Scl

Harshacharita Sara

Pandit V Ananthachary

PDF Proofread

Front matter

No text on this page.

॥श्रो॥
हर्षचरितसार
-::-
चैनपुरी पच्चयप्पकलाशाला-भूतपूर्व संस्कृताध्यापकेन
पण्डित वे. अनंताचार्येण
श्रीमद्भट्टबाणसूक्तिभिरेव संकलितः
प्रकाशक
रामनारायण लाल
प्रकाशक तथा पुस्तक-विक्रेता
इलाहाबाद
द्वादश संस्करण]
[ मूल्य )

प्रकाशक
रामनारायण लाल
प्रयाग
७म ४५५
नरोत्तमदास अग्रवाल
नेशनल प्रेस
प्रयाग।

भूमिका यद्यपि भरतखंडेऽस्मिन् महामहिम्नाम् अस्मत्पूर्वपुरुषाणाम अनुग्रहपरंपरापरीवाहभूतानि, अद्यत्वे पुरुषायुषशतेनापि अधिगन्तुम् अशक्यानि, रसभरभरितानि असंख्येयानि पद्यमयानि वाङमयानि, सकलैः सहदयैः सशिरःकम्पं समास्वाद्यन्ते; तथापि भिन्नरुचीन् जनान समाराधयितुम् उद्युञ्जानैः साहित्यरसास्वादरसिकै:अभिरूपैः गद्यरूपाणां प्रबन्धानां वैरल्यात् अत्यर्थं कृच्छम् अनुभूयते इति महदिदं विषाद- स्थानम् । एवमस्मिन् दुर्जाते भट्टबाणप्रभृतयः कतिपये कवयः केवलं बहुमन्तव्याः यदेते कविताकौशलेन आत्मोयेन अस्मिन् साहित्यप्रपञ्चे सर्वथा गद्यग्रन्थदौर्लभ्यम् अपाचक्रिरे । तत्रापि महाकविः भट्टबाणोऽयं करतलामलकीकृतसारस्वतसर्वस्वः कादम्बरीहर्षचरिताख्यग्रंथद्वयनिर्मा- णेन बहु उपकृतवान् सहृदयगोष्ठ्याः बहवः खलु अध्येतारः निरतिशय- रसभरभरितासु सुधानिष्यन्दनिविशेषासु श्रीमतो भट्टबाणस्य सूक्तिषु दीर्घदीर्घसमासगर्भितानां नानाविधविभक्त्यन्तविशेषणसमुदायसंवलि- तानां सौदामिनोविलसितैरिव क्षणष्टनष्टैः क्रियापदैः समुद्वेल्लितानाम् वाक्यसमुदायानाम् अनुवाचनेन परिश्रान्ताः कथाभागम् आन्तम् अवगन्तुम् अपारयन्तः भृशं परिश्रान्ताः दरीदृश्यन्ते । यद्यप्येतादृशानाम् अध्येतृणाम् उपकर्तुम् ईमानाः बहवः पंडिताः कादम्बरी हर्षचरितं च बहुधा संचिक्षिपुः तथापि लेशतोऽपि वर्णनाप्रपञ्च दूरीकृत्य प्रवृत्तस्य कथामात्रसारस्य एतादृशस्य ग्रन्थस्य व्युत्पित्सूनाम् अत्यन्तोप- कारकत्वं मनसि निधाय अहम् इदं ग्रन्थग्रथने प्रावतिषि । अस्य महाकवेः जीवितचरितं तावत् कविनैव वर्णितं ग्रन्था- रम्भे । अस्य जीवितकालोऽपि अस्मदीयचन्द्रापीडचरितस्य आङ्गल-

No text on this page.

। ( ३ ) उक्तिवैचित्र्यम् । अथ च भट्टबाण: कनीयांसम् एव ग्रन्थमिमं पूर- यितुम् श्रादिदेश इति । एवञ्च गद्यग्रन्थप्रणयने केवलम् अनुभवम् एव प्रमाणीकृत्य पदसंघटनेषु माधुर्यं संपादयितव्यम् । तत्र महा- कविः भट्टबाणः सार्वभौमः :विजयते । सोऽयमधीतचतुर्दशविद्या- स्थानः परिचितसकलकलामंडलः नानादेशसंचरणसमधिगतलोक- तत्त्वः स्वस्थशैशवादारभ्य विनयाधानरक्षणभरणप्रभृतिभिः पितृ- तुल्यं हर्षदेवं प्रीणयितुम् तच्चरितम् उपवर्णयन् अनेन हर्षचरित- अन्थप्रणयनेन गद्यकविप्रथाम् अवाप्य विजम्भितोत्साहः निरवद्य- गन्धं कादम्बरीग्रन्थं प्रणिनाय । अतः सर्वैरपि संस्कृतभाषाप्रणयिभिः भट्टबाणस्य आद्यः कविताविलासभूतोऽयं हर्षचरितग्रन्थः अवश्यम् अनुवाचयितव्यः । तदनुवाचने प्रवृत्तानां विदुषां प्रथमतः कथामात्रम् अवगमयितुम् अलंकर्मीणः मदीयोऽयं उद्योगः सर्वथा सफल: भविष्यति इति संभावयामि । प्रन्थेऽस्मिन् वर्णनाप्रपञ्चान् दूरीकृत्य श्रीमद्भट्टबाणवाक्यैरेव कथाभागमात्रं संग्रथितम् । तमिमं स्निग्धया दृष्ट्या पश्यन्तु सुधियः । इति KRISANAPURAM KODAMBAKAM POST .V.ANANTACHARYA MADRAS 27th October 1931.

No text on this page.

ओम् हर्षचरितसारः एवमनुश्रूयते-पुरा किल भगवान् परमेष्ठी सुनासीरप्रमुखैः गीर्वाणैः परिवृतः ब्रह्मोद्याः कथाः कुर्वन् कदाचिदासाञ्चक्रे । तथासोनं च तं मनुदक्षचाक्षुषप्रभृतयः प्रजापतयः सर्वे च सप्तर्षिपुरस्सराः महर्षयः सिषेविरे; केचित् ऋचः समुदचारयन्; केचित् यजूंषि अपठन् ; केचित् सामानि जगुः; तत्र तेषाम् अन्योन्यस्य विद्याविवादाः प्रादुरभवन् । अथातिरोषणः प्रकृत्या महातपाः मुनिरत्रेस्तनयः नाम्ना दुर्वासाः द्वितीयेन मन्दपालनाम्ना मुनिना सह कलहायमानः साम गायन् क्रोधान्धो विस्वरमकरोत् । सर्वेषु च शापभयात् प्रतिपन्नमौनेषु मुनिषु, भगवती देवी सरस्वती श्रुत्वा जहास । दृष्ट्वा च तां हसन्तीम् स मुनिः 'आः पापकारिणि ! दुर्विदग्धे ! मामुपहससि' इत्युक्त्वा कामण्डलवेन वारिणा समुपस्पृश्य शापजलं जग्राह । ततो 'मर्षय भगवन्'. इत्यनु- नाथ्यमानोपि विबुधैः, 'स्खलितमेकं क्षमस्व' इति प्रसाद्य- मानोपि स्वशिष्यैः, 'पुत्र ! मा कृथास्तपसः प्रत्यूहम्' इति निवार्यमाणोप्यत्रिणा, "दुर्विनी ! व्यपनयामि ते विद्या- ( २ ) जनितामुन्नतिमिमाम् , अधस्तात् गच्छ मर्त्यलोकम्" इत्युक्त्वा तच्छापोदकं विससर्ज । प्रतिशापदानोद्यतां सावित्रीम् , 'सखि ! संहर रोषम्' इत्यभिदधाना सरस्वत्येव न्यवारयत् । अथ तां तथा शप्तां सरस्वती दृष्टवा पितामहो भगवान् एवमुवाच-"ब्रह्मन् ! न खलु साधुसेवितोऽयं पन्थाः; क्षमा हि मूलं सर्वतपसाम् ; रोषदोषनिषये स्वहृदये निग्राह्ये किमर्थमसि निगृहीतवाननागसं सरस्वतीम्" इत्युक्तवा पुनराह-"वत्से सरस्वति ! विषादं मा गाः, एषा वामनुयास्यति सावित्री। आत्मजमुखकमलावलोकनावधिश्च ते शापोऽयं भविष्यति" इत्यभिधाय समुचिताहिककरणायोदतिकृत् । सरस्वत्यपि शप्ता किञ्चिदधोमुखी समं सावित्र्या गृहम- गात् ; क्रमेण च मन्दायमाने वासरे स्पष्टे च प्रदोषसमये सावित्री शून्यहृदयामिव किमपि ध्यायन्तीम् सानां सरस्वती- मवादीत् "सखि ! त्रिभुवनोपदेशदानदक्षायाः तव पुरो जिता जिह्वति में जल्पितुम् । जानास्येव दुरतिक्रमणीया दैववृत्तयः, दुस्त्यजाः जन्मभूमयः, दारयति हृदयं दारुणः संस्तुतजन- विरहा; तथापि नाहंस्येवं भवितुम् ; पुराकृते कर्मणि बलवति तिधुति कोवावसरः शोकस्य; तदलम् ; कथय कतमं भुवो भागमलङ्कर्तुमिच्छसि" इति । सरस्वती प्रत्यवादीत् "प्रियसखि ! त्वया सह विचरन्त्याः न मे काश्चिदपि पीडाम् उत्पादयिष्यति ब्रह्मलोकविरहः । - .

( ३ ) त्वमेव वेत्सि भुवि समाधियोग्यानि स्थानानि" इत्यभिधाय विरराम । अन्येषु : उदिते भगवति विरोचने, सरस्वती परित्यज्य वियोगविक्लवं स्वपरिजनं, त्रिः प्रदक्षिणीकृत्य चतुर्मुखं, सावित्रीद्वितीया ब्रह्मलोकतः निर्जगाम । निर्गत्य च क्रमेण मन्दाकिनीमनुसरन्ती मर्त्यलोकमवततार । अपश्यञ्च अम्बरतलस्थितैव हिरण्यवाहनामानं महानदम् यं जनाः 'शोण' इति कथयन्ति । दृष्ट्वा च तं रामणीयकहृतहृदया तस्यैव तीरे वासमरचयत् । उवाच च सावित्रीम्-"सखि ! रमयन्ति मां महानदस्यास्य उपकण्ठभूमयः; पक्षपाति च हृदयम् अत्रैव स्थातुं मे" इति । तयापि तथेत्यभिनन्दितवचना तस्य पश्चिमे तीरे समवातरत् । एकस्मिंश्च शुचौ लतामण्डपे गृहबुद्धिम् बबन्ध । विश्रान्ता च नातिचिरात् सावित्र्या सार्द्धम् उत्थाय उचितार्चनकुसुमा सस्नौ । पुलिन-पृष्ठे प्रतिष्ठितं सैकतं शिवलिङ्गम् अभ्यर्च्य, अयत्नोपनतेन फलमूलेन शिशि- रेण शोणवारिणा च शरीरस्थितिमकरोत् । अतिवाहितदिवसा च लतामण्डपशिलातले कल्पितपल्लव-शयना सुध्वाप । अन्येधु- रपि अनेनैव क्रमेण नक्तंदिनमत्यवाहयत् । एवमतिक्रामत्सु दिवसेषु कदाचित् उत्तरस्यां दिशि तुरङ्गहोषितहादमशृणोत् । उपजातकुतूहला च निर्गत्य लता- मण्डपात् विलोकयन्ती, कृपाणपाणिना युवप्रायेण पदाति- बलेन सनाथम् अश्ववन्दं ददर्श । मध्ये च तस्य पाण्डुरेणा- ( ४ ) तपत्रेण कृतच्छायम् अष्टादशवर्षदेशीयं युवानमद्राक्षीत् । पावें च तस्य द्वितीयं परिणतवयसं पुरुषम् । अथ स युवा दिव्याकृति तत् कन्यायुगलं दूरादेव दृष्ट्वा तुरगादवततार। निवारितपरिजनश्च तेन द्वितीयेन साधुना सह चरणाभ्यामेव सविनयमुपससर्प । कृतोपसंग्रहणौ तौ सावित्री समं सरस्वत्या वनवासोचितेनातिथ्येन उपजग्राह । आसीनयोश्च तयोरासीना तं द्वितीयं प्रवयसमवादीत् "आर्य! काय. महानुभावस्यास्य आगमनेन कतमो देशः शून्यतां नीतः ? क्व वा गन्तव्यम् ? कस्य वायं कुमारः ? का चास्य जननी ? कानि चास्य नामाक्षराणि ?" इति स प्रतिव्याजहार-"आयुष्मति ! श्रूयताम् ! अयं खलु भूषणं भार्गववंशस्य भगवतः च्यवनस्य तनयः दधीची नाम, जनन्यस्य शर्यातस्य सुता राजपुत्री सुकन्या नाम । तां खलु देवीमन्तर्वनीं विदित्वा वैजनने मासि प्रसवाय पिता पत्युः पाश्र्थात् स्वगृहमानाययत, असूत च सा तत्र देवी दीर्घायुषमे- नम् । तत्रैव राजगृहे राजीवलोचनोऽयमवर्धत । भत गृहमा- गच्छन्त्यामपि दुहितरि मातामहो मनोविनोदनमासेचनक- दर्शनमिमं नामुश्चन्नप्तारम् । अशिक्षतायं तत्रैव सर्वा विद्याः सकलाश्च कलाः। कालेन चोपारूढयौवनमिममालोक्य माता- महः पितुरन्तिकमधुना व्यस यत् । मामपि तस्य देवस्य शर्यातस्य आज्ञाकारिणं विकुक्षिनामानं भृत्यमवधारयतु भवती।

( ५ ) इतश्च गव्यूतिमात्र पारेशोणं भगवतः च्यवनस्य आश्रमः । तदवधिश्चेयं नौ यात्रा । वयमपि शुश्रूषवो वृत्तान्तमायुष्मत्योः, नेयमाकृतिः दिव्यतां व्यभिचरति, गोत्रनामनी तु श्रोतु- मभिलषति नौ हृदयम्" इति ! सात्ववादीत्-आर्य ! "श्रोष्यसि कालेन । भूयसो दिवसानत्र स्थातुमभिलषति नौ हृदयम्। अल्पीयांश्चाध्वा । परिचय एव प्रकटीकरिष्यति । आर्येण न विस्मरणीयोयमनुपङ्गदृष्टो जनः" इत्यभिधाय तूष्णीमभवत् । अथ दधीच एवमुवाच, "आर्य करिष्यति प्रसादमार्या आराध्यमानाः पश्यामस्तावत्तातम् ! उत्तिष्ठ ब्रामः" इति। तथेति तेनाभ्यनुज्ञातः शनैरुत्थाय कृतनम- स्कृतिरुच्चचाल । तुरगारूढं च तं प्रयान्तं सरस्वती निश्चल- तारकेण चक्षुषा सुचिरं व्यलोकयत् । उत्तीर्य शोणमचिरेणैव कालेन दधीचः पितुराश्रमपदं जगाम । गते च तस्मिन् सा तामेव दिशमालोकयन्ती सुचिर- मतिष्ठत् । अथ स्मृत्वा तां तस्य रूपसंपदं पुनः पुनः व्यस्म- यतास्याः हृदयम् । भूयोपि चक्षुराचकांक्ष तदर्शनम् । अथ गण- रात्रापगमे विकुक्षिस्तेनैव वर्त्मना निवर्तमानः तं देशमाजगाम । कृतासनपरिग्रहन्तु तं प्रीत्या सावित्री पप्रच्छ 'आय! कच्चित् कुशली कुमारः' इति । सोऽब्रवीत्-आयुष्मति ! कुशली, स्मरति च भवत्योः केवलम् , अमीषु दिवसेषु तनीयसीम् तनु विभर्ति, अन्वागमिष्यत्येव मालतीति नाम्ना बाणिनी वातो वो .

