University Of Allahabad
Sankhyayogkoshah
Front matter
सांख्ययोगकोशः
प्रणेता-
प्राचार्यकेदारनाथ त्रिपाठी
( दर्शनविभागाध्यक्षः )
काशीहिन्दूविश्वविद्यालयः
वाराणसी
१००० प्रति]
प्रथम संस्करणम
[ १९७४
प्रकाशको
श्रीवीरन्द्रत्रिपाठी तथा
श्रोविजयकुमारत्रिपाठी
एफ.एफ. १८, बी.एच.यू.
बाराणसी-५
[मूल्यम् :
(: ५.२५]
( सर्वेऽधिकाराः प्रणेतुरधानाः )
मुद्रक
शिवनारायण उपाध्याय
नया संसार प्रेस
भदेनी. वाराणसी
किञ्चिन्निवेदतम् मान्याः! अस्माकं व्यवहारक्षेत्रे कोशानां कियदुपयोगित्वं विद्यत इति नास्ति तिरोहितं कस्यापि । यथा सञ्चिता द्रव्यकोशा: साक्षादेव पणनव्यवहारे सुखमुपयुज्यन्ते तथैव शब्दकोशा अपि यदेच्छं साक्षादेव व्यवहार उप- युज्यन्त इति । प्रकारान्तरेणैतदपि वकुं शक्यते यदशिक्षितस्य कृते व्यवहार एवास्ति भाषाज्ञानाद्युपायः। शिक्षमाणानां प्रौढानां कुते कोशो व्याकरणञ्चोभे अपि प्रधानभावेनोपयुज्यते यदा च सुशिक्षितानां कोश एव मुख्योपायो भिन्नभाषाज्ञानादौ। प्रकृते च ये छात्रावस्थायां वर्तमाना: साङ्ख्यशास्त्रं योगशास्त्रञ्चाधीयानाः सन्ति ते निजाध्ययनक्रम एव साङ्ख्ययोगशास्त्रीयशब्दानामभिप्रायं ग्रन्थतो गुरुतश्च ज्ञातुं प्रभवन्ति । किन्तु ये सम्पादितशास्त्रान्तराध्ययनाः अध्यापनादिकार्यान्तरव्यापृतास्ते एवंविधकोशसाहाय्येन साङ्ख्ययोगशास्त्रसिद्धान्ताननायासमगवन्तुं शक्ष्यन्तीति । विश्वमेदिन्यादिकोशा: प्राचीनाः एकैकशब्दार्थसम्बन्धज्ञानार्थमेव विरचितास्तदानीम् । तेऽपि च सामान्यव्यवहारविषयीभूतानेव शब्दान् समाश्रयन्ते न तत्तच्छास्त्रीयपारिभाषिकानपि । तेष्वपि अमरत्रिकाण्डी तु सर्वेषां गीर्वाणवाणीसमुपासकानामुत्तमा । अतएव "अष्टाध्यायी जगन्माता अमरकोशो जगत्पिता" इति रघुर्लघुरमरो व्युत्पत्तिज्ञाने माते- वोपयुज्यते" इति च प्रसिद्धिरस्ति । यथा चैते शब्दार्थकोशास्तथा जगत्प्रपञ्चज्ञानार्थ ज्ञानकोशास्तत्तच्छास्त्रीयविषयज्ञानार्थञ्च तत्तच्छास्त्र- कोशाश्चातीवोपकारकाः सन्ति ।
एवमेकशास्त्राभ्यासं सम्पादयतः कृते इतरशास्त्रविषयककोथा यथा सहायका भवन्ति तथैव स्वशास्त्रमभ्यसतः कृतेऽपि स्वशास्त्रीयकोशस्यापि भूयानुपकारोऽस्ति । यतो ह्ये कैकस्मिन् शास्त्रेऽनेके ग्रन्थाः सन्ति, न चकेन ते सर्वेऽभ्यसितुं शक्यन्ते । अतोऽभ्यसनीयशास्त्रसम्बन्धिकोश- लाभश्चेत् तदा श्रमं कालयापनं च विनैवेष्टविषयांशज्ञानं सहसैव भवितु- मर्हति । तेनैव कारणेन सांख्ययोगशास्त्रयोः कोशग्रन्थामावमालक्ष्य तत्पूर्तिकामनया मम हृदि साङ्ख्ययोगकोशनिर्माणबुद्धिरुत्पन्ना। यतो बहुपूर्व न्यायशास्त्रे श्रोभीमाचार्यझलकीकरकृतो न्यायकोशः, पूर्व- मीमांसाशास्त्रे केवलानन्दसरस्वतीकृतो मोमांसाकोशश्चेदानीमुपलब्धौ स्तः । अन्येष्वपि वेदान्तव्याकरणायुर्वेदादिशास्त्रेषु कोशग्रन्थाः सन्ति रचिता रच्यन्ते चेदानीमपि । वैदिकोशास्तु अनेके सन्ति दैशिक- वैदेशिकपण्डितनिर्मिताः । योगवेदान्तकोशनामा एको योगमिश्रितः कोशः श्रीशिवानन्दविरचितो वर्तते समुलभ्यस्तथापि स प्राङ्गलभाषायां विद्यतेऽपर्याप्तश्च वर्तते । तथापि सांख्ययोगशास्त्रयोः सुखप्रवेशसाधनभूतो: कोशात्मको निबन्धो नाद्यावधि केनापि विदुषा विहित इति । अहमेतकोश- निर्माणाय प्रवृत्तः । यत्र तत्रागताः साङ्ख्ययोगशब्दाः प्राय: सर्व एवात्र कोशे विभिन्न- ग्रन्थाधारेण सन्निवेशिता, तेषामभिप्रायश्च विभिन्नाचार्यानुसारं वर्णितः । यत्र विशेषोद्धरणं नापेक्षितं तत्र कमपि सन्दर्भमनुल्लिख्यैव स शब्दो विन्यस्तः । यद्यत्र किमपि न्यूनत्वं स्खलनं वा भवेत् तन्मर्षणीयं विद्धि- मैयापि च संशोधयिष्यते संस्कारणान्तर इति । यविपश्चिद्भिः स्वबहुमूल्यसम्मतिप्रदानेनाहमनुगृहीतस्तेषामहं भृशं कृतज्ञोऽस्मीति निवेदयति- সঙ্গা विद्वानों द्वारा समर्थित “सांख्ययोगकोश" नामक अभिनव ग्रन्थ, जिसका प्रणयन प्राच्यविद्याधर्मविज्ञानसंकायके दर्शन- विभागाध्यक्ष श्रीकेदारनाथ त्रिपाठीने किया है, दर्शनके जिज्ञासुओं विशेषतः शोधछात्रोंके लिए अत्यन्त उपयोगी सिद्ध होगा, ऐसा मैं समझता हूँ। मैं इस ग्रन्थके अधिकाधिक प्रसारके लिये हार्दिक शुभकामना करता हूँ। ६.९/७४ का० श्रीमाली कुलपति काशीहिन्दूविश्वविद्यालय वाराणसी ( ii ) शुभाशीर्वादाः परमहंसपरिव्राजकाचार्याणामभिनवशंकरविमूतीनामनन्त- श्रीविभूषितानां श्रीकरपात्र- स्वामिचरणानाम्- श्रीहरिः, गङ्गामहल, केदारघाट, वाराणसी शुद्धभाद्रपदकृष्ण ६ सोमे सं० २०३१ श्रीमन्तो लब्धवर्णप्रतिष्ठिता विद्वत्तल्लजाः श्रोकेदारनाथत्रिपाठिमहा- भागाः सांख्ययोगशास्त्रे व्यवहृतानां पारिभाषिकशब्दानां कोषं निबबन्धुः । यस्मिन् विभिन्नेष्वर्थेषु तन्त्रान्तरे व्यवहृतान् लोके च प्रचलितान् तांस्तान् शब्दान् केषु केषु अर्थेषु सांख्ययोगाचार्या व्यवहृतवन्त इति विस्तरशः प्रतिपादयामासुः। तदेतेन कोषरत्नेन बोद्धारो झटित्यथैनहं लभेरन्निति अस्य ग्रन्थरत्नस्य प्रचयगमनाय एतेभ्यः श्रीकेदारनाथत्रिपाठिमहोदयेभ्यो दीर्घायुष्याय च नारायणस्मरणात्मकाः शुभाशीराययो वितीर्यन्ते, शमिति- करपात्रस्वामी ( iii ) अनन्तश्रीविभूषितानां काशीस्थोम्निायसुमेरु- पीठाधीश्वराणां जगद्गुरुशङ्कराचार्याणां स्वामिश्रीमहेश्वरानन्दसरस्वती- पादानाम्- शुद्धभाद्रपदकृष्णत्रयोदशी गुरुवासरे संवत् २०३१ संख्यावद्भिर्विसंख्यैः प्रगुणितगरिमाख्यातबुद्धिर्विशुद्धिः। मुग्धो दुग्धेन्दुशुद्धः श्रुतनुतमहिमाज्ञाततत्त्वान्तरात्मा ॥ नित्यानित्यैकरूपः प्रथितगुणनिधिातृवगैरधीतः। सांख्ये प्रोक्तः पुराणः कपिलमुनिवरैर्वर्णितश्चैष शुद्धः॥१॥ आकाशचूम्बियशसां महतां महिष्ठ, टीकाकृतां वलय उच्छितिमाश्रयद्भिः । वाचस्पतीति कृतनामवतां वरिष्ठः, या कौमुदीति विदिता ननु टीकिताऽऽस्ते ॥ २॥ सांख्ये योगे गरिष्ठे कृतगुण महिमा कोषकारो महेच्छः। श्रीश्रीविद्यालयेऽस्मिन् नरिनरि विदिते मालवीयस्य कार्ये॥ श्रेष्ठो निष्ठागरिष्ठः श्रुतनुतगरिमागौरवारितश्रीः । श्रीमान् केदारनाथोऽयमिह विजयते कोऽपि विद्वान् मनीषी ॥३॥ महेश्वरानग्दसरस्वती (iv ) - विदुषां सम्मतयः काशीहिन्दूविश्वविद्यालये संस्कृतमहाविद्यालयस्य भूतपूर्वाध्यक्षाणां गुरुवर्याणां पण्डितराज- श्रीकालीप्रसादमिश्रमहानुभावानाम् - न्यायवेदान्तसांख्ययोगाचार्याः पण्डितप्रवरा: श्रीकेदारनाथत्रिपाठिनो महता श्रमेण सांख्ययोगशास्त्रयोस्तत्तच्छास्त्रीयपारिभाषिकशब्देस्सहैतयोः सिद्धान्तञ्च पृथक्कृत्य कोशद्वयमभिनवं परमोपकारकं प्रणीतवन्तः । यद्यप्यस्य ग्रन्थस्यावलोकनाय प्रचुरसमयस्यासीदपेक्षा किन्तु नवीनकृति- तल्लजस्यास्य दर्शनेन जातकुतूहलोऽहं त्वरितं त्रिचतुरस्थलविशेषेषु सोत्कण्ठं दृष्टिं प्रसार्य ग्रन्थकर्तुरस्य विवेचनापद्धति निभाल्य नितान्तप्रमोद- मनुभवन्नहं ग्रन्थेनानेन दर्शनशास्त्रं प्रविविक्षणां महान्तमुपकारं प्रत्येमि शुभाशिषा चैनमभियोजयामि । कालीप्रसादमिश्रः २०१८/७४ वाराणसेयसंस्कृतविश्वविद्यालये न्यायवैशेषिकविभागा- ध्यक्षपदमलकुर्वतां पण्डितराजश्रीबदरीनाथ- शुक्लमहाभागानाम्- दर्शनशास्त्र भारतस्य मनीषाया रमणीयतमः परिणामः । साङ्ख्यशास्त्रं योगशास्त्रञ्चातिप्राचीनमध्यात्मविद्यायाः प्राणभूतञ्च । साङ्ख्यशास्त्रं महर्षिकपिलप्रणीतं संस्कृतवाङ्मये बहुत्र वैपुल्येन प्रसृतम् । योगशास्त्रमपि महर्षिपतञ्जलिप्रणीतमनेकत्र संस्कृतसाहित्ये सुसन्हब्धम् । द्वयोरनयोरेष संस्कृतवाङ्मयव्यापी प्रसारः स्पष्टमेव तत्र ( v ) तयोमहनीयतां व्यनक्ति । परमतीवोपयोगिनोरप्यनयोः शास्त्रयोः विषया यत्र तत्र तथा विकीर्णा यथा तेषां समेषामाकलनं पण्डितानामपि कठिनायते । बहोः कालाद् विपश्चितो विविदिषवश्चैवं कामयमाना आसन् यत् काचनेदृशी कृतिरत्यन्तमावश्यकी यया साह्ययोगयोः विषयाः पारिभाषिकाः शब्दाश्च सम्यक्तया प्रमातुं पार्येरन् । पण्डितप्रवरेण श्रीकेदारनाथ त्रिपाठिमहोदयेन साङ्ख्ययोगकोशनामानं ग्रन्थं निर्माय विदुषां चिराकाङ्क्षायाः पूर्तिः कृता। श्रीत्रिपाठिनः कार्यमिदमत्यपूर्व प्रामाणिकं काशीहिन्दूविश्वविद्यालये तत्प्रसाध्यमानस्य दर्शनविभागा. ध्यक्षपदस्यानुरूपञ्च । विश्वसिमि, श्रीत्रिपाठिनः प्रतिभापरिश्रमयोोगेन प्राप्तप्रसवःप्रबन्ध एष विपश्चिदपश्चिमानामपि महते मोदाय कल्पेत । बदरीनाथशुक्लः १५-७-७४ T-R.V. Murti Eminent Professor of Philosophy Banaras Hindu University ( Retd ) 46 A, Ravindra Puri ( Newcalony ) Varanasi--5 August 17, 1974 ग्रन्थद्वयमिदं सांख्ययोगकोशाख्यं बिद्वद्वरेण श्रीकेदारनाथत्रिपाठिना निपुणतरं निबद्धमिति प्रतिभाति । सांख्ययोगदर्शनशास्त्रीया विषयाः सर्वे साकल्येन लक्षणकल्पैः सारवद्भिः स्वल्पाक्षरैर्यथाशास्त्रं विशदीकृता वर्तन्तेऽत्र । बहुषु स्थलेषु वाचस्पति-विज्ञानभिक्षु-भोज-नागोजीभट्ट- 'प्रभृतीनां मतभेदाः सप्रमाणमुपन्यस्ताश्च सन्ति । सुधियां दार्शनिकानां ( vi ) सदा मुदं तनोति कोशरत्नद्वयमिदमित्यत्र न स्यात् काचिद् विप्रतिपत्तिः । अधिकृत्य सांख्ययोगशास्त्रं किमपि मौलिकान्वेषणगर्भ ग्रन्थान्तरं च विरचय्य नातिचिरादेव विदुषां स्वान्तमालादयति पण्डितप्रवरोऽ. यभित्याशास्ते- ति० • रा० वेङ्कटाचलमूर्तिशर्मा -- Dr. Siddheshvara Bhattacharya Director of Sanskrit studies and Resarch, Mayurbahanj Professor of Sanskrit and Head of the Deptt. sanskrit and Pali, ( Retd ) Banaras Hindu University. Varanasi--5 Date 19.8.74 काशीहिन्दूविश्वविद्यालयीय-प्राच्यविद्याधर्मविज्ञानसंकाये दर्शन- विभागाध्यक्षा श्रीकेदारनाथत्रिपाठिनः परिशील्यमान-सांख्ययोगकोश- कर्तारो विराजन्ते । श्रीमतां कृतिरियं प्रशस्तिमहति । प्रायशो दर्शन- शास्त्रे प्रविविक्षूणां पारिभाषिकशब्दार्थज्ञानाभावात् सुष्ठु गतिनै भवतीति मनसि निधाय सूक्ष्मेक्षिकया तत्तच्छब्दार्थानां कोशेऽस्मिन् तथा निर्वचनं विहितं यथा तान् परिगृह्य सांख्ययोगशास्त्रकान्तारम् उद्यानायितं स्यात् । शब्दार्थानां परिष्कार आकरग्रन्थभित्तिक इति कोशोऽयं प्रामाण्यमावहति । प्राशासे प्रयत्नोऽयं बहुलप्रचारतामुपगमिष्यतीति- शंसति सिद्धेश्वरभट्टाचार्यः - ( vii ) विद्यासागर-विद्यावाचस्पति-शास्त्ररत्नाकराणां वाराणसेय- संस्कृतविश्वविद्यालये भूतपूर्वसाहित्य विभागा- ध्यक्षाणां पण्डितराजश्रीपट्टाभिराम- शास्त्रिमहानुभावानाम्- पण्डितवरैराचार्यश्रीकेदारनाथ त्रिपाठिमहेच्छेविरचितं साङ्ख्ययोग- कोशाभिधं ग्रन्थं समग्रमपठम् । साङ्ख्ये योगे च प्रचलितान् शब्दानेकी- कृत्याकारादिक्रमेण च तान् संयोज्य तेषां मतभेदानुसारेणार्थान प्रादर्शयन् । शास्त्रयोरनयोः प्रविविक्षूणामन्तेवासिनां ज्ञानावाप्तयेऽर्थावबोधाय च सुमहदानुकूल्पमाचरेदयं ग्रन्थ इति निस्सङ्कोचं ब्रवीमि । त्रिपाठिमहो- दयानां परिश्रमं सफलयितुमहं वाञ्छामि, यदयं ग्रन्थश्शिक्षणसंस्थासु पाठ्यक्रमे सन्निवेशनीय इति । एतादृशानि कार्याणि बहून्यन्यानि कुर्वन्तः पण्डितवराः श्रोत्रिपाठिनः संस्कृतवाड्मयं परिवर्द्धयेयुरिति सम्भावयामि। पट्टाभिरामशास्त्री १८-८-७४ ( viii) काशीहिन्दूविश्वविद्यालये प्राच्यविद्याधर्मविज्ञानसंकायप्रमुखाणां ज्योतिषदिवाकराणां पण्डितश्रीराजमोहन- उपाध्याय [ ज्योतिषशास्त्राचार्य, एम. ए., पी. एच. महोदयानाम्- डी.]] - दर्शनविभागाध्यक्षेण पण्डितश्रीकेदारनाथत्रिपाठिना विरचितं सांख्य- योगकोशांख्यमभिनवं पुस्तकं मया सभ्यगवलोकितम् । अद्यावधि सांख्य- योगशास्त्रयोः कोशस्य निर्माणं न केनापि विदुषा सम्पादितम् । गतसत्रारम्भे मया निवेदितं यत् सांख्ययोगयोः भवद्भिः किमपि एतादृशं नूतनं कार्य करणीयं येनास्य संकायस्य भवतां च गौरवं वर्धेत । अतिस्वल्पेनैव कालेन अतिश्रमेण प्रतिभासम्पन्नैरेभिर्महाभागैः यदिदं कार्य सम्पादितं तेनेदं स्पष्टं प्रतिभाति यदस्माकं संकाये एतादृशाः सुमहान्तः पण्डिताः सन्ति येषां करामलकवत् शास्त्रज्ञानमस्ति । इदन्तु निश्वप्रचं यत् प्रौढज्ञानमन्तरा न कोऽपि एतादृशं ग्रन्थरत्नमतिस्वल्पेन कालेन निर्मातुं क्षमो भवितुमर्हति । एभिरन्येऽपि दर्शनग्रन्थाः निर्मिताः सन्ति प्रकाशिता- प्रकाशिताः। मन्ये, अग्रेऽपि स्वकोयं गवेषणात्मकं सांख्ययोगशास्त्रयो कार्यमेते महानुभावाः विधास्यन्तोति शम् । राजमोहन उपाध्यायः २३१८/७४ स्मृतिमात्रेण शेषेषु, पादपद्मषु पूज्ययोः पित्रोः सांख्यपदाब्जानां, कोश एष मुदेय॑ते ।
No text on this page.
प्रस्तावना अथेयं प्रस्तूयते सांख्यकोशो नामाभिनवा कृतिरन्तेवासिगणकल्याणाय विद्वज्ज. नमोदाय चेदानीम् । तत्र यद्यपि विद्यानां चतुर्दशप्रस्थानेषु अष्टादशसु वा परिग. णि तेषु सांख्यशास्त्रस्य साक्षान्नाम न श्रूयते तथापि न्यायस्यानेकात्मप्रतिपादकत्वात् अनेकात्मप्रतिपादकानि वैशेषिकसांख्ययोगशास्त्राण्यपि 'अङ्गानि बेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश' ॥ इति वचने न्यायविस्तरपदेन संगृहीतानीति मन्तव्यम् । श्वेताश्वतरोपनिषदि भगवद्गीतायाञ्च बहुधा सांख्यस्य चर्चा समायातीत्यस्य शास्त्रस्यातिप्राचीनत्वं निश्चऽचम् । दर्शनाय शाश्त्रं दर्शनशास्त्रमिति व्युत्पत्त्या सर्वाण्येव न्यायादिशास्त्राणि तत्त्व- ज्ञानात्मकदर्शनरूपाय प्रयोजनाय प्रवृत्तानीति तानि दर्शनशास्त्राणोत्युच्यन्ते । दर्शनशब्दप्रयोगस्य च मूलम्-'सत्यधर्माय दृष्टये, आत्मा वा अरे द्रष्टव्यः, तस्मिन् दृष्टे परावरे' इत्याद्याः श्रुतयः सन्ति । यच्च द्रष्टव्यं तत् तत्त्वम् आत्मै- वेत्यपि तास्वेव श्रुतिषु सङ्केतितमासाद्यते । अतो वैशयेन प्राधान्येन प्राथम्येन चात्मतत्त्वविचाराय प्रवृत्तमिदं प्राचीनतमं सांख्यशास्त्रं भगवद्गीतायामुपनिषत्सु पुराणादिषु च सर्वमूर्धन्यत्वेन जेगीयमानमास्ते इति सर्वथा समुचितमेव । सांख्यशब्दो हि गणनार्थकेन ज्ञानार्थकेन वा संख्याशब्देन निष्पन्न इति विचारे ज्ञानार्थकसंख्याशब्देन सांख्यशब्दो निष्पन्न इत्येव मतं मुख्यमिति प्रतिभाति भाष्यटीकादिकर्तृवचनेभ्यः। सांख्यशास्त्रप्रवर्तकः महर्षिः कपिल एव सांख्यशास्त्रप्रवर्तकतया श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धः। अत्र भारतीयशास्त्रपरम्परासु कुत्रापि विप्रतिपत्तिर्नास्ति । श्रुतिस्ता- वत्-'ऋषि प्रसूतं कपिलं यस्तमग्रे ज्ञानबिति जायमानं च पश्येत्' इति ।
- स्मृतिश्च --'सांस्यस्य वक्ता कपिलः, परमर्षिः स उच्यते' । महाभारतम् शान्तिपर्व ३३०१६० । श्रीमद्भागवगतेऽपि महर्षिः कपिल एव सांख्यशास्त्रप्रवर्तकत्वेनोक्तः । गरुडपुराणेऽपि तथैवोक्तम् । यथा- पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम् ॥ १।१।१८ मत्स्यस्कन्दविष्णुपुराणेष्वपि कपिलस्य सांख्यकर्तृत्वम् प्रतिपादितम् । साँख्य शास्त्रीयग्रन्थकारास्तट्टीकाकाराश्चापि सांख्यशास्त्रप्रवर्तकत्वेन कपिलमेवैकमत्येन स्मरन्ति । अतिपाचोनः सांख्यकारिकाकारः कपिलं मुनिपरमर्षिशब्दाभ्यां स्मरति । सां० का० ६९-७० । स च कपिलो ब्रह्मणः पुत्र इति गौडपादाचार्याः स्मरन्ति : यथा - इह भगवान् ब्रह्मसुतः कपिलो नाम इति । ( सां. का. गौडपादभाष्यम् पृ० १)। स्वायम्भुवस्य मनोर्दुहितरि देवहूत्यां महर्षेः कर्दमाद् भगवान् विष्णुरेव कपिल- रूपेणावततारेति श्रीमद्भागवतम् । यथा-~- तस्यां बहुतिथे काले भगवान् मधुसूदनः। कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ अयं सिद्धगणाधीशः सांख्याचायः सुसम्मनः । लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ।। (३६२४॥६-१९ । तथा-कपिलस्तत्त्वसंख्याता भगवानात्ममायया । जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम् ।। (३।२५।१ ) क्वचिदग्न्यवतारत्वेनापि स्मर्यते । यथा महाभारते- कपिलं परमषिञ्च यं प्राहुर्यतयः सदा । अग्निःस कपिलो नाम सांख्ययोगप्रवर्तकः ।। ( वनपर्व २११।२१) . 'समस्ततत्त्वानां सकलषष्टितन्त्रार्थानाञ्च सूचकं षडध्याय्या अपि बोजभूत तत्त्वसमाससूत्रं नारायणावतारमहर्षिकपिलप्रणीतम् । षडध्यायी तु वैश्वानरा वतारभूतमहर्षिभगवत्कपिलप्रणीतेति वृद्धाः' इत्याह सर्वोपकारिणीवृत्तिकारः । अत्र 'वृद्धाः' इति कथनेन स्वपूर्वतनाचायं सम्मतिमपि स प्रदर्शयति । किन्त्वेतत् कपिल द्वैविध्यत्रैविध्यकथनं भ्रम एवेति श्रीमदुदयवीरशास्त्रिणा संसाधितमेकत्वञ्च स्थिरीकृतम् । ( सांख्यदर्शनकाइतिहास पृ० ८-१२ )। एत. दनुसारं महाभारतमतेनापि सांख्यप्रवर्तकः कपिलो विष्णोरवतार एव किन्तु स क्रोधाग्निना सगा पुत्रान् भस्मोचकारेति तस्याग्नित्वं प्रसिद्धमभूत् इति । सांख्य. प्रवचनभाष्यकर्ताऽपि कपिलद्वैविध्यं प्रकामं निराकरोति । । द्र० सां० प्र० भा० अ० ६ सू० ७ )। महर्षिकपिल: कुत्र कदाऽऽविर्बभूवेत्यत्रापि मतभेदोऽस्ति । केषांश्चिन्मतेन स नैतिहासिकः पुरुषोऽस्ति । तत्र च 'आदिविद्वान् निर्माणचित्तमधिष्ठाय कारुण्याई भगवान परमर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाच' इति योगभाष्यकारस्योक्ति प्रमाणतयोपस्थापयन्ति । किन्तु निर्माणचित्ताधिष्ठानं पाञ्चभौतिकशरीरेऽवतोणे- नापि भगवता शक्यमतः कपिलमहर्षे रैतिहासिकपुरुषत्वे न सन्देहावसर इति सत्कौरीमहाशया अभिप्रयन्ति : कपिलवस्तु ( कपिलवत्थु ) नाम नगरं भगवतो बुद्धस्य जन्मस्थानं, तदेव हि महर्षेः कपिलस्यापि जन्मस्थानमिति जनरलकनिंघममहोदयाः। गामहोदया अपि तथैव मन्यन्ते । बौद्धधर्मः सांख्यदर्शनस्य महानधमर्ण इति स्वनिश्चयेन गार्व- महोदयः स्वमतं द्र ढयितुं चेष्टते । तन्मतेन 'कपिलवत्थु' इति पालिशब्दस्य 'कपिलवास्तु' इत्येव संस्कृतरूपान्तरं न तु 'कपिलवस्तु' इति । डा० आद्याप्रसाद- मिश्रस्तु कपिलवस्तुनाम्ना न महर्षेः कपिलस्य संबन्धः किन्तु कस्यचित् शाक्य- वंशीयस्य शूरस्य क्षत्रियस्य पूर्वजस्य स्यादिति प्रतिपादयन् गार्वेमहोदयस्य खण्डनं करोति । सुत्तनिपातकथानुसारमश्वघोषस्य सौन्दरानन्दकाव्यानुसारञ्च महर्षेः कपिलस्य नाम्नैव कपिलवास्तु' इति नामाभूत् इति । यथा- ( ४ ) कपिलस्य च तस्यस्तस्मिन्नाश्रमवास्तुनि । यस्मात्ते तत्परं चक्रुस्तस्मात् कपिलवास्तु तत् ॥ ( सर्गः १२ श्लो० ५७)। इदं हि मतं सम्यक प्रतिभाति । श्रीमद्भागवतादिप्रामाण्यात् सरस्वत्यास्तीरे बिन्दुसरःसमीपवर्तिनि कस्मि- श्चिदाश्रमे महर्षिकपिल: कर्दमदेवहूत्योः पुत्ररूपेण जनिमलभत। तदाश्रम- स्थानञ्च महाभारतरामायणादीननुसृत्य हिमालयमध्ये इदानीं मानसरोवरनाम्ना प्रसिद्धात् सरोवरात् पश्चिमदिशि कुत्रचिदासीदिति निरूपितं प्रतीथते । तेन निरूपणेन कपिलवास्तुनगरस्य कपिलमहर्षिसम्पर्को न निराक्रियत इति तर्कयन्ति विद्वान्सः । अतो बिन्दुसरःसमीपस्थ आश्रमे जनिमासाद्यापि महर्षिः कियन्तं कालं कपिलवास्तुसन्निहिते प्रदेशे आश्रमं निर्मायोवासेत्यत्र नास्ति किमप्यसामञ्जस्यम् । बौद्धमतस्य प्रादुर्भावक्षेत्रे सांख्यदर्शनस्य महीयान् प्रभाव आसीदिति गार्वेमहाशयस्यानुमानम् । डा० कीथमहोदयस्तु उभयोरप्युपनिषन्मूलत्वं प्रति- पादयन् बौद्धधर्मस्य प्रांख्याधमण्यं निराकरोति । किन्तु एवं स्वीकारेऽपि भारत- वर्षस्य पूर्वप्रान्ते बुद्धसमये सांख्यप्रभावसंभावना न निराकर्तुं शक्यते। गौतमो गृहादभिनिष्क्रम्य प्रथममेव धर्मलाभार्थं कालायसगोत्रीयमण्डनामानं कञ्चित्त- पस्विनं गुरु चकारे ति बुद्धचरितादवगम्यते । अयमण्डः कपिलमतानुसारी आसीत् । तथा च तद्वचनम्- तत्र तु प्रकृति नाम विद्धि प्रकृतिकोविदः। पञ्चभूतान्यहङ्कारं बुद्धिमव्यक्तमेव च ॥ इति । अण्डगौतमवृत्तान्तो न केवलमश्वघोषेणैवेददम्प्रथमतया वर्णितः किन्तु स्थविर- वादिशास्त्रेऽपि अण्ड: 'आलारकालाम' इति नामधेयेनोपलभ्यते । तस्माद् बुद्ध- प्रादुर्भावकाले कपिलवास्तुसन्निहिते प्रदेशे सांख्यदर्शनस्य भूयान् प्रचार आसी- दिति नात्र संशयलेशोऽपि । इत्थं कपिलबास्तुसन्निहित प्रदेशे कञ्चित् कालं स्थित्वा पुनः रामायणमहा- भारतानुसारं सगरर जिस्य षष्टिसहस्रं पुत्रान् यत्र भस्मीचकार स कपिलाश्रमः ( ५ ) कुत्रचित् समुद्रकूल एवानुसन्धयः। तत्र च भस्मीभूतानां सगरपुत्राणामुद्धारार्थं सगरवंशीयेन भगीरथेन स्वपोबलेन भगवती भागीरथी धरातलं समानीता तान् पुत्रानुद्धृत्य तत्रैव समुद्रे विवेश । गङ्गायाः समुद्रप्रवेशश्च कपिलाश्रमसन्निधौ यत्र सगरपुत्रा भस्मीभूतास्तत्रैव जात इत्यपि संगतमेवास्ति । अतो गङ्गासागर- सङ्गमे कपिलमुनिराश्रमं निर्मायोवासेति नेतिहासविरुद्धम् । स च सङ्गमो वङ्गप्रान्ते कालिकात्तातश्चत्वारिंशे क्रोशे वर्तते । अतो महर्षिकपिलो हिमवत्र- देशवर्तिनि बिन्दुसरःसन्निकर्षे जन्म लब्ध्वा कपिलवास्तुसमीपे कञ्चित् काल- मुषित्वाऽन्ते गङ्गासागरसङ्गमवर्तिनि आश्रमे उवासेति निष्कर्षः। महर्षिकपिलसमयः महर्षः कपिलस्य निश्चयेन कालनिरूपणं दुष्करम् । तन्निश्चयस्योप- निषन्महाभारतादिकालनिर्णयाधीनत्वात् । तेषामपि कालविषयेऽद्यापि ऐतिहा- सिकानां परस्परं भृशं मतानैक्रमेवास्ति । डा० आद्याप्रसादमिश्रमहोदयेन सुष्ठ निरूपितं यत् शतपथब्राह्मणसङ्कलनादपि पूर्व महर्षिः कपिल आविर्बभूवेति । अतः कपिलाविर्भावकालो न्यूनत रा पञ्चसहस्रवर्षेभ्यः पूर्वमेवासीत्, न तु कथमपि ततोऽर्वाचीन इति । कपिलस्य कृतिः यथा न्यायादिदर्शनानां सूत्राणि गौतमादिकृतानि तथा सांख्यस्यापि दर्शनत्वेन तस्यापि सूत्रकारेण भाव्यम् इति विदुषामनुमानं सर्वथा समीचीनमेव ! तत्र द्रौ सूत्रग्रन्थौ सांख्यस्य वर्तते । किन्त्विदानीन्तना विद्वान्स उभयोरप्यर्वाचीनत्वं मन्यन्ते। सांख्यकारिकामेवेश्वरकृष्णकृतां प्राचीनतमां मन्यन्ते । तस्याः कापि टीकाऽऽसीत् यस्याष्टीकायाश्चोनभाषायामनुवादः परमार्थनाम्ना उज्जयिनीवास्तव्येन बौद्ध भिक्षुणा रव्रीस्तीयषष्ठशताब्द्याः पश्चिमे भागे कृतः। ईश्वरकृष्णादिसांख्य- ग्रन्थकर्तृणां ग्रन्थेभ्योऽपि षडध्याय्याः कोऽपि परिचयो न लभ्यते। शङ्कराचार्य- णापि कारिकैवोद्धृता शारीरकभाष्ये । यद्युभौ सूत्रग्रन्थौ कपिलप्रणीतौ तदा मनीषिभिस्तदृ पेक्षायाः किमपि कारणं न प्रतीयते । तस्मात् षडध्यायी रवीस्तीय- नवम शताब्या अनन्तरमर्थात् वाचस्पतिमिश्रादनन्तरं, तत्त्वसमासश्च ततोऽप्यूज़ विरचित इति नवीनानां सिद्धान्तः। गावॆमहोदयमतेन षडध्यायी रचनाकाल: रवीस्तीयचतुर्दशशताब्दी एव। किन्तु डा सुरेन्द्र दासगुप्तमहोदयः षडध्यायी तावतीमर्वाचोनां न मन्यते। वस्तुतः कपिलस्य का कृतिरिति जिज्ञासायाः समाधानं सुकरं न प्रतिभाति । ईश्वरकृष्णकारिकाणां द्विसप्ततितमकारिकादर्शनात् तदुपजीव्यग्रन्थस्य षष्टितन्त्र- मति नामासीदिति प्रतीयते । अतः कपिलकृतमूलग्रन्थ एव षष्टितन्त्रारख्य आसीत्, स चेदानी लुप्त इत्येके वदन्ति । सांख्यप्रवचनसूत्रापराभिधानाऽद्यत्वे बहुप्रचलिता सूत्रषडध्याय्येव कपिलकृतं षष्टितन्त्रमित्यन्ये । विज्ञानभिक्षुरपि षडध्यायीमेव कपिलकृतां मन्यते । ( द्रष्टव्यम् योगवार्तिकम् पा० सू० २४ )। परिमितपदैः सांख्यतत्त्वानां प्रतिपादक: परमतखण्डन वरहितस्तत्त्वसमास एव कपिल कृतिरित्यपरे। पष्टि तन्त्रम् कपिल सिद्धान्तस्य कपिलकृतेर्वा षष्टितन्त्रनाम्नाऽभिहितत्वे तद्गतविचार्यमाण- विषयाणां षष्टिसंख्याकत्वमेव तिदानम् । षष्टिविषयाश्च-पञ्च विपर्यया, नव तुष्टयः, अष्टौ सिद्धयः, अष्टाविंशतिरशक्तयः, दश मौलिकार्याश्चेति उदयवीर - शास्त्री। इदमेव परिगणनं सांख्यतत्त्वकौमुदीकर्तुरभिप्रेतम् । तथा च ग्रन्थान्ते प्रतिपादितं राजवातिकोद्धरणद्वाराऽऽचार्यवाचस्पतिमिश्रेण-'सेयं षष्टिपदार्थी कथिते सकलशस्त्रौर्थकथनान्नेदं प्रकरणमपि तु शास्त्रमेवेदमिति सिद्धम् ।' इति श्रीमिश्रा: संख्यकारिकाणां शास्त्रत्वमङ्गीकुर्वन्ति । साक्षात्कपिलप्रणीते सूत्रग्रन्थे विराजमाने मिश्रपादसदृशो आस्तिकमूर्धन्यास्तदन्यकर्तृकं ग्रन्थं शास्त्रतयाङ्गीच- कुरिति नात्र मनः प्रत्ययमासादयति । अतो वाचस्पतिमिश्रसमयात् पूर्वमेव कपिलनिर्मितो मूलग्रन्थो लुप्तोऽभवदिति निश्चिन्वन्ति सात्कौरीमहाशयाः सांख्यसंग्रहप्रस्तावनायाम् । एवं सूत्रषडध्याय्याः केषुचित् सूत्रेषु अनन्तरकालरचितसूत्राणां खण्डनं दृश्यते । अतोऽण्यर्वाचीना षडध्यायी। विशेषतः सूत्रषडध्यायी उत्तरकालवर्ति- वेदान्तसिद्धान्तप्रभाव प्रकटयतीति गर्विमतं विशेषावधानयोग्यतामासादयति ।
( ७ ). किन्तु सूत्रषडध्यायीतत्त्वसमाससूत्रगतवचनानां भूयःसु प्राचीन ग्रन्वेष पलम्भात् तो सांख्यग्रन्थौ रवीस्तीयचतुर्दशशतकोद्भूताविति पक्ष: सुष्ठु निराक्रियत उदयवीरशास्त्रिभिः । वस्तुतः सप्ततितम ( ७० ) सांख्यकारिकानुसारं महर्षिः कपिल: श्रुत्युदितं सांख्यतत्त्वमासुरये प्रदत्तवान्, आसुरिरपि पञ्चशिरवाय प्रदत्तवानेव न तु कृतवान् किमपि ग्रन्थजातम् । यथा हि गुरुः शिष्यान् वेदमुपदिशत्ये' त न करोति, तद्वत् इति प्रतीयते । इत्थं गुरुपरम्परया प्रचलितं सिद्धान्तभवलत्रब्भो केनापि पंख्याचायण प्रथमं तत्त्वाम्नायपरं संक्षपेण तत्त्वसमाससूत्रं ब्यरचि दनन्तरञ्च दर्शनान्तरीयसूत्रग्रन्थानुकरणेन केनाप्यपरेण प्रतिभावताऽऽचाचायण सूत्रषडध्यायी निर्मिताऽभूत् । एतये रपि सांख्यकारिकानिर्माण त् पूर्व परं वा निर्माणं जात- मिति जिज्ञासायां माध्यस्थ्यमेवाबलम्बते सात्कौरीशास्त्री। एतदनुसारमीश्वर- कृष्णसमये तयोविद्यमानत्वेऽपि ऋषिप्रणीतत्वाभावात् टीकाकर्तृणां तयोरनादरः कारिकाणाञ्च सुव्यवस्थितत्वात् तत्र समादरश्चाभूतामित्येव सङ्गतमिति शास्त्रिणोऽभिप्रायः । किन्तु तत्त्वसमाससूत्रषडध्याय्योरीश्वरकृष्णसमये विद्यमानत्वं सम्भावयन्तोऽपि सात्कौरीशास्त्रिणः कथं तयोःऋषिप्रणीतत्वाभावं निश्चिन्वन्ति कथन्तराञ्च कारिकाणामेव सुव्यवस्थितत्वं मन्यन्त इति न वयं विद्यः । अतोऽ स्मद्विचारानुसारं विषयोऽयमवशिष्यत एवानुसन्धानायेति विभावयामः । आसुरिणाऽपि कोऽपि सांख्यग्रन्थो निर्मितो न वेति निर्णतुं न शक्यते । तद- नन्तरं तच्छिष्यत्वेन पञ्चशिखाचार्यः प्रसिद्धः । तेन सांख्यशास्त्रस्य भूयान् प्रचारो विहितः । कपिलमहर्षेः पाञ्च भौतिकशरीरे विद्यमान एव पञ्चशिखाचार्यो जनसभायामन्यत्र च महतीं प्रतिष्ठां लब्धवानभूत् । तेन निर्मितः सूत्रग्रन्थो न समग्रतयोपलभ्यते । किन्तु योगभाष्ये तत्प्रणीतानामेकविंशतिसूत्राणामुद्ध रणमुप- लभ्यते । गौडपादाचार्योऽपि कारिकाभाष्ये--सनकश्च सनन्दश्च, तृतीयश्च सनातनः । आसुरिः कपिलश्चैव बोढुः पञ्चशिखस्तथा ॥ इति ब्रह्मपुत्रानु स्मरति । अत्र सांख्याचार्यपरम्परा प्रतिपादितेति वक्तुं न शक्यते, केवलं ब्रह्म- सुतत्वेन तेषां निर्देशात् । तेषु च कपिलो बोढुरासुरिः, पञ्चशिखश्च सांख्याचार्या- - ( ८ ) आसन्नित्यत्र सर्वेषामैकमत्यमस्ति । सनन्दोऽपि सांख्याचार्य आसीदिति मनुस्मृते: कुलूकभट्टटीकायामुक्तम् । एततिरिक्ता: पुलहपुलस्त्यमरीचिप्रभृतयः प्राचीनाः, जैगीषव्यवार्षगण्यविन्ध्यवासिप्रभृतयश्च तदपेक्षयाऽर्वाचीना इति प्रायश्चत्वा- रिंशत्संख्याकाः सांख्याचार्याः स्मर्यन्ते । साङ्ख्याचार्याणां विषये वैशद्येन पृथग् विचारोऽपेक्षितोऽस्तीति नेह प्रतन्यते । इत्थञ्च सत्स्वपि नैकेषु सांख्याचार्येषु शास्त्रमिदं न तथा पल्लवान् रामा- सादयद् यथेतराणि शास्त्राणि । तथापि समुपलब्धग्रन्थसम्पत्त्यापि सांख्यदर्शनस्य साङ्गोपाङ्गसिद्धान्ताः अस्मदृष्टि गोचरतामायान्तीति महान् सन्तोषोऽनुभूयते । तान् ग्रन्थानाधृत्यैव मयाऽयं सांख्यकोशो निर्माय विदुषां समक्षमुपस्थाप्यते । अनेन मदीयप्रयासेन यदि विदुषां सन्तोषो जिज्ञासूनां लाभश्च भवेत्तदाऽऽत्मानं कृतार्थ मन्ये इति शम् । मार्च, १९७४ केदारनाथत्रिपाठी काशी हिन्दू विश्वनिद्यालय। वाराणसी संकेतार्याः सां० द.२० सू० सांख्यदर्शनम्, अध्यायः, सूत्रम् । सांख्यकारिका। सां० ० का० त० सू० % 3D सां० त० कौ० का -- सां० सू० अ० वृ० सां० सू० वृ० सा. सां० प्र० मा० अ० सू० सां० का. गौ. पा० भा० अ० सू० - तत्त्वसमाससूत्रम्। सांख्यतत्त्वकौमुदीकारिका । सांख्यसूत्रस्य अनिरुद्धवृतिः । सांख्यसूत्रवृत्तिसारः। सांख्यप्रवचनभाष्यम्, अध्यायः, सूत्रम् । सांख्यकारिकागौडपादभाष्यम् । अध्यायः, सत्रम् । न्यायदर्शनम्, अध्यायः आह्निकम्, सूत्रम् । न्यायसिद्धान्तमुक्तावली, शब्दखण्डम् । सांख्यसूत्रस्य अनिरुद्धवृत्तिः : सांख्यकारिकाभाष्यम्, कारिका । सांख्यकारिकामाठरवृत्तिः । युक्ति दीपिका। न्या० द० अ० आ० सू० न्या० सि० मु० श० ख० सां० सू० अनिल सां० ० का० भा.का. ०व० - - सां• का० मा० ३० यु० दी०
No text on this page.
॥ श्रीगणेशाय नमः ॥ सांख्यकोशः प्रणम्येशं गुरून् पितृन सांख्यशास्त्रपयोनिधेः । शब्दरत्नमयं कोशं सार्थमद्योद्धराम्यहम् ॥ अकाम्यम्-किमपि दृष्टमदृष्टं वा फलमनभिसन्धाय कृतं कर्म अकाम्यमुच्यते । अक्कः-गृहकोणः । यथा-अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । ( सां० त. कौ० का०१)। अजः-जन्मरहितः । सांख्ये अजः पुरुषो भवति, अजा च प्रकृतिः । अजवत्-यथा अजनामके भार्याशोकमलिनचित्ते नृपे वशिष्ठेनोक्तस्याप्युपदेश- बोजस्य नाङ्कुरः उत्पन्नः, तथैव रागादिमलिनचित्ते उपदेशरूपस्य बोजस्या- कुरोऽपि नोत्पद्यते । ( द्रष्टव्यम्-सां० प्र० मा० अ० ४ सू० २९ )। अणुनित्यत्वाभावः--पृथिव्याद्यणूनां नित्यता नास्ति, तेषामणूनामपि कायंत्व- श्रुतेः । यद्यपि अणुकार्यत्वबोधिनी श्रुतिः काललुतत्वान्नोपलभ्यते, तथाप्या- चार्यवचनात् स्मृतेश्चानुमेया। तथा च मनु:-अण्व्यो मात्रा विनाशिन्यो दशार्धानाञ्च याः स्मृताः। ताभिः सार्धमिदं सर्व सम्भवत्यनुपूर्वशः । इति । ( द्रष्टव्यम्-सां प्र० भा० अ० ५ सू० ८७)। अतैजसंचक्षुः-इन्द्रियाणां प्राप्तप्रकाशकत्वमिति सांख्यसिद्धान्तः । अस्यां स्थिती चक्षुषस्तैजसत्वं स्वीकरणीयम्, तेजस एव किरणरूपेणाशु दूरदूरतरापसर्पण- दर्शनादित्याशङ्का न करणीया । अतैजसत्वेऽपि प्राणवदेव वृत्तिविशेषेण दूर- दूरतरापसर्पणोपपत्तेः। यथाहि प्राणः शरीरमसन्त्यज्यैव नासाग्राद् बहिः कियदूरं प्राणनाख्यवृत्त्याऽपसर्पति, तथैव अतैजसमपि चक्षुर्दहमसन्त्ज्यापि २ सांख्यकोशः वृत्त्याख्यपरिणामविशेषेण झटित्येव सूर्यादिकं प्रत्यपसरेदिति । (द्र० सां० प्र० भा० ब० ५ सू० १०५) अत्यन्तपुरुषार्थः-आध्यात्मिकाधिभौतिकाधिदैविकानां त्रिविधदुःखानामात्यन्तिकी निवृत्तिरेवात्यन्तपुरुषार्थः । तथा च सांख्यसूत्रम्-“अथ त्रिविधदुःखात्यन्त निवृत्तिरत्यन्तपुरुषार्थः” ( अ० १ सू० १) केवलपुरुषार्थशब्देन तु भोगापवर्गयोरुभयोर्बोधो भवति । तथा च गौडपादा- चार्या:-पुरुषार्थो द्विविधः शब्दाद्युपलब्धिलक्षणो गुणपुरुषान्तरोपलब्धि- लक्षणश्च । शब्दाधुपलब्धिाह्मादिषु लोकेषु गन्धादिभोगावाप्तिः । गुणपुरु- षान्तरोपलब्धिर्मोक्ष इति । ( सां० का० भा० ४२ )। अथ अथेति शब्दोल्लेखः शास्त्रादौ मङ्गलार्थः । यथा “अथ त्रिविधदुःखात्य- न्तनिवृत्तिरत्यन्तपुरुषार्थः" इत्यत्र । (सां० द० अ० १ सू० १)। अदृष्टनरपेक्ष्यम्-अदृष्टं हि बुद्धिकार्यमतोऽहङ्काराद्युत्पत्तौ तत् महदादीनां सहायं भवतु नाम तथापि प्रकृतेः स्वकार्यकरणे अदृष्टसहकारिता नास्ति किन्तु अविवेक एव सहकारी भवतीति । (द्र० स० सू० अ० वृ० अ० ३ सू० ६८)। अद्वैतश्रुत्यविरोधः-सांस्यपद्धत्यनुसारं द्वैतसत्त्वेऽपि अद्वेतश्रुतिविरोधो नास्ति, रागिणां पुरुषातिरिक्ते वैराग्यायैव क्वचित् श्रुतावद्वैतप्रतिपादनात् । तथा च सांख्यसूत्रम्-"न श्रुतिविरोधो रागिणां बैराग्याय तत्सिद्धेः" ( अ०६ सू० २१)। अधर्मः-रजस्तमआत्मिकाया बुद्धेः कार्यभूतः । अधिकारिणः-उत्तममध्यमाधमास्त्रिविधा ज्ञानाधिकारिणः । अर्थात् उत्तमाधि- कारिणां श्रवणमात्रान्मुक्तिसिद्धिः । मध्यमाधिकारिणां श्रवणमननाभ्यां तथाऽ- धमाधिकारिणां त्रिभिः श्रवणमनननिदिध्यासनैर्मुक्तिसिद्धिरिति । अतो मन्दाधिकारदोषादेव विरोचनादीनां श्रवणमात्राच्चित्तविलापनक्षमं ज्ञानं नोत्पन्नम् । न तु श्रवणस्य ज्ञानजननासामर्थ्यमस्ति । इत्थञ्चोत्तमाधिकारिणः सांख्यकोशः ३ - , श्रवणमात्रान् मुक्तिसिद्धावपि दाथि मनननिदिध्यासने अपि विधीयते । (द्र० सां० प्र० भा० अ० ६ सू० २२,२३ )। अध्यवसाय:-निश्चयाख्या बुद्धिवृत्तिः। सर्वो व्यवहर्ता पूर्वमिन्द्रियैः विषया- नालोच्य, मनसा मत्वा, अहमत्राधिकृत इत्यहङ्कारेणाभिमत्य कर्तव्यमेतन्मये- त्यध्यवस्यति, ततश्च प्रवर्तते । तत्र योऽयं कर्तव्यमिति विनिश्चयः, सोऽध्यवसायः, बुद्धेरसाधारणो व्यापारः (द्र० स० त० कौ० का० २३)। युक्तिदीपिकायाञ्चोक्तम्-कोऽयमध्यवसाय: ? गोरेवायं, पुरुप एवायमिति यः प्रत्ययो निश्चयोऽर्थग्रहणं सोऽध्यवसाय इति । अध्यवसायश्च निश्चयाख्य इति विज्ञानभिक्षुः । । सां० प्र० भा अ० २ सू० १३ )। अध्यासः--उपचारः । आरोपः, यथा योद्धृगतौ जयपराजयौ राजन्युपचर्येते तथा प्रकृतौ वर्तमानं स्रप्ट्टत्वादिकं पुरुषेषूपचर्यते । अयमेवाध्यासः । यथा वा शुक्तो रजतमारोप्य रजतमिति प्रत्ययः । अननुष्ठानलक्षणमप्रामाण्यम्-यस्य वेदार्थस्यानुष्ठानमशक्यं भवति तत्प्रति- पादके वेदेऽननुष्ठानलक्षणमप्रामाण्यं भवतीति । अनादिः-आदिरहितः। स द्विविधः-अखण्डानादि: प्रवाहानादिश्च । अखण्डा- नादिरात्माः, प्रवाहानादिश्चाविवेकः। (द्र० सां० प्र० भा० अ०६ सू. १२)। अनावृत्तिः-अपवर्गः । “न स पुनरावर्तते'' इति श्रुतेः । अनिर्वचनीयख्याति:-सदसद्भ्यां विलक्षणमतएव सत्त्वेन असत्त्वेन वा निर्वचनानहम्, तादृशस्य जगतः ख्यातिरनिर्वचनीयख्यातिः। साऽपि न सांख्यामिमता, सदसद्भिन्नवस्त्वप्रसिद्धः । दृष्टानुसारेणैव औचित्यात् । (द्र० सां० प्र० मा० अ० ५ सू० ५४ )। अनुमानम्-व्याप्यदर्शनाद् व्यापकज्ञानम् ( व्यापकाकाग चित्तवृति: ) अनु- मानम् । अथवा लिङ्गलिङ्गिपूर्वकमनुमानम् । लिङ्गं व्याप्यं, लिङ्गि व्यापकम् । शङ्कितसमारोपितोपाधिनिराकरणेन वस्तुस्वभावप्रतिबद्धं कल्पनाया- सांख्यकोशः । व्याप्यम्, येन प्रतिबद्धं तद्व्याकपम् । लिङ्गिपदमत्र द्विरावर्तनीयं, तेन च लिङ्गमस्यास्तीति पक्षधर्मताज्ञानमपि दर्शितं भवति तथा च व्याप्यव्यापक- भावपक्षधर्मताज्ञानपूर्वकमनुमानमितिवाचस्पतिमिश्राः। (द्र० सां० त० को, का० ५) । गोडपादाचार्यस्तु लिङ्गपूर्वकं तदनुमानं, यत्र लिङ्गेन लिङ्गी अनुमीयते, यथा दण्डेन यतिः । लिङ्गिपूर्वकच, यत्र लिङ्गिना लिङ्गमनुमीयते यथा दृष्ट्वा यतिमस्येदं त्रिदण्डमिति । (द्र० गौ० पा० भा०, सां० का० ५)। लिङ्गज्ञानाज्जायमाना साध्यविशिष्टपक्षाकाराऽन्त:- करणवृत्तिरिति भावागणेशः। अनुमितिः-- अनुमानजन्या या प्रमितिः पौरुषेयो बोध इति यावत्, सा अनुमितिः। अन्तःकरणम् -बुद्धिरहङ्कारो मनश्चेति त्रयमप्यन्तःकरणम् । अन्यथाख्यातिः-अन्यद्वस्तु अन्यरूपेण भासते, इयमेवान्यथाख्यातिः। सापि सांख्याभ्युपेयते, स्ववचोव्याघातदोषात् । यतो हि शुक्तौ भासमानं रजतमन्यथाशब्देनोच्यते, तच्च रजतं नरशृङ्गतुल्तयाऽसदस्ति । असच्च भासते चेति स्ववचोव्याघातः स्यात् । अतो नान्यथाख्यातिरपि स्वीकाराही ।। द्र० सां० प्र० भा० अ० ५ सू० ५५ )। अन्योन्यजननवृत्तयः-गुणाः परस्परं जनयन्ति परिणमयन्तीति यावत् । स चात्र गुणानां परिणामः सदृशरूपः । अन्योन्यमिथुनवृत्तयः-अन्योन्यसहचरा गुणाः भवन्ति, अविनाभाववृत्तय इति यावत् । अन्योन्याभिभववृत्तयः-गुणा हि प्रयोजनक्शात् स्वयमुद्भूय परस्परमभिभ- वन्ति । अतएवोद्भूतं सत्त्वं रजस्तमसी अभिभूय शान्तां वृत्ति प्राप्नोति एवं रजः सत्त्वतमसी अभिभूय घोराम् तमश्च सत्त्वरजसी अभिभूय निजां मूढां वृत्ति प्रतिलमते। तथाच सांख्यकोशः ५ अन्योन्याश्रयवृत्तयः--यथा त्रिदण्डो परम्पराश्रयेण घटधारणादिकायं कुरुते तथैव त्रयोगुणाः परस्पराश्रयेणैव प्रकाशप्रवृत्तिनियमनरूपाणि कार्याणि कुर्वन्तीति । भवति चात्रागमः- अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्र गामिनः । रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ।। तमसश्चापि मिथुने ते सत्त्वरजसी उभे। उभयोः सत्त्वतमसोः मिथुनं तम उच्यते ॥ नेपामादिः संप्रयोगो वियोगो वोपलभ्यते ॥ इति । ( देवीभागवतम् ३-८) अपवर्ग:-द्वयोः प्रकृतिपुरुषयोरेकतरग्यात्मनो वा औदासीन्यमपवर्गः । प्रकृते- रौदासीन्यं विवेकिनं प्रत्यप्रवर्तनम् । पुरुषस्यौदासीन्यं प्रकृत्यनभिष्वङ्गः । (द्र० सां० सू० अनि० वृ० अ० ३ ० ६५ )। अपौरुषेयत्वम्-.दृष्टं वस्तु भवेददृष्टं वा, यस्मिन् वस्तुनि कृतमिति बुद्धि- रुपजायते तत् पौरुषेयम् । न तु पुरुषोच्चरितत्वं पौरुषेयत्वमितिसांख्यामि- मतम् । तथा सति वेदानामपि आदिपुरुषोच्चरितत्वेन पौरुषेयत्वापत्तिः स्यात् । (द्र० स० प्र० भा० अ० ५ सू० ५०)। अबाह्यप्रत्यक्षम् -ऐन्द्रियकप्रत्यक्षभिन्न प्रत्यक्षम् । अभिचेष्टा-सर्वो व्यापारः । अभिनिवेश:-मरणादित्रासः, मा न भूवम् भूयासमित्येवरूपः । अभिमान:-बुद्ध्युपादानकोऽहङ्कारः । अन्तःकरणरूपो द्रव्यविशेष इति विज्ञान- भिक्षुः । तदुक्तम्-अन्तःकरणमेकमेव बीजाङ्कुरमहावृक्षादिवत् अवस्थात्रय- मात्रभेदात् कार्यकारणभावमापद्यत इति । अत एव “मनोमहान् मतिब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः" इत्यत्र मनोबुद्ध्योरेकपर्यायत्वमुक्तम् । अभिव्यक्तिः-कारणे सतां घटपटादीनां ततः प्रादुर्भावो, यथा तिलेषु सतस्तै- लस्याविर्भावः। .
