Banasthali University

The Alankarashekhara

Shivadatta · 2010/03

PDF Proofread

Front matter

No text on this page.

KAVYAMÂLÂ. 50.
THE
ALANKÂRASEKHARA
OF,
KES'AVAMIS'RA.
re
EDITED
BI
PANDIT S'IVADATTA,
Head Paņdit and Superintendent, Sanskrit Department,
Oriental College, Lahore.
? AND
KAS'INATH PANDURANG PARAB.
-
REVISED BY
WÁSUDEV LAXMAN SHÁSTRÎ PAŅSIKAR.
Second Edition.
PUBLISHED
BY
PÂNDURANG JÂWAJI,
PROPRIETOR OF THE “NIRŅAYA-SAGAR" PRESS,
BOMBAY.

( All rights reserved by the publisher. ]
PUBLISHER:-Pandurang Jawaji,
Nirnaya-sagar Hress,
PRINTER:-Ramchandra Yesu Shedge, ſ26-28, Kolbhat Lane, Bombay.

काव्यमाला.५०. श्रीमाणिक्यचन्द्रकारितः श्रीकेशवमिश्रकृतः अलंकारशेखरः। जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपरवोपाह्वपाण्डुरङ्गात्मजकाशीनाथ- शर्मणा च संशोधितम् , तच पणशीकरोपाह्व- लक्ष्मणशर्मात्मजवासुदेवशर्मणा संस्कृतम् । द्वितीयावृत्तिः तच्च . मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्ययन्त्रालये मुद्रयित्वा प्राकाश्यं नीतम् । १९२६.

No text on this page.

काव्यमाला। : श्रीमाणिक्यचन्द्रकारितः श्रीमत्केशव मिश्रकृतः अलंकारशेखरः। प्रथमो मरीचिः। प्राणान्कृशोदरीणां राधानयनान्तसर्वस्वम् । तेजस्तमालनीलं शरणागतवज्रपञ्जरं वन्दे ।। खप्रकाशचिदानन्दमयाय परमात्मने । अविद्यानिबिडध्वान्तभास्कराय नमोऽन्वहम् ।। ग्रन्थाः काव्यकृतां हिताय विहिता ये सप्त पूर्व मया ते तर्कार्णवसंप्लवव्यसनिभिः शक्याः परं वेदितुम् । इत्यालोच्य हृदा मदालसवधूपादारविन्दक्कण- न्मञ्जीरध्वनिमक्षुलोऽयमधुना प्रस्तूयते प्रक्रमः ।। आसीत्प्रत्यर्थिपृथ्वीरमणकमलिनीवृन्दहेमन्तमासः कीर्तिभ्राजत्सुशर्मान्वयकुमुदवनीयामिनीजीवनाथः । राजद्राजन्यराजीमुकुटमणिगणप्रोल्लसत्पादपीठः प्रोद्यत्साम्राज्यलक्ष्मीशिथिलितनहुषो रामचन्द्रोऽवनीन्द्रः ।। मित्राणि प्रतिपालयस्त्रिजगतीं कीर्तीन्दुना हादय- शत्रूणां हृदयं प्रतापदहनै रात्रिंदिवं ज्वालयन् । सर्वखेन कृतार्थयन्द्विजगणान्देवान्मखैस्तोषय- न्नेष प्रौढमनाचिराय बुभुजे सप्तार्णवां मेदिनीम् ॥ सूत्रामोद्दामढिल्लीपरिवृढविलसत्काविलक्षोणिभोंः प्रक्रान्ते प्रौढयुद्धे समदलयदसौ कोटिशो वैरिवीरान् । .. १. 'नमाम्य' क. २. 'दिल्ली' ख.

काव्यमाला। प्रश्चान्मांसास्थिमेदःकलुषितवसुध ज्झ्यतांश्चाकलय्य द्यां यातान्वैरिवर्गान्दिवमपि सहसा जेतुकामो जगाम ।। क्षीराम्भोधेः शशीव श्रुतिरिव वदनाद्वेधसो रामचन्द्रा- दस्मादुद्यत्प्रतापः समजनि सुमना धर्मचन्द्रो नरेन्द्रः । यस्याद्यापि प्रसन्नस्मितसुभगमुखाः खिद्यदञ्चत्कपोला रोमाञ्चस्तम्भभव्यास्त्रिदशयुवतयो हन्त गायन्ति कीर्तीः ।। निष्कान्तं सदनादुदैक्षि भगवानम्भोजिनीवल्लभ- स्ते वाताः परिशीलिताः कमलिनीसौरभ्यमेदखिनः । विश्रान्तं गिरिकाननेषु निबिडच्छायेषु भाग्योदया- दित्थं स्मेरमुखाः स्तुवन्ति विपदं यद्वैरिवामभुवः ।। प्रत्यर्थिभूपतिपरिग्रहराज्यलक्ष्मी- धम्मिल्लमाल्यसुरभीकृतपाणिपद्मः । तस्मादजायत समस्तगुणाभिरामो माणिक्यचन्द्र इति राजकचक्रशक्रः ।। काव्यालंकारपारंगममतिरखिलक्ष्माभृतां चक्रवर्ती सर्वेषामस्तु काव्ये मतिरतिनिपुणेत्याशये संनिवेश्य । वेदान्तन्यायविद्यापरिचयचतुरं केशवं संनियुज्य श्रीमन्माणिक्यचन्द्रः क्षितिपतितिलको ग्रन्थमेनं विधत्ते ॥ बहुदोषोऽपि विदोषः क्रियते सुजनेन बाण इव हरिणा । गुणवदपि निर्गुणीयति दुर्जनतो मूषिकात इव पुस्तम् ।। परोगे परानन्दे खलसजनयोर्द्वयोः । खभाव एव शरणं विषपीयूषयोरिव ।। अलंकारविद्यासूत्रकारो भगवाञ्झौद्धोदनिः परमकारुणिकः खशास्त्रे प्रवर्तयिष्यन्प्रथमं काव्यखरूपमाह- काव्यं रसादिमद्वाक्यं श्रुतं सुखविशेषकृत् । आदिपदेनालंकारपरिग्रहः । तथा च तदुभयान्यतरवत्त्वं लक्षणम् । १. 'त्वं वा' ख.

१ मरीचिः] अलंकारशेखरः। अन्यतरत्त्वं च तदन्यान्यत्वम् । सुखविशेषसाधनत्र वा लक्षणम् । समु- दायार्थशून्येऽपि तदुभयमस्त्येवेति वृद्धाः । अदृष्टद्वारा तद्धेतुशन्देऽति- व्याप्तिराह--श्रुतमिति । सदिति शेषः । सुखे वैजात्यं सर्वानुभवसिद्धमेव ।। केचित्तु-- 'तददोषौ शब्दार्थों सगुणावनलंकृती. पुनः क्वापि ।' इत्याहुः ।। 'रसप्रतिपत्तिद्वारा सुखविशेषसाधनं वाक्यं काव्यम्' इत्यपरे ।। केचित्तु–'पदावली काव्यम्' । न तु निर्दोषगुणवदादि, काव्यदोषाणा- मपरिगणनापत्तेः । न च-दोषाभावघटितकाव्यत्वज्ञानार्थमेव प्रतियोगिप- रिगणनम् इति वाच्यम्, 'न चैतत्काव्यं दुष्टम्' इत्यनुद्भावनापत्तेः 'इदं काव्यमेव न' इत्यभिधानस्यैवोचितत्वात्-इत्याहुः । तन्न । तवायं हेतुरा- भास इतिवदुपपत्तेः । व्याप्तिविशिष्टपक्षधर्मस्यैव हेतुत्वात् । न च हेतुत्वे- नाभिमत इति वाच्यम् ।। तुल्यत्वादिति ॥ वस्तुतस्तत्काव्यं पृथगेव यत्र दोषगुणादिचिन्ता । नहि । दुष्टं शरीरं शरीरमेव न भवति, इत्यन्ये. ॥ कीर्त्यादिरूपफलसाधनता तु विशिष्टस्य । यदाह- 'साधुशब्दार्थसंदर्भ गुणालंकारभूषितम् । स्फुटरीतिरसोपेतं काव्यं कुर्वीत कीर्तये ॥' आहुश्च- 'निर्दोष गुणवत्काव्यमलंकारैरलंकृतम् । रसान्वितं कविः कुर्वन्त्रीतिं कीर्तिं च विन्दति ॥ इति ।। प्रवृत्त्यौपयिकं फलमाह- हिताय सुकविः कुर्यात् सुकवेरेव हितम्, अन्यस्य तु प्रतिकूलं तत् ।। उक्तं च- 'गौौः कामदुधा सम्यक्प्रयुक्ता मर्यते बुधैः । दुष्प्रयुक्ताः पुनर्गोत्वं प्रयोक्तः सैव शंसति ।। १. 'साधनं' ख. २. 'शून्यत्वे' ख. ३. 'प्रतिपत्तिगुणद्वारा' ख. ४. 'वस्तुतस्तु का' क-ख. ५. 'गुणदोषादि' क. ६. 'कूलमिदमिति भावः' क. 'प्रतिकूलमिति तन' ख. ७. 'तदुक्तम्' क.

काव्यमाला। श्लाघ्यः पामरपरिषदि कवयति दोलीककर्तापि । यस्मै स्पृहयति विद्वाँस्तत्काव्यं काव्यमित्याहुः ।। अर्थः कृतार्थयन्त्येके घटनापटवः परे । उभयत्र प्रवीणा ये त एव कवयो मताः ॥' हितमाह श्रीपादः- 'लाभः पूजाख्यातिधर्मः : कामश्च मोक्षश्च । इष्टानिष्टप्राप्तित्यागौ ज्ञानं फलानि काव्यस्य ।।' इष्टेति गोवृषन्यायात् ॥ आहुश्च- 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥' वृद्धास्तु- 'श्रोतॄणां द्राग्महानन्दः स खस्मिन्नाभिमानिकः । तत्कालफलमेतावत्क्रमाकीर्तिधनादिकम् ॥' नन्वेवं सर्वः सुकविरेव स्यात् । अत आह- तद्धेतुः प्रतिभादिकम् ॥१॥ सदाह- 'प्रतिभा कारणं तस्य व्युत्पत्तिस्तु विभूषणम् । भृशोत्पत्तिकेदभ्यासः काव्यस्यैषा व्यवस्थितिः ॥' व्युत्पत्तिर्नानातन्त्रज्ञानम् ॥ आहुश्च- 'शक्तिनिपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥' शक्तिः पुण्यविशेषः । स एव प्रतिभेत्युच्यते । 'व्युत्पत्तिः शक्तिरभ्यासस्त्रितयं काव्यसाधनम् ।' इत्यपि ॥ १. 'यस्य कः २. 'कृतोऽभ्यासः' क.

१ मरीचिः] अलंकारशेखरः। श्रीपादस्तु- 'परिशीलितकाव्यवत्मनां कविसंसर्गविशुद्धचेतसाम् । परिभावयतामनुक्षणं कविता पाणितले निषीदति ।।' वृद्धास्तु 'नैसर्गिकी च प्रतिभा श्रुतं च बहु निर्मलम् अमन्दश्चाभियोगोऽस्याः कारणं काव्यसंपदः ॥ मनःप्रसत्तिः प्रतिभा प्रातःकालेऽभियोगिता । अनेकशास्त्रदर्शित्वमित्यर्थालोकहेतवः ।। द्वित्रकोपपरिज्ञानं द्विव्याकरणज्ञता । छन्दोविद्याप्रवीणत्वं कान्येऽवश्यमपेक्ष्यते ॥ आदिपदात्प्रकारज्ञानम् । तथाहि-सा खल्वेपा भारती सुरसरिदिव सह- समुख्यपि संक्षेपेण चतुर्धा प्रवर्तते । तदाहुः- 'संस्कृतं प्राकृतं चैव पैशाची मागधी तथा । विद्याश्चतस्र एवैताः संक्षेपात्काव्यवर्त्मनः ॥ देवाद्याः संस्कृतं प्राहुः प्राकृतं किन्नरादयः । पैशाची चे पिशाचाद्या मागधी हीनजातयः ।। चतसृप्वपि मूर्धन्यं संस्कृतं मुनयो विदुः । गा पद्यं च मिश्रं च तत्रिधैव व्यवस्थितम् । गद्यमुत्कलिकाप्रार्य पद्यगन्धीति च द्विधा ।। तत्रापि पद्यं तदपि वृत्तकं वर्णमात्रयोः । समवैषम्यभेदेन तदानन्त्याय कल्पते ॥' दण्डिनस्तु- 'तदेतद्वाङ्मयं भूयः संस्कृतं प्राकृतं तथा । अपभ्रंशश्च मिश्रं चेत्याहुरार्याश्चतुर्विधम् ।। १. ख-पुस्तके नास्ति. २.-३. 'द्वित्रि' ख. ४. 'क्षते' ख. ५. 'तु' स्व.

w काव्यमाला । प्राकृतं तज्जतत्तुल्यदेश्यादिकमनेकधा । अपभ्रंशश्च यच्छुद्धं तत्तद्देशेषु भाषितम् ।। संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादिकम् । आसारादि त्वपभ्रंशो नाटकादि तु मिश्रकम् ।। यथामति यथाशक्ति यथौचित्यं यथारति । कवेः पात्रस्य चैतासां प्रयोग उपपद्यते ॥ इत्यलंकारशेखर उपक्रमरत्ने काव्यस्वरूपफलकारणमरीचिः ॥ १ ॥ द्वितीयो मरीचिः। शरीरकल्पस्य काव्यस्य रूपान्तरमाह- रीतिरुक्तिस्तथा मुद्रा वृत्तिः काव्यस्य जीवितम् । त्रिविधस्यापि दोषास्तु त्याज्याः श्लाघ्या द्वये गुणाः॥१॥ अलंकारस्तु शोभायै रस आत्मा परे मनः । द्वय इति शब्दार्थभेदात्रितयान्वयि । परे रसदोषभावानुकूलवर्णादयः ।। तत्र रीतिमाह- तत्तद्रसोपकारिण्यस्तत्तद्देशसमुद्भवाः ॥२॥ पद्येषु रीतयो गौडी वैदर्भी मागधी तथा । तदेतत्पल्लवयन्ति श्रीपादाः- 'गौडी च तदल्पतः । अनयोः संकरो यस्तु मागधी सातिविस्तरा ।। गौडीयैः प्रथमामध्यावैदर्भमथिलैस्तथा । अन्यैस्तु चरमा रीतिः स्वभावादेव सेव्यते ॥ तत्र गौडी यथा- 'उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताकुर- क्रीडत्कोकिलकाकलीकलकलैरुद्ीर्णकर्णज्वराः। नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण- प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥' समासभूयस्त्वाद्वैदर्भी . कानि 6. २ मरीचिः] अलंकारशेखरः। वैदर्भी यथा- - 'मनीषिताः सन्ति गृहेषु देवतास्तपः क वत्से क च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीपपुप्पं न पुनः पतत्रिणः ।।' मागधी यथा- 'पाणी पद्मधिया मधूककुसुमभ्रान्त्या पुनर्गण्डयो- नीलेन्दीवरशङ्कया नयनयोर्वन्धूकबुद्ध्याधरे । लीयन्ते कबरीपु वान्धवजनव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रैक्षिप्यसि ।। इयं वहुधा विस्तृतमन्यत्र ॥ भोजराजस्तु- 'शस्ता विदग्धगोष्ठीषु वैदर्भी रीतिरुत्तमा । मागधी मध्यमा गौडी गौडस्त्री कलहायते ।।' यदाह- 'ब्रह्मन्विज्ञापयामि त्वां खाधिकारजिहासया । गौडस्यजतु वा गाथामन्या वास्तु सरखती।।' उक्ति विभजते- लोकच्छेकार्भकोन्मत्तभेदादुक्तिश्चतुर्विधा ॥३॥ तत्र लोकोक्तिर्यथा- 'शापान्तो मे भुजगशयनादुत्थिते शाई-पाणौ .. शेषान्मासान्गमय चतुरो लोचने मीलयित्वा । पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥' च्छेको विदग्धस्तस्योक्तिर्यथा- 'योऽतिदीर्घासिताक्षस्य विलासर्वलितभ्रवः । कान्तामुखस्यावशगस्तस्मै नृपशवे नमः ॥" 'नृपशवे नमः' इति ॥ 1. 'मनीषितामर्च गृहेषु देवता' क. २. 'संरक्षसिं' क. ३. 'चलित'ख. ४. स्ति' ख.

८. काव्यमाला। , , अर्भकोक्तियथा- 'स किं स्वर्गतरुः कोऽपि यस्य पुष्पं निशाकरः । मातस्ते कीदृशा वृक्षा येषां मुक्ताफलं फलम् ॥' अत्र पुष्पं निशाकरः, फलं मुक्ताफलमिति ॥ उन्मत्तोक्तिर्यथा- 'काकार्य शशलक्ष्मणः क च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपेहि कः खलु युवा धन्योऽधरं धास्यति ॥' अत्र विरहोन्मत्तस्यैवमभिधानम् ॥ विन्यासविशेषवशाद्यत्राभिप्रायविशेषलाभेन मुदो हर्षस्योत्पत्तिःसा मुद्रा। तामिदानी विभजते- 'मुद्रा पदस्य वाक्यस्य विभक्तेर्वचनस्य च ।' तंत्र पदमुद्रा यथा- 'निर्माल्यं नयनश्रियः कुवलयं, वक्रस्य दासः शशी भ्रूयुग्मस्य सनाभि मन्मथधनुज्योत्स्नास्मितस्याञ्चलम् । संगीतस्य च मत्तकोकिलरुतान्युच्छिष्टमेणीदृशः सर्वाकारमहो विधेः परिणतं विज्ञानशिल्पं चिरात् ॥' अत्र निर्माल्यादि पदानां गौणवृत्त्याभिप्रायविशेषान्मुत्प्रदायिता ।। वाक्यमुद्रा यथा- 'रामे तटान्तवसतौ कुशतल्पशायि- न्यद्यापि नाम भवतो भगवन्ननास्था । स्मृत्वा तदेहि सगरं च भगीरथं च दृष्ट्वाथ वा मम धनुश्च शिलीमुखाँश्च ॥' अन सगरं च भगीरथं चेत्यादिवाक्यस्य प्रागुपकाराभिप्रायेण दृष्ट्वा याव- दपकारसामर्थ्याभिप्रायेण निवेशनान्मुत्प्रदायिता ॥ - ३ मरीचिः] अलंकारशेखरः। विभक्तिमुद्रा यथा- 'श्रियं प्रदुग्धे विपदो रुणद्धि यशांसि सूतेऽविनयं प्रमाटि । संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः ॥' अत्र प्रदुग्ध इत्यादि तिकिभक्तीनां द्वयोर्द्विकर्मकयोर्निवेशनान्मङ्गल्यामङ्ग- ल्यार्थकानामपि मङ्गल्य एवाभिप्रायवशाद्विभक्तिमुद्रा ॥ वचनमुद्रा यथा- 'विश्वंभरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते । तेषां वधूस्त्वमसि नन्दिनि पार्थिवानां येषां गृहेषु सविता च गुरुवयं च ॥' अत्र वयमिति वचनेन सवितुरहं महानित्यभिप्रायाद्वचनमुद्रा ।। 'प्रयोजनं यथैतासां रसमैत्री च विस्तरः । तथालंकारसर्वखे सप्रपञ्चमदर्शयम् ।।' इत्यलंकारशेखर उपक्रमरत्ने रीत्यादिवहिरङ्गत्रयमरीचिः ॥ २ ॥ , तृतीयो मरीचिः। अथ वृत्ति विभजते. पदानां वृत्तयस्तितः तिस्रो वृत्तयः पदानां भवन्ति, शक्तिर्लक्षणा व्यञ्जना चेति । तत्र-शक्ति- रीश्वरेच्छा या संकेत इत्युच्यते । सा पदेषु प्रसिद्धैव ॥ सा च- 'कोशव्याकरणाप्तोक्तिवाक्यशेषोपमादितः । प्रसिद्धपदसंबन्धाब्यवहाराच्च बुध्यते ॥' लक्षणा शक्यसंबन्धः । सा च तात्पर्यानुपपत्त्या मुख्यार्थानुपपत्त्या वा प्रव- तते ॥ यथा 'निर्माल्य नयनश्रियः' इत्यादौ निर्माल्यदासादिपदे ॥ ; तृतीया वृत्तिय॑ञ्जना यथा--' : 'निःशेषच्युतचन्दनं स्तनतटं निर्मुष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । २ अलं० शे० ..

१० काव्यमाला । 1 मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे वापी सातुमितो गतासिन पुनस्तस्याधमस्यान्तिकम् ॥ अत्राधमपदेन रन्तुं गतासीति व्यज्यते ।। ननु “रविरस्तं गतः' इत्यादौ तान्येव पदानि कथं श्रोतृणां विचित्र- बुद्धीरुत्पादयन्तीत्यत आह- विचित्रसहकारिणाम् । तदेव हि पदं खरससमभिव्याहारप्रकरणतात्पर्यज्ञानादिरूपसहकारिभेदात्त. तद्धियमुत्पादयति दण्ड इव गवाभ्याजनघटौ ।। ननु शत्यादिकमानुपूर्वीविशेषविशिष्टवर्णसमुदाये, तत्कथमेकदेशस्य बोधकतात आह- खभाववैचित्र्यजुषाम् विचित्रवभावानि खलु पदानि भवन्ति । कचिदेकदेशस्याद्यस्य बोध- कता । यथा भीमसेनबलदेवादिपदादौ ॥ कचिच्चरमस्य । यथा-मतंगज- वसुंधरा धराधरपदादौ । सा च तत्तत्पदस्मरणेन प्रकारान्तरेण चेत्यन्यदे- तत् ॥ किं च कर्णावतंसपदवत् शक्यतावच्छेदकस्य पृथगुपादानेनापि न पौनरुक्त्यं भवति । यथा-करिबृंहितमयूरकेकादौ । कचित्-शक्यस्यापि । यथा-'उदयाचलकारागृहादौ । उदयपदस्य पूर्वाचले, कारापदस्य बन्दि- गृहे शक्यत्वात् । किं च परस्परविरुद्धतया तिरस्कृततृतीयकोटिकमिवा- न्यतरप्रतिक्षेपे परस्यैव लाभं जनयति । यथा--'शीतेतरानुष्णकरा हिमांशोः' इत्यादौ 'अपांसुलानां धुरि कीर्तनीया' 'स नन्दिनीस्तन्यमनिन्दितात्मा' इत्यादौ प्रकर्षलाभवदित्यवधेयम् । किंचित्पदमनपेक्ष्यरूढिकम्, यथा-सिं- हादवाप द्विपदं नृसिंहः' इत्यादौ । किंचिच्चानपेक्ष्ययौगिकम्, यथा-क्षी- राम्भोधेरित्यादौ, अन्यथानन्वयापत्तिः । किं च वामनयना वामोरुरिति भवति न तु वामवदना वामपाणिरिति । सर्वं चेदं कचिदेव पदे । अत उक्तं खभावेति ॥ १. 'शक्त्यादि'.ख२. 'पुनरुतत्वेऽपि' क.

११ ३ मरीचिः] अलंकारशेखरः। तत्किं यद् व्यञ्जनापि पदमात्रवृत्तिरेव नेत्यत आह- व्यञ्जनार्थत्रयेऽपि च ॥१॥ शंक्यलक्ष्यव्यङ्ग्यात्मक इत्यर्थः ॥ शक्यार्थस्य . व्यञ्जकता यथा- 'अवलोकय निष्पन्दो बिसिनीपत्रे वको भाति । निर्मलमरकतभाजनपरिस्थितो विमलशङ्ख इव ॥' अत्र निष्पन्दशब्दस्यार्थेन क्रियाविरहेण वकगतमाश्वस्तत्वं व्यज्यते ॥ लक्ष्यार्थस्य यथा- 'मुखं विकसितस्मितं वैसितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमंसबन्धोद्धुरं बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ॥ अत्र विकासः पुष्पधर्मो मुखेऽनुपपन्न इति लक्षितेन प्रसृतत्वेन लोकोत्तर- रमणीयतात्मकातिशयो व्यज्यते ॥ एवमग्रेऽपि । व्यङ्ग्यार्थस्य यथा 'अव- लोकय-' इत्यादावेव व्यङ्ग्येनाश्वस्तत्वेन देशस्य संकेतयोग्यत्वं व्यज्यते । त्रिविधस्यापीति ॥ उत्तममध्यमाधमात्मकस्य । तत्र- 'वाच्यनिरूपितव्यङ्ग्यप्रकर्षाधारत्वमुत्तमखम् ।' यथा-'निःशेषच्युत- चन्दनम्' इत्यादौ वाच्यार्थापेक्षया व्यङ्ग्यार्थ एव झटिति चमत्कार- विशेषमारोहति ॥ वाच्यनिरूपितव्यङ्ग्यप्रकर्षानाधारत्वं मध्यमखम् ।' यथा- 'ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुनितरां मलिना मुखच्छाया ॥' अत्र वञ्जुलकुन्जे दत्तसंकेता तरुणी न गतेति व्यज्यते । तच गुणीभूतं तदपेक्षया वाच्यस्यैव चमत्कारकारित्वात् ।। चमत्कृतिहेतुव्यङ्गयरहितत्वमधमखम् । यथा- 'वन्दामहे महेशानचण्डकोदण्डखण्डनम् । जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥' १. शङ्खशुक्तिरिव' ख.२. 'वशित' ख.३. 'मंशक.४. वाच्या' ख.५. 'त्कारि' ख. .

१२ काव्यमाला। . अंत्र व्यङ्ग्यः कोऽप्यर्थस्तादृशो नास्ति । अत्र सर्वत्र व्यञ्जनासु वक्तुरेव तात्पर्य नियामकम् । तज्ज्ञानमेव बोधोपयोगि । तदभावादधममित्युच्यते । प्रपञ्चितं चेदं मयैवं वाक्यरत्ने ॥ ननु व्यञ्जना वृत्त्यन्तरमित्यत्र किं मान- मिति । उच्यते- 'भद्रात्मनो दुरधिरोहतनोविशाल- • वंशोचतेः कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ।।' अत्र प्रकरणेन भद्रात्मन इत्यादि पदानां राज्ञि तदन्वययोग्ये चार्थेऽभि- धानियन्त्रणेऽपि गजस्य तदन्वययोग्यस्य चार्थस्य व्यञ्जनयैव प्रतीतिः ।। वस्तुतस्तु- 'अद्यारभ्य चिरं साधो निःशङ्कमिह संचर । रेवाकुळे मृगेन्द्रेण स दुष्टश्चाद्य घातितः ॥' अत्र भिक्षुकं प्रत्येवं वदन्त्याः प्रतिवेशिनं प्रति निःशङ्करत्यभिधानं स्फुट- मिति ॥ किं च रेवाकुञ्जस्य रतस्थानत्वं लभ्यते, सिंहबुद्ध्या परेण न गन्त- व्यम् , सिंहस्तु वस्तुगत्या नास्त्येव तदेतब्यञ्जनां विना प्रकारान्तरेण लब्ध- व्यमित्याशङ्कव नास्तीति ॥ इत्यलंकारशेखर उपक्रमरत्ने वृत्तिमरीचिः ॥ ३ ॥ इति श्रीमहाराजाधिराजश्रीमाणिक्यचन्द्रकारिते श्रीकेशवमिश्रविरचितेऽलंकारशेखर उपक्रमरत्नम् ॥ १॥ चतुर्थो मरीचिः। 'दोषास्त्याज्याः' इत्युक्तम् । युक्तं चैतत् ।। यदाह- 'दोषः सर्वात्मना त्याज्यो रसहानिकरो हि सः । अन्यो गुणोऽस्तु मा वास्तु महानिर्दोषता गुणः ।।' 4 १. 'सर्वत्र वक्तु ख. २. 'श्रीपादः' क.

१३ दोषत्वं च रसोत्पत्तिप्रतिबन्धकत्वम् । रसकारणीभूतामोवतियोगियथार्थ- ४ मरीचिः] अलंकारशेखरः। दण्डी च-- 'तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथंचन स्थाद्वपुः सुन्दरमपि चित्रेणैकेन दुर्भागम torta Fort H Contacd Universi ज्ञानविषयत्वम् इति यावत् ।। अत्र प्रथमं पददोषानाह- कष्टाप्रयुक्तसंदिग्धव्यर्थाश्लीलाप्रतीतकाः । असाध्ववाचको दोपाः पदेऽष्टावेव भाषिताः॥१॥ कष्टं श्रुतिकटु यथा- 'बर्हिनिदिनाऽसिन्काले जीमूतमालिनि । आलिङ्गितः स तन्वझ्या कार्ताक्षं लभतां चिरात् ॥' अत्र वर्हि निर्हादनकाार्थ्यादिशब्दाः ।। अप्रयुक्तं तथाम्नातमपि कविभिर्नादृतम् । यथा- 'यतोऽयं दारुणाचारो न हन्ति सुरनिम्नगाम् । अतो मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथ वा ॥' अत्र हन्तीति गमने, दैवतशब्दः पुंसि कविर्न प्रयुक्तः ।। संदिग्धं संदेहजनकम् । यथा- 'अपिधानेन हे वत्स किमर्थमिह वर्तसे । आरादेवास्ति स प्रायो यतस्ते भयमुत्थितम् ॥' अत्रापिधानाराच्छब्दौ ॥ व्यर्थ प्रकृतार्थानुपयुक्तम् । यथा- 'बिभर्ति यश्च देहार्धे प्रियामिन्दु हि मूर्धनि । स वै देवः खलु त्वां तु पुनातु मदनान्तकः॥' अत्र च-हि-वै-खलु-तु-शब्दाः ॥ अश्लीलमौज्वल्याभाववत् । तदपि त्रिविधम्, अमङ्गलबीडाजुगुप्साभे- दात् ॥ क्रमेणोदाहरणम् - , १. 'काव्यं क. २. "श्वित्रेणै' ख.

१४ ; काव्यमाला। 'विनाशान्मारुतेस्तस्य सुमहत्साधनोऽपि सन् । नासाग्रेण स सुग्रीवो वायुं त्यजति केवलम् ॥' अन विनाशसाधनवायुशब्दाः ॥ अप्रतीतं स्वशास्त्रमात्रविरुद्धम् । यथा- 'त्रुटौ विश्रान्तिरित्येके पीलावस्तीति चापरे । त्वन्मध्यमाणिमा तन्वि न केनापि विभाव्यते ।' अत्र त्रुटिपीलुशब्दौ ॥ असाधु अनुशासनविरुद्धम् । यथा- 'शातोदरि कथंकारं मानमेतच्चिकीर्षति । मानिनीमानदलनो विजयत्येष चन्द्रमाः ॥' अत्र मानमेतद्विजयतीति । अवाचकं प्रकृतार्थाशक्तम् । यथा-- 'भूयोमत्तद्विरदगमनां हारकेयूरयुक्तां पीनोत्तुङ्गस्तनभरनमन्मध्यभागाभिरामाम् । मेरोदञ्चन्नवकिसलयस्पर्धिताम्राधरौष्ठीं लक्ष्मीमक्षिस्फुरितवदनामन्वहं संस्मरामि ॥' अत्र लक्ष्मीपदमङ्गनायाः। ग्राम्यं त्ववाचकाश्लीलान्यतरान्तर्भावान्न पृथगिति ॥ इत्यलंकारशेखरे दोषरत्ने परदोषमरीचिः ॥ ४ ॥ पञ्चमो मरीचिः। अथेदानीमसाधारणान्वाक्यदोषानाह- न्यूनं विसंधि व्याकीर्ण समाप्तपुनरात्तकम् । भग्नः क्रमयतिच्छन्दोवाक्यगर्भमरीतिमत् ॥ १ ॥ अभिमृष्टविधेयांशं समुदायार्थवर्जितम् । विरुद्धमतिकृद्वाक्ये दोषा द्वादश कीर्तिताः ॥२॥ १. 'मरुत' ख. २. 'पीलुर' क.

५ मरीचिः] अलंकारशेखरः। १५ तत्र न्यूनमन्वयबोधप्रयोजकपदशून्यम् । यथा- 'तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने भजति मयि नाद्यापि कुरुषु ।' अत्र स्थितमित्यन्तरमस्माभिरिति, खिन्न इत्यस्मात्पूर्वमित्थमिति च दातुमर्हति ॥ विसंधिः संधिविरहो विरुद्धसंधिश्च । आद्योऽपि द्विविधः । ऐच्छिकः प्रगृह्यादिनिबन्धनश्च । ऐच्छिकः सकृदपि दोषः । उभयोरुदाहरणम् - 'मेघानिलेन अमुना एतस्मिन्नद्रिकानने । पादपा उत्तमा उच्चा इदानीमेव पातिताः ॥' चरमश्चतुर्विधः । अश्लीलः कष्ट उत्वप्राप्तविसर्गों लुप्तविसर्गश्च । क्रमेणो- दाहरणानि- 'ववुरिन्दीवरश्रेणिवान्धवा यत्र वायवः । मञ्जर्युद्गमगर्भासौं तर्वाल्युर्वी विधूयते ।।' 'धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः। यस्य भृत्या वलोत्सित्ता भक्ता बुद्धिप्रभाविताः ।। व्याकीर्ण व्यवहितान्वयम् । यथा- 'मसूणचरणपातं गम्यतां भूः सदर्भा विरचय सिचयान्तं मूर्ध्नि धर्मः कठोरः । तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकवधूभिर्वी क्षिता शिक्षिता च ।।' अत्र 'तद्गम्यताम्, तद्विरेचय' इत्यन्वये तदिति व्यवहितम् ।। समाप्तपुनरात्तकं समाप्तौ प्रधानवाक्यार्थबोधे जाते पुनरुपाचम् । यथा 'निर्माल्यं नयनश्रियः' इत्यादौ चिरादिति । यथा च- . १. 'उपहृत विसर्गो' क.

१६ काव्यमाला। - 'क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां रखो- झङ्कारो रतिमञ्जरीमधुलिहां लीलाचकोरध्वनिः । तन्व्या कञ्चलिकापसारणभुजाक्षेपस्खलत्कङ्कण- क्वाणः प्रेम तनोतु वो नववयोलास्याय वेणुखनः ॥' अत्र वेणुखन इति ॥ अग्नक्रमं यत्रार्थः शान्दो वा क्रमेनास्ति । उभयं यथा- 'तुरङ्गमथ मातङ्गं प्रयच्छासै मदालसम् । कान्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ ।' भग्नयतिर्यथा-'रामे तटान्तवसतौ कुशतल्पशायिन्यद्यापि' इत्यादौ । अनावश्यकी पदशेषयतिर्नास्ति । भग्नच्छन्दो यथा- 'ततः परमोमित्युक्त्वा प्रतस्थे मुनिमण्डलम् । भगवानपि संप्राप्तः प्रथमोद्दिष्टमाश्रमम् ॥' अत्र पञ्चमं लघु कर्तुमर्हति ।। यत्रापर्यवसितवाक्यमध्ये तदनपेक्षवाक्यान्तरमनुप्रविशति तद्वाक्यग- भम् । यथा- 'योग्यो यस्ते पुत्रः सोऽयं दशवदन लक्ष्मणेन मया । रक्षन यदि शक्तिर्मुत्युवशं नीयते विवशः ॥' अन तृतीयपादगर्भता ।। अरीतिमत् यां रीतिमुपक्रम्य प्रवृत्तं तद्भगवत् । यथा- 'गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विश्रब्धैः क्रियतां वराहततिमिर्मुस्ताक्षतिः पल्वले विश्राम लभतामिदं च शिथिलज्याबन्धमसद्धनुः ॥' १. 'शब्दो वाक्रमेण ख. २. 'पद' क. ३. 'शङ्ख ख. ४. 'पतिभिः' ख. ५. 'बद्ध' ख.

१७ ६ मरीचिः] अलंकारशेखरः। अत्र तृतीयपादेऽनभिहितकादरातद्भङ्गः । अभिमृष्टविधेयांशं प्राधान्यानिर्दिष्टविधेयकम् । यथा- 'वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्वालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ।' अत्र जन्मोद्दिश्यालेक्ष्यत्वं विधेयम् । तच समासप्रविष्टतया न प्राधान्येन निर्दिष्टम् ॥ समुदायार्थवर्जितं यथा- 'जरगवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि । तं ब्राह्मणी पृच्छति पुत्रकामा राजनुमायां लशुनस्य. कोऽर्थः ॥' अथ विरुद्धमतिकृत्- 'कुबेरस्येव भगवान्भवानीरमणो हरः । अकार्यमित्रमेकोऽसौ वासुदेवः किरीटिनः ।।' अत्र भवानीरमणाकार्यमित्रशब्दौ विरुद्धां मतिं कुरुतः ॥ 'असमर्थसमासो दोषान्तरम्' इति गोवर्धनः । यथा- 'प्राक्प्रत्यक्पृथिवीभृतोः परिषदि प्रख्यातसंख्यावता- महायाद्भुततर्ककर्कशतया विच्छिद्य विद्यापदम् । ये केऽप्युत्कलभूपते तव सभासंभाविताः पण्डिताः पत्रं श्रीजयदेवपण्डितकविस्तन्मूनि विन्यस्यति ।।' इत्यलंकारशेखरे वाक्यदोषमरीचिः॥५॥ षष्ठो मरीचिः। अथार्थदोषानाह- अष्टार्थदोषा विरसग्राम्यव्याहतखिनताः । हीनाधिकासहक्साम्यं देशादीनां विरोधि च ॥ १॥ - १. 'मलक्ष क. २. 'लक्षक' ख. ३. 'अनासम' ख. ४. 'न्तरं गो' ख. ५. उदा- हरणं क-पुस्तके नास्ति. ६. 'वाग्दोष' ख.

१८
काव्यमाला ...
अत्र विरसं प्रस्तुतरसविरुद्धम् । यथा--...
'किं रोदिषि हा रावैः सुतमरणशुचं जहीहि किं म्रियसे ।
सफलय यौवनमधुना सममनुरक्तेन सुतनु मया ॥
अन्न करुणशृङ्गारयोर्महान्विरोधः ॥
ग्राम्यमविदग्धोक्तिनिष्पन्नम् । यथा-
'खपिम्यद्यानवद्याङ्गि 'संप्रत्याप्तस्तवान्तिके ।
मनागूरुद्धयं बाले कुञ्चितं समुदञ्चय ॥ .
व्याहतम् उपात्तविरुद्धम् । यथा-
'विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥'.
अत्र शैलदुहितृत्वभावप्रकाशनत्वे विरुद्धे । एकेन प्रस्तरप्रकृतित्वस्यापरेण
विदग्धत्वस्य लाभात् ॥
खिन्नमपुष्टम् । यथा-
'त्वत्प्रयाणसमुद्भूतधूली लुम्पति भास्करम् ।
कृपाणं पाणिना धत्से शूरो न त्वत्समो भुवि ।'
अत्र धूल्युत्थापनकृपाणधारणयोरशूरसाधारण्याच्छौर्यस्यापुष्टिः ॥
हीनोपमं यथा-
'क्वचिदने प्रसरता कचिदापद्यनिघ्नता ।
शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥'
अधिकोपमं यथा-
'वसिष्ठवदयं दासो हनूमानिव मूषिका ।
सरस्वानिव कूपोऽयं शुनीयं श्रीरिव खयम् ।।
अत्र यद्यप्युपमेयानां प्रकर्ष एव, तथाप्यात्यन्तिकरसहानेः सोऽपि न
प्रतीयते ।।
-
१. 'सप्रत्याशस्तवाङ्गके' क. २-३. 'पमा' क. ४. 'इति' क.

६ मरीचिः] अलंकारशेखरः। १९ . , असदृशोपमं यथा- 'निर्ययौ रुद्रनयनात्सस्फुलिङ्गो महानलः । वर्षन्ती-शीकरासारं गङ्गा हिमगिरेरिव ।' अन स्फुटमसादृश्यम् ॥ देशादिविरोधि यंत्र तत्तद्देशकालवयोवस्थादिविरोधः प्रतीयते । यथा- 'प्रवेशे चैत्रस्य स्फुटकुटजराजिस्मितदिशि । प्रचण्डे, मार्तण्डे हिमकणसमानोष्ममहसि । जलक्रीडायातं मरुसरसि बालद्विपकुलं मदेनान्धं विध्यन्त्यसमशरपातैः प्रशमिनः ॥' अत्र प्रवेशे चैत्रस्य, स्फुटकुटजेति कालस्य, मरुसरसीति देशस्य, (बाल- द्विपकुलं) मदेनान्धमिति वयसः, प्रशमिन इत्यवस्थाया विरोधः। इदं च तत्तच्छास्त्रतत्तत्प्रमाणतत्तल्लोकादिभेदादनन्तम् ॥ यत्र तु .लोकस्य कवेश्च प्रसिद्ध्योर्विरोधस्तत्र कविप्रसिद्धिरेव बलीयसी इति । यथा- 'सुसितवसनालंकारायां कदाचन कौमुदी- महसि सुदृशी खैरं यान्त्यां गतोऽस्तमभूद्विधुः । तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशङ्का व नासि शुभप्रदः ॥' अत्र कीर्तेर्योत्स्नावत्प्रकाशता लोकविरुद्धापि कविसमयसिद्धेत्यदोषः ॥ ननु कथममीषां दोषता आकाङ्क्षादिज्ञानासत्त्वे शाब्दज्ञानविलम्बादिति चेत् न वाक्यान्तरापेक्षया काव्ये सामग्रीवैलक्षण्यात् । अन्यथा प्रतीतिवैलक्षण्यानु- पपत्तेः। तथा चान्वयबोधाकाङ्खासत्त्वेऽपि रसोत्पत्त्यनुकूलाकाङ्क्षादिविरहो दोष इति ध्येयम् ॥ संप्रदायानुरोधेन व्याख्यैवं मम वस्तुतः । तादृकाव्यं प्रकुर्वीत यत्रोद्वेगो न धीमताम् ।। इत्यलंकारशेखरेऽर्थदोषमरीचिः ॥ ६ ॥ । १. 'यथा तन' ख. २. 'कर' ख. ३. 'त्यकाशवा' क.४-५. 'ज्ञाना' ख.

२० काव्यमाला। सप्तमो मरीचिः । 'श्लाघ्या गुणाः' इत्युक्तम् । युक्तं चैतत् । यदाह- 'अलंकृतमपि श्रव्यं न काव्यं गुणवर्जितम् । गुणयोगस्ततो मुख्यो गुणालंकारयोगयोः ।। तदुक्तम्- 'अलंकारसहः किं गुणो यदि न विद्यते । विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः॥ उक्तं च भगवता-'शब्दार्थों काव्यस्य शरीरम् , आत्मा रसः, गुणाः शौर्यादिवत् । दोषाः काणत्वादिवत् । अलंकाराः कुण्डलादिवत्' इति । तान्विभजते- गुणः सामान्यतो द्वेधा शब्देष्वर्थेषु च स्थितः । दोषाणामप्यदोषत्वं प्राहुर्वैशेषिकान्गुणान् ॥ १॥ । तत्र संक्षिप्तत्वमुदात्तत्वं प्रसादोक्तिसमाधयः। अत्रैवान्यसमावेशात्पञ्च शब्दगुणाः स्मृताः ॥२॥ तत्र खल्पाक्षरेण भूयोर्थकथनं संक्षेपः । यथा- 'ते हिमाचलमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्सै निवेद्यार्थं तद्विसृष्टाः खमाययुः ॥' श्लाध्यविशेषणत्वमुदात्तत्वम् । यथा- 'श्रुत्वा यं सहसागतं निजपुरात्रासेन निर्गच्छतां शत्रूणामवरोधनैर्जलभरपस्पन्दलिम्पत्पुटाः । शुभे समनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि क्रीडादौ नवशाद्वले विचलितग्रीवैर्वियुक्ता दृशः ॥' अत्र शुभ्रे पल्लविनीत्यादिविशेषणानां श्लाध्यता ॥

८ मरीचिः] अलंकारशेखरः । .. झटित्यर्थप्रत्यायकत्वं प्रसादम् । यथा- 'स विश्वजितमारेमे यज्ञं सर्वखदक्षिणम् । आदानं हि विसर्गाय सतां वारिमुचामिव ।।' कौशलादर्थविशेषलाभ उक्तिः । यथा-- 'कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृतां न कथयामि या श्वसिति ॥ : अत्र कुशलमकुशलं वेत्युत्तरे कर्तव्ये जीवतीत्युक्तिविशेषाज्जीवितमात्रं लभ्यते ॥ अन्यधर्माणामन्यत्रारोपणं समाधिः। यथा- 'नीलाजानां नयनयुगलदाधिमा दत्तपत्रः कुम्भावैभौ कुचपरिकरः पूर्वपक्षी चकार । भूविभ्रान्तिर्मदनधनुषो विभ्रमानन्ववादी- द्वकज्योत्स्ना सितकररुचं दूषयामास तस्याः ।। अत्र पत्रदानादिपदानां चेतनधर्माणामारोपणमिति ॥ इत्यलंकारशेखरे शब्दगुणमरीचिः ॥ ७ ॥ अष्टमो मरीचिः । इदानीमर्थगुणानाह- भाविकखं सुशब्दत्वं पर्यायोक्तिः सुधर्मिता । चखारोऽर्थगुणाः प्रोक्ताः परे त्वत्रैव संगताः ॥१॥ संगता अन्तर्भूताः । तदाहुः- अलंकाराश्रिताः केचिददोषान्तर्गताः परे । चतुव॑न्तर्गताः केचिदतश्चत्वार एव ते ॥ तत्र भाविकखमभिप्रायपूर्वकाभिधानम् । खयं दौत्यमिति यावत् । यथा- 'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्सद्हे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यसि । १. 'प्रसादत्वम्' ख. २. 'रुचिं' क. ३ अलं० शे०. - . २२ काव्यमाला। . एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं. नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदा नलग्रन्थयः ॥' अत्रोपपतिं प्रति संकेताभिप्रायेणैवमभिधानम् ॥ दारुणेऽर्थेऽदारुणपदता सुशब्दता । यथा- देवव्रते वाञ्छति दीर्घनिद्रां द्रोणे च कर्णे च यशोवशेषे । लक्ष्मीसहायस्य तवाद्य वत्स वात्सल्यवान्द्रोणिरयं सहायः ॥' अत्र मुमूर्षति मृते चेत्यर्थे ईदृक्पदता ।। येन क्रमेण यद्वस्तु, तत्क्रमाभिधानं पर्यायोक्तिः । यथा- 'प्रथममरुणच्छायस्तावत्ततः कनकप्रभ- स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः । उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीक्रन्दच्छेदच्छवि€गलाञ्छनः ॥' यत्र विशेषणद्वारा विशेष्यलाभः, सा सुधर्मिता । यथा- 'अयमुदयति मुद्राभञ्जनः पद्मिनीना- मुदयगिरिवनालीबालमन्दारपुष्पम् । विरहविधुरचक्रद्वन्द्वबन्धुर्विभिन्द- न्कुपितकपिकपोलकोडताम्रस्तमांसि ।' अत्र पद्मनीप्रकाशादीनां सूर्यनियतत्वात्तल्लाभः ।। इत्यलंकारशेखरेऽर्थगुणमरीचिः ॥ ८॥ नवमो मरीचिः। इदानी वैशेषिकान्गुणानाह- पदवाक्यतदर्थेषु ये दोषाः पूर्वमीरिताः । तेषां क्वचिददोषत्वं यत्तद्वैशेषिको गुणः ॥ १ ॥ उक्तानामेव दोषाणां विषयावस्थादिभेदाद्यददोषत्वं तदेव वैशेषिको गुण इत्यर्थः॥ १ 'कगुणवमित्यर्थः' ख.

९ मरीचिः] अलंकारशेखरः। २३ - - केचित्तु- 'एतेषामेव दोषाणां स्थानेष्वेतेष्वदोषता । परं न त्वस्ति गुणता पार्थक्यमनयोर्यतः ॥' अन्ये तु 'कचिददोषतामात्रं कचिटुंणतापि । तत्र सहृदयानामेव प्रतीतिः साक्षिणी' ॥ तदाहुः 'अलंकारे गुणे दोषे रसे वा काव्यसंपदाम् । प्रतीतिरेव विदुषां प्रमाणमवसीयते ॥' श्रीपादस्तु-~'रसोत्पत्तिप्रतिबन्धकतैयैवैतेषां दोषता । यत्र केनापि निमित्तेन न रसप्रतिबन्धः, तत्रादोषत्वमुचितमेव' इत्याह ॥ तत्र पदेषु यथासंभवमाह- अनुप्रासेषु नो कष्ट यथा-'महाराष्ट्रेषु नोष्ट्रिणः' इत्यादौ ॥ श्लेषादौ नाप्रयुक्तता। यथा- 'येन ध्वस्तमनोभवेन बलिजित्कायः पुराखीकृतो योगङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः । यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः ॥' अत्र क्षयशब्दो गृहे ॥ मिथः स्तुतो न संदिग्धं यथा- 'पृथुकार्तखरयुक्तं भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥ . १. 'गण' ख. २. 'तदाह' क. ३. 'तयैषां' क.

२४
काव्यमाला।
1
-
न व्यर्थ यमकादिषु ॥२॥
यथा-
'दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव खयमुर्वशीतलम् ।
बभौ मुखेनाप्रतिमेन काचन श्रियाधिकायां प्रतिमेन काचन ।'
अत्र चमत्कारः ॥
नाश्लीलं भगवत्पादौ
तदाहु:-
'भगिनीभगवत्पादौ शिवलिङ्गगुहादिषु ।
अभिप्रेतकुमार्यादावश्लीलं नैव दुष्यति ।।'
अश्लीलत्रयमत्रोक्तमिति ध्येयम् ॥
दण्डी तु-
'निष्ठयूतोगीर्णवान्त्यादि गौणवृत्तिव्यपाश्रयम् ।
अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥
तद्विदेनाप्रतीतकम् ।
यथा
'सर्वकार्यशरीरेषु मुक्ताइस्कन्धपञ्चकम् ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥'
'सहायाः साधनोपाया देशकालौ बलाबलौ ।
विपत्तेश्च प्रतीकारः पञ्चाङ्गो मन्त्र उच्यते ।।
'रूपं संज्ञाथ संस्कारो वेदनानुभवस्तथा ।
इति बौद्धाः शरीरेषु मन्यन्ते स्कन्धपञ्चकम् ॥'
इति भार्गवसर्वखे ॥
नासाध्वनुकृती
यथा-
हुं हुं हुं न न म मेति युक्त्या जल्पितं जयति मानधनायाः' इत्यादौ ॥
नापि लक्षणादाववाचकम् ॥३॥

९ मरीचिः] अलंकारशेखरः। लक्षणादेरशक्य एव वृत्तित्वादिति हृदयम् ॥ इदानी वाक्येषु यथासंभवमाह- प्रतीत्यवाधान न्यूनं यथा 'तस्य संवृतमन्त्रस्य गूढाकारेझिन्तस्य च । फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥' यत्रात्यक्रियापदं नास्ति तत्र 'अस्तिर्भवतीपरः प्रथमपुरुषो प्रयुज्य- मानोऽप्यस्ति' इति न्यायेन यत्र तहयेन नोपैपत्तिरतत्र तदूषणमित्यर्थः । एवं प्रकरणादिना पदान्तरस्य लाभे द्रष्टव्यम् । अत उक्तम्-'प्रतीत्यबाधान्न न्यूनम्' इति । पादभेदे विसंधि न । यथा- - . 'यद्यपि नदति सरोषं मृगपतिपुरतोऽपि मत्तगोमायुः । तदपि न कुप्यति सिंहो असदृशपुरुषेषु कः कोपः ॥' इह यद्यपि यदुल्लिखितम् ‘संधिविरहो न दोषः' इति, तथाप्यनुशा- सनविरुद्धत्वात् 'विसदृशपुरुषेषु' इति पठनीयम् । न व्याकीण तु सापेक्षे यथा- 'अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेमुमोच ॥' इत्यादौ । नान्यवाक्ये समाप्तता ॥४॥ समाप्तपुनरातकं वाक्यभेदेन दोषः । यथा- 'तं शरैः प्रतिजग्राह कालिङ्गो गजसाधनः । पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः ॥ १. 'अस्तिर्भवतिर्वा प्रथमपुरुषे प्रयुज्यते' क. २. 'नापत्ति' ख.

२६. काव्यमाला । यथा वा- 'न किलानुययुस्तस्य राजानो रक्षितुर्यशः । व्यावृत्ता यत्परखेभ्यः श्रुतौ तस्करता स्थिता ॥ समस्ते यतिभङ्गो न यथा- 'कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते धुर्यां लक्ष्मीमलमपि भृशं धेहि देव प्रसीद । यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे भद्रं भद्रं वितर भगवन्भूयसे मङ्गलाय ॥' मत्तादौ नार्थवर्जितम् । आदिपदेन विरहिबालादिपरिग्रहः । यथा---'काकार्य शशलक्ष्मणः' इत्यादौ । विरुद्धं न तथाचाक्ये विरुद्धां धियमुत्पादयत्वित्यभिप्रायेण प्रयोगे तन्न दोष इत्यर्थः । वाक्यार्थेषु यथासंभवमाह- विरसं नाप्रधानके। . यथा 'क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन्केशेवपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवापराधः स दहतु दुरितं शांभवो वः शराग्निः ।।' न यर्थ नर्मणि ग्राम्यं 'व्यथैः पदैः पिशुनयेच्च रहस्यवस्तु' इति भरतोक्तेः। सर्वत्र हेतुमाह रसहानेरयोगतः॥५॥ - १-२. 'वातादौ विरहवात्य' का 'बालादौ' 'वीरवातुला' ख.

१० मरीचिः] अलंकारशेखरः। २७ F इदानीं सर्वसाधारणमदोषत्वमाह-- तत्र तत्राभिधातव्ये तथानुकरणादिषु । उन्मत्ताधभिधानेषु कोऽपि दोषो न विद्यते ॥ ६ ॥ श्रीपादास्तु--- तदर्थातिशये शैध्ये दैन्ये कोपेऽवधारणे । विषादे विस्मये हर्षे पुनरुक्तं न दुष्यति ॥' इत्यलंकारशेखरे वैशेषिकगुणमरीचिः॥ ९ ॥ इति महाराजाधिराजश्रीमन्माणिक्यचन्द्रकारितेऽलंकारशेखरे गुणरत्नम् ॥ दशमो मरीचिः। 'अलंकारास्तु शोभायै' इत्युक्तम् । तच्च साधु । यतः- 'गुणवत्यपि निषिऽलंकारैः काव्यराजनि । जायतेऽन्यैव सुषमा रत्नालंकरणैरिव ॥' आहुश्च-'निर्दोष गुणवत्काव्यम्' इत्यादि । तत्र चमत्कारविशेषका- रित्वमलंकारसामान्यलक्षणम् । शब्दार्थनिष्ठत्वेन विशेषितं. विशेषणद्वयम् । परम्परया रसोपकारित्वं तदित्यन्ये । तत्र प्रथमं शब्दालंकारान्विभजते- चित्रवक्रोक्त्यनुप्रासगूढश्लेषप्रहेलिकाः । प्रश्नोत्तरं च यमकमष्टालंकृतयो ध्वनौ ॥ १॥ तत्र कौतुकविशेषकारि चित्रम् । तच्च खड्गचक्रपद्मादिभेदादनन्तम् । यदाह- 'सर्वतोभद्रधेन्वादिगोमूत्रीमुरजादि च । गतप्रत्यागताद्याहुश्चित्रकाव्यं मुनीश्वराः ॥' तच्च माघादौ सुव्यक्तत्वान्नेहोदाहियते । अन्याभिप्रायेणोक्तं वाक्यमन्येनान्यार्थकतया यद्योज्यते सा वक्रोक्तिः। एतदेव वाकोवाक्यमुच्यते । यथा-- 'कोऽयं द्वारि हरिः प्रयायुपवनं शाखामृगस्यात्र किं कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णः कथं वानरः । १. 'प्राचुर्येण व्यक्त' क. + २८ काव्यमाला। मुग्धेऽहं मधुसूदनो व्रज लतां तामेव पुष्पान्विता- मित्थं निर्वचनीकृतो दयितया हीणो हरिः पातु वः ।। वर्णसाम्यमनुप्रासः । स च द्विविधः-लाटानुप्रासश्छेकानुप्रासः तत्रासकृदावृत्तवर्णत्वं लाटानुप्रासः । यथा- 'अनङ्गमङ्गलगृहांपाङ्गभङ्गितरङ्गितैः । आलिजितः स तन्वया कृतार्थयतु मानसम् ॥' अनेकस्य व्यञ्जनस्य सकृत्साम्यं छेकानुप्रासः । यथा- 'नितम्वगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन । चकार सा मत्तचकोरनेत्रा लज्जावती लाजविमोक्षमझौ ॥ 'पदमेकं हृदा कृत्वा तदनुप्रासकाम्यया । आदिक्षान्तलिपौ कादिक्षान्तशब्दं विचिन्तयेत् ॥' इति रहस्यम् ॥ गूढ़ क्रियागुप्तादिः । यथा 'पुंस्कोकिलकुलस्यैतैनितान्तमेधुरारवैः । सहकारद्रुमा रम्या वसन्ते कामपि श्रियम् ॥' इदं च नाना । यदाहुः- 'क्रियाकारकसंबन्धगुप्तान्यामन्त्रितस्य च । गुप्तं तथा समासस्य लिङ्गस्य वचनस्य च ।।' एकोचारणापहृतभेदत्वं श्लेषः। यथा-'येन ध्वस्तमनोभवेन' इत्यादौ । अयं चाष्टधा । यदाह- 'विभक्तिपदवर्णानां लिङ्गस्य वचनस्य च । भाषाकृत्योर्भेदेन श्लेषाः स्युः प्रत्ययस्य च ॥' प्रहेलिका सकृत्प्रश्नः । सा च च्युताक्षरादत्ताक्षरादिः । यथा- 'विदग्धः सरलो रागी नितम्बोपरि संस्थितः । तन्वझ्यालिङ्गितः कण्ठे कलं कूजति को विटः ॥' १. 'वृत्तो' ख. २. 'अधुः' इति क्रिया. ३. 'श्लेषत्वम्' ख.

११ मरीचिः] २९ अलंकारशेखरः। अत्र विट इत्यत्र विकारस्थाने घकारदानवितीयोऽर्थो भवति । सा च घोढा । तदाहुः . - 'प्रहेलिका सकृत्प्रश्नः सा च षोढा च्युताक्षरा । दत्ताक्षरोभयं मुष्टिविद्रुमत्यर्थवत्यपि ।' प्रश्नोत्तरमपि द्विविधम्-बहिरेन्तश्च । तत्र बहिःप्रश्नोत्तरं यथा- 'प्रायः कार्ये नियुज्यन्ते नराः सर्वत्र कीदृशाः । धोनेत्ययं भवेच्छब्दो नौवाची वद कीदृशः ॥ सावधानाः। अन्तःप्रश्नोत्तरं यथा- 'काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन्किमुत्तरम् । कथमुक्तं न जानासि कदर्थयसि यत्सखे ॥ अतुल्यार्थत्वे सत्यानुपूर्वीविशेषविशिष्टनियतव्यञ्जनसमुदायाभ्यासो यः मकम् । यथा- 'नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत्ससुरभि सुरभि सुमनोभरैः ॥' तच्चेदं संक्षेपेण सप्ताशीतिप्रकारमिति चान्यत्रविस्तरः । एतच्चित्र 'ए- वान्तर्भूतमिति गोवर्धनः ॥ इत्यलंकारशेखरेऽलंकाररने शब्दालंकारमरीचिः ॥ १०॥ on- " एकादशो मरीचिः अथार्थालंकारान्विभजते- उपमारूपकोत्प्रेक्षाः समासोक्तिरपहुतिः । समाहितं स्वभावश्च विरोध: सारदीपकौ ॥ १ ॥ सहोक्तिरन्यदेशत्वं विशेषोक्तिर्विभावना। एवं स्युरर्थालंकाराश्चतुर्दश नै चापरे ॥२॥ तत्र-भेदे सति साधर्म्यमुपमा। अधिकगुणवत्तया संभाव्यमानमुप- मानम् । निकृष्टगुणवत्तया संभाव्यमानमुपमेयम् । १. 'रन्तरश्च' ख. २. 'नाधे' ख; 'नावे' क. ३. सौ औकारसहितः। अधा धाकाररहितश्च नाः. ४. 'नवा' क.

३० काव्यमाला। । तां विभजते- वाक्यार्थातिशयश्लेपनिन्दाभूतविपर्ययाः । संशयो नियमः खं च विक्रियेत्युपमा दश ॥३॥ तत्र-वाक्यार्थेनैव वाक्यार्थो यदुपमीयते सा वाक्यार्थोपमा । सा च द्वयी-प्रत्येकं सादृश्यानपेक्षा तत्सापेक्षा च । आद्या यथा- 'कामिनीनयनकज्जलपङ्कादुत्थितो मदनमत्तवराहः । कामिमानसवनान्तरचारी कन्दमुत्खनति मानलतायाः ॥' अन्त्या यथा- 'त्वदाननमधीराक्षमाविर्दशनदीधिति । भ्रमभृङ्गमिवालक्ष्यकेशरं भाति पङ्कजम् ॥ अत्रातिशयधर्मोपन्यासः सातिशयोपमा । यथा 'कल्पद्रुमो न जानाति न ददाति बृहस्पतिः । अयं च जगतीजानिर्जानाति च ददाति च ॥' पदश्लेषनिबन्धनसाम्यं श्लेषोपमा । यथा 'तमालपत्राभरणा राजते विलसद्वयाः। बालेवोद्यानमालेयं सौलकाननशोभिनी ।' यत्रोपमानस्य निन्दया प्रतिक्षेपः सा निन्दोपमा । यथा- नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैल्यात्कदलीविशेषाः । लब्ध्वापि लोके परिणाहि रूपं जातास्तदुर्वोरुपमानवाद्याः ॥' यत्रासंसृष्टज्ञानेन संसर्गमारोप्य साम्यप्रसञ्जनं सा भूतोपमा । यथा- 'उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तदोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥' १. अवस्थापक्षिवाची वयःशब्दः. २. सालानां काननेन, अलकसहिताननेत त ३१ ११ मरीचिः] अलंकारशेखरः। यत्रोपमानस्यैवोपमेयता सा विपर्ययोपमा । यथा- 'अथ सुललितयोषिद्धूलताचारुशाङ्ग रतिवलयपदाऊ चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ।।' इत्यादौ । यत्रोपमानोपमेययोः संशयकोटिता सा संशयोपमा । . यथा 'किमिन्दुः किं पनं किमु मुकुरबिम्बं किमु मुखं किमजे किं मीनौ किमु मदनबाणौ किमु दृशौ । खगौ वा गुच्छौ वा कनककलशौ वा किमु कुचौ तडिद्वा तारा वा कनकलतिका वा किमबला ।' यत्रेतरच्यावृत्त्या साम्यलाभः सा नियमोपमा । यथा- 'कस्ते पुरंदरादन्यः प्रतिमल्लो भविष्यति । ऋते सहस्रकिरणात्त्वत्प्रतापसमो हि कः ।।' यत्रोपमानान्तरविरहतात्पर्येण खसौम्यं सा खोपमा । यथा- 'आपूर्णितं पक्ष्मलमक्षियुग्मं प्रान्तद्युतिश्चैत्यजितामृतांशु । अस्या इवास्याश्चलदिन्द्रनीलगोलामलश्यामलतारतारम् ।।' अभेदानुमानवदिह भेदो द्रष्टव्यः ॥ अनोपमेयमुपमानविकारतयोच्यते सा विक्रियोपमा । यथा- 'हरिणादथ तन्नयनादथ पद्मात्पद्मपत्राच्च । आहृत्य कान्तिसारं विधिरसृजत्सुभ्रुवो दृष्टिम् ॥' . १. 'स्वगौ' ख. २. 'सामान्यं' क.

३२ . काव्यमाला। 4 श्रीपादस्तु-'समभिव्याहारोपमाप्यस्ति' इति । यथा- 'प्रकृत्यैव मनोहारि वदनं हरिणीदृशः । चन्द्रे हादकता कस्मात्पद्मः केन परिष्कृतः ॥' अत्र सर्वत्र- न्यूनाधिकत्वशङ्का चेद्विभागेषु तदिष्यताम् । किंचिद्विशेषमादाय भेदो भेदश्च कश्चन ॥ काचित्समस्तान्वयिनी क्रियामात्रान्वया परा। विशेषणान्वया काचिदुपमा कापि तत्परा ॥ अत्र च- न्यूनता साम्यमाधिक्यं यद्यदेवाभिधीयते । अहो काव्यस्य माहात्म्यं समतैव प्रतीयते ॥ तदाह राजशेखरः 'समानमधिकं न्यूनं सजातीयं विरोधि च । सकुल्यं सोदरं कल्पमित्याद्याः साम्यवाचकाः ।। अलंकारशिरोरनं सर्वखं काव्यसंपदाम् । उपमा कविवंशस्य मातैवेति मतिर्मम ।' इत्यलंकारशेखरेऽर्थालंकारे उपमामरीचिः ॥ ११ ॥ NA - द्वादशो मरीचिः। अतिसाम्यादपद्भुतभेदयोरुपमानोपमेययोरभेदप्रत्ययो रूपकम् । यदाह- 'तद्रूपकमभेदो यदुपमानोपमेययोः ।' इति । दण्डिनोऽप्याहु:- 'उपमैव तिरोभूतभेदा रूपकमुच्यते ।' इति । तद्विभजते- विरुद्धं च समस्तं च व्यस्तं रूपकरूपकम् । श्लिष्टं च रूपकं तस्मात्संक्षेपात्पश्चधा स्मृतम् ॥१॥ तत्र-यत्रोपमानविरुद्धोऽर्थस्तद्विरुद्धम् ।

१२ मरीचिः] अलंकारशेखरः। AP -- - यथा- 'दिवा न परिभूयते न च मनागपि क्षीयते न वा चरमवारिधेः पयसि लुप्तिमाविन्दति । न च त्रिदशसुभ्रुवां वदनकान्तिभिर्जीयते यशस्तुहिनदीधितिर्जयति कोऽपि भूमीपतेः।।' समस्तं यथा- 'तस्या बाहुलता पाणिपमं चरणपल्लवम् । मुखेन्दुरक्षिभ्रमरौ सर्वखं पुष्पधन्वनः ॥' व्यस्तं यथा- 'भुजौ मृणाले वदनं सुधांशुः कुन्दानि दन्ताश्चरणौ सरोजे । स्मितं प्रसूनानि करौ प्रवाले पयोधरौ भूमिधरौ मृगाक्ष्याः ॥' रूपकरूपकं यथा- 'मुखपङ्कजरङ्गेऽस्मिन्मूलतानर्तकी तव । नरीनर्ति लसत्वर्णकेतकीदललोचने ।' श्लिष्टरूपकं यथा- 'राजहंसोपभोगाई भ्रमरप्रार्थ्यसौरभम् । पुष्णाति सुषमां कांचिन्मुखपढ़ेरुहं तव ।। इदं च समस्तासमस्तादिभेदादनन्तम् । लक्षणाप्यत्रैवान्तर्भवति, उप- मानोपमेययोरभेदप्रतिपत्तेरत्रापि सत्त्वात् । तदुक्तम्- 'रूपकं लक्षणादिकम्' इति । सा च द्विधा-समस्तासमस्तभेदात् । तत्राद्या यथा-- 'उदयति कनकाचलयोरुपरि चलत्पङ्कजश्चन्द्रः । तदुपरि घनान्धकारः कस्य कृते धातुरीशी सृष्टिः ॥' . , . - . १. 'भृतः' ग. २. 'त्यङ्गज' क. ४ अलं. शे० काव्यमाला । अन्त्या यथा- 'तामरसे सालसता जलमुचि कश्चिद्विपर्यासः । निस्यन्दता लतायां कथयति कस्यापि पुण्यानि ।' इत्यलंकारशेखरे रूपकमरीचिः ॥ १२ ॥ - त्रयोदशो मरीचिः। अन्यनिमित्तके वस्तुन्यन्यनिमित्तकत्वारोपं उत्प्रेक्षा । यथा- 'गमनमलसयातैः : कुम्भलक्षी कुचाभ्या- मविकलकरशोभामूहकाण्डद्वयेन । यदि यमहरदेषां हेतुनानेन नूनं निजवपुषि करीन्द्राः पांशुपूरं क्षिपन्ति ॥ इयं च सर्वालंकारसर्वखं कविकीर्तिविवर्धिनी । उत्प्रेक्षा हरति खान्तमचिरोढास्मितादिव ।। शङ्के मन्ये ध्रुवं प्रायो नूनं जानामि तर्कये । इवेत्यादिभिरुत्प्रेक्षा व्यज्यते काव्यवमनि ॥ अन्यदेवाभिप्रेत्यान्याभिधानं समासोक्तिः। सैव चान्यापदेश इत्युच्यते। यथा- 'वं पीयूष दिवोऽपि भूषणमसि द्राक्षे परीक्षेत को माधुर्यं तव विश्वतोऽपि विदिता माध्वीक साध्वी कथा । एतकिंतु तवाप्यरुंतुदमिब ब्रूमो न चेत्कुप्यसे यः कान्ताधरपल्लवे मधुरिमा नान्यत्र कुत्रापि सः ॥' किंचिदपढत्य यदन्यार्थप्रदर्शनं सापहुतिः । यथा- 'सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् । नागरिकः किमु मिलितो नहि नहि सखि हैमनः पवनः । १. 'सारसता' ख. २. 'रोपणमु' क. ३. 'प्रकाशनं' ग.

। . १३ मरीचिः] अलंकारशेखरः। ३५ 'कलमधुरं किल कूजन्यमुनाकूलेषु नीलघनदेहः । दृष्टः सखि गोपालो नहि नहि संखि कोकिलो दृष्टः ।।' आरब्धानुकूलाकस्मिकसहकारिलाभः समाहितम् । यथा- 'मानापनोदनविधौ मदिरेक्षणाया यावन्नमामि चरणावथ तावदेव । नीपस्खलन्नवसमीरपुरःसराणि प्रादुर्बभूवुरचिराद्धनगर्जितानि ॥ यस्य वस्तुनो यत्स्वभावता तदाख्यानं स्वभावः। तदेव जातिरित्युच्यते । यथा- 'चलति कथंचित्पृष्टा यच्छति वाचं कथंचिदालीनाम् । आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥' विरोधो द्विविधः-पारमार्थिका विरोधेऽपि औचित्येन विरुद्धतया प्रतीयते येत्र । यथा-'मनीषिताः सन्ति गृहेषु देवताः' इत्यादौ । द्वितीयस्तु यथाश्नुते विरोधसंधानेऽपि यत्राभिप्रेतार्थमादाय विरोधः । अयमेव विरोधाभास इत्युच्यते यथा- 'भक्तानां कामदस्तुष्टो रुषा कामं दहन्नपि । अपि ज्ञानमयस्थाणुर्यस्तमीशं स्तुवीमहि ।' उत्तरोत्तरं यत्र सारोत्कर्षः स सारः। यथा- 'विषयेषु तावदबलास्ताखपि गोप्यः खभावमृदुवाचः। मध्ये तासामपि सा तस्याः अपि साचि वीक्षितं किमपि ॥' समस्तवाक्योपरणत्वं दीपकत्वम् । तैच्च भिन्नमभिन्नं च । १. 'धोपि' क-ग २. 'यत्र' नास्तिक.. ३. 'तामर्च' क. ४. 'कारणत्वं' क. ५. 'तचाभिन्नतत्तत्कारक' क. -

३६
काव्यमाला।
अभिन्नं यथा-'पाणौ पद्मधिया मधूककुसुमभ्रान्त्या च गण्डस्थली'
इत्यादौ । तत्तत्कारकक्रियादिभेदादनन्तम् ।
भिन्नं यथा-
'नृत्यन्ति निचुलोत्सङ्गे गायन्ति च कलापिनः ।
बध्नन्ति च पयोदेषु दृशो हर्षाश्रुगर्भिणीः ॥
अत्र विस्तरमिया सर्व नोदाहियते । एतच्च मालादीपकादिभेदादनन्तम् ।
अत्र पूर्वापरवाक्यार्थयोरुपकार्योंपैकारकशृङ्खला मालादीपकम् ।
तत्रोत्तरस्य पूर्वोपकारकत्वं यथा-
'चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।
तं पुनर्मकरकेतनलक्ष्मीस्तां मदस्तमपि वल्लभसङ्गः ॥'
पूर्वस्योत्तरोपकारकत्वं यथा-
'संग्रामाङ्गणमागतेन भवता चापे समासादिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥'
समानकालोक्तिः सहोक्तिः । सा द्वयी-उदासीनयोस्त्वराप्रतिपत्तये,
कार्यकारणयोरपि ।
आद्या यथा-
'सहदीर्घा मम श्वासैरिमाः संप्रति रात्रयः ।
समं मम शरीरेण क्षीयन्ते दिवसा अमी॥'
अन्त्या यथा-
'वर्धते सह पान्थानां मूर्च्छया चूतमञ्जरी ।
पतन्ति च समं तेषामश्रुभिर्मलयानिलाः॥'
प्रयोज्यप्रयोजकयोर्वैयधिकरण्यमन्यदेशत्वम् ।
यथा-
'सा बाला वयमत्रगल्भवचसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
१. 'भयातू' क-ग. २. 'पकारक माला' ख.

१३ मरीचिः] अलंकारशेखरः।
३७
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रितैरपटवो जाताः स इत्यद्भुतम् ।।
कारणे सत्यपि कार्याभावो विशेपोक्तिः।
यथा
'आवाति वारिधरशीकरवारिवर्षी
खैरं कदम्बवनदुर्ललितः समीरः ।
अङ्गेऽर्पितानि नलिनीनवपल्लवानि
तापस्तथापि सुदृशः शिथिलो न जातः ॥'
कारणं विना कार्योदयो विभावना।
यथा-
'नाङ्गेषु रत्नाभरणानि सन्ति निश्वासहार्याण्यपि नांशुकानि ।
तथापि सा संप्रति सारसाक्षी दिने दिने कामपि कान्तिमेति ॥'
केचित्तु-
अन्यदेशत्वमेव विशेषोक्तिविभावने अधिकरणद्वयमादाय ।
-
अन्ये तु-
'अनयोरेवैकेनापरस्यान्यथासिद्धिर्व्यतिरेकमादाय' इति ।
गोवर्धनस्त्वाभ्यामेवान्यथासियान्यदेशत्वमेव निराचकार । व्यतिरे-
कालंकारस्त्वतिरिच्यत इत्येके । स च यथा-
'कादाचित्की द्युतिं धत्ते कलङ्की क्षीयतेऽन्वहम् ।
दोषाकरः कथंकारं त्वदाननसमः प्रिये ॥'
एकेनाप्रस्तुतस्यासिद्धिराक्षेपः। सोऽपि पृथगित्यपरे ।
यथा-
'इन्द्रेण किं स यदि कर्णनरेन्द्रसूनु-
रैरावतेन किमसौ यदि तहिपेन्द्रः।
दन्भोलिनाप्यलमयं यदि तत्प्रतापः
खर्गोऽप्ययं ननु मुधा यदि तत्पुरी सा'
१. 'स्वन्यामेव' क., स्वाद्यामेव' ग. २. "किमहो' ग.

३८ काव्यमाला। सुखबोधाय बालानामतिकोमलवर्मना । मया संक्षेपणादित्थमलंकाराः प्रदर्शिताः ।। यथैतेषां मिथो भेदः परेषां नातिरेकिता। तथालंकारसर्वखे स प्रपञ्चमदर्शयम् ।। ईति केशवमिश्रकृतेऽलंकारशेखरेऽलंकाररत्नम् । 'उपमा काव्यसंपदाम् । सर्वस्वं सा च साधर्म्यम्' इतीदानीं तस्य प्रतियोग्यनुयोगिनावाह- चन्द्रकलाम्बुजदामशिरीषं विद्युत्ताराकनकलता च । दमनककाञ्चनयष्टी दीप: सर्वैरेभियोषिद्वया ॥१॥ यथा- 'शिखेव दीपस्य लतेव हैमी कलेव चान्द्री लगिवाम्बुजानाम् । शिरीषपुष्पं स्सरहेमयष्टी सा मे कदा लोचनगोचरा स्यात् ।।' 'दमनकतरुशाखालम्बिरोलॅम्बयुग्मं तुहिनकिरणबिम्वे खञ्जरीटप्रचारः । विकचकमलकोशे दाडिमीबीजपति- स्त्रितयमिदमपूर्व दृष्टमेकत्र चित्रम् ॥ 'तडिद्वा तारा वा' इत्यादि । 'उद्भिन्नया रत्नशलाकया वा' इत्यादि- दर्शनात्तथात्वं वर्ण्यते इत्याहुः । अत्यन्तानन्दसंदोहदायिनी परिवर्ण्यते । योषिदित्यनुवर्तते । यथा- 'सा कौमुदी नयनयोरमृतकवर्ति- रानन्दपङ्कजवती विलसत्तडागः । प्राणाः सरस्य जनपुण्यतरोः फलानि साफल्यमक्षिजनुषां क गता न जाने ।' 'शक्तिमूर्तिमयी सरस्य जगतां नारीमयं मण्डलं कान्तानामुपमानकल्पनकलाकान्तेः समुत्तेजनम् । १. 'इत्यलंकार' ग. २. 'रत्नं चतुर्थम् क.३. 'शिखीव' ग. ४. 'जम्बीरयुग्मं ग.

३९ १३ मरीचिः] अलंकारशेखरः। लक्ष्मीः संसृतिसागरस्य सरसी लावण्यपुण्याम्भसां सा राजव्रजचक्षुषां क्षणमभूदानन्दपुण्यस्थली ।।" रोचना स्वर्ण विद्युद्भिहरिद्राभिर्वराटकैः । चम्पकैमकैतक्या वर्ण्यते तत्तनोद्युतिः ॥२॥ यथा- 'प्रत्ययपद्मवीजाति काञ्चनकेतकच्छायम् । गोरोचनातिगौरं वपुरथ साक्षात्कृतं तस्याः ॥ चम्पकदामहरिद्राकाञ्चनसौदामिनीनां च । हेपयति कान्तिमेषा निजवपुषा पद्मपन्नाक्षी ।' इदमुपलक्षणम्-'तामग्रतस्तामरसान्तराभाम्' इत्यादेः । 'वेत्रत्वचा तुल्यरुचा वधूनां कर्णान्ततो गण्डतलागतानि । भृङ्गाः सखेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवपङ्कजानि ॥ इत्यादेः । 'मोचात्वचः पञ्चषपाटनानाम्' इत्यादेश्च । 'काश्मीरगौरवपुषामभिसारिकाणा- माबद्धरेखमभितो मणिमञ्जरीभिः । एतत्तमालदलनीलतम तमित्रं तत्प्रेमहेमनिकषोपलतां प्रयाति ॥' इत्यादेश्च तत्तत्साम्यमपि बोध्यम् । तम शैवालपाथोदबहभ्रमरचामरैः । यमुनावीचिनीलाश्मनीलाजात्रैः समः कचः॥३॥ यथा- 'न जीमूतच्छेदः स हि गगनचारी न च तमो न चास्येन्दोमैत्री न च मधुकरास्ते हि मुखराः । न पिच्छं तत्केकिन्युचितमसितोऽयं न च मणि- मुंदुत्वादा ज्ञातं घनचिकुरपाशो मृगदृशः ॥' १. 'मोचवचः' कग.

काव्यमाला। 'जानामि जानकि कलिन्दसुताजलेऽस्मि- सातासि हन्त यदिमास्तव कुन्तलानाम् । वीचीषु नीलकमलस्रजि शैवलेषु दृश्यन्त एव रुचयः कणशो विकीर्णाः ॥' 'तारा रदानां वदनस्य चन्द्रं रुचा कचानां च नमो जयन्तीम् । आकण्ठमक्ष्णोतियं मधूनि महीभुजः कस्य न भोजयन्तीम् ॥' 'कूसेन स्थगितहृदया संपुटे हाटकीयं मस्तन्यस्ताञ्चलनिवसना चामरं वारिदाभम् । यत्रासीना रतिरिव वणिक्प्रेयसी वीथिकायां विक्रीणीते मुकुलितमुखी संज्ञया मौक्तिकानि ।' इंदमुपलक्षणम् । 'पुनः पुनः काचन कुर्वती कचच्छटाधिया धूपजधूमसंग्रहम् । सखीस्मितैस्तर्किततन्निजभ्रमा बबन्ध तन्मूर्धनि चामरं चिरात् ॥' इति धूमसाम्यमपि बोध्यम् । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ।' इति रहस्यम् । ललाटमर्धचन्द्रेण हेमपट्टिकया तथा। 'केशान्धकारादथ दृश्यभालस्थलार्धचन्द्रा स्फुटमष्टमीयम् । एनां यदासाद्य जगज्जयाय मनोभुवा सिद्धिरसाधि साधुः ।।' 'अघस्तादन्धकाराणामुपरिष्टात्कुरङ्गयोः । सिन्दूरबिन्दुसुभगा दृष्टा काचन पट्टिका ॥' वल्लीसरधनुर्वीचिभृङ्गालीपल्लवैर्भुवौ ॥ ४ ॥ १. 'भृतः' क. २. 'कुर्यासेन' ख-ग. ३. 'हाटकेयम्' ख-ग. ४. 'हस्तन्यस्ता ज्वलति वसना' ग. ५. 'अगुल्या यदि निर्दिशेदरुणिमा लाक्षागुटी विभ्रमं वाचा यद्यथ शुद्धपारदवटीवुद्धिं रदस्य द्युतिः । दृग्भया यदि नीलिमा वितनुते कात्रजः प्रत्ययं विक्रेतुं बत मौक्तिकानि भवति व्यग्रा वणिक्प्रेयसी ॥' इत्यपीतः प्राक्क्वचित्.

अलंकारशेखरः। १३ मरीचिः] यथा- 'अथ सुललितयोपिछ्लता चारुभृङ्गम्' इत्यादि । 'श्यामाखङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं गण्डच्छायां शशिनि शिखिनां वहभारेषु केशान् । उत्पश्यामि प्रतनुपु नदीवीचिषु भ्रूविलासा- न्हन्तकस्य क्वचिदपि न ते चॅण्डि सादृश्यमस्ति ।' 'भ्रूपल्लवं मधुपराजिरुचां निधिस्ते गण्डस्थली कनकदर्पणदर्पहची। हे कम्बुकण्ठि शुककिन्नरहंसवाणि प्राणा ममासि मदनस्य च जैत्रमस्त्रम् ॥' चन्द्रादशौं कपोलस सुव्यक्तमव्यवहितश्लोकद्वये । इदमुपलक्षणम्- 'मधूककुसुमभ्रान्त्या पुनर्गण्डयोः' इत्यादेस्तथात्वमपि । मुखस्येन्दुलदर्पणाः। यथा- 'किमिन्दुः किं पद्मम्' इत्यादौ । तिलप्रसूनं नासायाः .. - यथा- 'बन्धूकद्युतिवान्धवोऽयमधरः लिग्धो मधूकच्छवि- गैण्डश्चण्डि चकास्ति नीर्लनलिनथीमोचनं लोचनम् । नासान्वेति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ।।' कामतूणीकृत्य नासा वर्ण्यत इति श्रीहर्पः । 'नासावंशो मृगीदृशाम्' इत्यप्यस्ति । 'नासानाली तिलोपमा' इत्यपि पठन्ति । १. शाई ग. २. 'प्रेक्षिते' ग. ३. 'तत्पश्यामि' ख. ४. 'भीरु' ख. ५ 'इत्यादिद- र्शनान' ग. ६. "नाल' क.

काव्यमाला। कण्ठः कम्बोः समः स्मृतः॥५॥ यथा- 'हे कम्बुकण्ठि' इत्यादी 'कम्बुग्रीवे तद्वदेवाष्टमान्त्ये' इत्यादौ मृग तन्नेत्रपाथोज तत्पत्रझपखञ्जनैः । नेत्रं चकोर तन्नेत्रकेतकालिसराशुगैः ॥६॥ यथा- 'नयने खञ्जनकमले 'चकोरनेत्रैणगुत्पलानां निमेषयन्त्रेण किमेष दृष्टः । सारः सुधोद्वारमयः प्रयत्नैर्विधातुमेतन्नयने विधातुः ।। 'हरिणादथ तन्नयनादथ पद्मात्पद्मपत्राचे' । 'किमब्जे किं मीनौ' इत्यादि । बाहू विलसन्मृणालबिसखण्डे । वपुरपि शिरीषकुसुमं मुखमिन्दुस्त्वं शरलक्ष्मीः ।।' 'चकार सा मत्तचकोरनेत्रा विलोलनेत्रा भ्रमरैगवाक्षान् । पूर्णान्दलैः काञ्चनकेतकीनामहो वधूनां पृथगेव सृष्टिः ।। केचित्तु 'कोशातकी पुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्वणबाणचक्षुषः । ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं धृतीनामुपरि व्यलोकयन् ।' इति माघदर्शनात्कोशातकीत्वेन मुखम्, बाणत्वेन वर्णनीयमिति वदन्ति । अन्ये तु- 'तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्याः । प्रसन्नचेतः सलिलः शिवोऽभूत्संसृज्यमानः शरदेव लोकः ॥' इति दर्शनात् 'नेत्रं कुमुदोपमेयम्' इत्याहुः ।। प्रवालबिम्बवन्धूकपल्लवैरधरोष्ठको । वण्यौँ माधुर्यमाश्रित्य यावन्मधुरवस्तुभिः ॥७॥ १. "कृष्टः' क. २. 'प्रयासैः' ख. 'प्रयत्नात्' ग. ३. 'इत्यादि. ग. ४. 'पुष्प' ग. ५, 'गवाक्षाः । पूर्णा' ग. ६. 'दृष्टिः' ग. ७. 'व्रतीना' क; 'वृत्तीना' ख.

१३ मरीचिः] अलंकारशेखरः। यथा- 'पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततो न कुर्याद्विशदस्य तस्यास्ताम्रोष्ठपर्यस्तरुचः स्मितस्य ॥' 'तन्वी श्यामा शिखरदशना पकबिम्बाधरोष्ठी मध्ये क्षामा चकितहरिणप्रेक्षणा निम्ननाभिः । श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्यायुवतिविषये सृष्टिरायेव धातुः ॥' 'बन्धूकद्युतिबान्धवोऽयमधरः' इत्यादि । जवाप्यत्र गणनीयेति गोवर्धनः॥ माधुर्यमाश्रित्येति । यथा- 'त्वं पीयूषदिवो विभूषणम्' इत्यादौ ॥ मुक्तामाणिक्यनारङ्गदाडिमीकुन्दकोरकैः। - ताराभिश्च रदाः यथा- 'कूर्पासेन स्थगितहृदयः' इत्यादि । 'तन्वी श्यामा शिखरदशना' इत्यादि। 'तद्दन्ता नागरगानि च्छोलङ्गानि पयोधरौ । ओष्ठाधरौ च बिम्बानि सा मे फलमयी प्रिया ॥' दमनकेत्यादि । बन्धूकद्युतीत्यादि । तत्कोरकैर्यथा- अधरः किसलयमझी पद्मौ कुन्दस्य कोरका दन्ताः । कः कौ के कं को कान्प्रहसति हसतो हसन्ति हरिणाक्ष्याः ।।' 'तारा रदानाम्' इत्यादि ॥ वाणी हंसालीशुककिन्नरैः। वेणुकोकिलवीणाभिर्माधुर्य मधुरैः सह ॥ ८ ॥ १. 'प्रेक्षणी' ख. २. 'पि' ख. ३. 'मासि' ग. ४. 'स्थगितहृदय' इति न. ख. 'हृदय' इति न.ग.

४४ काव्यमाला। यथा- 'हे कम्बुकण्ठि शुककिन्नरहंसवाणि' इत्यादि । 'तस्य गोप्तुढेिरेफाणां कर्णोत्पलनिपातिनाम् । खरसंवादिभिः कण्ठैः शालिगोप्यो जगुर्गुणान् ॥' 'कण्ठः किमस्याः पिकवेणुवीणास्तिस्रो जिताः सूचयति त्रिरेखः इत्यन्तरस्तूयत यत्र कापि नलेन बाला कलमालपन्ती ॥' माधुर्यमिति । 'मधुद्रोणीव मन्दारमरन्दामन्दवृष्टिवत् । सुधासारद्रवद्राक्षागोणी वाणी तव प्रिये ॥' बाहुबिसेन विद्युद्वल्लिमृणालैः बिसमृणालयोरवान्तरविवक्षयेदम् । यथा- 'अस्या भुजाभ्यां विजिताद्विसाकिं पृथक्करोऽगृह्यत तत्प्रसूनम् । इहेक्षते तन्न गृहाः श्रियः कैर्न गीयते वा कर एव लोकैः ।।' 'विद्युन्मृणालसुभगा बाहुवल्ली मृगीदृशः । यूनां तु कण्ठकाण्डेषु जाता कनकशृङ्खला ।' करस्तु पझेन । पल्लव विद्रुमकाभ्यां 'करकिसलयेन सुदृशां रागसरित्पङ्कजेनेव । शिथिलितविद्रुममहसा स्पृष्टोऽहं चेतनां न लभे ॥' चन्द्रकलाकुन्दकोरकैश्च नखाः ॥९॥ यथा- 'निर्भसिताशोकदलप्रसूति पाणिद्वयं चारुनखं तदीयम् । नवोदितेन्दुप्रतिमस्य लेखां व्योम्नः प्रदोषे विफलीचकार ।' 'निर्दोषरत्नसुभगैः कुन्दकोरककान्तिभिः । नखैः कमलपत्राणि चक्रे बाला पृथक्पृथक् ।। १. 'यशः' ख.

