। भवति । एवं च करणगतक्रियाविशेषाकाङ्क्षापरनामधेयकथंभावा- काङ्क्षायां क्रियैवान्वेतीति युक्तम् । स च करणगतः क्रियाविशेषोऽन्वाधानादिब्राह्मणतर्पणान्तक्रिया- रूप एवेति युक्तं तस्य प्रकरणेन ग्रहणम् । तस्य च करणगतत्वं तदुपकारकत्वमेव, तेन विना यागेनापूर्वाजननात् । न ह्युद्यमन-५ निपातनव्यतिरेकेण कुठारेण द्वैधीभावो जन्यते । तत्सिद्ध कथं- भावाकाङ्क्षायां क्रियैवान्वेतीति । अत एव द्रव्यदेवतयोोगसंपादन- द्वारान्वयः सांप्रदायिकैरुक्तः। विकृतौ च कथंभावाकाङ्क्षायामुपकारसंपादनमतिदिश्यत इत्यु- क्तम् । यदि च कथंभावाकाङ्क्षायां सिद्धं वस्त्वन्वययोग्यं स्यात् तदा संपादनपर्यन्तं धावनं ग्रन्थकृतामनर्थकं स्यात् । अतश्च क्रियाया एव इतिकर्तव्यतात्वम्, कथंभावाकाङ्क्षागृहीतस्येतिकर्तव्यतात्वात्, इतिशब्दस्य च प्रकारवाचित्वात् । 'कर्तव्यस्य' इति' प्रकार 'इति- कर्तव्यता'। प्रकारश्च सामान्यस्य भेदको विशेष इत्युक्तम् । कर्त- व्यस्य च विशेषः कर्तव्य एव भवतीति न सिद्धस्य वस्तुन इति-१५ कर्तव्यतात्वम् , किंतु क्रियाया एव । सिद्धस्य तु द्रव्यादेः केवल- मङ्गत्वम् । तदपि श्रुत्यादिना, न तु प्रकरणात् । यथाहु:- नावान्तरक्रियायोगाहते वाक्योपकल्पितात् । गुणद्रव्ये कथं भावैगृहन्ति प्रकृताः क्रियाः ।। (त० वा. ११४॥३) इति । अत एव बहिर्देवसदनं दामीत्यादिमत्राणां लिङ्गादङ्गत्वम्, न तु प्रकरणादित्युक्तमर्थवादाधिकरणपूर्वपक्षसमाप्तौ राणके* कचिद्रव्यस्येतिकर्तव्यतात्वाभिधानमङ्गत्वाभिप्रायं द्रष्टव्यम् । बहु- ग्रन्थखरसादुक्तयुक्तेश्चेति । तत्सिद्धं प्रकरणं क्रियाया एव विनि- योजकमिति । तच्च प्रकरणं द्विविधम् -महाप्रकरणमवान्तरप्रकरणं चेति । * लिखितपुस्तके 'राणके' इत्यस्य परतो वाक्यसमाप्तिद्योतकं रेखाकरणं 'कृतम् । मुद्रितपुस्तकयोस्तु ततःप्रागेव 'प्रकरणादित्युक्तम्' इत्यतः परम् । तेनोपष्टम्भकलाक्षेप्यलयोwयासः फलितः । तत्त्वनिर्णयश्चात्र ऋते राणकदर्शना- J...आपदेवकृतः . तत्र फलभावनायाः प्रकरणं. महाप्रकरणम् । तच्च प्रयाजादीनां ग्राहकम् । तच प्रकृतावेव । यत्र समग्राङ्गोपदेशः सा प्रकृतिः, यथा दर्शपूर्णमासादिः । तत्र चोभयाकाङ्क्षारूपं प्रकरणं संभवति, आका- कानुपरमात् । ५. विकृतौ तुच प्रकरणं संभवति । यत्र न समग्राङ्गोपदेशः सा विकृतिः, यथा सौर्यादिः । तत्र च यान्यपूर्वाण्यङ्गानि पठ्यन्ते उपहोमादीनि तेषां न प्रकरणं विनियोजकम् । तत्र यद्यपि तेषां किं भावयेदित्यस्त्याकाङ्क्षा तथापि प्रधानस्य न कथंभावाकाङ्क्षास्ति, प्राकृतैरेवाङ्गैनिराकाङ्कत्वात् । न च प्राकृतानामङ्गानामत्रापठितत्वे- नाप्रत्यक्षत्वाद्वकृतानां तु पंठितत्वेन प्रत्यक्षत्त्वात्तैरेवाकाङ्कोपशम इति वाच्यम् । तेषां पठितत्वेऽपि अक्लुप्तोपकारत्वेन झटियाकासोपशम- नेऽसामर्थ्यात् , प्राकृतानां तु क्लुप्तोपकारत्वेन तच्छमने सामर्थ्यात् । न चात्र तेषामुपस्थापकाभावः, उपमितिलक्षणप्रमाणेन तेषामुप- स्थितत्वात् । सौर्यवाक्ये हि दृष्टे औषधद्रव्यत्वेन एकदैवत्यत्वेन १५ सादृश्येन आग्नेयवाक्यमुपमीयते - गवयदर्शनागोरुपमानवत् 1 तस्मिंश्योपमिते तेन तदर्थो ज्ञायते • सा व्यंशा भावना 1 तत्र सौर्यवाक्ये -भावनाया भाव्यकरणयोः सत्त्वादितिकर्तव्यता- काङ्क्षायामुपकारपृष्ठभावेनाग्नेयेतिकर्तव्यताऽतिदिश्यते,..-सौर्य- यागेन ब्रह्मवर्चसं भावयेदाग्नेयवदुपकृत्येति । तथा च तयैवाकाङ्को- ३० पशमान्न विकृतेः प्रकरणमस्ति । अन्यतराकाङ्क्षारूपस्थानादेव चापूर्वाङ्गग्रहणम् । न च प्राकृताङ्गग्रहणमेव विकृतौ प्रकरणात् किं न स्यादिति वाच्यम् । तेषामपि प्रकृत्युपकारकतयाऽऽकाङ्कोपशमात् । ननु प्राकृतानामङ्गानामाकाङ्क्षाऽभावे तेषां विकृतौ संबन्धः केवलं '२५ स्थानात् स्यात्, अपूर्वाणां त्वाकाङ्क्षासत्त्वाद्विकृतेरप्याकाङ्क्षावत्त्वा- त्तेषां तत्संबन्धः प्रकरणात्स्यात् , प्रकरणं च स्थानात् झटिति विनि- योजकमित्यपूर्वाणामेव प्रथम संबन्धः स्यात्, न प्राकृतानामिति । अत्रोच्यते-सत्यं, प्रकरणं झटिति विनियोजकम् । तथापि प्रमाणबलाबलात्प्रमेयबलाबलस्य ज्यायस्त्वादुक्तविधयोपस्थितानां i मीमांसान्यायप्रकाशः। २९ प्राकृतानामेव संबन्धो युक्तः स्यात् , क्लुप्तोपकारत्वात् , न वैकृ- तानां कल्प्योपकारत्वात् । विकृतेश्चोपकारकपदार्थाकाङ्क्षा न पदार्थ- मात्राणामिति युक्तः प्रथमं प्राकृताङ्गसंबन्धः। ततश्च न विकृतौ प्रकरणं विनियोजकम् । यत्तु विकृतौ प्राकृताङ्गानुवादेन, विधीयते यथा- 'औदुम्बरो५ यूपो भवति' (त० सं० २।११।६) इति यूपानुवादेन औदुम्बरत्वम्- तत्प्रकरणाद्गृह्यते । ननु न तत्प्रकरणाद्गृह्यते अक्रियात्वात् , क्रियाया एव प्रकरणग्राह्यत्वादिति चेत्-सत्यम् । तथापि तु तावद्विधीयमान- स्यौदुम्बरत्वस्यास्त्येवाकाङ्क्षा-किं भावयेदिति । न च यूपानुवादेन तस्य विधीयमानत्वायूपस्य चादृष्टरूपत्वात्तेनैवौदुम्बरत्वस्य नैरा-१० काङ्क्षयम्, आहवनीयेनेवाधानस्येति वाच्यम् । यूपस्य केवलादृष्ट- रूपत्वाभावात् । तस्य हि तद्रूपत्वे खादिरत्वादिकं केवलादृष्टार्थ स्यात् । न च तत्संभवति । तथा सति खदिराभावे प्रतिनिधि- त्वेन कदरोपादानं न स्यात्, अदृष्टार्थस्य प्रतिनिध्यभावात् , न हि खदिरजन्यमदृष्टं कदरेण क्रियत इत्यत्र प्रमाणमस्ति । १५ अत एव नादृष्टार्थानां प्रतिनिधिः। तदुक्तम्- 'न देवतामिशब्दक्रियमन्यार्थत्वात्' (जै० सू० ६।३।१८) इति । अन्यार्थत्वादिति अदृष्टार्थत्वात् । प्रतिनिधित्वेन चोपादानं कदरादेरुक्तं ग्रन्थेषु । तस्मान्न यूपस्य दृष्टादृष्टसंस्कारगणो यूप इति सांप्रदायिकाः । एवं चौदुम्बरत्वस्य २० न यूपमात्रेण नैराकाङ्क्षयम् , दृष्टसंस्कारस्य प्रकारान्तरेणापि संभ- वात् । अतश्चास्ति औदुम्बरत्वस्याकाङ्क्षा । विकृतेरप्यस्ति कथं- भावाकाङ्क्षा । सा च तदा शाम्यति. यदोपकारास्तत्पृष्ठभावेन च पदार्था अन्वीयन्ते । न तूपकारमात्रान्वयेन शाम्यति । अतश्च यथेन्द्रियभावनायाः करणाकाङ्क्षा दुध्नः करणत्वेनान्वये जाते २५ सिद्धस्य करणत्वानुपपत्त्या होमस्याश्रयत्वेनान्वयं यावदनुवर्तते न तु दुध्यन्वयमात्रेण निवर्तते, आश्रयत्वेन च गृह्यमाणो होमः करणा- काङ्क्षयैव गृह्यत इत्युच्यते, न त्वाश्रयाकाङ्क्षा नाम चतुर्थ्यस्ति । केवलादृष्टरूपत्वम् , अपि तु - आपदेवकृतः... एवं विकृतेः कथंभावाकाङ्क्षा नोपकारान्वयमात्रेण निवर्तते, उपकारपृष्ठभावेन यावत्पदार्थान्वयमनुवर्तते । अतश्चोपकारपृष्ठभा- वेन गृह्यमाणाः पदार्थाः कथंभावाकाङ्क्षयैव गृह्यन्ते । तत्र प्राकृताः पदार्थाः कथंभावाकाङ्क्षया गृह्यमाणा अपि न प्रकरणग्राह्याः ५प्रकृत्युपकारकतया तेषामाकाङ्क्षाऽभावात् । औदुम्बरत्वादयस्तु अन्यानुपकारकतया साकाङ्क्षाः पशुनियोजनयूपपृष्ठभावेन यावत्खा- दिरत्वमायाति तावद्विधीयन्ते इति युक्तं तेषां प्रकरणाद्रहणमुभया- काङ्क्षासत्त्वात् । यदि हि यूपपृष्ठभावेन खादिरत्वं विहितं स्यात्ततो विकृतेराकाङ्क्षाऽभावादोदुम्बरत्वं न प्रकरणग्राह्यं स्यात् । न चैतदस्ति १० चोदकस्य खादिरत्वाविषयत्वात् । ननु यदि यावत्खादिरत्वमायाति तावदेवौदुम्बरत्वं विधीयते तदा तेन खादिरत्वबाधोऽप्राप्तबाधः स्यात् , तार्तीयबाधवत् । तथा हि बाधो द्विविधः-अप्राप्तबाधः प्राप्तबाधश्चेति । तत्र तार्तीयो बाधोऽप्राप्तबाधः । तत्र हि यावदुर्बलेन विनियोगः कर्तुमारभ्यते १५ तावदेव प्रबलप्रमाणेन विनियोगः क्रियते इति तद्बोधितेने- तरबाधोऽप्राप्तबाधः, दुर्बलप्रमाणस्याप्रवृत्तत्वात् । प्राकृतस्य त्वङ्गस्य विकृतौ चोदकप्राप्तस्य प्रत्याम्नानादर्थलोपा- प्रतिषेधाद्वा यो बाधः स प्राप्तबाधः । चथा प्राकृतानां कुशानां प्रतिकूलशराम्नानात्, यथा वाऽवघातस्य कृष्णलेषु वैतुष्यरूपप्रयो- २० जनलोपात्, यथा वा पित्र्येष्टौ होतृवरणस्य न होतारं वृणीते (मै० सं० १।१०।१८) इति प्रतिषेधात् । औदुम्बरत्वेन च खादिरत्व- बाधः प्राप्तबाध एव वक्तव्यः, शरकुशन्यायेन चोदकस्य च खादिरत्वाविषयत्वे प्राप्त्यभावात्तदनुपपत्तिः स्यादिति । उच्यते--तार्तीयप्रमाणविनियुक्तेनेतरस्य बाधनं तावदप्राप्तबाध- १५ नम् । प्रकरणं च तार्तीयम् । तेन तद्विनियुक्तौदुम्बरत्वेनेतरस्य बांधनमप्राप्तबाध एव । न हि वैकृतेन प्राकृतबाधःप्राप्तबाध एवेति कुलधर्मः। वस्तुतस्तु प्राप्तबाध एवायम् । न च खादिरत्वस्य चोदुका- -- मीमांसान्यायप्रकाशः। विषयत्वेन प्राप्त्यभावात् कथं तद्बाधः प्राप्तबाधः, तद्विषयत्वे वा तेनैव नैराकाङ्क्षयान्नौदुम्बरत्वे प्रकरणं विनियोजकं स्यादिति वाच्यम् । न हि प्राप्तबाधस्थले चोदकेन पदार्थाः प्राप्यन्ते । तथा सति शास्त्रप्राप्तत्वेन बाधो न स्यात् । किं तर्हि तानेक पदार्थान्व- स्तुतः प्रापयति ये विकृतौ न बाध्यन्ते । ते च पदार्थाः प्रकृतिव-५ च्छब्देन प्राप्यन्ते इति भवति पुरुषस्य भ्रान्ति: :-यथा प्रकृतौ कृतं तथा विकृतौ कर्तव्यमिति सर्वे पदार्थाः प्राकृताः कर्तव्या इति । अतश्च भ्रान्तिप्राप्ताः खादिरत्वादयः शास्त्रप्रतिपन्नरौदुम्बरत्वा- दिभिर्बाध्यन्ते इति भवति तद्वाधः प्राप्तबाधः । न च भ्रान्तिप्रति- पन्नेन वैधी आकाङ्क्षा निवर्तयितुं शक्यते । तस्माद्युक्तमुक्तमुभया-१० काङ्खारूपप्रकरणसंभवाद्विकृतौ प्राकृताङ्गानुवादेन विधीयमानाना- मौदुम्बरत्वादीनां प्रकरणं विनियोजकमिति । एवं पृषदाज्येनानूयाजान्यजति (तै० सं० ६।३।११।६) इति प्राकृतानुयाजानुवादेन विधीयमानं पृषदाज्यमपि प्रकरणाद्वि- कृत्यङ्गमिति केचिदाचार्याः । अस्मत्तातचरणास्त्वेवमाहुः-- १५ पृषदाज्यं हि अनुयाजानुवादेन विधीयते । तत्स्वरूपे चानर्थक्य- प्राप्तौ तैने विकृत्यपूर्व लक्षयितुं युक्तं, विप्रकर्षात् ; किंतु दीक्षणी- यावाड़ियमन्यायेन स्वापूर्वमेव लक्षयितुं युक्तं,' सन्निकर्षात् । अत एवोत्पवनादीनां प्रोक्षणाद्यपूर्वप्रयुक्तत्वमुक्तं नवमे । अतश्च विधीयमानस्य पृषदाज्यस्य वाक्यप्रतिपन्नेनानुयाजापूर्वेणैव नैरा-२० कायान्न प्रकरणाद्विकृत्यपूर्वार्थत्वमिति । वयं त्वङ्गीकृत्यापि विकृत्यर्थत्वं ब्रमः । भवतु वा विकृत्यर्थत्वं पृषदाज्यस्य । तथापि न प्रकरणं विनियोजकं भवति । यूपपृष्ठ- भावेन हि यावत्खादिरत्वमायाति तावदोदुम्बरत्वविधानादुभया- काङ्क्षासंभवाद्युक्तः प्रकरणविनियोगः । एवं यावदनुयाजपृष्ठभावेन २५ आज्यमायाति तावदेव यदि पृषदाज्य विधीयेत तदोभयाकाङ्क्षासं- भवात्प्रकरणविनियोगो भवेत् । न त्वेतदस्ति । न हि पृषदाज्यं नाम द्रव्यान्तरं किंचिदस्ति यदाज्यस्थानापन्नं विधीयेत, औदुम्बर- १ अन्ये खे. २°क्कमविप्रक - आपदेवकृतः . । त्वमिव खादिरत्वस्थानापन्नम् , पृषच्छब्दस्य पृषन्मणिरित्यादौ चित्र- तावाचित्वेन दृष्टत्वात्, पृषदाज्यशब्दस्य चित्राज्यवाचित्वात् । अत एव निर्गदेषु आज्यपानित्येतद्वक्तव्यं न तु पृषदाज्यपानि- त्युक्तम् । न च यावत्प्राकृतमाज्यमायाति तावदेव चित्राज्यविधानात् प्रकरणविनियोगः संभवतीति वाच्यम् । न हि पृषदाज्यशब्देन चित्रतागुण विशिष्टमाज्यं विधीयते । विशिष्टविधाने गौरवापत्तेः, किंतु प्राकृताज्यानुवादेन चित्रतागुणमात्रं विधीयते, लोहितोष्णीषा ऋत्विजः प्रचरन्तीतिवत् । तदुक्तं दशमचतुर्थचरणान्ते- 'न वा गुणशास्त्रत्वात्' (जै० सू० १०।४।५८) इति । प्राकृतस्यैवाज्यस्य चित्रतागुणमात्रविधानमिति च शास्त्रदीपिका। एवं च विकृतेः प्राकृतेनाज्येन क्लुप्तोपकारैश्चानुयाजै.राकाङ्क्षये पश्चाद्विधीयमानस्य चित्रतागुणस्योपहोमाद्यपूर्वाङ्गवन्न प्रकरणं विनियोजक संभवति । यदि हि प्राकृतस्य - कस्यचिद्गुणस्य स्थाने चित्रतागुणो विधीयेत तदा स गुणो यावदायाति तावद्विकृतेनैराकाङ्ख्यामा- वात्, चित्रतागुणस्य च तावदेव विधानादुभयाकाङ्क्षासंभवात् प्रकरणविनियोगो भवेत् । न च तादृशः प्राकृतो गुणोऽस्ति । आज्यस्यानुयाजानां च चित्रतागुणात्प्रागेव विधानात् , ' तस्य २० तत्स्थानापन्नत्वाभावात् । न च आज्यपृष्ठभावेन यावत्प्राकृतं निर्गुणत्वमायाति तावद्वेवास्य विधानात्प्रकरणसंभव इति वाच्यम् । निर्गुणत्वस्याविहितत्वेन पाणिकण्डूयनवदनङ्गत्वाद्विकृतेस्तदाकाङ्क्षाऽभावात् । तथा हि ज्योति- टोमे दक्षिणादानसमये विहितकृष्णविषाणत्यागस्य द्विरात्रादिषु २५ चोदकप्राप्तस्य प्रथमेऽह्नि अननुष्ठानम् , उत्तरेऽह्नि दक्षिणादानपूर्व- कालीनैः पदार्थः कृष्णविषाणकण्डूयनस्य शास्त्रविहितत्वेनापेक्षि- तत्वात् । ज्योतिष्टोमे च दक्षिणादानोत्तरकालं पाणिकण्डूयनं दृष्ट- १ निगमेषु. २-३ पानामि. ४ यथा. १५ ८ मीमांसान्यायप्रकाशः। मपि द्विरात्रादिषु प्रथमेऽह्नि अनुष्ठीयमानैर्दक्षिणादानोत्तरकालीनैः पदार्थैर्नापेक्ष्यते, तस्य प्रकृतावर्थसिद्धत्वेनाशास्त्रीयत्वादिति । एवं निर्गुणत्वस्याविहितत्वेन विकृतेस्तदपेक्षा नास्तीति । तस्मादु- भयाकाङ्क्षाया असंभवात्पृषदाज्यस्य न प्रकरणविनियोगः संभवती- त्यलमतिविस्तरेण । ... तत्सिद्धं महाप्रकरणं प्रकृतावेव विनियोजकम् । विकृतौ तु यत्प्राकृतदृष्टार्थाङ्गानुवादेन विधीयते तस्य विनियोजकं न तु केवलं विधीयमानस्यापूर्वाङ्गस्येति । यत्तु विकृतावपि प्राकृतधर्मानुवादेन विधीयमानयोधर्मयोरन्तरालेऽपूर्वमप्यङ्गं केवलं पठ्यते । तदपि प्रकरणेन विनियुज्यते। ...यद्यपि विकृतेः कथंभावाकाङ्क्षा प्राकृतैरेवाङ्गैः शाम्यति तथापि यत्र प्राकृताङ्गानुवादेन धर्मविधानं तत्र तद्विधानं यावद्भवति तावत्कथंभावाकाङ्क्षा न निवर्तते । अतो विकृतेराकाङ्क्षावैत्त्वाद- न्तराले विहितस्याप्यपूर्वाङ्गस्य भाव्याकाङ्क्षासत्त्वायुक्तं तस्य प्रकरणा- 'द्विकृत्यर्थत्वम् । यथाऽऽमनहोमेषु । ते हि प्राकृताङ्गानुवादेन १५ विधीयमानयोधर्मयोरन्तराले विधीयन्त इत्युक्तं तत्ररत्नादावि- त्यास्तां तावत् । फलभावनाया अन्तराले यदङ्गभावनायाः प्रकरणं तदवा- न्तरप्रकरणम् । तच्चाभिक्रमणादीनां प्रयाजादिषु विनियोजकम् । तञ्च सेंदशेन ज्ञायते, तदभावेऽविशेषात्सर्वेषां फलभावनाकथं-२० भावेन ग्रहणात् । संदेशो नाम एकाङ्गानुवादेन विधीयमानयोरङ्गयोरन्तराले विहितत्वम्, यथाभिक्रमणम् । तद्धि 'समानयत उपभृतः' । (तै० सं० २।६।१।२) इत्यादिना प्रयाजानुवादेन किंचिदङ्गं विधाय विधीयते । पश्चापि प्रयाजानुवादेन यो वै प्रयाजानां मिथुनं २५ वेद (तै० सं० २।६।१।४) इत्यादिना किंचिदङ्ग विधीयते । अतः १ प्रकृतेस्त. २ याक्न निवर्तते..३ °स:

