University Library,gurukul Kangri Vishwavidyalaya
वैशेशैकदर्शनं ब्रह्मामुनिभाष्यौपेतम
Front matter
वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम्
.
-
रचयिता:
स्वामी ब्रह्ममुनिः परिव्राजको विद्यामार्तण्डः
विश्वविद्यालय गुरुकुल कांगड़ी ( हरिद्वार)
CHECKED 1973
प्रकाशक:
altial
आर्यकुमार महासभा
आत्माराम रोड, बड़ौदा
-
पुस्तकप्राप्तिस्थानम्-
१-आर्यकुमार महासभा आत्माराम रोड बड़ौदा
-सार्वदेशिक आर्यप्रतिनिधि सभा, दयानन्द भवन
(रामलीला मैदान) न्यू देहली १
भाद्रपद २०१६ वि०
सितम्बर १९६२ ई०
मूल्यम्-अनावरणस्य (अजिल्द) २२०
सावरणस्य (सजिल्द) २ रु०५० म.पै.
प्रकाशकस्य वक्तव्यम वेदवेदाङ्गतत्त्ववित्सु निखिलायंसामाजिकविपश्चिदपश्चिमेषु संख्यया समुल्लसतस्तत्र भवतः स्वामिश्रीब्रह्ममुनिमहोदयस्य सुकीर्ति- समर्चितमभिधानमार्यसाहित्यप्रणेतृप्रसङ्ग नूनं सुवर्णवर्णविन्यासार्हम् । अस्य कृतयो मिथः स्पृहयन्तीवातुलोत्कर्षभाजः स्वाध्याय- स्निग्धानां कृते ससत्त्वभोजनानीव कामप्यपूर्वां तृप्ति वितन्वते । प्रस्तुतो ग्रन्थो हि विपुलामुपादेयतामावहति । अस्य मुद्रणं सौम्य- मूर्तेर्वदान्यमूर्धन्यस्यार्यकुमारमहासभाध्यक्षस्य सांस्कृतिकप्रवृत्तितति- प्रवर्तयितुः श्रीमतो राज्ञो नारायणलालपित्तीपरमेष्ठिनः प्रसादात् समपद्यत, इति निखिलोऽप्यायलोक एतत्सभासमेतस्तस्य कृतज्ञता- पारवश्यपरिप्लुतो वर्तते । परमेश्वरप्रसादेन स्वामिब्रह्ममुनिसन्निभाः "किलतादृग्ग्रन्थरलसंग्रथनेऽथार्यसाहित्यसुहितचेतसः श्रेष्ठिनश्च तन्मुद्रणे समाहिताः-व्याप्रियेरन्नित्येव कामये । बड़ौदा ता० ५-६-६२ ईस्वीय विदुषामनुचरः आनन्दप्रियः आर्यकुमारमहासभासचिवः
प्रमुखविषयाणां सूत्रसूचिः
परमात्मा
विभवान्महाकाशस्तथा
चात्मा ॥७॥१॥२२॥
संशाकर्मत्वस्मद्विशिष्टाना
लिङ्गम् ।।२।१॥१८॥
जीवात्मा
'आत्मा' तदभवात्
[अरपुः] 1॥७॥१॥२३॥
इन्द्रियार्थप्रसिदिरिन्द्रि-
यार्थेभ्योऽर्थान्तरस्य हेतुः ॥३॥१२॥
आत्मेन्द्रियार्थसन्निकर्षा-
घनिष्पद्यते तदन्यत् ॥३॥१॥१८॥
प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि
दृष्टे परत्र लिङ्गम् ॥३॥१॥१९॥
प्राणापाननिमेषोन्मेषजीवनमनो-
गतीन्द्रियान्तरविकाराः सुखेच्छाद्वेष-
प्रयत्नाश्चात्मनो लिङ्गानि ॥३॥८॥४॥
व्यवस्थातो नाना ॥३२।१८।।
शास्त्रसामर्थ्याच्च ॥३।२।१६।।
तत्रात्मा मनश्चाप्रत्यक्षे
॥८॥१॥२॥
प्रकृतिः
सदकारणवनित्यम् ॥४॥११॥
तस्य कार्य लिङ्गम् ।।४।१।२॥
मोक्षः
धर्मविशेषः...तत्त्वज्ञानान्निश्रेय-
सम् ॥११॥४॥
आत्मकर्मसु मोक्षो व्याख्यातः
॥६॥२॥१६॥
मनः
प्रात्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य-
भावोऽभावश्च मनसो लिङ्गम्
॥३२॥१॥
प्रयत्लायोगपद्याज्ञानायोगपद्या-
च्चकम् ॥३॥२॥३॥
तत्रात्मामनश्चाप्रत्यक्षे ।।१।।
इन्द्रियम्
भूयस्त्वाद् गन्धवत्त्वाच्च पृथिवी
गन्धज्ञाने प्रकृतिः ।।८।२॥५॥
तथापस्तेजो वायुश्च रसरूपस्पर्श.
