Asr,melkote

Krudistadvaita Vedanta Marthanada Vol.1

Rang-gaacharaar^ya · 2004/12/22

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

कुदृष्टिध्वान्तमार्तण्डः।
(तत्र प्रथमो मयूखः)
श्रीमद्वेदमार्गप्रतिष्ठापनाचार्य-श्रीवेङ्कटाद्रि-
श्रीमदनन्तपूरुषाचार्यदिव्यसिंहासनासी-
नश्रीमद्रङ्गाचार्यस्वामिभिर्विरचितः
सचायं
खेमराज श्रीकृष्णदास इत्यनेन
मुम्बापुर्या
स्वकीये "श्रीवेङ्कटेश्वर" मुद्रणागारे
मद्रापितोविजयतेतराम् ।
संवत् १९५६, शके १८२१.
इस पुस्तकका रजिस्टरी इक "श्रीवेङ्कटेश्वर" यंत्रालयाध्यक्षने
स्वाधीन रक्खाहै.

No text on this page.

श्रीरस्तु। श्रीमद्वेदमार्गप्रतिष्ठानापचार्यश्रीवेङ्कटाद्रिश्रीमदनन्त- पुरुषाचार्यदिव्यसिंहासनासीन श्रीरङ्गाचार्यस्वामिभि- विरचिते विरोधवरूथिनी प्रमाथिनि कुदृष्टि- ध्वान्तमार्तण्डे " सप्तविंशतिमयूखे प्रथमोऽयं मयूखः ब्रह्मणः पारमार्थिकजगन्निमित्तोपादानकारणत्वस्थापन- परः श्रीमद्वेदमार्गप्रतिष्ठापनसभाप्रवर्तनोयुक्तैस्तैरेवस्वा- मिभिः ॥ मोहमयां नगर्या श्रीकृष्णदासात्मज-खेमराजेन स्वकीये'श्रीवेङ्कटेश्वरमुद्राशालायाम्मुद्रापितो विजयते.

४ ७ ६ कुदृष्टिध्वान्तमार्तण्ड शुद्धि पत्रम् । पृष्ठे पङ्को अशुद्धम् शुद्धम् हतु हेतु ७ चिद्वस्तु चिदचिद्वस्तु त्रक १४ गधं गन्धं ११ क्वां छां ८ क्वा छां १२ वत १६ ९ रोपि रेपि ३२ २ वृद्धा वृद्धय २२ ५ कारः कार २२ १२ गत गतः २९ १३ राण राणां ३० २२ तथ तया १८ मामा मग्नौ ४१ १२ जन्य जन्या ६३ १३ निषेध निषेधः ७६ ६ काशे कांशो ७८ १६ वो। वि वो वि १५ त्वये त्वयो ८६ २१ मिथ्य मिथ्या २ निवह निर्बह १ धिकाया धिका १२ रीति रीति २० आवश्यक आवश्यकः १०७ २ मार्तण्ड मार्तण्डप्रथममयूख १०७ ३ समाप्त समाप्तः REEEEEEEE श्रीः। श्रियः कान्ताय नमः । श्रीमते विष्वक्सेनाय नमः ॥ श्रीमतेरामानुजाय नमः।श्रीमदनन्तार्यमहागुरवनमः॥ श्रीमते वरवरमुनये नमः। अथ कुदृष्टिध्वान्तमार्तण्डः। तत्र प्रथममयूखः। श्रीवेङ्कटाद्रिनिलयः कमलाकामुकः पुमान् ॥ अभ- कुरविभूतिर्नस्तरङ्गयतु मङ्गलम्॥ १॥ सीमातिलङ्घि महिमा श्रीमात्रामानुजो मुनिर्जीयात् ॥ भिन्दति हन्दि खलानां सिंहः करिणामिव स्मृतो योऽसौ ॥२॥ श्रीमान्वैदिकमार्गकण्टकसमुद्धारैकदीक्षाधरो यश्री- वेटशैलनाथकरुणापूरे पयोमानुषः ॥ श्रीरामानुज- योगिपादकमलस्थानाभिषेकं गतो जीयात्सोऽयमनन्त पूरुषगुरुस्सिहासनाधीश्वरः ॥ ३ ॥ श्रीरङ्गमूरिः श्रीशैले तस्य सिंहासने स्थितः ॥ कुदृष्टिध्वान्तमा- र्तण्डं प्रकाशयति सम्प्रति ॥ ४॥ मायावादिमयोलूक मदामोदविकर्तनः॥ कुदृष्टिध्वान्तमार्तण्डः प्रकटोऽयं विजृम्भताम् ॥५॥ विशिष्टाद्वैतसिद्धान्ती वेदान्ता- चार्य आदधौ ॥ मायावादिमतध्वंसनिपुणां शतदूष- णीम् ॥ ६॥ उमामहेश्वराख्यस्तमनुकुर्वन्नगात्कुदृक् ॥

कुदृष्टिध्वान्वमार्तण्डः। (३) जडोऽयमपि भाषापतिनापि दोषलेशशङ्कासहिष्णुतया प्यसम्भाष्यं श्रीभाष्यं दूषयितुकामो दोषगणमारोपय न्स्वमस्तके स्वयमेव दुर्भरं भारं प्रपातयत्यवर्जनीय मितीह निरूप्यते ॥ १३॥ अत्र प्रथमं तावददसीय ग्रन्थरचनायोग्यता किञ्चित्परीक्ष्यते प्रेक्षावतां प्रदर्श नाय॥१॥ यदाह वरूधिनीकारा भगवता हि मीमां साशास्त्रकारेण "विप्रतिषेधाच्चासमञ्जसम्"२।२।९] इत्यस्मिन्सूत्रे विप्रतिषेधार्थकथनं साङ्ख्यसूत्रासामञ्ज स्यकारणमित्यभाणि ॥ अतश्शतं विरोधानां भाष्ये रामानुजेरिते दुरुद्धरं हरेणापि हरिणापि निरूप्यते इति ॥ १५॥ तदिदं प्राथामिकं प्रतिज्ञावाक्यमेकमेवाद सीयं योग्यतासर्वस्वं स्फुटयति ॥ १६॥ अत्राहि विप्र- तिषिद्धार्थकथनमिति वक्तव्ये विप्रतिषेधार्थकथनमि- त्यभिधानं धर्मधामविवेकाभावनिबन्धनमिति स्पष्टम् ॥ १७ ॥ यतो विप्रतिषिद्धार्थकथनमेव साख्यशा- त्रासामञ्जस्यकारणं नतु विप्रतिषेधरूपार्थकथनम् ॥ नच स्वोक्तार्थविप्रतिषेधलक्षणोप्यर्थस्साङ्ख्यशास्त्रे प्रतिपादितोऽस्ति ॥१८॥आप चास्मिन्वाक्ये मीमांसा कारण विप्रतिषिद्धार्थकथनस्य साङ्ख्यशास्त्रासामञ्ज स्यकारणत्वाभिधानमत इत्यनेन हेतुतयोपादायतद्धे- तुकत्वं श्रीभाष्ये दुरुद्धरविरोधशतनिरूपणे प्रतिपाद्य मानं कथं नुनाम सङ्गच्छते ॥अन्येनान्यत्र दोषकथन (४) कुदृष्टिध्वान्तमार्तण्डः। स्य स्वयमन्यत्र विरोधकथनं प्रति हेतुत्वासम्भवात् । रस्तुतस्त विरोधसद्भावस्यैव तत्र विरोधकथनं प्रति हतुत्वसम्भवाच्च ॥ १९॥ अतो मीमांसाकारण साङ् ख्य शास्त्रे विप्रतिषिद्धार्थप्रतिपादकत्वेनासामञ्जस्य कथनाच्छीभाष्ये दुरुद्धरविरोधशतमहं ब्रवीमीतिवद नयं लोकैश्चन्द्रे कलङ्कित्वेनासौन्दर्यवर्णनाच्चण्डभानौ दुरुद्धरं कलङ्कशतमहं ब्रवीमीति वदनिवासम्बद्धहे तुहेतुमद्भावकथनेन कथङ्कारं सर्वलोकहासास्पदं न भ- वेत् ॥२०॥ ईदृश्या च निजग्रन्थरचनायोग्यतया श्रीभाष्यं बिभित्सुमिमं लोष्टप्रक्षेपेणार्कमण्डलमम्ब रादधः पिपातयिषुमिवानुन्मत्तं न कश्चिद्विपश्चि- जानीयात् ॥ २१ ॥ अदसीयग्रन्थरचनाचातुर्यसर्वस्वं स्थालीपुलाकन्यायेनाखिलविदुषामवगमयितुं दिङ्मा- त्रमिदमिह दर्शितं ग्रन्थविस्तरभिया ॥ २२ ॥ इतः परन्त्वदसीयवाक्यप्रयोगासामञ्जस्यमस्पृशन्त एव वयं विपरीतमर्थाशमेव प्रत्याख्यास्यामः॥२३॥जगत्स- ष्टयाउनुकूलसङ्कल्पज्ञानशक्त्यादिमत्त्वात्स्वस्यैव बहु भवनसङ्कल्पपूर्वकं स्वयमेव जगद्रूपेण बहुभवनाच्च गतस्सर्वविधकारणं ब्रह्मेति हि त्रय्यन्तनिष्णाताभिमतो वेदान्तसिद्धान्तः॥२४॥ यत्तावदवाह वरूधिनीकारः श्रीभाष्ये ॥ "शास्त्रयोनित्वात्" [१।१ । १३ ] इत्यधिकरणे ब्रह्मणो जगत्कारणत्वस्य वेदान्तप्रमाण- कुदृष्टिध्वान्तमार्तण्डः। (५) कत्वमुक्त्वा नात्माश्रुतेनित्यत्वाच ताभ्यः"[२।३। १८] इत्यधिकरणे पुनस्तद्विरुद्धमुक्तम् ॥१॥उक्तं हि तत्र श्रीभाष्ये ॥अतस्सर्वदाचिदचिद्वस्तुशरीरतया तत्प्रकारं ब्रह्म ॥ तत्कदाचित्स्वस्माद्विभक्तव्यपदेशा नर्हातिसूक्ष्मदशापनचिदचिद्वस्तुशरीरं तिष्ठति । तत्कारणावस्थं ब्रह्म । कदाचिच्च विभक्तनामरूपस्थूल चिद्वस्तुशरीरम् । तच्च कार्यावस्थम् । तत्र कारणाव- स्थस्य कार्यावस्थापत्तावचिदंशस्य कारणावस्थायां शब्दादिविहीनस्य भोग्यत्वाय शब्दादिमत्तया स्वरू- पान्यथाभावरूपविकारो भवति। चिदंशस्य च कर्म- फलविशेषभोक्तृत्वाय तदनुरूपविज्ञानविकासरूपवि- कारो भवति । उभयप्रकारविशिष्टे नियन्त्रंशे तदवस्थ तदुभयविशिष्टतारूपविकारो भवति । कारणा- वस्थाया अवस्थान्तरापत्तिरूपो विकारः प्रकारद्धये प्रकारािणि च समान इति ॥२॥अत्र चिदचिदंशयोरेव विकारित्वम् । ब्रह्मणस्तु विकारिवैशिष्टयमात्रम् । नतु विकारित्वमित्युक्तम् ॥३॥ इत्थमुक्त्वा विकारित्वे श्रुतिविरोधोप्युत्तरत्र प्रदर्शितः ॥ ४॥ तथाचोत्तरत्र भाष्यम् । अचिदंशवत्स्वरूपान्यथात्वाभावाभिप्राया उत्पत्तिप्रतिषेधवादिन्यो नित्यत्ववादिन्यश्च। न जायते म्रियते वेत्याद्याः नित्योनित्यानामित्याद्याश्च श्रुतयः स्वरूपान्यथात्वज्ञानसङ्कोचविकासरूपोभयविधानिष्ट (६) कुदृष्टिध्वान्तमार्तण्डः। विकाराभावाभिप्रायाः। स वा एष महानज आत्माऽज रोऽमरोऽमृतोऽभयो ब्रह्म । नित्यो नित्यानामित्याद्याश्च परविषयाः श्रुतय इति ॥ ६॥ अत्र ब्रह्मणः कारणत्वं प्रतिषिद्धमित्यविवादम् । स्वरूपधर्मान्यथात्वलक्षणवि कारद्वयशून्यस्य कूटस्थस्य कारणत्वासम्भवात् ॥६॥ इत्यारभ्य । ततश्च स्वरूपधर्मान्यथाभावलक्षणकारण- त्वस्यैत्रक श्रुतिप्रतिषेध्यत्वाश्रयणादन्यत्र श्रुतिप्रमाण- कत्वस्वीकाराच्च पूर्वापरविरोधो दुरुद्धरः।“विरोधो बल वानेष जगत्कारणताश्रितः । अनेन परमेशानजगत्का- रणता क्षता। छिन्नमूलद्रुमन्यायात्सकलं दर्शनं क्षतम् । विरोधं चेममुद्धर्तुमवधिब्रह्मणो वयः" इत्यन्तेन ग्रन्थेन स्वबुद्धया दुरुद्धरत्वाभिमतं प्रथमं विरोधम् ॥२५॥ तदेतत्सर्व श्रीभाष्यपङ्चर्थानवधारणकारणत्वशब्दा र्थानवधारणस्वीयदुरुच्छेदविपरीतदुर्वासनामूलमवर्ज- नीयतया स्वपक्षे संप्राप्नुवतो दोषस्य परपक्षे समारोप- णमात्रमिति विपश्चितो विहसन्ति ॥२६॥ यतश्शास्त्र योनित्वाधिकरणभाष्योक्तस्यार्थस्य किञ्चिदपि विरु- धम्। नात्माश्रुतेनित्यत्वाच्च ताभ्यः"इत्यधिकरणे प्रति पादितम् ॥ २७ ॥ तथाहि । शास्त्रयोनित्वाधिकरण भाष्ये जगजन्मादिकारणत्वविशिष्टब्रह्मणश्शास्त्रप्रमा- णकत्वमभिहितम् ॥ २८ ॥आत्माधिकरणभाष्येऽपि तदेव ब्रह्मणः कारणत्वं परपक्षेषु ब्रह्मणस्तत्स्वीकारप्रा- कुदृष्टिध्वान्तमार्तण्डः। (७) तानिष्टप्रसङ्गस्य स्वपक्षेनवकाशताप्रतिपादनपूर्वकमु- पपादितम् ॥२९॥ इयदेव च तत्र विलोक्यते चक्षुष्म द्भिशब्दार्थविवेकिभिर्विद्वद्भिः। नतु तत्प्रतिषिद्धम् ॥ तत्कदाचित्स्वस्माद्विभक्तव्यपदेशानर्हातिसूक्ष्मदशा- पन्नचिदचिद्वस्तुशरीरं तिष्ठति । तत्कारणावस्थं ब्रह्म कदाचिच्च विभक्तनामरूपस्थूलचिदचिदस्तुशरीरम् । तच्च कार्यावस्थम् इतिभाष्यपङ्ख्या ब्रह्मणि जगत्कारण त्वस्य स्पष्टमभिधानात् ॥ उभयप्रकारविशिष्टे निय- न्त्रंशे तदवस्थतदुभयविशिष्टतारूपविकारो भवति । कारणावस्थाया अवस्थान्तरापत्तिरूपो विकारःप्रकार द्वये प्रकाशिण च समान इति भाष्यपङ्या कारणत्व- निर्वाहोपयिकविकारसद्भावोपपादनात्।अस्माकंतु स्थू लसूक्ष्मावस्थचिदचिद्वस्तुशरीरं ब्रह्म कार्यकारणोभया वस्थावस्थितमाप सर्वदा निरस्तनिखिलदोषगन्धं सत्यसङ्कल्पत्वाद्यपरिमितोदारगुणसागरमवतिष्ठते॥प्र- कारभूतचिदचिद्वस्तुगता अपुरुषार्थाः स्वरूपान्यथा भावाश्चति सर्व समञ्जसमित्युपसंहारभाष्यग्रन्थेन पर पक्षप्राप्तदोषप्रसङ्गस्य स्वपक्षेनवकाशताप्रतिपादनाच यथोक्तार्थस्यैवोपलब्ध्या सर्वत्र ब्रह्मणो जगत्कारणत्वा भ्युपगमस्यैव दर्शनात् ॥३०॥ इत्थं च तद्विरुद्धमुक्त मितिवर्णनम् ॥अत्र चिदचिदंशयोरेव विकारित्वम् । ब्रह्मणस्तु विकारिवैशिष्टयमात्रम्।न विकारित्वमित्युक्त कुदृष्टिध्वान्तमार्तण्डः। मिति वर्णनं च जात्यन्धवालिझभाषितमित्येव सिद्धम् ॥३१॥ इदं द्वितीयवर्णनन्तु।अनुपदमेव।।उभयप्रकारवि शिष्टे नियन्त्रंशे तदवस्थतदुभयविशिष्टतारूपविकारो भवति । कारणावस्थाया अवस्थान्तरापत्तिरूपो वि- कारःप्रकारद्वये प्रकारिणि च समान इति पंक्तिमनूचैव क्रियमाणं वक्तुः पश्यतोहरत्वमप्यवगमयतीति विशेषः ॥३२॥ जीवात्मनः परमात्मनश्च मरणादिविकारा- भावप्रतिपादकतया कतिपयश्रुत्युदाहरणपरभाष्यग्र- न्थस्य परब्रह्मणः कारणत्वापवादकविकाराभावपरत- यानुवादकरणन्तु भाष्यपत्त्यर्थापरिज्ञानमूलम् । तत्र जीवात्मविषयतयोदाहृतश्रुतीनाम् । अचिद्वस्तुनि प्र- सिद्धस्वरूपान्यथात्वलक्षणविकाराभावपरतायाः। पर- मात्मविषयतयोदाहृतश्रुतीनाम्।अचिद्रस्तुनि प्रसिद्धो यस्स्वरूपान्यथात्वलक्षणो विकारः। यश्च जीवात्मनि प्रसिद्धस्तदसाधारणधर्मभूतज्ञानसंकोचविकासलक्षणो विकारः। तादृशोभयविधानिष्टविकारविशेषाभावपर- तायाश्च भाष्य एव प्रस्फुटत्वेन । ब्रह्मणि कारणत्व निर्वाहकतया स्वरूपान्यथात्वलक्षणविकारविशिष्टाचि द्वस्तुस्वासाधारणधर्मभूतज्ञानसंकोचविकासलक्षणवि- कारविशिष्टचिद्वस्त्वेतदुभयविशिष्टत्वरूपो यस्तृतीयो विकार उक्तः। तदभावपरताया अदर्शनात् ॥३३॥ इदमत्रावधेयम्।।अचिद्वस्तुनि स्वरूपान्यथात्वलक्षणो.

