Bharatiya Vidya Bhavan Library, Mumbai

Shivstotravali

Utpala Devacharya · 2012/08

PDF Proofread

Front matter

चासम्बा संसरत ग्रन्यमाला ।
(पम्पसख्या १५)
शिवस्तोत्रावली।
श्रीमदीश्वरप्रत्यभिझाकाचार्यचक्रवत्ति-
वन्द्याभिधानोत्पलदेवाचार्यविरचिता।
महामाहेश्वरश्रीक्षेमराजीवरीचतीवतिसमेता ।
कलिकाताप्रपागविश्वविद्यालयसभासदा स्वर्गवासिना रायबहादुराश्येन
श्रीयुतप्रमदादासमित्रेण तत्पुत्रेण च बी०ए०इत्युपाधिधारिणा
श्रीयुतकालीचरणमित्रेण परिशोधिता ।
श्रीकाश्याम
सारायन्नालय हारदासगुसन फ्रीमेन् कम्पनी लिमिटेड द्वारा
मुद्रयित्वा प्रकाशिता।
२९.३ बिष्टीयाद ।
१९५८ विक्रमीयाद ।
शुभम् ।

प्रस्तावना । .. ईपदनं वर्षद्वयं जात यत्परमशिवभक्तविद्वच्छः प्रातस्मरणीयैर्म- पितृचरणेनिरतिशयमक्तिसहकारेणानत्पायासेन च काश्मीरनगरात् तुरी- याश्रमस्थस्योदासीनस्य श्रीमद्गोविन्दानन्दस्यातिप्रयत्नद्वारा संगृह्य सुम- सिद्धस्य सी०आई०ईति संज्ञया रामसम्मानितस्य रानोपाधिभूषितस्य श्रीयुतपण्डितसूर्यकोलस्पातियोग्यस्य सूनो. काश्मीराषिपतेः प्रधानामा- त्यस्य कौलोपाहश्रीयुतपण्डितदयारुप्णस्य परमसाहाय्येन च लेखयित्वाऽ- तिरमणीयस्यास्य प्रन्यस्य मुद्रापणे प्रवृत्तरभूपत । दुर्लभातिप्राचीनसस्कृत- अन्यानां लोके प्रचारणार्य कृतोद्योगः श्रीयुतहरिदासगुप्तश्च अन्य- मिमं रुपया स्वकीये "चौखम्मा-सस्कृत-सीरीसाख्ये" काव्यसंग्रहे मुद्र- यित्वा प्रकाशयितुं स्वीकृतवान् । परन्त्वस्मद्भाग्यदापात्कतिपयान्यव पत्राणि मुद्राप्य तातपादा मे इहलोकं परित्यज्य शिवकतां गताः । आर- ब्धमुद्रणस्यास्यासाधारणभक्तिरसपूर्णस्यास्मत्पित्रा परमसमादृतस्य चास्य प्रन्थस्य मुद्रण यथाकञ्चित् समापनीयमेवेति मत्वात्यल्पबुद्धिरप्यमत्र समापनकायें उद्युक्तोऽभवम् । देवादिदेवस्य श्रीकाशीपत. परमकारणिक- दृष्टया अन्योऽयं कथमप्यद्य समाप्तिमगमदित्यात्मनः कृतकृत्यतां मन्ये । उपकतोऽस्म्यस्य शोधने नित्यं वेदान्तानुशीलनशीलेन एरण्देवरिष्ठन सा- धुना पण्डितेन बापटोपाश्रीयुतयज्ञेश्वरशास्त्रिणा । अन्यकर्जुस्तीका- कर्तुश्च जीवनवृत्तान्तस्प मिज्ञासा भवेत् सहृदयानां पाठकजनानामिति मत्वा त लब्धं मत्प्रार्थनया मित्रं मे कृतविद्योऽतिसज्जनः काश्मीरराजधान्या विद्याविभागऽध्यक्षपदप्राप्तः श्रीयुतजगदीशचन्द्रचट्टोपाध्याय मासद्वया- दधिक तत्र प्रवृत्तोऽभूत् । किन्तु नानोपायेन बहुप्रयत्न कतेऽपि तस्या- लाभादत्र न दातु समर्थोऽहमिति खिन्नोस्मि । आदर्शपुस्तकस्यैकस्यैव प्राप्त- त्वान्मम चाल्पविद्यत्वान्मुद्रणदोषाच्च पुस्तकेऽस्मिन् भान्तयोऽनेका भवेयु- स्तास्सर्वा शोधयित्वा ग्रन्थस्यास्य रसं गृहीत्वा भक्तजना. समुल्लसन्तुतरां श्रम च मे सफलीकुर्वन्त्वित्यह प्रार्थये पाठकवृन्दानां कृपापात्रम् श्रीकाश्यां. यधिकोनविशतिशततमे श्रीकालीचरणमिनः । कृटीयाग्थे ।

श्रीश्रीशिवस्तोत्रावली । श्री उत्पलदेवाचार्य विरचिता । ॐ तत्सत् - ॐ न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् । एवमेव शिवाभासस्तं नमो भक्तिशालिनम् ॥१॥ ॐ तत्सत् । श्रीविघ्नहर्ने नमः । श्रीगुरवे शिवायाँ नमः। ॐ उद्धरसन्धतमसाद्विश्वमानन्दपिणी। परिपूर्णा जयसका देवी चिञ्चन्द्रचन्द्रिका ॥ अथितोस्मि बहुभिर्वहुशो भक्तिशालिभिः। ज्यापतोमिनप्तप्त प्रपिरनवापितकृत स्तुती ईमरजापिशा- कारो वन्द्याभिधान श्रीमदुत्पलदेवाचार्योऽस्मत्परमेष्ठी सततसा- क्षात्कृतस्त्रात्ममहेश्वरः स्त्रं रूपं तथात्वेन पराम्रष्टुमर्थिननानुजि- घृक्षया संग्रहस्तोत्रजयस्तोत्रभक्तिस्तोत्राण्याह्निकस्तुतिसूक्तानि च कानिचिन्मुक्तकान्येव बबन्ध । अथ कदाचित्तानि तयामिश्राणि लब्ध्वा श्रीराम आदिसराजश्च पृथक् पृथक स्तोत्रशय्यायां न्यवे- रायव ।श्रीविश्वावर्चस्तु विशसा स्तोत्रैः स्वात्मोत्मेक्षितनामभिर्व्य- वस्थापितवानिति किल श्रूयते । तदेतानि संग्रहादिस्तोत्राणि सू- तान्येक मसिवातिकाव्योपासूहानि स्पष्ट व्याकुर्मःमोक्षलक्ष्मी- समाश्लेपरसास्वादमयस्य परमेश्वरसमावेशस्यैव परमोपादेयतांद- शयितुं परमेशस्वरूपाविभिन्नतत्समाविष्टभक्तजनस्तुतिक्रमेण स्तो- शिवस्तोत्रायल्याम् । प्रमाह न न्यायत इति । यस्येवमेव मायीयोपायं विना शिवा- भास: शिवरूपस्सात्ममथा स्याचं भत्यय समावेशमय्या शालिनं श्लाघमानं न तु तदतिरिक्तफलाकांक्षाकलङ्कितं भक्तजनं नमो भक्तिचमत्कारवशमथितशिवभट्टारकाभेदभक्तिमन्नतिमुसेन तद्ः भिन्नशियावेशमया भवाम इति यावत् । एवमेवे"सनेन सूचितमलो- किकक्रमं दर्शयति "न ध्यायत" इसादिना । सर्वस्य हिध्यानजप प्रमुख ध्येयजप्यस्वरूपं नियताकारमेव मयते, भक्तिशालिनस्त्वनु पायमेव निराकारं सर्वाकारं चिदानन्दघनं शिवात्मस्वरूपं सर्वदा स्फुरति । अत एवाह "अविधिपूर्वक"मिति । विधीयत इति विधि- रिज्याध्ययनादिः पूर्वः कारणं यत्र । तथाकृत्वा सर्वविधीनां सं- कुचितत्वादमंकुचितस्वरूपं प्रत्युपायत्वाभावात् तत्त्वसमावेशध- नैरेव प्रतिभामसादनममुखमाप्यते । यथोक्तम् श्रीपूर्वशास्त्रे "न चान विहितम् किञ्चि"दिसादि, "ओकञ्चिचिन्तकस्ये"सादि, गीतास्वपि "मय्यावेश्ये"सादिकं । ध्यानजपाभ्यांप्रकाशविमर्श- स्वरूपाभ्यां पूजनवनादि सर्व संग्रहीतमिति प्राधान्यात्तावेवे होक्तौ ॥ १ ॥ प्रात्मा मम भवद्भक्तिसुधापानयुवाऽपि सन् । लोकयात्रारजोरागात्पलितैरिव धूसरः ॥२॥ "आत्मेति । हे महेश्वर ममात्मा जीवो भवद्भक्तिमुधापानेन युवा समुत्तेजितसहजौजामकर्पोऽपि सैल्लोकयात्रयैव रजसा लोकव्यवहारधूल्या कृतो यो राग उपरागस्ततो हेतोर्यानि पलितानि जराप्रकारास्तेधूसरो विच्छाय इव न तु वस्तुटतन, भक्तिसुधापानेन निसतरूणीकृतत्वात्, यथा च तरुणस्य धूलि- धूमरतया सातपलितमिव दृश्यमानं नान्तानि मनागप्या. , भक्तिविकासाख्यं प्रथम स्तोत्रम् । दधाति अपि तु विनोदहासरसचमत्कारमेव पुष्णाति तथा लोक- व्यवहारो ममेति रूपकोपमया ध्वनति । पूर्वश्लोके आमन्त्रणपदा- भावाद्भवद्भक्तीति न सङ्गतमेवेति कथमियँ स्तोत्रशय्येति श्री- विश्वावर्त एव प्रष्टव्यः वयं तु सूक्तव्याख्यानोद्यताः ॥ २॥ लब्धत्वत्संपदा भक्तिमतां त्वत्पुरवासिनाम् । सञ्चारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया ॥३॥ "लव्धत्व"दिति ।ये समावेशमयमशस्तभक्तियुक्ताः अत एव लब्धत्वत्संपदः त्वत्पुरे विश्वपूरके त्वत्स्वरूपे वसन्ति तच्छीलाः तेपां लोकमार्गे ऽपि यः सञ्चारो व्यवहारः स तयैव समावे- शरसानन्दमय्या विज़म्भया विकस्वरतया स्यात् भवसेव । अथ च ये लन्धलौकिकश्रियः स्वद्भक्ताः स्वन्मण्डलवासिनः ते सर्वे स्पृहणीयत्वात् सदा विभूतिमुदिता इति समासोत्तया गमयात ॥३॥ साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे । किंन भक्तिमतां क्षेत्रमन्त्रः कैपांन सिद्ध्यति॥४॥ "साक्षाद्भव"दिति । भक्तिमतां व्याख्यातरूपभक्तिशालिना सर्वत्र भुवनविपये किं न क्षेत्रं परसिद्धिसमुदयस्थानं क च एप मननत्राणधर्मा मन्त्रो न सिध्यति यतः साक्षादिति समावेशदृष्ट्या न कथामात्रेण भवन्मयमेव सर्व भुवनमेपाम् ॥४॥ जयन्ति भक्तिपीयूपरसासववरोन्मदाः । अद्वितीया अपि सदा त्ववितीया अपि प्रभो ॥५॥ जयन्ति भक्ति इति । भक्तिपीयूपरस एवासववरः उत्कृष्ट पानं तेन उद्गतहर्पाः ये ते जयन्ति सर्वोत्कर्पण वर्तन्ते कीदृशाः ४ शिवस्तोत्रायल्याम अद्वितीया असाधारणसम्पा अपि त्वद्वितीयाः समेव द्वितीय स्तुल्यरूपो येपां अथ च त्वद्वितीया अपि भक्तिसमावेशेनासन्त- मभेदासाधनत्वात्वमेव द्वितीयः प्रभुत्वेन परिशीलितो येषां तथा भूना अपि अद्वितीयाः विश्वाभेदिनः अद्वितीयाश्च कथं वाहि- तीयाः त्वद्वितीयाश्च कथमद्वितीया इति विरोधच्छाया॥५॥ अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते । तादृशा एव ये सान्द्रभक्त्याऽऽनन्दरसाप्लुताः॥६॥ भत्त्यानन्दरसः समावेशानन्दप्रसरस्तेन प्लुता आशया अत एव तादृशा इति अपरिमितानन्दरससमुद्रत्वाचद्रूपसरूपा: तव तत् जानन्ति । यो हि यत्र विद्वान् स हि तद्वेत्त्येव ॥६॥ त्वमेवात्मेश सर्वस्य सर्वश्वात्मनि रागवान् । इति खभावसिद्धां त्वद्भक्तिं जानञ्जयेज्जनः ॥७॥ त्वमेवात्मेश इति । सर्वस्तावदात्मने स्पृहयालुः वस्तुतस्तु त्वमेव चिद्रूपोऽस्यात्मा इति अतस्त्वय्यात्मनि स्वतःसिद्धा भक्तिः केवल समावेशशत्या तां जानाति तज्जयेत् सर्वोत्कण पर्वत एव नियोगे लिङ् ॥७॥ नाथ वेद्यलये केन न दृश्योऽस्येककः स्थितः। वेद्यवेदकसंक्षोभेप्यसि भक्तैः सुदर्शनः ॥६॥ नाथ वेद्यक्षय इति । अन्तर्मुखत्वावस्थायां सर्ववेद्योपशमे कस्य नाम स्वात्मरूपस्त्वं केवलो न स्फुरसि । भक्तः पुन संसार- पातेऽपि वेद्यवेदकसंक्षोभे असि त्व(सुदर्शन: मुखेन दृश्यसे समावे- शकाष्ठाधिवासितैर्हि सततमेतैः “भोक्तैव भोग्यरूपेण सदा सर्वत्र संस्थित" इति नीसा शिवमयमेव विश्वमीक्ष्यते।वेद्य विलापनप्रया- ५ भक्तिविलासाख्यं प्रथम स्तोत्रम् । सव्युदासाय मुशब्दः। तदुक्तं श्रीपूर्वशास्त्रे "मोक्षोपायमनायास- लभ्य"मिति ॥८॥ अनन्तानन्दसुरसी देवी प्रियतमा यथा । अवियुक्तास्ति ते तद्वदेका त्वद्भक्तिरस्तु मे ॥९॥ अनन्तानन्द इति । उपमाश्लेपोत्या परमेश्वरसाम्यमाशास्ते । भक्तिपक्षे देवी द्योतमाना एका फलाकांक्षाविरहिता। अपरत्र क्रीडादिशीला परैव शक्तिः। अहं भत्त्या अवियुक्तः स्यामिति वक्तव्ये मम अवियुक्तास्तु इति भक्ति प्रति प्रेममसरः प्रकाशितः॥९॥ सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो। संविन्मार्गोऽयमाहाददुःखमोहस्त्रिधा स्थितः॥१०॥ सर्व एव भवल्लाभ इति । व्याख्यातमकृष्टभक्तिशालिना अयमाहाददुःखमोहैरुपलक्षितो लोके या संविन्मार्ग' नीलपीता- दिवोधरूपः पन्थाः स्थितः स सर्व एव त्वत्माप्तिहेतुः। वेद्यसो- पाननिमज्जनक्रमेण परमवेदकभूमिलाभात् ।। १० ।। भवद्भक्त्यमृतास्वादाबोधस्य स्यात्परापि या । दशा सामांप्रति स्वामिन्नासवस्येव शुक्तता ।।११।। हे स्वामिन् त्वच्छक्तिपातसमावेशमयभत्त्यानन्दास्वादमना साद्य वोधस्य परा देहपातमाप्या प्रकृष्टाऽपि या शान्तशिवप- दात्मा दशा स्यात् कैश्चित् सम्भाव्यते सा तैः सम्भाव्यमाना मां मति आसवस्य यथा शुक्तता पर्युपितता तथा भातीति यावत् । यतस्तैर्भत्स्यमृतमनास्वायैव शुक्तीकृतं । यैःपुनरास्वाद्यते वैः स्वचमत्कारानन्दविश्रान्तीकृतत्वात्काशुक्ततासम्भावना। आ- शियस्तापायल्याम स्वादादिति ल्यय् लोपे पञ्चमी । अथ वा त्वदायमृतास्वादा- दपि परा मोक्षरूपा या काचिदशास्तीति सम्भाव्यते सा मा न रोचते भत्त्यमृतास्वादस्यैव निरतिशयचमत्कारवत्त्वादिसेवं परमेतत् ॥११॥ भवद्भक्तिमहाविद्या येयामभ्यासमांगता । विद्याऽविद्योभयस्यापित एते तत्त्ववेदिनः॥१२॥ भवद्गक्ति इति । विद्याविद्योभयस्यापीति विद्याऽविद्याल- क्षणस्योभयस्य तत्र शिवमन्त्रमहेश्वरमन्त्रेश्वरमन्त्रात्मनो विद्या- रूपस्य विज्ञानाकलमलयाकलसकलतद्वेद्यात्मनश्च अविद्यारूप- स्योभयस्यापि तत्व विदन्ति येपां त्वद्भक्तिरेव महाविद्या प्रक- प माता । महत्पदेन शब्दविद्यातोऽपि भक्तरुत्कोत्तत्तत्त्ववेद- कत्वम् ।। १२ ।। ग्रामूलाहाग्लता सेयं क्रमविस्फारशालिनी। त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलाऽस्तु मे ॥१३॥ आमूलाद्रागिीत। मूलं पराभूमिः, क्रमविस्फारित्वं पश्य- न्सादिमसरः, तद्रसो भत्त्यानन्दरस एव आढ्य स्फीतं त्वदा- स्म्यैक्यापत्तिलक्षणं फल यस्याः ॥ १३ ।। शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते । त्वमेव हि वपुःसारं भक्तैरद्वयशोधितम् ॥११॥ शिवोभूत्वा इति । "शिवो भूत्वा शिवं यजे"दिति यदाना- येपूच्यते तत्र देहपात एव शिवतेति ये मन्यन्ते तेपां साते देहे शिवीभावाभावाद्यजमानतानुपपत्ते' स्वस्वरूपशिवसमावेशभक्ति- शाल्येव यजनं जानातीतितात्पर्यम् अनेनैवाशयेनाह त्वमेव यतः भक्तिविलासाख्यं प्रथम स्तोत्रम् । सारमुत्कृष्टं वपुः स्वरूपं अट्ठयेन भेदशङ्काशङ्कुशतशातिना शो- धितं निर्मलीकृतं भक्तैरिति ॥ १४ ॥ भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः । तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा ॥१५॥ व्याख्याताना भक्तानां भवदद्वयसाधनाय का न युक्तयः यतो मूढेरुदीर्यमाणान्याप शियाद्वयदूपणानि दुपयत्स्वभावचि. दूपशिवस्वरूपसिद्धि विना न कानिचित् स्युरिति युक्त्या भ- तानां साधनान्येव पर्यवस्पन्ति । निकृष्टानां तु भेदमयानां तद- सिद्ध्यै शिवायसाधनाभावाय कानि नावरणानि तीक्ष्णतमयु- त्यस्त्राण्यपि समावेशरसविमुपोऽप्यनभिज्ञत्वादसञ्चेसमानानिम- हान्धकारपातयितॄण्येव ॥ १५ ॥ कदाचित्कापि लभ्योऽसि योगेनेतीश वञ्चना । अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम् ॥१६॥ कदाचिदिति । कदा चित् कस्यां चित् समाधिदशायां, कापि हृदयचक्रादौ, योगेन चित्तत्तिनिरोधेन, ईश स्वामिन, असि त्वं लभ्य इसेपा चञ्चना । अन्यथा समाधिव्युत्थानाधभि- मतासु कक्ष्यासु कथं भक्तिमतां प्रकाशसे ॥ १६ ॥ प्रत्याहाराद्यसंस्पृष्टो विशपोस्ति महानयम् । योगिभ्योभक्तिभाजां यद्युत्थाने ऽपिसमाहिताः॥१॥ विपयेभ्य इन्द्रियाणांमसास नियमन प्रसाहारः आदिश- ब्दायानधारणादयः तैरसंस्पृष्टः अकथितः तनिष्ठेभ्यो यो- गिभ्यो महानसामान्य विशेषः अतिशयो भक्तिभाजायस्ति य- ८ शिवस्तोत्रावस्याम् देते योग्यपेक्षया व्युत्यानाभिमते ऽपि ममये ममाहिताः "मय्या- वेश्य मनो ये मा"मिति गीतोक्तनीसा निसयुक्ताः ॥ १७ ॥ न योगो न तपो ना क्रमः कोऽपि प्रणीयते । अमाये शिवमार्गेऽस्मिन् भक्तिरेका प्रशस्यते॥१८॥ न योगो न इति । शिवमार्गे परे शाक्त पदे अस्मिन्निति निरतिशये स्वानुभकसाक्षिके मायोपनियतपोगाद्युपायपरि- पाटी न काचिदुपदिश्यते तस्याः मायामयतेन अन्धतमसमख्या यास्त्वत्र शुद्धविद्यामकाशातिशायिन्युपायत्वाभावात् भक्तिरेव प्रतिभामसादनात्मा उक्तचरी मशस्यते उपायत्वेनोच्यते ॥१८॥ सर्वतो विलसद्भक्तितेजोध्वस्तातर्मम । प्रत्यक्षसर्वभावस्य चिन्तानामापि नश्यतु ॥१६॥ सर्वतोविलसदिति । अन्तर्वहिश्च विलसता जृम्भमाणेन भक्तितजसा समावेशपकाशेन ध्वस्ता आरतिः अख्यातिर्यस्य त एव मायीयभूमिविस्मृतेः प्रसक्षभैरवमुद्रामवेशयुक्त्या आ- लोचनमात्रगोचरीभूताः सर्वे भावाः यस्य तस्य मम चिन्ताया विकल्पवृत्तस्य नामा ऽपि अभिधानमपि नश्यतु नियमेव सा- क्षात्कृतपरभैरवस्वरूपानुपविष्टो भूयासमिसर्थः ॥ १९ ॥ शिव इसेकशब्दस्य जिह्वाग्रे वसतः सदा । समस्तविषयास्वादो भक्तेष्वेवास्ति कोप्यहो॥२०॥ शिव इसेक इति । उक्तेष्वेव भक्तेषु यो महामकाशमयनिजस्व- रूपपरामर्शात्मा शिव इसे का असामान्यः सदा शिवोस्ति अहो आश्चर्य तस्य शब्दमाशस्याप्येककस्य विषयस्य परमानन्द- व्याप्तिदायित्वात्समस्तविपयास्वादो जगदानन्दचमत्कारः को- भक्तिविलासाण्यं प्रथम स्तोधम् । E R ऽपि स्वानुभवसिद्धोऽस्ति एका च शब्दलक्षणे विपये जिहा- ग्रतिनि समस्तविपयास्वाद इति विरोधच्छाया ॥ २० ॥ शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ । अलौकिकरसास्वादे सुस्थैः को नाम गण्यते ॥२१॥ शान्तकल्लोल इति । शान्ताः निहत्ताः विकल्पमयाः कल्लो- ला या तथाभूते, संसारतापापूर्णत्वाच्छीते, विश्वप्रतिविम्बाश्र- यत्वादच्छे निर्मले, आनन्दविकासित्वात्स्वादी, भक्त्यमृतसमुद्रे, अलौकिकरसास्वादे समावेशचमत्कारे, मुखेन तिष्ठन्ति सुस्थाः, तैः भेदगलनात् को नाम गण्यते, तदा व्यतिरिक्तस्य कस्य चि- दप्यप्रतिभासात् । सुखस्थिताः न किश्चिद्गणयन्तीत्युचिते- वोक्तिः ॥ २१ ॥ मादृशैः किं न चव्येत भवद्भक्तिमहोपधिः । तादृशी भगवन्यस्या मोक्षाख्योऽनन्तरोरसः॥२२॥ मादृशरिति । मादृशैःभक्तितत्त्वज्ञैः, तादृशी इति अलौकिकी भवद्भक्तिरेव अभीष्टप्रदत्वान्महापधिः, किं न चर्येत किं न धार्यत विचारणास्वाधेत इति यावत् । कीदशी। यस्याश्चर्वणपरा- मर्शानन्तरमेव जीवन्मुक्ताख्यः अनन्तरः अव्यवहितो रसश्चर्व- णानन्दः ॥ २२ ॥ ता एव परमर्थ्यन्ते सम्पदः सद्भिरीश याः । त्वद्भक्तिरससम्भोगवित्रम्भपरिपोपिकाः ॥२३॥ ता एव इति । सद्भिःभक्तिशालिभिः ता एवेति असमत्वत्स- मावेशमय्यः सम्पदः परं केवलमर्थ्यन्ते न तु अणिमाद्याः । की- दृश्यो याः त्वद्भक्तिरससम्भोगे भवत्समावेशामृतचमत्कारे विस- .

शिवस्तोत्रायल्याम म्भं स्वैरं स्त्रोकारं पुष्णन्ति ।अन मियासम्भोगपोपिका एव सर्वस्य सम्पदोऽर्थनीया इसनुरणनन्यङ्ग्योपमाध्वनिः ॥ २३ ॥ चित्रं निसर्गतो नाथ दुःखवीजमिदं मनः । स्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम् ॥२४॥ चित्र निसर्ग इति । नाथ स्वामिन् इदं चिनं दुःखकारण- मिदं मन .सर्वस्य हेयं यदभिमतं तदेव त्वद्भक्तिरसायनेन सिक्तं परमानन्दमोक्षमहाफलम् । न हि कदाचिल्लोकं प्रति विपादे मधुर आस्वादः अतस्त्वद्भक्तरेवायमलौकिक फ्रम इति ध्वनित इति शिवम् ॥ २४ ॥ इति श्रीमदीश्वरप्रत्यभिज्ञाकाराचार्यचकनतिनन्द्याभिधानोत्पलदेवाचा- परिचित भक्तिविलासाख्ये प्रथमस्तोत्रे महामाहेश्वर- श्रीक्षेमराजविरचिता विकृति ॥ प्रथमम् १ ॥ ॐ तत्सत अथ सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् । अग्नीपोमरविब्रह्मविष्णुस्थावरजङ्गम- स्वरूप बहुरूपाय नमः संविन्मयाय ते ॥१॥ अग्नीपोमरविभि दाहाप्यायप्रकाशकारीच्छाकियाज्ञानरू- पस्य शक्तित्रयस्य, ब्रह्मविष्णुभ्यामधिष्ठातृदेवतावर्गस्य, स्थावर- जङ्गमाभ्यामधिष्ठितस्य ममेयममातृराशेश्च स्वीकृतत्वाद्विश्वात्मनः आमन्नणमिदं स्वरूपेसन्तं । तेन अग्नीपोमरविब्रह्मविष्णुस्थावर- जगमस्वरूप हे परमेश्वर । पञ्चभूतानि जङ्गमानामपि भूतदेहत्वात्। एवं च अमिसोमसूर्यस्थावरजङ्गम अष्टमूर्तितया । ब्रह्मविष्णूपल सवात्मपरिभावनाप्यं द्वितीय स्तोत्रम् । क्षिताऽशेपाधिष्ठातृतया विश्वमयत्वम् । अत एव बहुरूपायेत्युक्तम् । एवं विश्वरूपत्वेऽपि मधानमस्य स्वरूपमाह संविन्मयायेति । एतदेव हि संविन्मयत्वं यत्स्वातन्त्र्योल्लासित्ताशेपविश्वनिर्भरत्वम् ॥१॥ विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे । महानलाय भवते विश्वैकहविषे नमः ॥ २॥ विश्वेन्धन इति । भवते महानलाय परमप्रमातृवह्नये नमः । कीदृशाय । विश्वस्य भेदराशेरिन्धनरूपस्य सम्बन्धि यन्महाक्षारं भस्म तत्संहारशेपः संस्कारः, तेन यदनुलेपनम् संस्कारसंहारे- णापि प्रमात्रुत्तेजन, शचि शुद्धमद्रयरूपं वर्चस्तेजो यस्य तस्मै । अथ "शुचिर्नामाग्निरुदितः संघर्षात्सोमसूर्ययो"रिसागमिकभा- पया शुचिनाम्ने तेजसे । विश्वमेकं हरिः यस्येसनेन असन्तदी- सत्वमुच्यते । श्रीमतगाद्यागमस्थिया रहस्यचर्यार्थस्यात्र सूचना- द्विरोधच्छायाऽपि ॥२॥ परमामृतसान्द्राय शीतलाय शिवानये। कस्मै चिद्विश्वसंप्लोपविषमाय नमोऽस्तु ते ॥३॥ परमामृत इति । चिदानन्दघनत्वात्परमामृतप्सान्द्रत्वम् । भवतापहारित्वाच्छीतलत्वम् । अग्नेश्च कथमाईत्वशीतलत्वे इति विरोधाभासच्छाया । कस्मै चिदिसलौकिकस्वरूपाय ॥ ३ ॥ महादेवाय रुद्राय शङ्कराय शिवाय ते । महेश्वरायाऽपि नमः कस्मै चिन्मन्त्रमूर्तये ॥४॥ देवः सृष्ट्यादिक्रीडापरः विश्वोत्कर्षशालितया विजिगीषुः अशेपव्यवहारप्रवर्तकः द्योतमानः सर्वस्य स्तोतव्यो गन्तव्यश्च दीन्यते क्रीडाद्यर्थत्वात् । स च महान् ब्रह्मादीनामपि, सर्गादि ૧૨ शिवस्तोत्रायल्गाम् हेतुत्वात् विश्वस्य । चित्पदे रोदनावावणाच रुद्रः । पूर्णाs- हन्तापरामर्शमयत्वान्मन्त्रमूर्तिः ॥ ४॥ नमो निकृत्तनिःशेपत्रैलोक्यविगलहसा-। ऽवसेकविपमायाऽपि मङ्गलाय शिवाग्नये ॥५॥ नमो निकृत्त इति । निकृत्तं अख्यातिलक्षणान्मूलात्मभृति खण्डशः कृतं भवाभवातिभवलक्षणं यचैलोक्यं तत्संवन्धिनी बोधानलोद्दीपिनी आन्तररससाररूपा या वगा तत्कृतो योऽव- सेकः आहुतिः ततो विपमायासन्तं जाज्वल्यमानाय अत एव संसारामङ्गल्यपरिहतिप्रदत्वान्मङ्गलाय शिववह्वये नमः । शरीर- माणादिपरिमितममातृपदं तत्रैव समावेशयाम इयर्थः । सर्ववसा- बसेकविपम' इमाशानिकाग्निः कथं मङ्गल इतिविरोधच्छाया ॥५॥ समस्तलक्षणायोग एव यस्योपलक्षणम् । तस्मै नमोऽस्तु देवाय कस्मै चिदपि शम्भवे ॥६॥ समस्तलक्षणेति । समस्ताना लक्षणानामभिज्ञानानां च त- थाऽधिगमहेतुनामुच्चारकरणध्यानादीनां यः अयोगः असम्ब- न्धः स एव यस्य उप इसात्मसमीपे लक्षणं हृदयङ्गमीकरण समस्तचिन्ताविस्मरणस्यैव तत्माप्तिहेतुत्वात् अत एव कस्मै चि- दिति संशतिवक्रतया स्वात्मविस्फुरद्रूपायेति ध्वनति ॥ ६ ॥ वेदागमविरुद्धाय वेदागमविधायिने । वेदागमसतत्त्वाय गुह्याय स्वामिने नमः ॥७॥ वेदागमइति । नि शेपनियमयन्त्रणात्रोटनालभ्यत्वाद्वेदवि- रुद्ध यश्चयद्विरुद्ध. स कथं तद्विधत्ते तस्य च सतत्त्वरूप चित्ता-

सर्वात्मपरिभावनाण्यं द्वितीयं स्तोत्रम् ।
र्थस्तु स्वातन्त्र्याजगदुत्तिमापयिपुर्वेदं विधत्ते वेदान्तदृष्ट्या तत्प-
रमार्थरूपश्च अत एव सर्वस्य अविषयत्वाद्धः ॥ ७ ॥
संसारैकनिमित्ताय संसारैकविरोधिने ।
नमः संसाररूपाय निःसंसाराय शम्भवे ॥८॥
मायादेः तिसन्तस्य संसारस्य एक एव निमित्तं तस्य
विरोधी संहर्ता स एव । तथा संसाररूपतया भाति न पुनश्चि-
दूपशिवव्यतिरिक्तं संसारस्य निजरूपं किं चित् । एवमपि संसा-
रानिष्क्रान्तं निःससारं तेनासंस्पृष्टरूपमिति विरोधाभासः ॥८॥
मूलाय मध्यायाग्राय मूलमध्यायमूर्तये ।
क्षीणायमध्यमूलाय नमः पूर्णाय शम्भवे ॥६॥
मुलायेति । विश्वस्य कारणत्वात्स्वरूपत्वाद्विश्रान्तिस्था-
नत्वाच्च मूलं मध्यमग्रं च । यथा पृथक् मूलादिरूपः तथा युग-
पदपि अक्रमानन्तविश्वरूपत्वात् । न चास्य स्वात्मनि मूलादि
किञ्चिचिन्मात्रैकरूपत्वात् । अत एवं सर्वसहत्वात्पूर्णः। विरोधा-
भासः माग्बत् ॥२॥
नमः सुकृतसंभारविपाकः सकृदप्यसो ।
यस्य नामग्रहः तस्मै दुर्लभाय शिवाय ते ॥१०॥
नमः सुकत इति । यस्य सकृदेव नामग्रहः असाविति लो-
कोत्तरः पूर्णविश्रान्तिमदत्वात्पुण्यराशेः परिपाकः । तस्मै दुर्ल-
भायेति महायोगिगम्याय नमः ॥१०॥
नमश्चराचराकारपरेतनिचयैः सदा ।
क्रीडते तुभ्यमेकस्मै चिन्मयाय कपालिने ॥११॥

शिवस्तोत्रावल्याम्
नमश्चराचरा इति । कपालिनतित्वं यद्भगवति प्रसिद्धं तत्त-
चतो व्यनक्ति । चराचराकाराः जङ्गमस्थावररूपाः ये परेताः
परं चिन्मयस्वरूपं इताः माताः । तद्विना च निर्जीवत्वादपि
परेताः । तेपां निचयैः सदा युगपञ्च क्रीडते तत्संयोजनवियोज-
नवैचित्र्यसहस्रावधायिने चिन्मयाय चित्परमार्थाय कपालिने
निःशेपकपालयुक्ताय अस्थिशेपीभूतविश्वधारिणे नमः ॥११॥
मायाविने विशुद्धाय गुह्याय प्रकटात्मने ।
सूक्ष्माय विश्वरूपाय नमश्चित्राय शम्भवे ॥१२॥
मायाविने इति । भेदोल्लासहेतुः स्वातन्त्र्यशक्ति माया य-
स्यास्ति स चिद्रपत्वाद्विशुद्धः । मायाची व्याजी च कथं विशुद्ध
इति विरोधाभासः। एवमन्यत्र । गुह्यः सर्वस्यागोचरः । भकटः
प्रकाशधनस्वात्मरूपः । सूक्ष्मो ध्यानादिनिष्ठैरप्यलक्ष्यः । विश्व-
रूपः स्वातन्त्र्यागृहीतविश्वाकारः । अत एव चित्रो विचित्र
आश्चर्यरूपश्च ॥ १२ ॥
ब्रह्मेन्द्रविष्णुनियूंढजगत्संहारकेलये ।
आश्चर्यकरणीयाय नमस्ते सर्वशक्तये ॥१३॥
ब्रह्मेन्द्र इति । ब्रह्मेन्द्रविष्णुभिः सप्ठ्यधिष्ठितिस्थितिकरैः
कथमपि निहितवाद्यत् नियूदं संपन्नं जगत् । तस्य सर्वे:
सन्धार्यमाणस्य संहारः क्रीडामात्रं यस्य । अत एव आश्चर्यकर-
णीयः सर्वशक्तिः ब्रह्मादीनामपि स्वकर्मण्येतदीयसंजिहीर्पाभा-
वाभावमुखक्षित्वात् सर्वसामर्थ्ययुक्तो यस्तस्मै नमः ॥१३॥
तटेष्वेव परिधान्तैः लब्धास्तास्ता विभूतयः ।
यस्य तस्मै नमस्तुभ्यमगाधहरसिन्धवे ॥११॥

सर्वात्मपरिभावनाण्यं द्वितीयं स्तोत्रम् । तटेप्वेव इति । तेटवेव मन्त्रमुद्राचक्रभूमिकादिक्षानेषु चिद्र- समसरवाह्यभूमिघु परिभ्रान्तः । “एक्नभ्रमणमाणविक्षेपादिकृत- श्रमाः कुहकादिपु ये भ्रान्ता भ्रान्तास्ते परमे पदे” इसाम्नाय- स्थिसा अन्तःसारानासादनाभ्राम्यद्भिः । तास्ता इति भेदम- व्योऽणिमादिकाः । अगाधहरासन्धवे इति अपरिच्छेद्यान्तस्त- त्वाय महेश्वरसमुद्राय । समुद्रे च तटेप्वेव ये भ्राम्यन्ति ते तन्मौ- क्तिकाधाप्नुवन्ति, ये तु अन्तर्विक्षेपक्षमाः ते महानिटतिमद- ममृतमप्यनन्तीति रुपकलेपेण ध्वनति ॥१४॥ मायामयजगत्सान्द्रपङ्कमध्याधिवासिने । अलेपाय नमः शम्भुशतपत्राय शोभिने ॥१५॥ मायामय शते । माया चिन्मयत्वाख्यातिः सैव प्राकृतं रूपं यस्य जगतः तदेव सान्द्रः पङ्को घनः कर्दमः तन्मध्याधिवासिने ऽपि व्यापकत्वात्तव्याप्नुवतेऽपि अलेपाय शुद्धचिदेकम्पाय । शम्भुरेव शतपत्रं अनन्तशक्तिदलं तत्तत्सङ्कोचाविकासधर्मकं कमलं तस्मै नमः। पङ्कमध्यस्थितेरप्यलेपता भगवतश्चिद्धनत्वेन । तदसंस्पर्शादिति विरोधाभासः ॥१५॥ मङ्गलाय पवित्राय निधये भूपणात्मने । मियाय परमार्थाय सर्वोत्कृष्टाय ते नमः ॥१६॥ मङ्गलायति । मङ्गलेखादि स्पष्टं । सर्वोत्कृष्टायेति सर्वत्र योज्यं । येन येन मुखेन विचार्यते तेन तेनोत्तमत्वं सर्वोत्कृष्ट- त्वात् ॥ १६ ॥ नमः सततवद्धाय नित्यनिर्मुक्तिभागिने । वन्धमोक्षविहीनाय कस्मै चिदपि शम्भवे ॥१७॥ नम सतत इति । भगवत एव बद्धमुक्ततयाऽवगमानथा- . शिवस्तोत्रावल्याम् त्वम् वस्तुनस्तु चिदनत्वात्तद्धीनत्वम् । विरोधाभासः पूर्ववत् । एवमुत्तरत्रोप ॥ १७ ॥ उपहासकसारेस्मिन्नेतावति जगनये। तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने ॥१८॥ उपहासैक इनि । तुच्छरूपत्वादुपहसनीयपरमार्थे एतावति अतिवितते जगच्चये भवाभवातिभवात्मनि । अद्वितीयाय असाधा- रणैकरूपाय निससुखासिने आनन्दवनायोपादेयतमाय तुभ्य- मेव नमः ॥१८॥ दक्षिणाचारसाराय वामाचाराभिलापिणे । सर्वाचाराय शर्वाय निराचाराय ते नमः ॥१९॥ दीक्षणाचार इति । दक्षिणाचारो भैरवतन्त्र अविपरीतानु- द्वानं च सार: सारत्वेनाभिमतो यस्य । वामाचारं वादितन्ध वि- परीतक्रम चाभिलपति यस्तस्मै । सर्व आचारो निजः परिस्पन्दो यस्य । निष्क्रान्ता आचारा यस्मात् आचारेभ्यश्च ध्यानपूजा- दिभ्यो निष्क्रान्तो यस्तस्मै । अथ च श्रीमदाचारनिराचाररूपं यन्मतक्रमादि शास्त्रार्थतत्त्वं तद्रूपाय नमः ॥ १९ ॥ यथा तथाऽपि यः पूज्यो यत्र तत्राऽपि योऽर्चितः। योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते ॥ २० ॥ यथा तथा इति। येन येन प्रकारेण यत्र कचिद्यत्किश्चिदा- चर्यते तत्र स्वात्मदेवताविश्रान्तिरूपा पूजा अनायासेनैव सिद्धा सीत्मपरिभाषनाख्यं द्वितीय स्तोत्रम् । तत्त्वविदामिति तात्पर्यम् । यत्तच्छब्दाः नियमव्युदासाय । यथा- गमः "यथालाभं प्रपूजयेदिति ॥२०॥ मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे । नमो विततलावण्यवाराय वरदाय ते ॥२१॥ मुमुक्षु इति । साधकानां मन्त्राणां माणत्वान्मुमुक्षुभिरेव स- मनन्तरोक्तयुक्सा नियन्त्रणं सेवितुं शक्याय । सर्वेपां भेदमयानां सन्तापानां हारिणे अपहन्त्रे । विततेत्युक्तिः परमानन्दघनत्वेना- तिस्पृहणीयत्वात् । वारः समूहः “समूहनिवव्यूहवारसवातस- श्वया"इसमरः । वरदाय संविन्नेमल्यसारपसादप्रदाय ॥ २१ ॥ सदा निरन्तरानन्दरसनिर्भरिताखिल-। त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे ॥२२॥ सदा निरन्तरानन्द इति।मारवनिलोकस्यविश्वस्य स्वस्या- नन्दरसेन पूरणात्स्वामिने इत्युचितोक्तिः।निसपणे सदा वि- श्वपूरकरूपाय। पर्व पूरणे इसस्यप्रयोगः।सर्वश्च पर्वणि आनन्दर- सनिर्भरितं निखिलं करोति ॥ २२ ॥ सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत् । त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः॥२३॥ सुखमधानं यत् शक्तिचन्दं संविद्देवीचक्र, चमत्कारणानन्द- यननमाविश्रान्सा सुखमयानसंवेधसंमोग. आनन्दसारविपय- ग्रासास्वादैः, त्वामेव भजते त्वय्येव विश्वमर्पयति। तस्मै घोराय सर्वसंहर्ने ते तव सम्बन्धिने नमः ॥ २३ ॥ मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचोटिताः। आलिङ्गान्यपि यं तस्मै कस्मै चिद्भवते नमः २४ ३ शिवस्तोत्रावल्याम मुनीनामिति । तपोयोगादिनिष्ठानां कपिलादीनामपि ज्ञातु- मशक्यं भक्तिसम्बन्धचेष्टिताः समावेशरसानुविद्धव्यापाराआ- लिगन्यपि दृढावष्टम्भयुक्सा स्वसम्भोगपात्रं कुर्वन्सपि यं तस्मै कस्म चित्स्वात्मनि स्फुरते नमः ॥ २४ ।। परमामृतकोशाय परमामृतराशये। सर्वपारम्यपारम्यप्राप्याय भवते नमः॥ २५॥ परमामृत इति। परमानन्दरसस्य कोशो गनमिव, अतस्त- त्पूर्णत्वाद्राशिश्च, बहिरपि तन्मयत्वात् ।सर्वस्य मायादेः पारम्य परमत्वं प्रकाशमानता । तस्यापि पारम्यं आनन्दघनश्चमत्कारः शाक्तः समुल्लासः, तेन प्राप्याय ॥ २५ ॥ महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् । अपूर्वामोदसुभगं परामृतरसाल्वणम् ॥ २६ ॥ महामन्त्रमयेति । महामन्त्रमयं अकृत्रिमाहम्परामर्शमयं तव रूपं नौमि इति माग्वत् । स्वच्छ विश्वप्रतिविम्बधारणात् । शीतल संसारतापहारित्वात् । अपूर्वेण आमोदेन अलौकिकेन व्या- पिपरिमलेन हादिना स्वरूपेण ।सुभगं स्पृहणीयं। परमामृतरसेन परमानन्देनोल्वणं बृहितम् ॥ २६ ॥ स्वातन्त्र्यामृतपूर्णत्वेदैक्यख्यातिमहापटे। चित्रं नास्त्येव यत्रेश तन्नौमि तव शासनम् ॥२७॥ स्वातन्त्र्पा इति स्वातन्त्र्यामृतेन सम्पूर्णा स्वतन्त्रताआनन्द- घना या सदैक्यख्याति भवदभेदप्रथा सेव विश्वचित्रतन्तु- व्याप्सा महापटः, तत्र विपये यत् शासनं, शास्यतेऽनेनेति कृत्वा त्वदुपदेशको य आगमः तं नौमि। यत्र विश्वमाश्चर्यमयं त्वदैक्य- प्रथनमारेऽपि चितं नानारूपं नास्सेब, त्वदेश्यख्यातिप्रतिपादन-