सांख्यकोशः अमायिकत्वम्-सत्यत्वम्, स्थिरत्वमकार्यत्वं वा । आत्मा सत्यत्वात् स्थिरत्बाद- कार्यत्वाच्चामायिकः । जाग्रत्पदार्थापेक्षया स्वाप्नपदार्था मायिकाः । आत्मा- पेक्षया तु जाग्रत्पदार्था अपि मायिका एव । (द्र० स० प्र० भा० अ० ३ सू० २६ )। अवयवाः-प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवा न्यायस्य । (द्र० सां० प्र० भा० अ० ५ सू० २७ ) । इति । तत्र साध्यनिर्देशः प्रतिज्ञा, यथा शब्दोऽनित्य इति । उदाहरसाधात्साध्यसाधनं हेतुः, यथा उत्पत्तिधर्म- कत्वादिति । उत्पत्तिधर्मकमनित्यं दृष्टमिति । तथा वैधात्-उदाहरण- वैधाच्च साध्यसाधनं हेतुरित्यर्थः । याऽनित्यः शब्दः उत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्मकं नित्यं दृष्टं यथाऽऽत्मादि । साध्यसाधात्तद्धर्मभावी दृष्टान्त उदाहरणम् , यथा उत्पत्तिमत्त्वेन हेतुना शब्दस्यानित्यत्वसाधने घटादिरुदाहरणं दीयते 'घटादिवदिति" । अय- मन्वयी दृष्टान्तः। व्यतिरेकेणापि दृष्टान्तो भवति । तथा च न्यायसूत्रम्- "तद्विपर्ययाद् वा विपरीतमिति" । अथ!त् साध्यवैधादतद्धर्मभावीदृष्टान्तोऽपि उदाहरणम् । यथाऽनित्य शब्द: उत्पत्तिधर्मकत्वात्, यदुत्पत्तिधर्मकं न भवति, तन्नित्यं भवति यथा आत्मादोति । उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः। यथा उदाहरणे घटादिकमुत्पत्तिधर्मकत्वादनित्यं दृष्टं तथा शब्दोऽपि उत्पत्तिधर्मक इति वाक्यमुपनयः । हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् । यथा, उत्पत्तिधर्मकत्वात् शब्दोऽनित्य इति वाक्यं निगमनम् । (द्र० न्या० द. अ० १ आ० १ सू० ३३, ३४, ३५, ३६, ३७, ३८, ३९)। एतानि प्रतिज्ञादिलक्षणानि न्यायदर्शनवदेवात्रापि शास्त्रे सम्मतानि । अविद्या-विपर्ययभेदः। सा चानित्येषु नित्यख्यातिः, अशुचिपु सुचिख्यातिः, दुःखेषु सुखख्यातिः अनात्मसु आत्मख्यातिरिति । तथा च योगसूत्रम्- अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या (पा० २ सू० ५)। -- सांख्यकोशा अविवेकः-अभेदाभिमानः । देहेन्द्रियादिषु आत्माभिमानः, आत्मनि वा देहेन्द्रियाद्यभेदाभिमानो देहादिधर्माभिमानश्चेति । अविवेकः विवेकप्रागमावो बुद्धिधर्म इति सां० प्र० भाष्यम् ( अ० १ सू० ५५ )। अविशेषः-भूतसूक्ष्माणि, पञ्चतन्मात्राणि । नास्ति विशेषः शान्तघोर- मूढत्वादिरूपो यत्र सोऽविशेष इति व्युत्पत्तेः। तन्मात्राण्यविशेषा इति सांख्यकारिका । ( का० ३८)। असत्ख्यातिः-अत्यन्तासतां ख्यातिरसत्ख्यातिः। सा च न सांख्याभिमता, नरशृङ्गादीनां ख्यातिरिव । (द्र० सां० प्र० भा० अ० ५ सू० ५१)। अस्मिता--आत्मानात्मनोरेकताप्रत्ययः शरीराद्यतिरिक्त आत्मा नास्तीत्येवंरूपः । (द्र० सां० प्र० मा० अ० ३ सू० ३७ ) । अशक्ति:-बुद्धिवधा अष्टाविंशतिभेदाः ते चैकादशेन्द्रियवधैः सह बुद्धः सप्तदश- भेदा वधाः । तत्र नवविधानां तुष्टोनामष्ट विधानां सिद्धीनाञ्च विपर्ययाद् बुद्धः स्वतः सप्तदशवधा भवन्ति । एकादेशेन्द्रियाणामशक्तेः प्रयुक्ता अपि एकादश- वधा बुद्धर्भवन्ति । मिलित्वा चाष्टाविंशतिधा अशक्तिरस्ति । तथा चोक्तं सांख्यकारिकायाम्-"एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिशा । सप्तदशवधा बुद्धेविपर्ययात् तुष्टिसिद्धीनाम्" इति । अहङ्कारः--अभिमानवृत्तिकः। अहमित्यभिमान एवाहङ्कारस्य सामान्यलक्षणम् । स च त्रिविधः-वैकृतः सत्त्वप्रधानः इन्द्रियाणां हेतुः। भूतादिस्तमःप्रधानः पञ्चतन्मात्राणां हेतु: । रजःप्रधानस्तैजस उभयहेतुः । तथा चोदाहृतं युक्तिदीपिकायाम् एतस्माद्धि महत आत्मन इमे त्रय आत्मानः सृज्यन्ते वैकारिकतैजसभूतादयोऽहङ्कारलक्षणा इति । अहिनिलयिनीवत्-यथा सर्पो जोर्णा त्वचं हेयबुद्ध्याऽनायासेन परित्यजति, तथैव मुमुक्षुः प्रकृतिमनादिकालोपभुक्तां जीर्णां हेयबुद्ध्या त्यजेत् । ( सां० प्र० भा० अ० ४ सू० ६ )। आतिवाहिकशरीरम्-लिङ्गशरीरातिरिक्तं भौतिक सूक्ष्म शरीरान्तरमाति- सांख्यकोशः • सू० वाहिकशरीरमिति विज्ञानभिक्षुः। लोकाल्लोकान्तरं लिङ्गदेहमतिवाहयती त्यातिवाहिकम् । भूताश्रयतां विना चित्रादिवत् लिङ्गशरीरस्य गमनासंभवात् । लिङ्गशरीरन्तु भोगाश्रयतया पुरुषप्रतिबिम्बाश्रयतया वा पृथगेवास्ति । तत्र प्रमाणञ्च-'अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदयं सन्निविष्टः' 'अङ्गुष्ठमात्र पुरुषं निश्वकर्ष बलाद्यमः' इति श्रुतिस्मृती। (द्र० सां० प्र० मा० अ० ५ सू० १०३ )। आचार्योऽनिरुद्धस्तु-सूक्ष्मशरीरमेवातिवाहिकं न शरीरान्तरमित्याह । (द्र० सां. अनि० ०७० अ० ५ सू० १०३)। आत्मद्वैतम्-आत्मनां भोग्यप्रपञ्चेन परस्परञ्चात्यन्ताभेदरूपमद्वैतमिति वेदा- न्तिनः । तत्सांख्यानां नाभिमतम् । अजामेकामितिवाक्यगतैः प्रकृतित्या- गास्यागादिलिङ्गभेदस्यैव सिद्धेः। यान्यपि अभेदवाक्यानि दृश्यन्ते तानि 'निरञ्जनः साम्यमुपैति' इत्यादिसाम्यप्रतिपादकश्रुत्येकवाक्यतया साम्य- बोधकानि । आत्मनां परस्परं भेदस्तु जननमरणकरणानां प्रतिनियमादयुग- पत्प्रवृत्त्यादेश्च सिद्धः । अभेदश्रुतिश्च जातिपरेति । भेदग्राहकप्रत्यक्षबाधादपि नात्माद्वैतम् । (द्र० सां० प्र० मा० अ० ५ सू० ६१-६२)। आत्मानिरवयवः-'निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्' इति प्रामा- ण्यादात्मा निरवयवः । 'मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्' इत्यादिश्रुतिस्तु आकाशजलयोरिव अविभागमात्रेणांशांशिभावं बोधयति न तु सावयवत्वेन। (द्र० स० प्र० भा० अ० ५ सू०७३ )। आत्मास्ति-जानामित्येवंप्रतीतिविषयः पुरुषः सामान्यतः सिद्ध एव । स च देहादिव्यतिरिक्तोऽस्ति, परिणामित्वापरिणामित्वादिवैधात् । प्रकृत्यादय- स्तावत् प्रत्यक्षानुमानागमैः परिणामिनः सिद्धाः । पुरुषस्तु अपरिणामी सदा- ज्ञातविषयत्वादनुमीयते । तथाहि, यथा सन्निकर्षसाम्येऽपि चक्षुषो रूपमेव विषयो न रसादिस्तद्वत् पुरुषस्य स्वबुद्धिवृत्तिरेव विषयो न तु सन्निकर्ष- साम्येऽपि अन्यद्वस्तु इति फलबलात् कल्प्यते । बुद्धिवृत्त्यारूढतयैव - सांख्यकोशः ९ ~ मा० अ०.६ त्वन्यभोग्यं भवति न स्वतः, सर्वदा सर्वमानापत्तेः । ताश्च बुद्धिवृत्तयो नाज्ञातास्तिष्ठन्ति, ज्ञानमुखेच्छादीनामज्ञातसत्तास्वीकारे तेवपि घटादिष्विव संशयादिप्रसङ्गात् अहं जानामि न वा सुखी न वा' इत्यादिरूपेण । अतस्तेषां सदा ज्ञातत्वात् तद्दष्टा चेतनोऽपरिणामीत्यायातम् । चेतनस्य परिणामित्वे कदाचिदान्ध्यपरिणामेन सत्या अपि बुद्धिवृत्तः दर्शनाभावेन संशयाद्या- पत्तेरिति । ममेदं शरीरं ममेयं बुद्धिरितिषष्ठीव्यपदेशादपि देहादिभ्यो भिन्न आत्मास्तीति सिद्धम् । (द्र० सां० प्र० सू० २३)। आधिदैविकम्-देवान् = अग्निवाय्वादीन् अधिकृत्य प्रवृत्तम् आधिदैविकम् दुःखम् । आधिभौतिकम्-भूतानि = मानुषपशुपक्ष्यादीनि अधिकृत्य प्रवृत्तम् आधि- भौतिकम् दुःखम् । आध्यात्मिकम् -आत्मानम् = अध्यस्तात्मभावं शरीरं मनचाधिकृत्य प्रवृत्तम् आध्यात्मिकं दुःखम् । आनुमानिकम्-अनुमानात् सिद्धम् = प्रकृत्यादिकम् । आनुश्रविकः-वैदिकः कर्मकलापः । गुरुपाठादनु श्रूयते इत्यनुश्रवो वेदः । एतदुक्तं भवति-श्रूयते एव परं न केनापि नियत इति । तत्र (अनुश्रवे- वेदे ) भव आनुश्रविकः तत्र प्राप्तो ज्ञात इति यावत् । (द्र० सां त• कौ० का० २)। आविर्भावः -कारणव्यापारादूर्ध्वमिव पूर्वमपि सतः प्रादुर्भावः, प्राकट्यम् । यथा तिलेषु सतस्तैलस्य, सौरभेयीषु सतो दुग्धस्य प्राकट्यम् । आसनम् यत् स्थिरं सत् सुखसाधनं भवति स्वस्तिकादिकं तदासनम् । तथा च सूत्रम्-'स्थिरसुखमासनम्' इति । ( सां० सू० अ० ३ मू. ३४) । आसुरि:-कपिलशिष्यः । तत्र प्रमाणम्-"एतत्पवित्रमयं मुनिरासुरयेऽनुकम्पया प्रददौ' इति ( सां० का० ७० )।
१० सांख्यकोशः इन्द्रियम्-सात्त्विकाहङ्कारोपादानकत्वमिन्द्रियत्वम् । तत्र पञ्च ज्ञानेन्द्रियाणि चक्षुःश्रोत्रत्राणरसनत्वगाख्यानि, पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्था- ख्यानि । उभयात्मकं मनश्चेत्येकादशेन्द्रियाणि । इन्द्रियाणि चातीन्द्रियाणि भवन्ति, भ्रान्तानान्तु अधिष्ठानभूतगोलकादाविन्द्रियज्ञानम् । यदि गोल- कादिकमेवेन्द्रियं स्यात् तदा छिन्नकर्णस्य श्रवणानुपपत्तिः पाटलचक्षुषोऽपि रूपग्रहणप्रसङ्गः। पुनश्च शक्तिभेदादिन्द्रियाणि नाना भवन्ति, न तु एक- मिन्द्रियमिति। इन्द्रियाभौतिकत्वम्-सांख्यमते इन्द्रियाणामहङ्कारतत्त्वादुत्पत्तेराहङ्कारिकत्व- मस्ति न तु भौतिकत्वम् । अतो भौतिकानीन्द्रियाणीति न्यायमतमपास्तं भवति । तथा च सांख्यसूत्रम्-'न भूतप्रकृतित्वमिन्द्रियाणामाहङ्कारि- कत्वश्रुतेः' इति । (अ० ५ सू० ८४) । श्रुतिश्च–'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्योतिरापश्च पृथ्वी विश्वस्य धारिणी' इति । इषुकारवत्-~यथा शरनिर्माणे एकचित्तस्येषुकारस्य पावें राज्ञो गमनेनापि एकाग्रता न हीयते, तथैव एकाग्रचित्तस्य योगिनः समाधिहानिर्न भवतीति । ( सां० प्र० भा० अ० ४ सू० १४)। ईश्वरः-जगत्स्त्रष्टुत्वेनाभ्युपगतो न्यायादिसम्मतः । अत्र केचित्-सांख्यमते ईश्वरो नास्ति, अतो निरीश्वरं सांख्यदर्शनमिति । सूत्राणि-"ईश्वरासिद्धेः, मुक्तबद्धयोरन्यतराभावान्न तत्सिद्धिः, उभयथाप्य- सत्करत्वम्, मुक्तात्मनः प्रशंसा उपासासिद्धस्य वा" इति ( अ. १ सू० ९२, ९३, ९४, ९५।)। अयमभिप्रायः-प्रत्यक्षलक्षणनिरूपणप्रसङ्गे योगिनामबाह्यप्रत्यक्षे आपादितां लक्षणाव्याप्तिशवां योगिनामबाह्यप्रत्यक्षत्वान्न दोषः, लीनवस्तुलब्धाति- शयसम्बन्धाद् वाऽदोषः' इति सूत्राभ्यां समाधाय पुनरीश्वरप्रत्यक्षेऽपि तामेव लक्षणाव्याप्तिशङ्काम् ईश्वरासिद्धिप्रतिपादनमुखेन निराकरोति 'ईश्वरासिद्धे रित्यादिसूत्रचतुष्टयेन । अर्थात् ईश्वर एव नास्ति, कुतस्तत्प्रत्यक्षे लक्षणा- - अतएव सांख्य- . - सांख्यकोशः व्याप्तिशङ्कातत्परिहारायासचिन्तेति । इयमेव व्याख्या अनिरुद्ध प्रभृतीनां व्याख्यातृणाम् । विज्ञानभिक्षवस्तु विवेचयन्ति-नैभिः सूत्रैरीश्वरखण्डने सूत्रकाराभिप्रायः । यद्येवं स्यात् तदा 'ईश्वराभावात् इत्येवं सूत्रयेत् न तु 'ईश्वरासिद्धेः' इत्याकारं सूत्रं रचयेत् । तथा च जगत्स्रष्टत्वेनेश्वरी न सिध्यति, प्रकृतेरेव सृष्टिकर्तृत्वात् । ईश्वरे तु प्रकृत्यधिष्ठातृत्वमात्रमस्ति। उपपादितञ्चतत्: सविस्तरं ब्रह्मसूत्रविज्ञानामृतभाष्ये । सांख्यप्रवचनभाष्येऽपि तत्सन्निधानाद- धिष्ठातृत्वं मणिवत्' इति सूत्रभाष्ये स्पष्टीकृतञ्चैतत् । अतः सङ्कल्पपूर्वक- जगत्सृष्टिकर्तृत्वनिषेधपरतयैवाक्तसूत्रचतुष्टयं व्याख्यातं तैः । यद्यपि योमि- प्रत्यक्षसमाधानेनैवेश्वरप्रत्थक्षेऽप लक्षणाव्याप्ति शङ्कायाः समाधानं जायते तथापि स्मृतत्वे सत्युपेक्षानहत्वरूपप्रसङ्गसङ्गतेः प्रसङ्गादेवेश्वरे जगत्- स्रष्टत्वनिषेधः सांख्याभिप्रेत इहोपक्षिप्त इति तेषामभिप्रायः । वृत्तिकारप्रभृतीनामयमभिप्रायः-ईश्वरसत्तानिषेध एवैषां सूत्राणां तात्पर्यम् अन्यथा ईश्वरोऽस्तीतिवास्तविको यदि सांख्यसम्प्रदायस्तदा योगिप्रत्यक्ष- समाधानेनैवेश्वरप्रत्यक्षीयशङ्काया अपि समाधानं जायत एवेति निष्प्रयो- जनानि अप्रासङ्गिकानि चैतानि सूत्राणि भवेयुः। यतो नायं जगत्सृष्टि- कर्तृत्वप्रसङ्गोऽपि तु प्रत्यक्ष लक्षणप्रसङ्ग एवेति । विज्ञानभिक्षुरपि तृतीयाध्याय 'ईदृशेश्वरसिद्धिः सिद्धा' इति सूत्रभाष्ये प्रकृतिलीनस्य जन्येश्वरस्य सिद्धिमाचक्षाणो नित्येश्वरस्य विवादास्पदत्वमुरीचकार । एवं माठरवृत्तिकारोऽप्याह-ईश्वरः कारणं न भवति कस्मात् ? निर्गुण- त्वात् ।इमाः सगुणाः प्रजाः, सत्त्वंरजस्तमस्त्रयो गुणाः । ते च प्रजासु सन्ति । तांश्च गुणान् दृष्ट्वा साधयामः-प्रकृतेरिमाः समुत्पन्नाः प्रजाः । यदीश्वरः कारण स्यात् निर्गुणादीश्वरान्निर्गुणा एव प्रजाः स्युः । नचैवम् तस्मादीश्वरः कारणं न भवतीति । ( मा० वृ० स० का० ६१ ।। वस्तुतस्तु द्वयी हि सांख्यविचारधारा प्रवहमानाऽस्ति, सेश्वरसांख्यधारह निरीश्वरसांख्यधारा चेति । एतच्च विज्ञानभिक्षुरपि स्वीकरोति । अत सांख्यकोशः एवोक्तं तेन सांख्यप्रवचनमाध्ये-'अयं चेश्वरप्रतिषेधः एकदेशिनानां प्रौढि- वादेनेति । यथा एकस्मिन्नेव बौद्धदर्शने धाराचतुष्टयी प्रसिद्धा, एकस्मिन्नेव गौतमीये दर्शने नव्यप्राच्यधाराद्वयी, एकस्मिन्नेव च वैयासके दर्शने नैकानि प्रस्थानानि सन्तीति । इत्थं सत्यपि सांख्यस्य सेश्वरनिरीश्वरेतिधाराद्वये सेश्वरधारैव मनोरमतामञ्चति । क्वचिद् दृश्यमानोऽपि निषेधस्तत्कर्तृत्व- 'प्रतियोगिकएव न तु ईश्वरस्वरूपप्रतियोगिक इति मन्तुमुचितम् । तथाहि-परवशा प्रकृतिः की 'अकार्यत्वेऽपि तद्योग : पारवश्यात्' इति सूत्र प्रामाण्यात् सिध्यति । स च परः आत्मैव न न्यायाभिमत ईश्वरः । अर्थात् प्रकृतिप्रतिबिम्बितत्वाद् आत्मनि सर्ववित्त्वसर्वकर्तृत्वाभिमानो न तु वास्तविकः । तथा च सूत्रम्-‘स हि सर्ववित् सर्वकर्ता' इति । अत्र सूत्रे 'सहि' इत्यस्य 'प्रकृतिरेव' इत्यर्थः कृतो बृत्तिसारकारेण । यद्यस्मदभिमत उक्ताभिमानवानात्माऽस्ति तदा भवतु स ईश्वरः । किन्तु न्यायाभिमते ईश्वरे तु प्रमाणं नास्ति । अर्थात् सांख्याः कर्तारमेवेश्वरं निषेधन्ति न तु कर्तृत्वाद्यभिमानिनमात्मानमीश्वरमिति । अत एव हि वृत्तिकृता 'विमुक्त- विमोक्षार्थं स्वार्थ वा प्रधानस्य' इति सूत्रवृत्तौ आत्मनो द्वैविध्यं प्रतिपादितं परश्चापरश्चेति । (द्र० सा० मू० अ० वृ० अ० ३ सू० ५७ )। उपादानकारणम्-जगदुपादानं न केवल आत्मा, नाऽप्यात्माश्रिताऽविद्या, नापि कपालद्वयवद् आत्मा चाविद्या चेत्युभयं समुच्चितं जगदुपादानम् सम्भवति, आत्मनोऽसङ्गत्वात् । सङ्गाख्यो हि यः संयोगविशेषस्तेनैव द्रव्याणां विकारो भवति । अतोऽसङ्गत्वात् केवलस्यात्मनोऽद्वितीयस्य नोपादानत्वम् । नाऽविद्याद्वाराऽपि, असङ्गत्वेनैवाविद्यायोगस्यापि निरस्तत्वात् । प्रत्येको- 'पादनत्ववदेव समुच्चितोपादानत्वमपि प्रसङ्गत्वादेवासंभवि । (द्र० सां० प्र० मा० अ० ५ सू० ६५ )। उपादानयोग्यता-गुणवत्त्वं सङ्गित्वं चोपादानयोग्यता। तयोरभावात् नित्यत्वेऽ पि पुरुषस्य नोपादानत्वम् । महदादयस्तु स्वयं कार्यरूपा अतो तेऽपि न जगदुपादानम् । तस्मात् प्रकृतिरेव जगदुपादानम् । सां० प्र० भा० अ०६ सू० ३२, ३३)। .
सांख्यकोशः उपास्यासिद्धिवत् -यथा उपास्यभूतानां ब्रह्मादीनां सिद्धिसत्त्वेऽपि कृतकृत्यता नास्ति, तेषामपि योगनिद्रादौ योगाभ्यासश्रवणात् । तथैव ऐश्वर्ययोगेऽपि कृतकृत्यता नास्ति, क्षयातिशयदुःखैरनुगतत्वात् । (द्र० स० प्र० मा०. अ. ४ सू० ३२) । उभयेन्द्रियं-मनः । ज्ञानेन्द्रियाणां कर्मेन्द्रियाणाञ्च प्रवर्तकत्वात् । उष्ट्रकुङकुमवहनवत्-यथोष्ट्रस्य कुङ्कुमवहनं स्वाम्यर्थ तथैव प्रधानकर्तृका सृष्टिरपि परार्थव ( पुरुषार्थव ) भवतीति । ऐकभौतिकः-पार्थिवमेव शरीरमस्ति, अन्यानि च भूतानि उपष्टम्भकमात्राणीतिः अपरे मन्यन्ते । अन्येषाँ भूतानामुपष्टम्भकत्वमाज शरीरस्य पाञ्चभौतिक त्वव्यपदेशः । अयमेव सिद्धान्तपक्षः । तथा च सांख्यसूत्रम्-'न पाञ्चभौतिक शरीरम्' इति । ( अ० ५ सू० १०२ )। ऐश्वर्यम् -बुद्धिधर्मः यतोऽणिमादिप्रादुर्भावो भवति । औदासीन्यम्-अकर्तृत्वम्-माध्यस्थ्यम् । कपिल:-सांख्यशास्त्र प्रवर्तकः तदुक्तम्-ऋषि प्रसूतं कपिलं यस्तमने ज्ञान- बिति जायमानञ्च पश्येत्' श्वेताश्वतरोपनिषत्-अ० ५ म० २। 'सांख्यस्य वक्ता कपिल: परमर्षिः स उच्यते' महाभा, ३३७१६० । 'पञ्चमः कपिलोनाम सिद्धेश: कालविप्लुतम् । प्रोवाचासुरये सांख्यं तत्त्व- ग्रामविनिर्णयम्' श्रीमद्भागवतम्-स्क० १ अ० १ श्लो• १८ । कपिलो ब्रह्मसुतः 'इति सां. का० गौडपादभाष्यम् । विष्णोरवतारः स्वायम्भुवस्य मनोः दुहितरि देवहूत्यां महर्षेः कर्दमाज्जात इति श्रीमद्भागवतम्-यथा तस्यां तस्यां बहुतिथे काले भगवान् मधुसूदनः । कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि || अयं सिद्ध गणाधीश: सांख्या- चार्य: सुसम्मतः लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥ स्क-३-अ-२४ श्लोक ६-१९। अग्यवतार इति महाभारतम् -यथा-"कपिलं परमर्षिञ्च यं प्राहुयंतयः सदा। अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः ॥ ( वनपर्व अ० २११ सांख्यकोशः श्लोक २१)। किन्त्वेतावता कपिलद्वैविध्यं त्रैविध्यं वास्तीति स्वीकारो भ्रम एवेति श्रीमदुदयवीरशास्त्रिणः (द्र० सांख्यदर्शनका इतिहास पृ० ८-१२)। एतदनुसारं महाभारतमतेनापि सांख्यप्रवर्तकः कपिलो विष्णोरव- तार एव किन्तु स क्रोधाग्निना सगरपुत्रान् भस्मीचकारेति तस्याग्नित्वं प्रसिद्धमभूत् इति । विज्ञानभिक्षुरपि कपिलद्वैविध्यं निराकरोति । ( द्र० सां० प्र. भा० अ० ६ सू० ७० )। करणम्-त्रयोदशविधम् । अन्तःकरणं त्रिविधं बुद्ध्यहङ्कारमनोरूपम् । दशधा च बाह्यं ज्ञानेन्द्रियकर्मेन्द्रियरूपम् । करणकार्यम-आहार्यम् ( व्याप्यम् ) धार्यम् = धारयितव्यम् प्रकाश्यम् = प्रकाशयितव्यञ्चेति । यथा कर्मेन्द्रियाणां वचनादानविहरणोत्सर्गानन्दा यथा- यथं व्याप्या भवन्ति । अन्तःकरणत्रयस्य प्राणादिलक्षणया वृत्त्या शरीरं धार्य भवति । एवं बुद्धीन्द्रियाणां शब्दस्पर्शरूपरसगन्धाः प्रकाश्या भवन्ति । (द्र० सां० त० कौ० का० ३२ )। कर्तृत्वभोक्तत्वयोर्वैयधिकरण्यम्-अभिमानवृत्तिकमन्तःकरणमहङ्कारः, एव कृतिमान् । प्रायशोऽभिमानोत्तरमेव प्रवृत्तिदर्शनात् । न तु पुरुषः कृतिमान् अपरिणामित्वात् । एवमहङ्कारस्य कर्तृत्वेऽपि भोगश्चित्येव पर्यवसन्नो भवति । न चान्यनिष्टकर्मणाऽन्यस्य भोगे पुरुषविशेषस्यापि नियमो न स्यादिति वाच्यम् अहङ्कारेणासञ्जितं तस्याश्चितो यत् कम- तज्जन्यत्वात्तदीयभोगस्य। तथा च योऽहङ्कारो यं पुरुषमादायाचेतने वस्तुनि 'अहमिति, ममेति' 'च वृत्ति' करोति, तस्याहङ्कारस्य त्मन उच्यते । तेनैव च कर्मणा तत्रात्मनि भोगोऽज्यते इति भोगे न पुरुषविशेषनियमानुपपत्तिः । (द्र० सां० प्र० भा० अ० ६ सू० ५४-५५) । कर्मेन्द्रियाणि-वाक्पाणिपादपायूपस्थानि पञ्च । काम्यम्-फलाभिसन्धिना कृतं कर्म । काल:-द्विविधो, नित्यः खण्डरूपश्च । तत्र नित्यः कालः प्रकृतेर्गुणविशेष एव, कर्म तस्या- सांख्यकोशः खण्डस्तु तत्तदुपाधिसंयोगादाकाशादुत्पद्यते । (द्र० सां० प्र० भा० अ० २ सू. १२)। कालादिकर्मवत्-यथैको गच्छति ऋतुरितरश्च प्रवर्तते इत्यादिरूपं कालादिकर्म स्वत एव भवत्येवमेव प्रधानस्यापि स्वत एव चेष्टा भविष्यतीति । कुमारीशङ्खवत्-थथा कुमारीहस्तचूलिकानामन्योन्यसङ्गेन झणत्कारो भवति, तथैव बहुभिः सङ्गे रागद्वेषाद्युत्पत्त्या कलहो भवति अतो बहुमिः सङ्गो न कार्यः । (सां० प्र० मा० अ० ४ सू० ९)। कुलवधूवत्-यथा स्वामिना मे दोषो दृष्ट इत्यवधारणेन लज्जिता कुलवधून स्वामिनमुपसर्पति, तद्वत् प्रकृतिरपि पुरुषेण निजपरिणामित्वदुःखात्मकत्वादि- दोषदर्शनाद् लज्जिता भवति, पुनश्च नोपसर्पति पुरुषम् । केबलज्ञानम्-विपर्ययदोषरहितत्वेन विशुद्धं ज्ञानम् । तस्य स्वरूपम्-'नास्मि, न मे, नाहम्' इत्यस्ति । तत्र प्रथमेन आत्मनः कर्तृत्वनिषेधः, द्वितीयेन सङ्ग- निषेधः, तृतीयेन च तादात्म्यनिषेधः क्रियते । कैवल्यम्-आत्यन्तिको दुःखत्रयाभावः कैवल्यम् । कोशकारवत् -यथा कोशकारः कीटविशेषः स्वनिर्मितेनावासेन आत्मानं बध्नाति, तथैव प्रकृतिरपि धर्माधर्मवैराग्यावैराग्यश्वर्यानश्वर्याज्ञान: सप्त- रूपैर्दुःखहेतुभिरात्मानं बध्नाति । पुनश्च ज्ञानात्मकेनेकरूपेणात्मानं दुःखान्मोचयति । क्षीरवत्-यथा क्षीरं पुरुषप्रयत्ननैरपेक्ष्येण स्वयमेव दधिरूपेण परिणमते, एवमचेतनस्यापि परप्रयत्नं विनाऽपि महदादिरूपः परिणामः प्रधानस्य भवतीति । गुणाः-सत्त्वरजस्तमांसि । सत्त्वम्-लघु प्रकाशकम् प्रीत्यात्मकञ्च भवति । तत्र लधुत्वं गौरवप्रतिद्वन्द्वि यतश्च बहरूख़ज्वलनं वायोस्तियंग्गमनमिन्द्रियाणां स्ववृत्तिपाटवञ्च भवतीति । प्रकाशकमपि सत्त्वमस्ति यत इन्द्रियाणि वस्तु प्रकाशयन्तीति ।
१६ सांख्यकोशः रजः-दुःखात्मकं, चलम् सत्त्वतमसोरुपष्टम्भकम् ( उत्तेजकम् ) अतएव प्रवृत्तिकारकं भवति । तमः-मोहात्मकं गुरु, आवरकञ्च भवति । अत एव नियामकमपि सर्ववस्तूनां भवति । चक्रभ्रमणवत्--यथा कुलालकमंनिवृत्तावपि पूर्वकर्मवेगात् स्वयमेव कियत्कालं चक्रं भ्रमति, एवं ज्ञानोत्तरं कर्मानुत्पत्तावपि प्रारब्धकर्मवेगेन चेष्टमानं देहं धृत्वा जीवन्मुक्तस्तिष्ठति । (द्र० स० प्र० मा० अ० ३ सू० ८२ )। चातुभौतिकः--आकाशस्यानारम्भकत्वमित्यभिप्रेत्याकाशं विना चतुर्णामेक भूतानां परिणामो देह इति केचित् । चिच्छायापत्ति:-दर्पणे मुखप्रतिबिम्बवत् बुद्धौ यश्चैतन्यप्रतिबिम्बः चैतन्य- दर्शनार्थ कल्प्यते, स एव चिच्छायापत्तिरिति, चंतन्याध्यास इति चिदावेश इति चोच्यते । (द्र० सां० प्र० मा० अ० १ सु० ९९ )। चित्तम्-बुद्धिमहत्तत्त्वं वा। चिद्रपआत्मा-आत्मा चिद्रूप एव न त्वानन्दचैतन्योभयरूपः । एकस्य धर्मिण आनन्दचैतन्योभयरूपत्वाभावात् । दुःखज्ञानकाले सुखाननुभवेन ज्ञानसुखयो- मेंदात् । न च ज्ञानस्यैवावान्तरविशेषः सुखमिति वक्तुं शक्यम् आत्मस्वरूप- ज्ञानस्याखण्डत्वात् । न च ‘सत्यं विज्ञानमानन्दं ब्रह्म' इति श्रुत्बिलादेबात्म- नश्चिदानन्दोभयरूपत्वमस्तीति वाच्यम् 'नानन्दं न निरानन्दम्' इत्यादि- श्रुत्या 'अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम्' इत्यादिस्मृत्या च आनन्दा- मावस्यापि प्रतिपादितत्वेन तर्कस्यैवात्रादरणीयत्वात् । तर्कस्य चात्मनश्चि- दानन्दोभयरूपत्वप्रतिरोधित्वात् । आनन्दरूपताश्रुतिश्च दुःखनिवृत्तिपरतया गौणी। अतश्चिद्रूप एवात्मा (द्र० स० प्र० भा० अ० ५ सू० ६६-६७) । छिन्नहस्तवत-यथा छिन्नं हस्तं पुनः कोऽपि न गृह्णाति तथैव विवेकेन त्यक्तमिदं देहेन्द्रियादिकं पुनर्नाभिमन्येत । ( सां० प्र० भा० अ० ४ सू० ७)।
सांख्यकोशः १७ जगत्सत्यत्वम्-लोके हि निद्रादिदोषदुष्टान्त:करणादिजन्यत्वेन स्वाप्नविषय- शङ्खपीतिमादीनामसत्यत्वं दृष्टम्। महदादिप्रपञ्चकारणीभूतायाः प्रकृते- हिरण्यगर्भस्य च बुद्धेरदुष्टत्वान् महदादिप्रपञ्चस्य नासत्यत्वम् । न च 'नेह नानास्ति किञ्चन' इत्यादिश्रुत्या बाधितत्वेन अविद्यादिरूपः कश्चनानादिर्दोषः कल्पनीय इति वाच्यम् नेह नानेति श्रुतेः प्रकरणानु- सारेण विभागादिप्रतिषेधकत्वात् न प्रपञ्चात्यन्ततुच्छतापरत्वमस्ति । अन्यथा स्वस्या अपि बाधापत्त्या स्वार्थासाधकत्वप्रसङ्गात् । न हि स्वप्नका- लीनशब्दस्य बाधे तज्ज्ञापितार्थोऽपि न सन्दिह्यत इति । अतो नेहनानेति श्रुतेः ब्रह्मविभक्तं किमपि नास्तीत्यर्थः। सर्व समाप्नोषि ततोऽसि सर्व' इति स्मृतिरपि एतमेवाथं गमयति । 'न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुन वै मुक्त इत्येषा परमार्थता' इत्यादिश्रुतेः आत्माति- रिक्तस्य कुटस्थनित्यतारूपातिपरमार्थसत्ताविरहोऽर्थः । तथा आत्मनो निरोधादिर्नास्तीत्येवार्थः। अन्यथैतादृशज्ञानस्य मोक्षफलकत्वप्रतिपादन- विरोधात् (द्र० सां० प्र० भा० अ० ६ सू० ५२ )। जन्म-लिङ्गशरीरस्य स्थूलदेहसञ्चार एव जन्म । जीव:--अन्तःकरणोपलक्षित आत्मा जीवः । जीवन्मुक्त:--मध्यविवेकावस्थ एव जीवन्मुक्तो भवति । उक्तञ्च- पूर्वाभ्यासबलात् कार्ये न लोको न च वैदिकः । अपुण्यपापः सर्वात्मा जीवन्मुक्तः स उच्यते ॥ इति । ज्ञानम्-संख्या, विवेकज्ञानम् मुक्ति हेतुभूतम् । ज्ञानेन्द्रियाणि-चक्षुःश्रोत्रत्वग्रसनघ्राणाख्यानि पञ्च । तुष्टिः- । तत्राध्यात्यिक्यश्चतस्रः तुष्टयः प्रकृत्युपादानकालभाग्य- संज्ञका: :। तत्रापि विवेकसाक्षात्कारोऽपि प्रकृतिपरिणाम एवेत्यलं ध्याना- भ्यासेनेत्येवं दृष्ट्या या ध्यानादिनिवृत्तौ तुष्टिः सा प्रकृत्याख्या तुष्टिः । - - नवप्रकारा २ सांख्यकोशः . इयमेव 'अम्मः' इत्युच्यते । प्रवज्योपादानेनैव मोक्षो भविष्यति, कि ध्यानादिनेति या तुष्टिः, सा उपादानाख्या। अस्या एव तान्त्रिकी संज्ञा 'सलिलम्' इत्यस्ति । कृतसंन्यासस्यापि कालेनैव मोक्षो भविष्यति, अलमुवेगेनेति या तुष्टिः सा कालाख्या 'प्रोघो मेघो' वोच्यते । एवं भाग्यादेव मोक्षो भविष्यति न मोक्षशास्त्रोक्तसाधनैरित्येवं कुतर्के या तुष्टिःसा भाग्याख्या 'वृष्टिरित्युच्यते । बाह्याश्च तुष्टयः पञ्च भवन्ति । ता बाह्येयु शब्दादिपञ्चविषयेषु अर्जन रक्षणक्षयमोगहिंसादिदोषदर्शननिमित्तकोपरमाज्जायन्ते । आसां क्रमशस्ता- न्त्रिक्यः संज्ञाः-पारं, सुपारं, पारपारम्, अनुत्तमाम्भः, उत्तमाम्भ इति सन्ति । एवं मिलिताः सर्वास्तुष्टयो नव भवन्ति । (द्र० सां० त० कौ० सां. का०५०)। तैजसः :-राजसः ( अहङ्कारः)। दिक-दिक् द्विविधा नित्या खण्डरूपा च । तत्र नित्या प्रकृतेर्गुणविशेष एव । खण्डरूपा तु तत्तदुपाधिसंयोगाद् आकाशादुत्पद्यते। (द्र० स० प्र० भा० अ० २ सू० १२)। दृष्टः-दृष्टोपायो दुःखविगमस्य । औषधसेवनमनोज्ञस्त्रीपानभोजनविलेपन- वस्त्रालङ्कारादिसम्प्राप्तिनीतिशास्त्राभ्यासकुशलतानिरत्ययस्थानाध्यसनादि- मणिमन्त्राथुपयोगाः त्रिविधदुःखनिवृत्तेष्टिोपाया।। दुःखनिवृत्तिरेव पुरुषार्थः :-यथा पुरुषस्य दु:खे बलवत्तरो द्वेषो न तथा सुखे बलवत्तरोऽभिलाषोऽपितु तदपेक्षया दुर्बलः। तथा च सुखाभिलाषं बाधित्वाऽपि दुःखद्वेषो दुःखनिवृत्तावेवेच्छां जनयतीति । सुखापेक्षया दुःखस्य बाहुल्यादपि दुःखनिवृत्तिरेव पुरुषार्थ इति सिध्यति । (द्र० सां० प्र० भा० अ० ६ सू० ६७)। देहचातुर्विध्यम्-देहाश्चतुर्विधा:-कर्मदेहः, उपमोगदेहः, उभयदेहः, विरक्त- देहश्चेति । तत्र वीतरागाणां फलसंन्यासेन कर्मकरणात् कर्मदेहः। - सांख्यकोशः १९ अ० पश्वादोनामुपभोगदेहः। भोगिनां कर्माधिकारिणां राजषिप्रभृतीनां कर्मोफ भोगदेहः । विरक्तानां दत्तात्रेयजडभरतादीनामनधिकारिदेहश्चेति । द्वषः-दु:खानुशयी । दुःखमनुशेते इति व्युत्पत्त्या दुःखानन्तरं जायमानः । धर्मः-निरतिशयसत्त्वात्मिकाया बुद्धेः कार्यभूतः । धारणा-प्राणस्य पूरकरेचककुम्भकर्यों निरोधो वशीकरणं सा । तथा च सांख्य- सूत्रम्-"निरोधश्छदिविधारणाभ्याम्" ( सां० द० ३३) । ध्यानम्-विषयोपरागस्योपघातकं ध्यानम् । तथा च सांख्यसूत्रम् -'रागोप- हतिर्ध्यानम्' ( अ० ३ सू० ३० )। ध्वान्तम्-ध्वान्तं तमः । तच्च नालोकप्रागभावो, नापि आलोकध्वंसः, आलो- कात्यन्ताभाव, आलोकान्योन्याभावो वा किन्त्वभावाद् भिन्नं वस्तुभूतम् । तदपि गुणो वा भवतु द्रव्यं वेत्यत्र न सांख्यानां सिद्धान्तक्षतिः । अनियत- पदार्थवादित्वात् सांख्यानाम् । विज्ञानभिक्षुस्तु नानियतपदार्थवादः सांख्या- भ्युपगत इत्याह । (द्र० सां० प्र० भा० अ० १ सू० ६१ )। नर्तकीवत्-यथा परिषद्भ्यो नृत्यदर्शनार्थ प्रवृत्ता नर्तको नृत्ये सम्पन्ने ततो निवर्तते, तथैव पुरुषार्थाधिगतिरूपप्रयोजने चरितार्थे सति प्रधानमपि निवर्तते । ( द्र० सां० प्र० भा० अ० ५ सू० ६९)। नाश:-कारणे लयस्तिरोभाव इति यावत् । तथाच सांख्यसूत्रम्-'नाशः कारणलयः' इति । (अ० १ सू० १२१)। निजमुक्त:--स्वभावतो मुक्तः । निःसङ्ग:--अधिकारहेतुभूतो यः संयोगस्तद्रहितः । एतेन विभुत्वेन सामान्य- संयोगसत्वेऽपि पुरुषे न निःसङ्गत्वहानिः, अधिकारहेतुभूतस्य संयोगस्था- भावात् । नित्यबुद्धः-चित्स्वभावः नित्यचैतन्य इति यावत् ।
२० सांख्यकोशः *. नित्यबुद्ध्याघभावः-नित्या ज्ञानेच्छाकृतयो न भवन्ति सांख्यमते । अत एव नित्यबुद्ध्यादीनामाश्रयोऽपि कश्चिदीश्वरो नास्ति । ( द्र० सां० सू० अनि० वृ० अ० ५ सू० १२७-१२८ तथा तत्रत्यं सां० प्र० भा० )। नित्यमुक्तः-सदा बन्धरहितः । नित्यशुद्धः-सर्वदा विकारलेशतोऽप्यसंस्पृष्टः । नित्यसंबन्धाभावः-कश्चिन्नित्यः सम्बन्धो नास्ति । यतो हि स सम्बन्धः संयोगो वा भवेत् समवायो वा । नाद्या-संयोगस्य कर्मजन्यतया नित्येषु व्यापकेषु च क्रियाया अभावेन संयोगासंभवात् । अनित्यानां संयोगसत्त्वेऽपि तस्य संयोगस्याप्यनित्यत्वात् । ननु संयोगो माभूत नित्यः सम्बन्धः, समवायस्तु नित्यः सम्बन्धो भवेत् इति चेन्न, समवायः स्वयमसम्बद्धश्चेत् सम्बन्धिनोः परस्परं सम्बद्धत्वासंभवः । सम्बद्धश्चेत् केन सम्बन्धेन समवायः सम्बद्धः ? सम्बन्धान्तरस्यासंभवात् समवायेनैव सम्बद्धो वक्तव्यः । तथा सति तस्याप्यन्यः तस्याप्यन्यः समवाय इत्यनवस्थाप्रसङ्ग इति समवायस्याप्यसिद्धेः । अनवस्थादोषपरिहाराय समवायस्य सम्बद्धत्वं ( वैशिष्टयम् ) यदि स्वरूपेणेष्येत तदा गुणः भृतीनां वैशिष्ट्यबुद्धिरपि स्वरूपेणवेष्यताम्, कृतं समवायेनेति । न चैवं संयोगोऽपि सम्बन्धो न सिध्येत्, भूतले घटवत्ताप्रतीतेः स्वरूपेणैवोपपत्तेरिति वाच्यम् वियोगकालेऽपि कुण्डवदरयोः स्वरूपसत्त्वेन विशिष्टबुद्धिप्रसङ्गात् । समवा- यस्थले च समवेतस्य कदापि स्वाश्रयवियोगो नास्तीति तत्र स्वरूपसम्बन्ध- स्वीकारे नायं दोषः । तस्मात् समवायः सम्बन्ध एव नास्तीति सांख्यमतम् । (द्र० सां० प्र० भा० अ० ५ सू० ६८, ९९, १००)। पङ्कजवत्-यथा पङ्कजं पादुत्पन्नमपि न पङ्करूपतां धारयति तथैव प्रकृति- सहकारादुत्पन्नमपि आत्मज्ञानं मोक्षो वा न संसाररूपतां धारयति । पञ्चतन्मात्राणि-शब्दतन्मात्रं, स्पर्शतन्मात्रं, रूपतन्मात्र, रसतन्मात्रं, गन्ध- तन्मात्रञ्चेति ।
सांख्यकोशः २१ .. पश्चशिखः-आसुरिमुनेः शिष्य : कपिलमुनेः प्रशिष्यश्च । तत्र प्रमाणम्- 'एतत्पवित्रमयं मुनिरासुरयेऽनुकम्पया प्रददौ । आसुरिरपि पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम्' इति सांख्यकारिका ७० । पञ्चाग्नियोगः-धु -पजन्य--धरा-पुरुष-य -योषिद्पाग्निपञ्चकेन सह सम्बन्धः । (द्र० सां० प्र० भा० अ० ४ सू० २२ तथा छां० उ० पञ्चमप्रपाठकः)। पदार्थसंख्याया अनियमः-वैशेषिका हि द्रव्यादिषड्भावपदार्थान् मन्यन्ते, नैयायिकाश्च प्रमाणप्रमेयसंशयप्रयोजनेत्यादिषोडशपदार्थान् मन्यन्ते । उभयेऽपि ते तेषां पदार्थानां तत्त्वज्ञानान्मुक्तिर्भवतीति च मन्यन्ते । किन्तु अनियतपदा- र्थवादिसांख्यमते पदार्थसंख्यानियमो नास्ति। न वा तेषां पदार्थानां ज्ञाना- न्मुक्तिर्भवति, आत्मज्ञानादेव मुक्तिस्वीकारात् । (द्र० सां० द० अनि० ३० अ० ५ सू० ८५-८६)। परमाणुसावयवत्वम्-नैयायिकाद्यभ्युपगतं परमाणूनां निर्भागत्वं नास्ति, कार्यत्वात् इति सांख्यमतम् । अत एव तन्मात्राख्यसूक्ष्मद्रव्याण्येव पार्थिवा- धणूनामवयवा इति पातञ्जले भाष्ये व्यासदेवैः प्रत्यपादि। (द्र० सां० प्र० भा० अ० ५ सू० ८८)। परिमाणद्वैविध्यम्-सांख्यमते महत्परिमाणमणुपरिमाणञ्चेति द्विविधमेव परिमाणमस्ति । एतयोरेव प्रभेदा इतरे परिमाणविशेषाः । (द्र० सां० द. अनि० • वृ० अ० ५ सू० ९० )। तत्र महत्परिमाणस्यावान्तरभेदावेव ह्रस्वदीघौं स्तोऽन्यथा वक्रादिरूपैः परिमाणानन्त्यप्रसङ्गात् इति। (द्र • सां० प्र० भा० अ० ५ सू० ९० )। पशुवत्-यथा पशुः रज्ज्वा लिप्ततया बन्धमोक्षभागी भवति, तथैव प्रकृतिरेव धर्मादिभावैलिप्ततया बन्धमोक्षभागिनी भवति न पुरुष इति । पाञ्चभौतिकः--पञ्चा! भूतानां मिलितानां परिणामो देहः इति कस्य- चिन्मतम् ।