कुदृष्टिध्वान्तमार्तण्डः। (९) विकारोस्ति । जीवात्मनि धर्मभूतज्ञानसंकोचविकास- लक्षणविकारोऽस्ति । परब्रह्मण्युक्तलक्षणविकारविशि- ष्टचिदचिद्वस्तुवैशिष्टयलक्षणविकारोऽस्ति । तत्र प्रथम द्वितीयौ द्वावेव विकारावनिष्टरूपौ।न तृतीय उदाहृत- श्रुतिभिःप्रथमविकारो जीवात्मनि प्रतिषिच्यते । अ- निष्टरूपी प्रथमद्वितीयो द्वावेव विकारो परमात्मनि प्रति षिध्यते न तृतीयः।कारणत्वनिर्वाहाय च यः कश्चिदेक एव विकारोऽपेक्षितः। न सोअतो ब्रह्माणि प्रथमद्वितीय विकारप्रतिषेधमात्रेण न कारणत्वं प्रतिषिद्धं भवति । तृतीयविकारेणैव तत्सिद्धेरिति ॥३४॥ अतः अत्र ब्रह्मणः कारणत्वं प्रतिषिद्धमित्यविवादम् । स्वरूपध- मान्यथात्वलक्षणविकारद्वयशून्यस्य कूटस्थस्य कार णत्वासम्भवादित्युक्तिः। ततश्च स्वरूपधर्मान्यथाभा- वलक्षणकारणत्वस्यैकत्र श्रुतिप्रतिषेध्यत्वाश्रयणादन्य- श्रुतिप्रमाणकत्वस्वीकाराच पूर्वापरविरोधो दुरुद्धर इत्याधुपसंहारोक्तिश्च श्रीभाष्यपंक्त्यर्थापरिज्ञानमूलै- वेति सिद्धम् ॥ ३५॥ किञ्चास्मत्पक्षोपरि दूषणकथा- प्रसङ्गे स्वरूपधर्मान्यथात्वलक्षणविकारद्वयशून्यस्य कूटस्थस्य कारणत्वासम्भवं वदता त्वया स्वेष्टमल- ब्ध्वैव प्रत्युत निजसदन एव हुतवहज्वाला निक्षिप्ता भवति । जगत्कारणतया वेदान्तसिद्धस्य ब्रह्मणस्तद- निर्वाहलक्षणदुर्भरमहादोषभारस्य स्वमस्तके स्वयमेव (१०) कुदृष्टिध्वान्तमार्तण्डः। स्थापितत्वात् ॥३६ ॥ जगतोऽपारमार्थिकत्वाद्ब्रह्म- स्वरूपस्य च कदाचिदप्यन्यथात्वाभावानिर्विशेषत्वेन धर्मान्यथात्वस्यापि दुर्वचत्वाच्च केनापिप्रकारेण ब्रह्मणि विकारोपपादनासम्भवेन ब्रह्मणो जगत्कारणत्वप्रति- पादकवेदान्तविरोधलक्षणस्स्वमतमूलकृन्तनो महानयं दोषस्तवैव खलु दुरुद्धरो निष्पद्यते ॥३७ ॥ यत्तु । ननु तवापि मते कूटस्थं ब्रह्म कारणमिति चेन्न। माया- यास्तत्कारणत्वं ब्रह्मण्यध्यारोप्यत इत्यभ्युपगमादिति स्वमते ब्रह्मकारणवादस्य निर्वाहकरणम्॥३८॥तदति- तुच्छम्। ईदृशनिवाहेण ब्रह्मणस्साक्षादेव जगत्कारणत्वं स्पष्टमुद्घोषयतो वेदस्य तन्मथननिस्सारितसकलसार तमार्थान्गर्भीकृत्य वेदविदग्रसरेण भगवता बादरायणेन प्रणीतस्य शारीरकमीमांसाशास्त्रस्य चोन्मत्तजल्पित त्वापादकेन वज्रलेपायितस्योन्मत्तभावस्यैव परं तव सिद्धेः॥३९॥ इदमत्रावधेयम् । अध्यारोपो नाम वस्तुतस्तस्मिन्नविद्यमानस्यान्यत्रैव सतो-धर्मस्य तस्मि विद्यमानतया प्रतिपादनमेव ॥१॥ तथाविधप्रतिपाद नपरत्वं च ॥ यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजि- ज्ञासस्व । तद्ब्रह्मेति । [ तै० ।३।१] तस्मादा एतस्मादात्मन आकाशस्सम्भूतः [ते।२।१] मोकामयत । वह स्यां प्रजाययति । स तपातप्यत । स कुदृष्टिध्वान्तमार्तण्डः। (११) तपस्तत्वा । इदश्सर्वमसृजत । यदिदं किञ्च । तत्सृ ट्वा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभ- वत् [तै०।२।६।] सत्त्वेव सोम्येदमग्र आसीदे- कमेवाद्वितीयम् ॥ तदैक्षत बहु स्यां प्रजायेयेति । तत्ते- जोसृजत तत्तेज ऐक्षत । बहु स्यां प्रजायेयेतिातदपोस- जत ।ता आप ऐक्षन्त बह्वयस्स्याम प्रजायेमहीति। ता अन्नमसृजन्त । [को०।६।२।२।३।४] सर्व खल्विदं ब्रह्म तजलानिति शान्त उपासीत । [क्वां. [३।१४।१] इत्यादीनां ब्रह्मणो जगत्कारणत्वं प्रस्फुटमुद्घोषयतां परमप्रमाणभूतानां परश्शतानां वेदवचसा न कथंचिदपि वक्तुं शक्यम् ॥२॥ एवं सकलवेदान्तसारसमुद्धरणैदंपर्यप्रवृत्तेन भगवता बाद- रायणेनापि शारीरकमीमांसाशास्त्रे ॥ जन्मायस्य यतः [१११२] प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् । [१।४।२३] योनिश्च हि गीयते [१।४।२८] इत्यादिभिस्सूत्रैस्तदेव ब्रह्मकारणत्वं सम्याग्विचारपू- र्वकं स्थापितम् ॥३॥ इत्थं ब्रह्मणो जगत्कारणत्वं प्रस्फुटं प्रतिपादयतो वेदान्तगणस्य मीमांसाशास्त्रस्य च मायागतकारणतायाब्रह्मण्यध्यारोपेण प्रतिपादनपर त्वस्वीकारे चोन्मत्तजल्पितरूपत्वमप्रमाणत्वं च दुर्वारं प्रसज्यते ॥४॥प्रमाणतया सर्वसम्प्रतिपन्नस्य शास्त्रस्ये दृशत्वकथनेन तवैव परमुन्मत्तता स्थिरीकृता स्यात् (१२) कुदृष्टिध्वान्तमार्तण्डः। ॥५॥न तूक्तलक्षणस्य शास्त्रस्य ताहशत्वं केनचिद ङ्गीक्रियेत ॥६॥ किञ्च ॥ सर्वलोकहितप्रदर्शनाय प्रवृत्तं वेदादिक शास्त्रं वस्तुतो ब्रह्मण्यविद्यमानं माया- गतं कारणत्वं ब्रह्मण्यध्यारोप्य प्रतिपादयत्प्रागेव मुग्धं लोकं पुनरपि किमर्थम्मोहयति ॥७॥तथा प्रतिपादय द्वा प्रतारकत्वं कथं नासादयति॥८॥ इत्थं स्वभावत कञ्चिदर्थ प्रतिपादयतश्शास्त्रस्याध्यारोप्यप्रतिपादनप- रत्ववर्णने सर्वत्रैव तथात्वशंकाप्रसङ्गेनाविश्वसनीयता- या दुर्वारत या क्वचिदपि निर्विशंकं प्रमाणतयास्वीका- रकथैव कथं नास्तमिता स्यात् ॥९॥ एवं ब्रह्मणो जग- कारणत्ववादिनो वेदान्तस्येत्थमयथावस्थितार्थाभि- धायकतायास्तात्त्विकत्वे वेदान्तरहस्यविवेचनैकप्रयो- जनतया प्रवर्तिते मीमांसाशास्त्रे वा बादरायणेन कथं नायमंशःप्रकटितस्स्यात् ॥१०॥ अपि च ॥ ईक्षते - शब्दम् ।।१।१५] इत्यादिषु साङ्ख्यादिम- तसिद्धं केवलप्रकृतेः कारणत्वं प्रत्याख्याय ब्रह्मण्येव तत्स्थापनस्य शारीरकशास्त्रे बादरायणेन करणान्मा- यागतं कारणत्वं ब्रह्मण्यध्यारोप्य वेदान्ताःप्रतिपादय- न्तीति वादस्यावकाश एव नोपलभ्यते ॥ मायायामेव कारणत्वाभावावगतः । मायान्तु प्रकृति विद्यान्मा- यिनन्तु महेश्वरम् [श्वे०।४।१०] इत्यादिश्रुत्या कुदृष्टिध्वान्तमार्तण्डः। (१३) प्रकृतेरेव मायात्वावगतेश्च ॥ ११॥ तस्माद्ब्रह्मकारण तावादी वेदो मायागतं कारणत्वं ब्रह्मण्यध्यारोप्य प्रति- पादयतीत्येप वादस्सर्वथैवासङ्गत इति सिद्धं भवती ति ॥४०॥ यदपि । यद्वा ब्रह्मणोपि स्वविपमसत्ताक मन्यथात्वमभ्युपगम्यते । वस्तुनस्तद्विपमसत्ताकोऽन्य- थाभावो विवर्त इति मममतम् । विवर्तवादाश्रयणादेव- ब्रह्मणः कारणत्वसिद्धिः कौटस्थ्यहान्यभावश्चेति कथ- ञ्चित्कल्पान्तरेण ब्रह्मकारणत्वसमर्थनम् ॥४१॥ तदपि तुच्छमेव त्वदीयस्य ब्रह्मविवर्तवादस्य विवेचनासहि- प्णोविदग्धविबुधगोष्ठयां प्रकटयितुमेवानहत्वात्॥४२॥ अथ कोयं ब्रह्मणो विवानामेति विवेचयामः॥४३॥ विभिन्नाकारेण वर्तनं विवर्त इति व्युत्पन्नस्य विवर्त- शब्दस्य रूपान्तरापत्तावेव प्रसिद्धशक्तिकतया तस्या- श्च प्रागवस्थातोऽवस्थान्तरापत्तिलक्षणविकार एव पर्यवसन्नत्वाद्विकारपर्यायान्यथात्वशब्देन विवर्तशब्द स्य त्वयैव व्याख्यायमानत्वाच्च विवर्तशब्दवाच्याव- स्थाविशेषस्वीकारे ब्रह्मणो विकारित्वस्यैवाभ्युपगम- सिद्धया त्वदभिमतं निर्विकारत्वलक्षणं कौटस्थ्यंकर- क्षितम् ॥४४॥ इदं पुनरत्रावधेयम् । कौटस्थ्यं हि निर्विकारत्वरूपं त्वदभिमतम् ॥१॥ तच्च ब्रह्मणो न सिध्यति । विवर्तरूपस्य विकारस्य कारणत्वनिर्वाहाय त्वयाप्यभ्युपगतत्वात् ॥२॥ न च विकारविशेषाभाव २ (१४) कुदृष्टिध्वान्तमार्तण्डः। एव कौटस्थ्यम् । नतु विकारसामान्याभावः । इत्थञ्च पारमार्थिक ब्रह्मणि स्वविषमसत्ताकयोर्विवर्तशब्दित- योर्व्यावहारिकप्रातिभासिकविकारयोरभ्युपगमेपि स्व- समानसत्ताकपारमार्थिकविकारानभ्युपगमेन तदभाव- लक्षणं कौटस्थ्यं ब्रह्मण्यवाधितमेवेति वाच्यम् । विक- ल्पासहत्वात् ॥३॥ कौटस्थ्यशब्दार्थः किं पारमार्थि- कविकाराभाव इत्युच्यते । आहोस्विद्विकारप्रतियोगि- काभाव इत्युच्यत इति पृच्छामः॥४॥नायः पारमार्थि- कस्य विकारस्यैव त्वयानभ्युपगमेन प्रतियोग्यप्रसि- व्या पारमार्थिकविकाराभावशब्दाभिलपनीयस्य कस्यचिदभावस्यैवाप्रसिद्धः॥५॥न द्वितीयः । व्याव- हारिके वस्तुनि प्रातिभासिकविकाराभावस्य प्रातिभा- सिके वस्तुनि व्यावहारिकविकाराभावस्य च सम्भवेने दशकौटस्थ्यस्य प्रसिद्धविकारिष्वतिप्रसक्ततयाऽव्याव तकत्वात् । व्यावहारिकप्रातिभासिकतिकारयोर्ब्रह्मण्य भ्युपगमेनैव तदभावासिद्धया ब्रह्मण एव कूटस्थताया दुर्लभत्वप्रसङ्गाच्च ॥६॥ एतेन ब्रह्मणि स्वविषमसत्ता- कविवर्तलक्षणविकारस्वीकारेऽपि स्वसमानसत्ताकवि काराभावलक्षणं कौटस्थ्यं निर्बाधमित्यपि निरस्तम्। ब्रह्मसमानसत्ताकविकारस्यैव त्वयाऽनभ्युपगमेन प्रति योग्यप्रसिद्धयैव तदभावस्याप्यसिद्धेश्च॥७॥किञ्च॥ ब्रह्मणि स्वविषमसत्ताकविकारस्वीकारेपि ॥ निष्कलं कुदृष्टिध्वान्तमार्तण्डः। (१५) निष्क्रिय शान्तं निरवयंनिरञ्जनम् ॥३०॥६॥१९॥ इत्यादिश्रुतिविरोधो हि दुरुधर एव ॥ ताभिर्विकार सामान्याभावस्यैव प्रतिपाद्यमानत्वात् ॥ ८॥ त्वन्मत भाष्यकारेणापि विकारसामान्याभावरूपमेव कौटस्थ्यं प्रतिपाद्यते ॥९॥ तथोक्तमारम्भणाधिकरणभाष्ये ॥ ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्रह्मशास्त्रस्या भिमतमिति गम्यते । नेत्युच्यते । स वा एप महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म [ बृ०॥६॥४ ॥२५॥] स एप ने ति नेत्यात्मा [बृ०॥६॥४॥ ॥ २२ ] अस्थूलमनणु [वृ०॥६॥८॥८॥] इत्यादिभ्यस्सर्वविक्रियाप्रतिपेधश्रुतिभ्यो ब्रह्मणः कूट- स्थत्वावगमादिति ॥ कूटस्थं च ब्रह्म सर्वविक्रियाप्रति धादित्यवोचामेति च ॥१०॥ इत्थं कौटस्थ्यस्य विकारसामान्याभावरूपतायास्त्वद्भाष्यकारेणैव स्पष्ट- मभिधानाद्ब्रह्मणो विवर्तवादोऽयं त्वन्मतभाष्याकारा शयस्यापि विरुद्ध एव त्वयोच्यत इति सिद्धम् ॥११॥ न च कारणत्वश्रुतिविकारप्रतिषेधश्रुत्यविरोधाय परमा- र्थतो विकाराभावरूपमेव कौटस्थ्यमास्थीयते । नतु विकारत्वावच्छिन्नविकारसामान्याभावरूपम् । नचात्र प्रतियोग्यप्रसिद्धयाऽभावाप्रसिद्धिः । घटत्वेन पटो नास्तीतिवत् । पारमार्थिकतया विकारो नास्तीति प्रतीतिसिद्धस्य पारमार्थिकत्वावच्छिन्नविकारनिष्ठप्रति (१६) कुदृष्टिध्वान्तमार्तण्डः। योगिताकस्य व्यधिकरणधर्मावच्छिन्नाभावस्यैवाभ्युप गमादिति वाच्यम्।तथा सति तादृशाभावस्य केवलान्व- यितया सर्वविकारिपदार्थसाधारणत्वेनाव्यावर्तकत्वात्। विकारिभ्यो व्यावृत्तिप्रदर्शनायैव क्रियमाणस्य तत्र तत्र ब्रह्मणि कूटस्थत्वनिर्देशस्यासामञ्जस्यप्रसंगाच ॥१२॥ अथ कौटस्थ्यं विकारसामान्यात्यन्ताभाव एव । विवर्तश्च न विकारः। वस्तुनस्स्वविषमसत्ताकोऽन्यथा- भावो विवर्त इति मम मतम् । इत्थं च ब्रह्मणो विवर्त स्वीकारोपिन निर्विकारत्वरूपकौटस्थ्यहानिरिति चेन्न। दत्तोत्तरत्वात् । विवर्तविकारपरिणामान्यथात्वादिश- ब्दानां पूर्वाकारविभिन्नाकारपराणां पर्यायवाचकताया एव प्रसिद्धतया विवर्तविकारशब्दयोविभिन्नार्थकत्वस्य कथंचिदपि वकुमशक्यत्वाच ॥ १३॥ न चाश्रयाश्रयि सत्तासाम्यवैषम्याभ्यां विकारविवर्तशब्दितावस्थयो- वैजात्यं सुवचम् । स्वोत्तरत्वस्वसामानाधिकरण्योभ यसम्बन्धेनावस्थाविशिष्टावस्थात्वरूपविकारशब्दप्रवृ- तिनिमित्तस्य विवर्तशब्दाभिहितावस्थासाधारण्येन परशब्दवाच्यताया दुरितया तत्राश्रयाश्र- काराभाष वैषम्ययोरकिञ्चित्करत्वात् । अन्यथावि ब्रह्मसमानसत्ता तिपन्नानां घटत्वाद्यवस्थानामपि स्वा योग्यप्रसिद्धचैव तदरकत्वाभावेन विकारत्वासिद्धि- ब्रह्मणि स्वविषमसत्ताव विवर्तशब्दितावस्थातोविकार कुदृष्टिध्वान्तमार्तण्डः। (१७) शब्दितावस्थायाः कथञ्चिदपि भेदस्सुवचः।।१६॥एतेन विवापि विकार एव कामं भवतु । भवतु च ब्रह्मणस्त- दाश्रयत्वमपि।ब्रह्मणःकूटस्थत्वव्यपदेशस्तु स्वसमान- सत्ताकत्वस्वाश्रयत्वोभयसम्बन्धावच्छिन्नप्रतियोगिता- कविकारसामान्यभावविषयः प्राकृतपदार्थेषु विकृतत्व- व्यपदेश उक्तोभयसम्बन्धेन विकारवैशिष्टयविपयः। इ- स्थञ्च नोक्तरीत्याऽभावाप्रसिद्धिानापि चोक्तलक्षणकूट- स्थत्वस्याव्यावर्तकताप्रसङ्ग इत्युक्तावपि न निस्तारः। प्रायुक्तरीत्या मृदादिद्रव्यस्य तदसमानसत्ताकाभिर्घट- वाद्यवस्थाभिर्विकारित्वव्यपदेशानिर्वाहप्रसङ्गात्साक्षा- त्सम्बन्धेन ब्रह्मणि विकारं स्वीकृत्य पारिभापिकण केनचित्परम्परासम्बन्धेन तदसत्त्वमात्रेण निर्विकारत्व- समर्थनस्य विद्वदुपहास्यत्वाच ॥ १६॥ किं बहुना ॥१७॥ईदृशनिर्विकारत्वलक्षणकूटस्थत्वस्य सर्वविका रिद्रव्यसाधारण्येनाव्यावर्तकताप्रसङ्गोऽपि दुर्वारः ॥ सत्कार्यवादिनां वेदान्तिनां सर्वस्यैव तत्तदवस्थाश्रय द्रव्यस्य नित्यताया अवस्थानामेवागन्तुकतायाश्चाभि मततया विकारसामान्यस्याश्रयासमानसत्ताकत्येन निरुतोभयसम्बन्धेन तदभावस्य सर्वविकारिद्रव्ये निधित्वात् ॥ १८॥ एवं विवर्तस्य विकारपरिणामा दिशब्दवाच्यावस्थातो विलक्षणतां स्वीकृत्य परिणाम विनैव विवर्तमात्रस्वीकारेण ब्रह्मणः कारणत्वसिद्धि ।

(१८) कुदृष्टिध्वान्तमार्तण्डः। कौटस्थ्यहान्यभावं च क्वचित्स्वयमेव ब्रुवाणस्य न हि परिणामं विनापि कारणत्वं सम्भवतीत्यपि क्वचिद्भवा- णस्य तव केयं दशेति सुदूरपर्यालोचनेप्यन्तरेणोन्म- त्तावस्थां न काञ्चित्स्वस्थावस्थां पश्यामः ॥१९॥ अथ स्वसमानसत्ताकत्वस्वाश्रयत्वोभयसम्बन्धाव च्छिन्नविकारत्वावच्छिन्नप्रतियोगिताकविकारसामान्या भावलक्षणं निर्विकारत्वमेव कूटस्थत्वम् । नचात्र कालिकसम्बन्धघटितसमनैयत्यं स्वसमानसत्ताकत्वम्। येनोक्तदोषस्स्यात् । अपि तु । पारमार्थिकसत्ता व्यावहारिकसत्ता प्रातिभासिकसत्ता चेति पदार्था- नां सत्तात्रैविध्यस्यास्मदभिमततया स्ववृत्तिपारमा थिकत्वव्यावहारिकत्वप्रातिभासिकत्वान्यतमधर्मवत्त्व रूपमेव तत् । इत्थं चेदृशकूटस्थत्वस्य न ब्रह्माण बाधः । नापि चाव्यावर्तकता ब्रह्मणि पारमार्थिक तत्स- जातीयविकारानभ्युपगमाव्यावहारिकप्रातिभासिक- पदार्थयोस्तत्सजातीयविकाराभ्युपगमाच । इत्थं च व्यावहारिको वा प्रातिभासिको वा विकारोब्रह्मण्यास्तां नाम । पारमार्थिकस्तु विकारो न हि कश्चिदस्ति । अतो न ब्रह्मणि कौटस्थ्यहानिः। जगत्कारणत्वं तु व्यावहारिकप्रातिभासिकविकारमात्रादेव । व्यावहा- रिकप्रातिभासिकविकारयोर्वस्तुतो मिथ्यात्वेन ब्रह्मणि तादृशविकारस्वीकारेपि न काचिदस्ति क्षतिरिति कुदृष्टिध्वान्तमार्तण्डः । (१९) चेतहि परमार्थतो ब्रह्मणो जगत्कारणत्वमपि नास्ती- त्येव सिद्धमिति ब्रह्मणो जगत्कारणत्ववादिनीनां श्रुतीनां शुक्तिकादिविषये भ्रान्तकृतरजतादिव्यवहार- वदयथावस्थितार्थप्रतिपादकत्वेनाप्रमाणताया एवाङ्गी- कारेण व तव ब्रह्मणो जगत्कारणत्वसमर्थनकथेति विप श्चितो विहसन्ति॥२०॥इत्थं चाध्यारोपवादे विवर्तवादे च वस्तुतोब्रह्मण्यविद्यमानमेव जगत्कारणत्वं तस्मि- प्रतिपादयतो वेदस्याप्रमाणतायाः परमार्थतो ब्रह्मणो जगत्कारणत्वासिद्धेश्चाविशिष्टतया प्रथमपक्षाद्वितीय पक्षे विशेषाभिप्रायेणावतरणमपि तव भ्रान्तिमूलमेव ॥२१॥ अपि च पारमार्थिकसत्ता व्यावहारिकसत्ताप्र- तिभासिकसत्ता चेति यत्त्वं सत्तात्रैविध्यं ब्रूपे ॥२२॥ तत्र कचिद्वेदेषूपलभामहे ॥ २३॥ नापि वेदविदग्रेस- रेण भगवता बादरायणेन निगूढनिखिलवेदरहस्य निष्कासयता प्रणीते शारीरकशास्त्र वा क्वचित्पश्यामः ॥२४॥ तस्मादिवेदिकगोष्ठीवाह्यस्स एष कृत्स्नस्त्व- दीयानां कोलाहलः पिशाचभाषाकोलाहल एवेत्युपे- क्षणीय एव वैदिकानाम् ॥ २५ ॥ वैदिकाः खलु व्या वहारिकशब्दितान्प्रातिभासिकशब्दितान्वा तावकी नपैशाचभापासङ्केतमात्रसिद्धान्पदार्थानानुमन्यन्ते ॥ ॥ २६ ॥ अपि तु परिदृश्यमानं कृत्स्नमेव प्रपञ्च पारमार्थिकमेव मन्यन्ते ॥ २७ ॥ शुक्त्यादौ रजता- कुदृष्टिध्वान्तमार्तण्डः। (२१) जगत्कारणत्वप्रतिपादकानां वेदानां प्रामाण्यमेव न जीवतीति पारमार्थिक विकारं ब्रह्मण्यस्वीकुर्वतस्तव वेदब्राह्यकोटिनिवेशो दुरि एव ॥३१॥ तथाच ब्रह्मणो विकारित्वास्वीकारे कारणत्वासिद्धिः । कारणत्वास्वी- कारे वेदाप्रामाण्यप्रसङ्गो दुर्वारः । तद्भयेन कारणत्व स्वीकारे विकारित्वस्यावर्जनीयतया कूटस्थत्वासिद्धि- रिति ब्रह्मणः कूटस्थत्वं कारणत्वं च वदतस्तवैव पर- स्परविरोधो दुरुद्धरो भवति ॥ ३२॥ अतस्स्वदोष- स्यैव परस्मिन्नारोपणं त्वया क्रियत इति सिद्धं भव- तीति ॥४६॥ यदपि कौंटस्थ्यभङ्गभिया ब्रह्मसमसत्ता कमन्यथात्वमनभ्युपगच्छतस्तद्विपमसत्ताकमन्यथा भावं चास्मन्मतप्रवेशभयादनभ्युपगच्छतस्तव मते तु ब्रह्मणः कारणत्वं गगनकुसुमवदुर्लभम् । तस्मादन्य थात्वप्रतिषेधात्कारणत्वप्रतिषेधस्सिद्ध इत्युक्तम्॥४६॥ तदप्यसत् । स्वरूपान्यथात्वधर्मान्यथात्वयोर्ब्रह्मण्य स्वीकारेपि सूक्ष्मचिदचिद्वैशिष्ट्यावस्थातस्स्थूलचि- दचिद्वैशिष्टयलक्षणावस्थान्तरापत्तिरूपविकारोपपाद- नेनैव कारणत्वसिद्धेर्निष्प्रत्यूहत्वात् ॥४७॥ इदम- त्रावधेयम् । ब्रह्मणः कौटस्थ्यभङ्गभिया विकारानभ्यु- पगमो नास्मास्वस्ति । कूटस्थशब्दस्य निर्विकारपर- त्वाभावेन विकारस्वीकारेपि कौटस्थ्यभङ्गप्रसङ्गाभा- वात् । महाभाष्ये प्रथमाध्यायप्रथमपादे प्रथमाह्निक॥

कुदृष्ठिध्वान्तमार्तण्डः। (२३)
सत्ताकत्वरूपस्य तद्विषमसत्ताकत्वस्य कालिकवि-
शेषणतया तत्समनियतत्वाभावपर्यवसन्नस्य निर्वा-
धत्वात् । अन्याहशस्य विषमसत्ताकत्वस्य दुर्निर्वच
त्वाच्च । तथाच॥ कौटस्थ्यस्य नानाकुलशाखामूलपु-
रुपे कूटस्थशब्दप्रयोगानुरोधेन नानासमुदायसम्बन्धि
तावच्छेदकसाधारणधर्मवत्त्वरूपतया निर्विकारत्वरूप
वासम्भवेन न तद्भङ्गभिया ब्रह्मणि विकारानभ्युपग
मोऽस्मास्वस्ति । अभ्युपगमाच्च स्थूलचिदचिद्वैशि
ध्यादिलक्षणविकारस्य नापि वा ब्रह्मणो जगत्कारण
तादौर्लभ्यप्रसङ्ग इति॥१८॥ यदप्युक्तम् । अन्यथा
त्वस्य विकारत्वोक्त्या कारणत्वस्य श्रुतिविधेयत्वं
निरस्तं भवति। नहि विकारःश्रुत्या विधेयो भवति ।
तस्यानर्थहेतुत्वात् । अनर्थविधाने शास्त्रस्याप्रामाण्या
पातादिति।॥४९॥तदपि विकारशब्दार्थाविज्ञानमूलप्रल
पितमात्रम्।पूर्वाकारादिभिन्नाकारस्यैव विकारशब्दार्थ
तया तस्यान्यथात्वरूपताया दुर्वारत्वात् । विकारवि-
शेषस्य कचिदनर्थहेतुत्वसम्भवेपि पूर्वाकारादिभित्रा-
कारमात्ररूपे विकारसामान्ये तथात्वस्याप्रामाणिकत्वे
न ब्रह्मणो विकारविधानमात्रेण श्रुतेरप्रमाणत्वप्रसङ्गस्य
ब्रह्मणः कारणत्वनिरासप्रसङ्गस्य वाऽनवकाशाच ॥
॥५०॥यत्तु।स्वरूपधर्मान्यथाभावशब्दितस्य परिणा-
मस्य जन्मरूपत्वात् । तस्य । न जायते म्रियते वा।।