४५ अलंकारशेखरः। १३ मरीचिः] पूगाजतत्कोरकविल्वतालगुच्छेभकुम्भाद्रिघटेशचक्रैः। सौवीरजम्बीरकवीजपूरसमुद्गछोलङ्गफलैरुरोजः ॥ १० ॥ यथा 'कनकक्रमुकायितं पुरस्तादथ पङ्केरुहकोरकायमाणम् । क्रमशः कलशायमानमास्ते सुदृशो वक्षसि कस्य भागधेये ॥ 'कलशीयति कुचकमलं कमलीयति लोचनभ्रमरः । येणुकीयति पुनरस्या हरिणदृशः प्रत्यहं मध्यः ॥' 'स्तनबिल्वद्वयी तस्याः प्रययौ चक्रवाकताम् । उड्डीय पुनरद्रीणां जहार विपुलां श्रियम् ॥' 'चिरप्रवासिंस्तव वाटिकायां विभर्ति चत्वारि फलानि वीरुत् । सौवीरजम्बीरकवीजपूरतालान्यसौ धास्यति किं न जाने ।' 'घटौ वा गुच्छौ वा' इति । 'खयंभूः शंभुरम्भोजलोचने त्वत्पयोधरः । नखेन कस्य धन्यस्य चन्द्रचूडो भविष्यति ॥' 'संपुटं हाटकीयम्' इत्यादि । 'दमनकतरुशाखालम्बि छोलङ्गयुग्मम्' इत्यादि। 'महतोऽपि महीयांसमणीयांसमणोरपि । त्वत्प्रतीकं विदुनूनमणुमध्ये नगस्तनि ।' रेखाकारातिसुश्यामा रोमालिस्तेन तादृशैः। शैवालधूमभृङ्गालिलताद्यैरुपमीयते ॥ सुगममिदम् । नाभीरसातलावर्तहदकूपनदादिभिः । यथा- 'मदनसरितमेतां गाहमानो जनोऽयं जघनपुलिननाभीमण्डलावर्तरम्यम् । १'अणुकीयति' ग. २. 'कान्ता' ग. ५ अलं० शे० काव्यमाला. - २ मुखकमलसनाथामुल्लसद्भूलतोर्मि चिरविरहहुताशा या समुज्झांचकार ।' 'त्वन्नाभिकूपः पातालं नितम्बस्तव मेदिनी। पयोधरस्ते हेमाद्रिस्त्वं ममासि जगत्रयम् ॥' 'हदनदसरांसि नाभिस्त्रिवली तटिनी रसात्मकं च वपुः। तदपि तलोदरि सुन्दरि कथमिव संतापं तनुषे ।।' वली तटिन्या तद्रूपैः तत्समैः पाशादिभिः । स्तदाह-त्रिवलीपाशैस्तथा तथा नद्धः। 'कामेन सोपानमिव प्रयुक्तम्' इति च । पृष्ठं काञ्चनपट्टकैः ॥११॥ यथा--- 'मुक्तावलिस्ते रदनाः पृष्ठं काञ्चनपट्टकम् । नखांशवस्ते रत्नानि मध्ये क्षीणासि किं प्रिये ।।' शूच्यग्रतलशून्याणु वेदी सिंहादिभिः समः। मुष्टिग्राह्यो भवेन्मध्यः अत्र मध्यस्यातिसूक्ष्मत्वात्तत्प्राधान्येनोपमानता । अत एव मुष्टिग्रा- ह्यता तलपरिमाणता च । सूक्ष्मत्वादेव मध्ये शून्यतापि । अत एव 'सद- सत्संशयगोचरोदरि' इत्यपि वर्णयन्ति । जघनं पुलिनोपमम् ॥ १२॥ यथा- 'मदनसरितमेताम्' इत्यादि । पीठप्रस्तरभूचऊनितम्बः परिवर्ण्यते । यथा- 'नितम्बः वर्णपीठं ते तवाङ्गुल्यश्च पल्लवाः । ज्योलेन्दुपुष्पपीयूषफेनकान्ति स्मितं तव ।।' 'तपनीयशिला शोभा' इत्यादि । 'नितम्बस्तव मेदिनी' इत्यादि।

४७. १३ मरीचिः]] अलंकारशेखरः। 'चक्रेण विश्वं युधि पुष्पकेतुः पितुर्जितं वीक्ष्य सुदर्शनेन । जगज्जिगीषत्यमुना नितम्बमयेन किं दुर्लभदर्शनेन ।' 'बिभ्रम्य तच्चारुनितम्बचक्रे' इति नैषधात् 'रथचरणविशालश्रोणि लो- लेक्षणेन' इति माघाच.। चक्रान्तरद्वयसाम्यमत्र । ऊरुस्तु करिहस्तेन कदल्या करमेण च ॥१३॥ यथा- 'कदली कदली करभः करभः करिराजकरः करिराजकरः । भुवनत्रितयेन विभर्ति तुलामिदमूरुयुगं न चमूरदृशः ॥'. चरणः पल्लवाम्भोजस्थलपमप्रवालकैः । यथा- - 'विजितप्रवालपल्लवकवलीकृतप्रोल्लसुषुमे । पदकमले कमलाया लुठदलकः पातु देवकीसूनुः ॥ 'अभ्युन्नताङ्गुष्ठनखप्रभाभिर्विक्षेपणाद्रागमिवोद्विरन्तौ । आजहतुरतच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ।।' पूर्णेन्दुनाङ्गुष्ठनखौ यथा--- 'यशः पदाङ्गुष्ठनखौ मुखं च बिभर्ति पूर्णेन्दुचतुष्टयं या । कलाश्चतुःषष्टिरुपैतु वासं तस्यां कथं सुभ्रवि नाम नास्याम् ॥'. गमनं हंसहस्तिवत् ॥ १४॥ यथा- 'गमनमलसयातैः' इत्यादि। 'सा राजहंसैरिव संनताङ्गी गतेषु लीलाञ्चितविभ्रमेषु । व्यनीयत प्रत्युपदेशलुब्धैरादित्सुभिर्नुपुरशिञ्जितानि ।' कटाक्षो यमुनावीचिभृङ्गावलिविषामृतः । यथा- 'हालाहलं वा विलसत्सुधा वा भृङ्गावली. वा यमुनोर्मयो वा । निशाणघृष्टा मदनेषवो वा यद्वा कटाक्षो मदिरेक्षणायाः ॥ १. 'नास्यां' ख. २. 'तस्याम्' ख.

४८ काव्यमाला। - ज्योत्स्नेन्दुपुष्पपीयूषफेनकैरववद्धसः ॥१५॥ हसो हास्यम् ॥ यथा--'ज्योत्लेन्दुपुष्प-'इत्यादि । 'नूनं ते चोरिता तन्वि मितेक्षणमुखद्युतिः । स्वातुमम्भःप्रविष्टायाः कुमुदोत्पलपङ्कजैः ॥' मुक्ताप्यत्र गणनीया । 'मुक्ताफलं वा स्फुटविद्रुमस्थम्' इत्यादेः ।। दर्शनं वमदजादिः यथा- 'धवलयदिव जगदखिलं प्लावयदिव विश्वमेव विशिखौघैः । वमदिव कमलसहस्र लोचनमेणीदृशो जयति ।। श्वासस्तु सुरभिः शनैः। यथा- 'वहन्ति प्रातरम्भोजसौरभोद्वारवासिताः । मन्दमन्दममी वाता निश्वासास्तावका इव ।। हंससारसशब्दाभ्यां वर्ण्यते नूपुरध्वनिः ॥ १६ ॥ यथा-'सा राजहंसैः' इवेत्यादि । 'लीलाचलस्त्रीचरणारुणोत्पलस्फुरत्तुलाकोटिनिनादकोमलः । सौरेरुपानूपमुपाहरन्मनःखरान्तरादुन्मदसारसारवः ॥' अत्र श्रीपादानुसारिकविकल्पलताकार एतावदधिकमाह- 'वेण्याः सासिभृङ्गाल्योधम्मिल्लस्य विधुतुदः । सीमन्तस्याध्वदण्डौ च भ्रुवोः सपीकृपाणकौ ॥ दन्तस्य जीरका ज्ञेया मदिरा कुमुदं दृशोः । जिह्वायास्त्वञ्चलो दोला नासायाः पाटली तथा । वल्लरी लहरी पाशः शाखा बाहुद्वयस्य च ॥ 'विधैः क. 'विषैः' ग. १.

४ मरीचिः] अलंकारशेखरः। प्रवालशाखा वाङ्गुल्याः पल्लवश्च नखस्य तु । रक्तपुष्पाणि नाभ्यास्तु विवराम्भोरुहे समे। वीचिसोपाननिश्रेण्यस्त्रिवल्लया इति च स्त्रियाम् ।। पुंसां तु वृषरक्ताक्षस्कन्धौ स्कन्धस्य संनिभौ । भुजौ वज्रस्य गमनमुक्ष्णामित्यभिकीर्तितम् ।। गोवर्धनस्तु शरीरतदवयवयोर्वर्णनीयान्गुणानाह- सौन्दर्य मृदुताकार्यमतिकोमलता तथा । कान्तिरौज्वल्यमाबल्यमित्यमी वपुषो गुणाः।। केशस्य दीर्घकौटिल्यमृदुनैबिड्यनीलता । कपोले स्वच्छता कण्ठे द्राधीयस्त्वं त्रिरेखता ।। नेत्रे लैग्ध्यं विशालत्वं लोलतापाङ्गदीर्घता। नीलता प्रान्तलौहित्यं श्वैत्यं निबिडपक्ष्मता ।। अधरेऽत्यन्तमाधुर्यमुच्छूनत्वं सुरक्तता। दन्तस्य श्वैत्यलौहित्यद्वात्रिंशत्तातिदीप्तता ॥ माधुर्य स्पष्टता वाचां मृदुता समता भुजे । करेऽतिमृदुता शैत्यं सर्वभागे च शोणता || स्तने श्यामाग्रतौन्नत्यविस्तारदृढपाण्डुता । रौमाल्या मार्दवं सौक्ष्म्यं श्यामता नाभिगामिता ।। कान्तिवृत्तानुपूर्वत्वं जङ्घयो तिदीर्घता । अत्यन्तमन्दता शैत्यं निश्वासेऽतिसुगन्धिता ॥ इत्यादि। मया संक्षेपशीलेन गच्छता मृदु वर्त्मनि । सर्वशिष्टानुरोधेन दिङ्मात्रमिह दर्शितम् ॥ इत्यलंकारशेखरे वर्णकरत्ने योषिवर्णनमरीचिः ॥ १३ ॥ चतुर्दशो मरीचिः। इदानीं पुरुषवर्णनमाह- राज्ञामत्यन्तपीनत्वमुच्चता दीर्घबाहुता।

३ - काव्यमाला। अत्र पुंसामिति वक्तव्ये प्रायशः कवीनां राजान एव वर्णनीया भर न्तीति ताननुगृह्णता महर्षिणा राज्ञामित्युक्तम् । यथा- 'व्यूढोरस्को वृषस्कन्धः शालप्रांशुः' इत्यादौ । युगार्गलभुजङ्गेन्द्रदण्डस्तम्भेभहस्तकैः ॥१॥ वाहुः यथा 'युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकन्धरः ।' 'भुजे भुजगेन्द्रसमानसारे भूयः स भूमेधुरमाससञ्ज ।' 'अमुष्य दोर्ध्यामरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता । उरःश्रिया तत्र च गोपुरस्फुरत्कपाटदुर्धर्षतिर प्रसारिता ।।' 'नागेन्द्रगमनः पीनमैरावतकरायतम् । दोर्दण्डभुवनागारस्तम्भं राजा ममर्श सः ॥' वक्षःकपाटेन शिलापट्टेन वर्ण्यते । यथा- 'तस्याभवत्सूनुरुदारशीलः शलः शिलापट्टविशालवक्षाः । जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतामाब्रजदीड्यमानः ॥" असे विपुलता 'युवा युगव्यायतबाहुरंसलः' इत्यादौ । मध्ये कार्यम् यथा- 'अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः । आरोप्य चक्रभ्रममुष्णरश्मिस्त्वष्ट्रेव यन्त्रोल्लिखितो विभाति ।' इत्यादौ । उन्नतता पदे ॥२॥ १. 'शालीनतापव्रजमस्तमानः ख - यथा- .

१४ मरीचिः] अलंकारशेखरः। यथा- 'कूर्माकारं चरणयुगलं धूतदिग्दन्तिशुण्डा- दण्डावूरू भुजयुगमपि व्यक्तनागेन्द्रशोभम् । प्रायः पृथ्वीधरणविधये तत्समर्थान्पदार्था- नेकीकृत्य त्रिभुवनसृजा निर्मिता यस्य मूर्तिः ।। स्तनयोरिव नारीणामत्यन्तस्वच्छता हृदि । यथा- 'सा निर्मले तस्य मधूकमाला हृदि स्थिता च प्रतिबिम्बिता च । कियत्यममा कियती च मन्ना पञ्चेषुवाणालिरिव व्यलोकि ॥' नारीस्तनखच्छता यथा- 'प्रतिफलितं गलगरलं कज्जलबुच्या पयोधरे देव्याः ।। प्रातः प्रोग्छितुमिच्छगिरिजाहसितो हरो जयति ॥' कान्तिप्रयोजकं यावत्तावत्तद्वत्प्रवर्ण्यते ॥३॥ तद्वद्योषिद्वत् । यथा- 'कृतावरोहस्य हयादुपानहीं ततः पदे रेजतुरस्य बिभ्रती । तयोः प्रवालैर्वनयोस्तथाम्बुजैनियो कामे किमु बद्धवर्मणी ॥' 'धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः । प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवानिव ।' 'चन्द्राननचन्द्रदिनं मृगलोचनमृगशिरश्च नक्षत्रम् । तिथिरतिथिप्रियं नवमीशुभयोगः खर्भग भाति भवान् ॥' 'कामं कमलपत्राणां नेने तस्यानुकारिणी ।' इत्यादि । विस्तृतमन्यत्र । इदमुपलक्षणम् । आल्हादकत्वपुरस्कारेण च- न्द्रादिसाम्यमुभयोरपि । !. २ १. इदमुत्तरार्ध : क-ग-पुस्तकयो स्ति. . २. इदमधु क-ग-पुस्तकयो स्ति. ३. 'साम्येन ग.

५२ काव्यमाला। यथा 'इत्थं द्विजेन द्विजराजकान्तिः', 'इन्दुप्रभामिन्दुमतीमैवेत्य', 'स्फुरत्क मलप्रभे' इति श्रुतबोधे । प्रतापोऽकौग्निवज्राद्यैः कीर्तिश्चन्द्रादिशुभ्रकैः । करे पद्मोर्ध्वरेखादि पदे छत्रध्वजादिकम् । गमनं हस्तिसिंहाभ्यां कार्कश्यं च भुजादिषु ॥ ४ ॥ स्फुटमिहोदाहरणम् । गमनमिति । यथा- 'पूर्वं यथा देवतेर्नियोगं मूर्धा वहन्कार्मुकबाणहस्तः । प्राप्तस्तथैवाशु गजेन्द्रगामी प्रोद्भिद्यमानो नवयौवनेन ।' 'ततो मृगेन्द्रस्य मृगेन्द्रगामी' इत्यादौ । स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः "पुंसि श्रेष्ठार्थवाचकाः ॥ ५ ॥ अत्रादिपदाद्वृषभोऽपि । कर्तव्या रत्नसिंहाद्या नरराजादितः पदात् । विशेष्यभावो धुसदां वरभूमिविशेषणात् ॥ यद्यत्सामुद्रिकायुक्तं तद्वर्ण्यमुभयोरपि । किंतु शिष्टप्रयोगोऽत्र नियामकतयेष्यते ॥ इत्यलंकारशेखरे वर्णकरत्ने पुरुषवर्णनमरीचिः ॥ १४ ॥ पञ्चदशो मरीचिः। इदानीं सादृश्यप्रापकप्रकारमाह- इवाद्यैः प्रतिमानायैः समानाद्यैर्निमादिभिः । बन्धुचौरारिवंशायैः सादृश्यप्रतिपत्तयः॥१॥ १. 'इति' क-ग. २. 'ती वभाषे' ग. ३. 'न्यादि' ग. ४. 'पतिर्नि' ख. १. 'पुंसः' ग. 'हंस' क.

५३ १५ मरीचिः] अलंकारशेखरः। इवायैरिति । तदाहुः- इववद्वायथाशब्दाः समाननिभसंनिभाः। तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः। सक्सदृशसंवादिशब्दाः सादृश्यवाचकाः ॥२॥ प्रतिमानाचैरिति । प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया। प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ॥ समानायैनिभादिभिरिति । वाच्यलिङ्गाः समानश्च सहक्षः सदृशः सदृक् । साधारणः समस्तुल्यः स्युरुत्तरपदे त्वमी । निभसंकाशनीकाशप्रतीकाशोपमादयः ।। बन्धिवति। बन्धुर्मित्रं वयस्यश्च प्रेयान्प्रीतः सुहृत्सखा । उपमानोपमेययोरेवम् । चौरेति । चौरैकागारिकस्तेनदस्युतस्करमोषकाः । प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः॥ मुखकान्तिचौरश्चन्द्र इत्यादि कर्तव्यम् । अरीति । रिपुवैरिसपत्नारिद्विषद्वेषणदुहृदः । द्विदविपक्षाहितामित्रदस्युशात्रवशत्रवः । अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ।। चन्द्रस्य वैरि मुखमित्यादि कर्तव्यम् । वंशाचैरिति । संततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्ववायः संतानः सपिण्डास्तु सनाभयः॥ समानोदर्यसोदर्यसगर्यसहजाः समाः । सगोत्रबान्धवज्ञातिवन्धुश्च स्वजनः समाः ।। चन्द्रसगोत्रं चन्द्रसोदरं मुखमित्यादि कर्तव्यम् ।

५४ काव्यमाला । - प्रकारान्तरमाह भृतकाद्यैर्भृत्यायैन्यक्कारार्थक्रियापदैः। संदेहतत्तद्वाक्याथैः सादृश्यं प्रतिपद्यते ॥ ३ ॥ भृतकाचैरिति । भृतको भृतिभुक्कर्मकरो वैतनिकश्च सः । 'मुखस्य भृतकश्चन्द्रः' इत्यादिं कर्तव्यम् । भृत्यायैरिति भृत्यदासेयदासेरदासगोप्यकचेटकाः । नियोज्यकिंकरप्रेष्यभुजिष्यपरिचारकाः ॥ मुखस्य दासः शशीत्यादि कर्तव्यम् । न्यक्कारार्थेति । न्यक्करोति तिरस्कुर्वन्प्रतिक्षिपति भर्सति । आक्रोशत्यवजानाति कदर्थयति निन्दति । विडम्बयति संरुन्धे हसतीर्ण्यत्यसूयति ॥ त्वन्मुखबिम्बश्चन्द्रं न्यक्करोति, इत्यादि विधेयम् । तृणीकृतमधिक्षिप्तं निरस्तं च लघूकृतम् । अनाहतमवज्ञातमम्भोजे त्वन्मुखेन्दुना ॥ संदेहेति-'किमिन्दुः किं पद्मम्' इत्यादि । तत्तद्वाक्येति । यथा-- तस्य पुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति । तेन सार्घ विगृह्णाति तुलां तेनाधिरोहति ॥ तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते । तमर्थमनुबध्नाति तच्छीलं तन्निषेधति ॥ तस्य चानुकरोतीति तमर्थमनुधावति । आकारयत्याहूयते जिगीषति सरोरुहम् ॥ विघिरम्भोजसाम्राज्ये मुखेन्दुमभिषिञ्चति । तस्या मुखेन सदृशं कः कर्तुं चन्द्रमीश्वरः । भवतीन्दुर्न दासोऽपि त्वदास्यं चेत्किमिन्दुना ॥ .

१५ मरीचिः अलंकारशेखरः। चन्द्रमूर्ति पदं धत्ते वृथा चन्द्र तपस्यति । लीयते चन्द्रमाः कापि बिभेति च पलायते ॥ दण्डी तु- प्रतिच्छन्दसरूपादिसजातीयानुवादिनः । सलक्षणसपक्षाभसवर्णतुलितादिकम् ।। कल्पदेशीयदेश्यादि ये चान्यूनार्थवादिनः । समासश्च बहुव्रीहिः शशाङ्कवदनादिषु । भवन्तीवादिशब्दाश्च सादृश्यप्रतिपत्तये ॥ इत्याहुः । कवीनां घटनान्यैव चराचरविलक्षणा । अकर्तुमन्यथा कर्तुं कर्तुं या क्षमते जगत् ।। इति केशव मिश्रकृतेऽलंकारशेखरे वर्णकरत्नम् । इदानी कविसंप्रदायस्य सर्वापेक्षयाभ्यर्हितत्वं दर्शयन्नाह- असतोऽपि निबन्धेन सतामप्यनिवन्धनात् । नियमस्य पुरस्कारात्संप्रदायस्त्रिधा कवेः॥१॥ असतोऽपीति । वस्तुगत्या यन्न भवति तदपि कविमिर्निबध्यते । यथा- रत्नानि यत्र तत्राद्री हंसायल्पजलाशये । जलेभायं नमोनद्यामम्भोजाचं नदीष्वपि ॥ तिमिरस्य तथा मुष्टिग्राह्यत्वं सूचिभेद्यता । शुक्लत्वं कीर्तिपुण्यादौ काय चाकीर्त्यवादिषु ॥ प्रतापे रक्ततोष्णत्वे रक्तत्वं क्रोधरागयोः । ज्योत्स्नायानं चकोराणां सेवालं सर्ववारिषु ।। केसराशोकयोः सत्त्रीगण्डूषात्सादघाततः । मासान्तरेऽपि पुष्पाणि रोमालिस्त्रिवलिस्त्रियाम् ।। सतामपीति । पारमार्थिकमपि न निबध्यते । १. 'नदेष्वपि' ग.

५६
काव्यमाला।
यथा
वसन्ते मालतीपुष्पं फलपुष्पे च चन्दने ।
कामिदन्तेषु कुन्दानां कुब्जलेषु च रक्तता ।
नारीणां श्यामता पातः स्तनयोर्यच्च वा हिये ।।
नियमस्येति ।
हिमवत्येव भूर्जत्वक् चन्दनं मलये परम् ।
हेमन्तशिशिरौ त्यक्त्वा सर्वदा कमलस्थितिः ।
सामान्यग्रहणे शौक्लयं पुष्पाम्भश्छनवाससाम् ।
ध्वजचामरहंसानां हारस्य बकभमनोः ।।
कृप्णत्वं शैलवृक्षादि मेघवारिधिवीरुधाम् ।
भिल्लका चासुराणां च धूपपङ्कशिरोरुहाम् ॥
लौहित्यं धातुमाणिक्यजपारत्नविवखताम् ।
पद्मपल्लवबन्धूकदाडिमीकरजादिषु ।।
पीतत्वं शालिमण्डूकवल्कलेषु परागके ।
वर्षाखेव शिखिप्रौढिर्मधावेव पिकध्वनिः ।।
अन्यन्च
कमला संपदोः कृष्णहरितो गसर्पयोः ।
पीतलोहितयोः खर्णपरागाग्निशिखादिषु ॥
चन्द्रे शशैणयोः कामध्वजे मकरमत्स्ययोः ।
दानवासुरदैत्यानामैक्यमेवाभिसंहितम् ॥
अपि च ।
चिरंतनस्यापि तथा शिवचन्द्रस्य बालता ।
मानवा मौलितो वर्ष्या देवाश्चरणतः पुनः ।।
भुवनानि निवनीयात्रीणि सप्त चतुर्दश ।
चतस्रोऽष्टौ दश दिशश्चतुरः सप्त चाम्वुधीन् ।
१. निम्नता तथा' ग. २. 'नीरधि'
ख.
.

। १६ मरीचिः अलंकारशेखरः। अष्टादश स्मृता विद्याश्चतस्रश्च चतुर्दश । ये स्थले ते जले जीवा भिन्दन्त्यक रणे मृताः । महत्त्वमादौ सर्गान्ते सूक्ष्मता जगतामपि । शैलादिर्भिद्यते शब्दान्नभः शतधनूपरि ॥ नाम तत्तदुपाघौ स्याच्छंकरो वृषवाहनः । चिहत्वे च वृषाकोऽयं ध्वजे सत्त्वादृषध्वजः ।। शूली, न सी गिरिशः; शशी, न हरिणी विधुः।। इन्दुमौलिमहादेवो गङ्गामौलिन तु क्वचित् ॥ रलयोर्डलयोश्चैव ववयोः शसयोन भित् । नानुस्वारविसर्गौ च चित्रभङ्गाय संमतौ ।। इववद्वाहिहीहमवतवैतुकिलैवच । पदान्येतानि देयानि पादस्याये न जातुचित् ।। भूतेन्द्रभारतेशात्प्राङ्महच्छब्दो निरर्थकः । दुरों ब्राह्मणे वृष्टिभोज्यौषधपथादिषु ॥ इत्यलंकारशेखरे कविसंप्रदायरत्ने नियममरीचिः ॥ १५ ॥ षोडशो मरीचिः। इदानीं संक्षेपेण वर्णनीयान्याह- वर्ण्यश्च राजा देवी च देशो ग्रामः पुरी सरित् । सरोऽध्यरण्योद्यानाद्रिप्रयाणरणवाजिनः ॥ हस्त्यर्कचन्द्रावृतवो विवाहोऽथ स्वयंवरः । सुरा पुष्पाम्बुसंभोगः विश्लेषमृगयाश्रमाः। कला ऋतुवयःसंधी धातुवृक्षाभिसारिकाः ॥ नेषां विशिष्य वर्णप्रकाराः प्रैदृश्यन्ते- नृपे कीर्तिप्रतापाज्ञादुष्टशान्तिविवेकिताः । धर्मप्रयाणसंग्रामशस्त्राभ्यासनयक्षमाः॥ १. 'नभःपूर्तिरथोद्गमम् ग. २. 'चिह्नत्वेन' ख-ग. ३. 'वश्चि' क-ख. ४. 'कालान्तर' ग. ५. 'एषां विशेषवर्णनमाह' ग. ६. 'प्रदर्यन्ते' ख. ६ अलं. शे०

५८
काव्यमाला।
.
प्रजापालोऽरिशैलादिवासोरिपुरशून्यता ।
औदार्यधैर्यगाम्भीर्यशौर्यैश्वर्योद्यमादयः ॥
देव्यां सौभाग्यलावण्यशीलशृङ्गारमन्मथाः ।
त्रपाचातुर्यदाक्षिण्यप्रेममानव्रतादयः ।।
देशे बहुखनिद्रव्यपशुधान्यकरोद्भवाः ।
दुर्गग्रामजनाधिक्यनदीमातृकतादयः ॥
ग्रामे धान्यलतावृक्षसरसीपशुपुष्टयः ।
क्षेत्रादिहट्टकेदारनामेयीमुग्धविभ्रमाः ।।
पुरेऽट्टपरिखावप्रप्रतोलीतोरणध्वजाः ।
प्रासादाध्वप्रपारामा वापी वेश्या सेती नदी ॥
सरित्यम्बुधियायित्वं वीच्यो वनगजादयः ।
पद्मानि षट्पदा हंसनकाद्याः कूलशाखिनः ।।
सरस्थम्भोलहर्यम्भो गजाद्यम्बुजषट्पदाः ।
हंसनकादयस्तीरोद्यानस्त्रीपान्थकेलयः ॥
अब्धौ द्वीपाद्विरत्नोमिपोतयादोजलप्लवाः ।
विष्णुकुल्यागमश्चन्द्रादृद्धिरौर्वोऽब्दपूरणम् ॥
अरण्ये हि वराहेभयूथसिंहादयो द्रुमाः ।
काकोलूककपोताद्या भिल्लमल्लूदवादयः॥
उद्याने संरणिः सर्वफलपुष्पलतादयः ।
पिकालिकेलिहंसाद्याः क्रीडा चाप्यध्वगस्थितिः ॥
शैले महौषधीधातुवंशकिन्नरनिर्झराः।
शृङ्गपादगुहारत्नवनजीवाद्युपत्यकाः ।।
प्रयाणे भेरिनिःखानभूकम्पबलधूलयः ।
करभोक्षगजच्छत्रवणिक्शकटवेसराः॥
१. पालारि' ग. २. 'धान्याकरो' ख-ग. ३. 'रुद्र' ख. ४. 'ग्रामस्त्री' ग,
'प्रामीणा' ख. ५. 'मही' ख. ६. 'सारणिः' ख. ७. 'भृगुपात' ख. ८. 'परक्षोभ ख.

५९ . १६ मरीचिः] अलंकारशेखरः। युद्धे तु वर्मबलचौररजांसि तूर्य- !: निर्घातनादशरमण्डपरक्तनद्यः । छिन्नातपत्ररथचामरकेतुकुम्भि- योधाः सुरीवृतभटाः सुरपुष्पवृष्टिः ।। अश्वे वेगित्वमौन्नत्यं तेजः सल्लक्षणं स्थितिः । खुरोल्खातरजःप्रौढििितर्गतिविचित्रता ॥ गजे सहस्रयोधित्वमुच्चता कर्णचापलम् । अरिव्यूहविभेदित्वं कुम्भयुक्तामदालयः ।। सूर्येऽरुणता रविमणिचक्राम्बुजपथिकलोचनप्रीतिः । तारेन्दुदीपकौषधिघूकतमश्चौरकुलटांतिः ॥ चन्द्रे कुलटाचक्राम्बुजचौरविरहितमोतिरौज्ज्वल्यम् । जलधिजलनेत्रकैरवचकोरचन्द्राश्मदम्पतिप्रीतिः॥ सुरभौ दोलाकोकिलदक्षिणवांतद्रुपल्लवोद्भेदाः । जातीतरपुष्पचयाभ्रमञ्जरीभ्रमरझाकाराः ॥ ग्रीष्मे पाटलमल्लीतापसरःपथिकशोषवातोल्काः । सक्तुप्रपाप्रपास्त्रीमृगतृष्णाम्रादिफलपाकाः ॥ वर्षासु घनशिखिस्सयहंसगमाः पङ्ककन्दलोद्भेदौ। जातीकदम्बकेतकझञ्झानिलनिम्नगाहलिप्रीतिः॥ . . शरदीन्दुरविपटुत्वं जलाच्छतागस्त्यहंसवृषदर्पाः । सप्तच्छदासिताम्राजरुचिः शिखिपक्षमदपाताः॥ हेमन्ते दिनलघुता मरुबकयववृद्धिशीतसंपत्तिः । शिशिरे कुन्दसमृद्धिः कमलहतिर्वा गुडामोदः ।। विवाहे खानशुद्धाशभूषातूर्यत्रयीरवाः। वेदीसंगीतहोमादिलाजमङ्गलवर्तनम् ।। स्वयंवरे शचीरक्षा मञ्चमण्डपसज्जनाः। राजपुत्री नृपाकारान्वयंचेष्टाप्रकाशनम् ॥ - १. 'चर्म' ख. २. 'मीन' क, 'वन' ग. ३. 'छदस्मिताको ६० काव्यमाला। सुरापाने विकलंता स्खलनं वचने गतौ । लज्जा मानच्युतिः प्रेमाधिक्यं रक्ताक्षता भ्रमः ।। पुष्पावचये पुष्पावचयः पुष्पार्पणार्थने दयिते । मालागोत्रस्खलने क्रोधों वक्रोक्तिसंभ्रमाश्लेषाः ।। जलकेलौ सरःक्षोभश्चक्रहंसापसर्पणम् । पद्मज्यानिः पयःक्षेपो दग्रागो भूषणच्युतिः ।। सुरते सात्विका भावाः शीत्कारः कुड्मलाक्षता । काञ्चीकङ्कणमञ्जीररवोऽधरनखक्षते ॥ विरहे तापनिःश्वासचिन्तामौनकृशाङ्गताः । अब्दसंख्या निशादैर्ध्य जागरः शिशिरोष्णता ।। मृगयायां च संचारो वागुरानीलवेषता । भृगाधिक्यं मृगनासो हिंस्रद्रोहो गतित्वरा ।। आश्रमेऽतिथिपूजैणविश्वासो हिंस्रशान्तता। यज्ञधूमो मुनिसुता द्रुसेको वल्कलं द्रुमाः॥ पद्मकेकोत्सवः प्रातमध्याह्ने तापसंप्लवः । सायं सूर्यातिलौहित्यं चक्रपद्मादिविप्लवः ।। पूर्ववंग्रेतनोश्च संधिं व्याप्योपवर्णनम् । एवं शैशवतारुण्यमाध्यस्थ्यं विषमं च तत् ।। अन्धकारेऽतिकाठिन्यं विश्वलोपसमर्थता । आकस्मिकसमारम्भो निःशङ्कमभिसारिकाः ।। वृक्षे प्रचुरशाखात्वं दलादर्शितसूर्यता। उच्चता प्रसवोत्कर्षों वयःपथिकसेव्यता ॥ अभिसारे भयभ्रंशो मञ्जीरादितिरस्त्रिया । साहसं रागितोत्कर्षः कालानुगुणवस्त्रता ॥ इत्यलंकारशेखरे कविसंप्रदायरने वर्णनीयमरीचिः ॥ १६ ॥ १. 'मद ख.

१७ मरीचिः अलंकारशेखरः। सप्तदशो मरीचिः। इदानीं नियमान्तरमाह- श्वेताश्चन्द्रादयो ज्ञेया नीलाः श्रीकेशवादयः । शोणास्तु क्षात्रधर्माद्याः पीता दीपशिखादयः । धूसरा स्थधूल्याद्या ज्ञातव्याः काव्यवमनि ॥ अत्रैवं ज्ञातव्यम्- श्वेतानि(४)चन्द्राशक्राश्वशंभुनारदभार्गवाः । हली शेषाहिशक्रेभौ सिंहसौधशरद्धनाः ।। सूर्येन्दुकान्तनिर्मोकमन्दारदुहिमाद्रयः । हिमहासमृणालानि खर्गङ्गेभरदाभ्रकम् । शिकतामृतलोध्राणि गुणकैरवशर्कराः ।। 'नीलानि कृष्णचन्द्राकव्यासरामधनंजयाः । शनिद्रुपदजा काली राजपट्टविदूरजम् ।। विषाकाशकुहूशस्त्रागुरुपापतमोनिशाः । रसावद्भुतशृङ्गारौ मदतापिच्छराहवः ।। सीरिचीरं यमो रक्षः कण्ठः खञ्जनकेकिनोः । कृत्या छाया गजागारखलान्तःकरणादयः ॥' 'शोणानि क्षात्रधर्मश्च त्रेता रौद्ररसस्तथा । चकोरकोकिलापारावतनेत्रं कंपेर्मुखम् ॥ तेजः सारसमस्तं च भौमकुङ्कुमतक्षकाः । जिहेन्द्रगोपखद्योतविद्युत्कुञ्जरबिन्दवः ।। पीतानि दीपजीवेन्द्रगरुडेश्वरहग्जटाः । ब्रह्मावीररसवर्णकपिद्वापररोचनाः। किजल्कचक्रवाक्याद्या हरितालमनःशिलाः ॥ धूसराणि रजो लूता करभो गृहगोधिका । कपोतमूषको दुर्गाकाककण्ठखरादयः ॥ १. 'अथ' ग; 'लिकपोताद्याः' क. २. 'स्वर्दण्डेभर' क-ग. २. 'शस्त्री' क; "शत्त्या' ख. ४, 'तापिञ्छ' ख. ५. 'नीप' ख.

६२ काव्यमाला। इदमुपलक्षणम् । हरिताः सूर्यतुरगा बुधो मरकतादयः । इत्यपि बोध्यम् । द्वैरूप्ये चाप्रसिद्धौ च नियमोंऽयमुदाहृतः । अन्यद्वस्तु यथा यत्स्यात्तत्तथैवोपवर्ण्यते ।। इत्यलंकारशेखरे कविसंप्रदायरत्ने शुक्लादिनियममरीचिः ॥ १७ ॥ अष्टादशो मरीचिः। इदानीं नियमान्तरमाह- एकसादासहस्रं च यद्यद्वस्तु यथा भवेत् । तत्तत्कविप्रयोगेण ज्ञातव्यं काव्यमिच्छता ॥१॥ अत्रैवं ज्ञातव्यम्.-. एक ऐन्द्रः करी चाश्वो गजास्यरदशुक्रदृक् । द्वयं पक्षनदीकूलनरश्रुतिभुजादिकम् ॥ त्रयं कालाग्निभुवनगङ्गामार्गेशग्गुणाः । ग्रीवारेखा महीकोणस्तथा शूलशिखावली ॥ संध्या पुरः पुष्कराणि रामविष्णुज्वरातयः । चखारि वेदब्रह्मास्यवर्णाब्धिहरिबाहवः ॥ खर्दन्तिदन्तसेनाङ्गोपाययामयुगाश्रमाः । पञ्च पाण्डवरुद्रास्येन्द्रियखर्दुव्रताग्नयः ।। महाभूतमहापापमहाकाव्यमहामखाः । पुराणलक्षणप्राणानिलवर्गेन्द्रियार्थकाः ॥ षड् वज्रकोणत्रिशिरोनेत्रतर्काङ्गदर्शनम् । चक्रवर्तिमहासेनवदनानि गुणा रसाः ।। सप्त पातालभुवनमुनिद्वीपार्कवाजिनः । वाराश्च खरराज्याङ्गब्रीहिवहिशिखादयः ॥ . अष्टौ योगाङ्गवखीशमूर्तिदिग्गजसिद्धयः । ब्रह्मश्रुतिव्याकरणदिक्पाला हि कुलाद्रयः ।।

१८ मरीचिः] अलंकारशेखरः। ius नवाङ्गद्वारभूखण्डकृत्तरावणमस्तकाः । व्याघ्रीस्तनसुधाखण्डशेवध्यङ्करसग्रहाः॥ दश हस्ताङ्गुलीशंभुबाहुरावणमौलयः । . कृष्णावतारदिग्विश्वेदेवावस्थेन्दुवाजिनः ।। एकादश महारुद्राः सेनाश्च कुरुभूपतेः। द्वादशार्का राशिमाससंक्रान्तिगुहबाहवः ।। सारिकोष्ठकसेनानीनेत्रमापतिमण्डलाः । त्रयोदश स्युस्ताम्बूलगुणा अथं चतुर्दश ॥ विद्यान्वयमनुखाराभुवनध्रुवतारकाः । तिथयः स्युः पञ्चदश षोडशेन्दुकलाम्बिकाः ॥ अष्टादश द्वीपविद्यापुराणस्मृतिधान्यकम् । विंशती रावणभुजाङ्गुलयोऽथ शतं यथा । धार्तराष्ट्राः शतभिषक् तारकाः पुरुषायुषम् । रावणाङ्गुल्यब्जदलशक्रयज्ञाब्धियोजनम् ॥ .. सहसं जाह्वीवक्रशेषशीर्षाम्बुजच्छदाः । रविबाणार्जुनकरवेदशाखेन्द्रदृष्टयः ॥ उदाहरणमेतेषां प्रसिद्धत्वान्न लिख्यते । प्रहते केवलं पान्था मादृशाः काव्यवर्मनि ॥ इति संख्या नियममरीचिः। इति केशवमिश्रविरचितेऽलंकारशेखरे कविसंप्रदायरत्नम् ॥ इदानी प्रकारमुद्दिशन्नेव कवीनां प्रकर्षवीजमाह- गतागतसमत्वं च संस्कृतप्राकृतैक्यताम् । तथा वचनयोः साम्यं धर्मिधर्माभिधायि च ॥१॥ कुर्वन्ति कवयः शक्ताः समस्यापूरणादिकम् । आयं चतुष्टयं तत्र चित्रकाव्योपकारकम् ॥ २॥ १. 'मुपदिशनेव' ख-ग.

१. 'तद्यथा-'ग. २. 'ष्टकार' क-ख. ३. 'तुण्ड' ख ६४ . काव्यमाला । तंत्र गतागतेत्यादि । यथा- 'मम रुरु मध्यम सहास कारिका- वररव वनदानव सरसीरस गजभुजग । तरुणीरुत रदसोदर नदभेदन वरभैरव कलपुलक पतदातप ।' इत्यादि । चकारादसाम्येऽपि स्फुटार्थता यथा- 'जरा नदी मालिका राजते दीनरक्षी पिनाकिना नन्दनवन सहस इत्यादि। 'रेजिरे बभूव तिष्ठति' इत्याख्याते । संस्कृतेत्यादि । यथा- तत्र पुल्लिङ्गे- 'हाराहारविहारसारसमराः संभोगरोगाम्बराः संहारामरवारवारणरणाष्टकारतीराकराः । लोलोल्लासविलासवायसहराहंकारहीराङ्कुरा नीहारोरगताररागतरला गोविन्दकन्दोदराः ॥' स्त्रीलिङ्गे- 'धरणी धारगी गोणी रोहिणी रमणी मणी । कन्दरी लहरी रामा नारी भेरी वसुंधरा ।' नपुंसके 'जलपलफलमूलं बारिकीलालतूलं वनपललदुकूलं तुङ्गगम्भीरकूलम् । सलिलकमलचीर खण्डराजीवनीर हलरजतकुटीरं दारुनालं पटीरम् ॥' - - - १९ मरीचिः] अलंकारशेखरः। ६५ (आख्याते-) 'भण गच्छ देहि संहर कुरु रोचय मारयावगच्चैहि । अवलोकयावचिन्तय खादेति च धातुजं विद्धि ॥' एकस्मिन्नेवार्थे बहुवचनैकवचनयोः साम्यं यथा- क्रव्यादो देवरो वारि फलिनो बहिणो नरः । तादृशाद्या भूरुहाद्या मासफेरवसोमपाः। एवं रथिनमन्थानशब्दाः खुरणसादयः ॥ धर्मिधर्माभिधायि पदं यथा- सुषिरार्द्रप्रतीहारचुल्लंपिल्लादिशात्रवाः । मेरालसौ मत्सरश्च धेर्मिधर्माभिधायकाः ॥ चकाराद्विशेषसामान्यवाचकभावाभाववाचकपरिग्रहः । शकुन्तधातुमरुतो गरुत्मत्कामदर्शनम्। अक्षं वधूश्च गमनचेटकाद्या द्विवाचकाः । अपिंधानाद्यपूपादिभावाभावमदर्शकम् ॥ आदिपदात् आनादयुतसिद्धावलग्नावतंसादिपरिग्रहः । इत्यलंकारशेखरे कविसामर्थ्यरत्ने चित्राद्युपकारमरीचिः ॥ १८ ॥ .. - ऊनविंशो मरीचिः। समस्या पूरणादिकमिति । इदं तु कठिनसमस्याभिप्रायेण । तदुक्तम्- 'कवयः शक्ताः' इति । तत्रैवं प्रकारः यदीदं स्यात्तदेदं साकावा स्याद्विषमेति च । अयोग्यः खलु कः शब्दः कुत्र संसर्गधीन हि ॥१॥ प्रश्नोत्तरात्पदे भङ्गात्पूर्वस्मिन्नाद्ययोजनात् । मिथ्याभिधाय्यसावेवमेष सार्वत्रिका क्रमः॥२॥ : १. 'चिन्त खादेत धा०' क; 'चिन्तय धारय खादयेति धा०' ग. २. 'धर्मधर्थमि' क. ३. 'आरात्-अयुत-भिन्न-प्र' क-ग.४. 'कर्ता विषयमेति' ग.

काव्यमाला। , प्रश्नेति । 'हारामहादेवरतातमातः' इत्यत्र- 'के मण्डयन्ति स्तनमण्डलानि कीदृश्युमा चन्द्रमसः कुतः श्रीः । किमाह सीता दशवक्रनीता हारामहादेवरतातमातः ।।' इतिवत् । पद इति । मृगासिंहः पलायत इत्यादौ । मृगमत्ति मृगात् ते पलाय मांसाय इत्यर्थकरणादित्यर्थः । पूर्वस्मिन्निति ।. 'प्रत्यर्थिकीर्तिनि- जितकज्जलधवलं जपाकुसुमम्' इतिवेत् ॥ यथायथमैवान्तरप्रकारस्तु- 'एतत्वप्ने मया दृष्टं चित्रंन्यस्तं विलोक्यताम् । 'अरिष्टमेतत्संजातमिन्द्रजाल विभावय ॥' प्रबोधयति बालांश्च यथायोग्यं प्रपूरयेत् । सुवोधमिदम् । प्रकारान्तरं तु- देवर्षिवरशापाद्यैर्मणिमन्त्रौपधादिभिः ॥३॥ मनोरथेन तपसा पापात्पुण्यचयेन च । मायया शम्बरादीनां सर्व संभावयेत्कविः॥४॥ अंत्रादौ द्वन्द्वद्वयम् । तपस्तात्कालिकं पुण्यम् । श्रीपादस्तु- 'रागवात्सल्यशोकायुर्वियोगेन मदेन च । मतिभ्रमेण शौर्येण विपरीतकरः पुमान् ।' इत्याह ।। असाधारण्येनं तत्प्रकारस्तु कल्पाद्यन्ध्यणुसंसर्गप्रतिचक्षुष्यणुर्महान् । युगान्ततिमिदूरोचनिकटे महदप्यणु ॥ ५ ॥ हरेरधोमुखत्वेन विम्याच विपरीतता। दृक्पीडनात्तनुव्यहाद्भावनाविम्बतो बहु ॥६॥ तमोकीादिभिः काय शाक्लयं ज्योत्स्वादिकीर्तिभिः । लौहित्यं रक्तपित्तादिसंध्यारत्नाधरादिभिः ॥७॥ तिमिव॒द्धताप्रयुक्तचक्षुर्मान्धम् । इयं च 'शैलीयति पिपीलिका' इत्यादौ, १. 'यावककुसुमम्' ग. २. 'नास्ति' ख; 'यावत्' ग.३. 'भावा' ग. ४. 'चित्रं' ग. ५. ख-पुस्तके नास्ति. ६. 'तत्र द्वन्द्व' ग. ७. 'ण्येन तत्तत्प्रका' क..८. 'न्तमति' ख. 'न्तमिति'; घ; 'न्ते चातिदूरो' ख-ग. ९. "तिमिरं' ख-ग. - ६७ १९ मरीचिः] अलंकारशेखरः। 'मशकीयति कुञ्जरः' इत्यादौ । 'विपरीतोऽभवज्जनः' इत्यादौ । 'एकोऽपि स शतं नृपः' इत्यादौ । 'मषीयति जगत्रयम्' इत्यादौ । श्वेतद्वीपायते जगत्' इत्यादौ । 'पझरागायते जगत्' इत्यादौ क्रमेण बोध्यम् ।। कासांचित्समस्यानां नानाभुवनीयसंसर्गविषयत्वात्तत्प्रकाराः प्रदयन्ते- जगतः प्रलये भूभिद्यौर्गरुत्मत्सुधोद्धता । वलीष्ठौ हाटकेशीययात्रायां द्वौ रसातले ॥८॥ हाटकेशः पातालशंभुः । रसातल इति त्रितयान्वयिः । तथा- यौर्विम्वेन जलेशाधोब्धिमन्थे द्वयं भुवि । भुवीत्युभयान्वयि ॥ तथा- 'पातालं वा नरोक्षिप्तचन्दनद्रुमपन्नगैः । ध्वजप्रासादधूलीमिभूमिः खर्गमुपाययौ ।' अगस्त्याम्भोधिपानादिपौराणिककथाशितः ॥ ९ ॥ शिवादिदेवसंचारैः सादृश्यैः सर्ववर्णनम् । श्रीकृष्णस्योदरे सर्वसंसर्गः सार्वकालिकः ॥१०॥ पातालं भूमिश्च वर्ग ययावित्यर्थः । तथा- शिवादीति । यत्र शिवो याति तत्र तत्रान्तरीयकतया सर्पचन्द्रानलादी- नामपि गमनमावश्यकमित्यर्थः । सादृश्यैरिति । लक्षणया 'सूच्यग्रे पर्वत- द्वयम्' इत्यादौ । औचित्येन- संग्रामकुम्भिमुक्ताभिर्दिवा तारकितं नमः । इत्यादौ । राजशेखरस्तु- उत्पाटितैनभोनीतैः शैलैरामूलबन्धनात् । तांस्तानान्समालोक्य समस्यां पूरयेत्कविः ॥ ११ ॥ वृद्धास्तु- कः प्रत्येति प्रतीमो न द्राक्प्रत्येति प्रतीहि च । न हि नो तत्किमित्यायैरुक्तिमाश्रित्य पूरयेत् ॥ १२॥ १. 'वलेटौ' ख. 'वलीन्द्रौ' ग. २. 'हाटकेशाय' क. ३. तृतीया' ग. ४. शार्की खधि' ग.

: काव्यमाला। यथा- पराजितश्चेद्भगवाञ्जरासंधेन जन्तुना । प्रतीतिरद्य मे जाता मृगासिंहः पलायते ॥ मा संभावय शल्येन फाल्गुनस्य पराभवम् । कः प्रतीयात्कुरुश्रेष्ठ मृगात्सिंहः पलायते ॥ नहि गाण्डीवकोदण्डमृगासिंहः पलायते । तत्किं कमलपत्राक्ष मृगासिंहः पलायते ॥ सुबोधमखिलम् । तार्किकास्तु- शब्दादुच्छलिते सिन्धौ शैलाण्डादौ च दारिते । त्वत्प्रतापाद्वीभूते खाद्यण्डादितैजसे ॥ विरहे सर्वदहनः संतोषे सर्वमेव शशी । कामिनि सर्व काम्यं शान्ते लोष्ठायते विश्वम् ।। वैशेषिकेषु काव्येषु गणेषत्कृष्टमन्दयोः । अनपेक्षया च संसर्गे स्यातामुत्कृष्टमन्दते ।। वैशेषिकेषु रूपरसादिषु काव्येषु शौर्यौदार्यसौन्दर्यादिषु- शिशूनां गतयेऽस्माभिर्दिङ्मात्रमिह दर्शितम् । काव्यकान्तारपन्थानामीहश्यर्थे कियान्भ्रमः ।। अपरिकलितकाव्यसरणिमीश्वरं वशीकर्तुमनतिचिरमनुवसन्कविः । अव्ययैरजहल्लिङ्गः साधारणविशेषणैः । छन्दो ज्ञात्वा पृथग्वाक्यः खेबुद्ध्या मानसीं श्रयेत् ।। समस्यं पदवाक्यमिति सर्तव्यम् ॥ इति समस्यापूरणमरीचिः ॥ १९ ॥ इति महाराजाधिराजश्रीमन्माणिक्यचन्द्रकारितेऽलंकारशेखरे कविसामर्थ्यरत्नम् ॥ - . विंशो मरीचिः। रस आत्मेत्युक्तम् । तस्य यथा--आत्मानं विना शरीरमप्रयोजकं तथा रसं विना काव्यमित्यर्थः॥ १. 'निरहे' क. २. 'संवुद्ध्यामनसि' क. ३ 8 अलंकारशेखरः। ६९ २० मरीचिः] - - यदाह- 'साधुपाके विना खाद्य भोज्यं निर्लवणं यथा । तथैव नीरसं काव्यं स्यान्नो रसिकतुष्टये ॥ तत्र रसत्वमङ्गाङ्गीभावापन्नसकलविभावादि साक्षात्कारत्वम् । अङ्गा- ङ्गीत्यादि समूहालम्बनवारणाय । रसत्वमपि जातिरिति वयम् । केचित्तु- कारणेनाथ कार्येण सहकारिभिरेव च । व्यक्तत्वं नीयमानस्तु स्थायीभावो रसः स्मृतः ।। कारणमङ्गनानवयौवनादि ।- कार्याणि- स्तम्भः खेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमथुप्रलय इत्यष्टौ सात्त्विका मताः ॥ सहकारिण उद्यानादयः । व्यभिचारिणो ग्लान्यादयः । यदाहुः- विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आरोप्यमाण उत्कर्ष स्थायीभावो रसः स्मृतः ।। तमिदानी विभजते- शृङ्गारहास्थकरुणरौद्रवीरभयानकाः । वीभत्साद्भुतशान्ताख्याः काव्ये नव रसाः स्मृताः॥१॥ शृङ्गारत्वहास्यत्वादिकं च जातिविशेष एव । व्यक्तिप्रश्नस्तु सुख- ज्ञानात्मकरसवादिमतेन भवत्येवेति दिक् । तत्र शृङ्गारं विभजते- संभोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः । तत्र खीपुंसलक्षणेष्टप्राप्तौ रतिरेव संभोगः । तदुक्तम्- अनुरक्तौ निषेवेतां यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि संभोगोऽयमुदाहृतः ॥ तत्र नायिकाश्रयः संभोगो यथा- 'शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै- निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । ७ अलं० शे० " ७० काव्यमाला। विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ।' आलोक्य नम्रमुखीत्यन्वयः । नायिका चतुर्विधा- अनूढा च स्वकीया च परकीया पणाङ्गना। त्रिवर्गिणः स्वकीया स्यादन्याः केवलकामिनः ॥२॥ अनुरक्तानुरक्तेन स्वयं या खीकृता भवेत् । सानूढेति यथा राज्ञो दुष्यन्तस्य शकुन्तला ॥ ३ ॥ देवतागुरुसाक्ष्येण स्वीकृता स्वीयनायिका । परकीयाप्यनूढेव विशेषस्तु स्फुटस्तयोः ॥ ४ ॥ सामान्यवनिता वेश्या भवेत्कपटपण्डिता । न हि कश्चित्प्रियस्तस्या दातारं पुरुषं विना ॥५॥ अस्याः प्रकाशः, अन्यासां प्रच्छन्नो रमण इति विशेषः । ताश्चा- टधा। तदुक्तम्- खण्डितोत्कण्ठिता प्रोषित्पतिका चाभिसारिका । कलहान्तरिता वासकसज्जा विप्रलब्धिका । खाधीनभर्तृका चान्या चतस्रोऽप्यष्टधा मताः ।। नायकाश्रयो यथा- 'त्वं मुग्धाक्षि विनैव कञ्चलिकया धत्से मनोहारिणी लक्ष्मीमित्यभिधातरि प्रियतमे तद्वीटिकासंस्पृशि । शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥' रूपसौभाग्यसंपन्नः कुलीनः कुशलो युवा । अनुद्धतः सूनृतवाइनायकः प्रीतये स्त्रियाम् ।। ६ ॥ अयं बहुप्रकारोऽपि संक्षेपेण चतुर्विधः । अनुकूलो दक्षिणश्च शठधृष्टौ च ते यथा ॥ ७ ॥ १. 'पण्यङ्गना' क; 'वराङ्गना' ग; 'पराङ्गना' घ. - २० मरीचिः] अलंकारशेखरः। ७१ नीलीरागोऽनुकूल सादनन्यरमणीरतः । दक्षिणश्चान्यचित्तोऽपि यः स्यादविकृतः स्त्रियाम् ॥ ८॥ प्रियं वक्त्यप्रियं तस्याः कुर्वन्यो विकृतः शंठः। धृष्टो ज्ञातापराधोऽपि न विलक्षोऽवमानितः ॥९॥ विप्रलम्भस्तु- भावो यदा रतिर्नाम प्रकर्पमधिगच्छति । नाधिगच्छति चाभीष्टं विप्रलम्भः स उच्यते ॥१०॥ इत्यनेन लक्षितः । अत्राभीष्टं स्त्रीपुंसलक्षणमेव । स च पूर्वानुरागो मानात्मा प्रवासः करुणात्मकः । विप्रलम्भश्चतुर्धा स्यात्पूर्वपूर्वो ह्ययं गुरुः ॥ ११ ॥ तत्र स्त्रीपुंसयोर्नवालोकादेवोल्लसितरागयोः । ज्ञेयः पूर्वानुरागोऽयमलाभादतिकामयोः ॥ १२ ॥ यथा- 'प्रेमाः प्रणयस्पृशः परिचयादुद्दाढरागोदया- स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि । यस्यान्तःकरणस्य वाह्यकरणव्यापाररोधी क्षणा- दाशंसा परिकल्पिताखपि भवत्यानन्दसान्द्रोदयः ।। अथान्यवनितासक्तमवमत्य खवल्लभम् । ईयावशेन वैमुख्यमेप मान उदाहृतः॥१३॥ यथा-- 'सा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमानवलना वक्रोक्तिसंसूचनम् । अच्छेरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ।।' प्रवास: परदेशस्थे द्वितीये विरहोद्भवः । • .

७२ काव्यमाला। यथा- 'त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया- मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्तावन्मुहुरुपचितैदृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥' इत्यादौ । स्थादेकतरपञ्चत्वे दम्पत्योरनुरक्तयोः। शृङ्गारः करुणाख्योऽयमजस्य हि रतेरिव ॥ १४ ॥ ननु शृङ्गारस्य रतिप्रकृतित्वात्तस्याश्च सुखसंवेदनरूपत्वात्तस्य च विप्रलम्भेऽसंभवात्स कथं शृङ्गारभेद इति चेन्न । 'धन्योऽहमस्याः कृते दशामिमामनुभवामि' इति तत्रापि तदभिमानात् । कचित्संभोगपोषकत्वेन स्पृहणीयत्वाञ्चेति विस्तृतं मयैव काव्यरते । श्रीपादस्तु- रतिर्भवति देवादौ मुनौ पुत्रे नृपे गुरौ । शृङ्गारस्तु भवेत्सैव या कान्ता विषया रतिः॥ १५ ॥ तत्र देवे यथा- "कण्ठकोणविनिविष्टमीश ते कालकूटमपि ते महामृतम् । अप्युपात्तममृतं भवद्वपुर्मेदवृत्ति यदि मे न रोचते ।।' १ मुनौ यथा- 'हरत्यधं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ।। पुने यथा- 'एहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्ध्नि सुचिरं च परिष्वजे त्वाम् । आरोप्य वा हृदि दिवानिशमुद्हामि वन्देऽथवा चरणपुष्करकद्वयं ते ॥' १. 'रोचते न मे' ख. 'येन रोचते' ग.

अलंकारशेखरः । २० मरीचिः] ७३ नृपे यथा 'ते कोपीनधनास्त एव सुचिरं धात्रीफलं भुञ्जते तेषां द्वारि नदन्ति वाजिनिवहास्तैरेव लब्धा स्थितिः । तैरेतत्समलंकृतं निजकुलं किं वा बहु महे ये दृष्टाः परमेश्वरेण भवता तुटेन रुप्टेन वा ॥ गुरौ यथा- 'हा तात विश्वजनवत्सल मामकीन- जीवौषध द्युमणिवंशवतंसभूत । स्यां चेद्भवत्कुलजसद्मनि चेटकः स्यां यद्वा भवञ्चरणपङ्कजरेणुरेव ॥ हासमूलः समाख्यातो हास्यनामा रसो बुधैः। चेष्टाङ्गवेपवैकृत्याद्वाच्यो हासस्य चोद्भवः ॥ १६ ॥ कपोलाक्षि कृतोल्लासो भिन्नोऽष्टः स महात्मनाम् । विदीर्णास्यश्च मध्यानामधमानां स शब्दकः॥१७॥ यथा- 'नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः । तच तत्रैव रमते हताः पाणिनिना वयम् ॥" शोकोत्थः करुणो ज्ञेयस्तत्र भूपातरोदने । वैवर्ण्यमोहनिर्वेदप्रलापाश्रूणि वर्णयेत् ॥ १८ ॥ यथा- 'मदेकपुत्रा जननी जरातुरा नवप्रसूतिवरटा तपस्विनी । गतिस्तयोरेप जनस्तमर्दयन्नहो विधे त्वां करुणा रुणद्धि न ।' क्रोधात्मको भवेद्रौद्रः क्रोधः प्रौढ्या च वैरिणः । भीष्मवृत्तिरसामान्यो भवेद्यक्रियाश्रयः ॥ १९॥ खांशघातः वशंसास्त्रोत्क्षेपभ्रकुटयस्तथा । अत्रारातिजनाक्षेपो दलनं चोपवर्ण्यते ॥ २० ॥ १. 'स्वयं शस्त्रो' ग.

काव्यमाला। यथा- 'कृतमनुमतं दृष्टं वा यैरिद गुरु पातकं मनुजपशुभिर्निमर्यादैर्भवद्भिरुदायुधैः । नरकरिपुणा सार्धं तेषां समं स किरीटिना- मयमहमसृनेदोमांसैः करोमि दिशां वलीन् ।' उत्साहात्मा भवेद्वीरो बलशस्त्राश्रयश्च सः। नायकोऽत्र भवेत्सर्वैः श्लाघ्यैरधिगतोगुणैः ॥ २१ ॥ यथा- 'क्षुद्राः संत्रासमेते विहित हरयो भिन्नशक्रेभकुम्भा युप्मद्गात्रेषु लज्जां दधति परममी सायका निष्पतन्तः । सौमित्रे तिष्ठ पात्रं त्वमसि नहि रुषां नन्वहं मेघनादः किंचिद्भूभङ्गलीलानियमितजलधिं राममन्वेषयामि ॥' भयानको भवेद्भीतिप्रकृति?रवस्तुनः । स च प्रायेण वनितानीचवालेषु दृश्यते ॥ २२ ॥ दिगालोकास्य शोषाङ्गकम्पा गद्गदसंभ्रमाः। स्तम्भवैवर्ण्यमोहाश्च वर्ण्यन्ते विबुधैरिह ॥ २३ ॥ यथा- 'ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । शप्पैरर्धावलीद्वैः श्रमविवृतमुख,शिभिः कीर्णवर्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्त्या प्रयाति ॥' बीभत्सः स्याजुगुप्सातः सौहृयश्रवणेक्षणात् । निष्ठीवनास्यभङ्गादि सादत्र महतां न च ॥ २४ ॥ यथा- 'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसा- न्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रगन्धीनि जग्ध्वा । १. 'विजहत' ग. 14 .

२० मरीचिः] अलंकारशेखरः। ७५ . आतः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करका- दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥' विसयात्माद्भुतो शेयो स चासंभाव्यवस्तुनः । दर्शनाच्छ्रवणाद्वापि प्राणिनामुपजायते ॥ २५ ॥ तत्र नेत्रविकारः स्यात्पुलकः खेद एव वा। निस्पन्दनेत्रता साधु साधुवादा तथा च गीः ॥ २६ ॥ यथा- 'चित्रं कनकलतायां शरदिन्दुस्तत्र खञ्जनद्वितयम् । तत्र च मनोजधनुषी तदुपरि गाढान्धकाराणि ॥' सम्यग्ज्ञानसमुत्थानः शान्तो निःस्पृहनायकः । रागद्वेषपरित्यागे सम्यग्ज्ञानस्य चोद्भवः ॥ २७ ॥ पश्चात्तापः शरीरादि यावद्वस्तु विडम्बनम् । विवेकचित्तस्थैर्यादि योगाद्यास्तस्य लक्षणम् ॥ २८ ॥ यथा- 'अहो वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्ठे वा बलवति रिपौ वा सुहृदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः कचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ स्त्रैणं स्त्रीसमूहः । अत्र अहिरिव हारो हेयो, न तु हारवदहिरप्युपादेय इति बोध्यम् । इह सर्वत्र तत्तद्रसत्वमात्र उदाहरणमिति स्मर्तव्यम् । इदानीं रसानामविरोधविरोधावाह- शृङ्गारहास्यौ करुणवीभत्सौ वीररौद्रको । भयानकाद्भुतौ मित्रे मिथः शान्तो न कस्यचित् ॥ २९ ॥ शान्ते करुणवीमत्सौ न. कश्चिद्वेष्टि शृङ्गारशान्तकरुणौ हासस्य करुणो रिपुः ॥३०॥ चाद्भुतः। १. 'साधुवादस्तथा मतः'ग. 'साधुवादास्तथा मताः' घ.

७६ ६ काव्यमाला। अत्र करुणवीभत्सयोमैत्री विशेषाभिप्रायेणेति स्मर्तव्यम् ।। स्थायीभावो रस इत्युक्तमतरतानाह- रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विसयो भावा निर्वेदः स्थायिनो नव ॥३१॥ स्थायिनो भावा नवेत्यन्वयः । ननु निर्वेदस्य कथं शान्तरसस्थायिता व्यभिचारित्वादिति चेत्, न । अधिकरणभेदेनोभयाविरोधादित्यन्यत्र विस्तरः । स्थायिलक्षणं तु विरुद्धैरविरुदैर्वा भावविच्छिद्यते न यः। आत्मभावं नयत्यन्यान्स्थायीभावः स उच्यते ॥ ३२॥ विरुद्धैर्जुगुप्सादिभिरविरुद्धै रत्यादिभिर्यो न विच्छिद्यते । विशेषल- क्षणं तु–'मनोऽनुकूलविषयं सुखात्मकसंवेदनं रतिः । अङ्गक्रीडादिभि- श्वेतोविकारो हासः । इष्टनाशादिजनितचित्तवैक्लव्यं शोकः । प्रति- कूलतैक्षण्यस्य प्ररोहः क्रोधः । कार्यारम्भे संरम्भः स्थिर उत्साहः । व्या- प्रादिदर्शनादिजनितचित्तवैक्लव्यं भयम् । दोषदर्शनात्पदार्थेषु गर्हणं जु- गुप्सा । लोकसीमातिक्रान्तपदार्थविषयश्चित्तविकारी विस्मयः । तत्त्वज्ञा- नादादिभिः खावमाननं निर्वेदः । एते च सर्वभावेषु मुख्याः । यदाह- यथा नराणां नृपतिः शिष्याणां च यथा गुरुः । तथा सर्वेषु भावेषु स्थायीभावः स्मृतो महान् ।। विभावो द्विविधः-'उद्दीपन आलम्बनश्च । तत्र कोकिलवसन्तादि- रुद्दीपनः । नायिकादिरालम्बनः । योगात् । अस्माकं मते रतित्वादिकमनु- भावत्वादिकं च जातिरेव । नहि वैशेषिकादिवदस्मत्प्रक्रियेति । अनुभावल- क्षणं तु- अनुभावो विकारस्तु भावसंसूचनात्मकः। तत्र- हेलाविच्छित्तिविब्बोककिलकिञ्चितविभ्रमाः। लीला विलासो हावश्च विक्षेपो विकृतं मदः ॥ ३३ ॥ १. 'विषयाभिप्रायेण स्मर्तव्या' ख. 'विशेषाभिप्रायेण सर्तव्यम्' ग.

७७
1
२० मरीचिः]
अलंकारशेखरः।
मोडायितं कुट्टिमितं मौग्ध्यं च तपनं तथा ।
ललितं चेत्यमी हावाश्चेष्टाः शृङ्गारभावजाः ॥३४॥
एतच्चास्माभिः प्रपञ्चितमन्यत्र । सात्विकलक्षणं तु.
रजस्तमोभ्यामस्पृष्टं मनः सत्वमिहोच्यते ।
निवृत्तयेऽस्य तत्यागात्प्रभवन्तीति सात्विकाः ॥ ३५॥
अस्य रसस्य । व्यभिचारिलक्षणं तु-
विशेषेणाभितः काये स्थायिनं भावयन्ति ये ।
अनुभावादिहेतूंस्तान्वदन्ति व्यभिचारिणः ॥३६ ॥
आदिपदावेदादिपरिग्रहः । ते च-
निर्वेदग्लानिशङ्काख्यास्तथासूयामदभ्रमाः ।
आलसं चैव दैन्यं च चिन्ता मोहः स्मृतितिः ॥३७॥
ब्रीडा चपलता हर्ष आवेशो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापसार एव च ॥ ३८ ॥
सुप्तं विरोधोऽमर्षश्चाप्यवहित्थमथोग्रता ।
मतिाधिस्तथोन्मादस्तथा मरणमेव च ।
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ॥ ३९ ॥
अमी च प्रत्येकमेव श्लाघ्यन्ते । क्वचिच्छबलतापि । यथा-वाकार्य
शशलक्ष्मणः' इत्यादौ । अत्र 'काकार्यम्' इति वितर्कः । 'भूयोऽपि दृश्येत'
इत्यौत्सुक्यम् । 'दोषाणाम्' इति मतिः । 'कोपेऽपि' इति स्मृतिः । 'किं
वक्ष्यति' इति शङ्का । 'खप्नेऽपि सा दुर्लभा' इति दैन्यम् । 'चेतः खास्थ्य-
मुपैहि' इति धृतिः ।.'कः खलु' इत्यादि चिन्ता ॥
इत्यलंकारशेखरे विश्रामरत्न रसमरीचिः ॥ २० ॥
एकविंशो मरीचिः।
'परे रसदोषा भावानुकूलवर्णादयः काव्यशरीरे मनः' इत्युक्तम् । अतो
रसदोषानिदानीमाह-
खखशब्दैरुपादानं भावस्य च रसस्य च ।
कष्टप्रकल्पनीयखमनुभाव विभावयोः ॥१॥

काव्यमाला। प्रक्रान्तरसबैरिवं तेषां व्यक्तिविपर्ययः। अनौचिती च सर्वत्र रसे दोषाः स्युरीदृशाः॥२॥ सामान्यतो विशेषतो वा स्वखवाचकशब्दप्रतिपादितानां निर्वेदादीनां रत्यादीनां वा रसाननुगुणत्वमिति सकलानुभवसिद्धम् । तत्र व्यभिचारिणः स्वशब्दोपादानम् ॥ यथा- 'सब्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेा जकुसुतावलोकनविधौ दीना कपालोदरे पार्वत्यानवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥' सब्रीडा प्रतिनयननिपातात् । अत्र व्रीडादीनां खखभावप्रतिपादितानां चमत्कारजनकत्वस्य सहृदयसाक्षिकतया तदभावादेव रसभङ्ग इत्युचितम् । एतदेवं प्रत्युदाहरणेन प्रतिपादयन्ति- 'व्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे सोत्कम्पा भुजगे निमेषरहिता चन्द्रेऽमृतस्यन्दिनि । मीलः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥' स्थायिनो यथा- 'संग्रहारे प्रहरणैः प्रहाराणां परस्परम् । झणत्कारैः श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ।।' संप्रहारः संग्रामः । अत्रोत्साहस्य । रसस्य रसशब्दप्रतिपादितस्य रसाजनकत्वम् ॥ यथा- 'वामनङ्गंजयमङ्गलश्रियं किंचिदुच्चभुजमूलशोभिनी । नेत्रयोः कृतवतोऽस्य गोचरे कोऽप्यजायत रसो निरन्तरः ॥' १. 'प्रकृते' ग.

अलंकारशेखरः। २१ मरीचिः] ७९ । शृङ्गारादिपदप्रतिपादितस्य यथा- 'आलोक्य कोमलकपोलतलाभिषिक्त- व्यक्तानुरागसुभगामभिराममूर्तिम् । पश्यैष बाल्यमतिवर्त्य विवर्तमानः शृङ्गारसीमनि तरङ्गितमातनोति ॥' अनुभावंस्य कष्टप्रकल्पनीयत्वं यथा- 'कर्पूरपूरधवलद्युतिपूरधौत- दिङमण्डले शिशिररोचिषि यस्य यूनः । लीलाशिरोंशुकनिवेशविशेषकप्ति- व्यक्तस्तनोन्नतिरभून्नयनावनौ सा ॥' अत्र चन्द्रादय उद्दीपनालम्बनविभावाः शृङ्गारयोग्या अनुभावामतीत्या आखादनापर्यवसायिनः स्थिताः । यद्यप्यंशुकनिवेशोऽनुभावत्वंयोग्यस्तथापि तस्य स्तनव्यक्तिप्रयोजकत्वेनोपादानात्तस्य तदनुभावकत्वपर्यवसानम् । यद्वा पुंसि निष्ठ एवात्र शृङ्गारः प्रतिपिपादयिषितः, 'अभून्नयनावनौ सा' इत्यनेन तस्यैवालम्बनत्वप्रतिपादनात् । न च पुंसि कश्चिदनुभाव उपात्तः, न च विभावैरप्याक्षेपार्ह इति कष्टेन प्रकल्पनीयः ।। , विभावस्य यथा- 'परिहरति रतिं मतिं लुनीते स्खलतितरां परिवर्तते च भूयः । इति बत विषमा दशास्यदेहं परिभवति प्रसभं किमत्र कुर्मः ॥' इत्यनेन प्रकारेणास्य दशा देहं परिभवतीत्यन्वयः । अत्र रतिपरिहा- रादीनामनुभावानां करुणादावपि संभवेन कामिनीरूपो विभावो यत्नप्रति- पाद्यः प्रकरणादिसव्यपेक्षत्वात् ।। पंकृतरसविरोधिविषयको विभावादिः। तत्र विभावव्यभिचारिणोख्दाहरणम्- 'प्रसादे वर्तवःप्रकटय मुदं संत्यज रुषं : प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः ।

काव्यमाला । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥' अत्र शृङ्गारे प्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावः । तत्प्रकाशितो निर्वेदश्च व्यभिचार्ययुक्तः, शान्ते निर्वेदस्य स्थायित्वात् । व्यक्तिविपर्यय इति । ययक्तौ यद्वर्णनमनुचितं तत्र तद्वर्णनम् । व्य- क्तयो दिव्या अदिव्या दिव्यादिव्याश्च तत्र दिव्यत्वममयेकरूपता । यथा-शिवादिशेषादेः । अदिव्यत्वम् मत्र्यैकरूपता । यथा-मालतीमाध- वादेः । दिव्यादिव्यत्वमुभयरूपत्वम् । यथा-श्रीकृष्णादेः । त्रिविधा अ- प्येते चतुर्धा भवन्ति । वीररौद्रशृङ्गारशान्तरसप्रधानाः । धीरोदात्तधीरो- द्धतधीरललितधीरशान्ताः । यथा-राममार्गवकृष्णजीमूतवाहनाः । एते चोत्तममध्यमाधमभेदाद्वहंवो भवन्ति । तत्र वःपातालगमनसमुद्राघुल्लङ्घ नपर्वतस्फोटनाधुत्साहो दिव्येष्वेव वर्णनीयः । अदिव्येषु तु यावदेव लो- कप्रसिद्धमुचितं तावदेव वर्णनीयम् ।। अनौचिती च महाव्रसदोषः । स च भवानीशंकरादीनां पित्रोर्वा केलिवर्णनम् । अत्युक्ति नभःसाम्यं स्तनादौ स्यादनौचिती ॥ इत्यनेनोक्तास्ति । यद्यपि कुमारसंभवे कालिदासेन वर्णितमस्ति तथा- प्यर्वाचीनेन न कर्तव्यम् । न हि गजानामुदर्य तेजो वटकाष्ठमशितं पच- तीत्यस्मदादीनामुदर्येण तेजसा तथा भवितव्यमिति न्यायात् । तस्यापि दो- पत्वाद्वा दोपान्तरवदिति ॥ दोष व्यक्तिविवेकेषु कविलोकविलोचने । काव्यमीमांसिषु प्राप्तं महिमा महिमादृतः ॥३॥ . १. 'इत्यनेनास्ति वर्णनम्' ग. २. 'तस्यापि दोषानाह-' ख. 'तस्यापि दोषत्वाद्वा दोषान्वक्तुं वदन्ति' ग. ३. 'दोषवदिति' क. ४. 'तेषां व्यक्ति' ख. 'दोषो' ग. ५. 'के खं' क. ६. 'मीमांसकप्राप्तमहिमा' ग. ७. 'महिमाह महाकविः' ख.

२२ मरीचिः] अलंकारशेखरः। यदाह महिमा- अनौचित्याहते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यमूला हि रसस्योपनिषत्परा ॥ ईदृशा इत्यनेनान्येऽप्यनौचित्यहेतवो दोषा भवन्तीति सूचितम् । यथा-नायिकाया मानादिना चरणप्रहारादिना वा नायकस्यात्यन्तिक- कोपवर्णनम् । व्यक्तिविपर्ययानौचित्ययोरवान्तरभेदविवक्षयेदं भेदकथनम् । अमीषां च कचिददोषतापि । यत्र न रसहानिर्भवति तत्र सहृदयैरेव प. यालोचनीयमिति ग्रन्थगौरवमयान्नेह तन्यत इति ॥ इत्यलंकारशेखरे विश्रामरत्ने रसदोषमरीचिः॥ २१ ॥ - द्वाविंशो मरीचिः। इदानीमनुकूलान्वर्णानाह- उद्दामा वीररौद्रादौ छन्दोरीत्यक्षरादयः। हृद्याः शृङ्गारहास्यादौ परयोर्मध्यमा गतिः॥१॥ रौद्रादावित्यादिपदेन भयानकस्य । हास्यादाविति करुणस्य परिग्रहः । परयो भत्साद्भुतयोः । शान्तस्य नियमो नास्तीति हृदयम् । उद्दामं छन्दः दण्डकस्रग्धरादि । रीतिौडी । अक्षरेषु श्रीपादः- उद्दामाः सन्तरालेन सजातीयेनरेण च । योगाष्टाद्याश्च चत्वारः शषौ विकटगुम्फना ॥ हृद्ये उपेन्द्रादिच्छन्दः । रीतिवैदर्भी । अक्षरेषु पुनः स एव । रणौ च लध्वन्तरितौ नैश्चोपर्यनुनासिकः । असमासोऽथ सोऽल्पो वा हृद्यं स्यात्संधिसौष्ठवम् ।। यथा- 'अनारङ्गप्रतिवं यदङ्गं भङ्गीभिरङ्गीकृतमानताङ्गया । कुर्वन्ति यूनां हृदयं यथैताः खान्तानि शान्तापरचिन्तनानि ।' १. 'प्रसिद्ध्यौ' ग. २. 'सजातीयेतरेण' ग; 'सजातीयरणेन च' ख घ. ३. यो- गाद्याश्चैव' ग. ४. 'चाष्टौ' ख; 'शेषा' ग. ५. 'हसौ' ख; 'नौ' ग; 'हशौ' घ. ६. 'ण' का 'नश्च पर्य' ख. ७. 'तदङ्ग इति काव्यप्र०. 'यदङ्गभङ्गी' ग. ८ अलं. शे० ૮૨ काव्यमाला। - अथ वैपरीत्यं दोषायेति मनसिकृत्य क्वचिददोषतामाह वक्तृवाच्यप्रवन्धानामौचित्येन कचित्त्वचित् । रचनावृत्तिवर्णानामन्यथालमपीप्यते ॥ २ ॥ यथा- 'मन्थायस्तार्णवाम्भःलुतकुहरचलन्मन्दरध्वानधीरः कोणाघातेषु गर्जप्रलयधनघटान्योन्यसंघट्टचण्डः । कृष्णाकोधाग्रदूतः कुरुशतनिधनोत्पातनिर्घातवातः केनास्मसिंहनादप्रतिरसितसंखो दुन्दुभिस्ताडितोऽयम् ॥' अत्र हि न वाच्यमुद्दामं प्रश्नत्वात् । प्रबन्धश्चाभिनेयत्वान्न तथा । किं तु वक्ता भीमसेन इति तदौचित्यांदुद्दामा रचनादयः ॥ क्वचिद्वाच्यौ- चित्या। यथा- - 'शङ्कुव्याकीर्णरकुद्रुतनिशितशरक्षुण्णदीव्यत्तरक्षु ज्याघोषक्षुब्धकण्ठीरववरचकितव्यस्तमातङ्गयूथम् । खगव्यालूनखड्गं तुमुलकलकलं प्रान्तकूजच्छकुन्तं भल्लाध्वस्ताच्छभल्लं वनभुवि मृगयाकर्म तेन प्रतेने ।' अत्र हि वाच्यस्य सर्वप्राणिविप्लवात्मकमृगयाया एव तथात्वात्तथा । क्वचिप्रबन्धौचित्यस्य यथा-कादम्बर्यादौ शृङ्गारेऽपि न मसृणवर्णा इति दिक् । सर्वसाधारणं दोषमाह- गृहीतमुक्तको नेटो हरचानां विशेषतः । मात्राभेदोऽप्यतः श्लाघ्यः पैदे खेष शुभावहः ॥३॥ एकस्य पदस्य शेषे यो वर्णः सोऽपरस्याये न दीयते । यथा-नाककला। हकाररेफचकाराणां तु सुतराम् । १. 'क्रोधाग्निदूतः' क. २. 'मुखो' ग. ३. 'न शेषता' ग. ४, 'पदोऽप्येष' ग; 'पदे चैष' घ.

. अलंकारशेखरः। ८३ २२ मरीचिः] यथा- 'प्रवाहहरिता दूर्वा विहाररसितं तथा । स्फुरत्काचचया भूमिभूयः पुण्यैरवाप्यते ॥' मात्राभेदे तु . स्वल्पों दोषः । यथा-नाककादम्बिनी । पदे त्वेष न दोषः, किंतु गुणः । यथा-'वन्दामहे महेशानम्' इत्यादौ ॥ .. अन्यदप्याह- रणयोश्च चवर्णस्य शैथिल्यायैव भूरिता । रेफणकारचकाराणां भूयस्त्वं शैथिल्यहेतुतया रसहानिकरमित्यर्थः । संधौ वर्णदोषमाह- शरहास्तादतिहृद्ये नमशरहाः काट्टकाराच । चछतथशरा नकारादधरा दोषाय भूयसां योगः ॥ ४ ॥ तात्तकारात् । कात्ककारात् । टाट्टकारात । अधरा अधोवर्तिनः । अतिहृद्ययोः शृङ्गारहास्ययो रसयोर्दोषाय भवन्ति । शब्ददोषकष्टस्यान्वय- बोधविरोधिता, अस्य तु तस्मिन्नपि . रसहानिरिति विशेषः । अनैकान्ति- कबांधयोरिवानुमितौ । एतद्भिन्ने तु तदिति रहस्यम् । भूयसां वर्णानां योगः कारादिपदे ॥ श्रुतमेवान्यथाकारमक्षराणि कियन्त्यपि । काव्यालंकारविद्यायां शौद्धोदनिरसूत्रयत् ।। उपक्रमो दोषगुणावलंकारोऽथ वर्णकः । संप्रदायः कवेस्तस्य सामर्थ्यमथ विश्रमः ।। अष्टौ रत्नानि दीप्तानि सन्त्यलंकारशेखरे । चत्वारः स्युरलंकारे संप्रदाये मरीचयः । सामर्थ्य द्वौ परमिंस्तु पञ्चके स्युस्त्रयस्त्रयः ।। मामकीनां कृतिमिमां द्विषन्तो दूषयन्ति ये । काव्यवाता न जानन्ति ते नूनं पांसुलाः सुताः ॥ १. 'स्फूर्जकाच' ग. २. 'रसहा' ग.

८४ काव्यमाला। आस्ते यद्यपि पूर्वपण्डितकृतव्याख्यैव संख्यावता- मानन्दाय तथापि केशवकवेळचामियं गुम्फना। संख्यासौष्ठवशब्दलाघवमिथःसंवन्धपूर्वापर- प्रत्यर्थिप्रतिबन्धनिर्मलगुणः कुत्रान्यतो लभ्यताम् ।। तर्कप्रौढमतिः प्रशस्तकवितावल्लीवसन्तोत्सवः कोषव्याकरणप्रपञ्चचतुरोऽलंकारपारंगमः । श्रीमत्केशवमिश्रमद्भुतगुणावासं नियुज्य खयं चक्रे शक्रसमः प्रबन्धमनघं माणिक्यचन्द्रो नृपः ।। इति श्रीमन्महाराजश्रीमाणिक्यचन्द्रकारिते केशवमिश्रकृतेऽलंकारशेखरे विश्रामरत्नमष्टमम् ॥ समाप्तश्चायं ग्रन्थः।

No text on this page.

विक्रेयसंस्कृतपुस्तकानि . ब्रह्मसूत्रशाङ्करभाष्यम्। भामती-कल्पतरु-परिमलव्याख्यासहितम् ब्रह्मखरूपमात्रप्रकाशनार्थ प्रवृत्तत्वाद्यथार्थाभिधानानि ब्रह्मसूत्राणि खरसतः पर्यालोच्यमानान्यद्वैतमेवावगमयन्ति । तत्परं चेदं शाङ्करभाध्यं प्रसन्नगम्भीर नेतरैाख्यानैस्तथा चकास्ते यथा भामत्या । यस्यां हि व्याख्या कल्पतरु- रमलानन्दसंरखतीकृतिरतितरामानन्दमलं प्रेक्षकाणामादधाति । तद्विवरण च परिमलाभिधानं कल्पतरोः कल्पतरुभावमादधानं सर्वतन्त्रखतन्त्रादिविरु- दाङ्किताप्पय्यदीक्षितेन प्रणीतं शब्दन्यायमीमांसादिशास्त्रप्रक्रियांप्रचुर विदुषाम: त्यन्तमानन्दमावहतीत्यवचन सिद्धमिदम् । तेषामेषामेकत्र समावेशेन सहृदय- हृदयालादकरीमिमां पञ्चग्रन्थीमद्य प्रकाशयामः । सूल्यं १० रु., मार्ग. १॥ रु. . वेदस्तुतिः । (श्रीमद्भागवतदशमगता लोके व्यवायेतिश्लोकः, जन्मावस्येतिश्लोकश्च । काशीनाथोपाध्यायकृतव्याख्योपबृंहितश्रीधरीव्याख्या । श्रीमद्भागवते वेदस्तुत्यादयो निर्दिष्टा विषया अखिलवेद्या गभीरार्थाश्चेति न तिरोहितं विदुषाम् । मूलविषयगाम्भीर्याच्छ्रीधरीव्याख्यापि दुरूहैवासीदिति परमकारुणिकैर्धर्माधिकारैः काशीनाथोपाध्यायैः प्रणीतया श्रीधरीप्रकाशव्या- ख्यया सह मुद्रितास्ति । मूल्यं १२ आणकाः, मार्ग. ४ आणकाः. पातञ्जलयोगसूत्रम् । भावागणेशवृत्ति-नागोजीभट्टीयत्तिसहितम् । योगशास्त्रस्यातिखल्पः प्रकरणग्रन्थोऽयम् । अस्य १ समाधिपादः, २ साध. नपादः, ३ विभूतिपादः, ४ कैवल्यपादश्चेति चत्वारि प्रकरणानि खनामभिरेव प्रतिपाद्यविषयमाविष्कुर्वन्ति । निर्दिष्टव्याख्याद्वयमप्यर्थस्पष्टीकरणायातिसुलभ- मस्ति । मूल्यं १२ आ., मार्गः ४ आणकाः. पाण्डुरङ्ग जावजी, निर्णयसागरमुद्रणालयाधिपतिः. .

काव्यमाला ५२.
श्रीकृष्णकविरचिता
मन्दारमरन्दचम्पूः
माधुर्यरञ्जनीव्याख्यया समेता।
मूल्यं सार्थोप्यका।
3-00

No text on this page.

KAVYAMÂLÂ. 52.
THE
MANDARAMARANDA-CHAMPŮ
OF
SRIKRISHNA KAVI.
With a commentary.
EDITED BY
PANDIT KEDARNATHA,
AND
WASUDEV LAXMAN SASTRI PANSIKAR.
Second Edition.
PUBLISHED
BY
PÂNDURANG JAWAJI,
PROPRIETOR OF THE “NIRNAYA-SAGAR" PRESS,
Bombay.
1924.
Price B dorpee.
3-00

[ All rights reserved by the publisher. ]
Printed by Ramchandra Yesu Shedge at the 'Nirnay-sagar: Press,
23 Kolbhat Lane, Bombay.
Published by Pandurang Jawaji al the Nirnay-gagar' Press,
23 Kolbbat Lane, Bombay.

काव्यमाला ५२. श्रीकृष्णकविरचिता मन्दारमरन्दचम्पूः। माधुर्यरञ्जनीव्याख्यया समेता। यपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसादतनय- पण्डितकेदारनाथशर्मणा संपादिता, मुम्बापुरवासि- पणशीकरोपाह्वविद्वद्वरलक्ष्मणशर्मतनुजनुपा वासुदेवशर्मणा संशोधिता। (द्वितीयावृत्तिः) साच पाण्डुरङ्ग जावजी इत्यनेन मुम्बय्यां स्वीये निर्णयसागराख्ययन्त्रालये मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीता। शाकः १८४६, ख्रिस्ताव्दः १९२४.. मूल्यं साधों - सियिकः। 3-00

No text on this page.