आपदेवकृतः प्रयाजाङ्गमध्ये पठितमभिक्रमणं तदङ्गं भवति, तत्कथंभावा- काङ्क्षाया अशान्तेः । यथाहुः- परप्रकरणस्थानामले श्रुत्यादिभित्रिभिः । ज्ञाते पुनश्च तैरेव संदंशेन तदिष्यते ॥ (त० वा० ३॥१॥२४) इति। न चाङ्गभावनायाः कथंभावाकाङ्क्षाभावात् कथं प्रयाजभावना- कथंभावेनाभिक्रमणं गृह्यते इति वाच्यम् । भावनासाम्येन सर्वत्र कथंभावाकाङ्क्षायाः सत्त्वात् । प्रयाजैरपूर्वं कृत्वा यागोपकारं भावयेदित्युक्ते यो नाम न जानाति प्रयाजैरपूर्व कर्तुं तस्यास्त्येव कथंभावाकाङ्क्षा-कथमेभिरपूर्वं कर्तव्यमिति । सा च संदंशपतितैर्वा- १० चनिकैः स्मातेश्चाचमनादिभिः शाम्यति । तदभावे च स्वरूप- -: निष्पादनेन दर्विहोमन्यायेन निवर्तते । दर्विहोमेषु हि स्वरूप- निष्पादनातिरिक्तस्तथाव्यापारो न श्रूयते, नाप्यतिदेशेन तत्प्राप्तिः । यागीयानां धर्माणां तावन्नातिदेशः, यागत्वेन होमत्वेन वैलक्ष- ण्यात् । नापि होमीयानां, कस्य होमस्य धर्मः कस्मिन् होमे १५प्रवर्तत इति विशेषनिर्णये प्रमाणाभावात् । अतो धर्मप्राप्त्य- भावाविहोमैरिष्टं भावयेत्कथमित्युत्पन्नाध्याकाङ्क्षा स्वरूपनिष्पाद- नेनैव शाम्यति । एवं येष्वङ्गेषु संदंशाधभावस्तत्रोत्पन्नाप्याकाङ्क्षा तेनैव निवर्तते, न तु सर्वथा तभावः । तस्माद्यक्तमुक्तमभिक्रमणं प्रयाजाङ्गमिति । तच्छेदमवान्तरप्रकरणं महाप्रकरणादलीयः, संदंशपतितानां धर्माणां कैमर्थ्याकाङ्कायां प्रधानापूर्वोत्प्रयाजाद्यपूर्वस्य झटित्युप- स्थितेरिति । प्रकृतमनुसरामः । तत्सिद्धमुभयविधस्य प्रकरणस्य विनियोजकत्वम् । तदिदं स्थानादिप्रमाणाद्बलवत् । यत्र हि स्थानादङ्गत्वं तत्रा- २५न्यतस्य प्रकारान्तरेण निराकाङ्कत्वम् । न च साकाई निराका- झेण संबद्धं योग्यं विवाकाङ्कोत्थापनेन । अतश्चान्यतराकाङ्ख्या यावदुभयाकाडारूपप्रकरणकल्पनद्वारा वाक्यादि कल्पयितुमार- भ्यते झटिति तावत्प्रकरणेन वाक्यादिकं कल्पयित्वा विनियोगः क्रियत इति स्थानाप्रकरणस्य बलीयस्त्वम् ।

मीमांसान्यायप्रकाशः। - अत एव विदेवनादयो धर्मा अभिषेचनीयसन्निधौ पठिता अपि नाभिषेचनीयस्याङ्गम् । तेषां तदङ्गत्वं भवत् स्थानाद्भवेत् , न तु प्रकरणादभिषेचनीयस्याव्यक्तचोदनाचोदितत्वेन ज्योतिष्टोमवि- कारत्वात्प्राकृतैरेव धर्मेनिराकाङ्कत्वात् । किंतु प्रकरणाद्राज- सूयाङ्गम् । 'राजा राजसूयेन · स्वाराज्यकामो यजेत' इत्यत्र राजसूयशब्दस्तावन्नामधेयत्वादाख्यातपरतत्रो यत्राख्यातं तत्रैव प्रवर्तते । न च दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र यथा दर्शपूर्णमासपदं नामधेयमपि नाख्यातपरतत्रम्-तत्र हि यजेते- त्याख्यातमविशेषात्सर्वानेव प्रकृतानाग्नेनायादीन्प्रयाजादींश्वाभि-१० धातुं समर्थ, दर्शपूर्णमासपदं त्वानेयादीनेव वदति न सर्वान् , अतश्च न तदाख्यातपरतन्त्रम् । तथा राजसूयपदमपि किं न स्यादिति वाच्यम् । प्रसिद्धेन हि पदेनाप्रसिद्धं निर्णीयते । यथाहुः- पदमज्ञातसंदिग्धं प्रसिद्धैरपृथक्श्रुति । निर्णीयते निरूढं तु न स्वार्थादपनीयते ॥ (त० वा० १।४।२) इति । १५ दर्शपूर्णमासपदं च कालनिमित्तम् , तद्योगश्चाग्नेयादिषूत्पत्ति- वाक्यैरवगतः । अतस्तद्वाचित्वेन दर्शपूर्णमासपदं प्रसिद्धम् । न च + आग्नेयादीनां बहुत्वाद्विवचनान्तत्वमस्यानुपपन्नमिति वाच्यम् । विद्वद्वाक्यद्वयसिद्धसमुदायद्वयाभिप्रायेण तदुपपत्तेः। एवं च दर्शपूर्णमासपदस्याग्नेयादिवाचित्वे निर्णीते यजेतेत्या-२० ख्यातमपि तानेव वदति । न हि तदुक्ती स्वार्थत्यागो भवति । राजसूयपदं त्वनिर्णीतार्थम् , अतस्तदाख्यातपरतत्रमेव । तच्चाविशे- षात्सर्वेषु इष्टिपशुसोमेषु विद्यते, तत्परतत्रत्वाद्राजसूयपदमपि तानेव वदति । न च राजसूयशब्दस्य राजा सूयते यत्रेति व्युत्पत्त्या सोमा-२५ . भिषवनिमित्तत्वात्तस्य च सोममभिषुणोतीति वाक्येन सोमयागे- ऽवगतत्वात्तद्वाचित्वमेव नेष्टिपशुवाचित्वमिति वाच्यम् । न ह्यभि- १ नियम्यते. २ तत्तन्त्र.

३६ आपदेवकृतः षेचनीयादिसोमयागेष्वभिषवः प्रत्यक्षेण वाक्येन चोदितोऽस्ति, तद्वा- क्यस्य ज्योतिष्टोमेऽसत्वात् । अतिदेशात्तत्संबन्धोऽवगत इति चेन्न । अतिदेशस्य फलसंबन्धोत्तरकालीनत्वेन राजसूयेन स्वाराज्य- कामो यजेतेत्येतद्वाक्यार्थावगत्युत्तरकालीनत्वात् । अनेन हि ५ वाक्येन फलसंबन्धे बोधिते पश्चात्कथंभावाकाङ्क्षायामतिदेशकल्प- नात् । अंतस्ततः प्रागेव एतद्वाक्यार्थो वर्णनीयः । तदा चाभिषव- स्यानवगतत्वाद्राजसूयपदमप्रसिद्धार्थमेव । अत एव राजसूय- पदमव्युत्पन्नमश्वकर्णशब्दवदित्युक्तं सांप्रदायिकैः । एवं चाप्रसिद्धार्थत्वेनाख्यातपरतत्रत्वाद्राजसूयपदेनेष्टिपशुसोम- १० यागा उच्यन्ते । ते च तैस्तैः प्राकृतैर्धमनिराकाङ्क्षा इति न प्रकरणं विदेवनादीनां राजसूये विनियोजकम् , उभयाकाङ्क्षाया अभावात् । न च प्रातिस्विकरूपैनॆराकाङ्क्षयेऽपि न राजसूयत्वेन रूपेण नैरा- कात्यमिति वाच्यम् । आकाङ्क्षाद्वये प्रमाणाभावात् । किंच प्रातिखिकरूपैर्या कथंभावाकाङ्क्षा सापि फलसंबन्धो- १५ त्तरकालम् । स च राजसूयत्वेन न तु प्रातिस्विकरूपैः। राजसूयत्वेन च फलसंबन्धे उत्पन्नायाः कथंभावाकाङ्क्षायाः विदेवनादिभिः शान्तेरंतिदेशकल्पनमेव न स्यात् । यदि हि सामान्यरूपेण प्राति- खिकरूपेण च फलसंबन्धविधायि वाक्यद्वयं भवेत्तदा युज्येतापि आकाशाद्वयानुसारेण विदेवनादीनामातिदेशिकानां चाङ्गानां संब- २० न्धः । न तु तदस्ति । तस्मात् प्राकृतैर्धेमैनॆराकाङ्क्षयान्न विदेवना- दीनां प्रकरणं विनियोजकमिति चेत्,- सत्यम् । अत एव सांप्रदायिकैर्विदेवनादीनां संदंशो दर्शितः । राजसूयत्वपुरस्कारेण ये धर्मा विधीयन्ते 'राजसूयाय केंना उत्पु- नाति' (तै० ब्रा० ११॥६) इत्येवमादयस्तन्मध्ये विदेवनादयः पठ्यन्ते । २५अतस्ते सर्वे राजसूयाङ्गं प्रयाजानुवादेन विधीयमानधर्ममध्ये पठितप्रयाजाङ्गाभिक्रमणवत् । तस्माद्युक्तमुक्तं विदेवनादीनां प्रकरणा- द्राजसूयाङ्गत्वमिति । तत्सिद्धं प्रकरणस्य स्थानाबलीयस्त्वमिति ॥ १ अतः स्वतः. २०र्थविनिर्णयः. ३ च. ४°ता..

मीमांसान्यायप्रकाशः। - देशसामान्यं स्थानम् । तच्च द्विविधम् -पाठसादेश्यमनुष्ठान- सादेश्यं चेति । यथाहु:- तत्र क्रमो द्विधैवेष्टो देशसामान्यलक्षणः । पाठानुष्ठानसादेश्याद्विनियोगस्य कारणम् ॥ (त० वा० ३।३।५) इति । स्थानं क्रमश्चेत्यनर्थान्तरम् । पाठसादेश्यमपि द्विविधम्-यथा- सङ्ख्यपाठः सन्निधिपाठश्चेति । तत्र ऐन्द्राममेकादशकपालं निर्व- पेत् , वैश्वानरं द्वादशकपालं निर्वपेत् (मै० सं० २।१।१।२) इत्येवं क्रमविहितेष्टिषु इन्द्राग्नी रोचनादिव (मै० सं० ४।११।१) इत्यादीनां याज्यानुवाक्यामत्राणां यथासङ्ख्यं प्रथमस्य प्रथम द्वितीयस्य १० द्वितीयमित्येवं यो विनियोगः स यथासङ्ख्यपाठात् । प्रथमपठितमन्त्रस्य हि कैमर्थ्याकाङ्क्षायां प्रथमतो विहितं कमैव प्रथममुपतिष्ठते, समानदेशत्वात् । यानि तु वैकृतान्यङ्गानि प्राकृताङ्गा(न)नुवादेन विहितानि संदंशा- पतितानि तेषां विकृत्यर्थत्वं सन्निधिपाठात् । तेषां हि कैमर्थ्या- १५ काङ्कायां फलतद्विकृत्यपूर्वमेव भाव्यत्वेन संबध्यते, उपस्थितत्वात् । अत एव तेषु न विश्वजिन्न्यायावतारः । स्वतन्त्रफलार्थत्वे विकृतिस- निधिपाठानर्थक्यापत्तेश्च । पशुधर्माणामग्नीषोमीयार्थत्वमनुष्टानसादेश्यात् । औपवसथ्येऽह्नि अग्नीषोमीयः पशुरनुष्ठीयते, तस्मिन्नेव दिने ते धर्माः पठ्यन्ते ।२० अतस्तेषां कैमर्थ्याकाङ्क्षायामनुष्ठेयत्वेनोपस्थितं पश्वपूर्वमेव भाव्य- त्वेन संबध्यते । अतो युक्तमनुष्ठानसादेश्यात्तदर्थत्वं तेषाम् । न च पाठसादेश्यादेव तत्किं न स्यादिति वाच्यम् । अग्नीषो- मीयस्य पशोः क्रयसन्निधौ पाठात् । न च क्रयसन्निधौ तस्य पाठे तदनुष्टानमपि तत्र स्यादिति वाच्यम् । स एष द्विदैवत्यः२५ • पशुरौपवसथ्येऽहनि आलब्धव्यः' इति वचनात्तदनुपपत्तेः । न च स्थानात्प्रकरणस्य बलीयस्त्वेन पशुधर्माणां ज्योतिष्टोमा- १.वि. ४ मी. न्या.

आपदेवकृतः र्थत्वमेव किं न स्यादिति वाच्यम्, तस्य सोमयागत्वेन पशुधर्म- ग्रहणेऽयोग्यत्वात् । अतः 'आनर्थक्यप्रतिहतानां विपरीतं बला- बलम्' इति न्यायात्, स्थानात्पशुयागार्थत्वमेव धर्माणां युक्तम् । न च तेषां तदर्थत्वं प्रकरणादेव किं न स्यादिति वाच्यम् । ५अग्नीषोमीयकथंभावाकाङ्क्षायाः क्लुप्तोपकारैः प्राकृतधमैरेवोपशान्त- त्वात् । स हि सान्नाय्ययागप्रकृतिकः, उभयोः पशुप्रभवद्रव्यत्व- सामान्यात् । तदुक्तं- 'सानाय्यं वा तत्प्रभवत्वात्' (जै० सू० ८।२।१३) इति । सान्नाय्यं दधिपयसी । तत्र पशुयागः पयोयागप्रकृतिकः साक्षा- १० पशुप्रभवत्वात् । अतश्चोदकप्राप्तैस्तद्धनिराकाङ्कत्वान्न पशुधर्माणां प्रकरणं विनियोजक, किंतु स्थानमेव । तदेवं निरूपितः संक्षेपतः स्थानविनियोगः । तच्च समाख्यातः प्रबलम् । स्थानविनियोगे हि पदार्थयोर्देश- सामान्यलक्षणः संबन्धः प्रत्यक्षः । समाख्याविनियोगे तु संबन्धो १५ न प्रत्यक्षः । पदार्थयोभिन्नदेशत्वात् । न च सा संबन्धवाचिका । यौगिकानां शब्दानां द्रव्यवाचकत्वेन संबन्धावाचकत्वात् । तथा हि-समाख्या संबन्धसामान्यवाचिका स्यात् , तद्विशेषवाचिका वा ? नाद्यः । तदुक्तौ प्रयोजनाभावात् । सर्वयौगिकशब्दानां पर्यायतापत्तेश्च । द्वितीयेऽवश्यं संबन्धिनौ वाच्यौ, तदन्तरेण २० संबन्धे विशेषाभावात् । तत्प्रतिपत्तिमन्तरेण तदप्रतिपत्तेश्च । अतश्चावश्यं संबन्धिवाचकत्वं समाख्याया वक्तव्यम् । तथा च न संबन्धवाचकत्वं, संबन्धिप्रतिपत्त्यैव वाक्यार्थप्रतिपत्तिन्यायेन तत्प्रतिपत्तिसंभवे तत्र शक्तिकल्पने गौरवात् । यथाहुः सर्वत्र यौगिकैः शब्दैव्यमेवाभिधीयते । न हि संबन्धवाचित्वं संभवत्यतिगौरवात् ।। त० वा० ३।१।१२) इति ।। १°यागे ध.

मीमांसान्यायप्रकाशः। तथा,- पाकं तु पचिरेवाह कर्तारं प्रत्ययोऽप्यकः । पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्यचित् ॥ इति । तथा च समाख्या न संबन्धवाचिका। होतृचमस इत्यादिका तु वैदिकी समाख्या निषादस्थपतिशब्दवत् (जै० सू० ६।१।५१) न षष्ठ्यर्थसंबन्धवाचिका । नापि वाक्यवत्तद्बोधिका, तस्याः पदत्वे- नाप्रमाणत्वात् । पौरोडाशिकमित्यादिसमाख्यास्त्वतिदुर्बलाः । लौकिकत्वेन पुरुषप्रत्ययसापेक्षत्वात् । काण्डगोचरत्वेन तत्तत्पदा- गोचरत्वाच । काण्डवाचकत्वमपि न काण्डत्वेन, किंतु पौरो- डाशिकत्वादिनैव । न ह्येकहायनीशब्दो द्रव्यवाचकोऽपि गोत्वेन १० तंद्वदति, किं तर्हि एकहायनीत्वेनैव । स्थानविनियोगे तु पदार्थयोर्विशेषपुरस्कारेणैव संबन्धः प्रत्यक्ष- प्रमाणप्रतिपन्नः। अतश्च समाख्यामुपलभ्य नूनमनयोः पदार्थयोः संबन्धोऽस्तीति यावत्कल्प्यते तावत्प्रत्यक्षप्रतिपन्नेन संबन्धेन पर- स्परमाकाङ्क्षा, तदभावे च संबन्धानुपपत्तेः । कल्पितसंबन्धेन १५ च यावदितरत्राकाङ्क्षादिकल्पना तावदन्यत्राकाझ्या वाक्यादि- कल्पनया विनियोगः क्रियते इति सिद्धं स्थानस्य समाख्यातः प्राब- ल्यम् । अत एव शुन्धनमत्रः सान्नाय्यपात्राङ्गं पाठसादेश्यान्न तु पौरोडाशिकसमाख्यया पुरोडाशपात्राङ्गमिति ॥ समाख्या यौगिकः शब्दः । सा च द्विविधा-वैदिकी २० लौकिकी चेति । तत्र होतुः चमसभक्षणाङ्गत्वं होतृचमस इति वैदिक्या समाख्यया । अध्वर्योस्तत्तत्पदार्थाङ्गत्वं लौकिक्या आध्व- यवमिति समाख्ययेति संक्षेपः ॥ तदेवं निरूपितानि संक्षेपतः श्रुत्यादीनि षट् प्रमाणानि । एत- त्सहकृतेन विनियोगविधिना समिदादिभिरुपकृत्य दर्शपूर्णमासाभ्यां २५ यजेतेत्येवंरूपेण यानि विनियुज्यन्ते तान्यङ्गानि । तानि द्विविधानि- सिद्धरूपाणि क्रियारूपाणि चेति । १°द्वदिता. २ कल्प्यते.

आपदेवकृतः । तत्र सिद्धरूपाणि जातिद्रव्यसङ्ख्यादीनि । तानि च दृष्टार्था- न्येव । क्रियारूपाणि च द्विविधानि-गुणकर्माणि प्रधानकर्माणि चेति । एतान्येव संनिपत्योपकारकाण्यारादुपकारकाणीति चो- च्यन्ते । तत्र कर्माङ्गद्रव्याहुद्देशेन विधीयमानं कर्म सन्निपत्यो- ५पकारकम् । यथाऽवघातप्रोक्षणादि । तच दृष्टार्थमदृष्टार्थ दृष्टादृष्टार्थ च । दृष्टार्थमवघातादि । अदृष्टार्थ प्रोक्षणादि । दृष्टादृष्टार्थ पशु- पुरोडाशयागादि । तद्धि द्रव्यत्यागांशेनादृष्टं देवतोदेशेन च देवता. स्मरणं दृष्टं करोति । इदमेव चाश्रयिकर्म इत्युच्यते । तच्च सन्निपत्योपकारकं द्विविधम्-उपयोक्ष्यमाणार्थमुपयुक्तार्थ ३० चेति । तत्रावघातप्रोक्षणाद्युपयोक्ष्यमाणार्थ, ब्रीहीणां यागे उप- योक्ष्यमाणत्वात् । प्रतिपत्तिकर्म इडाभक्षणाद्युपयुक्तपुरोडाशसंस्कार- कम् । उपयुक्तस्याकीर्णकरतानिवर्तकं* कर्म प्रतिपत्तिकर्म । . उपयुक्तसंस्कारार्थं च उपयोक्ष्यमाणसंस्कारार्थादुर्बलम् । उप- युक्तापेक्षया उपयोक्ष्यमाणेऽत्यादरात् । अत एव 'प्रायणीयनि- -१५ कासे उदयनीयमनुनिर्वपति' (तै० सं० ६।७।५।५) इत्यत्र निष्का- सस्य निर्वापार्थत्वं, न तु तस्य तदर्थत्वं, निष्कासस्योपयुक्तत्वादि- 'त्युक्तमेकादशे (११।२।६४) । तच सन्निपत्योपकारकमारादुपका- रकारलीयः। नन्ववधातादि भवतु बलीयः, तस्य दृष्टार्थत्वात् , आरादुप- २० कारकस्य चादृष्टार्थत्वात् , दृष्टे संभवत्यदृष्टस्यान्याय्यत्वात् । प्रोक्ष- णादि सन्निपत्योपकारकं तु कथं बलीयः। उभयोरदृष्टार्थत्वाविशे- पात् । किंच आरादुपकारकं साक्षात्प्रधानाङ्गं तस्यान्योदेशेना- * कार्यपरो हि विधिः कार्यैकदर्शी पुरुष इव कार्यदेशे किंचिदकरिष्यतः स्थिति न सहते । अयं स्वयं किंचिदकुर्वाणोऽकरिष्यन् वा देशमिममाकीर्णं कुर्वन् व्याप्नुवन् कार्यकारिणां संचारादावन्तरायो भवतीति मन्यमानस्तस्य ततोऽपसारण- मीहते । अतो निर्वर्तितकायस्य कार्यदेशादपसारणानुकूलो व्यापारः प्रतिपत्ति- कर्मत्यर्थः। १ कीर्णतानिव.

मीमांसान्यायप्रकाशः। विधानात् । सन्निपत्योपकारकं तु अङ्गाङ्गम् । काङ्गब्रीह्याद्युद्देशेन विधानात् । अङ्गाङ्गापेक्षया च साक्षादङ्ग बलीयः । 'अङ्गगुणविरोधे तादात्' (जै० सू० १२।२।२५) इति न्यायात्। अत एव 'य इष्ट्या पशुना सोमेन यजेत सोऽमावास्यायां पौर्णमास्यां वा यजेत' ( का० सं० ६।१) इति अविशेषविधानेऽपि पर्वानुग्रहः ५ सोमयागस्यैव क्रियते, न तु दीक्षणीयादेः । अतः कथं सन्निपत्यो- पकारकस्य बलीयस्त्वम् ? उच्यते । सत्यप्यदृष्टार्थत्वाविशेषे सन्नि- पत्योपकारकमारादुपकारकाबलीयः । सन्निपत्योपकारके हि कर्मणि उपकार्योपकारकयो/हिप्रोक्षणयोः संबन्धो वाक्यक्तृप्तः । उपकार- मात्रं तु कल्प्यम् । आरादुपकारकस्थले तु दर्शपूर्णमासयोः प्रया-१० जानुयाजयोः संबन्धः कल्प्य उपकारोऽपि । किंच आरादुपकारकस्थले हि प्रकरणं विनियोजकम् , इतरत्र तु ब्रीहीन प्रोक्षतीति वाक्यमेव ब्रीहिपदेनापूर्वसाधनलक्षणां कृत्वा ऋतौ विनियोजकमिति बलीयस्त्वम् । यदुक्तम्-'अङ्गगुणविरोधे तादात्' (जै० सू० १२।२।२५) १५ इति न्यायेन दुर्बलत्वमिति, तदसत् । न हि ब्रीह्याद्युद्देशेन विधीय- मानं प्रोक्षणादि तदर्थं भवति तत्स्वरूपे आनर्थक्यात् , किंतु तत्संस्कारद्वारा क्रत्वर्थमेव, सन्निपत्योपकारकाणामुत्पत्त्यपूर्वप्रयु- तत्वस्य च वक्ष्यमाणत्वात् । अत उभयविधमप्यङ्गजातं क्रत्वर्थ- मेवेति नाङ्गगुणविरोधन्यायावतारः । दीक्षणीयादेः पर्वानुग्रहस्तु २० दीक्षणीयाद्यर्थ एव, तस्य तदपूर्वप्रयुक्तत्वात् । अतो युक्तं साक्षा- प्रधानाङ्गेन प्रधानपर्वानुग्रहेण स बाध्यत इति । तत्सिद्धं सन्नि- पत्योपकारकस्यारादुपकारकाद्बलीयस्त्वम् । अत एव स्थाणौ स्थाण्वाहुतिं जुहोतीति विहिता स्थाण्वाहुतियूप- ब्रश्चनस्थाणुद्वारा यूपसंस्कारार्था, देवदत्तधारितायाः शुचिदेशनिधानमिव देवदत्तसंस्कारार्थम् । न तु स्थाण्वाहुतिरारादु- पकारिकेत्युक्तं दशमे (जै० १०।१।१०) इति दिक् । स्त्रज:२५ १ यच्चोक्तं.