सर्यात्मपरिभावनारयं द्वितीय स्तोत्रम् ।
परत्वात, चिनमद्भुतं च नास्ति, अनुत्तरत्वादागमस्य सर्वसंभा-
वनाभूमित्वात्, अध च पटे स्थितं शासनमविचित्ररूपं चेति
चित्रम् ॥ २७ ॥
सर्वाऽऽशङ्काशनि सर्वाऽलक्ष्मीकालानलं तथा ।
सर्वाऽमगंल्यकल्पान्तं मागं माहेश्वरं नुमः ॥२८॥
सर्वाशंकाइति । सर्वासामाशङ्कानां द्रव्यपूजामन्त्रादिसङ्की-
र्णत्वाद्युक्ताना विचित्र संसारवीजभूताना चित्तत्तिम्लानिदानां
अनि स्वरूपध्वसकं । आम्नायेऽपि च “शङ्कापि न
विशङ्केत निश्शकत्वमिद स्फुट"मित्युक्तं । अलक्ष्मीणा अनान-
न्ददशाना कालानलं महादाहक, सर्वामङ्गल्यानामयुभसूचकानां
कल्पान्तं निःशेपेण नाशक, माहेश्वरं मार्ग शाक्तं मसरं नुमः ॥२८॥
जय देव नमो नमोऽस्तु ते
सकलं विश्वमिदं तवाश्रितम् ।
जगतां परमेश्वरो भवान
परमेकः शरणागतोऽस्मि ते ॥ २९ ।।
जयदेवेति । परमेकोस्पीति देहाभिमानेन त्वन्मायाश
क्तिकृप्तेन विश्वविभेदेन त्वत्तः पृथगिव कृतः, अत एव शरण-
मागतः। युक्त चैतत् यतो विश्वमिद तवाश्रितं चिन्मयत्वत्स्वम्-
पमान, ततश्च जगता भवानेव परमेश्वरः ब्रह्मादिभ्यः सदाशि-
बान्तेभ्यः उत्तम , अत एव हे देव क्रीडादिशील, जय देहाद्य-
भिमानामममुदस्य स्वरूपेण प्रथस्व इति प्राग्वत् ॥ २९ ॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रातल्या सर्यात्मपरिभावना-
नामक द्वितीयस्तोत्रम् ॥ २॥

२०
शियस्तोमावल्याम्
ॐ सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः ।
तामुल्लय तृतीयस्मै नमश्चित्राय शम्भवे ॥१॥
ॐ सदमत्वेनेति भावानां प्रमेयादीनां जन्मसत्तादिरूपतया
मामधंसाभावादिरूपतया च द्वित्तयीरूपा द्वितयीयुक्ता यतस्ते
भावाभावनीयाः सम्पादनीयाः, तामुल्लङ्ग्य उज्झित्वा यस्तृतीयः
सदसत्ताभ्यामव्यपदेश्यत्वात्तुर्यादिवत्संख्ययैव व्यपदेश्यःस्थितः,
तस्मै चित्राय आश्चर्याय विश्वचित्राय नमः इति माग्वत् ॥१॥,
श्रासुरर्पिजनादस्मिनस्वतन्त्रे जगत्रये ।
स्वतन्त्रास्ते स्वतन्त्रस्य ये तवैवाऽनुजीविनः ॥२॥
आसुरपि इति । जगन्नय माग्वत् । सुरपिंजनात् मरीच्या-
दिदेवापजनात् । आ आङ् अभिविधौ । अस्वतन्त्रत्व सृष्टिसंहार-
गोचरत्वं । स्रष्टादिरूपस्तु शम्भुरेच स्वतन्त्रः । तस्य च ये ऽनु-
जीविनः तदात्मकस्वात्मसाक्षात्कारिणः ते ऽपि तत्समावेशात
स्वतन्त्रा एच ॥ २ ॥
अशेषविश्वखचितभवहपुरनुस्मृतिः ।
येपां भवरुजामेकं भेपजं ते सुखासिनः ॥ ३ ॥
अशेपेति । भवरुजां सांसारिकोपतापानां । भेपजमौषधं । वि-
श्वस्खचितत्वात्सर्वोपकृतिकरणक्षमा भवद्वपुरनुस्मृतिः चिदात्म-
नस्त्वत्स्वरूपस्यानुगततया स्मरणं समावेशमयं येपामस्ति,. ते
मुखासिनः सत्स्वपि देहादिनान्तरीयकेपु दुःखस्पर्शपु परमानन्द-
घने मुख एव तिष्ठन्ति ॥ ३ ॥
सितातपत्रं यस्येन्दुः स्वमभापरिपूरितः ।
चामरं स्वर्धनीस्रोतः स एकः परमेश्वरः ॥ ४ ॥

प्रणयप्रसादाण्यं तृतीयं स्तोत्रम् । २१ " सितातपत्रमिति । इन्दुः सर्वमेयरूपः, प्रकाशदशायां स्वप्र- भाभिश्चैतन्यमरीचिभिः परिपूर्णतां प्रापितः, यस्य सितं शुद्धं, स्वास्मलग्नत्वाच वद्धं, पाशवहेयोपादेयतादिकल्पनोत्थात् आ- तपात त्रायते इसातपत्रं । तथा स्वः स्वर्ग तदुपलक्षितं च निरय धर्माधर्मफलं धुनोति स्वर्धनी मध्यवाहिनी चिच्छक्तिः, सैव प्रस- रद्रूपत्वात्स्रोतः, तद्यस्य चामरं माहात्म्यमयाहेतुः। स एको न तु अन्यः परम ईश्वरः। स्थूलदृष्ट्या तु निजरश्मिपूर्णः खण्डेन्दुः गङ्गा च यस्यासाधारणं छवं चामरं चेति स्पष्टम् ॥ ४ ॥ प्रकाशां शीतलामेकां शुद्धां शशिकलामिव । दृशे वितर मे नाथ कामप्यमृतवाहिनीम् ॥५॥ प्रकाशां शीतलामिति । प्रकाशां स्वप्रकटां, शीतला सन्ता- पहरां, शुद्धां भेदशङ्काशातिनी च, एकामद्वितीयां, कामप्यपूर्वो, अमृतवाहिनीं च अमृतस्यन्दिनी, दृशं संविदं, मे मां, नाथ, वितर मयच्छ । शशिकलापक्षे श्लिष्टोक्तः स्पष्टोऽर्थः ॥६॥ त्वचिदानन्दजलधेश्च्युताः संवित्तिविग्रुपः । इमाः कथं मे भगवन्नामृतास्वादसुन्दराः॥६॥ वञ्चिदानन्द इति । त्वचः चिदानन्दसमुद्रातू, याः संवि- त्तिविभुपः नीलमुखादिज्ञानकणिकाः, प्रकाशमानत्वाच्चिदान- न्दसारा एव, च्युता निर्याताः, समकालममृतास्वादसुन्दराः, इमा विस्फुरन्सो, नो कथं भवन्ति, भवन्सेवेसर्थः ॥ ६॥ त्वयि रागरसे नाथ न मनं हृदयं प्रभो। येपामहदया एव तेऽवज्ञास्पदमीदृशाः ॥७॥ त्वयि रागेति । स्वाद्विपये रागरसो भक्तिमसरः। तत्र येपा हदयं न मनं समाविष्टं, ते अविद्यमानताचिकहदयाः .

शिवस्तोत्राचल्याम् ईदृशा इति संसारक्लेशभाजनभूताः अवज्ञास्पदं भक्तिमता- मगणनीया एव ।।७।। प्रभुणा भवता यस्य जातं हृदयमेलनम् । प्राभवीणां विभूतीनां परमेकः स भाजनम् ॥८॥ प्रभुणेति ।उक्तार्थमातिपक्ष्येणोक्तिीयस्यति कस्यचिदेव । अहृदयास्तु पायो वव इति बहुवचनमत्र नोक्तं । हृदयमेलन समावेशेनैकत्वम् । विभूतयःअद्वयानन्दसम्पदा यस्य च लौकिके- वरेण हृदयमेलनं भवति स एवैकस्तु विभूतीनां पात्रं नान्य इति प्रलेषेण ध्वनति ॥ ८॥ हर्षाणामथ शोकानां सर्वेषां प्लावकः समम् । भवद्भ्यानामृतापूरो निनानिम्नभुवामिव ॥६॥ होणामिति । भवट्यानं समावेशरुपं त्वचिन्तनमेव अमृ- तापूरः । स यथा निन्नानिम्नभुवामशुद्धतररूपमायाविद्याभूयीनां समं युगपत्प्लावकः सामरस्यापादकः, तथा लौकिकशोकहा- दीनामपि । समाविष्टस्य हि युगपदेव निखिलं परमानन्दव्याप्तिमयं जायते । जलापूरश्च निन्नोन्नताश्च भूमीः प्लावयति ॥ ९ ॥ केव न स्याद्दशा तेषां सुखसम्भारनिर्भरा। येपामात्माधिकेनेश न क्वापि विरहस्त्वया ॥१०॥ कैच न स्यादति। येपामात्माधिकेनेश, देहादि निमज्ज्य चिद्धनत्वेन स्फुरता त्वया कदाचिदपि न वियोगः तेषां मुखसम्भारनिर्भरा परमानन्दपूर्णा का इव दशा न स्यात् सम्वैव भवतीसर्थः । जीवन्तः ईश्वरावियुक्ताश्च सदा मुखिनो भवन्ति ॥१०॥ .

प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् ।
गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः।
स्वामी ममैप घटितो यत्त्वमत्यन्तरोचनः॥११॥
गर्जामि वत्तेति ।अतिभक्तिरसानन्दघूर्णितस्येयमुक्तिः असन्तं
रोचनः अतिशयेन प्रियः। एप इति वक्तुमशक्यः स्वानुभवसंसि-
द्धः। तथा च असन्तरोचनः विश्वग्रासकत्वेन अतिदीप्तमकाशव-
पुर्यतस्त्वं स्वामी ममघटितः समावेशेन मयाऽऽसादितः। ततोगर्जा-
मि महारवमुच्चारयामि, नृसामि हर्पप्रसरभरेण सर्वतोमायाममा-
दभावधूननसारं गात्रविक्षेपं करोमि । मम च मनोरथाः पूर्णाः
निराकासोस्मि जात इसर्थः । यत इति अनुत्तचित्स्वरूपमसभि-
ज्ञानाद्विस्मयमुद्राऽनुप्रवेशं ध्वनति ॥ ११ ॥
नान्यवेद्य क्रिया यत्र नान्यो योगो विदा च यत् ।
ज्ञानं स्यातू किन्तु विश्वकपूर्ण चित्त्वं विजृम्भते॥१२॥
नान्यद्वेद्यामति । तथाविधौ मम स्वामी घटितो यन्न स्वामिनि
सति अन्यद्भिन्नं वेद्यं, अन्या क्रिया, अन्यो योगः, अन्या च विदा
संविन्नास्ति, घटितस्वामिव्यतिरिक्तं मम न किं चिदपि भाती-
सर्थः क्रिया चिदा इयत्र अन्या इति योजना। तन पूर्ण स्वस्से-
वेति आह । किन्तु यज्ज्ञानं स्यातद्विश्वस्यैका पूर्णाहुतिः चो-
धाग्निमज्वालिनी, पूर्णाहंपरामर्श क्रियाशक्तिस्वरूपमेतज्ज्ञानमिति
यावत् । यच्चेजानं तदेवं चित् शिवप्रकाशरूपत्वं विजृम्भते
नान्यत् । यथागमः "न योगोऽन्यः क्रिया नान्या तत्त्वाम्ढा हि
या मतिः । स्वचित्तवासनाशान्ती सा कियेसभिधीयते" ॥१२॥
दुर्जयानामनन्तानां दुःखानां सहसैव ते ।
हस्तात्पलायिता येपां वाचि शश्वञ्छिवध्वनिः॥१३॥

शिवस्तोधावल्याम
दुर्जयानामिति । हस्तात्पलायिता इसनेन शिवध्वनिशून्यवा-
चः सर्वदुःखाक्रान्ता इति ध्वनति। तथा चोच्यते आग्रह्मणश्च
कीटाचेखादि । “आब्रह्मणश्च कीगच न कश्चित् तत्वतः मुखी।
करोति तास्ता विकृतीः सर्व एव जिजीविपुः ॥ १३ ॥
उत्तमः पुरुपोऽन्योऽस्ति युग्मच्छेपविशेपितः ।
त्वं महापुरुषस्त्वेको निःशेषपुरुषाश्रयः॥१४॥
उत्तमः पुरुप इति । हरिः पुरुपोत्तम इति प्रसिद्धः, स यु-
आमच्छेषेण तावकेन अभेदसारविद्याऽधिष्ठातृषुप्रमातृपु च लब्धा-
दन्येन अधिष्ठानात्मना स्वरूपेण विशेषितः सम्पादितविशेषः ।
तथा चागम:-"वैष्णव्यास्तु स्मृतो विष्णु"रिति । त्वं सकलादिस-
दाशिवान्तनिःशेपपुरुषाश्रयत्वान्महापुरुपः । अन्यशब्दः कश्चिद-
थः एकः अद्वितीयः। इति एका श्लोकार्थः। अपरस्तु व्याकरणम-
क्रियया उत्तमपुरुषः अस्मदर्थे यः स युप्मच्छपाभ्यां मध्यमम-
थमपुरुपाभ्यां विशेपितः सातविशेपोऽस्ति, तस्य च तटस्थप-
रामृश्यात्प्रथमपुरुपायुष्मदर्थोन्मुखाच मध्यपपुरुपादयं विशेपः
यदशेषपुरुपाश्रयत्वं तद्विश्रान्तिधामवं । सर्वस्पेदन्ताविमृश्यस्या-
इन्तायामेव विश्रान्तेः। स पचति त्वं पचास अहं पचामीति वि-
वक्षायां वयमेव पचाम इसादौ प्रयोगेऽयमेवाशय इबास्तां । त्वं
तु विनिाशपाणां प्रथममध्यमोत्तमपुरुपाणां कल्पितानामकल्पि-
तचिद्रूपाश्रयः । यथोक्तं मसभिज्ञायां “ग्रााग्राहकताभिन्नावों
भातः ममातरि" इति अत एव महापुरुषो मदेश्वरो, महादेववन्म-
इच्छब्दस्य त्वय्येव प्रत्तत्वात् ॥ १४॥
जयन्ति ते जगहन्या दासास्ते जगतां विभो ।
संसारार्णव एवेप येपां क्रीडामहासरः ॥१५॥

प्रणयप्रसादाल्पं तृतीयं स्तोत्रम् ।
जयन्तीति । जगद्वन्धत्वं शिवसमावेशमानत्वात् ।जगतां विभो,
तब दासास्ते जयन्ति, येषां संसारसमुद्र एवैष इसतिघोरोऽपि
चिद्रूपतया ज्ञातपरमार्थः सन् क्रीडामहासर कल्पः। यथोक्तं "इति
वा यस्य संवित्तिः क्रीडावेनाखिलं जगद, सम्पश्याने सादि ॥१५॥
नासतां तावदन्यानि दैन्यानीह भवज्जुषाम् ।
त्वमेव प्रकटीभूया इत्यनेनैव
लज्ज्यते ॥१६॥
आसतां तावदिति। अन्यानि दैन्यानि अणिमादिमार्थना ।
भवज्जुपां सततसमावेशप्रथमानत्वत्स्वरूपाणामतएवार्थनीया-
न्तरविरहात्मकटीभूया इसनेनैव कदाचित्समाविष्टैः प्रार्थनीयेन
यतो लज्ज्यते ततो दण्डापूपीन्यायेन दैन्यान्तरसम्भावनैव
नास्ति ॥१६॥
मत्परं नास्ति तत्रापि जापकोऽस्मि तदैक्यतः ।
तत्त्वेन जप इत्यक्षमालया दिशसि क्वचित् ॥१७॥
मत्परं नास्ति तन्नेति । महेशितुरपि जय देवतान्तरमस्ति
अक्षमालायोगादिति ये मुह्यन्ति तान् वोधयितुमाह मत्परं ताव-
नास्ति तथाऽपि जापकोऽस्मि यत्, तत् तस्मात् ऐक्यत ऐक्येन
चिदभेदेन, परमार्थतो जप पूर्णाहन्ताविमर्शात्मा निसोदितो भव-
तीति अक्षमालया कचिद्गौरीश्वरायाकृती दिशसि कथयसि ।
तच्छन्दाद्यच्छब्द आक्षेप्यः। अथ वा अक्षमालया करणेश्वरीएं-
च्या समस्तार्थसाथै सर्गसंहारपरम्परासम्पत्तये पुनः पुनरावर्त-
मानया ऐक्यतो महार्यनया भेदसारेणैकत्वेन च जपोऽनुत्तर-
विमर्शसारो भवतीयक्षमालयैव वर्णलिपिन्यायेन युक्त्या शिक्ष-
पसि ॥१७॥

शिवस्तोत्रावल्याम
सतोऽवश्यं परमसत्तच्च तस्मात्परं प्रभो ।
त्वं चासतस्सतश्चान्यस्तेनाऽसि सदसन्मयः॥१६॥
सतोवश्यमिति । भावाभावौ परस्परभिन्नी । त्वमसतः खपु-
प्पादेः, सतश्च नीलसुखादेरन्यो विलक्षण चिदानन्दघना, अत
एव सदसन्मयः सद्रूपोप्यसद्रूपोऽपि सदसद्रूपोऽपि विश्वात्मक-
स्त्वं, "नतु सद्रूप एव वा असद्रूष एव वा उभयोज्जित एव वा। तथा
श्रीभगशिखायां-"न सन्न चासत्सदसन्नव तदुभयोज्ज्ञितमि"त्युप-
म्य, दुर्जेया हि साऽवस्था किमप्येतदनुत्तरमि"सनिर्वचनीयत-
यैव विश्वोत्तीर्णविश्वमयचिदानन्दघनमनुत्तरस्वरूपं सदसत्त्वेनेति
श्लोकेन भावनीयसदसत्ताकोटिद्वयवैलक्षण्यमुक्तम्, अनेन तु सर्व-
भावाभावोत्तरत्वम् ।। १८॥
सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान् ।
अपि त्वं सर्वभुवनव्यापकोऽपि न दृश्यसे ॥१९॥
सहस्रसूर्यकिरणेभ्योप्यधिक , तेपामपि तत्पकाशत्वात् ।
शुद्धीश्चदेकरूप प्रकाशो भूम्ना माशस्सन च यस्य । अत एवं
सर्पभुवनव्यापकत्वं । मायाव्यामू न दृश्यसे भासमानोऽपि न
प्रयभिज्ञायसे इति यावत् ॥ १९ ॥
जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः ।
विभुमिते च येनासि तेन सर्वोत्तमो भवान् ॥२०॥
जडे जगतीति । जगति लिसादिसदाशिवावसाने जडे
चेघे मिते च असि वं चिद्रूपो वेदको व्यापकश्च यतस्ततः
सर्वोत्तमोसीति सम्बन्धः ॥ २०॥

२७ सुरसोद्धलाख्यं चतुर्थ स्तोत्रम् । अलमाक्तन्दितैरन्यैरियदेव पुरः प्रभोः । तीनं विरोमि यन्नाथ मुह्याम्येवं विदनपि ॥२१॥ अलमिति । व्युत्थानदशापरवशः समावेशतत्त्वं जाननपि मुद्यामीति व्युत्थाने समावेशवशो भवामीति शिवम् ॥ २१ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावली प्रणयप्रसादनामके तृतीयस्तोने श्रीक्षेमराजविरचिता विवृतिः ॥ ॐ चपलमसि यदपि मानस तत्रापि श्लाध्यसे यतो भजसे। शरणानामपि शरण भुवनगुरुमम्बिकाकान्तम् ॥ १ ॥ ॐ चपलमसीति । चापलाद्यद्यपि भगवद्गजने न परोहसि सथा ऽपि कृतार्थमसि ।क्षणमात्रमपि तत्सेवायाः पूर्णव्याप्तिपद- खात् । अत एव शरणानामपीससामान्यतां भगवतः प्रथयति । शरणानां ब्रह्मविष्ण्वादीनामपि शरणं समाश्रयं त्रिभुवनगुरूं विश्वस्पोपदेष्टारं पूज्य च । अम्बिका परा शक्तिः ॥१॥ उल्लय विविधदैवतसोपानक्रममुपेयशिवचरणान् । आश्रित्याप्यधरतरां भूमिं नाद्याऽपि चित्रमुज्ज्ञामिार उल्लद्देश्यति । विविधानि ग्रसीवष्णुरुद्रेश्वरसदाशिवादिरूपा- णि देवतान्येव सोपानक्रम, तमुछश्य विश्रान्तिपदीकृस, उपे- शिवस्तोत्रायल्गाम् यस्योपगन्तव्यस्य आत्मसमीपे प्राप्तव्यस्य शिवस्य, चरणान् मरीचीन, आसमन्तात् श्रित्वा समावेशयुक्त्या स्वीकृसापि, चित्रं यदद्यापि अधरतरां भूमि व्युत्थानपतितां मायीयदेहादिममा- तृतां न सजामि । दैवतानां सोपानक्रमेणानुपादेयतां भगवतस्तु चरणसमाश्रयेणोपादेयतमतां प्रकाशयन्नात्मनस्तत्समाश्रयेण श्लाध्यतां ध्वनति ॥ २ ॥ प्रकटय निजमध्वान स्थगयतरामखिललोकचरितानि यावद्भवामि भगवं- स्तव सपदि सदोदितो दासः ॥ ३ ॥ पकटयेति । निजमध्वानं स्वं शाक्तं मार्गम्। अखिलस्य लो- क्यलोकायतृरूपस्य मेयमातृवर्गस्य सदाशिवान्तस्य । चरितानि स्थगयतरां निःशेपेण शमय । यावत् तव सदोदितो दासो भवा- मि त्वचरणसपर्यापरी निससमाविष्टः स्फुरामि इति यावत् ॥३॥ शिव शिव शम्भो शङ्कर शरणागतवत्सलाशु कुरु करुणां। तव चरणकमलयुगल- स्मरणपरस्य हि सम्पदो ऽदूरे ।। ४ ।। शिवशिवेति । तव चरणयुगलं ज्ञानक्रियामयं मरीचिद्रयं । • सम्पदः समावेशसाराः परमानन्दमय्यः । अदरे निकटे ॥ ४ ॥ तावकाविकमलासनलीना ये यथारुचि जगद्रचयन्ति ।

सुरसोद्वलाख्यं चतुर्थ स्तोत्रम् । ते विरिञ्चिमधिकारमलेना- ऽऽलितमस्ववशमीश हसन्ति ॥५॥ तावकाढीति । सङ्कोचविकासपरत्वन्मरीचिविश्रान्ताः तत एव आस्वादितस्वातन्त्र्या, यथारुचि करणेश्वरीप्रसरयुक्त्या, ये जगद्रचयन्ति तेविरिश्चि ब्रह्माणमधिकारमलेन आसमन्तालिप्तमत एव नियतिपरतन्त्रवादस्ववशमस्वतन्त्रं । हे ईश स्वतन्त्र । हसन्ति कमलासनोऽपि तेपां हासास्पदमिसर्थ ॥ ५ ॥ त्वत्प्रकाशवपुपो न विभिन्न किं च न प्रभवति प्रतिभातुम् । तत्सदैव भगवन्परिलब्धो ऽसीश्वर प्रकृतितोऽपि विदूरः ॥ ६ ॥ त्वप्रकाशवपुपइति । हे ईश्वर असि त्वं मकृतितः विद्रोऽपि स्वगोपनादप्राप्योऽपि सदैव परिलब्धः अस्माभिरिति शेपः । यतः यत् किभित्पतिभातुं मभवति भासते तत्त्वत्तः प्रकाशवपुप- श्चिद्रूपात् न भिन्न प्रकाशमयस्यैव प्रकाशार्हत्वात् । यथोक्तं- “यस्मात्सर्वमयो जीव" इसादि "भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थित" इसन्तम् ॥ ६ ॥ पादपङ्कजरसं तव के चिद् भेदपर्युपितवृत्तिमुपेताः । के चनाऽपि रसयन्ति तु सद्यो भातमक्षतवपुर्दयशून्यम् ॥ ७ ॥ पादपङ्कनेति । तब ज्ञानक्रियामरीचिद्रयमयचरणकमलरम शिवस्तोत्रावल्याम् के चित् द्वैतनिष्ठाः, भेदेन पर्युपिता, झगिति उपभोगानासा- दनेन शुक्तीकृतप्राया दृत्तिः स्वरूपं यस्य तमुपेताः प्राप्ता, न तु सद्य आस्वादयन्ति । के चित्पुनः परशक्तिपातपवित्रिता: सद्यो भातं झमिति उपनतं अक्षतवपुपं निसस्फुरत्स्वरूपं द्वयशून्यं चिदान्दैकयनं रसयन्ति चमत्कुर्वन्ति। केचिदिसपकर्षः केचनापीत्युत्कएँ ध्वनति ॥ ७ ॥ नाथ विद्युदिव भाति विभा ते या कदा चन ममामृतदिग्धा । सा यदि स्थिरतरैव भवेत्तत् पूजितोऽसि विधिवत्किमुतान्यत् ॥ ८ ॥ नाथ विद्युदिवेति । हे नाथ तव विभा पर: शाक्त: स्पन्दः । अमृतदिग्धा परमानन्दोपचिता । विद्युदिव क्षणमात्र कदाचिन्ममावभाति समावेशे स्फुरति । सा यदि वलपदव्युत्था- नमपहस्स निसोदिता स्यातद्विधिवद्यथातत्वं पूजितोऽसि । कि- मुतान्यत् परिसमाप्तं करणीयं कृतकृसता च जायते इसर्थः ॥८॥ सर्वमस्यऽपरमस्ति न किंचिदू वस्त्ववस्तु यदि वेति महत्या । प्रज्ञया व्यवसितोऽन यथैव त्वं तथैव भव सुप्रकटो मे ॥ ९ ॥ सर्वमसीति । असि त्वं सर्वमपरं वस्तु यदि वा ऽवस्तु न कि चिदस्ति, सर्वस्य चिद्धनत्वात्मकाशमयत्वेन प्रकाशनाद इसेवं शुद्धविद्यामय्या यथैव महसा मज्ञयाऽत्रजगति त्वं

सुरसोइलाख्यं चतुर्थ स्तोत्रम् ।
निश्चितस्तथैव मे सुष्टु व्युत्थानेऽपि समावेशवशात् प्रकटो
भव ॥ ९ ॥
खेच्छयैव भगवनिजमार्ग
कारितः पदमहं प्रभुणैव ।
तत्कथं जनवदेव चरामि
त्वत्पदोचितमवैमि न किं चित् ॥ १० ॥
स्वेच्छयैवेति । हे भगवन् अहं प्रभुणैव न तु अन्येन केन
चित् ।स्वेच्छयैव निरपेक्षशक्तिपातयुक्त्या।निजमार्गे विकस्वरश-
क्तिवर्मनि । पदं कारित विश्रान्तिं लम्भितः। तत्कथं जनवदेव
लोकवदयाचरामि व्युत्याने व्यहरामिात्वत्पदोचितं त्वन्मरीचि-
परिचयसमुचितं समावेशवशान किं चिदवगच्छामि ॥ १० ॥
कोऽपि देव हृदि तेषु तावको
जृम्भते सुभगभाव उत्तमः ।
त्वत्कथाम्बुनिनादचातका
येन तेऽपि सुभगीकृताश्विरम् ॥ ११ ॥
कोपीति । हे देव तेपु केपु चित् प्रागुक्तभक्तिमत्सु हदि ता-
वकः उत्तमः उत्कृष्टः सुभगभाव' कोऽपि उच्छलदानन्दरसोल्वण-
वं किमप्युज्जृम्भते, येन तेऽपीति समावेशसम्भिन्नहृदया अपि,
अत एव त्वत्कथैव अम्बुदनिनादः तत्र चातका इव समावेश-
शालिमतन्यमानशियकथाsऽकर्णनमहष्टहृदया अपि चिरं मुस-
गीकृताः समावेशभूमि लम्भिताः। यत्कथामात्रेण समावेशोऽच-
तरतीयर्थः ॥ ११ ॥

૨૨ शिवस्तोत्रावल्याम् त्वज्जयां त्वयि कयाऽपि लीलया राग एप परिपोषमागतः। यद्वियोगभुवि सङ्कथा तथा संस्मृतिः फलति संगमोत्सवम् ।। १२ ॥ त्वज्जुवामिति । कयापीति अनुत्तरसमावेशशालिन्या लील- या त्वज्जुपां त्वां मीसा सेवमानानाम्। एप इति असामान्यो रागः परिपोपं प्राप्तः त्वद्वियोगभुवि व्युत्थाने । सङ्कथा संस्मृतिश्च की सम्भोगोत्सवं सम्भोगदशां फलति । वियोगभुवि सङ्गमोत्मवमि- त्युक्त्या अलौकिकत्वमनुरागस्य ध्वनति ॥ १२॥ यो विचित्ररससेकवर्धितः शङ्करेति शतशोऽप्युदीरितः । शब्द आविशति तिर्यगाशये- प्वप्ययं नवनवप्रयोजनः ॥ १३ ॥ ते जयन्ति सुखमण्डले भ्रमन् अस्ति येषु नियतं शिवध्वनिः । यः शशीव प्रस्टतो ऽमृताशयात स्वादु संस्रवति चामृतं परम् ॥ १४ ॥ यो विचित्रेति तेजपतीति युगलकम् । ते जयन्ति येयु सु- खमण्डले नियतं निश्चितं कृत्वा भ्रमन् शिवध्वनिरस्ति । यः स्वादु परं चामृतं सम्यक् सवति आनन्दरसं समुच्छलयति । कीहक् अमृताशयात् साक्षात्कृताचदनपरमेश्वररूपात्मसतः स्व- रसेनोधारितः यथा अमृताशयातू, शशी चन्द्रमा प्रस्तः मण्ड- .

सुरसोलाप्यं चतुर्थ स्तोत्रम्।
ले स्फुरन्, परं स्वाद्वमृत साति, यञ्चैव विचित्रेण समावेशरस-
सेकेन धितोऽत एव शतशोप्युदीरितः शङ्करेखयं शब्दः, तिर्य-
गाशयेपु पशुहृदयेप्वपि, नवनवप्रयोजनः प्रतिक्षणं तत्तदपूर्वच-
मत्कारकारी, आविशति परिस्फुरति ॥ १३ ॥ १४ ॥
परिसमाप्तमिवोग्रमिदं जगद्
विगलितोऽविरलो मनसो मलः।
तदपि नास्ति भवत्पुरगोपुरा-
गलकवाटविघटनमण्वपि ॥ १५ ॥
परिसमाप्तमिवेति । स्फुरत्मसनसमावेशसंस्कारस्य व्युत्था-
नभूमिमवतितीर्पोरियमुक्तिः । उग्रं भेदमयत्वादीषणं । जगद्विश्वं,
परिसमाप्तमिव । समाविष्टस्य हि न वाद्यं विषं विभाति अथ च
संस्कारशेपतयाऽऽस्ते इति इय शब्दः । मनसश्च अविरलो घना
मलः अविद्याकलात्मा विगलितः । तथाऽपि नि.शेपशान्ताशेप-
विश्वमयप्रफुल्लमहाविद्योद्यजगदानन्दमयस्य पूरकत्वात्पुररूपस्य,
यदोपुरं पुरद्वारं परमशक्तिरूपं, तबार्गलयुक्तकवाटविघट्टनमति-
रहाख्यातिपुटविपाटनं मम मनागपि नास्ति । अनेन मविगलितनि:
शेपदेहादिसंस्कारां परां भूमिमेयोपादेयत्वेन ध्वनति । यदुक्तं
"सर्वथा त्वन्तरालीने"सादि श्रीमयभिज्ञायां । “सर्वातीतः शिवो
शेयो यं विदित्वा विमुच्यते" इति पूर्वशास्त्रे ॥ १५ ॥
सत्ततफुल्लभवन्मुखपङ्कजो-
दरविलोकनलालसचेतसः ।
किमपि तत्कुरु नाथ मनागिव
स्फुरसि येन ममाभिमुखस्थितिः ॥ १६ ॥

- ३५ शिवस्तोत्रावल्याम् सततेति । सततं फुल्ल निसं विकसितं यत्वन्मुखकमलं,"शैवी- मुखमिहोच्यते इति"स्थिसा, खपराशक्तिरूपं यत्प, तस्य यदुदरं मध्य, परं तावकं परशक्तिसामरस्यमयं शांभवं रूपं, तस्य विलो- कनं समावेशः, तत्र लालसं सातिशयाभिलापं चेतो यस्य, तस्य मे, किमपि तदसम्भाव्यमुपायमदर्शनं, मनागिव हेलामात्रेण कुरु, येन ममाभिमुखस्थितिः सन् स्फुरसि ॥ १६ ॥ त्वदविभेदमतेरपरं नु किं सुखमिहास्ति विभूतिरथाऽपरा । तदिह तावकदासजनस्य किं कुपथमेति मनः परिहत्य ताम् ॥ १७ ॥ स्वदविभेदमतेरिति । समावेशस्फुरितायास्वदद्वयसंविदः अ- परं मुखं विभूसादि च न किं चिदस्ति । तस्या एव सर्वातिशा- यित्वात्। ततः किमिति तावकदासजनस्य तां त्वदंविभेदसंविदं परिहस, मनः कुपथमेति व्युत्थानभूमिमेवाऽऽधावति ॥ १७ ॥ क्षणमपीह न तावकदासतां प्रति भवेयमहं किल भाजनम् । भवदभेदरसासवमादरा- दविरतं रसयेयमहं न चेत् ॥ १० ॥ क्षणमपीति । यदि भवदद्वयानन्दरसासवमहमविरतं नास्वा- दयेयं, तचव दासतां मति क्षणमपि भाजनं न भवेयम् । आन- न्दघनत्वस्वरूपापरिचितत्वाद ॥ १८ ॥ न किल पश्यति सत्यमयं जन- स्तव वपुढयदृष्टिमलीमसः ।

३५
सुरसाइलाख्यं चतुर्थ स्तोत्रम् ।
तदपि सर्वविदाश्रितवत्सलः
किमिदमारटितं न शृणोपि मे ॥ १९ ॥
न किलेति । अयं तावज्जनः भेददृष्टिमलीमसत्वात्तव ससं
चिघनं वयुः न पश्यति । तथाऽपि त्वं सर्ववित्सर्वज्ञः, आश्रित-
वत्सलो भक्तानुकूलः, अतएव स्वयमेवोचितस्वात्मदर्शनदान
ऽपि में किमिसारटितं आक्रन्दितं न शृणोपि। दर्शनं तावज्झ-
गिति मम आरटितं भक्तिविवशचित्तस्याक्रन्दितमात्रं तु श-
विति प्रार्थयते ॥ १९ ॥
स्मरसि नाथ कदा चिदपीहितं
विषयसौरव्यमथापि मयाऽथितम् ।
सततमेव भवद्वपुरीक्षणा-
मृतमभीष्टमलं मम देहि तत् ॥ २० ॥
स्मरसीति । ईहितं प्रयत्नेनार्जितं अथाप्यर्थितं कासित
कदा चिदपि मया विपयसौख्यामिति नाथ स्मरसीति नियन्त्र-
णोच्या गादमभुपरिचयं ध्वनति । केवलं मम देव भवदपुरीक्ष-
णामृतं त्वत्स्वरूपप्रकाशनरसायनमलमभीष्टं । तदेव च देहि
प्रयच्छ ॥ २० ॥
किल यदैव शिवाध्वनि तायके
कृतपदोऽस्मि महेश तवेच्छया ।
शुभशतान्युदितानि तदेव मे
किमपरं मृगये भवतः प्रभो ॥ २१ ॥
किलेति । शिवाध्वनि श्रेयःयातशालिनि । परमे पाते
मार्गे। कृतपदा मासविश्रान्तिः ॥ २१ ॥

शिवस्तोत्रायल्याम् यच सोऽस्तमयमेति विवस्वाँ- श्चन्द्रमःप्रभृतिभिः सह सर्वैः । काऽपि सा विजयते शिवरात्रिः खप्रभाप्रसरभारचररूपा ॥ २२ ॥ यग्नेति । सा कापि लोकोत्तरा शिवरात्रिः शिवसमावेश- भूमि समस्तमायीयपथायाः संहरणाद्वात्रिरिव रात्रि कीदृशी, स्वप्रभामसरेण चित्प्रकाशजृम्भणेन भासनशीलं रूपं यस्या, तादृशी । स इसशेषणपश्चमधमाङ्करः विवस्वान् माणः। चन्द्रम:- मभृतिभिरपानादिभि सहाऽस्तमेति प्रशाम्यति । यदि चा विव- स्वान् प्रमाणप्रकाशः। चन्द्रम मभृतय प्रमेयादय ॥ २२ ॥ अप्युपार्जितमहं त्रिषु लोके- प्याधिपत्यममरेश्वर मन्ये । नीरसं तदखिलं भवदति- स्पर्शनामृतरसेन विहीनम् ॥ २३ ॥ अपीति । त्रैलोक्यराज्यमपि त्वन्मरीचिसंस्पर्श विना विरसं मन्ये ॥ २३ ॥ वत नाथ दृढोयमात्मवन्धो भवदख्यातिमयस्त्वयैव क्लप्तः । यदयं प्रथमानमेव मे त्वा- मवधीर्य श्यते न लेशतोऽपि ॥ २४ ॥ यतेति आश्चर्य अयमात्मवन्धो देहादिषु प्रमातृताभिमानः स्वदमधारूपःत्वयैव अतिदुर्घटकारिणा दृढः क्लसः न तु अ- सुरसोइलाख्यं चतुर्थ स्तोत्रम् । न्यस्य शक्तिः । यस्मात्त्वां प्रथमानमेव समावेशे भान्तमेव अव- धीर्य न्यग्भाव्य लेशतोऽपि न श्लथते, व्युत्थाने माधान्यमेवाव- लम्वते इसर्थः ॥ २४॥ महताममरेश पूज्यमानो ऽप्यनिशं तिष्ठसि पूजकैकरूपः । बहिरन्तरपीह दृश्यमानः स्फुरसि द्रष्टशरीर एव शश्वत् ॥ २५॥ महतामिति । वहिरन्तः पूजाधवसरे । आपातभेदेनैव प्रकाश- मानत्वात् । पूज्यमानो दृश्यमानश्च, स्वममरेश देवदेव, महता भक्तियतां पूजकैकरूपो. द्रष्टशरीरश्च, समावेशसामरस्यारोधमय- ममात्रेकरुपस्तिष्ठसि स्फुरसि चेति शिवम् ॥ २५ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्यां सुरसोद्दलनामक- चतुर्धस्तोत्रे क्षेमराजकता विवृतिः ॥

शिवस्तोत्राल्याम्।
ॐ त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम् ।
गलेपादिकया नाघ मां स्ववेश्म प्रवेशय ॥ १ ॥
ॐ त्वदिति । पादा मरीचयः । सम्पर्कमानसम्भोग समा-
वैशास्वादः । गलेपादिका हठशक्तिपातक्रमः । स्ववेश्म चित्स्व-
रूपं, औचिसात् ॥ १॥
भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः।
अपाररभसाऽऽरब्धनर्तनः स्यामहं सदा ॥ २ ॥
भवदिति । भवदीयेन पादाम्बुजरजसा ऽनुग्रहप्रवृत्तपरश-
क्तिकमलपरागेण । रजितमूर्पज अधिवासितान्तः। मसरा-
पृशक्त्यकुरः । तत एव महर्षवशादपारमपर्यन्तं, रभसाऽऽरब्धं
झगिति प्रवर्तितं नर्तनं गात्रविक्षेपो मायाममातृतावधूननं येन ।
निससमावेशविकस्वरतामाशास्ते ॥२॥
त्वदेकनाथो भगवन्नियदेवार्थये सदा ।
त्वदन्तर्वसतिद्को भवयं माऽन्यथा बुधः॥३॥
स्वदेकनाथ इति । इयदेव नापरमर्थये । यत्त्वमेवैको नाथो ना-
थ्यमानः समभिलपणीयो यस्य स । त्वदन्तर्वसतिश्चिद्धनत्वत्स्व-
रूपसमाविष्टो मूकोऽपि स्याम् । अन्यथा बुधोऽपि विद्वानपि
माभूवम् ॥ ३॥
अहो सुधानिधे स्वामिन् अहो मृष्ट त्रिलोचन ।
अहो खादो विरूपाक्षेयेव नृत्येयमारटन् ॥४॥
अहो इति माग्वन्निससमाविष्टतामाशास्ते । मुधानिधेआन-
न्दाब्धे। मृष्ट चमत्कारपदपतित । स्वादो अविच्छिन्नमाधुर्य । नृसे-
यमिति माग्वत् । आरटन स्फुट परामृशन् ॥ ४ ॥

स्वयलनिदेशनाल्यं पञ्चमं स्तोत्रम् ।
३६
त्वत्पादपद्मसंस्पर्शपरिमीलितलोचनः ।
विजृम्भेय भवद्भक्तिमदिरामदघूर्णितः ॥ ५ ॥
त्वत्पादपति । त्वच्छत्स्यानन्देन अन्तर्मुखीकृतकरणः।वि-
जृम्भेय चित्स्वरूपोन्मज्जनागात्रं विनमयेय चिद्गुणीभावं नयेयम् ।
कीहक-भवति साक्षात्कृते, या भक्तिरासेवा सैव मदिरामदः
कादम्बरीचमत्कारः, तेन घूर्णितो महान्याप्ति लम्भितः ॥ ५ ॥
चित्तभूशृद्भुवि विभो वसेयं वापि यत्र सा ।
निरन्तरत्वत्प्रलापमयी वृत्तिर्महारसा ॥६॥
चित्तभूभृदिति । चित्तमेव अनुल्लङ्घयत्ववासनाश्रयत्वकटो-
रत्वाभिः भूभृत् । तस्य सम्बन्धिन्यां कस्यां चिद्विविवेकप्रदायां
भुवि भूमिकायां।वसेयं । यत्र सा इति प्राक् परिशीलिता, महा-
रसा समावेशानन्दमयी, निरन्तरो धनः, त्वत्मलापो भवत्पराम-
ीः, प्रकृतं रूपं यस्यास्तादृशी दृत्तिः स्थितिः ॥ ६ ॥
यत्र देवीसमेतस्त्वमासौधादा च गोपुरात् ।
बहुरूपः स्थितस्तस्मिन्वास्तव्यः स्यामहं पुरे ॥७॥
यति । तस्मिन् पुरे त्वदीये पूरके चिदात्मनि रूपे । वास्त-
व्यः समाविष्टः स्याम् । यत्र आसौधादान्तरात्सुधासमूहरूपात्म-
तिभालक्षणादुच्चादाम्नः । आच गोपुरादिन्द्रियविषयरूपा
द्वाराद । त्वं देव्या परशत्या समेतो निसप्रमुदितो, "न सा जीव-
कला का चि"दिसादि नीसा वससि। बहुरूपो विश्वात्मा । अत्र
अनुरणनशम्या लौकिकैवार्यपरिचार्यर्थः स्पष्टः । तथोत्तरत्रा-
प्यनुसर्तव्यः ॥ ७ ॥
समुल्लसन्तु भगवन् भवद्भानुमरीचयः
विकसत्वेष यावन्मे हृत्पद्मः पूजनाय ते ॥८॥