(२४) कुदृष्टिध्वान्तमार्तण्डः। इत्यादिश्रुतिभिर्वाधस्याभ्युगतत्वाचापच्छेदन्यायेना- ध्यारोपापवादन्यायेन च ॥न जायते म्रिय ते वा। [क. ॥१॥२॥१८॥] स वा एष महानज आत्मा। [बृ०॥६॥४॥२५॥] निष्कलं निष्क्रिय शान्तम् । [इवे०॥६॥१९] न तस्य कार्य करणं च विद्यते [इवे०॥६॥८॥ इत्यादिभिःकारणत्वप्रतिषेधकवाक्यैः ॥आत्मन आकाशस्सम्भूतः[तै॥२॥१॥२॥]इत्यादि कारणवाक्यानां बाधोऽभ्युपगतो भवति॥नहि परिणाम विनापि कारणत्वं सम्भवति।।येन तत्॥न जायत इत्या दिश्रुतिभिर्न बाध्येतेति वर्णितम् ॥५१॥ तदप्यस्म- दीयभाष्यार्थमविजानतस्तव स्वमतसिद्धार्थस्यास्मासु स्वीयदुर्वासनामूलमारोपणमात्रमेव । अस्मदीयभा- ष्यकारैस्सूक्ष्मस्थूलचिदचिद्वैशिष्टयलक्षणविकारवैशि- टयेनैव ब्रह्मणःकारणत्वोपपादनात् । स्वरूपधर्मा न्यथात्वलक्षणविकारप्रतिषेधकताया एव न जायत इत्यादिश्रुतीनां प्रतिपादनात् । ब्रह्मण्यभ्युपगतविकार- बाधकताया अप्रतिपादनाच्च कारणवाक्यानां कैश्चिद्धा- धकथाप्रसङ्गस्यैवास्मदीयभाष्यकारासम्मतत्वात् । ईदृशासङ्गतकथाप्रसङ्गस्य युष्मदीयभाष्यकारस्यैव सम्मतत्वदर्शनाच ॥१२॥प्रमाणभूतस्य शास्त्रस्य प्रमाणभूतेन शास्त्रेणैव बाधं न ह्यनुन्मत्तः कश्चिदङ्गी- कुर्यात् ॥ ५३ ॥ न चास्मदीयभाष्यकार ईदृशी (२६) कुदृष्टिध्वान्तमार्तण्डः। राय प्रवृत्तानांमातापितृसहस्रेभ्योपि वत्सलतराणाम पौरुषेयनित्यनिर्दोषसर्वसम्प्रतिपन्नप्रमाणभूतवेदानाम प्रमाणतायाः परस्परविरुद्धार्थप्रतिपादकतायाश्च नि- इशङ्कमङ्गीकारात् ॥ ६० ॥ वेदेष्वेव कैश्चिद्वाक्यैः केषांचिद्वाक्यानामात्यन्तिकबाधस्वीकारे बाधित- वाक्यानाम्मिथ्यार्थबोधजनकत्वरूपाप्रमाणताया वा- धकवाक्यानां तद्विरुद्धार्थबोधजनकतायाश्चस्वीकृतत्वं हि दुरपह्नवम् ॥ ६१ ॥ अपच्छेदन्यायोपि युगपद शक्यानुष्ठानपरस्परविरुद्धप्रायश्चित्तप्रतिपादकयोई योश्शास्त्रयोभिन्नकालयागप्रयोगभेदविषयत्वेनाविरोध व्यवस्थापनमात्रपर एव ॥ तत्रैकशास्त्रप्रवृत्तिकाले परशास्त्रस्याङ्गीकृतो बाधोपि तदानीमननुष्ठापकत्व मात्रलक्षण एव । न तु मिथ्यार्थबोधकत्वलक्षण इति नात्र द्वयोश्शास्त्रयोरेकतरस्याप्रमाणत्वकथागन्धः ॥ ॥६२॥ अयमपच्छेदन्यायः पूर्वतन्त्रे षष्टाध्याये पञ्चम पादे ॥ पौर्वापये पूर्वदौर्बल्यं प्रकृतिवत् [६॥६॥५४॥ इति सूत्रसिद्धः॥६३॥ अत्र हि ॥ पञ्चत्विजस्सम- न्वारब्धाः प्रसर्पन्ति । अध्वर्यु प्रस्तोतान्वारभते॥प्रस्तो तारंपतिहर्ता प्रतिहारमुद्गाता|उद्गातारं ब्रह्माणब्रह्मा- णं यजमानतः [श्रु०॥ १॥१॥३॥] इति शास्त्रविहितान्या रम्भणस्य बिच्छेदे प्रायश्चित्तविधानपरम् ॥ बहिष्पव मानं प्रसर्पता यद्युद्गातापच्छिद्येत अदक्षिणस्सयज्ञस्सं कुदृष्टिध्वान्तमार्तण्डः। (२७) स्थाप्यः । तेन पुनर्यजेत तत्र तदद्याद्यत्पूर्वस्मिन्दास्य स्यात् । अथ प्रतिहर्ताऽपच्छिद्येत सर्ववेदसं दद्यात् [श्रु०॥१॥।॥१॥] इति शास्त्रं विषयः ॥ ६४॥ अत्रोद्गात्रपच्छेदप्रतिहत्रपच्छेदयोः प्रायश्चित्तनिमित्त योरेकस्य पूर्वमपरस्य पश्चाच्च सम्भवेऽदक्षिणाकत्वस- र्वस्वदक्षिणाकत्वलक्षणयोईयोः प्रायश्चित्तयोः परस्पर विरोधेन युगपदशक्यानुष्ठानयोरेकस्यैवानुष्टाने प्राप्त कस्यानुष्ठानं कार्य कस्य न कार्यमिति विशये पूर्व प्रवृत्तनिमित्तप्रायश्चित्तशास्त्रात्पश्चात्प्रवृत्तनिमित्तप्राय- श्चित्तशास्त्रस्यैव प्राबल्यं स्वीकृत्य तत्सिद्धस्यैव प्राय- श्चित्तस्यानुष्ठेयता व्यवस्थापिता ॥६५॥ तत्रैकतर शास्त्रस्य भिन्नकालयागप्रयोगान्तरविषयत्वमाश्रित्य तत्काले प्रवृत्त्यस्वीकारमात्रेण न बाधितार्थकत्वलक्षणा प्रामाण्यप्रसङ्गः ॥६६॥ अतो नासौ न्याय इह त्वद- भिमतदानदक्षः॥६७॥ यं पुनरध्यारोपापवादनामानं कञ्चिन्यायमाभिदधासि ॥ ६८॥ न चासौ न्यायः। अपि त्वन्याय एव कश्चिन्यायशब्देनाभिधीयते विवे- कहीनस्त्वदीयैरिति गृहाण ॥६९॥ तथाहि ॥ यदा- म्याणां पशूनां पयसा जुहुयाद्राम्यान्पशूच्छुचायेद्य दारण्यानामारण्यान् जतिलयवाग्वा वा जुहुयाद्वीधुक यवाग्वा वा न ग्राम्यान्पशून्हिनस्ति नारण्यान् । अथो खल्वाहुरनाहुति जतिलाश्च गवीधुकाश्चेत्यजक्षीरेण (२८) कुदृष्टिध्वान्तमार्तण्डः। जुहोत्याग्नेयी वा एषा यदजाहुत्यैव जुहोति न ग्राम्यान्प शून्हिनस्ति नारण्यान् ॥ कृ० य० सं०॥५॥४॥३॥ इति तैत्तिरीयकश्रुतौ च जतिलगवीधुकयवागूहोमयो- रजक्षीरहोमस्य च विकल्प एव विवक्षितः। व्याकर- णादौ शब्दशास्त्रकर्तुमहर्षिमतभेदप्रदर्शनवदिहापि यागानुष्ठातृमहर्षिमतभेदप्रदर्शनस्य विकल्पपरत्वात्। जर्तिलगवीधुकशब्दितानामारण्यतिलगोधूमानामनाहु तित्वेननिन्दायाः नहिनिन्दान्यायेनाजक्षीरप्रशंसामा त्रपरत्वात श्रुतेर्जर्तिलगवीधुकानामत्यन्तमना इतित्वस्यैवाभिमतत्वे तेषां प्रमाणान्तरासिद्धाया होम्यतायाः प्रथम विधेः पश्चात्प्रतिषेधस्य च प्रक्षाल नाद्धीतिन्यायेनायुक्तत्वाच ॥ ७० ॥ नखलून्मत्तव च्छास्त्रं प्रमाणान्तराप्राप्तं कश्चिदर्थ मुधैव प्रथम विधाय पश्चात्प्रतिषेडुमर्हति ॥ ७१ ॥ अतो नात्र वस्तुतो विद्यमानस्यैव धर्मस्य क्वचिदध्यारोपपूर्वक तदपवादो विवक्षितः ॥ ७२ ॥ यत्तुमीमांसकैः पूर्व तन्त्र ॥ दशमाध्यायेऽष्टमपादे ॥ न चेदन्यं प्रकल्प- येत्प्रकृप्तावर्थवादस्स्यादानर्थक्यात्परसामर्थ्याच्च ॥ ॥ १०॥८॥ ७ ॥ इतिसूत्रव्याख्याने दर्शितश्रु तेर्जतिलगवीधुकयोरजक्षीरस्य च होम्यत्वविकल्पप रत्वमस्वीकृत्यजतिलगवोधुकहोम्यत्व विधिनिषेधयो- रर्थवादतामा श्रित्याजक्षीरमात्रहोम्यत्वविधिपरत्वमेव (३०) कुदृष्टिध्वान्तमार्तण्डः। नापि वा विध्यन्तरं किञ्चिदित उत्तरं श्रूयते ॥३॥ अतो नात्र प्रागुदाहतपूर्वतन्त्रसूत्रसिद्धन्यायविशे षस्य प्रचारणावकाशः॥न चेमं न्यायविशेषमध्या- रोपापवादन्याय इति मीमांसका व्यवहरन्ति ॥५॥न च तत्रासतो धर्मस्य क्वचिदध्यारोपोऽपवादो वाऽ स्ति ॥ ६॥ न चार्थवादवाक्यानामप्रमाजनकताया इष्टतयाऽत्र निषेधपर्यन्तभागस्यार्थवादताभिधानेनैव- जतिलगवीधुकानामाहुतित्वविधिनिषेधयोरध्यारोपा- पवादरूपत्वं तन्निबन्धनं वेदेपि भागविशेषस्याप्रामाण्यं च स्वीकृतं भवत्येवेति वाच्यम् । अर्थवादवाक्याना- मप्रमाणत्वे सर्वत्रैवार्थवादस्थले त्वदभिमताध्यारोपा- पवादन्यायस्य सुवचतया जर्तिलगवीधुकश्रुतिपर्यन्ता- नुधावनस्य तव व्यर्थत्वात् । अर्थवादवाक्यानां क्वचि- दापातसिद्धार्थप्रतीतेरयथार्थत्वेऽपि तात्पर्यविषयपर्य वसन्नवोधस्य तत्तद्विधिवाक्यवेद्यविधेयार्थविशेष्यक- प्रशस्तत्वप्रकारकज्ञानरूपस्य प्रमात्वादापातसिद्धार्थ- प्रतीतौ तात्पर्याभावात्स्वतात्पर्यविषयाप्रमात्मकबोध- जनकताया एव वाक्यानामप्रमाणत्वरूपत्वात्तत्तद्वाक्य तात्पर्य मजानतो मन्दमतीन्प्रत्यप्रमात्मकबोधजनक- त्वमात्रेणाप्रमाणत्वे प्रमाणतया सम्प्रतिपन्नानां सर्वेषा- मेव वैदिकलौकिकवाक्यानामप्रमाणताप्रसङ्गस्य दुर्वा- रत्वायथोक्तलक्षणाया एवाप्रमाणताया वक्तव्यतय कुदृष्टिध्वान्तमार्तण्डः। (३१) तस्याश्च वेदवाक्येषु कस्याप्यनभिमतत्वाच ॥७॥अत एव पूर्वतन्त्र प्रथमाध्यायद्वितीयपादेऽर्थवादाधिकरणे॥ विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः॥१॥ २॥७॥इत्यादिभिस्सूत्रैरर्थवादानामपि विधिनैकवाक्य- तया मुख्ययाऽमुख्यया वा वृत्त्या यथायथं तत्तदर्थप्र तिपादनमुखेन विधेयार्थविशेष्यकप्राशस्त्यप्रकारक प्रमात्मकवाक्यतात्पर्यविषयपर्यवसन्नबोधजनकतया प्रामाण्यमेव समर्थितम् यथा च विषं वा भक्षयेत्।न राजकुलटादिप्रतिग्रहं कुर्यात्॥इति वाक्यस्य विषभक्षणे तात्पर्याभावेपि राजकुलटादिप्रतिग्रहावृत्तिवलवदनिष्ट विशेषाजनकत्वलक्षणतदवधिकोत्कर्षवत्त्वरूपंतस्मादु चितत्वं विषभक्षणे प्रतिपादयतो न बाधितार्थकत्वलक्ष- णमप्रामाण्यमस्ति॥९॥तथैवाजतिलयवाग्वा वाजुहुया द्वीधुकयवाग्वावानग्राम्यान्पशून्हिनस्ति नारण्यान् ॥ इति वाक्यस्यापि जतिलगवीधुकयवागूहोमविधानेता त्पर्याभावपि ग्राम्यारण्यपशुहिंसासाध्याहु तिविशेषहो मावृत्त्यनिष्टविशेषाजनकत्वरूपतदवधिकोत्कर्षवत्त्वल क्षणं तस्मादुचितत्वं जतिलगवीधुकयवागूहोमेप्रतिपा- दयतोन तत्प्रसङ्गःोलिङ कर्तुमुचितत्वरूपकर्तव्यत्वा र्थकत्वविवक्षणेन चोक्तवाक्यस्योक्तार्थकत्वस्यापि ला- भात्१०तर्हि तद्धोम एव क्रियतामित्याशङ्कापरिहाराय वृत्तम् ॥ अथो खल्लाहुरित्यादिवाक्यम्॥११॥देवता (३२) कुदृष्टिध्वान्तमार्तण्डः। प्रीतिजनकहोमकर्मत्वलक्षणाहुतित्वाभावरूपमेव चा- नाहुतित्वमेतद्वाक्येन बोध्यमिष्यते ॥१२॥ अतोना- बाहुतित्वाध्यारोपापवादौ स्तः॥१३॥वस्तुतस्तुति लगवीधुकानामाहुतित्वप्रतिषेधमात्रस्यैवोत्तरविधिशेष तात्र युक्ता । न तु तेषां होम्यत्वविधैरपि । तेषां प्रमाणान्तराप्राप्तां होम्यतां प्रथमं सुधैव विधाय पश्चात्तत्प्रतिषेधस्य प्रक्षालनाद्धीति न्यायेनायुक्तत्वात्। प्रागुदाहतपूर्वतन्त्रसूत्रस्याप्येतावन्मानपरताया एव स्वारसिकत्वाच ॥ १४॥ तथाहि । शिष्ट्वा तु प्रतिषेध- स्स्यात् ॥ १०॥८॥६॥ इति पूर्वसूत्रे विधिपूर्वक- प्रतिषेधस्य । अतिराने गृह्णाति षोडशिनं नातिरात्रे गृह्णातिषोडशिनमित्यादेविकल्परूपतास्थापनात्तद्दे वर्तिलगवीधुकश्रुतावपि तेषां होम्यत्वविधिपूर्वकस्य- तत्प्रतिषेधस्य विकल्परूपताप्रसङ्गे तत्परिहारेण तस्यैवोत्तरविधिशेषार्थवादरूपतां स्थापयितुमुत्तरसूत्रं प्रवृत्तम् ॥ पूर्वसूत्रात्प्रतिषेध इत्यस्यानुवृत्त्या प्रतिषे धविशेष्यकार्थवादत्वप्रकारकबोधस्यैव तेन जननात् ॥१६॥ पूर्वसूत्रात्प्रतिषेध इत्यस्य । पादादिसूत्रात् । विकल्प इत्यस्य चानुवृत्तियुतस्य ॥ न चेदन्य प्रकल्ययेत्प्रकप्तावर्थवादस्स्यादानर्थक्यात्परसामर्थ्या च॥१०॥८॥७॥ इत्युत्तरसूत्रस्य चायमर्थः । प्रतिषे धाजतिलगवीधुकानामाहुतित्वप्रतिषेधोपि । विकल्प- कुदृष्टिध्वान्तमार्तण्डः। (३३) स्स्यादेव । कदा इत उत्तरं श्रुतिः। अन्यम् । अजक्षीर विषयंविध्यन्तरम् । न प्रकल्पयेच्चेत् । न बोधयेच्चेत् । तदा ॥ प्रकृप्तौ । विध्यन्तखोधने सति तु । अर्थवाद स्स्यात् । तच्छेषभूतार्थवाद एव स्यात् । आनर्थ- क्यात् । परिश्रमविशेषसाध्यविध्यन्तरस्योत्तरत्रोपदे- पृव्यत्वे निवृत्तिसाध्यप्रतिषेधोपदेशस्य फलविशेषनि- रपेक्षप्रयासविशेषोपरतिकामालसाधिकार्युदेशेन प्रय- नसाध्यसर्वविध्यनन्तरं चरमंकर्तव्यस्यमध्येकरणे तत्प योजनासिद्ध्या निरर्थकत्वात्।यद्वाऽनयनिष्पत्त्यपर्य- वसन्त्रप्रतिषेधस्य विकल्परूपतास्वीकारे कथंचिद्यथा- योग्यफलसम्भवेऽपि तदनिष्पत्तिपर्यवसायिनोऽस्य प्रतिषेधस्य तथात्वस्वीकारे फललेशासम्भवात् । परसामर्थ्याच्चापरेण विधिनैकवाक्यतया तदर्थवादत्वे- न सम्यगन्वितार्थकत्वसम्भवात्सम्भवत्येकवाक्यत्वे वा क्यभेदकल्पनाया अन्याय्यत्वाच्चेति॥१६॥अयं भावः। अतिराचे गृह्णाति षोडशिनम् । नातिरात्रे गृह्णाति षोड शिनम् । इत्यत्र प्रतिषेधसामर्थ्येन षोडशिग्रहणाभावे- पि तत्रत्यातिरात्रलक्षणाङ्गिनिष्पत्त्यधीनफलसिद्धिस्वी कारे षोडशिग्रहणविधानवैयापत्त्या तद्विधानसा- म. देव तस्य फलवत्त्वं दुर्वारम् ॥ सत्यपि तस्य फलवत्त्वे प्रतिषेधारम्भसामर्थ्यात्तत्रत्यातिराजलक्षणा गिनिष्पत्त्यधीनफलसिद्धिरवश्यमङ्गीकार्या प्रतिषेध- (३४) कुदृष्टिध्वान्तमार्तण्डः। स्यानन्यथासिद्धत्वात् । अतस्तत्र विधिप्रतिषेधयोईयो रप्यनन्यथासिद्धत्वेन फलवत्त्वावश्यकतयाऽनिनिष्प- त्यधीनफले पौष्कल्यतदभावलक्षणवैषम्यमात्रमाश्रि त्याङ्गिनिष्पत्त्यधीनफलजनकतायांपरंतुल्यतास्वीका रेण विकल्पता स्वीकृता ॥ इह तु प्रतिषेधस्योत्तरवि- ध्यन्तरशेषप्रशंसार्थिवादरूपतयाऽन्यथासिद्धत्वेन न विकल्परूपता संभवति ॥ एवं प्रयासविशेषोपरतिका- ममलसाधिकारिणमुदिश्य प्रवृत्ततया वर्णनीयः प्रति- षेधो न विध्यन्तरात्पूर्व संभवदुक्तिकः। पश्चादपि प्रय- त्नसाध्यविध्यन्तरश्रवणेन प्रयासविशेषोपरतिलक्षण- प्रतिषेधफलस्यैवासिद्धेः॥ अपि च । अग्निहोत्राहुति- रूपप्रधानक्रियानिषेधलक्षणो ह्ययं प्रतिषेधो न कथं चिदपि फलवान्भवितुमर्हति। षोडशिग्रहणाग्रहणस्थल इवात्राङ्गिनिष्पत्तेरेवाभावात्।अतश्चात्रत्यप्रतिषेधस्य न विधिना सह विकल्परूपता सम्भवदुक्तिका।तत्समान फलजनकताया एव तेन सह विकल्पतारूपत्वात्।इहा ङ्गिनिष्पत्तेरेवासम्भवस्य दर्शिततया तदधीनफललेशा सम्भवाच्च । तस्मात्सर्वधैवासम्भवद्विकल्पभावोऽवत्यो विध्यन्तरशिरस्कः प्रतिषेध उत्तरविधिशेषार्थवादरूप एव । जतिलगवीधुकविधिस्तु नार्थवादः । तद्विधाने श्रुतेस्तात्पर्याभावे ग्राम्यारण्यपश्वन्तरपयःप्रतिषेध- पूर्वकमजक्षीरमात्रस्यविधानसम्भवेन मध्ये मुधैव कुदृष्टिध्वान्तमार्तण्डः। (३५) जर्तिलगवीधुकविधिप्रतिषेधयोररण्यरोदनायमानयोर नावश्यकत्वात् । अतस्तद्विधाने श्रुतेस्तात्पर्यस्याव- श्यकतया तद्विधिना सहाजक्षीरविधेर्विकल्परूपतवाभि मता । अत एवोदाहृतसूत्रेण पूर्वसूत्रादनुवृत्तप्रतिषेध पदबोध्यविशेष्यकार्थवादत्वप्रकारको बोध एव जायते न विधिविशेष्यकोऽपि । जतिलगवीधुकानामनाहुति त्ववादः प्रशस्ततमाहुतित्वप्रतिषेधमात्ररूप उत्तराज क्षीरविधिप्रशंसार्थ इति॥१७॥यत्तु अदनीयं यद्रव्यंतदे वाहुतियोग्यम् । यदन्नः पुरुषोभवति तदन्नास्तस्यदेव ता इति न्यायाताजतिला गवीधुकाश्च मनुष्य यन्ते। तस्मानाहुतियोग्याः।अतो जर्तिलगवीधुकविधेरपिन्या य्यमर्थवादत्वमिति सायनो मन्यते १८तदसत्॥यदन्नइ ति न्यायस्य तत्तत्पुरुषान्नस्य तत्तदेवतानत्वावश्यक त्वप्रतिपादनमुखेनायोगव्यवच्छेदमात्रपरत्वेनातिरि- क्तव्यवच्छेदपरत्वाभावात्। अन्यथासमिदर्भादीनामपि सम्प्रतिपन्नाहुतिभावानामनाहुतित्वप्रसंगात् । सूत्र स्वरसविरोधाच्च ॥ १९ ॥ किं बहुना । अदनीयाना- मपि वस्तूनामाग्नौ हूयमानानां प्रत्यक्षमिहैव विलय दर्शनेन साक्षात्ताद्रूप्येण तत्तद्देवताभोगाईत्वाभावा द्भुतानां तेषां सारस्यैव तत्तद्भोग्याकारेण परिणाम मापन्नस्य तत्तद्देवताभोगयोग्यत्वस्वीकारावश्यकत- या तथात्वं च शास्त्रबलेनादनीयानामनदनीयानांचोभ (३६) कुदृष्टिध्वान्तमार्तण्डः। येषां तुल्यमेव स्वीकर्तुं योग्यमिति न कश्चिद्विशे- पः ॥२०॥ नच ग्राम्यारण्यपश्वन्तरपयोभ्योजक्षीरस्य को विशेषः । अजाया अपि ग्राम्यपशुतायास्तत्क्षी रग्रहणस्यापि वत्सपोषणहानिप्रयुक्तशोकहेतुत्वलक्षण हिंसारूपतायाश्चपश्वन्तरवदेवसत्त्वादितिवाच्यम्॥या- म्यारण्यपश्वन्तराणामनग्निदेवताकत्वेनतदीयक्षीराहु- तौदोषफलयोस्तुल्यबलतयाफलस्य प्राप्तदोषपरिहार- मात्रपरिक्षीणतयाफलावशेषो न सम्भवति।जतिलगवी धुकाहुतौ दोषाभावेपि प्रशस्ततमाहुतित्वाभावेनात्य ल्पमेव फलं भवति । अजायास्त्वग्निदेवताकत्वेन तदी यक्षीरस्य प्रशस्ततमाग्निहोत्राहुतित्वसंभवेन दोषप- रिहारपूर्वकातिशयिताभ्युदयस्संभवतीत्यत्रश्रुतेस्ता- त्पर्यात् ॥२१॥अत एव हि तत्रैव प्रकरणे श्रूयते । आ योवा एषा यदजेति ॥२२॥तथा च जर्तिलगवीधुक- श्रुतौ प्रतिषेधान्तभागस्यार्थवादतापक्षे वा प्रतिषेध मात्रस्य तथात्वपक्षे वाऽध्यारोपापवादप्रसङ्गले शाभावेनाध्यारोपापवादनानस्स्वकपोलकल्पितन्याय स्योपष्टम्भकतया तच्छुतेरुदाहरणं मीमांसानभिज्ञक त्यमेवेतिसिद्धं भवतीति ॥ ७५ ॥ यदि पुनरध्या- रोपापवादन्यायो नाम कश्चिन्यायः प्रामणिकस्स्यात्। तदा सएव न्यायोऽतिरात्रे गृह्णाति षोडशिनम् । नाति कुदृष्टिध्वान्तमार्तण्डः। (३७) रात्रे गृह्णाति पोडशिनमित्यत्रापि मीमांसकैः किमिति न प्रवत्यैत । तथाविधन्यायस्य कस्यचिदप्रामाणिक त्वादेव ॥शिष्वा तु प्रतिषेधः स्यात् [॥१०॥८॥६॥] इत्यधिकरणे षोडशिग्रहणतत्प्रतिषेधयोर्विकल्परूप- ता तैस्संस्थापितेत्यवगम्यते ॥७६ ॥ तस्माद्यथाव- दनधिगतमीमांसाशास्त्रैस्त्वदीयैरन्याय एव कश्चिद- ध्यारोपापवादन्यायनामा कल्पित इति सिद्धम् ॥७७॥ अपिच न्यायसञ्चारो हि विद्वद्भिसम्प्राप्तविरोधशङ्का- परिहारायैव क्रियमाणो दृष्टः । नतु सम्प्राप्तशङ्का विषयविरोधदृढीकरणाय । एवं सत्यपच्छेदन्यायाध्या- रोपापवादन्यायप्रदर्शनेन वेदवाक्यानां परस्परविरोध वज्रलेपवदृढीकुर्वन्कथं त्वमात्मानं पण्डितम्मन्यसे । कथं वा पुनरित्थं वेदानां परस्परविरुद्धार्थकतां स्वयं व्यवस्थापयन्नेव सर्वत्राविरोधसमर्थनैकपरास्मदीयभा- ष्योपरि परस्परविरुद्धार्थकत्वेनासामञ्जस्यं ब्रुवाणो न लजस इति विस्मयामहे ॥७८॥ यदपि । ब्रह्मणः परिणामाभावेपि कार्यानुकूलज्ञानचिकीर्षाकृतिलक्षणं कारणत्वं स्यादित्याशङ्कय तथा सति ज्ञानचिकीर्षा कृत्यात्मनाब्रह्मणः परिणामोऽभ्युपगन्तव्यः। अन्यथा कृत्याद्यसिद्धेरिति दूषणम् ॥ ७९ ॥ तदपि तुच्छम् । यस्सर्वज्ञस्सर्ववित् ॥ [मुं०२॥२॥७॥] परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया च ।

(३८) कुदृष्टिध्वान्तमार्तण्डः। [ श्वे०॥६॥८॥] इत्यादिश्रुतिभिब्रह्मणि धर्मिणि ज्ञानादीनां धर्मतया सर्वदा विद्यमानताया एवावगमेन ब्रह्मणस्तद्रूपेण परिणामकथाया वेदान्तव्युत्पत्तिगन्ध रहितजल्पितत्वावगतेः॥ ८० ॥ एतेन ज्ञानचिकीर्षा- कृत्यादीनामनात्मधर्मत्वकथापि दूरोत्सारिता । उदा- हतश्रुतिभिरात्मधर्मताया एव तेषां स्पष्टमवगतः । ज्ञोऽत एव [शा०॥२॥३॥१९॥ कर्ता शास्त्रार्थ वत्त्वात् [शा०॥२॥३॥३३॥] इत्यादिसूत्रैस्सू- त्रकारेणापि तेषामात्मधर्मताया एव व्यवस्थापनाच ॥ ॥ ८१॥ यदपि । कृत्यादीनां नित्यत्वमाशङ्कय । चिकीर्षादयो जन्याः । इष्टसाधनताज्ञानमूलत्वात् । देवदत्तचिकीर्षादिवत् । अन्यथाकार्यसातत्यप्रसङ्ग इति दूषणम् ॥ ८२ ॥ तदप्यसत् । वेदान्तेष्वतत्कार्य वादनिराकरणपूर्वकसत्कार्यवादस्य सर्वतः प्रसिद्धत- या स्वरूपतो नित्यस्यैव वस्तुनोऽवस्थाविशेषवत्त्वेन कार्यत्वाङ्गीकारेण ज्ञानादीनामपि स्वरूपतो नित्याना मेव सतां तत्तदवस्थाविशेषवत्त्वेन कार्यतासम्भवे बाधकानुपलम्भेन कार्यत्वसाधनेन नित्यत्वनिराकर- णायोगात् । अन्यथा । तदनन्यत्वमारम्भणशब्दादि- भ्यः [शा॥२॥१॥१५॥] इत्यादिभिस्स्थाप्य मानायाः कारणाद्ब्रह्मणः कार्यस्यानन्यताया अपि नित्ये ब्रह्मणि कार्यत्वासम्भवे व्याहतत्त्वप्रसङ्गात् ।

कुदृष्टिध्वान्तमार्तण्डः। (३९) तत्तत्कालभाविकार्यविशेषोपयिकतत्तदवस्थाविशेष- वत्त्वस्य तत्तत्कालविशेषमात्रभावितया कार्यसातत्य प्रसङ्गस्याप्यनवकाशात्।जीवगतज्ञानस्यापि नित्यस्यै व सतस्तत्तत्कार्यप्रयोजकेच्छात्वाद्यवस्थानां तत्तत्का- लभावित्वमात्रस्यैव प्रामाणिकत्वेन दृष्टान्तस्याप्यसि- द्वेश्च ॥८३॥ अत एव ॥ तदैक्षत बहु स्यां प्रजायेयेती त्यादिश्रुतिषु ब्रह्मणस्तत्तत्कालभाविसङ्कल्पविशेषपू- विकैव सृष्टिः श्रूयते ॥ ८४॥ यदपि । किंच । कार्या नुकूलकृत्यादिमत्त्वानिमित्तत्वमा ब्रह्मणस्स्यात् । न तू पादानत्वमित्युक्तम् ॥८५॥ तदपि न सत् । तदैवत बहु स्यां प्रजायेयेतीत्यादिश्रुतिषु बहुभवनसङ्कल्पपूर्व कमेव सृष्टेः प्राङ्नामरूपायभावेनैकत्वापन्नस्य सच्छ- ब्दवाच्यस्य ब्रह्मणः पश्चाबहुभवनस्य श्रूयमाणतयासू क्ष्मचिदचिच्छरीरकत्वविशिष्टब्रह्मण एकत्वावस्थापन- स्य बहुभवनसङ्कल्पविशिष्टस्यैव स्थूलचिदचिच्छरीर कत्वविशिष्टं बहुत्वावस्थापन्नं स्वात्मानं प्रत्युपादानका रणतायाः प्रतिपन्नत्वेन कृत्यादीनामुपादानकारणतां प्रत्यप्युपकारकतावगमेन तदनुपकारकत्वाभिधाना- सङ्गतः ॥ ८६॥ अथ यदुक्तम् । स्वरूपधर्मान्यथात्व लक्षणविकरस्यैव श्रुतिप्रतिषेध्यत्वात्तादृशविकारा श्रयचिदचिद्वैशिष्टयमात्रेणाभ्युपगम्यमानस्य ब्रह्मका- रणत्वस्य श्रुतिभिरप्रतिषिद्धत्वान्न विरोध इत्याशङ्कय (४०) कुरष्ट्रिध्वान्तमार्तण्डः। ततः। विकारिवैशिष्टयायत्कारणत्वम् । ततिक विकार त्वेनाभिमतम् । उत नेति विकल्प्य । आयेविकारिवैशि ध्यकृतविकारस्यापि पातकिसंसर्गकृतपातकस्येवा- नर्थत्वाच्छुतिप्रतिषेध्यत्वं दुर्वारम् । जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते [ छां०६॥ ११॥३॥] ध्यायतीव लेलायतीव ॥ [६०६॥३॥७॥] अन- इनन्नन्यो अभिचाकशीति [मुं० ॥३॥१॥१॥] इत्याद्याः परश्शताश्श्रुतयो विकारिवैशिष्टयकृतं वि- कारं प्रतिषेधन्ति । द्वितीयस्तु त्वदुक्तिविरुद्ध इति ॥८७॥ तदपि श्रीभाष्यपतयर्थानवधारणमूलमेव श्री भाष्ये ब्रह्मणि विकारिवैशिष्टयस्यविकाररूपताभिधाने पिकारणत्वस्य विकाररूपताया विकारिवैशिष्टयकृत विकारान्तरस्य वा क्वाप्यभिधानादर्शनात् । अनन्य- थासिद्धनियतपूर्ववृत्तित्वलक्षणस्य कार्यानुकूलशक्ति मत्त्वलक्षणस्य वा कारणत्वस्यावस्थातोऽवस्थान्तराप त्तिलक्षणविकाररूपत्वासम्भवात् । अन्यथा निर्विका- राणां निमित्तकारणसहकारिकारणानां कारणत्वव्यव- हारनिर्वाहाच ॥ ८८ ॥ जीवापेतमित्यादिवाक्यम् । अचिद्वस्तुन्येव शोकहर्षहेतुमरणादिशब्दाभिलपनीय स्वरूपान्यथात्वलक्षणविकारो जायते । न जीवात्मनी त्येतत्परम्।।८९॥स समानस्सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीवेति वाक्यस्यायमर्थः। सः। जीवः ।