२२. सांख्यकोशः पिङ्गलावत्-यथा पिङ्गला नाम वेश्या कान्तार्थिनी कान्तमलब्ध्वा दुःखिताऽ- भूत्, आशां विहाय तु सुखिनी बभूव । तथैव पुरुष आशां विहाय सन्तोषात् सुखी भवेत् । तदुक्तम्--आशा हि परमं दुःखं नैराश्यं परमं सुखम् । यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला इति । ( सां० प्र० भा० अ० ४ तू० २१)। पिशाचवत्-यथाऽर्जुनस्य कृते श्रीकृष्णेन तत्त्वोपदेशे क्रियमाणेऽपि समीपस्थस्य पिशाचस्यापि विवेकज्ञानं जातं तथैव ब्राह्मणं प्रति क्रियमाणं तत्त्वोपदेशं श्रुत्वा स्त्रीशूद्रादयोऽपि तत्त्वज्ञानिनः स्युः। (द्र० सां० प्र० भा० अ. ४ सू० २)। पुमान्-शरीरादिव्यतिरिक्तश्चेतनः पुरुषः । षरुषः-असंहतो निर्गुणः कूटस्थो द्रष्टा भोक्ता विभुनित्यश्चित्स्वरूपः प्रतिशरीरं नाना चेति । पुरुषः, आत्मा, पुमान्, पुद्गलजन्तुः, जीवः क्षेत्रज्ञः इति पर्यायाः । पूर्ववत्-प्रत्यक्षीकृतजातीयविषयकं पूर्ववदनुमानम् । यथा धूमेन वहन्यनुमानम् । वह्निजातीयो हि महानसादौ पूर्व प्रत्यक्षीकृतः। (द्र० सां० प्र० भा० अ० १ सू० १०३ )। वाचस्पतिमिश्रास्तु-दृष्टस्वलक्षणसामान्यविषयं यत् तत्पूर्ववत् । यथा धूमाद् वह्नित्वसामान्यविशेषः पर्वतेऽनुमीयते, तस्य च वह्नित्वसामान्यविशेषस्य स्वलक्षणं वह्निविशेषो दृष्टो रसवत्याम् ( महानसे )। (द्र० सां० त० कौ० सां० का० ५)। पौरुषेयत्वम्-दृष्टं वस्तु भवेददृष्टं वा, यस्मिन् वस्तुनि कृतमिति बुद्धिरूप- जायते तत् पौरुषेयम् । न तु पुरुषोच्चरितत्वं पौरुषेयत्वमिति सांख्या- भिमतम् । तथा सति वेदानामपि आदिपुरुषोच्चरितत्वेन पौरुषेयत्वा- पत्तिः स्यात् । (द्र० सां० प्र० भा० अ० ५ सू० ५०)। अनिरुद्धोऽप्याह- यस्मिन्नदृष्टेऽपि कृतबुद्धिरूपजायते तत् पौरुषेयम् । अस्मिन् मते न कार्य- सांख्यकोशः २३. मात्रं सकतृक किन्तु कार्यविशेषः। (द्र० सां० द. अनि० वृ० अ० ५ सू० ५० )। प्रकृतिः-सत्त्वरजस्तमसां साम्यावस्था, साम्यावस्थोपलक्षितं सत्त्वादित्रयं वा प्रकृतिः । साम्यावस्था च न्यूनाधिकभावेनासंहननम्-अकार्यावस्थेत्यर्थः । कार्यभिन्नं गुणत्रयं प्रकृतिरिति पर्यवसितम् । इदञ्च मूलप्रकृतिलक्षणम् । प्रकृतिसामान्यलक्षणन्तु तत्त्वान्तरोपादानत्वं प्रकृतित्वमिति । (द्र० - सां० द० अनि० वृ० अ० १ सू० ६१ )। प्रतिबन्धः-अविनाभावो, व्याप्तिः । सा च उभयोः समव्याप्तिकयोः कृतकत्वा- नित्यत्वयोरेकतरस्य, विषमव्याप्तिकस्य धूमस्य वा नियतधर्मसाहित्यम्, साध्यात्मकधर्मसाहित्यं वा । तच्च साहित्यं वह्निधूमयोनिजा सहजा शक्तिरिति साँख्यमतमित्याह वृत्तिकारः, सूत्रे 'प्राचार्याः' इति सम्मानप्रदर्शनात् । (द्र • सां. द० अनि० वृ० अ० ५ सू० ३०-३१)। प्रतिबद्धः-व्यापकः साध्यभूतः । प्रधानाविवेक एव सर्वाविवेकहेतुः-सर्वेषां मूलं प्रधानम् । तस्याविवेकादन्या- विवेकस्य सम्भवः । पदार्थानामन्योन्यं भवत्वविवेको विवेको वा, न तेन बन्धमोक्षौ, किन्तु प्रधानविवेकाविवेकाभ्याम् । अतः प्रधानाविवेकहाने सति सर्वाविवेकहानम् भवतीति । (द्र० सां० द. अनि० वृ० अ० १ सु० ५७)। प्रमा-इन्द्रियादिप्रणालिकया साक्षाद्वा या अज्ञातार्थविषयिणी चित्तवृत्तिः, तज्जन्यः पौरुषेयो बोधः प्रमा। तथा च सांख्यसूत्रम् -द्वयोरेकतरस्य वाऽ- प्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा। ( अ० १ सू० ८७ )। अत्र असन्निकृष्टः प्रमातर्यनारूढोऽनधिगत इति यावत् । एवम्भूतस्यार्थस्य वस्तुनः परिच्छि- त्तिरवधारणं प्रमा। (सां०प्र०भा० अ० १ सू० ८७) । अत्र वृत्तिकारः-सूत्रे द्वयोरिति पदस्य इन्द्रियार्थयोविद्यमानयोरित्यर्थः प्रत्यक्षाभिप्रायेण । तथा एकतरस्येति पदस्य लिङ्गस्य शब्दस्य वा विद्यमानस्येत्यर्थोऽनुमानाभिप्रायेण २४ सांख्यकोशः . - शब्दाभिप्रायेण चेत्याह । वाचस्पतिमिश्रा अपि 'प्रमीयतेऽनेनेति निवंचनात् प्रमा प्रति करणत्वमवगम्यते । तच्चासंदिग्धाविपरीतानधिगतविषया चित्तवृत्तिः । बोधश्च पौरुयेयः फलं प्रमा' इत्याहुः । ( सां० त० कौ० का० ४)। प्रमाणम-पौरुषेयबोधरूपां प्रमा प्रति यत् साधकतमं तत् प्रमाणम् । द्रष्टव्यम् द्वयोरेकतरस्य वाप्यसंनिकृष्टार्थपरिच्छित्तिः प्रमा, तत्साधकतमं यत् तत् त्रिविधं प्रमाणम् ।( सां० द० अ० वृ० १ सू० वृ०८७) बोधश्च पौरुषेयः फलं प्रमा, तत्साधनं प्रमाणमिति सांख्यतत्त्वकौमुदी। (सां० का. ४)। अस्मिन् पक्षे पौरुषेयो बोधः प्रमा, तत्कारणभूता चित्तवृत्तिः प्रमाणम् । यदा तु अर्थाकारा चित्तवृत्तिरेव प्रमापदेन व्यपदिश्यते तदा तत्कारणभूताः इन्द्रियसंनिकर्षादय एव प्रमाणतया व्यवह्रियन्त इति मन्तव्यम् । प्रमेयम्-प्रमाविषयीभूता ये ते प्रमेयपदेनोच्यन्ते । सांख्याभिमतं प्रमेयम् - प्रधान, बुद्धिः, अहङ्कारः, पञ्चतन्मात्राणि, एकादशेन्द्रियाणि, पञ्चमहाभूता- नि, पुरुष इति । एतानि पञ्चविंशतितत्त्वानि व्यक्ताव्यक्तज्ञा इत्युच्यन्ते । ( द्र० स० का० ४ गौडपादभाष्यम् )। परमात्मापि षड्विंशः प्रमेयभूतः पदार्थः पुरुष एवान्तर्भूत इति विज्ञानभिक्षुः । प्रत्यक्षम्-'यत् सम्बद्धं सत् तदाकारोल्लेखि विज्ञानं तत् प्रत्यक्षम्' इति सांख्य- सूत्रम् ( अ० १ सू० ८९)। सम्बद्धं भवत् सम्बद्धवस्त्वाकारधारि भवति यद् विज्ञानं बुद्धिवृत्तिस्तत् प्रत्यक्षं प्रमाणमिति निष्कर्ष इति सांख्यप्रवचन- माष्यम् । प्रतिविषयाध्यवसायो दृष्टम् (प्रत्यक्षम् ) इति सांख्यकारिका । अत्र गौडपादभाष्यम्-प्रतिविषयेषु श्रोत्रादीनां शब्दादिविषयेषु अध्यवसायो दृष्टं = प्रत्यक्षमित्यर्थ इति । वाचस्पतिमिश्रास्तु-विषयं विषयं प्रति वर्तत इति प्रतिविषयम् = इन्द्रियम् । वृत्तिश्च सन्निकर्षः - अर्थसन्निकृष्टमित्यथः । तस्मिन् अव्यवसायः = तदाश्रित इत्यर्थः । अध्यवसायश्च बुद्धिव्यापारो ज्ञानम् । उपात्तविषयाणामिन्द्रियाणां वृत्तौ ( सन्निकर्षे ) सत्यां तमोऽभिभवे सति यः सत्त्वसमुद्रेकः, सोऽध्यवसाय इति वृत्तिरिति ज्ञानमिति चाख्यायते। इदं तावत् प्रत्यक्षं प्रमाणमिति । ( सां० त० कौ० का० ५)। इदञ्च सांख्यकोशः २१ प्रत्यक्षलक्षणं बाह्यप्रत्यक्षाभिप्रायेण । योगिनान्तु प्रत्यक्षमबाह्यम् अतो न तल्लक्ष्यं न वा तत्रेन्द्रियसन्निकर्षापेक्षा । अथवेन्द्रियसन्निामावेऽपि योगज- धर्मजन्यातिशयसाहाय्येनैव योगिबुद्धिरथैः सन्निकृष्यते, अर्थाकारताञ्च धार- यतीति सन्निकर्षद्वाराऽर्थाकारताग्रहणरूपं सूत्रोक्तं प्रत्यक्षसामान्यलक्षणं योगि- प्रत्यक्षेऽपि घटत एव । इन्द्रियसन्निकर्षापेक्षा तु चाक्षुषादिविशेषप्रत्यक्ष एव भवतीति । सर्वथैव सन्निकर्षानपेक्षे नित्ये ईश्वरप्रत्यक्षे उक्तलक्षणस्या- व्याप्तिरिति न शङ्कनीयम् ईश्वरे प्रमाणाभावात् । इदमुत्तरमेकदेशिनामभि- प्रायेणेति विज्ञानभिक्षवः । तद्रीत्या ईश्वरप्रत्यक्षसाधारणं लक्षणन्तु सन्निकर्ष- जन्यज्ञानसजातीयत्वमेव सूत्र कारैर्विवक्षितम् । (द्र० स० प्र० भा० म० १ सू० ९२)। प्रत्यक्ष रूपनिवन्धनत्वाभावः-'प्रकृतिपुरुषयोः साक्षात्कारोऽसंभवी, द्रव्य- साक्षात्कारं प्रति रूपस्य हेतुत्वात्' इति नास्तिकमतं निराकुर्वाणं सांख्य द्रव्यप्रत्यक्ष प्रति रूपस्य निमित्तत्वमिति नियमं नानुमन्यते । अतो बहिर्द्रव्य- लौकिकप्रत्यक्षं प्रत्येवोद्भूतरूपं व्यञ्जकमिति । (द्र० स० प्र० मा० अ० ५ सू० ८९)। प्रबुद्धरज्जुतत्त्वोरगः--यथा प्रबुद्धरज्जुतत्त्वस्यैव जनस्य कृते उरगो मयादिक न जनयति, मूढं प्रति तु जनयत्येव । तथैव एकस्मिन् पुरुष बिविक्तवो- धानन्तरं विरक्तमपि प्रधानं नान्यस्मिन् पुरुषे सृष्टयुपरागाय विरक्तं भवति किन्तु तं प्रति सृजत्येव । (द्र० सां० प्र० मा० अ० ३ सू० ६६ ) । प्राणवायुभौतिकवाय्वोर्भेदः -शरीरारम्भे निमित्तभूतो भौतिको वायुर्न तु प्राण- वायुः। तथा च सूत्रम् 'न देहारम्मकस्य प्राणत्वमिन्द्रियक्तितस्तसिद्धेः इति । ( सां० द० अ० ५ सू० ११३)। प्राणादिः :-प्राणाद्याः वायुविशेषाः । प्राणोऽपान उदानो व्यानः समानश्चेति प्राप्यकारीणीन्द्रियाणि-इन्द्रियाणां नाप्राप्तप्रकाशकत्वं किन्तु प्राप्त प्रकाशकत्व- २६ सांख्यकोश मेब । अर्थात् स्वसम्बद्धमेवार्थम् इन्द्रियाणि प्रकाशयन्ति । एतावता गोल- कातिरिक्तमिन्द्रियमिति सांख्य सिद्धान्तः। (द्र सां० प्र० भा० अ० ५ सू० १०४)। बन्धः-संसरणम् । स च त्रिविधो बन्धः-प्राकृतिको वैकृतिको दाक्षिणकश्चेति । तत्र प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । अयमेव प्रकृतिलयानां बन्ध इत्युच्यते । द्वितीयो वैकारिको बन्धस्तेषां ये विकारानेव भूतेन्द्रियाहङ्कारबुद्धीः पुरुषधियोपासते। अयं बन्धो येषां ते विदेहा इत्यु- च्यन्ते । इष्टापत्तन = अग्निहोत्रादिना यज्ञेन वापीकूपतडाकादिनिर्माणादिना च दाक्षिणको वन्धः । पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना बध्यत- इति । (द्र० सां० त० कौ०, का० ४४)। बाह्यकरणम्-पञ्चज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि चेति दशविधं बाह्य- करणम् । बुद्धिः-महत्तत्त्वम् । वुद्धेरेव महानित्यपि तान्त्रिकी संज्ञा । ब्रह्मरूपता--'समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता इति सूत्रानुसारमासु अवस्थासु पुरु- षाणां बुद्धिविलयतो बुझ्यौपाधिकपरिच्छेदविगमेन स्वस्वरूपे पूर्णतयाऽवस्थान यद् भवति, तदेव ब्रह्मरूपताऽस्ति । यथा घटध्वंसे जाते घटाकाशस्य पूर्णता सम्पद्यत इति । तथा चैवंविधं ब्रह्मत्वमेब पुरुषाणां स्वभावोऽस्ति, य उक्ता- स्वबस्थासु अभिव्यक्तो भवतीति । अस्मिन् शास्त्रे ब्रह्मशब्द औपाधिक- परिच्छेदमालिन्यादिरहितपरिपूर्णचेतनसामान्यवाचीति विज्ञानभिक्षुः। (द्र० सां० प्र०भा० अ० ५ सू० ११६ ) । अनिरुद्धन्तु-अत्र ब्रह्मणा तुल्यतैव ब्रह्मरूपताऽभिप्रेता। तुल्यता च बाह्यासंवेदनमात्रेण । तिसृष्वपि अवस्थासु बाह्यासंवेदनस्य समानत्वात् । न तु वास्तविकी ब्रह्मरूपता दुःखासंवेदनरूपाऽभिप्रेता, तस्या: सुषुप्ति- समाध्योरभावात् ।
सांख्यकोशा अयमत्र विशेषः-समाधिसुषुप्त्योः सवोजा अर्थात् पुनर्दुःखप्रयोजक- संस्कारवत्त्वरूपा ब्रह्मरूपता भवति, मोक्षे तु निर्वीजा अर्थात् तादृशसंस्कार- रहिता ब्रह्मरूपता भवति । (द्र० सां० सू० अनि० वृ० अ० ५ सू ११६- ११७)। भरतवत्-यथा भरतस्य राजर्षेर्धय॑मपि अनाथहरिणशावकस्य पोषणं बन्धायाभवत् तथैव विवेकिनोऽपि असाधनानुचिन्तनं बन्धाय भवेत् । ( सां०. प्र० भा० अ० ४ सू० ८७) भावसर्ग:--धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्येश्वर्यानश्वयंरूपाणामष्टभावानां सर्गः । भृत्यवत्-यथा उत्कृष्टभृत्यस्य स्वभावादेव प्रतिनियताऽऽवश्यकी स्वामिसेवा प्रवर्तते, न तु स्वभोगाभिप्रायेण, तथैव प्रकृतेश्चेष्टा स्वभावादेव भवतीति । भूतचैतन्याभावः - विभागकाले प्रत्येकं भूतेषु चैतन्यादर्शनात् सङ्घातावस्था- यामपि चैतन्यं नोद्भवितुमर्तति । यत्र स्वल्पा शक्तिरस्ति तस्य समुदाया- न्महच्छक्तिर्जायते, यथा तन्तूनां स्वल्पशक्तिमतां समुदायाद् गजबन्धनशक्ति- दृश्यते। किन्तु भूतानां तथा पृथक् चैतन्यं न दृष्टं येन सङ्घाते चैतन्योद्- भवः स्यात् । तस्माद् भूतेषु चैतन्यं नास्ति, किन्तु तेभ्योऽन्य एव चेतनोऽ- स्तीति सिद्धान्तः। भूतम्-आकाशा, वायुस्तेजो, जलं, पृथिवी चेति पञ्चविधम् भूतम् । भूतादिः-तामसः ( अहङ्कारः)। भेकीवत्-शास्त्रविहितनियमस्य बिस्मरणेऽपि योगिनो अनर्थ उपजायते, का कथा नियमोल्लङ्घनस्येति भेकी-( मण्डूकी ) दृष्टान्तेन स्फुटयति । कश्चिद्- राजा मृगयां गतो विपिने सुन्दरी कन्यां ददर्श । तां प्रति राजा स्वभार्या- भावाय प्रार्थितवान् । प्रार्थिता सा नियमं कृतवती यद् यदा मह्यं त्वया जलं प्रदश्यते तदाऽहमितो गता भविष्यामीति । एकदा क्रीडया परिश्रान्ता सा राजानं पृष्टवती कुत्र जलमिति । राजाऽपि अङ्गीकृतं समयं विस्मृत्य तां २८ सांख्यकोशः जलमदर्शयत् ततः सा भेकराजदुहिता कामरूपिणी भेकी भूत्वा जलं विवेश । ततश्च राजा जालादिभिरन्विष्यापि न तामविन्दत् इति । एवमेव स्वनियम- विस्मरणे योगिनोऽनर्थ उपजायत इति । (द्र० सां० प्र० मा० म० ४ सू० १६)। भोग-विषयभोगः। स च अभ्यवहरणम् आत्मसात्करणमिति यावत् । विषय- स्यात्मसात्करणञ्च पुरुषे प्रतिबिम्बनमात्रम्, तस्यापरिणामित्वात् । पुरुषातिरिक्तानां देहादीनान्तु मोगः पुष्ट्यादिरूपः आकारग्रहणरूपश्च, तेषां परिणामित्वात् । इत्थञ्च भोगो देहादिचेतनान्तेषु साधारणः । क्वचित् पुरुष भोगस्य प्रतिषेधः परिणामरूपस्यैव न तु प्रतिबिम्बादान- रूपस्येति । वस्तुतस्तु फलात्मको मोगः पुरुष एव न तु बुद्ध्यादौ। सुखं भुञ्जीयेति कामनादर्शनात् । तस्मात् सुखदुःखादिकं वुद्धिधर्मस्तभोगस्तु पुरुषस्य भवतीति मुख्यः सिद्धान्तः । (द्र० सां० प्र० मा० अ० १ सू० १०३, १०६)। भौतिकः सर्गः-भूतानां व्यष्टिप्राणिनां सर्गः। स च त्रिविधः-दैवसर्गः, तैर्यग्योनसर्गः, मानुष्यसर्गश्चेति । तत्र ब्राह्मप्राजापत्येन्द्र पैत्रगान्धर्वराक्षस- पैशाचा इत्यष्टविधो देवः सर्गः । तथा पशुमृगपक्षिसरोसृपस्थावरा इति तैर्यग्योनः पञ्चविधः सर्गः। मानुष्यसर्गश्चैकप्रकार एव भवति, सर्वेष्वपि नरेषु संस्थानस्य समानत्वात् । एतदुक्तं सांख्यकारिकायाम्- 'अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः इति । ( सां० का० ५३ )। मध्यविवेकः-सकृत्संप्रज्ञातयोगेनात्मसाक्षात्कारोत्तरं मध्यविवेकावस्था भवति । तदानीं बाधितानापि दुःखादीनां प्रारब्धवशात् प्रतिबिम्बरूपेण पुरुषेऽनुवृत्त्या भोगो भवति । विवेकनिष्पत्तिश्च पूर्णरूपेण असंप्रज्ञातादेव भवति, तस्यां सत्यां भोगो न भवति । इत्थञ्च मन्दविवेको मध्यविवेको विवेक- सांख्यकोशः निष्पविश्चेति विभागो विवेकस्य । (द्र० सां० प्र० भा० अ० ३ सू० ७७)। मध्यमपरिमाणं मन:-मनो न विभु, करणत्वात्, वास्यादिवत् इत्यनुमानेन मनसो विभुत्वं निषिद्धं भवति । लोकान्तरगमनश्रुतिरपि मनसो विभुत्वे बाधिका। यदि मनो व्यापकं स्यात्तदा लोकान्तरगमनं नोपपोत, विमुत्वे- नैव लोकान्तरेऽपि सत्त्वात् । नाप्यणु मनः, अनेकेन्द्रियेषु एकदा तस्य योगात् । देहव्यापिज्ञानादिकन्तु मध्यमपरिणामेनैवोपपद्यते । इदञ्च कार्यावस्थमनोऽभिप्रायेणोक्तम् । कारणावस्थञ्चान्तःकरणमण्वेक । (द्र० सां० प्र० मा० अ० ५ सू० ६९, ७०, ७१)। मध्यस्थः-सुखदुःखाभ्यां रहित उदासीनः (पुरुषः)। मनः-तृतीयमन्तःकरणं सङ्कल्पधर्मकम् । उक्तं हि-सङ्कल्पेन रूपेण मनो लक्ष्यते। आलोचितमिन्द्रियेण वस्त्विदमिति संमुग्धम् 'इदमेवं' 'नवम्' इति सम्यक्कल्पयति विशेषणविशेष्यभावेन विवेचयतीति । (सां० त० कौ० का० २७)। मन्त्रार्थवादयोः प्रामाण्यम्-कार्यान्विते एव शक्तिरिति नास्ति नियमः, उभ- यथा दर्शनात् । तस्माद् विधिवाक्यानां कार्यार्थप्रतिपादकतया प्रामाण्यम् । मन्त्रार्थवादयोस्तु सिद्धार्थप्रतिपादकयोरपि अस्ति प्रामाण्यम् । तत्र मन्त्राणां विहितस्मारकत्वेन, अर्थवादानां विधिशक्तरुत्तम्भकत्वेन परम्परया प्रवर्तक- त्वात् प्रामाण्यमिति । (द्र० सां० ० सू० अनि० ० वृ० अ० ५ सू० ३९ )। मलिनदर्पणवत्-यथा मलैः प्रतिबन्धात् मलिनदर्पणेऽर्थो न प्रतिबिम्बति तथैव मलिनचेतसि उपदेशात् आपातज्ञानपि न जायते, विषयान्तरसञ्चारा- दिना प्रतिबन्धात् (द्र० स० प्र० भा० अ० ४ सू० २९)। महान् बुद्धितत्त्वम् । महान् बुद्धिरासुरीमतिः ख्यातिनिमिति प्रज्ञापर्याय रुत्पद्यते इति गौडपादमाण्यम् । महान् बुद्धिमतिब्रह्मापूर्तिः ख्यातिरीश्वरो विखरइति पर्यायाः । स तु देशमहत्त्वात् कालमहत्त्वाच्च महान् । सर्वोत्पा- येभ्यो महापरिमाणयुक्तत्वात् महानिति युक्तिदीपिका ।
३० सांख्यकोशः प्रकृतिमहतोरन्तराले मूलप्रकृतेरुत्पन्ना विषमावस्थापन्नास्त्रयो गुणा जायन्त इति कस्यचिन्मतम् । मायिकत्वम्-असत्यत्वम्, अस्थिरत्वं कार्यत्वं वा । मुक्ति नन्दाभिक्तिरूपा-आत्मनि आनन्दरूपोऽभिव्यक्तिरूपश्च धर्मों नास्ति। स्वरूपञ्च तस्यात्मनो नित्यमेवेति नानन्दाभिव्यक्तिर्मोक्ष इति सांख्यमतम् । अत एव नैयायिकादिवदशेषविशेषगुणोच्छेदोऽपि न मुक्तिः, आत्मनो निर्धर्मकत्वात् । न च तहि दुःखाभावस्यापि धर्मत्वात् सांख्यदुःख- निवृत्तिरपि कथं मोक्ष उच्यतेति शङ्कनीयम्, तदानीं सदपि दुःखं केवल- मात्मनो भोग्यं न भवतीत्येतावन्मात्रतात्पर्यसत्त्वात् । एवं ब्रह्मलोकप्राप्तिरपि न मोक्षः, आत्मनो निष्क्रियत्वात् । ‘एवमेव सर्वोच्छेदः शून्यत्वं वापि न मोक्षः, अपुरुषार्थत्वात् । एवमंशभूतस्य जीवस्यांशिनि परमात्मनि लयोऽपि न मोक्षः, संयोगानां वियोगान्तत्तया मुक्तेरनित्यत्वप्रसङ्गात्, स्वलयस्यापुरुषार्थत्वाच्च । (द्र० सां० प्र० भा० अ० ५ सू० ७४"८३ )। मुनिवत्-यथा सौभरेर्मुनेन भोगाद् रागशान्तिरभूत्, एबमन्येषामपि भोगाद् रागशान्तिर्न भवितुमर्हति । तदुक्तम् सौभरिणैब- आमृत्युतो नैव मनोरथानामन्तोऽस्ति विज्ञातमिदं मयाद्य मनोरथासक्तिपरस्य चित्तं न जायते वै परमार्थसङ्गि ॥ इति । (द्र० सां० प्र० भा० अ० ४ “सू० २७)। मूलम् -उपादानम्, मूलप्रकृतिः तथा च सांख्यसूत्रम्-'मूले मूलामावादमूलं मूलम्' अ० १ सू० ३२ । यज्ञोपासकवत्-यथा यज्ञोपासकानां याज्ञिकानां साक्षात् ज्ञाननिष्पत्तिर्नास्ति, तथैव ब्रह्मविष्णुहरादीनामध्यस्तरूपैरूपासनादपि न साक्षात्ज्ञाननिष्पत्ति- - सांख्यकोशः भवितुमर्हति किन्तु पारम्पर्येण । अर्थात् ब्रह्मादिलोकप्राप्तिक्रमेणव सत्त्व- शुद्धिद्वारा वा भवतीति । (द्र० सां० प्र० भा० अ० ४ सू० २१)। योगसिद्धीनां वास्तविकत्वम्-यथौषधादिसिद्धयो यथार्थाः तथा योगसिद्ध्योऽपि यथार्था एव सन्ति । रागः-सुखातुशयी। सुखमनुशेते, इति व्युत्पत्तेः सुखात् पश्चात् प्रवर्तमान इति यावत् । राजषुत्रवत्-यथा कश्चिद्राजपुत्रो गण्डह्मजन्मना पुरान्तिःसारितः शबरेण च केनचित् पोषितस्सन् 'अहं शबर' इत्यभिमन्यमान आस्ते । तं ज्ञात्वा कश्चि- दमात्यः प्रबोधयति-न त्वं शबरोऽसि किन्तु राजपुत्रोसोति । एवं प्रबोधितः स झटित्येव चाण्डालाभिमानं त्यक्त्वा तात्विकं राजभावमनुभवति राजाऽहमस्मीति । एवमेव त्वमिन्द्रियाद्यतिरिक्तः सुखदुःखादिलेपरहितो नित्यशुद्धबुद्धमुक्तस्वभावोऽसीति कस्यचित् कारुणिकस्योपदेशात् पुरुषोऽपि प्रकृत्यभिमानं त्यक्त्वा स्वरूपास्थिति प्राप्नोति । (द्र० स० प्र० मा० अ० ४ सू०१)। लयः-सूक्ष्मीभावेन अवस्थानम् न तु नाशः । (द्र० स० प्र० भा अ० १ सू० ६१)। लिङ्गम्-लिङ्गशरीरम्, सूक्ष्मशरीरापरपर्यायम् । तच्च एकादशेग्द्रियाणि, पञ्चतन्मात्राणि, बुद्धिरहङ्कारश्चेत्यष्टादशतत्त्वेभ्यः समुत्पन्नम् । विज्ञानभिक्षुस्तु-अहङ्कारं बुद्धावन्तर्भाव्य सप्तदशतत्त्वेभ्य एव लिङ्ग- शरीरमुत्पद्यतइत्याह । तत्र प्रमाणञ्च–'वासनाभूतसूक्ष्मञ्च कर्मविद्ये तथैव च । दशेन्द्रियं मनो बुद्धिरेतल्लिङ्गं विदुर्बुधाः' इति वाशिष्टवाक्यम् । (द्र० सां० प्र० मा० अ० ३ सू० १२ )। तच्चाणुपरिमाणं भवति । लोकवत् -यथा लोके भैषज्यादौ विहितपथ्यादोनां लङ्घनेन तत्तसिद्धिर्नभवति, तथैव योगिनां शास्त्रेषु विहितानां नियमानामुल्लङ्घने ज्ञाननिष्पत्तिरूपप्रयोजन न सिध्यति । ( सां० प्र० मा० अ० ४ सू० १५)।.
सांख्यकोश वामदेवत् -यथा वामदेवस्यैहिकसाधनाभावेऽपि जन्मान्तरीयसाधनेभ्यो गर्भ एव ज्ञानोदयस्तथा अन्यस्यापि ऐहिकसाधनादेव ज्ञानोदयो भवतीति कालनियमो नास्ति । ( द्र० सां० प्र० भा० अ० ४ सू० २०)। विपर्ययः -अज्ञानं, विवेकाग्रहो बन्धहेतुभूतः । स पञ्चविधः, अविद्याऽस्मिता- रागद्वेषाभिनिवेशभेदात् । विरक्तः-विवेकख्यात्या समुत्पन्ननवैराग्यः । विरोचनवत्यथा प्रजापतेरुपदेशश्रवणेऽपि इन्द्रविरोचनयोर्मध्ये विरोचनो विचाराभावेन भ्रान्तो जातः, तथैव विचारं ( मननं ) विना उपदेशवाक्य- श्रवणेऽपि नियमतस्तत्त्वज्ञानं नैव जायते । (द्र० सां० प्र० मा० ४ विशेषाः-शान्तघोरमूढस्वरूपाणि क्षित्यादीनि पञ्च स्थूलभूतानि सूक्ष्मशरीराणि, मातापितृजानि स्थूलशरीराणि चेति त्रिधा विशेषा भवन्ति । द्रष्टव्यम्- तेभ्यो भूतानि पञ्च पञ्चभ्य: । एते स्मृता विशेषा शान्ता घोराश्च मुढाश्च ॥ सूक्ष्मा मातापितृजा सह प्रभूतैस्त्रिधा विशेषाःस्युः । सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥' इति । ( स० का० ३८-३९)। वृक्षादीनां शरीरम्-शरीरत्वं हिं भोक्तृभोगायतनत्वमिति लक्षणस्य वृक्षादावपि सत्त्वेन शरीरत्वं वृक्षादिष्वपीति सिद्धान्तः । न हि चाक्षुषादिज्ञानं यत्रास्ति तदेव शरीरमिति नियमोऽस्ति । अतोऽन्तःसंज्ञानां वृक्षादीनामपि शरीरत्वं मन्तव्यम् । तथा च श्रुति:-'अथ यदेका शाखां जीवो जहाति अथ सा शुष्यतीत्यादिः । (द्र० सां० प्र० भा० अ० ५ सू० १२१ ।। वृत्तयः--क्लिष्टा अक्लिष्टाश्च पञ्चतय्यो वृत्तयःप्रमाण-विपर्यय-विकल्प-निद्रा- स्मृतिरूपाः । वृत्तिः-वृत्तिनं अग्नेविस्फुलिङ्गवद् भागरूपा (अंशरूपा), न वा रूपादिवद् गुण- रूपा, किन्तु भागगुणाभ्यां भिन्ना तदेकदेशभूतेति सांख्यमतम् । वृत्तेर्भागरूपत्वे गोलकस्थस्य चक्षुषः सूर्यादिना सह सम्बन्धो न घटेत । गुणत्वे तु तस्यां सांख्यकोशः ३३ सूर्यादिपर्यन्तं सर्पणादिक्रिया नोपपद्येत । एवं बुद्धिवृत्तिरपि प्रदीपशिखावद् द्रव्यात्मकपरिणाम एव बुद्धः । सा च स्वच्छतयाऽर्थीकारतोग्राहिणी निर्मलवस्त्रवत् । (द्र० सां० प्र० भा० अ० ५ सू० १०७)। वृत्तिस्तत्त्वान्तरम्-कार्यानुमेया वृत्तिस्तत्त्वान्तरमाहङ्कारिकम् । यतो हि सांख्येऽनियतः पदार्थः । (द्र० स० द. अनि० वृ० अ० ५ सू० १०७)। विज्ञानभिक्षस्तु अनियतपदार्थवादित्वं सांख्यस्य नाङ्गीकुरुते । अतो बुद्धेरि- न्द्रियादेश्चैकदेशभूतव वृत्तिरिति तन्मतम् । वैकृतः–सात्विकः ( अहङ्कारः ) । वैराग्यम्-विषयं प्रति वैतृष्ण्यम् वैराग्यम् । तच्चतुर्विधम्-यतमानसंज्ञा- व्यतिरेकसंज्ञा-एकेन्द्रियसंज्ञा-वशीकरसंज्ञा चेति । प्रपञ्चितं चैतद्योगभाष्या- दाविति तत एव विशेषतः प्रतिपत्तव्यम् । व्याप्तिः-नियतधर्मसाहित्यम् उभयोरेकतरस्य वा व्याप्ति: । साहित्यं सहचारः। तथा चोमयोः साध्यसाधनयोरेकस्य साधनमात्रस्य वा नियत:- अव्यमि- चरितो यः सहचारः स व्याप्तिरित्यर्थः । उभयोरिति समव्याप्तिपक्षे प्रोक्तं, यथाऽनित्यत्वकृतकत्वयोः। एकतरस्येति विषमव्याप्तिपक्षे प्रोक्तम्, यथा वह्निधूमयोरिति । अयं सिद्धान्तपक्ष इति विज्ञानभिक्षुः । (द्र० सां० प्र० मा० अ० ५ सू० २९)। केचिदाचार्या:-निजशक्त्युद्भवं स्वशक्तिजन्यं शक्तिविशेषरूपं तत्त्वान्तरं व्याप्तिरित्याहुः । बुद्ध्यादिषु प्रकृत्यादिव्याप्यताव्यवहारात् आधारताशक्ति- प्पकता, आधेयताशक्तिश्च व्याप्यत्वमिति पञ्चशिखाचार्यमतम् । (द्र० सां० प्र० मा० अ० ५ सू० ३१-३२)। षष्टितन्त्रम्-धिपदार्थबोधकं शास्त्रं षष्टितन्त्रम् । तच्च किमपि ग्रन्थान्तरं कपिलकृतिरिदानों लुप्तमिति बहवः । वर्तमानसूत्रषडध्यायी एव षष्टितन्त्र- मित्युदयवीरशास्त्री । षष्टितन्त्रनामकरणे च तद्गतविचार्यमाणविषयाणां १. वृत्तिकारस्येदमेव मतमभिप्रेतम् । .
३४ सांख्यकोशः षष्टिसंख्याकत्वमेव निदानम् । षष्टिविषयाश्च-पञ्च विपर्ययाः, नव दृष्टयः, अष्टौ सिद्धयः, अष्टाविंशतिरशक्तयः, दश मौलिाकार्थाश्चेति । शक्तिः-'वाच्यवाचकभावः सम्बन्धः शब्दार्थयोः' इति सूत्रानुसारं वाच्यतारूपा शक्तिरर्थ, वाचकतारूपा शक्तिः शब्देऽस्तीति वाच्यवाचकभाव एव शब्दार्थयो। शक्तिः। तस्याश्च शक्तस्त्रिभिः कारणैर्ग्रहणं भवति । आप्तोपदेशेन, वृद्ध- व्यवहारेण, प्रसिद्धपदसामानाधिकरण्येन चेति । (द्र० सां० प्र० भा० अ० ५ सू० ३७-३८)। आप्तोपदेशो यथा-कोकिल: पिकशब्दवाच्य इति आप्तवचनात् पिकादिशब्दानां कोकिले शक्तिग्रहः। वृद्धव्यवहारो यथा- प्रयोजकवृद्धेन 'घटमानय' इत्युक्ते तच्छ् त्वा प्रयोज्यवृद्धेन घट आनीतस्त- दवधार्य पार्श्वस्थो बालो घटानयनरूपं कार्य घटमानयेति शब्दप्रयोज्य- मित्यवधारयति । ततश्च 'घटं नय, गामानय' इत्यादि वाक्यादवापो- द्वापाभ्यां घटादिपदानां घटादौ शक्ति गृह्णाति । प्रसिद्धपदसामानाधिकरण्यं यथा-'इह सहकारतरौ मधुरं पिको रौति' इत्यादौ पिकशब्दस्य कोकिले शक्तिग्रह इति। (द्र० न्या० सि० मु० शब्दखण्डम् )। शब्दः-आप्तोपदेशः शब्दः । आप्तिरत्र योग्यता। तथा च योग्यः शब्दस्तज्जन्यं ज्ञानं (वृत्तिः) शब्दप्रमाणम् । ( सां० प्र० भ:० अ० १ सू० १०१)। आप्तश्रुतिराप्तवचनमिति सांख्यकारिका। तत्राप्ता प्राप्ता युक्तेति यावत् । आप्ता चासौ श्रुतिश्चेति आप्तश्रुतिः। श्रुतिक्यिजन्यं वाक्यार्थज्ञानमिति वाचस्पतिमिश्राः। शब्दानित्यत्वम्-शब्दो नित्य इति मीमांसकमतम् । तत् सांख्या नानुमन्यन्ते । उत्पन्नो गकारो नष्टो गकार इत्यादिकार्यताप्रतीतेः। स एवायं गकार इति प्रत्यभिज्ञा सैवेयं दीपकलिकेतिवत् जातिविषयिणी अन्यथा घटादेरपि प्रत्यभिज्ञया नित्यतापत्तेः । ( द्र० सां० प्र० भा० अ० २ सू० ५८)। शब्दार्थयोः सम्बन्धः-शब्दार्थयोर्वाच्यवाचकभाव एव सम्बन्धो न पु तादात्म्यं, तथा सति घटोऽपि श्रोत्रग्राह्य : स्यात् शब्दोऽपि चाक्षुषः स्यात् अग्न्यादि- सांख्यकोशः वृक्ष तथा शब्दोच्चारणे मुखदाहादिप्रसङ्गश्च स्यादिति । (द्र० सां० द० अनि. अ० ५ सू० ३७)। शब्दार्थसम्बन्धानित्यत्वम्-शब्दार्थयोः सम्बन्धोऽनित्य इति सांख्यमतम् । न तु मीमांसकवत् नित्यः शब्दार्थसम्बन्ध इति । तथा च सांख्यसूत्रम्-'न सम्बन्धनित्यतोभयानित्यत्वात् ।' ( अ० ५ सू० ९७ )। उभयोः शब्दार्थ- योरनित्यत्वात् तत्सम्बन्धस्याप्यनित्यत्वमिति भावः । शरीरभेदाः-उष्मजम्--अण्डजं-जरायुजम्--उभिज्ज--संकल्पज--सांसिद्धिकञ्चेति शरीरस्य षड्भेदाः। तत्रोष्मजा दन्दशूकादयः, अण्डजाः पक्षिसादयः, जरायुजा मनुष्यादयः, उद्भिज्जा वृक्षादयः, संकल्पजाः सनकादयः साँसि- द्धिका मन्त्रतपआदिसिद्धिजाः रक्तबोजशरीरोत्पन्नदेहाः । सांख्यसूत्रम्-'उष्मजाण्डजजरायुजोभिज्जसांकल्पिकसांसिद्धिकं चेति न नियमः।' (अ० ५ सू० १११)। द्रष्टव्यञ्चावत्यं भाष्यम् । शाब्दबोधः-शब्दप्रमाषजन्या प्रमितिः = पौरुषेयो बोधः शाब्दबोधः । शुकवत्-यथा शुकपक्षी व्याधस्य गुणे रज्जुभिर्बद्धो भवति, स्वीयरेव वा मनोज्ञरूपमधुरशब्दरूपैर्गुणैनिमित्तैबन्धनं प्राप्नोति, तथैव विवेकिजनोऽपि रागिजनसङ्गं प्राप्य तद्गुणं रागद्वेषादिभिर्बद्धो भवति । अतो रागिजन- सङ्गो न कर्तव्यः । (द्र ० सां• प्र० भा० अ० ४ सू• २६ )। शेषवत्-व्यतिरेकानुमानं शेषवत् । शेषोऽपूर्वोऽर्थोऽस्य विषयत्वेनास्तीति शेष- वत्, अप्रसिद्धसाध्यकमिति यावत् । यथा, पृथिवीत्वेन इतरभेदानुमानम् । पृथिवीतरभेदो हि प्रागप्रसिद्धः । ( द्र० स० प्र० भा० अ० १ सू० १०३)। श्येनवत् --यथा हि सामिषः श्येनः केनाप्यपहत्य आमिषाद् वियोज्य दुःखी क्रियते, स्वयं चेत् त्यजति तदा दुःखाद् विमुच्यते । तथैव द्रव्याणां स्वयं त्यागेन लोकः सुखी भवति, परद्वारा वियोगेन च दुःखी भवति । अतः परिग्रहो न कर्तव्यः। (द्र० सां० प्र० भ० ० ४ सू० ५)।
सांख्यकोशः । षट्पदवत्-पुष्पेभ्यो यथा षट्पदः सारमेवादत्ते तथैव शास्त्रगुरुभ्यः सारमेव गृह्णीयात् । (सां० द० अ० ४ सू० १३)। सत्कार्यवादः-कारणव्यापारादूर्ध्वमिव कारणव्यापारात् पूर्वमपि कार्य सदेव भवति न तु वैशेषिकादिवत् असत् इति सांख्यसिद्धान्तः । यथा तिलेध्व- वस्थितस्यैव तैलस्याविर्भावो भवति, तद्वत् । सत्रख्याति:-'अत्यन्तसतः ख्यातिः सख्यातिः इत्यपि न सांख्याभिमतम् । यदि गुणादयोऽत्यन्तसन्तो मासेरन् तदा विनाशकाले तेषां बाघो न दृश्येत । सदसत्ख्यातिः-सदसवख्यातिरेव सर्वेषां गुणादीनामिति सांख्यसिद्धान्तः। कुतः ? बाधाबाधभावात् । तत्र स्वरूपेणाबाधः सर्वस्तूनां, नित्यत्वात् । संसर्गतस्तु बाधा सर्ववस्तूनां चैतन्येऽस्ति । यथा लौहित्यं स्वरूपतः क्वांच- दस्ति किन्तु संसर्गतस्तु तत् श्वेतपटे नास्ति । न च सत्त्वासत्त्वयोविरोध इति शङ्कनीयम्, प्रकारभेदेनाविरोधात् । यथा हि लौहित्यं बिम्बरूपेण सत् स्फटिकगतप्रतिबिम्बरूपेण च असत् इति दृष्टम् । यथा वा रजतं वणिग्वीथिस्थरूपेण सत् शुक्त्यध्यस्तरूपेण चासत् । तथैव सर्व जगत् स्वरूपतः सत्, चैतन्यादावध्यस्तस्वरूपेण चासदिति । एवमवस्था- भेदेनापि सदसत्त्वमविरुद्धम् । यथाहि वृक्षादिः प्ररूढाद्यवस्थाभिः सनपि अङ्कुराद्यवस्थाभिरसन् भवति, तथैव प्रकृत्यादिकं सदसदात्मकमिति । तदुक्तम्- अव्यक्तं कारणं यत् तन्नित्यं सदसदात्मकम् । प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥ इति । (द्र० स०प्र० मा० म० ५ सू० ५६ )। सम्बन्धः-व्याप्तिः । तथा च सांख्यसूत्रमीश्वरप्रकरणे-सम्बन्धाभावन्नानुमानम् ब० ५ सू० ११)। सर्पवत्यः -यथा सर्पः स्वयं गृहं न निर्माति, परगृहे एव सुखी शेते, तथैव स्वमो- गार्थमारम्भो नैवकर्तव्यो योगप्रतिबन्धकत्वात् । तदुक्तम्- - सांख्यकोशा गृहारम्भो हि दुःखाय न सुखाय कथञ्चन । सपः परकृतं वेश्म प्रविश्य सुखमेधते ।। इति । (द्र० स० प्र० मा० अ०४ सू० १२)। .. सर्वेश्वर्यम्-अयं सर्वैश्वर्यवाद एकेश्वरवादप्रतिरोधी सांख्याभिमतः। पुरुषाणां चितामानन्त्यात् स्वतोनित्यमुक्तत्वाच्च, अखिलभोक्तृसंयोगादेव प्रधानेन महदादिसर्जनाच्चेति । (द्र० स० प्र• भा० अ०५ सू०५)। साक्षी -प्रमाता, साक्षाद्रष्टा । यस्मै प्रदश्यते विषयः स साक्षी। प्रकृतिरपि स्वविषयं पुरुषाय दर्शयतीति पुरुषः साक्षी। (द्र० सां० त० को. का १९)। सांख्यसूत्रमपि यथा-'साक्षात् सम्बन्धात् साक्षित्वमिति ( अ० १ सू० १६१ )। अतः साक्षात्सम्बन्धादेतोः पुरुषो' बुद्धेरेव साक्षी, अन्येषां तु विषयाणां द्रष्टमात्रमस्तीति । सादृश्यम् -सादृश्यं न तत्त्वान्तरम्, न वा वस्तुनः स्वाभाविकशक्तिविशेषः,, किन्तु भूयोऽवयवसामान्ययोगो हि सादृश्यम् । (द्र० सां० द० अनि० वृ० अ. ५ सू० ९४-९५)। संज्ञासंज्ञिसम्बन्धज्ञानहेतुः सादृश्यमिति केचिद् वदन्ति । तदपि व्यभिचारा- दुपेक्षणीयमेव । सादृश्याभावेऽपि उपदेशादेः संज्ञासंज्ञिसम्बन्धस्य निश्चयात् । (द्रष्टव्यं तत्रैव सू० ९६ )। सामान्यम्-अस्ति तावदेकाकारबुद्धिहेतु: सामान्यम् किन्तु अनित्यमिति सांख्यमतम् (द्र० सां० द० बनि० वृ० अ० ५ सू० ९१-९२)। तच्च सामान्यं नान्यापोहरूपम्, घटोऽयमिति भावत्वेन प्रतीतेः। अन्यथा 'अयं घट' इति स्थाने 'नायमघट' इत्येव तीयेत। किञ्च 'अघटव्यावृत्ति रित्यत्र अघटत्वं धटसामान्यभिन्नत्वमिति सामान्याभ्युपगम एबापतितोऽपोह- वादिनां शिरसि । (द्र० सां० प्र० भा० अ० ५ सू० ९३ )। सामान्यतोदृष्टम्-पूर्ववच्छेषवदुभयभिन्नमनुमानं सामान्यतोदृष्टम् । यथा रूपा- दिज्ञाने क्रियात्वेन हेतुना करणवत्त्वानुमानम् । (द्र० स० प्र० मा० अ. १ सू० १०३)।
वि८ सांस्यकोशः अदृष्टस्वलक्षणसामान्यविषयमनुमानं सामान्यतोदृष्टमनुमानमिति वाचस्पति- मिश्राः । ( सां० त० कौ० का० ५)। साम्यावस्था-गुणानामकार्यावस्था । इयमेव स्वरूपपरिणाम इत्युच्यते । सांसिद्धिकम् स्वाभाविकम् । सिद्धिः -अष्टप्रकारा भवति । तथा चोक्तं सांख्यकारिकायाम् ऊहः शब्दोऽ- ध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः । दानं च सिद्धयोऽष्टौ सिद्धः पूर्वोऽङ्क- शस्त्रिविधः ।। इति। ( सां० का० ५१ ) अत्र विहन्यमानम्य दुःखस्य त्रित्वात् तद्विघातास्त्रय इतीमाः मुख्यास्तिस्रः सिद्धयः । इतरास्तु तदुपाय- तया गोण्यः पञ्च सिद्धयः । तत्रोहस्तकः--आगमाविरोधिन्यायेन आगमार्थपरीक्षणम् । इदमेव मनन- मित्याचक्षते आगमिनः। इयं सिद्धिः तारतारमित्युच्यते । शब्दः अर्थात् शब्दजनितमथंज्ञानं द्वितीया सिद्धिः सुतारमित्युच्यते । एवं विधिवद् गुरुमुखादध्यात्मविद्यानामक्षरस्वरूपग्रहणमध्ययनसंज्ञिका सिद्धिः 'तारमित्युच्यते। न्यायेन स्वयं परीक्षितमप्यथं न श्रद्धत्ते यावद् गुरुशिष्यसहपाठिभिः सह न संवाद्यते। अतः सुहृदां गुरुशिष्यसहपाठिनां संवादकानां प्राप्तिः सुहृत्प्राप्तिः, -सा सिद्धिश्चतुर्थी रम्यकमित्युच्यते । दानं च शुद्धिविवेकज्ञानस्य । शुद्धिश्च सवासनसंशयविपर्यासानां परिहारेण विवेकसाक्षात्कारस्य स्वच्छप्रवाहेऽ- वस्थापनम् । अत्र विवेकज्ञानरूपकार्येण तत्कारणीभूतो दीर्घकालादरनैरन्तर्य- सेविताभ्यासपरिपाकोऽपि दानपदेन संगृहीतो भवति । सेयं पञ्चमी सिद्धिः सदामुदितमुच्यते । पूर्वोक्ताः तिस्रो मुख्याः सिद्धयः प्रमोदमुदितमोदमानसंज्ञादिभिः परिभाष्यन्ते । इत्यष्टौ सिद्धयः । (द्र० सां० त० कौ० का० ५१)। एषां पारिभाषिक- शब्दानां व्याख्यानान्तराण्यपि विलोकनीयानि सांख्यप्रवचनभाष्ये युक्तिदीपि- कादो चेति तत एव विस्तरोऽनुसन्धेयः ।
सांख्यकोशः ३१. सूक्ष्मभूतानि-स्थूलभूतातिरिक्तानि सूक्ष्मभूतान्यपि भवन्तीति वृत्तिकाराः। (द्र० सां० द० अनि० वृ० अ० १ सू० ६१ )। एतान्येव पार्थिवादि- परमाणवः । तत्र 'आद्यहेतुता तद्द्वारा पारम्पयेणाणुवत् ।' इति सूत्रमपि प्रमाणम् । ( सां० द० अ० १ सू० ७४)। गौडगदाचार्येणापि सांख्य- कारिकाभाष्ये सिद्धान्तोऽयमभ्युपगतः तदुक्तम् -पञ्चभ्यः परमाणुभ्यः पञ्चमहाभूतान्युत्पद्यन्त इति । (द्र० सां• का० भा० का० २२ )। विज्ञानभिक्षुस्तु पञ्चतन्मात्राण्येव सूक्ष्मभूतानीत्याह । तदुक्तम्-स्थूल- शब्दात् तन्मात्राणां सूक्ष्मभूतत्वमभ्युपगतम् इति । ( सां० प्र० भा०प०१ सू० ६१)। सूक्ष्मशरीरम्-अष्टादशमिस्तत्त्वैः सूक्ष्मशरीरमारभ्यते । इदमेव लिङ्गशरीरम् । द्रष्टव्यो लिङ्गशरीरशब्दविचारः । सूदवत्-यथा पाके निष्पन्ने पाचकस्य व्यापारो निवर्तते तथैव पुरुषार्थसमाप्तौ प्रधानस्य सृष्टिनिवर्तत इति । सृष्टिः-रागनिमित्ता सृष्टि: वैराग्यनिमित्ता च मुक्तिः । सृष्टिप्रयोजनम्-आत्मा स्वभावविमुक्तः, तस्याभिमानिकबन्धविमोक्षार्थ प्रधानस्य जगत्कर्तृत्वम् बन्धविमोक्षश्च हेयस्यकविंशतिप्रकारस्य दुःखस्य हानम् । एकविंशतिप्रकारं दुःखञ्च-शरीरं, षडिन्द्रियाणि, षड्विषयाः, षड्बुद्धयः, सुखं, दुःखञ्चेति । तत्र शरीरं दुःखायतनत्वाद् दुःखम् । इन्द्रियाणि, विषया, बुद्धयश्च दुःखसाधनभावात् । सुखमपि दुःखानुषङ्गात् दुःखम् । दुःखं तु यातनापीडासन्तापात्मकं मुख्यत एव दुःखमिति । दुःखहानञ्चात्यन्तिकी दुःखोल्पत्तिनिवृत्तिः । तस्योपाय आत्मविषयकं तत्त्व- ज्ञानम् । तथा च श्रुति:--'आत्मा वा अरे द्रष्टव...... तरति शोकमात्मवित् इत्यादिः । तस्यात्मनो विवेकज्ञानाय प्रकृतेः प्रवृत्तिरिति परार्था प्रधानस्य सृष्टिप्रवृत्तिः । स्वार्था च प्रधानस्य जगत्सृष्टिः । तथाहि, यं पुरुषं प्रत्यात्मानं विवेकेन दर्शितवती तं प्रत्युदास्ते प्रकृतिरिति । (द्र० सां. द० अनि० वृ० अ० २ सू० १)। ..
सांख्यकोशः सृष्टिप्रलयौ-साम्यात् = प्रकृतेः सदृशपरिणामात् प्रलयः । तथा वैषम्यात् = प्रकृतेमहदादिभावेन विसदृशपरिणामात् सृष्टिः तथा च सांख्यसूत्रम्-साम्य- वैषम्याभ्यां कार्यद्वयम्' (अ० ६ सू० ४२ )। सृष्टौ महदादीनां स्वार्थाभावः-सृष्टिहि पुरुषार्था भवति अतो महदादयो न स्वार्थाय सृष्टिमारमन्ते। प्रकृतेस्तु नित्यत्वात् तस्याः स्वार्थायारम्भो युज्यते। महदादीनान्तु अनित्यत्वात् कारणलयेन नाशात् सृष्टिमात्रं न तु कश्चित् स्वार्थः । (द्र • सां• द० अनि० वृ• अ० २ सू० ११ )। संस्कारैक्यम्-येन संस्कारेण मानवादिशरीरभोग आरब्धः, स एक एव संस्कारः तच्छरीरसाध्यस्य समनप्रारब्धमोगस्य समापकः। स च भोग- समाप्तिनाश्यः, न तु प्रतिक्रियम् =प्रतिभोगव्यक्ति संस्कारनानात्वम्, कल्पना- गौरवप्रसङ्गात् । कुलालचक्रभ्रमणस्थलेऽपि एक एव वेगाख्यः संस्कारो 'भ्रमणसमाप्तिपर्यन्तस्थायी बोध्यो न तु वेगात् संस्कारः, संस्काराच्च 'पुनवेग इति संस्कारनानात्वमस्तीति । (द्र० सां० प्र० मा० अ० ५ सू० १२७)। स्थूलशरीरम्-मातापितृभ्यां समुत्पन्नं पाटकौशिकम् । तत्र मातृतो लोम- लोहितमांसानि, पितृतश्च स्नायवस्थिमज्जान इति षट्कोशाः। (द्र० सां० 'त• कौ० का० ३९)। गौडपादास्तु पृष्ठोदरजङ्घाकट्युरःशिरःप्रभृति- षट्कोशाः । द्रध्यमुक्तकारिकाया भाष्यम् । स्फोट:-प्रत्येकवणेभ्योऽतिरिक्तं 'कलश' इत्याकारकमखण्डमेकपदं स्फोट इति वैयाकरणर्योगैश्चाभ्युपगम्यते । यथा कम्बुग्रीवाद्यवयवेभ्योऽतिरिक्तो घटा- द्यवयवी प्रतीयते स च शब्दविशेषः पदाख्योऽर्थस्फुटीकरणात् 'स्फोट'. 'इत्युच्यते । स च स्फोटात्मकः शब्दो न सांख्यैरभ्युपगम्यते । यतो हि स स्फोटः प्रतीय- मानः सन् अर्थ प्रत्याययति उताप्रतीयमानः सन् ? आये सा स्फोटप्रतीतिनं श्रावण प्रत्यक्षरूपा, अननुभवात्, किन्तु अभिव्यक्तिरूपंव स्वीकार्या। एवञ्च ।
सांख्यकोशः येन वर्णसमुदायेनानुपूर्वो विशेषविशिष्टेन स्फोटोऽभिव्यज्यते, तस्यैवार्थप्रत्याय- कत्वमस्तु, किमन्तर्गडुना स्फोटेन ? द्वितीये तु अज्ञातस्फोटस्य नास्त्यर्थ- प्रत्यायनशक्तिरिति व्यर्था स्फोटकल्पनेति। (द्र० सां० प्र० मा० म०५ सू०५७)। स्वकर्म-स्बाश्रमविहिकर्मानुष्ठानम् । स्वतः प्रामाण्यम्-वेदानां स्वाभाविकी या यथार्थज्ञानजननशक्तिः, तस्या मन्त्रायुर्वेदादावुपलम्मात् समस्तवेदानां स्वत एव प्रामाण्यं न तु वक्तृयथार्थ- ज्ञानाधीनम् । (द्र० सां० प्र० मा० अ० ५ सू० ५१ )। अनिरुद्धोऽपि आह-निजशक्तिज्ञानजनकसामग्रीमात्राधीनं प्रामाण्यं न तु अधिक गुणमपेक्षते नैयायिकवत् । इदमुत्पत्तिपक्षे । ज्ञप्तिपक्षेऽपि औत्सगिकी ज्ञानग्राहकाणां प्रामाण्यबोधशक्तिः। अप्रामाण्यन्तु परतः, तत्र दोषस्यापि कारणत्वात् । ( द्र० सां० द० अनि० वृ० अ० ५ सू० ५१) स्वरूपं न शक्तिः-यदि स्वरूपं शक्तिस्तदा 'शक्तो मल्ल' इत्युक्तौं पुनरुक्तदोषः स्यात् देवदत्तो देवदत्त इतिवत् । तथा शक्तो मन्त्र इति विशेषणमनर्थकं च स्यात् । तथा च निजा बासौ शक्ति श्चेति निजशक्तिः न तु स्वरूपमेव शक्ति- रिति सिद्धान्तः । ( द्र० सा० द. अनि० वृ० अ० ५ सू० ३३, ३४, ३६ )। स्वालक्षण्यम्-स्वं स्वं लक्षणम् = असाधारणीवृत्तिः अध्यवसायाभिमानसङ्कल्प- रूपा येषां तानि स्वलक्षणानि महदहङ्कारमनांसि, तेषां भावः स्वालक्षण्यम् । तदेव स्वं स्वं लक्षणमध्यवसायादिरूपं महदहङ्कारमनसां वृत्तिरस्तीति । (द्र० स० त० को० का० २९)। हंसक्षीरवत्-यथा दुग्धजलयोरेकोभावमापन्नयोर्मध्येऽसारजलत्यागेन सारभूत- क्षीरोपादानं हंसस्यैव भवति न तु काकादेः। तथैव विरक्तस्यैव हेयानां प्रकृत्यादीनां हानम्, उपादेयस्य चात्मन उपादानं संभवति नाविरक्तस्य । (द्र० स० प्र० मा० ०४ सू० २३) इति शिवम् ।
४२
सांख्यकोशः
सारण्यमण्डले पुण्ये ग्रामे विष्णुपुराऽभिधे ।
जनिस्त्रिपाठिनो लब्ध्वा रामादेर्यो विहारिणः ।।
न्यायव्याकरणे श्रीमत्सूर्यनारायणाद् गुरोः ।
वेदान्तं विश्रुताच्छमीद्धरिहरकृपालुतः ॥
श्रुत्वा वादविदप्रणीः स विदितः केदारनाथः कृती।
सांख्याभीष्टरहस्यमत्र प्रकटीकर्तुं समीहाभृतः ।।
शून्याग्न्यभ्रकलोचनैः परिमिते संवत्सरे वैक्रमे ।
माघे मासि सिते ह्यपूरयदिमं कोशं मुदा कापिलम् ।।
इति श्रीमदाचार्यकेदारनाथत्रिपाठिप्रणीतः सांख्यकोशः पूर्णः ।
स्मृतिमात्रेण शेषेषु पादपद्मषु पूज्ययोः पित्रोर्योगपदाब्जानां कोशोऽप्येष समर्प्यते ॥
No text on this page.