४०
शिवस्तोत्रावल्याम
समुल्लसन्विति । मरीचयः अनुग्राहिकाः शक्तयः। विकसतु
च्यासिमासादयतु । तव पूजनाय स्वत्पदसमावेशाय ॥ ८ ॥
प्रसीद भगवन् येन त्वत्पदे पतितं सदा ।
मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव॥ ९॥
मसीदेति । प्रसादोंभस इव स्वयमेवाविलीभावशान्या नैर्म-
ल्यगमनं । एवमुत्तरत्र । त्वत्पदे शाक्ते मार्गे, पतितंलुठितं, तत्तदिति
ते ते लोचनइति यद्वर्णयितुमशक्यतां स्कीततां चास्वाद्य वस्तुतो
ध्वनतिाक्षीवेदिव गलदिव इति ससन्देहोत्सेक्षयासम्भावनालिडा
च स्वानुभवसाक्षिकानुत्तरानन्दरसपरवशताशंसां ध्वनति ॥९॥
प्रहदाऽथ शोकाद्वा यदि कुड्यादटादपि ।
वाह्यादथान्तराभावात्मकटीभव मे प्रभो ॥१ ॥
प्रहदिति । वा प्रभृतिशब्दैः यतः कुतश्चित्स्फुटीभव ना-
स्माकं कचिद्रदः इसाह । प्रभो सर्वतः प्रभवनशील ॥ १० ॥
बहिरप्यन्तरपि तत्स्यन्दमानं सदाऽस्तु मे ।
भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम् ॥११॥
वहिरपीति । पादाम्युजं शीतलमिति माग्वत् ॥ ११ ॥
त्वत्पादसंस्पर्शसुधासरसोन्तर्निमजनम् ।
कोप्येप सर्वसम्भोगलङ्घी भोगोऽस्तु मे सदा ॥१२॥
त्वत्पादसंस्पर्श इति । त्वत्पादसंस्पर्शो रुद्रशक्तिसमावेशस
एवं मुधासरः रसायनाब्धिः। तत्र अन्तनिमज्जन घुडनं यद, एप
मम कोऽपि असामान्यः भोगः सदाऽस्तु । कीदृक् । सर्वान् सदा-
शिवपर्यन्तान् भोगान् लड़ते विरसत्वादाभभवति, तच्छील' ॥१२॥

४१ स्वयलनिर्देशनारय पञ्चमं स्तोत्रम् । निवेदितमुपादत्स्व रागादि भगवन्मया । श्रादाय चामृतीकृत्य भुङ्ख्य भक्तजनैः भक्तजनैःसमम्॥१३॥ निवेदितमिति । हे भगवन् चिन्मयसात्मन् । आसंसारं यद मयाजिनं रागादि, तद्वित्तशाट्यविवर्जनया निवेदितं त्वय्यर्पितं, निशेपेण वेदितं चेति । तत्स्वरूपमुपादत्स्व गृहाण स्वमकाशा- स्मतामधिष्ठाय समीपे कुरु । अमृतीकृति परशक्तिस्पर्शामृतेन आप्लाव्य । भक्तजनः सममित्युत्तया स्वसमावेशतासमये समस्त- भक्तानामपि तन्मयतामाशंसति ॥ १३ ॥ अशेषभुवनाहारनित्यतृप्तः सुखासनम् । स्वामिन गृहाण दासेषु प्रसादालोकनक्षणम् ॥१४॥ अर्शपेति । हे स्वामिन् अशेपभुवनाहारेण निसतृप्तः परमा- नन्दघनः । दासेपु व्याख्यातरूपमतादालोकनायसरं गृहाण प्रकाशार्हत्वमधिष्ठापय । कीदृशं-सुखेन आस्यने यत्र तव, आन- न्दव्याप्तिमयम् ॥ १४ ॥ अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः । नमो मह्यं शिवायेति पूजयन स्यां तृणान्यपि ॥१५॥ अन्तर्भक्तीति । अन्तः पूर्णाहन्तायां भक्तिचमत्कारामीलि- तेक्षण इति प्राग्वत् । मह्यं चिद्रूपाय शिवाय नमः इति कृत्वा तृ- णान्यपि पूजयन् स्यां शिवतया परामृशेयम् ॥ १५ ॥ अपि लब्धभवद्भाचः स्वात्मोल्लासमयं जगत् । पश्यन् भक्तिरसाभोगर्भवेयमवियोजितः ॥१६॥ अपीति । लब्धो भवद्भाव त्वदैकात्म्यं येन । अत एव स्वा-

ધર
शियस्तोत्रावल्याम्
स्मनः शिवरूपस्योल्लास एव प्रकृतं रूपं यस्य तथाविधं जगद
विश्वं पश्यन्, भक्तिरसाभोगै समावेशमवलचमत्कारैः अवियो-
जितः स्याम् । “तमनिसेपु भोगेपु योजयन्ति विनायकाः" इसा-
नायस्थिसा मा कदा चित् स्वात्माभिमानविनायको भत्स्य-
न्तरायं मे कापीदिति यावत् ॥ १६ ॥
आकाङ्क्षणीयमपरं येन नाथ न विद्यते ।
तव तेनाऽद्वितीयस्य युक्तं यत्परिपूर्णता ॥१७॥
आकाङ्क्षणीयमिति । सर्वतो निराकासवात्त्वमेव परिपूर्ण
इसर्थः ॥ १७ ॥
हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते ।
पीयते भक्तिपीयूपरसस्तत्प्राप्नुयां पदम् ॥१८॥
हस्यत इति । नृसते अन्तः महर्षभरेण देहादिप्रमातृता दो-
धूयते । भुज्यते ग्रस्यते रागद्वेपादीसनेन पुर्यष्टकममातृताया गु-
णीभावउक्तः। पीयते चमक्रियते भक्तिपीयूपरस' समावेशानन्द-
प्रसर । सर्वस्य च हासनृसमधानभोजनपानक्रिया स्पृहणीया सा
विह अलौकिकत्वेनोक्ता ॥ १८ ॥
तत्तदपूर्वामोदत्वचिन्ताकुसुमवासना दृढताम् ।
एतु मम मनसि यावन्नश्यतु दुर्वासनागन्धः ॥१९॥
तत्तदिति । स स इति विचित्रः, अपूर्वोऽलौकिका, आमोदो
हो यस्याः त्वचिन्तायाः, मैव स्पृहणीयत्वात्कुसुमवासना दृढतां
मरूदलं । ममैतु मनसि । यावद्रागादिदुर्वासना नश्यतु ॥ १९ ॥
कनुरागादिघुरागःक्व च हरचरणाम्बुजेषुरागित्वम् ।
इत्थं विरोधरसिकं बोधय हितममरमे हृदयम्॥२०॥

- स्वपलनिदेशनाण्यं पञ्चमं स्तोत्रम् । ४३ कन्विति । मम हृदयं विरोधरसिकं समावेशे स्वत्परं व्यु त्याने तु विपयोन्मुखं । हितं बोधय विवेकितं कुरु येन व्युत्याने रागादिरसिकता सका त्वदनुरक्तमेवास्ते ॥ २० ॥ विचरन्योगदशास्वपि विषयव्यावृत्तिवर्तमानोऽपि त्वचिन्तामदिरामदतरलीकृतहृदय एवस्याम्॥२१॥ विचरनिति । योगदशाः भूमिकाज्ञानानि । विपयेभ्यो व्यार- चयः इन्द्रियेभ्यः प्रसाहाराः। तत्र वर्तमानः त्वचिन्ता वत्माप्ति- रेव मदिरामदः । तेन तरलीकृतं साजितमितभूमिकामरूढि क्षीव- स्येव घूर्णमानं, निजचमत्कारव्यतिरेकेण कुत्र चिदपि भूमिका- ज्ञानादावरोह हृदयं यस्य, तादृगेव स्याम् । अपिशब्देन प्रसङ्गा- पतितत्वेन अनादरणीयतामाह ॥ २१ ॥ वाचिमनोमतिषु तथा शरीरचेष्टासु करणरचितासु। सर्वत्र सर्वदा मे पुरःसरो भवतु भक्तिरसः ॥२२॥ वाचीति । मनोमतयः कल्पनाप्रधाना धियः। करणरचितामु बुद्धिकर्मेन्द्रियकार्यासु । दर्शनशरणादिपूर्वकवात्सर्वमहत्तीनां । सर्वत्र सर्वावस्थासु । पुरःसर आदावेव स्फुरन् । भक्तिरसः समा- पेशचमत्कारः ॥ २२ ॥ शिव शिव शिवेति नामनि तव निरवधि नाथ जप्यमानेऽस्मिन् । प्रास्वादयन् भवेयं कमपि महारसमपुनरुक्तम् ॥ २३ ॥ शिवेति । जप्यमाने भकृष्टमन्त्रमयतया परामृश्यमाने। अस्मि- .

४४ शिवस्तोत्राच्याम् । निति सानुभवकसाक्षिके अनुत्तरे। भूयो नामग्रहण समावेशवै- वश्यं ध्वनति । कमपीति अलौकिकम् ॥ २३ ॥ स्फुरदनन्तचिदात्मकविष्टपे परिनिपातसमस्तजड़ाध्वनि । अगणितापरचिन्मयगण्डिके प्रविचेरयमहं भवतोऽर्चिता ॥ २४ ॥ स्फुरदिति । स्फुरत् अनन्तमपरिच्छिन्नं यञ्चिदात्मकं विष्ट भुवन विश्वविश्रान्तिस्थानं तत्र । कीदृशे-परितः समन्तानिपीत' समस्तो निःशेपो जडो वेद्यरूपो ध्वान्तत्वादिप्रसरो येन । तथा न गणिता अपरा चिन्मयी गण्डिका पुरी यत्र । शिवात्मकचिद्रू- पव्यतिरेकेणान्यस्याभावात् । अनेन भिन्नशिववादनिरासउक्तः। तत्र प्रकर्षण विचरेयं समावेशेन मसरेयं । कीदृक् । भवतः प्रभोर- चिता अद्वयरूपत्वत्पूजैकनिष्ठः ॥ २४ ॥ स्ववपि स्फुटभासिनि शाश्वते स्थितिकृते न किमप्युपयुज्यते । इति मतिः सुदृढा भवतात् परं मम भवच्चरणाजरजःशुचेः ॥ २५॥ स्ववपुपीति। स्वस्मिन् अनपायिनि वपुपि चिदात्मस्वरूपे । स्फुटभासिनि प्रकाशयने। शाश्वते निसे। स्थिति कर्तुनकिमपि ध्यानजपादिकमुपयुज्यते उक्तरूपत्वादेव । एतादृशी । मम भयचर- णाम्बुजरजःशुचे त्वच्छक्तिकमलपसरपरिशीलनेन शुद्धस्य । सुदृ- दामति निश्चलनिश्चयम्पा धीः परमतिशयेन भवेत् । नियोदित-

स्वयलानिदेशनाख्यं पञ्चमं स्तोत्रम् ।
४५
समावेशैकघनः स्यामिति यावद ॥ २५ ॥
किमपि नाथ कदाचन चेतसि
स्फुरति तद्भवदंघितलस्पृशाम् ।
गलति यत्र समस्तमिदं सुधा-
सरसि विश्वमिदं दिश मे सदा ॥ २६ ॥
किमपीति । हे नाथ भवदङ्घितलस्पृशां त्वच्छक्तिस्पर्शशा-
लिना । कदा चिदवसरे । तत्किमपि असामान्य वस्तु चेतसि
स्फुरति यत्र समस्तमिदं विश्व परमानन्दसागरे गलति तन्मयी-
भवति । तत्तथाविधमिदं वस्तु मां सदा दिश प्रयच्छ । यया
निससमावेशानन्दधन एव भवामि इति शिवम् ॥ २६ ॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावली स्ववलनिदेशनाभिधाने
पञ्चमस्तोत्रे श्रीक्षेमराजकता विवृतिः ।।
ॐ तत्सत् ॐ
क्षणमानमपीशान वियुक्तस्य त्वया मम ।
निविडं तप्यमानस्य सदा भूया दृशः पदम् ॥३॥
क्षणमात्रमिति व्युत्थानरूपे क्षणमात्रवियोगे । गाढानुराग-
वैवश्यानिविडमसर्थ तप्यमानस्य स्वयमेव सन्तापमनुभावयतो
न तु विपयविवशस्य । मम सदा दृशो ज्ञानस्य । पदं भूया:
परिस्फुरेसर्थः ॥ १॥
वियोगसारे संसारे प्रियेण प्रभुणा त्वया ।
अवियुक्तः सदैव स्यां जगताऽपि वियोजितः ॥२॥

शिवस्तोत्रावल्याम वियोगेति । अवियुक्तः समाविष्टः । जगता क्षिसादिशि- वान्तेन विश्वेनापि वियोजितो विश्लेपितः । समावेशे च विश्व प्रसस्तमयो वस्तुतो भवसेव ॥ २ ॥ कायवाड्मनसै यत्र यामि सर्व त्वमेव तत् । इत्येष परमार्थोऽपि परिपूर्णोऽस्तु मे सदा ॥३॥ कायेति। यत्र विपये त्वमेव तदिति चिदेकसारत्वात् इसेष परमार्थ इति “यत्र यत्रे" त्युपक्रम्य “सर्व शिवमयं यत" इसा- म्नातत्वात् । परिपूर्ण इति समावेशेन साक्षात्कृतः ॥ ३ ॥ निर्विकल्पो महानन्दपूर्णो यद्भवास्तथा । भवत्स्तुतिकरी भूयादनुरूपैव वाड्मम ॥ ४ ॥ निर्विकल्प इति । निर्विकल्पः शुद्धचिद्रूपः । तथेति निर्वि- कल्पा महानन्दमयी च । अत एव स्तुसे समुचितत्वादनुरूपा॥४॥ भवदावेशतः पश्यन् भावं भावं भवन्मयम् । विचरेयं निराकासः प्रहर्षपरिपूरितः ॥ ५॥ भवदिति ।भावं भावमिति वीप्सया विश्वाक्षेपः ।निराकाङ्क इति विशेषणद्वारको हेतुः प्रहपैसादिः । मकृप्टेन महानन्दात्मना हर्षेण परिपूरितत्वादेव हि निराकासता भवति ॥ ५॥ भगवन्भवता पूर्ण पश्येयमखिलं जगत् । तावतैवास्मि सन्तुष्टस्ततो न परिखिद्यसे ॥६॥ भगवन्निति । भवतश्चिन्मयस्य सम्बन्धितया मदेशोऽपि महाणः सार्वरूप्पमनतिक्रान्तश्चाविकल्पश्चेति स्थिसाऽसिलं जगत् पूर्ण पश्येयमाभवता पूर्णमितिपाठे तु स्पष्टोऽर्थः। सन्तुष्टः भव्ययिस्फुरणाण्यं पष्ठं स्तोत्रम् । परमानन्दमयी प्रीतिपितः। अतो हेतोर्न परिखिद्यसे, हे भगवन् चिद्रूपस्वात्मन, अणिमादिमार्थनाभिः न व्याकुलीक्रियसे इसर्थः ॥६॥ विलीयमानास्त्वय्येव व्योम्नि मेघलवा इव । भावा विभान्तु मे शश्वत्क्रमनैर्मल्यगामिनः ॥७॥ विलीयमाना इति। यत एवोल्लासताः तत्र त्वय्येव क्रमाक्रम संस्कारशेपतया विगलन्ते । यथा व्योम्नि मेघलवाः। ते हि तत एव प्रस्मृतास्तत्रैव बिलीयन्ते । शश्वत्सदा, क्रमेण नैर्मल्यं शुद्धचिद्रूपत्वं गच्छन्ति तच्छीला इसनेन चिदात्मतैव तेपी तात्विक रूपमिति ध्वनति ॥ ७ ॥ स्वप्रभाप्रसरध्वस्तपर्यन्तध्वान्तसन्ततिः । सन्ततं भातु मे कोऽपि भवमध्याद्भवन्माणः ।। स्वमभेति । भवमध्यात् विश्वस्य मध्यतः । कोऽपीति शुद्धचिद्रपः । भवानेव मणिः सर्वाभिलाषपूरकत्वान्मम सन्ततम- व्युत्थानं कृत्वा भातु समावेशेन स्फुरतु । स्वमभामसरेण निज- रश्मिपरिस्पन्देन ध्वस्ता पर्यन्ता ध्वान्तसन्ततिरख्यातिप्रवृ- त्तिर्येन ॥८॥ का भूमिकां नाधिशेपे किं तत्स्यायन्न ते वपुः। श्रान्तस्तेनाऽप्रयासेन सर्वतस्त्वामवाप्नुयाम् ॥९॥ कामिति।श्रान्त इत्यप्रसभिज्ञातस्वरूपत्वाचिरं संसारेखिन्न। त्वां चिद्रूपमप्रयासेन ध्यानपूजाद्यायाम बिना । सर्वतो यतः कुतश्चिदवाप्नुयाम् समावेशेन स्वीकुर्याम् । यत' को भूमिकामव- स्थितिं नाधिशेपे नाधितिष्ठसि । तद्वाामान्तर वा वस्तु किं यत्तव शिवस्तोनात्याम वपुः स्वरूपं न स्यात् ॥९॥ भवदनपरिष्वङ्गसम्भोगः स्वेच्छयैव मे । घटतामियति प्राप्ते किं नाथ न जितं मया ॥१०॥ भवदिति। अङ्गपरिवग परमसमावेशस्पर्शः। स्वेच्छया न तु कादाचित्कत्वेन । किं न जित सर्वोत्कृष्टन मयैव स्थित- मिसर्थः ॥१०॥ प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः कुर्मस्ते नाथ ताम्यन्तस्त्वामेव मृगयामहे ॥११॥ मकटीति। अन्याभिरर्थनाभिर्याज्ञाभिः कदर्थना व्याकु- लताः तव चिद्रूपरस्थ स्वात्मनः न कुर्मः, यतस्ताम्यन्तो गाढानु- रागविवशाः त्वमिव चिद्रूप न वन्य क चित्, मृगयामहे अन्वि- प्यामः, अतः प्रकटीभव प्रकाशस्वेति शिवम् ॥११॥ इति श्रीमदुत्पलदेनाचार्यविरचितस्तानावलौ अध्वविस्फुरणाख्ये षष्ठे स्तोत्रे श्रीक्षेमराजाविरचिता विवृति ॥६॥ । ॐत्वय्यानन्दसरस्वति समरसतामस नाथ मम चेतः। परिहरतु सकृदियन्त भेदाधीनं महाऽनर्थम् ॥ १ ॥ त्वयोति।आनन्दमरस्वति हर्पसमुद्रे । समरसता समावेशकै- वल्य । सकृदेकवार परिहरतु यथा न पुनर्भवतीसर्थ । इयन्तमप यन्तम् ॥ १ ॥ एतन्मम नत्विदमिति रागद्वेषादि निगडदृढमूले । नाथ भवन्मयतैक्यप्रत्ययपरशुः पतत्वन्तः ।। २ ।।

विधुरविजयनामधेय सप्तमं स्तोत्रम् । पतदिति । एतत्सुखं तद्धतुरूपं मम अस्तु, इदं तु दुःखं तद्धे- तुरूपं मम माभूदिसेवं भेदावग्रहरूपरागद्वेषाद्यात्मनो निगडस्य वन्धनस्य दृढे कठिने मूले अन्तर्मध्ये । भवन्मयतैक्ये मखयः चि- दैक्यप्रतीतिरेव परशुः कुठारः ॥ २ ॥ गलतु विकल्पकलंकावली समुल्लसतु हृदि निरर्गलता। भगवन्नानन्दरसप्लुताऽस्तु मे चिन्मयी मूर्तिः ॥ ३ ॥ गलत्विति । विकल्पानां भेदप्राधान्यात्कलङ्कता।निरर्गलता निःशङ्कता स्वातन्त्र्यं । मम चिन्मयी मूर्तिः ममातृता आनन्दरस- प्लुता समावेशानन्दोच्छलिता अस्तु ॥ ३ ॥ रागादिमयभवाण्डक- लुठितं त्वद्भक्तिभावनाम्विका तैस्तैः । प्राप्याययतु रसैमी प्रवृद्धपक्षो यथा भवामि खगः ॥ ४ ॥ रागादीतिरागादिमये भवाण्डके संसारगोलके । लुठितम- घोधः पतन्तं मांत्विद्भक्तिभावनैवाम्बिका माता तैस्तैः परमान- न्दसारैः रसैराप्याययतु तर्पयतु । यया पद्धपक्षः प्रकर्षणासा- दितव्यासिज्ञानक्रियामयस्वात्मपक्षः। खगो निर्मलदिग्गगनगति- भवामि ( अण्डलुठितश्च पक्षी मात्रा रसैराप्यायितः खे गच्छतीति श्लेपोपमाध्यानः ॥४॥ त्वच्चरणभावनामृत- रससारास्वादनैपुणं लभताम् ।

शिवस्तोत्रापल्याम्
चिनमिदं निःशेपित-
विषयविपासङ्गवासनाऽवधि मे॥५॥
त्वदिति। त्वचरणभावना त्वद्भक्तिचिन्ता, सैवामृतरससार
उत्कृष्टः आनन्दमसरः, तत्र आस्वादे चमत्कारे, नैपुणं वैदग्ध्य,
ममेदं चित्तं लभताम् । कीदृशम्-निशेपितःसमालो विषयविपास-
गवासनानां वैद्यहालाहलव्यसनसंस्काराणामवधिर्मर्यादा येन ॥५॥
त्वद्भक्तितपनदीधितिसंस्पर्शवशान्ममैप दूरतरम् ।
चेतोमाणविमुञ्चतु रागादिकतप्तवन्हिकणान् ॥६॥
त्वदिति। मम चेतोमणिरौचिसाञ्चित्तसूर्यकान्तरनं, त्वद्भ-
तितपनदीधितिसंस्पर्शवशाद्भवत्समावेशसूर्यकरासद्भाव, रागा-
दिकानेर तप्तबन्दिकणान् द्रष्टुमशक्यान् स्फुलिङ्गान, दूरतर-
रमसर्थ, मुश्चतु जहातु ॥६॥
तस्मिन्पदे भवन्तं सततमुपश्लोकयेयमत्युच्चैः।
हरिहर्यश्वविरिश्चा अपि यत्र वहिः प्रतीक्षन्ते॥णा
तस्मिन्निति । तस्मिन्नत्युच्चैः पदे परशक्तिमार्गे त्वामुपश्लो-
कयेयं श्लोकैः स्तवेयं सम्यक् परामशेयम्। हर्यश्व: इन्द्रःगवाह
मतीक्षन्ते । लिप्सवोऽपि वार्तानभिज्ञा इति यावत् ॥ ७ ॥
भक्तिमदजनितविभ्रम-
वशेन पश्येयमविकलं करणैः ।
शिवमयमखिलं लोक
क्रियाश्च पूजामयीः सकलाः ॥८॥

विधुरविजयनामधेयं सप्तमं स्तोत्रम् । ५१ भक्तीति । भक्तिमदेन समावेशमहर्षेण जनितो यो विभ्रमो लोकोत्तरो विलासस्तदशेन । करणैश्चक्षुरादिभिः अविकलं पूर्ण फुत्वा । करणप्रसरात्मनि व्युत्थानेऽपि श्रीभैरवीयमुद्राप्रवेशयुक्त्या समाविष्ट एव भूत्वाऽखिलं लोकं विश्वं लोक शिवमयं, क्रियाश्च वायनाकायव्यापृतीः सकलाः पूजामयीश्चिन्मयस्वरूपोल्लास- रूपाः पश्येयम् ॥ ८ ॥ मामकमनोगृहीत- स्वद्भक्तिकुलाङ्गनाऽणिमादिसुतान् । सूत्वा सुबद्धमूला ममेति बुद्धिं दृढीकुरुताम् ॥ ६॥ . मामक इति । मामकेन मनसा गृहीता माणेशत्वेन स्वीकृता येयं भक्तिरेव अतिस्पृहणीयत्वात्सर्वजनागोचरत्वाञ्च कुलाङ्ग- ना पत्री, अध च आगमभापया कुलेश्वरीरूपा।सा आणिमादीनेव मुतान् सूत्वा, अन्तः स्थितानव अभिव्यक्ति नीत्वा, महान्याप्सा सुस्फुटतया परामृश्य, मुटु पद्धमूला मरुढा सती, मम इयद्विश्वं न तु अन्यस्योते बुद्धि दृढीकुरुतां महहिं नयतु । अत्र च अभेदसारा अणिमादयोऽभिमेताः। तथाहि चित्पद एव स चान्तर्भावसमत्वादणिमा व्यापकत्वान्महिमा ।भेदमयगौरवा- भावालधिमा । विश्रान्तिस्थानत्वात्प्राप्ति । विश्ववैचित्र्यग्रहणा- प्राकाम्यं अखण्डितवादीशिस्त्र । सर्वसहत्वायत्रकामावसायित्वं च। ससतः परिपूर्णतया विद्यते,न्यत्र तु त्वत्प्रसादादतिपरिमित मितिकृया पूर्णमेवात्र तदभिहित, न सन्यत्, पूर्णत्वेन नैराका हवात । "आसतां तावदन्यानि दैन्यानी"त्युक्त व्याघातम- ધર शिवस्तोत्रावल्याम् सद्भाच । एवमुत्तरत्रापि स्मर्तव्यमिति शिवम् ॥ ९ ॥ इति श्रीमदाचार्योत्पलविरचिताया स्तोत्रावली विधुरविनय- नामधेये सप्तमस्तोने श्रीक्षेमराजकता विनृति ॥ ॐ यः प्रसादलव ईश्वरस्थितो या च भक्तिरिव मामुपेयुषी। तौ परस्परसमन्वितौ कदा तादृशे वपुपि रूढिमेष्यतः ॥ १ ॥ यइति । मायाकालुप्योपशान्सा चितो नैर्मल्यं प्रसादः । तस्य लवः अल्पता। पूर्णतायां तु देहापगमाच्छिवतैव । इश्वर इति सप्तम्यनन्यभावे । ईश्वरे एव स्थितइसर्थः स एव हि चिद्रूपः तथा स्वयमेव प्रसीदति भक्तिप्रसादात् । ईश्वरस्य रूपोपमाव्य- त्वम् । इवशब्दो भक्त परिमिततामाह । काष्ठापासा ह्यसौ मोक्षास्वादमय्येव। उपेयुपी उपगतवती । तौ भक्तिमसादौ परस्पर सम्यगीन्वतौ तरुणाविव मेमनिर्भरतया स्वानुरूप्येण सम्बद्धी। तादृशे वपुपीति परानन्दयनतैकमये पूर्णे स्वरूपे । हार्दि विश्रान्तिम् ॥२॥ स्फुदायस्वयमेव प्रतिभाति यथा-कुलगङ्गनाया कुलपत्या सत्या परन्यां पुषवत्यां माताया चपा परयुममता रदसरा भरति तथा स्वभावता न तु मदिन्छया प्रमाणिमा- विकाया भत्तया मम चत्तसी ममता सुरदा भवतु मम मनास तव भनिः परा स्थिरता ममतामित्त यावन् । भत्य पद्यस्य भनिता तात्पर्य्यमिति शिवम् । + य प्रसादका महिषयक ईश्वरे स्थित । ईश्वरप्रसाकिणिकां विनाशाम्पीयस्या मपि भत्तेरसम्भवात् । या च भनिरित्र अपूर्णवाद् भक्तयाभासो, मयि स्थिता। विर- प्रसारकणिकेर गाणनिरूपण या मा मानव त्यर्थ । से हमे प्रसाइभनी परस्पर पर्व- मन्या का पूर्णवरूपगभान् परमानन्दकपुरि परिणसिं गमिष्यत इति स्पार्थ ।।

अलौफिकोदलनाण्यमष्टमं स्तोत्रम् । ५३ त्वत्प्रभुत्वपरिचर्वणजन्मा कोप्युदेतु परिपोषरसोऽन्तः । सर्वकालमिह मे परमस्तु ज्ञानयोगमहिमादि विदूरे ॥ २ ॥ त्वदिति । त्वत्मभुत्वस्य त्वत्स्वामिकत्वस्य “गामि यतेति" मायुक्तश्लोकयुक्त्या यत्परिचर्वण ततो जन्म यस्य । मम कोप्यलौकिकः परितोपरस आनन्दप्रसरः । इहेति जगति । सर्वकालं पुस्थानावसरे ऽपि । परं केवलमुदेतु उल्लसतु । ज्ञानं विश्वमयस्वात्ममतिपत्तिः । योगस्तत्तद्भूमिकालामः । तयोमहिमा प्रकर्पः । आदिपदात्तत्सिद्धयुदयरूपः फलम् ॥ २ ॥ लोकवद्भवतु मे विषयेषु स्फीत एव भगवन्परितपः। केवलं तव शरीरतयैतान् लोकयेयमहमस्तविकल्पः॥ ३ ॥ लोकवदिति । महार्थमुद्रामुद्रितस्योक्तिः । हे भगवन् मम लोकस्येव विषयेषु रुपादिपु स्फीतो पहल एव परितर्पः स्पृहयालुता अस्तु । किं तु एतान्विफ्यानहं अस्तविकल्पो गलितभेदमतिपत्तिः सन, तब चिदात्मनः शरीरतया अंता- सारत्वेन, लोकयेयं पश्येयम् ॥ ३ ॥ देहभूमिपु तथा मनसि त्वं प्राणवर्तीनि च भेदमुपेते ।

शिवस्तोघावल्याम्
संविदः पथिषु तेषु च तेन
स्वात्मना मम भव स्फुटरूपः ॥४॥
देहभूमिपु इति ।जरामरणाद्यवस्थामु।मनसि कल्पनासारे।
माणवमनिदुःखमुखादिस्पर्शमये। संविदः पथिपु नीलादिज्ञानेषु ।
तेषु इति विचित्रेषु । भेदमुपेते इति नपुंसकशेपः। सर्वस्मिन्नस्मि-
अभिहिते प्रकारे भेदमये सतीति यावत् । तेनति स्वात्मनि
चमत्कृतेन । चिदनेन स्वात्मना स्वरूपेण । मम स्फुररूपः
स्वमाधान्येन स्फुरन् भव ॥ ४ ॥
निजनिजेपु पदेपु पतन्त्विमाः
करणवृत्तय उल्लसिता मम ।
क्षणमपीश मनागपि मैव
भृत्
त्वदविभेदरसक्षतिसाहसम् ॥ ५॥
निजेति । इमाः मम करणत्तयश्चक्षुरादिसंविद्देव्यः । उम्ल-
सिता. अलौकिकेन निजौजसा सोल्लासाः।स्वेषु स्वेषु रूपादिपु
विपयेषु प्रसरन्तु । त्वदविभेदरसक्षतिः समावेशच्युतिः सैव
साहसमविमृश्यकारिता मैवाभूत् । सर्वत्र विषयेषु परि-
तर्पः आकाङ्क्षा । इह तु तत्र संविदाम्पसर इति विशेषः ॥५॥
लघुमणसिताच्छशीतलं
भवदावेशवशेन भावयन् ।
वपुरखिलपदार्थपद्धते-
र्व्यवहारानतिवर्तयेय तान् ॥ ६ ॥

. मलौफिकोदलनाख्यमष्टम स्तोत्रम् । लचिति । भवदावेशवशेन मायीयगुरुत्वहान्या लघु, मुखस्पर्शत्वान्मसणं, मकासघनत्वात्सितं, अच्छं शीतलं चेति माग्वद, भावयन सम्पादयन्, निखिलायाः पदार्थपद्धतेः मातृ- मेयराशेः सम्बन्धिनो व्यवहारान् लौकिकान परिस्पन्दान, अतिवर्तयेय निवर्तयेय ॥ ६ ॥ विकसतु स्ववपुर्भवदात्मकं समुपयान्तु जगन्ति ममाङ्गताम् । व्रजतु सर्वमिदं द्वयवल्गितं स्मृतिपथोपगमेप्यनुपाख्यताम् ॥ ७ ॥ विकसत्विति।स्वं चिन्मय भवदात्मकं, वपुः स्वरूपं, विक- सतु । अत एव जगन्ति धरादिसदाशिवान्तानि । मम अङ्गता- मभिन्नता, सम्यक् अपुनरुत्थानेनोपयान्तु । ततश्च सर्व द्वयवलिगतं भेदविजृम्भितं, स्मृतिपथोपगमे अनुपाख्यतां स्मृतेविपपतां, व्रजतु ॥ ७ ॥ समुदियादपि तादृशतावका- ननविलोकपरामृतसंप्लवः । मम घटेत यथा भवदद्वया. प्रथनघोरदरीपरिपूरणम् ॥ ८ ॥ समुदियादिति । भवदद्यामथनं चिदैक्यामथा, सैव घोरा दुप्पूरा संसारभयमदा दरी खंदा, तस्याः परिपूरणम् चिदै- फ्यमाक्षात्कार, मम यथा घटेत* तथा सादृशं, परमानन्दनदी- मगरहेतु पनावकमाननं शैवीमुखमिसादि स्थिया परशक्ति- शिवस्तोत्रावल्याम् रूप, तेन यो विलोको, विलोकने अनुग्रह , तस्य वा विलोक: स्मरणं, स एवं परामृतसप्लवः परस्पर्शरसौषोऽपि समुदिया- दिति रुद्रशक्तिसमावेशप्रकर्षमाशास्ते ॥ ८ ॥ अपि कदा चन तावकसङ्गमा- ऽमृतकणाच्छुरणेन तनीयसा । सकललोकसुखेषु पराङ्मुखो न भवितास्म्युभयच्युत एव किम् ॥ ९ ॥ अपीति । तापकसङ्गमस्त्वत्समावेश एवामृतकणाच्छुरणं सुधाशीकराप्लावः । तनीयसा मसरनिर्मलस्वरूपेण | सकलेषु लौकिकेषु मुखेषु, “सबै दुखं विवेकिन" इति स्थिसा हेयेष्वपि परामृताच्छुरितत्वात्परा खो न भवितास्मि संमुख एव भवि- ष्यामि। कीटक-उभयस्माद्वैताच्युत एव, हेयोपादेयहान्या सर्व- मयेदेन पश्यन्निसर्थः * ॥९॥ * नेय व्याख्या विचारकाणा हरय गच्छति । तथाहि लौकिकमुखेपु सम्मुखीभा- वो नेष्यते शिवावेशपरमामृतकणदिग्धेनाऽपि । नाशप्रवृत्ते भाक्तजनस्यैव स्वभाति- अखात् । न चौमयशनोईते रूद, तस्य निर्दिष्टवस्तुसूयबायकस्वात, वैतरामस्य च ब्रह्मातिरिक्तनिखिलमपञ्चबोधने प्रसिद्धवान् । 'उभयस्माईनारच्युत' इति विशेषण- कप निरस्तदेतदर्शने पुरुष नैय कञ्चिदपि सङ्गच्छते, च्युत इति विशेषणस्योत्तमप- दापतित एष प्रयागौचित्यात्, विधृत ते परमपदारूढे प्रयोगायोगाच । काकी किमिति परस्य पद्यान्ते पठितस्यापेक्षा च दृश्यते । कोऽर्थस्तीह पास्यास्येत्याकाङ्क्षा- यापुच्यत । परमशिवक्यध्यानानन्दमविच्छिन्न लम्धुकामस्य भक्तस्य स्तोत्रकृतो व्युत्था- नदशाया विषयसुखलगेच्छयाऽपि कथञ्चिदुत्पनया तप्यमानस्य विलपितमेतत् । सारसङ्गम एव स्वरसमावश एवामृत, तरकणस्थ तनीयसाऽपि भाटुरेणन सुरमा जाप्य युक्षणेन तमामतीत शेष । भाप कदाचन सकरलोकमुखेषु परामुखो न भवितास्मि कि, सकलपथिकसुखानि काचिन्नहास्याम किम् । किमिति काका नैवेद्यवैराग्य व्यग्यता नया च श्रीशङ्कराचार्यस्वामितशत लाक्यामनिवेद्य ज्ञानगर्भ शिविधर्भािहत सप्र वैराग्यमाछ । मायाटु स्यायल्यकाइयति गृहसुकृत्युमवित्तषणा देग्न्यिादि (११)। सम्प्रसह की शेषमार्गान लौकिकपत्र यामगुन एपनि शिवम् ।

.
समस्तवस्तू-
अलौकिकोइलनाख्यमष्टम स्तोत्रम् ।
५७
सततमेव भवच्चरणाम्बुजा-
करचरस्य हि हंसवरस्य मे।
उपरि मूलतलादपि चान्तरा-
दुपनमत्वज भक्तिमृणालिकां ॥ १० ॥
सततमिति । मम हंसवरस्य भेदाभेदयोः हानसमादान-
धर्मिणो, व्याख्यातदृशा सततमेव भवचरणाम्बुजमाकर उत्प-
तिस्थानं पराशक्तिभूस्तत्र विचारिणः । भक्तिरेव मृणालिका
विसाङ्कुरः । उपनमतु उपभोग्यमस्तु । उपरीसादि प्रवेशमध्य-
विश्रान्तिभूमिभ्यः सर्वाभ्य एवेसर्थः। स भात्मा ॥ १०॥
उपयान्तु
विभो
न्यपिचिन्ताविषयं दृशः पदं च ।
मम दर्शनचिन्तनप्रकाशा-
ऽमृतसाराणि परं परिस्फुरन्तु ॥ ११ ॥
उपयान्तु इति । चिन्ताविपयं कल्पन्ताम् । दृशः पदंसाक्षा-
स्कार्यत्वात् । दर्शनचिन्तनयोरविकल्पसविकल्पयोः । प्रकाशा-
मृतं वोधरसायनमेव सारमुत्कृष्टं रूपं येषां । तानि हेयोपादेय-
कलङ्कशून्यानि समस्तानि वस्तूनि । परं केवल । परितः सम-
मात् स्फुरन्तु ॥ ११ ॥
परमेश्वर तेषु तेषु कृच्छे-
प्वपि नामोपनमत्स्वहं भवेयम् ।
न परं गतभीस्त्वदङ्गसङ्गादु-
पजाताधिकसम्मदोऽपि यावत् ॥ १२ ॥

शिवस्तोत्रागल्याम् परमेश्वरेति । कृच्छ्रेषु केवलेपु केवलमह गतभी सक्त- भयस्त्वदङ्गसङ्गात् रुद्रशक्तिसमावेशात, यावदुपजातः अधिक: मकृष्ट सम्पदो हो यस्य ताहगपि भवेयम् । अधिकशब्दस्या यमाशयः । यत् तत्तहु खप्वप्युदितै चविलुप्तस्थिति ॥ १२ ।। भवदात्मनि विश्वमुम्भित यद्भवतैवाऽपि वहिः प्रकाश्यते तत् । इति यदृढनिश्चयोपजुष्टं तदिदानी स्फुटमेव भासताम् ॥ १३ ॥ भवदिति । यद्विश्वं व्योमकलात कालानलान्तं भवदा- स्मनि उम्भित वञ्चित्सूत्रपात, तद्भवतैव न तु अन्येन । बहिरिति तत्ममात्रपेक्षया बाह्यत्वेन प्रकाश्यते । अपिशब्दो बहिःमकाश- नेऽपि अन्त प्रकाशाविरहमाह । इति यदस्तु वाक्यार्थरूप दृढेन निश्चयेन उप आत्मसमीपे, जुष्ट प्रीया सेवित समावेशेना- स्वादित, तदिदानीमिति व्युत्थानेऽपि, स्फुटमेव भासताम् प्रस- क्षीभवतु इति शिवम् ॥ १३॥ इति श्रीमदुत्पलदेवाचायविरचितस्तोत्रापारलौक्किोद्बल ननामाष्टमस्तोत्रे श्रीक्षेमराजसताविति ।। ॐ तत्सत् । कदा नवरसाई- सम्भोगास्वादनोत्सुकम् । प्रवर्तेत विहायान्यन्- मम त्वत्स्पर्शने मनः ॥ १ ॥ कदेति । नवरसेन नृतनभक्तिमसरेण, आदिः सातिशय स्पृहणीयो या ममावेशात्मा सम्भोगः, तदास्वादे उत्सुक स्वातन्मयविजयाख्यं नयमं स्तोत्रम् । ५८ -- सोकण्ठं, मम मनः, अन्यत् कल्पनाजालं, विहाय स्वस्पर्शने मवर्तत स्वत्समावेशमयं भवेत् ॥ १ ॥ त्वदेकरक्तस्त्वत्पादपूजामात्रमहाधनः । कदा साक्षात्करिष्यामि भवन्तमयमुत्सुकः ॥२॥ स्वदिति । त्वय्येवैकत्र न तु विभूतिपु रक्तः, अत एव त्वत्पादपूनामानं स्वन्मरीचिमपर्येव महत् स्फीतं धनं यस्य । "प्रमा समाप्तोत्सव" मितिस्थिसा क्षणमात्रमपि व्युत्थानमस- इमानः उत्सुकः सन् कदा त्वां साक्षात्करिष्यामि ॥२॥ गाढानुरागवशतो निरपेक्षीभूतमानसोऽस्मि कदा । पटपटितिविघटिताखिल- महार्गलस्त्वामुपयामि ।। ३ ।। गादेति । निरपेक्षीभूतमुच्चारकरणध्यानाद्यन्तर्मुख तत्सर्वे परिहरतु मानसं यस्य स तथाविधः । कदा त्वामुपेप्यामि ऐकध्येन प्राप्स्यामि । कोह-पटपट इति विघटितानि झटिति त्रुटितानि, अखिलानि मायीयान्यर्गलानि अविद्यादिपा शा यस्य । पटपटितीसाधुत्या अपुनरुत्थानं त्रुटितपाशा- न्तरसाधर्म्यमुक्तम् ।। ३ ।। स्ववित्सारहदयाधिष्ठानाः सर्वदेवताः । कदा नाथ वशीकुर्यो भवद्भक्तिमभावतः ॥ ४ ॥ स्वमंविदिति । स्वमंदितमारं प्रकाशविमर्शात्मक हृदयमधि- धानमाश्रयो यामान्ताः, सी ग्रामयादिकाः देवता, "या- भिःशक्तिनस्य भोग्यतां गन" नि मिथसा पशवः पाशिताः ।

शिवस्तोत्रावल्याम् ताः कदा भवद्भक्तेः समावेशात्मन प्रभावादशीकुर्या तच्च- श्वर्य प्राप्नुयामिति यावत् ॥४॥ कदा मे स्याद्विभो भूरि भक्याऽऽनन्दरसोत्सवः । यदाऽऽलोकसुखाऽऽनन्दी पृथडामापि लप्स्यते॥५॥ कदेति । भूरि मभूत । उत्सवोत्तया अतिस्पृहणीयत्वात्तदे- कव्यग्रमात्मानमाशास्ते । पृथगामेसनेन परं सामरस्य सूच- यति ॥५॥ ईश्वरमभयमुदारं पूर्णमकारणमपन्हुतात्मानम् । सहसाऽभिज्ञाय कदा स्वामिजन लज्जयिप्यामि ॥६॥ ईश्वरमिति । अशेपविभूयास्पदत्वादीश्वरम् । अमतियो- गित्वादभयम् । सर्वप्रदत्वादुदारम् । निराकासत्वात्पूर्णम् । निसत्वादकारणम् । अथ च अकारणं निनिमित्तमेव जगद्रप- ताग्रहणे स्वरूपगोपनप्तारत्वादपन्हुतात्मानम् । यो हि अनीश्व- रादिरूपः स गोपायतामात्मानं भगवास्तु नैव । अथ च गोपि- तात्मैवेति । ईदृशं स्वामिजनं निजम , सहसेति शाम्भवावेशयु- ज्या, कदाऽभिज्ञाय साक्षात्कृस, लज्जयिष्यामि। अपन्हुतिमधा- नतद्रूपगुणीकारेण पूर्णचिदेकरूपतयेव प्रथेयेसर्थः ॥६॥ कदा कामपि तनाथ तव वल्लभतामियाम् । यथा मां प्रति न क्वापि युक्तं ते स्यात्पलायितुम् ॥७॥ कदेति । तव वल्लभतापित्युत्तया इदमाह-मम तावदसन्त- यल्लभोसि, तर तु अहमलौकिकभक्तिमकत्किदा कामप्य- स्वातन्त्र्यविजयाय नवमं स्तोत्रम् । सामान्या, प्रसादपात्रतां प्राप्नुयां, यया वल्लभतया मा प्रति सदा आभिमुख्येन तब न कापि पलायितुं स्वात्मानं गोपायि- तुं युक्तं स्यात् । सततमेवान्तराविश्य तिष्ठेरिसर्थः ॥ ७ ॥ तत्त्वतोऽशेषजन्तूनां भवत्पूजामयात्मनाम् । दृष्ट्याऽनुमोदितरसाऽऽप्लावितः स्यां कदा विभो ॥८ तत्वत इति । सर्वे जन्तवः परमार्थतो यत्किञ्चित्कुर्वाणा: स्वात्मदेवताविश्रान्तिसारभवत्पूजामयाः । एतेषां सम्बन्धि- न्या तत्वतो दृष्टया, त्वदनुग्रहमहिमोक्तेन स्वात्ममयभिज्ञानेन हेतुना, तैरेवानुमोदितः श्लाघितो यो रसो भत्त्यानन्दमसर- स्तेन आप्लावितो व्याप्तः कदा स्याम् । तत्वत इसाइया यो- ज्यम् । अथ वा अशेपजन्तूनामिति कर्मणि पष्ठी । ततश्चायम- र्थः । कदा अशेपजन्तून् तत्त्वतो भवत्पूजामयान दृष्ट्वा अनुमो- दनरसेन आनन्दप्रसरेणाप्लावितः स्यामिति । अत्रानुमोदित इति भावक्तः । उभयत्रापि व्याख्याने मत्समः सर्वोस्त्विसाशं- सातात्पर्यम् ॥ ८॥ ज्ञानस्य परमा भूमिर्योगस्य परमा दशा । स्वद्भक्तिर्या विभो कर्हि पूर्णा मे स्याचदर्थिता ॥९॥ मानस्येति । सर्वशास्त्रेषु ज्ञानं मुक्तिहेतुत्वेनोक्तं, मुक्तेश्च समावेशसनत्वयैव व्यवस्थापनात्, तद्रुता या भक्तिः पानस्य परमा भूः । “योगमेकलमिच्छन्ति वस्तुनोऽन्येन वस्तुने" सा- गमलक्षितस्य विचित्रममावेशात्मनो योगस्य परचनन्यभैरवैक्या- पत्तिरूपा दशा च या सद्भक्ति', तदधिता कदा कहिं पूर्णा कृतकृया स्यात् ॥ १ ॥ .