कुदृष्टिध्वान्तमार्तण्डः। (४१) समानस्सन् ।वस्तुतो हर्षशोकहेतूपचयापचयरहितस्व रूंपस्सन्नेवाउभौ लोकौउत्तमाधमलोकौअनुसञ्चरति- कर्माधीनज्ञानसङ्कोचविकासस्सञ्चरति । कथम्भूत इव। ध्यायतीव । चिन्ताहेतुधर्मवानिव। शोकहेतु देहादिभो गोपकरणगतशोभाहान्यादिलक्षणापचयवानिवेति या- वत् । ध्यै चिन्तायामिति हि धातुः । चिन्ता च शोक- त्वावस्थापन्नं ज्ञानमेव । लेलायतीव । दीप्यमान इव । हर्ष हेतुदेहादिभोगोपकरणगतशोभादि लक्षणोपचयवा निवेति यावत्। लेला दीप्ताविति कण्ड्यादिगणघटकोऽयं धातुः। इवशब्द उभयत्र तत्तद्रमविशिष्टपरः। अविवे- केन तत्तद्धर्मवत्तया स्वात्मानं मन्यमानो हर्षशोकरूप ज्ञानविकारवान्सन्परिभ्रमतीति यावत् । ध्यायतिशब्दो त्रास एष जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमान- स्तिष्ठति ॥[छां॥६॥ ११ ॥१॥] इत्यत्र पेपीय मानमोदमानशब्दवदचेतनदेहादिदशापरो विवक्षित इति ॥९॥ तथाचैतद्वाक्यं स्वरूपान्यथात्वलक्षण विकारोऽचिद्वस्तुगत एव न जीवगतः। किन्तु तादा विकारे स्वगतत्वानुसन्धानहेतुधर्मभूतज्ञानान्यथात्व लक्षणविकार एव जीवगत इत्येतत्परम् ॥९१॥ अन- इनन्नन्यो अभिचाकशीतीत्यस्यायमर्थः । अन्यः । पर- मात्मा। अनश्नन् । प्राकृतविषयानभुञान एव सन् । प्राकृतविषयभोग्यत्वानुसन्धानहेतुकज्ञानविकारलक्षण (४२) कुदृष्टिध्वान्तमार्तण्डः। धर्मान्यथात्वरहित एव सन्निति यावत्। अभिचाकशी- ति । अत्यन्तं देदीप्यत इति ॥ ९२ ॥ अनेन च परमात्मनो धर्मान्यथात्वलक्षणविकारराहित्यप्रतिपा- द्यते ॥ ९३ ॥ इत्थं चोदाहृतश्रुतिवाक्यैः अचे- तनानां स्वरूपान्यथात्वलक्षणविकारोऽस्ति। आत्मनां तादृशो विकारो नास्ति । अस्ति तु धर्मभूतज्ञा- नान्यथात्वलक्षणो विकारो जीवानाम् । तादृशोपि- विकारः परमात्मनो नास्तीत्येतावदेव प्रतिपादना- नात्र कश्चिदस्त्यस्माकं विरोधः ॥ ९४ ॥ विका- रिवैशिष्टयलक्षणो विकारः। तत्प्रयुक्तं कारणत्वं चेत्ये- तावदेव ब्रह्मणोऽभ्युपगतमस्मद्भाष्ये॥नच तत्प्रतिषेध उदाहृतश्रुतिषु दृश्यते । नापि च कारणत्वमेव विकार रूपमिति क्वचिदभिहितम् । इत्येवं तत्त्वे स्थिते । श्री भाष्यस्योदाहतश्रुतिविरोधस्वोक्तिविरोधयोवर्णनं त- दीयपतयर्थानवधारणमूलमेवेति स्पष्टंविदुषाम्॥९॥ इत्थं सूक्ष्मस्थूलचिदचिद्वैशिष्टयलक्षणस्य पारमार्थि- कस्यैव विकारित्वस्य ब्रह्मणि स्वीकारेण विकारित्व निर्वाह्यमुपादानकारणत्वं पारमार्थिकमेव सिध्यति ॥९६॥ एवम्भूतस्य श्रीभाष्यार्थस्य सर्वव्युत्पन्नधियां व्यक्ततया तमर्थमविज्ञायैवचिदचिद्वस्तुवैशिष्टचात्का- रण त्वमित्यस्याभिप्रेततयाऽनुपयोगिनो नानाविधा विकल्पान्स्वकपोलकल्पनयैव कृत्वा समुद्रघोषायित- कुदृष्टिध्वान्तमार्तण्डः। (४३) स्तावकीनस्तदूषणोद्घोषः । पदवाक्यपदवीदवीयसी वज्रमूर्खतामेव विविनक्ति तवेति विपश्चितो विहसन्ति। त्वदुक्तविकल्पविषयेष्वर्थेष्वेकस्याप्यस्मद्भाष्याभिम- तत्वादर्शनात् ॥९७॥तस्मात्तस्यैतस्यानुपयोगिनस्ता वकीनसमुद्रघोषस्य न किञ्चिदस्ति प्रतिवक्तव्यमुत्तर मित्युपेक्षामहे ॥ ९८ ॥ परन्तु विवेकिनां यत्पुनः किञ्चिदस्तीह जिज्ञासितव्यम् ॥ ९९ ॥ तत्स्वयमेव वयं विविच्य प्रत्याख्यास्यामः ॥ ३०० ॥ यदविज्ञाने नान्धहृदये त्वय्यनधिगतप्रश्नवर्त्मनि केवलं प्रलपत्य पि श्रोतृणाम् । नूनमस्ति किश्चिदस्य घोषस्यकारण म् । अन्तरेण च किमपि कारणं नायं घोष उदीयादि ति शङ्का सम्भवति । यथा महति गाढान्धकारेऽनधिग तवम॑नि केवलं भवत्यपि भषके ॥ १०१ ॥ इमे खल्वत्र प्रष्टव्यांशाः । सूक्ष्मस्थूलचिदचिद्वैशिष्टयं कथं विकारो भवितुमर्हति । स्वरूपान्यथात्वलक्षणवि- कारवत्स्वेव लोके विकारित्वव्यपदेशेन तस्यैव विका ररूपतायास्सुवचत्वात् ॥३॥ यदि पुनस्तदेव विकार- स्स्यात्तर्हि ब्रह्मणो निर्विकारत्वं कथमुपपद्यते ॥२॥ यदि च ब्रह्मणि निर्विकारत्वव्यपदेशो विकारविशेषा भावविषयतया सङ्कुचितो व्यवस्थाप्यते । तदा सामा- न्यविषयश्रुतेस्सङ्कुचितार्थकल्पनदोषोऽन्येषामुक्तो भ- वतामपि कथं न दुर्वारस्स्यात् ॥ ३ ॥ उक्तदोष- (४४) कुदृष्टिध्वान्तमार्तण्डः। परिहाराय तस्य विकाररूपत्वास्वीकारे च निर्विकार- स्य ब्रह्मणः कथमुपादानकारणत्वं सुवचामिति॥१०२॥ अत्रोच्यते । सूक्ष्मत्वस्थूलत्वयोरवस्थयोर्विकाररूप- तायास्सम्प्रतिपन्नत्वात् । साक्षात्सम्बन्धेन विशेषणी- भूतवस्त्वन्तरनिष्ठयोस्तयोरेवपरम्परासम्बन्धेनब्रह्मनि- ष्ठयोस्तस्य कारणतानिर्वाहकत्वात् । परम्परासम्बन्धेन तादृशावस्थावत्त्वस्यैव सूक्ष्मस्थूलचिदचिद्वैशिष्टयरू- पत्वाच्च तस्य विकाररूपत्वं तद्वत्तया ब्रह्मणः कारणत्वं च निरपवादमेव ॥१॥ब्रह्मणो निर्विकारत्वव्यपदेशस्या पृथक्सिद्धिलक्षणसाक्षात्सम्बन्धावच्छिन्नविकारत्वाव- च्छिन्नप्रतियोगिताकसामान्याभावविषयतयानास्माकं श्रुतेस्सङ्कचितार्थकत्वकल्पनदोषोपि॥२॥चिदचिया- वर्तनाय प्रवृत्तो ब्रह्मणि निर्विकारत्वव्यपदेशो हि । या- दृशसम्बन्धेनयादृशो विकारश्चिदचिद्तस्तदोषाय क- ल्पते।तादृशसम्बन्धावच्छिन्नतादृशविकारत्वावच्छिप- तियोगिताकाभावविषय एव वाच्यः॥३॥अतस्तब्धपदे- शस्य परम्परासम्बन्धावच्छिन्नप्रतियोगिताकसामान्या भावविषयतायाः कथञ्चिदप्यसम्भवेन ब्रह्मणि साक्षा- स्परम्परासम्बन्धविषययोनिर्विकारत्वसविकारत्वनिर्दे- शयोन विरोधगन्धः ॥४॥ यो धर्मोयत्र येनसम्बन्धेन सम्बद्धो दोषाय कल्पते । स धर्मस्तस्मादन्यत्र तदन्ये न येनकेनचित्सम्बन्धेन सम्बद्धोपि न दोषाय कल्पत कुदृष्टिध्वान्तमार्तण्डः। (१५) इति ब्रह्मणः परम्परासम्बन्धेन विकारवत्त्वाभ्युपगमे पिन दोपकथाप्रसङ्गः॥६॥अन्यथा हि चैत्रगतस्य ब्रह्महत्यादि दोषस्य स्वाश्रयसंयुक्तगगनसंयोगादिल क्षणपरम्परासम्बन्धेन सर्वसम्बद्धत्वसम्भवेन सर्वेषां प्रायश्चित्तप्रसङ्गो दुर्वारः स्यात् ॥ ६॥ तदिदमभिप्रे- त्योक्तं प्रकृत्यधिकरणे ॥ परिणामात् [शा० ॥१ ॥४॥२७॥] इति सूत्र श्रीभाष्ये ॥ नात्रोपदिश्यमा मस्य परिणामस्य परस्मिन्ब्रह्मणि दोषावहत्वं स्वभा- वः प्रत्युत निरङ्कुशैश्वर्यावहत्वमेवेत्यभिप्राय इति ॥ तदेवानुप्राविशत्तदनुप्रविश्येतिकारणावस्थायामात्म तयावस्थितः परमात्मैव कार्यरूपेण विक्रियमाणद्रव्य स्याप्यात्मतवाऽवस्थाय तत्तदभवदित्युच्यते । एवं परमात्मचिदचित्सवातरूपजगदाकारपरिणामे परमा- मशरीरभूतचिदंशगतास्सर्व एवापुरुषार्थाः । तथा भूताचिदंशगताश्च सर्वे विकाराः। परमात्मनि कार्यत्वं तदवस्थयोस्तयोनियन्तृत्वेनात्मत्वम् । परमात्मा तु तयोस्स्वशरीरभूतयोनियन्तृतयात्मभूतस्तद्गतापुरु- पार्विकारेश्च न स्पृश्यते । अपरिच्छिन्नज्ञानानन्दम- यस्सर्वदैकरूपएव जगत्परिवर्तनलीलयाऽवतिष्ठते । तदेतदाह । सत्यं चानृतं च सत्यमभवदिति । विचित्र चिदचिद्रूपेण विक्रियमाणमापि ब्रह्म सत्यमेवाभवत्। निरस्तनिखिलदोषगन्धमपरिच्छिन्नज्ञानानन्दमेकरूप (४६) कुदृष्टिध्वान्तमार्तण्डः। मेवाभवदित्यर्थ इति च ॥ ७ ॥ अस्यहि भाष्य- स्यायमाशयः । सूक्ष्मत्वस्थूलत्वादिलक्षणावस्थारू- पविकाराणां साक्षात्सम्बन्धेन चिदचितोरेवसत्त्वा- त् । तत्तदवस्थापनचिदचिदन्तरात्मतयैव ब्रह्मणस्स- त्त्वात । विकाराणां साक्षात्सम्बन्धेन स्वसम्ब- न्धिनि दोषावहत्वनैयत्यपि परम्परासम्बन्धेन स्वस- म्बन्धिनि तदसम्भवात् ।शरीरगतविकाराणां शरी रिषु जीवेषु कर्मसहकारेण दोषावहत्वसम्भवेऽपि कर्म वश्यतागन्धरहिते दोषसम्बन्धगन्धासहिष्णुनिरतिशय ज्ञानशक्त्यादिमति कार्यकारणावस्थयोश्चिदचितो नियन्तृत्वेनैवान्तरात्मतयाऽवस्थिते ब्रह्मणि चिदचि- द्तविकाराणां दोषोत्पादनासामर्थ्यात् । परेण ब्रह्मणा लीलार्थ स्वेच्छयैव तत्तदवस्थापनचिदचिच्छररिकस्य स्वात्मन एव जगद्रूपेण परिणामस्य क्रियमाणताया श्शास्त्रादवगतेः । तेषां स्वस्मिन्नपि सति दोषावहत्त्वे सर्वज्ञेन ब्रह्मणा स्वानर्थाय स्वेच्छयैव स्वात्मनस्तथा परिणामकरणासम्भवाच्च नैतेषां विकाराणां ब्रह्मण्यपि दोषावहत्वस्वभावस्सम्भावयितुं शक्यः। प्रत्युतान्यत्र दोषावहत्वेन प्रसिद्धानां विकाराणां ब्रह्मणि सम्बध्य- मानानामपि दोषापादनासामर्थ्येन ब्रह्मणो निरङ्कुशै- श्वर्यावहत्वमेव सिद्धं भवतीति ॥८॥ तस्माद्ब्रह्मणि परम्परासम्बन्धेन विकारसद्भावेन कारणत्वनिर्वा- कुदृष्टिध्वान्तमार्तण्डः। (४७) हात्साक्षात्सबन्धेन तदसत्त्वेन निर्विकारत्वश्रुतेरसङ्को- चेनैव निर्वाहसम्भवाच्च नास्माकं पक्षे कश्चिदपि दोष इति ॥ १०३॥ अथैवं सति ब्रह्मणः कारणत्वं न मुख्यंनिर्वहति ॥ तन्निर्वाहकाणां विकाराणां साक्षात्संबन्धेन चिदचितोरेव सत्त्वाद्ब्रह्मण्यसत्त्वा त्परम्परासम्बन्धेन तत्सत्त्वस्यापि कारणतानिर्वाहक- त्वेऽतिप्रसङ्गादिति चेदत्रोच्यते ॥ यद्धर्मावच्छिन्नं प्रति यद्धर्मावच्छिन्नस्यानन्यथासिद्धनियतपूर्वभाविताऽस्ति तद्धर्मावछिन्नं प्रतितधर्मावच्छिन्नं कारणमित्येव कारण लक्षणस्य सिद्धतया परम्परासम्बन्धेन स्थूलत्वावस्था- विशिष्टं ब्रह्म प्रति परम्परासम्बन्धेन सूक्ष्मत्वावस्था विशिष्ट ब्रह्मणः कारणत्वं दुर्वारम् । उक्तकारणल क्षणा- नपायात् ॥ १॥नच स्थूलत्वावस्था सूक्ष्मत्वावस्था चाचित्तत्वगतपरिणामविशेषौ ॥ तौ चापृथक्सिद्धिस- म्बन्धेनाचित्तत्वे वर्तते । स्वावछिन्नाश्रयत्वसम्बन्धेन चित्तत्वे स्वावच्छिन्नाश्रयाश्रयत्वसम्बन्धेन ब्रह्मणि च सम्बद्धौ । एवं जीवधर्मभूतज्ञानगतस्थूलत्वसूक्ष्मत्वे परिणामविशेषौ। तौ च ज्ञानेऽपृथक्सिद्धिसम्बन्धेनजीवे स्वावच्छिन्नाश्रयत्वसम्बन्धेन ब्रह्मणि स्वावच्छिन्नाश्र- याश्रयत्वसम्बन्धेन च सम्बद्धौ । इत्थं च स्वावच्छिन्ना श्रयाश्रयत्वसम्बन्धेन स्थूलत्वावस्थाविशिष्टं ब्रह्म प्रति (४८) कुदृष्टिध्वान्तमार्तण्डः। सूक्ष्मत्वावस्थाविशिष्टब्रह्मणः कारणत्वमिति हि वक्त- व्यम् । तच्च न सम्भवति । ईदृशपरम्परायावृत्त्यनि- यामकत्वेन तद्धटितकार्यकारणभावे मानाभावादिति वाच्यम् । परम्परासम्बन्धसामान्यस्य कार्यकारणभा- वानिर्वाहकत्वमेवेति वा वृत्त्यनियामकसम्बन्धसामान्य स्य तदनिर्वाहकत्वमेवेति वा परम्परासम्बन्धसामान्य- स्य वृत्त्यनियामकत्वमेवेति वा साक्षात्सम्बन्धसामान्य स्य वृत्तिनियामकत्वमेवेति वा नियमानुपलम्भेनोक्त परम्परासम्बन्धघटितकार्यकारणभावस्वीकारे क्षतिले शाभावात् ॥२॥ तथाहि ॥ अवयविगतरूपरसादिक प्रत्यवयवगतरूपरसादिकस्य स्वसमवायिसमवेतत्त्व सम्बन्धेन कारणतायाः स्वर्ग प्रति यागस्य स्वजन्य पूर्ववत्तासम्बन्धेन कारणतायाः स्वजन्यसंस्कारवत्तास- म्बन्धेनानुभवस्य स्मृति प्रति कारणतायाश्च तान्त्रिकै स्वीकारादुक्तपरम्परासम्बन्धानां वृत्त्यनियामकत्वाच प्रथमद्वितीयनियमावसिद्धौ ॥ ३ ॥शय्यायां शेते। खट्टायां शेते । प्रासादे शेते । नीलो घटः। नीलं का- लिन्दीजलमित्यादिषु साक्षात्परम्परासम्बन्धानामविशे- षेणैवाधाराधेयभावभाननियामकतोपलम्भातृतीयनि यमोऽसिद्धः॥४॥मेषद्वयसंयोगांगुलिद्वयसंयोगवटा- काशसंयोगादीनां साक्षात्सम्बंधानामेव सतां वृत्ता कुदृष्टिध्वान्तमार्तण्डः। (४९) नियामकत्वोपलम्भेन चतुर्थोपि नियमोऽसिद्धः॥६॥एवं सम्बन्धविशेषाणामाधेयतादिनियामकत्वे विवादेऽपि तदवच्छेदकतानियामकत्वे विवादो नोपलभ्यते॥६॥ अत एवात्ममनस्संयोगादिनिष्ठकारणताद्यवच्छेदकता- यामात्मादिनिष्ठायां वृत्त्यनियामकानां समवायसम्बन्धा वच्छिन्नाधेयत्वादीनां सम्बन्धानां नियामकता सम्प्र- तिपन्ना ॥ ७॥ इत्थं चोक्तकार्यकारणभावनिर्वाहक- तयोक्तस्य सम्बन्धस्य परम्परात्वेपि वृत्तिनियामकत्व- स्य स्वीकारेऽस्वीकारेपि वा साक्षात्कारणताद्यवच्छे- दकतायां विवादेऽपि वा कारणत्वादिनिरूपितावच्छेद- कतावच्छेदकसम्बन्धत्वं निरपवादमेवेत्युक्तकार्यकार- णभावो दुरपह्नव एव॥८॥वस्तुतोऽस्त्येव चोक्तपरम्परा सम्बन्धस्य वृत्तिनियामकता । नीलं कालिन्दीजलम् । उष्णं जलमित्यादिव्यवहारबलेनापृथक्सिद्धिलक्षणस- म्बन्धघटितपरम्परासम्बन्धस्यवृत्तिनियामकतानयत्य दर्शनात् । इह च स्थूलत्वसूक्ष्मत्वावस्थयोरचित्तत्त्वेन तस्यचित्तत्त्वेनतस्य ब्रह्मणा चापृथक्सिद्धिसम्बन्धस्यैव स्वीकारेणास्य सम्बन्धस्यापृथक्सिद्धिसम्बन्धघटितप- रम्परारूपत्वाच ॥ ९॥ अपृथक्सिद्धिसम्बन्धमात्रघटि- तपरम्परायाबहुव्यवधानगर्भाया अपि वृत्तिनियामकता नैयत्यं सर्वतः प्रसिद्धम् ॥१०॥ अत एव हि ॥ श्री- विष्णुपुराण प्रथमांशे चतुर्दशाध्याये ॥ काठिन्यवान्यो कुदृष्टिध्वान्तमार्तण्डः । कानुपलम्भात् ॥ १३॥ अत एव हि क्वचिदव्यवहि- ताश्रयादपि व्यवहिताश्रयस्यैव मुख्यमाश्रयत्वं प्रती- यते। यथा जलसम्भृतकुम्भवाहिनि जलं भरत्ययमिति प्रयोगात्कुम्भात्पुरुषस्य जलं प्रत्याधारत्वम्मुख्यम् । यथाच आस्तरणांशुके शेते । शय्यायां शेते। पर्यते शेते प्रासादे शेते । इत्यादिप्रयोगाच्छयानपुरुषं प्रत्याधाराणामास्तरणांशुकादीनां पूर्वपूर्वापेक्षयोत्तरो त्तरस्यैवाधारत्वम्मुख्यम् ॥ १४॥ अत्रोत्तरोत्तरगता- धारतानां परम्परासम्बन्धावच्छिन्नानामपिपूर्वपूर्वगता- धारताप्रयोजकत्वादेव ततो मुख्यत्वं सम्प्रतिपन्नम् ॥ ॥ १५॥ तथैव महत्त्वाद्यवस्थायाः प्रकृत्यादिगतत्वेपि प्रकृत्यायपेक्षया ब्रह्मण एव तदाधारत्वम्मुख्यम् । प्रकृ- त्यादितत्त्वे ब्रह्मणो नियन्तृतयानुप्रवेशान्वयव्यतिरेका- भ्यां महत्त्वाद्यवस्थानिष्पत्तितदभावयोरवगमेन तत्तद वस्थाधारप्रकृत्यायाधारभूतस्य ब्रह्मण एव तत्सत्तोप- कारकत्वातिशयावगमात् ॥ १६॥ सोऽकामयत । बहु स्यां प्रजायेयेति । सतपोऽ तप्यतोस तपस्तत्त्वा। इद सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानुप्रावि शत्। तदनुप्रविश्य । सच्च त्यच्चाभवत् । निरुक्तंचानिरु तंच। निलयनं चानिलयनं चासत्यं चानृतं च सत्यम भवत् [तै० ॥२॥६॥] इति तैत्तिरीयोपनिषदा- नन्दवल्लीषष्ठानुवाकगतश्रुतौ ब्रह्मणो बहुभवनसङ्क- (५२) कुदृष्टिध्वान्तमार्तण्डः। ल्पतत्तदनुप्रवेशपूर्वकमेव तत्तद्रूपेण भवनस्य प्रति. पन्नतया तत्तद्गततत्तदवस्था प्रति ब्रह्मणो बहुभवन संकल्पपूर्वकतत्तदनुप्रवेशस्य प्रयोजकत्वातिशयो ह्य- वगम्यते ॥ १७॥ इदश्सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वेत्यनेन निमित्तकारणतायाः। तदेवानुप्राविश- दित्यादिनोपादानकारणतायाश्च विविच्य प्रतिपाद- नादुभयविधकारणत्वोपयिकपरस्परविलक्षणोपकारक त्वातिशयौ प्रस्फुटमेव यत्र प्रतीयते ॥ १८ ॥ तदैवत बहु स्यां प्रजायेयति [छां०॥ ६॥२॥ ॥ ३ ॥ ] इत्यादिना छान्दोग्याद्युपनिषदन्तरे ध्वपि ब्रह्मणो निमित्तोपादानकारणताद्वयं तदौपयिक- विलक्षणोपकारकतातिशयद्वयञ्चेत्थमेव प्रतीयमानं द्र- टव्यम् ॥ १९॥ तस्माच्चिदचिद्गततत्तदवस्थानिष्ठपर- परासम्बन्धावच्छिन्नाधेयतानिरूपितमाधारत्वं तनि- र्वाह्यमुपादानकारणत्वं च ब्रह्मणो मुख्यमेव ॥२०॥ आधारताया अमुख्यत्वेपि वा कार्योंपकारकत्वाति शयैकनिर्वाचं कारणताया मुख्यत्वं दुरपह्नवमेव । ब्रह्मण्युपकारकत्वातिशयोपलम्भात् ॥२१॥ इदमत्रा वधेयम् ॥ अनन्यथासिद्धनियतपूर्वभावित्वं हि कारण लक्षणं वर्णयन्ति तान्त्रिकाः। तत्र स्थूलचिदचिद्विशिष्टं ब्रह्म प्रति सूक्ष्मचिदचिद्विशिष्टब्रह्मणो नियतपूर्वभावि- त्वं निर्विवादम् । अनन्यथासिद्धत्वमेव चोपपादनीय कुदृष्टिध्वान्तमार्तण्डः । (५३) मवशिष्यते । तदपि यथोक्तलक्षणोपकारकत्वाति शयस्य बहुश्रुतिप्रतिपन्नत्वात् । जन्माद्यस्य यतः [शा०॥१॥१॥२॥] प्रकृतिश्च प्रतिज्ञादृष्टान्तानु परोधात् [शा॥१॥४॥२३॥] न विलक्षण त्वादस्य तथात्वं च शब्दात् । [शा॥२॥१॥४॥] तदनन्यत्वमारम्भणशब्दादिभ्यः[शा॥२॥१॥१६॥] इत्यायधिकरणेषु सूत्रकारेणापि ब्रह्मणो निमित्तकार- णत्ववदुपादानकारणत्वस्यापि सिद्धान्तितत्वाच्च नि- रावाधमेव सिद्धं भवति । अनन्यथासिद्धत्वं हि प्रामा- णिकव्यवहारैकनिर्णेयम् । श्रुतिसूत्रकारव्यवहारा- भ्यां न ह्यन्यः कश्चिदस्ति प्रबलः प्रामाणिकव्यवहारः। ताभ्यां च यथोक्तलक्षणाभ्यां तत्सिद्धमेव भवतीति तदर्थ नान्यः कश्चित्प्रयत्न आश्रयणीयः॥ अतस्सि- द्धं नस्समीहितमिति॥२२॥एतेन सूक्ष्मत्वदशापन्नचिद चिदचितोर्विशेषणयोरेव स्थूलत्वदशापन्नचिदचितौ प्रति कारणत्वस्वीकारेण ब्रह्मणो निमित्तकारणत्वमात्र स्वीकारेण च चारितार्थ्यविशिष्टं प्रति विशिष्टस्योपादा नकारणत्वस्वीकारो नावश्यक इति शङ्कापि दूरोत्सा रिताअनन्यथासिद्धनियतपूर्वभावित्वरूपकारणलक्षण सत्त्वे कारणत्वास्वीकारकथाया अनवकाशात् । अन्य थाभाव्यवस्था प्रति प्रागवस्थायाःकारणत्वस्वीकारेणै व चारितार्थं भाव्यवस्थाविशिष्टं प्रति प्रागवस्थावि- ५४) कुदृष्टिध्वान्तमार्तण्डः। शिष्टस्यापि कारणत्वानावश्यकतापत्त्या द्रव्यमात्रस्यो पादानकारणताविलयप्रसङ्गाच्च ॥२३॥ एवम्।बहुस्या- मिति सृष्टयौपयिकसङ्कल्पपरश्रुतिवाक्येष्वेकत्वरूप प्रागवस्थापन्नस्य ब्रह्मणस्स्वस्यैव बहुत्वरूपभाव्यव स्थावत्त्वसङ्कल्पनावगमात् । तादृशप्रागुत्तरावस्थाव त्त्वस्योपादानकारणतानिर्वाहकत्वात् । प्रजायेयेतीत्य नेन साक्षाद्ब्रह्मण्येव कार्यतायास्सङ्कल्पितत्वस्य स्फु- टमेवावगमात् । घटादिनिमित्तकारणस्य कुलालादेः कार्यकारणानुप्रवेशं विनैव कार्यनिर्वाहकत्वदर्शनेन निमित्तकारणतां प्रति कार्यकारणानुप्रवेशानावश्यक- तया कार्यकारणानुप्रवेशपूर्वकं ब्रह्मणि श्रूयमाणायाः कार्योपकारकतायानरर्थक्यप्रसङ्गाच्च ब्रह्मण उपादान कारणता दुर्वारा ॥ २४ ॥ इदं पुनरत्रावधेयम् । अव्य वहितस्यकारणत्वस्वीकारेण व्यवहितस्य कारणत्वं नापलपितुं शक्यम् । तथा सति स्वर्गप्रतियागजन्या पूर्वकारणतया यागकारणतायाः । स्मृति प्रत्यनुभव जन्यसंस्कारकारणतयाऽनुभवकारणतायाः। पार्क प्र- तिज्वालाकारणतयाकाष्ठकारणतायाश्चापलापप्रसङ्गा- त् ॥ यागेन स्वर्ग साधयति । प्राक्तनेनानुभवेनेदमयं स्मरति । काष्ठेरोदनं पचति । इत्यादिव्यवहारबलेन यागादीनामाप स्वर्गादिकं प्रति कारणत्वं दुरिम् । पदार्थक्लप्तेःप्रामाणिकव्यवहारमात्रमूलत्वादिति चेत्।।