विज्ञातुम् ; इति । एवं विज्ञाप्य विकुक्षिः उच्चावचैरालापैः सुचिरं स्थित्वा यथाभिलषितं देशमयासीत् । अपरेधुरुधति भगवति सहस्ररश्मौ शोणमुत्तीर्यायान्ती मालती समदृश्यत । सरस्वत्याः समीपमुपसृत्य दूरादेवावनतेन मूर्ना प्रणम्य बभाषे–'देवि ! विज्ञाप्यं नः किश्चिदस्ति रहसि । अतो मुहूर्तमवधानं दातुम- हसि' इति । सरस्वत्येवमुवाच 'किमेवमभिदधासि १ विधेया- स्मि ते, ब्रूहि विवक्षितम्, इनि । सात्ववादीत्-देवि ! यदैव दृष्टासि देवेन, तत एवारभ्यायं बलवता कामेन बाध्यते । तदहं देवस्य प्राणरक्षार्थमर्थये अत्रभवतीम्' इति । सरस्वती प्रत्यवादीत्-अयि ! न शक्नोमि बहु भाषितुम् । एषास्मि ते वचसि स्थिता' इति । मालती तु प्रहर्षपरवशा प्रणम्य प्रजविना तुरगेण ततार शोणम् , अगाच दधीचमानेतुं च्यवनाश्रमपदम् । सरस्वती तु सखोस्नेहन सावित्रीमपि विदितवृत्तान्तामकरोत् । आजगाम अथास्तमुपगतवति भगवति गभस्तिमति मालतीद्वितीयो दधीचः। आगत्य च हंसगद्गदया गिरा कृतसंभाषणः 'सरस्वत्या सह रममाणः एक दिवसमिवान- यत्संवत्सरम् । अथ सरस्वती बभार गर्भम् । अमृत सर्वलक्षणा- भिरामं तनयम् । तस्मै च जातमात्रायैव सम्यक् सरहस्याः सर्वे वेदाः सर्वाणि शास्त्राणि सकलाश्च कलाः मत्प्रसादात् ( ७) स्वयमाविर्भविष्यन्तीति वरमदात् । अथ पितामहादेशात् समं सावित्र्या ब्रह्मलोकमारुरोह। गतायाञ्च तस्यां दधीचः भार्गववंशसंभूतस्य मातु- ब्राह्मणस्य जायामक्षमालाभिधानाम् मुनिकन्यकाम् आत्म- सुनोः संवर्धनाय नियुज्य विरहातुरः तपसे वनमगात् । यस्मि- बेवावसरे सरस्वत्यमूत तनयं, तस्मिन्नेवाक्षमालापि सुतं प्रसूतवती । सा तु तौ निर्विशेषं शिशू समवर्धयत् । एकस्तयोः सारस्वताख्य एवाभवत् । द्वितीयोपि वत्सनामाभवत् । आसीच्च तयोः सोदर्ययोरिव स्पृहणीया प्रीतिः । अथ सारस्वतो मातुमहिम्ना यौवनारम्भ एवाविभूताशेषविद्यः, सवयसि वत्से समस्तमेव वाङ्मयं सञ्चारयामास । कृतदारपरिग्रहस्यास्य तस्मिन्नेव प्रदेशे प्रीतिकूटनामानं निवासमकरोत् । स्वयं तु आषाढी कृष्णाजिनी वल्कली मेखली च भूत्वा तपस्यतो जनयितुरेव जगामान्तिकम्। अथ वत्सात् प्रावर्तत विपुलो वंशः यस्मादजायन्त वात्स्यायना नाम मुनयः । अथ बहुषु कालेषु अवतीर्णे कलौ, तस्मिन् वात्स्यायनकुले कुबेरनामा द्विजो जन्म लेभे । तस्याभवन् अच्युतः, ईशानः, हरः, पाशुपतश्चेति चत्वार- स्तनयाः। तत्र पाशुपतस्य एक एवार्थपतिरिति नाम्ना महात्मा सूनुरभवत् । सोऽजनयत् भृगु हंसं शुचिं कविं महीदत्तं धर्म जातवेदसं चित्रभानु व्यक्षम् अहिदक्षं विश्वरूपञ्च इत्येकादश (८) पुत्रान् । अलभत चित्रभानुस्तेषां मध्ये राजदेव्यभिधानायां ब्राह्मण्यां बाणमात्मजम् । स बाल एव विधिवशात् व्ययुज्यत जनन्या। जातस्नेहस्तु नितरां पितैवास्य मातृताम् अकरोत् । अकृतोपनयनादिक्रियाकलापस्य समावृत्तस्य चतुर्दशवर्ष- देशीयस्यास्य पितापि अस्तमगात् । संस्थिते पितरि महता शोकेन दिवानिशं दह्यमानहृदयः कथं कथमपि कतिपयान् दिवसान् आत्मगृह एवानैषीत् । अथ शनैः शनैः विरलतां गते अविनयनिदाने स्वातंत्र्ये वर्तमानः शैशवोचितान्यनेकानि चापलान्याचरन् इत्वरो बभूव । अभवंश्चास्य वयसा समानाः बहवः सुहृदः सहायाश्च । स एतैश्चान्यैश्चानुगम्यमानः देशान्तरावलोकनकौतुका- क्षिप्तहृदयः सत्स्वपि पितृपितामहोपात्तेषु विभवेषु, सति चाविच्छिन्ने विद्याप्रसंगे, गृहान्निरगात्। अगाच्च स्वैरिणा नवयौवनेन महतामुपहास्यताम् । अयं शनैः शनैः मनोहराणि अत्युदाराणि राजकुलानि वीक्षमाणः बहूनि गुरुकुलानि सेवमानः, पुनरपि आत्मवंशोचितां वैपश्चितीं प्रकृतिमभजत । महतश्च कालात् तामेव भूयो जन्मभुवमाजगाम । यत्र चाप्तै- रभिनन्दितागमनः मित्रमंडलमध्यगतः चिरदृष्टानां बान्धवानां भवनानि परिम्रमन् प्रीयमाणः सुखमासांचक्रे । कदाचिदत्युग्रे ग्रीष्मसमये स्वग्रहावस्थितस्यास्य भुक्त- चतः पराह्नसमये माता पारशवश्चन्द्रसेननामा प्रविश्या- कथयत्-“एष खलु महाराजाधिराजपरमेश्वरश्रीहर्षदेवस्य मात्रा कृष्णनाम्ना भवतापन्तिकं प्रहितः दूतः द्वारमध्यास्ते" इति । सोऽब्रवीत्-'आयुष्मन् ! अविलम्बितं प्रवेशयैनम्' इति । अथ तेनानीयमानं लेखहारकं प्रविशन्तमद्राक्षीत् , अपाक्षीच्च दूरादेव- "भद्र ! भद्रं तत्रभवतः कृष्णस्य" इति । स च 'भद्रम् , इत्युक्त्वा प्रणम्य नातिदूरे समुपाविशत् । विश्रान्तश्च 'एष खलु स्वामिनो लेखः प्रहितः' इति विमु- च्यार्पयत् । अथ बाणः सादरं गृहीत्वा स्वयमेवावाचयत् । "मेखलकात् संदिष्टमवधार्य फलप्रतिबन्धी धीमद्भिरपहर- णीयः कालातिपातः इत्येतावदत्रार्थजातम् , इतरत् वार्ता- संवादनमात्रकम्" इति । अवधृतलेखार्थश्च समुत्सारितपरि- जनः संदेशं पृष्टवान् । मेखलकस्त्ववादीत्-एवमाह मेधा- विनं स्वामी "जानात्येव मान्यः यथा एकदेशनिवास: दर्शनाभ्यासः परोक्षोपकारकरणं वा स्नेहस्य हेतवः । त्वयि तु बिना कारणेन अदृष्टेऽपि प्रत्यासन्ने बन्धाविव किमपि स्निह्यति मे हृदयम् । भवन्तमन्तरेणान्यथा चक्रवर्ती दुर्जनैः ग्राहित आसीत् । न च तत्तथा। शिशुचापलवर्तितया च भवतः केनचिदसहिष्णुना यत् किश्चिदसदृशमुदीरितम् । इतरो लोकस्तथैव तद् गृह्णाति, वक्ति च। बहुमुखश्रवण- निश्चलीकृतनिश्चयः किं करोतु पृथिवीपतिः। तत्वान्वेषिभि- श्चास्माभिः दूरस्थितोपि प्रत्यक्षीकृतोसि । विज्ञप्तश्चक्रवर्ती ( १० ) त्वदर्थम् यथा-'प्रायेण प्रथमे वयसि सर्वस्यैव चापलैः शैशवमपराधीति' तथेति प्रतिपन्नं स्वामिना । अतो भवता राजकुलमकृतकालक्षेपमागन्तव्यम्" इति । श्रुत्त्वैतत् तमेव चन्द्रसेनं समादिशत्-'कृतकशिपुं विश्रान्तसुखिनमेनं कारय' इति । अथ गते तस्मिन् पर्यस्ते च वासरे कृतसन्ध्योपासनः शयनीयमगात्। अचिन्तयच्चैकाकी 'किं करोमि ? अन्यथा संभावितोऽस्मि राज्ञा निनिमित्तबन्धुना सन्दिष्टमेवं कृष्णेन । अवश्यं गन्तव्यम् । सर्वथा भगवान् पुरारातिः गतस्य मे सर्व सांप्रतमाचरिष्यति' इत्यवधार्य गमनाय मतिमकरोत् । अथान्यस्मिन्नहनि उत्थाय प्रातरेव स्नात्वा, धृतधवल- दुकूलवासाः, गृहीताक्षमालः, प्रास्थानिकानि सूक्तानि बहुशः समावर्त्य, देवदेवस्य विरूपाक्षस्य पूजां विधाय, भगवन्तमाशु- शुक्षणिं हुत्वा, दत्त्वा द्युम्नं यथाविद्यमानं द्विजेभ्यः, शुक्लाङ्ग- रामः, शुक्लमाल्यः, मालत्याख्यया पितुः कनीयस्या स्वस्रा कृतसकलगमनमङ्गलः प्रथमचलितदक्षिणचरणः प्रीतिकूटानि- रगात् । प्रथमेऽहनि धर्मकाल कष्टं निरुदकं मल्लकूटनामानं ग्राममगात् । तत्र हृदयनिर्विशेषेण मात्रा सुहृदा च जगत्पति- नाम्ना संपादितसपर्यः सुखमवसत् । अथापरेधु रुत्तीर्य भगवतीं भागीरथीम् यष्टिगृहकनाम्नि वनग्रामके निशामन- १-द्युम्नम्-धनम् ( ११ ) यत् । अन्यस्मिन् दिवसे स्कन्धावारं उपमणितारं कृतसंनि- वेशमाससाद । अतिष्ठच्च नातिदूरे राजभवनस्य । मेखलकस्तु "तिष्ठतु तावत् क्षणमत्रैव महाभाग" इति तमभिधाय अप्रतिहतः पुरं प्राविशत् । अथ स मुहूर्तादिव वेत्रपाणिना पुरुषेणानुगम्य मानः निर्गत्यावीचत् –'एष खलु देवस्य पारियात्रनामा दौवारिकः। समनुगृह्णातु भवानेनमनुरूपया प्रतिपत्या' इति । दौवारिकः समुपसृत्य कृतप्रणामः मधुरया गिरा सविनयम- भाषत-'आगच्छत, प्रविशत, दर्शनाय कृतप्रसादो देव' इति । बाणस्तु 'धन्योऽस्मि' इत्युक्त्वा तेनोपदिश्यमानमार्गः प्राविश- दभ्यन्तरम् । समतिक्रम्य त्रीणि कक्ष्यान्तराणि चतुर्थेऽजिरे स्थितम् राजलक्ष्म्या विराजमानं चक्रवर्तिनं हर्षमद्राक्षीत- दृष्ट्वा च समुपसृत्य उपवीती स्वस्तिशब्दमकरोत् । राजा तु तं दृष्ट्वापृच्छत्-'एष स बाण' इति । 'यथाज्ञापयति देवः । सोऽयम्' इति विज्ञापितो दौवारिकेण, न तावदेनमकृतप्रसादः पश्यामीति चक्षुः परिवृत्य पृष्ठतो निषण्णस्य मालवराजसूनोरकथयत् "महानयं भुजङ्ग" इति । अथ बाणो मुहूर्तमिव तूष्णीं स्थित्वा व्यज्ञापयत् , 'देव ! अविज्ञाततत्व इव किमेवमाज्ञापयसि ? नाहसि मामन्यथा संभावयितुम् । ब्राह्मणोऽस्मि जातः सोमपा- यिनां वंशे वात्स्यायनानाम् । यथाकालमुपनयनादयः कृताः संस्काराः । सम्यक् पठितः साङ्गो वेदः । श्रुतानि - ह० सा०-२ ( १२ ) यथाशक्ति शास्त्राणि । दारपरिग्रहादभ्यागारिकोऽस्मि । का मे भुजङ्गता ? लोकद्वयाविरोधिभिस्तु चापलैः शैशवमशून्यमासीत् । अत्रानपलापोस्मि । सर्वथा कालेन मां ज्ञास्यति स्वामी स्वयमेव' इत्यभिधाय तूष्णीमभूत् । भूपतिरपि एवमस्माभिः श्रुतमित्यभिधाय तूष्णीमेवाभवत् , संभाषणासनदानादिना तु प्रसादेन नैनमन्वग्रहीत् । केवलं स्नेहगर्भेण दृष्टिपातमात्रेण अन्तर्गतां प्रीतिमकथयत् । अस्तोन्मुखे सवितरि विसर्जितराजलोकः अभ्यन्तरं पाविशत् । बाणोऽपि निर्गत्य निवासस्थानमगात् । अकरोच्च चेतसि 'अतिदक्षिणः खलु देवो हर्षः यदेवं कुपितोऽपि मनसा स्निह्यत्येव मयि; इच्छति च मां गुणवन्तम् ; सर्वथा करोमि तथा यथा यथावस्थितं जानाति मामयं कालेन' इत्येवमवधार्य अपरेछु निष्क्रम्य कटकात् सुहृदां वान्धवानाश्च भवनेषु तावदतिष्ठत् यावदस्य स्वयमेव गृहीतस्वभावः पृथिवीपतिः प्रसादवानभूत् । अविशञ्च पुनरपि नरपतिभवनम् । स्वल्पैरेवा- होभिः परमप्रोतेन नरेन्द्रेण प्रसादस्य परां कोटिमानीयत । अथ कदाचित् शरत्समयारम्भे राज्ञः समीपात् बाणः बन्धून् द्रष्टु पुनरपि तं ब्राह्मणाधिवासमगमत् । तत्र समुप- लब्धभूगलसंमानैः ज्ञातिभिः: श्लाध्यमानः बन्धुमध्यवर्ती परं मुमुदे । अथ कदाचित् भुक्तवन्तं तं ज्ञातयः पर्यवारयन् । तत्र बाणस्य पितृव्यपुत्राः चत्वारो प्रातरः बभूवुः। तेषु ( १३ ) कनीयान् श्यामलो नाम सप्रणयमिदं बभाषे 'तात ! सुगृहीतनाम्नः पुण्यराशेः महाराजहर्षस्य चरितमादितः प्रभृति श्रोतुमिच्छामः' इति । बाणस्तु विहस्याब्रवीत् ‘न युक्त यनुरूप- मभिहितम् । शक्याशक्यपरिसंख्यानं न कृतम् । क परिमित- वर्णवृत्तयः कतिपये शब्दाः १ क संख्यातिगास्तद्गुणाः ? सर्वज्ञस्याप्ययमविषयः किमुतास्मद्विधस्य ? कः खलु पुरुषा- युषशतेनापि शक्नुयादबिकलमस्य चरितं वर्णयितुम् ? एकदेशे तु यदि कुतूहलं वः, सज्जा वयम् । इयमधिगतकतिपयाक्षरा जिह्वा कोपयोगं गमिष्यति । भवन्तः श्रोतारः, वर्ण्यते हर्ष- चरितम्, किमन्यत् ?' इत्युक्त्वा तेषां पुरो हर्षचरितं कथयितुमारेभे। अस्ति श्रीकण्ठो नाम जनपदः, तत्र च स्थाण्वीश्वराख्यो जनपदविशेषः। तत्र च राजा पुष्पभूतिरिति नाम्ना बभूव । तस्य केनचिदनुपदिष्टा सहजैव शैशवादारभ्य भगवति भवानीवळभे भूयसी भक्तिरभूत् । परममाहेश्वरः स भूपाल: लोकतः शुश्राव भगवन्तं दाक्षिणात्यं भैरवाचार्यनामानं महाशैवम् । श्रवणसमकालमेव तस्मिन् भैरवाचायें गरीयसी बबन्ध भक्तिम् । आचकांक्ष च सर्वथाप्यस्य दर्शनम् । अथ कदाचित् पर्यस्ते वासरे रामानमुपसृत्य प्रतीहारी विज्ञापितवती-'देव ! द्वारि परिबाडास्ते । कथयति च भैरवाचार्यवचनात् देवमनुप्राप्ताऽस्मीति' इति । राजा तु । ( १४ ) तत् श्रुत्वा सादरं 'कासौ प्रवेशयैनम्' इत्यब्रवीत् । तथा चाकरोत् प्रतिहारी। आगतं च मस्करिणं भूपतिरुचितम् उपचचार । पप्रच्छ च 'क भैरवाचार्य' इति । परिव्राट तमुप- नगरं सरस्वतीतटवनावलम्बिनि शुन्यायतने स्थितमाचचक्षे। भूयश्च वभाषे-'अचयति च महाभागं भगवानाशीर्वचसा' इत्युक्त्वा भैरवाचार्यप्रहितानि पञ्चरत्नवन्ति राजतानि पुण्डरी- काणि उपनिन्ये । नरपतिस्तु दाक्षिण्यमनुरुध्यमानस्तानि जग्राह। जगाद च-'श्वो द्रष्टास्मि भगवन्तम्' । इति उक्त्वा मस्करिणं व्यसर्जयत् । अपरेधु श्च प्रातरेवोत्थाय वाजिनमधिरुह्य भैरवाचार्य द्रष्टुं प्रतस्थे । गत्वा किश्चिदन्तरं तदीयमेवाभिमुखमापतन्त- मन्यतमं शिष्यमद्राक्षीत् । अमाक्षीच क भगवानास्ते । सोऽ- कथयत्-'अस्य जीर्णमातृगृहस्योत्तरेण बिल्ववाटिकामध्या- स्ते' इति । गत्वा च तं प्रदेशमवततार । प्रविवेश च बिल्व- वाटिकाम् । अथ महतः कार्पटिकवृन्दस्य मध्ये, प्रातरेव स्नातमनुष्ठिताग्निकार्यम् व्याघ्रचर्मण्युपविष्टम् भगवन्तं साक्षादिव विरूपाक्षं भैरवाचार्यं ददर्श । भैरवाचार्यस्तु दूरादेव राजानं दृष्ट्वा प्रत्युद्गम्य, श्रीफलोपायनं समर्प्य, गम्भीरया गिरा स्वस्तिशब्दमकरोत् । नरपतिरपि दूरावनतः प्रणाम चकार। आचार्यापि 'आगच्छ, अनोपविश' इति आत्मीयं शार्दूलचर्मादर्शयत् । राजा तु सप्रश्रयं व्याजहार-'भगवन् !

