Central Archaeological Library_asi_new Delhi
The Samkesepa Sariraka Of Sarvajnatma Muni Part I 1936
Front matter
Acc No
8029
อรรจ% ส่ออก
its
balsa
THE
PRINCESS OF WALES
SARASWATI BHAYANA TEXTS
No. 69.
PART I.
EDITED BY
GOPINAH
MAHAMAHOPADHYAYA
GOPINATH KAVIRAJ, M A.
THE
MUNT
SAMKSEPA SĀRĪRAKA
of SARVATHAIMA
TATTVABODHINI
ed by sing a Narayana sukla
PART 1.
Асс. No
8029
Printed by Ali Bukhsh at the Royal Printing
Works, Godowlia, Benares City and
published under the authority of the Government,
United Provinces by the Superintendent,
Government Printing, Allahabad.
TIRALVERAL
1936.
No text on this page.
ACC, No.
8029
संक्षेपशारीरकम् - Part 1
श्रीमत्सर्वज्ञमुनिविरचितम् ।
श्रीमन्नृसिंहाश्रमविरचितया तत्त्वबोधिन्याख्यया
टीकया सहितम् ।
वाराणसेयराजकीयसंस्कृतमहाविद्यालय न्यायशास्त्राध्यापकेन
न्यायव्याकरणाचार्य मीमांसाशिरोमण्युपाधिकेन
श्रीसूर्यनारायणशर्मशुक्लेन संशोधितम् ।
Acc No
THE
SAMKSEPA ŚĀRĪRAKA
OF SARVAJNĀTMA MUNI
WITH
mmuman
TATTVABODHINĪ
OF NRISIMHA ĀŚRAMA.-
Part 1
Salvi
S.N. Suk
EDITED BY
SŪRYA NĀRĀYANA ŚUKLA,
NYAYA VYAKARANACHARYA,
Professor, Govt. Sanskrit College Benares
F
OXNTRAL ARCHAEO100 BUAL
LIBRARY NEW DELHI.
Ari No...20. 22...............
Setth../4.-12...3
: No........andbold
S.N.SK
FOREWORD. Credit is due to Mr. Rajendra Nath Ghosh, whose reputation in Bengal as a sincere worker in the cause of Advaita Vedanta is well known, for having brought to my notice the existence of a manuscript of a commentary on Samksepa Sariraka in possession of a certain Sannyasin at Benares. He gave me certain particulars regarding the whereabouts of the owner and asked me to arrange for a careful search of the Ms. and in the event of its discovery to see to its early publication. The clues supplied by Mr. Ghose helped me materially in getting hold of the work and having a transcript prepared of it. Thanks are also due to Pandit Surya Narayana. Sukla, Professor, Govt. Sanskrit College, Benares for having gladly complied with my request. to. take himself the responsibility of seeing the work through the press. on on The name of Nrisimha Asrama, sometimes called Nrisimha Muniand his place in the history of Mediæval Sankara Vedanta are known to all. Nrisimha's Bhedadhikkara, Advaita Dipika (in part), Vedanta Tattva Viveka and Bhavaprakasa --a commentary Akhandananda's Tattvabodhini (in part) have already been published. He himself wrote a commentary ( called arga) on the third work. He also wrote commentaries on Panchapadika (Vedantaratnakosa) and on Panchapadika-vivarana ( Prakasika ). The booklet, entitled Nrisimha Vijnapana, attributed to him, has come out in this very series (as No. 52 ). The publication of the present commentary by this author can not therefore fail to ( 2 ) sophy, inasmach as it is expected to throw much fresh light on our knowledge of Nrisimha's system of thought. Nrisimha belonged to the sixteenth century, his Vedanta Tattva Viveka being composed in Sam 1604 or 1547 A. D. He was the pupil of Jagannatha As: rama and Giivanendra Sarasvati and the guru of Narayana Asrama. A detailed history of his life and works and of his contribution to Vedanta will appear in the general Introduction to this work (prefixed to part II). Several commentaries are known to have been written on the Samkshepa Sariraka. Of these Madhusudana's, Pama Tirtha's and Purushottama's have been published. Nrisimha's work will certainly form a valuable addition to this literature. GOVERNMENT SANSKRIT COLLEGE, GOPINATH KAVIRAJ. BENARES
॥ ॐ श्रीगणेशायनमः ॥
सटीकं संक्षेपशारीरकम्।
यस्याज्ञानविभूतिरम्बरमरुद्वयम्वुभूतद्भवं (१)
स्वाभाभासितभाखदादिवपुषा येनेदमाविष्कृतम् ।
यस्मिन्सत्यसुखानुभूतिमहिमन्यारोपिता वादिभि-
विष्णुः शंकर आत्मभूरितिभिदा तत्संनिधत्तां महः ॥ १॥
अव्यासुरव्याजकृपानृसिंहपदरेणवः ।
यन्नामनिगमाधीतिरथितार्थसमर्थिनी ॥२॥
भूमानन्दसमुद्रतृप्तमनिशं मुग्धं जनं मोहतो
दृष्ट्यैव क्षपिताखिलाघतमसा समोचयन्तं शिवम् । १
साम्ब सेन्दुमहं परापरगुरुं व्यासासने संस्थितं
वन्दे दक्षिणदिङ्मुखं सिततरं ज्ञानाब्धिचन्द्रोदयम् ॥ ३॥
यस्याः प्रसादं समवाप्य लोकस्रष्टाऽभवद्विश्वपितामहोऽपि
उपासते यां मुनयोऽपि नित्यं तां वाचमाद्यामहमद्य वन्दे ॥४॥
महागणेशं निविडान्तरायतमोनिरासैकसहस्रभानुम् ।
वन्दारुवृन्दारकवृन्दवन्द्यं वन्दामहे मजुलमिष्टसिद्ध्यै ॥ ५॥
वेदान्तार्थसरोजेषु सहस्रांशुरिवापरः ।
भासते व्याससंज्ञो यस्तं वन्दे हरिमीश्वरम् ॥ ६॥
नमः श्रीशंकराचार्यगुरवे शंकरात्मने ।
शरीरिणां शंकराय शंकरज्ञानहेतवे ॥ ७॥
२ सटीके संक्षेपशारीरके- श्रीमजगन्नाथयतीन्द्रपाद- पद्मद्वयं चेतसि चिन्तयामि । खनद्विचित्रागमशिष्यभृङ्ग- जुष्टं विसृष्टावधिमापराशिम् ॥८॥ गीर्वाणेन्द्रसरस्वत्याश्चरणं शरणं भजे । यो भवक्लेशखिन्नानां मूर्त्त ब्रह्मापरं बभौ ॥ ६॥ शारीरकार्थान्सकलान्गभीरा- न्समुद्दिधीर्घः कृपया चकार । संक्षेपशारीरकनामकं यः सर्वज्ञमात्मोत्तरमाश्रयेऽहम् ॥ १०॥ संक्षेपशारीरकनामकेऽस्मि- नशेषवेदार्थनिदानकोशे। कत्तुं यथार्ह विवृति कृयातः श्रीमजगन्नाथगुरोर्यतेऽहम् ॥ ११ ॥ श्रीमच्छारीरकार्थमनुभवप्रधानमाविष्कर्तुं किञ्चित्प्रकरणमारभ- माणः सर्वज्ञात्माचार्यस्तस्य ग्रन्थस्याविनपरिसमाप्त्यादिप्रयोजनमव- गीतशिष्टाचारानुमितश्रुतिप्रमितकर्त्तव्यताकं तत्त्वानुकीर्तनलक्षणस्मृ- तिरूपं मङ्गलं मुखतः, प्रेक्षावत्प्रवृत्त्यङ्गभूतविषयप्रयोजने चार्थात्, विवक्षन् तदर्थ स्वकृतं मङ्गलं ग्रन्थतो निबध्नाति- अनृतजडविरोधिरूपमन्त- त्रयमलबन्धनदुःखताविरुद्धम् । अतिनिकटमविक्रियं मुरारेः प्रथमोऽध्यायः। ३ । अनुतेति। मुरारेः परमं पदं प्रणयादभिष्टवीमीति संबन्धः । मुरस्यारिः मुरारि:मुरशब्देनासुरविशेषनाम्नाऽसुरमात्रंलक्ष्यते । असुरश्चात्राविद्या- कृतेन्द्रियाणि स्वकीयत्वेन मन्यमानोऽहंकारो विवक्षितः, तस्यारिः स्वरू- पचैतन्यं विवक्षितम् । तद्धि तत्त्वमसीतिवाक्यसमुपजाताखण्डाकार- त्यभिव्यक्तं सविलासमज्ञानं समूलकाषं कषति । तस्य परमं निर- तिशयानन्दरूपत्वादुत्कृष्टमत एव पद्यते मुमुक्षुभियित इति पदं स्वरूपं षष्ठी च राहोः शिर इतिवदौपचारिकी। अथवा-मुरो नाम नरकासुर- परिपालकः प्रसिद्ध एव दैत्यः तस्यारिभगवान्विष्णुः सत्त्वप्रधानमा- यायां प्रतिबिम्बितचैतन्यं तस्य पदं विम्बचैतन्यमधिष्ठानं परमं च तत् निरतिशयानन्दत्वात् अर्थात्तद्वयतिरिक्तमनित्यमसुखमित्युक्तं भवति । परमत्वादेव पदत्वमपि तस्यैव सकलाध्यासाधिष्ठानत्वात् । अभि- आभिमुख्येन प्रत्यक्तया अहं ब्रह्मेति स्तौमि अनुकीर्तयामीत्यर्थः अभिपूर्वात् स्तोतेमिपि तुरुस्तुशम्यमः सार्वधातुक' इति विकल्पेनेडागमे अभिष्टवीमोति रूपं तत्त्वानुकीर्तनं च तत्त्वानुस्मृतिपूर्वकमिति मानसं च मङ्गलमनुष्ठितं भवति । नन्वनुष्ठितं मङ्गलं न समाप्ति फलति दाम्भिकाद्यनुष्ठितनमस्का- रादिमङ्गले व्यभिचारात्तत्कुतो मङ्गलस्य कर्त्तव्यतेति चेत्तत्राह प्रणया- दिति । भक्तिश्रद्धादिनेत्यर्थः । तथा च भक्तयादिकं विना मङ्गलस्या- नुष्ठितस्य समाप्तिव्यभिचारऽपि तत्पूर्वमनुष्ठितस्य न स इति भावः । ननु महात्मभिर्भक्तिश्रद्धादिपूर्वमनुष्टितेपि तस्मिन्पञ्चपादिकादौ- समाप्तिर्न दृश्यते । न च विघ्नध्वंसस्यैव मङ्गलफलत्वात्तस्य च तत्रापि संभवान्न मङ्गलस्य फलव्यभिचार इति वाच्यम् । 'श्रारब्धं कर्म समाप्यताम्' इति समाप्त्युद्देशेनैव शिष्टमङ्गलम्यानुष्ठीयमानत्वात् । म च निर्विघ्नं समाप्यताम्' इति विघ्नध्वंसोद्देशेनापि तदनुष्ठीयत इति वाच्यम् । तथात्वे कर्मारम्भकाले विघ्नविरहवता पुरुषेणानुष्ठित- सटीके संक्षेपशारीरके- भावनियमात् । अन्यथा कारीर्यादावप्यङ्गवैकल्यं (१'न कल्प्येत । न च विघ्नविरहवतोऽनधिकारात्तदनुष्ठितमङ्गलस्य ब्यभिचारो न दोषायेति वाच्यम् । विप्रज्ञानवत एव मङ्गलेऽधिकारात् विनस्याप्यधिकारत्वे तन्निश्चयं विना मङ्गले न प्रवर्तेत । वैदिकप्रवृत्तावधिकारनिश्चयस्य हेतुत्वात् । न च सति विघ्ने तध्वंसस्तत्फलमिति वाच्यम् । एवमपि विघ्नाभाववतानुष्ठितस्य साङ्गमङ्गलस्य फलव्यभिचारित्वदोषस्य तद- वस्थत्वात् । न च विघ्नसमानकालीनस्यैव मङ्गलस्य साधनत्वं श्रुत्या धोध्यत इति वाच्यम् । तर्हि विघ्नस्य कारणतावच्छेदकशरीरनिवेशे तन्निश्चयं विना प्रवृत्त्यनुपपत्तेः वैदिकप्रवृतौ तन्निश्चयस्यावश्यकत्वात् । मङ्गलस्य समाप्ति प्रति व्यतिरेकव्यभिचाराश्च न तत्साधनं दृश्यते हि मङ्गलं विनापि प्रमत्तनास्तिकाद्यनुष्ठितसमाप्तिः । ननु तत्रापि जन्मान्त- रोयमङ्गलमनुमीयत इति चेन्न । अन्योन्याश्रयात् । अनुमिते हि जन्मा- न्तरीयमङ्गले व्यभिचारज्ञानाभावसहकृतसहचारज्ञानेन तस्य समाप्ति- कारणत्वग्रहः गृहीते च तस्मिन् समाप्तिकार्येण जन्मान्तरीयतदनुमान- मिति । ननुजन्मान्तरीयमङ्गलसत्त्वे प्रमाणाभाववत्तदभावेऽपि प्रमा- णाभावात् जन्मान्तरीयमङ्गले संशय एव भवति । एवञ्च जन्मान्त- रीयमङ्गले संशयेन तत्समाप्तिसाधनत्वस्यापि संदिह्यमानतया साध्य- संशयस्यानुमानाङ्गत्वेन शिष्टैस्तदर्थितयाऽनुष्ठीयमानत्वादिलिङ्गःसामा- न्योपाधौ गृहीतव्याप्तिकैमङ्गलस्य समाप्तिसाधनत्वं सुज्ञेयमेवेतिचेन्न 'प्रारब्धं कर्म समाप्यताम् ति शिष्टानां मङ्गलाचारेण मङ्गलसमान कालीनसमाप्ति प्रत्येव मङ्गले समाप्तिसाधनत्वस्य वक्तव्यत्वेन जन्मान्तरीयसमाप्ति प्रति जन्मान्तरीयमङ्गलस्य कारणत्वाभावनिश्चयेन समाप्तेमङ्गलव्यभिचारनिश्चयात् । तस्मादन्वयव्यतिरेकव्यभिचारान- मङ्गलस्य समाप्तिसाधनत्वमिति चेत्- (१) कारीर्यादाविति । "कारीया वृष्टिकामो यजेत' इति श्रुत्या अासन्नसमये वृष्टि- फलाय क्रियमाणकारीरीष्टया यदि वधिन जायते नटा मिनिटंग ---- प्रथमोऽध्यायः। उच्यते मङ्गलं प्रधानमदृष्टद्वारासमाप्तिफलकं तस्याचारानु- मितश्रुतिचोदितकर्त्तव्यत्वेनादृष्टजनकत्वावश्यंभावात् । न च मङ्गलस्य प्रधानत्वेऽन्यदापि तत्करणं, प्रधानस्यापि तस्यारम्भणीयावदितर- सन्निधौ (१) विहिततया नियतानुष्ठानोपपत्तेः । तद्वदेव चास्य कामनो- पाधिकर्त्तव्यत्वेधि नियतानुष्ठानोपपत्तिः । ननु मङ्गलस्यादृष्टद्वारा प्रधानत्वे तजन्यादृष्टस्य कारीरीजन्या- दृष्टवत् फलसंपादकाशेषकारणसंपादकत्वनियमेन सति साङ्गे मङ्गले समाप्तिव्यभिचारो न स्यादिति चेत् न मङ्गलजन्यापूर्व हि समाप्ति- साधनम् । अविवक्षितविशेषसमाप्तिसंपादकाशेषकारणं संपादयति । न त्वेतत्समाप्तिसंपादकाशेषकारणं श्रुत्याऽविवक्षितविशेषसमाप्ति प्रत्येव मङ्गलस्य साधनत्वबोधनात् । नन्वाचारानुमिता श्रुतिः स्वसमानकालीनसमाप्तिं प्रत्येव मङ्गलस्य कारणत्वं बोधयतीत्युक्तमिति चेन्न-वस्य विशेषणत्वे स्वविशिष्टस्य स्वजन्यत्वानुपपत्तेः । उपलक्षणत्वे चसमाप्तिमात्रमेव मङ्गलजन्यं स्यात्। किञ्च-शिष्टानां हि द्विविधाचारो दृश्यते एतत्प्रारब्धं कर्म परिसमाप्यतां' 'प्रारब्धं कर्म परिसमाप्यताम्' इति च तत्र न तावत् एतत्प्रारब्धं कर्म परिसमाप्यतामित्याचारानुमितश्रुतिर्मङ्गलस्य समाप्तिसाधनत्वे प्रमाणं तथाविधाचारेणानुमीयमानश्रुतेरपि एतत्समाप्तिकामो मङ्गलमाचरे- दित्येवंरूपत्वापत्त्या समाप्त्यन्तरं प्रति मङ्गलस्य साधनत्वबोधाभाव- प्रसङ्गात् । द्वितीये तु जन्मान्तरीयमङ्गलस्य कारणत्वबोधोपपत्तिः। अाचारानुमितश्रुतौ स्वपदवीप्साभावाच्च । न तेनापि निस्तारः । न च प्रकृतसमाप्तेरपि प्रारब्धसमाप्तित्वात् तत्संपादकाशेषकारणसंपादकत्वं (१) प्रारम्भणीयावदिति 'अग्नावैष्णवमेकादशकपालं निवपेद्दर्शपूर्णमासा- वारिप्समानः' इतिश्रुत्या विहिताया प्रारम्भणीयेष्टे: दर्शपूर्णमासार्थतया ऽक्रियमाणत्वेन प्रधान लेपमापकाले नियोनानातम ।
सटीके संक्षेपशारीरके- । मङ्गलजन्यादृष्टम्य किं न स्यादिति वाच्यम् । समाप्त्यभावप्रयुक्त- दुःखहेतुप्रवलदुरितादृष्टप्रतिबद्धत्वेन मङ्गल जन्यापूर्वस्य तत्संपादकत्वा- भावात् । अप्रतिबद्धं ह्यदृष्टं स्वफल सम्पादककारणं संपादयति । अन्यथा ज्योतिष्टोमादृष्टस्य स्वोत्पत्त्यनन्तरमेव स्वर्गोत्यादकाशेषकार- णसंपादकत्वप्रसङ्गात् । इह वा जन्मान्तरे वा निवृत्ते भोगाददृष्टे प्रतिबन्धे मङ्गलजन्यापूर्व विघ्नाभावादिदृष्टकारणचक्रं सम्पादयत्स- माप्तिमपि सम्पादयति एवञ्च सति नान्वयव्यभिचारः । नापि व्यतिरेक व्याभिचारः उक्तप्रकारेण श्रुत्या मङ्गलस्य समाप्तिसाधनत्वबोधनेन प्रमत्ताधनुष्ठितस्थलेपि जन्मान्तरीयमङ्गलसंशयेन तदनुमानोपपत्तेः । न चैवं जन्मान्तरोयमङ्गलसंशयेन शिष्टानामिदानींतनमङ्गले प्रवृत्तिर्न स्यादिति वाच्यम् । तस्य दृष्टफलत्वेन यावत्फलं चित्रायागादाविव प्रवृत्त्युपपत्तेः । न च साङ्गे प्रधाने मङ्गलेऽनुष्ठिते कारीर्यादिवदग्रिम- पुरुषव्यापारानुपपत्तिः, पुष्ट्यादिवदुपपत्तेः । न चैवं मङ्गलान्तरं व्यर्थ प्रचयगमनशिष्टाचारपरिपालनयोरेव तत्फलत्वात् । वस्तुतस्तु नित्यानां कर्मणां यथा श्रवणादिसंपत्तौ सत्यां ज्ञानं फल मितरथाभ्युदयः यथा वा धनार्जनविधेः श्रद्धादिसहकारिसंपत्तौ सत्यां कर्मसिद्धिः प्रयोजनमन्यथा भोग एव । एवं मङ्गलस्यापि स्वेतरस- माप्तिसामग्र्यां सत्यां समाप्तिरन्यथा तु विहितक्रियात्वेन कर्मणा पितृ- लोकः सर्व एते पुण्यलोका भवन्तीत्यविशेषेण सर्वकर्मणामभ्युदयफल- श्रवणाचाभ्युदयः फलमिति न कस्यापि वैयर्थ्यमिति । अत एवाचाय- रुक्तमन्यार्थमपि देवतानुस्मरणं स्वभावादेव विघ्नोपल्लवं धक्ष्यतीति । ननु परमपदस्य प्रत्यक्तयानुस्मरणमनुप पन्नं प्रतीचः कर्तृत्वादि- विक्रियावत्त्वात्परमपदस्य च तदभावात् विरुद्धयोश्चैक्यानुपपत्तेरि- त्याशक्य प्रत्यगभिन्नं परमपदं विशिनष्टि-विक्रियमिति। कर्तृत्वादिविक्र- याशून्यमित्यर्थः । प्रत्यगभिन्नब्रह्मस्वरूपचैतन्यं हि स्वतोऽविकारि स्फटि- कमणिरिव जपाकुसुमसन्निधानेन लौहित्यं बुद्धिसन्निधानेन कर्तृत्वा- HEARS प्रथमोऽध्यायः। । दिविकारं भजते 'ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं लोकमनु- क्रामति' (बृ. ४।३।७) इत्यादि श्रुतेः। तथा च नारोपितविरुद्धधर्मो वास्तवैक्यं विरुणद्धीत्यर्थः । परमपदस्या जगद्विक्रियावतः कथं तद्विरु- द्धप्रतीचैक्यमिति वाशङ्क्याह अविक्रियमिति । जगदाकारपरिणामशून्या- मित्यर्थः । निष्कलं निष्क्रियमित्यादिश्रुतितो ब्रह्मन वस्तुतो जगत्कारण मित्यर्थः । जगत्कारणेन मायाशबलब्रह्मणा न प्रत्यगैक्यं वर्णयामः येन विरुद्धतया तदैक्यं प्रतीचो न स्यात् किन्तु शुद्धचैतन्येनैवेत्यर्थः । नन्वेवमपि परमपदस्य परोक्षस्य कथमपरोक्षप्रत्यगैक्यं तत्राह- अतिनिकटमिति । प्रतिपत्तुः प्रत्यगात्मनः अतिनिकटमव्यवहितं स्वरूपमिति यावत् । तत्त्वमादिश्रुतेरित्यर्थः । अथ वा प्रतिपत्तुः प्रतीचो देहादि- विशिष्टस्य कथं तद्विपरीतब्रह्मभावइत्याशङ्क्याह-प्रतिनिकटमिति । अत्य- न्तसन्निहितं सर्वान्तरमित्यर्थः । न वस्तुतो देहादिविशिष्टः प्रत्यागात्मा किन्तुतत्साक्षी 'चक्षुषः साक्षी श्रोत्रस्य साक्षी वाचः साक्षी मनसः साक्षी बुद्धः साक्षी प्राणस्य साक्षी तमसः साक्षी सर्वस्य साक्षी' इत्या- दिश्रुतेरित्यर्थः ( नृ. उ. ता. २ ख )। ननु कथं परमपदस्यापरिणामित्वलक्षणमविक्रियत्वमित्याशक्य श्रुतितो निर्धारिते तदुपपत्तिमाह-अनृतजडविरोधिरूपमिति। सद्विलक्षणं विय- दादि जगदनृतं चैतन्यविलक्षणत्वाजडं च प्रात्मा च सत्यचैतन्य- स्वरूपः घटादिसत्यतायास्तदविषयान्तःकरणवृत्तिगतचैतन्यस्य चात्म- स्वरूपत्वात् आत्मातिरिक्तानन्तसत्यकल्पने प्रकाशकल्पने च माना- भावात् कल्पनागौरवाच । तथा च परमपदं सत्यप्रकाशस्वरूपमनृत जडप्रपञ्चविरोधीत्यर्थः। अयम्भावः लोके हि परिणामिवस्तु स्वसमानजातीयाकारेणैव परि- णमते । न हि जातु तन्तवः स्वर्णाकारेण परिणमन्ते श्रात्मा च सत्य- बोधस्वरूपः कथमनृतजडप्रपञ्चाकारेण परिणमेतेति प्रतीचो देहादिन्य- तिरिक्तत्त्वं वोक्तमुपपादयति-अनृतजडविरोधीति । देहादिवस्तु विनाशित्वेन ।
सीके संक्षेपशारीरके
प्रकाश्यत्वेन चानृतं जडं चेत्यविवादं जडं च पराधीनप्रकाशमित्यप्य-
विवाद तत्र यदि देहाद्यतिरिक्तः सत्यप्रकाशस्वरूपः प्रत्यगात्मा न
स्यात् कथं देहादिकमहमिति वा ममेदमिति वा प्रकाशेत ततो देहाद्य-
तिरिक्तः सत्यप्रकाशात्मा प्रत्यङ्भ्युपगन्तव्यः तदिदमुक्तं विरोधीति ।
विलक्षणमिति यावत् । यदुक्तं ब्रह्मणः प्रतिपत्तृस्वरूपत्वं प्रतिपत्तुश्च
कर्तृत्वादिराहित्यं तत्रोभयत्रापि युक्तिमाह-अन्तत्रयमलवन्धनदुःखताविरुद्धमिति।
अन्तत्रयविरुद्ध मलबधनदुःखिताविरुद्धं चेत्यर्थः । अन्तत्रयविरुद्धमिति
ब्रह्मणः प्रतिपत्तृस्वरूपत्वे हेतुः । अन्तत्रयं देशतः कालतो वस्तुतश्च
परिच्छेदः तद्विरुद्धं तद्रहितं ब्रह्म यदि ब्रह्मातिरिक्तं किञ्चित्स्यात्
तदानवच्छिन्नमहत्त्वाभावात् ब्रह्मा ब्रह्म स्यादयतो वस्तुतोपि परिच्छे-
दाभावाद्ब्रह्मणः प्रतिपत्तृस्वरूपत्वमित्यर्थः मलवन्धनदुःखताविरुद्ध-
मिति प्रतिपत्तुः कर्तृत्वादिराहित्ये युक्तिः मलं रागद्वेषादिस्वरूपसाध्य-
विरोधित्वात् । वन्धनं धर्माधौं कर्तृत्वस्य तन्मूलत्वात् । दुःखता
दुःखित्वं भोक्तृत्वमितियावत् । एतत्तयविरोधिनिर्गुणचैतन्यैकरसा-
सङ्गानन्दस्वरूपमित्यर्थः ॥
अयम्भाव: रागद्वेषधर्माधर्मभोक्तृत्वाध्यासाः परस्परनिमित्ता अनु-
वर्तन्ते तत्र यदि प्रत्यगात्मा तेषामन्यतमेनापि विकलः तदा कर्तापि
न भवेत् त्यक्स्वरूपं च परमप्रेमास्पदतयानन्दस्वरूपं न भोक्ता भव-
तीति न तत्प्रयोज्यकर्तृत्वादिविकारवदिति । तदेवं परमपदमभिष्टवीमी-
त्यनेन तत्त्वमसि वाक्यार्थो ब्रह्मात्मैक्यलक्षणविषयो दर्शितः । प्रतिनिक-
टमविक्रियमिति पदाभ्यां वाक्यार्थप्रतियात्त्युपयोगितयाशोधितौ तत्त्वं-
पदार्थों दर्शिती । अनृतेत्यनेन शोधितपदार्थद्वयोपपादनपरेण प्रपञ्चस्या-
नित्यत्वादिनानर्थत्वं सूचयतानर्थनिवृत्तिः प्रयोजनमित्युक्तम् । अन्त-
त्रयेत्यनेन ब्रह्मणो दुःखविरोधितयानन्दस्वरूपत्वं सूचयतानन्दावाप्ति-
लक्षणं प्रयोजनं च दर्शितम् । अर्थाच्च सत्यज्ञानानन्दात्मकं ब्रह्मेति
तत्स्वरूपलक्षणं सत्यादिवाक्यं च तस्मिन् प्रमाणमित्युक्तमिति ॥ १ ॥
प्रथमोऽध्यायः। है ननु ब्रह्मात्मनोरैक्यं न संभवति ब्रह्मणः श्रुत्यवगतकार्यभाव- वास्तवव्योमादिजगत्परिणामित्वात् जीवस्य च वस्तुतो धर्माधर्मक- र्तृत्वेन तद्विरुद्धधर्मत्वात् न ब्रह्मव्यतिरिक्तं व्योमादिपरिणामि संभवति । तथाहि न तावत् परमाणवो व्योमादिपरिणामिनः तेषां सत्त्वे माना- भावात् । नापि धर्माधर्मों तत्वरिणामिनी तयोर्गुणत्वेन द्रव्यपरिणा- मायोगात् । नापि जीवस्तत्परिणामी तस्यासर्वज्ञस्यासर्वशक्तः विचित्रसकलकार्यपरिणामानुपपत्तेः। नापि प्रधानं तत्परिणामि तस्यापि जडतया सर्वज्ञत्वाभावेन विचित्रकार्यपरिणामित्वासंभवात् । लापिशून्यं तत्परिणामि तस्य निस्तत्त्वेन कारणत्वस्यैवासंभवात् । नापि स्वभाव- वादः अन्वयव्यतिरेकाभ्यां कार्यकारणभावस्यानुभूयमानत्वात् । ततः परिशेषाद्ब्रह्मैव तत्परिणामीति वक्तव्यम् । सूत्रकारोऽपि'आत्मकृतेः परि- णामात्' इति परमात्मा व्योमादिपरिणामीत्यसूसुचत् । श्रुतिरपि 'सच्च त्यञ्चाभवत्' इति तथैवाह । न च सत्यप्रकाशस्य ब्रह्मणोऽनृतजडजगदा- कारेण परिणामो न संभवतीति यतो न 'परिणामि वस्तु सजातीया- कारेणैव परिणमत' इति नियमोस्ति द्रव्यस्यापि गुणाकारेण परिणा- मदर्शनात् । किञ्च यदीश्वरो जगत्कारणं न स्यात् तदा तस्येश्वरत्वमेव न स्यात् । ऐश्वर्याभावे तत्त्वानुपपत्तेः । एवं जीवोऽपि यदि वस्तुतो धर्माधर्मकर्ता न भवेत् तदा सुखित्वदुःखित्वादिलक्षणवास्तवजगद्वै- चित्र्यं न स्यात् । तथा च कथं वास्तवविरुद्धधर्मयोर्ब्रह्मात्मनोरैक्यं संभवतीतीमामाशङ्कां परिहर्तुमाह- स्वाज्ञानकल्पितजगत्परमेश्वरत्व- जीवत्वभेदकलुषीकृतभूमभावा । स्वाभाविकस्वमहिमस्थितिरस्तमोहा प्रत्यक्चितिर्विजयते भुवनैकयोनिः॥२॥ २ सटीक संक्षेपशारीरके- । - स्वाज्ञानकल्पितेति। प्रत्यचितिर्विजयत इति सम्बन्धः। यदुक्तं ब्रह्मेव जगदाकारेण परिणमत इति तन्निराकर्तुं तां विशिष्टि स्वाज्ञानेति । स्व- स्याः प्रत्यकचितेर्यदज्ञानमनादिभावत्ये सति ज्ञाननिवर्त्यत्वलक्षणं तेन कषितानि यानि जगत्परमेश्वरत्वजीवत्वानि जगद्वन्न परमेश्वरादिध- मिणोऽप्यध्यास इति ज्ञापनाय भावोक्तिः । तान्येव भिद्यन्ते इति भेदाः तेषां भेदाश्चेति वा तैः कलुषीकृतः स्वरूरतोऽगृह्यमाणो विपरीततया च गृह्यमाणो भूमभावोऽन्तत्रयाभावोपलक्षितं स्वरूपं यस्या इत्यर्थः । श्रयम्भाव:-ब्रह्म न वस्तुतो जगदाकारेण परिणमते पूर्वरूपे स्थिते नष्टे वाऽन्यस्य सतो वस्तुतोऽन्यात्मतानुपपत्तेः । न च निरवयवस्य स्वतः परतोवासावयवाकारेण परिणामः संभवति । नापि निर्गुणस्य ब्रह्मणो जगत्परिणामित्वे किञ्चित्प्रमाणमस्ति । न तावत्परिशेषस्तत्र प्रमाणम् अविद्याशवलितस्य ब्रह्मणस्तत्संभवेन परिशेवाभावात् । न च विय- दादिप्रपञ्चो वास्तव इति वक्ष्यति। नाप्युदाहृतसूत्रं श्रुतिर्वा तत्प्रमाणम्। तयोरन्यथाभावमात्रपरत्वेन ब्रह्मणो वास्तवजगदाकारपरिणामित्वय- रत्वाभावात्, अन्यथाभावस्य च विवर्तेऽप्युपपत्तेः । सूत्रकारश्च साय- वत्वादिप्रसङ्गन ब्रह्मणः परिणाम निराकृत्य 'आत्मनि चैवं विचित्राश्च हि'इति विवर्त्तवादमेवाङ्गीचकार । यञ्चोक्तं ब्रह्मणो जगत्कारणत्वाभाचे तस्यैश्वर्याभावेनेश्वरत्वमेव न स्यादिति तदपि न तस्य वस्तुतो जग- कारणत्वाभावेऽप्यज्ञानोपाधिना तत्कारणत्वाङ्गीकारेणैश्वर्यस्य विद्य- मानत्वान्न हीश्वरत्वं वास्तवं येन वास्तवमैश्वर्यमपेक्ष्येत एतदभिप्रायेण परमेश्वरत्वस्य कल्पितत्वमभिहितम् । यदपि जीवस्य कर्तृत्वाभावे धर्मा- द्यभावेन सुखादिवैचित्र्यानुपयत्तिरिति तदप्यत एव निरस्तम् । तस्य- वास्तव कर्तृत्वाभावेपि देहाधुपाधिप्रयुक्ततत्कर्तृत्वाङ्गीकारादत एव जीवत्वस्यापि कल्पितत्वमुक्तम् । तथा च ब्रह्मात्मनोर्वास्तवविरुद्ध- धर्माभावान्नैक्यानुपपत्तिरिति । ननु विवर्त्तवादाङ्गीकारेपि ब्रह्मणो नाविक्रियत्वमन्यथाभावस्य तत्रापि सत्त्वादित्याशझ्याह-स्वाभाविकेति। ।
प्रथमोऽध्यायः। । - स्वाभाविके अनन्यनिमित्ते स्वमहिमनि अनवच्छिनकूटस्थानुभवात्म- के विपरीतग्रहणकालेऽपि स्थितिरवस्थानं यस्याः सा तथोक्ता । तथा च न वस्तुतोऽन्यथाभावो विवर्त्तः किन्त्वतत्त्वतोऽन्यथाभाव एव । स बन ब्रह्मणः कौटस्थ्यं विहन्ति आरोपितस्य तत्त्वाव्याहतत्वात्तथा च व्यवहारकालेऽपि स्वाभाविकस्वमहिमस्थितमेव ब्रह्माविद्यासचिवं रजुरिव सर्पाकारं जगदाकारं भजत इत्यर्थः । नन्वेवमपि ब्रह्मणोऽन्य- स्याज्ञानस्य सत्त्वात्कथं तस्यान्तत्रयान्यत्वं तत्राह अस्तमोहेति । अस्तो निरस्तो मोहोऽविद्या यस्याः सा तथोक्ता। अज्ञानमपि न तत्त्वतो- ब्रह्मव्यतिरेकेणास्तीत्यर्थः । ब्रह्मणोऽज्ञानाश्रयत्वलक्षणाशानसचिषवे भ्रान्तिरपि स्यादित्यत्र वाह-अस्तमोहेति । प्रतीतितोपि निराकृतो मोहो भ्रान्तिर्यस्याः सा तथोक्ता । अशानाश्रयत्वेपि स्वाभाविकसर्वक्षतया विशेषदर्शनसत्त्वान भ्रान्तिरित्यर्थः । नन्वविद्याया वस्तुतो ब्रह्मव्य- तिरेकेणासत्वे आरोपितत्वेन वियदादिवत्कार्यत्वं वक्तव्यं तत्र यदि ब्रह्म निर्विशेषमेव तत्कारणं भवेत्तदा तस्य कौटस्थ्यं भज्येत, यधवि- द्यान्तरसचिवं तदा तत्राप्येवमिन्यनवस्थापयेत, 'ब्रह्मव्यतिरेकेण तत्सत्त्वे पूर्वोक्तान्तत्रयशून्यत्वभङ्ग इल्यत आह-भुवनैकयोनिरिति । भुवनस्य कार्यजातस्य एकस्यैव योनिः न त्वविद्यायाः तस्यानादित्वेन कार्यत्वा- भावादित्यर्थः। न चारोपितत्वेन तस्यापि कार्यत्वानुमानम् अनवस्था- लक्षणप्रतिकूलतर्कपराहतत्वात् । यद्वा ब्रह्मणो ज्ञानाश्रयत्वे जगद्विवर्त्ता- धिष्ठानत्वलक्षणं तत्कारणत्वं न स्यात् । अज्ञानानाश्रयस्यैव शुक्तिका- शकलादेरजताद्यधिष्ठानत्वदर्शनात्तत्सचिवस्य कारणत्वे जगत्कारणवि- षयमेकमेवेत्यवधारणं च विरुद्धयेतेत्याशङ्कयाह-भुवनैकयोनिरिति । भुवनस्य ब्रह्म योनिरुपादानकारणं भवत्येव । तत्रापि तदेव कारणं नान्यदित्यर्थः। अयम्भावः-यदुक्तमज्ञानानाश्रयस्यैव लोके विभ्रमाधिष्ठानत्वमिति तम-तत्रापि शुक्क्यच्छिन्नचैतन्यस्यैवाज्ञानाश्रयत्वादज्ञानाश्रयत्वे विद्य- मानेप्यश्नानविषयत्वेन तस्य रजताधिष्ठानत्वाङ्गीकारे वा न तत्मक - सटीके संक्षेपशारीरके- दण्डवारितम् यदप्युक्तमविद्यासचिवरय कारणत्वे कारणविषयकत्वा- वधारणं विरुद्ध्य तेति तदपि न अविद्याया ब्रह्मण्यारोपितत्त्वेन तद्- नतिरेकादिति । एतादृशस्यापि ब्रह्मणः परोक्षत्वे अतिनिकटत्वमुक्तम्- संभवीत्याशङ्कयोक्तं प्रत्यगिति । सर्वान्तरमित्यर्थः । अथवा-जीवपरभेदस्य लोकसिद्धत्वान्न तयोरभेद इति शङ्का पराकर्तुमाह-स्वाशानेत्यादि । स्वाज्ञानं तत्कल्पितं च यजगत्तद्धीने ये ईश्वरत्वजीवत्वे तयोर्भेदः स्वाज्ञान- कल्पितं प्रत्यगज्ञानोपाधिकमीश्वरत्वं गच्छति नश्यतीति जगत्कार्य- करणसंघातः । तदुपाधिकं जीवत्वमित्यर्थः । तथा च जीवेश्वरभेद- प्रतीतेः। कल्पितभेदविषयत्वान्नैक्यानुपपत्तिरित्यर्थः। अत्र भुवनैक योनिरिति ब्रह्मणस्तटस्थलक्षणमुक्तं प्रथमार्द्धन तत्त्वंपदवाच्यौ दर्शितौ ॥२॥ ननु ब्रह्मव्यतिरिक्त सर्वमज्ञानकल्पितमिन्यनुपपन्नं तथात्वे प्रमा- तृप्रमाणादेरपि कल्पिततया असत्यत्वेन ब्रह्मसिद्ध्यभावप्रसङ्गात् । न ह्यसत्येन प्रमाणेन किञ्चिद्वस्तु सेडुमर्हति । न हि विनैव वा मानं किञ्चिद्वस्तु सिध्यति मानाधीना मेयसिद्धिरिति परीक्षकैरङ्गीकारात्प्र- मात्रादिसत्यत्वे च तस्य ज्ञाननिवर्त्यत्वानुपपत्तिः । वस्तुसतस्तदनुप- पत्तेः । तथा च कथमनर्थनिवृत्तिलक्षणं प्रयोजनं सिद्ध्यतीत्याशङ्का पराकरोति- प्रत्यक्प्रमाणकमसत्यपराक्प्रभेदं प्रक्षीणकारणविकारविभागमेकम् । चैतन्यमात्रपरमार्थनिजस्वभावं प्रत्यञ्चमच्युतमहं प्रणतोऽसि नित्यम् ॥३॥ प्रत्यक्षमाणकमिति । अहमच्युतं नित्यं प्रणतोस्मीति योजना। अच्युत सदा स्वमहिमप्रतिष्ठितं नित्यमिति भक्तयतिशयद्योतनार्थमुक्तं पुनःपुनरित्यर्थः । उक्ताशङ्कानिवृत्तये तं विशिनष्टि प्रत्यगिति । प्रातिकूल्येन ।
प्रथमोऽध्यायः। परप्रकाश्यदेहादिविलक्षणत्वेन प्रकाशत इति प्रत्यक स्वप्रकाशस्वरूप- चैतन्यमिति यावत् तदेव प्रमाणं यस्मिन्नच्युते तं तथा च जडस्य देहा- देर्मानं विना सिद्ध्यभावेपि ब्रह्म स्वयंप्रकाशत्वाद्विनापि मान सिद्ध्यति, अन्यथा-दृश्यत्वेन रजतादिवन्मिथ्यात्वं स्यादिति भावः । ननु प्रमाणं विना ब्रह्मस्वरूपसिद्धावपि न तदध्यस्ताविद्यानिवृत्तिफल- काखण्डाकारवृत्तिलक्षणसिद्धिविना प्रमाणम्, अन्यथा वेदान्ततटु- पकारिसूत्रादिवैयर्थ्यप्रसङ्ग इति चेत्तत्र वक्तव्यं किं तादृशसिध्यर्थे प्रमाणादिमात्रमपेक्ष्यते उत वस्तुसत् प्रमाणादि । आद्योऽङ्गीक्रि- यत इत्याह-असत्यपराक्प्रभेदमिति। असत्यो मिथ्याभूतोऽत एक पराङ् स्वरू- पावहिर्भूतः प्रभेदः प्रमात्रादिपदार्थो यस्मिन्स तथोक्तः । तथा च मिथ्याभूतप्रमातृप्रमाणादेः सत्त्वादविद्यानिवृत्तिफलकवृत्तिरूपा सिद्धिः सिध्यतीत्यर्थः । न चासत्यत्वे कार्यजनकत्वानुपपत्तिः । असत्यस्याधि रजुसर्यादेर्भयकम्पादिहेतुत्वदर्शनादिति भावः । न द्वितीय इत्याह- प्रक्षीणेति । प्रकर्षण नितरां कालत्रयेऽपि वस्तुतः क्षीणोऽविद्यमानः कार- गविकारविभागः प्रमातृप्रमाणप्रमितिविभागोयस्मिन् । अत्रहेतुःएकमिति यतो ब्रह्मकमेव तत्त्वमिति वेदान्तैः सिद्धमुपपन्नं च ततः प्रमाणादिवि- भागो अवास्तव इत्यर्थः । अथवा 'यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्य- श्येत्' 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येत्'इत्यादिना प्रमात्रा- दिविभागस्याविद्यकत्वप्रतिपादनाद्वास्तवत्वनिषेधाञ्च न प्रमात्रादिवि- भागो वास्तव इत्यभिप्रेत्य फलितमद्वयत्वं दर्शयति-एकमिति । सजाती- यविजातीयभेदशून्यमित्यर्थः। नन्वेवमपि ज्ञानानन्दादीनां ब्रह्मणश्च गुण- गुणिभावेन भेदस्य विद्यमानतया न भवदभिमतं मुख्यमानन्त्यं सिद्धय- तीत्याशक्याह-चैतन्यमात्रेति। चैतन्यमेव परमार्थोऽबाधितोनिजःस्वाभा- विकः स्वभावः स्वरूपं यस्य, चैतन्यमस्य स्वरूपमेव न तु नैयायिकाद्य- भिमतेश्वरस्येवाचेतनीभूतस्य चैतन्यं गुण इति एकधैवेत्यादिश्रुतेरिति मात्रचोऽर्थः सत्यानन्दादेरपि ज्ञानमात्रत्वान्न चैतन्यमात्रस्वरूपत्वं ब्रह्म । ।
सटीक संक्षेपशारीरके- - सोऽरममतविरद्धं तथा च मुख्यमानन्त्यं सिद्धमित्यर्थः। अविद्यादशायां ब्रह्मणः सविशेषरूपत्वेन मात्रचो बाधमाशङ्क्योक्तं परमार्थेति। चैतन्यमेव परमार्थस्वरूपमितरत्त्वाविद्यकमित्यर्थः । प्राविद्यकसर्वज्ञत्वादिवञ्चैत- न्यस्याप्यागन्तुकत्वमाशङ्कयोक्तं निजेति । प्राविद्यकत्वे चैतन्यस्य कल्पि- तत्वेन न परमार्थत्वं स्यादिति भावः । एतादृशस्यापि ताटस्थ्येनैक- न्वमनुपपन्नमित्याशङ्क्योक्तं प्रत्यञ्चमिति । प्रातिकूल्येन पराग्देहादिवैल- क्षण्येन विषयव्यावृत्ताक्षस्यान्तरञ्चति गच्छति वेति प्रत्यङ् सर्वान्तर इत्यर्थः । एवं प्रथमश्लोकोपदर्शितं ब्रह्मात्मैक्यलक्षणविषयमनर्थनिवृत्ति- लक्षणं प्रयोजनं चाक्षिप्य श्लोकद्वयेन समर्थितमिति ॥३॥ एवं प्रकरणप्रतिपाद्यां परदेवतां नमस्कृत्य तल्लब्धविद्यः सन्या- चो वाग्देवतामूलत्वात्स्वस्य वाकसिध्यर्थ वेदात्मिकां वाग्देवतां प्रण- मति- औत्पत्तिकी शक्तिरशेषवस्तु- प्रकाशने कार्यवशेन यस्याः। विज्ञायते विश्वविवर्तहेतो- नमामि तां वाचमचिन्त्यशक्तिम् ॥४॥ औत्पत्तिकीति । विश्वविवर्तहेतोर्यस्या अशेषवस्तुप्रकाशने औत्पत्ति- की शक्तिरस्तीति कार्यवशेन विज्ञायते अचिन्त्यशक्ति तां नमामीति सम्बन्धः। वेदो हि सर्वार्थावद्योतकत्वात् भवति सर्ववस्तुप्रकाशन- समर्थः । तच्च सर्वार्थप्रकाशनं क्वचिल्लक्षणया क्वचित्साक्षाद्भवति । सा च शक्तिः सामर्थ्य स्वभाविकी न सांकेतिकी अपौरुषेये वेदे पुरुषे च्छादेरभावादित्यौत्पत्तिकसूत्रे स्थितं तमिमर्थमाह-ौत्पत्रिकीति । स्वाभाविकीत्यर्थः । शक्तविषयमाह-श्रशेषैति । अशेषवस्तुप्रकाशन- सामर्थ्य कार्यलिङ्गकमनुमानमाह-कार्यवशेनेति । शक्तिहि. कार्यको प्रथमोऽध्यायः। नेयधर्मः कार्यवशेन विज्ञातव्या अस्ति चाशेषवस्तुप्रकाशनसमर्थकार्य सर्ववस्तुप्रकाशः न हि सोऽर्थोस्ति यो वेदेन साक्षाल्लक्षणया वा न बोधितः । तत्र हेतुः-विश्वविवर्तहेतोरिति । वेदो हि वेदपूर्विकां विश्वसृष्टिमा- चष्टे 'एत (१) इति वै प्रजापतिर्देवानसृजत असूप्रमिति मनुष्या- निन्दव इति पितृ स्तिरःपवित्रमिति ग्रहानाशव इति स्तोत्रं विश्वा- नीति शस्त्रमभिसौभगेत्यन्याः प्रजाः' इत्यादिना तत्र न हि तस्य साक्षा- द्विश्वसृष्टिहेतुत्वं संभवति प्रमाणात्मकत्वात् किन्तु स्वार्थबोधनद्वारा लोके सृज्यमानं वस्तु स्ववाचकशब्देन ज्ञायमानं क्रियत इति प्रसिद्ध तथा च ब्रह्माभिन्नविश्वविवर्त्तहेतुविश्वविषयज्ञानजनकत्वेन वेदस्याशे- पवस्तुप्रकाशनसामर्थ्य सिद्धमित्यर्थः। नन्वेतादृशी शक्तिरन्यत्र शब्द- स्यादृष्टचरीत्याङ्कयाह-अचिन्त्यशक्तिमिति । अदृष्टान्तसिद्धस्वभावशक्तिमि- त्यर्थः । न हि अन्यत्रादृष्टत्वमात्रेण प्रमाणसिद्धा शक्तिर्नेति शक्यं वक्तु- मिति भावः । अत्र चार्थाद्वेदान्तानां ब्रह्मणि प्रामाण्यं संभावितम् ॥४॥ एवं नमस्कारब्याजेन प्रमाणे प्रमेये चाद्वितीयवस्तुनि सम्भाविते पुनरपि विघ्नो मे माभूदिति विघ्ननिराससमर्थ विघ्नेश्वरं स्तौति- प्रारम्भाः फलिनःप्रसन्नहृदयो यश्चेत्तिरश्चामपि नो चेद्विश्वसृजोऽप्यलं विफलतामायान्त्युपायोधमाः। विश्वैश्वर्यमतो निरङ्कुशमभूद्यस्यैव विश्वप्रभोः सोऽयं विश्वहितेरतो विजयते विघ्नेश्वरो विश्वकृत्॥५॥ (१) एते इतिपदं सर्वनामत्वाद् देवानां स्मारकम्, अस्गुधिरं तत्प्रधाने देहे रमन्ते इति असृग्रा मनुष्याः, चन्द्रस्थानां पित णामिन्दुशब्द: स्मारकः पवित्रं सोमं स्वान्तस्तिरकुर्वतां ग्रहाणां तिरः पवित्रशब्द: स्मारकः, ऋचोऽश्नुवतां स्तोत्राणां गीतिरूपाणामाशुशब्द: स्मारक:, स्तोत्रानन्तरं प्रयोग विशतां शस्त्राणां विश्वशब्दः रमारकः, व्यापिवस्तुकाध्यभिशब्दसंयुक्तः सौभगेतिशब्दः अन्यासां प्रजानां स्मारकः, तथा च तेन तेन पदेन देवादीन् स्मृत्वा पूजापतिः- सृष्टवानित्यर्थः ।
सटीक संक्षेपशारीरके- । MIND प्रारम्भा इति । यः प्रसन्नहृदयश्चेत्तिरश्चामर्वाचीनानामपि प्राणिनां प्रारम्भाः प्रवृत्तयः फलिनः प्रयोजनवन्तो भवन्ति नो चेत्प्रसन्नहृदयो न चेत् विश्वसृजो ब्रह्मणोप्युपायोद्यमाः साधनविषयप्रवृत्तयः अलम- त्यर्थ विफलतामायान्ति प्राप्नुवन्ति । अतः यस्यैव विश्वप्रमोविश्वै- श्वर्य विश्वविषयनिग्रहादिकं निरङ्कुशमप्रतिहतमभूद्विश्वकर्ता विश्व- हिते रतो विश्वपालकः तत्संहर्ता च ब्रह्मविष्णुरुद्रात्मक इत्यर्थः । सोऽयं श्रुतिलोकप्रसिद्धो विघ्नेश्वरो विघ्ननिग्रहसमर्थः विजयते सों- कर्षेण वर्तत इत्यर्थः। अनेन स्वकृतनमस्कारस्य फलवत्त्वं सूचितम्॥५॥ एवं देवतावर्ग नमस्कृत्य गुरुप्रसादात्परमात्मलाभ इत्यादिना गुरुप्रसादस्य सकलपुरुषार्थहेतुत्वसिद्धः "शिवे रुष्टे गुरुस्त्राता गुरौ रुष्ट न कश्चन इति देवताभ्यो गुर्वाधिक्यप्रतिपादनाच्च गुरुवर्ग महीकु- वन्नादौ प्रथम गुरुं व्यास पूजयति- वागविस्तरा यस्य बृहत्तरङ्गा वेलातटं वस्तुनि तत्त्वबोधः । रत्नानि तर्कप्रसरप्रकाराः पुनात्वसौ व्यासपयोनिधिनः॥६॥ वाग्विस्तरा इति । असौ व्यासपयोनिधिनः पुनातु शुद्धीकरोत्विति सम्बन्धः । व्यासस्य पयोनिधिसाम्यमाह-यस्य वाग्विस्तरा वागुप- न्यासा एव बृहत्तरङ्गाः समुद्रतरङ्गवदनायासेनानवरतं प्रवर्त्तमान- स्वाद्विविधभङ्गित्वाञ्च तरङ्गाः बृहदर्थविषयत्वाच्च वृहन्तः। वेलातटं स- मुद्रतीरप्रान्तदेशः। वस्तुनि तत्त्ववोधो ब्रह्मविषयमपरोक्षज्ञानं तरङ्गभूत- वाग्विस्तराणां तत्त्ववोधावसानत्वात्प्रसिद्धतरङ्गाणां च वेलातटपर्यव- सायित्वात्तद्धोधस्य वेलातटसाधर्म्यम् । तर्कप्रसरप्रकाराः समन्वयादि- निरूपणाय तर्कोपन्यासविधाः उपन्यस्यमानतळ इति यावत् रत्नवा प्रथमोऽध्यायः। १७ HOMMISS च्छिप्याणामभिमतार्थप्रकाशकत्वाद्धितकरत्वाञ्च तर्काणां रत्नसाम्यं, समुद्रवद्गभीरगुणत्वाद् व्यास एव पयोनिधिः । पुनात्वित्यनेन शुद्धि- करत्वं च पयोनिधिसाम्यं ध्वनितम् ॥ ६ ॥ इदानीं यदीयभाष्यार्थावगतये स्वयं ग्रन्थं करोति तं भाष्यकर्तारं प्रणमति- वक्तारमासाद्य यमेव नित्या सरस्वती स्वार्थसमन्विताऽऽसीत् । निरस्तदुस्तर्ककलकपङ्का नमामि तं शंकरमार्चिताधिम् ॥७॥ बक्तारमिति । नित्या वेदलक्षणा सरस्वती यमेव वक्तारं प्राप्य निर- स्तदुस्तर्ककलङ्कपङ्का सती निरस्तो दुस्ताख्यः कलङ्कः मालिन्यं तद्धेतुः पङ्कः कुत्सितपको वा यस्याः, स्वार्थसमन्विता अद्वितीयब्रह्म- लक्षणस्वार्थसहिताऽऽसीत्तमचिंताधि शंकरं नमामीत्यर्थः । अन्यैर्हि व्युत्पाद्यमाना सरस्वती दुस्तर्ककलङ्कपङ्कानुलिप्ताक्षणी (क्षी) सती जा- त्यन्ध इव पुरस्थितमधि रत्नजातं स्वार्थ न गृह्णाति । यद्यपि वैयासिकी गौरद्वैतब्रह्मविषया सती स्वार्थसमन्विता भवति तथापि गूढार्थतया भेदवादिव्याधैर्दुस्तर्कनिशितमार्गणैर्हन्यमाना भाष्यकारं रक्षितारं विना शर्म न लभते । यद्यपि भट्टाचार्यप्रभृतिरपि वेदो व्याख्यात एव तथापि न तत्प्रदर्शितार्थो वेदस्य विवक्षितार्थो भवति न वा तैः सर्वो वेदो व्याख्यातः वेदान्तानामव्याकृतत्वात्प्रत्युत तैरुपचरितार्थत्ववर्ण- नेन बाधिता एव वेदान्ताः । नन्वाचार्यैरपि कर्मकाण्डो न व्याकृत इति चेन्न विविदिषावाक्यव्याख्यानेनैव तस्यापि ज्याख्यातत्त्वाद- त एव भाष्यकाराणां वैदिकशिरोमणिप्रसिद्धिः सर्वज्ञतया भगवत्याद- न्वप्रसिद्धिश्च तदेतत्सर्वमभिप्रेत्योक्त- यमेवेति । प्राचार्यमेकाश्रित्य स्वार्थ- समन्विता नान्यमाश्रित्येत्यर्थः ॥ ७॥ ३ सटीक संक्षेपशारीरके- इदानीं गुरुचरणारविन्दरजो महीकुर्वन् स्वगुरुमतिमहीकरोति- यदीयसम्पर्कमवाप्य केवल वयं कृतार्था निरवद्यकीर्तयः । जगत्सु ले तारितशिष्यपङ्कयो जयन्ति देवेश्वरपादरेणवः ॥८॥ यदीयेति । येषां देवेश्वराख्यश्रीगुरुचरणारविन्दरजसा संपर्क केवलं शुश्रूषादिमकृत्वापि प्राप्य वयं कृतार्थाः साक्षात्कृतात्मानः निर- वद्यकीर्तयोऽनुपमव्याख्यानादिना निर्दुष्टयशसश्चाभूम तारितशिष्य- पङ्क्तयः संसारसागरादुत्तारितशिष्यराशयस्ते देवेश्वरपादरेणवो जयन्तीत्यर्थः ॥८॥ तदेवं श्रीगुरुचरणारविन्दरजोमहिमकीर्तनद्वारा किमु वक्तव्य- न्यायेन गुरुप्रभावस्वातिशयो दर्शितः, गुरुचरणप्रभावप्रख्यापनशेष- तयाप्यात्मनः कृतार्थत्वादिकीरीनादात्मनोऽहंकाराविर्भावमतिर्जातेति तामुपशमयति- गुरुचरणसरोजसंनिधाना- दपि वयमस्य गुफैकलेशभाजः । अपि महति जलार्णवे निमग्नाः सलिलमुपाददते मितं हि मीनाः ॥६॥ गुरुचरणेति । अस्य गुरुचरणस्य गुणस्य एकलेशो लेशादपि लेश: अत्यल्प इति यावत् तं भजन्त इति तथोक्ताः। अपि शब्देनास्य गुरु- चरणस्य शिष्येभ्यः सकलगुणाधानसामर्थ्येप्यस्माकं तद्भजने सामर्थ्य नास्तीति द्योतितं नित्यं महत्सन्निधानेपि स्वसामर्थ्यानुरोधेन गुणै- कदेशभजने लोकप्रसिद्ध दृष्टान्तमाह-अपि महतीत्यादिना । निमग्ना प्रथमोऽध्यायः । १ Kntstarma अयोति सम्बन्धः उपाददते गृह्णन्ति मितमल्पं हि प्रसिद्ध्यर्थः ॥ १॥ गुणैकदेशभाक्त्वे सकलशास्त्रार्थदर्शित्वाभावादुचतरगिरिशि- खरस्थतरुशाखामावलम्बिफलप्रेप्सया पङ्गुप्रवृत्तिरिय ग्रन्थकरणप्र. वृत्तिन शोभत इत्याशङ्कश स्वतः सामर्थ्याभावेपि सर्वशश्रीगुरुचरण- निकटनिवासमहिम्नैव ग्रहग्रस्तवत्कथं चित् ग्रन्थं कर्तुं शक्नोमीत्याह- शक्तो गुरोश्चरणयोनिकटे निवासा- नारायणस्मरणतश्च निरन्तरायः। शारीरकार्थविषयावगतिप्रधान संपतः प्रकरणं करवाणि हृष्यन् ॥१०॥ शक्तो गुरोरिति । ननु गुरुचरणसन्निधानाच्छक्तस्यापि विघ्नबाहुल्य- संभवान्न ग्रन्थकरणं. संभवतीत्याशङ्कयानुष्ठिततत्त्वानुस्मरणसंजात- विघ्नध्वंसवत्वमात्मनो दर्शयति-नारायणेति । निर्गतस्तिरस्कृतोऽन्तरायो विघ्नो यस्य स निरन्तरायः । एवं स्वष्टदेवतागुरुनमस्कारसम्पन्न- निष्प्रत्यूहग्रन्थकरणसामर्थ्य प्राचार्यश्चिकीर्षितं प्रतिजानीते- प्रकरणं करवाणीति । शास्त्रप्रतिपाद्यसगुणविद्यादेः प्रायशो निरूपणात्कार्यान्तरस्य चाध्यासादिसपरिकरनिरूपणस्य सत्त्वादिदं प्रकरणं प्रकरणस्यावा- न्तरप्रयोजनं दर्शयति-शारीरकेति । शरीरे स्थूलसूक्ष्मकारणरूपे भवः प्रतिबिम्बितश्चिद्धातुः शारीरः शारीर एव शारीरकस्तत्प्रतिपादको ग्रन्थोपि शारीरक इत्युच्यते, श्रीमद्भाष्यमित्यर्थः । तस्यार्थः-प्रत्यग्- ब्रह्मैक्यं, स एव विषयो यस्या अवगतेरनुभवस्य सा प्रधानं मुख्यतः कार्य यस्य तत्तथोक्तं शारीकार्थावगतिः शारीरकेणैव भविष्यति किमनेनेत्याशङ्कयोक्तम्-अवगतिंप्रधानमिति । शारीरके हि परपक्षनिराकरण- प्राधान्येन विचारान्तरपूर्वकं च ब्रह्म प्रतिपाद्यते । अत्र तु परपक्ष- निराकरणमल्पीकृत्य विचारान्तरं चाकृत्वा प्राधान्येन त्वमहमादि- ।
२० सटीके संक्षेपशारीरके- शब्दैर्ब्रह्मपदसमभिव्याहारेण च शारीरकस्य विवक्षितार्थो ब्रह्मव प्रति. पाद्यत इति स्पष्टावगतिरतो भवतीति ग्रन्थोऽयमर्थवानित्यर्थः । प्रयो- जनान्तरमप्याह-संक्षेपतः । शब्दस्यैव संक्षेपो न तु मीमांसाया विव- क्षितः। तथा च शारीरकस्य ग्रन्थतो विस्तृतत्वान्मुमुक्षूणामलसानां तत्त्वसाक्षात्कारसंपादने त्वरावतां च प्रवृत्तिर्न स्यात् अत्र तु तेषामपि प्रवृत्तिरित्यस्त्येव प्रयोजनमित्यर्थः । संक्षेपतः शारिकेत्यादिना-अर्थादस्य ग्रन्थस्य संक्षेपशारीरक इति संज्ञा दर्शिता। ग्रन्थकरणं च न राजा- दिनिर्बन्धेनेत्याह-हृष्यन्निति । देवतागुरुप्रसादादिसंपादितसामर्थ्यादिम- त्वात्संतुष्ट एवाहं करोमीत्यर्थः । शक्तो गुरोरित्यादिनास्य ग्रन्थस्य सम्प्रदायमूलत्वं सूचितम् । शारीरकार्थेत्यादिना समूलत्वं सूचितम्- अवगतीत्यादिना मूलशास्त्रादुत्कर्षश्च दर्शितः । तथा च नेयं कृतिः स्वकपोलकल्पिता, न च निर्मूला, न वा निष्प्रयोजनेति भावः ॥ १० ॥ इदानी स्वकृतग्रन्थस्य सकलविद्वत्परीक्षणप्रार्थनद्वारा शब्दतो- र्थतश्च निर्दुष्टत्वं दर्शयति- पद्वाक्यमाननियुणा निपुणं विमृशन्त्विदं प्रकरणं मनसा । गुणदोषनिर्णयनिमित्ततया प्रथिता हि पण्डितजना जगति ॥११॥ पदवाक्येति । पदवाक्यमानेषु तद्विषयव्याकरणमीमांसान्यायशास्त्रेषु निपुणाः प्रवीणाः वैयाकरणमीमांसकनैयायिकाः मनसा बुद्धिपूर्वकं सावधानेन इदं प्रकरणं निपुणं सम्यग्विमृशन्तु-विचारयन्तु। ननु भव- त्कृते किमस्मत्कृत्यमिति चेन्नेत्याह-गुणदोषेति। हि यतः गुणदोषयोनिश्चय- हेतुत्वेन भूमौ विद्वांसः प्रसिद्धा इत्यर्थः ॥ ११ ॥ ननु विद्वद्भिविमर्शितेपि ग्रन्थे तर दुःखं भविष्यतीति दोषो नोद्भा:
प्रथमोऽध्यायः। २१ AMMAR व्येत, अतः कथं ग्रन्थस्य शुद्धि रित्याशङ्कयाह- विद्वांसो यदि मम दोषमुगिरेयुः यहा ते गुणगणमेव कीर्तयेयुः तुल्यं तहहु मनुते मनो मदीयं क, तद्वत मनुते यदाह मन्दः ॥१२॥ विद्वांस इति । मम दोषं मदन्थे दोषं ग्रन्थदोषस्य कर्तृदोषपूर्वक त्वान्ममेत्युक्तम् उदगिरेयुः विद्वांसो मद्गन्थे गुणगणं दोषं वा यदि वर्णयेयुः तदा विद्वत्कृतदोषवर्णनस्यापि ग्रन्थशोधनाङ्गत्वात्तद्गुणग:- रणवर्णनेन सह तुल्यं यथा भवति तथा मम ममो बहु मनुते समीचीनं मनुत इत्यर्थः । तर्हि मत्सरग्रस्तविद्वदुद्भावितदोषस्य शुद्धयनङ्गत्वेन त्वद्ग्रन्थो दुष्टः स्यात्तत्राह-कष्टमित्यादिना । मन्दशब्देन मत्सरग्रस्तविद्वदा- भास उच्यते । वतेत्यनादरे मन्दो गुणं दोषं वा वदतु नाम न तेना- स्मद्ग्रन्थस्य भूषणं दूषणं वा भवति । अतोऽस्माकं तत्र नास्थेत्यर्थः । अयम्भावः विद्वांसो हि यथार्थवादिनस्ततस्तेऽत्र न वदिष्यन्त्येव दोषं विद्वन्मन्यैस्त्वसत्यवादिभिर्गुणदोषाभिधानेपि नादरः, तस्याकि- श्चित्करत्वादिति ॥ १२॥ महत्कृते ग्रन्थे मन्देन दोष उद्भाविते न केवलमनादरः किन्तु सूर्य- मण्डलं हस्तेनाच्छादयितुं प्रवृत्तमूढवत् स शोच्योपीत्यभिप्रेत्याह- महामहिम्नामपि यश्चिकीर्षति स्वभावसंशुद्धतरं तिरो यशः । स नूनमाच्छादयितुं प्रवर्तते विवस्वतो हस्ततलेन मण्डलम ॥१३॥ mo- २२ सटीके संक्षेपशारीरके- - महामहिम्नामिति । संशुद्ध तरं अत्यन्तं शुद्धं यशस्तिरश्चिकीर्षति तिरोधानं कर्तुमिच्छतीत्यर्थः नूनमवश्यम् । एवं मुख्यावान्तर विषय- प्रयोजनसद्भावात्प्रकरणमारब्धव्यमिति सिद्धम् ॥ १३॥ ननु, नेदं प्रकरणमारभ्यं तद्व्युत्पाद्यविचारस्य निष्प्रयोजनत्वात्- तथा हि-अविद्यानिवृत्तिरानन्दावाप्तिर्वा प्रयोजनं वक्तव्यं तदुभय- मपि विचारस्य साक्षाद्वा प्रयोजनं तत्त्वज्ञानोत्पादनद्वारा वा, लाद्यः- अविद्यानिवृत्तरात्मज्ञानैकसाध्यत्वादानन्दावाप्तेश्वात्माऽविद्यामात्रव्य- वहितायास्तत्त्वज्ञानैकसाध्यत्वात्, ननु विचारस्यापि ज्ञानात्मक- त्वादद्वितीयान्मविषयत्वा तस्मात्साक्षादेवाविद्यानिवृत्तिः स्यादितिः चेन्न-तस्य तर्करूपतया अप्रमाणत्वात्, ननु तर्करूपत्वेपि तस्य परमार्थब्रह्मविषयतया यथार्थत्वात्प्रामाण्यं स्यादिति चेन-एवमपि तर्कस्य प्रमारोपकारकतया प्रमाणाङ्गस्य पृथक् फलवत्त्वानुपपत्तेः, प्रमाणाजन्यत्वेनाप्रमाणत्वात् केवलस्य तस्या ब्रह्मविषयत्वाच । द्विती- येऽपि विचारस्य प्रमाणभूतवेदान्तसहकारित्वेन परोक्षज्ञानोत्पादनद्वारा अपरोक्षज्ञानोत्पादनद्वारा वा, नाधः-परोक्षज्ञानस्याविद्यानिवर्तकत्वा- भावात् , बुभुत्सोच्छेदकं हि ज्ञानमविद्यां निवर्तयति, न च परोक्षशानं बुभुत्सां निवर्तयति शब्दतः प्रतिपनेऽपि पदार्थे कीदृशः स इति प्रतिपन्नविषयमात्र एव बुभुत्सादर्शनात्, ननु धर्मादौ ज्ञाने बुभुत्साया श्रदर्शनात्तद्विषयं परोक्षज्ञानमज्ञानं निवर्तयेदिति चेन्न-तत्र ह्यपरोक्ष- बुभुत्साया अनुदयो न परोक्षज्ञानमहिना किन्तु तस्यापरोक्षविषयत्वा- योग्यत्वनिश्चयादन्यथा स्वर्गादावप्यपरोक्षबुभुत्साया अनुदयप्रङ्गात्, न हि स्वर्गापूर्वविषय परोक्षज्ञाने कश्चिद्विशेषोऽस्ति, अपरोक्षज्ञाने सति तु न कस्यचिदपि बुभुत्सा अनाहार्या दृश्यते तत्कस्य हेतोः, बुभु- साकारणाज्ञानाभावादिति ब्रूमः, अनुभवन्ति च परोक्षज्ञाने सत्यपि तद्विषयमज्ञानं एवमयमाहाहं तु न वेद्मीति, नचैवमपरोक्षज्ञानेप्य- ज्ञानानुभवोऽस्ति, तस्मान्न परोक्षज्ञानमविद्यानिवर्तकमिति । वेदान्ता- प्रथमोऽध्यायः। नामपरोक्षज्ञानजनकत्वस्वीकाराञ्च न द्वितीयः, विचारान्प्रागपि वेदान्त वाक्यादेव केवलात्तदुत्पत्तेर्विचारस्य तत्फलवत्त्वानुपपत्तेः । ननु विचारानन्तर तत्सहकृतादेव वेदान्तादपरोक्षज्ञान जायते न प्रागिति- चेत्तर्हि प्राग्वेदान्तानां परोक्षज्ञानजनकत्वेऽप्रामाण्यप्रसङ्गः, अपरोक्षे ब्रह्मणि परोक्षशानम्य विषयविरुद्धाकारत्वात् । अथविचारात्पूर्व परोक्ष- ज्ञानजनकत्वेपि न वेदान्ताप्रामाण्यप्रसङ्गः, शब्दप्रमाणखभावादपरो क्षे ब्रह्मणि अपरोक्षमिति जायमानस्य परोक्षत्वेप्यतस्मिंस्तद्बुद्धिन्वा- भावात्, न च वेदान्तस्य परोक्षज्ञानजननस्वभावत्वे विचारानन्तरमप्य- परोक्षज्ञानजनकत्वं न स्यादिति वाच्यम्-स्मृत्येकजनकसंस्कारस्य संनिहितमात्रविषयज्ञानजनकचक्षुषश्च परस्परसहकारिबलात्प्रत्यभि- शानजनकत्ववदुपपत्तेरितिचेन्न-विचारसहकृतस्यैवापरोक्षबोधजनकत्वे वेदान्तानां सापेक्षत्वप्रसङ्गात्तस्माद्विचारस्य निष्प्रयोजनत्वात् तद्व्यु- त्पादकमिदं प्रकरणमनारभ्यमिति चेद् उच्यते-विचारात्प्रागेव वेदा- न्तादद्वितीयब्रह्मसाक्षात्कारोदयेऽपि प्रमाणप्रमेयासंभवनादिलक्षणपुरु- षापराधप्रतिबद्धतया स्वविषयप्रतिष्ठितत्वाभावादविद्यानिवर्तकत्वं न स्याद्विचारेण निवृत्ते तु प्रतिबन्धे स्वविषयप्रतिष्ठितोऽविद्यानिव- तको भवति, यथा तीववायुनिवृत्त्या पूर्वकालीन एव दीपः स्वविष- यप्रकाशकः ततश्च विचारोऽसंभावनादिप्रतिबन्धनिवृत्तिद्वारा साक्षा- कारं स्वविषये प्रतिष्ठापयन्विषयप्रतिष्ठितसाक्षात्कारफलाविद्यानि- वृत्त्या फलवान् भवतीति तव्युत्यादकग्रन्थोपि फलवान् । नन्वसंभा- वना नामाभावसंभावनेति ब्रह्मभावाभावनिश्चयः विपरीतभावना च विरुद्धा भावनेति विपरीतरूपान्तरज्ञानं तदुभयमप्यपरोक्षतो ज्ञाते व- स्तुनि न संभवति विपर्ययादेनिनिवर्त्यत्वात्-ननु सामान्यतोझातेपि विशेषतो ज्ञातत्वाभावादसंभावनादि स्यादितिचेन्न-ब्रह्मणि सामा- न्यविशेषभावाभावात् नोकरसं वस्तु विचारात्पूर्व वेदान्तैश्चैतन्याका- रेण ज्ञायते न त्वनवच्छिन्नानन्दाकारणेति साधुवचनं विचारात्पूर्व सटीके संक्षेपशारीरके- वेदान्त जन्यमपि ज्ञाने नाविद्यां निवयति, तस्यापातबोधरूपत्वा- दितिचेत् किमिदुमापातबोधत्वं न तावत्सामान्यबोधरूपत्वमित्युक्तं नापि संशयविपर्ययान्यतरत्वमपौरुषेयवेदस्य तजनकत्वानुपपत्तेः । न च विचारात्पूर्व वेदान्तादात्मज्ञानमेव नाभूदिति वाच्यम्, पूर्वोक्त- विरोधात्साङ्गमधीतस्य वेदस्य श्रोतरि स्वार्थप्रत्ययाधायकत्वनिय- माञ्च अन्यथा-अबोधकतालक्षणाप्रमाण्यप्रसङ्गः । नन्वखण्डाकार- वृत्तिरवाशानसंशयविवर्तिका सा च न विचारात्प्राक् श्रुतवाक्याद्भवति पदार्थज्ञानाभावात् न चावान्तरवाक्यार्थमालोचयतस्तादग्बोधो भव- तीति वाच्यम् अवान्तरवाक्यार्थज्ञानस्य विचारफलत्वादितिचेन्न-सर्वे पामपि गुरूपसदनस्यावश्यकत्वेन पिण्डीकृत्य गुरुणोपदिष्टपदार्थद्वय- झानमादाय श्रुतवाक्यात्ताहगाकारबोधोत्पत्तिनियमात् तथा च विचा रात्पूर्वं यदि साङ्गमधीतो वेदान्तो न ब्रह्म बोधयेत्प्रमाणमेव न भवेद्यदि बोधयेद्विपर्ययात्मको संभावनादिर्न भवेदिति वेदान्तिनामुभयतः पाशा: रज्जुस्तस्मादसंभावनाद्यभावान्न तन्निवृत्त्यापि विचारोऽर्थवा- निति चेत्तत्रेदं भवान्पृष्टो व्याचष्टां किमसंभावनादिरेव नास्तीति ब्रवीति किं वा ज्ञाते वस्तुनि तत्कारणाभावेन सोऽनुपपन्न इति । न प्रथमः- साङ्गमधीतवेदान्तानामपि बहूनां ब्रह्माहमस्मि न वा नैवाहं ब्रह्मास्मि किन्तु कतैवेति संशयविपर्ययोरविचलमनुवर्तमानत्वात् । न द्वितीयः- अज्ञानादिसामग्रयाः सत्त्वात् । नन्वज्ञानमेवोदिते तत्त्वज्ञाने न संप्रति- पद्यते कुतस्ततोऽसंभवानादिरिति चेन अज्ञानस्यापि सर्वानुभवसिद्ध- न्वात् । नन्वनुभवसिद्धमपि तद्नुपपन्नं ज्ञानाज्ञानायोर्विरोधादिति चेन-नानुभवसिद्धपि काचिदनुपपत्तिः, न वा कश्चिद्विरोधः। नन्वनुभवो भ्रान्तिरिति. आयुष्मान् भव: यतस्त्वमेवाज्ञानानुभव, भ्रान्तिमूलत्वेनावगतेपि तत्त्वे अज्ञानमङ्गीकुरुषे । ननु नाहं विप्रतिपत्र किन्तु सुहृद्भावेन पृच्छामि कथमपौरुषेयवेदप्रमाणतो निश्चतेप्य; झानम् - एवं सति कथं वा पश्चात् ज्ञानेन तन्निवृत्तिरिति चेच्छणु प्रथमोऽध्यायः । २५ तर्हि दर्शनरहस्यं विचारात्प्रानिर्दष्टापौरुषेयवेदप्रमाणाजायमानमपि ब्रह्मापरोक्षज्ञानं जायमानावस्थायामेव विना विचार प्रवर्त्तमान- प्रबलतरस्वाभाविकानादिसिद्ध कर्तृत्वादिभेदभ्रमवासनाभियथार्थत्वेनार भिमताभिरभिभूयमानं सत् स्वविषयप्रतिष्ठां न लभते । ततो- ऽर्थात्संशयरूपर्ता प्राप्नुवदविद्यानिवृत्तिक्षमं न भवति । भगवान्व- शिष्टोपि प्रबलवासनानामेव संसारहेतुत्वं दर्शयन्यावद्वासनादाढ्यं संसारं दर्शयति 'संसारवासनादाढ्यं बन्ध इत्यभिधीयत' इति निवृत्ते तु विचारणासंभावनादौ तेनैव प्रमाणेन जायमानं ज्ञानमविद्यानिवृ- तिक्षमं भवति तथा चासंभावनादिनिवृत्तिद्वारा विचारस्थार्थवत्त्वात्त- ट्युत्पादकग्रन्थस्याप्यर्थवत्त्वात्प्रकरणमिदमारम्भणीयभिप्रेत्य तत्रादौ निर्दुष्टप्रमाणजन्यमपि ज्ञानमसंभावनादिप्रतिबन्यं सदकिञ्चित्करमि- त्येतत्सदृष्टान्तमाह- पुरुषापराधमलिना धिषणा निरवद्यचतुरुदयापि यथा । न फलाय भर्छविषया भवति श्रुतिसंभवापि तु तथात्मनि धीः ॥१४॥ पुरुषापराधेति । असम्भावनाविपरीतभावनयोः प्रमाणप्रमेयाधीन- त्वाभावात्पूर्वपूर्वभेदभ्रमवासनालक्षणषुरुषदोषजन्यत्वाच्च पुरुषापराध- त्वं धिषणायाः बुद्धः पुरुषापराधकृतमालिन्यं च तदभिभवनिमित्ता- र्थिकसंशयात्मकत्वं फलमविद्यानिवृत्तिः । भर्छ म कश्चिद्राजपुरोहितो राज्ञोत्यन्तदयितो राजस्नेहवलादत्यन्तं दृप्त इतरान् राजकीयान् नित्यं द्वेष्टि तस्मिंश्च केनचिनिमित्तेन पुरादपस्ते अन्ये राजकीया- लब्धावसरा भर्छ भृतो ब्रह्मराक्षसंश्च बभूवेति राज्ञे निवेदयामासुः तन्मार्ग च निरोधयांचक्रुः राजा च चिरकालं भर्छ त इति भाव- सटीके संक्षेपशारीरके- यांबभूव ततः कदाचिन्मरणभावनादृढभावितचित्तो राजा स्वका- र्यार्थ निर्गतो मार्गेऽतिदीर्घकूर्च राजविश्लेषेणातिकशाङ्गं वृक्षादवरोहन्तं 'हे राजन् मामतिस्पर्द्धयैवेते तिरस्कृतवन्त' इति क्रोशन्तं भर्छ निकटे विशेषतो दृष्ट्वापि तं ब्रह्मराक्षस इत्येव मेन इत्याभाणकप्रसिद्धिः । तथा च यथा प्रमाणजन्यापि भर्छविषयाबुद्धिर्विपरीतभावनाभिभूता सती तद्विषयाविद्यानिवृत्तये न भवति न समर्था, तथा श्रुतिजन्यापि ब्रह्मविषया बुद्धिरसंभावनाद्यभिभूता अविद्यानिवृत्तये न पर्याप्तेत्यर्थः । भर्छविषयज्ञानं कदापि फलाय न भवत्येव, आत्मविषयश्रौतज्ञानं तु कदाचित्फलवद् भवतीत्यात्मज्ञानस्य विशेषं तु शब्देनाह ॥ १४॥ कदा तहि फलवदात्मज्ञानमित्याकाङ्क्षायामाह- पुरुषापराधविगमे तु पुनः प्रतिबन्धकव्युदसनात्सफला । मणिमन्त्रयोरपगमे तु यथा सति पावकाद्भवति धूमलता ॥१॥ पुरुषापराधविगमे तु पुनरिति । पुनः पश्चाद्विचारेण पुरुषापराधनिवृत्त्य- नन्तरमात्मबुद्धिः सफला तत्र हेतुः-प्रतिबन्धकन्युदसनादिति । प्रति- बन्धकस्य निवृत्तत्वादित्यर्थः । समर्थादेव कारणान्प्रतिबन्धकवशे- नापूर्वकार्यमनुपजनयतस्तद्विगमानन्तरं तस्मादेव कार्योत्पत्तौ दृष्टान्त- माह-मणीत्यादिना। दाहकशक्तिप्रतिबन्धकमणिमन्त्रयोरित्यर्थः । समान- लिङ्गपदेन दृष्टान्तं वक्तुं धूमस्य लतात्ववर्णनम् । तु शब्दावधारणार्थौ । यथा प्रतिबन्धकनाशानन्तरं वधू मो भवत्येव तथा पुरुषापराधविगमे ब्रह्मसाक्षात्कारादविद्यानिवृत्तिर्भवत्येवेत्यर्थः ॥ १५ ॥ नन्वथातो धर्मजिज्ञासेति जैमिनिना धर्मज्ञानाय विचार इति सूचयता ज्ञानमेव विचारस्य प्रयोजनं विवक्षितमथातो ब्रह्मजिज्ञासेति प्रथमोऽध्यायः। २७ amava वादरायणेनापि भगवता ब्रह्मज्ञानमेव विचारप्रयोजनं सूचितं तद्भा- प्यकारैरपि तस्माद् ब्रह्मजिज्ञासितव्यम्' इत्यादिना भाष्येण ब्रह्मज्ञान- प्रयोजनस्तद्विचार इत्युक्तं तत्कथं प्रतिबन्धनिवृत्तिरेव तत्प्रयोजनमिति वर्ण्यते तत्राह- पुरुषापराधविनिवृत्तिफलः सकलो विचार इति वेदविदः । अनपेक्षतामनुपरुध्य गिरः फलवद्भवेत्प्रकरणं तदतः ॥१६॥ पुरुषापराधेति । पुरुषापराधस्य विशेषेण निवृत्तिः फलं यस्य विचा- रस्य स तथोक्तः सकलोपि धर्मविचारो ब्रह्मविचारोपीत्यर्थः वेदविदः आहुरिति शेषः । उभयविधविचारोपि प्रतिबन्धकनिवृत्तिफलक इत्यत्र हेतुमाह-अनपेक्षतामिति । गिरो वेदस्योत्पत्ति कसूत्रसिद्धानपेक्षत्व- मनुपरुध्यावाधित्वा प्रतिबन्धनिवृत्तिरेव फलमित्याहुः । एवं हि सत्यन- पेक्षता अबाधिता भवतीति भावः । ननु बहायाससाध्यविचारस्य कथं प्रतिबन्धकनिवृत्तिमात्र फलं वर्णयितुं युक्तम्, तस्याः स्वतोऽफ- लत्वान्मोक्षसाधनत्वाभावाञ्च, न च विचारात्प्रतिबन्धनिवृत्तिः-ततस्त- त्त्वज्ञानं ततो मोक्ष इति परम्परया फलवत्त्वमिति वाच्यम्, वेदस्य स्वार्थबोधने प्रतिबन्धनिवृत्त्यपेक्षायां सापेक्षत्वप्रसङ्गात्, भवन्मते प्रतिबन्धकाभावस्याकारणत्वाञ्चेति चेत्तत्राह - फलवदित्यादिना । यस्माद्वेदविदो वेदस्यानपेक्षतयैव विचारः प्रतिबन्धक निवृत्तिफल इत्याहुः तत्तस्मादतो एतस्मादेव प्रतिबन्धकनिवृत्तिलक्षणात्फलादिदं प्रकरणं फलवद्भवेदित्यर्थः । अयम्भावः-- न प्रतिबन्धनिवृत्तिस्तत्त्वज्ञान द्वाराविद्यानिवृत्तिफलिकेत्युच्यते येन वेदस्य सापेक्षता स्यात् किन्तू- स्पने तत्त्वज्ञाने तत्कार्याविद्यानिवृत्तिविरोधिपुरुषापराधविरोधितया - सटीक संक्षेपशारीरके- ऽविद्यानिवृत्तिप्रयोजिका । तथा च तस्या: स्वतोऽफलत्वेपि फल- भूतमोक्षसाधनत्वाभावेप्यप्रतिबन्धसाक्षात्कारस्यैवाविद्यानिवर्तकतया प्रतिबन्धकनिवृत्तरपि साक्षात्कारप्रयोजकत्वेन फलवत्त्वमिति ॥ १६ ॥ ननु पुरुषायराधनिवृत्तिरपि विचारेण न संभवति तस्यासंभा- वनादिलक्षणाविपर्ययज्ञानात्मनस्तत्त्वज्ञानं विना निवृत्त्यनुपपत्तेः, किञ्च पुरुषापराधानामनन्तत्वात्कथमल्पप्रकरणप्रतिपाद्यविचारेण निवृत्ति- स्ततो निष्प्रयोजनत्वदोषस्तदवस्थ इत्याशङ्कयाह - पुरुषापराधशतसंकुलता विनिवर्तते प्रकरणेन गिरः। स्वयमेव वेदशिरसो वचना- दथ बुडिरुद्भवति मुक्तिफला ॥१७॥ पुरुषापराधशतसंकुलतेति । संकुलता दाढ्यं यद्यपि पुरुषापराधस्य वासनातदुत्थभ्रान्तिज्ञानात्मकस्यात्यन्तिकी निवृत्तिस्तत्त्वज्ञानसाध्या तथापि तद्दाढ्यं विचाराख्यविरोधिप्रत्ययतदुत्थसंस्कारेण निवर्त्यते अन्यथा तर्कमात्रस्याफलत्वप्रसङ्गात् । प्रमाणप्रमेय विषयाणां तत्त्वे संभवासंभवात्मकप्रत्ययस्तर्क इति लक्षणार्थश्च तदुक्तं टीकाकृद्भिः "प्रमाणशक्तिविषयतत्संभवासंभवात्मा प्रत्यय इति वासनातानवं च नाविद्यानिवृत्तिप्रतिबन्धकम् तथा च स्मृतिः 'वासनातानवं राम मोक्ष इत्यभिधीयत' इति" प्रकरणस्याल्पत्वेपि सारतरयुक्तिबाहुल्यसद्भावाद- नन्तापराधानामपि निवृत्तिरस्माद्भवतीत्याह-प्रकरणेनेति । प्रकरण- मिति न संज्ञामात्रं किन्तु प्रकृष्टमुत्कृष्टं करणं ज्ञानं प्रति हेतुः प्रमाण- युक्तिसंदर्भा यस्मिन् तत्तथोक्तमित्यर्थतोपि प्रकरणमित्यर्थः । तथा च सफलत्वात्प्रकरणमारब्धव्यमित्यर्थः । कार्ये कारणोपचारात् ज्ञाननि- ठसंकुलत्वं वेदे उपचर्याह-गिर इति । विचारस्य प्रतिबन्धनिवृत्तिमात्र- - --