शिवस्तोत्रावल्याम्
सहसैवासाद्य कदा गाढमवष्टभ्य हर्षविवशोऽहम्
त्वचरणवरनिधानं सर्वस्य प्रकटयिष्यामि ॥१०॥
सहसैवेति । झटिति प्रतिभाविकासेन, आसाथ आसमन्ता-
त् स्वात्मसम्भोगपात्रीकृस, तथा गाढमवष्टभ्प व्युत्थानपरिक्ष-
यार्थ प्रयोनात्मीकृस, तत एव हर्पविवशः परमानन्दनिर्भरोऽहं,
कदा त्वचरणवरनिधानं समस्तसम्पन्मयं भवत्परशक्तिनिधि,
सर्वस्य प्रकटयिष्यामि, छन्नतयान्तास्थितमपि सूचितोपदे-
शयुक्त्या उन्मुद्रयिष्यामि । परमत्तिभावलमयनावष्टम्भपूर्वमनुग्र-
हावलोकनादिकं यत्समावेशसंक्रमोपदेशे तत्व, तत्परमसर्वानु-
ग्रहसमर्थ स्यादिसर्थः । अनेन स्वात्मन पूर्णत्वाद्विश्वजनानुजि-
घृक्षापरतां सूचयति ॥ १० ॥
परितः प्रसरच्छुद्धत्वदालोकमयः कदा ।
स्यां यथेश न किञ्चिन्मे मायाच्छायाविलं भवेत् ॥११
परित इति । परितः समन्तात् शुद्धोऽद्रयरूपो यस्त्वदा-
लोकश्चित्मकाशः तन्मय कदा स्याम् । यथा मायाछायाविल-
मद्रयाख्यातिकुहरं मम न किश्चिद्भवेत् न किश्चिन्छिप्येत ।
छायाशब्देन मायाविलस्यावास्तवतामाह । मायाछाययाऽऽविल
कलुप न किंचिदिति वा योग्यम् ॥१॥
आत्मसात्कृतनिःशेपमण्डलो नियंपेक्षकः ।
कदा भवेयं भगवंस्त्वद्भक्तगणनायकः ॥१२॥
आत्मेति । आत्मसात्कृतानि चिदैकध्यमापितानि निःशे-
पाणि सदाशिवादिक्षिसन्तानि मण्डलानि भुवनानि येन । नि-
फपेक्षकः अद्वितीयः । त्वद्भक्तगणनायकः मधानं कदा
स्याम् ॥ १० ॥

स्वातम्यविजयाप्यं नवम स्नानम् । नाथ लोकाभिमानानामपूर्व त्वं निवन्धनम् । महाभिमानः कर्हि स्यां त्वद्भक्तिरसपूरितः ।।१३।। नाथेति । "स्रष्टास्मि स्थापयितास्मि संहर्तास्मि तथा पण्डितः शूरो यज्ञवानस्मि" इति नानाविधानां रुद्रक्षेत्रज्ञाभि- मानानां त्वमेव चिद्रपो निवन्धनं कारणम् । अपूर्व निनिमित्तं कृत्वा स्वस्वातन्त्र्येणैवेति यावत् । वस्तुतो हि तवैव सर्वक- र्तृत्वान ब्रह्मादीनां सष्ट्रवादि न वा पाण्डिसादि कस्य चित् । केवलं त्वमेव तत्र तत्र तथाभिमानमुत्थापयसि । यथा चैवं तथा कहि कदा त्वदिच्छात एव महाभिमानो विश्वात्मा चिदानन्दघ- नः शिव एवास्मीति दृढोत्साहावष्टंभो भक्तिरसेन पूरितो व्या- सः स्याम् । भक्तिरसपूरित इति वदतो ऽयमाशयः यदासादित- महाभिमानस्यापि समावेशास्वादमयः मभुविपये दासभाव ए- वोचितः॥ १० ॥ अशेषविषयाशून्यश्रीसमाश्लेपसुस्थितः। शयीयमिव शीताविकुशेशययुगे कदा ॥१४॥ अशेपेति । शीनाशिकमलयुगे माग्वत् शपीयं विश्राम्याम कोहक-अशेषविषयाशुन्या विश्वनिर्भरा येयं श्रीभक्तिलक्ष्मीः तत्कृतेन समाश्लेपेण दृढावष्टम्भेन सुस्थित । काव्यार्थः स्पष्टः ।।१४।। भनयासबसमृडायास्त्वत्पूजाभोगसम्पदः । कदा पारं गमिष्यामि भविष्यामि कदा कृती॥१५॥ भत्त्यासवेति भत्त्यासयेन सेवारसेन, समृद्धा स्फीता या त्वत्पृजाभोगसम्पद समावेशविश्रान्तिश्रीः, तस्याः पारं मान्त- कोटि कदा गमिष्यामि, अन एवं कदा कृनार्यः स्याम् ॥१५॥ - १४ शिवस्तोत्रावल्याम , आनन्दबाप्पपूर- स्खलितपरिभ्रान्तगद्गादाक्रन्दः । हासोल्लसितवदन- स्त्वत्स्पर्शरसं कदाऽऽप्स्यामि ॥ १६॥ आनन्देति । चिरव्युत्थानान्तरितां. समावेशदशामेवाका- वति । आनन्दवाष्यपूरेण अन्तः समावेशहावेशविसरदश्रुस- न्तसा, स्खीलतः अस्थानमतिहतः, परिभ्रान्तश्विरमनुरणन, गदादः अस्पष्टाक्षर', आक्रन्दो महानारवो यस्य । हासेन वि- कासेनोल्लसितं वदन शक्तिमार्गो यस्य । अत एव हासेनोल्ल- सितं व्याप्तं शोभितं च वत्रं यस्य ॥ १६ ॥ पशुजनसमानवृत्तामवधूय दशामिमां कदा शम्भो। प्रासादयेय तावकभक्तोचितमात्मनो रूपम् ॥१७॥ पश्चिति । व्युत्थानपतितभेदमयीमिमामिति स्फुट भार्ती दशामवधूय निवार्य, अथच समावेशमसरत्सर्वागावधूननेना- भिभूय, तावकभक्तोचितं निखोदितपरमानन्दमयमात्मनो, न तु अन्यस्य कस्यचिद्, रूपं स्वरूपं, कदा आस्वादयेय चमत्कुर्याम् ॥१७॥ लव्धाऽणिमादिसिद्धि- विगलितसकलोपतापसन्त्रासः । त्वद्भक्तिरसायनपान- क्रीड़ानिष्ठः कदाऽऽसीय ॥ १८ ॥ लब्धेति । अणिमादिसिद्धि प्रारबदभेदमयी । अन एवं विगलितः : शान्त उपनापः सन्त्रामश्च यस्य । ब्रह्मादीनान्तु + अघिच्छेदभनाख्यं दशम स्तोत्रम् । भेदमयाणिमादियोगेऽपि मरणादिवासस्यावश्यंभावात् । तथा- भूतोऽपि त्वद्न्यमृतपानप्रमोदपरः स्याम् ॥ १८ ॥ नाथ कदा स तथाविध अाक्रन्दो मम समुच्चरेद्वाचि । यत्समनन्तरमेव स्फुरति पुरस्तावकी मूर्ति ॥ १६ ॥ नायेति । चिरच्युत्थितस्योक्तिः । स तथाविध इति वक्तु- मशफ्यः । आक्रन्दो महानादः समुच्चरेत् स्वयमेवोल्लसेत् । स्फुरति समावेशेन दीप्यते मूर्तिः स्वयम् ॥ १९ ॥ गाढगाढभवदाङ्घिसरोजा- लिङ्गनव्यसनतत्परचेताः। वस्त्ववस्त्विदमयत्नत एव स्वां कदा समवलोकयितास्मि ॥ २० ॥ गादेति । वीप्सया व्यसनतत्परशब्दाभ्यां च भक्तिमकर्प- वैवश्यमाह । वस्त्ववस्त्विदपिति भावाभावरूपं विश्वम्, अयवत एच ध्यानजपादि विना, त्वामपि त्वद्रूपं सम्यक् तत्वतोऽवलो- कपितास्मि द्रक्ष्यामि इति शिवम् ॥ २० ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रापली स्वातन्त्र्यनिनयना- मधेये नवम स्तोत्रे श्रीक्षमरानता विवृतिः ॥९॥ ॐ न सोढव्यमवश्यं ते जगदेकप्रभोरिदम् । माहेश्वराश्च लोकानामितरेषां समाश्चयत् ॥ ३ ॥ नेसि । माहेश्वराः विवरस्वरूपसमाविष्टाः, इतरेषां भेद- ६.

"
शिवस्तोप्रापक्ष्याम्
मयाना प्रक्षादीनां समा इति इदं ते तव न सोढव्यं त्वयैर्वतन
सद्यते स्वभावसिद्धमेवैतद । यतस्त्वमेवैकः अद्वितीयो जगतः
प्रभुः । चकारौ विरोधहेतुमाहतुः । इतरेपा लोकानां समा इति
सव न सोडे युक्तमिसन्ये ॥१॥
ये सदैवानुरागेण भवत्पादानुगामिनः।
यत्र तत्र गता भोगांस्ते कांश्चिदुपभुञ्जते ॥ २ ॥
य इति । अनुरागेण आसत्त्या, ये त्वन्मरीचिसंवद्धास्ते यत्र
तत्रेति सर्वावस्थास्थिताः कश्चित्परानन्दमयान्भोगानुपभुखते॥२
भी कालान्तको यत्र भवास्तत्र कुतो रुजः।
तत्र चेतरभोगाशा का लक्ष्मीर्यत्र तावकी ॥३॥
भर्तेति । कालान्तक इसनन महाकालसञ्चार्यमाणाः सर्वा
रुजः कालग्रासिनि मभौ सति कुतः। मूलोच्छेदान्नैव भवन्तीस-
र्थः । इतरभोगाशा सदाशिवादिपदलक्ष्मीस्पृहा न का चित्
पत्र, भेदस्य प्रस्तत्वात् । लक्ष्मीरद्वयमकाशसम्पत् ।। ३ ।।
क्षणमात्रसुखेनापि विभुर्येनापि लभ्यते ।
तदैव सर्वः कालोऽस्य त्वदानन्देन पूर्यते ॥ ४ ॥
क्षणमात्रेति । येन भक्तन क्षणमात्रेण समावेशस्पन्देन
हेतुना ऽपि त्वं लभ्यसे, अस्य भक्तस्य त्वया तदैवावसरे सर्वः
कालो व्युत्थानदशाभाव्यपि आनन्देन पूर्यते । अकालकलित
चिदानन्दस्वरूपानुमवेशेन तन्मयीक्रियते । उत्तरकालश्च तत्सं.
कारेणाप्लाव्यते । विमु स्वामी व्यापकश्च ॥ ४ ॥
आनन्दरसविन्दुस्ते चन्द्रमा गलितो भुवि ।
सूर्यस्तथा ते प्रस्मृतः संहारी तेजसः कणः ॥५॥

मविदभडाण्यं दशम स्तोत्रम् ।
वलिं यामस्तृतीयाय नेत्रायास्मै तव वि(प्र)भो ।
अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणे॥६॥
आनन्देति । ते तव, भुवि अग्नीपोमात्मकमध्यशक्तिमार्गे,
आनन्दरसविन्दुर्यः स एवाहादकारित्वाचन्दमाः। गलितो द्रुतस्व
भावः। विन्दुश्चन्द्रमाश्च गलिता मनःप्रमेयराशिसहितं तत्रैव विली-
नं। तथा तत्रैव संहारी भेदग्रासी, तेजसः कणः परमामिस्फुलिङ्गो
यः स एव प्रकाशकत्वतमोपहत्वादेः सूर्यः ममृतः । सूर्यश्च प्राणे
विलीनद्रावितसोमसूर्याहि परा शक्तिभूमिः । अस्मै शक्ति
रूपाय नेत्राय बलि यामः । अपि च भुवि यश्चन्द्रमाः स त्वदीप
आनन्दविन्दुः गलितः सुतः, सूर्यश्च तव सम्बन्धिनः तेजसः
कणः मस्तः स्फुरितः । यथागमः "ज्ञानशक्तिः मभोरेपा तप-
सादिसविग्रहा । तपते चन्द्ररूपेण क्रियाशक्तिः परस्य सा"
शति । अस्मै एतदर्थ सूर्यचन्द्रोल्लासनाय तव तृतीय नेत्रं तस्मै
पलिं यामः । अत्रैव महावन्दिमये मायीयदेहादिप्रमावतां समर्प-
यामः कीदृशाय कस्याप्यसामान्यस्य ब्रह्मोपेन्द्राधगोचरस्य अ-
लौकिकस्य माहात्म्यस्यैकलक्ष्मणे असाधारणाभिमानाय । अस्मै
इति तादर्थे चतुर्थी ॥५॥६॥
तेनैव दृष्टोऽसि भवदर्शनादयोति हृष्यत्ति ।
कथं चिदयस्य वाहपः कोऽपि तेन त्वमीक्षितः॥७॥
तेनेति । “उच्चाररहितं वस्तु चेतसैव व्यचिन्तयन्" इति
शाक्तसमावेशयुक्त्या भवन्तं दृष्ट्वा यो ऽतिहप्यति आनन्दमयो
भवति, तेनैव कापि अभेदोपासनापरेणासि त्वं दृष्टः । कथं चि-
दिति अकिश्चिचिन्तकस्येति शाम्भवसमावेशक्रमेण वा यस्य
कोऽपि हो न तु भेदोपासापरेण हर्पः । तेन कोऽपि इति
चिक्नस्त्वमीक्षितः प्रसभिज्ञातः ॥ ७ ॥

शियस्तोत्राचल्याम येषां प्रसन्नो ऽसि प्रभो यैर्लब्धं हृदयं तव । प्राकृष्य त्वत्पुरानैस्तु बाह्यमाभ्यन्तरीकृतम् ॥८॥ येपामिति । प्रसन्नोऽसीति माग्वत् । अत एव हदयं प्रकाश- विमर्शात्मकं रूपं लन्धमात्मीकृतं यैस्तैस्त्वत्पुरात्वदीयात्पूरका- चिद्रूपादाकृष्प विस्फार्य, देहाद्यपेक्षया वाह्य विश्वमिदं पुनरा- भ्यन्तरीकृतं चिन्मयीकृतं "ष्टिं तु मुम्पुटीकृस" इति श्री त्रिंशकोक्ततत्वार्थशा संविद वदितं संविदभेदन चाभासमान विश्वचिन्मयमेवैपामिति यावत् । अनुरणनशस्या लौकिकेम्परार्थः मानव ॥८॥ त्वदृते निखिलं विश्व समदृग्यातमीक्ष्यताम् । ईश्वरः पुनरेतस्य त्वमेको विषमेक्षणः ॥ ९ ॥ त्वहते शत। समगिति समा तुस्पा भेदमयीहक्सविति- पस्य तत् दिनयनं चक्ष्यतां प्रमेयता यात एक इयद्वितीयः विप- में भेदप्लोपकमीक्षणं ज्ञानं यस्य त्रिनेत्रश्च ॥९॥ आस्तां भवत्प्रभावेण विना सत्तव नास्ति यत् । त्वहूपणकथा येषां त्वदृते नोपपद्यते ॥ १० ॥ आस्तामिति । येषां वौद्धसाक्ष्यमीमांसकादीनां, वडूपण- कथा दुपयित्रात्मकमस्फुरचिद्रूपं त्वत्स्वरूपं विना नोपपद्यते सेपी विचित्रतनुकरणमझाना बुद्धिमत्मभावं विना संचव नास्ती- मादि युक्तियन्दं पतितपार्ष्याघातकल्पमास्ताम् ॥ १० ॥ पाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः। त्वयि चेत्स्यान्मम विभो किमन्यदुपयुज्यते ॥३॥ पामेति । पामा शरीरममात्तापेक्षतपद्वस्तुसंयोगवियो.

अघिच्छेदभमाख्यं दशम स्तोत्रम् ।
गादयः, आन्तरा बुद्धयाद्यपक्षका मन:कल्पनादयः, ये अन्तरा-
याः स्वविश्रान्त्युपरोधिनः, तेपामाली पशिस्तया केवले रहिते,
स्वद्विपये चेतसि यदि मम स्थितिः समावेशैकाग्रता स्याद,
सत्किमन्यदुपयुज्यते, माप्तव्यस्यैव प्राप्तत्वात् ॥ ११ ॥
अन्ये भ्रमन्ति भगवन्नात्मन्येवातिदुःस्थिताः ।
अन्ये भ्रमन्ति भगवन्नात्मन्येवातिसुस्थिताः॥१२॥
अन्य इति । नैरात्म्यजडात्मवादिनः संसारिणश्च, आत्मनि
निज एव स्वरूपे, भ्रमन्ति विपर्यस्यन्ति जन्ममरणादिपरम्परा
मपर्यन्ता भजन्ते। अतिदु:स्थितास्तत्त्वज्ञत्वाभावात्तिश्यन्ते । अन्ये
इति केचिदेवापश्चिमा आत्मन्येव चिद्रूपे, न तु परत्र कचिदपि,
अतिमुस्थिताः परमानन्दैकघनाः सन्तो, भ्रमन्ति विहरन्ति ॥१२॥
अपीत्वाऽपि भवद्भक्ति-
सुधामनवलोक्य च।
स्वामीश त्वत्समाचारमानात्
सिद्ध्यन्ति जन्तवः ॥ १३ ॥
अपीत्वति । त्वद्भक्तिसुधां शाक्तसमावेशानन्दरसमपीवा-
ऽपि अचमत्कृसाऽपि, अनवलोक्य च स्वामिति चित्स्वरुपं त्वां
मनागप्पमसभिज्ञाय, जन्तवो जन्मादिभाजोऽपि त्वत्समाचा-
रमाशादिति तत्तदानायचर्यापादोक्तासियन्ति परसिद्धिभा-
जो भवन्ति । अपिशब्देन मात्रशब्देन च विस्मयो ध्वन्यते । तथा-
घागमे "कदाचिद्भक्तियोगेन चर्यये"त्युपक्रम्य “संसारिणोऽनु-
गृह्णाति विश्वस्प जगतः पति"रिसन्तम् अस्मगुरुभिरपि तन्त्रसारे-
ऽभिहितं “परमेसरु सच्छन्दु बहुकोणपिस अप्पाइइच्छ चरि-
आसि तु पणिजजपाई कि अभवणो अइअच्छेति ॥१२॥

शिवस्तोत्रायल्याम भृत्या वयं तव विभो तेन त्रिजगतां यथा । विभात्मानमेवं ते भर्तव्या वयमप्यलम् ॥११॥ भूसाइति। त्रिजगतामिति।प्राग्वत् । विभीतिधारयसि पो- पयसि च । आत्मानं स्वं रूपं । वयमप्यलमित्यत्रायमाशय:-पया त्वया विश्वमन्तरभेदेन विभ्रताऽपि देहाभिमानग्रहणेन वस्तु तस्त्वन्मया अपि वयं व्यतिरेकोचिताइव, यत् न भिन्नमेव विध जानीमः, ततो ऽलमसर्थ ते वयं धारणीयाः पोपणीयाश्च, यतो भूसाः स्मः ॥ १४ ॥ परानन्दामृतमये दृष्टे ऽपि जगदात्मनि । त्वयि स्पर्शरसेऽत्यन्ततरमुत्कारठतोऽस्मिते ॥१५॥ परेति। त्वयि परमानन्दसारे नीलपीतादिरूपेण जगदात्मनि रहेऽपि, व्युत्थाने तन्मुखन प्रसभिज्ञाते ऽपि, स्पर्शरसे गाढस- मावेशस्पर्शमसरे, ते तव भृशमुत्कण्ठितो ऽस्मि ॥ १५ ॥ देव दुःखान्यशेपाणि यानि संसारिणामपि । धृत्याख्यभवदीयात्मयुतान्यायान्ति सह्यताम्॥१६॥ देवेतिदेव क्रीडादिस्वभाव, अशेषाणि कीटग्रमादिविस्प- न्दितानि तावडु खानि भेदमयस्वाद, तान्यपि संसरणपराणां ममातृणां सोढक्यतां यान्ति । यतो घृसाख्येन “इदमद्य मया लन्धमिदं मास्ये मनोरथम्" इसाघभिमानावष्टम्भग्राहिणा त्वदीयेनात्मना युक्तानि संपृक्तान्येतानि ॥ १६ ॥ सर्वज्ञे सर्वशक्तौ च त्वय्येव सति चिन्मये । सर्वथाप्यसतो नाथ युक्ता ऽस्य जगतःप्रथा॥१७॥ सर्वज्ञ इति । अस्य जगनो विश्वस्य सर्वथा ऽपि देशकाला

अविच्छेदभडाख्यं दाम स्तोत्रम् ।
कारार्थक्रियाकारिवादिना स्वरुपेण प्रकाशवाह्यस्यानुपदृश्य-
मानत्वादविद्यमानस्य, त्वयि चिन्मये सर्वशक्ती स्वतन्त्रे सर्वांव-
भासके च सति, सर्वथाऽपि प्रथा युक्ता । सर्वथेत्युभयत्र यो-
ज्यम् ॥ १७ ॥
त्वत्प्राणिताः स्फुरन्तीमे गुणा लोप्टोपमा अपि ।
नृत्यन्ति पवनोद्भूताः कार्पासपिचवो यथा॥१८॥
यदि नाथ गुणेष्वात्माभिमानो न भवेत्ततः ।
केन हीयेत जगतस्त्वदेकात्मतया प्रथा ॥ १९ ॥
त्वत्माणिता इति । गुणाः बुद्धधादिपरिस्पन्दाः लोप्टेोपमा
अपि जहाः त्वत्माणिताः त्वज्जीविताः सन्तः स्फुरन्ति । अन्यथा
न कञ्चित्काः स्युः। अत्र दृष्टान्तः। यथा कार्पासानां पिचवः
लेशाः पवनेन वायुनोचैर्वृताः सन्तो नृसन्ति नभास विलसन्ति ।
एवं च हे नाथ यदि भक्तपु गुणेषु त्वन्मयः शक्तिदत्त आत्माभि-
मानो न भवेत्ततोऽस्य जगतः त्वदेकात्मतया त्वदभेदेन या
प्रथा सा केन हेतुना हीयतेन केन चिन्निवार्यते। भक्तानां वि-
श्वस्य त्वदैक्येन स्फुरणाद । “गुणादिस्पन्दनिष्पन्दाः स्युस्यि
परिपक्तिन" इत्युक्तम् ॥ १८॥ १९ ॥
वन्द्यास्तेऽपि महीयांसः प्रलयोपगता अपि ।
त्वरकोपपावकस्पर्शपूता ये परमेश्वर ॥ २० ॥
वन्या इति । तेऽपीति कालकामत्रिपुरान्धकाधान केवलं
साक्षादनुगृहीताः भक्तिमन्त इसपिशब्दार्थः। महीयांस इसलो.
किकमाहात्म्ययुक्ताः, मलयं विनाशमुपगता अपि ये तव श्री-
कण्ठाघवतारवपुपः सम्बन्धिना निग्रहद्वारकानुग्रहात्मना फ्री-
.दाकोपामिस्पर्शन पवित्रिनाः ॥ २० ॥

शिवस्तोत्रावल्याम्
महाप्रकाशवपुपि विस्पष्टे भवति स्थिते ।
सर्वतोऽपीश तत्करमात्तमसि प्रसराम्यहम् ॥२१॥
महामकाशेति । व्युत्थानवैवश्यात्साक्षात्कारभूमिमलभमा-
नस्योक्तिरियम् । यतः कानिचिदत्र समावेशोत्कर्पशंसीनि,
अन्याने व्युत्थानप्रहाणाकांक्षापराणि । अपराणि सार्वात्म्यमथा-
प्रथयितृणि । पराणि निम्शेपभेदोपशममयशिवताशंसापराण्यस्य
सूक्तानि । तानि च यथायोग संयोजितानि नियोजयिष्यन्ते च
इाले नास्य सत्परमेष्ठिन ईयुक्तिपु पूर्णता मन्तव्या। विस्प-
पीति विश्वमकाशमये । तमसि मसरामीतिव्युत्थानविवशो
भवामीसि ॥२१॥
अविभागो भवानेव स्वरूपममृतं मम ।
तथाऽपि मर्त्यधर्माणामहमेवैकमास्पदम् ॥ २२ ॥
अविभाग इति । इयमप्युक्तवदेवोक्ति । भवानेवेति न तु
अन्यत्किञ्चिदमृतमानन्दघनं । मर्यधर्माणां हानादानादिप्रयासा-
नां । अहमिति व्युत्थाने देहायभिमानमयः, न तु चिद्रूप एक
एवेति माम्बत् ॥२२॥
महेश्वरेति यस्यास्ति नामाकं वाग्विभूपणम् ।
प्रणामाङ्कश्च शिरसि स एवैकः प्रभावितः ॥२३॥
महेश्वरेति । नामाझं पद्वन्दिनः पठन्ति तत् महेश्वर ब्रह्मा-
दिविश्ववर ममो इति यस्य च वाचो विभूपणमस्ति, तथा
शिरसि प्रणामाङ्क: परस्वभावमढ़ताभिज्ञानं च यस्यास्ति सए-
पैकः अद्वितीयः, प्रभौ महेश्वरे, इतः सम्बद्धः अथ वा अयं प्रणा-
माङ्किा समाविष्टो भक्तिशालो भगदभेदस्पर्शमाः नामाङ्क-
स्वात्मभावितः मख्यातः ॥ २३ ॥

अविच्छेदभड़ास्यं दशम स्तोत्रम् ।
सदसञ्च भवानेव येन तेनाप्रयासतः ।
स्वरसेनैव भगवंस्तथा सिद्धिः कथं न मे ॥२४॥
सदसदिति । भावाभावरूपं विश्वं त्वमेव यतः ततो मम
अप्रयासत उपायजालं विना स्वरसनैव नियोदितत्वेन कथं
तथा न सिद्धिस्त्वत्साक्षात्कारः सदोदितो न कस्मादस्ति ॥२४॥
शिवदासः शिवैकात्मा किं यन्नासादयेत्सुखम् ।
तर्योऽस्मि देवमुख्यानामपि येनामृतासवैः ॥२५॥
शिवदास इति । यत एव शिवदासः तत एव समावि-
प्रत्वाच्छिवैकात्मा किं यत्सुखं नासादयेत् परमानन्दमयो भव-
सेवेसर्थः । यतो देवमुख्यानामन्यैस्तर्पणीयानामपि ब्रह्मादीनां
हृदयादिस्थानस्थितानामिन्द्रियदेवतानां च अमृतासवैः प्रमेय-
मथासमयस्फूर्जदद्वयप्रकाशानन्दमसरैः, तर्यः परिपूरणीयो-
ऽस्मि न तु पशुवनोग्यः ॥ २५ ॥
हनाभ्योरन्तरालस्थः प्राणिनां पित्तविग्रहः।
अस मे त्वं महावह्निः सर्व स्थावरजङ्गमम्॥२६॥
हनाभ्योरिति । हन्नाभ्योरन्तराले घटस्थाने स्थितः मा-
णिनां सर्वेपां पित्तविहनः पित्तरूपः उष्णान्नाद्याहरणाद्वाह्यस्त-
'जसोऽपि ग्रसनान्महावह्निस्त्वमत एव स्थावरजङ्गममश्नासि त्वम्
अनेन सर्वत्र प्रमातृजठरादिस्थानेन विश्वभक्ष एवं परमेश्वरः
परमार्थसन्निति शिवम् ॥ २६ ॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावली अविच्छेदभङ्गाख्ये
दशमे स्तोत्र श्रीक्षेमराजाचार्यविरचिता विकृतिः ॥ १०॥

७४ शिवस्तोत्रायल्याम ॐ जगदिदमथ वा सुहृदो वन्धुजनो वा भवति न मे किमपि । त्वं पुनरेतत्सर्व यदा तदा कोऽपरो मेऽस्तु ॥ १ ॥ ॐ जगदिदमिति।ॐ जगदादित्रयं लोकक्रमेणान्तरङ्गमपि मम न किंचित् तद्विलक्षणचिन्मात्रैकरूपत्वाव, यदा पुनः प्रका- शमयत्वादेतत्सर्वं त्वमेव सदा मम अपरः व्यतिरिक्तः कोऽस्तु, न किश्चिद, जगदपि स्वरूपमेवेति यावत् ॥ १॥ स्वामिन्महेश्वरस्त्वं साक्षात्सर्वं जगत्वमेवेति । वस्त्वेव सिद्धिमेत्विति यात्रा तत्रापि यान्चैव ॥२॥ स्वामिन्निति । महेश्वर इति माग्वत, साक्षादिति अद्वयदृष्ट्या चाधिष्ठानेन इति, वस्त्वेव पारमार्थिकमेवैतत्, तत्रापि एवमेव स्थिते ऽपि, एतत्तिद्धिमेत्विति या याज्ञा सा याज्ञैव त्वमेव प्रकटी भूया इसनेनैव लज्ज्यते इति स्थिसा न युक्तसर्थ , “होन्ति कमलाइ कमलाइ" इति न्यायेन द्वितीयो याचनांशब्द अचारु- त्वनिप्पयोजनस्वादिमानताम्वननपुरःसरः ॥२॥ त्रिभुवनाधिपतित्वमपीह य- तृणमिव प्रतिभाति भवज्जुपः। किमिव तस्य फलं शुभकर्मणो भवति नाथ भवत्स्मरणाहते ॥३॥ निभुवनाधिपतित्वमिति । भवज्जुपः समावेशयुक्तान इनि प्रतियोगे शम, इहेति अस्मिन्नेव समये, निभुवनाधिपतित्वं भू - औत्सुक्यविश्वसितनामैकदशं स्तोत्रम् । वस्स्वस्स्वामित्वमपि तृणमिव प्रतिभाति तस्य, तथा प्रतिभान- लक्षणस्य शुभकर्मणो भवत्स्मरणाहते भवत्स्मरणं विना, किं फलं, न किश्चिदन्यत् व्यतिरिक्तमस्तोति यावत् मासव्यस्यैव माप्तत्वात् ॥ ३॥ येन नैव भवतोऽस्ति विभिन्न किञ्चनापि जगतां प्रभवश्व । त्वद्विजृम्भितमतोद्भुतकर्म- स्वप्युदेति न तव स्तुतिवन्धः ॥ ४ ॥ येनेति । त्वत्तो भिन्नं किञ्चनापि नास्ति सर्वस्य प्रकाश- रूपत्वात, जगतां प्रभवः अपि ब्रह्माद्याः तवैव जृम्भा येन हेतु- नाऽतः अद्भुनेपु विश्वसर्गसंहारादिष्वपि कर्मम तव न स्तुतिवन्धः स्तोत्रादिभेदाभावाद, त्वमेव स्तुसस्तोत्रस्तुतिरूपतया भासी- सयमत्र तत्वार्थः ॥४॥ त्वन्मयोऽस्मि भवदर्चननिष्ठः सर्वदाहमिति चाप्यविरामम् । भावयन्नपि विभो खरसेन स्वप्नगोऽपि न तथा किमिव स्याम् ॥५॥ वन्मय इति । त्वमेव प्रकृतं रूपं यस्य तथा भूतो ऽस्मि, स्वय्येव चिन्मये विश्वार्पणक्रमेणाई सर्वदा अर्चननिष्ट इसविराम कृत्वा भावयन्नपि व्युत्थानेऽनुसन्दधदपि स्वप्नगोऽपि, स्वरसेनैव स्वेन्छावशेनैव, किमिति न तथैव भवामि, कस्मात्स्वमेऽपि सं- स्कारमयोधसारेऽपि जागरवत्वदर्चापरो न भवामि न समा- वेशामि इति यावत् ।।५।।

शिवस्तोत्रावल्याम् ये मनागपि भवञ्चरणाजो- द्भूतसौरभलवेन विमृष्टाः । तेषु विस्तमिव भाति समस्तं भोगजातममरैरपि मृग्यम् ॥६॥ य इति । चरणाजं प्राग्वत्, सौरभम् अवस्थास्नुरा- मोदसंस्कारस्तस्य लयो लेशमात्र, न तु पूर्ण रूपं, तेन ये वि- मृष्टाः मनामात्रेण पात्रीकृतास्तेषु समस्त सदाशिवान्तभोग- जातं देवैरमार्थनीयं विस्तं दुरामोदमिव प्रतिभाति । एवं च पूर्णसमावेशशालिनां दण्डापूपिकयैव दुरोत्सारितः सिद्धयभि- लापः ॥ ६॥ हृदि ते न तु विद्यतेऽन्यदन्य- इचने कर्मणि चान्यदेव शम्भो । परमार्थसतोऽप्यनुग्रहो वा यदि वा निग्रह एक एव कार्यः ॥ ७ ॥ हृदीति । चिदव्यप्रथारूपो महादेवः यत्र प्रथितुं महत्तः तत्र हृदयानुष्ठानपर्यन्तं मथते, यत्र तु गृहितात्मा तत्र हदि वचसि च कर्मणि च गृहितात्मैव यतः परमार्थ न सतः साधोः सात्विकस्य वस्तुतः निग्रहानुग्रहयोर्मध्यादकमेव कर्तव्यं भवति न तु शवलचेष्टितत्वमिति अर्थान्तरन्याससम्भेद , प्रकृतेऽर्थे नि- ग्रहानुग्रही स्वरूपानमीलनोन्मीलने अप्रकृतेऽप्यपकारोपकारा- विति श्लेपच्छायाऽपि ।। ७ ।। मूढोऽस्मि दुःखकालितोऽस्मि जरादिदोष- भीतोऽस्मि शक्तिरहितोऽस्मि तवाश्रितोऽस्मि।

औत्सुक्यविश्वसितनामकादशं स्तोत्रम् । शम्भो तथा कलय शीघ्रमुपैमि येन सर्वोत्नमा धुरमपोज्झितदुःखमार्गः ॥ ८ ॥ मूठोऽस्मीति । व्युत्थानापेक्षयोक्तमित्युक्तमायं, तवाश्रितो ऽस्मीसत्र भद्रं कृत्वा उत्तरार्ध योज्यं, कलय सम्पादय, सर्वोत्तमा सम्पूर्णसमावेशमयीम् ॥ ८॥ स्वत्कर्णदेशमधिशय्य महार्घभाव- माक्रन्दितानि मम तुच्छतराणि यान्ति । वंशान्तरालपतितानि जलैकदेश- खण्डानि मौक्तिकमणित्वमिवोद्वहन्ति ॥ ९ ॥ स्वदिति । अधिशय्य प्राप्य, महार्यभावमनर्घत्वम, तुन्छ- तरणीति अनादर व नति, यान्तीति तु अतिभक्तित्वेन निश्चि- तमतिपत्तित्वात, वंशान्तरे इसर्थान्तरन्यासः स्पष्टः ।। ९ ॥ किमिव न लभ्यते वत न तैरपि क्षणामपि कैतवादपि च ये तव नाम्नि रताः । शिशिरमयूखशेखर तथा कुरु येन मम क्षतमरणोऽणिमादिकमुपैमि यथा विभवम्॥१०॥ किमिति । कैतवाद्वयाजादपि ये जनास्तव नाम्नि न तु तात्विके स्वरूपे रतास्तैरपि किं न लभ्यते, पूजासत्कारायभी- एमपरिज्ञाततदाशयेभ्यः सकाशात्प्राप्यत एव, ये तु परमार्थतः सततं च त्वयि रना ते अर्थादेव परमार्थमया एवातो हे शिशि- रमयूखशेखर सर्वसन्तापहारिन् तथा कुरु यथा माग्व्याख्या- तरूपाणिमादिकं विभवमुपैपि, क्षतमरण, अकालकलितः, अस्य नाथ जनैः ~ शिवस्तोत्रावल्याम् पदस्यायमाशयः यद्रह्मादय अणिमादिविभूतियुक्ता अपि मृतिधर्माण एवं यथोक्तमस्मद्गुरुभिः क्रमकेलौ "श्रीमत्सदा- शिवपदेऽपि गतोयकाली, भीमोत्कटभृकुटिरप्यति भगभूमि इति अतो मा क्षतपरणं चिदानन्दघनमद्वयाणिमादिपात्र कुरु । ये तु विभूतिस्पृहणीयत्वेनैतयाकुवते तेपा स्मरसि नाथ कदाचिदपीहितमिति ससेन भगवन्निति विस्रमिव भाति समस्त- भोगजातमिसादि च व्याहतमेव ॥ १० ॥ शम्भो शर्व शशाङ्कशखर शिव यक्षाक्षमालाधर श्रीमन्नुग्रकपाललाञ्छन लसद्रीमत्रिशूलायुध । कारुण्याम्बुनिधे त्रिलोकरचनाशीलोन शक्क्यात्मक श्रीकण्ठाशु विनाशयाशुभभरानाधरस्व सिद्धिं पराम्११ शम्भो इति । उग्राणि भीपणानि अशेपब्रह्मादिसम्बन्धीनि कपालानि लाञ्छनं यस्य, अशुभभरान् भेदोल्लासान्, परा पर- माद्वयानन्दरूपाम् ॥ ११ ॥ तत्कि नाथ भवन्न यत्र भगवान्निमातृतामश्नुते भावःस्यात्किमुतस्य चेतनवतोनाशास्ति यशङ्करः। इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः संसारेऽत्र निरन्तरादिविधुरः क्लिश्याम्यहं केवलम् १२ तत्किमिति । तत्वभूतभावो भुपनादिभावः सत्ता चेत- नवतः सकलादर्मन्त्रमद्देश्वरान्तस्य आशास्तीति प्रत्तिर्भूता- नामैश्वरीति स्थिया सर्वप्रमातृनियामकरूपं शासितृत्वं भगवत एर मदेति । न तु कदाचित् निरन्तराधिविधुरत्वं व्युत्थाने समारेशानासादनात् अह केवलम् इसनायमाममाय मापीयेऽयं

७६
.
औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् ।
देहादिममातृता चेद्दालता तत्सर्वामिदं त्वन्मपमेयोच्यते देहा-
घहन्तैवोन्मूलनीया वर्तते ॥ १२ ॥
यद्यप्यत्र वरप्रदोद्धततमाः पाडाजरामृत्यवः
एते वा क्षणमासतां वहुमतः शब्दादिरेवास्थिरः।
तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थानवे
भोगास्वादयुतत्वदनिकमलध्यानाग्यजीवातवे ॥१३॥
यद्यप्येति । अत्रेति संसारे, उद्धततमा असह्याः, क्षणमासतां
साम्प्रतं तिष्ठन्विति लौकिक्युक्तिः, वहुमतो विश्वस्याभिलपि-
तः, सन्ततमद्वयानन्दरूपं मुखमाकासन्तीति तच्छीलः, चिरस्था-
लवे चिरमवस्थानशीलाय, जीवातवे जीविताय, स्पृहयामि, की-
दृशाय, भोगास्वादयुतत्वदक्षिकमलध्यानाग्याय परमानन्दच-
मत्कारयुक्तत्वन्मरीचिपद्मचिन्तनप्रधानाय, अत एव स्पृहणीय-
त्वम् ॥ १३ ॥
हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे
दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे सांप्रतम् ।
तच्चेष्टव यथा मनोज्ञविपयाखादप्रदा उत्तमाः
जीवन्नेव समश्नुवे ऽहमचलाःसिद्धीस्त्वद परः॥१४॥
हे नाथेति । मनोज्ञ चिदानन्दमुन्दरं विपयाणां रूपादी-
नां चमत्कारास्वाद ददति यास्ता, उत्तमा, अचला,सिद्धीरिति,
माग्वत् जीवन्नेवेत्ति न देहपाते अपि तु जीवदवस्थायामेव,
समाविप एवाहं वद पर इति खाये चिदात्मनि विश्वार्पण-
--
परः॥ १४ ॥

८०
शिवस्तोत्रायल्याम
नमो मोहमहाध्वान्तध्वंसनानन्यकर्मणे ।
सर्वप्रकाशातिशयप्रकाशायेन्दुलक्ष्मणे ॥१५॥
नमो मोहेति । महामोहध्वान्तस्य मायातमस ध्वंसने
अनन्यकर्मा सदोद्युक्तः, सर्वान् अग्नीपोमसूर्यप्रकाशानतिशेते
यस्तथाभूत प्रकाशो यस्य तस्मै ध्वान्तध्वंसे प्रकाशनव्यापारे,
चानुगुणमभिधानमिन्दुलक्ष्मणे इति शिवम् ॥ १५ ॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावली औत्सुक्यविश्वसितनामन्ये-
कादशस्तोत्रे विपश्चिद्वरश्रीक्षेमराजविचिता विवृति ॥ ११ ॥

रहस्यनिर्देशनाम द्वादशं स्तोत्रम् । ॐ सहकारि न किञ्चिदिष्यते भवतो न प्रतिबन्धकं दृशि । भवतैव हि सर्वमाप्लुतं कथमद्यापि तथापि नेक्षसे ॥ १ ॥ ॐ सहकारीति । भवतो दृशि त्वत्मकाशने मलपरिपाकादिक सहकारि न किश्चित् नापि प्रतिवन्धकं किश्चिदस्ति यस्मात्स- हकार्यायभिमतं त्वमेव व्याप्तं तथाऽपि कथमद्यापीति इयति- व्युत्याने नेक्षसे न प्रकाशसे ऽस्माकमियर्थः, भवत इति कर्मणि पष्ठी ॥१॥ आपि भावगणादपीन्द्रिय- प्रथमादप्यववोधमध्यतः। प्रभवन्तमपि स्वतः सदा परिपश्येयमपोढविश्वकम् ॥ २ ॥ अपीति । भावेभ्यः इन्द्रियेभ्यः ज्ञानेभ्य आत्मनश्च सका- शास्त्वामेव म, निस परितः समन्तात्पश्ययं कथम् अपोढविश्वक तिरस्कृताशेपभेदम् कृत्वा ॥२॥ कथन्ते जायेरन्कथमपि च ते दर्शनपथं व्रजेयुः केनापि प्रकृतिमहता केन खचिताः । तथोत्थायोत्थाय स्थलजलतृणादेरखिलतः पदार्थाद्यान्स्मृष्टिस्रवदमृतपूर्विकिरसि ॥ ३ ॥ कथमिति । अखिलतः पदार्थात उत्थायोत्थायेति वीप्सा, तयेसलौकिकेन प्रकारेणोत्थायोत्यायेति, तत्तवेद्यदशायां भेदं

२
शिवस्तोत्रावल्याम्
निमज्ज्य चिद्रपतया स्फुरित्या यान ज्ञानात्मकप्रसरदमुनो-
करैः आच्छरयसि, ते केनापि प्रकृतिमहता इति निसविकसित-
रोमाञ्चितत्वादिना प्रकाशेन चिहन प्रकाशिताः न जन्मभाजो
नापि लोकैः लक्ष्यन्ते कथामखसंभावनायाम् ॥ ३ ॥
साक्षात्कृतभवद्रूपप्रस्तामृततर्पिताः।
उन्मूलिततो मत्ता विचरन्ति यथारुचि ॥ ४ ॥
साक्षादिति । अमृतमानन्दः, उन्मूलिततृपो अपुनरुत्था-
नेन शमिता तृटू विभूसादिस्पृहा यैः, मत्ता हृष्टाः स्वातन्त्र्येण
विहरन्ति, अन्ये तु आकाक्षायाः परतन्त्रा एव ॥ ४ ॥
न सदा न तदा न चैकदे-
यपि सा यत्र न कालधीर्भवेत् ।
तदिदं भवदीयदर्शनम्
न च नित्यं न च कथ्यतेऽन्यथा ॥ ५ ॥
नेति । सदा इति एकदा इति परस्परमयोगितया एक-
देसस्य प्रकारस्तदा इसपि एवंप्रकारा अपि, यदेति इदानी-
मिसादिका च यत्र न सा काचित् कालधीरकालकलितत्वात
तदिससामान्यम् इदमिति स्फुरदूपं ज्ञानं त्वदीयं न निसं कथ्यते,
नाप्यनिस, निसत्वानिसत्वयोः परस्परमतियोगित्वाद सर्वात्म-
कसाक्षात्कारिणि रूपे व्यवहारानुपपत्तेः ॥५॥
स्वहिलोकनसमुत्कचेतसो
योगसिद्धिरियती सदाऽस्तुमे ।
यहिशेयमभिसन्धिमात्रत-
स्त्वत्सुधासदनमर्चनाय ते ॥ ६ ॥

रहस्यनिर्देशनाम द्वादशं स्तोत्रम् । त्वदिति । इयती इति, न तु परिपितफलोन्मुखी अभिस- न्धिमानतः इच्छामाबाद, त्वदीयं सुधासदनं परमानन्दधाम, सदा विशेयं तत्समाविष्टः स्यामिति अर्चनं माम्बत् ॥ ६ ॥ निर्विकल्पभवदीयदर्शन- प्राप्तिफुल्लमनसां महात्मनाम् । उल्लसन्ति विमलानि हेलया चेष्टितानि च वचांसि च स्फुटम् ॥७॥ निर्विकल्पति । कवलितविकल्पत्वदीयसाक्षात्कारमाम्या विकसितमनसा भक्तिभाजां, विमलानीति जगदुद्धरणक्षमाणि, हेलामात्रेण चरितानि, वाक्यानि च, स्फुटं कृत्वा समुल्लसन्ति । यदागमः "दर्शनात्स्पर्शनाद्राऽपि वितताद्भवसागरात् । तारयि- प्यन्ति वीरेन्द्रा. कुलाचारमतिष्ठिता" इति ॥ ७ ॥ भगवन्भवदीयपादयो. निवसन्नन्तर एव निर्भयः । भवभूमिषु तासु तास्वहं प्रभुमर्चेयमनर्गलक्रियः ॥८॥ भगवनिति । पादयोः ज्ञानक्रियाशत्त्योः, मध्य एव निव- सन् अत एवादं तासु तासु अति विततामु भवभूमिपु निर्भय: सन्, अनियन्त्रितष्टितः सर्वदशासु प्राग्वत्पूजापर: स्याम् ॥८॥ भवदनिसरोरुहोदरे परिलीनो गलितापरैपणः । .