: आपदेवकृतः द्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म आरादुपकारकम् । यथा प्रयाजादि । तदेवं निरूपितं द्विविधमप्यङ्गजातम् । तच्च न यागादिस्वरूपप्रयुक्तं, स्वरूपे आनर्थक्यात् , तदन्तरेणापि तत्सिद्धेः, किं त्वपूर्वप्रयुक्तमेव । न हि तदन्तरेणापूर्व भवतीत्यत्र किंचि- ५त्प्रमाणमस्ति, तस्यादृष्टत्वात् । न चैवं प्राधान्याददृष्टत्वाच्च फलप्रयुक्तमेव किं न स्यादिति वाच्यम् । फलभावनायां यागस्यैव करणत्वादङ्गानां च करणा- नुग्राहकत्वात्तदर्थत्वे बुद्धे तत्र चानर्थक्यप्रसक्तौ तेन स्वापूर्वमेवो- पस्थाप्यते संनिकर्षात् । दीक्षणीयादिशब्देनेव तदपूर्वम् । न तु १० फलमुपस्थाप्यते, विप्रकर्षात् । अतो न तत्प्रयुक्तत्वमङ्गानाम् । अत एव 'अगन्म सुवः सुवरगन्म' (तै० सं० १।५।६।१) इति मत्रों विकृतावूहितव्य इत्युक्तं नवमे फलदेवतयोश्च (जै० सू० ९।१।४) इत्यत्र । फलप्रयुक्तत्वे तु सौर्यादिविकृतिषु स्वर्गरूपफलाभावा- न्मत्रो न प्रवर्तेत नतरां चोहितव्यः स्यादिति । तत्सिद्धमङ्गाना- १५ मन्यप्रयुक्तत्वानुपपत्तेरपूर्वप्रयुक्तत्वम् । तत्रापि सन्निपत्योपकारकाणां द्रव्यदेवतादिसंस्कारद्वारा याग- स्वरूपे उपयोगादुत्पत्त्यपूर्वार्थत्वम् । अत एवौषधधर्मावघातादीना- माज्ये न प्रवृत्तिः, तेषामाग्नेयापूर्वप्रयुक्तत्वात् , आज्यस्य च तद- र्थत्वाभावादित्युक्तं तृतीये (जै० ३।१।६) । आरादुपकारकाणां तु . स्वरूपेऽनुपयोगात्परमापूर्वार्थत्वम् । तत्रोत्पत्त्यपूर्वस्य यागस्वरूपानुष्ठानानन्तरमेवोत्पद्यमानत्वात् सन्नि- पत्योपकारकाणां पूर्वाङ्गानां तदुत्पत्तावुपयोगः, उत्तराङ्गानां तु तेषां तस्थितावुपयोगः । परमापूर्वस्य तु साङ्गप्रयोगानुष्ठानान- न्तरमेवोत्पद्यमानत्वात् सर्वेषामारादुपकारकाणां तदुत्पत्तौ । २५ प्रयोगबहिभूतस्य तु. तत्स्थितावुपयोगः । यथा बृहस्पतिसवस्य वाजपेयेनेष्वा बृहस्पतिसवेन यजेतेति वाजपेयोत्तरकालमङ्गत्वेन विहितस्य वाजपेयापूर्वस्थितावुपयोगः । तस्य प्रागेवोत्पन्नत्वादियुक्तं . १ तेन यागेन.

मीमांसान्यायप्रकाशः। ४ चतुर्थे (जै० ४।३।२७) । तत्सिद्धं सर्वथाङ्गानामपूर्वार्थत्वम् । प्रकृतमनुसरामः। तदेवं निरूपितः संक्षेपतो विनियोगविधिः । प्रयोगप्राशुभावबोधको विधिः प्रयोग विधिः । स चाङ्गवाक्यै- कवाक्यतामापन्नः प्रधानविधिरेव । स हि साङ्गं प्रधानमनुष्ठाप- यन् विलम्वे प्रमाणाभावाद विलम्बापरपर्यायं प्रयोगप्राशुभावं ५ विधत्ते । न च विलम्बवदविलम्बेऽपि प्रमागाभाव इति वाच्यम् । विलम्बे हि अङ्गप्रधानविध्येकवाक्यतावगततत्साहित्यानुपपत्ति प्रसज्यते । न हि विलम्बेन क्रियमाणयोः पदार्थयोः सहकृतमिति साहित्यं व्यवहरन्ति । न चैवं साहित्यानुपपत्त्या समानकालत्वमेव * स्यान्नत्वविलम्बः, अव्यवधानेन पूर्वोत्तरकाले क्रियमाणपदार्थयो-१० रविलम्बेन कृतमिति व्यवहारादिति वाच्यम् । अनेकपदार्था- नामेकस्मिन्कालेऽनुष्ठानानुपपत्तेः । न च तावत्कर्तृसंपादनेनानुष्ठाने किं न स्यादिति वाच्यम् । तस्यैतस्य *यज्ञक्रतोश्चत्वार ऋत्विज (तै० ब्रा० २।३।६) इत्यादिना कर्तृणां नियतत्वात् । तस्मादङ्गवाक्यैकवाक्यतामापन्नः प्रधानविधिरेकवाक्यतावगत- १५ तत्साहित्यं विदधदुक्तविधया एककालानुष्ठानानुपपत्तेरविलम्ब विधत्ते इति सिद्धं प्रयोगप्राशुभावबोधको विधिः प्रयोगविधिरिति । स चाविलम्बो नियते क्रमे आश्रीयमाणे भवति । अन्यथा हि किमेतदनन्तरमेतत्कर्तव्यमेतदनन्तरं वेति प्रयोगविक्षेपापत्तेः । अतः प्रयोगविधिरेव स्वविधेयप्रयोगप्राशुभावसिद्ध्यर्थं नियतं क्रम-२० मपि पदार्थविशेषणतया विधत्ते । तत्र क्रमो नाम विततिविशेषः पौर्वापर्यरूपो वा। तत्र च षद प्रमाणानि,-श्रुत्यर्थपठनस्थानमुख्यप्रवृत्त्याख्यानि । तत्र क्रमपरं वचनं श्रुतिः। तच्च द्विविधं-केवलक्रमपरं तद्विशिष्ट- पदार्थपरं चेति । तत्र वेदं कृत्वा वेदिं करोतीति केवलक्रमपरम्, २५ वेदिकरणादेर्वचनान्तरेण विहितत्वात् । वषट्कर्तुः प्रथमभक्ष यज्ञशब्द एकैकयागवाची क्रतुशब्दस्तत्समुदायवाचीति तैत्तिरीयसंहिता- भाष्ये सायणाचार्याः। १ यज्ञकृत.

, आपदेवकृतः (जै. इति तु क्रमविशिष्टपदार्थपरम् । *एकप्रसरतामङ्गभयेन भक्षानु- वादेन क्रममात्रस्य विधातुमशक्यत्वात् । सेयं श्रुतिरितरप्रमाणापेक्षया बलवती । तेषां वचनकल्पनद्वारा क्रमप्रमाणत्वात् । अत एवाश्विनस्य पाठक्रमात्तृतीयस्थाने ग्रहण- ५ प्रसक्तावाश्विनो दशमो गृह्यते इति वचनादशमस्थाने ग्रहणमि- त्युक्तम् ५।४ अ०१)। यत्र तु प्रयोजनवशेन निर्णयः स आर्थः क्रमः । यथाऽग्नि- होत्रहोमयवागूपाकयोः । अत्र हि यवाग्वा होमार्थत्वेन तत्पाकः प्रयोजनवशेन पूर्वमनुष्ठीयते । स चायं पाठक्रमाद्बलवान् । यथा- १० पाठं हनुष्ठाने क्लुप्तप्रयोजनबाधोऽदृष्टार्थत्वं च स्यात् । न हि होमानन्तरं क्रियमाणस्य किंचिदृष्टं प्रयोजनमस्ति । पदार्थबोधकवाक्यानां यः क्रमः स पाठक्रमः । तस्माच पदा- र्थानां क्रम आश्रीयते । येन हि क्रमेण वाक्यानि पठितानि तेनैव क्रमेणाधीतान्यर्थप्रत्ययं जनयन्ति । यथार्थप्रत्ययं च पदार्थाना- १५मनुष्ठानात् । स च पाठो द्विविध:-मत्रपाठो ब्राह्मणपाठश्चेति । तत्राग्नेया- नीषोमीययोस्तत्तद्याज्यानुवाक्याक्रमाद्यः क्रम आश्रीयते स मन्त्र- पाठात् । स चायं मत्रपाठो ब्राह्मणपाठाबलवान , अनुष्ठाने ब्राह्मण- वाक्यापेक्षया मन्त्रवाक्यस्यान्तरङ्गत्वात् । ब्राह्मणवाक्यं हि प्रयोगा- २० दहिरेवेदमेवं कर्तव्यमित्येवमवबोध्य कृतार्थमिति न पुनः प्रयोग- काले व्याप्रियते । मन्त्राः पुनरनन्यप्रयोजनाः प्रयोगसमवेतार्थ- स्मारका इति वक्ष्यामः । तेनानुष्ठानक्रमस्य स्मरणक्रमाधीनत्वात् तत्क्रमस्य च मन्त्रक्रमाधीनत्वादन्तरङ्गो मत्रपाठ इतरस्मादति- बलवान् । अत एवाग्नेयाग्नीषोमीययोर्ब्राह्मणपाठादादावग्नीषोमीया- २५नुष्ठानं पश्चादानेयानुष्ठानमित्येव क्रमं बाधित्वा मत्रपाठादादावा- मेयानुष्ठानं पश्चादग्नीषोमीयस्येत्येव क्रम इत्युक्तम् । * एकस्यां वृत्तौ या प्रसरता घटकतया प्रविष्टता 'उद्देश्यविधेयवाचकपदयोः' तया यो भङ्गः उद्देश्यविधेयभावाप्रतीतिस्तद्भयेन । अविमृष्ट विधेयांशाख्यदोषभ- येनेति यावत् ।

मीमांसान्यायप्रकाशः। प्रयाजानां समिधो यजति तनूनपातं यजति (तै० सं० २।६१) इत्येवं विधायकवाक्यक्रमाद्यः क्रमः स ब्राह्मणपाठक्रमः । अत्र च यद्यपि ब्राह्मणवाक्यान्यर्थ विधाय कृतार्थानि तथापि प्रयाजानां स्मारकान्तरस्याभावात्तान्येव स्मारकत्वेन स्वीक्रियन्ते । तथा च येन क्रमेण तान्यधीतानि तेनैव क्रमेणार्थस्मरणं जनयन्तीति युक्तं ५ तेनैव क्रमेण तेषामनुष्ठानमिति । तत्सिद्धं प्रयाजानां ब्राह्मणपाठ- क्रमाक्रम इति । ननु प्रयाजेषु प्रयोगसमवेतार्थस्मारकत्वं विधायकत्वेन कृता- र्थानां ब्राह्मणवाक्यानां किमिति स्वीक्रियते । प्रयोगसमवेतार्थस्मार- काणां याज्यामत्राणामाग्नेयादिष्विवात्रापि सत्त्वात् । न च तेषां देवतास्मारकत्वात्कर्मस्मारकत्वेन ब्राह्मणवाक्यं स्वीक्रियत इति वाच्यम् । आग्नेयादिष्वपि कर्मस्मारकत्वेन तत्स्वीकारापत्तेः । न चेष्टापत्तिः । तथा सति ब्राह्मणपाठान्मत्रपाठस्य बलीयस्त्वं न स्यात् । तद्बलीयस्त्वे हि मत्राणां प्रयोगसमवेतार्थस्मारकत्वमि- तरस्य तदस्मारकत्वं हेतुः । यदि च कर्मस्मारकत्वं ब्राह्मण-१५ वाक्यस्य स्वीक्रियते तदा प्रधानस्मारकत्वेन ब्राह्मणवाक्यस्यान्तरङ्ग- त्वादङ्गभूतदेवतास्मारकत्वेन च मन्त्राणां बहिरङ्गत्वान्मन्त्रपाठारा- - ह्मणपाठस्यैव बलीयस्त्वं स्यात् । तथा च 'मत्रतस्तु विरोधे स्यात्' • सू० ५।१।१६) इति पाञ्चमिकाधिकरणविरोधः । तत्र हि ब्राह्मणपाठान्मन्त्रपाठस्य बलीयस्त्वादादावानेयानुष्ठानं पश्चादग्नी-२ षोमीयस्येत्युक्तम् । अथ-आग्नेयादिषु याज्यामन्त्रा एव देवताप्रकाशनद्वारा कर्मप्रकाशकास्त्यज्यमानद्रव्योद्देश्यत्वरूपत्वाद्देवतात्वस्येति चेत्तुल्यं प्रयाजेषु । तत्रापि हि याज्यामत्रा देवताप्रकाशकाः। प्रयाजेषु देव- ताया मात्रवर्णिकत्वात् । तथा च प्रयाजेषु याज्यामत्राणां देवता-२५ • प्रकाशनद्वारा कर्मप्रकाशकत्वात्तत्क्रमो मत्रपाठादेव स्यान्न तु ब्राह्मणपाठक्रमात् । न च मत्रपाठस्यान्यादृशत्वात् प्रयाजक्रमो ब्राह्मणपाठक्रमादेवेति (जै.

२. आपदेवकृतः - वाच्यम् । अन्याहशत्वे तस्यैव क्रमस्यानुष्ठानं स्यात्, मत्रक्रमस्य बलीयस्वात् । अभ्यासाधिकरणे (२।२।२) च वार्तिककृता क्रम- विनियुक्त्यैवंलिङ्गकमत्रवर्णेत्यादिना प्रयाजेषु याज्यामत्राणां क्रम- विनियोग उक्तः। नवमे तन्त्ररत्ने समिधः समिधोऽग्न आज्यस्य ५व्यन्त्वित्यादिभिः क्रमप्रकरणप्राप्तमन्त्रैर्देवता गुणत्वेन समय॑न्त इत्युक्तम्। मत्राणामन्याशक्रमत्वे तदनुपपत्तिः स्यात्तत्कथं प्रयाजेषु ब्राह्मण- पाठक्रमाक्रम इति चेदुच्यते । सत्यमेतत् । तथापि यत्रार्थस्मारका मन्त्रा न सन्त्येव-यथा तूष्णीं विहितेषु कर्मसु-तेषां क्रमो १० ब्राह्मणपाठक्रमात् । तत्र तेषामेव प्रयोगसमवेतार्थस्मारकत्वात् । प्रयाजोदाहरणं तु कृत्वाचिन्तया, तत्र ब्राह्मणवाक्यानां प्रयोग- समवेतार्थस्मारकत्वाभावात् । यथाहुरर्थव दचरणे वार्तिककारा:- 'प्रयाजादिवाक्यान्यर्थं समय॑ चस्तिार्थानि स्वरूपसंस्पर्शे सत्यपि प्रयोज्यतां न प्रतिपद्यन्ते' इति । तस्मात्समन्त्रककर्मणां मत्रपाठक्रमाक्रमः । अमत्रककर्मणां क्रमस्तु ब्राह्मणपाठक्रमादेवेति दिक् । प्रकृतौ नानादेशस्थानां पदार्थानां विकृतौ वचनादेकस्मिन्देशे- ऽनुष्ठाने कर्तव्ये यस्य देशेऽनुष्टीयन्ते तस्य प्रथममनुष्ठानमितरयोश्च पश्चात्-अयं यः क्रमः स स्थानक्रमः । २० स्थानं नामोपस्थितिः । यस्य हि देशेऽनुष्ठीयते तत्पूर्वतने पदार्थे कृते स एव प्रथममुपस्थितो भवतीति युक्तं तस्य प्रथममनुष्ठानम् । अत एव साद्यस्वेऽग्नीषोमीयसवनीयानुबन्ध्यानांसवनीयदेशे सहा- नुष्ठाने कर्तव्य आदौ सवनीयपशोरनुष्ठानम् , तस्मिन्देशे आश्विन- प्रहणानन्तरं सवनीयस्यैव प्रथममुपस्थितेः, इतरयोस्तु पश्चात् । ર तथा हि ज्योतिष्टोमे त्रयः पशुयागा:-अग्नीषोमीयः सवनीय आनुवन्ध्यश्चेति । ते च भिन्नदेशाः । अग्नीषोमीय औपवसथ्येऽह्नि, १क्तबलाङ्गक; तैवंलिङ्गक. २ नवमेऽपि तन्त्रं. ३ र्यन्ते । कत्वम् . ५ °कलात्. ६ एवं.

मीमांसान्यायप्रकाशः। सवनीयः सुत्याकाले, आनुबन्ध्यस्त्वन्ते । साद्येस्को नाम सोमयाग- विशेषः । स चाव्यक्तत्वाज्योतिष्टोमविकारः । अतस्ते त्रयोऽपि पशुयागाः साद्यस्के चोदकप्राप्ताः । तेषां च तत्र साहित्यं श्रुतं 'सह पशूनालभेत' इति । तच्च साहित्यं सवनीयदेशे, तस्य प्रधान- प्रत्यासत्तेः, स्थानातिक्रमसान्याञ्च । सवनीयदेशे ह्यनुष्ठाने क्रियमाणे अग्नीषोमीयानुबन्ध्ययोः स्वस्वस्थानातिक्रममात्रं भवति, अग्नीषोमीयदेशे ह्यनुष्ठाने क्रियमाणे सवनीयस्य स्वस्थानातिक्रममात्रम् । आनुबन्ध्यस्य तु स्वस्थानाति- क्रमः सवनीयस्थानातिक्रमश्च स्यात् । एवमानुबन्ध्यदेशेऽग्नीषोमी- यस्य द्रष्टव्यः। तथा च सवनीये देशे सर्वेषामनुष्ठाने कर्तव्ये सवनीयस्य प्रथममनुष्ठानम् । आश्विनग्रहणानन्तरं हि सवनीयदेशः । प्रकृतौ आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशु- मुपाकरोति (श० ब्रा० ४।२।४।१२, आप० श्री० १२।१८।१२.) इत्याश्विन- ग्रहणानन्तरं तस्य विहितत्वात् । तथा च साद्यस्वेऽप्याश्विनग्रहणे १५ कृते सवनीय एवोपस्थितो भवतीति युक्तं तस्य स्थानात्प्रथममनु- ष्ठानमितरयोश्च पश्चादित्युक्तम् । प्रधानक्रमेण योऽङ्गानां क्रम आश्रीयते स मुख्यक्रमः । येन हि क्रमेण प्रधानानि क्रियन्ते तेनैव चेत् क्रमेण तेषामङ्गान्यनुष्ठीयन्ते तदा सर्वेषामङ्गानां स्वैः प्रधानैस्तुल्यं व्यवधानं भवति, व्युत्क्रमेण त्वनुष्ठाने केषांचिदङ्गानां स्वैः प्रधानैरत्यन्तमव्यवधानमन्येषामत्यन्तं व्यवधानं स्यात् । तच्चायुक्तं, प्रयोगविध्यवगतसाहित्यबाधापत्तेः, अतः प्रधानक्रमोऽप्यङ्गक्रमे हेतुः । अत एव प्रयाजशेषेणादावाग्नेयह विषोऽभिधारणं पश्चादैन्द्रस्य आग्नेययागैन्द्रयागयोः पौर्वापर्यात् । अत्र हि द्वयोरभि-२५ घारणयोः स्वेन स्खेन प्रधानेन तुल्यमेकान्तरितं व्यवधानं भवति, आग्नेयहविरभिधारणाग्नेययागयोरेन्द्रहविरभिधारणेन व्यवधानात्, ऐन्द्रहविरभिधारणैन्द्रयागयोश्चाग्नेययागेन व्यवधानात् । क्रमेण २० दुन्ना, आपदेवकृतः अतश्चादावाग्नेियहविरभिधारणं तत ऐन्द्रस्य हविषः तत आग्नेय- यागः ततश्चैन्द्रो याग इत्येवंक्रमो मुख्यक्रमात्सिद्धो भवति । यदि त्वादावैन्द्रहविषोऽभिधारणं तत आग्नेयस्य क्रियते तदा याज्यानु- वाक्याक्रमवशादादावानेयस्यानुष्ठानादानेययागतदङ्गहविरभिघार- ५णयोरत्यन्तमव्यवधानमैन्द्रयागतदङ्गहविरभिधारणयोरत्यन्तं व्यव- धानं स्यात् । तच्च न युक्तम् । अतो युक्तः प्रयाजशेषेणाभिधारणस्य मुख्यक्रमाक्रम इति । स चासौ मुख्यक्रमः पाठक्रमाहुर्बलः । मुख्यक्रमो हि प्रमाणा- न्तरसापेक्षप्रधानक्रमप्रतिपत्तिसापेक्षतया विलम्बितप्रतिपत्तिकः । ५० पाठक्रमस्तु निरपेक्षस्वाध्यायपाठक्रममात्रसापेक्षतया न तथेति बलवान् । अत एवाग्नेयोपांशुयाजाग्नीषोमीयानां क्रमेणानुष्ठीयमानानामप्यु- पांशुयाजाज्यनिर्वापो मुख्यक्रमान्न पूर्वमनुष्ठीयते, तस्य दुर्बलत्वात् , पाठक्रमात्त पश्चादनुष्ठीयते, तस्य प्रबलत्वादिति । स चायं मुख्यक्रमः प्रवृत्तिकमावलवान् । प्रवृत्तिक्रमे ह्याश्री- यमाणे बहूनामङ्गानां प्रधानविप्रकर्षों भवति, अस्मिंस्तु आश्रीय- माणे सन्निकर्षः । तद्यथा दर्शपूर्णमासयोरादावाग्नेयानुष्ठानं ततः सान्नाय्यस्य तद्धर्माश्च केचित्पूर्वमनुष्टीयन्ते । तत्र यदि प्रवृत्तिक्रममाश्रित्य त- २० द्धाः सर्वे पूर्वमनुष्ठीयेरंस्तत आग्नेयधर्मास्तत आग्नेयानुष्ठानं ततः सान्नाय्यानुष्ठानं तदा तद्धर्माणां स्वप्रधानेन सह द्वाभ्यामाग्नेयधर्म- तदनुष्ठानाभ्यां विप्रकर्षः स्यात् । यदा तु सान्नाय्यधर्माणां केषांचित्पूर्वमनुष्ठानेऽपि अन्ये सर्वे मुख्यक्रममाश्रित्याग्नेयधर्मानुष्ठानानन्तरमनुष्ठीयन्ते तदा सर्वेषा- २५ माग्नेयधर्मसान्नाय्यधर्माणामेकैकेन विजातीयेन व्यवधानं भवति, आग्नेयधर्माणां स्वप्रधानेन सह सान्नाय्यधर्मेर्व्यवधानात् सान्नाय्य- धर्माणां च स्वप्रधानेन सहाग्नेयानुष्ठानेन व्यवधानादिति न विप्र- कर्षः । तस्मान्मुख्यक्रमः प्रवृत्तिक्रमादलवान् । . -- । -- मीमांसान्यायप्रकाशः। १ सहप्रयुज्यमानेषु प्रधानेषु सन्निपातिनामङ्गानामावृत्त्यानुष्टाने कर्तव्ये द्वितीयादिपदार्थानां प्रथमानुष्ठितपदार्थक्रमाद्यः क्रमः स प्रवृत्तिक्रमः। यथा प्राजापत्याङ्गेषु । प्राजापत्या हि 'वैश्वदेवीं कृत्वा प्राजा- पत्यैश्चरन्तीति वाक्येन तृतीयानिर्देशात् सेतिकर्तव्यताका एक-५ कालत्वेन विहिताः । अतस्तेषां तदङ्गानां चोपाकरणनियोजन- प्रभृतीनां साहित्यं संपादनीयम् । तत्र प्राजापत्यानां *संप्रतिपन्नदेवताकत्वेनैकस्मिन्कालेऽनुष्ठाना- दुपपद्यते साहित्यम् । तदङ्गानां चैकस्मिन्कालेऽनुष्ठानमशक्यम् । न ह्यनेकेषां पशूनामुपाकरणमेकस्मिन्काले कर्तुं शक्यम् । अतस्तेषां १० साहित्यमव्यवधानेनानुष्ठानात्संपाद्यम्-एकस्योपाकरणं कृत्वाऽपर- स्योपाकरणमिति । अतः प्राजापत्येषु एक पदार्थ सर्वत्रानुष्ठाय द्वितीयः पदार्थो- ऽनुष्ठेयः । तत्र प्रथमपदार्थानुष्टानं कस्माञ्चित्पशोरारभ्य कर्तव्यम् । द्वितीयस्तु पदार्थों येन क्रमेण प्रथमोऽनुष्ठितः तेनैव क्रमेणानु-१५ ष्टेयः, प्रयोगविध्यवगतस्य मिथोऽङ्गसाहित्यस्योपपत्तये । प्रयोगविधिना हि देक्षे तदङ्गानामुपाकरणनियोजनादीनां मिथः साहित्यमानन्तर्यापरपर्यायं विहितम् । तच्च साहित्यं सवनीयपशौ चोदकेन प्राप्तम् । तस्य प्राणिद्रव्यकत्वेन दैक्षविकृतित्वात् । सव- नीयाच्चैकादशिनेषु प्राप्तं, सुत्याकालत्वसामान्यात्; तेभ्यश्च प्राजा-२० पत्येषु प्राप्तं, गिणत्वसामान्यात् । *एकदेवताकलेन याज्यानुवाक्यामन्त्राणामेकत्वात्सहप्रक्षेपादित्यर्थः । + यद्यपि काशीमुद्रिते कलिकातानगरे महामहोपाध्यायश्रीकृष्णनाथन्याय- पञ्चाननभट्टाचार्यैः स्वयं व्याख्याय संस्कृत्य मुद्रिते च पुस्तके 'गुणवसामान्यातू' इति पाठो दृश्यते । भट्टाचार्यकृतटीकायामपि गुणवेति प्रतीकमुपादाय 'गुण- वरूपसाधादित्यर्थः' इति गुणवेत्येवोपलभ्यते । तथाप्यैकादशिनानां प्राजाप- त्यानां च गणत्वमसाधारणं सामान्यं, गुणवं लङ्गखरूपं देवादिपशुसाधारणमिति सत एवोपाकरणाद्यङ्गजातप्राप्तिसंभवादैकादशिनपर्यन्तानुधावनं व्यर्थं स्यात् । १ गुणत्व ५ मी. न्या.