मन्दारमरन्दचम्पूस्थविषयाणां सूचीपत्रम् । ... . विषयाः। पृष्ठे । विषयाः। पृष्ठे । विषयाः। पृष्ठे। पृथ्वीवृत्तलक्षणम् प्रथमविन्दुः। १७ १६ मत्तालक्षणम् १६ ललनावृत्तलक्षणम् १७ शार्दूलविक्रीडितलक्षणम् ५ पणववृत्तलक्षणम् .. १६ ललितावृत्तलक्षणम् १७ वसन्ततिलकालक्षणम् ६ आन्दोलिकावृत्तल वंशस्थलक्षणम् ७ मयूरसारिणीवृत्तल. १६ प्रभावृत्तलक्षणम् . वातोर्मीलक्षणम् .. ७ मनोरमावृत्तल. १६ प्रहर्षिणीवृत्तलक्षणम् १७ इन्द्रवज्रालक्षणम्... ७ कुलटावृत्तलक्षणम् १६ मत्तमयूरवृत्तलक्षणम् १७ उपेन्द्रवज्रालक्षणम् १७ ८ सुमुखीवृत्तलक्षणम् १६ मञ्जुभापिणीवृत्तल उपजातिलक्षणम्... ८ दोधकवृत्तलक्षणम् १६ | उर्वसीवृत्तलक्षणम्... १७ शालिनीवृत्तलक्षणम् ८ श्रीवृत्तलक्षणम् १६ क्षमावृत्तलक्षणम् .. मत्तांवृत्तलक्षणम् . ९ नन्दिनीवृत्तल. १६ अतिरुचिरावृत्तल० १७ भामिनीवृत्तलक्षणम् ९ भ्रमरविलसितवृत्तल० १६ चञ्चरीकावलीवृत्तल० १७ राजहंसीवृत्तलक्षणम् ९ मौक्तिकमालावृत्तल० १६ | चन्द्रिकावृत्तलक्षणम् १७ चम्पकमालावृत्तल० १० रथोद्धतावृत्तलक्षणम् १६ रतिवृत्तलक्षणम् १७ स्निग्धावृत्तलक्षणम् १० भद्रिकावृत्तलक्षणम् १७ मोहप्रलापवृत्तल० १८ विद्युन्मालावृत्तल० १९ इन्द्रवर्त्मवृत्तलक्षणम् १७ कलहंसीवृत्तलक्षणम् १८ माणवकवृत्तल ११ इन्द्रवंशावृत्तलक्षणम् १७ पथ्यावृत्तलक्षणम् ... १८ प्रमाणिकावृत्तल. ११ तोटकवृत्तलक्षणम् १७ असंवन्धावृत्तलक्षणम् १८ समानिकालक्षणम् १२ प्रमिताक्षरावृत्तलक्षणम् १७ अपराजितावृत्तल १८ द्रुतविलम्बितवृत्तल० १२ वैश्वदेवीलक्षणम् .. १७ प्रहरणकालिकावृत्तल. १८ हंसीवृत्तलक्षणम् ... १३ कुसुमविचित्रालक्षणम् १७ इन्दुवदना १८ कलगीतवृत्तल १३ स्रग्विणीवृत्तल० कमलावृत्तल १३ प्रियंवदालक्षणम्... १७ मणिगुणनिकरः १८ मरालिकावृत्तलक्षणम् १४ मालिनीवृत्तलक्षणम् १७/चामरम् श्येनिकावृत्तल. १४) तामरसवृत्तलक्षणम् १७ प्रभद्रकम्. १८ रञ्जितावृत्तलक्षणम् १४ स्फुटाख्यवृत्तल. १७ | रुचिः १८ माणिक्यमालावृत्तल० १४ जलोद्धतगतिल. १७ | रेखावृत्तम् १८ खागतावृत्तलक्षणम् १५ प्रमुदितवदनालक्षणम् १७ चन्द्रसेना १८ भुजङ्गप्रयातलक्षणम् १५. वनमालिनीवृत्तल० १७ मन्दाकिनी मालिनीवृत्तल० १५. मणिमालावृत्तलक्षणम् १७ । प्रमदा १७ | अलोला १८ ... १८ २ विषयाः। विषयाः। पृछे । १९ आपीडः... २० लवली २२ २२ . विषयाः। सुललिता.. पञ्चचामरः गजविलसितम् वाणिनी मन्दाक्रान्ता शिखरिणी हरिणी नर्कुटकम्... वंशपत्रपतितम् घनमयूरम् कुसुमितलता शुभम् हरनर्तनम् निशा मल्लिका विलासवृत्तल. मेघविस्फूर्जिता ... वरूथिनी... सरलम् मत्तेभविक्रीडितम् मदकलिनी कनकलता उत्पलमालिका सुवदना मालवम् वेश्यारत्नम् स्नग्धरा सुरनर्तकी... मत्तेभाख्यम् प्रभद्रकम् मदिरा तुरङ्गना.... पृष्ठे । पृष्ठे । १८माध्वी १९ परावती २२ १८ सुधालहरी १९ मितभाषिणी २२ १८ अश्वलहरी १९ फलितानम् २२ १८ घोटकाख्यम् १९ कलिकाललिता २२ १८ सैरिणीक्रीडनम् १९ पदचतुरूर्वप्रकर० १८ वेश्याप्रीतिः २२ १८ कलकण्ठाख्यम् १९ कलिका (मण्डरी) १८ चेटीगतिः १८ / गायत्री २० अमृतधारा (मञ्जरी) २२ १८ रजनम् २० उद्गताप्रकरणम् । लालिनी १८ २० उपस्थितप्रकुपितम् २३ वालिका १९ २० वर्धमानाख्यम् २३. तन्वी १९ २० शुद्धविराडार्षभनायकम् २३ १९ दण्डकप्रकरणम् । मानाछन्दः । १९ चण्डवृष्टिप्रयातः २३ १९ अर्णवः ... २० विपुलार्या १९ जीमूतः २१ चपलार्या... लीलाकरः २१ मुखचपला २१ जघनचपला २४ १९ शहनामा २१ गीतिकाप्रकरणम् । १९ पनकः २१ गीतिः प्रवितकः... २१ उपगीतिः १६ अर्धसमवृत्तप्रकरणम्। उद्गीतिः ... १९ उपचित्रा २१ आर्यागीतिः २४ १९ द्रुतमध्या... २१ विगीतिः १९ | वेगवती २१ सुगीतिका २४. १९ भद्र विराट २१ अतिगीतिः १९ केतुमती २१ खरगीतिका १९ वियोगिनी २१ कटुगीतिः १९ हरिणप्लुता २२ मधुगीतिका १९ अयुज्यपरवक्रम् २२ वालगीतिः १९ । पुष्पिताना २२ / वक्रगीतिः २० | पथ्यार्या ... २४ १९ / उद्दामः २४ १९ २४ २४ २४ ... २४ २४ २४ २४ २४ ૨ ६१ ६१ ३६ कार्यलक्षणम् नवातिका . ६१ ६१ ३९ / यत्नलक्षणम् . ६१ २५ पद्मवन्धोऽनुष्टुभि २५ कर्तृगोपनम् विषयाः। पृष्ठे । विषयाः। पृष्ठे । विषयाः। पृष्ठे । चलधृतिः... २५ तृतीयविन्दुः। प्रकरीलक्षणम् विश्लोकः... २५ श्लेषलक्षणम् २५ सभालेपः ३६ आरब्धकार्यस्य पञ्चा- चित्रा २५ अमङ्गश्लेषः ३६ वस्थाः उपचित्रा... चतुर्थविन्दुः। आरम्भलक्षणम् .... पादाकुलकम् २५ यमकलक्षणम् मात्रालमके त्रिशन्मा- प्रास्याशा... ६१ चित्रप्रकरणम् नाप्रकरणं मात्रा- नियताप्तिलक्षण ६१ लमप्रकरणं च। पञ्चमबिन्दुः। संघिलक्षणम् रुचिरा २५ नागवन्धः स पञ्चविधः शिखितम् ५१ उपक्षेपलक्षणम् गुणितम् २५ चतुरजवन्धनिरूपणम् ५४ परिकियालक्षणम् शिखा २५ षष्ठविन्दुः। परिन्यासः खजा २५ कियागोपनम् ५५ | विलोभनम् अनङ्गक्रीडा ५६ युक्तिः चैतालीयप्रकरणम् । कर्मगोपनम् ५७ / प्राप्तिः वैतालीयम् २६ ५७ | समाधानम् औपच्छन्दसिकम् २६ सप्तमविन्दुः। विधानम् .. आपातली २६ परिभावना दक्षिणान्तिका २६. अभिनयलक्षणम्... उदीच्यवृत्तिः २६ नाट्यलक्षणम् प्राच्यवृत्तिः २६ रूपकलक्षणम् प्रासझिकलक्षणम् प्रवृत्तकम् प्राप्तिमुखम् ५९ २६ पताकालक्षणम् विलासः ६० वक्रप्रकरणम् । ६२ वक्रम् जनान्तिकलक्षणम् ६२ २७ पथ्यावक्रम् २७ रहस्यलक्षणम् ६२ चपलावक्रम् आकाशभाषितल० ६० शमः ६२ युग्मविपुला ६२ पताकः २७ तविपुला. रविपुला २७ तद्वस्तु पञ्चधा ६० प्रगमनम् . नविपुला २७ | वीज़लक्षणम् ६० पर्युपासनम् द्वितीयविन्दुः। बिन्दुलक्षणम् ६१ वज्रम् नायकवर्णनम् २८ पताकालक्षणम् ६१ पुष्पम् દરે संवन्धगोपनम् ૬૨ ૬૨ ६२ ६२ ६२ ६२ ६२ ६२ ६२ ६२ ६२ ६२ ۳۳ي ... ५९/ उद्देदः ५९ / करणम् ६० परिसर्पः ६० विधुतम् ६० नर्म ... २७ त्रिपताकः ६० नर्मद्युतिः. ... س س س س سه اسم ६३ ::

४. विषयाः। पृष्ठे । विषयाः। :: ७० :: . व्यायोगः... उपन्यासः वर्णसंहारः अभूताहरणम् मार्गः रूपम् उदाहरणम् क्रमः संग्रहः अनुमानम् तोटकम् . अधिवलम् उद्वेगः संभ्रमः आक्षेपः विमर्शः अपवादः संफेटम् विद्रवः द्रवः शक्तिः द्युतिः प्रसङ्गः छलनम् व्यवसायः विरोधनम् प्ररोचनम् चलनम् आदानम् निवर्हणम् संधिः विरोधः ग्रथनम् विषयाः। पृष्ठे । पृष्ठे। ६३/ निर्णयः ६५ व्यवहारः... ६७ ६३ परिभाषणम् ६५ मार्दवम् ... ६७ ६३ प्रसादः ६५ / नान्दीलक्षणम् ६८ ६३ | आनन्दः.. ६५ / सूत्रधारलक्षणम् .. ६८ ६३ समयः ... ६५ पारिपार्श्वकलक्षणम् ६८ ६३/ कृतिः ६५ विदूषकलक्षणम् ६८ ६३ | भाषणम् . ६५ नटीलक्षणम् ६८ ६३ / उपगूहनम् ६५ पूरङ्गलक्षणम् ६८ ६३ / पूर्वभावः... ६५ नाटकलक्षणम् ६९ ६३ उपसंहारः ६५ / नाटककृतिप्रकाराः ६९ ६३ | प्रशस्तिः ६५ /प्रकरणम् .. ६४ पञ्चसंधीनां षविध भाणः ७१ ६४ प्रयोजनम् ६५ प्रहसनम्.. ७१ ६४ विष्कम्भः ६५ डिमः ७२ ६४ शुद्ध विष्कम्भकः ७२ ६४/ प्रवेशकः ... ६६ / समवकरः ६४ | अङ्कावतरणम् वीथी ६६ ७२ ६४ अङ्कः ६६ अङ्कः ६४ प्ररोचना ईहामृगः... ६६ ६४/ वीथी नाटिका ६६ ७३ ६४ प्रस्तावनामुखम् प्रकरणिका ७३ ६४ | कथोद्धातः शुद्धबिन्दुः। ६४ / उद्धात्यकम् ६७ नायकप्रकरणम् ६४ | अवलगितम् ६७ नायिकाप्रकरणम् ६४ प्रपञ्चम् ६७ वृत्तिलक्षणम् ६४ | त्रिगतम् ६७ रस्यबिन्दुः। ६४ छलम् ६७ भावलक्षणम् ९१ ६४ | वाकेलिः ६७ स्थायिलक्षणम् ९१ ६४ अधिवलम् ६७ रतिलक्षणम् ९१ ६५ गण्डम् ६७ हासलक्षणम् ९१ ६५/ नालिका ६७ शोकलक्षणम् ९१ ६५ । असत्प्रलापः ६७ क्रोधलक्षणम् ९१ ७२ :: شم ... ७४ ७९ ::

५ Michito Smit ... ... . ९७ ७ ९८ ९४ ९८ .. ९४ विषयाः। पृष्ठे । विषयाः। पृष्ठे । विषयाः उत्साहलक्षणम् . ९१ उन्मादलक्षणम् ९६ वौस्य वर्णादिकथनम् १०४ भयलक्षणम् ९१ मतिलक्षणम् ... ९६ भयानकाय वर्णादिक०१०५ जुगप्सालक्षणम्.... ९२ मरणलक्षणम् ९७ वीभत्सस्य वर्णादिक ०१०५ विस्मयलक्षणम् ९२ व्याधिलक्षणम् ९७ अद्भुतस्य वर्णादिक० १०५ व्यभिचारिभावलक्ष० ९२ त्रासलक्षणम् शान्तरसस्य वर्णादिक- निर्वेदः. ९२ / विकल्पलक्षणम्... थनम् १०६ ग्लानिलक्षणम्. ... ९२ | सात्विकभावल. ९७ शृङ्गारादिरसे व्यमि- शङ्कालक्षणम् ९३ | स्तम्भलक्षणम् चारिणः १०७ व्रीडालक्षणम् ९३ प्रलयलक्षणम् ९७ शृङ्गार एक एव रस 'असूयालक्षणम् ९३ | रोमाञ्चलक्षणम् इति केषांचिन्मतं 'मदलक्षणम् ९३ । स्वरभङ्गलक्षणम् . तन्मतप्रवचनम् . १०८ श्रमलक्षणम् ९३ | अश्रुलक्षणम् ९८ रीतिप्रवृत्तीनां लक्ष- आलस्यलक्षणम् ... ९३ वेपथुलक्षणम् णानि... १०८ दैन्यम् खेदलक्षणम् व्यङ्ग्यविन्दुः। आवेगलक्षणम् .. वैवर्ण्यलक्षणम् ९८, अलंकारलक्षणम्... १०९ चिन्तालक्षणम् ९४ अनुभावलक्षणम्... ९८, छेकानुप्रासः १०९ मोहलक्षणम् ९४ | प्रत्येकरसेऽनुभावानां वृत्त्यनुप्रासः ११० स्मृतिलक्षणम् . ९४ कथनम् ९८ लाटानुप्रासः ११० धृतिलक्षणम् ९४ / विभावलक्षणम्. ९९ पुनरुतवदाभासः ११० हर्षलक्षणम् ९४ आलम्बनविभावः ९९ अर्थालंकाराणां गणना १११ चापललक्षणम् ९५ उद्दीपनविभावः ... ९९ | उपमालंकारः ११६ गर्वलक्षणम् ९५. प्रत्येकरसानामुद्दीपनानि९९ अनन्वयः ११६ जड़तालक्षणम् ९५ रसलक्षणम् १०० भ्रान्तिः ११८ औत्सुक्यलक्षणम् ९५ अलौकिकरसलक्षणम् १०० प्रतीपम् ११८ उप्रतालक्षणम् ९५ लौकिकरसलक्षणम् १०० रूपकम् ११८ विषादलक्षणम् ... ९५ शृङ्गाररसस्य वर्णदेव स्मृतिः. .., १२० निद्रालक्षणम् ९६ १०१ | उपमेयोपमा १२० अपस्मारलक्षणम्... ९६ विप्रलम्भङ्गारः १२० विबोधलक्षणम् ९६ शृङ्गाररसावस्था:... १०१ परिणामः १२० अमर्षलक्षणम् - ९६ हास्यस्य वर्णादिक. १०३ अपह्नुतिः... १२१ सुप्तिलक्षणम् ९६ करुणस्य वर्णादिक. १०३ | उत्प्रेक्षा १२२ अवहित्थलक्षणम् ९६ रौद्रस्य वर्णादिकथनम् १०४ अतिशयोक्तिः. १२४ :: तादिकथनम् १०१ / उल्लेखः ur विषयाः। विषयाः। १३६ / अनुगुणः... १३६ / सामान्यः १३६ / पिहितम् .. १३७ उन्मीलितम् १३७ उत्तरम् सूक्ष्मम् भाविकम्... .... ... विषयाः। पृष्ठे । पृष्ठे । संदेहः पृष्ठ १२५ / अन्योन्यम् तुल्ययोगिता १२५ कारणमाला १४५ प्रतिवस्तूपमा १२५ एकावली... १४५ दीपकम् ... १२६ / यथासंख्यम् १४५ आवृत्तिदीपकम् १२६ / मालादीपकम् १४६ दृष्टान्तः १२६ / पर्यायः १४६ व्यतिरेका १३७ १४६ १२६ / परिसंख्या . १३८ सहोक्तिः... १४६ १२८ समुचयः... निदर्शना... १३८/ विशेषकः... १४७ १२८ / विकल्पः १३९ / व्याजोक्तिः विनोक्तिः .१४७ १२८ / समाधिः १३९ / विवृतोक्तिः १४७ समासोक्तिः १२८ / कारकदीपकम् १३९ / गूढोक्तिः १४७. श्लेषः १२८ | काव्यार्थापत्तिः परिकरः १४० युतिः १४७ १२८ / उल्लासः १४० लोकोक्तिः १४८ अप्रस्तुतप्रशंसा १२८ प्रत्यनीकम् १४०/ छेकोक्तिः... १४८ पर्यायोक्तम् १२९ / विकखरः... १४०/ स्वभावोक्तिः १४८ परीकरः १३० मिथ्याध्यवस्थितिः १४१ / वक्रोक्तिः... १४८ व्याजस्तुतिः १३० काव्यलिङ्गम् १४१ चित्रम् १४८ व्याजनिन्दा १३० / संभावना... १४१ प्रतिषेधः... १४९ आक्षेपः १३०/ अवज्ञा १४१ / विधिः १४९ प्रस्तुताङ्कुरः. १३१ १४१ / निरुक्तिः १४९ विरोधाभासः १३२ प्रौढोक्तिः... १४२ / हेतुः १४९ विषमम् १३२ / ललितम् ... १४२ / प्रश्नः १४९ विशेषोक्तिः १३२ / अनुज्ञा १४२ / अत्युक्तिः... असंभवः १३३ / उदात्तम् १४२ / रसवान् १५० विभावना... १४३ ऊर्जखित् १५० असंगतिः १३३ प्रहर्षणम् ... १४३ / समाहितम् १५० विचित्रम्... १३४ / विषादनम् १४३ / भावोदयः १५० अधिकम्... १३४/ मुद्रा १४३ / भावसंधिः १५० समम् १३४, पूर्वरूपम्... १४४ भावशावल्यम् व्याघातः... ... १५१ १३४ तद्गुणः १४५/ प्रत्यक्षम् १५१ अल्पम् १३५, मीलितम्. १४५ / अनुमानम् विशेषः १५१ १३५] अतद्गुणः... १४५ शब्दः १५१ अर्थान्तरन्यासः . ... १४९ १३३ / लेशः . १५२ ... विषयाः। पृष्ठे । विषयाः। पृष्ठे । विषयाः। पृष्ठे। अर्थापत्तिः १५२ प्रस्तारनामकथनम् १६५ क्रमभ्रष्टलक्षणम् . १६९ अनुपलब्धिः १५२ वैदिकच्छन्दसां कथ०१६५ हतवृत्तलक्षणम् १६९ ऐतिह्यम् .. १५२ वैदिकच्छन्दसां देवता- हतोपमलक्षणम् संभवः कथनम् १६५ हतोपममेदलक्षणम् १६९ ध्वनिनिरूपणम् १५४/ कृत्यादीनामतिधृतावन्त- भिन्नलिझोपमलक्षणम् १६९ खतःसिद्धार्थशक्तिमूल र्भावकथनम् ... १६६ भिन्नवचनोपमल. १६९ ध्वनिनिरूपणम् १५५ दोपप्रकरणम् । अधिकोपमलक्षणम् १६९ गुणीभूतव्यङ्ग्यनिरूप दोषभेदकथनम् १६६ न्यूनोपमलक्षणम् १६९ णम् १५७ शब्ददोपमेदकथनम् १६६ यतिभ्रष्टलक्षणम् ... १६९ संख्याप्रकरणम् १५८ पददोषनामकथनम् १६६ / अनुक्तवाच्यलक्षणम् १६९ छन्दःप्रकरणम् १६० श्रुतिकटुलक्षणम् ... १६७ समाप्तपुनरात्तलक्षणम् १६९ वर्णमेदकथनम् १६१ भ्रष्टसंस्कारलक्षणम् १६७ भग्नच्छन्दोलक्षणम् १६९ गुरुलघुलक्षणम् १६१ अप्रयुक्तलक्षणम्... १६७ अन्यवाक्यप्रदल० १६९ गणभेदकथनम् १६१ असमर्थलक्षणम्... १६७ अपूर्णलक्षणम् १७०. वर्णगणनाखरूपक० १६१ निहतार्थलक्षणम्... १६७ अनन्वयलक्षणम्... १७० गणानां देवताफलक० १६१ अनुचितार्थलक्षणम् १६७ वाक्यगर्मितलक्षणम् १७० मात्रागणनामस्वरूप- निरर्थकलक्षणम् १६७ अर्थान्तरस्थैकपदल० १७० कथनम् १६२ अवाचकलक्षणम्... १६७ | विसंधिलक्षणम् १७० छन्दोमेदकथनम् १६२ अश्लीललक्षणम् १६७ विसंधिभेदकथनम् १७० यतिनियमकथनम् १६२ संदिग्धलक्षणम् १६७ | विसंहितलक्षणम्... १७० यत्युत्तरं. तुचादिनि- अप्रतीतलक्षणम् . १६७ अश्लीलविसंधिमेदक. १७० पातनिवेशनिषेधः १६२ ग्राम्यलक्षणम् १६७ कटुविसंधिलक्षणम् १७० वर्णगणानां निवेशे गूढार्थलक्षणम् १६८ पुनरुक्तिमलक्षणम् १७० 'फलम् . १६२ नेयार्थलक्षणम् १६८ अशरीरलक्षणम् ... १७० वर्णानां प्रारम्भ फलम् १६३ क्लिष्टलक्षणम् १६८ | अनन्वयलक्षणम् ... १७० छन्दःसंख्याकथनम् १६३ अप्रयोजकलक्षणम् १६८ अधिकपदलक्षणम् १७० मध्याच्छन्दसि प्रस्तार- .. अविमृष्टविधेयांशल० १६८ | प्रसिद्धिविधुरलक्षणम् १७१ कथनम् १६४ विरुद्धमतिकृल्लक्षणम् १६८ | अपदस्थसमासल. १७१ गायच्यामुद्दिष्टम् १६४ श्रुतिकटुवादीनां वा- अमतविसर्गलक्षणम् १७१ क्येऽतिदेशः १६८ अमतविसर्गभेदक० १७१ गायत्र्यां संख्यानम् १६४ | वाक्यदोपनामकथनम् १६८ , नष्टविसर्गलक्षणम् १७१ गायत्र्यां लगक्रिया १६५ ' शब्दहीनलक्षणम्... १६९ | स्फुटविसर्गलक्षणम् १७१ गायत्र्यां नष्टम् १६४ १५८ १७८ १७८० १७८ १७९ विषयाः। पृष्ठे ।। , विषयाः। पृष्ठे । : विषयाः।। पृष्ठे। लुप्तविसर्गलक्षणम् । १७१ अनवीकृतलक्षणम् । १७३ अपदस्थपदलक्षणम् १७१ अप्रसिद्धोपमलक्षणम् १७४ लक्षणालक्षणम् ... भग्नप्रक्रमलक्षणम् १७१ , हीनोपमलक्षणम्... १७४ लक्षणाभेदकथनम् १७८ गर्हितलक्षणम् १७१ | सहचरच्युतलक्षणम् १७४ रूढिलक्षणाभेदक वाक्यसंकीर्णलक्षणम् १७१ विरुद्धलक्षणम् १७४ गौणीलक्षणम् १७८ अभवन्मतयोगल० १७१ दोषाणामप्यदोषत्वम् १७४ शुद्धालक्षणम् अवर्णलक्षणम्. १७१ गुणप्रकरणम् १७५ फललक्षणाभेदक१७८ अरीतिलक्षणम् १७१ / गुणलक्षणम् १७५ जहल्लक्षणालक्षणम् प्रतिकूलाक्षरलक्षणम् १७१ गुणभेदकथनम् १७५ अजहल्लक्षणालक्षणम् १७९ अमतपदार्थकल १७१ ओजोलक्षणम् १७५ जहदजहल्लक्षणालक्ष० १७९ पतत्प्रकर्षलक्षणम् १७२ माधुर्यादिलक्षणम् १७५ १७५ सारोपालक्षणम् छन्दोय तिभङ्गयोः पद्य मतान्तरे सप्तैव गुणाः१७६ सारोपाभेदकथनम् १७९ एव दोषत्वम्... १७२ अन्येषामन्तर्भावक० १७६ साध्यवसानालक्षणम् १७९ अपुष्टलक्षणम् १७२ / तत्तद्गुणानां तत्तद्रसनै. कष्टलक्षणम् १७२ यत्यम् व्यञ्जनाप्रकरणम्। व्याघातलक्षणम् १७२ शब्दार्थप्रकरणम्। व्यञ्जनालक्षणम् पुनरुक्तलक्षणम् १७२ / वर्णस्वरूपकथनम् १७७ / व्यजनादिसिद्धिः... १७९ एकार्थलक्षणम् १७२ पदभेदकथनम् १७७ शब्दार्थानेकतायां विशे- अधिकोपमलक्षणम् १७२ वाक्यलक्षणम् षस्मृतिहेतुकथनम् १८० अपार्थलक्षणम् १७२ | शब्दभेदकथनम् . १७७ | संयोगलक्षणम् दुष्क्रमलक्षणम् १७२ वाचकलक्षणम् विप्रयोगलक्षणम् .. ग्राम्यलक्षणम् १७२ लाक्षणिकलक्षणम् साहचर्यलक्षणम् संदिग्धलक्षणम् १७३ / व्यञ्जकलक्षणम् । १७७ विरोधितालक्षणम् १८० नियमच्युतलक्षणम् १७३ अर्थभेदकथनम् १७७ अर्थलक्षणम् साकाङ्क्षलक्षणम् १७३ शब्दवृत्तिभेदकथनम् १७७ प्रकरणलक्षणम् परुषलक्षणम् १७३ अश्लीललक्षणम् १७३ अभिधालक्षणम् . १७८ | संनिधिलक्षणम् व्यर्थलक्षणम् १७३ अभिधाभेदकथनम् १७८ | सामर्थ्यलक्षणम् भिन्नलक्षणम् ... १७३ रूढिरूढयोर्लक्षणम् १७८ औचितीलक्षणम् . अनिरूप्यलक्षणम् १७३ योगौगिकयोर्लक्षणम् १७८ देशलक्षणम् १८०, अतिमात्रलक्षणम् १७३ | योगरूढियोगरूढयोल- काललक्षणम् निर्हेतुलक्षणम् १७३ क्षणम्... १७८ | व्यक्तिलक्षणम् १७७ १८० १७७ १८० १७७ १८० १८० अभिधाप्रकरणम्। १८० लिङ्गलक्षणम् १८० १८० १८० १८० १८० १८१ पृछे । विषयाः। पृष्ठे । विषयाः। पृष्ठे । विषयाः। खरादिलक्षणम् ... १८१ पुनःपुनर्दीप्युदाह०. १८४ चक्रवालकलक्षणम् । १८८ १८८ वाच्यादीनां व्यञ्जका अकाण्डप्रथनोदाह० १८४ | भोगावलीलक्षणम् खम् १८१. अकाण्डरसच्छेदोदा० १८४ बिरुदावलीलक्षणम् - १८८ वक्तवैशिष्ट्याद्यञ्जना १८१ अङ्गविस्तृत्युदाहरणम् १८४ तारावलीलक्षणम्... १८८ बोद्धव्यवैशिष्ट्याच्यञ्जना१८१ अङ्ग्यननुसंधानल०. १८४ विश्वावलीलक्षणम् १८८ काकुवैशिष्ट्यायञ्जना १८१ प्रकृतिविपर्ययलक्षणम् १८४ रत्नावलीलक्षणम्... १८९ वाक्यवैशिष्ट्याद्यञ्जना १८१ अनङ्गाभिधानलक्षणम् १८४ पञ्चाननावलीलक्षणम् १८९ वाच्यवैशिष्ट्यायञ्जना १८१ संचारिणां वाच्यत्वेऽप्य आख्यायिकादिषु रस- अन्यसंनिधिवैशिष्ट्या दोषत्वम् ... १८४ नियमः १८९ धन्जना १८० रसविरोधे नियमः १८४ वर्ष्यावर्ण्यप्रकरणम्। प्रस्ताववैशिष्ट्यायञ्जना १८१ भावोदयलक्षणम्... १८५ वय॑नायकलक्षणम् १८९ देशवैशिष्टयाद्यञ्जना १८१ भावसंधिलक्षणम्... १८५ नृपेवर्णनीयगुणक. १८९ कालवैशिष्टयाद्यञ्जना १८१ शवलतालक्षणम् १८५ | राजकुमारे वर्णनीय- लक्ष्यस्य व्यजकत्वम् १८२ रससंस्कारलक्षणम् १८५ गुणवर्णनम् . १८९ व्यङ्ग्यस्य व्यञ्जकत्वम् १८२ रसानामवस्थाकथनम् १८६ मन्त्रिणि वर्णनीयगुण०१८९ शय्यालक्षणम् १८२ सेनाधिपे वर्ष्यागुणाः १८९ पाकप्रकरणम्। काव्यप्रकरणम्। पुर्या वर्ण्यपदार्थाः १८९ १८६ पाकलक्षणम् १८२/ काव्यप्रयोजनम् देशे वर्ण्यपदार्थाः १८९ः पाकभेदकथनम् . १८२/ काव्यलक्षणम् १८६ ग्रामे वर्ण्यपदार्थाः १९० द्राक्षापाकलक्षणम् ... १८२/ काव्यभेदकथनम् १८६ अब्धौ वर्ण्यपदार्थाः १९० नारिकेलपाकल०... १८२ श्राव्यकाव्यभेदक० १८६ उद्याने वर्ण्यपदार्थाः १९० मधुक्षीरादिपाकल० १८२ गद्यलक्षणम् १८६ कासारे वर्ण्यपदार्थाः १९० रूपकभाषानिबन्धन- पद्यलक्षणम् १८६ पर्वते वर्ण्यपदार्थाः १९० प्रकरणम् । दृश्यकाव्यभेदक० १८६ वने वर्ण्यपदार्थाः रसदोषप्रकरणम् १८३ ध्वनिलक्षणम् १८६ मन्त्रे वर्ण्यपदार्थाः १९० रसदोषभेदकथनम् १८३ गुणीभूतव्यझ्यल० १८६ व्यभिचार्यादीनां वाच्य चित्रलक्षणम् दूते वर्ण्यपदार्थाः... १९० रणे वर्ण्यपदार्थाः... १९० त्वोदाहरणम्... १८४ चित्रभेदकथनम्... १८७ अनुभावकष्टकल्पनोदा- अश्वे वर्ण्यपदार्थाः... १९० महाकाव्यलक्षणम् मृगयायां वर्ण्यपदाथाः१९० हरणम् १८४ उपकाव्यलक्षणम् १८७ विभावकष्टकल्पनोदा०१८४ आख्यायिकालक्षणम् १८७ विरहे वर्ण्यपदार्थाः १९० प्रतिकूलविभावप्रदोदा कथालक्षणम् १८८ सुरते वर्ण्यपदार्थाः १९० 'हरणम् १८४/ उदाहरणलक्षणम् १८८ यात्रायां वर्ण्यपदार्थाः १९० २मन्दा० . - १९० १८७ १८७ १० पृष्ठे । पूंछे । " पृष्ठे १९५ विषयाः। विषयाः। विषयाः। गजे वर्ण्यपदार्थाः । १९० धूसराः पदार्थाः... १९२ पदार्थप्रकरणम् । सुरापाने वर्ण्यपदार्थाः १९१ त्रिकोणाः पदार्थाः १९२ | पदार्थभेदकथनम् १९५ सूर्योदये वर्ण्यपदार्थाः १९१ वक्राः पदार्थाः ... १९२ भावभेदकथनम् १९५ चन्द्रोदये वयंपदार्थाः १९१ तीक्ष्णाः पदार्थाः... १९३ जातिभेदकथनम् ... १९५. वसन्ते वर्ण्यपदार्थाः १९१ गुरवः पदार्थाः १९३ | सामान्योदाहरणम् १९५ ग्रीष्मे वर्ण्यपदार्थाः १९१ सुखदाः पदार्थाः १९३ उपाध्युदाहरणम्... १९५ वर्षासु वर्ण्यपदार्थाः १९१ दुःखदाः पदार्थाः १९३ गुणभेदकथनम् शरदि वर्ण्यपदार्थाः १९१ स्थिराः पदार्थाः १९३ द्रव्यभेदकथनम् . हेमन्ते वर्ण्यपदार्थाः १९१ अस्थिराः पदार्थाः १९३ क्रियालक्षणभेदक० १९५ शिशिरे वर्ण्यपदार्थाः १९१ मन्दगाः पदार्थाः १९३ | अभावभेदकथनम् १९५ खयंवरे वर्ण्यपदार्थाः १९१ क्रूरखराः पदार्थाः १९४ | सामान्यलक्षणम्... १९६ विवाहे वर्ण्यपदार्थाः १९१ वलिष्ठाः पदार्थाः... १९४ | उपाधिलक्षणम् वनकेलौ वर्ण्यपदार्थाः१९१ सुरूपाः पदार्थाः . १९४ | जातिवाचकशब्दक. १९६ जलकेलौ वर्ण्यपदार्थाः१९१ दुःसहाः पदार्थाः... १९४ व्यक्तिवाचकशब्दक० १९६ श्वेताः पदार्थाः १९२ मधुराः पदार्थाः.... १९४ जातिमद्रव्यवाचकशब्द- श्यामाः पदार्थाः... १९२ असतोऽप्यनिवन्धनम् १९४ कथनम् नीला पदार्थाः ... १९२ असतोऽपि निबन्धनम् १९४ | क्रियावाचकशब्दक० १९६ १९२ नियमेन निबन्धनम् १९४ | अभाववाचकशब्दक० १९६ पीताः पदार्थाः १९२ विकल्पेन निबन्धनम् १९५ / ग्रन्थसमाप्तिः १९५ १९६ १९६ रक्ताः पदार्थाः १९६ काव्यमाला। श्रीकृष्णकविविरचिता मन्दारमरन्दचम्पूः। माधुर्यरजनीव्याख्यया सहिता। १. वृत्तविन्दुः। कमलनयनकेलीसंभ्रमस्रस्तनीवि- स्फुटजघनविराजत्किंकिणीजालकाञ्ची। कलयतु कमलाक्ष्या राधिकायाः प्रमोद मदनविजययात्रावीथिकातोरणश्रीः ॥१॥ .. परात्मपादपाथोजपरागपरमाणवे । नमः श्रीकान्तसीमन्तसारसिन्दूरविन्दवे ॥ मन्दारमकरन्दाख्यचन्द्रदेवकृतेः शुभाम् । टीका शीघ्रण बोधाय कुर्वे माधुर्यरञ्जनीम् ।। तिष्प्रत्यूहसमाप्तये चिकीर्षितस्येष्टदेवतां ध्यायति-कमलनयनेति । कमलनयनस्य कृष्णस्य केलीसंभ्रमे सस्ता नीविर्यस्मात्तत् । अत एव स्फुटं दृश्यं जघनं तस्मिन्विराज- त्किंकिणीनां नूपुराणां जालविशिष्टा काञ्ची की । अत एव. मदनस्य विजययात्रायां वीथिकायां स्थितस्य तोरणस्य श्रीरिव श्रीर्यस्याः सेति काञ्चीविशेषणम् । कमलाक्ष्या राधिकाया इत्यस्य काञ्चयामन्वयः। प्रमोदं कलयतु करोतु । लोद । अत्रोपमानोत्प्रे- क्षयोःसंदेहसंकरः। नीविरिदन्तोऽपि । यदाह माघः- 'नीविभिःसपदि बन्धनमोक्षः'इति। मालिनी वृत्तम् ‘ननमयययुतेयं मालिनी भोगिलोकैः' इति लक्षणात् । आदौ कवर्णप्रयो- गालक्ष्मीश्च । यदाह भामहः-'कः खो गो घश्च लक्ष्मीम्' इति । नगणप्रयोगात्सौख्यं च । यदुक्तं कालिदासेन-'नो नाकः सुखमच्युतं प्रकुरुते' इति । अत्र कृष्णेन सह क्रीडा- सतराधिकाकाञ्चीप्रार्थनेन केलीसुखितहृदयराधाकृष्णध्यानं कृतं भवतीति वस्तुना व- १. अस्याश्च चम्प्वाष्टीकायाश्च पुस्तकमेकैकं वङ्गलूरनगरवास्तव्यपण्डितवर्यश्रीयुतकु- ण्डलगिर्याचार्यः काव्यमालार्थ प्रेषितमिति तेषामुपकार सधन्यवाद प्रकाशयामः २ काव्यमाला। पुरुषकरणवेगप्रश्लथत्केशपाशा- प्रपतदमलमल्लीसंतती राधिकायाः। मुरहरहृदि जीयान्नैजसंग्रामतुष्ट- स्मरनृपकृतपुष्पस्तोमवृष्टिस्फुरच्छ्रीः ॥ २ ॥ कमलजभवकान्ताप्रेमपीयूषधारा- कलितकनककुम्भः कुत्सर्वशैकडिम्भः । कलयति किल गोपीकामकेलीकलाप- प्रणयिचरणचित्तः कोऽपि चम्पूममत्तः ॥ ३ ॥ न वेदान्ते प्रज्ञा न च परिचयः पाणिनिमते न वालंकारादौ न च चतुरता गौतममते । स्तुध्वनिः ॥ १॥ पुरुषेति । राधिकायाः पुरुषकरणे पुरुषायिते यो वेगस्तेन हेतुना प्रश्लथतः केशपाशान्मरहरस्य कृष्णस्य हृदि प्रपतन्ती अमलानां. मल्लीनां संततिः । अत एव नैजे संग्रामे तुष्टेन स्मरनृपेण कृता पुष्पस्तोमवृष्टिरिव स्फुरन्ती श्रीर्यस्याः सेत्युत्प्रेक्षा। इदं संततिविशेषणम् । जीयात् । 'जिजये' आशिषि लिङ् । अनेन पद्यद्वयेन सुखितहृदयस्यैव ध्यानं सर्वाभीष्टप्रदमिति सूचितम् । ननु ध्यानरूपमङ्गलस्यात्मवृत्तित्वेन आकाशस्थश- व्दध्वंसरूपसमाप्तिकारणत्वं कथमिति चेदुच्यते । वर्णात्मकशब्दनाशस्य देहावच्छेदेन जायमानत्वात् ध्यानस्यापीति न वैयधिकरण्यम् । अत्र ध्यानं च खप्रीत्युत्पादकमानस- व्यापारविशेषः। न तूत्कृष्टलप्रकारकं ज्ञानम् । अत एव राजादिप्रत्यक्षावसरे राजानं ध्यायतीति न प्रयोगः । इदं तु बोध्यम् । मङ्गलं तावन्निविधम्-कायिकवाचिकमानसि- कमेदात् । कायिकं च दण्डाकारेण प्रणिपातादिरूपव्यापारविशेषः । वाचिकं चोत्कृष्टल- प्रकारकज्ञानजनकशब्दः । मानसिकं तु ध्यानमेव । कायिकवाचिकस्थलयोर्मङ्गलसमा- ह्योरवच्छेदकलसंबन्धेन सामानाधिकरण्यम्।मानसिकस्थले खप्रतियोग्यनुकूलव्यापारा- श्रयत्वेन संवन्धेन समाप्तिं प्रत्युपरञ्जनसंबन्धेन मङ्गलस्य कारणत्वोक्त्या सामानाधिकरण्यं संगच्छते । न च-ज्ञानस्य क्षणिकत्वेन कालान्तरीयसमाप्तिकारणत्वं न संजाघटीति- इति वाच्यम् । स्वजन्यविघ्नध्वंसवत्त्वसंबन्धेन तत्कालेऽपि मङ्गलस्य सत्त्वात् । विघ्नत्वं चोद्दिष्टकार्यप्रतिबन्धकदुरदृष्टविशेषत्वम् । इत्थं च समाप्तौ मङ्गलस्य करणत्वं विघ्नध्वंसस्य व्यापारत्वं चोक्तमिति दिक् ॥ २ ॥ कमलजेति । कमलजभवस्य पद्मजस्य कान्तायाः शारदायाः प्रेमैव पीयूषस्तस्य धाराभिः कलितः पूर्णश्चासौ कनककुम्भश्चेति रूपकम् गोपीमिः सह कामकेलीकलापे प्रणयिनः कृष्णस्य चरणयोश्चित्तं यस्य तथोक्तः । तथा- प्यमंत्तो विनीत इत्यर्थः । अत एव कुत्सवंशस्य एकडिम्भो मुख्यपुत्रः । एतादृशगुणयुक्त- त्वाद्वंशोत्तंस इति भावः । कोऽपि कश्चन कविश्चम्पू कलयति । किलेति युक्तार्थे । अत्रापि मालिनी वृत्तम्, ॥ ३ ॥ न वेदान्त इति । वेदानामन्तो निर्णयो यस्मात्तस्मिन् शास्त्रे १. वृत्तविन्दुः] मन्दारमरन्दचम्पूः। तथाप्याचार्यश्रीगुणगणकथावर्णनपरे मयि प्रेम प्राज्ञाः कुरुत कविकीत्यैककमने ॥ ४ ॥ मनोहृद्यगद्यानवद्योरुपद्यं प्रबन्धं रसज्ञा यदि स्युर्भजेयुः । न चेत्ते त्यजेयुः पुरंध्रीकदम्बं युवानो भजेयुस्तदन्ये त्यजेयुः ॥५॥ किरति मधु सुधीसत्कर्णपालीषु वाणी मम किमरसिकानां भूषणे दूषणेः वा । सुखयति सुमुखीनां सारशृङ्गारलीला तरुणमिह शिशूनामादरेऽनादरे किम् ॥ ६ ॥ . न प्रज्ञा प्रकर्षण ज्ञानं नास्तीत्यर्थः । पाणिनिमते व्याकरणे न परिचयश्च । अलंकारादौ वा न । परिचयो नास्तीत्यर्थः । गौतममते न्याये न च चतुरता चातुर्यमपि नास्तीत्यर्थः । तथाप्येतादृशग्रन्थकरणहेत्वभावेऽप्याचार्यस्य श्रीमदाचार्यस्य विष्णोर्चा गुणगणकथाया वर्णने परे आसके कवीनां कीसैककमने कीबैंककामुके मयि हे प्राज्ञाः, प्रकर्षण जान- न्तीति प्राज्ञा विद्वांसः प्रेम कुरुतेति प्रार्थनायां लोट् । यद्वा न वेदान्ते प्रज्ञेत्यादिः काकुः । 'बोद्धारो मत्सरग्रस्ताः' इति लोकप्रसिद्धस्तथापीत्युक्तम् । आचार्यश्रीगुणगणकथावर्णन- परे इति विशेषणं हेतुगर्भम् । तथा चेदृशशास्त्राभ्यासिनि मयि आचार्यगुणगणकथावर्णन- परत्वसत्त्वात्तदृष्ट्वा मात्सर्यमुत्सार्य प्रेम कुरुतेति प्रार्थना । एतेन कुत्रचिदपि शास्त्रेऽन- भिज्ञस्य ग्रन्थकर्तृत्वं कथं घटते इति शङ्का परास्ता । शिखरिणी वृत्तम् । 'रसै रुदैश्छिन्ना यमनसभलागः शिखरिणी' इति लक्षणात् ॥ ४ ॥ अथेमां मदीयप्रार्थनामनादृत्य मयि मत्सरिणश्चेन काप्यस्माकं , क्षतिरित्याशयं पद्यद्वये स्फुटयति-मनोहृद्येति । रसान शृङ्गारादीन् जानन्तीति रसज्ञा यदि स्युस्तर्हि मनोहृद्यैर्गद्यैरनवद्यैः उरुमिरुत्कृष्टैः पद्यै- युक्तं प्रवन्धं प्रकर्षेण वध्यते कविनेति प्रबन्धो वर्णसमुदायात्मकग्रन्थः तं भजेयुः। 'भज सेवायाम्' । लिङ् । ते रसज्ञा न चेत्प्रवन्धमित्यनुषङ्गः । त्यजेयुः। 'त्यज हानौ' । संभाव- नायां लिङ् । पुरंध्रीणां सुचरित्राणां कदम्वं युवानश्चेद्भजेयुः। तदन्ये युवमिन्ना वृद्धा- स्त्यजेयुः । 'वृद्धानां तरुणी विषम्' इति प्रसिद्धेः । अत्र रसज्ञारसज्ञकर्तृकप्रबन्धकर्मक- भजनत्यागरूपोपमेयार्थस्य तरुणातरुणकर्तृककान्ताकर्मकमजनत्यागरूपोपमानार्थस्य च पृथग्वाक्यद्वये निर्देशात्प्रतिवस्तूपमालंकारः ॥ ५॥ किरतीति । मम वाणी सुधियां शोभना धीर्येषां तेषामित्यर्थः । बुद्धौ शोभनत्वं च परश्रेयोविषयीकरणजन्यसुखसामाना- धिकरण्यम् । सत्कर्णपालीषु श्रोत्रप्रदेशेषु मधु किरति क्षिपति । लट् । अरसिकानां क- तरि षष्टी। दूषणे :भूषणे वेति विकल्पे । किं न किमपि । दूषणे कृते सति नानन्दः भूषणे कृते सति न व्यसनमिति भावः । सुमुखीनां सुन्दरीणां सारा श्रेष्ठा शृङ्गारलीला काव्यमाला । . चम्पूप्रबन्धे मन्दारमरन्दाख्ये कृतौ मम । वृत्तसारश्लिष्टचित्रबन्धगुप्ताः सनर्तनाः ॥ ७ ॥ शुद्धरम्यव्यङ्ग्यशेषा इत्येकादशबिन्दवः । तत्रादिमे वृत्तबिन्दौ वृत्तलक्षणमुच्यते ॥ ८॥ छन्दसा ग्रथितः शब्दः पाद इत्यभिधीयते । मिलितांश्चतुरः पादान्वृत्तमूचुर्विपश्चिंतः ॥९॥ . -- तरुणं सुखयति इह शृङ्गारलीलाविषये शिशूनां कर्तरि षष्ठी। आदरे अनादरे कृते सति किम् । अत्र भिन्नवाक्यार्थधर्मयोर्बिम्बप्रतिबिम्बभावेन निर्देशादृष्टान्तालंकारः । पूर्वपद्यं तु समत्सरविद्वदभिप्रायकम् । इदं तु समत्सरमूढाभिप्रायकमिति विशेषः॥६॥ ग्रन्थरीति- मुद्दिशति-चस्पूप्रबन्ध इति । मन्दारमरन्दाख्ये चम्पूप्रबन्धे मम कृतावेकादशवि- न्दवः क्रियन्त इति शेषः । ते च (१) वृत्तबिन्दुः, (२) सारबिन्दुः, (३) श्लिष्टबिन्दुः,. (४) चित्रबिन्दुः, (५) वन्धबिन्दुः, (६) गुप्तविन्दुः, (७) नर्तनबिन्दुः, (८) शुद्धबिन्दुः, () रम्यबिन्दुः, (१०) व्यङ्ग्यबिन्दुः । (११) शेषबिन्दुः । मकरन्दपक्षे वृत्तबिन्दुर्वर्तु- लबिन्दुः । सारः श्रेष्ठः । श्लिष्टः परागादिसंबन्धः। चित्रः चित्रवर्णयुक्तः । वन्धविन्दुर्व- न्धनयुक्तबिन्दुः घनीभूतबिन्दुरित्यर्थः । गुप्तो गोपनविशिष्टः । नर्तनः 'नृती गात्रविक्षेपे' इत्यस्मादधिकरणे ल्युट । चलनाश्रय इत्यर्थः । शुद्धः शुद्धिमान् । रम्यो रमणीयः। व्यङ्ग्यः व्यज्यते स्फुटीक्रियते रस इति व्यङ्ग्यः । शेषोऽवशिष्टः । तत्रैतेषु विन्दुषु आदिमे आये वृत्तविन्दौ वृत्तानां लक्षणं समूहाभिप्रायेणैकवचनम् । उच्यते। 'ब्रून व्यकायां वाचि' इत्यस्मात्कर्मणि यक् लट् ॥ ७ ॥ ८ ॥ छन्दसेति । छन्दस्त्वं च षड्विंशतिव- र्णाधिकवर्णनात्मकत्वे सति वर्णात्मकलम् । ध्वन्यात्मकशव्दवारणाय विशेष्यदलम् । गद्यादिवारणाय सत्यन्तम् । छन्दसा ग्रथितो वद्धः । छन्दोरूपेण निरूपित इत्यर्थः । शब्दपदं स्वरूपकथनार्थ न तु लक्षणप्रविष्टं प्रयोजनाभावात् । किं तु छन्दोरूपत्वं लक्ष- णम् । इत्थं च 'आङ् ईषदर्थे' इति कोशेनाग्रथित इत्यस्य ईषन्द्रथितार्थलाभेन सकृदुचरि- ततात्पर्य विषयच्छन्दोरूपत्वमिति निष्कर्षः । वृत्तवारणाय सकृदुचरितत्वं छन्दोविशेषणम्। एकट्यादिवर्णघटितपादचतुष्टयात्मकवृत्तवारणाय तात्पर्यविषयत्वं च छन्दोविशेषणम् । इदमत्रावगन्तव्यम् । एकद्यादिवर्णघटितपादचतुष्टयात्मकवृत्ते वक्तुः श्रोतुर्वा पादत्वेन तात्पर्ये सति पाद एव । वृत्तत्वेन तात्पर्ये सति वृत्तमेव । एतदेकाक्षरमारभ्य चतुर्विंश- तिवर्णपर्यन्तवर्णघटितवाक्य एव । पञ्चविंशतिषड्विंशतिवर्णात्मकवाक्ये पादलमेव । तत ऊर्ध्व तु न पादत्रम् । एकाक्षरमारभ्य पड्विंशत्यक्षरपर्यन्तमेकैकवर्णाधिक्येनोत्तरोत्तरं ड्विंशतिछन्दांसीति पिङ्गलादिभिः परिगणनात् । इदं वर्णच्छन्दस्येव । मात्राछन्दोनिरूपणं खने भविष्यति । मिलितान् चतुरः पादान् विपश्चितो विद्वांसः वृत्तमूचुः । पादचतुष्टया- १. वृत्तविन्दुः] मन्दारमरन्दचम्पूः। सममघसमं चैव विपमं चेति तत्रिधा । यस्मिन्पादाश्च चत्वारः समाः स्युस्तत्समं मतम् ॥ १० ॥ समौ समौ च विपमौ समावर्षसमं यदि । भिन्नलक्ष्मायो यस्मिंश्चत्वारो विपमं हि तत् ॥ ११ ॥ छन्दांसि वेदे ख्यातानि सप्तपूर्वापयनुष्टुभः । लोकप्रसिद्धान्यवृत्तलक्षणोदाहृती ध्रुवे ॥ १२ ॥ शार्दूलविक्रीडितं तु यत्र मः सजसाः पुनः। ततगाः सूर्यऋषिभिर्विरतिस्तत्र कीर्तितम् ।। -अथ कदाचित् भूमीलोकदिक्षया दयितयाभीक्ष्णं समभ्यर्थितो गन्धर्वः कलगीतिनामकलितः साकं तया कान्तया । यथा निवेशेन. वृत्तान्तरेषु मादिगणानां व्यवधानेन वृत्तित्वेऽपि न क्षतिः । अव्यवहितोत्तरखा. स्मकत्वं वृत्तखम् । इदमुभयच्छन्दः साधारणम् ॥ ९ ॥ तं विभजते-सममिति । यस्मिन्नित्यत्र सप्तम्या घटकलमर्थः । तस्य पादेप्वन्वयः। तथा च परस्परसदृशपाद- 'चतुष्टयघटितत्वं समवृत्तलक्षणम् । परस्परसदृशविपमपादद्वयसदशपरस्परसदृशसमपादद्व- यघटितत्वं वा ॥१०॥ समाविति । विषमौ सदृशौ समौ च सदृशौ चेदर्धसमवृत्तमि- त्यर्थः । तथा च परस्परसदृशविपमपादद्वयासदृशपरस्परसदृशसमपादद्वयघटितत्वं लक्षणं पर्यवसितम् । यस्मिन् भिन्नानि भिन्नानि लक्ष्माणि येषां तेऽजयश्चखारो वर्तन्ते तद्विष- मवृत्तमित्यर्थः । अनापि परस्परासदृशपादचतुष्टयघटितत्वं लक्षणं बोध्यम् । यद्वा परस्प- रासदृश विषमपादद्वयासदृशपरस्परासशसमपादद्वयघटितलम् । सादृश्यं च खघटकगुरु- लघुतदुभयान्यतमवर्णगतसंख्याक्रमोभयविशिष्टवर्णमात्रघटितत्वेन । खपरं सादृश्यप्रति: योगिपरम् ॥११॥ उक्का(क्था)दिसप्तछन्दःसु वृत्तानामनुक्त्यापि न न्यूनतेत्याशयेनाह- छन्दांसीति । तथा च तेषां वेदमात्रप्रसिद्धत्वेन लोकप्रसिद्ध्यभावान कृतं लक्षणल- क्ष्यवर्णनमित्यर्थः । लोके आलंकारिकजने प्रसिद्धानामन्येषां वृत्तानां लक्षणोदाहृती ल- क्षणोदाहरणे ब्रुवे । लट् ॥ १२ ॥ तत्रादावुद्देशक्रमानुसारेण समवृत्तलक्षणानि विवक्षुः शार्दूलविक्रीडितं लक्षयति-शार्दूलविक्रीडितमिति । यत्र वाक्ये मः मगणः स. जसाः सगणजगणसगणाः ततगाः तगणतगणगुरवः । पुनः किं च सूर्यदिशभिरक्षरैः ऋषिभिः सप्ताक्षरैर्विरतिः विश्रामः । एते वर्तन्ते तद्वृत्तं शार्दूलविक्रीडितमित्यन्वयः । तथा च मगणाव्यवहितोत्तरसगणाव्यवहितोत्तरजगणाव्यवहितोत्तरसगणाव्यवहितोत्तरत- गणाव्यवहितोत्तरतगणाव्यवहितोत्तरगुरुघटितत्वं लक्षणं भवति । एतेनाव्यवहितोत्तरख- ६ काव्यमाला ।। आरुषोरुविमानमाशु गगने गच्छन्प्रपश्यन्भुवं तत्रैकां नगरी विलोक्य ललनामित्यब्रवीत्सादरम् ॥ १३ ॥ अस्ति पुरः पश्य प्रशस्तविभवैः समस्तलोकसुखकरी रजतपीठपुरी । वसन्ततिलका प्रोक्ता तभजा जगगा यदि । नं वा पादेऽपि विरतिः सप्तसप्ताक्षरैर्मता ॥ • सोसूच्यते जिगमिषां नु पुलोमपुत्री- केलीषु लोलमनसो नगरी विजेतुम् । शुभ्रांशुबिम्बपरिचुम्बनढौकमान- राराज्यमानवरराजतसौधशृङ्गा ॥ १४ ॥ च खाधिकरणक्षणध्वंसाधिकरणक्षणध्वंसानधिकरणखाधिकरणक्षणध्वंसाधिकरणक्षणवृ. त्तिलम् । सूर्यऋषिमियंतिकथनं तु आलंकारिकाः सहृदयहृदयालादकारिखाद्यतिमझीकु- र्वन्तीति सूचनार्थम् । अत एव शेषविन्दौ 'पादान्ते एव केचिच्च पादमध्येऽपि केचन । यति वदन्ति' इति स्वयमेव वक्ष्यति । केचिद्वेदान्तिनः। पादान्त एवेत्यनेन न पादमध्ये यतिं नियमेनाङ्गीकुर्वन्तीत्यर्थः। न तु सूर्यऋषिभिर्यतिमत्त्वं लक्षणप्रविष्टम् । अन्यथा तेनैव निर्वाहे मादिगणघटितत्वं व्यर्थ स्यात् । यदि वृत्तान्तरवारणाय मादिगणघटितत्वमित्यु- च्यते । तदा अतिधृतिछन्दः प्रोद्भूतवृत्त एवातिव्याप्तिर्वाच्या । तत्र भगवता सूत्रकारेण काश्यपेन रामकीर्तिना गोमानसेन केदारेणापि न किमपि वृत्तमेतद्भिन्नं सूर्य ऋषिमात्रय- तिमत्त्वेन प्रतिपादितम् । यत्तु प्रस्ताररीत्या प्रक्रान्ते सरसतापादनाय सूर्यऋपिभिरङ्गी- कृतयतिमति कस्मिंश्चिद्वत्तेऽतिव्याप्तिवारणायेति चेत्तर्हि अनेनैव मादिगणगुरुघटितत्व- मानेण सामञ्जस्ये तस्य वैयर्थ्यम् । एवमग्रेऽपि । यतिगणादिनिरूपणं स्वयमेवाने व- क्ष्यति । तदुदाहरति-यथेत्यादिना । कलगीत इति नान्ना कलितो युक्तो गन्धर्वः दयितया भूमीलोकस्य दिक्षया द्रष्टुमिच्छया । हेताविति तृतीया । अभीक्ष्णमसकृत् समभ्यर्थितः सन् तया कान्तया साकं विमानमारुह्य आशु गगने गच्छन् भुवं लोकं पश्यन् तत्र भुवि एका नगरी विलोक्य ललनां कान्तामिति वक्ष्यमाणं सादरं यथा तथाब्रवीत् । भूमिरीदन्तोऽपि । यदाह भानुकविः-'निःशेषभूमीधर-' इति रसतरङ्गि- ण्याम् ॥ १३ ॥ अस्तीति । प्रशस्तैर्विभवैः समस्तस्य लोकस्य सुखकरी रजतपीठपुरी अस्ति । पुरः पश्येत्यन्वयः ॥ वसन्ततिलकेति । तभजा तगणभगणजगणाः जगगाः जगणगुरुगुरवः यदि वाक्ये सन्ति चेत् । अपि सप्तभिः सप्तभिरक्षरैर्विरतिर्विश्रामः । वेति विकल्पेनेति मता । इदं वसन्ततिलकावृत्तं सिंहोद्धतानामकमाह काश्यपः । मधुमाधवीमाह गोमानसः चेतोहितामाह रामकीर्तिः ॥ सोसूच्यत इति ।

१.वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। वंशस्थं साञ्जतजरा गुहासऋतुभिर्यतिः । परिस्फुरत्स्फाटिकसालमण्डलप्रगल्भवलगत्प्रतिबिम्बवन्धुरा । तितंसति क्षीरपयोधिवन्धुतां किलोच्चलद्यत्परिखाजलावली ॥ १४ वातोर्मी ममता गौ च श्रुतिसप्तयतिर्भवेत् ॥ पद्मान्येतत्परिखासंभवानि वीचीजालैर्मृदुलं संचलन्ति । , मन्ये नूनं फणिनां कन्यकानां नीरक्रीडानिरतानां मुखानि ॥ १.६ इन्द्रवज्रा ततजगा गो हास्यर्तुभिर्यतिः । शुभ्रांशोश्चन्द्रस्य विम्बस्य परिचुम्बनाय ढाकमानौनि । 'ढीकृ गतौ' इत्यस्माच्छानच् । राराज्यमानानि भृशं प्रकाशमानानि । 'राज दीप्तौ' इत्यस्माद्यङन्ताच्छानच् । वराणि राजतानि रूप्यमयानि सौधशृङ्गाणि हाग्राणि यस्यां सा या रजतपीठपुरी । पुलोम- पुत्र्याः शच्याः केलीषु लोलमनसः आसक्तचित्तस्य । इन्द्रस्येति यावत् । नगरीममरा- वतीं विजेतुं जिगमिषां गमनेच्छाम् । 'इण् गतौ' इत्यस्मात्सनन्ताद्भावे अप्रत्ययः । सो- सूच्यते पुनः पुनरतिशयेन वा सूचयति । 'सूच पैशून्ये' इत्यस्मात् 'सूचिसूत्र्यव्यवंशूों- तिभ्यो यङ् वाच्यः' इति वार्तिकानुसारेण यङि 'सन्यडो' इति यहन्तप्रथमैकाचो द्वित्वे 'गुणो यङ्लुकोः' इत्यभ्यासगुणे सोसूच्यत इति रूपम् । नु इत्युत्प्रेक्षायाम् । अत्रातिश- योत्युत्प्रेक्षयोरङ्गाङ्गिभावसंकरः ॥१४॥ वंशस्थमिति । जतजरा जगणतगणजगगर- गणाः । गुहास्यैः षड्भिः ऋतुभिः पभिः । अत्रापि नवेत्यनुज्यते ॥ परिस्फुरदिति । परिस्फुरत्प्रकाशमानं स्फाटिक स्फटिकमयं सालस्य प्राकारस्य मण्डलं तस्य प्रगल्भं वल्गद्यत्प्रतिबिम्बं तेन वन्धुरा निविडीकृता । व्याप्तेति यावत् । उच्चलन्ती यस्याः पुर्याः परिखायां स्थितानां जलानामावली ।क्षीरपयोधर्वन्धुतां साम्यम् । 'वन्धुश्चौरः सुहृद्वादी कल्पः प्रख्यः प्रभः समः। देशीयदेश्य रिप्वाभसोदराद्या इवार्थकाः ॥ इति देवेश्वरः। तितंसति तनितुमिच्छति । 'तनु विस्तारे' इत्यस्मात्सन्नन्तात्कर्तरि लट् । किलेत्युत्प्रेक्षा- याम् ॥१५॥ वातोमर्मीति । ममता मगणभगणतगणाः । गौ च गुरुद्वयं च । श्रुति- सप्तभिश्चतुर्भिः सप्तभिश्च वर्णतिश्चेद्वातोर्मी नाम वृत्तं भवेत् ॥ पद्मानीति । एतस्याः पुरः परिखासंभवानि । वीचीनां तरङ्गाणां जालैश्चयैः । मृदुलं यथा तथा संचलन्ति पद्मानि । फणिनां सपाणां नीरक्रीडायां जलक्रीडायां निरतानां कन्यकानां मुखानि मन्ये इत्युत्प्रेक्षा । अत्र पादान्तस्थस्य वैकल्पिकगुरुखान छन्दोमङ्गः ॥ १६ ॥ इन्द्रव- जेति । ततजगास्तगणतगणजगणगुरवः । गः गुरुः । हरास्यैः पञ्चभिः ऋतुभिः षड्भि- ८ काव्यमाला। (प्रपां निर्दिश्य ।) सा निर्जनायां विहिता प्रपायां कान्ता कुचान्तं परिदर्शयन्ती। पान्थस्य यूनः कुरुते करेऽम्भोधारां मुखे सामिगन्तरीतिम् ॥ १७ उपेन्द्रवज्रा जतजा गौ वाणऋतुभिर्यतिः॥ इयं कुरङ्गीनयनाम्रशाखां विभाति वामेन करेण धृत्वा । पदान्तलालम्बितवेणिवल्ली मनोऽस्य चाक्रष्टुमिवानताङ्गी ॥ १८ ॥ मिश्रा तूपेन्द्रमाला स्यादुपजातिं च तां विदुः। यथा यथा पश्यति तन्मुखेन्दं पातुं प्रवृत्तो विरलाङ्गुलिः सन् । तथा तथा प्रेमरसेन साकं सब्रीडहासा तनुतेऽम्बुधाराम् ॥ १९ ।। शालिनी मतता गौ च यतिः श्रुतितुरङ्गमैः ।। धन्येयं यत्कामिनी पान्थयूनः पीयूषाभैरम्बुभिः शीतशीतैः सप्रेमोत्थैः सामिनेत्रान्तपातैः प्रीतिं पुष्णात्युच्चलविलासैः ॥ २० ॥ यतिः। अत्रापि मण्डूकप्ठत्या नवेत्यन्वेति ॥ सेति । पुरतो दृश्यामानेत्यर्थः । निर्जनायां जनरहितायां प्रपायां पानीयशालायां विहिता स्थिता सा कान्ता कुचान्तं स्तनाग्रं परि. दर्शयन्ती सती यूनस्तरुणस्य पान्थस्य करे हस्ते अम्भोधारामुदकधारां मुखे सामिदृग- न्तरीतिं किंचित्तिर्यक्प्रवृत्तनेत्रान्तरीतिं कुरुते । वर्तमाने लट् ॥१७॥ उपेन्द्रवज्रेति । यत्र जगणतगणजगणा गुरुद्वयं च तथा पञ्चभिः षड्भिश्च यतिश्चेदुपेन्द्रवज्रावृत्तम् । अत्रापि नवेत्यनुषज्यते॥इयमिति।पदान्ते चरणान्ते लालम्बिता भतिशयेन लम्बिता वेणिवल्लीव यस्याः सा तथोक्ता । 'लबि अवलंसने च' इत्यस्माद्यङन्तादधिकरणे कः । कुरङ्गीन- यना इयं वामेन करेण आम्रस्य रसालस्य शाखां धृला अस्य. पान्थस्य मनः आक्रष्टुमि- वेत्युत्प्रेक्षा।आनताझी सती नम्राङ्गी सती विभाति । 'भा दीप्तौ' लट् ॥१८॥ मिश्रेति । तामुपेन्द्रमालाम् । बुधा इति शेषः ॥ यथेति । पातुं प्रवृत्तः पान्थो विरला अङ्गुलयो यस्य तथोक्तः सन् तस्याः कान्ताया मुखमिन्दुरिव तं यथा यथा पश्यति तथा तथा सबीडहासा त्रपास्मिताभ्यां सहिता कान्ता अम्बुधारामुदकधारां प्रेमरसेन साकम् । सहयुक्तेऽप्रधाने तृतीया । तनुते। 'तनु विस्तारे' इत्यस्मालट् ॥ १९ ॥ शालिनीति । मतता मगणतगणतगणाः। गौ च गुरुद्वयमपि । श्रुतितुरङ्गमैश्चतुर्भिः सप्तभिर्यतिः । यत्र तद्वृत्तं शालिनीनामकमित्यर्थः ॥धन्येति । इयं कामिनी यद्यस्मात् । पीयूषामैरमृताभैः शीतशीतैरत्यन्तशीतैः । अतिशयार्थे वीप्सा अम्बुभिः सप्रेम यथा तथोत्थैः सामिनेत्रा- न्तपातैः तिर्यक्प्रवृत्तनयनान्तवीक्षणैः । ‘हेतौ' इति तृतीया । उच्चलन्यो वोर्विलासः पान्थयूनः पथिकतरुणस्य । विशेषणोत्तरपदो विशेषणोभयपदो वा कर्मधारयः ।प्रीतिं पु- ९ १.वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। मत्ता मभसगैयुक्ता यतिः श्रुतिगुहाननैः । (ध्वजं निर्दिश्य ।) स्फारस्फीता वसति पताका माध्वे तीर्थे विधुतजनानाम् । तैस्तैहैः सह सुरलोकं गन्तुं स्थूणा हरिनिहितेव ॥ २१ ॥ भामिनी स्याद्भभभभास्त्रिभिर्यतिचतुष्टयम् ॥ उद्भवदम्बुजसंततिसंततसंचरदुच्चरथाङ्गविहङ्गकम् । सारसुधामधुराम्बुलसत्त्विह मध्वसरो वरमानिनि राजते ॥ २२ ॥ अधिगतसलिलसीकरमृदुसंचरदनिलाङ्कुरपरिचयपरिचितचापलकमलाव- लोकनकुतूहलशैलीपरिशीलितहृदयस्य मम हृदयमवगाहतेऽधुनोहसलिल- निधौ। राजहंसी नरौ रो गौ यतिः स्याहतुसायकैः । पणाति पोषणं करोति। 'पुष पुष्टौ' 'इत्यस्मात्कर्तरि लट् । तद्धन्या ॥२०॥ मत्तेति। नामैतत् । मभसगैः मगणभगणसगणगुरुभिः। श्रुतिगुहान–श्चतुर्भिः षड्भिः॥स्फारेति। स्फारेणातिशयेन स्फीता प्रकाशमाना पताका ध्वजः। माध्वे तीर्थे मध्वसरसि । विधु- तानां जनानां स्नातानां जनानाम् । 'कर्तृकर्मणोः कृति' इति कर्तरि षष्ठी । तैस्तैहैा- ह्मणादिदेहैः । यावदर्थे वीप्सा । सहार्थयोगात्तृतीया । सह सुरलोकं वर्गम् । 'खर्लोको देवलोकः स्यात्' इति त्रिकाण्डशेषः । गन्तुं हरिणा निहिता स्थापिता स्थूणेव स्तम्भ इवेत्युत्प्रेक्षा । 'स्थूणा सूर्ध्या गृहस्तम्भे स्तम्भमांत्रेऽपि च स्त्रियाम्' इत्यनेकार्थः। 'स्थूणा सूर्मी च दारु च' इति त्रिकाण्डशेषश्च । वसति । 'वस निवासे' लट् ॥ २१॥ भामि- नीति । भगणचतुष्टयं त्रिमिस्त्रिभिरक्षरैयतिश्चेद्भामिनीनामक वृत्तम् । अत्र नवेत्यध्या- हारः॥ उद्भवदिति । उद्भवन्यामम्बुजानां संततौ वृन्दे (संततं यथा तथा) संचरन्त उच्चा रथाङ्गविहङ्गकाः चक्रवाका यस्तिथोक्तम् । सारं श्रेष्ठं सुधेव मधुरमम्बु तेन लसत्प्रकाशमानं मध्वसरो राजते । 'राज दीप्तौ' लट् । हे वरमानिनि, इह पश्येति शेषः ॥ २२ ॥ अधिगतेति । अधिगताः खीकृताः सलिलानां सीकरा यैस्ते च मृदु यथा तथा संचरन्तश्च ते अनिलाङ्गुराश्च तेषां परिचयेन संपर्केण परिचितमभ्यस्तं चापलं यस्य तस्य कमलस्यावलोकने कुतूहलस्य शैल्या रीत्या परिशीलितं संस्पृष्टं हृदयं चित्तं यस्य तथोक्तस्य मम हृदयमूह एव सलिलनिधिः समुद्रस्तस्मिन्नधुना अवगाहते निमज्जतीत्यर्थः । 'गाह विलोडने' इत्यस्मालट् । राजहंसीति । नरौ नगणरगणौ रो रगणः । गौ गुरुद्व ।

१० : काव्यमाला। . सरससारसं वारकामिनीपदपराजयप्राप्तदुर्यशः । पतितमम्भसि क्षन्तुमक्षमं परवशं मुहुः संचलत्यहो ॥ २३ ॥ भम्साश्चम्पकमाला गः शरैर्वाणैर्यतिर्भवेत् ॥ दत्तमुखं सद्भाखति पझं भूरि तपस्यत्यम्बुनि लब्धुम् । अत्र च सत्याः संचरदेणीशावकनेत्र्याः पादसमत्वम् ॥ २४ ॥ स्निग्धा स्याद्भममा यत्र हराननयुगैर्यतिः। अपि च । अम्बुजमेतद्धृङ्गव्याजान्मूर्ध्नि कलई धत्ते नूनम् । आनननेत्रात्पाणेः पादादत्र पराभूतं सत्सत्याः ॥ २५ ॥ - । यम् । ऋतुसायकैः षड्भिः पञ्चभिर्यतिश्चेद्राजहंसी वृत्तं भवति ॥ सरसेति। वारकामि- न्याः पदाचरणात्पराजयेन प्राप्तं दुर्यशो दुष्कीति क्षन्तुमक्षममसमर्थ सरसं च तत्सारसं च कर्तृ । अम्भस्युदके पतितं सत्परवशं सत् । उत्थातुमशक्तवादिति भावः। मुहुः संचलति । अहो इत्युत्प्रेक्षा ॥ २३ ॥ भम्सेति । भम्साः भगणमगणसगणा गः गुरुः । शरैः पञ्चभिर्वाणैर्य तिश्चचम्पकमालावृत्तं भवति । रुक्मवती वृत्तमिति केचित् ॥ द- त्तेति । पद्मं कर्तृ । किं चेति चार्थः । भाखति सूर्ये । औपश्लेषिकेऽभिव्यापके वा आ- धारे सप्तमी । दत्तमुखं सत् कृतवदनं सत् । अत्र पुर्या संचरन्त्या एणीशावकनेत्र्या मृगीशिशुनेव्याः। विशेषणोभयपदसमासः। सत्याः साध्व्याः पादसमत्वं लब्धुमम्बुनि भूरि यथा तथा तपस्यति । तापयति शरीरमिति तपः कायक्लेशरूपशुभाचारः । 'तप संतापे' इत्यस्मादौणादिकोऽसुन्प्रत्ययः । तस्मात् 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यडि .'तपसः परस्मैपदं च' इति परस्मैपदम् । लट् । तपश्चरतीत्यर्थः । गम्योत्प्रेक्षा ॥ २४ ॥ स्निग्धेति । भममा भगणमगणमगणाः । हराननयुगैः पञ्चभिश्चतुर्भिः यतिश्चेस्निग्धा नाम । मणिमध्यमिति केदारः ॥ अम्बुजमिति । एतदृश्यमानमम्वुजं कर्तृ । अत्र पुर्या सत्याः साध्व्या आनननेत्रात् आननं च नेत्रं चानननेत्रमिति प्राण्यङ्गलादेकवद्भावः । पाणेर्हस्तात् । पादात् । 'जनिकर्तुः प्रकृतिः' इत्यनेन पञ्चमी । प्रकृतित्वं च कारणलम् । न तु विकारित्वम् । वसुदेवादुत्पन्नो माधवः । दण्डाद्धटो जायत इत्यादौ प्रकृतिविकृतिभा- वाभावेऽपि पञ्चमीदर्शनात् । नात्र ‘विभाषागुणेऽस्त्रियाम्' इत्यनेन पञ्चमी । तस्य गुण- हेतुस्थल एव विधानात् । यदि 'विभाषा' इति योगविभागादगुणेऽस्त्रियामपि पञ्चमो निबन्धनम् ,तर्हि अनेनैवोपपत्तौ 'जनिकर्तुः प्रकृतिः' इति सूत्रवैयर्थ्यम् । यत्तु 'जनिकर्तुः प्रकृतिः' इत्यनेन प्राप्तां पञ्चमी वाधिला 'हेतौ' इति तृतीयायां प्राप्तायां 'शत्रोः शत्रु- रीषन्मित्रम्' इति न्यायेन तामपि वाधिला 'विभाषागुणेऽस्त्रियाम्' इत्यनेन वैकल्पिकप- श्चमीप्राप्तिः भाष्यानुसारेण योगविभागात्वचित्कचित्प्रयोगानुसारेणागुणेऽस्त्रियामिति चे- , ११ . वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। विद्युन्माला ममगगा यतिविधिमुखैर्युगैः। अट्टा यस्मिन्राराज्यन्ते मृष्टा रनरैन्द्रनूलैः । क्रीडाकीरः खीयं बिम्ब भित्तावन्यं बुद्धा क्रुद्धः ॥ २६ ॥ भतौ लगौ माणवकं यति लधिभियुगैः। भर्ममये हर्म्यतटे शर्मसखीनरताम् । पद्ममुखी पद्मगृहां वेद्मि सती मूर्तिमतीम् ॥ २७ ॥ प्रमाणिका जरलगा न यतिः पादमध्यगा। मदेभकुम्भसंनिभरतनद्वयीचलत्पटी। वरीभरीति भामिनी सखीमुखे सुखं मुखम् ॥ २८ ॥ दस्तु 'वासुदेवादुत्पन्नः' इत्यादौ, तेनैव पञ्चम्युपपत्तिरित्यलं प्रसक्तानुप्रसक्त्या । पराभूतं सत्पराजितं सत् । भृङ्गव्यानाद्रमरंमिषान्मूर्ध्नि शिरसि कलङ्कं धत्ते । 'डुधाञ् धारणपो- षणयोः' इत्यस्मालट् । नूनमित्युप्रेक्षायाम् । 'मन्ये शके ध्रुवं प्रायो नूनमित्येवमादिमिः। उत्प्रेक्षा व्यज्यते' इत्युक्तेः ॥ २५ ॥ विद्युन्मालेति। ममगगाः मगणमगणगुरुगुरवः। विधिमुखैश्चतुर्भियुगेश्चतुर्भिः ॥ अट्टा इति । येषामित्यध्याहारः । येषामटानां मित्तो क्री- डाकीरो लीलाशुकः स्वीयं नै बिम्बमन्यं शुकान्तरं बुवा क्रुद्धो भवति । ऐन्द्र रत्नैः हरिन्मणिमिमष्टा घट्टितास्तेऽटा, क्षौमा यस्मिन्पुरे राराज्यते । 'राज दीप्तौ' इत्यस्माद्य- कुन्तात्कर्तरि लट् । अत्र भ्रांत्युदात्तयोरङ्गा निभावेन संकरः ॥२६॥ भताविति । भतौ भगणतगणौ लगौ लघुगुरू। जलधिभिश्चतुर्भिः। युगैश्चतुर्भिः। माणवकमिति नाम ।माण- वकक्रीडितकमिति :सूत्रकारः। माणवकक्रीडामिति पिङ्गलः । माणवमित्यपि, केचित् ॥ भर्मेति।भर्ममये सौवर्णे। गाङ्गेयं भर्म कवुरम्' इत्यमरः।हर्म्यस्य प्रासादस्य तटे। औपश्लेषिकी सप्तमी। शर्मणा सुखेन शर्मशातसुखानि च' इत्यमरः। सखीभिः सह नर्मणि । 'क्रीडा लीला च नर्म च' इत्यमरः । रतामासक्तां पद्ममिव मुखं यस्यास्तथोक्ताम् । सती कान्तां मूर्तिमती पद्मगृहां पद्मं गृहं यस्यास्तां लक्ष्मीमित्यर्थः । वेद्मीत्युत्प्रेक्षा । 'विद ज्ञाने' इत्यस्मालट् । अत्रानुप्रासोत्प्रेक्षयोः संसृष्टिः ॥ २७ ॥प्रमाणिकेति । जरलगा जगणर- गणलघुगुरवः। प्रमाणिकेति नाम ।प्रमाणीति केचित् ॥मदेभेति ।मदविशिष्टश्चासादिभो गजस्तस्य कुम्भयोः संनिभयोः स्तनयोर्द्वय्यां युग्मे चलन्ती पटी अंशुकं यस्यास्तथोक्ता । नातेरस्त्री-'इत्यादिना ङीष् ।भामिनी सख्या मुखे मुखं खाननं सुखं यथा तथा वरीभरीति। पुनः पुनः स्थापयतीत्यर्थः । अत्र णिचोऽन्तर्नियतत्वात् णिच्कार्य न दृश्यते । तथा च धारणानुकूलव्यापारानुकूलव्यापारो बिभर्तेरर्थः । धारणं च संयोगानुयोगिलम् । आद्यव्या- पारः सखीमुखनिष्ठः द्वितीयव्यापारो भामिनीनिष्ठः। अधिकरणलविवक्षया मुखपदात्सप्तमी १२ काव्यमाला। समानिका रजगला न यतिः स्यात्पदान्तरे। शम्बरीकिशोरलोललोचनाञ्चलान्तरेण । सूचयन्त्यलं प्रियं किमप्यसौ श्रुतौ ब्रवीति ॥ २९ ॥ अथ सकलकलाविलाससललितललनाजनलपितमालाजितशुकाकलितम- अलपिञ्जरजटिलविशङ्कटविटङ्कां स्फुटतरस्फाटिककुरण्टिकाकरतलकलितक- नककुम्भैरुन्नमत्कुचभारामिव, पद्मरागमणिगणरञ्जितभित्तिभिस्ताटकमासु- रकपोलतलामिव, विचित्रतरमुक्ताप्रवालपरिचिततोरणस्रजा मेखलाकलाप- लालितामिव, मरकतमणिनिचयरचितशिरोभागेन विबद्धकचभारामिव, क- लिन्दनन्दिनीतुनतरङ्गमझिसकूलदुकूलसंवीतसारसारसदृशां कदम्बेन का- दम्बिनीमिव, सतटिद्गणामभ्रंकषभङ्गिभिः शृङ्गैर्गाहमानामिव निलिम्पपुरीम्, कामिनीजनकमनीजनमवीणानिनादैर्गायन्तीमिव, सुधाधवलिन्ना हसन्तीमिव सौधश्रेणी वर्णयन्तं निजकान्तमप्राक्षीदायताक्षी । नभौ भरौ न यतिः पदि ॥ n , - चेद्रुतविलम्बितं 'न वरीभरीति कवरीभरे स्रजः' इत्यादिकालिदासोक्तिवत् । यद्यत्र कवरीति कबरीभरस्य खानखात्खत्वोपचार इत्युच्यते, तर्हि अत्रापि अतिप्रियसखीलात्खत्वोपचारः। रूपं तु 'डुभृञ्धारणपोषणयोः' इत्यस्मात् 'धातोरेकाचः' इति यडि द्वित्वे 'यढोऽचिच'इति लुकि 'यडो वा' इतीटि "ऋतश्च' इत्यभ्यासरीगागमे वरीभरीति इति । अत्रानुप्रासोपमयोः सं- सृष्टिः ॥ २८ ॥ समानिकेति । रजगला रगणजगणगुरुलघवः । समानिकेति नाम ।। शम्बरीति । शम्बरीकिशोरस्य मृगीशिशोर्लोललोचने इव स्थितयोर्लोललोचनयोश्च- ञ्चलनेत्रयोरञ्चलान्तरेण प्रदेशान्तेन । 'अञ्चलं च तटं पुटम्' इति प्रकाशः । 'अन्तरम वकाशावधिव्यवधानान्तर्धिमेदतादर्थ्य' इत्यमरमेदिन्यौ। प्रियमलमत्यन्तं सूचयन्ती सती। 'सूच पैशुन्ये' इत्यस्मात्स्वार्थणिजन्तात्कर्तरि शतृप्रत्ययः । श्रुतौ कर्णे । सख्या इति शेषः। किमपि ब्रवीति । 'ब्रूञ् व्यक्तायां वाचि' इत्यस्मालट् । अत्रोपमेयभूतस्य शम्बरीकि- शोरलोचनस्य वाचकस्य चानुपादानाल्लुप्तोपमा ॥ २९ ॥ अथेति । अनन्तरम् । आ- यते अक्षिणी यस्यास्तथोक्ता कलगीतप्रियेत्यर्थः । 'विशङ्कट पृथु बृहद्विशालं पृथुलं महत्' इति । 'कपोतपालिकायां तु विटकं पुनपुंसकम्' इति चामरः । 'शालभजी दारुगर्भा. कुरण्टी दारुपुत्रिका' इति त्रिकाण्डशेषः । कलिन्दनन्दिनी कालिन्दी । भङ्गिः रीतिः । 'सकूलं सदृशं समम्' इति कमलाकरः । अप्राक्षीत् । 'प्रच्छ जीप्सायाम् लुङ् ॥ नभा. विति । नभौ नगणभगणौ भरौ भगणरगणौ चेद्रुतविलम्बितमिति नाम ॥

१. वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। १३ विरचिता किल केन पुरी पुरा रजतपीठपुरीति कथं प्रथा । तदसुवल्लभ वेत्तुममन्दया कुतुकमालिकया कलितं मनः ॥ ३० ॥ अथ तामिदमाह स्म कलगीतः हंसी मभनगाः प्रोक्ता यतिवेदैर्गुहाननैः । एणीनेत्रे तदुदयविधि नाम्नश्चास्याः करणमखिलम् । वच्मि स्पष्टं शृणु हितमनाः पुण्यश्रेणीकरणकुशलम् ॥ ३१॥ , कलगीतं सतयगाः शरैर्वाणैर्य तिर्भवेत् ॥ कमलाकान्तः खयमुद्भूतो जमदग्नेः सत्सदने रामः । परशूद्भासी धरणीमागे कुमहीपानां विशरं कर्तुम् ॥ ३२ ॥ कमला स्यात्सजजगा विच्छिन्ना सायकैः शरैः। हतबाहुजां बहुधा महीं प्रविधाय तां हृदि जात्वसौ । तदचिन्तयद्धवनाद्भुतं न पुरा कृतं भुवि कैरपि ॥ ३३ ॥ 4 विरचितेति । हे असुवल्लभ प्राणप्रिय, इयं पुरी पुरा केन विरचिता निर्मिता। किलेति संभावनायाम् । रजतपीठपुरीति प्रथा ख्यातिः कथं केन निमित्तेन प्राप्तेत्यर्थः । तद्वेत्तुं ज्ञातुममन्दया कुतुकमालिकया. कुतूहलमालया। ममेति शेषः । [मनः] कलितं यु- 'कम् ॥ ३०॥ अथेति । कलगीतो गन्धर्वः। तां प्रियामिदं वक्ष्यमाणमाह स्म । 'बेञ् व्यक्तायों वाचि' इत्यस्मालटि तिवादेशे तस्य 'ब्रुवः पञ्चानाम्' इति णलि ब्रुवश्चाहादेशः। "लट् स्म' इत्यनेन लिडर्थे लट् । 'दुह्याच्पच्दण्ड्धिप्रच्छिचिञ्बूशासुजिमन्थमुषाम्' इत्यादिना ब्रूनो योगात्. अकथितं च' इति प्रियायाः कर्मत्वात्प्रियावाक्योत्तरं द्वितीया॥ हंसीति।नामनिर्देशः। मभनगा मगणभगणनगणगुरवः। वेदैश्चतुर्भिः। गुहाननैः षड्भिः॥ एणीति । तस्याः पुर्याः उदयविधिमुत्पत्तिप्रकारम् । अस्याः पुर्या नाम्नश्च करणं नि-. मित्तं स्पष्टं यथा तथा वच्मि । 'वच परिभाषणे' इत्यस्मालट् । हे एणीनेत्रे, हितं समाहितं मनो यस्यास्तथोक्ता सती पुण्यश्रेण्याः सुकृतपतयाः करणे कृतौ कुशलं चतुर- मेतदखिलं शृणु ॥३१॥ कलगीतमिति । नामैतत् । सतयगाः सगणतगणयगण- गुरवः । शरैः पञ्चभिः । वाणैः पञ्चभिः ॥ कमलाकान्त इति । कमलाया लक्ष्म्याः कान्तो विष्णुरित्यर्थः । वयं जमदग्नेर्मुनेः सति शुद्धे सदने उद्भूतः सन् रामो रामना- मको भूत्वा धरणीभागे भूप्रदेशे स्थितानां कुमहीपानां दुष्टराजानां विशरं नाशं कर्तुं पर- शुना आयुधेन उद्भासी । ताच्छील्ये णिनिः। अभूदिति शेषः ॥३२॥ कमलेति । ना- मैतत् । संजजगाः सगणजगणजगणगुरवः ॥ हतवाहुजामिति । असौ रामः । महीं . मन्दा० २ .