शिवस्तोत्रायल्याम्
अतिमात्रमधूपयोगतः
परितृसो विचरेयमिच्छया ॥ ९ ॥
भवदधीति । अविसरोरुहोदरं प्राग्वत्, तत्र परितः सम-
न्ताल्लीना, लिए: सन्, इच्छया विचरेय पदात्पदं तदाक्रान्ति-
भाग्भवेयम्, कीदृश, गलिताः शान्ता अपराः वन्मरी-
च्याश्लेपामिलापव्यतिरिक्ताः एपणा आकाङ्क्षा यस्य तादा,
यतोऽतिमात्रं भृशं मधुनः आनन्दरसस्योपयोगेन आस्वादेन,
परितस्तृप्त ॥९॥
यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः ।
तस्याप्यवश्यमुदितं सनिधानं तवोचितम् ॥१०॥
यस्येति । यस्येति आर्तादेः, दम्भादिव न तु निर्देन्यैकम-
क्तियोगेन, सङ्कल्प इति विकल्पमात्रम्, अत्रैकवारावलेपमात्रमम्प-
अलिङ्गाचापरिरक्षितसकलनरकपातत्रिलोकीजनो दृष्टान्तः, उ-
चितमिति तावन्मात्रार्थिता परिपूर्तिक्षमम् ॥ १० ॥
भगवन्नितरानपेक्षिणा
नितरामेकरसेन चेतसा।
सुलभं सकलोपशायिनम्
प्रभुमातृप्ति पिवेयमस्मि किम् ॥ ११ ॥
भगवन्निति । किमस्मि, त्वां प्रभु, सकलोपशायिनं सर्वग-
तमत एव सुलभमातृप्तिचेतसा, पिवेयं त्वदैकात्म्यमनुभवेयं, की-
हशेन चेतसा, नितरामतिशयेन एकत्रैव त्वत्ममावेशभक्तौ न तु
कचिदपि फले रसोभिलापो यस्य तेन, अनेन विशेषणेन प्रागु-
कश्लोकार्थवैपरीसेन निजिभक्तिरुता ॥ ११ ॥

GY ध्यक्ष त्वामेव सर्वतः॥ ११ ॥ निःशब्दमिति । हे घ्यक्ष, शोभेऽपि प्राग्राहकममरेऽपि, अध्यक्षमविकल्पं कृत्वा त्वामेव चिद्रूपमनिदर्श पदा, रहस्यनिदशनाम हादर्श स्तोत्रम् । खया निराकृतं सर्वं हेयमेतत्तदेव तु । त्वन्मयं समुपादेयमित्ययं सारसद्रहः ॥१२॥ स्वयेति । यत्किश्चिचदेक्यमसभिहां विना ध्यं नदेय त्वन्मयं प्रसभिज्ञातमुपादेयम्, सारसदद्द इति गर्वगम्प्रदायमन- त्वम् ॥१२॥ भवतोन्तरचारि भावजातम् प्रभुवन्मुख्यतयैव पूजितं तत् । भवतो बहिरप्यभावमात्रा कथमीशान भवेत्समय॑ते वा ॥१३॥ भवत इति । भवतोन्तरचारि सदैक्येन स्थितं, यद्भावजान तद मुख्यतया प्राधान्येनैव, प्रभुरिति पूजितं भवति तत्वोन भवतस्तु प्रकाशात्मनो बहिरप्यप्रकाशात्मनो बहिरास्ताभायः अभावमात्राऽपि न भवति, कुतः पुनरभ्यर्यते मर्यस्य चित्म- काशात्मनैव सत्वादन्यथात्वाचेत्वात् माप्रशब्दोऽतिशयोक्ति- परः, अभावोऽपि बुद्धयमानो बोधात्मसादि दि मयभिताया नितिमेष, अनेन भेदवादिनामर्चनानुपपत्ति भूचिता ॥ १३ ॥ निःशब्दं निर्विकल्पं च निाक्षेपमथानिशम् । क्षोभेप्यध्यक्षमीक्षेयं निविशेष शिवस्तोत्रायल्याम वीतविघ्नं कृत्वा सर्वत्र ईक्षेयमात्मसाक्षात्कुर्याम, कीदृशं नि शब्द, वैयाकरणायुक्त शब्दब्रामविलक्षणं, "मम योनिमहद्ब्रह्म" इति नीसा भगवतः परब्रह्मणोत्युत्तमत्वात्, अत एव विकल्पेभ्योभा- वनादिरूपेभ्यो निाकान्तम् अनन्तचिन्मानरूपम् ॥ १४ ।। प्रकटय निजधाम देव यस्मि- स्त्वमसि सदा परमेश्वरीसमेतः । प्रभुचरणरजःसमानकक्ष्याः किमु विश्वासपदं भवन्ति भृत्याः ॥ १५ ॥ प्रकटयेति । निजधाम चिद्रूपं, परमेश्वरीपरा भगवती, भूसा इति, धार्याः पोप्याश्च, प्रभुचरणेसादि दासस्योचितैयोक्तिः, रजस्समानक्ष्यतेन निससंलग्नतामाह ॥ १५॥ दर्शनपथमुपयातोऽप्यपसरसि- कुतो ममेश भृत्यस्य । क्षणमात्रकामह न भवसि कस्य न जन्तोईशोविषयः ॥ १६ ॥ दर्शनपथमिति । दर्शनपथं साक्षात्कारगोचरमपि मालो, मम भृसस्य आश्वस्तस्य दासस्य, कुतोऽपसरसि नैवापसरसि त्वामवष्टभ्यैवाहं स्थित इति यावद, ननु मां साक्षात्कृत्वैव कि न तुष्यसीसत आह, कस्य जन्तोदृशो ज्ञानस्य अज्ञातोऽपि क्षणमात्रमतिक्रुद्धः प्रहृष्टो वेसादिभूमिपु विपयो ननु भवसि सर्वस्य हि कदाचित्स्फुरसि, अहं तु अनुपचरितो भृस क्षणमपि न त्वा सजामि, यदि वा साक्षात्कृतोऽपि त्वं व्यु- स्थानावरोहणे किमिति मे भृसस्य आश्वस्तस्यापि अपसरसीति योज्यम् ॥ १६॥ .

रहस्यनिर्देशनाम द्वादर्श स्तोत्रम् । 'ऐक्यसंविदमृताच्छधारया सन्ततप्रस्मृतया सदा विभो। प्लावनापरमभेदमानयं- स्त्वां निजं च वपुराप्नुयां मुदम् ॥ १७ ॥ ऐक्येति । ऐक्यसंविदद्वयदृष्टिः, सैचामृतस्य परयानन्दस्य सम्बन्धिनी अच्छा विश्वप्रतिविम्बनक्षमा धारा तया सन्ततम- विच्छेदेन मस्तया कृतं यश्लावनं सर्वत आपूरणं तस्मात्वा स्वं च वपुः सङ्कुचिताभिमत स्वरूपं परमतिशयेन अभेदमे- कात्मतामानयन् कदा मुदं सन्तोपमाप्नुयाम् ॥ १७ ॥ अहमित्यमुतोऽवरुद्धलोका- द्भवदीयात्प्रतिपत्तिसारतो मे । अणुमात्रकमेव विश्वनिष्ठम् घटतां येन भवेयमचिता ते ॥ १८ ॥ अहमिति । विश्वनिष्ठमिति यद्यन्मम कुत्रचिद्गाति तत्र सर्वत्रावरुद्धलोकं स्वीकृताशपनिर्भरमहमिति यदेतत्त्वदीयं सर्वत्र मतिपत्नीनां सारम् उत्कृष्ट स्वरूप, ततोऽणुमात्रकं मृगमद- कणकल्पमपि किंचिन्मयं घटतामुपतिष्ठतां, येन घटितेन तत्त- द्वेद्यग्रासीकारक्रमेण तव अचिंता भवामि, अणुमात्रकमिति अतिस्पृहयालुतयोक्तिः न तु पूर्णाऽहन्ताया भागाः सन्ति ॥२८॥ अपरिमितरूपमहं तं तं भावं प्रतिक्षणं पश्यन् । त्वामेव विश्वरूपं निजनाथं साधु पश्येयम् ॥१९॥ अपरिमितेति । ते तमिति ये कंचित् त्वामेयोति तस्य प्रकाशमानत्वेन स्वद्रपात, विश्वरूपमिति प्रदेशोऽपिब्रह्मण इति ५८ शियस्तोत्रावल्याम स्थिसा पूर्ण, साध्धिति निष्प्रयास ससस्वरूपतया च ॥ १९ ॥ भवदद्गगतं तमेव कस्मा- न्न मनः पर्यटतीष्टमर्थमर्थम् । प्रकृतिक्षतिरस्ति नो तथाऽस्य मम चेच्छापरिपूर्तये परैव ।। २० ॥ भवदिति । तमेवेति यं यमभिलपितमर्थ मनः पर्यटति त तं भवदगगत चिन्मयत्वेन ज्ञातमत एवेष्टम् अभिलपितमर्थ किमिति न पर्यटति तथा कुरु यथैवं पर्यटतीसर्थः, एवं सति अस्य न मकृतिक्षतिः काचित इच्छाव्याघाताभावाद, मम च परैव चिघनस्वरूपलिप्सासारेच्छा परिपूर्यते । अननैतदाह मनसि यथारुचि पर्यटति अहं पूर्णमथासार एव यथा स्यामिति ॥ २० ॥ शतशः किल ते तवानुभावा- द्भगवन्केप्यमुनैव चक्षुपा ये। अपि हालिकचेष्टया चरन्तः परिपश्यन्ति भवद्वपुः सदाऽग्रे ॥ २१ ॥ शतश इति । हालिकचेटयाऽपि चरन्ततवानुभावात् त्वत्म- युक्तादनुभवनव्यापारात भवद्वपुस्त्वदीयं चित्मरूपममुनैव चक्षुपा करणोन्मीलनदशायामपि सदाऽने परितः, पश्यन्ति समाविशन्ति, शतश सहस्रमध्याकेऽपि विरला अलौकिका इसर्थ ॥२१॥ न सा मतिरुदेति या न भवति त्वदिच्छामयी सदा शुभमयेतरगवतैवमाचर्यते ।

रहस्यनिर्देशनाम द्वादर्श स्तोत्रम् ।
अतोऽस्मि भवदात्मको भुवि यथा तथा संचरन
स्थितोऽनिशमवाधितत्वदम लाझिपूजोत्सवः ॥२२॥
नेति । सर्वेपो ज्ञानानां मथमेन पादेन परमार्थतः शिक्भ-
क्तिमयत्वम्, द्वितीयेन व्यापाराणां भगवत्कृतत्वमुक्तम्, यथा
तथेति गतसङ्कोचम्, अवाधितो न केनचिदप्यपसारितस्तन्मरी-
च्यर्चनप्रमोदो यस्य ॥ २२ ॥
भवदीयगभीरभापितेपु
प्रतिभा सम्यगुदेतु मे पुरोऽतः ।
तदनुष्ठितशक्तिरप्यतस्त-
भवदीव्यसनं च निर्विरामम् ।। २३ ॥
भवदीयेति । गभीरभापितेष्विति । मुख्ये भेदार्थत्वेन भा.
समानेष्वपि गर्मीकृतरहस्यार्थेपु वाक्येषु तावकेपु, मम पुरः पूर्व,
प्रतिभा नवनवोल्लेखिनी मज्ञा, सम्पगविपर्यस्तत्वेनोदेतु, अतोप्य-
नन्तरं, तदिति अलौकिकं, निर्विरामं कृत्वा भवदर्चायां व्य-
सनमुदेतु ॥ २३ ॥
व्यवहारपदेऽपि सर्वदा
प्रतिभात्वर्थकलाप एप माम् ।
भवतोवयवो यथा न तु
स्वत एवादरणीयतां गतः ॥ २४ ॥
व्यवहारेति । एप अर्थकलापः व्यवहारेऽपि भगवतश्चि-
न्मयस्य, यथाऽवयवः अङ्गकल्पोऽभेदेन स्थितस्तथा मा प्रतिभातु
मम प्रतिभासताम्, न पुनस्त्वन्मयमविदित्वा स्वत एव सुखा-
दिहेतुत्वेनादरणीयता गत ॥ २४ ॥

२०
शिपस्तीप्रापल्याम्
मनसि स्वरसेन यत्र तत्र
प्रचरत्यन्वहमस्य गोचरेयु ।
प्रस्कृतोप्यविलोल एव युष्म-
परिचर्याचतुरः सदा भवेयम् ॥ २५ ॥
मनसीति । यत्र तोति हेयादिविपयेषु, प्रस्तोऽपि ग्रहणे
मरत्तोऽपि, अविलोलः अलम्पटः, युप्मत्परिचर्या त्वदर्चा तत्र
चतुर एव कुशल एव स्याम, एवशब्दो भिन्नक्रमः ॥२५॥
भगवन्भवदिच्छयैव दास-
स्तव जातोऽस्मि परस्य नात्र शक्तिः ।
कथमेप तथापि वक्रविम्वं
तव पश्यामि न जातु चित्रमेतत् ॥ २६ ॥
भगवनिाते । भगवदिच्छ पैवेति, एवकारेण शक्तिपातस्य
स्वतन्त्रतामाह, तथाऽपीति, एवमपि दास्ये लब्धेऽपि, वक्रीव-
म्यं मुन्दरं परशक्तिमार्गम, एप इति, व्युत्थानावस्थोचितदेहा-
दिममातृरूप , जातु कदाचित, व्युत्थाने न पश्यामि नासादया-
मि ॥२६॥
समुत्सुकास्त्वां प्रति ये भवन्तं
प्रत्यर्थरूपादवलोकयन्ति ।
तेषामहो किं तदुपस्थितं स्यात्
किं साधनं वा फलितं भवेत् तत् ॥ २७ ॥
समुत्सुका इति । सम्यगुत्सुका भक्तिभरणोत्कण्ठिता',
मसर्थरूपादित विपयं विपयमासाद्य, किं तदिति, तेनैवानुभाव्य
न बक्तुं शक्यं, किं तत्साधनमिति अस्माभिरसंभाव्यम् ॥२७॥

रहस्पनिर्देशनाम द्वादशं स्तोत्रम् । भावाभावतया सन्तु भवद्भावेन मे भव । तथा न किंचिदप्यस्तु न किंचिद्भवतोऽन्यथा॥२८॥ भावाभावति । ये भावा इसभिधीयन्ते ते मम वन्मयत्वेन भावा विद्यमाना भवन्तु, यत्र किंचिदुच्यते तद त्वन्मयतां विना न किंचिदस्तु ॥ २८ ॥ यन किंचिदपि तन्न किंचिद- प्यस्तु किंचिदपि किंचिदेव मे । सर्वथा भवतु तावता भवान् सर्वतो भवति लब्धपूजितः ॥ २९ ॥ यन्नेति । लोकेन न किंचिदपीति यत् न किञ्चिदेवानु- पादेयतया कथ्यते सत् मम न किंचित् अपि तु सर्वभेदमयं न किंचिगवतु, यत्तूपादेयतयाऽभिमतं किञ्चिदिति भण्यते सन्मम किश्चिदेव किञ्चिदिससामान्य स्वानुभवकसाक्षिक वस्तु सर्वथाऽस्तु, यद्वा यल्लोके किश्चिश्चियन रूपं यद तदमसभिज्ञा- नाव न किञ्चित्वेन भाति, यत्तु भेदमयमवस्तु न किंचिव तन्मा- याव्यामोहात्किश्चित्वेन स्फुरति, मम तु न किञ्चित् किचिच्च न किञ्चिदस्तु लौकिकवाद्विपर्ययो मा भूदिसर्थः, एतावत्ता भवान् चिद्रपः सर्वत्र लब्धश्च पूजितश्च शिवम् ।। २९ ।। इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ रहस्यनिर्देशनामक- द्वादशस्तोत्रे श्रीक्षेमराजकृता विमृति ॥

शिवस्तोत्रावल्याम ॐ तत्सत् । संग्रहेण सुखदुःखलक्षणं मां प्रति स्थितमिदं शृणु प्रभो । सौख्यमेव भवता समागमः स्वामिना विरह एव दुःखिता ॥ १ ॥ संग्रहणेति । अथ स्तोत्रकाररचितचारुरचनाविशिष्टं संग्रह- स्तोत्र व्याकुर्मः। अत्र तु या प्रयोगरूद्विरिति संज्ञा पुस्तकेषुदृश्यते साऽवान्तरैव साक्षात्कारेण चिदैरवं समाविश्य व्युत्थानेऽपि ब- लवत्तसंस्कारात्तमभिमुखीभाव्य प्रतिभातं वस्तु विज्ञातुमाह । है प्रभो मां प्रति स्थितं न तु अन्यस्य कस्पापि स्फुरित, संग्रहेण सक्षेपेण, मुखदुःखलक्षणंशृणु, प्रभो इसामन्त्रणम्, स्वात्मसमावे- शक्रमेणैव परमेशितुः सुसंमुखीकरणायालौकिकपादशब्दान्तर- हस्यमन्त्रवत्, तल्लक्षणमाह, भवता स्वामिनाचिन्नाथेन, एप इति साक्षात्कारेण स्फुरन् समागमः समावेश्यैक्यं यत् तत्सौख्यं सुखं स्वार्थे प्यञ्, स एव सौख्यं, स च सौख्यमेव, उत्तरत्र स्थित एक्शब्दः इहाप्युभयथा योज्यः, मभुणा हि यो विरहः प्रभु- स्वरूपामसभिज्ञानं स एव दुःखिता ॥१॥ अन्तरप्यतितरामणीयसी या त्वदप्रथनकालिकाऽस्ति मे । तामपीश परिमृज्य सर्वतः वं स्वरूपममलं प्रकाशय ॥ २ ॥ अन्तरिति । यत एवं ततः, अपिन्निक्रमा, अतितरामणीय- स्यपिया मम त्वदमयनकालिका भवख्यातिमलिनता, अन्त- .

संग्रहस्तोत्रनाम प्रयोदशं स्तोत्रम् ।
३३
रिति, समावेशे माणादिसंस्काररूपाऽस्ति, तामपीति, वही ताव-
दसौ शक्तिपातात्मभृत्येव मे त्वया अपहस्तिता अतिसूक्ष्मामपि
तां परिमृज्योत्मोंछच, सर्चत इति, अन्तर्वहिश्च स्वं चिन्मय
सर्वस्यात्मीय स्वरूपं निमल प्रकाशय स्फारय ।। २ ।।
एतदेव च मे परमभिलपितमिसाइ-
तावके वपुषि विश्वनिर्भरे
चित्सुधारसमये निरत्यये ।
तिष्ठतः सततमर्चतः प्रभु
जीचितं मृतमथान्यदस्तु मे ॥ ३ ॥
तावक इति । यत्मकाशते तत्मकाशरूपमेव सत्यकामायि-
तुमर्हति भकाशस्य च देशकालादिप्रकाशमानत्वात् तत्स्वरूप-
मेव सम्भेदकं नोपपद्यते इसयवसिद्धम् विश्वरूपत्वं, चिदा-
हादात्मनः स्वरूपे निरसये अविनाशिनि तिष्ठन्नेवा_समर्थः
अर्चन्नेव च स्थातुं सम इति हेतौ शतारौ तौ च निसमवृत्तता
व्यङ्ग, स्थितिस्तत्तद्भमिलाभः, अर्चा तदेकपरामर्शव्यग्रत्वम्,
एवमुत्तरत्र अन्यदिसनेन चिद्रूपतास्थितिवहुमानेन अवस्थाषि-
पयमनादरं ध्वनति ।। ३ ।।
ननु जीवदादिभूमयः अभिमानमय्यः ताः किमितीष्यन्त
इसाशङ्खध त्वत्स्वरूपेऽवस्थितस्याभिमाना अप्यलौकिकचमत्का-
रयुक्ता एव, इतस्था तु निरभिमानताऽपि न काचिदिति वक्तुमाह-
ईश्वरोहमहमेव रूपवान्
पण्डितोऽस्मि सुभगोऽस्मि कोऽपरः।
मत्समोऽस्ति जगतीति शोभते
मानिता त्वदनुरागिणः परम् ॥ १॥

शियस्तोत्रावल्याम
ईश्वरोऽहमिति । त्वदनुरागिणः त्वत्समावेशेन प्राप्तत्वदै-
क्यस्य, परमिति तस्यैव
न तु ब्रह्मादेरपि ईश्वरःसर्वस्वतन्त्रोऽहम्
अहमेव च रूपवान् चिदात्मना प्रशस्तेन स्वरूपेण युक्तः,
पण्डा सम्यक् तत्त्वर्दीशनी मज्ञा समाता यस्य सोऽस्मि, सुभगः
परमानन्दरसोल्वणलेन सर्वस्य स्पृहणीयोऽस्मि, तत्कि बहुना
मत्समः कोऽपरोऽस्ति न कश्चित, मयैव चिदानन्दात्मना
विश्वस्यात्मसाक्षात्कारादितीदृशी मानिता साभिमानित्वं, शोभते
दीप्यते, अन्यथा पुनर्वाधाद्यमिमता सङ्कोचवती अविकल्पिता-
ऽपि मलिनैव "स्वसोपानपदारूढ्याभर्तुः स्यादन्तिके स्थितिः ।
इतरस्तु विकल्पानां वैमुख्याद्वाह्यभूमिग इति", त्वदनुरागिणो यत
एवं मानिताऽपि शोभते ततः॥४॥
देवदेव भवदद्वयामृता-
ख्यातिसंहरणलब्धजन्मना ।
तद्यथास्थितपदार्थसंविदा
मां कुरुष्व चरणार्चनोचितम् ॥५॥
देवेति । हे देवदेव अशेपाधिपते, भवदद्वयामृताख्याते:
स्वदैक्यानन्दाप्रथायाः संहरणेन लब्धं जन्म यया तया यथास्थि-
तानां चिदेकात्मनां पदार्थानां संविदा मां स्वमरीच्यचिंतं कुरु,
वच्छब्द' पूर्वश्लोकापेक्षया हेतौ ॥५॥
कीदृश्यसावर्चा यदुचितं त्वां करोमीति भगवदुक्त सम्भा-
वयन् आह-
ध्यायते तदनुदृश्यते ततः
स्पृश्यते च परमेश्वरः स्वयम् ।
यत्र पूजनमहोत्सवः स मे
सर्वदाऽस्तु भवतोनुभावतः ॥६॥

संग्रहस्तोत्रनाम प्रयोदर्श स्तोत्रम् । चायत इति । "उच्चाररहितं वस्तु चेतसैव विचिन्तयन्" इति स्थिसा ध्यायते तदनुदृश्यते समावेशात्मकाशते, ततोऽपि स्पृश्यते, गाढगाढसमाश्लेपेणैकीक्रियते स्वयमेव न तु उच्चार- करणादिपारम्पर्येण स्वयं चानुपचितेन चिन्मयेन वपुपा अन- न्याकारविशेपेण, योति पूजनमहोत्सवे, महोत्सवशब्देनास- न्तमुपादेयतामस्य वदन्नात्मनस्तदासत्त्या प्रमोदनिर्भरतांधनाते, अनुभावत इति ममानुभावतस्त्वदीयानुभवकव्यापारात् ॥ ६॥ एतदेव श्लाघमान आह- यद्यथास्थितपदार्थदर्शनम् युष्मदर्चनमहोत्सवश्च यः । युग्ममेतदितरेतराश्रयम् भक्तिशालिषु सदा विजृम्भते ॥ ७ ॥ यदिति। यथास्थितानां पदार्थानां दर्शनं विज्ञानं, न त्वदद्वयपूजामहोत्सरः तं च विना न यथास्थितवस्तुज्ञानमिती- दै द्वयमितरेतराश्रयम् भक्तिशालिपु सदाविजृम्भते, त्वयैवास्यो- भयस्य युगपत्प्रकाशात् ॥ ७ ॥ तत्तदिन्द्रियमुखेन सन्ततम् युष्मदर्चनरसायनासवम् । सर्वभावचपकेपु पूरिते- प्वापिवनपि भवेयमुन्मदः ॥८॥ तदिति । स्फुरदुपायपुरःसरमेतदाशंसापर आह मर्वभावा एव चपकाणि पानपात्राणि तेघु, चक्षुरादिमुखेन महार्थदृष्ट्या 'चिंदक्यामृनेन पूरितेपु भृतेपु, बदाहरणक्रमेण तुर्यारोहरूप शिवस्तोत्रावल्याम युप्मत्पूजारसायनपानं आसमन्तात्पिवन, उद्गतमदोऽपि नाम भवेयम् एतत्मार्थये मभुमेवार्थये ॥ ८ ॥ अन्यवेद्यमणुमात्रमस्ति न स्वप्रकाशमखिलं विजृम्भते । यत्र नाथ भवतः पुरे स्थितिम् तत्र मे कुरु सदा तवाचितुः ॥ ९ ॥ अन्यवेद्यमिति । यत्र भवत्पुरे पूरके चिदात्मनि रूपे, ध्यतिरिक्तस्य कस्यचिदेवाभावात् अन्याद्भनं वेद्यम् अणुमान- मपि नास्ति अपि तु अखिलं ग्राह्यग्राहकरूपं स्वमकाशमेव विजृम्भते, तत्र मे लदर्चापरस्य सदाऽवस्थिति गादगाढसमावे- चारूपां कुरु ॥ ९ ॥ दासधानि विनियोजितोप्यहम् खेच्छयैव परमश्वर त्वया । दर्शनेन न किमस्मि पात्रितः पादसंवहनकर्मणाऽपि वा ॥ १० ॥ दासधानीति। एवमथितेऽपि जगतीप्सितमनाप्नुवन् खिन्न इवाह दासेति । स्वेच्छयैव न तु अन्यभेरणादिना, निरपेक्षोहि शक्तिपात इत्युक्तमेव दर्शनेन शाम्भवसमावेशात्मना परसाक्षा- कारानुमवेशेन पातितो भाजनीकृत, पादसंवहनकर्मणा रुद्रश- क्तिसमावेशालादनेन अनुरणनोत्या लौकिकेश्वरार्थः प्राग्वद १० शक्तिपातसमये विचारणम् प्राप्तमीश न करोपि कहिचित् ।

संग्रहस्तोमनाम प्रयोदश स्तोत्रम् ।
अद्य मां प्रति किमागतं यतः
स्वप्रकाशनविधौ विलम्बसे ॥ ११ ॥
शक्तिपातेतिसोपालम्भमिव मभुमभिमुखयितुमाह शक्तिपा-
सोते समाप्तमित्युचितम्,ईशेसामन्त्रणं स्वतन्त्रशक्तिपातक्रमानुरूपं,
कहिचित् कदाचित् अयेति, सम्पन्नप्यनुग्राहात्मनि शक्ति-
पाते किमागतमिति क एप प्रकारः यत् चिदात्मकस्वात्मप्रका-
शात्मनि विधी अवश्यकार्येऽपि विलम्बसे, अद्यापि कालक्षेप
करोपि, मा कृपाः ॥११॥
तत्र तत्र विषये बहिर्विभा-
त्यन्तरे च परमेश्वरीयुतम् ।
स्वां जगत्तितयनिर्भरं सदा
लोकयेय निजपाणिपूजितम् ॥१२॥
सोति।पुनरपि भगवत्समावेशाशंसापर आह तति । वहि-
रिति, वाधे नीलादी आन्तरे च सुखादौ, च विभासति त्वां
पारमेश्वर्या परशक्त्या युतं निससम्बद्ध, माग्वज्जगत्त्रयेण विधेन
निर्भरं, लोकयेय साक्षात्कुयाँ, निजेन पाणिना पश्चावर्तमध्यमध्य-
ममाणशतयुद्धोधनक्रमादृतविश्वार्पणसमेधेनाचिंतम्, अत्र पाणिः
शक्तिः यथोक्तमानाये "हस्तः शक्तिः प्रकीर्तित" इति, एत-
पूजोचितम् ॥ १२ ॥
स्वामिसौधमभिसन्धिमात्रतो
निर्विवन्धमधिरुद्ध सर्वदा ।
स्यां प्रसादपरमामृतासवा-
पानकेन परिलब्धनिवृतिः ॥ १३ ॥

शिवस्तोत्रारल्याम
स्वामीति । निसोदिससमावेशरूपमेव फलमाकासन्नाह स्वा.
मीति । स्वामिन सम्बन्धिनं सौधम् अतिस्पृहणीयं स्वधामसमू-
हमत्युच्च शाक्तं पदमभिसन्धिमानत इत्युच्चारकरणाचनपेक्षम् इ-
ग्छामाणेर चिनिन्धं कृत्वाऽधिरुहा देहादिभूमिन्यम्भावेन स्त्री-
फूस, भारव्याख्यातप्रसादपरमामृतासवापानक्रीडया परिल-
धनिरीति आनन्दपरिपूर्णः, सदा स्याम्, अनुरणनशत्त्या दृष्टा-
तालङ्कारप्वनिना लौकिकेश्वरार्थः प्राग्वत् ॥ १३ ॥
यत्समस्तसुभगार्थवस्तुयु
स्पर्शमात्रविधिना चमत्कृतिम् ।
तां समर्पयति तेन ते वपुः
पूजयन्त्यचलभक्तिशालिनः ॥ ११ ॥
यदिति । प्रतिपादितपूजोपायमाह यादति । मायाशस्या
पद्यपि हेयोपादेयताभाभि तथाऽपि वस्तुतश्चिन्मयत्वात्सुभगार्था-
निमुभगप्रयोजनान्येव समस्तानि वस्तूनि तेपुचिपयभूतपु, यत्कि-
श्चिदिन्द्रियपथगतं तदीयरूपस्पर्शादि, स्पर्शमात्रविधिना संवि-
सङ्कल्पविकल्पेन संविद्यापारेण, तामिति असामान्यां चमत्कृ-
ति, सम्यगपति वितरति, तेन यच्छब्दपरामृप्टेन वस्तुस्वरूपेण,
ते वपुश्चिन्मयरूपम्, अचलभत्त्या नवनवसमावेशेन शालमानाः,
पूजयन्ति तर्पणक्रमेण त्वग्येवं विश्राम्यन्ति ।।.१४ ।।
स्फारयस्यखिलमात्मना स्फुरन्
विश्वमामृशसि रूपमामृशन् ।
यत्स्वयं निजरसेन घूर्णसे
तत्समुल्लसति भावमण्डलम् ॥ १५॥

संग्रहस्तोत्रनाम प्रयोदर्श स्तोत्रम् । स्फारयसीति । ननु मलिनैरथें कथं शुद्धस्वरूपभगवदर्चा इसाशमा सर्वदशासु अर्थानां भगवत्स्वरूपतया शुद्धतां वक्तुमाह स्फारयसीति । आत्मना चिन्मयेन, स्फुरन् भासमानः, अखिल विश्वं स्फारयसि विकस्वरस्वात्मप्रथास्फुरणेन फुल्लयसि, तथा स्वरूपमामृशनिजस्वरूपं चमत्कुर्वन्, निखिलं विश्वमामृशसि आस्वादनेन आनन्दघनं घटयसि, यश्चस्वयं निजन चिद्रसेन पूर्णसे पूर्णत्वात्समुच्छलत्तया स्पन्दसे, तद्भावमण्डलमखिलं पदार्थजातं, समुल्लसति चिद्मावुन्मीलति, एवमनेन विश्वस्याभेदसारा पर- दशोचिताःस्थितिसंहारसर्गाशानेच्छाक्रियाशक्तिपरिस्पन्दरूपाः क्रमेणोक्ता, अक्रमेऽपि हि संवित्तले व्यातिभेदेन सृष्टिस्थि तिसंहारशस्यवियोग सनातनत्वेन वयेतापि यदपेक्षयाऽय क्रमव्यवहार । तथा च श्रीपूर्वशास्त्रेपूक्तम् “सव्यापाराधिपतेन तद्धीनमेरकत्वतः ।इच्छानिवृत्ते स्वस्थत्वादभिन्नमपि पञ्चधा।" इति । सृष्टिस्थितिसंहाराणां विपर्यस्तत्वेन प्रतिपादनं चिन्मय- खेनाक्रमतापरमार्थप्रकाशनाय ॥ १५ ॥ यो विकल्पमिदमर्थमण्डलं पश्यतीश निखिल भवपुः। स्वात्मपक्षपरिपूरिते जग- त्यस्य नित्यसुखिनः कुतो भयम् ॥ १६ ॥ य इति । ननु परमेश्वरभूभावभिन्नानामर्थानामस्तु शुद्धत्वं मायापदे तु भेदविनव्याकुलिते कथमेतदिसाशा भेदविघ्नमस- रक्षयमाद्द य इति । हे ईश अर्यमण्डलं प्रमेयजातमविकल्प कृत्वा हानादानादिबुद्धिपरिहारेण श्रीभैरवीयमुद्रावीर्यस्थिसा यो योगिवरो भवद्वपश्चिद्रूपमेव कृत्वा पश्यति दर्पणोदरोन्मीलनप्र- शिवस्तोत्रायल्याम् तिविम्बवत्साक्षात्करोति, अस्य स्वात्मपरीण चिंदेक्येन परितः समन्तात् पूरिते स्वाभेदमापादिते, जगति भेदविघ्नस्योन्मूलना- निसमुखिनः परमानन्दघनस्य, कुत्तो भयं न कुतश्चिदेवतियुक्त मुक्तं प्राक्तन ते वपुः पूजयन्यचलभक्तिशालिन इति ॥ १६ ॥ कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् । अप्युपात्तममृतं भवदपु- भेंदवृत्ति यदि मे न रोचते ॥ १७ ॥ कण्ठेति । इमामेवाद्वयीट मशंसन्नाह कण्ठेति । कालकूट महाविपमपि ते कण्ठकोणविनिविष्टं त्वदनसङ्गततया स्थितं त्वद- भेदेन प्रथमानं, मेमहामृतं, परमव्यासिमदत्वाव, उक्तं हि "विपम- प्यमृतायते" इति अमृतं तु पातुमपि लब्धुमपि यदि भवदपुपो भेदात्त चिदद्वयदृशमस्पृशद्भाति, तदवास्तवत्वान्मह्यं न रोचते नाभिलापपदं ममेति यावत् ॥ १७ ॥ त्वत्प्रलापमयरक्तगीतिका- नित्ययुक्तवदनोपशोभितः। स्यामथापि भवदर्चनक्रिया. प्रेयसापरिगताशयः सदा ॥ १८ ॥ त्वदिति । एवमयसमावेशमात्माने सदोचितस्वेनेप्सनाह त्वदिति । समावेशरवश्यादनभिसन्धानमुच्चरन्तीभिस्त्वत्मलापम- पीभिर्भत्त्यनुरागाभिव्यञ्जनाद्रक्ताभिर्मधुरसुन्दराभिर्गीतिकाभिनि- सयुक्तेन पदननोपशोभिवोऽतिसुन्दररुचि. स्याम्, अथापीति अपि च, व्याख्यातसतत्वतया भवदर्चनक्रिययेर प्रेयस्या परमव-

संग्रहस्तोत्रनाम प्रयोदर्श स्तोत्रम् ।
-१०१
"
छभया परिगतः स्वीकृतः आशयश्चित्तं यस्य, तस्याश्च परिगतः
सम्यग्ज्ञातः आशयः स्वरूपं येन तथा भूतः सदा स्याम् ॥२८॥
ईहितं न वत पारमेश्वरं
शक्यते गणयितुं तथा च मे ।
दत्तमप्यमृतनिर्भरं वपुः
स्वं न पातुमनुमन्यते तथा ॥ १९ ॥
इंहितमिति.। ननु चलब्धसमावेशचमत्कारोऽपि किमर्थं भूयो
भूयः समावेशाकासापरोऽसीति शङ्कित्वेवाह ईहितमिति । परमे-
श्वरसम्बन्धीहितं विलसितं वताश्चर्य,गणयितुं कलयितुं,न शक्यते,
तथा च मे मह्यममृतीनर्भरमानन्दघन, वपुः स्वरूपं, पातुं रसयितुं,
दत्तमपि प्रसादीकृतमपि, तथेति यथारुचि निर्विरामं, पातुं, नानु-
मन्यते नागीकरोति, पुनर्युत्थानभूमिमेव प्रेरयतीसत इयमा-
काङ्ग्रेसर्थः, यत एवं ततः ॥ १९ ॥
त्वामगाघमविकल्पमद्वयं
स्वस्वरूपमखिलार्थघस्मरम् ।
प्राविशन्नहमुमेश सर्वदा
पूजयेयमभिसंस्तुवीय च ॥ २० ॥
स्वामिति । अगाधमपरिच्छेद्यमाविकल्पं चिद्रपमयमभेदसारं,
स्वं सर्वस्यात्मीयं स्वरूपमखिलाना पडध्वययानायर्थानां घस्मर-
मदनशीलं, त्वामाविशन, हे उमेश पराभट्टारिकास्वामिन्नहं सदा
पूजयेयं, " सा पूजाहादराल्लयः" इति स्थिसार्चये, अभितः
समन्तात्सम्यगभेदपरामर्शसारतया स्तुवीय चेति शिवम् ॥२०॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्यां सङ्ग्रहस्तोत्रनामनि
नपोदशस्तोत्रे श्रीक्षेमराजविरचिता विवृतिः ॥ १३ ॥