कुदृष्टिध्वान्तमार्तण्डः। (५५) यतो वा इमानि भूतानि जायन्ते ॥ तस्माद्वा एतस्मा दात्मन आकाशस्सम्भूतः॥ बहु स्यां प्रजायेयेति ॥ इत्यादिपरश्शतप्रमाणेभ्यो ब्रह्मणोपि कारणत्वं दुरप- ह्नवमिति तुल्यम् । प्रमाणभूतव्यवहारवलेन तत्तत्कार्य निर्वाहकशक्तौ व्यवहिताव्यवहितयोस्तुल्यमवगम्य मानायामव्यवहितकारणतया व्यवहितकारणत्वं नाप- होतुं शक्यम् । तादृशशक्त्यवगमानवगमयोरेवानन्य थासिद्धत्वतदभावनियामकत्वादन्ततः कार्यनिर्वाहक शक्तिमत्त्वस्यैव कारणतारूपत्वाच्च ॥ तस्माद्ब्रह्मणो जगदुपादानकारणत्वं ब्रह्मणापि दुरपह्नवमेव सिद्धं भवतीति ॥२६॥ इत्थमस्मन्मते ब्रह्मणो जगदुपादान कारणत्वम्मुख्यमेव निधि निर्वहतीति तत्प्रतिपादक वेदस्य प्रामाण्यभङ्गप्रसङ्गलेशाभावान्न भवन्मत इव भङ्गयन्तरेण तत्प्रामाण्यं भञ्जनीयमिति ॥१०४॥ अथ त्वन्मत एवायं दुरुद्धरो दोषो निपतति । योऽस्मा स्वारोपित इति निरूप्यते ॥ १०५ ॥ तथा हि ॥ जन्माघस्य यतः [॥१॥१॥२॥] प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्[१॥४॥२३॥] न विल- क्षणत्वादस्य तथात्वं च शब्दात् [॥२॥१॥४॥] इत्यादिष्वधिकरणेषु सूत्रकारेण ब्रह्मणो जगत्कारणत्वं निरूपितमिति ॥ तदधिकरणविषयवाक्यतया सूत्र- काराभिमताभिः श्रुतिभिब्रह्मणो जगत्कारणत्वं प्रति- (५६) कुदृष्टिध्वान्तमार्तण्डः। पाद्यत इति च निर्विवादम् ॥ १०६॥ एवं स्थिते। तदनन्यत्वमारम्भणशब्दादिभ्यः [२॥१॥१५॥] इत्यधिकरणभाष्ये तव भाष्यकारः परमार्थतो ब्रह्मणो जगत्कारणत्वं नास्तीति स्वकपोलकल्पित- कुतर्कमात्रसिद्धस्वमतानुरोधेन तदधिकरणस्य कासां चिच्छ्रुतीनां च ब्रह्मणो जगत्कारणतानिषेधपरतां प्रसह्यव्याकुर्वन्स्वस्यसूत्रकारस्य श्रुतीनां चोन्मत्तचे तृत्वमेव प्रतिष्ठापयामासेति खलुवेदान्ततत्त्वविदो विद्वांसो विहसन्ति ॥ १०७॥ जन्माद्यधिकरणभाष्ये हि त्वदीयभाष्यकारेण । अस्य जगतोनामरूपा भ्यां व्याकृतस्यानेककर्तृभोक्तृसंयुक्तस्य प्रतिनिय- तदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचि- न्त्यरचनारूपस्य । जन्मस्थितिभडं यतस्सर्वज्ञात्स र्वशक्तेः कारणाद्भवति । तद्ब्रह्मेति वाक्यशेष इति व्या- कुर्वता। न यथोक्तविशेषणस्य जगतो यथोक्तविशेषण मीश्वरम्मुक्त्वाऽन्यतःप्रधानादचेतनादणुभ्यो वा भावा- द्वा संसारिणो वोत्पत्त्यादि सम्भावयितुं शक्यमिति च ब्रुवता परस्यैव ब्रह्मणो जगत्कारणत्वमन्यत्र प्रधानादि षु तत्सम्भावनाया अपि प्रतिषेधपूर्वकं प्रस्फुटमेव प्रति ष्ठापितम्॥१०८॥शास्त्रयोनित्वाधिकरणभाष्येप्युक्तम्। शास्त्रादेव प्रमाणाजगतो जन्मादिकारणं ब्रह्माधिगम्यत इत्यभिप्राय इति॥ १०९॥ प्रकृत्यधिकरणभाष्यपि ।

। कुदृष्टिध्वान्तमार्तण्डः। (५७) प्रकृतिश्च । उपादानकारणं च ब्रह्माऽभ्युपगन्तव्यं नि- मित्तकारणं चेत्यारभ्यप्रपञ्चेन प्रतिष्ठापितं ब्रह्मण उपादानकारणत्वं निमित्तकारणत्वेन सहेव ॥११॥ न विलक्षणत्वादस्य तथात्वं च शब्दादित्यधिकरण भाष्यपि । ब्रह्मास्य जगतः कारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेपस्स्मृतिनिमित्तः परिहतः । तर्कनिमि- त्तइदानीमाक्षेपः परिहियत इति वदता पूर्वोक्तार्थस्य तर्कनिमित्ताक्षेपपरतामस्याधिकरणस्याभिधाय दृश्यतेतु। [ शा० ॥ २॥ १॥ ६] इति सूत्र व्याकुर्वता त्वद्भाष्यकारेण ॥ यदुक्तं विलक्षणत्वानंद जगद्ब्रह्मप्रकृतिकमिति । नायमकान्तः । दृश्यते हि लोके चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः। अचेतनत्वेन प्र- सिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनामित्यादिना ग्रन्थे नायमेवार्थः प्रतिकूलतर्कप्रतिक्षेपपूर्वकं प्रतिष्ठापितः॥ ॥ १११॥ इत्थं पूर्व ब्रह्मणो जगत्कारणत्वं प्रतिष्ठाप्य पश्चात् तदनन्यत्वमारम्भणशब्दादिभ्य इत्याधिक- रणभाष्ये ॥ अभ्मुपगम्य चेमं व्यावहारिकं भोक्तभो- ग्यलक्षण विभागम् । स्याल्लोकवदिति परिहारोऽभि- हितः। न त्वयं विभागः परमार्थतोऽस्ति । यस्मात्तयोः कार्यकारणयोरनन्यत्वमवगम्यते। कार्यमाकाशादिकं बहुप्रपंचं जगत् । कारणं परं ब्रह्म । तस्मात्कारणात्प- (५८) कुदृष्टिध्वान्तमार्तण्डः। रमार्थतोऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते॥ इत्यादिना ॥ व्यवहारावस्था परमार्थावस्था चेत्यव स्थाद्वयं स्वयं कल्पयित्वा ॥ इतः प्राचीनं कृत्स्नं ब्रह्मणो जगत्कारणत्वादिवादं व्यवहारावस्थामाश्रि- त्याभ्युपगम्यवादमात्ररूपमभिधाय परमार्थतः कार्य- स्य प्रपञ्चस्याभावमेव प्रतिपादयता त्वद्भाष्यकारेण ब्रह्मणः परमार्थतो जगत्कारणत्वाभावस्यैव सिद्धान्ति तत्वाच्छुतीनां सूत्रकारस्य च तदभिप्रायकताया एव वर्णनाच स्वस्य श्रुतीनां सूत्रकारस्य च प्रस्फुदभुन्म- दिशापितं भवति।स्वैरं पूर्वोत्तरपरस्परविरु- द्धार्थवादित्वात् ।। ११२ ॥ इदमत्रावधयम् । ब्रह्मणो हि जगत्कारणत्वं न लोकसिद्धम् । धर्मिणो ब्रह्मण एवं लोकासिद्धत्वात् ॥ १॥ एवं सति केनापि प्रमाणा- न्तरेणासिद्धं जगत्कारणत्वं ब्रह्मणः किमर्थ प्रतिपाद- यति श्रुति-सूत्रकारो वा ॥ २ ॥ प्रतिपाद्य वा पुनः किमर्थ प्रतिषेधति ॥ ३॥ प्रतिषेधस्यैव तात्पर्यविष- यत्वे प्रक्षालनाद्वीतिन्यायेन प्रथममेव ह्यप्रतिपादनमु- चितम् ॥४॥भावाभावलक्षणयोः परस्परविरुद्धयो- धर्मयोरेका प्रतिपादने प्रतिपादयितुः प्रतारकत्वम- प्रमाणत्वमुन्मत्तत्वं वा कथं परिहर्तु शक्यम्भविष्य- ति ॥५॥ लोकहितबोधनप्रवृत्तौ श्रुतिसूत्रकारौ प्रा- गेव भ्रान्तं लोकं पुनर्धमयितुं प्रवृत्ताविति वा कथं (६०) कुदृष्टिध्वान्तमार्तण्डः। हारः कृतो भवतीति ॥ ११५ ॥ नहि तावत् । यतो वा इमानि भूतानि जायन्ते ॥[तै॥३॥१॥ ॥३॥] तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः॥ तैः॥२॥१॥२॥] इत्यादिषु जगद्ब्रह्मणोः कार्यकारण भावप्रतिपादक श्रुतिषु वा ॥ एष सर्वेश्वर एष भूताधि पतिरेषभूतपाल एष सेतुर्विधारण एषां लोकानामसम्भे दाय [ बृ०॥६॥४॥२२॥] इत्यादिष्वीशेशितव्य भावप्रतिपादकश्रुतिषु वा व्यवहारावस्थाविषयतया भवदभिमतासु । व्यवहारावस्थायां कार्यस्य जगतो ब्रह्म कारणं भवतीति वा। ईशितव्यस्य जगतो ब्रह्मे शितृ भवतीति वा प्रतिपादनं दृश्यते । येन व्यवहा- रावस्थानाम काचिदवस्था श्रुतिप्रतिपन्नाऽभ्युपगन्त व्या स्यात् ॥ ११६॥ अपि तर्हि स्वाभाविकं पारमा- र्थिकं चैव जगद्ब्रह्मणोः कार्यकारणभावमीशेशित व्यभावं च प्रतिपादयन्त्यो दृश्यन्त एताश्श्रुतयः॥ ॥११७॥न खलूपाधि कश्चिदनुपादायैव प्रमाणभूतेन शास्त्रेण कस्यचित्कश्चिद्धर्मः प्रतिपाद्यमान औपाधि कोपारमार्थिको वा प्रामाणिकैरभ्युपगन्तुं शक्यः११८ अपितु स्वाभाविकः पारमार्थिक इत्येवाभ्युपगन्तव्यः॥ उपाध्यनुपादानात्प्रमाणभूतशस्त्रप्रतिपन्नत्वाच ११९॥ अतो न व्यवहारावस्थानाम काचिदवस्था श्रुतिप्रति- पन्नाऽभ्युपगन्तुं शक्या ॥ १२०॥ नापि च ॥ यत्र कुदृष्टिध्वान्तमार्तण्डः । (६१) नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा [छां०७॥२४॥१॥ यत्र त्वस्य सर्वमात्मैवाभू- तत्केन के पश्येत् ॥ [वृ०॥६॥५॥१६॥] इत्यादि- षु श्रुतिषु परमार्थावस्थाविषयतया भवदभिमतासु । परमार्थावस्थायामिदमित्थं भवतीति प्रतिपादनं दृश्य ते । येन परमार्थावस्थानाम काचिदवस्था। तब्यनि- ता च काचिदन्यावस्थेत्यवस्थाद्वयमभ्युपगन्तव्यं स्यात् ॥ १२१॥ नच यत्र नान्यत्पश्यतीत्यादिवाक्ये छान्दोग्यसप्तमप्रपाठकचतुर्विशखण्डप्रथमखण्डिकाग ते । यत्र त्वस्य सर्वमात्मैवाभूदित्यादिवाक्ये बृहदा- रण्यकषष्टाध्यायपञ्चमब्राह्मणपञ्चदशखण्डिकागते च ब्रह्मानुभवदशायां. ब्रह्मभिन्नपदार्थज्ञानाभावप्रतिपाद- नात्तादृशपदार्थस्य कस्यचित्पारमार्थिकत्वे तदा- नीमपि तज्ज्ञानावश्यकत्वाच्च । ब्रह्मेतरपदार्थः कोपि परमार्थतो नास्त्येव । अत एव ब्रह्मानुभवदशायांनो- पलभ्यते । ब्रह्मानुभवात्प्राक्त भ्रान्त्या नानापदार्था- वभासमात्रमित्यवगम्यते । इत्थं च ब्रह्मेतरपदार्थभा- नाभावविशिष्टब्रह्मानुभवदशैव परमार्थावस्थानाम । तत्प्राचीनभ्रान्तिदशैव व्यवहारावस्था नामेत्यस्मद- भिमतमवस्थाद्वयं श्रुतिप्रतिपन्नमेवेति वाच्यम्।दर्शित- श्रुतिवाक्ययोस्सविभूतिकविपुलसुखरूपब्रह्मानुभवद- शायां कृत्स्नस्य जगतो ब्रह्मान्तर्भूततया तद्विभूतित्वेन (६२) कुदृष्टिध्वान्तमार्तण्डः। सुखरूपतया च साक्षात्कारविषयतयातदनन्तर्भूतं दु:- खरूपं च किमपि वस्तु न पश्यत्यनुभवितेत्येतदर्थमात्र परतया तदानीं प्रागनुभूतजगतो भानमात्राभावपरत्वा भावेन जगन्मिथ्यात्वासिद्धया भवदभिमतावस्था- द्वयस्य दर्शितश्रुतिवाक्याभ्यामसिद्धेः ॥ १२२ ॥ इदमत्रावधेयम् ॥ यथावस्थितब्रह्मसाक्षात्कारात्पूर्व- मनुभूतं जगत्ताहशसाक्षात्कारदशायां नाऽनुभूयतए- वति न तच्छुत्यर्थः। यत्र नान्यदित्यादि दर्शितच्छान्दो- ग्यश्रुतिप्रकरणे ॥ स स्वराभवति तस्य सर्वेषु लोकेषु कामचारो भवति ।[छां ॥७॥ २५ ॥२॥] न पश्यो मृत्यु पश्यति न रोग नोत दुःखताम् । सर्वह पश्यः पश्यति सर्वमानोति सर्वशः ॥[ छां ॥७॥ ॥२६॥२॥ इति श्रवणेन बृहदारण्यके यत्रत्वस्ये- त्यादिदर्शितषष्ठाऽध्यायश्रुतिवाक्यप्रकरणे ॥ तत्स- मानार्थकचतुर्थाध्यायचतुर्थब्राह्मणचतुर्दशखण्डिकायां च ॥ अस्य सर्वमात्मैवाभूत् ॥ येनेदश् सर्व विजानाति तं केन विजानीयात् ॥ इतिश्रवणेन च यथाऽवस्थि- तब्रह्मसाक्षात्कारवतो मुक्तस्य सर्वलोककामचारसर्व- वस्तुसाक्षात्कारसर्ववस्तुप्राप्तीनां सद्भावस्य स्पष्टमेवाड वगमात् । सर्वत्वस्यमानावस्तुगतसमुदायत्वरूपतया तदानींजगद्भानाभावे तत्प्रकरणे सर्व पदप्रयोगस्यैवार्थ वृत्त्वासम्भवाच्च ॥॥परन्तु प्रागनुभूतं नानावस्तुसमु- कुदृष्टिध्वान्तमार्तण्डः। (६३) दायात्मकं जगदेव सर्वशब्देन निर्दिश्य तस्यैव ब्रह्मा- पृथक्सिद्धतया तदन्तर्भूतत्वेनैवानुभवस्तदानीं जायत इत्येतावदेव दर्शितश्रुतितस्सिध्यात ॥२॥तदिदमे- वोच्यते ॥ दर्शितबृहदारण्यकश्रुतौ ॥अस्य सर्वमात्मै वाभूदिति ॥ ३॥ ब्रह्मसाक्षात्कृतवतो मुक्तस्य कृत्स्नं जगद्ब्रह्माप्रथक्सिद्धमेवसाक्षात्कार प्रत्यभादिति तदर्थः। ॥४॥दर्शितछान्दोग्यप्रकरणेपि । स एवाधस्तात्स उप रिष्टात्सपश्चात्सपुरस्तात्सदक्षिणतस्सउत्तरतस्सएवेद सर्वमितिछ॥७॥२५॥१॥] इत्यारभ्य।आत्मै- वेद स सर्वमिति [छां॥७॥२६॥२॥]इत्यन्तेन जगत- स्सर्वशब्दवाच्यस्य ब्रह्मापृथक्सिद्धत्वमुपपाद्य तत एव तत्तादात्म्येन जगतोनुभव इत्युपपादितम् ॥५॥ न चैवं तर्हि । यत्र नान्यत्पश्यतीत्यन्यपदार्थदर्शननिषेध कथमुपपद्यते । विशेषणविशेष्यभावापन्नयोरपि जग- ब्रह्मणोः परस्परभेदस्य भवत्सम्मतत्वादिति वाच्यम्। पृथक्सिद्धत्वलक्षणभेदस्यैव तत्रान्यपदार्थत्वेनादोषात् ॥६॥ द्वयोर्मृत्पिण्डयोविभागदशायां भेदव्यपदेशस्या- विभागेन सम्मिलितत्वदशायामैक्यव्यपदेशस्य चद- र्शनेन पृथक्सिङ्ख्यपृथक्सियोरपि भेदाभेदव्यपदेश विषयत्वसम्भवेनपृथक्सिद्धिलक्षणभेदविषयतया यत्र- नान्यत्पश्यतीत्यन्यदर्शननिषेधः।अपृथक्सिद्धिलक्षणे- क्यविषयतयासएवेदश्सर्वमित्यादि सामानाधिकरण्य- (६४) कुदृष्टिध्वान्तमार्तण्डः। निर्देशश्च सङ्गच्छत एव ॥णातस्माज्जगन्मिथ्यात्वको- लाहलस्य नावावकाश इति भवदभिमतमवस्थाद्वयं नैतच्छुतिवाक्यतस्सिध्यतीति ॥ १२३ ॥ अथप्रमाण भूतयोश्शास्त्रयोः परस्परविरोधपरिहारायैवेदमवस्था दयं कल्पनीयमिति चेन्न। विवेकिनांविरोधस्यैवानुपल- म्भात्।आपाततः प्रतीतस्यापि विरोधस्येहशकल्प- नामन्तरेणैवपरिहारे दर्शितकल्पनानावश्यकत्वात् । कल्पनेप्यभिमतासिद्धश्च ॥ १२४ ॥ अविरोधस्ता वदर्शितोऽधस्तादर्शयिष्यते च यथावसरमुपरिष्टाद पीतिकल्पनेऽप्यभिमतासिद्धिरेवेहनिरूप्यते ॥१२॥ इदमत्रबोध्यम्॥परस्परविरुद्धार्थप्रतिपादकत्वे झपौरु यनित्यनिर्दोषशास्त्रस्य वेदस्याऽप्रमाणत्वादिप्रसङ्गो भवति॥१॥स हि परिहर्तव्यः॥२॥स च प्रसङ्गो ब्रह्मणो जगत्कारणत्वप्रतिपादनविकारप्रतिषेधाभ्यां प्राप्तोऽभ्यु- पगतः ॥ ३॥ तत्परिहारार्थ हीहशदशाद्वयकल्पनं भवताम् ॥४॥न च तत्परिहारस्सम्भवति । दर्शिता वस्थाद्वयकल्पनेन ॥ ६॥ तथा हि यतो वा इमानि भूतानि जायन्त इत्यादि शास्त्रं ब्रह्मणो जगत्कारणत्वं प्रतिपादयति । अन्ततः कृत्स्नस्य जगतो मिथ्यात्वेन परमार्थतस्तदभावमेव प्रतिपादयति नेह नानास्ति किञ्चनेत्यादि झोत्रमिति हि भवन्मतम् ॥६॥ तथा सात कार्यभूतस्य जगत एवाभावेन कारणत्वस्यै- कुदृष्टिध्वान्तमार्तण्डः। (६५) वासिया ब्रह्मणो जगत्कारणत्ववादिशास्त्रस्याप्रमाण- त्वमेव पर्यवसन्नं भवति । तदभाववति तत्प्रकारक- धीजनकत्वस्यैवाप्रमाणत्वरूपत्वात् । द्वैतप्रतिपादक- शास्त्रस्य तात्त्विकं प्रामाण्यं नाऽस्तीत्येव भवत्सिद्धा- न्ताच्च।।७॥ इत्थं च । यतो वा इमानि भूतानि जायन्ते [तै०॥३॥१॥२॥] आत्मन आकाशस्सम्भूतः [तै०॥२॥१॥२॥बहुस्यां प्रजायेयेति [तै०२॥ ॥६॥२॥] इत्यादीनां ब्रह्मणो जगत्कारणत्ववादि- शास्त्राणाम् । नेह नानास्ति किञ्चन [वृ०॥६॥ ॥ ४ ॥ १९ ॥ ] यत्र त्वस्य सर्वमात्मैवा- भूत्तत्केन के पश्येत् [वृ०॥६॥५॥१५॥] सवा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म [वृ०॥६॥४॥२६॥ स एष नेति नेत्यात्मा [वृ०॥६॥ ॥२॥४॥] अस्थूलमनणु ॥[बृ०॥६॥८॥८॥ इत्यादीनां कृत्स्नप्रपञ्चनिषेधमुखेन ब्रह्मणो विकारण- तिषेधमुखेन च ब्रह्मणो जगत्कारणत्वप्रतिषेधपरतया भवदभिमतानां शास्त्राणां च मिथो विरोधोपि दुरुद्धर एव हि तिष्ठति । ८ । अभिहितोहि त्वद्भाष्यकारेणो- दाहृतशास्त्रेषु पूर्वशास्त्राणां परशाधिमाश्रित्य कृत्स्नप्रपञ्चप्रतिषेधः। ९ । यथोक्तं तेनारम्भणाधिक- रणभाष्ये ॥ तस्मादन्त्येन प्रमाणेन प्रतिपादित आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य (६६) कुदृष्टिध्वान्तमार्तण्डः। बाधितत्वानानेकात्मकब्रह्मकल्पनावकाशोस्ति । ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्रह्मशास्त्रस्याभिम- तमिति गम्यते । परिणामिनो हि मृदादयोऽर्था लोके समधिगता इति । नेत्युच्यते । स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयोब्रह्म [वृ०॥६॥४॥ ॥ २५ ॥] स एष नेति नेत्यात्मा [वृ०॥६॥२॥४॥] अस्थूलमनणु॥ [बृ०॥५॥८॥ ८॥ इत्या- दिभ्यस्सर्वविक्रियाप्रतिषेधश्रुतिभ्योब्रह्मणः कूटस्थत्वा वगमात् । न कस्य ब्रह्मणः परिणामधर्मवत्त्वं तद्र- हितत्वं च शक्यंप्रतिपत्तुम् । स्थितिगतिवत्स्यादि- ति चेन्न कूटस्थस्येति विशेषणात् । नहि कूटस्थस्य ब्रह्मणः स्थितिगतिवदनेकधर्माश्रयत्वं सम्भवति । कूट- स्थं च ब्रह्मसर्वविक्रियाप्रतिषेधादित्यवोचामेति ॥१०॥ वयं चात्र विशेषतो विस्मयामहे । बहुस्यां प्रजायेये- तीत्यादिश्रुतिभिस्सृष्टःप्राङ्नामरूपविभागाभावे नैक- त्वावस्थापन्नस्य सूक्ष्मचिदचिद्विशिष्टब्रह्मणः पश्चान्नाम- रूपविभागेनैकत्वावस्थाप्रहाणपूर्वकंस्थूलचिदचिद्वैशि- टयलक्षणबहुत्वापत्तिहि प्रस्फुटं प्रतिपाद्यते । सैव हि- ब्रह्मणःपरिणामो नाम । प्रागवस्थाप्रहाणेनावस्थान्तर- प्राप्तेरेव परिणामशब्दार्थत्वात्। इतश्चेदृशपरिणामवत्त्वे- न ब्रह्मणोजगदुपादानकारणत्वमाभिः प्रतिपादितं भव- ति।प्रकृत्यधिकरणे॥परिणामात् [शा०॥१॥४॥२७॥]