; . काव्यमाला। ; मरालिका रयजगाः शिवातनशरैर्यतिः ॥ 1; भार्गवस्ततः पाथसां निधावक्षिपच्छरं सारविक्रमः। तेन तद्गता राक्षसा हताः सोऽपि वारिधि<रतो ययौ ॥ ३४ ॥ श्येनिकेति समुद्दिष्टा रजा लगौ न यतिः पदि । रामभोजनामकं स कंचन क्षोणिभागपालनेऽकरोत्प्रभुम् ।। संततं निजाझिकञ्जरञ्जक मनुपुण्यपुञ्जनीरनीरधिम् ॥ ३५ ॥ रञ्जितारजसा लो गो विरामः सायकर्तुमिः ॥ रामभोजराट् धरणिमण्डलं शासति स्म भूसुरकदम्बकम् । दानवैभवैर्मधुरभाषितै रञ्जयञ्जनं निजविनीतिभिः ॥ ३६ ॥ न्यभा माणिक्यमालागावृतुभिः सायकैर्यतिः । भूमिं हता वाहुजा क्षेत्रिया यस्यां तथोक्ताम् । प्रविधाय कृत्वा भुवि पुरा कैरपि न कृतं नानुष्ठितं भुवनेषु लोकेष्वद्भुतमाश्चर्यकरं यत् तत् । कर्तुमिति शेषः । जातु कदाचित् हृदि मनसि अचिन्तयत् । 'चिति स्मृत्याम्' इत्यस्मात्वार्थगिजन्ताल्लङ् ॥ ३३ ॥ मरालि- केति । नामकथनम् । रयजंगा रगणयगेगजंगणगुरवः॥भार्गव इति। तत आलोच: नानन्तरम् । सारः श्रेष्ठोः विक्रमः पराक्रमो यस्य तथोक्को भार्गवो. रामः । पाथसां. निधौ समुद्रे शरं वाणमक्षिपत् । 'क्षिप प्रेरणे' .लङ् । तेन शरेण । कर्तरि करणे वा तृतीया । तद्गताः समुद्रस्थिताः । कर्तरि कः। राक्षसा हताः । 'हन हिंसागयोः' इत्यस्मात्कर्मणि , कर्तरि वा क्तः । किं चेत्यप्यर्थः । स प्रविष्टशरो वारिधिः समुद्रो दूरतो दूरात् । 'दूरा- न्तिकार्थेभ्यः' इत्यादिना प्राप्तायाः पञ्चम्यास्तसिः । ययौ 'या प्रापणे' लिट् ॥३४॥श्ये नितिः । नामैतत् । सेनिति केचित् । रजा रंगणजगणरगणाः । ल्गौ लघुगुरू ॥ रामेति। संततं निजस्यानिकजस्य पादकमलस्य रजकं पूजादिनालंकारिणं मनु च तत्पुण्यं च तेषां पुज एव नीरं तस्य नीरधिं समुद्रं रामभोजनामकं कंचन पुरुष क्षोणिभा । गपालने खाधिष्ठितभूमिप्रदेशपालने प्रभु राजानं स भार्गवोऽकरोत् । डुकृञ् करणे' लङ् परस्मैपदम् ॥३५॥ रञ्जितेति । रजसाः रगणजगणसगणाः । लो लघुः । गो गुरुः । सायकर्तुभिः पञ्चभिः षड्भिः ॥ रामभोजराडिति।रामभोजनामकराजा इत्यर्थः। दान नवैभवैर्मधुरभाषितर्भूसुरकदम्बकं निजविनीतिभिः स्वीयविनयैः जनं रञ्जयन धरणिमण्डलं शांसति स्म । स्मयोगाद्भूतार्थे सेंट् ॥३६॥ न्यभा इति । न्यभा नगणयगणभगणाः ।। . १. 'गणकार्यमनित्यम्' इत्येतदाश्रित्येदम् 'शास्तिः सा स्म' इति पाठ एव केनचित्प यावर्तितो भवेत्।

१. वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। १५ भृगुकुलदीपे तत्र रमापे विनिहितचित्ते श्रीभिरमत्ते । अवनितलेऽस्मिन्राजनि तस्मिन्भवति समृद्धं स्माशिशुवृद्धम् ॥३७॥ खागतं रो नभगगाः पादमध्ये यतिनहि ॥ एकदा सकलराजनुताशिर्वाजपेयसवनं स विधातुम् ।:: : आरभन्भृगुकुलोत्तममेनं सप्ततन्तुविवुधं बत वन्नेः ॥ ३८ ॥ तद्भुजंगप्रयातं यौ यौ यतिन पदान्तरे । नृपः कारयामास तस्यासनाथै सुपीठं स रूप्योत्तरं त्वष्टवर्गम् । दिवाकृत्सहस्रप्रभाभासमानं समस्तैश्विरलैश्च रत्नैर्विचित्रम् ॥ ३९ ॥ मालिनी स्यान्नन्मययाः शिवमूर्तिखरैर्यतिः ॥ : भृगुपरिवृढमेनं पीठमारोप्य मेनं नतिनुतिततिपूर्व याचयामास पूर्वम् । भजकसुजनबन्धो ज्ञानसिन्धो मुदन्धो ' भवतु पुरविधानं रूप्यपीठाभिधानम् ॥ ४० ॥ गौ गुरुद्वयम् ॥ भृगुकुलेति । भृगुकुलस्य दीपे प्रकाशके रमापे लक्ष्मीपतौ तत्रं रामे वि- निहितचित्ते स्थापितचेतसि श्रीभिः संपद्भिरमत्तेऽनुद्धते तस्मिन्रामभोजेऽस्मिन्नवनितले एतस्मिन्भूभागे राजनि सति आशिशुवृद्धमाबालवृद्धं समृद्धमृद्धिमद्भवति स्म । स्मयोगे भूते लट् ॥३७॥ स्वागतमिति । नामैततूं । रः रंगणः नभगगाः नगणभगणगुरुगुरवः ॥ एकदेति । कदाचिदित्यर्थः । सकलै राजभिर्नुतौ स्तुतावनी यस्य तथोक्तः स राम- भोजः वाजपेयसवनं वाजपेयाभिधयज्ञं विधातुमारभन् सन् भृगुकुलस्योत्तममेनं रामं सप्ततन्तौ मखे विबुधं देवं वने । 'वृञ्वरणे' इत्यस्माल्लिट् । अस्मिन्यज्ञे त्वमेव देवो भवेति याचयामासेति भावः ॥ ३८ ॥ तदिति । यौ यौ यगणचतुष्टयम् । भुजंगप्रयातमिति नाम ॥ नृप इति । स नृपः तस्य रामस्य आसनार्थ त्वष्टवर्ग वर्धकिसमूहम् । 'हनोरन्य तरस्याम्' इति द्वितीया । दिवाकृतां सूर्याणां सहस्रमिव प्रभाभिर्भासमानं चिरंतनैः पुरा- णैः । अकृत्रिमैरिति भावः । समस्तै रत्नैर्विचित्रं रूप्योत्तरं रूप्यपदोत्तरस्थितं सुशोभन पीठम् । रूप्यपीठमित्यर्थः। कारयामास॥३९॥मालिनीति नन्मययाः नगणनगणमगणा- यगणयगणाः । शिवमूर्तिस्वरैरष्टभिः सप्तभिः ॥ भृग्विति ।माया लक्ष्म्या इन प्रभु पूर्व पुरातनं भृगूणां परिवृढं नेतारमेनं रामम् । रुह धातोर्गत्यर्थकत्वेन 'गतिवुद्धि-' इत्यादिना रामस्य कर्मलम् । पीठमारोप्य आरोपयित्वा नतीनां नुतीनां ततिः पूर्वा यस्मिन्निति क्रियाविशेषणम् । भजकानां सुजनानां वन्धो ज्ञानस्य सिन्धो मुदामानन्दानामन्धः। पुरवि- , - काव्यमाला। पृथ्वी जसौ जसयला गश्छिन्ना वसुभिहै। इति क्षितिपतेर्वचःसरणिमादरादादद- द्ददौ वरमरिंदमः खलु तथेति भूमीभुजे । तदादि सकला जना जगति रूप्यपीठाभिधां वदन्ति नगरीमिमां कनकगौरि जानीहि तत् ॥४१॥ एवमग्रेऽप्युदाहरणान्युन्नेयानि । पणवो नौ यगौ छेदः पञ्चभिः पञ्चभिर्भवेत् ॥ आन्दोलिका ततरगाः सायकैः सायकैर्यतिः । मयूरसारिणी ख्याता रजरा गो न पच्छिदा॥ मनोरमा नरजगैर्विच्छिन्ना शास्त्रसागरैः। कुलटा स्यान्नजनगाः पञ्चभिः पञ्चभिर्यतिः॥ सुमुखी नजजा लो गोपृषत्कऋतुभिर्यतिः । दोधकं भौ भगौ गः स्याजस्तगा ग उपस्थितम् ।। श्री तौ नगगा यत्र महाभूतै रसैर्यतिः । नन्दिनी सजाभ्यां युक्ता वाणर्तुभेदिनी ।। भ्रमरविलसितं मभनलगुरवश्छेदश्चतुर्भिरर्वद्भिः । मौक्तिकमाला भतनगगुरवः श्वासः शरैर्भवेन्मुनिभिः ॥ रथोद्धता रनरला गो यतिन पदान्तरे । धानं नगरविधिः। नगरमिति यावत् । रूप्यपीठमित्यभिधानं यस्य तथोक्तं भवतु । प्रार्थ- नायां लोट् । इति याचयामासेत्यन्वयः । 'टुयाचू याञायाम्' इत्यस्माल्लिट् ॥ ४० ॥ पृथ्वीति । नामैतत् । जसौ जगणसगणौ जसयलाः जगणसगणयगणलघवः । गः गुरुः । वसुभिरष्टभिः । ग्रहैवभिः ॥ इतीति । इति क्षितिपतेः रामभोजस्य वचःसर- णिमादरादाददत्खीकुर्वन् अरिंदमः शत्रुदमनकारी रामः । तथेति भूमी पृथिवीं भुनचीति तथोक्तम्। 'भुज पालनाभ्यवहारयोः' इत्यस्मात् कि । वरं ददौ । खलु प्रसिद्धौं । तदादि तत्प्रभृति सकला जना जगति इमां नगरी रूप्यपीठाभिधा वदन्ति । हे कनकगौरि वर्ण- वर्णे, तज्जानीहि निबोध ॥४१॥ ग्रन्थगौरवभिया निरूपणमुपसंहरति-एवमिति।इ मन्दारमरन्दव्याख्यायां माधुर्यरञ्जन्याख्यायां गूढकर्तृकायां समवृत्तप्रकरणं समाप्तम् ॥

१७
१. वृत्तविन्दुः] मन्दारमरन्दचम्पूः।
भद्रिका नो नरलगा वक्राननसगा गुरुः ॥
रलौ भसौ चन्द्रवर्त्म हीन्द्रवंशा ततौ जरौ ।
सैश्चतुर्भिस्तोटकं स्यात्सज्ससैः प्रमिताक्षरा ॥
वैश्वदेवी ममयया यतिः सायकघोटकैः ।
नयौ नयौ च कुसुमविचित्रा भिद्रसै रसैः ॥
स्रग्विणी रैश्चतुर्भिः स्यान्नमजा र प्रियंवदा ।
नजौ जरौ मालिनी स्यान्नजौ तामरसं जयौ ।।
ननौ मयौ स्फुटाख्यं स्याद्वसुभिर्वाधिभिर्यतिः ।
जलोद्धतगतिर्जः सो जसौ शास्त्रै रसैयतिः ॥
प्रमुदितवदना नगररयुक्ता मुनिभिश्च सायकैश्छिन्ना ।
वनमालिनीति सोक्ता नजभययुक्तार्वसायकैश्छिन्ना ॥
मणिमाला तयतयाश्छिन्ना स्कन्दास्यदर्शनैः ।
जलमाला भभमसाः सागरैर्वसुभिर्यतिः॥
मता नरौ नरौ भिन्ना वजकोणैर्गुहाननैः ।
ललना स्याद्भतनसैश्छिन्ना वर्दुमहीधरैः ॥
ललिता स्यात्तभजरैरुज्ज्वला तु नभौ भरौ ।
प्रभा ननौ तथा रेफौ विरतिर्मुनिसायकैः ।।
प्रहर्षिणी मनौ नौ गो गङ्गाध्वककुभिर्यतिः ।
मत्या मत्तमयूरं स्गौ वर्णव्याघ्रीस्तनैर्यतिः॥
न विच्छिन्ना पदि सजसजगा मञ्जुभाषिणी ।
उर्वसी नस्ततरगा राज्याङ्गैर्ऋतुभिर्यतिः ।।
क्षमा ननौ ततौ गः स्यात्तुरङ्गमरसैर्यतिः ।
ज्मौ सरौ गोऽतिरुचिरा चतुर्भिर्नवभिर्यतिः॥
चञ्चरीकावली प्रोक्ता यमौ रेफद्वयं गुरुः।
चन्द्रिका ननतास्तो गश्छेदस्तुरगदर्शनैः ।।
चतुर्भिवभिश्छिन्ना रतिः सभनसा गुरुः ।

१८ काव्यमाला । । मोहप्रलापः श्रुतिमिहैर्मिन्नो मभत्रिगाः ।। कलहंसी तयसभा गौ यती रससिद्धिभिः । पथ्या सजसयल्गैः स्यात्ककुभिः श्रुतिभिर्यतिः॥ असंवन्धा मतन्सा गौ पञ्चभिनव भिर्यतिः । ननराः सलगाश्छिन्ना खराश्वैरपराजिता ॥ बुधैरुक्ता प्रहरणकलिका नन्भना लगौ । प्रोक्तेन्दुवदना प्राज्ञैर्भजस्तैः सगुरुद्वयैः ॥ अलोला स्वान्मसमभगगाश्छिन्ना खरैहयैः। नन्ना नसौ मणिगुणनिकरोऽहिहयैर्यतिः ॥ चामरं रो रजजरा वा द्वीपवसुभिर्यतिः। प्रभद्रकं नजौ भज्राः पञ्चभैः स्वरिणी रुचिः॥ रेखा सजनना यश्च सायकैर्दशभिर्यतिः। नौ मयौ यश्चन्द्रसेना घोटकैर्वसुभिभिंदा । मन्दाकिनी त्मयर्ता गो वेदैर्वेदयतिर्भवेत् । प्रमदा सत्यसभगा वर्णैर्वर्णयतिर्भवेत् ॥ न्मौ जस्नगाः सुललिता युगैर्युगयतिर्भवेत् । स पञ्चचामरो ब्रौ नौ जगौ छेदो न वापदि ॥ भरनननगयुक्तं गजविलसितमाहुः स्वरैर्घनैश्छिन्नम् । नजभजरगसंयुक्ता सप्तभिरक्रैश्च वाणिनी छिन्ना ॥ मन्दाक्रान्ता मनतास्तो गावब्धिषडगैर्यतिः। यम्नाः सभ्लाः शिखरिणी गोरसैः शंकरैर्यतिः॥ । हरिणी सम्रसलगाः षडब्धिभुवनैर्यतिः। तन्नर्कुटकमाख्यातं नज्मै जलगैर्युतम् ।। तवंशपत्रपतितं भरनभनल्गं च दिसुनिच्छिन्नम् । कथितं च घनमयूरं ननभसरलगं खरै रसैश्छिन्नम् ॥ मो लौ यौ यः कुसुमितलता भूतत्वगैर्यतिः । .. -- .-

१. वृत्तबिन्दुः] . मन्दारमरन्दचम्पूः।
शुभ सनजना भः सः पापाङ्गाङ्गगुणैर्यतिः ॥
रतौ जजौ भरौ सिद्धिवाणाक्षैर्हरनर्तनम् ।
नद्वया च चतूरेफा निशा स्पादिग्वसुच्छिदा ॥
मल्लिका स्याद्रसजजा भरौ छिन्नाष्टपतिभिः ।
विलासो मः ससौ राश्च गुणषड्वसुभिर्यतिः ।।
मेघविस्फूर्जिता यम्नाः सरगाभिद्रसवंगैः ।
शरत्रयैर्युगैश्छिन्ना जन्भस्त्रज्गा वरूथिनी ।।
नवभिर्दशभिश्छिन्नं सरलं न्भ्रसजा जगौ ।
मत्तेभविक्रीडितं स्मन्म्यल्गा विश्वाश्वमेदनम् ॥
मदकलनी नजनभसा नलगाश्छिन्ना शराङ्गवाणाङ्गैः।
कनकलता सा कथिता षण्नैर्युक्ता तथा लगाभ्यां च ॥
भ्रन्मभ्रल्गा ग्रहै रुद्रैर्विच्छिन्नोत्पलमालिका ।
प्रश्नैः सुवदना यभ्लैर्गेनार्वाश्वारिभिद्युता ॥
रजत्रयलगैर्युक्तं मालवं केचिदचिरे ।
वेश्यारनं तनललैर्गाभ्यां षट्पषडशिभित् ॥
मरभनया यौ मुनिमुनिमुनिभिः स्यात्स्रग्धरा विभिन्नाङ्गी ।
सुरनर्तकी रनरना रनरा विरती रसर्तुशास्त्रगुणैः ।।
मत्तेभाख्यं तभयजसरनगयुक्तं स्वरार्वफणिभिन्नम् ।
भरनरनरनगयुक्तं चुम्बनसूयः प्रभद्रकं भिन्नम् ।।
मदिरा सप्तभगणैर्गुरुणान्तेऽपि संयुता ।
तुरंगना लंगौं माध्वी मासै रुद्रैश्च वा यतिः ।।
नगणेन तर्कजलगै रुद्र रसैर्यतिः सुधालहरी ।
नजमजसजनलगयुतं रुद्राभिन्नमश्वललिताख्यम् ।।
घोटकाख्यं वृत्तमिदमष्टभिः सगणैर्युतम् ।
स्वैरिणीक्रीडनं प्रोक्तमष्टभी रगणैर्युतम् ।।
वेश्याप्रीतिमभयमनभनसयुक्ताहिफणिगजैश्छिन्ना ।
कलकण्ठाख्यं सजनजभनरनगाश्चाहिभोगिनिधिभिन्ना ॥

२० : काव्यमाला। चेटीगतिश्च गायत्री या लगौ छिदिनैमगैः। भजनन्भगगैरर्वार्वेषुभिदि रञ्जनम् ॥ लालिनी स्याद्रसजगा वालिका तु रनौ सगौ । तन्वी शरमुनीनैश्छिद्भलसभनयैर्युता ॥ इति समवृत्तप्रकरणम्। नगणद्वितयं त्वादौ सप्त रेफास्ततो यदि । चण्डवृष्टिप्रयाताख्यो दण्डकश्चतुरशिकः ॥ नद्वयादष्टरैरो नवरैरर्णवो मतः। . अथ दण्डकनिरूपणं कुर्वन्नादौ चण्डवृष्टिप्रयातलक्षणमाह-नगणेति । आदौ नगण- द्वितयं नगण] द्वयं ततः सप्त रेफाः सप्त रगणा यदि, तर्हि चण्डवृष्टिप्रयाताख्यो दण्डको भवति। ननु सामान्यलक्षणमनुक्ता विभक्तभेदलक्षणकथनमयुक्तमिति चेदाह-दण्डकश्च- तुरङ्गिक इति । अनित्वं चात्रैकोनसहस्रवर्णाधिकवर्णानात्मकत्वे सति सप्तविंशतिवर्णन्यून- वर्णानात्मकत्वे सति वर्णात्मकत्वम् । वृत्तपादातिप्रसङ्गवारणाय द्वितीयं दलम् । गद्यादि- वारणायाचं दलम् । ध्वनिशब्दवारणाय वर्णात्मकलम् । यद्यपि एकन्यूनसहस्रवर्णाद्यात्मके गयेऽतिप्रसङ्गस्तथापि वर्णात्मकत्वमित्यस्य नगणद्वयाव्यवहितोत्तररगणसजातीयगणघटित- वर्णात्मकत्वविवक्षणान्न दोषः। साजात्यं च गणविभाजकतावच्छेदकमत्त्वादिना । अव्यवहि- तोत्तरत्वनिवेशान्न पादाभासेऽतिप्रसङ्गः। तथा चैतादृशपादचतुष्टयवत्त्वं सामान्यलक्षणम् । प्रथमानिसदृश द्वितीयाङ्गिसदृशतृतीयात्रिसदृशचतुर्थाद्धिमत्त्वमिति निष्कर्षः। तेन विषमिते दण्डकाभासे नातिप्रसङ्गः । सादृश्यं च स्खविशिष्टगणमात्रघटितत्वेन । गणे स्ववैशिष्टयं च खघटकगणगतसंख्यांक्रमोभयविशिष्टलसंवन्धेन । नन्वर्धसमे विषमे च दण्डकेऽव्याप्तिरि- ति चेन्न । तस्यालक्ष्यलात् । प्राचीनै रामकीर्तिगोमानसादिभिः समपादचतुष्टयस्यैव दण्ड- कत्वेनोकवादिति संक्षेपः। इत्थं च नगणद्वयोत्तररगणसप्तकघटितपादचतुष्टयवत्त्वं चण्ड. वृष्टिप्रयातस्य लक्षणं बोध्यम् । मादिगणद्वयोत्तररगणसप्तकघटिते दण्डकाभासेऽतिव्याप्ति- वारणाय नगणद्वयोत्तरत्वं रगणसप्तके विशेषणम् । वृत्तेऽतिव्याप्तिवारणाय घटितान्तं पादविशेषणम् । दण्डकार्धवारणाय चतुष्टयपदम् । एवमेवाग्रेऽपि लक्षणं परिष्करणी- यम् । उदाहरणं तु विस्तरभयान निरूपितं ग्रन्थकारेण । वयं वस्य ब्रूमहे- कमलनयन केशवानन्त गोविन्द विष्णो हरे पाहि मां सर्वदा सर्वथा परमपुरुष भोर्भवाम्भोधिमध्ये निमज्जन्तमत्यन्तमानायवेद्योत्तम । कथमिह भुवि मामनाथं भवत्पादपमार्पितखान्तभृङ्गं वदोपेक्षसे त्रिभुवनजनपालने नित्ययुक्तो भवान्सहयानीरधे श्रीनिधे कान्तिघे ॥ एवमन्यत्राप्युदाहरणान्युन्नेयानि ॥नद्वयादिति। सर्वनान्वेति । अष्टरैरष्टभी रगणैः ।

२१ १. वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। दशरैाल आख्यातो जीमूतो रुद्ररैर्मतः॥ लीलाकरः सूर्यरैः स्यादुद्दामो विश्वरैर्मतः । मनुरैः शङ्खनामा स्यातिथिरैः पद्मको मतः ॥ एवमेकैकरगणवर्धनात्सकलाविषु । एकन्यूनसहस्रार्णपर्यन्तं दण्डका मताः॥ गणसप्तकसंयुक्तो नयाद्रगणं विना । बुधैः प्रवितकः ख्यातः कैश्चिद्यैः सप्तभिर्युतः ॥ नगणद्वितयादेतदेकैकगणवर्धनात् । कुमुदानतरङ्गादिनाम्ना भेदाश्च पूर्ववत् ॥ इति दण्डकप्रकरणम् । उपचित्रा ससौ सल्गा ओजे युजि भभा गुरू । द्रुतमध्या भत्रयं गावोजेऽन्यत्र नजौ जयौ । ओजे वेगवती सागः समे तु भभसा गगौ । ओजे भद्रविराद् तज्रा गो नोजे मसजा गगौ ॥ ओजे केतुमती सज्सा गोऽनोजे भरताः सगौ। ओजे वियोगिनी सौ जगावनोजे सभरा लगौ ॥ । एवमप्रेऽपि ॥ गणसप्तकेति । नद्वयानगणद्वयोत्तरं रगणं विना । 'पृथग्विनाना नाभिस्तृतीयान्यतरस्याम्' इति द्वितीया । गणसप्तकेन युक्तः प्रवितकनामा दण्डको भवति । कैश्चित्केदारादिभिः । यैर्यगणैः ॥ इति माधुर्यरञ्जन्यां दण्डकप्रकरणम् ॥ अथ दण्डकस्यापि समपादचतुष्टयवत्त्वेन समवृत्तकथनानन्तरमधुनार्धसमवृत्तानि क्रम- प्राप्तानि लक्षयति । सामान्यलक्षणं तु पूर्वमेवोक्तमिति । तद्भेदेषु प्रथमं तावदुपचित्राल. क्षणमाह-उपचित्रेति । ओजे विषमे ससौ सगणद्वयं सल्गाः सगणलघुगुरवः । युजि समे समपादयोरित्यर्थः । भभा भगणत्रयं गुरू गुरुद्वयं यदि तर्हि उपचित्रा नाम वृत्तं भवति। एवमग्रेऽपि बोध्यम् । अत्र. केषांचिद्भद्रविराडादीनामौपच्छन्दसिकादिभ्यो वैतालीयभेदेभ्योऽभेदेऽपि गणनियमानियमरूपोपाधिमेदाढ़ेदो वोध्यः । अत एव केदा- रोऽपि औपच्छन्दसिकं विरावृत्तमप्याह स्म । अत एव पिङ्गलोऽप्युवाच-वदन्त्य- परवक्राख्यं वैतालीयं विपश्चितः । पुष्पिताग्रामि, केचिदौपच्छन्दसिकं तथा ॥' इति । इदमेव वृत्तं रत्नाकरेऽप्युदाहृतम् ॥ इति माधुर्यरजन्यामर्धसमवृत्तप्रकरणम् ॥.....

२२ काव्यमाला। - ओजे सौ सलगा युक्ते नभभ्रा हरिणप्लुता । अयुज्यपरवकं नौ रल्गा युजि नजौ जरौ ॥ पुष्पिताया ननरया युक्ते तु नजजा रगौ। ओजे परावती रजा जोऽनोजे तु जरौ जगाः ।। ओजे सज्सजगा युक्ते सज्ससा मितभाषिणी । फलिताग्रं गाधिकान्ते वियोगिन्येव साजिषु ॥ सभतैर्यसभैर्गाभ्यां युक्ता विषमपादयोः। सभतैर्यससैर्युक्ता कलिकाललिता युजोः॥ इत्यर्धसमवृत्तप्रकरणम् । आद्यपादेऽष्टवर्णाः स्युर्युग्मायेषत्तरोत्तरम् । अधिकाश्च चतुर्वर्णा नियमो लगयोन चेत् ।। विबुधास्तत्पदचतुरूख्यिं वृत्तमूचिरे । आपीडोऽत्रैवान्त्यवौँ गावन्ये ला यदानिषु ॥ आदौ गुरू न चान्ते चेत्प्रत्यापीडो भवेदयम् । आपीडाद्यद्वितीयानी यदि विनिमयात्कृतौ ।। तदा तु कलिकेत्युक्ता मण्डरीत्यपि कैश्चन । आपीडस्यैवाद्यपादस्तृतीयश्चेत्तृतीयकः ॥ द्वितीयश्चेवितीयोऽपि यदादिलवलीति सा । आपीडस्यादिमस्तुर्यस्तुरीयश्चेत्तृतीयकः ॥ तृतीयोऽपि द्वितीयोऽविर्द्वितीयः प्रथमो यदि । उक्ता सामृतधारेति मञ्जरीत्यपि कैश्चन ॥ इति विषमे पदचतुरूप्रकरणम् । अथ क्रमप्राप्तान्विषमवृत्तभेदानाह-आयेति । युग्मायेषु द्वितीयतृतीयचतुर्थेवि- त्यर्थः। यस्यादिमपादोऽष्टवर्णात्मकः, द्वितीयो द्वादशवर्णात्मकः,तृतीयः षोडशवर्णात्मकः, चतुर्थो 'विंशतिवर्णात्मकः । किं च गुरुलघुनियमाविशिष्टाः सर्वे पादाश्चेत्पदचतुरूवं- नामक वृत्तं भवति ॥ आपीड इति । अन्येऽन्त्यवर्णद्वयमिन्नाः । ला लघवः । अतः पूर्वमादस्यः भेदः । एवमग्रेऽपि । इति माधुर्यरजन्यां पदचतुरूर्वप्रकरणम् ॥; :

२३ इत्युद्गताप्रकरणम् । १. वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। प्रथमे सजसा लश्चेद्वितीये नसजा गुरु । तृतीये भज्लगास्तुर्ये सज्संगैः सहितोद्गता । उद्गतायास्तृतीयोनिरन्मगैः सहितो. यदि । तदा सौरभकं ब्रूतेऽन्ये सौरलकमचिरे ॥ उद्गतायास्तृतीयोर्निन्ससैललितं मतम् । उद्गतायाश्चतुर्थोऽनिननन्गैः सरलं मतम् ।। आये मसजभर्गाभ्यां द्वितीये स्मगैर्युतम् । तृतीये ननसैर्युक्तं तुर्ये त्रिनजयैर्यदि ॥ उपस्थितप्रकुपितं तमाहुः पूर्वसूरयः ॥ अस्यैवाकिस्तृतीयश्चेननसैननसैर्युतः । तदा तु वर्धमानाख्यं वृत्तं पूर्वे वभापिरे ॥ ताीयीकस्तुः तस्यानिस्तजरैः संयुता यदि । वृत्तं वदन्ति तच्छुद्धविराडार्षभनायकम् ।। इत्युपस्थितंप्रकुपितंप्रकरणम् । प्रोक्तान्येतानि विषमवृत्तानि प्रस्फुटं विना अन्यान्यसमवृत्तानि गाथाः प्राहुर्मनीषिणः इति विषमवृत्तप्रकरणम् । अथ मात्राच्छन्दः कथ्यते । ओजे गणत्रयं पादे द्वितीये तचतुष्टयम् । गुरुश्चतुर्थेऽपि तथाः किं तु लोन तृतीयके । विषमे जगणो नात्र पथ्यार्या संप्रकीर्तिता ॥ - उपसंहरति-प्रोक्तानीतिः । प्रस्फुटं यथा तथा प्रोकानि एतानि विषमवृत्तानि , विना सन्यानीतराणि असमवृत्तानि विषमवृत्तानि मनीषिणः गाथाः: प्राहुरित्यन्वयः । इति माधुर्यरजन्यां विषमवृत्तप्रकरणम् ॥ : इंदानी मात्राछन्दोभेदांल्लक्षयन्प्रति जानीते-अथेति। मात्रागणघटितत्वं लक्षणम् , भार्याचन्यतमत्वं वा मात्रागणलक्षणं तु खयमेवाने वक्ष्यति। तत्रादौ पथ्यालक्षणमाह- ओज इति।ओजे विषमे पादे गणत्रयम् । अत्र सर्वत्रापि मात्रागण एव गणपदेन झेयः।

.
काव्यमाला।
गणत्रयं समुल्लङ्य विषमश्चरणो यदि ।
द्वयोः शकलयोरेनां विपुला- प्रचक्षते ॥
द्वितीयावोजयोर्यत्र समयोरादिमौ तथा ।
जगणौ संप्रकाशेते चपलार्येति सा मता ॥
चपलालक्षणं त्वाये पथ्यालक्षणमन्तिमे ।
शकले स्यात्तर्हि मुखचपलेति प्रकीर्तिता ॥
पथ्यार्यालक्षणं त्वाद्ये चपलालक्ष्म चान्तिमे ।
दले यदि स्याजघनचपलेति प्रकीर्तिता ।।
इत्यार्याप्रकरणम् ।
गीतिः पथ्यादिमदललक्षणं दलयोर्यदि।
उपगीतिस्तु दलयोः पथ्यार्योत्तरलक्ष्म चेत् ।।
उगीतिः स्याच्छकलंयोः पथ्याया व्यत्यये सति ।
आर्यागीतिस्तु पथ्याया आग्रंशे गुरुणाधिके ।
यत्रैकद्वित्रिमात्राणामाधिक्ये प्रथमे पदि ।
तदा विगीतिः कथिता द्वितीये चेत्सुगीतिका ।।
तृतीये त्वतिगीतिः स्थाचतुर्थे खरगीतिका ।
कटुगीतिस्त्वोजयोश्चेत्समयोर्मधुगीतिका ॥
यदि द्वितीयादिमयो लगीतिरुदाहृता ।
वक्रगीतिस्तु कथिता चेत्तृतीयचतुर्थयोः ।।
इति गीतिकाप्रकरणम् ।
द्वितीये तच्चतुष्टयं मात्रागणचतुष्टयं गुरुश्चा चतुर्थे पादेऽपि तथा गणचतुष्टयं गुरुश्च ।
मन द्वितीयाद्विशेषमाह-किं त्विति । अत्र चतुर्थपादस्तृतीयके तृतीयगणस्थाने ।
लो लघुरेक एवेत्यर्थः। अनासमपादयोर्विषमे विषमस्थाने जगणो न भवति । तर्हि
पथ्यार्येति संप्रकीर्तिता । अयं भावः विषमयोः ।
गीतिकालक्षणमाह-गीतिरिति । दलयोः प्रथमद्वितीयायोः । अत्र सर्वत्र
दलपदं वृत्तार्धपरम् । उपगीतिरिति । पथ्यार्योत्तरलक्ष्म पथ्यार्योत्तरदललक्षणम् ॥
इति गीतिकाप्रकरणम् ॥
t

मन्दारमरन्दचम्पूः। २५. उक्ताचलेधृतिः प्राज्ञैद्यष्टाभिलघुभिर्युता । जो वा नलौ वा विश्लोकः ख्यातो मात्राचतुष्टयात् ॥ जो वा नलौ वा व्यन्धिभ्यो मात्राभ्यो वानवासिका। लघुश्चेन्नवमश्चित्रा तथैवाष्टमपञ्चमौ ॥ उपचित्रा तु मात्राभ्यो वसुभ्यो भगणो यदि । कथं वा यष्टमात्राभिः पादाकुलकमिष्यते ॥ इति मात्रासमके षोडशमात्राप्रकरणम् । रुचिरा लघवो यत्र विंशतिश्चेत्पुनर्नव । अष्टाविंशतिलैर्गेन युतं शिखितमुच्यते ॥ त्रिंशल्लैर्गेन युक्तं तु गणितं परिकीर्तितम् । विषमे शैखितं युक्ते गौणितं यदि सा शिखा ॥ अस्यां तु विपरीतायां खजेति परिकीयते । गुरवः षोडशायुक्त द्वात्रिंशल्लघवो युजि । यदि स्युर्घवतेऽनङ्गक्रीडां तां तु मनीषिणः॥ इति मात्रासम के त्रिंशन्मात्राप्रकरणं मात्रासमप्रकरणं च । ओजयोः पादयोरादौ षण्मात्रा रलगा अथ । युक्तयोः पादयोरादावष्टमात्रा रलौ गुरुः ॥ . अथ मात्रासमकमेदानाह-तत्रादौ षोडशमात्रावृत्तभेदानाह-उक्तेति । यष्टाभिः 'पोडशभिः लघुभिर्युता प्राज्ञैरचलधृतिरित्युक्ता । जो वेति । मात्राचतुष्टयात् जो वा जगणो वा । नलौ वा नगणलघू वा यदि तर्हि विश्लोको नाम वृत्तं भवति । अस्य षोडशमात्रात्मकत्वं सर्व मिलिखा एकपादस्य नियतमेव । एतादृशपादचतुष्टयात्मकं वृत्तं भवति । एवमग्रेऽपि । यब्धिभ्यो मात्राभ्यः। अष्टमात्राभ्य इत्यर्थः । वसुभ्यः अष्टाभ्यः । कथं वेति । गुरुलघुनियमो नास्तीत्यर्थः । इति षोडशमात्राप्रकरणम् ॥ अथ त्रिंशन्मात्रावृत्तान्याह-रुचिरेत्यादिना । ननु त्रिंशन्मात्रावत्त्वाभावादस्य पादस्य कथं त्रिंशन्मात्रावत्त्वमिति चेत् । अष्टाविंशतिमात्रामारभ्य द्वात्रिंशन्मात्रापर्यन्तं त्रिंशन्मात्रोपचारः पूर्वैरङ्गीकृत इति न विरोधः। इति त्रिंशन्मात्राप्रकरणम् ॥ अथ वैतालीयं लक्षयति-ओजयोरित्यादिश्लोकत्रयेण। ओजयोः पादयोः विषम- पादयोः, युक्तयोः पादयोः समपादयोरित्यर्थः । एतयोः समपादयोः केवलं लघवः नैव । मन्दा०३ २६ ' काव्यमाला । केवलं नैव लघवस्त्वेतयोराधेषट्कलः । समस्तेष्वपि पादेषु द्वितुर्यारिस्थिताः कलाः ॥ त्रिवाणसप्तमस्थानस्थितैश्च त्रुटिभिः सह । गुरुत्वं न भजेयुश्चेद्वैतालीयं प्रकीर्तितम् ॥ औपच्छन्दसिकं प्रोक्तं सर्वत्रान्ते रयौ यदि। आपाताली कीर्तितेयं पर्यन्ते भगगा यदि ॥ द्वितीयगुणयोरेको गुरुश्चेद्दक्षिणान्तिका । उदीच्यवृत्तिः कथिता तादृग्गश्चेदयुग्मयोः ॥ 'युग्मयोः प्राच्यवृत्तिस्तु गुरुश्चेत्तूर्यबाणयोः । उदीच्यप्राच्यवृत्त्योस्तु पादयोर्विषमौ समौ । समौ चेद्यदि तद्वृत्तं प्रवृत्तकमितीर्यते ॥ इति वैतालीयप्रकरणम् । द्वितूर्यारिस्थिताः द्वितीयचतुर्थषष्ठस्थानस्थिताः कलाः मात्राः। त्रिवाणसप्तम- स्थानस्थितैः तृतीयपञ्चमसप्तमस्थानस्थैः । त्रुटिभिः मात्राभिः । 'स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः' इत्यमरः । गुरुत्वमेकगुरुभावम् । अयं भावः-प्रथमतृतीयपा- दयोरादौ षण्मात्राः ततो रगणलघुगुरवः। द्वितीयचतुर्थपादयोरादावष्टमात्रास्ततो रगणलघु- गुरवः । किं च द्वितीयचतुर्थषष्ठस्थानिकास्तृतीयपञ्चमसप्तमस्थानिकाभिर्मात्राभिः सहैकगु- रुत्वं न भजेयुश्चेद्वैतालीयं वृत्तं भवति । अत्र समपादादिमात्रा गुरुणा मिश्रिता भवेयुरित्यनेन विषमपादादिमात्राः केवलं लघुरूपा अपि न दोषः। यथा मदीये पाण्डुरङ्गविलासे-'अधु- नार्यनिदेशवर्तिनी सखि पश्यानुभवामि बल्लवि। गिरिसारकठोरपञ्जरस्थितिखिद्यच्छुकका- मिनीदृशाम्॥'औपच्छन्दसिकमिति। नामैतत्। सर्वत्र पादचतुष्टये । आपातालीति। नामैतत्। पर्यन्ते मात्रान्ते। अत्रापि सर्वत्रेसनुषज्यते। द्वितीयगुणयोःद्वितीयतृतीयस्था- निकयोमात्रयोः स्थाने एक एव गुरुः। दक्षिणान्तिकेति नाम । उदीच्यवृत्तिरिति। नामैतत् । अयुग्मयोर्विषमयोः । पादयोरित्यर्थः। तादृग्गश्चेद्वितीयतृतीयस्थानिकमात्राद्व- यस्थानिकैकगुरुश्चेदित्यर्थः। तथा च दक्षिणान्तिकपादचतुष्टयेऽप्येतादृशगुरुः उदीच्यवृत्तेस्तु विषमचरणयोरेवायं गुरुरिति विशेषः । उदीच्येति। विषमौ समौ च पादौ उदीच्यप्राच्य- वृत्त्योः पादयोः समौ चेत्प्रवृत्तकमित्यन्वयः। तथा उदीच्यवृत्तिविषमपादयोर्विषमपादौ समौ प्राच्यवृत्तिसमपादयोः समपादौ समौ चेत्प्रवृत्तकमिति भावः । एषु सर्वेष्वप्यन्यत्सर्व वैताली- यसदृशमेव बोध्यम् । किं चात्रावधेयम्। एतत्प्रवृत्तसमपादसदृशपादचतुष्टयसत्त्वेऽपि प्रवृत्त- १. वृत्तबिन्दुः] मन्दारमरन्दचम्पूः। सर्वपादेषु न स्यातां नसावाद्याक्षरात्परम् । अब्ध्यक्षरेभ्यो यगणो वक्रमाहुरनुष्टुभि । युजोरब्धेर्जकारश्चेत्पथ्यावक्रमुदाहृतम् । . ओजयोरधितो जश्चेद्विपरीतादि तन्मतम् ।। चपलावक्रमयुजोः समुद्रान्नगणो यदि । युग्मयोः सप्तमो लश्चेत्सा युग्मविपुला मता ।। सर्वेषु सप्तमो लश्चेदपि सैवोदिता बुधैः । अब्धेस्तश्चेत्तविपुला रश्चेद्रविपुला मता। भश्चेद्भविपुला प्रोक्ता नश्चेन्नविपुला मता ॥ इति वक्रप्रकरणम्। जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन । गुहपुरनिलयेन प्रोद्धृतो वृत्तबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥ इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषाचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्ते- वास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारम(क)रन्दे चम्पूप्रवन्धे वृत्तबिन्दुः प्रथमः समाप्तिमगमत् । . -- . कमेव । एतद्विषमपादसदृशपादचतुष्टयसत्त्वेऽपिः प्रवृत्तकमेवेति । केचित्तु इमौ भेदो परान्तिकाचारुहासिनीनामकावाहुः । इति वैतालीयप्रकरणम् ॥ वक्रभेदानाह-सर्वेति । सर्वपादेषु आद्याक्षरात्परमावर्णोत्तरं नसौ. नगणसगणौ न स्याताम् । अध्यक्षरेभ्यश्चतुर्वर्णेभ्यः परं यगणश्चेद्वकं नाम वृत्तं भवति । अत्रायवर्णो गुरुर्लघुर्वा ततः नगणसगणौ विना यथेच्छमेको गणस्ततो यगणस्तदुत्तरं गुरुः लघुर्वा स्थाप्य इत्यर्थः । अत. एवोक्तमनुष्टुभीति । अनुष्टुप्छन्दस्येवेमे भेदा भवन्ति' न वन्यछ- न्दसीत्यर्थः । यद्यपीदं वर्णच्छन्दस्येव वक्तव्यं तथापि यथा मात्राछन्दसि लघुगुरुनियमो नास्ति तथात्रापीति मात्राछन्दोनिरूपणावसर एवोक्तम् । एवं चैतादृशपादचतुष्टयवत्त्वं वक्रस्य लक्षणं बोध्यम् । यथा-'रमाकान्तमुदाराङ्गं राधाविहारसंतुष्टम् । नमाम्येनं सदा विघ्नशान्यै कमलसद्वक्रम् ॥' एवमपि । युजोरिति । अब्धेश्चतुरक्षरादित्यर्थः । ज- कारो जगणः अन्यत्सर्व वक्रवदेव । एवमग्रेऽपि । विपरीतादि तदिति । विपरीत- पथ्यावक्रमित्यर्थः । युग्मयोरिति । समपादयोरित्यर्थः । अस्य पथ्यावक्रेणैव चारि- तार्थेऽपि संज्ञान्तरसूचनाय विपुलाधिकारे पुनरप्युक्तिरिति ज्ञेयम् । पिङ्गलाचार्यमत- माह-सर्वेष्विति । सैव युग्मविपुलैव । इति वक्रप्रकरणम् ॥ इमं वृत्तबिन्दुमुपसंहरति–जलजनीति । जले जनियस्य तस्मिन् जनिरुत्पत्तिर्यस्य २८ काव्यमाला। . सारविन्दुः। अथात्र सारविन्दौ तु नेतारं वर्णयामहे । कर्तुः काव्यस्य चौज्ज्वल्यप्रतिष्ठामूलकारणम् ॥१॥ अथ सकलभुवनमहितमहितरुणि(णी)निटिलतटतुहिनकणकुलतिलकित- सितमणिगणरचितवरहिमकिरणशतरुचिरवरणम् , अमलसरलनिचुलपिचुल- विदुलकुवलबकुलकुलकतिलककतककरकरुचिकपिचुककरजकुटजवरणसर- णमदनमथनखपुरसुपुरचलदलदधिफलगुडफलमधुरकमरुबककुरबकमुखवि- विधविटपिकुलपरिपिहितसविधभुवम्, अमितनमदमलमहिममहितकमलभ- वभवरविविधुशतमखमुखनिखिलसुरवरमुकुटतटघटितमणिगणघटनगुणित- रुचिनिचयपरिचितचरणनखरपशुपतरुणिजनमदनकदनरसिकसुरनिलयम् , 'असौ त्रिदिवः, इदं नन्दनवनम् , इमा देववरवारकान्ताः, तत्र यथाकाममा- नन्दमनुभवन्तु भवन्तः, इति देवदर्शनागतजनानामहिमकरमण्डलसङ्गिना शृङ्गाग्रेण सूचयन्तमिव राजन्तं देवालयमवलोक्य निजरमणमपृच्छदसौ सार- सारसाक्षी- . - तस्य ब्रह्मण इत्यर्थः । जायायाः पत्न्याः शारदायाः इति यावत् । प्रेमपाकेन प्रीतिशि. शुना । 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः' इत्यमरः । गोपीजनानां संवन्धिनी या मनसिजकेली कामकेली तस्यां लम्पटे कृष्णे लम्पटेन आसक्तेन । 'लो- लुपो लोलुभो लोलो लम्पटो लालसोऽपि च' इति यादवः । गुहपुरं निलय आश्रयो यस्य तथोक्तः । तेन सुरकुसुममरन्दे मन्दारमरन्दाख्ये चारुचम्पूप्रवन्धे । अत्र घटकत्वं सप्तम्यर्थः । तस्य बिन्दावन्वयः । वृत्तबिन्दुर्वृत्तनामकबिन्दुः प्रोद्धृतो विरचित इत्यर्थः । एवमग्रेऽपि एतच्छ्लोकार्थो बोध्यः ॥ इति माधुर्यरञ्जन्याख्यायां मन्दारमरन्दव्याख्यायां गूढकर्तृकायां वृत्तबिन्दुः समाप्तः ॥ अथेति । कर्तुः कवेः काव्यस्य चौज्वल्यप्रतिष्ठयोर्मूलकारणम् । नेतारं नायकम् । तदुक्तं विद्यानाथेन-'प्रवन्धानां प्रबन्धृणामपि कीर्तिप्रतिष्ठयोः । मूलं विषयभूतस्य नेतु- गुणनिरूपणम् ॥ इति ॥१॥ सकलभुवनमहिता महिभूमिरेव युवतिस्तस्या निटिलतटे फा(भा)लदेशे तुहिनकणकुलस्य कर्पूरसमूहस्य । 'चन्द्रो हिमकणः शीतो घनसारः शिता. भ्रकः' इति कमलाकरः । तिलकितस्तिलकमिवाचरित इति वरणविशेषणम् । सितमणिः स्फटिकः। 'स्फटिकः श्वेतरत्नं स्यात्' इति कमलाकरः। वरणः प्राकारः। सरलादिकुरवका- न्तं वृक्षनामानि । सविधभुवं समीपदेशम् । गुणिता पुनरुका । पशुपतरुणिजनमदनक-

२९
-.
-
--
२. सारविन्दुः] मन्दारमरन्दचन्पः।
'किमिदं पुरतः पश्य दिशो धवलयत्यलम् ।
देवागारमिवाभाति देवागारसमद्युति ॥२॥
को देवः केन वा पूर्व प्रतिष्ठां प्राप्य पूजितः ।
नरीनृतीति तचित्ते श्रोतुं कान्त कुतूहलम् ॥ ३ ॥
एवमनया नयाभिरामया पृष्टः कलगीतस्तत्रैव प्रस्थाप्य विमानवरममि-
तामोदभरितः समूलंकषमुदन्तं पूर्व वक्तुमुपचक्राम-
'अत्रैव पूर्व सरसीरुहाक्षि शान्तः कृतज्ञः प्रियवाग्द्विजेन्द्रः ।
मुख्यादनन्तेश्वरसंप्रसादालेभे सुतं मध्यगृहाभिधानः ॥ ४ ॥
त्रेतायां रामकान्ताविरहदवहतस्वान्तसंतापभारो
येनाशम्याशु लकास्थितजनकसुतासारसंदेशवाक्यैः ।
येन प्रामर्दि दृप्तः सुवलसुदुहितुपरे पुत्रवर्ग-
स्तेनापि प्रार्थितेन त्रिदशपरिपदा मध्यगेहात्मनत्वम् ॥ ५॥
प्रारोदि वालसरणीमनुसृत्य तेन प्राहासि तन्मुखमलोकि पितुः समीपे ।
प्राचालि तत्र करजानुनिवेशनेन प्राभाषि विस्खलितवर्णकमर्भकेलौ ॥६॥
वासुदेवाभिधानस्य बालस्य मध्यगेहभदृश्चकार यदोपनयनम् ।
तदैव शारदा विजहार रसनाग्रे तस्य यथा ब्रह्मसभायां सर्वदेवैः संस्तुता ॥७॥
-
--
दनरसिकसुरः कृष्ण इति यावत् ॥ किमिदमिति । देवागस्य मेरोः अरमत्यन्तं सम
धुतिर्यस्येति विग्रहः ॥२॥ नरीनृतीति । पुनः पुनरतिशयेन वा नृत्यतीत्यर्थः । 'नृती
गात्रविक्षेपे' इत्यस्माद्यढो लुक् ॥ ३ ॥ नयो विनयः । अत्रैवेति । रजतपीठपुर्यामि-
त्यर्थः । मध्यगृहाभिधान इति । मध्यगृहभह इत्यर्थः ॥ ४ ॥ त्रेतायामिति ।
रामस्य कान्ताविरहदवहते खान्ते संतापभारः । लहास्थिताया जनकसुतायाः सारैः
श्रेष्ठैः संदेशवाक्यैः करणैः येन की आशु अशमि । 'शमु उपशमे' इत्यस्मात्कर्मणि लुढि
चिण् । 'नोदात्तोपदेशस्य मान्तस्यानाचमेः' इति नोपधावृद्धिः । द्वापरे सुवलसुदुहितुर्गा-
न्धार्याः पुत्रवर्गः येन प्रामदि । त्रिदशपरिषदा देवसदसा प्रार्थितेन तेन वायुनेत्यर्थः ।
मध्यगेहात्मजत्वं मध्यगेहभपुत्रत्वं कर्म आपि प्राप्तमित्यर्थः। 'आप्ल व्याप्ती' इत्यस्मात्क-
मणि चिण् (लुङ्) ॥५॥ प्रारोदीति । वालसरणी वालरीतिम् । 'कृदिकारादतिनः'
इति ङीष् । तन्मुखं पितृमुखम् । अर्भकेलौ वालकेल्याम् । 'पोतः पाकोऽर्भको डिम्भः'
इत्यमरः । विस्खलितं वर्णकं यस्मिन्कर्मणि यथा तथा। 'वर्ण तु वाक्षरे' इत्यमरः ॥६॥

३० काव्यमाला1 - अथात्मजे तातरुचिं विवित्सुर्दष्टुं गतः सर्पमयः सुरारिः । तदङ्गुलीपिष्टतनुस्तताम सुदुर्लभोऽस्मिन्पितृमार्गगामी ॥ ८ ॥ अंथ कदाचिद्हणनिग्रहणप्लवनजलविहार रकन्दुकक्रीडादिषु निजतेजः पराजितवयस्यजनः पाठावसरे किमन्यमनस्कतया ब्रवीवीति भाषणे ततः स्खलनोज्झितानधीतश्रुतिततिपठनकुतूहलिताय मुखवायुसंस्पर्शनिरस्तशिरः- शूलायोपाध्यायाय समुचितामच्युतभक्तिरूपिणी गुरुदक्षिणां वितीर्य दुष्ट- 'निग्रहाय विष्णुगुणप्रख्यापनाय च तेनानुज्ञामाप्याचिरादेव दुर्जनतर्जनका- रिणी दुर्गा भवेदतोऽहमाश्रमवरमासाद्य दुर्मतानि निराकृत्य हरिमाहाल्य प्रकटीकरोमीति विचिन्त्य जगद्गुरुरपि गुरुमन्विष्यन्द्वापरान्ते । पाण्डवनि- शान्ते कृष्णाकरसिद्धशुद्धान्धोजग्ध्या शुद्धान्तःकरणमन्तकाले गुरुणा सोऽहं- ब्रह्मेति मतमनादृत्य माधवं भजेत्युपदिष्टमच्युतप्रेक्षमालक्ष्य वराश्रमाप्त्यै परि- चरंस्तच्छ्रवणखिन्नहृदयावात्मानं वन्दमानावाश्चास्य पितराविदमवादी- 'नमस्क्रिया न कर्तव्या भवन्या सेवकाय मे कृता नतिर्हि सैवाद्य ममानुज्ञाश्रमाप्तये ॥ ९॥ इति तेन निरुत्तरीकृतौ बहुखिन्नौ खगृहं समीयतुः । पुनरेव पिता सुताननं हृदि संस्मृत्य ययौ सुतान्तिकम् ॥ १० ॥ बहुप्रकारैर्वराश्रमवरणाय निवारितोऽपि खसाधकवचोभिः पितरमेव याचमानततस्तव जनन्यनुमतिरेव ममानुमतिरिति पित्रोक्तः कदाचिदा- क्यमागत्य समाश्वास्य मातरं तदाज्ञामादाय यतित्वमासाद्य पूर्णबोधाभिधा- मभजत् । ततः स्वगुणानुरूपे मध्वानन्दतीर्थाभिधाने च । . - -- वासुदेवेति । इदं पदचतुरूर्ववृत्तम् ॥ ७ ॥ अथेति । सर्पमयः सर्परूनः । सुरारि- दैत्यः । आत्मजे वायुपुत्र इत्यर्थः । तातस्य वायोः रुचिं विवित्सुर्वेत्तुकामः सन् । “विद ज्ञाने (विचारणे) इत्यस्मात्सन्नन्तात्कर्तरि उप्रत्ययः। द्रष्टुं वासुदेवमिति शेषः । गतः सन् तस्य वासुदेवस्यानुल्या पिष्टा तनुः कायो यस्य तथोक्तः सन् तताम । अस्मिन्कलौ पि- तृमार्गगामी सुदुर्लभः ॥ ८ ॥ निशान्ते गृहे । कृष्णाया द्रौपद्याः । करेण सिद्धमत एव शुद्धमन्धोऽनं तस्य जग्ध्या भोजनेन । 'भिस्सा स्त्री भंकमन्धोऽन्नम्' इति, 'जग्धिस्तु भोजनम् इति चामरः । अन्तःकरणं मनः ॥९॥१०॥नमते नमस्कारिणे । अच्युतबुद्धये *- २. सारबिन्दुः] मन्दारमरन्दचम्पूः। कदाचिद्रूप्यपीठेशो नमतेऽच्युतबुद्धये । तपःफलं गृहाणेति कंचनाविश्य तं ददौ ॥ ११ ॥ अथ स तदधिपाज्ञया गतायां सुरसरितौ(?)सरसी समस्तलोकैः समममितमतिर्विगाहते स्म स्फुटमिह तस्य विडम्बनं विचित्रम् ।। १२ ।। ततः सोऽयमिष्टसियाख्यग्रन्थं ससंप्रदायं व्याख्याय प्रकारान्तरेण भाग- वतवाचकान्दुिजान् 'नेयं व्यासकृतिः' इत्यभिधाय, ततः 'त्वमेव ब्रूहि' इति तेनाच्युतप्रेक्षण साक्षेपमुक्तस्तत्सर्वमाख्यायात्मानं जेतुं प्रवृत्तानाम- च्युतप्रेक्षसपक्षशिष्याणामनुमानानां प्रत्यनुमानरुत्सादनादनुमानतीर्थाभि- धामासाद्य विद्याब्धिवादिसिंहौ वादिग्रामसिंहौ विजित्य पूर्वभाष्यमपनुद्य प्रार्थयते सतीर्थाय सूत्रार्थमभिधायाथ दक्षिणां दिशं गत्वा विष्णुमङ्गल- क्षेत्रे मिक्षान्ते परीक्षायै भक्षणार्थ दत्तं कदलिफलचयं कन्याकुमार्याख्यतीर्थं . रामसेतो रङ्गनाथं विष्णुसहस्रनाम्नामपि शताथै पुनश्च रूप्यपीठं मुक्त्वा गत्वा स्नात्वा दृष्ट्वोक्त्वा समागत्य गीताभाष्यं कृत्वा गुरवे दत्त्वा बदरिका- श्रमगमनायानुज्ञामादाय कौबेरी दिशमवतस्थे । तीर्खा जनुसुतां ततोऽणुवदरीमासाद्य नारायणं नत्वा भाष्यमदादुपायनतया श्रीगीतिकाया अयम् । तत्रादौ खलु शक्तितः परमसौ प्रोत्सादयंल्लेशतः शब्दं तत्र निधाय पाठयं जनानित्यब्रवीत्तं हरिः ॥ १३ ॥ तं काष्ठमौनव्रतमाचरन्तं व्यासो निशि खप्रभया दिगन्तान् । प्रभासयन्प्राप्य ममाश्रमान्तमेहीत्युदीर्यान्तरधान्महात्मा ॥ १४ ॥ । । अच्युतप्रेक्षाय ॥११॥ अथेति । अमितमतिः पूर्णप्रज्ञः संस्तदधिपस्य रूप्यपीठेशस्या- शया सरसीं कासारमागतायां सुरसरितौ(?) भागीरथ्यां समस्तैोकैः जनैः समं साकं विगाहते स्म अगाहत । समयोगाद्भूते लट् । तस्य विडम्वनमिह लोके विचित्रमिति स्फुटम् ॥१२॥ सपक्षः सखा । अनुमानानां कृद्योगात्कर्मणि षष्ठी । वादिग्रामसिंहौ श्वन सदृशवादिनांवित्यर्थः । सतीर्थ्यांय सहाध्यायिने । कदलीफलचयादीनां पदानां भुक्त्वे- त्यादिषु क्रमेणान्वयः । कौवेरी दिशमुत्तरां दिशम् । उपायनतया उपग्राह्यत्वेन । 'उपा- यनमुपंग्राह्यमुपहारस्तथोपदा' इत्यमरः ॥१३॥१४॥ महीध्रः पर्वतः । करटः गण्डः ।।

३२ काव्यमाला। तदनन्तरमसौ शिष्येभ्यः खगमनं लेखनेन निवेद्य मरकतमणिमयम- हीध्रमहितमतङ्गजकरटतटपाटनपटुतरनखरकण्ठीरवमुखरमुखरितकन्दरान्त- निलीनहरिणगणेऽद्भुततरशब्दायमानशार्दूलपोतावलोकनपरित्रासधावल्लुला- यगवयकुले प्रत्यन्तपर्वतवत्परिदृश्यमानावश्यायसमुदायदूरीकृतदिनकरकृत्ये प्रावृट्समयकृतजनपदसंचरणजनितायासशमाय विश्रान्तमिव वारिदवृन्दं वहति हिमवति गच्छन् खविरहासहिष्णुतया पृष्ठत एव प्राप्तं सत्यतीर्थ खहस्तवायुनैव निजस्थान प्रापय्य पुरतो गत्वा सकलमुनिगणमध्यमध्या- सीनमिव वृन्दारकवृन्दपरिवृतं परमेष्ठिनमसमानं व्यासं नत्वा तेन सकल- पुराणभारतसूत्राथै विज्ञाय तत्रैव तपसा स्थितमिव धर्मपुत्रं प्रणम्य तेन सूत्रभाष्यकरणायानुज्ञातः कृष्णानुमत्याणुबदरीमासाद्य विरच्य कुभाष्य- दूषकं हरिगुणप्रकाशपोषकं भाष्यं पुनरपि रजतपीठमागत्य सख्येऽच्युत- प्रेक्षाय च तद्भाष्यमाचख्यौ। ततोऽमितमतिर्यज्ञविघ्नकर्तनिवारयन् । याजयामास मेधावी स्वीयमध्यापकात्मजम् ॥ १५ ॥ पुनरपि बदरिकाश्रममासाद्य व्यासमानम्य रूप्यपीठमाजगाम । कदा- चिदसौ मध्येमार्ग सागसमीश्वरदेवं परवशखननमकरोत् । कदाचिदसौ स्वकटिभागावलम्बिनः शिष्यानभिघातिसमागतिशङ्कयापगतोडुपामगाधा- पाममरापगामतारयत्स्वयमप्यतरत् । अथ भटवृन्दयवनराजयोर्दण्डराज्य- योग्यधीविषयो बभूव । वापि चोराणां निजकरकृतपटपिण्डे रिक्थधियमु- त्पाद्य परस्परमघातयत् । पुनः काप्ययमुपेन्द्रतीर्थाभिधमस्करिणा तस्कर- शतं तिरस्कारयांचकार । पुनः कापि मोषकपुरतः सशिष्यैः सममौपलत् । शार्दूलाकारं दानवशार्दूलं करतलेन जघान । प्रतिमाः सितशिलामयीराप मुखरो ध्वनिः । शब्दायमानः शब्दं कुर्वाणः। 'शब्दवैरकलह-'इत्यादिना क्यङ् । पोतः शिशुः । असमानं समशून्यम् । कृष्णानुमत्या व्यासानुमत्या । सख्ये सतीर्थ्याय ॥१५॥ अभिघातिः(ती) शत्रुः। उडुपं प्लवः ।आपमुदकसमूहम् । अमरापगां गङ्गाम् । रिक्थधियं द्रव्यबुद्धिम् । मोषकाः तस्कराः । औपलत् उपल इवाचरत् । उपलशब्दात्सदृशाचारे क्किए । लुङ् । दानवशार्दूलं दैत्यश्रेष्ठम् । आकल्पो भूषणम् । गीर्वाणतरङ्गिण्या गङ्गया - २. सारबिन्दुः] मन्दारमरन्दचम्पूः। ३३ नारायणात् । महाभारततात्पर्यनिर्णयकृतौ व्यासानुज्ञामाददे । हस्तिनपु- रगतमठस्थः संकल्पार्थमनल्पाकल्पया तरुणीरूपिण्या धरणी भित्त्वागतया गीर्वाणतरङ्गिण्या प्रणुतोऽभूत् । कुरुक्षेत्रे स्वीयानि कुन्तीकुमारावस्थायां धृतान्यायुधानि कुन्तादीन्यन्तेवासिजनेभ्यो दर्शयामास । तत्र गङ्गोत्तमाणे- नाङ्गीकृतविप्ररूपेणाझीचकार क्षणेन दत्तां भिक्षाम् । कचिच्चतुःसहस्र- गुरुरम्भाफलानि त्रिंशत्कुम्भपूर्णपयसा सह परीक्षकेण दत्तानि बुभुजे । गानेन शुष्कतरं सफलपुष्पमकरोत् । किं बहुना । सकलऋषिसमेतः शे- पोऽपि त्रिविक्रमपण्डितपुण्डरीकशार्दूलादिसकलवादिजनजेतुः समस्तवेदा- थनिर्णयकर्तुरस्यानन्दतीर्थस्यानन्दतीर्थ श्रुत्वा निजलोकमासाद्य तत्फलं पृच्छन्धः सनकादिभ्यस्त्रिदोषवर्जितमविकुण्ठितानन्दाभिवृद्धिकरं वैकुण्ठमेवै- तयाख्याश्रवणांदिफलमभिदधे । कलं गात्रं नेत्रं कमलरुचिपात्रं दनुजजि- "द्गुणश्रेणीवाणी खलमतकृपाणीसहचरी । सतां हृद्या विद्या सरणिरनवद्याब्धिदुहितुः पतिर्यस्योपास्यो हिमकरसमास्यो जयतु सः॥ १६ ॥ मुहुर्मध्वं विध्वंसितखलदुरध्वं सुमनसां मनोवृन्दे संदेहहरमिह वन्दे गुणनिधिम् । रमानाथे नाथे निरतमपि नाथे मम हरौ दृढा भक्तिर्भुक्तिस्त्विह भवतु मुक्तिस्तत इति ॥ १७ ॥ गङ्गोत्तमाशाः शिवः । क्षण उत्सवः । बुभुजे । 'भुजोऽनवने' इत्यात्मनेपदम् । आनन्द तीर्थमानन्दकरशास्त्रम् । अविकुण्ठितोऽक्षतः ॥ कलमिति । यस्य गात्रं शरीरं कलं लक्षणवत् । कलाशब्दादर्शआद्यच् । मधुरं वा। नेत्रं कमलरुचेः पात्रम् । दनुजजितो विष्णोर्गुणश्रेणी यस्यां तथोक्ता वाणी खलानां मतस्य कृपाणीसहचरी कर्तरीसखी । विद्या अनवद्या अत. एव सतां हृद्या अब्धिदुहितुर्लक्ष्म्याः पतिरुपास्यः स हिमकरस्य सममास्यं यस्य तथोक्तः । जयतु । लोट् ॥१६॥ मुहुरिति । विध्वंसितः खलानां दुर- ध्वो दुर्मार्गो येन. तथोक्तम् । सुमनसां सतां मनोवृन्दे यः संदेहस्तं हरतीति तथोक्तम् । गुणानां निधि मध्वं वन्दे । किं चेत्यप्यर्थः । रमाया नाथे खामिनि अनाथे न विद्यते नाथो यस्य तस्मिन् । अस्य ब्रह्मणो रुद्रस्य वा नाथे वा। अकारो ब्रह्मविष्ण्वंशकमटे- काव्यमाला। L मध्वनाद्वैतराद्धान्तध्वान्तविध्वंसनाविना । तेन प्रतिष्ठितामेतां मूर्ति जानीहि मानिनि ॥ १८॥ पुरा पूर्वारकानासीदाशाहीनन्दकारिका । मध्येवारिधि गोपस्त्रीलालसेनाभिपालिता ॥ १९ ॥ कदाचित्तत्र देवक्या बालकेलीः प्रदर्शय । इत्युक्तो रुक्मिणीकान्तः शुद्धान्ते बालकोऽभवत् ॥ २० ॥ तदकमारुह्य हसंस्तदास्यं पश्यन्तनं तत्र पपौ मुकुन्दः । तदानभिज्ञा विवशान्तरा सा सुखाम्बुराशौ विजहार देवी ॥२१ दध्यमत्रं विभज्याथ नवनीतं प्रभक्षयन् । बिडालेभ्यो ददद्भूयो वैशाख नेत्रमाहरत् ॥ २२ ॥ कालमल्पं विहृत्यैवमत्यजबालकाकृतिम् । हृष्टाङ्गी देवकी दृष्ट्वा विस्मयं प्रययौ मुहुः ॥ २३ ॥ विलोक्य भैष्मी बत बालरूपिणं सदा तदभ्यर्चनकाझ्या सती। कृष्णाज्ञया निर्जरशिल्पिना मुदा निर्माययामास तदा तदाकृतिम् ॥ २४ ॥ रुक्मिण्यर्चितकृष्णा मर्जुनो द्वारकास्थिताम् । कृष्णावतारेऽवसितेऽस्थापयद्रुक्मिणीवने ॥ २५ ॥ . ध्वगणे रणः' इति रत्नमाला। हरौ निरतं सक्तं मध्वमित्यर्थः । मम हरावित्यनुषज्यते । दृढा भक्तिरिह लोके भुक्तिभॊगस्ततो जन्मान्तरे(न)मुक्तिर्भवतु इति नाथे याचे । 'नाथू नाध याजोपतापैश्वर्याशीःषु' इत्यस्मालट् ॥ १७ ॥ मध्वेनेति । अद्वैतराद्धान्तोऽद्वैतसि- द्धान्त एव ध्वान्तं तस्य विध्वंसनेऽविना सूर्येण । 'अवयः शैलमेपार्काः' इत्यमरः। तेन प्रतिष्ठितामेतां मूर्ति विग्रहं कृष्णप्रतिमामित्यर्थः । हे मानिनि जानीहि ॥ १८ ॥ पू: पुरी । अत्र भूलोके । दाशार्हा यादवाः । गोपस्त्रीलालसेन कृष्णेनेत्यर्थः ॥ १९ ॥ शु- द्धान्तेऽन्तःपुरे । 'शुद्धान्तश्चावरोधश्च' इत्यमरः ॥ २०॥ तदकं देवक्युत्सङ्गम् । सा दे. वकी ॥२१॥ दध्यमत्रं दधिपात्रम् । वैशाखं मन्थनदण्डम् । 'पात्रामत्रं च भाजने'इति, 'वैशाखमन्थमन्थानमन्थानो मन्थदण्डके' इति चामरः । नेत्रं मन्थनदाम । 'नेत्रं मथिगुणे वस्त्रे' इति विश्वः ॥२२॥२३॥ निर्जरशिल्पिना । विश्वकर्मणेत्यर्थः । तदाकृति कृष्णाकारम् ॥ २४ ॥ कृष्णार्चा कृष्णप्रतिमाम् । 'प्रतिमानं प्रतिविम्वं प्रतिमा प्र.

३. श्लिष्टबिन्दुः] मन्दारमरन्दचम्पूः। ३५. गोपीचन्दनलिप्तां तां गोपीचन्दनबुद्धयः । सांयात्रिकाः समादाय समीपेऽस्य समाययुः ॥ २६ ॥ निमज्जद्वारिधावत्र मध्वाह्वस्य महात्मनः । मुनेर्दशान्तवातेन तीरं प्रापोडुपं तदा ॥ २७ ॥ प्रगृह्यानन्दतीर्थस्तां प्रतिष्ठाप्य मुदान्वितः । नागासनस्य निकटेऽपूजयत्प्रतियातनाम् ॥ २८ ॥ पूजयन्त्यधुनाप्येनां तस्य शिष्यकुलोद्भवाः । अष्टौ मस्करिणः शुद्धा जानीहि रमणीमणे ॥ २९ ॥ एवमसौ कलगीतस्तया सह सकलधरणीमण्डलमालोक्य तं गोपिकाका- मुकं प्रणम्य तदागतिवृत्तान्त कान्तायै निवेद्य तेनानुगृहीतः स्वनगरमुप- गम्य लीलागृहमध्यास्ते स्म । जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन । गुहपुरनिलयेन प्रोद्धृतः सारबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ।। इति श्रीमद्धटिकाशत[शत]घण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगी- श्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणश्चन्द्रदेवशर्मणश्च कृतौ मन्दारमरन्दे चम्पूप्रवन्धे सारविन्दुर्द्वितीयः समाप्तिमगमत् । लिष्टविन्दुः ।। अथाधुना श्लिष्टविन्दौ श्लेषभेदान्प्रदर्शये । अनेकार्थस्फूर्तियोगः श्लेषः स द्विविधो मतः॥ "तियातना प्रतिच्छाया । प्रतिकृतिरर्चा पुंसि प्रतिनिधिः' इत्यमरः ॥ २५ ॥ 'सांयात्रिकः पोतवणिक्' इत्यमरः । अस्य रूप्यपीठपुरस्य ॥ २६ ॥ दशान्तवातेन वनान्तवायुना । "दशावस्थादीपवल्र्वस्त्रान्ते स्युर्दशा अपि' इति मेदिनी । 'उडुपं तु प्लवः कोलः' इत्यमरः ॥ २७ ॥ प्रतियातनां प्रतिमाम् ॥ २८ ॥ मस्करिणो यतयः ॥ २९ ॥ "अधिशीङ्स्थासां कर्म' इति लीलागृहस्य कर्मलम् ॥ जलजनीति व्याख्यातम् ॥ इतिमन्दारमरन्दव्याख्यायां माधुर्यरञ्जन्याख्यायां गूढकर्तृकायांसारबिन्दुर्द्वितीयःसमाप्तः। अथेति। मङ्गलार्थेऽथशब्दः । श्लेषसामान्यलक्षणमाह-अनेकार्थेति । अनेकार्थानां स्फूर्तिर्वोधो येन सोऽनेकार्थस्फूर्तिःशब्दस्तस्य योगो:योजनम् । लष इत्युच्यते इत्यर्थः। तथा च अनेकार्थवोधजनकशब्दयोगत्वं श्लेषसामान्यलक्षणम्' । तं विभजते-ल इति।सभः ३६ 'काव्यमाला। सभङ्गाभङ्गभेदेन तौ द्वौ च त्रिविधौ पुनः । नामगो धातुगावेतद्वयगाविति भेदतः ॥ शब्दभेदादर्शवोधे सभङ्गश्लेष इष्यते । शब्दाभेदेऽप्यनेकार्थबोधे चाभङ्ग इष्यते । नामगतसभङ्गश्लेषो यथा- ततः किल कलगीतप्रेयसी कलाज्यायसी गीतश्रेयसीनाम्नी प्रसादसीम्नि प्रियाख्यानप्रस्तावनायां नर्मसखीरिदमवादीत्- 'वरतालसदृक्षण द्योलोकसुहृदावृतम् । शिरःफलसमूहेन मयालोकि महीतलम् ॥ १ ॥ गाभङ्गभेदेनेति । सभङ्गश्लेषाभङ्गश्लेषभेदेनेत्यर्थः । पुनस्तदुगयमपि विभजते-तौ द्वा- विति । एतद्दयगाविति । नामधातूभयगतावित्यर्थः ॥ सभङ्गश्लेषं लक्षयति-शब्द- मेदादिति । पदविभागादित्यर्थः । अर्थवोधेऽनेकार्थबोधे। तत्र पञ्चम्याः प्रयोज्यत्वमर्थः। तस्यार्थवोधेऽन्वयः । तथाच स्वनिष्ठैकार्थबोधप्रयोजकविभागभिन्नखनिष्ठविभागप्रयोज्या- र्थबोधजनकत्वसंबन्धेन शब्दविशिष्टशब्दयोगत्वं सभङ्गश्लेषलक्षणं वोध्यम् । उभयत्र खपदं शब्दपरम् । स्वं वरतालसदृक्षणेति पदं तनिष्ठो य एकविधोऽर्थवोधप्रयोजकविभागः 'वर. ताल-सदृक्षण' इति विभागस्तद्भिन्नः स्वनिष्ठो यो विभागः 'वरता लसत् ऋक्षण' इति विभागस्तत्प्रयोज्यो योऽर्थवोधः । उत्तमत्वेन प्रकाशमाननक्षत्रयुक्त इति वोधस्तज्जनकत्व- संवन्धेन तादृशशब्दविशिष्टो यः शब्दः 'वरतालसदृक्षण' इति शब्दस्तत्संवन्धत्वं श्लेष इति । लक्षणसंगतिः । विभागभिन्नविभागाप्रसिद्ध्यासंभववारणायैकत्वमर्थवोधप्रयोजकविभागे विशेषणम् । पदानां कृत्यं तु सुगममेव । ननु विभागभिन्नविभागाप्रसिद्ध्या सुपर्वाण इत्या- दावव्याप्तिरिति चेन्न । तादृशसंवन्धेन शब्दविशिष्टशब्दसंबन्धत्वसमानाधिकरणश्लेषत्वव्या- प्यजातिमत्त्वस्य विवक्षितत्वात्।श्लेषत्वमादायाभङ्गश्लेषेऽतिव्याप्तिवारणाय श्लेषत्वव्याप्यत्वं जातिविशेषणम् । अभङ्गश्लेषं लक्ष्यति-शब्दाभेदेऽपीति । एकार्थबोधप्रयोजकविभा- गभिन्न विभागाभावेऽपीत्यर्थः । अनेकार्थबोधेऽन्यार्थबोधे । तथा च स्वनिष्ठैकार्थबोधप्रयोज- कविभागभिन्न विभागाप्रयोज्यान्यार्थबोधजनकल विशिष्टशब्दसंवन्धत्वमभङ्गश्लेषलक्षणम् । एकार्थकघटादिपघटितवाक्यवारणायान्यत्वमर्थविशेषणम् ॥ यथाक्रममुदाहरति-नाम: गतसभङ्गश्लेषो यथेत्यादिना। कलगीतस्य गन्धर्वस्य प्रेयसी प्रिया । कलाभिा- यसी श्रेष्ठा । नर्मसखीः क्रीडासखीः।वरतालेति। वरतालसदृक्ष उत्तमतालवृक्षसदृशः। अन्यत्रोत्तमत्वेन प्रकाशमाननक्षत्रयुक्तः । तेन । अतएव द्योलोकस्यान्तरिक्षलोकस्य सु- हृदा मित्रेण । आकाशलोकसदृशेनेति यावत् । गगनचुम्बितेनेति वा । शिरःफलसमूहेन ३. श्लिष्टबिन्दुः] मन्दारमरन्दच-पूः। ३७ यत्र च कृतविटपानमना उद्यानतरवो न सुन्दरीजनः । विपदाक्रान्तः कुलायो न धनिकलोकः। वर्तते नवन्धनं. विदुषां न चोराणाम् । यत्र च वैनतेय इव नागमाधिक्षेपकारी सुमनःसमूहः । किं. चाराम इव विलस- द्रुचयो विमत्सराः । वाक्प्रचार इवापरुषो विप्राः । धातुगतसभङ्गश्लेषो यथा- कचन कौचिद्दम्पती 'मदीयेष्टप्राप्तिश्चेन्मुरारे, तव पादारविन्दं सदा पू- जयेव' इत्यवदताम् । साधुवृन्दमपि वदति स्म । क्वचिदापन्नपुत्रो जनः 'शतेन सेवेय विपन्निवृत्तिश्चेद्धरिम्' इत्युक्त्वा' 'अहं त्वमपि पुत्र, तमेव माधवं शरणम्' इति बोधयति स्म । . । नारिकेलवृन्देन । 'खानोदको नारिकेलः करकाम्भाः शिरःफलः' इति त्रिकाण्डशेषः । आवृतं युक्तं महीतलमालोकि । 'लोक दर्शने' इत्यस्माचिण् ॥ कृतविटपानमना इति । एकत्र कृतं विटपानां शाखानामानमनं यैस्तथोक्ताः । अन्यत्र कृतं विटेषु पा- नेषु च मनो यस्य स तथोक्तः। उद्यानतरव आरामस्थवृक्षाः । सुन्दरीजनः स्त्रीजनः। नेति निषेधे । विपदाक्रान्त इति । वीनां पक्षिणां पदैराक्रान्तः । अन्यत्र विपत्त्या आक्रान्तः । कुलायो नीडं पक्षिगृहमित्यर्थः । नवं धनं नूतनं धनम् । अन्यत्र नेति भिन्नम्। वबयोरमेदाद्वन्धनं निगडादिबन्धः। चोराणां न वर्तते इति न वर्तत एवेत्यर्थः । वैन- तेयो गरुडः । नागानां मायाः श्रिया अधिक्षेपकारी । अन्यत्रागमानां वेदानामधिक्षेप- करी न । सुमनःसमूहः सज्जनचयः । आराम इवोपवनमिव । विलसतां दूणां वृक्षाणां चयो यस्य तथोक्तः । अन्यत्र विलसन्ती रुचिः कान्तिर्येषां ते । वि विष्णुं लसन्ती श्लिष्यन्ती रुचिः प्रीतिर्येषामिति वा। हरौ प्रीतिं कुर्वन्त इत्यर्थः। 'लस श्लेषणक्रीडनयों:' इत्यस्माच्छतृप्रत्ययः । विमत्सराः वियन्ति पक्षियुक्तानि सरांसि यस्मिन् स तथोक्तः। अन्यत्र मात्सर्यरहिता इत्यर्थः । वाक्प्रचारः स्वीयवचनप्रचार इवापरुषो मृदुलः । अ- न्यनापगता रुट येभ्यस्ते तथोक्ताः॥ धातुगतसभङ्गश्लेषमुदाहरति-वचनेत्यादिना। दम्पतीपक्षे पूजयेव । 'पूज पूजायाम्' इत्यस्मात्स्वार्थे णिजन्तात्परस्मैपदं विधिलिडुत्तम- पुरुषद्विवचनम् । साधुवृन्दपक्षे पूजये इति वर्तमाने लडात्मनेपदोत्तमपुरुषैकवचनम् । अवेति रक्षणार्थकादवधातोर्लोट् मध्यमपुरुषैकवचनम् । आपन्न आपद्युक्तः पुत्रो यस्य स जन इत्यर्थ आपन्नपुत्र इत्यस्य । शतेन शतद्रव्येण । हरि सेवेय । सेवनार्थकात् वृधा- तोर्विधिलिडुत्तम पुरुषैकवचनम् । इति एवंप्रकारेणोक्ता। है पुत्र, लमपि तमेव माधवं शरणमय व्रज । 'इटकिटकटी गतौ' इत्यत्र गत्यर्थकात्प्रश्लिष्ट इधातोर्लोटू मध्यमपुरुषैक- वचनम् । अहं तमेव माधवमित्यनुषज्यते । सेवे । वृधातोर्लंडात्मनेपदोत्तमपुरुषैकवच- मन्दा० ४ ३८ काव्यमाला। नामधातूभयगतसभङ्गश्लेषो यथा- यत्र च सुवर्णयति कामिलोकः कामिनीजनम्, छन्दःशास्त्रमपि । स्तन- नति भटानां श्वेलितम्, वृद्धवाराङ्गनावृन्दं च । विहितदशनति कुन्दकद- म्बम् मुनिकदम्बं च । अपि वासवन्ति धनवन्तो धान्यानि च । नामगताभङ्गश्लेषो यथा- किं च नक्षत्रपदव्य इव रमणीयहस्तश्रवणाः, सत्कविकाव्यरचना इव सालंकाराः कामिन्यः, पर्वत इव मदनाधिष्ठिते, समुद्र इव संजातलावण्ये, यौवने वसन्तं कान्तमुपासते । धातुगताभङ्ग-श्लेषो यथा- यत्र च दीव्यति कान्ताभिर्युवजनो मणिमयभित्तिभिः प्रासादो वारस- गाक्षीजनोऽप्यक्षैर्मुनिजनोऽपि वेदवचोभिर्हरिम् । अपि च ज्ञपयति शत्रु- वर्ग मित्रवगै च राजकम् । नामधातूभयगताभङ्गश्लेषो यथा- वाञ्छितार्थान्भक्तजनेभ्यो यस्मिन्यजति सति पुनः पुनस्तमेव माधवं भक्तजनोऽपि । किं बहुना । हासा अपि शारदाकाशतटानीव भवन्ति । एवं सुन्दरतरवचोविलासमस्या गीतश्रेयस्याः सम्यगाकर्ण्य सानन्दं नर्मस- खीजनाः सर्वे तां संमानयांचक्रुः । नम् । तथा च 'सेवेय' इत्यत्रैकदा न पदच्छेदः । एकदा 'सेवे-अय' इति पदच्छेदः ॥ सुवर्णयति सुष्ठु निरूपयति । अन्यत्र शोभना वर्णाः, यतिर्विश्रामश्च यस्मिंस्तत्तथोक्तम् । स्तनति स्तननमिव मेघगर्जनमिवाचरतीत्यर्थः । आचारेऽर्थे क्विम् । अन्यत्र स्तनयोर्न- तिनमनं यस्य तत्तथोक्तम् । विहितो योग्यो दशनो दन्त इवाचरति विहितदशनति । अन्यत्र विहिताः कृता दशसंख्याका नतयो नमांसि येन तत्तथोक्तम् । वासवन्ति वासव इन्द्रः स इवाचरन्तीत्यर्थः । अन्यत्र तु निवासयुक्ता इ(नी)त्यर्थः। किंत्यप्यर्थः मदनः कामः कपित्थश्च । लावण्यं सौन्दर्य लवणत्वं च ॥ दीव्यतीति । 'दिवु क्री- डा--' इत्यादिधातुः । 'दिवः कर्म च' इति द्वितीया तृतीया च। ज्ञपयतीति । 'ज्ञप मारणतोषणनिशामनेषु' इति धातोर्लद्र ॥ यजतीति । 'यज देवपूजासंगतिकरणदानेषु' इति धातोर्दानार्थकात्कर्तरि शतृप्रत्ययः। अन्यत्र पूजार्थकालद । भवन्तीति । तथा च हासा अपि भवन्ति नक्षत्रवन्ति आकाशतटानीव भवन्ति । वर्तत इत्यर्थः । 'भू सत्ता- १. चित्रबिन्दुः] मन्दारमरन्दचम्पूः। इत्थं मया श्लेषभेदा दिमात्रमिह कीर्तिताः । ग्रन्थगौरवशङ्कात उन्नया विबुधैरथ ॥ जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन । गुहपुरनिलयेन प्रोद्धृतः श्लिष्टबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ।। इति श्रीमद्धटिकाशतशित]घण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयो. गीश्वरस्यान्तेवास्यन्यतमस्य.गुहपुरवासशर्मणः कृष्णशर्मणश्चन्द्रदेवशर्मणश्च कृतौ मन्दार- मरन्दे चम्पूप्रबन्धे श्लिष्टबिन्दुस्तृतीयः समाप्तिमगमत् । चित्रबिन्दुः। अत्राधुना चित्रविन्दौ क्रमाद्यमकचित्रयोः । वक्ष्यते लक्षणं भूयः सोदाहरणगुम्फनम् ॥ खरव्यञ्जनसंबद्धवर्णाद्यावर्तने सति । यमकं तत्तु पादाद्यादिस्थित्या बहुधा मतम् ।। आदौ यथा- १. कमलापतिपदयुगलं कमलाभेदोपपादकं रुचिभिः । कमलाकरकेलौ सा कमलाक्षी राधिका जगृहे ॥१॥ मध्ये यथा- विधुमुखी दवधूदधिविप्लुतावददमन्दवधूजनकासितम् । स्मरभ यादव धूतगुणेतर स्मरशरादव धूतहृदं जनम् ।। २ ॥ याम्' इत्यस्मालट् । एषु सर्वत्र क्रियावाचकपदावर्तनं बोध्यम् । इमं विन्दुमुपसंहरति- इत्थमिति ॥ जलजनीति पधं पूर्ववदेव व्याख्येयम् ॥ इति मन्दारमरन्दव्याख्यायां माधुर्यरजन्याख्यायां गूढकर्तृकायां श्लिष्टविन्दुस्तृतीयः समाप्तः ॥ उपोद्धातसंगत्या चित्रविन्दुमुपक्रमन्प्रतिजानीते-अत्रेति । वक्ष्यमाण इ- त्यर्थः ॥ यमकमाह--स्वरव्यञ्जनेत्यादिना। तथा चासकृदेकानुपूर्वीकवर्णसमूहघटित. लमिति भावः । इदं स्वरूपलक्षणं पद्ये समन्वेति-पादाद्यादिस्थित्येति । आदिप- देन मध्यान्तादेग्रहणम् । तथा च यमकं पादादिगपादमध्यगपादान्तगत्रिपादगद्विपादगा- न्तादिगान्तमध्यगादिभेदेन बहुविधमित्यर्थः । तदुदाहरति-आदौ यथेत्यादिना। पादादिगं यथेत्यर्थः । एवमग्रेऽपि । कमलापतीति । कमलाक्षी सा राधिका रुचिमिः कान्तिमिः । करणे तृतीया। कमलस्याभेदोपपादकं. कमलापतेः कृष्णस्य पदयुगलं कर्म कमलाकर केलौ सर क्रीडायां गृजहे ॥१॥ विधुमुखीति । दवधूदधौं विरहसमुद्रे वि- काव्यमाला। अन्ते यथा- माधवमसदामधुरंधरमवनितलस्थदैत्यदामधुरम् । भज हृदि मुदा मुधुरञ्जितमणितं हरन्तमम्बुदामधुरम् ॥ ३ ॥ कन्तायोर्यथा- न हरि कमलाकलितं कमलाकलितं वनं च पश्यन्त्याः। नयनं कमलाकलितं कमलाकलितं बभूव च सरोऽपि ॥ ४ ॥ एवमादिरीत्या द्विव्येकपादयमकेषु भेदा ऊह्याः । पादद्वये यथा- शरवृन्दे प्रपतामि च शरवृन्दे पतति तापमस्य न सहेऽहम् । शम्बररिपुविद्यायाः शंबरसमाश्रयणमिह तव युक्तम् ॥ ५॥ इदमादौ । अन्ते यथा- संरक्षितोऽस्मि विरहानलतो भवत्या सद्रनहारविलसत्कुचकुम्भवत्या । प्लुता निमज्जन्ती विधुमुखी चन्द्रानना काचिद्गोपी की अमन्देन बहुना वधूजनेन का. सितमपेक्षितम् । कर्मणि क्तः । कर्म । कृष्णमिति यावत् । स्मरस्य मेव भा यस्य तस्य सं- बुद्धिस्तथोक्तम् । धूता उत्सृष्टा गुणेतरे दोषा यस्य तथा। हे यादव कृष्ण, स्मरशराद्भूतं हृदयं यस्य तथोक्तम् । जनमस्मदीयगोपिजनमित्यर्थः । मामिति वा अव रक्षेत्यर्थः ॥२॥ माधवमिति । पिता पुत्रं बोधयति-हे पुत्र, असतां खलानामामा रीतिस्तस्यां धुरं- धरं समर्थमवनितलस्थदैत्यदामधुरं भूतलस्थितदानवपलिभारं हरन्तं संहरन्तं मधुवदमृत. वद्रजितम् । कर्तरि क्तः । भणितं भाषणं यस्य तथोक्तम् । अम्बुद इव आ सम्यक् मधुरं मनोहरं माधवं हृदि मुदा भज । 'भज सेवायाम्' । लोट् ॥ ३॥न हरिमिति । विप्र- लब्धगोवर्णनमिदम् । कमलया लक्ष्म्या कलितं युक्तं हरिं कृष्णं न पश्यन्त्याः कमलैः कुरङ्गैः आकलितं वनमारामं पश्यन्त्या गोप्या नयनं नेत्रं कमलेन जलेन आकलितं सं बद्धं बभूव । सरोऽपि कमलैः कुसुमैरकलितं रहितं बभूव । चन्द्रः उदयं प्रापेत्यर्थः । अत्र कमलकुसुमराहित्येन चन्द्रोदयव्यजकादर्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ ४ ॥ शरवृन्द इति । मदीये पाण्डुरङ्गविलासे विरहिण्याः सुन्दर्या इव मुक्तिः । अस्य कामस्य शरवन्दे वाणसमूहे पतति सति अहं तापं न सहे । किं चेति चार्थः । शरबन्दे उदकसमूहे प्रपतामि । शम्बरेति । तत्रैव तत्सख्या वल्लव्या वचनमिदम् । इह अ- धुना शम्बरस्यासुरस्य रिपुणा कामेन विद्याया मर्दितायास्तव शम्बरस्योदकस्य समा- श्रयणं युक्तम् । 'शत्रोः शत्रुः खमित्रं स्यात्' इत्युक्तेरिति भावः ॥ ५ ॥ संरक्षित इति । तत्रैव सुन्दरीं घटयिता उक्तवती वल्लवी प्रति कृष्णस्योक्तिरियम् । अन्ये सुहृदो

१. चित्रबिन्दुः] मन्दारमरन्दचम्पू:।
त्वामेव मित्रमहमम्बुरुहाक्षि मन्ये
किं तैर्भरन्ति सुहृदः खलु कुक्षिमन्ये ॥ ६ ॥
पादत्रये यथा---
नस्यं नयनविनाशं तनुते भुक्त्यात्मनापि न विना शम् ।
किंत्वज्ञान विनाशं तस्मादेतद्धोऽपि गृह्णाति ॥ ७ ॥
एकपादे यथा-
प्रथमसंगमगेहनिविष्टया सुदृढनीविनिबद्धकराम्बुजम् ।
सुशयितं धुरि भर्तुरवाङ्मुखं मदनकादनकातरया रयात् ॥ ८ ॥
सामस्त्येन यथा-
विदलितकीचकवपुष कीचकवपुषः सुतं च बल्लववेषम् ।
बल्लववेषाप्रियकरवेषाप्रियकरमद्य कलयामि ॥ ९ ॥
मित्राणि कुक्षि भरन्ति खलु तैः किम् । न किमपि प्रयोजनं भवतीत्यर्थः ॥६॥नस्यमिति ।
नसायां नासिकायां साधु नस्यम्। सप्तम्यन्तात्स्वार्थे यत्प्रत्ययः। 'नसा नस्या च नासिका'
इति त्रिकाण्डशेषः। 'तव किरी' इत्यर्थः। नयनयोर्विनाशं तनुते आत्मना खेन नस्येनेति
यावत् । विना भुक्त्यापि भोजनेनापि शं सुखं न तनुते । 'पृथग्विनानाभिस्तृतीयान्य-
तरस्याम्' इति तृतीया। तथापीति किंत्वित्यर्थः। अज्ञानविनाशं तनुते करोति । तन्द्रीमुत्सा-
यं जागरूकतामुत्पादयतीत्यर्थः । तस्माद्धेतोरेतनस्यं बुधोऽपि गृह्णाति ॥७॥ प्रथमेति ।
कश्चिन्नवोढायाः स्वीयाया वृत्तान्तं सख्ये ब्रवीति-प्रथमं संगमगेहं सुरतगृहं प्रविष्टया
अतएव मदनस्य कादनं कलहः सुरतमिति यावत् । 'कदनं कादनं कलिः' इति कमल-
करः । तस्मिन्कातरंयाधीरया । कान्तयेत्यर्थात् सुदृढं यथा तथा नीवौ कटिवत्र-
वन्धे निवद्धं कराम्बुजं यस्मिन्कर्मणीति तथोक्तम् । अवाझुखमिति क्रियाविशेषणम् ।
भर्तुधुरि पुरः सु अत्यन्तं शयितम् । भावे क्तः॥८॥ विदलितेति । मदीये कीच कनिधने
इदं पद्यम्-विदलितानि कीचकानां वपूंषि येन तथोक्तम् , कीचकानां सरन्ध्रवेणूनां
वंध्वनि पुष्णातीति कीचकवपुद तस्य वायोः सुतं बल्लवस्य सूदस्य वेष इव वेषो यस्य स
तथोक्तम् । वल्लववेषस्य गोपालरूपिणः कृष्णस्याप्रियकरो वेषः स्वरूपं येषां तेषामप्रिय-
करम् । अर्थाद्भीममित्यवगन्तव्यम् । अद्य नाव्यारम्भावसरे कलयामि ध्यायामीत्यर्थः ।
'वल्लवौ सूदगोपालौ' इत्युभयत्रापि मजरी। 'आकल्पवेषौ नेपथ्यम्' इत्यमरः ॥९॥