प्रस्तावना . अथायं प्रस्तूयते पातजलदर्शनोपजीव्योऽभिनवो योगकोशोऽपि मया विदुषां प्रमोदाय जिज्ञासुजनकल्याणाय चेति स्वमनसि महत्सन्तोषमनु- भवन्नस्मि। योगशास्त्रस्यापि चतुर्दशविद्यान्तर्गतत्वं साङ्ख्यशास्रवदे- वास्ति, "अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्म- शास्त्रञ्च विद्या ह्येताश्चतुर्दश ॥" इत्यत्र न्यायविस्तरपदेनास्यापि संगृही- तत्वादिति मन्तव्यम् । साङ्ख्ययोगशास्त्रयोभिन्नप्रवक्तृकत्वेऽपि बाला एव केचन साङ्ख्ययोगी पृथगिति वदन्तीति भगवद्गीतायां स्पष्टमुक्तम् । वस्तुतस्तु परस्परपूरकल्व- मेवानयोः शास्त्रयोर्वरीवति । कथमन्यथा निःसाधनं साङ्ख्यज्ञानमुत्पत्तु- मपि प्रभवेत्, निलक्ष्यो वा योग आश्रीयेत केनापि सचेतसेति विभावयामा। अतः साध्यसाधनयोरिव धनीभूतः सम्बन्धः साङ्ख्ययोगयोरप्यस्ति । अतएव च सांख्ययोगयोरेकतरमन्यतरस्मात् पृथक् कर्तुमशक्यमेव । योग- सूत्रेषु योगभाष्ये च यथा मोगापवर्गयोर्बन्धमोक्षयोः, बुद्धिसत्त्वपुरुषयोश्च वर्णनं वरीवति, तत्सर्व साङ्ख्यमेवास्तीति । वस्तुगत्या योगेऽपि साङ्ख्य- स्यैवोद्देश्यविधया प्राधान्यं दृश्यते । अत एव योगो नात्मानं साङ्ख्यात् पृथक्कर्तुमर्हतीति । एतज्ज्ञानार्थ पातञ्जलयोगदर्शनस्य तृतीयपादस्य “पञ्चविंशसूत्रस्य भाष्यादिकमवलोकनीयमस्ति । अतो योगकोशमन्तरकल: साङ्ख्यकोशोऽपूर्ण एवेति योगकोश प्रणयनेऽपि समयव्यवधानमविधाय यद्यप्यन्यैरपि बहुभिर्योगममंजर्योगसम्बन्धिनो नैके स्वतन्त्रग्रन्था अपि विरचिताः समुपलभ्यन्ते, तथापि व्याकरणन्यायवेदान्तादिशास्त्रसमक- ( २ ) क्षतायां साङ्ख्यशास्त्रवदेव योगशास्त्रस्यापि ग्रन्थसम्पत्तिनं तावती भूय- सोति न विदुषां तिरोहितमेतत् । एवं सत्यपि योगभाष्यतत्त्ववेशारदीयोग- वार्तिकप्रभृतयो ग्रन्था योगशास्त्रसिद्धान्तविज्ञानाय पर्याप्ताः सन्तीति नात्र सन्देहलेशोऽपि । एतेष्वपि योगभाष्येणैव संक्षेपेण सर्वोऽपि योगविषयः प्रायेण कवलोकृत इति तदीयविशदव्याख्यान एव प्रयतमाना दृश्यन्ते तत्त्व- वैशारदीकारा विवरणकारा योगवातिककाराश्चेति तेषां व्याख्यानप्रामा- णिकतामनुरुध्यैव कोशोऽयं मया निरमायि । अन्ये च वृत्तिकारादयः प्रायस्तानेवानुसरन्तोति तत्त्तत् स्थलेषु मया निरदेशि । वाचस्पतिमिश्र- विज्ञानभिक्षुव्याख्यानयोर्भेदोऽपि कवचिद् दृश्यमानोऽधीतिजनबुद्धिवेशद्या- यैव कल्पेतेति मन्ये । योगशास्त्रस्य प्रवर्तकः यद्यपि हिरण्यगर्भ एव योगस्याद्यो वक्तति ''हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इयि वचनात् प्रसिद्धिरस्ति, तथापि योगस्य शास्त्ररूपेण प्रवर्तको महर्षिः पतञ्जलिरेवेत्यत्र नास्ति सन्देहः । स चायं पतञ्जलि। कः ? काञ्चासौ भुवमलञ्चकार ? काश्च तस्य कृतय इति विषयेऽस्ति महान विसंवादो विदुषाम् । अपतत् अञ्जल्या. यः स पतञ्जलिः, अथवा अञ्जलिर्नमस्यतयाऽपतद् यस्मै स पतञ्जलि- रिति पतञ्जलिशब्दस्य द्वेधा व्युत्पत्तिः। अत्रत्यं कथानकञ्चान्यतोऽ- नुसन्धेयम् । पतञ्जलिनामानः पञ्चाभूवन्निति दामोदरप्रसादशर्मा प्रतिपाद- यति । तद्यथा-महर्षिपतञ्जलिः, मुनिपतञ्जलि।, आचार्यपतञ्जलिः, कोशकारपतञ्जलिः, महामुनिपतञ्जलिश्चेति। तदनुसारमाद्यो महर्षि- पतञ्जलिवर्तमानकालात् पञ्चसहस्रवर्षपूर्ववर्ती शुक्लयजुर्वेदस्य पातञ्जल- शाखाया द्रष्टा, निदानसूत्रस्य वैदिकग्रन्थस्य च रचयिताऽभूत् । कतिपय- ( ३ । विदुषां मतमस्ति-चरकसम्प्रदायवत् शङ्कराचार्यसम्प्रदायवच्च पात- जलसम्प्रदायोऽप्यासीत्, यस्य वर्णनं बहुकालानन्तरं पाणिनिना पात- जलशब्दोल्लेखेन कृतम्, तदुपरि महाभाष्यकारेण च लिखितम्-पात- जला: = पतञ्जले: शिष्यसम्प्रदाय इति । द्वितीयो मुनिपतञ्जलि- वर्तमानसमयात् त्रिसहस्रवर्षपूर्वं काश्मीरे भद्रदेशेऽभूत् । तेन नवमेकं दर्शन- शास्त्रमाविष्कृतं दर्शनसम्बन्धिग्रन्थद्वयञ्च निर्मितम्-परमार्थसारः पञ्चा- शती चेति । अस्मादारुणिरुद्दालको ज्ञानमग्रहीदित्युल्लेखो 'बृहदारण्य- कोषनिषदि वर्तते । ( ३७१ ) वेदानां मननान्मुनिरिति। तृतीय आचार्यपतञ्जलिरितः पञ्चदशशतवर्षपूर्व जातः कश्चिद्रसायनाचार्यः । अस्य लौहशास्त्ररसशास्त्रादयोऽनेके रसग्रन्थाः सन्ति । चतुर्थः कोशकारपतञ्ज- लियर्योऽभिधानचिन्तामणौ प्रामाण्यं वासुकेरिति निर्दिष्टः। अमरकोशेऽ- प्यस्योदाहरणानि दत्तानि सन्ति । पञ्चमो महामुनिपतञ्जलियर्यो महाभाष्य- योगदर्शनयो रचयिता चरकसंहितायाश्च प्रतिसंस्कर्तेति । अयमेव "योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन । योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि" इति पद्ये निर्दिष्टः । अयञ्च राज्ञः पुष्यमित्रस्य समकालीनः इत्यत्र "पुष्यमित्रं यजामहे, पुष्यमित्रं याजयामः" इति महाभाष्यं प्रमाणीकरोति । अयमेव चरकसम्प्रदायानु- यायितया चरकः पातञ्जलशिक्षासंस्थानस्याचार्यतया च पतञ्जलिरित्या- ख्यातः। अस्य वास्तविक नाम जय इति, माता चास्य जया पिता च विजय इत्यासीत् । अयं काश्मीरनिवासी कात्यायनस्य पालितः पट्टशिष्य आसीत् । शेषस्य सर्वाणि नामान्यस्थ पर्यायाणि मन्यन्त इति । नागेशभट्टानुसारं गोनर्द ( सरस्वती ) तीरे तपस्यत ऋषेरज्जलौ पतनात् पतञ्जलिरिति नामाभूत् । स च ऋषिः कात्यायन एव गोनीयः १. टि० बृहदारण्यकोपनिषदि पतञ्चल इति नाम दृश्यते न पतञ्जलि- रिति ध्येयम् ।
( ४ ) पतञ्जले: पालको गुरुश्चासीत् । महाभाष्ये उक्तम् -गोनीयस्त्वाहेति । ( ३।२।११८)। ( शब्देन्दुशेखरः पृ० २ )। पतञ्जलेर्जन्मस्थानम् अस्य मुनेः स्थानसम्बन्धे “गोनीयस्त्वाहे" तिकथनात् गोनदंदेशवासी अयमिति । स च गोनर्ददेशोऽद्यतनो 'गोण्डा' इति निश्चिनोति श्रीराम- कृष्णगोपालभण्डारकरः । ( रसयोगसागर पृ० २०) किन्त्विदं कथन न बुद्धिमारोहति । यतो महाभाष्यकार आत्मनः कृते "गोनर्दीय" इति नाह किन्तु वार्तिककारस्यैव कृते तदाह । पतञ्जलिस्तु पुष्यमित्रं यजामहे, चन्द्रगुप्तसभेत्यादिकथनात् पाटलिपुत्रवासीति प्रतीयते । केचितु "काश्मीरान् गमिष्यामो देवदत्त ! तत्र सक्तून् पास्यामः, अभिजानासि देवदत्त ! यत् काश्मीरेषु वत्स्यामः" इति महाभाष्यवचनात् काश्मीरवासीति कथयन्ति । किन्तु मथुरापाटलिपुत्रयोः विशेषेण चर्चा- दर्शनात्, काश्मीरसम्बन्धे भविष्यत्कालप्रयोगाच्च पाटलिपुत्रवास्येव पतञ्जलिन काश्मोरवासीति निश्चिन्वन्ति । काल! "पुष्यमित्रं यजामहे, चन्द्रगुप्तसभा" इत्यादिप्रयोगात् १५० ई० वर्ष-. पूर्व पतञ्जलिरभूत् इत्याह दामोदरप्रसादशर्मा । किन्तु यदि त-मते चरकपतञ्जली अभिन्नौ तदा ई० पू० १५० तमे वर्षे विद्यमानः स ततः पश्चाद् द्विशतवर्षानन्तरं कनिष्कस्य राजवैद्यः कथङ्कारं भवितुमर्हति ? एतदथं २५०-३०० वर्षाणि यावद् योगबलात् सोऽजीवदिति मन्यते शास्त्री। किन्तु पतञ्जलिसम्बन्धिन उक्तविचाराः महाभाष्यकारपतञ्जलि- सम्बन्धिन एव वर्तन्ते । त एव विचारा योगसूत्रकारपतञ्जलिसम्बन्धेऽपि घटन्त इति तु निर्णयस्तावदवशिष्यत एव यावत्तयोरैक्यं न निर्णीतं भवेत् ।
( ५ ) अत्रोदयवीरशास्त्री प्रतिपादयति-एक एव विद्वान् व्याकरणमहा- भाष्यं योगदर्शनञ्च रचितवानिति कथनं सर्वथा नियुक्तिकम् । एतदनुसार वेदान्तदर्शने "एतेन योगः प्रत्युक्तः" इति सूत्रेण पातञ्जलयोगस्योल्लेखः कृतः अतो वेदान्तसूत्रकारात् व्यासाद् बहुपूर्व योगसूत्रकारः पतञ्जलिरभूद् यदा तु महाभाष्यकार: पतञ्जलिविक्रमादित्यात् केवलं वर्षशतद्वयपूर्व- मेवाभूदिति । अत उभौ पतञ्जली भिन्नावेवेति । उभयोः पतञ्जल्योरैक्यसमर्थकास्तु समादधति यदुक्तसूत्रे योगसामान्य- मेवाभिप्रेतम् न तु पातञ्जलो योगः। अतो महाभाष्यकारपतञ्जलिरेव योगसूत्रकारपतञ्जलिरिति । भोजदृष्टौ अहिपतिशेषनागावतारभूतः पतञ्जलिर्योगसूत्राणां रचयिता। एव व्याकरणमहाभाष्यरचयिता चरकसंहितायाः प्रतिसंस्कर्ता चास्ति । चरकसंहिताटीकाकारश्चक्रपाणिराह- पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः। मनोवाक्कायदोषाणां हन्त्रऽहिपतये नमः ॥ इति । कायवाग्बुद्धिविषया ये मलाः समवस्थिताः । चिकित्सालक्षणाध्यात्मशास्त्र' तेषां विशुद्धये ॥ ( वाक्यपदीयं ब्रह्मकाण्डम् ) इति चरके पतञ्जलिः" ( नागोजीभट्टः ) "सूत्राणि योगशास्त्रे वैद्यकशास्त्रे च वातिका नि ततः । कृत्वा पतञ्जलिमुनिः प्रचारयामास जगदिदं त्रातुम् ॥" ( इतिपतञ्जलिचरिते रामभद्रदौक्षितः ) इत्येवमादीनि वचनान्येवाधृत्य त्रीनपि पतञ्जलीनेकत्वेनाध्यवस्यन्ति बहवो विद्वांसः।
( ६ ) तेषां मतम् । - इदमप्येकं मतं वर्तते यच्चरकः शेषनागस्यावतारोऽभूत् । एतदा- धारेण कतिपयविदुषामनुमानमस्ति यत् स नागजातीयः कश्चिदार्य आसीत् । पतञ्जलिरपि शेषावतारो मन्यते । अतश्चरकः पतञ्जलिरेवेति अस्मात् कारणात् चरकस्य पतञ्जलित्वं साधयन्तस्ते योगसूत्रकारस्य महाभाष्यकारनामसाम्यात् पतञ्जलित्वं स्फुटमिति कृत्वा ते कथयन्ति यत् पतञ्जलिरेव चरको नान्यस्तथा योगसूत्राणां चरकसंहिताया महाभाष्यस्य च रचयिता एक एव पत्नजलिरासीदिति । इत्थं पतजलेरेकत्वानेकत्वविसंवादे आचार्यप्रियव्रतशर्माणः स्वीये चरकचिन्तने उभयपक्षसमर्थिकाः युक्ती: समुपस्थापयन्तः बहुषु स्थलेषु महाभाष्यकारेण सह चरकयोगसूत्रकारयोरेकत्वसमर्थक साम्यं प्रदश्यं षड्भिहेंतुभिर्महाभाष्यकारचरकयोः पञ्चभिश्च हेतुभिः योगसूत्रकारचरक- योभिन्न्यं साधितवन्तः। आयुर्वेदस्य बृहदितिहासेऽत्रिदेवो लिखति- योगसूत्रमहाभाष्ययोः रचयिता एक एव पतञ्जलिरिति नास्ति निश्चय इति । पृ० ४७५ अपरे च कथयन्ति-महाभाष्येऽनेकशब्द एकवचनान्त एव स्वीकृतो दृश्यते नञ् सूत्रभाष्ये, किन्तु "प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम्" इति योगसूत्रे बहुवचनान्तप्रयोगो वर्तते । अयं शब्दप्रयोगभेदः पतञ्जलि- भेदं गमयति । एवं वैद्यके वा योगे वा व्याकरणे वा कस्मिन्नपि प्राचीन- ग्रन्थे त्रयाणामैक्यसङ्केतो नासाद्यते । न वा वाचस्पतिभिश्रादिवत् स्व- कृतित्वेनान्यतम स्मन् ग्रन्थे अन्यतमस्य ग्रन्थस्य स्वयं पतञ्जलिना कृतः क्वचिदुल्लेखो दृश्यते। अस्यां स्थितौ प्रवादपारम्पर्येण त्रयाणामेकत्वं तत्र प्रबलप्रमाणाभावेन चानेकत्वमध्यवसीयते विभिन्नविद्भिः । वस्तुतः त्रयाणां महाभाष्य- योगसूत्रचरकसंहिताग्रन्थानां कालनिर्णयोऽपि पतञ्जलेरैक्यानैक्यनिर्णये सहायको भवितुमहंतीति स्वतन्त्ररूपेण पूर्व तेषां ग्रन्थानां कालनिर्णयोऽ पेक्षितोऽस्तीति पृथगेवात्र विषये कदाचिद् विचारयिष्यते ।
( ७ ) योगसूत्रेषु व्यासभाष्यं वेदान्तसूत्रेषु शारीरकभाष्यवदेवातिगभीरं साकल्येन योगसिद्धान्तप्रतिपादकञ्चास्ति । तदुपरि षड्दर्शनारण्या- नीपञ्चाननानां श्रीमद्वाचस्पतिमिश्राणां यथार्थनाम्नी तत्त्ववैशारदीटोका नूनं शारीरकभाष्योपरि तदीयभामतीव सुविशदा भाष्यगभीराशयाभि- व्यञ्जिका प्राञ्जला च विराजत इति महदुपकृतमस्य शास्त्रस्य तैरिति मन्यामहे। योगमर्मज्ञानां विज्ञानभिक्षूणां योगवार्तिकमपि महत्त्वपूर्ण प्रमाणनिचयरवचितं क्वचित् स्वतन्त्रविचारभरितञ्चास्तीति भाष्यस्य सोऽप्यपूर्वो व्याख्याग्रन्थ उपलभ्यते । क्वचित् क्वचिद् वाचस्पतिमिश्राणां विरोधोऽपि तेन कृत इति तस्य युक्तत्वायुक्तत्वे पृथगेव विचारणीये । योगभाष्यस्योपरि श्रीमद्भगवत्पादेन शङ्कराचार्येण निर्मितं विवरण- मप्युपलभ्यते । अयमाद्य एव शङ्कराचार्य इति बहवो विद्वांसोऽभ्युपयन्ति । न्यानपि च नागेशभट्टप्रभृतिनिर्मितान् वृत्तिग्रन्थान् योगमञ्जरी- योगचिन्तामणि-हठयोगप्रदीपिका-योगवाशिष्ठादिग्रन्थान् च सन्दर्भरूपेण समाश्रित्य कोशोऽयं मया निरमायि । अन्ते च 'आपरितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम्" इति कालिदासीयं पद्यं स्मरन् अयमपरोऽपि मस्प्रयासो यदि विदुषां सन्तोषाय जिज्ञासुजनलामाय च भबेच्चेदात्मनः प्रयासस्यास्य साफल्यं मन्य इति शिवम् । विदुषामाश्रव :- केदारनाथ त्रिपाठी ( दर्शनविभागाध्यक्षः) काशीहिन्दूविश्वविद्यालयः वाराणसी जुलाई, १९७४ सङ्केताः पा० सू० यो० वा० यो० भा० - %D द्रष्टव्यम्। = पादः, सूत्रम् । त० वै० - तत्त्ववैशारदी। = योगवार्तिकम् । यो० ० द० = योगदर्शनम् । = योगभाष्यम् । 'पा० सू० वृ० पातञ्जलसूत्रवृत्तिः । पा० यो० सू० भा० वि० पातञ्जलयोगसूत्रभाष्यविवरणम् । यो '०म०का० = योगमञ्जरीकारिका । यो० ० सू० म०प्र० वृ० योगसूत्रमणिप्रभावृत्तिः। पा० द. भो० वृ० पातजलदर्शनभोजवृत्तिः। यो० मा०वि० योगभाष्यविवरणम् । ० वृ० वि० पा० = पातञ्जलयोगसूत्र भोजवृत्ति- विभूतिपादः । ह० यो० प्र० उप० श्लो० हटयोगप्रदोपिका-उपदेश:-श्लोकः । - वायुपुराणम् । पृ० %D पृष्ठम् । यो चि०प० - योगचिन्तामणिः परिच्छेदः । योगसूत्रम् । यो भा० त०व० योगभाष्यतत्त्ववैशारदी। या. भा० तथा वा० योगभाष्यम् तथा वातिवान् । पा० सू० वृ० पातञ्जलसूत्रबृत्तिः। 'पा०यो० सू० भो० वा० पु० % 3D यो० सू० - ॥ श्रीगणेशाय नमः ।। योगकोशः नमः सूत्रप्रणेतृभ्यो भाष्यकृद्भ्योऽपि भूरिशः। विधाय योगशास्त्रस्य प्रणये कोशमिष्टदम् ।। अङ्गमेजयत्वम्-यदङ्गानि एजयति = कम्पयति तस्य भावोऽङ्गमेज- यत्वम् सर्बाङ्गीणो वेपथुः । अणिमादयः-अणिमा, लघिमा, महिमा, गरिमा प्राप्तिः, प्राकाम्यम्, वशित्वम्, ईशितृत्वम् इत्येतान्यष्टौ ऐश्वर्याणि । अतीतानागतज्ञानम्-धर्मलक्षणावस्थारूपपरिणामत्रये संयमात् धारणाध्यानसमाधिरूपात् योगिनामतीतानागतज्ञानं भवतीति योगमाष्यम् ( द्र० पा० ३ सू० १६ )। अत्राहुर्वाचस्पतिमिश्रा:--परिणामत्रयं साक्षात्क्रियमाणं तेषु परिणा- मेष्वनुगते ये अतीतानागते, तद्विषयं ज्ञानं सम्पादयति । परिमाणत्रय- साक्षात्करणमेव तदन्तर्भूतातीतानागतसाक्षात्करणात्मकमिति संयम- साक्षात्कारयोर्न विषयभेदापत्तिरिति । (द्र०त०वै पा० ३ सू० १६)। विज्ञानभिक्षुस्तु-संयमसाक्षात्कारयोविषयभेदेऽपि न काप्यसङ्गतिः ! अन्यविषयकसंयमात् प्रतिनियतपदार्थान्तरसाक्षात्कारश्च योगजधर्म- बलाद् भवतीति शास्त्रप्रामाण्यादवधार्यते, धर्मविशेषात् स्वर्ग- विशेषवत्, तपोजन्यसिद्धिवत्, भुवनज्ञानं सूर्ये संयमादिति सिद्धि- वच्चेत्याह । (द्र० यो० वा० तत्रैव )। अथ-"अथ योगानुशासनम्' इति सूत्रगतस्य अथेति शब्दस्य अधिकारोऽर्थः । तथा च भाष्यम्-'अथेत्ययमधिकारार्थः' इति ।
( २ ) तेन योगानुशासनं शास्त्रमधिकृतं वेदितव्यमिति सूत्रार्थः सम्पद्यते । अधिकारश्च आरम्भणम्, अधिकारशब्दस्य योगरूढतया आरम्भण एव मुख्यत्वात् । अतोऽत्र योगशास्त्रस्याधिकार्यत्वम् = आरम्भणौयत्वं मुख्यमेवास्तीति विज्ञानभिक्षुः। वाचस्पतिभित्रैः सूत्रस्थाथशब्दस्या- धिकारार्थत्वे दृष्टान्त उक्तः "अथैष ज्योतिरितिवत्" इति । यद्यप्यत्र दृष्टान्ते ज्योतीरूपस्यार्थस्याधिकार्यत्वं मुख्यं न संभवति अर्थस्या- नधिकार्यत्वात्, तथापि अधिकार्यशास्त्रविषयतया तत्र गौणमधि- कार्यत्वमस्त्येवेति तस्य दृष्टान्तत्वमुपपद्यत एवेत्याशयः अधिकारार्थोऽप्ययमथशब्दोऽन्या नीयमानोदकुम्भ इब दर्शनेन श्रवणमात्रेण मङ्गलायापि कल्पते । (द्रष्टव्ये योगवार्तिकतत्त्ववैशा- रद्यौ यो०८०पा० १ सू० १) वृत्तिकारोऽप्याह-अथ शब्दोऽधिकार- द्योतको मङ्गलार्थकश्चेति । (द्र० यो० सू० मो० वृ० पा० १ सू०१)। अदृष्टजन्मवेदनीयः कर्माशयः-पुण्यापुण्यकर्माशयो लोममोह- क्रोधप्रभवः । स दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च अस्मिन्नेव जन्मनि फलदानाय परिपच्यमानः कर्माशयो (धर्माधमौ) दृष्ट जन्मवेदनीयः । भविष्यज्जन्मनि च फलदानाय परिपक्ष्यमाणः काँशयो (धर्माधमौ') अदृष्टजन्मवेदनीयो भवति । तत्र तीव्रसंवेगेन मन्त्रतपःसमाधिमिनिष्पादितः ईश्वरदेवतामहर्षिमहानुभावा- नामाराधनाद् वा परिनिष्पन्नो यः पुण्यकर्माशयः स सद्यः (इहैव जन्मनि) परिपच्यते । यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः। एवं तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु वा तपस्विषु कृतः पुनः पुनरप- कारोऽपि पापकर्माशयोऽधर्मरूपः सद्य एव परिपच्यते। यथा नहुषो देवानामिन्द्रोऽपि स्क्कं परिणामं हित्वा तिर्यक्त्वेन (सर्पत्वेन) परिणतः । इति दृष्टजन्मवेदनीयकर्माशयोदाहरणे। एवं कुम्भी- पाकादिनरकभेदप्रापको नारकाणां काशयोऽष्टनन्मवेदनीयः । भवति ।
.. न हि मनुष्यशरोरेण तत्परिणामभेदेन वा सा तादृशी वत्सरसहस्रादि- निरन्तरोपभोग्या वेदना सम्भवतीत्यदृष्टजन्मवेदनीयः स नारकाणां कर्माशयः। द्रष्टव्यं योगभाष्यं तत्रत्या तत्त्ववैशारदी च ( पा० २ सू० १२)। अधिमानतीव्रः-अधिमात्रोपाया योगिनोऽपि त्रिधा भवन्ति, मृदुतीबसंवेगो, मध्यतीवसंवेगोऽधिमात्रतीव संवेगश्चेति । एषु यस्तृतीयोऽधिमात्रतीवसंवेगस्तस्य तु अधिमात्रोपायस्य सतः आसन्नतमः समाधि लाभो भवतीति । एवंविधो योगी अधिमात्रो- पायत्वे सति अधिमात्रतीव्रः = अर्थात् अधिमात्रतोत्रसंवेग इत्युच्यते । (द्र० यो० भा० पा० १ सू० २२)। अधिमात्रोपायः-उपायाः श्रद्धा-वीयं स्मृतिः समाधिः प्रज्ञा चेति पञ्च सन्ति असंम्प्रज्ञातसमाधिसिद्धेः । तत्र प्राग्भवीयसंस्कारा- दृष्टवशाद् येषां योगिनां श्रद्धाद्याः प्रज्ञान्ता उपाया अधिमात्रा- भवन्ति, तेऽधिमात्रोपाया योगिनः कथ्यन्ते । एवमेव केचिन्मृदूपायाः केचिच्च मध्योपाया भवन्ति योगिनः । अनन्तसमापत्ति:-- आसननिष्पत्तिकारणमनन्तसमापत्तिः । स्वाभाविकप्रयत्नशेथिल्यमासनसिद्धिहेतुस्तथैवानन्ते नागनाथे स्थिरतर- फणासहस्रविधृतविश्वंभरामण्डले समापन्नं तद्धारणया तदात्मतापन्न चित्तमासनं निष्पादयति । (द्र० यो० मा० त० वै० पा० २ सु० ४७ )। तच्च तदनुग्रहात् सजातीयभावनावशाददृष्टवशाद्वेति विज्ञानभिक्षुर्नागेशभट्टश्चेति । (द्र० यो० वा० तथा पा० सू० वृ० पा० २ सू० ४४) आकाशादिगते आनन्त्ये चेतसः समापत्तिरनन्त- समापत्तिरितिमोजदेवः । अनुमानम्-अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्या- वृत्तः सम्बन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम् इति योगभाष्यम् । व्याख्यातं चैतद् वाचस्पतिमित्रैः, यथा जिज्ञा- यथा च ( ४ ) वै० करोति, सितधर्मविशिष्टो धर्मी अनुमेयः तस्य तुल्य जातोयाः सपक्षाः, तेष्वनु- वृत्तः, तथा विभिन्नजातीयेभ्योऽसपक्षेभ्यो ( विपक्षेभ्य इति यावत् ) व्यावृत्तो यः सम्बन्धो = लिङ्गम्, सम्बध्यते इति सम्बन्ध इति व्युत्पत्तेः। एवंविधलिङ्गविषया = लिङ्गनिबन्धना या सामान्याव- धारणप्रधाना वृत्तिः सा अनुमानमित्यर्थः । (द्र० यो० भा० त०. ० पा० १ सू० ७ )। अनेक कर्म एकस्य जन्मनः कारणम्-जन्ममरणान्तराले कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः ( अनेक: ) प्रधानोपसर्जनभावेना- वस्थितो मृत्युनाऽभिव्यक्तोऽर्थात् मरणकाले प्रारब्धकर्मभोगसमाप्त्या लब्धावसरः सन् एकप्रघट्टकेन मिलित्वा मरणं प्रसाध्य जन्मादिरूपे कायें कर्तव्ये एकलोलीभावमापन्नः एकमेव जन्म नानेकम् । अतो ऽनेकं कर्म मिलित्वा एकस्य जन्मनः कारणमिति सिद्धान्तः। (द्र० यो० भा० त० वै० तथा यो० वा. पा० २ सू० १३ )। अन्तरायाः-व्याधिः, स्त्यानम् (अकर्मण्यता चित्तस्य ), संशयः, प्रमादः, आलस्यम्, अविरतिः ( चित्तस्य विषयसंसर्गजन्या तृष्णा), भ्रान्तिदर्शनम् ( विपर्ययज्ञानम् ), अलब्धभूमिकत्वम् ( मधुमत्यादि- समाधिभूमोनामेकतमस्या अपि साधनानुष्ठानेऽप्यलाभः ), अनवस्थि- तत्वम् ( लब्धायां भूमौ चित्तस्याप्रतिष्ठितत्वम् । चित्तेप्रतिष्ठिते तु समाधिमेषःस्यात्ततः तस्या अपि भूमेरपाय: स्यात् । अतः समाधिप्रतिलम्भे चित्तमवस्थितं कर्तुं प्रयतितव्यम् साधकेनेति)। इत्थं नवान्तराया भवन्ति योगस्य । एते एव चित्तविक्षेपा इति, योगमला इति, योगप्रतिपक्षा इति च कथ्यन्ते। (द्र यो० भा० त• वै० पा. १ सू० ३०) । अन्तःकरणस्य विभुत्वम् -बुद्धिसत्त्वं हि भास्वरमाकाशकल्पमिति वदता भाष्यकारेणान्तःकरणस्य वैकारिकाहङ्कारजन्मनः सत्त्वबहु- ( ५ ) लतया ज्योतीरूपता विवक्षिता तत्तद्विषयगोचरतया चाकाशवद् विभुत्वमप्यस्तीति । बुद्धिरत्र मनोऽभिप्रेतम् न तु महत्तत्त्वम् । सा बुद्धिरेव सत्त्वबहुलतया बुद्धिसत्त्वमिति गीयते । (द्र० यो० भा० त० ० पा० १ सू० ३६ )। अत्रत्यं योगवार्तिक- मप्यनुसंधेयम् । अन्तर्धानम्-रूपरसगन्धस्पर्शशब्दपञ्चकात्मको हि कायः । तत्र यदा कायस्य रूपे संयमविशेषो योगिना क्रियते तदा रूपस्य ग्राह्यताशक्तिः रूपवत्कायप्रत्यक्षताहेतु: स्तभ्यते । तस्माद् ग्राह्य- शक्तिस्तम्भे सति योगिनोऽन्तर्धानं = परकीयचक्षुर्जन्यज्ञानाविषयत्वं 'भवतीति । एवमेव कायस्य शब्दस्पर्शरसगन्धेषु संयमात् 'तत्तद्ग्राह्यशक्तिस्तम्भे श्रोत्रत्वग्रसनघ्राणजन्यज्ञानाविषयत्वरूप- मन्तर्धानं शब्दादिमतो योगिनो भवतीति । ( द्र० यो० भा० त० पै० पा० ३ सू० २१ )। अन्वयः-भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला: गुणाः सन्ति, ते च कार्यस्वभावानुपातिनो भवन्ति । त एव भूतजयाथ संयमविषयतयाऽन्वयपदेन गृह्यन्ते। द्र०यो०भा०पा० ३ सू० ४४)। अपरवैराग्यम्-वैराग्यं द्विविधम्, अपरवैराग्यं परवैराग्यञ्चेति । तत्रापरवैराग्यं चतुर्विधम्, यतमानसंज्ञा, व्यतिरेकसंज्ञा, एकेन्द्रियसंज्ञा, वशीकारसंज्ञा चेति। तत्र रागादयः कषायाश्चित्त- वर्तिनः, तैरिन्द्रियाणि विषयेषु यथास्वं प्रवर्तन्ते । तन्मा प्रवर्तिष- तेन्द्रियाणि विषयेषु, इतितत्परिपाचनायारम्भः प्रयत्नः, सा यत- मानसंज्ञा । तदारम्भे सति केचित् कषायाः पक्वाः, पच्यन्ते पक्ष्यन्ते च केचित् । तत्र पक्ष्यमाणेभ्यः कषायेभ्यः पक्वानां व्यति- रेकेणावधारणं व्यतिरेकसंज्ञा। इन्द्रियप्रवर्तनासमर्थतया पक्वाना- मौत्सुक्यमात्रेण मनसि व्यवस्थापनमेकेन्द्रियसंज्ञा। औत्सुक्यमात्र- स्यापि निवृतिरुपस्थितष्वेपि दिव्यादिव्यविषयेषु उपेक्षाबुद्धिः पूर्वोक्तसंज्ञानयात् परा वशीकारसंज्ञा । इयमेव वस्तुतोऽपरवैराग्यम् । , ) 5 अग्रिमसूत्रे परवैरागस्य निर्देशात् । यतमानादिसंज्ञात्रयन्तु वराग्य - मात्रमिति ज्ञेयम् । तथा च योगसूत्रम्-दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यमिति । सूत्रे यद्यपि वशीकारसंज्ञाया एव चर्चा ऽस्ति तथापि एतयेव पूर्वासां संज्ञानां चरितार्थत्वात् न ताः पृथ- गुक्ता इति (द्र० यो० भा० त० वै० पा० १ सू० १५)। विज्ञानभिक्षुस्त्वेवं विवृणुते- “विरक्तिर्दोषदर्शनात्' इति स्मृतेः आदौ विषयसान्निध्यरूपेऽवसरे दोषावरकाभावात् दोषदर्शनेन वैतृष्ण्यं ( वैराग्यम् ) भवति । तच्च वैराग्यं त्रिविधं यतमानसंज्ञा, व्यति- रेकसंज्ञा, एकेन्द्रियसंज्ञेति । इदमेव वैराग्य त्रयं यदा मुहुरभ्यस्यमानं भवति, तदा विषयसंयोगकालेऽपि अप्रतिबद्धंदोषदर्शनं समुत्पद्यते । अत्र च "वैराग्यादोषदर्शनमिति स्मृत्यन्तरं प्रमाणम् । दोषदर्शने प्रतिबन्धाभावश्च प्रसङ्ख्यानबलाद् अर्थात् वैराग्याभ्यासेन जाय- भानस्य दोषसाक्षात्कारस्य बलवत्त्वादिति । अतएव दोषसाक्षात्कार- रूपबलाभावात् पूर्व विरक्तस्यापि सौभर्यादेः बिषयसन्निकण पूर्वोत्पन्नां दोषदृष्टिं प्रतिबध्य पुना राग उत्पादितः । एतस्मादेव दोषदर्शनोत्कर्षाद् विषयसंयोगकालेऽपि चित्तस्यानाभोगा- त्मिका = आभोगरहिता रागद्वेषशून्या वशीकारसंज्ञा वितृष्णा सा अपरवैराग्यमिति । तथा च रागद्वेषशून्यस्य विषयसाक्षात्कारस्य योग्यता वशीकारसंज्ञाख्यं वैराग्यमिति पर्यवसितम् । तथा च हेतु- हेतुमद्भावरूपतस्तन्त्रान्तरसिद्ध वैराग्यचतुष्टयमेवोक्तम् तत्र । प्रथमभूमिका यतमानसंज्ञा वितृष्णा = ज्ञानपूर्वकं वैराग्यसाधना- नुष्ठानम् । द्वितीयभूमिका व्यतिरेकसंज्ञा, सा च जितान्येतानी- न्द्रियाणि, एतानि च जेतव्यानीति व्यतिरेकावधारणयोग्यता। तृतीयभूमिका च एकेन्द्रियसंज्ञा, सा च बाह्येन्द्रि यविषयेषु रूपा- दिषु रागादिक्षये सति एकस्मिन्नेव मनसि मानापमानादिविषयक- रागद्वेषादिक्षयो रागद्वेषज्ञानपूर्वक इति । चतुर्थभूमिका तु वशी- कारसंज्ञोक्तैवेति । ( द्र० यो० वा० पा० १ सू० १५)। या ( ७ ) श्रीमच्छङ्गरभगवत्पादा आहुः --अवस्थाविशेषा एवेह वैराग्य- पदेन विवक्षिताः ताश्चावस्था यतमानसंज्ञाप्रभृतयः । आसु पूर्वावस्थात्रये वैतृष्ण्यमानं भवति, अतो वैतृष्ण्यादन्यदिह वैराग्यं वशीकारसंज्ञात्मकमभिप्रेतम् इति । (द्र० पा० यो० सू० भा० वि० पा० १ सू० १५)। नागेशभट्टोऽप्याह--रागाभावमात्रं न वैराग्यम्, रोगादिनिमित्त- कारुचौ वैराग्यव्यवहाराभावात् । एवं यतमानादिवैराग्यत्रयमपि न चित्तनिरोधहेतुः, तवैराग्यानन्तरमपि विषयसान्निध्येन चित्त- क्षोमतः सौभर्यादेर्योगानिष्पत्तेः। अतो दृष्टविषये आनुश्रविक- विषये च वितृष्णस्य यतमानादित्रिविधवैतृष्ण्याभ्यासवतो दिव्या- दिव्यविषयसन्निधानेऽपि हेयोपादेयत्वबुद्धिशून्यत्वरूपा वशीकारसंज्ञव वैराग्यं निरोधहेतुरिति ( द्र० पा० सू० वृ० पा० १ सू० १५) अपरिणामिनी अप्रतिसक्रमा च चितिशक्तिःभोक्तृयक्तिर्न विषयाद्याकारेण परिणमते न वा क्रियावती वर्तते तथापि चितिशक्तिः स्वबुद्धिसंवेदनं करोति । यथा हि चन्द्रमसः क्रिया- मन्तरेणापि संक्रान्तचन्द्र प्रतिबिम्बममलं जलं स्वगतया क्रियया अचलमपि चन्द्रमसं चलमिवावभासयति, एवं विनाऽपि चितिव्यापारमुपसंक्रान्तचितिप्रतिबिम्बं चित्तं स्वगतया क्रिययाऽ क्रियावतीमपि चितिशक्ति क्रियावतोमसङ्गतामपि सङ्गता मवभासयत् स्वयं भोग्यमावमासादयति चितिशक्तिञ्च भोक्तभावमापादयतीति (द्र० यो० मा० त० वै० पा० ४ सू० २२)। अपान:-मूत्रपुरीषगर्भादीनामपनयनहेतु: शरीरोपगृहोतमारुतविशेषोऽ. पानः । तस्य चानाभेः आ च पादतलाद् वृत्तिरिति वाचस्पतिमिश्राः । ( द्र० यो० भा० त० वै० पा० ३ सू० ३९ )। विज्ञानभिक्षस्तुकरणसामान्यस्यैव परिणामभूतोमाननरूप- वृत्तिविशेषोऽपानो मूत्रपुरीषगर्भादीनामपसारणहे तुनं वायुविशेषोऽपान ( ८ ) इत्याह । (द्र० यो० वा० पा० ३ सू० ३९) । नागेशभट्टोऽपि पातञ्जलसूत्रवृत्तौ इममेव पक्षमुररीकरोतीति तत एवानुसन्धेयम् । अभाव:--अभाव: अधिकरणावस्थाविशेषमात्ररूपः । अतएव वृत्तिनिरोधो न पृथक् कश्चिदभावो वृत्तीनामित्याह विज्ञानभिक्षुः । (द्र० यो० वा. पा० १ सू० १)। निरोधस्य भावरूपत्वं योगमञ्जर्यांमपि निरूपितम् । (द्र० यो० म० का ३ )। अभिध्यानम्-अनागताथच्छा--इदमस्याभिमतमस्त्वित्याकारेति वाच- स्पतिमिश्राः। (द्र० यो० भा० त० वै० पा० १ सू० २३ )। -- अभिनिवेश:-सर्वस्य प्राणिन: इयमात्माशोनित्या भवति । मा न भूवम्, भूयासमिति । तथा चैवंविधो मरणत्रास एवाभिनिवेश इत्युच्यते । अयं चाभिनिवेशः स्वरसवाही भवति । अर्थात् स्वभावेन वासनारूपेण वहनशीलो भवति न पुनरागन्तुकः । न चाननुभूत- मरणधर्मकस्यैषा भवत्यात्माशीः। एतया च पूर्वजन्मानुभवः प्रती- यते। स चायमभिनिवेश: क्लेशः स्वरसवाही, कृमेरपि जातमा- त्रस्य प्रत्यक्षानुमानागमैरसंभावितो मरणत्रासः उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूतं मरणदुःखमनुमापयति । अयञ्च क्लेशो नाविदुष एवात्यन्तमूढस्यैव भवति किन्तु विदुषोऽपि विज्ञातपूर्वापरान्तस्य रूढ़ः । तथा च सूत्रम् -''स्वरसवाही विदुषोऽपि तथारूढोऽभि- निवेशः" इति । (द्र० यो० भा० तथा त० वै० पा० २ सू० ९)। विज्ञानभिक्षुरप्याह-यथाऽविद्वज्जनस्य तथा विदुषोऽपि स्वरसवा- हित्वहेतुना यः (मरणत्रासात्मकः) क्लेशोऽस्ति सोऽभिनिवेश इति । द्र० यो० वा० पा० २ सू० ९)।
( ९ ) योगसूत्रस्य मणिप्रभावृतिकार आह-पूर्वजन्मसु असकृन्मरणदुःख- नुभवजन्यवासनासङ्घः स्वरसः, तेन वहति प्रवहतीति स्वरसवाही सर्वजनस्य मरण त्रासरूपोऽभिनिवेश इति । (यो० सू० म० प्र० वृ. पा० २ सू० ९)। अभिनिवेशस्यैव तान्त्रिकी संज्ञा अन्धतामित्र इत्यस्ति । अभ्यासः-निरुद्ध वृत्तिकस्य = राजसतामसवृत्तिरहितस्य चित्तस्य या प्रशान्तवाहिता-विमला अर्थात् : सात्विकवृत्तिवाहितारूपैकाग्रता सैव स्थितिः, तदर्थो यो यत्नः = दीर्यमुत्साहः = अर्थात् तादृश- स्थितिप्राप्त्यर्थं साधनीभूतानां यमनियमादीनामनुष्ठानमेवाभ्यास इति । (द्र. यो० भा० त० वै० पा० १ सू० १३ ) । उक्तस्थित्यर्थं श्रद्धावीर्यस्मृतिसमाधिप्रज्ञादीनामनुष्ठानमभ्यास इति विज्ञानभिक्षुः । नागेशभट्टोऽपि भिक्षुमेवानुसरति । भोजदेवस्तु सामान्यतो वृत्तिशून्यस्य चित्तस्य स्वरूपनिष्ठः परिणाम एव स्थितिरिति वदन् तस्याः स्थितेः पुनः पुनस्तथात्वेन चेतसि निवेशनमेवाभ्यास इत्युवाच । द्रष्टव्या तत्रत्या वृत्तिः । अयुतसिद्धावयवः समूहः-यस्य समूहस्यावयवा अन्तरालरहिताः निरन्तरा भवन्ति स समूहो अयुतसिद्धावयवः समूहः। यथा वृक्षो गौः परमाणुरिति । ( द्र० यो० भा० त० वै० पा० ३ सू०४४। अरिष्टत्रैविध्यम्--त्रिविधमरिष्टं भवति, आध्यात्मिकमाधिभौतिक- माधिदैविकञ्चेति । तत्राध्यात्मिकं यथा-पिहितकर्णः स्वदेहे घोष न शृणोति, अङ्गुल्यादिना नेत्रेऽवष्टब्धे ( मदिते ) वह्निकणतुल्यं ज्योतिर्वा न पश्यति। आधिभौतिकं यथा-यमपुरुषान् पश्यति पितॄनतीतानकस्मात् पश्यति । तथाऽऽधिदैविकम्-स्वर्गमकस्मात् सिद्धान् वा पश्यति, विपरीतं वा सर्व पश्यतीति । अनेन जानाति ( १० ) अपरान्तम् (मरणम्) उपस्थितमिति । (द्र० यो० भा० पा० ३ सू० २२)। सन्ति, यद्यप्ययोगिनामप्यरिष्टेभ्यः प्रायेण तज्ज्ञानमुत्पद्यते, तथापि तेषां तज्ज्ञानं सामान्याकारेण संशयरूपं भवति, योगिनान्तु नियत- देशकालतया प्रत्यक्षवदव्यभिचारि भवतीति विशेष इति भोजदेवः । (द्र० पा० द० भो० वृ० पा० ३ सू० २२ । अर्थवत्त्वम्-भूतानां पञ्चमं रूपमर्थवत्त्वम् तदपि भूतजयसिद्धये संयमविषयी क्रियते। यद्यपि भोगापवर्गरूपार्थवत्त्वं गुणेष्वेव, वर्तते ते गुणास्तन्मात्रेषु अन्वयिनः तन्मात्राणि च भूतेषु अन्वयीनि भवन्ति, भूतानि च भौतिकेषु गोघटादिष्वन्वयीनि भवन्तीति सर्वमर्थवद्भवति । प्रकृते च भूतेषु यदर्थवत्त्वं पञ्चम रूपमस्ति तस्यापि संयमो भूतजयार्थमपेक्षितो भवतीति (द्र० यो० भा० पा० ३ सू० ४४ )। अर्धमात्रम् -उदरोरसोर्मध्ये यत्पद्ममधोमुखं तिष्ठत्यष्टदलं, तद् रेचकप्राणायामेनोर्ध्वमुखं कृत्वा तत्र चित्तं धारयेत् । तत्र पद्ममध्ये सूर्यमण्डलमकारो जागरितस्थानम्, तदुपरि चन्द्रमण्डलमुकारः स्वप्नस्थानम्, तस्योपरि वह्निमण्डलं मकारः सुषुप्तिस्थानम्, तदुपरि परं व्योमात्मकं ब्रह्मनादं तुरीयस्थानमर्धमात्रमुदाहरन्ति ब्रह्मवादिनः (द्र० यो० भा० त० वै० पा० १ सू० ३६ ) । अवयवी-निर्वितर्कायाः समापत्तेविषयतया सिद्धोऽवयवीति योग- मतम् । तदुक्तं योगभाष्ये-"तस्या एकबुद्ध्युपक्रमो ह्यर्थात्माऽ: णुप्रचयविशेषात्मा गवादिर्घटादिर्वा लोकः । स च संस्थान विशेषो भूतसूक्ष्माणां साधारणों धर्म आत्मभूतः, फलेन व्यक्तेनानुमितः स्वव्यज्जकाञ्जनः प्रादुर्भवति, धर्मान्तरोदये च तिरोभवति । स एष धर्मोऽवयवीत्युच्यते । योऽसावेकश्च महांश्चाणीयांश्च स्पर्शवांश्च क्रियाधर्मकश्च तेनावयविना व्यवहाराः क्रियन्ते । यस्य पुनरवस्तुकः . म प्रचयविशेषः, सूक्ष्मं च कारणमनुपलभ्यमविकल्पस्य तस्यावयव्य-- भावात् अतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्त मिथ्याज्ञानमिति। तदा च सम्यग्ज्ञानमपि किं स्याद् विषया- भावात् । यद्यदुपलभ्यते तत्तदवयवित्वेनाघ्रातम् । तस्मादस्त्य- वयवी यो, महत्त्वादिव्यवहारापन्नः समापतेनिवितर्काया विषयो भवतीति ।" (F० यो भा० पा १ मू० ४३ )। व्याख्या-. तञ्चैतदाञ्जस्येन तत्त्ववैशारदीयोगवार्तिकादिषु इति विभावनोयम् । अवस्थापरिणामः-वर्तमानलक्षणस्य घटादेर्नवत्वपुराणत्वादिपरि- णामोऽवस्थापरिणामः । तदुत्तम् योगभाष्ये-घटो नवपुराण- . तामनुभवन्नवस्थापरिणामं प्रतिपद्यत इति (द्र० यो० भा० पा०३ सू० १३) ! वाचस्पतिमिश्राअप्याहुः-वर्तमानलक्षणापन्नस्य गवा- देर्बाल्यकौमारयौवनवार्धकमवस्थापरिणामः, घटादीनाञ्च नवपुरा-- तनताऽवस्थापरिणामः। एवमिन्द्रियाणामपि धर्मिणां वर्तमान- लक्षणस्य रत्नाद्यालोचनस्य स्फुटत्वादिरवस्थापरिणाम इति । ( द्र० त० वै० पा० ३ सू० १३ ) । वर्तमानलक्षणस्य नवत्वपुराणत्वाद्यवस्थापरिणामो भवतु नाम तथापि अनागतातीत- लक्षणयोस्तु कीदृशोऽवस्थापरिणाम इति वाच्यम् तत्रापि शीघ्र-. भविष्यत्ताविलम्बभविष्यत्तादिरूपोऽवस्थाविशेषोऽनागतातीतयोलक्षण- योरपि वर्तत एवेति विज्ञानभिक्षुः । (द्र० यो० वा०. तत्रत्यमेव )। अविद्या-अनित्ये कार्य नित्यख्यातिः, यथा ध्रुव। पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकस इति । एवं परमबीभत्सेऽशुचौ काये शुचिख्यातिः, एवं दुःखे सुखख्यातिः, तथाऽनात्मनि आत्मख्याति: यथा बाह्योपकरणेषु चेतनाचेतनेषु पुत्रदारगृहादिषु भोगाधिष्ठाने वा शरीरे । तथा पुरुषोपकरणे मनसि अनात्मनि आत्मख्यातिरिति । इत्येवमेषाऽविद्या चतुष्पदा भवति । सा च अविद्या सम्पूर्णस्य:- ( १२ ) 'क्लेशसन्तानस्य कर्माशयस्य च सविपाकस्य मलमस्ति । पुनश्च सा अमित्रागोष्पदवद् वस्तुसतत्वं विज्ञेयम् । यथा नामित्रो मित्राभावो न मित्रमात्रम् किन्तु तद्विरुद्धः सपत्नः । एवमविद्या न प्रमाणं न 'प्रमाणाभावः किन्तु विद्याविपरीतं ज्ञानान्तरमविद्येति । ( द० यो० “मा० पा० २ सू० ५)। अत्राहुः वाचस्पतिमिश्राः-मविद्येति पदे पूर्वपदार्थप्रधान नत्र - समासमाश्रित्य अमक्षिकम् इतिवत् विद्याया अमादोऽविद्येति न प्रसज्यप्रतिषेधः । नापि उत्तरपदार्थप्रधानं समासमाश्रित्य 'अराज- 'पुरुष' इतिवत् विद्येव कस्यचिदभावेन विशिष्टा सती अविद्यत्यस्ति, तथा सति तस्याः क्लेशादिपरिपन्थित्वेन तद्बीजत्वासंभवात् । नापि चान्यपदार्थप्रधानं समासमाश्रित्य नास्ति विद्या यस्याः साऽविद्येति 'विगृह्य विद्याऽभावविशिष्टा बुद्धिरेवाविद्यापदवाच्यास्ति, विद्याया अभावमात्रेण बुद्धेः क्लेशादिबोजत्वासंभवात्, तथात्वे विवेकख्याति- पूर्वकनिरोधसम्पन्नाया अपि बुद्धेः क्लेशादिबोजत्वप्रसङ्गात् । तस्माद् विद्याविरुद्धं विपर्ययज्ञानमेवाविद्यापदवाच्यमस्तीति । (द्र० यो मा० त० वै० पा० २ सू० ५)। विज्ञानभिक्षुरप्याह-अस्मिश्च दर्शने सांख्यानामिवाविवेको नाविद्या- शब्दार्थः, किन्तु वैशेषिकादिवद् विशिष्टज्ञानमेव (अन्यथाख्यातिरेव) इति । (द्र० यो वा. पा० २ सू० ५)। अविद्यैव तम इति कथ्यते । अविद्याऽस्मितयोर्भेद: विद्यातश्चास्मिताया अयं भेदो यद् बुद्धयादौ प्रथमं या सामान्यतोऽहंबुद्धिः, सा भेदाभेदेनाप्युपपद्यतेऽ मन्ताभेदाग्रहणात्, सैवाविद्या। अस्मिता तु तदुत्तरकालीन: पुरुषे बुद्ध्यादिगुणदोषारोपः ईश्वरोऽहमहं भोगीत्यादिरूपः, दूरस्थ- वनस्पत्योरिव बुद्धिपुरुषयोरत्यन्तमेकताभ्रमश्च इत्येतदुभयरूपिणीति (द्र० यो० वा० पा० २ सू०६ )।
( १३ ) असंप्रज्ञातः-"विरामप्रत्ययाभ्यासपूर्वः . संस्कारशेषोऽन्यः" इति योगसूत्रानुसारं सर्ववृत्तीनां यो विरामः प्रत्यस्तमयः, तस्य प्रत्ययः=. कारणं परं वैराग्यम्, तस्याभ्यासात् = पौनःपुन्येनानुष्ठानात् संस्कार- मात्रशेषो यश्चित्तनिरोधः, सोऽसम्प्रज्ञात इति वाचस्पतिमिश्राः । द्र यो मा० त० वै. पा० १ सू. १८)। असंप्रज्ञातयोगे न किञ्चित् सम्प्रज्ञायते ध्येयजातमित्यन्वर्थनामायम-. संप्रज्ञातयोगः तदानीं चित्तं निरालम्बनमभावप्राप्तमिव भवतीति एष निर्बीजः समाधिरित्युच्यते । विज्ञानभिक्षुरप्याह-पुरुषपर्यन्तं कस्मिन्नप्यालम्बने चित्तस्यका- ग्रतारूपोऽभ्यासो नासंप्रज्ञातस्य साक्षात्साधको भवति । अत: पुरुष- ख्यातिपर्यन्तास्वखिलवृत्तिषु अलम्बुद्धिरूपो विरामप्रत्ययः पर- वैराग्याख्य एवासंप्रज्ञातेन साधनतयाऽऽलम्बनीक्रियते । यतः सोऽ. सम्प्रज्ञातोऽपि निर्वस्तुकः = नास्ति वस्तु चिन्तनीयं यत्रेत्येतादृशोऽ. स्ति। तस्माद् यतोऽसम्प्रज्ञातोऽपि ध्येयार्थशून्यः, अतोऽखिलध्येय- वैराग्यमेव तत्रालम्बनतया हेतुर्भवतीति । तथा च कृतवैराग्याभ्यास चित्तं निरालम्बनं निविषयमभावप्राप्त मिव वृत्तिरूपकार्याकरणाद् मृतकवद् भवतीत्येषोऽवस्थाविशेषोऽसंप्रज्ञात इति । ( द्र० यो० वा० पा० १ सूत्र ० १८)। भोजदेवस्वाह-विरामो वितर्कादिचिन्तात्यागः, विरामश्चासौ प्रत्ययश्चेति विरामप्रत्ययः तस्याभ्यासः पौनःपुन्येन चेतसि निवेशनम्, तत्र या काचिद् वृत्तिरुल्लसति, तस्या 'नेति नेति' इति नैरन्तयण पर्युदसनं विरामप्रत्ययाभ्यासः, तत्पूर्वः = सम्प्रज्ञातसमाधिः, संस्कार- शेषोऽन्यः तद्विलक्षणः अयमसम्प्रज्ञात इति । किन्तु व्याख्यानमिदं भाज्याननुकुलमिति ज्ञेयम् । सूत्रे पूर्वशब्दस्य हेत्वर्थकत्वेन सम्प्रज्ञात- समाधेरबोधकत्वात् । अस्मिता--पञ्चसु क्लेशेषु मध्येऽस्मिता द्वितीयः क्लेशोऽविद्यायाः ( १४ ) या अतः कार्यभूता। दृक्शक्तिरूपस्य पुरुषस्थ दर्शनशक्तिरूपाया बुद्धेः अर्थात् आत्मानात्मनोः परस्परमत्यन्तविलक्षणयोरविद्यावशाद् एकात्मता इव ( एकस्वरूपापत्तिरिव ) न तु परमार्थत एकात्मता सा अस्मिता कथ्यते । दृक् = पुरुषः-भोक्ता इति यावत्, दर्शनम् = बुद्धिः-अनात्मा-भोग्यमिति यावत् । तयौं: शक्तिश्च योग्यतालक्षणा । एतावता पुरुषे भोक्तृत्वयोग्यता अनात्मनि बुद्धौ च भोग्यत्वलक्षणा योग्यताऽस्तीति तयोः भोक्तृभोग्ययोर्योग्यतालक्षणसम्बन्धः सदाऽ स्तीति शक्तिपदेन ध्वन्यते । तथा चात्यन्तविलक्षणयोरत्यन्तासंकीर्ण- योरपि भोक्तृभोग्यशक्त्योः अनात्मनि-बुद्धौ आत्मज्ञानलक्षणयाऽ विद्ययाऽऽपादिता या एकात्मता इव भवति सैवास्मिता, तस्यां सत्यां भोगः कल्पते । विवेकख्यातौ सत्यां तु स्वरूपप्रतिलम्भे सति तयोः कैवल्यमेव भवति कुतो भोग: स्यादिति । इयमस्मितैव भोगसम्पादिकेति तात्पर्यम् । ( द्र० यो० भा० त० 'वै० पा० २ सू० ६)। विज्ञानभिक्षुस्तु-दृग् = द्रष्टा, = द्रष्टा, दृश्यतेऽनेनेति व्युत्पत्त्या दर्शनं करणं बुद्धिः। प्रलयादौ फलोपधानं नास्तीति “दृग्दर्शनशक्त्योरेकात्मते- वास्मिता" इति सूत्रे शक्तिग्रहणं कृतम् । तथा च तयोग्दर्शन- शक्त्योरेकात्मतेव = स्वरूपतो धर्मतश्चात्यन्तमेकाकारो विपर्ययो- अस्मिताऽहङ्कार इत्याह । एतदनुसारमविद्याऽस्मितयोरयं भैदो यत् प्रथम बुद्ध्यादौ या सामान्यतोऽहंबुद्धि र्जायते, सैवाविद्या। तत्र “बुद्ध्यात्मनोः अत्यन्ताभेदस्याग्रहणात् भेदाभेदेनाप्युपपन्ना सा। किन्तु अविद्यानन्तरं जायमानायामस्मितायां तु बुद्धि पुरुषयोः स्वरूपतो धर्मतश्चात्यन्ताभेदो गृह्यते, यत्प्रभावात् पुरुषे गुणदोषा- "दिबुद्धिधर्माणामारोपो भवति "ईश्वरोऽहमहं भोगी" इत्यादिरूपः । तथाऽस्मिताप्रमावादेव बुद्धिपुरुषयोरत्यन्तमेकताभ्रमो भवति, यथा 'दूरस्थवनस्पत्योरत्यन्तमेकताम्रमो भवति लोकानाम् । ..