प्रथमोऽध्यायः।
फलत्वसाधनफलमाह-स्वयमेवेति । अथ विचारेण प्रतिबन्धनिवृत्त्यनन्तरं
स्वयं केवलादेव वेदान्तवाक्यादात्मसाक्षात्कारो भवतीत्यर्थः ॥१७॥
ननु किमर्थ विचारस्य प्रतिबन्धनिवृत्तिसाधनत्वं कल्प्यते वेद-
सहकारितया ज्ञानहेतुरेव किं न स्यानचैतावता सापेक्षत्वं वेदस्थ,
व्युत्पत्तेस्तत्सहकारित्वेपि वेदस्य तददर्शनात् । ननु व्युत्पत्तेरन्वय-
तिरेकाभ्यां तत्सहकारित्वमवगम्यते न तथा विचारस्य विनापि
तेन व्युत्पन्नस्य वाक्यादात्मशानोत्पत्तिदर्शनादिति चेन्न-ज्ञानमात्रस्य
विचारव्यभिचारेयि मुक्तिफलकज्ञानस्य तदव्यभिचारादित्याशङ्कय
कि विचारस्य वेदान्तादात्मज्ञाने जनयितव्ये चाक्षुषज्ञान इव परनये
आलोकस्य करणत्वेन सहकारित्वं किं वा शाब्दज्ञाने व्युत्पत्तिवदङ्गत्वेन
उभयथापि न सम्भवतीत्याह-
स्वाध्यायवन्न करणं घटते विचारो
नाप्यङ्गमस्य परमात्मधियः प्रसूती।
सापेक्षता Ssपतति वेदगिरस्तथात्वे
ब्रह्मात्मनः प्रमितिजन्मनि तन्न युक्तम् ॥१८॥
स्वाध्यायवदिति । 'नावेदविन्मनुते तं बृहन्तम्' 'तं त्वौपनिषदम्'इत्यादि
श्रुत्या वेदस्यात्मज्ञाने करणन्वसिद्धः स्वाध्यायवदिति सिद्धवदुपादानं
यथा स्वाध्यायो वेद प्रात्मज्ञानस्य करणं तथा विचारः करणं न घटते
न भवति व्युत्पत्तिवत्परमात्मज्ञानोत्पत्तावस्य स्वाध्यायस्याङ्गमपि न
भवति । उभयत्रापि हेतुमाह-सापेक्षतेति । यत्तदावध्याहायौँ अस्येति
चानुषञ्जनीयं यस्मादस्य विचारस्य ब्रह्मात्मविषयप्रमित्युत्पत्तौ तथात्वे
करणत्वे अङ्गत्वे वा सापेक्षता आपतति आयाति तस्मानाङ्गं न वा
करणमिति पूर्वेण सम्बन्धः । अस्तु सापेक्षत्वं ततः किमित्याशङ्कयौ-
त्पत्तिकसूत्रसिद्धस्वतस्त्वं भज्येतेत्याह-तन्न युक्तमिति । तत्सापेक्षत्वाप-
तनम् ॥ १८॥
सटीक संक्षेपशारीरके- इदानीं व्युत्पत्तिवद्विचारापेक्षायामपि न सापेक्षतेति पूर्वपक्ष्या- शयं दूषयति- व्युत्पन्नस्य हि बुद्धिजन्म सहसा वाक्यश्रुतौ दृश्यते वाक्यार्थे न ततोऽस्ति बुद्धिजनने मीमांसनव्यापृतिः । तेनार्थात्करणादिभावजनने मीमांसनस्याश्रिते वेदार्थप्रमितौ तु वेदवचसः सापेक्षताऽऽयास्यति ॥१॥ व्युत्पन्नस्य हीति । शब्दशक्तिपरिज्ञानिन इत्यर्थः। हिरवधारणे व्युत्पन्न- स्यैव पुरुषस्य वाक्यश्रुतौ सहसा झटिति वाक्यार्थविषये बुद्धिजन्म दृश्यते नाव्युत्पन्नस्येत्यन्वयव्यतिरेकाभ्यां वाक्यार्थज्ञानमात्रे व्युत्पत्तेः कारणत्वेन वेदान्तस्य ब्रह्मान्मलक्षणवाक्यार्थज्ञानेपि तदपेक्षायां न सापेक्षतेत्यर्थः । ननूक्तविचारस्यापि फलवत् ज्ञानं प्रत्यन्वयव्यतिरे- कवत्त्वं नेत्याह-न तत इत्यादिना । 'वाक्यार्थ' इत्येतत् काकाक्षिन्यायेना- त्रापि सम्बन्धनीयं ततो वेदाद्वाक्याथै विषये बुद्धिजनने मीमांसनस्य विचारस्य न व्यापृतिरिति सम्बन्धः । अयम्भावः-यद्विचारात्प्रागुत्पन्न ब्रह्मात्मैक्यापरोक्षशानं तज्जातीयमेव विचारानन्तरमपि जायते न विजातीयम् उभयोरप्येकरसब्रह्मात्मैक्यविषयत्वात् एतावांस्तु विशेषः पूर्वोत्पन्नज्ञानं पुरुषापराधप्रतिबद्धं सन्नाविद्यां निवर्तयति उत्तरकालीनं त्वप्रतिबद्धं सत् तां निवर्तयतीति । न च सजातीययोर्व्यक्तिभेदमात्रेण विचित्रकारणजन्यत्वं संभवति विशेषदर्शनस्य संशयतत्सामग्रीनिव- तैकत्वेनैवोपयुक्तत्वात् । न तजन्यं संशयाद्युत्तरं प्रत्यक्षमिति न तदपि सजातीययोर्विचित्रकारणजन्यत्वे उदाहरणस्यात्मशानं प्रति न साक्षान्साधनत्वं बोध्यते अपि तु विचारेण शानमप्रतिबद्धं भवतीत्ये तावतैव शानं प्रति विचारः साधनमित्युच्यते । अन्यथा शानस्येव विचारस्य दृष्टफलत्वे तत्समवायिनियमापूर्वस्यानुपयोगप्रसङ्गात् प्रथमोऽध्यायः । ज्ञानस्य सिद्धत्वादन्यस्य तत्साध्यस्याभावाच्छवणस्यापूर्वविधित्वेप्य- प्रतिबद्धालौकिकात्मज्ञानस्यैवोद्देश्यत्वेन नागृहीतविशेषणन्यायेन विशे- पणीभूतप्रतिबन्धाभावमात्रस्यैव तत्कलत्वोपपत्तेः । न्यायतः सिद्धस्य शानस्यापि तत्फलत्वकल्पनमिति । अकारणीभूतविचारापेक्षायां वेद- स्यापादितं सापेक्षत्वमुपसंहरति-तेनेति । येन विचारस्य व्यभिचारि- तया करणत्वेनाङ्गत्वेन वा न वाक्यार्थबुद्धौ व्यापारः । येन च न फलवदफलशानयो(जात्यं येन च न व्यक्तिभेदमात्रेण शानस्य विल- क्षणकारणजन्यत्वंतेनार्थान्प्रतिबन्धनिवृत्तिलक्षणामुख्यफलत्वानुपपत्या विचारस्य वेदार्थप्रमितौ करणादिभावभजने करणत्वादिप्राप्तौ करण- स्वेऽङ्गत्वेवाऽऽश्रिते सति सापेक्षतायास्यति । तच्चायुक्तमित्यर्थः । अथवा हि शब्दो यस्मादर्थे यतो व्युत्पन्नस्य पुरुषस्य सहसा झटितिविचारं विना वाक्याद्वाक्यार्थबुद्धिर्जायते । ततो वाक्यार्थशानेन विचारस्य व्यापार इत्यर्थः । तेनेत्यादेरयमर्थः येन विचारस्य न साक्षात्कारं प्रति मुख्य कारणत्त्वं तेन विषयप्रतिष्ठाहेतुत्वेन श्रुतिसिद्धतया च कथञ्चि- कारणत्वव्यपदेशेपि न सापेक्षतेति तदेतत्सर्वमभिप्रेत्याशङ्कापूर्वकं टीकाकारैविचारमधिकृत्योक्तम् । नन्वेवं तर्कसापेक्षं स्वमर्थ साधयतो वेदान्तस्यानपेक्षत्वहानेरप्रामाण्यं स्यात्, न स्याद्वेदान्तानां स्वमहिनैव विषयव्यवसायहेतुत्वात्क्व तर्हि तर्कस्योपयोगः विषयासंभवशङ्कायां तत्संभवप्रदर्शनमुखेन फलप्रतिबन्धविगम इति ॥ १६ ॥ एवं विचारशास्त्रस्यासंभावनादिनिवृत्त्या प्रयोजनवत्त्वं साधित- मपि तत्प्रयोजनं यावद्विचारशास्त्राव्यवहितविषयवेदान्तानां विषयः प्रयोजतं च नोपपाद्यते तावन्नखाग्रेण तिष्ठति वेति मत्वा तदुपपादना- योत्तरग्रन्थसन्दर्भ श्रारभ्यते तत्रेयमाशङ्का । ननु विचारशास्त्रमनार म्भणीयं तद्विषयवेदान्तानां विषयप्रयोजनशून्यत्वात्तथा हि-ब्रह्मात्मैक्यं विषयः अनर्थनिवृत्तिः प्रयोजनं अनर्थश्च प्रमातृत्वादिः 'अनर्थश्व प्रमातृ- ताप्रमुखं कर्तृत्वभोक्तत्वम् इति बृद्धवचननादिति हि वेदान्तिनामभिमानः - सटीके संक्षेपशारीरके- स चानुपपन्नः। जीवब्रह्मभेदस्य प्रभातृत्वादिप्रपञ्चस्य च परमार्थत्वात् ननूक्तं स्वाज्ञानकल्पितेत्यत्र सर्वमज्ञानकल्पितमिति चेत्सत्यं तदेव नोपपद्यते अज्ञानादेरनिरूपणात् । तथाहि अज्ञानं तावन्नोपादानमभावस्य तदनुपपत्तेः । नन्वज्ञानं भावरूपमिति चेन्न-तत्र प्रमाणाभावात् । नन्वह- मज्ञ इति प्रत्यक्षमेव प्रमाणमिति चेन्न-तस्य ज्ञानाभावविषयत्वात् । अस्तु वा तस्य भावत्वं तथापि तत्कार्यविभ्रमाधिष्ठानं-किमनात्मा, उतात्मा । नाद्यः-भवन्मते सर्वस्यानात्मनोध्यस्तत्वात् द्वितीयेपि किम- यमात्माऽप्रकाशः, उत स्वप्रकाशः नाद्यः तत्र कल्पितस्य विश्वस्याध्या- सात्कल्पितस्याधिष्ठानप्रकाशव्यतिरेकेण प्रकशासंभवादधिष्ठानस्य चागन्तुकवोधविषयत्वे दृश्यत्वान्मिथ्यात्वापातात्, न द्वितीयः प्रकाश माने तस्मिन्नध्यासानुपपत्तेः न हि रजौ तत्त्वतः प्रतीयमानायां भुज- गारोपोस्ति । नन्वज्ञानमधिष्ठानप्रकाशमावृणोतीतिचेन्न तस्य तत्सामर्थे मानाभावात् भावे वा अज्ञानं न विक्षेपहेतुर्भवति तमस्त्वादावारकत्वाञ्च बाह्यतमोवन हि लौकिकं तमो घटावारकं क्वचिद्विक्षेपहेतुर्दृष्टम् ।अपिच न तावदज्ञानं ब्रह्माश्रयमहमज्ञ इति प्रतीतेः, न चेयं प्रतीतिर्ज्ञानाभाव- विषया तथा सति तद्वयतिरिक्तप्रमाणाभावेन भावरूपाज्ञानासिद्धिप्रसं- गानापि जीवाश्रयं जीवस्याज्ञानाधीनविभागस्य तदाश्रयत्वानुपपत्तेः । न चातिरेकाधीनो जीवपरविभागस्तस्मिन् प्रमाणत्वादन्यथातिरेकोऽति रिक्त इति प्रत्ययादतिरेकस्याप्यतिरेकवत्वप्रसङ्गात् । नन्वन्तःकरणोपा- धिको जीवो ऽज्ञानाश्रय इति चेन्न-तस्याप्यविद्याकार्यत्वादन्यथा 'भिद्यते हृदयग्रन्थिरि'ति तस्य ज्ञाननिवर्त्यत्वश्रुतिविरोधापातात् । न च स्वाभा- विकभेदो जीवोऽविद्याश्रय इति वाच्यम्-अविद्याया एवाकल्पना- प्रसङ्गात् कल्पितायामप्यविद्यायां विषयाद्यसंभवतादवस्थ्यात् । किञ्च न तावदज्ञानं सद्वस्तु जनयति सतः कार्यत्वायोगात्सत्कारणस्य तस्या- सत्वानुपपत्तश्च नाप्यसजनयति निस्तत्त्वस्य तस्य कार्यत्वायोगाना- प्युभयात्मकं किञ्चिद्वस्त्वस्ति विरोधादविरोधकल्पनायामपि प्रत्येक प्रथमोऽध्यायः। ३३ पक्षद्वयोक्तदोषस्यानिस्तारान्नाप्युभयविलक्षणं तादृशस्य कुत्राप्यप्रसिद्ध तस्मात्प्रपञ्चस्याज्ञानकार्यत्वानुपपत्तिरितिविषयप्रयोजनाभावान्न विचा- रशास्त्रमारम्भणीय मिति तत्राह- आच्छाद्य विक्षिपति संस्फुरदात्मरूपं जीवेश्वरत्वजगदाकृतिभिर्मषैव । अज्ञानमावरणविभ्रमशक्तियोगा- दात्मत्वमात्रविषयाश्रयतावलेन ॥ २० ॥ आच्छाद्यनि। अज्ञानमनादिभावः ज्ञाननिवर्त्य संस्फुरदात्मरूपमाछाद्या- वृत्य विक्षिपति विविधं क्षिपति सत्यप्रकाशात्मकमात्मानमसत्यजडा- त्मकनानाकारं करोतीत्यर्थः । अयम्भावः अज्ञानं न ज्ञानाभावः प्रत्यक्ष- त्वात् त्वदुक्तमर्थ न जानामीति तस्य ज्ञानसमानकालीनत्वनियमाञ्च, न यभावप्रतियोगिनोः समानाश्रये समानकालीनत्वं संभवति अज्ञानस्य भावरूपत्वपक्षे तु नायं दोषः तस्य साक्षिसिद्धतया विरोधाभावात् 'तरति शोकमान्मवित्'इत्यादिश्रुत्यात्मविषयप्रमाणज्ञानस्यैवाज्ञान- विरोधितया सिद्ध त्वात् । ननु भवन्मतेपि ज्ञानाभावस्यावश्यकत्वा- त्तस्य चाप्रतियोगिना साक्षिणा विरोधाभावात्स एव न जानामीति प्रत्ययविषयो भवत्विति चेन्न अभावस्य साक्षिणा विरोधाभावेपि सम्ब- न्धाभावेन तद्विषयत्वानुपपत्तेः, न चाभावसाक्षिणोराध्यासिकसम्ब- न्धव्यतिरेकेण सम्बन्धो निरूपयितुं शक्यते, न चाध्यासिकः सम्ब- धोऽविद्यां विना सिध्यति न च भावरूपा ऽविद्यायामेतद्वयतिरेकेण किञ्चित्प्रमाणमस्ति, न चास्मत्पक्ष ज्ञानाभावोस्ति न हि द्रष्टुर्दृष्टेविपरि लोपो विद्यत' इत्यादि श्रुत्या तस्य नित्यतया सिद्धत्वात् न च वृत्त्यभा- वविषयोऽयमवभासः मुख्याज्ञानविषयत्वसंभवे ऽमुख्यज्ञानाभावविष- यत्वकल्पनानुपपत्तेः अज्ञानस्य च भावरूपत्वमुपरिष्टात्प्रपञ्चयिष्यति एतच्चाज्ञानं स्फुरतोपि जगदधिष्ठानस्यात्मनोरूपमारोपविरुद्धांशमा- सटीके संक्षेपशारीरके- वृणोति अतो न तत्राध्यासविरोधः। यदुक्तमज्ञानस्यावरणसामर्थ्य नास्ति तत्त्वे वा न तद्विक्षेपसामर्थ्य मिति तत्राह-प्रावरणविभ्रमशक्तियोगादिति-श्राव- रणशक्तियोगाद्विभ्रमशक्तियोगाचेत्यर्थः । न चावरणशक्ती प्रमाणाभावः ब्रह्मस्वरूपानवमासानुपपत्तेरेव मानत्वात् नचान्यथोपपत्तिः,तत्रनताव- दिदानी प्रतीचो ब्रह्मभावाभावादनवभासः। 'ब्रह्मैव सन्ब्रह्माप्येति' इति श्रुत्या पूर्वमपि ब्रह्मभावस्य सत्त्वान्नापि तद्विषयप्रमाणाभावादनवभासः स्वयं प्रकाशस्य तस्यागन्तुकप्रमाणानपेक्षत्वान्नापि विद्यमानस्यापि तस्य केनचिन्मूर्त्तद्रव्येणावृतत्वादनवभासः अत्यन्तमव्यवहितस्य तस्य तदनुपपत्तेः, नचान्यदावरणमस्तीत्युपरिष्टावक्ष्यति । तस्मादज्ञानमेवा- वारकमिति तदेतदभिप्रेत्योक्तं-संस्फुरदात्मरूपमिति । ननु कोयमनवभासो नाम यस्याज्ञाननिमित्तता वय॑ते प्रकाशविनाश इति चेत्, न तावत्स्व- रूपप्रकाशविनाशस्तस्य नित्यत्वान्नाप्यागन्तुकप्रकाशविपरिलोपः आगन्तुकप्रकाशविनाशेपि स्वरूपप्रकाशेन नित्यवदभासोपपत्तेरिति चेन्न-नास्ति न प्रकाशत इति स्वरूपविपरीतव्यवहारविषयत्वयोग्य- त्वस्यैवानवभासशब्दार्थत्वादेवं विक्षेपसमर्थमप्यज्ञानं शुक्तिकाद्यज्ञाने सति हि रजतादिविभ्रमोऽसति तु नेति सर्वसंमतमनन्यथासिद्धान्वय- व्यतिरेको च कारणविषयावितिवादिभिरङ्गीक्रियत इत्यज्ञानस्य कारण त्वे सिद्ध किं तन्निमित्तमुतोपादानमिति विशये उपादानस्य प्रथमापे- क्षितत्वात् उपादानान्तरानिरूपणानिमित्तस्य च काचादेः सिद्धत्वा- दज्ञानमेवोपादानमिति निश्चीयते, एवं ज्ञाननिवासत्यप्रपञ्चोपादान- मपि मूलाज्ञानमेव सिध्यति, कारणञ्च कार्यानुकूलशक्तिमदिति प्रमाणसिद्धमज्ञानस्य विभ्रमसामर्थ्यमित्यप्रयोजको हेतुः । नन्वज्ञा- नस्य स्वतो निरस्तसमस्तसामर्थ्यस्य कथमेतादृशं सामर्थ्य तत्राह- अात्मत्वमात्रेति । आत्मत्वं प्रत्यक्स्वरूपं तदेव विषय आश्रयश्च यस्य तस्य भावस्तत्ता तद्वलेनेति । मात्रचानात्मतदुपहिताश्रयत्वं निराकरोति अस्ति तावदज्ञानस्य मामहं न जानामीति प्रतीतेरेकाश्रयविषयत्वम् ।
प्रथमोऽध्यायः। ३५. न चात्र जीवोऽज्ञानविषयः अहमिति तस्यातिस्फुटं प्रतीयमानत्वान्न हि जीवस्य प्रकाशमानं किञ्चिद्रूपान्तरमस्ति येन तेनाकारण विषयो भवे- दस्ति चैतन्यमात्रस्य प्रतीचो प्रतीयमानं ब्रह्माख्यं रूपान्तरं न हि सर्वो- लोकोहमितिवत् ब्रह्माहमिति च प्रत्येति । न च ब्रह्म प्रतीचो रूपमेव न भवतीति वाच्यम् 'अयमात्मा ब्रह्म' 'तत्त्वमसि'इत्यादिश्रुतिसिद्धत्वा- त् अतः प्रत्यङ्मात्रमेवाज्ञानस्य विषयः । तथा च मामहं न जानामीति विषयाश्रययोरेकत्वावगमात्प्रत्यङ्मात्रमेवाश्रयोपि वक्तव्यः । ननु स्वयं प्रकाशस्य ब्रह्मणोऽज्ञानाश्रयत्वं विरुद्धमिति चेन्न-स्वयंप्रकाशस्यापि तस्याज्ञानविषयत्ववत्तदाश्रयत्वस्याप्यविरुद्धत्वात्कथं तहमज्ञ इत्य- ज्ञानस्याहंतासामानाधिकरण्यानुभव इति चेन्न तयोरेकचैतन्याश्रय- त्वात् । नन्वज्ञानस्य चैतन्यविषयत्वे चैतन्याश्रयत्वंन स्यादाश्रयविषय- भेदस्यावश्यकत्वादिति चेन्न-अपवरकविषयान्धकारस्यापवरकाश्र- यत्वदर्शनात् । नन्वज्ञानेऽयं नियमः शुक्तयज्ञाने तथा दर्शनान्न तत्राप्य- वच्छिन्नचैतन्यविषयाज्ञानस्य तदाश्रयत्वादज्ञानस्य च स्वातन्त्र्यं वारयति वलेनेति। विविधाकारमेव दर्शयति-जीवेश्वरत्वजगदाकृतिभिरिति । इत्थं- भावे तृतीया जीवत्वेश्वरत्वजगदाकारणेत्यर्थः । पुनरविद्याकार्य सद- सदादिविकल्पेनादूदुषत् तत्राह मृपैवेति-सदसद्विलक्षणमनिर्वचनीय- मित्यर्थः । अयम्भावः । अस्ति तावच्छुक्त्यादाविदंत्वसामानाधिकरण्येन रजतादिव्यवहारः । न तावदयं प्रभाकराभिमतग्रहणस्मरणात्मकज्ञान- जन्यः ज्ञानद्वयस्य मेलनायोगात्तस्य प्रत्येक प्रवर्तकत्वेलोष्टादौ देशान्तरे च प्रवृत्तिप्रसङ्गात्, न च गृह्यमाणस्मर्यमाणयोरविवेकात्प्रवृत्तिः सर्वत्र संसर्गप्रवृतेः संसर्गज्ञानजन्यत्वनियमात् नापि नैयायिकाथभिमतान्य- थाख्यातिजन्यः अन्यथाख्यातेरेवासंभवात् सा हि पुरोवर्त्तिशुक्त्यादेः- शान्तरीयरजताद्यात्मनाऽपरोक्षप्रतीतिः तत्र कथं देशान्तरीयरजतादेः संप्रयोगं विना प्रत्यक्षप्रतीतिविषयत्वं भवेत् । ननु देशान्तरीय रजतादिसंप्रयोगोप्यस्तीति चेन्न-कुड्यादिव्यवहितस्य चक्षुषो देशा- ३६ सटीक संक्षेपशारीरके- - तरीयरजतादिसंप्रयोगानुपपत्तेः । नन्वननुभूतरजतस्य रजतविभ्रमो नेति पूर्वानुभवजन्यसंस्कारस्तजन्या स्मृतिर्वा प्रत्यभिज्ञायामिवेन्द्रिय- प्रत्यासत्तिर्भविष्यतीति चेन यत्र हि विशेष्ये यदनुभूतं तत्रैव तद्वि- शिष्टज्ञाने संस्कारः स्मृतिर्वा प्रत्यासत्तिर्भवति यथा प्रत्यभिज्ञायां तत्तांशे न त्वन्यत्राप्यन्यथापूर्वदृष्टदेवदत्तस्यानुभूयमानयज्ञदत्ते देव- दत्तविशेषणतयानुभूतदेशकालवैशिष्टयानुसंधानप्रसङ्गात् । न च संप्र- योग विनापि दोषात्तत्प्रतीतिः म्यादिति वाच्यम्, विशिष्टज्ञानमात्रे विशेषणसन्निकर्षस्यापि कारणत्वात् न च सत्यविशिष्टप्रत्यक्षे तत्कारणं लाधवाद्विशिष्टप्रत्यक्ष प्रत्येव तत्कारणत्वकल्पनादन्यथा सन्निकृष्टपर्व- तादौ वह्नयादिपरोक्षविभ्रमस्यापरोक्षत्वप्रसङ्गादपरोक्षभ्रान्तिसामग्रथा- स्तत्रापि सत्त्वाच्छुक्तिकारजतसंसर्गस्यात्यन्तासतोऽपरोक्षप्रतीत्यनुप- पत्तश्च । ननु सदुपरक्तस्यासतोपि प्रतीतिरिष्यत इति चेन्न-भवदि- च्छामात्रेण वस्तुसिद्धौ विनापि तत्त्वज्ञानं निश्रेयसप्राप्तिरिति शास्त्रा- भ्यासादिवैयर्थ्यापत्तेर्नरश्टङ्गादेरपि गवादिसंसृष्टत्वेनावभासप्रसङ्गाञ्च, उपरागश्च सम्बन्धः स वा कथमसतो भवेत् । ननु माभृत् व्यवहित- तया देशान्तरीयरजतानुभवः विज्ञानाकारस्तु रजतं सन्निहिततया अपरोक्षप्रतीतियोग्यं विभ्रमविषयो भविष्यति, न च रजतस्य विज्ञा- नाकारत्वे प्रमाणाभावः विमतं बुद्ध्यभिन्नं संप्रयोगमन्तरेणापरोक्षत्वा- संवेदनवदित्यात्मख्यातिवादोस्त्विति चेन्न-बाह्याभ्यन्तररूपेण प्रकाशाप्रकाशरूपेण च प्रतीयमानयोर्विज्ञानरजतयोरैक्यानुपपत्तेः अहं . रजतमितिप्रतीतिप्रसङ्गाच्च, वहिष्वम् तत्रारोप्यत इति चेन्न-रजतबहिष्वस्यात्यन्तासतोऽपरोक्षत्वानुपपत्तेः संसर्गमन्तरेण परोक्षत्वादिति हेतो रजतबहिष्ट्व एव व्यभिचारः । नन्वस्तु तर्हि रजतं यथार्थमेव नहीदं रजतमित्यङ्गुलिनिर्देशेनापरोक्षतया प्रती- यमानं नेति सचेतनेन केन चिद्वक्तुं शक्यम् । यथार्थत्वेनेदं रजतमिति प्रतीत्यनुपपत्तिः, एकस्यैव कालभेदेनोभया- न च तस्य प्रथमोऽध्यायः। ३७ कारत्वादथवा सर्वदैवोभयाकारमस्तु, न च विरोधः-प्रमाणसिद्ध- त्वात् न चैवं कालान्तरेपि रजतप्रतीतिप्रसङ्गः सामग्रीभेदेन प्रत्ययव्य- वस्थोपपत्तेरिति सत्ख्यातिवादिनोऽनेकान्तवादिनो वा मतमस्त्वि- तिचेत्तत्र न तावत्कालभेदेनोभयाकारत्वमेकत्र संभवति तत्र किमेक- तराकारकालेऽन्यतराकारो नश्यति उत विद्यते । नाधः-विभ्रमा- नन्तरमपि सेयं शुक्तिरिति प्रत्यभिज्ञानात् न द्वितीयः शुक्तिमानकाले पूर्वप्रतीतरजतस्यापि प्रत्ययापातात् । ननु दुष्टसामग्री रजतज्ञान- हेतुरितरा त्वितरत्रेति चेत् भवेदेवं यदि रजतज्ञानं मिथ्या स्थान हि यथार्थज्ञाने दोषः सामग्रीमनुप्रविशति तदा दोषं विना सत्यरजते- पि ज्ञानाभावप्रसङ्गाद् रजतसत्त्वे बाधानुपपत्तेश्च एतेनानैकान्तवादो निरस्तः । ननु सर्व ज्ञानं यथार्थमेव शुक्तिकादौ रजतग्रहणमपि यथार्थ पञ्चीकरणन्यायेन रजतस्य तत्रापि सत्त्वाद् व्यवहारस्त्वयथार्थः । शुक्तिगतरजतस्य प्रवृत्तिविषयत्वायोग्यस्य तद्योग्यदेशान्तरीयरजत- विवेकाग्रहात्तस्य जातत्वादिति कस्य चिन्मतमस्त्वितिचेन्न-भूताना- मेव पञ्चीकृतत्वाद्भौतिकानां तदभावादन्यथा स्तम्भादावपि रजतप्रती- तिप्रसङ्गान्न हि विद्यमानरजतोपलम्भनेपि सादृश्याद्यपेक्ष्यते रजतेपि रजतज्ञानाभावप्रसङ्गादपरोक्षप्रमितिविषयस्य खोचितकार्ययोग्यत्वेना- र्थक्रियायोग्यासंसगाग्रहजन्यत्वेन व्यवहारोऽयथार्थ इतिचासत्प्रलाप- मात्रम् । नन्वस्त्वसदेव रजतं सत्त्वस्य त्वयैव निषिद्धत्वादिति चेन्न- इदं रजतमित्यपरोक्षप्रतीत्यनुपपत्तेः । तस्मादिदं रजतमित्यङ्गलीनिर्दे- शेन प्रतीतरजतस्यैतावन्तं कालं मिथ्या रजतमभादिति प्रतीत्यनुरो- धेन सदसत्त्वादिप्रकारेण दुर्निरूपणेन च सदसद्विलक्षणरूपानिर्वच- नीयत्वं वक्तव्यम् । अत्रेयं श्रोत णां बुद्धिसौकर्याय संप्रदायविच्छिक्षिता- निर्वचनीयरजतोत्पत्तिप्रक्रिया लिख्यते । लिख्यते । तत्र काम्लादिदोष दूषितलोचनस्य यदा शुक्तिसंप्रयोगो भवति तदेदमाकारान्तःकरण- वृत्तिर्भवति । सा च दोषप्रतिबन्धाद्विशेषाकारा न भवति । तया च ।
सटीक संक्षेपशारीरके- वृत्या इदमंशाभेदेनोत्पन्नया इदमंशोपहितं विशेषांशोपहितं च चैतन्य मुपधीयते । सामान्यविशेषयोरभेदेन तदुपहितचैतन्यस्याप्यभेदान चैवं सामान्याकारवृत्त्या विशेषांशस्थापि प्रतीतिप्रसङ्गः वेद्यांशस्य खाकारवृतिवेद्यत्वनियमादत एव न तन्निष्ठाज्ञाननिवृत्तिरपि तेन च वृत्त्युपहितचैतन्येनेदमंशावच्छिन्नचैतन्यनिष्ठाविद्या निवर्त्यते । विशे- पांशावच्छिन्नचैतन्यनिष्ठा च सा क्षुभ्यते क्षोभश्च तस्याः सहकारि- बलात्कार्योन्मुख्यं ततश्च रजतादिवासनासचिवा शुक्तिवाद्यंशावच्छि- नचैतन्यनिष्ठा सा इदमंशावच्छिन्नचैतन्ये रजताधाकारेण विवर्त्तते तदैव वृत्तिप्रतिबिम्बितचैतन्यनिष्ठा च सा रजतादिज्ञानसंस्कारस- नीचीना रजतादिज्ञानाभासाकारण । नन्विदं रजतमितीदन्त्वसामा- नाधिकरण्येन रजतप्रतीतेस्तदवच्छिन्न एव चैतन्ये रजताध्यासः स्वीकर्तव्यः स्वीक्रियते च तथैव भवद्भिः इदमंशावच्छिन्नचैतन्यनिष्ठा चाविद्यातदाकारान्तः करणावृत्त्युपहितचैतन्येन ध्वस्ता। अन्यथा इद- मिति प्रतोत्यनुपपत्तेस्तदाकारवृत्तेस्तदवच्छिन्नाज्ञानविरोधित्वाच्च ततः किमर्थ स्फुरति साक्षिचैतन्येऽध्यस्तरजतस्फुरणायाविद्यावृत्तिरर्थ्यते । न हि प्रदीपसमवेतरूपप्रकाशाय प्रदीपान्तरमर्थ्यत इति चेदत्रायं दर्शन- विभागो वर्यते । अन्तः करणावच्छिन्नं प्रमाता तदुपहितं साक्षीवृत्य- वच्छिन्नं ज्ञानं वृत्त्यन्तः करणयोः कार्यकारयोरेकत्वात्तदुभयोयहित- साक्ष्येकं भवति । विषयोपहितं च प्रमेयं तदेव च विषयतादात्म्या- पन्नवृत्तिमदन्तः करणोपहितं सत्तेनाकारेण साक्षित्वमपि भजते रजतं च विषयोपहित एव चैतन्येऽध्यस्यते इदं रजतमिति इदन्त्वसामानाधि- करण्येन प्रतीतेः विषयोपहितं च प्रमेयचैतन्यं विषयाभिन्नवृत्तिम- दन्तःकरणोपहितात्साक्षिणोऽभिन्नमन्तः करणोपहितत्वाकारवतः साक्षिणो विषयोपहितत्त्वाकारवतः साक्ष्यस्य चैकत्वानुपपत्तेः । ततश्च विषयचैतन्याध्यस्तरजतस्य साक्षिणा साक्षात्संबधाभावात्संबन्धं विना च स्फुरणानुपपत्तेः सम्बन्धघटनार्थ वृत्तिप्रतिबिम्बितचैतन्य- प्रथमोऽध्यायः । ३६ निष्ठाविद्यावृतिलक्षणशानाभासो रजतसमकालमेव जायते । तथा च रजतं तदाकाराविद्यावृत्तिश्च साक्षिणैव भासते । नन्वेवं वृत्तिद्वयानी- कारे ज्ञानद्वयापातादख्यातिवादप्रसङ्ग इति चेन्न अविद्यावृत्तेर्शाना- भासन्वेन ज्ञानत्वानभ्युपगमात्तस्मात्प्रतीत्यनुरोधेन यथाऽनिर्वचनीय- मेव रजतमुत्पद्यत इति स्वीक्रियते । एवमेव प्रत्यङ्मात्रविषयाऽश्रया- ज्ञानेनानिर्वचनीय एव प्रपञ्च उत्पद्यत इति न सदादिविकल्पप्रयुक्त- दोषापात इति । अत एव मृषैवेत्युक्तं मिथ्यैव विक्षिपति न तु सदादिप्रकारेणेत्यर्थः ॥ २० ॥ नन्वज्ञानस्य प्रत्यङ्मात्राश्रयत्वेपि तद्विषयत्वमनुपपन्नं स्वस्यै- वानवभासप्रसङ्गात् स्वावभासात्मप्रकाशस्यावृतत्वात्स्वप्रकाशस्य ब्रह्मणोऽज्ञानविषयत्वानुपपत्तेश्च न हि प्रकाशमानमज्ञायमानं भवति नापि तस्यात्ममात्राश्चयत्ववत्तन्मात्रविषयत्वमपि सङ्गच्छते घटं न जानामीति घटादेरपि विषयत्वानुभवादित्याशङ्कयाह- प्रत्यक्त्वमात्रविषयाश्रयतावलेन प्रत्यक्स्वरूपमपिधाय पराग्विवनैः। प्रत्यञ्चमद्वयमशेषविशेषहीनं विक्षिप्य तिष्ठति तदग्रहणं मृषैव ॥२१॥ प्रत्यक्त्वमात्रेति । तदग्रहणं प्रत्यक्स्वरूपमपिधायाशेषविशेषहीनं प्रत्यञ्चम् विक्षिप्यैव तिष्ठतीति सम्बन्धः। प्रतीचः स्वरूपं सर्वेषां प्रकाशमानं चैतन्यं यदप्यानन्दादिकमपि स्वरूपमेव तथापि चैतन्य- वत्सर्वेषां स्पष्टानुभकाभावाच्चैतन्यस्य तत्स्वरूपत्वमुच्यते न पिधाय अपिधाय अनावृत्येत्यर्थः । अपर्वष्टीत्यादिना (१) अकारलोपे कृतेनञ् (१) वाष्टं भागुरिरलेोपमवाप्यारुपसर्गयोः । आप चैव हलन्तानां यथा वाचा निशा दिशा ।
सटीक संक्षेपशारीरके- समासः। एतदुक्तं भवति यदविद्यासाधक साक्षिस्वरूपं तदविद्या नावृ. णोति यञ्च तद्विरोध्यनवच्छिन्नानन्दरूपं तदेवावृणोति तथा च चैतन्यां शस्थानावृतत्वादविद्याप्रतीतिः सम्भवतीति अज्ञानस्य विक्षेपोप- पादनाय पूर्वोक्तं वलं दर्शयन् अज्ञानस्यात्मविषयत्वं दर्शयति- प्रत्यक्त्वमात्रेति । न तावद्ब्रह्मणः प्रकाशमानस्याज्ञानविषयत्वानुपपत्तिः । विषयव्यावृत्तस्याज्ञानस्यानुभवे विशेषणीभूतविषयस्यापि दण्डादिव- द्विशिष्टप्रतीतो प्रकाशमानस्यैवाज्ञानव्यावर्तकत्वनियमात्किञ्चाग्रह- णाज्ञनवादिमतेऽनुमानेन प्रकाशमाने विषयेऽपरोक्षतयाऽप्रकाशमा- नत्वमनुभूयते, तत्कुतो हेतोरनुमानज्ञानापरोक्षशानाभावयोरविरो- धादितिचेदिहापि तुल्यं स्वरूपप्रकाशस्याप्रकाशसम्बन्ध त्तस्याप्रकाशसम्बन्धेपि प्रकाशसम्बन्धोपि स्यादिति चेत्कस्तहि सन्देहः न हि स्वरूपप्रकाशस्याभावं कश्चिद्वक्तुमुद्युङ्क्ते तर्हि सर्वेषां ब्रह्मानुभवः स्यादिति चेन्न प्रकाशमानेपि तस्मिन्नविवेकिभिरारोपिता- ज्ञानस्य सत्त्वात्तस्मान्न प्रकाशमानस्याप्रकाशमानत्वविरोधः । नापि तन्मात्रविषयत्वविरोधः । घटादेरज्ञानकार्यस्य स्वत श्रावृतस्वरूपत्वे. नाशानस्य तद्विषयत्वकल्पने प्रयोजनाभावात् । नन्वज्ञानस्यकार्य- स्थापि नित्यचैतन्यसम्बन्धान्नित्यं प्रकाशप्रसक्तिरस्तीति चेतर्हि तस्य चैतन्यस्यैवावरणं कल्पयितुमुचितं तत्प्रकाशस्य तत्प्रयुक्तत्वाद् घट- स्वरूपावरणकल्पनेपि तत्प्रयुक्तप्रकाशाप्रतिवन्धात् । नन्वनुभूयते घटा- देरज्ञानविषयत्वमिति चेन्न-तस्य समानाश्रयत्वेनाप्युपपत्तेः । तस्मात्साक्ष्यंशमनावृत्यचैतन्यस्य पूर्णानन्दांशमेवावृणोतीति सिद्धम् ननु निरंशस्य चैतन्यस्य कथमावृतानावृतांशद्वयमिति चेन्न-कथं चित्तहि साक्षिचैतन्यमप्यज्ञानमावृणोतीति चेद्भवत्येव तानन्दांश- वत्साक्षिस्वरूपाप्रप्रकाशोपि स्यादिति चेत्किं स्वरूपप्रकाशाभाव- श्रापाद्यते किंवा ज्ञानलक्षणाप्रकाशः । नाद्यः प्रानन्दांशस्यापि स्वरूप- प्रकाशानपायात् एतावांस्तु विशेषः--चैतन्येऽनित्यत्वादिवदनानन्दत्वा- ।
प्रथमोऽध्यायः। ४१ SANJAL दिकमानन्देऽऽरोयानुभवन्तीति, न द्वितीयः तस्यैवानन्दाभिन्नस्याज्ञान- विषयत्वात् । तर्हि ब्रह्म न जानामीति प्यपदेशवञ्चैतन्येप्यज्ञानव्यपदेशः स्थादिति चेन्न-एतस्यैव व्यपदेशस्य चैतन्यविषयत्वात् तर्हि चैतन्यं न जानामीतिव्यपदेशोपि स्यादिति चेन्न-चैतन्यानन्दशब्दयोः स्वरूपमा- विषययोरर्थभेदाभावात् एवं स्थिते प्राचीनसिद्धान्तमनुसृत्य ज्ञाना- नन्दशियोः कल्पितभेदमादाय प्रकाशमानत्वाप्रकाशमानत्वे व्यवस्था- पयितुं तत्र वास्तवभेदाभावमभिप्रेत्याह-अशेषविशेषहीनमिति । परोक्षत्वा- परोक्षत्वकिञ्चिज्ज्ञत्वसर्वज्ञत्वादिविशेषहीनमित्यर्थः । तत्र हेतुः-अद्वयं प्रत्यञ्चमिति । सजातीयादिभेदरहितं सर्वान्तरमित्यर्थः । कथं तर्हि विरुद्धधर्मद्वयसमावेशः कल्पितभेदादित्याह-पराग्रूपेण विक्षिप्य तिष्ठतीति । परस्मिन् तत्त्वसाक्षात्कारानन्तरकाले अञ्चति गच्छति नश्यतीति पराक् ज्ञानानन्दभेदादि तद्रूपेण प्रत्यञ्चं विक्षिप्य तिष्टती त्यर्थः । ननु भेदोप्यध्यासः स चावरणाधीनः कथमावरणप्रयोजको भवे- दन्योऽन्यायादित्यत अाह-एवेति । भेदरूपेण विक्षिप्यैव तिष्ठतीत्यर्थः । तथा च-भेदस्यानादित्वान्नान्योऽन्याश्रयतेति भावः । कथं तर्हि भेदस्याविद्याविक्षेपत्वं, तदधीनत्वमात्रेणेति वदामः । ननु ज्ञानानन्द- भेदस्याविद्याजन्यत्वाभावे सत्यत्वं स्यादविद्याजन्यस्यैवासत्यत्वा- दिति चेत्तत्राह-मृषेति । अनिर्वचनीयमित्यर्थः। न ह्यविद्या- जन्यस्यैव मिथ्यात्वमिति नियमः अविद्याया व्यभिचारात् । कित्व- विद्याधीनसत्त्वस्यैव मिथ्यात्वमविद्याया अपि स्वरूपनिर्वाहकत्वेनावि- द्याधीनसत्त्वात् ज्ञानानन्दभेदश्वाविद्याकालीनतयाऽविद्याधीनस्थितिक इति भवति स्पेति भावः ॥ २१ ॥ एवं भेदप्रपञ्चस्यानाद्यविद्याकल्पितत्वोपवर्णने न वेदान्तानां ब्रह्मा- त्मैक्यलक्षणविषयोऽनर्थनिवृत्तिलक्षणं च प्रयोजनंरयादित्याशयानर्थ- निवृत्तेरानन्दात्ममात्रत्वात्प्रयोजनत्वमिति दर्शयितुं प्रत्यगात्मनः प्रत्य- क्षादिनाऽऽनन्दरूपत्वं सिद्ध्यतीत्याह- सटीक संक्षेपशारीरके- प्रत्यक्षलिङ्गवचनानि हि दर्शयन्ति निर्दुःखनित्यमुखविग्रहतां प्रतीचः ॥ निर्दुःखनित्यसुखविग्रहभूनि नास्मिन् संभाव्यते दृशि पुरोदितमल्परूपम् ॥२२॥ प्रत्यक्षालिङ्गेति । हि यस्मात्प्रत्यगात्मनः प्रत्यक्षं खापकालीनानुभवः परमप्रेमास्पदत्वादि लिङ्ग 'यो वै भूमातत्सुखमित्यादिवचनं च निर्दुःख- नित्यसुखविग्रहतां प्रतीचः दुःखविरोधि नित्यानन्दात्मत्वमवगमयन्ति तस्मादात्मानन्दरूप इत्यर्थः । ननु प्रत्यगात्मा विविधदुःखाकुलः प्रतीयते तत्कथमानन्दरूपस्तत्राह-निर्दु:खेति । निदुःखनित्यसुखात्मके भूनि त्रिविधपरिच्छेदशून्ये दृशि प्रत्यगात्मन्यल्परूपं दुःखात्मकं प्रमा- तृत्वादि न संभाव्यते उपपत्तितो न सिद्ध्यतीत्यर्थः उपपत्त्यभावज्ञाप- नार्थ भूमन्यल्पमिति च विशेषणम् ॥ २२ ॥ आत्मनः सुखरूपत्वे प्रत्यक्षं ज्येष्ठं प्रथममुदाहरति- प्राज्ञे सुखं समनुभूय समुत्थितः सन् सर्वप्रकारविषयप्रतिपनिशून्ये ॥ सुप्तोऽहमत्र सुखमित्यनुसंधानः सर्वोऽपि जन्तुरवगच्छति तस्य सौख्यम्॥२३॥ प्राज्ञे सुखं समनुभूयति । प्राज्ञः स्वापकालीनात्मा तत्र हि प्रत्यगात्मो- पाधिविगमेन स्वरूपप्रज्ञया युक्तो भवति प्राज्ञे सुखं समनुभूय समु- त्थितः सन्नहमत्र प्राज्ञे सुखं यथा भवति तथा सुप्त इत्यनुसंदधानः सर्वः पामरजन्तुरपि तस्य प्रत्यगात्मनः सौख्यं सुखरूपतामवगच्छति अतः प्रत्यगात्मा सुखरूप इत्यर्थः । ननु सुखानुभवस्य वैषयिकसुख- प्रथमोऽध्यायः। ४३ विषयत्वेनान्यथासिद्धिः किं न स्यादित्याशङ्कय प्राज्ञं विशिनष्टि- सर्वप्रकारविषयप्रत्तिपत्तिशून्ये इति । सर्वप्रकारा चक्षुरादिजन्या वासनाजन्या च या विषयप्रत्तिपत्तिः शब्दादिविषयपरिज्ञानं तद्रहितेऽनेन वैषयिक- सुखोचितकारणाभावात्तत्र वैषयिकं सुखं नास्तीत्युक्तं भवति । एत- दिह विवक्षितं सुप्तोत्थितः खलु पुरुषः सुखमहमस्खाप्सं न किञ्चिद- वेदिषमिति स्वापकालीनं सुखं सर्वविषयाज्ञानं च परामृशति । न चायं पूर्वदिनानुभूतसुखविषयः 'अस्वाप्सम्'इति स्वापकालीनतया परामर्शात् नापि स्वाग्निकसुखविषयः, न किञ्चिदवेदिषमिति परामर्शा- नुपपत्तेः । अतः परिशेषात् सौषुप्तिकसुखविषय एव तत्रापि न वैष- यिकसुखविषयः स्वापस्य सकलविषयप्रतिपत्तिशून्यत्वात् न हि विषयज्ञानं विना वैषयिकं सुखं भवति सर्वदा प्रसङ्गात् । न चायं परामर्श एव नास्तीति वाच्यं सर्वानुभवसिद्धत्वात् नापि दुःखाभाव- विषयः दुःखाभावस्य प्रतियोगिस्मरणाद्यभावेन तदानुभवितुमश- क्यत्वात् न ह्यननुभूतविषये स्मरणं दृष्टचरम् । न चेयं दुःखाभावविषये- दानींतनानुमितिरेवेति वाच्यं लिङ्गानुसंधानं विनाप्यनुभवान्नवा लिङ्गं किञ्चिदस्ति । ननु तदनींतनं दुःखवत्तया स्मरणमेव हेतुरिति चेन्न अनुभूते स्मरणनियमाभावात्, तदानींतनदुःखस्याप्रसिद्धत्वेन तद्वि- षयकस्मरणाभावस्यापि अप्रसिद्धत्वात् । ननु तदा दुःखवत्तया अननु- भूयमानत्वं हेतुरिति चेन्न तत्कालीनानुभवाभावस्यापि ज्ञातुमशक्य- त्वात् । ननु सामग्रयभावेन सोप्यनुमीयत इति चेन्न-सामग्रयभावस्थ कार्याभावकल्ष्यत्वाद्यदाकदाचित्सामग्र्यभावस्य तदानींतनदुःखाद्य- भावालिङ्गत्वात्तदानींतनसामग्रयभावस्यासिद्धः । न चसुषुप्तिकाली- नत्वलिङ्गेन दुःखाभावानुमितिरिति वाच्यम्, सुषुप्तिकालीनत्व- स्यापि ज्ञातुमशक्यत्वात् । तस्मादयं परामर्शः सुखविषय एव वाच्य इत्यात्मनः सुखरूपत्वसिद्धिः ॥ २३ ॥ इदानीमात्मनः सुखरूपत्वे लिङ्ग दर्शयन्नादौ वैषयिकसुखस्या- सटीके संक्षेपशारीरके- मातिरिक्तत्वमभ्युपेत्य तदर्शयति- सर्व यदर्थमिह वस्तु यदास्त किंचित् पारार्थ्यमुमति च यन्निजसत्तयैव ॥ तदर्णयन्ति हि सुखं सुखलक्षणज्ञा- स्तत्प्रत्यगात्मनि समं सुखतास्य तस्मात् ॥२४॥ सर्वं यदर्थमिति । इह जगति यत्किञ्चिद्वस्त्वस्ति तत्सर्व यदर्थ यच्छेषः यच्च निज सत्तयैवानन्योपहितत्वेन स्वत एव पारार्थ्यमन्यशेषत्व- मुज्झति त्यजति तदनन्यशेषत्वे सति सर्वशेषि सुखमिति यत्सुखलक्षणं सुखलक्षणज्ञा वृद्धा वर्णयन्ति तत्सुखलक्षणं प्रत्यगात्मनि समं वैषयिकसुखवद्विद्यते हि यस्मादस्य प्रत्यगात्मनः सुखतेत्यर्थः । नन्वेतत्सुखलक्षणमनुपपन्नं सर्वस्यापि सुखशेषत्वाभावान्न हि दुःखं तत्साधनं वा सुखशेषो भवति-ननु यागाद्यनुष्ठानजन्यं दुःखं तत्सा- धनं च यागादिसुखशेषो भवतीति चेन्न यागादेः सुखसाधनतया तच्छेषत्वेपि तजन्यदुःखस्यातच्छेषत्वात् न हि सुखसाधनत्वेन दुःख- मनुभवति कश्चित् किन्तु नान्तरीयकत्वेन ब्रह्महत्यायास्तजन्यस्य दुःखस्य च सुखशेषत्वशङ्खव नास्ति किञ्च सुखमपि सर्वपदार्था- न्तर्गतं भवति न हि सुखं सुखशेषः सुखभिन्नत्वेन सर्वपदार्थविवक्षा- यामात्माश्रयः स्यात्सुखस्यैव लक्ष्यमाणत्वादात्मापि न सुखशेषः मम सुखं भूयादिति सुखस्यैवात्मशेषत्वेनार्यमानत्वादात्मनः सुख- शेषत्वे वा कथमात्मनि सुखलक्षणं गच्छेदनन्यशेषत्वाभावात्प्रथम- विशेषणञ्च व्यर्थमनन्यशेषत्वस्योन्यत्राभावात् न च दुःखेऽस्तीति वाच्यम् तर्हि सर्वशेषित्वस्यापि तत्र सत्वात्तस्यापि स्वसाधनसर्व- शेषित्वात्तस्माद्यत्किञ्चिदेतल्लक्षणमिति चेन, आत्मातिरिक्तपरोपा- धिप्रीतिविषयसर्वशेषित्वस्य सुखलक्षणत्वादितरत्स्वरूपकीर्तनमात्मो- प्रथमोऽध्यायः। ४५ तज्ज- पाधिप्रीतिविषयवैषयिकसुखेऽव्याप्तिनिरासाय-परेति । न च परोपाधि- प्रीतिविषययागजन्यतया तच्छेषीभूतदुःखेऽतिव्याप्तिः, दुःखजात्युपाधौ दुःखस्य परोपाधिप्रीतिविषयसकलशेषित्वाभावात् पुत्रादिशब्दश्रवणे दुःखाभावात् । नन्वेवमप्यात्मन्येतल्लक्षणं न संभवति श्रात्मनः शेषित्वाभावान्नाद्यात्मार्थ किञ्चिद्भवति, साधनं हि साध्यार्थ भवति । आत्मनश्चानादित्वान्न साध्यत्वं सुखार्थे तु भवति, तस्य न्यत्वादिति चेन्न-न हि येन यत्साध्यते तस्यैव तच्छेषित्वमिति नियमः, तथा सत्याग्नेयादेः प्रयाजादिशेषित्वाभावप्रसङ्गात्, किन्तु येन यस्योपकारो भवति स एव तच्छेषी शेषी चात्रोपकार्य एव विव- क्षितः, उपकारश्च सुखस्य साधनकृत श्रात्मलाभः, भोक्तुश्चात्मनो- भोग्यकृतो भोग एव तथा चात्मा सुखरूयः सुखलक्षणलक्षितत्वाद्वै- पयिकसुखवत् अथवा यत्सुखलक्षणं लौकिकपरीक्षकाणां संमतं तदस्मद- भिमतौपनिषदात्मनि सममिति व्यतिरेक्येवास्तु । आत्मातिरिक्तसु- खाभाचादत्र च परोपाधिप्रीतिविषयेत्यादिरेव लक्षणम् ॥ २४ ॥ व्यतिरेकिलिङ्गान्तरमाह- प्रेमानुपाधिरसुखात्मनि नोपलब्धः स प्रत्यागात्मनि कृमेरपि नित्यसिद्धः ॥ प्रेयः श्रुतेरपि ततः सुखतानुमानं नैयायिकोपि न दृगात्मनि निनुवीत ॥२५॥ प्रेमानुपाधिरिति । अनुपाधिरनन्यशेषः प्रेमा हलक्षणेच्छाविशेषः असुखात्मनि सुखव्यतिरेक्ते नोपलब्धः । यद्यपि सुखसाधनेपि प्रेमा तथापि स सुखप्रयुक्त एव नानौपाधिकः स तादृशश्च प्रेमा कमेनिकृष्ट- जन्तोरपि श्वादीनामप्यात्मरक्षणाय पलायनादिदर्शनादात्मनि नित्य- सिद्धः । प्रथमपादेन यत्सुखव्यतिरिक्तं न तत्परमप्रेमविषय इति व्यति- सटीक संक्षेपशारीरके- manand रेकव्याप्तिदर्शिता द्वितीयपादेन परमप्रेमास्पदत्वहेतोः पक्षधर्मत्वमनु- भवप्रमाणं दर्शितं श्रुत्यापि परमप्रेमास्पदत्वमात्मनो दर्शयति-प्रेयः श्रुतेरिति । तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्रेयोन्यस्मात्सर्वस्मादन्तरतरं यद- यमात्मेति श्रुतेरपि प्रत्यगात्मनि स नित्यसिद्ध इति सम्बन्धः । अपिशब्देन 'न वा अरेः पत्युः कामाये'त्यादि श्रुतिः समुच्चीयते । हेतोः पक्षधर्मत्वप्रदर्शनफलमाह-तत इति । यतोयं प्रेमा श्रुत्यनुभवाभ्यामात्मनि नित्यसिद्धः ततोनुमानदूषणप्रवीणो नैयायिकोपि'श्रात्मा सुखरूपः परमप्रेमास्पदत्वाद्व्यतिरेकेण दुःखादिवत्'इत्यात्मनः सुखत्वानुमानं न निडवीत न विहन्यान्न दूषयितुं शक्तः अतोऽनुमानसिद्धमान्मनः सुख- त्वमित्यर्थः ॥ २५ ॥ एवं हैतुकं नैयायिक प्रत्यनुमानेनात्मनः सुखरूपत्वं साधयित्वा वेदार्थविचारदक्षं मीमांसकं प्रत्यात्मन आनन्दरूपत्वं श्रुतितो निर्धा- रयति- आनन्दविग्रहमपास्तसमस्तदुःखं वस्तुस्वभावपरिकल्पितसर्वभेदम् ॥ आत्मानमध्ययनविध्यनुसारिणस्तं प्रत्यक्षतः श्रुतिशिरःसु समामनन्ति ॥२६॥ आनन्दविग्रहमिति । अध्ययनविध्यनुसारिणोऽध्ययनविधिप्रयुक्तसा- गस्वाध्यायाध्ययनवन्तः श्रुतिशिरःसु वेदान्तेषु अानन्दविग्रहमपा- स्तसमस्तदुःखं निराकृताध्यात्मिकादिविविधदुःखं वस्तुस्वभावपरि- वर्जितसर्वभेदमसङ्गोदासीनस्वरूपमहिम्ना परिहृतसजातीयादिभेदमा- त्मानं प्रत्यक्षतः स्पष्टमामनन्ति अवगच्छन्तीत्यर्थः । एतदुक्तं भवति वेदाध्ययनशालिनः शुद्धान्तःकरणा 'विज्ञानमानन्दं ब्रह्म, यदेष आकाशा अानन्दो न स्यात्,सैषानन्दस्य मीमांसा भवति, एषोऽस्य परमानन्दः प्रथमोऽध्यायः। ४७ एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति,यो वैभूमा तत्सुखं, ऽयोशनायापिपाले शोक मोहं जरा मृत्युमत्येति, एकमेवाद्वितीयं, स एष नेति नेतीत्यादि श्रुतिशिरोवाक्यशतेभ्यः परमानन्दरूपं निरस्त निखिलानर्थजालं सजातीयादित्रिविधभेदरहितमात्मानमवगच्छति । न चैतानि वाक्यान्युपचरितार्थानि, उपक्रमादिपविधतात्पर्यलिङ्गो- पेतत्वात् तादृशानामप्युपचरितार्थत्वे कर्मवाक्यस्याप्यनर्गलं तथात्वा- पातात् न चेदानीमधीतवेदान्ता अपि पुरुषा नैतादृशमात्मानमवग च्छन्तीति युक्त वक्तुं साङ्गाध्ययनवतां शुद्धाशयानामिदानीमपि ताह- शात्मप्रतीतेः, तदिदमुक्तमध्ययनविध्यनुसारिणइति तथा च श्रुत्याप्यानन्द- त्वमात्मनः सिद्धम् ॥ २६ ॥ नन्धेतानि प्रमाणानि स्पष्टप्रत्यक्षबाधितान्यनुभूयते ह्यात्माह दुःखी सुखीति । न चाहम एव दुखित्वादिधर्मो नात्मन इतिवाच्यम् । नस्यैवात्मत्वात् । नन्वहंकारोऽध्यस्तात्मेति चेन्न-तदध्यासे प्रमाणा- भावात् अनुपपन्नश्च तस्याध्यासः प्रसिद्धाध्यासविपरीतरूपत्वात् प्रसि- द्धो ह्यध्यास इदं रजतमिति द्विरूपेणावभासते, अहमिति चैकरूपेणा- वभासतेऽहंकारः । अहंकारस्याध्यस्तत्वे च तत्प्रतीतिरप्यनुपपन्ना सा न तावत्प्रमाणतः अध्यस्तस्य तद्विषयत्वानुपपत्तेः नापि स्वतोध्यस्तस्य जडत्वान्नाप्यधिष्ठानचैतन्येनाध्यासे तस्य प्रकाशानुपपत्तेः। अध्यस्त- स्यैवाध्यासे प्रकाशनियमात्तदध्यासकारणाभावाचाध्यासे हि विषय- दोषः सादृश्यादिरधिष्ठानप्रमाणदोषः काचादिः प्रमातृदोषो रागादिश्च कारणं तत्र न तावत्सादृश्यं संभवति प्रत्यक्पराग्भावेन जडाजडरूपेण चात्यन्तविलक्षणत्वात् नापि करणदोषः स्वप्रकाशस्यात्मनः प्रमितौ करणाभावात् नापि प्रभातृदोषः स हि रागादिरूपोऽहंकारधर्म एवेति भवतो मतं तत्कथमहंकारे स कारणं तस्मात्प्रमाणाभावाद- ध्यासविपरीतरूपत्वात्प्रकाशानुपपत्तेस्तत्कारणाभावाच नाहंकारोध्य- स्त इत्याशक्याह- Himala ४८ सटीके संक्षेपशारीरके- weMICRename aanand अध्यस्तमल्पवपुरस्य न वास्तवंत- प्रत्यक्पराग्छयमिदं हि परस्परस्मिन् । अध्यस्ततां प्रति समर्थमबोधमान-- मन्योन्यरूपमिथुनीकरणे निमित्तम् ॥ २७ ॥ अध्यस्तमिति । हितौ यस्मादस्यानवच्छिन्नानन्दस्य इदमहकरणम. ल्पवपुः दुःखात्मकं परिच्छिन्नं च तस्मादध्यस्तमिति सम्बन्धः विमतो- हंकार अात्मन्यध्यस्तःअधिष्ठानविपरीतरूपत्वे सति तदभिन्नत्वेन प्रती- यमानत्वात् यद्यदविपरीतरूपत्वे सति यदभिन्नत्वेज प्रतीयते तत्तत्रा- ध्यस्तं यथेदं रजतमिति। न च हेतोरसिद्धिः अहमः परिच्छेदा- नुभावात् दुःखितत्वानुभवादहमिति चैतन्यसभेदानुभवाञ्चेत्यर्थः ततः प्रमाणसत्त्वान्न प्रमाणाभावः । द्विरूपावभासमहंकारप्रतीति चोपपाद- यति-प्रत्यक्परागद्वयमिति। तदहंकरणं प्रत्यकपराचोर्द्वयं प्रत्यक्परागद्वयम् । प्रत्यकपरागुभयाकारमित्यर्थः । इदञ्च परस्परस्मिन्नध्यस्ततां प्रति स- मर्थमन्योन्याध्यासात्मकमित्यर्थः । अहंकारो हि यद्यपि स्पष्टं द्विरूपो- नावभासते तथापि प्रत्यपरारा लक्षणरूपद्धयवानेवाहंकारस्याध्यस्तत्वे सिद्धेऽध्यस्तस्य चाधिष्ठानसभेदनियमादस्ति च विवेकिनामनुभवोपि द्विरूपविषयोहमिति चैतन्यजडाभेदस्यानुभवात् नापि तत्प्रतीत्यनुप- पत्तिः-अधिष्ठानप्रकाशस्यैव तत्स्फुरणत्वात् । न चाधिष्ठानस्यान- ध्यस्तस्याध्यासे प्रकाशानुपपत्तिः परस्पराध्यासस्वीकारादत्र चानु- पपत्ति परिहरिष्यति । नापि कारणानुपपत्तिः अज्ञानमात्रस्यैव कारण- त्वादित्याह अबोधमात्रमिति । अन्योन्यरूपमिथुनीकरणे चाबोधमात्रं निमित्तं कारणं न तु विषयदोषादिरपेक्ष्यत इति भावः ॥२७॥ ननु रजताध्यासे दोषत्रयमपि दृष्टं तत्कथं न कारणमित्याशङ्क्य न हि क्वचिद्दर्शनमात्रेण कारणत्वमपि तु सर्वत्र दर्शनेन तच्च दोषत्रये ऽपि नास्तीत्यभिप्रेत्याह- । S प्रथमोऽध्यायः। सादृश्यधीप्रभृति न त्रितयं निमित्त- मध्यासभूमिषु जगत्यनुगच्छतीदम् । ब्राह्मण्यजातिपरिकल्पनमात्मनीष्टं जात्या न साम्यमुपलब्धमिहास्ति किश्चित्॥२८॥ सादृश्यधीप्रभृतीति । सादृश्यधीः प्रभृतिः प्रमुखमादिर्यस्य तत्तथेति तद्गुणसंविज्ञानो बहुब्रीहिः । निमित्तं निमित्तत्वेनाभिमतं सादृश्यधी- प्रभृति त्रितयं जगत्यध्यासभूमिषु नानुगच्छति न सर्वत्राध्यासेषु वर्तते अतो व्यभिचारान्न कारणमित्यर्थः । सादृश्यधीप्रभृति त्रितयं निमित्तं यतोऽध्यासभूमिषु सर्वत्र नानुगच्छतीति वा सम्बन्धः । कुत्र तेषां व्यभिचार इत्याकाङ्क्षायां सादृश्यस्यादौ व्यभिचारस्थलमाह ब्राह्मण्यजातीति-परिकल्पनमध्यासः सर्वेषामप्यात्मनि ब्राह्मणोहमित्य- नुभवानुरोधेन ब्राह्मण्यजातिकल्पनमिष्टमिह चाध्यासेऽऽत्मनि न किं चिजात्या साम्यमवयवसाम्यं गुणसाम्यं क्रियासाम्यं वोपलब्धम् । तयोनिरवयवत्वान्निर्गुणत्वानिष्क्रियत्वाच्चेत्यर्थः ॥ २८ ॥ ननु तत्रापि यथाकथञ्चित्सारूप्यं वर्णयितुं शक्यत इत्याशक्य तादृशं प्रकृतेपि वर्णयिष्यामीत्यभिप्रेत्य पराभिमतं सादृश्यं तत्कथन- पूर्वकं नास्तीत्याह- भूयस्त्ववन्ननुगुणावयवक्रियाणां सामान्यपूगवपुरुक्तमिहाभियुक्तैः। सादृश्यवस्तु न चिदात्मनि किञ्चिदत्र जात्यादिभिः सह निरीक्षितमस्ति तादृक् ॥२६॥ भूयस्त्ववदिति । भूयसां भावो भूयस्त्वं तद्युक्तम्, नन्विति प्रसिद्धौ सामान्यपूगवपुरनेकसामान्यघटितमि लागि शत्वेन तद्विषयकप्रमाणामावात्। रागादेरपि हिततत्साधनविषयत्वा-. ५० सटीके संक्षेपशारीरके- किं तत्राह चिदात्मनीति । भूयस्त्ववत्सामान्यात्मक, नास्त्युभयोरप्यवयवादेरभावादित्यर्थः । एवं दपि तु भवति मोहात्केवलादेवमेव । द्वयमतिरियमस्तु भ्रान्तिरज्ञानहेतुः॥३०॥ विषयकरणदोषादिति । संविदि चैतन्येऽनित्यत्वादिविभ्रमः विषयदोषा- दिवत् करणदोषादपि न भवतीत्यर्थः । संविदि तावत्सर्वेषामनित्यत्व- जन्यत्वप्रत्ययो दृश्यते स च न यथार्थः तन्नाशे प्रमाणाभावात् । न च घटज्ञानं नष्टं पटज्ञानमुत्पन्नमितिप्रत्यय एव प्रमाणं तस्य घटाकाशो नाशविषयत्वात् । किञ्च सुषुप्तिकाले तावत्सुखा दिज्ञानमस्तीति वक्त- । तत्परामर्शायोगात्तञ्च न जन्यं करणानामुपरतत्वादतो नित्यं तदनादिभावस्य नित्यत्वात् । न च ज्ञानभेदे प्रमाणमस्ति । आत्माभिन्न- घट इति संवेदनस्यानादिनिधनात्मा भेदोऽनुभूयते । श्रुतिरपि न हि द्रष्टुर्दृष्टेरित्याद्या ज्ञाननित्यतां दर्शयति । अतोऽनित्यत्वादिप्रत्ययो स्त्ववत्सामान्यपूगवपुः ननु सादृश्यवस्त्वित्यभियुक्तैवैशेषिकादिभि- रुक्तं, ततः । तादृक्-गुणावयव क्रियाणां दूरस्थत्वादिविषयदोषाणामपि तत्रैव व्यभिचारो द्रष्टव्यः ॥ २६ ॥ विषयदोषवत्करणदोषोपि व्यभिचारान्न कारणमित्यभिप्रेत्य तस्यापि व्यभिचारस्थलमाह- विषयकरणदोषान्न भ्रमः संविदि स्या- नष्टः पटाकाश उत्पन्न इति प्रत्ययवत् घटचैतन्योपरागवृत्त्युत्पादवि- भगवति परमात्मन्नद्वितीये विचित्रा- व्यमन्यथा त्वाञ्च ज्ञानं नित्यम्। नचासिद्धिः, स्वयंप्रकाशज्ञानस्य मानान्तराविषय- त्वेन भेदावगाहिमानाविषयतया तद्भदासिद्धः प्रत्युत मया विदितो विभ्रम एव तत्र विषयदोष इव करणदोषोपि न संभवति तस्य स्वप्रका- 17574 प्रथमोऽध्यायः। देव तत्रासंभवः कस्मात्तर्हि ब्राह्मण्याद्यध्यासो भवतीत्याकाङ्क्षापूर्वक पूर्वपूर्वानुभवजन्यसंस्कारसचिवादज्ञानादेव भवतीत्याह-अपि त्वित्यादिना। अपि तु किन्त्वित्यर्थः केवलाद्दोषत्रयवर्जितादोषत्रयस्य कारणत्वनिर- सनफलमाह एवमेवेति । यथा ब्राह्मण्याद्यध्यासोऽज्ञानमात्रहेतुक एवमेव भगवत्यद्वितीये परमात्मनि विचित्रा नानाकारेयं द्वयमिति भ्रान्तिर- ज्ञानजन्येत्यर्थः ॥ ३०॥ एवमबोधमात्रमन्योन्यरूपमिथुनीकरणे निमित्तमित्यत्रोक्तं भ्रान्ते- रज्ञानमात्रहेतुकत्वं समर्थितमिदानी पूर्वोक्तान्योन्याध्यासमाक्षिप्य समर्थयते तत्रायमाक्षेपः नन्वहंकारस्यैवात्मन्यध्यासो भवितुमर्हति, तस्यैव तत्त्वसाक्षात्कारेण बाध्यमानत्वान्नात्मनोहंकारेऽध्यासो युक्तः तस्यावाध्यमानत्वात्तद्वाधे वा सर्वस्यापि निरवधिकबाधया जगच्छू- न्यत्वप्रसङ्गादिति तत्राह- संसिडा सविलासमोहविषये वस्तुन्यधिष्ठानगी- र्नाऽऽधारेऽध्यसनस्य वस्तुनि ततोऽस्थाने महान्संभ्रमः । केषां चिन्महतामनूनतमसां पाण्डित्यगर्वाश्रया- दन्योन्याध्यसने निरास्पदमिदं शून्यं जगत्स्यादिति॥३१॥ संसिद्धा सविलासेति । विलासः कार्य सविलासमोहविषये वस्तु- बिन्याधते तत्त्वेऽधिष्टानमिति गोर्वाचकत्वेन संसिद्धा प्रसिद्धा. अध्य- सनस्याध्यासस्याधारे वस्तुन्यारोप्य संवलिततया प्रतीयमानांशेन प्रसिद्धा यतस्ततोऽस्थानेऽविषये स्थानेऽयोग्य इति वा केषाञ्चिन्नाम- ग्रहणायोग्यानां महान्संभ्रम इति सम्बन्धः ।महतामित्युपहासः ।संभ्रमे निमित्तगर्भ तद्विशेषणमाह अनूनतमसामिति । ऊनं न भवतीत्यनूनमधिक- मिति यावत्तादृशं तमोऽज्ञानमेषामस्मन्मतसिद्धान्तविभागापरिज्ञानि- नामतो नातालेट --- सटाक सक्षपशारारक- । - । निमित्तान्तरमाह पाण्डित्यगर्वाश्रयादिति । पाण्डित्यप्रयुक्तगर्वाश्रयान्मत्सदृशः कोवा विद्यते मवचनमात्रेण सर्वे पराजिताः स्युरित्यभिमानादेव जल्प- न्तीत्यर्थः । तत्संभ्रममेवाह अन्योन्येत्यदिना । अन्योन्याध्यसने ऽभ्युपगम्य- मान इति शेषः । यत इदं जगन्निरास्पदं सदधिष्ठानशून्यमतः शून्य स्यादिति किमप्यबाधितं न स्यादित्यर्थः । अयम्भावः । अध्यस्तेऽहं- कारेऽऽधार एवाविद्याविकल्पितं चैतन्यमारोप्यते तस्यैवाध्यासे प्रतीतिर्नाधिष्ठानमविद्यावृतमनवच्छिन्नानन्दरूपमत आधारबाधेप्य- धिष्ठानबाधाभावादन्योऽन्याध्यासेजगच्छून्यं स्यादित्यस्मन्मतापरिक्षा. निनां गर्वगहिताशयानां चास्थाने अविषये महान्संभ्रम इति ॥ ३१॥ ननु यदधिष्ठानं तदेवाधारस्तत्कथमनयोर्भेदमादाय परिहारः क्रियत इत्याशङ्कय न केवलमस्माभिरेव तद्भेदोऽङ्गीक्रियते किन्तु लोकसिद्धोपीत्याह- अधिष्ठानमाधारमानं यदि स्या- त्प्रसज्येत सत्यं तदा चोद्यमेतत् । न चैतत्सकार्यस्य मोहस्य वस्तु- न्यधिष्ठानगीगर्गोचरे लोकसिडा ॥ ३२॥ अधिष्ठानमिति । एतजगच्छून्यं स्यादित्येतदेतदधिष्ठानस्याधारमा- प्रत्वे यद्यधिष्ठानमाधारमात्रं भवेत्तदैतञ्चोद्यं सत्यं भवेत् न त्वेतदस्ति किन्तु सविलासाज्ञानविषयेऽधिष्ठानगीलोंके रजताध्यासे सिद्धत्यर्थः। अयम्भावः । यनिष्ठतया यत्स्फुरति तत्तस्याधारः यद्विषयाज्ञानाञ्च यद्भ- वति तत्तस्याधिष्ठानमत एवाधिष्ठानज्ञानाद्भमनिवृत्तिं वदन्तोऽज्ञाना- वृतशुक्त्यादिविशेषांशस्य रजताधिष्ठानत्वमिति वर्णयन्ति । अहं- कारश्चाविद्याविकल्पितचैतन्यांशनिष्ठ एव तस्य तनिष्ठतया स्फुरणा- दज्ञानकार्यत्वाच्च पूर्णचेतनमधिष्ठानं तस्य तद्विषयाज्ञानकार्यत्वात्तथा प्रथमोऽध्यायः। ५३ MOUND चाधिष्ठानाधारयोर्वस्तुतोऽभेदेप्यविद्याधीनविभागमादायायं परिहार उपपद्यत इति ॥ ३२॥ नन्वेवमप्याधारस्य चैतन्यस्याहंकारेऽध्यासे तद्वाधया तद- भिन्नब्रह्मापि बाधितं स्यान्न ह्यकरसमेव निरंशं वस्त्वंशेन बाध्यते अंशेन नेति साम्प्रतं ततः कथं शून्यतापरिहार इति तत्राह- किञ्चानृतद्वयमिहाध्यसितव्यमि, स्याच्चेत्तदा भवति चोथमिदं त्वदीयम् । सत्यानृतात्मकमिदं मिथुनं मिथञ्चे- दध्यस्यते किमिति शून्यकथाप्रसङ्गः ॥३॥ किञ्चेति । इहाहंकाराद्यध्यासेऽनृतद्वयं स्वरूपतोऽध्यस्यमानद्वय- मध्यसितव्यमिष्टं चेत्तदा त्वदीयमिदं पूर्वोक्तं चोद्यं सावकाशं भवेदिति सम्बन्धः । कयोस्तह्यध्यासस्तत्राह-सत्यानृतात्मकमिति । इदं मिथुनमुभयम- न्योन्यं मिथश्चेदध्यस्यते चेच्छब्दोऽवधारणे शून्यकथाप्रसङ्गः किमिति कस्माद्धेतो वेन भवेदेवेत्यर्थः । श्रयमर्थः । यद्याधारोऽहंकारादिवत्स्व- रूपतोप्यध्यस्येत तदाधारस्य चैतन्यस्य स्वरूपतोपि बाधात्तदभिन्न- ब्रह्मापि बाधितं भवेन त्वेदस्ति किन्तु सत्यस्यैवाधारचैतन्यस्याह काराभिन्नत्वाकारणाध्यासः। तथाच येनाकारणाहंकारेऽऽधारस्यारोपः तेनैवाकारेण तस्य बाधो न स्वरूपत इति न जगच्छून्यतापत्तिरिति । नन्वेवं किमिति बकबन्धप्रयासेनाधिष्ठानस्यैवारोप्यसंसृष्टत्वाकारणा- ध्यासो बाधश्चेत्यभ्युपेयतामिति चेन ह्येतावता लोकसिद्धाधिष्ठाना- धारभेदवर्णनं शिष्यशिक्षायै कृतमनुचितं भवति । नन्वेवं सत्यधिष्ठान बाधाभावहेतुत्वेन तवर्णनमनुचितमिति चेन्न-तवर्णनस्य संसृष्टत्वा- कारेणापि बाध आधारस्य नाधिष्ठानस्येति लौकिकाधिष्ठानवैषम्य- परिहारार्थत्वात्। अथवा सर्व शून्यं स्यादिति साटोपं जल्पन्तं प्रत्यहृदयवा- ।
सटीक सक्षपशारारक-
च एव प्रतिवाचो भवन्तीति न्यायेनैतावतायं निवृत्तशङ्को
भवत्विति मनीषया तत्त्वं निगृह्याधाराधिष्ठानभेदकीर्तनेनाधिष्ठानं
परिशेषितं कुशलमतिना शिष्येण तत्राप्यनुपपत्तावुद्भावितायां तात्वि-
कोयं परिहारः कृत इति सर्व समजसम् । यद्वा नन्वस्तु यथाकथञ्चित्-
कार्याध्यासेधिष्ठानाधारभेदवर्णनमज्ञानाध्यासे तु तन्न सगच्छते तत्रा-
धाराधिष्ठानभेदाभावात् । न चाज्ञानमहंकारादिवदज्ञानविकल्पिते
चैतन्येऽध्यस्यते श्रात्माश्रयापातादज्ञानान्तराभावाच्च न च जीवाश्रय-
मज्ञानमित्युक्तं वक्ष्यति च । ननु चैतन्यानन्दयोरारोपितभेद आश्रीयत
इति चेत्सत्यं न हि तदाधाराधिष्ठानविभागांसद्ध्यर्थमाश्रीयते किन्तु
प्रतीत्यनुरोधेनावृतत्वानावृतत्वयोः सांक-परिहाराय। नन्वन्यार्थकृत-
मप्यन्यार्थमप्यविरुद्धं भविष्यतीति चेन्न अज्ञानस्यावारकस्य समाना-
श्रयविषयत्वनियमेनाधाराधिष्ठानभेदानुपपत्तेः वक्ष्यति च "श्राश्रयत्व-
विषयत्वभागिनी निर्विमागचितिरेव केवले"ति। नचाज्ञानाध्यासेऽन्यो
न्याध्यासो नास्तोति वाच्यम्, अध्यासवैरूप्यकल्पनायोगाद्भान्तौ
प्रतीयमानत्वादिति वक्ष्यमाणहेतोस्तत्रापि सत्त्वाच्च । तस्मादाधा-
रादिभेदस्य कल्पितस्याज्ञानाध्यासेऽभावाच्छून्यतादोषस्तदवस्थ एवे
त्याशङ्कय तत्र तद्भदाभावेप्यधिष्ठानस्याज्ञाने संसृष्टत्वाकारेणैवाध्या-
सान्न स्वरूपतो बाध इति न शून्यतापत्तिरिति परिहरति-किञ्चानून-
द्वयमिति ॥ ३३॥
ननु माभूदितरेतराध्यासे शून्यतापत्तिस्तथापि न स स्वीकार्यः
तत्र प्रमाणाभावादित्याशङ्कय प्रसिद्धाध्यासवदहंकाराध्यासेपि स
स्वीकर्त्तव्य इति वक्तुं प्रसिद्धाध्यासे तत्र प्रमाणमाह --
इमर्थवस्त्वपि भवेद्रजते
परिकल्पितं रजतवस्त्विदामि ।
रजतभूमेऽस्य च परिस्फुरणा-
न यदि स्फुरेन्न खलु शुक्तिरिव ॥३४॥
प्रथमोऽध्यायः।
इदमर्थवस्त्विति । इदंशब्दार्थवस्तुव्यवहारदशायां बाधाभावापेक्षया
वस्तुग्रहणं रजते इदमंशस्तत्संसृष्टत्वाकारेण परिकल्पितो भवेत्तत्र हेतुः
रजतभ्रमेऽस्येदमंशस्य परिस्फुरणादिति तत्र दृष्टान्तः । इदमीति रज-
तवदिति । विपक्षे बाधकमाह न यदीति । इदमंशो रजतसंसृष्टत्वाकारण
रजते कल्पितो यदि न भवेत्तयकल्पितशुक्तित्वांशवदिदमंशोपि न
स्फुरेन्न प्रकाशेत प्रकाशते चेदमिति तस्मात्कल्पितमिति । अत्रायं प्रयोगः
भ्रान्तौ प्रतीयमान इदमंशः स्वस्मिन् कल्पिततया प्रतीयमाने कल्पितः
भ्रान्तौ प्रतीयमानत्वादिदम्यारोपितरजतवदिति ॥ ३४ ॥
इत्थमन्योन्याध्यासेऽनुमानं प्रमाणमुपन्यस्य प्रत्यक्षमपि तत्राह-
रजतप्रतीतिरिदमि प्रथते
ननु यदेवमिदामत्यपि धीः ।
रजते तथा सति कथं न भवे-
दितरेतराध्यसननिर्णयधीः ॥ ३५ ॥
।
रजतप्रतीतिरिति । इदमि विषये यद्वद्रजतप्रतीतिः प्रथते एवं रजते
विषये इदमिति धीः प्रथते नन्विति सम्बन्धः। यथा रजतमिदमभिन्नं
प्रथते तथेदमपि रजताभिन्नं प्रथत इत्यर्थः । एतादृशप्रत्ययासिद्धिशङ्का-
निराकरणार्थ प्रतीतिः प्रथत इत्युक्तम् । यदप्यस्मन्मते उभयावभा-
सकमेकं ज्ञानं नास्ति अविद्यावृत्तिलक्षणज्ञानाभासस्य रजतमात्रगोचर-
त्वादन्तःकरणवृत्तश्चाधिष्ठानमात्रगोचरत्वात्तस्यां दशायांरजतस्यानुत्प-
त्पन्नत्वात् ज्ञानस्यच विरम्य व्यापारायोगादन्तःकरणवृत्तिवेद्यत्वे मिथ्या-
त्वानुपपत्तेश्च तथापि उभयावभासिसाक्षिण एकत्वात्तत्र परस्परा-
त्मतयैवोभयोरवभासान्नैकानुभवविषयत्वानुपपत्तिरिति फलितमाह
तथा सतीति । उभयोरप्यन्योन्यात्मतया प्रतीयमानत्वे सतीतरेतराध्यास-
निश्चयात्मिका धीः कथं न भवेदितरेतराध्यासो भवेदेवेत्यर्थः ॥ ३५॥
५६ सटाक सक्षपशारारक- नन्वध्यासे विशेषस्फुरणस्यैवाध्यासोऽपेक्ष्यते न तु सामान्य- स्फुरणस्यापि ततः पूर्वोक्तमनुमानमप्रयोजकमित्याशङ्कय विनिगमना- भावाल्लाघवाञ्च स्फुरणमात्रं स्वविषयाध्यासमपेक्षत इत्याह- अध्यस्तमेव हि परिस्फुरति भूमेषु नान्यत्कथञ्चन परिस्फुरति भूमेछ। रज्जुत्वशुक्तिशकलत्वमरुक्षितित्व- चन्द्रकताप्रभृतिकानुपलम्भनेन ॥ ३६ ॥ अध्यस्तमेवेति । हि शब्दो हेतौ यस्मान्न विनिगमनं किञ्चिदस्ति तस्मादध्यस्तमेव परिस्फुरति स्फुरणमात्रमध्यासं स्वविषयस्या- पेक्षत इत्यर्थः । न केवलं विनिगमकाभावः । अपि तु व्यतिरेकनियमा- चेत्याह-नान्यदिति। कथञ्चनेति। सामान्यतो विशेषतो वेत्यर्थः। अनध्यस्त- स्याध्यासेऽप्रतीतौ दृष्टान्तमाह-रज्जुत्वेत्यादिना। सर्यरजततोयचन्द्रद्वित्वा- दिभ्रमेण्वनध्यस्तानां रजुत्वादीनामनुपलम्भादित्यर्थः ॥ ३६ ॥ एवं प्रत्यक्षानुमानाभ्यां प्रसिद्धाध्यासेष्वितरेतराध्यासत्वमुपपाद्य तत्फलमहंकाराध्यासेऽपीतरेतराध्यास एव भवतीत्युपसंहरति- इतरेतराध्यसनमेव तत- श्चितिचेत्ययोरपि भवेदुचितम् । रजतभूमादिषु तथावगमा- न हि कल्पना गुरुतरा घटते ॥ ३७॥ इतरेतराध्यमनमेव तत इति । तत-अध्यासत्वात्, अहंकाराध्यासः इतरेतराध्यासः अध्यासत्वाद्रजताद्यध्यासवत् । न चाप्रयोजकः अध्यासद्वैविध्यकल्पनागौरवस्यैवानुकूलतर्कत्वादित्याह-न हि कल्पनेति । हि यतो गुरुतरा कल्पना एकरूपत्वे संभवत्यध्यासद्वैविध्यकल्पना न
युज्यते ततश्चितिचेत्ययोरपीतरेतराध्यसनमेवोचितमिति पूर्वेण स-
ग्बन्धः ॥३७॥
नन्वात्माद्यधिष्ठानस्याहंकारादावध्यासेऽहंकारादेरात्माद्यधिष्ठा-
नस्यात्मादिपूर्वभावित्वं वक्तव्यमधिष्ठानस्य कादाचित्काध्यासपूर्व-
भावित्वनियमात् न च तत्संभवत्यात्मादेरहंकारादिभ्यः पूर्वमेव
सिद्धत्वात् किंचाहंकारादिरप्यात्मादावध्यस्तात्माद्यनन्तरसिद्धिकः,
तथाचात्मादौ सिद्धेऽहंकारादिसिद्धिः अध्यस्ते च तस्मिन्नात्मादि-
सिद्धिरित्यन्योऽन्याश्रयः, नवाधिष्टानस्यारोन्यसंसृष्टत्वाकारेणैवा-
ध्यासात्संसर्गस्य च संसर्ग्यनन्तरभावित्वात्संसर्म्यहंकारादेरस्त्येव
पूर्वभावित्वमहंकारश्च केवल एवाधिष्ठानेऽध्यस्तः न तु संसृष्टेऽधिष्ठाने
स चाहंकाराद्यध्यासात्पूर्वमेव सिद्ध इत्यात्मादिमात्राध्यस्ताहंकारादौ
तत्संसृष्टत्वाकारेणाधिष्ठानात्मादेरध्यास इति नान्योऽन्याश्रय इति
वाच्यं, तत्र किमहंकारादिः स्वतन्त्र सन्पश्चादात्मना संबध्यते किंवा
सदात्मपरतन्त्र एव, नाद्यः -आत्मादावध्यस्तस्य स्वातन्त्र्यानुषपत्तः,
न द्वितीयः-सदात्माद्यभिन्नस्य तस्य तत्संसर्गपूर्वभावित्वानुपपत्तेः,
न ह्येतत्संभवति-अहंकारादिः सदा आत्माद्यधिष्ठानाभिन्न एवाधि.