आपदेवकृतः प्राजापत्येषु च प्रतिपशु यागभेदाचोदका भिद्यन्ते । अतश्चोद- कात्तत्तत्पश्वङ्गभूतानामुपाकरणनियोजनादीनां साहित्यमानन्तर्यापर- पर्यायं प्राप्तम् । अत एकस्य पशोरुपाकरणानन्तरमेव नियोजन चोदकबलात्कर्तव्यत्वेन प्राप्तम् । तत्तु न क्रियते, प्रत्यक्षवचनाव- ५गतसर्वपश्वङ्गसाहित्यानुपपत्तेः । अत एकस्मिन् पशावुपाकरणे कृते तदनन्तरमेव कर्तव्यत्वेन प्राप्तमपि नियोजनं न क्रियते । प्रत्यक्षवचनबलात्तु पश्वन्तरेषु षोडशसु उपाकरणमेव क्रियते । कृते तु तेषूपाकरणे प्रथमपशोनि- योजनस्य तदीयोपाकरणेन व्यवधाने प्रमाणाभावात् प्रथमपशावेव १० नियोजनं कार्यम् । अतश्च येन क्रमेणोपाकरणं कृतं तेनैव क्रमेण नियोजन कार्यम् । एवं च तत्तत्पशूपाकरणानां स्वस्वनियोजनैस्तुल्यं षोडशक्षण- य॑वधानं भवति । अन्यथा केषांचिदत्यन्तव्यवधानं केषांचि- चाव्यवधानं स्यात् । तच्च न युक्तम् । तस्माद्येन क्रमेण प्रथमपदार्थोऽनुष्ठितस्तेनैव द्वितीयोऽनुष्ठेयः । तत्सिद्धं प्रथमानुष्ठितपदार्थक्रमाद्यो द्वितीयपदार्थक्रमः स प्रवृत्ति- क्रम इति । तदेवं निरूपितः संक्षेपतः षड्विधक्रमनिरूपणेन प्रयोगविधिव्यापारः। फलस्वाम्यबोधको विधिरधिकारविधिः । फलस्वाम्यं च कर्म- २० जन्यफलभोक्तृत्वम् । स च 'यजेत स्वर्गकाम' इत्येवंरूपः । अनेन हि स्वर्गमुद्दिश्य यागं विद्धता स्वर्गकामस्य यागजन्यफलभोक्तृत्वं प्रतिपाद्यते । यस्याहिताग्नेरग्निर्गृहान् दहेत् सोऽग्नये क्षामवतेऽष्टा- कपालं पुरोडाशं निर्वपेदित्यादिभिस्तुं गृहदाहादौ निमित्ते कर्म- विद्धद्भिनिमित्तवतः कर्मजन्यपापक्षयरूपफलस्खाम्यं प्रतिपाद्यते । तच्च फलस्वाम्यं तस्यैव योऽधिकारिविशेषणविशिष्टः । अधि- कारिविशेषणं च तदेव यत्पुरुषविशेषणत्वेन श्रुतम् । अत १ स्वग्निदा.

मीमांसान्यायप्रकाशः। एव राजा राजसूयेन वाराज्यकामो यजेत' इत्यनेन स्वाराज्यमु- दिश्य राजसूयं विद्धतापि न स्वाराज्यकाममात्रस्य तत्फलभोक्तृत्वं प्रतिपाद्यते, किं तु राज्ञः सतस्तत्कामस्य । किंचित्तु पुरुषविशेषणत्वेनाश्रुतमप्यधिकारिविशेषणं भवति । यथाध्ययनविधिसिद्धा विद्या, अग्निसाध्येषु च कर्मसु आधानसिद्धा-५ निमत्ता, सामर्थ्य च । एतेषां पुरुषविशेषणत्वेनाश्रवणेऽप्यधि- कारिविशेषणत्वमस्त्येव । उत्तरकतुविधीनां ज्ञानाक्षेपशक्तेरभावेना- ध्ययनविधिसिद्धज्ञानवन्तं प्रत्येव प्रवृत्तेः । अग्निसाध्यकर्मणां चाम्यपेक्षत्वेन तद्विधीनामाधानसिद्धाग्निमन्तं प्रत्येक प्रवृत्तः । अत एव च शूद्रस्य न यागादावधिकारः । तस्याध्ययनविधि-१० सिद्धज्ञानाभावात् , आधानसिद्धान्यभावाच, अध्ययनस्योपनी- ताधिकारत्वादुपनयनस्य च 'अष्टवर्ष ब्राह्मणमुपनयीत' इत्यादिना त्रैवर्णिकाधिकारत्वात् । आधानस्यापि 'वसन्ते ब्राह्मणोऽमीना- दधीत' इत्यादिना त्रैवर्णिकाधिकारित्वात् । यद्यपि च 'वर्षासु रथकारोऽनीनादधीत' (बौ० श्रौ० २।१२।५३॥ १५ १७) इत्यमेन रथकारस्य सौधन्वनापरपर्यायस्याधानं विहितं, योगाद्रूर्बलीयस्त्वात् , तथापि नास्योत्तरकर्मखधिकारः । अध्य- - यनविधिसिद्धज्ञानाभावात् । न च तदभावे आधानेऽपि कथमधिकारः, तदनुष्ठानस्य तत्साध्यत्वादिति वाच्यम् । तस्याध्ययनविधिसिद्धज्ञानाभावेऽपि २० 'वर्षासु रथकारोऽग्नीनादधीत' इत्यनेनैव विधिनाऽऽधानमात्रौपयि- कज्ञानाक्षेपणात् । अन्यथा एतस्यैव विधेरनुपपत्तेः । अतश्च रथका- रस्याधानमात्रेऽधिकारेऽपि नोत्तरकर्मखधिकारो विद्याभावात् । एवं च तदाधानं नाग्निसंस्कारार्थम् । संस्कृतानामग्नीनामुत्तर- त्रोपयोगाभावात्, किं तु तदाधानं लौकिकाग्निगुणकं विश्वजि-२५ न्यायेन स्वर्गफलं च स्वतन्त्रमेव प्रधानकर्म विधीयते । अग्नीनिति च द्वितीया सक्तून् जुहोतीतिवत्तृतीयार्था इति । १°शक्तेर्भा० इति काशीमु० कलिकातामु० पु० पाठः, आपदेवकृतः . प्रकृतमनुसरामः । तत्सिद्धं शूद्रस्याध्ययनविधिसिद्धज्ञानाभावा. दाधानसिद्धाग्यभावाच नोत्तरकर्मस्खधिकार इति । नन्वेवं स्त्रिया अधिकारो न स्यात् । तस्या अध्ययनप्रतिषेधेन तद्विधिसिद्धज्ञानाभावात् । न च नास्त्येवेति वाच्यम् । 'यजेत स्वर्ग- ५ काम' इत्यादौ स्वर्गकामपदस्योद्देश्यसमर्पकत्वेन पुंस्त्वस्योद्देश्यविशे- षणत्वाद्र हैकत्ववदविवक्षितत्वेन स्त्रिया अधिकारस्य साधितत्वादिति चेत्, सत्यम् । अधिकारः साधितो न तु स्वातत्रयेण, 'न स्त्री स्वातत्र्यमर्हति' इत्यादिना तस्य निषिद्धत्वात् । स्वातत्र्येण कर्तृत्वे प्रयोगद्वयस्यापि वैगुण्यापत्तेश्च । यजमानप्रयोगे पत्नीकर्तृकाज्यावेक्षणादिलोपात् , पत्नीप्रयोगे च यजमानकर्तृकाज्यावेक्षणादिलोपात् । अतो दम्पत्योः सहाधिकारः। सहाधिकारत्वेन यजमानविद्ययैव पत्नया अपि कार्य- सिद्धेर्न ज्ञानं विना तस्या अधिकारेऽनुपपत्तिः। 'पाणिग्रहणात्तु सहत्वं कर्मसु तथा पुण्यफलेषु' इति वचनेन १५ स्त्रिया अंधिकारनिर्णयाच । निषादस्थपतेरिवाध्ययनविधिसिद्धज्ञान- विरहिणोऽपि 'एतया निषादस्थपति याजयेत्' (मै० सं० २।२।४ ) इति वचनानिषादेष्ट्याम् । निषादस्थपतिशब्दे हि निषादं स्थपतिं चेति कर्मधारयो न तु निषादानां स्थपतिमिति षष्ठीतत्पुरुषः[तदपेक्षया कर्मधारयस्य बली- यस्त्वात् । ] षष्ठ्यर्थे लक्षणापत्तेः । एतावांस्तु विशेष:-निषादस्या- ध्ययनविधिसिद्धज्ञानाभावेन एतस्यैव विधेस्तत्कर्मोपयिकज्ञानाक्षेपक- त्वम् । पन्यास्तु तादृशज्ञानाभावेऽपि यजमानेन सहाधिकारात्तस्य च तादृशज्ञानवत्त्वात्तेनैव च तस्याः कार्यसिद्धेर्नोत्तरकतुविधीनां ज्ञानाक्षेपकत्वम् । ये तु पत्नीमात्रकर्तृकाः पदार्था आज्यावेक्षणादयस्ते ज्ञानं विना- ऽशक्यानुष्ठाना इति तद्विधीनां तदाक्षेपकत्वं स्वीक्रियते इति । १[ ] इति चिह्नितं लिखितपुस्तकेऽधिकम् ।

मीमांसान्यायप्रकाशः। तत्सिद्धमध्ययनविधिसिद्धज्ञानस्याधानसिद्धाग्निमत्तायाश्चोत्तरकर्मसु अधिकारिविशेषणत्वमिति । एवं सामर्थ्यस्यापि अधिकारिविशेषणत्वम् । असमर्थ प्रति विध्यप्रवृत्तेः । आख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणीति न्या- यात् । तच्च सामर्थ्य काम्ये कर्मणि अङ्गप्रधानविषयम् । न त्वङ्गा-५ समर्थः प्रधानमात्रसमर्थश्च काम्ये कर्मण्यधिकारी । प्रधानविधे- रङ्गविध्येकवाक्यतापन्नस्य साङ्गकर्मसमर्थ प्रत्येव प्रवृत्तेः । यथा- विनियोगमधिकारात् । यदि हि समर्थं प्रत्येव प्रवृत्तौ कयाचित् श्रुत्या विरोधः स्यात् तदाऽसमर्थस्याप्यधिकारः स्यात् । न च विरो- धोऽस्ति । स्वर्गकामश्रुतेः समर्थं प्रत्येव प्रवृत्तौ विरोधाभावात् । १० प्रत्युतासमर्थं प्रति प्रवृत्तौ प्रधानविधेरङ्गवाक्यैकवाक्यतया प्रतिप- नस्याङ्गसाहित्यस्य बाधापत्तेः । नित्यवच्छ्रुतानामङ्गानां पाक्षिकत्व- प्रसङ्गाच्च । अतः साङ्गे प्रयोगे समर्थस्यैव काम्ये कर्मण्यधिकारः। नित्यकर्मणां त्वङ्गेपु यथाशक्तिन्यायः । तानि हि यावज्जीव- श्रुत्या यावज्जीवं कर्तव्यत्वेन चोदितानि । न च यावजीवं केनापि १५ साङ्गः प्रयोगः कर्तुं शक्यते । अतो नित्यकर्मसु प्रधानमात्रसमर्थो- ऽधिकारी, अङ्गानि तु यावन्ति कर्तुं शक्यन्ते तावन्ति कार्याणी- त्यास्तां बहूक्त्या, सूरिभिः पराक्रान्तत्वात् । तत्सिद्धं फलस्वाम्यबोधको विधिरधिकारविधिरिति । तदेवं निरूपितं चतुर्विधभेदनिरूपणेन विधेः प्रयोजनवदर्थपर्यवसानम् । २० मन्त्राणां च प्रयोगसमवेतार्थस्मारकतयार्थवत्त्वम् । न तु तदुच्चा- रणमदृष्टार्थ, दृष्टे संभवति अदृष्टस्यान्याय्यत्वात् । न च दृष्टस्य प्रकारान्तरेणापि संभवान्मत्रानानमनर्थकम् । मत्रैरेव स्मर्तव्यमिति नियमविध्याश्रयणात- साधनद्वयस्य पक्षप्राप्तौ अन्यतरस्य साधनस्याप्राप्ततादशायां यो २५ विधिः स नियमविधिः । यथाहु:- १ क्वचित्त्वस्याग्रे पूर्वार्धसमाप्तिलेखस्तद्ग्रे चोत्तरार्धप्रारंभश्चेति वर्गीकरणं दृश्यते ।

आपदेवकृतः विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसङ्ख्येति गीयते ॥ त० वा० १।२।४) इति। अस्यायमर्थः यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थ- ५त्वेन यो विधिः सोऽपूर्वविधिः। यथा 'यजेत स्वर्गकामः' इत्यादिः। यागस्य हि वर्गार्थत्वं न प्रमाणान्तरेण प्राप्तं किंत्वनेनैव विधिनेति भवत्ययमपूर्वविधिः। पक्षेऽप्राप्तस्य तु यो विधिः स नियमविधिः । यथा 'नीहीनवह- न्ति' इत्यादिः । अनेन हि विधिनाऽवघातस्य न वैतुष्यार्थत्वं बोध्यते, १० अन्वयव्यतिरेकसिद्धत्वात् । किंतु नियमः । स चाप्राप्तांशपूरणम् , वैतुष्यस्य हि नानोपायसाध्यत्वाद्यस्यां दशायामवघातं परिह- त्योपायान्तरं ग्रहीतुमारभते तस्यां दशायामवघातस्याप्राप्तत्वेन तद्वि- धानात्मकमप्राप्तांशपूरणमेवानेन विधिना क्रियते । अतश्च निय- मविधावप्राप्तांशपूरणात्मको नियम एव वाक्यार्थः । पक्षेऽप्राप्तता- १५ दशायामवघातविधानमिति यावत् । न त्वपूर्वविधाविवात्यन्ता- प्राप्तयागविधानमिति । 'उभयस्य युगपत्प्राप्तौ इतरव्यावृत्तिपरो विधिः परिसङ्ख्याविधिः । यथा 'पञ्च पञ्चनखा भक्ष्याः' इति । इदं हि वाक्यं न भक्षण- विधिपरं, तस्य रागतः प्राप्तत्वात् । नापि नियमपरं, पञ्चनखापश्च- २० नखभक्षणस्य युगपत्प्राप्तेः पक्षेऽप्राप्त्यभावात् । अत इदमपश्चनख- भक्षणनिवृत्तिपरमिति भवति परिसङ्ख्याविधिः । सा च परिसङ्ख्या द्विविधा-ौती लाक्षणिकी चेति । तत्र 'अत्र ह्येवावपन्ति' इत्यत्र श्रौती परिसङ्ख्या । एवकारेण पवमाना- तिरिक्तस्तोत्रव्यावृत्तेरभिधानात् । "पञ्च पञ्चनखा भक्ष्या” इत्यत्र तु लाक्षणिकी । इतरनिवृत्ति- वाचकस्य पदस्याभावात् । अत एवैषा त्रिदोषग्रस्ता। दोषत्रयं च १ ज्ञायते. २ °स्यांशेऽप्रा. ३ गायत्रीबृहत्यनुष्टुबितरव्यावृत्ते° इति लिखित- पुस्तके पाठः।

मीमांसान्यायप्रकाशः। ५५ श्रुतहानिरश्रुतकल्पना प्राप्तबाधश्चेति । श्रुतस्य पञ्चनखभक्षणस्य हानादश्रुतापञ्चनखभक्षणनिवृत्तिकल्पनात्प्राप्तस्य चापश्चनखभक्ष- णस्य बाधनादिति । अस्मिंश्च दोषत्रये दोषद्वयं शब्दनिष्ठम् , प्राप्त- बाधस्तु दोषोऽर्थनिष्ठ इति दिक् । तत्सिद्धं मन्त्रैरेव स्मर्तव्यमिति नियमविध्याश्रयणान्न मत्राम्नान-५ मनर्थकम् । अतश्च युक्तं मत्राणां प्रयोगसमवेतार्थस्मारकतया- र्थवत्त्वम् । तत्र ये मत्रा यत्र पठितास्तेषां तत्र यद्यर्थप्रकाशनं प्रयोजनं संभवति तदा तत्रैव विनियोगः । येषां तु न संभवति तेषां यत्र संभवति तत्रोत्कर्षः । यथा पूषानुमत्रणमत्राणामित्युक्तम् । येषां १० कापि न संभवति तदुच्चारणस्य त्वगत्याऽदृष्टार्थत्वम् । सर्वथापि तु तेषां नानर्थक्यमिति । नामधेयानां विधेयार्थपरिच्छेदकतयार्थवत्त्वम् । तथा हि 'उद्भिदा यजेत पशुकामः' इत्यत्र उद्भिच्छब्दो यागनामधेयम् । तेन च वि- धेयार्थपरिच्छेदः क्रियते । अनेन हि वाक्येनाप्राप्तत्वात्फलोद्देशेन १५ यागो विधीयते । यागसामान्यस्य चाविधेयत्वाद्यागविशेष एव विधीयते । तत्र कोऽसौ विशेष इत्यपेक्षायां उद्भिच्छब्दादुद्भिद्रूपो याग इति ज्ञायते । उद्भिदा यागेनेति सामानाधिकरण्येन नाम- घेयान्वयात् । तस्य च यजिना सामानाधिकरण्यं न नीलोत्पलादिशब्दवत् । २० तत्र हि उत्पलशब्दस्यार्थादुत्पलादन्यो नीलशब्दस्य वाच्यार्थोऽस्ति नीलगुणः । लक्षणया तु नीलशब्दस्य द्रव्यपरत्वेन सामानाधि- करण्यम् । उद्भिच्छब्दस्य तु यज्यवगतयागविशेषान्नाऽन्यो वाच्योऽर्थोऽस्ति, विशेषवाचित्वात्तस्य । अतश्चार्थान्तरवाचित्वाभावेन न नामधेयस्य नीलशब्दवत्सा-२ मानाधिकरण्यं, किं तर्हि वैश्वदेव्यामिक्षेत्यत्रामिक्षाशब्दवत् । वैश्व- १ कलम्.

-- , आपदेवकृतः - देवीशब्दस्य हि देवतातद्धितान्तत्वात्तद्धितस्य च “सास्य देवता' (पा० सू० ४।२।२४) इति सर्वनामार्थे स्मरणात् , सर्वनाम्नां चोप- स्थितविशेषवाचित्वेन विशेषपरत्वम् । तत्र कोऽसौ वैश्वदेवीशब्दो- पात्तो विशेष इत्यपेक्षायामामिक्षापदसान्निध्यादामिक्षारूपो विशेष ५ इत्यवगम्यते । यथाहुः- आमिक्षां देवतायुक्तां वदत्येवैष तद्धितः । आमिक्षापदसांनिध्यात्तस्येव विषयार्पणम् ॥ (त० वा० २।२।२३) इति । तथा,-श्रुत्यैवोपपदस्यार्थः सर्वनाम्ना प्रतीयते । तदर्थस्तद्धितेनैवं त्रयाणामेकवाच्यता ॥ (त० वा० २।२।२३) इति । तस्माद्यथा वैश्वदेवीशब्दोपात्तविशेषसमर्पकत्वेनामिक्षापदस्य वैश्व- देवीशब्देन सामानाधिकरण्यमेवं सामान्यस्याविधेयत्वाद्यज्यवगत- यागविशेषसमर्पकत्वेन नामधेयस्य यजिना सामानाधिकरण्यम् । १५ तत्सिद्धं नामधेयानां विधेयार्थपरिच्छेदकतयाऽर्थवत्त्वम् । यथाहुः- 'तद्धीनत्वाद्यागविशेषसिद्धेः' (त० वा० १।४।१) इति । नामधेयत्वं च निमित्तचतुष्टयात् । मत्वर्थलक्षणाभयात् , वाक्य- भेदभयात्, तत्प्रख्यशास्त्रात्, तव्यपदेशाचेति । तत्र 'उद्भिदा २० यजेत पशुकाम' इत्यत्र उद्भिच्छब्दस्य यागनामधेयत्वं मत्वर्थलक्षणा- भयात् । तथा हि-उद्भिच्छब्दस्य गुणसमर्पकत्वे यागानुवादेन तावन्न गुणविधानं युज्यते, फलपदानर्थक्यापत्तेः । न चानेन वाक्येन फलं प्रति यागविधानं तस्मिंश्च गुणविधानं युज्यते, वाक्यभेदापत्तेः । नापि गुणफलसंबन्धविधानं संभवति, २५ परपदार्थविधानेन विप्रकृष्टार्थविधानापत्तेः, धात्वर्थस्य स्वरूपे- णाविधानात्तदुद्देशेन वाऽन्यस्य कस्यचिदविधानाद्धातोरत्यन्त- . पारार्थ्यांपत्तेश्च । यज्यानर्थक्यापत्तेश्च । १ सर्वनाम्नः. २ वाक्यता.