( १५ ) अभूमिरयमुपचाराणाम् । अलमतियन्त्रणया । माननीयञ्च गुरुवन्नोल्लङ्घनमर्हति गुरोरासनम् । आसताश्च भवन्त एवात्र', इति व्याहृत्य परिजनोपनीते वाससि निषसाद । भैरवाचार्योंपि पूर्ववत्तदेव व्याघ्राजिनमभजत । आसीने च राजनि शिष्य- जनेन समुचितमध्यर्यादिकं कारयामास । राजा तु विविधाभिः कथाभिः चिरं स्थित्वा गृहमगात् । । अन्यस्मिन् दिवसे भैरवाचार्यों राजानं द्रष्टु ययौ। तस्मै स राजा सपरिजनं सकोशमात्मानं निवेदितवान् । स च विहस्य "तात क विभवाः, कवयं वनवर्धिताः १ भवाशा एव भाजनं भूतेः' इत्युक्त्वा स्थित्वा च कश्चित्कालं जगाम । परिबाट तेनैव क्रमेण पञ्च पञ्च राजतानि पुण्डरीकाणि उपायनीचकार । एकदा तु श्वेतकर्पटावृतं किमप्यादाय प्राविशत् । उपविश्य पूर्ववत् स्थित्वा मुहूर्तमब्रवीत्-'महा- भाग! भवन्तमाह भगवान् यथा-अस्मच्छिष्यः पातालस्वामि- नामा ब्राह्मणः । तेन ब्रह्मराक्षसहस्तात् अट्टहासनामा महासिरपहृतः । सोऽयं भवद्भुजयोग्यो गृह्यताम्' इत्यभिधाय अपहृतकर्पटाच्छादनात् परिवारात् आचकर्ष कृपाणम् । अवनिगतिस्तु तं करेण गृहीत्वा सुचिरं ददर्श । सन्दिदेश च- वक्तव्यो भगवान् 'परद्रव्यग्रहणदुर्विदग्धममि मे मनः युध्मद्- विषये न शक्नोति वचनव्यतिक्रममाचरितुम्' इति । परित्राट तु गृहीते तस्मिन् परितुष्ट: "स्वस्ति भवते, साधयामः" इत्युक्त्वा निरयासीत् । अथ बनत्सु दिवसेषु एकदा भैरवाचार्यो राजानमुपहरे जगाद-'तात ! महाकालहृदयाख्यं महामन्त्रं जपकोट्या सेवितवानस्मि । यस्य वेतालसाधनावसाना सिद्धिः। अस- हायैश्च सा दुरापा। त्वञ्चालमस्मै कर्मणे। त्वयि च गृहीत- भरे भविष्यन्त्यपरे सहायास्त्रयः। एकः स एवास्माकं टीटिभ- नामा बालमित्रं मस्करो, यो भवन्तमुपतिष्ठते । द्वितीयः स पातालस्वामी । अपरो मच्छिष्य एव कर्णतालनामा द्राविडः। यदि साधु मन्यसे, गृहीताट्टहास: प्रतिष्ठस्व' इति । अथ नरेन्द्रः समभाषत 'भगवन् ! परमनुगृहीतोऽस्मि अनेन निदेशेन' इति। ननन्द च तेन नरेन्द्रव्याहृतेन भैरवाचार्यः। चकार च संकेतम् 'अस्यामेवागामिन्यां असितपक्षचतुर्दशीक्षपायां इयत्यां वेलायाम् अमुस्मिन् महाश्मशानसमीपभाजि शून्यायतने शस्त्र- द्वितीयेनायुष्मता द्रष्टव्या वयम्' इति । अथातिक्रान्तेष्वहःसु प्राप्तायाश्च तस्यामेव कृष्ण- चतुर्दश्याम् शैवेन विधिना दीक्षितः क्षितिपः नियम- वानभूत् । ततः परिणते दिवसे विगाढायां शर्वर्याम् गुप्त- जननिश्शब्दस्तिमिते निशीथे, राजा सान्तःपुरं परिजनं वञ्चयित्वा, वामकरण उत्खातं खड्गमट्टहासमादाय, एकाकी नगरात् निरगात् । अगाच्च तमुद्देशम् । अथ प्रत्युज्जग्मुस्ते ( १७ ) त्रयः टीटिभकर्णतालपातालस्वामिनः । निवेदितवन्तश्चा- त्मानम् । अवनिपतिस्तु 'कोऽत्र क' इति त्रीनपृच्छत् । आचचक्षिरे च स्वं स्वं नाम त्रयोऽपि ते । तैरेव चानुगम्यमानो जगाम तां समुपकल्पितसर्वोपकरणां भीषणां साधनभूमिम् । तस्याश्च भस्मना लिखितस्य महतो मंडलस्य मध्ये स्थितम् उत्तानशयस्य शवस्वोरि उपविश्य जातजातवेदसि मुख- कुहरे प्रारब्धाग्निकार्यम्, कृष्णोष्णोषम्, कृष्णाङ्गरागं, कृष्ण- प्रतिसरं कृष्णवाससं, मुखेन किमपि जपन्तं, कृष्णतिलाहुति- करं भैरवाचार्यमपश्यत् । उपमृत्य चाकरोन्नमस्कारम् । अभिनन्दितश्च तेन स्वव्यापारमन्वतिष्ठत् । अत्रान्तरे पातालस्वामी शातक्रतत्रीमाशामङ्गीचकार । कर्णताल: कौवेरीम् । परिबाट प्राचेतसीम् । राजा तु त्रैशक्वेन ज्योतिषां- कितां ककुभमलंकृतवान् । एवं चावस्थितेषु तेषु दिकपालेषु गलत्यर्धरात्रिसमये, मण्डलस्य नातिदवी स्युत्तरेण अकस्मात् क्षितिरदीर्यत । सहसैव तस्माद्विवरात् कुवलयश्यामलः पुरुष उज्जगाम । 'जगाद च विहस्य' भो विद्याधरीश्रद्धाकामुक ! किमयं विद्यावलेपः १ सहायमदो वा ? यदस्मै जनाय अविधाय बलिं बालिश इव सिद्धिमभिलषसि । का ते दुर्बुद्धिरियम् । एतावता कालेन क्षेत्राधिपतिरस्य मन्नाम्नैव लब्धव्यपदेशस्य देशस्य नागतस्ते श्रोत्रोपकण्ठं श्रीकण्ठनामा नागोऽहम् ।