ष्ठानं तु तदसंस्पर्शीति, अरोप्यसंसष्टत्वाकारेणाधिष्ठानमारोप्यत इत्यत्र
किमारोप्यसंसर्गः विशेषणमुतोपलक्षणम् श्राद्ये स्वस्मिन् स्वारोपापात:
द्वितीयेऽऽत्ममात्रमारोप्यत इति पूर्वदोषाः प्रादुःष्युः तस्मादनुपपन्नो
यमितरेतराध्यास इति चेन्नेत्याह-
अनुभूतियुक्तयनुमितित्रितया-
दितरेतराध्यसनसिद्धिरतः ।
चितिचेत्यवस्तुयुगलस्य न चेत्
त्रितयस्य बाधनमिहापतति ॥३८॥
५८ सटीके संक्षेपशारीरके- । अनुभूतियुक्तीति । आधारारोप्ययोरितरतराभेदानुभवोनुभूतिः, युक्तिः- अध्यस्तस्यैवाधारे प्रतीतिरित्युक्ता, अनुमान-भ्रान्तौ प्रतीयमानत्वा- दित्यभिहितम्, अतोनुभूतियुक्त्यनुमितित्रितयाञ्चितिचेत्यवस्तुयुगल- स्येतरेतराध्यसनसिद्धिरिति सम्बन्धः । नन्वधिष्ठानमारोपितेऽध्यस्तं न भवति तद्विषयाज्ञानाजन्यन्वादित्याशङ्कयाह त्रितयस्येत्यादिना । इहास्मि- ननुमाने आश्रितेऽनुभूत्यादित्रितयस्य बाधनं स्यादित्यर्थः । अयम्भाव:- इतरेतराध्यासोहि प्रमाणसिद्धो वज्रिणाप्यशक्यापलायः । तत्र याश्चा- नुपपत्तय उद्भाव्यन्ते ता अनवकाशपराहताः । तत्र न तावदध्यस्तस्य पूर्वभावित्वानुपपत्तिः यत्र हि यस्य स्वरूपतोप्यध्यासः तस्यैव तद- ध्यसात्पूर्वभावित्वं वक्तव्यं रजताद्यध्यासे इदमंशादिवद्यस्य पुनः संसृष्टत्वाकारेणान्यत्राध्यासस्तस्य न तत्पूर्वभावित्वमभिधेयमधिष्ठा- नस्यारोप्यसंसृष्टत्वाकारणाध्यासस्यारोप्यखरूपाध्यासनान्तरीयकत्वा न हि संभवत्यहंकारादिरात्माभिन्नतया प्रथतेऽऽत्मादिस्त्वरोप्या- त्तटस्थतयेति । एतेन स्वस्मिन्स्वस्यारोपप्रसङ्ग इत्यपि निरस्तम् । आत्म- नस्तदभेदप्रतीतेरेववाध्यासरूपत्वादत एव तद्विषयाज्ञानाजन्यत्वा- दिति हेतुरप्यप्रयोजकः । तस्मात्स्वरूपाध्यासाधिष्ठानस्यैवाज्ञानविषय- त्वपूर्वभावित्वं वक्तव्यमिति नात्रानुपपत्तिलेशोपीति ॥ ३८ ॥ ननु मा भूदितरेतराध्यासानुपपत्तिः, अध्यास एवात्मनि न संभवति, आत्मनोऽधिष्ठानत्वानुपपत्तः, अधिष्ठानं ह्यध्यस्यमान- सदृशमंशद्वयवत्परिच्छिन्नमध्यस्यमानेन सहकज्ञानविषयत्वयोग्यं च दृष्टम् । न चात्मनि ब्राह्मण्यादिकल्पने सादृश्याद्यसंभवः । स्थूल- देहावच्छिन्नस्यात्मनो जातिकल्पनाधिष्ठानत्वेन तस्याभिधेयत्वाकारण तत्सादृश्योपपत्तेः । अवच्छेदकांशेनेवांशवत्त्वस्यापि संभवादवच्छे- दकपरिच्छेदेनैव परिच्छिन्नत्वस्यापि संभवात्तेनैवैकज्ञानविषयत्व- संभवाच्च । नापि संविद्यनित्यत्वादिकल्पने व्यभिचारः । तस्या अपि अन्तःकरणवृत्तिसम्बन्धित्वेन तदुपपत्तेः। अहंकाराधिष्टानं तु चैतन्य- प्रथमोऽध्यायः। मनभिधेयमनशमपरिच्छिन्नमविषयमसङ्गं च प्रमाणदोषोपि भ्रान्तौ कारणं भवत्येव । न च ज्ञानेऽनित्यत्वाद्यध्यासे व्यभिचारः । स्वयंप्र- काशस्य तस्य स्वस्यैव स्वविषयप्रमाणत्वेनानित्यान्तःकरणवृत्ति- सम्बन्धित्वलक्षणस्वनिष्ठदोषस्य तत्रापि सत्त्वात् । नन्वहंकारस्या विद्याविकलिपतचैतन्येऽध्यस्तत्वादभिधेयत्वादिकं संभवत्येवाविद्या च स्वप्रकाशप्रमाणदोषो विद्यत इति चेत्न तावदहंकारस्याविविद्याकल्पित चैतन्येऽध्यासः संभवति । अविद्याभ्रान्तिसम्यग्ज्ञानानामेकाश्रयत्व- नियमात् । नाप्यविद्याया दोषत्वमपि संभवति तस्या अर्थकारणत्वेन दोषत्वानुपपत्तेरित्याशङ्कयादावेतत्सर्वमङ्गीकृत्याह- - । सदृशसांशपराग्विषयेषु चे- द्भवति दोषवशाजगति भ्रमः । भवतु तत्सकलं वदितुं वयं तदुपचारवशाद् दृशि शक्नुमः ॥३६॥ सदृशसांशेति । परापरिच्छिन्नं जगति सदृशादिवस्तुनिराकरणादि- दोषवशाभूमो भवतीति चेद्वषे भवतु तत्सकलं दृशि प्रत्यगात्मन्यप्य- ज्ञानवशाद्वदितुमुपपादयितुं वयं मायावादिनः शक्नुमः इन्यर्थः । अयमर्थः अहंकारादि कार्य ह्यज्ञानविकल्पित एवाध्यस्यते कार्यस्य कारणा- वच्छिन्न एवाध्यासौचित्यात् । न चैतावता समानाश्रयत्वमङ्गः । बिम्बप्रतिबिम्बयोरेकत्वेन समानाश्रयत्वयोगात्ततोऽहंकाराद्यधिष्ठा- नचैतन्यस्याभिधेयत्वादिसंभवात्प्रतीतितो घटादि-यावृत्तत्वाकार- णाप्यहंकारादिभिरात्मनः सादृश्यसंभवादविद्यया सांशत्वविषय- त्वपरिच्छिन्नत्वानामपि संभवादात्माधिष्टानं भवत्येव । नापि प्रमाणदोषाभावः । अविद्याया एव दोषत्वात् । न चाभिहितयुक्त- स्तस्यादोषत्वमनुपपन्नमिति वाच्यम् । तस्योपरिष्टादुपपादयिष्य- माणत्वादिति ॥ ३६॥ - ६० सटीके संक्षेपशारीरके- नन्वात्मनो विषयत्वादिसमाश्रयणेऽपसिद्धान्तः स्यादिन्याशया- मुख्यस्य तस्याश्रयणे नापसिद्धान्त इति भाष्यकारसंमतिमाह- अपि च भाष्यकृदेव तद्ब्रवी- द्विषयताद्युपचारसमाश्रयात् । खवचसैव न तावदिति ब्रुव- न्सकलमात्मनि विभ्रमसिद्धये ॥ ४०॥ अपि च भाष्यकृदेवेनि । विषयतादीत्यादिपदेन सदृशत्वादि गृह्यते । "न तावदयमेकन्तेनाविषयःअस्मत्प्रत्ययविषयत्वादिति” अन्तः करण- प्रतिबिम्बिततया स्पष्टव्यवहारविषयत्वेनोपचाराद्विषयत्वमर्थान्तः- करणाभिन्नतया पराग्व्यावृत्तत्वादिकं च ब्रुवन् भाष्यकृदपि स्ववचसै- वात्मनि च विभ्रमसिद्धये उपचारवशात्सकलं विषयताद्यब्रवीदेवेति सम्बन्धः ॥४०॥ एवमधिष्ठानस्याध्यस्थमानेन सहकविज्ञानविषयतायोग्यत्वनियम- मङ्गीकृत्यावोचदिदानी तत्परित्यज्याह- अपरोक्षरूपविषयभ्रमधी- रपरोक्षमास्पदमपेक्ष्य भवेत् । मनसः स्वतो नयनतो यदिवा- स्वपनभ्रमादिषु तथा प्रथितेः ॥४१॥ अपरोक्षेति । अपरोक्षा या रूपविषयभ्रमधीः रुप्यते ज्ञायत इति रूपं गजादीत्यर्थः । अपरोक्षस्वरूपविषयविभ्रमधीरिति वा अपरोक्ष- मास्पदमव्यवधानेन प्रकाशमात्रमधिष्ठानमपेक्ष्य भवेन्न त्वधिष्ठानस्य विषयत्वमप्यपेक्ष्य गौरवादित्यर्थः । ननु विषयत्वं विनाधिष्ठानस्या- व्यवधानेन प्रकाशमानत्वमेव न दृष्टं तत्राह-मनस इति । यथाधिष्ठा- प्रथमोऽध्यायः। नस्यापरोक्षत्वं परमते क्वचिन्मनसो भवति यदि वा-यद्वा क्वचिन्नयनतो भवति तथास्मन्मते स्वतोपि भवतीत्यर्थः । स्वतोऽपरोक्षे कुत्राध्यासो दृष्ट इत्याशङ्कयात्मन्येव सर्वसम्प्रतिपन्नं तादृग्विधं भ्रमं दर्शयति स्वपनभ्रमादिष्विति । श्रादिधदेन ज्ञानाध्यासः शोकमोहादिभ्रमश्च संगृह्यते तथा चावगतरधिष्ठानस्य स्वतोऽपरोक्षत्वावगतेरित्यर्थः । अस्ति हि स्वप्ने गजादिविभ्रमः सर्वसंप्रतिपन्नः तत्र च न बाह्यं किञ्चिद- धिष्ठानं भवति ज्ञायमानं ह्यधिष्ठानम् । न च तदा बाह्यविषयज्ञानं संभवति तद्विषयचक्षुरादेरुपरतत्वात् । न च मनसा तत्संभवः, तस्य बहिरस्वातन्त्र्यात् । न च स्मृतेऽधिष्ठाने गजाधारोपः, अधिष्ठाना- परोक्ष्यं विनाध्यस्तस्य तदनुपपत्तेः । न च स्मर्यमाणमपरोक्षं भवति । न च स्मर्यमाणगजादौ सन्निहितदेशत्वाधारोपाद् गजादेरपरोक्षत्वा- नुभव इति वाच्यं, तारोप्यप्रकारकत्वनियमेनारोषस्य संनिहितो गज इत्येवापरोक्षो गजोऽनुभूयते नत्वयं गज इति । नन्वयं गज इति तथैवानुभूयत इति चेन्न-अतिनिकटापेक्षया किञ्चव्यवहितगजादौ स गज इति प्रत्ययस्याप्यपरोक्षत्वात्तस्मात्स्वतोऽपरोक्षात्मैव स्वप्न- विभ्रमस्याधिष्ठानमिति भावः ॥ ४१ ॥ नन्वस्त्वात्मा स्वप्नादिविभ्रमस्याधिष्ठानं, न चैतावता स्वप्नभ्रमस्य खतोऽपरोक्षाधिष्ठानत्वमायाति प्रात्मनः स्वतोऽपरोक्षत्वाभावात्तत्राह- स्वतोऽपरोक्षा चितिरत्र विभूम- स्तथापि रूपाकृतिरेव जायते । मनोनिमित्तं स्वपने मुहुर्मुहु- विनापि चतुर्विषयं स्वमास्पदम् ॥ ४२ ॥ स्वतोऽपरोक्षेति । अत्र स्वप्ने चितिश्चैतन्यरूप आत्मा स्वतोऽपरो. क्षेति सम्बन्धः । कुत इति चेतिक स्वप्ने आत्मनोऽपरोक्षत्वमेव नेति ब्रषे किं वापरोक्षोपि खत : स्वयंप्रकाशतया परोक्षो न भवतीति ।
६२ सटीके संक्षेपशारीरके- अात्मा दृष्टान्तस्य साध्य- नाद्यः-अहमितिप्रत्यक्षविरोधादित्यभिप्रेत्य द्वितीय निराकरणे हेतु- माह-तथाहीत्यादिना । हिशब्दो हेतौ यस्मात्स्वप्ने मुहुर्मुहुर्मनोनिमित्त- मधिष्ठानज्ञाननिमित्तं मनोगोचरमधिष्ठानमिति यावत्तथा चक्षुर्विषयं स्वं स्वीयमास्पदमधिष्ठानं विनापि रूपाकृतिर्गजाद्याकारोऽपरोक्ष- विभ्रमो जायते तस्मात्स्वतोऽपरोक्षेति सम्बन्धः। अयमर्थ:-स्वप्ने आत्मा तावदपरोक्ष इत्यविवादं तत्र न तावन्मनोजन्यज्ञानविषयतयाऽपरोक्षः न मनःसंयोगजन्यप्रत्यक्षविषयः मनःसंयोगाधारत्वान्म- नोवदित्यनुमानेन तदविषयत्वस्य सिद्धत्वात् न चानेनैव ज्ञानाद्यना- श्रयत्वमप्यनुमातुं शक्यत शक्यत इत्याभाससमानयोगक्षेमोयं हेतुरिति वाच्यम्,ज्ञानसुखादेरात्मस्वरूपत्वेन मनः संयोगजन्यत्वाभावात् वृत्ति- लक्षणज्ञानादेर्मनोधर्मत्वेन सिद्धसाधनत्वात्. विकलत्वाच्च । न च वृत्तिलक्षणज्ञानादेर्मनोधर्मत्वे प्रमाणाभावः “कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहींधी रित्येतत्सर्व मन एव"इति श्रुतेः। न च तत्राविभुत्वमुपाधिः गगनादौ साध्याव्याप- कत्वात् । न च ज्ञानानाश्रयत्वमुपाधिः साधनव्यापकत्वात् । तज्ज्ञान- विषयत्वस्य तज्ज्ञानानाश्रयत्वेन व्याप्तेर्घटादौ दर्शनाञ्च । नापि ज्ञाना- श्रयतयाऽपरोक्षः तदभावात् ज्ञानव्यतिरिक्तस्य तदधीनप्रकाशस्य ज्ञानकर्मत्वनियमाच्च, आत्मनो ज्ञानात्मत्वे तदधीनप्रकाशत्वानुप- पत्तेश्च । तस्मात्स्वयंप्रकाश आत्मा कारणान्तरं विना प्रकाशमानत्वा- स्वसत्तायामप्रकाशशून्यत्वाद्वा संवेदनवद् व्यतिरेकेण घटवञ्च । न चायं हेतुरसिद्धः । आत्मनोऽवस्थात्रयेपि प्रकाशाव्यतिरेकाव्यतिरे- ककाले जिज्ञासायां सत्यां संशयादिप्रसङ्गात्तस्मात्स्वयं प्रकाश एव अात्मेति चक्षुर्ग्रहणं त्वधिष्ठानान्तरनिराकरणार्थमिति द्रष्टव्यम् । अतो नाधिष्ठानस्य विषयत्वनियम इति भावः ॥ ४२ ॥ एवमधिष्ठानाध्यस्यमानयोरेकज्ञानविषयत्वयोग्यत्वं स्वरीत्या निराकृत्य पररीत्यापि तन्नियमं निराकरोति- maa प्रथमोऽध्यायः। ६३ मनोऽवगम्येऽप्यपरोक्षतावलात् तथाम्बरे रूपमुपोल्लिखन् प्रमः । सितादिभेदैवहुधा समीक्ष्यते यथाक्षिगम्ये रजतादिविभ्रमः ॥ ४ ॥ मनोऽवगम्य इति । यथा अक्षगम्ये शुक्तिकादौ रजतादिविभ्रमः तथा मनोवगम्ये अम्बरवदम्बरे नीरूपेऽप्यात्मनि गगने वा अपरोक्षतावलासितनीलपीतादिवर्णभेदैर्बहुप्रकारं रूपमुपोल्लिख- विषयीकुर्वन् भ्रमो दृश्यत इति सम्बन्धः । अस्ति हि परेषामप्या- त्मनि मम गोरो वर्णः कृष्णो वर्ण इतिरूपविशेष्यकोऽपरोक्षविभ्रमः । अम्बरं नीलमिति गगनविशेष्यकः । स च चाक्षुष एव जात्यन्धस्या- नुदयान्मनसो बहिरप्रवृतेश्च । आत्माकाशौ न चक्षुर्जन्यज्ञानविषयत्व योग्यौ अरूपिद्रव्यत्वादतोधिष्ठानाध्यस्यमानयोरेकज्ञानविषयत्वयोग्यत्वं न परमतेऽपि नियतमिति। आकाशस्य चमनोवगम्यत्वमचाक्षुषत्वाभि- प्रायं कथं ताकाशस्यापरोक्षत्वमिति परमते तु न कथञ्चिदस्मन्मते तु नित्यानुभवप्रसादादत एव तदध्यस्तरूपादेरपरोक्षत्वं तथा चाधि- ष्ठानस्य सांशत्वपरिच्छिन्नत्वादिनियमोपि न तत्रैव व्यभिचारा- दिति भावः ॥४३॥ ननु निरंशस्यात्मनः कथमधिष्ठानत्वं सामान्यविशेषाभ्यां ज्ञात- स्वाज्ञातत्वे हि तत्प्रयोजके न चनिरंशस्य स्वयंप्रकाशस्य ते संभवत इति चेन्न-स्वयं ज्योतिष्यप्यात्मनि शातत्वाज्ञातत्वयोरुपपादितत्वात् । किंच झायमानाभिन्नस्यापि लोकेऽज्ञायमानत्वं दृष्टं तद्वत्स्वयंप्रका- शतया प्रकाशमानेपि तत्संभवतीति सदृष्टान्तमाह- ज्ञातेऽपि तावति ततोऽनतिरिक्तरूपेड- प्यज्ञानतः स्फुरणमस्फुरणं च दृष्टम् ।
सटीक संक्षेपशारीरके-
दूरस्थयोर्ननु वनस्पतिवस्तुनोस्त-
द्भेदो न दृषिविषयोऽवगते च ते नः ॥ ४४ ॥
ज्ञातेऽपीति । तावति ज्ञातमात्रे तस्यैव व्याख्यानं ततोऽनतिरिक्त-
रूप इति ज्ञाताद्रपादनतिरिक्तेऽभिन्ने ज्ञानतः स्फुरणमज्ञानतोऽरफु-
रणं च दृष्टमिति विभागः । स्फुरणमभिव्यक्तिः । अस्फुरणं विपरी-
तव्यवहारयोग्यत्वम् कुत्र दृष्टमित्याशङ्कायामाह दूरस्थयोरिति । दूरस्थयो-
वनस्पतिवस्तुनोवृक्षयोस्तद्भदो वृक्षस्वरूपो न दृष्टिविषयः । ते
चागते इति नोऽस्माकं सर्वेषां प्रसिद्ध मित्यर्थः । अयम्भावः । भेदो हि
वस्तुनः स्वरूपं न धर्मः, अन्योऽन्याश्रयापातात्तथापि दूरस्थयो-
वृक्षयोवृक्षत्वेन प्रतीयमानयोरपि तावन्मात्रस्वरूपो भेदो न ज्ञायत
इत्यङ्गीकर्त्तव्यमन्यथा भेदभ्रान्त्यनुदयापातादेवं ज्ञातेप्यान्मन्यज्ञातत्व
संभवात्तस्याधिष्ठानत्वमुपपन्नमिति ॥ ४४ ॥
ननु शुक्तीदमंशयोतित्वाज्ञातत्वे भेद एव प्रयोजको दृष्टः ।
अन्यथा इदमंशेप्यज्ञातत्वापत्तेः। न च वाच्यं "त्वदुक्तमर्थ न जाना-
मि" इति ज्ञातस्यैवाज्ञातत्वमप्यनुभूयत इति साक्षिणो ज्ञानाविरुद्धत्वा-
दित्याशङ्कय यं प्रति यस्यानन्यथासिद्धसन्निधिकत्वं स एव तत्प्र-
योजकः । न च ज्ञातत्वाज्ञातत्वे प्रति भेदस्ता दृशः । तस्यान्यथा
सिद्धत्वादपुनरुक्तशब्दवाच्यत्वं तु तादृशं तत्र प्रयोजकं भवति ।
अत एव नेदंतांशेऽप्यज्ञातत्वापादनमित्यभिप्रेत्याह-
यत्रापि दैवगतितोऽस्त्यतिरिक्तभावो
रूपात्प्रतीतिविषयादितरत्र रूपे ।
तत्राप्यबोधघटनां प्रति नागभाव-
स्तस्यातिरिक्तवपुषोऽपुनरुक्तरूपात् ॥ ४५ ॥
प्रथमोऽध्यायः। । यत्रापीति । यत्रापि दैवगतितः काकतालीयन्यायात् प्रतीतिविषया- द्रूपात्प्रतीयमानेदमंशादेरितत्र रूपेऽज्ञायमानशुक्तित्वादौ अतिरिक्त- भावो भिन्नत्वमस्ति तत्राप्यपुनरुक्तरूपादपर्यायशब्दवाच्यत्वाकारा- दतिरिक्तवपुषोऽन्यस्याज्ञातांशानेदस्याबोधघटनां प्रत्यज्ञातत्वसंपादनं प्रति नाङ्गत्वमित्यर्थः । शुक्तित्वेदमंशादावियं शुक्तिरिति सामान्यविशे- पवाचकापर्यायशब्दवाच्यत्वसत्त्वादेव ज्ञातत्वाज्ञातत्वे इत्यर्थः ॥४॥ ननु भेद एव प्रयोजकोऽपर्यायशब्दवाच्यत्वं त्वन्यथासिद्ध किं न स्यादित्याशङ्कयाव्यभिचारिमात्रमित्याह श्लोकद्वयेन- शुक्तीदमंशात्पृथगप्रतीता त्रिकोणता स्यान्न तु वस्तुवृत्या। तथापि तत्स्थ न पृथक्त्वमिष्टं तदप्रबुद्धत्वनिमित्तभूतम् ॥ ४६॥ शुक्लीदमंशादिति । यद्यपि शुक्तिकाया इदंत्वसामान्याकारादप्रतीता त्रिकोणता विशेषांशो वस्तुवृत्त्या दैवगत्या पृथक् स्यात् म तु भिन्ना- स्थादेव तथापि तत्स्थं विशेषांशनिष्टं भिन्नत्वं तस्य विशेषांशस्या- प्रबुद्धत्वमज्ञातत्वं प्रति निमित्तभूतं सन्नेष्टम् ॥ ४६ ॥ कुतः- यतः प्रपश्यन्नपि भेदिनः स्वं वनस्पते रूपमभिन्नमस्मात् । न भेदमस्य प्रतिपद्यतेऽक्षणा वनस्पतेः पार्श्वगतात्परस्तात् ॥४७॥ यत इति । यतोऽभेदिनोऽभिन्नस्य वनस्पतेः स्वं स्वीयमसाधारण- रूपं प्रपश्यन् चक्षुषा जानन्नपि अस्माद्भदिनोऽभिन्नमेतत्स्वरूपं पार्श्व- ६६ सटीक संक्षेपशारीरके- गतात्समीयस्थात्परस्माद्वनस्पतेः भेदमक्षणा न प्रतिपद्यते न जानाति ततः शुक्तिदमंशादिति पूर्वेण सम्बन्धः ॥ ४७ ॥ अभेददृष्टान्तेनाप्येकस्य ज्ञातत्वाज्ञातत्वे उपपादयति- सप्रत्यभिज्ञनयनोत्थधियो घटादेः स्वाभाविकात्स्ववपुषो ऽनतिरिक्तरूपः। स्थेमा प्रबोधविषयो विषयत्वमेती- त्यङ्गीकृतं ननु मितेऽपि घटादिकेऽर्थे ॥४८॥ सप्रत्यभिज्ञेति । प्रत्यभिज्ञायतेऽनयेति प्रत्यभिज्ञा संस्कारः संस्कार- सहकृतेन्द्रियजन्याया धियः प्रत्यभिज्ञाया इति यावत्प्रत्यभिज्ञया घटा- दिके मितेपि घटादेःस्थेमा स्थैर्य प्रबोधविषयःसप्रत्यभिज्ञनयनोत्थधियो विषयत्वमेतीत्यङ्गीकृतं न त्वित्यन्वयः । न चाभेदस्य घटादिज्ञानेऽ- प्यज्ञातत्वमसिद्ध मिति वाच्यम्, सोऽयं नवेत्यभेदसंशयादिति भावः । नन्वभेदस्य घटादिस्वरूपाभिन्नत्वात्तज्ज्ञानेपि न ज्ञायते तत्राह- स्वाभाविकादिति । घटादेः स्वाभाविकाद्रूपादभिन्न एवाभेदः न तु तद्भिन्नः । अतिरिक्तभेदपक्षोक्तदोषापातात्ततस्तत्रापर्यायशब्दवाच्यत्वमेव प्रयो- जकं वक्तव्यमिति भावः ॥४८॥ एवमात्मनोऽपि त्वं ब्रह्माद्यपर्यायशब्दवाच्यत्वाद्ब्रह्मत्वाकारेणा- झातत्वसंभवात्तत्राध्यास उपपन्न इत्युपसंहरति- एवं स्फुरत्यपि दृगात्मनि तत्स्वरूपे- णास्फूर्तिभाजि परिकल्पिततोपपन्ना । स्वाज्ञानतो जगदिदं परमेश्वरोऽसौ जीवोऽहमित्यपि विभागवतोऽल्पकस्य ॥४६॥ एवं स्फुरत्यपीति । यथा वृक्षादौ स्वरूपेण प्रतीयमानेऽपि भिन्नत्वाका- रेणाप्रतीयमाने एकत्वाधारोपः एवं चैतन्यात्मना स्फुरत्यपि प्रत्यगा- PRABAD - - प्रथमोऽध्यायः। ६७ wasmmsw त्मनि प्रतीतस्य प्रतीचः स्वरूपभूतब्रह्मात्मनाऽस्फूर्तिभाज्यप्रकाशमाने इदं जगन्मम भोग्यमसौ परमेश्वरः कर्मसन्तुष्टः फलदाताऽहं जीवः कर्मसन्तुष्टपरमेश्वरप्रसादात्तत्फलभोक्तत्यनेन प्रकारेणापि भिन्नस्या- ल्पकस्य परिच्छिन्नदुःखात्मकजगतः अज्ञानात्परिकल्पिततोपपन्नेति सम्बन्धः । नचेश्वरत्वस्य कल्पितत्वे मानाभावः । एषा माया स्वाव्य- तिरिक्तानि पूर्णानि क्षेत्राणि दर्शयित्वा जीवेशावाभासेन करोतीति श्रुतेरिति भावः ॥ ४६॥ नन्वनर्थनिवृत्तिर्ज्ञानस्य प्रयोजनमित्युक्तमनर्थश्च दुःखमेव तत्कुतो- हंकारादेमिथ्यात्वं वर्ण्यते तत्राह- अल्पं रूपं बन्धनं प्रत्यगात्मा बद्धोऽनेन स्वच्छचैतन्यमूर्तिः स्वात्माज्ञानं कारणं बन्धनेऽस्य स्वात्मज्ञानात्तन्निवृत्तिश्च मुक्तिः ॥ ५० ॥ अल्पं रूपमिति । अल्पं परिच्छिन्नमहंकारादिरूपमेव बन्धनं दुःख- हेतुः संसारः अहंकारादितादात्म्याध्यासप्रयुक्तत्वाद् दुःखस्य तदु- च्छेदादेव तम्यान्यन्तिकोच्छेद इति तस्य ज्ञाननिवर्त्यत्वप्रदर्शनाय तद- ध्यस्तत्ववर्णनमुचितमिति भावः । नन्वात्मनोऽसङ्गत्वात्तस्य कथ- महंकारादिप्रयुक्तबन्धोपि तथात्वेऽसङ्गत्वव्याहतेस्तत्राह--बद्ध इति । स्वच्छचैतन्यमूर्तिरप्यनेन कर्तृत्वादिबन्धेन बद्ध इव भवति तत्र कारण- माह-स्वात्माशानमिति । अस्यासङ्गप्रत्यगात्मनः स्वात्माज्ञानं स्वस्वरूप- ब्रह्मविषयाज्ञानं बन्धने कारणं ततो बन्धस्याविद्याक्लप्तत्वान्न स्वाभा- विकासङ्गत्वविरोधः। अत एवाविद्यानिवृत्तिर्मोक्ष इत्याह-स्वात्मशानादिति अविद्याया बन्धहेतुत्वेन तन्निवृत्तेरेव पुरुषार्थत्वात्वात्मज्ञानाजायमामा मुक्तिर विद्यानिवृत्तिरेवेत्यर्थः। बन्धस्याविद्याजन्यत्वनिरूपणफलं चाह- । -- ६८ सटीके संक्षेपशारीरके- स्वात्मज्ञानादिति । तस्य बन्धनस्य निवृत्तिर्मुक्तिः खात्मज्ञानाद् भवतीति सम्बन्धः ॥ ५० ॥ बन्धस्याविद्याजन्यत्वेपि मिथ्यात्वमनुपपन्नमविद्यायाः मिथ्यात्वे मानाभावात्तस्याश्च सत्यत्वे तजन्यस्य मिथ्यात्वानुपपत्तः, अतः सत्यस्यैव ज्ञानान्यत्वेनाज्ञानत्वमिति न तत्कार्यवन्धस्य ज्ञान- निवर्त्यत्वं संभवतीत्याशङ्कयाह- अज्ञानमप्यविदुषोऽस्य न तु स्वतोऽस्ति चैतन्यनिर्विकृतिताहयताविरोधात् । अज्ञातताप्यनवबोधनिबन्धनैव नात्माश्रयत्वमपि चोदयितव्यमत्र ॥ ५१ ॥ अज्ञानमिति-अस्यात्मनोऽज्ञानमात्मविषयाज्ञानमप्यविदुषोहं ब्रह्मा- स्मीति साक्षात्कारशून्यस्यैव न विदुष इत्यर्थः । अयम्भावः । प्रज्ञानं हि ब्रह्मसक्षात्कारविरहदशायामेव न तु तद्दशायामिति सर्वाविवादं वक्तव्यं च तथैव तद्विषयापरोक्षप्रमाणज्ञानस्य तद्विषयाज्ञानविरोधि- त्वस्य लोके दर्शनात्तत्र ब्रह्मज्ञानदशायां तत्किमिति नानुभूयत इति वक्तव्यं ज्ञानेन तदनुभवस्य प्रतिबद्धत्वादिति चेत्कोयमनुभवप्रतिबन्धो नाम तदनुत्पत्तिरिति चेन्न-तद्विषयसाक्षिणो नित्यत्वात् अत एव न तन्नाशेपि प्रतिबन्धकल्पनायां मानाभावाच्च भूयः कदाचित्तदनुभवे हि सकल्प्येत। ननु ब्रह्मसाक्षात्कारेण निवृत्तत्वान्नानुभूयत इति चेत्प्राप्त तर्हि तन्मिथ्यात्वमपरोक्षप्रमाणशानत्वेन ज्ञानम्य मिथ्यावस्त्वेकनिवर्त्त- कत्वात् । ननु ज्ञानत्वेन जन्यज्ञानत्वेन वा श्रात्मज्ञानस्याविधानिव- र्तकत्वं न तु प्रमाणसाक्षात्कारत्वेनैव तत्र प्रमाणाभावात् ज्ञानत्वा- दिरूपेण तनिवर्त्यस्य च न मिथ्यात्वव्यवहारः प्रागभावादौ तथा- दर्शनादिति चेन-ज्ञानमात्रस्याविद्यानिवर्तकत्वे स्वरूपज्ञानादपि तन्निवृत्तिप्रसङ्गेन नित्यानुएलम्भापातान्नापि जन्यज्ञानत्वेन निवर्तक Nane प्रथमोऽध्यायः। । त्वमनुमिन्यादेरपि तथात्वापातानचेष्टापत्तिः तदभावस्य प्रपश्चित- त्वात् । नन्वपरोक्षप्रमाणज्ञाननिवत्यस्यापि सत्यत्वमस्तु-न च लोके तथा न दृष्टं तादृग्विधस्य रजतादेमिथ्यात्वस्यैव दर्शनादिति वाच्यम् । गरुड़ादिज्ञाननिवर्त्यस्य विषादेः सत्यत्वदर्शनादितिचेत् किं तत्र गरुड़ज्ञानमात्रं विषनिवर्त्तकमुत विशिष्टगरुड़ज्ञानम् । नाद्यः-अति- प्रसङ्गात् । न द्वितीयः। अन्वयव्यतिरेकाभ्यां ज्ञानविशेषस्य विषनिवर्त्त- कत्वासिद्धः। ननु चोदनावलाद् ज्ञायत इति चेन्न-विधिविषयस्य तस्य प्रमाणज्ञानत्वानुपपत्तेः । ततोऽयं दृष्टान्तो विषमः । ननु तरति शोकमात्मविदितिशास्त्रप्रामाण्यादेव ब्रह्मज्ञानस्य सत्यप्रपञ्च- निदानाविद्यानिवर्तकत्वमस्त्विति चेन्न-शास्त्रं हि प्रमाणं यथावस्थि- तमर्थमववोधयत् ज्ञानादज्ञाननिवृत्तिमात्रं बोधयति न तु ज्ञानं सत्यं निवर्तयत्यसत्यमिति वा ततः शास्त्रप्रामाण्योपपादनायापि दृष्टानु- सरणमेवोचितं न तु ज्ञानस्य दृष्टस्वभावविपरीतवर्णनं ततोऽज्ञानं मिथ्याप्रमाणनिवर्त्यत्वाच्छुक्तिरजतवदित्यनुमानसिद्धत्वादज्ञानमिथ्या- त्वस्य तत्र न प्रमाणाभाव इत्यर्थः। किंचाज्ञानस्यामिथ्यात्वे तत्किमनादि सिद्धमुत कादाचित्कम् ।नाद्यः । अनादिमतोभावस्य निवृत्त्यनुपपत्तेर- निर्मोक्षप्रसङ्गात् । द्वितीयेपि-प्रात्मा तत्र कारणमुतान्यन्नोभयथा- पीत्याह-न तु स्वतोऽस्तीति यद्वा पारमार्थिकस्याज्ञानस्यान्मनि- सम्बन्धे आत्मनो विक्रियावत्त्वप्रसङ्गः । ताटस्थ्ये चाद्वितीयत्वमङ्ग इत्याह-न तु स्वतोस्तीति। तु शब्द एवकारार्थः । स्वतः स्वभावतः परमार्थकत्वेन नैवास्ति तत्र हेतुः । चैतन्यस्यात्मनो वस्तुतः कार- णत्वे निष्कलादिश्रुतिप्रतिपन्न निर्विकारत्वभङ्गः कारणान्तरसत्त्वे चैक- मेवाद्वितीय मिति श्रुतिप्रमितकारणाद्वितीयत्वविरोध इति विभागः । तथाचात्मातिरिक्तस्याज्ञानस्य वस्तुत्वेनानिरूपणादपि तन्मृतिभावः। नन्वज्ञानस्य वस्तुत्ववत्कल्पितत्वमप्यनुपपन्नं तथाहि- किं तदज्ञानम- ज्ञानान्तरेण कल्पितमुत स्वेनैव । श्राद्ये अनवरथा । तदज्ञानेप्येव- सटीके संक्षेपशारीरके- मज्ञानान्तरावश्यंभावादन्योऽन्याश्रयचक्रकान्यतरापत्तिर्वा भवेत् द्वितीये चात्माश्रय इत्याक्षिप्य प्रथमम ममनङ्गीकारेण पराकृत्य द्वितीये चोधे दूषणानुवादपूर्वकं तनिषेधति । अशानितेति । अज्ञानिताप्यनवबोध- निबन्धना स्वनिबन्धनेत्यस्मिन्नर्थ आत्माश्रयः स्यादिति न चोदयित- व्यमित्यर्थः । किमुत्पत्तावात्माश्रयः उत ज्ञप्तौ अथवा स्थिती। नाद्यः । अज्ञानस्यानादित्वात् । नन्वनादिनोऽज्ञानस्य कथं मिथ्यात्वं दोषजन्य- स्वाभावात्तत्वे वात्मनोघि मिथ्यात्वप्रसङ्ग इति चेन्न-कार्यस्यैव हि दोषजन्यत्वेन मिथ्यात्वं न तु मिथ्यात्वमात्र दोषजन्यत्वं प्रयोजक सामान्यप्रयोजकं तु वस्तुत आरोग्यप्रतियोगिकात्यन्ताभाववत्परत्र परावभासत्वं तचाज्ञानेऽपि विद्यत एवात्मनस्तु न परत्रावभासोऽतो न तस्य मृषात्वम् । ननूभयोरप्यनादित्वाविशेषे श्रात्मन एवाशानेऽ- वभासः किं न स्यादिति चेन-आरोपितं ह्यधिष्ठानस्फुरणेन तत्सत्तया च प्रतीयते स च भवति न तु स्वतः । अन्यथाऽऽरोपवैयर्थ्यात्तत्र भवतामज्ञानत्वाभिमतं यदि स्वतः सत्तास्फूर्तिमदात्मत्वाभिमतञ्च तद्विरुद्धः तदा नाममात्र एव विवादः स्वतः सत्तास्फूर्तिमत एवास्म- दभिमतात्मत्वात् । नापि द्वितीयः । साक्षिमात्रभास्यत्वात् । नापि तृतीयः । चिन्मात्राश्रयत्वात्तस्मादात्माश्रयत्वगन्धमात्रस्याप्यभावादेव न चोदयितव्यमित्युच्यते न तु राजशासनेनेति । कि तमुस्य स्वाधी- नत्वं नाम वस्त्वन्तरवस्वसत्तायां स्वप्रतीतौ च स्वस्यातिरिक्तज्ञाना- नपेक्षत्वमेतदेवास्य स्वपरनिर्वाहकशब्देनोच्यत इति ॥ ५१ ॥ अस्तु वा आत्माश्रय: सोप्यनिर्वचनीयवादिनामस्माकं सुह- देव किं च परमते प्रमेयत्वे प्रमेयत्वस्येवाज्ञानस्य स्वाधीनताया अपि प्रमाणसिद्धत्वान्नात्माश्रयो दोषायेत्युदाहरणाद्यवयवमनुमानमाह- द्वारं तमोऽन्वयमपेक्ष्य दृशा हि दृश्य संगच्छते सकलमत्र न नो विवादः । ।
प्रथमोऽध्यायः। ७१ - मोहोऽपि दृश्यवपुरत्र च संवद्ध्वे तस्मात्तदन्वयनिमित्तमपीह मोहः ॥ ५२ ॥ द्वारमिति-दृश्यं हि घटादि दृशा चैतन्येन संगतमेवावभासते संगतिश्चात्र न संयोगादिरूपेण निरूप्या । अत आध्यासिक एव द्वग- दृश्ययोः सम्बन्धः स चाविद्यामूल ईति यदृश्यं तत्सकलं तमोऽन्वय- मन्वीयमानमज्ञानरूपं द्वारं घटकमपेक्ष्यैव दृशा संगच्छत इत्यत्र न नो विवाद इत्युभयसंप्रतिपन्नव्याप्तिः प्रदर्शिता। उपनयमाह-मोहोऽपीति - अन्यतरासिद्धिमुद्धरति-अत्र च संवदध्व इति । अत्र ज्ञानविरुद्धमोहस्य दृश्य- त्वे यूयमपि संवादं कुरुध्वे। निगमनमाह-तस्मादिति। मोहस्पृश्यत्वात्तस्य मोहस्यान्वयेपि मोहो निमित्तं दृश्यत्वान्मोहोपि मोहाधीनद्वकसम्बन्ध इत्यर्थः । ततश्च मोहान्तराभावात्स्वस्यैव हकसम्बन्धे मूलत्वमित्यर्थः । ननु किमिदं मोहसम्बधस्य मोहाधीनत्वं नाम मोहजन्यत्वमिति चेन्न मोहसंबन्धस्यानादित्वात्तत्सम्बन्धात्पूर्व मोहस्य स्वातन्त्र्यानुपपत्ते- श्चेति चेन-मोक्षविरहप्रयोज्यविरहप्रतियोगित्वस्यैव सम्बन्धे मोहा- धीनत्वपदेन विवक्षितत्वादिति अतो नात्माश्रयो दोषायेतिभावः ॥५२॥ प्राभाकरादिमतेनात्माश्रयस्यासाधारणदूषणस्थलं दर्शयति-- संविधुरं वहति तद्विषयोपयुक्तां स्वात्मन्यपि स्वरसतः स्वकरूपसिडेः । कार्यप्रपञ्चपरिकल्पनमात्ममोहा- न्मोहप्रकल्पनयपीति तथोपपन्नम् ॥ ५३ ॥ संविद्धरामिति ! संविद् घटादिविषयं ज्ञानं प्राकट्यं वा तद्विषयोपर- ताज्ञानविषयघटादिगतां स्वाश्रयगतां च धुरमविद्यानिवृत्तिलक्षण- प्रकाशाख्यां कार्य वहति जनयति । स्वात्मन्यपि स्वोपरक्तां धुरं वहतीति सम्बन्धः । तत्र हेतु: स्वरसतः स्वकरूपसिद्धेरिति । स्वभा- ७२ सटीके संक्षेपशारीरके- वादेव स्वरूपसिद्धः स्वयंप्रकाशत्वादित्यर्थः । यथा प्राभाकरादिमते ज्ञानं ज्ञातता वा घटादिकं प्रकाशयत् स्वयंप्रकाशत्वात्स्वात्मानमपि प्रकाशयति तथा मोहादेवाहंकारादिप्रपञ्चकल्पनं मोहकल्पनमित्यु- पपन्नमित्यर्थः ॥ ५३॥ इदानीं सर्वमतानुरोधेनात्माश्रयादूषणस्थलान्तरमाह- आत्मा प्रसाधयति वेद्यपदार्थजातं स्वत्मानमप्यवगतिक्षमशक्तियोगात् । स्वज्ञानमेवमिदमात्मपरप्रक्लुप्ता शक्तं भवेदिति न किंचन दौस्थयमस्ति ॥ ५४ ॥ श्रात्मेति । अवगतिक्षमशक्तियोगात् स्वसमवेतस्वपरविषयव्यवहा- रानुकूलज्ञानसामर्थ्ययोगादात्मपरप्रक्लप्तौ अज्ञानाध्यासे जगद्ध्यासे चेत्यर्थः ॥ ५४॥ इदानीं प्राभाकरबौद्धव्यतिरिक्तान्प्रत्याह- भेदं च भेद्यं च भिननि भेदो यथैव भेदान्तरमन्तरेण । मोहं च कार्य च बिभर्ति मोह- स्तथैव मोहान्तरमन्तरेण ॥ ५५ ॥ भेदं चति-भिनत्ति असंकीर्ण करोति । तथा च प्रपञ्चपारमार्थि- कत्ववादिनामप्यात्माश्रयस्तद्विरुद्धोपि न दोषाय किल किमु तन्मूल- प्रपञ्चमृषात्ववादिनामस्माकं न दोषायेति भावः ॥ ५५ ॥ Adda ननु यदि प्रपञ्चमिथ्यात्वं न्यायसिद्ध किमिति न्यायसूचकसूत्र- कारस्तन्मिथ्यात्वविषयन्यायं नासूसुचदिति चेत् न “तद्गुणसारत्वा- प्रथमोऽध्यायः । Marwar त्तव्यपदेशःप्राज्ञवत्" इत्यत्र तस्य सूचितत्वात्त दावेव तेन भवितव्यं तदधीनत्वाद्विषयप्रयोजनयोरिति चेत्तत्राह ब्रह्मज्ञानं सूचयन सूत्रकारो बन्धोत्पत्तेहेतुविध्वंसनाय । एतत्सर्व सूचयामास तस्मादे- तत्सर्व भाषते भाष्यकारः ॥ ५६ ।। महाशानामति । कर्तृत्वादिबन्धोत्पत्तों हेतुरज्ञानं तन्निवृत्तये “अथातो ब्रह्मजिज्ञासा" इत्यनेन ब्रह्मात्मैक्यज्ञानं सूचयन् सूत्रकार एतत्सर्वमस्म दुक्तं सर्व कर्तृत्वादिप्रपञ्चमिथ्यात्वं सूचयामास द्योतितवानित्यर्थः । अयम्भावः । सूत्र करो ह्यथातो ब्रह्मजिज्ञासेति ब्रह्मजिज्ञासां सूचयति म्म तत्र न ज्ञानस्य स्वत पवेष्यमाणत्वमिष्टानिष्टप्राप्तिपरिहारयोरन्यतर- त्वाभावात्, किं त्वनर्थनिवृत्तिहेतुत्वेन तत्र यदि प्रपञ्चस्यानर्थस्य मिथ्यात्वं सूत्रकृत्संमतं न भवेत्तत्कथमिव तन्निवृत्तये ज्ञानं सूचयेत्स- त्यस्य ज्ञाननिवर्त्यत्वानुपपत्तेः ततः प्रथमसूत्रेपि सूचितमेव प्रपञ्च- मिथ्यात्वमिति । अयं चाभिप्रायः सूत्रकारस्य भाष्यकृद्भिवण्यंत- इत्याह-तस्मादिति । यस्मात्सूत्रकार एवमसूसुचत्तस्माद्भगवान भाष्य- कारोपि युष्मदस्मदित्यादिना बन्धमिथ्यात्वमाहेत्यर्थः ॥ ५६ ॥ नन्वहंकारादेरध्यस्तत्वोक्तिरयुक्ता अहंकारो ह्यहमिदं जानामीत्य- नुभवात्प्रमाता भवति प्रमाता च प्रमित्याश्रयः न चाध्यस्तः प्रमि- त्याश्रयो भवति तस्य जडत्वनियमात्, ज्ञानाश्रयस्यात्मत्वाच्च वियदा- दिकंच जगत्सर्वो हि लोकःसदित्येवप्रत्येति इदश्चाध्यस्तत्वेऽनुपपन्नम् । नन्वध्यस्तरजतादेरपि सदिति प्रत्ययो दृश्यत इति चेतर्हि तत्राप्य- ध्यस्तता व्याहन्येत सद्विलक्षणस्यैवाध्यस्तत्वाद्वियदादिप्रपञ्चस्य रजत तुल्यत्वे वा तद्वत्सद्य एव बाधप्रसङ्गः । न च वियदादिकं कश्चिद्वा- सटोके संक्षेपशारीरके- Heautie- धितमनुभवति । न चाध्यस्तमपि किञ्चिदेव बाध्यते किञ्चिन्नति साम्प्रतमवाध्यस्य तस्य मिथ्यात्वानुपपत्तेः । बाध्यत्वं हि मिथ्यात्वं नाम अहंकारामिथ्यात्वे च तन्मूलकर्तृत्वादेरपि वास्तवत्वं स्थादित्या- शङ्कामुपसंहारव्याजेन पराकरोति- तस्मादध्यस्तमेतत्सकलमपि दृशौ भूमरूपातिरिक्तं रूपं स्वाज्ञानमात्रादिति भवति परब्रह्मधीवाध्यमेतत् । ईशित्रादिप्रभेदप्रतिहतिफलकज्ञानदौस्थ्यापनुत्त्यै श्रीमच्छारीरकार्थप्रकटनपटुताशालि शास्त्रं विदध्मः ५७ तस्मादिति । यस्माच्छ्रुतिप्रमितात्मविपरीतरूपन्वमहंकारादेर्यस्माञ्च न तत्र कारणानुपपत्तिः, यतश्च नात्मनोधिष्ठानत्वानुपपत्तिस्तस्मात् दृशः प्रत्यगात्मनो भूमरूपातिरिक्तमनवच्छिन्नानन्दस्वरूपातिरिक्तमेत- त्परिदृश्यमानाहंकारवियदादिसकलमपि रूपमज्ञानमात्रादध्यस्तमिति कृत्वा पतद्वियदादि जगद् ब्रह्मधीबाध्यमिति सम्बन्धः । न तावदहं- कारस्याध्यस्तत्वे प्रमित्याश्रयत्वानुपपत्तिः । अध्यस्तस्यैव प्रमित्या- श्रयत्वात् । तथा हि किं प्रमापदेन चैतन्यमात्रमुच्यते किं वा वृत्ति- रुत वृत्तिसंबलितवैतन्यम् । नाद्यः । तस्याजन्यस्य प्रमात्वानुपपत्तेः। चतुष्टयसन्निकर्षादिप्रमाणजन्यस्यैव प्रमात्वात् । नन्वजन्यमपीश्वरज्ञानं प्रमेति चेन तस्यैव निरूप्यमाणत्वात्स्वरूपचैतन्यातिरिक्तश्वरज्ञाना- भावाच । न द्वितीयः तस्याः केवलाया जडत्वेन प्रमाणफलत्वानुपपत्तः। अर्थप्रकाशो हि प्रमाणफलं प्रमेति चोच्यते तस्मात्तृतीयः पक्षः परि- शिष्यते चैतन्यस्य स्वयंप्रकाशत्वात्तस्य स्वरूपतोऽजन्यत्वेपि वृत्ति- संवलितत्वाकारेण जन्यत्वाच्च । अस्तु तदेवानध्यस्ताहंकाराश्रय इति चेत्किमहंकारश्चैतन्याचैतन्योभयरूपः । किं वैकरूपः । अन्त्येपि किं जडरूपः किं वा चैतन्यरूपः । नाद्यः । जडस्य जडाश्रयत्वेपि चैतन्या- श्रयत्वानुपपत्तेः । न द्वितीयः। अविकारिचैतन्यस्य विकाराश्रयत्वानुप- प्रथमोऽध्यायः। - - पत्तेः । परिणामस्य परिणाम्याश्रयत्वनियमाञ्च । न चेयं वृत्तिः केवल- चैतन्यपरिणामः । चैतन्यपरिणामस्य जडत्वानुपपत्तेः । अस्तु त भय- रूपोहंकार इति चेत् न तावदुभयरूपं वास्तवं संभवति । जडाजडभावेन विरुद्धयोर्वास्तवतादात्म्यानुपपत्तेरतोऽध्यस्तात्मभावोहंकार इत्यनिच्छ- तापिस्वीकर्तव्यः। एतेन ज्ञानाश्रयत्वेन तस्यात्मत्वमित्येतन्निरस्तम् । ज्ञानाश्रयो नात्मा ज्ञानविषयत्वात् घटवत् । न चासिद्धो हेतुः मामहं जानामीत्य- नुभवात्।न चाप्रयोजकः अनौपाधिकसम्बन्धशालिन्वात् । नच ज्ञानाना- श्रयत्वमुपाधिः । सुषुप्त्यादावात्मन्यपिसत्त्वेनोपाधेः साधनव्यापकत्वा- द्व्यतिरेकव्याप्त्यभावाञ्च। लाघवात् ज्ञानत्वस्यैवान्मत्वप्रयोजकन्धाश्च । ननु प्रपञ्चः सन्नितिप्रतीयमानः कथमध्यस्त इति इतिचेन्न रजतवदु- पपत्तेः । ननु तत्र वा कथं सतः सद्विलक्षणत्वमिति चेन्नाधिष्टानसत्तया तथानुभवोपपत्तेः । एवं प्रपञ्चाधिष्ठानब्रह्मसत्तया प्रपञ्चेपि सद्धिः । अथवा त्रिविधं सत्त्वं पारमार्थिकं व्यावहारिकं प्रातीतिक चेति । तत्राचं कालत्रयबाधाभावोपलक्षितं स्वरूपं तद्ब्रह्मणः एव भवति न प्रपञ्चस्य । द्वितीयन्तु मातरि सत्यबाध्यमानत्वलक्षणं वियदादिप्रपञ्चस्या तृतीयन्तु मातरि सति बाधयोग्यत्वंप्रातिभासिकरजतादरिति न सत्प्रतीत्यनुपप- त्तिरिति भावः। अध्यासनिरूपणफलमुपसंहरति-आतेभवातिपरब्रह्मधीबाध्यमिति । अनेन यदुक्तं प्रपञ्चोध्यस्तत्वे बाध्यतेति तत्रोत्तरमुक्तं भवति। पारोपितं ह्यधिष्ठानज्ञानेन बाध्यते । न चेदानीमहंकाराद्यधिष्ठानब्रह्मात्मैक्यज्ञान- मस्ति । यदा तु तत्त्वमादिवाक्यैस्तत्साक्षात्कारो जन्यते तदा समूल- मेव तद्वाध्यत इत्यतो वेदान्तानां ब्रह्मात्मैक्यं विषयोऽनर्थनिवृत्तिश्च प्रयोजनं सिध्यतीति भावः । अतोऽसंभावनादिनिवृत्तिद्वाराविषयप्रयो- जनवत्त्वाद्विचारशास्त्रमारम्भणीयमित्युपसंहरति ईशित्रादिति । तस्मादि- त्यनुषञ्जनीयम् ईशिता ईश्वरः श्रादिपदेन जगजीवौ गृह्यते ईश्वरत्व- जीवत्वजगद्रुपो यो भेदस्तस्य या प्रतिहतिः नित्तिः सा फलं यस्य तादृशं यज्ज्ञानं ब्रह्मात्मैक्यविषयसाक्षात्कारस्तस्य यहौस्स्थ्यमसंभाष- सटीके संक्षेपशारीरके- नाद्यभिभूतत्वं तस्यापनुत्तिनिवृत्तिः तदर्थमित्यर्थः । श्रीमच्छारीरक श्रीमदाचार्यभाप्यं तस्य श्रीमत्वं चानन्तकल्याणस्वरूपब्रह्मविषयत्वात् तस्य योऽर्थः ब्रह्मात्मैकत्वं तस्य प्रकटनमनुभवप्राधान्येन प्रकाशनं तस्मिन् पटुताशालि दक्षतायुक्तं प्रकाशनसमर्थमित्यर्थः । शास्त्रं हित- बोधकम् । अथवा शारीरकशास्त्रार्थस्य निर्गुणब्रह्मणि समन्वयादिपूर्वक सम्यनिरूपणात् प्रकरणेऽप्यस्मिन् शास्त्रशब्दः प्रयुज्यते ॥ ५७ ॥ एवं भेदस्य कल्पितत्वाद्ब्रह्मात्मैक्यविषयोऽनर्थनिवृत्तिश्च प्रयोजनं संभवतीत्युक्तमिदानी ब्रह्मणः प्रसिद्मप्रसिद्धिभ्यां विषयप्रयोजने आक्षिप्य समर्थ्यते । ननु प्रत्यगब्रह्मात्मैक्यं मानान्तरेण सिद्धं न वा । नाद्यः । मानान्तरसिद्धस्य शास्त्रविषयत्वानुपपत्तेः । अज्ञातमसाधारणं हि शास्त्रस्य विषयः । न चैतदन्यविषयस्य एतदेकविषयताख्यमसाधा- रण्यं संभवति । नापि प्रयोजनमतस्य संभवति अन्यत एव सिद्धा- त्वात् । न द्वितीयः । अत्यन्ताप्रसिद्धस्य शास्त्रप्रतिपाद्यत्वानुपपत्तेः । प्रसिद्धो हि विषयो व्युत्पत्तिवलाच्छास्त्रस्य प्रतिपाद्यो भवति । अप्र- सिद्धस्य वस्तुनः उद्दिश्य प्रतिपादनानुपपत्तेश्च । तथा च शक्यप्रति- पाद्यन्वलक्षणसम्बन्धाभावान्न तद्व्युत्पादनार्थ सुतरां शास्त्रमार- म्भणीयमिति तत्राह । । मीमांसितव्यमनयैव सदद्वितीयं, मीमांस्यमेव च सदात्मतयाऽनयैतत् । ज्ञातं प्रयोजनमनेन पथेदमस्या- स्तन्नान्तरीयकतया च तमोनिवृतिः॥ ५८॥ मीमांसितव्यमिति । सदद्वितीयमनया मीमांसया मीमांसितव्यमेवेति सम्बन्धः । अयमभिसन्धिः । न तावद् ब्रह्मणोऽविषयत्वं मानान्तरागम्यत्वे- नानन्यसाधारणत्वात् न चैवं सत्यशक्यप्रतिपाद्यत्वं विचारात्पूर्व वेदा- प्रथमोऽध्यायः । न्तवाक्यैरेव ब्रह्मण आपाततः प्रतिपत्तरात्मनः सामान्यतः प्रसिद्धत्वा- द्विशेषतो विप्रतिपत्तेश्च । ननु किमापातप्रतिपत्तिः पदादुत वाक्यानो- भयथापि ब्रह्मात्मपदार्थस्याप्रसिद्ध त्वेन पदयोरव्युत्पन्नत्वान्न हि व्युत्पत्ति विना पदमर्थ प्रतिपादयति न वा पदार्थप्रन्ययं विना स्वार्थ वाक्यं बोधयतीति चेन्न-समुदायशक्तिज्ञानं विनापि निगम- निरुक्तादिपरिशीलनवतो ब्रह्मपदादेव ब्रह्मत्वगुणयोगितया तदर्थो ज्ञातुं शक्यते इति तद्वाचकपदमपि शक्यव्युत्पत्तिकमिति न ब्रह्मण आपातप्रतीत्यनुपपत्तिः, आत्मनोपि स्वयंप्रकाशतया तत्रात्मादिपदानां व्युत्पत्तिसंभवान्न तस्याप्यापातप्रतीत्यसंभवः न चैतावता ब्रह्मणो- ऽसाधारणत्वक्षतिः, मानान्तरागोचरत्वात् । न चैवं मति किं विचा- रणेति वाच्यम् । स्वरूपविशेषस्य विचार्यत्वादित्याह-मामांस्यमेवेति- तद्ब्रह्मानया सदात्मतया सत्यज्ञानानन्दस्वरूपत्वेन त्रिविधपरिच्छेद- शून्यत्वेनात्मत्वेन च मीमांस्यमतो न विचारस्य वैयर्थ्यमित्यर्थः । च शब्दः शङ्कानिवृत्यर्थः । ननु ब्रह्मज्ञानमेव पुरुषार्थसाधनमिति सावग्रहमहत्वादिविशिष्टब्रह्मज्ञानमपि पुरुषार्थसाधनं भविष्यतीति कृतं विचारेणेति चेत्तत्राह-ज्ञातं प्रयोजनमिति । अनेन पथा सत्यादिरूपेण ज्ञातमिदं ब्रह्म प्रयोजनं मुमुक्षुः पुरुषार्थः न प्रकारान्तरेण ज्ञातं 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' 'द्वितीयाद्वै भयं भवती' त्यादि- शास्त्राद् भेददर्शनस्यानर्थहेतुत्वाध्यवसायादित्यर्थः । तस्मादद्वितीय- परिज्ञानार्थी विचारोऽर्थवानिति भावः । नन्वेवमपि येनाकारेण ब्रह्मणो विचारशास्त्रप्रतिपाद्यत्वं तेनाकारेणाप्रसिद्धत्वान्न शक्यप्रतिपाद्यत्व- मिति चेन्न तादृशाकारस्य वाक्यार्थत्वाद्वाक्यार्थस्य सर्वत्राप्रसिद्ध- स्यानिश्चितस्यैव वाक्यप्रमेयत्वात् । ननु भवतु वावयार्थस्यान्यत्रा- प्रसिद्धिः संशयो वा तस्य पदार्थादतिरेकादिह तु पदार्थ एव वाक्यार्थः पदार्थनिश्चयश्चावश्यक इति तदभावे कथं शक्यप्रतिपाद्य- त्वमिति चेन्नास्माभिरपि वाक्यार्थस्य ब्रह्मणः पदार्थत्वानङ्गीकारा- - सटीके संक्षेपशारीरके- । । त्पदवाच्यो हि पदार्थः न हि वाक्यार्थत्वेनेष्यमाणं ब्रह्मपदवाच्यं पदलश्यतया पदार्थत्वेपि न तदत्र सिद्धिपदेनाप्रतिबन्धा सिद्धिरुच्यत इति न विचारवैयर्थ्य न वा पूर्वोक्तिविरोध इति भावः । ननु ज्ञातं ब्रह्म प्रयोजनमित्यभिहितमनुपपन्नमनर्थहेत्वविद्यानिवृत्तरेव प्रयोजन- त्वात्तत्राह-तन्नान्तरीयकतयोत । तस्यानन्दात्मनो ब्रह्मणो ज्ञानं नान्तरीय- कतया अज्ञाननिवृत्तिः ज्ञातमानन्दस्वरूपं ब्रह्मैव मुख्यं प्रयोजनमविद्या- निवृत्तिस्तु तुलोनमने अानमनवन्नान्तरीयकतया सिद्धत्यर्थः ॥ ५८ ॥ नन्वेवमपीदं विचारशास्त्रमनारम्भणीयमेतस्य प्राच्या मीमांसया गतार्थत्वात् । नन्वथातो धर्मजिज्ञासेति धर्मविचारस्तत्र प्रतिज्ञातः न ब्रह्मविचार:-अथ तत्र धर्मशब्दो वेदार्थमात्रपरो वक्तव्यः, अन्यथा तत्राप्रतिज्ञातत्वेनाधर्मविचारानुपपत्तेरितिचेन्न-गङ्गापदवाच्यप्रवा- हस्य लक्ष्यतोरानात्मन्ववद्धर्मपदवाच्यधर्मस्यावेदार्थत्वप्रसङ्गात् । ननु धर्मशब्दोऽजहल्लक्षणया स्वार्थमवबोधयिष्यति तत्र वेदार्थत्वं धर्मब्रह्मादिसाधारणमवच्छेदकमतो वेदार्थजिज्ञासा कर्तव्येति सूत्रार्थो भविष्यतीति चेन्न-तथा सति "चोदना लक्षणोर्थों धर्म" इति लक्षणप्रमाणपरं सूत्रमननुगुणं स्यात् । न च तत्रापि धर्मपदं लक्षणया ब्रह्मापि बोधयतीति वाच्यं सिद्धस्य ब्रह्मणश्चोदनागम्यत्वानुपपत्तेः । न च चोदनापदेपि लक्षणेति वाच्यम् । चोदनेति क्रियायाः प्रवर्तक वचनमितिभाष्यविरोधात्तस्माद्धर्ममाविचारस्य प्रतिज्ञा प्रथमसू- त्रार्थः । तन्मात्रविषयलक्षणप्रमाणप्रतिज्ञा द्वितीयसूत्रार्थः । कथं ता- तिज्ञातस्याधर्मस्य विचार इति चेन्न-प्रथमसूत्रेऽप्रतिज्ञातयोरपि वेदप्रामाण्यकर्मभेदयोरिव मुखतोऽप्रतिज्ञातस्याप्यधर्मस्य प्रधानधर्म- शेषत्वेन विचारोपपत्तेः । न हि वेदप्रामाण्यादिकं धर्मों वेदार्थो वा येनोभयविधप्रतिज्ञायामपि तत्प्रतिज्ञा भवेत् । न च विचार्यतया प्रधानस्य धर्मस्याधर्मादिवदब्रह्मणोपि व्यावृत्तिसिद्धये ब्रह्मापि विचा- रितमिति वाच्यम् आआपातप्रतीतिदशायामेवात्यन्तधर्मविलक्षणत्वेन ।
प्रथमोऽध्यायः । ब्रह्मणः प्रतीतेरस्तु वा लक्षणा। तथाप्यधर्मस्यैव सा न ब्रह्मणः । अधर्म- वाक्यमुदाहृत्य तद्विचारवद् ब्रह्मवाक्यस्य तत्रोदाहरणपूर्वकमविचारि- तत्त्वात्तस्मान्न ब्रह्मविचारो गतार्थ इति चेन्न । चोदनाप्रमाणकत्वं धर्मस्य लक्षणमिति अवता भगवता जैमिनिना द्रष्टव्यः पश्येदित्या- दिचोदनाप्रमाणकमात्मज्ञानमपि धर्म इति सूचितम् । अन्यथा तत्र धर्मलक्षणस्यातिव्याप्तिप्रसङ्गाद् ब्रह्म च तद्विषयतया तच्छेषमिति ब्रह्मविचारोग्यधर्मविचारवदर्थात्प्रतिज्ञात एव न च प्रतिज्ञातोप्यधि- चारित इति शक्यं वक्तुं शास्त्रकारस्याकुशलत्वप्रसङ्गात्तस्मान्मुखतोऽऽ विचारितमपि वेदार्थनिर्णयन्यायसाम्याद्विचारितमेवेति गतार्थमेवेदं शास्त्रमित्याशङ्कयाह- न च गतार्थमिदं प्रतिभाति नो न हि विधेः पदमात्मसमीक्षणम् । न खलु यागददातिजुहोतिवत् पुरुषतन्त्रमिहात्मनिदर्शनम् ॥ ५६ ॥ न च गतामिति । इदं शास्त्रं गतार्थ प्राच्या मीमांसयावगत- विषयमित्यस्माकं न प्रतिभाति तत्रैतदर्थस्यानुपलब्धेः । न च न्यायसाम्याद् गतार्थत्वं किमद्वितीयब्रह्मव्युत्पादकन्यायस्य धर्म- न्यायेन साम्यं किं वा ब्रह्मज्ञानस्य चोदनालक्षणतया धर्मविशेषत्वा- त्तद्व्युत्पादकन्यायानां पूर्वतन्त्रन्यायेन तुल्यता। नाद्यः । सिद्धसा- ध्यरूपेणाद्वितीयत्वसद्वितीयत्वरूपेण विलक्षणयोरेकन्यायविषयत्वा नुपपत्तेरित्यभिप्रत्य द्वितीयं दूषयति-नहीति । हि यत श्रात्म- समीक्षणमात्मज्ञानं विधेनियोगस्य यद्यत इति पदं विषयो न भवति ततो न्यायसाम्याभावादिदं न गतार्थमिति सम्बन्धः । भवेदात्मज्ञानमपि धर्मतया विचारितं यदि ज्ञानं विधिविषयो भवेन्न त्वेदस्ति । अतो ब्रह्मणो धर्मशेषत्वाभावान्न तद्विचारस्य प्रतिज्ञातत्वम् ।
सटीके संक्षेपशारीरके-
अत एव न सूत्रकारस्य तदविचारणाकौशल्यं चेति भावः । ज्ञानस्य
विधेयत्वाभावे हेतुमाह-न खल्वित्यादिना । इह लोके खलु यस्माद्यागदान-
होमवदात्मनिदर्शनमात्मविषयं ज्ञानं पुरुषतन्त्रं पुरुषाधीनं न भवति ।
तस्मान विधेः पदमिति सम्बन्धः । यागददातिजुहोतिवदिति व्यतिरे-
कनिदर्शनं पुरुषतन्त्रस्यैव विधेयत्वात्तदभावात् ज्ञानं न विधेयमित्यर्थः।
ननु किमिदं पुरुषतन्त्रत्वं यद्विरहात् ज्ञानस्य न विधेयत्वं-पुरुषोत्पा-
द्यत्वमिति चेन्न-ज्ञानस्यापि पुरुषोत्याद्यत्वात् । पुरुषेच्छानिप्याद्यत्व-
मिति चेन्न । इष्टविषयज्ञाने तस्यापि सत्त्वात् । ननु सकलज्ञाने
तथात्वं नास्तीति चेन्न-क्रियाया अप्यतथात्वेनाविधेयत्वप्रसङ्गान
हि सर्वाः अपि क्रियापुरुषेच्छया निप्याद्यन्ते-तृणादिक्रियाया-
स्तदभावादिति चेन्न पुरुषेच्छानिष्पाद्यत्वस्यैव पुरुषतन्त्रशब्दार्थ-
त्वात् । नचैवं सतीष्टविषयज्ञानस्य तत्त्वेन ब्रह्मज्ञानस्यापि तद्रूपतया
विधेयत्वप्रसङ्गः । पुरुषेच्छाव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वस्यैव
पुरुषेच्छाजन्यपदेन विवक्षिततया ब्रह्मज्ञानस्यातथात्वात्सुखं
शयानस्याप्यनिच्छतः परोदीरितवाक्याब्रह्मावबोधदर्शनात् । न च
विधेयक्रियायाः एवंभावोस्ति । ननु ब्रह्मज्ञानमपि क्वचिदिच्छया
निष्पाद्यत इति चेत्कामं निष्पाद्यतां न हतावता तद्विधेयं भवति ।
यजातीयस्य सर्वस्योक्तव्यतिरेकप्रतियोगित्वं तदेव हि विधेयं न हि
संभवति यागः क्वचिदिच्छया निष्पाद्यते क्वचिन्नेति किञ्च नेष्टविषय-
ज्ञानस्यापि कस्यचित्पुरुषेच्छाजन्यत्वमस्ति । तत्सामग्रयामेव स्वात-
व्यात् । न च क्रियायामपि न क्वचित्पुरुषस्य स्वातन्त्र्यं किन्तु
तत्सामग्रयामेवेति साम्प्रतं, क्रियायां स्वातन्त्र्यं विना तत्सामग्रया-
मधि स्वातन्त्र्यानुपपत्तेः । किञ्च विधिं विना यागस्योत्पत्त्यभाववन्न-
ज्ञानस्य तं विना तदभावः भोजने प्रवृत्तस्य तृप्तिविधि विनापि तृप्ति-
वच्छवणे प्रवृत्तस्याधिकारिणो ज्ञानविधि विनापि तदुपपत्तेः । तस्मा-
दात्मज्ञानं न विधेयमिति ॥ ५ ॥
प्रथमोऽध्यायः। ८१ किचावगत एव हि विधिविषययागादौ हितसाधनत्वादिक विधीयते तद्वदत्रापि ज्ञानं पूर्वमवगतं न वा न चेन्न विधेयत्वमत्य- ताप्रसिद्ध तदयोगादित्यभिप्रेत्याचं दूषयति- अपि च रूपितगोचरताविधे- न परमात्मधियोऽस्ति च रूपणम् । अविदिते परमात्मनि तडियो न खलु रूपितता घटनान्विता ॥६० ॥ अपिचेति । विधेनियोगहितसाधनवाद रूपितगोचरता ज्ञात- विषयता वक्तव्या ततः किं तत्राह-न परमात्मेति । ज्ञानस्य विधेयत्ववा- दिमते विधेः पूर्व ब्रह्मज्ञानस्य निरूपणं नास्ति न सम्भवतीत्यर्थः । ननु किमिति पूर्वमात्मज्ञानं ज्ञातुं न शक्यत इत्याशङ्कय तन्मते श्रात्म- ज्ञाने जायमानेपि तद्विषयीभूतस्य ब्रह्मणोऽज्ञायमानत्वं वक्तव्यम्- अन्यथा विधिवयात् । तञ्च न संभवति ब्रह्मज्ञाने जाग्रति ब्रह्मणोऽशा- यमानत्वानुपपत्तेः । न च परात्मसमवायित्वेन प्रसिद्धं ब्रह्म ज्ञान- मुद्दिश्य विधीयत इति वाच्यं तत्रापि किं ज्ञानविषयीभूतं ब्रह्मापि ज्ञातज्ञानेन विषयीक्रियते उत नेति विकल्प्यान्त्यं प्रत्याह अविदितइति । खलु यस्मात्परमात्मन्यविदितेऽप्रकाशमाने तद्धियः परमात्मज्ञानस्य रूपितता घटनान्विता न संभवति परमात्मधिय इति संबन्धः । विशेषणमविषयीकुर्वत्या विशिष्टबुद्धरमावादात्मन्यनवगम्यमाने तज्ज्ञानाधिगमो न संभवतीत्यर्थः ॥ ६०॥ प्रथम पक्षं पराकरोति- विदितता परमात्मन इष्यते यदि वृथा विधिरस्य धियो भवेत् ।
सटोके संक्षेपशारीरके- walpeas निखिल भेदनिदाननिवृत्तितो भवति तद्विषयादि च दुर्लभम् ॥ ६१ ॥ विदिततेति । अस्य परमात्मनो न केवलं प्रयोजनाभावः अपितु विध्यसंभवोपीत्याह-निखिलभेदेति । आत्मज्ञानेन नियोज्यविषयादि- भेद निदानज्ञानस्य निवृत्तत्वात्तस्य नियोगस्य नियोज्यविषयाभावेन नियोगप्रतीतिर्न संभवतीत्यर्थः । उपरिष्टाच्चैन सपरिकर निराक- रिष्यति ॥ ६॥ বান্ধায় শিনা না খাই इतिन धर्मविशेषसमर्पण श्रुतिशिरोवचनैः क्रियते ततः । भवति धर्मविचारगतार्थताs- नवसरः परमात्मविचारणे ॥ ६२॥ इति न धर्मविशेषेति । इतिशब्दो हेतौ । यस्माज्ज्ञानं न विधेयं तस्मा- वेदान्तैर्धर्मविशेषसमर्पणं न क्रियत इति सम्बन्धः । फलितमाह - तत इत्यादिना । तस्मान्न ज्ञाने विधिरिति न ज्ञानं धर्मविशेष इति भावः ॥२॥ ननु यदि वेदान्तेषु न शानविधिस्तर्हि द्रष्टव्यः पश्यदित्येवमादि- विधिविभक्तीनां का गतिरिति चेन्न तेषामर्हाद्यर्थत्वेनाप्युपपत्तेरित्याह- अर्हाद्यर्थे च कृत्यस्मरणमभिमतं पाणिनेः प्रार्थनादौ लिङ्लोडादेश्च वृत्तिः प्रचुरमभिमता पाणिनेमिनेश्च। तस्माबेदान्तवाक्ये पठितमपि लिङाद्यन्यथा योजनीयं विध्यर्थासंभवेन स्फुटितमुदितनयादेतदन्यागतार्थम् ६३ श्राद्यर्थे चेति । श्रादिशब्दात् भावाद्यर्थे यस्मात्पाणिनेराद्यर्थे कृत्यस्मरणं कृत्यसंज्ञकतव्यप्रत्ययस्य स्मरणमभिहितम् 'अर्हे कृत्यतृच- । प्रथमोऽध्यायः । श्च' इति विधानाद्यस्माच्च पाणिनेर्जेमिनेश्च प्रार्थनादौ श्रादिपदात्, बिध्याद्यर्थे आशिषि च लिङ्लोडादेवृत्तिः प्रचुरमभिमता 'विधिनिम- न्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् 'लोट्च' 'आशिषि लिङलोटौं' इत्यादिविधानात्तस्मादिति सम्बन्धः । जैमिनिरपि भगवान् विष्णु- रूपांशु यष्टव्यः जतिलयवाग्वा जुहुयादित्येवमादौ तेषामाद्यर्थत्वमङ्गो- चकार । चकाराद्भगवतो वादरायणस्यापि “तस्मादेवंविदशिध्यन्नाचा- मेदशित्वा चाचामेदि"त्याद्यनङ्गन्वचिन्तनपरे वाक्ये लिङोऽनुवादत्व- मात्रमङ्गीकृतमिति सूचयति-अन्यथा-अर्हाद्यर्थत्वेन । ननु विष्णुरूपांशु यष्टव्य इत्येवमादौ विधेरन्यतः सिद्धत्वादर्हाद्यर्थत्वमत्र च न ज्ञानवि- धिरन्यतः सिद्धा ततः कथमर्हाद्यर्थत्वमित्याशङ्कय पूर्वोक्ताद्वाधका- दित्याह - विध्यर्थासंभवेनेति । स्फुटमुदितनयाद्विध्यर्थासंभवेन विधिरूपा- र्थासंभवेन वेदान्तवाक्ये पठितमपि लिङाद्यन्यथा योजनीयमिति सम्बन्धः। तस्मादगतार्थोयं विचार इत्युपसंहरति-एतदन्यागतार्थीमति । अत एतच्छास्त्रमन्यया मीमांसया गतार्थ न भवतीत्यर्थः ॥ १३ ॥ नन्वेवमपि नेदं शास्त्रमारम्भणीयमधिकार्यभावात् । किमधीत- स्वाध्यायोऽधिकारी किंवा निवृत्तधर्मविचारः उतानुष्ठितसकलधर्मा अथवा मुमुक्षुः । नाद्यः। अध्ययनानन्तरं फलवदर्थावबोधफलका- ध्ययनविध्यापादितधर्मविचार एव तस्य प्रवृत्तः। ननु धर्मविचार- मिव ब्रह्मविचारमप्यध्ययनविधिः प्रयोजयिष्यतीति चेन्न । अमुमुक्षोः स्वाभिलषितस्वर्गाद्यनुकूलतया ब्रह्मविचारे प्रवृत्त्ययोगादविरक्तस्या- ध्ययनमात्राद् ब्रह्मविचारे प्रवृत्यनुदयाञ्च। अत एव न द्वितीयः । अर्थज्ञा- नस्याध्ययनविध्यापादितफलकत्वनिर्वाहाय धर्मानुष्ठान एव प्रवृत्य- वश्यंभावनियमाच्च । न च तृतीयः । एकस्मिन् जन्मनि तदयोगात् । न चतुर्थः । विषयवशीकृतचित्तस्य तस्य तदनुपपत्तेः। ननु जितेन्द्रि- यत्वलक्षणशान्त्यादिकमपेक्षत इति चेन्न । रागिणस्तदनुपपत्तेः । ननु वैराग्यमप्यपेक्षत इति चेन्न । अविवेकिनस्तदनुपपत्तेः । कर्मफल- ८४ सटीक संक्षेपशारीरके- weHowap NA स्यापि नित्यत्वेन ततो वैराग्यायोगाच्च । तस्मादधिकार्यनिरूपणानेदं शास्त्रमारम्भणीयमिति चेद्यद्यपि सर्वेषां न दृढतरा मुमुक्षा तथापि यज्ञाद्यनुष्ठाननिबर्हितस्वान्तध्वान्तस्य पुरुषश्रेष्ठस्य यत्कृतकं तदनित्य- मिति न्यायानुगृहीतया तद्यथेत्यादिश्रुत्या कर्मफलस्यानित्यत्वाव- गमात्ततो वैराग्यसंभवे न शान्त्यादिपूर्विका मुमुक्षा भवतीत्यभि- प्रेत्याह- एकाहाहीनसत्रद्वयविधिविहितानेककर्मानुभाव- ध्वस्तस्वान्तोपरोधाः कथमपि पुरुषाश्चिद्दिदृक्षां लभन्ते। यज्ञेनेत्यादिवाक्यं शंतपथविहितं कर्मवन्दं गृहीत्वा स्वोत्पत्यान्नानसिद्ध पुरुषविविदिषामात्रसाध्ये युनक्ति ६४ एकाहेति । एकसुत्याकानि ज्योतिष्टोमादीनि एकाहानि अहीनानि द्वयहादिद्वादशाहान्तानि सत्राण्यनेकयजमानानि द्वदशाहादिसहस्र- सम्वत्सरान्तानि । द्वादशाहस्य चाहीनसत्रोभयरूपत्वं द्वादशाहमृद्धि- कामा उपेयुः, द्वादशाहेन प्रजाकामं याजयेदितिश्रुतिद्वयादवगम्यते। तानि च द्विविधानि । अहोभिः सम्बत्सरैश्च साध्यानि तेषां विधिः विधायकः शब्दः ज्योतिष्टोमेन यजेतेत्येवमादिः तेन विहितानां हित- साधनत्वेन ज्ञापितानामनेकेषां ज्योतिष्टोमादिकर्मणामनुभावो दोष- निवर्हणसामर्थ्य तेन ध्वस्तो विनाशितः स्वान्तोपरोधः अन्तःकरण- गतदोषाख्यविविदिषाप्रतिबन्धो येषां ते तथोक्ताश्चिद्दिदृक्षां पुरुषविवि दिषां कथमपि बहुजन्मान्ते लभन्त इति सम्बन्धः । कथमपीत्यने- नात्मजिज्ञासाया अतिदुर्लभत्वं सूचयति तदुक्तं भगवता 'बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यत' इति । चिद्दिदृक्षां लभन्त इत्यनेनार्था- न्मुमुक्षापि दर्शिता । अन्यथा फलेच्छां विना साधनेच्छायोगात्तथा च तद्धेतुत्वेन विवेकादीन्यपि सूचितानीति साधनचतुष्टयसम्पन्नो- प्रथमोऽध्यायः। ८५ MAP धिकारीति दर्शितम् । ननु कथं यज्ञादीनां विविदिषासाधनत्वं प्रमा- णाभावादित्यत्राह--यशेनेति । 'तमेतं वेदानुवचनेन ब्राह्मणा विविदि- षन्ति यज्ञेन दानेन तपसा नाशकेन' इति वाक्यं शतपथविहितं शतपथ- ब्राह्मणे कर्मभागे विहितं कर्मणां वृन्दं समूहं पुरुषविविदिषामात्र- साध्ये तदेकफले युनक्ति विनियोजयति । अतः प्रमाणाभावोऽप्रसिद्ध इत्यर्थः । ननु ज्योतिष्टोमादियज्ञादेः फलान्तरे स्वर्गादौ विनियुक्तस्य कथं विविदिषायां विनियोगः विनियुक्तविनियोगविरोधादित्या- शङ्कयाह गृहीत्वा स्वोत्पत्त्याम्नानांसद्धमिति । म्यम्य कर्मणो यदुत्पत्त्यानानं कर्म- म्वरूपमात्रबोधकमुत्पत्तिवाक्यं यजेदित्यादिरूपं तत्सिद्धमित्यर्थः । न हि स्वर्गादौ विनियुक्तो यज्ञादिः विविदिषार्या विनियुज्यते किन्त त्पत्तिवाक्यसिद्धं कर्मखरूपं नानाफलसाधारणं गृहीत्वा वाक्यं विवि दिषायां विनियुक्त उत्त्पत्तिवाक्यसिद्धरूपम्य नित्यकाम्यसाधारणत्व- वदेतत्साधारणत्वमप्यविरुद्ध मिति भावः । ननु कर्मणां न विविदिषा- हेतुत्वं तेषां साक्षान्मुक्ति प्रत्येव हेतृत्वात्तथा हि पूर्वोपार्जितानि सर्वाणि कर्माणि संभय एकं देहमारभन्ते तम्मिन्देहे अहंममाभिमानवतो यदि कस्य चिवयोगान्मुमुक्षा भवति ततस्न्यक्तकाम्यनिषिद्धकर्मण- स्तस्यागामिदेवतिर्यगादिलक्षणदेहारम्भककर्माभावेनागामितत्तद्देहा- भावान्नित्यनैमित्तिकानुष्ठानेन तदकरणनिमित्तप्रत्यवायस्य निवर्हित- त्वाद्भोगो नत्वारब्धकर्मणः क्षीणत्वात्कफनिवृत्तौ ज्वरनिवृत्तिवत् भवत्यात्यन्तिकदेहनिवृत्तिलक्षणो मोक्षः। नन्वं 'निचाय्य तं मृत्यु- मुखात्प्रमुच्यत' इति मुक्तानफलत्वथतिविरोध इति चेन्न । तस्याः पर्णतादिफलवचनवदर्थवादत्वात्। अत एव विदुषामपि जनकोद्दालक- प्रभृतीनां यज्ञपुत्रानुशासनकर्माचारो दृश्यते तंचिद्याकर्मणी समन्वा- रमेते इति च विद्यायाः फलारम्भे कर्मसाहित्यं दर्शयति विद्याखा- तन्त्र्ये तदनुपपन्नं स्यात् । कुर्वन्नेवेह कर्माणीति च ध्रुतिविदुषोपि कर्मा- नुष्ठानं दर्शयति । अतो विद्यायाः न स्वातन्त्र्येण फलवत्वं तस्मात्कर्मणां ८६ सटोके संक्षेपशारीरके- मुक्तिहेतुत्वान्न विविदिषाहेतुत्वमितिचेत्तत्र किं नित्यनैमित्तिककर्मणां साक्षादेव देहात्यन्तिकनिवृत्तिलक्षणमोक्षहेतुत्वं किं वा कर्मणा स्वा करणनिमित्तप्रत्यवायनिवृत्तिः तया च प्रत्यवायनिमित्तदेह निवृत्ति- रिति परम्परया । नाद्यः । उपात्तदेहस्य तेन विनापि निवृतिसंभवात्- अागामिदेहस्थ चानुत्पन्नत्वादेव निवृत्त्यसंभवात् । न द्वितीयः । जात- मात्रमृतवालकानां मुक्तिप्रसङ्गात्तेषां नित्याद्यधिकाराभावेन तदकरण- निमित्तप्रत्यवायस्याभावानिषिद्धकाम्याननुष्टानाच तन्निमित्तदेहान्त- रासंभवात् । किञ्च यो यो देह प्रारभ्यते स सर्वोपि संचितसकलकर्म- भिरारभ्यते किंवा यः कश्चित् । नाद्यः। तिर्यगादोनामपि मुक्तिप्रसङ्गात्। न द्वितीयः । तत्र प्रमाणाभावात् । संचितसर्वकर्मभिरेकदेहारम्भायो- गाच्च । न हि ब्रह्महत्याश्वमेधादृष्टयोरेकदेहारम्भकत्वं सम्भवति । न वा चित्रायागज्योतिष्टोमादृष्टयोः सर्वप्रकारेण निषिद्धकाम्यपरिवर्जना योगाञ्चातियत्नवतामपि सूक्ष्मानन्तापराधदर्शनानिषिद्धनिरीक्षणश्रव- णादिप्रभवतः प्रत्यवायस्याशक्यपरिहारत्वाच्च । कर्मणां मुक्तिफलत्वे तस्याज्ञानफलत्वबोधकनिघाय्यत्वादिश्रुतिविरोधः । न च ज्ञानफल- वचनश्रवणं पर्णताफलवचनवदर्थवादः । तत्र हि युक्तं पर्णताया वाक्यप्रमाणावगतक्रतुशेषतया तत्फलश्रवणस्यार्थवादत्वं "द्रव्यसं- स्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्थादि" तिजैमिन्याचार्यरु- तत्वात् न च ज्ञानस्य क्रत्वङ्गत्वे किञ्चित्प्रमाणमस्ति प्रत्युत असङ्गान्म- विज्ञानस्य कर्मविरुद्धत्वात् न तदङ्गत्वम् । यत्तूक्तं जनकादीनां विदुषा- मपि यागाद्यनुष्ठानं श्रुतौ दृष्टमिति तन्न तस्य विद्यास्तुतिपरत्वादित्थं किल महाभागा विद्या यत्कृतमपि विद्वांसं न स्पृशतीति । अन्यथा किं प्रजया कारिष्यामः एतद्ब्रह्म वै तद्विदा सोऽग्निहोत्रं न जुह्वां- चक्रिर इत्यादिश्रुतिविरोधात् । यत्तु विद्याया: फलारम्भे कर्मसह- भावः श्रुत इतितत्त्वपरविद्याविषय इति न कामयमान इति कामनयै- वोपसंहारात् । या तु नियमश्रुतिरुदाहृता साप्युक्तरीत्या स्तुतिपरत्वेन ।
प्रथमोऽध्यायः । व्याख्येया तस्मान्न कर्मभिरेव मुक्तिरिति साधुवचनम् । ननु माभूत्केव- लकर्मणो मुक्तिः ज्ञानसहितात्तु ततो भविष्यति 'विद्यां चाविद्यां च यस्तद्वेदोभयं सहेति' श्रुतेः न चमुक्तः कर्मफलन्वेऽनित्यत्वप्रसङ्गः केव- लकर्मफलस्यानित्यत्वेपि विद्यासहितस्य तत्फलस्य नित्यत्वोपपत्तेः । केवल विषदधिभक्षणम्य मरणज्वरहेतुत्वेपि मन्त्रशर्करादिसंस्कृतस्य जीवनपुष्टिहेतुत्वदर्शनात् तस्मान्न कर्मणां विविदिषां प्रति हेतुत्वं किंतु मोक्षं प्रत्येवेति चेन्न-'न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्व- मानशुः' 'नास्त्यकृतः कृतेन किं प्रजया करिष्याम' इति श्रुतिभिः कर्मणां मोक्षसाधनत्वनिषेधात् । न च तत्र केवलकर्मण एव मोक्षसाधनत्व- निषेध इति वाच्यम्, संकोचे बाधकाभावात् । न च विद्यां चा विद्यां चेति समुच्चयश्रुतिरेव बाधिका तत्राविद्यापदवेदनीयकर्मणां विद्यायाश्च परम्परया साध्यसाधनभावेन साहित्यस्यैव विवक्षित- त्त्वात् । अत एवाविद्यया मृत्युं तीर्वा विद्ययामृतमश्चत इति वाक्यशेषे तयोः पृथक्फलवर्णनं चोपपद्यते। किञ्चन तावत् सर्वेषां कर्मणां विद्यया समुञ्चयः असम्भवान्न हि संभवति वहस्पतिसवराजसूयवैश्य- स्तोमानामेकत्र समावेशः जन्मान्तरानुष्ठिते च निश्चयाभावेनेदानी परिशिष्टसाधने मुत्त्यार्थप्रवृत्यनुपपत्तेः । नाप्येकजन्मविशिष्टानां सर्वेषां कर्मणां विद्यया समुच्चयः । एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रज- न्तीति ज्ञानोदेश्येन संन्यासविधानविरोधाद्विविदिषावाक्यविरोधाश्च न कर्मणां मुक्तिहेतुत्वं न च कुडपायिनामयनगताग्निहोत्रम्य कर्मान्तर- त्ववदेतदपि यशान्तरमेव प्रकरणभेदस्यात्रापि तुल्यत्वादिति वाच्यं युक्तं हि तत्र मासमग्निहोत्रपदस्य साध्यावमाख्यातसमभिव्याहारा- सिद्धावमर्शिनोपि नाम्नः साध्यार्थावमाख्यातपारतन्त्र्येण प्रकरणा- न्तरसिद्धनित्याग्निहोत्रानुवादित्वायोगात्कर्मान्तरत्वेन विधानं तत्राग्नि- होत्रपदं च नित्याग्निहोत्रगुणयोगेन वर्त्तते । नचात्र यज्ञादयः साध्य- त्वेन विधीयन्ते येन नाम्नस्तदवमाख्यातपारतन्त्र्यं भवेत् किन्तु
सटीके संक्षेपशारीरके-
यज्ञादिकमनूद्य विविदिषाशेषत्वं विधीयते । अनुवादश्च पुरोवाद-
पूर्वकः । नवात्रापि यज्ञेन विविदिषन्तीति विशिष्टविधिः गौरवप्रसङ्गा-
द्यज्ञशब्दप्रयोगवैयर्थ्याच्च । नचाग्निहोत्रपदवद्यागगुणातिदेशार्थ तदिति
वाच्यं सकलयागधर्मयोगेनैकस्यानुष्ठानासंभवात्प्रकरणभेदस्तु स्वतो-
ऽकिञ्चित्कर एव तस्मात् सिद्धयागादिरेव विविदिषावाक्ये यज्ञादि-
पदेनानूद्य विविदिषायां विनियुज्यत इत्येव वक्तुमुचितं न मोक्षहेतुत्व-
मपि तेषां तस्मात्सुष्ठूक्तं विविदिषामात्रसाध्य इति । विविदिषैव फलं
शुद्धयादिकं तु तद्वारमिति भावः । एवमुपासनापि विविदिषाहेतु-
रेवेत्यनेन सूचितम् । न च तत्र विनियोजकाभावः । एष पन्था ब्रह्मणा-
हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्चेति विनियोजकप्रमाणस-
त्वात् । तत्रहि पूर्वप्रकृतब्रह्मविद्यामार्ग एष इति परामृश्यते तेनैव मार्गे-
णान्योपि ब्रह्मविद्यातीत्युक्त्वा केनतर्हि ब्रह्मविद्या भवतीत्याकाङ्क्षायाम्
यः पुण्यकृयज्ञाद्यनुष्ठाता यस्तैजसस्तेजसि ब्रह्मणि मनो नियुञ्जान
उपासकः सोपि ब्रह्मविद्भवतीत्युपासनाया अपि विद्याहेतुत्वं प्रति-
पाद्यते । तथाचोक्तं वार्तिकाचार्यैः "उपासनं च यत्किञ्चिद्विद्याप्रकरणे
श्रुतम् । तदप्येकात्म्यविज्ञानयोग्यत्वायैव कल्प्यते ॥” इति यस्माद्यज्ञे-
नेत्यादिवाक्यं कर्मवृन्दं पुरुषविविदिषामात्रसाध्ये युनक्ति तस्मादेका-
हाहीनेत्यध्याहृत्य सम्बन्धः ॥ ६४ ॥
एवं साधनचतुष्टयसम्पन्नो विचारशास्त्रेऽधिकारीत्युक्त्वा-इदानी
सुखप्रतिपत्त्यर्थं गुरुशिष्यप्रश्नोत्तररूपेण विचारमारभमाणो गुरूपसत्ति