( १५ ) यद्यप्थविद्याऽपि भ्रमरूपा अस्मिताऽपि च भ्रमरूपा तथापि अविद्या कारणम्, अस्मिता तु तत्कार्यमित्युभयोविशेषः। (द्र. यो० वा० पा० २ सू० ६)। यस्मिन्नहंप्रत्यये चित्तपुरुषयोविवेको नोपलभ्येत, सोऽयमहंप्रत्ययोऽ स्मिताख्यः क्लेश उच्यते इति शङ्करभगवत्पादाः । (द्र० यो० भा० वि० ० पा० २ सू० ६) एषा अस्मिता मोह इत्युच्यते । अस्मितामात्रा प्रवृत्तिः :-एषा ज्योतिष्मती प्रवृत्तिरित्युच्यते । अस्मि- तात्र नाहङ्कारः किन्तु आत्मतत्त्वम् । तदुक्तम्-"तमणुमात्रमात्मा- नमनुविद्य अस्मीत्येवं तावत् सम्प्रजानीते” इति । अस्मिताऽऽत्म- ताऽहन्तेति पर्याया : एषु पदेषु भावप्रत्ययश्च निविशेषसामान्यमात्र- बोधनाय प्रयुक्तः । तथा चास्मितावां विविक्तचिन्मात्रे पुरुषे या चित्तसमापत्तिः साऽस्मितामात्रा प्रवृत्ति रुच्यते । (द्र० यो० वा० पा० १ सू० ३६)। अहिंसाप्रतिष्ठा-अहिंसास्थैर्यम्, तच्च कृतकारितानुमोदित-लोभमोह- पूर्वकमृदुमध्याधिमात्र भावैरसंस्पर्शो हिसाया इति यावत् । एवं सत्यादिप्रतिष्ठापि कृतकारितादिभार संस्पर्शो मिथ्याभाषणस्येत्यादि बोध्यम् । --- ( १६ ) आकाशगमनम्-पाञ्चभौतिकशरीरस्य अवकाशदायकेनाकाशेन य: सम्बन्धस्तत्र संयमं विधाय लघुनि तूलादौ तन्मयीभावलणां समापति विधाय प्राप्तातिलघुभावो योगी प्रथमं यथारुचि जले सञ्चरणक्रमेण ऊर्णनाभतन्तुजालेन सञ्चरमाण आदित्यरश्मिभिश्च विहरन् यथेष्टमाकाशगमनं करोति । ( द्र० पा० यो० सू० भो० वृ० वि० पा० सू० ४२ )। कायाकाशसम्बन्धे लघुतूलादौ वा पृथक् पृथक् संयमादाकाश- गमनसिद्धिर्भवतीति वाचस्पतिमिश्रा विज्ञानभिक्षुश्च । (द्र० यो भा० त० वै० तथा यो० वा० पा० ३ सू० ४२)। आगमः-आतेन दृष्टोऽनुमितो वार्थः परत्र स्वबोधसंक्रान्तये शब्देनोपदिश्यते। तस्मात् शब्दात् श्रोतुर्जायमाना तदर्थविषया वृत्तिरागमप्रमाणम् । यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः, स आगमः प्लवते, मूलवक्तरि तु दृष्टानुमितार्थे सत्यागमो निविप्लवः स्यात् । (द्र० यो० भा० पा० १ सू. ७) आगच्छन्ति बुद्धि- मारोहन्ति अस्मादभ्युदयनिःश्रेयसोपाया इत्यागमः श्रुतिस्मृतीति- हासपुराणरूपः। आनन्दः-इन्द्रिये स्थूलालम्बने चित्तस्याभोगोऽर्थात् तत्स्वरूप- साक्षात्कारवती प्रज्ञा, सैव ह्लाद आनन्द इत्युच्यते । अत्रेयमुपपत्तिः प्रकाशशीलतया खलु सत्त्वप्रधानादहङ्कारात् इन्द्रियाण्युत्पन्नानि । सत्त्वं सुखमिति तान्यपि सुखानीति हेतोः तत्राभोगो ह्लाद आनन्द इति वाचस्पतिमिश्राः । (द्रव्यो०मा त० वै० पा० १ सू० १७)। विज्ञानभिक्षुस्तु-स्थूलयो तेन्द्रिययोरेव यश्चित्तस्य विचारानुगत- भूम्यारोहात् सत्त्वप्रकर्षेण जायमानो लादाख्यसुखविशेष आभोगः= साक्षात्कारो भवति, स आनन्दविषयकत्वादानन्द इति। तेन चानुगतो युक्तो निरोध आनन्दानुगतनामा योग इति माह (द्र० यो० वा० पा० १ सू. १७) । अत्रोभयव्याख्यात्रोरयं भेद:-वाचस्पतिमिश्र इन्द्रिये ग्रहणरूपे सुखात्मके चित्तस्याभोगमा- योगकोशः नन्दमाह, तदनुगतं संप्रज्ञातञ्चानन्दानुगतसंप्रज्ञातमाचष्टे । विज्ञान- भिक्षुस्तु एकस्मिन्नेव स्थूले भूतेन्दियात्मके आलम्बने वितर्कमारभ्य आनन्दपर्यन्तं संम्प्रज्ञातमुदाहरतोति । मणिप्रभाकारो वाचस्पति- मेवानुसरति नागेशभट्टश्च विज्ञानभिक्षुमिति अनुसन्धेयम् । आनुश्रविकविषयाः-अनुश्रवो वेदः, ततोऽधिगता आनुभविकाः स्वर्गादयः। एत एवानुश्रविकविषयाः सन्ति । आप्त:- तत्त्वदर्शनकारुण्यकरणपाटवाभिसम्बन्धः आप्तिः, तया सह वर्तत इत्याप्तः इति वाचस्पतिमिश्राः। भ्रमप्रमादविप्रलिप्साकरणा- पाटवादिदोषरहित प्राप्त इति विज्ञानभिक्षुः । फलतो नानयोभँदः। (द्र० त० वै० तथा यो० वा० पा० १ सू० ७)। आभोगः-स्वरूपसात्कारवतो प्रजा आभोगः । स च स्थूलविषयत्वात् स्थूल आभोगो वितर्क इत्युच्यते । सूक्ष्मविषयत्वात् सूक्ष्म आभोगो विचार इत्युच्यते इति वाचस्पतिमिश्रा: । (द्र ० यो० मा० त० वै० पा० १ सू० १६)। विज्ञानभिक्षवस्तु व्याचक्षते-पाभोगः परिपूर्णता । अर्थात् स्थूलयो- भूतेन्द्रिययोरदृष्टाश्रुतामताशेषविशेषसाक्षात्कार एव चित्तस्य परि- पूर्णतारूपः स्थूल आभोगः । अयं वितर्क इत्युच्यते । एवं तत्रैवा- लम्बने कारणत्वादिनाऽनुगता ये प्रकृतिमहदहङ्कारपञ्चतन्मात्ररूपा भूतेन्द्रिययोः सूक्ष्मा अर्थास्तदाकारत्वात् यः सूक्ष्मगताशेषविशेष- साक्षात्कारः, स चित्तस्य सूक्ष्म आभोगः । स च विचार इत्धुच्यते । (द्र० यो० वा० पा० १ सू० १७)। आरुरुक्षुयतिः-व्युत्थितचित्तोऽपि = बहिर्मुखोऽपि यो योगारूढो भवितुमिच्छति, स आरुरुक्षुयतिः। तस्यैव योगारूढत्वसंपादनाय तपःस्वाध्यायश्वरप्रणिधानात्मकस्य क्रियायोगस्योपदेशो यमनिय- मादियोगाङ्गोपदेशश्चेति । स च प्राथमिकयोगो युजान (युञ्जमान) २ योगकोशः इति । योगोत्यादिशब्दव्यंपदिश्यते । तदुक्तं विष्णुपुराणे-'योगयुक् प्रथम योगी युञ्जमानोऽभिधीयते” इति । ( द्र० यो० मा० त० वै० पा० २ सू०१)। आरुरुक्षुयतेरेव कृते कर्म योगकारणमिति भगवद्गीतायामुक्तम् । यथा-''आरुरुक्षोमुनर्योगं कर्म कारणमुच्यते । योगारुढस्य तस्यैव शमः कारणमुच्यते” इति । आरूढयोग:-आरूढो योगो येनेतिव्युत्पत्त्या व्युत्थितचित्तमिन्नः समा- हितचित्त एव योगी आरूढयोगी योगारूढो योगारूढचित्त आरूढ- योगवृक्ष इति संज्ञाभिरुच्यते । अयमेव योगस्योत्तमाधिकारी, यश्च क्रियायोगादिसकलाङ्गानां नैरपैक्ष्येण अभ्यासनैराग्यमात्रसाधनेनैव योगसिद्धि तत्फलञ्च लभत इति । (द्र० यो० वा. पा० २ सू० १) अस्यैव योगिनः कृते भगवद्गोतायामुक्तम् -- योगारूढस्य तस्यैव शमः कारणमुच्यते" गारुडादावप्युक्तम् -' आरूढयोगवृक्षाणां ज्ञानत्यागौ परौ मतौ" इति । अत्र त्यागो बाह्यकर्मणामेवेति विज्ञानभिक्षः । आशयः कर्मणां विपाकानुगुणा वासनैवाशयः । चित्तभूमौ आशेरते इत्याशया इति व्युत्पत्तेः। न हि करभजातिनिर्वर्तक कर्म प्राग्म- वीयकरमभोगभावितां भावनां न यावदमिव्यक्ति तावत् करमो- चिताय भोगाय कल्पते । तस्माद् भवति करमजात्यनु भवजन्मा भावना करमविपाकानुगुणा इति ( द्र० यो० मा त० ० पा० १ सू० २४)। आशी:-मा न भूवम्, भूयासम् इत्याकारको मरणत्रास एवाशीः । (द्र० यो० मा० पा० ४ सू. १०)। इदं हि वाचस्पतिमिश्र- विज्ञानभिक्ष्वोरप्यनुमतम् । सदैव सुखसाधनानि मे भूयासुः, मा कदाचन तैमें 'वियोगो . भूदिति यः सङ्कल्पविशेषः स एवाशीरिति मोजदेवः । मम शरीरेन्द्रियादिभिवियोगो मा भूत् सुखसाधनं मे योगकोशः सदा भूयादित्येवंरूपः संकल्प आशीरिति योगमञ्जरीकारः। सदाहं भूयासमिति मरणत्रास एवाशीरिति मणिप्रभा । आसनानि-स्थिरसुखमासनम् । स्थिरं निश्चलं सत् यत् सुखात्मकं तदासनम् । आस्यतेऽनेन प्रकारेणेति व्युत्पत्तेः उपवेशनस्य प्रकार- विशेष आसनं भवति । कश्चित्तु स्थिरं सुखमस्मिन्निति बहुव्रीहि- व्युत्पत्त्या स्थिरस्य सुखस्य साधनमासनमाह । पासनानि च पद्मासनं, वीरासनं, भद्रासनं, स्वस्तिकं, दण्डासनं, सोपाश्रयम् . पर्यवं. क्रौञ्चनिषोदनं, हस्तिनिषादनमुष्ट्रनिषोदनं समसंस्थानमित्येवमादीनि । अथवा येन संस्थानेनावस्थितस्य स्थैर्य सुखञ्ज सिध्यति तत्सर्व स्थिरसुखं सदासनमस्तीति । ( द्र० यो० मा० त० ० पा० १ सू० ४६ )। प्रत्येकमासनानां लक्षणानि त्वन्यतोऽवसेयानि । आसनानि सिद्धासनादौनि चतुरशीतिरिति योगदीपिको । तदुक्तम् हठयोगप्रदीपिकायाम् “चतुरशोत्यासनानि शिवेन कथितानि च"। उप० १ श्लोक ३३। गारक्षनाथस्त्वाह-आसनानि न तावन्ति यावत्यो जीवजातयः । एतेषामखिलान् भेदान् विजानाति महेश्वरः । इति । । द्र० ह० यो० प्र० सं० ध्या० उप० १ श्लो० ३३ )। तेषु सिद्धासनपदभासन- सिंहासनभद्रासनानि चत्वारि श्रेष्ठासनानि । (द्र० ह० यो० प्र० उप० १ श्लो० ३४ )।
२० योगकोशः इडा-वामनाडी। इन्द्रियजयः--ग्रहण-स्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः" इति योगसूत्रम् । (पा० ३ सू० ४७ ) तत्र सामान्यविशेषात्मा शब्दा- दिर्ग्राह्यः, तेष्विन्द्रियाणां वृत्तिर्ग्रहणम् । स्वरूपं पुनः प्रकाशात्मनो बुद्धिसत्त्वस्य सामान्यविशेषयोरयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिन्द्रियम् । अस्मिता-अहङ्कारोऽस्मितालक्षण: इन्द्रियेष्वनुगततया इन्द्रियाणां तृतीयं रूपम् । चतुर्थ रूपं व्यवसायात्मका: प्रकाशक्रियास्थितिशीला गुणा एव । तेषामेव हि परिणामविशेष इन्द्रियाणि । गुणेषु यदनुगतं पुरुषार्थवत्त्वं तदेवेन्द्रिताणां पञ्चमं रूपमित्येवंप्रकारेणेन्द्रियाणां पञ्च रूपाणि भवन्ति-ग्रहणम्-स्वरूपम्-अस्मिता-अन्वयः-अर्थवत्त्वमिति । एतेषु पञ्चरूपेषु संयमात् इन्द्रियजयो भवतीति । ( द्र० यो० मा० त० वै० तथा यो० वा० पा० ३ सू० ४७ ) । इष्टदेवतासंप्रयोगः -इष्टानां देवानामृषीणां सिद्धानाञ्च दर्शनमेवेष्ट- देवतासंप्रयोगः कथ्यते । तच्च दर्शनं स्वाध्यायशीलस्य भवतीति । (द्र० यो० भा०पा० २ सू० ४४ ) । ईश्वरः",-- क्लेशकर्मविपाकाशयैरपरामृष्ट: पुरुषविशेष ईश्वरः" इति सूत्रानुसारम् यो हि अविद्यादिक्लेशः, कुशलाकुशलकर्मभिः : जात्यायुर्भोगात्मकविपाकः तदनुगुणवासनाभिश्च सर्वथाऽपरामृष्टोऽस्ति एवंविधः पुरुषविशेष एवेश्वर इति पातञ्जल- मतम् । कुतश्चिद् विशेषात् स ईश्वरः पुरुषान्तरेभ्यो विशिष्यते - व्यवच्छिद्यते - भेदेन परिच्छिद्यते। यतो हि कैवल्यं प्राप्ताः सन्ति यद्यपि बहवः केवलिनस्तथापि ते त्रीणि बन्धनानि च्छित्वा कैवल्यं धर्माधर्मैः, - योगकोशः प्राप्ताः सन्ति । ईश्वरस्य तु स बन्धनसम्बन्धो न भूतो नापि भावो। यथा मुक्तस्य पूर्वा बन्धकोटि: प्रज्ञायते, नवमीश्वरस्य पूर्वा बन्धकोटिः शास्त्रतो विज्ञायते । यथा च प्रकृतिलयस्योत्तरा बन्धकोटि: सम्भाव्यते, नवमीश्वरस्योत्तरा बन्धोटि: सम्भाविताऽपि । यतः स सदैव मुक्तः सदैवेश्वर इति । अयमेव पुरुषान्तरेभ्य ईश्वरे विशेषः। अपरश्चायं विशेषो यत् तस्यैश्वर्यं साम्यातिशयाभ्यां विनिर्मुक्तमस्ति । न हि तदीयैश्वर्यापेक्षया कस्याप्यन्यस्यैश्वर्यमति- शयितमस्ति । यदि स्यात्तदा स एवेश्वर इति मन्तव्यम् । तस्माद् यत्रैश्वयंस्य पराकाष्ठा प्राप्ता स एवेश्वरः । एवं तत्समानमपि कस्यचिदैश्वर्यं नास्ति । यदि तत् समानमपि कस्यचिदैश्वयं भवेत् तदा तुल्ययोस्तयोः युगपत्कामिते एकस्मिन्नर्थे कश्चित् कामयेत् "नवमिदमस्तु" अपरः कामयेत् पुराणमेवेदमस्तु" इति विरुद्धकामनायामेकस्य कामनासिद्धौ अपरस्य प्राकाम्यविघातात् न्यूनत्वं प्रसज्येत । द्वयोश्च तुल्ययोः परस्परविरोधियुगपत्- कामितार्थप्राप्तिनै उम्भवति अभिलषितार्थस्य विरुद्धत्वात् । तस्माद् यस्य साम्यातिशगैविनिमुक्तमैश्वर्यं स एवेश्वरः पुरुषान्तरेभ्यो विशिष्यमाण इति (द्र० यो० भा० तः वै० पा० १ सू० ६६ ) । विज्ञानभिक्षरप्येवं विशदयत्य नमर्थम्-यदि द्वौ बहवो वा ईश्वरा भवेयुस्तदा सर्वेषाम् अविरुद्धाभिप्रायत्वे प्रत्येकषीश्वरत्वे 'च कृतमन्यैरीश्वरैः, एकेनैव ईश्वरेण ईशनाकार्यस्य सम्पादितत्वात् । यदि तु सर्वै ईश्वरा मिलित्वा कार्य कुर्युस्तदा न कश्चिद् ईश्वरः स्यात्, परिषद्वत् । ते इंश्वराः पर्यायेण ईशनाकार्य करिष्यन्तीति यधुच्येत तदा तेषां नित्यश्वर्ययोगो व्याहन्येत, अन्यपर्यायावसरे तदितरेषाम् ईशनाकार्यरहितत्वात्, एवं कुककल्पनायां गौरव- प्रसङ्गाच्च । तस्मादेक एवेश्वरः सर्वातिशायिनित्यैश्वर्यवानिति । ईश्वरप्रणिधानम्-ईश्वरप्रणिधानमत्र ईश्वरं प्रति भक्तिविशेष इति २२ योगकोशः योगभाष्यम् । स च भक्तिविशेषो मानसो वाचिक: कायिकश्चेति श्रीवाचस्पतिमिश्राः ( द्र० यो० भा० त० वै० पा० १ सू० २३ )। विज्ञानभिक्षस्त्वाह--"ईश्वरप्रणिधानाद्वः" इति सूत्रगतं प्रणिधानं न द्वितीयादवक्ष्यमाणं तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोग" इति सूत्रगतं विवक्षितं किन्तु असंप्रज्ञातकारणोभूतसमाधिरूपो भावनाविशेष एव, "तज्जय स्तदर्थभावन' मित्यागामिसूत्रेण- वात्रत्यस्य प्रणिधानस्य लक्षणीयत्वात् इति । (द्र० यो० वा. पा० १ सू० २३ ) । नागेशभट्टोपि पातञ्जलसूत्रवृत्तौ विज्ञानभिक्षुक्त- मेवार्थमनुसरति । यदा च भाष्यविवरणकारा योगमञ्जरीकारो मणिप्रभाकारो भोजदेवश्च वाचस्पतिमिश्रमेवानुगच्छन्ति । ईश्वरस्य वैषम्यनैघृण्याभावः-संसारे मुखिदुःखिरूपद्विविधप्राणि- दर्शनात् ईश्वरे वैषम्यनैघृण्यदोष आपततीति न वाच्यम्, अग्नेरौष्ण्य- स्वामाव्यवत् विशुद्धसत्त्वे भक्तवशतास्वभावस्य अपर्यनुयोज्यत्वात् । एतेन, ईश्वरः स्वभक्तानेवानुगृह्णाति नान्यान्, प्रत्युत तान्निगृहीता- नपि करोति स्वभक्तश्वर्यदानेनेत्यतो वैषम्यादिप्रसङ्ग ईश्वरे इति शङ्काऽपास्ता। वैषम्यञ्च रागद्वेषाभ्यामेव भवति न तु प्रवृत्ति- मात्रेण । इति । यच्च हिरण्यगर्भायैश्वर्यदानाद् अन्येषां दुःखं भवति तत्रापि हिरण्य- गर्भादीनामेव. वैषम्यं बीजं न त्वीश्वरस्य । तस्य तु परदुःखप्रहा- गेच्छा विद्यमानाऽपि भक्तवशतया कुण्ठिता स्वकार्याय विलम्बते यच्च कर्मसापेक्षतया वैषम्यनैपुण्यपरिहारो ब्रह्मसूत्रेण कृतस्तत्राप्ययमेवाशया-लोकानां विहितनिषिद्धरूपाणि कर्माणि देवानां सुखदुःखसाधनानि भवन्ति । अतः ईश्वरेण स्वभक्तदेवेष्व- पराद्धाय यदुःखं दीयते यच्चानपराद्धाय सुखं दीयते तद् क्त- पारवश्यनिमित्तकमेव न तु वैषम्याद् नैपुण्याद्वेति । (द्रव्यो० भा० पा० १ सू० २५ ) ।
योगकोशः ईश्वरस्य दशाव्ययानि-ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः । स्रष्ट्टत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च। अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे ॥ (वा०पु०) (द्र० यो बा• पा० १ मू. २५ )। ईश्वरस्य षडङ्गानि- सवंज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोविधिज्ञाः षडाहुरङ्गानि महेश्वरस्य । (द्र० यो। वा० पा० १ सू० २५ ( वा० पु. )। meme- २४, योगकोशः " उदानः-रसादीनामूर्ध्वं नयनादुदानः, स च शरीरोपगृहीतमारुत- विशेषः, आ नासिकाग्रात् आच शिरसो वर्तमानः इति वाचस्पति- मिश्राः । (द्र० यो० भा० त० बै० पा० ३ सू० ३६ ) । विज्ञनभिक्षस्तु-करणसामान्यस्य परिणामभेदो वृत्तिविशेषो मुख- नासिकादिमारभ्य ब्रह्मरन्ध्रपर्यन्तवृत्तिः ऊर्ध्वगतिप्रदत्वादुदान इत्याह (द्र० यो० वा० पा० ३ सू० ३९)। उदानजय:-उदाने स्वायत्तताप्राप्तिः । तस्यां सत्यां जलादिभिनं प्रतिहन्यते = जलादिषु निर्विघ्नं सञ्चरति, प्रायणकाले अचिरादि- मार्गेणात्क्रान्तिश्च योगिनो भवताति । (द्र० यो० मा० त० वै. पा० ३ सू० ३९)। उद्घाता-वायोरुद्धननं गतिनिरोध उद्घात इति विज्ञानभिक्षुः । भोजदेवस्तु "उद्धातो नाम नाभिमूलात् प्रेरितस्य वायोः शिरस्य- भिहननम्" इत्याह । द्रष्टव्यम् यो० द० पा० २ सू० ५०, उभ- योाख्यानम् )। प्राणापानव्यानोदानसमानानां सकृदुद्गमनं मूर्धानमाहत्य निवृत्तिश्चोद्घात इति कृत्यकल्पतरुः। (द्र० मोक्षकाण्डम् पृ० १७०)। उपसर्गाः-स्वार्थे = परार्थाद् भोगप्रत्ययाद् दृश्याद् विशिष्टे चितिमात्र- रूपे पौरुषे प्रत्यये संयमाद् याः प्रातिभश्रावण-वेदनाऽऽदर्शाऽऽस्वाद- वार्तारूपाः सिद्धयो जायन्ते, ते प्रातिभादयः समाहितचित्तस्यो- त्पद्यमानाः पुरुषसाक्षात्कारे उपसर्गाः = अन्तरायभूताः सन्ति, पुरुषज्ञाने प्रत्यनीकभूतत्वात् । व्युत्थितचित्तस्य तु कृते ते प्रातिभादयः सिद्धयः एव सन्ति । व्युत्थितचित्तो हि ताः सिद्धीभिमन्यते, यथा च जन्मदरिद्रो द्रविणकणिकामपि द्रविणसंभारमभिमन्यते, तद्वत् । यागिना तु समाहितचित्तेन उपनताभ्योऽपि सिद्धिभ्यः "उपसर्गाः" इति बुद्ध्या विरन्तव्यमिति । ( द्र० यो० भा० त० वै० पा० १ सू० ३७ )। ताभ्यः योगकोशः २५ उपायप्रत्ययः-असंप्रज्ञातसभाधेरबान्तरभेदः उपायप्रत्ययः । उपाय: श्रद्धावीर्यस्मृतिसभाधिप्रज्ञारूप: प्रत्ययो = हेतुर्यस्य स उपायप्रत्ययो- ऽसंप्रज्ञातसमाधिः । स च योगिनामेव भवति । श्रद्धा-चेतसः सम्प्रसाद:- अभिरुचिः = अतीच्छा . इच्छाविशेष इति यावत् । वीर्यम्-श्रद्धयोत्पन्न इष्यमाणविषयकः प्रयत्नो वीर्यम् धारणेति यावत् । स्मृतिः-प्रयत्नाद् जायभानं ध्यानमेव स्मृतिः । समाधिः-योगाङ्गभूतो यमनियमाद्यङ्गेषु अष्टमः । प्रज्ञा-विवेकः । (द्र० पा० यो० मा० त० वै० पा० १ सू० २०)। उपेक्षा -अपुण्यशीलेषु उपेक्षा = माध्यस्थ्यम् = औदासीन्यम् व्युत्थित- चित्तस्य योगसोपानमारुरुक्षोः परिकविशेपः । (द्र० यो० भा० पा०१सू०३३।
योगकोशः ऋतम्भरा प्रज्ञा-ऋतं सत्यमेव बिभर्तीति ऋतम्भरा प्रज्ञा। न तत्र विपर्यासगन्धोऽप्यस्तीति । (द्र० यो० भा० पा० १ सू० ४८ )। विज्ञानभिक्षुस्त्वाह-"ऋतम्भरा तत्र प्रज्ञा” इति सूत्रे ऋतम्भ- रेतिपदम् ऋतम्भरजातीयत्वविवक्षया प्रयुक्तम् । तेन शब्दार्थज्ञान- विकल्पैः सङ्कीर्णायां “गौरियं भासते, नारायणोऽयं भासते' इत्या- कारिकायां सवितर्कसमापत्तिजन्यायां प्रज्ञायाम् विपर्यासज्ञानत्व- सत्वेऽपि न ऋतम्भरात्वस्याव्याप्तिः तस्यामपि प्रज्ञायाम् ऋतभर- जातीयत्वस्य विद्यमानत्वात् । साजात्यञ्च समाधिजप्रज्ञात्वेन विवक्षितम् । अथवा "ऋतम्भरा" इति पदस्य व्युत्पत्तिनिमितं कामं विपर्यासरहितज्ञानत्वं भवेत् प्रवृत्तिनिमित्तन्तु समाहितचित्ते जायमाना या प्रज्ञा तवृत्तिधर्म एव । तस्य च धर्मस्य सवितर्क- योगजप्रज्ञायामपि सत्त्वेन अव्या प्तिदोषाभावात् इति । (द्र० यो वा० पा० १ सू० ४८)। -- योगकोशः २७. एकतत्त्वाभ्यासः-विक्षेपप्रतिषेधार्थमेकतत्त्वस्य परमेश्वरस्य अभ्यासः करणीयः प्रकृतत्वात् इति वाचस्पतिमिश्राः (द्र० यो० मा० त०. वै० पा० १ सू० ३२)। विज्ञानभिक्षुस्तु-एकं तत्त्वं स्थूलादि किञ्चिदपि ग्राह्यं न तु. परमेश्वर एवेत्याह ।। (द्र० योवा० पा० १ सू० ३२ )। एकभविकः कर्माशयः-एको भवो - जन्म कार्यतया यस्यास्ति स कर्माशयसमूह एकमविक इत्युच्यते, अर्थात् अनेके कर्माशया मिलित्वा एकं जन्म निवर्तयन्तीति । (द्र० त० वै० पा० २ सू० १३ )। तदुक्तम् योगभाष्ये- "जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशय- प्रचयो विचित्रः प्रधानोपसर्जनीभावेनावस्थितः प्रायणाभिव्यक्तः एकप्रघडकेन मिलित्वा मरणं प्रसाध्य संमूर्छितः एकमेव जन्म करोति अत एकमविक: कर्माशय उक्त इति"। एकाग्रम्-एकस्मिन्नेव विषयेऽग्रं शिखा यस्य चित्तदीपस्येत्येकानं चित्तम् । विशुद्धसत्त्वतया एकस्मिन्नेव विषयेऽवधीकृतकालपर्यन्त- मचञ्चलं निवातस्थदीपवत् तदेकानम् । (द्र० यो० वा० पा० १ सू. १)। एकाग्रम् = एकतानमिति तत्त्ववैशारदी। एकाग्रतापरिणामः-समाहितचित्तस्य पूर्वप्रत्ययः शान्तः उत्तरस्त- त्सदृश उदितः। समाधिचित्तम् उभयोः ( पूर्वोत्तरप्रत्यययो।) अनुगतं पुनस्तथैव आ समाधिभ्रषात् । स खल्वयं धर्मिणश्चित्तस्यै- काग्रतापरिणामः । (द्र० यो० भा० पा० ३ सू० १२)। अस्मिन् परिणामे सजातीय एकैक: प्रत्ययो नश्यति, अन्योन्य उत्पद्यते इत्येवं धारावाहिकः परिणामो भवतीति विज्ञानभिक्षुः । ( द्र० यो० वा० पा० ३ सू० १२)। एकान्तवचनीयत्वम्-किं सर्वो जातो मरिष्यति ? अस्त्ययं प्रश्न एकान्तवचनीथः। अत एवात्रोत्तरं भवति “ॐ भो इति । अर्थात् अवश्यं सों जातो मरिष्यतीति।" (द्र० यो० भा० पा० ४.
२८८ योगकोशः करुणा- आत्मनीव परस्मिन् दुःखप्रहाणेच्छा, निरुपधिपरदुःखप्रहाणे- च्छा वा करुणा। इयं हि स्थिरचित्तस्य स्थितिदाढयंहेतुः परिकर्म- विशेष इति विज्ञानभिक्षुः । व्युत्थितचित्तस्यासूयादिनिराकरणद्वारा समाध्युपायभूतचित्तप्रसादनहेतुः परिकर्मविशेष: करुणेति वाचस्पति- मिश्राः । (द्र० यो० भा० त० वै० तथा यो० वा० पा० १ सू० ३३)। कर्माणि-चतुर्विधानि कर्माणि-कृष्णं-शुक्लं-शुक्लकृष्णम्-अशुक्ला- कृष्णञ्चेति । तत्र कृष्ण दुरात्मनाम् । शुक्लं तपःस्वाध्यायध्यान- वताम् । शुक्लकृष्णं बहिःसाधनसाध्यम् यज्ञादिकम्, तत्र परपीडानु- ग्रहद्वा रेणैव कर्माशयप्रचयो भवति । व्रीह्यादोनाभवघातादिसमये पिपीलकादिवधसंभवात् परपीडा । अनुग्रहश्च दक्षिणादिप्रदानेन ब्राह्मणादेरिति। अशुक्लाकृष्णं संन्यासिनां क्षीणक्लेशानां चरमदेहानाम् । तत्राशुक्लं फलसंन्यासात्, अकृष्णञ्च बहिःसाधनसाध्यकर्मस्वप्रवर्तनात् इति । (द्र० यो० मा० त० वै० पा० ४ सू० ७)। कल्पप्रलयः-ब्रह्मणो दिनावसाने यत्र सत्यलोकवर्ज जगदस्तमेति स कल्पप्रलयः । ( द्र० त० वै० पा० १ सू० २५ )। “कषायाः-रागद्वषमोहाः कषायाः चित्तवत्तिनः । एतैरेवेन्द्रियाणि यथास्वं विषयेषु प्रवत्यंन्ते । कायव्यूहज्ञानम् - वातपित्तश्लेष्माणस्त्रयो दोषाः, धातवः सप्त त्वग्- लोहितमांसस्नायवस्थिमज्जाशुक्राणि पूर्व पूर्वमेषां बाह्यमित्येवं विन्यासः कायव्यूहः, तस्य ज्ञानम् नाभिचक्रे संयमाद् भवतीति । ( द्र० यो० भा० पा० ३ सू० २६ )। कायसंपत्-दर्शनीयरूपं, लावण्यं = कान्तिः, बलं, वज्रवदृढोऽवयव- व्यूहश्चेति कायसंपत् कथ्यते । तथा च योगसूत्रम्- "रूपलावण्य- बलवज्रसंहननत्वानि कायसंयत्' ( पा० ३ सू० ४६ )।
योगकोशः .4 कण्डली-सर्वयोगतन्त्राणामाधारशक्तिः । (द्र० ह. यो० प्र० उप० ३ श्लो १)। कुम्भकः-रेचितस्य वायाः पूरणानन्तरं विधारणं कुम्भकः प्राणायामः । याज्ञवल्क्ये कम्भकलक्षणम्- "सम्पूर्य कुम्भवद् वायोर्धारणं कुम्भकं भवेत" स्कन्दपुराणे- "न मुञ्चति न गृह्णाति वायुमन्तर्बहिःस्थितम् । आपूर्य कुम्भवत् तिष्ठेदचलः स तु कुम्भकः" । कुम्भकस्य भेदद्वयम्- केवलकुम्भकः सहितकुम्भकश्चेति । तत्र --"रेचकं पूरक मुक्त्वा यत्सुखं वायुधारणम् । प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः" ।। आरेच्यापूयं यत् कुर्यात् स वै सहितकुम्भकः । कुम्भकस्य अन्य सप्तभेदाः- "कुस्मः सप्तविधो ज्ञेयः रेचितादिप्रभेदतः । रेचितः पूरितः शान्तः प्रत्याहारोत्तरोधरः॥ समश्चेति विनिर्दिष्टः कुम्भकः सप्तभेदतः" । एतेषा लक्षणानि च- "रेचितस्य बहिः स्तम्भो वायो रेचितकुम्भकः । पूरितस्योदरे रोधः प्रोक्तः पूरितकुम्भकः ॥ कायस्यान्तर्बहिाप्तिर्या सं स्याच्छान्तकुम्भकः । स्थानयोरन्तरे रोधः प्रत्याहाराख्यकुम्भकः ॥ आपूर्य यत्क्रमादूर्ध्वमूर्ध्व रोधो हृदादिषु । उत्तरः कुम्भकः स स्यात अधोधो मूर्धतोऽधरः ।। रेचनापूरणे त्यक्त्वा मनसा मरुतो धृतिः । या नाभ्यादिप्रदेशेषु समः कुम्भः प्रकीर्तितः" ॥ (द्र० यो चि० परिच्छेदः २)। - ३० योगकोशः कैवल्यप्राग्भारं चित्तम्-कैवल्याभिमुखं चित्तम्, कैवल्ये प्राग्भार आभिमुख्यं यस्येति व्युत्पत्तेः । कैवल्यम्-गुणानामधिकारक्रमसमाप्तौ कैवल्यं भवति । तच्च कैवल्यं प्रकृतेः पुरुषस्य च भवति । तथा च योगसूत्रम्- "पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तरिति” । पा० ४ सू० ३४ )। अर्थात् कृतभोगापवर्गरूपकार्यतया पुरुषार्थ- शून्यानां गुणानां कार्यकारणात्मकानां व्युत्थानसमाधिनिरोधसंस्कारा मनसि लीयन्ते, मनोऽस्मितायाम्, अस्मिता लिङ्गे, लिङ्गमलिङ्गेऽ- व्यक्ते लीयते इति । योऽयं गुणानां कार्यकारणात्मकानां प्रतिप्रसवः= प्रतिसर्गः = प्रलयः तत्कैवल्यम्, यं कञ्चन पुरुषं पति न तु सर्व प्रति, प्रधानस्त्रैष मोक्षः । पुरुषस्य मोक्षस्तु स्वरूपप्रतिष्ठा चिति- शक्तिरिति । इयं हि स्वरूपप्रतिष्ठा शाश्वतिकोति सैव पुरुषस्य कैवल्यं मोक्ष इति । ( द्र० यो० भा० त० वै० पा० सू. ३४)। विज्ञानभिक्षरप्याह-कृतकृत्यतया पुरुषार्थशून्यानां गुणानां महदादि- सूक्ष्मभूतपर्यन्तानां पुरुषोपकरणानां लिङ्गशरीराद्यात्मकानां प्रतिप्रसवः स्वकारणेऽत्यन्तविलयः स बुद्धेः कैवल्यम् । एतदेव प्रधानस्यापि ज्ञानिपुरुषं प्रति कैवल्यमुच्यते, तेन पुरुषेण सह तस्य पुनरसंयोगात् । या तु चितिशक्तिस्वरूपिणी स्वरूपप्रतिष्ठा बुद्धिसत्त्वोपाधिकरूप- शून्यतारूपा जपापाये स्फटिकस्वरूपप्रतिष्ठावत्, सा पुरुषस्य कैवल्यम् । अतएव सूत्रे वाशब्दो व्यवस्थितविकल्पपरः । परस्परवियोगे हि उपाध्युपाधिमतोरुभयोरेव केवलता = एकाकिता भवति ते उभे अपि केवलते प्रधानपुरुषगते दुःखनिवृत्त्याख्यपुरुषार्थसाधनं भवतः । अतो द्वे एव कैवल्ये मोक्षरूपे स्त: 1 तयोश्चाद्यं कैवल्यं मुख्यतया प्रकृतेरेवास्ति पुरुषस्य तु उपचरितम् । एतदभिप्रायेणे- वोक्तं सांख्यकारिकायाम्- योगकोशः "तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥" इति । स्वरूप प्रतिष्ठारूपं द्वितीयं कैवलन्तु पुरुषस्य न निराकृतम् । तथा सति मोक्षस्य प्रकृतिमात्रनिष्ठतेऽपुरुषार्थत्वेन तत्र प्रवृत्त्यनुपपत्तेः, पुरुषार्थमेव करणानां प्रवृत्तिरित्यतः स्वरूपप्रतिष्ठारूपं सूत्रोक्तं द्वितीयं कैवल्यं पुरुषस्य मुख्यमेवेति । (द्र० यो० वा० पा० ४ सू० ३४ )। क्रमः-'क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः" इति सूत्रोक्ता क्रमः पूर्वसूत्रोक्तपरिणामक्रम एवेह लिलक्षयिषितः । तथा चायमर्थ:- क्षणः प्रतियोगी= प्रतिसम्मन्धी आश्रयतया यस्य स क्षणप्रतियोगी, क्षण प्रचयाश्रय इत्यर्थः । परिणामक्रमो हि क्षणप्रचयानाश्रित्यैव प्रवर्तते, न तु एकेन क्षणेन परिणामस्य क्रमः (परम्परा) कल्पेत । तस्मात् क्षणसमुदायाश्रित एव परिणामक्रम उपकल्पते । स च पारणामक्रमः केनापि प्रत्यक्षाकर्तुं न शक्यते किन्तु परिणामस्या- परान्तेन = पर्यवसानेनेव अनुमीयते यत् क्रमिकपरिणामेनैवेदानीं वस्त्रे स्फुटतमा पुराणता जाता न तु सहसेति । तथा च क्षण- प्रचयाश्रिता परिणामपर्यवसानानुमेया पूर्वापरीभूतपरिणामपरम्परैव परिणामक्रम इति वाचस्प तमिश्राः । (द्र० यो० भा० त० वै० 'पा० ४ सू० ३३)। विज्ञानभिक्षुस्तु व्याचष्टे-क्षणप्रतियोयोगी-क्षणस्यावसरस्य 'विरोधी, क्षनेनाप्यनन्तरित इति यावत् । आनन्तर्यञ्च अव्यधानम् । तथा च क्षणाव्यवहितपरिणामधारैव परिणामक्रम इति । (द्र० यो० वा० पा०४ सू० ३३ ॥ उभयोाख्यानभेदे मूलन्तु "क्षणानन्तर्यात्मा क्रमः" इति भाष्य- मेवास्ति । विज्ञानभिक्षुर्हि क्षणेनाप्यानन्तर्ग क्षणानन्तर्यमिति तृतीयान्तक्षणपदविग्रहेण क्षणाव्यवहितपरिणामधारा लक्षणमाह। किन्तु अस्मिन् पक्षे सूत्रघटकेन "क्षणप्रतियोगो" क्रम इति ३२ योगकोशः -- इति पदेन सूचिता क्षणसम्बन्धिता परिणामधारायां न प्रतीयते । वाचस्पतिमिश्रव्याख्यानन्तु सूत्रानुरोधि भाष्याविरोधि चास्ति । मिश्राणां व्याख्याने "क्षणानन्तर्यात्मा" इति भाष्यवचनपि संगच्छत एव । तथाहि क्षणानामानन्तर्ग' क्षणानन्तर्यमिति षष्ठ्यन्तक्षणपद- विग्रहे क्षणानाम् आनन्तर्य बहूनां क्षणानामविरलभाव एवास्तीति क्षणानन्तर्यपदेनापि भाष्योक्तन क्षणप्रचय एवार्थो लभ्यते । तथा च क्षणप्रचयाश्रिता परिणामपरम्परा क्रम इति लक्षणं सूत्रभाष्योभय- समञ्जसमिति ज्ञेयम् । इदं हि परिणामक्रमस्वरूपम् । क्रमसामान्यन्तु क्षणप्रवाहाविच्छेद एव क्षणानन्तर्यात्मा। (द्र० यो० मा० पा० ३ सू० ५२)। क्रमान्यत्वं परिणामान्यत्वे हेतुः-एकस्या मृदः चूर्णपिण्डघटकपालकणा- कारा परिणतिपरम्परा क्रमवती लौकिकैःपरीक्षकश्चाध्यक्षं समीक्ष्यते । तत्र च एकस्या मृदः चूर्णादिपरिणामभेदे तेषां क्रमभेदः = आनन्तर्ग- भेद एव हेतुः कारणमस्ति। यदि चूर्णादिपरिणामाः भिन्ना भिन्नाः न स्वाक्रियेन् तदा तेषु आनन्तर्यभेदः कथमुपपद्येत । दृश्यते हि तेषामानन्तर्ये भेदः । यथा अन्यच्चेदं चूर्णापिण्डयोरानन्तर्य मन्यच्च पिण्डधप्योरन्यच्च घटकपालयोरन्यच्च कपालकणयोरिति । यो हि एक प्रति परः स एवापरं प्रति पूर्वः । सोऽयं चूर्णपिण्डादीनां क्रमभेद आनन्तर्यभेदः एकस्मिन्नेव परिणामे स्वीक्रियमाणे नावकल्पते, अतः स्वयं भिद्यमानः क्रमः परिणाममपि भेदयति । तस्मादेकोऽपि मृद्धर्मी क्रमोपनिपतिततत्तत्सहकारिसमवधानक्रमेण क्रमवतीं नानापरिणामपरम्परामुद्वहतीति तत्र क्रमान्यत्वमेव हेतुः । (द्र० यो० भा० त० वै० पा० ३ सू० १५ )। अत्र धर्माणामेव क्रमान्यत्वमानन्तर्यभेद: परिणामान्यत्वे. हेतुरिति वाचस्पतिमिश्राः। मृद्धर्मिण एव क्रमान्यत्वं - एव क्रमान्यत्वं - चूर्णपिण्डादिरूप- क्रमभेदः प्रत्यक्षमीक्ष्यमाण एकस्य तस्य मृद्धर्मिणः, परिणामनानात्वे योगकोशः हेतुर्लिङ्गम् (ज्ञापकः) अस्तीति विज्ञानभिक्षुः। द्रष्टव्यं तत्रत्यं वार्तिकम् । नागेशभट्टो विज्ञानभिक्षुमेवानुसरति । यदाचान्ये विवरणकारप्रभृतयो वाचस्पतिमिश्रानुसारिव्याख्यातारः । क्रियायोगः-तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः। क्रियारूपो योगः क्रियायोगः । क्रियाऽपि योगसाधनत्वात् योग इत्युच्यते । तप आदीनि त्रीणि क्रियायोगः । तेषु- तपः-देहेन्द्रि यशोषणात्मकम् । तच्च तपस्तावदेवासेव्यं यावच्च चित्तप्रसादाविरोधि योगेऽबाधकञ्च स्यात् । स्वाध्यायः-प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा । ईश्वरप्रणिधानम्-सर्वकर्मणां परमगुरावर्पणं तत्फलसंन्यासो वा। (द्र या० भा० पा० २ सू० १)। क्लिष्टाऽक्लिष्टा वृत्तयः--अविद्यादिक्लेशहेतुका: कर्माशयप्रचयक्षेत्री- भूताः क्लिष्टा: वृत्तयः। ख्यातिविषया गुणाधिकारविरोधिन्योऽ क्लिष्टा: वृत्तयः। क्लेशाः-अविद्या, अस्मिता, रागो, द्वेषोऽभिनिवेशः इति पञ्च क्लेशाः । क्षणात्मक एव काल:-क्षण एव वास्तविकः काल इति योगमतम् । क्षणानामेव प्रवाहाविच्छेदो बुद्धिसमाहारो मुहूर्तयामाहोरात्रादयः सन्ति । न च द्वौ क्षणी सह भवत इति नास्ति क्षणानां वास्तविकः समाहारः । तस्मात् दिनाहोरात्रादिरूपेण व्यवह्रियमाणः कालो वस्तुशून्यो बुद्धिनिर्माणः शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवावभासते इति क्षण एव वस्तुभूतः कालो न तु स्थूल- कालोऽप्यस्ति । (द्र० यो० भा० पा० ३ सू० ५२ )। क्षिप्तम्-सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमस्थिरं यत् चित्तं तत् क्षिप्तम् । (द्र • यो० मा० त० वै० पा० १ सू० १ )। क्षुत्पिपासानिवृत्तिः-कप्ठकूपे संयमात् क्षुत्पिपासानिवृत्तिर्जायते । जिह्वाया अधस्तात् तन्तुरस्ति, ततोऽधस्तात् कण्ठोऽस्ति, ततोऽ धस्तात् कूपोऽस्ति, तत्र संयमात् = धारणाध्यानसमाधित्रयात् क्षुत्- पिपासे न योगिनं बाधेते । (द्र० यो० मा० पा० ३ सू० ३१)।
योगकोशः यदि तु एकसन्तानोत्पन्नत्वेन अनुभवसंस्कारस्मृतीनां कार्यकारणभाव- मभ्युपगम्योक्ताव्यवस्था परिह्रियेत तदा गोमयपायसीयो न्याय आक्षिप्तो भवेत् । अर्थात् एकसन्तानोत्पन्नत्वेन यदि देवदत्तीयः प्रत्ययो देवदत्ते एव संस्कार स्मृतिञ्च जनयेत् तदा गव्यत्वेन हेतुना गोमय- मपि पायसं स्यात् -- गोमयं पायसं गव्यत्वात् प्रसिद्धपायसवत् इति । तस्मात् एकसन्तानोत्पन्नत्वं नानुभवसंस्कारस्मृतीनां कार्य- कारणभावनियामकमिति पूर्वोक्ताऽव्यवस्था तदवस्थैव । (द्र • यो० वा० पा० १ सू० ३२)। ग्रहीतृग्रहणग्राह्येषु तत्स्थतदजनता समापत्तिः-निर्मलस्य मणेरिव अभ्यासवैराग्याभ्यां क्षीणराजसतामसप्रमाणादिवृत्तेश्चित्तस्य स्थूल- सूक्ष्मभूतात्मकग्राह्यपदार्थेषु, तथा ग्रहणेषु इन्द्रियेषु, तथा अस्मितास्पदे हीतृपुरुषे स्थितस्य या तत्तदाकारापत्तिः सा समापत्तिरित्युच्यते द्र० यो० भा० त० वै० पा० १ सू० ४१ )।
योगकोशः - चत्वारो योगिनः-योगिनश्चत्वारो भवन्ति प्रथमकल्पिको, मधुभूमिकः, प्रज्ञाज्योतिः, अतिक्रान्तभावनीयश्चेति । तत्र अभ्यासी प्रवृत्तमात्रज्योतिर्न तु वशीकृतपरचित्तादिज्ञानः, स प्रथमकल्पिकः। ऋतम्भरप्रज्ञो द्वितीयः । ऋतम्भरा प्रज्ञा यस्य स द्वितीयो मधुभूमिको योगी। भूतेन्द्रियजयी तृतीयः । तेन हि योगिना स्थूलादिसंयमेन ग्रहणादि- संयमेन च भूतेन्द्रियाणि जितानि । अतिक्रान्तभावनीयश्चतुर्थः । तेन हि योगिना सर्वाणि भावनीयानि निष्पादनीयानि विशोकादिपरवैराग्यपर्यन्तानि अतिक्रान्तानि । अतो न किञ्चित् कर्तव्यान्तरमवशिष्यते केवलमसम्प्रज्ञातसमाधिना चित्त विलयमात्रमवशिष्यत इति । चलं हि गुणवृत्तम्-चलमिति भावनिर्देशः, तेन चलत्वं चाञ्चल्यं गुणानां स्वभावः । चित्तम्-चित्तमन्तःकरणं बुद्धिरित्यनर्थान्तरम् । चित्तं त्रिगुणम्-चित्तं हि प्रख्या-प्रवृत्ति-स्थितिशोलत्वात् त्रिगुणम् । तत्र प्रख्याशीलत्वात् सत्त्वगुणं चित्तम् । सत्त्वप्राधान्यात् प्रसाद- लाघवप्रीत्यादयोऽपि चित्तस्य सात्त्विका भावाः। एवं प्रवृत्तिशीलत्वात् रजोगुणं चित्तम् । रजःप्राधान्यात् परिताप- शोकादयोऽपि चित्तस्य राजसा भावाः सन्ति । एवं स्थिति- शीलत्वात् तमोगुणं चित्तम् । प्रवृत्तिविरोधी तमोवृत्तिधर्मः स्थितिः। स्थितिग्रहणात् गौरवावरणदैन्यादयोऽपि तामसा भावा- श्चित्तस्योपलक्षिता भवन्ति । तथा चैकमपि चित्तं णनिर्मिततया गुणानाञ्च वैषम्येण परस्परविमर्दवैचित्र्याद् विचित्रपरिणामं सदनेकावस्थमुपपद्यत इति । द्र० यो० भा० त० वै. पा. १ सू० २ ।
योगकाशः ३७ प्रख्या = प्रख्यानं = प्रकाशनं, स हि सत्त्वगुणस्य धर्मः। प्रवृतिः प्रवर्तनं = व्यापारः, स हि रजोधर्मः। स्थितिः = स्थानं = वरणं = प्रतिबन्धः, स च तमोधर्मः । एवंशोला हि सत्त्वादयो गुणाः, चित्तञ्च प्रख्यादिशीलं, तस्मात् त्रयाणां गुणानां परिणामश्चित्त- मिति विवरणकाराः। चित्तं परार्थम्---अनेकाभिः कर्मवासनाभिः क्लेशवासनाभिश्च सम- न्वितम् । अतएव चित्रोकृतमपि चित्तं परस्य पुरुषस्य भोगापवर्गाथ वर्तते न तु स्वार्थम्, संहत्यकारित्वात् गृहादिवत् । न हि गृहादिभोग्य- जातं गृहाथं भवति किन्तु परार्थम् । एवं न हि सुखभोगो दुःखभोगो वा सुखार्थ दुःखार्थ वा किन्तु परार्थम् । एवमपवर्गसाधनमपि ज्ञानं न ज्ञानार्थं किन्तु परस्य पुरुषस्य भोगापवर्गाथं भवतोति । (द्र ० या० भा० त० वै० पा० ४ सू० २४)। चित्तं सर्वार्थम्-यथा हि नीलाद्यनुरक्तं चित्तं नीलादिविषयं प्रत्यक्षण- वावस्थापयति, एवं द्रष्टुच्छायापत्त्या द्रष्टनुरक्तं चित्तं द्रष्टारमपि प्रत्यक्षेणावस्थापयति । अत एव विषयाकारमहमाकारञ्च ज्ञानं भवति "नीलमहं जानामी" ति । तस्माद् द्रष्टदृश्याभ्यामुपरक्तत्वात् सर्वरूपाकारनिर्भासं चित्तं सर्वार्थमिति गोयते योगैः। (द्र० यो० भा० तथा त० वै० पा० ४ सू० ३२)। विज्ञानभिक्षुस्त्वाह-सर्वे = ग्रहीतृग्रहणग्राह्याः पुरुषस्य अर्थाः = भोग्या अस्मिन् इति सर्वार्थम् चित्तम् । “अयं घट" इति ज्ञाना- नन्तरं "घटमहं जानामी" ति ग्रहीतृग्रहणग्राह्याकारस्य बुद्धे- वृत्त्यन्तरस्य साक्षिभास्यस्य 'अयंघट' इति वृत्तिवदेव प्रायशो दर्शनात् । बाधकं विना सन्निकृष्टवस्त्वाकारतास्वभावस्य चित्ते सर्वसम्मतत्वात् इति । (द्र ० यो० वा० पा० ४ सू० २३ )। उभयमते चित्ते नीलाद्याकारता इन्द्रियसंनिकर्षादिजन्यवृतिप्रयोज्या, पुरुषाकारता च प्रतिबिम्बमाध्यमेनेति न कश्चिद् विशेषः। किन्तु नीलादिविषय- ३८ योगकोशः पुरुधोभयाकाराया बुद्धिवृत्त नाथं पुरुषेऽपि तादृशबुद्धिवृत्तेः प्रति- बिम्ब आवश्यक इति विज्ञानभिक्षुमन्यते । द्रष्टव्यं तत्रैव । चित्तपरिकर्म–सुखितेषु मैत्री, दुःखितेषु करुणा, पुण्यशालिषु मुदिता, अपुण्यशालिघु उपेक्षा इत्यादि परिकर्मजातं चित्तप्रसादहेतुरस्ति, येन चित्तं स्थितिपदं लभते । एवं प्राणायामो विभिन्नविषयिण्यो धारणाश्च चित्तपरिकर्माणि सन्ति चित्तस्थितिहेतुभूतानि । (द्र० यो० सू० ३३, ३४, ३५, ३६, ३७, ३८, ३९) । चित्तभूमयः-क्षिप्तं मूढं, विक्षिप्तम्, एकाग्रं, निरुद्धमिति पञ्च चित्तस्य भूमयः। (द्र० यो० वा० पा० १ सू० १)। चित्तवैशारद्यम्-पापादिरूपावरणमलापेतस्य प्रकाशस्वभावस्य बुद्धि- सत्त्वस्य रजस्तमोभ्यामनभिभूतोऽतएव स्वच्छः = ध्येयगताशेषविशेष- प्रतिबिम्बोद्ग्राही य: स्थितिप्रवाहः ( एकाग्रताधारा ) तदेव चित्त- वैशारद्यम् । (द्र० यो० वा० पा० १ सू० ४७ ) । चित्तसत्त्वम-चित्तरूपे परिणतं सत्त्वं चित्तसत्त्वम् । तादृशं चित्तं प्रख्याशीलं भवति, सत्त्वप्राधान्यात् । (द्र०त वै० पा० १ सू० २)। चित्तसंवित्-यदिदमस्मिन् ब्रह्मपुरे दहरंगात्मक पुण्डरीकं मनसोऽ- धोमुखं वेश्म, तदेव हृदयं तस्मिन् संयमात् स्ववृत्तिविशिष्टस्य चित्तस्य साक्षात्कारो भवतीति । (द्र० यो० भा० त० वै० पा० ३. सू० ३४ )। -- जगत्सृष्टौ परमात्मनो भूतानुग्रहः प्रयोजनम् - मतानां = प्राणि- नाम् अनुग्रहः एव जगत्सृष्टौ परमात्मनः प्रयोजनम् । यतो हि शब्दाद्युपभोगविवेकख्यातिरूपकार्यद्वयकरणात् किल चित्तं चरितार्थ सन्निवर्तते । चित्ते निवृत्ते पुरुषः केवली भवति । अतस्तत्प्रयोजनाय कारुणिको भगवान् विवेकख्यात्युपायं कथयति । अतो यावत्पर्यन्तं जन्तूनां विवेकख्यातिन जायते तावत्पर्यन्तं चित्तस्याचरितार्थत्वात् ईश्वरो जन्तूनां पुण्यापुण्यसहायः सन् सुखदुःखे भावयन्नपि नाका- रुणिकः किन्तु सानुग्रह एव । (द्र० यो० वा० पा० १ सू० २५)। जातिलक्षणदेशैरन्यतावच्छेदः-यत्र देशसारूप्यं लक्षणसारूप्यञ्च वर्तते तत्र जात्येव अन्यताया अवच्छेदो= ज्ञानं भवति, यथा गौरियं वडवेयमिति । एवं यत्र तुल्यदेशत्वं तुल्यजातीयत्वञ्च स्तः तत्र लक्षणमेवान्यत्वं प्रत्याययति । यथा कालाक्षी गौः स्वस्तिमती गौरिति । एवं यत्र द्वयारामलकयोाँतिसारूप्यं लक्षणसारूप्यञ्च स्तस्तत्र देशभेद एवान्यत्वकर इदं पूर्वमिदमुत्तरमिति । यदा तु पूर्वमाममलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेशे उपावत्यंते तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदिति प्रविभागो न भवति, अतस्तत्रत्यतत्त्व- ज्ञानाय योगभाष्ये उक्तम् ततः प्रतिपत्तिः विवेकजज्ञानादिति"। ( पा० ३ सू० २३)। जात्यन्तरपरिणामः-मनुष्यजातिपरिणतानां कायेन्द्रियाणां जन्मौ षधिप्रभृतिजन्यसिद्धिभियों देवतिर्यग्जातिपरिणामः खलु प्रकृत्यापूराद् भवति, न सङ्कल्पमात्रेण । तत्र कायस्य प्रकृतिः पृथिव्यादीनि भूतानि, इन्द्रियाणां प्रकृतिरस्मिता। अतो भूताना- मस्मितायाश्च अवयवानुप्रवेश एवापूर उच्यते । तथा च भूतावयवानु- प्रवेशादेव कायो वर्धते, अस्मितावयवानुप्रवेशादेव चेन्द्रियाणि इत्थमेव शरीरस्य बाल्यकोभारयौवनवाधंकादीनि, वधन्ते ।