( १८ ) भूनाथोऽप्ययमनाथस्तपस्वी, यस्त्वादृशैः शैवपदैरुपकरणो- क्रियते । सहस्वेदानी सहामुना दुर्नरेन्द्रेण दुर्णयस्य फलम्, इत्यभिधाय, निष्ठुरैः प्रकोष्ठप्रहारैः त्रीनपि टीटिभप्रभृतीन् अपातयत् । अथ नरनाथः सावज्ञमवादी- 'अरे काकोदर । मयि स्थिते राजहंसे न जिद्दोषि बलिं याचि- तुम् । अमीभिः किं वा परुषभाषितैः । भुजे वीर्य निवसति न वाचि, प्रतिपद्यस्व शस्त्रम्, अयं न भवसि । अगृहीत- हेतिध्वशिक्षितो मे भुनः प्रहर्तुम्' इति । नागस्तु अनादृततरम् "एहि, कि शस्त्रेण, भुजाभ्यामेव भनज्मि भवतो दर्पम्" इति अभिधायास्फोटयामास । नरपतिरपि निरायुधमायुधेन लज्जमानो जेतुम् उत्सृज्य खड्गम् । बबन्ध बाहुयुद्धाय कक्ष्याम् । युयुधाते च तौ. शिलास्तम्भैरिव पतद्भिः बाहु- दौ । न चिराच पातयामास भूतले भुनङ्गं भूपतिः । जग्राह च केशेषु । उच्चखान शिरः छेत्तु मट्टहासम्। मालान्तरेणास्य यज्ञोपवीतम् दृष्ट्वा तं विससर्ज। अनन्तरच अतिबहुलां ज्योत्स्नां ददर्श । शरदि विकसतां कमलवनानामिव आमोदमजिघ्रत् । झटिति नूपुरशब्दमशृणोत् । व्यापारयामास शब्दानुसारेण दृष्टिम् । अथ तामरसहस्तां स्त्रियमपश्यत् । पप्रच्छ च भद्रे ! कासि ? किमर्थमिहागतासि ?' इति । सात्वभाषत 'वीर, विद्धि ( १६ ) मां नारायणोरःस्थलविहारिणीं श्रियम् । प्रीतास्मि तवा- मुना शौर्यरसेन। याचस्व, ददामि ते वरम्' इति। राजा तु तां प्रणम्य स्वार्थविमुखः भैरवाचार्यस्य सिद्धिं ययाचे। लक्ष्मीस्तु देवी प्रोततरहृदया ‘एवमस्तु' इत्यब्रवीत् । अवा- दीच्च पुनः 'भवान् भुवि महतो राजवंशस्य कर्ता भविष्यति, यस्मिन् उत्पत्स्यते हर्षनामा चक्रवर्ती।' इति वचसोऽन्ते तिरोबभूव । भूमिपालस्तु तदाकातिमात्रमपीयत। भैरवा- चार्योऽपि तस्या देव्या वचनेन सद्य एव किरीटी कुण्डली हारी भूत्वा विद्याधरत्वमवाप । प्रोवाच च 'राजन् । इच्छामि येन केनचित् कार्यलवोपपादनोपयोगेन स्मारयितुमात्मा- नमिति। राजा तु भवसिद्ध्यैव परिसमाप्तकृत्योस्मि । साधयतु मान्यो यथासमीहितं स्थानम्' इति प्रत्याचचक्षे । अथ स टोटिभादीन् सुदृढं समालिङ्ग्य 'सर्वथा स्मर्तव्या वयमित्यभिधाय गगनतलमुत्पपात । श्रीकण्ठोऽपि 'राजन् ! पराक्र मक्रीतः कर्तव्येषु नियुज्यतामयं जनः' इत्यभिधाय राज्ञानुमोदितः तदेव भूयो भूविवरं प्रविवेश। नरपतिस्तु क्षीणभूयिष्ठायां क्षपायां त्रीनपि टीटिभादीन् गृहीत्वा युद्ध- व्यतिकरमलीमसानि अङ्गानि वनवापीपयसि प्रक्षाल्य नगरं विवेश। कतिपयदिवसापगमे च परिबाट भूभुजा वार्य- माणोपि वनं ययौ । पातालस्वामिकर्णतालौ तु शौर्यानुरक्तौ तमेव सिषेवाते।

( २० ) अथ तस्माद् पुष्पभूतेः निर्जगाम राजवंशः। तत्रोदपादि प्रतापशील इति प्रथितापरनामा प्रभाकरवर्धनो नाम राजा। तस्य च यशोवती नाम महिषी बभूव । निसर्गत एव स भूपतिरादित्यभक्तो बभूव । प्रतिदिनमुदये स्नातः सित- दुकूलधारी प्राङ्मुखः क्षितौ जानुभ्यां स्थित्वा रक्तकमलपण्डेन दिनकरस्य अर्चा ददौ । अनपञ्च प्रत्युषसि मध्यन्दिने दिनान्ते च अपत्यहेतोः मन्त्रमादित्यहृदयम् । अथ कदाचित् ग्रीष्मसमये स राजा यदृच्छया हमेश्य पृष्ठे सुध्धाप । पाश्वें चास्य द्वितीय- शयने देवी यशोवती शिश्ये । परिणतप्रायायान्तु श्यामाया देवी यशोवती सहसैव "आर्यपुत्र ! परित्रायस्व परित्रायस्व" इति भाषमाणा उदतिष्ठत् । तेन ध्वनिना प्रबुद्धो राजा "देवि ! न भेतव्यं, न भेतव्यम्" इत्यभिदधानो वेगेनोत्पपात । सर्वासु च दिक्षु विक्षिपन् चक्षुः यदा नादाक्षीत् किश्चिदपि, तदा पप्रच्छ तां भयकारणम् । सा समभाषत-"आर्यपुत्र ! जानामि स्वप्ने भगवतः सवितुर्मण्डलात् निगत्य द्वौ कुमारको तेजोमयौ गृहीतशस्त्रौ कन्यकया एकया चानुगम्यमानौ क्षितितलमव- तीर्ण । तौ च मे विलपन्त्याः शस्त्रेणादरं विदार्य प्रवेष्टुमा- रब्धौ । प्रतिबुद्धास्मि चार्यपुत्रं विक्रोशन्ती वेपमानहृदया" इति। एतस्मिन्नेव काले रराण प्रभातशङ्खः । नरपतिस्तु तत् श्रुत्वा प्रीयमाणेनान्त:करणेन तामवादीत् 'देवि ! मुदोवसरे विषीदसि। पूर्णा नो मनोरथाः । प्रसन्नस्ते ( २१ ) भगवानंशुमाली । न चिरेणैव अपत्यत्रयलाभेनानन्दयिष्यति भवतोम्' इति। ततः समतिक्रान्ते कस्मिंश्चित्काले; देव्यां यशोवत्यां देवो राज्यवर्धनः प्रथममेव संबभूव गर्ने । अवतीर्णे च दशमे मासि अमृत देवं राज्यवर्धनम् । अथान्यस्मिन् अतिक्रान्ते कस्मिंश्चित् कालांशे गर्ने संबभूव हर्षः। ततः ज्येष्ठामूलीये मासि बहुलपक्षद्वादश्याम् व्यतीते प्रदोषसमये राज्ञो द्वितीयपुत्रजन्मोत्सवो महान् प्रावर्तत । अथ पुनरप्यति. क्रामति काले, धात्रीकराङगुलिलग्ने पञ्चषाणि पदानि प्रयच्छति हर्षे, पाठं वर्षम् अवतरति राज्यवर्धने, देवी यशो- वती गर्भेणाधत्त राज्यश्रियम् । पूर्णेषु . प्रसवदिवसेषु प्रसूतवती दुहितरम् । अस्मिन्नेव तु काले देवयाः यशोवत्याः माता सुतमष्टवर्षदेशीयं भण्डिनामानमनुचरं कुमारयोः अर्पितवान् । अवनिपतेश्च तस्योपरि पुत्रयोस्तुल्यं दर्शन- मासीत् । राजपुत्रांवपि सकलजीवलोकहृदयानन्ददायिनी क्रमेण वर्धमानौ यौवनमवतेरतुः । ततश्च मालवराजपुत्रौ कुमारगुप्तमाधवगुप्तौ तयोरनुचरौ बभूवतुः। अथ राज्यश्री- रपि नृत्यगीतादिषु सकलासु कलासु प्रतिदिनमुपचीयमान- परिचया शनैश्शनैरवर्धत । परिमितैरेव दिवसः यौवनम् आरुरोह । दूतप्रेषणादिनिश्च तां ययाचिरे राजानः । राजा तु तां सकलभुवननमस्कृते मौखरे रंशे समुत्पन्नस्य ( २२ ) अवन्तिवर्मणः सूनवे ग्रहवर्मणे प्रादात् । विभवानुरूपेषु विवाहमहोत्सवेषु सम्यगुपचरितः ग्रहवर्मा श्वशुरकुले आनन्दमयानि दश दिनानि नीत्वा कथं कथमपि तृपेण विसर्जितः वध्वा सह स्वदेशमगमत् । अथ कदाचित् राजा राज्यवर्धनं कवचहरम् आहूय, हूणान् हन्तुम् उत्तरापथं प्राहिणोत् । प्रयान्तश्च तं देवो हर्षः कतिचित् प्रयाणकानि तुरङ्गमैः अनुवत्राज । प्रविष्टे च कैलासपभाभासिनी ककुभं प्रातरि तुषारशैलोपकण्ठेषु क्रीडन् मृगयाम् ; कतिपयान्यहानि बहिरेव व्यलम्बत । चकार च स्वल्पीयोभिरेव दिवसैः निश्श्वापदान्यरण्यानि । एकदा तु वासतेय्याः तुरीये यामे प्रत्युषस्येव स्वप्ने दुर्निवारण दवहुतभुजा दह्यमानं केमरिणम् अद्राक्षीत् । तस्मिन्नेव दावदहने समुत्सृज्य शावकान् उत्प्लुत्य चात्मानम् पातयन्तीम् सिंहोम् अपश्यत् । प्रबुद्धस्य चास्य मुहुर्मुदुर्दक्षिणेतराति पस्पन्दे। गात्रेषु चाकस्मादेव वेपथुः विपपथे। अह्नि च तस्मिन् शून्येनैव चेतसा चिक्रीड मृगयाम् । आरोहति च हरितहये मध्यमह्नः, भवनम् आगत्य, साशवः एव तस्थौ । अथ दुरादेव लेखगर्भया चीरचीरिकया रचितमुण्ड- मालम् शून्यहृदयत पा समेऽपि वर्त्मनि स्खलन्तम् कुरङ्गक- नामानम् आयान्तम् अपश्यत् । स तु कृतप्रणामः समुपसृत्य लेखमुपनिन्ये । तश्च देवो हर्षः स्वयमेवादायावाचयत् ( २३ ) लेखार्थ गृहीत्वा तमभ्यधात्-कुरङ्गक ! किं मान्धं तात- स्येति । स आचचक्षे । 'देव ! दाहज्वरो महान्' इति । तच्चाकर्ण्य सहसा सहस्रधेवास्य हृदयं पफाल । कृताच- मनश्च जनयितुरायुष्कामः आत्मपरिवर्हमशेषम् ब्राह्मणसाद- करोत् । अभुक्त एवारुह्य तुरङ्गमम् एकाक्येव पावर्तत । बहुयोजनसंपिण्डितम् अध्वानम् एकेनैवाहा समलङ्घयत् । वहन्नेव च निन्ये निशाम् । अन्यस्मिन्नहनि मध्यंदिने स्कन्धा- वारम् आससाद । क्रमेण च राजद्वारम् आगत्य तुरगादव- तीर्णः अभ्यन्तरात् निष्क्रामन्तम् सुषेणनामानं वैद्यकुमारम् अपाक्षीत्–'सुषेण! अस्ति तातस्य विशेषो न वा' इति । सोऽब्रवीत् । नास्तीदानीम् ; यदि भवेत् कुमारं दृष्ट्वा' इति । श्रुत्वैतत् वेपमानहृदयः मन्दं मन्दमवाप तृतीयं कक्ष्यान्तरम् । तत्र च अतिनिश्शब्दे धवलगृहे स्थितम् , शयनीये विचेष्ट- मानम्, पाश्वोपविष्टया देव्या यशोवत्या शिरसि वक्षसि स्पृश्यमानम् पितरमद्राक्षीत् । अवनिपतिस्तु दूरादेव दृष्ट्वा अतिदयितं तनयं, तदवस्थोऽपि प्रसार्य भुजौ एोहीत्याह्वयन् शरीरान शयनात् उदगात् । ससंघ्रमम् उपमृतश्चैनं बलादुरसि निवेश्य, अङ्गैरङ्गानि पीडयन् , कपोलेन कपोलमवघट्टयन् , गाढम् आलिलिङ्ग। कथं कथमपि चिराद्विमुक्तम्, कृतनमस्कारम्, आसीनश्च शयनान्तिके, विगतनिमेषेण चक्षुषा सुचिरं म ( २४ ) व्यलोकयत् । पस्पर्श च पुनः पुनः वेपथुमता पागितलेन । क्षयक्षामकण्ठश्च कृच्छादिवावादीत-'वत्स ! कृशोऽसि' इति । भण्डिस्त्वकथयत्-'देव ! तृतीयमहः कृताहारस्याद्य' इति। तत् श्रुत्वा कथं कथमपि आयतं निश्श्वस्य उवाच- 'वत्स! जानामि त्वां पितृप्रियम्, त्वज्जन्मनैव कृतार्थोऽस्मि, निरभिलाषोऽस्मि जीवितव्ये, भिषगनुरोधः पाययति माम् औषधम्, अतो नाहस्यात्मानं शुचे दातुम्, उत्तिषु,कुरु सर्वाः क्रियाः, कृताहारे च त्वयि स्वयम् उपयोक्ष्ये पथ्यम्' इति । एवमभिहितस्य चास्य नितरां शोकानलः संदुधुक्षे । क्षणमात्रं स्थित्वा पित्रा पुनराहारार्थमादिश्यमानः धवलगृहात् अवततार । गत्वा स्वधाम विषम यानिव कतिचित् कवलान् अगृह्णात् । आचामंश्च अगृहीतताम्बूल एव सर्वान् आहूय वैद्यान् उपहरे 'किं विधेयमधुना' इति विषण्णहृदयः पप्रच्छ । ते तु व्यज्ञापयन्– 'देव ! धैर्यवलम्बस्व । कतिपयैरेव वासरैः स्वस्थं श्रोष्यसि पितरम्' इति । तेषान्तु भिषजां मध्ये अष्टादशवर्षदेशीयः, गतः पारम् अष्टाङ्गस्यायुर्वेदस्य, भूभुजा सुतनिर्विशेषं लालितः, रसायनो नाम वैद्य कुमारकः, देव ! श्वः प्रभाते यथावस्थितमावेदयितास्मि' इत्यब्रवीत् । गतेषु भिषक्षु क्षततिः क्षपाखे क्षितिपालसमीपमेव पुनरारुरोह । तत्र च 'दाहो महान्' इत्यादीन् पितुरालापान् अनवरतमाकर्णयन् जाग्रदेव निशामनैषीत् । उपसि चावतीर्य FI (२५ । चरणाभ्यामेव स्वमन्दिरमाजगाम। तत्र च त्वरमाणः मातुरा- गमनार्थं प्रविनः उष्ट्रपालकान् प्राहिणोत् । अत्रान्तरे 'रसा- यनो वैद्यकुमाएकः दुःखातिरेकेण पावकं प्रविष्टः' इति शुश्राव । तेन च प्लुष्ट वान्तस्तापेन सर्वाणि कार्याणि विसृज्य शयनीये निपत्य उत्तरीयवाससा सोत्तमाङ्गम् आत्मानम् अवगुण्ट्य अतिष्ठत्' अन्यस्मिनहनि समयमस्य वेला नाम यशोवत्याः प्रती- हारी आगत्य विज्ञापितवतो'देव ! परित्रायस्व, परित्रा- यस्व । जीवत्येव भर्तरि किमप्यायवसितं देव्या' इति । ततस्त- दपरमाकर्ण्य, त्वरमाणः अन्तः पुषगात् । तत्र च मर्तुम् उद्य- तानां राजमहिषीणाम् बहुविधान् आलापान अशृणोत् । प्रविशन्नेव निर्यान्ती गृहीतमरणप्रसाधन प्रत्यग्रस्नानादेहां मातरं ददर्श। दूरादेव च बाष्पायमाणहॉटः अभ्यधा- 'अम्ब ! त्वमपि मां मन्दपुण्यं त्यजसि । प्रसाद, निवर्तस्व' इत्यभिदधान एव चरणयोः न्यपतत् । देवी तु यशेवती तथा तिष्ठति पादनिहितशिरसि कनीयसि तनये कृतप्रयत्नापि वाष्पोत्पतनं निवारयितुं न शशाक । दूयमानमानसा च किस्चि- दुत्तानितं वदनेन्दुम् अंशुकपटान्तेन संछाध मुक्तकण्ठम् अति- चिरं प्राकृतप्रमदेव पारोदीत् । प्रशान्ते च मन्युवेगे सस्नेहम् उत्थापयामास मुतम् । हस्तेन चास्य प्ररुदितस्य क्षरन्तीं दृष्टिम् उन्ममार्ज। स्वयमपि प्रक्षाल्य मुखकमलं वासःशकले ( २६ ) शुचिनि समुन्मृज्य पाणी सुतवदननिहितनयना चिरं स्थित्वा पुनः आयतं निश्श्वस्य अवादीत् । 'वत्स ! नासि न प्रियो निर्गुणो वा । मर्तुम् अविधवैव. वादामि। मरणाच मे जीवितमेवास्मिन् समये साहसम् । अतिशीतलः पतिशोकानलादनलः। जीवन्तीमपि मां न स्प- क्ष्यन्ति पुत्र राज्यसुखानि। यशसा स्थातुम् इच्छामि लोके, न वपुषा । तदहमेव त्वां प्रसादयामि, न पुनर्मनोरथप्राति- कूल्येन कदर्थनीयास्मि, इत्युक्त्वा पादयोः अपतत् । स तु ससंम्रमम् अपनीय चरणयुगलम्, अवनमिततनुः उदनमयन्मा- तरम् । दुर्निवारतां शुचः समवधार्य, कृतनिश्चयां तां ज्ञात्वा, तूष्णीम् अधोमुखोऽभवत्। देव्यपि यशोवती परिष्वज्य समाघ्राय शिरसि, निर्गत्य चरणाभ्यामेव अन्तःपुरात् सरस्वती- तीरं गत्वा, तत्र ज्वलितं पावकं प्रविवेश । हर्षोऽपि मातृमरण- विहलः बन्धुवर्गपरिवृतः रितुः पार्श्व प्रायात् । अपश्यच्च स्वल्पावशेषप्राणवृत्तिम् परिवर्त्यमानतारकं जनयितारम् । आश्लिष्यास्य पादपद्मौ विमुक्तारावः चिरं रुरोद । राजा तम् उपरुध्यमानदृष्टिः रुदितशब्देन प्रत्यभिज्ञाय शनैश्शनैः 'वत्स ! नार्हस्येवं भवितुम्, कुलपदीपोऽसि' इति वदन्नव अपुनरुन्मीलनाय निमिमील लोचने। अस्मिन्नेवान्तरे पूषापि तेजसा व्ययुज्यत । क्रमेण च प्रवृत्तायां सन्ध्यायां पूर्वस्यां दिशि दृश्यमाने चन्द्रमसि नरेन्द्रः सामन्तैः पौरैश्च पुरोहित- ( २७ ) पुरस्सरैः सरस्वती सरितं नीत्वा नरपतिसमुचितायां चितायां हुताशसंस्क्रियया यशश्शेषतामनीयत । देवोऽपि हर्षः शोकमूकेन राजकुलसम्बद्धन सकलेन लोकेन परिवृतः निर्व्यवधानायां धरण्याम् उपविष्ट एव तां निशीथिनीम् अखिला जजागार। कथं कथमपि क्षयमियाय यामिनी । अथास्तमुपगते शशिनि, दिवमाख्ढे सवितरि, राज- कुलात् निर्जगाम। अगाच सरस्वतीतीरम् । तस्यां स्नात्वा पित्रे ददावुदकम् । अपस्नातश्च अनिष्पीडितमोलिरेव निःश्वासपरः निरातपत्रः चरणाभ्यामेव भवनमाजगाम । अथ पितृशोकविह्वलीकृतम् , सर्वासु क्रियामु विमुखम् देवं हर्षम्, श्रुतिस्मृतीतिहासविशारदाः द्विजातयः, अधिगतात्मतत्त्वाः मस्करिणः, समदुःखसुखा मुनयः, संसारासारत्वकथनकुशलाः ब्रह्मवादिनः, शोकापनयननिपुणाश्च पौराणिकाः, पर्यवारयन् । अनुनीयमानश्च तैः कथं कथमपि आहारादिकामु क्रिया- स्वाभिमुख्यम् अभजत । अथ 'तातस्य मरणम् उपश्रुत्यार्यः कथं भविष्यति' इति मातरमेवानुचिन्तयन् तदागमनमुदीक्षमाणः तस्थौ। अथ प्रथमप्रेतपिण्डभुजि भुक्तं द्विजन्मनि, गतेष्वशौच- दिवसेषु, नीतेषु तीर्थस्थानानि कीकसेषु, वनाय विसर्जिते राजगजेन्द्र, क्रमेण च मन्देष्वाक्रन्देषु, काव्यावशेषनाम्नि नर- नाथे, देवो हर्षः अवनतमूकमुखेन बन्धुवर्गेणावेष्टयमानः ह० सा०-३ ( २८ ) बहुवासरान्तरितस्नानभोजनादिना परिजनेन परिवृतम् अतिकशैरवयवैरावेद्यमानदुःखभारम्, प्रधीयसा बाष्पपयः- प्रवाहेण महीम् अनवरतं सिञ्चन्तम् दुःखक्षामो कपोलो उद्वहन्तम् ज्येष्ठं मातरम् आयान्तम् अपश्यत् । दूरादेव दृष्ट्वा देवो राज्यवर्धनः सुदूरप्रसारितेन दीर्पण दोर्दण्डद्वयेन गृही- त्वा कण्ठे मुक्तकण्ठं रुरोद । सुचिराच्च कथं कथमपि निवृष्ट- नयनजलः पर्जन्य इव शरदि स्वयमेवोपशशाम । उपविष्टश्च परिजनोपनीतेन तोयेन चक्षुः अक्षालयत् । ताम्बूलिकोपस्था- पितेन वाससा वदनम् उन्ममा । तूष्णीमेव च चिरं स्थित्वो- त्थाय स्नानभूमिमगात् । स्नात्वा च विस्रस्तकुन्तलं मौलिम् अनादराव निष्पीड्य, चतुश्शालविताद कायां विनितिकोप- बर्हायाम् पर्यहिकायां निपत्य जोषम् अस्थात् । देवोऽपि हर्षः तथैव स्नात्वा धरणितलनिहितायां कुथायां प्रसारितमूर्तिः अदर एवास्य तूष्णीमेव समवातिष्ठत । अथ सर्वेषु प्रविष्टेषु राजसु राज्यवर्धनो हर्षदेवमुवाच- 'तात ! भूमिरसि गुरुनियोगानाम् । भवन्तम् एवंविधं विधेयं किमपि विभणिपति मे हृदयम् । बालभावसुलभा वामता न लम्बनीया । मा कृथाः प्रत्यूहम् ईहिनेऽस्मिन् । न खलु न जानासि लोकवृत्तम् । मान्धातरि मृते कि कृतं पुरुकुत्सेन, दिलीपे रघुणा, दशरथे रामेण, दुष्यन्ते भरतेन । तिष्ठन्तु तावदेते । तातेनैव पितरि परासुतां गते किं नाकारि ( २६ ) राज्यम् । यं किल शोकः समभिभवति तं कापुरुषम् आचक्षते शास्त्रविदः । स्त्रियो हि विषयः शुचाम् । तथापि किं करोमि । आस्पदं पितृशोकहुतभुजो जातोऽस्मि । मम हि भूभृति पर्यस्ते प्रणष्टं प्रज्ञानम् । विलीनं धैर्यम् । वर्धन्ते दुःखानि । सोऽहमि- च्छामि मनसि लग्नं स्नेहमलमिदं प्रस्रवणाम्बुभिः क्षालयितुम् आश्रमपदे । तदाज्ञया गुरोः गृहाण मे राज्यचिन्ताम् । परित्यक्तं मया शस्त्रम्' इत्यभिधीय खगग्राहिणो हस्तात आदाय निज निस्त्रिंशम् उत्ससर्ज धरण्याम् । तत् श्रुत्वा देवो हर्षः समचिन्तयत् । 'किं नु खलु मामन्तरेणार्यः कुपितः स्यात् । उतानया दिशा परीक्षितुकामो माम् । येनायं माम् अतिदुष्करे कर्मणि समादिष्टवान् । किं चास्य विस्मृताः सौमित्रिवृकोदरप्रभृतयः। किं वा ममानेन वृथा विकल्पितेन । तूष्णीमेवार्यमनुगमिष्यामि । गुरुवचनातिक्रमकृतश्च किल्विषम् एतत् तपोवने तप एवापास्यति' इत्यवधार्य मनसा प्रथमतरं गतस्तपोवनं तूष्णीमवातिष्ठत । अत्रान्तरे राज्यश्रियः परिचारकः संवादको नाम सहसैव प्रविश्य विमुक्ताक्रन्दः सदस्यात्मानम् अपातयत्-सम्मान्तो राज्यवर्धनस्तं पर्यपृच्छत्-'भद्र, भण, किं व्यसनम् अधिक- वरम् इतः समुपनयति विधिः' इति । स कथं कथमप्यकथयत् । 'देव ! यस्मिन्नहन्यवनिपतिरूपरतः इत्यभूद्वार्ता, तस्मिन्नेव दिने देवो ग्रहवर्मा दुरात्मना मालवराजेन जीवलोकं त्याजितः।