रप्युक्ताधिकारिणो विद्याङ्गं भवतीत्याह-
उपाससाद चतुध्यसाधनो
निशितबुद्धिरशुद्धिपरिक्षयात् ।
विविदिषुर्विहितैविविधाध्वरै-
विदितवेद्यतमं विधिवद्गुरुम् ॥ ६५ ॥
प्रथमोऽध्यायः । । उपससादेति । विविधैर्योतिष्टोमाद्यनेकप्रकारैर्यज्ञैरशुद्धिपरिक्षयाद्ध- तोनिशितबुद्धिः शुद्धान्तःकरणः अत एव चतुष्टयसाधनो विवेकवैरा- ग्यादिसम्पन्नः । ततश्च विविदिषुः विदितवेद्यतमं साक्षात्कृत्परमात्म- तत्त्वं गुरुं विधिवद्दन्तकाष्ठकौपीनाद्युपायनपूर्वकमुपससाद प्रणिपाता- दिपूर्वकं प्राप्तवानित्यर्थः ॥ ६५ ॥ ननु साधनचतुष्टयसंपत्तिरनुपपन्ना मोक्षस्य निर्विशेषतयाऽनु. भूतविजातीयत्वेन तछाऽसंभवादित्याशङ्कय कैमुतिकन्यायमानि- त्याह- HAM इह जगति हि सर्व एव जन्तु- निरतिशयं सुखमुत्तमं ममास्तु । व्युपरमतु तथोपघातरूपं विषयजदुःखमिति स्पृहां करोति ॥ ६६ ॥ इह जगति होति । हिशब्दः प्रसिद्धौ सर्व एव पामरोपीत्यर्थः । तथा च निरतिशयसुखेच्छायास्सर्वजनप्रसिद्धत्वात् न विशिष्टपुरुषस्य परमानन्दप्रेप्सालक्षणमुमुक्षाक्षेपमहतीति भावः । निखिलानर्थपरि- जिहीर्षालक्षणमुमुक्षापि सर्वजनसम्मतेत्याह-व्युपरमत्विति । व्युपरमतु विशेषेण नश्यतु यथा सर्वो जन्तुरात्मनो निरतिशयसुखं वाञ्छति तथा विषयजं पुत्रादिवियोगजन्यमुपघातरूपं पीडात्मकं दुःखं व्युपरमत्विति स्पृहां करोतीति हि सम्बन्धः ॥ ६६ ॥ नन्वस्तु सर्वेषां निरतिशयसुखेच्छानिखिलदुःखाभावेच्छा च तावता मुमुक्षायां किमायातम् न च सैव मुमुक्षा प्रमाणाभावादित्या- शङ्कयाह निरतिशयसुखं च दुःखजात- व्युपरमणं च वदन्ति मोचतत्त्वम् । maa E0 सटीक संक्षेपशारीरके- उभयमपि जनोऽभिवाञ्छतीति स्फुटतरमस्य सदाऽस्ति मोक्षवाञ्छा ॥६॥ निरतिशयेति । एषोऽस्य परम आनन्दः ऽभयं वै जनक प्राप्तोस्यमयं वै ब्रह्मेत्यादिश्रुतयो मोक्षतत्त्वं निरतिशयानन्दं निखिलदुःखाभावरूप- मिति वदन्ति । अतस्तत्र प्रमाणाभावोऽसिद्ध इत्यर्थः । श्रानन्ददुःखा- भावयोर्मोक्षात्मत्वसाधनफलमाह -उभयमिति । इतिशब्दो हेतौ सर्वोऽपि जनः तदुभयं निरतिशयानन्दं निखिलदुःखव्युपरमणं चाभिवाञ्छति यतस्ततोऽस्य जनस्यापि मोक्षवाच्छा स्फुटतरं सदास्त्यधिकारिणः किमु वक्तव्यमित्यर्थः ॥ ६७ ॥ Heas ननु जनस्य निरतिशयसुखेच्छा वैषयिकसुखविषयैव न स्वरूप- सुखविषया तस्य तत्र प्रमाणाभावेनाननुभवादननुभूते चेच्छानुपपत्तेः। एवं दुःखाभावेच्छापि स्वरूपातिरिक्ताभावविषयैव तत्कथं मुमुक्षाप्रसि- द्विरिति तत्राह- उभयमपि परमात्मनः स्वरूप विमलचिदेकरसं स्वयंप्रकाशम् । इति भवति विना प्रमाणमस्मि- न्नुदितनयादभिवाञ्छनोपपत्तिः ॥१८॥ उभयमपीति । इतिहेतौ यस्मादुक्तश्रुतिभिरुभयं सुखं दुःखाभावश्च परमात्मनः निर्मलज्ञानकरूपमत एव स्वयं प्रकाशमिति सिद्धम् । तस्माजनस्य प्रमाणं विनापि सुखे दुःखाभावे चानुभवसंभवाद्वाञ्छो- पपद्यत इत्यर्थः । इच्छा हि ज्ञानमात्रमपेक्षते न तु प्रमाणजन्यं ज्ञानं ज्ञानं त्वात्मस्वरूपं विद्यत एव । न च वैषयिकं सुखं स्वयंप्रकाशात्मस्वरूपं न भवतीति वाच्यम् । सुखभेदे प्रमाणाभावादुत्पत्त्यादेश्वाभिव्यञ्जक- वृत्तिविषयत्वेनोपपत्तेः अत एव न मोक्षस्य अनुभूतसुखविजातीयत्वम- ।
प्रथमोऽध्यायः पीति उक्तन्यायान्मुमुक्षापि नाक्षेपमहतीति फलितमाह-अस्मिन्निति । अस्मिन्मोक्षे उदितनयात्सुखादेः स्वयंप्रकाशज्ञानात्मकत्वाल्लौकिकसु- खेच्छाया अपि मुमुक्षात्वादेवेत्युक्तनयादित्यर्थः। ननु न केवलं सुखे- च्छैव मुमुक्षा किन्तु निरतिशयसुखत्वाकारेण तदिच्छैव सा च न लोकसिद्धा लौकिकेच्छाया वस्तुतो निरतिशयसुखविषयत्वेपि तदा- कारज्ञानं विना तादृशेच्छायोगादतो मुमुक्षोरपि सा कथं भवति स्वयंप्रकाशात्ममात्रतया प्रकाशसंभवेपि तदाकारप्रकाशाभावादिति चेन्न-लौकिकानां मम सर्वोत्कृष्टं सुखं भूयादिति तदिच्छायाः सर्व- जनसिद्धत्वेनापह्रोतुमशक्यत्वात् । ननु कारणाभावे कथं सा भवतीति चेन्न-प्राप्तवाक्यादिना तत्प्रकारज्ञानसद्भावादिति ॥ ६८ ॥ नन्वस्तु लोके सा यथाकथंचिन्मुमुक्षुपुरुषगता तु सा भवितुं न योग्या सा हि केवलं निरतिशयसुखत्वप्रकारकेच्छैव कित्वात्मान एव तद्रूपत्वप्रकारकेच्छा परमानन्दब्रह्मावाप्तेरेव प्रार्थ्यमानत्वात् । न च ताद्गानन्दाकारात्मनः परिक्षानं प्रमाणं विना भवति, स्वरूपप्रका- शस्य निर्विकल्पवादित्याशङ्कयाह - कर्मकाण्डकृतयुडिशुडित- स्तर्किते च खलु मोक्षवस्तुनि । अर्थिताऽस्य घटते प्रयोजक- ज्ञाननुन्नमनसो महात्मनः ॥६६॥ कर्मकाण्डकृतोत । अस्य पुंसो मोक्षवस्तुन्यर्थिता घटत इति सम्ब- न्धः । कथमर्थिता घटेत उक्तदोषादित्याशङ्कयाधिकारिणं विशिनष्टि- प्रयोजकशाननुन्नमनस इति । विचारहेतुभूतमात्मविषयं वेदान्तवाक्यजन्य- मापातज्ञानं प्रयोजकशानं तेन नुन्नं श्रवणादिप्रवृत्त्युन्मुखं मनो यस्य तस्येत्यर्थः । तथा च यद्यपि निरतिशयसुखरूपात्मप्रकाशस्तदाकारो न भवति तथाप्येषोऽस्य परमानन्दः यो वै भूमा तत्सुखं विज्ञानमानन्दं ६२ सटीक संक्षेपशारीरके- । । maa ब्रह्म ब्रह्मविदाप्नोति परमित्यादिवाक्यात्तद्रूपेणावगच्छतस्सा भवती- त्यर्थः । श्रुतिसिद्धमात्मनः प्रानन्दरूपत्वं तर्केणापि संभाव्यत इत्याह-तकित इति । श्रुतितोवगते मोक्षखरूपपरमानन्दप्रत्यगात्मनि परप्रेमास्पदत्वलक्षणलिङ्गेन परमानन्दत्वेन संभाविते चेत्यर्थः । नन्वे- तादृशतर्कश्रुत्योः सर्वसाधारणत्वात्किमिति सर्वेषामात्मनि तादृशं ज्ञानं न जायते कारणाभावादित्याह कर्मकाण्डेति । काण्डशब्दः समूहपरः यथा देहः स्वन्यतिरिक्तद्रष्टकः दृश्यत्वादित्याद्यनुमानस्य साधारणत्वे- प्यतिमलिनाशयानां प्राकृतानां न देहव्यतिरिक्तात्मपरिज्ञानं तथाश- यस्यातिशुद्ध्यभावादधीतस्वाध्यायानां न्यायभूमिनिष्णातानामप्या- मन अानन्दत्वपरिज्ञानं न जायते अनुष्ठितयज्ञादिनिराकृतान्तरा- याणां तु तत्त्वेनात्मा प्रकाशतइति भावः ॥ ६६ ॥ ननु साधनचतुष्टयसम्पत्तिर्विद्याङ्गं भवतु गुरूपसदनं तु किमिति विद्याङ्गं तत्र प्रमाणाभावात्तत्राह- धर्मनिर्णयनिमित्तमिष्यते वेदवित्परिषदेव मानवे । तहत गुरुणाऽस्य संगति- स्तेन चास्य घटतेऽर्थिता गुरौ ॥ ७० ॥ धर्मनिर्णयेति । यथा मानवे मनुशास्त्र वेदविदां परिषत्सभा'चत्वारो वेदधर्मज्ञाः पर्षत्त्रविद्यमेव वा । सा ब्रूते यं स धर्मः स्यादेको वाध्या- त्मवित्तम' इति स्मृत्युक्तलक्षणधर्मनिर्णयनिमित्तं सदिष्यते तद्वदत्र ब्रह्मविद्यायामस्याधिकारिणो गुरुणा संगतिर्निमित्तं सदिष्यत इति सम्बन्धः। न च प्रमाणाभावः-अचार्यवान्पुरुषो वेद प्राचार्या व विद्या- विदिता आचार्यस्तु ते गति वक्ता यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ तस्यैते कथिता ह्या प्रकाशन्ते महात्मनः तद्विज्ञानार्थ स गुरुमेवाभि- गच्छेदिति श्रुतेर्विद्यमानत्वात् । फलितमाह- तेनेति । येन गुरूपसदनस्य ।
प्रथमोऽध्यायः। । विद्याङ्गत्वं श्रुत्यवगतं तेनेत्यर्थः । तस्मात्साधनचतुष्टयसम्पन्नस्य गुरुमुपसन्नस्य विद्योपदेष्टव्येति सिद्धम् ॥ ७० ॥ ननु काण्डद्वयविचाराधिकारिणोरधिकर्तव्यभेदाभावात्कथं विलक्षणोऽधिकारी ब्रह्मविचारे निरूप्यत इत्याशङ्कयाधिकर्त्तव्यभेदा- भावोऽसिद्ध इत्याह- यः कर्मकाण्डविषयेऽभिहितोऽधिकारी सोऽयं प्रवृत्तिषु निवृत्तिा तुल्यरूपः । अत्राभिधित्सितविशेषणपूगयुक्तोऽ- साधारणस्त्वभिमतः पुरुषो निवृत्तौ ॥ ७ ॥ यः कर्मकाण्डाते । कर्मकाए उस्य क्रियावाक्यस्य विचारे विषयेभि- हितो योधिकारी स ज्योतिष्टोमादिरूपासु प्रवृत्तिषु निवृत्तिवहिंसादि- रूपासु तुल्यरूपः उभयमपि तस्याधिकर्त्तव्यमित्यर्थः । तस्मादेतस्याधि- कर्तव्यविशेषमाह-अति । अत्र ब्रह्ममीमांसायामभिधिरिसतान्य भि- धातुमिष्टानि यानि विवेकवैराग्यशमदममुमुक्षालक्षणानि विशेषणानि तद्युक्तोऽयं पुरुषो निवृत्तावेवाधिक्रियते न प्रवृत्तावपीत्यर्थः । अभिहितेपि विवेकादावभिधित्सितेति कथनमस्य तृतीयाध्यायप्रतिपाद्यत्वमभि- प्रेत्येति द्रष्टव्यम् ॥ ७१॥ नन्येतस्य न निवृत्तिमात्रमधिकर्तव्यमित्युपपन्नं श्रवणादिप्रवृत्ते- रप्यधिकर्त्तव्यत्वादित्याशङ्कयाह शास्त्रं प्रवृत्तिनिवृत्तिषु तुल्यरूपं साधारणस्थ पुरुषस्य पुराभ्यधायि । अत्रोच्यते सकलकर्मनिवृनिभाजः सर्व निवृत्तिविषयं श्रवणादिशास्त्रम् ॥ ७२ ॥ शास्त्रं प्रवृत्तीति । पुरा पूर्व साधारणप्रवृत्तिनिवृत्तियोग्यस्य पुरुषस्य HAPANA सटोके संक्षेपशारीरके- प्रवृत्तिषु निवृत्तिषु तुल्यरूपं प्रवृत्तिनिवृत्त्यनुकूलशास्त्रं यजेत न हिंस्या- दिन्येवमादिरूपं कर्मकाण्डमभ्यधायि अभिहितार्थिकक्रमापेक्षयापुरे- त्युक्तिः । सकलकर्मनिवृत्तिभाजः सकलकर्म निवृत्तियोग्यस्यास्य साधनचतुष्टयसम्पन्नस्य सर्व श्रवणादिशास्त्रं श्रोतव्यं मन्तव्यमित्येव- मादिरूपं निवृत्तिविषयं सदुच्यते । श्रवणादिशास्त्रेणाप्यनात्मविषय. व्यापारपरिवर्जनमेव बोध्यत इत्यर्थः । अथवा सकलकर्मनिवृत्तिभाज इति संन्यासिन इत्यर्थः । संन्यासं विनानुष्ठितश्रवणस्य न फलपर्य- वसायित्वमिति श्रवणादेः संन्यासिविषयत्वमुक्तमतो न श्रवणे गृहस्था- द्यधिकारविरोध इत्यर्थः ॥ ७२ ॥ ननु काण्डद्वयाधिकारिणो दे किं प्रमाणं येन ब्रह्ममीमांसाया- मधिकारी पृथक् वयेंतेत्याशङ्कय किं काण्डद्वयाधिकारिभेदप्रमाणा- भावाद्ब्रह्ममीमांसायां विवक्षितविशेषणकलापयुक्तोधिकारी न वर्णनीय इति चोद्यते किं वा भेदप्रमाणाभावमात्र तत्र न तावञ्चरमः 'परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायानास्त्यकृतः कृतेन' 'तं ह देव- मात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहंप्रपद्ये 'शान्तो दान्त उपरत' इत्यादि श्रुत्याभिहितविशेषणचतुष्टयस्यापि विद्याप्रकरणे पठितत्वादित्यभि- प्रेत्य प्रथमं प्रत्याह- शास्त्रवैविध्यदृर्दिविधमधिकृते दमप्याश्रयन्ते तवैविध्योपलव्धेः पुरुषमधिकृतं शास्त्रयोनिमाहुः । शास्त्रार्थबित्वहेतोः पुरुषमधिकृतं तद्गतं चाधिकार नोचेद्भिनंप्रतीयुर्दिविधमिह वृथाशास्त्रमापाद्यतेहि ॥७३॥ शास्त्रद्वैविध्येति । प्रवृत्तिसमानकर्तृनिवृत्तिप्रतिपादकत्वेन केवल- निवृत्तिप्रतिपादकत्वेन च शास्त्रस्य कर्मकाण्डस्य ज्ञानकाण्डस्य च द्वैविध्यदृष्टेः शास्त्रद्वैविध्यान्यथानुपपत्याधिकृतेः काण्डद्वयाधिकार- स्थाधिकारपदेन विधिपुरुषसम्बन्धनिमित्तं जीवनादिरुच्यते । द्विविध प्रथमोऽध्यायः। भेदमाश्रयन्ते ततः किमित्याकाङ्क्षायामाह-तद्वैविध्यति । अधिकारद्वैवि- ध्योपलब्ध्या शास्त्रयोःपूर्वोत्तरकाएडयोरधिकृतमधिकारिणं पुरुषं भिन्न- माहुरिति सम्बन्धः । अन्यथाधिकारभेदानुपपत्तेः । ननु दर्शपूर्णमास- गोदोहनशास्त्रयोरधिकारभेदेप्यधिकारिभेदो न दृश्यते तथेहापि किं न स्यादित्यन्यथोपपत्तिमपवदति शास्त्रार्थद्वित्वहेतोरिति । शास्त्रार्थस्याधिकर्तव्यस्य द्वित्वाद्धेतोःअधिकारभेदंतद्भेदात्तदाश्रयाधिकारिभेदंचयदि न प्रतीयुः नजानीयुःतदेह जगति शास्त्रद्वैविध्यं पूर्वोत्तरकाण्डलक्षणद्वैविध्यं व्यर्थ स्यादित्यर्थः। अर्थभेदाभावे शास्त्रभेदानुपपत्तः नान्तरावाक्यविष्ण्वा दिवाक्ययोः शास्त्रभेदप्रसिद्धिरस्ति न वाधिकारतदाश्रयाधिकारि- भेदाभावे शास्त्रार्थो भिद्यते, दर्शपूर्णमासादौ तददर्शनाद्गोदोहनादा- वप्यधिकारभेदस्य सत्त्वात् । ननु तत्राप्यधिकारिभेदो न दृश्यत इति चेत्सत्यं तस्य गोदोहनस्याधिकृताधिकारत्वात् । न चेमौ शास्त्रार्थों तथा तस्मात्स्वतन्त्रशास्त्रार्थभेदोऽधिकारिभेदं कल्पयतीति ॥ ७३ ॥ ननु श्रवणादिशास्त्रस्य निवृत्तिमात्रपरत्वे काण्डोरधिकर्तव्य- भेदादधिकारी भिद्यत तदेव कुतस्तस्य प्रवृत्तिविधायित्वे वाधकामा- वात् । न च तस्य संन्यासिविषयत्वमेव वाधकं तस्यैवेति नियमा- भावादित्याशङ्कय श्रवणं सन्यासिन एवेति नियमाभावेपि इतरस्य विद्याधिकारिणो विज्ञानोद्देशेन संन्यासविधानमालस्यादिना न परं तत्र प्रवर्तते न हि विरुद्धशास्त्रयोईयोरेकदैकत्र समावेशः संभवति । नित्याकरणप्रसङ्गः विधितस्तदभावस्येप्टत्वात्तदुक्तं भगवता 'जिज्ञासायां संप्रवृत्तो नाद्रियेत्कर्मचोदनामिति वासनामूलं तु तत्तस्यापि न निवार्यते तस्मादविवक्षितकालभेदेन सकलकर्मत्यागं संन्यासं विदधाना श्रुतिर्न विद्याधिकारिणः कामपि प्रवृत्ति सहत इति श्रवणादिशास्त्रस्य निवृत्तिपरत्वमेवेत्याह- नचैवं तस्य सटीके संक्षेपशारीरके- । यमनियमविधानाङ्मनः कायचेष्टा- व्युपरमणविशेषैः कथ्यते न प्रवृत्तिः । यदि भवति कदाचित्काचिदस्य प्रवृत्तिः श्रुतिविहितनिवृत्तिः कर्मणां कत्थनं स्यात् ॥७४॥ यमनियमेति। यमा-निवृत्तिशास्त्रप्रतिपाद्याः नियमाः-प्रवृत्तिशास्त्रप्रति- पाद्याः श्रवणादिकमपि स्वाध्यायमौनादिषु यथायोगमन्तर्भवति । यथा यमविधायक शास्त्रमशेषक्रियाव्युपरमणं बोधयति न कामपि प्रवृत्ति तथाऽशेषैनियमशास्त्ररपि वाङ्मनःकायचेष्टाद्यपरमणमेव कथ्यते न प्रवृत्तिरित्यर्थः । विपक्षे सकलकर्मपरित्यागश्रुतिः पीड्य ते. त्याह-यदीत्यादिना । अस्य विद्याधिकारिण: कत्थन पीडनम् ॥ ७४ ॥ नन्वेवं संन्यासशास्त्रैरेवाशेषनिवृत्तः सिद्धत्वाच्छ्रवणादिशास्त्रं व्यर्थ स्यात् । संन्यासशास्त्रस्य निवृत्तिविशेषबोधकत्वे वा न श्रवणादि प्रवृत्तिस्तेन विरुद्धयेतेत्याशङ्कयाह - औदासीन्यविशेषमेव हि परब्रह्मात्मधीजन्मने शास्तीदं श्रवणादिशास्त्रममुना त्वाक्षिप्यते व्यापृतिः । तां तां व्यापृतिमन्तरेण घटते सा सा न शास्त्रार्थधी- रित्याल्लशुनादिभक्षणगतौदासीन्यबोधादिव ॥७॥ औदासीन्येति । प्रवृत्युपरमवाच्यौदासीन्यशब्देन तद्धत्विष्टसाधनत्वा- भाव उच्यते । श्रवणादिशास्त्रं परब्रह्मात्मधीजन्मने औदासीन्यविशेष- मेव शास्ति न सर्वमौदासीन्यं संन्यासशास्त्रं हि वैधव्यापारान्निवृत्ति बोधयति । शास्त्रीयत्वाभिमानेन श्रद्धापूर्व तत्प्रवृत्तरेव विद्याविरोधि- त्वाच्छुवणादि शास्त्रं तु ततोऽप्राप्तां स्वाभाविकबाह्यव्यापारान्निवृत्ति बोधयतीति नव्यर्थम् । यदापि संन्यासशास्त्रमेषणात्रयाद् व्युत्थानं बोध- यत्वाभाविकव्यापारादपि व्युत्थानं बोधयतीत्युच्यते तदापि स्वा- ।
प्रथमोऽध्यायः १७ विकबाह्यव्यापारस्य विशेषतः परिवर्यत्वद्योतनाय श्रवणादि- शास्त्रमिति न व्यर्थं तदिति भावः । ननु तर्हि विद्यार्थिनः श्रवणे प्रवृत्तिः किंनिबन्धनेत्यत आह-अमुनेति । व्यापृतिः श्रवणादिरूपा प्रवृत्तिरमुना नात्मव्यापारौदासीन्येनाक्षिप्यते- अनुपपत्त्या प्रमीयत इत्यर्थः । अनुपपत्तिमेवाह तां तामिति । इतिहेतौ यस्माच्छवणादिरूपन्यापृतिम- न्तरेण शास्त्रार्थधीरात्मज्ञानशेषतयौदासीन्यबुद्धिर्न घटते तस्माद- मुनेति सम्बन्धः । श्रात्मा हि स्वभावतो निर्दुःखानतिशयानन्दरूप एव सन् प्राप्तमपि स्वानन्दं परिहतमपि दुःखं मोहादप्राप्तमपरिहृतं च मन्यमानोऽनुभवति वा प्राप्तपरिहतसुःखदुःखप्रेप्सापरिजिही- भ्यामुन्मत्तवत्तत्र तत्र वाह्येषु साधनेषु बंभ्रमीति । स एव यदि कालान्तरे भगवदनुग्रहवशान्मुमुक्षुः संस्तादृशसुखदुःखाभावसाधन- मात्मज्ञानमभिलषते, तदा यद्यपि वेदान्ता एव तादृग्ब्रह्मज्ञानजनने समर्थास्तथापि तं बाह्यव्यापार विक्षिप्तचेतसं वर्षधारेव शिलातल- मङ्करयितुं प्रतिबोधयितुमसमर्थाः सन्तः तस्याधिकारिणो बाह्यव्या- पारनिवृत्तिमपेक्षन्ते । तां च श्रवणादिशास्त्रमात्मज्ञानशेषतया बोधयति । तचौदासीन्यं वेदान्तानामर्थान्तरप्रतिभासदशायां स्वस्मा- दात्मज्ञानं न संभवतीति । तन्निरासहेतुं श्रवणादिकमाक्षिपतीति प्रवृत्तेरौदासीन्यादाक्षेपे दृष्टान्तमाह-लशुनेति । कलञ्जादिकमादि- पदग्राह्यं यथा लशुनं न भक्षयेदितिवाक्येन लशुनभक्षणस्येष्टसाधन. त्वाभावबोधनद्वारा निवृत्त्यनुकूलप्रयत्नरूपा प्रवृत्तिरादाक्षिप्यते तद्वदित्यर्थः ॥ ७॥ दृष्टान्तमेवोपपादयाति- औदासीन्ये बोधिते शास्त्रवृन्दै- रदस्मात्प्रच्युतस्यास्त्यनर्थः । इत्यालोच्य प्रच्युतेः प्रापकस्य प्रावल्येऽर्थे प्रातिलोम्यं विधत्ते ॥ ७६ ॥ mamims- सटीके संक्षेपशारीरके- aantaste श्रौदासीन्ये बोधितइति न हन्यान पिवेदित्यादिशास्रौदासीन्ये श्रेयः साधनत्वाभावेऽवगतेऽस्मादौदासीन्यानिवृत्तः प्रच्युतस्य हननादौ प्रवृत्तस्यानर्थोऽस्तीत्यर्थादनुपपत्त्या शाब्दविशिष्टाभावप्रतीत्यनुपपत्त्या- ssलोच्य निश्चित्य प्रच्युतेः पलाएडुभक्षणादिप्रवृत्तेः प्रापकस्य हेतोः रागादेः प्रावल्येऽर्थे उत्कटताविषये प्रातिलोम्यं प्रतिकूलं विधारण- प्रयत्नादि विधत्त इत्यर्थः ॥ ७६ ॥ ननु कथमौदासीन्यात्प्रच्युतस्यानर्थप्राप्तिः, यतः प्रवृत्तस्य सुख- मनुभूयते, नचेष्टसाधनत्वाभावमात्रेणानिष्टत्वमायाति, अनुपपत्तिर्वा कस्येति न ज्ञायत इत्याशङ्कयाह- औदासीन्यं बोधयच्छास्त्रमेत- न्नित्यं पथ्यं बोधयत्यस्य पुंसः । पथ्यादस्मात्प्रच्युतस्यास्त्यपथ्यं बुड्वापथ्यं प्रातिलोम्ये यतेत ॥ ७७ ॥ औदासीन्यमिति-एतच्छास्त्रं निषेधशास्त्रमौदासीन्यं वोधयदस्य पुरुषस्य नित्यं पथ्यं बोधयति प्रात्यन्तिकपुरुषार्थ बोधयति । शास्त्रस्यात्यन्तिकपुरुषार्थपरत्वात् अस्मादात्यन्तिकपुरुषार्थलक्षणौदा- परिभ्रष्टस्य प्रवृत्तस्यापथ्यमनर्थो भविष्यतीत्यर्थात् बुध्वा पथ्यप्रातिलोम्येऽनर्थप्रतिकूले इष्टसाधनत्वाभावज्ञानानिवृत्त्यनु- कूलप्रयत्ने यतेतेत्यर्थः । एतदुक्तं भवति। यद्यपि पलाण्डुभक्षणदिकमनुतिष्ठतो दृष्टं सुखमस्ति तथापि न तदात्यन्तिकसुखं तस्य निरयपातहेतुत्वादतः शास्त्रेण निरयपातवर्जितसुखसाधनमिदं न भवतीत्यात्यन्तिकपुरुषार्थे बोधिते सति विशेष्यवति विशिष्टाभावानुपपत्त्या विशेषणाभावो निरयपातो निश्चेतुं शक्यत इति तत्प्रातिकूल्यनिवृत्तिप्रयत्नं संपाद- यिष्यतीतिततोऽस्य विद्याधिकारिणो निवृत्तमात्रमधिकर्त्तव्यं श्रवणादि सोन्यात्प्रच्युतस्य प्रथमोऽध्यायः। शास्त्रेणापि बोध्यते । श्रवणादिप्रवृत्तिस्तु भोजनादिप्रवृत्तिवदर्थसिद्धा न शास्त्रीयाऽतो ब्रह्ममीमांसाया विलक्षणाधिकारित्वात्तनिरूपणं न मुधेत्यर्थः ॥ ७७॥ ननु निवृत्त्यधिकारिणोपि प्रथमतन्त्रे निरूपितत्वादिह तद्विचारो वृथेत्याशङ्कयाह- वृत्ता प्रवनकनिवर्तकशास्त्रसिद्ध्यै षष्ठे प्रवृत्तिविनिवृत्त्यधिकारिचिन्ता । अत्रैकमेव तु निवृत्त्यधिकारमार्ग- माश्रित्य सूत्रकृदथात इह प्रवृत्तः ॥७॥ वृत्तेति । षष्ठं प्रथमतन्त्रे षष्टाध्याये प्रवर्तकं विधिशास्त्र निवर्तक निषेधशास्त्रं तदर्थसिद्धयै प्रवृत्तिनिवृत्यनुगुणाधिकारिचिन्ता प्रवृत्ता अत्र तद्विपरीताधिकारी चिन्त्यते । न हि हननादिनिवृत्त्यधिकारिण एव ब्रह्मविद्यायामधिकारः । येनायं विचारो गतार्थो भवेत् । किन्तु सकल क्रियानिवृत्तिमत एव ब्रह्मविद्येति तद्विलक्षणाधिकार्यत्र चिन्त्यत इत्यर्थः । ननु ब्रह्मज्ञानाय वेदान्तवाक्यविचारकर्त्तव्यतां विदधानः सूत्रकारी विद्याधिकारिणोपि वैधी प्रवृत्ति सूचयति स्मेति तत्राह- अत्रैकमेव तु निवृत्त्यधिकारिमार्गमिति-सूत्रकृन्निवृत्तिमात्राधिकारिणमाश्रित्याथा- तोब्रह्मजिज्ञासेति प्रवृत्त इत्यर्थः । न च विचारकर्त्तव्यता तदर्थो भव- त्यनुपलम्भात् । किन्तु जिज्ञासामात्रमिति भावः ॥ ७८ ॥ ननु कर्माधिकारिवदस्याप्यस्त्येवोभयरूपत्वमग्निहोत्रादेरावश्य- कत्वान्न हि शास्त्रीयात्कर्मणो निवृत्तिः शास्त्रात् बोधयितुं शक्यते न वा शास्त्रीयस्य पुरुषार्थत्वाभावः येन पुरुषार्थार्थी तत्परित्यजेदित्या- शङ्कयाह- औदासीन्यप्रच्युतेः प्रापको च रागद्वेषौ नापरी हेतुरस्ति ।
१०० सटीके संक्षेपशारीरके- रागद्वेषप्रातिलोम्ये प्रवृत्ति- रौदासीन्यप्रापणाच्छास्त्रतोऽर्थात् ॥ ७ ॥ औदासीन्येति । औदासीन्यप्रच्युतेर्यागादिप्रवृत्तेः प्रापको हेतु. रागद्वेषावेव नान्यस्तद्धतुः । रागादिनिवृत्तिस्तु निवृत्तिशास्त्राद्भवती- त्यर्थः । यागादिविषया प्रवृत्तिरपि न शास्त्रजन्या किंत्वन्यत्र क्लत- कारणभावाद्रागादेव न हि शास्त्रं पुरुष रागादिवत्प्रवर्त्तयति । अप्रमाण्यापातात्, अपि तर्हि हितसाधनत्वबोधनेन तत्रेच्छामुपह- रैस्तदावश्यकत्वाद्राग एव प्रवर्तकः शास्त्रं त्वातज्ञापकं यागादेः स्वर्गादिहितसाधनत्वमेव बोधयति, तदपि न यागादेरात्यन्तिक स्वर्गादेः पुरुषार्थाभासत्वात्तथापि प्रतिपन्नाशयानुरोधेन प्रतिपादनीय- मित्याभासोऽपि फलमित्यादौ तत्साधनत्वं बोधयति । यदा पुनर्निर- स्तनिखिलकाममधिकारिणं पश्यति तं प्रति परमपुरुषार्थसाधनतया निखिलकर्मनिवृत्तिमेव बोधयति । तस्माद्विद्याधिकारिण इतरवन्ना- वश्यर्क कर्मतीदं शास्त्रं विलक्षणाधिकारिकमित्यर्थः ॥ ७६ ॥ ते शौचत्वं विधीयमानं तस्य कथमाक्षिप्येतेत्याशङ्कय तदप्या- क्षेपादेव सिद्ध्यतीत्याह- अशुचेः प्रतिषेधशास्त्रतो न भवत्येव हि वेदचिन्तनम् । श्रवणादिनिवृत्तिशास्त्रतः स्वयमर्थादथ शौचमापतेत् ॥८॥ अशुचोरेति । अशुचेः शौचादिरहितस्य पुरुषस्य तस्य वा एतस्य द्वावनध्यायौ यदात्मा शुचिर्यद्देश इति प्रतिषेधशास्त्रेण वेदोच्चारणं न भवत्येव, यतस्ततः श्रवणादिनिवृत्तिशास्त्रतः श्रोतव्यादिलक्षणे- तरनिवृत्तिपराच्छास्त्रादथ श्रवणाक्षेपानन्तरं शौचमप्यापतेदित्यर्थः ।
प्रथमोऽध्यायः। R श्रवणस्य वेदोच्चारणं विनानुपपत्तेः । तदुच्चारणस्याशुचेरयोगाच्छ- वणाक्षेपकशास्त्रादेव शौचरागद्वेषप्रातिलोम्यविषयाप्रवृत्तिःऔदासीन्य- प्रापणानिवृत्तिबोधकादित्यर्थः । नन्वस्तु श्रवणस्यार्थादाक्षेपस्तथापि केन वचनमप्याक्षिप्यत इत्यर्थः ॥ ८० ॥ नन्वेवमपि शुद्धिसाधनं शौचमात्रमाक्षिप्यतां तस्य चातुर्गुण्यं केनाक्षिप्येतेत्याशंक्याह-- अचतुर्गुणशौचवारणा- त्स्वयमेवास्य चतुर्गुणं भवेत् । अचतुवंशनस्य वारणा- स्वयमेवास्य चतुर्यु भोजनम् ॥८॥ अचतुर्गुणेति । अस्य विविदिषासंन्यासिनः यतीनां तु चतुर्गुण- मित्यादिना चतुर्गुणव्यतिरिक्तशौचवारणादाक्षिप्तशौचसाधनत्वेन चतुर्गुणमृत्तिकादानमापततीत्यर्थः । एवं श्रवणाक्षिप्तजीवनान्यथा- नुपपत्त्या क्षिताशनस्य चातुवर्य चरेझैक्षमित्यादिना वर्णचतुष्टया- तिरिक्तचण्डालादिपरिर्जनाचातुवर्ण्यभिक्षाचरणं प्राप्यत इत्याह- अचतुर्वशनस्येति । ब्राह्मणादिचातुर्वर्ण्यव्यतिरिक्तपित्यर्थः ॥ ८१ ॥ ननु 'विवर्णवासा मुण्डोऽपरिग्रह' इत्यादिना विवर्णवासस्त्वा- दिक विधीयते, न च तत्केनचिदाक्षेप्यं न च तत्राप्यविवर्णवासो न धार्यमिति कल्प्यम्, तथात्वे तत्र सर्वत्र श्रुतहान्यध्रुतकल्पने प्रसज्येयातामित्याशङ्कामुपसंहारव्याजेन पराकरोति- इति योजय सर्वमीशं कथितन्यायवशेन मादरम् । विधिहीननिवृत्तिशास्त्रतः कथितेऽस्मिन्नधिकारवमनि ॥२॥ - १०२ सटीके संक्षेपशारीरके- योजयेति । इत्यनेनेतरपरिवर्जनप्रकारेणेदृशविधिस्वरूपसर्ववाक्य- मस्मिन्नधिकारवमनि निवृत्तिमात्राधिकारमार्गे संन्यासशास्त्रपीडन- लक्षणकथितन्यायेन सादरं श्रुतहान्यादिदोषचिन्तनं विना योजयेति सम्बन्धः । तत्र हेत्वन्तरमाह-विधिहीनेति । विधिहीननिवृत्तिमार्गत इत्यर्थः। अस्यापि कर्त्तव्यबोधने पूर्व तन्त्राधिकारिणोऽस्य वैलक्षण्यन्न सिद्ध्येत्संन्यासशास्त्रपरिपीडनमपि स्यादित्यर्थः । ततः प्रामाणि- कत्वाच्छास्त्रश्रुतहान्यश्रुतकल्पने न दोषायेति भावः ॥ २॥ एवं श्रवणादिशास्त्रस्यनिवृत्तिमात्रपरत्वमुक्तमिदानी तस्यापि प्रवृत्तिपरत्वमिति पक्षान्तरमाह इति केचन वर्णयन्ति त- विपरीतं प्रवदन्ति केचन । प्रविभज्य तदप्युदीर्यते निपुणाचार्यपरम्परागतम् ॥८॥ इतिकेचनवर्णयन्तीति । तद्विपरीतं श्रवणादिशास्त्रस्य निवृत्तिमात्र- परत्वविपरीतं प्रवृत्तिपरत्वमित्यर्थः । प्रविभज्य प्रविविच्य निपुणा- चार्यपरम्परागतमित्यनेनायं पक्षः स्वाभिमत इति दर्शितम् ॥ ३॥ ननु कथं श्रवणादिशास्त्रस्य विधिपरत्वं संन्यासशास्त्रविरोधा- दत्याशिङ्कथाह- उत्सर्गतः सकलकर्मनिवृत्तिनिष्ठा संन्यासशास्त्रशतकोटिभिरर्पिताऽस्य । अस्ति पूतिपूसवशास्त्रमुखात्पूतीता चेष्टाऽऽत्मबुद्धिपरिपाकफलापि काचित् ॥८४॥ - प्रथमोऽध्यायः । १०३ उत्सर्गत इति । अस्य विद्याधिकारिणः संन्यासशारुत्सर्गतः सामान्यतः सकलकर्मनिवृत्तौ एव निष्ठाधिकारसमर्पिता यद्यपि तथापि प्रतिप्रसवशास्त्रात्परित्यक्तस्य प्रत्यर्पणविधेरवगतात्मवुद्धिपरिपाकोs- संभावनादिकृतदौस्थ्यनिवृत्तिस्तत्फला काचिच्चेष्टा प्रवृतिरपि विद्यत इत्यर्थः । अयम्भावः-यद्यपि सामान्यतः तस्मादेवंवित् शान्तो दान्त उपरतः एतं वैतमात्मानं विदित्वा ब्राह्मणः पुत्रेषणायाश्च वित्तेष- पायाश्च लोकेषणाया व्युत्थायाथ भिक्षाचर्य चरन्ति एतमेव प्रवाजिनो लोकमिच्छन्तःप्रव्रजन्तीत्यादिश्रुतिभिर्ज्ञानोद्देशेनसकलकर्मत्यागःश्रूयते तथापि त्यक्तकदेशस्य श्रवणादेः प्रतिप्रसवेन श्रोतव्यादिवाक्येन कर्त्तव्यता बोध्यते । अन्यथा श्रुतहान्यश्रुतकल्पनाप्रसङ्गादुभयश्रुति- मुख्यार्थसम्भवत्यन्यतरलक्षणाया अन्याय्यत्वाञ्च । नचैवं सति श्रुति- द्वयविरोधोप्यस्ति । न चैतावता सर्वकर्मप्रसङ्गः, तस्य ज्ञानाङ्गत्वेना- विधनाद्यज्ञोपवीतदारसंग्रहसाध्यस्य तस्य तद्विरहिणा संन्यासिना कर्तुमशक्यत्वाच्च । तस्मान्न श्रवणादिशास्त्रस्यविधिपरत्वे संन्यास- शास्त्रं बाधकमिति ॥८४ ॥ विद्याधिकारिणोपि शास्त्रद्वयात्प्रवृत्तिनिवृत्ती विद्यते इत्युक्त- मिदानी के ते प्रवृत्तिनिवृत्ती इत्यत्र द्वैराश्यं कृत्वा दर्शयति- यमस्वरूपा सकला निवृत्ति- स्तथा पूवृतिर्नियमस्वरूपा। निवर्तकादत्र यमप्रसिद्धिः पूवर्तकात्स्यान्नियमपूसिद्धिः ॥८॥ यमस्वरूपति । यमनियमयोर्लक्षणमाह-निवर्तकादिति । निवर्तक- शास्त्रवेदनीया यमाः प्रवर्तकशास्त्रवेदनीया नियमा इत्यर्थः ॥२५॥ इदानीं निवृत्ति देधा विभज्य दर्शयति- man i १०४ सटोके संक्षेपशारोरके- .. निवृत्तिरस्ति द्विविधा बहिःस्थिता शरीरसर्वेन्द्रियसंयमात्मिका । तथाऽपराऽभ्यन्तरवस्तुसंश्रया सदात्मकूटस्थचिदेकविग्रहा ॥८६॥ निवृत्तिररतीति । ननु कथं निवृत्तिद्वैविध्यं वाकायमनोनिवृत्तिभेदेन त. स्यास्त्रिप्रकारत्वादित्याशङ्कय तासां सर्वासामपि बाह्यत्वाद्वाह्याभ्यन्त- रभेदेन द्वैविध्यं विद्यत इत्याह बहि: स्थितेत्यादिना । बहिस्थिता काचिदभ्य- न्तरवस्तुसंश्रया काचिदित्यर्थः । बहिस्थितामेवाह-शरीरेति । शरीरस्य द्विविधेन्द्रियग्रामस्य च स्वस्वविषयव्यापारोपरमरूपेत्यर्थः ननु तर्हि का सावभ्यन्तरनिवृत्तिः, इन्द्रियमनोनिवृत्तेरपि बाह्यत्वादात्मगता निवृत्तिरभ्यन्तरेति चेन्न । तस्य सर्वगतस्य सर्वात्मनो निवृत्त्यनुप- पत्तरिति तत्राह-सदात्मकूटस्थाचदेकविग्रहेति । अात्मनः सर्वात्मत्वेपि सत्यकूटस्थचैतन्यैकरूपतया कालत्रयेप्यनृत्तजडविकारास्पर्शित्वादा- त्मरूपैवाभ्यन्तरनिवृत्तिरित्यर्थः । एतच्चाधिकारिनिरूपणवेलायां त्वं पदलश्यस्याधिकारिस्वरूपस्य वस्तुतः कर्तृत्वाद्यसंस्पर्शितया ऽसङ्ग- त्वमुपपादयितुमतो नाप्रस्तुताभिधानमित्यर्थः ॥ ८६ ॥ द्वैविध्यकीर्तनस्य फलान्तरमप्याह- तयोस्तु बाद्या विधिशास्त्रलभ्या पूयत्ननिवर्त्यतया पूतीतेः। विधानशास्त्रं विरहय्य लभ्या चितिस्वरूपा त्चितरा निवृत्तिः ॥ ८७ ॥ तयोस्त्विति । तयोनिवृत्योर्मध्ये बाह्यनिवृत्तिर्वाह्यशरीराबाश्रया निवृत्तिः प्रयत्नसाध्यतया प्रतीयमानत्वाद्विधिशास्त्रलभ्या यद्यपि निवृत्तिः प्रवृत्तिप्रागभावः स चानादिः तथापि प्रवत्तिहेतसमाजेन प्रथमोऽध्यायः । १०५ प्रवृत्तिप्रसत्त्या तत्प्रागभावनाशप्रसक्तौ इन्द्रियमुपसंहरेनिवर्तयेदित्येवं रूपं निवृत्तिशास्त्रप्रवृत्तिविरोधिनिवृत्तिप्रयत्नद्वारा प्रवृत्तिहेतुं विरुणद्धि । ततः प्रवृत्तिप्रागभावः कालान्तरसम्बन्धी भवतीति निवृत्तिः प्रयत्न- साध्येति भावः । अान्तरनिवृत्तिस्त्वेवं न भवतीत्याह-विधानशास्त्रमिति । इतरा बाह्या निवृत्तिरन्या चितिस्वरूपा निवृत्तिः विधानशास्त्रं निवृत्ति- धायकशास्त्रं विनैव लभ्यते तस्या नित्यसिद्धचैतन्यस्वरूपत्वादि- त्यर्थः ॥ ८७॥ ननूभय्यपि निवृत्तिः किं परमार्था, नेत्याह- मायामयी बाह्यनिवृत्तिरिष्टा चितिस्वरूपा परमार्थसत्या। तयोनिस्वयोश्च निवृत्तिशास्त्रं विधायकं बाह्यनिवृत्त्यपेक्षम् ॥८८॥ मायामयीति । मायामयदेहाद्याश्रितत्वात्स्वस्या अपि मायाकार्य- त्वाद्वाह्यनिवृत्तिर्मायामयी मिथ्येत्यर्थः । अत एव बाह्यनिवृत्तिर्विधीयते चेत्याह-तयोनिवृत्त्योरिति । ॥८॥ ननु निवृत्तिशास्त्रस्यापि विधायकत्वे कुतस्तस्य निर्तकत्व- मित्याशङ्कय निवृत्तिबोधनादित्याह - प्रवृत्तिशास्त्रेण समेऽपि सम्मते निवृत्तिशास्त्रस्य विधेयबोधने । निवृत्त्यनुष्ठाननिवन्धनत्वतो निवर्तकं शास्त्रमिदं प्रचक्षते ॥ ८॥ प्रवृत्तिशास्त्रेणेति । प्रवर्तकशास्त्रेणेत्यर्थः । विधायकत्वे समेऽपि १०६ सटोके संक्षेपशारोरके- निवृत्तिविधायकत्वानिवर्तकत्वमित्याह-निवृत्त्यनुष्ठानेति । निवृत्त्यनुष्ठान- प्रयोजकत्वादित्यर्थः ॥ ८ ॥ नन्येवं ब्रह्म विद्याधिकारिणोपि कर्त्तव्यसद्भावे काण्डद्वयस्याधि- कारिवैलक्ष्यण्यन्न स्यादित्याशङ्कय प्रकारान्तरेण तदुपपादयन्नधि- कारिनिरूपणमुपसंहरति शास्त्रदयेन परिदर्शितसाधनेन साध्यस्पृहापरवशः पुरुषो मुमुत्तुः । शुश्रूषते गुरुमथेत्युदितः स चात्र वेदान्तवाक्यविषयश्रवणाधिकारी ॥ ६ ॥ शास्त्रद्वयेनेोते । पुरुषो गुरुं शुश्रूषत इति सम्बन्धः । पुरुषं विशिनष्टि शास्त्रोति । प्रवर्तकनिवर्तकरूपेण शास्त्रद्वयेन परिदर्शितं यत्साधनं यमादि तेन यमाद्यनुष्ठानेन साध्यस्पृहापरवशः ब्रह्मात्मैक्यसाक्षात्का- रवाञ्छावशीकृतव्यापार इत्यर्थः । अनेन विविदिषुचिकीर्षुभेदेन काण्ड- द्वयाधिकारिवैलक्षण्यं दर्शितं यद्यप्ययमपि श्रवणादि चिकीर्षुस्त- थापि न चिकीर्षुः विविदिषयैव तत्र प्रवृत्तेः तस्य विद्यैकफलत्वा- दिति भावः । वैलक्षण्यान्तरमाह-मुमुक्षुरिति । अयं मुमुक्षुः स स्वर्गादि- बुभुक्षुः मुमुक्षाशब्दो विशेषणान्तराणामप्युपलक्षणम् । तथा च विवे- की विरक्तः शान्तो मुमुक्षुरत्राधिकारी,अविवेक्यविरक्तोऽशान्तःबुभुक्षु- स्तत्राधि ति प्रकाशतमोवदनयो(लक्षण्यमित्यर्थः। वैलक्षण्यान्त- रमाह-गुरुं शुश्रूषत इति । अयं विद्यार्थी गुरुमेव शुश्रूषते नाग्नीनितर- स्त्वग्नीनेवेत्यर्थः । नन्वेतत्सूत्राननुगुणं सूत्रकारेण निवृत्तिमात्रमार्गा- श्रयणेनाधिकारिवैलक्षण्यनिरूपणात्तत्राह अथेत्युदित इति । य एवंलक्षणः स एव वेदान्तवाक्यश्रवणाधिकारीत्यथशब्देनापि सूत्रस्थेनोदितः सूचित इति सम्बन्धः । अयम्भावः। सूत्रकारो हि ब्रह्मज्ञानाय वेदान्त- प्रथमोऽध्यायः। १०७ वाक्यविचारकर्त्तव्यतां सूचयति न जिज्ञासामा तथात्वे निरर्थकसि- द्धबोधित्वेनानुवादकत्वप्रसङ्गात्तस्य च न्यायसूचनपरे सूत्रेऽनुपपत्ते- स्तस्माद्विचारकर्त्तव्यतां सूचयतः सूत्रकारस्यायमेवाधिकारिविभागः संमत इति । ननु श्रवणस्य विधेयत्वमनुपपन्नं स च न तावन्नित्य- विधिः अकरणे प्रत्यवायाभावान्नापि काम्यविधिः विध्युद्देशे फला- श्रवणानिमित्तसंयोगाभावान्न नैमित्तिकोपि नापि प्रायश्चित्तविधिः दोषसंयोगे सत्यचोदितत्वादिति चेन्न रात्रिसत्रन्यायेनार्थवादिकं फलमादायानर्थनिवृत्तिप्रतिबन्धनिवृत्तिकामो विचारं कुर्यादिति विधि- विपरिणामेन काम्यविधित्वोपपत्तः । नन्वसंभावनादिप्रतिबन्धनि- वृत्तिं प्रति विचारोऽन्वयव्यतिरेकसिद्धसाधनभावो भवति लोके गान्धर्वशास्त्रविचारस्य तदसंभावनादिनिवर्तकत्वदर्शनाद्विधिश्चाप्रा- तविषय एव भवति विधिरत्यन्तमप्राप्त इति वृद्धवचनादतो नायं विधिरिति चेत्सत्यं तथाप्यवहननादिवनियमविधित्वोपपत्तेः, नियमे चाप्राप्तांशप्रापकत्वस्य सत्त्वात्तस्य फलतोऽपूर्वत्वात् । नन्वात्मन्य- संभावनानिवृत्तौ कारणान्तराभावात्कथं पाक्षिकप्राप्तिः, पाक्षिकप्राप्ती सत्यां हि नियमविधिः, नियमः पाक्षिके सतीत्यभिधानादतो ऽप्राप्तां- शप्राप्त्यसंभवान्न नियमविधिरिति चेन्न-असंभावनानिवृत्तित्वसामा- न्यौपाधौ कारणान्तरस्यापि सिद्धत्वाद्वयाद्यसंभावनायास्तान्तरण निवर्त्यमानत्वात् । नन्वस्य नियमापूर्वस्य कुत्रोपयोगः न तावदाश- यशुद्धौ तस्यास्तदनन्तरभाव्यसंभावनादिनिवृत्तिलक्षणदृष्टफलसमाना- श्रयत्वेनापूर्वस्य तद्धतुत्वानुपपत्तेः नापि ज्ञाने ज्ञानस्य दृष्टप्रमाण- फलत्वेन अदृष्टफलत्वानुपपत्तेरिति चेन्न श्रवणस्यासंभावनानिवृत्ति- स्तत्समवाय्यदृष्टं च फलं ताभ्यां च साक्षात्कारो विधूतार्थिक संशयात्मवान्भवतीति? नियमापूर्वसाध्यमस्त्येवेति । अथवाऽसंभावना- दिकमिवाशयमालिन्यविशेषोऽप्यविद्यानिवृत्ति प्रतिबन्धकः तन्निवृत्ति- श्च नियमापूर्वेण जायत इति सर्वथाप्यस्त्येव प्रयोजनम् । केचित्तु श्रात्मा १०८ सटीके संक्षेपशारीरके- । वारे द्रष्टव्य श्रोतव्य' इत्यादि विध्युद्देशेऽप्रतिबन्धालौकिकात्मसाक्षात्का- रस्य विशेषणतया मूलाज्ञाननिवृत्तिप्रतिबन्धकाभावस्य वोद्देश्यतया श्रवणविधिफलत्वाच्छवणस्य तत्साधनत्वस्य मानान्तरागोचरत्वात्ता- दृशज्ञाने तादृशासंभावनानिवृत्तौ वा कारणान्तराभावादपूर्वविधिरेव श्रवणविधिरिति वदन्ति । नचैवं सति नियमत्वप्रसङ्ग इति वाच्यम् । यस्य हि येनाकारेण फलत्वं तदाकारेण तत्र साधनद्वयप्राप्ती नियमः यथाऽपेक्षिततुषविमोकत्वाकारेणावहननफले तुषविमोके साधन- द्वयस्य योग्यतया प्राप्तावहनननियमः, नाचात्रात्मज्ञानत्वाकारणा- संभवनादिनिवृत्तित्वाकारेण वा तयोः फलत्वं तस्यान्यतोपि सिद्ध- त्वादत एव न नियमविधिपक्षोक्तदोषपरिहारप्रयासोपीति तस्मात्स- थाप्यस्त्येव श्रवणादिविधिरति ॥ १० ॥ एवं प्रकरणारम्भापेक्षितं ब्रह्मात्मैक्यलक्षणविषयमनर्थनिवृत्त्या- नन्दावाप्तिलक्षणप्रयोजनं शक्यप्रतिपाद्यत्वलक्षणसंबंधं नित्यानित्य- विवेकादिविशेषणकलापविशिष्टाधिकारिणं चानुबन्धचतुष्टयमुपपा. दयशास्त्रारम्भमुपपाद्य. गुरुशिष्योपदेशक्रमेण शास्त्रमारभमाणो ना- बुभुत्सितं बोधनीयमितिन्यायेन बुभुत्सानुरोधेनार्थमवबोधयितुं पदा- र्थद्वयवाक्यार्थविषयबुभुत्सामर्थात्तद्विषयप्रमाणबुभुत्सां च दर्शयति- स परिपृच्छति कोऽहमसौ च का सहजमस्य च तस्य च किं पृथक् । उत तयोरभिदेश्वरजीवयो- रिति च संशयसंकुलमानसः ॥ १ ॥ स परिपृच्छतीति । स विशिष्टाधिकारी गुरुमित्यनेन प्रकारेण पृच्छ- तीत्यनुषज्य सम्बन्धः । प्रश्ने निमित्तमाह-संशयसंकुलमानस इति । संश- याकुलितचित्त इत्यर्थः । किं पृच्छतीत्याकाङ्क्षायां संशयप्रश्नयोः प्रथमोऽध्यायः १०६ समानविषयत्वादितिशब्दपरामृष्टं प्रश्नसंशययोविषयं दर्शयति । तत्रादौ त्वंपदार्थ संशयप्रश्नविषयमाह- कोहमिति । अहं कः किं देहेन्द्रियादि- ध्वन्यतमः उत तदन्यः । यदापि तदन्यः तदापि देहेन्द्रियादिसंहतः कर्त्ता भोक्ता उत तद्विलक्षणोऽपरोक्षनित्यानुभवप्रकाशकूटस्थासङ्गस्व- भाव इति संशयप्रश्नयोरर्थः । अहंप्रत्ययावगतस्यात्मत्वाद्देहादिषु प्रत्येकं ब्राह्मणोहं कृशोहं काणोहं वधिरोहं मूकोहं मन्ताहमिति प्रत्ये- कमहंप्रत्ययस्य सत्त्वात्तेषां प्रत्येक व्यावृत्तत्वाच्च किं सर्वानुस्यूतोऽन्य एव वात्मेति विशेषानवधारणात्प्रश्नः यदा त्वन्यस्तदाप्यधीतसाङ्गस्वा- ध्यायस्याहरहरावय॑मानवेदान्तवाक्यैः कतम अात्मेत्युपक्रम्य 'योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्योतिः पुरुषः, अत्रायं पुरुषः स्वयं ज्योतिः, स वा एष एतस्मिन्संप्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापंच अनन्वा गतस्तेन भवत्यसङ्गो ह्ययं पुरुष, (बृ०४-३-१५) इत्यादिश्रुतिभ्यः प्रत्य गात्मन्यापाततो देहेन्द्रियादिव्यतिरिक्तत्वस्वयंज्योतिष्ठवावस्थात्रयपुण्य- पापासंस्पर्शित्वाद्यवगमात् प्रत्यक्षादिभिश्च तद्विपरीतयुक्तत्वप्रतीतेर्वि- शेषानवधारणात्त्वंपदार्थप्रश्नः । अर्थाच्च तद्विषयप्रमाणप्रश्नोपि दर्शितः । किमत्राहमनुभवः प्रमाणमुतागमः । यद्याद्यः तदा मपं कर्तृत्वादि- विशिष्टमेव सिद्ध्यति । यद्यागमस्तर्हि यथागममसङ्गमविक्रियं मदूपं सिद्धाति । आगमस्य तु प्रामाण्यं न युक्तमिव भाति आत्मनः कर्तृत्व- दुःखित्वाद्यावेदकप्रत्यक्षविरोधादिति। तत्पदार्थसंशयप्रश्नावाह-असौ क झाते । परोक्षत्वेन प्रतीयमानः परमेश्वरोपि कः--किमद्वितीयापरोक्ष- स्वरूपः उत सद्वितीयपरोक्षस्वरूप इति 'सदेव सोम्येदमन भासीदेक- मेवाद्वितीयम्, अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि, ऐतदात्म्यमिदं सर्वतत्सत्यं स आत्मा तत्त्वमसि,नेह नानास्ति किंचन, यत्साक्षादपरोक्षाद्ब्रह्म, य आत्मा सर्वान्तरः” (बृ० ३-४-१) इत्यादि- वाक्यैस्तत्पदार्थस्य ब्रह्मणोऽद्वितीयत्वापरोक्षभावसरूपत्वानुभवादनु- मानादिना सद्वितीयत्वपरोक्षत्वावगतेर्विशेषानवधारणात्प्रश्न इत्यर्थः ।
११० सटीके संक्षेपशारीरके- अर्थात्तद्विषयप्रमाणसंशयप्रश्नोपि दर्शितः । किंब्रह्मण्यनुमानमुतागम एव । यद्याद्यः तदा कार्यानुरोधेनकारणमनुमीयमानमनेकरसं परोक्ष- मेव तत्सिद्ध्यति । यद्यागमः तदाऽद्वितीयमपरोक्षमेव सिद्ध्यति परन्तु भेदग्राहिप्रमाणविरोधात्तस्य प्रमाण्यमेवदुर्लभमिव भातीति वाक्यार्थे संशयप्रश्नावाह-सहजमित्यादिना । अस्य त्वंपदार्थस्य तत्पदार्थस्य च पृथक् पृथक्त्वं भेदः किं सहजः स्वाभाविकाउत तयोः पदार्थयोरभेदः सहज इति किं जीवेश्वरौ स्वभावतो भिन्नावुताभिन्नाविति वाक्यार्थे 'तत्त्वमसि, अयमात्मा ब्रह्म, अहं ब्रह्मास्मि, प्रज्ञानं ब्रह्म, यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् । सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तदि (कै० १६) त्यादिवाक्यैर्जीवपरयोरभेदावगमात् द्वासुपर्णेत्यादिना च त योर्भेदावगमादनवधारणात्प्रश्नः । अर्थात्तद्विषयप्रमाणसंशय- प्रश्नोपि किमैक्ये । तत्त्वमादिवाक्यं प्रमाणमन्यद्वा अन्यत्तु नोपलभा- महे तत्वमादिवाक्यं च तत्र न प्रमाणं भवति तद्भेदावगाहिश्रुत्यन्तर- विरुद्धत्वादिति । नन्वध्यस्तमल्पवपुरित्यत्र सर्वस्याप्यध्यासात्मकत्व- मुक्तं तत्कथं मानान्तरविरोधाशङ्केति चेत्सत्यं तत्र हि ब्रह्मात्मैक्यं सिद्धवत्कृत्य प्रमितविपरीतरूपत्वेन प्रपञ्चस्याध्यस्तत्वं वर्णितमत्र तु तदेवाक्षिप्यत इति न दोषः। चशब्देनान्येपि संशयाः साधनादिविषयाः समुच्चीयन्त इति भावः । वाक्यार्थज्ञानस्य पदार्थज्ञानपूर्वकत्वादादौ पदार्थविषयः प्रश्नः तत्रापि त्वं पदार्थस्यापरोक्षतया प्रथममुपस्थित- त्वात्प्रथमं तत्प्रश्न इति क्रमः ॥ ११ ॥ एवं शिष्यजिज्ञासां दर्शयित्वा न तजिज्ञासामात्रेणाप्यात्मोपदेशो युक्तः अनधिकारिणोपि पाण्डित्याद्यर्थतजिज्ञासोपपत्तेः । दृश्यते ह्यद्यतनानामपि तथा जिज्ञासा न च तत्राप्येतदुपदेशनं युक्तं नाविर- क्ताय न चाशुश्रूषवे वाच्यं न च मां योभ्यसूयतीत्यादिनिषेधादतो भूयोप्यधिकारी परीक्षणीय इत्युपदेशार्ह प्रदर्शितमधिकारिणं बहुशः परीक्षान्यायेनाह- प्रथमोऽध्यायः । तीर्थेन तं विविदिषन्तमनन्यभक्तं- संसारसागरभयातुरचित्तवृत्तिम् । एकं मुमुक्षुमधिकारिणमात्मतत्त्व- ज्ञाने समीक्ष्य गुरुराह दयाविधेयः ॥ २ ॥ । तीर्थेनेति । गुरुरधिकारिणं समीक्ष्य वक्ष्यमाणमाहेति सम्बन्धः । कुत्राधिकारिणमित्यत्र ज्ञानाधिकारिणमित्याह-आत्मतत्त्वज्ञान इति । अधिकारिणमेवाह तीथेनेत्यादिना । तीर्थेन वैदिकेन कर्मणा तं परमात्मानं विविदिषन्तं गुरुशुश्रूषादिपूर्वकं शुद्धाशयतयाऽप्रतिबन्धपरमात्मज्ञान- मिच्छन्तमित्यर्थः । ननु स्वर्गादिरागेणात्मविविदिषा न संभवतीत्य- त्राह-अनन्यभक्तमिति । आत्मैकप्रियमित्यर्थः । तथा च नायं स्वगा- दिरागीत्यर्थः । न केवलमस्यान्यत्र रागाभावः किन्तु तद्विषयोटे- गोपीत्याह-संसारेति । संसार एव सागरस्तन्निमित्तं यद्भयं तेनातुरा उद्विग्ना चित्तवृत्तिर्यस्य स तथोक्तः । तीव्ररागादिज्वालाजटिलसंसार- महानलसंदह्यमानमिवात्मानं मन्यमानमित्यर्थः । एतादृशस्य च लो- के नोपालब्ध्यभावः शङ्कनीयः सहस्राणां मध्ये कस्य चिदेवंरूपत्वसम्भ- वादित्याह--एकमिति । तदुक्तं भगवतापि 'मनुष्याणां सहस्त्रेषु कश्चिद्य- तति सिद्धये। यततामपि सिद्धानां कश्चिन्म वेत्ति तत्त्वत'इति । विविदि- पाहेतुमुमुक्षाप्यस्तीत्याह-मुमुक्षुमिति । तथा च जिज्ञासामात्रेण न विद्यो- पदिश्यते किन्तु नित्याद्यनुष्ठानोपात्तविशिष्टादृष्टसमुपजातबुद्धिशुद्धि- नित्यानित्यविवेकिनं बन्धान्त तैहिकामुष्मिकभोगविमुखीकृतचित्तवृ- त्तिं त्यक्तनित्यनैमित्तिककाम्यकर्माणं शमादिमन्तं मुमुक्षुमात्मैकप्रियं गुरोरिष्टं समाचरेदिति शिष्टाचारपरिप्राप्तगुरुशुश्रूषादिसाधनवन्तं कर्तृत्वादिप्रपञ्चानर्थवातोपशमनपटुररप्रत्यग्ब्रह्मात्मैक्यावजिगमिषु प्र- त्येवेति गुरोः शिष्यं प्रत्युपदेनिमित्तं दर्शयति-दयाविधेय इति । हा कष्ट- मयं स्वाविद्याकल्पितेऽस्मिन्संसारे सुगमसंतरणेपि कएठाबद्धपाषाण सटीक संक्षेपशारीरके- इव शश्वन्निमजति कथमस्मादुद्धर्त्तव्यः अवश्यं चैनमुद्धरामीत्येवं रूपदययैव शिष्योपदेशकर्मणि विधेयः प्रयोज्यः न तु द्रव्यादानख्या- त्यादिभिः । यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इति विद्यायाः अमूल्यत्वश्रुतेः परमानन्दनिमग्नस्य ख्यात्याद्य- भिलाषाभावाञ्चत्यर्थः ॥ १२॥ इदनीमुपदेश्यमानार्थस्यातिसूक्ष्मतया तत्प्रत्तिपत्तये शिष्यस्या- वहिततां संपादयन् किमाहेत्याकाङ्क्षायां तदेवाह- वक्ष्यामि वत्स तव वाञ्छितमत्यवस्थ- मत्यन्तमेव च हितं शृणु तन्मनस्कः । त्वं प्रत्यगव्यवहितं तव सुप्रसिद्ध ब्रह्माद्वितीयमुदितं च तदस्यजस्रम् ॥६३ ॥ वक्ष्यामि वत्सेति । हे वत्स। तव वाञ्छितं ब्रह्मात्मैक्यं वक्ष्यामि त्वं तन्मनस्कः सन् थरिवति सम्बन्धः । वत्सेति सम्बोधनेन स्वस्य सौमनस्य शिष्यानुग्रहनिमित्तदयां च सूचयति । वाञ्छितं विशिनष्टि- अत्यवस्थमिति । सकलव्यवहारातीतं परं सूक्ष्मं सूक्ष्मात्सूक्ष्मतरमिति श्रुतेः । अनेन तन्मनस्कत्वे हेतुरुक्तः तर्हि किंदुज्ञेयत्वादुपेक्षणीयमेव नेत्याह-अत्यन्तमिति । अत्यर्थ हितमेव ज्ञातमात्रेण परपुरुषार्थो भवती- त्यतोऽतिसूक्ष्ममप्यवहितमनस्कः सन् तच्छण्वित्यर्थः । एवं शिष्यस्था- वहिततां संपाद्य प्रश्नकमेणोत्तरमभिप्रेत्याह-त्वं प्रत्यगित्यादना । त्वंशब्दार्थशोधितमाह प्रत्यगिति । कोहमिति यस्त्वं पृच्छसि स त्वं प्रत्यगनृतजडदेहादिप्रातिकूल्येन सत्यप्रकाशात्मना च प्रकाशत इति प्रत्यक्सत्यचैतन्यरूपः न देहादिस्तत्संहतो वा देहादेरूपादिमत्त्वेन कार्यत्वेन च स्वव्यतिरिक्तद्रष्टकत्वान्मम देहो मम चक्षुर्मम मन इति आत्मनस्तयतिरेकानभवाच तत्संघातस्य चानात्मसंघातत्वेन गृहा- प्रथमोऽध्यायः । । - । दिवदनात्मत्वात् द्रष्टुत्वानुपपत्तेः ततः प्रत्यगेवत्वम्, अतोन कर्तृत्वादि- गुणक इत्यर्थः । एतस्मिन्सत्यचैतन्यरूपेऽनुभवं प्रमाणमाह-तच सुप्रसिद्ध- मिति । श्रुतिमस्तकैर्वा सत्यचैतन्यं तव स्वरूपं प्रसिद्धमित्यर्थः । न च प्रत्यक्षविरोधः दुःखित्वादेरनात्मधर्मत्वात्तद्भाष्यस्य तद्धर्मत्वानुपपत्तेरि- ति । तत्पदार्थप्रश्नोत्तरमाह' ब्रह्मेति । तत्पदशोधितपदार्थमाह-अद्वितीयम- व्यवहितमिति । यद्ब्रह्म तत्सजानीयादिभेदशन्यमेकरसमत एवाव्यवहिते प्रतिपत्तुः स्वरूपाभिन्नतयाऽपरोक्षं न तु सद्वितीयं परोक्षं चेत्यर्थः । वाक्यार्थप्रश्नोत्तरमाह-तदसीति । प्रत्यक्त्वमव्यवहितमद्वितीयं यद्व- राजस्रं संसारावस्थायामपि तदसीति सम्बन्धः । ततो जीव परयोरभेद एव न तु भेद इत्यर्थः। तत्पदार्थवाक्यार्थविषयार्थिकप्रमाण- प्रश्नस्यार्थादुत्तरमभिप्रेन्याह-उदितामति । एकमेवेत्यादिश्रुत्या प्रतिपा- दितमित्यर्थः । न च सद्वितीयत्वग्राहिमानान्तरविरोधादस्याप्रामा- रयं तस्य कल्पितद्वैतविषयत्वेनाविरोधात् । न च तत्त्वमाद्यै क्यश्रुते- सुपर्णेत्यादिभेदश्रुतिविरोधः तस्याः प्रत्यक्षादिसिद्धभेदानुवादि- त्वादभेद एव च सर्वस्याः श्रुतेस्तात्पर्याधगमादिति भावः ॥ १३ ॥ । एवं संक्षेपतः पदार्थद्वयं वाक्यार्थं च सप्रमाणकमुपदिश्य विस्तरेणाप्येतमर्थ शिध्याकाक्षानुरोधेन प्रतिपिपादयिषुः शिष्यस्या- नुचितकरणाशङ्काव्यावृत्तये चोद्यावकाशं ददाति- यद्यत्र पश्यास विरोधमुदीरय त्वं सद्यस्ततः परिहराणि तमप्रयत्नात् । वाक्यं निरस्तसकलप्रतिबन्धकं स- त्वां वोधयिष्यति करार्पितविल्वतुल्यम् ॥ ६४ ॥ यद्यन पश्यसीति । त्वमत्रास्मदुक्ते यदि विरोधं पश्यसि तर्षुदीरय । मा निधनात परिहराणि
सटीके संक्षेपशारीरके-
।
परिहर्तुमिच्छामि इच्छार्थेषु लिङलौटावितीच्छार्थे लोट्प्रत्ययः ।
अत्र यदि पश्यसीत्यनेन वस्तुतो विरोध एव नास्ति । विरोधप्रतीति-
स्तु वस्तुनोऽतिसूक्ष्मत्वात्तव भ्रान्तिकृतैवेति दर्शयति । अतएव परि.
हारे मम न भारोस्तीत्याह अप्रयत्नादनायासेनेत्यर्थः। बिरोधे प्रतिबन्ध
के परिहते वाक्यं त्वां बोधयिष्यतीत्याह-वाक्यमिति । नन्वेवं सति
वेदस्य सापेक्षत्वमित्याशङ्कय प्रतिबन्धनिरासानन्तरं पूर्वमेव वाक्य-
जन्यज्ञानस्य विषयप्रतिष्ठितत्वमात्रं भवतीत्याह-करार्पितबिल्वेति । स्प-
टं विषयप्रतिष्ठितं यथा भवति तथेत्यर्थः ॥१४॥
एवं गुरुणादत्तावसरः शिष्यो वाक्यार्थस्य प्रधानत्वादव्यवहि-
तानन्तर्यतया बुद्धिस्थत्वाच्चादौ वाक्यार्थविषये विरोधमुद्घाटयती-
त्यत्राह-
अत्राऽऽह सद्वयमहं मम रूपमीचे
तचाद्वयं विगणयामि परोक्षमेव ।
पारोक्ष्यसदयविभागयुजोर्विरोधा-
द्वाक्यार्थबोधमतिदुर्लभमेव मन्ये ॥ ५ ॥
अत्राहेति । अत्रैवं गुरुणा चोदयितव्यमित्युक्ते सति वाक्यार्थे
विषये शिष्य प्राह किमाहेत्यत पाह-सद्वयमिति । त्वं पदार्थस्य मम
स्वरूपं सद्वयं देहेन्द्रियकर्तृत्वादिद्वयसहितमीक्षे पश्यामि । अनेन स्व-
स्यापरोक्षत्वमनुभूय दर्शितं भवति तत्पदप्रतिपाद्यमद्वयं सर्वस्यापि
कार्यस्य तन्मयत्वादद्वितीयं परोक्षं व्यवहितमेव च विगणयामीत्यनेन-
तस्यानुभवतोपि परोक्षत्वमुक्तं ततः किमित्यत अाह-पारोक्ष्यसद्वयेति
परोक्ष्यापरोक्ष्यसद्वयत्वाद्वयत्वलक्षणविभागयुजोविभागप्रयोजकविरु-
धर्मद्वयवतोर्वाक्यार्थबोधनमैक्यबोधनमिदमत्यन्तदुर्लभमेव
।
-
इत्यर्थः ॥ ५॥
प्रथमोऽध्यायः ।
११५
नन्वस्तु विरुद्धधर्माख्यो विभागः स चोपदिष्टवाक्यार्थप्रमित्या
निवर्तयिष्यते तत्राह-
यवस्तु सद्धयतयाऽवगतं स्वशब्दा-
त्तस्यादयत्वमवगन्तुमशक्यमेव ।
यवस्तु च व्यवहितं प्रतिपादितं त-
प्रत्यक्तया न तु जनः प्रतिपत्तुमीशः ॥ ६ ॥
यदस्त्विति । त्वं पदार्थभूतं यद्वस्तु स्वशब्दात्वस्य वाचकत्वमह-
मादिशब्दात्सद्वयतया देहेन्द्रियादिना कर्तृत्वादिना च विशिष्टतया
वगतं तस्याद्वयत्वं ब्रह्मात्मत्वमवगन्तुमशक्यमेव एवमयं जनस्तत्य-
दार्थभूतमपि यद्वस्तु तद्ब्रह्मादिशब्दाद्वयवहितं परोक्षं सत् प्रतिपादि-
तमुपस्थितं तत्परोक्षं ब्रह्माख्यवस्तुप्रत्यक्तयाऽपरोक्षानुभवात्मकजीवा-
भेदेन प्रतिपत्तुं नेश इत्यर्थः। तथा च यदि वाक्यं ब्रह्मात्मत्वमवबोधयेत्तदा
तद्बोधनेन कल्पितविरुद्धधर्मप्रतिभासो निव]तापि बोध एव न
संभवति पदार्शयोविरुद्धधर्मप्रतिभासादिति भावः ॥ १६ ॥
ननु चक्षुरादिकं रजताद्याकारण गृह्यमाणे शुक्तिशकलादौ यथा
शुक्त्यादिज्ञानमुत्पादयति एवं वाक्यमपि प्रमाणत्वाविशेषाद्विरुद्ध-
धर्मप्रतिभासेपि स्वार्थ किमिति न बोधयोदिति चेत्तत्र कि तत्त्वमादि-
वाक्यं वाच्यार्थयोस्तादात्म्यलक्षणमभेदमवबोधयति उत लक्ष्ययो-
रखण्डात्मकम् । आद्यपि शब्दः स्वार्थबोधने योग्यतां नापेक्षते उत
श्रपेक्षते नाद्य इत्याह-
आकाक्षितं भवति पूरणशक्तियुक्तं
यत्सन्निधौ पठितमस्य हि संगतिः स्यात् ।
नाऽऽकाङ्क्षयैव न तु सन्निधिनैव वा स्यात्
सम्बन्धिता हि विरहय्य पदार्थशक्तिम् ॥१७॥
सटोके संक्षेपशारोरके- । Homen श्राकाक्षितमिति । येन विना यस्याभिधानमवपर्यवसनं तत्तस्याका- झा तद्युक्तमाकाक्षितं पूरणशक्तियुक्तं पदार्थान्तरसम्बन्धयोग्यताश- क्तियुक्तार्थाभिधायकं संन्निधौ पठितमव्यवधानेनाभिहितम् श्रासत्तियुक्तं यत्पदमस्य हि अस्यैव संगतिः वाक्यभावेनान्वयः । आकाङ्क्षायोग्य- तासत्तियुक्तमेव पदं तादृशेन पदेनान्वीयते । एवकारव्यावर्त्यमाह- नाऽऽकाङ्क्षयैवेति-पदानामाकाङ्क्षामात्रेण सम्बन्धितान्वयो न भवति न वा सन्निधिमात्रेण । वाशब्दात् समुदिताभ्यामप्याभ्यां पदार्थशक्ति विरहय्य योग्यतां विना नान्वयवोधः संभवतीत्यर्थः। आकाङ्क्षायोग्य- तासत्तिमत्पदकदम्बकस्यैव वाक्यत्वाद्वाक्यभावस्यार्थज्ञाने कारण- त्वाद्योग्यतामन्तरेण पदानामन्वयबोध एव न भवति । कुतस्ततो वाक्यार्थप्रमितिरत एव न वहिना सिञ्चतीत्यादौ वाक्यार्थप्रमितिः । चक्षुषस्तु न योग्यता बोधापेक्षाऽतो दृष्टान्तो विषमः । चक्षुषोप्य- दुष्टस्यैव शुक्तितत्त्वज्ञानदर्शनाचेति भावः ॥ ६७ ॥ द्वितीयेपि किं प्रकृते पदार्थयोग्यतापेक्ष्यते उत शब्दयोग्यतैव । श्राद्ये त्वन्वयबोधो भवेद्यदि सा भवेत्सैव तत्त्वमादिवाक्ये मृग्येत्याह- योग्यत्वमत्र न च तत्त्वमसीति वाक्ये सम्बन्धितां प्रति पदार्थयुगस्य भाति । पारोक्ष्यसयविभागविरोधहेतो- गौरश्व इत्यभिहिते तु यथैव वाक्ये ॥८॥ योग्यत्वमत्रेति । अत्र तत्त्वमसीति वाक्ये पदार्थयुगस्यान्योन्य- सम्बन्धितां प्रति योग्यत्वं न चास्ति नैवास्तीति सम्बन्धः । तत्र हेतुमाह पारोदयेति पारोक्ष्यापरोक्षसद्वयत्वाद्वयत्वाख्यौ यो विभागौ विरु- द्धधमौं तयोविरोधाद्धेतोरेकाश्रयवृत्तित्वानुपपत्तरित्यर्थः । ननु शब्द- योग्यतैवापेक्ष्यते सा च तत्त्वमादिवाक्येपि सुलभेत्याशङ्कय सत्यामपि प्रथमोऽध्यायः । - तस्यां वह्निना सिञ्चतीत्यादावर्थयोग्यतां विनार्थबोधाभावादर्थयोग्य- ताप्यपेक्षत इत्यभिप्रेत्य । ननु समानविभत्त्यन्तलक्षणशब्दयोग्यतायां सत्यामर्थयोग्यतापि भवत्येव, नीलमुत्पलमित्यादौ तथा दर्शना- दित्याशङ्कय व्यभिचारान्नेत्याह-गौरश्वइति । यथा गौरश्वः पुरुषो हस्ती मर्कट इत्युक्ते वाक्ये समानविभक्त्यन्तलक्षणशब्दयोग्यतायां सत्या- मपि यथा नार्थयोग्यता गवादीनां परस्परात्मतया बाधितत्त्वात्तथा तत्वमादिवाक्येपि न पदार्थयोग्यतेत्यर्थः ॥ १८ ॥ ननु लक्षणया तत्त्वमादिवाक्यमखएडार्थप्रमिति जनयति विरु- द्धांशपरित्यागात् । न चैकपदलक्षणायामखण्डार्थत्वक्षतिः पदद्वय- लक्षणा चाप्रसिद्धति वाच्यम् । सोऽयं देवदत्तेत्यादौ पदद्वयलक्षणा दर्शनादित्याशय लोके पदद्वयलक्षणामङ्गीकृत्य वेदे लक्षणैवानु- पयन्नेति दूषयति- सोऽयंगिरोरिव न लक्षणयापि वृनि- मानान्तराधिगतिहीनतयाऽऽत्मनि स्यात् । मानान्तराधिगतगोचर एव दृष्टः शब्दप्रयोग इह लाक्षणिकस्तु लोके ॥ ६ ॥ सोऽयमिति । यथावाक्यस्थतदिदंशब्दयोर्लक्षणया देवदत्तादि, स्वरूपमात्रे वृत्तिः। तथा तत्त्वं पदयो त्मनि वृत्तिः कुतस्तत्राह-मा- नान्तरेति । श्रात्मनो मानान्तराविषयवादित्यर्थः। मानान्तराविषयत्वे- ऽप्यात्मनि किमिति लक्षणा न स्यात्तत्राह-मानान्तरेति । इह लोके वाच्या- र्थसम्बन्धित्वेन मानान्तरजन्यज्ञानविषय एव तीरादौ लाक्षणिकशब्द- प्रयोगो गङ्गायां घोष इत्येवमादिष्ट इत्यर्थः । लाक्षणिकस्त्विति । तु शब्देन मुख्यार्थस्य मानान्तरगम्यत्वनियमं वारयति लिङादिवाच्यकार्येs दर्शनादिति ॥ ६ ॥ - सटीक संक्षेपशारीरके- प्रकारद्वयेपि वाक्यार्थबोधनिरसनमुपसंहरति- तस्मादखण्डविषया न वचःप्रवृत्तिः संसर्गबोधनमपास्तमयोग्यभावात् । एवं न वाक्यगतशब्दसमन्वयोऽपि दूरे प्रमान्तरविरोधनिराससिडिः ॥१०॥ तस्मादखण्डविषयेति । यस्मादात्मनि न लक्षणा तस्मादखएडविषया एकरसब्रह्मविषया पदार्थयोरयोग्यभावाद्वाक्यस्य तादात्म्यलक्षण- संसर्गबोधनमप्यपास्तं न सम्भवतीत्यर्थः । एवं वार्डंक्याप्रमित्य- भावमुपपाद्य तत्फले विरोधप्रतीतिनिरासाभावमुपसंहरति--एवमिति । उक्तं प्रकारेणार्थयोग्यताविरहालक्षणाभावाञ्चेत्यर्थः । योग्यताविरहा. त्पदानामन्वय एव नास्ति कुतः पुनस्तजन्या प्रमितिः कुतस्तरां ततो विरोधप्रतीतिनिरास इत्यभिप्रेत्याह- दूर इति । प्रमान्तरं स्वाभाविक- सद्वितीयत्वादिप्रतीतिः ॥ १०० ॥ एवं सिद्ध ब्रह्मणि वेदान्तानां मानाभावमङ्गीकृत्य योग्यता- भावाल्लक्षणाभावाच्च प्रत्यकब्रह्मैक्यबोधो न संभवतीत्युक्तं सम्प्रति- वेदान्तानां ब्रह्मणि प्रामाण्यमेव न सम्भवति इति वक्तुं किं ब्रह्ममाना- न्तरगम्यं न भवति उत भवति श्राद्योऽनुपपन्न इत्याह- किं च प्रमान्तरमपेक्ष्य गिरः प्रवृत्तिः सिद्धेषु वस्तुषु जगत्युपलब्धपूर्वा । ब्रह्मात्मवस्तुनि तथा वचसः प्रवृत्ति- युक्तात्मनस्तु फलवत्परिनिष्ठितत्वात् ॥ १०१ ॥ किं च प्रमान्तरमिति । किंच जगति सिद्धषु परिनिष्पन्नेषु वस्तुषु प्रमान्तरं प्रमाणान्तरमपेक्ष्य गिरः प्रवृत्तिरुपलब्धपूर्वा पूर्वमुपलब्धेति प्रथमोऽध्यायः। ननु सन्बन्धः मानान्तरविषयत्वयोग्य एव सिद्ध शब्दस्य प्रवृत्तिर्दृष्टेत्यर्थः । ततः किं तत्राह-ब्रह्मात्मवस्तुनीति । यथा लोके नद्यस्तीरे पञ्चफलानी- त्यादिसिद्धबोधि वाक्यं मानान्तरमपेक्ष्यैव प्रवर्तते तथैव ब्रह्मात्म- वस्तुन्यपि वचसः प्रवृत्तिर्युक्ता कुत श्रात्मन. फलवत्परिनिष्ठितत्वात् सिद्धत्वादित्यर्थः ॥ १०१ ॥ लोकेपि वाक्यस्य न स्वार्थप्रमितौ जनयितव्यायां माना- न्तरापेक्षा अनुपयोगात्, किन्तूत्पन्नायां प्रमितौ तद्विषयाभावशङ्का- निराकरणायेत्याशङ्कय फलवदित्युक्तं दृष्टान्तमुपपादयन् दूषयति- नद्यास्तीरे फलमितिगिरः सिद्धवस्तुप्रवृत्ते- दृष्टा स्वार्थप्रमितिजनेन स्वान्यमानव्यपेक्षा । तद्ब्रह्मण्यपितु वचसो वैदिकस्याभ्युपेया तस्मादस्मिन्न खलु घटते मानभावः श्रुतीनाम् ॥१०२॥ नद्या इति । सिद्ध वस्तुप्रवृत्ततोर्नद्यास्तोरे फलमिति गिरः स्वार्थ- प्रमितिजनन एव खस्माच्छब्दादन्यस्मिन्मानव्यपेक्षा दृष्टा न तु खविषयाभावशङ्कानिवृत्तये शङ्काया निश्चयनिवर्त्यत्वेन निश्चयरूपाया वाक्यजन्यप्रमितेरेव तदुपपत्तः । यदि वाक्यात्प्रमितेपि विषया- भावशङ्कानिवृत्तये मानान्तरमय॒तेति बेषे तर्हि ब्रह्मण्यप्यभावशङ्का- निवृत्तये मानान्तरापेक्षास्त्वित्याह-तद्वदिति । तु शब्दोप्यर्थः तद्वदपि ब्रह्मण्यपि वैदिकस्य वचसः खान्यमानव्यपेक्षा युक्तेति सम्बन्धः । प्रथमपक्षनिराकरणमुपसंहरति । नस्मादिति । यस्माद्ब्रह्मणि न मानान्तरं तस्मादित्यर्थः । न द्वितीयः-वेदान्तप्रतिपाद्ये ब्रह्मणि मानान्तरा- नुपलब्धेरिति ॥ १०२॥ ननु लोकेपि न वाक्यार्थे मानान्तरापेक्षा वाक्यार्थस्य सर्व- प्रापूर्वत्वात्सिद्धबोधिवाक्यमपि न स्वार्थप्रमितौ तदभावशङ्कानिवृत्त - १२० सटीक संक्षेपशारीरके- ये वा मानान्तरमपेक्षते किन्तु वाक्यस्य वक्तृदोषप्रवृत्ताप्रामाण्य- शङ्कानिरासाय ब्रह्मत्वपौरुषेयवेदान्तलक्ष्यमखएडं सद्वाक्यार्थ एवा- तस्तल्लसकवेदान्तानां न मानान्तरापेक्षा । न च वाच्यार्थसम्बन्धित्वेन मानान्तराधिगति विना लक्षणापि न संभवतीति वाच्यम् । कि वाच्यार्थसम्बन्धित्वेन मानान्तराधिगतिर्लक्षणासहकारित्वेनापेक्ष्यते, उत लक्ष्यपदार्थस्य मुग्धतापरिहाराय । नाद्यः वाच्यार्थसम्बन्ध- मात्रस्यैव तदपेक्षितत्वात्। न द्वितीयः ब्रह्मणः स्वयंप्रकाशस्य मानान्तर- धिगति विनापि मुग्धतापरिहारादतः कथमपि वेदान्तानां मानान्त- रापेक्षाभावाद्ब्रह्मणि कथमप्रामाण्यमित्याशङ्कय भवेदेतदेवं वाक्यस्य यद्यखण्डार्थत्वं स्यात्तदेव न संभवति तस्य लोकवेदयोरप्रसिद्धत्वात्। न च सोयमित्यादौ तत्प्रसिद्धिरिति वाच्यम् । तत्रापि तदसिद्ध- रित्याह- नाखण्डवस्तुविषया वचसः प्रवृत्ति- लोकेऽपि दृष्टिपथमापतिता कदाचित् । नानापदार्थघटनाविषयत्वहेतो दंरेत्यता श्रुतिशिरोवचनेषु तस्याः ॥ १०३ ॥ नाखण्डेति । एकप्रातिपदिकार्थमात्रविषयेत्यर्थः । लोके सोयमि- त्यादिलौकिकवाक्ये अपि शब्दादन्यत्र वेदेपीत्यर्थः । अथवा विवक्षा- धीनपौरुषयवाक्येपि तन्न दृष्टं किमु वक्तव्यमपौरुषेयेवेद इत्यर्थः । दृष्टिपथमापतिता ज्ञानविषयत्वं प्राप्ता । ननु सोऽयमित्यादौ प्रकारा- न्तरेणान्धयवोधासंभवादखण्डार्थत्वं वक्तव्यमित्याशङ्कयासंभवोऽ- सिद्धः तदेतत्कालविशिष्टयोरभेदोपपत्तेरित्यभिप्रेत्य वाक्यार्थलक्षणमाह नानापदार्थघटनाविषयत्वहतोरिति । घटना संसर्गः वाक्यस्य नानापदार्थ- संसर्गविषयत्वादेकपदार्थमात्रविषयत्वमनुपपन्नमित्यर्थः । लोकेऽ भावेपि वेदे तत्कि न स्या त्तत्राह-दूर इति । तस्या अखण्डतायाः
प्रथमोऽध्यायः।
श्रुतिशिरोवचनेष्वखण्डार्थाभिधेयता। दूरेत्यता दूरेगतता दूरेगतिः
दूरविनिर्मुक्तत्यर्थः । वेदस्य लोकनिर्णीतार्थकत्वात्तदभावे वेदे तत्कथ-
नमपि न भवतीति भावः ॥ १०३ ॥
ननु वेदस्य न सर्वात्मना लोकसिद्धार्थप्रतिपादकत्वं तथात्वे
पराभिमतस्य नियोगस्यापि शब्दार्थत्वाभावप्रसङ्गादित्याशङ्कय न
केवलं वाक्यस्य लोकेऽखण्डार्थत्वादर्शनादत्र तं निराकुर्मः किन्तु
युक्तिवाधितत्वादपीति वक्तुं शब्दस्य स्वार्थबोधनप्रकारं दर्शयति-
श्रादाय मुख्यगुणलाक्षणिकप्रवृत्ती-
रथै समर्पयति शब्द इति प्रसिद्धम् ।
प्रास्वेष नान्यतमयाऽपि वदत्यखण्डम्
शब्दान्तरात्तविषयाधिकार्थवृनेः॥१०४॥
श्रादायेति । लोके हि माणवकमध्यापयाग्निर्माणवको गङ्गायां घोष
इत्येवमादिरूपशब्दः मुख्यगुणलाक्षणिकप्रवृत्तीमुख्यामभिधानरूपा
गौणी लक्षणावृत्ति वा प्रादाय स्वार्थ समर्पयति बोधयतीति प्रसिद्ध-
मिति सम्बन्धः । अतो वेदान्तोप्यासु मध्येऽन्यतमा वृत्तिमादायैव
बोधयेदित्यर्थः । किमतो यद्येवं तत्राह - श्रास्विति । एष वेदान्तः श्रासु
वृत्तिषु मध्येऽन्यतमयाप्येकयापि वृत्त्याऽखण्डमर्थ न वदेत्तत्र हेतुः
शब्दान्तरेति । तत्त्वमादिवाक्ये प्रयुक्ततत्त्वंशब्दयोर्मध्ये ऽन्यतरशब्दस्या-
न्यतरशब्दप्रतिपादितादर्थादधिकार्थवृत्तित्वप्रसङ्गादित्यर्थः । पदानामे-
कपदार्थमात्रवृतौ ह्यखण्डार्थत्वं न च सा सम्भवति । शब्दस्य हि
मुख्यवृत्त्यार्थबोधकत्वे एकार्थवृतित्वं पदानां स्पष्टमनुपपन्नम् । गौण-
लाक्षणिकवृतिस्वीकारेप्यन्यतरपदवाच्या.लक्ष्याद्वाऽधिकयोर्लक्ष्यमा-
रणगुणान्यतरपदवाच्यार्थयोः सत्त्वात् न वाक्यस्यैकपदार्थमात्रवृत्तित्व-
मिति भावः ॥ १०४॥