विशेषात् ॥२॥६॥
शरीरम्
प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्य-
क्षत्वात् पञ्चात्मकं न विद्यते ।४।२।२।
गुणान्तराप्रादुर्भावाच्च न त्र्यात्म-
कम् ॥४२॥३॥
तत्र शरीरं द्विविधं योनिजमयो.
निजं च ॥४॥२४॥
धर्मः
यतोऽभ्युदयनिश्रेयससिद्धिः
स धर्मः ॥११॥२॥
धर्मविशेषप्रसूतात्...तत्त्वज्ञानात् ।
॥११॥३॥
वेदः
तद्वचनादाम्नायस्य प्रामाण्यम्
॥११॥३॥
( ii ) बुखिपूर्वा वाक्यकृतिर्वेदे ।६।१।१। स्वाप्नं ज्ञानम् संज्ञाकर्म त्वस्मद्विशिष्टानां तथा स्वप्नः ॥२७॥ लिङ्गम् ॥२॥१॥१८॥ सौषुप्तं ज्ञानम् आत्मप्रत्यक्षं ज्ञानम् स्वाप्नान्तिकम् ॥२८॥ आत्मन्यात्ममनसोः संयोगविशेषा- धर्माच्च ॥ दात्मप्रत्यक्षम् ।।६।१।११॥ आर्ष सिद्धज्ञानम् आष सिद्धदर्शनं च धर्मभ्यः तथा द्रव्यान्तरेषु प्रत्यक्षम् हा२।१३ ॥१॥२॥ विपरोतज्ञानम् असमाहितान्तकरणा उपसंहृत- इन्द्रियदोषात् सस्कारदोषाच्चा. समाधयस्तेषाञ्च ।।८।१॥३॥ विद्या ॥६॥२॥१०॥ तत्समवायात् कर्मगुरणेषु (८।१४) तद्दष्टज्ञानम् ॥६२।११॥ द्रव्याणि आत्मसमवायादात्मगुरणेषु (८।११५) पुथिव्यापस्तेजोवायुराकाश कालो- दिगारमा मन इति द्रव्याणि ॥११॥५॥ ऐन्द्रियिकप्रत्यक्षं ज्ञानम् 'द्रव्यलक्षणम् महत्यनेकद्रव्यवत्त्वाद् रूपाच्चो. पलब्धिः ॥४॥१६॥ क्रियागुणवत् समवायिकारणमिति अनेकद्रव्यसमवायाद् रूपविशेषाच्च द्रव्यलक्षणम ॥१।१।१५।। रूपोपलब्धिः ।।४।११७॥ गुणाः लैङ्गिकंज्ञानम् रूपरमगन्धस्पर्शा: संख्या: परिमा- अस्येदं कार्य कारणं सयोगि विरोधि णानि पृथक्त्वं संयोगविभागौ परत्वा- समवायि चेतिलैङ्गिकम् ।।६।२।१॥ परत्वे बृद्धयः सुखदुःखेच्छाद्वषो प्रयला- प्रस्येदं कार्यकारणसम्बन्धश्चाव श्च गुणाः ॥११॥६॥ यवाद् भवति ॥६॥२॥ गुणलक्षणम् द्रव्याश्रय्यगुणवान् संयोगविभागे- एतेन शाब्दं व्याख्यातम् ।।२।३। ध्वकारणमनपेक्ष इति गुणलक्षणम् हेतुरपदेशो लिङ्ग प्रमाणं करण- ॥१॥१॥१६॥ मित्यनान्तरम् ।।६।२१४|| कर्माणि अस्येदमिति बुद्धधपेक्षित्वात् ॥ उत्क्षेपणमवक्षेपणमाकुञ्चन- २॥५॥ प्रसारण गमनमिति कर्माणि ॥१॥१७॥ आत्ममनसोः संयोगविशेषात् संस्का- कर्मलक्षणम् राच्च स्मृतिः ।।