मीमांसान्यायप्रकाशः। न हि तदानेन करणं समर्प्यते, गुणस्य करणत्वेनान्वयात् । नापि फलं, पशोर्भाव्यत्वेनान्वयात् । अथ गुणफलसंबन्धविधाने यागस्या- श्रयत्वेन संबन्ध इति चेत् । न । यजेतेत्यत्र आश्रयत्ववाच- कपदाभावात् । अथ सिद्धान्ते करणत्वमिवाश्रयत्वमपि लक्ष्यमिति चेत्-न न । आश्रयत्वापेक्षया करणत्वस्य लघुत्वेन तल्लक्षणाया एव युक्त-५ त्वात् । फलाय विधीयमानो गुणो यत्र कारकतामापद्यते स आश्रयः, तत्त्वं चाश्रयत्वम् । करणत्वं च निष्कृष्टा शक्तिरिति लाघवम् । किंच गुणफलसंबन्धविधाने करणीभूतोगुणस्तन्निष्ठं वा करणत्वं फलोद्देशेन विधेयम् । तत्राद्ये पक्षे करणत्वस्य गुणोपसर्जनत्वेन प्रती- तिलक्षणयैव वाच्या। तस्य तृतीयाप्रत्ययार्थत्वात् प्राधान्येनोपस्थितेः । १० यदापि गुणनिष्ठं करणत्वं फलोद्देशेन विधेयं तदापि फल- भावनायां करणत्वेनान्वययोग्यगुणनिष्ठकरणत्वोपस्थितिलक्षणयैव वाच्या । तृतीयाभिहितस्य करणकारकस्य क्रियान्वययोग्यस्य करण- त्वेनान्वयायोग्यत्वात् । करणशब्देनाभिहित हि करणकारकं तत्त्वे- नान्वययोग्यं न तृतीयाभिहितम् । करणशब्दादिव तृतीयात- स्तृतीयोत्पत्तिप्रसङ्गात् । अतश्च करणत्वेनान्वययोग्यगुणनिष्ठकरणत्वोपस्थितिलक्षणयैव वाच्या । लक्षणया चोपस्थितकरणत्वस्य करणीभूतस्य वा गुणस्य फलभावनायां यत्करणत्वं तदपि लेक्षणयैव वाच्यम् । श्रूयमाणया तृतीयया गुणमात्रस्य यागं प्रति करणत्वाभिधानात् । अत एव तश्ररत्ने चतुर्थे करणीभूतगोदोहनादेः पश्वर्थत्वं सम- भिव्याहारादित्युक्तम् । अतश्च गुणफलसंबन्धविधाने धातोरत्यन्त- पारार्थ्यादिबहुदोषवत्त्वादुद्भिच्छब्दस्य गुणसमर्पकत्वे गुणविशिष्ट- कर्मविधानमेव स्वीकार्यम् । तथा सति हि यजिना लघुभूतं करणत्वमानं लक्ष्यते, उद्भिच्छ-२५ १ करणवेनैवान्वययोग्यलादिति कलिकातामुद्रितपुस्तकपाठः । स च प्रामा- दिकः। २ तल्लक्ष।

आपदेवकृतः ब्देन च प्रकृत्यंशेन मत्वर्थमात्रं लक्ष्यमिति गुणफलसंबन्धविधाना- ल्लाघवं भवति । धातोरत्यन्तपारार्थ्यादिकं तु न भवत्येव । धात्व- र्थस्यैव फलोद्देशेन विधानात् । अतश्चोद्भिच्छब्दस्य गुणसमर्पकत्वे तेन मत्वर्थ लक्षयित्वा गुण- ५ विशिष्टकर्मविधानं स्वीकार्यमुद्भिद्वता-यागेन पशुं भावयेदिति । कर्मनामधेयत्वे तु उद्भिच्छब्दस्य न मत्वर्थलक्षणा । मुख्ययैव त्या यजिसामानाधिकरण्येन तस्यान्वयसंभवात् । उद्भिदा यागेन पशुं भावयेदिति । संभवति च मुख्येऽर्थे लक्षणा आश्रयितुं न युक्ता । सन्निकृष्ट- १० विधानं तु समानमेव । न चैवं सोमेन यजेतेत्यत्रापि सोम- पदस्य यागनामधेयत्वापातो गुणसमर्पकत्वे मत्वर्थलक्षणापत्तेरिति वाच्यम् । सोमपदस्य लतायां रूढत्वेन यागनामधेयत्वानुपपत्ते- रगत्या लक्षणाश्रयणात् । उद्भिच्छब्दस्य तु नैवं वाच्योऽर्थः कश्चित्प्र- सिद्धः । उद्भिद्यतेऽनेनेति योगस्य तु गुण इव यागेऽपि फलो- १५द्भेदनकारिण्युपपत्तेः । तत्सिद्धमुद्भिच्छब्दस्य मत्वर्थलक्षणाभया- द्यागनामधेयत्वमिति । 'चित्रया यजेत पशुकामः' (तै० सं० २।४।६) इत्यत्र चित्रा- शब्दस्य वाक्यभेदभयात्कर्मनामधेयत्वम् । तथा हि-न तावदत्र गुणविशिष्टयागविधानं संभवति, 'दधि मधु पयो घृतं धाना २. उदकं तण्डुलास्तत्संसृष्टं प्राजापत्यम्' इत्यनेन विहितत्वाद्यागस्य विशिष्टविधानानुपपत्तेः । प्राप्तस्य च यागस्य फलसंबन्धे गुण- संबन्धे च विधीयमाने वाक्यभेदः । अथ चित्राशब्दात् चित्रत्व- स्त्रीत्वयोः प्रतिपत्तेः स्त्रीत्वस्य च स्वभावतः प्राणिधर्मत्वात्प्रकृते दध्यादिद्रव्यके कर्मणि निवेशायोगान्नानेन वाक्येन प्रकृते कर्मणि २५ गुणविधानं, किंतु प्राणिद्रव्यके कर्मणि । तत्रास्य वाक्यस्याना- रभ्याधीतत्वात् , अनारभ्याधीतानां च 'प्रकृतौ वाऽद्विरुक्तत्वात्' । (जै० सू० ३।६।२) इति न्यायेन प्रकृतिगामित्वात् प्राणिद्रव्यकाणां १ खेन म मीमांसान्यायप्रकाशः। च यागानां 'दैक्षस्य* चेतरेषु' (जै० सू० ८।१।१३) इति न्याये- नाग्नीषोमीयप्रकृतिकत्वात्तदनुवादेनानेन वाक्येन गुणो विधीयते । दैक्षस्य च ज्योतिष्टोमाङ्गत्वेन स्वतन्त्रफलाकाङ्क्षाया अभावात्प- शुकामपदं न फलसमर्पकं, किंतु अग्नीषोमीयपश्वर्जनाङ्गतया प्राप्त- कामनानुवादः। तथा च न वाक्यभेद इति चेत् । तथापि देक्षानु-५ वादेन चित्रत्वस्त्रीत्व विधाने वाक्यभेदात् । विशिष्टकारकविधानेऽपि गौरवलक्षणो वाक्यभेद एव । कारकस्यापि प्राप्तत्वेन विशिष्ट- विधानानुपपत्तेश्च । कामपदस्यापि स्वरसतः फलपरस्य कामनानुवादत्वे आनर्थक्या- पत्तेश्च । न च नियमतः पश्वर्जनकामना भवति, कामनातः प्रागेव १० केनचिद्दत्ते पशौ तदभावात् । तथा च पशुकामपदस्य नित्यवच्छ्रवण- बाधः। देक्षस्योत्पत्तिशिष्टपुंस्त्वावरुद्धत्वेन तत्र स्त्रीत्व विधानानुपपत्तेश्च । आमिक्षायागानुवादेन वाजिनविधानवत् (जै० सू० २।२।२३) । 'कृष्णसारङ्गोऽग्नीपोमीयः' इति विशेषविहितेन स्वसन्निधिपठितेन १५ च कृष्णसारङ्गवर्णनावरुद्धे चित्रत्वस्यानारभ्याधीतेन सामान्य- शास्त्रेण विधानानुपपत्तेश्च, पाश्चदश्यावरुद्ध इव साप्तदश्यविधा- नम् (जै० सू० ३।६।९)। अथ मा भूदग्नीषोमीयपश्वनुवादेन चित्रत्वस्त्रीत्वविधानम् । 'सारस्वती मेषी' (मै० सं० ४।७८) इति वाक्यविहितयागाङ्ग-२० मेष्यनुवादेन तु गुणविधानं स्यात् । चित्रयेति स्त्रीकारकानुवादेन चित्रत्वमात्रविधानात् । न च प्राकृतेन कृष्णसारङ्गवर्णन नैरा- काङ्यान्न चित्रत्व विधानं युक्तमिति वाच्यम् । उपदिष्टेन चित्रत्वे- नाति दिष्टस्य वर्णान्तरस्य बाधोपपत्तेरिति चेत्, मैवम् । न हि चित्रयेत्येकेन पदेन स्त्रीकारकस्योद्देशः चित्रत्वस्य च विधानं २५ संभवति । एकप्रसरताभङ्गलक्षणवाक्यभेदापत्तेः । उद्देश्यविधेय- *दैक्षोऽग्नीषोमीयस्तस्य इतरेषु पशुप्वतिदेश इति न्यायः सूत्रम् । १ चेन्न । त २ पशुकामप० ।

६० ....आपदेवकृतः उभय- भावस्यानेकपदसाध्यत्वात् । अत एव वषट्कर्तुः प्रथममक्ष इत्यत्र विशिष्टभक्षविधिर्न तु भक्षानुवादेन प्राथम्यविधिरित्युक्त तृतीये (३.५ अ० १०)। मेष्यनुवादेन चित्रत्वविधाने फलपदानर्थक्यापत्तेश्च । ५ विधाने वाक्यभेदात् । प्रकृतस्य च यागस्य फलाकाङ्काया अनि- वृत्तेः । विश्वजिन्न्यायन (जै० सू० ४।३।१३) फलकल्पने गौरवम् । दधिमध्वित्याद्युत्पत्तिवाक्येनैतस्याधिकारवाक्यस्य प्रतिपन्नैकवाक्य- ताबाधेन वाक्यभेदप्रसङ्गाच । चित्राशब्दस्य तु कर्मनामधेयत्वे प्रकृतस्य कर्मणः फलाकाङ्क्षस्य फलसंबन्धमात्रकरणान वाक्यभेदः। ६० प्रकृताया इष्टेरनेकद्रव्यकत्वेन चित्राशब्दस्य तत्रोत्पत्तः । तत्सिद्धं वाक्यभेदभयाचित्राशब्दः कर्मनामधेयमिति । अग्निहोत्रं जुहोति (तै० सं० ११५।९।१) इत्यत्राग्निहोत्रशब्दस्य कर्म- नामधेयत्वं तत्प्रख्यशास्त्रात् । तस्य गुणस्य प्रख्यापकस्य प्रापकस्य शास्त्रस्य विद्यमानत्वेनाग्निहोत्रशब्दः कर्मनामधेयमिति यावत् । १५तथा हि-विधिना तावत्तदेव विधेयं यत्प्रकारान्तरेणाप्राप्तम् । अप्राप्त शास्त्रमर्थवदिति न्यायात् । अग्निहोत्रशब्दस्य च गुणविधित्वे यो गुणस्तेन विधेयः स शास्त्रान्तरेण प्राप्तः । कथमिति चेत्, शृणु । यदि तावदग्नौ होत्रमस्मिन्निति सप्तमी- समासमाश्रित्य होमाधारत्वेनाग्निर्विधेय इत्युच्येत तदा यदाहवनीये २० जुहोतीत्यनेनैव प्राप्तत्वाद्विध्यानर्थक्यम् । अथाग्नये होत्रमस्मिन्निति चतुर्थीसमासमाश्रित्याग्निरूपदेवता- ऽनेन समर्प्यते इति चेत्-न । शास्त्रान्तरेण प्राप्तत्वात् । किं तच्छा- स्त्रान्तरमिति चेदत्र केचित्-'यदग्नये च प्रजापतये च सायं जुहोति' (मै० सं० ११८१७) इति शास्त्रान्तरेण होमानुवादेनाग्निप्रजा- २५ पत्योर्विधानान्नाग्निहोत्रपदं देवतासमर्पकम् । न चोभयविधाने वाक्यभेदः । परस्परनिरपेक्षविधाने हि वाक्य- भेदः स्यात्, अमये जुहोति प्रजापतये जुहोतीति प्रत्येकं विधि- १ प्रतीयमान।

मीमांसान्यायप्रकाशः। व्यापारात् । चशब्दश्रवणात्तु परस्परसापेक्षस्यैव पदवयस्याख्यातान्व- यान्न वाक्यभेदः। अत एव ऋत्विग्भ्यो दक्षिणां ददातीति वाक्यविहितदक्षिणा- नुवादेन 'गौश्चाश्वश्चाश्वतरश्च गर्दभश्चाजाश्चावयश्च ब्रीहयश्च यवाश्च तिलाश्च माषाश्च तस्य द्वादशशतं दक्षिणा' (ता. ब्रा० १६।१।१०)५ इति वाक्येन गवादीनां विधानं दशमोक्तं (जै० सू० १०॥३॥३९) संगच्छते । परस्परसापेक्षाणां गवादीनां विधानेन वाक्यभेदा- भावात् । अन्यथा दक्षिणानुवादेनानेकेषां गवादीनां विध नैव संगच्छेतेति । अग्निप्रजापत्योश्च देवतयोः सतोः समुच्चयो न तु समुच्चितयो- देवतात्वं, पृथकारकविभक्तिश्रवणात् । चकारार्थस्य *विभक्त्यर्थे- नान्वयात्तस्याप्राधान्यात् । अतश्च नाग्नीषोमादिवदग्निप्रजापत्यो- देवतात्वमिति । अन्ये त्वाचार्या आहुः । अग्नये च प्रजापतये च सायं जुहो- तीति वाक्यं नाग्नेः प्रापकम् , होमानुवादेन प्रजापतिविधानात् । ११ न च विनिगमनाविरहादुभयविधानं युक्तमिति वाच्यम् । विधिना हि तदेव विधीयते यत्प्रकारान्तरेणाप्राप्तम् । तत्र यथानेन वाक्येन सायंकालो न विधीयते सायं जुहोति (मै० सं० ११८।६) इति वचनान्तरेण प्राप्तत्वात् , तथाग्निरपि न विधीयते, अग्निोतिरग्निः स्वाहेति मन्त्रवर्णादेव प्राप्तत्वात् ।२ मत्रवर्णस्यापि देवतासमर्पकत्वमत्येव । अत एवोपांशुयाजे विष्ण्वादीनां मात्रवर्णिकं देवतात्वमित्युक्तम् । नन्वेवं प्रजापतिदेवतया अग्नेर्बाधः स्यात् । चतुर्थ्यां हि प्रजा- पतेदेवतात्वमवगम्यते, अग्नेस्तु मात्रवर्णिकम् । तत्र 'साऽस्य देवता' (पा० सू० ४।२।२४) इति देवतात्वे तद्धितस्मरणवद्यद्यपि देवतात्वे २१ चतुर्थीस्मरणं नास्ति, संप्रदाने चतुर्थी (पा० सू० २।३।१३) इति अत्र श्रीकृष्णनाथन्यायपञ्चाननभट्टाचार्यास्तु 'चकारार्थेनान्वयातू' इति पठिला चकारार्थेन चकारार्थान्वितचतुर्थ्यर्थेनेति व्याचख्युः । १ तस्य प्राधान्यापातातू । २०कत्वात्। .

६२ आपदेवकृतः संप्रदाने तस्याः स्मरणात् , तथापि त्यज्यमानद्रव्योद्देश्यत्वं ताव- देवतात्वम् । तच्च संप्रदानस्वरूपान्तर्गतं, त्यज्यमानद्रव्योद्देश्यत्वे सति प्रतिग्रहीतृत्वस्य संप्रदानत्वात् । अतश्चतुर्थीतः संप्रदानैकदेश- तया देवतात्वप्रतीतिरस्त्येव । मत्रवर्णात्तु न देवतात्वं प्रतीयते, ५ किं त्वधिष्ठानमात्रम् । अतश्च मत्रवर्णश्चतुर्थीतो दुर्बलः यथाहु:- तद्धितेन चतुर्थ्यां वा मत्रवर्णेन वा पुनः । देवताया विधिस्तत्र दुर्बलं तु परं परम् ॥ (त० वा० २।२।९) इति । २० अतश्च प्रबलप्रमाणबोधितप्रजापतिदेवतया दुर्बलप्रमाणबोधिताने- बर्बाधः स्यादिति चेत्,-सत्यम् । स्याद्वाधो यदि प्रजापतये जुहोतीति केवलं प्रजापतिविधानं स्यात् । विधीयमानस्तु प्रजापतिर्मत्रवर्णप्राप्तम ग्निमनूद्य तत्समुचितो होमोद्देशेन विधीयते । समुच्चितोभयविधानापेक्षयाऽन्यतः प्राप्त- १५ मग्निमनूद्य तत्समुच्चितप्रजापतिमात्रविधाने लाघवात् । अतश्च न बाधकत्वं, निरपेक्षविधानाभावात् । यथा च त्वन्मतेऽ- ग्निप्रजापत्योरेकहोमोद्देशेन विधानातुल्यार्थत्वेन विकल्पे प्रसक्ते प्रजा- पतेने पाक्षिकमग्निबाधकत्वं, समुच्चयविधानात् , एवं मत्रवर्णप्राप्त- मग्निमनूद्य तत्समुच्चितप्रजापतिविधानेऽपि न बाधकत्वमिति तुल्यम्। यत्त्वग्नेर्मावर्णिकत्वेऽग्निोतियोतिः सूर्यः स्वाहा (तै० ब्रा० २।१।१७) इति मिश्रलिङ्गमत्रवर्णबलात्सायहोमस्य द्विदैवत्यत्वा- पत्तिरिति । तन्न । अग्निसमुच्चितप्रजापति विधानवत्सूर्यसमुच्चितस्या- विधानात्प्रबलप्रमाणबोधितेन प्रजापतिना मत्रवर्णप्राप्तस्य सूर्यस्य बाधितत्वात् । यत्त्वग्नेर्मात्रवर्णिकत्वे प्रजापतिविधेरेकेनैव वाक्येन सिद्धे यदग्नये च प्रजापतये च सायं जुहोतीति, यत्सूर्याय च प्रजापतये त्र प्रातर्जुहोति (मै० सं० ११८७) इति वाक्यद्वयं व्यर्थमिति तन्न । १ व्यवे सति प्रतिष्ठादिहीनत्वस्य सं° (१)। २ सिद्धेर । २५ मीमांसान्यायप्रकाशः। भवेद्यर्थं यदि प्रजापतिमात्रविधानं विवक्षितं स्यात् , सायंहोमेऽग्नि- समुच्चितप्रजापतिविधानं, प्रातोमे सूर्यो ज्योतिर्योतिः सूर्यः स्वाहा (मै० सं० १॥८॥१) इति मन्त्रवर्णप्राप्तसूर्यसमुच्चितप्रजापति- विधानं च विवक्षितम् । न चैतदेकेन वाक्येन सिध्यति । अतोऽर्थवद्वाक्यद्वयम् । यत्तु-अग्नेत्रिवर्णिकत्वे मत्रवर्णस्याग्निोतिर्योतिरग्निः स्वाहेति सायं जुहोति ( तै० ब्रा० २।१।९।२) इति वाक्येन सायंहोमे विनि- युक्तत्वात् तत्प्रकाश्यस्याग्नेरपि प्रजापतिसमुचितस्य तत्रैव देवता- त्वावगतेयंदग्नये चेति वाक्ये सायंशब्दो व्यर्थ इति । एवं यत्सूर्याय चेति वाक्ये प्रातःशब्दो व्यर्थ इति । किंच मत्रवर्णन १० ज्योतिष्वगुणविशिष्टस्याग्नेः प्रकाशनाद्विशिष्टस्यैव देवतात्वापात इति । तदपि न, होमानुवादेन देवताद्वयविधानेऽपि मत्रवर्णयोर्लिङ्गा- देव प्राप्तिसंभवात्तद्विध्यानर्थक्यात् । मिश्रलिङ्गमन्त्रविधिपर्युद- स्तयोः प्रतिप्रसवार्थ विधानेऽपि तद्विधिगतयोः सायंप्रातःशब्दयो- रानर्थक्यं, विधीयमानयोर्मत्रयोर्व्यवस्थयैव प्राप्तिसंभवात्तत्प्रकाश्य-१५ योर्देवतयोर्व्यवस्थितत्वात् । अनुवादत्वोक्तिस्तूभयत्र तुल्येति । मात्रवर्णिकत्वेऽपि अग्नेः केवलस्यैव देवतात्वं न गुणविशि- ष्टस्य । यदग्नये चेति वाक्येऽनेः पूर्वाहुतिः (तै० ब्रा० २।१।२।१०) इत्यत्र च केवलस्यैवानेः संकीर्तनात्केवलस्यैव देवतात्वावगतेः। यथा युपांशुयाजे विष्ण्वादेर्मात्रवर्णिकत्वेऽपि न गुणविशिष्टस्य २० देवतात्वं, विष्णुरुपांशु यष्टव्य इत्यर्थवादे केवलस्यैव संकीर्तना- त्तद्वदिति । अतश्च मात्रवर्णिकत्वे दोषाभावाद्देवताद्वयविधाने च गौरवा- पत्तेरन्यतः प्राप्तमनिमनूद्य तत्समुच्चितः प्रजापतिरेात्र विधीयते । होमानुवादेनोभयविधाने वाक्यभेदप्रसङ्गाच । न च चकारश्रवणान्न वाक्यभेद इति वाच्यम् । चकारार्थों हि समुच्चयः । तं च समुच्चयं यदि चकारः प्राधान्येन ब्रूयाचदा प्रधानस्यानेकविशेषणसंग्राहकत्वादारुण्यादिविशिष्टक्रयविधान इव १०र्थवई। २°पि सर्वत्र म°। ३ °स्पयोः। ४०रेव । हो। ।