. ४२. काव्यमाला। त्रिरावर्तनं यथा- कमलयामलया मलयानिलप्रचलयाचलयाचलया तया । कलितकुञ्जगृहेऽमृतवीरुधा समुदपादि मनोजमहोत्सवः ॥१०॥ एवमेव चतुःपञ्चावर्तनादय उन्नेया इति दिक् । चित्रं स्याद्यदि वर्णानां पद्माद्याकारहेतुता। तचित्रं बहुधात्रास्य दिङ्मानं दर्शयामहे ।। विना वर्गेष्वाद्यवर्णद्वितयं शपसा नच। हलादीनां कृदन्तानां पदानां विनियोजने । तत्र चित्रं भवेदस्य वौजसन्तपदान्वयात् ॥ धातोोटो मध्यमस्य परस्मैपदिनः सकृत् । उक्तस्यैव पदोद्भेदात्स्वौजसन्तेषु चान्वयात् ॥ यथा- विशदमहितकीर्तिश्रीप्रभावानिमनं कलितगहनपापे दीर्घसंसारकूपे । कमलयेति । मदीये वैकुण्ठवर्णन इदम् । अचलयाचलया अचलं क्रीडापर्वतं यातीत्य- चलयास्तादृशी अचला भूर्यस्यास्तथोक्तम् । असंनिहितभूदेवीकयेत्यर्थः । अमलया निर्दु- ष्टया कमलया श्रीदेव्या का। 'मलयानिलेन मन्दमारुतेन । मलयानिलपदे मन्दमारु- तविषयिणी कविरूढिः । प्रचलया संचलयामृतवीरुधामृतलतया कलिते व्याप्ते कुजगृहे गृहसदृशकुछ मनोजमहोत्सवः कामकेलिः समुपादि उत्पादितः । कृत इत्यर्थः ॥ १० ॥ उपसंहरति-एवमिति ॥ इति माधुर्यरजन्यां यमकप्रकरणम् ॥ उद्देशक्रमेण चित्रं लक्षयति-चित्रमिति । चित्तं राति आदत्ते इति चित्रम्।विस्मयकारी- त्यर्थः। तच्च शब्दालंकारः, अर्थालंकारश्च । काव्यस्य तु चित्ररूपशब्दालंकारार्थालंकारत- दुभयविशिष्टत्वेन चित्रत्वम् । चित्रमस्यास्तीति चित्रमित्यर्शआदिवादचू। अत्र तु चित्ररूप- शब्दालंकारनिरूपणं बोध्यम् । पद्मादीति। आदिपदेन नागगजविभक्तिद्वयादयः(१)तथा च पद्माद्याकारहेतुभूतवर्णत्वंचित्र(त्व)मित्यर्थः अस्य चित्रस्येत्यर्थः। चित्रोपायं निरूपयति- विनेत्यादिना । हलादीनामिति। हलवर्णा आदौ येषां तेषामित्यर्थः । अस्यैतादृश- वाक्यस्य । लोट इति । लोप्रत्ययान्तस्येत्यर्थः। मध्यमस्य मध्यमपुरुषस्य । पदोद्भेदात्प- दच्छेदात् । एतत्सर्वमुदाहरणे बोध्यम् । विशदम हितकीर्तिश्रीप्रभावानिमग्न- मिति। अत्र श्रीप्रभाव अनिमग्नम्' इति मारुतिपक्षे पदच्छेदः । श्रीप्रभौ आनिमग्नम्' इति चन्द्रसूर्यप।श्रीप्रभावाः धिमन्नम्' इतिविधिहरिशितिकण्ठपक्षे । कुरुतमुदितमेनमित्यत्रापि ४३ ४. चित्रबिन्दुः] मन्दारमरन्दचम्पूः। कुरुतमुदितमेनं मारुते चन्द्रसूयौं विधिहरिशितिकण्ठास्त्वं युवा यूयमद्य ।। ११ ॥ पृष्ठतो न्युपसर्गादे राज्याधन्तसुयोजने। चित्रं भवेद्भिन्नलिङ्गस्वावाद्यन्तसमन्वयात् ॥ यथा- ध्वस्ताघाली निबद्धोरुगुणालीनिहते भवे । गातां हरेस्तनुः पादौ चरित्राणि सदा हृदि ॥ १२ ॥ यथा वा-- यशोराजी नितान्तोरुसंपत्पाली नियोगतः । अपत्यानि हरेः पादौ लक्ष्मीश्च कुरुतां मम ।। १३ ।। इनीदन्तपर्योगे रेफादिपदपृष्ठतः। भवेच्चित्रं भिन्नलिङ्गस्वौशसन्तसमन्वयात् ॥ यथा- सुदानशालिनी राजत्सुजनप्रेयसी रमा । केशवस्य च पादाब्जे संपदस्तनुतां मयि ॥ १४ ॥ 'कुरु तं उदितम्' इत्येकत्रा कुरुतम् उदितम्' इत्यन्यत्रा कुरुत मुदितम्' इत्यपरत्र पदच्छेदः। अर्थस्तु सुगम एव ॥११॥ न्युपसर्गादेरिति । नीत्युपसर्गः आदौ यस्य तस्येत्यर्थः।रा. ज्याद्यन्तेति।राजिरादिर्येषां ते राज्यादयः। आलि अङ्गुलिः वलिः केलिः नीविः नामिरि- त्यादयः शब्दा अन्ते येषां तेषामित्यर्थः।स्वावाद्यन्तेति।सुऔ इत्यादिप्रत्ययान्तेष्वित्यर्थः। ध्वस्ताघालीति।ध्वस्ता अघानां पापानामाली समूहो यस्यास्तथोक्तति तनुविशेषणम् । 'कृदिकारादक्तिनः' इति पक्षे ङीष् । निवद्धा संबद्धा उरुगुणानामाली यस्याः सेत्यपि तनु- विशेषणम् । प्रथमैकवचनम् । पाद विशेषणे तु द्विवचनम् । चरित्रविशेषणे तु ध्वस्तापा- लीनि वद्धोरुगुणालीनीति पदच्छेदः । नपुंसकबहुवचनम् । हरेर्विष्णोस्तनुः की । पादी कर्तारौ । चरित्राणि कर्तृणि । सदा हृदि गाताम् । 'गाङ् गतौ' इत्यस्मात्प्रार्थनायां लोह । नित्यं बहु(सर्व)वचनान्तमिदं सर्वत्रान्वेति । प्रवर्ततामित्यर्थः । एवमेवोत्तरत्रापि ॥ १२ ॥ अपत्यानि कर्माणि पादौ । लक्ष्मीश्च कर्तृपदे । कुरुतामिति । परस्मैपदे लोटि मध्यम- (प्रथम) पुरुषद्विवचनम् । अन्यत्रात्मनेपदे लोटि मध्यम (प्रथम) पुरुषैकवचनम् ॥ १३ ॥ इनीदन्तेति । स्त्रीप्रत्ययप्रकृतिकणिन्यादिप्रत्ययान्तपरित्यर्थः । भिन्नलिङ्गखौशसन्त- समन्वयादिति । लिङ्गभेदविशिष्टप्रथमैकद्विबहुवचनान्तपदान्वयादित्यर्थः । सुदानेति।

४४ काव्यमाला। आदन्तोत्तरतोऽज्वादेः संध्या शब्दस्य गुम्फने । भवेचित्रं लिङ्गभेदादेकद्विवचनान्वयात् ॥ विभासिताविभौघेन चन्द्रलेखा विभासिता। कुरुपाण्डवयोः सेनासंनिवेशाविवासकृत् ॥ १५ ॥ कश्यपार्काविव मुदा सेविता वरुणेन या। तां प्रतीची चुचुम्बासौ गोभिः संमान्य चन्द्रमाः ।। १६ ॥ रामावलिविलासेन हरिणा रमते रमा । करटाविव गोप्यो वा पुनः पद्मच्छदाविव ॥ १७ ॥ । सुष्ठुदानशालिनीति राजतां सुजनानां प्रेयसीति रमाविशेषणम् । रमा की । सुदानशाली- नीति राजत्सुजनप्रेयसीति च नपुंसकलिङ्गकं पदद्वयम् । पादाब्जयोर्विशेषणम् । पादाब्जे च कर्तृणी। सुदानशालिनीरिति सुजनप्रेयसीरिति च स्त्रीलिङ्गद्वितीयाबहुवचनान्तपदद्वयं । संपद्विशेषणम् । संपदः कर्माणि । तनुतामिति पदं कुरुतामितिवद्योज्यं पूर्ववत् । 'ठूलोपे पूर्वस्य दीर्घोऽणः' इति दीर्घः ॥१४॥ आदन्तोत्तरत इति ।आकारान्तपदाव्यवहितोत्तर- मित्यर्थः । अज्वादेः अचः अ इ उ ऋ ए ओ ऐ औ एते (वकारश्च) आदौ यस्य तस्य शब्दस्य संध्या संधिपूर्वकं गुम्फने योजने सति । विभासितेति । सेनासंनिवेशपक्षे 'वि- भासितौ इभौधेन' इति पदच्छेदः । चन्द्रलेखापक्षे 'विभासिता विभौधेन'इतिच्छेदः ।इभानां गजानामोघस्तेन । अन्यत्र वकारः शोभावाची सोऽस्यास्तीति विभानां नक्षत्राणामोघः स- मूहस्तेन । यद्वा वोऽमृतमासामस्तीति विन्यो भाः कान्तयस्तासामोघेन । अमृतमयकान्त्यो- घेनेति यावतू ॥१५॥ कश्यपार्काविति। कश्यपाकौं कश्यपसूयौँ मुदा अरुणेन अनूरुणा सेवितौ । प्रतीचीपक्षे मुदा वरुणेन प्रचेतसा सेविता। पालितेत्यर्थः । असौ चन्द्रमा गोमिः संमान्य मानयित्वा चुचुम्व । अत्र प्रतीचीसंवन्धरूपास्तमये वर्ण्यमानेऽप्रस्तुतपरवनिता- सक्तपुरुषान्तरप्रतीतेः समासोक्तिरलंकारः। 'अप्रस्तुतपरिस्फूर्तियंत्र प्रस्तुतवर्णने । समा- सोक्तिः' इति लक्षणात् ॥१६॥ रामावलीति । 'रामौ अलिविलासेन, रामाः बलिविला- सेन'इति द्विधा पदच्छेदः । 'रामा बलि विलासेन' इति रमापक्षे छेदः। वलीनां त्रिवलीनां विलासेन रामा रमणीया रमा लक्ष्मीः। रामावलिविलासेनेत्येकं पदम् । रामाणां स्त्रीणा- मावलौ विलासो यस्य तथोक्तेन हरिणा कृष्णेन रमते । 'रमु क्रीडायाम्' इत्यस्मालट् । करटाविव गजगण्डाविव । एतत्पक्षेऽलिविलासेन भ्रमरविलासेन रामौ रमणीयौ । गोप्यो वा गोपिका इव । 'ववायथातथैवेवं सामान्ये' इत्यमरः। एतत्पक्षे वलीनां त्रिवलीनां वि- लासेन रामा रमणीयाः । पद्मच्छदाविव कमलपत्रे इव । एतत्पक्षेऽलीनां विलासेन रामौ रमणीयावित्यर्थः । अत्र 'लिङ्ग संख्याविभेदेऽपि उपमानोपमेयता । विभक्तिः पुनरेकैव उप- मानोपमेययोः॥' इत्यनुशासनाच्छेषकृतसाधारणधर्मोपादान विशिष्टोपमानालंकारे वचन- ४५ - ४.चित्रबिन्दुः] मन्दारमरन्दचम्पूः। अजन्तानां हलन्तानां यथायोग नियोजने । विभक्तिभेदाचित्रं स्यात्स्वावम्टादिपदान्वयात् ॥ यथा प्रथमायाम्- प्रकीर्णकचमरीचयः सुरतश्रान्ताङ्गना इवाभाति । अपि बहुकारुचयो घोटकशाला इवाचलाधिपतिः ॥ १८ ॥ लोहकारनिषद्याश्च राजन्ते पुरि सर्वतः । अनेककृष्णसूच्यश्च नन्दसूनुरिव ब्रजे ॥ १९ ।। प्रथमाद्वितीययोर्यथा- तमोविध्वंसिनी राजकमलानन्ददायिनी । हरिनेत्रे तुलयति भानोः किरणसंततिः ।। २० ॥ भेदेऽपि न दोषः॥१७॥स्वावम्टादिपदान्वयादिति।प्रथमैकवचनद्विवचन द्वितीय- कवचनतृतीयाद्यन्वयादित्यर्थः। प्रकीर्णकेति।अचलाधिपतिः पर्वतश्रेष्ठः।भातीत्यन्वयः। किंभूतः। सुरतेन श्रान्ता अङ्गना इवेत्येकं पदम् । 'इवेन सह नित्यसमासो विभक्त्यलोपव' इत्यनुशासनात् । उपरिसुरतश्रान्तकान्ता इवेत्यर्थः । प्रकीर्णकचमरीचयः कान्तापक्षे प्रकीर्णनां कचानां मरीचिः प्रभा यासां तास्तथोक्ताः । पर्वतपक्षे प्रकीर्णको विस्तृतः चमरीणां चयो वृन्दं यस्मिंस्तथोक्तः । प्रथमैकवचनम् । 'प्रकीर्णकं चामरे स्याद्विस्तृते ना तुरंगमे' इत्यनेकार्थमेदिन्यौ । किंचेत्यप्यर्थः । घोटकशाला इव वाजिशाला इव । बहुक- कर्मणामनेकशुक्लाश्वानां रुचिर्यासु ता इति वहुवचनम् । पर्वतपक्षे बहूनां कर्कारूणां कू- ष्माण्डकानां चयो यस्मिंस्तथोक्त इत्येकवचनम् । 'सितः कर्कः' इति । 'कूष्माण्डकस्तु कार्कारः' इति चोभयत्रामरः॥१८॥लोहकारेति। लोह काराणां निषद्याः। आपणस्तु निष- द्यायाम् इत्यमरः। पुरि नगरे सर्वतः सर्वत्र । सार्व विभक्तिकरतसिः। व्रजे गोकुले नन्दसूनु- रिव कृष्ण इव । अनेककृष्णसूच्यः अनेकाः कृष्णाः सूच्यः प्रसेविन्यो यासु ता इत्यापण- पक्षे बहुवचनम् । कृष्णपक्षेऽनेकैर्जनैः कृष्ण इति सूच्यः सूचनाविषय इत्येकवचनम् । राजन्ते॥१९॥तम इति।भानोः सूर्यस्य किरणानां संततिः की। हरेनॆत्रे कर्मणी। तमो- विध्वंसिनी तमो ध्वान्तं विध्वंसयतीति तथोक्ता। ताच्छील्ये णिनिः। स्त्रीवात् ङीप् । इति भानुकिरणपक्षे स्त्रीलिङ्गप्रथमैकवचनम् । हरिनेत्रपक्षे तमोऽज्ञानं विध्वंसयत इति तथोक्त नपुंसकलिङ्गद्वितीयाद्विवचनम् । एवमग्रेऽपि । कमलेति । पमं लक्ष्मीश्वेत्यर्थः । अत एव तुलयति समीकरोति। नात्रोपमालंकारः। किंतु प्रकृताप्रकृतोभयश्लेषः।तेन 'लिङ्गसंख्यावि- भेदेऽपि इत्यनुशासनाद्विभक्तिभेदस्य चान सखात्कथमुपमालंकार इति शङ्का परास्ता ।

४६ काव्यमाला। सदयः करवालानां वृन्दमन्वकरोन्नृपः । विशालकीर्ति ग्रीष्मीयसरोऽपि विदुषां कुलम् ॥ २१ ॥ उत्फुल्लमल्लिकाजालमालिकाबद्धकेशवान् । केलीकुपितगोपस्त्रीजनाननुकरोत्ययम् ॥ २२ ॥ पल्लवलालितसुवयो वेश्यावृन्दं भजन्ति चारामाः । उल्लसितश्रीकवयस्तुलयन्त्युद्यानमाः सभादेशाः : ॥ २३ ॥ उपमानत्वेनाप्रकृतस्योपमेयत्वेन प्रकृतस्य च विशेषणमात्रश्लेषाच्छेषालंकारः संगच्छते । तथा चोकं प्रतापरुद्रीये-'प्रकृताप्रकृतोभयगतमुक्तं यच्छेषमात्रसाधर्म्यम् । श्लेषोऽयं श्लि. प्रत्वं सर्वत्रायद्वयेनान्यः ॥' इति । अत एव प्रकृताप्रकृतोभयश्लेषविवक्षया विभक्तिवच- नमेदेनो भैष्मीपरिणये-'समदया गजपलया सदृशी नीतिश्च' इति॥२०॥सदय इति । कृपः कर्ता । सदयः दयया सहितः । इति अदन्तप्रथैकवचनम् । अन्यत्र सत् अयो लोहो ममिन् तथोकमिति सान्तद्वितीयैकवचनम् । अत एव करवालानां कृपाणानां वृन्दम- न्वकरोत् अनुससार । विदुषां कुलं समूहः कर्तृ विशालकीर्ति विशाला कीर्तियशो यस्य तदिति प्रथैकवचनम्। अन्यत्र विशाला कीर्तिः कङ्को यस्मिन् तदिति द्वितीयैकवचनम् । प्रीष्मीयसरः प्रीष्मकालिकतटाकम् ।अन्वकरोदित्यस्यानुकर्षः। 'यशःकर्दमयोः कीर्तिः' इ- त्यनेकार्थः॥२१॥ उत्फुल्लेति । अयं कर्ता ।उत्फुल्लानां मल्लिकानां जालस्य मालिकया बद्धाः केशा अस्य सन्तीति तथोक्तः इति तकारान्तप्रथमैकवचनम् । 'न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः' इत्यनुशासनस्यानित्यत्वान्मत्वर्थीय (वति)प्रत्ययः। अन्यत्र उत्फुल्लमल्लिकाजालमालिकावद्धः केशवो यैः, येषां वा तानिति पुंलिङ्गद्वितीयाबहुवचनम् । भत एव केलौ कुपितान गोपस्त्रीजनान अनुकरोति अनुसरति । 'उपसर्गेण धात्वर्थो बला- दन्यत्र नीयते। विहाराहारसंहारप्रहारपरिहारवत् ॥' इत्युक्तेः॥२२॥पल्लवेति।आरामः कर्तारः। पल्लवलालितसुवयः पल्लवैः किसलयैः करणैः लालिता लालनयुक्ताः । अधिक- रणे क्तः । शोभना वयः पक्षिणइति इदन्तप्रथमावहुवचनम् । अन्यत्र पल्लवैर्विटैलालित सुष्टु चयो यौवनं यस्य तदिति सान्त द्वितीयैकवचनम् । वेश्यावृन्दं कर्म । भजन्ति । स- भादेशाः कर्तारः उल्लसितश्रीकवयः उल्लसिता विकसिता श्रीर्येषां ते कवयो येषु । तेइति इदन्तप्रथमाबहुवचनम् । अन्यत्र उल्लसिता श्रीर्यस्य तदुलसितश्रीकं वयः पक्षी यस्मिन् तदिति नपुंसकद्वितीयैकवचनम् । अत एव उद्यानं कर्म तुलयन्ति समीकुर्वन्ति । पल्ल- वोऽस्त्री किसलये पुंसि शृङ्गारषिजयोः' इत्यनेकार्थः । 'विविधिकरपतनयः' इत्यमरः । 'वयः पक्षिणि बाल्यादौ यौवने च नपुंसकम्' इति मेदिनी। 'आः प्रगृह्यं स्मृतौ वाक्ये ४७ ४.चित्रविन्दुः] मन्दारमरन्दचम्पूः। प्रथमातृतीययोर्यथा- सततालम्बितहरिणा भक्तजनेनाभवदनी सदृशी। विमलतरवारिभृत्या शरदि सरस्या च वाहिनी सदृशी ॥ २४ ॥ प्रचलहुन्दुभिर्नागलोकदेशैः समीकृतः । वाहिनीसंनिवेशोऽयं भाति कृष्णमहीभुजः ॥ २५ ॥ प्रथमाचतुर्योर्यथा- अतिमञ्जुलशयनाभिर्गोपवधूभिः समीकृतः कृष्णः । निजसारूप्यं प्रददौ भक्तजनेभ्यः प्रसन्नरामेभ्यः ॥ २६ ॥ विस्मये च समुच्चये' इत्यनेकार्थादौ इति विस्मयार्थ।।२३॥ सततेति । वनी की । 'श्री स्यात्काचिन्मृणाल्यादिविवक्षापचये यदि' इति कोशादल्पत्वविवक्षायां स्त्रीलम् । 'जाते- रस्त्रीविषय-'इत्यादिना ङीष् । अल्पवनमित्यर्थः । उपवनमिति भावः । सततालम्बितह- रिणा सततमालम्बिताः। कर्तरि कः। हरिणाः कुरजा यस्यां सेति आदन्तस्त्रीलिङ्गप्रथमैक- वचनम् । अन्यत्र सततमालम्वितः । कर्मणि कः । हरियेन तेनेति । इदन्ततृतीयैकवच- नम् । अत एव भक्तजनेन सदृशी अभवत्। 'तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्" इति तृतीया । वाहिनी सेना की । विमलतरवारिभृत्या विमलस्तरवारिः खड्गो येषां ते भृत्याः भटा यस्यां सेति प्रथमैकवचनम् । अन्यत्र विमलतरस्यात्यन्तखच्छस्य वारिणो मृतिभरणं यस्यास्तयेति तृतीयैकवचनम् । सदृशी अभवदिति पूर्वेणान्वयः । शरदि शर- हतौ स्थितयेत्यर्थः । सरस्या कासारेण । 'उद्याने हरिणाः सर्वफलपुष्पलताद्वमाः' इति वर्ष्यावर्ण्यप्रकरणे कविकल्पलतायां देवेश्वरोक्तरुयाने हरिणालम्बितत्वं वोध्यम् । 'कासारः सरसी सरः' इत्यमरः। 'ऋषिः खनस्तरवारिः शस्त्रो भद्रात्मजश्च सः' इति त्रिकाण्डशेपः। 'सेना नदी च वाहिन्यौ'इति च॥२४॥प्रचलदिति । कृष्णमहीभुजः कृष्णराजस्य वाहि- नीसंनिवेशः सेनासंनिवेशः। कर्ता । प्रचलहुन्दुमिः प्रचलन्तो दुन्दुभयो यस्मिन् स इति इद- न्तप्रथमैकवचनम्। अन्यत्र प्रचलन संचलन् दुन्दुः राजसो येषु तैरिति तृतीयावहुवचनम्। अतएव नागलोकदेशैः पातालप्रदेशैः समीकृतो भाति।'भा दीप्तौ'लिट् । अथ नागभृदुन्दुः' इति निकाण्डशेषः। 'दुन्दुईण्डरहीरणौ'इति कमलाकरश्च ॥२५॥ अतिमञ्जलेति । कृष्णः कर्ता । अतिमञ्जुलशयनाभिः अत्यन्तं मञ्जुले शयः पाणि मिश्च यस्य तथोक्त इति।इदन्तप्र- थमैकवचनम् ।अन्यत्र अतिमजुलं शयनं सुरतं यासां ताभिरिति तृतीयावहुवचनम् । अत एव गोपवधूभिः समीकृतः। प्रसन्नरामेभ्यः प्रसन्नानां रामाणामिभ्यः पतिः। यद्वा प्रस- नाभी रामाभिरिभ्य आढ्य इति प्रथमैकवचनम् । अन्यत्र प्रसन्नो रामो दाशरथिर्येभ्य- स्तेभ्य इति चतुर्थीवहुवचनम् । अत एव भक्तजनेभ्यः निजसारूप्यं साम्यं प्रददौ ।भक्त- ४८ काव्यमाला। :३ प्रथमापञ्चम्योर्यथा- लसद्विपादः पञ्चास्यादविशेषविधायकः । नमद्विजाय पाहीति नमश्चक्रे स भावते ॥ २७ ॥ एवमेव द्वितीयादिबूंद्याः। अक्षरमात्राविन्दुच्युतकानुलोमप्रतिलोमादयोऽपि जलंजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटेलम्पटेन । गुहपुरनिलयेन प्रोद्धृतश्चित्रबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥ इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगी- श्वरस्यान्तेवास्यन्यतमस्य गुद्दपुरवासशर्मणः कृष्णशर्मणश्चन्द्रदेवशर्मणश्च कृतौ मन्दार- मरन्दे चम्पूप्रबन्धे चित्रविन्दुश्चतुर्थः समाप्तिमगमत् । . जनैरिभ्यः आन्य इति कृष्ण विशेषणमपि भवति । 'शयनं सुरते निद्राशम्ययोश्च नपुंसकम्' इतिमेदिनी। 'इभ्या करेणुशल्लक्योः स्त्रियामान्ये प्रियेऽन्यवत्' इत्यनेकार्थः॥२६॥ लसदि- ति । सः कर्ता । लसद्विपादः लसन्तौ द्वौ पादौ यस्य स इति प्रथमैकवचनम् । अन्यत्र लसन्तं द्विपं गजमत्तीति लसद्विपात् तस्मादिति पञ्चम्येकवचनम् । अत एव पञ्चास्यात्सि- हात् अविशेष विधायकः विशेषाभावविधायकः।समइति यावत् विशेषत्वं च मेदवोधकधर्म- त्वम्। अन्यारादितरर्ते दिकूशब्दाचूत्तरपदाजाहियुक्ते' इति सूत्रेणप्रतियोगिवावचकपञ्चास्य- पदात् सप्तमी । अन्य इत्यर्थग्रहणमित्युक्तः। तथा च प्रतियोगित्वं पञ्चम्यर्थः । तस्य वि. शेषपदार्थेकदेशे भेदेऽन्वयः।संपन्नो व्रीहिरित्यादौ क्वचिदेकदेशान्वयस्वीकारात्।तदभावपक्षे विशेषपदस्यैव भेदे लक्षणा । तथा च अविशेषविधायक इत्यस्य भेदाज्ञापक इत्यर्थः । इदं तच्छब्दार्थकर्तृविशेषणम् । नमतां द्विजानामयः शुभावहविघियेन तस्य संबुद्धिः । नम- द्विजायेति संबोधनम् । सूर्योदये सति यज्ञदानस्नानादिशुभावव्यापाराःप्रवर्तन्ते। पाहीति उक्खा भावते सूर्याय नमश्चक्रे । भावन्तमनुकूलयितुं नमश्चक्र इत्यर्थः। 'क्रियार्थोपप- दस्य च कर्मणि स्थानिनः' इति चतुर्थी । क्रियार्थोपपदस्य तुमुन्नन्तस्याप्रयुक्तस्य धातोर्य- कर्म तत्प्रयोग विना तदर्थकर्मतया यद्विवक्षितं तद्वाचकपदाच्चतुर्थीति सूत्रार्थः। 'अयः शुभावहो विधिः' इति कोशाददन्तोऽयशब्दः । ग्रन्थगौरवभीत्या उपसंहरति-एव: मिति। द्वितीयादिषु द्वितीयादिविभक्तिविशिष्टेषु । तथा च द्वितीयान्तस्य तृतीयाद्यन्ता- न्वयेन तृतीयान्तस्य चतुर्थ्याद्यन्तान्वयेनेत्यादिरीत्योह्या इत्यर्थः ॥ जलजनीति । पचं पूर्ववदेव बोध्यम् ॥ इति श्रीमन्दारमरन्दव्याख्यायां माधुर्यरञ्जन्याख्यायां गूढंकर्तृ- कायां चित्रबिन्दुश्चतुर्थः ॥

'४९ ५. बन्धबिन्दुः] मन्दारमरन्दचम्पूः। बन्धविन्दुः। अथाधुना बन्धविन्दौ वन्धलक्ष्माणि कानिचित् । महे बुधमोदाय गर्मितोदाहृतिक्रमम् ॥ यद्यप्यनेके बन्धास्तु कविप्रौढिमगुम्फिताः । तथापि महे कांश्चिन्नागपझगजादिकान् ।। द्वितीयान्त्यौ तथा तुर्यत्रिंशतौ षष्ठपष्टिको । अष्टमाष्टत्रिंशतौ च दिक्चतुःषष्टिकावपि । द्वादशेन्द्रौ नाट्यचेष्टाद्विचत्वारिंशतो तथा । पीठाएपष्टिकौ च षट्चत्वारिंशविंशती ॥ द्वाविंशत्पट्सप्ततिको पञ्चाशत्केशवावपि । अशीतिषड्विंशती चत्वारिंशत्पष्टषष्टिकौ ॥ साष्टपञ्चाशविंशौ च तौ पट्त्रिंशविपष्टिको । त्रिंशतौ द्विचतुः पूवौं तथैव द्विचतुः परौ । पञ्चशतौ चतुश्चत्वारिंशत्सप्ततिको अष्टाभिरधिको चत्वारिंशत्सप्ततिको तथा ॥ तथा। अथ कविर्वन्धविन्दुमुपक्रमन् प्रतिजानीते-अथेति। प्रयोजनमाह-बुधमोदा येति । तत्र निमित्तमाह-गर्भितोदाहतिक्रममिति । क्रियाविशेषणमिदम् । यद्य- पीति । सन्तीति शेषः। प्रौढिमेति।प्रौढतेत्यर्थः। प्रौढशब्दाद्भावे इमनिच्प्रत्ययः। कां- श्चिदिति । ननु पूर्वपदे कानिचिदित्यनेनैव निर्वाहे अत्र कांश्चिदित्यस्य वैयर्थ्यमिति चेदु- 'च्यते । पूर्वत्र कानिचित्पदं लक्षणान्वयि अत्र कांश्चित्पदं वन्धान्वयीति विशेषः । अत एव छत्रचामरवन्धादीनां लक्षणं सुगमत्वानोक्तम् ,नागबन्धादीनां लक्षणमुक्तमाहंसमयूर- क्षीरहारमच्छा(?)दिवन्धा नोक्ता इति ध्येयम् । तत्रादौ नागबन्धलक्षणमाह-द्वितीया-: न्त्यावित्यादिना । द्वितीयाक्षरान्त्याक्षरे इत्यर्थः। एवमप्रेऽपि। तुर्यत्रिंशतौ चतुर्थत्रि- शवौँ । 'चतुरश्छायतावाद्यक्षरलोपश्च' इति चतुःशब्दायत्प्रत्ययः। अष्टमाष्टमाष्टमश्चाष्टत्रि- शच्चाष्टमाष्टत्रिंशतौ । अष्टन्शब्दात् 'तस्य पूरणे डर' इत्यनेन जातस्य डटः 'नान्तादसं. ख्यादेमंट्' इति मडागमः। दिक् दशमो वर्णः। इन्द्रश्चतुर्दश। नाट्यचेष्टा षोडश । पीठम- टादश । षट्चत्वारिंशविंशतीति। विंशत्यादिभ्यस्तमडन्यतरस्याम् इति तमडागमस्य वैकल्पिकलाचत्वारिंशच्छब्दाष्टट् । साष्टपञ्चाशविंशो चेति । अष्टपञ्चाशदष्टाविंशा- मन्दा०५ ५० काव्यमाला। षट्पञ्चाशद्वयशीती च सप्तती द्विचतुः परे । इमावुभावुभौ वर्णावेकत्वं भजतो यदि ॥ तदेकनागवन्धस्तु स्रग्धरायां भवेद्भुवम् । विदग्धहृदयानन्दश्चतुष्कोणाकृतिर्वरः॥ यथा- श्रीरामो हर्म्यधामा सततसुमहिमश्रीनतो ज्ञप्रभूतः सुग्रीवप्रीतये तत्सहजमयममुं भालसत्सायकेन । पायान्मां भूभृदीशो वनमिह मिहिरबातबाधाद्यभावे तस्यायन्नाज्ञयायाममशमधिसुखोऽदीनितस्यारिधारा ॥१॥ एवमुत्तरत्रापि नागवन्धभेदेषु यथोचितं लक्षणं परिष्करणीयम् । अष्टदलपद्माकारेणैकनागबन्धो यथा- मुरस्यारातेरुचरणशरजामन्दमधुपं तनो लक्ष्मीवयाँ रचितगुरुपामप्रशमिताम् । वित्यर्थः। अत्रोक्तानां संख्येयवाचकत्वमेवेति वोधनायाह-इमाविति। नग्धराया- मिति । तन्नामकवृत्त इत्यर्थः । एवमेव नागवन्धमुदाहरति-श्रीराम इति । स इति तच्छन्दवलाद्य इति लभ्यते । यो रामस्तस्य दशरथस्य आज्ञया इह . भूमौ मिहिराणां कर्तृतासंबन्धेन सत्कर्मवताम् । सत्कर्मकर्तृणामिति यावत्। 'मिहिरः पुंसि पूषणि । नित्यस- कर्मणि धने वृद्धेऽपि' इति वररुचिः। व्रातस्य वृन्दस्य बाधादीनामभावे। विषयसप्तमीयम् । वनमयन् गच्छन् । 'इटकिटकटी गतौ' इत्यत्र गत्यर्थकात्प्रश्लिष्टइधातोः कतरि शतृप्रत्ययः। सुग्रीवस्य प्रीतये तत्सहजं स एव सहजो यस्य तममुं वालिनं भया दीप्त्या लसता सायकेन अयामं संयमरहितम् । गमनोन्मुखप्राणमिति यावत्। अत एव अशं सुखरहितम्। अकरो- दिति शेषः । स तादृशः । हर्म्य धाम यस्य तथोक्तः । तता व्याप्ता सुमहिन्नो माहात्म्यस्य श्रीर्येषां तैर्ब्रह्मादिभिर्नतो नमस्कृतो ज्ञ इव वुध इव चन्द्र इव वा । 'ज्ञो ब्रह्मबुधचन्द्रेषु' इत्यनेकार्थः । प्रभूत उद्गतः । सौम्य इति यावत् । भूभृतां राज्ञामीशः अधिसुखो अधिक- सुखः । अदीनितस्य दीनितो न भवतीत्यदीनितः। 'दीङ क्षये' इत्यस्मादधिकरणे क्तः। तस्य । मत्तस्येति यावत् । अरिधारा चक्रधारेतिरूपकम् । अयं श्रीरामो मां पायात् । अत्रा- दुतरसस्य रत्यङ्गत्वाद्रसवदलंकारः। 'रसो यत्र परस्याचं चेत्तत्र रसवान्मतः' इति लक्ष- णात् । 'म्रभैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति लक्षणात्स्रग्धराव- त्तम् । शब्दालंकारस्तु चित्र एव । किं चात्राष्टकोणस्थितवर्णैः श्रीहयग्रीवेश पाहि' इति प्रतीयते । उत्तरत्रापीति । नागबन्धभेदेब्वित्यर्थः ॥ मुरस्येति । हे तनो देहामिमा- ५१ ५. बन्धविन्दुः] मन्दारमरन्दचम्पूः। पदश्रीनिधूतद्रुमनवपलाशान्तररमां महीजातां तां भो धुतनिललधाम व्रज भज ॥२॥ एवं द्वित्रिचतुर्नागबन्धेषु यथासंभवं भेदा ऊहनीयाः । ओजयुक्तेष्वाद्यपष्ठतृतीयान्त्यैकता भवेत् । दलैादशभिर्युक्तः : पद्मवन्धस्त्वनुष्टुमि ॥ यथा- दाराणां सुखदातारं दैत्यदामहरं मुदा । दावाग्निमरिदावस्य भजे दामोदरं सदा ॥ ३ ॥ द्वादशदलपद्मभेदो यथा- कमलाचित्तनालीक कलीनाहतकंटक । कटकं देहि भालांक कलां भायललामकम् ॥ ४ ॥ निन् जीव,मुरस्य दैत्यस्यारातेः शत्रोः। विष्णोरित्यर्थः। उत् उत्कृष्टं चरण एव शरजं जल तस्मिन्नमन्दं जागरूकं मधुपं भ्रमरमिति रूपकन्। लक्ष्मीः कान्तिः वृणोति यामिति लक्ष्मी- वर्याम् । अधिककान्तिमतीमित्यर्थः । श्रेष्ठलक्ष्मीमिति विशेषणोत्तरपदवहुव्रीहिर्वा । रचि- तस्य गुरुणो महतः पामस्य (नः) पापस्य प्रशमिता शमनम् । भावे क्तः । यया ताम् । 'पामा विचर्चिकायां स्त्री न द्वयोः पापपक्षयोः' इत्यनेकार्थः । पदश्रिया पादकान्त्या निर्धूता तिरस्कृता द्रुमस्याशोकस्य नवस्य नूतनस्य पलाशस्य पत्रस्यान्तररमा मध्यलक्ष्मीर्यस्या- स्ताम् । 'द्रुमो नाशोकवृक्षयोः' इत्यनेकार्थः ।महीजातां भूमिजातां तां सीतां भज । 'भज सेवायाम्' लोट् ।धुतो निरस्तो निललो नितरां लल्यते ईप्स्यते इति निललः संसारो यस्मि- स्तथाविधं धाम स्थानम् । मुक्तिमित्यर्थः । ब्रज । अत्र 'लक्ष्मीपते पाहि' इति प्रतीयते अष्टकोणस्थितवर्णैः ॥ ओजेति । ओजो प्रथमतृतीयौ च युक्तौ च द्वितीयचतुर्थों च तेषु । तथा च प्रथमतृतीयपादयोराद्यषष्ठवणे । द्वितीयचतुर्थपादयोस्तृतीयान्त्यवर्णो यौ तेषामेकरूपत्वमिति भावः। उदाहरणे दा इत्यक्षरं तथाविधं वोध्यम् ॥दाराणामिति । पत्नीनामित्यर्थः । दैत्यानां दाम मालां हरतीति तथोक्तम् ॥ कमलेति । कमलाया ल- क्षम्याश्चित्तमेव नालीकं पद्मम्। 'नालीकं त्वब्जे क्लीवं शरे पुमान्' इति रत्नमाला । तस्मिन् भ्रमरेति संवोधनम् । 'कलीनं तु खलीनेलौ' इत्यनेकार्थः । आसमन्ताद्धतः कण्टको येन तस्य संबुद्धौ तथोक्तम् । 'रोमाञ्चे क्षुद्रशत्रौ च द्रुमाङ्गे कण्टकोऽस्त्रियाम्' इति त्रिकाण्ड- शेषः । भालाङ्कः । ‘भालाङ्कः करपत्रे स्याच्छाकभेदे च रोहिते । महालक्षणसंपन्नपुरुषे १-२, परसवर्णस्य नित्यत्वे वन्धानुगुण्येनानुस्वार एव रक्षितः.

५२ काव्यमाला। षोडशदलपद्मबन्धो यथा- कृतखान्तततध्वान्तधूत भूतहितव्रत । दान्तशान्तजितप्रेत श्रौतगीतसुतस्तुत ॥ ५ ॥ अष्टदलपद्मबन्धो यथा- माता तस्या धरण्याश्चरणभजकवखीशयक्षोरधामा माधारक्षो यशखी भवतु मम मुदे भ्राजितस्फारनामा । मानारस्फातजिभ्राजितरिपुनिवहध्वंसनव्याससामा मासासव्या न स ध्वंसितदितिजवरेण्यारधस्याततामा ॥६॥ एतेषु यथासंभवं लक्षणमूह्यम् । एवमग्रेऽपि । कच्छपे हरौ॥'इति मेदिनीकोशान्महालक्षणसंपन्नेत्यर्थः। भया कान्त्या आत्यं युकं ललामं भूषणं यस्य तथोक्तम् । 'ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु' इत्यमरः । कलां विद्या- रूपं कटकं भूषणमिति व्यस्तरूपकम् । देहि । इयं विष्णु प्रति भक्तस्योक्तिः ॥ कृतेति । कृतं खान्ते भक्तहृदये ततस्य व्याप्तस्य ध्वान्तस्याज्ञानस्य धूतं निरसनम् । भावे क्तः । येन तस्य संवुद्धौ तथोक्तम् । भूतानां प्राणिनां हिते हितकरणे व्रतं दीक्षा यस्य तथोक्तम् । जितः प्रेतः शत्रुर्येन सः । 'प्रेतः शत्रौ शवेऽपि च' इत्यनेकार्थः । श्रुतीनां समूहः श्रोतं तस्य गीतं यस्य सः । उच्चारणार्थकादाधातो वे क्तः । तथा च दान्तश्चासौ शान्तश्चासौ जितप्रेतश्चासौ श्रौतगीतश्चासौ सुतश्च । ब्रह्मेत्यर्थः। तेन स्तुतेत्यपि संबोधनम् । देहीति पू- र्वेणान्वयः ॥ मातेति । माता तस्याः धरण्याः चरणभजकवस्तीशयक्षोरधामा माधारक्षः . यशस्वी भवतु मम मुदे भ्राजितस्फारनामा मानारस्फातजित्राजितरिपुनिवहध्वंसनव्यास- सामा मा आस असव्या न सः ध्वंसितदितिजवरेण्यारधस्य अततामा इति पदच्छेदः। स इति तच्छब्दप्रयोगाद्यस्येत्यध्याहर्तव्यम् । ध्वंसिता दितिजवरेण्या दैत्यश्रेष्ठा नरकाद्या येन तस्या तथोक्तम् । यस्य कृष्णस्यत्यर्थः । अततोऽसंगत आमो रुक् यस्याः सा तथोक्ता । 'ततं व्याप्ते विस्तृते संगते त्रिषु । वीणादिवाये क्लोवे स्याद्वायो पुसि'इत्यनेकार्थः । 'आमो रुक्तद्भिदोः पुंसि स्यादपक्केऽन्यलिङ्गकः' इति मेदिनी । मा लक्ष्मीः। असच्या वामभागा- स्थिता । 'वामं शरीरं सव्यं स्यात्' इत्यमरः। नास नाभवत् । तथा च भार्या अभवदिति भावः । स तादृशः कृष्णो मम मुदे भवत्वित्यन्वयः। अन्यत्सर्वमस्य विशेषणम् । तस्या धरण्या भूमेर्माता मानकर्ता वसवश्च ईशश्चासौ पक्षश्वेशपक्षः। यक्षराज इत्यर्थः। उःशिवः। रोऽग्निः । एतेषां द्वन्द्वः। तथा च चरणभजकानां स्वपादसेवकानां वस्तीशयक्षोराणां वसुकु- बेरशिववहीनां धाम तेजो येन स तथोक्तः। माया लक्ष्म्या आधारः क्षः वक्षःस्थलं यस्य स तथोकः । यशखी कीर्तिमान् । भ्राजितानि स्फाराणि बहूनि नामानि यस्य स तथो- ५३ ५. बन्धबिन्दुः] मन्दारमरंन्दचम्पूः। गजबन्धो यथा- राजाभास्या भासमानखर्णकर्णखपिखरा । सारापाला पातु लोला सा पिकखनमासरा ॥ ७ ॥ चक्रबन्धो यथा- श्रीराजीवविराजमाननयनं श्यामाम्बुदामं हरि श्रीमद्वीन्द्र(१)महेन्द्रवन्दितपदं पापादपेतं भजे । अञ्चन्तं गजराजवजनकजातालस्तनालिङ्गितं सान्द्रप्रेमभरं स्वभक्तनिवहे गेयस्ववीर्य बुधैः ॥ ८॥ छत्रबन्धो यथा- सालजालवलद्वाते भूरिभूते हगाहते । सा रराज रमा चारुरुचा मारजरारसा ॥९॥ . तः । मया संपदा नारेण नरसमूहेन च स्फातानाममिवृद्धानां जिनां जयवतामत एव भ्राजितां प्रकाशमानानां रिपूणां निवहस्य वृन्दस्य ध्वंसनव्यासे नाशविस्तारे साम उपायो यस्य स तथोक्तः । 'व्यासो मुनौ च विस्तारे' इति त्रिकाण्डशेषः। क्षादीनां वक्षःस्थला- दिवाचकत्वमेकाक्षरकोशे द्रष्टव्यम् ॥ राजामेति । राजाभास्या भासमान वर्णकर्णख- पिखरा सारापाला पातु लोला सा पिकखनमासरा इति पदच्छेदः । सेति तच्छन्दबला- येति लभ्यते । वा राजाभास्या चन्द्राभमुखी । 'राजा चन्द्रो नृपो राजा' इति मजरी । खं पातीति खपम् । द्रव्यसाध्यमित्यर्थः । मुक्ताफलमिति यावत् । स्वपमस्यास्तीति खपि । भूषणमिति यावत् । कर्णयोः खपि । कर्णसंबन्धि भूषणमित्यर्थः । खरः गानं भाषणं वा । कर्णखपि च स्वरश्च कर्णखपिखरौ । स्वर्णमस्यास्तीति स्वर्णम् । अन्यत्र सुष्ठु अर्णाः वर्णानि यस्मिन् स स्वर्णः । स्वर्ण च स्वर्णश्च स्वर्णों (2) स्वर्णौ च तौ कर्ण- खपिखरौ च स्वर्णकर्णखपिस्वरौ भासमानौ स्वर्णकर्णखपितरौ सुवर्णमयकर्णभूषणशो- भनाक्षरयुक्तभाषणे यस्याः सेति तथोक्तम् । 'स्वरो गाने भाषणे नासिकानिले । उदा- तादौ च षड्जादावकारादौ ध्वनौ पुमान् ॥' इत्यनेकार्थः । अराणामिदमारं चक्रं तेन आसमन्तात्पालयतीत्यारापालो विष्णुः । तेन सहिता सारापाला । खनस्य मा संपत् तस्याः सरः । माला । पिकस्य वनमासर इव वनमासरो यस्याः सा तथोका । लोला अस्थिरा लक्ष्मीः पातु रक्षतु । 'पा रक्षणे' इत्यमालोट् ॥ १. अस्माभिरियानेव टीकापन्थ उपलब्धः. .

५४ काव्यमाला। J चामरबन्धो यथा- मारसारतरस्फारस्कातिभारं परं सुरम् । सीतानेत्रचकोरेन्दुबिम्बं वन्दे रमेश्वरम् ॥ १० ॥ मर्दलबन्धो यथा- मारसापरसापारामापारापरसापसा । मवरापवरामायामामायापवरावरा ॥ ११ ॥ रथबन्धो यथा- पादाहितगुणा मान्ति यस्य चित्ते कलावतः । महिलानन्ददं कान्तं तं भजे सततं हरिम् ॥ १२ ॥ गोमूत्रिकाबन्धो यथा- भजे राधावरं कञ्जमुखं भक्तरुचिव्रतम् । बजे बाधाहरं कुञ्जसुखं व्यक्तशुचिस्मितम् ॥ १३ ॥ नाडीरामोऽधिभर्नेत्रदृग्भूवर्णोऽग्निकन्यका । भूरसोशिगजो वार्धिवाजी सायककन्यका ॥ कर्मस्वरः सिद्धिगजो नदीशत्रुर्गजाम्बुधिः । तर्करामः पापचन्द्रो नदीनेत्रं शरानलः ॥ कारकेन्दुर्दन्तिनेत्रं मुनिवार्थी रमारसः । मुनिलक्ष्मीः पाण्डवार्वा प्रश्नकाव्यं युगे रसः ॥ मूर्तिगन्धश्चन्द्रमुनिर्नेत्रवाणो युगाम्बुधिः। मूतिर्ने चन्द्रचन्द्रो नेत्रमूर्तिः क्षमाशरः ।। बाहुद्वीपो वार्धिलक्ष्मीः कालतर्कोशिसागरः। भूमिनेत्रं कालचन्द्रो वार्षिकालो बलाम्बुधिः॥ कन्याकुचो द्वीपचन्द्रो गजशक्तिर्नदीशरः। लक्ष्मीमुनिस्तर्कलक्ष्मीः कन्यातकर्को नदीमुनिः ।। कन्यालक्ष्मीबलबलं गजकन्या नदीगुणः । लक्ष्मीचन्द्रस्तर्कनेत्रं कन्यावार्धियुगद्वयम् ।।

- मन्दारमरन्दचम्पूः। ५५ + ६. गुप्तबिन्दुः] करचन्द्रो भूमिशक्तिः शक्तिवाहिनूरसः । भूमिदन्ती शक्तिमुनिर्मकरालयकन्यका ॥ अत्र वीथीवोधिकाद्या संख्यान्या गृहबोधिका । संख्यापर्यायकथनं शेषविन्दौ भविष्यति ।। घोटीगतिक्रमादेवं चतुरङ्गगृहेषु च । निरन्तरं लघुगुरुण्यक्षराणि न्यसेद्यथा-॥ पपापपापपापपापपापपापपापपा पपापपापपापपापपापपापपापपा पपापपापपापपापपापपापपापपा पपापपापपापपापपापपापपापपा ॥ १४ ॥ पञ्चचामरप्रमाणिकासमानिकोपचामरवृत्तः : पञ्च शोका भवन्ति । दण्ड- पार्श्ववर्तुलकोणघोटीगत्याद्याकारभेदेनानेके भेदा ऊह्याः । एवं मयूरक्षीर- हारबन्धादयोऽपि ॥ जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन । गुहपुरनिलयेन प्रोद्धृतो वन्धविन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥ इति श्रीमद्धटिकाशतशतघण्टाविहिताप्टभापासरसकविताचरणनिपुणस्य वासुदेवयोगी- श्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मश्चन्द्रदेवशमणश्च कृतौ मन्दारमरन्दे चम्पूप्रबन्धे वन्धबिन्दुः पञ्चमः समाप्तिमगमत् । J गुप्तविन्दुः। अधुना गुप्तविन्दौ तु क्रियादेर्गोप्यगुम्फनम् । निरूप्यते समासेन विवुधानन्दवृद्धये ॥ भङ्गश्लेपायुपायेन क्रियादेोपनं भवेत् । अथवा चरणान्तादिष्यक्षराणां निवेशनात् ।। तत्र क्रियागुप्तं यथा- गृहद्वारगतस्यास्य पुंसः कामार्तचेतसः । विलासर्गणिकां सख्यो वित्ताकर्षणनिर्भराम् ॥ १॥ अत्र 'वित्त' इति ।

५६ काव्यमाला। - आलोलनयनां कृष्णो लिंपन्तीं वीक्षणैर्दिशः। गच्छन्तीं सद्मसंकेतं तिमिरे राधिका मुदा ॥२॥ अत्र 'आलिंगति' इति । हेरम्बचरणाम्भोज महद्भुङ्गनिषेवितम् । दावाग्निं विघ्नदावस्य वंदारूणां वयं सदा ॥३॥ अत्र 'वंदामहे' इति । जितकाचनकुम्भत्रि सुघृणायतनं धुतेः। तादृक्षमस्या वक्षोजद्वन्द्वं सोऽतिमुदा हरिः॥ ४ ॥ अत्र 'जिघृक्षति' इति । रमासमानया कृष्णः सहासो राधया तया । निकुञ्जनिकुरम्बेषु कालिन्दीविलसत्तटे ॥ ५ ॥ अत्र 'विजहार' इति । अञ्चितोऽपि निकुञ्जोऽसौ कुञ्चत्कण्टकिवीरुधा । स्वैरिण्याश्चिररात्राय लुठन्त्याः कामिनः कृते ॥६॥ अत्र 'सौधायते' इति । वसन्तं प्राणिनां देहे वसतस्ते सुरोत्तम । पादे स्पृश्ये त्रयीवाचा वयं भक्तिं सदा तया ॥ ७ ॥ अत्र 'याचामहे' इति । इति क्रियागोपनम् । कर्तृगुप्तं यथा- सात्क्रूरतरान्दैत्याननेकानवधीद्युधि । कमलापतिविद्वेषपरिदूषितमानसान् ॥ ८॥ अत्र 'सत्' इति । हप्तानामात्मनारीणां सर्वसाम्राज्यसंभवः । तादृशो दर्पभारोऽयं व्यभञ्जीत्यवदन्मुदा ॥ ९ ॥ अत्र 'आत्मना' इति । अन्ये भेदाः पूर्ववत् । इति कर्तृगोपनम् । १. परसवर्णमकृत्वैव गुप्तताश्रिता.

५७ ६. गुप्तबिन्दुः] मन्दारमरन्दचम्पूः। कर्मगुप्तं यथा- शंकरः कुरुताच्छ्रीमान्भक्तस्य मम ते सदा । निजाश्रितकदम्बस्य निलिम्पविटपोपमः ॥ १० ॥ अत्र 'शम्' इति । मनोजस्य परीहासैरारामे राधया तया । अहारि गोपकान्तानां रासक्रीडामहोत्सवे ॥ ११ ॥ अत्र 'मनः' इति । अन्ये भेदाः पूर्ववत् । इति कर्मगोपनम् । संबन्धगुप्तं यथा- बालेवयस्य मुद्युक्ता मुखमालोकसे सदा । तमद्य कामसंप्ततं गाढालिङ्गनसंभ्रमैः ॥ १२ ॥ अत्र 'यस्य' इति । पूर्ववदन्ये भेदाः। पदगुप्तं यथा- नालंकृतकुलं क्रूरं विहरन्तं सररतटे । दुद्राव दूरतो दृष्ट्वा चक्री भीतियुतो जवात् ॥ १३ ॥ अत्र 'नकुलम्' इति । यामध्यमं च सुकृतं लेभे त्वत्तः पुरा नृपः । अद्य धत्ते सरार्ता सा नवं कवचमाकुलम् ॥ १४ ॥ अत्र 'सुतं, कचम्' इति च । 'इदमेवार्थगुप्तम्' इति केचित् । १. 'ते करः' इति योजना. २. अजस्य कृष्णस्य. ३. 'हे वाले, यस्य मुखमालोकसे तं कामसंतप्तं गाढालिङ्गनविभ्रमैरव' इति योजना. ४. 'नकारेणालंकृतः कुलशब्दो यत्र तं नकुलम्' इति वोध्यम्. ५. मध्यमेन 'कृ' इत्यनेन रहितमध्यमम्. ६. नास्ति वकारो यत्र अर्थात् वकाररहितम्.

५८ काव्यमाला । पदार्थोभयगुप्तं यथा- सनिषिद्धोऽप्यगराजः कुचोपमायां पुनश्च गतिवाण्योः (१)। योग्योऽभूदुपमायां सर्व धात्रोपयुक्तमिह सृष्टम् ॥ १५ ॥ अत्र सनिषिद्धो निषेधवाचकनकारयुक्त इत्यर्थगोपनम् , 'नागराजः' इति पदगोपनं च । अत्र क्रियागुप्तवद्देदा बोध्याः । कर्तृकर्मोभयगुप्तं यथा- नारीनाशोदयभूलीपालीपिहितपूषणि । खान्तरे खण्डयामास खड़ेनैकेन खण्डशः ॥ १६ ॥ अत्र 'ना, अरीन्' इति । भावगुप्तं यथा- मारनाराचनिर्भिन्नमानसा मत्तकाशिनी । मन्दरं मृगशावाक्षी मुहुनिन्दति लुण्ठति ॥ १७ ॥ अत्र 'चन्द्रोत्पत्तिहेतुत्वात्' इति भावः । जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन । गुहपुरनिलयेन प्रोद्धृतो गुप्तबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ।। इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगी- श्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणश्चन्द्रदेवनाम्नश्च कवेः कृतौ मन्दार मरन्दे चम्पूप्रबन्धे गुप्तबिन्दुः षष्ठः समाप्तिमगमत् । पूर्वार्धः समाप्तः। । नर्तनबिन्दुः। अत्र नर्तनविन्दौ तु वक्ष्ये रूपकलक्षणम् । प्राचीनोक्तीः समालोच्य बालानां बुद्धये द्रुतम् ।। अभिव्यज्य विभावानुभावादीनाटके च ये (2)। उत्पादयन्सहृदये रसज्ञानं निरन्तरम् । अनुकतस्थितो योऽर्थोऽभिनयः सोऽभिधीयते ॥ १. कुचोपमायां निषिद्धोऽपि सोऽगराजः पर्वतः पुनश्च गतिवर्णनायां नकारयुक्तो- राजो नागराजो गजो योग्योऽभूत्.

७. नर्तनविन्दु] मन्दारमरन्दचम्पूः।
आङ्गिको वाचिकश्चापि सात्त्विकाहार्यकाविति ।
स चतुर्धाकृतस्तज्ज्ञैरागिकोऽङ्गक्रियोच्यते ॥
रागानुपनि यद्वाक्यं नाट्ये वाचिक उच्यते ।
सत्त्वक्रिया साविकः स्यादाहार्यों भूपणादिकः ।।
चतुर्विधैरमिनयैः सात्त्विकाडिकपूर्वकैः ।
धीरोदात्ताद्यवस्थानुकृतिनाट्यं रसाश्रयम् ॥
तादृड्नाव्यं द्विधा प्रोक्तं नृत्यनृत्यविभेदतः ।
भावाश्रयं तु नृत्तं स्यान्नृत्यं ताललयाश्रयम् ॥
तयं द्विविधं प्रोक्तं लास्यताण्डवभेदतः ।
लास्यं तु मधुरं प्रोक्तमुद्धतं ताण्डवं मतम् ।।
नाट्यस्यैवात्र मुख्यत्वादादौ तल्लक्ष्म कीर्तितम् ।
तानाट्याद्रूपकाणि दशधा संभवन्ति हि ॥
नाटकं च प्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगसमवाकारौ वीथ्यकेहामृगा इति ॥
यथामुखादौ पद्मादेरारोपो रूपकं मतम् ।
तथैव नायकारोपो नटे.रूपकमुच्यते ॥
रसेतिवृत्तनेतारस्तत्तद्रूपकमेदकाः।
रम्यविन्दौ रसानां च लक्षणं वक्ष्यते स्फुटम् ।।
शुद्धविन्दौ नायकानां वक्ष्यते लक्ष्म विस्तरात्
इतिवृत्तकथावस्तुशब्दाः पर्यायवाचकाः ॥
इतिवृत्तं प्रधानं तु शरीरं परिकीर्तितम् ।
तत्त्वाधिकारिकं चैव प्रासङ्गिकमिति द्विधा ।।
अधिकारः फलेशत्वमधिकारी तु तद्युतः ।
तन्निर्वृत्तं भवेदाधमन्तव्याप्याधिकारिकम् ॥
प्रसङ्गात्तु प्रवृत्तं तु बुधाः प्रासङ्गिक विदुः ।
प्रासङ्गिकं तु द्विविधं पताका प्रकरीति च ।।

-६०
काव्यमाला।
दूरानुवर्तिनी या च पताका सा कथा मता ।
सा प्रोक्ता प्रकरी प्राज्ञैः कथा याल्पानुवर्तिनी ॥
ख्यातं कल्प्यं च संकीर्णमिति तत्रिविधं त्रिधा ।
प्रख्यातमितिहासादि कल्प्यं स्यात्कविकल्पितम् ।
संकीर्ण संकरायत्तमेवं तन्नवधा स्मृतम् ॥
इतिवृत्तं पुनद्वैधा सूच्यासूच्यविभेदतः।
सूच्यं तु द्विविधं प्रोक्तं श्राव्याश्राव्यविभेदतः॥
असूच्यमपि चाश्राव्यदृश्यश्राव्यविभेदतः।
त्रिविधं तत्र चाश्राव्यं स्वगतं परिकीर्तितम् ।।
दृश्यं तु मधुरोपात्तरसभावनिरन्तरम् ।
श्राव्यं तु त्रिविधं सर्वनियताकाशभेदतः ॥
सर्वश्राव्यं प्रकाशं स्थानियतश्राव्यमप्युत ।
जनान्तिक तथैवापचारितं चेति तद्विधा ।
पताकात्रिपताकाभ्यां रञ्जितेन करेण च ।
कथान्तरेऽपवार्यान्यानन्योन्यं यत्तु मत्रणम् ॥
जनान्ते तच्च कविमिर्जनान्तिकमितीरितम् ।
सर्वानन्यांश्चापवार्य रहस्यं यत्तु कथ्यते ॥
तचापवारितमिति प्राज्ञाः पूर्वे वभाषिरे ।
प्रविष्टपात्रं किं ब्रूथ किं ब्रवीष्येवमादिकम् ।।
उक्त्वा श्रुत्वेव चानुक्तमप्येवं स्यादितीव यत् ।
भाषणं तत्तु चाकाशमापितं युवते बुधाः ॥
तर्जनीमूलसंलग्नकुञ्चिताङ्गुष्ठकः करः ।
गण्डगः संहताकारप्रसारिततलाङ्गुलिः ।।
पताकः स्यादथ यदि वक्रितानामिकाङ्गुलिः ।
स एव श्रोत्रगस्तर्हि त्रिपताक इतीर्यते ॥
पुनश्च वस्तु विद्वद्भिः पञ्चधा परिकीर्तितम् ।
बीजं विन्दुः पताका च प्रकरी कार्यमित्यपि ॥
१

६१
नर्तन विन्दुः] मन्दारमरन्दचम्पूः।
अर्थप्रकृतयः पूर्वैः पञ्चेमे परिकीर्तिताः।
यत्तु खल्पमुपन्यस्तं बहुधा विस्तृतिं गतम् ॥
कार्यस्य कारणं प्राज्ञैस्तद्वीजमिति कथ्यते ।
वीजप्रधाने वीजस्य प्रसङ्गोक्तिः फलान्तरैः॥
विच्छिन्ने यदविच्छेदे कारणं विन्दुरिष्यते ।
पताका तु प्रधानोपकाराद्या स्वार्थकारिणी ॥
प्रकरी सात्पदार्थस्य साधकं तु प्रदेशभाक् ।
वस्तुनस्तु समर्थस्य धर्मकामार्थलक्षणम् ॥
फलं कार्यमिदं शुद्धं मिश्रं वा कल्पयेत्सुधीः ।
अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिमिः॥
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः।
अत्र मुख्यफलोद्योगमात्रमारम्भ इष्यते ॥
यत्नस्तु तत्फलप्राप्तावत्यौत्सुक्येन वर्णनम् ।
प्राप्त्याशा तु महार्थस्यानिर्धारभावना तथा ॥
नियतातिरविघ्नेन फलसंसिद्धिनिश्चयः ।
समग्रेष्टफलप्राप्ति यकस्य फलागमः ।।
एकैकस्यास्त्ववस्थायाः प्रकृत्या चैकयैकया।
योगः संधिरिति ज्ञेयो नाट्यविद्याविशारदैः ।।
मुख्यप्रयोजनवशात्तथाङ्गानां समन्वये ।
अवान्तरार्थसंवन्धः संधिः संधानरूपतः ॥
मुखं प्रतिमुखं गर्भो विमर्शश्चोपसंहतिः ।
इति पञ्चविधः प्रोक्तः संधिः पूर्वैर्मनीषिभिः ।।
नानाविधानामर्थानां भावानामपि कारणम् ।
तन्मुखं तत्र चाङ्गानि वीजारम्भानुरोधतः ।।
उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥
मन्दा०६

६२ काव्यमाला। . उद्भेदभेदौ करणमिति द्वादश योजयेत् । उपक्षेपस्तु बीजस्य सूचना कथ्यते बुधैः ।। परिक्रिया तु बीजस्य बहुलीकरणं मतम् । वीजनिष्पत्तिकथनं परिन्यास इतीयते ॥ नायकादिगुणानां यद्वर्णनं तद्विलोभनम् । सम्यक्प्रयोजनानां हि विचारो युक्तिरिष्यते ॥ या स्यात्सुखेन संप्राप्तिः प्राप्तिरित्यभिधीयते । बीजस्य पुनराधानं समाधानमितीर्यते ॥ किंचिदुःखकरं किंचिद्विधानं सुखकारकम् । श्लाघ्यश्चित्तचमत्कारो गुणाद्यैः परिभावना ।। उद्घाटनं यद्वीजस्य तदुद्भेदः प्रकीर्तितः । बीजस्योत्तेजनं भेदो यद्वा संघातभेदनम् ॥ प्रस्तुतार्थसमारम्भं करणं परिचक्षते । लक्ष्यालक्ष्य इवोद्भेदो वीजस्य यदि वै भवेत् ॥ तत्स्यात्प्रतिमुखं विन्दोः प्रयत्नस्यानुरोधतः । इह त्रयोदशाङ्गानि प्रयोज्यानि मनीषिभिः ।। विलासः परिसर्पश्च विधूतं शर्मनर्मणी । नर्मद्युतिः प्रगमनं विरोधः पर्युपासनम् ॥ वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि । विलासः संगमार्थस्तु व्यापारः परिकीर्तितः ॥ पूर्वदृष्टस्य वीजस्य त्वङ्कच्छेदादिना तथा । नष्टस्यानुस्मृतिः शश्वत्परिसर्प इतीरितः॥ नायकादेरीप्सितानामर्थानामनवाप्तितः । अरतिर्या भवेत्सा तु विद्वद्भिर्विधुतं मतम् ॥ अरतेः शमनं तज्ज्ञाः शममाहुर्मनीषिणः । परिहासंप्रधानं यद्वचनं नर्म तद्विदुः ।। F ."

૬૨
७. नर्तनविन्दुः] मन्दारमरन्दचम्पः।
कोपस्सापहवाथै यद्धास्यं नर्मद्युतिर्मतम् ।
तथानुरागवीजस्य चोत्तरोत्तरभापणैः ।।
प्रकाशनं प्रगमनमिति नाट्यविदो विदुः ।
विरोधश्छद्मना यच हितागमनिरोधनम् ॥
पर्युपासनमित्युक्तं स्वजनानुनयो बुधैः ।
वजं तदिति विज्ञेयं साक्षानिष्ठुरभापणम् ॥
रागप्रकाशको वाक्यविशेषः पुष्पमुच्यते ।
युक्तिभिः सहितो योऽर्थो धुपन्यासः स उच्यते ।।
सर्ववर्णापगमनं वर्णसंहार इप्यते ।
परिसर्पग्रगमनवज्रोपन्यासपुप्पकम् ।।
पञ्चाङ्गान्येव मुख्यानीत्यार्याः प्रतिमुखे विदुः ।
दृष्टादृष्टस्य वीजस्य गर्भस्त्वन्वेपणं मुहुः ॥
अत्राप्त्याशा पताकानुगुण्येनाङ्गानि कल्पयेत् ।
अभूताहरणं मार्गों रूपोदाहरणे क्रमः ॥
संग्रहश्चानुमानं च तोटकाधिवले तथा ।
उद्वेगः संभ्रमाक्षेपावित्यङ्गानि च द्वादश ।।
अभूताहरणं तत्याद्वाक्यं यत्कपटाश्रयम् ।
मार्गस्तत्त्वार्थकथनं रूपं संदेहबद्वचः ।।
सोत्कर्पवचनं यत्तु तदुदाहरणं मतम् ।
भावज्ञानं क्रमो यद्वा चिन्त्यमानार्थसंग्रहः ।।
संग्रहः सामदानोक्तिः प्रस्तुता परिकीर्तिता ।
अर्थस्साभ्यूहनं लिङ्गादनुमानं प्रचक्षते ॥
ससंभ्रमं तु वचनं संगिरन्ते हि तोटकम् ।
बुधैरधिवलं प्रोक्तं कपटेनाभिवञ्चनम् ॥
यद्वेष्टजनसंधानं बुधा अधिवलं विदुः ।।
तोटकस्यान्यथाभावं केचिच्चाधिवलं विदुः ।।

६४
काव्यमाला।
३
तत्र चोरादिसंभूतं भयमुद्वेग उच्यते ।
शत्रुव्याघ्रादिसंभूतौ शङ्काबासौ हि संभ्रमः ॥
गर्भवीजसमुत्क्षेपमाक्षेप परिचक्षते ।
इष्टार्थोपायानुसूतिमाक्षेपं केचिदूचिरे ।
अत्राभूताहृतिर्मार्गस्तोटकाधिवले तथा ।
आक्षेपश्चेति पञ्चैव प्रधानानि विदो विदुः ।।
यत्र प्रलोभनक्रोधव्यवसायैर्विमृश्यते ।
बीजार्थों गर्भसंभिन्नः स विमर्श इतीरितः।
प्रकरी नियताप्त्यानुगुण्यादत्राङ्गकल्पनम् ।
अपवादश्च संफेटो विद्रवद्रवशक्तयः॥
द्युतिप्रसङ्गौ छलनं व्यवसायो विरोधनम् ।
प्ररोचनं च चलनमादानं च त्रयोदश ।।
तत्रापवादो दोषाणां प्रख्यापनमितीर्यते ।
रोषसंग्रथितं वाक्यं संफेटं परिचक्षते ॥
विरोधवधदाहादिर्विद्रवः परिकीर्तितः ।
गुरोस्तिरस्कृतिं प्राह द्रवं तु भरतो मुनिः ।।
उत्पन्नस्य विरोधस्य शमनं शक्तिरिष्यते ।
द्युति म समुद्दिष्टा तर्जनोद्वेजने बुधैः ।।
प्रस्तुतार्थेन च गुरोः प्रसङ्गः परिकीर्तनम् ।
अवमानादिकरणं कार्यार्थ छलनं विदुः ।।
व्यवसायः स्वसामर्थ्यप्रख्यापन मितीर्यते । .
विरोधनं विरोधोक्तिः संरब्धानां परस्परम् ।
सिद्धवद्भाविनोऽर्थस्य सूचना स्यात्प्ररोचनम् ।
आत्मश्लाघा तु चलनमादानं कार्यसंग्रहः ॥
मुख्यसंध्यादयो यत्र विकीर्णा वीजसंयुताः।
महाप्रयोजनं चापि तन्निर्वहणमुच्यते ॥

६५
७. नर्तनविन्दुः] मन्दारमरन्दचम्पूः।
एतदेव बुधैः प्रोक्तमुपसंहृतिरित्यपि ।
फलागमनकार्यानुगुण्येनाङ्गानि कल्पयेत् ॥
संधिर्विरोधो ग्रथनं निर्णयः परिभाषणम् ।
प्रसादानन्दसमयाः कृति पोपगृहनम् ॥
पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ।
स्यारीजोपगमः संधिविरोधः कार्यमार्गणम् ।।
कार्यस्योपक्षेपणं तु ग्रथनं परिकीर्तितम् ।
पश्चाच खानुभूतार्थकथनं निर्णयो मतः॥
विवादविधिरन्योन्यं परिभापणमीरितम् ।
स्याच्छुश्रूपादिसंभूता प्रसादस्तु प्रसन्नता ॥
अभीप्सितार्थसंप्राप्तिरानन्दः परिकीर्तितः ।
समयः स्यात्सुखावाप्तिर्दुःखप्रशमनं च वा ॥
कृतिरित्युच्यते पूर्वैर्लब्धार्थस्य स्थिरीकृतिः ।
प्राप्तकार्यानुमोदः स्याद्बुधैर्भापणमीरितम् ॥
अद्भुतार्थस्य संप्राप्तिरुपगृहनमुच्यते ।
दर्शनं त्विष्टकार्यस्य पूर्वभाव इतीरितः ।।
उपसंहार इत्युक्तः कार्यार्थस्योपसंहृतिः ।
शुभप्रशंसनं धीरैः प्रशस्तिरिति कथ्यते ।।
चतुःषष्ट्यङ्गसंयुक्ताः स्युरेवं पश्च संधयः ।
उक्तिर्विवक्षितार्थस्य गोप्यार्थस्य च गोपनम् ॥
प्रकाश्यार्थप्रकाशश्च रागाभिनयसंपदः ।
चमत्कारवहत्वं च कथाया विस्तरस्तथा ॥
इत्येषां पश्चसंधीनां पड्डिधं स्यात्प्रयोजनम् ।
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।।
संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ।
शुद्धः संकीर्णकश्चेति विष्कम्भो द्विविधो मतः ॥

काव्यमाला ।
एकद्विमध्यपात्रोक्तः शुद्धः स्यात्संस्कृतात्मकः।
नीचमध्यमपात्रोक्तो मिश्रः स्यादुभयात्मकः ॥
अन्तर्जवनिकासंस्थैथलिकार्थस्य सूचना ।
अङ्कान्तपात्रैरङ्कास्यमुत्तराङ्कार्थसूचनम् ।।
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
प्रवेशकस्तु नायके नीचपात्रप्रयोजितः ।।
यत्र स्यादुत्तराङ्कार्थः पूर्वाङ्कार्थानुसंगतः ।
असचिताङ्कपत्रं तदङ्कावतरणं मतम् ॥
प्रत्यक्षनेतृचरितो विन्दुव्यक्तिपुरस्कृतः।
नायकैकाहचरितप्रतिपादनसंयुतः॥
अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥
बुधैः संस्कृतवाहुल्यो वाग्व्यापारो नटाश्रयः ॥
भारतीत्युदिता तस्याश्चत्वार्यङ्गानि कल्पयेत् ।
प्ररोचना च वीथी प्रहसनं चामुखं तथा ।।
प्ररोचना प्रशंसात उन्मुखीकरणं मतम् ।
वीथी प्रहसनं चापि स्वप्रसडेन्न वक्ष्यते ॥
नटी विदूषको वापि नटो वा पारिपार्श्वकः ।
सूत्रधारेण संलापं कुरुते यत्र चित्रगीः ।।
खकार्यप्रस्तुताक्षेपि तत्स्यात्प्रस्तावनामुखम् ।
एतस्य त्रीणि चाङ्गानि कथोद्धातः प्रवर्तकः ।।
प्रयोगातिशयश्चेति तेषां लक्ष्माणि च ब्रुवे ।
इतिवृत्तसमं वाक्यमर्थ वा यत्र सूत्रिणः॥
गृहीत्वा प्रविशेत्पात्रं कथोद्धातो द्विधेति सः।
प्रवृत्तकालसदृशगुणवर्णनया तथा ॥
सूचितस्यैवः पात्रस्य प्रवेशः स्यात्प्रवर्तकः ।
एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतः ॥

६७
७. नर्तनविन्दुः] मन्दारमरन्दचम्पूः।
पात्रप्रवेशो यत्रायं प्रयोगातिशयो मतः ।
वीथ्यङ्गान्यासुखाङ्गत्वादुच्यन्ते तान्यपि क्रमात् ॥
उद्घात्यकावलगिते प्रपञ्चत्रिगते छलम् ।
वाकेल्यधिवले गण्डमवस्यन्दितनालिके ।।
असत्प्रलापव्याहारमार्दवानि त्रयोदश।
गूढार्थपदपर्यायमालारूपेण वा पुनः ।।
प्रश्नोक्तिमालारूपेणाप्युद्धात्यकमिति द्विधा ।
अन्यकार्यमिपादन्यकार्यस्य कारणं तथा ॥
द्विधावलगित बन्यकार्याच खार्थसाधनम् ।
असद्भुतमिथःस्तोत्रं प्रपञ्चो हास्यकारकम् ।।
सूत्रधारादिभिः पूर्व संलापो यत्र चि(च)त्रिभिः ।
शब्दसाम्यादनेकार्थयोजनं त्रिगतं मतम् ॥
नियाभैरप्रियैर्वाक्यैर्वञ्चनं छलमीरितम् ।
साकाङ्क्षस्यापि वाक्यस्य निवर्तनमथापि वा ॥
उक्तिप्रत्युक्तिरूपा वाग्वाक्केलिरिति च द्विधा ।
स्पर्धयान्योन्यवाक्यस्याधिक्यं चाधिवलं हि तत् ।।
प्रस्तुतार्थविरोधेन गण्डः स्यात्सहसोदितम् ।
उक्तार्थस्यान्यथाख्यानमवस्यन्दितमीरितम् ।।
सोपहासनिगूढार्थमालिका नालिका मता।
अन्तर्लापा वहिर्लापा चेतीयं द्विविधा मता ।।
प्रवलिकां च तां केचित्केचिदूचुः प्रहेलिकाम् ।
असंवद्धकथालापोऽसत्प्रलापः प्रकीर्तितः ॥
हास्यलोभनकद्वाक्यं व्याहारोऽन्यार्थकं मतम् ।
दोपाणां यद्गुणत्वेन कथनं मार्दवं हि तत् ।।
गुणानामपि दोषखकथनं चापि मार्दवम् ।
इत्येतान्यामुखाङ्गानि कथितानि त्रयोदश ।।
1

६८
काव्यमाला।
आशीर्नमस्क्रियावस्तुनिर्देशान्यतमाश्रया ।
चन्द्रनामाङ्किता प्रायो मङ्गलार्थपदोज्वला ॥
अष्टभिर्दशभिः श्रेष्ठा तथा द्वादशभिः पदैः ।
अष्टादशपदैर्वापि द्वाविंशत्या पदैर्युता ॥
काव्यार्थसूचनोपेता सा या नान्दी प्रकीर्तिता।
अ(यः) सूत्रय(ये)नायकस्य वस्तुनोऽपि गुणान्कवेः॥
रङ्गाप्रसाधनकरः सूत्रधारः प्रकीर्तितः।
भरतेनाभिनीतं यो भावं नानारसाश्रयम् ॥
परिष्करोति पार्श्वस्थः स भवेत्पारिपार्श्व(वि)कः ।
स एवार्यो मारिषश्च मापको मार्ष इत्यपि ।
नर्मभेदप्रयोगज्ञो हास्यकृन्नायकस्य च ।
नर्मवादी स वै नर्मसचिवश्च विदूषकः ॥
चतुःषष्टिकलाभिज्ञा सर्वभाषाविशारदा ।
नटानुयोक्री कृत्येषु नटस्य गृहिणी नटी ।
यन्नाट्यवस्तुनः पूर्व रङ्गविघ्नोपशान्तये ।
कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गस्तदुच्यते ।।
पूर्वरङ्गस्य चाङ्गानि द्वाविंशतिर्मतानि च ।
तत्राप्यवश्या नान्दीति कीर्तिता भरतादिभिः ॥
अङ्गाङ्गिभावसंपन्नसमस्तरससंश्रयात् ।
प्रकृत्यवस्था संध्यादिसंपत्त्युपनिवन्धनात् ।।
आहुः प्रकरणादीनां नाटकं प्रकृतिं बुधाः।
अतिदेशवलप्राप्तनाटकाङ्गोपजीवनात् ।।
अन्यानि रूपकाणि स्युर्विकारा नाटकस्य हि ।
अतश्व लक्षणं पूर्व नाटकस्य विधीयते ॥
दिव्येन वा मानुषेण धीरोदात्तेन संयुतम् ।
धर्मकामार्थशृङ्गारप्रधानरससंश्रयम् ॥
१. 'प्रकृतिवद्विकृतिः कर्तव्या' इत्यतिदेशः.
।

६९
७. नर्तनविन्दुः]] मन्दारमरन्द चम्पूः ।
वृत्तेन प्रख्यातमिश्रकल्पितान्यतमेन च ।
प्रासनिकेन चाप्याधिकारिकेन(ण) समन्वितम् ॥
साङ्गैर्मुखादिभिः पञ्चसंधिभिश्च समन्वितम् ।
विष्कम्भकादिसंयुक्तं नाटकं स्यात्रिवर्गदम् ॥
एतादृङ्नाटककृतौ प्रकारो वक्ष्यते मया ।
विधाय प्रथमं पूर्वरङ्ग सूत्रिणि निर्गते ॥
प्रविश्यान्यस्तदेव काव्यार्थस्थापको नटः ।
सूचयेद्वस्तु वीजं वा मुखं वा पात्रमेव वा ।।
तत्र दिव्यं वस्तु दिव्यो भूत्वा मर्यं च मानुषः ।
मिश्रं तन्मान्यतरो भूत्वेति कवयो विदुः ।।
तत्र पद्यैश्च काव्यार्थसूचकैर्मधुराक्षरैः ।
रङ्गं प्रसाध्य साङ्गां च भारतीमाश्रयेत्ततः ॥
ऋतुं कंचिदुपादाय ततः कार्या प्ररोचना ।
वीथ्यङ्गानि ततः पञ्चत्साझा प्रस्तावना ततः ।।
प्रस्तावनाङ्गान्यतमेनार्थ वा पात्रमेव वा ।
सूचयित्वा तदन्ते च सूत्री गच्छेच्छलात्ततः ॥
आयङ्कादौ च विष्कम्भं कुर्यादित्येव केचन ।
द्वितीयादिपु चाङ्केपु कुर्यादित्यपि केचन ॥
अपेक्षितं परित्यज्य विस्तरं वस्तु नीरसम् ।
यदा संदर्शयेदादौ कुर्याद्विष्कम्भकं तदा ।।
यदा तु सरसं वस्तु मूलादेव प्रवर्तते ।
आदावेव तदाङ्कः स्यादित्येव कविसंमतम् ।।
प्रविश्य मत्यो दिव्यो वा धीरोदात्तश्च नायकः ।
इतिवृत्तं महोत्साहोऽमिनयेदाधिकारिकम् ॥
तत्र साङ्गाः प्रयोक्तव्या मुखाद्याः पञ्च संधयः।
मुखादिसंधिष्वङ्गानां क्रमोऽयं न विवक्षितः ।।

काव्यमाला।
क्रमस्थानातत्वेन भरतादिभिरादिमैः ।
लक्ष्येषु व्युत्क्रमेणापि कथनेन न दोषता ।।
रसभावानुरोधेन प्रयोजनमपेक्ष्य च ।
साकल्यं कार्यमङ्गानामित्याचार्याः प्रचक्षते ॥
केषांचिदेषामङ्गानां वैकल्येऽपि न दुष्टता ।
विष्कम्भचूलिकाङ्कास्य प्रवेशाङ्कावतारणैः ॥
एभिः सूच्यं सूचयिखा दृश्यमङ्गे प्रदर्शयेत् ।
एको रसो भवेत्तत्र शृङ्गारो वीर एव वा ॥
तदङ्गत्वेन च रसा अन्ये सर्वे यथोचितम् ।
अद्भुतः स्यान्निर्वहणे तथा वस्तुरसान च ॥
दूरविच्छिन्नतां यायात्तिरोदध्याद्रसं न च ।
दूराध्वानं वधं युद्धं राज्यदेशादि विप्लवम् ।।
सरोधं भोजनं स्नानं सुरतं चानुलेपनम् ।
अधिकारिवधं नाङ्के निवनीयात्कदाचन ।।
एकं प्रयोजनश्लिष्टे तत्रैवासन्ननायके ।
तदा विदूषकाद्यैश्च प्रवेशाद्यैश्च सूचयेत् ॥
प्रविष्टानां च पात्राणामकान्ते निर्गमो भवेत् ।
नाटकेष्वपि सर्वेषु पश्चन्यूना दशाधिकाः ।।
अङ्का नैवात्र कर्तव्या इतीदं सर्वसंमतम् ।
इति नाटकम् ।
अथ प्रकरणेऽमात्यो विप्रो वा वैश्य एव वा ॥
धीरशान्तो भवेन्नेता धर्मकामार्थतत्परः ।
स्वविपत्तरणोद्युक्तो वृत्तं स्यात्कविकल्पितम् ॥
नायिका कुलजा वापि वेश्या वा तद्वयं कचित् ।
तद्भेदात्रिविधं चेदं तृतीयं धूर्तसंकुलम् ।।
अत्र वेश्या प्राकृतं तु कुलजा संस्कृतं वदेत् ।

७. नर्तनबिन्दुः] मन्दारमरन्दचम्पूः।
शेपं नाटकवत्सर्व मुखसंध्यादिकं मतम् ।।
इति प्रकरणम् ।
भाणे तु धूर्तो निपुण एक एव पटुर्विटः।
स्वपराभ्यां चानुभूतं चरित्रमुपवर्णयेत् ॥
भूयसा भारती वृत्तिर्वस्तु स्यात्कविकल्पितम् ।
सौभाग्यशौर्ययोथोपवर्णनेनैव सूचयेत् ।।
शृङ्गारवीरौ च साङ्गे मुखनिर्वहणे तथा ।
एकोऽङ्कस्त्वेकपात्रं स्यात्कुर्यादाकाशभापणम् ।।
इति भाणः ।
अथ ग्रहसने हास्यप्रधानं रस उच्यते ।
न त्वेकपात्रनियमः शेपं सर्वं च भाणवत् ॥
शुद्धवैकृतसंकीर्णभेदात्तन्त्रिविधं मतम् ।
पापण्डविप्रप्रभृतिनटचेटविटाकुलम् ।।
वेपमापादिसहितं शुद्ध हास्यवचोन्वितम् ।
कामुकादिवचोवेपैः पण्ढकञ्चकितापसैः ।।
प्रहासाभिनयप्राय विकृतं वैकृतं मतम् ।
संकीर्ण च समाकीर्ण वीथ्यौंधूंर्तसंकुलम् ॥
इति प्रहसनम् ।
डिमे वीभत्सकरुणरौद्रवीरभयानकाः।
साद्भुताः पडूसा दीप्तास्तथा रौद्रप्रधानकाः ।।
मायेन्द्रजालसंग्रामसूर्यचन्द्रग्रहादयः ।
नायका देवगन्धर्वयक्षरक्षोमहोरगाः॥
भूतप्रेतपिशाचाद्याः पोडशात्यन्तमुद्धताः ।
चखारोऽना निर्विमाः संधयः कैशिकी विना ।।
वृत्तयो वस्तुप्रख्यानं शेपं नाटकंवन्मतम् ।
असतो वस्तुनो माया सद्रूपोद्भावना तथा ॥
इन्द्रजाल स्थितार्थस्य मन्त्रौषधादिभिः ।

७२.
काव्यमाला:।
अदर्शनमपारोक्ष्यमन्यथाकृतिरुच्यते ॥
इति डिमः।
व्यायोगे तूद्धतो नेता वृत्तं प्रख्यातमीरितम् ।
पडूसा डिमवद्दीप्ता अस्वीकारणसंयुगः ॥.
बहुभिश्च तथैकाङ्क एकाहचरितं तथा ।
विमर्शगर्भरहिताः संधयोऽन्यच्च पूर्ववत् ॥
इति व्यायोगः।
अथो समवकारे तु निर्विमर्शाश्च संधयः।
नेतारे द्वादश पृथक्फला देवासुरादयः ।।
सूक्ष्मा स्यात्कैशिकी वृत्ती रसा वीरप्रधानकाः।
वीथ्यङ्गानां च संप्राप्तियथासंभवमीरिता ॥
अङ्कास्त्रयस्तत्र चाये मुखप्रतिमुखौ तथा ।
वस्तुस्वभावदैवारिकृताः स्युः कपटास्त्रयः।
कथामपि निवनीयात्तथा द्वादशनालिकाम् ।
द्वितीयेऽङ्केऽपि चतुर्नालिकावधिका कथाम् ।।
पुररोधरणाम्यादिनिमित्ता विद्रवास्त्रयः ।
तृतीयेऽङ्के निबद्धव्या कथा चापि द्विनालिका ॥
धर्मार्थकामानुगुणास्तिस्रः शृङ्गाररीतयः ।
द्वयोरन्त्याङ्कयोर्गर्भनिर्वाही च यथोचितम् ।।
सर्व नाटकवच्छिष्टमन्यत्प्रस्तावनादिकम् ।
नालिकाघटिकाद्वन्द्वं सार्धं वा घटिकाद्वयम् ॥
इति समवकारः।
वीथ्यां तु कैशिकी वृत्तिः शृङ्गारस्तु प्रधानकः ।
उद्घात्यकादीन्यङ्गानि संध्यङ्कादि च भाणवत् ॥
एकपात्रप्रयोगो वा तथा पात्रद्वयं मतम् ।
इति वीथी।
अथाके प्रख्यातमिति वृत्तं बुद्ध्या प्रपञ्चयेत् ।।
• .

9. नर्तनविन्दुः] मन्दारमरन्दचम्पूः।
स्त्रीणां विलासो वाग्युद्धं प्रधानं करुणो रसः।
नायकाः प्राकृता माः संध्यकाङ्गादि भाणवत् ।।
इत्यक्षः।
:
ईहामृगे मिश्रवृत्तं चतुरङ्गं त्रिसंधिकम् ।
मर्त्यदिव्यौ च नियमानायकप्रतिनायकौ ॥
दिव्यस्त्रियमनिच्छन्ती हर्तुकामौ समुद्धतौ ।
प्रख्याती कामुकावन्त्यो विपर्यासादयुक्तकृत् ।
अवधं युद्धमन्योन्यं व्याजायुद्धनिवारणम् ।
शृङ्गाराभास एवास्मिन्नन्यनाटकवन्मतम् ।।
इतीहामृगः ।
नाटिकां च प्रकरणी रूपकं केचिदूचिरे ।
नाटिकायां ख्यातवृत्तं भारती वृत्तिरिष्यते ॥
स्त्रीबाहुल्यं तथाङ्कास्तु चत्वारो नायिका पुनः ।
सा दिव्यमान्यतरा सदान्तःपुरवासिनी ॥
मुग्धा देवी वशगता तांडक्सुन्दररूपिणी ।
नायकस्तु प्रवर्तेत तद्देवीत्रासशङ्कितः॥
सा तु देवी प्रगल्भा च गम्भीरा मानिनी तथा ।
तदानुकूल्यादन्ते च तयोरेकत्र संगमः॥
सा नायिका तु वचसा नानुरागं प्रकाशयेत् ।
कैशिक्यङ्गानि चत्वारि शेष नाटकवन्मतम् ॥
इति नाटिका।
अथ प्रकरणिकायां तु वस्तु स्यात्कविकल्पितम् ।
नायिकाङ्कादि सर्वं तु नाटिकायां यथा तथा ॥
इति प्रकरणिका।
एवं निरूपितं साङ्गं दशरूपकलक्षणम् ।
प्राचामाधुनिकानां च मतान्यालोच्य शक्तितः ॥
मन्दा० ७
।

७४ काव्यमाला। जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन । गुहपुरनिलयेन प्रोद्धृतो नृत्यबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे । इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगी- श्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमरन्दे चम्पू- प्रवन्धे नर्तनबिन्दुः सप्तमः समाप्तिमगमत् । शुद्धविन्दुः। शुद्धविन्दावत्र लक्ष्माचक्ष्महे लक्ष्यलक्षितम् । प्रस्फुटं भेदसिद्ध्यर्थं नायकानां परस्परम् ॥ महाप्रबन्धमूलं तु नेता सीतापतिर्यथा । सौन्दयौदार्यगाम्भीर्यमाधुर्यस्थैर्यशक्तयः ।। लोकानुरागमहिममहाभाग्यकुलीनताः। तेजोवैदग्ध्यलालित्यवाग्मिताधर्मसंग्रहाः ।। पण्डाविलासकरुणास्पर्धातारुण्यशुद्धयः । इति द्वाविंशतिर्नेतुर्गुणा अन्ये यथोचितम् ।। सौन्दर्य रूपलावण्यपरिलालितदेहता। त्वामालिखन्तीं कलाक्ष ननन्दां वीक्ष्य राधिका । लिलेखाहाय चतुरा कौसुमं कार्मकं करे ॥१॥ औदार्य त्यागताच्छील्यं प्रमोदपरिपोषितम् ॥ (१)मातङ्गमदमत्तालिपुञ्जमझुलगुञ्जितम् । माधवस्य बुधागारं प्रागेवापाङ्गरङ्गितात् ॥ २ ॥ गाम्भीर्यं क्षोभसंभूतविकारपरिगोपनम् । मागधेन निरुद्धेयं मधुरा माधवाधुना । इति दूतवचः श्रुत्वा जहास मृदुलं हरिः ॥ ३ ॥ विकारहेतौ सत्त्वेऽपि माधुर्यं श्लक्ष्णरूपता ॥ युद्धसंनद्धप।कारिं पश्यन्नपि पुरो हरिः । कुसुमैः कुरुते सत्यासमेतः कर्णभूषणम् ॥ ४ ॥ १.चिन्त्योऽयं प्रयोगः. २. 'बिडोजाः पाकशासनः' इत्यमरः.