६।२।६॥ एकद्रव्यमगुणं संयोगविभागेष्व.. शाब्दं ज्ञानम् स्मात्तं ज्ञानम् ( iii) नपेक्षकारणमिति कर्मलक्षणम् दिक्कालाकाशा न समवायिकारणं ॥१११।१७॥ कर्मणाम् सानान्यं सामान्यलक्षणं वा निष्क्रियाणां समवायः कर्मभ्यो- सामान्यविशेष इति । बुद्धयपेक्षम् निषिद्धः ॥५२॥२०॥ असमवापिकारणम् ॥१२॥३॥ संयोगाद्वा ॥१०१।२॥ (द्रव्यम्) भावोऽनुवृत्त रेव हेतुत्वात् सामा- कारणं त्वसमवायिनो गुणाः न्यमेव ॥१२॥४॥ ॥५॥२ २३॥ (गुणाः) सदिति यतो द्रव्यगुणकर्मसु सा तथा रूपे कारणकार्थसमवायाच्च सत्ता ॥१२॥७॥ ॥१०॥२॥४॥ द्रव्यत्वं गुणत्वं कर्मत्वं च सामा- (ऐकभौतिको गुणः) न्यानि विशेषाश्च ॥१२॥५॥ कारणसमवायात् संयोगः पटस्य [अन्यत्रान्तेम्यो विशेषेभ्यः] ॥१०॥२॥५॥ ॥१॥२॥६॥ (गुणोऽनेकद्रव्यस्थः) विशेषो विशेषलक्षणम् कारणकारणसमवायाच्च ॥१०१२ ।६।। (अनेकानेकद्रव्यस्थो गुणः) सामान्यं विशेष इति बुद्धधपेक्षम् कारणे समवायात् कर्माणि ॥१॥२॥३॥ ॥१०।२।३।। (कर्म) [अर्थात्-व्यावृत्त रेव हेतुत्वाद् समवाय्यसमवायिनोविशिष्टं विशेषा एवान्त्याविशेषाः] ॥१॥२।४, कारणम् (निमित्तकारणम्) ११२॥६॥ संयुक्तसमवायादग्नेवैशेषिकम् ॥ समवायः समवायलक्षण वा १०।२।७॥ इहेदमिति यतः कार्यकारणयोः [जड़ेषु निमित्तकारणमग्निराग्नेय- स समवायः ।।७।२।२५।। गुण औष्ण्य पाकजपरिणामकारित्वात्। अर्थपदवाच्यानि द्रव्यगुणकर्माणि जड़भिन्नं चेतन चेतनगुणाश्च ज्ञानप्रय- अर्थ इति द्रव्यगुणकर्मसु ।।८।१।३।। नादयो निमित्तकारण मित्यर्थापत्त रा- पदार्थपदवाच्या द्रव्यगुणकर्म- गतम्] सामान्यविशेषसमवायाः कारणेन कालः ।।५।२।२६।। .... 'द्रव्यगुणकर्मसामान्य- (उत्पादफलपाकादिपरिणामकार- विशेषसमवायानां पदार्थाना.....। त्वात् कालोऽपि निमित्तकारण जडं सत्) आकाशश्च निष्क्रमणप्रवेशनयो- ॥१॥१॥४॥ निमित्तम् । समवायि कारणं द्रव्यमेव कारणमिति द्रव्ये कार्यसमवायात् ॥१०॥२॥१॥ द्रव्यं कार्यम् द्रव्याणि द्रव्यान्तरमारभन्ते ।१।१।१०॥