आपदेवकृतः १० कारकद्वयसमुच्चयविधाने वाक्यभेदो न भवेत् । न च चकारः समुच्चयं प्राधान्येन ब्रूते, परोपसर्जनत्वेनैवाभिधानात् । अत एव दशमे भाष्यकारैश्चकारस्य समुच्चयशब्दाद्वैलक्षण्यं प्रति- पादितम् । समुच्चयशब्दो हि तं प्राधान्येन ब्रूते न चकारः । यदि ५ हि प्राधान्येन ब्रूयात्तदा तत्प्रतिपन्नः समुच्चयः क्रियागुणैः संब- ध्येत । समुच्चयः शोभनः समुच्चयो द्रष्टव्य इतिवत् च शोभनश्च द्रष्टव्य इति प्रयोगः स्यात् । समुच्चयशब्दवञ्चकारस्य प्राधान्येन समुच्चयवाचित्वे धवखदिरयोः समुच्चय इतिवद् धवखदिरयोश्चेत्यपि प्रयोगः स्यादिति । अतश्चकारः समुच्चयं प्राधान्येन न ब्रूते येन प्रधानस्यैकस्य विधानान्न वाक्यभेदो भवेत् । किंतु कारकद्वयोपसर्जनत्वेनैव स तं ब्रूते समुच्चितौ अग्निप्रजापती इति । प्रधानद्वयविधाने च वाक्यभेदः स्थादेव । यथा ग्रहोदेशेन संमागैकत्वविधाने । यद्यपि चकारः समुच्चयं प्राधान्येन ब्रूयात्तथापि तस्य कारक- १५ द्वयं प्रति प्राधान्यमनुपपन्नम्, विभत्त्य भिहितस्य कारकद्वयस्य क्रियोपसर्जनत्वेन समुच्चयोपसर्जनत्वाभावात् । कृदन्तादिशब्दैरुप- स्थितं हि कारक क्रियातोऽन्येन संबध्यते । कारकसमुच्चयः करण- समुच्चय इति। विभक्त्यभिहितं तु क्रिययैव, कारकाणां तयैवान्वयात्। अतश्चकारेणोच्यमानः स कारकोपसर्जनत्वेनैवोच्यते । कारक- २० द्वयं च प्रधानम् । एकोदेशेन च प्रधानद्वयविधाने वाक्यभेद एव । यथाहु: अनेकपदसंबद्धं यद्येकमपि कारकम् । तथापि तदनावृत्तः प्रत्ययैन विधीयते ॥ (त० वा० २।२।५) इति । यञ्च यथा दक्षिणानुवादेन गवादीनामनेकेषां विधाने न वाक्य- भेदस्तथा कारकद्वयविधानेऽपीति । तन्न । न हि गौश्चाश्वश्चेत्यस्मिन् वाक्ये दक्षिणानुवादेन गवादयो विधीयन्ते । उक्तरीत्या वाक्य- : 1 १चः। २.चो।

मीमांसान्यायप्रकाशः। भेदापत्तेः । चकारेण कथंचित्परिहारेऽपि गवादीनामनेकेषां द्वादश- शतसङ्ख्यायाश्च विधाने वाक्यभेद एव । आध्वर्यवशाखायां गौश्चे- त्यादेः तस्य द्वादशशतमित्यन्तस्य सहश्रुतत्वेन चास्यैकवाक्यत्व- मित्युक्तं दशमे (जै० १०।३।११)। अतोऽनेन वाक्येनोभयविशिष्टा दक्षिणैव विधीयते । विशिष्ट-५ विधानाच न वाक्यभेदः । अत एव पार्थसारथिमित्रैर्दशमे तत्र तत्र सोभयविशिष्टा विधीयते इति अनेकगवाद्यात्मिकैका दक्षिणा विधीयत इति चोक्तम् । न चैवं ऋत्विग्भ्यो दक्षिणां ददातीत्यस्यानर्थक्यं तस्यानुवाद- त्वात् । ऋत्विक्संबन्धपरत्वाद्वा । दक्षिणाशब्दसामर्थ्याद्धि ऋत्विजां१० चमसाध्वर्वादीनां च तत्संबन्धः स्यात् । एतद्वाक्यसत्त्वे च न भवति, ऋत्विक्शब्दस्य ब्रह्मादिगतऋतुयजननिमित्तत्वेन चैमसा- ध्व!णामृत्विक्त्वाभावस्य तृतीये (जै० ३।७।३२) उक्तत्वात् । अतश्च गौश्चाश्वश्चेत्यस्मिन् वाक्ये विशिष्टविधानान वाक्यभेदः। 'यदग्नये च प्रजापतये च सायं जुहोति' (तै० ब्रा० २।१।२।१०) १५ इति तु न विशिष्टविधानं, होमस्याग्निहोत्रं जुहोतीत्यनेन प्राप्तत्वात् । अतश्च होमानुवादेन समुचितोभयविधाने वाक्यभेदागौरवापत्तेश्च नानेन वाक्येन देवताद्वयं विधीयते । किंतु मत्रवर्णप्राप्तमग्निमनूद्य तत्समुचितः प्रजापति)मोद्देशेन विधीयते । अतश्च नेदमग्नेः प्रापकं, किंतु मत्रवर्ण एव । अतश्च तेनाः प्राप्तत्वान्नाग्निहोत्रपदं देवतासमर्पकं, किं तर्हि नामधेयमेव । तत्सिद्धमेतत्तत्प्रख्यशास्त्रादग्निहोत्रशब्दस्य कर्मनामधेयत्वमिति । एवं प्रयाजेषु समिदादिदेवतानां समिधः समिधोऽग्न आज्यस्य व्यन्तु (का० हौ० १।४) इत्यादिमत्रवर्णेभ्यः प्राप्तत्वात् समिधो . यजति ( तै० ब्रा० २।६।१) इत्यादिषु समिदादिशब्दास्तत्प्रख्यशास्त्रा-२५ कर्मनामधेयानि । यथाहुः- १°त्वेन वाक्यैकवा. २ प्रकाशाध्वर्वादीनामित्युभयत्र कलिकातामु० पु. - पाठः।

आपदेवकृतः . विधित्सितगुणप्रापि शास्त्रमन्यद्यतस्त्विह । तस्माचप्रापणं व्यर्थमिति नामत्वमिष्यते ॥' (त० वा० १।४।४) इति दिक् । श्येनेनाभिचरन् यजेत (आप० २२।४।१३) इत्यत्र श्येनशब्दस्य ५कर्मनामधेयत्वं तद्व्यपदेशात्तेन व्यपदेशः उपमानम् , तदन्यथानुपप- त्येति यावत् । तथा हि यद्विधेयं तस्य स्तुतिर्भवति । तद्यद्यत्र श्येनो विधेयः स्यात्तदार्थवादैस्तस्यैव स्तुतिः कार्या । न च' 'यथा वै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते' इत्यनेनार्थवादेन श्येनः स्तोतुं शक्यः, श्येनोपमानेनार्थान्तरस्तुतेः क्रियमाणत्वात् । १०न च श्येनोपमानेन स एव स्तोतुं शक्यते । उपमानोपमेयभावस्य भिन्ननिष्ठत्वात् । यदा तु श्येनसंज्ञको यागो विधीयते तदार्थ- वादेन श्येनोपमानेन तस्य स्तुतिः कर्तुं शक्यत इति श्येनशब्दस्य तब्यपदेशाद्यागनामधेयत्वम् । तत्सिद्धं निमित्तचतुष्टयानामधेयत्वम् । उत्पत्तिशिष्टगुणबलीयस्त्वमपि पञ्चमं केचिन्नामधेयत्वे निमित्त- १५ माहुः । वैश्वदेवेन यजेतेत्यत्र वैश्वदेवशब्दस्य कर्मनामधेयत्वम् , (जै० १॥४॥३३) उत्पत्तिशिष्टगुणबलीयस्त्वात् । उक्तमत्वर्थलक्षणादि- प्रकारचतुष्टयासंभवात्। तथा हि-न तावन्मत्वर्थलक्षणाभयानामधेयत्वं युक्तमिति वक्तुं शक्यं, वैश्वदेवेनेति तद्धितेनैव मत्वर्थस्य यागस्योक्तत्वात् । साऽस्य २० देवतेत्यस्मिन्नर्थे हि तद्धितस्मरणम् । तत्रास्यशब्दस्य तद्धिता- न्तर्गतस्य यद्यपि सूक्तह विषोरिति स्मृतेः सूक्ते हविषि वा मुख्य- त्वमवगतं तथापि सर्वनाम्नामुपस्थितवाचित्वात् सूक्तहविषोश्वात्रा- नुपस्थितत्वाधजेतेत्युपस्थितं यागमेवास्यशब्दोऽभिधत्त इति न यागे मत्वर्थलक्षणा । विश्वदेवरूपैकदेवताविधानाच न वाक्यभेदः। नापि तत्प्रख्यशास्त्रानामत्वम् । यत्र हि विधित्सितो गुणो- ऽन्यतः प्राप्तः, तत्र तत्प्रख्यशास्त्रान्नामधेयत्वम् । यथाग्निहोत्र- शब्दे । अत्र चाग्नेयादयोऽष्टौ यागाः प्रकृताः । तत्रामिक्षा- यागे यद्यपि विश्वेदेवाः प्राप्ताः वैश्वदेव्यामिक्षेति तथा सप्तसु १°याकर्मना। २ ख वक्तुं युक्तं ।

मीमांसान्यायप्रकाशः। ६७ तेषामप्राप्तत्वाद्वैश्वदेवेन यजेतेत्यनेन तत्र तद्विधाने न तत्प्रख्यशास्त्र- मन्यत् येन तद्वशानामत्वं स्यात् । न चामिक्षायागस्यैवैतन्नामेति वाच्यम् । वैश्वदेवेन यजेतेति वाक्यवैयर्थ्यांपत्तेः । वैश्वदेवशब्दस्यामिक्षायागमात्रनामत्वे स एव यागोऽनेनानूयेत । न च तदनुवादेना स्ति किंचित्कृत्यम् । प्राचीन-५ प्रवणे वैश्वदेवेन यजेत (मै० सं० १।१०।७) इति विधीयमानस्य प्राचीनप्रवणदेशस्य विनाप्येतद्वाक्यमामिक्षायाग एव संबन्धोप- पत्तेः। विश्वदेवसंबन्धात्तस्य । आग्नेयाद्यशेषप्रकृतयागनामत्वे तु न वैश्वदेवेन यजेतेति वाक्या- नर्थक्यम् , तदा धनेनाष्टौ यागा अनूद्यन्ते । अनुवादेन चैकप्रतीत्या- १० रूढत्वात्समुदितानामष्टानामपि वैश्वदेवशब्दो नामधेयं सिध्यति । एवं च प्राचीनप्रवणे वैश्वदेवेन यजेतेत्यत्र वैश्वदेवशब्देनाष्टौ यागान- नूद्य प्राचीनप्रवणविधानं तत्र सिद्धं भवति । तद्वाक्यस्यासत्त्वे- ऽनेन वाक्येनामिक्षायाग एव प्राचीनप्रवणदेशसंबन्धः स्यात् । अतश्चाष्टसु यागेषु प्राचीनप्रवणदेशसंबन्ध एवैतद्वाक्यप्रयोजनम् । १५ एवं च वैश्वदेवशब्दोऽष्टानां नामधेयम् । न च तत्र तत्प्रख्यशास्त्रं निमित्तं संभवति । सप्तसु विश्वेदेवा- प्राप्तेः । अतो न वैश्वदेवशब्दस्य तत्प्रख्यशास्त्रान्नामधेयत्वमिति । नापि तेब्यपदेशात् । तादृशस्य व्यपदेशस्यानुपलम्भात् । अतश्च वैश्वदेवशब्दस्य नामधेयत्वे उक्तप्रकारचतुष्टयस्यानिमित्तत्वादुत्पत्ति-२० शिष्टगुणबलीयस्त्वमेव निमित्तम् । तथा हि वैश्वदेवेन यजेतेत्यत्र न तावदप्रकृतकर्मानुवादेन देवताविधानं संभवति, तेषामत्रानुप- स्थितेः । नापि देवताविशिष्टकर्मान्तरविधानं संभवति, गौरवापत्तेः । अष्टौ हवींषि (तै० ब्रा० १।६।३।४) इत्यनन्यगतिकलिङ्गविरोधात् । अतोऽनेन प्राकृतकर्मानुवादेन देवता विधीयन्त इति वक्तव्यम् । २५ तत्रामिक्षायागे विश्वदेवप्राप्तेः सप्तसु यागेष्वनेन वाक्येन विश्वे- देवा विधीयन्त इति वक्तव्यम् । न च तत्संभवति । तेषामुत्पत्ति- शिष्टाम्याधवरोधात् । आकाङ्ग्या हि संबन्धो भवति । आग्नेयावि- १ श्येनवन्नामलम् ।

आपदेवकृतः यागानां हि देवताकाङ्क्षा उत्पत्तिशिष्टैरन्यादिभिरेव निवृत्तेति न तत्र विश्वदेवविधानं युक्तम् । अवश्चोत्पत्तिशिष्टगुणबलीयस्त्वा- द्वैश्वदेवशब्दस्य कर्मनामधेयत्वमिति । यथाहुः- गुणान्तरावरुद्धत्वान्नावकाइयो गुणोऽपरः। विकल्पोऽपि न वैषम्यात्तस्मान्नामैव युज्यते ॥ (त० वा० १॥४॥११) इति । अन्ये त्वाचार्या आहुः । यः शब्दो यत्र कर्मणि यद्गुणसंबन्धं बोधयति स चेत्संबन्धः शास्त्रान्तरप्रतिपन्नः तदा तस्य शब्दस्य तन्नामधेयत्वं तत्प्रख्यशास्त्रात् । तच्च शास्त्रान्तरं विधिर्वार्थवादो १० वेत्यत्रानादरः। तत्राग्निहोत्रशब्देऽग्निसंबन्धबोधकं शास्त्रान्तरं विधि- रेव । वैश्वदेवशब्दश्च विश्वदेवसंबन्धं कर्मणि बोधयति । विश्वदेव- संबन्धश्चाष्टसु यागेषु 'यद्विश्वेदेवाः समयजन्त तद्वैश्वदेवस्य वैश्व- देवत्वम्' (ते. ब्रा० १।४।१०।५) इत्यर्थवादावगतः। न च विधिरेव तत्प्रख्यशास्त्रं नार्थवाद इत्यत्र किंचित्प्रमाण- १५ मस्ति । अत एव ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यत्र ज्योतिष्टोम- शब्दः 'तानि वा एतानि ज्योतींषि य एतस्य स्तोमाः' (तै० ब्रा० ११५।११।२) इत्यर्थवादावगतं ज्योतिःसंबन्धं निमित्तीकृत्य सोम- यागे प्रवर्तमानस्तत्प्रख्यशास्त्रान्नामधेयं भवति । एवं प्रकृतेऽपि * द्रष्टव्यम् । पञ्चमप्रकारकल्पने प्रमाणाभावात् । अत एव वैश्वदेवा- २० धिकरणे वार्तिककारैरैवमुपसंहृतं 'तत्प्रख्यतयैव सर्वेषां नामधेय- त्वम्' इति । यच्चोत्पत्तिशिष्टगुणबलीयस्त्वमुक्तं तद्गुणविध्यसंभवे युक्त्यभ्युच्चयमात्रम् । तत्सिद्धं तत्प्रख्यशास्त्राद्वैश्वदेवशब्दस्य कर्म- नामधेयत्वमिति । ननु पशुसोमाधिकरणे (जै० २।२।१०) ऐन्द्रवायवं गृहाती- २५ त्यादौ न यजिकल्पनं सोमेन यजेतेति प्रत्यक्षयजिश्रुतेरित्युक्तम् । तेन न्यायेन वैश्वदेव्यामिक्षेत्यत्रापि यजिकल्पना मास्तु । वैश्वदेवेन यजेत (मै० सं० १।१०।७) इत्यत्र प्रत्यक्षयजिश्रुतेः । १०म्यान्नामैवैतद्धि। २°मुदाहृतम्।

मीमांसान्यायप्रकाशः। ६९ एवं चानेनैव वाक्येन देवताविशिष्टकर्मविधानमस्तु । तस्य च द्रव्याकाङ्क्षायां वैश्वदेव्यामिक्षेति द्रव्यविधानमस्तु । एवं च न वाक्यद्वयस्याप्यनुवादत्वम् । नाप्यष्टौ हवींषीत्यनन्यगतिकलिङ्ग- विरोधो भवेदिति चेत्-मैवम् । वैश्वदेव्यामिक्षा ( मै० सं० १।१०।१) इत्यत्र यज्यकल्पने आमिक्षा ५ किमनुवादेन विधीयत इति वक्तव्यम् । विश्वदेवानुवादेन द्रव्य- विधाने द्रव्यस्य देवताङ्गत्वमेव स्यात् , न यागाङ्गत्वम् । किंच वैश्वदेवीशब्दो देवतातद्धितत्वादामिक्षान्तर्गतत्वेन ब्रूत इत्युक्तम् । तत्र विश्वदेवानुवादेन द्रव्यविधानं वैश्वदेवीशब्देनैव कर्तव्यं, पद- श्रुतेः । यथा भावनायां करणसमर्पणं धातुनैव क्रियते पदश्रुतेः न १० तूपपदेनेत्युक्तं भावार्थाधिकरणे तद्वत् । तत्र च वषट्कर्तुः प्रथमभक्ष इतिवदेकप्रसरताविरोधः । अतो यागानुवादेनापि द्रव्य विधानार्थ वैश्वदेव्यामिक्षेत्यत्र यजिकल्पनं तावदवश्यं कर्तव्यम् । अंतश्च पशुसोमाधिकरणन्यायवैषम्यम् । ऐन्द्रवायवं गृहाती. त्यत्र देवताविशिष्टग्रहण विधानेन यज्यकल्पनात् । यजिकल्पने च १५ वैश्वदेव्यामिक्षेत्यत्रैव द्रव्यदेवताविशिष्टकर्मविधानं युक्तं, रूपद्वय- श्रवणात् । एवं चाग्नेयोऽष्टाकपालः, सौम्यश्चरुः (मै० सं० १।१०।१) इत्यादिवाक्यैवैश्वदेव्यामिक्षेति वाक्यस्य प्रायपाठो रक्षितो भवति । अन्यथा हि तेषु सर्वेषु द्रव्यदेवतासंबन्धकल्पितयागविधानमत्र च द्रव्यमात्रविधानमिति वैरूप्यं प्रसज्येत । किंच वैश्वदेवेन यजेतेत्यत्र वैश्वदेवशब्दस्य देवतासमर्पकत्वे 'यद्विश्वेदेवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्वम्' इत्येतस्यार्थवाद- स्यात्यन्तमेव निरालम्बनत्वं स्यात् । एतदर्थवादाद्धि वैश्वदेवशब्दो विश्वदेवकर्तृकत्वेन कर्मणि प्रवृत्त इति ज्ञायते । न देवतासम- पैकत्वेन। किंच वैश्वदेवेन यजेतेत्यस्य यागविधित्वे आमिक्षाया नोत्पत्ति- शिष्टत्वम् । तथा च तया न वाजिनं बाधितुं शक्यत इति १ °क्षां तत्वेन ब्रू; °क्षान्तर्गतार्थ'; इति कलिकातामु० पु. पा.। २ ततः। ३ तद्देवतासमर्पकलेन विरुध्यते इति पाठः । २५ आपदेवकृतः उभयोरपि आमिक्षावाजिनयोर्यागाङ्गत्वं स्यात् । तथा च विकल्पः। स चाष्टदोष इति । तस्माद्वैश्वदेव्यामिक्षेत्यत्रैव यागविधानम् । इतरस्य त्वनुवादत्वम् । अनुवादत्वे च यथा नानर्थक्यं तथोक्त- मित्यास्तां तावत् । तत्सिद्धं वैश्वदेवशब्दस्य कर्मनामधेयत्वम् । ५तदेवं निरूपितं मत्वर्थलक्षणादिप्रकारचतुष्टयनिरूपणेन नामधेयस्य विधेयार्थपरिच्छेदकत्वेनार्थवत्वम् । अनर्थहेतुकर्मणः सकाशात्पुरुषस्य निवृत्तिकरत्वेन निषेधानां पुरुषार्थानुबन्धित्वम् । तथा हि-यथा विधयः प्रवर्तनामभि- दधतः स्वप्रवर्तकत्व निर्वाहार्थं विधेयस्य यागादेः श्रेयःसाधनत्वमा. १० क्षिपन्तः पुरुषं तत्र प्रवर्तयन्ति, एवं 'न कलशं भक्षयेत्' इत्यादयो निषेधा अपि निवर्तनामभिधतः स्वनिवर्तकत्वनिर्वाहार्थं निषेध्यस्य कलञ्जभक्षणादेरनर्थहेतुत्वमाक्षिपन्तः पुरुषं ततो निवर्तयन्ति । ननु कथं निषेधानां निवर्तनाप्रतिपादकत्वम् ? यावता न भक्ष- येन्न हन्तव्य इत्येवमादावव्यवधानेन नबर्थस्याभावस्य धात्वर्थेना- १५न्वये धात्वर्थवर्जनकर्तव्यतैव सर्वत्र वाक्यार्थः प्रतीयेत । ततश्च यथा यजेतेत्यादौ यागकर्तव्यता वाक्यार्थः, एवं निषेधेषु तत्तद्धा- त्वर्थवर्जनकर्तव्यता वाक्यार्थो न निवर्तनेति चेत्-मैवम् । अव्यवधानेऽपि धात्वर्थस्य प्रत्ययार्थोपसर्जनत्वेनोपस्थितस्य नब- थेनान्वयायोगात् । न ह्यन्योपसर्जनमन्येनान्वेति । मा भूद्राज. २० पुरुषमानयेत्यत्र राज्ञ आनयनान्वयित्वम् । ततश्चाव्यवधानेऽपि नबर्थस्य न धात्वर्थेनान्वयः । आरुण्यस्येवैकहायन्या । नापि कलञ्जादिपदार्थैरन्वयः । तेषामपि कारकोपसर्जनतयोपस्थितत्वेन भिन्नपदस्य नमोऽर्थेनान्वयायोगात्, एकहायन्या इवारुण्येन । अतश्चान्येनान्वयायोगान्नबर्थः प्रत्ययार्थेन संबध्यते तस्य प्राधा- २५ न्यात्, क्रयभावनयेवारुण्यादीनि । तत्रापि नाख्यातांशवाच्ययार्थभा- बनया तस्या अपि लिङ्त्वांशवाच्यप्रवर्तनोपसर्जनत्वेनोपस्थितत्वात्। अतो लिङ्त्वांशेन नञ् संबध्यते । तस्य सर्वापेक्षया प्राधान्यात् । १°द्वाक्यार्थव।