योगकोशा बा न्यग्रोधधानाया न्यग्रोधतरुभावश्च, वह्निकणिकायास्तृणराशिनि- वेशिताया वा प्रोद्भवज्ज्वालासहस्रसमालिङ्गितगगनमण्डलवं च प्रकृत्यापूरादेव भवति । द्र० यो० मा० त० गै० पा० ४ सू० २)। एतेन वामनाद्यवताराणां क्षणादेव त्रिभुनवव्यापित्वविश्वरूपत्वादिकं मार्कण्डेयादिभ्यो विष्णुना मायाप्रदर्शनञ्च प्रकृत्यापूरेण भवतीति बोध्यम् । आपूर इत्युपलक्षणम् । अतो जात्यन्तरपरिणामः प्रकृत्यप- सारणेनापि भवति । अत एवागस्त्यादीनां समुद्रपानादिकं तोयादि- प्रकृत्यपसारणेन जातम् । एवमणिमादिरूपपरिणामविशेषश्च प्रकृत्य- पगमाद् भवतीति बोध्यम् । एवमेव परमेश्वरः क्षणेनैव प्रकृत्या- पूरापसारणादिभिर्जगदन्यथयितुमुत्पादयितुं प्रविलापयितुं स्वसङ्कल्पात् शक्नोतोति बिज्ञानभिक्षुः । (द्र० यो० वा० तत्रेव)। जात्यादिभिर्व्यवहितानामपि वासनानां स्मृत्यादिजनने प्रानन्तर्य भवत्येव-यदि कश्चिन्मनुष्यभावमनुभूय मृतस्तथा मरणानन्तरम् मार्जारभावमधिगतो जन्म गृहीतवान् अथवा एकस्मिन् देशे मृत्वा दूरदेशान्तरे जन्म गृहीतवान्, अथवा एकस्मिन् काले मृत्वा कल्प- शतव्यवधानेन जन्म गृहीतवान् तदा तस्य प्राणिनोऽव्यवहिततया मनुष्यवासनाया एवाभिव्यक्त्या भवितव्यम् । तथा च मार्जारो भूत्वाऽपि अनन्तरतया मानवोचितामेव स्मृति क्रियाञ्च कुर्यात् न तु अनेकजन्मव्यवधानेन पूर्वानुभूतमार्जारभाववासनाऽभिव्यज्येत न वा मार्जारोचितां स्मृति क्रियाञ्च कुर्यात् । न खल्वस्ति संभवो यदन- न्तरदिवसानुभूतं न स्मर्यते व्यवहितदिवसान भूतञ्च मर्यत इति । एवं मरणानन्तरं दूरदेशे गृहीतजन्मतया बहुदेशव्यवहिता वासना नाभिव्यज्येरन् तथा कस्यचित् कर्मणः विपाकरूपेण कल्पशतव्यव- धानेन यदि कश्चित् मार्जारादिभावं प्राप्नोति तदा तस्यापि कल्पशत- व्यवहिताः पूर्ववासना नाभिव्यज्येरन्नित्येवमाद्याशङ्का न करणीया । यतो हि मार्जारादिवासना यद्यपि मनुष्यादिनानाजात्या, दूरदेशेन, योगकोशः ४१ कल्पशतेन वा व्यवहिता वर्तते तथापि मार्जारादिविपाकानुगुणं कर्मातिव्यवहितानामपि मार्जारादिवासनानामभिव्यञ्जकं भविष्यति । अतो जातिदेशकालव्यवहितानामपि वासनानां निमित्तनैमित्तिक- 'भावानुच्छेदादानन्तर्यमेवास्ति अव्यवहितवत् कार्यकारि च भवति, अन्यथा कर्मफलानुपपत्तेः । स्मृतिसस्कारयोरेकरूपत्वनियमादिति सिद्धान्तः। (द्र० यो० भा० त० वै० तथा यो० वा० पा० ४ सू० ९)। जीवन्मुक्त:-अविद्यादिक्लेशानां कुशलाकुशलादिकर्माशयानाञ्च निवृत्ती सत्यां जीवन्नेव विद्वान् विमुक्तो भवति भाविजन्मादिरहितो भवति । अयमेव जीवन्मुक्तः । (द्र०यो० भा० त० वै० पा० ४ सू० ३० )। अत्र विज्ञानभिक्षुः–अभिनिवेशातिरिक्ता एव क्लेशा: प्रारब्धाति- 'रिक्ता एव च कर्माशया जीवन्मुक्तस्य निवृत्ता भवन्ति । "स्वर- सवाही विदुषोऽपि तथारू ढोऽभिनिवेशः" इति सूत्रानुसारात् प्रारब्ध कर्मणां भोगेनैवासंप्रज्ञातयोगेनैव वा क्षयस्य श्रुत्यादौ प्रतिपाद- नाच्च । (द्र० यो० वा० पा० ४ सू. ३०)। जीवात्मपरमात्मप्रज्ञयोयोगमोक्षहेतुत्वम्-जीवात्मप्रज्ञा परमात्म- प्रज्ञा च उभे अपि प्रज्ञे देहायभिमाननिवर्तकत्वेन परवैराग्यद्वारा समाधि तत्फलं मोक्षं च सम्पादयतः। अयन्तु विशेषः-परमात्मप्रज्ञा हि अतितीवाभ्यासं विनाऽपि आसन्नतमयोगहेतुतया मोक्षहेतुतया च जोवात्मप्रज्ञापेक्षया श्रेष्ठा । अत एव श्रुतिस्मृतीतिहासादिषु प्रायशो 'ब्रह्मज्ञानमेव मोक्षहेतुतयोपदिश्यते, कदाचिदेव तु स्वातन्त्र्येण जीव- तत्त्वज्ञानमिति । यदि चोभयोरेव तुल्थवद्विकल्पः स्यात्तर्हि "तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय. तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ, अमृतस्यैष सेतु" रित्यादिश्रुतयो व्याकुप्येरन् । परमात्मप्रज्ञाया मुख्यकल्पत्वे तु उक्तवाक्यानि मुख्य- साधनपरतयोपपद्यन्त इति । जोवात्मप्रज्ञाया अनुकल्पत्वेनैव साऽऽ- ४२ योगकोशः आत्मा सन्नतमयोगोत्पादनार्थमभ्यासस्यातितीव्रत्वमपेक्षते, परमात्मप्रज्ञा तु. नापेक्षते इति विज्ञानभिक्षुः । ( द्र० यो० पा० १ सू० २३)। जीवानां गौणमात्मत्वम्-व्यावहारिकपारमार्थिकभेदेन द्विविधः। पारमार्थिक आत्मा परमात्मैव । जीवात्मा तु व्याव- हारिक एवात्मा । जीवानां च चितिशक्तिमत्तामात्रेणैवात्मत्वं गौणं बुद्ध्याद्यापेक्षिकञ्च । यद्यपि जीवो मुख्यात्मा न भवति तथापि तज्ज्ञानादपि धर्माधर्मरागादिनिवृत्त्या मोक्षो भवत्येव । एवमेव व्यवहारपरमार्थभेदात् एकात्मनानाऽऽत्मतावादौ श्रुतिस्मृति- दर्शनेष्वविरुद्धाविति विज्ञानभिक्षुः। (द्र० यो० वा० पा० १ सू० २८)। ज्ञानकर्मणोः मोक्षे तुल्यवत् समुच्चयाभावः-"विद्यां चाविद्या च यस्तद्वेदोभयं सह, अविद्यया मृत्युं तीर्वा विद्ययाऽमृतमश्नुते" इति श्रुत्या ज्ञानकर्मणोः साहित्यमुक्तम् । तत्राङ्गाङ्गिनोः कर्मज्ञान- योरौत्सगिकं सहानुष्ठानमेवाभिप्रेतं न तु मोक्षाख्यफले सम्पादनीये. तयोः तुल्यवत् समुच्चयः । “अविद्यया मृत्यु तीत्वा' इत्यनेन ज्ञानविप्लवनिवृत्त्याख्यमृत्युतरणद्वारेण मोक्षदायिन्यां विद्यायामेक कर्मण उपयोगावगमात् । अत:- "न केवलेन योगेन प्राप्यते परमं पदम् । ज्ञानं तु केवलं सम्यगपवर्गप्रदायकम् ॥" इत्यादिवाक्यैर्योगपदोक्तकर्मनिरपेक्षाद् ज्ञानादपि मोक्षसिद्धिरुच्यते । कर्मणां ज्ञानाङ्गत्वन्तु पूर्वजन्मन्यनुष्ठितानामपि जडभरतादिषु सिद्धम् । एवं सति- "समाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञानकर्मभ्यां लभते परमं पदम् ॥ - योगकोशः - । इत्यादि वाक्यानि अङ्गाङ्गिनोरौत्सर्गिकसहानुष्ठानपराण्येव सन्ति न: तु मोक्षं प्रति समुच्चयसाधकानि । (द्र० यो० वा० पा० ३ सू० ७)। ज्ञानस्य सप्तभूमय:- ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता । विचारणा द्वितीया स्यात् तृतीया तनमानसा॥ सत्त्वापत्तिश्चतुर्थी स्यात् ततोऽसंसक्तिनामिका। परार्थाभाविनी षष्ठी सप्तमी तुर्यगा स्मृता॥ तत्र- इति योगवाशिष्ठम् । शुभेच्छा-तीनमुमुक्षा। विचारणा-श्रवणमननामिका । तनुमानसा-निदिध्यासनरूपा । इमास्तिस्रः साधनभूमिकाः। आसु भूमिषु साधक इत्युच्यते । सत्त्वापत्तिः-अहं ब्रह्मास्मीत्याकारिकाऽपरोक्षवृत्तिरूपा चतुर्थी फलभूमिरियम् । इयं सम्प्रज्ञातयोगभूमिका। अस्यां योगी ब्रह्म- विदित्युच्यते । असंसक्तनामिका-सत्त्वापत्तिभूमौ उपस्थितासु सिद्धिषु असं- सक्तता । अस्यां योगी स्वयमेव व्युत्तिष्ठते। इमां भूमि प्राप्तो ब्रह्म- विद्वर इत्युच्यते । परार्थाभाविनी-यस्यां भूमौ परब्रह्मातिरिक्तमर्थ न भावयति. सा परार्थाभाबिनी । अस्यां योगी परप्रबोधित एव व्युत्तिष्ठते । एतां प्राप्तो योगी ब्रह्मविद्वरीयानित्युच्यते । तुर्यगा-अस्यां योगी स्वतः परतो वा न व्युत्थानं प्राप्नोति ब्रह्मविद्व- रिष्ठश्चोच्यते । (द्र० ह० यो० प्र० उप० १ श्लो० ३ ज्योत्स्ना-.. व्याख्या)।
योगकोशः ज्योतिष्मती प्रवृत्तिः-उदरोरसोर्मध्ये यत्पद्ममधोमुखं तिष्ठत्यष्टदलं, तद्रेचकप्राणायामेनोर्ध्वमुखं कृत्वा तत्र चित्तं धारयेत् । तन्मध्ये सुर्यमण्डलमकारो जागरतिस्थानम्, तस्योपरि चन्द्रमण्डलमुकार: स्वप्नस्थानम्, तस्योपरि वह्निमण्डलं मकारः सुषुप्तिस्थानम्, तस्योपरि परव्योमात्मकं ब्रह्मनादं तुरीयस्थानमधमात्रमुदाहरन्ति ब्रह्मवादिन।। तत्र कणिकायामूर्ध्वमुखी सूर्यादिमण्डलमध्यगा ब्रह्मनाडी। ततोऽ- प्यूर्टी प्रवृत्ता सुषुम्ना नाम नाडी, तया खलु बाह्यान्यपि सूर्यादीनि प्रोतानि । सैव चित्तस्य = मनसः स्थानम्, तस्यां धारणां कुर्वतो योगिनश्चित्तसंविदुत्पद्यते । सा च बुद्धिसंवित् सूर्येन्दुग्रहमणीनां प्रभारूपाकारेण नानारूपा भवति । इयमेका विशोका - दुःखरहिता प्रकाशरूपा ज्योतिष्मती प्रवृत्तिः । अत्र च बुद्धिरिति वैकारिका- हङ्कारकार्य मनोऽभिप्रेतम् न तु महत्तत्वम् । तथाऽस्मितायां धारणां कुर्वतो योगिनश्चित्तं निस्तरङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति । अत्रापि विधूतरजस्तमोमलाs- स्मितैव सत्त्वमयी ज्योतिरस्तीति अस्मितामात्रा प्रवृत्तिरपि द्वितीया ज्योतिष्मती प्रवृत्तिरुच्यते । अनया द्विविधयाऽपि विशोकया ज्योतिष्मत्या प्रवृत्त्या योगिनश्चित्तं स्थितिपदं लभते । (द्र० यो० मा० त० वै० पा० १ सू० ३६) । -- योगकोशः ४५. तद्गतिज्ञानम्-चन्द्रे संयमानन्तरं ध्रुवे संयम कृत्वा ताराणां गति जानाति योगी। (द्र० यो० मा० पा० ३ सू. २८)। तद्धर्मानभिघातः:--स्थूल-स्वरूप-सूक्ष्मान्वयार्थवत्त्वेषु, संयमाद्भूतजयो भवति । तेन च भूतधर्मानभिघातरूपा सिद्धिर्जायते योगिनः । तया पृथ्वी स्वमूर्त्या योगिनः शरीरादिक्रियां न निरुणद्धि, ततः शिला- मप्यनुविशति, नापः स्निग्धाः क्लेदयन्ति, नाग्निरुष्णो दहति, न. वायु : प्रणामिस्वभावो वहति शोषयति वा, अनावरणात्मकेऽप्याकाशे आवृतकायो भवति, येन सिद्धानामप्यदृश्यो भवति । एवं भूतजयी योगी भूतधर्मं भिहन्यते इति । (द्र. यो० भा• पा० ३ सू० ४५ ) । स्थूलादिस्वरूपञ्च भूतजयप्रसङ्गे प्रतिपादयिष्यते । तपः--रजस्तमः समुद्रेकरूपाया अशुद्धनितान्तविरलतासम्पादकं देहेन्द्रिय.. शोषणं तपः । (द्र० यो० भा० त० वै० पा० २ सू० १ )। ताराव्यूहज्ञानम्-चन्द्र संयमं कृत्वा ताराणां व्यूहं जानाति योगी। तथा च योगसूत्रम्-'चन्द्रे ताराव्यूहज्ञानम्" । इति । (पा० ३ सू० २७)। तीव्रसंवेगः-तीव्रश्वासौ संवेगश्च तीव्रसंवेगः । संवेगो वैराग्यमिति तत्त्व-, वैशारदी, उपायानुष्ठाने शैयम् इति विज्ञानभिक्षुः, क्रियाहेतुदृढतरः संस्कार इति भोजवृत्तिः, साधनानुष्ठानं प्रत्युपक्रम इति विवरणम् । तथा च अधिमात्रोपायत्वे सति तीव्र संवेगो यो योगी तस्यासन्नः . समाधिलाभः समाधिफलञ्च भवतीति । तथा च सूत्रम् “तीवसंवेगा- नामासन्नः ।" ( पा० १ सू० २१)। त्रैलोक्ये ऐकान्तिकनित्यत्वानित्यत्वयोरभावः-चितिशक्तेरिव त्रैलोक्यस्यैकान्तिकी नित्यता नास्ति। यतो हीदं त्रैलोक्यं व्यक्तः- अर्थक्रियाकारिणो रूपादपैति प्रमाणेन नित्यत्व- प्रतिषेधात् । यदि हि घटो व्यक्तेन पेयात् तदा कपालशर्करा- चूर्णादिष्ववस्थासु अपि व्यक्तो घटो भवेत् इत्यतः पूर्ववत् उपलब्धि योगकोशः कुर्यादर्थक्रियाञ्च कुर्यात् । तस्मादनित्यं त्रैलोक्यम् । तथापि नैकान्ततोऽनित्यत्वमपि-तुच्छत्वमपि त्रैलोक्येऽस्ति, विनाश- प्रतिषेधात् । तथाहि यत्तुच्छं न तत् कदाचिदपि उपलब्धिमर्थ- क्रियाञ्च करोति, यथा गगनारविन्दम् । करोति चैतत् त्रैलोक्यं कदाचिदप्युपलब्ध्यर्थक्रिये इति नैकान्तिकानित्यमपि त्रैलोक्यम् । नाप्यत्यन्तनित्यं त्रैलोक्यं येन चितिशक्ति बत् कूटस्थनित्यं स्यात् । किन्तु कथञ्चित् नित्यम् । अतएव परिणामि । चितिशक्तिवदत्यन्त- नित्यत्वे ( कूटस्थनित्यत्वे ) तु अपरिणामि जगत् प्रसज्येतेति । (द्र० यो० भा० त० वै पा० ३ सू० १३)। - --- योगकोशः . A दर्शनशक्तिः-दृश्यते इति दशनं - बुद्धिः सैव शक्तिर्योग्यता शक्ति- शक्तिमतोरभेदात् । बुद्धिहि दृश्यतया भाग्या भोक्तुः द्रष्टुः पुरुषस्येति बुद्धिगता भोग्यतैव दशनशक्तिरिति । पुरुषश्च भोक्तृत्वात् भोक्तृशक्ति- हुंक्छक्तिरस्तीति । ( द्र० यो० भा० त० वै० पा० २ सू० ६)। दृश्यतेऽनेनेति दर्शन = करणं बुद्धिः, प्रलयादौ अध्यवसायरूपफलोप- धानं नास्ताति शक्तिग्रहणम् इति विज्ञानभिक्षुः । विवरणकारोऽपि अन्तःकरणस्याध्यवसायात्मिका या शक्तिः सैव दर्शनशक्तिरित्याह । भोज देवस्तु दर्शनशक्तिः = रजस्तमोभ्यामनभिभूतः सात्त्विकः परिणामोऽन्त .करणरूप इत्याह । तस्याश्च भोग्यत्वजडत्वादयो पुरुष- विलक्षणा:धर्माः सन्तीति ! फलतो नेतेषु कश्चिद्भेदः । दिगाकाशयोरैक्यम्-आकाशादतिरिक्तं किमपि वस्तुभूतं दिक्तत्त्वं वैशेषिकाद्यभ्युपगतं नास्ति । यथा वैशेषिकाद्यभ्युपगतं नित्यं कालतत्त्व- मिह नास्ति, किन्तु क्षण एव काल इत्येतच्छास्त्रसिद्धान्तः । तथैव नित्या दिगपि नास्ति प्रामाणिकी, लोके सामान्यतो दिग्व्यवहारा- भावात् । ये च पूर्वपश्चिम दिविशेषव्यवहारा लोके दृश्यन्ते ते च पराभ्युपगतदिगुपाधिभिरेवोपपद्यन्ते । कालाच्च दिश्ययं विशेषो यत् कालः क्षणरूप इष्यते, किन्तु दिक् सर्वथैव नेष्यते । शास्त्रेषु च यः "दिशः" इत्याकारकदिक्सामान्यव्यवहारो दृश्यते स तु पूर्व- पश्चिमादिव्यवहारनियामकैरुपाधिभिरवच्छिन्नेन आकाशेनैव बोध्यः । यदि दिग्व्यवहारमात्राद् दिक् पृथक्पदार्थ: स्यात् तदा "घटस्य देशः मीनस्य देश" इत्यादिव्यवहारमात्रात् देशादिरपि 'पृथिवीजलादिभ्योऽतिरिक्तः पदार्थः स्यात् । किन्तु :घटमीनयोः स्थित्याधारत्वेन पृथिवीजलाभ्यामेव देशव्यवहार उपपद्यते तथैव पूर्वपश्चिमनियामकोपाध्यवच्छिन्नाकाशेनैव दिक्सामान्यव्यवहार उपपादनीय इति दिगाकाशयोरैक्यमेवेति सिद्धान्तः । अतएव श्रुत्यादिषु कुत्रचिदाकाशाच्छ्रोत्रं क्वचिच्च दिशः श्रोत्रमिति समुप- ४८ योगकोशः लभ्यमानं वचनं न परस्परं विरुध्यते, दिगाकाशयोरेकत्वात् । (द्र० यो० वा० पा० ३ सू० ५२ )। दुःखम्-येनाभिहताः प्राणिनस्तदुपघाताय प्रयतन्ते तदुःखमिति योगभाष्यम् । एतावता प्रतिकूलवेदनीयं दु:खमिति सामान्यलक्षणं सूचितं भवति। तच्च त्रिविधम्-आध्यात्मिकम् व्याधिवशात् शारीरम्, कामादिवशाच्च मानसमिति द्विप्रकारम् । आधिभौतिकं व्याघ्रादि- जनितम् । आधिदैविकम् ग्रहपीडादिजातमिति । ( द्र० यो० भा० त० वै० पा० १ सू० ३१ )। दृकशक्ति:--पश्थतीति दृक् सैव शक्तिः, शक्तिशक्तिमतोरभेदात् । तथा च पुरुष एव दृक्शक्तिरित्युच्यते । अत्र शक्तिग्रहणेन द्रष्टुत्वस्य भोक्तृत्वस्य योग्यता पुरुषे प्रतीयते । तेन प्रलयादौ भोगरूपफलोप-. धानाभावेऽपि न क्षतिः । दृश्यम्-प्रकाशशीलं सत्त्वम्, क्रियाशील रजः, स्थितिशीलं तमः, इत्येतद्गुणत्रयं सूक्ष्मस्थूलभूतेन्द्रियमावेन परिणममानं भोगापवर्ग- प्रयोजनकं दृश्यम् । एतावता सर्व कार्यकारणात्मक त्रिगुणात्मकं जगद् दृश्यमिति ज्ञेयम् । तथा च योगसूत्रम्-"प्रकाशक्रियास्थिति- शीलं भूतेन्द्रियात्मकं भोगापवर्गाथं दृश्यम्" पा० २ सू० १८ । एतद् गुणत्रयमेव कार्यकारणभावापन्नं दृश्यमुच्यते, नास्ति ततोऽ- तिरिक्तं दृश्यान्तरम् । एत एव च गुणा न्यायवैशेषिकाभ्यामात्मा- तिरिक्त द्रव्याष्टकरूपेण विभज्यन्ते । वेदान्तिभिस्तु मायेत्युच्यते 'मायां तु प्रकृति विद्यादिति, श्रुतेरिति विज्ञानभिक्षुः।' (द्र० यो० वा० पा० २ सू० १८) । दृष्टजन्मवेदनीयः कर्माशयः-तीव्रसंवेगेन मन्त्रतपःसमाधिभिनिवर्तित ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा परिनिष्पन्नः पुण्यकर्माशयः सद्यः = इहैव जन्मनि परिपच्यते, स दृष्टजन्मवेदनीयः ।
योगकोशः एवं तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु वा तपस्विषु कृतात् पुनः · पुनरपकारात् परिनिष्पन्नपापकर्माशया सद्य इहैव जन्मनि परिपच्यते, सोऽपि दृष्टजन्मवेदनीयः। यथा नन्दीश्वरः तस्मिन्नेव जन्मनि देवत्वेन परिणतः, नहुषश्च तिर्यक्त्वेन परिणत इति । (द्र० यो० मा० पा० २ सू० १२)। दृष्टविषय:-स्त्रियोऽन्नपानमैश्वयंमिति दृष्टविषयः । दौर्मनस्यम्-इच्छाविघाताच्चेतसः क्षोभो दौमनस्यम् । द्रव्यम्-सामान्यविशेषसमुदायोऽत्र दर्शने द्रव्यमुच्यते । येपि वैशेशिका सामान्यविशेषाश्रयो द्रव्यमिति मन्यन्ते तैरपि तत्समुदायोऽनुभूयमानो नापहनोतुं शक्यः । न वा तत्समुदायापह्नवे तदाश्रयो द्रव्यमिति भवेत् । तस्मात् सामान्यविशेषयोः समुदाय एवास्तु द्रव्यम् । न हि वयं ताभ्यां तयोः समुदायाच्चातिरिक्तं तदाधारं द्रव्यमुपल- भामहे, यथा ग्रावभ्यो ग्रावसमुदायाच्च पृथग्विधं तदाधारमपरं गिरिशिखरं नोपलभामहे, तद्वत् । अतोऽत्र दर्शने सामान्यविशेष- समूह एव द्रव्यम् । द्र० यो० भा० त० वै० पा० ३ सू० ४४ )। विज्ञानभिक्षस्तु-अत्र दर्शने सामान्यविशेषयोः समूहो द्रव्यमिति व्याचक्षाणः वैशेषिकोक्तं सामान्यविशेषाश्रयत्वं द्रव्यस्य स्वीकुर्वन् सामान्यविशेषाभेदमपि ततोऽधिकं स्वीकरोति । अतएवोक्तं तेन- अतिरिक्तावयव्यभ्युपगमेऽपि तयोरवयवावयविनोरभेदस्याप्यभ्युप- गमात् । अन्यथा घटो मृत् तन्तुः पट:, शुक्ल: पट इत्याद्यभेद- प्रत्ययानुपपत्तेरित्याह । (द्र० यो० वा. पा० ३ सू० ४४ ) । द्वन्द्वानि-सुखदुःखयोर्हेतुभूतानि शीतोष्ण, लाभालाभ, जयाजयादीनि द्वन्द्वानि सन्ति । द्वेषः-दुःखमनुशेते जायते इति दुःखानुशयी द्वेषः । उक्तं च भाष्ये- दु:खाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिघो मन्युजिघांसा क्रोधः स द्वेष इति । प्रतिघा - प्रतिशोधात्मक इत्यर्थः । प्रतिध: = उद्वेजक इति विज्ञानभिक्षुः। भाष्ये जिघांसेति सन्नन्तवचनाद् द्वेषोऽपीच्छाविशेष एवेति ।
५० योगकोशः सम्प्रज्ञातयागस्य धर्मपरिणाम:-चित्ते धर्मिणि व्युत्थानधर्मस्याभिभवो निरोधस्य च धर्मस्य प्रादुर्भावो धर्मपरिणामः । एवं मृत्सुवर्णादिधर्मी पिण्डाकाराद्धर्माद् घटकटकादिरूपधन्तिरमुपसंपद्यमानो धर्मतः परिणमते घटाकारः कटकाकार इति । सोऽयं धर्मपरिणामः । ( द्र० या० भा० पा० ३ सू. १३)। धर्ममेघः- "प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेधर्म मेघः समाधिः' इति योगसूत्रम् पा० ४ सू० २९ । अर्थात् यो हि योगी विवेकसाक्षात्कारमधिगत्य तत्राप्यकुसौदः सर्वभावाधिष्ठातृत्वरूपा कापि सिद्धि न प्रार्थयते तस्य केऽपि योगविना न जायन्ते । अतो निरन्तरं विवेकख्यातेरेवोदयात् तस्य योनिनो धर्ममेघनामा समाधर्भवति पराकाष्ठति। द्रष्टव्यमत्रत्यं वार्तिकम् । 'धर्मलक्षणावस्थानां धर्मिणो नैकान्तिकभेदाभेदौ-मृद्धर्मिणो ये धर्माः घटमल्लिकादयः, तेषां धर्माणां यानि लक्षणानि अनागतवर्त- मानातीतत्वानि, लक्षणस्य च वर्तमानस्य या अवस्था: नवपुराण- त्वादयः तासां धर्मलक्षणावस्थानां मृद्धर्मिणो नात्यन्तं भेदो नाप्यत्यन्तमभेदो भवति, किन्तु भेदाभेदौ उभावपि भवत इति सिद्धान्तः। तदुक्तं वाचस्पतिमित्रैः-अनुभव एव हि धर्मिणो धर्मादीनां भेदाभेदी व्यवस्थापयति । न झकान्तिकेऽभेदे धर्मादीनां (धर्मलक्षणावस्थानां) धर्मिणो धर्मिरूपवद् (धर्मिस्वरूपवत् ) धर्मादित्वम् (धर्मत्वं लक्षणत्वमवस्थात्वञ्च संभवीनि) नाप्य- कान्तिके भेदे गवाश्ववद् धर्मादित्वम् । स चानुभदोऽनैकान्कित्वमवस्थापयन्नपि धर्भादिषूपजनापायधर्म- केष्वपि धर्मिणमेकम् ( उपजनापायरहितम् ) अनुगमयन्, धर्माश्च परस्परतो व्यावर्तयन् प्रत्यात्मम् अनुभूयत इति तदनु सारिणो ( अनुभवानुसारिणो) वयं न तम् ( अनुभवम् ) अतिवत्यं योगकोशः - स्वेच्छयो धर्मानुभवान् व्यवस्थापयितुमीश्महे इति । (द्र० यो० भा० त० वै० पा० ३ सू० १३ )। 'धर्मी-"शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी' इति योगसूत्रम् । तथा च अतीतवर्तमानानागतधर्मेष्वनुपाती वर्तमानरूपेणानुगतो यो भवति स धर्मी इति । यथा मृत्सुवर्णादिश्चूर्णपिण्डधटरुचकाद्यन्वयी धर्मीत्युच्यते । (द्र० यो० वा० पा० ३ सू० १४)। धारणा-नाभिचक्रे, हृदयपुण्डरीके, भूनिज्योतिषि, नासिकाने जीह्वाने इत्येवमादिषु देशेषु बाह्ये वा चन्द्रसूर्याग्न्यादौ ईश्वरदेवतादिध्यानदेशे, अन्यस्मिश्च शुभाश्रये हिरण्यगर्भवासवप्रजापतिप्रभृतौ चित्तस्य वृत्तिमात्रेण ( ज्ञानमात्रेण ) बन्धो धारणा। (द्र० यो० भा० पा० ३ सू०१)। सूत्रोक्तं लक्षणं धारणाविशेषस्यैव प्राथनिकपरिच्छिन्नयोगाभि- प्रायेणास्तीति विज्ञानभिक्षुः । अतोऽन्यदपि धारणाया लक्षणं गारुडा- दावुक्तम् । यथा- प्राणायामैदिशभिर्यावत्काल :कृतो भवेत् । स तावत्कालपर्यन्तं मनो ब्रह्मणि धारयेत् ।। इत्यादि । इदमेव हि धारणासामान्यलक्षणम्, अन्यथा क्षणमात्रेणापि धारणा- पत्तेः। अतः सूत्रोक्तं विशेषलक्षणमपि प्राणायामद्वादशकालावच्छिन्न- त्वेन विशेषणीयमिति । (द्र० यो० वा० पा० ३ १० १)। 'ध्यानम्-धारणाया यो देशस्तत्रैव ध्येयालम्बनस्य या एकतानता सदृशः प्रवाहः, अन्यप्रत्ययैरपरामृष्टः, तद् ध्यानमिति भाष्यम् । इदमपि देशघटितं ध्यानलक्षणं प्राथमिकौत्सर्गिकध्यानाभिप्रायेणव, सर्वत्र ध्याने देशानियमात् । अतोऽस्य गारुडे लक्षणान्तरमुक्तम्- "तस्यैव ब्रह्मणि प्रोक्तं ध्यानं द्वादशधारणा" इति । तस्यैव द्वादश- प्राणायामकालेन धारणावच्चित्तस्य द्वादशधारमात्र चिन्तनं- ध्यानमिति विज्ञानभिक्षुः (द्र ० यो० बा० पात्र सू०२) ५२ योगकोशः " धारणातो ध्यानस्यायं भेदो यत् धारणा तु तस्मिन्नेव देशे तदवस्थ- स्यैव चित्तस्य तद्विषयविकल्पितः प्रत्ययान्तरैः परामृष्टाऽपि भवति । यथा सूर्ये धार्यमाणस्य तद्गतपरिमण्डलतीव्रतरदीधितित्वादिप्रत्य- येष्वपि धारणव, वृत्तिमात्रेण तत्रैव चित्तस्य वर्तमानत्वात् । ध्यानन्तु न तथा, किन्तु भिन्नजातीयप्रत्ययान्तरापरामृष्टकप्रत्ययप्रवाह एव हि ध्यानमिति भाष्यविवरणकारः । द्रष्टव्यं ध्यानसूत्रीयभाष्य- व्याख्यानम् । ध्यानजं चित्तमनाशयम्-पञ्चविधं निर्माणचित्तं भवति, तद् यथो- दितम् - "जन्पौषधिमन्त्रतप:समाधिजा: सिद्धयः' यो० द० पा० ४ सू० १। एवमुदितेषु पञ्चसु सिद्धचित्तेषु ध्यानजमेव चित्तम् अपवर्गभागीयं भवति । तच्चानाशयमर्थात् कर्मवासनाभिः क्लेश- वासनाभिश्च रहितं भवति । यतो हि रागादिनिबन्धना प्रवृत्तिरस्य ध्यानजस्यानाशयस्य निर्माणचित्तस्य नास्ति । अतएव तस्य पुण्य- पापादिभिरभिसम्बन्धोऽपि नास्तीति । (द्र० भा० त० वै० पा० ४ सू०१)।
योगकोशः ५३ . नव योगिनः-उपायप्रत्पया योगिनो नवविधा भवन्ति। प्रथमन्तावत् १-मृदपायः, २-मध्योपायः, ३-अधिमात्रोपायश्चेति त्रयः । ते त्रयोऽपि प्रत्येकं त्रिविधाः-१-मृदुसंवेगः, २-मध्यसंवेगः, ३-अधि- मात्रसंवेगश्चेति नव भवन्ति । किन्तु एषु नवमस्य अधिमात्रोपायस्य- तीवसंवेगस्य पुनस्त्रयो भेदा:-१-अधिमात्रोपायमृदुतीवसंवेगः, २-अधिमात्रोपायमध्यतीव्र संवेगः, ३-अधिमात्रोपायाधिमात्रतीवसंवेग- श्चेति । संकलनया एकादश भेदा वणिताः पातञ्जलयोगसूत्रे । एतेषु यश्वरमः अधिमात्रोपायाधिभात्रतीवसंवेगो योगी तस्यासन्नतमः समाधिलाभः समाधिफलं च भवतीति । (द्र यो० वा० पा० १ सू० २२)। नाडी- देहे द्वासप्ततिसहस्राणि नाड्यो भवन्ति । (द्र० ह० यो० प्र० उप० ४ श्लो० १८)। नित्यत्वं द्विविधम्-नित्यता हि द्विविधा-कूटस्थनित्यता, परिणामि- नित्यता च । तत्र कूटस्थनित्यता पुरुषस्य परिणामिनित्यता गुणा- नाम् । यस्मिन् परिणभ्यमाने तत्वं न विहन्यते तत्परिणामिनित्यम् । उभयसाधारणं नित्यत्वं तु तत्त्वानभिघात एव । तथा च पुरुष परिणामाभावे सति तत्त्वाविघातात् कूटस्थनित्यत्वमस्ति । गुणेषु धर्मलक्षणावस्थारूपाणां धर्माणामुदयव्ययरूपपरिणामसत्त्वेऽपि गुण- रूपस्य धर्मिणस्तत्त्वाविघात एवेति गुणाः परिणामिनित्या उच्यन्ते । (द्र० यो० भा० त० वै० पा०४ सू० ३३)। निद्रा -जाग्रत्स्वप्नवृत्तीनामभावस्य कारणं बुद्धिसत्त्वाच्छादकं तमः, तदेवालम्बनं विषयतयास्ति यस्याः सा अभावप्रत्ययालन्बना वृत्ति- निद्रा। अर्थात् तथाविधतमोविषयिणी वृत्तिरेव निद्रावृत्तिरिति । त्रिगुणात्मके बुद्धिसत्त्वे यदा सत्त्वरजसी अभिभूय समस्तकरणावरक तम आविर्भवति तद। बुद्धेविषयाकारपरिणामाभावात् उद्भूततमो- मयीं बुद्धिमवबुध्यमानः पुरुषः सुषुप्तो निद्रितोऽन्तःसंज्ञ इत्युच्यते ।
५४ योगकोशः सा च निद्रा न वृत्तिसामान्याभावरूपा किन्तु जागरणे ' "सुखम- हमस्वाप्सम्, दुःखमहमस्वाप्सम्, गाढं मूढोऽहमस्वाप्समित्याकारक- स्मरणात् प्रत्ययविशेषो = वृत्तिविशेष इति योगसिद्धान्तः। (द्र० यो० भा० त० वै० पा० १ सू० १० )। निरुद्धम् -निरुद्धसकलवृत्तिकं संस्कारमात्ररोपं चित्तं निरुद्धम् । निरुपक्रमं कर्म-आयुष्करं कर्म द्विविधं सोपक्रमं निरुपक्रमं च । तत्र यत् कर्म किञ्चत्कालानपेक्षमेव भोगदानाय प्रस्थितं दत्त- बहुभोगमल्पावशिष्टफलं प्रवृत्तव्यापारं केवलं तत्कलस्य सहसा भोक्तुमेकेन शरीरेणाशक्यत्वाद् विलम्बते, तन् सोपक्रमम् । उपक्रमो व्यापारस्तत्सहितमित्यर्थः । किन्तु तदेव दत्तस्तोकफलं तत्कालमपेक्ष्य फलदानाय व्याप्रियमाणं कादाचित्कमन्दव्यापारं निरुपनमम् । (द्र० यो० भा० त० बै० पा० ३ सू० २२)। तीव्रवेगेन फलदातृ आयुष्करं कर्म सोपक्रम, आयुष्करं कर्म निरुपक्रममिति विज्ञानभिक्षुः। (द्र० यो० वा. पा ३ सू० २२)। निरोधपरिणामः - व्युत्थानं सम्प्रज्ञातः, असम्प्रज्ञातापेक्षया तस्यापि व्युत्थानत्वात्, निरोधः = परवैराग्यम् । तथा च व्युत्थानसंस्कार- स्याभिभवो निरोघसंस्कारस्याविर्भाव व यदा भवतः, तदा चित्तस्य धर्मिणो निरोधक्षणस्य द्वयोरवस्थयोरन्वयो भवति । नहि चित्तं धमि संप्रज्ञातावस्थायामसप्रज्ञातावस्थायां संस्काराभिभव- प्रादुर्भावयोः स्वरूपेण भिद्यते। तथा चैकस्य चित्तस्य धारावाहिक- रूपेण निरोधक्षणान्वय एव निरोधपरिणाम इति वाचस्पतिमिश्राः । (द्र० यो० भा० त० वै० पा० ३ सू० ९)। अत्राह विवरणकारः -एकस्य चित्तस्य प्रतिक्षणमिदं व्युत्थान- संस्काराभिभवेन निरोधसंस्कारप्रादुर्भावेन च संस्कारान्यथात्वं भवति । निरोधकालीनं तच्चित्तं तौ संस्कारद्वयाभिभवप्रादुर्भावौ मन्दवेगेन फलदातृ Nodese योगकोशः धर्मित्वेन अन्वेति । तत्र तयोरभिमवप्रादुर्भावयोश्चित्तेन थोऽनुगमः स एव चित्तस्य निरोधपरिणामः । यद्यपि व्युत्थानसंस्काराणामपि हीयमानतया तदानी सम्बन्धोऽस्त्येव तथापि प्रादुर्भवताऽतएव बलवता निरोधसंस्कारेणैव निरोधपरिणाम इति समाख्या जातेति (द्र० यो० सू० भा० वि० पा० ३ सू० ६)। व्युन्थानं सम्प्रज्ञातः, निरुध्यते येन तत् परवैराग्यं निरोधः। तत्र यदा व्युत्थानसंस्कार- स्याभिभवो निरोधसंस्कारस्य प्रादुर्भावश्च भवतस्तदा निरोधसंस्कार- स्यासंप्रज्ञातस्य क्षणेनावसरेण युक्तं चित्तं भवति । तस्य निरोधक्षणस्य चित्तस्य धर्मिण: त्रिगुणत्वेन चलस्य सदा परिणामशीलस्याभिभूत- प्रादुभू 'तयोः संस्कारयोर्मत्वेन योऽन्वयः स निरोधाख्यः परिणाम इति मणिप्रभाकारः। निर्माणकायः-योगबलेन योगिना अनेके काया निर्मीयन्ते । निर्माणकायः। निर्माणचित्तम्-योगवलेन स्वसङ्कल्पनिर्मितं चित्तं निर्माणचित्तम् । तच्च निर्माणचित्तं पञ्चविधं भवति । जन्मजातम्, जन्मजातम्, ओषधिज, मन्त्रज, तपोजन्यं, समाधिजं चेति । ( द्रष्टव्यम् या० भा० पा० ४ सू० ६)। सदा योगिना एकदैव नाना काया निर्मीयन्ते तदा प्रतिकायं चित्ता- पेक्षणात् निर्माणचित्तान्यपि अनेकानि करोति योगी। न च अनेक- चित्तत्वे सर्वेषां चित्तानामेकाभिप्रायानुरोधः परस्परप्रतिसन्धानञ्च कथं स्यातामिति शङ्कनीयम् सर्वेषां चित्तानां प्रवृत्तिविशेषे प्रयो- जकस्य एकस्य चित्तस्यापरस्य निर्माणात् । (द्र० यो० भा० त० ० पा० ४ सू० ४-५ )। तानि च निर्माणचित्तानि अस्मिता- मात्रात् उपादानकारणात् निर्मीयन्ते । अस्मिता = अहङ्कारः। मात्र- पदेन मनसो व्यावृत्तिः । निर्माणचित्तेषु मनः सङ्कल्पमात्रेण निमित्त नानं भवति नोपादानम् । निर्माणचित्तवत् निर्माणबुद्धयो निर्माणा- योगकोशः काराश्चापि अनेके स्वस्वप्रकृतिभूतप्रधानबुद्ध्यापूराद् भवन्ति युक्तिसाम्यात् । एवं कदाचिदेकेनैव चित्तेन योगिनो नानादेहेषु व्यव हारं कर्तुं क्षमन्ते इत्यपि स्वीकरणीयम्, स्वतन्त्रेच्छस्य नियन्तुमशक्य- त्वादिति विज्ञानभिक्षुः । (द्र० यो० वा० पा० ४ सू० ४ ) । निर्विचारा समापत्तिः-अतीनागतवर्तमानधर्मानवच्छिन्नेषु नील- पीतादिप्रकाररहितेषु सर्वदेशकालनिमितानुभवैरनवच्छिन्नेषु कारण- तया सर्वधर्मा ( कार्य) नुपातिषु भेदाभेदाभ्यां सर्वधर्मात्मकेषु भूत- सूक्ष्मेषु तन्मात्रोत्पन्नपरमाणुषु या स्वरूपशून्येवार्थमात्रनिर्भासा तत्स्थतदजनतारूपा चित्तस्य समापत्तिः सा निर्विचारा समापत्तिः । (द्र० यो० भा० त० वै० पा० १ सू० ४४ ) । अत्र भूतसूक्ष्मेषु = तन्मात्रेष्विति विवरणकारः । निवितर्का समापत्तिः यथा निविचारा समापत्तिः सूक्ष्मविषया तथैव निर्वितर्का समापत्तिरपि स्थूलविषया भवति । तथा च योग- सूत्रम् .. "स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का" पा० १ सू० ४३ ॥ निर्बीजसमाधिः-परेण वैराग्येण ज्ञानप्रसादमात्रलक्षणेन निरोध- संस्कारोपजननद्वारा प्रज्ञया सहैव प्रज्ञाकृतसंस्कारस्थापि निरोधः । अर्थात् सर्वस्योत्पद्यमानस्य संस्कारप्रज्ञाप्रवाहस्य निरोधात् कारणा- भावेन कार्यानुत्पादात् निर्बीजः समाधिरिति । (द्र ० यो० भा० त० वै० पा० १ सू० ५१ )। निःसत्तासत्तमव्यक्तम-सत्ता = पुरुषार्थक्रियाक्षमत्वम्, तुच्छत्वम् । निष्क्रान्तम् सत्ताया असत्तायाश्च यत् तत् निःसत्ता- सत्तम् । अयमर्थः-सत्त्वरजस्तमसां साम्यावस्था प्रकृतिरव्यक्तं न क्वचित् पुरुषार्थे उपयुज्यते इति दृष्ट्या न सती प्रकृतिः। नापि गगन- असत्ता- योगकोशः ५७ कमलिनीव तुच्छस्वभावा, तेन न असत्यपि । अतोऽव्यक्तम् निःसत्तासत्तमिति गीयते । निःसदसदव्यक्तम-निष्क्रान्तं कारणं सतः = कार्यादिति निःसत् अव्यक्तम् , कार्यरहितमित्यर्थः । यद्यपि कारणावस्थायामपि महदादि- कार्य शक्त्यात्मना तस्मिन्नव्यक्ते सदेवास्ति तथापि स्वोचितामर्थ- क्रियामकुर्वद् असदित्युक्तम् इति दृष्ट्या निःसदव्यक्तम् । एवं कारण- स्याव्यक्तस्य महदादिकार्य' शशविषाणायमानमपि नास्तीति दृष्ट्या- निरसदव्यक्तम् । निष्क्रान्तमसत: तुच्छरूपात् कार्यादिति तस्यार्थः । अव्यक्तावस्थायां यदि महदादिकार्य व्योमारविन्दमिव स्यात्तदा नाव्यक्तात् कदाचिदुत्पद्यतेति । तस्मात् निःसदसदव्यक्तम् । (द्र० यो० भा० त० वै० पा० २ सू० १९)।
५८ योगकोशः परचित्तज्ञानम-प्रत्ययस्य = रागादिमत्याः स्वकीयचित्तवृत्तेः संयमेन आश्रयादिरूपाशेषविशेषः साक्षात्करणात् ततः तस्माच्चित्तात् परस्य भिन्नस्य चित्तान्तरस्यापि अशेषविशेषतो ज्ञानं सङ्कल्पमात्रेणैव भव. तीति विज्ञानभिक्षुः । (द्र० यो० वा० पा० ३ सू. १९ । विवरणकारस्तु-परप्रत्यये = परकीयचित्तवृत्तौ सयमेन परप्रत्ययस्य साक्षात्करणम्, तत्साक्षात्करणे च तत्सम्बन्धिनः परचित्तस्य ज्ञानं भवतीत्याह । प्रत्ययस्य = परचित्तस्य केनचिद् मुखरागादिना लिङ्गेन गृहीतस्य, यदा संयमं करोति, तदा परचित्तस्य ज्ञानमुत्पद्यते, सरागमस्य चित्तं विरागं वेति परचित्तगतान सर्वानपि धर्मान् जाना- तीति भोजवृत्तिः। अत्र नागेशभट्ट आह-यथा संस्कारसाक्षात्कारे सति तद्विषया- दिकमपि विषयीक्रियते, तथा परचित्तसाक्षात्कारेऽमूकविषयक- रागवानयमिति विषयज्ञानं न जायते संयमविषयेण स्वचित्तेन पर- चित्तालम्बनस्याविषयीकरणात्, तत्प्रतिपादकशास्त्राभावात् । तत्र रागवदस्य चित्तं विरागं वेत्येव ज्ञानादिति । (द्र० पा० सू० वृ० पा० ३ सू० १९) । परमबन्धपरममक्ती-बुद्धेरेव परमो = मुख्यो बन्धो मोक्षश्च पुरुषे व्यपदिश्यते, स हि तत्फलस्य मोक्तेति । भोगोऽपवर्गश्चेति दौ पुरु- षाथौं, तयोरपरिसमाप्तिरेव बन्धः, स च बुद्धरेव धर्मः. तयोर्बुद्धि- कृतत्वात्, बुद्ध्यैव करणीयत्वाच्च । तथा च बुद्धिकृतो भोगापवगौं बुद्धेरेव धमौं। एवं पुरुषार्थावसायो = विवेक ख्यात्या भोगापवर्गरूप- पुरुषार्थसमाप्तिरेव मोक्षः । अयं मोक्षोऽपि बुद्धेरेव धर्मो विवेकख्याति- मत्या बुद्ध्यैव कृतत्वात् । तथा च भोगापवर्गरूपैः पुरुषार्थैः सम्बन्धो बुद्धर्बन्धः, तैवियोगश्च वुद्धेर्मुक्तिरिति । एतौ एव बुद्धः परमबन्धपरममुक्ती स्तः । भोगापवर्गों तु बन्धमुक्तिभ्यां भिन्नो मन्तव्यौ। तत्र इष्टानिष्टगुण- . ।
योगकोशः - । स्वरूपावधारणावमागापन्नं भोग :, भोक्तुः स्वरूपावधारणमपवर्गः। अयमर्थः-इष्टानिष्टगुणा: सुखदुःखात्मका: शब्दादयः, तत्स्वरूपाव- धारणं = तदाकारा बुद्धिवृत्तिरेव अविभागापन्ना अर्थात् अहङ्कारेण ममेत्यात्मनिष्ठतयाऽभिमन्यमाना सती भोगः । सोऽपि बुद्धरेव धर्मो न पुरुषस्य, वृत्तवुद्धिधर्मत्वात् । एवं भोक्तुः पुरुषस्य यत् स्वरूपा- वधारणम् अर्थात् उपाधिविविक्तचैतन्याकारा बुद्धिवृत्तिः सैव अप- वर्गः । सोऽप बुधेरेव धर्मः, पुरुषाकारवृत्तेरपि बुद्धिधर्मत्वात् । अतो भोगापवौं बुद्धिधमौं, तदतिरिक्तौ बन्धमोक्षावपि बुद्धिधमौं: इति । भवति चात्र पञ्चशिखवाक्यं प्रमाणम् । यथा- "आद्यस्तु मोक्षो ज्ञानेन द्वितीयो रागसंक्षयात् । कृच्छ्रक्षयात् तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ॥” इति। (द्र० यो भा० तथा यो० वा० पा० २ सू० १८)। परमाणुः -लोष्टस्य हि प्रविभज्यमानस्य यस्मिन्नवयवेऽल्पत्वतारतम्यं व्यवतिष्ठते सोऽपकर्षपर्यन्तः परमाणुः। (द्र० यो० भा० त० वै० पा ३ सू० ५२)। अत्र विज्ञानभिक्षुः- 'अत्र दृष्टान्तादिना परसूत्रेण च साक्षादेवाचार्येण परमाणुवचनात् वैशेषिकोक्तपरमाणवोऽप्यस्माभिरभ्युपगम्यन्ते। ते चास्मदर्शने गुणशब्दवाच्या इत्येव विशेषः । न चात्रत्यभाष्ये पृथि- व्यादिभूतपरमाणुरेव परमाणुशब्दार्थो युक्त इति वाच्यम् परमाणु- विशेषणतयोक्तस्य पृथिव्यादिभूतात्मकविशेषपरत्वे प्रमाणाभावात् । सावयवस्य पृथिव्यादिपरमाणोः निरवयवकालपर-- माणुदृष्टान्तत्वानुपपत्तेश्च । यद्यपि प्रकृतेविभुत्वेन तदभिन्नगुणाना- मणुपरिमाणत्वरूपं परमाणुत्वं न संभवि तथापि दर्शनेऽस्मिन् अन्तःकरणानामाकाशस्य च हेतवो ये गुणास्तेषामेव विभुत्वाङ्गी- कारात् । न खलु सर्वगुणानां विभुत्वमिह स्वीक्रियते, तथा सति आद्यपरिणामहेतभूतक्षोभसंयोगाद्यसंभवात् । तस्मात् सिद्धं यदणु-- द्रव्यशब्दस्य योगकोशः परिमाणा अपि गुणाः सन्तीति, गुणा एव च परमाणवः सन्तीति चेति । न्यायवैशेषिकवत् तेषु परमाणुषु पृथिवीत्वादिकं नास्ति, गुणेषु पृथिवीत्वाद्यमिव्यञ्जकगन्धाद्यनङ्गीकारादिति सिद्धान्तः । (द्र० यो० वा० पा० ३ सू० ५२)। परवैराग्यम्-परमात्मजीवात्मनोरन्यतरसाक्षात्काराभ्यासाद् हेतो- रुत्पद्यमानं सकलगुणेषु वैतृष्ण्यं परं वैराग्यम् । अपरवैराग्ये वशी- काराख्ये विषयदोषदर्शनात् विषयेष्वेव वैराग्यं न तु ज्ञानेऽपि । अविद्यानिवृत्याख्यप्रयोजनसिद्धये ज्ञानस्यापेक्षितत्वेन ज्ञानेऽलंबुद्धि- रूपवैराग्यासंभवादिति । ( द्र० यो० वा० पा० १ सू० १६ )। परशरीरावेशः-स्वभावलोलं मनोऽप्रतिष्ठं सदपि यत्कर्माशयवशात् शरीरे बद्धं भवति, बन्धकारणस्य तस्य कर्मणः समाधिबलात् शैथिल्यं जायते, तथा समाधिबलादेव चित्तस्य गमनागमनमार्गाणां संवेदन- मपि जायते । तेन योगी चित्तं स्वशरीरान्तिष्कृष्य परशरीरे निक्षिपति । चित्तमनु इन्द्रियाण्यपि परशरीरे प्रविशन्ति । (द्र० यो० मा० त० वै० पा० ३ सू० ३८)। परिणामः-अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः । अत्र धर्मशब्द आश्रितत्वेन धर्मलक्षणावस्थानां वाचकः । तेन पूर्वधर्मलक्षणावस्थानां निवृत्तौ अन्यधर्मलक्षणावस्थानामवस्थिते द्रव्ये उतात्तिः परिणाम इति निष्कर्षः। (द्र० यो० भा० त० वै० पा० ३ सू० १३ )। 'परो वशीकारः-अभ्यासात् परिकमितचेता योगी यदा स्वमनः सूक्ष्मे निवेशयितुमिच्छति तदा परमाणुपर्यन्तभिदं स्थितिं लभते। यदा च स्थूले निवेशशयितुमिच्छति तदा परममहत्त्वान्तं स्थितिपदं लभते। अर्थात् यथेच्छं सूक्ष्मतमं स्थूलतमं च चित्तं मवति । एवं तामुमयीं कोटिमनुधावतोऽस्य चित्तस्य योऽप्रतिघातः, स परो वशी- योगकोशः कारो वशोकारसंज्ञारूपाद् प्रसिद्धादुत्कृष्ट इति। (द्र० यो० भा० पा० १ सू० ४० )। अत्र परमाण्वादौ धारणात्रयो भवति-संक्षिप्ता, विशाला विकरणी चेति । तत्रोभयकोटिस्पशिनो विकरणा। परममहत्त्वान्तस्पृग विशाला परमाण्वन्तस्पृक् संक्षिप्तेति विवरणकारः। (द्र० पा० यो० सू० ० वि० पा० १ सू० ४० )। परं प्रसंख्यानम्-चित्तं यदा रजोलेशादपि मलादपेतं सत् स्वरूप- प्रतिष्ठं भवति, तदाऽस्य सत्त्वपुरुषान्यताख्यातिमात्र कार्यम- वशिष्यते। तदानीं धर्ममेघनामकध्यानोन्मुखं च चित्तं भवति । तस्यैव परं प्रसंख्यानमित्याख्या ध्यायिनामिति । (द्र० यो । भा० त० वै० पा० १ सू० २)। पिङ्गला-दक्षनाडी ( दक्षिणनाडी )। पुरुषज्ञानम्-प्रख्याशीलं हि बुद्धिसत्त्वं रजस्तमसी वशीकृत्य विवेक- ख्यातिरूपेण परिणतं भवति । तस्माच्च परिणामशीलात् बुद्धि- सत्त्वात् अत्यन्तविधी शुद्धः: अन्यश्चितिमात्ररूप: पुरुषोऽस्ति । अतस्तौ सत्त्वपुरुषौ परस्परमत्यन्तासंकीणों स्तः । तथापि शान्तघोर- मूढरूपायां बुद्धौ चैतन्यं प्रतिबिम्बितं भवत् स्वयमपि शान्तघोरादि- रूपमिव भवति यथा कम्पमाने जले प्रतिबिम्बितश्चन्द्रः स्वयमपि सकम्प इव भवति न तु बस्तुत : सकम्पः। अयमेव बुद्धिपुरुषयो। प्रत्ययाविशेषरूपो भोगः । स च भोगः परार्थः, सत्त्वस्य परार्थत्वेन तद्धर्मों भोगोऽपि परार्थ एवास्तीति तस्मात् परार्थभोगात् यो विशिष्टः चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययस्तत्र संयमात् पुरुषविषयं- ज्ञानं भवतीति । (द्र० यो० मा० त० वै० पा० ३ सू० ३५)। अत्र विज्ञानभिक्षुः-बुद्धेः प्रत्ययः सुखादिमती विषयाद्याकार- चित्तवृत्तिः, पुरुषस्य प्रत्ययो बुद्धिवृत्तिप्रतिबिम्बावच्छिचैतन्यांश सुखाद्यात्मकशब्दाद्यनुभवनामा । तयोरविवेकश्च बुद्ध्या पुरुषे स्वप्रति- .