१०२. शिरस्तोतापल्याम ॐ जय लक्ष्मीनिवानस्य निजस्य स्वामिनःपुरः । जयोद्रोपणपीयूपरसमास्वादये क्षणम् ॥ १ ॥ जय लक्ष्मीति । इदमपि जयस्तो ग्रन्थकाराशय्यमेव जय- लक्ष्म्याः सर्वोत्कपीश्रयो, निधानं समुचिनमास्पदंपुर इति साक्षा- कारसमनन्तरमेव, जयोदोपणमेवानन्दमदतात्पीयूपरसमास्वा- दये चमत्करोमि, क्षणं मुहुर्मुह , क्षणशब्दश्चास्यास्वादस्य सुल- भतां ध्वनति ॥१॥ जयकरुद्रेकशिव महादेव महेश्वर । पार्वतीप्रणयिशर्व सर्वगीवाणपूर्वज ॥ २॥ जयकेति । मथममामन्त्रणद्वयमद्वयतामथनाय "एको रुद्र" इति श्रुतिरस्ति, एक शिवो न तु भेदवादस्थिसा बहवः, पार्वती परा शक्तिः, सर्वेषां गीर्वाणानां देवनां पूर्वज आद्य ॥२॥ जय त्रैलोक्यनाथैकलाञ्छनालिकलोचन । जय पीतार्तलोकार्तिकालकूटाङ्गकन्धर ॥ ३ ॥ जय त्रैलोक्येति । त्रैलोक्यनाथत्वे एकमद्वयमूचकाद्वितीय- मलौकिकं लाञ्छनमलिकलोचनं ललाटनेत्रं यस्य, भगवतिरेके- णान्यस्याधोमुखाधोलोचनानुन्मीलनात्पीतमार्तलोकानां सर्वेषां मुरासुराणामार्तिहेतुत्वासद्रूपं कालकूट महाविपं तदड्का कन्धरा यस्य, कालकूटमार्तिरूपतयोरमेक्षितम्, अथ च कालकूटगलत्वेन भगवत सर्वसंसारातिहरत्वं सूच्यते ॥ ३ ॥ जय मूर्तत्रिशन्यात्मशितशूलोल्लसत्कर। जयेच्छामात्रसिद्धार्थपूजार्हचरणाम्बुज ॥ ४ ॥ जय मूर्तेति । मूर्ता तिस इच्छाज्ञानक्रियारूपाः शक्तय जयस्तोत्रनाम चतुर्दश स्तोत्रम् । १०३ आत्मा यस्य तथाभूतेन शितेन संसारच्छदकेन शूलेनोल्लमन करः पाणिर्यस्य, अनेन शक्तित्रयस्य भगवदेकाधीनत्वमुक्तम्, इच्छामात्रेण सिद्धोऽर्थः प्रयोजन याभ्यां सकाशाद तथाभूते अत एव पूजार्दै माग्वचरणाम्बुजे यस्य ।। ४ ।। जय शोभाशतस्यन्दिलोकोत्तरवपुर्धर । जयैकजटिकाक्षीणगङ्गाकत्यात्तभस्मक ॥ ५ ॥ जय शोभेति । शोभाः प्रकाशालादरुचयः वपुः स्वरूपम्, अल्पैकजटा एकजाटका तत्र क्षीणा येयं गङ्गाकृतिस्तदेवातं भस्म येन तथामूतं कं शिरो यस्य, भगवतः शिरासे भस्मास्ती- सायमविगीतमेच ॥ ५॥ जय क्षीरोदपर्यस्तज्योत्स्नाच्छायानुलेपन । जयेश्वराङ्गसङ्गोत्थरत्नकान्ताहिमण्डन ॥ ६ ॥ जय क्षीरोदेति।क्षीरोदे पर्यस्ता मस्ता याऽसौ ज्योत्स्ना चन्द्र- कान्तिस्तच्छायं शुभ्रमनुलेपनं यस्य, अङ्गसगोत्थैः रत्नैः कान्ताः अहय-शेपवामुकिप्रभृतयो मण्डनं यस्य, ईश्वरागसगाद्भुजङ्गमाना रनमाप्तिरिति ह्यागमः ॥६॥ जयाक्षौकशीतांशुकलासशसंश्रय । जय गङ्गासदारब्धविश्वैश्वर्याभिषेचन ॥ ७॥ जयाक्षयकेति । अक्षयायाः अमानाम्न्याः एकस्याः शीता- शुकलायाः सदृशोऽनुरूपी भगवानव संश्रयः, तस्याध्यक्षकम्प- स्वात, चन्द्रकलया हि भगवतः एतत्परमार्यतैव मूच्यते, गड्या सदाऽऽरब्धं विषैश्वर्याभिपेचनं यस्य ॥ ७ ॥ जयाधराङ्गसंस्पर्शपावनीकृतगोकुल । - शियस्तोपापल्याम जय भक्तिमदारब्धगोष्ठीनियतसनिधे ॥८॥ जयाधराङ्गेति । अधरानं पादस्तत्स्पर्शन पवित्रीकृत गो- कुलं येन भगवता पभवाहनेन, यतो टपभः पद्यां स्पृष्टस्ततः सर्वन गोजातेः पवित्रत्वमविगीतं, भक्तिमद्भि. आवद्धायां गोप्ट्यां नियतोऽवश्यंभावी सन्निधिर्यस्य ॥ ८॥ जय स्वेच्छातपोवपविप्रलम्भितवालिश । जय गोरीपरिप्वगायोग्यसौभाग्यभाजन ॥ ९ ॥ जय स्वेति । स्वेच्छया क्रीडया कृतेन उपमावेशेन च वि- प्रलम्भितास्त्रासिताः पालिशा येन, क्रीडामात्रेण भगवता जटा- दि विधृतं यत्तन्मूर्खाः ब्रह्मशिरश्छेदोत्थकिल्विपशुद्धयर्थमिति मतिपन्नाः, सिद्धयर्थमेतदिसपरे, इदमेतद्गगवतः ससं रूपमिति परे, तन्न सत, भगवतः स्वतन्त्रचित्परमार्थस्यैवं रूपत्वानुपपत्तेः, गौरी परा शक्तिः तत्परिप्वगयोग्यसौभाग्यस्य सर्वस्पृहणीय- त्वस्य भाजन ॥ ९ ॥ जय भक्तिरसार्द्रभावोपायनलम्पट । जय भक्तिमदोदामभक्तवानृनतोपित ॥ १० ॥ जय भोक्तरसेति । भक्तिरसेनाौद्रः सरसो गलितो यो भाव आशयः स एवोपायन दौकनिका तत्र लम्पट झटिसा- त्मसात्कारिन्, भक्तिमदेनोद्दामा गाँजता ये भक्ताः तदीयेन वात्तेन स्फूर्जवस्तुतिमालाभिस्तोपित ॥१०॥ जय ब्रह्मादिदेवशप्रभावप्रभवव्यय । जय लोकेश्वरश्रेणीशिरोविधृतशासन ॥ ११ ॥ जय ब्रह्मोते । ब्रह्मादिदेवेशानां यः मभावः सृष्ट्यादि- सामथ्र्य तस्य प्रभवव्ययौ उत्पादनाशी, यत लोकश्वरश्रेण्या , जयस्तोप्रनाम चतुर्दशं स्तोत्रम। १०५ इन्द्रादिलोकपालमालया शिरसा विधृतं शासनमाज्ञा यस्य, पर- मेशाज्ञानुवर्तिभिरिन्द्रादिभिर्दीक्षादौ स्थीयत इति शतशः भाग- मोक्तयः सन्ति ॥ ११ ॥ जय सर्वजगन्न्यस्तवमुद्राव्यक्तवैभव । जयात्मदानपर्यन्तविश्वेश्वर महेश्वर ॥ १२ ॥ जय सर्वेति । सर्वत्र जगति न्यस्तया स्वमुद्रयाऽऽनन्दसा- रज्ञानक्रियाशक्तिव्याप्तिमय्याऽवष्टम्भरूपया व्यक्तं वैभवं व्या- पकवं प्रभुत्वं च यस्य । यदागम "न चक्राङ्का न वजाङ्का दृश्यन्ते जन्तव' कचित् । भगालगाङ्कितं विश्वं तेन माहेश्वरं जगत् ॥" इति । आस्तां तावद्ब्रह्मादीनां विभूयादिदानं त्वत्तः सर्वस्य त्वमात्मानं सत्तामपि ददासि स्वप्रकाशमयत्यत्स्वरूपं विना नीरूपत्वापत्तेरिखात्मानं पर्यन्तं कृत्वा विश्वेश्वर, अत एवान्यस्यैवं रूपत्वाभावात्वं महानीश्वरः॥ १२ ॥ जय त्रैलोक्यसर्गेच्छावसरासद्वितीयक । जयैश्वर्यभरोबाहदेवीमात्रसहायक ॥ १३ ॥ जय त्रैलोक्येति । त्रैलोक्यसर्गावसरेऽसन् द्वितीय उपा- दानसहकार्यात्माऽपेक्षणीयो यस्य, द्वितीयश्चन्नास्ति।कथं शक्ति. शक्तिमांश्चेत्युद्घोप्यते इसाह ऐश्वर्यभरोद्वाहे स्वेच्छावभासिता- शेपलोकयात्रात्मने इति नयेन देवीमात्र निजसामर्थ्यात्मा परा- शक्तिरेव सहायो यस्य, ऐश्वर्य पञ्चविधकृसकारित्वम् ॥ १३ ॥ जयाक्रमसमाक्रान्तसमस्तभुवनत्रय । जयाविगीतमावालगीयमानेश्वरध्वने ॥ १४ ॥ जयाकमेति । साक्षादिभातत्वाधुगपत्सदा सम्यगाकान्तं समस्तं निरवशेष माग्वद्भुवनत्रयं येन, विष्णुना क्रमाभ्यां भूर्भुवः-

शिवस्तोत्रायल्याम्
स्वराक्रान्तमधिष्ठितं भगवता त्वक्रममेव भवाभवातिभवत्रयं
व्याप्तम् इति व्यतिरेकध्वनिः अविगीतमनिमतिपत्ति कुत्ता
आघालं गीयमान ईश्वर इति ध्वनिः नादामों यस्य ॥१४॥
जयानुकम्पानुगुणानपेक्षसहजोनते।
जय भीममहामृत्युधटनापूर्वभैरव ॥ १५ ॥
जयानुकम्पति । अनुकम्पादिगुणानपेक्षा सहजा स्वाभा-
विकी अविच्छिन्ना उन्नतिर्माहात्म्यं यस्य, अन्येषां तु “यो दि
यस्मागुणोत्कृष्ट स तस्मादूर्ध्वमुच्यते" इसाम्नायस्थिसा अपू-
वोन्नति भीष्णस्य सकलजगत्कम्पकारिणो महामृसोः घटने
स्वरूपचलनात्मनि ग्रसने अपूर्वोऽपि भैरव भीषणीयस्यापि
भोपणीय भीमणां भयमिति तद्धितेन मृत्युभीतानां हृदि स्फुर
नभयपदश्च ॥ १५ ॥
जय विश्वक्षयोचण्डक्रियानिप्परिपन्धिक ।
जय श्रेयःशतगुणानुग नामानुकीर्तन ॥१६॥
जय विश्वेति । विश्वक्षये संहारे उच्चण्डाया क्रियायां नि-
तः परिपन्थिको निरोद्धा यस्य, श्रेयांसः शतगुणा अनुगाः
पश्चाद्धायिन यस्य, तथाविधं नामानुकीर्तनं यस्य ॥ १६ ॥
जय हेलावितीर्णेतदमृताकरसागर ।
जय विश्वक्षयाक्षेपिक्षणकोपाशुशुक्षणे ॥१७॥
जय हेलेति । हेलया वितीर्णी भक्तेभ्यो दत्तः एतदिसेप
श्रेय शतगुणानुगः अमृताकरसागरो येन, उपमन्यवे क्षीरोदो
वितीर्णः "येन विश्वक्षयाक्षेपिक्षणकोपाशुशुक्षणिः" क्षणिकोऽपि
कोपानिर्यस्य ॥१७॥

जयस्तोत्रनाम चतुर्दश स्तोत्रम् ।
१०७
जय मोहान्धकारान्धजीवलोकैकदीपक ।
जय प्रसुप्तजगतीजागरूकाधिपूरुष ॥१८॥
जय मोहेति मोहान्धकारेण अख्यातितिमिरेण अन्ध उपसं-
हृताभेदष्टियों जीवलोकस्तस्यैक अद्वितीयो दीपः परमार्थप्रका-
शकः, प्रकर्षण सुप्तायां मायामस्वापजडीकृतायां जगसा विश्वप्र-
जागरूको निखप्रबुद्धोऽतएवाधिपूरुपोधिष्ठातृस्वरूपः ॥ १८ ॥
जय देहादिकुञ्जान्तनिकूजजीव जीवक।
जय सन्मानसव्योमविलासिवरसारस ॥१९॥
जय देहादीति । देह एव जइत्वादद्रिकुआं पर्वतदरी-
गृहूं तत्र निकूजत क्रन्दतो जीवान माणिनो जीवयति जीवतां
लम्भयति यः पर्वतगुहायां च निकूजन्तो जीवजीवाख्याः
पक्षिणोभवन्तीयनुरणनशताया क्षिप्तोर्थोऽपिसतां भक्तानां मानसं
चित्तमेव निर्मलत्वादिधर्मत्वायोगतत्रविलसत्तच्छील परसारस
परमात्मराजहंसश्च शोभमानश्च व्योमचारी भवति ॥ १९ ॥
जय जाम्बूनदोदप्रधातू गिरीश्वर ।
जयपापिपुनिन्दोल्कापातनोत्पातचन्द्रमाः॥२०॥
जय जाम्बूनदेति । जाम्बृनदं कनकं तेन उदग्र अजितो
धातूवश्व रसधातुसम्भूतो गिरीश्वरो मेय॑स्य, तथा च अवधूतः
येनायलस्फुरितेसादि, पापिप्वतिशयविलयशक्तिगोचरेषु नि-
न्दैव विपमदशाहेतुत्वादुल्का विद्युत्, भगवद्विल्पशक्तिपातेन
हि पापिनो भगवन्तं निन्दन्ति, उत्पातने उत्पातचन्द्रमा इव
अशुभमूचक इन्दुरिव इन्दुरूपेण निसमाहादहेतुत्वं मन्यते ॥२०॥
जय कटतपःक्लिष्टमुनिदेवदुरासद।
जय सर्वदशारुढभक्तिमल्लोकलोकित ॥२१॥

१०८ शिवस्तोत्रावल्याम् जय कष्टेति । कष्टतपः क्लिष्टत्वादेवागस्वब्रह्मादिभिर्दुःखेना- साधते, उक्तं हि माग्वत् न योगो न तप इति भक्तिरेव तत्रो- पाय इसाइ सर्वासु जाग्रदादिदशास्वारूढेन माग्व्याख्यातेन भक्तिमरलोकेन लोकित साक्षात्कृत ॥ २१ ॥ जय स्वसम्पत्प्रसरपात्रीकृतनिजाधित। जय प्रपन्नजनतालालनैकप्रयोजन ॥२२॥ जय स्वसम्पत्यसरेति । परमानन्दसारे स्वसम्पत्यसरे पा- श्रीकृतस्तदास्वादभाजनतां प्रापितः निजाश्रितो भक्तजनो येन, लालनं “तेपां नियाभियुक्तानां योगक्षेमं वहाम्यहम् " इति स्थिसा योगक्षेमोद्वहः ॥२२॥ जय सर्गस्थितिध्वंसकारणैकावदानक । जय भक्तिमदालोललीलोत्पलमहोत्सव ॥२३॥ जय सर्गस्थितीति । सप्टचादिकारणं "सदा सृष्टिविनो- दाय" इति न्यायेन एकमेवावदानमुत्तमं चरितं यस्य, भक्तिम- देन समावेशोद्रेकेण आलोला स्पृहणीया व्याप्ता च लीलाप- रिस्पंदो यस्य तथा भूतस्योत्पलस्यैतन्नाम्नः अस्मत्परमेष्ठिनो महोत्सवः ॥ २३ ॥ जय जयभाजन जय जितजन्म- जरामरण जय जगज्ज्येष्ठ । जय जय जय जय जय जय जयं जय जय जय जय जय जय त्र्यक्ष ॥२४॥ जय जयेति । जयंभाजनवं चिद्रूपत्वेन सर्वोत्तमत्वात स्वात्मन एव चिद्रूपेश्वरस्य वस्तुतः सर्वोत्कर्पयत्तेरपि स्वातन्ध्येण

जयस्तोत्रनाम चतुर्दशं स्तोत्रम् ।
विपयव्यग्रतावस्थार्या गृहितात्मत्वात्पराङ्मुखस्येव सम्मुखीक-
रणात्मकमार्थनारूपो जयेति, लोडर्थ इहाद्वयनये ऐवोचित इया-
शयेनापि उक्तं जयभाजनेति, द्वयनये तु भेदमयत्वादेवेश्वरी न
सर्वोत्कर्पण वर्तते ततो जयेसाशीर्व्यर्थेव, अथापि वर्तेत कि परकृ-
तया प्रार्थनया विध्यादिश्च लोडर्थ ईश्वरविपयेऽनुचित एवोति
भेदेन यज्जयेत्युदीरणमनुपपन्नमेव, जितानि जन्मजरामरणानि
जयमाश्रियेऽर्थः, जगज्ज्येष्ठता अनादित्वात् भूयो भूयो जय जये-
त्युद्घोपणमुद्घोपयितुर्भक्तिसमावेशवैवश्यं मूचयति, श्यक्षेसाम-
न्त्रणं निःसामान्योत्कर्पशालितां प्रकाशनायेति शिवम् ॥ २४ ॥
इति श्रीमदुत्पलदेवाचार्यविरनितस्तोत्रावली जपस्तोत्रे
श्रीक्षेमरानविरचिता विवृतिः ।।
तदेतैश्चतुर्दशभिरैकदेशः सजोन्मुद्रणानाम स्तोत्रम् ॥१४॥

शिवस्तोत्रावल्याम् . ॐ तत्सत् , त्रिमलक्षालिनो ग्रन्थाः सन्ति तत्पारगास्तथा । योगिनःपण्डिताःस्वस्थावद्भक्ता एव तत्वतः॥१॥ त्रिमलेति । त्रीन् आणवमायीयकामलान् क्षालयन्ति ये ते ज्ञानक्रियायोगचर्यापदरूपा, ग्रन्थाः पारमेश्वराः, तथा तत्पार- गास्तेपामाद्यन्तदर्शिनो व्याख्यात्रादयोऽपि,सन्ति ससतःपुनस्त्व- द्भक्ता एव तत्पारगाः यतस्तएक्तत्वतोयोगिनः पण्डिता.स्वस्थाश्च तत्पारगाः तत्वत इति चावृत्या योज्य, तत्र “योगमेकत्वमिच्छ- न्ति" इति "मय्याश्य मनो ये माम्" इसादि योगिनो निस- समावेशयुक्ता. मशंसायां निसयोगे चेनि अनेन योगपादरहस्य- निष्ठत्वमेपामुक्तम्, पण्डितत्वं विद्यापादक्रियापाद सतत्वरूढिः तत्र विद्यापादेन 'ज्ञायतेऽनेनेति'व्युत्पसा उपायात्मकं परशक्ति- शिवस्वरूपं ज्ञानमेकं ज्ञप्तिज्ञानमिति व्युत्पसोपेयात्मकं चिदा- नन्दघनस्वरूपं विश्रान्तिसतत्वं द्वितीयमभिधीयते, क्रियापादे- नापि वीर्यसारमन्त्रतन्त्रतदिति कर्तव्यताद्युपायरूपा तदुपायक्र- मावासस्वात्मविमर्शसारा च क्रियाऽभिधीयते, तन्त्रमन्त्राणां सम- स्तवाच्यवाचकभेदामर्शसारपरमानन्दघनशब्दराशिसतत्वमहं वि- मर्शसारं परं वीर्यम्, एतदभिन्नस्फुरतामयी च महासामा- न्यस्पन्दरूपा प्रतिभात्मा विमर्शशक्ति सृष्टिसंहारमधानपरवी- यम् अपरं तु विश्लेपणादियुक्तियशस्फुरिततत्तद्ध्येयदेवताकारा भेदमतिपत्ति मुद्रणा तत्तत्सवित्सारतैव हृदयं कुण्डमण्डलेतिक- तव्यतादेरपि परमेशमानक्रियाशक्तिव्याप्तिरेव तत्त्वम्, एवं विद्यापरमार्थमतत्वविश्रान्तिपाण्डिसम, स्वस्थत्वं तु चर्यापा- दाभिधेयोक्तं करणोन्मीलननिमीलनक्रमेणैव परमेश्वरवत्सततं - भक्तिस्तोघनाम पञ्चदशं रतोत्रम् । सृष्टिसंहारादिकारि स्वस्वरूपावस्थितत्वम, एतच्च सर्व त्वद्ग- क्तानामेव तत्वतोऽस्तीसलम् ॥१॥ मायीयकालनियतिरागाद्याहारतर्पिताः । भवन्ति सुखिनो नाथ भक्तिमन्तो जगत्तटे ॥२॥ मायीयेति । कालादीनां पञ्चानां ग्रसनेन तपितत्वं तत्मा- तिपक्ष्येण यदकालकलितव्यापकनिराकाझसर्वकर्दसर्वशस्त्र- स्वरुपमाप्ति, सुखिन आनन्दघनास्तृप्ताश्च मुखसञ्चारिणो भवन्ति ॥ २ ॥ रुदन्तो वा हसन्तो वा त्वामुच्चैः प्रलपन्त्यमी। भक्ताः स्तुतिपदोच्चारोपचाराः पृथगेव ते ॥३॥ रुदन्न इति । अमी इति समावेशशालिनो भक्ता, रुद- न्तो वा हसन्तो वेति सर्वावस्थात्तिनस्त्वामुचैरुत्कृष्टतया मल- पन्ति स्फुट विमृशन्ति, अमी एव ससतो भक्ताः, स्तुतिपदो- चार एवोपचारः सेवामकार उपरञ्जनमकारो येषां ते, पृथगेव भक्ता जनेभ्यो वाह्या एवेसर्थः ॥ ३ ॥ न विरक्तो न चापीगो मोक्षाकाङ्की त्वदर्चकः। भवेयमपि तूद्रिक्तभक्त्यासवरसोन्मदः ॥ ४ ॥ विरक्तो निवृत्तिधर्माईशो वा विभूतियुक्तःसन् । निजनिजेनौचित्येन त्वदर्चको मोक्षमाकांक्षन्॥५॥ नेति । विरक्त: नित्तिधर्मा, ईशो विभृतियुक्तः, निज- निजेनौचिसेन त्वदर्चको मोक्षमाकाङ्क्षन् न तु जीवन्मुक्तः न भवेयं मा भूवमियर्थः, अपि तु उद्विक्तेन जितेन भच्यासवर- सेन समावेशचमत्कृतिपकणोन्मट उटूनानन्दो भवेयम ||4|| ,

।
११२
शिवस्तोत्रावल्याम्
वायं हदय एवान्तरभिहसैव योऽर्चति ।
त्वामीश भक्तिपीयूपरसपूरैर्नमामि तम् ॥६॥
वाद्यमिति । हृदय एव प्रकाशपरमर्शात्मनि स्वरूप एवा-
न्तर्मध्ये विश्व बाह्यमभिहस समन्तात्स्वीकृसैव न तु किञ्चिदव-
शेष्य, हे ईश स्वामिन्, यस्त्वां भक्तिरेव परमाहादपिकासहेतु-
स्वात्पीयूपपूरास्तेरर्चति, तं भक्तिशालिनं नमामीति पूर्ववत् ॥६॥
धर्माधर्मात्मनोरन्तः क्रिययोनियोस्तथा ।
सुखदुःखात्मनोभक्ताः किमप्यास्वादयन्यहो ॥५॥
धर्मेति । लोके शुभाशुभरूपतया प्रसिद्धत्वेन धर्माधर्मत्वं
न तु भक्तिमद्भिस्तथाऽनुष्ठीयमानत्वात्, अन्तरिति मध्ये स्थिता,
अपि किमपीति असामान्यपरमानन्दकरूपम् ॥ ७॥
चराचरपितःस्वामिन् अप्यन्धा अपि कुष्ठिनः।
शोभन्ते परमुद्दामभवद्भक्तिविभूषणाः ॥८॥
चराचरेति । अप्यन्धा अपि, कुष्ठिन इति, लोकेसन्तं
गहिता अपीयर्थः ॥ ८॥
शिलोञ्छपिच्छकशिपुविच्छायाङ्गा अपि प्रभो ।
भवद्भक्तिमहोष्माणो राजराजमपीशते ॥९॥
शिलोच्छेति । शिलोन्मुञ्छितं शिलं पिच्छं पक्षः कशि-
पुः भोजने आच्छादने शिलोपिच्छे एव कशिपुस्तेन विच्छा-
यान्यङ्गानि येपा ते, एवमतिकृशत्तयोऽपि यतो भवद्भक्त्या
महोप्माणः अतिदीप्तोजितस्वरूपास्तनो राजराज वैश्रवणमीशते
ऐश्वर्येणाभिभवन्तीसर्थः ॥ ९ ॥

.
भक्तिस्तोत्रनाम पञ्चदश स्तोत्रम् ।
सुधार्दीयां भवद्भक्तौ लुठताप्यारुरुक्षुणा ।
चेतसैव विभोऽर्चन्ति केचित्त्वामभितःस्थिताः॥१०॥
सुधार्द्रायामिति । सुधा परमानन्दरसा, आर्द्रा सिक्ता, भक्ति-
समावेशः तत्र, लुठता सम्यक् तत्पादानाक्रमात्स्थिति जहताऽपि,
आरुरुक्षुणा अकृतकावष्टम्भजिवृक्षुणा, चेतसैव न तु बाह्येन कु-
मुमादिना केचिदिति, परमयोगिनः त्वामभितः स्थिता अन्त-
बहिश्च सर्वत्र त्वय्येव विश्रान्ताः ॥ १०॥
रक्षणीयं वर्धनीयं बहुमान्यमिदं प्रभो।
संसारदुर्गतिहरं भवद्भक्तिमहाधनम् ॥११॥
रक्षणीयमिति । रक्षणं व्युत्थानेनानपहारः, वर्धनं क्रमा-
क्रममन्तरमनुप्रवेशे स्फीततापादनम्, बहुमानः सर्वोत्कृष्टत-
याऽऽदरः ॥ ११ ॥
नाथ ते भक्तजनता यद्यपि त्वयि रागिणी।
तथापीयाँ विहायास्यास्तुष्टाऽस्तु स्वामिनी सदा १२
नाथेति । भक्तजनता रागिणी नायिकेव ईर्ष्यासागः अव-
दानं, तुष्टा विकसिता, स्वामिनी परशक्तिरिति प्रकृते अप्रकृते
तु स्वामिनी महादेवी ॥ १२ ॥
भवद्भावः पुरोभावी प्राप्ते त्वद्भक्तिसम्भवे ।
लब्धे दुग्धमहाकुम्भे हता दधनि गृध्नुता ॥१३॥
भवद्भाव इति । भक्तिसम्भवे त्वत्समावेशे, भवद्भावःपुरोभावी
त्वदूपता समासन्नैव, न तु मार्थनीया, यतो महति क्षीरपटे माते
दभि या गृध्नुता अभिलापुकता सा हत्ता व्यर्थेव, दुग्धेनेच दो
गर्मीकारात् ॥ १३॥

शिवस्तोत्रावल्याम किमियं न सिद्धिरतुला किंवा मुख्यं न सौख्यमास्रवति । भक्तिरुपचीयमाना येयं शम्भोः सदातनी भवति ॥१४॥ किमिति । शम्भोभक्तिरुपचीयमाना परा धारा प्राप्यमाणा या सदातनी भवति पराभक्तिरूपतामासादयति, किं नेयम- तुला सिद्धिरपि त्वतुलैव परैव भक्तिः, मुख्य सौख्यं परमानन्द, वा किं न आसमन्तात्स्रवति स्रवसेवेसर्थः ॥ १४ ॥ मनसि मलिने मदीये मन्ना त्वद्भक्तिमणिलता कष्टम् । न निजानपि तनुते तान् अपौरुषेयान्स्वसम्पदुल्लासान ॥१५॥ मनसीति । मलिने व्युत्थानकलङ्किते ममा व्युत्थानाच्छा- दिता त्वद्भक्तिरेव मणिलता सर्वसिद्धिप्रसूः रवशाखा निजान सहजान् तानिति समावेशेन स्फुरितान् अलौकिकान् सर्वाका- क्षापरिहारिपरमानन्दमयान् नमिताणिमादिरूपान् किमिव न सिद्धिरतुलेतीदानीमेवोक्तत्वात् ॥ १५ ॥ भक्तिर्भगवति भवति त्रिलोकनाथेन तृत्तमासिद्धिः । किन्वणिमादिकविरहात् सैव न पूर्णेति नास्ति चिन्ता मे ॥१६॥* * मादर्शपुस्फऽस्य इलोफस्य टीका मोपलभ्यत ।

भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम् । बायतोऽन्तरपि चोत्कटोन्मिप- व्यम्बकस्तवकसौरभाः शुभाः। वासयन्त्यपिविरुद्धवासनान योगिनो निकटवासिनोऽखिलान् ॥१७॥ भक्तिरिति । उत्कटमतिदीप्तम् , उन्मिपत उल्लसतः ऽयम्व- कस्तवकस्य शिवकुसुमगुच्छस्य सम्बन्धि सौरभमामोदो येपां योगिनां ते शुभाः वहिरन्तश्च पूजनेनाधिवासिता विरुद्धवासनान् अनावस्तानपि अखिलानिकटवासिनो जनान् वासयन्ति तु भवत्पूजोन्मुखान सम्पादयन्ति वाह्ये ऽयम्बकाथै स्तवकः अन्तस्तु ज्यम्बक एव स्तवक एवं सौरभमामोदश्चमत्कारश्च अथ च उत्कटेन ध्यम्बकस्तबकस्य धत्तूरकस्य सौरभेणाधिवासिताः निकटस्था- विभिन्नामोदानपि वाटमर्चयन्तीति अनुरणनव्यङ्गयोर्थः॥१६/१७ ज्योतिरस्ति कथयाऽपि न किं. चिद्विश्वमप्यतिसुषुप्तमशेपम् । यत्र नाथ शिवरात्रिपदेऽस्मि- नित्यमर्चयति भक्तजनस्त्वाम् ॥१८॥ ज्योतिरिति । ज्योतिर्वाहान्तरजं ज्ञानं यत्र नाम्ना किशि- सास्ति समस्तमायीयमथायाः संहरणाद्विश्वमापे सकलमतिसु- सम्, अत्र शिवरात्रिपदे शिवसमावेशभूमी समस्ताख्यातिप्र- थायाः संहरणादात्रिरिव रात्रिस्तस्या पदे स्थाने ॥ १८ ॥ सत्वं सत्यगुणे शिव भगवति स्फारीभवत्वर्चने चूडायां विलसन्तु शम्भुचरणप्रोछद्रजःसश्चयाः ।

शिवस्तोत्रावल्याम रागादिस्मृतिवासनामपि समुच्छेत्तुं तमोजृम्भताम् शम्भो मे भवतात्त्वदात्मविलये त्रैलोक्यवर्गोषवा १९ सत्वमिति । ससाः पारमार्थिकाः सर्वज्ञत्वादयोगुणा यस्य, तत्र शिव भगवति यदर्चनं चिद्विश्रान्तिपरमार्थस्वरूपं तत्र सत्वं प्रकाशः स्फारीभवतु । चूडायां मध्यशिखायां शिवशत्युदिताः रजा प्रकाशपत्तिनियमार्था इति सत्त्वरजस्तमःप्रसराः, किरणानकराः स्वरूपोन्मीलका विकसन्नु । तनुश्चाख्यात्मा मोहः रागादिस्मृतिहेतुं वासनामपि सम्यगुच्छेत्तुमपुनर्भवाय जृम्भताम् । अथवा त्रैगुण्यवतस्त्वदात्मनि यो विलयः निःशेषमु- पशान्तिस्तत्र भवतात् त्वय्येव विलीनो भृयादिसर्थः ॥१९॥ संसाराध्वा सुदूरः खरतरविविध- व्याधिदग्धाशयष्टिः भोगानेवोपभुत्का यदपि सुखमभू- जातु तन्नो चिराय। इत्थं व्यर्थोऽस्मि जातः शशिधरचरणा- क्रान्तिकान्तोत्तमाङ्ग- स्त्वद्भक्तश्चेति तन्मे कुरु सपदि महा- सम्पदो दीर्घदीर्घाः ॥ २० ॥ संसारैति । सुदरः कृन्छूमाप्यपर्यन्त:, भोगा इति उत्तमा इह विवक्षिताः, जातु कदाचित्रो निषेधे, अस्मीति देहादिम- मातृरूपः, यतस्तु शशिधरचरणाक्रान्सा ईश्वरशक्तिपातेन का- न्तं दीमं संवित्मधानम्, अत एवोचमाझं स्वरूपं यस्य त्वद्भक्त-

भक्तिस्तोपनाम पदशं स्तोत्रम् ।
शेति । तथा भूतोऽपि त्वामेव सेवमानः तस्मान्मे दीर्घदीर्घाः शा-
श्वतीमहासम्पदः प्राग्बदद्वयमयी कुर्विति शिवम् ॥ १९ ॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावली भक्तिस्तोत्रनामनि
पञ्चदशे स्तोत्रे श्रीमद्रानानकक्षेमराजाचार्य-
विरचिता विवृतिः ॥१५॥

११८ शिवस्तापावल्याम् ॐ न किञ्चिदेव लोकानां भवदावरण प्रति । न किञ्चिदेव भक्तानां भवदावरणं प्रति ॥१॥ न किञ्चिदिति । भवदावरणं प्रति चिन्मयत्वत्स्वरूपावर- णाय लोकाना संसारिणा न किञ्चिदेव काक्वा अपि तु सर्व- मेव भेदेन विश्वमेव पर्यन्तसमस्तशक्तिचक्रव्यवहितत्वाद, भक्ता- ना तु न किश्चिदेय नैव किश्चिदिसर्थः शिवतत्वपर्यन्तस्याशे- पस्य स्वागकल्पनया प्रमेयीकृतत्वात् ॥ १ ॥ अप्युपायक्रमप्राप्यः सङ्कलोऽपि विशेषणैः । भक्तिभाजां भवानात्मा सकृच्छुद्धोऽवभासत॥२॥ अप्युपायेति । उपायक्रमस्तत्तच्छास्त्रोक्तज्ञानक्रियायोगच- र्यादिविशेषणैः सर्वज्ञत्वसर्वकर्तृत्वसर्वशक्तिमयादिभिरसंख्यैः, य- थोक्तमपि "सर्गसिद्धिवाचः क्षयरन्" इसादि च, तथाभूतानां शक्तिभाजा सकृत्सन्ततं शुद्धचिदेकपरमार्थोऽवभासते, समावे- शेन स्फुरति यश्च क्रममाप्यः सड्कुलश्च स कथं सकच्छुद्धश्च भातीति विरोधाभास ॥२॥ जयन्तोऽपि हसन्येते जिता अपि हसन्ति च भवद्भक्तिसुधापानमत्ताः केप्येव ये विभो ॥३॥ जयन्तोऽपीति । जयन्त इति भेदानास्पदीकरणेन समा- विशन्त , हसन्ति विकसन्ति, जिता अपीति, व्युत्थानेवाकृष्य- माणा अपि समावेशसंस्काराद्वाहिश्च विकसन्ति लोकजयपरा- जययोईसन्सेव मचा दृष्टा अथ च ये मत्ताः क्षीवास्ते जयपरा- जपयोईसन्तो भवन्ति केपीसलौकिका ॥ ३ ॥ शुष्ककं मैव सिद्धेय मैव मुच्येय वाऽपि तु । स्वादिष्ठपरकाष्ठाप्तत्वद्भक्तिरसनिर्भरः॥४॥ , . पाशानुनेदनाम पोड़शं स्तोत्रम् । शुष्ककमिति । शुष्कमेव शुष्ककं क्रियाविशेषणं, शुष्कक भक्तिसमावेशरहितं कृत्वा तादृशौ भोगमोक्षौ भेदवादिना स्वा- दिष्टौ निरतिशयचमत्कारो धारादिरूद्धश्च, ' यस्त्वत्समावेशरस: तेन निर्भरं पूर्ण कृत्वा अत एव शुष्कतानिवृत्तिः॥४॥ . यथैवाज्ञातपूर्वोऽयं भवद्भक्तिरसो मम । घटितस्तद्वदीशान स एव परिपुष्यतु ॥ ५ ॥ यथैवेति । अज्ञातपूर्व इति, जन्मकोटिमध्येऽप्यविदित अय- मिति स्फुरद्रूपः भक्तिरस:समावेशमसरः, ईशान स्वतन्त्र तदिति, झटिसज्ञातपूर्वः यथैवेति, यं प्रकारं त्वमेव जानासीयर्थः ॥५॥ सत्येन भगवन्नान्यः प्रार्थनाप्रसरोऽस्ति मे। केवलं स तथा कोऽपि भक्यावेशोऽस्तु मे सदा॥६ ससनेति । अतिप्रणयपरिचयादियमुक्तिः । अन्य इति, प्रार्थनातो व्यतिरिक्तः स तथा कोऽपीति, वाग्विकल्पातीतः भत्त्यावेशः समावेशकैवल्यम् ॥ ६ ॥ भक्तिक्षीवोऽपि कुप्पेयं भवायानुशयीय च । तथा हसेयं रुद्यां च रटेयं च शिवेत्यलम् ॥७॥ भक्तीति । भवाय संसाराय कुप्येयं ग्राम्यत्वेन संसारमन- लोकयेयमिसर्थः, अनुशयीयेति, कथमियन्तं कालं व्यामूढ आ- समिति पश्चात्तापमनुभवेयम्, हसेयं प्रमोदेन विकसेयम्, रुधां आनन्दाश्रुप्लुतः स्याम, रटेयमिति शिव शिवेत्ति मुखरः स्पा- म्, क्षीवस्येव मे नानावृत्युदयो भवतु ॥ ७ ॥ विषमस्थोऽपि सुस्थोऽपि रुदनपि हसनपि । गभीरोऽपि विचित्तोऽपि भवेयं भक्तितःप्रभो॥८॥ .

१२०
शिवस्तोत्राबल्याम
विषमस्थ इति । विपमस्थोऽपि दौर्गसोपहतोऽपि, भक्ति-
तः स्वानन्दविश्रान्तः, सूचीपुओपविष्ट इव लौकिकं मुखं दुःख-
रूपेण पश्यन्, तथा वान्धवमरणाद्यवस्थार्या रुदनपि तथा
अन्तश्चिद्विकासलाभात्महृष्यन्, तथा सांसारिकममोदेषु तथा
हसन्नपि रुदन शोचनीयतां मन्यमानस्तथा लौकिकव्यवहारे गभी.
रोऽपि परैरनालक्ष्योऽपि विचित्तः तां दशामुत्पातमिव मन्यमा-
नस्तथा विचित्तोऽपि क्वचन सन्निपाताद्यवसरे नष्टस्मृतिरपि
गभीरः परैरालोचितोप्यन्तर्दशाव्याप्तिममोदनिर्भरः स्याम् ॥८॥
भक्तानां नास्ति संवेद्यं त्वदन्तर्यदि वा वहिः ।
चिद्धर्मायत्र न भवानिर्विकल्पःस्थितःस्वयम्॥९॥
भक्तानामिति । संवेद्यं संसारलीलादि, चिद्धर्मा चित्स्वय-
मिति साक्षात्स्फुरन् नान्याधिष्ठानेन ॥९॥
भक्ता निन्दानुकारेऽपि तवामृतकणैरिव ।
हष्यन्येवान्तरा विद्धास्तीक्षणारोमाञ्चसूचिभिः॥१०
भक्ता इति । तब निन्दानुकारेऽपि उपहतजन्तूपक्लप्ताम-
मशंसामनुकुर्वन्तो भक्ता हृप्यन्येव, स्फुरत्तात्विकरूपाः परमा-
नन्दव्याति लभन्त एव अत एवं पाशनिर्भेदिनीभिस्तीक्ष्णाभी
रोमाञ्चमुचिभिरासमन्ताद्विद्धाः ॥ १० ॥
दुःखापि वेदना भक्तिमतां भोगाय कल्पते ।
येषां तुधार्दा सर्वैव संवित्वञ्चन्द्रिकामयी ॥११॥
दुखापीति । वेदना संवित्, दुःखापि दुःखकारिण्यपि, भो.
गायेति दुःखस्य चमत्कार्यत्याचमत्कर्तृतासारानन्दघनममातृपद-
वित्तये तत एयाहं सर्वेव संवित् चितिशक्तिः, येषां सुधार्दा पर-
मानन्दघनत्वाचन्द्रिकामयी पराशक्तिरूपा ॥११॥

पाशानुवेदनाम पोडश स्तोत्रम् । यत्र तत्रोपरुद्धानां भक्तानां वहिरन्तरे । निर्व्याजं त्वपुःस्पर्शरसास्वादसुखं समम्॥१२॥ योति । सुग्वदु खतद्धत्वादिरूपे उपरुद्धानामवस्थितानां भक्तानां निर्व्याजमन्तर्विचित्रवामनाकालुष्यशून्यं त्वदपुश्चिन्मय- स्वात्वत्स्वरूपस्य संबन्धि यत्स्पर्शरसास्वादसुखं तत्सम सर्वतुल्यं, उक्तं च “समबुद्धिविशिष्यते" इति ॥ १२ ॥ तवेश भक्तरर्चायां दैन्यांशं द्वयसंश्रयम् । विलुप्यास्वादयन्येके वपुरच्छं सुधामयम् ॥१३॥ तयेति । तवार्चायां भाग्व्याख्यातायां या भक्ति सेवा तस्याः द्वयसंश्रयं भेदसम्बद्धं दैन्यांशं दीनतालेशपि विलुप्य छित्वा.एके केचिदेव भेदविगलनादच्छं निर्मलं तद्वदेव मुधाम- यमानन्दरससारं चपुरास्वादयन्ति चमत्कुर्वन्ति दैन्यांशमिति । अत्रायमाशय. द्वैतभक्तरद्वैतभक्तिः सद्य. समावेशमयी द्वैतभक्ति- स्त्वतथात्वाच्छिवताssकाङ्क्षामयी ॥ १३ ॥ भ्रान्तास्तीर्थदृशो भिन्ना भ्रान्तरेव हि भिन्नता । निष्प्रतिद्वन्द्वि वस्त्वेक भक्तानां त्वं तु राजसे॥१४॥ भ्रान्ता इति । तीर्थदृश शास्त्रदृष्टयो यतो भ्रान्तास्ततो भिन्ना', यस्माद्भिन्नता नाम भ्रान्तरैक्याख्यातेर्हेतुर्भवति न तु वस्तुतः, भक्तानां तत्त्वमेकमद्वितीयं वस्तुतत्वं निप्पतिद्वन्द्वित्वा- निच्चयं राजसे दीप्यसे ।। १४॥ मानावमानरागादिनिष्पाकविमलं मनः । यस्यासौभक्तिमाल्लोकस्तुल्यशीलः कथं भवेत्॥१५॥ मानावमानेति । यम्य भक्तिमतो मानावमानयो रागादीनां

૨૨૨
शिवस्तोत्रायल्याम
च यो निष्पाकः नि शेर्पण पचनं दग्धवीजकल्पतापादनं, तेन
हेतुना मन' स्वान्तं विमलमकलङ्कम् ॥ १५॥
रागड्वेषान्धकारोऽपि येषां भक्तित्विपा जितः।
तेषां महीयसामग्रे कतमे ज्ञानशालिनः ॥१६॥
रागेति । महीयसामिति, ईयमुनोऽयमाशय. समव्याप्ति-
कत्वं ज्ञानिनां भक्तानां च, तत्र भक्तानां तु रागद्वेपान्धकारस्य
जयादशेप ॥ १६ ॥
यस्य भक्तिसुधास्नानपानादिविधिसाधनं ।
तस्य प्रारब्धमध्यान्तदशासूच्चैःसुखासिका॥१७॥
यस्येति । भक्तिरेव सुधा अमृतं सा यस्य स्नानपानादि-
विधे. शुद्धतृप्यादिफलस्य ब्यापारग्रामस्य साधनं, मारब्धमध्या-
न्तदशासु, आदौ मध्ये चान्ते चात्सर्वव्यापाराणामुच्चैः सुखा-
सिका परमानन्दविश्रान्तित्वम् ॥ १७ ॥
कीर्त्यश्चिन्तापदं मृग्यः पूज्यो येन त्वमेव तत् ।
भवद्भक्तिमतांश्लाघ्या लोकयात्राभवन्मयी॥१६॥
कीर्स इति । येनेति हेतौ उदिति तस्माल्लोकयात्रा च
कीर्तनादिमती च ॥ १८ ॥
मुक्तिसंज्ञा विपक्कायाः भक्तरेव त्वयि प्रभो।
तस्यामायदशारूढा मुक्तकल्पा वयं ततः॥१६॥
मुक्तिरिति । विपक्वायाः परंपरिपूर्णाया, आधदशारूदेति
उत्तरोत्तरमापसाधनायोद्युक्ता अपि प्रथमभूमिकायां लब्धस्थि-
तय मुक्तकल्पा इति मनाङ्माण सम्पूर्णमुक्तयो न तु मुक्ताः॥१२॥