मीमांसान्यायप्रकाशः। नबश्चैष स्वभावो यत्स्वसंबन्धिप्रतिपक्षबोधकत्वम् । नास्तीत्यत्र हस्तीति सत्त्वशब्देन संबध्यमानो नञ् सत्त्वप्रतिपक्षमसत्त्वं गम- यति । तदिह लिङर्थस्तावत्प्रवर्तना । अतस्तेन संबध्यमानो नबू प्रवर्तनाप्रतिपक्षां निवर्तनां गमयति । विधिवाक्यश्रवणेऽयं मां प्रवर्तयतीति प्रवर्तनाप्रतीतिवन्निषेधवाक्यश्रवणेऽयं मां निवर्तयतीति ५ निवृत्त्यनुकूलव्यापाररूपनिवर्तनायाः प्रतीते। अतश्च सर्वत्र निषेधेषु निवर्तनैव वाक्यार्थः । एवं च विधि- निषेधयोर्भिन्नार्थत्वं सिद्धं भवति । हननादिवर्जनकर्तव्यतावाक्यार्थ- पक्षे तु कर्तव्यताया एवोभयत्र प्रतिपाद्यत्वात्तयोरेकार्थत्वं स्यात् । तच न युक्तम् । यथाहु:- अन्तरं यादृशं लोके ब्रह्महत्याऽश्वमेधयोः । दृश्यते तागेवेदं विधानप्रतिषेधयोः ॥ इति । तथा,-फलबुद्धिप्रमेयाधिकारिबोधकभेदतः । पञ्चधात्यन्तभिन्नत्वा दो विधिनिषेधयोः ॥ इति । यन्मते इष्टसाधनत्वं लिङर्थस्तन्मतेऽपि लिङ्संसृष्टो नब इष्ट-१५ साधनत्वप्रतिपक्षमनिष्टसाधनत्वं गमयति । सर्वथापि तु ननः प्राधा- न्यात्प्रत्ययेनान्वयः। यदा तु तदन्वये किंचिद्बाधकं तदाऽगत्या धात्वर्थेनान्वयः। तच बाधकं द्विविधं, तस्य व्रतमित्युपक्रमो विकल्पप्रसक्तिश्च । तेने च बाधकद्वयेन नञ्युक्तेषु वाक्येषु पर्युदासाश्रयणं भवति । २० तदभावे निषेध एव,- *पर्युदासः स विज्ञेयो यत्र पूर्वपदेन नञ् । प्रतिषेधः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥ १ ॥ यद्यप्यत्र सर्वेषु मुद्रितपुस्तकेषु- पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् । प्रतिषेधः स विज्ञेयः क्रियया सह यत्र नञ् ॥ १॥ इत्येव पाठ उपलभ्यते । प्रसिद्धोऽपि प्रायः सर्वत्रायमेव पाठः । व्याख्यान- १ वेह विधानप्रतिपक्षयोः। २ अनेन । ३°यो यत्रोत्तरपदेन नन् । ४ विज्ञेयः क्रियया सह यत्र मन् । - :

७२ आपदेवकृतः इति च तयोर्लक्षणम् । उत्तरपदं प्रत्ययः । तदन्यत्पदं पूर्व- पदम् । तत्र नेक्षेतोद्यन्तमादित्यम् (मनु० ४॥३७) इत्यादौ पर्युदासा- श्रयणम् , तस्य व्रतमित्युपक्रमात् । तथा हि-व्रतशब्देन कर्तव्योऽर्थ उच्यते । अतश्च स्नातकस्य ५ कर्तव्यार्थानां वक्तव्यत्वेनोपक्रमात् किं तत्कर्तव्यमित्यपेक्षायाम नेक्षेतोद्यन्तमित्यादौ कर्तव्य एवार्थों वक्तव्यः, आकासिताभिधा- नात् । अर्थान्तरोक्तौ च पूर्ववाक्यस्य साकाङ्कत्वेनाप्रामाण्यं स्यात् । न हि कर्तव्यार्थस्य वक्तव्यत्वेनोपक्रमेऽग्रे च तदनभिधाने पूर्ववाक्यस्य निराकाङ्क्षत्वं संभवति । न च साकाङ्क्षस्य प्रामाण्यम्, गौरश्वः १० पुरुषः इत्यादावपि तत्प्रसङ्गात् । किंच नेक्षेतेत्यस्योपक्रमेण प्रतीयमाना एकवाक्यता च न स्यादर्थान्तरोक्तेः । अतश्चास्मिन्वाक्ये कश्चित्कर्तव्य एवार्थों वक्तव्यः । तदुक्तौ च न नबः प्रत्ययेन संबन्धो घटते । तत्स- बन्धे कर्तव्यार्थोक्तेरनुपपत्तेः । प्रत्ययाचावतारितो नञ् धातुना १५ संबध्यते । तत्संबन्धे च न नबः प्रतिषेधकत्वम् । विधायकसं- बन्धेनैव तस्य प्रतिषेधकत्वात् । प्रतिषेधकत्वस्य विधायकप्रति- पक्षत्वात् । नजः मप्यस्य 'यत्र उत्तरपदेन समासचरमावयवेन नजन्वेति तदा तस्य पर्युदासार्थकत्वम् । यत्र क्रियया धालर्थेनान्वेति तत्र प्रतिषेधार्थकलम्' इति प्रसिद्धम् । तथापि 'नामधात्वर्थयोगी तु नैव नन्प्रतिषेधकः' इति मीमांसकसिद्धान्तानुरोधाद्धावर्थ- योगिनोऽपि पर्युदासार्थकत्वस्येष्टवादतिव्याप्त प्रतिषेधलक्षणमव्याप्तं चोक्तपर्युदासलक्षणं धातोरुत्तरपदलाभावात् , नानुयाजेष्वित्यादौ पर्युदासोदाहरणे नाम्नोऽपि समासाघटकतया निरुक्तोत्तरपदवाभावाचेति नैते मीमांसकाभिप्रेतपर्यु- दासप्रतिषेधयोर्लक्षणे संभवतः। यत्त्वत्र महाम० श्रीकृष्णनाथन्यायपं० भट्टा- चायः पूर्वार्धे 'उत्तरपदे न' इति छित्त्वा 'उत्तरपदे लिडर्थे न नञ् नञ्पदान्वयः, इति, उत्तरार्धे च क्रियया लिङर्थशाब्दभावनया नञ् नपदार्थान्वयः' इति व्याख्यातम् , तदुत्तरार्धे प्रतिषेधस्येव पूर्वार्धेऽपि नोऽन्वयद्वारैव पर्युदास- लक्षणस्य प्रतीयमानलादुपरिष्टाद्दर्शितपाठादर्शनमूलकमिति ध्येयम् । - १ °ण्यप्रसङ्गात् । २ प्रत्यपेक्ष।

मीमांसान्यायप्रकाशः। 6 - नैव नामधातुयोगे तु न नबः प्रतिषेधकत्वम् । तयोरविधायक- त्वात् । यथाहुः नामधात्वर्थयोगी तु नञ् प्रतिषेधकः । वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ ॥ (श्लो० वा० ३३) इति । अतंश्च नेक्षेतेत्यत्र नबो धातुयोगान्नजीक्षतिभ्यामीक्षणविरोधी ५ कश्चनार्थः प्रतिपाद्यते । ननु तदन्यतद्विरुद्धतभावेषु नजिति सत्यपि स्मरणे नमः स्वसंसृष्टाभाव एव शक्तिः, लाघवात् । न तु तदन्यतद्विरुद्धयोः । तयोरभावघटितत्वेन गौरवात् । अनेकार्थत्वस्य चान्याय्यत्वात् , अतो नजो धातुयोगे धात्वर्थाभावबोधकत्वमेव, न तु तद्विरुद्धार्थ-१० बोधकत्वमिति चेत्, सत्यम् । नञोऽभाव एव शक्तिः । स्मरणं तु प्रतीत्यभिप्रायं न शक्त्यभिप्रायम् । नामधात्वर्थयोगीत्यपि प्रती- त्यभिप्रायम् । तथापि नेक्षेतेत्यत्र प्रत्ययस्य नबाऽसंबन्धात्तेन तावत्कश्चिदर्थों विधेयः। तत्र न तावद्धात्वर्थो विधातुं शक्यते, ना तदभावबोध- १५ नात् । नापि तदभावो विधातुं शक्यते, अभावस्थाविधेयत्वात्। अतश्च नजीक्षतिभ्यां विधानयोग्यः कश्चनेक्षणविरोधी अर्थों लक्षणया प्रतिपाद्यते, स चेक्षणविरोधी लक्ष्यमाणः पदार्थों नेक्षे इत्यनीक्षण- संकल्पः, तस्येक्षणविरोधित्वात्। सत्यपि पदार्थान्तरस्येक्षण विरोधित्वे सर्वक्रियाऽविनाभूतत्वेन संकल्पस्यैव लक्षणात् । स एव नेक्षेतेत्यत्र २० कर्तव्यतया विधीयते अनीक्षणसंकल्पेन भावयेदिति । भाव्या- काङ्क्षायां च एतावता हैनसा वियुक्तो भवतीति वाक्यशेषावगतः पापक्षयो भाव्यतया संबध्यते । एवं चात्र पापक्षयार्थसंकल्पस्य कर्तव्यतया विधानात्तस्य व्रत- मित्यनेनैकवाक्यता सिद्धा भवति । तत्सिद्धं नेक्षेतेत्यत्र तस्य २५ व्रतमित्युपक्रमात्पर्युदासाश्रयणमिति । १ °धात्वर्थयो । २ कलकत्तामुद्रितपुस्तके तु नास्तीयं पतिः। ३ नेक्षेतेति काशी-कलिकातामु० पु. पाठः । ७ मी. न्या. ४ लक्षणा।

आपदेवकृतः नानुयाजेषु येयजामहं करोति (तै० सं० १।६।११) इत्यत्र विकल्पप्रसक्त्या तदाश्रयणम् । तथा हि-यद्यत्र प्रधानसंबन्ध- लोभानबः प्रत्ययसंबन्धः स्वीक्रियते तथा सत्यनेन वाक्येनानु- याजेषु येयजामहः प्रतिषिध्यते इति वक्तव्यमनुयाजेषु येयजामहं ५न कुर्यादिति । न च तत्र तस्य प्रतिषेधः प्राप्तिं विना संभवति प्राप्तिसापेक्षत्वात्प्रतिषेधस्य । अत एव नान्तरिक्षे न दिवीत्यस्य न प्रतिषेधत्वमन्तरिक्षे चय- नाप्राप्तेः । अत एव ब्राह्मणो न हन्तव्य इत्यस्य नित्यवद्धनननिवर्त- कत्वमुपपद्यते । सर्वो हि पुरुषः कदाचिद्धननादौ प्रवर्तते, कदा- १० चिच्च रागाद्यभावे न प्रवर्तते । तत्र यदि निषेधस्य प्राप्तिसापेक्षत्वं न स्यात्तदा *रागाविरोधाय हननादावप्रवृत्तं प्रत्येव शास्त्राप्रामाण्यो- पपत्तौ रागादिना हननादौ प्रवृत्तेन पुंसा न ततो निवर्ति- तव्यम्। प्राप्तिसापेक्षत्वे तु स्वयमप्रवृत्तं प्रति प्रसत्यभावेन निषेध- १५ शास्त्राप्रवृत्तेः रागादिना प्रवृत्तं प्रत्येव भ्रान्तिनिमित्तरागबाधेन निषेधशास्त्रप्रवृत्तेर्युक्ता प्रवृत्तस्य ततो निवृत्तिः । अतश्च ब्राह्मणो न हन्तव्य इत्यस्य निषेधस्य निवृत्तिनियम- बोधकत्वम् , ब्रीहीनवहन्यादित्यस्येवावधातनियमबोधकत्वम् । यथा खलु ब्रीहीनवहन्यादिति शास्त्रं वैतुष्यार्थमवधाते स्वतः प्रवृत्तं २० पुरुषं प्रति न प्रवर्तते वैयर्थ्यात्, किंतु दलनादौ प्रवृत्तं प्रति । एवं न हन्यादिति शास्त्रं हननात्स्वयं निवृत्तं पुरुष प्रति न प्रवर्तते वैयर्थ्यात् , किंतु हनने प्रवृत्तं पुरुषं प्रति कर्तव्यत्वेन प्रसक्तस्य प्रतिषेधाद्यकर्तव्यं तन्नेति । * रागाविरोधायेति । अविरोधोऽबाधः । कस्याप्यबाधेन शास्त्रप्रामाण्योपपत्तौ कस्यचिद्वाधकल्पनमनुचितमिति भावः । वैपरीत्याशङ्काव्यावृत्त्यर्थमिदम् श्रीकृष्णनाथन्यायपञ्चाननभट्टाचार्यास्तु 'रागादि तिरोधाय' इति पठिला रागादि रागादिकं निमित्तं तिरोधाय विजित्य इति व्याचख्युः । तद्रागतिरोधानोक्तेः प्रकृतानुपयुक्तखाच्चिन्त्यम् ।

मीमांसान्यायप्रकाशः। अतश्च प्राप्तिसापेक्षत्वात्प्रतिषेधानामनुयाजेषु येयजामहप्रतिषेधे तस्य तत्र प्राप्तिर्वक्तव्या। सा न तावद्धननादाविव रागतः संभ- वति । अतो यजतिषु येयजामहं करोतीति शास्त्रात्सा वक्तव्या । शास्त्रप्राप्तस्य च प्रतिषेधे विकल्पः स्यात् , शास्त्रेण भ्रान्तिनिमित्त- [रागस्येव शास्त्रान्तरस्यात्यन्तबाधायोगात् । न च पदशास्त्रेणाहवनीयशास्त्रस्येव नानुयाजेष्विति विशेषशास्त्रेण यजतिषु येयजामहं करोतीति सामान्यशास्त्रस्य बाधः स्यादिति वाच्यम् । शास्त्रयोर्हि तत्र बाध्यबाधकभावो यत्र परस्य निरपे- क्षता । न हि पदशास्त्रस्य स्वार्थविधानार्थमाहवनीयशास्त्रापेक्षास्ति । निषेधशास्त्रस्य तु प्रसक्त्यर्थं यजतिषु येयजामहं करोतीति विधे-१० रस्त्यपेक्षा। एवं च निषेधशास्त्रस्य विशेषविषयत्वेन प्राबल्यवद्विधिशास्त्र- स्याप्युपजीव्यत्वेन प्राबल्यमस्तीति न निषेधेन विधेरत्यन्तबाधो युक्त इति विहितप्रतिषिद्धत्वाद्विकल्पः स्यात् । स च न युक्तः । विकल्पे हि पक्षे शास्त्रस्याप्रामाण्यं भवति । न ह्यनुयाजेषु येयजा-१५ महकरणे नानुयाजेष्वित्यस्य प्रामाण्यं संभवति, ब्रीह्यनुष्ठान- समय इव यवशास्त्रस्य । द्विरदृष्टकल्पना च स्यात् । विधेर्हि एवं ज्ञायते यदनुयाजेषु येयजामहकरणे कश्वनोप- कारो भवतीति । निषेधाच्च तदकरणादिति ज्ञायते, अनृतवदना- करणादिव दर्शपूर्णमासयोः। स चोपकारोऽदृष्टरूप इति द्विरदृष्ट-२० कल्पनाप्रसङ्गः । अतश्च विकल्पो न युक्तः । प्रतिषेधाश्रयणे च तदापत्तेर्न तदाश्रयणम् । किंतु नत्रः अनुयाजशब्देन संबन्धमाश्रित्य पर्युदास आश्री- यते, नबनुयाजशब्दाभ्यामनुयाजव्यतिरिक्तलक्षणात् । अनुयाज- व्यतिरिक्तेषु येयजामहं करोतीति । अत्र च वाक्ये येयजामहः कर्तव्यतया न विधीयते यजतिषु येयजामहं करोतीत्यनेनैव विहितत्वात् । किंतु सामान्यशास्त्रविहितयेयजामहानुवादेन तस्या- नुयाजव्यतिरिक्तविषयता विधीयते यत् यजतिषु येयजामहं आपदेवकृतः करोति तदनुयाजव्यतिरिक्तेष्विति । एवं च सामान्यशास्त्रस्य विशेषा- पेक्षिणः नानुयाजेष्वित्यनेनानुयाजव्यतिरिक्तविषयसमर्पणादनुयाज- व्यतिरिक्तेषु येयजामहः कर्तव्यतया प्राप्तः । अनुयाजेषु तु स न कर्तव्यतया प्राप्तो न वा प्रतिषिद्ध' इति न विकल्पः । लक्षणया चानुयाजव्यतिरिक्तविषयसमर्पणान्नानुयाजेष्विति वा- क्यस्य नाप्रामाण्यमतश्च पर्युदासाश्रयणे न किंचिदाधकम् । तत्सिद्धं नानुयाजेष्विति वाक्ये विकल्पभयात्पर्युदासाश्रयणमिति । ननु पर्युदासाश्रयणे यजतिषु येयजामहं करोतीति शास्त्रेण यागसामान्ये प्राप्तस्य येयजामहस्य नानुयाजेष्वित्यनेनानुयाजव्यति- १० रिक्ते संकोचनात् पर्युदासस्योपसंहारादभेदः स्यात् । उपसंहारे हि सामान्ये प्राप्तस्य विशेषे संकोचो भवति । यथा पुरोडाशं चतुर्धा करोतीति पुरोडाशसामान्ये प्राप्तं चतुर्धाकरणमाग्नेयं चतुर्धा करो- तीत्याग्नेये संकोच्यत इति चेन्न । तन्मात्रसंकोचार्थत्वादुपसंहारस्य, तदन्यमानसंकोचार्थत्वात् पर्युदासस्येति केचित् । अन्ये तु उपसंहारो नाम सामान्यतः प्राप्तस्य विशेषे संको चनरूपो व्यापारविशेषो विधेः । पर्युदासस्तु- पर्युदासः स विज्ञेयो यत्र पूर्वपदेन न । इत्यभियुक्तोक्त्या प्रत्ययातिरिक्तेन धातुना वा नाम्ना वा नत्रः संबन्धः । अतोऽनयोस्तावत्स्वरूपतः स्पष्ट एव भेदः । एवं सत्यप्यभेद आशयेत यदि यत्र पर्युदासस्तत्रावश्यमुपसं- हारः स्यात् । न चैतदस्ति । नेक्षेतोद्यन्तमित्यादौ सत्यपि तस्मिन्नुप- संहाराभावात् । न हि तंत्राग्नेयचतुर्धाकरणमिव सामान्ये प्राप्त किंचिद्विशेषे संकोच्यते । पापक्षयोदेशेनानीक्षणसंकल्पमात्र- विधानात् । २५- प्रकृतोदाहरणे तु यजिसामान्ये प्राप्तस्य येयजामहस्यानुयाज- व्यतिरिक्तेषु संकोचनाद्यदि विधेरुपसंहारविधित्वं संभवति नैता- वता किंचिद्विरुध्यते । विध्यभावे हि कथं विधिकार्यमुपसंहारः पर्युदासेन क्रियत इति भवति विरोधः । न चात्र विधिर्नास्ति १ तत्राग्नेये चतुर्धा। २. सामान्यप्राप्तं । पर ।