योगकोशः बिम्बार्पणेन जपास्फटिकयोरिव धर्मसांकर्यात् । तथा च पुरुष एव बुद्धिवृत्तिप्रतिबिम्बो न तु बुद्धौ चित्प्रतिबिम्ब इत्याह । शेषं समानम् । द्र० यो० वा० पा० ३ सू० ३५ ) । पुरुषेऽन्वयिकारणत्वाभावः-यद्यपि पुरुषार्थो महदहङ्कारादीना- मुत्पत्तौ निमित्तं भवतीति पुरुषोऽपि प्रकृतिवत् कारणतया महदा- दोनां सूक्ष्म रूपं स्यात् तथापि पुरुषे महदादीन् प्रति अन्वयि- कारणत्वम् (उपादानत्वं ) नास्तीति न पुरुषो महदादीनां सूक्ष्म रूपं किन्तु प्रकृतिरेवेति । (द्र० यो० भा० त० नै० पा० १ सू० ४५) । पूरकः-यत्र बाह्यो वायुराचम्यान्तर्धार्यते स पूरकः प्राणायामः । पूर्वजातिज्ञानम्-स्मृतिहेतवोऽनुभवजन्या ये संस्कारा: येचाविद्यादि- क्लेशानां हेतुभूता अविद्यादिसंस्काराः, अथ च जात्यायुर्भोगरूप- विपाकस्य हेतुभूता ये धर्माधर्मरूपाः संस्काराः तेषां संयमात् सा- क्षात्कारे सिद्धे पूर्वजन्मानुभूतानां जात्यादीनां ज्ञानं भवतीति । (द्र० यो० भा० त० वै० पा० ३ सू० १८)। प्रकृतिप्रवृत्तौ धर्मादीनामहेतुत्वम्-प्रकृतेः प्रवृत्ती धर्मादयो न प्रयो- जकाः भवन्ति, तेषां प्रकृतिकार्यत्वात् । न हि कार्य कारणं प्रयो- जयति, तस्य कारणाधीनोत्पत्तितया कारणपरतन्त्रत्वात्, स्वतन्त्रस्यैव च प्रयोजकत्वात् । धर्मादोनामुपयोगस्तु प्रतिबन्धापनयनमात्रेणैव भवति, यथा क्षेत्रिको नाप: पाणिनाऽपकर्षति किन्तु आवरणमेव भिन्नत्ति, तद्वत् । अतः प्रकृतिः स्वयमेव पुरुषार्थाय पवर्तत इति । (द्र० यो० भा० त० पै० पा० ४ सू० ३)। प्रकृतिलयत्वम्-ये प्रकृतिमेवात्मानमभिमन्यमाना प्रकृत्युपासकाः साधिकारायामेव प्रकृतौ लीनास्ते प्रकृतिलया इत्युच्यन्ते । प्रकृति- लयानां विदेहेभ्योऽयं भेदो यत् बिदेहाः सावरणब्रह्माण्डान्तर्गता एवा- ल्पमैश्वयं मलिनं च विषयं भुञ्जते, प्रकृतिलयास्तु ब्रह्माण्डाद् योगकोशः . बहिर्गत्वा विदेहान् प्रत्यपि ईशते तत्रैव निर्मलं कारणसत्त्वनिर्मितं विषयञ्च भुजाना ईश्वरकोटय उच्यन्त इति । (द्र० यो० भा० त० वै० तथा यो० वा. पा. १ सू० १५)। प्रकृतः क्षोभहेतुः-परमेश्वरप्रयत्नेनैव गुणवैषम्यं भवति, तत्परेणेरितं विषमत्वं प्रयातीति श्रुतेः । तथा “प्रकृति पुरुषं चैव प्रविश्यात्मेच्छया हरिः । क्षोभयाभास सम्प्राप्ते सर्गकाले व्ययाव्ययौ ॥” इति प्रमाणात प्रकृतेवैषम्यहेतुः क्षोभोऽपीश्वरेच्छात एव भवति । सा च परमेश्वरे- च्छा सदैवाप्रतिहता नित्या महाप्रलयेऽप्यस्तोति विज्ञानभिक्षुः । (द्र० यो० वा० पा० १ सू० २४)। अत्र वाचस्पतिमिश्रा:-ज्ञानक्रिये सर्गहेतुभूते अपरिणामिन्यां चिच्छक्तौ न संभवत इति रजस्तमोरहितचित्तसत्त्वाश्रये एव ते वक्तव्ये । यद्यपि सदामुक्तस्येश्वरस्याविद्याप्रभावेण तादृशचित्तसत्त्व. समुत्कर्षेण सह स्वस्वाभिभावः सम्बन्धो न संभवति, अतो ज्ञान- क्रियाश्रयीभूततादृशचित्तसत्त्वाभावात् ज्ञानक्रियाप्रयुक्तः सर्गों न संभवति तथापि नेश्वरस्य पृथग्जनस्येवाविद्यानिबन्धनः चित्तसत्त्वेन स्वस्वामिभावोऽभ्युपगम्यते किन्तु तापत्रयपरीतजन्तूनामुद्दिधीर्षया भगवान् सर्गादौ चित्तसत्त्वमुपादत्ते । यद्यपि उद्दिधीर्षाऽपि प्राकृतत्वात् प्रलयावस्थायां न संभवति तथापि अनादौ सर्गसंहारप्रबन्धे सर्गान्तर- समुत्पन्नसंहारेच्छावधिसमये पूर्णे मया पुनः सर्गाथं सत्त्वप्रकर्ष उपादेय इति प्रणिधानं कृत्वा भगवान् जगत् संजहार । तदा च पूर्वसर्गीयेश्वरचित्तसत्त्वं प्रणिधानवासनावशात् तथैवेश्वरचित्तसत्त्व- भावेन परिणभते । यथा चैत्रः श्वः प्रातरेवोत्थातव्यं मयेति प्रणि- धाय सुप्तः सन् तदैवोत्तिष्ठते प्रणिधानसंस्कारात् । तथा च बीजा- करवदनादित्वात् ईश्वरप्रणिधानसत्त्वोपादाने उभे अपि शाश्वतिके इति नान्योन्याश्रयदोषोऽपि । तथा च महाप्रलयकाले नेश्वरस्य चित्तसत्त्वं तिष्ठति न वा तदाश्रिते ज्ञानक्रिये अपि तिष्ठत इति ।
योगकोश मेकाम्" द्र० त• वै० पा० १ सू० २४)। मिश्रमतानुसारम् प्रकृतौ क्षोभ- जननार्थं महाप्रलयेऽपि वर्तमाना भगवतो नित्येच्छा नाङ्गीकरणी- येति विशेषः। प्रकृतेरेकत्वम-यद्यपि प्रकृतिगुणत्रयात्मिका तथापि एकैव प्रकृतिरिति सिद्धान्तः। पुरुषभेदेन सर्गभेदेन च भेदाभावः प्रकृते रेकत्वम् "अजा-. इत्यादिवाक्यः प्रतिपाद्यते । (द्र. यो० वा० पा०. २ सू० १८)। प्रकृतरेव क्षोभो न पुरुषस्य-चलनादिक्रियारूपक्षोभः प्रकृतेरेव भवति । “प्रधानात् क्षोभ्यमाणाच्च तथा सःपुरातनात् । प्रादुरासीन्महद्बीजं प्रधानपुरुषात्मकमिति स्मृतेः । यच्च प्रकृते- रक्रियत्वमुक्त तत्तु अध्यवसायाभिमानादिरूपप्रतिनियतकार्य- शून्यत्वमेव, न तु चलनादिकमंशून्यत्वम् । यत्तु क्वचित् पुरुष- स्यापि क्षोभः श्रूयते स संयोगोन्मुखत्वेन गौणः, प्रकृतिकर्मणैवोभयोः संयोगोत्पत्तेः। (द्र० यो० वा० पा०२ सू० १८)। प्रकृतेः स्वातन्त्र्यम्-प्रकृतिः स्वतन्त्रा, धर्माधमौ' तु प्रकृतिकार्ये प्रतिबन्धकमपनयतो न तु प्रकृति प्रयोजयतः । एवमाकाशे द्रव्या- नारम्भिकापि अनुक्षणमणूनां क्रिया सर्वसम्मता। न च तत्र धर्माधौ कारणं भवतः, तस्याः क्रियायाः कस्यापि भोगाहेतुत्वात् । नापि तत्रेश्वरादिसङ्कल्पादि: कारणम्, गौरवात् । अतो निरन्तरमणु- क्रियोपपत्तये लाघवेन गुणत्वेनैव सामान्यतः प्रवृत्तिकारणत्वात् सहकार्यप्रयुक्ता प्रकृतिरेव परिणामे स्वतन्त्रा कारणमिति । (द्र० यो० वा० पा० ४ सू० ३)। प्रकृत्यापूरः-प्रकृतीनामवयवानुप्रवेश एव प्रकृत्यापूरः। यथा कायस्य प्रकृतिः पृथिव्यादीनि भूतानि । अतः योगिसङ्कल्पात् तस्मिन् काये परिणामान्तरजनने पृथिव्यादीनामवयवानुप्रवेशो भवति, स एक प्रकृत्यापूरः । (द्र ० यो० भा० त० वै० पा० ४ सू० २)।
योगकोशः ६५ प्रख्या-तत्त्वज्ञानम् । प्रच्छर्दनम्-कौष्ठ्यस्य वायो सिकापुटाभ्यां योगशास्त्रविहितात् प्रयत्नविशेषाद् बहिर्वमनं प्रच्छदनम् । द्र० यो० भा० त० वै० पा० १ सू० ३४ )। प्रज्ञा-जीवब्रह्मान्यतरात्मतत्त्वसाक्षात्कारः प्रज्ञेति विज्ञानभिक्षुः। द्र० यो० वा० पा० १ सू० २०) । प्रज्ञा = बुद्धिरिति विवरण- कारः । पुरुषगोचरख्यात्यभ्यास इति मणिप्रभावृत्तिः । प्रज्ञाऽऽलोकः-समाधिगतप्रज्ञायाः प्रत्ययान्तरानभिभवेन निर्मल- प्रवाहेऽवस्थानमेव प्रज्ञाऽऽलोकः । (द्र० यो० भा० त० वै० पा० ३ सू०५)। प्रज्ञाया आलोको दीप्तिर्बुद्धिरिति विज्ञानभिक्षुः । प्रज्ञासंस्कारप्रयोजनम्-समाधिजप्रज्ञाजन्याः संस्कारा: भोगाधिकार- परिपन्थिनो भवन्तीति भोगाधिकारप्रशान्तिरेव प्रज्ञासंस्काराणां प्रयोजनम् । (द्र० यो० भा० त० वै० पा० १ सू० ५० )। प्रणवः-ओंकारः ईश्वरस्य वाचकं नाम । तथा च योगसूत्रम् "तस्य वाचकः प्रणवः" इति । ( पा० १ सू० २७ ) । प्रणवार्थचिन्तनस्य द्वैविध्यम्-प्रणवार्थचिन्तनं मुख्यतया द्विविधम्- तत्रैकमंशांशि-कार्यकारण-शक्तिशक्तिमदादिभेदेन तप्तायःपिण्डवत् अवि- भागलक्षणैकीभावात् “अहं ब्रह्म सर्व खलु ब्रह्म" इत्यादिरूपं भवति । अपरं च प्रकृति-तत्कार्य-पुरुषेभ्यो विवेकेन केवले ब्रह्मचिन्मात्रे आत्मत्वचिन्तनम् इति विज्ञानभिक्षुः । (द्र० यो० वा० पा० १ सू० २८)। प्रणिधानम् -मानसो वाचिक: कायिको भक्तिविशेषःप्रणिधानमिति वाचस्पतिमिश्राः । ( द्र. यो. भा० त० वै० पा० १ सू० २३ )। असंप्रज्ञातकारणीभूतसमाधिर्भावनाविशेषः प्रणिधानमिह विवक्षितम् । ५ योगकोशः तच्च प्रणवजपेन सह ब्रह्मध्यानमेवेति विज्ञानभिक्षुः। (द्र० यो० वा. पा. १ सू० २३-२८)। प्रतिक्षणपरिणामेऽपि क्षणिकत्वाभावः-प्रतिक्षणपरिणामेऽपि धर्मिणि न क्षणिकत्वमायाति । यतो हि धर्मिणि सत एव धर्मस्य यदा अतोताद्यवस्थात्रयं भवति तदानीं धर्मिणो धर्मान्यथात्वमेव भवति न द्रव्यान्यथात्वम् स्वरूपान्यथात्वं वा । तथात्वे प्रतिक्षणं परिणामेन क्षणिकत्वापत्त्या प्रत्यभिज्ञाद्यनुपपत्तिः स्यात् । अत एव प्रत्यभिज्ञा- बलेन कटककुण्डलादिसर्वविकारानुगं सुवर्णसामान्यमेकं सिध्यति । सुवर्णसामान्यच्चावयविरूपो धर्मीति । (द्र० यो० वा० पा० ३ सू० १३ । प्रतिप्रसवः-कार्यस्य कारणभावापत्तिः प्रतिप्रसव इति वाचस्पति- मिश्राः। (द्र० यो० भा० त० वै० पा० २ सू० १० )। प्रसवाद् विरुद्धः प्रतिप्रसव प्रलय इति विज्ञानभिक्षुः। प्रतिलोम- परिणामः प्रतिप्रसव इति भोजवृत्तिः । प्रतिबिम्बम्-दर्पणे मुखप्रतिबिम्बवत् स्वच्छायां बुद्धौ सन्निहित- पुरुषस्य प्रतिबिम्बं भवति । एवं दर्पणगतमालिन्यस्य मुखेऽभिमानवत् बुद्धिवृत्तेस्तदारूढविषयस्य च बोधो भवति पुरुषस्येति बुद्धावेव चित्प्रतिबिम्बो न तु चित्यपि बुद्धिप्रतिबिम्ब इति वाचस्पतिमिश्राः । (द्र० यो० मा० त० वै० पा० १ सू०४ ) । विज्ञानभिक्षुस्त्वाह-चेतनेऽपि बुद्धिप्रतिबिम्बमवश्यं स्वीकार्यम् । अन्यथा कूटस्थनित्यविभुचैतन्यस्य सर्वसम्बन्धात् सदैव सर्व वस्तु सर्वैर्जायेत, न हि सूर्यसम्बन्धे सति घटाद्यप्रकाशौ दृष्ट इति । अतोऽ- र्थभानस्य कादाचित्कत्वाद्युपपत्तयेऽर्थाकारतैव पुरुषस्याप्यर्थग्रहणमिति वाच्यम्, यथा बुद्धेराकारतैवार्थग्रहणमिति दृश्यते । अर्थात् यथा बुद्धिराकारतां धारयतीत्येव तस्या अर्थग्रहणमित्युच्यते तथा पुरुषोऽपि अर्थाकारतां धारयतीत्येव तस्यापि अर्थग्रहणम् (अर्थबोधः) योगकोशः SIMITRAR इति मन्तव्याम् । सा चार्थाकारता बुद्धौ परिणामरूपा न तु प्रतिबिम्ब- रूपा, स्वप्नादौ विषयाभावेन बुद्धो त प्रतिबिम्बासंभवात् । पुरुष तु प्रतिविम्बरूपैवार्थाकारता। पुरुषस्यापरिणामित्वेन विद्यम नि- वृत्तिमात्रग्राहके पुरुषे सविषयबुद्धिवृत्तिप्रतिविम्वेनैवार्थाकारतोपपत्तेः । एवं बुद्धावपि चित्प्रतिबिम्बं स्वीकार्यमन्यथा चैतन्यस्थ मानानु- पपत्तेः। स्वयं साक्षात् स्वदर्शने कर्म कर्तृविराधेन बुध्यारूढतयै- बादभनो घटा दिवज्ज्ञ गत्वाभ्युपगमात् । तथाचोभयत्रैवोभवस्य प्रति- बिम्बं भवतीति । (द्र० यो० वा० पा० १ सू० ४। प्रत्यकचेत प्रतीपं विपरीतमञ्चति विजानातीति प्रत्यक्, सचासौ चेतनश्चेति प्रत्यक्चेतनोऽविद्यावान् पुरुषः । (द्र० यो मा० त० वै० पा० १ सू० २९)। विज्ञानभिक्षस्तु-प्रति प्रतिवस्तु, अञ्चति अनुगच्छतीति व्युत्पत्त्याऽ. लङ्कुचितसर्वानुगतः परमात्मैव मुख्यः प्रत्यक्शब्दार्थः । विभुत्व- गुणयोगात् जीवे गौणः प्रत्यक् शब्द इति । (द्र यो वा० पा० १ सू० २९)। प्रत्यक्षम्-इन्द्रिप्रणालिकया चित्तस्य बाह्यवस्तूपरागात् तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् । तत्फलीभूतोऽविशिष्टः पौरुषेयश्चित्तवृत्तिबोधश्च प्रत्यक्षप्रमा। (द्र० यो० वा० पा० १ सू० ७)। प्रत्ययानुपश्यः-प्रत्ययं बौद्धमनुपश्यतीति प्रत्ययानुपश्यः। तमनुपश्यन् द्रष्टा तदात्मक इव प्रत्यवभासते । यथा निर्मले जले स्वयमसंक्रान्तोऽ- पि चन्द्रः सङ्क्रान्तप्रतिबिम्बतया सक्रान्त इव भवति, एवम- सङ्क्रान्ताऽपि चितिशक्तिः संक्रान्तप्रतिबिम्बा सती स्वयं सङ्क्रान्तेव बुद्ध्यात्मत्वमापन्ना बुद्धिमनुपततीति चितिशक्तिः = द्रष्टा प्रत्ययानुपश्य इत्युच्यते । (द्र० यो० भा० त० वै० पा० २ सू० २०) ६८ योगकोशा प्रत्याहारः-इन्द्रियविषयासंप्रयोगकाले इन्द्रियाणां चित्तस्वरूपानु- कारितेव या भवति सा इन्द्रियाणां प्रत्याहार इत्युच्यते। अतःचित्त- निरोधकाले चित्तवन्निरुद्धानीन्द्रियाणि स्वनिरोधाय नोपायान्तरम- पेक्षन्ते । यथा मधुकरराज मक्षिका उत्पतन्तमनूत्पतन्ति निविशमान- मनुनिविशन्ते, तथेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्येष प्रत्याहारः । (द्र० यो० भा० तथा वा० पा० २ सू० ५४ )। प्रधानजयः-सर्वप्रकृतिविकारवशित्वं प्रधानजयः । स च ग्रहणस्वरूपा- स्मिताऽन्वयार्थवत्त्वसंयमाज्जायमानेनेन्द्रियजयेन सिध्यति । (द्र० यो० भा० त० वै० पा० ३ सू. ४८)। सर्वासां व्यक्तिभेदेन अनन्तानां भूतेन्द्रियप्रकृतीनां सत्तादिगुणानां तद्विकाराणां च सर्वेषां स्वेच्छयाऽनुविधानं प्रधान जय इति विज्ञान- भिक्षुः । द्र० यो० वा० पा० ३ सू० ४८।)। प्रधाले निरतिशयं सौक्ष्यम्--- पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः, आप्यस्य रसतन्मात्रम्, तैजसस्य रूपतन्मात्रम्, वायवीयस्य स्पर्श- तन्मात्रम्, आकाशस्य शब्दतन्मात्रञ्चेति । तेषां तन्मात्राणामहङ्कारः सूक्ष्मो विषयः, अस्यापि लिङ्गमात्रम् ( बुद्धिः ) सूक्ष्मो विषयः, लिङ्गमात्रस्यापि अलिङ्ग प्रधानं सूक्ष्मो विषय।। न चालिङ्गात् प्रधानात् परं सूक्ष्ममस्ति । तस्मात् प्रधाने निरतिशयं सौक्ष्यमस्तीति । (द्र० यो० भा० पा० १ सू. ४५ )। प्रपञ्चस्य नित्यानित्योभयरूपत्वम्-कार्यकारणभेदेन प्रकृत्यादीनां सर्वेषां परिणामिनां प्रकारभेदेन नित्यानित्योभयरूपत्वम् इति सिद्धान्तः।। द्र. यो० वा पा० ३ सू० १३ )। प्रफचस्य सदसद्रूपत्वम् -प्रपञ्चस्य नित्यानित्योभयरूत्वादेव सद- सद्रूपत्वमित्यपि सिद्धान्तः । (द्र० यो० वा० पा० ३ सू. १३ )।
यांगकाशा ६६ अमाख्यम् फलम्-प्रमाख्यं फलं बुद्धरेव धर्मः । प्रमायाः वृत्तिजन्य- तया वृत्त्याख्यकारणसामानाधिकरण्यन बुद्धावेव प्रमारूपकार्यजनना- भ्युपगमस्यौचित्यात् । एतदनुसारं चैतन्यमेव हि बुद्धिदर्पणप्रति- बिम्बितं बुद्धिवृत्त्याऽर्थाकारया तदाकारतामापद्यमानं फलं, तच्च चिच्छायाख्यं चित्प्रतिबिम्बं बुद्धरेव धर्म इति कश्चित् । तन्न, पौरुषेयशब्दस्य यथाश्रुतार्थत्यागापत्तः, प्रतिबिम्बस्य तुच्छतया र्थभानरूपत्वानुपपत्तेश्च । किञ्च परस्परप्रतिबिम्बस्य श्रुतिस्मृति- सिद्धतया चितेरेव वृत्तिप्रतिबिम्बोपहितायाः फलत्वं युक्तम्, ज्ञान- शब्देनात्मन एव प्रतिपादनात् । अपि च बुद्धेरेव प्रमातृत्वे पुरुषो न सिध्येत्, अनावश्यकत्वादिति विज्ञानभिक्षुः। (द्र० यो० वा० पा० १ सू. ७)। प्रमाणम्-अनधिगततत्त्वबोधः पौरुषेयो व्यवहारहेतुः प्रमा तत्करणं प्रमाणम् । (द्र० त० वै० पा० १ सू० ७)। प्रवृत्तिः -कर्म क्रिया वा। तथा च क्रियाशीलवात् चित्तं रजोगुण- मुच्यते । भशान्तवाहिता-निरोधसंस्कारात् निरोधसंस्काराभ्यासपाटवापेक्षा शान्तवाहिता चित्तस्य भवति । प्रशान्तवाहिता च व्युत्थानसंस्कार- 'मलरहितनिरोधसंस्कारपरम्परामात्रवाहिता इति वाचस्पतिमिश्राः । (द्र० यो० भा० त० वै० पा० ३ सू० १०)। निरोधावस्थचित्तस्य निश्चलनिरोधधारया वहनं प्रशान्तवाहितेति विज्ञानभिक्षु : ! द्रष्टव्यं तत्रत्यं वार्तिकम् । प्रश्वास:--कोष्ठ्यस्य वायोनिःसारणं प्रश्वासः । प्राकाम्यम्-इच्छानभिघातः। नास्य योगिनो रूपं भूतस्वरूपैर्मूर्त्या- दिभिरभिहन्यते । भूमौ उन्मज्जति निमज्जति च यथोदके इति । (द्र० यो० मा० त० वै० पा० ३ सू० ४५ )। .
७० योगकोशः प्राणः-आ नासिकाग्रात् आ च हृदयादवस्थितो वायुविशेषः प्राणः । सच जीवनस्य प्रयत्नविशेषस्य कार्यविधया लक्षकः। प्राणादिनैव लक्ष्यतेऽयं जीवतीति । यथा वह्निकार्येण धमेन पर्वतादौ वह्निर्लक्ष्यते, तद्वत् ।। द्र० यो भा० त० वै० पा ३ सू० ३९)। विज्ञानभिक्षुराह-"समस्तेन्द्रियवृत्ति : प्राणादिलक्षणा जोवनम्" इति भाष्ये समस्तपदं सामान्यवाचकम्, इन्द्रियपदञ्च स्थूलसूक्ष्मो- भयपरतया करणमात्रपरम् । प्राणपदं प्राणनादिवृत्तिपर, लक्षण- पदञ्च स्वरूपार्थकं न तु लक्ष्यतेऽनेनेति करणव्युत्पत्त्या लक्षणपरम् । तथा च करणसामान्यस्य प्राणनादिरूपा वृत्तिरेव जीवनम् । अतो यथैकैकस्य करणस्याध्यवसायाभिमानसङ्कल्पालाचनात्मिका पृथक पृथक वृत्तिभवति, तथैव करणसामान्यस्यापि प्राणनापाननसमानना- दाननव्याननरूपा देहान्तर्गतदेशभेदात् पञ्चतयी सामान्या वृत्ति- र्भवति । एतावता करणसामान्यमेव देशभेदात् प्राणापानसमानो- दानव्यानसंज्ञाः लमते इति करणमेव प्राणादयो न तु शरोरोपगृहीत- मारुतभेदा इति । लिङ्गशरीरस्योर्ध्वाधःसञ्चारादुत्पद्यमानेन वायुना सहाविवेकादेव तु तप्तायःपिण्डवत् प्राणेषु वायुव्यवहारः । तस्मात् करणसामान्यमेव मुखनासिकागतिराहृदयवृत्तिः प्राण इति । अधि- कन्तु वार्तिकादवगन्तव्यम् । ( द्र० यो० वा० पा० ३ सू० ३६ )। अनयो कतरः पक्षो इति तु सुधीभिरेवावधानीयम् । तत्त्वसमाससूत्रेऽपि प्राणापानादयो वायुरूपा एवाभ्युपगताः । तथा च तत्त्वसमाससूत्रम्-“पञ्च वायवः" सूत्रम् ११ । व्याख्यातञ्चैतत् तथैव सर्वोपकारिणोटोकाकृताऽपि । प्राणायामः-- शास्त्रोक्तरीत्या श्वासप्रश्वासयोः स्वाभाविकगतेः प्रतिषेधा प्राणायामः । प्राणायामे आसनसाहित्यं नितान्तमावश्यकम् । अत एव "तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः" इति योगसूत्रे "तस्मिन् सति' इत्युक्तम् । आसने सतीति तस्यार्थः । युक्त इति योगकोशः - तस्य मुख्यतस्त्रयो भेदा:-रेचकपूरककुम्भका इति । न च ते त्रयो मिलित्वैक एव प्राणायाम इति वाच्यम् केवलकुम्भकस्यापि प्राणाया- मत्ववचनात् । तदुक्तं वाशिष्ठसंहिताया- रेचकं पूरकं त्यक्त्वा सुखं यद्वायुधारणम् । प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः ॥ इति । (द्र० यो० वा० पा० २ सू० ४९ )। प्राणायामस्यापरे भेदा विधयश्च योगचिन्तामण्यादिग्रन्थान्तरतोऽ- वसेयाः ।
'७२ योगकोशः बन्धकोटिद्वयम्-पूर्वा उत्तरा चेति बन्धस्य कोटिद्वयम् । तत्र यो मुक्तो जातस्तस्य पूर्वा बन्धकोटिरभूत् किन्तूत्तरा बन्धकोटिर्नास्ति । एवं ये प्रकृतिभावनासंस्कृतमनसस्ते देहपातानन्तरमेव प्रकृतिलयता- मापन्नास्तेषां पूर्वा बन्धकोटिरभूदेव किन्तूत्तराऽपि बन्धकोटि: संभाव्यत एव । ईश्वरस्य तु सदैव मुक्तत्वात् नास्ति पूर्वा बन्धकोटि- पि चोत्तरा बन्धकोटिरिति। (द्र० यो० मा० त० वै० पा. १ सू० २४)। अत्र भाष्यविवरणकार:-अनारब्धसंसारस्य प्रकृतिलोनस्योतरा बन्धकोटिः सम्भाव्यते । प्रवृत्तसंसारस्य चाप्रकृतिलीनस्य बद्धजनस्य साधिकारत्वात् पूर्वोत्तरबन्धकोटी स्तः। मुक्तस्य तु पूर्वा बन्धकोटि- मुंक्तत्वोपपत्तेरेव ज्ञायते । बन्धपूर्विका हि मुक्तिरिति । (द्र० पा० यो सू० भा० वि० पा० १ सू० २४ )। बन्धनानि-प्रकृतिलयानां प्राकृतो बन्धः, विदेहानां वैकारिको बन्धः, दिव्यादिव्यविषयभोगभाजां च दक्षिणाबन्ध इति । (द्रव्यो० भा० त० वै० पा० १ सू० २४ ) तत्राष्टप्रकृतिष्वभिमानरूप: प्रथमः, शब्दादिविषयरागरूपो द्वितीयः, गृहस्थानां दानाध्ययनादिष्वभिष्व. ङ्गरूपस्तृतीयः । (द्र० पा० सू वृ० पा० १ सू० २४) बीजम्-अविद्यादिक्लेशसहितः कर्माशयो जात्यायुभॊगानां बीजम् । (द्र० त० वै० पा० १ सू० २)। बुद्धिसंवित्-सुषुम्नाख्यनाड्यां चित्तस्थानभूतायां चित्तं धारयतो योगिनश्चित्तसंविदुत्पद्यते, सैव बुद्धिसंवित् । (द्र० यो० भा० त० वै० पा० १ सू० ३६)। बुद्धिः परार्था-बुद्धिः खलु क्लेशकर्मवासनादिभिर्विषयेन्द्रियादिभिश्च संहत्य पुरुषार्थमभिनिर्वतंयन्ती परार्था भवति । अत्रानुमानप्रयोगः- बुद्धिः परार्था संहत्यकारित्वात् शयनासनाभ्यङ्गवत् इति । पुरुषस्तु योगकोश ७३ . - स्वार्थः । यतः सर्वं पुरुषाय कल्पते, पुरुषस्तु न कस्मैचिदिति । ( द्र० यो० भा० त० वै० पा० २ सू० २० )। बुद्धेः प्रतिसंवेदी पुरुषः-यं विषयं बुद्धिः संवेत्ति तं पुरुषोऽपि तथैव संवेत्तीति बुद्धेः प्रतिसंवेदी पुरुष इत्युच्यते । अयमाशयः- न हि बोधः पुरुषगतो जन्यते. अपि तु चैतन्यमेव अर्थाकारया बुद्धि- वृत्त्या तदाकारतामापद्यमानं बोधात्मकं फलं भवति । तच्च तथा- भूतं बुद्धेरविशिष्टं बुद्धिसमानाकारं भवतीति इदमेव पुरुषस्य बुद्धि- प्रतिसंवेदित्वम् इति वाचस्पतिमिश्राः। (द्र० यो० मा० त० वै० पा० १ सू० ७)। विज्ञानभिक्षुस्त्वाह-यद्यपि विषयाकारतैव विषयग्रहणं चित्तस्थले दृष्टं, पुरुषस्तु कूटस्थो न विषयाकारतां भजते, अतः कथं पुरुष- श्चित्तवृत्तिसाक्षी स्यात् ? कथं वाऽविशिष्टः पौरुषेयो वोध ? इत्या- शङ्का जागति । तथापि संवेदिन्या बुद्धेः प्रतिसंवेदि = तत्समानाकारः पुरुषः इति चिते: स्वयमाकाराभावेऽपि प्रतिबिम्बवशाद् वृत्त्याका- रापत्त्या वृत्तिबोध इति पुरुषो बुद्धेः प्रतिसंवेदो कथ्यते । (द्र० यो० वा. पा० १ सू० ७)। ब्रह्मणि सर्वजीवानामविभागलक्षणाभेदो न त्वखण्डत्वम्-न्याया- नुगृहोतेः बलवद्भिरग्नि विस्फुलिङ्गादिसांशदृष्टान्तः विरोधात् आका- शसूर्यादिदृष्टान्ता जोव ब्रह्मणोरखण्डतापरा न भवन्ति, किन्तु ब्रह्मणि सर्वजीवानामविभागलक्षणाभेदस्य सर्वकालस्थायितया पारमार्थिकत्वे- ऽपि यद् किञ्चिदवच्छेदन फेनबुबुदादिवत् अतिमङ्गुरस्य विभाग- लक्षणभेदस्यापारमार्थिकस्योपाधिकत्वमात्र प्रतिपादयन्तीति ब्रह्मणि जोवानां नाखण्डत्वं किन्त्वविभागलक्षणाभेद एवेति विज्ञानभिक्षुः । (द्र० यो० वा० पा० १ सू० २४ )। ब्रह्मनाडी-उदरोरसोर्मध्ये यत्पद्ममधोमुखं तिष्ठति अष्टदलम्, रेचक- प्राणायामेन तदूर्ध्वमुखं कृत्वा तत्र चित्तं धारयन्ति योगिनः । तन्मध्ये ७४ योगकोशः सूर्यमण्डलं जागारितस्थानमकारः, तस्योपरि चन्द्रमण्डलमुकार: स्वप्नस्थानम्, तस्योपरि वह्निमण्डलं मकार: सुषुप्तिस्थानम्, तस्यो- परि परव्योमात्मकं ब्रह्मनादं तुरीयस्थानमर्धमात्रमुदाहरन्ति ब्रह्म- वादिनः । तत्र कणिकायामूर्ध्वमुखी सूर्यादिमण्डलमध्यगा ब्रह्मनाडी। ततोऽप्यूज़ प्रवत्ता सुषुम्ना नाडी भवति । ( द्र० यो० भा० त० वै० पा० १ सू० ३६ )। ब्रह्मनादम्-नादात्मकं ब्रह्मैव ब्रह्मनादम्, तदेवार्धमात्रमुदाहरन्ति ब्रह्मवादिनः । अत्र ब्रह्मनाडीशब्दकोशोऽवधानीयः। (द्र० यो० वा० पा० १ सू० ३६ )। - योगकोशः ७५ भवप्रत्ययः-असम्प्रज्ञातसमाधेरेको भेदः । भवन्ति जायन्तेऽस्यां जन्तव इति भवोऽविद्या। सा च भूतेन्द्रियेषु विकारेषु प्रकृतिषु वाऽव्यक्तमहदहङ्कारपञ्चतन्त्रात्रेषु अनात्मसु आत्मख्यातिस्तौष्टि- कानां वैगग्यसम्पत्रानाम् । एवंविधो भवः अविद्या) प्रत्ययः कारणं यस्य निरोधसमाधेः ( असम्प्रज्ञातस्य ) स भवप्रत्ययः । स च भवत्ययोऽसम्प्रज्ञातसमाधिविदेहानां प्रकृतिलयानाञ्च भवतीति । (द्र० यो० भा० त० ० पा० १ सू० १९)। भवसङक्रमः . देहाद् देहान्तरसञ्चारारव्यः श्लिष्टपर्वा अव्यवधानेन प्रवर्तमानः संसारो भवसङ्क्रम इत्युच्यते । यस्याविच्छेदात् जनित्वा म्रियते, मृत्वा च जायते जन्तुरिति । (द्र० यो वा० पा० १ सू० १६) । भुवनज्ञानम्-सूर्यद्वारे = सुषुम्नायां नाड्याम् संयमेन भुवनज्ञानं जायते योगिनः। बुद्धिसत्त्वं हि स्वभावत एव विश्वप्रकाशनसमर्थ तमोमलावृतं यत्रैव रजसोद्घाट्यते तदेव प्रकाशयति । किन्तु सूर्य- द्वारसंयमोद्घाटितं बुद्धिसत्त्वं भुवनमेव समस्तं प्रकाशयतीति । संक्षेपेण सप्तलोकात्मकं भुवनम् । तत्रावीचे: प्रभृति मेरुपृष्ठं यावत् भूलोकः । मेरुपृष्ठादारभ्याधुवाद् ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोका ( भुवर्लोकः)। ततः परः स्वर्लोकः पञ्चविधः। पञ्चविध स्वलोक- मेकं मत्वा लोकत्रयीति प्रसिद्धिः । पञ्चविधं स्वर्लोकं पञ्च मत्वा पूर्वलोकद्वययोगेन सप्तलोका इति प्रसिद्धिः । तेषु पञ्चविधस्वलॊकेषु प्रथमो माहेन्द्रो लोकः सप्तलोकेषु तृतीयो लोकः । चतुर्थः प्राजापत्यो महर्लोकः । ब्राह्मस्त्रिविधः। तत्र जनलोकः पञ्चमः । तपोलोका षष्ठः । सत्यलोक : सप्तमः। इत्येवं सप्तलोकात्मक भुवनम् । त एते सप्तलोका अवान्तरं चतुर्दशधा भिन्नाः सर्वे एवादिपुरुषस्य ब्रह्मणो लोकाः, ब्रह्मणो हिरण्यगर्भस्य लिङ्गदेहेन सर्वलोकव्यापनात् । एषु. लोकेषु निवासिनो भिन्ना भिन्ना: सन्ति । विदेहप्रकृतिलयास्तु मोक्ष- , ७६ योगकोशः पदे वर्तन्त इति सत्यपि साधिकारत्वे न ते लोकमध्ये न्यस्ता: सन्ति । ये हि बुद्धिवृत्तिमन्तः सन्ति त एव दर्शितविषया लोकयात्रा वहन्तो लोकेषु वर्तन्ते । तदेतदासत्यलोकमाचावीचेर्योगिना साक्षात्कर- ‘णीयं सूर्यद्वारे सुषुम्नायां नाड्यां संयमात् । यदि नैतावतापि तत्साक्षात्कारो भवति तदा सुषुम्नाया अन्यत्रापि योगोपाध्यायो- पदिष्टेषु तावत् संयमः करणीयो यावदिदं सर्वं जगद् दृष्टं भवेदिति । (द्र० यो० मा० त० वै० पा० ३ सू० २६ )। भूतजयः-पञ्चानां पृथिव्यादीनां भूतानां ये पञ्चावस्थाविशेषा धर्माः स्थूलत्वादयस्तत्र कृतसंयमस्य भूतजयो भवति, भूतानि अस्य वश्यानि भवन्ति । तत्र भूतानां परिदृश्यमानं विशिष्टाकारवद्रूपं स्थूलम् । स्वरूपञ्चैषां यथाक्रम कार्य गन्ध-स्नेहोष्णता-प्रेरणावकाश- दानलक्षणम् । सूक्ष्मञ्च यथाक्रमं भूतानां कारणभेदेन व्यवस्थितानि गन्धादिपञ्चतन्मात्राणि । अन्वयिनो गुणाः प्रकाशप्रवृत्तिस्थितिरूप- तया सर्वत्रैवान्वयित्वेन समुपलभ्यमानाः। अर्थवत्त्वं तेषु एव गुणेषु भोगापवर्गसम्पादनरूपा शक्तिः । तदेवं भूतेषु पञ्चसु उक्तधर्मलक्षणा- वस्थाभिन्नेषु प्रत्यवस्थं संयमं कुर्वन् योगी भूतजयी भवतीति । (द्र० भो० वृ० पा० ३ सू० ४४ ) । भेदोऽन्योन्याभावरूपोऽभेदश्चाविभागरूपः-जीवब्रह्मणोः परस्परं भेदोऽपि वर्ततेऽन्योन्याभावलक्षणः । अभेदोऽपि वर्तते । किन्तु अय- मभेदो नाखण्डत्वलक्षणः अपितु अविभागलक्षण एवेति विज्ञानभिक्षुः । ( द्र० यो० वा० पा० १ सू० २६) । भागः-इष्टानिष्टगुणस्वरूपावधारणमविभागापन्नं भोगः । इष्टानिष्टे सुखदुःखे, ते च त्रिगुणात्मिकाया बुद्धः स्वरूपे, तयोरविभागा- पन्नतयाऽवधारणं भोग इत्यर्थः । बुद्धिगततयाऽवधारणे तु न भोगः । भोगश्च यद्यपि सुखाद्यात्मकशब्दाद्याकारा वृत्तिश्चित्तस्य धर्मस्तथापि चित्तचैतन्योरभेदसमारोपात् वृत्तिसारूप्यात् पुरुपस्येत्युच्यते। (द्र० -यो० भा० त० वै० पा० १ सू० ४)।
योगकोशः ७७. भोगा प्रत्ययाविशेष:-अयमों भोगपदार्थविवेचनेनैव गतार्थः तथाप्ययमर्थः-शान्तघोरमूढरूपाया बुद्धेश्चतन्यप्रतिबिम्बोद्ग्राहेण चैतन्यस्य शान्ताद्याकाराध्यारोपश्चन्द्रमस इव स्वच्छसलिलप्रति- बिम्बितस्य तत्कम्पात् कम्पनारोपः, भोगः । ( द्र० यो० भा० त०. वै० पा० ३ सू. ३५ )। विज्ञानभिक्षुस्तु-प्रत्ययोरविशेषः प्रत्ययाविशेष इति विगृह्य प्रत्यययो- विविच्याग्रहणं भोगः इत्याह । तत्र बुद्धेः प्रत्ययः सुखादिमतो विषयाह्याकारचित्तवृत्तिः, पुरुषस्य प्रत्ययो बुद्धिवृत्तिप्रतिबिम्बा- वच्छिन्नचैतन्यांशः सुखाद्यात्मकशब्दाद्यनुभवनामा। (द्र० यो० वा० पा० ३ सू० ३५ )। भोगापवर्गों मुख्यपुरुषार्थों-यद्यपि धर्मार्थकाममोक्षाश्चत्वारः पुरु- षार्थाः शास्त्रेषु प्रसिद्धास्तथापि धर्मार्थकामानां भोगेऽन्तर्भूतत्वात् भोगापवौं' एव मुख्यौ पुरुषायौं ।
.७८ योगकोशः मधुप्रतीका-संप्रज्ञातस्य वितर्कानुगतादिचतुर्भेदेषु यो द्वितीयो भेदो बचारानुगत इति स एव मधुप्रतीकानाम्नी भूमिरिति । (द्र० पा० सु० १० पा० १ सू० २ । तृतोययोगिनः प्रज्ञाज्यातिषो मधुप्रतीका भूमिरिति सर्वदर्शनसंग्रह- कारः । तस्यामेव भूमौ मनोजविस्वादिसिद्धयः । यथा मधुन एक- देशोऽपि स्वदते तथा प्रत्येकमेव ता: सिद्धयः स्वदन्त इति मधुप्रतोकाः उच्यन्ते । मधुमती-वितर्कानुगतस्य सम्प्रज्ञातयोगस्येव अपरा संज्ञा मधुमतीति। तत्र ऋतम्भरा प्रज्ञैव मधु, मोदकारणत्वात् तद्वती मधुमतो। ( 5० यो० वा० पा० ३ सू० ५४ तथा पा० सू० वृ० पा० १ सू० २)। अत्र विवरणकार:-त्र मधुमती भूमि साक्षात्कुर्वसो ब्राह्मणस्य स्थानिनो देवाः सत्त्वविशुद्धिमनुपश्यन्तः स्थानरुपनिमन्त्र यन्ते 'भो इहास्यताम्, इह रम्यताम्, कमनीयोऽयं भोगः" इत्यादि । एव- भिधीयमानः सङ्गदोषान् भावयेत् । सङ्गमकृत्वा स्मयमपि न कुर्यात् "एवमहं देवानामपि प्रार्थनीय" इति । सर्वदर्शनसंग्रहे चोक्तम्-अभ्यासवैराग्यादिवशात् अपास्तरजस्त- मोलेशसुखप्रकाशमयतत्त्वभावनया ऋतंभरप्रज्ञाख्या समाधिसिद्धिर्जायते इति ऋतंभरप्रज्ञयोग्येव द्वितोयो भधुभूमिकसंज्ञक उच्यते, तस्यैव भूमिमधुमती नाम्नी प्रसिद्धेति । मध्यतीव्रः-यस्योपायप्रत्ययस्य योगिनः श्रद्धावीर्यस्मृतिसमाधिप्रज्ञारूपा उपाया अधिमात्रा भवन्ति तथा संवेगो ( वैराग्यञ्च ) मध्यतीवो भवति, तस्यासन्नतरः समाधिलाभस्तत्फलं च अवत इति । (द्र० यो० भा० पा० १ सू० २२)। मध्यसंवेगः--यस्योपायप्रत्ययस्य योगिनो वैराग्यं न मृदु भवति, नापि तीनं भवति, स मध्यसंवेग इत्युच्यते । (द्र० यो० भा० पा० १ सू० २१)।
योगकोशः तच्च } -मध्योपाय:-यस्य योगिनः -यस्य योगिनः श्रद्धाधुपाया न मृदवो नाधिमात्रा भवन्ति, स योगो मध्योपाय इत्युच्यते (द्र० यो० भा० पा. १ सू० २१ ) । मनोजवित्वम् कायस्यानुत्तमो गतिलाभो मनोजवित्वम् । पञ्चेन्द्रियजयात् सिध्यति । (द्र० यो० भा० त० वै० पा० ३ सू० ४८). मनोवहनाडी-उदरोरसोर्मध्ये यत् पद्म तिष्ठत्यधोमुखमष्टदलं, तस्मिन् मध्ये सूर्यमण्डलमकारो जागरितस्थानम्, तस्योपरि चन्द्र मण्डलमुकारः स्वप्नस्थान, तस्योपरि वह्निमण्डलं मकार: सुषुप्तिस्थानम्, तदुपरि परं ब्रह्म व्योभात्मकं नादस्तुरीयस्थान- मस्ति, यमर्धमात्रमुदाहरन्ति योगिनः, तत्कणिकायां विष्वग्व्यापि- सहस्र शाखाया मनोवहनाड्या मूलं तिष्ठति । तस्याश्चालाबुलति- काया इव शाखाभूता सुषुम्नादिनाड्यस्ति। सैव मनोवहा नाडी- चित्तस्थानम् । (द्र० या वा० पा० १ सू० ३६ मनो विभु-"बुद्धिसत्त्वं हि भास्वरमाकाशकल्पम्” इति वदता भाष्य- कारेण मनसस्तेजोवत् स्वपरप्रकाशकत्वमाकाशवद् विभुत्वञ्च सिद्धान्तितम् । (द्र० यो० वा० पा० १ सू० ३६ )। महाप्रलयः-यत्र सत्यला सहित समस्तं जगदस्तमेति, ब्रह्मणोऽपि निधनं जायते, स महाप्रलयः । (द्र० यो० भा० त० वै० पा० १ सू० २५)। मुदिता-पुण्यशीलेपु प्राणिषु कृता मुदिता ( हर्षम् ) स्वभावनयऽसूया- कालुष्यं चेतसो निवतंयति । मुद्रादशकम्-महामुद्रा महाबन्धो महावेधश्च खेचरी । उड्यानं मूलबन्धश्च बन्धो जालन्धराभिधः ॥ करणी विपरीताख्या वज्रोली शक्तिचालनम् इदं हि मुद्रादशकं जरामरणनाशनम् ॥ (द्र० ह० यो० प्र० उप० ३ श्लो० ६-७)।
८० योगकोशः मूढम् -तमः समुदेकान्निद्रवृत्तिमच्चित्तं मूढमुच्यते । मूलपृथक्त्वाभावः-जगन्मूलस्य प्रधानस्य पृथक्त्वं भेदो नास्ति । कार्याणि कामं परस्परं भिद्यन्ते, सकलकार्यमूलभूतं प्रधानन्तु अभिन्न- मेवास्ति । अतएव योगसूत्रम् "कृतार्थं प्रति नष्टमप्यनष्टं तदन्य- साधारणत्वात्" इति पा० २ सू. २२ । तेन देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश्च वस्तूनामन्यत्वे हेतुः । अतः परमाणूनां परस्परभेदसाधनाय वैशेषिकरङ्गीकृतोऽन्त्यो विशेष- पदार्थो नाङ्गीकरणीयः, तेष्वपि देशादिभेदैरेवान्यत्वस्यावधारणात् । यत्रापि योगिनो मुक्तांस्तुल्यजातिदेशकालान् व्यवधिरहितान्- परस्परतो भेदेन प्रत्येक तत्त्वेन च प्रतिपद्यन्ते तत्रापि भेदप्रतिपत्तये न विशेषास्तेषु मुक्तात्मसु स्वीकरणीयाः, तेषां मुक्तौ ये क्षणभेदास्तैरेव योगिभिर्मुक्तात्मनां भेदावगमात् । (द्र ० यो० भा० त० वै० पा० ३ सू० ५३ )। विज्ञा- भिक्षुस्तु-मूलेषु नित्यद्रव्येषु परमाण्वादिषु पृथक्त्वम् == विशेषपदार्थो नास्तीत्यर्थमाह । मृदुसंवेगः-मृद्वाद्युपायवतौ योगिनः संवेगः = वैराग्यं यदा मृदु भवति, तदा स योगी मृदुसंवेग उच्यते । मृदूपाय:-यस्यासप्रज्ञातयोगिनः श्रद्धाधुपायाः मृदवः सस्ति, न मध्मा नाधिमात्राः, स मृदूपाय इत्युच्यते । मैत्री-सुखितेषु जनेषु मैत्री = सौहार्दम् भावयतश्चित्तं प्रसादमधि- गच्छति, ततः स्थितिञ्च लभते । मोक्षत्रैविध्यम् - "आद्यस्तु मोक्षो ज्ञानेन, द्वितीयो रागसंक्षयात् । कृच्छ्रक्षयात्तृतीयस्तु, व्याख्यातं मोक्षलक्षणम् ॥ इति वचनात् । (द्र० यो० भा० पा० १ सू० २४ )
योगकोशः
८१
मोक्ष:- "मुक्तिहित्वाऽन्यथाभावं स्वरूपेण व्यवस्थितिः' इति वचनानु-
सारम् आत्यन्तिक स्वरूपावस्थानमेव मोक्षः। (द्र० यो० मा. पा०
१ सू० १.)।
८२ योगकोशः यमा:--अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहा यमाः। तत्र अहिंसा सर्वथा सर्वदा सर्वभूतानामनभिद्रोहः । सत्यम्-यथार्थे वाङ्मनसे । यथादृष्टं यथानुमितं यथा श्रुतं तथा वाङ्- मनश्चेति । सत्या वाक् सर्वभूतोपकारार्थ प्रवृत्ता न भूतोपघाताय । यदि चाभिधीयमाना परोपघातपरैव स्यान्न तत् सत्यं भवेत्. पापमेव भवेत् । तस्मात् परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात् । अस्तेयम्-स्तेयमशास्त्रपूर्वक द्रव्याणां परतः स्वीकरणम् । तत्- प्रतिषेधः पुनरस्पृहारूपमस्तेयम् । ब्रह्मचर्यम्-गुप्तेन्द्रियस्योपस्थस्य संयमः । अपरिग्रहः-विषयाणामर्जनरक्षणक्षयहिंसादोषदर्शनादस्वीकरणम् । (द्र० यो० भा० पा० २ सू० ३०)। योगशास्त्रस्य चतुव्यू हत्वम्-यथा चिकित्साशास्त्रं चतुर्म्यहम् रोगो, रोगहेतुरारोग्यं भैषज्यमिति । एवमिदमपि शास्त्रं चतुव्यूहमेव । तद्यथा-संसारः, संसारहेतुः, मोक्षो मोक्षोपाय इति । तत्र दुःखबहुल: संसारो हेयः । प्रधानपुरूषयोः संयोगो हेयहेतुः। संयोगस्यात्यन्तिकी निवृत्तिनिम् । हानोपायः सम्यग्दर्शनम् इति । (द्र० यो० भा० पा० २ सू० १५)। योगः-चित्तवृतिनिरोधरूपो द्विविधोऽपि योगः, संप्रज्ञातोऽसंप्रज्ञात- श्चेति । यस्मिन्नवस्थाविशेषे चित्तस्य प्रमाणादिवृत्तयो निरुध्यन्ते, सोऽवस्थाविशेषो स चावस्थाविशेषः सम्प्रज्ञातोऽ- संप्रज्ञातश्चोभावपि । योगलक्षणे सर्वशब्दाग्रहणात् सम्प्रज्ञाते सात्त्विकचित्तवृत्तेरनिरोधेऽपि न लक्षणाव्याप्तिस्तत्र । (द्र० यो० भा० त० वै० पा० १ सू० २)। मन्त्रयोग-लययोग-राजयोग-हठयोगेषु च योगशब्दस्य प्रयोगस्तु तेषां साक्षात्परम्परयोक्तयोगसाधनत्वाद् भवति । (द्र० यो० चि० अ० १ पृ. ११)। . - योगः ।
योगकोशः ८३ क्शेशकर्मविघटकत्वे सति चित्तवृत्तिनिरोधत्वं योगत्वमिति योग- मञ्जरीकारः। स्वरूपावस्यितिहेतुत्वे सति चित्तवृत्तिनिरोधो योगा इति विज्ञानभिक्षुः। (द्र० यो० वा० पा० १ सू० ३ तथा यो० सा० सं० )। योगप्रदीपः -सम्प्रज्ञातः । विवेकजं ज्ञानं परिपूर्ण सूर्यतुल्यम् । अतो यथा सूर्यस्यांशः प्रदीपस्तथा संप्रज्ञातोऽपि विवेकजज्ञानस्य सूर्यस्यांश इति योगप्रदीपः स उच्यते । (द्र० यो० भा० त० वै० पा० ३ सू० ५४ )। योगाङ्गानि -यम नियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽ- ष्टौ योगाङ्गानि यमादयश्चैकैकशः पृथक्-पृथक् निरूपिता इति तत एव द्रुष्टव्याः। योगानुशासनम्-अनुशिष्यतेऽनेनेति व्युत्पत्त्याऽनुशासनं शास्त्रम् । तथा च अथ योगानुशासनम्" इति सूत्रे योगानुशासनम् = योगप्रति- पादक शास्त्रमित्यर्थः। (द्र० त० वै० पा० १ सू० १)। योगारूढः-प्रारूढयोगः, आरूढयोगवृक्षः, योगारूढश्चेत्यनर्थान्तरम् । अतो द्रष्टव्यः आरूढयोगशब्दविचारः ।
८४ योगकोशः रागः-सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्धः, तृष्णा, लोभः स रागः तथा च सूत्रम्-सुखानुशयी रागः" इति । (द्र० यो० भा० पा० २ सू० ७)। राजयोग:-निर्बीजसमाधिरेव राजयोंगः। (द्र० यो० चि० अ० १ पृ० ११ )। राजयोगः, समाधिः, उन्मनी, मनोन्मनी, अमरत्वं, लयः, तत्त्वं, शून्याशून्यं, परंपदम्, अमनस्कम्, अद्वैतम्, निरालम्ब, निरञ्जनम् जीवन्मुक्तिः, सहजा, तुर्या इति पर्यायाः। (द्र० ह. यो० प्र० उप० ४ श्लो० ३-४ । । रेचकः-यत्र कोष्ठ्यो वायुविरेच्य बहिर्धार्यते, स रेचकः प्राणायामः ।. (द्र० त० वै० पा० २ सू० ४९ )।
योगकाशा "लक्षणपरिणामः-लक्षणानि त्रीणि अनागतलक्षणं, वर्तमानलक्षणम- तीतलक्षणञ्च । तत्र मृद्धर्मो घटादिर्यदा अनागतलक्षणं हित्वा वर्तमानलक्षणं प्राप्नोति, यदा वा वर्तमानलक्षणं हित्वाऽतीतलक्षणं प्राप्नोति तदायं लक्षणपरिणाम इत्युच्यते । (द्र० यो० भा० पा० ३ सू० १३)। लययोगः-संप्रज्ञातयोग एव लययोगः। (द्र० यो० चि० अ० १ पृ० ११ )। -- योगकोशः वशीकारसंज्ञा-स्त्रियोऽन्नपानमैश्वर्यमिति दृष्टविषये वितृष्णस्यः स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्तौ आनुश्रविकविषये वितृष्णस्य दिव्या- दिव्यविषयसंप्रयोगेऽपि विषयदोषदशिनश्चित्तस्य प्रसंख्यान- बलादनाभोगात्मिका हेयोपादेयशून्या वज्ञीकारसंज्ञा वैराग्यम् इति योगभाष्यम् । (द्र० यो० मा० पा० १ सू० १५)। अत्र उपर्युक्ता वशीकारसंज्ञा या वितृष्णा सैवापरवैराग्यमिति विज्ञान- भिक्षुविवेचनम् । तेषु विषयेषु विगतगर्धस्य या वशीकारसंज्ञा अर्थात् “ममैते वश्या, नाहमेतेषां वश्यः" इति योऽयं विमर्शः तद्वैराग्यमिति भोजदेवः । वशीकतुं शक्यन्ते सर्वे गौणा: पदार्था, वशीकर्तव्यत्वेन संज्ञायन्ते, एवं वशीकृतानि च तस्यामवस्थायामिन्द्रियाणि संज्ञायन्ते, वशी- करणं वा संज्ञायतेऽस्यामवस्थायामिति साऽवस्था वशीकारसंज्ञा वैराग्य मिति विवरणकाराः। (द्र० पा० यो० सू० भा० वि० पा० १ सू० १५)। विकरणभावः-विदेहानां स्थूल देहसम्पर्क रहितानामिन्द्रियाणामभिप्रेत- देशापेक्षोऽभिप्रेतकालापेक्षोऽभिरेतविषयपेक्षश्च यो वृत्तिलामः स विकरणभावः । अर्थात् अपेक्षितदेशकालविषयानुसारं बाह्याभ्यन्तर- करणानि विकीर्णानि = व्यापीनि भूत्वा वृत्तिलाभं कुर्वन्तीति एवं- विधविकरणभावोपपन्ना योगिन एव स्थाने स्थाने विदेहा इत्युक्ताः। द्र० यो० वा० पा० ३ सू० ४८)। विकल्पः- शब्दज्ञानमाहात्म्यनिबन्धनो वस्तुशून्थत्वेऽपि जायमानो यः प्रत्ययविशेषः स विकल्पो वृत्तिविशेषः । सन प्रमाणान्तर्गतो वस्तुशून्यत्वात्, न वा विपर्ययान्तर्गतो व्यवहाराविसंवादात् । यथा चैतन्यं पुरुषस्य धर्म इति । अत्र यद्यपि चैतन्यं पुरुषस्य स्वरूपमेव तथापि भेदेन षष्ठीब्यपदेशो विकल्पात् इति । (द्र० यो० भाग त. वै० पा० १ सू० ९)।
योगकोशः ८७ विक्षिप्तम्-क्षिताद् विशिष्टं विक्षिप्तम् । तत्र क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमत्यन्तमस्थिरमिति पूर्वमुक्तम् । ततो वि. क्षिप्तेऽयं विशेषो यत् अस्येमबहुलस्य चित्तस्य कादाचित्कः स्थेमा भवति विक्षिप्ते । (द्र० त० वै० पा० १ सू०१) विचार:-सूक्ष्मभूत-पञ्चतन्मात्र-लिङ्गालिङ्गस्वरूपसाक्षात्कारवती या प्रज्ञा सैव विचारः। तदनुगतो द्वितीयो विचारानुगतसम्प्रज्ञातो भवति । (द्र. यो० भा० त० वै० पा० १ सू० १७)। वितकः-पाञ्चभौतिकस्थूलचतुर्भुजादिस्वरूपसाक्षात्कारवती प्रज्ञा वि. तकः । तदनुगतः प्रथमो वितर्कानुगतः सम्प्रज्ञातो भवति । (द्र० यो० भा० त० वै० पा० १ सू० १७)। विता-कृतकारितानुमोदिता हिंसादयो वितर्काः । ते च लोभात् क्रोधाद् मोहाद् वा भवन्ति । (द्र० यो०. भा० पा० २ सू० ३४)। विदेहा:-भूतेन्द्रियाणामन्यतमम् आत्मत्वेन प्रतिपन्नाः तदुपासनया तद्वासनावासितान्तःकरणाः पिण्ड ---( देह) पातानन्तरम् इन्द्रि- येषु भूतेषु वा लीनाः संस्कारमात्रावशेषमनसः षाटकौशिकशरीर- रहिता विदेहाः। ते हि स्वसंस्कारमात्रोपयोगेन चित्ते कैवल्यपद- मिवानुभवन्तो भवन्ति । विदेहानां चित्तस्य कैवल्पेन सारूप्यमवृत्ति- वैरूप्यञ्च साधिकारसंस्कारशेषत्वरूपमस्ति । (द्र० यो० भा० त० वै० पा० १ सू. १६ )। विधारणम्-रेचितस्य प्राणस्य कौष्ठ्यस्य वायोर्यदायामो = बहिरेव स्थापनम् न तु सहसा प्रवेशनम्, तदेव विधारणम् (द्र० त० वै० पा० १ सू० ३४ ) । विधारणम् = कुम्भकमिति विज्ञानभिक्षुः । विपर्ययः-मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ( तद्रूपाप्रतिष्ठम् ), अविद्या पञ्चपर्वा । तथा च योगसूत्रम्-"विपर्ययो मिथ्याज्ञानमतद्रूप- प्रतिष्ठम्" इति। (पा० १ सू० ८) कत्वम्, कैवल्येन ८८ योगकोशः विपाकः - जातिः ( जन्म ), आयुः, भोगश्चेति त्रयः कर्मणां विपाक इत्युच्यन्ते। तथा च योगसूत्रम्-"सति मूले तद्विपाको जात्यायु- भोगाः' पा० २ सू० १३ )। विभज्यवचनीयत्वम्-यदि कश्चित् प्रश्नं कुर्यात् "किं सर्वो मृत्वा जनिष्यते ? इति । तदास्योत्तरं विभज्यैव वचनीयम्-प्रत्युदित- विवेकख्याति : क्षीणक्लेशो न जनिष्यते तदितरस्तु जनिष्यत इति । एवं मनुष्यजातिः श्रेयसी न वेति परिपृष्टे विभज्यवचनीयमुत्तरम् - पश्वपेक्षया श्रेयसी देवाद्यपेक्षया नेति । (द्र० यो० भा० पा० ४ सू० ३३)। विरामप्रत्ययः-वृत्तीनाममावो विरामस्तस्य प्रत्ययः = कारणम् - परवैराग्यम्, तदेव विरामप्रत्यय इति वाचस्पतिमिश्राः । (द्र० यो. मा० त० वै० पा० १ ० १८)। मणिप्रभा-योगमञ्जरीकारावपि मिश्रानेवानुसरतः । विज्ञानभिक्षुस्तु-वृत्त्याऽपि विरम्यतामिति प्रत्ययो विरामप्रत्ययः -परं वैराग्यम् । अर्थात् ज्ञानेऽप्यलंबुद्धिर्ज्ञानमपि शाम्यतु इत्येवं- रूपेति व्याचष्टे । विवेकख्याति:-चितिशक्तिरपरिणामिनी अतएवा प्रतिसङ्क्रया, सुख- दुःखमोहात्मकत्वाभावेन शुद्धाचानन्ता चास्ति । एतद् विपरीता परि- णामिनी सुखदुःखमोहात्मकत्वेनाशुद्धा चास्ति सत्त्वगुणात्मिका विवेक- ख्यातिरतः सापि निरोद्धव्या निर्बीजसमाधिकामैः। (द्र० यो० भा० त० वै० पा० १ सू०२)। विवेकजं ज्ञानम्-संसारसागरात्तारकं सर्वविषयकमतीतानागतवर्त- मानविषयकतया सर्वथाविषयकं युगपत् सर्वविषकतयाऽक्रमञ्चेत्यत एव परिपूर्ण विवेकजं ज्ञानं, नास्य क्वचित् किञ्चित् कदाचिदगोचर इति । (द्र० यो० भा० त० ३० पा० ३ सू० ५४ )।
योगकोशः ८६ विवेकनिम्नं चित्तम्--विवेकमार्गसञ्चारि, विवेकालम्बनं, विवेक- निष्ठं वा चित्तं विवेकनिम्नमित्युच्यते । (द्र० यो० वा० पा० ४ सू० २६ )। विवेकिन : सर्व दुःखात्मकम्-यत्रापि वर्तमाने सुखं तत्रापि परिणामे दु:खं भवति । यथा पुत्रकलत्रादिजन्यसुखे रागो जायते. रागाच्च सुखं मे स्थिरं भवतु, मा नश्यतु "इत्यादिसंकल्पाद्यात्मको मानसः कर्माशयो धर्माधर्मादिरूपो भवति, तस्माच्च पुनर्जन्मादि- दुःखमिति परिणामदुःखता । तापदुःखञ्च वर्तमानेऽनुभूयमानं सर्वजन- प्रसिद्धमेव । तथापि इदं दुःखं परिणामेऽपि दुःखकरं भवति । तथाहि दुःखमनुभवन् सुखसाधनानि प्रार्थयमानः कायेन वाचा मनसा च परिचेष्टमानः सन् परमनुगृह्णाति अपहन्ति चेति परानुग्रह- पीडाभ्यां धर्माधमौं उपचिनोति, ततश्च तदनुसारं जन्म गृह्णातीति तापदुःखं परिणामेऽपि दुःखम् । संस्कारस्य दुःखता यथा-अतीतः सुखानुभवोऽपि हि सुखसंस्कारमाधत्ते, स च सुखस्मरणमादधाति, तच्च रागं, रागश्च मनःकायवचनचेष्टां, सा च पुण्यापुण्ये, ततो जन्मादीति संस्कारदुःखता। एवमिदमनादिदुःखस्रोतो योगिनमेव प्रतिकूलात्मकत्वात् उद्वेजयति, नान्यम् । अक्षिपात्रकल्पो हि विद्वान् । यथोर्णातन्तु{दुरपि अक्षिपात्रे निक्षिप्तः स्पर्शेन दुःखयति, नान्येषु गात्रावयवेषु, तद्वत् । अतः परिणामतापसंस्काररदुःखैदुःखमैव सर्व विवेकिनः इति। (द्र० यो० भा० त० वै० पा० २ सू. १५)। विशेषपदार्थाभावः-वैशेषिका हि नित्यद्रव्यवृत्तयोऽन्त्या विशेषा इत्याहुः। तथाहि योगिनो मुक्तांस्तुल्यजातिदेशकालान् व्यवधि- रहितान् परस्रतो भेदेन प्रत्येक तत्त्वेन च प्रतिपद्यन्ते । तस्मादस्ति कश्चिदन्त्यो विशेष इति । स एव च नित्यानां परमाण्वादीनां द्रव्याणां भेदक इति । एतद्योगमते नाभ्युपगतम् । यतो हि तत्रापि - योगकोशः रूपेण । देशलक्षणभेदो मूर्ति-व्यवधि-जातिभेदा एव च परमाणूनामन्यत्वे हेतवः सन्तीति । (द्र० यो० भा० त० ० पा० ३ सू० ५३ )। विशेषाणां तत्त्वान्तरपरिणामाभावः-विशेषेभ्यः पृथिवीप्रभृतिभ्य उत्तरभावि तत्त्वान्तरं नास्ति, अतो विशेषाणां तत्त्वान्तरपरिणामो नास्ति । यच्च ब्रह्माण्डादिकं गोघटादिकञ्चास्ति परणामरूपं तत्सर्व विशेषरूपेणैव अर्थात पृथिव्यादिरूपेणैव गृहीतं न तु तत्त्वान्तर- अयं भावः-विशेषाणां परिणामास्तु सत्येव किन्तु ते तत्त्वान्तराणि न सन्तीति सिद्धान्तः। अतएव विशेषाणां धर्मलक्षणा- वस्थापरिणामा निरूप्यन्ते योगशास्त्रे । तत्त्वत्वञ्चात्र द्रव्यत्वम्, तच्च प्रधानपुरुषादिपञ्चविंशतितत्त्वेषु वर्तते इति तानि पञ्च- विशतिस्तत्त्वान्युच्यन्ते । गोघटादिष्वपि द्रव्यत्वलक्षणस्य सत्त्वात् तदपि तत्त्वमिति मन्यते, किन्तु तत्त्वान्तरं न मन्यते, तत्त्वान्तर- लक्षणाभावात् । तत्त्वान्तरत्वं तु स्वावृत्तिद्रव्यत्वसाक्षाद्व्याप्यजाति- मत्त्वम् । तादृश्यश्च जातयः प्रधानत्वपुरुषत्वमहत्त्वादिपृथिवीत्बादि- पर्यन्ताः। एवञ्च गोघटादिवृत्तिः पृथिवीत्वजातिरेव पृथिव्यामपि वर्तत इति स्वावृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वस्य गोघटादाव. सत्वान्न तत्र तत्त्वान्तरलक्षणं गच्छतीतिन तत्तत्त्वान्तरम् । यदि च पञ्चविंशतितत्त्वेषु पञ्चविंशतिर्जातयो नाङ्गीक्रियरेन् तदा स्वावृत्ति- द्रव्यविभाजकोपाधिमत्त्वमेव तत्त्वान्तरत्वमिति स्वीकरणीयम् । (द्र० यो० वा० पा० २ सू० १९ )। विशोका-अस्मिताकार्यै मनसि समापन्नस्य चित्तस्य प्रवृत्तिः सूर्येन्दुग्रह- मणिप्रभारूपाकारेण विकल्पते तथाऽस्मितायां समापन्नं चित्तं निस्त-. रङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति । अपि प्रवृत्तिविशोका ज्योतिष्मतीत्युच्यते । (द्र० यो० मा० पा० १ सू० ३.)। सर्वभावाधिष्ठातृत्वादिरूपा विशोका सिद्धिरिति सर्वदर्शनसङ्ग्रहकारः। एषा द्वयी योगकोशः तथा च सूत्रम्-सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्टातृत्वं सर्वज्ञत्वं च । ( पा० यो० सू० ३।४६ ) इति । विषयवती प्रवृत्तिः-विषया गन्धादयस्ते सन्ति विषयत्वेन यस्याः सा विषयवती प्रवृत्तिः साक्षात्कारात्मिका, सापि चित्तं स्थिती निबध्नाति । तथा हि-नासिकाने गन्धोपलब्धिस्थाने धारणां कुर्वतो योगिनो यो दिव्यगन्धसाक्षात्कारोऽल्पेनैव कालेन भवति, सा गन्धप्रवृत्तिरिति तान्त्रिकपरिभाषा। एवं स्पर्शादिप्रवृत्तिरपि स्थितिनिबन्धिनीति बोध्यम् । (द्र० यो० भा० त० वै० पा० १ सूत्र ३५ )। वीतरागविषयं चित्तम्-वीतरागा ये कृष्णद्वैपायनप्रभृतयस्तेषां चित्तरूपं यदालम्बनं तत्र समापन्नं तेनोपरक्तं योगिनश्चित्त स्थिति- पदं लभते । तथा च योगसूत्रम्---"वीतरागविषयं वा चित्तम्" इति । (पा० १ सू० ३७)। वीर्यम् -धारणरूपः प्रयत्नः, स चासंप्रज्ञातस्योपायभूतः श्रद्धानन्तरं जायमानः। स च प्रयत्नो जीवेश्वरान्यतरपुरुषतत्त्वज्ञाने योगसाधने भवति । (द्र० यो वा० पा० १ सू०२०) वीर्यमुत्साह इति भोजदेवः । वृत्तयः--वृत्तयः पञ्चतय्यः प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपाः । ताश्च क्लेशहेतुकाः कर्माशयप्रचयक्षेत्रीभूताः क्लिष्टाः, तथा ख्याति- विषयाः गुणाधिकारविरोधिन्योऽक्लिष्टाः कथ्यन्ते । (द्र० यो० भा० पा० १ सू० ५)। वृत्तिः--चित्तस्य वृत्तिः दीपस्य शिखेव द्रव्यरूपा भङ्गराऽवस्थापरि- णामात्मिका मूषानिषिक्तद्रुतताम्रवत् स्वसंयुक्ताकारा त्रिगुणका- यत्वात् सुखदुःखमोहाश्रयतया शान्तघोरमूढाख्याऽस्ति । सा च चित्तस्य गुणो नास्ति, यथा घटस्य रूपादिगुणः, न वा अग्ने : स्फुलिङ्ग इव चित्तस्य भागोंऽशरूपा । तथा च सांख्य सूत्रम्-- A ३२ योगकोशः भागगुणाभ्यां तत्त्वान्तरं वृत्तिः सन्बन्धार्थं सर्पतीति । (द्र० यो वा० पा० १ सू० ४)। वृत्तिनिरोधः-वृत्तिनिरोधो हि चित्तस्य वृत्तिसंस्कारशेषावस्था, अमावस्याधिकरणावस्थाविशेषमात्ररूपत्वात् । सा चावस्था संस्कार- मात्रैः परिणामधारा, निरोधकाले संस्कारतारतम्यरूपस्यैव चित्त- परिणामस्य सूत्रभाष्याभ्यां प्रतिपादितत्वात् । (द्र० यो० वा० पा०२ - r- धृत्तिसारूप्यम्-व्युत्थानकाले चित्तस्य या वृत्तयः शान्तघोरमूढाः ता एवाविशिष्टा अभिन्ना वृत्तयः पुरुषस्यापि भवन्तीति व्युत्थान- दशायां पुरुषे वृत्तिसारूप्याँ व्यपदिश्यते। सारूप्यमित्यत्र सशब्द एकपर्यायः। तेन चित्तस्य वृत्तय एव पुरुषस्य वृत्तयो भवन्ति, न त्वन्याश्चित्तस्य वृत्तयोऽन्याश्च पुरुषस्येति । अयमर्थः-जपा- कुसुमस्फटिकयोरिव बुद्धिपुरुषयोः सन्निधानादभेदन हे बुद्धिवृत्ती समारोप्य "शान्तोऽस्मि, दुःखितोऽस्मि, मूढ़ोऽस्मी'त्यध्यवस्यति । यथा दर्पणतले प्रतिबिम्बितं मुखं मलिनमारोप्य शोचति आत्मानं मलिनोऽस्मीति । ( द्र० यो० भा० त० वै० पा० १ सू० ४ )। वैदेह्यम्-देहरहिता विदेहाः करणेषु लीनाः, तेषां भावो वैदेह्यमिति वाचस्पतिमिश्राः (द्र० त• वै० पा. १ सू० १५)। विज्ञानभिक्षुस्तु-स्थूलदेहविरहेऽपि लिङ्गशरीरेणैव येषां देवानां- भोगस्ते विदेहास्तद्रूपता च वैदेह्यम् । (द्र० यो० वा० पा० १ सू० १५)। वैराग्यम्-तापत्रयपरीतता विषयाणां दोषः, तत्परिभावनया दृष्टानु- श्रविकविषयेषु यद्वैतृस्ण्यं तद्वैराग्यम् । तस्य चत्वारो भेदा:- यतमानसंज्ञा, व्यतिरेकसंज्ञा, एकेन्द्रियसंज्ञा, वशीकारसंज्ञा चेति । व्यतिरेकसंज्ञा-इन्द्रियाणां विषयेषु रागादिकषायाणां परिपाचनाय आरम्भे प्रयत्ले कृते सति तेषु केचित् कषायाः पक्वाः पच्यन्ते च .