पाशानुद्भेदनाम पोडशं स्तोत्रम् ।
दुःखागमोऽपि भूयान्मे त्वद्भक्तिभरितात्मनः ।
तत्पराची विभो माभूदपि सौख्यपरम्परा ॥२०॥
दुःखामम इति । त्वत्पराची त्वत्पराङ्मुखी ॥ २० ॥
त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत्।
तदन्योन्याश्रयं युक्तं यथा वेत्थ त्वमेव तत् ॥२१॥
स्वमिति । यावन्न परमेश्वरः मीयते न तावद्भक्तिः यावच
समावेशामयी भक्तिः न तावत्परमेश्वरः प्रीयते, भक्तिमतश्चिदान-
न्दमयं वपुः प्रकटयति, तदेतदन्योन्याश्रयं यथा येन प्रकारेण
यथा युक्तं भवति तथा त्वमेव अतिदुर्घटकारिणः स्वातन्यादु-
भयं घटयसि न त्वत्र पुरुपयुक्तयः प्रभवन्ति ॥ २१ ॥
साकारो वा निराकारो वान्तर्वा वहिरेव वा ।
भक्तिमत्तात्मनां नाथ सर्वथाऽसि सुधामयः॥२२॥
साकारइति । भत्त्या मत्तः महृष्ट आत्मा येषां तेषा, सर्वन
त्वं मुधामयः ते हि सर्वात्मत्वेन पश्यन्ति ॥ २२॥
अस्मिन्नेव जगत्यन्तर्भवद्भक्तिमतः प्रति ।
हर्षः प्रकाशनफलमन्यदेव जगत्स्थितम् ॥२३॥
अस्मिनिति । सर्वजनातिघोरे तेन आपातमात्रे यद्यपि
भक्तिमतां लोकचदेव जगद्गाति तथाऽपि मृग्यमानमेतदेपा प्र-
काशानन्दयनमेव ॥ २३ ॥
गुह्ये भक्तिः परे भक्तिभक्तिविश्वमहेश्वरे ।
त्वयि शम्भो शिवे देव भक्ति मकिमप्यहो॥२४॥
गुह्ये इति । गुह्ये रहस्यम्ये, परे पूर्ण, अमाधारणनामोदीरणं
निरतिशयताख्यापनाय किमिससामान्यं यस्तु ॥ २४ ॥

+
शिवस्तोतापत्याम्
भक्तिभक्तिः परे भक्तिभक्तिर्नाम समुत्कटा।
तारं विरोधि यत्तीवा भक्तिर्मेऽस्तु परं त्वयि ॥२५॥
भक्तिरिति । वीप्सायामेव वैवश्यं प्रथयति, परं तीना धा-
रारूढा समुत्कटा अभ्यासाद्यनपेक्षं प्रदीप्तानिज्वालावज्झटित्यु-
लप्तन्ती, युक्तं चैतत् ॥ २५ ॥
यतोऽसि सर्वशोभानां प्रसवानिरीश यत् ।
त्वाय लग्नमनघं स्याद्रत्नं वा यदि वा तृणम् ॥२६॥
यतोऽसीति । असि त्वं यतः सर्वासां शोभानां दीप्तानाच
प्रसवभूः अतो लोकापेक्षया यद्न्नमिति जात्युत्कृष्टं तृणं वेसनुपा-
देयं वा, तत्त्वयि चेल्लनं समावेशेन सम्बद्धं, तदनर्यमेव भवति॥२६॥
आवेदकादाचवेद्यायेषां संवेदनाध्वनि ।
भवता न वियोगोऽस्ति ते जयन्तिभवज्जुषः॥२७॥
आवेदेति। संवेदनाध्वनि संविन्मये वेद्यवेदकक्षोभेऽपि येषां
त्वया न वियोग ते भवन्तं मीसा सेवमाना जयंति ॥ २७॥
संसारसदसो बाह्ये कैश्चित्त्वं परिरभ्यसे।
स्वामिन्परैस्तु तत्रैव ताम्यद्भिस्त्यक्तयन्त्रणैः॥२८॥
मंसारेति । संसारसदसो यादो संसारसभामुल्लष्य, नियत
एव पदे, कैश्चिदिति द्वादशान्तादिपदस्थैः निमीलनसमाधिपर-
योगिभि , परिरभ्यसे समालिङ्गयसे, परैरनुभावतो पुक्तितत्वज्ञ-
तयोन्मीलनसमाधानविदग्धैः, पुनस्तत्रैव संसारसभामध्ये एव
सक्तयन्त्रणः परिहतध्यानोच्चारकरणाद्यायासैः ताम्यद्भिर्गादा-
नुरागविवशेः गाढानुरागिणां हीदृश्येव स्थिति ॥२८॥

पाशानुछेदनाम पोडश स्तोत्रम् । १२५ पानाशनमसाधन- सम्भुक्तसमस्तविश्वया शिवया । प्रलयोत्सवसरभसया दृढमुपगूढं शिवं बन्दे ॥ २६ ॥ पानाशनेति । शिवया दृढमुपगूढ आश्लिष्टं, शिवं चिद्भरवं, वन्दे नौमि समाविशामीति यावतू, कीदृश्या पानाशनमसाधन- सम्भुक्तसमस्तविषया, पानेन रक्षणेन स्थिसा, अशनेन कब- लीकारात्मना संहारेण, मसाधनेन प्रकर्षेण सिद्धिसम्पदादिना सर्गेण च, सम्यक् भुक्तं पालितमभ्यवहृतं च, तथा समस्तं स- म्यक् क्षिसं विश्वं यया तुर्यरूपया श्रेयःस्वभावया शिवया अत एव प्रलयोत्सवेन संसृष्टिस्थितिसहाराणामपि संहरणात्मनाS: भ्युदयेन सरभसया सातिशयं स्फारयन्सा तथा पानेन सारा- हरणेन, अशनेन अवशिष्टशल्कमायवस्तुभक्षणेन, प्रसाधनेनैत- दवशिष्ट समस्त संस्कारशेषमपि विश्वं यथा अत एव विश्वस्य मलयोत्सवे सरभसया सत्वरया वाह्यक्रमेणापि तकादेः पानेन, मांसादेरशनेन, अस्थ्यादेः प्रसाधनेन भूपणताकरणेन, सम्भुक्तं स्योपयोगपात्रीकृतं, सम्यगस्तं चात्मन्येव क्षिप्तं समस्तं च पद- त्रिंशचत्वमयं विश्वं यया, प्रलयोत्सवे कल्पितसंहर्तृपदमलीनता- करणक्रीडायां सरभसया प्रोद्युक्तया अनुरणनशक्तयापि पान- चर्वणमण्डनै संभुक्तं सम्भोग्यता नीते, समस्त विभवरूपं विश्व यया सुन्दर्या सा लयोत्सवे उभयानन्दसमापत्त्यात्मनि सरमसा सती शक्तिमन्तमाश्लिप्यन्ती भवति ।। २१ ।। परमेश्वरता जयत्यपूर्वा तव विश्वेश यदीशितव्यशून्या ।

शिवस्तोत्रावल्याम् अपराऽपि तथैव ते ययेदं जगदाभाति यथा तथा न भाति ॥ ३० ॥ परमेश्वरेति । हे विश्वेश, तव अपूर्वा परमा प्रकृष्टा परम- शिवरूपा, ईश्वरता जयति यद्यस्मादियमीशितव्येन भिन्नेन ईश- नीयेन वस्तुना शून्या स्वात्मसात्कृताशेपविश्वत्वाद, अपराऽपि परमशिवापेक्षया स्थूलाऽपि सदाशिवेश्वररूपा तव सम्बन्धि नीश्वरता तथेवेति अपूर्वा जयति इसर्थः, ययेदं जगद्यथेति- नीलमुखादिदेहादिभेदेन आभाति तथा तेनैव मकारेण भासमान सद अहन्तामकायासमरसीभूतत्वादेवमात्मन्यसङ्कल्पा प्रकाशन स्यैव सन्समी जडाः प्रकाश एवास्ति स्वात्मन स्वपरात्मभिरिति- स्थिसा भातीसर्थः ॥ ३० ॥ इति शिवम् ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावली पाशानुद्भेदनामनि पोडशे स्तोत्रे श्रीक्षेमराज- विरचिता विति ॥

१२७
दिव्यकीड़ायाहुमाननाम सप्तदश स्तोत्रम् ।
ॐतत्सत्। अहो कोऽपिजयत्येप स्वादुपूजामहोत्सवः।
यतोऽमृतरसास्वादमश्रूण्यपि ददत्यलम् ॥ १ ॥
ॐ अहो इति । एप इसनुभवसाक्षिकः, स्वादुरानन्दमयः,
कोऽपीति समावेशास्मा पूजोत्सवो जयति यतः पूजामहोत्स-
वादणि वाष्पा अपि अमृतास्वादमलं ददति आनन्दप्रम-
वाचमत्कारमेव पुष्णन्ति ॥ १॥
व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः।
भक्तानां त्वन्मयाः सर्वे स्वयं सिद्धय एव ते ॥२॥
व्यापारा इति । ये त्वत्पूजोपक्रमव्यापारास्ते तावत्सिद्धिदाः।
भक्तानां तु साक्षात् एव सिद्धयः त्वन्मयत्वेन भकाशमानवाद ।।२।।
सर्वदा सर्वभावेषु युगपत्सपर्वरूपिणम् ।
त्वामर्चयन्त्यविश्रान्तं ये ममैतेऽधिदेवताः ॥३॥
सर्वदति ।युगपत्सर्वरूपिणम् अक्रमकोडीकृताशेपनिर्भर वा
सर्वकालं सर्वत्र ये अविश्रान्तं कृत्वा अर्चयन्ति ते मम अधिष्ठात-
देवरूपाः ॥ ३ ॥
ध्यानायासतिरस्कारसिद्धस्त्वत्स्पर्शनोत्सवः ।
पूजाविधिरिति ख्यातो भक्तानां स सदाऽस्तु मे ॥४॥
ध्यानायासेति । ध्यानमुच्चारकरणादीनप्युपलक्षपति तेन
तेनोच्चारकरणध्यानाधायासस्य तिरस्कारेण अपदस्तनेन यस्त-
स्पर्शनोत्सवः सिद्धो प्रयनासद्धः स एव भक्तानां पूजाविधिरिति
ख्यातः, यथोक्तम् "निर्विकल्पे महान्पोन्नि सा पूजा हादराष्ट-
यः" इति एप स एव पृजाविधिर्मम सदाऽस्तु ॥ ४ ॥

૨૨૬
शिवस्तोनावल्याम्
भक्तानां समतासारविषुवत्समयः सदा ।
त्वद्भावरसपीयूपरसेनैपां तदर्चनम् ॥ ५ ॥
भक्तानामिीत ! विपुवति पूजाकर्तव्यत्वेनाम्नाता सैव
विषुवत्समयः शिवैक्यप्रथात्मसमतासारभक्ताना सदैवास्ति,
तथा त्वद्भावनारस एव पीयूपरसः तेन सदैपामर्चनमस्ति ॥५॥
यस्यानारम्भपर्यन्तौ न च कालक्रमः प्रभो ।
पूजात्माऽसौ क्रियातस्याः कर्तारस्त्वज्जुपः परम६॥
यस्यानारम्भेति । न च कालक्रम इति मध्येऽपि क्रमवत्ता
नास्ति, असौ समावेशविश्रान्सात्मा क्रिया, तस्याश्च त्वज्जुपः
त्वत्समावेशतत्वज्ञा एव परं कारो नान्ये ॥६॥
ब्रह्मादीनामपीशास्ते ते च सौभाग्यभागिनः ।
येषां स्वप्नेऽपि मोहेऽपि स्थितस्त्वत्पूजनोत्सवः॥णा
ग्रह्मादीनामिति । नि सामान्यमहेश्वरसमावेशशालिवाह-
मादीनामपीश्वरा इति वस्त्वेवैतत् न त्वर्थवाद , सौभाग्य
भागिन इति आनन्दरसनिर्भरत्वात्सर्वस्पृहणीया, स्वमेऽपि
मोहेऽपीति न केवलं जाग्रति “यावत्स्वप्नसुपुतयोरिति” स्वर-
सोदितस्त्वत्स्पर्शनोत्सवस्त्वत्समावेशाभ्युदयः ॥ ७॥
जपतां जुह्वतां स्नातां ध्यायतां न च केवलम् ।
भक्तानां भवदभ्य महो वाऽवद्यदा तदा ॥८॥
जपतामिति ।जपध्यानादिपदे तावदीश्वरपूजापरा भवन्ति
भक्ता पुनः सदैव त्वत्पूजनोत्सवाविष्टाः ॥ ८ ॥
भवत्पूजासुधास्वादसम्भोगसुखिनः सदा ।
ब्रह्मादीनामथा ब्रहामख्यानामस्ति क समः॥९॥

दिव्यमीडाबहुमाननाम सप्तदश स्तोत्रम् ।
भवत्पूजेति । भवत्पूजैव सुबास्वादसम्भोगस्तेन यः मुखी
भक्तिमान् तस्य ब्रह्मादीनां मध्यात् कः समः न कश्चित् अत्र
युक्तिरुक्तैव ॥१॥
जगत्क्षोभैकजनके भवत्पूजामहोत्सवे ।
यत्प्राप्यं प्राप्यते किंचिद्रक्ता एव विदन्ति तत्॥१०॥
जगदिति । जगतः पत्रिंशत्तत्वमयस्य स्थूलसूक्ष्मादहस्य
सद्वारेण विश्वस्य क्षोभ विगलस्वरूपतया वैवश्यमेव जनयति
यो भवत्पूजामहोत्सवः तत्र यत्किश्चित्परमानन्दात्मकं पूर्ण स्वं
स्वरुपं पापणाहै भाप्यते तद्गता एच विदन्ति ॥१०॥
त्वद्वाम्नि चिन्मये स्थित्वा पत्रिंशत्तत्वकर्मभिः।
कायवाक्वित्तचेष्टाबैरर्चये त्वां सदा विभो ॥११॥
स्वद्धाम्नीति । घाम तेजः पत्रिंशत्तत्वानां कर्माणि काय-
पाक्चित्तचेष्टाख्यानि तैरित्थं प्रसभिज्ञातव्याप्तिकैरहं प्रभो त्वाम-
चये देहादिपत्रिंशत्तत्वमयं कठिनत्वद्रवत्वप्रकाशमानत्वादाग-
मेपु बहुपु प्रतिपादितं तथा त्रिशिर शास्त्रे "सर्वदेवमय: काय"
इत्युपक्रम्य “पृथिवीं कठिनत्वेन द्रवत्वेऽम्भः प्रकीर्तितम्" इसादि
"त्रिशिरो भैरव' साक्षाद्याप्य विश्व व्यवस्थितः" इसन्तमुप-
दिष्टम् ॥११॥
भवत्पूजामयासङ्गसम्भोगसुखिनो मम ।
प्रयातु कालः सकलोऽप्यनन्तोपीयदर्थये ॥१२॥
भवदिति । भवत्पूजामयो य आसनः तेन तत्परत्वेन यः
सम्भोगस्तेन मुखिनो नितस्य मे सकलो निरवशेषः अनन्तो
निरवधिः प्रयालिति इयदर्धये न त्वन्यत् ॥१२॥

शिवस्तोनावल्याम् भवत्पूजामृतरसा भोगलम्पटता विभो। विवर्धतामनुदिनं सदा च फलतां मम ।।१३॥ भवत्पूजेति । यावद्यावद्भवत्पूजामृतरससम्भोगो मया मा- प्यते तावत्तावदधिकमधिकं तत्र स्पृहणीयालुतामेव विवर्धता तदुत्कर्षसमासादनफलेन च सदा फलतु ॥ १३ ।। जगद्विलयसजातसुधैकरसनिर्भरे। त्वदव्धौ त्वां महात्मानमर्चनासीय सर्वदा॥१॥ जगदिति । जगतो विश्वस्य विलयन संहारेण जातो यः सुधामय एव रसः तेन निर्भरे परिपूर्णे त्वत्समुद्रे, त्वामेव महात्मनं विश्वव्यापकं सदा अर्चन् अहमासीय स्थयाम् ॥ १४ ॥ अशेषवासनाग्रन्थिविच्छेदसरलं सदा। मनो निवेद्यते भक्तैः स्वादुपूजाविधौ तव ॥३॥ अशेपेति । तव पूजाविधौ भक्तै स्वादु चमत्कारसारं, सदा मनो निवेद्यते त्वय्येवार्यते, कीहक् अशेपा वासनात्मानो ग्रन्थयो बन्धास्तपां विच्छेदेन विदलनेन सरलं स्पट सक्तकु- स्मृतिकौटिल्यम् ॥ १५॥ अधिष्ठायैव विषयानिमाः करणवृत्तयः भक्तानांप्रेषयन्ति त्वत्पूजार्थममृतासवम्॥१६॥ अधिष्ठायैवेति । इमा करणतयोपि चक्षुरादिदेच्या, विपयान रूपादीनधिष्ठायैव आक्रम्यैव, सृष्टिरक्षादिदेवतोदयक- मेण भक्तानां त्वत्पूजार्थमन्तरममृतासवं पयन्ति ।। १६ ।। भक्तानां भक्तिसंवेगमहोष्मविवशात्मनाम् । कोऽन्यो निर्वाणहेतुः स्यात्त्वत्पूजामृतमजनात्।।१७

दिव्य क्रीडाबहुमाननाम सप्तदशं स्तोत्रम्।
मक्तानामिति । भक्तिसंचेगमहोप्मा भक्त्युद्रिक्ततेजस्तेन विव-
शात्मनां प्रज्वलितात्मनां त्वत्पूजामृतमज्जनादन्यो निर्वाणहे-
तुर्न कश्चित् ॥ १७ ॥
सततं त्वत्पदाभ्यर्चासुधापानमहोत्सवः ।
त्वत्प्रसादैकसम्प्राप्तिहेतुर्मे नाथ कल्प्यताम् ॥१८॥
सततमिति । त्वत्पदार्चा पाग्यत् सदैव आनन्दव्याप्सिमद-
त्वात्सुधापानमहोत्मवः, कीटक त्वत्प्रसादस्य चिदानन्दात्मक-
वाव स्वरूपनैर्मल्यस्येकः सम्प्राप्तिहेतुर्यस्य स मे सततं कल्पता
घटताम् ॥ १८ ॥
अनुभूयासमीशान प्रतिकर्म क्षणाक्षणम् ।
भवत्पूजामृतापानमहास्वादमहामुदम् ॥ १६ ॥
अनुभूयति । प्रतिकर्म प्रतिव्यापारे, क्षणात क्षणं भूयो
भूयः, भवत्पूजामृतापानस्य सम्बन्धी मदमधानो दर्पप्रवल आ-
स्वादस्तदुत्यां महामुदं परमानन्दमनुभूयासम्, आमुदं मुदः पर्यन्ते
महती मुत् पूजास्वादस्य च ॥ १९ ॥
दृष्टार्थ एव भक्तानां भवत्पूजामहोयमः ।
तदैव यदसम्भाव्यं सुखमास्वादयन्ति ते ॥२०॥
दृष्टार्थ इति । प्राप्तव्यस्य प्राप्सत्वान्नैपामाकाक्षा फांच-
दस्ति यतस्ततो दृष्टार्थ एर, उत्पूजायां महानुद्यम तथा हि
तदैव पूजासमय एव, असम्भाव्यं मुखं परमानन्दं, ते भक्ता
आस्वादयन्ति ॥ २० ॥
यावन लब्धस्त्वत्पूजासुधास्वादमहोत्सवः ।
तापन्नास्वादितो मन्ये लवोऽपिसुखसम्पदः ॥२१॥

, १३२ शिवस्तोत्रायल्याम् यावदिति । लवोऽपीसत्रेदमाकूतं लौकिकमुखानि अमुखा. न्येव कृत्रिमत्वात् यस्त्वकृत्रिमः समावेशानन्दः सैच पारमार्थिकी मुखसम्पत् ॥ २१ ॥ भक्तानां विषयान्वेपाभासायासादिनैव सा । प्रयत्नसिद्धं त्वद्धामस्थितिः पूजासु जायते॥२२॥ भक्तानामिति । पूजामु समावेशकालेपु, ध्यानादियानं विना सिद्धं मस्फुरन्ती बद्धामनि स्थितिः सेति लोकोत्तरा भक्तानां जायते, कथं विपयाणा कुसुमधुपविलेपनादीनामन्वेपा- भासो मार्गणप्रतीति. स एवायासस्तं विनैव तद्विरहेणैत्यर्थ ॥२२॥ न प्राप्यमस्ति भक्तानां नाप्येषामस्ति दुर्लभम् । केवलं विचरन्त्येते भवत्पूजामदोन्मदाः ॥ २३ ॥ नेति । पूर्णशिवात्मकस्वस्वरूपलाभाद्भक्तानां प्रापणीयं दुर्लभं वा न किंचिदस्ति, भक्तयासवक्षीवाश्च केवलममयोज- नमेव विचरन्ति ॥ २३ ॥ अहो भक्तिभरोदारचेतसां वरदत्वयि । इलाध्यः पूजाविधिः कोऽपियो नयात्राकलंकितः२१ अहो इति । उदारचेतस्त्वं तत्वत एपामेव ये वरदमपि त्वां न किचन याचन्ते, कोऽपीसलौकिकः ।। २४ ॥ का न शोभा न को हादः का समृद्विर्नवापरा । कोवान मोक्षः कोऽप्येप महादेवो यदर्यते॥२५॥ का इति । कोऽपीति चिदात्मा महेश्वरो यदय॑ते सा शोभादीप्ति का न सईयर्थः, एसमन्यन्, को ा न मोक्ष इति साख्यौपणवशाक्तनाकुलपाशुपातादिमोक्षातिशायिनः परमान- न्दसारस्य विश्वपरिपूर्णतामयस्य मोक्षस्य राभाव ।। २५ ॥

दिव्यकोडाबहुमाननाम सप्तदशं स्तोत्रम् ।
१३३
अन्तरुल्लसदच्छाच्छभक्तिपीयूपपोपितम् ।
भवत्पूजोपयोगाय शरीरमिदमस्तु मे ॥ २६ ॥
अन्तरिति । अन्तः संवित्पदे उल्लसता अच्छाच्छेन बि-
श्वमतिविम्वक्षमेण भक्तिपीयूषेण समावेशामृतेन पोपितं पार-
देन ताम्रमिव कालिकाक्षपणेन दिदीप्यमानकल्याणमयीकृतं इदं
मम शरीरं भवत्पूजोपयोगायास्तु, समावेशरसं सिद्धपि त्वय्येव
चिदानन्दघने भविश्य चिलीयताम् ॥ २६ ॥
त्वत्पादपूजासम्भोगपरतत्रः सदा विभो।
भूयासं जगदीशान एकः स्वच्छन्दचेष्टितः ॥२७॥
त्वदिति । जगतां कालाग्न्यादिसदाशिवान्तानामीशः
स्वामी, स्वतन्त्रोऽहं त्वत्पादपूजालादपरतन्त्रः स्याम्, एतदेव हि
तदसाधारणं जगदैश्वर्यं स्वातन्त्र्यं च ये त्वत्पादसमावेशवैवश्यम्
अन्यपदं पारतंत्र्येऽपि निःसामान्यमैश्वर्यं स्वातन्त्र्यं चेसद्भुतर-
सध्वनिः ।। २७ ॥
त्वद्ध्यानदर्शनस्पर्शतृपि केपामपि प्रभो
जायते शीतलस्वादु भवत्पूजामहासरः॥२८॥
त्वद्धचानेति । परमेश्वरं चिदानन्दधनमपि पश्येयमपि स्पृ.
शेयमिति यत्वयाने दर्शनस्पर्शनतृटू तस्यां सत्यां केपासपीति
साक्षाचदनुगृहीतानां शीतलस्वादु भवत्पूजामहासरो जापते
सन्तापहारिसचमत्कारत्वदर्चा परिपूर्णः समुद्रो नव एवोत्पद्यत
इसर्थः ॥ २८ ॥
यथा त्वमेव जगतः पूजासम्भोगभाजनम् ।
तथैव भक्तिमानेव पूजासम्भोगभाजनम् ॥२१॥

शिस्तोत्रावल्याम् यथेति । जगतो विश्वस्य मध्यात्वमेव व्याख्यातरूपस्य पू. जासम्भोगस्य भाजनमाश्रयो यथा, हे ईश स्वामिन, तथा भक्ति- मानव समावेशशाल्येव तादृशः पूजासम्भोगस्य भाजनं निर्वर्तक इसर्थः ॥ २१ ॥ कोऽप्यसौ जयति स्वामिन्भवत्पूजामहोत्सवः । पत्रिंशतोऽपि तत्त्वानांक्षोभो यत्रोल्लसत्यलम्३० कोऽपीति।नीतिसमावेशशालीासाविति स्वामिन्नितीरितः, पत्रिंशतोऽपीति देहाश्रयाणां तद्वारेण तद्वाह्यानां तत्वानां लोभ इति, संविदग्निप्लोपवैषम्यम् ॥ ३० ॥ नमस्तेभ्यो विभो येषां भक्तिपीयूषवारिणा । पूज्यान्येव भवन्ति त्वत्पूजोपकरणान्यपि ॥३१॥ नमस्तेभ्य इति । खत्पूजार्थमुपकरणानि कुसुमादीनि, येपा भक्तिपीयूपवारिणा समावेशामृतरसेन, पूज्यानि भवन्ति त्वदा- प्लवनेन शिवतादिव्यक्तेः पूजार्हाणि जायन्ते, तेभ्यो नमः ॥३२॥ पूजारम्भे विभो ध्यात्वा मन्त्राधेयांत्वदात्मताम् । स्वात्मन्येव परेभक्ता मान्तिहर्षेण न कचित्॥३२॥ पूजेति । मन्त्रेण मननप्राणधर्मेण चिन्माहात्म्यमकर्पकेण आधातव्या शिमो भूत्वेति स्थिसा सम्पाद्या, त्वदात्मतां, पूजा- रम्भ ध्यात्वा चिन्तयित्वा मन्त्रोचिचारयिपात्मकपूजापवित्सा- यामेवायमेवोदयस्तस्येति नीसा भक्तिमकीछिपीभूय भक्ताः स्वात्मन्येव परे पूर्णरूपेण न मान्ति न वर्तन्ते ॥ ३२ ॥ राज्यलाभादिवोत्फुल्लैः कैश्चित्पूजामहोत्सवे । सुधासवेन सकला जगती संविभज्यते ॥३३॥ - दिध्यक्रीडाबहुमाननाम सप्तदर्श स्तोत्रम् । राज्यति । उत्फुल्लैरिति महाविकासयुक्त्या श्रीभैरवीय- मुद्रानुप्रविष्टैः सुधासबेनामृतपानेन, जगती समस्ता वेद्यवेदकभूः, संविभज्यते परिपूर्यते स्वानन्दमयीक्रियते, राज्यलाभोत्फुल्लेश्वो- सवे सर्वा भूः आसवन संविभज्यते इति स्पष्टम् ॥ ३३ ॥ पूजामृतापानमयो येषा भोगः प्रतिक्षणम् । किं देवा उत मुक्तास्ते किं वाकेप्येवतेजनाः॥३४॥ पूजेति । भोगश्चमत्कारः, प्रतिक्षणमित्रविच्छेदेन केप्येवे- ति स्तोत्रशतैरपि स्तोतुमशक्याः ॥ ३४ ॥ पूजोपकरणीभूतविश्वाशेन गौरवम् । अहो किमपि भक्तानां किमप्येव च लाघवम्॥३५॥ पूजेति, पूजायां यदुपकरणांभूतं परिकरीभृत, विश्व पत्रिंशत्तत्त्वरूपं शरीरं बाह्यं च तस्य य आवेशश्चिद्भूमावनुपर्व- शस्तेन, अत अहो आश्चर्य, किमप्यसामान्य भक्तानां गौरवं प्रभावितत्वम्, लाघवं च प्रयनेनैवाशेपस्वीकारित्वमथ च मायी- यभेदभारनित्तिः, गौरखे च कथं लापवामिति विरोध- च्छाया ॥३५॥ पूजामयाक्षविक्षेपक्षोभादेवामृतोदमः । भक्तानां क्षीरजलधिक्षोभादेव दिवौकसाम् ॥३६॥ पूजामयति । पूजामयानि विश्वस्य चिगीमविश्रान्तिदा- यीनि देवताचक्रोदयमयानि अक्षाणि इन्द्रियाणि तेपां विक्षेप: स्वविपयग्रहणपरत्वं स एव क्षोभी व्याकुलता तत एवाल्पयो- धापेक्षयाऽभिमतादपि भक्तानामामृतस्य महानन्दस्योगम उहागो ग्राहगाहकविरेऽपि भक्तानां चिदानन्दाभिपक्तिरे- शिवस्तोत्रायत्याम् सर्थः, तदुक्तम् ग्राह्यमहत्तावपि तत्स्वभाव " इति यथा देवानां क्षीरसमुद्रक्षोभादमृतस्य सुधाया उल्लासः अत्रापि पूजा- सबस्य पूज्यस्य नागराजात्मनः अक्षस्य नेत्रस्य यो विक्षेपः आकर्पापकर्पक्रमः स एव क्षोभ इति ॥ ३६॥ पूजां केचन मन्यन्ते धेनुं कामदुघामिव । सुधाधाराधिकरसां धयन्त्यन्तर्मुखाः परे ॥ ३७ ॥ पूजामिति । यथा कामधेनुरभीष्टं पूरयति तथा केचित्फल- काङ्क्षिणः पूजां मन्यन्ते निश्चिन्वन्ति, परे केचिदेव, सुधाधारा- धिकः अमृतधारातिशायी रसामसरो यस्यास्तां पूजामेव कायधे- नुमन्तर्मुखाः सन्तो, धयन्ति पिवन्ति सद्य एव चमत्कुंवन्ती- सर्थः॥ ३७॥ भक्तानामक्षविक्षेपोऽप्येष संसारसंमतः । उपनीय किमप्यन्तः पुष्णात्य महोत्सवम् ॥३८॥ भक्तानामिति । अक्षविक्षेपः इन्द्रियमसरो, लोके संसारत्वेन संमतः, किमपीसलौकिकमानन्दरूपम्, उपनीय मापय्य भक्तानां करणे श्रीचक्रप्रसरसमाविष्टानाम्, अर्चामहोत्सवं पूर्णस्वरूपवि- श्रान्ति पुष्णाति, तथा च ममैव "प्रज्ञामन्दरमक्तितासममहाभेदो- दधेरुद्धतान्यक्षक्षेपविवर्तनाभिरभितो दुग्धामृतान्यादरात् । व- श्चित्वा क विकल्पदैन्यविरहं भूतीरनास ये पायं पायमलं पिबन्ति जगति श्लाघ्यास्त एवामरा" इति ॥ ३८ ॥ भक्तिक्षोभवशादीश स्वात्मभूतेऽर्चनं त्वयि । चित्रं दैन्याय नो यावद्दीनतायाः परं फलम् ॥३९॥ भक्तीति । त्वयि स्वात्मभूते यद्भक्तिक्षोभसमावेशवैवश्याद- चनं तचित्रमाश्चर्य, दैन्याय न भवति न कांचिद्दीनतां फलति, दिव्यकोडाबहुमाननाम सप्तदशं स्तोत्रम् । अन्येपा होतदाकासामधानमेवं न केवलमे यावत्मत्युत दीन- तया लौकिक्याः स्पृहायाः परं पार्यन्तिकमानन्दरूपं विभवादि- फलस्यापि फलभूत परं च पूर्ण फलम् ॥ ३९ ॥ उपचारपदं पूजा केपांचित्त्वत्पदाप्तये । भक्तानां भवदैकात्म्यनिर्वृतिप्रसरस्तु सः ॥ ४० ॥ उपचारेति । केपांचिदिति भेदनिष्ठानां त्वत्पदाप्तये त्वदीय पदं प्राप्तमुपचारपदं क्रियाभूराराधनोपायमात्रमेव, भ- क्तानां तु भवदैकात्म्यरूपाया नितेः समसरो विकासः स इति विधेयापेक्ष पुंलिङ्गम् ॥ ४० ॥ अप्यसम्बद्धरूपाऽर्चा भक्त्युन्मादनिरर्गलैः । वितन्यमाना लभते प्रतिष्ठां त्वयि कामपि ॥४१॥ अपीति । पूजायां मनागपीति, कर्तव्यताऽन्यथाभावे प्रसवायः यः प्रक्रियाशास्त्रे युक्ता, आश्चर्य पुनरिदं भक्त्युन्मादेन समावेशवैवश्येन निरर्गलैः विस्मृतेतिकर्तव्यतानियमैरसम्ब- द्धरूपापि असमञ्जसाऽपि अर्चा, वितन्यमाना मसार्यमाणा, कामपीति क्रियानिष्ठैः सम्भावयितुमप्पशक्यामसामान्यांप्रतिष्ठा सम्यगाभिमुख्येनापस्थिति त्वपि लभते इसद्भुतध्वनिः॥ ॥४॥ स्वादुभक्तिरसास्वादस्तब्धीभूतमनश्च्युताम् । शम्भो त्वमेव ललितःपूजानां किल भाजनम्॥४२॥ स्वाद्विति । स्वादुश्चमत्कारसारो यो भक्तिरसस्तस्या- स्वादनन, स्तब्धीभूतं चलितचाथल्यं यन्मनस्ततश्च्युत च्यवनं प्रसरोयासां, पूजानां विश्वार्पणक्रियाणां, तासां ललितो हाचितस्त्वमेव चिदात्मा, शम्भो श्रेयोनिधे, भाजनमाश्रयः, . DE

शियस्तोप्रायत्याग
किलेति युक्ती एवदेव युज्यत इसर्थ , अन्यस्य ग्रामा दमयत्त्वे-
नेगर्चापानलाभागात् पृजानामिति बहुवचनं विचित्रविश्रान्ति-
सारतामथनाय ॥ ४० ॥
परिपूर्णानि शुद्धानि भक्तिमन्ति स्थिराणि च ।
भवत्पूजाविधो नाथ साधनानि भवन्तु मे ॥४३॥
परिपूर्णानीति । भरतश्चिन्नाथस्य, पूजानिधी अवश्यकार्या-
यामईयां,मम साधनानि चक्षुरादीनि अतएर चिन्मरीचिमयत्या-
हुदानि, भक्तिमन्ति विश्वार्पणेन वत्सेरापराणि, कदाचिदपि
पाशववासनाऽस्पृष्टत्वात् स्थिराणि निसपीदृश्येव भवन्तु ॥४३॥
अशेपपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो।
अहो करणवृन्दस्य काऽपि लक्ष्मीविजृम्भते ॥४४॥
अशेपेति । इमामेव दशां विमृशन्नाह, शक्तीनामुम्लासम-
सरादिप्रभवशीलमभो, अशेपाणा पृजानां विचित्राणां सत्कोशे
शोभनगजरूपे, सत्पूजाकर्मणि पूर्णाचदानन्दघनश्रीमन्नाथभैर-
वस्वरूपानश्रान्ती, करणन्दस्य रश्मिचक्रस्य, अहो, काऽपि
स्वसंवित्साक्षिका, लक्ष्मीः दीसिविजृम्भते स्फुरतीति, महार्थपरि-
पूर्णस्यास्य सारोपदेशवीणि इमानि मूक्तान्युल्लसन्ति ॥४४॥
एपा पेशलिमा नाथ तवैव किल दृश्यते ।
विश्वेश्वरोऽपि भृत्यैर्यदय॑से यश्च लभ्यते ॥४५॥
एपा इति । तान्येचाह, पेशलिमा सरलता, तवैवेति चिघ
नत्वेन सर्वेपामात्मनो, विश्वेश्वरत्वेऽपि सदाशिवादीनामपि
स्वामी, अWसे समाविश्यसे लभ्यसे निरर्गलमात्मीक्रियसै ॥४५॥
सदा मूर्तादमूर्तावा भावाद्यद्वाप्यभावतः ।
उत्थेयान्मे प्रशस्तस्य भवत्पूजामहोत्सवः ॥४६॥

१
दिव्यक्रीडाबहुमानमाम सप्तदशं स्तोत्रम् । १३६
सदेति । मूर्ती भावो घटादिः अमूर्न सुखादिः मूर्ती भावो
घटस्य कपालानि अभावो विकल्पकल्पितमसज्यप्रतिपेधात्मा तत,
उत्थयादिति समस्तं भावाभावपदमधरीरूस उन्मज्ज्यामित्यर्थः,
भवत्पूजामहोत्सवस्त्वद्विश्रान्त्युदयः, भावादिसादिका ल्यब्लोपे
पश्चमी ॥ ४६॥
कामक्रोधाभिमानस्त्वामुपहारीकृतैः सदा ।
येऽर्चयन्ति नमस्तेभ्यस्तेषां तुष्टोऽसि तत्त्वतः॥४७॥
कामक्रोधोते । सर्वचित्तवृत्तीनां कामादिभिः स्वीकारात्ते-
पामेवोपादानमुपहारीकृतैविचार्य त्वय्येवापितैः, तत्वतस्तुष्टोऽसि
"होमर्पभयक्रोधैर्मुक्तो यः स च मे मियः" इसभिधानात्
ननु च श्रीमन्महार्थसारोक्तिमये स्वकृतस्तोत्रेऽयं श्लोको
दद्रुस्थानीयः ससम् अशेषवासनाग्रन्थीसादिकस्यापि स्मर्तव्यं
लोकवद्भवत्तमे निजनिजेपु अस्मिन्नेव जगात आवेदकत्पा-
नाशनसमुल्लास न कापि गत्वेऽत्यादयस्वनुगुणा अप्यत्र श्लाका
न सन्ति उदयमसमक्षसशय्याप्रस्तारिण विश्वावर्तस्यैव प्रसादः,
एवमन्येवीप स्तोत्रप्वेवंपाय बहुरचितमस्ति न त्वस्माभिनोंघा-
टितमिसलम् सूक्तान्येवानुसरामः ॥ ४७ ॥
जयत्येप भवद्भक्तिभाजां पूजाविधिः परः ।
यस्तृणैः क्रियमाणोऽपि रत्नैरेवोपकल्पते ॥४८॥
जयतीति । अपिभिन्नमस्तेन तृणैरापे क्रियमाणः यो
रबैरेवोपकल्पते पूर्णविश्रान्तिप्रदो भवति, स भगवद्भक्तिभाजां
त्वत्समावेशेन शालिना, परः पूर्णः, पूजाधिर्नयतीति शिवम्॥४८॥
इति श्रीमीश्वरप्रत्यभिज्ञाकारोत्पलदेवाचार्यविरचितम्तदशस्तोत्र
परमश्वरस्तोगावलो दिव्यक्रीडाबहुमाननामनि
श्रीक्षेमराजविरचिता वितिः ॥ १७ ॥

. १४० शिवस्तोत्राचल्याम ॐ तत्सत् । जगतोन्तरतो भवन्तमाप्त्वा पुनरेतद्भवतोन्तराल्लभन्ते । जगदीश तवैव भक्तिभाजो न हि तेपामिह दूरतोऽस्ति किंचित् ॥१॥ ॐ जगत इति । हे जगदीश ये तवैव चिद्रूपस्य स्वात्मनो, भक्तिभाजस्ते जगतो विश्वस्यान्तरतो मध्यात, भवन्तमाप्त्वा प्रकाशमानव्यवहारपदादेव प्रकाशरूपं त्वां लब्ध्वा, पुनरस्य ते जगद्वतश्चिद्रूपस्यान्तरतो मध्याल्लभन्ते, यस्मात्तेषां भक्ति- भाजां सम्यक् प्रसभिज्ञातविश्वात्मकत्वत्स्वरूपाणामिह जगति दरे न किंचिदिति सर्वस्य स्वागकल्पत्वेन स्फुरणात, तदु- तम् “यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।" इसादि गीताम् ॥ १॥ क्वचिदेव भवान्कचिद्भवानी सकलार्थक्रमगर्भिणी प्रधाना । परमार्थपदे तु नैव देव्या भवतो नापि जगत्रयस्य भेदः ॥ २॥ कचिदिति । मुक्तौ कचिदिति, तदुपायतायां भोगे च भवानी परा शक्तिः, सकलः कालादिक्षिसन्तः, अर्थक्रमः प्रमेय- राशिनर्भेऽन्तः, शिम्धिकावीजवत्संस्पृष्टी यस्याः परमार्थपदे गलितकल्पनायां तात्विक्या दृष्टी पुनः जगत्रयस्यापि भवाति- भवामयात्मनः त्वचो भेदो नास्ति किं पुनः शक्तः ॥२॥ 'नो जानते सुभगमप्यवलेवपन्तो लोकाः प्रयत्नसुभगा निखिला हि भावाः ।

१४१ आविष्कारनाम अष्टादशं स्तोत्रम् । चेतः पुनर्यदिदमुद्यतमप्यवैति नैवात्मरूपमिह हा तदहो हतोऽस्मि ॥३॥ नो जानत इति । लोकास्तायदवलेपरन्त सन्तः, सुभगमपि चिदात्मकं रूपं भावानां न जानन्ति, यतः प्रयनने सर्वथा नि- श्चयेन, सुभगा उत्कृष्टा एव, निखिलाः सर्वे, भावाः प्रकाशमान- खेन चिन्मयत्वात्पुनरास्ता भावस्वरूपज्ञानं आश्चर्यमात्मनोऽपि रूपमुद्यतमपि चेतो यत्रैवावैति समावेशधारारुरुक्षारणकाक्रान्त- मपि यश्चिदैकात्म्यं न लभते तत् हतोऽस्मि इति जगति समावेश- भकर्पमलभमानस्य ताम्यत इयमुक्तिः ॥ ३ ॥ भवन्मयस्वात्मनिवासलब्ध- सम्पद्राभ्यर्चितयुष्मदधिः । न भोजनाच्छादनमप्यजस्त्र- मपेक्षते यस्तमहं नमामि ॥ ४ ॥ भवन्निति । भवान् चिद्रूपः प्रकृतं रूपं यस्य तथाभूते स्वा त्मनि निवासेन विश्रान्सा लब्धेन सम्परेण परमानन्दभूति- प्रसरेणाभ्यांचती गादमभेदेनावष्टब्धी युप्मदघी येन तथा भूतो- ऽजस्त्रं यो भोजनाच्छादनमपि नापेक्षते अनन्यद्वातद्वति स्थिसा व्यवहारानपेक्ष पूजापर एव तमहं नौमि ॥ ४॥ सदा भवद्देहनिवासस्वस्थो- प्यन्तः परं दह्यत एप लोकः । तवेच्छया तस्कुरु मे यथाऽत्र त्वदर्चनानन्दमयो भवेयम्॥ ५॥ सदति । सदा भवदीये देहे उपचिते स्वम्पैति यसनेन वस्तुत स्वस्थ , आनन्दमयोप्येप लोकः, तरेच्या भेदमवाहरू-