कुदृष्टिध्वान्तमार्तण्डः। (६७) इति सूत्र प्रणयता सूत्रकारेणापि । ब्रह्मजगदुपादान- कारणं भवत्येव । परिणामादितीदृशं परिणाममेव हेतू कृत्य तदेव साधितम् । इत्थंश्रुतिभिस्सूत्रकारेण चैक- त्वावस्थापहाणपूर्वकानेकत्वावस्थाप्राप्तिलक्षणपरिणा- मवत्त्वेनैव ब्रह्मणो जगदुपादानकारणत्वे प्रस्पुटं प्रति- पाद्यमाने पश्यतोहर इव साक्षात्तद्विरुद्धमनेकात्मक ब्रह्मकल्पनावकाशाभावं ब्रह्मणः परिणामस्वीकारास- म्भवं च ब्रुवंस्त्वद्भाष्यकारः प्रत्यक्षापलापेविद्वद्गोष्ठयां परिहास्योभवेयमहमिति कथं नालज्जतेति ॥ ११॥ नन्वस्मद्भाष्यकारेण तदनन्यत्वमिति सूत्रभाष्यान्ते । सूत्रकारोपि परमार्थाभिप्रायेण तदनन्यत्वमित्याह । व्यवहाराभिप्रायेण तु स्याल्लोकवदितिमहासमुद्रा दिस्थानीयतां ब्रह्मणः कथयति अप्रत्याख्यायैवर्काय प्रपञ्च परिणामप्रक्रियां चाश्रयति । सगुणोपासने खूपयोक्ष्यत इतीति वदतासर्वमिदं समाहितमेवेति चेत् ॥१२॥ किं समाहितम् ॥ १३॥ नहि तत्र सूत्र- कारेण अयं परमार्थाशः । अयं व्यावहारिकांश इति किञ्चिदभिहितम् ॥ १४॥ अपितु सूत्रकृतस्तादृशा- भिप्रायकता च त्वद्भाष्यकारेणैव कल्पिता ॥ १५॥ तां कल्पनां कल्पयतापि त्वद्भाष्यकारेण । लोकव्य- वहाराभिप्रायेण मिथ्यैव सूत्रकारेण प्रथमं ब्रह्मणो जगत्कारणत्वमभिहितम् । पश्चात्परमार्थतस्तत्प्रतिषेध (६८) कुदृष्टिध्वान्तमार्तण्डः। श्च कृत इत्यङ्गीकुर्वता त्वद्भाष्यकारस्य श्रुतिशारीर- कशास्त्रयोश्चास्माभिरापादितमप्रामाण्यादिकमङ्गीकृ- तमेव भवति ॥ १६॥ नतु तत्परिहारः कृतो भवति ॥ १७॥ परिणामप्रक्रियामिथ्याभूतापि सगुणोपासनो- पयोगित्वाभिप्रायेणसूत्रकारेण नप्रत्याख्यातेत्यभिधान मपिलोकवञ्चनमात्रम्।निर्गुणविद्यात्वेन भवदभिमतस- द्विद्याप्रकरणएव तदानानात् । सगुणोपासनमात्रोपयो- गित्वेन तदभिधाने कारणाभावाच ॥ १८॥ छान्दो- ग्ये षष्ठप्रपाठकेद्वितीये खण्डे सद्विद्याप्रकरण एव हि । सत्त्वेव सोम्येदमग्रआसीत् । एकमेवाद्वितीयम् । तदै- क्षत बहुस्यां प्रजायेयेति । तत्तेजोऽसृजत । तत्तेज ऐ- क्षत । बहुस्यां प्रजायेयेति । तदपोऽसृजतेत्यादिना ब्रह्मण एकत्वावस्थापहाणपूर्वकबहुत्वावस्थाप्राप्तिरूप- परिणामप्रक्रियाश्रूयते ॥ १९ ॥ एवं शारी- रकशास्त्रस्य श्रुतिषु सन्दिग्धार्थानां न्यायसञ्चारण विवेचनपूर्वकं तत्त्वनिर्धारणैकप्रयोजनाय प्रवृत्तस्य लोकव्यवहारानुवादकत्वमुपासनार्थमिथ्यार्थप्रतिपाद- कत्वं वा न कथञ्चिदपि सुवचम् ॥२०॥ श्रुतौ प्रती कोपासनेषु फलार्थ क्वचिदृष्टिविधिदर्शनेनोपासनप्रक- रणगतश्रुतिवाक्यानांकथञ्चित्तयोस्सम्भवदुक्तिकत्वेपि तत्त्वार्थनिर्धारणपरशास्त्रस्य हि तेन सम्भवतः ॥ ॥२१॥ प्रत्युतोपासनपरश्रुतिवाक्यार्थविचारे प्राप्ते मि कुदृष्टिध्वान्तमार्तण्डः। (६९) थ्यार्थप्रतिपादकत्वे च कस्यचिद्वाक्यस्य स्थिते तदर्थस्य पारमार्थिकत्वशङ्कापरिहाराय । अयमत्र पारमार्थिक आकारः। अयंचोपासनार्थ कल्पितआ- कार इति विविच्य तत्त्वाभिधानमेवावश्यकर्तव्यम् ।। ॥२२॥ अतएव हि सूत्रकारेण ॥ अर्भकौकस्त्वात्त- द्यपदेशान्नेति चेन्न निचाय्यत्वादेवं व्योमवच्चशिा॥३॥ ॥२॥७॥अल्पश्रुतेरिति चेत्तदुक्तम् ॥ १॥३॥२०॥ हृद्यपेक्षयातुमनुष्याधिकारत्वात् [॥१॥३॥२४॥ इत्यादिषु सूत्रेषूपासनार्थ श्रुतिवाक्योक्ताल्पाकारस्य तात्त्विकत्वशङ्कापरिहारः क्रियमाणो दृश्यते ॥२३॥ एवंश्रुतिवाक्यप्रतिपन्नानामप्यतात्त्विकाकाराणांतात्त्वि कत्वभ्रमंपरिहरता सूत्रकारेण । ब्रह्मणउपादानकारण- त्वासम्भवं वदतां वादिनां खण्डनपूर्वकं न्यायसञ्चारण तत्त्वनिर्धारणावसरे परिणामात्प्रकृतिश्च ब्रह्मेति ब्रह्मण उपादानकारणत्वस्थापकहेतुतयोपन्यस्तस्य परिणा- मवत्त्वस्यातात्त्विकाकारत्वेन तदभिप्रेतत्ववर्णनं ना नुन्मत्तः कश्चित्कुर्यात् ॥२४ ॥ किञ्च ॥ सूत्रकारण पूर्वाधिकरणेषु ब्रह्मणः परिणामादिना हेतुनोपादानका रणत्वं समर्थितमिति ह्यविवादम् ॥२५॥ तदनन्यत्व मारम्भणशब्दादिभ्य इत्यधिकरणे परं तत्प्रतिषेध एव प्रतिपाद्यते सूत्रकारेणेति तु भवन्मतम् ॥ २६ ॥ यद्येवमेव सुत्रकाराभिप्रायस्स्यात् ॥२७॥ तदापूर्वा- (७०) कुदृष्टिध्वान्तमार्तण्डः। धिकरणानामस्याधिकरणस्य च परस्परविरोध आप- ण्डितपामरं प्रस्फुटमेव किल प्रतीयते ॥२८॥ तथा सति श्रुतिवाक्येष्वप्यतात्विकाकारप्रतिपत्तौ विरोध- प्रतिपत्तौ वा परिहारं कुर्वता सूत्रकारेण स्ववाक्यप्र- तिपत्रातात्त्विकाकारविरोधयोस्स्वरूपकीर्तनपरिहारौ कुतो नाकारिषाताम् ॥ २९ ॥ व्यवहारावस्था परमार्थावस्था चेति भवदभिमतमवस्थाद्वयमि- हावश्यवक्तव्यं कुतो वा स्वयं नाभिहितम् ॥ ३०॥ अतो नास्य सूत्रस्येशाभिप्रायकत्वं सूत्रकारस्य सुवचम् ॥३१॥न चैतत्सूत्रं प्रपञ्चस्य मिथ्यात्वोप- पादनेन परमार्थतः प्रतिषेधपरमवगम्यते । तद्वर्टक- शब्दतस्स्वभावतस्तदर्थानवगतेः । अस्मिन्नधिकरणे जगन्मिथ्यात्वोपपादने पूर्वाधिकरणैस्सह सङ्गतिलेशा सम्भवाच्च ॥३२॥ अपितु ॥जगद्ब्रह्मणोः कार्यकारणभू- तयोरभिन्नत्वमात्रमस्मिन्नधिकरणे प्रतिष्ठाप्यते ॥३३॥ तत्प्रतिष्ठापनं च । पूर्वम् । असदिति चन्नप्रतिषेधमा त्रत्वात् [॥ २ ॥१॥७॥] इत्यादिषु सूत्रेषु स- कार्यवादेन कार्यकारणयोरभेदमाश्रित्य ब्रह्मण उपा- दानकारणत्वसमर्थनात् । कार्यकारणयोरनन्यत्वमपि न सम्भवति । जगद्ब्रह्मणोरनन्यत्वमपि न सम्भवति । बुद्धिशब्दान्तरादिभ्यो हेतुभ्य इति प्रत्यवतिष्ठमानानां वैशेषिकादीनांप्रत्याख्यानाय क्रियत इति तावदस्माकं कुदृष्टिध्वान्तमार्तण्डः। (७१) सम्भवति सङ्गतिः॥३४॥ न चेदृशी तव काचित्स- गतिमिथ्यात्वप्रतिपादनेपि सम्भवति ॥ ३५ ॥ कि- ञ्च यदि मिथ्यात्वं ब्रह्मान्यस्येह प्रतिपिपादयिषितं स्यात् । तदा । तदन्यदसत्यमारम्भणशब्दादिभ्य इत्येव सूत्रं प्रणेतव्यं स्यात् । नतु । तदनन्यत्वमार- म्भणशन्दादिभ्य इति । जगतो ब्रह्मानन्यत्वस्यसत्य- मिथ्यार्थयोरक्यासम्भवेनासम्भवात्तत्प्रतिपादनस्य प्र- कृतानुपयोगित्वेन निष्फलत्वात् । प्रत्युत जगतो ब्रह्माभिन्नत्वप्रतिपादने जगतोपि सत्यताया ब्रह्मणोपि मिथ्यात्वस्य वा प्रसङ्गेन भवदभिमतविपरीतार्थसा- धकत्वाच ॥३६॥ न च कार्यासत्यत्वप्रतिपादकाना- मारम्भणादिशब्दघटितवाक्यानामुदाहरणेनास्य सु- त्रस्य जगन्मिथ्यात्वपरत्वमेव सूत्रकाराभिमतमित्य गत्या स्वीकार्यमिति वाच्यम् । जगतो ब्रह्माभिन्नत्वं साध्यं प्रतिज्ञाय तत्साधकतयैवारम्भणादिशब्दघटित वाक्यानां सूत्रकारोदाहृतत्वेन तेषां जगतो ब्रह्मा- भिन्नत्वप्रतिपादनं प्रत्येवोपयिकत्वावगमेनमिथ्यात्वप्र तिपादनौपयिकत्वासम्भवात् ॥ ३७ ॥ यथा सोम्यै केन मृत्पिण्डेन सर्वमृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयंमृत्तिकेत्येव सत्यम् [छां०॥६॥ ॥१॥४॥] इत्यादिषु दृष्टान्तवाक्येषु हि कार्यस्य घटादेः कारणभूतमृद्रव्याघभिन्नत्वमेव प्रतिपाद्यते ।