( iiii ) गुणः कार्यम् द्रव्याणां द्रव्यं कार्य सामान्यम् ।। विभागाश्च ॥११॥२५॥ (कार्याणि, १११।२३॥ तेषां द्रव्याणि समवायिकारणम्) [द्रव्यं कार्य तत्समवायिकारणानि संयोगविभागाश्च कर्मणाम् ।१।१।३०। कारण द्रव्याणि]] संयोगविभागवेगानां कर्म समानम् । संयोगानां द्रव्यम् ॥११॥२७॥ ११॥२०॥ (द्रव्यं कार्य तदसमवायिकारणं (संयोगविभागा: कार्य तदसम- संयोगः) वायिकारणं कर्म) कर्म कार्यम् गुणाश्च गुणान्तरं 'आरभन्ते । द्रव्यगुणकर्मणां द्रव्य कारण ॥१॥११॥ सामान्यम् ।१११११०॥ (कारणस्थगुणा असमवायिकार (कर्म कार्य तत्समवायिकारणं णम्) द्रव्यं तस्य निमित्त कारणमसमवायि- रूपाणी रूपम् ।।१।११२८॥ कारण यथायोग्यमन्यत्) द्रव्यगुणकर्मणा द्रव्यं कारणं सामा- गुरुत्वप्रयत्लसयोगानामुत्क्षेपणम् न्यम् ॥१।१।१८॥ १।१।२६॥ [गुण: कार्य तस्य द्रव्यं समवायि (उत्क्षेपणं कार्य सयोगादीनां कारणं द्रव्यभिन्न निमित्तकारणम्] गुरुत्वादयो यथायोग्य निमित्तमसम द्वित्वप्रभृतयः संख्याः पृथक्त्वसंयोग- वायि वा) विषयसूचिः अस्य ग्रन्थस्य प्रतिपाद्यविषयनिष्कर्षः द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यपदार्थषटकविज्ञानस्य प्रसिद्धधर्मा- पेक्षया धर्मविशेषनामघयत्व मोनसाधनत्वं तद्वचास्यानस्य वेदाधारत्व परमात्मनो वेदप्रवक्त त्वं विभुत्वं जीवात्मनोऽणुत्वमुभयोरध्यात्म- प्रत्यक्षत्वम् , जीवात्मनः शरीरेन्द्रियमनोभ्यो भिन्नवस्तुत्वम् । वेदस्य बुद्धिपूर्व- कत्वाद् धर्मप्रवचनशास्त्रत्वादीश्वरोक्तत्वाच्च प्रमाण्यम्, प्रात्यक्षिकलङ्गिक- शाब्दस्मार्षािणि ज्ञानानि, मोक्षस्याध्यात्मकर्मसाध्यत्वम् । द्रव्यगुणकर्मणां यथायोग्यं पारस्परिक कार्यकारणभावप्रदर्शनम्, असमवायिसमवायिनिमित्त कारणानां लक्षणं विवेचनं च ।। अध्यायानां प्रमुखविषयसारः प्रथमाध्यायस्य- परमात्मपर्यन्तविशिष्टवस्तुविज्ञानस्य धर्मविशेषनामधेयत्वं तद्विवरण च । द्वितीयाध्यायस्य- द्रव्याणां नैजिकोपाधिकगुणलक्षणपरीक्षे शब्दस्य गुणत्वानित्यत्वनिर्णयः । तृतीयाध्यायस्य- शरीरादिभ्यो भिन्न वस्तुत्वसिद्धिर्मनसश्च ज्ञानोपकरणत्व- प्रदर्शनम् । चतुर्थाध्यायस्य- सर्वोपादानस्याव्यक्तस्य स्वीकारः। शरीरस्यकोपादानकत्वं योनिजत्वायो- निजत्वञ्च। पञ्चमाध्यायस्य- कर्मप्रवृत्तेः