. ८. शुद्धबिन्दुः] मन्दारमरन्दचम्पूः। स्थैर्य प्रत्यूहबाहुल्येऽप्यप्रयत्ननिवर्तनम् । अपि रोषकपायाक्षं तर्जितस्ताडितस्तया। दूती प्रस्थापयामास माधवो राधिकागृहम् ॥ ५ ॥ शक्तिस्त्वसाध्यकार्यस्याप्यविलम्वेन साधनम् साध्वी कदम्बसंबद्धा तादृशीमपि राधिकाम् । अकरोत्स कुरझाक्षी वशेऽनायासतः क्षणात् ।। ६ ।। लोकानुरागोऽनेकैश्च भावैः सर्वमनोहतिः ।। वृद्धा मुकुन्दं गुरवः कुमारं कामं च कान्ता इतरे नृपालम् । मत्वा विरच्यात्ममनोरविन्दैर्मालां ववन्धुर्हदि माधवस्य ।। ७ ।। महिमा सर्वसंपूज्यदेवांशत्वं प्रकीर्तितम् ॥ कमलाकामुको देवो देवकीनन्दनोजनि । सर्वाधिपत्यसंपत्तिर्महाभाग्यमितीर्यते । चिन्ताकान्तापरित्यागवशालीलावशं गतः ।। ८॥ किडत्याशाकरिव्यूहः कामं कृष्णे घराघरे । . महाकुलप्रमतत्वं कुलीनत्वं विदुर्बुधाः ॥ मुखमेवाह कृष्णस्य सुधाकर कुलोद्भवम् ॥ ९ ॥ विपत्तावपि तेजोधिक्षेपाचसहनं मतम् । राधिके न वदेदे(रे)वं तत्तादृग्गुणगुम्फिते । स कथं सहते भूयोऽप्यधिक्षेपवचस्तव ॥ १० ॥ वैदग्ध्यमेकीकरणमप्यन्योन्यविरुद्धयोः ।। भुनक्ति सुखमजाक्षो निःसापत्न्यं महीं श्रियः । शृङ्गारचेष्टा सहजा लालित्यं मृदुला मता। जीयात्वाभाविकी चेष्टा ताशी राधिकापतेः ॥ ११ ॥ आभीरभामिनीभावभावने शम्भलीसखी । वाग्मिता नीरसोक्तावप्यलं पुष्टीकृतिर्मता ॥ स एव माधवः सैव राधिकेति जनोत्तरम् ॥ १२ ॥ श्रुत्वावयोः समं सङ्गं सखे वक्तीति सोऽब्रवीत् । :

काव्यमाला। A प्रसिद्ध एव धर्मः स्वादिष्टापूर्तादिका कृतिः। कृष्णादन्यो न लोकेष्ट इष्टाशिष्टादिपालनैः ॥ १३ ॥ कार्योपयुक्तवस्तूनां संग्रहः संग्रहो मतः ॥ सर्वसाधनसंपन्ने किमलभ्यं तव प्रभौ सर्व विद्यासमप्रज्ञा पण्डाशब्देन गीयते । वासराणां चतुःषष्ट्या सोऽग्रहीत्तावतीः कलाः ॥ १४ ॥ . गतिः सधैर्या दृष्टिश्च विलासः सस्मितं वचः॥ सृष्टिस्तृणीकृतजगत्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । उमेरेरिता च भणितिर्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥ १५ ॥ .. अखेदापत्तिविषया चिद्वृत्तिः करुणा मता। पूतनाघातनोद्युक्तमांधवस्य महात्मनः । अबलाहननत्रस्तां बैरल्यमसंवो ययुः ॥ १६ ॥ कृतचित्तविकारस्तु स्पर्धा खात्मगुणाधिके । काशीस्थितेनूतनशंकराणां साधारणे धूर्जटिलक्षणेऽपि । पार्थप्रहारबणजातचिहं प्राचीनमीशं प्रकटीकरोति ॥ १७ ॥ तारुण्यं यौवनं प्रोक्तं अजातश्मश्रुभेदेन गतेन क्षणमित्रताम् । माधवेन धृतं राज्यमशिष्टकुलकण्टकम् ॥ १८॥ शुद्धिः स्यात्परिपूतता। कृष्णाङ्गुष्ठसरत्पाथः पुनाति भुवनत्रयम् । (१)चतुर्विंशद्गुणान्केचिदूचिरे द्वादशापरे ।। एतादृग्गुणगम्भीरस्त्रिवर्गी चं धुरंधरः। यश प्रतापसुभगो नेता स्यात्स चतुर्विधः ॥ धीरपूर्वोदात्तशान्तललितोद्धतभेदतः । - ८. शुद्धविन्दुः] मन्दारमरन्दचम्पूः। महासत्वोऽतिगम्भीरः कृपावानविकत्वनः ।। स्थिरो निगूढाहंकारो धीरोदात्तो दृढव्रतः। तत्सत्वं तच्च गाम्भीर्य तद्वैयं तादृशी कृपा । तत्ताडग्विनयत्यागः कृष्ण एव विराजते ॥ १९ ॥ विनयो दक्षता त्यागो माधुर्य प्रियवादिता ।। प्रज्ञा बुद्धिः कुलीनत्वं धर्मकामार्थकारिता । स्मृति तिर्दयोत्साहः कलाज्ञानं च चातुरी ।। इतीमेष्टादश गुणा धीरोदात्ते मनस्विनि । धीरः शान्तः प्रसन्नात्मा धीरशान्तो द्विजादिक प्रतिबोधयति व्यासो मुनीन्ब्रह्म सनातनम् । सदाचारो विवेकश्च समता च दया तथा । महिमा सत्यवाक्यत्वं धीरशान्तगुणा मताः ॥ निश्चिन्तो धीरललितः कलासक्तः सुखी मृदुः । उग्रसेने प्रतिष्ठाप्य राज्यं स सुखमश्नुते ॥ २० ॥ गुणाः स्यु/रललिते यौवनं स्थूललक्ष्यता ।। प्रियंवदत्वं दाक्षिण्यं प्रियता च सुवेपता। दर्पमात्सर्यभूयिष्ठो मायाछद्मपरायणः । धीरोद्धतश्चण्डवृत्तिः सुलभकुद्विकत्थनः । कल्पानिसदृशक्रोधकुटिलभृकुटीपटुः । दृप्तक्षत्रकुलारण्यं दग्धुमायाति भार्गवः ॥ २१ ॥ शौर्य तेजश्च चापल्यं साहसं च प्रतारणम् ।। मात्सर्योत्साहगर्वाश्च धीरोद्धतगुणा मताः । कलावेदविशेषानुरक्तः भृङ्गारनायकः ॥ चतुर्धा धृष्टानुकूलशठदक्षिणभेदतः। अकापट्यं त्वितरयोर्वश्चनं शठधृष्टयोः॥ व्यक्तागा अपि निर्मीतिधृष्टो वितथकत्थनः ।

काव्यमाला। तस्या हगञ्जनानीलमधरं गोपय क्षणम् । एकस्यामेव कान्तायामनुकूलोऽनुरागवान् । दृशापि न स्पृशत्यन्यां रामस्तां जानकी विना ॥ २२ ॥ नायिकामात्रविदितपुरुविप्रियकृच्छठः ॥ शैवालोकसे मां त्वं संनिधत्से परां हृदि ॥ २३ ॥ अनेकास्वपि कान्तासु समात्मा दक्षिणः स्मृतः। समं स ववृते तासु तारास्विव निशाकरः । पतिश्योपपतिश्चेति स चतुर्धा पुनर्द्विधा ।। पतिः पाणिग्रहीता स्याद्रुक्मिण्या माधवो यथा ॥ २४ ॥ आचारहानिहेतुस्तु प्रियश्चोपपतिर्मतः। गोपकान्ताजनैः साकं विजहार हरिः सुखम् । पुनश्चतुर्धा नेता सानायका प्रतिनायकः ॥ अनुपूर्वो नायकश्च नायकश्चोपपूर्वकः । तेषु सर्वगुणोपेतः कथाव्यापी स नायकः ॥ रामचन्द्रः कथाव्यापी नेता रामायणे यथा ॥ २५ ॥ अन्यायवाँस्तदुच्छेद्य उद्धतः प्रतिनायकः । यथा तत्रैव पापात्मा रावणः प्रतिनायकः । समो न्यूनोऽपि वा तस्य कनीयाननुनायकः ॥ नेतुः कैश्चिद्गुणैीन अपूज्यश्चोपनायकः । नायकस्य गुणहीनो नेता त्वाभासनायकः ।। पुनस्त्रिधा स गुणत उत्तमो मध्यमोऽधमः । प्रकृतेः साविकोऽपि स्याद्राजसस्तामसोऽपि च ॥ इति त्रिधा पुनर्नेता पुनधा प्रकीर्तितः। साधारणस्तथासाधारणो ज्ञेयः परिग्रहात् ॥ साधारणोऽनेकजानिरन्यो नियतभार्यकः । पुनर्दिव्यस्त्वदिव्यश्च दिव्यादिव्य इति.विधा.॥

१७९ ८. शुद्धबिन्दुः] मन्दारमरन्दचम्पूः। नायकस्तत्र दिव्यस्तु पौलोमीपतिरुच्यते । विक्रमादिरदिव्यः स्यात्कृष्णादिरुभयात्मकः ।। पुनश्चतुर्धा कथितः कामशास्त्रेषु जातितः। दत्तो भद्रः कूचिमारः पाञ्चाल इति सूरिभिः ।। पद्मिनीवल्लभो दत्तो भद्रः स्थाचित्रिणीप्रियः । पाञ्चालकूचिमारौ तु हस्तिनीशहिनीप्रियौ ।। उदात्तशान्तललितोद्धताः स्युधैर्यवृत्तितः। धृष्टादयश्च चत्वारः स्वव्यापारप्रवृत्तितः॥ नायकानां पीठमर्दविटचेटविदूषकाः । कुर्वन्त्येते नायिकानुकूलने तु सहायताम् । पताकानायकस्वन्यः पीठमर्दो विचक्षणः । नेतुश्चानुचरो भक्तः किंचिदूनश्च तद्गुणैः ॥ रामायणे च सुग्रीवो रामकार्यस्य साधकः । एकविद्यो विटश्चेटः संधानकुशलो मतः ।। स्वराङ्गादिविकारेण हास्यकारी विदूषकः । वल्लभे चिररात्राय विप्रयुक्ते विलासिनि । नीवीविस्रसनोद्युक्ते सोऽकूजत्कुक्कुटखरम् ॥ २६ ॥ कार्यान्तरे सहायास्तु मत्री स्वं वोभयं च वा ॥.. नेतुर्धर्मसहायास्तु पुरोधा ऋत्विगादयः। .. सामाधुपायेषु नेतुः सहायाः स्युर्यथोचितम् ॥ इति नायकप्रकरणम् । युवानुरञ्जनाकारचेष्टा शृङ्गारनायिका । वितनोति मुदं यूनां विलासैः सुन्दरीमणिः ।। स्वीया च परकीया च सामान्या चेति सा त्रिधा । स्वीया तत्र विधा मुग्धामध्याप्रौढाविभेदतः ॥ मुग्धा तत्र द्विधा ज्ञातयौवनाज्ञातयौवना । द्विधोमे शुद्धविश्रब्धनवोढाभेदतः पुनः ॥

८०
काव्यमाला।
प्रौढा रतिप्रियानन्दमोहितेति द्विधा मता।
मध्यानौढे पुनस्त्रेधा धीराधीरोभयात्मना ।
ज्येष्ठाकनिष्ठाभेदेन त्रिविधे ते पुनर्द्विधा ।
कन्यापरोढाभेदेन परकीयापि च द्विधा ।।
सामान्या गणिकादिः स्यात्सकैवं कथिता बुधैः ।
सामान्यापरकीये द्वे प्रौढे इत्येव संमते ।।
विना मुग्धामष्टविधा अवस्थाभेदतश्च ताः ।
समुग्धाअप्यष्टविधा इत्येताः केचिदूचिरे ॥
स्वाधीनपतिका विप्रलब्धा वासकसजिका ।
विरहोत्कण्ठिता प्रोष्यद्वल्लभा खण्डिता तथा ।
कलहान्तरिता चाभिसारिकेति विभेदतः ।
गुणतस्तास्त्रिधापि स्युरुत्तमामध्यमाधमाः ॥
पुनश्च तास्त्रिधा ज्ञेया दिव्यादिव्योभयात्मना ।
पुननिधोद्धतोदात्ता ललिताशान्तिका इति ॥
अक्षता च क्षता यातायाता यायावरेत्यपि ।
पुनश्चतुर्धा कथिताः पूर्व जादिभिर्बुधैः ॥
पद्मिनी चित्तिनी(त्रिणी) चैव शङ्खिनी हस्तिनीति च ।
पुनश्चतुर्धा कथिताः कामशास्त्रेषु जातितः ॥
कफिनी वातला पित्तला प्रकृत्या पुनखिधा ।
अथोक्तानां च भेदानां लक्षणोदाहृती त्रुवे ।।
खामिन्येवानुरक्तात्मा सा खीया परिकीर्तिता।
जानकी सेवते रामं वनेऽपि भवने तथा ।
तद्गुणाभत्रशुश्रूषा शीलसंरक्षणक्षमा ।
आर्जवं गुरुभक्तिश्च सदाचारो विवेकता ।
उदयद्यौवना मुग्धा लज्जाविजितमन्मथा ॥
दृष्ट्वा नवरते कान्तं लज्जते वेपते. वधूः ॥ २७ ॥

८१
८.शुद्धबिन्दुः] मन्दारमरन्दचम्पूः।
लज्जा भयमधैर्य च चापल्यं चाल्पकोपता।
उत्कण्ठा शिशुचेष्टा च भूपणेष्वपि तद्गुणाः।।
यौवनस्य परिज्ञाने सति सा ज्ञातयौवना ।
पश्यन्ती खसखी वीक्ष्य दृढं बध्नाति कञ्चकम् ।
यौवनस्सापरिज्ञाने सा स्यादज्ञातयौवना ।
किमिदं सखि मे वक्षो गाध(ढ)तामवगाहते ॥ २८॥
सा तु शुद्धनवोढा स्यादनिच्छन्त्यक्षमा रतम् ।
क्रोडीकृता बोधितापि यतते गन्तुमेव सा ।
सा विश्रब्धनवोढा स्यादिच्छन्त्यप्यक्षमा रतम्
सुष्वाप भर्तृसविधे नीवीदत्तकराम्बुजा ॥ २९ ॥
लज्जामन्मथमध्यस्था मध्या चोद्भुतयौवना ।
कान्ता रहः प्रियतममद्रष्टुं द्रष्टुमीहते।
सापराधे प्रिये कोपो व्यक्ताव्यक्तश्च मत्सरः॥
सपत्नीष्वभ्यस्याचे प्रायो मध्यागुणा मताः ।
सरमन्दीकृतव्रीडा प्रौढा संपूर्णयौवना ॥
आलिलिङ्ग खयं. कान्ता दयितं मारसुन्दरम् ।। ३० ॥
रतिप्रीतिश्च संमोहः प्रियाकर्पणकौशलम् ।
रतिप्रागल्भ्यमित्याद्याः प्रौढायाः कथिता गुणाः ।।
रतिप्रिया तु सुरतप्रमोदपरिलालिता।
कर्णोत्पलं तयागोपि प्राप्ते कान्ते रतोद्यते ।
आनन्दमोहिता सङ्गसुखविस्मृततक्रिया ॥
सा रते दयिताश्लिष्टा व्यस्मरत्वां तनूमपि ॥ ३१॥
मध्या धीरा तु वद(च)ती सोत्प्रासं सागसं प्रियम् ।
सदा रामान्तरासत्त्या श्रान्तोऽस्यास्व प्रिय क्षणम् ।
मध्या त्वधीरा परुषैः खेदयेद्वल्लभं रुपाः ।।
तदेकासक्तचित्तस्य मयि ते कोऽयमादरः ॥ ३२ ॥

काव्यमाला। धीराधीरा तु वक्रोक्त्या सवाष्पं वदति प्रियम् । युवा कान्तश्च रागी त्वमित्युक्त्वाश्रु मुमोच सा। प्रौढा धीरा तु चातुर्यात्खेदयेवल्लभं रुषा॥ जहाँ प्रत्युद्मात्तल्पं सागसं प्रियमीक्ष्य सा ।। ३३ ॥ संतयं निष्ठुर रोषादधीरा ताडयेत्प्रियम् । दृष्ट्वा कृतागसं कान्तमबनात्पुष्पमालया। धीराधीरा तु संतयं रत्यौदासं भजेत्प्रिये ॥ तल्पान्निष्कासयामास दयितं कलितागसम् ॥ ३४ ॥ स्नेहाधिक्यवती ज्येष्ठा भर्तयूना कनिष्ठिका । नेत्रे निमील्य कस्याश्चिञ्चुम्बत्यन्यां रहः प्रियः । परकीया स्वप्रकटीकृतान्यपुरुषस्पृहा । वसन्तवनसंपत्तिमीदृशीं वीक्ष्य सुन्दरि ।। ३५ ॥ मम चित्तं पराधीनं किं वा कर्तु समीहते। मृषोक्तिः साहसं चैव गोपनं च प्रतारणम् । संकेतचेष्टाचातुर्य परकीया गुणा मताः ॥ तत्र कन्या त्वनूदा सात्सोत्कण्ठा पितृपालिता। कन्या सौधात्प्रेक्षते तमलसा लोलवीक्षणैः ॥ ३६॥ परोढा तु परेणोढा गुप्तान्यपुरुषस्पृहा ॥ सखि कुल्चं निरीक्ष्येदं परस्मिन्रज्यते मनः। सामान्यां धनिकोदारजनेष्वेवानुरागिणी। आढ्योऽत्युदारः कान्तोऽयमेनमुत्कण्ठते मनः॥ ३७॥ मृषानुरागो मात्सर्यं रतितत्रप्रगल्भता । प्रायो वित्तादिलाषायाः सामान्याया गुणा मताः । प्रियोपलालिता नित्यं स्वाधीनपतिका मता ॥ हृदापि न सरत्यन्यां मां विना दयितो मम । अस्थास्तु चेष्टाः कथिताः सरपूजामहोत्सवः । वनकेली जलक्रीडा-कुसुमापचयादयः ॥

८३
८. शुद्धबिन्दुः] मन्दारमरन्दचम्पूः।
विप्रलब्धा तु संकेतं गतान्यासक्तवल्लभा ।
स यस्मानागतः कुलं कस्या वा वर्तते गृहे ॥ ३८ ॥
निर्वेदचिन्ताखेदाश्रुमूर्छानिःश्वसितादयः ।।
दूतीसंप्रेपणाद्याः स्युर्विपलब्धागुणा मताः।
भूषितात्मगृहा कान्तागमे वासकसज्जिका ॥
गेहं विभूष्य चात्मानं साद्वारे त्वां प्रतीक्षते।
अस्थास्तु चेष्टासंभोगमनोरथविचिन्तनम् ।
प्रियागमनमार्गाभिवीक्षाप्रभृतयो गुणाः ॥
चिरयत्यधिकं कान्ते विरहोत्कण्ठितोन्मनाः ।
समानय द्रुतं कान्तं सखि ते विहितोऽञ्जलिः ॥ ३९ ॥
अस्या गुणास्तु संतापो वेपथुश्चाङ्गसादनम् ॥
अरतिष्पिमोक्षश्च स्वावस्थाकथनादयः।
देशान्तरगते कान्ते खिन्ना प्रोषितवल्लभा ॥
दूरस्थो दयितो मारस्तुदत्यद्य कथं सहे।
अस्यास्तु जागरः कार्य निमित्तादिविलोकनम् ।
मालिन्यमनवस्थानं प्रायः शय्यानिषेवणम् ॥
ज्ञातेऽन्यासङ्गविकृते खण्डिताकषायिता।
मागा मत्सविधं धूर्त या प्रिया तद्गृहं व्रज ॥१०॥
अस्यास्तु चिन्ता निश्वासस्तूष्णींभावोऽश्रुमोचनम् ॥
मुहुः प्रलाप इत्याद्याश्चेष्टा इष्टा मनीषिणाम् ।
कलहान्तरिता पश्चाचप्ता निर्याप्य नायकम् ॥
परुषं ब्रुवती धिङ्मां सरसे तादृशि प्रिये ।
अस्थास्तु भ्रान्तिसंतापमोहनिःश्वसितज्वराः ।
मुहुः प्रलाप इत्याद्याः कथिताः स्युर्गुणा बुधैः॥
कान्ताभिसरणोद्युक्ता स्मरार्ता साभिसारिका ।
ययौ सा प्रियसंकेतं खयमेव मरार्दिता ॥४१॥

काव्यमाला । " दिवाश्यामाविभेदेन द्विविधा साभिसारिका ।। दिवाभिसारिका सा स्याद्या दिवैव सरेत्प्रियम् । सलिलाहरणव्याजाद्ययौ कुजं प्रियस्पृशम् । श्यामाभिसारिका सा साधा रात्रौ सरति प्रियम् ॥ विलोक्य खजनान्सुप्तान्प्रियसंकेतमाययौ ॥ ४२ ॥ ज्योत्स्त्रीतमखिनीभेदादियं चापि पुनर्द्विधा । शुभ्रवस्त्रा सरेत्कान्तं रात्रौ ज्योत्स्यभिसारिका । क्षौमं वसाना सा याति प्रियं चन्दनचर्चिता । नीलवेषा सरेकान्तं तमखिन्यभिसारिका । प्रियान्तिकं प्रयात्येषा धृतनीलनिचोलिका ॥ ४३॥ ज्योत्स्नायानपरा त्वाद्या तमोयानपरापरा ॥ यातमात्रविभेदेन भेदा एवं प्रकीर्तिताः । अस्याः संतापचिन्ताद्या विक्रियाः स्युर्यथोचितम् ॥ उत्तमा हितकी स्यादहितं कुर्वति प्रिये । कान्तं कृतागसमपि प्रियं सदकरोत्रिया। हिताहितोत्कृतिहिताहितकर्ती च मध्यमा ॥ तताड लीलापझेन रुषा कान्तं कृतागसम् ॥ ४४ ॥ प्रसीदेति ब्रुवाणं तं पुनः प्रेम्णा व्यभूषयत् । अधमा कथिता या सा हितेऽप्यहितकारिणी। अनागसं पादगतमपि कान्तं व्यभसयत् ॥ ४५ ॥ दिव्याः शच्यादयः प्रोक्ता अदिव्या मालतीमुखाः॥ दिव्यादिव्या इति प्रोक्ता जानकीरुक्मिणीमुखाः। गर्वशालिन्युद्धता स्यादुदात्ता गूढमानिनी ।। ललिता साध्यमानेहा शान्ता निर्मानमानसा। उदात्तैव भवेद्धीराथाधीरा तूद्धता मता ॥ ललिता तु भवेन्मुग्धा शान्ता स्वीयोत्तमा मता। भुक्तान्येन पुरा पश्चादूढान्येनाक्षता मता ॥ R ८५. ६. शुद्धबिन्दुः] मन्दारमरन्दचम्पूः। भुक्ता शक्तिसुतेनोढा राज्ञा सत्यवती यथा। गते भर्तरि यद्यन्यं श्रिता सा तु क्षता मता। यथा तारा रविसुतं निहते वालिनिः प्रिये ॥ ४६॥ यातायाता तु युगपढानेकैस्तु भर्तृभिः॥ यथा पाण्डुसुतैरूढा द्रुपदस्य कुमारिका । ऊटैकेन तु संत्यक्ता क्रमाद्यायावरा मतां । यथा बहुवरैरूढा माधवी चोपलात्मजा ॥ ४७ ।। पमिनी चन्द्रवदना शिरीषमृदुला तथा ॥ लज्जा मानवती श्यामा गुरुसेवारता सदा । चित्रिणी लोलनयना शिल्पसंगीतलोलुपा ॥ तन्वङ्गी कुञ्जरगति ङ्गी श्यामलकुन्तला । शविनी स्याबृहन्मध्या कोपिन्यल्पस्तनी तथा ।। दीर्घपादा द्रुतगतिः कुटिलाक्षी च पिङ्गला । हस्तिनी बहुभुक्करा निस्त्रपा पिङ्गकुन्तला ॥ इस्खा स्थूलाधरा गौरशरीरामन्दगामिनी । कफिनी दृढ़रागा स्याच्छयामा सुस्निग्धलोचना ।। वातुला तु कठोराङ्गी चञ्चला कृष्णपाणिजा। श्यामधूसरवर्णा च बहुभोज्या प्रलापिनी ॥ पित्तला शोणनयना गौरागी कुशला रते । सा चतुर्धा पुनरपि नायिका प्रतिनायिका ।। उपपूर्वा तथा चानुपूर्विका नायिकेति च । स्यात्कथाव्यापिनी सर्वगुणयुक्ता च नायिका ॥ यथा द्रुपद्जा प्रोक्ता वेणीसंहारनाटके । हेतुरीारुडादीनां सपक्षा प्रतिनायिका । दुर्योधनस्य दयिता तत्र भानुमती यथा ॥ ४८ ॥ तस्याः कैश्चिद्गुणैींना पूज्या चैवोपनायिका ॥ १. पराशरेण. मन्दा. ८ ८६. काव्यमाला । * समा न्यूनापि वा किंचित्कनीयस्यनुनायिका । संबन्धिनी भिक्षुकान्ता दासी मालिककामिनी ।। तक्रविक्रेतका बाला रजकी शिल्पिनी नटी। कारुकान्ता सखी धात्री सैरन्ध्री प्रतिगेहिका ॥ लिङ्गिनी दूतिका चामूः सहाया नेतृसंगमे । भावो हावश्च हेला च कान्तिः शोभा प्रगल्भता ।। लीला विलासों विच्छितिर्विभ्रमः किलकिञ्चितम् । मोडायितं कुट्टमितं विब्बोको ललितं तथा ।। चकितं विहतं हासो दीप्तिधैर्य कुतूहलम् । माधुर्य च तथौदार्यमिति व्यधिकविंशतिः ॥ कामिनीनामलंकारा यौवने परिकीर्तिताः। भाव इत्युच्यते प्राज्ञै रसाभिज्ञानयोग्यता ॥ शृण्वन्ती कृष्णचरितं राधा किंचिद्विलज्जते । ईषदृष्टविकारः स्याद्धावः प्रेमाभिसूचकः । श्रुत्वास प्रेयसो वृत्तं किंचिदुत्पुलका वधूः ।। ४९ ॥ सुव्यक्तविक्रियो भावो हेला शृङ्गारसूचकः ॥ सस्मितान्सानुरागान्कटाक्षान्किरति प्रिया । मन्मथाप्यायिनी सर्वशोभा कान्तिरिति स्मृता। मुखे हासरुचा धूतं कुचे हाररुचा हतम् । पादे नखरुचा भीतमाललम्बे कचं तमः ॥ ५० ॥ रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम् ।। प्राचीनम्- तां प्राङ्मुखीं तत्र निवेश्य बालां क्षणं विलम्बन पुरो निषण्णाः । ताक्षशोभाहियमाणनेभ्यः प्रसाधने संनिहितेऽपि सख्यः ।। ५१ ।। प्रगल्भताङ्गसादः स्यादमनः क्षोभपूर्वकः । तथा ब्रीडा विधेयापि तथा मुग्धापि सुन्दरी । १. 'आस' इति 'अस गतिदीप्यादानेषु' इत्यस्य 'दिदीपे' इत्यर्थकम्, ८. शुद्धविन्दुः] मन्दारमरन्दचम्पूः। कलाप्रयोगे चातुर्ये सखीप्वाचार्यतां गता ॥ ५२ ।। प्रियानुकरणं लीलावाग्भिर्गत्यादिचेष्टितैः ।। मनोवाकायचेष्टाभिस्त्वामेवानुकरोति सा । तात्कालिको विकारस्तु विलासः प्रियदर्शनात् । मां विलोक्यातनोदङ्गभङ्गमुन्नमितस्तनम् ।। ५३ ॥ विच्छित्तिरतिरम्यत्वमत्यल्पैरपि भूपणैः ॥ प्राचीनम्- अघरे नववीटिकानुरागी नयने कज्जलमुज्ज्वलं दुकूलम् । इदमाभरणं नितम्बिनीनामितरभूषणमङ्गदूषणाय ।। ५४ ॥ विभ्रमस्त्वरया काले भूपास्थानविपर्ययः । कटौ हारं कुचे काञ्ची कृत्वा तं द्रष्टुमुत्वरा । रोषाश्रुहर्पभीत्यादेः संकरः किलकिञ्चितम् ।। गृहीते हरिणा चादौ कुओ राधाकुचांशुके ।। ५५ ।। हसति झुकुटी धत्ते मुहुर्नृत्यति वेपते । मोहायितं मिपादिष्टकथादौ भावसूचनम् । व्याजात्कुतोऽपि कान्तस्य प्रस्तावे सस्मितानना ।। ५६ ॥ संमर्देऽपि सुखाधिक्यं रतौ कुट्टमितं मतम् ।। मुदमाप प्रियकृतैर्नखदन्तक्षतादिभिः । मनाविप्रयकथालापे वियोकोऽनादरक्रिया । भुनभ्र नमयत्यास्यं निशम्य प्रेयसः कथाम् । सुकुमाराङ्गविन्यासो ललितं परिकीर्तितम् ।। कलक्कणितमञ्जीरं याति सा मदमन्थरम् ॥ ५७ ॥ गाम्भीर्यभङ्गभयज संभ्रमं चकितं विदुः । आलोकयंती विजने नखक्षतं कृत्वा कुचं त्यक्तपटं कराम्बुजे । सीत्कुर्वती चापि मुहुर्मदागमे चकार यत्सास्तु तदेव मे सदा ॥५८॥ विहृतं प्राप्तकार्यस्य वाक्यस्याकथनं हिया ।।

काव्यमाला। केलये याचिता राधा प्रियं नोवाच किंचन । आकसिकं सितं हासो यौवनादिविकारजम् । मय्यागच्छति सा चक्रे विनाहेतुं सितं सितम् ॥ ५९॥ अलंकारसमुद्भूतो दीप्तिः कान्तेश्च विस्तरः ॥ लिलेख मकरी कान्ता धुसृणेन कपोलयोः । तावलंचक्रतुस्तस्या मकरी मकरीनतौ (१) ॥ ६० ॥ धैर्य सारिकृच्छ्रेऽपि मर्यादादेरलङ्घनम् । मारस्तुदतु मां कामं न गच्छेद्भूर्तमन्दिरम् । रम्यदृष्टौ चापलं तु कुतूहलमितीर्यते ॥ तदाननं मुहुस्तन्वि द्रष्टुमुत्कण्ठते मनः ॥ ६१ ॥ माधुर्य सुन्दरानयंभूपभावेऽपि रम्यता। कान्ताङ्गे भूषणारोपो जनदुर्दृष्टिभीतितः । औदार्यमनुरागस्तु नायके सहजः सदा ॥ अनागसि यथापूर्व सागस्यद्य तथैव सा ।। ६२ ।। इति नायिकाप्रकरणम् । व्यापाररूपिणी वृत्ती रसावस्थानसूचिका । द्विधा शब्दार्थभेदेन सा द्वे अपि चतुर्विधे ॥ कैशिक्यारभटी चैक सात्वती भारतीति च । शब्दवृत्तिरिति प्रोक्ता शब्दव्यापाररूपिणी ।। अर्थवृत्तिरिति प्रोक्ता नेतृव्यापाररूपिणी । शब्दवृत्तिं चार्थवृत्तिमप्यहं क्रमशो ब्रुवे ॥ अत्यर्थसुकुमारार्णसंदर्भा कैशिकी मता । ददर्श कान्ता सस्नेहं कान्तं कन्दर्पसुन्दरम् । नृत्तगीतविलासादिमृदुशृङ्गारचेष्टितैः ॥ समन्विता भवेद्वत्तिः कैशिकी श्लक्ष्णभूषणा । अस्यास्त्वङ्गानि चत्वारि नर्म तत्पूर्वका इमे ॥ स्फूर्जः स्फोटश्च गर्भश्च लक्ष्मैतेषां क्रमाहुवे। -

८. शुद्धबिन्दुः] मन्दारमरन्दचम्पूः ।
शृङ्गाररसभूयिष्ठः प्रियचित्तानुरञ्जनः ।
अग्राम्यपरिहासश्च नर्म तत्तु त्रिधा मतम् ।
शृङ्गारहायजं शुद्धहास्यजं भयहास्यजम् ।।
शृङ्गारहास्य नर्म त्रिविधं परिकीर्तितम् ।
संभोगेच्छाप्रकटनादनुरागनिवेशनात् ।।
तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् ।
संभोगेच्छाप्रकटनं त्रिधा वाग्देहचेष्टितैः ॥
अनुरागप्रकाशोऽपि त्रिधा वाग्देहचेष्टितैः ।
प्रियापराधनिर्भेदोऽप्युक्तस्त्रेधैव पूर्ववत् ।।
शुद्धहास्यजमप्युक्तं त्रिधा वाग्देहचेष्टितः ।
हास्याद्भयेन सहिताजनितं भयहास्यजम् ।।
तद्विधा मुख्यमाङ्गं च तद्वयं च पुनस्त्रिधा ।
चाग्देहचेष्टितैरेवं नाष्टादशधोदितम् ।।
नर्मस्फू| भयात्सौख्यव्यापारो नवसंगमे ।
नर्मस्फोटस्तु भावानां सूचिताल्परसो लवैः ।।
छन्ननेत्रप्रतीचारो नर्मगर्भोऽर्थहेतवे ।
अत्युद्धतार्णसंदर्भा वृत्तिरारभटी मता ॥
क्रुद्धः परश्वधच्छिन्नमत्रियोऽभ्येति भार्गवः ।। ६३ ॥
मायेन्द्रजालप्रचुरां चित्रयुद्धक्रियामयीम् ।
छेद्यैर्भेदैः प्लुतैर्युक्तां वृत्तिमारभटीं विदुः ।।
अङ्गान्यस्यास्तु चत्वारि संक्षिप्तिरवपातनम् ।
वस्तूत्थापनसंफेटाविति पूर्वे वभाषिरे ।।
संक्षिप्तिरिह सा प्रोक्ता मायया वस्तुगोपनम् ।
विभ्रान्तिरवपातः स्यात्प्रवेशद्रवविद्वैः ।।
तद्वस्तूत्थापनं यत्तु वस्तु मायोपकल्पितम् ।
संफेटः स्यात्समाघातः कृतसंरम्भयोर्द्वयोः ।।
ईषत्प्रौढार्णसंदर्भा सात्वती वृत्तिरिष्यते ।

९० काव्यमाला । विसृज्य घोरं संसारं विहर त्वं हरौ मनः । हर्षप्रधाना संत्यक्तदोषभावा च साखती ।। अङ्गान्यस्यास्तु चखारि संलापोत्थापकौ तथा । संघात्यकस्तृतीयः स्थाचतुर्थः परिवर्तकः ।। परस्परं समालाप: संलापो रसगर्भितः। प्रेरणं यत्परस्यादौ युद्धायोत्थापकस्तु सः॥ अन्यस्य भेदनं यत्तु संघात्योऽर्थादिशक्तिभिः । पूर्वकार्येणान्यकार्यनिर्वाहः परिवर्तकः ।। ईषन्मृद्वर्णसंदर्भा भारती वृत्तिरिष्यते । को वेद बालः फा(लो भा)लाक्षचापमारोपयेदिति ॥ ६४ । धीरोदात्तचरित्रात्मा धर्मशृङ्गारसंश्रया ॥ शौयौदार्यगुणोपेता भारती वृत्तिरिष्यते । अस्यास्वङ्गानि चखारि निग्रहोऽनुग्रहस्तथा । त्यागः स्वीकार इत्येवं कथितानि मनीषिभिः। कैशिक्यांद्यर्थवृत्तीनां साङ्गानां सुगमखतः॥ ग्रन्थगौरवभीतेश्च न कृतं लक्ष्यवर्णनम् । तच्चतुर्विधशृङ्गारसमत्वेनोदिते इमे ॥ मध्यमारभटी चैव तथा मध्यमकैशिकी। मध्यमारभटी प्रौढेऽप्यर्थे नातिमृदुक्रमा । जघान दानवान्फ्रान्मांसशोणितभोजनान् । मृदुर्थेऽप्यनतिप्रौढवन्धा मध्यमकैशिकी। ताप्रिये कृतरुषं धिङमा धिड्मम जीवितम् ॥ ६५॥ शृङ्गारे कैशिकी वीरे साखत्यारभटी पुनः॥ रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती । कैशिकी साखतीं चैव केचिदारभटीमपि । शब्दार्थवृत्तिं ब्रुवते भारती शब्दमात्रकाम् ।।

९, रम्यविन्दुः] मन्दारमरन्दचन्पुः। ९१ जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन । गुहपुरनिलयेन प्रोद्धृतः शुद्धविन्दुः सुरकुसुममरन्दे चारवम्यूप्रबन्धे॥ इति श्रीमद्धकिाशतशतपचाविहिताटभाषासरसवितावरणनिपुणस्य वासुदेवयोगी- दरस्यान्तेवास्यन्यतमस्य गुहपुरवाशशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमरन्दे चम्पू. प्रवन्वे शुद्धविन्दुरटमः समाप्तिमगमत् । स्न्यविन्दुः । रम्पविन्दावत्र रसलक्षणानि बुवे स्फुटम् । तत्रादौ कारणीभूतभावलक्षणमुच्यते ॥ रसानुकूलविकृतिर्भावः स द्विविधो मतः। आन्तरश्चैव शारीर इतीदं सर्वसंमतम् ॥ आन्तरस्तु द्विधा स्थायिव्यभिचारिविभेदतः। विरुद्धैरवरुदैर्वा भावैर्विच्छिद्यते न यः॥ आत्मभावं नयत्यन्यान्यायी यावद्रसस्थितिः। रतिहाँसञ्च शोकच क्रोधोत्साही भयं तथा ॥ जुगुप्सा विसयश्चाष्टौ स्थायिभावा यथाक्रमम् । मनोऽनुकूलेवर्थेषु सुखसंवेदनं रतिः॥ विलोकयति सा कान्तं सहर्षपुलकोद्गमम् । हासो विकृतवेपादिदर्शनान्मानसी क्रिया। विकटास्थिमयी माला वन्त्रं चर्माङ्गदं फणी । उचितोऽहं वरो गौर्यान्ताश्या इति सस्मितः ।। १ । शोकश्चित्तस्य वैधुर्यमभीष्टविरहादिभिः ।। निये प्रियेण चेदेष किं करोतु स्तनधयः । न चेदसर्य वैघयमिति मोहमियाय सा ॥२॥ प्रतिकूलेषु चित्तस्य वैरसं क्रोध उच्यते कुठारोऽयं कठोरास्थिखण्डनोद्यत्खणा()कृतिः । भिन्द्याल्लिङ्गानि पापानां यैर्वृथा मे हतः पिता ॥ ३ ॥, चित्तस्सास्थिरता सर्वकार्येषत्साह इष्यते ॥ .

: काव्यमाला। " प्राचीनम्- चापमानय सौमित्रे शरानाशीविषोपमान् । समुद्र शोषयिष्यामि पञ्चां यान्तु प्लवंगमाः ॥ ४ ॥ भयं चित्तस्य वैक्लव्यं व्याघ्रादिजनितं मतम् । धनगर्जितमाकर्ण्य विशन्तो गिरिकन्दरान् । तेभ्यः प्रतिध्वनीता निवर्तन्ते मृगार्भकाः ॥ ५ ॥ जुगुप्सा निन्दितज्ञानं दोषसंदर्शनादिभिः ।। इयं प्रोतकपालालीभूषणा रावभीषणा । [सु]पीतो(नो)त्स(त्स्य)न्दिरक्तातना तिष्ठति ताटका ॥ ६ ॥ विसयश्चित्तविस्तारः पदार्थातिशयादिभिः । युध्यन्तमर्जुनं वीक्ष्य के वा देवा न विस्मिताः । न मेने बहु गोविन्दो दृष्टकर्णपराक्रमः ॥ ७ ॥ आभिमुंख्यात्तिरोभावाविर्भावाभ्यां चरन्ति ये ॥ स्थायिभावेषु सत्स्वेव रसेषु व्यभिचारिणः । निर्वेदग्लानिशङ्काश्च ब्रीडास्यामदश्रमाः ॥ आलस्यं दैन्यमावेगश्चिन्तामोहः स्मृतिधृतिः । हर्षश्चपलता गर्यो जडतौत्सुक्यमुग्रता ॥ विषादनिद्रापसारविवोधामर्षसुप्तयः । अवहित्थोन्मादमतिमरणव्याधयस्तथा ।। त्रासो वितर्क इत्येव त्रयस्त्रिंशदमी मताः । तत्त्वज्ञानापदादेनिर्वेदो निष्फलखधीः ॥ तत्रानुभावाश्चिन्ताश्रुवैवर्ण्यश्वासदीनताः । फलं किमेतैः सखि मे भूषणभॊजनैरपि । इत्युक्त्वानु मुमोचासौ सनिश्वासं मृगेक्षणा ॥ ८॥ रत्याद्यायासक्षुद्भिग्लानिनिर्बलता मता ॥ अत्रानुभावा वैवर्ण्यकम्पानुत्साहवामताः ।

। ९.रम्यबिन्दुः] मन्दारमरन्दचम्पूः। घराघरादपि गुरुं वेत्ति सा मणिमुद्रिकाम् । रतिक्विन्ना चकोराक्षी राधिका कृष्णकल्पिताम् ॥९॥ अनर्थप्रतिभाशङ्का परक्रौर्यात्खदुर्नयात् ॥ अत्रानुभावाः कपटवीक्षाप्रच्छादनादयः । जानात्यन्येति सा प्राणप्रियं कुन्तलमस्पृशत् । संकेतकालजिज्ञासालोलुपं वीक्ष्य राधिका ॥ १० ॥ चेतःसंकोचनं व्रीडा दुराचारादिभिर्मता ॥ अत्रानुभावास्तु शिरोनत्यङ्गावरणादयः। कृष्णप्रियेति सख्युक्तिं श्रुत्वा जाता नमन्मुखी । असूया गर्वदौर्जन्यजान्योत्कर्षा सहिष्णुता ॥ अत्रानुभावा दोषोत्यवज्ञाभ्रुकुटिमन्यवः। वीक्ष्य प्रियान्वितामन्यां बालासीदरुणेक्षणा ॥ ११ ॥ संमोहानन्दसंभेदो मदिरादिकृतो मदः॥ अत्रानुभावा निद्रा च हसितं रोदनादयः । उत्तमानां मध्यमानामधमानां यथाक्रमम् ॥ उल्लसन्नयनघूर्णनमीषद्धाषितस्खलनमश्चितरोम । आदधौ पदमकारणहास्य सुन्दरीहृदि मदो मदनो वा ॥ १२ ॥ आयासः श्रम इत्युक्तो रताध्वगमनादिजः। अंत्रानुभावाः कथिताः स्वेदनिश्चेष्टितादयः॥ प्राप्य मन्मथभरादतिवेगं दुर्वहस्तनभरा सुरतेषु । राधिका श्रमजलाईनिटालश्लिष्टकेशमपतद्धदि तस्य ॥ १३ ॥ क्रियासु मान्यमालस्यं दुःखगर्भमदादिभिः । अत्रानुभावाः कथिता उपवेशनपूर्वकाः॥ प्राचीनम्- चलति कथंचित्पृष्टा यच्छति वचनं कथंचिदालीभिः । आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥ १४ ॥ १. 'निचोल' इति भवेत.

९ काव्यमाला। सत्त्वत्यागादनौद्धत्यं दैन्यं कार्पण्यसंभवम् । अत्रानुभावा मलिनाननतादय ईरिताः ॥ अबलाहननं न हि तव युक्तं सुमनः सुधर्मयुक्तस्य । अपि मधुसूदनगुणवत आकलये ते नमः शतं भूयः ॥ १५॥ इष्टानभिगमादिभ्य आवेगो जातसंभ्रमः । युक्तायुक्तविपर्यासादयश्चात्रानुभावकाः ॥ धनगर्जितमाकर्ण्य कन्दर्पाक्रान्तमानसा । मानिन्यपि खयं सद्यो जगाम शठमन्दिरम् ॥ १६॥ आत्मेष्टवस्तुनोप्राप्त्या चिन्ता तद्ध्यानमीरितम् । अत्रानुभावा: संतापबाष्पनिःश्वसितादयः ॥ कदा पश्यामि राधायाः कुण्डलद्वयमण्डितम् । अधरीकृतराकेन्दुमण्डलं मुखमण्डलम् ॥ १७ ॥ मोहो विचित्तता भीतिदुःखावेगानुचिन्तनैः । अनुभावा अत्र पातस्तम्भविसरणादयः॥ प्राचीनम्- कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥ १८ ॥ स्मृतिः पूर्वानुभूतार्थज्ञानं सदृशदर्शनात् । अत्रानुभावाः कथिता भूसमुन्नयनादयः॥ सस्सार राधिका कृष्णो मालतीनवसंगमे । धृतिरानन्दथुस्तत्त्वज्ञानाभीष्टागमादिभिः । अत्रानुभावा अव्यग्रसंभोगकरणादयः॥ इयं सा राधिका लब्धा किमन्याभिः फलं मम । इत्यव्यग्रमना गाढमालिलिङ्ग तदा हरिः ॥ १९॥ चेतःप्रसन्नता हर्षः स्यात्प्रेयोदर्शनादिभिः । अत्रानुभावाः पुलकस्वेदवाष्पोद्भवादयः॥

२. रम्यबिन्दुः] मन्दारमरन्दचम्पूः। ९५ प्राचीनम्- पुलकितकुचकुम्भपालि राधा व्रजति मुकुन्दमनङ्गकलिलोला । विरचयति न मध्यभङ्गभीतिं गणयति नापि नितम्बंगौरवाणि ॥२०॥ चापलं बनवस्थानं रागद्वेषादिसंभवम् । अत्रानुभावाः स्वच्छन्दाचारनिर्भत्सनादयः॥ सुमितलताङ्गीकृतरतिरपि घनपुष्पेषु लोलचित्तोऽयम् । कृष्णभुजङ्गः पश्य त्वामभिसमुपैति शीघ्रमित एहि ॥ २१ ॥ आत्मोत्कर्पोऽन्यधिक्कारार्वोऽभिजनतादिजः । अत्रानुभावा अन्येपामवज्ञाहसितादयः॥ तुल्या मया किं सा धूर्त रूपायैस्तव या प्रिया । इत्युक्त्वा सस्मितं राधा स्वाङ्गानि मुहुरीक्षते ॥ २२ ॥ जडताप्रतिपत्तिः स्यादिष्टानिष्टागमादिभिः । तूष्णींभावोऽत्र कथितः क्रियया वचसापि च ।। प्रिये समागते तस्थौं क्षणं चित्रार्पितेव सा । 'कालाक्षमखमौत्सुक्यं रम्येच्छादिभिरीरितः (तम्)। श्वासोच्छासत्वरागत्यादयश्चात्रानुभावकाः॥ माधवप्रेषितामाराहूतिकां वीक्ष्य राधिका । समुत्तस्थौ सखीलोकलीलालोलापि सत्वरम् ॥ २३ ॥ दोषापराधदौर्जन्यादिभ्यो निर्दयतोग्रता । अत्र स्वेदशिर कम्पतर्जनाताडनादयः॥ जितोऽसि मन्दकन्दर्प त्वज्जेतास्ति हदि प्रियः । प्रारब्धकार्यासिद्ध्यादेविषादश्चित्तभञ्जनम् । अत्रोचमानां हसनकारणान्वेषणादयः ।। अनुभावा मध्यमानी विमनस्कत्वपूर्वकाः। अधमानां च निःश्वासमुखशोषादयो मताः ।। गतं तेनैव मे चेतः किमत्र करवाण्यहम् ॥ २४ ॥ १. पुष्पितवल्लीकृतसुरतः +

९६
काव्यमाला।
बाह्येन्द्रियाणां वैकल्यं निद्रादुःखश्रमादिमिः।
अत्राङ्गभङ्गस्वप्नाक्षिमीलनोज्जम्भणादयः॥
खप्ने दृष्ट्वा प्रियं बाहू प्रसारयति सा मुधा ।
ग्रहदुःखमुखावेशोऽपसारस्तु भयादिजः।
कम्पस्वेदमहीपातलालाफेनोगमादयः॥
कान्तानङ्गग्रहाविष्टमानसा मत्तकाशिनी।
प्रम्लायति प्रलपति शेते शुष्यति लुण्ठति ॥ २५ ॥
विवोधश्चेतनावाप्तिर्निद्राछेदादिभिर्मता।
अत्रानुभावा जृम्भाक्षिमर्दनादय ईरिताः ॥
चिरादुत्वमतां याता विद्धेवोन्मीलति क्षणम् ।
परगर्वशमाकासामर्षः स्यादवमानभूः ।
अत्र खेदशिर कम्पनयनारुणतादयः ।।
याहि याहि प्रिया यत्र कदर्थयसि किं वृथा ॥ २६ ॥
निद्रासुखादिभिः सुप्तिरन्तरिन्द्रियमीलनम् ।
अत्राक्षिमीलनश्वासोच्छ्वासाद्या अनुभावकाः ॥
चिरं निद्राति निश्चिन्तं त्वदाश्लेषसुखादियम् ।
आकारगोपनं चावहित्थं लज्जादिसंभवम् ।
अन्यथाकरणप्रेक्षाकथनाच्छादनादयः ।।
शुकचञ्चूक्षतं बिम्ब पश्यात्रेति सखीवचः।
खाधर गोपयामास श्रुत्वा चैलेन राधिका ॥ २७ ॥
विना विचारमाचार उन्मादः शोकहर्षजः ।
अत्रानुभावांश्च वृथाहासरोदनपूर्वकाः॥
आगतेयं प्रियतमेत्यालिङ्गति लतामसौ ।
विमृश्य युक्तिभिः शश्वदर्थनिर्धारणं मतिः।
अत्रानुभावा भ्रूक्षेपकरचालनपूर्वकाः ॥
न राजीवं निशोन्निद्रमकलङ्की न चन्द्रमाः।
किं भवेचर्हि तादृश्याः सर्वथा राधिकाननम् ॥ २८ ॥

९७ ९. रम्यविन्दुः] मन्दारमरन्दचम्पूः। मरणं त्वात्मनो देहेऽप्यनास्था दुःखसंभवा । अत्रानुभावाः कथितास्तूष्णीभावादयो बुधैः ।। चन्द्रमुवीक्ष्य(क्ष)ते तूष्णी बाला जीवितनिःस्पृहा । व्याधिः शरीरसंतापो विरहादिकृतो मतः । अनुभावा अङ्गपातलुण्ठनादय ईरिताः ।। नश्येत्तस्यास्तहि तापो यद्यो? हिमशीतलः ॥ २९ ॥ त्रासश्चित्तस्य संक्षोभ आकसिकमयादिभिः । अत्रानुभावा रोमाञ्चगात्रगौरवपूर्वकाः॥ मानिनी स्तनितं श्रुत्वा गाढमालिङ्गति प्रियम् । विकल्पः कल्पनानन्त्यं संदेहादिमिरीरितः। अनुभावा शिरःकम्पबङ्गुलीचलनादयः ॥ प्रेषयामि सखीं यद्वा खयं यामि तदन्तिकम् ॥ ३० ॥ शारीरोपि द्विधा साचिकानुभावविभेदतः । स्वपरान्यतरप्राप्तसुखदुःखादिभावनाम् (?) । लब्धं यदन्तःकरणं सत्त्वं तद्वत्तया तथा । अयत्नजो देहधर्मः साविको भाव उच्यते ।। स्तम्भप्रलयरोमाञ्चाः स्वरभङ्गोऽश्रुवेपथुः । स्वेदो वैवर्ण्यमित्यप्टविधः स कथितो बुधैः ॥ हर्षदुःखभयादिभ्यः स्तम्भो गतिनिरोधनम् । वीक्ष्य कान्तं प्रिया गन्तुं यतमानापि नाशकत् । चेष्टानिरोधः प्रलयः सुखदुःखादिसंभवः ।। राधिका कृष्णमालोक्य मन्ना मोहमहार्णवे ॥ ३१ ।। रोमाञ्चः पुलकोद्भेदः प्रियसंदर्शनादिभिः । पुलकैरुत्किरत्यन्तःकामो बाणान्प्रियागमे । स्वरभङ्गक्रोधहर्षादिभ्यो गद्गदभाषणम् ॥ व्यक्तिः स्यात्खरभेदस्य कोपादुक्तिः क्रियेत चेत् ॥ ३२ ॥ मन्दा०९ ९८ काव्यमाला। : इत्यादधाति सा मौनं प्रिये प्राप्ते कृतागसि । अश्रु नेत्रोद्भवं वारि दुःखहर्षादिसंभवम् । हृदयं धावति प्राप्तमश्रु कान्तं निवेदितुम् ।। ३३ ।। रागभीत्यादिजनितं वेपथुर्गात्रकम्पनम् ॥ लतिकेव चकम्प सा यामीति प्रेयसोदिता । हर्षशोकभयादिभ्यः स्वेदस्त्वङ्गाजलोद्गमः । स्मरराज्याभिषिक्तेव खिन्नाङ्गी राधिका बभौ ॥ ३४ ॥ वैवर्ण्यमन्यवर्णत्वं रागदुःखभयादिभिः ॥ कुक्कुटे कुर्वति काणमाननं श्लिष्टयोस्तयोः । दिवाकरकराक्रान्तशशिकान्तमिवाभवत् ।। ३५ ॥ अथो रसाननुभवगोचरत्वं नयन्ति ये । प्रयत्नजा देहधर्मा अनुभावाश्च ते मताः ।। अनुभावा द्विधा प्रोक्ताः शुद्धाभिनयभेदतः। तत्रानारोपिताः शुद्धा अन्त्या आरोपिता नटे ।। द्विविधाः स्युः पुनर्द्वधा वाचिकाङ्गिकभेदतः। वाग्व्यापारो वाचिकः स्यादङ्गव्यापार आङ्गिकः ।। स्मितं नेत्रप्रसादश्च प्रमोदो मधुरं वचः। कटाक्षश्च भुजाक्षेपो धृतिरास्यप्रसन्नता ॥ इत्याद्यङ्गविकाराः स्युः शृङ्गारे खनुभावकाः । कुश्चनं वेषवाक्याङ्गविकारा ओष्ठचालनम् ॥ कपोलनासास्यन्दाद्या हास्ये स्युरनुभावकाः । निःश्वासवचनं मोहः संतापः परिदेवनम् । देहाभिघातरुदितदाहाद्याः करुणे रसे । नानाप्रहारभृकुटीकराग्रपरिपेषणम् ॥ दन्तोष्ठपीडनशिर कम्पाद्या रौद्र ईरिताः। पराक्रमोंत्साहशौर्यवीर्यधैर्यप्रधानकाः ॥

९९
९. रम्यविन्दुः] मन्दारमरन्दचम्पूः।
आक्षेपादियुता वाचो रसे वीरेऽनुभावकाः ।
रोमाञ्चस्वरभेदाझिकरनेत्रादिकम्पनम् ।।
शुष्कोष्ठतालुकण्ठाद्या अनुभावा भयानके ।
नेत्रास्यघूर्णनं नासामुसाक्ष्याच्छादनानि च ।
निष्ठीवनाद्या वीभत्से अनुभावा रसे मताः ।
हाहाकारः साधुवादः कम्पो गद्गदभाषणम् ।।
निनिमेपप्रेषणाद्या अनुभावाः स्युरद्भुते ।
विभावस्तु ज्ञायमानरसोत्पादनकारणम् ।।
स विभावो द्विधा चालम्बनोद्दीपनभेदतः।
आलम्बनविभावस्तु यमालम्व्याभिजायते ॥
कार्य स स्वाद्वितीयस्तु निमित्तं कारणं मतम् ।
उद्दीपनविभावोऽपि प्रोक्तः प्राज्ञैश्चतुर्विधः ।।
आलम्बनालंकरणं तच्चेष्टा तद्गुणास्तथा ।
तटस्थश्चेति तत्सर्व निर्दिशामि क्रमादिह ॥
आलम्बनविभावास्तु नायकादय ईरिताः।
आलम्बनालंकरणं हारनूपुरपूर्वकम् ॥
तथालम्बनचेष्टास्तु हावभावादयो मताः । .
आलम्बनगुणाश्चापि रूपयौवनपूर्वकाः।।
तटस्थाः शीतकिरणमलयानिलपूर्वकाः ।
माल्यालंकारर्तुगानकाव्यसेवासुधाकराः॥
चन्दनोद्यानगत्याद्याः शृङ्गारोद्दीपका मताः ।
विकृतालंकारवेपाचारच्याहारपूर्वकाः॥
उद्दीपनविभावास्तु रसे हास्ये प्रकीर्तिताः ।
शापेष्टनाशदारिद्यवन्धनव्यसनादयः।।
उद्दीपनविभावास्तु कथिताः करुणे रसे।
संग्रामायुधखगाभिभवायुदितदुर्गिरः॥

१००
काव्यमाला।
है
-
भेदनिर्भर्त्सनाद्याः स्यू रौद्रे तूद्दीपका रसे ।
व्यवसायोत्साहमोहा विषादा विस्मयादयः॥
उद्दीपका रसे वीरे विभावाः कथिता बुधैः।
श्मशानारण्यसंग्राममहासत्त्वादिदर्शनम् ॥
दुःस्वरश्रवणक्ष्मापापराधाद्या भयानके।
वीभत्से चानभिमतगन्धस्पर्शरसेक्षणम् ।।
अहृयश्रवणस्मृत्यादय उद्दीपका मताः ।
शिल्पमायाकर्मरूपातिशयवचांसि च ।।
इन्द्रजालादयः प्रोक्ता अद्भुतोद्दीपका बुधैः ।
अनुभावविभावानां नोदाहरणमीरितम् ।।
सुगमसात्तथैतेषां ग्रन्थगौरवभीतितः।
व्यभिचारिविभावानुभावैर्भावैश्च सात्त्वि कैः॥
एतैः समुल्लासितोऽयं भावः स्थायी रसो मतः ।
अनुभावविभावाधैर्यत्र चित्तस्य विश्रमः ॥
रसं तं बुवतेऽन्येऽन्ये प्रबुद्धस्थायिवासनाम् ।
अलौकिको लौकिकश्चेत्येवं स द्विविधो रसः ।।
आत्मचेतःसंनिकर्षमात्रजातस्खलौकिकः ।
बहिः स्वसंनिकर्षेभ्यः स्यादुद्भूतस्तु लौकिकः॥
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः।
बीभत्सोऽद्भुत इत्यष्टविधः स्यादुभयो रसः ॥
रसोऽपि नवमः शान्तः शमस्थायीति केचन ।
अन्ये तु करुणास्थायी वात्सल्यं दशमोऽपि च ॥
रसस्य तत्र नित्यखान शान्तिनॊदयोऽपि च ।
अनित्यत्वात्तु भावानामस्ति शान्तिस्तथोदयः ।।
रसस्य संधिशावल्ये न केनापि प्रकीर्तिते ।
भावानां संधिशावल्ये सर्वैः कविभिरीरिते ।।

९. रम्यबिन्दुः] मन्दारमरन्दचम्पू: । १०१ अभिलाषाद्यात्मकत्वाद्रत्यादिस्थायिनां पुनः । अतो न रसतैतेषामानन्दात्मा यतो रसः ।। यूनोः परस्परं पूर्णः प्रमोदः शुचिरुच्यते । दैवतं विष्णुरेवास्य वर्णः श्यामः प्रकीर्तितः ।।. संभोगविग्रलम्भाभ्यां शृङ्गारोहिविधो मतः । संभोगः स्याचुम्बनादिभेदाद्यद्यप्यनेकधा ॥ तथापि कामिनीकान्तारब्धमेदा द्विधा मतः । यथा यथा किरत्येषा कटाक्षविशिखान्प्रिये । तथा तथा वह्त्येष सान्द्ररोमाञ्चकञ्चकम् ।। ३६ ॥ यूनोरन्योन्यमुदितेन्द्रियसंबन्धवर्जनम् ॥ स्याद्विप्रलम्भः शृङ्गारः कथितः स तु पञ्चधा । शापप्रवासांभिलाषा वियोगजभेदतः॥ मुन्यादिकोपजोऽश्लेषो विप्रलम्भस्तु शापजः । कुन्तीमलंकृतां पश्यन्मृगयां विव्यथे स्मरन् । प्रवासजो विप्रलम्भः प्रिये देशान्तरोन्मुखे ॥ प्रयाणोद्युक्तकान्तस्य श्रुतिं वृत्तं गतं तदा । प्रमोदेनाश्रुणा तस्याः सार्ध धैर्येण निःसृतम् ॥ ३७ ॥ प्रागसंगतयो'नोरनुरागेऽपि जाग्रति । अयोगः पारतंत्र्यायविप्रलम्भोऽभिलापजः ।। कटाक्षान्किरतोरादौ साकूतं हसतोस्ततः । अयने मेलने देवाद्यदासीतत्कथं ब्रुवे ॥ ३८ ॥ ईष्यासंभूतस्तु मानाद्विश्लेषः सागसि प्रिये । धन्याहं त्वत्रिया नाम प्रापितास्मि शठाद्य यत् । यूनोः कुतोऽपि विश्लेषो युक्तयोश्च वियोगजः ॥ नास्ति किं तत्र चन्द्रोऽयं यन्नाद्यापि समागतः ॥ ३९ ॥ अथ शृङ्गाराङ्करादिहेत्ववस्था दश सुवे। चक्षुःप्रीतिर्मनःसङ्गः संकल्पश्च प्रजागरः ॥

१०२ काव्यमाला। .. अरतिः संज्वरः कार्य लज्जात्यागो भ्रमस्तथा। ततश्चात्मजिहासा स्युरित्यनङ्गदशा दश ॥ 'चक्षुःप्रीतिस्तु कथिता तदेकालोकने रतिः । पश्यन्त्यनिमिषं कान्तमासीच्चित्रार्पितेव सा । मनःसङ्गस्तु मनसस्तदेकासक्तता सदा ॥ कुचसंघर्षणाध्यस्तमथ वा बद्धमेतया । लावण्याम्भसि मग्नं वा गतं नायाति मे मनः ॥ ४०॥ संततं तद्गतां चिन्तां संकल्पं ब्रुवते बुधाः । दुर्लभो वल्लभो नूनं रागोऽपि मम कोऽप्यसौ । नेक्षे दूतीं च निपुणां न जाने भवितव्यताम् ॥ ४१ ॥ प्रजागरस्तु चिन्ताभिर्निद्राक्षतिरहर्निशम् ॥ अविनिद्रं सदाम्भोजशोभामेति तदीक्षणम् । अरतिस्तु भवेद्वेषो हृद्येष्वपि च वस्तुषु । चन्द्रं कलयते राधा चक्रवाकीव पावकम् ॥ ४२ ॥ संज्वरस्तनुसंतापभरः सरशरोद्भवः ।। तप्तलोहीयति जलं बालाकरतलं गतम् । कार्य तु सरसंतापविहिता तनुता तनोः। ऊर्मिकां कंकणं तच्च त(म)नुते गदमद्य सा ॥ ४३ ॥ लजात्यागस्तु कन्दर्पसंतापेन क्ष(त्र)पाक्षतिः॥ उल्लङ्घय मानिनीधर्भ भणितं राधया तया । भ्रमः स्यादयथाज्ञानं चेतनाचेतनेष्वपि । सखीमुखं समालोक्य त्वमित्याभाषते प्रिया ॥ ४४ ॥ आत्मत्यागोद्यमस्त्वात्मजिहासा परिकीर्तिता ॥ प्रविश्य चन्द्रिकाज्वालां पश्यन्तीन्दु निजास्पृहा । प्रलापोन्मादमोहानप्याहुः केचन तद्दशाः । प्रलापो दयिताश्लिष्टगुणालापो मुहुर्मुहुः 1 ९. रम्यविन्दुः] मन्दारमरन्दचम्पूः। १०३ तथा मृदुस्तथा रागी चतुरः सुन्दरस्तथा । मानवत्यपि कान्ता द्वाक्खयमेव यथा ब्रजेत् ॥ ४५ ॥ उन्मादमोहावारात्प्रागत्रैव कथितौ मया। आहुरेता दशाः केचिच्छृङ्गारे त्वभिलाषनें । केचिदाहुर्विप्रलम्भसामान्येऽपि दशा इमाः ॥ ४६॥ हासस्य परिपोषस्तु रसो हास्यः प्रकीर्तितः ।। वर्णोऽस्य शुक्लो देवस्तु सिन्धुरानन ईरितः। हास्यस्य देवता केचिडुवन्ति रजनीकरम् ।। स्वनिष्ठः परनिष्ठश्चेत्यादौ स द्विविधो मतः । स द्वेधापि त्रिधा ज्येष्ठमध्यमाधमभेदतः ।। उत्तमानां स्मितं प्रोक्तं मध्यानां हसितं मतम् । प्रोक्तं तयातिहसितमधमानां कवीश्वरैः ॥ स्वीयहासपंरीपोपो विकृतस्त्रक्रियादिभिः । यः स स्वनिष्ठो हास्यः स्याद्रस इत्युदितो वुधैः ।। प्राचीनस्- लेखिनीमित इतो विलोकयन्कुन कुत्र न जगाम पद्मभूः । तां पुनः श्रवणसीमसंगतां प्राप्य नम्रवदनः स्मितं दधौ ॥ ४७ ॥ अन्यहासपरीपोपो विकृतान्यक्रियादिभिः । परनिष्ठो हास्य इति प्रोक्तः स रसकोविदः॥ मन्दगं वस्त्रमुद्धृत्य मघवन्मणिकुट्टिमे । ततोऽम्भःपतितं वीक्ष्य जहसुद्रौपदीमुखाः । अन्येषां सुगमत्वाच दिङ्मात्रमिति कीर्तितम् ॥ १८ ॥ अनिष्टाप्तीष्टनाशाभ्यां करुणः शोकपोषणम् । केचिदाशाच्छेदजन्येन्द्रियग्लानि च तं विदुः ।। वर्णः कपोतचित्रं स्याद्देवता वरुणो मतः। स्वनिष्टः परनिष्ठश्चेति द्विधा करुणो रसः॥

१०४ काव्यमाला । स्वनिष्ठः करुणः स्वस्य स्वेष्टनाशादिसंभवः । प्राचीनम्- कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् । किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ १९ ॥ परनिष्ठः परानिष्टप्राप्यादिजनितो मतः॥ प्राचीनम्- अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवादितः । रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः ॥ ५० ॥ सर्वेन्द्रियाणामौद्धत्यं यद्वा मात्सर्यपूर्वकैः । क्रोधस्य च परीपोषौ रसो रौद्रः प्रकीर्तितः॥ वर्णो रक्तस्तु रौद्रस्य देवता रुद्र ईरितः। प्राचीनम्- अद्य मिथ्याप्रतिज्ञोऽसौ किरीटी क्रियते मया । शस्त्रं गृहाण वा नो चेन्मौलावारचयाञ्जलिम् ॥ ५१ ॥ सर्वेन्द्रियप्रहर्षस्तु रसो वीरः स तु त्रिधा ॥ दानवीरदयावीरयुद्धवीरविभेदतः। वर्णो गौरो देवता तु त्रिलोकेशः शचीपतिः॥ दानवीरो मतो दानाध्यवसायादिसंभवः । इन्द्राय श्येनरूपाय शिबिर्मासानि दत्तवान् । तस्मै ब्राह्मणरूपाय न दद्यां चर्मवर्म किम् ॥ ५२ ॥ आर्द्रताध्यवसायादेर्दयावीरस्तु संभवः ।। प्राचीनम्- अयि विहंगवराक कपोतकं विसृज धेहि धृतिं मम मेदसा। शिबिरहं विदितो भवता न कि सकलसत्त्वसमुद्धरणक्षमः ॥ ५३ ॥ प्रतापाध्यवसायादिजोत्सवो युद्धवीरकः । संग्रामसंगते रामे दृष्टिश्चापं करः शरम् । सर्वाङ्ग पुलकं चित्तं धृतिर्धावति सत्वरम् ।। ५४ ॥

१०५ ९. रम्यबिन्दुः] मन्दारमरन्दचम्पूः। सर्वेन्द्रियाणां विक्षोभः परिपोपो भयस्य वा ।। भयानकः स तु द्वेधा खान्यनिष्ठविभेदतः। भयानकस्य वर्णस्तु श्यामो देवो यमो मतः॥ खापराधादिसंभूतः खनिष्ठः स्याद्भयानकः । गोपीगृहेषु कृतमाग उदीक्ष्य माता मां ताडयत्यतिरुपति गृहीतशङ्कः। वेषं पुपोष कपटज्वरजर्जराज निःश्वासकम्पबहुलं किल नन्दसूनुः ॥ ५५ ॥ परकीयविभावैश्च परनिष्ठः परस्य चेत् ॥ वृकोदराननादाजी सिंहनादे विनिर्गते । केचिद्भुवं गताः केचित्कम्पिता दुद्रुवुः परे ॥ ५६ ॥ जुगुप्सायाः परीपोपो यद्वा हृद्येक्षणादिभिः । सर्वेन्द्रियाणां संकोचो रसो वीभत्स ईरितः ।। वर्णो नीलो देवता तु महाकाल उदाहृतः। स्वनिष्ठः परनिष्ठश्चेत्येव सोऽपि द्विधा मतः॥ स्वनिष्ठः स्वकृतस्पर्शादिभ्यः स्वस्य भवेद्यदि । मन्दोदरी समाधातुं व्रजन्रामो रणक्षितौ । तादृमज्जादिकं दृष्ट्वा निष्ठीवति विकुञ्चति ॥ ५७॥ परनिष्ठः पराहृयस्पर्शादिश्रवणादिजः ॥ विष्ठाकूपे निमग्नोऽयमिति निष्ठीवति सरन् । विस्मयस्य परीपोषो रसः प्रोक्तोऽद्भुतो वुधैः । वर्णः पीतो देवता तु परमेष्ठी प्रकीर्तितः॥ श्यामवर्ण त्वद्भुतस्य केचिदूचुर्विपश्चितः । खान्यनिष्ठविभेदेन सोद्भुतोऽपि द्विधा मतः॥ खनिष्ठः खस्य संभूतः खकर्मातिशयादिभिः । सदान्तःपुरगा राधा तादृश्यपि कुलाङ्गना। कथं वशं मया नीतेत्याययौ विस्मयं सरन् ॥ ५८ ॥ : ..

१०६. काव्यमाला। : परनिष्ठोऽद्भुतोऽन्यस्य परकर्मादिसंभवः ॥ आनने वीक्ष्य कृष्णस्य ब्रह्माण्डं विस्मिताभवत् । केचिदाहुः प्रवृत्तिं च निवृत्तिं च फलद्वयम् । माया रसः प्रवृत्तौ तु निवृत्तौ शान्त इष्यते ॥ मायारसस्य भावस्तु स्थायी मिथ्यामतिर्मता। विभावा भुक्तिभोगाद्या अनुभावाः सुतादयः ।। हर्षगर्वमदाद्याः स्युर्मायायां व्यभिचारिणः । मिथ्यामतिपरीपोषो मायारस इतीप्यते ॥ यदि रामा यदि च रमा तनयो विनयोदयोपेतः । यदि तनये तनयश्चेत्परलोकेऽस्मारिकमाधिक्यम् ।। ५९ ।। शमस्य परिपोषस्तु रसः शान्त उदाहृतः । अनुभावास्तु मोक्षाद्या विभावा ज्ञानपूर्वकाः ॥ ग्लानिश्रमविषादाद्याः शान्ते स्युर्व्यभिचारिणः । हेयं हयं धनं देयं पेयं तीर्थजलं पदम् । ध्येयं गेयं हरेवृत्तं मनासारसंसृतौ ॥ ६॥ वीडोन्मादमदावेगविषादौत्सुक्यविसयाः॥ शङ्कासूया भयं ग्लानिर्निद्रा व्याधिः स्मृतितिः । चिन्तावहित्था मरणं चापलं जडतापि च ॥ इत्येव विंशतिर्भावाः शृङ्गारे व्यभिचारिणः । केचिदूचुश्च सकलाः शृङ्गारे व्यभिचारिणः ॥ शङ्कासूया'चपलता निद्रा स्वग्नः श्रमस्तथा । अवहित्था ग्लानिरिति हास्ये स्युर्व्यभिचारिणः ॥ दैन्यं ग्लानिर्व्याधिचिन्ते निर्वेदो जडता स्मृतिः। रसे भावा प्रयोक्तव्याः करुणे व्यभिचारिणः ।। हर्षासूयोत्साहगर्वमदाश्चपलतोग्रता । रसे रौद्रे प्रयोक्तव्यास्ते भावा व्यभिचारिणः॥ '.

९. रम्यबिन्दुः] मन्दारमरन्दचम्पूः। वितर्कामर्षसंमोहक्रोधास्यामदोग्रताः। गर्वो विबोध आवेगो वीरे हर्षस्तथा धृतिः ॥ भयानके ग्लानिदैन्ये त्रासश्च मरणं तथा। वीभत्से तु विषादश्चोत्साहो व्याधियं मदः॥ अपस्सारश्च मरणमिति स्युर्व्यभिचारिणः । अद्भुते जडतावेगमोहहास्तथा धृतिः ॥ शृङ्गाराद्धास्यसंभूती रौद्राच करुणो भवेत् । वीरात्स्यादद्भुतोत्पत्तिबीभत्साच भयानकः ॥ अन्योन्यं हास्यकरुणौ तथा वीरभयानको । रौद्राद्भुतौ च शृङ्गारवीभत्सौ शत्रुरूपिणौ ॥ रसाभासस्तु रत्यादेरनौचित्यप्रवर्तने । स्मृत्वा दंदह्यते चेतो दृशाप्यस्पृशती सतीम् । भावाभासस्तु भावानामनौचित्यप्रवर्तने । कटाक्षयति सा बाला पुरा या मां निराकरोत् ॥.६१ ॥ भावशान्तिस्त्वभिव्यक्ते प्रशमे व्यभिचारिणाम् । विमते विनते तस्य दृक्कोणं शोणिमात्यजत् । अथ भोजनृपादीनां मतमत्र प्रकाश्यते ।। रसो वै स इति श्रुत्या रस एकः प्रकीर्तितः। अतो रसः स्वाच्छृङ्गार एक एवेतरे तु न । धर्मार्थकाममोक्षाख्यभेदेन स चतुर्विधः । कथितो धर्मशृङ्गारे धीरोदात्तस्तु नायकः॥ स्वकीया नायिका प्रोक्ता भारती वृत्तिरिष्यते। पौरस्त्या तु प्रवृत्तिः स्यात्पाञ्चाली रीतिरिष्यते ।। कथितश्चार्थशृङ्गारे स धीरोद्धतनायकः । सर्वाश्च नायिकास्तत्र प्रवृत्तिर्मागधी मता ॥ वृत्तिरारभटी ज्ञेया गौडी रीतिः प्रकीर्तिता। नायकः कामशृङ्गारे स धीरललिवो मतः ।।

१०८ काव्यमाला। सर्वाश्च नायिकास्तत्र प्रवृत्तिर्दाक्षिणात्यजा । वृत्तिस्तु कैशिकी ज्ञेया वैदर्भी रीतिरिष्यते ॥ कथितो मोक्षशृङ्गारे धीरशान्तस्तु नायकः । . खकीया नायिका लाटी रीतिवृत्तिस्तु सात्वती । अवन्त्या तु प्रवृत्तिः स्यादथोदाहरणक्रमः। धरामपालयद्धर्माद्राजा धार्मिकशेखरः । सपत्नान्दुर्जयाञ्जित्वा तद्राज्यमहरबलात् ॥ ६२ ।। तथा तथानुरक्तोऽभूत्सा पश्यति यथा यथा । जजाप राम रामेति भ्रामयन्नक्षमालिकाम् ॥ ६३ ॥ अथ रीतिप्रवृत्तीनां ब्रूमहे लक्षणान्यपि । रीतिः प्रोक्ता गुणश्लिष्टपदसंघटना बुधैः ।। वैदर्भी लाटिका गौडी पाञ्चालीति चतुर्विधा। बन्धा पारुष्यरहिता शब्दकाठिण्य(न्य)वर्जिता । नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते । कुन्दचन्दनमन्दारैः समा चन्द्रांशुसंचयैः । कीर्तिस्ते गोपकान्तानां संततं कान्त राजते ॥ ६४ ॥ शान्तार्णबहुला दीर्घसमासा लाटिका मता ॥ लसतां पदपझे ते राम राम सदा हृदि । ओजःकान्तिगुणोपेता गौडी रीतिरितीर्यते । एष दुर्वारदोवीर्यशर्वरीचरगर्वहा ।। ६५ ।। पाञ्चाली चापि वैदर्भी गौडी रीत्युभयात्मिका ।। राजा विराजते सोऽयमर्थिसार्थेप्सितार्थदः । प्रवर्तनं प्रवृत्तिः स्यादतिप्रेम्णार्जनादिषु । पौरस्त्या च तथावन्त्या मागधी दाक्षिणात्यजा ॥ एवं चतुर्विधा प्रोक्ता प्रवृत्तिः सा तुं कोविदः । प्रवर्तनं स्यात्पौरस्त्या धर्मकीार्जनादिषु ॥ अस्थिरासारसंसारे धर्मकीर्तिद्वयं स्थिरम् ॥ ६६॥. .

१०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। अवन्त्या तु प्रवृत्तिः स्यात्सदा निर्वाणकासया । सदास्तु ते पदध्यानं किं मे स्वर्गसुखादिभिः । अर्थार्जनप्रवृत्तिस्तु प्रवृत्तिर्मागधी मता ॥ क्षणाद्राज्यं हरिष्यामि निगृह्य रिपुसंचयम् । भोगार्जनप्रवृत्तिस्तु प्रवृत्तिर्दाक्षिणात्यजा । प्रियागमनवेलेयं शय्यां कल्पय दूतिके ॥ ६७ ॥ वर्गेष्वाद्यतृतीयाश्च यवलाश्चातिकोमलाः ॥ धनौ रमौ शसौ हश्च वर्णाः शान्ताः प्रकीर्तिताः। शेषाष्टवर्गः सर्वोऽपि परुषाः परिकीर्तिताः ॥ परुषा अन्यसंयुक्ता अतिप्रौढा भवन्ति हि । कोमला अन्यसंयुक्ता यान्तीपत्सुकुमारताम् ।। असंलक्ष्यक्रमं व्यजयं सप्रपञ्च निरूपितम् । तुष्यन्तु परिगृह्णन्तु निर्मत्सरतया बुधाः॥ जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटेऽलंपटेन । गुहपुरनिलयेन प्रोद्धृतो रम्यबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ।। इति श्रीमद्धटिकाशतंशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगी- श्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमरन्दे चम्पूप्रवन्धे रम्यविन्दुर्नवमः समाप्तिमगमत् । , ... व्यन पविन्दुः। व्यङ्गचविन्दावलंकारध्वनिलक्षणलक्ष्ययोः। महे बालवोधाय तोपाय विदुषामपि । अलंकरोति शब्दार्थावित्यलंकार इष्यते । द्विधा शब्दार्थभेदेन शब्दालंकृतयस्तु षट् ॥ छेको वृत्तिस्तथा लाटोऽनुप्रासपदपूर्वगाः पुनरुक्तवदाभासो यमकं चित्रमित्यपि ॥ क्रमात्सजातीयवर्णद्वयस्यावर्तनं यदि । व्यवधानं विना तत्र च्छेकानुप्रास इष्यते ॥ " मन्दा० १० ܘ̈;; काव्यमाला। -- सजातीयाव्यवहितवर्णा द्वित्रादयो यदि । आवर्तन्ते तदा केचिच्छेकानुप्रासमूचिरे ॥ कुं जगामाजगामाजाराधिका राधिकापि याम् । राजराजन्मुखः कामरामो रामोत्सवो गतः ॥ १॥ एकद्विप्रभृतीनां तु व्यञ्जनानां यदा भवेत् । आवृत्तिरनियत्यात्र वृत्त्यनुप्रास इष्यते ॥ कुले गुञ्जमृङ्गपु मजुमञ्जीरशिञ्जितम् । कुलेषु केलौ संजातं मञ्जुलाक्ष्या न लक्ष्यते ॥२॥ तात्पर्यभेदवद्यत्र भवेच्छब्दार्थयोर्द्वयोः । पौनरुक्त्यं तत्र लाटानुप्रासं परिचक्षते ॥ चातुरी चातुरी सैव या श्रिता राधिका विटम् । शब्दे भिन्नेऽपि यत्रार्थः पुनरुक्तवदश्चति । पुनरुक्तवदाभासोऽलंकारस्तत्र कथ्यते ॥ अर्थालंकारमेनं तु केचिदूचुर्विपश्चितः। महादेवं शिवं कृष्णं माधवं प्रणमत्यसौ ॥ ३ ॥ लक्षणं चित्रविन्दौ प्रोक्तं यमकचित्रयोः॥ अथात्रार्थालंकृतीनां लक्षणोदाहृती ब्रुवे । उपमानन्वयो भ्रान्तिः प्रतीपं रूपकं स्मृतिः। उपमेयोपमोल्लेखः परिणामस्त्वपळुतिः । उत्प्रेक्षातिशयोक्तिश्च संदेहस्तुल्ययोगिता ॥ प्रतिवस्तूंपमा चैव दीपकावृत्तिदीपके । दृष्टान्तो व्यतिरेकश्च सहोक्तिश्च निदर्शना.॥ विनोक्तिश्च स सोक्तिः श्लेषः परिकराङ्कुरः। अप्रस्तुतप्रशंसा पर्यायोक्तं परीकरः॥ व्याजस्तुतिाज न्दाथाक्षेपः प्रस्तुताङ्कुरः । विरोधाभासविष विशेपोक्तिरसंभवः ।। . तु

१११
१०, व्यङ्ग्यविन्दुः] मन्दारमरन्दचम्पूः।
विभावनासंगतिश्च विचित्रमधिकं समम् ।
व्याघातोऽल्पं विशेपश्चान्योन्यं कारणमालिका ॥
एकावली यथासंख्यं मालादीपकमप्युत ।
पर्यायः परिवृत्तिश्च परिसंख्या समुच्चयः ॥.
विकल्पश्च समाधिश्च सारः कारकदीपकम् ।
काव्यार्थापत्तिरुल्लासः प्रत्यनीक विकस्वरः ॥
मिथ्याध्यवसितिः काव्यलिङ्गं संभावना तथा ।
अवज्ञार्थान्तरन्यासः प्रौढोक्तिललितं तथा ।।
अनुज्ञोदात्तलेशौ च प्रहर्पणविपादने ।
मुद्रा रत्नावली पूर्वरूपं तद्गुणमीलिते ।।
अतद्गुणश्चानुगुणः सामान्यं पिहितं यथा।
उन्मीलितोत्तरे सूक्ष्म विशेपो भाविकं तथा ।
व्याजोक्तिर्विवृतोक्तिश्च गूढोक्तियुक्तिरेव च ।
छेकोक्तिश्चैव लोकोक्तिः स्वभावोक्तिस्ततः परम् ॥
वक्रोक्तिश्च तथा चित्रं प्रतिपेधो विधिस्तथा ।
निरुक्तिहेतुरित्येवमलंकारशतं मतम् ।।
रसवान्प्रेय ऊर्जस्वित्समाहितमतः परम् ।
भावोदयो भावसंधिर्भावशावल्यमप्यथ ।।
प्रत्यक्षमनुमान चोपमानं शब्द एव च ।
अर्थापत्तिरनुपलब्धिरैतिचं संभवस्तथा ॥
इत्थं पुनः पञ्चदशालंकाराः कथिता बुधैः।
संसृष्टिः संकरश्चेति द्विधोक्तानां च मेलने ॥
इत्थं मिलित्वालंकाराः शतं सप्तदशोत्तरम् ॥
उपमा-]
स्वतःसिद्धेन मिन्नेन संमतेन च धर्मतः।
वर्ण्यस्यान्येन साम्यं च वाच्यं चेदेकदोपमा ।
-

११२ काव्यमाला॥ सा तूपमा द्विधा प्रोक्ता पूर्णा लुप्तेति भेदतः । साधारणस्य धर्मस्य ह्युपमानोपमेययोः ।। वाचकस्य च योगे तु सैव पूर्णेति संमता । पुनश्च द्विविधा पूर्णा सा श्रौत्यार्थीविभेदतः ।। श्रौती तु साक्षात्सादृश्यवाचकेवादियोगके। सा धर्मि(H)व्यवधानेन सादृश्यप्रतिपादकाः ॥ प्रतीकाशादिशब्दाः स्युः पूर्णार्थी तत्र कीर्तिता। समासगे तद्धितगे वाक्यगे इति ते पुनः॥ द्वे च विधेत्थं पूर्णेयं षड्डिधा परिकीर्तिता । भास्वानिवोदयालम्बी नेत्रानन्दकरो हरिः । इत्यत्र कथिता सम्यक्पूर्णा श्रौती समासगा ॥ ४ ॥ धरवदृढतुझस्य कुचस्यांशुकमस्पृशत् । अत्र तद्धितगा पूर्णोपमा श्रौती प्रकाशिता ॥ ५॥ पझं यथा वितनुते मुखं राधामुखं तथा । इत्यत्र वाक्यगा पूर्णा श्रौती सम्यक्प्रकीर्तिता ॥६॥ आलिङ्गत्यसकृत्कान्त्या कान्तां कामसतीनिभाम् । हरिरित्यत्र कथिता पूर्णा चार्थी समासगा ॥ ७ ॥ सौन्दर्ये कामकान्तावत्त्वं कान्ते भासि संततम् । इत्यत्रार्थी तद्धितगा पूर्णा सम्यक्प्रकाशिता ॥ ८॥ कान्तानेत्रे विराजते कान्त्या पद्मस्य संनिभे । इत्यत्र वाक्यगा पूर्णोपमा चार्थी प्रकीर्तिता ॥ ९ ॥ यत्रैकद्विवलोपे वा तत्र लुप्तोपमा मता। अधर्मा चावधामेयाधमेयावाचका तथा ।। अमेयवावाधमेयाधनवावानकाधना। अनमेति च सा लुप्ता त्वेकादशविधा मता ॥ लाघवेन प्रवृत्त्यर्थमित्थं संज्ञाः प्रकीर्तिताः। धर्मस्य चानुपादाने सैवाधर्मोपमा मता ॥

११३
..
१०.व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः।
आर्थी श्रौती च सा द्वेधा ते द्वे च त्रिविधे पुनः ।
समासगे तद्धितगे वाक्यगे इति पड्विधा ।।
' चुचुम्ब चन्द्रसदृशं राधिकावदनं हरिः।
इत्यत्राधर्मोपमा स्यादार्थी प्रोक्ता समासगा ॥ १० ॥
कन्दर्पकल्पमजाक्षं मुहुः पश्यति राधिका ।
इत्यत्राधर्मोपमा स्यादार्थी तद्धितगा मता ॥११॥
दूति बोधय तां कान्तां तुल्यां प्राणैर्ममोक्तिभिः ।
इत्यत्राधर्मोपमा स्यादार्थी वाक्यगता मता ॥ १२ ॥
राधिकाया मुहुर्भाति विधुविम्बमिवाननम् ।
इत्यत्राधर्मोपमा स्याच्छौती प्रोक्ता समासगा ॥ १३ ॥
तस्याः पश्य ध्रुवौ भातश्चन्द्रवत्सुन्दरे मुखे ।
इत्यत्राधर्मोपमा साच्छौती तद्धितगा मता ॥ १४ ॥
यथा मधुकरः पद्मे तथा कान्तामुखे भवान् ।
इत्यत्राधर्मोपमा स्याच्छौती वाक्यगता मता ॥ १५ ॥
धर्मवाचकलोपे तु तत्र सादवधोपमा ।
सा तु कर्मक्यचाधारक्यचालुमा किपा तथा ।।
कर्तृणमुल्कर्मणमुल्लुप्ताकर्मक्यडेति च ।
समासगेति विबुधैः सप्तधा परिकीर्तिता ।।
विद्रुमीयति तन्नासा मौक्तिकं तेऽधरप्रभा ।
इत्यत्र संमता कर्मक्यचा लुप्तावधोपमा ॥ १६ ॥
समाधवा निकुञ्जेऽपि प्रासादीयति राधिका ।
इत्यत्र संमताधारक्यचा लुप्तावधोपमा ॥ १७ ॥
इन्दुबिम्बति ते वक्रं कण्ठः कम्बवति प्रिये ।
इत्यत्र विबुधैः प्रोक्ता किपा लुप्तावधोपमा ॥१८॥
माननाराचचारे तत्कटाक्षाः संचरन्त्यहो ।
मयीत्यत्र मताकर्तृणमुलुप्ता वधोपमा ॥ १९ ॥

११४
काव्यमाला।
राधाधरं सुधादर्श, माधवः परिचुम्बति ।
इत्यत्र प्रस्फुटाकर्मणमुल्लुप्तावधोपमा ॥ २० ॥
हन्तकान्ताविप्रलम्भे चन्द्रश्चण्डकरायते ।
इत्यत्र कीर्तिता कर्तृक्यकालुप्तावधोपमा ॥ २१ ॥
याहि सत्वरमजाक्षं दूति तापः सुदुस्तरः।
अस्मिन्समासगा प्रोक्ता विबुधैरवधोपमा ॥ २२ ॥
उपमेयानुपादाने तत्रामेयोपमा मता।
सापि द्विधार्थी श्रौती च ते द्वे च त्रिविधे पुनः ।
समासगे वाक्यगे च तथा तद्धितगे च षट् ॥
राधिकासदृशी कान्ता नास्ति मत्तोषकारिणी।।
इत्यत्रामेयोपमा स्यादार्थी प्रोक्ता समासगा ॥ २३ ॥
माधवस्य समो लोके नास्ति राधामनोहरः ।
इत्यत्रामेयोपमा स्यादार्थी चाक्यगता मता ॥ २४ ॥
राधाकल्पा न काप्यन्या कामकेलीकलावती।
इत्यत्रामेयोपमा स्यादार्थी तद्धितगा मता ॥ २५ ॥
नास्त्येव कापि भूलोके राधिकेवातिसुन्दरी ।
इत्यत्रामेयोपमा स्याच्छौती प्रोक्ता समासगा ॥ २६ ॥
अन्या नास्ति तथा कापि यथा राधा मम प्रिया ।
इत्यत्रामेयोपमा स्याच्छौती वाक्यगता मता ॥ २७ ॥
राधिकावन्न कुत्रापि गोप्यां कृष्णमनोहतिः ।
अत्र तद्धितगामेयोपमा श्रौती प्रकीर्तिता ॥ २८॥
धर्मोपमेयानिर्देशे वधमेयोपमा मता।
सापि खमेयोपमेव श्रौती तद्धितगां विना ॥
राधिकासदृशी नास्ति यन्मुकुन्दमनोहरा ।
अत्राधमेयोपमा स्यादार्थी सूक्ता समासगा ॥ २९ ॥
राधायाः सदृशी नास्ति यन्मुकुन्दमनोरमा ।
अत्राघमेयोपमा स्यांदार्थी वाक्यगता मता ॥ ३०॥

.
१०. व्यङ्गय बिन्दुः] मन्दारमरन्दचम्पूः
राधाकल्पा न काप्यस्ति यद्गोपीशतसेविता ।
इत्यत्रार्थी तद्धितगा त्वधमेयोपमा मता ॥ ३१ ॥
राधिकेव न लोकेऽस्ति यन्मुकुन्दपदे सदा ।
रतेत्यत्राधमेया स्याच्छौती प्रोक्ता समासगा ॥ ३२ ॥
यथा राधा तथा नैव यत्कृष्णातिदयोदया।
अत्र वाक्यगता श्रौती त्वधमेयोपमा मता ॥ ३३ ॥
अधमेयोपमा चेयं न सर्वमतसंभता ।
वाचकस्यानुपादाने स्यात्तत्रावाचकोपमा ।
किपा लुप्ता क्यङा लुप्ता त्रिविधेति समासगा ॥
खञ्जरीटति चाञ्चल्ये प्रोष्ठीपृष्ठायते द्युतौ ।
पद्मपत्रस्फुरन्नेत्र्या नेत्रमित्यत्र सा त्रिधा ॥ ३४ ॥
वाचकस्योपमेयस्याप्यनिर्देशश्च यत्र सा ।
अमेयवोपमा तत्र प्रोक्तालंकारकोंविदैः ॥
राधाया अधरश्चारुर्माधुर्येण सुधीयति ।
उपमेयस्य धर्मस्य लोपश्चेद्वाचकस्य च ।
कर्मक्यचावाधमेयोपमा तत्र प्रकीर्तिता ॥
कल्पशाखीय ति सतां गोपिकाजनकामुकः ॥ ३५ ॥
उपमानेन धर्मेण लुप्ता चेद्वाचकेन च ।
तदा समासगा-प्रोक्ता प्राज्ञैरवनवोपमा ।।
कुरङ्गाक्षी सदापाङ्गान्करोति मयि राधिका ।
वाचकस्योपमानस्य लोपे चावाचकोपमा ।
मन्दं राधा समायाति मृगराजाल्पमध्यमा ॥ ३६॥
धर्मोपमानयोलोपे प्रोक्ता तत्राधनोपमा।।
आर्थी श्रौतीति सा द्वेधा कीर्तिता द्विविधा यथा ॥
मदेभसंनिभगतिः कदा यातीह राधिका ।
कथं द्रुतं गच्छंसि त्वं करिणीव गतिस्तव ॥ ३७॥

काव्यमाला। उपमानस लोपश्चेत्तत्र स्यादनमोपमा । अनायासमभूत्तस्य राधिकायाश्च मेलनम् । काकतालवदुद्याने निर्जने यमुनातटे ॥ ३८ ॥ सकृत्पृथग्धर्मिकाभ्यां सोपमा द्विविधा पुनः ।। तत्र वावर्ण्यगस्य धर्मस सकदेव तु । निर्देशे सति तत्राद्या स्यात्सकृद्धर्मिका मता। जनाः प्रणम्रशिरसः सेवन्ते राधिकापतिम् । साधूनां हृदयानन्दं गुरुं शिष्या यथा तथा ।। ३९ ।। उपमानगतस्यास्याप्युपमेयगतस्य च । पृथग्धर्मस्य निर्देशे सा पृथग्धर्मिका मता ॥ सा तु वस्तूपमा बिम्बोपमाभेदाद्विधा मता। वस्तुप्रतिवस्तुभावेन निर्देशे प्रथमा मता ॥ कुचस्थली कुरङ्गाक्ष्या मालया परिलालिता। मेरुस्थलीव गङ्गाया घारया समलंकृता ॥ ४० ॥ बिम्बप्रतिबिम्बभावेन निर्देशे त्वपरा मता। स्फुरत्कृष्णनखश्रीकमिदं राधाकुचस्थलम् । शिवलिङ्गमिवाभाति चन्द्रलेखाविभूषितम् ॥ ११ ॥ मालारूपोपमा मालारूपेणापि कचिद्भवेत् ॥ पद्माति कञ्जकान्ताति कामकान्ताति राधिका । पूर्वपूर्वसमानत्वमुत्तरोत्तरवस्तुनः । मेखलारचनन्यायाधदि स्याद्रशनोपमा ॥ सौन्दर्यमिव चातुर्य चातुर्यमिव धीरता । धीरतेव चटूक्तिश्च राधिकायां विराजते ॥ ४२ ॥ [अनन्वयः- एकस्यैवोपमानोपमेयत्वे वस्तुनो यदि । अनन्वयः स तु द्वेधा सधर्माधर्मभेदतः ।। . . .