(७२) कुदृष्टिध्वान्तमार्तण्डः। नतुकारणभूतमृद्रव्यादेःसत्यत्वं कार्यभूतघटादेरसत्य त्वचेत्युभयम् । तथा सतीति शब्दानन्वयन।मृत्तिकैव सत्यमित्यादेरितिशब्दाघटितस्यैव शब्दप्रयोगस्याव- श्यकत्वात्।इतिशब्दसत्त्वे च घटादिकार्यस्य मृद्रव्या- धभिन्नताया एवं प्रतिपादनसम्भवाच ॥३८॥ अत्र हि मृत्तिकाशब्दार्थविशेष्यकसत्यपदार्थप्रकारकबोधः एवकारबलेन । घटादिविशेष्यकासत्यत्वप्रकारकबोध- श्चभवदभिमतः॥३९॥ सचनसम्भवति । इतिशब्देन तत्प्रतिरोधात् ॥ ४० ॥ इतिशब्दपूर्वनिपतितमृ- त्तिकाशब्दार्थस्येतिशब्दार्थे विशेषणतयान्वितस्यतदु- त्तरनिपतितसत्यपदार्थविशेष्यतयाऽन्वयोगसम्भावि- तः ॥ ४१ ॥ अपितुप्रकरणवलादनुषक्तनतत्प्रक- रणस्थेनैव सर्वमृन्मयमित्यनेन सम्मिलितात् । मृत्तिके त्येवसत्यमित्येतद्वाक्यात् मृन्मयपदार्थघटादिविशेष्य- को मृगव्याभिन्नत्वप्रकारकप्रमाणजन्योपलब्धिविशे- ष्यत्वप्रकारकः । एवकार बलान्मृद्रव्याभिन्नत्वप्र कारकप्रमाणजन्योपलब्धिविशेष्यत्वाभावप्रकारकश्च- बोधः । सर्वमृद्रव्यविकृतिभूतं घटादिकार्यजातंकार- णभूतमृद्रव्याभिन्नमेव नतु द्रव्यान्तरमित्यस्मिन्नर्थे पर्यवसन्न एव जायते। यथा शङ्खः पाण्डर इत्येव सम्प्रतिपन्न इत्यादौ शङ्कविशेष्यकः पाण्डराभिन्नत्व- प्रकारकप्रमाणजन्योपस्थितिविशेष्यत्वप्रकारकः। एव कारबलात्पाण्डरभिन्नत्वप्रकारकप्रमाणजन्योपस्थिति कु दृष्टिध्वान्तमार्तण्डः। (७३) विशेष्यत्वाभावप्रकारकश्च बोधः । शङ्खः पाण्डर एवं नतु रूपान्तरवानित्यर्थेपर्यवसन्नः॥४२॥ अतएव ॥ तदनन्यत्वमारम्भणशब्दादिभ्य इति सूत्रे जगतो ब्रह्मानन्यत्वं साध्यं प्रतिज्ञायारम्भणशब्दघटितवा- क्यानां तत्साधकत्वे न सूत्रकृतोदाहरणं साधु सङ्गच्छ ते॥४३॥ तथाच ॥ यथा सोम्यैकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेय- म्मृत्तिकेत्येव सत्यमिति दृष्टान्तवाक्यस्य विवरणमित्थं बोद्धव्यम् । हेसोम्यायथैकेन मृत्पिण्डेन कारणभूतेन- विज्ञातेनकार्यभूतं सर्वम्मृन्मयं घटादिवस्तुजातं । विज्ञातं स्यात् । तथा येन ब्रह्मणाश्रुतेनाश्रुतं श्रुतं भवतीति पूर्वेणान्वयः । कथमन्येन विज्ञातेनान्यद्वि- ज्ञातं भवतीत्याशङ्कायामाह । वाचारम्भणमित्यादि। मृत्पिण्डेनेत्यनुषज्यते । विकारः। घटत्वशरावत्वादि- संस्थानविशेषः। नामधेयं घटशरावादिसञ्ज्ञाचेत्यु- भयम् । मृत्पिण्डेन । आरम्भणम् । आरभ्यते । आल- भ्यते । स्पृश्यत इत्यारम्भणम् । प्राप्तंभवतीत्यर्थः । कृत्यल्युटो बहुलम् । [॥३॥३॥ ११३॥] इत्य- नुशासनेन कर्मणि ल्युट् । किमर्थमित्यत्राह । वाचेति। वाचा । उदकाहरणादिव्यवहारोपयोगितत्तदसाधार- णव्यावर्तकतत्तद्वस्तुनिर्देशलक्षणवागर्थम् । तादृशव- स्तुनिर्देझपूर्वकताहव्यवहारसिध्यर्थमित्यर्थः । हेतौ कुदृष्टिध्वान्तमार्तण्डः। (७५) प्रमाणजन्योपलब्धिविषयत्वव्यवच्छेदबोधश्च भवतीति ॥४४॥ एवमेव तत्प्रकरणस्थदृष्टान्तवाक्यान्तराणा- मपि बोधोऽनुसन्धेयः॥ ४५ ॥ विस्तरस्तु भाष्याद्या- करग्रन्थेऽवसेयः॥४६॥ एवम् ॥ यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा [छां०॥७ २४॥ १ ॥ ] यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् [॥ वृ०॥६॥५॥१५॥] मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन । मृत्योल्समृत्युमाप्नोति य इह नानेव पश्यति [॥ वृ॥६॥४॥१९॥ ] इत्येव- माया एतदधिकरणविषयवाक्यतयाऽभिमतायाश्श्रुती द्वैतनिषेधेन प्रपञ्चमिथ्यात्वग्राहकप्रमाणतया प्रागुक्ता- वस्थाद्वयग्राहकप्रमाणतया च त्वद्भाष्यकार उदाहरति ॥४७॥ तास्सर्वा जगद्ब्रह्मणोर पृथसिद्धविशेषणवि- शेष्यभावलक्षणसम्बन्धेन सम्बद्धतयैकवस्तुभावापन्न- योस्तथाविधसम्बन्धनिबन्धनकत्वाज्ञानमूलतत्प्रति- कोटिभूतद्वैतबुद्धिप्रतिषेधपरास्तथाविधैकत्वज्ञानाज्ञा- नलक्षणदशाद्वयपराश्च ॥ ४८ ॥ न चेदृशद्वैतनिषेधः प्रपञ्चमिथ्यात्वग्राहको भवति ॥ १९ ॥ नापि चेदृश- दशाद्वयं भवदभिमतदशाद्वयं भवति ॥५०॥ यतस्स- वमिदं प्रपञ्चस्य पारमार्थिकस्यैव सतो ब्रह्मणा सह स- म्बन्धविशेषनिबन्धनकत्वग्राहणमात्रपर्यवसायि।।११।। यथा ह्या मृत्पिण्डे परस्परासंयोगेन पृथगवस्थिते कुदृष्टिध्वान्तमार्तण्डः। द्वित्वेन व्यवद्वियेते । परस्परसंयुक्तेचैकत्वेन च ।न च तत्रैकम्मिथ्या भवति ॥ १२ ॥ तथेहापि जगद्ब्रह्मणो रपृथक्सिविशेषणविशेष्यभावलक्षणसम्बन्धविशेषा परिज्ञानदशायां पृथगिवावभासमानयोर्वेदान्तश्रवणेन तादृशसम्बन्धविशेषज्ञाने सत्येकत्वेन ग्रहणं भवति ॥५३॥ न च तत्रैकांशे । मिथ्या भवितुमर्हति॥५४॥ इयांस्तु विशेषः। मृत्पिण्डयोस्सम्बन्धसम्पत्त्यसम्पत्त्य धीनतज्ज्ञानाज्ञानाभ्यामेकत्वद्वित्वबुद्धी भवतः।जगद्- मणोस्तु सत्यपि सदातनेतादृशसम्बन्धे तस्यातीन्द्रि- यतया वेदान्तश्रवणतदभावाधीनतज्ज्ञानाज्ञानाभ्यामे- कत्वद्वित्वबुद्धी भवत इति ॥५५॥ एवं ब्रह्मण एक- स्यैव सद्भावव्यपदेशा अपि जगतो ब्रह्मणः पृथग्वस्तु त्वव्यवहारानहसम्बन्धविशेषवत्तया तदन्तर्भूतत्वनिब- न्धना एव । न पुनर्जगन्मिथ्यात्वनिवन्धनाः ॥५६॥ अत एव ॥ सर्व खल्विदं ब्रह्म तज्जलान[ छां०॥३॥ ॥१४॥१॥] विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति [तै०॥६॥ ११॥२॥] सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः [छां०॥६॥८॥६॥] ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेत केतो[छां०॥६॥८॥७॥]सोऽकामयत । बहुस्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इद ५ सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानुप्रावि- कुदृष्टिध्वान्तमार्तण्डः। शत् । तदनु प्रविश्य । सच्चत्यच्चाभवत् [तै०॥२॥ ॥६॥] येन सर्वमिदं प्रोतं पृथिवीचान्तरिक्षं च द्योश्च दिशश्चावान्तरदिशाश्च स वै सर्वमिदं जगत् स च भूतं सच भव्यम् [॥०॥ ना०॥६॥५०॥१३॥] इत्याद्याश्श्रुतयो जगद्ब्रह्मणोरैक्यं व्यपदिश्य तथा विधैक्यव्यपदेशस्यापृथक्सिद्धविशेषणविशेष्यभावल- क्षणं सम्बन्धविशेषमेव निवन्धनं स्फुटमेवोपदि शन्ति ॥१७॥ अत्र हि प्रपञ्चमिदमादिशब्दैर्गृहीत्वैव तस्य ब्रह्मणा सहैक्यं निर्दिश्य । तजलान् ॥ तद्विश्व- मुपजीवति ॥ सन्मूलाः ॥ ऐतदात्म्यमिदं सर्वम् ॥ तदेवानुप्राविशत् ॥ येन सर्वमिदं प्रोतम् ॥ इत्यादिभि निर्देशैस्तत्रतत्रैवैकत्वव्यपदेशहेतुस्सम्बन्धविशेष इति स्पष्टीकृतम् ॥२८॥प्रपञ्चस्य मिथ्यात्वे तु । ब्रह्म सत्यमन्यन्मिथ्येत्येव निर्देष्टव्यम् । न तु जगद्ब्रह्मणो रेकत्वं निर्दिश्य ताहानिर्देशनिर्वाहकतया सम्बन्ध विशेष उपपादनीयः ॥ ५९ ॥ तदिदमुक्तं स्पष्टमेव गीतायामपि । सर्व समाप्नोषि ततोऽसि सर्वः [॥गी॥ ॥११॥४०॥] इति भगवद्दत्तदिव्यचक्षुषा सम्बन्ध विशेष साक्षात्कुर्वता पार्थेन ॥ ६० ॥ तत्रैव ॥ अस- त्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ॥ [॥ गी० ॥१६॥ ॥८॥] इति जगतोऽसत्यत्ववादमासुरप्रकृतिजनवा- दमाचक्षाणेन भगवता वासुदेवेनापि तादृशवादस्या- कुदृष्टिध्वान्तमार्तण्डः। (७९) सत्तायां वैषम्यस्य दुर्वचत्वाच ॥ ६७ ॥ तथाहि । शुक्तिं दृष्ट्वा इदं रजतमिति केनचित्प्रयुक्तं वाक्यं ह्यप्रमाणमिति सर्वसम्मतम् ॥६८॥ तस्यापि च नेदा- नीमप्रमाणत्वसिद्धिः तत्रापिभवद्भिः प्रातिभासिकपदा- र्थसद्भावतद्भानयोरङ्गीकारेण तद्वति तत्प्रकारकधीज नकत्वरूपप्रामाण्यस्यानपायात्।अन्यथाख्यात्यनङ्गी- कारेण शुक्तौरजतत्वभानाभावेन तदभाववति तत्प- कारकधीजनकत्वरूपाप्रामाण्याप्रसक्तेश्च ॥ ६९ ॥ पारमार्थिकपदार्थधीलक्षणप्रमाजनकत्वमेव प्रमाण- त्वम् । मिथ्यापदार्थधीलक्षणाप्रमाजनकत्वमेवाप्रमा- णत्वम् । स्वप्नावस्थायां तत्त्वकतयैव प्रतीयमानानां स्वामिकपदार्थानां तदानी पारमार्थिकतावद्यावहारि- कपदार्थानामपि व्यवहारावस्थायां पारमार्थिकताया इष्टत्वात्प्रातिभासिकपदार्थानां कदापि पारमार्थिक- त्वानङ्गीकारेण मिथ्यात्वस्यैवेष्टत्वाच्च रजतं दृष्ट्वा प्रयुक्तस्येदं रजतमिति वाक्यस्य प्रमाणतायाः। शुक्ति दृष्ट्वा प्रयुक्तस्येदं रजतमिति वाक्यस्याप्रमाणतायाश्च निर्वाहः । इत्थमेव च लौकिकपदार्थविषयवेदस्यापि प्रमाणत्वं सम्भवत्येवेति चेन्नाभवदभिमतपारमार्थिक- त्वमिथ्यात्वयोर्दुर्वचत्वात् ॥ ७० ॥ न च बाधितत्व- मेव मिथ्यात्वम् । अबाधितत्वमेव च पारमार्थिकत्वम्। प्रातिभासिकरजतादिपदार्थानामुत्तरकाले बाधनिश्च- (८०) कुदृष्टिध्वान्तमार्तण्डः। यसम्भवान्मिथ्यात्वम् । सत्यरजतादीनां परमार्थाव- स्थायां बाधसम्भवेपि व्यवहारावस्थायां बाधनिश्च- यासम्भवेन तावत्पर्यन्तमबाधितत्वलक्षणं पारमार्थि- कत्वं सम्भवत्येव । अतस्सापि लौकिकोभ्रमप्रमाव्य- वहारःप्रमाणाप्रमाणव्यवहारश्च निर्वहत्येवेति वाच्यम्। वह्नावनुष्णत्वं बाधितम् । जले चोष्णत्वं बाधितमि- त्यादिव्यवहारेण । यस्य धर्मस्य यस्मिन् धर्मिणि व्यतिरेकनिश्चयो भवति । तत्र तस्य धर्मस्य बाधित- त्वव्यवहारदर्शनात् । स्वनिरूपितकिञ्चिद्धर्मिनिष्ठवि- शेष्यतानिरूपितप्रकारताशाल्यभावप्रतियोगित्वस- म्बन्धेन निश्चयविशिष्टत्वस्यैव सामान्यतोबाधितत्वरू- पतया सर्वस्यापि पदार्थस्य क्वचित्केनचित्सम्बन्धन सत्तायाः क्वचिदसत्तायाश्च प्रामाणिकत्वेनेशबाधित- त्वस्य सर्वसाधारणतया तदभावस्य क्वाप्यसम्भवात् ॥७॥यदि च तद्धर्मिणि प्रतीतस्य धर्मस्य तत्रैवव्यतिरे कनिश्चये सत्येवमिथ्यात्वव्यवहारदर्शनात्तादृशर्मिणि तादृशधर्मस्यबाधितत्वमेव मिथ्यात्वमातच्च स्वनिरूपि तविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितस्वा वच्छेदकसम्बन्धावच्छिन्नस्वावच्छेदकावच्छिन्त्रप्रतियो गिताकाभावत्वावच्छिन्नप्रकारतानिरूपकत्वसम्बन्धेन निश्चयवृत्तिप्रकारत्वपर्यवसितं न सर्वसाधारणमित्यु- च्यते ॥ ७२ ॥ तदापि तत्त्वज्ञतादशायांब्रह्मणि प्रप- कुदृष्टिध्वान्तमार्तण्डः। (८१) चवाधनिश्चयस्य पूर्व प्रपञ्चप्रतीतेश्च भवद्भिरङ्गीकारेण ब्रह्मेतरसर्वसाधारणमेवेदमपीति न व्यावहारिकपदार्थेषु तदभावः क्वचित्प्रसिध्यति ॥७३॥ न च स्ववृत्तिनि- श्चयवृत्तित्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताका- तियोगिताकभेदवत्त्वसम्बन्धेन किञ्चित्कालविशिष्टप्र- कारतावत्त्वरूपमेवाबाधितत्वमिह पारमार्थिकत्वरूपं तच्छून्यत्वरूपं बाधितत्वमेवेह मिथ्यात्वरूपमभि मतम् । निश्चयवृत्तित्वं चेहापि पूर्ववदेव । इत्थं च व्यवहारावस्थाकालमादाय व्यावहारिकपदार्थानां स्वप्नावस्थाकालमादाय स्वानिकपदार्थानां च पार मार्थिकत्वं सूपपादम् । तच्छून्यत्वरूपबाधितत्व- लक्षण मिथ्यात्वं च प्रातिभासिकपदार्थानां शुक्तिरू- प्यादीनां सम्भवति । व्यवहारावस्थाकाल एव तेषां प्रतीतिबाधयोस्सत्त्वादिति वाच्यम् । कस्यचिद्यवहा- रावस्थाकाले कस्यचित्तत्त्वज्ञतावस्थाया अपि सम्भ- वेन कृत्स्नस्य प्रपञ्चस्य तदीयबाधनिश्चयविषयत्वेन निरुक्तपारमार्थिकताया लोकसिद्धपदार्थेषु कस्याप्य- सम्भवात् । प्रतियोग्यप्रसिद्ध्यैव तच्छून्यत्वलक्षण- मिथ्यात्वस्यापि क्वचिदुरुपपादत्वाच ॥ ७४॥ न च किञ्चित्कालावच्छिन्नकिञ्चित्पुरुषविशिष्टप्रकारताव- त्त्वमेव पारमार्थिकत्वम् । पुरुषविशिष्टत्वं प्रकारतायां स्ववृत्तीत्यादिपूर्वोक्तसम्बन्धेन । तच्छून्यत्वमेव च कुदृष्टिध्वान्तमार्तण्डः। (८३) कत्वस्य सर्वपदार्थसाधारणतया मिथ्यापदार्थस्यैवाप्र- सिद्ध्या क्वचिदपि ज्ञाने मिथ्यापदार्थधीत्वलक्षणभ्रम- त्वस्य क्वचिदपि वाक्ये तादृशपदार्थधीजनकत्वलक्षणा प्रमाणत्वस्य च दुरुपपादत्वात् ॥ ७८॥ अथ व्यव- हारावस्थायामेव सत्यमिथ्याभ्रमप्रमाप्रमाणाप्रमाण- व्यवहारविभागसत्त्वात्तनिहाय व्यवहारावस्थाघटि- तमेव तेषां लक्षणं वक्तुमुचितम् । व्यवहारावस्था नाम तत्त्वज्ञानाभाव एव । तथा च । तत्त्वज्ञानाभावविशिष्ट पुरुषविशिष्टप्रकारतावत्त्वमेव पारमार्थिकत्वम् । तच्छू न्यत्वमेव मिथ्यात्वम् । पुरुषविशिष्टत्वं च प्रकारतायां स्ववृत्तीत्यादिपायुक्तसम्बन्धेनैव । इत्थं च शक्तिरूप्या- दिप्रातिभासिकपदार्थानांभ्रान्तस्य भ्रान्तिकाले बाधनि- श्चयाभावेपि तदुत्तरकाले बाधनिश्चयजननात्तत्कालेप्य भ्रान्तानां बाधनिश्चयजननाच तद्गोचरतया तेषां मिथ्या त्वसिद्धनिष्प्रत्यूहतया दर्शितसकलव्यवहारोपपतिरि- ति चेन्न। व्यवहारावस्थापनानामेव पुरुषाणाम् । यतो- वा इमानि भूतानि जायन्त इत्यादिवाक्यैब्रह्माणि विका- रित्वकारणत्वादिनिश्चयस्य । निष्कलं निष्क्रियान्तं निरवयं निरञ्जनमित्यादिभिर्विकारित्वकारणत्वादिप्र- तिषेधकतया भवदभिमतक्यिब्रह्माणि विकारित्व- कारणत्वादिव्यतिरेकनिश्चयस्य च जननातमोनि- श्चययोः परस्परवाधनिश्चयरूपत्वाच्च ब्रह्मणि प्रतीतानां- (८४) कुदृष्टिध्वान्तमार्तण्डः। विकारित्वतव्यतिरेकादीनाम्मिथ्यात्वसिद्धया दर्शितो- भयविधवाक्यानामप्रामाण्यसिद्धर्वेदाप्रामाण्यादिप्रस- ङ्गस्य वज्रलेपायितत्वात् । भवत्सिद्धान्तसिद्धस्य जग- न्मिथ्यात्वव्यवहरास्यापि जगतोबाधनिश्चयरहितेषु व्यवहारावस्थापन्नेब्वेव दर्शनेन तदनिर्वाहात् । माध्य- मिकादिनास्तिकेषु ब्रह्मणोपि बाधनिश्चयदर्शनेन तस्यापि पारमार्थिकत्वासिद्धेश्च ॥ ७९ ॥ वस्तुतस्तु सब्रह्मके प्रपञ्चे माध्यमिकानाम्मिथ्यात्वस्य सम्मत- तया तेषु तद्वाधनिश्चयस्यावश्यकतया क्वापि पारमा- र्थिकत्वव्यवहारस्य गतिरेव नास्ति ॥ ८०॥न चोक्त परिष्कारे निश्चये भ्रमभिन्नत्वनिवेशात्रोक्तदोषः । तदीय बाधनिश्चयस्य भ्रमत्वादिति वाच्यम् । तथा सतिमिथ्यात्वभ्रमत्वयोरन्योन्यघटितत्वेनात्माश्रयान्यो न्याश्रयप्रसङ्गात्तत्स्वरूपदुनिरूपत्वस्यैव सिद्धेः ॥ ॥ ८१ ॥ अथ स्वाश्रयकालावच्छिन्नस्वाश्रयपुरुषवृ- त्तिनिश्चयवृत्तित्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकता कप्रतियोगिताकभेदवत्त्वसम्बन्धेन द्वित्वविशिष्टप्रकार तावत्त्वमेव पारमार्थिकत्वम् । तादृशनिश्चयवृत्तित्वस म्बधेन द्वित्वविशिष्टप्रकारतावत्त्वमेव च मिथ्यात्वम् । निश्चयवृत्तित्वं प्रागुक्तसम्बन्धेनैव । इष्यते च तत्तत्का- लावच्छिन्नतत्तत्पुरुषापेक्षया यथायथं तत्रतत्र पारमा- र्थिकत्वमिथ्यात्वव्यवहारः। इत्थञ्च स्वानिकपदार्थानां कुदृष्टिध्वान्तमार्तण्डः । (८५) पुरुषस्य स्वप्नावस्थापेक्षया पारमार्थिकत्वव्यवहारः । जागरावस्थापेक्षया मिथ्यात्वव्यवहारः। प्रातिभासिक- पदार्थानां भ्रान्त्यवस्थापेक्षया पारमार्थिकत्वव्यवहारः। तनिवृत्तिदशापेक्षया मिथ्यात्वज्यवहारः। व्यावहारिक पदार्थानांव्यवहारावस्थापेक्षया पारमार्थिकत्वव्यवहारः परमार्थावस्थापेक्षया मिथ्यात्वव्यवहारश्चेत्येतत्सर्वसु- पपद्यते । अतश्च ब्रह्मणो विकारित्वकारणत्वादिप्रतिपा दकवाक्यानां तत्प्रतिषेधकवाक्यानां च प्रामाण्यमुपप द्यते। विकारित्वकारणत्वादीनां व्यवहारावस्थाकाल- नदवस्थापन्नपुरुषवृत्तिद्वित्वमादाय निर्विकारत्वादीनां परमार्थावस्थाकालतदवस्थापनपुरुपवृत्तिद्वित्वमादाय च पारमार्थिकत्वोपपादनसम्भवात् । तस्मान्न काचिद- प्यनुपपत्तिरिति चेन्न । एवं सति सर्वेषां पदार्थानां पार- मार्थिकत्वमिथ्यात्वयोःसर्वासां धियांप्रमात्वभ्रमत्वयो- स्सर्वेषां भ्रान्ताभ्रान्तवाक्यानां प्रमाणत्वाप्रमाणत्वय। श्च द्वयोरविशेषेण प्रसत्त्या सर्वलोकव्यवहारविप्लवप्र- सङ्गात् ॥ ८२ ॥ एतेपां धर्माणां परस्परविरुद्धत्वेन सर्वसम्प्रतिपन्नानामेकत्र सम्भवं नहि कश्चिदभ्युपैति प्रामाणिकः ॥ ८३ ॥ न च ब्रह्मणः पारमार्थिकत्वं मिथ्यात्वं चोभयं भवतो वा सम्मतम् ॥ ८४ ॥ विलीयेत चैवं सति प्रतियोग्यभावबुद्धयोर्बाध्यबाधक- भावोऽपि । तत्प्रयोजकविरोधस्यैव मूलतोपलापात् (८६) कुदृष्टिध्वान्तमार्तण्डः। ॥ ८५ ॥ न चैतत्त्वद्भाष्यकारोपि वा सम्मन्यते ॥८६॥ यत एवमाहारम्भणाधिकरणभाष्ये सः । नोकस्य ब्रह्मणः परिणामधर्मवत्त्वं तद्रहितत्वं च शक्यं प्रतिपत्तुमिति ॥ ८७ ॥ अथ अस्यां दशाया- ममुकं प्रतीदं पारमार्थिकमिदंमिथ्येति कालभेदेन पुरुषभेदेन च व्यवस्थिते पारमार्थिकत्वमिथ्यात्वे । एकस्यां दशायामेकं प्रति तयोरेकत्राप्रतीतेविरोधोप्यु पपद्यत इत्येवास्मद्भाष्यकाराशयः । यत एवमाह स आरम्भणाधिकरणभाष्ये । प्रारब्रह्मात्मताप्रबोधादुप- पन्नस्सा लौकिको वैदिकश्च व्यवहारः। यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्न उच्चावचान् भावान् पश्यतो निश्चितमेव प्रत्यक्षाभिमतं ज्ञानं भवति प्राक् प्रबो- धात् । न च प्रत्यक्षाभासाभिप्रायस्तत्काले भवति । तद्वदितीति चेत् ॥ ८८॥ सत्यमुक्तम् ॥ ८९॥ दुरुक्तं तु तत्।पारमार्थिकत्वमिथ्यात्वयोः प्रमात्वभ्रमत्वयोश्च पुरुषविशेषकालविशेषप्रतिनियतत्वस्य लोकव्यवहार विरुद्धत्वात् ॥ ९० ॥ इदमत्रावधेयम् । यन्मिथ्या यच्चपारमार्थिकम् । ते सर्वस्य सर्व दैव तथाभूते लोक- सिद्धे । नहि शुक्तौ रजतत्वम् । शशे वा शृङ्गं कदाचि- कस्यचिन्मिथ्या भवति । नापि वा रजते रजतत्वम् । हरिणे वा शृङ्गकदाचित्कस्यचित्तथ्यं भवति । मिथ्य त्वतथ्यत्वयोः कालविशेषपुरुषविशेषपरिच्छिन्नत्वानु- कुदृष्टिध्वान्तमार्तण्डः। (८७) लम्भात् । न खलूपलभमानोपि पुरुषः । इदमिदानी म्ममतथ्याम्मथ्येति तथ्यत्वमिथ्यात्वे पुरुषविशेषकाल विशेषपरिच्छिन्ने उपलभते । अपि त्वनवच्छिन्ने एव । एवम् । रजतं पश्यतो जायमाने । इदंरजतमिति ज्ञाने। प्रमेत्येव । शुक्तिं पश्यतो जायमाने । इदं रजतमिति ज्ञाने । भ्रम इत्येव च सर्वलोकव्यवहारः लोकव्यवहारा नुरोधेन च निर्वचनं कार्यम् । न तु स्वोत्प्रेक्षासिद्धस- ङ्केतमात्रानुरोधेन । लोकव्यवहाराननुरोधे निर्वचनस्य वानावश्यकत्वात् । नचेदं निर्वचनं लोकव्यवहारानुरो- धि । अपि चैवं सति ब्रह्मणस्सविशेषत्वनिर्विशेषत्वपर- योर्वेदभागयोरपि पुरुषविशेषकालविशेषभेदेन प्रमाण- तायामप्रमाणतायां चाविशिष्टायां तत्र प्रथमस्याता- त्त्विकं प्रामाण्यं द्वितीयस्य तु तात्त्विकं प्रामाण्यमिति भवदीयाभिमानोप्यविवेकमूल एवेति सिद्धं भवति । किं बहुना । इत्थं प्रामाण्याप्रामाण्ययोः काल- विशेषपुरुषविशेष प्रतिनियततां प्रतिपादयन् भवदी- यभाष्यकारो वेदान जैनबौद्धादिग्रन्थेभ्यो निर्विशेषी कुर्वन् सम्यग्ररक्षेति विशेषतो बहुमन्तव्यो भवति वैदिकानामिति विद्वांसो विहसन्ति । वैदिकान प्रति वेदानां जैनबौद्धादीन् प्रति तद्न्थानां च प्रमा- णता। जैनबौद्धादीन् प्रति वेदानाम् । वैदिकान् प्रति जैनबौद्धादिग्रन्थानां चाप्रमाणताच निर्विशेषेव हीदानी M (८८) कुदृष्टिध्वान्तमार्तण्डः। सिद्धा भवतीति ॥ ९१॥ तस्माद्भवत्कल्पितावस्थाद- येन नैते व्यवहाराः कथंचिदाप निवहान्त ॥ ९२ ॥ अपि तु परमार्थतो वस्तूनां सद्भावासद्भावनिबन्धना एवैते व्यवहारा इत्येव वक्तव्यम् ॥९३॥एवमङ्गीकारे च योब्राह्मणोविकारित्वकारणत्वादिप्रतिपादकवेदवाक्यग- गः यश्च तत्प्रतिषेधकतया भवदभिमतो वेदवाक्यगणः तयोरन्यतरस्याप्रमाणताया दुरितया तत्स्वीकारनि बन्धनः प्रागुक्तः कृत्स्रोपि प्रसङ्गो दुरि एवावतिष्ठते त्वन्मत इति ॥ १२६॥ किञ्च शुक्तौ रजतभ्रमाधिष्ठा- नत्वमिव ब्रह्मणि जगद्धमाधिष्ठानत्वमेव हि त्वया स्वी- क्रियते । तत्र च सदसदनिर्वचनीयपदार्थोत्पत्तिं स्वी- करोषि । स च पदार्थों मायाकार्यभूतो मिथ्याभूतश्च त्वदभिमतः। न च मिथ्याभूतजगदुपादानकारणत्वं ब्रह्मणस्सम्भवितुमर्हति । सत्यमिथ्यापदार्थयोरभेदा- सम्भवात् । अभेदासम्भवे चोपादानोपादेयभाव एव न सम्भवतीति प्रस्फुट एव त्वन्मते ब्रह्मणो जगदुपादान- कारणत्वासम्भवः॥ १२७॥सूत्रकारेण च । प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् [शा ॥ १॥ ४॥२३॥] तदनन्यत्वमारम्भणशब्दादिभ्यः[शा॥२॥१॥१६॥] इत्यादिषु सूत्रेषु मृद्रव्यघटादिपदार्थावनन्यभावापन्ना- वेवोपादानोपादेयभावापन्नौ दृष्टान्तीकृत्य जगद्ब्रह्मणो- रप्यभिन्नतामुपादानोपादेयभावं च प्रतिपादयन्ति कुदृष्टिध्वान्तमार्तण्डः। (८९) श्रुतिवाक्यान्युदाहृत्यैव ब्रह्मणो जगदुपादानकारणत्वं निर्धारितम् ॥ १२८॥ न चेदं त्वन्मते कथंचिदपि सम्भवति । मिथ्याभूतमायाकार्यजगदभिन्नतायास्स- त्ये ब्रह्मणि सर्वथैवासम्भवात् ॥ १२९ ॥ न च भ्रमा- धिष्ठानत्वमेवोपादानकारणत्वमिति सुवचम् । कारण- त्वव्यवहारस्य भ्रमाधिष्ठानमात्रेकापिलोकासिद्धत्वात् अनन्यथासिद्धनियतपूर्वभाविष्वेव तस्य लोकसिद्धत्वा च ॥ १३०॥ अथास्तु मायानिष्ठजगदुपादानकारण त्वस्यैव ब्रह्मण्यध्यासः जपाकुसुमलौहित्यस्येव स्फटि- के। तमाश्रित्यैव च ब्रह्मणि जगत्कारणत्वं प्रतिपाद- यति वेद इति चेत् । तर्हि लोहितःस्फटिक इत्यादि- भ्रान्तवाक्यस्येव वेदस्यापि वज्रलेपायितमेवाप्रामाण्य- मिति प्रच्छन्नबौद्धेन सता त्वया साधु संरक्षिता वेदाः ॥ १३१ ॥ अथ वेदेपि कर्मकाण्डे पूर्वापरापच्छेदे पूर्वोत्तरशास्त्रयोविरोधे पूर्वशास्त्रस्य परशास्त्रेण बाधा- प्रामाण्यवद्वेदान्तेष्वपि सविशेषब्रह्मपरशास्त्रस्य निर्वि- शेषब्रह्मपरशास्त्रेण बाधाप्रामाण्ययोस्स्वीकारे का नः शतिरिति चेन्न। प्रच्छन्नबौद्धतापत्तिमपि क्षतिममन्वानं त्वां विना केनापि वैदिकेन कस्यापि वेदभागस्य तयो- रनङ्गीकारात्।पूर्वापरापच्छेदस्थलेपि तदङ्गीकाराभा- वस्य प्रागेव सविस्तरं निरूपितत्वाच ॥ १३२ ॥ तस्मात् परमार्थतः पदार्थसद्भावस्वीकारमन्तरेण प्रामा- (९०) कुदृष्टिध्वान्तमार्तण्डः। ण्यानिर्वाहण ब्रह्मणो विकारित्वकारणत्वादिप्रतिपादक वेदप्रामाण्यनिर्वाहाय परमार्थतस्तस्य तत्स्वीकारे को टस्थ्यभङ्गः। कौटस्थ्यप्रतिपादकतया भवदभिमतवे दप्रामाण्यभङ्गश्च । तत्परिहाराय कौटस्थ्यस्वीकारे कारणत्वभङ्गः । तत्प्रतिपादकवेदप्रामाण्यभङ्गश्च । एवं जगतो मिथ्यात्वस्वीकारे कारणत्वमङ्गः । कार्या- भावे कारणत्वासिद्धेः। जगतस्सत्यत्वमाश्रित्य ब्रह्मण स्तत्कारणत्वनिर्वाहे द्वैतप्रसङ्गः। इति परस्परविरोध निवन्धनो व्याघातः परस्परविरुद्धान् । ब्रह्मणो जग- कारणत्वं कौटस्थ्यं जगतो मिथ्यात्वेन ब्रह्मणोऽद्विती- यत्वं चेत्येतानर्थान् प्रतिपादयतस्त्वदीयभाष्यकृत एव मस्तके दुर्वारो नियततीति सिद्धं भवति ।। १३३ ॥ एतेन । प्रथमविरोधप्रदर्शनान्ते। विरोधो बलवानेष जकारणताश्रितः । अनेन परमेशानजगत्कारणता क्षता। छिनमूलद्रुमन्यायात्सकलं दर्शनं क्षतम् । वि- रोधं चेममुद्धर्तुमवधिह्मणो वय इति श्लोकद्वयमात्म- श्राद्धवदात्मन एवोपयोगार्थमस्माकं परिश्रमलेशप्रस- ङ्गमपि परिहरता त्वयैव प्रागेव निबद्धमिति सिद्धं भवति ॥ १३४॥ अथ पारमार्थिकमेव जगदुपादानत्वं ब्रह्मणि स्वीकुर्वद्भिर्भवद्भिर्ब्रह्मणस्थूलचिदचिद्वैशिष्टय रूपेण कार्यतायास्सूक्ष्मचिदचिद्वैशिष्टयरूपेण कारण तायाश्च स्वीकारे ब्रह्मणः कार्यत्वकारणत्वोभयप्रतिषे.

कुदृष्टिध्वान्तमार्तण्डः। धिकायाः । न तस्य कार्य करणं च विद्यते [श्वे ॥६॥८॥] इति श्वेताश्वतरोपनिषच्छुतिः कथमुप पद्यते । एषा हि श्रुतिः । ब्रह्मणः कार्यनिषेधन कारणतां कारणनिधन कार्यतां च प्रतिषेधतीति चेदत्र ब्रूमः। मन्दमते नैषा श्रुतिर्ब्रह्मणः कारणत्वं कार्यत्वं वा प्रतिषे- धति ॥१॥ अपितु । यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्य न विद्यते॥ नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदस्ति व्यपाश्रयः॥ [गी॥३॥ १७॥ ॥ १८॥] इति गीतोक्तिर्यथाऽऽत्मतृप्तस्याप्तकामत्वेन साक्षादिष्टतया तदुपायतया वाऽभिमतःकर्मणा साध- यितुमिष्टतमः कश्चिदर्थों नास्तीत्येतमर्थ प्रतिपाद- यति । तथैषापि । अवाप्तसमस्तकामस्य सर्वेश्वरस्य ब्रह्मणः स्वासाधारणं साधयितव्यं न किञ्चिदिष्टतम विद्यते । नापि वा तदसाधारणकारणत्वेनाभिमतं किमपि साधकतममपेक्षणीयमस्तीत्येतमर्थ मेव प्रति- पादयति ॥२॥ अत्र कार्यमित्यस्मिन् शब्दे ण्यत्प्र- त्ययस्य कर्मार्थकत्वात् । कर्तुः क्रिययाऽऽसुमिष्टतम- स्यैव कर्मशब्दार्थतायाः । कर्तुरीप्सिततमं कर्म व्या॥१॥४॥४९॥] इत्यनुशासनसिद्धत्वाच कार्य- शब्देन यथोक्तलक्षण एव ह्यर्थोऽभिधीयते ॥३॥ कर णं न विद्यत इत्यस्य चायं भावः ॥ सोकामयत बहु- (९२) कुदृष्टिध्वान्तमार्तण्डः। स्यां प्रजायेयेति [तै॥२॥६॥२॥] इच्छामात्र प्रभोस्मृष्टिः [मां ॥२॥१२॥] कामाच नानुमाना- पेक्षा [॥शा ॥१॥१॥ १९॥] इत्यादिश्रुतिसूत्रै स्सर्वशक्तियुक्तस्य सर्वेश्वरस्य परार्थमपि वा कस्य चिदर्थविशेषस्य साधयितव्यत्वे । इच्छामात्रमन्तरेण किमपि साधकतमंनापेक्षितमस्तीति ॥४॥ अयमर्थः विकरणत्वान्नेति चेत्तदुक्तम् [ ॥शा २॥१॥३१॥] इति सूत्र एव स्पष्टः॥५॥ अस्याः श्रुतेरीदृशार्थक- त्वमेव परस्य ब्रह्मणो वैभवातिशयप्रतिपादकतत्प्रकर- णस्याप्युचितमवगम्यते ॥६॥ तथाहि ॥ तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पति पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीडयम् ॥ न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधि- कश्च विद्यते ॥ परास्य शक्तिर्विविधैव श्रूयते स्वाभा- विकी ज्ञानवलक्रिया च [इवे ॥६॥७॥८॥] इति श्वेताश्वतरोपनिषत्वष्टाध्यायसप्तमाष्टमखण्डिकाद्वयं हि ब्रह्मणो वैभवातिशयप्रतिपादकप्रकरणस्थं दृश्यते ॥७॥ तत्र । न तस्य कार्य करणं च विद्यत इत्य- स्यास्मदुक्तार्थपरत्वेऽवाप्तसमस्तकामत्वं कस्यचिदपे- क्षितस्थ साधयितव्यत्वेपि कारणकलापलक्षणपरिकर- मन्तरेण सङ्कल्पमात्रसाध्यसकलापेक्षितकार्यकत्वं चे- त्येतद्विशेषणद्वयं वैभवातिशयरूपमेवोक्तं भवतीति कुदृष्टिध्वान्तमार्तण्डः । (९३) प्रकरणौचित्यं संभवति ॥ ८ ॥ त्वदुक्तरीत्या ब्रह्मणः कार्यत्वकारणत्वोभयप्रतिषेधपरत्वे ब्रह्मणः स्वतन्त्रतया परतन्त्रतया वा स्वस्य परस्य वा किञ्चिदप्यपेक्षितं प्रतिकारणत्वशक्त्य भावस्यैव सिद्धरसमर्थस्य दरिद्रस्येव निर्गन्धकुसुमत्वापरपर्या- यभूतमसामर्थ्यमकिञ्चनत्वं च वैभवातिशय भञ्जक- मेव प्रतिपादितं भवति ॥ ९ ॥ एवं कारणत्व शत्त्यभावप्रतिपादनम् । परास्य शक्तिर्विविधैव श्रूयत इत्यादि समनन्तरवाक्येनसर्वशक्तिकत्वसर्वज्ञत्वादि- प्रतिपादिनाविरुद्धं च ॥ १०॥ अतस्त्वदुक्तार्थस्सर्व थैव प्रकरणप्रतिकूलः ॥ ११॥ न च भवदुक्तार्थोपि । विकरणत्वान्नेति चेत्तदुक्तमिति सूत्रश्रीभाष्यश्रुतप्रका- शिकाविरुद्धः । तत्र दर्शितश्रुतिघटककार्यकारणशब्द योश्शरीरेन्द्रियपरताया एव विवक्षितत्वादिति वाच्यम्। पूर्वपक्षोत्थानवीजतया तावन्मात्रपरतायास्तत्र प्रथम- मभिमतत्वेपि सिद्धान्तेऽस्मदुक्तार्थपरताया एव तादृश श्रुतेस्तदभिमतत्वात् । तद्विवक्षितार्थस्याप्यस्मदुक्ता- थैकदेशविशेषरूपत्वेन विरोधाभावाच ॥ १२॥ अपि च । इन्द्रियवाचककरणशब्दसहचरितकार्यशब्दस्य प्राकृतशरीरवाचकत्वं प्रकरणान्तरानुगुणं भवतीति प्राकृतशरीरेन्द्रियरहितत्वमेव वाऽत्र प्रतिपाद्यत इत्यु- पगन्तुं शक्यम् । हेयसुखदुःखहेतुप्राकृतशरीरेन्द्रिय- (९४) कुदृष्टिध्वान्तमार्तण्डः। रहितत्वस्यापि वैभवातिशयपर्यवसायित्वात् ॥१३॥ दृश्यते हि गीतात्रयोदशाध्याये । कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते [गी ॥ १३॥२०॥] इति श्लोके कार्यकारणशब्दयोश्शरीरेन्द्रियवाचकतया प्रयोगः । ॥ १४ ॥ अत्रत्यकार्यकारणशब्दावस्मद्भाष्यकार युष्मद्भाष्यकाराभ्यामुभाभ्यामपिशरीरेन्द्रियपरावेव व्याख्यातौ ॥ १५ ॥ईदृशगीताप्रयोगानुगुण्येनैव च युष्मद्भाष्यकारेण श्वेताश्वतरोपनिषद्भाष्ये ॥ न तस्य कार्य करणं च विद्यत इत्यत्रापि कार्यकरणशब्दौ शरीरेन्द्रियपरावेव व्याख्यातौ ॥ १६ ॥ एवं स्थिते प्राचीनप्रौढग्रन्थकारव्याख्यानरीति प्रकरणानुगुणाम- न्यां वा कांचिव्याख्यानरीति विहाय स्वकपोलकल्प- नया ब्रह्मणः कारणत्वाद्यभावप्रतिपादनपरं प्रकरण विरुद्धं त्वत्कृतव्याख्यानमतितुच्छमेवेति नैषा श्रुतिः कार्यकारणभावप्रतिषेधपरा भवितुमर्हतीति ॥१३५॥ अथैवमपि ब्रह्मणो जगदुपादानकारणत्वं भवन्मते न सिध्यति । कार्याभिन्नकारणत्वस्योपादानकारणत्वरू- पत्वात् । नित्यस्य ब्रह्मणः कार्यत्वासम्भवात् । जगतः कार्यत्वसम्भवेपि तस्य ब्रह्मभिन्नत्वाच्च ॥ १ ॥ न च परिनिष्पन्नस्यापि ब्रह्मणः कार्यत्वस्वीकार आवश्यक तदात्मानस्वयमकुरुत [॥॥ २ ॥ ७॥१॥] इत्यादिश्रुतिषु द्वितीयाश्रुतेः॥ द्वितियायाः क्रियाज-