(३०). भदारिकापि राज्यश्रीः कालायसनिगडसंयतचरणा कान्य- कुब्जे कारायां निक्षित । किंवदन्ती च 'स दुर्मतिः एतामपि भूमिम् जिघृक्षुराजिगमिपति' इति । ततश्च तादृशम् आकस्मि- कम् अपरं व्यतिकरम् आकर्ण्य स्वसुः स्नेहात् एकपदे एवास्य ननाश शोकावेगः । विवेश च सहसा गभीरं हृदयं भयंकरः कोपावेगः । मालवोन्मूलनाय भीषणं कृपाणं पाणिना जग्राह । अनुजम् एवम् अवादीत्—'आयुष्मन् ! इदं राजकुलम् । अमी बान्धवाः । परिजनोऽयम् । इयं भूमिः। एताः प्रजाः । गतोऽहम् अद्यैव मालव कुलप्रलयाय । अन्तरितः शोको मे महीयसा मन्युना । तिष्ठन्तु सर्व एव राजानः करिणश्च त्वयैव सार्धम् । अयमेको भण्डिः अयुतमात्रेण तुरङ्गमाणाम् अनुयातु माम् । तिष्ठतु भवान् , इत्यभिधाय तस्मिन्नेव वासरे निर्जगामाभ्य- मित्रम् । अथ तथागते म्रातरि, उपरते च पितरि, प्रोषितजीविते जामातरि, मृतायाञ्च मातरि, संयतायाश्च स्वसरि, स्वयूथम्रष्ट इव वन्यः करी देवो हर्षः कथं कथमपि एकाकी कालं तम् अनैषीत् । अतिक्रान्तेषु बहुषु वासरेषु कदाचित् प्रागमनदुःखेन दूयमानहृदयः प्रक्षीणभूयिष्ठायां क्षपायां क्षणमिव निद्राम् अलभत । स्वप्ने अम्रलिहं लोहस्तम्भं भज्यमानम् अपश्यत् । कम्पमानहृदयश्च पुनः प्रत्यबुध्यत । अचिन्तयच्च किंतु ( ३१ ) मामेवममी सततम् अनुबधनन्ति दुःस्वप्नाः । स्फुरति च दिवा- निशम् अदक्षिणम् अक्षि। सुदारुणाः क्षितिपक्षयम् आचक्षाणा: क्षणमपि न शाम्यन्ति पुनरुत्पाताः। दिने-दिने दिशां दाहा: दृश्यन्ते । नित्यं नभस्तलात् निपतति तारागणः। न कुशल- मिव पश्यामि लग्नस्य । सर्वथा स्वस्ति भवत्वार्याय, इति चिन्तयित्वा मातृस्नेहकातरं हृदयं कथंकथमपि संस्तभ्य उत्थाय क्रियाकलापम् अकार्षीत् । आस्थानगतश्च सहसैव प्रविशन्तम् राज्यवर्धनस्य' प्रसादभूमिम् कुन्तलं नाम बृादश्ववारं ददर्श । तस्माच्च गौडाधिपेन मिथ्योपचारैः उपचितविश्वास मुक्तशस्त्रम् एकाकिनम् स्वभवन एव मातरं व्यापादितम् अश्रौषीत्। श्रुत्वा च महातेजस्वी प्रचण्डेन कोपेन सहसैव प्रजज्वाल । ततश्च गेषितो महाशीविष इव परां भीषणताम् अयासीत् । अबादीच 'अनार्य गौडाधिपम् अपहाय क एव सर्वलोकविगर्हितं कर्म कुर्यात् । कां नु गतिं गमिष्यति । कां वा योनि प्रवेक्ष्यति ? कस्मिन् वा नरके निपतिष्यति ? गृहृतोऽस्य पापेन लिप्यत इव मे जिह्वा । क्वेदानीं यास्यति दुर्बुद्धिः। जीवति जाल्मे जगद्विगहिते गौडाधिपचाण्डाले जिहेमि प्रतीकारशून्यं शुचा सूत्कर्तुम् । तत् श्रूयतां मे प्रतिज्ञा। 'यदि परिगणितैरेव वासरैः निगौडां न करोमि मेदिनीम् ततस्तनूनपाति पातयात्म्यात्मानम्' इति कृतनिश्चयश्च १-कृपापात्रम विसर्जितराजलोकः सभामत्याक्षीत् । उत्थाय च निश्शेष- माह्निकम् अकार्षीत् । अथापरेधुः प्रभातायां शर्वर्याम् प्रातरेव प्रतीहारम्, आदिदेश । गजसाधनाधिकृतं स्कन्दगुप्तं द्रष्टुमिच्छामीति । अथ युगपत् प्रधावितैः बहुभिः पुरुषैः आहूयमानः स्कन्दगुप्तः चरणाभ्यामेव संम्रान्तो विवेश राजकुलम् । दूरादेव च स्पृशन्मौलिना महोतलम् , नमस्कारम् अकरोत् । उपविष्टं नातिनिकटे तं जगाद देवो हर्षः । 'श्रुतो विस्तर एवास्य आर्यव्यतिकरस्य अस्मचिकीर्षितस्य च । अतः शीघ्र प्रवेश्यन्तां प्रचारनिर्गतानि गजसाधनानि । न क्षाम्यत्यति- स्वल्पमपि प्रयाणविलम्बम् आर्यपरिभवपीडापावकः' इत्येवम् अभिहितश्च स्कन्दगुप्तः प्रणम्य 'कृतम् अवधारयतु स्वामी समादिष्टम्' इति विज्ञाप्य स्वाम्यादेशसंपादनाय निर्जगाम । देवोऽपि हर्षः कृतप्रतिज्ञः दिशां विजयाय प्रयाणं समादिदेश । सदानीम् प्रतिसामन्तानाम् उदवसितेषु बहुरूपाणि दुर्निमित्तानि मादुरभवन् । तथाहि । प्रत्यजिरं मधुसरघासङ्घाताः जहादिरे। वासरेपि विरसं विरेसुः अशिवाः शिवाः । उद्यानपादपाः अकाल- कुसुमानि दधुः। चामराण्यकस्मादपतन् चेटीपाणि-पल्लवात् । उपतोरणम् उन्मुखः कौलेयकगणः निष्कारणम् अकाणीत् । शूराणां शरीरेषु शोणितवृष्टयो निपेतुः । नभस्तलात् उल्का- दण्डाः न्यपतन् । भूमयः चकम्पिरे । बम्राम वात्या इति।