१२२ सटीक संक्षेपशारीरके- नन्वस्तु मुख्यगुणवृत्त्या बोधकत्वे त्वदुक्तो दोषः लक्षणापक्षे तु न दोषः, पदद्वयेपि लक्षणाङ्गीकारात्, न च पदद्वयलक्षणासंप्रतिपन्नेति वाच्यम् । विषं भुक्ष्वेत्यादिलौकिकवाक्येपि तत्सिद्धेरिति चेत्तत्र किं तत्त्वंपदद्वयमपि विषभुक्ष्वेति पदद्वयवदन्यमन्यमर्थ लक्षयति उतैक मेव-नाद्यः पूर्वोक्तदोषानतिवृत्तेरित्यभिप्रेत्य द्वितीयं दूषयति- प्राधिक्यमुत्सृजति शब्दगणो निजेऽर्थे शब्दान्तरात्तविषयादिति मन्यमानाः। वाक्यत्वमेव पदजातगतं विहन्यु- न यस्ति हस्तकरशब्दगतं तदेषाम् ॥१०॥ श्राधिक्यमिति । शब्दगणोऽनेकपदात्मक वाक्यं निजेऽर्थे वाक्याथै श- ब्दान्तरात्तविषयात्स्वावयवभूतपदान्तरप्रतिपादितादादाधिक्यमुत्सृ- जतीति मन्यमाना वादिनः पदजातगतं वाक्यत्वमेव विहन्युः परित्य- जेयुः । ननु किमिति विहन्युः एकार्थत्वेपि पदानामाकाङ्क्षादिमत्पद- कदम्बकत्वेन वाक्यत्वोपपत्तेरित्याशङ्कयार्थभेदाभावे पदानां पर्याय- त्वादाकाङ्क्षादेरभावाद्वाक्यत्वानुपपत्तिः वाक्य वैयर्थ्य चेत्यभिप्रेत्य प्रसिद्ध दृष्टान्तमाह- नास्तीति । एषां वादिनां पर्यायत्वादाकाङ् क्षाहस्तकरपाण्यादिसमुदितशब्दगतं तद्वाक्यत्वं नास्ति हीति सम्बन्धः ॥१०५॥ ननु पदानां लक्षणया एकार्थत्वेऽपि न पर्यायत्वं वाच्यार्थस्य भिन्नत्वान्नापि वाक्यवैयर्थ्य तस्य पदादनतिरिक्तत्वेपि प्रमितिजनक- त्वेनार्थवत्त्वात्पदस्य चाप्रमाणस्य तदनुपपत्तेरित्याशङ्कय वेदान्तानां ब्रह्मविषयप्रमितिजनकत्वाङ्गीकारेऽपसिद्धान्तप्रसङ्ग इत्याह- किञ्च स्वयंप्रभमलुप्तचिदेकरूपं मर्व प्रमाणविषयावृहिरभ्युपेत्य ।
प्रथमोऽध्यायः। १२३ प्रात्मानमात्मनि च शास्त्रमुदाहरन्तः सिद्धान्तमभ्युपगतं परिपीडयन्ति ॥ १०६ ॥ - किच स्वयंप्रभमिति। स्वयंप्रकाशमित्यर्थः। तत्र हेतुः अलुप्तचिदंकरूपमिति । अनुदितानस्तमितचैतन्यमात्रस्वरूपमित्यर्थः । अतो न ब्रह्मस्वरूप- सिद्धौ मानान्तरापेक्षेत्याह-सर्वप्रमाणेति । बहिरन्यदित्यर्थः । भवदभ्यु- पगमोपि तथैवेत्याह-अभ्युपेत्येति । ततः किमित्यत श्राह-आत्मनि चेति । अविषये अात्मनि शास्त्रं वेदान्तं प्रमाणत्वेनोदाहरन्तो वेदान्तिनोभ्यु- पगतमात्मनोऽविषयत्वलक्षणं सिद्धान्तं परिपीडयन्ति । ब्रह्मविषय- प्रमिति जनयन्नेव हि वेदान्तस्तत्र प्रमाणं भवति । तथा च ब्रह्मणो विषयत्वमभ्युपगतं गतमित्यर्थः ॥ १०६ ॥ BAN - न केवलमपसिद्धान्तः प्रमाणप्रवृत्तिवैफल्यं चेत्याह सर्वत्र वस्तुषु जडेष्वजडप्रकाशं कुर्वत्प्रमाणमिति सम्प्रतिपन्नमेतत् । ब्रह्मात्मवस्त्वजडबोधवपुः कुतोऽस्मि- न्वेदान्तवाक्यजनिताऽजडसंविदन्या॥१०७॥ सर्वोति । अत्र यद्यपि नैयायिकादीनां प्रमाणफलं स्वयंप्रकाश- मिति न सम्प्रतिपत्तिस्तथापि तेषामपि विषयप्रकाशसत्त्वात्तथाभ्यु- पेयमिति भावः । अस्तु तर्हि ब्रह्मात्मविषया तथारूपा संविदित्यत्राह- ब्रह्मात्मवस्त्वजडबोधवपुरिति । श्रभ्युगतमितिशेषः । एतञ्च तद्विषयज्ञानासंभवे हेतुः। अस्तु स्वयंप्रकाशं ज्ञानं प्रमाणफलं ब्रह्म च स्वयंप्रकाशं ततः किं तत्राह-कुतोऽस्मिन्निति । श्रात्मनि विषये वेदान्तवाक्यजन्या स्वस्माद- न्याऽजडसंवित्कुतः सम्भवति न कुतोपीत्यर्थः । प्रमाणं हि नादृष्टार्थ प्रमितिमुत्पादयति किन्तु स्वविषयप्रकाशार्थ स च प्रकाशो ब्रह्मणः । ।
सटीके संक्षेपशारीरके- स्वमहिम्नैव सिद्ध इति तद्विषयप्रकाशो व्यर्थः ब्रह्मणो दृश्यत्वापाता- वेत्यर्थः ॥ १०७॥ ननु न कुत्रापि मानस्याजडप्रकाशहेतुत्वमजडप्रकाशस्यात्मरूपतया नित्यत्वादात्मातिरिक्तता जडप्रकाशे प्रमाणाभावात्किन्तु वृत्तिप्रकाश- हेतुत्वमेव तच्च वेदान्तानां स्वप्रकाशे ब्रह्मणि सम्भवति तस्यास्माभि- रपि वृत्तिवेद्यत्वाङ्गीकारादित्याशङ्कयात्रापि प्रयोजनाभावस्तदवस्थ इत्यभिप्रेत्य वेदान्तानां परस्परान्वय एव न सिद्धयेत् गामानयेत्यादि- वाक्ये गवादिपदानां क्रियापेक्षितकर्मकरणकर्तृसमर्पकतयान्यदर्शना- त्तथैव वक्तव्यश्च समप्रधानानामन्वयायोगाक्रियाया एव च साध्यतया प्राधान्यात् । न चात्र तत्त्वमादिवाक्येषु क्रियास्ति । यद्यप्यस्यस्मीति क्रियापदं श्रूयते तदपि न भवन्मते क्रियापरमखण्डार्थत्वभङ्गप्रसङ्गा- त्तस्माद्वेदान्तस्य वाक्यत्वाभावान वृत्तिलक्षणप्रमितिजनकत्वमपीत्य- भिप्रेत्याह- किं च क्रियापदमपेक्ष्य पदानि वाक्य- भावेन सम्यगिह संगतिमाप्नुवन्ति । नात्र क्रियापदमपेक्षितमामनन्ति वाक्यं कुतो भवति वेदशिरस्तदानीम् ॥१०८॥ किंच क्रियापदमिति । अत्र तत्त्वमादिवाक्येऽपेक्षितमपेक्षितक्रि- रूपार्थम् ॥ १०८॥ ननु माभूद् वाक्यभावः पदानि सत्येव स्वार्थमवबोधयन्त्वि- त्याशङ्कय किं लोकेप्येवमुत वेदे एव नाद्य इत्याह- नापूर्वमर्थमुपलम्भयितुं पदानां सामर्थ्यमस्ति परिहृत्य तु वाक्यभावम् । DAANAM प्रथमोऽध्यायः । १२५ स्वार्थस्मृतिं हि जनयन्ति पदानि लोके विज्ञातसंगतितया न तु कार्यमन्यत् ॥१०॥ । नापूर्वमिति । मानान्तरेण ज्ञातमित्यर्थः। उपलम्भयितुं बोधयितुं पदानां पदत्वेनापूर्वार्थप्रत्यायकत्वाभावे हेतुमाह-स्वार्थस्मृतिमिति । हि शब्दो हेतौ यस्माल्लोके पदानि विज्ञातसंगतिकतया स्वार्थेन गृहीत- सम्बन्धकतया स्वार्थस्मृतिमेव जनयन्ति न त्वन्यत्कार्य तस्माना- पूर्वमिति सम्बन्धः । अथवा पदानां बोधकत्वाभावे किं वैयर्थ्यमेव नेत्याह - स्वार्थस्मृतिमिति । तर्हि वाक्यार्थमपि स्मारयन्तु न सम्बन्धा- वगमाभावादित्याह-विज्ञात संगतितयेति । अयम्भावः । देवदत्त दण्डेन गामा- नयेति वाक्ये हि देवदत्त कर्तृकदण्डकरणकगोकर्मकानयनं प्रतीयते । न च तादृशानयनं मानान्तरेण ज्ञातुं शक्यते तस्य वाक्यश्रवणकाले- ऽसत्वेन प्रत्यक्षादिना नहीतुमशक्यत्वान्नापि प्रत्येकं पदैरेव ज्ञातुं शक्यते । तेषां पदार्थमात्रे विज्ञातसङ्गतिकतया स्वार्थमात्रस्मारकत्वा- त्तस्य पूर्वमनुपस्थिततया तत्र सम्बन्धग्रहणाभावात्सम्बन्धग्रहणं विना पदस्य स्वार्थप्रतिपादकत्वायोगाच, पदान्तरवैयाञ्च । तस्माल्लोके वाक्यभावेनैव पदानि वाक्यार्थमवबोधयन्तीति वक्तव्य- मिति ॥ १०६॥ - द्वितीयं दूषयति- हित्वा न वाक्यपदते प्रत्तिपत्तिहेतु- वेदो भवेदिति कथंचन वक्तुमीशः। कश्चित्कदाचिदपि तत्र कुतः श्रुतीनां प्रामाण्यमात्मनि भवेदिति वर्णयन्ति ॥ ११०॥ हित्येति । वाक्येतिभावप्रधानो निर्देशः वाक्यता पदतेत्यर्थः ।
१२६ सटोके संक्षेपशारोरके- । । । पदत्वं चात्र महावाक्यावयवावान्तरवाक्यत्वं न तु वर्णसमुदायात्म- कपदत्वं तस्यात्रानुपस्थितेः । वाफ्यभावस्यैवाक्षिप्यमाणत्वाद्यथा पद- भावं विना वर्णानां न बोधकत्वं तथा वाक्यभावं विनेति दृष्टान्तार्थ वा पदग्रहणं वेदस्यापि वाक्यभावेनैवार्थबोधकत्वं तदर्थापूर्वत्वस्या- त्रापि तुल्यत्वादिति भावः । ननु यत्र मुख्यार्थयोः संसों वाक्यार्थः तत्रैवं भवतु यत्र तु वेदो लक्षणया स्वार्थमवबोधयति तत्र पदं सदेवा- पूर्वार्थमवगमयिष्यति यथार्थवादपदानि प्राशस्त्यमिति तत्राह- कथञ्चनेति । मुख्यया वृत्त्या लक्षणया वेत्यर्थः । कथञ्चन प्रतिपत्तिहेतु- रिति सम्बन्धः । तत्र हि सहश्रुतनिखिलपदानां सम्भूयकारित्व- व्युत्पत्त्यनुरोधेन विधिनान्विताभिधानार्थं पदस्याप्यपूर्वप्रशंसापरत्वं कल्प्यते, न चात्र कल्पक किञ्चिदस्तीति भावः । ननु वेदस्य वाक्य- स्वाभावेपि वेदाभिव्यक्तस्फोट एवार्थमवगमयिष्यति तत्राह-तनोति । एवं वाक्यत्वाभावे सतीत्यर्थः । कुतो वर्णनीयं न कुतोपि वर्णयितुं शक्यत इत्यर्थः । न तावत् स्फोटो नाम वर्णतत्समुदायपदतत्समुदाय- वाक्यव्यतिरेकेणानुभूयते । नाप्याप्रतीत्यनुपपत्या कल्प्यते पदवा- क्याभ्यामेव तदुपपत्तेः । न च क्षणिकाभिव्यक्तिविशिष्टवर्णादीनां समूहाभावात्पदत्वाद्यनुपपत्त्या वाचकत्वमनुपपन्नमिति वाच्यम् । एकबुद्धिविषयतया बौद्धसमूहोपपत्तेः । स्फोटवादिनाप्ययं समूहोऽ गोकर्त्तव्य एव समूहीभूतवर्णाविभक्तस्यैव स्फोटस्यार्थप्रत्यायकत्वादे- कैकस्माद्वर्णात्पदाद्वा स्फोटाभिव्यक्तौ वर्णान्तरपदान्तरवैयर्थ्यप्रस- ङ्गात् । नन्वभ्यासानुरोधेन क्रमेण रत्नतत्त्वाभिव्यक्तिवत्तत्तद्वर्णैः पदैर्वा क्रमेण स्फोटोभिव्यज्यत इति चेन्न निरवयवस्फोटस्य क्रमेणाभिव्यक्ति- कल्पनानुपपत्तेः विषयविशेषाभावात्प्रथमचरमाभिव्यक्त्योरविशेषप्रस ङ्गात् । किञ्च वर्णपदादीनां समूहमनपेक्ष्य स्फोटाभिव्यक्तौ विलम्बे- नोञ्चारणस्थलेपि स्फोटाभिव्यक्तिप्रसङ्गात् । नन्वविलम्बेनोञ्चारण- मप्यपेक्ष्यत इति चेत्, न तावदिदं सेतुदर्शनवदृष्टार्थ सत् स्फोटमभि- प्रथमोऽध्यायः । व्यायति । एकज्ञानविषयतायोग्यतासम्पादनं तु भविष्यति । ननु वर्णानां वाचकत्वे राजा जारेतिप्रयोगभेदेऽर्थभेदो न स्यादुभयत्रापि वर्णस्यैकत्वादिति चेन्न। विलक्षणानुपूर्वीविशिष्टेषु वर्णेषु तदुपपत्तेः । क्रमविशिष्टेवेव वर्णेषु वाचकत्वशक्तिकल्पनात् । एतच्च त्वयाप्यभ्युपेयम् अन्यथा-राजाजारेत्यत्र क्रमभेदं विना वर्णविशेषाभावात्तदभिव्यक्त- स्फोटेपि विशेषाभावादाप्रत्ययविशेषानुपपत्तेः । तस्मान्न स्फोटः प्रामाणिक इति ॥ ११० ॥ ननु नायमस्ति नियमः क्रियानिमित्त एव पदानामन्वय इति प्रचुरप्रकाशः सविता पृथुतरभारविनम्रकुसुमस्तबकविकासि वन- मिति लोके वषट्कर्तुः प्रथमभक्ष इति वेदे मतभेदेनार्थवादानां च क्रियां विनापि पदानामन्वयदर्शनादिति चेदस्त्वेवं तथापि सकलमानान्तरा- गोचरे ब्रह्मणि व्युत्पत्त्यभावादत्यत्ताप्रसिद्ध तदयोगादव्युत्पन्नाः शब्दा: कथमात्मानमवगमयेयुः। अथैतदोषपरिजिहीर्षया ब्रह्मण्यपि माना. न्तरं कल्पयसि तर्हि वेदान्तानामनुवादकत्वप्रसङ्ग इत्यभिप्रेत्याह- किं च प्रमान्तरमिहाभ्युपयन्प्रतीचि वेदान्तवाक्यमनुवादकमभ्युपेयात् । मानान्तरं यदि च नेच्छति शब्दशक्त- स्तत्र ग्रहः कथमिति प्रतिपादनीयम् ॥१११ ॥ किञ्चेति । प्रमान्तरं प्रमाणान्तरमित्यर्थः । अभ्युपयनङ्गीकुर्वनि- त्यर्थः । तत्र ब्रह्मणि यदि मानान्तरं च नेच्छति शब्दशक्तर्ग्रहः कथ- मिति प्रतिपादनीयमिति सम्बन्धः ॥ १११॥ ननु पदवाच्यार्थ एव व्युत्पत्त्यपेक्षा न लक्ष्ये लक्ष्यं च ब्रह्म वाक्यार्थः, अतः कथं व्युत्पत्त्यभावेनाप्रामाण्यमित्याशवयैवमपि न ब्रह्मणि प्रामाण्यं सम्भवति, वेदान्तानामपि हि फल वापरत्वं वा- सटीके संक्षेपशारीरके- च्यम् अन्यथा अध्ययनविधिव्यकोपप्रसङ्गात्फलं चेष्टानिष्टप्राप्तिपरिहा- रात्मकं ज्योतिष्टोमादि ब्रह्महत्यादि प्रवृत्तिनिवृत्तिभ्यां साधनीयम् । न च ब्रह्म तदन्यतरगोचरो भवति । तस्याहेयानुपादेयस्वरूपत्वात्ततश्च निष्प्रयोजनं ब्रह्मति न तत्प्रमाणं वेदान्त इत्याह-- किंच प्रवृत्तिविनिवृत्तिविहीन वस्तु तत्वप्रतीतिजननान्न च किंचिदस्ति । पुंसः प्रयोजनमतोऽपि न तत्र मानं वेदान्तवाक्यमिति युक्तिमदुच्यमानम् ॥११२॥ किञ्च प्रवृत्तीति । प्रवृत्तिनिवृत्तिभ्यां विहीनं तदयोग्यं यद्वस्तुतत्त्वं ब्रह्म तद्विषयणी या प्रतीतिस्तजननात्प्रवृत्तिनिवृत्तिहीना तदजनिका या वस्तुतत्त्वप्रतीतिरिति वा । अतोपि निष्प्रयोजनवत्वादपीत्यर्थः । निष्प्रयोजनस्यापि क्रियाशेषार्थत्वेन प्रामाण्यमस्ति नचात्र तदद्वितीय ब्रह्मणस्तदयोग्यत्वादित्येतदपि शब्दः सूचयति तत्र ब्रह्मणि । न च प्रामाण्यस्य प्रयोजनमनङ्गमुपेक्षाज्ञानस्यापि प्रामाण्यदर्शनादिति वाच्यम् । अन्यत्र नियमाभावेपि शब्दे तन्नियमादन्यथा अध्ययन- विधिव्याकोपस्योक्तत्वात्प्रयोजनस्य तात्पर्यलिङ्गत्वाच्च ॥ ११२ ॥ ननु यद्वस्तु स्वतोऽपुरुषार्थः तद्विषयवाक्यस्यैव स्वविषयप्रवृत्ति- निवृत्तिद्वारा फलपरत्वं वक्तव्यं ब्रह्म तु स्वत एव निरस्तनिखिलानर्थ- निरतिशयानन्दरूपमिति कथं तद्वोधकवाक्यस्याप्रामाण्यमित्याश क्यैवमपि ब्रह्मणः स्वप्रकाशस्याज्ञातत्वाभावादनधिगतार्थगन्तृत्वलक्ष- रणप्रामाण्यानुपपत्तेरिति प्रमाणलक्षणकथनपूर्वकमाह-- अज्ञातमर्थमवबोधयतः प्रमायां हेतुत्वमभ्युपगतं ननु वेदविद्भिः ।
प्रथमोऽध्यायः।
१२४
-
अज्ञातता च परमात्मनि दुर्निरूपा
विज्ञानमात्रवपुषीति न मानकृत्यम् ॥११३॥
अज्ञातमर्थमिति । प्रमायां हेतुत्वं प्रमाणत्वं न त्वनधिगतार्थगन्तृत्वं
प्रमाणत्वमिति सर्व नाभ्युपगम्यते । प्रमाकरणं प्रमाणमित्यपि
केषाञ्चिदङ्गीकारात्तत्राह-वेदविद्भिरिति । वार्तिककारप्रभृतिभिरित्यर्थः ।
ततः किमित्यत आह-अज्ञानता चेति । परमात्मनो शातताभावे हेतुमाह-
विज्ञानमात्रवपुषीति । श्रात्मनः स्वयंप्रकाशज्ञानात्मकत्वान्न तत्राज्ञाततेत्यर्थः ।
अज्ञातत्वराहित्यसमर्थनफलमाह-इति न मानकृत्यमिति । इति शब्दो
हेतौ यस्मादात्मनो नाज्ञातत्वं तस्मान्न मानकृत्यं न प्रामाण्य-
मित्यर्थः ॥ १३॥
ननु विज्ञानस्वरूप एवाज्ञानं वक्तव्यमशानस्वरूपस्य स्वत एव
जडतया तत्राज्ञातत्वकल्पनायां प्रयोजनाभावादित्याशङ्कयाह-
बोधस्वभावकमबुद्धमनुष्णमुष्णं
शीतस्वभावकमशीतमितीदृशानि ।
कः श्रद्दधीत पुरुषो वचनानि तस्मा-
ब्रह्माप्रबुद्धमिति वाक्यमयुक्तमाहुः ॥११४ ।।
बोधेति
अबुद्धमज्ञानविषयः बोधस्वभावस्याबुद्धत्वासंभवे
दृष्टान्तमाह-अनुष्णमिति । यथा उष्णो वहिरनुष्णः शीतं जलमशीत-
मितीदृशं वाक्यं विरुद्धार्थत्वात्कोपि न श्रद्धत्ते एवं स्वयं प्रकाश-
चैतन्यात्मा अज्ञात इति वचनं श्रद्धयं न भवतीत्यर्थः । न हि जडे
ऽज्ञानं न सम्भवतीति चैतन्ये तत्कल्पनं युक्तिमन्न हि शार्वरे तमसि
तमः कल्पनमनुचितमित्येतावता खरतरकिरणनिकरशालिनि दिन-
करेऽपि तत्संभाव्यत इति भावः ॥ ११४ ॥
१३० सटीके संक्षेपशारीरके- नन्वज्ञातस्य वस्तुनः प्रमेयत्वे ऽज्ञानमपि प्रमेयं स्यात्, नच तत्संभवति, तस्याज्ञातताभावादज्ञानोपलक्षितस्य प्रमेयत्वे धारा- वाहिकोत्तरोत्तरबुद्धरपि प्रामाण्यप्रसङ्गः, तस्य च प्रामाण्येऽन- धिगतेति विशेषणं व्यर्थ, ततः प्रमाकरणत्वमेव प्रामाण्यमिति स्यात्तच्च ब्रह्मण्यपि वेदान्तानामखण्डितमित्याशङ्कयाज्ञानं न विषय- विशेषणं न चोपलक्षणम् , किन्तुपाधिः, उपाधिर्नाम विशेष्याननुप्रवे- शित्वे सति स्वसम्बन्धिनि स्वसमयमात्रव्यावृत्तिबुद्धिजनकः, तथा चाज्ञातस्यैव प्रमेयत्वं न तु प्रमाकरणत्वं प्रमाणत्वं प्रमात्वादेरनिरूप- णादित्याह- उपाध्यभावे न भवेदुपाधि- स्तटस्थमज्ञानमुपाधिरिष्यते । प्रमाणबुडेर्न तदात्मवस्तुनि स्वयंप्रकाशे न ततोऽत्र मानधीः॥११५॥ उपाध्यभाव इति । श्रोत्रस्याकाशात्मत्वेपि कर्णशष्कुल्यभावे तद- भावदर्शनात् पशुत्वाभावे इतिहरिशब्दवाच्यत्वाभावदर्शनाञ्चोपाध्य- भावे उपहितं न भवेदित्यर्थः । ततः किं तत्राह-तटस्थमिति । अज्ञानं तटस्थं विषयाननुप्रवेशि यथा भवति तथा प्रमाणप्रवृत्तौ उपाधिरि- ध्यत इत्यर्थः । यद्यपि ताटस्थ्यमुपलक्षणेऽप्यस्ति तथाप्युक्तं विशेषणं युक्तं तदुपाधेरेवोपलक्षणस्य स्वाभावकालेपि सम्बन्धिनि व्यावृत्ति- बुद्धिजनकत्वादिति भावः । ततोपि किं तत्राह-न तदिति । स्वयं प्रकाशे अात्मनि तदुपाधिभूतमाज्ञानं न फलितमाह-न तत इति । तत उपाधेरज्ञानस्याभावादत्र ब्रह्मणि न मानजन्यधीरित्यर्थः ॥ ११५ ॥ किच प्रमातृप्रमाणादिकमात्मव्यतिरिक्तमुताव्यतिरिकमाये उभयथा व्याहति दूषणमाह- ।
प्रथमोऽध्यायः । । अद्वैतमात्मपदमाहुरनन्यमानं, द्वैतं प्रमाणमिह च प्रतिपादयन्ति । वाक्ये निजे पदविरोधमनीक्षमाणाः पाण्डित्यमप्रतिहतं प्रतिलभ्य धीराः॥११६॥ अद्वैतमात्मपदमिति । आत्मपदमात्मस्वरूपं न विद्यतेऽन्यन्मानं यस्य तदनन्यमानं स्वप्रकाशमित्यर्थः । निजे स्वकीये सजातीविजातीय स्वगतभेदरहितमात्मस्वरूपं प्रमातृप्रमाणादिकं च ततो भिन्नमात्मा चानन्यमानः तत्र च वेदान्ताः प्रमाणमिति वाक्ये पदयोरद्वैतद्वैत- पदयोरनन्यमानतद्विषयप्रमाणपदयोर्विरोधं विरुद्धार्थत्वमनीक्षमाणा अप श्यन्तः प्रतिपादयन्तीति सम्बन्धः किं प्रतिपादयन्तीति तत्राह-अद्वैत- मिल्यादि । इतिशब्दः प्रकृतप्रकारपरामर्शो पाण्डित्यमित्याधुपहासः धीराः 'कथमेवं सभायां विरुद्धार्थवचनं वक्तव्यमिति भयरहिताः ॥ ११६ ॥ द्वितीयं पक्षमनूद्य बहुधा दूषणमाह- मातृप्रमाणमिति मेयविभागभिन्नं ब्रह्मैव चेद्भवति तत्र च वर्णयामः । कूटस्थतापहतिरेकरसत्वहानिः शाक्यैश्च सन्धिरिति दूषणमन्यन्त्र ॥ ११७॥ मातृप्रमाणेति । माता प्रमाता प्रमाणं वेदान्तादिप्रमितिब्रह्मा- कारा घटाद्याकारा चान्तःकरणवृतिः प्रमेयं ब्रह्म घटादिश्च ते एव विभागाः तद्रूपेण भिन्नं चेत्सर्वस्यापि ब्रह्मपरिणामत्वात् ब्रह्मैव मात्रा- दिस्वरूपेण भिन्नं चेत्तत्र दूषणं वर्णयामः । दूषणमेवाह-कूटरथेति । ब्रह्मणः परिणामित्वे कूटस्थत्वहानिरेको दोषः । नानाकारत्वेन विज्ञानकरसत्वहानिद्वितीयो दोषः शाक्यैौद्धः सन्धिः-साम्यम्, सटोके संक्षेपशारोरके- ते ह्यालयविज्ञानं प्रमात तदेवासत्यप्रकाशनशक्तिमत्वेन विज्ञानं प्रमाणं घटाद्याकारयुक्तत्वेन प्रमेयं विषयावभासात्मना प्रमितिश्चेति मात्रादि- विभागः सर्वोपि विज्ञानमेवेति वदन्ति त्वमपि विज्ञानं ब्रह्मैव सर्व मिति ब्रूषे ततो बौद्धमतप्रवेशापत्तिः तृतीयो दोषः सत्यब्रह्मपरिणा- मत्वे प्रपञ्चस्य सत्यतया ज्ञाननिवर्त्यत्वायोगादनिर्मोक्षापत्तिरप्यन्य- दिति दूषणं वर्णयाम इति सम्बन्धः ॥ ११७ ॥ -MANO नन्वेतेषां दूषणानामनन्यतमस्यापि नात्रावकाशः, सर्वस्या- प्यज्ञानकल्पितस्य विज्ञानात्मकब्रह्मव्यतिरेकेण व्यावहारिकभेदस्यापि सत्त्वादित्याशङ्कयाह- अज्ञानकल्पितमनिर्वचनीयमिष्टं मात्रादिमानफलपर्यवसानमेतत् । इत्युच्यते यदि तदा परमात्मनोऽपि मेयत्वतो भवति कल्पितताप्रसङ्गः ॥ ११८॥ अज्ञानकल्पितमिति । मानस्य यत्फलं प्रमितिः पर्यवसानमन्तो यस्य मात्रादेस्तत्प्रमातृ श्रादिर्यस्य मानमेयस्य तत्प्रमात्रादि एतन्मान- फलपर्यवसानं प्रमात्रादि दृश्यत्वादज्ञानकल्पितमनिर्वचनीयमिष्टमित्यु- च्यते यदि तद्भवतु नाम तदा परमात्मनोपि मेयत्वात्कल्पितताप्रसङ्गः । अन्यथा दृश्यत्वहेतोय॑भिचारेण प्रपञ्चस्यापि मिथ्यात्वासिद्धिप्रसङ्ग इति भावः ॥ ११८॥ ननु दृश्यत्वं हेतुर्नात्मनि विद्यते येन तत्र व्यभिचारः स्यादात्मा ह्यप्रमेयः कथमदृश्यः स्यादिति स्वसिद्धान्तश्रद्धाजडं प्रत्याह ब्रह्म प्रमेयमथ नेष्टमिह प्रमाणं वेदान्तवाक्यमिति पक्षपराहतिर्वः ।
प्रथमोऽध्यायः। न ह्यप्रमेयमवबोधयदस्ति मानं नादाह्यदाहक इति प्रथितः कृशानुः ॥११६ ॥ ब्रह्मेति । अथ यदि ब्रह्म प्रमेयं नेष्टं तर्हि इहाप्रमेये ब्रह्मणि वेदान्तवाक्यं प्रमाणमिति युष्माकं सिद्धान्तहानिः । नन्वप्रमेयोपि वेदान्तः किमिति प्रमाणं न भवेत्तत्राह--न हीति । यतोऽप्रमेयं प्रमा- विषयत्वायोग्यं बोधयत्तद्विषयप्रमिति जनयन्मानं नास्ति ततो वः पक्षपराहतिरिति सम्बन्धः । एतादृशोर्थोऽसंभवीत्यत्र दृष्टान्तमाह नादाह्यदाहक इति । कृशानुर्वह्निरदाह्यस्य गगनादेर्दाहक इति न प्रथितः प्रसिद्धो न भवतीत्यर्थः ॥ ११६ ॥ estane तिष्ठतु तावदात्मनो मेयत्वेन कल्पितत्वापादनं प्रमात्रादिविभा- गाङ्गीकार कौटस्थहान्यादिदोषस्तदस्वथ एव । न च तस्यानिर्वच- नीयत्वाददोषः किमिदमनिर्वचनीयत्वं सदसद्विलक्षणत्वमिति चेन्न- तथ्यात्यन्ताप्रसिद्धरित्याह किंचाप्रसिडमिदमत्र जगत्त्रयेऽपि स्वाज्ञानकल्पितमनिर्वचनीयमेकम् । निःशेषतीर्थदगुदीरिततन्त्रमार्गे सिद्धे यतः सदसती सकलेऽपि तन्त्रे ॥१२०॥ किंचेति । किंचात्र जगत्त्रयेपोदं स्वाज्ञानकल्पितमनिर्वचनीय. मित्यप्रसिद्ध सदसत्त्वयोरेव प्रसिद्धत्वादित्यर्थः । ननु लोके प्रसिद्ध्य भावेपि शास्त्रीया प्रसिद्धिः क्वचिद्भविष्यतीति चेकिं वैदिकशास्त्रे उत तदितरशास्त्रे नोभयथापीत्याह-निःशेषेति । यतो निःशेषाणि तीर्थानि वेदार्थास्तानि पश्यन्तीति निःशेषतीर्थदृक् जैमिनिस्तदुदोरितो यस्तन्त्रमार्गः वेदार्थप्राप्त्युपायशास्त्रं तस्मिन्पूर्वमीमांसायामित्यर्थः ।
१३४
सटीके संक्षेपशारीरके-
सकले तन्त्रेपि वैदिकेतरशास्त्रेपि सदसती एव सिद्ध ततोऽप्रसिद्ध-
मिति सम्बन्धः ॥ १२० ॥
ननु न ते मायावादिनः वयं तु मायावादिनः ततोऽन्यत्राप्रसि-
द्धमप्यज्ञानवलादस्मन्मत एवानिर्वचनीयं सिध्यति न ह्यस्ति नियमः
लोकप्रसिद्धस्तन्त्रान्तरप्रसिद्ध एवार्थस्तन्त्रान्तरे व्युत्पादनीय इति
तत्राह-
अज्ञानमप्यसदभावतया प्रसिडे-
तप्रसूतिकृदतो न तदभ्युपेयम् ।
नासत्कदाचिदपि सज्जनने समर्थ
बन्ध्यासुता न खलु पुत्रशतं प्रसूते ॥१२१॥
अज्ञानमपीति । अज्ञानमसद्विलक्षणमभाव । अज्ञानस्याभावत्वेऽनु-
भवं हेतुमाह-अभावतयेति । न जानामीति ज्ञानाभावत्वेनानुभूयमान-
स्वादित्यर्थः । ततः किं तत्राह-द्वैतेति। यतोऽज्ञानं ज्ञानाभावः ।
अतस्तदज्ञानं द्वैतप्रसिद्धिकृतद्वैतोपादानं न भवतीत्यर्थः । नन्वभाव-
स्यापि तत्त्वं किं न स्यादित्याशङ्कयाभावस्य भावतादात्म्यानुपपत्ते-
रित्याह-नासदिति । अपत्यसामग्यत्यन्ताभाववती वन्ध्या तथाचा-
ज्ञानस्यैव भावरूपस्याभावान्न ततोऽनिर्वचनीयसिद्धिरित्यर्थः ॥१२॥
किञ्च वेदान्तोपि ब्रह्मण्यपरोक्षां धियमुत्पादयति उत परोक्षा-
नाद्य इत्याह-
वाक्यप्रसूतमतिरिन्द्रियजन्यधीव-
नार्थापरोक्ष्यजननी भवितुं समर्था ।
तेनास्तु वाक्यजनितात्मपरोचबुद्धि-
भ्रान्तिः सदाऽजडतयाऽनुभवेऽपरोचे ॥१२२॥
प्रथमोऽध्यायः। १३५ वाक्यप्रसूतेति । इन्द्रियजन्यधीवदितिव्यतिरेकोदाहरणं यथेन्द्रि यजन्या धीरर्थमपरोक्षतयाऽभिव्यञ्जयति तथा तत्त्वमादिजन्या मति- रापरोक्ष्यजननी भवितुमर्थस्यापरोक्ष्य प्रमात्रभेदेनाभिव्यक्ति जनयितुं न समर्थेत्यर्थः । इन्द्रियस्यैवापरोक्षधीजनकत्वनियमादित्यर्थः । नन्वपरोक्षानुभवरूपे आत्मनि यदि वेदान्तजन्यज्ञानमपरोक्षं न भवे- तीप्रामाण्यं स्यादित्याशङ्कय का नः क्षतिरित्याह-तेनेति । येन हेतुना वाक्यस्य नापरोक्षधीजनसामर्थ्यन्तेनानुभवरूपे सदाऽजडतया स्वयंप्रकाशतया परोक्षे वाक्यजनितात्मपरोक्षवुद्धिान्तिरस्त्विति सम्बन्धः॥१२२॥ नन्वात्मवस्तुनो नित्यापरोक्षत्वात्तद्विषयं वेदान्तवाक्यजनितं ज्ञानमपीन्द्रियजन्यधीवदपरोक्षमेव भवेत् । न ह्ययमस्ति नियमः, इन्द्रि- यमेवापरोक्षां धियमुत्पादयतीति परोक्षज्ञानवत्प्रत्यक्षज्ञानस्यापि विजातीयानेककारणजन्यत्वोपपत्तः । न चेन्द्रियद्वारानिसृतान्तः- करणवृत्त्यैव विषयस्य प्रमात्रभेदेनाभिव्यक्तिरिति वाच्यम् । ब्रह्मणः प्रमातृखरूपतया विषयस्य वृत्ति विनाप्यत्यन्तसन्निहितत्वादतो न वेदान्ताप्रामाण्यमित्याशङ्कां निराकुर्वन्द्वितीयं दूषयति- नित्यापरोनमपि वस्तु परोक्षरूपं वेदान्तवाक्यमवबोधयति स्वभावात् । प्रामाण्यमत्र कथमस्य वदोपपन्नं न ह्यन्यदन्यदिति बोधयतः प्रमात्वम् ॥१२३ ॥ । । नित्यापरोक्षमपीति । परोक्षरूपमिति । परोक्षरूपं यथा भवति तथेत्यर्थः । स्वभावाद्वाक्यस्वभावात्तथा च यद्यपि ब्रह्मात्मवस्तुनित्यापरोक्षमेव तथापि तत्त्वमादिवाक्यं ज्योतिष्टोमादिवाक्यवत्स्वभावात्परोक्षमेव बोधयतीत्यर्थः। ततश्चाप्रामाण्यं तदवस्थमित्याह- प्रामाण्यमिति । अत्र सटीक संक्षेपशारीरके- । । ब्रह्मण्यस्य वेदान्तस्यापरोक्षं ब्रह्म परोक्षं बोधयतः प्रामाण्यं कथमुपपन्न- मिति वद न कथमप्युपपन्नम् । तत्र हेतुः-न ह्यन्यदन्यदिति । हि यस्मादन्य- दिति अन्यप्रकारेणेत्यर्थः । रजु सर्पमिति बोधयतो वाक्यस्येवापरोक्षं ब्रह्म परोक्षमिति बोधयतो न प्रामाण्यमित्यर्थः । नन्वयं हेतुरसिद्धः । न हि वेदान्ता ह्यपरोक्षं ब्रह्म परोक्षमिति बोधयन्ति । किं तहपरोक्षमित्येव तच ज्ञानं प्रमाणस्वभावात्परोक्षं भवत्कथमप्रमाणं स्यादिति चेदेषा हि ब्रह्मवादिनां स्थितिः ज्ञानस्य न स्वतोऽपारोक्ष्यं सर्वेषामपि शाना- नामपरोक्षत्वप्रसङ्गात् । न चेन्द्रियजन्यत्वमपरोक्षत्वमनुमित्यादेरपि मनोजन्यतयाऽपरोक्षत्वप्रसङ्गात्। नापि विषयजन्यत्वमपरोक्षत्वं सर्वोत्प त्तिमन्निमित्तादृष्टादिविषयानुमितौ तत्प्रसङ्गात् । नन्विन्द्रियत्वेनेन्द्रिय- जन्यत्वं विषयत्वेन विषयजन्यत्वं वा परोक्षत्वमिति चेन-ज्ञानेऽनु- गतव्यावृत्ततजन्यतावच्छेदकज्ञानं विना तत्त्वेन तजन्यत्वस्यानुभवि- तुमशक्यत्वादवच्छेदकधर्मसद्भावे वा स एवापरोक्षत्वमस्तु । अपरो- क्षत्वस्याप्रत्यक्षत्वप्रसङ्गाञ्च । नापि ज्ञानाकरणकं ज्ञानत्वमपरोक्षत्वमी- श्वरज्ञानकरणके जन्यप्रत्यक्षमात्रेऽव्याप्तेः । नन्वीश्वरज्ञानं करणं न भवतीति चेत्किमेतदभ्युपगममात्रमुत करणलक्षणविरहप्रयुक्तं नाद्यः । तस्य निर्बीजत्वात् । न द्वितीयः । व्यापारवद्धि कारणं करणं व्यापा- रश्च यजनयित्वैव यजनयति स तस्य ईश्वरज्ञानं च विशेषणज्ञाना- दिकं जनयित्वैव विशिष्टज्ञानं जनयितुमीष्टे न त्वन्यथा तददर्शनात्का. रणं विना कार्यस्य भवत आकस्मिकत्वप्रसङ्गाच्च । न च जन्यज्ञाना- करणकज्ञानत्वं प्रत्यक्षत्वं प्रत्यभिज्ञायामव्याप्तेः । तत्रापि पूर्वानुभवस्य विशेषणज्ञानस्य संस्कारद्वारस्य करणत्वात् । ननु तत्र स्मृतिरेव तत्ताविषयिणी विशेषणज्ञानत्वेन कारणमिति चेन्न-मध्ये स्मृति- कल्पने प्रमाणाभावात्कल्पनागौरवाच्च । ननु विशिष्टज्ञानस्याव्यवहित- विशेषणज्ञानजन्यत्वनियमान्मध्यस्मृतिः कल्पत इति गौरवन्न दोषायेति चेन स्मृतिवद्वयवहितविशेषणज्ञानजन्यत्वस्योपपत्तेः। नन्वनुभवे यनि- प्रथमोऽध्यायः। यमोनुमित्यादौ दृष्ट इति चेन्न-तत्रापि लिङ्गज्ञानव्याप्तिसंस्काराभ्या- मेव तदुपपत्तेः। संस्कारव्यापारकपूर्वानुभवस्य व्यवहितत्वाच्च। अन्यथा स्मृति प्रत्यपि तस्य व्यवहितत्वेन करणत्वानुपपत्तेः । ननु प्रत्य- भिज्ञादेः संस्कारजन्यत्वे स्मृतित्वं स्यादिति चेन्न-प्रमाकरणासह- कृतसंस्कारजन्यत्वस्यैव स्मृतित्वात् । नचैवं सति स्मृतिलक्षणगौरवं मध्ये स्मृतितत्कारणत्वकल्पनादेतस्य लघुत्वात् । नचात्र किञ्चि- कल्प्यं विद्यमानस्यैव प्रमाकरणासाहित्यस्य प्रयोजकत्वमात्रकल्पनात् दुनिरूपज्ञानकरणिकायामनुमितावतिव्याप्तेश्च । ननु ज्ञानाजन्यज्ञानत्व- मेव प्रत्यक्षत्वं प्रत्यभिज्ञा तत्तांशे परोक्षैव न च विशिष्टप्रत्यक्षेऽव्याप्तिः तस्यापि विशेषणसन्निकर्षमात्रजन्यत्वेनाव्याप्त्यभावादिति चेन्न-अनु- मित्यादेमितिमात्रांशेष्यपरोक्षत्वानुपपत्तेः । तस्माद्विषयप्रयुक्तमेव ज्ञाने- ऽपरोक्षत्वमिति वक्तव्यम् । अव्यवहितपदार्थविषयत्वमेव विषयप्रयु: क्तत्वं परोक्षं च व्यवहितविषयमव्यवधानं च स्वतो वृत्तिद्वारा वा भवति । पटादेरिन्द्रियजन्यवृत्तिद्वाराऽत एव तस्यापरोक्ष्यममुख्यमेव धर्मादेश्च नापरोक्षत्वमिन्द्रियद्वारकवृत्त्यभावाद् ब्रह्म च वस्तुनः स्वतो निरस्तनिखिलभेदनिदानमनिर्वचनीयाविद्याशक्त्या व्यवहितवद्भवतीति। तत्र यदि वेदान्तजन्यं ज्ञानं परोक्षं भवेत्तदा ज्ञानपरोक्षत्वस्य विषय- परोक्षतानिर्वाह्यत्वाद्विषयोपि ब्रह्म व्यवहितमिति वक्तव्यं नथा च वेदान्तैर्यदि परोक्षं ब्रह्मेति परोक्षज्ञानमुत्पाद्यते तदास्पष्टमेवाप्रामाण्यं ब्रह्मणि पारोक्ष्याभावात् । न चाविद्याकल्पितं पारोक्ष्यं तत्वमादि- वाक्यं प्रतिपादयितुमर्हति । यदि चापरोक्षमित्येव परोक्षज्ञानमुप- जनयति । तदापि ज्ञानपरोक्षतानिर्वाहकतया विवक्षिततयापरोक्ष्ये ब्रह्मणि विवक्षितविषये विरुद्धाकारज्ञानजननादप्रामाण्यं तदवस्थ. मत्यन्तमव्यवहितविषयतया परोक्षत्वं चावश्यकमिति भावः ॥ १२३॥ ननु तर्हि परोक्षत्वापरोक्षत्वयोर्विषयप्रयुक्तत्वाद्वेदान्तानामप्यप- रोक्षे ब्रह्मणि अपरोक्षबुद्धिजनकत्वसंभवात् नाप्रामाण्यमिति चेत्- १३८ सटीके संक्षेपशारीरके- - भवेदेतदेवं यदि परमतमङ्गीकार्यम्, नचौषधवदेतदङ्गीकर्त्तव्यम्, न चास्मन्मतेऽपरोक्षत्वपरोक्षत्वयोर्दुर्निरूपत्वं जातिविशेषस्यैव तत्त्वात्, तस्मादव्यवहितविषयं व्यवहितविषयं वा यदीन्द्रियजन्यज्ञानं तजाति- विशेषाश्रयः सदपरोक्षम्, यत्तु लिङ्गशब्दादिजन्यं तत्परोक्षमिति ब्रह्मणो- ऽपरोक्षत्वेपि वेदान्तजन्यं तज्ज्ञानं परोक्षमेव तज्ज्ञानस्य परोक्षत्वेऽ विद्यानिवृत्त्यनुपपत्तिः, भवद्रीत्याऽप्रामाण्यं चेत्यभिप्रेत्याह- वस्त्वस्तु नित्यमपरोक्षमिदं तु वाक्यं तबस्तु वक्तुमपरोक्षमशक्तमेव । न ह्यस्ति शब्दजनिताऽत्र जगत्त्रयेपि बुद्धिः करोति खलु या विषयापरोक्ष्यम् ॥१२४॥ वस्त्वस्त्विति । अपरोक्षं वक्तुमपरोक्षं यथा भवति तथा बोधयितु- मित्यर्थः । तत्रापि प्रसिद्धमेव हेतुमाह-न ह्यस्तीति । हिः प्रसिद्धौ शब्द- जनिता सा बुद्धिर्नास्ति खलु या विषयापरोक्ष्यं करोतीति सम्बन्धः ॥ १२४॥ ननु जगति शब्दजन्यज्ञानस्यापारोक्ष्याप्रसिद्धिरसिद्धा दशमस्त्व- मसीतिवाक्यजन्यज्ञाने तत्सिद्धः । न च तत्राप्यपरोक्षज्ञानं नास्तीति वाच्यम् । अपरोक्षदशमत्वभ्रान्त्यनिवृत्तिप्रसङ्गात् । न च वाच्यं नह्य- यमस्ति नियमः अपरोक्षभ्रमस्यापरोक्षमेव विज्ञानं निवर्त्तकमिति यतो. विरुद्धपरिमाणलिङ्गजन्यज्ञानेन प्रदीपाभेदभ्रमो निवर्त्यत इति तत्रापि युक्त्यनुसंधानदशायामभिन्नत्वेन प्रत्यक्षदर्शनाद्दिङमोहस्यमार्तण्डमण्ड- लोदयादिना यथावद्दिगनुमानेप्यनिवृत्तेर्दशनाच्च । न च तत्रापीन्द्रिय- जन्यज्ञानेनापरोक्षभ्रमनिवृत्तिरस्त्विति वाच्यम्। इन्द्रियव्यापारे विद्यमा- नेपि प्राक्तस्यानुदयात् । ननु शब्दोपि सहकारीति चेन्न-स्वतन्त्रप्रमाणयो- स्तत्त्वानुपपत्तेः। अन्यथातजन्यज्ञाने शाब्दत्वचाक्षुषत्वादिसाङ्कापातात्। ।
प्रथमोऽध्यायः। ननु शब्दजन्य ज्ञानमिन्द्रियसहकारीति चेत्तद्धि विशेषणज्ञानत्वेन प्रत्यास- त्तित्वेन वेति वक्तव्यम्। प्रकारान्तरेण ज्ञानस्येन्द्रियसहकारित्वानुपपत्तेः। अस्तु-तथैवेति चेत्तर्हि दशम इत्येतावन्मात्रशब्दजन्यज्ञानसहकृताद- पीन्द्रियात्तदुत्त्पत्तिप्रसङ्गः । विशेषणशानस्य वृत्तत्त्वात् । विशेषण- ज्ञानस्याहेतुत्वाच्च । नन्वन्वयव्यतिरेकाभ्यमिन्द्रियव्यापारोप्यपेक्षते व्यासङ्गदशायां श्रूयमाणादपि वाक्यात्तदनुत्पत्तेः । त्वगिन्द्रियव्या- पारश्च देहविषयः सदास्तीति चेत्सत्यम् अत एव हि तद्दशायामिन्द्रिय- द्वारा निर्गतान्तःकरणवृत्या देहस्य प्रमात्रव्यवधानाच्छब्दाजायमान- मपरोक्षमित्युच्यते । तस्माद्वाक्यवैयर्थ्यपरिहारायानिच्छद्भिरप्यपरोक्षं ज्ञानं काक्याजायत इति स्वीकर्तव्यम् । नचैवं शाब्दत्वापरोक्षत्वयोः साङ्कर्यापातः शाब्दत्वस्यानेकन्वेनाप्युपपत्तेः । न वा साङ्कर्यमप्यस्म- न्मते दोषाय । न चापरोक्षत्वमपि जातिर्भवति ज्ञाने व्यक्तिभेदाभावा- त्कल्पितव्यक्तिभेदस्य जात्याश्रयत्वाभावस्य गगनादौ दृष्टत्वाद् व्यञ्ज- काभावाच्च । न च व्यक्तिरेव व्यञ्जिका तद्भिन्नव्यञ्जकव्यङ्गयत्वस्य- गोत्वादी दर्शनात् । न चेन्द्रियजन्यत्वं व्यञ्जक्रमपरोक्षस्यैवापरोक्ष- जातिव्य अकत्वात्तस्माद्विषयप्रयुक्तमेव ज्ञानानामपरोक्षत्वं वक्तव्यम् । तथा च न वेदान्ताप्रामाण्यम् । न चैवमपि स्वयंप्रकाशे ब्रह्मणि वेदान्तानां न कृत्यमिति वाच्यम् । संसारनिदानाज्ञानापनयनस्यैव कृत्यत्वात् । न च भावरूपमज्ञानमेव नास्तीति वाच्यम् । श्रुतिस्मृत्यो- स्तस्य प्रसिद्धत्वात् न च तत्राज्ञानस्यैवासम्भवः अज्ञानस्य जन्य- ज्ञानेनैव विरोधात् स्वयंप्रकाशेप्युपपत्तेरित्यभिप्रेत्य शङ्कते- अत्राऽऽह यद्यपि किमप्युपनेयमत्र चैतन्यवस्तुनि न सम्भवति प्रमाणैः । अस्त्येव तत्र भवभीतिनिदानभूत- मज्ञानमात्रमपनेयमनन्यमाने ॥ १२५ ।।
सटीके संक्षेपशारीरके- अनाऽऽहेति । एवं स्थिते सत्याहेत्यर्थः । मानकृत्ये विषय इति वा। अत्र चैतन्यवस्तुनि यद्यपि प्रमाणैरुपनेयमुत्पाद्यं किमपि प्रकाशाख्य किञ्चिन्मानकृत्यं नास्ति तथाप्यनन्यमाने तत्र ब्रह्मणि भवभीतिनिदा- नभूतं निखिलानर्थकारणमज्ञानमात्रमपनेयं विद्यत एवेति सम्बन्धः । अज्ञाननिवृत्तेः पुरुषार्थत्वद्योतनाय भवभीतीतिविशेषणं निवृत्तेप्यज्ञाने- ऽन्यस्मात्संसारप्रसक्तिपरिहाराय मात्रेति ॥ १२५ ॥ winni दूषयति- नैतत्प्रमाणमपनेत सतो न ताव- नैतन्नियोज्यमसतोऽप्युपधातसिध्यै । नाप्यन्यदस्ति सदसद्यदनेन हेयं तस्मात्प्रमाणमपनेतृ न कस्यचिद्धः ॥ १२६॥ नैतदिति । एतत्त्वदुक्तं न कुतः किमज्ञानं सत् उतासत् । आहोस्वि- सदसदात्मकमथवोभयविलक्षणमनिर्वचनीयम् । नाद्यः । इत्याह- अपनेतृ सतो न तावदिति । तावच्छब्दः क्रमार्थः ज्ञानं सतोपनेतृ नि- वर्तकं न सत्यस्य ज्ञाननिवर्त्यत्वानुपपत्तेः। द्वितीयं दूषयति-नैतदि- त्यादिना । एतज्ज्ञानमसतोऽप्युपघातसिद्धय निवृत्तये न नियोज्यं न व्यापारयितव्यमसतो नित्यनिवृत्तत्वात्तृतीयमसम्भवेन दूषयति- नापीति । प्रत्येक सदसद्भयामन्यत् सदसत्समुदायात्मकं यदन्यत्सदस- दात्मकमनेन ज्ञानेन हेयं तन्नास्तीति सम्बन्धः। विरुद्धयोरेकत्वानु- पपत्तेः । चतुर्थमुपसंहारव्याजेन निराकरोति- तस्मादिति । वः युष्माकं- पक्षे प्रमाणं कस्यचिदपि सत्त्वासत्त्वाभ्यां निर्वचनानहस्याप्यपनेतृ- न भवत्युभयात्मवदुभयविलक्षणस्याप्यसम्भवादित्यर्थः ॥ १२६ ॥ । ननु अज्ञानस्यानिर्वचनीयत्ववदनिर्वचनीयत्वस्याप्यनिर्वचनीय- त्वान सदसद्विलक्षणत्वं दोषायेत्याशङ्कय दूषणान्तरमाह- प्रथमोऽध्यायः। मानं न कारकमिति प्रथितं पृथिव्यां स्थाच्चक्रियावदिदमुज्झितमानभावम् । जन्यं न मानफलमित्यपि युष्मदीयाः सम्विद्रते न खलु जातु चिदक्षरेऽस्मिन् ॥१२७॥ । मानं न कारकमिति । प्रकाशातिरिक्तमात्रकार्यजनकमित्यर्थः । यन्मानं तत्कारकं न भवतीति चक्षुरादिजन्यज्ञाने प्रसिद्ध ततश्चेदं वेदान्त- जन्यं ज्ञानं स्याञ्चेद्विषयाभिव्यक्ति विनाऽविद्यानिवृत्तिरूपां क्रियां जन- येच्चेद्गमनादिक्रियावन्मानभावं त्यजेदित्यर्थः । तथा चेदमनुमानम- भिधित्सितं वेदान्तजन्यं मानं न विषयप्रकाशातिरिक्तमात्रकार्यजनक- मपरोक्षप्रमाणत्वात् घटादिप्रमाणवत् । कारकत्वस्य क्रियायाममानत्व- व्याप्तिदर्शनादित्यर्थः । अथवा-विमतं मानं न भवति । कारकत्वात् । क्रियावत् । न च हेत्वसिद्धिः । विषयाभिव्यक्तिमन्तरेणाविद्यानिवृत्ति- जनकत्वेन तत्सिद्धरित्यर्थः । प्रत्यक्षादिप्रमाणस्यापि घटादिसमवा- यविद्यानिवृत्तिमात्रफलजनकत्वेनाद्यानुमाने दृष्टान्तः साध्यविकल इत्याशङ्कयाह-जन्यमिति । जन्यमविद्यानिवृत्त्याख्यं कार्यं न घटादि- मानस्य फलं किन्तु विषयाभिव्यक्तिरेवाभिव्यक्त्या च सा भवति । अभिव्यक्ति विना तस्यानुपपत्तेः। सा च नित्यचैतन्यस्वरूपत्वाद- जन्यैव । नन्वभिव्यक्तनित्यत्वे किं प्रमाणेनेति चेदात्मानमुपालभ- स्वेत्याह- इत्यपि युष्मदीया इति । संविगते विजानते ऽतोमवद्रीत्यानुमान स्योक्तत्वात् न साध्यविकलो दृष्टान्त इति । अथवा-द्वितीयानुमाने प्रति- कूलस्तर्कोऽनेन प्रदर्श्यते । यदि वेदान्तजन्यं ज्ञानं प्रमाणं स्यात्तदाऽ- विद्यानिवृत्तिमात्रलक्षणं विषयाभिव्यक्तिव्यतिरिक्तं न जनयेत्तादृश- जन्यस्याप्रमाणफलन्वेन भवदीयैरङ्गीकृतत्वादिति । किञ्चात्मनि माने- नाविद्यानिवृत्तिलक्षणं फलमपि न सम्भवति । अविद्यानिवृत्तरा- स्माभिन्नत्वात्तद्वयतिरेकेणासत्त्वादित्याह-न खल्विति । अस्मिन्त्रात्म- - १४२ सटोके संक्षेपशारोरके- । न्यक्षरेऽव्यये सति जातुचित् कदाचिदप्यविद्यानिवृत्तिन सम्भवति खलु इति सम्बन्धः । चिदक्षर इति वा छेदः। चिद्रूपेऽक्षर इत्यर्थः । अने- नास्तु तर्हि विषयप्रकाश एवात्रापि मानकृत्यमिति शङ्का निराकृता वेदितव्या ॥ १२७॥ ननु घटादिज्ञानमप्यविद्यानिवृत्तिव्यतिरिक्तं न किञ्चित्कृत्यं सम्पादयति । न च विषयाभिव्यक्ति विना तन्निवृत्त्यनुपपत्तिः । अवि- द्यानिवृत्तिव्यतिरिक्ताऽभिव्यक्तिशब्दार्थाभावान्कथं तर्हि सा निवर्त्तत इति चेन्न-तदाकारवृत्तिप्रतिविम्बितचैतन्येन तदुपपत्तेः । तथा च प्रथमहेतौ दृष्टान्तः साध्यविकलः द्वितीयोपि हेतुरप्रयोजकः । अविद्या- निवृत्तिव्यतिरिक्तक्रियाजनकस्यैव कारकत्वादित्याशङ्कय यद्यज्ञान- स्यान्यस्य वा ऽनिर्वचनीयत्वमनुभवसिद्धं स्यात्तदा युक्तिविरुद्धमपि तत्स्वीक्रियेत न तु तदनुभूयते तथाहि किं तल्लोकेनुभूयते उत शास्त्रे नोभयथापीत्याह- नाद्यापि वेदम्यहमनिर्वचनीयभाषां सर्वप्रवादिहृदयान्यपि गाहमानः । तात्पर्यतो न च तथाविधमस्ति किञ्चि- लोके प्रसिद्धमपि यद्विषयेयमिष्टा ॥१२८॥ नाद्यापीति । विचारकौशले सन्यपीत्यर्थः। सर्वप्रचादहृदयानि सर्व- शास्त्रप्रतिपाद्यन्यायान् तात्पर्यतः सावधानेनावगाहमानो विचारयन्न- हमद्याप्यनिर्वचनीयभाषामनिर्वचनीयमितिवार्तामपि न वेद्मि कुतः पुनरनिर्वचनीयत्वाख्यमर्थमित्यर्थः। यत्पुनः पूर्वमुक्तं न हि तन्त्रान्त- रसिद्धमेव व्युत्पादनीयमिति तदनेन निराकृतम् तन्त्रान्तरेषु सिद्धार्थ- विषयन्यायानां साध्यार्थविषयन्यायानां च सिद्धत्वात्तदितरन्याया- भावादेतन्यायस्य तत्राव्युत्पादनादनिर्वचनीयत्वं नाम किञ्चिन्ना- ।
प्रथमोऽध्यायः।
स्तीति भावः । लोकेपि तं न पश्यामीत्याह-न च तथाविधमिति । अनि-
वचनीयमित्यर्थः । यद्विषयेथमनिर्वचनीयभाषेष्टा तथाविधं लोके
किञ्चिदपि प्रसिद्ध नास्तीति सम्बन्धः । यत्पुनरुक्तम् नचलोकप्रसि-
द्धिरेवोपजीव्येति तदपि न शास्त्रैकाविषयस्य लोकप्रसिद्धिविषयत्व-
नियमादिति ॥ १२८ ॥
ननु ज्ञानमज्ञानविरोधीति सकललोकवादिसम्मतं तत्र यद्यज्ञानं
सद्भवेन्न तर्हि तस्य ज्ञानेन सह विरोधो भवेदसत्त्वे च न तरामुभया-
त्मकत्वे सत्त्वांशस्यानपायात्स दोषस्तदवस्थः । तस्मादज्ञानस्य लोक-
वादिसिद्धज्ञानविरुद्धत्वनिर्वाहायैवानिर्वचनीयत्वमपि लोकवादिस-
म्मतमिति न तदप्रसिद्धिरित्याशङ्कय एवमप्यविद्यानिवृत्तिजनकत्वे
मानस्य कारकत्वप्रसङ्गः । नचायमस्ति नियमो विद्यानिवृत्तिव्यति-
रिक्तक्रियाजनकस्यैव कारकत्वमिति क्रियामात्रजनकस्यैव तत्त्वात् ।
न च ज्ञानस्य व्यवहारजनकत्वेन कारकत्वमिष्टमिति वाच्यम् । तस्या-
ज्ञाननिवृत्तिफलत्वात् । न चैवमपि संस्कारहेतुत्वं तस्यास्तीति
वाच्यम् । तस्य ज्ञाननाशजन्यत्वात् । न चाविद्यानिवृत्तरवस्तुत्वात् ।
न तद्धतुमानस्य कारकत्वमिति वाच्यम् । किमिदमवस्तुत्वमसत्वमेव
किं वा सदसद्विलक्षणत्वं नाद्यः-तस्य कार्यत्वानुपपत्तेः । नापि
द्वितीयः-सदसद्विलक्षणप्रतियोगिनिवृत्तेः सदसद्विलक्षणत्वानुप-
पत्तेः । न हि घटाभावो घटो भवति अतस्तस्या श्रात्ममात्रत्वेनैव
तद्वयतिरेकेणासत्त्वं वक्तव्यं तथा च न तन्मानफलं स्यादात्मनो
ऽजन्यत्वादित्याह-
तस्मात्प्रमाणफलमत्र निरूप्यमाणं
ब्रह्मात्मवस्तुनि न सम्भवतीह किश्चित् ।
कृत्यं विना न च निरूपयितुं प्रमाणं
वेदान्तवाक्यमिह शक्यमनर्थकत्वात् ॥१२६ ॥
१४४ सटीक संक्षेपशारीरके- तत्र मान- - तस्मादिति । यस्मादविद्यानिवृत्तिः प्रमाणजन्या न भवति । तस्मा- दत्र ब्रह्मात्मवस्तुनि प्रमाण फलं निरूप्यमाणं किञ्चिदविद्यानिवृति- विषयप्रकाशो वा न सम्भवतीति सम्बन्धः । ननु यथा लोके प्रमा- पान्तरेणाधिगतमपि प्रमाणान्तरेणावगम्यते न च कृत्यमस्ति द्विविधस्यापि फलस्य प्राथमिकमानेनैव सिद्धत्वात- द्ववेदान्तानामपि प्रयोजनं विना ब्रह्मणि प्रामाण्यं किं न स्यादित्य- शङ्कयाह- कृत्यमिति । च शब्दोऽवधारणे । कृत्यं प्रयोजनं विना इह ब्रह्मणि वेदान्तवाक्यमनर्थकत्वान्निष्प्रयोजनत्वात्प्रमाणमिति निरू- पयितुमशक्यमेवेत्यर्थः । लौकिकस्य हि प्रमाणस्य निष्प्रयोजनानु- वादित्वमात्रेणापि गतिवर्णयितुं शक्यते । न चेह तथा पुरोवादा- भावादध्ययनविधिविरोधप्रसङ्गाञ्चेति भावः॥ १२६ ॥ नम्वेवं सति वेदान्ताम्नायः किं निरर्थक एवेत्याशङ्कय तस्यापि व्युत्पत्तिवलाद्भूतोपदेशत्वाञ्च भव्यकार्यशेषतयार्थवत्त्वं वक्तुमादौ सर्वेषां पदानां लोके कार्यान्विते शक्तिग्रहणमाह-- कार्यान्वयान्वयिनि वस्तुनि शब्दशक्तिं श्रोतुः प्रवर्तकधियं परिकल्प्य वालः। चेावशात्पुनरपि प्रविभज्य भागं भागस्य वाचकमिति स्वयमेव वेत्ति ॥ १३० ॥ कार्यान्वयान्वयिनि । वालो व्युत्पित्सुः चेष्टावशान्मध्यमवृद्धस्य गवादिविषयप्रवृत्तिरूपाल्लिङ्गाद् गामानयेति वाक्यथाविणो मध्यम- वृद्धस्य प्रवर्तकधियं प्रवर्तकमिदं कार्यमिति कार्यताविषयज्ञानं तद्धतुत्वेन कार्यान्वयान्वयिनि कार्यनिरूपितसम्बन्धाश्रये शब्दशक्ति सामान्यतः इदं वाक्यमेतत्कार्यताज्ञानसमर्थमिति वाक्यस्य सामर्थ्य च परिकल्प्यानुमाय पुनः वाक्यस्य सामान्यतः कार्यान्वयाऽन्वि. S 40 प्रथमोऽध्यायः। । तेऽर्थे सामर्थ्यग्रहणानन्तरमावापोद्वापाभ्यां वाक्यं वाक्यार्थ च प्रविभज्याङ्गीकृत्य भागं विभक्तं पदं भाग्यस्य वाक्यार्थैकदेशस्य कार्या- न्वितार्थस्य वाचकमिति खयमेवानन्यबोधितो वेत्तीत्यक्षरार्थः । एतदुक्तं भवति । लोके हि सर्वेषां पदानां वाचकशक्तिरवधार्यत इत्य- विवादं तत्रापि प्रवर्तकवाक्ये एव प्राथमिकी व्युत्पत्तिरिति वक्तव्यम्। तत्रैव व्युत्पत्त्यनुकूलप्रवृत्तिलिङ्गस्य सत्त्वात् । तथा हि माणवक गामानयेत्याचार्यवचनेन गामानयन्तं माणवकं दृष्ट्वा व्युत्पित्सुः खात्मनि समधिगतव्याप्तिक एवमनुमिनोति विमता प्रवृत्तिः कार्य- ताज्ञानपूर्विका प्रेक्षावत्प्रवृत्तित्वान्मदीयप्रवृत्तिवदिति । अनुमा- नान्तरञ्च नवर्तमानश्रोतृसमवायिकार्यताशाने कारणमालोचयन् वाक्यश्रवणानन्तरं तज्ज्ञानोत्पत्तेः तत्पूर्व चानुत्पत्तेरन्वयव्यतिरेकाभ्यां वाक्यमेव तस्मिन्कार्यताशाने कारणमिति तदन्वयव्यतिरेकानुवि- धायित्वलिङ्गेनानुमिनोति सेयं प्राथमिकव्युत्पत्तिः । एवं गामानयेति वाक्यस्य गवानयनकार्यतायां सामर्थ्यमिति संमुग्धाकारेणावगत्य पश्चाद् गां बधान वत्समानयेति प्रयोगान्तरेषु वाक्यभागयोर्गामान- येति पदयोरुद्वापाद्, बधान वत्समिति पदयोश्चावापाद्वाक्यार्थभागस्य गां बधानेत्यत्र गोविशिष्टानयनस्य वत्समानयेत्यत्रानयविशिष्ट- गोव्यक्तेश्वोद्वापादानयनादिविशिष्टवत्सादिपदार्थस्य चावापादाना- यनादिकार्यविशेषस्य व्यभिचारेपि कार्यमात्रस्याव्यभिचारा केवलपदार्थस्य वाक्यादनुपस्थानादुपस्थितस्य कार्यस्य परित्यागे मानाभावाद्विशिष्टार्थप्रत्यायनाय वाक्यप्रयोगात्प्रथमावगतकार्य- व्युत्पत्त्यनुरोधेन सर्वपदानां कार्यान्वितस्वार्थे शक्तिरित्यध्यवस्य- तीति एतादृशन्यायप्रतिपत्तिकुशलं प्रत्येव स्वयमेवेत्युक्तम् । नचैवं गवादिपदस्यैवानयनाद्यन्वितस्वार्थपरत्वे ऽऽनयनादिपदं व्यर्थमिति वाच्यम् । कार्यमात्रान्वितस्वार्थपरत्वेऽप्यानयनादिकार्यविशेषस्य तेन विनोपस्थित्यभावादिति । ननु सर्वपदानां कार्यान्वितस्वार्थपरत्वमनु- ।
सटीक संक्षेपशारीरके- चितं क्रियापदे व्यभिचारात्-न च क्रियापदमपि क्रियान्वितस्वार्थ- मभिधत्ते एकस्मिन् वाक्ये क्रियापदद्वयाभावात् क्रियाभेदे च वाक्य- भेदस्यावश्यकत्वात्, न च क्रियापदव्यतिरिक्तेष्वयं नियमः क्रियापदन्तु स्वार्थपरमितरान्वितस्वार्थपरं वेति वाच्यं प्रयोजकद्वैवि. ध्यप्रसङ्गादित्याशङ्कयोक्तं-कार्यान्वयान्वयिनीति । तथा च न प्रयोजकद्वैविध्यं कार्यसम्बन्धाश्रयत्वस्य कार्याकार्यसाधारणत्वादिति भावः ॥ १३०॥ तथाच ननु कार्यान्वय इत्यत्रान्वये कार्य यदि विशेषणं तदा कार्यविशि- ष्टान्वयाश्रये कार्ये कार्यपदस्य शक्तिरित्युक्तं स्यान्न हि तत्सम्भवति, कार्यस्य स्ववृत्तित्वप्रसङ्गात् यदि तदुपलक्षणं तदा कार्यपदस्या न्यस्याप्यन्वितखार्थमात्र एव शक्तिरित्युक्तं स्यात् अथ तदुपाधि- रित्यभिधीयेत तदापि व्यावर्तकतया संबन्धं प्रत्युपसर्जनत्वं वाच्यम्, सम्बन्धं प्रत्युपसर्जनीभूतकार्यस्यैव सम्बन्धान्वयित्वेन तद्विशेषतया प्राधान्यमित्येकदैकस्यैवैकं प्रति विरुद्धरूपद्वयापत्तिरित्य परितोषात्पक्षान्तरमाह- त्यक्तः कार्यान्वितार्थ वदितुमलमयं शब्द इत्येष पक्षो नोक्तो योग्येतरार्थान्वितमिति तु पुनः पूर्वमप्येष पक्षः। किन्तु स्यादस्य शक्तिर्निजसहजवशादन्वितार्थाभिधाने योग्यत्वादेस्तु पश्चात् स्वयमुपनिपतत्यस्य कार्यैदमर्थ्यम् ॥ १३१॥ त्यक्त इति । कार्यान्वितशक्तिकल्पने हि प्रयोजकद्वैविध्यपरिहाराय कार्यान्वयान्वयिनीति समाश्रयणीयम् । तत उक्तदोषपरिहाराय शब्दः कार्यान्वितार्थं वदितुमलं समर्थ इत्येष पक्षस्त्यक्तः । अर्य पक्षस्त्यक्तश्चेतिक योग्येतरान्विते खार्थसामर्थ्य ब्रवीषि तहि योग्ये- तरविशेषणं व्यर्थमयोग्येनानितरेण वान्वयाभावेन व्यावा प्रथमोऽध्यायः। भावादित्याशङ्कयानुक्तोपालम्भ इत्याह-नोक्त इति । अन्वययोग्यो य इतरपदार्थस्तेनान्वितं तद्विशिष्टं वदितुमलमिति सम्बन्धः । कुत्र तर्हि शक्तिरित्याकाङ्क्षापूर्वमाह - किन्त्वित्यादिना । किन्त्वस्य पदस्य निजसहजवशात्स्वभाववशादन्वितार्थाभिधाने ऽन्वितमात्रे शक्तिः स्यात् न कार्यान्विते न वा योग्येतरान्वित इत्यर्थः । शब्दार्थ- सम्बन्धस्य सांकेतिकत्वनिवारणार्थ निजसहजवशाइत्युक्तम् । नन्वेवं सति सिद्धान्वितसिद्धपि शक्तिः स्यात्तत्तः कथं व्युत्पत्तिवलात्कार्य- परो वेद इति वरयंते तत्राह-योग्यत्वादेरिति । आदिपदेनाकाक्षादिक गृह्यते पश्चादन्वितव्युत्पत्त्यनन्तरमस्य पदस्य योग्यत्वादेर्हेतोः खयं कार्यव्युत्पत्ति विनैव कार्यैदम कार्यपरत्वमुपनिपतति प्राप्नोतीत्यर्थः। यद्धि योग्यं यच्चाकाङ्कितं यच्च स्वसन्निधौ पठितं तदेवान्वययोग्यं तत्र यद्यपि सान्निध्यं सर्वेषामविशिष्टं तथापि योग्यत्वमाकाङ्क्षितत्त्वं च न सिद्धपदानां साध्यसाधनभावशून्यतया समप्रधानानां परस्परं सम्भवति, न वा कार्यपदार्थानां परस्परं सिद्धकार्ययोस्तु साध्यसा- धनभूतयोः प्रधानगुणभावेनान्वययोग्यतादिकमस्त्येवातोन्वितमात्रेपि गृह्यमाणा पदशक्तिः स्वयमेव सिद्धपादानां कार्यान्वितस्वार्थे कार्यपदानां च सिद्धान्वितकार्ये पर्यवस्यतीति भावः ॥ १३१ ॥ नन्वस्तु लोके शब्दानां मानान्तरसिद्धधात्वर्थपरत्वं तथैव व्युत्पत्तेः, लौकिकवाक्यस्य भवन्मतेऽनुवादरूपत्वाञ्च, तु कथं मानान्तरसिद्धकार्यपरत्वमपूर्वतयाऽपि वेदे तात्पर्याधिगम- लिङ्गत्वात्, ननु लोकवद्वेदेपि न धात्वर्थः कार्य येन तस्यापूर्वत्वं हीयेत किन्तु तदतिरिक्तो नियोग एव स च मानान्तरागोचर इति चेत्र- धात्वर्थातिरिक्तकार्ये मानाभावात्, ननु स्वर्गकामो यजेतेत्यत्र काम्यस्वर्गविशिष्टस्य नियोज्यत्वेनान्वयः श्रूयते-काम्यं च स्वर्गादि- देशकालान्तरभावि कामी च काम्याव्यवहितसाधनमेव कर्तव्यतया ऽवैति, अतः क्रियायाः क्षणिकायाः कालान्तरवर्तिफलसाधनत्वा- सटीके संक्षेपशारीरके- भावान्कामिनियोज्यान्वयोपपत्त्यर्थमेव क्रियातिरिक्तो नियोगोऽङ्गी- कार्य इति चेन्न-क्रियाया एव स्थायित्वकल्पनयापि तदुपपत्तेः । धर्मिकल्पिनातो धर्मकल्पनाया लघुत्वात् । नच क्रियायाः क्षणिकत्वा- वगाहिमानान्तरविरोध इति वाच्यम् । फलनाश्या हि सा लोके च फलं क्रियानन्तरभाव्येवेति सा क्षणिका स्वर्गस्तु कालान्तरभावीति न यागात्मिकायाः क्रियाया क्षणिकता भवेत् । नचैहिकफलविना- श्यत्वनियमः क्रियाया इति वाच्यम् । फलमात्रस्यैव क्रियाविना- शकत्वादैहिकत्वस्याप्रयोजकत्वात् अत एव कारकावस्थफलविनाश्यत्वं क्रियाया इत्यपि नियमो निरस्तः, तस्मान्न धात्वातिरिक्त स्थायिकायें मानमस्तीति चेदुच्यते-यागक्रियाया देवताद्रव्याद्याश्रयायास्त नाशेऽवस्थानानुपपत्तेः नच द्विरवत्तदेवताद्रव्यादिनाशेपि नित्यपर- माण्वाश्रया सेति वाच्यम् । कारकसमवेतक्रियाया एव यागत्वादन्या- श्रितायाः क्रियाया अन्यसमवायानुपपत्तेः। तस्याश्चान्यत्वे ऽपूर्वान विशेषः । अनन्तक्रियाकल्पनागौरवप्रसङ्गश्च । क्रिया ह्युत्तरसंयोगेन नियमेन नश्यति इष्वादिक्रियायां तथादर्शनात् । एतेन कर्मशक्तिरेव स्थायिनीति मतमपि प्रत्युक्तम् कर्मणोऽभावे तदाश्रितशक्त्यवस्थाना- नुपपत्तेः । ननु यथाशास्त्रप्रामाण्यवलात्स्वर्गसुखस्य प्रत्यक्षादि- विरुद्धमपि दुःखासंभिन्नत्वादिकं कल्प्यते । एवमेव शास्त्रप्रामाण्य- बलात् क्रियाया अप्याश्रयं विना प्रमाणविरुद्धमपि बहुकालावस्थानं कल्प्यतामिति चेन्न-यत्र हि येन विना शास्त्रप्रामाण्यमनुपपन्नं तव तत्प्रमाणविरुद्धमपि कल्पनीयं यथा सुखस्य दुःखासंभिन्नत्वादि स्थायिनियोगेनापि शास्त्रप्रामाण्योपपत्तौ न प्रमाणविरुद्धं बहु कल्पनीयं प्रमाणविरुद्धकल्पनातोऽ प्रतिपन्नकल्पनाया लघुत्वात् । न च स्थायिनियोगे मानान्तरविरोधोस्ति । तस्य चोदनैकगम्यत्वात्। नन्वेतादृशनियोगस्य किं लक्षणं किं कालत्रयानन्विततया प्रतीय- मानत्वं किंवा प्रवर्तकत्वमुत कृतिसाध्यत्वं, नाद्यः श्राद्यर्थेतिव्याप्तेः। । नाद्यः अर्वाचतिव्या प्रथमोऽध्यायः। न द्वितीयः । इष्टसाधनत्वेऽतिव्याप्तेः । तस्यापि ज्ञायमानतया प्रवर्तकत्वात् । न तृतीयः। धात्वर्थेतिव्याप्तेः । नच स्थायिनियोगे प्रमाणमपि पश्यामः । प्रत्यक्षं तावन्न संभवति । तस्य तद्विषयत्वात् । नाप्यनुमानादि। अपूर्वत्वहानेः। आगमस्य च लोके धात्वर्थकार्य गृहीतसंगतिकस्य तद्व्यतिरिक्तनियोगे व्युत्पत्त्यभावेन तद्वोधकत्वा- नुपपत्तेः । न च स्वर्गकामनियोज्यसमभिव्याहारान्यथानुपपत्तिकल्पिते तस्मिन् व्युत्पत्तिरिति वाच्यम् । अर्थापत्तिप्रमाणत्वेऽपूर्वत्वक्षते रित्याशङ्कयादौ तल्लक्षणमाह- प्रवृत्त्यभावस्य विरोधि कार्य कालत्रयानन्वितमाहुरेके । स्वगोचरस्येप्सितसाधनत्वं विज्ञापयत्प्रेरकमाहुरन्ये ॥ १३२ ॥ प्रवृत्तीति । ममेदं कर्त्तव्यमिति कार्येहि प्रतिपन्ने नियोज्यस्यौदासी- न्यलक्षणप्रवृत्यभावो न भवतीति कार्यप्रवृत्त्यभावविरोधीत्युच्यते। कालत्रयांनन्वितं। भूतभविष्यद्वर्त्तमानकालानवच्छिन्नं साध्यावस्थमित्यर्थः। कार्य हि लिङादिशब्दैः साध्यतया प्रतीयमानं प्रवर्तकं तथाच कालत्र- यानन्वितत्वेन प्रतीयमानं यत्प्रवृत्त्यभावविरोधि तत्कार्यमिति तल्लक्षणं प्रवृत्त्यभावविरोधीत्युच्यमाने रागादावतिव्याप्तिस्तत उक्तं कालत्रयेति । रागस्तु निष्पन्न एव प्रवर्तक इति वर्तमानकालान्वित एव स प्रवृत्त्य- भावविरोधीभवति तद्वयावृत्तिः। तावत्युक्ते साध्यावस्थघटादावति- व्याप्तिः । तदर्थ प्रवृत्तीति । नियोगो हसिद्ध एक् स्वसिद्धये प्रवर्त्तयति न च तथा घटादिरिति तद्वयवच्छेदः। नचेष्टसाधनत्वे ऽतिव्यातिः, साध- नत्वस्य सिद्धावस्थत्वादिति भावः। नन्वेतल्लक्षणं धात्वर्थकार्य ऽतिव्या- पकं तस्यापि साध्यतया ज्ञायमानत्वेन प्रवर्तकत्वात् । न च तदपि ।
१५० सटीके संक्षेपशारीरके- लक्ष्यमिति वाच्यम् । धात्वर्थव्यतिरिक्तकार्यस्वरूपस्यैव विप्रतिपन्न- तया लक्ष्यत्वाद् अन्यथा लौकिककार्यव्यतिरिक्तकार्यस्यानेनासिद्ध- लक्षणकथनवैयर्थ्यप्रसङ्गात् । न चैतत्सामान्यलक्षणं विशेषलक्षणं तु स्वगोचरस्येत्यादीति तेनैव तत्सिद्धिरिति वाच्यम् । तथात्वे धात्वर्थ कार्यस्यापि विशेषलक्षणकरणप्रसङ्गाद् विशेषलक्षणं विना सामान्यल- क्षणवैयर्थ्यप्रसङ्गात् । न चैतल्लौकिकस्यैव लक्षणमिति वाच्यम् । तस्या- निरूप्यत्वाद् वैदिककार्ये ऽतिव्याप्तेश्चेत्यरुच्या लक्षणान्तरमाह- स्वगोचरस्येति । एषा हि गुरुमतानुसारिणां प्रक्रिया दर्शपूर्णिमासाभ्यां स्वर्गकामो यजेतेत्यत्र लिङा नियोगः प्रतीयते । एष एव स्वविषये धात्वर्थे पुरुषं नियुञ्जानो नियोग इति नियोज्यकृतिसाध्यतया कार्य- मिति मानान्तरागोचरत्वादपूर्वमिति चाख्यां लभते । स स्वर्गस्य साधनान्तरमेव स्वर्गनिष्पत्तः। यागश्च न स्वर्गसाधनं यदनन्तरमेव यन्निष्पद्यते तत्तस्य साधनमिति हि वृद्धाः सङ्गिरन्ते । लोकेपि तथैव दृश्यते । यागस्तु परमापूर्वव्यवहितः अतः स्वर्गकामपदसमर्पितः काम्यमानस्वर्गविशिष्टो नियोज्योपि नियोगमेव कृतिसाध्यतयावैति न यागं कामी काम्याव्यवहितसाधनमेव कर्त्तव्यतया जानातीति नियमान्नियोग प्रति तु यागः साधनत्वेनान्विताभिधायिशब्देन बोध्यते । नन्वाग्नेयादियागस्यावान्तरापूर्वव्यवहितत्वात् कथं परमापूर्वसाधनत्वमिति चेन्न-अपूर्वतयावान्तरापूर्ववक्रियाव्यवहि- तानन्तरकाले भवितुं योग्यत्वात् स्वर्गस्यापि फलत्वेन तथात्वेपि स्वर्गत्वेनोपस्थितस्य तस्य कालान्तरभावित्वनियमात् । न च परमा- पूर्वत्वेनास्यापि कालान्तरभावित्वनियम इति वाच्यम् । परमापूर्व- स्यापि दुरितापूर्वस्य क्रियानन्तरमेव दर्शनात् तदुक्तं युक्तमाग्नेयादेः परमापूर्वसाधनत्वं परमापूर्वस्यापूर्वतयावान्तरापूर्ववक्रियानन्तरभा- वित्वाहत्वात् । ततो योग्यतया: परमापूर्वसाधनत्वेन शक्यते शब्देन बोधयितुमिति न त्वत्रान्विताभिधानानुपपत्तिरिति । एवं यागस्य अपूर्व प्रथमोऽध्यायः। प्रति स्वर्गकामिनियोज्यस्य यागे नियोग इति विषयत्वेनाप्यन्वयः शब्देन बोध्यते । विषयत्वं च ज्ञप्तिप्रतिबन्धित्वम् । न च परमापूर्वस्य स्वर्गसाधनत्वे तच्छेषतया प्राधान्यं भज्यतेति काच्यम् । तदुपस्थिती हि स्वर्गसाधनत्वमपेक्षते लिङादिवाच्यत्वं तु कार्यत्वेनैव स्वर्गमपि स्वप्राधान्यार्थमेव गर्भदासपोषणमिव स्वामी करोतीति न प्राधान्य- प्रच्युतिः । यागश्च कर्तृव्यापारगोचरतया स्वर्ग प्रति करणमेव । तच्च करणं नियोगेन आक्षिप्यते । फल करणीभूतस्यैव नियोगविषयत्वादे- तदेव चौपादानिकमित्युच्यते । एवं नियोगविषयत्वसिद्ध्यर्थमेव तत्करणत्वमप्युपादानेन लभ्यते । ननु यागस्य स्वर्गसाधनत्वा- योग्यत्वे कथं स्वर्ग प्रति करणत्वमपि तदभावे च कथं अपूर्व- विषयत्वं फलकरणीभूतस्यैव अपूर्वविषयत्वात् अपूर्वविषयत्वाभावे च कथमपूर्वकरणत्वं विषयत्वनिर्वाहायैव तत्करणत्वाङ्गीकारादिति भवेदेवं यद्यपूर्व कल्ष्यं स्याल्लिङादिना च प्रत्येकमवगमिते विषया- द्यन्वितेऽपूर्वे तद्वयवहिततया यागस्य फलसाधनत्वायोग्यत्वात् । ज्वालाव्यवहितकाष्ठादेरिवौदनं प्रति स्वर्गकरणत्वं युज्यत एवातो- विषयत्वाद्यन्वयोपि सुलभ एच । ननु फलकरणत्वे झाते करणीभूत- धात्वर्थावच्छिन्नतया लिङ्गादिना नियोगो बोधनीयः । बोधिते च तस्मिन्ननुपपत्तिलक्षणोपादानेन यागस्य करणत्वबोध इत्यन्योन्याश्रय इति चेन्न-अन्विताभिधानाभिधेयापर्यवसानाधीनकल्पनारूपोपादानतः फलकरणत्वसिद्धः लिङादिहि विषयान्वितमेव नियोगमभिधत्ते विषय- त्वप्रतीतिश्च प्रति संहितकरणत्वस्य यागादेरेव भवति । अतो न अन्योन्याश्रयः । नन्वेवमपि कथं नित्यापूर्वस्य नियोज्यकार्यत्वं तस्या- फलसाधनत्वात्कथं वा यागस्य नियोगविषयत्वं फलकरणत्वाभावा- दिति चेन्न-काम्यवाक्ये लिङादिवाक्यस्य तस्य कृतिसाध्यत्वेन धात्वर्थविषयत्वेन च व्युत्पन्नत्वेन अन्यत्रापि तथात्वादिति तदेतदाह- स्वगोचरस्येप्सितसाधनत्वमिति । स्वस्य गोचरो विषयो यो धात्वर्थः तस्येष्ट- - सटीके संक्षेपशारीरके- स्वर्गकरणत्वं विज्ञापयदाक्षिपद्यत्प्रेरकं प्रवर्तकं तत्कार्यमित्यर्थः । प्रसा प्रवर्तकवाद्यादावतिव्याप्तिवारणाय श्राद्यविशेषणं स्वविषये. टसाधनत्वबोधकप्रमाणेऽतिव्याप्तिवारणाय प्रवर्तकमिति । न चैता- स्मिल्लक्षणे धात्वर्थेऽतिव्याप्तिः तस्य स्वस्यैव हितकरणत्वेन स्वगोच- रेप्सितसाधनत्वाभावादिति ॥ १३२ ॥ एवं नियोगाकारेण तल्लक्षणमभिधाय कार्याकारणापि तल्लक्ष- एमाह- यानन्यमुद्दिश्य कृतिः प्रवृत्ता तयैव यच्याप्यतया प्रतीतम् । तदेव कार्य कथयन्ति केचि- द्विचक्षणाः कार्यनिरूपणायाम् ॥ १३३ ॥ यानन्यमिति । अन्यो न भवतीत्यनन्यस्तं स्वमुद्दिश्य या कृतिस्त यैव व्याप्यतया विशिष्टतया विषयतया यत्प्रतीयते तदेव कार्यमिति विचक्षणाः कथयन्तीत्यर्थः । अनन्योद्दिष्टकृतिव्याप्यं कार्यमिति लक्षणार्थः । धात्वर्थव्यावृत्त्यर्थमनन्येति । धात्वर्थो हि नियोगोद्देश्येन प्रवृत्तकृतिव्याप्यः नियोगस्यैव फलसाधनतया प्रथम कृतिसाध्यतया- वगमादवगते च तथा तस्मिन् तस्याभावार्थतया साक्षात्कृति- साध्यत्वायोगात्तद्विषयं धात्वर्थ तदर्थ साधयतीति धात्वर्थो न्योद्दिष्टकृतिव्याप्य एवेति भवति तद्वयावृत्तिः ॥ १३३ ॥ ननु कार्यमपि प्रवर्तकत्वात्कृतेः पूर्व सिद्धमेव रागादिव- त्प्रवर्तकं वक्तव्यम् । तथाच कृतिव्याप्यत्वमेव नास्ति कुतो ऽनन्योद्दिष्टकृतिव्याप्यत्वं तत्राह भूत्वा रागः कारणं पुंस्प्रवृते- नैवं कार्य कार्यरूपं विहाय ।
प्रथमोऽध्यायः। रूपेणान्येनेष्यते ऽस्या निमित्तं भिन्दन्त्येवं रागकार्ये बहुज्ञाः ॥ १३४ ।। भूत्वेति । यथा रागो भूत्वा जनित्वा पुप्रवृत्तेः कारणमेवं कार्य कार्यरूपं साध्यत्वाकारं विहायान्येन सिद्धन रूपेणास्याः प्रवृत्ते- निमित्तमिति नेष्यते इति बहुज्ञाः प्रवर्तकत्वविषये एवं कार्य रागं च भिन्दन्ति पृथक्कुर्वन्तीत्यर्थः । रागो हि सिद्ध एवान्यार्थ प्रवर्तक इतिसर्वसंमतं कार्य तु नैवम्, तद्धि स्वसिद्धये पुरुष प्रवर्त्तयति नान्यार्थ स्वयं सिद्धं चेत्किमिति पुरुष प्रवर्तयेत् पुरुषो चा किमिति प्रवर्त्तत । अतस्तस्य कार्याकारेणैव प्रवर्तकत्वमित्य- स्त्येवानन्योद्दिष्टकृतिव्याप्यत्वं प्रवर्तकत्वं सामान्यतोदृष्टं च लिङ्ग- युक्तिविरुद्धमिति भावः ॥ १३४ ।। नन्वस्तु विधिविभक्तिमद्वेदान्तवाक्यानां सोऽन्वेष्टव्य इत्येवमा. दीनां कार्यशेषतया प्रामाण्यं तद्विकलसत्यादिवाक्यानां तु कथं कार्यशेषो भवति । न हि व्युत्पत्तिरविद्यमानमप्यर्थमानीय प्रयच्छति । न वाऽ पौरुषेयवेदस्याप्रामाण्यमुचितमित्याशङ्कय तस्यापि व्युत्पत्त्यनुरोधेन विधिविषयज्ञानविषयसमर्पकतया कात्मस्तावकतया वा कार्यपरत्वं वक्तव्यमिति व्युत्पत्तिसिद्धार्थानुवादपूर्वकमाह- पावापोद्वापहेतोः पदमिदमुकस्याभिधाने समर्थ स्वोत्पत्यैवेति शक्तिप्रतिनियममिमं पार्श्ववर्ती तटस्थः । जानात्यालोच्य भूयो नयनिपुणमतिर्भागशः कार्ययुक्ते वस्तुन्येतस्य हेतोरुपनिषदाखिला कार्यशेषेप्रमाणम् ।१३५॥ भावापेति । अावापः- पदान्तरप्रक्षेपः, उद्वापः-प्रयुक्तपदस्योद्धारः, नयनिपुणमतिः पूर्वोक्तन्यायानुसंधानधीरः समीपवर्ती तटस्थो
सटोके संक्षेपशारोरके-
व्युत्पित्सुः गामानयाश्वमानयेत्यादिप्रयोगेषु पदानामावापोद्वापाभ्यां
भूयो भूय आलोच्य परामृश्येदं गवादिपदममुकस्य कार्यान्वितस्य
गवार्थस्याभिधाने स्वोत्पत्त्यैव पुरुषेच्छां विना स्वभावत एव समर्थ-
मिति भागशः प्रतिपदं कार्ययुक्त वस्तुनि गवादी शक्तिप्रतिनियम
प्रतिनियतशक्तिं जानाति यत् एतस्य हेतोरेतस्माद्धेतोरखिलोपनिषद्
कार्यशेषे प्रमाण मिति सम्बन्धः ॥ १३५ ॥
ननु नियोगाख्यकार्यस्य मानान्तराप्रसिद्धत्वात्कथं तत्र लिडादि
पदव्युत्पत्तिः । तां विना च कथं तस्य शब्दवोध्यत्वं ततः कथमुपनि-
षदां कार्यशेषत्वमित्याशङ्कयादौ वृद्धप्रभाकरमतानुसारेण व्युत्पत्ति
दर्शयति-
आज्ञादिभेदेऽप्यनुवर्तमाने
प्रवृत्त्यभावस्य विरोधिमात्रे।
लिङादिशब्दस्य स वेत्ति शक्ति
प्रवर्तकाख्याविषयत्वयोग्ये ॥ १६ ॥
आशादीति। उत्कृष्टस्य निकृष्टं प्रति प्रेषणमाज्ञा। श्रादिपदेन याच्या-
दिकं नियोगश्च गृह्यते । स व्युत्पित्सुः प्राज्ञादिरूपेण परस्य व्यावृत्ते.