यागकाशः केचित् । तत्र पक्ष्यमाणेभ्यः पक्वानां व्यतिरेकेणावधारणं व्यतिरेक- संज्ञा वैराग्यम् । (द्र९ यो० भा० त० वै० पा० १ सू० १५ )। व्यवसायस्य संस्कारजनकत्वम्- "ग्राह्योपरक्तः प्रत्ययो ग्राह्य-- ग्रहणोभयाकारनिर्भासस्तज्जातीथकं संस्कारमारभते । स संस्कार: स्वव्यञ्जकाजनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृति जन- यति" इति भाष्यानुसारम्-"घटं जानामि" इत्यनुव्यवसाया- दन्तरम् जायमाना स्मृतिः ग्राह्यग्रहणोभयाकारा जायते । यद्यपि व्यवसायोऽपि "अय घटः" इत्यादिरूपः संस्कारं जनयति तथापि तादृशसंकारजन्यं यत् ग्रहणाकाररहितम् घटज्ञानं तत् स्मृतिर्न भवति किन्तु अनुभवमध्ये एव तस्य प्रवेशः क्रियते । अत एव प्रमुष्टतत्ताकं पराभिमत यत् स्मरणं ती संस्कारमात्रजन्यत्वेऽपि- व्यवहारानुसारेणानुभवमध्य एव प्रवेश्यते योगमतानुयायिभिः । योगसूत्रस्थस्मृतिलक्षणे अनुभूतविषयासम्प्रमोषस्य विशेषणविधया निवेशात् । (द्र० यो० वा० पा० १ सू० ११ )। व्यान:--सर्वशरीरव्यापी वायुयान इति मिश्राः। व्यापिवृत्तिको बलवत्कर्महेतुः करणसामान्यवृत्तिान इति विज्ञानभिक्षकः । (द्र० त० वै० तथा यो० वा० पा० ३ सू० ३६ )। व्युत्थानम्-अनिरुद्धवृत्तिता चित्तस्य, वृत्तिनिरोधादन्या चित्तस्या- बस्था वा व्युत्थानम् । -- योगकोशः श्रद्धा--आगमानुमानाचार्योपदेशसमधिगततत्त्वविषयकः चेतसः सम्प्र- सादोऽभिरुचिरतोच्छा श्रद्धा। सा हि जननीव कल्याणो योगिनं पाति विमार्गपातोत्पन्नादनात् । (द्र० यो० भा० त० वै० पा० १ सू० २०)। संप्रसादः प्रीतिर्योगो मे भूयादित्यभिलाषः श्रद्धेति विज्ञानभिक्षुः । श्रोत्राकाशयो : सम्बन्धसंयमः-आहङ्कारिकारणामपि सर्वश्रोत्राणा- माकाशं = कर्णशष्कुलीविवरं प्रतिष्ठा, अतस्तदायतनं श्रोत्रं, तदुप- कारापकाराभ्यां श्रोत्रस्योपकारापकारदर्शनात् । तच्चेदं श्रोत्रमाह- कारिकमयःप्रतिमम् अयस्कान्तमणिकल्पेन वक्तृमुखसमुत्पन्नेन वक्त्रस्थ- शब्देनाकृष्टं स्ववृत्तिपरम्परया वक्तवक्रमागत्य शब्दमालोचयतोति योगदर्शनप्रक्रिया। अत्र श्रीत्राकाशयोराधाराधेयभावः सम्बन्धस्तत्र संयमेन योगिनो दिव्यं श्रोत्रं प्रवर्तते तेन च युगपत् सूक्ष्मव्यवहित- विप्रकृष्टशब्दग्रहणसमर्थं भवति ।। ( द्र० यो० भा त० वै० पा० ३ मू० ४१)। श्वासः-बाह्यस्य वायोराचमनं श्वासः । षटकर्माणि-धौतिबस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा । कपालभातिश्चैतानि षट्कर्माणि प्रचक्षते ॥ (द्र० ह० यो० प्र० उप० २ श्लो० २२)। एतेषां लक्षणानि तत एवानुसन्धेयानि ।
योगकोशः ९५ सबीज : समाधिः-सवितर्का, निर्वितर्का, सविचारा, निर्विचारा चेति चतस्रः समापत्तयो ग्राह्यविषयाः सबीजः समाधिः । एवं ग्रहीतृग्रहणविषयाः अपि सविकल्पाविकल्पभेदेन सानन्दा, आनन्द- मात्रा, सास्मिता, अस्मितामात्रा चेति चतस्रः समापत्तयः सबीज एव समाधिरित्यष्टौ समापत्तयः संप्रज्ञातयोगनामा सबोजसमाधिरिति । (5० यो० भा० त० वै० पा० १ सू० ४६ )। विज्ञानभिक्षुस्तु-अवान्तरभेदेन सवितकनिर्वितर्करूपतो द्विधा भिन्नोऽपि स्थूलेऽर्थे एक एव समाधिस्तथाऽवान्तरभेदेन सविचार- निर्विचाररूपतो द्विधा भिन्नोऽपि सूक्ष्मेऽर्थे एक एव समाधिरिति मिलित्वा द्वौ। पुनश्च आनन्दानुगताऽस्मितानुगतौ च द्वौ सम्प्रज्ञात- समाधी मिलित्वा एता एव चतस्रः समापत्तयः सबीजसमाधि- रित्याह। (द्र० यो · वा० पा० १ सू० ४६ )। समाधि:-समाधिशब्दः सम्प्रज्ञातासम्प्रज्ञातरूपाङ्गिभूतयोगवाचकः, तथा यमनियमाद्यष्टान्तर्गतो योगाङ्गवाचकश्च । तत्राङ्गिभूतयोगस्वरूप- समाधेर्लक्षणं "योगश्चित्तवृत्तिनिरोधः" इति सूत्रोक्तम् । योगाङ्ग- रूपसमाधेलक्षणञ्च "तदेवार्थमात्र स्वरूपशून्यमिव समाधिः" इति निर्भासं सूत्रोक्तम् । समाधिपरिणाम:-सर्वार्थता - विक्षिप्तता चित्तस्य धमः। एव- मेकाग्रताऽपि चित्तस्य धर्मः। तथा च समाधी सर्वार्थताया: तिरो- भाव एकाग्रतायाश्चाविर्भावो भवति । तयोद्वयोरपि धर्मयो। चित्तं धर्मिरूपेणानुगतं भवति। इत्थञ्च सर्वार्थतैकाग्रतयोस्तिरोभावाविर्भावौ एव चित्तस्य समाधिरूपः परिणाम इति । द्र० यो० भा० त० वै० पा० ३ सू०११)। समाधिप्रज्ञा-सबीजसमाधौ जायमाना या प्रज्ञा सैव समाधि- प्रज्ञेत्युच्यते। इयमेव ऋतम्भरा प्रज्ञा । इयं प्रज्ञा विशेषविषयिणी भवति, अतएव श्रुतानुमानप्रज्ञयोविषयाभ्यामस्या अन्य एव विषयो योगकोशः ..- भवति । लोकप्रत्यक्षेणाग्राह्यमपि सूक्ष्मव्यवहितविप्रकृष्टं वस्तु अनया समाधिप्रज्ञया निर्ग्राह्यमित्यहो माहात्म्यमस्याः। (द्र० यो० भा० पा० १ सू० ४८-४९ )। समान:-अशितपीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने सममनुरूपं नयन् समानः शरीरोपगृहीतमारुदभेदः। आहृदयादाच नाभेरस्या- वस्थानमिति वाचस्पतिमिश्राः। समाननरूपः करणमात्रस्य वृत्ति- विशेषो हृदयान्नाभिपर्यन्तदेशे वर्तमान इति विज्ञानभिक्षुः। द्र० त० वै० तथा यो० वा० पा० ३ सू० ३९ )। समानजयः-संयमविशेषजात् समानजयात् शारीरस्य तेजस उत्तेजनं भवति । केचित्तु तेजस उत्तेजनं कृत्वा ज्वलति सतीवत् स्वशरीर दहतीत्याहुः । द्रष्टव्यं “समानजयाज्ज्वलनम्" इतिसूत्रभाष्यादिकम् । समापत्तिभेदा:-सवितर्का समापत्तिः, निर्वितर्का समापत्तिः, सविचारा समापत्तिः, निर्विचारा समापत्तिश्चेति सामान्यतः चतस्त्रः समापत्तयः । (द्र० त० वै० पा० १ सू० ४२ )। समूहः परमाणुः-सामान्यविशेषसमुदायो द्रव्यम् । समूहश्च द्विष्ठः- प्रत्यस्तमितभेदावयवानुगतः-शरीरं वृक्षो यूथं वनमिति। शब्देनो- पात्तभेदावयवानुगत:-उभये देवमनुष्या इत्यत्र समूहस्य देवा एको भागो मनुष्याश्च द्वितीयो भागः । पुनश्च स समूहः द्विविधः युत- सिद्धावयवोऽयुतसिद्धावयवश्चेति। तत्र युतसिद्धावयवः समूहो वनं सङ्घ इति । अयुतसिद्धावयवः समूहः शरीरं वृक्ष : परमाणुरिति । एतावता भाष्यप्रबन्धेन परमाणुरपि सावयवः समूहरूप इति सिद्धान्त आयाति । (द्र. यो. भा० पा० ३ सू० ४४ )। सत्त्वपुरुषयोः शुद्धिप्साम्यम्--यदा निधूतरजस्तमोमल बुद्धि- सत्त्वं पुरुषस्यान्यताप्रतीतिमात्राधिकारं दग्धक्लेशबीजं भवति, तदा पुरुषस्य शुद्धिसारूप्यमिवापन्नं भवति, तदा पुरुषस्योपचरित am योगकोशः ९७ भोगाभावः शुद्धिः। इत्युभयोः शुद्धिसाम्ये कैवल्यं भवति पुरुषस्येति । (द्र० यो० भा० पा० ३ सू० ५५)। सत्त्वपुरुषान्यताख्याति:--बुद्धिसत्त्वमन्यदन्यश्च पुरुष इति या ख्यातिः = साक्षात्कारः सा सत्त्वपुरुषान्यताख्यातिः। सविचारा समापत्ति:-भूतसूक्ष्मेषु अभिव्यक्तधर्मकेषु देशकाल- निमित्तानुभवावच्छिन्नेषु या समापत्तिः सा सविचारा समापत्ति- रित्युच्यते । (द्र० यो० भा० पा० १ सू० ४४)। सवितर्को समापत्तिः-गौरितिशब्दो गौरित्यर्थो, गौरिति ज्ञान- मिति अविभागेन विभक्तानामपि ज्ञानं जायते। विभज्यमानाश्चान्ये शब्दधर्मा अन्येऽर्थधर्माः अन्ये ज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनः समाधिप्रज्ञायां यो गवाद्यर्थः समारूढः, स यदि शब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते तदा सा संकीर्णा सवितर्का समापत्तिरुच्यते । (द्र० यो० भा० पा० १ सू० ४२)। सर्वज्ञः-बुद्धिसत्त्वावरकतमोऽपगमतारतम्येन यदिदमतीतानागत- प्रत्युत्पन्नानां प्रत्येकं समुच्चयेन च वर्तमानानामतीन्द्रियाणाम् ग्राह्यविषयाल्पत्वबहुत्वबहुतरत्वबहुतमत्वैरल्पं बहु बहुतरं बहुतम वा ग्रहणं वर्धमानं सद् यस्य निरतिशयं = सर्वातिशयं जायते, स सर्वज्ञः। अत्र कश्चिद् किञ्चिदेवातीतादि गृह्णाति, कश्चिद् बहु, कश्चिद् बहुतरं कश्चिद् बहुतममिति ग्राह्यापेक्षया ग्रहणस्याल्पत्वं बहुत्वं भवति । च यो हि प्रमेयमात्रं गृह्णाति स सर्वशः । (द्र० यो० मा० त० वै० पा० १ सू० २५)। अत्रानुमानमपि भवति-सर्वज्ञबीजं सातिशयज्ञानं क्वचित् काष्ठा- प्राप्तं बाधकाभावे सति सातिशयत्वात् परिमाणवत् इति यत्र काष्ठाप्राप्त स एव सर्वज्ञः। (द्र० यो० वा० पा० १ सू० २५)। सर्वज्ञातृत्वम्--सत्त्वपुरुषान्यतासंयमवतश्चित्तस्य यथा · सर्वभावा- धिष्ठातृत्वं तथा सर्वात्मकानां गुणानां शान्तोदिताव्यपदेश्य ( अतीत- ন ९८ योगकोशः वर्तमानानागत) धर्मत्वेन व्यवस्थितानामक्रमोपारूढं विवेकज ज्ञानं भवतीति सर्वज्ञातृत्वं जायत इति । (द्र० यो० भा० त० वै० पा० ३ सू० ४९)। सर्वात्मनां सर्वेषां बद्धमुक्तपुरुषाणां गुणानां च शान्तादिधर्मविशिष्टानां चैकदैव ज्ञानं सर्वज्ञातृत्वमिति विज्ञानभिक्षुः। (द्र० यो० वा० पा० ३ सू० ४९)। इयं सिद्धिविशोकेति गीयते योगिजन । सर्वज्ञानम्-स्वप्रतिभोत्थमनौपदेशिक संसारतरणोपायत्वात् तारकं विवेकजज्ञानस्य पूर्वरूपं यथा सूर्योदयस्य पूर्वरूपं प्रभा। तेन प्राति- भज्ञानेन सर्व विजानाति योगी। तथाच योगसूत्रम्-प्रातिभाद्वा सर्वम् इति । (पा० ३ सू० ३३ )। सर्वभावाधिष्ठातृत्वम्-सत्त्वपुरुषान्यतासंयमवतश्चित्तस्य जडप्रकाशा- मकसर्वभावाधिष्ठातृत्वं जायत इति । (द्र० यो० भा० त० वै० पा० ३ सू० ४९)। सर्वभूतरुतज्ञानम्-गौरिति शब्दो, गौरित्यर्थो, गौरितिप्रत्यय:, इत्थं शब्दार्थप्रत्ययानामितरेतराध्यासात् संकरः प्रतीयते । किन्तु तेषां प्रविभागसंयमात् सर्वभूतरुतज्ञानं भवतीति । (द्र० यो० वा० पा० ३ सू० १७)। सर्वं सर्वात्मकम्-जलं हि रसरूपस्पर्शशब्दवत् भूमिश्च गन्धरसरूप- स्पर्शशब्दवती, तयोः पारिणामिक वैश्वरूप्यं वनस्पतिलतागुल्मा- दिषु मूलफलप्रसवपल्लवादिगतरसादिरूपेण दृष्टम् । सोऽयम् अनेव- मात्मिकाया भूमेरनीदृशस्य वा जलस्य परिणामो न भवितुमर्हति । तथा स्थावराणां पारिणामिक जङ्गमेषु मनुष्यपशुमृगादिषु रसादि- वैचित्र्यं दृष्टम् । एवं जङ्गमानां पारिणामिकं स्थावरेषु दृष्टम् । रुधिरावसेकात् किल दाडिमीफलानि तालफलप्रमाणानि भवन्ति । एवञ्च सर्व जलभूम्यादिकं सर्वरसाद्यात्मकं सिध्यति । (द्र० यो० घा० पा० ३ सू० १४)।
योगकोशः साक्षित्वम-करणानपेक्षं साक्षाद् भासकत्वं साक्षित्वम् । अत एव विषयाणां भानं तदाकारवृत्तिद्वारा भवति, वृत्तिभाने तु वृत्त्यन्तरं नापेक्ष्यते । अतो वृत्तिः साक्षिमास्येत्युच्यते । अविकारेण द्रष्टुत्वं साक्षित्वमित्यपि साक्षिलक्षणम् । अतः पुरुषः साक्षी भवति । (द्र० यो० वा० पा० १ सू० ७)। सामान्यविशेषसमुदायो द्रव्यम्सामान्यविशेषाश्रयो द्रव्यमिति वैशेषिकाः, तत्पातञ्जला नाङ्गोकुर्वन्ति । यतः सामान्यविशेषा- श्रयो द्रव्यमित्यातिष्ठभानैस्तैरपि सामान्यविशेषसमुदायोऽनुभूयमानो नापह्नोतव्यः। न च तदपह्नवे तदाधारो द्रव्यमिति संभवति । तस्मात् समुदितौ तावेव द्रव्यं भवतु । न तु ताभ्यां सामान्यविशेषा- भ्यां तत्समुदायाच्च तदाधारमपरं द्रव्यमुपलभाभहे । यथा ग्रावभ्यो ग्रावसमुदायाच्च तदाधारमपरं पृथग्विधं शिखरं नोपलभामहे । तस्मात् समूहो द्रव्यम् । समूहो द्विविधो, युतसिद्धावयवः समूहो वनं सङ्घ इत्यादिः। तथाऽयुतसिद्धावयवो यथा-शरीरं वृक्ष! परमाणुरिति । तयोरयुतसिद्धावयवभेदानुगतः समूह एव द्रव्यमिति पतञ्जलिः । (द्र. यो० भा० त० वै० पा० ३ सू० ४४)। सार्वभौम:-चित्तस्य भूमयोऽवस्थाः मधुमती-मधुप्रतीका-विशोका- संस्कारशेषाः, तासु सर्वासु भूमिषु विदितः चित्तवृत्तिनिवृत्तिलक्षणो योगः सार्वभौम इत्युच्यते । यद्यपि क्षिप्त, मूढ़ विक्षिप्तमपि चित्तस्य भूमयः सन्ति तथापि क्षिप्तमूढ़योः सत्यपि परस्परापेक्षया वृत्तिनि- रोधे पारम्पर्येणापि निःश्रेयसहेतुत्वाभावात्, निरोधस्वरूपोपघात- कत्वाच्च योगपक्षाद्रोत्सारितत्वम् । विक्षिप्ते तु सन्नपि कादाचि- स्कश्चित्तस्थेमा विक्षेपस्य चित्तचाञ्चल्यस्योपसर्जनीभूत एवेति सोऽपि नास्ति योगपक्षे । तस्मात् मधुमत्यादिचतुर्मुमिकास्वेव वर्तमानश्चित्त- वृत्तिनिरोधो योग इति योगस्य सार्वमौमत्वमुक्तम् । (द्र० यो० मा० त० वै० पा० १ सू०१)।
योगकोशः
सिद्धदर्शनम्-शिरःकपालेऽन्तश्छिद्रं प्रभास्वरं ज्योतिरस्ति, तत्र
संयमे कृते सिद्धानां द्यावापृथिव्यन्तरालसंचारिणां दर्शनं जायते ।
तथा च सूत्रम्-"मूधंज्योतिषि सिद्धदर्शनम्' इति । ( पा० ३
सू० ३२)। जत्र मूर्धशब्देन सुषुम्नानाडी लक्ष्यत इति तत्ववैशा-
रदीकारः।
सिद्धिहेतवः-सिद्धीनामणिमादिलाभालां हेतवो जन्मौषधिमन्त्रतप:-
समाधयः सन्ति । तथा च योगसूत्रम्-“जन्मौषषिमन्त्रतपःसमाधिजाः
सिद्धयः ( पा० ४ सू० १) इति ।
सुषुम्नानाडी-उदरोरसोर्मध्येऽष्टदलमधोमुखं पद्म तिष्ठति, तन्मध्ये
सूर्यमण्डलमुकारो जागरितस्थानम्, तस्योपरि चन्द्रमण्डलमुकार।
स्वप्नस्थानम्, तस्योपरि वह्निमण्डलं मकारः सुषुप्तिस्थानम् ।
तत्र कणिकायामूर्ध्वमुखी सूर्यादिमण्डलमध्यगा ब्रह्मनाडी, ततोऽप्यूर्व
सुषुम्नानामनाडी, यया बाह्मान्यपि सूर्यादीनि प्रोतानि । सा हि
चित्तस्य स्थानम् । (द्र० त० वै० पा० १ सू० ३६ )।
सुषुम्नासम्बन्धे योगचिन्तामणौ समुद्धृतम्-
"कन्दस्थानं मनुष्याणां देहमध्यान्नवाङ्गुलम् ।
चतुरङ्गुलविस्तारमायामञ्च तथाविधम् ॥
अण्डाकृतिवदाकारं भूषितं तत्त्वगादिभिः।
कन्दमध्ये स्थिता नाडी सुषुम्नेति प्रकीर्तिता।
तिष्ठन्ति परितः सर्वाः चक्रेऽस्मिन् नाडीसंज्ञिकाः॥
नाडीनामपि सर्वासां मुख्या गार्गि ! चतुर्दश ।
इडा च पिङ्गला चैव सुषुम्ना च सरस्वती ॥
वारुणी चैव पुषा (पुष्पा) च हस्तिजीह्वा पयस्विनी।
योगकोशः
विश्वोदरी कुहुश्चैव शङ्खिनी च यशस्विनी ॥
अलम्बुषा च गान्धारी मुख्यास्त्वेताश्चतुर्दश ।
तासां मुखतमास्तिस्रः खिसृष्वेकोत्तमा मता।
मुक्तिमार्गेति सा प्रोक्ता सुषुम्ना विश्वधारिणी ॥
कन्दस्य मध्यमे मार्गे सुषुम्ना सुप्रतिष्ठिता।
पृष्ठवंशस्थितेनास्थना सह मूनि व्यवस्थिता ।।
मुक्तिमार्गेति सा प्रोक्ता ब्रह्मरन्ध्रति कीर्तिता।
अव्यक्ता सैव विज्ञेया सूक्ष्मा च वैष्णवी स्मृता'।
अस्यास्त्तत्तप्रदेशविशेषावच्छेदेन मुक्तिप्रदत्वात् तत्तत्प्रदेशानामवि-
मुक्तत्वं समाख्यातम्-
"भ्रूमध्ये नाभिमध्ये च हृदयेऽपि च मूर्धनि ।
तथाविमुक्तमादित्ये वाराणस्यां व्यवस्थितम् ।।
अत्राविमुक्तशब्दो विमुक्तशब्दपरः। यथा विमुक्तशब्द आधिदैविके
द्यावापृथिव्योः सन्धिरूपे आदित्ये व्यवस्थितः, यथा चाधिभौतिके
वाराणसीसंज्ञके पुरे व्यवस्थितः, तथा ऽऽध्यात्मिके भ्रूमध्ये, हृदये,
मुनि च चनविशेषावछिन्ने सुषुम्नाप्रदेशे व्यवस्थित इति ।
(द्र० यो० चि० प० २ पृ० १०५-१०६)।
सुषुम्ना, ब्रह्मरन्ध्र, महापथः, श्मशानम्, शाम्मवी, मध्यमार्गश्चेति
पर्यायाः । द्र ० है. यो० प्र० उप० ३ श्लो० ४)।
"सूक्ष्मम्-तन्मात्राणि
विशेषविनिर्मुक्तानि तदवयवाश्च परमाणवो
भूतानां सूक्ष्म रूपमिति विवरणकारः ।
.१०२ योगकोशः तस्य भूत- भूतानां सूक्ष्म रूपं तन्मात्रपञ्चकं साक्षात्कारणत्वात् । तन्मात्रस्य एकोऽवयवकार्य परमाणुः सोऽपि घटादिवदेव सावयवः, द्वित्र्यादितन्मात्रकार्यत्वात्, अन्यथा स्थूलत्वानुपपत्तेः । इत्येवं पर- माणुतोऽपि सूक्ष्मत्वात्, तन्मात्राणि सूक्ष्माणीति वृत्तिकारो नागेशभट्टः । परमाणवः तन्मात्रारब्धा इति नागेशभट्टाभिप्रायः। वाचस्पतिमतेऽपि परमाणुस्तन्मात्रस्यैवैकोऽवयवःइति यथा परमाणु- भूतानां सूक्ष्म रूपं तथा सर्वतन्मात्राणि भूतानां सूक्ष्म रूपमिति । ( द्र० यो० भा० त० वै० पा० ३ सू० ४४ )। विज्ञानभिक्षुस्त्वाह-साक्षात्कारणत्वमेवात्र सूक्ष्मत्वमभिप्रेतम् । तस्य भूतस्यैकश्वरमोऽवयवः परमाणुः सोऽपि घटादिवदेव सावयव:, अन्यथा स्थूलत्वानुपपत्तेः, शान्तघोरमूढरूपविशेषानुपपत्तेश्चेत्येव- मित्यतः सर्वतन्मात्राण्येव भूतकारणानि, अवयवान्तरासंभवात् । अतस्तान्येव सूक्ष्म रूपमिति । (द्र० यो० वा० पा० ३ सू० ४४)। भूतानां सूक्ष्म रूपं परमाणवस्तेषाञ्च सूक्ष्म रूपं तन्मात्राणी ति मणि- प्रभाकारः। सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्-ज्योतिष्मतीनाम्नी बुद्धिपुरुषान्यता- साक्षात्काररूपिणीय । मनसःप्रवृत्तिरुच्यते, तस्या य आलोक: अर्थात् तत्कालीनो यः सत्त्वप्रकाशस्तं प्रकाशं योगी सूक्ष्माद्यर्थेषु विन्यस्य साक्षात्करोति तदर्थं संयम नापेक्षते । अर्थात् चक्षुास- मात्रेण घटादिदर्शनवत् शुद्धसत्त्वप्रतिसंधानमात्रेणैव सूक्ष्म-व्यवहित- विप्रकृष्टानां परमाण्वादीनां साक्षात्कारो भवतीति । (द्र० यो० वा० पा० ३ सू० २५)। सोपक्रमं कर्म-यत् खल्वैकमविकं कर्म जात्यायुर्भोगहेतुः तच्च किञ्चित् कालानपेक्षमेव भोगदानाय प्रस्थितं दत्तबहुभोगम् अल्पावशिष्टफलं प्रवृत्तव्यापार केवलं तत्फलस्य सहसा एकेन शरीरेण भोक्तुमशक्य- योगकोशः १०३ कालीनप्रजासु त्वात् विलम्बते, तदिदं सोपक्रमं कर्म । (द्र० यो० भा० त० वै. पा० ३ सू० २२)। विज्ञानभिक्षुस्त्वाह-यत् कर्म तीव्रवेगेन फलदातृ, यथा कलि- बाल्ययौवनवार्धकाद्यवस्थानां झटित्येवारम्भ भवति, तत्सोपक्रमम् । (द्र० यो० वा० पा० ३ सू० २२)। संकोचविकासि चित्तम-चित्तं हि घटप्रासादप्रदोपकल्पं संकोच- विकासशालि शरीरपरिमाणाकारमात्र न विभु नाप्यणु इति केचित् प्रतिपद्यन्ते । तत्तु योगाचार्याः न मृष्यन्ते । योगमते चित्तन्तु विभु केवला वृत्तिरेवास्य सङ्कोचविकासशालिनीत्याचार्यः । ( स्वयम्भूः ) (द्र ० यो० भा० पा० ४ सू० १०)। संप्रज्ञात:-वितर्कविचारानन्दास्मितानां स्वरूपैरनुगतश्चित्तवृत्तिनिरोधः सम्प्रज्ञातसमाधिः । अतएव एतैरनुगतत्वात् सम्प्रज्ञातभेदोऽपि चतुर्विधो भवति--वितर्कानुगतो, विचारानुगत, आनन्दानुगतोऽ- स्मितानुगतश्चेति । (द्र० यो० मा० त० वै० पा० १ सू० १७)। संयमः--धारणाध्यानसमाधीनां मिलितानामेका संज्ञा "संयमः" इत्यस्ति । तथा च योगसूत्रम्--"त्रयमेकत्र संयमः" । पा. ३ सू० ४)। संवेगः-संवेगो वैराग्यमिति वाचस्पतिमिश्राः । उपायानुष्ठाने शैघ्रय- मिति विज्ञानभिक्षवः । इदमेव मतं योगमञ्जरीकारस्य । संवेग उप- क्रम इति विवरणकारः । क्रियाहेतुहूंढतरः संस्कार इति भोजवृत्तिः। मणिप्रभाकाराः वाचस्पतिमिश्रानेवानुसरन्ति संवेगो वैराग्यमिति । (द्र० त० २०, यो० वा., भो० वृ०, म० प्र० पा० भा० वि०, पा० १ सू० २१ )। संसारक्रमसमाप्तेरवचनीयत्वम् -अस्य संसारस्य क्रमसमाप्तिः कदा- चिदस्ति न वेति प्रश्न उत्तरं भवति 'अवचनीयमेतत्" इति । ।
१०४ योगकोशः अयं तु एकान्ततोऽवचनीयः प्रश्नः संसारोऽयमन्तवानथानन्त इति । विशेषावधारणन्तु संभवत्येव--यथा कुशलस्यास्ति संसारक्रमपरि- समाप्तिर्नेतरस्येत्यन्यतरावधारणेऽदोषः । अयं भावः---क्रमेण मोक्षे सर्वेषां मोक्षात् संसारोच्छेद इत्यनुमानम् । एतच्चानुमानमागमसिद्धमोक्षमाश्रित्यैव प्रवर्तितुमर्हति ! तथा च यो हि भोक्षप्रतिपादकागमस्य प्रमाणभावमभ्युपगच्छति स कथं तमेव प्रधानविकारनित्यतायामप्रमाणीकुर्यात् । तस्मादागमबाधित- विषयमेतदनुमानं न संसारोच्छेदे प्रमाणं स्यात् । श्रूयते हि श्रुति- स्मृतीतिहासपुराणेषु सर्गप्रतिसर्गपरम्पराया अनादित्वमनन्तत्वं चेति । अपि च सर्वेषामेवात्मनां संसारस्य न तावद् युगपदुच्छेदः संभवी । न हि पण्डितरूपाणामपि अनेकजन्मपरम्पराभ्यासपरिश्रम- साध्या विवेकख्यातिप्रतिष्ठा, किमु वक्तव्यम्, प्राणभृन्मात्रस्य स्थावर- जङ्गमादेरेकदाऽकस्माद्भवितुमर्हतीति । न च कारणयौगपद्यं युज्यते । क्रमेण तु विवेकख्यातौ असंख्येयानां क्रमेण मुक्तौ न संसारोच्छेदोऽ- नन्तत्वाज्जन्तूनामिति । (द्र. यो. भा० त० वै० पा० ४ सु० ३३)। संस्कारशेषा-चित्तस्य मधुमत्यादिष्ववस्थासु मध्ये चतुर्थी अवस्था संस्कारशेषाऽसम्प्रज्ञातसमाधिरूपा। परवैराग्यद्वारा सर्वासां वृत्तीनां निरोधात् संस्कारमात्रशेषतयाऽन्वर्थसंज्ञेयमवस्थेति । स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणम्-मधुमती भूमिं साक्षात्कुर्वत ऋतम्भरप्रज्ञस्य योगिनः स्थानिनो देवाः सत्त्वविशुद्धिमनुपश्यन्तः स्थानैरुपनिमन्त्रयन्ते-“भो इहास्यताम्, इह रम्यताम्, कमनीयोऽयं भोगः, कमनीयेयं कन्या, रसायनमिदं जरामृत्युनिवारकं, वैहायस- मिदं यानम्, अमी कल्पद्रुमार, , पुण्या मन्दाकिनी, सिद्धा महर्षयः, उत्तमा अनुकूला अप्सरसः, दिव्ये श्रोत्रचक्षुषी, वनोपमः कायः, योगकोशः १०५ स्वगुणः सर्वमिदमुपाजितमायुष्मता प्रतिपद्यताम्, इदमक्षयमजरम- मरस्थानं देवानां प्रियमिति ।" एवमभिधीयमानः सङ्गदोषानु भावयेत् "धोरेषु संसाराङ्गारेषु पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथञ्चिदासा- दितः क्लेशतिमिरविनाशी योगप्रदीपः । स खल्वहं लब्धालोकः कथमनया बिषयमृगतृष्णया वञ्चितस्तस्यैव पुनः प्रदीप्तस्य संसारा- ग्नेरात्मानमिन्धनी कुर्याम्" इति । सङ्गमकृत्वा स्मयमपि न कुर्यात्--"एवमहं देवानामपि प्रार्थनीयः सम्पन्न इति ।" (द्र० यो० भा० पा० ३ सू० ५१) स्थितिः-वृत्त्याख्यगतिशून्यता चित्तस्य स्थितिः निद्रेति यावत् । चित्तस्य सर्वे तामसा गुणाः स्थिलौ समाविशन्तीति चित्तस्य स्थिति- शीलत्वं तमःप्रभावात् । (द्र० यो० वा० पा० १ सू० २ )। स्थूलम्-पार्थिवाः, जलोयास्तैजसा, वायवीया, आकाशीयाः शब्द- स्पर्शरूपरसगन्धा यथासंभवं विशेषाः षङ्जगान्धारादयः, शीतोष्णा- दयः, नीलपीतादयः, कषायमधुरादयः सुरम्यादयः । एते हि नाम- रूप-प्रयोजनैः परस्पतो भिद्यन्ते इति हेतोः विशेषाः कथ्यन्ते । एतेषां पञ्च पृथिव्यां सन्ति । गन्धवर्ज चत्वारोऽप्सु । गन्धरसवर्ज त्रयस्तेजसि । गन्धरसरूपवर्जद्वौ वायौ । शब्दमात्रमाकाशे । त एते विशेषाः आकारादिभिः धर्मैः सह विशेषशब्देन परिभाषिता। शास्त्रे इति । (द्र० यो० भा० त० वै० पा० ३ सू० ४४)। स्थैर्यम्-जिह्वाया अधस्तात् तन्तुः, ततोऽधस्तात् कण्ठः, ततोऽधस्तात् कूपः, ततोऽधस्तात् उरसि कूर्माकारा नाडी अस्ति । सैव कुण्डलित- सर्पवदवस्थिततया कूर्माकारं हृदयपुण्डरीकाख्यं नाडीचक्रमुच्यते । तत्र कृतसंयमो योगी चित्तस्थैर्य लभते इति । (द्र० यो० भा० यो० वा० पा० ३ सू० ३१ )। ..
योगकोशः स्फोटः- :-यथा बीजाङ्कराद्यनेकावस्थो वृक्षरूपो धर्मी क्रमिकाभ्यस्ताभ्यो बीजाद्यवस्थाभ्योऽतिरिक्ता पल्लवादिरूपाशेषावस्थया व्यज्यते "अय- माम्रवृक्षो न वृक्षान्तरम्" इत्येवंरूपेण । स च वृक्षधर्मी बोजादिभ्यो भिन्नाभिन्नः, भेदाभेदयोरनुभवात् । तथैव गकारौकाराद्यनेकावस्थो गौरित्यादिरखण्डः स्फोटशब्दः क्रमिकाभ्यो गकाराद्यवस्थाभ्योऽ- तिरिक्तः आनुपूर्वीविशेषविशिष्टया विसर्जनोयादिरूपचरमावस्थया व्यज्यते इदं “गौः" इति पदं न तु "गौर" इतोत्यादिरूपेण । तच्च स्फोटपदं गकारादिवर्णेभ्यो भिन्नाभिन्न, भेदाभेदयोरनुभवात् । स च पदाख्यः शब्दोऽर्थस्फुटीकरणात् स्फोट इत्युच्यते । अस्य स्फोट- शब्दस्य च कारणम् एकप्रयत्नजन्यो ध्वनिविशेषः, प्रयत्नभेदेन तूच्चारणे व्यवधाने सत्येकपदव्यवहाराभावात् । अतो गौरित्येक- पदमिति व्यवहार एव स्फोटे प्रमाणम्, वर्णानामनेकत्वेन तैरेकत्व- व्यवहारस्याञ्जस्येनानुपपत्तेः । तथा प्रत्येकवर्णादनुत्पद्यमानस्यार्थ- प्रत्ययस्य हेतुत्वं च स्फोटे प्रमाणम् । यदि चानुपूर्वीविशिष्ट- समूहस्यैकत्बादेकत्वव्यवहारः तेनैव रूपेणार्थप्रत्ययहेतुत्वञ्च स्वी- क्रियते तहि संयोगविशेषावच्छिन्नावयवसमूहादेव घटादौ एकत्व- व्यवहारस्य जलाहरणादेश्वोपपत्त्या घटाद्यवयविमात्रोच्छेदप्रसङ्गः, युक्तिसाम्यात् । न चैवं युक्तिसाम्याद् वाक्यमपि स्फोटरूपमेकैकं स्याद् इति चेद् बाधकामावेन वाक्यस्फोटस्यापीष्टत्वात् । तस्मादस्ति स्फोट इति पातञ्जलमतम् । (द्र० यो० वा० पा० ३ सू०१७ )। विस्तरस्तूक्तसूत्रीयतत्त्ववैशारदीतोऽवगन्तव्य।। स्मृतिः -प्रमाणादिभिरनुभूते विषये योऽसंप्रमोषोऽस्तेयं सा स्मृप्तिःवृत्ति- विशेषः। संस्कारमात्रजन्यस्य स्मृत्यात्मकज्ञानस्य स एव विषय आत्मीयो, यो हि संस्कारजनकस्य पूर्वांनुभवस्य विषयभूतः पूर्वानुभव- विषयातिरिक्तविषयपरिग्रहस्तु सम्प्रमोषः स्तेयं स्यात् ।
योगकोशः अयमाशयः- सर्व प्रमाणादयोऽनधिगतमर्थं सामान्यतो विशेषतो वाऽधिगमयन्ति । स्मृतिस्तु न पूर्वानुभवमर्यादामतिक्रामति । सा हि अनुभवसमानविषया वा स्यात् ततो न्यूनविषया वा स्यात्, न तु तदधिकविषयेति । तथा च सूत्रम् “अनुभूतविषयाऽसंप्रमोषः स्मृतिः" इति । (द्र० त० वै० पा० १ सू० ११) "श्रद्धावीर्यस्मृति समाधिप्रज्ञापूर्वक इतरेषाम्" इतिसूत्रघटकं स्मृतिपदं तु योगान्तरङ्गसाधनभूतस्य ध्यानस्य वाचकम् । स्मृतिपरिशुद्धिः-अर्थमात्रनिर्भासायां स्वरूपशून्यायामिव निर्वितर्कायां समापत्तौ स्मृतिपरिशुद्धिहेतुः। स्मृतिपरिशुद्धिश्च शब्दसङ्केतश्रुतानु- मानज्ञानविकल्पात्मकस्मृतिपरिशुद्धिरेव । परिशुद्धिरत्रापगमः । अर्थात् निर्वितर्कायां समापत्तौ “अस्यार्थस्यामुकं पदं वाचकम्" इति शब्दसङ्केतज्ञानरूपो विकल्पो निवर्तते । तथा “पूर्व श्रुतोऽनुमितो वाऽयमर्थः" इवि श्रुतज्ञानरूपो विकल्पो अनुमितार्थज्ञानरूपो विकल्पश्च निवर्तत इतीयमेव स्मृतिपरिशुद्धिरर्थमात्रनिर्भासाया:निर्वित- प्या: समापत्तरिति । (द्र० यो० भा० त० वै० पा० १ सू० ४३ )। अर्थात् तत्रातिरिक्तं न किमपि भासते, ज्ञानस्वरूपमपि न भासते कीहगिदं ज्ञानमिति । स्वबुद्धिसंवेदनम् – यद्यपि चितिशक्तिरपरिणामिनी क्रियाशून्या चास्ति तथापि चितेः स्वबुद्धिसंवेदनं चितिप्रतिबिम्बाधारतया चिद्रूपतापत्तौ सत्यां भवति । यथा हि चन्द्रस्य क्रियामन्तरेणापि सङ्क्रान्तचन्द्रप्रतिबिम्बममलं जलमचलमपि चन्द्रमसं चलमिवावभास- यति तथा विनापि चितिव्यापारमुपसङ्क्रान्तचितिप्रतिबिम्बं चित्त स्वगतया क्रियया चितिशक्ति क्रियावतीमसङ्गतामपि सङ्गतामव- भासयद् निजभोग्यताशक्त्या तस्या भोक्तृभावमापादयति । इदमेव योगकोशः .. ज्ञानस्य चितिशक्तेः स्वबुद्धिसंवेदनम् । (द्र० यो० मा० त० वै० पा० ४ सू० २२)। विज्ञानभिक्षुस्तु चितिशक्तावेव बुद्धिवृत्तिप्रतिबिम्बं समर्थयन् स्वयम- प्रतिसङ्क्रमाया अपि चितिशक्तेः स्वप्रतिबिम्बितबुद्धिवृत्त्याकारता- पत्त्यैव स्वबुद्धिसंवेदनं भवतीत्याह । (द्र० यो० वा० पा० ४ सू० २२)। स्वबोधसङ्क्रान्तिः-शब्दद्वारा आतचित्तवतिज्ञानसशस्म श्रोतृचित्ते समुत्पादःस्वबोधसङ्क्रान्तिः। स्वप्नः-प्रत्यस्तमितबाह्येन्द्रियवृत्तमनोमात्रेणेव यत्र भोक्तृत्वमात्मनः स स्वप्न इति भोजवृत्तिः । ' द्र० यो० सू० पा० १ सू० ३८)। बाह्यसकलवृत्तिपरित्यागेन चेतसोऽभ्यन्तरवाहिता स्वप्न इति योग- मञ्जरी। ( पा० १ का० २५ )। स्वप्नज्ञानालम्बनम् चित्तम्-यदा खलु स्वप्ने विविक्तवनसंनिवेश- वर्तिनीमुत्कीर्णामिव चन्दमण्डलात् कोमलमृणालशकलानुकारिभि- रङ्गप्रत्यङ्गैरुपेताम् अभिजातचन्दकान्तमणिमयीम् अतिसुरभिमालती- मल्लिकामालाहारिणी मनोहरां भगवतो महेश्वरस्य प्रतिमामा- राधयन्नेव प्रबुद्धः प्रसन्नमनास्तदा तामेव स्वप्नज्ञानालम्बनीभूता- मनुचिन्तयतस्तस्य तदेकाकारमनसस्तत्रैव चित्तं स्थितिपदं लभते इति । (द्र० त० वै० पा० १ सू० ३६ )। स्वप्नरूपं ज्ञानं स्वप्न ज्ञानम्, तदालम्बनकं चित्तम् प्रपञ्चज्ञाने स्वप्न- दृष्टिमच्चित्तमेव स्वप्नज्ञानालम्बनं चित्तमिति विज्ञानभिक्षुः। इयञ्च दृष्टि : कामदुघत्वादिगुणैर्वाचि धेनुदृष्टि वत् क्षणभङ्गरविषयकत्वादिगुण- र्जाग्रद्ज्ञाने स्वप्नदृष्टिरूपा । एतदपि वैराग्यद्वारा चित्तस्थैर्यहेतुरिति । (द्र० यो० वा० पा० १ सू० ३८)। स्वरूपम्-भूतानां स्वरूपम् । यथा-मूर्तिः = सांसिद्धिकं काठिन्यम् भूमेः स्वरूपम् । स्नेहो मज्जापुष्टिबलाधानहेतुः जलस्य । उष्णता योगकोशः वह्नः। वहनशीलता (प्रणामिता) वायोः स्वरूपम् । सर्वतोगति- राकाशः सर्वत्र शब्दोपलब्धिदर्शनात् । (द्र० यो० भा० त० वै० पा० ३ सू० ४४)। स्वरूपावस्थानम्-पुरुषस्य हि चैतन्यं स्वरूपम् अनौपापाधिकम् न तु बुद्धिबोधः शान्तादिरूपः । औपाधिको हि सः, स्फटिकस्येव स्वभावस्वच्छधवलस्य जपाकुसुमसन्निधानोपाधिररुणिमा । चोपाधिनिवृतावुपहितनिवृत्तिः, अतिप्रसङ्गात् । तस्माद् वृत्तिनिरोध- काले पुरुषस्य स्वरूपेऽनौपाधिकचैतन्येऽवस्थानं भवतीति । (द्र० त० ० पा० १ सू० ३)। बिज्ञानभिक्षुराह-यथा जपापाये स्फटिकस्य स्वस्वरूपेऽलोहिते- ऽवस्थानं तथा वृत्त्यभावे पुरुषस्य वृत्तिप्रतिबिम्बशून्ये स्वस्वरूपे- ऽवस्थानमिति ( द्र० यो० वा० पा ० १ सू० ३ )। स्वस्वामिभाव:-यथाऽयस्कान्तमाणः स्वस्मिन्नेवायःसन्निधीकरण- मात्रात् शल्यनिष्कर्षणाख्यमुपकारं कुर्वन् स्वामिनः स्वं भवति, भोगसाधनत्वात्; तथैव चित्तभप्ययःसदृशविषयजातस्य स्वस्मिन् सन्निधीकरणमात्रात् दृश्यत्वरूपमुपकारं कुर्वत् पुरुषस्य स्वामिनः स्वं भवति, भोगसाधनत्वात् । अतश्चित्तपुरुषयोरनादिः स्वस्वाभि- भावः सम्बन्ध इति । (द्र० यो० वा० पा० १ सू० ४)। स्वाध्याय:-अभिप्रेतमन्त्रजपादिलक्षणे स्वाध्याये प्रकर्षमापन्ने योगिनः स्वेष्टदेवतायाः सन्निधानं = प्रत्यक्षं भवतीति भोजवृत्तिः। ( पा० २ सू०४४। इष्टमन्त्रादिजपात् (स्वाध्यायात्) स्वेष्टदेवतायाः सम्भाषणादि सिध्यति इति मणिप्रभा, पा० २ सू० ४४ ।
११० योगकोशः - हस्तिबलादीनि--हस्तिबले संयमाद् हस्तिबलो भवति । वैनतेयबले संयमाद् मैनतेयबलो भवति । वायुबले संयमाद् वायुबलो भवति । अर्थात् यस्य बले संयमस्तस्य बलं लभत इति । (द्र० यो० भा० त० वै० पा० ३ सू० २४ )। हिरण्यगर्भ:--योगस्यादिवक्ता हिरण्यगर्भ एव यथा सांख्यस्य कपिलः । तदुक्तम् याज्ञवल्क्येन- "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इति । हिंसा--केनापि प्रकारेण कदापि कस्यापि भूतस्याभिद्रोहो हिंसा । सा च स्वयं कृता वा स्यात्, परतः कारिता वा स्यात्, अनुमोदिता वा स्यात्, लोमक्रोधमोहान्यतमप्रयुक्ता स्यात्, मृदुः, मध्या, अधिमात्रा वा सर्वविधापि हिंसा परिवर्जनौया दुःखाज्ञानानन्तफलत्वात् । ( द्र० यो० ० भा० पा० २ सू० ३०, ३४)। हेयहेतुः-प्रधानपुरुषयोः संयोगो हेयस्य दुःखबहुलसंसारस्य हेतुः । (द्र० यो० भा० पा० २ सू० १५ ।। हेयम्--हेयम् दुःखमनागतम् । अतीतस्य दुःखस्य नष्टपूर्वत्वाद् वर्तमान- . स्य च दुःखस्य भोगेनैव क्षयादनागतदुःखमेव हेयमिति तद्धानार्थमेव यत्नः करणीयः । इति शुभम् । सारण्यमण्डले पुण्ये ग्रामे विष्णुपुराभिधे। जनित्रिपाठिनो लब्ध्वा रामादेर्यो विहारिणः ॥ न्यायव्याकरणे श्रीमत्सूर्यनारायणाद्गुरोः। वेदान्तं विश्रुताच्छीमद्धरिहरकृपालुतः ॥ श्रुत्वा वादविदग्रणीः स विदितः केदारनाथः कृती, योगाभीष्टरहस्यमत्र प्रकटीकतु" समीहान्वितः । चन्द्राग्न्यभ्रकलोचनैः परिमिते संवत्सरे वैक्रमे, ज्येष्ठे मासि सिते च कोशममलं पातञ्जलं संव्यधात्॥ इति श्रीमदाचार्यकेदारनाथत्रिपाठिप्रणीतो योगकोशः पूर्णः ।