( ३३ ) अथ व्यतोतेषु केषुचित् दिवसेषु, मौहूर्तिकमण्डलेन सुग- णिते सुप्रशस्तेऽहनि, स्नात्वा, भगवतो नीललोहितस्यार्चा विरचय्य, प्रदक्षिणार्विषम् आशुशुक्षणिं हुत्वा, द्विजेभ्यो रत्नानि गाश्च सहस्रशो दत्त्वा, भवनात् निर्जगाम । नातिदूरे च नगरात् उपसरस्वति निर्मिते महति तृणमये मन्दिरे प्रस्थानमकरोत् । निनाय च तत्र तं दिवसम् । प्रतिपन्नायां शर्वर्याम् अखिलं राजलोकं सम्मान्य सुध्वाप । अथ गलति तृतीये यामे गम्भीर- ध्वनिः अताज्यत प्रयाणपटहः । सद्य एवं प्रतिदिशम् आगच्छद्भिः राजभिः आपुपूरे राजद्वारम् । उदिते च भगवति दिनकृति राज्ञः समायोगसमयशंसी सस्वान संज्ञाशङ्खः । अथ न चिरादिन करेगुकयोह्यमानः नरपतिः दण्डिभिः इतस्ततः समुत्सार्यमाणजनसमूहः निर्जगाम । अथ कटकं गत्वा, स्वावा- सम् आसाद्य, करेगुकातोऽवतीर्य, सबहुमानं विसर्जितराज- लोकः बाह्ये आस्थानमण्डपे स्थापितम् आसनम् आचक्राम। प्रास्तसमायोगश्च क्षणम् आसिष्ट । तत्र प्रतीहारः प्रविश्य विज्ञापितवान् –'देव ! प्राग्ज्योतिषेश्वरेण कुमारेण प्रहितः हंसवेगनामा दूतः तोरणम् अध्यास्ते' इति । राजा तु तम् 'आशु प्रवेशय' इति आदिदेश । अथ प्रतीहारः स्वयमेव निर्गत्य हंसवेगं प्रवेशयामास । सोऽपि प्रभूतप्राभृतभृतां पुरुषाणां समूडेन अनुगम्यमानः प्रविवेश राजमन्दिरम् । आरादेव च पञ्चाङ्गालिङ्गिताङ्गणः प्रणामम् - अथ अकरोत् । 'एोहि' इति सबहुमानम् आहूतः सविनयम् उपसृत्य स्निग्धया नरेन्द्रदृष्ट्या निर्दिष्टम् अविप्रकृष्टं प्रदेशम् अध्यास्त । ततो राजा तं पप्रच्छ 'हंसवेग ! श्रीमान् कच्चित् कुशली कुमारः' इति । स प्रत्यवादीत् 'अद्य कुशलम् । येनैवं सौहार्द्रया गिरा पृच्छति देवः' इति । स्थित्वा च मुहूर्त पुनरुवाच-समस्तभूतिभाजनभूतस्य देवस्थानुरूपं प्राभृतमेव दुर्लभं लोके । तथाप्यस्मत्स्वामिना संदेशम् अशून्यतां नयता पूर्वजोपार्जितं वारुणातपत्रम् आभोगाख्यम् अनुरूप- स्थानन्यासेन कृतार्थीकृतम् । अस्य च बहून्याश्चर्याणि दृश्यन्ते। प्रतिदिवसं छायायाः शैत्यहेतोः एकैकः सोमस्य रश्मिः एनं प्रविशति । अस्मिन् प्रविष्टे मणिशलाकाभ्यः यावदिच्छम् अम्भसाम् अच्छाः धाराश्च्योतन्ति । प्रचेता इव यश्चतुर्णाम् अर्णवानाम् अधिपतिः भूतो भावी वा तम् अनुगृह्णाति छायया नेतरम् । इदं च न सप्तार्चिः दहति । न पृषदश्वो हरति । नोदकम् आर्द्रयति । न रजांसि मलिनयन्ति। एतत्तावद- नुगृह्णातु दृशा देवः । संदेशमपि पश्चात् श्रोष्यति,' इत्यभिधाय निवृत्यात्मीयं पुरुषम् अभ्यधात् । 'उत्तिषु, दर्शय देवस्य' इति । स वचनानन्तरम् उत्थाय पुमान् ऊर्वीकृत्य तत् निचोल- कादकोषीत् । चित्रीयमाणचेताः स राजा शेषफणिफणामण्ड- लमिव अतिसितमहः तत् त्रैलोक्याद्भुतं महच्छत्रं सादरम् - ( ३५ ) ऐक्षिष्ट । दृष्टे च तस्मिन् राज्ञा प्रथम, शेषमपि प्राभृतं प्रकाश- याञ्चक्रः क्रमेण कार्याः । तद्यथा। आहतलक्षणान् अलं- कारान् । शौचक्षमाणि क्षौमाणि । पानभाजनानां निचयान् । वेत्रमयान्यासनानि । सुभाषितभाजि पुस्तकानि । लवङ्ग- पुष्पमञ्जरीणां जातीफलस्तव कानाञ्च राशीन् । बहुसुभाषित- जल्पाकजिह्वांश्च शुकशारिकाप्रभृतीन् पक्षिणः । प्रवालपञ्जर- गतांश्च चकोरान् इति। राजा तु छत्रदर्शनात् प्रहृष्टहृदयः प्रथमप्रमाणे शोभनं निमित्तमिति मनसा जग्राह। अपनीते च तस्मात् प्रदेशात् प्रामृतसंभारे क्षणमिव स्थित्वा 'हंसवेग! विश्राम्यताम्, इति प्रतीहारभवनं विसर्जयाम्बभूव । स्वयम- प्युत्थाय स्नात्वा मङ्गलाकांक्षी प्राङ्मुखः प्राविशदाभोगस्य छायाम् । अथ विशत एवास्य छायाजन्मना जडिम्ना हृदयम् अतिशिशिरम् अभवत् । जातविस्मयश्चाकरोन्मनसि । 'एकम- जयं संगतमपहाय कास्त्यन्या प्रतिकोशलिका' इति । आहार- काले च हंसवेगाय चन्दनं वाससी कटिसूत्रं कर्णाभरणं प्रभूतं भोग्य जातश्च प्राहिणोद। ततः क्रमेण भगवति सहस्रांशी वारुणी दिशं प्रयाते, स्फुरति सन्ध्यारागे, विततवितानतलवर्ती नरेन्द्र: 'यात तावत्, इति विसानुजीविनः हंसवेगमादिष्टवान् , 'कथय संदेशम् , इति । प्रणम्य स कथयितुं प्रास्तावीत् । 'देव ! पुरा बराह- संपर्कसंभूतगर्भया भगवत्या भुवा नरको नाम सूनुः असावि ।

. रसातले स च वरुणस्य सकाशात् इदम् आतपत्रम् अहा- पीत् । तस्यान्वये स्थितिवर्मणः पुत्रः सुस्थिरवर्मा नाम राजा जज्ञे । यं मृगात इति जना जगुः । तस्य च श्यामादेव्यां भास्करवर्मा कुमारः समभवत् । अयमस्य शैशवादारभ्य संकल्पः स्थेयान् । स्थागुपादारविन्दद्वयाहते नान्यं नमस्कु- यामिति । ईदृशश्चायं मनोरथः त्रयाणामन्यतमेन संपद्यते । सकलभुवनविजयेन वा मृत्युना वा देवोपमेन मित्रेण वेति । तत् प्राग्ज्योतिषेश्वरः देवेन सह अजय संगतम् इच्छति । यदि देवस्यापि मैत्रीयति हृदयम् , ततः समाज्ञाप्यताम् ; अनुभवतु देवस्य गाढोपगूढानि कामरूपाधिपतिः। नाभिनन्दति चेत् देवः प्रणयम्, आज्ञापयतु किं कथनीयम् मया स्वामिनः' इति । विरतवचसि तस्मिन् भूपालः सबहुमानं जगाद-'हंसवेग ! कथमिव ताशि महात्मनि स्निह्यति मद्विधस्य अन्यथा प्रव- तते मनः। श्रेयांश्च संकल्पः कुमारस्य । स्वयं बाहुशाली मयि च सुहृदि, हराहते कमन्यं नमस्यति । तत् तथा यतेथाः, यथा न चिरमियमस्मान् क्लेशयति कुमारदर्शनात्कण्ठा' इति । इंसवेगस्तु, 'कतिपयैरेव दिवसः परागतः प्राग्ज्योतिषेश्वरः इति करोतु देवश्चेतसि, इत्युक्त्वा नमस्कृत्य निर्जगाम । राजापि रजनी कुपारदर्शनोत्सुकः समनैषीत् । प्रभाते च प्रभूतं प्राभृतं दत्वा हंसवेगं प्राहिणोत् । स्वयमपि अनवरतैः प्रयाणकैः अभ्यमित्रं प्रावर्तत ।