वर्थेष्वनुवर्त्तमानेनुस्यूते प्रवर्तकाख्याविषयत्वयोग्ये प्रवर्तकशब्द
वाच्यप्रवृत्यभावस्य विरोधिमात्र प्रवर्तकत्वसामान्याकारे लिङादि-
शब्दस्य शक्तिं वेत्तीति सम्बन्धः । एवं किल बृद्धप्राभाकरा वदन्ति
लोके आज्ञादयः प्रवर्तका दृश्यन्ते वेदे तु नियोगः, तेषु चानुगत-
प्रवर्तकत्वसामान्ये लिङादीनां व्युत्पत्तिर्गृह्यते सामान्यशक्तेन च
शब्देन व्यक्तय प्राज्ञादयो नियोगश्चापर्यवसानेन लभ्यन्ते । विशेष
विना सामान्यापर्यवसानादतो नियोगस्यापूर्वत्वेपि न शब्दार्थ-
त्वानुपपत्तिरितिः ॥ १३६ ॥
प्रथमोऽध्यायः । १५५ नन्वाज्ञादीनां परस्परव्यवृत्तानामनुगतप्रवृत्तिहेतुत्वमनुचितम्, न ह्याशादिष्वनुगतेष्वनुगतप्रवृत्तिप्रयोजकमनुगतानतिप्रसक्तं किञ्चिद् दृश्यते । लिङादिबोधितत्वमनुगतमस्तीति चेन्न-अर्हाद्यर्थेपि तस्य गतत्वादतस्तेषु प्रवर्तकत्वाभावात्कथं तत्र व्युत्पत्तिरित्यरुच्या प्रकारान्तरेण व्युत्पत्ति वक्तुं केचिल्लोकवेदयोरुभयत्रापि नियोग- मङ्गीकुर्वन्तीत्याह- अन्ये वदन्ति निरुपाधिनियोगरूपं वेदे भवत्यपुरुषप्रभवे स्वतन्त्रम् । लोके पुनः पुरुषधीरचितेषु कार्य सोपाधिकं तदिति कारणतो वचः सु॥ १३७ ।। अन्ये वदन्तीति । अन्ये वेदे नियोगस्वरूपं निरुपाधि श्राज्ञाद्युपाधिशून्य- मत एव स्वतन्त्रमनवच्छिन्नमिति वदन्तीति सम्बन्धः । अत्र हेतुत्वेन वेदं विशिनष्टि अपुरुषप्रभव इति। अपौरुषेयत्वाद्वेदस्य वक्तृपुरुषधर्मा अाशा दयो न सन्तीत्यर्थः। लोके पुनः कथं भूतं नियोगस्वरूपमित्यत पाह- लोके पुनरिति । लोके पुनर्वचःसु तत्कार्य सोपाधिकमिति सम्बन्धः । पुनः शब्दो विशेषद्योतकः लौकिकनियोगस्य सोपाधिकत्वे हेतुमाह-कारणत- इति । पौरुषेयत्वादित्यर्थः । न चायं हेतुरसिद्ध इत्याह- पुरुषधारचितेष्विति । उपलभ्यविरचितत्वस्यैव पौरुषेयत्वालोके पुरुषधर्म उपाधिः संम- वतीत्यर्थः ॥ १३७ ॥ ननु लोके कोऽसावुपाधिः कथं वा तत्र लिङादीनां शक्तिग्रह इत्याकाङ्क्षायामाह- आज्ञा याच्याग्रुपाधिप्रणिपतितवपुः साधनेहानुबडं विज्ञातोपायभावं विषयमनुसरत्पौरुषेयीषु वातु । - सटीके संक्षेपशारीरके- वेदे कर्तृस्थरागाद्युपधिविरहितं कर्तृशून्ये ततोऽसिम सर्वत्रैकस्वभावस्थितवपुषि भवेल्लब्धशक्तिर्लिङादिः१३८ - श्राशेति। कार्य पौरुषेयीषु वाक्षु प्राज्ञायामाधुपाधिप्रणिपतितवपुः साधनेहानुबद्धम् । अाज्ञा-पूर्वोक्तैव । याच्याऽप्रकृष्टस्य उत्कृष्ट प्रति स्वाभिलषितप्रार्थना। आदिपदेन निमन्त्रणादिकं गृह्यते। तएव चोपाध. यस्तत्प्रणिपतितं तदवच्छिन्नं वपुः स्वरूपं यस्य तादृशंयत्साधनं तद्रूपा या ईहा आनयनादिचेष्टा सानुबन्धो विषयो यस्य तत् तथोक्तम् अाज्ञा- धुपहितानयनादिविषयकमित्यर्थः । अथवेहाशब्देनेच्छोच्यते पदद्वयं चैतदाज्ञाद्यवच्छिन्नस्वरूपं ममेदं कर्त्तव्यमिति साधनेच्छाविषय- श्चेत्यर्थः । विज्ञातोपायभावमवगतहितसाधनताकं विषयं धात्वर्थ मनुसरद्विषयीकुर्वत् कतृशून्ये वेदे कर्तुंरभावात् कर्तृस्थरागाद्युपाधि- रहितं रागो याच्या प्रादिपदेनाज्ञादिकं गृह्यते। तल्लक्षणोपाधिविरहितं यतः अतोऽस्मिन्नियोगे सर्वत्र लोकवेदयोरेकस्वभावेनैकाकारेण स्थितं वपुर्यस्य तस्मिन्नियोगत्वावच्छिन्ननियोगेलिङादिःलब्धशक्तितिशक्ति- भवेदित्यर्थः । लोके ऽपि हि क्रियातिरिक्तो नियोगो वाच्यः । अन्यथा पचतीत्युक्ते यावत्प्रतीयते तावदेव पचेदित्यत्रापि प्रतीयेत । नच तत्रा- ज्ञाद्यतिरिक्तः प्रतीयत इति वाच्यम् । व्यावृत्तस्य तस्य लिर्थत्वा- नुपपत्तः । स च नियोगो न केवलधात्वर्थविषयः श्राज्ञाद्युपहितान- यनादिधात्वर्थविषयकः कर्तृचिकीर्षाविषयश्च तथैवानुभवादेव- मपि न केवलमाज्ञाद्युपहितधात्वर्थविषयक । किन्तु मानान्तरेण अवगतेष्टसाधनमेव धात्वर्थमनुसरति तदभावे तत्र नियोगानवगमा दतो लोके आज्ञाद्युपहितेनावगतेष्टसाधनभावविषयेण नियोगोऽ वच्छिद्यते । अपौरुषेयवेदे आज्ञादेरभावात् धात्वर्थस्य पूर्वमिष्टसाध- नत्वानवगमाञ्च । न तद्विशिष्टधात्वर्थावच्छिन्नो नियोगः किन्तु केवल- धात्वर्थावच्छिन्न एव । तथाचोभयत्रापि नियोगसत्त्वात् एषु नियोगे प्रथमोऽध्यायः। ध्वनुस्यूतनियोगत्वसामान्याकारेण उपस्थितेषु लिङादिशक्तिषु शातासु तत्र शक्तिर्गृह्यते सकलव्यक्तिज्ञानस्य शब्दं विनाऽसंभवात् किन्तु कासु चिद्व्यक्तिषु ज्ञातासु तत्र सामान्याकारेण शक्तिर्गृह्यते इत्येव- सम्मतं तच्च प्रकृतेपि सम्भवति । अस्तु वात्रापि गोत्रादाविवानुगत- नियोगत्व एव व्युत्पत्तिः । व्यक्तिस्तु पूर्ववदपर्यवसानलभ्येति भावः ॥ १३८॥ नन्वेतदनुपपन्नं यल्लोकेपि धात्वर्थातिरिक्तो नियोग इति तत्र प्रमाणाभावात् प्रयोजनाभावाच्च । नचैवं सति पचति पचेत् इत्यनयो- रर्थभेदानुभवो न स्यादिति वाच्यम् । एकत्र पाकादेः कृतिसाधनन्या- वगमादपरत्र तदभावात् । न च पाकादेः कृतिसाधनत्वप्रत्ययो नियो- गविषयः वेद इत्र कालान्तरभाविफलविशिष्टनियोज्यसमभिव्याहारा- भावेन धात्वर्थस्यैवात्र कृतिसाध्यत्वप्रत्ययोपपत्तेः । तस्मादियं व्युत्पत्तिर्न सम्भवतीत्यरुच्या गुरुसम्मतमाह- अन्ये भिन्नस्वभावं विविधमभिदधत्यानुरूप्येण कार्य लोके धात्वर्थरूपं श्रुतिवचसि पुनस्तन्नियोगाख्यमेव । संमुग्धे तत्र शक्तिं शिशुरयमवगम्या ऽऽदितो न्यायचक्षुः पश्चाइदैकवेद्यं वदति लिङिति च प्रेचते निश्चयेन ॥१३॥ अन्य इति । अन्ये ऽनुरूपेण तत्तत्फलानुगुण्येन द्विविधं मिन्नस्व- भावं कार्यमभिदधति कथयन्तीति सम्बन्धः । द्वैविध्यमेवाह-लोके इति । गवानयनादिवाक्ये धात्वर्थरूपमेव तदतिरिक्त प्रमाणप्रयोजनयोर- भावाच्छुतिवचस्सु तत्कार्यं नियोगाख्यमेव स्थायिनियोग एव न धात्वर्थः। तस्य कामिनियोज्यकर्त्तव्यत्वानुपपत्तरित्यर्थः । एवं लोके धात्वर्थ एव कार्य वेदे तु तदतिरिक्तमिति अभिधाय तत्र व्युत्पत्तिग्रह- प्रकारमाह-संमुग्ध इति । अयं शिशुः व्युत्पित्सुः सम्मुग्धे तत्राविवक्षि- सटीके संक्षेपशारीरके- तविशेषे कार्यत्वेनोपस्थिते कार्ये । एतच्चाभिमतनियोगैकव्युत्पत्तेः प्राथमिकन्युत्पत्तिविरोधपरिहारायोक्तं. लिङादिपदस्थ शक्तिमवगम्य पश्चान्न्यायचक्षुर्वक्ष्यमाणन्यायं पश्यन् वेदैकवेद्यं वैदिकनियोगमेव लिङ् इति वदति । लौकिकं तु कार्यलक्षणया बोधयतीति निश्चयेन जानातीत्यर्थः ॥ १३६॥ ननु कोसौ न्यायो यद्वलात् प्रथमावगतधात्वर्थविशेषं विहाय अलौकिककार्य लिङर्थ इति निश्चीयते कथं वानुपस्थिते नियोगे शक्तिरपि गृह्यत इत्याशङ्कयाह- धात्वर्थाख्यानशक्तो यदि भवति गुणार्तितुं वैदिके ऽयं संबन्धाज्ञानहेतोरनलमथ पुनर्वैदिके शक्तिमान् स्यात् । तत्संबन्धाक्रियामप्यभिवदितुमलं लक्षणावृत्तितोऽयं लिशब्दस्तेन कार्ये श्रुतिवचनगते शक्त इत्यध्यवस्येत् ॥१४०॥ । धात्वर्थेति । गुणादमुख्यया वृत्त्या लक्षणया अयं लिशब्दः अनलम- समर्थः । यदि पुनरयं धात्वाख्यानशक्तो भवति तर्हि वैदिकनियोगे गुणाद्वर्तितुमनलमिति सम्वन्धः । तत्र हेतुः-सम्बन्धाशानहेरिति । वैदिक- नियोगस्य मानान्तरागोवरतया वाच्यार्थसम्बन्धित्वेनापरिक्षा- नादित्यर्थः । अथ यदि पुनरयं वैदिके शक्तिमान् स्यात् तदा तस्य नियोगस्य सम्बन्धाल्लक्षणावृत्तितः क्रियां धात्वर्थमप्यभिवदितुमलं नियोगसम्बन्धित्वेन धात्वर्थस्य ज्ञातत्वाद् धात्वर्थ लक्षणया वदेदित्यर्थः । अयम्भावः । यदि हि प्रथमावगतसामान्यव्युत्पत्तिप- र्यक्सानाय लौकिकमेव कार्य लिङाद्यर्थो मुख्यो भवेत् तदा वैदिक- मपि कार्य लिङादिवाच्यम् उत लक्ष्यम् । नाद्यः-एकस्य शब्दस्या- नेकार्थत्वानुपपत्तेः । न द्वितीयः-वैदिककार्यस्य मानान्तराप्रसिद्धस्य प्रथमोऽध्यायः । - वाच्यार्थसंबन्धज्ञानाभावात् । यदि च प्रथम कार्यमात्रावगतव्युत्पत्ति- लिङादिशब्दो वैदिककार्यमभिदध्यात्तदा नायं दोषः । धात्वर्थस्य वाच्यार्थनियोगसम्बन्धितया शब्देनावगतत्वात् । न च यागादिक्रि- याविशेषस्यैतस्यापि कार्यसम्बन्धित्वेन शब्दादवगतः कथं स्नान- भुज्यादिक्रिया तेन लक्ष्यत इति वाच्यम् । अपूर्व हि यागादिक्रियया सम्बध्यमानं क्रियात्वेन सम्बध्यते । क्रियात्वं च स्नानादिक्रियायाम प्यतः परम्परासम्बन्धात् स्नानभुज्यादिक्रियायामपि लक्षणा अतो वैदिकमेव कार्य लिङर्थ इत्यर्थः। यत्तक्तमनुपस्थितत्वात् कथं तत्र व्युत्पत्तिरिति तदुपसंहारव्याजेन पराकरोति तेनेति । वैदिके वाच्यार्थ- सम्बन्धापरिज्ञानमितरत्रवत्तज्ज्ञानं तच्छब्दार्थः कामिनियोज्यसम- भिव्याहाराख्यतर्केणोपस्थिते वैदिकनियोगे शक्तिरित्यध्यवस्येत् तर्कस्य चाप्रमाणत्वात् न तस्य मानान्तरगम्यत्वमिति भावः ॥१४० ॥ ननु लोके येषां लिङादियुक्तानां शब्दानां कार्यपरत्वं निरधारि तेषां तत्परत्वेपि न सर्वेषामपि तत्परत्वं लिङादिशून्या- नामपि 'राजाऽऽयाति महारथ' इत्यादिप्रयोगाणां दर्शनात् इन्याश- योक्तं न्यायं सर्वत्राप्यतिदिशति- एवं शब्दान्तराणां नयनिपुणमतिःशक्तिवित्स क्रमेण प्रक्षेपोडारदर्शी भवति कतिपयैर्वासरैस्तत्र तत्र । तस्मात्कार्यान्वितार्थे सकलमपि पदं शक्तिमबुध्यमानो भूताद्यर्थप्रतीतिं प्रति विमुग्वमनाः शास्त्रतः स्यान्मनुष्यः ॥ १४१ ॥ एवमिति । नयनिपुणमतियुत्पित्सुर्मनुष्यस्तत्र तत्र तस्मिन् तस्मिन् प्रयोगे प्रक्षेपोद्धारदर्शी सन् कतिपयैर्वासरैलिडादिसमभि- व्याहाररहितशब्दान्तराणामपि कार्यपदमध्याहृत्य एवं कार्यान्वि- सटीक संक्षेपशारीरके- तार्थे शक्तिविद्भवतीति सम्बन्धः फलितमाह-तस्मादिति । यस्माल लोके सर्वाण्यपि पदानि कार्य एव व्युत्पन्नानि तस्मात् सकलमपि पदं कार्यान्वितार्थे शक्तिमदिति बुध्यमानः सञ् शास्त्रतो वेदात् भूतार्थ- प्रतीति प्रतिविमुखमता निराशो भवेदित्यर्थः । अयमर्थः । लोके हि कार्यपदयुक्तान्येव वाक्यानि व्युत्पत्तिकाले भूयांसि दृश्यन्ते । इतराणि स्वल्पानि। कार्यपदयुक्तवाक्ये च गामानयेत्यादौ च यदा गवादिपदाना- मुद्धारोऽश्वादिपदानां चावापस्तद्वा कार्यविशिष्टगवादेरुद्धारं तद्विशि- टाश्वादेश्चावापं पश्यति तदार्य व्युत्पिसुभूयसामनुग्राह्यत्वं श्योजकै- क्यन्यायं चानुस्मरन् क्रियापदासहचरितानामपि पदानां तद्युक्तपदा- नामिव क्रियापदमध्याहृत्य कार्यान्वितार्थे शक्तिविद् भवतीति शास्त्रतः स्वातन्त्र्येण भूतार्थप्रतीति प्रति निरासो भवतोति ॥ १४१ ॥ एवं कार्यान्विते व्युत्पत्तिबलात् सर्वेषामपि पदानां क्रियापदा- ध्याहारेणापि कार्यपरत्वं वक्तव्यमित्युक्तं सम्प्रति केवलभूतार्थे न्युत्पत्तिग्राहकमानाभावादपि कार्यपरत्वं वक्तुं तत्र पदानां व्युत्पत्त्य- सम्भवमाह वाक्याभूतार्थनिष्टाद्भवति न तु नृणां शब्दशक्तिप्रतीति- लिङ्ग श्रोतृस्थबुद्धेन हि किमपि भवेदत्र बालोपलभ्यम् । न ह्येतत्पुत्रजन्माद्यवगतिनियतं नित्यवनिश्चितं नो यद्वक्त्रादिप्रसादक्षितितललुठनादीक्ष्यते श्रोतृदेहे॥१४२॥ वाक्यादिति । भूतार्थमात्रविषयाद्वाक्याद नृणां शक्तिर्न तु भवति नैव भवतीत्यर्थः। तत्र हेतुः-लिङ्गामेत्यादि । हि शब्दो हेतौ यस्मात् यत्र भूतार्थवाक्यप्रयोगस्थले श्रोत्रगतवाक्यार्थबुद्धर्बालोपलम्भनाई किमपि लिङ्गं न भवेन्न दृश्यते तस्मादिति सम्बन्धः । अवगते हि मध्यमवृद्धवाक्यार्थज्ञाने तत्र बालस्य व्युत्पत्तिर्भवति । अनुपस्थिते 'Ananda प्रथमोऽध्यायः। ऽर्थे व्युत्पत्तिग्रहणानुपपत्तेः । न च 'राजाऽऽयाति महारथ' इत्यादि- वाक्यं श्रुतवतः काचित् प्रवृत्तिनिवृत्तिर्वा सस्भवति । न चोदासीन: नरसमवायिवाक्यार्थज्ञाननियतं किञ्चिल्लिङ्गमस्ति । न च वाक्य स्वश्रोतरि वाक्यार्थज्ञानमुत्पादयति वाक्यत्वात् मया श्रूयमाण- वाक्यान्तरवत् इति तज्ज्ञानमनुमेयमिति वाच्यम् । अन्धुत्पन्नश्रुत- वाक्ये व्यभिचारात् बुद्धर्विषयविशेषानिश्चयाञ्च । न च राजाऽऽया. तीति वाक्यं श्रुत्वा राजदर्शने प्रवर्तमाना दृश्यन्ते अतः प्रवृत्त्या वाक्यार्थविशेषज्ञानमनुमेयमिति वाच्यम् प्रवृत्तिहि कार्यताज्ञाना- दिष्टसाधनत्वावगमाद्वा भवन्ती तदेवानुमापयेत् । न च राजागम- नज्ञानं तयोरन्यतरत् । न च राजागमनस्येष्टसाधनत्वं झायत इति कल्प्यमिति वाच्यम् । तत्कल्पनेपि तस्य वाक्यस्य तत्र सामर्थ्य- कल्पनानुपपत्तेः। लिङादिसमभिव्याहृतस्यैव कार्यतावगमे श्रेयः साधनत्वावगतौ च समर्थत्वात् । किञ्च यथा क्रियावाक्यश्रवणसम- नन्तरमेव प्रवृत्तिनैवं सिद्धबोधिवाक्यश्रवणाद् भवति । अतो विल- म्बितायां प्रवृत्तौ मानान्तरादीपस्थितिशङ्का सम्भवान्न सिद्धबोधि- वाक्यस्य प्रवर्तकज्ञाने हेतुता शक्यग्रहा । तस्माल् लिङ्गाभावाद्वाक्ये- तरकारणपरिशेषाभावाच्च न सिद्धार्थमात्रे व्युत्पत्तिरिति भावः । ननु सिद्धार्थज्ञानमात्रे लिङ्गाभावेपि क्वचित् तत्सम्भवति दृश्यते खलु पुत्रस्ते जातः पुत्रस्ते मृत इत्यादि वाक्यं श्रुतवतो मुखविकासक्षिति- तललुएठनादिपुत्रजन्मतन्मरणवाक्यार्थज्ञानलिङ्गमिति चेत् तत्राह- नह्येतदिति । पुत्रादिबोधकवाक्यश्रोतृदेहे वत्क्रादिप्रसादक्षितितल- लुण्ठनादि यदीक्ष्यते एतन्नो ऽस्माकं नित्यवन्नित्यमव्यभिचारण पुत्रजन्ममरणाद्यवगतिनियतं सहचरितमिति निश्चतंन हीति सम्बन्धः । वत्क्रादीत्यत्रादिपदेन देहावयवान्तरं गृह्यते प्रसादः प्रसन्नता विशिष्ट- पुलकोद्गमश्च क्षितितललुण्ठनादीत्यादिपदेन रोदनादिह्यते । यद्यपि पुत्रस्ते जात इत्यादि वाक्यश्रवणानन्तरम् पितुर्मुख- सरीके संक्षेपशारीरके- विकासादिकं दृश्यते तथापि ने तत्पुत्रजन्मादिज्ञानेकजन्यसुखादि- नियतं क्षेत्रादिप्राप्तिपरिहारादिनिमित्तसुखदुःखयोरपि तत्सत्त्वादतः सुखहेतुपरिशेषासंभवान्न पुत्रादिपदव्युत्पत्ति रिति भावः ॥ १४२ ॥ ननु यथा भवन्मते प्रथमं लिङादेर्धात्वर्थकार्यमात्रपरत्वेपि वेदे निमोगपरत्वं कल्प्यते एवमस्मन्मते पि लौकिकसिद्धबोधि- वाक्यानां कार्यान्वितव्युत्पत्तावपि वेदान्तानां स्वप्रधानब्रह्मपरता किं न स्यादित्याशङ्कामुपसंहारव्याजेन परिहरति- तस्मादाध्वं निराशाः श्रुतिशिरसि नतम्यास्ति निष्पन्नरूपे प्रामाण्यं कार्यशून्ये कथमपि च परब्रह्मणि स्वप्रधाने । भूतं भव्यप्रधानं भवति न हि पुनः स्वप्रधानं कदाचि च्छास्त्रस्थाःशब्दशक्तिस्थितिनिपुणधियो विस्तरादेवमाहुः Anilore - तस्मादाध्वमिति । तग्माच्छुतिशिरसि निराशाः श्रुतिशिरांसि ब्रह्मणि खप्रधाने प्रमाणमित्यर्थे निराशाः सन्त श्राध्वं वर्तध्वमित्यर्थः । कुत इति चेत्तत्राह-न तस्येति । तु शब्दो यस्मादर्थे यस्मात्तस्य श्रुतिशिरसः निष्पन्ने ब्रह्मणि न प्रामाण्यं तस्मादिति संबन्धः । कार्य- शेषे ब्रह्मण्यप्यप्रामाण्यशङ्कां निराचष्टे-कॉयेति । कार्यशून्ये कायलु संसर्गिण्यत एव स्वप्रधाने स्वयमेव प्रधानं तस्मिन्वर्णितः र्खा- लिङादिपदस्य नियोगवाचकत्वे हेतुः । नचात्र कश्चित्तादृशो हेतुः कार्य- शेषतयापि वेदान्तप्रमाण्योपपत्तेः । अतोऽत्र न क्लुप्तव्युत्पत्तिपरित्यागः फर्तव्य इति भावः । किञ्च भूतोपदेशत्वादपि वेदान्तगोचरब्रह्मणो भव्य कार्यपरचनेवोधितं तथैव खलु शबरखामिप्रभृतयो वदन्ति भूतभव्यसमुच्चारणै भूतं भव्यायेति तदाह-भूतं भव्यप्रधानमिति हि। यस्मा- च्छन्दशक्तिस्थितिमर्यादा तस्या निपुराधियः अस्य शब्दस्यै- मला प्रथमोऽध्यायः। m तावत्येव शक्तिरिति शक्तिमर्यादानिर्णये निपुणमतयः शास्त्रस्थाः शास्त्रार्थनिष्णाता विस्तरात्सप्रपञ्चमेवाहुः । तस्मादिति पूर्वेण सम्बन्धः । एवंशब्दार्थमाह-भूतं भव्येति तस्मान वेदान्तानां स्वप्रधानब्रह्मपरत्वमिति भावः ॥ १४३ ॥ इदानी पूर्वपक्षमुपसंहरति- तस्मादसंगतमिदं प्रतिभाति यन्मे वाक्यप्रमाणकमुदीरितमद्यत्वम् । इत्येवमेष मम बुद्धिपथं विरोधः प्राप्तः प्रभो परिहरैनमनुग्रहाय ॥ १४४ ॥ तस्मादिति । यस्मात्पूर्वोक्तहेतुभिर्वाक्यं न सिद्धब्रह्मपरं यस्माञ्च का- र्यपरं यतश्चान्यपरत्वात् भेदादिग्राहकप्रत्यक्षादेर्न बाधको वेदान्तः तस्मा- दिदमसङ्गतं प्रमाणयुक्तिशून्यमिव मे भातीत्यर्थः । इदंशब्दार्थमाह- यदित्यादिना । अद्वयत्वं जीवपस्योरैक्यं तच वाक्यप्रमाणकमिति पक्षे च्छ्रीमद्भिदोरितमिदमसङ्गतमिति सम्बन्धः । इतिशब्दः पूर्व- पक्षसमाप्तिं द्योतयति । स्वस्यैतादृशपूर्वपक्षकरणेनाचार्यस्य व्युत्थि- तत्वबुद्धिर्माभूदित्याह-एवमिति । उक्तप्रकारेणैष विरोधो ममबुद्धि- पथं प्राप्तः बुद्धौ प्रतिभाति हे प्रभो स्वामिन् ममानुग्रहाय एनं विरोध परिहर इत्यर्थः । अनायासेन परिहारसामर्थ्य गुरोः प्रभो इत्यनेन द्योतयति ॥ १४४॥ उच्यते-अस्ति तावत्सदेव सोम्येदमग्रमासीदेकमेवाद्वितीयं तत्सत्यं स आत्मा तत्त्वमसीत्यद्वैतोपक्रमोपसंहारादिसहिता श्रुति- रस्ति च येनोपक्रम्यते येन चोपसंह्रियते स वाक्यार्थ इतिन्यायः । न च प्रत्याक्षादिविरोधादद्वतोपक्रमादिरेव बाध्यत इति वाच्यम् । तस्य द्वितीयाध्याये निरसिष्यमाणत्वात् । किञ्च वाच्ययोरेवैक्य ।
सटीके संक्षेपशारोरके- । बाध्यते न लक्ष्ययोरित्यभिप्रेत्य करतलस्थबिल्वफलवत्साक्षात्कृ- तत्रय्यन्तराद्धान्त आचार्यः प्रश्नक्रमेण प्रतिवचनं संदिन्सुरखण्ड- वाक्यार्थं निरस्तनिखिलोपसर्ग मन्वानः पदद्वयवाच्यार्थयोस्तादा- म्यरूपवाक्यार्थे तदुक्तं दूषणं तन्मनः परितोषायाङ्गीकरोति- सत्यं यदाह गुरुमान्यदिवाक्यगम्यं संसर्गरूपमिह वेदशिरःस्वभीम् । अस्त्येव तत्र पदयोरुभयोर्वरोधः पारोक्ष्यसदयविरोधकृतस्तदानीम् ॥ १४५ ॥ सत्यमिति । गुरुमान् शिक्षितबुद्धिर्भवान् यद् दूषणमाह तत्सत्यं तथैव नवैतत्त्वन्मनः परितोषायैवासत्यमपि सत्यमिति ब्रवीमि किं तु विद्यमानमेव विद्यत इति वदामीत्यभिप्रेत्यायं दोषो नास्माकमख- एडार्थवादिनामित्यर्द्धाङ्गीकारफलमेव दर्शयति-यदित्यादिना । संसर्गरूपं वाच्यार्थयोर्जीवपरयोस्तादात्म्यम्, इह-वेदशिरः सु, संसर्गरूपं वाक्य- गम्यं वाक्यप्रमेयमस्माकं यदीष्टं स्यात्तदानीं तत्र संसर्गवाक्यार्थपक्षे पदार्थयोः पारोक्ष्यापारोक्ष्यसद्वयत्वाद्वयत्वयोः परस्परविरोधकृतस्तत्त्वं पदयोर्विरोधोऽयोग्यतास्त्येव न त्वेतदस्ति अखण्डवाक्यार्थस्यैवास्मा- भिरङ्गीकृतत्वादिति भावः ॥ १४५ ॥ ननु पदार्थानां संसर्गः संसृष्टाः पदार्था वा वाक्यार्थ इति वाक्या- र्थलक्षणमवादि तच्चोभयलक्षणमखएडवाक्यार्थे न संभवति, ततः कथं वाक्यार्थलक्षणशून्यमखण्डं ब्रह्म वाक्यार्थः स्यादन्यथा तल्लक्षण- स्याव्याप्तिप्रसङ्गादित्याशङ्कयाह- पत्कर्मकाण्डनिपुणैरुदितं पुरस्ता- द्वाल्यार्थलक्षणमदः पुनरत्र नेष्टम् । - Mainment
प्रथमोऽध्यायः।
१६५
भेदादिवर्जितमखण्डमुशन्ति यस्मा-
च्छीवादरायणमतानुगता महान्तः ॥१४६ ॥
यत्कर्मकाण्डेति । पुरस्तात्पूर्वतन्त्रे कर्मकाण्डे निपुणैर्वार्तिककार-
प्रभृतिभिर्यद्वाक्यार्थलक्षणं भेदगर्भितमुक्तमदस्तल्लक्षणमत्र वेदान्ते नेष्टं
कुतः यस्माच्छीवादरायणस्य भगवतो व्यासस्य यन्मतमद्वैतं तदनु-
गता तदनुसारिणो महान्तो भगवत्पादादयः भेदादिवर्जितमत्यन्त-
भेदघोटतसंसर्गे यद्भदघटिततादात्म्यवर्जितमतएवाखण्डं संसर्गादि-
शून्यमुशन्ति वाञ्छन्तीत्यर्थः । श्राचार्या हि-"संसर्गो वा विशिष्टोवा
वाक्यार्थो नात्र संमतः। अखएडैकरसत्वेन वाक्यार्थी विदुषां मत" इति
अखएडमेव वाक्यार्थ मेनिरेऽतो भेदघटितं वाक्यार्थलक्षणमत्र नेष्यते। न
चैवं सति तल्लक्षणस्य तत्राव्याप्तिः । तस्य विशेषलक्षणत्वादस्य च विशे-
पान्तरत्वात् । न हि विशेषलक्षणं विशेषान्तरमनामवद्दुष्यति सामान्य-
लक्षणस्यैव यावद्विशेषब्यापिन्वनियमात्सामान्यलक्षणन्तु वाक्यप्रमेय-
त्वमत्राप्यस्त्येव । नचाखण्डवाक्यार्थस्य विशेषलक्षणाभावः । अपर्या-
यानेकपदैकप्रतिपादिकार्थमात्रस्यैव तल्लक्षणत्वादिति भावः ॥ १४६ ॥
।
नन्वविशेषेणोक्तमतल्लक्षणं कथं त्वदिच्छामात्रेण विशेषपरतया
नियम्यत इत्याशङ्कय किं तत्र नियमनकारणमात्रं चोचते किंवा
नियमेन कारणाभावात्सर्वोपि वाक्यार्थः संसर्गादिरूप एवेति तेषा-
मभिप्राय इति विकल्प्याद्यस्योत्तरमाह-
भेदादिरूपमवयोधयितुं समर्थ
यद्वाक्यमस्ति तदखण्डविलक्षणार्थम् ।
तल्लौकिकं भवतु वैदिकमेव वाऽस्तु
नास्माकमत्र विषये विमतिः कदाचित् ॥१४७॥
सटीक संक्षेपशारीरके-
wwmaa
war
भेदादिरूपमिति । अत्र विषये संसर्गादिरेव वाक्यार्थ इत्यस्मिन्नर्थ
विमतिविप्रतिपत्तिः । यद्धि वाक्यं भेदगर्भ पदार्थसंसर्गादिकमवबो-
धयितुं शक्नोति पदार्थभेदश्च प्रमाणसिद्धः, तेन विना च विवक्षिता-
र्थसिद्धिर्न भवति तद्गवानयनादिवाक्यं ज्योतिष्टोमादिवाक्यं चाख-
एडवाक्यार्थविलक्षणं भेदगर्भमिति संसर्गादिपरमेवास्तु । यत्र तु न
पदार्थभेदः । प्रमाणसिद्धो न वा वाक्यस्य तद्बोधसामर्थ्य न वा भेदं
विनानुपपत्तिस्तद्वाक्यमखण्डार्थमेव । अतः पदार्थभेदप्रमाणादिसत्त्वा-
सत्त्वादेरेव नियामकत्वान्नियामकाभावोऽसिद्ध इति भावः । अथ वा-
भवन्मतेऽपि वाक्यं सर्वमेवाखण्डार्थनिष्ठमुत यत्किञ्चित् । नाद्यः
क्वचिदपि प्रवृत्त्यायभावप्रसङ्गात् । न द्वितीयः-विनिगमाभावेन सर्व-
स्यापि संसर्गबोधकत्वप्रसङ्गादित्याशङ्कयाद्यमनङ्गीकारेण दूषयति-
भेदादाति । ॥ १४७॥
पदार्थभेदप्रमाणादिसत्त्वतभाबादेरेवनियामकप्रमाणस्य सत्त्वान्न
द्वितीयपक्षोक्तदोष इत्याह-
यद्वाक्यजातमथ वेदशिरोनिविष्टं
यद्वापि लौकिकमखण्डमपास्य नान्यत् ।
शक्नोति वस्तु वदितुं तदशेषमेव
ब्रूयादखण्डमिति तु प्रतिपादयामः ॥१४८॥
यद्वाक्यजातमिति । इह लौकिकवैदिकवाक्येषु मध्ये यद्वेदशिरोनिविष्वं
तत्त्वमादिवाक्यं यच्चापि लौकिकं सोऽयं देवदत्त इत्यादिवाक्यमख
एडमर्थ विहाय पदार्थभेदप्रमाणाभावादन्यद्वस्तु संसर्गादि वक्तुंन
शक्नोति अखण्डमेव मुख्यसामानाधिकरण्यबलाद्वक्तुं शक्नोति तदशेष
वाक्यमखण्डमेव ब्रूयादितिं तु वयं प्रतिपादयाम इति सम्बन्धः। अतः
स्त्वदुक्तलक्षणं विशेषपरमेवेति भावः ॥ १४८ ॥
प्रथमोऽध्यायः। १६७ WRON नन्वेतदेवानुपपन्नं यद्वाक्यस्याखण्डार्थत्वं तस्य क्वचिदप्यदर्श- नादित्याशङ्कयादौ सोऽयमित्यादिवाक्ये तदुपपादयितुं तस्य प्रकारा- स्तरेण प्रमितिजनकत्वं निराकरोति- सोऽयं पुमानिति हि मुख्यपदार्थयुक्त- वाक्यार्थबुद्धिजननस्य न वाक्यमेतत् । ईशीत वाच्यशबलस्थपवयेन संसृष्टयुद्धिजनने पदयोर्विरोधात् ॥१४॥ सोयमिति । सोयं पुमानित्येतद्वाक्यं मुख्यपदार्थों यौ तदेतद्देशकाल- विशिष्ट पिण्डौ तयोर्युक्तं योगस्तादात्म्यं तद्पो यो वाक्यार्थः तद्विष- यबुद्धिजननस्य नेशीत न समर्थ भवति कुत इतिचेत्तत्राह-वाक्येति । वाच्यौ यो शबलौ तदेतद्देशकालविशिष्टौ पिएडौ तत्स्थं तद्विषयं यत्पदद्वयं तदिदमात्मकं तेन संसृष्टबुद्धिजनने विरोधाद्विरुद्धार्थयो- स्तादात्म्यानुपपत्तरयोग्यत्वाद्वाक्यस्येत्यर्थः। अस्ति हि लोके सोऽयं देवदत्त इतिवाक्यं वृद्धः प्रयुज्यमानं तत्र न तावत्पदार्थानां वैयधि- करण्येनान्वयः। प्रथमामात्रविभक्त्यन्तपदवाच्यत्वात् । नापि नीलमुत्प- लमितिवद्विशेषणविशेष्यभावेन तदेतद्देशकालविशिष्टयोः पिएडयोः गुणगुण्यादिभावाभावात् । किञ्च तत्पदार्थोपि विशेषणं विपरीतं वा। नोभयथापि पदार्थयोर्विरुद्धविशेषणद्वयविशिष्टयोस्तादात्म्यबोधानु- पपत्तेः । न हि यद्विरुद्धधर्मावच्छेदेन यदुपस्थितं तत्रैव तद्वैशिष्ट्य वाक्यसहस्रणापि बोधयितुं शक्यं न हि रक्तोत्पलं नोलोन्पलमिति वाक्यप्रत्ययो भवति । तस्मात्सोऽयमिति वाक्यं न वाच्यार्थयोः संसर्गमवबोधयतीति भावः ॥ १४६ ॥ ननु मासूद्वैयधिकरण्येन तदेतत्पदार्थान्वयः, मा च भूद्विशेष- णविशेष्यभावेन तथापि नाखण्डार्थता सिद्धति, एकस्मिन् द्वयमितिवद् सटीके संक्षेपशारीरके- PHORATOR देवदत्ते तदेतत्कालद्वयवैशिष्ट्यमिति वैशिष्ट्यबोधसम्भवात् । न च तदेतत्पदाभ्यां तदेतद्देशकालयोर्देवदत्तविशेषणतयोपस्थितयोन देव- तविशेष्यत्वेनान्वय इति वाच्यम् । देवदत्ते दण्ड इति ज्ञानानन्तरं दण्डी देवदत्त इति ज्ञानवदुपपत्तेरित्याशङ्कयाह- एतद्धि सोऽयमितिवाक्यमखण्डनिष्टं वक्तव्यमत्र गतिरस्ति न काचिदन्या । तद्देशकालमनुष्य स इत्यनेन नायं पदार्थमुपढौकयते हि नैतत् ॥ १५० ॥ एतद्धीति । हि शब्दो हेतौ यस्मादत्र वाक्येऽन्या काचिद् गतिनास्ति तस्मात्सोऽयमित्येतद्वाक्यमखण्डार्थनिष्ठं वक्तव्यमिति सम्बन्धः । अयम्भावः । जनकज्ञाने हि येन रूपेण पदार्थोपस्थितिस्तेनैव रूपेण तति- शिष्टबोधो भवति दण्डविशेषणतया प्रतीतदण्डत्वस्य तद्विशिष्टदण्डि- ज्ञानेपि तथैव दर्शनात् । न च पुरुषे दण्ड इति पुरुषविशेष्यतया प्रती- तस्य दण्डस्य दण्डी पुरुष इति पुरुषविशेषणतया भानानायं नियम इति वाच्यम् । यद्विषयावच्छेदेन यस्य ज्ञानस्य यज्ज्ञानजनकत्वं तत्र जनकज्ञाने यद्विशेषणं तस्य तजन्यविशिष्टज्ञानेपि तथैव प्रतीतिनिय- मात् । न हि पुरुषे दण्ड इति ज्ञानं पुरुषावच्छेदेनापि दण्डी पुरुष इति ज्ञानजनकं विशेष्यज्ञानस्य हेतुत्वात् । अत एवानुमानदर्शननिष्णाताः पक्षविशेष्यकः परामर्शोनुमितिकारणमित्यङ्गीकुर्वते । अस्तु वान्यत्र यथा तथा शब्द त्वयमनियम आवश्यकः । अन्यथा-कुण्डलिन देवदत्तमानयेति प्रयोगे देवदत्तविशेषणतया कुण्डलिपदेनोपस्थितस्य कुण्डलस्य देवदत्तकुण्डलमानयेत्यपि प्रतीत्यापातात् । तथा चाने- तापि कदाचित्कुण्डलमेवानीय निरपराधी भवेत्तस्माच्छब्दोपस्थित- प्रकारेणैव शाब्दान्वयो वकव्य इति न समानाधिकरणवाक्यादेक- प्रथमोऽध्यायः॥ १६६ - स्मिन्द्वयमितिवदन्वयबोधः सम्भवतीति । ननु यद्यपि पदद्वयवा- च्यस्य विरोधान्नाभेदो बोधयितुं शक्यते तथाप्येकपदलक्षणया विरो- धोपशमसम्भवानानुपपत्तिः, न वाखएडवाक्यार्थसिद्धरिति चेत्तत्र किं लक्षितेदंपदार्थेन तत्पदवाच्यार्थस्याभेदो बोध्यते, किंवा वैपरी- त्येन तत्राद्यं दूषयति-तद्देशेति । साऽयमिति वाक्यं स इत्यनेन पदेन तौ देशकालौ यस्य विशेषणं तद्देशकालमनुकृप्याभिधावृत्त्यानीयायं पदार्थमयमितिपदलक्ष्यार्थामेतद्देशकालोपलक्षितं नोपढौकयते ह्यभे- देन न प्रतिपादयतीत्यर्थः । एतद्देशकालोपलक्षितो हि वस्तुगत्येदानी- तनः पूर्वकालीनश्च भवति । तस्याप्येतद्वृत्तिधर्माश्रयतया वाच्यार्थ- सम्बन्धित्वात्तत्र किमेतद्देशकालोपलक्षितेन तदानींतनेन तद्देशकाल- विशिष्टस्यैक्यं बोध्यते । उतेदानींतनेन । नाद्यः । एतस्य स्थायित्वा- सिद्धिप्रसङ्गात्तस्यैतत्कालीनाभेदबोधस्यैव स्थायित्वसिद्धित्वात् । न द्वितीयः । तद्देशकालयोरिदानीमभावेन तद्विशिष्टस्याप्यभावात्तद- भेदबोधानुपपत्तेः । न च सामान्येन देवदत्ते तत्कालविशिष्टाभेदो बोध्यत इति वाच्यं-सामान्यस्य विशेषं विनाऽपर्यवसानादित्यर्थः । अत एव न द्वितीयोपि सम्भवतीत्याह-नैतदिति । एतत्पदमेतद्देशकाल- विशिष्टमनुष्य तत्कालोपलक्षिततत्पदार्थ नोपढौयते हीति सम्बन्धः । किश्चान्यतरपदोपलक्षितस्यान्यतरपदार्थाभेदबोधने यदा यदा लक्ष्यप- दार्थस्तदा तदा तद्विशिष्टपदार्थोपि स्यादिति तदेतद्देशकालयोः सर्व- दावस्थानप्रसङ्गः। ननु यथा मृद्धट इति प्रयोगेण विद्यमानघटस्य मृदभेदबोधनेपि यदा यदा मृत् तदा तदा घट इति न नियमः एव- मिहापि स्यादिति चेन्न-तत्र हि सामानाधिकरण्यममुख्य कार्यका- रणयोर्भेदस्यावश्यकत्वेनैकार्थवृत्तित्वस्य मुख्यस्याभावात्ततस्तद्वा- क्येन तयोरात्यन्तिकाभेदासिद्धः। विद्यमानदशायामेव घटस्याभेदो बोधयितुं शक्यतेन चेह तद्देशकालविशिष्टदेवदत्त एतद्देशकालोपल- क्षितस्य कार्य भवति एतद्देशकालविशिष्टो वा तद्देशकालोपलक्षितस्य १७० सटीक संक्षेपशारीरके- कार्यम् । न वानयोर्गुणगुण्यादिभावः सम्भवति। अत औत्सर्गिकमुख्य- त्वस्यावाधात्सामानाधिकरण्यं मुख्यमेव सोऽयमित्यादौ भवतीति पदार्थयोरत्यन्तमैक्यमेव वक्तव्यं तत उपलक्षितकालेपि विशिष्टस्या- वस्थानमापतेदेव तस्मात्प्रत्यभिज्ञावाक्यं गत्यन्तराभावात्पदद्वयलक्ष- णयाऽखएडार्थमित्यनिच्छताप्यच्छमतिनाभ्युपेयम्। न चैवं सोऽयमिति वाक्यस्य देवदत्तस्वरूपमात्रपरत्वे कथं भेदभ्रमनिवृत्तिः, न हि स्वरूपाज्ञानाद्भेदभ्रमः, किन्त्वैक्याज्ञानादिति वाच्यम् । वाक्यस्यैक्य- बोधकतया ऐक्यज्ञानस्यापि सम्भवात् । नचैक्यस्य देवदत्तखरूपाद- तिरेके देवदत्तस्तदैक्यं तद्वैशिष्टयं चेत्यनेकार्थगोचरतयाऽखण्डार्थ त्वक्षतिः, तस्य तत्स्वरूपमात्रत्वे च ज्ञायमानेपि देवदत्ते कथं तदपरिज्ञानं कथं वायं देवदत्त इतिवाक्यीयज्ञानादपि भ्रमस्यानिवृत्तिः खरूपज्ञानस्याविशेषादिति वाच्यम् । तत्र न तावदज्ञाततानुपपत्तिः खरूपमात्रस्यापि तस्यापर्यायशब्दवाच्यत्वेन तस्योपपादितत्वात् । नाप्य यं देवदत्त इति स्वरूपमात्रज्ञानात्तन्निवृत्तिरविशेषादिति युक्तम् । विषयविशेषाभावेपि सोऽयमिति वाक्ये पदद्वयसामानाधिकारण्य तस्य च तदेतद्देशकालीनदेवदत्तैकार्थविषयत्वं विशेषणमात्रप्रयुक्त- पदार्थयाभेदविरोधञ्चानुसंदधानस्य तद्विरोधोपशमनाय भागत्या- गेनोपजायमानदेवदत्तस्वरूपमात्रगोचरैक्यज्ञानस्यैतादृशानुसंधानविरहे- णोत्पद्यमानादयं देवदत्त इति ज्ञानाद्विलक्षणकारणतया कारणचिशे- षस्य सत्वान्न हि विषयविशेषं विना कारणविशेषमात्राज्ञानम- चिद्यानिवर्तकं न भवतीति वाच्यम् । न ह्यात्मविषयानुमितिदेहा- त्मभ्रमं न निवर्तयतीति तद्विषयसाक्षात्कारोपि तन्न निवर्तयति । तस्मात्सोऽयमिति वाक्यस्याखएडार्थत्वमेव युक्तमिति भावः ॥ १५० ॥ एवं लोके वाक्यस्य कस्यचिदखण्डार्थत्वं प्रसाध्य तद्वत्तत्त्व- मादिवाक्यस्याप्यखण्डार्थत्वमाह- प्रथमोऽध्यायः । एवं सतीदमपि तत्त्वमसीति वाक्य- माश्रित्य लाक्षणिकवृत्तिमखण्डनिष्ठम् । सोऽयं पुमानिति यथा वचनं तथाऽस्तु नो चेत्समं हि तदलावुनिमजनोक्त्या ॥१५१ ॥ एवंसतीति । वाक्यस्य संसर्गबोधजनकत्वनियमाभावे सति मुख्य- समानाधिकरणवाक्यस्याखएडार्थत्वनियमे सतीति वा यथा सोऽयं पुमानिति वाक्यमखण्डार्थनिष्ठं तथेदं तत्त्वमसीति वाक्यमपि लक्षणा- वृत्तिमाश्रित्याखएडार्थनिष्ठमस्त्वित्यन्वयः। ननु कोऽयं नियमः । न हि बाधकवलात्कचित्संसर्गबोधकत्वासंभवेनाखएडार्थत्वे समाश्रिते तत्त्वमादिवाक्येपि तत्स्वीकर्त्तव्यमित्याशङ्कय समानाधिकरणापौरु- षेयवाक्यस्य प्रकारान्तरेणान्वयबोधानुपपत्तेः । अखण्डार्थत्वस्या- प्यनङ्गीकारे पदद्वयवाच्ययोस्तादात्स्यबोधो वक्तव्यः । स चानुपपन्नः । किञ्चिजज्ञत्वसर्वशत्वादिधिशिष्टयोस्तदनुपपत्तेरिति वाक्यप्रामाण्य- निर्वाहायैव लक्षणयाऽखण्डार्थत्वं स्वीकर्तब्यमित्याह-नो चेदिति । तत्तत्वमादिवाक्यं शुष्कमव्रणमलावुनिमजतीन्युक्तिरलावुनिमजनोक्तिः प्रत्यक्षबाधितं स्यादित्यर्थः ॥ १५१ ॥ ननु सोऽयमिति वाक्यस्य लक्षणयाऽखण्डार्थत्ववर्णनमुचित वाच्यार्थसम्बन्धित्वेन लक्ष्यस्य मानान्तरसिद्धत्वात् । न चाद्वितीयं ब्रह्म तद्वन्मानान्तरेण सिध्यति । ननु लक्ष्यस्य मुग्धतापरिहाराय मानान्तरं मृग्यते । स च स्वप्रकाशस्य ब्रह्मणोविनैव मानान्तरमिति चेद्भवेदेवं यदि मुग्धतापरिहारायैव मानान्तराभ्यर्थनं स्यात् किन्तु लक्षणावृत्तिप्रयोजकत्वेनापि तदपेक्ष्यते । ननु लक्षणायां लक्ष्यस्य घाच्यार्थसम्बन्धस्तत्संबन्धित्वेनाधिगतिरप्यपेक्षते नतु मानान्तरेण तदधिगतिरपीति चेन्न । प्रमाणेन प्रयोज्यप्रयोजकभाववर्णनम् । न च मानान्तराधिगततीरादावेव लक्षणां विषयीकरोति न तु वाच्यार्थ- १७२ सटीक संक्षेपशारीरके- mus- सम्बन्धमात्रे न वाधिगतमात्र इति मानान्तराधिगतिरपि लक्षणायां प्रयोजिकैव । अतस्तदभावान ब्रह्मणि लक्षणेति चेत्तत्राह- मानान्तराधिगतगोचरगामिनी स्या- च्छब्दस्य लाक्षणिकवृत्तिरिति प्रलापः। सिद्धत्वमात्रमिति लाक्षणिकप्रवृत्ते- निर्वाहकारणमनङ्गमतोऽन्यदस्याः ॥ १५२ ॥ मानान्तरेति । शब्दस्य लाक्षणिकी प्रवृत्तिर्मानान्तरेणाधिगतो यो गोचरविषयस्तद्गामिनी तद्विषयिणीत्येतत्प्रलापो निरर्थकवचन- मित्यर्थः । प्रमाणं हि व्यतिरेकमनपेक्ष्य न प्रयोज्यप्रयोजकमावं कल्पयति किन्तु मानमपेक्ष्यैवान्यथारासमादेरपि हेतुत्वप्रसङ्गात् । न चात्र मानान्तराधिगतिविरहे लक्षणाविरहः । ननु तीरादौ प्रवाह- सम्बन्धित्वेनापरिज्ञानदशायां न लक्षणा स्यादिति वाच्यार्थसम्बन्धि- त्वेनाधिगतिरप्यपेक्ष्यत इति चेत्तहि यस्य व्यतिरेकोस्ति तदपेक्ष्यतां न तु मानान्तराधिगतेरेतावता व्यतिरेकः । वाच्यार्थसम्बन्धित्वे- नाधिगतौ सत्यां तव्यतिरेकाभावादित्यभिप्रेत्याह-सिद्धत्वमात्रामिति । वाच्यार्थसम्बन्धितया ज्ञातत्वमात्रमतोऽन्यत्सिद्धत्वादन्यन्मानान्तर- सिद्ध त्वमनङ्गमप्रयोजकमस्या लक्षणावृत्तेरित्यर्थः । अधिगतमात्र च स्वयंप्रकाशे ब्रह्मणि मानं विनापि सुलभमिति भावः ॥ १५२ ॥ ननु यावत्प्रयोज्यसमानाश्रयस्यैव प्रयोजकत्वं धूमादि प्रति वह्नयादौ दृश्यते । न चैवं व्यतिरेकान्वेषणमर्थवन्तद्वयतिरेकाभावादस्ति चात्रापि यावल्लक्षणाविषयत्वसमानाश्रयत्वं मानान्तराधिगतिविषय- त्वस्येति कथं न तल्लक्षणायां प्रयोजकमिति चेत्तत्राह- मानान्तराधिगतता हि न लक्षणायां किञ्चित्करी भवति पिङ्गालतावदग्नेः ।
प्रथमोऽध्यायः। १७३ धूमस्य जन्मनि हि पिङ्गालता न हेतु- यद्यप्यवस्थितवती हुतभुक्शरीरे ॥ १५३ ॥ मानान्तराधिगततेति । किञ्चित्करी सहकारिणी पिङ्गलता रूपविशेषः । न च यावत्प्रयोजनसमानाश्रयत्वमात्रेण कारणत्वमनन्यथासिद्धस्यैव तस्य कारणत्वात् । न च यावत्प्रयोज्यसमानाश्रयत्वमेवानन्यथा- सिद्धिरपीति वाच्यम् । धूमादि प्रति वह्विरूपादेरनन्यथासिद्धि- कारणत्वयोरापातान्मानान्तरं च लोके लक्ष्याधिगतिसम्पादकतया कुलालपितृवदन्यथासिद्ध मिति न तल्लक्षणार्या प्रयोजकमित्यर्थः । वह्निरूपस्य धूमं प्रत्यकारणत्वं वादिप्रसिद्ध्योपपादयति-धूमस्येति ॥१५३॥ नन्वस्तु वेदान्तानां ब्रह्मणि लक्षणावृत्तिस्तथापि नाखण्डार्थत्वं सम्भवति । तथा हि किं तत्त्वमादिवाक्ये जहल्लक्षणा । उताजह- लक्षणा । नाद्यः । जीवब्रह्मणोर्वाक्यार्थानन्वयप्रसङ्गात् । न द्वितीयः । जीवब्रह्मणोर्लक्ष्यमाणार्थान्तरयोश्च वाक्यार्थप्रवेशेऽखएडार्थत्वहानेः । विरुद्धधर्मयोः परित्यागं विना भेदबोधानुपत्तश्च । नचैतदुभयलक्षणा- विलक्षणा लक्षणा काचिद्वादिभिरिष्यते। अत एव सोऽयं देवदत्त इति वाक्येपि नाखण्डार्थत्वसिद्धिरित्याशङ्कय लक्षणावृत्त्यन्तरमप्यस्तीति साधयति- शब्दस्य लाक्षणिकवृत्तिरपि विधेष्टा का चिजहाति न जहाति च वाच्यमन्या । भागं जहाति न जहाति च भागमन्या सोऽयं त्रिधा भवति लाक्षणिकप्रकारः ॥१५४॥ शब्दस्येति । निधैवेष्टा न द्विविधेत्यर्थः। त्रिप्रकारानेवाह-काचिदित्यादिना । जहाति स्वार्थ परित्यजति जहल्लक्षणेत्यर्थः । न जहाति स्वार्थ न परित्यजति । अजहलक्षणेत्यर्थः । भागं वाच्यार्थैकदेशं जहाति न १७४ सटीके संक्षेपशारीरके- जहाति च जहदजल्लक्षणेत्यर्थः । तथा च जहल्लक्षणावदजहल्लक्षणा- वच्च जहदजहल्लक्षणापि क्वाचित्स्वीकर्त्तव्या । अन्यथा सोऽयमित्यादौ वाक्यस्याबोधकत्वापत्तेः। न हि तद्वाक्यं मुख्यया वृत्त्या बोधयती- त्युक्तम् नापि जहल्लक्षणया बोधयितुमीष्टे । देवदत्ताभेदासिद्धिप्रस- ङ्गात् । नाप्यजहल्लक्षणयार्थान्तरस्याप्रतीतेस्तस्मात्प्रतीत्यनुरोधेन भागत्यागलक्षणैव तत्र स्वीकर्तव्येति तत्त्वमादिवाक्येपि सैव लक्षणेत्यखण्डार्थत्वमित्यर्थः। अथवा-कया लक्षणया तत्त्वमादि वाक्यं स्वार्थ लक्षयतीत्याकझायां स्वाभिमतलक्षणां दर्शयितुमादौ लक्षणात्रैविध्यं विभज्य दर्शयति-शब्दस्येति ॥ १५४ ॥ लक्षणालक्षणं चोपरिष्टाद्वक्ष्यति-तत्र लोके तावत्तिसृणामपि लक्षणानां लक्षणकथनपूर्वकं विभागक्रमेणोदाहरणमाह- गङ्गापदं हि निजमर्थमपास्य तीरे यद्वर्तते भवति सा जहती प्रसिद्धा । शोणः स्थितो बहिरितीह तु लक्षणाया- मादाय शोणिमगुणं तुरगे प्रवृत्तिः ॥ १५५ ॥ गङ्गापुदमिति । शब्दस्य निजमर्थ सर्वात्मनाऽपास्यार्थान्तरे तीरादौ यद्वर्त्तनं सा जहल्लक्षणा सा च गङ्गादिपदे प्रसिद्धत्यर्थः । अजहल्लक्ष णाभागलक्षणापरिहाराय वाच्यं सर्वात्मना परित्यज्येति विशेषणम् । भ्रान्तवाक्येऽतिव्याप्तिपरिहाराय-अर्थान्तर इति । अस्ति हि गङ्गायां घोष इतिवृद्धप्रयोगः । तत्र च गङ्गापदं न प्रवाहपरं तस्य घोषान्वयायोग्य- त्वादत एव न प्रवाहविशिष्टतीरपरं नापि निरर्थक बृद्धः प्रयुक्तत्वादतो वस्तुगत्या यद्गङ्गासम्वन्धितीरं तत्परं तत्पदमिति सा जहल्लक्षणा तत्र प्रसिद्धत्यर्थः । अजहल्लक्षणालक्षणोदाहरणे दर्शयति-शोणः स्थितइति । शोणोऽश्वत्वाधान्तरजातिनियतः शोणिमगुणः शोणो धावति शोणो प्रथमोऽध्यायः। १७५ द्वारि तिष्ठतीति हि प्रयोगे शोणपदं न शोणिमगुणपरं तस्य धावनादि- नान्वयानुपपत्तेः । नापि केवलाश्वपरं तथाऽप्रतीतेः, अश्वविशेषपरि- ज्ञानायैव वाक्यप्रयोगाच्च किन्तु स्वार्थमविहायैव तुरगेपि वर्त्तते तथा च स्वार्थ शोणिमादिगुणमादायार्थान्तरे तुरगादौ शब्दस्य या वृत्तिः सा अजहल्लक्षणा सा च शोणादिपदे प्रसिद्धत्यर्थः । जहल्लक्षणायाम- तिव्याप्तिपरिहाराय वाच्यार्थमादायेति शोणः स्थितो बहिरित्येवंरूपे इह वाक्ये या लक्षणा तस्यां तु शोणपदस्य शोणिमगुणमादायैव तुरगे प्रवृत्तिः प्रसिद्धति सम्बन्धः ॥ १५५ ॥ तृतीयलक्षणाया लक्षणोदाहरणे दर्शयति- सोऽयं पुमानिति वचस्युभयप्रकारा देशादिभागपरिवर्जनतः प्रसिद्धा । पुंसस्तु केवलमुपानतया पदाभ्या- मेवं त्रिधा भवति लाक्षणिकी प्रवृत्तिः॥ १५६ ॥ सोऽयं पुमानिति । उभयप्रकारा जहदजहल्लक्षणेत्यर्थः । तत्र हेयांश- माह-देशादिमागपरिवर्जनत इति । तदेतद्देशकालवैशिष्ट्यपरिवर्जनादु- पादेयांशमाह-पुंसस्त्विति । केवलं स्वरूपमात्रेणेत्यर्थः । वाच्यैकदेशं परित्यज्य तदेकदेशे शब्दस्य या वृत्तिस्सा जहदजहल्लक्षणा सोऽय- मित्यादौ प्रसिद्धत्यर्थः । सोयं पुमानिति वाक्ये तदिदंपदाभ्यां पुंसो देशादिभागपरिर्जनतः केवलमुपात्ततयोभयप्रकारलक्षणा प्रसिद्धति सम्बन्धः । लोके लक्षणात्रैविध्यं निगमयति एवमिति । ॥ १५६ ॥ इदानीं वेदेप्युक्तलक्षणानां क्रमेणोदाहरणं दर्शयति- वेदेऽपि लाक्षणिकप्रवृत्तिरियं विधेष्टा यज्ञायुधीति वचने तु जहत्प्रवृत्तिः । । RA सटीके संक्षेपशारीरके- वैश्वानरादिवचनेष्वजहत्प्रवृत्ति- स्तत्त्वगिरोरुभयरूपतया प्रवृत्तिः॥१५७॥ वेदेपीति । यज्ञायुधी यजमानः स्वर्ग लोकमेतीत्यत्र यज्ञायुधिशब्दो यजमाने लक्षणया प्रवर्तते। यज्ञायुधेन सह यजमानस्य स्वर्गलोक- गमनाभावात् । ननु नेदं लक्षणायामुदाहरणं यजमानपदेनैव तस्यो- पस्थितत्वाद् भूतपूर्वगत्या तदानीमपि यजमाने यज्ञायुधिशब्दप्रवृत्त्यु- पपत्तश्चेति चेन्न-यजमानपदस्यान्यत्रापि कर्तृमात्रपरस्य यागकर्तु- रुपस्थापकत्वानुपपत्तेः । नच भूतपूर्वगत्या स तमुपस्थापयतीति वाच्यम् । ऋत्विजामपि कदाचिद्यज्ञायुधत्वात्तस्माद्यज्ञायुधिपदं तत्साध्यसुकृतवत्परमिति भावः । वैश्वानरादिवचने यस्त्वेतमेवं प्रादे- शमात्रमभिविमानमात्मानं वैश्वानरमुपास्त इत्यस्मिन्वैश्वानरोपासन- परेवाक्ये वैश्वानरशब्दस्य जाठरानलादिवाचिनस्तदवच्छिन्नब्रह्मण्यप्य- जहल्लक्षणयावृत्तिः। केवलजाठरवृत्तावात्मानं वैश्वानरं तस्य ह वा एत- स्यात्मनो वैश्वानरस्येति श्रूयमाणसामानाधिकरण्यानुपपत्तेः। केव- लमात्मवृत्तौ च तस्योपास्यत्वानुपपत्तेरित्यर्थः । जहदजहल्लक्षणोदा- हरणं प्रकृतमेव महावाक्यमित्याह-तत्त्वंगिरोरिति । तत्त्वंशब्दोभय- रूपतया जहदजहद्रूपया लक्षणया स्वार्थे प्रवृत्तिरित्यर्थः । अथवा- तत्त्वंगिरोरिति सप्तमी तत्र लक्षणयोभयरूपतया प्रवृत्तिर्वर्तनमि- त्यर्थः ॥ १५७॥ । एवं तत्त्वमादिवाक्यस्य भागलक्षणयाऽखण्डार्थत्वमुक्तं भाग- त्यागलक्षणा चोपपादिता। इदानी पदार्थयोयोपादेयांश विभज्य दर्शयितुमादौ तत्पदवाच्यं शबलं दर्शयति- ब्रह्माज्ञाने ह्यद्रितीयत्वमेकं ब्रह्मण्यन्यच्चाद्वितीयत्वमस्ति ।
प्रथमोऽध्यायः। - तत्संपर्कात्तत्र चाद्वैतताऽन्या व्युत्पन्नोऽयं ब्रह्मशब्दस्तु तत्र ॥१५८॥ ब्रह्माज्ञानइति । अज्ञानं हि निखिलजगदुपादानं ब्रह्मण्यध्यस्तं तद- भिन्नमेव एवं स्वविकारादप्यभिन्नं विकारस्य विकारिणोऽनन्यत्वाद्य- द्यपि जीवब्रह्मविभागादिरनादितया नाज्ञानविकारः, तथापि तत्सत्त्व- स्याप्यज्ञानाधीनत्वात्न सोऽज्ञानादतिरिच्यते । अत श्राध्यासिकमद्वि- तीयत्वमज्ञाने विद्यते । ब्रह्मणि तु सत्यज्ञानानन्दानन्तात्मके अज्ञाना- द्वितीयत्वादन्यन्मुख्यं त्रिविधभेदाभावोपलक्षितस्वरूपात्मकं विद्यते । ब्रह्मन्यतिरेकेण कस्याप्यभावात्ततः किं न हि अज्ञानं न वा केवलं ब्रह्माद्वितीयादिपदवाच्यमज्ञानमात्रस्य वाच्यत्वे भागत्यागलक्षणानु- पपत्तिरुपादेयांशाभावाद् ब्रह्ममात्रस्यापि वाच्यत्वानुपपत्तियांशाभा- वादुक्तदोषानुषङ्गश्चेति तत्राह-तत्संपर्कादिति । तयोर्ब्रह्माज्ञानयोः संपर्का- त्परस्परतादात्म्यात्तत्राज्ञानब्रह्मोसयात्मके शबलेऽन्या केवला द्वितीय- त्वादन्याद्वितीयत्वद्वयात्मिकाद्वैतता विद्यते ततोपि किमित्यत आह- व्युत्पन्नइति । ब्रह्मवाचकब्रह्माद्वितीयतदादिशब्दः अद्वितीयद्वयात्मके तत्र शबले व्युत्पन्नो गृहीतसम्बन्ध इत्यर्थः । ब्रह्मपदार्थस्यानवच्छिन्न- महत्त्वादद्वितीयपदार्थस्यापि तद्रूपत्वात्तत्पदस्याप्यद्वयसद्वस्तुप्रकृत्या- स्मिन् प्रयोगादद्वितीयादिशब्दा अपि ब्रह्मवाचका इति भावः । एतदुक्तं भवति । यद्यपि ब्रह्मैव त्रिविधपरिच्छेदशून्यतया मुख्यमद्वितीय तथापि तस्य सकलव्यवहारातीततया शब्दवाच्यत्वानुपपत्तेः । केन चिदवच्छिन्नस्यैव तथात्वं वाच्यं तत्र यदि सद्वितीयोपाध्यवच्छिन्नं ब्रह्म भवति तदा तदुपहितस्यापि सद्वितीयत्वान्नाद्वितीयपदवाच्यं तद्भवेदतोज्ञानस्याद्वितीयतया तदुपहितं ब्रह्माप्यद्वितीयमिति तत्रैवा- द्वितीयादिपदव्युत्पत्तिरेतदर्थमेवाज्ञानस्याद्वितीयत्वं वर्णितम् नचैवं केवल एवाज्ञानेऽद्वितीये ब्रह्मादिपदानां व्युत्पत्तिः किं न स्यादिति वाच्यम् । ब्रह्मण्येव वेदान्तेषु नियमेन ब्रह्मादिपदप्रयोगात ।
१७८ सटीके संक्षेपशारीरके- HISAR न चा ज्ञानस्य ब्रह्मशब्दवाच्यत्वोपाधित्वे इतिहरिशब्दप्रवृत्तिनिमित्तप- शुत्ववत्ताटस्थ्यमेव स्यादिति वाच्यम् । न ह्यज्ञानस्यात्र तादृशमुपा- धित्वं वर्ण्यते । किन्तु केवलस्य ब्रह्मणोऽव्यवहार्यत्वेनाज्ञानशबलस्यैव तस्य तत्त्वमित्येतावतैवाज्ञानस्य तत्त्वमुच्यते। न च प्रसिद्धोपाधित्वमेव किन स्यादिति वाच्यम् । तस्य व्युत्पत्तिकाले ताटस्थ्येनोपस्थित्यभावा- दिति निःसन्धिबन्धनमित्यादिना वक्ष्यमाणत्वादिति ॥ १५८ ॥ इदानीं त्वंपदवाच्यं शबलं दर्शयति- प्रत्यग्भावस्तावदेकोऽस्ति बुद्धौ प्रत्यग्भावः कश्चिदन्यः प्रतीचि । प्रत्यग्भावस्तत्कृतस्तत्र चान्यो व्युत्पन्नोऽयं तत्र चाऽऽत्मेति शब्दः ॥ १५६ ॥ प्रत्यग्भाव इति । अत्राप्युपाधेः प्रत्यग्वर्णनस्य पूर्वोक्त एवाभिप्रायः। बुद्धावान्तःकरणेऽहंकारस्यापि घटादिव्यापृतताप्रतीतेः । आपेक्षिक प्रत्यत्त्वं पराग्व्यावृत्तत्वलक्षणं प्रतीचि तु तन्मुख्यं तस्य सर्वान्तरा- त्मत्वादित्यर्थः । अन्यत्तूक्तार्थमत्रापि शबले व्युत्पत्तिरुक्ताभिप्रायेण वर्णनीया। न च केवलान्तःकरणमेव प्रत्यगवाचकत्वमहमादिशब्दशक्यं किं न स्यादिति वाच्यम् । वृद्धव्यवहारानुरोधेन हि व्युत्पत्तिः । तद्वयवहारश्चाहमुपलभे कुर्वे इत्यादौ चिदचदात्मके तस्मिन्नेव दृश्यते न केवल इति ॥ १५६ ॥ नन्वेवं सति लक्षणा व्यर्था । वाच्ययोरेवैक्योपपत्तेः। अन्तः करणस्याविद्याविलसिततया तदभिन्नत्वेन तदुभयावच्छिन्नचैतन्ययो- रप्यभेदादित्याशय वाच्यार्थयोरुपाधिकृतविरोधाभावेपि तदन्तर्गत- पारोक्ष्यापरोक्ष्यादिधर्मप्रयुक्तविरोधस्य तवस्थत्वादुपाध्योरप्यतो प्रथमोऽध्यायः। भेदानुपपत्तेः । तदुपहितयोरपि तदयोगात्तं विना च सामानाधिकर- ण्यायोगान भागलक्षणां विना वाक्यार्थप्रतिपत्तिरिति तत्प्रतिपत्तये- प्रादेयभागं दर्शयति। तच्छब्दवाच्यगतमयभागमेक प्रत्यक्त्वमात्रमविरोधमपेक्षमाणः । त्वंशब्दवाच्यशबलस्थमुपादानो वाक्यादखण्डमथ तत्त्वमसीति विद्यात् ॥१६॥ तच्छब्दवाच्येति-पदार्थयोरविधमपेक्षमाणः पुरुषो लक्षणया सत्य- मिथ्याद्वितीयद्वयात्मके तत्प्रतिपाद्य शबलेऽसत्यं विहायापरोक्षचैतन्या- त्मकसद्ब्रह्मस्वरूपमद्वयभागमेवं तथाविधप्रत्यग्द्वयात्मकत्वं पदवाच्य- शवलगतं वितथं परित्यज्यावितथाद्वयं प्रत्यक्त्वं चोपाददानस्तत्त्व- मसीति वाक्यादखण्डमात्मानं जानीयादित्यर्थः । अत्रोपाधिपरित्यागे तत्प्रयुक्तविरुद्धधर्मोपि परित्यक्त इति:न विरोध इति भावः ॥ १६० ॥ नन्वेवमप्यखएडार्थत्वमनुपपन्नं पदद्वयलक्ष्यस्य भिन्नत्वात्तदभेदे वा पदयोः पर्यायत्वप्रसङ्गात् । न च प्रवृत्तिनिमित्तभेदादपर्यायत्व- मिति वाच्यम् । तद्वैशिष्टयस्यापि वाक्यजन्यप्रतीतिविषयत्वेनाख- एडत्वहानिप्रसङ्गाच्छाब्दबोधस्य प्रवृत्तिनिमित्तवैशिष्ट्यविषयत्वनिय- मात् । न चेदं पशुत्वादिवत्तटस्थतया प्रवृत्तिनिमित्तमिति स्वीक्रियते । ननु वाच्यार्थवैशिष्ट्यबोध एवायं नियमस्तत्रैव तत्पुरस्कारेण- तदुपस्थितेः लक्षणायां तु न प्रवृत्तिनिमित्तापेक्षाअतो न तद्वैशिष्टय मत्र विषय इति चेन्न । एवमप्येकार्थोद्देशेन पद्वयप्रयोगप्रयोजना- भावान्न हि गङ्गायां तीरे घोष इति प्रयोगोऽर्थवान्भवति । लक्ष्य- पदार्थेपि लक्ष्यतावच्छेदकवैशिष्टयज्ञानस्यावश्यकत्वान्नाखएडार्थत्व- सिद्धिरित्याशङ्कयाह- १८० सटीके संक्षेपशारीरके- प्रादेयांशे नाणुमात्रोऽपि भेदो यद्यप्येवं भिन्नमादाय शब्दौ । वर्तते त्वय्यदयात्मप्रकाशे बाह्यं हेतुं जामिता नास्ति तस्मात् ॥ १६१ ॥ आदेयांश इति । आदेये वाक्यार्थत्वेनोपादेये भागेऽणुमात्रोऽ- ल्पोपि भेदो यद्यपि नास्ति अनेन पदार्थभेदप्रयुक्तो दोषो निरस्तः । अभेदप्रयुक्तदोषं निराकरोति-एवमित्यादिना । एवमपि जामिता पर्यायता नास्तीति सम्बन्धः । तत्र हेतुः-शब्दाविति । तत्त्वंशब्दौ भिन्नं बाह्य- स्वरूपाद्वहिर्भूतं हेतुं प्रवृत्तिनिमित्तमादायाद्वयात्मप्रकाशे त्वयि वर्त्तते यस्मात्तस्माजामिता नास्तीत्यर्थः । यदत्रोक्तमेकस्मिन्नर्थे पदद्वयप्रयोगो निष्प्रयोजन इति तदसत् अविद्यानिवृत्तिफलकवाक्यार्थप्रमितेरेव तत्प्र- योजनत्वात् दृश्यते हि परमतेप्येतादृशप्रयोजनायैकस्मिन्नप्यर्थे पदद्वय- प्रयोगः। प्रमेयत्वं प्रमेयं प्रमेयत्वे प्रमेयत्वमित्यादि । न चेयं प्रतीति- रन्यथाप्युपपन्ना पदमात्रस्याप्रमापकत्वादेतदभिप्रेत्योक्तमद्वयात्मप्रकाश इति । वाक्यार्थभूते त्वयीत्यर्थः । ननु भवन्मते पदमपि प्रमापक भवतु न हि पदार्थातिरिक्तस्तत्र वाक्यार्थोऽस्ति मतान्तरे तु संसर्गस्य पदागोचरत्वात् न तत्प्रमापकमिति चेन्न । यथा समानार्थकत्वेपि मनस्त्वेन मनोजन्यं ज्ञानं परोक्षमिन्द्रियत्वेन तच्चन्यं त्वपरोक्षं यथा वा शब्दज्ञानत्वेन तजन्यमर्थज्ञानं शाब्दं लिङ्गज्ञानत्वेन शब्दज्ञानजन्यं त्वनुमितिरिति विभागः । तथास्मन्मतेऽप्यर्थभेदाभावेपि पदत्वेन तजन्यं तु ज्ञानं न प्रमा पदसमूहवाक्यत्वेन तजन्यं तु प्रमेति व्यवस्थोपपत्तेः। किं च सर्वेषामपि वादिनां पदजन्य पदार्थज्ञानं किमिति न प्रमेति चोदितेऽर्थस्य तथात्वेपि पदत्वेन पदजन्यत्वादि- त्येव वक्तव्यमिदं त्वन्यदेव स एवपदार्थोऽन्येनापि भवन्मते प्रतीयते । अस्मन्मते त्वन्य पवेति । यच्चोक्तं लक्ष्यतावच्छेदकवैशिष्टयप्रतीतिनियमा- प्रथमोऽध्यायः । १८१ नाखएडार्थत्वमिति तदपि न साधु न ह्ययं कुलधर्मः लक्ष्ये लक्ष्यता- वच्छेदकवैशिष्ट्येन भवितव्यमिति । स धर्मः किंलक्ष्यपदार्थानुगमाय स्वीक्रियते किंवा शाब्दबोधस्य विशिष्टवैशिष्टयनिर्वाहायाद्योऽनुचितः प्रकृते लक्ष्यस्यैकत्वेन स्वतोऽनुगतत्वान्न द्वितीयोपि विशिष्टवैशिष्टयस्य प्रकृतेऽविषयत्वात् । ननु सवापि शाब्दबोधो विशिष्टवैशिष्टयविषय एवेति चेन्न। यत्र हि पदार्थानां भेदस्तदवच्छेदकधर्मश्च प्रमाणाविरुद्ध- स्तत्रैवायं नियमः । अन्यथा शाब्दान्वयप्रतियोगिनोरन्योन्यप्रतियो गिकभेदाश्रयत्वनियमाच्छब्दात्केवलान्वयिधर्मे तद्वैशिष्टयबोधानुदय- प्रसङ्गादत्र च लक्ष्यभेदे तदवच्छेदके च प्रमाणाभावात्प्रत्युत एक- धैवानुद्रष्टव्यमिति वाक्यार्थस्यैकरस्यश्रुतेश्चाखण्ड एव शाब्दबोध- विषय इति ॥ १६१॥ ननु प्रत्यग्ब्रह्मणोर्लक्ष्यार्थयोरेकत्वेप्यतिरेको वक्तव्यः । प्रत्यक्- त्वाद्वितीयत्वयोविलक्षणप्रतियोगिकयोर्विरुद्धत्वेन तदाश्रयस्यात्यन्त- मभेदानुपपत्तेरतो नाखण्डार्थत्वसिद्धिरित्याशङ्कते- अद्वैतेऽर्थे प्रत्यगर्थोऽस्ति तद्व- प्रत्यक्त्तत्वे चाहयस्यापि भावः। यद्यप्येवं नातिरेकावकाशः पूर्णे तत्त्वे तत्त्वमर्थोपपत्तेः॥१६२॥ अद्वैतेऽर्थ इति । अद्वैतेऽर्थे तत्पदार्थब्रह्मखरूपे प्रत्यगर्थः प्रत्यक्ख- रूपमरोक्षचैतन्यं विद्यते । प्रत्यक्तत्त्वे जीवखरूपे चाद्वयस्य ब्रह्मस्वरूप- स्य भावोस्तित्वं प्रत्यगेव ब्रह्म ब्रीव प्रत्यगिति यद्यपि भवति एव- मप्यतिरेकस्याभेदतावन्मात्रविरोधिनो धर्मस्येषभेदस्यावकाशः सत्वभावो वक्तव्यः । अन्यथा पराग्व्यावृत्तत्वलक्षणतया परागघटित-। प्रत्यक्त्वस्य तदभावघटितास्यत्वस्य चैकत्र वृत्त्यनुपपत्तरित्यर्थः ।
१८२ सटीके संक्षेपशारीरके- । दूषयति-नेति । अतिरेको न वक्तव्य इत्यर्थः । तत्र हेतुः पूर्णइति । ईषद्रे- देनापि रहिते एकरसे सत्येव तत्त्वे ब्रह्मात्मैक्ये तत्त्वमर्थोपपत्तेस्तत्त्वं पदलक्ष्याद्वितीयत्वप्रत्यक्त्वयोरुपपत्तरित्यर्थः । यदि ह्यद्वितीयस्वरूपा- त्प्रत्यगतिरिक्तं स्यात्तदा तस्याद्वितीयन्वं निरङ्कुशं न स्यादेवमेव यदि प्रतीचोद्वयमतिरिक्तं स्यात्तर्हि प्रतीचः सर्वान्तरत्वलक्षणं प्रत्यक्त्वं न स्याद्रूपान्तरस्यापि सत्त्वादतस्तत्त्वमर्थोपपत्त्यर्थमेव ब्रह्मा- स्मैक्यस्यैकरसत्वं वक्तव्यमित्यर्थः । अयम्भावः । यदि प्रत्यक्त्वम- द्वितीयत्वं वाऽऽत्मनो धर्मो भवेत्तदा तयोविरुद्धयोरेकवृत्तित्वा- नुपपत्तिः । न चैवमस्ति चैतन्यैकरसस्यैव पराग्व्यावृत्तत्वाकारेण द्वितीयाभाववत्त्वेन च प्रत्यक्त्वाद्वितीयत्वादिरूपेण व्यवह्रियमाणत्वा- द्यथैक एव देवदत्तः पितृपुत्राद्यनेकापेक्षया पुत्रपित्रादिव्यवहारवान् ततोऽतिरेको न वक्तव्य इति ॥ १६२॥ नन्वेकपदलक्षणयापि वाक्यार्थविरोधपरिहारोपपत्तौ किं पद- द्वयलक्षणया न हि स्वाभिमतवाक्यार्थसिद्धय एव मुख्यार्थात्पदं प्रच्यावयितुं शक्यते लक्षणाया अन्याय्यत्वात्तथा च नाखएडार्थत्व- सिद्धिरित्यत आह- न च विनिगमनायां कारणं किञ्चिदस्ति स्फुटमुभयपदस्था लक्षणा शस्यतेऽतः न हि विनिगमनायां हेत्वभावे कदाचि- त्वचिदियमुपलब्धा सोऽयमित्यादिवाक्ये॥१६३॥ न च विनिगमनायामिति । अत्रैवेदं नान्यत्रेति विशेषे निगमनमुपसंहारो विनिगमना तस्यां यतोऽस्मिन्नेव पदे लक्षणा नान्यत्रेति विनिगमने स्फुटं प्रसिद्धं कारणं किञ्चिदपि नास्त्यत उभयपदस्य लक्षणा शस्यते प्रशस्यत इत्यर्थः । ननु किं विनिगमनहेतुना तं विनाप्यन्यतरलक्षणया प्रथमोऽध्यायः। १८३ । विवक्षितार्थोपपत्तेरित्याशङ्कयाह-न हीति । कदाचिक्वचिदपीयमेकपद- लक्षणा न तथा चैकपदलक्षणाया एवानुपपन्नत्वान्न तया विरोधपरि- हार इत्यर्थः ॥ १६३॥ विनिगमनहेत्वभावोऽसिद्धः- तथा हि यत्पदं प्रथमं पठ्यते तदसंजातविरोधितया मुख्यार्थ तद्विरोधेन द्वितीयपदे लक्षणाऽस्त्वि- त्याशङ्कयाह- प्रथमचरमभावो निर्णये कारणं चे- दयमपि नियमो न ह्यन्यथाऽप्यस्य दृष्धेः । प्रथमपठितमासीत्तत्पदं सामवेदे चरमपठितमेतदृधुमध्वर्युवेदे ॥१६४॥ प्रथमेति । प्रथमपठितत्वं च चरमपठितत्वं च मुख्यलक्षणावृत्ति- निर्णये कारणमिति चेद्भवेदेवं यदि पदयोः प्रथमचरमभावो नियतः स्यान्न चायं नियमोऽस्ति व्यभिचारादित्याह-अयमपि नियमइति । प्रथम- चरमभावोपि न हीत्यर्थः । तत्र हेतुः- अन्यथेति । वैपरीत्येनापि पदयोः प्रथमचरमभावस्य दृष्टरित्यर्थः। कुत्र वैपरीत्यं दृष्टमित्यत श्राह- प्रथमपठितमिति । तत्त्वमसीत्यत्र तत्पदं प्रथमं पठ्यते एतदेव पदमर्थतोऽ ध्वर्युवेदे यजुः शाखायामयमात्मा ब्रह्माहं ब्रह्मास्मीत्यादौ पश्चात्पठ्यते अतो नायं नियमहेतुरित्यर्थः । ननु यस्यां शाखायां यत्पदं प्रथम श्रूयते तस्य तच्छाखिनो मुख्यार्थ एवाङ्गीकर्तव्यः प्रतिपत्तुरिच्छया वा व्यवस्था । अतः पुरुषभेदेन वाक्यार्थनियमो भविष्यतीति चेन- मुक्तिसाधनात्मज्ञानस्य सर्वत्रैकरूप्यनियमान हि कस्य चिदद्वितीया- न्मज्ञानं मुक्तिसाधनं कस्य चित्कात्मज्ञानमित्युपपद्यते । फलवैषम्या- पाताद्वस्तुतत्त्वस्यैकरूपतया पुरुषभेदेन विषयज्ञानद्वयस्य प्रामाण्या- नुपपत्तेः नहि स्तम्भेस्तम्भकुम्भोभयज्ञानमपि पुरुषभेदेन प्रमाणं भवति। - WHABAR ।
सटीके संक्षेपशारीरके- wamine न च वाग्धेनुत्वादिज्ञानवद्विनैव प्रामाण्यं पुरुषसमीहितसाधनमिति वाच्यम् । अविद्यानिवृत्तेः प्रमाणैकफलत्वात् वाग्धेनुत्वादिज्ञानं तु चोदितत्वेन यागादिवत्क्रियात्वाकारेणैव पुरुषसमीहितं साधयति । ततः पदद्वयलक्षणां विना वाक्यार्थव्यवस्थितेस्तव्यवस्था विना तज्ज्ञानस्य प्रामाण्यायोगात्तद्विना चाविद्यानिवृत्त्यभावापातात्पदद्वय- लक्षणावश्यकीति ॥ १६४॥ लोके चोभयपदलक्षणावश्यं वक्तव्या अन्यथा विरोधप्रतीतेर- निवृत्तेरिति स्थितेप्युक्तहेतुनापि तत्रोभयपदलक्षणया भाव्यमित्याह- सोऽयं पुमानयमसाविति पौरुषेये वाक्ये तथा व्यतिहृतेऽत्र विशेषहेतुः । पूर्वापरत्वमिति शक्यमिदं न वक्तुं मुख्यत्वलाक्षणिकते प्रति शब्दवृत्त्योः॥१६॥ सोऽयमिति । यथा वेदे तथा सोऽयं पुमानित्यत्र वाक्ये शब्दवृत्त्यो- मुख्यत्वलाक्षणिकते प्रतीदं पूर्वापरत्वविशेषहेतुर्विनिगमनहेतुरिति वक्तुं न शक्यमित्यर्थः । अत्र हेतुत्वेन वाक्यं विशिनष्टि-व्यतिहृतइति । व्यत्यासमभिनीयाऽऽह-अयमसाविति । ननु वेद इव लोके श्रूयमाणक्रमनि- यमाभावात्वचिद्दर्शनानुरोधेन व्यत्यासेप्यसौशब्दस्य प्राथमिकत्वमभि- प्रत्य तस्य मुख्यवृत्तिरुपादीयतामित्याशङ्कय तनियमस्याभावाद्दर्शनस्य तत्रापि सत्त्वादित्यभिप्रायेणाह-पौरुषेय इति । पुरुषेच्छया निष्पाद्य इत्यर्थः। तथा च लोकेपि पुरुषेच्छया क्रमव्यत्ययसम्भवान्न प्रथम- चरमभावो (१) मुख्यलक्षणा-वृत्त्योहेतुरित्यर्थः ॥ १६५ ॥ (१) शब्दवृत्त्योर्मुख्यत्वलाक्षणिकत्वे प्रतीदं पूर्वीपरत्वविशेषहेतुविशेष एव विनिगमन- हेतुरिति वक्तुं न शक्यमिति सम्बन्धः । अत्रापि वाक्यप्रयोक्तॄणामुच्चारणे पूर्वापरत्वनियमाऽ दर्शनादिति भावः ।
प्रथमोऽध्यायः । १८५ Home ननु किं वेदे लक्षणया वाच्यार्थयोरेवैक्यं बोध्यतां न हस्ति वचनस्यातिभारः । न च मानान्तरबाधान्न वाक्यमैक्यं बोधयतीति बाच्यम्,अबाधितविषयत्वस्यानुमितिसामयामेवप्रविष्टतया शाब्दसा- सश्या तदननुप्रवेशादत्रैव तदपेक्षायां च वेदस्य सापेक्षत्वप्रसङ्गादित्या- शङ्कय माभूदवाधितत्वस्य शाब्दसामध्यामनुप्रवेशः । तथैव योग्यता वापेक्षणीयैव तस्याः शाब्दज्ञानैकसामग्रीनिविष्टत्वात्सा च वाक्या- बाधलक्षणा न लक्षणां विनेति सावश्यमङ्गीकर्त्तव्येत्याह- न च भवति विरोधम्योत्थितस्यापनीतिः पदयुगलनिविष्टां लक्षणामन्तरेण । न हि भवति कदाचित्सदयस्यायत्वं न च भवति परोक्षः प्रत्यगर्थोऽपि तद्वत् ॥१६६॥ न च भवतीति । विरोधशमनाय. लक्षणा वक्तव्या । सा च विनि- गमनाभावात्पदद्वयेपीत्यभिप्रेत्योक्तं पदयुगलेति । ननु माभूदेकपदलक्ष- णापि (१) तथापि विरोधपरिहारः सम्भवति त्वंपदार्थ हि मानान्तर- प्रसिद्धभुद्दिश्य तस्याज्ञाततत्पदार्थब्रह्मभावोऽभिधीयते, उद्देश्यगत- विशेषणानि च न विवक्षितानि भवन्ति ग्रहैकत्ववदिति मीमांसा- मर्यादा, तथा च त्वंपदार्थविशेषणसद्वयत्वकिञ्चिज्ञत्वादीनां सर्वज्ञत्वादिना विरुद्धार्थानां विनापि लक्षणां वाक्यजन्यबुद्ध्या अवि- षयीकरणादिति चेत्सत्यं तथापि यथा सद्वयस्य त्वंपदार्थस्याद्वयत्वं विरुद्धम् एवं सद्वयत्वादिविशेषणानामविवक्षायामपि त्वंपदार्थप्रत्यक्- स्वरूपापरोक्षताश अविवक्षानुपपत्तेः । परोक्षस्य ब्रह्मणः तदात्मत्वं विरुद्धमित-न हीति । अपि शब्दो यथार्थे, च शब्दः शङ्कानिवृत्तये, यथा कदाचिदपि सद्वयस्याद्वयत्वं न भवति तद्वत्परोक्षः परमेश्वरोपि (१) लक्षणापीति । अनुक्तसमुच्चयार्थोऽपिशब्दरतेन विपदलक्षणापि माभूदिति तात्पर्यम् ।
१६ सटीक संक्षेपशारीरके- प्रत्यगपरोक्षप्रत्यगात्मा न भवतीत्यर्थः । अथ वैकपदलक्षणायामपि न विरोधपरिहारः अपरोक्षानुभवैकरूपप्रतीचः सत्यायेकरसब्रह्मणो वा परोक्षत्वादिविशिष्टब्रह्मणाऽनृतदेहादिविशिष्टप्रतीचा वाऽभेदानुप- पत्तेः । न च तत्पदलक्षणया परोक्षत्वादिपरित्यागात्त्वंपदार्थस्य चोद्देश्यतयाऽविवक्षितविशेषणत्वादुभयपदलक्षणां विनापि विरोध- परिहार इति वाच्यम्, त्वंपदार्थधर्मकिञ्चिजज्ञत्वादिपरित्यागेपि तत्स्वरूपशबलस्य सद्वयस्य परित्यागानुपपत्तेः । न चाहंकारा. वच्छिन्नस्य ब्रह्मणात्यन्तिकाभेदः सम्भवति । न च काल्पनिक तादात्म्यं श्रुत्या प्रतिपाद्यम् । न च त्वंपदार्थ एवोद्देश्य इति नियमः श्रुतिसिद्धतत्पदार्थस्यापि तत्सम्भवात्तथा च श्रुतिः 'तत्त्वमेव त्वमेव तदिति तस्मात्पदयुगलक्षणया भवतिव्यमित्यभिप्रेत्याह- न च भवतीति ॥ १६६ ॥ ननु जीवेश्वरयोविरुद्धधर्मयोरपि वस्तुतो भेदाभेदाद्वाच्ययोरैक्यं बोध्यतां किं लक्षणयेत्याशङ्कय किं सहयत्वाद्वयत्वाकारेणापि तयोरैक्यं वाक्येन बोध्यते किं वा चैतन्याकारण नाध इत्याह- अविरुडविशेषणयप्रभवत्वेऽपि विशिष्टयोईयोः । घटते न यदैकता तदा नितरां तद्विपरीतरूपयोः॥१६७॥ अविरुद्धेति । यदा एकधर्मवृत्तियोग्यदण्डकुण्डलादिविशेषणद्वय- प्रयुक्तयोर्दण्डिकुण्डलिनोर्न दण्डित्वकुण्डलित्वाकारेणैकत्वं युज्यते । न हि दण्ड्य व कुण्डली कुण्डली वा दण्डी भवति दण्डादौ कुण्डला- दिसम्बन्धाभावात्किन्तु पुरुष एवोभयविशिष्टो भवति तदा किमु वक्तव्यं विरुद्धविशेषणद्वयकिञ्चिज्ज्ञत्वादिशिष्टयोरभेदो न युज्यत इत्यत्रेत्यर्थः ॥ १६७ ॥ द्वितीयमनूद्य निराकरोति- MAIN प्रथमोऽध्यायः। । अथ केन चिदात्मनकता वचनेन प्रतिपाद्यते तयोः । तदसुन्दरमस्तमेति हि स्फुटमेवं त्रिविधाऽपिलक्षणा।१६८। अथेति । अथेति चोये तत्त्वमादिचचनेन तयोर्जीवपरयोः केन चिदात्मना चैतन्याकारणाभेदः प्रतिपाद्यत इति यदि वृषे इत्यर्थः । दूषयति-तदसुन्दरमिति । त्वदुक्तमसमीचीनमित्यर्थः । तत्र हेतुः अस्तमात । हिशब्दो हेतौ। यस्मादेवं सति त्रिविधापि लक्षणा नश्यति तस्मा- सदसुन्दरमिति सम्बन्धः । चैतन्यस्य जीवपरयोर्धमत्वेन तेनापि रूपेण तदभेदः सम्भवति । तस्य तत्स्वरूपत्वेपि तदेकत्वे तत्रैकस्मि- विरुद्धयोः सर्वज्ञत्वकिश्चिजज्ञत्वयोः समावेशोऽनुपपन्नः । न च तदा- श्रयस्य चैतन्यस्य भिन्नाभिन्नत्वाददोष इति वाच्यम् । किं तयोश्चैत- न्याकारेणैव भेदं वक्तुमुद्यतोऽसि । तथा सति चैतन्याकारणाभेदश्ते- नैव भेद इति च महदसमक्षसमापद्येत । चैतन्याकारणाभेदः किञ्चिज- ज्ञत्वसर्वज्ञत्वाद्याकारेण भेद इति चेतिक भेदाकारप्रयोजको धर्मश्चै- तन्यमाने उत स्वावच्छिन्ने । नाऽन्त्यः । स्ववृत्तिविरोधात् । न प्रथमः । निरंशचैतन्यस्यैकत्वे विरुद्धधर्मसमावेशानुपपत्तेरुक्तत्वाञ्चैतन्यस्य भेदे वा कथं तदभेदबोधः समुदीयात्। अस्तु वायथा कथञ्चित्त्वन्मतं येन केनापि प्रकारेण विरोधः परिहर्तुं शक्यत इति तावता न लक्षणाक्षेप- महति । प्रसिद्धलक्षणाया अप्युच्छेइप्रसङ्गाद् गङ्गायां घोष इत्यत्रापि गङ्गापदस्य प्रयोगभेदे तीरादावपि शक्तिः सतम्या वा सामीप्यमपि मुख्योऽर्थ इति लक्षणोच्छेदप्रसङ्गात्सोमेन यजेतेत्यत्रापि सोमकरण- केनेत्यर्थकल्पनायां मत्वर्थलक्षणा पीड्येत तस्माद्यथाशक्तिभेदादि- दोषवशाल्लोके वेदे च लक्षणा कल्प्यते । एवमत्राप्येकधैवानुद्रष्टव्य- मिति श्रुतिबलादुक्तन्यायाञ्च तत्त्वमादिवाक्यविवक्षितान्वयसिद्ध्यर्थ- मेव पदद्वयलक्षया वाच्येति भावः ॥ १६८ ॥ एवं शबले व्युत्पत्तिमुपपाद्य भागलक्षणया वाक्यार्थ उपपादितः ।
सटोके संक्षेपशारीरके-
इदानीं केवल एवात्माध्यस्तेऽज्ञानेऽहंकारे च ब्रह्मात्मपदयोव्युत्प-
त्तिरात्मनोऽव्यवहार्यत्वेन तत्र व्युत्पत्त्यनुपपत्तेः । ननु शवले व्युत्पत्तिर्न
विरुद्ध्यत इति चेन्न । विचारात्पूर्व शबलपरिज्ञानाभावादुभयत्र
शक्तिकल्पनागौरवाच । न च ब्रह्मणि तत्प्रयोगानुगपत्तिः । लक्षणयापि
तदुपपत्तेः । ततो जहल्लक्षणायाऽखएडवाक्यार्थबोध इत्याह-
साभासाज्ञानवाची यदि भवति पुनर्ब्रह्मशब्दस्तथाहं-
शब्दोऽहंकारवाची भवति तु जहती लक्षणा तत्र पक्षे ।
नौरेषा रौति लोहं दहति विषधरो रज्जुरग्रे तवासा-
वित्यत्रेवाऽऽत्मवस्तुन्यपि भवतु जहल्लक्षणा को विरोधः
साभासेति । अाभासेन सहितमज्ञानं साभासाज्ञानं आभासो नामा-
स्मनो ज्ञानादिनिष्ठत्वं नाम धर्मः । जहल्लक्षणया वाक्यार्थबोधे दृष्टान्त-
माह-नौरित्यादिना । विषधरः सर्पः। अत्र पक्षे यदीत्यनेननास्वारस्य
दर्शितं तत्र च निमित्तं लोके वेदे क्वचिदप्यहंकारमात्रेऽज्ञाने च तत्त्वं.