- १०.व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। कामकेलीकलाभिज्ञा राधिकेव च राधिका । कृष्णस्य सदृशं कृष्णं मुहुरालिङ्गय चुम्बति ॥४३॥. भ्रान्ति:---] तिरोहिते च विषये सादृश्यात्कविसंमतात् । विशेष्यावृत्तिविषयज्ञानं भ्रान्तिरितीर्यते । सा त्वेकविषयान्योन्यविषयेति द्विधा मता ॥ राधिकामुखमम्भोजं मत्वा मत्तमधुव्रतः । परिभ्रमन्पर्यचुम्बदकविषया मता ॥.४४ ॥ राधिका माधवं मत्वा निशि खपतिमागता । सोऽपि तां मालती मत्वा चुचुम्बेत्यत्र चापराः ॥ ४५ ॥ [प्रतीपम्-] उपमानप्रतीकूलः प्रतीपं धर्म इष्यते । तत्तु पञ्चविधं प्रोक्तं पश्चापि ब्रूमहे क्रमात् ।। उपमानोपमेयत्वव्यत्यासे प्रथमं मतम् । उदितोऽयं विधू राधे पश्य ते मुखसंनिमः। द्वितीयं तूपमानस्याप्युपमेयत्वलाभतः। उपमेयस्य चेद्भर्वपरिहारवचो मतम् ।। त्यज गर्व मुखेन त्वं तादृशश्चन्द्रमा न किम् ।। ४६ ॥ व्यत्यासं परिकल्प्यादावुपमानोपमेययोः । कल्पितस्योपमेयस्योत्कर्षादन्यस्य चेद्यदि । तृतीयं तु प्रतीपं स्यादनादरवचस्तदा । विष कः क्रौर्यगर्वस्ते त्वादृशं दुर्वचो न किम् । वर्योपमाना निष्पत्तिवचोऽन्यसिंश्चतुर्थकम् । जनापवादो दुर्जेयस्त्वन्मुखाभः शशीति यः ॥ ४७ ॥ उपमेयस्य चोत्कर्षात्कैमर्थ्यं यत्र कथ्यते ॥ उपमानस्य तत्र सात्प्रतीपं पञ्चमं मतम् ।

काव्यमाला। वृथोदयति निर्लजः शशी सति तवानने । प्रतीपं पञ्चमं केचिदाक्षेपं. परिचक्षते ।। [रूपकम्-] विम्वा विशिष्टे विषये न तिरोहितरूपिणि । आरोपविषयीभूतं रूपकं चोपरञ्जकम् ॥ तद्रूपकं मतं द्वेधाभेदताद्रूप्य भेदतः। आरोपे सत्यभेदस्साभेदरूपकमिष्यते ॥ प्रमोदं तनुतेऽस्माकं राधिकाया मुखं शशी ॥ ४८ ॥ ताद्रूप्यस्य समारोपे सति ताद्रूप्यरूपकम् । मुदं तनोति राधाया मुखमन्यः सुधाकरः। अधिकं च समं न्यूनं सावयवं चैव निरवंयवम् । किं च परम्परितं चेत्येवं चाभेदरूपकं पोढा ॥ पूर्वावस्थात आरोप्यमाणस्याधिक्यदर्शने । अवस्थायां तु तस्यां चेदधिकाभेदरूपकम् ॥ आश्रित्य राधिका त्यक्तकलङ्कश्चन्दिरोऽभवत् ॥ ४९ ।। न्यूनताधिक्ययोश्चैवानिर्देशे समभीरितम् । राधिकाया मुखं साक्षाचन्द्र एव न संशयः। प्राग्दशातो न्यूनता चेत्तन्यूनाभेदरूपकम् ।। असागरोद्भवः साक्षात्सुधांशुस्ते मुखं सखि ॥ ५० ॥ समस्तवस्तुविषयमेकदेश विवति च । इति सावयवं चापि द्विविधं परिकीर्तितम् ।। यत्रावयविनश्चैवावयवानां समासतः । समस्तवस्तुविषयं भवेत्तत्र निरूपणम् ॥ राधिकावदनाम्भोज सखदे कृष्णबंभरः । अथास्यविनो यत्रावयवानां निरूपणात् । निरूपणं गम्यते स्यादेंकदेशविवर्ति तत् ॥ लावण्यपयसा पुष्टं सदाधरमधूल्लसत् ।। ५१ ।। . .

१०.व्यजयबिन्दुः] मन्दारमरन्दचम्पूः। तिलकभ्रमरश्लिष्टं हरिः पश्यति तन्मुखम् । यत्रावय विनिरूपणमात्रेऽवयवनिरूपणमात्रे(?) वा। तन्निरयवं ज्ञेयं कविसंरम्भस्य विश्रान्तिः।। तद्वेधा केवलं माला तयोर्लक्ष्ये त्रुवे क्रमांत् । सिचयान्तश्चले तस्याः कुचकुम्भेऽकरोत्करम् ॥ ५२ ॥ सौन्दर्याब्धिलता कान्तेर्वाणः कामस्य या प्रिया । तत्परम्परितं यत्तु रूपकाश्लिष्टरूपकम् ॥ तदपि द्विविधं प्रोक्तं श्लिष्टाश्लिष्टविभेदतः । तद्व्यं च पुनर्द्वधा मालाकेवलभेदतः॥ अथोदाहरणान्येतद्भेदानां ब्रूमहे क्रमात् । श्यामालंकारशीतांशुः सुमनोवृन्दमाधवः ॥ ५३ ॥ कमलोदयमार्तण्डः स जीयान्नन्दनन्दनः। श्रुतिशेखरविस्फूर्जन्मखुलास्योरुमण्डले ॥ ५४ ॥ नन्दसूनोनरीनति राधिकापाङ्गनर्तकी। मारदावानलासारः कृष्णप्रेमलतामधु[:] ॥ ५५ ॥ वासुदेवचकोरेन्दुबिम्बं जयतु राधिका । राधिकानलिनीवत्रकुसुमभ्रमरो हरिः ॥ ५६ ॥ खेलत्युच्छृङ्खलं गोपललनाराममण्डले । समाधिकन्युनभेदात्रिधा ताद्रूप्यरूपकम् ॥ सुगमत्वान्न लक्ष्मतल्लक्ष्याणि महे क्रमात् । पङ्कजं पश्य कान्तेति राधयोक्तः स माधवः ।। ५७ ।। उवाचान्येन किं तेन सुन्दरे सति ते मुखे । निशामुकुलितात्पद्मान्मुखपद्मं मनोहरम् ॥ ५८ ॥ इति ब्रुवन्नाससाद राधां माधवषट्पदः । असागरसमुद्भूतामत्रिविष्टपवासिनीम् । अन्यां कल्पलतामेनां हरिः पश्यति राधिकाम् ।। ५९ ॥

१२० काव्यमाला। केचिदाहुश्चाष्टचत्वारिंशद्भेदांश्च रूपके ॥ [स्मृतिः--] सदृशानुभवादन्यसरणं स्मृतिरिष्यते । .' केवलात्मविशेषात्मभेदात्सा द्विविधा मता ॥ स्मरणे सदृशस्यैव केवलस्मृतिरीरिता। हरिः सस्मार राधाया मालती कामकेलिषु । विशेषस्मृतिरित्युक्ता संबन्धिसरणे सति ॥.. माधवो राधिकां पश्यन्क्षीरपाथोधिमस्मरत् ॥ ६०॥ [उपमेयोपमा] उपमानोपमेयत्वे पर्यायेण द्वयोर्यदि। सोपमेयोपमा द्वेधा सधर्माधर्मभेदतः ॥ सुन्दरी मालतीवासौ राधा राधेव मालती। राधिका मालतीवासौ राधिकेव च मालती॥ ६१ ॥ [उल्लेखः-] अनेकधोल्लेखनं तु विषयैर्वा गृ(ग्रोहीतृभिः। एकस्य वस्तुनोऽनेकैरुल्लेखालंकृतिर्मता ॥ विषयग्राहि(ह)कोल्लेखभेदेन द्विविधोऽपि सः। विषयाणामनेकत्वे विषयोल्लेख इप्यते । श्लिष्टाश्लिष्टविभेदेन द्वेधा लक्ष्यं त्रुवे क्रमात् ।। उग्रः शत्रौ गुरुर्वाण्यां चन्द्रो नेत्रप्रहर्षणे । खर्दुरर्थिषु लावण्ये कन्दो राधिकाविटः ॥ १२ ॥ गृ(प्र)हीतॄणामनेकत्वे ग्राहि(ह)कोल्लेख इप्यते । तमीक्षन्ते स्त्रियः कामं द्विषः कालं जना नृपम् ॥ ६३ ॥ [परिणामः-] प्रकृतस्योपयोगित्वाद्विषयात्मतया भवेत् । • विषयी परिणामस्तदा मतः॥

१०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। १२१ सामानाधिकरण्येन व्यधिकरणतया तथा । विषयात्मसमापन्नः स द्वेधा द्विविधो यथा ।। प्रसन्नेन दृगजेन राधिका वीक्षते हरिम् ।... विधाय राधिका. शश्वत्कटाक्षः पुष्पमालिकाम् । प्रत्यग्रामर्पयामास प्रसन्नां नन्दनन्दने..॥ ६४ ॥ [अपडुतिः-] अभेदप्रतिपत्त्यङ्गाङ्गिखान्यतरवाँस्तथा । निषेधोऽपह्नुतिः सा तु द्विविधाङ्गाङ्गिभेदतः॥ अभेदप्रतिपत्त्यङ्गत्वं निषेधस्य चेद्यदि । अङ्गापहुतिरित्युक्ता सा चतुर्धा प्रकीर्तिता ॥ शुद्धापह्नुतिपर्यस्तहेतुकैतवभेदतः । वयेऽन्यारोपफलको वर्ण्यधर्मस्य निह्नवः ।। कैतवादिपदाव्यङ्गयस्तथानुक्तनिमित्तकः । सा शुद्धापह्नुतिः प्राज्ञैः प्रोक्तालंकारकोविदैः ।। राधिकाया मुखं नेदं किं तु चन्दिरमण्डलम् । वर्येऽन्यारोपफलकस्खन्यधर्मस्य निवः । कैतवादिपदाव्यङ्ग्यः पर्यस्तापङतिर्मता । हेतुकेवलभेदेन सा द्वेधा परिकीर्त्यते ॥ कालकूटो विषं नैव विषं पद्मा मता मम ॥ ६५ ॥ पीत्वा जागति यच्छंमुहरिः पश्यन्विमुह्यति । नायं सुधाकरः किं तु मुखं तस्याः सुधाकरः ॥ ६६ ।। शुद्धैवोक्तनिमित्ता चेदेखपढुतिरिष्यते । श्लिष्टाश्लिष्टविभेदेन द्वेधा सा परिकीर्तिताः ।। न मुखं भ्रमराघातमिदं किं तु सरोरुहम् । नेदं सरोरुहं नैशं किंतु शुम्रांशुमण्डलम् ॥ ६७ ॥ --- कैतवादिपदव्यङ्गयो निषेधो यत्र दृश्यते । मन्दा. ११ १२२ काव्यमाला। .. वर्ण्यधर्मस्य तत्र स्यात्कैतवापढुतिर्मता ॥ शुद्धहेतुविभेदेन द्विविधा सापि कीर्तिता। आधैकधान्त्या द्विविधा श्लिष्टाश्लिष्टविभेदतः ॥. बिम्बमेव वरीवर्ति राधाया अधरच्छलात् । निर्यान्ति कामविशिखाः कान्ताक्ष्यन्तेक्षणच्छलात् ।। ६८ ॥ नो चेत्तरुणसंक्षोभस्तत्तादृक्षः कथं भवेत् । परिस्फुरति पाथोज कामिनीवदनच्छलात् । नो चेत्कथं भवेत्तस्य चुम्बने भ्रमरादरः ॥ ६९ ।। यथा वा। इदं कुवलयं भाति जानकीनयनच्छलात् । नो चेतादृग्रामराजप्रेमपात्रं कथं भवेत् ॥ ७० ॥ अभेदप्रतिपत्त्यङ्गित्वं निषेधस्य चेत्तदा । स्थादग्यपहुतिद्वेधा छेकभ्रान्तिविभेदतः॥ वाक्यान्यथायोजनेन निषेधस्तथ्यवस्तुनः । शङ्कातोऽन्यस्य चेत्तर्हि छेकापह्नुतिरुच्यते ॥ पाण्याहतोऽपतत्पादे कान्तः किं नहि कन्दुकः । निषेधोऽन्यस्य चेद्धान्तिविषयस्य च वस्तुनः। स्वकीयवचसा तत्त्वकथनाद्धान्त्यपहुतिः। सा तु द्विधा केवला च कल्पिता चेति भेदतः ॥ सोच्छासं सहकम्पं तापं बहुलं सखीह न सहेऽहम् । किं ज्वरभारो नहि नहि सशरः संनद्धकार्मुकः कामः ॥ ७१ ॥ नाहं हिमगिरिजापतिरपि रतिहरणे पटुः सुरद्वेषी । बाधय तावबलां मा बाधय किं तेन. ते यशो. भवति ॥ ७२ ।। तत्त्वाख्यानोपमा केचिद्धभषुः कल्पितामिमाम् । (अथोत्प्रेक्षा-) अवर्ण्यधर्मसंबन्धादर्थे संभावना भवेत् । अन्यत्वेन मतोत्प्रेक्षा वाच्या गम्येति.सा द्विधा ।। . . ..

१ १०. व्ययबिन्दुः] मन्दारमरन्दचम्पूः । १२३ इवादीनामुपादाने वाच्योत्प्रेक्षेति कथ्यते । इव खित्किं किमुद्वापि किमु किंनु कथं ननु ॥ मन्ये शके नु हूं प्रादुः प्रायो नूनं खलु ध्रुवम् । किमु स वत नामाहो उत्प्रेक्षाबोधका इमे ॥ जातिक्रियाद्रव्यगुणभेदाद्वाच्या चतुर्विधा । चतुर्विधापि च द्वेधा भावाभावविभेदतः॥ अष्टधापि पुनस्त्रेधा वस्तुहेतुफलात्मना । खरूपं च खभावश्च वस्तिमे चैकवाचकाः॥ वस्तूत्प्रेक्षा द्विधोपात्तानुपात्तहेतुभेदतः । गुणक्रियानिमित्तखाभ्यामुपात्तनिमित्तकाः ॥ वस्तुहेतुफलोत्प्रेक्षा द्विविधाः परिकीर्तिताः। एतादृशी क्रियावस्तूत्प्रेक्षैव द्विविधा पुनः॥ उक्तानुक्तस्वरूपाभ्यां पुनस्तु सकला अपि । द्विधाहेतुफलोत्प्रेक्षाः सिद्धासिद्धविभेदतः ॥ एवं च वाच्योत्प्रेक्षाः स्युश्चतुर्भिरधिकं शतम् । प्राचीनानां मते वाच्योत्प्रेक्षाः षण्णवतिः स्मृताः॥: नवीनाः केचिदूचुस्तां षट्पञ्चाशद्विधामपि । इवादिकानुपादाने गम्योत्प्रेक्षां प्रचक्षते ॥ जातिक्रियाद्रव्यगुणभेदात्सापि चतुर्विधा । भावाभावविभेदेन चतुर्धापि च सा द्विधा ॥ इमाः सर्वाः पुनलेधा वस्तुहेतुफलात्मना । द्वेधा हेतुफलोत्प्रेक्षे सिद्धासिद्धविभेदतः ॥ गुणक्रियानिमित्तखाभ्यां सर्वा द्विविधा इमाः । एवं च गम्योत्प्रेक्षायां भेदाश्चाशीतिरीरिताः ॥ दिङ्मात्रं ग्रन्थबाहुल्यभीत्योदाहियते क्रमात् ।। मन्दीभवन्खान्वयजातराघवप्रदत्तलङ्काधिपतित्वमीक्षितुम् । विभीषणस्यास्ति न वेति चिन्तया दिशं जगामेव यमस्य भास्करः ॥७३॥ ."

१२७ काव्यमाला। करकलितचारुवीटी कुम्भकुचाक्रान्तकुसुम्भमयशाटी। कान्ता कामवधूटी तरुणान्मोहितुमिहैति कर्णाटी ।। ७४ ॥ (अथातिशयोक्ति:-) यच्चानुपात्तविषयाहार्यस्य विषयं तथा। निर्णयस्य हि चाभेदताद्रूप्यान्यतरच तत् ॥ द्विविधातिशयोक्तिः सा भेदताद्रूप्यभेदतः। अभेदातिशयोक्तिश्चाहार्योऽभेदस्य चेद्यदि ॥ वयस्य पश्य तमसा बद्धं शीतांशुमण्डलम् । ताद्रूप्यातिशयोक्तिः स्यात्ताद्रूप्यारोपणे सति । पश्य स्फुरति मित्रात्र मुक्तलक्ष्मा क्षपाकरः ॥ ७५॥ अभेदातिशयोक्तिस्तु शुद्धभेदकभेदतः॥ संबन्धात्यन्तचपलासंवन्धाक्रमभेदतः । सापह्नवा चेति बुधैरष्टधा परिकीर्तिता ॥ मेदकातिशयोक्तिस्तु वर्ण्यस्यान्यसंवर्णनम् । अन्येयं चातुरी तस्या अन्या लावण्यपद्धतिः । संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम् ॥.. सूर्याश्वा विश्रमन्त्यत्र ग्रीष्मे गोपुरगहरे ॥ ७६ ॥ पौर्वापर्यव्यतिक्रान्तिः कार्यकारणयोर्यदि । अत्यन्तातिशयोक्तिस्तु तदा प्राज्ञैः प्रकीर्तिता ।। आदौ महानभूत्लेहः पश्चाद्दर्शनमावयोः । चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे । यास्यामीति प्रियोक्तेयमूर्मिकां तनुतेऽङ्गदम् ॥ ७७ ॥ योगेऽप्ययोगोऽसंबन्धातिशयोक्तिः प्रकीर्तिता ॥ न सेवे भोजनानन्दं सति त्वयि वरानने । समकालत्वेऽक्रमातिशयोक्तिहेतुकार्ययोः । राधा तदैवानुरक्ता यदा वीक्षति माधवः ॥ ७८ ॥ सापहवेति सा प्रोक्ता यद्यपढुतिगर्भता ॥

१२५ , १०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। लतायां चन्द्रमा भाति भ्रान्ताः पश्यन्ति तं दिवि ॥ (अथ संदेहः-) विषयी विषयचोभौ विषयौ संशयस्य चेत् । कविसंमतसादृश्यात्संदेहालंकृतिर्मता । शुद्धा निश्चयगर्भेति सा द्वेधा परिकीर्तिता ॥ राधा हैमलता वेयं मालती वा वरानने । राधिका किमियं भीता दिवा नायाति सा पुनः । मालतीवाधुनैवागाद्नेई केयं न विद्महे ॥ ७९ ॥ (अथ तुल्ययोगिता-) वर्ष्यानां वाप्यवानां साम्यं केवलधर्मतः । कथ्यते चेत्तत्र तुल्ययोगिता सा त्रिधा मता ॥ शुद्धा हिताहिता चैव समामा चेति भेदतः। शुद्धापि द्विविधा प्रोक्ता वावर्ण्यविभेदतः ॥ पूर्वाचलप्रान्तमाजि. स्फुरद्राकानिशाकरे । संकुचन्ति सरोजानि खैरिणीवदनानि च ।। ८० ॥ राधिके तव सौन्दर्य दृष्ट्वा जानीमहे वयम् । कालिन्द्याः कमलायाश्च काषायालम्बनं वरम् ॥ ८१ ॥ हिताहितापि तु हिताहितयोस्तुल्यवर्तनम् । श्लिष्टाश्लिष्टविभेदेन सांद्वेधा परिकीर्तिता ।। अलंकारातियोगं स शत्रोमित्रस्य चाकरोत् । पूजकस्य च्छेदकस्य मन्दारः कटुरेव सः ॥ ८२ ।। गुणोत्कृष्टैः समीकृत्य समाभा प्रतिपादनम् । अनेकवाहिनीयुक्तो नृपो जाड्येन वर्तनात् । समुद्रोऽपि भवत्याशु सर्वदा मुखभगवान् ॥ ८३ ।। अथ प्रतिवस्तूपमा) उपमानोपमेयार्थी पृथरवाक्यद्वये यदिः॥ सामान्येन विनिर्दिष्टौ प्रतिवस्तूपमा मता। साधर्म्यवैधय॑भेदात्सा द्वेधा परिकीर्तिता ।।

१२६
काव्यमाला।
प्राचीनम्-
कवितारसचातुर्य रसज्ञो वेत्ति नो कविः ।
सुतासुरतचातुर्य जामाता वेत्ति नो पिता ॥ ८४ ।।
आराधितोऽपि नीचः परिदर्शयति खकीयकटुभावम् ।
न जहाति पारिभद्रः पयसा सिक्तोऽपि नैजकटुभावम् ॥ ८५ ॥
(अथ दीपकम्-)
वर्ष्यानामध्यवर्ध्यानां धर्मैक्यं दीपकं मतम् ।
दुर्जनधिषणाभीक्ष्णं मृगयति दोषान्गुणेषु विलसत्सु ।
पत्यौ तरुणे सत्यपि जातिविहीनं विटं कुलटा ।। ८६ ॥
(अथावृत्तिदीपकम्-)
तत्पदार्थोभयावृत्तौ सत्यामावृत्तिदीपकम् ।।
स्तननति वृद्धावृन्दं स्तननति कण्ठीरवस्य चारावः ।
विलसति कमलश्रेणी स्फुरति च मल्लीमतल्लिकाशैली ॥ ८७ ।।
साकूतं वीक्षते राधा वीक्षते पश्य मालती ।
(अथ दृष्टान्त:-)
चेद्धिम्बप्रतिविम्बत्वं भिन्नवाक्यार्थधर्मयोः ।
दृष्टान्तः स तु साधर्म्यवैधाभ्यां द्विधा मतः॥
मुकुन्द एव गोपीनां कदम्बं तोषयत्यहो।
वसन्त एव वल्लीनां विकासयति संचयम् ॥ ८८ ।।
मुकुन्ददर्शनादेव सस्मितं राधिकाननम् ।
निद्राति तावन्नलिनं यावन्नोदेति भानुमान् ।। ८९ ।।
(अथ व्यतिरेक:-)
भेदप्रधानसाधर्म्यमुपमानोपमेययोः ।
व्यतिरेक स तु त्रेधाधिकन्यूनसमात्मना ।
स्मरेण सदृशः सोऽभूत्तथापीय भिदा तयोः ।
वियुक्तस्मयहाद्यतत्कीन्यः वचेष्टितैः॥ ९०॥

१०. व्यायबिन्दुः] मन्दारमरन्दचम्पूः। १२७ मञ्जुलनासा विहिता विटकरपरिलालिता श्यामा । तरुणीव तव किरीयं किं स ग्रहणात्करोति दृक्क्षोभम् ॥ ९१ ॥ प्राचीनम्- दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥ ९२ ॥ (अथ सहोक्तिः- सहार्थेनान्वयः प्रोक्तः सहोक्तिः कविरञ्जकः। स्थिते कृष्णधराधीशे याचकानीकमध्ययोः । देहीति शब्दो दिक्प्रान्तान्की| साकं ययौ स्यात् ।। ९३ ॥ (अथ निदर्शना-) वाक्यार्थस्योपमानस्साभेदारोपो हि दृश्यते । उपमेये च वाक्यार्थे तत्र शुद्धा निदर्शना ।। बन्धुजीवाधराया यदधरे वीटिकार्पणम् । इदं दीपकदम्बेन प्रकटीकरणं रवेः ॥ ९४ ॥ उपमानोपमेयान्यतरस्सिन्कथिता बुधैः । तदन्यतरधर्मस्यारोपश्चान्या निदर्शना ।। कान्ते याते मुखे लीला दृश्यते सा सरोरुहे। खञ्जरीटविलासं ते धत्ते नेत्रयुगं सखि ॥ ९५ ॥ सतोऽसतो वाप्यर्थस्य परेषां क्रिययात्मनः । निबध्यते बोधनं चेदपरा स्थानिदर्शना ।। सुमनःसंगमः पुंसां महोन्नतिषु कारणम् । इति ब्रुवंस्तन्तुरल्पोऽप्यभवद्राजमौलिगः ॥ ९६ ॥.. हतः शत्रुरिति ज्ञात्वा, तेजखी न परिभ्रमेत् । इत्याजगामान्धकारः पुनरस्तंगते रवौ ॥ ९७ ॥ (अथ विनोक्तिः-) विना संबन्धिना येन केनचिद्वर्ण्यवस्तुनः । . अरम्यता रम्यता वा. विनोक्तिरिति कथ्यते.॥

१२८ काव्यमाला । १ तादृक्षमपि चातुर्य सौन्दर्य तव मानिनि। व्यर्थमेवेति.जानीहि सरसं दयितं विना ॥ ९८॥ विना क्रूरखरं काकमाकन्दं मकरन्दितम् । गाहव गाढं गन्तारः कोकिलं मन्वते जनाः ॥ ९९ ॥ (अथ समासोक्ति:-) अप्रस्तुतपरिस्फूर्तियंत्र प्रस्तुतवर्णने । समासोक्तिर्द्विधा सापि श्लिष्टाश्लिष्टविभेदतः॥ आदौ रक्तो गोभिः संमान्यैन्द्रीमुखं चुचुम्बायम् । अद्य.समुज्झितरागः स्पृहयति भूयोऽपि वारुणीं गन्तुम् ॥१०॥ (प्राचीनम्-) विदितं ननु कन्दुक ते हृदयं प्रमदाधरसंगमलुब्ध इह । करतामरसाभिहतः पतितः पतितः पदतः पुनरुत्पतसि ॥ १०१॥ (अथ श्लेष:-) नानार्थसंश्रयैः शब्दैः साधर्म्यप्रतिपादनम् । वर्ष्यावर्योभयेषां चेंच्छ्लेषालंकृतिरिष्यते ॥ लसद्वराहश्री~क्तकमलाश्लिष्टसद्रसः । स सूर्यः सर्वदा. भूयात्तेजखी मङ्गलाय ते ॥ १०२ ॥ सदानभोगेन राज्ञा सदृशं ते मुखं संखि । राजा तव' प्रियो भूयात्सदा कुवलयप्रभुः ॥ १०३ ॥ प्राचीनम्- सर्वालंकारयुक्तापि न श्लिष्टा-तरुणीव सा । वाणी मनोजातसुखं प्रौढानां न तनोति हि ॥ १०४ । (अथ परिकरः-).. साभिप्राय विशेष्यं चेत्प्रोक्तः परिकराङ्कुरः । त्वदङ्गालोकने तन्वि पौलोमीवल्लभः पटुः । (अथाप्रस्तुतप्रशंसा-) अप्रस्तुतप्रशंसा. तु प्रस्तुतं यदि गम्यते । अप्रस्तुतस्य कथनात्सारूप्यादिनिबन्धनात् ॥

। १०. व्यङ्ग्यविन्दुः] मन्दारमरन्दचम्पूः। १२९ सारूप्यस्य तथा कार्यात्कारणस्य विशेषतः । सामान्यस्य विशेषस्य सामान्याकारणात्तथा । कार्यस्येति च पञ्च स्युः प्रतिपत्तिविभेदतः ।। प्राचीनम्- वेलावनाली यदि नीरदानां निषेवते नीरनिषेचनानि । गम्भीरता वा बहुनीरता वा तरङ्गिता वा जलधेर्वथैव ॥ १०५ ॥ कलाहीनोऽभवच्चन्द्रो राधिके ते मुखोदये । आलिङ्गनोत्सुकापीयं नवोढा न स्पृशत्यमुम् ॥ १०६ ॥ कामकेलीसमारम्भे लज्जामाप वरानना । मुञ्च मुञ्च विभो क्लेशं तद्भर्ता मधुरामगात् ॥ १०७ ॥ (अथ पर्यायोक्तम्--) प्रकारान्तरमाश्रित्य तद्विवक्षितवस्तुनः । सुचारु कथनं यत्र पयायोक्तं तंदिष्यते ॥ कन्धरायां सैन्धवास्यं वन्धुरं यस्य सुन्दरम् । बन्धनच्छेदको भूयादन्धुरानन्दपाथसः ॥ १०८ ॥ (अथ पर्यायोक्तम्-) प्रस्तुतस्यैव कार्यस्य वर्णनात्प्रस्तुतं तथा । कारणं गम्यते तत्रान्यत्पर्यायोक्तमीरितम् ।। कृष्ण साद्य सनिःश्वासं कृशाङ्गी भुवि लुण्ठति । खस्साथ वा परस्यष्टकार्यसंपादनं मिपात्। .. पयायोक्तं तदन्यत्स्यादिति केचित्प्रचक्षते ॥ (प्राचीनम्-) नवमल्लिकासजमभीष्टतमःशुचिसंभवां प्रणयिनीशिरसि । क़लयन्वयं न कुशलेति किल प्रतिघट्यत्युरुंकुचावुरसा ॥ १०९ ।। अये ननन्हसहिता बजामि निज़मन्दिरम् । पिधायाररमा प्रातः सुखं स्खपिहि सुन्दरि ॥ ११ ॥ १. अररं कपाटम्.

१३० काव्यमाला " (अथ परीकर:-) परीकरः परिकरः साभिप्राये विशेषणे । दद्यात्ते संपदो राजन् केशवः कमलापतिः ॥ (अथ व्याजस्तुतिः-) : स्तुत्या वा गम्यते निन्दा निन्दया गम्यते स्तुतिः। व्याजस्तुतिरसौ यत्र स्तुत्या वा गम्यते स्तुतिः ॥ त्वामेव प्रेयसी नूनं जानामि मम दूतिके । त्वदीयाभिरनेकाभिः क्रियाभिर्यत्स तोषितः ॥१११ ॥ साध्वि धिक् त्वां वृथा भर्तृसेवाशुष्कासि संततम् । दृशापि न स्पृशस्येनं तादृशं सरसं विटम् ॥ ११२॥ सुकृतं कृतमेतेन किं पद्मन न विद्महे । यतः शातोदरीपादसमतासुखमीहते ॥ ११३ ॥ (अथ व्याजनिन्दा-) व्याजनिन्दा मता निन्दा निन्दया गम्यते यदि । विधिरेव विनिन्द्योऽयं किमागस्तव सुन्दरि । कन्दर्पकल्पानीहक्षान्पल्लवान्निर्ममे यतः॥ ११४ ॥ (अथाक्षेपः-) आक्षेपोऽपवाद्भिन्नो निषेधो जनरञ्जनः । स चाभासितसंगुप्तभेदावेधा प्रकीर्तितः ॥ शुद्धाक्षेपस्तृतीयः स्यादिति केचित्प्रचक्षते । शुद्धाक्षेपो निषेधश्चेत्स्वोक्तस्यैव विचारणात् ।। आनय प्रेयसी दूति यद्वा सागच्छति स्वयम् । आभासिताक्षेप उक्तो विशेषप्रतिपत्तये । वक्ष्यमाणस वोक्तस्य निषेधाभासकीर्तनम् ।। वक्ष्यमाणोक्तभेदेन स द्वेधा परिकीर्तितः। वक्ष्यमाणाक्षेप उक्तो वक्ष्यमाणनिषेधतः ।

१०. व्यङ्ग्यविन्दुः]
मन्दारमरन्दचन्यूः।
१३१
विज्ञापयामस्ते किंचिद्दाशार्हकुलशेखर ।
विज्ञापनं किमथ वा सर्वज्ञे रक्षके त्वयि ।। ११५ ॥
केचित्तु-
वक्ष्यमाणो भवेद्वेधा सामान्यांश विभेदतः ।
प्रतिज्ञाय च सामान्यं निषेधः कथनस्य चेत् ।।
सामान्यवक्ष्यमाणाख्य आक्षेपः परिकीर्तितः ।
भस्योदाहरणम् 'विज्ञापयामः' इत्यादि ।
अंशापोऽपि चांशोक्तावंशान्तरनिषेधतः ॥
सर्वलोकाधिपः कृष्णो यूयं चार्कफलोपमाः ।
तद्युक्तमेवमथ वा किमुक्तैरिति साब्रवीत् ॥ ११६ ।।
इत्याहुः।
उक्ताक्षेपो भवेट्रेधा सवस्तुकथनात्मना ।
वस्तुनस्तु निषेधश्चेद्वस्वाक्षेप इतीर्यते ।
सारसारसपत्राक्षि सखी नाहं स माधवः ।
भ्रामं भ्रामं निकुजेपु मुहुः शुष्यति ताम्यति ॥ ११७
कथनस्य निषेधश्चेत्कथनाक्षेप उच्यते ॥
रक्षणीयोऽहमित्युक्ती रक्षादीक्षे कथं त्वयि ।
तिरोहिते निषेधे च व्यक्तेऽनिष्टविधी सति ।
संगुप्ताक्षेपनामासावलंकारः प्रकीर्तितः॥
गच्छ गच्छसि चेच्छीघ्रं वृथा किमु विलम्बसे ।
मारसुन्दर तत्रैव कन्याया मे. वरो भव ॥ ११८ ॥
(अथ प्रस्तुताङ्कुरः
प्रस्तुते वर्ण्यमाने तु प्रस्तुतान्तरवस्तुनः।
सारूप्येण द्योतनं चेत्तत्र स्यात्प्रस्तुताङ्कुरः॥
प्राचीनम्-
कमलिनि मलिनीकरोपि चेतः किमिति बकैरवहेलितानभिज्ञैः।
परिणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दाः ॥११९॥

१३२ काव्यमाला। है . (अथ विरोधाभासः-) आपाततो विरोधश्चेद्विरोधाभास इष्यते जात्यादीनां विरोधाः स्युर्जातिद्रव्यक्रियागुणैः ॥ तस्मादयं दशविधः कथितः श्लेषजीवितः। निरूपणं तु जात्यादेः शेषविन्दौ भविष्यति ।। रजन्तो लोअमिअंराएत्ति जणेहिं सलहणिजोसि । माहव णिरिव कहं सा रत्ता वि वलक्खिआ जाआ॥ १२० ॥ सुगमत्वादिहैतेषां दिङ्मात्रमिति. दर्शितम् । (अथ विषमम्-) घटनानहयोर्यत्र घटना विषमं मतम् । केयं कनकवर्णाङ्गी सुन्दरी कामिनीमणिः । क पतिस्तादृशों वक्रः कीदृशी घटना विधेः ॥ १२१ ॥ हेतोर्विरूपकार्यस्योत्पत्तिश्च विषमं मतम् ।। सितान्कटाक्षान्सृजति नेत्रमिन्दीवरप्रभम् । इष्टार्थोद्यमतोऽनिष्टप्राप्तिश्च विषमं मतम् । माष्टुं कलकं शीतांशुर्मुखं सोऽजनि सुभ्रवः । तत्रापि तिलकव्याजात्कलङ्कक्लेशमन्वभूत् ॥ १२२ ॥ इष्टार्थोद्यमनाद्यत्र नेष्टानाप्तिश्च केवलम् । अनिष्टस्याप्यवाप्तिश्चेदपरं विषमं मतम् ॥ पाञ्चालीसङ्गसंमोदकाङ्ख्या रङ्गमन्दिरम् । प्रविष्टः कीचकस्तत्र सद्यो मर्दनमन्वभूत् ।। १२३ ।। परानिष्टार्थमुद्योगात्स्वानिष्टाप्तिश्च तन्मतम् ॥ दिधक्षन्हनुमत्पुच्छमन्वभूत्वपुरक्षयम् । (अथ विशेषोक्तिः-) विशेषोक्तिरनुत्पत्तिः कार्यस्य सति कारणे । 'रजयलोकमिमं राजेति जनैः श्लाघनीयोऽसि । माधवप कथं सा रक्तापि वलक्षिता जाता ॥' इति च्छाया. १.

१३३ : १०. व्यङ्ग्यबिन्दुः] . मन्दारमरन्दचम्पूः । उभयोः सदृशं रूपं चातुर्य विजनस्थितिः। अहो तथापि देवेच्छा नाभूत्सङ्गसुखं तयोः ।। १२४ ॥ (अथासंभव:-) असंभवोऽर्थनिष्पत्तेरसंभाव्यखकीर्तनम् ।। को वेद बालः फालाक्षचापमारोपयेदिति । (अथ विभावना- विनापि कारणं कार्यस्योत्पत्तिः स्याद्विभावना । अनाहतोऽपि मीनाक्ष्या तामेवासौ निषेवते । विभावना परा धर्मविकलेनापि हेतुना ॥ उत्पत्तौ यदि कार्यस्य संबन्धविकलेन वा । अद्वैः कौसुमैः शस्त्रैरजयज्जगदात्मभूः ॥ १२५ ॥ कार्योद्भवश्चेत्प्रत्यहे सत्यप्यन्या निदर्शना । पत्यौ सुप्तेऽपि पार्श्वे सा मामाश्लिष्यति कामिनी । विभावना चतुर्थी चेत्कार्योत्पत्तिरकारणात् ॥ इन्दीवरदलात्पश्य निःसरन्ति सिताः शराः । विरुद्धहेतोः कार्य चेत्पश्चमी स्याद्विभावना । कर्पूरपङ्कः(काः ।) कब्जाक्षी हन्त संतापयन्ति ताम् । षष्ठी विभावना प्रोक्ता कार्यात्कारणजन्म चेत् ॥ प्राचीनम्- अम्बुजमम्बुनि जातं कंचिदपि.न च जातमम्बुजादम्बु । बाले नवरतिकाले तवाक्षिसरोजाद्विगलितमम्बु ॥ १२६॥ . (अथासंगति:-) भिन्नाधिकरणत्वे तु कार्यहेत्वोरसंगतिः । कृष्णे विभ्रति भूभारं विनम्रा जनमौलयः । अन्यत्र करणीयस्य वस्तुनोऽन्यत्र चेद्यदि । करणं तत्र विबुधाः द्वितीयासंगतिं विदुः । राजन्प्रत्यर्थिवामाजी कर्ण नयनेऽकरोत् ॥ १२७ ।। मन्दा० १२ १३४ काव्यमाला। M कार्यं कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिश्च सा ॥ मोहं हतु प्रवृत्तोऽपि बल्लवीर्मोहयत्यसौ । (अथ विचित्रम्-) विचित्रं विपरीतश्चेत्तत्प्रयत्नः फलेच्छया। . महत्सुखमवाप्तुं ते भवन्ते शैलवासिताम् ॥ १२८ ॥ (अथाधिकम्-). आधाराधेययोरानुरूप्याभावोऽधिकं द्विधा ।। पृथुलादपि चाधारादाधेयाक्षेपया स्वतः। आधेयाधिक्यकथनमधिकं प्रथमं मतम् ।। अनन्तेष्वपि वेदेषु न विश्राम्यति ते स्तुतिः । विशालादपि चाधेयादाधाराक्षेपया स्वतः। आधाराधिक्यकथनं द्वितीयमधिकं मतम् ।। प्रादेशमात्रे यत्कुक्षौ ब्रह्माण्डानि लुठन्ति हि ॥ १२९ ॥ (अथ समम्-) समं स्याद्योगकथनं वस्तुनोरनुरूपयोः। मिथोऽनुरूपयोः प्रीती राधामाधवयोरभूत् । कारणेनानुरूप्यं च कार्यस्यान्यत्समं मतम् ।। अबलाहननं युक्तं जातिभ्रष्टस्य ते मघो॥ १३० ॥ अनिष्टमन्तरा स्वेष्टकार्यसिद्धिर्यदा भवेत् । इष्टार्थोद्यमनात्तत्र तृतीयं सममिष्यते ॥ मा रणं कुरु पुत्रेति जनकेन नियोजितः । पितुराज्ञामनुल्लङ्घय मारणं कृतवान्द्विषाम् ॥ १३१ ।। (अथ व्याधातः-) यत्कार्यसाधनत्वेन प्रसिद्धं यज्जगत्तले । तत्तद्विरुद्धकार्यस्य येन केनापि साधनम् ॥ क्रियेत यदि तंत्राद्यो व्याघातः परिकीर्तितः।

. १०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। १३५ कुसुमैः प्रीयते लोको हन्ति तैरेव तं स्मरः [ : यत्कार्यसाधनत्वेन चैकेनोपात्तवस्तु च ।।... तत्प्रतिद्वन्द्विनान्येन तद्विरुद्धस्य साधनम् । क्रियेत चेद्वितीयस्तु व्याधातः परिकीर्तितः ॥ दिठिविअग्छ मअणं जा दिद्विआ एव्व जिव्वेन्दिः । सुविरुव्वअक्खधिक्किइणिवुणाणं करेम्हि खु त्युई तासम् ॥१३२|| विशेषकार्यनिष्पादकतया येन केनचित् । संभाव्यमानादांच सौकर्येण समर्थ्यते ॥ तद्विरोधिक्रियान्येन चेयाघातोऽपरो मतः दारिद्यशङ्कामासाद्य मैवं दानपरो भवः । तामेव शङ्कामासाद्य .तात. दानपरोऽस्म्यहम् ॥ १३३ ॥ (अथाल्पम्-) अल्पं तुः सूक्ष्मादाधेयादाधारस्यातिसूक्ष्मता ॥ कनिष्ठिकोमिका कान्ता कण्ठाभरणमातनोत् । (अथ विशेष:-) विना प्रसिद्धमाधारमाधेयस्य व्यवस्थिते । कथनं प्रथमान्यत्र विशेषालंकृतिर्मता । विना कासारमम्भोज पश्य विद्युति राजते ॥ १३४ ॥ व्यत्यासोऽन्यो विशेषः स्यादाधाराधेययोर्यदि । कुसुमेषु भ्रमराणां स्थितिरिह दृष्टा न चालिषु सुमानाम् । अधुनालकमधुपालौ दृष्टा कुसुमस्थितिः सरोजाक्ष्याः ॥ १३५ ॥ अप्रकल्प्यान्यदाधारं प्रसिद्धाधारमन्तरा। स तृतीयो विशेषश्चेदाकल्पं कथ्यते स्थितिः ॥ प्राचीनम्- दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो न तें वन्द्याः ॥ १३६ ॥ 'दृष्टिविदग्धं मदनं या दृष्टयैव जीवयन्ति । सुविरूपाक्षधिकृतिनिपुणानां कुर्मः खलु स्तुति तासाम् ॥' इति च्छाया. . + १.

१३६ काव्यमाला। .. . . - चतुर्थोऽपि विशेषश्चेदनेकत्रैकवर्णनम् । यत्र यत्र गता दृष्टिस्तत्र तत्रापि सैव मे । एकस्यारम्भतोऽशक्यकार्यान्तरकृतिश्च सः॥ विद्वंस्त्वां पश्यता लब्धं कमलाकान्तवीक्षणम् ॥ १३७ ॥ (अथान्योन्यम्-) परस्परोपकारस्य कथनेऽन्योन्यमिष्यते । लक्ष्म्या विराजते राजा राज्ञा लक्ष्मीविराजते । (अथ कारणमाला- पूर्वपूर्व क्रमेणोत्तरोत्तरं प्रति हेतुताम् । भजते यदि संप्रोक्ता तदा कारणमालिका ॥ सद्विद्यया नयोत्कर्षों नयोत्कर्षेण संपदः । संपद्धिर्भवति त्यागस्त्यागेन विपुलं यशः ॥ १३८ ।। तथोत्तरोत्तरं पूर्वपूर्वकारणतां यदि । लभते चेद्वितीया तु तदा कारणमालिका ॥ भवति त्रिदिवः पुण्यात्पुण्यमैश्वर्यतो भवेत् । ऐश्वर्य दानतो दानं वैराग्यात्तत्सुसङ्गतः ॥ १३९ ।। (अथैकावली-). विशेषणखकथनं पूर्वपूर्वान्प्रति क्रमात् । यत्रोत्तरोत्तरेषां चेदियमेकावली मता ।। राधामुखं चन्द्रसारं चन्द्रो माधववक्त्रमाः । माधवः कामसदृशः कुशलाय सदा मम ॥ १४० ॥ पूर्वपूर्वेषां तथोत्तरोत्तरं प्रति च क्रमात् । विशेषणलकथनं द्वितीयैकावली मता ॥ कान्तामुखामं यत्तस्य यो वैरी स यदुद्भवः । तं योऽकरोत्तस्य मूलं यस्तन्नेत्रः स पातु वः ॥ १४१॥ प्रथमैवापोहिता चेत्तृतीयैकावली मता।

- १०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। १३७ न तद्राज्यं प्रजा यत्र न संतुष्टा न ताः प्रजाः । यासां न सुप्रभु यं सुप्रभुन हरिहृदि ॥ १४२ ।। (अथ यथासंख्यम्-) पूर्वोद्दिष्टपदार्थानां पश्चादपि यथाक्रमम् । अनूद्देशो भवेत्तत्र यथासंख्यं प्रकीर्तितम् ।। प्राचीनम्- वीटीकराया विरहातुराङ्गी चेटीमवादीदिह चित्तजेषुः । प्राणप्रियो जीवितमर्धरात्रोऽप्यायाति नायाति न याति याति ॥१४३॥ क्रमालंकारमेतच्च केचिदूचुर्विपश्चितः । (अथ मालादीपकम्-) दीपकैकावलीयोगश्चेन्मालादीपकं मतम् ।। संपत्तिर्वसुधां प्राप्ता वसुधा कृष्णभूभृतम् । कृष्णभूभृद्यशोराशिं यशोराशिर्जगत्रयम् ॥ १४४ ॥ (अथ पर्यायः- , एकस्य वस्तुनोऽनेकेष्वाधारेषु प्रवर्तनम् । क्रमेणैकैकसंत्यागात्पर्यायः प्रथमो मतः ॥ आदौ पृथ्वीकिटेर्दष्ट्रां ततः फणिपतेः शिरः । त्रेतायां रामदोर्दण्डं पश्चाद्यौधिष्ठिरीं भुजाम् ॥ १४५ ॥ आधारेवनेकेषु तथैकस्य प्रवर्तनम् । पर्यायोपि द्वितीयः स्यादेकैकत्यागतः क्रमात् ।। ओष्ठ एव पुरा राग इदानी हृदि दृश्यते । इमं विकासपर्यायाभिधं केचित्प्रचक्षते । एकस्मिन्नेव चाधारेऽनेकाधेयप्रवर्तनम् । पर्यायेण तृतीयश्चेत्पर्यायः परिकीर्तितः॥ बाल्यमादौ वयः पश्चादधुना स्थाविरं तयोः ॥ १४६ ॥ (अथ परिवृत्तिः-) समाधिकानां न्यूनानां समन्यूनाधिकैः समम् । यदा विनिमयस्तत्र परिवृत्तिरलंकृतिः ॥ ॥

'काव्यमाला। . प्रीतिं दत्त्वा सरोजाक्षी जगृहे कामिनों मनः । तुलसीमञ्जरीमेकां दत्त्वा भेजुहेरेः कृपाम् । दत्त्वा सुधामुचो वाचः कविर्भजे कपर्दिकाम् ॥ १४७ ॥ (अथ परिसंख्या-) एकस्य वस्तुनः प्राप्तिरनेकत्रैकदा यदि । निषिध्यैकत्र चान्यत्र परिसंख्या नियन्त्रणम् ।। सा तु द्विधा मता प्रश्नपूर्विकाप्रश्नपूर्विका । निषेधस्यापि शाब्दत्वार्थत्वाभ्यां ते द्विधा पुनः ।। अश्लिष्टश्लिष्टभेदेन सर्वा अपि पुनर्द्विधाः । एवं चाष्टविधा प्रोक्ता परिसंख्या मनीषिभिः ।। कः कटुभावं भेजे दुर्जननिकरो न पारिभद्रतरुः । किं क्रूरं जगति भृशं पतिसुतहीनाझनाहृदयम् ।। १४८.॥ हृदयं भगवति सुधियो न तु परतरुणीभकुम्भकुचमारे । सुमनोजननिचयानां स्तुतिरपि कमलापतेश्चरण एव ॥ १४९ ॥ कस्योपपत्यभावः स्त्रैणस्य न तु सुधीकदम्बस्य । कुत्र च विषमहितत्वं कमलाकर एव रामराज्यभरे ।। १५० ॥ अविहतवीराभिमता धुमणिपुरी नापि रामराजपुरी । सन्मालागुणभङ्गस्वधरप्रीतिः सुरत एव ॥ १५१ ।। (अथ समुच्चय:-) गुणक्रियोभयेषां वा यौगपद्यं समुच्चयः । माधव तव दयितेयं विरहपरीवाहविप्लुता सुतनुः । अलसा मलिना दीना विवशा शुष्का निरीक्षते मार्गम् ॥ १५२ ।। किं चास्याः शृणु वृत्तं माधव यमुनातटीनिकुञ्जेषु । विलुठति ताम्यति शेते भ्राम्यति नितरां मुहुर्मुहुः श्वसिति ॥ १५३ ॥ १. उपपतेारस्य, उपपत्तेर्युक्तेः. २. विषैर्मृणालैर्महितत्वं, विषमाणां दुर्जनानां हि. तत्वं च. ३. 'न विमुखं (अर्थात्संमुखं) हतैर्वीरैः, अविभिर्मेपैर्हतैमारितैवीरैः, मारि- तमेषकैर्वा. ४. सतो मालागुणस्य, सुधीश्रेणिगुणस्य, ५, अधरे नीचे ओष्टे च.

१०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। धावति मुहुरुत्कम्पं व्याकुलतारं समीक्षते भूयः । प्रलपति विस्खलदक्षरमुदयदैन्यं तनोति सा चेष्टाः ॥ १५४ ॥ केचित्तु भिन्नविषयेऽप्येनमाहुः समुच्चयम् ।। माधवः प्रेक्षते राधा कन्दर्पो विशति र्खयम् । अहंप्रथमिकाभाजां बहूनां कार्यसाधने । कारणानां समुद्योगः स द्वितीयः समुच्चयः ॥ विनयो दक्षता त्यागो माधुरी चातुरी धनम् । विद्या वयः कुलं रूपमुत्तमं कथयन्ति तम् ॥ १५५ ॥ (अथ विकल्पः- विकल्पस्तुल्यवलयोर्विरोधः कथ्यते यदि । कौरवाः क्रियतां मूनी धनुषां वा विनम्रता । (अथ समाधिः- एककार्यस्य सौकर्य कारणान्तरसंनिधेः । काकतालीयनियमात्समाधिस्तत्र कीर्त्यते । मानं तस्याः परीहाँ पादयो, पतिष्यतः । उपकाराय दैवेन हिमांशुरुदयं गतः ॥ १५६ ॥ (अथ सार:-) उत्तरोत्तरमुत्कर्षः सारालंकार उच्यते । सुन्दरी शारदा तस्याः पद्मा तस्याश्च राधिका । उत्तरोत्तरमश्लाघ्यगुणोत्कर्षोऽप्यसौ मतः। प्राचीनम्- तृणाल्लघुतरस्तूंलस्तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥ १५७ ।। (अथ कारकदीपकम्-) एककारकगानां तु क्रियाणां कालभेदतः। गुम्फनं क्रियते यत्र तत्र कारकदीपकम् ।। .

काव्यमाला। - निवारितोऽपि शतशो याचको धनिनां भटैः । गच्छत्यागच्छति पुनारे तिष्ठति पृच्छति ॥ १५८ ॥ (अथ काव्यार्थापत्तिः- कैमुत्येनार्थनिष्पत्तिः काव्यापत्तिरीरिता । स मागधो जितस्तेन का वार्तान्यमहीभृताम् । (अथोल्लास:-) एकस्य वस्तुनो यत्र गुणेनान्यस्य वस्तुनः । गुणस्य वर्णने तस्मिन्नुल्लासः प्रथमो मतः ॥ यदयं तादृशीं राधां सेवते नन्दनन्दनः। एको धन्यतमो नूनमितरे तु भुवो भरः ॥ १५९ ।। एकस्य वस्तुनो यत्र दोषेणान्यस्य वस्तुनः । दोषस्तु वर्ण्यते तत्र द्वितीयोल्लास इष्यते ।। चन्दन नन्दन मा कुरु वासं व्याप्ते वनेऽत्र दुवैशैः । तेऽन्योन्यघर्षणाग्निस्पृष्टाः सर्व दहेयुरिह दावम् ॥ १६० ॥ गुणेन दोषकथने तृतीयोल्लास इष्यते । तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् । उल्लासस्तु चतुर्थः स्यादोषेण गुणवर्णने ॥ त्यक्तोऽसि मर्कटेनेति मा व्यथां कुरु सन्मणे । लाभोऽयमेव ते यस्माचूर्णितोऽसि न चाश्मना ॥ १६१ ॥ (अथ प्रत्यनीकम्-) प्रतिपक्षस्य बलिनः प्रतीकारेऽतिदुष्करे । तत्पक्षस्य तिरस्कारः प्रत्यनीकमितीष्यते ।। माधवेन जितः कामो बाधते राधिका मुहुः । अथ विकखर:-) समर्थनार्थ विन्यस्य विशेषार्थस्य कस्यचित् । सामान्यं तत्प्रसिद्ध्यर्थमुपमानतया तथा ।।

१०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। अथ वार्थान्तरन्यासविधया कथ्यते यदि । पुनर्विशेषान्तरं चेत्तत्रं प्रोक्तो विकखरः ।। अनेकविद्यानिपुणस्य तस्य संगीतराहित्यमभून्न हान्यै । .. एको हि दोषः सुगुणेषु मनो भवेत्सुधांशोः किरणेष्विवाङ्कः ॥१६२॥ रे व्यासटि त्वं भज वाजिशाला मौनेन घोटीं मनुते जनस्त्वाम् । स्थानप्रभावेन हि वस्तु धन्यं को नाह चित्रं नृपफालपङ्कम् ॥ १६३ ।। (अथ मिथ्याध्यवसिति:-) वस्तुनः कस्यचिद्यत्रात्यन्तमिथ्यालसिद्धये । मिथ्याध्यवसितिर्मिथ्याभूतार्थान्तरकल्पनम् ।। दुष्कीर्तिबधिरश्राव्या मूकगेयास्य भूभुजः । (अथ काव्यलिङ्गम्-) काव्यलिङ्गं हेतुना स्यात्समर्थव्यसमर्थनम् । वाक्यार्थत्वे पदार्थखे हेतोद्वैविध्यमिष्यते ॥ 'जितोऽनया स्मरो नूनं यामालिङ्गति वल्लभः । कन्दर्पमजयद्विप्रस्त्रिनेत्राकान्तमानसः ॥ १६४ ॥ (अथ संभावना-) एकार्थस्य सिद्ध्यर्थ (?) तर्कः संभावना मता। पश्येयं तेऽङ्गसौन्दर्य यद्यहं स्यां पुरंदरः । (अथावज्ञा-) अवज्ञैकगुणेनान्यगुणालामे प्रकीर्तिता। कस्तूरिकामपि प्राप्य न सुगन्धिः सुकन्दकः । अन्याव.कदोषेणान्यदोषालाभ ईरिता ॥ नीचानामपुरस्कारे लघुता सज्जनस्य का ॥ १६५ ॥ (अथार्थान्तरन्यासः-) अप्रस्तुतविशेषार्थान्तरन्यसनपूर्वकम् । सामान्यप्रस्तुतसार्थान्तरन्यासः समर्थनम् ॥

१४२ काव्यमाला । प्राचीनम्- तादृशां ताशेरेव संबन्धो भुवि शोभते। विषाननपरिष्वको विषकण्ठस्य भूषणम् ॥ १६६ ॥ विशेषस्य प्रस्तुतस्य सामान्येन समर्थनम् । द्वितीयोऽर्थान्तरन्यासः क्रियते प्रस्तुतेन चेत् ॥ अस्तमिते खरकिरणे तमसा क्रान्तं जगत्तु बहुशोऽभूत् । निजशत्रोहिं परोक्षे लोकः सर्वोऽपि वृद्धिमभियाति ॥ १६७ ॥ कार्यकारणभावेन प्रस्तुतार्थसमर्थनम् । तृतीयार्थान्तरन्यासं केचिदूचुर्विपश्चितः ।। प्राचीनम्- भूपाः प्रतापरुद्रस्य नता भवत नोन्नताः। उन्नतान्नमयत्येष नतानुन्नमयत्यपि ॥ १६८॥ (अथ प्रौढोक्तिः-) उत्कर्षाकारणे यत्रोत्कर्षहेतुत्वकल्पनम् । क्रियते तत्र विद्वद्भिः प्रौढोक्तिरिति कीर्तिता ॥ भ्रामं भ्रामं मुधा कान्ते व्यापारयसि किं मयि । नेत्रं कलिन्दकन्याम्भः पुष्टनीलोत्पलच्छवि ॥ १६९ ।। (अथ ललितम्-) प्रस्तुते वर्ण्यमानार्थप्रतिविम्बस्स चेयदि । वृत्तान्तस्याग्रस्तुतस्य वर्णनं ललितं मतम् ।। क तादृशी कुलवधूः क चायं दुर्भगः पुमान् । पगुः शृङ्ग समुत्तुङ्ग मेरोरारोदुमिच्छति ।। १७०॥ (अथानुज्ञा-) दोषस्यैवार्थनानुज्ञा तत्रैव गुणदर्शनात् । मम दारिद्यमेवास्तु याचको यन्न बाधते। (अथोदात्तम्-) चरितं श्लाघ्यमन्याङ्गं चेदुदात्तमलंकृतिः।

१०. व्यङ्ग्यबिन्दुः] मन्दारंमरन्दचम्पूः। वयस्य पश्य यमुना सा वरीवर्तते पुरः । यत्तटीकापुञ्जेषु रेमे राधिकया हरिः॥ १७१ ॥ ऋद्धं चेद्वर्ण्यते वस्तु द्वितीयोदात्तमिष्यते ॥ द्वारकायां सुधीगेहप्राङ्गणोत्सृष्टमौक्तिकाः । कपोती असते यत्तत्त्यागलीलांयितं विधोः ॥ १७२ ॥ (अथ लेश:-) गुणे दोषत्वस्य दोषे गुणत्वस्य च कल्पनम् । यदि स्यात्तत्र विद्वद्भिर्लेशालंकृतिरुच्यते ।। गुणवन्तः क्लिश्यन्ते गुणलवविधुरास्तु सर्वदा सुखिनः । बध्यन्ते मधुरंगिरः कीराः काकास्तु कामसंचाराः ॥ १.७३ ॥ (अथ प्रहर्षणम्-) अपेक्षितार्थसिद्धिश्चेद्विना यत्नं प्रहर्षणम् । राधिकासंगमोपायचिन्तां कुर्वति माधवे । खयमेवागता सा तमालिलिङ्ग मुदा तदा ॥ १७४ ॥ अपेक्षिताधिकार्थस्य सिद्धिश्चान्यत्प्रहर्षणम् ॥ याचते घटिकामेकां राधा सङ्गसुखं हरिः । अहोरात्रं सहानेन सापि रेमे मनखिनी ।। १७५ ।। फलस्योपायसिद्ध्यर्थं प्रयत्ने च कृते सति । तदैव फललाभश्चेत्तृतीयं स्यात्प्रहर्षणम् ।। राधिकानयनार्थाय दूतीमन्वेष्टुमद्यतः। मध्येमार्ग नन्दसूनू राधिकामेव दृष्टवान् ॥ १७६ ॥ (अथ विषादनम्-) : अपेक्षितविरुद्धार्थप्राप्तिश्चेत्याद्विषादनम् । कमलोदरमकरन्दं दूरादागत्य संभ्रमाद्भमरे । आघ्रातुमुद्यतेऽसिन्हन्त तदानीं तदुजहार करी ।। १७७ ।। (अथ मुद्रा) सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरात्पदात् ।

१४४ काव्यमाला। 1 , . , मालतीकुसुमामोदबन्धुरैषा वनस्थली । न्यसनं प्रकृतार्थानां प्रसिद्धक्रमतो यदि । उदिता तत्र विद्वद्भी रत्नावलिरलंकृतिः ॥ गद्यम्- मुरारिरयं कृतघनपुष्पमालाविलासः कृतभूभरणो भूदारो हिरण्यकशि- पुक्षेत्रदाता अपहृतबैलिपरसंपत्तिः परशुभोल्लसितः परितोषितजनकतनयो यशोदयाहतवपुः श्रीधनजनस्तुतः कविकालसद्भूषणकरो माधवोऽरुणेना- धरबिम्बेन, कलानिधिना मुखेन, सुमङ्गलेन मधुरवचसा, प्रहर्षणेन विभ्र- मेण, गुरुणा स्तनभारेण, कविस्तुत्येन शीलेन, मन्देन गमनेन, विकचेन नयनोत्पलयुगलेन, तमोरुचिरेण कचनिचयेनोद्भासमानां रुक्मद्युतिरमणीयां रुक्मिणीमवलोकयामास । न्यसनं सह पाठानामक्रमेणापि सा मता। गुरुणा स्तनभारेण हासेन श्वेतरोचिषा । गमनेन सुमन्देन रेजे ग्रहमयीव सा ॥ १७८ ॥ (अथ पूर्वरूपम्- पुनः स्वीयगुणत्यागानन्तरं स्वगुणग्रहः । कथ्यते यत्र तत्रोक्ता पूर्वरूपमलंकृतिः।। राधिकानासिकामुक्ता लोहितांप्यधरत्विषा । पुनः खां रुचमानिन्ये सितेन स्मितरोचिषा ॥ १७९ ॥ १. भरणं पोषणं धारणं च; एतेन वराहावतारनिष्पत्तिः. २. सुवर्णभोजनाच्छादन- भूमीनां दाता, हिरण्यकशिपुनामकदैत्यस्य विदारकः; एतेन नृसिंहावतारनिष्पत्तिः.. ३. बलिनां परेषाम्, वलिनामकस्य परा; एतेन वामनावतारनिष्पत्तिः. ४. परेण शु- मेन उल्लसितः, परशुशस्त्रस्य भया कान्त्योल्लसितः; एतेन परशुरामावतारवर्णनम्. ५. जनकस्तनयश्च, जनकनाम्नस्तनया; एतेन रामावतारनिष्पत्तिः. ६. यशसा दयया च, यशोदयया वा; एतेन कृष्णावतारवर्णनम्. ७. श्रिया धनैः पूर्णैर्जनैः, श्रीधन इति जनैः स्तुतः, एनेन बुद्धावतारवर्णनम्. ८. कवीनां काले समये दानार्थ सद्भूषणः करो यस्य, कविकैव लसद्भूषणं यस्मिंस्तादृक्करो यस्य; एतेन कल्क्यवतारवर्णनम्. ९. अरुणादिपदानां सूर्यादिपरत्वेन सर्वेषामझानां प्रहमयत्वं व्याख्येयम्. .

१.४५ १०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। पूर्वावस्थानुवृत्तिश्च विगते सति वस्तुनि । कथ्यते चेद्वितीयं तु पूर्वरूपमुदाहृतम् ॥ प्राचीनम्- व्याख्याता स निशि. कदाचन प्रदीपे संशान्ते पुनरपि वाचयांबभूव । शिष्यान्खान्पुरुकरुणाम्बुधिनिजाङ्के- रङ्गुष्ठस्फुटनखरान्तरोचिषव ॥ १८० ॥ (अथ तद्गुणः-) तद्गुणः स्वगुणत्यागानन्तरान्यगुणग्रहः । अधरप्रभया कान्तानासामुक्तारुणाभवत् । (अथ मीलितम्-) मीलितं यत्र सादृश्याद्भेद एव न लक्ष्यते ।। नालक्षि कजलं नेत्रे नीलोत्पलदलप्रभे ॥ १८१ ॥ (अथातद्गुणः- अतद्गुणः संगतान्यगुणास्वीकार उच्यते । घनमण्डलसक्तापि ते कीर्तिः शशिसच्छविः । (अथानुगुणः-) पूर्वस्थितस्त्रीयगुणोत्कर्षश्चेदन्यवस्तुनः । संनिधानवशात्तत्रानुगुणालंकृतिर्मता ।। लभते रक्तिमोत्कर्ष लीलाम्भोज करांशुभिः ॥ १८२ ।।. (अथ सामान्य:-) व्यावर्तको विशेषश्चान्योन्यं यत्र न लक्षते । सादृश्यात्तत्र सामान्यमलंकारं विदुर्बुधाः ।। कीर्तावुज्जृम्भितायां ते जनै लक्षि जाह्नवी । (अथ पिहितम्-) पिहितं चेत्परोदन्तं ज्ञाला साकूतचेष्टया । प्रकाशस्तत्पुरस्तस्या गूढस्य- क्रियते यदि ।। तल्पं सा कल्पयामास प्रेयसि प्रातरागते ॥ १८३ ॥ मन्दा० १३ काव्यमाला। (अथोन्मीलितम्-) भेदानध्यवसाये च सादृश्यात्सति कारणात् । । कुतोऽपि हेतोर्भेदस्य स्फूर्तावुन्मीलितं मतम् ॥ बालापादतले सक्तं यावकं सहजारुणे। आर्द्रत्वेनैव जानन्ति स्पर्श स्पर्श सखीजनः ।। १८४ ॥ (अथोत्तरम्-) गूढाभिप्रायसहितोत्तरमुत्तरमिष्यते । तविधोनेयसंबन्धप्रश्नोत्तरविभेदतः ॥ भवने बान्धवाः सन्ति पान्थ किंचिन्न विद्यते । गोष्ठीने तमसाक्रान्ते सुखं वससि चेद्वस ॥ १८५ ॥ प्राचीनम्- कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥ १८६ ।। (अथ सूक्ष्मम्-) विदग्धमात्रज्ञेयं चेत्सूक्ष्म साकूतचेष्टितम् । पश्यन्त्यां मयि साकूतं सखी गोष्ठीनियन्त्रिता । तरलं गोपयामास सस्मितं तरुणीमणिः ॥ १८७ ॥ (अथ भाविकम्-) प्रत्यक्षत्वेन कथनमतीतार्थस्य भाविकम् ॥ अद्यापि तन्मम दृशोधुरि वर्तते य- द्रात्रौ मयि क्षुतवति क्षितिपालपुन्या । जीवेति मङ्गलवचः परिहृत्य वेगा- स्कर्णेऽपि तं कनकपत्रमनालपन्त्या ॥ १८८ ॥ द्वितीयं भाविकं भूतं मानसत्वेन वर्ण्यते । हृद्यद्यापि वरीवर्ति राधा यदकरोगते । १. 'उन्मीलितोत्तरे सूक्ष्मं विशेषो भाविकं तथा । इत्यलंकारोद्देशमन्थे तु, भावि- कात्माविशेषक उक्तः .

१०. व्यङ्ग्य बिन्दुः] मन्दारमरन्दचम्पूः। :१४७. (अथ विशेषकः-) सदृशानां च वस्तूनां येनकेनापि हेतुना। व्यावर्तकविशेषस्य स्फुरणे स्याद्विशेषकः ।। काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः । प्राप्ते वसन्तसमये काकः काकः पिकः पिकः ॥ १८९ ॥ (अथ व्याजोक्तिः-) यया कयापि हेतूक्क्या प्राप्ताकारस्य गोपनम् । खस्याथ वा परस्यापि व्याजोक्तिः क्रियते यदि ॥ ओट्ठम्मि वि स्थणतडम्मि परिक्खदा वि लालेसि कित्ति हलिणाछि सुअं सुर्वकम् । द₹ण तुज्झ पइणो हिअअम्मि रोसो संवड्डइ (प्पअडदो तुइ जालिणित्ति ॥ १९० ॥ (अथ विवृतोक्ति:-) श्लिष्टं च गुप्तमर्थं तु यद्याविष्कुरुते कविः। यथाकथंचित्तत्र स्याद्विवृतोक्तिरलंकृतिः॥ भ्राम्यति स्फारमुद्याने भ्रमरो रमणादरः । सखीसमाजगामेवं वक्ति सा साक्षिसूचनम् ॥. १९१ ॥ (अथ गूढोक्तिः-) यत्रान्योद्देशकं वाक्यं यदन्यं प्रतिकथ्यते । किंचिच्छेषेण चेत्तत्र स्याटूढोक्तिरलंकृतिः ॥ सदा रामान्तरपृथुलकुचग्रहणोद्यमम् । वत्स मा कुरुं चौर्येण बली जागति तत्पतिः॥.१९२ ॥ (अथ युक्ति:-) यया कयापि क्रियया परेषां वञ्चनं यदि । परस्य खस्य वा मर्मगुत्यै युक्तिरलंकृतिः ॥ १. 'ओष्ठेऽपि स्तनतटेऽपि परिक्षतापि लालयसि किमिति.हरिणाक्षि शुकं सुवक्रम् । दृष्ट्वा तव पत्युहृदये रोषः संवर्धते प्रकटतस्त्वयि जारिणीति ॥ इति च्छाया....

१४८ काव्यमाला। त्वामालिखन्ती कलाक्ष ननन्दां वीक्ष्य राधिका। अलिखच्चतुराहाय कौसुम कार्मुकं करे। १९३ ।। (अथ लोकोक्तिः-) लोकवादानुकरणं लोकोक्तिर्यदि कथ्यते । अनुसरति तव ननन्दा नन्दकुमारं परापि सानन्दा । तव किं नीरजनयने पश्य मुदोन्मील्य माधवं नयने ॥ १९४ ॥ (अथ च्छेकोक्तिः-) अभिप्रायविशेषस्य व्यञ्जकत्वं यदा भवेत् । लोकोक्तरेव तत्र स्याच्छेकोक्तिः परिकीर्तिताः ॥ पादचार्येव जानीते शिलाशकलमार्दवम् । (अथ खभावोक्तिः- स्वभावोक्तिर्यथा चारु यथावद्वस्तुवर्णनम् । अंशुके कुचतटाद्गलितेऽभूत्खस्तिकाकलितकान्तकुचान्ता । उन्नमय्य चिबुकाञ्चितहस्तं हीनमद्वदनमक्षि चुचुम्ब ॥ १९५ ॥ (अथ वक्रोक्तिः-) एकार्थेनोक्तवाक्यस्य काका श्लेषेण वान्यथा । योजनं क्रियते यत्र वक्रोक्तिस्तत्र कीर्तिता ॥ प्राचीनम्- असमालोच्य कोपस्ते नोचितोऽयमितीरिता। नैवोचितोऽयमिति तं ताडयामास मालया ॥ १९६ ॥ तरणिं पश्य सुश्रोणि कान्त कुत्रास्ति नौरिह । सवितारं प्रिये वच्मि स्वगृहे वर्तते पिता ॥ १९७ ॥ (अथ चित्रम्-) चित्रं निबध्यते यत्र प्रश्नभिन्नोत्तरं तदा । शालेः कासारवत्युवी पैथिकस्य हृतं धनम् । १. 'शालेः सारवत्युर्वी का' इति प्रश्ने 'कासारवती' इत्युत्तरम्, २ 'कस्य धनं पथि हृतम्' इति प्रश्ने 'पथिकस्य' इत्युत्तरम्..

१४९ १०.व्यायबिन्दुः] मन्दारमरन्दचम्पूः। (अथ प्रतिषेधः-) प्रतिषेधः प्रसिद्धस्य निषेधः कविरञ्जका । नैवेयं खुरली धूर्त विदुषां वर्तते सभा ।। १९८ ।। (अथ विधिः-) सिद्धस्यैय पदार्थस्य विधानं चेत्तदा विधिः । सभायां शास्त्रगोष्ठीषु विद्वान्विद्वान्भवेत्सखे । (अथ निरुक्तिः-). हेतुना येन केनापि योगेनान्वर्थता यदि । नाम्नां चेत्कल्प्यते यत्र निरुक्तिस्तत्र कीर्तिता ।। यद्गर्भात्कन्यकारत्नं लेभे जनकभूपतिः । तस्मादस्या भुवो नाम रत्नगर्भेति सार्थकम् ।। १९९ ॥ (अथ हेतु:-) कार्येण साकं हेतोश्चेदर्णनं हेतुरुच्यते । प्राचीनम्- एष ते विद्रुमच्छायो 'मरुमार्ग इवाधरः । कस्य नो तनुते तन्वि पिपासाकुलितं मनः ॥ २० ॥ केचित्प्रचक्षते हेतुं हेतुकार्यैक्यवर्णनम् । दुर्जनानामर्चनैव गाम्भीर्य विदुषां महत् । प्रश्नं चापि तथात्युक्ति केचिदूचुरलंकृतिम् ।। (अथ प्रश्न:-) प्रश्नः सगूढाकूतश्चेद्वध्यते प्रश्न इष्यते । भो पान्थ पुस्तकधर क्षणमत्र तिष्ठ वैद्योऽसि किं गणकशास्त्रविशारदोऽसि । केनौषधेन मम पश्यति भर्तुरम्बा भर्तागमिष्यति कदा बहुदूरवासी ॥२०१॥ (अथात्युक्तिः-) अद्भुतासत्यकथनं मतात्युक्तिरलंकृतिः ।। - १५० काव्यमाला। त्वत्प्रतापामिना सप्त सागरा अपि शोषिताः। पुनस्त्वद्वैरिकान्ताक्षिवारिभिः परिपूरिताः ।। २०२ ।। .(अथ रसवान्) रसो यत्र परस्याई स्यात्तत्र रसवान्मतः । जीयात्स भूदाररूपी महात्मा जगतां पतिः। आतपत्रश्रियं धत्ते दंष्ट्राग्रे यस्य मेदिनी ॥ २०३ ॥ भावः परस्य चाङ्गं चेत्प्रेयोऽलंकार इष्यते ॥ कदा मुदा सामिविलोचनान्तं व्यापारयन्ती कुटिलालकान्ताम् । आलिङ्गय कान्तां कुचभारतान्तां चुम्बामि बिम्बाधरमम्बुजाक्षीम् ।। २०४ ॥ (अथो खित्-) रसाभासः परस्याङ्गं चेदूर्जखिदलंकृतिः। स जीयादप्रतिद्वन्द्वो राजा यद्विषदाना। आलिङ्गत्यसकृत्प्रेम्णा पुलिन्दं विन्ध्यभूमिषु ॥ २०५ ॥ भावाभासः परस्याङ्गं चेदप्यूर्जखिदिष्यते ॥ खस्ति तेऽस्तु महीपाल वने त्वदिपुकामिनी । पुलिन्दतरुणान्वीक्ष्य सवीडस्मितमातनोत् ।। २०६ ॥ (अथ समाहितम्-) भावशान्तिः पराङ्गं चेत्समाहितमलंकृतिः। स भूयान्मम रक्षायै यस्य प्रत्यर्थिनां मुखे। रणाङ्गणे तृणं वीक्ष्य हक्कोणं शोणिमात्यजत् ।। २०७ ॥ (अथ भावोदय:-) भावोदयः पराङ्गं चेद्भाव.दय इतीरितः ॥ कटाक्षान्किरति प्रेम्णा सा बाला मयि .या पुरा । किमिदं कुचयोरालीयुक्ता जाता वृतानना ॥२०८ ॥ (अथ भावसंधिः-) भावसंधिः पराङ्ग चेद्भावसंधिरलंकृतिः। -- , --- ०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। १५१ संग्रामपटहारावैः कान्तालिङ्गनसंभ्रमैः । पुलकाङ्कितसर्वाङ्गः सोऽग्रहीत्तत्क्षणं धनुः ॥२०९॥ अथ भावशावल्यम्-) भावशावल्यमन्या भावशावल्यमिष्यते ॥ मनोजात त्वं मां व्यथयसि नताङ्गीं किमु वृथा पुरारातिं शीघ्रं व्रज गतदयं मर्दय शरैः।। यदि स्याचातोऽसावहमपि तदा तेऽस्मि जननी सपनीमातुस्तेऽहमिति यदि कृष्णाय कथयें ॥ २१० ॥ (अथ प्रत्यक्षम्-). संनिकर्षभवं चारु ज्ञानं प्रत्यक्षमुच्यते । इयं मदनमानिनी किमुत कामिनी वज्रिणो गिरीशवरसुन्दरी किमु मृगाङ्ककान्ताथ वा । इति ब्रजजनश्चिरं मनसि हन्त संशय्य तां समीपभुवि राधिका सपदि निश्चिकाय स्फुटम् ॥ २११ ॥ (अथानुमानम्-) हेतुसाध्यविनिर्देशे त्वनुमानमलंकृतिः भ्रूचापवल्ली किल भाति यस्मिन्निन्दीवराशालहगांशु गोपि । भुजध्वजाग्रे मकरोऽपि यस्मान्मन्ये तदङ्गं स्मररा, शताङ्गम् ॥२१२।। (अथोपमानम्---) उपमानं चातिदेशवाक्यार्थज्ञानमिष्यते । प्राचीनम् - तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले । यस्तन्वि तारकान्यासः शकटाकारमास्थितः ॥ २१३ ॥ (अथ शब्दः-.), प्रमाणत्वेन वेदादिवर्णने शब्द इष्यते ॥.. सखि मा कुरुशीतांशौ दोषारोप मनखिंनि । मुरारेमानसं सूनुं यमाहुः श्रुतिराशयः ॥.२१४ ॥ :... . -- १५२ काव्यमाला। . (अथार्थापत्तिः-) अन्यथानुपपत्त्या च यत्र वस्तुव्यवस्थितेः। निर्धारणं पुनस्तस्य तदार्थापत्तिरिष्यते ॥ विधाता निर्ममे देहं हरिणाझ्या हरिद्रया । नो चेद्रागः सुधाधानादधरे न हि संभवेत् ।। २१५ ॥ (अथानुपलब्धिः-) अप्रत्यक्षप्रमाणत्वेऽनुपलब्धिरलंकृतिः । असदेवावलग्नं तेऽनुपलब्ध्योऽहते बुधः । कामेन्द्रजालं यहते कुचकुम्भस्थितौ पुनः॥ २१६ ।। (अथैतिहम्-) पारम्पर्यप्रवादश्च यत्रानिर्दिष्टवक्तकः । निबध्यते तदा तस्मिन्नतिह्यालंकृतिर्मता ।। प्राचीनम्- कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे। एति जीवन्तमानन्दो नरं वर्षशतादपि ।। २१७ ।। (अथ संभव:-) संभवस्तु निमित्तेन वस्तुसंभावना यदि । राधिकासदृशी कान्ता नासीदस्ति भविष्यति । मैवं वद विधेः सृष्टिविचित्रा विपुला मही ॥ २१८ ॥ . केचिदाचारात्मतुष्टी प्रमाणालंकृती विदुः॥ महाजनाचारपरम्परेशी खनाम नामाददते न साधवः । अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति ॥२१९॥ प्राचीनम्- असंशयं क्षत्रपरिग्रहक्षमा यदायमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः ।। २२० ॥ अर्थशब्दोभयेषां वालंकाराणां च मेलने । तिलतण्डुलसंश्लेषन्यायात्संसृष्टिरिष्यते ॥

१०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। सुकवेर्भणितिः सद्यः श्रवणपुटेष्वहह माधुरी सृजति । तरुणखान्तसरोजे प्रेममरन्दं विलासिनी दृष्टा-॥ २२१ ॥ स जयति बल्लवबालो बल्लवललनारतान्तविश्रान्तिम् । कुरुते मिलदलिपुले मञ्जुलमल्लीमतल्लिकाकुञ्जे ॥ २२२ ॥ किंचिदुत्स्फटितपङ्कजगन्धैरञ्चितः शिशिरशावसमीरः । तं चकार कमला त्वयि कोपं मुञ्चतामिति च वक्तुभिवागात् ।। २२३ ।। यत्र नीरक्षीरनयादस्फुटान्योन्यमेलने । अलंकृतीनां तत्र स्यात्संकरः परिकीर्तितः ॥ अङ्गाङ्गिभावसंदेहसमप्राधान्यसंकराः । तथैकवाचकानुप्रवेशश्चेति चतुर्विधः॥ अलंकृतीनामन्योन्योत्थाप्योत्थापकता यदि। अङ्गाङ्गिभावनामासौ संकरालंकृतिर्मता । विजातीयसजातीयभेदेन द्विविधो मतः ॥ कुचकैतवमस्य बिभ्रतः पटजालेन खगस्य बन्धनम् । अकरोदिव पाणिपञ्जरस्थितये नन्दसुतस्य कामिनी ॥ २२ ॥ तिलकनमरस्फारविलासेन मनोरमम् । आननं मृगशावाक्ष्याः सरोरुहमिवाबभौ ॥ २२५ ॥ एकालंकारकोट्यां च प्रतिक्षेपो भवेद्यदि ॥ तदन्यालंकारकोटेस्तत्र संदेहसंकरः। प्राचीनम्- मुखेन गरलं मुञ्चन्मूले वसति चेत्फणी। फलसंदोहगुरुणा तरुणा किं प्रयोजनम् ।। २२६ ॥ अलंकारेण केनापि चेकदोत्थापनं यदि । अनेकेषामेकवाक्ये समप्राधान्यसंकरः॥ अङ्गुलीभिरिव केशसंचयं संनिकृष्य तिमिरं मरीचिभिः । कुड्नलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ २२७ ।।

१५४ काव्यमाला.. . अनेकालंकृतीनां चेदेकवाचकबद्धता। तदैकवाचकानुप्रवेशसंकर इष्यते ॥ भुजंगलीलासंतृप्तो नरेन्द्रो दीनहिंसकः । .....: याच्यावृत्तिपरो भाति विषवैद्य इव प्रभुः ।। २२.८ ।। इत्यलंकारप्रकरणम् । ध्वनिस्तु लक्षणामूलामिधामूलभिदा द्विधा । तत्राये लक्षणामूले वाच्यं सादविवक्षितम् ।। विवक्षितं चान्यपरमभिधामूलकध्वनौ । आधस्तु लक्षणामूलो गूढव्यङ्गयप्रधानकः ॥ अर्थान्तरे संक्रमिते वाच्येऽत्यन्ततिरस्कृते । इति द्विधापि स द्वेधा पदवाक्यगतखतः॥ एवं चतुर्विधः प्रोक्तो लक्षणामूलकध्वनिः । वाच्यसार्थान्तरत्वेन परिणामो यदा भवेत् ॥ अर्थान्तरे संक्रमितवाच्यमाहुस्तदा ध्वनिम् । यस्मिञ्जीवति जीवन्ति बहवः स तु जीवतु । अर्थान्तरे संक्रमितवाच्यं चेह पदे भवेत् ।। शृणु मे वचनं वत्स 'कुरु भक्ति वृषध्वजे ॥ २२९ ॥ अर्थान्तरे संक्रमितवाच्यं वाक्ये भवेदिह । वाच्याथै त्वन्वयायोग्ये स्वाद त्यन्ततिरस्कृतम् ।। नीलिमालिप्तदिक्प्रान्ताः कान्ताहक्प्रान्तवीचयः । इत्यादिषु पदे वाच्यं स्यादत्यन्ततिरस्कृतम् ॥ २३० ।। धवलिना विलिम्पन्ति यशांसि तव दिक्तटीः । इत्यत्र वाक्ये वाच्यं च स्यादत्यन्ततिरस्कृतम् ॥ २३१ ।। यस्तु वाच्यविवक्षायां गूढव्यङ्गचप्रधानकः ।, स विज्ञेयोऽभिधामूलो द्विविधथैष कीर्तितः ॥ स संलक्ष्यक्रमव्यङ्गयालक्ष्यव्यङ्ग्यक्रमात्मना । उक्तो बुधैः स संलक्ष्यक्रमोऽनुरणनोपमः ॥ - १०. व्यङ्ग्यविन्दुः] मन्दारमरन्दचम्पूः। १५५ शब्दार्थोभयशक्त्युत्थस्त्रिधानुरणनध्वनिः । स्यात्पर्यायासहिष्णुत्वे शब्दशक्त्युद्भवो ध्वनिः ॥ अलंकृतेर्वस्तुनो मा प्राधान्याच्छब्दशक्तितः। यत्र व्यक्तिर्भवेत्सोऽयं शब्दशक्युद्भवो द्विधा । पदवाक्यगतत्वेन द्विविधोऽपि पुनर्द्विधा । चित्ते स्फुरति तद्रूपं हरेर्दैत्यद्विपद्विषः । इत्यत्र शब्दशक्त्युत्थः स्यात्पदेऽलंकृतिध्वनिः ।। २३२ ।। प्रतापवानिनो भाति भजन्नुदयमुच्चकैः । इत्यादौ शब्दशक्त्युत्थः स्याद्वाक्येऽलंकृतिध्वनिः ॥ २३३ ॥ समरे त्वद्भुजाशौर्य पश्यन्त्यनिमिषद्विषः । इत्यादौ शब्दशक्त्युत्थः स्यात्पदे वस्तुनो ध्वनिः ।। २३४ ॥ अवनी च वनी च त्वद्विषां न दिशति स्थितिम् । इत्यादौ शब्दशक्त्युत्थो वाक्ये वस्तुध्वनिर्भवेत् ।। २३५ ।। अर्थस्य तु स्वतःसिद्ध्या कविप्रौढोक्तिकल्पनात् । वक्तुः कविनिवद्धस्य प्रौढोक्त्या कल्पनात्तथा ॥ त्रैविध्यादर्थशक्त्युत्थध्वनिश्चापि त्रिधा मतः । वस्त्वलंकारभेदेन त्रिविधोऽपि पुनर्द्विधा ।। ते व्यायव्यञ्जकत्वेन पडिधाश्च पुनर्द्विधा । पुनर्वाक्यगतत्वेन तथा पदगतत्त्वतः ॥ तथा प्रवन्धगत्वेन सर्वेऽपि त्रिविधा मताः । इत्यर्थशक्तिमूलोऽयं स्यात्षट्त्रिंशद्विधो ध्वनिः ।। अथ खतःसिद्धार्थशक्तिमूलध्वनि निरूपयामः- अविदूरे निशा याति किमित्यालि विलम्बसें । इत्यादी वस्तुना वस्तुध्वनिवर्वाक्ये प्रकीर्तितः ।। २३६ ॥ अपुरश्चरणायासं राममन्त्रः फैलत्यसौ। इत्यादावपि वाक्ये स्याद्वस्तुनालंकृतिध्वनिः ॥ २३७ ।।