( ३७ .) कदाचित् राज्यवर्धनभुजबलोपार्जितम् अशेष मालवराज- साधनमादाय भण्डिः राजद्वारम् आगत्य तुरङ्गमात् अवतीर्य अवनतमुखो विवेश राजमन्दिरम् । दूरादेव विमुक्ताक्रन्दः पपात पादयोः । अवनिपतिस्तु दृष्ट्वा तम् अभिनयीभूतमात- शोकहुताशनः प्रत्युद्गम्य उत्थाप्य, गाढम् उपगुह्य कण्ठे करुणम् अतिचिरं रुरोद । शिथिलीभूतमन्युवेगश्च पुनरागत्य निजासने निषसाद। अथ प्रक्षालितमुखः मातृमरणवृत्तान्तम् अमाक्षीत् । अकथयच्च यथावृत्तमखिलं भण्डिः। अथ नरपति- स्तमुवाच-'राज्यश्रीव्यतिकरः कः ?' इति । स पुनरवादी- 'देव ! देवभूमि गते देवे राज्यवर्धने देवी राज्यश्रीः परिप्रश्य बन्धनात् विन्ध्याटवीं सपरिवारा प्रविष्टेति, लोकतो वार्ता- मशृणवम्। अन्वेष्टारस्तु तां प्रति प्रभूनाः पहिताः नाद्यापि निवर्तन्ते' इति । तच्चाकर्ण्य भूपतिरब्रवीत् किमन्यैरनुपदिभिः। यत्र सा तत्र स्वयमहं यास्यामि। भवानपि कटकम् आदाय प्रवर्ततां गौडाभिमुखम्' इत्युक्त्वा चोत्थाय स्नानभुवम् अगात् । स्नातेन अण्डिना सार्धम् अभुक्त । निनाय च तेनैव सह वासरम्। अथापरेधुरुषस्येव भण्डिः भूपालमुपसृत्य व्यज्ञापयत् । 'पश्यतु श्रीराज्यवर्धनभुजबलोपार्जितं साधनं मालवराजस्य' इति । नरपतिना सः एवं क्रियताम् ' इत्यनुज्ञातः दर्शयांबभूव । तद्यथा । अनेकसहस्रसंख्यान करिणः, हरिणरंहसो हरीन, ( ३८ ) तारान् हारान् , शुचीनि वालव्यजनानि, जातरूपमयनालं श्वेतातपत्रम्, अप्सरस्तुल्याः वारविलासिनीः, सिंहासन- प्रभृतीनि राज्योपकरणानि इति । तत्सर्वम् अवनिपाल: स्वीकर्तुं यथाधिकारम् आदिक्षत् अध्यक्षान् । अन्यस्मिश्चाहनि स्वसारम् अन्वेष्टुम् उच्चचाल । परिमितैरेव प्रयाणकैः अवाप विन्ध्याटवीम् , आट च तस्याम् इतश्चेतश्च सुबहून् दिवसान् । एकदा तु आटविकसामन्तस्य शरभकेतोः सूनुः व्याघ्रकेतुः कज्जलश्यामलं कञ्चन शबर- युवानम् आदाय आगत्य विज्ञापयामास-'देव ! सर्वस्यास्य विन्ध्यस्य स्वामी शबरसेनापतिः भूकम्पो नाम, तस्यायं निर्घातनामा स्वस्त्रीयः सकलस्यास्य विन्ध्यारण्यस्याभिज्ञः। एनं पृच्छतु देवः' इति अवनिपतिस्तपप्राक्षीत्-'अङ्ग ! अभिज्ञा यूयमस्य सर्वस्योद्देशस्य । सेनापतेर्वान्यस्य वा कस्यचिदुदार- रूपा नारी दर्शनगोचरम् आगता भवेत्' इति । निर्घातस्तु प्रणम्य व्यज्ञापयत्-देव! नैवंरूपा काचिदबला दृष्टा। देवादेशादिदानीम् अन्वेषणं प्रति यत्नः क्रियते । इतश्चाध- गव्यतिमात्रे महति महीरुहां पण्डे दिवाकरमित्रनामा पाराशरी प्रतिवसति । स 'यदि विन्देद्वार्ताम् ' इति । नरपतिरब्रवीत् । 'अङ्ग–समुपदिश तमुद्देशम् यत्रास्ते सः' इति । इत्येवमुक्तवा तेनैवोपदिश्यमानवा चरणाभ्यामेव गत्वा महतस्तरुपण्डस्य मध्यभागे कृतावस्थानं स्वर्गतस्य ग्रहवर्मणो बालमित्रं सौगतमते N गृहीतकाषायम् मध्यमे वयसि वर्तमानं दिवाकरमित्रम् अद्रा- क्षीत् । अतिप्रशान्तगम्भीराकारं तं दूरादेव शिरसा ववन्दे । दिवाकरमित्रस्तु भूपतेराकारविशेषेण सञ्जातबहुमानः ससंम्रमम् अभ्युत्थाय गुरुमिवाभ्यागतं स्वागतगिराभिनन्ध स्वेनासनेन आवमत्र' इति निमन्त्रयाञ्चकार । पार्वस्थितश्च शिष्यम् अब्रवीत्-'आयुष्मन् ! उपनय कमण्डलुना पादोद- कमिति ।' राजा बभाषे-'भवादृशां दर्शनमेव परमं पावनम् । तदलं पाद्यन। आसतां भवन्तो यथासुखम् आसीनोऽहम् ।' इत्यभिधाय क्षितावेवोपाविशत् । स्वमेवासनं भेजे भदन्तः । भूपतिमुखनिहितनयनः मुहूर्तमिव स्थित्वा अवादीत्-'पुण्य- वतः कथंचित् प्राप्तस्य भवतः केन प्रियं समाचरामः इति पारि- प्लवं चेतो नः । यदि कथनीयं तत् कथयतु भवान् । केन कृत्येन भव्यो भूषितवान् भूमिमिमाम् । कस्माच संतप्तरूपेव ते तनुरियं विभाव्यते' इति । राजा जगाद-आर्य ! मधुरेण वचसैष ते सर्वम् अनुष्ठितम् । धन्योऽस्मि । मम हि विनष्टनिखिलेष्टबन्धोः जीवितानुबन्धनिबन्धनम् एकैव यवीयसी स्वसावशेषा। सापि भर्तुः वियोगात् वैरिपरिभवभयात् प्रमन्ती विंध्यवनमिदम- विशत् । अतः तामन्वेष्टुं वयमिमामटवीमटामः । कथयतु गुरुरपि यदि कदाचित् श्रुतिपथम् उपगतेति ।' तत् श्रुत्वा भदन्तः पुनरभ्यधात् । 'धीमन् , न खलु कश्चिदेवंविधो वृत्तान्तोऽ- स्मानुपगतवान्' इति ।

( ४० ) तदानीम् अकस्मादागत्य अपरो भिक्षुः अभाषत- 'भगवन् भदन्त ! महत् करुणं वर्तते । वाला कल्याणरूपा स्त्री वैश्वानरं विशति । संभावयतु तां भगवान्' इति । राजा तु जातानु नाशकः पप्रच्छ-'पाराशरिन् ! कियद् दूरे सा, आका- रतो वा कीदृशी ? पृष्टा वा त्वया कासि कस्यासीत्यादि' ? इति। भिक्षुराचचक्षे–महाभाग! श्रूयताम् । अहं हि प्रत्युषस्ये- वाद्य वन्दित्वा भगवन्तम् अनेनैव नदीतीरेण विहृतवानति- द्रम् । एकस्मिंश्च वनलतागहने नारीणां रुदितम् आक- र्णितवानस्मि । गतस्तं प्रदेशं दृष्टवानस्मि वहीभिरवलाभिः परिवृतां क्षामक्षामां मरणे कृतनिश्चयां योषितम् । सा तु समीपगते मयि तदवस्थापि सबहुमानम् आनतमौलिः प्रणतवती। तस्मात् स्त्रैणात् अन्यतरा योषिदागत्य माम् अभिहितवती । 'भगवन् ! इयं नः स्वामिनी, मरणेन पितुः, अभावेन भर्तुः, प्रवासेन मातुः, ग्रंशेन शेषस्य बान्धववर्गस्य, निरवलम्बना, परिभवेन अराति-कृतेन कदर्थिता, दारुणं दुःखम् अपारयन्ती सोढुम्, अग्निं प्रविशति, परित्रायताम्' इति । अहमभिहितवान् । आर्ये-गिरामगोचरोऽयमस्याः शोकः । मम गुरुरपर इव सुगतः समीगत एव । कथिते मयास्मिन् उदन्ते नियतम् आगमिष्यति सौगतैः सुभाषितैः एनां प्रबोधपदवीम् आरोपयिन्यति' इति । तच्च 'श्रुत्वा त्वर- तामार्यः' इत्यभिदधाना पुनरपि पादयोः पतितवती ।

( ४१ ) सोऽहमुपगम्य स्वरमाणः व्यतिकरमिमं गुरवे निवेदितवान्' इति । अथ भूभृत् 'नियतं सैवेयं मम ! भगिनी' इत्युक्त्वा श्रमणमभ्यधात् । 'आर्य ! उत्तिष्ठ, दर्शय कासौ, हात भाषमाण एव उत्तस्थौ। अथ समस्तशिष्यवर्गानुगतेन आचार्येण अनुगम्यमानः पद्भ्यामेव तं प्रदेशं प्रावतंत। लतावनान्तरितस्य महतः स्त्रैणस्य मुमूर्षोः अनेकप्रकारान् आलापान् श्रुत्वा सत्वरम् उपसर्पन अग्निप्रवेशायोद्यतां राज्यश्रियं ददर्श । आललम्बे च हस्तेन तस्याः ललाटम् । असंभावितागमनस्य सहसा प्राप्तस्य मातुः कण्ठे समाश्लिष्य दुःखसंभारेण विलोचनाभ्यां स्थूल- स्थूलम् अश्रुप्रवाहम् उत्सजन्ती राज्यश्रीः सुचिरं रुरोद । प्रशान्ते च मन्युगे बढेः समीपात् आक्षिप्य, मात्रा नीता निकटवर्तिनि तरुनले निषसाद । अथ नरेन्द्रः भदन्तशिष्यो- पनीतेन उदकेन स्वतः आत्मनश्च मुखम् अक्षालयत् । ततोऽ ब्रात् स्पसारम् – 'वत्से ! वन्दस्वात्रभवन्तं भदन्तम् । एष ते भर्तुः द्विनीयं हृदयम् अस्माकञ्च गुरुरिति । राजवचनात्तु सा पतिररिचयश्रवणेन पुनरानीतवाष्पा प्रणनाम । आचार्यः किश्चित् परावृत्तनयनः दोघं निशश्वास । स्थित्वा च क्षणमेकं किश्चित् मधुरया वाचा व्याजहार-'कल्याणराशे ! अलं रुदित्वा । क्रियतां स्नानविधिः' इति । अथ भूपतिः उत्थाय स्नात्वा गिरिसरिति,. शुचा परवतीं प्रयत्नप्रतिपन्नभोजना, ( ४२ ) प्रथमम् अभोजयत् । अनन्तरञ्च स्वयम् . आहारस्थितिम् अकरोत्। भुक्तवांश्च बन्धनात् प्रभृति विस्तरतः स्वसुः सर्व व्यतिकरं परिजनतः शुश्राव । अथ सुखासीनम् एकत्र तरुतले भगिनीद्वितीयं राजानम् आचार्यः समुपसृत्य वक्तु- मुपचक्रमे। 'श्रामन् ! आकर्ण्यताम् । आख्येयमस्ति नः किञ्चित् । पुरा खलु ताराराजः शैलादुदयादुदयमानः वरुणालयस्य विमले वारिणि संक्रान्तम् आत्मनः प्रतिबिम्ब विलोकितवान् । दृष्ट्वा च तदा सस्मार सस्मरः तारायाः मुखस्य । तेनास्वस्थ: स्थवीयसः वाष्पविन्दन् सिसर्ज। अधः पततः तान् आचेमुः उदन्वति मुक्ताशुक्तयः। तासाश्च कुक्षिषु मुक्ताफलान्यभवत् । वानि च रसातल निवासी वासुकिः आससाद । स तैः एकाव- लीम् अकल्पयत् । चकार च मन्दाकिनोति नाम तस्याः। सा च सर्वासाम् ओषधीनाम् अधिपतेः सोमस्य प्रभावात् विषन्नी सन्तापहारिणी च बभूव । स तां सर्वदा विषोध्मशान्तये पर्यवत्त । समतिक्रान्ते कियत्यपि काले कदाचित् ताम् एकाव- लीम् तस्मात् नागराजात् नागार्जुनो नाम भिक्षुः अभिक्षत लेभे च । स च सातवाहननाम्ने नरेन्द्राय ददौ ताम् । सा चास्माकं शिष्यपरंपरया हस्तमुपगता । सेयम् आयुष्मता गृह्यताम्' इत्यभिधाय तमुद्धृत्य बबन्ध स्कन्धभागे भूपतेः । अथैकदा राज्यश्रियः ताम्बूलवाहिनी पत्रलता पार्थिवं व्यज्ञा- पयत् -'देव 1 देवी विज्ञापयति । न स्मराम्यायस्य पुरः कदाचिदुच्चैर्वचनमपि । कुतो विज्ञापनम् । इयं हि शुचाम् 'असह्यता शिथिलयति विनयम् । काषायग्रहणाभ्यनुज्ञया अनुगृह्यतामयं जनः, इति । जनाधिपस्तु तदाकर्ण्य तूष्णीम- भूत् । आचार्योऽभ्यधात्— 'मेधाविनि ! नात्यर्थमेवाहसि मनसि तमसः प्रसरं दातुम् । किमत्र क्रियते। कतमः उपाल- भ्यते । सर्वम् अक्षिणी निमील्य सोढव्यम् । पुरातन्यः स्थितयः एताः केन शक्यन्तेऽन्यथाकर्तुम् । सर्वं विश्वं नश्वरम् । तत् गुणवतो ज्येष्ठस्य नियोगे सर्वथा स्थातव्यम्' इति । विरत- वचसि तस्मिन् निजगाद नरपतिः-'भगवन् ! किश्चिदर्थये भवन्तम् । अस्माभिः मातृवधापकारिणः रिपुकुलस्य प्रलयाय प्रतिज्ञा कृता । अतो नियुङ्क्तामार्यों मदीये कायें। इयं नः स्वसा बाला बहुदुःखखेदिता च लालनीया नित्यम् । अद्य प्रभृति यावदयं जनो लंघयति प्रतिज्ञामारं तावदिमाम् अत्र- भवतः कथाभिः धाभिः तत्वोपदेशैश्च प्रतिबोध्यमाना- मिच्छामि । इयन्तु ग्रहीष्यति मयैव समं समाप्तकृत्येन काषा- याणि' इति । अथ तथेत्यभिनन्दितमणये भदन्ते प्रीयमाणः पार्थिवः तत्र तामुषित्वा विभावरीम् , उषसि वसनालंकारादि प्रदानपरितोषितं विसृज्य निर्धातम्, आचार्येण सह स्वसार- मादाय, कटकं प्रत्याजगाम । अथ राज्यश्रीप्राप्तिकथां कथयत एवाबमासे वासरावसानवेला । अवसिते सन्ध्यासमये अपरि- ह० सा०-४

No text on this page.

NOTES (टिप्पणी) Page 1 ब्रह्मोद्याः Discussions of theological problems. अध्यात्मविद्या सम्बन्धी वाद-विवाद । कामण्डलवेन Belonging to a water-pot. कमंडलु के। अनुनाथ्यमानोऽपि Being solicited by. सविनय प्रार्थना किये जाने पर भी। Page 2 उन्नतिम् Pride. गर्व । संहर रोषम् Bestrain your anger. क्रोध को अपने वश में कीजिये । रोषदोषनिषद्ये A market-place of the evil of anger. क्रोध रूपी दुर्गण का बाजार । अनागसम् Free from fault of sin. निर्दोष, निरपराध । आह्निककरणाय To perform daily duties. नैत्यिककृत्य सम्पादन करने के लिये। संस्तुत- जनविरहः Separation from familiar people. परिचित व्यक्तियों से वियोग। Page 3 उपकंठभूमय: The neighbourhood, पड़ोस के स्थान । सैकतम् Made of sand. सिकता-निर्मित, बालू की बनी हुई। नक्कं- दिनम् Night and Day रात और दिन । तुरंगहृषितहादम् The sound of the neighing of horses. घोड़ों के हिनहिनाने का शब्द ।

No text on this page.