पदप्रयोगाभाव एव । न हि प्रयोग विनापि तत्र व्युत्पत्तिः सम्भवति
केवलात्मनो व्यवहार्यत्वेपि शबले व्युत्पत्तिः सम्भवत्येव शाबल्यप-
क्षोक्तदोषश्चोपरिष्टान्निराकरिष्यत इति ॥ १६६ ॥
एवं व्युत्पत्तिपक्षे गौण्यापि वृत्त्या वाक्यार्थमखण्डमाह-
प्रत्यक्त्वादिगुणान्वयेन यदि वा गौण्यस्तु वृत्तिस्तयो-
ब्रह्माहंपदयोः परेतरदृशोमुख्ये विरोधो यतः ।
मुख्यार्थानुपत्तिहेतुकतया गौण्यस्ति वृनिर्यतो
लोके माणवको विभावसुरसौ सिंहः पुमानित्यपि॥१७०॥
प्रथमोऽध्यायः। प्रत्यक्त्वादिति । यदि वा यद्वा ब्रह्माहंपदयोरज्ञानाहंकारमात्रव्युत्प- नयोर्यतो मुख्य मुख्यार्थाभेदे विरोधः । अद्वितीयब्रह्मप्रतिपत्त्यनुपपत्तिः ततः परेतरदृशो जीवपरयोः प्रत्यक्त्वाद्वितीयत्वगुणन्यायेन गौणी वृत्ति- रस्स्विति सम्बन्धः । परेतरदृशोरिति । सप्तमी अत्र यद्यपि प्रत्यक्त्वाद्वि- तीयत्वे जीवपरयोः स्वरूपमेव तथाप्यारोपितभेदेन गुणत्वोक्तिर- विरुद्धोति भावः । ननु वृत्तिद्वयव्यतिरेकेण तृतीया वृत्तिर्नास्तीत्य- त्राह-मुख्यार्थीनुपपत्तीति । यतो लोके मुख्यार्थानुपपत्ती सत्यां मुख्यार्थ- गुणयोगविवक्षायां गौणी वृत्तिरस्ति ततो वेदेपि सा अविरुद्धत्यर्थः । लोके कुत्र प्रसिद्धिरित्यत आह-माणवके विभावसुरिति । अग्निर्माणवकः सिंहो देवदत्त इत्यादौ चाग्न्यादिभावस्य माणवकादावनुपपत्तेस्तद्- गुणशुचित्वशोर्यादिनिमित्तोयं प्रयोग इत्यर्थः ॥ १७० ॥ ननु लक्षणागौण्योः को भेदः, परत्र परशब्दवृत्तेरुभयत्रापि- तुल्यत्वात्सत्यमस्त्युभयत्रापि परत्र परशब्दवृत्तित्वम् अत एवोभयत्रापि वृत्तेरुपचारव्यवहारः । अत एव केषांचित् तयोरेकवृत्तिवाभिमानः । तथाप्यनुमानत्रैविध्यवदवान्तरलक्षणभेदाढ़ेद इत्याह- परशब्दवृत्तिरपरत्र भवेदिति यद्यपीदमुभयोः सदृशम् । अनयोस्तथाऽपि तु विभागकर स्फुटमस्ति लक्षणमवान्तरकम् ॥१७१॥ परशब्देति । उभयोर्लक्षणागुणवृत्त्योः परत्र माणवकतीरादौ परश- ब्दस्य गङ्गाग्न्यादिशब्दस्य वृत्तिरिति । इदन्तु लक्षणं सदृशं यद्यपि तथाप्यनयोवृत्त्योविभागकरं परस्परभेदप्रयोजकमवान्तरकं लक्षणं स्फुटमस्तीति सम्बन्धः ॥ १७१ ॥ किं तद्विशेषलक्षणमित्यत्राह- । - १६० सटीके संक्षेपशारीरके- । । गुणतो गुणवृत्तिरिष्यते ह्यपरा लाक्षणिकी तु संगते। इति भेदकमस्ति लक्षणा गुणवृत्त्योरिति वेवादिनः ॥१७२॥ गुणत इति । वाच्यार्थगुणयोगादित्यर्थः । सङ्गतो वाच्यार्थसम्बन्धा- दित्यर्थः । वाच्यार्थगुणयोगादन्यत्र शब्दवृत्तिः गौणी वाच्यार्थसम्ब- न्धमात्रादन्यत्र शब्दवृत्तिलक्षणेति भेद इत्यर्थः। तदुक्तम्-'अभिधेयाविना. भूतप्रवृत्तिलक्षणेष्यते । लक्ष्यमाणगुणैर्योगे वृत्तरिष्टा तु गौणतेति'। एतदुभयं च मुख्यार्थानुपपत्तावेव स्वीक्रियते इति नातिप्रसङ्ग इति भावः । अग्निर्माणवक इत्यादावग्निशब्दस्य स्ववाच्याग्निगतशुचि- त्वादिसम्बन्धेनैव माणवके वृत्तिः न तु सम्बन्धिमात्रे तद्वैशिष्ट्यस्यैव ततोऽवगमाल्लक्षणायां च तस्य गुणत्वेनाऽपुरस्करणीयत्वात्सम्बन्धि- त्वमात्रस्यैव तीरादेरपेक्षितत्वादिति वृत्तित्रैविध्यमिति भावः ॥१७२॥ एवं तत्वमस्यादिवाक्यस्य भागलक्षणया जहल्लक्षणया गौण्या वा वृत्या सर्वत्राप्यखण्डैकरसब्रह्मण्येव तात्पर्यमिति वर्णितम् । इदानीं लक्ष्यपदार्थद्वयस्वरूपमवान्तरवाक्यैर्निर्धारयिष्यनिर्धारितस्वरूपमादाय महावाक्यार्थ दर्शयति- नित्यः शुद्धो बुडमुक्तस्वभाव: सत्यः सूक्ष्मः सन्विभुश्वाद्वितीयः। आनन्दाब्धियः परः सोऽहमस्मि प्रत्यग्धातुर्नात्र संशीतिरस्ति ॥१७३॥ नित्यःशुद्ध इति । प्रत्यग्धातुरहं यः परो नित्यशुद्धत्वादिदशविशेष- णात्मकः सोऽस्मि अत्र संशीतिर्नास्तीति सम्बन्धः । प्रत्यगिति प्रथमोऽध्यायः। । त्वंपदलक्ष्यनिर्देशः । पर इति तत्पदलक्षणविशेष्यब्रह्मनिर्देशः । पर- मात्मेत्यर्थः । तस्यैव स्वरूपभूतानि नित्यशुद्धत्वादीनि दशविशेषणानि तस्यार्थः-नित्यो विनाशाभावोफ्लक्षितस्वरूपः, अनेन कालपरि- च्छेदो निराकृतः-अनन्तभावस्यानादित्वनियमात् । अथवा नित्यपदेनैवो- भयकालावधिशून्योपलक्षितं स्वरूपमुच्यते-तादृग्रूप एवात्मादौ नित्यपदप्रयोगात्। शुद्धः मालिन्याभावोपलक्षितस्वरूपः, तन्मालिन्यस्य रागादेर्पङ्कादेर्वा तत्राभावाच्छुद्ध एव परमेश्वरः । अथवा-शुद्धपदेन शब्दस्पर्शादिजन्यशुद्ध्यभावोपलक्षितस्वरूपमभिधीयते । बुद्धस्वभावः चैतन्यस्वरूपः। मुक्तस्वभावः पारतन्त्र्यविरोधिस्वातन्त्र्यस्वरूपः। सत्यः कालिकबाधामावोपलक्षितस्वरूपः। सूक्ष्मःमहत्वरूपवत्वादिधर्मराहि- त्योपलक्षितस्वरूपः । सन् अस्ति धातुप्रकृत्यर्थभावस्वरूपः । अतो न सत्यपदेन पुनरुक्तिः । विभुः देशपरिच्छेदाभावोपलक्षितस्वरूपः । अद्वि- तीयः वस्तुपरिच्छेदाभावोपक्षितस्वरूपः। श्रानन्दाब्धिनिरतिशयानन्द- स्वरूपः । सोहमस्मीत्युक्तविशेषणात्मकब्रह्मणश्चैतन्यात्मकप्रतीचश्चा- भेदलक्षणं वाक्यार्थमनुभूय वाक्यार्थे शिष्यविश्वासार्थमाह-नानोति । अत्र वाक्यार्थे संशोतिः संशयो मम नास्त्यतस्त्वयापि संशयो न कर्तव्य इति भावः ॥ १७३ ॥ एवं स्वाभिमतं तत्पदार्थस्वरूपं प्रदर्श्य पराभिमतमपि द्वेधा- दर्शयति- सचित्सुखाइयवपुः कथयन्ति केचि- सच्चित्सुखात्मकमिति प्रथयन्ति केचित् । ब्रह्मेतराणि किल नास्य वपूंषि तेषां बुद्धौ स्फुरन्त्यपररूपनिवृत्तिभावात् ॥१७४ ।। सञ्चिदिति । ब्रह्म सञ्चित्सुखाद्वयवपुः सत्यज्ञानानन्दानन्तात्मक- सटीके संक्षेपशारीरके-- मिति केचित्कथयन्ति । केचिच्च सच्चित्सुखात्मकमिति प्रथयन्ति प्रकाशयन्तीति सम्बन्धः । नन्वन्यान्यपि नित्यत्वादिविशेषणानि सन्ति तत्कथं सञ्चित्सुखाद्वयरूपमेव ब्रह्मेति तत्राह-इतराणीति । नित्यत्वादिविशेषणान्यस्य ब्रह्मणो वपूंषि सन्ति बुद्धौ न परिस्फुरन्ति किल ब्रह्मस्वरूपत्वेन न प्रतीयन्ते किल। तत्रहेतु:-तेषामपररूपनिवृत्तिभावादिति। नित्यत्वादीनामनित्यत्वाद्यभावरूपत्वाद्भाधाभावयोश्चैक्यानुपपत्तरि- त्यर्थः। अत्रेदं किलशब्दसूचितास्वारस्यवीजं किंतत् । नित्यं विभुं सर्व- गतं सुसूक्ष्मम्, अस्नाविरं शुद्धमपापविद्धं, विज्ञानमानन्दं ब्रह्म, विमुक्तश्च विमुच्यते, सत्यस्य सत्यं, सदेवं सोम्येदमग्र आसीदेकमेवाद्वितीय- मि,त्यादिश्रुतिभिनित्यत्वादीनामप्यविशेषेण स्वरूपत्वेनावधारणम् । न च तेषामभावरूपत्वात्तदनुपपत्तिव्याख्यातप्रकारेण तेषामपि भाव- रूपत्वान्नित्यत्वानीनां स्वरूपबहिर्भावे स्वरूपस्यानित्यत्वादिदोष- प्रसङ्गश्च । तस्मात्तेषामपि तत्स्वरूपत्वमिति भावः ॥ १७४ ॥ ननु ब्रह्मणः सत्यादिवाक्यैः सत्याद्यात्मकत्वं न सिद्ध्यति । सत्यादिपदानां ब्रह्मस्वरूपपरत्वे समप्रधानत्वेन ब्रह्मपदेनान्वयानु- पपत्तेः न च तेषां तदन्वयं विना ब्रह्मणः सत्याद्यात्मकता सिद्ध्यती- त्याशङ्कय समप्रधान्यमसिद्धमित्याह- ब्रह्मेति शेषिपदमत्र हि लक्ष्यमेकं शेषाणि लक्षणसमर्पणमस्य कुर्युः । लक्ष्यार्पणेन सह लक्षणवाचि सर्व संगच्छतेऽरुणपदं क्रयवाचिनैव ॥१७॥ ब्रह्मेतीति । अत्र सत्यज्ञानमनन्तमिति वाक्ये ब्रह्मति पदं शेषि विशेष्यवाचकतया प्रधानम् । अत्र हेतुहींति यत एकस्मिन्वाक्ये एक- मेव लक्ष्यं लक्ष्यवाचकं नानेकमुद्देश्यविधेयभेदेन वाक्यभेदप्रस प्रथमोऽध्यायः। तल्लक्षणस- । ङ्गात् । लक्ष्यं च प्रधानम्, तञ्चात्र ब्रह्मैव तस्यैव ब्रह्मविदाप्नोति परमिति मुमुक्षुविज्ञेयत्वेन प्रकृतत्त्वात्। यद्यपि सत्यादिकमपि स्वरूपमेव तथापि तत्प्रधानत्वेन तज्ज्ञानं पुरुषार्थो न भवतीति वाक्यप्रक्रमबलेन ज्ञायते ततो ब्रह्मपदमेवात्र प्रधानं सत्यादिपदानि त्वस्य ब्रह्मणो लक्षणं समर्पयन्तीत्यर्थः । ननु ब्रह्मणो विशेष्यत्वेन प्रधानत्वेपि सत्यादीनां तदुपसर्जनत्वे प्रमाणाभावात्कथं तेषामन्वयः। न च तेषां मर्पकत्वात्तदुपसर्जनत्वमिति वाच्यम् । सन्नियमासिद्धरित्याशङ्कयाह- लक्ष्यार्पणेनेति । लक्षणं हि लक्ष्यपरिज्ञानायैव लक्षणपदानि समर्पयन्ति न विपरीततया यद्धि यदर्थ तत्तच्छेषमिति प्रसिद्धं ततो लक्षणानां लक्ष्यशेषत्वात्तद्वाचकपदेनेतरेषां सत्यं ब्रह्म, ज्ञानं ब्रह्म,अनन्तं ब्रह्मत्यन्वयः सिद्धयतीत्यर्थः । अथवा -सत्यादिपदानां ब्रह्मपदेनैव प्रत्येकमन्वयः । किं वा परस्परान्वयोपि। नाद्यः । व्यवहितेन तेनैव सम्बन्धे प्रमाणाभा- वाद् ब्रह्मपदस्यैकान्वयानन्तरमाकाङ्क्षोपरमाच्च । न द्वितीयः। सत्या- दिपदानां ब्रह्मपदेनान्वयेनैवाकाङ्क्षोपशमनादित्याशङ्कय प्रथमं ब्रह्म- पदेनैव सर्वेषामन्वयो भवति । न चात्र प्रमाणाभावः । लक्ष्यलक्षण- पदतया शेषशेषित्वस्यैव प्रमाणत्वात् । न च ब्रह्मपदस्याकाङ्क्षाभावः । सत्यं ब्रह्म पुनः कीदृग्विधं ज्ञानं पुनः कीदृशमनन्तमितिरूपेणोत्थाप्या- काङ्क्षोपपत्तेरित्याह-ब्रह्मेति । उपसर्जनपदानां सर्वेषां प्रधानपदे- नैवान्वये दृष्टान्तमाह-अरुणपदमिति । यथाऽरुणया पिङ्गाश्येत्यारुण्या- दिगुणवाचकानां पदानां प्रधानेन क्रीणातिना ऽरुणया क्रीणाति पिङ्गाक्ष्या क्रीणाति एकहायन्या क्रीणाति गवा क्रीणातीति प्रत्येकमन्व- यस्तद्वदित्यर्थः ॥ १७ ॥ ननु यदि सत्यादिपदानि प्रत्येकं ब्रह्मपदेनान्वीयुः तदा सत्या- दिपदानां परस्परान्वयाभावान्न सत्यादीनां परस्परात्मतेति परस्पर भिन्नानि सन्त्येव सत्यादीनि विशेषणानि स्युः ततो वाक्यार्थ एकरसो न भवेत्तत्राह- । HOMHINA सटीक संक्षेपशारीरके- पृष्ठात्परस्परयुजा प्रतिपत्तिरेषा- मेवंविधत्वमुपपादयितुं समर्था । लक्ष्यस्य तस्य महतः क्रयवस्तुवत्स्यात् सर्वस्य कारकपदस्य परस्परेण ॥१७६ ॥ पृष्ठादिति । एषां सत्यादिपदानां पृष्ठात्पश्चात्परस्परयुजा प्रत्तिपत्तिः अन्योऽन्यान्वयावगमः तस्य महतो लक्ष्यस्य ब्रह्मण एवंविधत्वमनवच्छिन्नमहत्त्वं सत्यायेकरसत्वमुपपादयितुं समर्था भवतीत्यर्थः । सत्यादिपदानि ह्यादौ ब्रह्मपदेनान्वीयमानानि ब्रह्मणो ब्रह्मपदात्प्रतीयमानानवच्छिन्नमहत्त्वाख्यसत्यायेकरसत्वनिर्वाहायोत्था- प्याकाङ्क्षया पश्चात्परस्परान्वयमपि प्राप्नुवन्ति सत्यं ज्ञानमनन्तं ब्रह्मेति सत्यादिपदार्थानामपि परस्परात्मत्वं बोधयन्तीति नाखण्डार्थ त्वक्षतिरिति भावः । वस्तुतस्तु-सत्यादिपदार्थानां परस्परात्मत्वसम्भवेन तेषां पदानां परस्परान्वयोपि संभवतीत्येतावता ब्रह्मपदावृत्त्या वाक्याभेदशङ्कानिराकरणार्थ वा पाष्टिकान्वयः स्वीक्रियते । सत्या- दीनां परस्परान्वयप्रतीतिस्तु ब्रह्मणोऽनवच्छिन्नमहत्त्वबोधकब्रह्मपदा- देव भवतीति द्रष्टव्यम् । पदानां पाष्ठिकान्वये दृष्टान्तमाह क्रयवस्तुवदिति । क्रयवस्तुनः कारकपदानामिवेत्यर्थः । तदेव विवृणोति सर्वस्येति । यथा ऋयवस्तुनः क्रयणस्य यत्कारकवाचकारुणादिपदं तस्य सर्वस्यादी क्रीणातिपदेनान्वितस्य पश्चात्स्वार्थगुणानामवच्छेद्यावच्छेदकभावावग- मसिद्धयर्थ परस्परेणान्वयस्तथेत्यर्थः । यद्यप्यारुण्यादीनि श्रुत्या प्रत्येकमेव ऋयणं प्रति साधनत्वेन विधीयन्ते तथापि तान्यन्योन्यम- कच्छिन्नान्येव साधनं भवन्ति । अन्यथा कयाचिदरुणयाऽन्यया कयाचित्पिङ्गाक्ष्या क्रयणप्रसङ्गादवच्छेद्यावच्छेदकभावप्रतीतिश्च न तेषां परस्परान्वयं विना सम्भवतीति भावः ॥ १७६॥ ननु सत्यादिपदार्थानामत्यन्तं भिन्नत्वान्न तदात्मत्वं ब्रह्मणः प्रथमोऽध्यायः। सम्भवति लक्ष्याणां तेषामभेद इति चेन्न-वचन विशेषादौ व्युत्पन्नस्य सत्यादिपदस्य ब्रह्मणा संबन्धाभावादित्याशङ्कयाह- तत्त्वं पदार्थविषयो नय एव योज्यः सत्यादिवस्तुषु न तत्र विशेषकल्पः। सत्यादिशब्दविषयाः शबलास्तदर्थ- भागेषु लाक्षणिकवृत्तिरपीह तुल्या॥१७७॥ तत्त्वंपदार्थेति-तत्वंपदार्थावधिकृत्य यो न्यायः पूर्वमभिहितः वाच्यस्य शबलत्वं लक्षणया भागत्यागेन वाक्यार्थानुप्रवेशश्चेति स न्यायः सत्यादिपदार्थेष्वपि योज्यः । अतः शबले ब्रह्मण्येव तेषां व्युत्पन्नत्वान्न लक्ष्यसम्बन्धाभाव इत्यर्थः । ननु तादात्म्यवाक्यतदव- यवावान्तरवाक्यार्थयोः कथमेकन्यायविषयत्वं खतन्त्रपरतन्त्रवाक्यार्थ- रूपेण तयोविलक्षणत्वात्तत्राह-न तत्रेति । अवान्तरवाक्यपदार्थे विशेष- कल्पः विशेषक्लप्तिरित्यर्थः । यद्यपि महावाक्यं स्वतन्त्र सत्यादिवाक्यं तु तदपेक्षितार्थसमर्पकत्वात्परतन्त्रं तथापि न तदर्थयोः स्वतन्त्रपरतन्त्र- भावोस्ति । उभयत्राप्यर्थस्यैकत्वादवान्तरवाक्येन पदार्थपरि- शोधनं विना महावाक्यार्थप्रतीतिर्न भवतीत्येतावतैव तस्य तच्छेषत्वं ततो न न्यायविशेष इत्यर्थः । अथवा-महावाक्यस्य जीवपरतादा- त्म्यषोधकत्वात्तत्र च लक्षणां विनानुपपत्तेर्लक्षणान्तरकल्पनायां च दोषस्य सत्त्वात्केवलाज्ञानाहंकारादौ ब्रह्मादिपदानां प्रयोगाभावाञ्च । शबले व्युत्पत्तिर्भागत्यागलक्षणा च स्वीक्रियते । न चात्र जीवपर- तादात्म्यं बोध्यते । न वा केवले प्रयोगाभावः सत्यो घट: घटज्ञान- मित्यादौ केवले प्रयोगदर्शनादित्याशङ्कय जीवपरतादात्म्यबोधकत्वा- भावेपि सत्यादीनां परस्परं सामानाधिकरण्यप्रतीतेस्तादात्म्या- गुणगुण्यादिभावाभावेनामुख्यस्यानुपपत्तेर्वक्ष्य- माणत्वादत्यन्ताभेदस्य लक्षणां विनाऽयोगाल्लक्षणान्तरपरिग्रहे च वगमात्तस्य सटोके संक्षेपशारोरके- ब्रह्मणः सत्याद्यात्मकत्वानुपपत्ते हल्लक्षणायामसत्यत्वाद्यायत्तेश्च । पटादेरध्यस्ततया स्वातन्त्र्येण प्रतीत्यनुपपत्तेश्च । केवले तस्मिन् प्रयोग- स्याप्यसिद्धस्तुल्य एव न्याय इत्याह-न तनोति । तौल्यमेवाह- सत्यदिशब्दविषया शत । तदर्थभागेषु-सत्यादिपदवाच्यार्थभागेषु, इह- सत्यादिवाक्ये ॥ १७॥ तत्र तावत्सत्यादिपदवाच्यं शबलं दर्शयति- आकाशादौ सत्यता तावदेका प्रत्यङ्मात्रे सत्यता काचिदन्या । तत्सम्पर्कात्सत्यता तत्र चान्या व्युत्पन्नोऽयं सत्यशब्दस्तु तत्र ॥ १७८॥ श्राकाशादाविति । आकाशवाय्वादौ काचित्सत्यता विद्यते तस्यापि व्यवहारकाले प्रमाणाबाधितत्वादबाधितस्यैव सत्यादिपदार्थत्वात्प्रत्य- ङ्मात्रे चान्याकालिकबाधाभावोपलक्षितस्वरूपलक्षणाकाचित्सत्यता विद्यते । अन्यथा तदध्यस्तगगनादेर्यावद्वाधं सत्यतानुपलम्भप्रसङ्गा- त्तयोराकाशाद्यात्मनोः परस्पराध्यासात्तत्र शबलेऽन्या सत्यत्वद्वया- त्मिका सत्यतास्ति । तत्र शबलेऽयं सत्यशब्दो व्युत्पन्न इत्यर्थः ॥१७॥ ज्ञानपदवाच्यं शबलं दर्शयति- बुद्धवृत्तौ ज्ञानता तावदेका प्रत्यग्बोधे ज्ञानता काचिदन्या। तत्सम्पर्काज्ज्ञानता तत्र चान्या व्युत्पन्नोऽयं ज्ञानशब्दस्तु तत्र ॥१७६ ॥ बुद्धर्वृतौ ज्ञानतेति । घटाद्याकारबुद्धिवृत्तिपि हि स्वच्छतया चैतन्याभिव्यञ्जनयोग्यत्वेनाविद्याविरोधितया ज्ञानतां भजते । प्रती- प्रथमऽध्यायः। वस्तु मुख्यमेव ज्ञानात्मत्वं तस्याप्रकाशात्मत्वे विश्वस्यानवमासप्रसङ्गा- ततस्तदुभयात्मकं शबलम पि विज्ञानमिति तत्र ज्ञानशब्दो व्युत्पन्न इत्यर्थः ॥ १७६ ॥ अानन्दपदवाच्यं शबलमाहmoushunu बुडेतत्तौ तावदानन्दतैका प्रत्यङ्माने काचिदानन्दतान्या । तत्सम्पर्कात्तत्र चाऽऽनन्दताऽन्या व्युत्पन्नोऽयं तत्र चाऽऽनन्दशब्दः ॥१८० ॥ बुद्धे वृताविति शुभकर्मोपार्जितान्तःकरणवृत्तेरात्मस्वरूपानन्द व्यजकन्वादानन्दत्वं प्रतीचि तु सा स्वरूपभूता मुख्या। अन्यथा तस्य परमप्रेमास्पदत्वानुपपत्तेः ॥ १८० ॥ नित्यपदार्थमाह- अाकाशादौ नित्यता तावदेका प्रत्यङ्मात्रे नित्यता काचिदन्या । तत्सम्पर्कान्नित्यता तत्र चान्या व्युत्पन्नोऽयं नित्यशब्दस्तु तत्र ॥१८१॥ श्राकाशादाविति । वस्तुतो विनाशिन श्राकाशस्यापि प्रलयपर्यन्त- मविनाशित्वाद्विनाशाप्रतियोगित्वलक्षणं नित्यत्वममुख्यमाकाशका- लादौ विद्यते । प्रतीचि तन्मुख्यमेव विद्यते तस्य सर्वदा विनाशाभा- वोपलक्षितस्वरूपत्वादन्यथा जगच्छून्यतापत्तेरित्यर्थः ॥ १८१ ॥ इदानीं शुद्धपदार्थमाह- ।
सटीके संक्षेपशारीरके- आकाशादौ शुद्धता तावदेका प्रत्यङ्मात्रे शुद्धता काचिदन्या । तत्सम्पर्काच्छुद्धता तन्त्र चान्या व्युत्पन्नोऽयं शुद्धशब्दस्तु तत्र ॥१८२॥ आकाशादाविति । पङ्कप्रक्षेपादिप्रयुक्तमालिन्यराहिन्याख्यं शुद्धत्व- माकाशे विद्यते। तच्चामुख्यमेवाकाशस्याप्यविद्याकार्यत्वेनमलिनत्वात् । अात्मनि तु रागाद्यभावोपलक्षितस्वरूपे मुख्यैव शुद्धता तस्यासङ्गत्वेन कथमप्यशुद्धरभावादिन्यर्थः ॥ १८२ ॥ मुक्तपदार्थमाह- गोवत्सादौ मुक्तता तावदेका प्रत्यङ्माने मुक्तता काचिदन्या । तत्सम्पर्कान्मुक्तता तत्र चान्या व्युत्पन्नोऽयं मुक्तशब्दस्तु तत्र ॥१८३॥ गोवत्सादाविति । गोवत्सादेरपि कदाचिद्रजुबन्धनाभावेनाबद्धत्व- लक्षणं मुक्तत्वं विद्यते अात्मनि तु सर्वदा पारतन्त्र्याभावोपलक्षित- स्वरूपे मुक्तता मुख्यैव विद्यते इत्यर्थः ॥ १८३ ॥ सच्छब्दार्थमाह- आकाशादावस्तिता तावदेका प्रत्यक्तत्त्वे चास्तिता काचिदन्या । तत्सम्पादस्तिता तत्र चान्या व्युत्पन्नोऽयं तत्र चास्तीति शब्दः ॥१८४॥ अाकाशादाविति । अस्तिता अस्तिप्रत्ययवेद्यत्वं भावत्वममुख्य- प्रथमोऽध्यायः । माकाशादेरपि विद्यते वस्तुतस्तस्यानिर्वचनीयत्वात् । प्रतीचि तु भावखरूपता सा मुख्यैव इत्यर्थः । एतच्च सूक्ष्मतादेरप्युपलक्षणं तत्राकाशादाविन्द्रियाग्राह्यत्वलक्षणा सूक्ष्मता सा चामुख्या तस्यापि कार्यतया च धर्मवत्तया च स्थूलत्वात् । प्रतीचि तु सा चामुख्या तस्य सर्वधर्मरहितत्वात् सूक्ष्मात्सूक्ष्मतरमिति श्रुतेः । तच्छवले च सूक्ष्मशब्दव्युत्पत्तिः । एवमाकाशादौ काचिद्विभुता सा चापेक्षिकी तस्यापि कार्यतया परिच्छिन्नत्वादात्मनि तु सा देशपरिच्छेदाभावो- पलक्षितस्वरूपभूता मुख्यैव 'विभुं सर्वगतमि'त्यादि श्रुतेः। तच्छबले विभुशब्दव्युत्पत्तिः । अद्वितीयशब्दव्युत्पत्तिस्तु प्रागेववर्णितेति भावः ॥ १८४॥ एवं सत्यादिपदानां वाच्यं दर्शयित्वा लक्ष्यं दर्शयति तत्रेयमा- शङ्का ननु सत्यादिपदानां वियदादि शबले व्युत्पन्नानां भागलक्षणया स्वार्थबोधकत्वे आकाशादिसत्यादिभागस्यैव लक्ष्यत्वं किं न स्यात् । नचैवं सामानाधिकरणयविरोधः । तस्यान्यथाप्युपपत्तेरिति तत्राह- यो यः शब्दो यत्कृतेऽर्थे निरूढ- मतत्रैवार्थे लक्षणा वृत्तिरस्य । वक्तव्या स्यात्पण्डितैरेवमेतत् प्रत्यक्पूर्ण ब्रह्म वेदान्तवेद्यम् ॥१८॥ यो यः शब्द इति । यत्कृते यदर्थप्रतिपत्तिप्रयोजनायार्थेऽभिधेये यः शब्दो निरूढ़ः प्रसिद्धः प्रयुज्यते तस्य शब्दस्य तस्मिन्नर्थ एव लक्षणा वृत्तिः पण्डितैर्वक्तव्या नान्यत्र । तथैव सर्वत्र लक्षणायां निय- मात् । अन्यथा भ्रान्तवाक्येपि लक्षणाकल्पनाप्रसङ्गादित्यर्थः। फलित- माह-एवमिति । एवं सति प्रत्यक्प्रतिपत्तस्वरूपमत एव पूर्ण ब्रह्मैव वेदान्तवेद्यं न वियदादि सत्यादिवाक्यप्रतिपाद्यब्रह्मपरिज्ञानायैव २०० सटीक संक्षेपशारीरके- वियदादिपरिज्ञानार्थ वाक्यप्रयोगाभावादित्यर्थः । अथवा येन कृतो यत्कृतस्तस्मिन्नर्थ इति समानाधिकरणसप्तमी सत्यादिपदवाच्य सत्यादिशबलं हि सत्याद्यात्मकब्रह्मणैव कृतं संपन्नं ब्रह्मसत्यतयैव वियदादीनामपि सत्यवत्प्रतीतेः । अतः सत्याद्यात्मकवियदादि- ब्रह्मसमुदायात्मकं शबलं ब्रह्म कृतमेवेति तत्रैव सत्यादिपदस्य लक्षणा युज्यते न वियदादौ तस्य स्वतः सत्ताभावादेतादृशविवेकदशायामेव लक्षणाङ्गीकारादत एव पण्डितैरित्युक्तम् । ततो न वियदादीनां वाक्यार्थत्वमित्यर्थः ॥ १८५॥ ननुसत्यादिपदलक्ष्यस्याभेदतावन्मात्रत्वमनुपपन्नं सत्यादिपदानां सहप्रयोगानुपपत्तेः। न हि घटो घट इति सहप्रयोगोऽर्थवान्भवति । अतोऽवश्यमतिरेको वक्तव्य इति नाखण्डार्थत्वमित्यत आह - सत्येऽप्यन्ति ज्ञानता ज्ञानतायां सत्यत्वं च स्पष्टमस्त्येव तद्वत् । सत्यप्येवं नातिरेकावकाशः पूर्णे तत्त्वे ज्ञानसत्योपपत्तेः॥१८६॥ सत्येऽप्यस्तीति । यथा सत्ये सत्यपदलक्ष्ये ज्ञानता ज्ञानपदलक्ष्य विद्यते । तद्वत् ज्ञानतायां च सत्यत्वं स्पष्टं निसन्दिग्धं विद्यते । सत्यज्ञानयोः परस्परमभेदो यद्यप्येवं सत्यप्यतिरेकावकाश इति चेन्न कुतस्तत्राह-पूर्णे तत्वे ज्ञानसत्योपपत्तेरिति । अथवा-यद्यपीति नानुषञ्जनीयं ज्ञानं सत्यात्मकं सत्यं च ज्ञानात्मकमिति सत्यज्ञानयोरेवमत्यन्ताभेदे सत्यप्यारोपितभेदनिराकरणाय सहप्रयोगोपपत्ते तिरेकावकाश इत्यर्थः । अतिरेकाङ्गीकारे च बाधकमाह-पूणे तत्त्व इति । तत्त्वे पूर्णे ऽत्यन्ताभेदे सत्येव ज्ञानस्य ज्ञातत्वं सत्यस्य सत्यत्वमुपपद्यत इत्यर्थः । एतदुक्तं भवति-ज्ञानसत्ययोरत्यन्ताभेदे सत्येव तात्वं पूर्णमेकरसं भवति । ।
प्रथमोऽध्यायः। २०१ more तत्त्वस्य चैकरसत्वे सत्येव ज्ञानस्य सत्याभिन्नतयाऽनृतजडविलक्षण- वेन ज्ञानत्वमन्यथाऽनृतत्वेन जडविलक्षणत्वानुपपत्तेः। एवं सत्यस्यापि शानात्मतया दृश्यानृतविलक्षणत्वेन सत्यत्वमन्यथा दृश्यत्वेन रजता- दवत्सत्यत्वानुपपत्तेरिति ॥ १८६ ॥ एवमेव ज्ञानानन्दयोरप्यतिरेकं निराकरोति- प्रानन्दत्वे ज्ञानता ज्ञानताया- मानन्दत्वं विद्यते निर्विशङ्कम् । सत्यप्येवं नातिरेकावकाशः पूर्णे तत्त्वे ज्ञानसौख्योपपत्तेः ॥१८७॥ अानन्दत्व इति । निर्विशङ्क निर्विवादमित्यर्थः । ज्ञानस्य ज्ञानत्वं सुखस्य सौख्यं चोपपद्यत इत्यर्थः। आनन्दस्य ज्ञानाभिन्नत्वे दृश्य- दुःखविरुद्धत्वेनानन्दत्वम् एवं ज्ञानस्याप्यानन्दात्मत्वे दुःखजडविलक्ष- रणतया ज्ञानत्वमिति भावः ॥ १८७ ॥ अानन्दसत्ययोरप्यतिरेकं निराकरोति- अानन्दत्वे सत्यता सत्यताया- मानन्दत्वं निर्विवादं प्रसिद्धम् । सत्यप्येवं नातिरेकावकाशः पूर्णे तत्त्वे सत्यसौख्योपपत्तेः ॥१८८॥ आनन्दत्व इति । सत्यता प्रसिद्धोति विभक्तिविपरिणामः । उभयो रप्यत्यन्ताभेद एव सत्यानन्दयोः सत्यत्वानन्दत्वयोः उपपत्तिः । अन्यथा अनानन्दरजतादिविलक्षणत्वाभावेन सत्यस्य सत्यता असत्य- दुःखविलक्षणत्वाभावेनानन्दस्यानन्दत्वं:चानुपपन्नमिति भावः॥१८॥ उक्तं न्यायं नित्यादिपदार्थेष्वप्यतिदिशति- सटीक संक्षेपशारीरके- . शेषेऽप्यूचं न्यायसाम्यादशेष- मन्योन्यस्मिन्नस्तिता पूर्णता च । अन्योऽन्यस्याजामिता शब्दशक्त- रेवं सुस्थं सर्वमुक्तोपपत्तेः ॥ १८६ ॥ शेषेऽप्यूह्यामिति । न्यायस्य सहप्रयोगोपपादनविषयस्य निन्याद्यभेदा- भावेऽनित्याशुचिबन्धस्थूलाभावपरिच्छिन्नादिवैलक्षण्याभावेन यथा- योगं नित्यादिष्वनित्यत्वापादनविषयस्य समत्वात् नित्यादिपदार्थेष्वप्य- शेषमत्यन्ताभिन्नत्वादिकमूह्यम् । शेषपदार्थमाह-अन्योन्यस्मिन्निति । अन्यो- न्याभिन्नत्वमत एव पूर्णत्वम् । नन्वारोपितभेदयोरर्थयोर्भेदभ्रमनिरासा- र्थत्वात्सहप्रयोगोर्थवान्भवतु तथापि पदयोः पर्यायत्वेन सहप्रयोगो- ऽनुपपन्न इत्याशयानन्यथासिद्धप्रयोजनलाभे इन्द्रः शक्र इत्यादौ पर्याययोरपि सहप्रयोगदर्शनानायं नियमः महावाक्यस्थपदव- दस्यापि भिन्नप्रवृत्तिनिमित्तत्वान्न वा पर्यायत्वामित्याह-अजामितेति । तत्त्वमादिपदयोरुक्तोषपत्तेः शब्दशक्तिर्जामिता पर्यायता नास्तीत्यर्थः । नन्वेवमपि सत्यादिवाक्ये पदान्तरं व्यर्थ तत्कृत्यस्य लक्ष्यपरिज्ञान- स्यैकेनैव सिद्धत्वात्, न च महावाक्यगतपदद्वयवदस्यापि प्रमिति- जनकत्वेनार्थवत्त्वमेकपदसमर्पितसत्यज्ञानानन्दात्मकतत्पदार्थमादाया- पि महावाक्येन तदुपपत्तेः । न च पदान्तरसन्निधानेऽसति विरुद्धार्थ- वाचकपदद्वयसामानाधिकरण्याधीनार्थविशेषणविशेष्यभावावगमाधी- नानुपपत्तिस्फुरणाभावे लक्षणैव न तदभावे च न सत्याद्यात्मक- वस्तुप्रतीतिः न हि सत्यादिपदमुख्यार्थोपि ज्ञानाद्यात्मको भवतीति वाच्यम् । तत्किमेकस्मिन्पदे लक्षणासिद्ध्यर्थमेव पदान्तरप्रयोगः । न चैतत्संभवति । वाक्यार्थज्ञानायैव वृद्धानां शब्दप्रयोगदर्शनात् । किंचात्र लक्षणापि न पदान्तरसामानाधिकरण्यमपेक्षते लक्ष्यपदार्थे- नान्वयानुपपत्त्यैव तत्सिद्धर्ब्रह्मपदेन हि स्वरसतोनवच्छिन्नमहदेव प्रथमोऽध्यायः। २०३ प्रतीयते । बृहिधातोस्तत्रैव व्युत्पत्तेः । पर्वतो बृहन्नित्यादौ तु माना- न्तरबाधात्संकुचितमहत्त्वप्रतीतिरत्र तु मानान्तरविरोधाभावादुत्स- र्गसिद्धमनवच्छिन्नमहत्त्वमेव ब्रह्मपदं प्रतिपादयति । तच्च सत्यादि- पदार्थलक्षणां विना न निर्वहतीति पदद्वयसामानाधिकरण्यमनपेक्षित- मेव । ननु सत्यादिपदस्य मुख्यार्थत्वानुरोधेन ब्रह्मपदं संकुचितवृत्त्येव किं न स्यादिति चेन्न । ब्रह्मपदार्थस्य प्रधानस्य गुणभूतसत्यादि- पदार्थानुरोधेन संकुचितत्वकल्पनानुपपत्तेः । गुणस्य च प्रधानानुरोधे- नान्यथाभावः सूचितः गुणे त्वन्यायकल्पनमिति न्यायात् । ननु यथा प्रयाजादिवाक्यानि विनिगमकाभावेन प्रत्येक कर्मविधायकतया सार्थकानि । एवं सत्यादिपदान्यपि प्रत्येक बोधकानीति चेन्न । समिदादिवाक्यस्य विनिगमकाभावेन कर्मस्वरूपविधायकत्वेपि व्यतिरिक्तार्थतया विधायकत्वं न चेह तथास्ति । न चात्र विनिगमका- भावः । अावश्यकब्रह्मपदादेव विवक्षितार्थप्रतीत्युपपत्तेः । न च ब्रह्मणो जडादिव्यावृत्तिबोधेन तेषामर्थवत्त्वं तद्बोधस्य निष्प्रयोजनत्वात्सत्या- दिस्वरूपब्रह्मज्ञानस्यैव पुरुषार्थत्वात्तस्मात्सत्यादिपदं व्यर्थमिति चेकि ब्रह्मपदेनानवच्छिन्नं महत्प्रतिपाद्यते उत सत्यज्ञानानन्दात्मकमिति । श्राद्ये तु न पदान्तरं व्यर्थ सत्यादिस्वरूपबोधेनार्थवत्त्वात् । न द्वितीयः। ब्रह्मपदस्य तादृशसामर्थ्याभावात् । ननु ब्रह्मपदं स्वार्थस्यानवच्छि- नमहत्त्वं बोधयज्ञानाद्यात्मकत्वमपि बोधयति, अन्यथा ज्ञानादेः पृथक्सत्त्वे ब्रह्मपदार्थस्यानवच्छिन्नमहत्त्वप्रतीत्यनुपपत्तेरिति चेन्न । ब्रह्मणो जडासत्यात्मकत्वेनापि ब्रह्मपदार्थस्यानवच्छिन्नमहत्त्वोपपत्तेः । इदं हि तस्यानवच्छिन्नमहत्त्वं यत्स्वव्यतिरिक्तशून्यत्वमेतच्च ब्रह्मणो सत्यानृतात्मत्वेपि निर्वहति । न चैतादृशब्रह्मबोधेन पुरुषार्थो भवति । ज्ञानात्मकजीवाभेदज्ञानस्यैव पुरुषार्थसाधनत्वान्न वा तन्निश्चये किञ्चित्प्रमाणमस्त्यतो ब्रह्मणो ज्ञानाद्यात्मकत्वबोधाय सत्यादिपद- मपेक्ष्यत इति तदर्थवदेव । अत एव सत्याद्यन्यतमेनैव भवितव्यं न ।
सटोके संक्षेपशारोरके- सर्वेणेत्यपि निरस्तम् सर्वेण विना सत्यज्ञानानन्दाद्यात्मकं ब्रह्मेति निश्चयानुपपत्तेः। विनिगमनाभावाच्च । एतदेव ब्रह्मणो जडादिव्या- वृत्तये सत्यादिपदमपेक्ष्यत इत्यनेनोच्यते तस्मात्सत्यादिपदमर्थवदेवे- त्यभिप्रेत्याह-एवं सुस्थं सर्वमिति । एवं सति सत्यज्ञानादीनामत्यन्ताभेदे सति सर्व ज्ञानादेर्शानत्वं ब्रह्मणः पुरुषार्थत्वमित्येवमादिकं सुस्थ- मुपपन्नमित्यर्थः ॥ १८६॥ एवं तत्त्वंपदयोः शबले व्युत्पत्तिर्भागत्यागलक्षणया च वाक्यमखण्डार्थनिष्टं वाक्यार्थश्च सत्यज्ञानाद्यवान्तरवाक्यानुरोधेन सच्चिदानन्दाद्यात्मक इत्यभ्यधायि तत्र यत्त्वंपदवाच्यशबलांशस्य प्रत्यक्त्वमान्मत्वमित्याद्युक्तं तत्कथं प्रत्यगद्वैविध्यानुपपत्तेरित्याशङ्कय स्वभाविककाल्पनिकभेदेन तद्वैविध्यं नानुपपन्नमेवमेवाद्वितीयत्वादि- द्वैविध्यमप्युपपन्नमित्यभिप्रेत्याह- बोधात्मत्वे निर्निमित्ते प्रतीचो बोधात्मत्वे तन्निमित्ते च बुद्धः । बोधात्मत्वे बुद्धिधर्मों च बुद्धे- रुक्ते साचावेदसिद्धान्तविद्भिः ॥१०॥ बोधात्मत्व इति । प्रतीचो बोधात्मत्वे निनिमित्त स्वाभाविके अन्यस्य तद्धर्मिणोऽभावाझुद्धस्तुप्रतीयमाने बोधात्मत्वे बोद्धत्वात्मत्त्वे तन्निमित्ते प्रत्यक्तादात्म्याध्यासनिमित्तेन स्वाभाविके इत्यर्थः । ते च बोधात्मत्वे आत्मनः साक्षादनुपचरितस्वरूपभूते बुद्धस्तु न तथा किन्तु तद्धर्मा- वेवेत्याह-बोधात्मत्वे इति । बुद्धर्बोधान्मत्वे बुद्धिधर्माविति सम्बन्धः । अयमर्थो नैष्कर्म्यसिद्धिकारैरप्युक्त इत्याह-उत्तेति । 'कूटस्थबोधप्रत्य- कत्वमनिमित्तं सदात्मनः । बोद्धताहंतयोर्हेतुस्ताभ्यां तेनोपलक्ष्यते ॥ धर्मधर्मित्वभेदोऽस्याः सोपि नैवात्मनो यत' इत्यादिनोक्तमित्यर्थः।१६०। । ।
प्रथमऽध्यायः। २०५ यथा जहल्लक्षणया गौण्यापि वृत्त्या महावाक्यर्थो वर्णितः । एवं सत्यादिपदानामपि तत्संभवतीत्याह- जहतीह च लक्षणा मता गुणवृत्तिश्च तथाऽभ्युपेयते । न विशेषविनिर्णयक्षम किमपीहास्ति विशेषकारणम्।१६। जहतीति-ननु सत्यादिपदानां शबल एव व्युत्पन्नत्वाद्भागलक्ष- णैवेति तत्राह-न विशेषेति । केवलगगनादौ सत्यादिपदानामपि व्युत्पत्तिसंभवादित्यर्थः । इह सत्यादिवाक्ये अयमपि पक्षः स्वाभिमतो न भवति । अत्र च बीजं शबल एव व्युत्पत्तिरित्युपरिष्टानिरूप- यिष्यति ॥ १६१॥ नन्वेवमप्यखण्डवाक्यार्थत्वमनुपपन्न तत्पदार्थस्यैश्वर्यादिगुणवि- शिष्टत्वात् । तथा हि सत्यज्ञानादिवत्सर्वस्य वशी सर्वस्येशानः सर्व- स्याधिपतिरिति तस्य स्वरूपभूतं वशित्वादिकमैश्वर्य श्रुतिर्दर्शयति । मायायाश्चापरमैश्वर्यं तस्या निखिलजगत्कारणत्वाद्विद्यते । तस्मा- दज्ञानाद्यैश्वर्याधतोरस्य शवलस्य च द्वित्वावच्छिन्नमेकमैश्वर्य विद्यते । तत एतान्यैश्वर्याणि किमर्थ पूर्ववत्सत्यादिवैविध्यवन्नेष्टानि तथा चैश्चर्यादिपदस्य शबले व्युत्पत्तिसंभवाद्भागत्यागलक्षणया स्वरूप- भूतमैश्वर्यमपि वोध्यतां ततो नाखण्डार्थत्वमित्याह- ऐश्वर्यमप्यनुभवादिवदात्मरूपं तस्मादबोधगतमस्य च तानि कस्मात् । नेष्टानि पूर्ववदिति ब्रुवतो मुखस्य सद्यः पिधानमनुसृत्य वचांसि कुर्मः॥१२॥ ऐश्वर्यमपीति । दूषयति इति ब्रुवत इति । यदि श्रुतिमनुसृत्यैवात्मन ऐश्वर्य स्वरूपं वक्तव्यमिति वर्णयसि तस्यैवं ब्रुवतस्ते मुखस्य श्रुति- वचांस्यनुसृत्यैव पिधानं कुर्मः श्रुत्या तस्य निषिद्धत्वादित्यर्थः ॥१२॥ -
२०६
सटीके संक्षेपशारीरके-
ननु केयं श्रुतिर्यद्वलाच्छ्रुतिप्रतिपन्नमैश्वर्यं ब्रह्मस्वरूपमिति
नेष्यते । एवं सति सत्यादिकं वा किमिति स्वरूपं भवेत्तस्य तत्त्वे
चैतदपि तथैव स्याच्छुतिप्रतिपन्नत्वाविशेषादिति तत्राह-
ऐश्वर्यवर्णनमतिस्फुटमेव कृत्वा
नेतीत्यवादि बहुशः श्रुतिभिः प्रयत्नात् ।
सत्यादिवस्तुनि पुनर्न तथाऽस्ति पूर्व-
मुक्त्वा निषेधनमितीह विशेषयुक्तिः॥१६॥
ऐश्वर्येति । सर्वस्य वशी सर्वस्येशान इत्यादिनैश्वर्य वर्णयित्वा
स एष नेति नेत्यात्मा गृह्यो न हि गृह्यत इत्यध्यारोपापावादन्याये-
नातिस्फुटमेव तन्निषेधति । एवं मू मूतंब्राह्मणे द्वे वाव ब्रह्मणो रूपे
मूर्त चामूर्त चेत्यैश्वर्यमुपवर्ण्य अथात आदेशो नेति नेति न ह्येतस्मादिति
नेत्यन्यत्परमस्तीति सर्वमेव प्रपञ्चं वारयति । नचैवं सत्यादिवर्णना-
नन्तरं निषिध्यते । तस्मादैश्वर्यवर्णनानन्तरं श्रुतिभिरेव नेति नेती-
त्युक्त्वा सत्यादीनां पुनस्तथानूद्य निषेधाभावादस्ति सन्यादिप्रतिपादने
विशेष इति सत्यादिकमेवात्मस्वरूपमिति नाखण्डार्थत्वक्षतिरिति
भावः ॥ १६३॥
ननु द्विविधस्यापि वाक्यस्य लक्षणया स्वार्थपरत्वे श्रुतहान्य-
श्रुतकल्पने प्रसज्येयातमित्याशङ्कय मुख्यार्थासंभवे लोकेपि तयोष्टत्वेन
नैते दोषायेत्याह-
शब्दस्य लाक्षणिकमुख्यविभागभिन्ना
वृनिर्हि लौकिकवचस्यपलब्धपूर्वा ।
यस्मादतो न घटते यदि मुख्यवृत्ति-
राश्रीयतामिह गिरश्वरमापि वृत्तिः ॥१४॥
शब्दस्येति । चरमा लक्षणेत्यर्थः ॥ १६४ ॥
प्रथमोऽध्यायः । २०७ एवं पदद्वयलक्षणया अखण्डवाक्यार्थमुपपादितमुपसंहरति- तस्मादखण्डमवबोधयितुं समर्थो वेदान्तभूमिगतशब्दसमन्वयोऽतः । संसर्गलक्षणमपास्य विरोधहेतो- वाक्यार्थमयमखण्डमिहाऽऽश्रयस्व ॥१६॥ तस्मादिति । शब्दसमन्वयः-समानाधिकरणवाक्यमित्यर्थः । यतो वेदान्तानामखएडार्थबोधने सामर्थ्य यतश्च न संसर्गादिबोधने तत्सामर्थ्यमतो वेदान्तवाक्यार्थलक्षणमपर्यायानेकप्रातिपदिकानामेका- र्थलक्षणाखण्डत्वमेवेत्युपसंहरति-अत इति । संसर्गलक्षणं संसर्गत्व- लक्षणं विरोधहेतोः पदार्थयोविरुद्धत्वादित्यर्थः । अखएडमखण्डत्व- मित्यर्थः । इह वेदान्ते ॥ १९५॥ उक्तवाक्यार्थप्रतिपत्तौ परम्परोपायत्वेन सम्बन्धत्रयं तत्क्रमञ्च दर्शयति- सामानाधिकरण्यमत्र भवति प्राथम्यभागन्वयः पश्चादेष विशेषणेतरतया पश्चाविरोधोद्भवः । उत्पन्ने च विरोध एकरसके वस्तुन्यखण्डात्मके वृत्तिलक्षणया भवत्ययमिह ज्ञेयःक्रमः सूरिभिः॥१६॥ सामानाधिकरण्यमन भवतीति । अत्र तत्त्वमस्यादिवाक्ये सामानाधिक- रएयमन्वयः। प्राथम्यभाक प्रथमं भवति । पश्चात्तदनन्तरं विशेषणे- तरतया विशेषणविशेष्यभावेनैवोऽन्वयो भवति । ततः पश्चाद्विरोधो- द्भवः पदार्थयोः परस्परान्वयायोग्यत्वज्ञानमुत्पन्ने विरोधज्ञाने एकरस- केऽखण्डात्मके वस्तुनि ब्रह्मणि लक्षणया पदयोवृत्तिर्भवतीति तदर्थ भागभागित्वलक्षणसम्बन्धश्चेत्ययं क्रम इह जगति वाक्यार्थप्रति- पत्त्यर्थं सूरिभिः पण्डितै य इत्यर्थः ॥ १६६ ॥ -- सटीके संक्षेपशारीरके- ननु कुत्र सामानाधिकरण्यं कुत्र वा विशेषणविशेष्यभावः कथं वा विरोधोद्भवः अयं क्रमो वा किमिति भवेत्तत्राह- सामानाधिकरण्यमत्र पदयो यस्तदीयार्थयोः । सम्बन्धस्तु विशेषणेतरतया ताभ्यां सहास्यात्मनः । मम्बन्थोप्यथ लक्ष्यलक्षणतया विज्ञेय एवं बुधै- रेतान्यर्थपदानि बुद्धपदवीमारोहणीयानि तु ॥ १६७॥ सामानाधिकरण्यमिति। अत्रोक्तसम्बन्धेषु मध्ये पदयोः सम्बन्धः सामा- नाधिकरण्यं भवति भिन्नप्रवृत्तिनिमित्तकशब्दानामेकार्थवृत्तित्वस्य सामानाधिकरण्यत्वेन तस्य पदधर्मत्वादत एवायं प्रथमं भवति । वाक्यज्ञानस्य शब्दार्थज्ञानात्प्राग्भावित्वादत एव तदर्थ तदीयार्थयो- रपर्यायानेकसमानाधिकृतपदार्थयोः सम्बन्धस्तु विशेषणेतरतया ज्ञेयः। प्रकारान्तरेण तादृशपदार्थसम्बन्धाभावाद्वाऽर्थसिद्धोऽयमनूदितः । एतस्य च वाक्यात्मकान्वयस्य पश्चाद्भावित्वमुचितं वाक्यज्ञानजन्य- त्वात्पदार्थान्वयबोधस्य पदयोरर्थयोरिति द्विवचनं महावाक्याभि- प्रायेण । सत्यादिवाक्येपि तन्यायस्य तुल्यत्वात्स च विशेषणविशे- ध्यभावोऽत्र वाच्यार्थयोर्न सम्भवति । स हि विशेषणविशेष्ययोर्मूल- सम्बन्धनिबन्धन एव वनस्थदण्डस्य देवदत्तविशेषणतादर्शनान्मूल- सम्बन्धश्च जीवेश्वरयोर्न संयोगः सम्भवति। विभुद्रव्ययोः संयोगा- नुपपत्तः तयोनिरवयवत्वाच्च । न हि निरवयवयोः संयोगः सम्भवति । प्रदेशवृत्तेस्तस्य तत्रानुपपत्तेः । न च केनचिदवच्छिन्ने निरवयवेऽपि संयोगः सम्भवतीति वाच्यम् । अवच्छेदकसंयोगस्यापि तत्रानुपपत्तेः। असंयुक्तस्यावच्छेदकत्वायोगाकिन्त्ववच्छेदकस्य निरवयवत्वानुपपत्तेः सावयवत्वं वक्तव्यं तथा च मूर्तद्रव्यान्तरावच्छिन्ने मूर्ते संयोग इति महदसमञ्जसमापद्यत । तस्मान्निरवयवसंयोगोऽनुपपन्न एव । नापि तयोः समवायः पृथकसिद्धत्वात्तस्मादनयोस्तादात्म्यमेव सोऽयं देव- - ।
प्रथमोऽध्यायः । २०६ । दत्त इत्यादाविव वक्तव्यम् । त्वं ब्रह्मेतिप्रतीतेःप्रथमामात्रविभक्तिमत्पद- द्वयोपात्तत्वाच्च । तच्च जीवपरयोर्न सम्भवतीति विरोधस्फुरणे संजाते वेदप्रामाण्यनिर्वाहाय लक्षणा वक्तव्या। सा च पदार्थयोः सम्बन्धं विनानुपपन्नेति भागभागित्वलक्षणसम्बन्धोप्यस्तीति पश्चाज्ज्ञातव्य- मित्याह-ताभ्यां सहास्यात्मनः सम्बन्धोप्यथ लक्ष्यलक्षणतया विज्ञेय इति । ताभ्यां पदार्थाभ्यामित्यर्थः। उक्तार्थे हेतुः-लक्ष्यलक्षणतयेति । वाच्यार्थप्रत्यगात्मनोः लक्ष्यलक्षणभावादत्र च शक्यसम्बन्धद्वारा पदस्यार्थान्तरबोधकत्वा- दर्थस्य लक्षकत्वमुक्तम् । अथवा-अर्थोपस्थापितेऽर्थे पदस्य तात्पर्यमि- त्येतावतैव पदस्य लक्षकत्वम् । वस्तुतस्त्वर्थस्यैव तत्सम्बन्धित्वेन लक्षकत्वमिति द्रष्टव्यम् । एतच्च सम्बन्धत्रयं नैष्कर्म्यसिद्धिकारैरप्युक्तं 'सामानाधिकरण्यं च विशेषणविशेष्यता। लक्ष्यलक्षणसम्बन्धः पदार्थ- प्रत्यगात्मनाम् ॥ इति । अत्र कश्चिदाह-तत्त्वमसीत्यत्र न तत्वंपदयोः सामा- नाधिकरण्यं शब्दो नित्य इत्यत्रेवात्र द्विधापदच्छेदसम्भवेपि समयबला- दनित्य इति पदच्छेदवत्प्रकृतेपि भिन्नशकुनिसूत्रादिदृष्टान्तबलेनातदि- तिच्छेदादिति तेन नूनं 'वाचारम्भणं विकारो नामधेयं, सदेव सोम्येद- मग्र आसीदेकमेवाद्वितीयम्, अनेन जीवेन' इत्याद्यद्वितीयोपक्रमादिर्न परिशीलितः 'न वा तत्त्वमेव त्वमेव तदिति असंदिग्धविभागाःश्रुतयोऽ धीताः । अधीता अपि किं तत्त्ववित्प्रद्वेषत्रिदोषग्रस्तेन विस्मृताः । यत्तु दृष्टान्ते भेदः प्रतीयत इति तदसत् न हि भेदेऽयं दृष्टान्तोऽभिप्रेतः। किन्तु मनःशब्दादिवाच्यजीवस्य प्राणशब्दादिवाच्ये ब्रह्मणि सुषुप्तौ विलयादौ शकुनिसूत्रादेख्दाहरणाद्वाक्यस्योभयपरत्वे गौरवाद् दृष्टान्तदाान्ति- कयोः सर्वसाम्यस्याविवक्षितत्वाच्च । ननु तदिति पदच्छेदेपि न तत्प- दार्थस्य जीवविशेषणत्वं जीवस्य ब्रह्मजन्यतया तत्पदाभिधेयत्वाद्- दृश्यते हि ततो जातस्यापि तत्पदाभिधेयत्वम्, ब्राह्मणोऽस्य मुखमासी- दित्यादौ काकादिभ्यो जातेपि काकादिशब्दप्रयोगाच्चेति चेत् । न ताव- जीवस्य ब्रह्मजन्यत्वं जनिमजीवस्यानित्यत्वनियमेन कृतहान्यकृता- सटीके संक्षेपशारीरके- भ्यागमप्रसङ्गान्मुक्तिशास्त्रस्यानारम्भप्रसङ्गाश्च । मोक्षमागिन श्रात्मनोऽ- भावात् । न च विशिष्टाकारेण जन्यत्वं विशेषणमात्रस्यैव तजन्यत्वा- द्विशिष्टस्य तत्त्वान्त रत्वे वा ऽजीवत्वादचेनत्वात्। नाप्ययं दृष्टान्त ब्रह्म- णादेर्मुखजन्यत्वाभावात्परमेश्वरस्य मुखादिरहिततया अकायमव्रणमि- त्यादिमन्त्रवर्णैः सिद्धस्त्वात्कस्तर्हि श्रुत्यर्थ इति चेद्योषितादावनि चिन्तनववद् ब्राह्मणादिमुखादित्वेन परमेश्वरस्योपासनाया एव तदर्थ- त्वात् । नापि काकबटोः काकादिजन्यतया काकादिपदवाच्यत्वं तच्छ- ब्दस्य काकादिजातिनिमित्तत्वादन्यथा काकपुरीषेपि तत्पदप्रयोगा- पातात्। एतेन व्रीहिविकारे तण्डुले धान्यमसिधिनुहीत्यत्र धान्यपदप्रयो- गवद् ब्रह्मविकारे जीवे ब्रह्मादिपदप्रयोग इति निरस्तं जीवस्याविकार- त्वाद्धान्यमसीति दृषदि तण्डुलानावपतीति वाक्यप्रमाणविनियुक्तस्य कथंचित्तण्डुलपरत्वाभावेऽनुष्ठेयार्थाप्रकाशलक्षण किञ्चित्काराभाववदत्र जीवे तत्पदप्रयोगाभावे बाधकाभावाच । नापि ब्राह्मणो वै सर्वा देवता इत्यत्र देवताधारत्वेन ब्राह्मणस्य देवताशब्दवाच्यत्ववत्सर्वाधार- ब्रह्मणो जीवाधारतया त्वंपदवाच्यत्वोपपत्तिरिति वाच्यम् । जीवस्य विभोरनाधेयतया ब्रह्मणस्तदनाधारत्वादणुत्वस्य च तृतीये निराकरि. ध्यमाणत्वाद् दृष्टान्तश्च विषम एव ब्राह्मण आर्षेय उद्धरेदित्यायब्राह्मण- साध्याग्निविहरणविधिशेषतया ब्राह्मणस्य सर्वाधारत्वेन स्तूयमानत- यार्थाभावात्तस्मात्तादात्म्याभिप्रायमत्र पदद्वयसामानाधिकरण्यमिति। अतस्तत्त्वबुभुत्सुभिरवश्यमेतत्सम्बन्धत्रयं ज्ञेयं वाक्यस्य व्यधिकरणा- न्वयपरिज्ञाने पदार्थयोर्विशेषणविशेष्यभावापरिज्ञाने भागभागित्वादि- सम्बन्धापरिक्षाने च लक्षणाभावाद् गवानयनादिवाक्ये नीलोत्पलादि- वाक्ये चाखण्डार्थप्रतिपत्त्यभावादित्यभिप्रेत्योपसंहरति-एवमिति अर्थपदान्यर्थप्रत्तिपत्तिसाधनानि ॥ १६७ ॥ एवं शबले व्युत्पत्तिर्यनिमित्ता (च)तत्र सत्यादिपदानां व्युत्पत्ति- स्तदात्मस्वरूपमेव लक्षणीयमित्युक्तं तत्रेदमाशङ्कयते यद्यात्मसत्य- प्रथमोऽध्यायः। त्वादिकमेव निमित्तीकृत्य सत्यादीनि पदानि शबले प्रवर्तन्ते । तर्हि साक्षादयमात्मन्येव तद्व्युत्पत्तिं गृह्णातु किं परमुखनिरीक्षकेन शबलेन एवं सतिलाघवमपि भवति शबलस्य वस्तुद्वयात्मकत्वादात्मस्वरूपस्य चैकरसत्वात् । नन्वात्मस्वरूपस्याव्यवहार्यत्वात्तत्र न व्युत्पत्तिरिति किमिदमव्यवहार्यत्वं किमुपादानादिव्यवहारागोचरत्वमुत प्रमाणा- विषयत्वम् । नाद्यः । तस्य शब्दार्थत्वेऽप्रयोजकत्वादन्यथा गगनादेः शब्दवाच्यत्वाभावापातात् । न द्वितीयः । प्रमाणं हि व्युत्पत्तये वस्तु- ज्ञानार्थमपेक्षते । ननु स्वतस्तच ज्ञानं स्वयंप्रकाशे अात्मनि विनापि प्रमाणमिति तदपेक्षार्थवतीति । अत्रेदं वक्तव्यं किमविवेकिनां तत्र व्युत्पत्तिरापाद्यते उत विवेकिनाम् । नाद्य इत्याह- निःसन्धिबन्धनमिदं चिदचित्स्वरूपं संकीर्णमन्तरपरिस्फुरणेन शून्यम् । आचित्तशुद्धिफलतः स्फुरितोपपत्तेः शब्दार्थसंगतिमिहैव तु गृह्णतेऽज्ञाः॥१६८॥ निःसन्धिबन्धनमिति । अज्ञाः अविवेकिनः शब्दार्थसंगतिमिहेव शबल- एव गृह्णत इति सम्बन्धः । तत्र हेतुत्वेन शबलं विशिनष्टि--निः सन्धीति । इद-चिदचित्स्वरूपं चिदचितोः शबलं निःसन्धिबन्धनं निर्गतः सन्धिर वकाशो भेदो यस्मिन् तन्निःसन्धि तादृशं यद्वन्धनं परस्परान्मत्वं यस्मि- स्तत्तथोक्तम्। अनेनानात्मवर्गस्य चित्ताटस्थं निरस्तम् । एतस्यैव विव- रणसंकीर्णमिति परस्परात्मकमित्यर्थः । अत एवाविवेकिनां प्रतिपत्ति- रपि न तयोर्भेदेन भवतीत्याह-अन्तरपरिस्फुरणेनेति । भेदप्रतिपत्त्या शून्य- मित्यर्थः । तत्कि विवेकिनामप्येवमेवेत्यत आह-याचित्तेति । श्राङ मर्या- दायां चित्तशुद्धिफलतया स्फुरितोपपत्तेः प्रकाशमानयुक्तः चित्तशुद्धि समुपजातोपपत्तिः स्फुरणात्पूर्व चिदचितोर्मेंदाप्रत्तिपत्तिः न तदनन्तर- मित्यर्थः। उपस्थिते पदार्थे शब्दशक्तिर्गृह्यते । शबल एव चाविवेकि- ।
२१२ सटीके संक्षेपशारीरके- भिद्यते । न केवल आत्मनि ततस्तत्रैव व्युत्पत्तिरविवेकिभिहत इत्यर्थः ॥ १९८॥ द्वितीयं दूषयति- शब्दार्थसंगतिविदामथ सत्त्वशुद्धे- रुत्पन्नतढलोहशलाकया तु दृश्यं दृशं च निपुणं दयमन्तरेण निक्षिप्तया दृगदृशोः क्रियते विभागः॥ १६६॥ शब्दार्थेति । शब्दार्थसङ्गतिविदां चित्तशुद्धानन्तरमुत्पन्नो यः प्रपञ्च- मिथ्यात्वादिविषय श्रात्मसत्यत्वादिविषयश्च तर्कः स एवाबाध्यत्वा- द्विभाजकत्वाच्च दृढ़लोहशलाका तया द्वयमन्तरेण द्वयोर्मध्ये निपुण- मप्रमादेन निक्षिप्तयोभर्याववेचनाय प्रयुक्तया दृगहशोविभागः क्रियते शायत इति सम्बन्धः। किञ्च तद्वयमित्यत आह-दृश्यं दृशंचेति । दृग- दृशोर्द्वयोर्मध्य इत्यर्थः । एतदुक्तं भवति-सत्यादिशब्दार्थसङ्गतिविद एव हि सत्त्वशुद्ध्यनन्तरं विचारेणात्मैव सत्यज्ञानानानन्दरूपः न विय- दादीनीति सन्यादिपदार्थ विवेचयन्ति नान्ये तेषां विचार्यपदार्थ- स्फुरणाभावेन तद्विवेचनानुपपत्तेः। पदार्थस्फुरणं च सत्यादिपदस्य. पूर्व व्युत्पत्ति विना न सम्भवतीत्यविवेकदशायां व्युत्पत्तिर्वक्तव्या सा च शबल एव युक्ता । ननु विवेकिनां केवले अात्मनि व्युत्पत्ति- रस्त्विति चेन्न-अनेकार्थत्वप्रसङ्गाद्विवेकिनामात्मनोऽव्यवहार्यत्वनिश्च- याच । नन्वव्यवहार्यत्वमेव दुर्निरूपमिति चेन्न । मुख्यया वृत्त्या शब्द- व्यवहारविषयत्वायोग्यत्वस्यैवाव्यवहार्यशब्दार्थत्वात् । ननु तदेव कुत इति चेत् श्रूयतां शब्दप्रवृत्तिनिमित्तानां वक्ष्यमाणषष्ठ्यादीनां केवलात्मन्यभावादिति ॥ १९६ ॥ नन्वज्ञानदशायामहंकारवियदादेरेकरसत्वेन परिज्ञानाच्छाबल्य- प्रथमोऽध्यायः । परिज्ञानाभावात्तत्र कथं व्युत्पत्तिरिति निश्चीयते तत्राह- शुयुत्थतर्कजनितं चिदचिद्विभागं प्राप्य स्थिताः पुनरिमां गिरमुद्रिन्ति । सत्यादिशब्दगण एष तु तत्र तत्र व्युत्पत्तिमाञ्छबलवस्तुनि नो दृशीति ॥२०॥ शुद्धयुत्थेति । विभागं विभागज्ञानमित्यर्थः । इमामिति पराम- ष्टाङ्गिरमाह-सत्यादिशब्दगण इति । दृशि केवलायामित्यर्थः । यद्यप्य- विवेकदशायामहंकारादिकं शाबल्येन न ज्ञायते । तथाप्यहंकारेऽहंका- रादिरूपेणोपस्थिते वस्तुगत्या शबले तत्र तत्र पूर्व व्युत्पत्तिं गृहीत्वा विचारानन्तरं सत्यादिपदानि न केवलगगनादौ व्युत्पद्यन्ते । तेषां स्वातन्त्रेणोपस्थित्यभावास्थित्यभावाच्च । नाप्यात्मनि व्युत्पद्यन्ते । तस्याव्यवहार्यत्वात्। तथा च शबल एव व्युत्पत्तिरिति निश्चीयत इति भावः ॥२०॥ यदुक्तं शबलव्युत्पत्त्यपेक्षया श्रात्मनि व्युत्पत्तिर्लधीयसीति, तदप्यनवकाशं व्युत्पत्तिदशायामेकत्वद्वित्वादेरनवगमादित्याह- एकत्र शक्तिग्रहणोपपत्ता- वनेकक्लृप्तिः क्रियते किमर्थम् । इत्येतदेवं सति नास्ति चोद्यं पुराम्य पुंसः परमाविवेकात् ॥ २०१ ॥ एकचोति । अनेकक्लप्तिरनेकात्मकशबले शक्तिक्लप्तिः । एवं विवेकात्पूर्वं व्युत्पत्तिस्वीकारे सति एकस्मिन्नर्थे शक्त्युपपत्तावनेकार्थ- विषयिणी शक्तिः किमर्थं कल्पनीयेति चोद्यं नावतरीतति । कुतः । अस्य व्युत्पित्सोः पुरा व्युत्पत्तिकाले परमाविवेकादत्यन्तमौढ्या- सटीक संक्षेपशारीरके- दित्यर्थः । उपस्थितयोरेव हि लाघवगौरवचिन्ता न विचारात्पूर्व- द्वित्वोपस्थितिरस्ति । येन गौरवाच्छबले व्युत्पत्तिः परित्यज्येत । न च कस्यचिदिदानींतनतदुपस्थितिः सर्वजनीनव्युत्पत्तिप्रतिबन्धिकेति भावः ॥ २०१॥ एवं शवले व्युत्पत्त्युपपादनेन भागलक्षणयैवाखएडार्थत्वमुपयादि- दितमिदानी वाच्यलक्ष्यार्थयोः सम्बन्धतदभावाभ्यामखएडार्थन्वं दूषयितुं विकल्पयति- dae अत्राऽऽह वाच्यशबलान्वितवस्तुनीयं तमना भवति लाक्षणिकी प्रवृत्तिः। किं वा तदन्वितविलक्षणवस्तुनि स्या- च्छब्दस्य नोभयमपि प्रतिभाति युक्तम् ॥२०२॥ अत्राऽऽहेति । यद्यपि सम्बन्धोप्यथलक्ष्यलक्षणतयेत्यत्र लक्ष्य- लक्षणयोः सम्बन्धोप्यस्तीति पूर्वमुक्तं तथापि तस्यैवाक्षेपसमाधा- नार्थमयं विकल्प इति नायं निरवकाशः । वाच्यशबलान्वितवस्तुनि तद्वर्त्मना वाच्यशबलसम्बन्धद्वारेण शब्दस्येयं लाक्षणिकी वृत्तिः किं वा तेन वाच्येनान्वितं यद्वस्तु तद्विलक्षणवस्तुनीति सम्बन्धः । किं वाच्यार्थसम्बन्धिनि लक्षणा । उत तदसम्बन्धिनीति विकल्पः । यद्यपि सम्बन्धं विना लक्षणा न प्रवर्तते, तथाप्यखएडवाक्यार्थवादिना सम्बन्धो वक्तुं न शक्यत इति तदनुरोधेनेयं कोटिः । लौकिकलक्षणा- नुरोधेन प्रथमकोटिरिति भावः । दूषयति-नोभयमपीति । पक्षद्वयमपि युक्तमिति न प्रतिभात्यखएडार्थत्वक्षतेरित्यर्थः ॥ २०२ ॥ ननु किमित्यखण्डार्थत्वक्षतिरित्याशङ्कय तामेव प्रकारभेदेन पक्षद्वयेपि दर्शयति- । - प्रथमोऽध्यायः। सम्बन्धिरूपं यदि वस्तु लक्ष्य- मखण्डवाक्यार्थमतिः : कुतस्त्या। अनन्वितं वस्तु पदार्थलक्ष्य न लक्ष्यते कुत्रचिदत्र लोके ॥२०॥ - सम्बन्धिरूपमिति । यदि वाच्यार्थसम्बन्धि लक्ष्यते तदा वाक्यम- खण्डार्थ कुतो भवेन्न कुतोपि । यदि वाच्यर्थानन्वितं वस्तु लक्ष्य- मित्युच्येत तत्र लक्षणैवानुपपन्ना। लोके वेदे च शक्यसम्बन्धिन एव लक्ष्यत्वादिति नाखएडार्थत्वमित्यर्थः ॥ २०३ ॥ किं लक्ष्यपदार्थज्ञानाव्यवहितपूर्वकाले वाच्यार्थलक्ष्यार्थयोः सम्बन्धो वक्तव्यः। किं वा तत्कालेपि। आद्य नाखएडार्थत्वक्षतिरित्याह- पूर्वक्षणे भवति वाच्यपदार्थभाग- भागित्वसंगतिरिहाऽऽत्मनि निर्विभागे। मोहोपदर्शितवपुर्घटते ततोऽस्मि- छब्दस्य लाक्षणिकवृत्तिरदोषदुधा ॥२०४॥ पूर्वक्षण इति । इह लक्ष्ये अात्मनि लक्ष्यार्थप्रतीतेः । पूर्व वाच्य- शबलपदार्थेन भागभागित्वसंगतिर्भवतीति सम्बन्धः । एतच्च तादा- म्यस्योप्युपलक्षणम् । प्राप्तं तात्मनोपि सांशत्वं तत्राह-निर्विभाग इति । कुतस्तहि-अशांशित्वादिकमिति लक्षणेति प्राप्तं तत्राह-मोहेति- अज्ञानकल्पितमंशांशित्वादिकं वस्तुत एकरसेप्यात्मनि घटते । इयं वेदान्तस्य लक्षणा वृत्तिरात्मनि न दुष्टेत्यर्थः ॥ २०४ ॥ द्वितीयेपि किं वस्तुतस्तत्काले लक्ष्ये वा वाच्यार्थसम्बन्धो वक्तव्य इति ब्रूषे किं वा तत्त्वेन लक्ष्यपदार्थों ज्ञातव्य इति विकल्प्याद्य- मङ्गीकृत्य द्वितीयं दूषयति- सटीके संक्षेपशारीरके- w सम्बन्धितया भवति लाक्षणिकप्रवृत्तेः सर्वत्र कारणमितीदमभीमेव । सम्बन्धिताकरणमेव तु लाक्षणिक्या बुद्धरनिष्टमिह तव्यभिचारदृषेः ॥ २०५ ॥ सम्बन्धितेति । लाक्षणिक्या बुद्धलक्षणावृत्तिजन्याया बुद्धः सम्ब- न्धिताकरणं सम्बन्धित्वाकारः । अनिष्टं न अभीष्टमेव कुतः । इह तद्वयभिचारदृष्टेः इह गङ्गायां घोष इत्यादौ लक्षणाजन्यबुद्धेः तस्य वाच्यार्थसम्बन्धित्वाकारस्याभावेपि दर्शनादित्यर्थः ॥ २०५ ।। प्रथमोपि न नियत इत्याह MURMILAM यत्रैष काक इदमेव तु देवदत्त- वेश्मेति लाक्षणिकवृत्तिरिहाभ्युपेता। काकास्पदत्वमवधीर्य तथापि वेश्म- मात्राकृतिर्भवति लाक्षणिकी तु बुद्धिः॥२०६॥ यत्रैष काक इति । देवदत्तगृहं किमिति पृच्छन्तं प्रत्याह काकवद्- देवदत्तवेश्मेति तत्र वाक्ये काकपदस्योत्तणत्वादिविशेष लक्षणा वक्तव्या । काकविरहकालेपि तद्वाक्यप्रयोगेण गृहस्य काकवत्त्वेन देवदत्तान्वयप्रतियोगित्वाभावात् । न चानुपस्थितमेव विशेषेण गृहमन्वयप्रतियोगीति वाच्यम् । अन्वयप्रतियोगितावच्छेदकस्यो- पस्थितिनियमात् तथा च वाच्यार्थसम्बन्धाभावकालेपि लक्षणा दृष्टेति न तत्काले तत्सम्बन्धनियतिरिति भावः ॥ २०६ ॥ इदन्तु त्वदुक्तनियमभञ्जनार्थमुक्तं वस्तुतस्त्वस्मन्मते अात्मनि वाच्यार्थसम्बन्धोपि विद्यत एव । तस्य तत्साक्षात्कारैकनिवर्त्य- त्वात् । ननु वाक्यार्थप्रतीतिकाले वाच्यार्थसम्बन्धाङ्गीकारोऽनुपपन्नः
प्रथमऽध्यायः।
अखण्डार्थत्वक्षतेरिति चेत्-न सम्बन्धसत्त्वमात्रेणाखण्डार्थत्वक्षतिः ।
तदानीं जगन्मात्रवैशिष्टयसत्त्वेनास्यात्यन्तमल्पत्वादन्ततो वृत्तिवैशि-
ध्यस्यानिर्वाच्यत्वात्कि तर्हि वैशिष्टयस्य वाक्यजन्यप्रमाविषयत्वे
तस्याखण्डार्थत्वं हीयेत सोऽयं देवदत्त इत्यत्रैतद्देशकालवैशिष्टय-
सत्त्वेपि तदविषयत्वेन तस्याखण्डार्थत्वदर्शनादित्यभिप्रेत्याह-
सोऽयमित्यपि पदार्थरूपकं
लक्षणं यदुपलक्षणं हि तत् ।
अंशिता यदि पदार्थलक्ष्ययो-
गुह्यते ननु पुनर्विरोधिता ॥ २०७ ॥
सोऽयमित्यपीति । सोऽयमिति यत्तद्देशकालविशिष्टपदार्थस्वरूपं
तल्लक्षक स्वसम्बन्धिदेवदत्तमात्रज्ञापकं कुतस्तत्राह-उपलक्षणं हीति ।
हि यस्मात्तदेतद्देशकालवैशिष्टयमुपसमीपे वाक्यार्थाद्वहिरेव स्थित्वा
लक्षयति तस्मादित्यर्थः । ननु तत्रापि वाच्यार्थसम्बन्धोपि लक्ष्यपदार्थे
गृह्यतां ततो नाखण्डार्थता तत्राह-प्रांशतेति । पुनर्लक्षणानन्तरमपि
वाच्यार्थलक्ष्यार्थयोरंशांशिभावो यदि वाक्यजन्यज्ञानेन विषयीक्रियत
इति षे ननु तर्हि पूर्वोक्त विरोधिताऽऽपतेदित्यर्थः ॥ २०७ ॥
एवं पदद्वयलक्षणयाऽखण्डवाक्यार्थमुपवण्र्येदानी पदद्वयलक्षणां
विना मुख्यार्थेनैकपदलक्षणया वा ऽखण्डवाक्यार्थ वादिप्रसिद्ध्यो-
पपादयामीत्यभिप्रेत्याह-
एवं तावल्लनणावृत्तिहेतो-
रानीतैषाऽखण्डवाक्यार्थबुद्धिः ।
मुक्त्वाऽपीमां लक्षणावृत्तिमेषा
वक्तुं शक्येत्युच्यते ऽनन्तरेण ॥२०८॥
सटीके संक्षेपशारीरके- एवं तावदिति । पानीतोपपादितैषा अखण्डवाश्यार्थबुद्धिरनन्तरेणान- नन्तरग्रन्थेन यद्यपि तत्त्वमादौ पदद्वयलक्षणां विना नाखएडार्थत्व- सिद्धिस्तथापि लोके पदद्वयलक्षणां विनाप्यखएडार्थतायां सिद्धायां कि वक्तव्यं न्यायेन पदद्वयलक्षणावति सा सिद्ध्यतीत्ययमारम्भ इति द्रष्टव्यम् ॥ २०८॥ तत्रादौ लोके पदद्वयमुख्यार्थमादायैवाखण्डार्थत्वं समर्थयते - भिन्नाभिन्नरवौ घटादिवचसा साकं समुच्चारिता- वन्यूनानधिक घटादिविषये तावत्प्रवृत्तौ तव । नो चेद्विश्वसूजोऽपि दुष्परिहराभेदादिमालाऽऽगता भेदादेरपि तत्र वाच्यमपरं भेदादिकं स्यादिति ॥२०॥ भिन्नाभिन्नेति । रवः शब्दः अन्यूनानधिके प्रयुक्तकपदार्थमात्रे भिन्नो घटोऽभिन्नो घट इत्यादिप्रयोगे भिन्नाभिन्नशब्दो घटादिपदार्थमात्र- विषये प्रयुज्यते इति तद्वाक्यमखण्डार्थनिष्ठमित्यर्थः। ननु किमिति भिन्नाभिन्नपदस्य घटादिपदार्थमात्रार्थत्वं तत्राह-तवेत्यादिना । भेदादेर्घ टादिस्वरूपमात्रत्वं नोचेत्तस्य स्वरूपातिरिक्तत्वं वदतस्तव भेदादि- माला प्राप्ता स्यात्तत्र हेतुः-भेदादेरिति । भेदाभेदयोरपि भेदाद्यन्तरं स्वीकर्तव्यमिति यतस्तत इत्यर्थः । यदि भेदाभेदाद्धटादेभिन्नस्तहि येन भेदेन भिन्नो भेदः सोपि किमन्येन भेदेन भिन्नः उत स्वाश्रयभेदेन अथवा स्वेनैव । आये तस्य तस्यापि भेदस्यैवमित्याद्यनाद्यनन्तभेद- कल्पनापत्तिः । न द्वितीयः । अन्योऽन्यायप्रसङ्गात्स्वेन भिन्नेन भेदेन स्वस्य भिद्यमानत्वात्। न तृतीयः। प्रथमभेदस्यापि तद्वत् स्वेनैव भिन्न- त्वप्रसङ्गात् । तदङ्गीकारे च घटादेरेव तथात्वमस्तुकिंततोऽतिरिक्तभेदेन प्रमाणप्रयोजनयोरभावात् । एवमभेदोपि वस्तुनः स्वरूपमेव । अन्यथा तस्य धर्मत्वे सस्यापि धर्मस्याभेदो धर्मान्तरमिति एकस्मिन्नेव घटे । ।
प्रथमोऽध्यायः। २१६ तत्समवेतघटत्वादौ चानुपलभ्यमानानन्तधर्मकल्पनाप्रसङ्गात्तस्मा- द्भेदाभेदयोर्घटादिस्वरूपमात्रत्वात्पदद्वयस्यान्यूनानतिरिक्तविषयतया ऽखण्डवाक्यार्थता सिद्धतीति भावः ॥ २०६ ॥ । । ननु भिन्नाभिन्नपदयोर्घटादिपदेनाभिन्नार्थत्वे तेन सह प्रयोगोऽनु- पपन्नः पर्यायत्वादित्याशङ्कय प्रवृत्तिनिमित्तभेदान्न पर्यायत्वमित्यभिप्रेत्य भेदघटपदयोस्तावत्प्रवृत्तिनिमित्तमाह- परस्पराभावमुपादानो निमित्तमर्थेषु हि भिन्नशब्दः । प्रवर्ततेऽन्ये तु घटादिशब्दा निजं निजं वाच्यमुपादानाः॥२१०॥ परस्पराभावमिति । भिन्नशब्दः परस्पराभावमन्योन्याभावं प्रवृत्ति- निमित्तमुपाददानो घटाद्यर्थेषु प्रवर्त्तते । अन्ये घटादिशब्दा निजं निजं स्वं स्वं वाच्यं घटत्वादिकं निमित्तमादायैव घटादौ प्रवर्तन्त इत्यर्थः ॥ २१०॥ भेदशब्दस्य प्रवृत्तिनिमित्तमाह- परस्पराभावविहीनभावा- दभिन्नशब्दस्य घटे प्रवृत्तिः । घटस्वरूपैकनिबन्धना तु घटादिशब्दस्य घटे प्रवृत्तिः॥२११॥ पररपरेति । अभिन्नशब्दस्य परस्पराभावविहीनभावादन्योन्याभा- वाभावात्प्रवृत्तिनिमित्ताद्धटादौ प्रवृत्तिर्घटादिशब्दस्य तु घटे घटस्व- रूपैकनिबन्धना प्रवृत्तिरिति सम्बन्धः । घटस्वरूपमेकमेव निबन्धनं निमित्तं यस्या सा तथोक्ता । नन्विदमनुपपन्नं स्वरूपभेदमते तदति- २२० सटीके संक्षेपशारीरके- । रिक्तपरस्पराभावे प्रमाणप्रयोजनयोरभावात्स हि भिन्नो घट इत्यादि प्रत्यक्षेण गृह्यत इति वाच्यम् । तच्च भवता स्वरूपमात्रविषयमिति वर्ण्यते । न च प्रत्यक्षाभावेपि भिन्नो घट इत्यादिवाक्यमेव तत्र प्रमाणं तस्य स्वरूपभेदविषयत्वेपि प्रवृत्तिनिमित्तत्वेनैतद्वैशिष्ट्यस्यापि तत्र प्रतीतेरिति वाच्यं-स्वरूपभेदातिरिक्तभेदवैशिष्ट्यस्यापि तत्र शब्दात्प्रतीतौ तस्याखण्डार्थत्वभङ्गापातात् । न च प्रयोजनमपि, तत्कार्यभेदव्यवहारस्थ तं विनापि सिद्धत्वात् । ननु परस्पराभावो न स्वरूपातिरिक्तः किन्तु भावान्तरस्यैवाभावस्वरूपत्वेन तस्य भाव- स्वरूपत्वमेवेति चेत्तर्हि प्रवृत्तिनिमित्तभेदविरहेण भेदपदस्य घटादि- पदेन पर्यायताप्रसङ्गः । अस्तु वा यत्किञ्चिद्भदपदस्य प्रवृत्तिनिमित्तं तथाप्यखण्डार्थत्वं वाक्यस्य दुहरणं तद्ध्यपर्यायपदानामेकप्रातिपदि- कार्थमात्रत्वं घटपदं च घटघटत्वतदुभयवैशिष्ट्य बोधयतीति नाख- एडार्थत्वमत एव अभिन्नो घट इत्यादावपि नाखण्डार्थता परस्पराभावा- सिद्धौ तदभावस्याप्यभावेन प्रवृत्तिनिमित्तभेदासिद्धश्चेति चेदुच्यते- परस्पराभावपदेनान्यात्मना प्रतीयमानत्वमेव विवक्ष्यते । अस्ति हि घटे पटान्यस्वरूपे पटभिन्नो घट इति प्रतीयमानेऽन्यात्मना प्रतीय- मानत्वं नाम धर्मः। स च घटत्वादिपदस्य घटेतरावृत्तित्वादिधर्म इव भेदपदस्य तटस्थ एव प्रवृत्तिनिमित्तं भिन्नपदाप्रतीतेः । एतदभि- प्रेत्यैव घटादि पदप्रवृत्तिनिमित्तस्य वाच्यत्वान्तर्भावो दर्शितः । निज निजं वाच्यमुपाददानेति स्वव्यतिरिक्तसकलशक्यवृत्तित्वे सति शक्ति- निरूपकत्वं हि शक्यतावच्छेदकं प्रवृत्तिनिमित्तम् । इदञ्चास्य शक्य- त्वेऽशक्यत्वे च सम्भवति स्वव्यतिरिक्तसकलशक्यवृत्तित्वं नाम स्वव्यतिरिक्तशक्यनिष्ठात्यन्ताभावाप्रतियोगित्वं तेनैकव्यक्तिवृत्तिवा- क्यतावच्छेदके नाव्याप्तिः । प्रमेयत्वादेर्घटपदशक्यतावच्छेदकत्वं माभूदिति शक्तिनिरूपकत्वमित्युक्तं पटादिपदप्रवृत्तिनिमित्तपटत्वादेः शक्यस्ववृत्तित्वाभावेनाव्याप्तिरतः स्वव्यतिरिक्तति । यत्तु घटत्वपद-
प्रथमोऽध्यायः।
२२१
स्यापि घटत्वमेव प्रवृत्तिनिमित्तमिति तन्न प्रवृत्तिनिमित्तभेदाभावेन
घटघटत्वपदयोः पर्यायत्वप्रसङ्गात् । न च तत्पदार्थान्यूनानतिरिक्ता-
र्थकत्वमेव तत्पदस्य पर्यायत्वमिति वाच्यम् । प्रमेयाभिधेयपदयोः
पर्यायत्वप्रसङ्गादिति । अभिन्नपदप्रवृत्ति निमित्तेतरेतराभावाभाव-
पदेनापि अन्यात्मना प्रतीयमानत्वं विवक्ष्यते । न चात्र प्रतियोग्य-
प्रसिद्धिः । घटभिन्नः पट इति घटान्यात्मना प्रतीयमाने पटेऽन्यात्मना
प्रतीयमानत्वस्य सत्त्वादेतदपि तटस्थमेव प्रवृत्तिनिमित्तमतोनाखण्डा-
र्थत्वक्षतिः । यदुक्तं घटपदेन घटघटत्वतद्वैशिष्टय प्रतीयत इति प्रती-
यतां नाम । न चैतावता तत्र विवक्षिताखण्डार्थत्वहानिः । अत्र
ोकप्रातिपदिकार्थत्वमखण्डार्थत्वं न विवक्षितं किन्तु पदद्वयस्यैकपदा-
र्थमात्रत्वं स च पदार्थंकरसोऽ नेकरसो वा लोके भवति वेदे त्वेकरस
एव पर्यवस्यति । तत्र पदद्वयलक्षणाया आवश्यकत्वादत एवाचार्यैरन्यू-
नानधिके घटादिविषय इत्येवोक्तम् । अथवा घटपदेन स्पष्टप्रतीत्यभावेन
घटत्वादिवैशिष्ट्यस्य तदपि घटाभिन्नमवेत्यभिप्रेत्याखण्डार्थत्व-
मुक्तमत एवावोचत् घटस्वरूपकनिबन्धना स्विति । उदाहरणपरिशोधनं
विनापि तद्दर्शनमात्रेणाखण्डार्थत्वसम्भावना भवति यत्र ह्युदाहरणैरेव
वस्तुसिद्धिरभिप्रेयते । तत्रैव तत्परिशोधनेन भाव्यमन्यथातिप्रसङ्गात् ।
यत्र तु शब्दप्रमाणेनैव हि विवक्षितार्थसिद्धिः । तत्रासम्भावनाबुद्धौ
सत्यां तन्निराकरणाय पक्वमतेः क्वचिदापातदर्शनमात्रेण सम्भावनैव
सम्पादनीया सा चोत्तमाधिकारिणः क्वचिद्दर्शनमात्रेण भवति । अमित
चात्र शब्दप्रतीतिविषयब्रह्मणोऽखएडत्वे एकधैवानुद्रष्टव्यमित्यादिश्रुतिः
प्रमाणम् । अथवा भिन्नो घट इति शब्दो न घटस्य घटत्ववैशिष्ट्य-
बोधनाय प्रयुज्यते तस्य सिद्धत्वात्किन्तु द्रव्यान्तराभेदभ्रमनिवृत्तये
प्रयुज्यत इति तस्य भेदसम्बन्ध एवं तात्पर्यमिति शब्दतात्पर्यस्यै-
करसत्वाद्विवक्षिताखण्डार्थत्वमेवात्रापति भावः । अत एव घटादि-
विषये घटादिव्यक्ती प्रवृत्तावित्युक्तम् ॥ २११ ॥
२२२ सटीके संक्षेपशारीरके- AND wwkamsin इदानीमेकपदलक्षणयापि वाक्यस्य विवक्षिताखण्डार्थत्वं दर्श- यति- अबोधनाशश्चितिरित्यमुष्मि- नपदवये त्वेकरसात्मनिष्टे । अगौणमेकं पदमन्यदन द्वितीयवृत्तीतरसंगमाय ॥२१२ ॥ श्रवोधनाश इति । एकरसात्मनिष्ठेऽविवक्षितोपाधिचैतन्यमात्रविषये. ऽज्ञाननाशश्चैतन्यमित्यमुष्मिन्यदद्वयेप्येकं पदमगौणं मुख्यार्थमत्र वाक्येऽन्यत्पदमितरेण मुख्यार्थपदेन सम्बन्धाय द्वितीयवृत्ति द्वितीया लक्षणावृत्तिर्यस्य पदस्य तदित्यर्थः ॥ २१२ ॥ नन्वत्र वाक्ये किं पदमगौणं किं वा द्वितीयवृत्तीति तत्राह- अज्ञाननाशपदमत्र हि मुख्यमिष्टं विद्यानिबन्धननिवृत्तिसमर्पकत्वात् । तेनान्वयाय चितिवाचिपदं स्ववाच्ये सौवं समुज्झति मतेः परिणामरूपम् ॥२१॥ अज्ञानेति । हि शब्दोऽवधारणे । अत्र प्रकृते वाक्येऽज्ञाननाशपदमेव मुख्यं मुख्यार्थमिष्टं तत्र हेतुः-विद्यानिबन्धननिवृत्तिसमर्पकत्वात् । अधिष्ठानतत्त्व- ज्ञानहेतुकनिवृत्तिसमर्पकत्वान्मिथ्यानिवृत्तिबोधकत्वादिति यावत् । मिथ्यानिवृत्तियधिष्ठानानातिरिच्यते । निवृत्तिप्रतियोगिनो मिथ्या- बस्तुनस्ततो वस्तुतो भेदाभावाद्यत्र ह्याधारात्प्रतियोगि पृथक् सन् तत्रैव प्रतियोगिसत्ता परतन्त्रा तन्निवृत्तिरपि भिद्यते । अथवा विद्या- पदेन चरमवृत्तिरभिधीयते । तन्निबन्धना तदुपहितब्रह्मस्वरूपचैत- न्यात्मिका याऽविद्यानिवृत्तिस्तद्बोधकत्वाद् वृत्तिश्चोपाधिस्तटस्थैव प्रथमोऽध्यायः । । प्रवृत्तिनिमित्तमतो विवक्षितोपाधिचैतन्यमात्रवाचकत्वादशाननाशपर्द मुख्यार्थमित्यर्थः । अस्तु तर्हि ज्ञानपदमपि मुख्यार्थ तस्यैवाविद्यानि- वृत्तिरूपत्वादिति चेत्तत्राह-तेनान्वयायेति । अवोधनाशपदेनान्वयार्थ ज्ञान- वाचिपदं स्ववाच्ये शवले मतेः परिणामरूपं बुद्धिवृत्तिलक्षणं सौवं स्वस्येदं स्ववाच्यभागं समुज्झति त्यजति । ज्ञानपदं हि वृत्तिशबले चैतन्ये व्युत्पन्नं मुख्यार्थमादाय अविद्यानाशपदेन नान्वेतुमर्हति । वृत्त्य- शेऽस्याविद्यानाशाद्भिन्नत्वादेकधिभत्त्यन्तत्वेन वैयधिकरण्येनान्व- यायोगाच्च । ततश्चिति पदलक्षणया वाक्यमखण्डार्थनिष्ठमेवेति भावः ॥ २१३॥ नन्वेतदनुपपत्रम्-यदात्मवाचिचितिपदे लक्षणाऽभाववाचि- विनाशपदस्य चात्मनि मुख्या वृत्तिरित्याशङ्कय तस्योक्तरीत्या प्रामा- णिकत्वान्न किश्चिदनुपपन्नमिन्याह- विधिपदानि हि भागसमर्पणा- दपरभागनिराकरणादपि । अविषयात्ममति जनयन्ति नो न तु मृषार्थनिवृत्तिगिरस्तथा ॥२१४ ॥ विधिपदानीति । अथवा अधिष्ठानतत्त्वज्ञानजन्यनिवृत्तिवाचकत्वेनाबो- धनाशवदमात्मनि मुख्यवृत्तिरित्यत्र मृषावस्तुनिवृत्तेरधिष्ठानमात्रत्वा- दिति हेतुमभिप्रेत्याह-विधिपदानीति । भावपदार्थवाचकानीत्यर्थः । अवि- षयात्ममतिमवाच्यात्ममति मृषार्थस्याज्ञानस्य निवृत्तिवाचकाः शब्दा- स्तथाविधिपदवद्भागत्यागलक्षणयाऽविषयात्ममति न जनयन्तीति सम्बन्धः । नन्वात्मनोवि शब्दवाच्यत्वे यतो वाचो निवर्तन्त इति श्रुतिविरोध इति न तत्रानौपाधिक एव शब्दप्रवृत्तेः श्रुत्या निराकृत- स्वादिति भावः ॥ २१४ ॥ ।
२२४ सटोके संक्षेपशारोरके- इदानी भेदस्य धर्म्यतिरिक्तत्वमनुगच्छन्तं प्रतिपदद्वयस्यैकार्थत्वे दृष्टान्तमाह- भेदो भिन्नश्वातिरेकोऽतिरिक्तो भेदोऽभिन्नः संविदः स्वप्रकाशः। इत्येतस्मिन्विद्यते नार्थभेदो वेदान्तानामप्यखण्डस्तथाऽर्थः॥२१५॥ भेदो भिन्न इति । स्वश्चासौ प्रकाशश्चेति संवित्स्वरूपस्यैव स्वयं- प्रकाशशब्दार्थत्वात्तत्र स्वसत्तायां प्रकाशाविधुरत्वस्य प्रवृत्तिनिमित्त- त्वानेदादिविषय भेदाभावाच । यथैतानि वाक्यान्यखएडार्थानि तथा वेदान्तोप्यखएडार्थ इत्यर्थः ॥ २१५ ॥ ननु सत्यादिनिखिलपदनां प्रातिपदिकार्थैक्येपि प्रथमाविभक्त्या लिङ्गादिवैशिष्ट्यस्यावगमानाखण्डार्थतेत्याशङ्कय न ह्ययमस्तिनियमः। प्रथमाविभक्तया लिङ्गादिवैशिष्ट्य बोधनीयमिति प्रातिपदिकार्थमा- अपि तत्स्मरणादतः पाणिनिस्मृतिबलादखएडार्थत्वमन्यत्राविरुद्ध- मित्युक्तानुवादपूर्वकमाह- एवं तावदखण्डवस्तुविषये शब्दान्वयो दर्शितो लोके दृष्टनयेन पाणिनिवचोऽप्यस्यैव संसूचकम् । येनायं स्मरति प्रकृत्यभिहिते वृक्षादिके केवले तन्मात्रे प्रथमेति सूत्रवचसैवाऽऽद्यां विभक्तिं मुनिः॥२१॥ एवं तावदिति । लोके तावदेवं दृष्टनयेनोक्तप्रकारेणाखण्डवस्तुविषयः शब्दसमन्वयो दर्शितः पाणिनिवचोऽप्यस्यैवापर्यायपदयोरेकप्राति- पदिकार्थत्वमात्रस्यैव संसूचकं भवति । कुतस्तद्वलाद्वचनस्याखएडा- र्थत्वमित्याशङ्कय यतःप्रकृतिप्रत्यययोरेकार्थत्वं सूचयतीत्याह-येनायमिति । ।
प्रथमोऽध्यायः। अयं पाणिनिमुनिः प्रकृत्यभिहिते वृक्षादिप्रातिपदिकाभिहिते वृक्षादिके वृक्षव्यक्तयादौ केवले लिङ्गादिरहिततन्मात्रे प्रथमेति सूत्रवचसा प्राति- पदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमेति सूत्रेणाद्यां प्रथमा विभक्ति येन कारणेन स्मरति तेनेत्यर्थः ॥ २१६ ॥ इदानी भगवान् बादरायणोपि समन्वयसूत्रेऽन्वयस्य समितिवि- शेषणमुपाददानो वेदान्तानामखण्ड एवार्थ इति मेन इत्याह- सामानाधिकरण्यमन्वयगिरा हेतुं वदत्यादरा- त्तस्यैवाथ विशेषणं समिति च व्यावृत्तये गृह्यते । गौणान्मुख्यमयं भिनत्ति भगवान्व्यावर्त्तकेनामुना नीलेनोत्पलवस्तुवत्स्फुटतरं दैविध्यसद्भावतः ॥२१७॥ सामानाधिकरण्यमिति । बादरायणो हि भगवान् अखण्डैकरसब्रह्मणो वेदान्तप्रमाणकत्वं प्रतिज्ञाय तत्र तत्तुसमन्वयादिति सूत्रस्थान्वय- पदेन सामानाधिकरण्यं सामानाधिकरण्येन ब्रह्मप्रतिपादकानामन्वयं तात्पर्येण हेतुं वदति स्म न केवलं सामानाधिकरण्यमात्रं हेतुमाह किन्तु मुख्यमेव तदतो न नीलोत्पलादिवाक्यसाम्यं दृष्टमित्याह- तस्यैवेति । तस्य सामानाधिकरण्यस्यामुख्यसामानाधिकरण्यव्यावृत्तये समिति विशेषणं तेन गृह्यते । अथ यस्मात्तस्मादयं सूत्रकृद् गौणा- नीलोत्पलमित्यादिसामानाधिकरण्यादेतत्सामानाधिकरण्यं मुख्य यथा भवति तथोत्पलं नैल्येनैव भिनत्ति व्यावर्त्तयति । ननु विशेषण- ग्रहणमात्रेण कथं तत्तन व्यावर्तितमिति गम्यते प्रमेयो घट इतिवद- न्यथापि विशेषणसम्भवादिति तत्राह-व्यावर्त्तकेनामुनेति । विशेषणस्य व्यावर्तकत्वमेवोत्सर्गः। अन्यथात्वं पुनः क्वचिद्वयावाभावात् । न चात्र व्यावाभावः। सामानाधिकरण्यद्वैविध्यस्य सत्त्वेनामुख्यसा- मानाधिकरण्यस्यामुना समितिविशेषरणेन व्यावर्तनीयत्वादित्याह- Sawanloda सटोके संक्षेपशारीरके- तु स्फुटतरेत्यादिना। नन्वत्र सूत्रे सम्यक्सम्बन्धमात्रं हेतुः प्रतीयते न सामानाधिकरण्यमिति चेत्सत्यं तथापि ब्रह्मपरसत्यादिवाक्येषु वैय- धिकरण्येनान्वयासम्भवादयमेवान्वयः सूत्रकृत्संमत इति गृह्यत इति भावः ॥ २१७॥ सामानाधिकरण्यद्वैविध्यमस्तीति-यदुक्तं तदेव विभज्य दर्श यति- तद्धि बिधैकाधिकरण्यमुक्तं गौणं च मुख्यं च विविच्य सद्भिः। संसर्गरूपार्थनियोश गौणं मुख्यं त्वखण्डार्थनिविष्टमाहुः॥ २१८ ॥ तीति । तद्ध्यैकाधिकरण्यं सामानाधिकरण्यं सद्भिर्विविच्य द्विधोक्तमिति सम्बन्धः । द्वैविध्यमेवाह--गौणं च मुख्यं चेति । तयोर्लक्ष- णमाह-संसर्गरूपेति । भेदगर्भतादात्म्यरूपो यो वाक्यार्थः तनिवेशि तद्विषयं यत्सामानाधिकरण्यं तद्गौणमखण्डार्थविषयं तन्मुख्यमिति सन्त श्राहुरित्यर्थः ॥ २९८ ॥ उक्तलक्षणद्वैविध्यस्य सामानाधिकरण्यावान्तरलक्षणत्वं दर्श- यितुं तत्सामान्यलक्षणमाह- प्रादाय नानाविधकारणानि गिरामथैकत्र तु या प्रवृत्तिः। तामाहुरैकाधिकरण्यनाम्ना विपश्चितो वेदशिरःसु विप्राः ॥ २१६ ॥ भादांयेति । नानाविधकारणानि-भिन्नप्रवृत्तिनिमित्तानि, भिन्नप्रवृ.