.१५६ काव्यमाला ।- मन्वेते वज्रनिर्घोषं वेडितं ते द्विषद्गणाः। इत्यलंकारतो वस्तुध्वनिर्वाक्ये प्रकीर्तितः ॥ २३८ ॥ प्राणान्मुञ्चन्ति निशितैस्त्वद्वाणैः सह वैरिणः । इत्यलंकारतो वाक्ये विज्ञेयोऽलंकृतिध्वनिः ।। २३९ ।। द्विषत्कान्तार्चति बन्नं क्षणदाभावकाया । इत्यादिषु पदे ज्ञेयो वस्तुना वस्तुनो ध्वनिः ॥ २४० ॥ अथ कविप्रौढोक्तिसिद्धार्थशक्तिमूलध्वनिर्निरूप्यते- शत्रुस्त्रैणस्मितज्योत्स्नां निधुनीते भवन्महः । इत्यादी वस्तुना वस्तुध्वनिर्वाक्ये प्रकीर्तितः ॥ २४१ ।। जयश्रीस्त्वां भजत्याजौ सेनाधूल्यन्धकारिते। इत्यादौ कीर्तितो वाक्ये वस्तुनालंकृतिध्वनिः ॥ २४२ ।। नानावणे जगत्पूर्व त्वत्कृतेरभवद्विभो । इत्यादिषु पदे वाच्यो वस्तुना वस्तुनो ध्वनिः ॥ २४३ ॥ अथ कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलध्वनि ब्रूमः- प्रेमातिमानतो नश्येत्प्रसीद प्रणते प्रिये । इत्यादौ कथितो वाक्ये वस्तुना वस्तुनो ध्वनिः ॥ २४४ ॥ मीलिते सरतापेन शठ तस्या हगम्बुजे । अत्र वाक्ये च कथितो वस्तुनालंकृतिध्वनिः ॥ २४५ ॥ नाहं दूती तनोस्तापस्तस्याः कालानलोपमः। इति वक्तृवचःसिद्धा(द्धो)ऽलंकृत्यावस्तुनो ध्वनिः ॥ २४६ ॥ प्रवातकदलीवास्ते तमालं वीक्ष्य सा हरौ। इति वक्तृवचःसिद्धा(द्धो)ऽलंकृत्यालंकृतिध्वनिः ॥ २४७ ॥ शठाधुना सा तनुते साहसं शशिवीक्षणे । वस्तुवस्तुध्वनिः पदे ॥ २४८.॥ इत्यसावर्थशक्त्युत्थो दिशामात्रमुदाहृतः । पदप्रबन्धगत्वेनाप्युदाहार्यो यथोचितम् ॥ अत्र वक्तृवचःसिद्धो १०. व्यङ्ग्यबिन्दुः] मन्दारमरन्दचम्पूः। १५७ भवेदेकविधः सोऽयं शब्दार्थोभयशक्तिजः । मानहड्डिजराजोऽयं भाति सर्वज्ञशेखरः ॥ २४९ ॥ वाक्य एव भवेदेष शब्दार्थोभयशक्तिजः। असंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिरिष्यते ॥ वाक्ये पदैकदेशे च प्रबन्धे च तथा पदे। वर्णेषु रचनायां च गतत्वेन स पड्डिधः ॥ वक्ष्ये साकृ(क)शिमाश्लिष्टा शठोच्छसिति सांप्रतम् । अत्र वाक्ये विप्रलब्धशृङ्गारध्वनिरीरितः ॥ २५० ॥ संनिधत्ते सदा चित्ते तदनं तरुणीमणेः । असंलक्ष्यक्रमव्ययध्वनिरत्र पदे भवेत् ।। २५१ ।। एवमग्रेऽप्युदाहार्य वर्णादिषु यथोचितम् । एतत्सर्वं रम्यविन्दौ सप्रपञ्च प्रकाशितम् ॥ एवं च चैकपञ्चाशद्विधः शुद्धो ध्वनिमतः । मिश्रणेऽन्योन्यमेतेषां भेदा द्विड्दृग्गुणधुवाः (१३२६) ।। चतुर्विधैः संकरैश्च संसृष्ट्या चैकरूपया। पञ्चधा योजने तेषां भेदाः खाग्निरसारयः (६६३०)। क्रमाद्गतिर्लिपीनां स्यादकानां वामतो गतिः॥ इति ध्वनिप्रकरणम् । गुणीभूतव्यङ्ग्यमपि चाष्टधा परिकीर्तितम् । अगूढं वाच्यसिधाई तुल्यप्राधान्यमस्फुटम् । संदिग्धमपराझंच काकाक्षिप्तमसुन्दरम् । अगूढतासहृदयैरिवान्यैरपि वेद्यता ॥ सोऽयं विजयते राजा सुमनःसंघरञ्जकः । वाच्यसिद्ध्यङ्गमेतद्यद्विना वाच्यं न सिध्यति । भूभृदाभाति काश्मीरपङ्कगैरिकपाटलः ॥ २५२ ॥ वाच्यव्यङ्ग्यार्थयोस्तुल्ये तुल्यप्राधान्यमिष्यते ॥ जातस्त्वद्वैरिसुदृशां स्मरणायाञ्जनं दृशः । . मन्दा. १४ ૨૧૮ काव्यमाला। r . स्वायत्सुहृदयस्यापि दुःखवेद्यं तदस्फुटम् । भूपो गुणाहितप्रीतिर्भुनक्त्यम्बुधिमेखलाम् ॥ २५३ ॥ संदिग्धं तत्तु कथितं वाच्यात्प्राधान्यसंशये ।। त्वामालोक्य रणे वैरी वीक्षते विजनं यम् । अपराङ्गं यदाङ्गे चेद्रसादेस्तु रसादिकम् । क्षणध्वस्तखरानीकं जानकी सखजे प्रियम् ॥ २५४ ॥ काकाक्षिप्तं तु तत्र स्याद्यत्र काका विभाव्यते । मन्ये सा सुभगा मत्तो यां त्वमेवानुधावसि । वाच्यानिकृष्टं व्यङ्गधं चेदसुन्दरमितीयते ॥ अतपःक्लेशसुकृतं ब्रह्मर्षे तव दर्शनम् ॥ २५५ ।। चतुर्विधैः संकरैश्च संसृष्ट्या चैकरूपया । पञ्चधा योजने तेषां चत्वारिंशद्विधं च तत् ॥ एवं निरूपिते साङ्गे ध्वन्यलंकारलक्षणे । सन्तो महान्तः क्षाम्यन्तु यत्किंचित्स्खलितं यदि । जलजनिजनिजायाप्रेमपाकेन गोपी- जनमनसिजकेलीलम्पटेऽलंपटेन । गुहपुरनिलयेन प्रोद्धृतो व्यङ्ग्यबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ।। इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयो- गीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमरन्दे चम्पूप्रबन्धे व्यायविन्दुर्दशमः समाप्तिमगमत् । शेषविन्दुः। अत्रान्त्य(न्ति)मे शेषविन्दावनुक्तान्पूर्वबिन्दुषु । लक्ष्यलक्षणसंयुक्तांस्तत्क्रमेणाभिदध्महे ।। एकश्चन्द्रार्कविनेशरदशुक्राक्षिभूध्रुवाः । द्वयं द्वन्द्वं युगं युग्मं यमलं यामलं यमम् ॥ युगलं द्वितयं पक्षो नदीकूलं करः कुचः ।

१५९. ११. शेषविन्दुः] मन्दारमरन्दचम्पूः। जानुपादौ बाहुगुल्फो जोष्ठौ राघवात्मजौ ॥ असिधाराकर्णहोराकपोलनयनभ्रवः । नितम्बायनपक्ष्माणि हनूरुवडवास्तनाः॥ त्रयं कालाग्निरुद्राक्षिसंध्याभुवनपुष्करम् । ग्रीवा रेखा शूलशिखा नाडी रामो गुणः पुरः॥ गायत्रीवहिचरणौ विष्णुपत्नी वलिस्तनुः। शक्तिर्मूर्तिभृङ्गिपादस्त्रिविक्रमपदार्पणम् ॥ चत्वारि गोस्तनब्रह्ममुखवार्णवाश्रमाः। स्वर्दन्तिदन्तसेनाङ्गविष्णुवाहुयुगाः श्रुतिः॥ पुरुषार्थोपाययामपशुमश्चपदानि च । पश्च पापमहाकाव्यशिवास्येन्द्रियपाण्डवाः ॥ विषयानिलवर्गाङ्गभूतवर्द्वमहामखाः । पुराणलक्षणप्राणसायकक्लेशपल्लवम् ।। षड़जकोणवेदाङ्गरसतर्कारिकारकम् । प्रयोगप्रश्नगायत्रीजठरं चक्रवर्त्यपि ॥ शास्त्रशस्त्राङ्गकर्मर्तुभृङ्गपादगुहाननम् । सप्त मातृद्वीपशैलवारराज्याङ्गताण्डवाः ।। मुनिखरनदीव्याधवह्निजिहाश्वधातवः । अष्ट दिक्पालेशमूर्तिसिद्धिसिद्धान्तकुञ्जराः ।। वसुलक्ष्मीगन्धमजब्रह्मश्रोत्राहिमङ्गलम् । गयायोगाङ्गनत्यङ्गमहिषीकुलपर्वताः । नव रत्नं निधिर्गोप्यखण्डधान्यग्रहास्तथा ॥ धेनुरन्ध्रशिलाभक्तिवीरव्याघ्रीस्तनाम्बुदाः। विन्द्वर्थकाः शून्यपूर्णकान्तामध्याभ्रखानि च ॥ दश स्वानस्थाणुवाहुरावणाननचुम्बनम् । कृष्णावतारदिग्घस्ताङ्गुल्यवस्थेन्दुवाजिनः ।। धर्मपत्नीधूपपतिनिघण्टुसुतरूपकम् । on १६० काव्यमाला। M . एकादश स्यात्करणं कुरुसेना वृषध्वजः ॥ द्वादशाको मासराशिसंक्रान्तिगुहवाहवः। शारिकोष्ठकसेनानीनेत्रभूपतिमण्डलाः ॥ त्रयोदश स्युर्वीथ्यङ्गविश्वकश्यपकामिनी । सामगाचार्यताम्बूलगुणप्रतिमुखाङ्गकम् ॥ चतुर्दश मनुर्विद्यायमेन्द्राभिनया मृगः । पञ्चदश तिथिः सामिधेनी कान्ताकलापि च ॥ षोडशेन्दुकला गौरी नाट्यचेप्टोपकारकम् । संस्कारः सप्तदश तु प्राजापत्यपशुर्मतः ।। अष्टादश धृतिः पीठं पोपद्वीपभारतम् । एकोनविंशतिर्देववाद्यमप्यथ विंशतिः॥ अङ्गुलीरावणभुजकपोलाक्षिकरभ्रवः । एकविंशतिसंख्यायां मूर्छनानुस्मृतिः समित् ।। द्वाविंशतिश्चोपसर्गश्चतुर्विंशतिवाचकाः। वाक्यदोषन्यायगुणगायत्रीजिनकेशवाः ॥ शतं ब्रायुःकञ्जदलशक्रयज्ञाब्धियोजनाः। सहस्रं जाह्नवीवकं शेषशीर्षाम्बुजच्छदाः॥ रविवाणार्जुनकरा वेदशाखेन्द्रदृष्टयः । एतेषामपि पर्यायास्तत्तत्संख्याविवोधकाः ।। इति संख्याप्रकरणम् । विरामो विरतिश्छेदो विच्छेदश्छेदनं छिदा। यतिर्विभेदश्वसनं श्वासो भिद्भेदनं भिदा ॥ छिदाश्वासस्तथा छित्तिरिति विच्छित्तिबोधकाः। अयुक्तमोजो विषममयुक्चासममीरितम् ॥ युगनोजः समं युक्तमितीमे समवाचकाः गो गुरुस्त्वनृजुर्वक्र इतीमे गुरुवाचकाः ॥ अवको लो ऋजुर्मात्रालवश्च लघुवाचकाः। m ११. शेषबिन्दुः] मन्दारमरन्दचम्पूः। वर्णस्तु द्विविधः प्रोक्तो गुरुलघ्योविभेदतः। गुरुः प्लुतो द्विमात्रोऽपि लघुः सादेकमात्रकः ॥ युक्तपूर्वो विसर्गान्तो दीर्घो विन्दुयुतो गुरुः । तदन्यो लघुरुक्तोऽथ विकल्पगुरुरुच्यते ॥ चरणादिमवर्णस्य संयोगः क्रमसंज्ञकः। तस्य प्राक्स्थितवर्णश्च पादान्तस्थश्च वा गुरुः॥ यथा--- सज्जननिचयः परगतगुणदोषौ वीक्ष्य दोषमुत्सृजति । हंसो भाजनसंगतक्षीरजले वीक्ष्य नीरमुत्सृजति ॥ १॥ रहयुक्ताक्षरात्पूर्व रयुक्तात्कुपुवर्णतः । पूर्व वर्ण विकल्पेन गुरुं केचित्प्रचक्षते ॥ गणस्तु द्विविधः प्रोक्तो वर्णमात्राविभेदतः। तत्र वर्णगणस्तु स्यादक्षरत्रितयात्मकः ॥ मयौ रसौ तजभना इत्यष्टार्णगणाः स्मृताः। त्रिगो मो मुखलो यः स्यान्मध्यलो रोऽन्तगश्च सः । अन्त्यलस्तो मध्यगो जो मुखगो भस्त्रिलस्तु नः॥ . श्रीकान्तः। कपाली। राधिका । कमला | कृष्णाय । करोति । पाथसि । भवति । इति ॥ मध्याछन्दसि चोद्भूता इमे वर्णगणा मताः ॥ सस्य भूमिर्देवता स्यात्संपत्तिः फलमिष्यते ॥ यस्य पाथो देवता स्यात्फलं वृद्धिः प्रकीर्तिता। रस्य वह्निर्देवता स्यात्फलं मरणमीरितम् ॥ सस्य वायुर्देवता स्याद्देशान्तरगतिः फलम् । तस्याकाशो देवता स्यात्फलं शून्यं प्रकीर्तितम् ।। जस्य सूर्यो देवता स्याद्रोगप्राप्तिः फलं मता। भस्य चन्द्रो देवता स्यात्फलं कीर्तिरुदाहृता ॥. नस्य नाको देवता स्यात्फलं च सुखमच्युतम् ।

१६२ काव्यमाला। कलाचतुष्टयात्मा तु मात्रागण उदाहृतः। भजलाद्विगुरुश्चैव नलश्चेति स पञ्चधा ।। रोधसि । तटेषु । नलिनं । मित्रः । कथयति । इति ॥ छन्दोऽपि द्विविधं प्रोक्तं वार्णमात्रविभेदतः। वार्ण तूक्तादिकं प्रोक्तं मानं त्वार्यादिकं मतम् ।। पादान्त एव केचिच पादमध्येऽपि केचन । यतिं वदन्ति तत्रापि विशेषः स्फुटमुच्यते ।। धातुनामस्खभिन्नेषु यतिर्भवति नान्यथा । कृष्ण एव परं वेत्ति राधिकाया मनोगतम् । पश्यन्तीं वीक्ष्य कालिन्दीकूलकुञ्जमगात्ततः ॥२॥ उपसर्गान्ततश्छेदः प्रत्ययादौ तयोः कचित् ॥ राधा केलौ बहु परितोषयत्यम्बुजेक्षणम् । तस्मान्न चेहते त्वां संपूर्णचन्द्रमुखीं हरिः ॥३॥ रासोत्सवे मुहुश्चुम्बत्ययं राधामुखाम्बुजम् । इति रोषकषायाक्षीणां मुखानि प्रतीक्षते ॥ ४ ॥ स्वरसंधौ तु संप्राप्तसौन्दर्याद्यतिरिष्यते । तादृग्गोपीकेलिलोलोऽस्तु मुदे मम माधवः । तु चादयो न प्रयोज्या विच्छेदात्परतस्तथा ॥ नमः शिवाय शान्ताय तूदयबहुलोजसे ॥ ५॥ प्रत्ययादौ यतिर्नाम्नां पठ्यामेवेति केचन । अथ वर्णगणानां तु निवेशे फलमुच्यते ।। मनौ मित्रौ जतौ स्यातामुदासीनौ भयौ पुनः । भृत्यौ रसावरीनीचौ द्वौ द्वावेतौ स्वरूपतः ॥ मित्रान्मित्रे समृद्धिः स्यान्मित्राद्धृत्ये जयो मतः । मित्रादुदासीनगणे सुहृत्पीडा फलं मतम् ॥ मित्राच्छनौ बन्धुपीडा भृत्यान्मित्रे तु सिद्धयः । भृत्यादुदासीनगणे सद्यः स्यात्साध्वसं फलम् ।।

r
११. शेषबिन्दुः] मन्दारमरन्दचम्पूः ।
१६३
भृत्याद्भये जगदश्यं भृत्याच्छत्रौ महाव्यथा ।
उदासीनान्मित्रगणे कार्यसिद्धिर्न जायते ॥
उदासीनामृत्यगणे स्वजनैः कलहो भवेत् ।
शत्रोरुदासीनगणे स्वकुलस्य क्षयः फलम् ।।
शत्रोमित्रे फलं शून्यं शत्रोभृत्ये स्त्रियामृतिः।
शत्रोः शत्रौ काव्यकर्तु शो भवति निश्चितम् ॥
परिशुद्धार्णसंबन्धे राज्यप्राप्तिर्भवेद्धवम् ।
अतश्चाचां हलां चापि वर्णानां फलमुच्यते ॥
ऋलवौँ विहायाचः प्रोक्ताः संपत्करा बुधैः ।
कखौ गधौ च संपत्तौ उश्चापयशसि स्मृतः ॥
चः सुखे छः प्रेम्णि जस्तु मित्रलाभे च जो भये ।
झो मृतौ च टठौ दुःखे डः शोभायां च णो भ्रमे ।।
तः सुखे थश्च युद्ध ढो विशोभायां च दः सुखे ।
नौ संतोषे च पः सौख्ये फो भये वो भवेन्मृतौ ॥
भः क्लेशे मश्च दुःखे यो लक्ष्म्यां ल्वौ व्यसनेऽपि च ।
रो दाहे शः सुखे पो हः खेदे सः सौख्य एव च ।
लः स्याच विलये क्षस्तु समृद्धौ संप्रकीर्तितः॥
ये वैष्णवा दैवताश्च शब्दा भद्रादिवाचकाः ।
ते न निन्द्या गणादिभ्य इत्युक्तं पिङ्गलादिभिः ।।
उक्तात्युक्ता च मध्या च प्रतिष्ठान्यासु पूर्विका ।
गायन्युष्णिगनुष्टुप् च बृहती पतिरेव च ॥
त्रिष्टुब्जगती शकयत्यष्टयोऽन्या अतिपूर्विकाः ।
धृतिश्चातिधृतिश्चापि कृतिः प्रकृतिराकृतिः।।
विकृतिः संकृतिश्चातिकृतिरुत्कृतिरित्यपि ।
एकाक्षरं समारभ्य पुनरेकैकवर्धितैः ॥
पदैः • पृथक्च छन्दांसि पड्विंशतिरिति स्फुटम् ।
.

१६४ काव्यमाला। ऋजुरेखाकृतिईखो वक्ररेखाकृतिर्गुरुः ॥ आद्याद्गुरोर्लघुरधो यथोपरि तथापरम् । ऊने गुरुर्गुभावे प्रस्तारः पूर्ण उच्यते ॥ मध्यायां तृतीये छन्दसि प्रसारो यथा- SSS ISS SIS ||S SSI ISI Su ॥ S S १ आद्यतो द्विगुणैरबैर्वधितैरेकमिश्रितैः । गण्यते छन्दसां वृत्तमुद्दिष्टं तु लघुस्थितैः ॥ गायत्र्यामुद्दिष्टम् । s। २ । ४ । ८ | १६ | ३२ २३ विषमे परिगृौकमर्धस्यार्धाधभागतः । समे गुरुं परत्रान्यं क्षिप्त्वा नष्टं समुद्धरेत् ।। गायत्र्यामेव नष्टं वृत्तम् ४३ । ४३ / २२/११/६ s। ।। एकैकाङ्काल्लिखेत्पूर्व छन्दसो वर्णसंख्यया । तदधो द्विगुणीकृत्य पुनश्चाङ्कान्समालिखेत् ॥ आद्यादिक्रमतवाद्धैर्गुणितैरेकमिश्रितैः । ज्ञेया संख्या तु वृत्तानामिदं संख्यानमिष्यते ॥ गायत्र्यामेव संख्यानं यथा- १११ १ १ २ ३ २ १ १ ४ १६३२ ६४ छन्दोवर्णसमान्सैकानकान्पूर्व लिखेत्ततः। एकैकत्यागतस्तेषामेकन्यादिक्रमेण च ।। सपूर्वैकैकगणनमुपर्युपरि निक्षिपेत् ।

११. शेषबिन्दुः] मन्दारमरन्दचम्पूः। प्रथमाङ्कक्रमात्पश्चाद्विजानीयाल्लगक्रियाम् ॥ यथा गायत्र्यां लगक्रिया- २ । ३ गु. १ ४ ५ 0/0/ . . . . ० . ५ ० २० १० ४ . १५ سه . ६ ४ ६ ३ १ २ . १ १ १ १ गु| १ १ | ल एकोना द्विगुणा संख्या प्रोक्ताध्वेति मनीपिभिः । प्रस्तारश्च तथोद्दिष्टं नष्टं संख्यानमेव च । लगक्रिया तथाध्वेति प्रयोगाः पडिमे मताः॥ प्रस्तारा मेरुशकटपताकामर्कटाभिधाः। पदप्रयोगेष्वेव चैतेष्वन्तर्भूता भवन्ति हि ।। अथ वेदान्तिनां मात्रिकाणां मतमुदीर्यते । मुख्यानि सप्त च्छन्दांसि गायत्र्युष्णिगनुएमः ॥ बृहती च तथा पतिस्त्रिष्टुप् च जगतीत्यपि । अतिच्छन्दांसि सप्त स्युस्तथातिजगती पुनः॥ शक्करी सातिपूर्वा न्याय्यत्यष्टी धृतिरेव च । तथातिधृतिरित्येवं कथितानि चतुर्दश ।। चतुर्विंशत्यक्षरात्मा गायत्री त्रिपदा मता। त्रयोदशान्यच्छन्दांसि चतुर्वर्णाधिकानि च ॥ चतुश्चरणयुक्तानि गायत्र्याश्चोत्तरोत्तरम् । तथा विराट्रककुन्मूलच्छन्दसी परिकीर्तिते ॥ एकाक्षरा यक्षरा च विराट्छन्दः प्रकीर्तितम् । पञ्चवर्णा चतुर्वर्णा व्यक्षरा च ककुन्मता ॥ गायत्र्या देवता वह्निर्विश्वेदेवौ त(वास्त)थोष्णिहः । बृहत्या देवता सूर्यो बृहस्पतिरनुष्टुभः ॥

काव्यमाला। अश्विनौ देवता पलेस्त्रिष्टुभश्च सुधाकरः। जगतीछन्दसः प्रोक्तो देवता नाकनायकः ॥ पृथ्वी विराट्छन्दसः स्यात्ककुदस्तु त्रिविक्रमः । ककुद्विराट्छन्दसोस्तु केचिदेवं हरिं विदुः ॥ कृतिः प्रकृत्याकृती च विकृतिः संकृतिस्तथा । अतिकृत्युत्कृती चातिधृतावन्तर्भवन्ति हि ॥ यथा प्राचीनम्- पान्त्वस्मान्पुरुहूतवैरिबलवन्मातङ्गमाद्यद्धया- कुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः । श्रीमत्कण्ठीरवास्यप्रततसुनखरादारितारातिदूर- प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता नाकिवृन्दैः॥ ६ । अत्र प्रकृतेरतिधृत्यामन्तर्भावः । एवमन्यत्रोदाहार्यम् । न वैकेनाक्ष रेण छन्दांसि विलीयन्ते । न द्वाभ्याम् ॥ इति श्रुत्या गुरुलघुमाकद्वितयेन वा । न्यूनेन वाधिकेनापि तेषां छन्दो न भज्यते । अलंकारिमते तेन छन्दोभङ्गो भवेद्भुवम् । इति छन्दःप्रकरणम् । रसापकर्षहेतुत्वं दोषत्वं परिकीर्तितम् । स दोषः शब्दगत्वेनार्थगत्वेन च द्विधा ।। शब्ददोषो द्विधा प्रोक्तः पदवाक्यविभेदतः । तत्र श्रुतिकटुभ्रष्टसंस्कारं चाप्रयुक्तकम् ।। असमर्थ च निहतानुचितार्थे निरर्थकम् । अवाचकं तथाश्लीलं संदिग्धं चाप्रतीतकम् ।। ग्राम्यगूढार्थनेयार्थान्यथ क्लिष्टाप्रयोजके । अविमृष्टविधेयांश विरुद्धमतिकृत्तथा ॥ एवं च पददोषाः स्युर्बुधैरष्टादशोदिताः।

शेषबिन्दुः] मन्दारमरन्दचम्पूः।
तत्र श्रुतिकटु ज्ञेयं माधुर्याव्यञ्जकं पदम् ॥
न ते त्वद्दयिते किं वा नैष्ठुर्यमवलम्बसे ।
ययाकरणदुष्टं तद्धृष्टसंस्कारमुच्यते ।
रथ्यया संचरन्तं त्वां दृष्ट्वा विरमते वधूः ॥ ७ ॥
अप्रयुक्तं यदाम्नातमपि पूर्वैरनादृतम् ।।
विहायाः परितो भाति तौरैः स्मरवशोऽस्तिः ।
असमर्थमशक्तं यद्पसंधानमन्तरा।
विधाय त्वद्यशः सृष्टः शिष्टो धात्रा शशिच्छलात् ॥ ८ ॥
योगमात्रमयुक्तं चाप्यसमर्थमितीप्यते ॥
चतुरम्वुधराकान्तां भुनक्ति धरणी नृपः।
निहतार्थ द्वितीयार्थे ह्यप्रसिद्ध प्रयुज्यते ।
सतां क्षयकरो राजा राजते विधुवत्सदा ॥ ९॥
प्रस्तुतार्थविरुद्धार्थं भवेदनुचितार्थकम् ।।
अनुनीय मुहुर्दूतीं प्रेषयामास मानिनी ।
विदग्धहृदया कामशरवर्षणतेजसा ॥ १० ॥
पादपूरणमात्रार्थमव्ययादि निरर्थकम् ।
देवं कुण्ठितकालं.वै नमामि च सुरेश्वरम् ।
अवाचकं तु तात्पर्याविषयार्थप्रतीतिकृत् ।।
लुब्धका विहरन्ति त्वद्रिपुस्त्रीसंचयं वने ॥ ११ ॥
ब्रीडा जुगुप्सामाङ्गल्यव्यक्तीरश्लीलता मता।
उपस्थास्यत्युत्सवं ते देवोऽभिप्रेतमादरात् ।
संदिग्धं तत्तु कथितं यदनिर्धारितार्थकम् ।।
तमः परिहरेत्सोमः सर्वापेक्षितविग्रहः ॥ १२ ॥
शास्त्रान्तरेकसिद्धार्थमप्रतीतमुदाहृतम् ।
सन्तः कुर्वन्ति कर्माणि नियोगफलनिःस्पृहाः।
पासरव्यवहारैकप्रसिद्धं ग्राम्यमिप्यते ॥
स(क) धां कुर्वन्मिषात्तस्या गल्लयुग्मं चुचुम्ब सः ॥ १३ ॥

१६८ काव्यमाला। .. गूढार्थमप्रसिद्धार्थ प्रयुक्तं पदमिष्यते । ललाटे कुरुते कान्ता रुधिरं वीक्ष्य दर्पणम् । नेयार्थ स्याल्लाक्षणिकमशक्तं फलबोधने ॥ दृशापि नैव स्पृशति वाचा शोच्या रसं तव ॥ १४ ॥ स्वसंकेते प्रयुक्तं चाप्यर्थे नेयार्थमिष्यते । धत्ते तव रिपुस्त्रैणं नवं कवचमाकुलम् । क्लिष्टं भवेत्तद्यत्रार्थप्रतिपत्तिर्विवक्षिता॥ दशास्यजजितोद्भूतरिपुस्त्रीजननीपतिः ॥ १५ ॥ तदप्रयोजकं यत्यादविशेषविधायकम् । वसामि पर्वते भूमौ स्थिते तृणशिलायुते । अविमृष्टविधेयांशं चेद्विधेयाप्रधानता ॥ शूरगर्हितकीर्तिः स पलायनपरोऽभवत् । सर्व कषसि गर्व त्वं न केषां युधि रक्षसाम् ॥ १६ ॥ भवेद्विरुद्धमतिकृद्विपरीतार्थबोधकम् । नित्यं धर्माहितमतिः सोऽयं परमशोभनः । अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् । दोषाः श्रुतिकटुवाद्याः सर्वे वाक्येऽप्यमी मताः ॥ अर्हन्ति बर्हिणां बर्हगहाँ तन्मूर्धजा मुहुः ॥ १७ ॥ शब्दहीनं क्रमभ्रष्टं हतवृत्तं हतोपमम् । यतिभङ्गोऽनुक्तवाच्यं समाप्तपुनरात्तकम् ॥ भनछन्दश्च संकीर्णमपूर्ण वाक्यगर्भितम् । अर्थान्तरस्थैकपदं विसंधिपुनरुक्तिमत् ॥ अशरीराधिकपदप्रसिद्धिविधुराणि च । अपदस्थसमासं च तथा मतविसर्गकम् ॥ अपदस्थपदं भग्नप्रक्रम गर्हितं तथा । अभवन्मतयोगं चावर्णामतपदार्थके ।। पतत्प्रकर्षमित्येवं वाक्यदोषा रसभ्रवः । A १६९ ११. शेषबिन्दुः]] मन्दारमरन्दचम्पूः। शब्दशास्त्रहतं वाक्यं शब्दहीनमितीर्यते ।। संपश्यते मुखं तस्याः साकूतं पल्लवाग्रणीः । क्रमभ्रष्टं भवेद्वाक्यं यत्र शब्दस्य विक्रमः। यशःप्रतापयोर्मनौ सूर्याचन्द्रमसौ तव ॥ १८ ॥ हतवृत्तं भवेद्यत्र वृत्तं रसविरोधि तत् ॥ वल्गत्खड़े न तेन द्राक्खण्डिताः खण्डशो द्विषः । असंमतोपमा यत्र कवीनां तद्धतोपमम् । तद्भिन्नलिङ्गवचनाधिकन्यूनोपमात्मना । चतुर्धा कथितस्तेषां लक्षणोदाहृती जुवे । भिन्नलिङ्गं भवेद्यत्रोपमा स्थाद्भिन्नलिङ्गका ॥ गिरिणेव कुचस्थल्या राजते मानिनीमणिः ॥ १९ ॥ तद्भिन्नवचनं भिन्नवचना यत्र चोपमा। मल्लिका इव कान्ताया मन्दहासो विराजते । यत्रोपमानमधिकं तद्भवेदधिकोपमम् ।। कामिन्या वदनं भाति पद्मविम्बमिव श्रिया ॥ २० ॥ न्यूनं यत्रोपमानं स्यात्तन्यूनोपममिष्यते । यथा रेजे श्रिया विष्णुस्तथा राट् खस्त्रिया भुवा । यत्र स्थाने न विच्छेदो यतिभ्रष्टं तदिष्यते ।। अनन्यललनासामान्येयं साध्वी विराजते ॥ २१ ॥ अनुक्तवाच्यं वक्तव्यानभिधायिपदोक्तितः। शौरेः पद्मानुरक्तस्य तथाप्येषा मनोहरा । मुख्यक्रियान्वये जाते पुनः किंचिद्विशेषणम् ॥ यत्रोपादीयते तत्तु समाप्तपुनराप्तकम् । स्मरजैत्रपताकेयं जयत्यखिलरञ्जनी ।। २२ ।। छन्दोभनं वचो यत्र भग्नच्छन्दस्तदिष्यते । मुहुरालिङ्गति प्राणप्रियं कन्दर्पसदृशम् । संकीर्णमन्यवाक्ये चेदन्यवाक्यपदं समम् । मन्दा. १५ - काव्यमाला। चित्तमुञ्चाक्षयं भोगं शिवं क्षणिकमाश्रय । अपेक्षितपदानुक्तिर्यत्रापूर्ण तदिष्यते ॥ किं तपश्चरितं शेते तत्कुचाभ्यन्तरं मुहुः ।। २३ ॥ इदमेव न्यूनपदाभिधं संवन्धवर्जितम् । तद्वाक्यगर्भितं यस्य मध्ये वाक्यान्तरं यदि ॥ बुध्वापि साध्वीं तां कान्तां खलानां बुद्धिरीदृशी । निर्मिता विधिना सोऽयं साहसं संगमेऽकरोत् ॥ २४ ॥ एकार्थकपदं चान्यार्थकवाक्यान्तरे यदि । अर्थान्तरस्थैकपदं नाम तत्स्यात्प्रवेशनम् ।। कौस्तुभालंकृतं वक्षः कैटभारेः कपर्दिनः । चूडालो बालचन्द्रेण जटाजूटश्च पातु नः ॥ २५ ॥ असंमतः कवीनां च यत्र संधिर्विसंधि तत् । विसंहिताश्लीलकटुभेदेन त्रिविधं हि तत् ॥ शब्दशास्त्रहतः संधिः संहितायां विसंहितम् । भाति इन्दुरिवैतस्या मुखमेणीदृशोऽधुना । ब्रीडाजुगुप्साकार्यर्थामङ्गलार्थप्रतीतिकृत् ॥ विसंध्यश्लीलाह्वयं च त्रिविधं परिकीर्तितम् । यो निर्दुःखं सुखं भेजे राज्ये तस्याधुनाभवत् । वपुरीषद्गलद्वारि भयाद्वप्रे तव द्विषः ॥ २६ ॥ संधौ श्रुतिकटुत्वं चेद्भवेत्कटुविसंधि तत् ।। असिपुत्र्यलिरुग्धन्त द्रोग्धुरस्य पतद्धटात् । शब्दार्थपौनरुक्त्ये तु पुनरुक्तिमदिष्यते । विन्ध्ये काननसंकीर्णे वयं काननवृत्तयः ॥२७॥ क्रियापदेन रहितमशरीरमितीर्यते ॥ ताहशीं कामिनी मां च तादृशं नृपति विधे। इदमेवानन्वयाख्यं दूषणं परिकीर्तितम् । अवक्तव्यार्थबोधः स्वायत्राधिकपदं हि तत् ॥

१७१ ११. शेषविन्दुः] मन्दारमरन्दचम्पूः। नीलोत्पलदलाकारसदृशं तव लोचनम् । कविप्रसिद्ध्यतिक्रान्तं प्रसिद्धिविधुरं मतम् । भुवनान्युपकाराणां श्रेणिभिः प्रीणयन्ति ते ॥ २८॥ अपदस्थसमासं सादस्याने चेत्समस्यते ॥ धनूंषि नमयन्त्येते न शिरांसीत्यरीन्प्रति । सद्यःसमुद्यत्क्रोधोच्चैर्बद्धभ्रूकुटिरास सः ॥ २९ ॥ यत्रामतविसर्ग तद्विसर्गाः कव्यसंमताः । तद्विसर्गोत्तरं नष्टं स्फुटं लुप्तमिति त्रिधा ॥ ओत्वप्राप्तौ विसर्गाणां ज्ञेयं नष्टविसर्गकम् । भवतो विमतो भीतो यातो दारयुतो वनम् । यत्र स्फुटा विसर्गाः स्युस्तत्स्यात्स्फुटविसर्गकम् अहितः सहितः सैन्यैः परितः क्षपितस्त्वया ॥ विसर्गा यत्र लुप्ताः स्युस्तत्स्याल्लुप्तविसर्गकम् विनता रक्षिता राज्ञा निहता विमता रणे। अपदस्थपदं तत्स्यायनास्थाने पदं भवेत् ।। वसुंधरायामेव त्वं धरानाथ धनुर्धरः ॥ ३१ ॥ प्रक्रान्तशैलीत्यागे तु भग्नप्रक्रममिष्यते । गुहा गृहा मही शय्या वैष्णवा वान्धवा मम । गर्हितं यदि वाक्यार्थे वाक्यान्तरनिवेशनम् ॥ चित्त श्रेयस्करं मुञ्च भज तृष्णां सदाशिवम् ॥ ३२॥ इदमेव भवेद्वाक्यसंकीर्णाभिधदूषणम् । अभवन्मतयोगं स्वादिष्टान्वयमतिर्न चेत् ॥ यैर्ध्यातस्त्वं ये स्तुवन्ति जनास्त्वामीश पासि तान् । अवर्ण नाम कथितं रसाननुगुणं वचः । ज्ञानध्वस्तसमस्तोऽहं ब्रह्म साक्षांक्रिये कदा ॥ ३३ ॥ इदमेवारीति नाम प्रतिकूलाक्षरं तथा । विरुद्धरसयोर्व्यक्तिर्यदामतपदार्थकम् ।

4 १७२ काव्यमाला। आरुह्योरुस्थली व्याघ्रीं चुम्बत्यस्य मुखाम्बुजम् । पतत्प्रकर्ष बन्धस्य पादे पादे अहीणता ॥ विव(प)क्ष्यक्षितिभृत्पक्षच्छेदी विजयते नृपः ॥ ३४ ।। पद्य एव च दोषत्वं स्याच्छन्दोयतिभङ्गयोः। चतुर्विंशतिरन्ये च स्युर्दोषा वाक्यपद्ययोः ॥ पद्यदोषौ विदुः केचिद्धतवृत्तविसंहिते । अपुष्टकष्टव्याघातपुनरुक्ताधिकोपमाः ।। अपार्थदुष्क्रमग्राम्यसंदिग्धनियमच्युताः । साकाङ्क्षपुरुषाश्लीलव्यर्थभिन्नासमोपमाः॥ अनिरूप्यश्चातिमात्रो निर्हेतुरनवीकृतः । अप्रसिद्धपमो हीनोपमः सहचरच्युतः॥ विरुद्धचेति दुष्टार्थाश्चतुर्विंशतिरीरिताः । उत्कर्ष यो न पुष्णाति सोऽर्थोऽपुष्ट इतीष्यते ॥ उदयं भजते चन्द्रः पौर्णम्यां रजनीमुखे । कृच्छ्रेण गम्यते योऽर्थः स कष्ट इति कथ्यते । तर्को यस्त्वाह मद्वञ्यं तत्फलोक्ताववाक् स किम् ॥ ३५ ॥ व्याघातः पूर्वकथितविरुद्धार्थोपवर्णने । त्वन्मुखेन्दुतुला कस्मादिन्दोरस्य कलकिनः । पुनरुक्तः प्रतीतार्थकथनं स्थाद्विना फलम् । यथा स्कन्देन गिरिजा जयन्तेन यथा शची। तथा सुतेन सा रेजे तत्समेनेह तत्समा ॥ ३६ ॥ इदमेव बुधा एकार्थाभिधं दूषणं विदुः॥ यत्रोपमानमधिकं कथितः सोऽधिकोपमः। बकः पर्वतशृङ्गाग्रे गरुत्मानिव राजते । न यत्र समुदायार्थः सोऽपार्थ इति कीर्तितः॥ रटन्ति करटाः क्रूर सुन्दरी नृपकामिनी ॥ ३७॥ दुष्क्रमस्तु यथायोग्यक्रमहीनार्थ इष्यते ।

१७३ ११ शेषविन्दुः] मन्दारमरन्दचम्पूः। समुद्धरेदसाबद्रीन्पादपान्वा बलोद्धतः । अविदग्धैरुच्यमानस्त्वर्थो ग्राम्य इतीरितः ॥ मयि संभोगसाकाङ्केऽप्यवले किमुपेक्षसे ॥ ३८ ॥ तात्पर्यग्राहकाभावात्संदिग्धोऽनवधारितः। अर्थः सेव्योऽथ वा :कामो भवन्तः कथयन्तु मे । अवश्यवाच्यनियमरहितो नियमच्युतः॥ अद्य राजन्वती जाता त्वया नृप वसुंधरा ।। ३९ ॥ पदार्थान्तरसापेक्षस्वर्थः : साकास उच्यते । भीमो नामृष्यत तदा क्लिश्यमानां परैः प्रियाम् । अत्यन्तकर्कशार्थस्तु परुषो नाम कीर्तितः ॥ दावानलेन्धनं सद्यः क्रियन्तामर्भका इमे ॥ ४० ॥ अश्लीलः स्यात्स वाक्यार्थो व्रीडाकार्यर्थसूचकः । प्रविशत्युस्थितो धृष्टो रन्ध्रमिच्छन्पुनः पुनः । अयोजनेन रहितो योऽर्थः स व्यर्थ इष्यते ।। घटी कुचतटी कान्ता विटं किमिति नेहते ॥ ४१ ॥ संवन्धवर्जितो योऽर्थः स भिन्न इति कथ्यते । श्लाघ्यो रत्नाकरो यस्मात्क्षराणां पयसां निधिः । यत्रासदृक्षोपमानं सोऽर्थः स्यादसमोपमः ॥ ललाटतटसंस्पृष्टमुक्ताजालकमण्डितः । वाजी फालस्फुरन्नेत्रो महादेव इवाबभौ ॥ ४२ ॥ अनिरूप्यो नामतः सादयुक्तस्यानुवादतः। हरते पथिक प्राणाञ्जगत्प्राणोऽतिपातकी । यः सर्वलोकातीतार्थः सोऽतिमात्र इतीरित:।। सभापि ब्रह्मणो ममा चकोरीनयनाम्बुषु ॥ ४३ ।।. हेतुं विनोच्यते योऽर्थः स निर्हेतुरितीर्यते । वेश्येयं बहुदातारमपि तं न समीहते । विशेषापर्यवसितः : स्यादर्थस्वनवीकृतः। .

१७४ काव्यमाला। । किं विद्यया किं धनेन किमु स्त्रीभिः किमायुषा ॥४४॥ यत्राप्रसिद्धोपमानमप्रसिद्धोपमश्च सः । वियुक्तकामिनीवत्रं दिवा नीलाब्जवबभौ । हीनं यत्रोपमानं स्यात्सोऽर्थो हीनोपमो मतः ॥ अलर्केणेव सारंगा भवता निहता द्विषः ॥ ४५ ॥ अतुल्येन सहोक्तार्थों भवेत्सहचरच्युतः। ज्योत्स्नेवेन्दं मृषोद्येव धूर्त सा न जहौ पतिम् । विरुद्धो देशकालादिविरुद्धार्थः प्रकीर्तितः ।। मरुस्थलेऽपि गङ्गा नः पिपासां शमयिष्यति ॥ ४६॥ केषांचिदथ दोषाणामप्यदोषखमुच्यते । समाप्तपुनराप्तत्वं सर्वेषां न हि संमतम् ।। अप्रयुक्तत्वमधिकपदत्व[म]समर्थता । श्लेषचित्रोपयोगित्वाद्दोषवं न भजेक्वचित् ।। निरर्थकत्वं शब्दालंकारे श्लेषे च न कचित् । संकीर्णार्थान्तरस्थैकपदत्वे चित्रयोन हि ॥ श्लेषे कचिच्च गूढार्थनेयार्थत्वेन दोषताम् । शास्त्रार्थे न यते नाथारुत्वे नातिमात्रता ॥ चित्रे कचिन्न साकासक्रमभ्रष्टत्वकष्टताः। अपदस्थपदत्वं चाप्यपदस्थसमासता ॥ ध्वनौ संदिग्धनियमच्युतत्वेन कचित्कचित् । अपुष्टार्थो न दोषाय प्रयोजनवशात्कचित् ।। विभान्ति पुष्पस्तबकैलताः कान्ता इव स्तनैः । हेतोरतिप्रसिद्धत्वे निर्हेतोः स्याददुष्टता। वदनं वीक्ष्य तन्वझ्याः सरःपद्मान्यलिजहौ। नीरसादौ कचिद्दोषो न दोषो नाप्यसौ गुणः ॥ पर्जन्यस्तर्जयामास गर्जितैरूर्जितैर्जनान् ॥ ४७ ॥ .

१७५ ११. शेषबिन्दुः] मन्दारमरन्दचम्पूः। वस्तुतस्तु कवीनां चेद्धृदयानन्दकारणम् । न दुष्टं स्यादन्यथा चेद्दुष्टतां भजति ध्रुवम् ।। इति काव्यदोषप्रकरणम् । ये रसस्याङ्गिनो धर्माः शौर्यादय इव स्थिताः । उत्कर्षहेतवस्ते स्यू रचनास्थितयो गुणाः ॥ ओजोमाधुर्यगाम्भीर्यप्रसाद श्लेषविस्तराः । समता सौकुमार्य च सौशब्धं भाविक गतिः॥ अर्थव्यक्तिरुदारत्वं सौम्यं कान्तिरुदात्तता। प्रेयः प्रौढी रीतिरुक्तिः संमितत्वं तथैव च ॥ समाध्यौर्जित्यसंक्षेपास्ते चतुर्विंशतिः स्मृताः। दीर्घदीर्घसमासत्वमोजःशब्देन गीयते ॥ तुहिननगतनूजानाथनालीकखेल- द्रजनिकमनकन्यासारलीलाहसच्छ्रीः । प्रणयकुपितकान्ताकान्तनेत्रान्तपाते सति रतिपतिसूनोः पातु वः समिता वै ॥ १८ ॥ पृथक्पदत्वं माधुर्यं गाम्भीर्य ध्वनिरुक्तता। शीघ्रार्थबोधकत्वं तु प्रसाद इति कथ्यते ।। मिथः संश्लिष्टपदता श्लेष इत्युच्यते बुधैः । विस्तरस्त्वतिविस्तारादुक्तार्थस्य समर्थनम् ।। अवैषम्यं च समता सौकुमार्यमरूक्षता । सुप्तिङ्ग्युत्पत्तिसंबन्धः सौशब्द्यमिति कथ्यते ॥ यत्र भाववशाद्वाक्यवृत्तिस्तत्र तु भाविकम् । खरारोहावरोहाभ्यां रम्यत्वं गतिरिष्यते ।। अर्थव्यक्तिस्तु संपूर्णखरूपस्फुटता मता। विकटाक्षरवन्धत्वमुदारत्वमितीष्यते ॥ कान्तिरज्वलता सौक्षम्यमन्तः सोज्वलरूपता।

१७६
काव्यमाला।
उदात्तता भवेद्यत्र योगः श्लाघ्यविशेषणैः ।।
प्रेयः प्रियतराख्यानं चाटूक्तौ यद्विधीयते ।
अत्यन्तपक्रिमोक्तिस्तु प्रौढिरित्यभिधीयते ।।
यथोपक्रमनिर्वाहः सान्तं रीतिरितीर्यते ।
विदग्धभणनं यत्तु तदुक्तिरिति कथ्यते ।।
यावदर्थपदत्वं तु संमितत्वमुदाहृतम् ।
समाधिरन्यधर्माणां यदन्यत्राधिरोहणम् ।।
पदन्यासस्य गाढत्वमौर्जित्यमिति कीर्त्यते ।
संक्षेपतोऽर्थकथनं संक्षेप इति कथ्यते ॥
गाम्भीर्य विस्तरः सौक्षम्यमर्थव्यक्तिस्तथैव च ॥
प्रौढिरुक्तिः समाधिश्च प्रेयः संक्षेप इत्यपि ।
एवं नव गुणा आर्था अन्ये शब्दगुणा मताः ॥
दोषाभावस्यापि गुणत्वं येऽङ्गीकुर्वन्ति तेषां मत एवैतेषां गुणत्वम् ।
दोषाभावस्य गुणत्वानङ्गीकर्तृणां मतमितः परं ब्रूमः । तथा हि ।
ओजः प्रौढिरुदारत्वं माधुर्यं भावुकं गतिः ।
संक्षेपश्चेति सप्तैते गुणाः स्यू रचनास्थिताः ।
ग्राम्यत्वदोषाभावात्सा कान्तिनैव विभिद्यते ।
संमितत्वं त्वपूर्णत्वदोषाभावान्न भिद्यते ।
उदात्तत्वं चानुचितार्थत्वाभावान्न भिद्यते ।
अर्थव्यक्तिस्तु साकासत्वाभावान्नातिरिच्यते ॥
सौशब्धं च्युतसंस्कारत्वाभावान पृथग्भवेत् ।
और्जित्यं तु विसंबन्धित्वाभावतो नातिरिच्यते ॥
पतत्प्रकर्षताभावात्समता न विभिद्यते ।
अश्लीलतार्थदोषस्याभावादुक्तिर्न भिद्यते ।।
परुषस्यार्थदोषस्याभावात्प्रेयो न भिद्यते ।
भग्नप्रक्रमताभावाद्रीतिस्तु न पृथग्भवेत् ॥
समाधिरर्थरूपत्वात्काव्यरूपं गुणो न सः।
..

१७७
११. शेषबिन्दुः]
मन्दारमरन्दचम्पूः।
प्रसादः पदसौकर्यादक्लिष्टलान्न भिद्यते ।
श्लेषः कटुविसंधिवाभावतो नातिरिच्यते ॥
चित्रार्थखात्सौक्ष्म्यगुणस्वर्थचित्रान्न भिद्यते ।
विस्तराख्यः काव्यलिङ्गालंकारान्नातिरिच्यते ॥
सौकुमार्य श्रुतिकटुखाभावान्नातिरिच्यते ।
गाम्भीर्य वर्थशक्त्युत्थध्वनितो नातिरिच्यते ।।
शृङ्गारे करुणे चापि माधुर्यं स्याद्विशेषतः।
उदारवौजसी प्रोक्ते वीरे वीभत्सरौद्रयोः ।
ओजोगुणस्तु कथितः शृङ्गारेऽप्यद्भुते क्वचित् ।
अन्ये चतुर्गुणाः सर्वरसेष्वपि यथोचितम् ॥
वस्तुतस्तु मतेऽप्येषां गुणानां घटना स्थितेः।
समाधिसौक्ष्म्यगाम्भीर्यविस्तराः स्युर्गुणा ध्रुवम् ।।
इति गुणप्रकरणम् ।
अकारादिक्षकारान्ता वर्णा स्युः पदतां गताः ।
पदानि द्विविधानि स्युस्तिङ्सुबन्तविभेदतः ॥
संचयं तिवन्तानां वाक्यमाहुर्विपश्चितः।
शब्दस्तु त्रिविधः शक्तलक्षकव्यञ्जकात्मना ।।
साक्षात्संकेतितं योऽर्थमभिधत्ते स वाचकः।
भवेल्लाक्षणिक शब्दो लक्षणाया: समाश्रयः ।
व्यञ्जकः स भवेच्छब्दो व्यञ्जनायाः समाश्रयः॥
तदर्थोऽपि विधा शक्यलक्ष्यव्यङ्ग्यविभेदतः॥
तुर्यस्तात्पर्य विषयो वाक्यार्थ इति तार्किकाः।
अन्ये शक्यं तमप्याहुरपरे लक्ष्यमूचिरे ॥
वाच्यादयस्त्रयोऽप्यर्था मन्मते व्यञ्जका मताः ।
शब्दवृत्तिरिति प्रोक्ता शब्दव्यापाररूपिणी ॥
अभिधा लक्षणा चैव व्यञ्जना चेति सा त्रिधा ॥

काव्यमाला। यथाभिधा- व्यापारः शक्यधीहेतुर्मुख्यः शब्दगतोऽभिधा । रूढिोगो योगरूढिरिति सा त्रिविधा मता ॥ रूढिस्वखण्डशक्त्यैव स्यादेकार्थाभिधायिता। पदं रूढं बुधाः प्रोचुस्ता]ढिसमाश्रितम् ।। पीनौ वध्वाः कुचावेतौ मुक्ताहारेण राजतः । योगोऽवयवशक्त्यैव स्यादेकार्थाभिधायिता। यौगिकं कथ्यते पाहोंगेन सहितं पदम् ॥ रागिन् कान्तापदाघातः कामिनस्तेऽद्य सांप्रतम् ॥ १९ ॥ योगरूढिस्तु शक्तिभ्यामेकार्थप्रतिपादकः। ब्रुवते योगरूढं तद्योगवढियुतं पदम् ॥ मृगाक्षी पद्मनाभस्य मन्दिरे वसतान्मम । वैशेषिकास्तु ब्रुवते पदं यौगिकरूढिकम् । रूढ्या चैकार्थकं योगेनान्यार्थं चोद्भिदादि तत् ।। अथ लक्षणा- तात्पर्यविषयीभूतार्थान्वयानुपपत्तितः । शक्यभिन्नार्थीहेतुर्व्यापारो लक्षणेष्यते ॥ द्विविधा सा रूढिपूर्वा फलपूर्वेति भेदतः। तत्राद्या व्यङ्ग्यरहिता सव्यङ्ग्या फललक्षणा ।। स्थाढिलक्षणा द्वेधा गौणी शुद्धति भेदतः। शक्यसादृश्यसंबन्धरूपा गौणीत्युदीरिता ॥ लावण्यनिधिरेवैषां प्रवीणा युवरञ्जने ॥ ५० ॥ सा शुद्धा सादृश्यभिन्नशक्यसंबन्धरूपिणी । पुष्पं धनुा द्विरेफा सरस्तदपि दिग्जयी। जहती चाप्यजहती जहत्पूर्वा जहत्यपि ॥ सारोपा साध्यवसितिरित्यन्या पञ्चधा मता। सा जहल्लक्षणा यत्र खार्थ हिखान्यवृत्तितः॥

१०९ ११. शेषबिन्दुः] मन्दारमरन्दचम्पूः। साक्षी मुकुन्दकेलीनां यमुनायामयं व्रजः ॥ ५१ ॥ खसिद्धये पराक्षेपे त्वजहल्लक्षणा मता । वीक्ष्यानुद्रवतः कुन्तान्द्रवन्तिच्छत्रिणो रणात् ।। खार्थंकदेशवृत्तौ तु जहत्यजहती मता । पुष्पितं वनमालोक्य सोऽयं पान्थः स्मराहतः ।। ५२ ॥ सारोपोपात्तविषयिविषयामेदवोधिनी। सारोपा द्विविधा सा तु गौणी शुद्धति भेदतः ॥ सादृश्यात्मकसंवन्धरूपा गौणीति कीर्तिता। अन्या तदन्यसंबन्धरूपा शुद्धेति कीर्त्यते ॥ मुखेन्दुनयनानन्दस्तन्व्या विजयतेतराम् । निगीर्य विषयं यत्र विषय्येव निबध्यते । तत्र साध्यवसाना स्यात्कविप्रौढोक्तिसंमता ॥ सरोजकाहलीरम्भासैकताकाशभूधरैः ॥ ५३ ।। शङ्खन्दुतिमिरैः सृष्टा वल्ली कामिजनोत्सवः । संगिरन्ते द्विरेफादौ केचिल्लक्षितलक्षणाम् ।। ५४ ॥ अत्र व्यङ्गयं क्वचिद्भूढमगूढं च कचिद्भवेत् । फले लाक्षणिकस्यास्य व्यापारी व्यञ्जनेष्यते ।। अथ व्यञ्जना- यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते । फले शब्दैकगम्येन व्यञ्जनानापरा क्रिया ॥ नाभिधा समयाभावाद्धेखभावान्न लक्षणा । प्रयोजना(न)विशिष्टस्य लक्षणा तु न युज्यते ।। लक्ष्याभिधेयाद (भ्याम) न्यद्यतो वाच्यं प्रयोजनम् । तसाल्लक्ष्ये प्रतीते तु पावनखादिबोधने । अभिधालक्षणाभिन्ना व्यञ्जनैवात्र कारणम् । वाच्यलक्ष्यविभिन्नार्थधीकृव्यातिरञ्जनम् ।। सामोदनुमनोजातजुष्टो जयति माधवः ।।

१८० काव्यमाला। अत्रार्थप्रत्ययद्वारेणोपमायाश्च या मतिः । अभिधालक्षणाभिन्ना व्यञ्जनैवात्र कारणम् ।। अनेकार्थस्य शब्दस्य वाचकत्वे नियत्रिते। संयोगाद्यैर्विवक्ष्यार्थधीकृयातिरञ्जनम् ।। संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थानेकतायां चेद्विशेषस्मृतिहेतवः ॥ संयोगस्तु स्ववाच्यैकनिष्ठार्थान्तरसंनिधिः । पुङ्ख्यत्यधिकां लक्ष्मी शङ्खचक्रधरो हरिः ॥ ५५ ॥ विप्रयोगस्तु संयोगाभाव एव निगद्यते ॥ अशङ्खचक्रः स हरिरपिनाको भवो भवान् । साहचर्य स्खवाच्यैकवस्तुनः सहचारिता। वन्दारुजनमन्दारौ रामकृष्णौ नमाम्यहम् ॥ ५६ ॥ सहानवस्थितिर्वध्यहन्तृत्वं च विरोधिता ॥ दिनं निशां च संयुध्य रामोऽजैषीद्दशाननम् । अर्थः प्रयोजनं स्थाणुं संसारच्छित्तये भजे ॥ विदुः प्रकरणं वक्तृश्रोतृबुद्धिस्थितं बुधाः । जानाति सकलं देवः प्रश्नोऽयं वितथोऽधुना ।। लिङ्गं स्ववाच्यान्तरेभ्यो व्यावृत्तो धर्म इष्यते । जय्यो जगति केनेष कुपितो मकरध्वजः ।। सामानाधिकरण्यं यन्नियतार्थपदे हि तत् । शब्दान्तरस्य सांनिध्यं देवोऽव्यात्रिपुराहितः ।। सामर्थ्य स्यात्कारणत्वं मत्तोऽयं मधुना पिकः । औचित्यन्वययोग्यत्वं गच्छत्यारुह्य सैन्धवम् ।। देशः पुरादी राजान नगरे राजते मुहुः । कालो निशादिस्तामस्यां चित्रभानुर्विराजते ।। . ३

११. शेषविन्दुः] मन्दारमरन्दचम्पूः।
पुंलिङ्गादिभवेद्व्यक्तिमित्रो भात्युदयं गतः ।
उदात्तादिः स्वरादिः स्यादिन्द्रशत्रो इति श्रुतौ ।।
यतोऽर्थधियमुत्पाद्य शब्दार्थान्तरबुद्धिकृत् ।
ततोऽर्थो व्यञ्जकः शब्दसहकारितया मतः ।।
वाच्यलक्ष्यव्यङ्गभेदादा ये त्रिविधा मताः ।
तेपामपि व्यञ्जकत्वमधुना प्रतिपाद्यते ॥
वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसंनिधेः ।
प्रस्तावदेशकालादेवैशिष्टयात्प्रतिभाजुपाम् ।।
योऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यञ्जनैव सा ।
अस्तंगतोऽद्य सविता पथिक क प्रयास्यसि ।।
इत्यादौ वक्तृवैशिष्ट्वज्ञानाद्रत्यभिलाषधीः ।
प्रातश्चेन्नाथ को दोषः श्रान्तोऽसि सपिहि क्षणम् ।।
अत्र बोद्धव्यवैशिष्ट्याद्वक्तकोपः प्रतीयते ।
सखि श्रुत्वापि मामेवं नानुतापमुपैति सः ॥
इत्यादौ काकुवैशिष्वज्ञानाधावार्थनिश्चयः ।
खप्नेऽपि नास्मरः प्राङ् मां भाग्येनाद्यागतोऽसि मे ॥
इत्यादी वाक्यवैशिष्ट्यज्ञानाव्यङ्ग्यार्थनिश्चयः ।
शून्या प्रपेयमेकाकिन्यस्मि पान्थास्यतां क्षणम् ।
इत्यादौ वाच्यवैशिष्ट्यज्ञानाव्याथार्थनिश्चयः ।
एकाकिन्येव यास्यामि जलाथै कथमापगाम् ॥
इत्यादिषु व्यङ्ग्यबुद्धिर्वैशिष्ट्यादन्यसंनिधेः ।
वयस्ये प्रतिवेशिन्याः पतिरय समागतः ॥
अत्र प्रस्ताववैशिष्मज्ञानायथार्थनिश्चयः।
सख्यो दूरं गता गन्तुमक्षमाहमिह स्थिता ।।
इत्यादौ देशवैशिष्ट्यज्ञानायजयार्थधीर्मता ।
गृहकृत्यव्यामृताया विश्रामोऽधैव मे सखि ।।
इत्यादौ कालवैशिष्ट्यज्ञानाध्यङ्गयार्थनिश्चयः ।
.
मन्दा० १६

१८२
काव्यमाला।
फलानि दिश भव्यानि निवेश्य मणिबन्धने ।
बिम्बस्य चुम्बनेनैव सखि लालय मा शुकम् ।
इत्यादिषु च लक्ष्यस्य व्यञ्जकत्वं प्रकीर्तितम् ।।
गच्छ गच्छसि चेत्कान्त वरस्तत्रैव में भव ।
इत्यादौ व्यञ्जकत्वं च व्यङ्ग्यार्थस्य भवेद्भवम् ।।
शब्दप्रमाणवेद्योऽर्थो व्यनक्त्यर्थान्तरं यतः ।
अर्थस्य व्यञ्जकत्वे तच्छब्दस्य सहकारिता ॥
इति शब्दार्थप्रकरणम् ।
सा शय्या कीर्तिता मैत्री या पदानां परस्परम् ।
दाता जता रणे त्राता भीतानां भाति भूपतिः ॥
इति शय्या।
अर्थगम्भीरिमा पाकः स द्वेधा कविसंमतः ।
द्राक्षापाको नारिकेलपाकश्च प्रस्फुटान्तरौ ॥
द्राक्षापाकः स कथितो बहिरन्तःस्फुरद्रसः ।
अपाङ्गान्प्रेमवाराशितरङ्गान्किरति प्रिया ।
स नारिकेलपाकः स्यादन्तशृंढरसोदयः ।।
प्राचीनम्-
गाम्भीर्यातिशयेन यस्य जगतां नेत्राणि मानं गता
पत्रं यस्य नवीनतां भजति यत्पनेयमासीजगत् ।
राजत्केसरितं समुद्रममलं यद्वत्समव्यजगुः
शेते यो हि विभावरीशरुचिरः कुर्याच्छमनं शिवः ॥
मधुक्षीरादिपाकान्यप्येवमूह्यानि सूरिभिः॥
इति पाकप्रकरणम् ।
पात्रे नृणामनीचानां संस्कृतं परिकीर्तितम् ।
लिङ्गिनीमत्रिजावेश्यादेवीनां च कचित्कचित् ।।
स्त्रीणां प्रायः शूरसेनी प्राकृतं मागधी तथा।
तथैव नीचपात्राणां तत्तद्देशीयभाषणम् ।।

१८३
शेषबिन्दुः] मन्दारमरन्दचम्पूः।
यथोचितं राक्षसानां पैशाची परिकीर्तिता ।
अवरैर्लिंङ्गिदेवर्षि विप्रामात्याग्रजाः सुधीः॥
भगवच्छब्दवाच्याः स्युः सूत्रिणायेति सा नटी।
तेनानुगो मारिषश्च पारिपार्श्वक इत्यपि ॥
नव्या सूत्री खार्यपुत्रस्तथार्यश्चेति कीर्त्यते ।
अनुगेन स भावः स्यात्पूज्यैः शिष्यात्मजानुजाः ॥
वत्साः सूतेन चायुष्मान्रथी शिष्यात्मजानुजैः ।
पूज्यस्तु सुगृहीतश्च तातश्चेत्यपि कीर्त्यते ॥
नृपेण गणिका नाम्नानुचरै रज्जुकेति सा ।
सर्वैस्तु युवराजोऽपि कुमारो भर्तदारकः ॥
भृत्यैर्भट्टारको देवो नृपो विप्रैस्तु नामतः ।
विदूषकेण राजेति वयस्य इति वा नृपः ॥
ऋषिभिः स च राजा स्यादधमैर्भट्ट इत्यपि ।
नृपेण महिषी देवी तदन्या चैव भोगिनी ।।
अपरैर्भट्टिनी सैव नीचैर्गोस्वामिनीति सा ।
अब्रह्मण्यमवध्योक्तौ माता त्वम्बेति कीर्त्यते ॥
भगिनीपतिरावुत्तो राजशालस्तु राष्ट्रियः ।
ज्येष्ठा तु भगिनी चात्ताप्यन्तिका चात्तिकेति वा ।
नीचासंबोधने हण्डे चेटी हल्ले सखी हला ॥
इति रूपकभाषानिवन्धनप्रकरणम् ।
व्यभिचारिरसस्थायिभावानां शब्दवाच्यता।
कष्टकल्पनया व्यक्तिरनुभावविभावयोः॥
प्रतिकूलविभावस्य ग्रहो दीप्तिः पुनः पुनः।
अकाण्डप्रथनं चैव रसच्छेदोऽङ्गविस्तृतिः ॥
तथाङ्गवननुसंधानं प्रकृतीनां विपर्ययः ।
तथानगाभिधानं च रसदोषास्त्रयोदश ॥
दृष्टे प्रियेऽस्या लज्जाभूद्रसतां च ययौ रतिः।

१८४
: काव्यमाला।
व्यभिचारी रसः स्थायी त्रयो वाच्याः क्रमादिह ।।
लीलावनेऽस्य तन्वनी याता नयनगोचरम् ।
इत्यादावनुभावस्य व्यक्तिः स्यात्कृष्टकल्पिता ॥
उत्कम्पतेतरामेषा मीलयत्यपि लोचने ।
भयानकसमत्वात्स्याद्विभावस्येह कष्टता ॥
व्याघ्रो व्यात्तमुखो वर्त्मन्याते मुग्धे क यास्यसि ।
इत्यांदी प्रतिकूलस्य विभावस्य भवेद्रहः ॥
ज्ञेयः पुनः पुनीती रतिप्रलपितादिषु ।
शृङ्गारवर्णने भानुमत्या दुर्योधनस्य च ॥
अकाण्डप्रथनं ज्ञेयं वेणीसंहारनाटके ।
भार्गवेण समं काष्ठां परां वीररसे गते ।
कङ्कणोन्मोचनायाहं गच्छामीत्युदिते गुरोः ।
रसच्छेदो महावीरचरितेऽकाण्ड इष्यते ॥
अप्रधानस्य बहुधा हयग्रीवस्य वर्णने ।
हयग्रीववधे काव्ये विज्ञेयाङ्गस्य विस्तृतिः॥
रसान्तरेणान्तरितो नैरन्तर्येण यो रसः।
तत्राङ्गयननुसंधानं विद्वद्भिः परिकीर्त्यते ॥
यथा जीमूतवाहस्य शान्तस्याद्भुतमन्तरे ।
निवेश्य शृङ्गाररसो नागानन्दे प्रकाशितः ।।
अदिव्यादिषु दिव्यादिगुणानां परिकीर्तने ।
विद्वद्भिस्तत्र विज्ञातः प्रकृतीनां विपर्ययः॥
प्रशंसनं कृतं राज्ञा बन्दिना वर्णितस्य यत् ।
तदनगाभिधानं स्यात्सट्टके प्रथमाङ्कके ॥
न दोषः खपदेनोक्तावपि संचारिणां कचित् ।
श्रुतप्रियागतिर्वाला तथाजनि समुत्सुका ॥
आश्रयैक्ये विरुद्धो यः स कार्यों भिन्नसंश्रयः।
धनुर्धरं त्वामालोक्य पलायन्ते रणात्परे ॥ .

११. शेषविन्दुः] मन्दारमरन्दचम्पूः।
१८५
सर्यमाणो विरुद्धोऽपि रसो नैव विदुष्यति ।
सीता स्मृत्वा सखीमग्रे वीक्ष्य रक्षोवरूथिनीम् ।
शरीररुधिरासिक्तं रामो जग्राह कार्मुकम् ॥
विवक्षितो यः साम्येन विरुद्धः सोऽप्यदोपभाक् ॥
नसैः प्रियाणामसिभिर्वीराणां च विदारणम् ।
शोभामङ्गेषु पुष्णाति सखि सातिशयां मुहुः ।।
रसावन्याङ्गतां प्राप्तौ विरुद्धौ च न दुष्यतः।
आलिप्तवपुषो वीरा लोहितैर्हरिचन्दनैः ।
अलंकृता इवाभान्ति विवोढुं विजयश्रियम् ।।
भावोदयः स्यादुत्पत्तौ व्यङ्ग्येन व्यभिचारिणः ॥
किमिदं कुचयोरालीत्युक्त्वा मुग्धा नतानना ॥
भावसंधिस्तु भावानां तुल्यानां व्यङ्ग्यता यदि।
सीताकपोलमुकुरे पश्यन्नुत्पुलकं मुखम् ।
रक्षःकलकलं शृण्वजटां बन्नाति राघवः ।।
पूर्वपूर्वोपमर्दे तु तेषां शवलता मता ॥
फलं किं बन्धुसंक्षोभात्कातय किं वदेजनः ।
का हानिः किंवदन्त्या मे द्रष्टव्या द्रौपदी कथम् ।।
मुख्य रसेऽपि तेऽङ्गित्वं प्राप्नुवन्ति कदाचन ।
यथा च राजानुगता भृत्याः परिणयोन्मुखाः ॥
अनेकेषां रसानां चेद्देशकालादिभेदतः ।
मेलनेऽङ्गतयां तत्र रससंकर इप्यते ॥
(प्राचीनम्-)
भमं कामरिपोर्धनुः परिहृतं राज्यं स्थितं कानन
निर्भिन्नस्त्रिशिराः खरस्य पिशितं स्पृष्टं कपिलालितः ।
लकेशों दयितश्चिराय रुदितं लङ्कावधूनां श्रुतं
नीता सद्म विदेहभूस्तदखिलं रामस्य लोकोत्तरम् ।।

१८६ काव्यमाला -- - कथानुग्रहयोगाच विवक्षावशतः कवेः । अन्योन्यजन्यजनका रसा भावा भवन्त्यमी।। . (प्राचीनम्-) युधि कुपितकृतान्तस्फूर्तिमानाविलाक्षो दशदिशि दशकण्ठस्त्यक्तवान्वारिदास्त्रम् । तडिति जनकपुत्र्याः साम्यमालोकमान- स्त्यजति न पवनास्त्रं राघवः खिन्नपाणिः ।। अलंकारे च रुचिरे चित्तविश्रामकारिणि । अलंकारस्य मुख्यत्वं गौणत्वं रसभावयोः॥ अत्यन्तसुकुमारौ तु शृङ्गारकरुणौ मतौ । हास्याद्भुतावुभौ किंचित्सुकुमारौ प्रकीर्तितौ ।। अत्युद्धतरसौ रौद्रवीभत्सौ परिकीर्तितौ । ईपत्प्रौढौ समाख्यातौ रसौ वीरभयानको ।। इति रसदोषादोषप्रकरणम् । काव्यं हि यशसेऽर्थाय शिवेतरनिवृत्तये । कान्तावदुपदेशाय परनिर्वृतये क्षणात् ।। सालंकारगुणौ काव्यं शब्दार्थों दोपवर्जितौ । तथा कवीनां समयानुरोधेन निबन्धितम् ।। ईदृशं द्विविधं काव्यं श्राव्यदृश्यविभेदतः। श्राव्यं तु त्रिविधं ज्ञेयं गद्यपद्योभयात्मना । अपादः पदसंघातो गचं पद्यं चतुष्पदम् । गद्यपद्यात्मकं काव्यं चम्पूरित्यभिधीयते ।। दृश्यं तु दशधा प्रोक्तं नाटकादिविभेदतः। सर्वध्वनिर्गुणीभूतव्यङ्गयं चित्रमिति त्रिधा । वाच्यातिशायि व्ययं यत्काव्यं ध्वनिरितीर्यते । काव्यं तु कथितं व्यङ्गये वाच्यादनतिशायिनि ।

१८७
११. शेषबिन्दुः] मन्दारमरन्दचम्पूः।
गुणीभूतव्यङ्ग्यमिति सायङ्ग्यस्याप्रधानतः ।
अव्यङ्ग्यमपि यच्चारु तत्काव्यं चित्रमिष्यते ॥
शब्दचित्रं चार्थचित्रसुभयं चेति तत्रिधा।
सोदाहृदय एतेषां भेदाः पूर्वं प्रकाशिताः ॥
शरीरं तस्य शब्दार्थों जीवितं व्यङ्ग्यवैभवम् ।
हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥
शौर्यादय इव प्रोक्ताः श्लेषकान्त्यादयो गुणा ।
आत्मोत्कर्षावहास्तत्र स्वभावा इव रीतयः॥
शोभामाहार्यकी प्राप्ता वृत्तयो वृत्तयो यथा ।
पदानुगुण्यविश्रान्तिः शय्या शय्येव संमता ॥
रसास्वादप्रभेदाः स्युः पाकाः पाका इव स्थिताः ।
प्रख्याता लोकवदियं सामग्री काव्यसंपदः॥
लक्ष्यलक्षणसंयुक्ता इमे पूर्व प्रकीर्तिताः।
महाकाव्यं चोपकाव्यमिति तद्विविधं पुनः॥
नगरार्णवशैलतुचन्द्रार्कोदयवर्णनैः।
उद्यानसलिलक्रीडामधुपानरतोत्सवैः ।।
विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः।
मत्रद्यूतप्रयाणादिनायकाभ्युदयैरपि ।।
एतैरुपनिबद्धं यत्तन्महाकाव्यमिष्यते ।
एषामष्टादशानां यैः कैश्चिन्यूनमपीप्यते ॥
सर्गबन्धो महाकाव्यमिति केचित्प्रचक्षते ।
असर्गबन्धमपि च महाकाव्यमितीष्यते ॥
गीततालानुबद्धं यदुपकाव्यमितीर्यते ।
उपकाव्यं तु बहुधा वक्ष्ये तानि च कानिचित् ॥
(आख्यायिका)
कविचारित्रसहितं नरपालकथान्वितम् ।
विचित्रवर्णरचनासमासैस्तु मनोहरम् ।।

। १८८ काव्यमाला। रक उच्छासान्ते वक्रयुतं रचितापरवत्रकम् । उच्छासादौ सपर्याङ्गमिदमाख्यायिकाभिधम् ॥ (कथा) श्लोकैः खवंशं संक्षेपाकवियत्र प्रशंसति । मुख्यार्थस्यावताराय भवेत्तत्र कथान्तरम् ।। परिच्छेदो न यत्र स्याद्भवेत्त्वालम्भकः क्वचित् । सा कथा नाम तद्गर्भ निबध्नीयाच्चतुष्पदीम् ।। (उदाहरणम्-) येन केनापि तालेन गद्यपद्यसमन्वितम् । जयेत्युपक्रम मालिन्यादिप्रासविचित्रितम् । तदुदाहरणं नाम्ना विभक्त्यष्टाङ्गसंयुतम् ।। (चक्रवालकम्-) संबोधनविभक्त्या यलाचुरं पद्यपूर्वकम् । विमुक्तपुनराकृष्टशब्दं स्याचक्रवालकम् ॥ (भोगावली-) आद्यन्तपद्यसंयुक्ता संस्कृतप्राकृतात्मिका । अष्टभिर्वा चतुर्भिर्वा वाक्यैः स्कन्धसमन्विता ।। प्रतिस्कन्धं भिन्नवाक्यरीतिर्देवनृपोचिता । सर्वतो देवशब्दादिरेष भोगावली मता ॥ (बिरुदावली) वर्ण्यमानाङ्कबिरुदवर्णनप्रचुरोज्वला । वाक्याडम्बरसंयुक्ता कथिता बिरुदावली ॥ (तारावली- ताराणां संख्यया पधैर्युक्ता तारावली मता । (विश्वावली-) विश्वेषां संख्यया पधैर्युक्ता विश्वावली मता । +

११. शेषविन्दुः]
मन्दारमरन्दचम्पूः।
१८९
(रलावली-)
रत्नानां संख्यया पधैर्युक्ता रलावली मता ।
(पञ्चाननावली-)
पद्यैश्च पञ्चभियुक्ता प्रोक्ता पञ्चाननावली ।
आख्यायिकायां शृङ्गारेऽप्युद्धता रचना मता ॥
कथायां नाटकादौ च न रौद्रेऽप्यधिकोद्धता ॥
अन्येषु च प्रभेदेषु रचना स्याद्यथोचितम् ॥
इति काव्यप्रकरणम् ।
अथात्र वर्ष्यावया॑नि प्रवन्धेपु ब्रुवे स्फुटम् ।
वण्यों मुख्यतया नेता लोकोचरगुणोत्तरः ।।
तेन कर्तुः प्रवन्धस्य प्रतिष्ठा महती भवेत् ।
कुलाचारयशःशौर्यत्यागशीलादिवर्णनम् ॥
क्रियते नायकस्यैव यत्तदेवातिसंमतम् ।
• अथ वा तद्विरुद्धस्य वर्णयित्वा बहून्गुणान् ॥
तज्जयान्नायकोत्कर्षवर्णनं च मतं कचित् ।
घटते नेतरि द्वेधा स्वतःसिद्धेनं कल्पिते ॥
नृपे कीर्तिप्रजारागप्रतापाज्ञानयक्षमाः ।
विवेकारिपुरीदाहधर्मसंग्रामपूर्वकाः ॥
कुमारे खुरलीशस्त्रबलशास्त्रकलादयः।
महिष्यां रूपलावण्यत्रपाशृङ्गारमन्मथाः ।।
चातुर्यप्रेमदाक्षिण्यशीलमानमुखादयः ।
मन्त्री भक्तः खदेशीयोऽनुद्धतो बुद्धिमान्क्षमी ।।
सेनाधिपः स्वामिभक्तो धैर्यवान्विजयी रणे।
पुर्या प्रसादपरिखातोरणाध्वपाध्वजाः ॥
वपाहारामकुलटावेश्यावापीसतीमुखाः ।
देशे द्रव्यजनाधिक्यनदीमातृकतादयः ॥

१९०
काव्यमाला।
• .
ग्रामे धान्यसरःक्षेत्रारघट्टाः पादपादयः ।
अब्धौ यादोगजद्वीपरत्नोHद्रीन्दुवृद्धयः ।।
विप्लुट्पोतर्विगाम्भीर्यध्वनिनद्यागमादयः ।
उद्याने फलपुष्पद्रुलताक्रीडासरोऽद्रयः ।।
पिकालिकेकिहरिणहंसचक्रध्वजादयः।
कासारे लहरीकञ्जचक्रहंसमधुव्रताः॥
तीरारामवधूकेलीभ्रमिपान्थझपादयः ।
पर्वतेऽऔषधीशृङ्गवनकिनरनिर्झराः।।
धातुवंशगुहारत्नाधित्यकोऽपत्यकादयः।
वने सर्पवराहेभोलुकभिल्लदवादयः ॥
मन्त्रे स्थैर्योपायसिद्धिपाडण्योदयचिन्तनम् ।
पञ्चाङ्गशक्तिखौन्नत्यनिर्जनस्थानपूर्वकाः ।।
दूते दाक्षिण्यभीरुत्वं शत्रुक्षोभकरी क्रिया ।
खखामिविक्रमौन्नत्यवाक्यधादियो मताः।
रणे खजरजस्तूर्यशरवृष्टिपलाद्रयः ॥
छिन्नच्छन्नध्वजा रक्तनदीकोलाहलादयः ।
अश्वे वेगित्वसज्जातिखुरोत्खातरजोमुखाः ॥
मृगयायां नीलवेषो वागुरामृगसाध्वसम् ।
भषकत्वर्यसंचारो भट्टहिकात्वरादयः॥
विरहे जागरश्वासनिशादेयकृशाङ्गताः।
संतापचिन्तामालिन्य मौनरक्ताक्षतादयः ।।
सुरते खेदकणिका सीत्कारो भूषणच्युतिः ।
मञ्जीरकणारावनखदन्तक्षतादयः ।।
यात्रायां दुन्दुभिध्वानकरभध्वजवेसराः।
शकटोक्षच्छन्नधूलिपृथ्वीकम्पबलादयः ॥
गजे तु कर्णचापल्यमुच्चत्वं व्यूहभेदिता।
सिन्दूरचित्रयोधित्वकुम्भमुक्ताफलादयः ।

११. शेषबिन्दुः] मन्दारमरन्दचम्पूः।
सुरापाने गतिवंचःस्खलनं नयनभ्रमः ।
लज्जामानच्युतिश्चित्तभ्रमरक्ताक्षतादयः ।।
सूर्योदयेऽम्भोजचक्रनेत्रपान्थविकासनम् ।
रागो भेन्दुतमोघूककुवचोरविषादनम् ॥
चन्द्रोदये तु विरहिंचक्राजकुलटार्तयः ।
अब्धिदम्पतिचन्द्राश्मचकोरप्रीतिपूर्वकाः ।।
वसन्ते पिकगानाम्रमञ्जरीमन्दमारुताः ।
पुष्पाणि द्रुदलोद्भेदपलाशभ्रमरादयः ।।
ग्रीष्मे पाटलमल्लीतापसर पथिकशेषाम्रफलपाकाः ।
मृगतृष्णाल्पसमीरः कान्ता पानीयशालिका मुख्याः ॥
वर्षासु मेघहलिकेतकनिम्नगानां
झञ्झानिलस्य शिखिजातिकदम्बकानाम् ।
प्रीतिश्च हंसगमनं नलिनीलतानां
पत्रोद्भवोऽर्कलतिकादलपातनाद्याः ॥
शरदि सूर्यसुधाकरपाटवं विमलताम्भसि हंसवृषस्मयाः ।
कमलशारदसैकतविस्तृतिः सुशिखिपक्षमदापगमादयः ।।
हेमन्ते रजनीदेय नलिनीकुसुमक्षतिः ।
दिनाल्पत्वं हिमप्रौढिबकानन्दयवोद्भवाः ॥
शिशिरे वेणुकुन्दाब्जदाहः शिखिरतोत्सवाः ।
खयंवरे सतीपूजावाद्यघोषनृपागमाः ॥
राजपुच्या नृपाकारान्वयचेष्टाप्रकाशनम् ।
विवाहे मङ्गलसानं भूषणं कामिनीरवः ।
वेदी संगीततारेक्षालाजाहोमद्विजादयः ॥
वनकेलौ च कुसुमावचयः कुसुमार्पणम् ।
दयिते गोत्रविभ्रान्तिसपक्षेष्योक्तिपूर्वकाः ॥ ..
जलकेलौ जलक्षोभश्चक्रहंसापसर्पणम् ।
पद्मग्लानिपयोबिन्दुदृयागाभूषणच्युतिः ॥

१९२
काव्यमाला।
श्वेतास्त्वैरावतः शंभुः कीर्तिश्चन्द्रः शरद्धनः ।
प्रासादसौधनगरमन्दारद्रुहिमाद्रयः ॥
सूर्येन्दुकान्तकर्पूरसुधांशुकरका हिमम् ।
पिण्डीरोच्चैःश्रवो ज्योत्साश्रुरम्भाभमचन्दनम् ॥
निर्मोकहारोर्णनाभतत्त्वसत्त्वास्थिशर्कराः।
शेषाभ्रकसुधागङ्गागजदन्ताम्बुचामरम् ।।
रम्भागर्भः पुण्डरीकमृणालसिकताबकाः।
हंससिंहध्वजच्छत्रकेतकीगर्भनिझराः ।।
लोध्रमुक्तापुष्पतारचूर्णशुक्तिकदार्पिकाः ।
कैलासकाशकासहासहास्योशनः कृतम् ।।
नारदः पारदः पुण्यवसनस्फटिकादयः।
श्यामास्त्वद्रिद्वकालीयवनभैरवराक्षसाः ॥
शिवकण्ठः शनि शीरी कलिचन्द्रकराहवः ।
बादरायणवस्त्राभ्रद्रौपदीकज्जलार्जुनाः ॥
कालीकोलयमाः केशकस्तूरीयमुनागजाः ।
विषाकाशकुहूपापरसविष्णुतमोनिशाः ॥
मषीपङ्कमदाम्भोधितालतापिच्छकोकिलाः ।
गोलालास्यगुञ्जास्वधूमशृङ्गारवल्लयः ॥
केकितेजनबर्हालिखलचित्तकनीनिकाः ।
तिलेन्दीवरदुष्कीर्तिमुस्तानीलीभयानकाः ॥
भिल्लश्छाया मृगीनेत्रं शस्त्रं कान्ताहगादयः ।
नीलाः स्युः शादशैवालदूर्वावंशाङ्कुराः शुकः ।
बीभत्ससूर्यतुरगाः पर्ण मरकतादयः ॥
रक्ताः स्युः सूर्यगोकर्णगुन्द्रखद्योतयावकाः।
ताम्रकु कुमसिन्दूरदृग्बिम्बाधरधातवः ।।
विद्युत्पद्मकजिह्वासृनपापललकिंशुकाः ।
अम्भोजकुक्कुटशिखाहिङ्गुलाशोकपाटलाः ।।
.

१९३ ११. शेषबिन्दुः] मन्दारमन्दचम्पूः। कुसुम्भो हंसचवङ्गीनिम्बकिपाकपल्लवौ । त्रेता नखक्षतं रौद्रः शुकमर्कटयोर्मुखम् ॥ : प्रपातश्च चकोराहिमुक्कपोतहगादयः । पीताः स्युर्दापरब्रह्मजीवशक्रमनःशिलाः॥ गौरीगोमूत्रगरुडमण्डूकेश्वरदृग्जटाः । मधु वीराद्भूतौ कोको मर्कटः शारिकामुखम् ।। कर्णिकारः शालिदीपरोचनाजांशुकादयः (१) । धूसराः करुणो धूलिलताकाकखरादयः ।। संपूर्णवृत्तास्तिलकचक्रपझेन्दुदर्पणाः । मृदङ्गापुटशाणास्यारघट्टधुटिकादयः ।। अल्पवृत्तास्तारलता गृहपूपककच्छपाः । आलवासमहीकंसनखचर्मादयो मताः ।। त्रिकोणा वज्रशृङ्गाटशकटा वह्निमण्डलम् वक्राः किंशुकभालंभ्रूविद्युत्कुद्दालचन्द्रकाः ।। नखाङ्कांशुकबालेन्दुशुकास्येन्द्रधनुःफणाः । कटाक्षदात्रेभदन्तपुरोहितकरादयः॥ तीक्ष्णानि दुर्वचोवह्निकटाक्षनखरादयः । गुरवः सन्मनःश्रोणिकपाटस्तनबुद्धयः॥ सुखदाः सुस्पृहा लब्धिर्वियुक्तप्रियसंगमः। दातृस्वातन्त्र्यपुत्राप्तिविद्यामित्रेन्दुबुद्धयः ॥ दुःखदाः पारतन्न्याधिव्याधिमानच्युतिद्विपः । कुभार्या श्लेषकुग्रामवासकुखामिसेवनम् ।। कन्याबहुत्वं वार्धि(प)क्यं निवासः परवेश्मनि । स्थिराः स्युरिधीराजौ धर्माधर्मों सतां मनः ।। अस्थिराः 'कामिनीराजप्रसादखामदुर्जनम् । मन्दगाश्च शनिज्ञानिकान्तामातङ्गमाहिषाः ।। -- . मन्दा० १७ १९४ काव्यमाला । -- क्रूरखराः काकवृकवराहोष्ट्राश्च गर्दभाः । बलिष्ठा विष्णुगरुडसत्प्रतिज्ञा यमादयः ।। सुरूपाः कृष्णनकुलनलकूबरमन्मथाः। दुःसहाः कामतापादिप्रतापा दुर्वचस्तपः ।। मधुराः स्युर्विदग्धोक्तिकान्ताधरशशित्विषः । इत्थमेते वर्णनीयाः प्रबन्धेषु यथोचितम् ।। अथ वक्ष्यामि सर्वेषां कवीनां समयं स्फुटम् । सतोऽपि चानिबन्धः स्यादसतोऽपि निबन्धनम् ।। नियमेन निबन्धश्च विकल्पेन निबन्धनम् । एवं कवीनां समयश्चतुर्धा परिकीर्तितः ।। वस्तुनः सतोऽप्यनिबन्धनं यथा- अयने चन्द्रिकासंपत्पक्षयोः शुक्लकृष्णयोः। वसन्ते मालतीपुष्पं कामिदन्तेषु रक्तता । फलपुष्पे चन्दने च फलं चाशोकपादपे । दिवा विकासः कुमुदे वर्षाकाले च मल्लिका । न वर्णयेत्सतोऽप्येतान्प्रबन्धेषु कदाचन ।। . अथासतो वस्तुनो निबन्धनं निरूप्यते-- हंसे कीर्ती च शुभ्रत्वं दार्थ दुष्कीर्तिपापयोः । अञ्जलिग्राह्यता कुम्भपूर्यत्वं शशिदीपितेः॥ रत्नानि यत्र तत्रादौ कमलानि नदीष्वपि । मन्दाकिन्यां जलेभादिहंसाः सर्वजलाशये ।। ज्योत्स्नापत्नं चकोराणां प्रतापे रक्ततोष्णते । ध्वान्तस्य पुष्टिाह्यत्वं लेपनं सूचिभेद्यता ॥ विश्लेषः कोकयो राव्यां रक्तत्वं क्रोधरागयोः । कान्तामध्येऽप्यदृश्यत्वं समुद्राणां चतुर्थता ॥ नियमेन निबन्धनं यथा-- बहुकालस्थितस्यापि शिवचन्द्रस्य बालता । मनुष्या मौलितो वा देवाश्चरणतस्तथा । .

१९५
.
शेषबिन्दुः] मन्दारमरन्दचम्पूः।
भूर्जत्वन्हिमवत्येव मलयेष्वेव चन्दनम् ।
रक्तत्वं रत्नबन्धूकबिम्बाम्भोजविवखताम् ॥
कृष्णत्वं केशकामालिपिककाकपयोमुचाम् ।
सामान्यशौक्लयं छत्राम्भः पताकापुष्पवाससाम् ॥
वसन्त एव वण्यै स्यात्परपुष्टस्य कूजितम् ।
वर्षास्वेव मयूराणां रुतं नृत्यं च वर्णयेत् ।।
लज्जाकोपायशोनाशरोषाक्रन्दास्यकृष्णताः।
रागपाण्डुरतादैन्यविषपानतपोजपाः ॥
दुःखद्वेषाभिचारासहनोद्दीविकादयः ।
वर्णनीया जितस्यैते पराभवसमुद्भवाः ।।
विकल्पेन निबन्धनं यथा-
कृष्णत्वं हरितत्वं वा कमलासंपदोर्मतम् ।
पीतत्वं रक्तता वागौ परागे वर्णविद्युतोः ॥
दानवासुरदैत्यानामैक्यमेवातिसंमतम् ।
कटाक्षे शौक्लयकृष्णत्वे लोधे लोहितपाटलौ ॥
चन्द्रे शशमृगौ कामध्वजे मकररोहितौ ।
एवं कवीनां समयो दिङ्मानं परिकीर्तितः॥
इति वावर्ण्यप्रकरणम् ।
पदार्थस्तु द्विधा प्रोक्तो भावाभावविभेदतः।
भावश्चतुर्विधो जातिगुणद्रव्यक्रियात्मना ।।
जातिस्तु द्विविधा प्रोक्ता सामान्योपाधिभेदतः ।
सामान्यं तु घटत्वादिरुपाधिश्चन्द्रतादिकः ।।
गुणास्त्वनेके कथिता गन्धरूपरसादयः ।
द्रव्यं तु दशधा पृथ्वीजलतेजःप्रभञ्जनः ।।
तमो व्योमात्मदिकालमनांसीति विभेदतः ।
कर्तृवं च क्रिया सैकाभावस्तु त्रिविधो मतः ॥

काव्यमाला।
प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव इत्यपि ।
अभावस्य गुणत्वं तु केचिदूचुर्विपश्चितः ।।
संबन्धो धर्मिरूपत्वात्पदार्थो न पृथग्भवेत् ।
तस्मादेव न भेदोऽपि स्युर्द्रव्याणीन्द्रियाण्यपि ।।
नित्यजातिस्तु सामान्यमनित्योपाधिरुच्यते ।
केचिद्धटादिशब्दानां जातिवाचकतां विदुः ।।
विष्णुव्योमादिशब्दानां व्यक्तिवाचकतामपि ।
केचिद्विदुर्घटादींश्च जातिमद्रव्यवाचकान् ॥
क्रियावाचकशब्दाः स्युरेधते कुरुते मुखाः।
अभाववाचकाः शब्दा. नानोमानाशपूर्वकाः ।।
इति पदार्थनिरूपणम् ।
प्राचीनानां नवीनानां मतान्यालोच्य शक्तितः ।
रचितं बालबोधाय तोषाय विदुषामपि ॥
चम्पूप्रबन्धं मन्दारमरन्दं विबुधालयः ।
खादं खादं विमात्सर्य भवन्त्वानन्दतुन्दिलाः ॥
जलजनिजनिजायाप्रेमपाकेन गोपी-
जनमनसिजकेलीलम्पटेऽलम्पटेन ।
गुहपुरनिलयेन प्रोद्धृतः शेषबिन्दुः
सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥
श्रीमद्धटिकाशतशतविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्ते-
वास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमरन्दे चम्पूप्रवन्धे
शेषविन्दुरेकादशः समाप्तिमगमत् ।।
।

No text on this page.

The Alankarashekhara

Author
Shivadatta
Title
The Alankarashekhara
File name
The Alankarashekhara
Text
OCR done
Citation
1926
Published
2010/03
Publisher
Pandurang Jawaji Nirnayasagar Press, Bombay
Language
Sanskrit
Pages
304
Library
Banasthali University
DLI number
327298
Barcode
99999990002783.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
1SRThnjobdH
Download PDF

The Alankarashekhara