Page 4 कृतोपसंग्रहणौ Who have shown the respectful salutation. जिन्होंने अभिवादन किया था। उपजग्राह Received. TEU PETT 97994 Advanced in age. (Older of the two ). अवस्था में अधिक ( दोनों में से एक बड़ा)। अन्तर्वनी A pregnant woman. गर्भिणी स्त्री। वैजनने मासि In the last month of pregnancy. गर्भ के अन्तिम मास में। आसेचनक- दर्शनम् Charming-looking. देखने में आकर्षक, हृदय को मोहित करने वाला। Page 5 गव्यूतिमानं At a distance of two miles. दो मील की दूरी पर । पारेशोणंम् On the banks of the river Sona शोण नदी के उस पार । नेयमाकृतिः दिव्यतां व्यभिचरति Your form in no way falls short of divinity. आपका रूप किसी भी प्रकार देवरूप से न्यून नहीं है। अनुषङ्गदृष्टो जनः People seen only by chance. संयोगवश ही दृष्टिगोचर पड़ गया हुआ व्यक्ति । निश्चलतारकेण With motionless pupil. निश्चल पुतलियों वाले (से)। गण- रात्रापगमे After the lapse of a few nights. कुछ रात्रियों के व्यतीत हो जाने के पश्चात् । अन्त्रक Following me. पीछे-पीछे । aftat Au excellent woman, a lady. afti Page 6 विधेयास्मि ते I am your servant. मैं आपकी सेविका हूँ। Page 7 निर्विशेष Impartially. निष्पक्ष भाव से । आषाढ़ी One with a hermit's staff. तपस्वी का दंड लिये हुये ( पलाश दंड लिये हुये )।

Page 8 व्ययुज्यत Was separated from. वियुक्त हो गया, रहित हो गया । संस्थिते पितरि When his father died. पिता की मृत्यु हो जाने पर । इत्वरो बभूव He became unrestrained in his actions. चंचल हो गया ( इधर-उधर घूमने लगा)। वैपश्चितीं प्रकृति Learned nature. विद्वानों का सा स्वभाव । पारशवः One born of a Brahmin father and a Sudra mother. ब्राह्मण पिता और शूद्र माता से उत्पन्न हुआ। Page 9 कालातिपातः Delay in time. विलम्ब । Page 10 कृतकशिपु Refreshed with food and clothing. भोजन और वस्त्र द्वारा ताजा और स्वच्छ। अन्यथा संभावितोऽस्मि I am misunderstood. मैं गलत-सलत समझ लिया गया हूँ। प्रास्थानिकानि सूक्तानि Hymns for starting on a journey. यात्रा प्रारम्भ के समय के मंत्र । घुम्नं Wealth; property. धन, सम्पत्ति । Page 11 स्कंधावारं Royal camp. राजकीय शिविर । दौवारिक: Doorkeeper. द्वारपाल । अजिरे Court. आँगन (में) । सोमपायिनों Those who have drunk Some juice. सोमरस पिये हुये लोगों का। Page 12 अभ्यागारिक: One who takes care of his family. गृहस्थ; जो अपने कुटुम्ब की देखभाल करता है। अति दक्षिण Very gracious. बहुत उदार। .

( ४ ) Page 13 शक्याशक्य-परिसंख्यानं न कृवं You have not thought of what is possible and what is impossible. आपने इस बात को नहीं सोचा कि कौन सी चीजें सम्भव है और कौन सी असम्भव है। संख्यातिगा: Innumerable. असंख्य । सज्जाः Ready. तैयार । सहजैव Natural. स्वाभाविक ही । दाक्षिणात्यं Belonging to the South i. e. Dravidian. दक्षिण देश का निवासी अर्थात् द्रविण । Page 14 मस्करिणं An ascetic. एक संन्यासी को। उपनगरं Near the town. नगर के निकट । जीर्णमातृगृहस्य Of the dilapidated Kali Temple. जीर्णशीर्ण काली मंदिर का। कार्पटिकवृन्दस्य Of the group of ascetics. संन्यासियों के समूह का । Page 15 परिवारात् From its cover. परद्रव्यग्रहणदुर्विदग्धमपि Though unknown to receive other's property. telt दूसरे के द्रव्य को ग्रहण करने में बहुत ही संकोच करने वाला । Page 16 बालमित्रं Friend from boyhood. बाल्यावस्था से ही मित्र । द्राविड: A Dravidian, दविड । विगाढायां शर्वर्याम् When the night was well advanced. जब रात्रि अधिक व्यतीत हो चुकी थी। Page 17 उत्तानशयस्य Lying on its back. पीठ के बल लेटे हुये के)। जातजातवेदसि With fire kindled in. जिसके अन्दर अमि प्रज्वलित थी। कृष्णोष्णीषम् With a black turban. काली ( ५ ) पगड़ी बाँधे हुये (को)। शातक्रतवीम् East. पूर्व । नातिवीयसि Not far from. समीप । Page 18 तपस्वी Poor; helpless, pitiable. निर्धन, असहाय, दयनीय । प्रकोष्ठप्रहारैः By strokes of his fist. मुष्टिका के प्रहारों द्वारा । काकोदर A serpent. कल्याम् The end of the lower garment which, after the cloth is carriedround the body, is brought up behind and stuck into the waist-band. नीचे के वस्त्र का छोर, जो कि शरीर पर वन लपेटने के पश्चात् पीछे ले जाया जाता है और कमर में दृढ़ता पूर्वक कसा जाता है। .Page 19 साधयतु Attain. प्राप्त करे। क्षीणभूयिष्ठायां The greater part of which had passed away. जिसका अधिक अंश व्यतीतः हो चुका था। Page 20 निसर्गत: By nature. स्वभाव से ही। परिणतप्रायायाम् तु PARATIE When the night had almost passed away. जबकि रात्रि करीब-करीब समाप्त हो चुकी थी। रराण Sounded. बजी आवाज हुई । मुदोषसरे On an occasion for joy. प्रसन्नता के अवसर पर। Page 21 अष्टवर्षदेशीयं About • eight years. लगभग आठ वर्षे का। उत्तरापथ To the North. उत्तर की तरफ।

Page 22 ८ प्रयाणकानि Stages in the journey. पड़ाव । वासतेय्याः OF the night. रात्रि का । हरितहयः The Sun. सूर्य । चीरची- रिकया By a rag, जीर्ण वस्त्र से। Page 23 आत्मपरिबह His belongings. अपनी सारी सम्पत्ति । संपिण्डितम् Consisting of. 'युक्त । Page 24 वेपथुमता Trembling. काँपते हुये ( से ) । क्षयक्षामकण्ठः His throat, meek due to emaciation. जिसका गला दुर्बलता के कारण सूख गया था। भिषगनुरोध: The request of doctors. वैद्यों का हठ । उपहरे In secret. एकान्त में। सुतनिर्विशेष In the sume way as a son. पुत्र के सदृश । क्षपामुखे At the beginning of the night. रात्रि के प्रारम्भ में । Page 25 प्लुष्ट इव As if burnt. जले हुये के सदृश । प्रत्यग्रस्नानाद्र देहां With her body wet due to bathing just before. ठीक उसी समय स्नान करने के कारण जिसका शरीर श्रार्द्र था। उत्तानितं Up-raised. उत्तान किया हुआ । प्राकृतप्रमदेव Like a countrywoman. ग्रामीण स्त्री के समान । मन्युवेगे The force of grief. दुःख का वेग। Page 26 कदर्थनीया. Teased; troubled. पीड़ित किये जाने योग्य । परिवर्त्यमानतारकं The pupils of whose eyes were ( ७. ) revolving. जिसके नेत्रों की पुतलियाँ नाच रही थीं। पूषाऽपि The sun also. सूर्य भी। Page 27 शोकमूकेन Silent due to sorrow. शोक के कारण मौन (चुपचाप ) । निर्व्यवधानायां Uncovered. नंगी, जिस पर कुछ विछा हुअा नहीं था। आभिमुख्यम् Inelination. रुचि, अभिलाषा (को)। कीकसेषु Bones. हड्डियों ( में ) । प्रथीयसा Big. बड़े। Page 28 विसस्तकुन्तलम् With locks of hair loosened. जिसके बड़े केश बिखरे हुए थे। विनिहितैकोपबाँयाम् On which only one pillow was placed. जिस पर केवल एक ही तकिया रक्खी हुई थी। जोषम् अस्थात् Remained silent. चुप रहा । वामता Perversity. कुटिलता । परासुतां गते When he was dend. मर जाने पर। Page 29 कापुरुषम् A Contemptible man, a coward• घृणास्पद पुरुष, कायर । विलीनं धैर्यम् Courage has disappeared. धैर्य नष्ट हो गया। निस्त्रिंशं Sword. तलवार । उपरत: Died. मर गया। Page 30 कालायसनिगड Iron-fetters. लौह शृंखलायें (बेड़ियाँ)। जिघृक्षु: Desiring to conquer. विजय की इच्छा वाला। व्यतिकरम् Misfortune; calamity. विपत्ति । अभ्यमित्रम् Against the enemy,. शत्रु के विरुद्ध । अभ्रंलिहम् Touching the clouds, i e. very high. बादल को छूने वाले, बहुत ऊँचे।

Page 31 उत्पाताः Omens foreboding evil. अनर्थ, अपशकुन । बृहदश्ववार The chief cavalry officer. अश्वारोही सेना का प्रधाना पदाधिकारी | जाल्म A rogue,a rascal. दुष्ट । प्रतीकारशून्य Without revenge. बिना बदला लिये हुये । परिगणितैरेव Numbered i.e.; a few. इने गिने हुये अर्थात् थोड़े से ही । तनूनपाति In fire. अग्नि में। Page 32 प्रचारनिर्गतानि Which have gone out to ramble. जो भ्रमण करने गये हैं । उदवसितेषु In houses. घरों में। प्रत्यजिरं In every ceurtyard. प्रत्येक आँगन में । शिवाः Female jackals. गीदड़ ( मादा ), सियारिन । उपतोरणम् Near the gates. फाटक के पास । कौलेयकगण: Group of dogs. कुत्तों के समूह । उल्कादण्डा Fire-brands. टूटने वाले तारे। वात्या Whirl-wind. चक्रवात, बवंडर। Page 33 आपुपूरे Filled. मरे हुये। प्रास्तसमायोग: Having dispersed the assembly. सभा को विसर्जित करके । प्रभूतप्राभृतभृतां Carrying many presentations. बहुत सी भेंट लिये हुये। Page 34 अविप्रकृष्टं Not far away. दूर नहीं; समीप । सप्तार्चिः Fire. अभि । पृषदश्वः Wind. वायु। निचोलकात् From its case. म्यान से। Page 35 कार्माः Servants. भृत्य, नौकर-चाकर । जडिम्ना By frigidity; coldness. जड़ता से, शीत से। अजय संगतं Undimini-

(६)
shing friend-ship. कभी भी क्षीण न होने वाली मित्रता। प्रति-
कौशलिका A present in return. बदले में उपहार, प्रत्युपहार ।
असावि Was given birth to. उत्पन्न किया गया ।
Page 36
संकल्पः His intention. उनका विचार । परागत: Come.
आया हुआ, अाकर । अनवरत: Haltless. कहीं भी न रुकने वालों से।
Page 37
हरिणरंहसः Swift as the deer. हिरण के सदृश शीघ्रगामी ।
Page 38
जातरूपमयनालं With golden handle. जिसकी मूंठ सोने
की बनी हुई थी। स्वस्रीयः Son of sister. बहिन का पुत्र, भांजा।
पाराशरी An ascetic. संन्यासी । सौगतमते In the Buddhist
religion. बौद्ध धर्म में।
Page 39
भदन्तः The Buddhist mendicant, बौद्ध मितु (सन्यासी)।
पारिप्लवं Disturbed. विक्षित (घबड़ाया हुआ)।
Page 40
स्त्रैणात् From the group of women. स्त्रियों के समूह में से।
कदर्थिता Troubled, distressed. पीड़ित किये जाने पर।
Page 41
मुमूर्षोः Desiring to die. मरने का इच्छुक (का)।
परावृत्तनयन: With
eyes turned. नेत्रों को दूसरी ओर करके।
Page 42
सस्मरः With love. काम-पीड़ित । स्थवीयस: Large. बड़े-
बड़े । एकावलीम् A necklace of one etring. एक सूत्र का हार ।

( १० )
Page 44
नश्वरम्
Perishable. नाशवान् , नष्ट हो जाने वाली ।
Page 45
विभावरीम् Night. रात्रि । श्वेतभानु: The Moon. चन्द्रमा ।

No text on this page.

Ro. a. 30 .. STANDARD SANSKRIT BOOKS Sishupal Badham, Cantos I & II with exhaustive potes by Rampriya Deo Bhatt Shastry 1 12 Valmiki Ramayan-Aranya Kand, (Full Text) with Hindi Translation 30 Bhasha-Pratima Natak, with Exhaustive Notes, English and Hindi Translation, by Dr. K. D. Devedi, M. a., D. Phil. 3 8 Sanskrit Vyakaran, Praveshika, (Higher Sanskrit-Grammar in Hindi), by Dr. Baburam Saksena, M. A., D. Litt. 50 Sanskrit-Nibandh Path Pradarshak, (Apte's Guide to Sanskrit Composition in Hindi) Bhartiya Sanskriti, (Elements of Hinda Caltare and Civilisation), by Dr. Baldeo Pa. Misra 28 Bhartiya Sanskriti Ka Utthan, by Dr. Ramji Upadhyaya .. 2 8 History of Sanskrit Literature, by Y. Varadachari, M. A. in English or Hindi 5 0 Sanskrit Shabdarth Kaustubh, (Sanskrit to Elindi Dictionary) 10 0 Raghuvansham, Canto I or II with exhaustive Notes eto, by Ram Krishna Shukla, M. A., B. T., each 1 8 Abhigyana Sakuntalam, Act IV, Edited with Sangkrit Commentary, English and Hindi Translation, Grammatical and Explanatory Notes and Various Readings, by R. Bhatta, B. A., LL. B. 1 0 Chandrapeed Katha, The Epitome of Bhatta Bana's Kadamberi, by V. Anantacharya 1 0 Bhaga-Urubhangam, with an Introduction, Prose Order, Hindi and English Translation, Words Meaning, Grammatical Notes, etc., by R Shukla, B. A. 08 Uttararamacharitam of Bhavabhuti Act III, Text with Introduction, Prose Order, Hindi and English Translation, Notes, etc., etc, by R. Shukla, B. A. ... 10 0. .. .00 0 . ALLAHABAD RAM NARAIN LAL PUBLISHER & BOOKSELLER ALLAHABAD

No text on this page.

Harshacharita Sara

Author
Pandit V Ananthachary
Other authors
Ccl
Title
Harshacharita Sara
File name
Harshacharita Sara
Text
OCR done
Citation
1955
Publisher
Ram Narain Lal
Language
Sanskrit
Pages
65
Library
Scl
DLI number
326214
Barcode
2020010005287.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
1gtfvYomFJS
Download PDF

Harshacharita Sara