प्रथमोऽध्यायः। २२७ त्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे या वृत्तिस्तां सामानाधिकरण्य- नाम्ना ब्रह्मवादिन आहुरित्यर्थः । एतच्च तादात्म्यबोधकनीलोत्पलादि- वाक्येऽखएडार्थकवाक्ये सोऽयमित्यादौ च विद्यत इति सामाना- धिकरण्यद्वैविध्यं सिद्ध्यतीति भावः ॥ २१६ ॥ सामानाधिकरण्यद्वयस्यापि क्रमेणोदाहरणं दर्शयति- नीलं सुगन्धि महदुत्पलमम्बुशायी- त्येवंप्रकारमिह गौणमुशन्ति सन्तः । सोऽयं पुमानुदशरावगतो विवस्वा- नाकाशगो रविरसाविति मुख्यमाहुः ॥ २२० ॥ नीलं सुगन्धाति । उत्पलमिति विशेष्यं नीलमित्यादि तद्वि- शेषणमम्बुशायि जलस्थमित्यर्थः । उदशरावगतः अप्पात्रे प्रति- बिम्बितः ॥ २२० ॥ ननु मुख्यामुख्यवैपरीत्यं किं न स्याद्विनिगमकाभावादुभयमपि मुख्यं वा किं न स्यात्तत्राह- एकत्र वृनिरिति लक्षणमत्र मुख्य संसर्गवस्तुनि पुनर्न हि तद्धटेत । नानारसे हि विषये वचसा प्रवृत्ति- नीलं सुगन्धि महदुत्पलमित्यमीषाम् ॥ २२१ ॥ एकत्रेति । अत्र सोऽयमित्यदिवाक्य एवैकत्र वृत्तिरिति सामाना- धिकरण्यलक्षणविशेषणं मुख्यमनुपचरितार्थ भवति संसर्गवस्तुनि तादात्म्यप्रतिपादके वाक्ये तदेकत्र वृत्तित्वं मुख्यं न हि घटेत कुत. स्तत्राह-नानारसे हीति । नीलं सुगन्धि महदुत्पलमित्यमीषां पदानां हि यतो नानारसे भिन्ने विषये प्रवृत्तिस्ततः । न च सोऽयमित्यादी
२२८
सटीके संक्षेपशारीरके-
तथेत्यर्थः । भिन्नप्रवृत्तिनिमित्तानामेकार्थवृत्तित्वं हि सामाना-
धिकरण्यलक्षणं तच्च सोऽयमित्यादावेव मुख्यं भवति । एकार्थ-
वृत्तित्वस्य तत्रैव सत्त्वान्न तु नीलमुत्पलमित्यादौ तदर्थस्य तादात्म्य-
रूपतया भेदघटितत्वेन तत्रैकत्रवृत्तित्वस्य मुख्यस्याभावात् । नचार्थ-
भेदेप्येकत्र वृत्तित्वं मुख्यं भवति । अमुख्यं तु भवेदेव गुणगुणि-
भावेन कथंचिदभेदस्यापि तत्र सत्त्वात्तस्माद्विनिगमकसद्भावात्सो-
ऽयमित्यादिसामानाधिकरण्यं मुख्यं नीलमुत्पलमित्यत्र तु तद्गौ-
णमेवेति भावः ।। २२१ ॥
ननु सामानाधिकरण्यलक्षणे माभूदेकार्थवृत्तित्वं विशेषणं
येन नीलोत्पलादिप्रयोगे तदमुख्यं भवेदित्याशङ्कय तस्य वैयधि-
करण्यान्वयव्यावर्त्तकत्वान्न तद्वयर्थमिति वक्तुं व्यधिकरणान्वय-
लक्षणमाह
नानाविधैर्बहुभिरेव निमित्तभेदै-
मिन्नेषु वस्तुषु गिरामथ या प्रवृत्तिः ।
सर्वत्र वैयधिकरण्यमिति प्रसिद्धा
मा शब्दवृत्तिकुशलव्यवहारभूमौ ॥ २२२ ॥
नानाविधैरिति । भिन्नवत्यन्त भिन्नेवित्यर्थः । भिन्नप्रवृत्तिनिमि-
त्तानां शब्दानां भिन्नेष्वर्थेषु वृत्तिर्वैयधिकरण्यमित्यर्थः । नचैवं
गौरश्व इत्यत्रातिव्याप्तिरितिवाच्यम् । आकाङ्क्षादिमतामिति गिरां
विशेषणोपदानात्। सामानाधिकरण्येतिव्याप्तिपरिहाण्य भिन्नेष्विति ।
तावत्युक्तेऽनेकव्यक्तिवृत्तिपर्यायप्रयोगेऽतिव्याप्तिस्तदर्थ भिन्नप्रवृत्ति
निमित्तेति । कुत्र प्रसिद्धत्यत्राह-शब्दवृत्तीति । शब्दवृत्तिविवेचने ये
कुशला वृद्धास्तेषां व्यवहारभूमिष्वभिवदनव्यवहारेषु प्रसिद्ध-
त्यर्थः ॥ २२२ ॥
प्रथमोऽध्यायः। AND ननु पर्यायप्रयोगव्यावृत्त्यर्थ भिन्नप्रवृत्तीति विशेषणमित्युक्तम् । तत्र कोसौ पर्यायो नाम तत्राह- अभिन्नहेतुर्विषये समाने विभिन्नवाचामथ या प्रवृत्तिः । पर्यायनाम्नाऽभिवदन्ति धीराः प्रवृत्तिमेनां वचसां बहूनाम् ॥ २२३ ॥ अभिन्नहेतुरिति । अभिन्नो हेतुः प्रवृत्तिनिमित्तं यस्या प्रवृत्तः सा तथोक्ता । विभिन्नवाचां स्वरूपतो विलक्षणघटकलशादिशब्दानाम्। एक प्रवृत्तिनिमित्तानेकशब्दत्वं पर्यायत्वमित्यर्थः । बहूनां वचसामेकार्थे प्रवृत्तिः पर्याय इत्युक्त स्तम्भः कुम्भः पर्वत इत्यत्र पर्यायत्वप्रसङ्गा. दाह-समान इति । एकजातीय इत्यर्थः। एकजातीयानेकार्थेष्वपिपर्यायता- दर्शनानार्थैक्यं तत्प्रयोजकं किन्तु प्रवृत्तिनिमित्ताभेद एव ततः प्रवृत्ति निमित्तभेदादेवापर्यायत्वं न त्वर्थभेदान्न च विजातीयार्थभेदादेवा- पर्यायत्वं प्राप्ताप्राप्तविवेकेन प्रवृत्तिनिमित्तभेदस्य तत्प्रयोजकत्व- सद्धरिति ॥२२३॥ वैयधिकरण्यपर्याययोः क्रमेणोदाहरणमाह- कुड्यं गृहस्य सरसोऽम्बुजमभ्य वस्त्र- मित्यत्र वैयधिकरण्यमिति प्रसिद्धम्। एवं मुखं वदनमाननमित्यमीषां पर्यायताऽपि विदितैव पुरोक्तहेतोः॥२२४ ॥ कुड्यं गृहस्येति । पुरोक्तहेतोः-श्रभिन्नप्रवृत्तिनिमित्तत्त्वादिति हेतो- रित्यर्थः ॥ २२४॥ ननु यद्येवं वाक्यप्रवृत्तिरनेकप्रकारासंभवति किमिति तर्हि वेदा- न्तवाक्यस्याखण्डाभिनिवेश इत्याशङ्कय प्रकारान्तरासंभवादित्याह- ANIMAL
२३०
सटोके संक्षेपशारीरके-
पर्यायता न खलु तत्त्वमसीति वाक्ये
नापीह संभवति भेदकभेद्यभावः।
तत्त्वंपदार्थगतमेकरसैकभागं
तत्त्वंपदे समुपलक्षयतो विरोधात् ॥ २२५॥
पर्यायता न खाल्चति । तत्त्वमसोति वाक्ये तावत्पर्यायता न
संभवति प्रवृत्तिनिमित्तभेदात् । इह-तत्त्वमस्यादिवाक्ये भेदकभेद्य-
भावो विशेषणविशेष्यभावोपि न संभवति । तत्र न तावद्गृहस्य कुड्य-
मित्यादिवद्विशेषणविशेष्यभावः प्रथमामात्रविभक्तिपदद्वयप्रतिपाद्य-
त्वात् । ननु नीलोत्पलादिवाक्यवत्स किं न स्यात्तत्राह-नत्त्वंपदार्थगत-
। विरोधादित्यन्तेन वाच्यार्थयोस्तादात्म्यविरोधात्तत्त्वंपदे
तत्त्वंपदार्थाशमात्मस्वरूपमात्र लक्षयतः अतोऽत्यन्तमभेद एव वाक्य-
प्रतिपाद्य इति न नीलोत्पलादिवाक्यसाम्यमित्यर्थः । ननु तत्त्वम-
स्यादिवाक्यस्याखण्डार्थत्वे किं प्रमाणमिति चेदुच्यते । तत्त्वमस्या
दिवाक्यमखएडार्थनिष्ठमकार्यकारणद्रव्यवाचकसमानाधिकरणपदद्वय-
समुदायत्वात्सोऽयं देवदत्त इतिवाक्यवत् । न च दृष्टान्तः साध्य-
विकलः । तस्योपपादितत्वादिति ॥ २२५ ॥
एवं महावाक्यस्याखण्डार्थत्वे प्रमाणमुक्तवेदानों सत्यादि
वाक्यमखण्डार्थनिष्ठं लक्षणवाक्यत्वात्प्रकृष्टप्रकाश इत्यादिलक्षण-
वाक्यवदित्यभिप्रेत्याह-
प्रकृधप्रकाशध्वनी व्यक्तिमेका
यथा लक्षणावर्त्मनोपचिपेताम् ।
शशाङ्कादिशब्दार्थसंकीर्तने स-
च्चिदानन्दशब्दाः परं ब्रह्म तद्वत् ॥ २२६ ॥
प्रथमोऽध्यायः। प्रकृष्टप्रकाशध्वनीति । शशाङ्कादिशब्दार्थसंकीर्तने चन्द्रपदार्थमात्र- प्रतिपादने कर्तव्ये प्रकृष्टप्रकाशध्वनी शब्दी लक्षणावृत्त्या यथैकां चन्द्रादिव्यक्तिमुपक्षिपेतां प्रतिपादयतः तथा सत्यज्ञानादिशब्दा अपि परं ब्रह्म प्रतिपादयन्तीत्यर्थः ॥ २२६ ॥ ननु लक्षणया चेत्पदैरखण्डार्थो बोधनीयः किमिति तर्हि नीलो- त्पलादिवाक्यमपि तथा न बोधयति, अतो नूनं स्वार्थपरित्यागो न न्याय्य इति नीलोत्पलादिवाक्यं लक्षणयाऽखएडमर्थ न बोधयतीति प्रकृष्टप्रकाशादिवाक्येपि तदयुक्तमित्याशङ्कय तत्र लक्षणाऽयोगादेव तत्तद्बोधयति न तु तदन्याय्यतयेत्याह- PURNA न नीलोत्पलाद्या गिरो व्यक्तिनिष्ठाः स्ववाच्यार्थसंसर्गमात्राभिधानात् । विरोधे हिवाच्यच्युति विरोघे गिरां लक्षणाऽत्रापि चेदस्तु साम्यम् ॥ २२७ ॥ न नीलोत्पलेति । न व्यक्तिनिष्ठा: व्यक्तिमात्रबोधका न भवन्ति तत्र हेतुः स्ववाच्येति । नीलोत्पलादिवाच्यनैल्योत्पलवयोः संसर्गस्यैव वाक्यप्रतिपाद्यत्वादित्यर्थः । ननु मुख्यया वृत्त्या संसर्गाभिधानेपि लक्षणया व्यक्तिमात्रपरत्वं किं न स्यात्तत्राह-विरोधे हीति । वाच्यार्थयोः परस्परान्वयविरोधे सत्येव शब्दानां मुख्यार्थपरित्यागः अन्यथाति- प्रसङ्गादत्र च न विरोधः। नीलोत्पलत्वजातिविशिष्टयोर्नीलोत्पलयो- रभेदबोधेपि विरोधाभावादित्यर्थः । आकस्मिकलक्षणाङ्गीकारे चात्रापि तदस्त्वित्याह-लक्षणेति । अत्र नीलोत्पलादिवाक्येपि लक्षणा चेत्प्रकृष्टप्रकाशादिवाक्यसाम्यमस्त्वित्यर्थः ॥ २२७ ॥ । यद्यपि नीलोत्पलादिवाक्ये लक्षणाश्रयणेपि वस्तुतो नाखण्डार्थ- २३२ सटीक संक्षेपशारीरके- स्वसिद्धिलक्ष्यभेदसत्त्वात्तथाप्यङ्गीकृत्येदानी लक्षणायाभेदमखण्डार्थ- त्वमाह- न नीलत्वजात्याश्रयव्यक्तितः स्या- विभिन्नोत्पलत्वाश्रयव्यक्तिरेषा। तथैवोत्पलत्वाश्रयव्यक्तितः स्या- न्न नीलत्वजात्याश्रयव्यक्तिरन्या॥२२८॥ न नालस्वेति । नीलत्वजात्याश्रयव्यक्तितः उत्पलपदलक्ष्यनैल्य- गुणान्नीलपदलक्ष्योत्पलत्वजात्याश्रयोत्पलव्यक्तिरन्यानभवति । एवमेव नोलपदलक्ष्यादुत्पलपदलक्ष्यमपि भिन्नं न भवति । तयोरभेदेनैवा- वगमादित्यर्थः ॥ २२८ ॥ किमिति तर्हि प्रकृष्टप्रकाशादिवाक्यवद् वृद्धानां नीलोत्पलादि- वाक्येपि नाखण्डार्थत्वव्यवहार इत्याशङ्कय निर्हेतुकलक्षणायोगादेवेति लक्षणाभ्युपगमं परित्यजन्नाह - न नीलोत्पलादिप्रदेशेषु किञ्चि- द्विरा लक्षणाकारणं तेन तत्र । न नीलोत्पलत्वादिकव्यक्तिनिष्ठा गिरस्ता भवेयुःप्रमाणाहते नः॥२२६॥ न नीलोत्पलेति । प्रदेशेषु प्रयोगेषु येन न तत्र लक्षणा तेन तत्र नीलोत्पलादिप्रयोगे नीलादिशब्दाः प्रमाणाभावाद्वयक्तिमात्रपरा न भवन्तीत्यर्थः ॥ २२६ ॥ लक्ष्ययोरपि पूर्वमैक्यमङ्गीकृत्य लक्षणाकारणाभावादखएडार्थत्वं दूषितं वस्तुतस्तदेव नास्तीत्याह- प्रथमोऽध्यायः। Poemestern emale इदमुपेत्य किमप्युदितं मया- न तु तयोरभिदा परमार्थतः। गुणगुणित्वकृतोऽतिशयस्तयो- भवति लक्षणयाऽपि गृहीतयोः ॥ २३० ॥ OMRAS इदमुपेत्येति । किमपि यत्किञ्चिदप्रामाणिकमपीदमङ्गीकृत्योकमित्यर्थः किमित्यस्याङ्गीकारवादत्वमनुभवात्तदभेद एव किं न स्यादित्या- शङ्कयानुभवोऽभेदमानं साधयति नात्यन्ताभेदमित्याह-न हि तयोरिति । नैल्योत्पलयोः परमार्थतोऽभिदात्यन्तमभेदो नेत्यर्थः । अत्र हेतुः गुण- गुणित्वकृतोऽतिशयो भेदः तयोर्लक्ष्ययोरपि नैल्योत्पलयोर्गुणगुणि- भावान्दोपि वक्तव्यः । अन्यथा स्वस्य खयमिव नैल्यमुत्पलस्य गुणो न स्थादित्यर्थः । अतो नाखण्डार्थतेति भावः ॥ २३० ॥ ननु नीलोत्पलादिवाक्यवत्प्रकृष्टप्रकाशश्चन्द्र इति वाक्यस्यापि मुख्यार्थमादायैव प्रकाशत्वप्रकर्षविशिष्टप्रकाशगुणचन्द्रव्यक्त्योः संसर्ग- बोधोपपत्तेः कथं लक्षणयाऽखएडार्थत्वं वाच्यार्थान्वये विरोधाभावा- दित्याशय लोके हि पदानामविरुद्धार्थप्रतिपादकत्वनियमवत्सत्यां बुभुत्सायां सर्वैः पदैर्बुभुत्सिताऽर्थप्रतिपादननियमोऽपि दृश्यते । वक्तव्यश्च तथैव अन्यथानवधेयवचनतया तं प्रत्यप्रामाण्यप्रसङ्गा- त्सति प्रामाण्यप्रकारे तस्यान्याय्यत्वाद्वक्तश्चाबुभुत्सितमर्थ बुभुत्सोच्छेदाथ बोधयतोऽनाप्तत्वप्रसङ्गात्तथा चास्मिन् ज्योतिर्मण्डले कश्चन्द्र इति चन्द्रप्रातिपदिकार्थमात्रं बुभुत्समानं प्रति तद्वोधनाय प्रवृत्तेऽस्मिन् प्रकृष्टप्रकाशश्चन्द्र इति वाक्ये यदि प्रकृष्टप्रकाशपदयो- लक्षणा नाङ्गीक्रियते तर्हि बुभुत्सितचन्द्रप्रतिपादकार्थस्ताभ्यां न प्रतिपादितो भवति । अतो विषं भुश्वेत्यादाविव वाक्यप्रामाण्यनिर्वाहा- यैव पदद्वयलक्षणया चन्द्रप्रातिपादिकार्थस्ताभ्यां बोध्यत इत्यभिप्रे- सटीक संक्षेपशारीरके- त्यादौ तत्पदद्वयवाच्यार्थान्वयबोधे ताभ्यां विवक्षितोऽर्थो न सिद्ध्यतीत्याह- प्रकृष्टप्रकाशत्वजाती हि लोके प्रकृष्धप्रकाशाभिधानाभिधेये । तयोरन्वये कीर्त्यमाने तु ताभ्यां शशाङ्काभिधानाभिधेयं न लभ्यम् ॥ २३१॥ प्रकृष्टप्रकाशवेति । प्रकर्षप्रकाशत्वजातीत्यर्थ । प्रकर्षस्य गुणवृत्ति- सामान्यत्वात्तदाश्रयः प्रकाशगुणः प्रकृष्टः प्रकर्षप्रकाशत्वजाती एव प्रकृष्टप्रकाशाभिधानयोरभिधेये भवतः न चन्द्रः ततः किं तत्राह- तयोरिति । तयोर्जात्योरन्वये प्रकृष्टप्रकाशपदाभ्यां कीर्त्यमाने ताभ्यां पदाभ्यां शशाङ्काभिधानस्याभिधेयं चन्द्रपदार्थो न लभ्यमित्यर्थः । प्रकर्षप्रकाशपदार्थतत्संसर्गयोरेव तदर्थत्वादित्यर्थः ॥ २३१ ॥ ननु माभूत् ताभ्यां पदाभ्यां चन्द्रलाभः, ततः किं तत्राह- शशाङ्काभिधानाभिधेये हि पृष्टे तदेवोत्तरेणापि निर्णेयमत्र । प्रकृष्टप्रकाशत्वजात्यन्वयोऽयं तदाक्षिप्ततद्व्यञ्जकव्यक्तिनिष्ठः ॥२३२॥ शशाङ्काभिधानामिधेय इति । चन्द्रपदार्थे पृष्टे चन्द्रपदाभिधेयमुत्तरे- णापि प्रतिवचनस्थप्रकृष्टप्रकाशपदेनापि निर्णयमन्यथा प्रश्नान- नुगुणत्वप्रसङ्गादित्यर्थः । ननु पदद्वयार्थजातिद्वयान्वयापर्यवसाने न ताभ्यामपि चन्द्रव्यक्तिलभ्यते तत्राह-प्रकृष्टप्रकाशत्वजात्यन्वय इति । ताभ्यां जातिभ्यामाक्षिप्ता या तद्वञ्जिका व्यक्तिः प्रकाशगुणस्तन्निष्टो जात्य- न्वयः । न तु चन्द्रनिष्ठस्तस्य तद्वयक्तित्वादित्यर्थः ॥ २३२ ॥ - प्रथमोऽध्यायः । ननु प्रकाशात्मा निशाकर इत्यादौ प्रकाशस्यैव चन्द्रपदार्थत्वा- जातिद्वयान्वयादेव चन्द्रपदार्थोपि ताभ्यां ज्ञायत इति चेन्न-प्रकाशगु- णवत्वेनैव प्रकाशात्मत्वाभिधानादतः प्रकाशस्य चन्द्रपदार्थत्वाभावान जातिद्वयान्वयेन तल्लाभ इत्याह- शशाकाभिधानाभिधेयो न चेष्टः शशाङ्कस्य तेजोविशेषत्वहेतोः । ततश्वोपपन्ना जहल्लक्षणातः पुरोक्ता पदाभ्यामखण्डार्थसिद्धि ॥ २३ ॥ शशाङ्काभिधानाभिधेय इति । जातिद्वयव्यञ्जिका व्यक्तिः शशाङ्काभि- धानाभिधेया न भवति तस्य तेजोजातिविशेषत्वादित्यर्थः । कथं तर्हि तस्य प्रकाशात्मत्वानुभवः प्रकाशगुणवत्वात्तस्माञ्चन्द्रपदार्थलाभाय लक्षणा वक्तव्येति भावः । ननु भागलक्षणयैव सोऽयमित्यादाव- खएडार्थत्वं दृष्टमत्र तु सा नोपपद्यते । जातिमात्रवाचित्वात्प्रकृष्टादि- पदस्थातोऽखण्डार्थतानुपपन्नेत्याशङ्कयाह-ततश्चेति । मुख्यवृत्त्या बोधकत्व- सम्भवः। तच्छब्दार्थः वाक्यस्य भागलक्षणैवाखएडार्थबोधकत्वमिति न नियमः । मुख्यवृत्त्यापि तदुपपादनादतः प्रतिपाद्यपदार्थभेदप्रमाणे- ऽसति वाक्यमखण्डार्थ बोधयतीति प्रकृते जहल्लक्षणयाप्यखएडा- र्थतासिद्धिः । न च सम्बन्धाभावः । जात्याश्रयप्रकाशाश्रयत्वेन तत्स- स्वादिति भावः ॥ २३३ ॥ ननु चन्द्रव्यक्तेस्तेजस्त्वेन प्रकाशत्वाश्रयप्रकाशव्यक्तिसम्बन्धि- त्वेपि न प्रकर्षाश्रयव्यक्तिसम्बन्धः । न च प्रकाशगुण एव प्रकर्षजा- तेरप्याश्रय इति वाच्यम् । परस्परपरिहारेण वर्तमानयोस्तयोरेक- प्रकाशव्यक्तिसमवेतत्वानुपपत्तेः । प्रकर्षों हि प्रकाश्त्वमन्तरेणान्धकार- रूपे रसादौ च वर्तते । प्रकाशत्वं च प्रकर्ष विना खद्योताङ्गाररूपादौ २३६ सटीके संक्षेपशारीरके- - वर्तत इति प्रकाशभिन्नाश्रयः प्रकर्षों वक्तव्यः । स चात्र न सम्भव- त्यनुपलम्भादतः कथं प्रकर्षपदं चन्द्रव्यक्ति लक्षयेदित्याशङ्कयाह प्रकर्षः पूकाशातिरिक्तो न चात्र प्रकाशः प्रकर्षातिरिक्तो न चात्र । बहिश्चन्द्रमस्ति स्वरूपातिरेक- स्तयोश्चन्द्रमस्येकतैवातिमात्रम् ॥ २३४॥ प्रकर्ष इति । प्रकर्षाश्रय इत्यर्थः । प्रकर्षातिरिक्तः प्रकृष्टातिरिक्त इत्यर्थः । अत्र चन्द्रव्यक्तौ । नन्वन्धकारवत्खद्योतरूपादौ तयोर्भेद एव प्रतीयते सत्यं तत्र तथैव चन्द्रे तु न तयोर्मेंद इत्याह-बहिश्चन्द्रमिति । चन्द्रावहिरन्यत्र चन्द्रपदं च भान्वादेरप्युपलक्षणं तयोः प्रकाशप्रकृष्ट- योश्चन्द्रप्रकाशप्रकर्षस्यानुभवादित्यर्थः। नन्वस्त्वेवं तथापि किञ्चिद्भेदो वक्तव्यः विरुद्धयोरेकत्र समावेशानुपपत्तेरित्युक्तत्वात्तत्राह-अतिमात्र- मिति । अत्यन्तमेकतयैवेत्यर्थः । जातिसङ्करस्यास्मन्मतेऽदोषत्वात् परम- तेपि प्रकाशत्वप्रकर्ष योरनेकत्वाददोष इति चन्द्रे प्रकाश एव प्रकृष्टस्त- थैवानुभवादित्यर्थः ॥ २३४ ॥ तमेवानुभवं व्यतिरेकमुखेनाह- न चन्द्रप्रकाशप्रकर्षप्रकाशा- सदीयात्पृथक्कश्चिदुत्पश्यतीह । तथाऽस्य प्रकर्षप्रकाशं प्रकर्षा- त्ततो नानयोरस्ति भेदे प्रमाणम् ॥ २५॥ न चद्रोत । इह जगति चन्द्रप्रकाशस्य प्रकर्ष तदीयात्प्रकाशाच- न्द्रप्रकाशात्पृथगन्यत्र कश्चिन्नोत्पश्यति । यथा तथाऽस्य चन्द्रस्य प्रकर्षप्रकाशं प्रकृष्टस्य प्रकाशत्वं प्रकर्षात्प्रकृष्टादन्यत्र न पश्यति । HIModma प्रथमोऽध्यायः । यतस्ततोऽनयोः प्रकाशप्रकृष्टयोश्चन्द्रगतयोर्भेदे न प्रमाणमित्यभेद एवे. त्यर्थः । ननु पृष्टं वक्तव्यमित्येव नियमः । न तु पृष्टमेव सर्वैः पदैरि- त्यपि पृष्टानुगुण्येनाऽपृष्टस्यापि वक्तुं शक्यत्वादन्यथा काशी थिया- सुनाध्वनि पृष्टेऽनेन पथा याहीत्येव ब्रूयान्न त्वत्र गत्वात्र गत्वेति ततः प्रकृष्टप्रकाशपदयोर्लक्षणा नेति चेत्सत्यमुक्तं यत्पृष्टानुगुणं तदपृष्ट- मपि वक्तव्यमिति न ह्यत्र चन्द्रप्रातिपदिकार्थ बुभित्सितं प्रति प्रकृष्ट- प्रकाशवैशिष्ट्यमनुकूलं भवति। ननु चन्द्रप्रातिपदिकार्थस्याप्रकर्षप्रकाश- गुणनक्षत्रादिद्रव्याद्वयावृत्तिसिद्धये तदनुकूलमिति चेन्न-व्यावृत्तेरवुभु- त्सितत्त्वात्तदा हि नक्षत्रादिव्यावृत्तश्चन्द्रः क इन्युभयविषयिणीमेव बुभुत्सां स्वस्य दर्शयेन तु कश्चन्द्र इति । ननु कश्चन्द्र इति बुभुत्सैव व्यावृत्तिविषयेति चेत्तीप्रकृष्टप्रकाशाद्वयतिरिक्तश्चन्द्र इत्येवोत्तरं दद्यात् । ननु प्रकृष्ट प्रकाशचन्द्र इत्येतदेवार्थाद्वयावृत्तिपरमिति चेन्न-बुभुत्सि- तार्थस्यार्थिकत्वानुपपत्तः । व्यावृत्तः स्वरूपज्ञानान्तरोयकत्वेनार्थ- सिद्धश्च । ननु लक्ष्यज्ञानस्य केवलव्यक्तिविषयत्वे कथं तज्ज्ञाननान्त- रीयकत्वेन व्यावृत्तिः सिद्धातीति चेन्न । वाक्यं हि वाच्यार्थगुण- वैशिष्ट्य चन्द्रव्यक्तर्बोधयदेव स्वप्रामाण्यनिर्वाहाय केवलव्यक्ति- परमित्युच्यते तस्यां च. दशायां वाच्यार्थगुणविशिष्टप्रतीति- फलत्वेन गङ्गातीरस्येतरतीरव्यावृत्तिसिद्धिवचन्द्रस्याप्रकृष्टप्रकाश- वद्वयावृत्तिः सिद्ध्यत्येव न वाक्यस्य व्यावृत्तिसिद्धिः प्रयोजनं किन्तु बुभुत्सोच्छेदकस्वरूपमात्रज्ञानमेव प्रयोजनं तथा च यथा काशी यियासु प्रति मार्गमध्यवर्तिनगरपामखेटकथनं बुभुत्सि- तार्थोपयुक्तं नैवमेतत् । नन्वेवमपि नाखण्डार्थमेतत्कश्चन्द्र इति चन्द्रत्वेन तस्य बुभुत्सितार्थत्वात्तद्वैशिष्ट्यशानं वाक्यप्रयोजनमिति चेदेवं भवेद्यदि चन्द्रत्वं नाम तद्व्यतिरिक्तं किञ्चिजातिरुपाधिर्वा भवेत् । न चेयं जातिचन्द्रस्यैकत्वादत एव नोपाधिरपि तत्कल्पने प्रयोजनाभावाद्भिन्नेष्वनुगमार्थ खलु जातिरुपाधिर्वा कल्प्यते २३८ सटीके संक्षेपशारीरके- ततश्चन्द्रत्वनामस्वरूपमेवेति तद्वैशिष्ट्य वाक्यप्रमेयम् यत्रापि पृथ्वीत्वा- दिकं जातिरुपाधिर्वा भवति तत्रापि पृथिव्यादिस्वरूपमेव बुभुत्सित- मिति न तद्वैशिष्ट्यं वाक्यप्रतिपाद्यम्। नन्वेतत्सर्वमतिविचित्रमिवभाति यत्प्रातिपदिकार्थमात्रबुभुत्सानुरोधेन प्रकृष्टप्रकाशवाक्यस्याखण्डार्थ- त्ववर्णनं बुभुत्सा हि सामान्यतो ज्ञाते सन्दिग्धेऽपरोक्षतोऽनिश्चिते वा भवति । सन्देहश्च न कचित्प्रातिपदिकार्थमात्रविषयो दृष्टः । न हि व्यक्तिमात्रे कस्य चित्सन्देह उदेति । किन्तु स्थाणुत्वादिप्रकारविषय एव । न वा अपरोक्षतो निश्चयाभावोऽस्ति । इदमिति स्वरूपस्या- परोक्षतोऽनुभवादतो वुभुत्साया अपि यत्किञ्चिद्धर्मवैशिष्ट्यमेव विषयः कल्पनीयः । तत्र यद्यपि सधर्मश्चन्द्रत्वं नाम जातिरुपाधिर्वा न सम्भवति । तथापि चन्द्रपदवाच्यत्वाकारेण बुभुत्सा वर्णनीयेति चेदुच्यते किं व्यक्तिविषयः संशय एव नास्तीत्युच्यते । किं वा तन्मात्रविषयः । नाद्यः । स्थाएवादिसंशयस्यैव व्यक्तिविषयत्वात्तत्र स्थाएवादिव्यक्तरेव धर्मित्वाद्धर्मिणश्च संशयविषयत्वादेकर्मिविरुद्धा- नेकप्रकारकज्ञानस्यैव संशयत्वात् । द्वितीयस्त्वस्माकमपीष्ट एव । न हि किमयं चन्द्रो न वेत्यादिरूपसंशयस्य चन्द्रमात्रविषयत्वं वय॑ते । तद्वयतिरिक्तकोटेरपि विषयत्वात् । किन्तु कश्चन्द्र इति जिज्ञासैव सर्व- जनीनानुभवानुरोधेन चन्द्रव्यक्तिमात्रविषयेत्युच्यते । ननु येनाकारण यत्र सन्देहस्तत्रैव तदाकारेण जिज्ञासा वक्तव्या । चन्द्रे च संशय- श्चन्द्रत्वाकारेणेति जिज्ञासा तथैव भवितुमर्हति । न च चन्द्रस्यैकत्वेन चन्द्रत्वं जातिरुपाधिर्वा न भवतीति वाच्यम् । कल्पभेदेन चन्द्रभेद- सम्भवादुदशरावादिभेदेन कल्पितव्यक्तिभेदसम्भवाञ्चेति चेत्तत्र न तावत्कल्पभेदेनानेकव्यक्तिवृत्तिचन्द्रत्वं समानकल्पानेकव्यक्तिवृत्तित्व- नियमाजातेःप्रयोजनाभावात् । न तस्योपाध्यात्मकत्वमपि कल्प्यं कस्तर्हि चन्द्रपदार्थः प्रकृष्टप्रकाशाश्रयव्यक्तिरिति ब्रूमः। तहि पदस्यानेकार्थ- त्वप्रसङ्गः । कल्पभेदेन व्यक्तरनेकत्वादिति चेन्न। प्रकृष्टप्रकाशाश्रय- प्रथमोऽध्यायः। २३१ - । त्वेन तटस्थेन तदनुगमसम्भवात्तर्हि प्रयोजनसम्भवात्प्रकृष्टप्रकाशा- श्रयत्वोपाधिरेव चन्द्रत्वमिति चेन्न । चन्द्रलक्षणस्य तस्य चन्द्रत्वा- नुपपत्तेः। अन्यथा लक्षणस्य लक्ष्यतावच्छेकाभेदेन लक्षणस्य व्यति- रेकलिङ्गत्वानुपपत्तेः। पक्षतावच्छेदकस्यैव हेतुत्वायोगालस्यतावच्छेद- कस्यैव पक्षतावच्छेदकत्वान्नापि कल्पितव्यक्तिभेदवृत्तितया चन्द्रत्वं जातिः कल्पितभिन्नव्यक्तिध्वनुस्यूतचन्द्रत्वस्य तदनुस्यूताधिष्ठानचन्द्र- स्वरूपमात्रत्वापातादनुगतव्यवहारस्यानुस्यूताधिष्ठानविषयत्वेन तद- तिरिक्तचन्द्रत्वे मानाभावात्तत्तश्चन्द्रत्वाकारसंशयजिज्ञासयोस्तत्स्वरूप- मात्रविषयतैवेति न तदनुरोधेन वाक्यं विशिष्टपरं वर्णनीयम् । यत्रापि पृथ्वीत्वादिका जातिस्तत्रापि लक्षणानुरोधेन पृथ्वीव्यक्तिरेव जिज्ञा- स्यते न पृथ्वीत्ववैशिष्ट्यमपि तथा सति गन्धवत्त्वस्य तदलक्षणत्वे- नाभिधानप्रसङ्गात् । ननु चन्द्रत्वस्य व्यक्तिस्वरूपमात्रत्वे व्यक्तिज्ञानस- यात्कथं तत्र संशयः । संशये वा कथं तन्निवृत्तिः । पूर्वोत्तरज्ञानयोवि- षयविशेषाभावादितिचेत्-तत्र न तावत्संशयानुपपत्तिः-अनुव्यवसायेन व्यवसायस्य प्रामाण्यात्मकघटघटत्वतद्वैशिष्ट्यविषयज्ञानत्वनिश्चयेपि ज्ञानत्वसमानधर्मेणाप्रमाणविवेकाग्रहसहकारिणा प्रामाण्याप्रामाण्य- संशयवत्प्रकृतेप्यचन्द्रव्यक्तिभेदाग्रहसध्रीचीनाज्योतिष्ट्वादिसमानधर्म- ज्ञानात्तत्संशयोपपत्तेः । ननु तत्र प्रामाण्यज्ञानं तत्सत्तानिश्चयरूपं न भवतीति चेन्न । तस्य संशयलक्षणफलकल्प्यस्य चन्द्रज्ञानेपि तुल्य- त्वात् । नापि तन्निवृत्त्यनुपपत्तिः चन्द्रमात्रधर्मतया प्रकृष्टप्रकाशाश्रयत्व- परिज्ञानात्तदुपपत्तेः । प्रकृष्ट प्रकाशचन्द्र इति हि वाक्यं लक्षणवाक्य- तया प्रकृष्टप्रकाशस्य मुख्यया वृत्त्याऽन्ययोगं व्यवच्छिद्य चन्द्रवैशिष्ट्यं बोधयदेव स्वप्रामाण्यनिर्वाहाय लक्षणया चन्द्रव्यक्तिमात्रपरं भवती- त्युच्यते । नन्वेवं सति यद्विषयज्ञानस्य संशयनिवर्तकत्वं तस्यैव वुभुत्सितत्वं वक्तव्यम् । ततः कथं बुभुत्सानुरोधेन चन्द्रव्यक्तौ लक्षणा कल्प्यत इति चेकि तस्यापि बुभुत्सितत्वं वक्तव्यमित्युच्यते २४० सटीक संक्षेपशारीरके- । किं वा तस्यैवेति । श्राद्यस्त्वङ्गीक्रियते चन्द्रव्यक्तरेव प्राधान्येन बुभुत्सितत्वेपि तत्संशयनिवृत्त्यर्थं तल्लक्षणस्यापि बुभुत्सितत्वात् । नचैतावता वाक्यस्य वैशिष्ट्यपरत्वं स्वतन्त्रबुभुत्सायाश्चन्द्रमात्र- विषयत्वात्तदनुरोधेनैव वाक्यतात्पर्यस्य कल्प्यत्वात् । ननु लक्षण- बुभुत्सैव स्वतन्त्रा किं न स्यादिति चेन्न-लक्षणस्य लक्ष्यज्ञानशेषतया तद्विषयबुभुन्सायां स्वातन्त्र्यानुपपत्तेः । अत एव न द्वितीयोपि प्रामा- ण्यादिजिज्ञासया प्रवर्त्तमानस्य तद्वयाप्यज्ञानेन तत्संशयस्यानिवृत्ति प्रसङ्गाच्च । व्याप्यवत्त्वदर्शनस्यैव संशयनिवर्तकत्वेन पराभ्युगमात् । किं च घटत्वकलशस्वयोरत्यन्ताभेदेपि तदज्ञानदशायां कलशपदस्य कलशोऽर्थ इति वाक्यविशेषाज्जानतः पुरुषस्य घटत्वेनानुभूयमाने घटे नायं कलश इति विपर्यासवत्तुल्यवत्कोटिद्वयोपस्थितावारोपित- भेदेन संशयवञ्च चन्द्रस्यानुभूयमानव्यक्तयभेदेपि तदज्ञानदशायां तदाकारसंशयविपर्यासयोरुपपत्तिः । व्यक्तौ ज्ञायमानायामप्यपर्याय- शब्दवाच्यत्वादेव चन्द्रत्वाज्ञानसम्भवेन संशयादेरुपपत्तेश्च । ततस्त- मात्रजिज्ञासया वाक्यस्य तद्विषयोपपत्तिरिति न प्रश्नवचने चन्द्रपद- वाच्य इति पदाध्याहारेण मनः खेदनीयं तथात्वे प्रतिवचनमपि प्रकृष्ट- प्रकाशश्चन्द्र इति स्वरूपमात्रनिष्ठमनुपपन्नं स्यात् । न च तत्रापि चन्द्र- पदवाच्य इति पदमध्याह्नियते इति वाच्यम् । अहो विद्वदग्रेसरस्या- श्रुतकल्पनादीक्षापरीक्षादात्यं यदयं सर्वत्र श्रुतोपपत्तावप्यश्रुतकल्पनां वज्रकल्पामपि तृणाय मनुते। किं च किं ज्ञातचन्द्र स्वरूपस्य चन्द्र- पदवाच्यत्वं प्रकृष्टप्रकाशस्य बोध्यते । उताज्ञातचन्द्रस्य । नाद्यस्तस्य प्रकृष्टस्यप्रकाशचन्द्र इति ज्ञानिनः शब्दप्रयोगं विनापि विमतश्चन्द्र- पदवाच्यश्चन्द्रत्वादनतिरेकेण घटादिवदिति लिङ्गेन ज्ञातुं शक्यत्वात् । न च वाच्यत्वज्ञानात्पूर्व तद्वयतिरेकव्याप्त्यग्रहात्कथमनुमानेन तज्ज्ञान- मिति वाच्यं विशेषनिष्ठत्वेन तज्ज्ञानाभावेऽपि पदत्वादिलिङ्गेन तद्धाच्यत्वस्य ज्ञात शक्यत्वात। अन्यथा कश्चन्त पतवाच्य इति प्रथमोऽध्यायः । २४१ । प्रश्नस्यैवायोगात् । नापि द्वितीयः अज्ञातचन्द्रस्वरूपस्य प्रकृष्ट- प्रकाशश्चन्द्रपदवाच्य इति ज्ञाने चन्द्रस्य स्वरूपजिज्ञासाप्रसङ्गा- त्तदुच्छेदाय च प्रकृष्टप्रकाशश्चन्द्र इति तत्स्वरूपमात्रनिष्ठवाक्य- प्रयोगापाताच्चेति शान्तिकर्मणि वेतालोदयन्यायापातात् । ननु विमतश्चन्द्रः चन्द्रपदवाच्यत्वाद्वयतिरेकेण नक्षत्रादिवदित्यनुमानादेव ज्ञातुं शक्यत्वान्न स्वरूपमात्रनिष्ठवाक्यापेक्षेति चेन्न-घटपदवाच्यस्य घटत्वादेर्घटानात्मत्ववदत्रापि तन्न स्यादित्यप्रयोजकशङ्काया दुरपह्न- वत्वात् । नन्वत इति चन्द्रस्वरूपं तस्य तत्पदवाच्यत्वमपि ज्ञायत इति चेत्तर्हि चन्द्रत्वं वाच्यत्वं च विधेयमिति विधेयभेदेन वाक्यभेद- प्रसङ्गः वाच्यत्वविधानार्थं शब्दाध्याहारोपि व्यर्थ एव स्याञ्चन्द्रत्व- विधानानन्तरं मानान्तरादेव तदुपपत्तेः । नापि प्रकृष्टप्रकाशश्चन्द्रत्वे सति चन्द्रपदवाच्य इति वाक्यं कल्प्येत, चन्द्र पदार्थस्य प्रागसिद्ध- त्वेन तद्विशिष्टवाच्यत्वविधानानुपपत्तेः । ननु वाच्यत्वे यल्लिङ्गं प्रकृष्ट- प्रकाशत्वादि तदेवानेन वाक्येनोपस्थाप्यत इति चेन्न-अत्रापि ज्ञाता- ज्ञातचन्द्रस्वरूपपक्षोक्तदोषस्यानतिवृत्तेश्चन्द्रादिपदवैयर्थ्याच्च । एतेना- चन्द्रव्यावृत्तिस्तेन ज्ञापितलिङ्गेन प्रतिपाद्यत इति निरस्तम् । तस्माद्- बुभुत्सानुरोधेन स्वप्रामाण्यनिर्वाहाय लक्षणया चन्द्रव्यक्तिमात्रपर वाक्यमित्यलमतिप्रसङ्गेन ॥ २३५ ॥ एवं दृष्टान्ते साध्यवैकल्यं परिहृत्य तत्फलं दार्शन्तिके साध्य- सिद्धिमाह- यथा सच्चिदानन्दशब्दास्तदर्थ तथातत्वमावात्मनो ब्रह्मभावम् । विरोधान्मिथो लक्षणावर्त्मनेमौ किमर्थ न संभूय वक्तुं समर्थौ ॥ २३६ ।। यथा प्रकृष्टप्रकाशपदे चन्द्रव्यक्तिमात्रं लक्षयतः तथा यथेति ।
-- । अपि तदर्थ तत्पदलक्ष्य सत्यज्ञानानन्दात्मकं ब्रह्म २४२ सटीक संक्षेपशारीरके- लक्षयन्तीत्यर्थः। अत एव महावाक्यमपि केवलमात्मानं बोधयतीत्याह- तथेति । इमौ तत्त्वमौ संभूय मुख्यार्थयोर्विरोधाल्लक्षणा वर्मनात्मनो ब्रह्मभावं किमर्थ वक्तुं न समर्थौ समर्थावेवेत्यर्थः । विरोधाभावेपि प्रामाण्यनिर्वाहाथै लक्षणया शब्दो बोधयतोति चेकिमु वक्तव्यं विरोधे सतीत्ययमर्थः काका ध्वनितः ॥ २३६ ॥ तत्त्वंपदार्थों कीदृशमर्थ लक्षयत इत्याकाङ्क्षायां पूर्वोक्तमर्थ स्मारयति- प्रत्यक्तत्वं लक्षयेत्त्वंपदार्थ- स्तच्छाब्दार्थो लक्षयेदद्वितीयम् । एवं पूर्ण प्रत्यगात्मानमेतौ शब्दो ब्रूतो लक्षणावर्त्मनैव ॥ २३७ ॥ प्रत्यक्त्वमिति । त्वंपदार्थो द्वितीयब्रह्मस्वरूपाविरुद्धं देहादिसाक्षिण- मपरोक्षानुभवमानं लक्षयति । तत्पदार्थोप्यपरोक्षानुभवत्वंपदलक्ष्या- विरोधेनाद्वितीयानन्दमात्रं लक्षयतीत्यर्थः । पदस्य लक्ष्यबोधकन्वे शक्यसम्बन्धस्य द्वारत्वादों लक्षयेदित्युक्तम् । एवं सति वाक्यार्थस्य पूर्णत्वोपपत्तेस्तत्त्वंशब्दौ लक्षणया प्रत्यगात्मानं पूर्ण ब्रह्म यथा भवति तथा ब्रूतो बोधयत इत्याह-एवं पूर्णमिति ॥ २३७ ॥ ननु लक्षणयाऽखण्डब्रह्मावबोधे जातेपि कि सिद्ध्यति संसारनि- वृत्तिरिति चेन्न-श्रुतवाक्यानां समुपजातब्रह्मावबोधानामपि यथापूर्व संसारदर्शनानिवृत्तस्यापि संसारस्य प्रबोध इव पुनरुद्भवोपपत्तश्च । न वा संसारस्य पारमार्थिकस्य निवृत्तिरपि संभवतीत्याशङ्कयाह- पारोक्ष्यं च ब्रह्मणि प्रत्यगर्थे दुःखित्वं च ध्वान्तसंभूतमाहुः ।
प्रथमोऽध्यायः । सम्यग्ज्ञानध्वस्तमोहस्य पुंसः प्रध्वंसेते हेत्वभावेऽफलत्वात् ॥ २३८ ॥ पारोक्ष्यमिति । चशब्द इवार्थे । यथा 'यत्साक्षादपरोक्षाद्ब्रह्म, य अात्मा सर्वान्तरः, स एष नेतिनेत्यात्मेत्यादिश्रुतिप्रतिपन्नेऽपरोक्षा- नुभवैकरूपे निष्प्रपञ्चे ब्रह्मणि तद्विरुद्धपारोक्ष्यसत्यकामत्वादिकं सर्वमविद्याकल्पितमेवं परमानन्दानुभवैकरूपतयानुभूयमाने प्रत्यगा- त्मनि तद्विरुद्धदुःखित्वादिकं भ्रान्तिसंभूतं न तु वास्तवमतस्तन्नि- वृत्तिरुपपन्नेतिभावः । यदुक्तं समुपजाततब्रह्मावबोधानामपि संसारो. ऽनुभूयत इति तक्षयति-सम्यग्ज्ञानेति । अप्रतिबद्धात्मसाक्षात्कार एव सम्यग्ज्ञानशब्दार्थः । भ्रान्तिसंभूतं पारोक्ष्यं दुःखित्वादिकं च सम्यग्ज्ञानध्वस्तमोहस्य पुंसः प्रध्वंसेते इत्याहुरिति सम्बन्धः । सम्यग्ज्ञानस्येदानीमभावादेव संसारदर्शनं न विरुद्ध्यत इति भावः । पुनरुद्भवचोद्यं दूषयति-हेत्वभावेफलत्वादिति । अफलत्वादिति छेदः । कारणाभावे कार्याभावस्य नियतत्वादित्यर्थः। जाग्रति कारणनिवृ- त्यभावादेव पुनः संसारदर्शनं न तथा शानिनः संगच्छते । अज्ञान- निवृत्तरित्यर्थः ॥ २३८ ॥ ननु यदुक्तं केवलस्यात्मनो न शब्दवाच्यत्वं किन्तु लक्ष्यत्व- मेवेति तदसत् शब्दान्तरवाच्यस्यैव शब्दान्तरलक्ष्यत्वादन्यथा लक्ष्य- पदार्थमूकताप्रसङ्गात् । ननु किमिति मूकतापत्तिः-चिन्मात्रादि- शब्दैर्लक्ष्यपदार्थोऽभिधीयत इति चेन्न-चिन्मात्रशब्दस्य तद्वाचकत्वे- ऽपसिद्धान्तप्रसङ्गात् । लक्षकत्वे चोत्तरानुपरमप्रसङ्गालक्ष्यपदार्था- निर्धारणं च स्यादितिचे त्किमात्मनः शब्दशक्तिविषयत्वाभावोपन्य- स्तदोषस्य कः परिहार इति तावन्मात्रं बुभुत्सितमुताभ्यां दोषाभ्यां शक्तिविषयत्वमात्मनः साध्यते । नाद्यस्तत्र न तावत्प्रश्नोत्तरानुपरम- दोषः सम्भवति । लक्षकपदैः पृष्टस्य लक्षकपदैरेवोत्तरोपपत्तेः । प्रश्न- २४४ सटीक संक्षेपशारीरके- । पदसमानवृत्त्या पदेनोत्तरं दातव्यमिति हि नियमः । लोके तथैव दर्शनात् । प्रश्नपदं चात्मानं लक्षणैव बोधयतीति लक्षकपदैरेव तस्योत्तरं श्लिष्टं भवति । नचैवं तत्तलक्ष्यस्वरूपाकाङ्क्षायां तत्तल्लक्षक- पदाभिलापे प्रश्नोत्तरानुपरम इति वाच्यम् । चित्तविक्षेपादीनामा- काङ्क्षायाः कदाचिदुपरमोपपत्तेः । अन्यथा वाचकशब्दाभिलापेपि घटशब्दवाच्यः क इति प्रश्ने घटत्वादिकमित्युत्तरे च तत्स्वरूपं किमिति प्रश्ने तदुत्तरस्याप्यावश्यकतया प्रश्नोत्तरानुपरमप्रसङ्गात् । ननु बुभुत्सितार्थज्ञानस्याभिधानेन वृत्तत्वान्न बुभुत्सान्तरं भवतीति चेत्तहि लक्षणयापि बुभुत्सितार्थज्ञानस्य वृत्तत्वाद् बुभुत्सान्तरानुदयः प्रकृतेपि तुल्यः । अत एव लक्ष्यपदार्थानिर्धारणमपि नाभिधानवदुपपत्तेः । स्वयंप्रकाशस्यात्मनः सत्यादिपदलक्ष्यस्य विनापि मानं तदुपपत्तेः । ननु लोके पदान्तरवाच्यस्यैव पदान्तरलक्ष्यत्वदर्शनादत्रापि पदान्तर- वाच्यत्वं स्वीकर्त्तव्यमिति चेन-वाच्यतायां प्रकृतेऽसम्भवेन नियम- दर्शनस्य भ्रान्तित्वात् । ननु किमिति वाच्यताया असम्भवः । श्रव्य- वहार्यत्वादिति ब्रूमः । ननु किमिदमव्यवहार्यत्वं समुदायावयवश- क्तिलक्षणशब्दमुख्यवृत्तिनिमित्ताभावेन साक्षाच्छन्दव्यवहारायोग्यत्व- मित्यभिप्रेत्याह- षष्ठीजातिगुणक्रियादिरहिते सर्वस्य विज्ञातरि प्रत्यक्षे परिवर्जिताखिलजगद्वैतप्रपञ्चे दृशौ । संत्यक्तव्यवधानके परमके विष्णोः पदे शाश्वते त्वय्यज्ञानविजृम्भितान हि गिरोमुख्यप्रवृत्तिक्षमाः२३६ षष्ठीजातीति । षष्ठ्यर्थः सम्बन्धः षष्ठीत्युच्यते । सम्बन्धं निमित्ती- कृत्य राजपुरुषादिशब्दाः पुरुषे प्रवर्त्तन्ते । जाति!त्वादिस्तन्निमित्ती- कृत्य गवादौ गवादिशब्दा प्रवर्तन्ते । गुणो नैल्यादिः तन्निमित्तेन
प्रथमोऽध्यायः।
२४५
।
नीलादिशब्दा उत्पलादौ प्रवर्त्तन्ते । क्रिया पचनादिः तया पाचका-
दिशब्दाः पुरुषे प्रवर्त्तन्ते । श्रादिपदेन स्वरूपं गृह्यते डिस्थादिशब्दाः
स्वरूपनिमित्ताः प्रवर्तन्ते । एतेषां चान्यतमस्याप्यात्मन्यभावात्तत्र
शब्दप्रवृत्तिः कथमपि न सम्भाव्यते। न च वास्तवसम्बन्धाद्यभावे-
प्याविद्यकं सम्बन्धादिकं किं न स्यादिति शङ्कयम् श्राविद्यकप्रवृत्ति-
निमित्तसम्बन्धादेरप्यविद्याशबलवृत्तितयाऽसङ्गोदासीने केवले श्रात्म-
न्यभावादिति भावः । ननु सम्बन्धादिनिमित्तशब्दप्रवृत्तिर्माभूत्स्व-
रूपनिमित्ता तु सा किं न स्यादिति चेन। संज्ञादिशब्दो हि स्वरूप-
निमित्तः संज्ञाशब्दो हि यदित्थमिति विशेषतः पुरुषेण निर्देष्टुं
शक्यते तत्रैव प्रवर्तते तस्य शब्दस्वाभाविकत्वाभावात् न तु केवल-
मात्मस्वरूपं तादृशं तस्य सर्वान्तरत्वेन शब्दातिरिक्तपराग्व्यापार-
प्रमाणाविषयत्वादित्यभिप्रेत्याह- सर्वस्य विज्ञातरीति । सर्वविज्ञातृत्वादे-
वात्मा न विज्ञेयः विज्ञातृविज्ञेयत्वयोरेकत्रानुपपत्तेरित्यर्थः । तर्हि
सर्वप्रमाणागोचरत्वेन किमात्मनो ऽसत्त्वमेव नेत्याह-प्रत्यक्ष इति ।
सर्वेषां स्वप्रकाशानुभवरूपेण प्रकाशमानत्वान्न तस्यासत्त्वमित्यर्थः ।
आत्मनि पूर्वोक्त सम्बन्धाद्यभावे हेतुमाह -- परिवर्जितेति । परिवर्जितो
निरस्तो निखिलजगद्रूपोऽनित्यो द्वैतप्रपञ्चो यस्मिन्स तथोक्तः । यत्प्र-
माणं विनापि प्रत्यक्ष इति तत्र हेतुमाह-दृशाविति । ज्ञानस्वरूप
इत्यर्थः । तस्य ताटस्थ्यं वारयति-संत्यक्तव्यवधानक इति । अव्यवहित
इत्यर्थः । एतादृशस्य दृशः पारमार्थिक स्वरूपं दर्शयति-परमके विष्णोः
पद इति । पदं स्वरूपं तस्य जगत्कारणत्वेन प्राप्तां विक्रियां वारयति-
शाश्वत इति । कूटस्थ इत्यर्थः । तस्य व्यवधाननिराकरणफलमाह त्वयीति ।
अव्यवहार्यत्वसमर्थनफलमाह-अज्ञानविजृम्भिताइति । अतो न केवलब्रह्मणः
पदलक्ष्यतायै पदवाच्यत्वं स्वीकर्तुं शक्यत इति भावः । एवमभिनि-
वेशेपि नास्माकं क्षतिः । ब्रह्मणोऽप्यविद्यानाशपदवाच्यत्वादिति
।
-
द्रष्टव्यम् ॥ २३६ ॥
सटीके संक्षेपशारीरके- किं च स्वसम्बन्धमनपेक्ष्यः स्वविषये - प्रवृत्तिसमर्थ मनोपि केवलं केवले अात्मनि विषये स्वभावान प्रवर्तते । किमु वक्तव्यं सम्बन्धापेक्षशब्दप्रवृत्यभाव इत्याह- प्रास्तामत्र वचः प्रवृतिविरहः प्रत्यक्त्वहेतोईशि व्यापाराय मनोपि न प्रभवति भ्राम्यत्पराग्भूमिछु । एवं चेदखिलप्रमाणपदवी षोढा विभिन्ना भवा- नुलथ्य व्यतिष्ठतेत्वयि गिरः स्यान्मुख्यवृत्तिःकथम्।२४०। आस्तामिति । अथवा-शब्दसहकृतमनोव्यापारयोग्यस्यैव शब्दशक्ति- विषयत्वमात्मनस्त्वनेवरूपत्वान्न तत्र शक्तिः। नचैवं निमो निर्बीजः । अन्यथा शक्तिग्रहायोगादित्यभिप्रेत्याह-प्रास्तामितिः । आत्मनि वचसः सम्बन्धापेक्षस्य प्रवृत्तिविरह आस्तां दृश्यात्मनि मनोपि स्वविषय- प्रवृत्तौ सम्बन्धानपेक्षमपि व्यापाराय ज्ञानजननाय न प्रभवति । न समर्थ तत्र हेतुत्वेनात्मानं विशिष्टि-प्रत्यक्त्वेति । ननु प्रतीच अान्तर- त्वेन बाह्यचक्षुरादिप्रवृत्यभावेप्यात्ममनः प्रवृत्तिः किं न स्यादिशङ्कय 'मनो विशेषयति-भाम्यदिति । शब्दादिपरागर्थेषु प्रवर्त्तमानमित्यर्थः । मनसो बाह्यगोचरत्वमनुभवतः सिद्ध शब्दाद्यवगमस्य तदन्वय- व्यतिरेकानुविधानात्केवलात्माविषयत्वं च श्रुतिदर्शयति । पराञ्चि रवानि व्यतृणस्त्वयंभूस्तरमापरापश्यति नान्तरात्मन्निति । अन्त- रात्मानं न पश्यतीत्यर्थः । ननु मनोगोचरत्वमन्तरेणापि शब्दगोचरत्वं किं न स्यान्न हि प्रमाणान्तरप्रवृत्तिः प्रमाणान्तरेणोपजीव्यत इत्याशङ्कयः मनोगोचरे न केवलं शब्दप्रवृत्त्यभावः। किन्तु प्रत्यक्षानुमानोपमाना- र्थापत्यभावप्रमाणाप्रवृत्तिरपीत्याह - एवचेदिति । प्रात्ममनोगोचरश्चे- द्वान् षोढा विभिन्ना अखिलप्रमाणप्रवृत्तिरुल्लद्ध्यातिक्रम्य वर्तते । यद्विषयज्ञानं मनो जनयति तत्रैव प्रत्यक्षादिकं शब्दश्च प्रमाणं मिति- प्रथमोऽध्यायः। २४७ जनकन्वस्यैव प्रमाणत्वात् । प्रमितेश्च मनोवृत्तिरूपत्वादतो मनः प्रवृतेः सर्वप्रमाणोपजीव्यत्वान्न तेन विना प्रत्यक्षादिप्रवृत्तिरित्यर्थः । फलितमाह-त्वयीति । केवले त्वयि केवलमनोव्यापारागोचरे शब्दस्य कथं मुख्यवृत्तिः स्यान कथमपीत्यर्थः । अथवा केवलस्य मनसोऽ- गोचरेपि घटादौ चक्षुरादिद्वारा तत्प्रवृत्तिदर्शनात्प्रकृतेपि तथा मनसः प्रवृत्तिः किं न स्यात्तत्राह-एवामति । यथा केवलात्मा केवलमनोऽगोचर एवं रूपादिहीनतया चक्षुरादिप्रमाणागोचरश्चेत्कथमपि मनः प्रवृत्त्य- भावात्त्वयि कथं शब्दस्य मुख्यवृत्तिः स्यादित्यर्थः ॥ २४०॥ नन्वात्मनो मनोव्यापारागोचरत्वे कथं लक्षणयापि तमात्मानं वेदान्ताः विषयीकर्तुमीशीरनिति चेन्न-वेदान्तानां लक्षणयापि तद्विषयत्वाभावात्तथा हि प्रमाणविषयत्वं हि तदभिव्यक्तचैतन्य- भास्यत्वं भास्यत्वं च स्वव्यतिरिक्तचैतन्यसंसर्गित्वं तच्च भास्यत्वं द्विविधं वृत्तिव्याप्यत्वं फलव्याप्यन्वं च तत्रान्तःकरणवृत्त्यभिव्यक्त- चैतन्यं फलं तदवच्छेदकं फलव्याप्यं वृत्त्यभिव्यक्तचैतन्यावच्छेदक- मन्तरेण कथंचिच्चैतन्यसम्बन्धित्वमात्रं वृत्तिव्याप्यत्वम् । श्राद्यं तु घटादौ प्रसिद्ध तत्रेन्द्रियद्वारानिःसृतान्तःकरणवृत्त्यभिव्यक्तघटाद्यव- च्छिन्नचैतन्यस्य वृत्तिसंसृष्टघटस्यावच्छेदकत्वाद् द्वितीयं नित्यानुमेये धर्मादौ प्रसिद्धं तत्र विषयस्येन्द्रियसम्बन्धाभावेन तदाकारवृत्तिसम्ब- न्धाभावात्तदवच्छिन्नचैतन्यस्य वृत्त्यभिव्यक्तत्वाभावात्तत्रादौ वेदान्ता- नामात्मा परोक्षप्रमित्त्युत्पादकतयात्मनः प्राप्तं तत्फलव्याप्यत्वलक्षणं तत्कर्मत्वं निराकरोति- आत्मानं न तु कर्मतामुपनयञ्छब्दो वदेल्लक्षणा- मार्गेणापि यतः पराग्विषयवन्नास्येष्यते कर्मता। प्रत्यक्ता हि विरुद्ध्यते यदि भवेदस्याऽऽत्मनः कर्मता यद्यत्कर्म न तस्य तस्य भवति प्रत्यक्स्वभावो यतः।।२४१।। Poin ।
२४८ सटीके संक्षेपशारीरके- - । । आत्मानमिति । शब्दो वेदान्तो लक्षणावृत्याप्यान्मानं कर्मतामुप- नयत्प्रापयन्न वदेन बोधयेदित्यर्थः। तत्र हेतुः-यत इति । अस्थात्मनो घटादे- रिव कर्मत्वं यतो नेष्यते तत इत्यर्थः । घटादिहि स्वतःप्रकाशशून्यतया वृत्तिलक्षणक्रियाजन्यप्रकाशाख्यफलभाक्त्वेन चाक्षुषादिज्ञानस्य कर्म- कारकं भवितुमर्हति । श्रात्मा तु न तथा। स्वत एवाभिव्यक्तप्रका- शात्मत्वात् प्रकाशान्तरस्याभावादतो न तस्य कर्मत्वमित्यर्थः । हेत्व- न्तरमप्याह-प्रत्यक्तति । हिः प्रसिद्धव्याप्तिविरोधमेव दर्शयति यद्यदिति । यतो यद्यद्धटादिकं सम्वित्कर्म तस्य तस्य न प्रत्यकस्वभावः प्रत्यत्तत्रमात्मत्वं नेतीति प्रत्यत्त्वकर्मत्वयोः परस्पराभावव्याप्तिरनु- भवसिद्धत्यर्थः ॥ २४१॥ इदानीं नित्यानुमेयधर्मादिवदपि तस्य ज्ञानविषयत्वं निरा- करोति- वागादेः खलु बाद्यवस्तुविषयो नात्मा यतो नाऽऽत्मनि व्यापार करणस्य कस्यचिदपि प्रेक्षामहे न्यायतः । यत्किञ्चित्करणं जगत्त्रयगतं तत्प्रत्यगात्मलितं बाह्ये वस्तुनि वर्ततेऽनुभवनं तत्र प्रमाणं मतम् ॥२४२॥ बागादेरिति । वाकशब्दः श्रादिपदेनेतरप्रमाणसंग्रहः । श्रात्मेतिच्छेदः इतरप्रमाणस्येवात्मा शब्दप्रमाणस्यापि धर्मादिवन्न विषयः । तत्र हेतु:- यत इति । करणस्य शब्दस्यात्मनि व्यापार विषयीकरणं न प्रेक्षामहे न पश्यामः प्रमाणाभावादित्यर्थः । नन्वौपनिषदमिति विशेषणेनात्म- नोपि शब्दविषयत्वमवगम्यते तत्राह-न्यायत इति । यद्धि यजन्यवृत्य- धीनस्वव्यतिरिक्तप्रकाशं तत्तवृत्तेविषयो भवति धर्मादिश्च शब्दाधी- नवृत्त्यभिव्यक्तप्रमातृचैतन्यप्रकाशसंसर्गीति तस्य वृत्तिविषयत्वं युज्यते । श्रात्मा तु स्वयंप्रकाशतया न कथमपि वृत्त्यधीनप्रकाश इति प्रथमोऽध्यायः। २४६ न वेदान्तजन्यवृत्तिविषय इति नात्मनि शब्दव्यापारं पश्याम इत्यर्थः । उक्तश्रुतिस्तु वेदान्तानां तदाकारबुद्धिजनकत्वमात्राभिप्रायेति भावः । मानान्तरमप्याह-यत्किञ्चिदिति । जगति यत्किञ्चित्करणं शब्दादि प्रमाणं तत्सर्व प्रत्यगात्मप्रकाशितमेव बाह्यं विषयीकरोति । ततः शब्दस्य प्रत्यगात्मविषयत्वमनुपपन्नं तत्प्रकाशत्वात् । न हि खलु यद्येन प्रकाश्यते तत्तस्य विषयो भवति । न हि सवितृप्रकाश्यं रूपं सवितारं प्रकाशयति । तथाचोक्तं-मात्रादिबोधकं मानं प्रत्यगात्मनि साक्षिणि न व्यापारयितुं शक्यं वह्निं दग्धुमिवोल्मुकमिति। सर्वस्य प्रमाणस्य प्रत्यगात्मेक्षितत्वे प्रमाणमाह- अनुभवनमिति । तत्र प्रत्यगात्मेक्षितत्वेऽ- नुभूयमानस्यैव शब्दादेः स्वविषये प्रवृत्तावविवादादित्यर्थः । अत एव विषयत्वसामान्यलक्षणमात्मनि न सम्भवतीति भावः ॥ २४२ ॥ । - Smww आत्मनो मनोजन्यवृत्त्यभिव्यक्तप्रकाशासंसर्गितया मनोविषय- त्वाभावोनोपपादितशब्दाविषयत्वमुपसंहरति- प्रत्यग्रूपमतो न शब्दविषयो बुढेरवेद्यं यतो बुद्धिर्यत्र हि विद्यते स विषयः शब्दस्य नाऽऽत्मन्यसौ। तेनाऽऽत्मानमसौ न गोचरयितुं शब्दः क्षमो मुख्यया वृत्त्या वेतरयाऽपि तेन न तया तस्याऽऽत्मनः कर्मता॥२४३॥ प्रत्यग्रूपमिति । नन्वस्त्येवात्मनि मनोव्यापारः 'दृश्यते त्वग्रया बुद्ध्या' 'एषोऽणुरात्मा चेतसा वेदितव्य' इत्यादिश्रुत्या आत्मनोपि मनोवेद्यत्वावगमादित्याशङ्कयाह-नात्मन्यसाविति । असौ बुद्धिरात्मनि येन न प्रवर्तते तेनासौ शब्दः कथमप्यात्मानं विषयीकर्तुं न क्षमते । तेन विषयत्वाभावादेवात्मनस्तया लक्षणयापि न विषयत्वविशेषकर्मता न वा धर्मादिवच्छन्दविषयतेत्यर्थः । एतदुक्तं भवति । शब्दविषयत्वे हि बुद्धिवृत्तिमात्रेण नालं किन्तु बुद्धिविषयत्वमपेक्षते । न चात्मा सटीके संक्षेपशारीरके- बुद्धिविषयः। द्विविधस्यापि विषयत्वस्य तत्राभावात् । नचोक्तश्रुते- स्तर्हि का गतिरिति वाच्यम् । यन्मनसा न मनुते अन्यदेव तद्विदिता- दित्यादि न्यायोपोद्वलितश्रुत्या विरोधेन तस्या वेदान्तसहायेनात्मा- कारवृत्तिजनकत्वमात्रपरत्वेन चरितार्थत्वादिति ॥ २४३ ॥ नन्वात्मनो वेदान्ताविषयत्वाभिधानं सूत्रविरुद्ध शास्त्रयोनित्व- सूत्रेण ब्रह्मणो वेदान्तप्रमाणकत्वप्रतिज्ञानान्न ह्यविषयस्य प्रमाण- विषयत्वप्रतिज्ञायुक्तिमतीत्याशजूते- नन्वज्ञेयमिदं भवेद्यदि मम प्रत्यक्स्वरूपं ततः प्रामाण्यं कथमस्य वेदशिरसस्तत्र प्रतिज्ञायते । यन्मेयं न भवेत्कदाचिदपि तद्वेदान्तवेद्यं भवे- दित्येतद्वचनं पराहतपदं वक्तुं न युक्तं बुधैः ॥२४४॥ MARA • नन्वशेयमिति । ममेदं प्रत्यक्खरूपमज्ञेयमविषयो यदि भवेत्तर्हि अत्रात्मन्यस्य वेदशिरसः प्रामाण्यं सूत्रकृता कथं प्रतिज्ञायत इति सम्बन्धः । अविषये शब्दप्रमाण्यप्रतिज्ञायां कानुपपत्तिस्तत्राह- यन्मेयमिति । यत्कदाचित्कथंचिदपि मेयं न भवेत्तद्वेदान्तवेद्यं भवेदित्येत- द्वचनं विरुद्धार्थकतया पराहतपदम् अतएव बुधैर्वक्तुमयुक्तमित्यर्थः । विशेषे हि सामान्यं व्यापकमतो विषयत्वाभावे शब्दविषयत्वमपि न स्यादित्यर्थः ॥ २४४ ॥ अात्मनो विषयत्वं विनापि प्रयोजनसद्भावात्तत्र प्रामाण्य- प्रतिज्ञा न विरुध्यत इति परिहरति- नैतद्वस्तुनि कल्पितस्य जगतो वाक्यप्रसूतप्रमा- बुडिर्मूलधगिष्यते तव निजस्वाकारमात्रग्रहात् ।
प्रथमोऽध्यायः। कर्मत्वं न करोति वाक्यजनिता बुद्धिः स्वरूपे तव स्वाकारग्रहणेन केवलमियं संसारमूलं दहेत् ॥२४५॥ यतस्तत्व- नैतदिाते । एतत्त्वदुक्तं न कुतस्तत्राह-काल्पतस्येति । मादिवाक्यजन्यब्रह्माकारापरोक्षप्रमाणवृत्तिर्वस्तुन्यात्मनि कल्पितस्य प्रमातृत्वादिप्रपञ्चस्य यन्मूलमज्ञानं तद्दहतीति मूलधगिष्यते । तत एतन्नेत्यन्वयः । वृत्ते डायाः कथमनर्थमूलाज्ञाननिवर्तकत्वं तत्राह-- तव निजस्वाकारमात्रग्रहादिति । तव स्वाभाविकब्रह्माकारमात्रग्रहात्पूर्णब्रह्म- प्रतिबिम्बोद्गाहित्वादित्यर्थः । अतो वेदान्तानां बोधकत्वाभावेपि निवर्तकत्वेन ब्रह्मणि प्रामाण्यं संगच्छत इति भावः । ननु यद्विषय- मज्ञानं तद्विषयज्ञानेनैव तन्निवर्तत इति वक्तव्यम् । समानविषययो- रेव ज्ञानाज्ञानयोर्विरोधदर्शनात्ततो ब्रह्मणो ज्ञानविषयत्वाभावे वेदान्त- जन्यज्ञानस्य कथं तदाकारग्रहणमात्रेण तदज्ञाननिवर्तकत्वमित्या- शङ्कयाह-कर्मत्वामति । तव स्वरूपे वाक्यजन्या बुद्धिः कर्मत्वं विषयत्वं न करोति नापादयति । उभयविधविषयत्वस्याप्यनुपपत्तेरित्यर्थः । तर्हि कथमज्ञाननिवृत्तिस्तत्राह-स्वाकारेति । इयं वृत्तिः केवलमात्मनो विषयत्वं विनापि ब्रह्माकारग्रहणेन संसारमूलमज्ञानं दहेदविद्या- निवृत्तेरभीत्सितत्वद्योतनाय संसारमूलमित्युक्तमिति द्रष्टव्यम् । अज्ञान- निवृत्तौ हि वृत्तेविषयाकारत्वमात्रमेवापेक्ष्यते न पुनस्तद्विषयत्वं केवल- व्यतिरेकाभावादित्यर्थः । तथा च ब्रह्मणः फलव्याप्यत्वाभावेपि धर्मादिवद्वृत्तिविषयत्वाभावेप्याकारार्पकत्वेन वृत्तिविषयत्वं सर्वत्रोक्त- मिति द्रष्टव्यम् ॥ २४५ ॥ ननु प्रमाणानां विषयबोधकत्वं विना कुत्र प्रामाण्यं दृष्टं ज्ञानस्य वा स्वविषयत्वं विनाऽज्ञाननिवर्तकत्वं क्व दृष्टमित्याशङ्कय दृष्टं मीमां- सकानां संबिव्युत्पादकवचनतजन्यज्ञानयोरित्याह- २५२ सटीके संक्षेपशारीरके- संविद्व्युत्पादकं यवचनमभिमतं कर्म मीमांसकानां तत्कर्मत्वं न तावक्षिपति घटपटाद्यर्थसंवित्स्वरूपे । किंत्वज्ञानापनुत्त्या फलवदभिमतं तत्र शिष्यस्य तब- त्सर्व वेदान्तवाक्यं फलवदिदमपि प्रत्यगात्मस्वरूपे॥२४॥ संविद्व्युत्पादकमिति । कर्ममीमांसकानां भाट्टानां प्राभाकराणां च ज्ञानं ज्ञातता वा स्वयंप्रकाशमिति तत्स्वरूपव्युत्पादकं यद्वचनं तद्धटपटाद्यर्थविषयसंवित्स्वरूपे कर्मत्वं न क्षिपति ज्ञानं ज्ञाततां वा न विषयोकरोति तयोः स्वयंप्रकाशत्वादित्यर्थः । ननु स्वप्र- काशस्यापि तस्य प्रत्यक्षज्ञानविषयत्वमेवानुपपन्नं परोक्षज्ञानविष- यत्वं त्वविरुद्धमिति चेन्न। न हि परोक्षज्ञानविषयो ज्ञानं ज्ञातता वा ज्ञानविषयस्यापि स्वयंप्रकाशत्वे किमपराद्धं नैयायिकादिभिर्घटा- दिना वा। ननु भवन्मतेपि ज्ञानस्य स्वयंप्रकाशत्वानुमितिविषयत्व- मस्तीति चेन्न-तत्राप्यस्मन्मते संशय विपर्यासादिनिवृत्तिव्यतिरेकेण ज्ञानविषयताया अभावात् । ननु वर्तमानयोरेव तयोः स्वयंप्रकाशत्व- मिति चेत्तर्हि स्वप्रकाशत्वं न तत्स्वभावप्रयुक्तं किन्तु वर्तमानकाल- प्रयुक्तमेव स्यान्न हि विद्यमान एव दीयः स्वयंप्रकाशो विनष्टः स प्रदीपान्तरेण ज्ञायते । ननु ज्ञानस्य वर्तमानार्थप्रकाशत्वादवर्तमानस्य प्रकाशत्वमप्यविरुद्धमिति चेद्भवत्वेवं सर्व ज्ञानं स्वयंप्रकाशमिति ज्ञानस्य वर्त्तमानस्य वेद्यत्वं विनापि वाक्यस्य तद्विषयत्वदर्शनाद्विद्य- मानज्ञाततादशायां प्रयुक्तवाक्यस्यातद्विषयत्वेपि तत्र प्रमाणत्वदर्शना- दिति भावः । किं तर्हि तत्र प्रमाणकृत्यमित्याह-किन्त्विति । संशयादि- निवृत्तिरवेत्याह-अशानापनुत्त्येति । ज्ञानादिकं स्वयंप्रकाशं न ज्ञानादिकं परप्रकाशमेवेति संशयविपर्यासान्यतरनिवृत्त्या तत्र ज्ञाने ज्ञाततायां वा तद्वाक्यं फलंवदभिमतम् । ननु सहस्र एव मुक्तपि न प्रतिवादिनोऽज्ञानं गच्छति तत्राह-शिष्यस्येति । यस्तु ज्ञानस्वरूप- वा प्रथमोऽध्यायः। २५३ मवगन्तुमिच्छति तस्येत्यर्थः । ज्ञानस्यापि स्वविषयविषयत्वं विना तदाकारमात्रेणाविद्यानिवृत्तिरपि तत्रैव सिद्धति द्रष्टव्यम् । नन्वात्मा विद्यानिवृत्तरात्ममात्रत्वात्तस्य च नित्यत्वान्न तयापि वेदान्ता अर्थ- वन्तः स्युरित्याशङ्कय दार्टान्तिकप्रदर्शनव्याजेन परिहरति-तद्वदिति । यद्यप्य विद्यानिवृत्तिनित्यसिद्धात्मस्वरूपमेव वस्तुतस्तथापि तस्मिन्ना- रोपिताविद्या तजन्योऽनर्थश्च न नेति शक्यं वक्तुम् । तथा च यावद्वे- दान्तवाक्याद् ब्रह्माहमिति ज्ञानं न जन्यते तावद्भमावस्थानं यदा तु तत्त्वमादिवाक्यात्तागाकारज्ञानं जायते तदा न भ्रम इत्यन्वयव्यतिरे- काभ्यां भ्रान्त्यदर्शनमेव ज्ञानफलमिति । यत्र त्वस्येत्यादिशास्त्रसिद्ध- मेवाङ्गीक्रियत इति न काचिदनुपपत्तिरिति भावः ॥ २४६ ॥ एवमात्मनो मुख्यविषयत्वाभावेपि ज्ञानाकारसमर्पकत्वेन वेदा- न्तविषयत्वमुक्तमिदानी प्रकारान्तरेणापि तदाह- अकार्यस्वरूपस्य कार्यत्वमिष्टं यथा कारकैमूर्तमुत्सारयद्भिः । तथैवाप्रमेयस्य मेयत्वमिष्टं प्रमाणैस्तमस्तज्जमुत्सारयद्भिः ॥ २४७ ॥ अकार्यस्वरूपस्येति । अथवा--विषयस्याप्यात्मनः कथंचिद्विषयत्व- वर्णनं न विरुद्धमित्येतत्सदृष्टान्तमाह-अकायेति । यथा मूर्त पृथिव्यादि द्रव्यमुत्सारयद्भिः कुद्दालादिकारकैरकार्यस्वरूपस्य कर्तुमयोग्यस्य गगनादेः कार्यत्वं कृतिविषयत्वं दृष्टं तथैवाप्रमेयस्यात्मनो वृत्तिद्वारा अविद्यां तत्कार्य निवर्तयद्भिर्वेदान्तप्रमाणैविषयत्वमिष्यत इत्यर्थः । लोके हि कुद्दालादिभिः कूपं खनन्तीति प्रसिद्धम् । नचेयं प्रतीतिर्धा- न्तिरिति कस्यचित्प्रतिपत्तिरस्ति । न च कूपस्यावच्छिन्नाकाशस्य साक्षात्कृतिविषयत्वमुपपद्यते । तथाप्युत्सार्यमाणमूर्तसम्बन्धादेव सटीके संक्षेपशारीरके- तस्य कारकव्यापारविषयत्वप्रतीतिरेवं वेदान्तजन्यज्ञाननिवाविद्या- धिष्ठानत्वमेवात्मनो चेदान्तविषयत्वमित्यर्थः ॥ २४७ ॥ नन्वात्मनो विषयत्वं विना शानस्य तदाकारत्वं ज्ञाननिवा- विद्याविषत्वं वाऽनुपपन्नम् । अविषयस्य पटस्य घटज्ञानाकारत्वा- दर्शनाद्विषयत्वमन्तरेणात्मन आकरार्पकत्वशब्दार्थमपि न विझः । न वा ज्ञानविषयत्वमात्मनो दुनिरूपं ज्ञानजन्यव्यवहारविषयत्वस्यैव सर्वत्र ज्ञानविषयत्वशब्दार्थत्वात्तस्मादात्मनोऽविषयत्वज्ञानाकारत्वाद्युपपादनं स्वमतश्रद्धाजाड्यमिति चेत्-न-तावदाकरापकत्वे विषयत्वं प्रयोजक तत्प्रकारकबुद्धिवृत्तिसम्बन्धस्यैवापेक्षितत्वादत एव नातिप्रसङ्गः पटा- देर्घटाकारबुद्धिवृत्तिसम्बन्धाभावात्। न च वाक्यार्थज्ञानस्य सप्रकार- कत्वाङ्गोकारे तद्विषयस्याखण्डार्थत्वभङ्गः--ज्ञानस्य वैशिष्ट्यविषयत्वं विना सर्वतो व्यावृत्तावसङ्गात्सविषयविशेषमहिम्नैव ज्ञानजन्यज्ञान- त्वेन वा तस्य सप्रकारत्वोपपत्तेः। अन्यथा गवादिज्ञानस्यापि गोत्या- द्यंशे सविकल्पकत्वानुपपत्तेः । न च तदंशे निर्विकल्पमेव, ज्ञानस्य तदंशेपि सविकल्पकतायाः प्रत्यक्षवादतः परेणापि वैशिष्ट्य. विषयत्वं विना ज्ञानस्य सप्रकारकत्वं स्त्रीकर्तव्यम् । न च विषयत्वा- भावे आकरार्पकत्वानुपपत्तिः । दर्पणे सूर्यप्रकाशस्येव तत्प्रकारकवत्तौ स्वरूपचैतन्यप्रतिफलनस्यैवाकरापकशब्देनाभिधानात् । न च प्रतिबि- म्बितत्वमेव विषयत्वं घटादावन्यस्यैव तस्य दर्शनात् । न च घटादेरपि बुद्धौ प्रतिफलनमस्ति । बहिष्वनैव तस्यानुभवादत्र चाहं ब्रह्मेति वृत्तिमदन्तःकरणावच्छिन्नचैतन्याभेदेनानुभवः । व्यवहारविषयत्वमेव सर्वत्र ज्ञानविषयत्वं ज्ञानं स्वविषय एव व्यवहार जनयतीति व्यवहारविषयत्वात्पृथगेय ज्ञानविषयत्वस्य वक्तव्यत्वा- त्तस्मात्प्रतिवादिनामेवायमात्मनो विषयत्वाक्षेपः स्वमतश्रद्धाविलसित इत्यभिप्रेत्याह- न च ज्ञानजन्य- प्रथमोऽध्यायः। वाक्योत्थापितयुद्धिवृनिरमला यज्ञादिभिर्निश्चला- वेदान्तश्रवणादिभिः स्फटिकवत्स्वच्छा सती तावकम् । रूपं दर्पणवद्विभर्ति परमं विष्णोः पदं सन्निधे- रेतस्मादिह कारणादथ भवेत्संसारबीजक्षयः ॥२४८॥ वाक्योत्थापतात-तत्त्वमादिवाक्योत्थापिताखण्डब्रह्माकारा बुद्धि- वृत्तिदर्पणवन्मुखं विष्णोः परमं पदं स्वरूपं बिभर्ति धत्तेऽविचलं. तद्विम्बं गृह्णातीति सम्बन्धः । नन्वहरहः श्रूयमाणवाक्यानां सर्वेषां पुरुषाणां मलिनदर्पण इव नैव तादृशवृत्तौ ब्रह्म प्रतिफलनं दृश्यते तत्कथं सिद्धवदुपन्यासस्तत्राह-अमला यज्ञादिभिरिति-इष्टकानिघर्षणा दिना दर्पणमिव इह जन्मनि जन्मान्तरे वा सम्यगनुष्ठितयज्ञदानतपोऽन- शनैर्विमलीकृता चित्तवृत्तिर्ब्रह्मप्रतिबिम्ब धत्त इति न सिद्धवदुपन्या- सस्यानुभवविरोध इत्यर्थः । नन्वेवमप्यसंभावनादितीबवायुना प्रकम्पमाना सा न दृढतरप्रतिबिम्बग्रहणयोग्या इतस्ततो नीयमान- दर्पणवत्तत्राह-निश्चलेति । भुवि निखातपाददर्पणवद्वेदान्तश्रवणमनननि- दिध्यासनादिभिर्निराकृताऽसंभावनादितया निश्चला ब्रीकाकारा स्वच्छोद्भूतसत्त्वप्रधाना च सतीत्यर्थः । एवं बिम्बसन्निधानाभावेन दूरस्थदर्पणवन्न तद्ग्रहणयोग्या सेत्याह-सन्निधेरिति । ब्रह्मणो बिम्ब भूतस्यात्यन्तं सन्निहितत्त्वादित्यर्थः । अत्र हेतुत्वेन बिम्बस्वरूपं विशिनष्टि-तावकमिति । त्वदीयं वास्तवं स्वरूपमित्यर्थः । ब्रह्मणः स्वाकारवृत्तौ प्रतिफलनमात्रपरैव सम्प्रदायविदां तत्र तत्राकार- समर्पकत्वोक्तिरपि द्रष्टव्या । एतादृशज्ञानाकि फलिष्यतीति तत्राह- एतस्मादिति । अथवा-वेदान्तजन्यज्ञाननिवाविद्याधिष्ठानत्वलक्षणं विष. यत्वमपि सुदृढ़मित्याह-एतरमादिति । अथ साक्षात्कारानन्तरम् ॥२४॥ एवं वेदान्तानामात्मनि घटादिवद्विषयत्वाभावेप्यविद्यानिवत्ति-
सटोके संक्षेपशारीरके-
फलकात्मशानजनकत्वेन प्रामाए यस्योपपादितत्वान्न सौत्रप्रतिशानुप-
पन्नेत्युपसंहरति-
एवं वेदशिरः प्रमाण मुदितं प्रत्यकस्वरूपे तव
कर्मत्वं विरहय्य तंत्र नाहि नो बाधःप्रतिज्ञागिरः।
कर्मत्वं न करोति बोधयति च स्पष्टं वचो वैदिकम्
रूपं तावकमेवमस्य भवति प्रामाण्यमत्राऽऽत्मनि।२४६
..
एवमिति । उदितमुपपादितं तत्र तथा सति प्रतिज्ञागिरः
वाङ्म-
नसागोचरे ब्रह्मणि वेदान्ताः प्रमाणमिति प्रतिज्ञारूपशास्त्रयोनित्व-
वाक्यस्येत्यर्थः । ननु यदि वेदान्तजन्यज्ञानस्यान्मा न विषयतां भजते
तर्हि तज्ज्ञानमेव न भवेद्विषयाभिमुखमनोवृत्तेरेव ज्ञानत्वानुपपत्त्या-
ऽऽत्मनोविषयत्वे च न तस्याज्ञानत्वमुपपन्नमित्याशङ्कय किं ज्ञानस्य
ज्ञानत्वानुपपत्याऽऽमनोविषयत्वमापादयसि किं वा विषयत्वाभावे
तस्मिन् शानमेव नोदेतीति । अथवोदीयमानस्यापि तस्यात्मनो विषयत्वे
ज्ञानत्वमनुपपन्नमिति नाद्य इत्याह-कर्मत्वं न करोतीति । परसमवेत-
क्रियाफलशालित्वलक्षणविषयत्वस्य वृत्त्यभिव्यक्तप्रकाशसंसर्गित्व-
लक्षणविषयत्वस्य च सर्वप्रमाणफलभूते स्वप्रकाशे प्रात्मन्यसम्भवा-
दित्यर्थः । द्वितीयं निराकरोति-बोधयति स्पष्टमिति । तथा च वेदान्ताद्
ब्रह्माकारं ज्ञानं नोदेतीत्येतदनुभवविरुद्धमित्यर्थः । तृतीयनिरा-
करणाभिप्रायेणाह-एवमस्य भवतीति अस्य वेदान्तवाक्यस्यात्मन्य-
विद्यानिवर्त्तकप्रमाजनकत्वलक्षणं प्रामाण्यं भवतीत्यर्थः । न हि वयं
ब्रह्माविषय इत्येव ब्रमः । स्वाकारसमर्पकत्वस्य निवय॑मानाविद्या-
धिष्ठानत्वस्य वा विषयत्वस्य तस्मिन्नङ्गीकारान्न हि ज्ञानं स्वविषयस्य
मुख्यविषयत्वमपेक्ष्यैव स्वस्य ज्ञानत्वं भजते । संवित् स्वयंप्रकाशेति
ज्ञानस्थ स्वांशेऽज्ञानत्वप्रसङ्गादिति भावः ॥ २४६ ॥
प्रथमोऽध्यायः। एवं तत्त्वमस्यादिविधिवाक्यस्याविद्यानिवृत्त्यादिफलकज्ञानो. त्पादकत्वेनार्थवत्वमुक्तं सम्प्रत्यस्थूलादिनिषेधवाक्यस्यापि पर- म्परया तत्त्वंपदार्थबोधकत्वेनार्थवत्त्वं वक्तुं तत्र पूर्वपक्षमाह- पृष्टेन पूर्णवपुषा क्रियते प्रतीति- नेतीति वाक्यजनिता जगतो निषेडी। प्राधान्यमस्तु विधिना सममेव तस्मा- त्तस्याथवा भवतु तद्वचनं प्रधानम् ॥२५०॥ पृष्ठेनेत । स एष नेति नेत्यात्माऽस्थूलमनरिवत्यादिनिषेधवाक्य- जन्या जगतो निषेद्धी निषेधविषयाऽभावविषया प्रतीतिः पृष्ठेन पश्चात्पूर्णवपुषा क्रियते पूर्णब्रह्माकारा भवति यस्मात्तस्मात्तस्य निषेधवाक्यस्य विधिना नअर्थास्पर्शितत्वमादिवाक्येन समप्राधान्य- मेवास्तु न तद्गुणत्वमित्यर्थः । एतदुक्तं भवति-तत्वमस्यादिवाक्या- जायमानं परिपूर्णब्रह्माकारं ज्ञानमविद्यानिवृत्तिद्वारानर्थनिबर्हकमिति हि स्वीक्रियते । तत्र नेति नेति वाक्याजायमानापि ब्रह्मव्यतिरिक्त- सकलपरिच्छिन्न निषेधविषयिणी बुद्धिरधिष्ठानं पूर्णमनालंम्ब्यापर्य- वस्यन्ती तद्विषयीकुर्वाणा परिच्छिन्नसर्वनिषेधादर्थात्पूर्णाकारा भवति । अतः साक्षात्फलवत्त्वात्तत्वमादिवाक्यैरस्य समप्राधान्यमिति तत्त्वबोधे प्रमाणविकल्पः स्यादित्यर्थः। अरुच्या पक्षान्तरमाह-ग्रंथवेति । तवचनं निषेधवाक्यमेव प्रधानं भवतु वक्ष्यमाणहेतोरित्यर्थः ॥ २५० ॥ ननु कथं तत्वमादिवाक्येन तस्य समप्राधान्यं यावता तत्त्व- मादिवाक्येन साक्षादेव ब्रह्माकारबोधो भवति नैवं निषेधवाक्या- त्तदुत्पन्नज्ञानस्यार्थादेव तदाकारत्वादत एव न तस्य तदपेक्षया प्राधा. न्यमपीत्याशङ्कयादावुभयत्रापि दोधपूर्णाकारत्वस्याविशिष्टत्वादार्थत्व- शाब्दत्वविशेषोऽकिञ्चित्कर इत्याह - - सटीक संक्षेपशारीरके- अद्वैताकरणं निषेधवचनादुत्पन्नयुद्धेरपि तुल्यं तत्त्वमसीति वाक्यजनितप्रत्यक्प्रतीत्या सह । प्रार्थ शाब्दमथापि वा भवतु तत्किं तेन यहा विधि- न कर्तुं शबलार्थगोचरतया निर्भेदमर्थ क्षमः ॥२५१॥ अद्वैताकरणमिति । श्राकरणमाकारः। आर्थं सकलपरिच्छेदनिषेधा- न्यथानुपपत्तिप्राप्तमथापि वेत्यनास्थायां तदद्वैताकरणं तेनार्थत्वशा- ब्दत्वविशेषेण द्वितीये पक्षे उपपत्तिमाह-यद्वेति । विधिस्तत्वमादि- वाक्यं निर्भेदं त्रिविधपरिच्छेदशून्यमात्मानमाकर्तुं तत्त्वेन विषयीकर्तुं न क्षमं तत्र हेतुः-शबलाथेति । तत्त्वंपदयोः शबलविषयतया केवल- पूर्णात्मबोधकत्वासम्भवानिषेधवाक्यस्य चानुपपत्त्या तत्सम्भवादेत- देव प्रधानं विधिवाक्यं तु तच्छेषमित्यर्थः ॥ २५१ ॥ ननु तत्त्वमादिपदं शबलार्थगोचरमपि लक्षणया निर्मेदं वस्तु विषयीकर्तुं समर्थमेवेत्याशङ्कयाह- सम्बन्धजातविरहान्न च लक्षणाऽस्मि- न्संभाव्यते परिहृताखिलदृश्यराशौ। ब्रह्मात्मवस्तुनि ततः प्रतिषेधवाक्य- शेषत्वमेतु विधिरित्यपि केचिदन्ये ॥ २५२ ॥ सम्बन्धेति । अस्मिन् ब्रह्मात्मवस्तुनि संयोगादिसम्बन्धजातविरहा. व लक्षणा सम्भाव्यत इति सम्बन्धः । सम्बन्धाभावे हेतुमभिप्रेत्याह- परिहृतेति । यद्यपि सम्बन्धः प्रागुक्त एव तथापि वास्तवसम्बन्धो लक्षणाबोजत्वेन वक्तव्यः । अविनाभावो वा स चात्र न सम्भव- तीत्याक्षेप्तुरभिप्रायः । द्वितीयपक्षमुपसंहरति तत इति ॥ २५२ ॥ पक्षद्वयमपि दूषयति- ma - प्रथमोऽध्यायः । - वाक्यं मुक्तिफलां धियं जनयति स्पष्टं विधिव्यापृतं साक्षादेव तव स्वरूपकथनान्नैवं निषेधात्मकम् । अध्यारोपितरूपभेदविलयव्यापारनिष्टं तव स्वाकारग्रहणक्षमां न हि धियं कर्तुं समर्थ यतः॥२५॥ वाक्यमिति । विधिव्यापृतं वाक्यं तत्त्वमादिवाक्यं स्पष्टमुक्तिफलां धियं जनयतीति सम्बन्धः । तत्र हेतुः--साक्षादेव तव स्वरूपकथनादिति । अनुपपत्त्यादिकं विना त्वत्स्वरूपाभिधानसमर्थत्वादित्यर्थः । स्पष्ट मित्यनेन च तत्त्वमादिवाक्यात्पूर्णब्रह्माकारबुद्धौ विद्वत्प्रत्यक्षमुप- न्यस्तं भवति । तव स्वरूपकथनादित्यनेन तत्रार्थे उपपत्तिरुक्तेती टव्यम् निषेधवाक्यस्य तु नैवं सामर्थ्यमित्याह-नैवं निषेधात्मकमिति । अस्थूलादिवाक्यमेव तत्त्वमादिवाक्यवन्मुक्तिफलां तव स्वरूपब्रह्मा- कारग्रहणक्षमां धिय जनयितुं न समर्थे, कुतः यतस्तद्वाक्यमध्या- रोपितरूपभेदविलयव्यापारनिष्ठमध्यारोपित्तो यो रूपभेदः स्थौल्यादि प्रपञ्चस्तस्य यो विलयो निषेधः अभावस्तद्विषयो यो व्यापारः निषेध- बोधः तन्निष्ठं तत्कारणं कल्पितभेदप्रपञ्चाभावमात्रबोधकत्वात्तनात्म- स्वरूपबोधकमित्यर्थः। श्रयम्भावः-विधिवाक्यस्य निषेधवाक्यशेष- त्वपक्षे कथं विधिवाक्यं निषेधवाक्य उपकरोति निषेधापेक्षिताऽ- धिष्ठानसमर्पकत्वादिति चेन्न-तथात्वे विधिवाक्यमुख्यार्थस्यानेक- रसत्वेन निषेधबुद्धः पाष्टिक्या अपि पूर्णाकारताया असिद्धिप्रसङ्गान वा तत्समर्पकत्वमपि लक्षणातः पूर्वमैक्यप्रतीत्यभावादुपस्थिततत्त्वं- पदार्थयोः प्रपञ्चाधिष्ठानत्वानुपपत्तरधिष्ठानन्वे वा तत्त्पदार्थस्यैव तत्त्वेन त्वंपदवैयर्थ्यप्रसङ्गात् । किश्चिज्ज्ञत्वकर्तृत्वादेब्रह्मण्यप्रतीतस्थ तत्र निषेधानुपपत्तेश्च । न च ब्रह्मधर्माणां ब्रह्मणि निषेधः जीवधर्माणां जीव इति वाच्यम् । अधिष्ठानभेदेन निषेधप्रतीतेः । पाठिकपूर्णा- कारत्वानुपपत्तेस्तस्माद्वाक्यवैयर्थ्यपरिहाराय पूर्णाधिष्ठानत्वसिद्धथे सटीक संक्षेपशारीरके- च निषेधवाक्यमेव प्रधानमिति वदताप्यवश्यं येन केन चित्सम्बन्धेन तत्त्वमादिवाक्यं लक्षणयैव निषेधाधिष्ठानं समर्पयतीति वक्तव्यम् । तत्रापि निषेधवाक्यप्रवृत्तेः प्रागेव तत्प्रवृत्तिर्वक्तव्याऽधिष्ठानज्ञानं विना निषेधप्रतीत्यदर्शनाल्लोके इदमिदं नेत्यधिष्ठानावगमपूर्वकमेव निषेधप्रतीतिदर्शनादेवं च सति निषेधवाक्यात्प्रागेव तत्त्वमादिवा- क्यादवश्यं भाविन्यखएडार्थज्ञाने तेनैवानर्थनिवृत्तिसिद्धः किं निषेध- वाक्येन न वा तस्याद्वितीयात्मज्ञानजननसामर्थ्य तस्य निषेधमात्र निष्ठत्वादत एव न समप्राधान्यमपीति ॥ २५३ ॥ ननु माभूत्तत्वमादिवाक्यं निषेधवाक्यशेष विधिवाक्यस्य सार्थकतायै निषेधवाक्योपकाराय तत्पूर्वमेव व्यापारेण निषेधवाक्य- वैयर्थ्यात्समप्रधानपक्षस्तु भविष्यति । न च तत्राप्यधिष्ठानप्रकाशं विना निषेधानुपपत्तेः तदर्थ तत्त्वमादिवाक्यापेक्षास्तीति वाच्यम्- अधिष्ठानस्य स्वयंप्रकाशतया तदपेक्षाभावात् । नापि तस्य पूर्णत्वाकार- प्रमितिजनकत्वानुपपत्तिः साक्षात्तदभावेपि तजन्यज्ञानस्यार्थात्तदुप- पत्तरित्याशङ्कयाह- अम्थूलादिवचःसमुत्थितमतिर्नाऽऽकारमादास्यते साक्षादवयवस्तुनस्तव विभोरज्ञानविच्छेदिनः । अज्ञातस्य हि वस्तुनो न हि धिया स्वाकारसंवेदनं मुक्त्वा तद्विषयस्य विभ्रमकृतो ध्वान्तस्य विध्वंसनम् २५४ अरथूलादीति । अस्थूलमनएवहखमदीर्घमित्यादिवाक्यजन्यं ज्ञानं . साक्षादद्वितीयवस्तुनोऽपरोक्षाद्वितीयस्यात एवाज्ञानविच्छेदिनो ज्ञान- विरुद्धाकारस्य विभोस्तवाकारं परिपूर्णब्रह्माभिन्नं तद्रूपमर्थादपि नादास्यते न ग्रहीष्यत इत्यर्थः । निषेधवाक्यजन्यज्ञानस्य निषेध- मात्रविषयत्तयोत्पन्नस्य चिरम्य व्यापाराभावादादपि न ब्रह्माकारता ।
प्रथमोऽध्यायः । २६१ ततो ज्ञानान्तरस्य तथात्वे च निषेधवाक्यजन्यज्ञानमेव तथेति पक्ष- पराहतिः । अर्थिकज्ञानस्य जीवपरतादात्म्याकारत्वाभावाद्विधिवाक्यं विनाऽधिष्ठानस्य ब्रह्मणः स्वरूपनिर्धारणायोगाच्च । न च सत्यादि- वाक्यैस्तन्निर्णय:-तैरेव तत्सिद्धनिषेधवाक्यप्राधान्यभङ्गापाताद्वै- यापाताच्च । न च तादात्म्यज्ञानवनिषेधज्ञानं साक्षात्पुमर्थसाधनं तादात्म्यज्ञानं पुरुषार्थसाधनमित्यत्रानुपदमेव प्रमाणं प्रदर्शयिष्यते । एतस्मिन्पक्षे पाक्षिकतत्त्वमादिवाक्यवैयर्थ्यप्रसङ्गाच्च । न च संभवत्यां प्रकारान्तरेण गतौ बहुदोपदुष्टविकल्पो युज्यत इति । अथवोभयबोध- कताशङ्कायां यद्धि साक्षाद्वोधनं तदेव प्रधानं फलवदन्यत्वफल- मशाब्दज्ञानस्याविद्यानिवर्तकत्वाभावादित्यभिप्रेत्याह-अस्थूलादिति। अत्र तवाकारं साक्षान्न दास्यत इति सम्बन्धः । ननु माभूनिषेधवाक्यार्थ- ज्ञानस्य साक्षादर्थाद्राऽ द्वितीयब्रह्माकारता तथापि ब्रह्मणि परि- कल्पितानात्मकप्रपंञ्चस्य तत्र साक्षात्तेन निषेधेनैव पुरुषार्थसिद्धः निषेधवाक्यस्यापि तत्त्वमादिवाक्यसाम्यमवश्यमायातीति चेत्तत्राह- अज्ञातस्य हीति । अज्ञातस्य वस्तुनोऽनधिगतजीवपराभेदस्य स्वाकार- संवेदनं स्वस्य ब्रह्मणोऽद्वितीयत्वपरिपूर्णत्वाद्याकारसंवेदनमुक्त्वा धिया अस्थूलादिवाक्यजन्यज्ञानेन विभ्रमकृतः संसारहेतोस्तद्विषय- स्य ब्रह्मविषयस्याज्ञानस्यहि यतो विध्वंसनं न हि ततस्तस्य पुमर्थहेतुत्वं नास्तीत्यर्थः । एतदुक्तं भवति । अनीशया शोचति मुह्यमान इति खस्येश्वर- भावाप्रतिपत्तिलक्षणानीशाहेत्वज्ञानम्य शोकपदोपलक्षितसंसारहेतुत्वं दर्शयति ततः स्वस्येश्वरभावाज्ञानस्य संसारहेतुत्वे तज्ज्ञानस्यैव तन्निवृत्तिहेतुत्वं वक्तव्यमित्यस्त्येवात्र प्रमाणं स्थौल्यादिप्रपञ्चस्य ब्रह्मण्यारोपितस्याधिष्टानापरोक्षब्रह्मज्ञाननिवर्त्यत्वात्तस्य च निषेध- वाक्यादसंभवेन ततस्तन्निवृत्त्यनुपपत्तेः । तन्निवृत्ति विना च तत्कार्य- संसारस्यात्यन्तिकनिवृत्त्यनुपपत्तेस्तां विना च पुरुषार्थसमाप्त्यभावान निषेधवाक्येन पुरुषार्थसिद्धिस्ततस्तत्वमादिवाक्यतुल्यता. नास्य - सटीक संक्षेपशारीरके- मनसापि संभाव्यत इति भावः ॥ २५४ ॥ अधिष्ठानाकारापरोक्षज्ञानं विनाऽऽरोपितनिवृत्तिर्नास्तीत्येन्स दृष्टान्तमाह- रज्ज्वज्ञानविजृम्भितस्य फणिनो रज्जुप्रकाशचम विज्ञानं विरहय्य न प्रशमनं दृष्टे निषेधे कृते तद्वत्प्रत्यगविद्यया विरचितं संसारदुःखं न तत्- संविनि विरहय्य शाम्यति धियानेतीतिशब्दोत्थया।२५५ रज्ज्वज्ञानेति । तस्य प्रत्यगात्मनः संवित्तिस्तत्संवित्तिस्तामित्यर्थः । यद्यदज्ञानविजृम्भितं तत्तज्ज्ञानान्निवय॑ते न हि षष्टयामलायां ? रात्री कुटिलसंस्थानां रजु सर्पोऽयमिति मन्यमानस्याकस्माच्छ्रुताचायं- सर्प इति वाक्यात्सोभावनिश्चयो भवति किन्तु रजुरियमिति साक्षात्कृतायां रजौ तदभावनिश्चयो जायते एवं निषेधवाक्यात्प्रपञ्च- निषेधे कृतेपि न ब्रह्मपरिज्ञानं विना कर्तृत्वाद्यनर्थमूलाज्ञाननिवृत्तिः सम्भवतीति न निषेधवाक्यस्य विधिवाक्यसाम्यमिति भावः ॥२५॥ नन्वेवं किं निषेधवाक्यं व्यर्थमेव भवेन तत्त्वमादिपदार्थशोध- कतया तच्छेषत्वेनार्थवत्वादित्याह- अस्थूलादिवचोनिषेधकतया भेदस्य संशोधना- द्वाक्यार्थान्वयसिद्धये नु घटते वाच्यार्थलक्ष्यार्थयोः । एवं तत्त्वमसीति वाक्यगतयोस्तत्वंपदोक्तार्थयोः संशुद्ध्यैव तु नेति नेति वचनं मोक्षाय साक्षान्न तु॥२५६॥ अस्थूलादीति । अस्थूलादिवचस्तु भेदस्य स्थौल्यादिप्रपञ्चस्य निषेधकतया संशोधनाद्वाक्यर्थान्वयसिद्धयेऽखण्डवाक्यार्थप्रतिपत्तये प्रथमोऽध्यायः। २६३ समर्थ भवतीत्यर्थः । कस्य संशोधनमित्यपेक्षायामाह-वाच्यार्थलक्ष्यार्थ- योरिति । वाच्यार्थश्च लक्ष्यार्थश्च तयोर्वाच्यार्थसशोधनं नाम तदेकदे- शस्यानात्मत्वेन हेयत्वनिर्णयः लक्ष्यस्य परिशोधनमेकरसत्वेन निश्चयः। एतादृशसंशोधनं च निषेधवाक्यस्य वाच्यार्थविषयं साक्षालक्ष्यार्थ- विषयं त्वदर्थवादवाच्यार्थाभ्यां यौ लक्ष्यौ अपरोक्षद्वयानुभवरूपी तयोरित्यर्थः। अत्र च संशोधनं भेदस्य निषेध एव । नन्वथात श्रादेश इति श्रुतिरादिश्यते उपदिश्यते ब्रह्मानेनेति व्युत्पत्त्या नेतीति वाक्यस्य ब्रह्मबोधकत्वमाह तत्कथं सर्वमपि निषेधवाक्यं विधिवाक्यशेषमे- वेत्युच्यत इत्यभ्यधिकाशङ्कायां न तत्रापि कारणव्युत्पत्तिरभिता । किन्त्वादिश्यते तत्त्वमादिवाक्यैरित्यादेशो निष्प्रपञ्चं ब्रह्मैव विवक्षितम् अथवा-करणव्युत्पत्तावपि परम्परया तद्बोधकत्वसंभवान्न तत्त्व- मादिवाक्यशेषत्वं तस्य विरुध्यत इत्यभिप्रेत्यास्थूलादिवाक्योक्तं न्यायं तत्राप्यतिदिशति- एवमिति । यथाऽस्थूलादिवाक्यमेवं नेति नेति वाक्यमपि तत्त्वमसीति वाक्यगतयोस्तत्त्वमादिवाक्यप्रति- पाद्ययोस्तत्त्वंपदलक्षितार्थयोः संशुद्ध्यैव मोक्षाय घटते न तु साक्षा. न्मोक्षसाधनप्रमिति जनयतीत्यर्थः ॥ २५६ ॥ अन्ये पुनर्निषधवाक्यस्यैतादृशमप्यर्थवत्त्वं नास्ति अहं ब्रह्मैव चेन्न सप्रपञ्च इति तस्य विधिवाक्यार्थप्रमित्यर्थसिद्धनिषेधानुवादकत्वा- दिति वदन्ति तन्मतमाह- अन्ये पुनर्विधिवचोजनितात्मबुद्धिः साम सडमनुवक्ति निषेधवाक्यम् । दैतोपमर्दमिति शासति शिष्यवर्ग तच्च प्रशस्तमनवद्यमभीष्टमेव ।। २५७ ॥ अन्य पुनरिति । तत्त्वमादिवाक्यं हि जीवपराभेदं प्रमाय यत्प्रपञ्चस्य