१० मीमांसान्यायप्रकाशः। नजोऽनुयाजपदसंबन्धन विधेविधायकत्वस्याव्याघातात् । अत्र हि पर्युदासोऽनुयाजव्यतिरिक्तविषयसमर्पकः आग्नेयपदवत् । उप- संहारस्तु विधिरेव । न च अत्र तन्मात्रसंकोचाभावान्नोपसंहार इति वाच्यम् । तन्मात्रसंकोच इति कोऽर्थः ? आग्नेयमात्रे संकोचो वा, सामान्य-५ प्राप्तस्य विशेषमाने संकोचो वा ? आयेऽनारभ्याधीतसाप्तदश्यस्य मित्रविन्दादिप्रकरणस्थेन वाक्येनोपसंहारो न स्यात्, आग्नेयसंकोचा- भावात् । द्वितीये चतुर्धाकरणस्य पुरोडाशमात्रे प्राप्तस्याग्नेये संकोचवदनुयाजाननुयाजसाधारण्येन प्राप्तस्याननुयाजेषु संकोचा- दुपसंहारः स्यादेव। एतावांस्तु विशेषः-आग्नेयादिवाक्येषु आग्नेयादयो विशेषाः खपदोपस्थिताः। प्रकृते तु पर्युदासेन तस्योपस्थितिरिति । उपसंहार- न्यायस्त्वविशिष्ट एव । यच्च तदन्यमात्रसंकोचनार्थत्वात्पर्युदास- स्येति । तन्न । नेक्षेतेत्यत्र सत्यपि पर्युदासे संकोचाभावात् । न ह्यत्र सामान्ये प्राप्तं तदन्यमाने संकोच्यते, संकल्पमात्रविधानादित्युक्ता १५ मित्यास्तां तावत् । तत्सिद्धं नानुयाजेष्वित्यत्र विकल्पप्रसत्य- पर्युदासाश्रयणमिति । यत्र तु स आश्रयितुं न शक्यते तत्र तत्प्रसक्तावपि निषेध एवाश्रीयते । यथा नातिराने षोडशिनं गृहातीत्यत्र । अंत्र ह्यति- रात्रे षोडशिनं गृह्णातीति शास्त्रप्राप्तमतिरात्रे षोडशिग्रहणं प्रति-२० षिध्यत इति विहितप्रतिषिद्धत्वाद्विकल्पप्रसक्तावपि पयुदासो नाश्री- यतेऽशक्यत्वात् । यद्यत्र नत्रः षोडशिपदेन संबन्धः स्वीक्रियेत तदाऽतिरात्रे षोडशिव्यतिरिक्तं गृहातीति वाक्यार्थः स्यात् , तत्र चाति- राने षोडशिनं गृहातीति प्रत्यक्षविधिविरोधः । अत एवातिरात्रपदेन * विधायकत्वस्याख्यापनादिति पाठमादृत्य आख्यापनात्स्थापनादिति व्याच- ख्युर्महा० श्रीकृष्णनाथभट्टाचार्याः। १ स्याख्यापनात् इति काशी-कलिकातामु० पु. पाठः। २ आग्नेयपुरोडाश इति क. मु० पु० पाठः । ३ यचात्र तन्मात्रसंकोचाभावान्नोपसंहार इति । तस्य कोऽर्थः । इति कलिकातामु० पु. पाठः । ४ न ह्यतिराने । ५ °दास आ° । - आपदेवकृतः ... न नञः संबन्धः, अतिरात्रे षोडशिनं गृहातीति प्रत्यक्षविधि- विरोधात् । अतश्चात्र पर्युदासस्यानुपपत्तभिषेध एव स्वीक्रियते, विकल्पोऽपि स्वीक्रियतेऽनन्यगतेः । अतश्चैतत्सिद्धम्-यत्र तस्य व्रतमित्या- ५ ग्रुपक्रमः विकल्पप्रसक्तिश्च नास्ति तत्र प्रतिषेधः, यथा न कलङ्गं भक्षयेदिति । यत्र वा विकल्पप्रसक्तावपि पर्युदास आश्रयितुं न शक्यते तत्र प्रतिषेधः, यथा नातिराने षोडशिनं गृहातीति । एतावांस्तु विशेषः--यत्र विकल्पापादकः प्रतिषेधः, तत्र प्रति- षिध्यमानस्य नानर्थहेतुत्वम् । उभयोरपि विधिप्रतिषेधयोः क्रत्वर्थ- १० त्वात् । यत्र तु न विकल्पः प्रसज्यते प्राप्तिश्च रागतः प्रतिषेधश्च पुरुषार्थस्तत्र निषिध्यमानस्यानर्थहेतुत्वम् । यथा कलञ्जभक्षणस्य । दीक्षितो न ददाति न जुहोतीत्यादिषु तु दानहोमादीनां शास्त्र- प्राप्तावपि पुरुषार्थत्वेन प्राप्तत्वात् ऋत्वर्थत्वेन च प्रतिषेधातु- ल्यार्थत्वाभावेन विकल्पाप्रसक्तावपि न तेषामनर्थहेतुत्वम् , ७५ प्राप्त्यभावात् । रागतः प्राप्तस्यापि क्रत्वर्थत्वेन प्रतिषेधे तदनुष्ठानात् तोवैगुण्यं नानर्थोत्पत्तिः, यथा स्वख्युपगमनादिप्रतिषेधः । रागतः प्राप्तस्य पुरुषार्थत्वेन प्रतिषेधे निषिध्यमानस्यानर्थहेतुत्वमिति दिक् । तत्सिद्धं निषेधानां पुरुषार्थानुबन्धित्वम् । एवं सर्वस्यापि वेदस्य पुरुषार्थानुबन्धित्वम् । प्रकृतमनुसरामः । तदेवं यथा विध्यादीनामध्ययनविध्युपात्तानां नानर्थक्यमेवमर्थवादानामपि तदुपात्तत्वेनानर्थक्यानुपपत्तेः स्वार्थ- प्रतिपादने च प्रयोजनाभावाल्लक्षणया प्रयोजनवदर्थपर्यवसानं वक्त. व्यम् । ते चार्थवादा द्विविधाः-विधिशेषा निषेधशेषाश्च । तत्र वायव्यं श्वेतमालभेतेत्यादिविधिशेषाणां वायुर्वै क्षेपिष्ठा देवता २५ (तै० सं० २।१।१) इत्यादीनामर्थवादानां विधेयार्थस्तावकतयार्थ- वत्त्वम् । बर्हिषि रजतं न देयम् (तै० सं० १।५।१) इत्यादिनिषेधशेषाणां सोऽरोदी दित्यादीनामर्थवादानां तु निषेध्यनिन्दकतयेति । अतश्चा- मीमांसान्यायप्रकाशः। लक्षणया प्राशस्त्यमर्थवादैाध्यते । तच्च प्राशस्त्यज्ञानं शब्दभाव- नायामितिकर्तव्यतात्वेन संबध्यते । [परमप्रकृतमनुसराम:-] तत्सिद्धं वक्ष्यमाणार्थभावनाभाव्यिका लिङादिज्ञानकरणिका प्राशस्त्यज्ञानेतिकर्तव्यताका शाब्दी भावना लिङ्त्वांशेनोच्यत इति । ननु केयं शाब्दी भावना ? उच्यते,-पुरुषप्रवृत्त्यनुकूलो५ व्यापारविशेषः । स एव विध्यर्थः, लिङादिश्रवणेऽयं मां प्रवर्तय- तीति नियमेन प्रतीतेः । यत्तु इष्टसाधनत्वं विध्यर्थस्तन्न । तथा सति इष्टसाधनमिति शब्दस्य विधिशब्दः पर्यायः स्यात् । न च पर्यायत्वं युज्यते । संध्योपासनं ते इष्टसाधनं तस्मात्तत्त्वं कुर्विति सहप्रयोगात्, पर्यायाणां च सहप्रयोगाभावात् । अतश्च व्यापार-१० विशेष एव विध्यर्थः । स च लोके पुरुषनिष्टोऽभिप्रायविशेषः । वेदे तु पुरुषाभावाच्छब्दनिष्ठ एव प्रेरणापरपर्याय इत्युक्तम् । ननु लोके शब्दनिष्ठे प्रेरणापरपर्याये व्यापारे शब्दप्रयोगा- भावेन शक्तिमहाभावात्कथं तस्य विधिशब्दात्प्रेतिपत्तिरिति चेत्, सत्यमेतत् । तथापि बालस्तावत्स्तन्यदानादौ स्वकृतरोदनादिजनित-१५ मातृप्रवृत्तेः स्वाभिप्रायरूपप्रवर्तनाज्ञानजन्यत्वावधारणात्सविधि- कायोजकवाक्यश्रवणसमनन्तरभाविनी प्रयोज्यवृद्धप्रवृत्तिमुपलभ्य तत्कारणत्वेन तस्य प्रवर्तनाज्ञानमनुमिमीते । यद्यपि भोजनादौ स्वप्रवृत्तेः समीहितसाधनताज्ञानपूर्वकत्वाव- धारणात्प्रयोज्यवृद्धप्रवृत्तरपि तत्पूर्वकत्वाध्यवसानं युक्तम् , तथा-२० प्यन्यप्रेरितप्रवृत्ती प्रवर्तनाज्ञानजन्यत्वस्योक्तमातृप्रवृत्तौ दर्शनेन प्रयोज्यवृद्धप्रवृत्तेरप्यन्यप्रेरितप्रवृत्तित्वात्तत्कारणत्वेन प्रवर्तनाज्ञान- स्यैवाध्यवसानम् । तच्च प्रवर्तनाज्ञानमन्वयव्यतिरेकाभ्यां प्रयोजकवाक्यजन्य- * 'स्तन्यपानादौ' इति पठिला 'अत्र पानपदेऽन्तर्भूतो णिजर्थः' इति व्याच- ख्युर्भट्टाचार्याः । १ एतल्लिखितपुस्तकेऽधिकम्। ग्रन्थारम्भ एव निरूपयितुमुपक्रान्ता शाब्दीभाव- नात्रोपसंहियते, मध्ये च प्रसक्तानुप्रसक्त्यैवाखिलः शास्त्रार्थो निरूपित इति प्रथमो- पक्रान्तस्यात्यन्तं विप्रकर्षाद्बुद्धावनारोहशङ्कयोच्यते-परमेति । २ प्रतीतिरि । Ashisiram ८० आपदेवकृतः - मित्यवधारयति । तत्र चावापोद्वापाभ्यां प्रवर्तनायां विधिशक्तिमव- धारयति । प्रवृत्त्यनुकूलो व्यापारः प्रवर्तना । स च व्यापारः प्रैषादि- रूपो विविध इति प्रत्येक व्यभिचारित्वाद्विधिशब्दवाच्यत्वा- ५ नुपपत्तेः प्रवर्तनासामान्यमेव विधिशब्दवाच्यमिति कल्पयति । एवं च विधिश्रवणे प्रैषादिरूपस्य वक्त्रभिप्रायस्य प्रवर्तनात्वेनैव रूपेण प्रतीतिर्न विशेषरूपेणे, तथैव शक्तिमहात् । विशेषरूपेण तु प्रतीतिर्लक्षणयैव । एवं च वैदिकलिङादिश्रवणेऽपि प्रवर्तनासामान्यमेव प्रतीयते । १० तत्र कोऽसौ व्यापार इत्यपेक्षायां प्रैषादिरूपस्य वक्त्रभिप्रायस्या- पौरुषेये वेदेऽनुपपत्तेः शब्दनिष्ठ एव प्रेरणापरपर्यायः कश्चिद्व्यापार इति कल्प्यते । अतश्च शब्दनिष्ठ एव प्रेरणापरपर्यायो व्यापारः शाब्दी भावना । सैव च प्रवर्तनात्वेन रूपेण विध्यर्थ इति । अयमेव चार्थ:- 'अभिधाभावनामाहुरन्यामेव लिङादयः।' (त. वा० २।१११) इति वार्तिकस्य । अभिधीयते अनेनेति व्युत्पत्त्याऽभिधाशब्देन विधिशब्द उच्यते । तव्यापारात्मिका भावना लिङादिवाच्येति केचिदाचार्याः। अन्ये त्वाहुः । सत्यं प्रवर्तनासामान्यं विध्यर्थः । तथैव शक्ति- ग्रहात् । प्रवृत्त्यनुकूलो व्यापारः प्रवर्तना। अपौरुषेये च वेदे प्रैषा- देरसंभवात्कश्चित्पुरुषप्रवृत्त्यनुकूलो व्यापारविशेषः कल्पनीयः । विधिशब्दाभिधेयप्रवर्तनासामान्यस्य विशेषमन्तरेणापर्यवसानात् । तत्र कोऽसौ व्यापारविशेष इत्यपेक्षायां धात्वर्थगतं समीहित- २५साधनत्वमेवेति कल्प्यते । तस्यापि प्रवृत्त्यनुकूलत्वात् । सर्वो हि समीहितसाधनतां ज्ञात्वा प्रवर्तते । अन्यप्रेरितो यदीष्टसाधनतां न जानाति तदा नैव प्रवर्तते । स्वतन्त्रप्रेरणावादेऽपि तदाक्षिप्तसमीहितसाधनताज्ञानं स्वीक्रियत १ इत्येतस्य व्य । २. विशेषणतयेति काशीमु० पा० । १५ २० मीमांसान्यायप्रकाशः। ८१ एव । अन्यथा विधेः प्रवर्तकत्वानुपपत्तेः । अतश्चावश्यकत्वात्स- मीहितसाधनतैव प्रवर्तनात्वेन रूपेण विध्यर्थः । एवं च विधिशब्दस्यान्यनिष्ठव्यापारबोधकत्वं लोकसिद्धं सिद्धं भवति । किंच शब्दे एको व्यापारः स्पन्दाद्यतिरिक्तः कल्पनीयः। तस्य च स्वप्रवृत्तौ पराधीनप्रवृत्तौ वा कारणत्वेनाक्लुप्तस्य प्रवर्तना-५ त्वेन रूपेण ज्ञातस्य प्रवृत्त्यनुकूलत्वं शब्दस्य च परनिष्ठव्यापार- ज्ञापकत्वेन क्लुप्तस्य स्वनिष्ठव्यापारबोधकत्वं, विधेश्च प्रवर्तकत्व- निर्वाहार्थं धात्वर्थस्य समीहितसाधनत्वमिति कैल्पनाद्वरमावश्यक- स्यैव समीहितसाधनत्वस्य स्वप्रवृत्तिहेतुत्वेन क्लुप्तस्य प्रवर्तनात्वेन । रूपेण विध्यर्थत्वकल्पनं, लाघवात् , अन्यनिष्ठत्वाच्च । न च विधेः प्रवर्तकत्वनिर्वाहार्थ समीहितसाधनत्वकल्पनात् प्रेरणानभिधाने च विधेः प्रवर्तकत्वाभावाद्धात्वर्थस्य च समीहित- साधनत्वकल्पकमेव नास्तीति वाच्यम् । प्रवर्तनाभिधानेनैवे तन्मते- ऽपि विधेः प्रवर्तकत्वाद्विध्यभिहितस्य च प्रवर्तनासामान्यस्य विशेष- मन्तरेणापर्यवसानात्समीहितसाधनत्वाक्षेपकत्वात् । न चेष्टसाधनत्वस्य विध्यर्थत्वे संध्योपासनं ते इष्टसाधनं तत्त्वं कुर्विति सहप्रयोगानुपपत्तिरिति वाच्यम् । इष्टसाधनत्वस्य विशेष- रूपेण विधिनानभिधानात् । प्रवर्तनात्वेन रूपेणाभिधानात् । सामा- न्यशब्दस्य च विशेषशब्देन दृष्टः सहप्रयोगः पाञ्चालराजो द्रुपद इत्यादौ । तस्मात्समीहितसाधनतैव प्रवर्तनात्वेन रूपेण विध्यर्थः,२० सैव च तेन रूपेण शब्देनैवाभिधीयत इति शाब्दी भावना । उक्तवार्तिकस्यापि अयमेवाभिप्रायः। अभिधीयते साऽभिधा समीहितसाधनता, सैव प्रवर्तनात्वेनाभिहिता पुरुषप्रवृत्तिं भावय- तीति भावना, तां लिङाद्य आहुरिति । यथाहुः- पुंसां नेष्टाभ्युपायत्वास्क्रियास्वन्यः प्रवर्तकः । प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम् ॥ इति । तत्सिद्धं यजेतेत्यत्र लिङ्त्वांशेन शाब्दी भावनोच्यत इति । आख्यातत्वांशेनार्थी भावनोच्यते । ननु केयमार्थी भावना ? कर्तृ- १ कल्पनागौरवाद । २ 'नैतन्म । ३ पेक्षत्वा ।

८२ आपदेवकृतः - 1 व्यापार इति चेन्न । यागादेरपि तद्व्यापारत्वेन भावनात्वापत्तेः । न चेष्टापत्तिः, तस्य प्रकृत्यर्थत्वेन प्रत्ययार्थत्वाभावादिति चेत् । अत्राहुः- सत्यं, न यागो भावना किंतु खेर्गेच्छाजनितो यागविषयो यः प्रयत्नः स भावना । स एव चाख्यातांशेनोच्यते । यजेतेत्याख्यातश्रवणे ५यागेन यतेतेति प्रतीतेर्जायमानत्वात् । यश्च प्रयत्नपूर्वकं गमनादि करोति तस्मिन्देवदत्तो गमनं करो- तीति करोतिप्रयोगदर्शनात्, वातादिना स्पन्दमाने तु नायं करोति किंतु वातादिनाऽस्य स्पन्दो जायत इति प्रयोगात्करोत्यर्थस्तावत्प्र- यत्नः । करोतिसामानाधिकरण्यं चाख्याते दृश्यते । यजेत- यागेन १० कुर्यात्, पचति-पाकं करोति, गच्छति-गमनं करोतीति । अतश्च करोतिसामानाधिकरण्यात्प्रयत्नस्याख्यातवाच्यत्वम् । न च रथो गच्छतीति प्रयोगानुपपत्तिः, रथे यत्नाभावादिति वाच्यम् । वोदश्वगतं प्रयत्नं रथे आरोग्य प्रयोगोपपत्तेः । यन्मतेऽप्यन्योत्पादनानुकूलं व्यापारसामान्यं भावना तन्मते- १५ऽपि रथे गमनातिरिक्तव्यापारानुपलब्धे रथो गच्छतीति प्रयोग- स्यौपचारिकत्वमेवेति । अतश्च प्रयत्न एवार्थी भावना । यथाहु:- प्रयत्नव्यतिरिक्तार्थी भावना तु न शक्यते । वक्तुमाख्यातवाच्येह प्रस्तुतेत्युपरम्यते ॥ इति । अन्ये त्वाहुः-भवितुर्भवनानुकूलो भावकव्यापारस्तावद्भावना । २० यस्मिन्व्यापारे कृते करणं फलोत्पादनाय समर्थं भवति तादृशो व्यापार इति यावत् । स एव चाख्यातार्थः । कुठारेण छिनत्तीत्या- ख्यातश्रवणे हि भवयेताहशी मतिः-कुठारेण तथा व्याप्रियेत यस्मिन्व्यापारे कृते कुठारेण छेदनं भवतीति । एवं यजेत स्वर्गकाम इत्यस्यायमर्थः---यागेन तथा व्याप्रियेत यस्मिन्व्यापारे कृते यागा- २५ त्स्वर्गो भवतीति । स च व्यापारः कचिदुद्यमननिपातनादिः, कचि- चाम्यन्वाधानादिब्राह्मणतर्पणान्तः, कथंभावाकाङ्क्षायां विशेषरूपेण पश्चादवगम्यते । अन्योत्पादानुकूलत्वेन सामान्यतस्त्वाख्यातादेव । रथो ग्रामं गच्छतीत्यत्रापि आख्यातेन ग्रामप्राप्त्यनुकूलो व्यापार एव प्रतीयते। १ यागे । २ खेच्छा । ३ °र्थभा° । ४ °स्तुये । , मीमांसान्यायप्रकाशः। ८३ , रथस्तथा गमनेन व्याप्रियते यस्मिन्व्यापारे कृते गमनाद्रामप्राप्ति- र्भवतीति प्रतीतेः । नत्वत्र गमनमात्रमाख्यातार्थः, तस्य धातुनोक्त- त्वात् । तत्र कोऽसौ व्यापार इत्यपेक्षायां पूर्वोत्तरावान्तरदेशविभ- जनसंयोजनरूप इति पश्चादवगम्यते । पूर्वेण प्रदेशेन विभज्योत्त- रेण संयुज्य रथो ग्रामं गच्छतीति प्रयोगात् । उद्यम्य निपात्य कुठा-५ रेण च्छिनत्तीतिवत् । एवं देवदत्तः प्रयतत इत्यत्रापि देवदत्तस्तथा व्याप्रियते यथा प्रयत्नो भवतीति प्रयत्नानुकूलो व्यापार एवाख्यातार्थो न तु प्रयत्नः। तस्य धातुनोक्तत्वात् । व्यापारविशेषापेक्षायां चेच्छादिः पश्चाद- वगम्यते, उद्यमननिपातनवत् । तथा च सर्वत्रानुगतत्वादन्योत्पादानुकूलव्यापारसामान्यमेवा- ख्यातार्थः, न तु प्रयत्नमात्रम् । रथो गच्छति, देवदत्तः प्रयतत इत्यादिषु तदभावात् । न चात्रौपचारिकत्वं वक्तुं युक्तम् , मुख्ये संभवति तस्यान्याय्यत्वात् । करोत्यर्थोऽप्यन्योत्पादानुकूलो व्यापार एव न प्रयत्नमात्रं, करोतेश्चेतनाचेतनकर्तृकाख्यातसामानाधिकर-१५ ण्यादिति । तत्सिद्धमन्योत्पादानुकूलो व्यापार आर्थी भावनेति । १ अत्र श्रीकृष्णनाथन्यायपञ्चाननभट्टाचार्याः “करोत्यर्थोऽप्यन्योत्पादानुकूलो व्यापार एव प्रयत्नमानं करोतेश्चेतनकर्तृकाख्यातसामानाधिकरण्यात्" इति , पाठमादृत्य व्याचख्युः- "ननु तर्हि करोतिनाख्यातार्थप्रतिपादनविरोधस्तयोविभिन्नार्थकलादित्यतस्तयोर- भिन्नार्थवं प्रतिपादयति-करोत्यर्थोऽपीति । कोऽयमन्योत्पादानुकूलो व्यापारः करोत्यर्थ इत्यत्र व्यापारखरूपमाह-प्रयत्नमात्रमिति । ननु तथापि पशुपदस्य हस्तिपदेनेवाख्यातपदस्य करोतिना विवरणमयुक्तमाख्यातस्य व्यापारसामान्यवाच- कलात्करोतेश्च तद्विशेषवाचकलादित्यतो-यत्राख्यातस्य व्यापारलेन प्रयत्नबोध- कलं तत्रैव करोतिना सामानाधिकरण्यं न सर्वत्रेत्याह-करोतेरिति”। इति । तच्चिन्त्यम्-आकासितानभिधानेन न्यूनलप्रसङ्गादनाकासिताभिधाने- नार्थान्तरतापत्तश्च । तथा हि- आख्यातस्यान्योत्पादानुकूलव्यापारार्थकलं व्यवस्थापयता यत्नार्थकलमवश्यं निराकर्तव्यम् । परमतनिराकरणपूर्वकत्वाद्यवस्थापनस्य । तच्च रथो गच्छति देवदत्तः प्रयतते इत्यादिषु व्यभिचारान्निराकृतमपि यत्नार्थकत्वसाधकयुक्ति- निराकरणं यावन्नाशेषतो निराकृतं भवति । एकतरपक्षसाधकयुक्तीनां पक्षान्तर- प्रतिपक्षवात् । करोतिना विवरणं च करोतेर्यनार्थकले स्वपक्षविरोधि । अतः - आपदेवकृतः ८४ सैव चाख्यातांशेनोच्यते भावयेदिति । तस्याश्च भाव्याकाङ्क्षायां स्वर्गादिर्भाव्यत्वेन संबध्यते । करणाकाङ्क्षायां यागादिः करणत्वेन संबध्यते । प्रयाजादय इतिकर्तव्यतात्वेन । एवं च यजेतेत्यादिना स्वर्गाद्युद्देशेन यागादेविधानात्सिद्धं यागादेर्धर्मत्वं, प्रयोजनमुद्दिश्य ५वेदेन विहितत्वादिति । सोऽयं धर्मो यदुद्देशेन विहितस्तदुद्देशेन क्रियमाणस्तद्धेतुः । श्रीगोविन्दार्पणबुद्ध्या क्रियमाणस्तु निःश्रेयसहेतुः । न च तदर्पण- बुद्ध्यानुष्ठाने प्रमाणाभावः, यत्करोषि यदनासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय ! तत्कुरुष्व मदर्पणम् ॥ (गी० ९।१७) इति स्मृतेः । अस्याश्चाष्टकादिस्मृतिवत्प्रामाण्यादित्यन्यत्र विस्तरः ॥ काहं मन्दमतिः केयं प्रक्रिया भाट्टसंमता । तस्माद्भक्तेविलासोऽयं गोविन्दगुरुपादयोः ॥ ग्रन्थरूपो मदीयोऽयं वाग्व्यापारः सुशोभनः । अनेन प्रीयतां देवो गोविन्दो भक्तवत्सलः ॥ इति श्रीमदनन्तदेवसूनुना आपदेवेन कृतं मीमांसान्याय- प्रकाशसंज्ञकं मीमांसाप्रकरणं समाप्तम् । . करोतेरपि यत्नार्थकलनिराकरणमपेक्षितम् । तंदकरणे ग्रन्थस्य न्यूनखापत्तिः । करोत्यर्थेऽन्योत्पादानुकूलव्यापारसमस्ति न वेत्यादिसंदेहाभावात् , करोत्यर्थस्ता- दृशव्यापारः क इति जिज्ञासाभावाच तदुक्तावान्तरत्वम् । करोतेश्चेतनकर्तृका- ख्यातसामानाधिकरण्यादित्यनेन 'यत्र चेतनकर्तृकाख्यातसामानाधिकरण्यं तत्रैव करोतिना विवरणं न सर्वत्र' इत्यस्यार्थस्य. कथमप्यप्रतीतेश्च । अज्ञाते धर्मिस्वरूपे विरोधानुसंधानासंभवात् , ज्ञाते च पुनस्तजिज्ञासानुदयात् , सामान्यवाचकस्य विशेषवाचकेन विवरणमयुक्तमित्युद्भावितायुक्तलस्यानुद्धारात्, अन्योत्पादानु- कूलव्यापारत्वस्य करोत्यर्थतावच्छेदकलानङ्गीकारे एकस्मिन्नुभयसंबन्धानभिधा- नेनापिशब्दस्य, व्यावाभावेनैवकारस्य चासंगतत्वापाताचेत्यपि विभावनीयम् । औपरिष्टिकपाठ एव पुस्तकान्तरेषूपलब्धो युक्तश्च । तत्र हि करोत्यर्थोऽपीत्यने नाख्यातस्येव करोतेरपि यत्नार्थकलं प्रतिषिध्य करोतेश्चेतनाचेतनकर्तृकाख्यात- सामानाधिकरण्यादित्यनेन 'यद्यद्यत्नवत्तत्तचेतनम्' इति व्याप्तेरचेतनकर्तृकाख्यात- सामानाधिकरण्यरूपव्यापकविरुद्धोपलब्ध्या करोत्यर्थाश्रयाचैतन्यं निवर्तमानं करोतेरपि यत्नार्थक्वं निवर्तयतीत्युच्यत इति सर्वं समञ्जसम् ॥ -

Mimamsanyayaprakasa

Author
Narayana Ram Acarya
Title
Mimamsanyayaprakasa
File name
Mimamsanyayaprakasa
Text
OCR done
Citation
1946
Published
2004/10/20
Publisher
Satyabhamabai Pandurang
Language
Sanskrit
Pages
95
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
383661
Barcode
1990030051925.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sri Sringeri Sharada Peetham
Rights
Not Available
VMLT id
1MsjS6tRJcZ
Download PDF

Mimamsanyayaprakasa