कुदृष्टिध्वान्तमार्तण्डः। (९५)
न्यफलशालित्वरूपकर्मत्वपर्यवसन्नकार्यत्वबोधकता-
याः। कर्मणि द्वितीया[व्या॥२॥३॥२॥] इत्यनु-
शासनसिद्धत्वात् । अन्यथा तद्वाधप्रसङ्गाच ॥त्रीहीन्
प्रोक्षतीत्यत्र द्वितीयाश्रुतिबलेन परिनिष्पन्नानामपि
वीहीणां संस्कारविशेषवत्त्वेन प्रोक्षणक्रियाकर्मत्वलक्षण
साध्यत्वस्वीकारवदिति वाच्यम् । उदाहृतश्रुतौ कर्मा-
र्थकद्वितीयाश्रुतिबाधप्रसङ्गभिया ब्रह्मणो मुख्याया एव
कार्यतायाःस्वीकारे ॥ सर्व एवात्मानो व्युच्चरन्ति
[वृ॥४॥१॥२०॥ एतेभ्यो भूतेभ्यस्समुत्थाय
तान्येवानुविनश्यति [॥ ६॥४॥४॥१२॥] इत्या-
दिश्रुतौ काख्यातश्रुतिवाधप्रसङ्गभियोत्पत्तिविनाश
योरपि मुख्ययोरेवात्मनां स्वीकारप्रसङ्गात् ॥२॥न
चेष्टापत्तिः॥ न जायते म्रियते वा [॥क ॥२॥१८॥]
इत्यादिवेदान्तवाक्यविरोधात् ॥स वा अयं पुरुषो
जायमानश्शरीरमभिसम्पद्यमानः॥ स उत्क्रामन्त्रिय-
माणः [॥६॥६॥३॥८॥] इतिश्रुत्यैवात्मनां
जन्मविनाशयोरौपचारिकत्वप्रतिपादनेन तद्विरोधाच्च
॥३॥ यदिचैतद्विरोधपरिहाराय । व्युच्चरन्ति ।। विन-
श्यतीत्यत्राख्यातश्रुतेरमुख्यत्वमिष्यते ॥ ४ ॥ तदा
ब्रह्मणो जन्मादिसकलविकारप्रतिषेधकसर्व वेदान्तव्या-
कोपप्रसङ्गेनोदाहृतद्वितीयाश्रुतेरप्यमुख्यत्वमेवाश्रय-
पीयमिति कथं ब्रह्मणो मुख्य कार्यत्वं सिध्यति ॥५॥

कुदृष्टिध्वान्तमार्तण्डः। तस्माद्ब्रह्मण उपादानत्वं न भवन्मतेपि मुख्यं सम्भव- तीति चेन्न नित्यत्वकार्यत्वोत्पत्तिविनाशादिस्वरूपान भिज्ञतामात्रनिबन्धनत्वादुक्तवाग्जालस्य ॥ १३६ ॥ इदमत्रावधेयम् ॥ इमास्तिस्रो देवता अनेन जीवेना- त्मनाऽनु प्रविश्य नामरूपे व्याकरवाणि [॥छां ॥६॥ ॥३॥२॥] इत्यादिश्रुतावचिद्वस्तुजीवशरीरकेणा- स्मनानु प्रविश्य चिदचिद्विशिष्टस्य स्वस्यैव सङ्कल्प- पूर्वकं नामरूपव्याकरणस्य परेण ब्रह्मणाकृतत्वश्रव- णात्तत्तद्वस्त्राभरणादिविशेषणैश्शैलूपस्य श्रीकृष्णस- त्यभामादिनामरूपव्यवहारवच्चिदचिद्वस्तुशरीरकत्व- विशिष्टब्रह्मण एव जगद्गतकृत्स्नवस्तुनामरूपभाक्त्वेन कारणरूपत्वं कार्यजगद्रूपत्वं चेति कार्यकारणभूतयो- जगद्ब्रह्मणोरभिन्नत्वमसकृदुपपादितमेव ॥ १॥सत्का- यवादस्यैव वेदान्तसिद्धतया प्रागेव सतः प्रधानस्य महत्त्वाद्यवस्थायोगमात्रेण पूर्वपूर्वावस्थापन्नस्य तस्य कारणताया उत्तरोत्तरावस्थापन्नस्य तस्य कार्यतायाश्च स्वीकारवत् ब्रह्मणोपि सूक्ष्मचिदचिदैशिष्टयलक्षणपू- विस्थापनस्य कारणतायास्स्थूलचिदचिद्वैशिष्टय लक्षणोत्तरावस्थापनस्य तस्य कार्यतायाश्च स्वीकारे नहि कश्चिद्विरोधः॥२॥ न च नित्यस्य ब्रह्मणः कार्य त्यासम्भवः । स्वरूपतस्सनातने कादाचित्कतत्तत्स्थू- लचिदचिद्वैशिष्टयलक्षणावस्थायोगिनि ब्रह्मणि कालि- कसम्बन्धावच्छिन्नाधेयतासम्बन्धावच्छिन्नस्वनिष्टाव- कुदृष्टिध्वान्तमार्तण्डः। (९७) च्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन कालवि- शिष्टान्यत्वरूपनित्यत्वस्यसर्वकालवृत्तित्वपर्यवसन्नस्य करोतिक्रियाकर्मत्वरूपकार्यत्वस्य संप्रतिस्थूलचिद- चिद्वैशिष्टयलक्षणावस्थावत्त्वपर्यवसनस्य च सत्त्वेन द्वयोर्विरोधानुपलम्भात् ॥३॥कृभ्धात्वर्थक्रियाकर्म- त्वमेव हि कार्यत्वम् ॥ ४॥ कर्मत्वं च क्रियाजन्यफल- शालित्वम् ॥ ५ ॥ इत्थं च स्थूलचिदचिद्वैशिष्टयल- लक्षणकादाचित्कावस्थाविशेषरूपफलाश्रयत्वरूपं कार्यत्वं सनातनेपि ब्रह्माणि सम्भवत्येव ॥६॥ यथा च । कुलालो घटं करोतीति व्यवहारेण कार्यत्वं घटत्वाव- स्थाश्रयद्रव्यस्य सनातनत्वेपि घटत्वावस्थायोगेन सम्भवति । तथैव ॥ तदात्मानश्स्वयमकुरुतेति श्रौत- व्यवहारेण नित्यस्यापि ब्रह्मणः स्थूलचिदचिद्वैशिष्टय- लक्षणावस्थाविशेषयोगेन कार्यत्वं सम्भवतीति न किं- चिदवहीनम् ॥ ७ ॥ एवमेव च ॥ सूत्रकारेणापि ॥ आत्मकृतेः [१॥४॥२६॥ इति सूत्रेण कृभ्धात्व- थक्रियाकर्मत्वरूपकार्यत्वसम्भवम् । परिणामात् ॥ [॥१॥४॥२७॥] इति सूत्रेण कार्यत्वनिर्वाहोप- यिकावस्थाविशेष चोपपायैव ब्रह्मण उपादानकारणत्वं च स्थापितं प्रकृत्यधिकरणे ॥८॥ अत एव च श्री- (९८) कुदृष्टिध्वान्तमार्तण्डः। विष्णुपुराणेपि प्रथमांशे द्वितीयाध्याये ॥ स्रष्टा सृजति चात्मानं विष्णुःपाल्यं च पाति च । उपसंह्रियतेचान्ते- संहर्ता च स्वयं प्रभुः [॥१॥२॥६७॥] स एव सृज्य स च सर्गकर्ता स एव पात्त्यत्ति च पाल्यते च । ब्रह्माद्यवस्थाभिरशेषमूर्तिर्विष्णुर्वरिष्ठो वरदो वरेण्यः [॥ १॥२॥७॥] इति श्लोकयोः । आत्मानं सृजतीति सृज्य इति च।।सृजिक्रियाकर्मवरूपं कार्यत्वं सुस्पष्टमेव निर्दिश्यविष्णुशब्दवाच्यस्य ब्रह्मण उपादानकारणत्व- मपि दर्शितश्रुतिसूत्रोक्तरीत्यैव निरूपितम् ॥ ९ ॥ सृजिरपिहिकरोति समानार्थकः प्रसिद्धः ॥१०॥न च प्रागभावप्रतियोगित्वमुत्पत्तिमत्त्वं वा कार्यत्वम् । तच्च न नित्यस्य ब्रह्मणः सम्भवति । तदेव च । घटो जायत इत्यादिव्यवहारेषु जनिधात्वर्थक्रियाकर्तृत्व- रूपं प्रसिद्धमिति वाच्यम् । घटो भविष्यतीत्यादिव्य- वहारबलात् मृद्रव्यस्य प्रामेव सत्त्वेपि घटत्वाद्यवस्था पन्नस्य तस्येव ॥ सोकामयत । बहु स्यां प्रजायेयेति॥ [तै॥२॥६॥२॥] तदैवत बहु स्यां प्रजायेयेति तत्तेज ऐक्षत बहु स्यां प्रजायेयेति [॥छां ॥ ॥६॥२॥३॥] ताआप ऐक्षन्त बयः स्या- मप्रजायेमहीति [॥छां॥६॥२॥४॥] इत्यादिश्री- तव्यवहारवलाद्ब्रह्मणः स्वरूपतो नित्यत्वेपि नानावि- घस्थूलचिदचिच्छरीरकत्वरूपबहुत्वावस्थापनस्य त कुदृष्टिध्वान्तमार्तण्डः। (९९) स्य प्रागभावप्रतियोगिताया उत्पत्तिमत्त्वस्य च स्वी- कारे क्षतिविरहात् ॥ ११॥ यथा च मृद्रव्यस्य प्रागेव सत्त्वेपि घटत्वाद्यवस्थाविशिष्टस्य तस्य प्रागसत्त्वेन प्रागभावप्रतियोगित्वम्। स्वाधिकरणक्षणध्वंसाधिकरण त्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिता कभेदवत्त्वस्वाधिकरणत्वोभयसम्बन्धावछिन्नाधेयतास म्बन्धेन स्वपूर्वक्षणावृत्तित्वस्ववृत्तित्त्वोभयसम्बन्धेन वा क्षणविशिष्टावस्थावत्त्वरूपमुत्पत्तिमत्त्वंचावाधितम् तथैव ब्रह्मणोपि प्रागेव सत्त्वेपि स्थूलचिदथिच्छरीरक- त्वलक्षणावस्थाविशिष्टस्य तस्य प्रागसत्त्वेन तदुभयं सम्भवत्येवेति न तत्र किञ्चिदनुपपत्तिमुपलभामहे ॥१२॥किं बहुना।द्रव्यस्योत्तरोत्तरसंस्थानयोगःपूर्वपूर्व संस्थानसंस्थितस्य विनाशः। स्वावस्थस्यतूत्पत्तिरित्ये वोत्पत्तिविनाशयोविवेकस्य सत्कार्यवादिवेदान्तिसि- द्धान्तसिद्धतया तत्तदवस्थाविशिष्टानां द्रव्याणां या उत्पत्तिविनाशादिलक्षणा अवस्थास्सम्प्रतिपन्नास्ता एव विशिष्टस्य ब्रह्मणोपि तादृशावस्था इति घटत्वा- द्यवस्थापन्नद्रव्यस्येव विशिष्टस्य ब्रह्मणोप्युत्पन्नत्वा नष्टत्वव्यवहारा इष्टा एव ॥ १३॥ अत एव प्रागुदाहृ- तविष्णुपुराणश्लोकयोः । उपसबियतेच । अत्ति चेति संहारक्रियाकर्मत्वरूपविनाशावस्थाव्यवहारोपिब्रह्मणो दर्शितः॥१४॥ एवमेव जीवात्मनामपि तत्तद्विशेष- (१००) कुंदृष्टिध्वान्तमार्तण्डः। णविशिष्टानामुत्पत्तिविनाशाद्यवस्थास्तव्यवहाराश्चेष्टा एव ॥ १५ ॥ अत एव हि । देवो जातः । मनुष्यो जातः । चैत्रो नष्टः। मैत्रो नष्टः। इत्यादि व्यवहारास्स- वतः प्रसिद्धाः॥१६॥ते च व्यवहारा विशिष्टविषया अर्थवाधाभावादेवं मुख्याः॥१७॥ ब्रह्मणोजीवात्मनां चोत्पत्तिविनाशादिलक्षणविकारशून्यत्ववादास्तेषां स्वरूपस्य साक्षात्सम्बन्धेन विकारशून्यत्वप्रतिपादन- परा इति न कश्चिद्विरोधः॥ १८॥ सर्व एवात्मानो व्युच्चरन्तीति श्रुतौ व्युच्चरन्तीति शब्दोदितोत्पत्तेर प्यात्मसुमुख्यत्वापादनं तु तच्छुतिस्वरूपतदर्थानभि- ज्ञतानिबन्धनम् । बृहदारण्यकोपनिषदि चतुर्थाध्याये प्रथमब्राह्मणे विशखण्डिकागतायास्तस्याः श्रुतेः । यथाऽनेःक्षुद्रा विस्फुलिङ्गाव्युच्चरन्त्येवमेवास्मादात्म- नः सर्वे प्राणाः सर्वे लोकास्सर्वे देवास्सर्वाणि भूतानि व्युच्चरन्तीत्येवमानुपूर्वीकाया एव दर्शनेन त्वदुक्तानुपू- या एव तत्रादर्शनात् । भवदीयभाष्यकारोदाहृते । सर्व एत आत्मानो व्युच्चरन्तीति पाठान्तरेपि तददर्श- नात् ॥ सहोवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः वैष तदाभूत्कुत एत दागादिति तदुह न मेने गार्ग्यः वृ० [॥ ४ ॥ ॥ १॥ १६ ॥ इत्येवंरूपायां प्राषोडशखण्डि-

कुष्टिध्यान्तमार्तण्डः। (१०१)
कायां कृतस्य । कुत एतदागादिति प्रश्नस्योत्तरभूता
यामस्यां श्रुतौ व्युच्चरन्तीत्यस्य सुषुप्तिदशा
यां परमात्मनि निलीयवर्तमानानामुद्गमनमात्रपरत्वे
नोत्पत्तिपरताया एवाभावनोत्पत्तेर्मुख्यत्वौपचारिक
त्वविचारस्यैव तत्रानवसराच्च ॥ १९ ॥ एतेन
व्युच्चरन्तीत्यत्र जनिकर्तृत्वमात्रमात्मनः श्रूयत इत्य
भिधानं तत्रत्यप्रकरणपदार्थादितत्त्वापरिज्ञानमूल
मेवेति सिद्धम् ॥ २० ॥ एवं बृहदारण्यकोपनिषदि
चतुर्थाध्यायचतुर्थब्राह्मणद्वादशखण्डिकायां षष्टाध्या
यपञ्चमब्राह्मणत्रयोदशखण्डिकायां च श्रूयमाणे । एते
भ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यतीति वाक्ये
समुत्थाय विनश्यतिशब्दाभ्यामात्मनः प्रतिपन्नयो
रुत्पत्तिविनाशयोर्मुख्यत्वापादनमपि विवेचनासहम्
॥२१॥ इदं तावदत्र भवान्प्रष्टव्यः । कस्तावदुत्प
त्तिशब्दस्य मुख्यार्थः । को वा विनाशशब्दस्यति
॥२२॥ स्वपूर्वक्षणावृत्तित्वस्ववृत्तित्वोभयसम्बन्धेन
क्षणविशिष्टत्वमुत्पत्तिः। सैव च घट उत्पद्यत इत्या
दिव्यवहारगोचरः। प्रध्वंसाभावो विनाशः । स एव
च घटो विनश्यतीत्यादिव्यवहारगोचर इति चेन्न । द
र्शितरीतेरसत्कार्यवादिनैयायिकमते सम्भवेपि सत्का-
र्यवादिवेदान्तिमते सम्भवात् ॥२३॥ पूर्वमुत्तरं च

(१०२) कुदृष्टिध्वान्तमार्तण्डः। सत्यामेव मृदि । घटत्वावस्थारम्भकाले घट उत्पद्यत इति । तद्विरोधितदुत्तरावस्थान्तरारम्भकाले घटो विनश्यतीति च व्यवहारयोस्सत्कार्यवादिसम्मततया घटत्वावस्थाश्रयद्रव्यस्य तादृशावस्थातः प्राक् तद्वि- रोधितदुत्तरावस्थान्तरारम्भकाले च सत्त्वात्तादृशव्य- वहारयोनिर्वाहो हिनसम्भवति ॥२४॥ यदि च प्रारद्वा- दशावान्तरवाक्योक्तरीत्या क्षणविशिष्टावस्थावत्त्वमेवो त्पत्तिः । इत्थं च घटत्वावस्थारम्भकाले घट उत्पद्यत इति व्यवहारस्य नानुपपत्तिः। एवं वर्तमानकालवृत्ति- प्रागभावप्रतियोगित्वरूपभविष्यत्त्वविषयस्य घटो भ- विष्यतोत्यादिव्यवहारस्य बलेन मृद्रव्यस्य प्रतियो- गिनः प्राक् सत्त्वेपि घटत्वावस्थाविशिष्टस्य तस्य तदा नीमसत्त्वेन प्रागभावस्वीकारबत् । वर्तमानकालवृत्ति- ध्वंसप्रतियोगित्वविषयस्य घटो नश्यतीत्यादिव्यवहा- रस्य बलेन तत्काले घटत्वावस्थानिवृत्त्यावस्थान्तरा- पन्नस्य मृद्रव्यस्य प्रतियोगिनस्सत्त्वेपि घटत्वावस्था- विशिष्टस्य तस्यासत्त्वेन तादृशस्य तस्य प्रध्वंसाभाव लक्षणपश्चादभावस्वीकारेपि न काचिदस्ति क्षतिः। युक्तं चैतत् । विशेष्यसत्त्वपि विशिष्टाभावस्यैकसत्त्वे- प्युभयाभावस्य च सर्वतान्त्रिकसम्मततया प्रतियोगि- तावच्छेदकविशिष्टेनेवाभावस्य विरोधात इत्थं च घटो कुदृष्टिवान्तमार्तण्डः। (१०३) नश्यतीत्यादिव्यवहारस्य नानुपपत्तिरित्युच्यते॥२५॥ तदा शरीरविशेषसंयोगाख्यावस्थारम्भदशायामात्मनो प्युत्पत्तिव्यवहारः। तद्वियोगलक्षणावस्थारम्भदशायां विनाशव्यवहारश्च मुख्य एव निर्वहतीति प्रागुदाहृतश्रु- तिवाक्येप्यात्मन उत्पत्तिविनाशव्यवहारयोर्मुख्यत्वा- पादनमयुक्तम् । तन्मुख्यतायास्तत्रेष्टत्वात् ॥ २६ ॥ यदि पुनः । घटोत्पत्तिदशायां मृदुत्पद्यत इति । तद्वि- नाशदशायां मृद्विनइयतीति च व्यवहारयोरिणाय प्रथमव्यवहारे धर्मिपारतन्त्र्येणोद्देश्यतावच्छेदकेविधेय- स्याभेदेन द्वितीयव्यवहारेऽवच्छेदकतासम्बन्धेन चा- न्वय उपगन्तव्यः। तदुपगमे च मृत्त्वावस्थायां घटत्वा भेदस्य घटध्वंसप्रतियोगितावच्छेदकत्वस्य च बाधा देव घटोत्पत्तिकाले मृदुत्पद्यत इति व्यवहारस्य घट- विनाशकाले मृद्विनश्यतीति व्यवहारस्य च नापत्तिः। इत्थं च प्रागुदाहृतश्रुतिवाक्ये प्रथमस्थलस्थे विज्ञान घन इति शब्देन द्वितीयस्थलस्थे तस्मिन् प्रज्ञानधन शब्देन च विज्ञानस्वरूपत्वस्य तत्र प्रतिपन्नोत्पत्तिवि- नाशान्वयितावच्छेदकतया बोधनात्सार्वकालिके त- स्मिन्नुत्पत्त्यभेदस्य विनाशप्रतियोगितावच्छेदकताया श्व बाधेन तत्रत्यतादृशव्यवहारयोरावश्यकमेवोपचा- रिकत्वमित्युच्यते॥२७॥ तदापि नास्माकं काचिदस्ति क्षतिः । भवदुक्तहेतोरेवोक्तव्यवहारयोरत्र मुख्यत्वा- (१०४) कुदृष्टिध्वान्तमार्तण्डः। पादनायोगात् । दर्शितहेतुनाऽत्रानयोर्व्यवहारयोर्मुख्य त्वासम्भवमात्रेण जगदुपादानकारणतानिर्वाहकतया ब्रह्मण्यस्मदुपपादितस्योत्पत्त्यादेधिकानुपलम्भाच्च। ॥२८॥ किं च । धर्मितावच्छेदकस्य विशेषणविध- या भानतात्पर्यस्थले तत्र विधेययोधर्मिपारतन्त्र्येण दर्शितभानविशेषावश्यकत्वपि तत्र तथा भानतात्पर्या स्वीकारे तथाविधभानविशेषनिर्बन्धाभावेन तत्रत्योत्प त्तिविनाशव्यवहारयोः शरीरसंयोगवियोगावस्थापरत या मुख्यत्वस्वीकारेपि वा नास्तिकाचिदनुपपत्तिः।। ॥२९॥ किंबहुना । दर्शितस्थले धात्वर्थभूतयोरुत्प- त्तिविनाशयोर्दर्शितरीत्या मुख्यत्वं वा भवत्वौपचारि- कत्वं वा । सर्वथाऽत्र का ख्यातश्रुतिबाधप्रसङ्गले- शोपि नोपलभ्यत इति तत्प्रसङ्गभियाऽऽत्मनाम्मुख्यो- त्पत्तिविनाशस्वीकारापादनमिदमव्युत्पन्नकृत्यमेव ३० न जायते म्रियते वेत्यादिश्रुतयस्तु साक्षात्सम्बन्धेनो- त्पत्तिविनाशादिविकाराभावपरा इति प्रागेवासकृदुपपा दितम् ॥३१॥ स वा अयं पुरुषो जायमानश्शरीरम- भिसम्पद्यमानः पाप्मभिस्सश्सृज्यते स उक्रामन्त्रिय- माणः पाम्पनो विजहाति [वृ॥ ६॥३॥ ८॥] इति बृहदारण्यकषष्ठाध्यायाष्टमखण्डिकारूपा श्रुति- राप प्राकृतशरीरसंयोगवियोगनिबन्धना एवात्मनां कुदृष्टिध्वान्तमार्तण्डः। (१०५) जन्मविनाशादयस्सर्वे विकाराः । न स्वरूपप्रयुक्ता इत्येतावन्मात्रपरैव न पुनर्जन्मविनाशयोरौपचारिक- त्वपरेति न तत्र कश्चिद्विरोधः ॥ ३२॥ न च ब्रह्मणि कारणत्वनिर्वाहाय भवदङ्गीकृतानामुत्पत्तिविनाशादि- विकाराणां सद्वारकत्वमस्वाभाविकत्वं चेत्येतदेवोप- चारिकत्वम् । ततो ब्रह्मणोप्यौपचारिकमेव भवत्युपा- दानत्वम् । न मुख्यमिति वाच्यम् । विकारसम्बन्धित्वे मुख्यत्वौपचारिकत्वयोवृत्तिनियामकसम्बन्धावच्छिन्ना धिकरणतात्मकत्वतदभावमात्ररूपत्वात् ।कारणत्वस्य मुख्यत्वामुख्यत्वयोः कार्यनिर्वाहकशक्तिसद्भावासद्भा वमात्रनिवन्धनत्वात् । तत्तव्यपदेशानां मुख्यत्वामुख्य- त्वयोश्शब्दसम्बन्धिशक्तितद्भिन्नवृत्तिभ्यां तत्तदथाप- स्थापकत्वमात्ररूपत्वाचात्र कस्याप्योपचारिकताया दुर्वचत्वात् ॥ ३३ ॥ विकाराणां वृत्तिनियामकसम्ब- न्धेन ब्रह्मणि सत्ता । कार्यनिर्वाहकशक्तिविशेषसद्भावः। तदवगमकश्रुतिस्मृत्यादिप्रमाणजातम् । श्रौतस्मात- तत्तन्मुख्यव्यपदेशाश्च प्रागेवोपापादिषत ॥ ३४ ॥ तथाचास्मन्मते ब्रह्मण उपादानकारणत्वं मुख्यमेव सुष्टुपपन्नं भवति ॥ ३५ ॥ उत्पत्तिविनाशव्यवहारस- म्बन्धिनोऽपरेप्यत्र वक्तव्या विशेषाद्वितीयचतुर्थमयू- रखयोर्वक्ष्यन्ते ॥३६॥ बहूनामन्येषां भवदुक्तानामस- (१०६) कुदृष्टिध्वान्तमार्तण्डः। म्बद्धविकल्पादिप्रलापानामस्मदीयसिद्धान्तसम्बन्ध- गन्थाभावस्य स्फुटमेव व्युत्पन्नमात्रधीगोचरतया न ते विचारणीयकोटौ निविशन्त इत्युपेक्षिताः ॥ ३७ ॥ तस्माद्ब्रह्मणो जगत्कारणत्वप्रतिपादननिवन्धनपरस्प- रविरोधाद्यनर्थपरम्परात्वन्मतभाष्यकारमस्तक एव दुष्परिहरा दुर्भरा च निपततीति सिद्धं भवतीति ॥ ॥ १३७ ॥ इतिश्रीवेङ्कटादिश्रीमदनन्तपूरुषा- चार्यसिंहासनासीनश्रीरङ्गाचार्यकृतौकुदृष्टिध्वान्तमा- तण्डेविरोधवरूधिनीप्रमाथिनिप्रथमोमयूखः ॥

इति
कुदृष्टिध्वान्तमार्तण्ड
समाप्त।

No text on this page.

No text on this page.

Krudistadvaita Vedanta Marthanada Vol.1

Author
Rang-gaacharaar^ya
Title
Kuddushht'hidhvaantamaar^tand-ng-a Vol.1
File name
Krudistadvaita Vedanta Marthanada Vol.1
Text
OCR done
Citation
1956
Published
2004/12/22
Publisher
Krishnadasa Kshemaraj,venkateshwara Press,mumbai
Language
Sanskrit
Pages
106
Library
Asr,melkote
Classification
Hinduism Narrowly
Keywords
Hinduism ,Indology
DLI number
383170
Barcode
1990020047463.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
1zmRZ9CpsV3
Download PDF

Krudistadvaita Vedanta Marthanada Vol.1