१४२
शिवस्तोत्रावल्याम्
-
पया त्वन्मय्या शक्या, अतः परमतिशयेन, दह्यते तदुःखैरायास्यत
यत एवं यस्मात्तवेन्छयाऽनुजिवृक्षयाऽत्र कल्पिते विपये, वं मे
भक्तस्य, तदिति तथा कुरु यथाऽहं सदर्चनानन्दमयः स्यामा॥५॥
स्वरसोदितयुष्मदाजपद्म-
दयपूजामृतपानमुक्तचित्तः ।
सकलार्थचयेप्वहं भवेयं
सुखसंस्पर्शनमात्रलोकयात्रः ॥ ६ ॥
स्वरसेति । स्वरसेनामयनमेवोदिता या युप्मदाधिपूजा
त्वत्ममावेशसम्पत्सवामृतपानं तत्र मक्कचित्तो विश्रान्तिमानसः,
सकलेषु हेयोपादेयायभिमतेपु अर्थचयेपु व्यवहारेषु, अहं मुख-
स्यर्शनमात्रलोकयात्रो भवेयं स्वानन्दोडाससारजगद्व्यवहारः
स्याम् ॥६॥
सकलव्यवहारगोचरे
स्फुटमन्तः स्फुरति त्वयि प्रभो।
उपयान्यपयान्ति चानिशम्
मम वस्तूनि विभान्तु सर्वदा ॥ ७ ॥
सकलति । सर्वदा सदाऽनिशं निविराम, व्यवहारविपय-
स्यान्तर्मम त्वाय चिद्रूपे, स्फुटं स्फुरति सति सर्वाणि वस्तुनि
उपयान्त्यपयान्ति, च सृज्यमाणानि संहियमाणानि च, स्फुरन्तु
स्वदाविष्टोऽहं सदा भावसर्गसंहारकृत्स्यामित्यर्थः, उपयान्स-
पयान्ति चेति पाठे आगच्छन्तोऽपि दर्षणप्रतिबिम्बवाद्विलीय-
माना एव न त्ववस्थिति मनागपि भजमाना भान्तु इति व्या-
ख्येयं च एवार्थे उद्यन्तो विनश्यन्तश्च लोकवद्यथा भान्ति तथा
भान्विति वा योज्यम् ॥ ७ ॥

आविष्कारनाम अष्टादश स्तोत्रम् । :१४३ सततमेव तवैव पुरेऽथवाऽ- प्यरहितो विचरेयमहं त्वया । क्षणलवोप्यथ मा स भवेत् स्म मे न विजये ननु यत्र भवन्मयः ॥ ८॥ सतत्तमिति । तवैव सम्बन्धिनि पुरे पूरके शान्ते पदे, विचरेयं शाक्तसमावेशशाली स्याम्, अथवा त्वया विरहित हात शाम्भवसमावेशमयः अथवा भवन्मय इति, त्वद्रूपो विमुक्तस्व- भावो, यत्र न विजये न सर्वोत्कर्पण वर्ते, स क्षणलवोऽपि मे मा भीदत्युत्तरोत्तरसातिशयदशाशंसापरमेतव, ननु वितर्के॥८॥ भवदङ्गपरिस्रवत्सुशीता- मृतपूरैर्भरिते समन्ततोऽपि । भवदर्चनसम्पदेह भक्ता- स्तव संसारसरोन्तरे चरन्ति ॥६॥ भवदिति । तव भक्ताः भवदर्चनसम्पदा त्वद्विश्रान्तिसम्प- दोपलक्षिता, इह संसारसरसो भवसमुद्रस्यान्तरे मध्ये, चरन्ति च्यवहरन्ति, कीशि भवदीयात्परशक्तिरूपादनात्परितः सम- न्तात्स्रवद्भिः सुष्टु शीतलैः दुःखानलतापोपशान्तिदैरमृतपूरैरा- नन्दोल्लास समन्ताद्गारते पूरिते इति यावत् ॥ ९ ॥ महामन्त्रतरुच्छायाशीतले त्वन्महावने । निजात्मनि सदा नाथ वसेयं तव पूजकः॥१०॥ महामन्त्रोत । महामन्त्रः परवायूपः शुद्धाऽहंविमर्श एव शक्तिशाखाशतः अस्तत्वातस्तस्य छायया कान्त्या शीतले १४४ शिवस्तोत्रायत्याम भेदसन्तापहारिणि, वन्महावने लमेर चिदानन्दात्मा महावन विपुलं विश्रान्तिस्थानं तन, निजात्मनि स्वस्वभावे, नाथ सदा तव पूजकः सद_परो, बसेयं स्थिति बनायाम् ॥ १०॥ प्रतिवस्तु समस्तजीवतः प्रतिभासि प्रतिभामयो यथा । मम नाथ तथा पुरः प्रथा ब्रज नेत्रत्रयशूलशोभितः॥ ११ ॥ पतिवस्त्विति । प्रतिवस्तु प्रतिभावं, समस्तजीवतः सर्वेषां जीवानामसि,त्वं यथा प्रतिभापयः सविद्रूप, नीलादिग्रहणान्य- थानुपपत्या प्रतिभासि अमत्यभिज्ञातोऽपि वस्तुतः स्फुरास, तथा मम दामस्य, नाथ पुरोऽग्रे सर्वत्र, नेत्रत्रयेण शूलेन च शोभित निरतिशयासाधारणाभिज्ञानेन सम्यक् प्रत्यभिज्ञातः सन्, प्रथां व्रज प्रकटीभव समावेशेन स्फुरत्यर्थ , नेत्रत्रयशूले असाधारणाभिज्ञानोपलक्षणपरे न पुनरनाकारे भरःसमस्तजी- घत इति योगे शम् ॥ ११ ॥ अभिमानचरूपहारतो समताभक्तिभरण कल्पितात् । परितोपगतः कदा भवा- न्मम सर्वत्र भवेशः पदम् ॥१२॥ अभिमानेति । अभिमानोऽहड्तार एव चरु स्थालीपाकस्त- स्योपहारो भगवत्यर्पण पराभावग्रहण तत, कीदृशान्मम महे- वरः स्वामी अस्तीत्येवं, समतामधान यो भक्तिरसः सेवाम- सरस्तेन कल्पितात्सम्पादितात्परितोपं गत प्रसन्ना सन्, भवा- + + आविष्कारनाम मष्टादशं स्तोत्रम् । न्कदा सर्वत्र मम दृशो दर्शनस्य, पदं विश्रान्तिभूर्भवेद, गलिते देहायभिमाने त्वन्मयमेव विश्वं साक्षात्कुर्यामित्यर्थः ॥ १२ ॥ निवसन्परमामृताब्धिमध्ये भवदर्चाविधिमात्रमग्नचित्तः । सकलं जनवृत्तमाचरेयं रसयन्सर्वत एव किंचनापि ॥ १३ ॥ निवसन्नित्ति । अहं भवदर्चन विधिमात्रे मनचिचः आसक्तः सन्, परमामृताब्धिमध्ये चिदानन्दसमुद्रस्यान्तर्वसन, सकलं जनहत्तं लोकचेष्टितमाचरेयं, कीटक सर्वतः सर्वस्यैव मध्यावं, किचनापि अलौकिकमानन्दस्वरूपमभीष्टे रसयन् ।। १३ ।। भवदीयमिहास्तु वस्तुतत्वं विवरीतुं क इवान पात्रमर्थे । इदमेव हि नामरूपचेष्टा- यसमन्ते हरते हरोऽसि यस्मात् ॥१४॥ भवदीयमिति । इह जगति, यावत्किंचिद्वस्तु तत्सर्वं भवदीयं त्वद्रिभृतिरूपमिति, एतदोमिसेवास्तु, अत्रार्थतत्वं विवरीतुं क इव भक्तिमान् पानं न कश्चिद, यत्तो यावद्वयं एतद्विचारयितुं प्रक्रमा- महे तावद्यदुपक्रमविचारतत्त्वदीयमिदमेवासामान्यमनुभवसिद्धं नामरूपचेष्टादि महेश्वर इसादि नामाचघन रूपं सर्वसाष्टसंहार- कारिणी चेदादिग्रहणात्सर्वज्ञता स्वतन्नादिरूपस्तत्मथममेव स्फुरद तद्धरते समावेशवकल्पापादनेन विस्मृतव्यापारानस्मा- सम्पादयति, युक्तं चैतत् यतस्त्वं हरतीति हर इसन्वर्धनान्ना १ ।

शिपस्तोत्रापरणाम शान्तये न सुखलिप्सुता मना- ग्भक्तिसम्भृतमदेपु तैः प्रभो । मोक्षमार्गणफलाऽपि नाना स्मयते हृदयहारिणः पुरः ॥ १५ ॥ शान्तय इति। भत्त्या सम्भृतो मदो यत्र ते त्वदासेपु पिपये, मान्तये दुःखनिटत्तये, या सुसलिगुता भोगस्पृहा, सा मनागाप नास्ति, भक्तिसम्भूतमदत्वादेव, तैश्च पुर' प्रभो इति साक्षात्कृत- स्याग्रे, मोक्षमार्गणफलाप्पर्धना न स्मर्यते, कीदृशमभो हदयहा- रिणः मायाममातृतां शमयतः, अत एव येपा हदयमेव हतं ते फपमन्पत्स्मरेयुरियेपां समावेशपरतेवोक्ता ॥ १५ ॥ जागरेतरदशाथवा परा याऽपि काचन मनागवस्थितेः । भक्तिभाजनजनस्य साखिला स्वत्सनाथमनसो महोत्सवः ॥ १६॥ जागरेति । अपस्थितेर्जगद्वयवस्थाया सम्बन्धिनी या काचिद जागरस्वमसुपुप्तदशा,मनागिति सङ्कचिताऽपि,सा सर्वा, भक्तिमतस्त्वत्सनायमनसः वदधिष्ठितचित्तस्य, महोत्सवो महाभ्युदया, वत्सनायत्वादेव ।। १६ ।। श्रामनोऽक्षवलयस्य वृत्तय- स्सर्वतः शिथिलवृत्तयोऽपि ताः । त्वामवाप्य दृढ़दीर्घसंविदो नाथ भक्तिधनसोप्मणां कथम् ॥१७ ।।

+
माविष्कारनाम मष्टादर्श स्तोत्रम् ।
आमन इति। हे नाथ, आमनो मनापर्यन्तं, अक्षवलयस्येन्द्रि-
यग्रामस्य, वृत्तयो व्यापाराः, सर्वत्र शिथिलहत्तयश्चञ्चला आप
यास्ताः, भक्तिधनेन सोप्मणामूर्जस्विनां, स्वां चिद्रूपं,माप्य,दृढा
अशिथिलाः दीर्घाश्च त्वदैकात्म्येन त्वद्वदेवावस्थामवः शुद्धबोध-
रूपाः, कथमिति स्वात्मन्येवास्य विस्मयः ।। १७ ।।
न च विभिन्नमसृज्यत किञ्चिद-
स्त्यथ सुखेतरदत्र न निर्मितम् ।
अथ च दुःखिच भेदि च सर्वथा-
ऽप्यसमविस्मयधाम नमोऽस्तु ते ॥ १८ ॥
न चेति । आदिसर्गादी त्वया न च नैव, किंचिद्भिनम् अस्-
ज्यत सृष्टं नाप्यस्ति, स्वत्तो विभिन्नं किंचिद, अथशब्दोऽप्यर्थे,
सर्वस्य चेत्यमानत्वेन चिन्मयत्वाइँदासम्भव', अथ च सुखे-
तरदु.खरूपं न किंचिनिर्मितम् उक्तादेव हेतोः, किंचिच्छब्दस्त्रि-
योज्यः, अथ चैवं सर्वथैव दुःखि च भिन्नं चापिरेव शब्दार्थः,
त्वदैकात्म्याप्रत्यभिज्ञानाचैर, एवमसमरिस्मयधाम असामान्या-
श्चर्यभूमे, ते तुभ्यं, नमोऽस्तु ॥ १८ ॥
खरनिपेघखदामृतपूरणो-
छलितधौतविकल्पमलस्य मे।
दलितदुर्जयसंशयवैरिण-
स्त्वदवलोकनमस्तु निरन्तरम् ॥ १९ ॥
खरेति । खरा विषया या निपेघखदा त्वदरूयातिदरी तस्या
अमृतेन सदद्वयपीयूपेण यत्पूरणं तेनोच्छलितमुत्प्लावितमत
एव धीतं विकल्पमलं यस्य तस्य, तथा दलितर्णितो दुर्जयः
संशय एवं वैरी रिपुर्येन तादृशः, सतो मम, त्वदवलोकनं चिघ-
नत्तदात्मस्फुरणं, निरंतरं घनमस्तु ॥ १९ ॥

१४८ शिवस्तोत्रायल्याम स्फुटमाविश मामथाविशेयं सततं नाथ भवन्तमस्मि यस्मात् । रभसेन वपुस्तवैव साक्षा- त्परमासत्तिगतःसमर्चयेयम् ॥ २० ॥ स्फुटमिति । हे नाथ, त्वं तावत्स्फुटं प्रकटं कृत्वा न तु गूहि- तत्वेन, समाविश, अथानन्तरमेवंविधे त्वयि सति, उपजातसाम- योऽस्मि अहं भवन्तं सततमावेशयं गाढावष्टम्भेन स्वीकरोम्पे- वेति नियोगे लिड्, यस्मादिति एवं सति, परमासत्तिगतोऽति- निकट माप्तस्तवैव, रभसेन त्वरया, साक्षादपुस्तात्विकं स्वरूप, सम्यगर्चयेयं समाविशेयमिति यावत् ॥ २० ॥ त्वयि न स्तुतिशक्तिरस्ति कस्या- प्यथवाऽस्त्येव यतोति सुन्दरोऽसि । सततं पुनरर्थितं ममैत- द्यदविश्रान्ति विलोकयेयमाशम् ॥ २१ ॥ त्वयीति । कस्यापीति, ब्रह्मोपेन्द्ररुद्रादेपि भेदमयत्वेन चिदूधनपरमेश्वररूपामत्यभिज्ञानात्, अतिमुन्दर इति, चिदा- नन्दघनस्वात्मरूपत्वादतिस्पृहणीयो हृदयहारी, अतो यस्त्वा- मात्मानं प्रत्यभिजानाति, तस्य कस्याप्यसामान्यस्य, त्वयि स्तु- तिशक्तिरस्त्येव, कस्यापीत्यावर्त्य योज्यं, मम पुनः स्तोतुस्स- ततमेतदर्थितं वाञ्छितं, यदविश्रान्ति निर्विरामं, त्वामीशं समवलोकयेयम् साक्षात्कुर्यामिति शिवम् ॥ २१ ॥ इति श्रीमदुत्पलदेवाचार्यविरचिती स्तोत्रावलौ आविष्पारनाम्न्यष्टादशे स्तोत्रे श्रीराजानकक्षेमराजविरचिता निमृति ॥१८॥ "

उद्योतनाभिधानमेकोनविंशं स्तोत्रम् ।
ॐ प्रार्थनाभूमिकातीतविचित्रफलदायकः ।
जयत्यपूर्ववृत्तान्तः शिवः सङ्कल्पपादपः ॥१॥
प्रार्थनेति । सङ्कल्पतर्वाञ्छितमेव ददाति शिवस्तु
प्रार्थयितुमशक्यमपीत्यपूर्ववृत्तान्तः ॥ १॥
सर्ववस्तुनिचयैकनिधाना-
स्वात्मनस्त्वदखिलं किल लभ्यम् ।
अस्य में पुनरसौ निज अात्मा
न त्वमेव घटसे परमास्ताम् ॥ २ ॥
सर्ववस्त्विति । स्वदिति, त्वत्तः स्वात्मनः सर्वार्थैकाश्र-
यात्किल विश्वं लभ्यम् अस्येति, सदा स्वरूपनिमालनप्रवणस्य
मम पुनः परं लभ्यमास्तां, त्वमेव निज आत्मा स्वं स्वरूपं न
घटसे व्युत्थानसमये न मकाशसे इति यावत् ।। २ ॥
ज्ञानकर्ममयचिद्वपुरात्मा
सर्वथैप परमेश्वर एव ।
स्याहपुस्तु निखिलेषु पदार्थ-
प्येषु नाम न भवेत् किमुतान्यत् ॥ ३ ॥
ज्ञानकर्मेति । सर्ववस्तुपु चिद्वपुर्ज्ञानक्रियात्मा परमेश्वर
आत्मैव सर्वेण प्रकारेण त्वधिष्ठानेन वपु स्वरूपं स्यादस्तीति
सम्भाव्यते, एप इति स्फुरदूप., ननु विचित्रकार्यकरणानां ना-
नादेशस्वरूपाणां कथमेकेश्वरात्मता सम्भाव्यते इत्याह एप
वस्तुपु अन्यथा पुनर्नामैव सज्ञैव न भवेद, किमुतान्यत्कार्यका-
रणस्वरूपादिकं प्रकाशमयत्वं विना कस्याप्यसिद्धेरन्यथा
इत्पध्याहार्यम् ॥ ३॥

१५० शिवस्तोत्रावल्याम् विपमातिमुपाऽनेन फलेन त्वगात्मना । अभिलीय पथा नाथ ममास्तु त्वन्मयी गतिः॥४॥ विपमेति । विपमाति संसारतापं मुष्णाति यस्त्वदृगात्मा त्वत्साक्षात्काररूपः पन्था तेन, मे अभिलीय, फलेन फलतः, त्वन्मयी त्वदेकरूपा, गतिः प्राप्तिरस्तु, भुत्का देवदत्तगमनमिति व, अभिलीयेत्पत्र कामत्यये योजीयत्वा परतोऽस्त्विति योज्यम् अभिलीलेति पाठे अभिलीलस्फुरचिदानन्दविलासेति व्याकर्तव्यम् ॥४॥ भवदमलचरणचिन्तारत्नलता- ऽलङ्घन्ता कदा सिद्धिः। सिद्भजनमानसानां विस्मयजननी घटेत मम भवतः॥५॥ भवदिति । भवतोऽमलाः शुद्धा ये चरणाः ज्ञानक्रियादि- मरीचयस्तेपु चिन्ता पुनः पुननिभालनं सैव सर्वसम्पत्मदत्वा- द्रबलता, अलङ्कता सम्पाप्ततत्तदनेकशम्शोभा, कदा मम पूर्णा सिद्धिर्घटेत भवतः सकाशाकीदृशी सिद्धजनमानसानां योगि- चित्तानां विस्मयजननी ॥ ५ ॥ कहि नाथ विमलं मुखविम्वं तावकं समवलोकयितास्मि । यस्रवत्यमृतपूरमपूर्व यो निमजयति विश्वमशेषम् ॥६॥ कहाँति । व्युत्थानावस्थितस्येयमुक्तिः, काई नाथ विमलं मुखविम्ब परं शान्तरूपं, तब समवलोकायितास्मि साक्षात्कार-

"
उद्योतनाभिधानकोनषिश स्तोत्रम् ।
प्यामि, अमृतपूरमानन्दप्रसरमपूर्वमलौकिकं लोकयितृलोक्य-
रूपं विश्वं निमज्जयति ॥६॥
ध्यातमात्रमुदितं तव रूपं
कर्हि नाथ परमामृतपूरैः।
पूरयेत्त्वदविभेद विमोक्षा-
ख्यातिदूरविवराणि सदा मे ॥७॥
थ्यातमात्रमिति । त्वदविभेद एव मोक्षः भेदवन्धापगमः
तस्याख्यातिरमथा तदीयानि दूराणि विवराणि गहनान्या-
काङ्क्षामयानि गर्तानि, कर्हि कदा, मे ध्यातमात्रमुदितं चिन्त-
नानन्तरमेव विकसितं, तत्तव सम्वन्धि रूपं कर्तृ, सदा परमा-
मृतपूरैरानन्दविसरैः, पूरयेदाप्लावयेत् ॥ ७ ॥
त्वदीयानुत्तररसासनसन्त्यक्तचापलम् ।
नाद्यापि में मनोनाथकर्हि स्यादस्तुशीघ्रतः॥८॥
त्वदीयेति । त्वदीयोऽनुत्तरी रसः परचित्मसरः तदासङ्गः
तत्परत्वं तेनापि सन्त्यक्तचापलं गलितव्युत्थानम्, अद्यापीति
असकृदास्वादितेऽपि समावेशे, कर्हि शीघं स्यादित्यादि
गाढोत्कण्ठापरत्वं सूचयति ॥ ८ ॥
मा शुष्ककटुकान्येव परं सर्वाणि सर्वदा ।
तवोपहत्यं लब्धानि द्वन्द्वान्यप्यापतन्तु मे ॥९॥
मेति । तवोपहत्य लब्धानि चिन्मयत्वेन त्वय्यनुमविश्य
व्युत्थाने समावेशसंस्काररसास्वादान्यासादितानि, परं सर्व-
कालं, सर्वाणि इन्द्राने शीतोष्णादीन्यपि, आपतन्तु, शुष्कक-
टुकान्येव पुनस्त्वदद्वयस्पर्शामृतपूर्णत्वादृशदुःस्वादमायाणि॥९॥

शिवस्तोत्राचल्याम् नाथ साम्मुख्यमायान्तु विशुद्धास्तव रश्मयः । यावत्कायमनस्तापतमोभिः परिलुप्यताम् ॥१०॥ नाथेति । सांमुख्यमायान्तु देहादिमयां निमज्य प्रस्फु- रन्तु, शुद्धा अनुग्रहपरा, रश्मयः शक्तयः कायमनस्तापतमोभि- रिति कायमनस्तापा एव तमांसि तैः, परिलुप्यतां समन्तान- श्यताम् ॥ १०॥ देव प्रसाद यावन्मे त्वन्मार्गपरिपन्थिकाः। परमार्थमुपो वश्या भवेयुर्गुणतस्कराः ॥११॥ देवेति । प्रसादः माग्वत्, त्वन्मार्गपरिपन्थिकाः परमार्थ- शाक्तभूमिमवेशरोधिनः, अत एच परमार्थं चिदभेदं मुष्णन्त्य- पहरन्त्यनुपंभोग्यं सम्पादयन्ति ये, गुणाः सत्वादय एव तस्क- राः ते, वश्या भूयासुः, तदुक्तम् "गुणादिस्यन्दनिप्पन्दाः स्यु- स्यापरिपन्धिनः" इति मसीद, भूपासुरिति लोड्लिटने सम्भूप आशीविशिष्टां प्रार्थनां गमयतः, यथा लुनीहीत्यादी लोडचने कर्मन्यतिहारादेवमन्यत्रापि स्मर्तव्यम्, स्वामिनि मसन्ने चौरा वश्या भवन्तीति लौकिकोर्थ. स्पष्ट एव ॥ ११ ॥ त्वद्भक्तिसुधासारैर्मानसमापूर्यतां ममाशु विभो । यावदिभास्तुह्यन्ते निःशेपासारवासनाःप्लुत्वा।।१२।। त्वद्गतीति । मानसं चित्तं सरच, असाराः कुत्सिता, सरस्यप्यासारैः पूरिते असारवासनाः कदकवासनाः, प्लुत्वो- त्पत्य, स्वयमेव तुह्यन्ते पहिनिःसरन्ति ॥ १२॥ मोक्षदशायां भक्ति- स्त्वयि कुत इव मर्यधर्मिणोऽपि न सा।

उद्योतनाभिधानमेकोनविंशं स्तोत्रम् । राजति ततोऽनुरूपा- मारोपय सिद्धिभूमिकामज माम् ॥ १३ ॥ मोक्षेति। मोक्षदशा परमशिवता जीवन्मुक्तता तन्त्रोक्तमा- यता यदनेनैवोक्तम् “तामासाद्य दशां रूढा मुक्तकल्पा वयं तत" इति, मर्त्यधर्मिण इत्यप्रत्यभिज्ञातात्मस्वरूपस्य, अनुरूपामिति माग्वदुद्रशक्तिसमावेशमयीं, परमसिद्धिभूमि तत्रैव प्रभुदासभा- वस्य स्फुटं स्फुरणाव ॥ १३ ॥ सिद्धिलवलाभलुब्धं मामवलेपन मा विभो मंस्थाः । क्षामस्त्वद्भक्तिमुखे मोल्लसदणिमादिपक्षतो मोक्षः ॥ १४ ॥ सिद्धीति । समावेशात्मकपूर्णसिद्धयपेक्षया भेदमयाणि- मादयः सिद्धिलवास्तल्लाभे लुब्धं मा संस्था, अवलेपेनेति, मां सिद्धिलवलुब्धमाकलय्य मावलेपं कुर्या इति यावत्, ननु पार- मेशनये साधकानां सिद्ध्युपभोगानन्तरं “भुत्का भोगांश्छिवं वजेत्" इत्याम्नायेपु शिवतैव श्रूयते, तर्हि मन्दा रुचिरित्याशङ्कय युक्तिमाह प्रोल्लसदणिमादिपक्षादनन्तरं यो मोक्षस्त्वद्भक्तिमुखे त्वत्समावेशानन्दस्य पुरतः, क्षामः अत्यल्पः ॥ १४ ॥ दासस्य मे प्रसीदतु भगवानेतावदेव ननु याचे । दाता त्रिभुवननाथो यस्य न तन्मादृशां दृशो विपयः॥ १५॥ दासस्येति । एतापदिति न तु आणिमादि, प्रसीदतु २०

-
१५४
शिवस्तात्रावल्या
इति, त्रिभुवनं प्राग्वत्, यस्येत्यसम्भाव्यस्य फलस्य तत्फलं
समिति न माशा दृश इति बुद्धः ॥ १५ ॥
त्वपुः स्मृतिसुधारसपूर्णे
मानसे तव पदाम्बुजयुग्मम्
मामके विकसदरतु सदैव
प्रस्रवन्मधु किमप्यतिलोकम् ॥ १६ ॥
स्वदिति । पादाम्बुजयुग्मं प्राग्वत, विकसद्भेदसङ्कोचमुज्ज्ञव,
मधु परमानन्दरूपं माधुर्यम्, अतिलोकमलौकिक, रसपूर्णे च
मानसे अम्बुजं विकसन्मधु सवति ॥ १६ ॥
अस्तु मे प्रभुरसौ जनकोऽय
त्र्यम्बकोऽथ जननी च भवानी ।
न द्वितीय इह कोऽपि ममास्ती-
त्येव निवृततमो विचरेयम् ॥ १७ ॥
अस्त्विति । असाविति चिधनो मे भभुरनुग्राहक:
जनक प्रमातृतोल्लासकश्च त्र्यम्बकस्तथा भवानी पराशक्ति
जननी मभ्वी चास्तु, ईदृशस्यैर मत्यभिज्ञातमहेश्वरस्वरूपस्य
मे इह जगति न द्वितीय कोऽप्यस्ति, ममेति शेये पष्ठी, इत्येव
एतावतैव, निस्ततमोऽत्यर्थ प्रमुदितो, विचरेयं विहरेयमिति
शिवम् ॥ १७ ॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्राचलायुद्योतनाभिधानकोनविंशस्तोत्रे
श्रीक्षेमराजविरचिता विमृति ॥ ११ ॥

चर्वणाभिधान चिंश स्तोत्रम् ।
ॐ नाथ त्रिभुवननाथं
भूतिसितं त्रिनयनं त्रिशूलधरम् ।
उपवीतीकृतभोगिन-
मिन्दुकलाशेखरं वन्दे ॥ १ ॥
ॐ नामिति । त्रिभुवनं प्राग्वत, भूतिर्विश्वमयी विभूति-
स्तया सितं सम्बद्धं पिञ् बन्धने इसस्य सितशब्दः, त्रीणि
इच्छाज्ञानक्रियाख्यानि नयनानि यस्य, भेदोद्दलनहेतोः मज्व-
लद्ज्ञानरूपस्य त्रिशूलस्य धारकम, उप समीपे वीतीकृताः
विशेपेणेताः कृताः संहृताश्च भोगिनःप्रसरा येन, वीता वी गतावि-
सस्य प्रयोगः, इन्दुकला विश्वजीविनी चितिशक्तिः शेखरं मुख्यं
रूपं यस्य, समग्रमेयमयी इन्दुकला वा स्वातन्त्र्यप्रथने हेतुत्वाव
शेखरः क्रीडार्थमाहार्य मण्डनं यस्य, तं वन्दे इति प्राग्वत्, बाय-
क्रमेण स्पष्ठार्थः ॥ १ ॥
नौमि निजतनुविनिस्सरदंशुक-
परिवेपधवल परिधानम् ।
विलसत्कपालमाला-
कल्पितनृतोत्सवाकल्पम् ।। २ ॥
नौमीति । निजतनुश्चिन्मयं रूपं ततो विनिःसरन् स्फुरन
अंशुपरिवेपो रश्मिपुञ्जमसर एवं धवलं शुद्धं परिधानं पावरण
यस्य, प्रमरत्मकृति शिव इति स्थित्या सशक्तिचक्रेण मतनगा-
शिष्टमित्यर्थः, विकगन्त्या स्वात्मनियोजनन देदीप्यमानगा
बिलमन्त्या स्फुरन्त्या कपालमालया सदाशिवादिगकामागा-
शेपममातृमुण्डमालया कल्पितो नृतोत्मये सातवियामा-
भ्युदय आकरयो मण्डनं येन, यासक्रम. स्पः ॥२॥

शिवस्तोत्रावल्याम्
वन्दे तान् दैवतं येपां
हरभेष्टा हरोचिताः।
हरैकप्रवणाः प्राणाः
सदा सौभाग्यसद्मनाम् ॥ ३ ॥
वन्दे इति । हरोचिताः सृष्टिसंहारानुग्रहादिरूपाः, हरैक-
प्रवणा नित्यनत्समावेशरसिकाः, प्राणा जीवितमत एव सौभा-
ग्यसयत परमानन्दपूर्णत्वेन विश्वस्पृहणीयत्वात् ॥ ३ ॥
क्रीडितं तव महेश्वरतायाः
पृष्ठतोऽन्यदिदमेव यथैतत् ।
इष्टमात्रघटितेष्ववदाने-
प्वात्मना परमुपायमुपैमि ॥ ४ ॥
क्रीडितमिति । समावेशस्फारेण जगत्क्रीडावेन पश्यतेय-
मुक्तिः । तव महेश्वरताया पृष्ठत एवोपर्यवान्यदिद क्रीडित, य-
थैतदिति प्रदर्शनार्थे, इष्टमात्रघटितेषु इच्छामात्रसम्पन्नेषु, अव-
दानेषु अद्भुतकर्मसु त्वदीयपञ्चविधकृत्यात्ममु चरितेप्वहमा-
स्मना स्वयमेव, परिपूर्णमुपाय स्वबलाक्रमणमुखेऽपि प्राप्नोमि,
त्वत्समावेशात चिदलमाक्रम्य त्वद्वदह पञ्चविधकृत्यकारीयत्
तत्तवापर क्रीडितमित्यर्थः, एवकारो भिन्नक्रमः ॥४॥
त्वद्धान्नि विश्ववन्येऽस्मि-
नियति क्रीडने सति ।
तव नाथ कियान भूया-
नानन्दरससम्भवः ॥ ५॥

चर्वणाभिधानं विश स्तोत्रम् ।
१५७
.
त्वदिति । विश्ववन्धं यत्तद्धाम त्वन्महः तत्रान्तरियति
विश्वात्मन्यस्मिन्नियति क्रीडने सति, तव भूयानिति अनल्पः,
स्वानन्दानुरूपमेव सर्वः क्रीडति, यस्य चेद्विश्वं क्रीडा तस्य
अपर्यन्त एवानन्द इति स्वात्मनस्तदासतया श्लाघां व्यनक्ति,
अत एव नाथेत्यामन्त्रणम् ॥५॥
कथं स सुभगो मा भू-
यो गौर्या वल्लभो हरः।
हरोऽपि मा भूदथ किं
गौर्याः परमवल्लभः ॥ ६॥
कमिति । सुभगः सर्वस्य स्पृहणीयः, गौर्याः परस्याः
शक्तः, वल्लभः स्पृहणीयः स आनन्दघनः परया भट्टारिकयाऽऽलि-
गित इत्यर्थः, हरः समावेशचमत्कारेण हृदयहारी द्वैतपदस्य
संहर्ता च यः, परशक्तेः परमवल्लभ एव ॥ ६ ॥
ध्यानामृतमयं यस्य
स्वात्ममूलमनश्वरम् ।
संविल्लतास्तथारूपा-
स्तस्य कस्यापि सचरोः ॥ ७॥
ध्यानेति । यस्य ममावेशशालिनः, स्वात्मनो मूलं कारणं,
ध्यानामृतमयं स्वरूपगोपनोन्मुग्वचिदानन्दमारमत्यभिज्ञातशि-
यभट्टारकस्वरूपं, यथोक्तमास्ति 'प्रभुरसी जनको या' इत्यादि,
अनश्वरं चिद्रूपत्तयैव नित्यं, तस्य कस्याप्पनिदुर्लभस्य सत्तरोः
मन्तापहारिणः शोभनपादपस्य, संविछनाः नीलमुखादिज्ञानानि
तथारूपा इनि ध्यानामृतमय्य एव ॥ ७॥

शिवस्तोत्रायल्याम भक्तिकण्डूसमुल्लासा- वसरे परमेश्वरः । महानिकपपाषाण- स्थूणापूजैव जायते ॥ ८॥ भक्तीति । भक्तिर्भगवदनुराग एव वैवश्यदायित्वात्कण्डू- स्तस्याः समुल्लासे, पूर्वनिर्णीता पूजैव, महानिकपपापाणस्थूणा निघर्पोपलमयो महास्तम्बः, भक्तिकण्डूं यः प्रशमग्य आनन्द घनस्वात्मविश्रान्तिहेतु यते इसर्थः ॥ ८ ॥ सदा सृष्टिविनोदाय सदा स्थितिसुखासिने । सदा त्रिभुवनाहार- तृप्ताय स्वामिने नमः॥६॥ सदेति । “तदेवं व्यवहारेऽपि प्रभुर्देवादिमाविशनू । भा न्तमेवान्तरोंघमिच्छया भासयदहि" रिति स्थित्या देहादिमा- विशतोऽपि भगवतः प्रतिक्षणं तत्तदनन्तग्राह्यग्राहकाद्याभास- संयोजनावियोजनक्रमेण सृष्ट्यादिहेतुत्वं च मया स्पन्दसन्दो- हे वितन्य निर्णीतमिति स एवावेक्ष्यः ॥ ९॥ न कापि गत्वा हित्वाऽपि न किंचिदिममेव ये। भवं वहाम पश्यन्ति भव्यास्तेभ्यो नमो नमः ॥ १० ॥ नेति । एकान्तद्वादशान्तादिपदं परलोकं चागवा, भागा-

चर्वणाभिधान विंश स्तोत्रम् ।
१५६
,
.
नधरभूपीः शरीरं च त्यत्का, इममेवाप्रबुद्धानां हेयाभिमतं, त्व-
मि चिद्धनं ये पश्यन्ति, भव्याः दिव्यमहार्थदृष्टयाविष्टा-
स्तेभ्यो नमो नमः बीप्स्यपामेव परतत्त्ववित्वं ध्वनति ॥१०॥
भक्तिलक्ष्मीसमृद्वानां
किमन्यदुपयाचितम् ।
एतया वा दरिद्राणां
किमन्यदुपयाचितम् ॥ ११ ॥
भक्तीति । किमन्यदिति प्राप्तव्यस्य भासत्वान्नास्त्येवा-
न्यद्याचित्तव्यं, किमन्यदिति परमार्थस्थानासादनारिकमन्येना-
सारप्रायेणेत्यर्थ ॥ ११ ॥
दुःखान्यपि सुखायन्ते
विषमप्यमृतायते ।
मोक्षायते च संसारो
यत्र मार्गः स शाङ्करः ॥ १२ ॥
दुःखानीति । श्ययमप्येतच्चिदानन्दघननिजवलाक्रमणादेव
भवति, मार्गपदं शाक्तपदवाचकम् ॥ १२ ॥
मूले मध्येऽवसाने च
नास्ति दुःखं भवज्जुपां ।
तथाऽपि वयमीशान
सीदामः कथमुच्यताम् ।। १३ ॥
मूले इति । प्राग्वत् व्युत्थानावस्थितस्योक्तिः, मूले मध्ये
ऽवसाने इति, संविदुदयमसरविश्रान्तिषु सीदामः व्युत्थानेना-
भिभूयामहे ॥ १३ ॥

शिवस्तोपावल्याम
ज्ञानयोगादिनाऽन्येपा-
मप्यपेक्षितुमर्हति ।
प्रकाशः स्वैरिणामेव
भवान्भक्तिमतां प्रभो ॥ १४ ॥
झानेति । प्रभो केपांचित् ज्ञानयोगक्रियायुपायर्भधान
स्फुरति, भक्तानां पुन' स्वैरिणामुपायानपेक्षिणां त्वत्समावेशा
स्मासत्वन्महिम्नां च भवान्भकाशस्वभावः सदेति यावद ॥१४॥
भक्तानां नार्तयो नाप्य-
स्त्याध्यानं स्वात्मनस्तव ।
तथाप्यस्ति शिवेत्येत-
त्किमप्येपां वहिर्मुखे ॥ १५॥
भक्तानामिति । आर्तयः क्लेशा, आध्यानं प्राप्यभिलापेण
चिन्तन, तब स्वात्मन इति स्वात्मतयेय स्फुरतः, तथापीति
भक्तत्वादेव किमपीति परमानन्दैकात्म्यव्यन्जकं निर्निीम-
तं च ॥ १५ ॥
सर्वाभासावभासो यो
विमर्शवलितोऽपि सन् ।
अहमेतदिति स्तौमि
तां कियाशक्तिमीश ते ॥१६॥
सर्वेति । अहमेतदिति अखिलं यः सर्वाभासाऽवभास:
सदा विश्वेश्वरप्रकाश , कीर विमर्शेनं परमानन्दचमत्कारेण
वलितो बृंहितः, क्रियाशक्तिमीशशक्तिमीश ते, स्तौमि इति
माग्वत् ॥ १६ ॥

चर्वणाभिधानं विशं स्तोत्रम् । १९१ . वर्तते जन्तोशेपर अपि ब्रह्मेन्द्रविष्णवः । ग्रस्यमानास्ततो वन्दे देव विश्वं भवन्मयम् ॥ १७ ॥ वर्तन्ते इति । अपि ब्रह्मेन्द्रविष्णव इति सृष्टिस्थितिका- रिणः मसिद्धाः आसतां रुद्रादयस्तेऽपि यावदशेपा जन्तवः क्षेत्रवाः असमाणाः सदा स्वविपया अतिमवणा वर्तन्ते ॥ १७ ॥ सतो विनाशसम्बन्धा- न्मत्परं निखिलं मृषा । एवमेवाद्यते नाथ त्वया संहारलीलया ॥ १८॥ सत इति । हे नाथ, संहारक्रीडया एवमेवोच्यते मत्तचिद- करूपात्परमुल्लासितस्वभावत्वादधिकमिवयत्किञ्चित्सदाशिवान्तं तन्मृपा न पृथग्भवतीसर्थः, यतः सतोऽनधिकस्याप्याधिक्येन आ- भासमानस्य विनाशेन सम्बन्धाचिदात्मन्येव विगलितत्वेन स्थितिर्भवति, तदुक्तम् “यत्सदाशिवपर्यन्तम्" इसादि "विनाशी- त्पत्तिसंयुतम्" इसन्तं तथा "कार्यताक्षयिणी तत्र" इसादि॥१८॥ ध्यातमात्रमुपतिष्टत एव त्वदपूर्वरद भक्तिघनानाम् । अप्यचिन्त्यमखिलाद्भुतचिन्ता- कर्तृतां प्रति च ते विजयन्ते ॥ १९ ॥ ध्यातमात्रमिति। मितयोगिभिश्चिन्तयितुमशक्यमपि यत्स्वरूप चर्वणाभिधानं विस्तोत्रम् । ॐ तत्सत् । केशान्विनाशय विकासय हत्सरोज. मोनो विजृम्भय निजं नरिनर्तयाङ्गम् । चेतश्चकोरचितिचन्द्रमरीचिचक्र- माचम्य सम्यगनृतीकुरु विश्वमेतत् ॥१॥ श्रुतिपयमितासूक्तिश्रेणी धुनोति भवातपं निरुपमपरानन्दन्याप्तिं तनोति च तत्सण द । इयमिति विभोः शाम्भोर्भक्सा परं परमेष्ठिनो विहितललितव्याख्याऽस्माभिः कृताधिजनायिते ॥२॥ विश्वत्रयेऽपि विशदैरसमस्वरूपैः शास्तथा विवरणैः धितव कीर्तिः। तस्माद्गुरोरभिनवात्परमेशमूर्तेः क्षेमो निशम्य विति व्यतनोदमुत्र ॥३॥ ॐ तत्सत् ॥

૨૨
शियस्तात्रायल्याम
भक्तिधनानाध्यातमात्रमुपतिष्ठते ध्यानसमनन्तरमेव सन्निधीयते
इसर्थः, तेच भकाः आखिलाया अद्भुतचिन्तायाः कर्तृतांमति वि-
जयन्ते त एवासामान्यविस्मयमवर्तकाःसर्वोत्कपिणइसर्थः॥१९॥
तावकभक्तिरसासव-
सेकादिव सुखितमर्ममण्डलस्फुरितैः ।
नृत्यति वीरजनो निशि
वेतालकुलैः कृतोत्साहः ॥ २० ॥
सावति । बाह्योऽर्थः स्पष्टः। वीरजनः विदारितसंसारम-
हापशुः भक्तलोको, निशि मायामध्य एव, नृसति चिद्विकासेन
विलसतितराम, कथं तावकभक्तिरसासवसेका त्वत्ममावेशाम-
तसेकादिव, मुखितानि आनन्दनन्दितानि मर्ममण्डलानि पाशः
सञ्वयास्तेषां सम्बन्धिभिः स्फुरितरासनमुद्रासहसः वेतालकुलै-
पशुहृदयाच दृक्मययोद्यानुवतिशक्तिशतः, कृतोत्साहः परि-
पोपितचिदभ्युदय इति शिवम् ॥२०॥
प्रारब्धा भवदभिनति-
रमुना येनाङ्गक
येनागकेन मम शम्भो ।
तेनापर्यन्तमिमं कालं
हढमखिलमेव भविषीट ॥२१॥
आरब्धेति । कचिदप्यसदृशशैलीदर्शनादनार्प इवायं श्लो-
कस्तथाऽपिव्याख्यायते।अमुनाचिदद्वयसमावेशोत्कर्षप्रदर्शिना,
येनागकेन सर्वजनासंलक्ष्येण प्रकारेण, शम्भो तव स्तुतिरा-
ख्या, तेन प्रकारेणापर्यन्तमिममखिलं, कालं दृढमविचलं, कृत्वा
ऽसौ भविपीष्ट प्राप्नुयात्, भूमाप्ताविसस्य रूपमिति शिवम्॥२१॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावली चर्वणास्तोत्रे
विश श्रीक्षेमराजकता विवृतिः ॥ २० ॥

येणाभिधानं दिशं स्तोत्रम् । ॐ तत्सत् । शान्विनाशय विकासय हत्सरोज- मोनो विजृम्भय निज नरिनर्तयानम् । चेतश्चकोचितिचन्द्रमरीचिचक्र- पाचम्प सम्पगमतीकुरु विश्वमेतत् ।। १ ।। श्रुतिपयमितासूक्तिश्रेणी धुनोति भवातपं निरुपमपरानन्दव्याप्ति लनोति च तत्क्षण । इमिति विभोः शम्पोर्मक्सा परं परमेष्ठिनो विहितललितव्याख्याऽस्माभिः कृताजिनाधितः ॥२॥ विक्षनयेऽपि विदेरसमस्वरूपः शास्त्रैस्तथा विवरणैः प्रथितव कीर्तिः। तस्माद्दरोरभिनवात्परमेशमूर्तेः क्षेमो निशम्य विटर्ति व्यतनोदमुत्र ॥३॥ ॐ तत्सत् ॥

Shivstotravali

Author
Utpala Devacharya
Title
Shivstotravali
File name
Shivstotravali
Text
OCR done
Citation
1902
Published
2012/08
Publisher
Banaras.,choukhamba Sanskrit Depot
Language
Sanskrit
Pages
166
Library
Bharatiya Vidya Bhavan Library, Mumbai
DLI number
312202
Barcode
99999990321013.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
1SkLUuOXP7Y
Download PDF

Shivstotravali