कारणविवेचनम्, कर्म प्रति समवाय्यसमवायिकारणविचारः । पष्ठाध्यायस्प- वेदस्य बुद्धिपूर्वकत्वम्, कर्मणः फलप्राप्तिविचारः, मोक्षस्योपायोऽध्यात्म- कर्माणि । सप्तमाध्यायस्य- परमात्मनो विभुत्व, जीवात्मनश्चातृत्वम् , शब्दार्थयोः सामयिकसबन्ध प्रतिपादनम् । मात्मनः - - ( इ ) अष्टमाध्यायस्य- आत्मनोऽनन्द्रियिकप्रत्यक्षत्वम्, पृथक्पृथगिन्द्रियाणां पृथकपृथगेकोपादानक- त्वम् । - नवमाध्यायस्य- प्रागभावादीनामभावानां प्रतिपादनम्, प्रात्यक्षिकलैङ्गिकादिज्ञानानां विवरणञ्च दशमाध्यायस्य- सुखदुःखज्ञानानामात्मगुणानां भिन्नभिन्नत्वम, समवाय्यसमवायिनिमित्त- कारणानां विवेचनम् । आह्निकानां विषयाः प्रथमाध्याये- प्रथमाह्निकस्य-धर्मव्याख्यानप्रतिज्ञा, धर्मप्रयोजनञ्च । प्रसिद्धधर्मापेक्षया विशिष्टधर्मस्य तत्त्वज्ञानस्याङ्गीकारस्तत्स्वरूपं तदर्थ वेदप्रामाण्यञ्च । द्रव्यगुणकर्मसामान्यविशेषसमवायानामुद्दे शलक्षणसहितानां द्रव्यगुणकर्मणां पारस्परिककार्यकारणभावप्रकारः । द्वितीयाह्निकस्य-सामान्यविशेषयोर्लक्षणम, परसामान्यं सत्ता तस्याः सर्व- त्रानुवृत्तिधर्मत्वम्, द्रव्यत्वं गुणत्वं कर्मत्वं चापरसामान्यं तस्य तस्य यथाक्रम द्रव्येषु गुणेषु कर्मस्वनुवर्तमानत्वम् । विशेषस्य व्यावृत्तिधर्मत्वम् । द्वितोयाध्याये- प्रथमाह्निकस्य-द्रव्येषु पृथिव्यप्तेजोवाय्वाकाशानां स्वरूपम् । वाय्वाकाश- लक्षणस्य परीक्षण च। द्वितीयाह्निकस्य-पृथिव्यादीना नैजिकलक्षणनिरूपणम्, कालदिशोर्लक्षण- परीक्षणे शब्दो द्रव्यं गुणः कर्म वेति संशयस्तस्य संशयस्य लक्षणं पुनः शब्दस्य परीक्षण तस्य गुणत्वानित्यत्वयो निर्णयश्च । तृतीयाध्याये- प्रथमाह्निकस्य-शरीरेन्द्रियमनोभ्यः साधनेभ्यो भिन्नस्य तत्प्रयोक्तुस्तत्साध्य- विषयभोक्तुर्ज्ञानगुणवत पात्मन: सिद्धिस्तत्सिद्धये हेतुप्रदर्शनं श्च । द्वितीयाह्निकस्य-मनस: सिद्धिस्तस्यैकत्वञ्च । शरीरे जीवात्मनो बोध- कानि विशिष्टलिङ्गानि प्राणादयः, तस्याहमिति शब्देनान्तरिकप्रत्यक्षत्वं, प्रतिशरीरं नानानुभूत्या खल्वात्मनोऽसंख्यत्वम् । चतुर्थाध्याये- प्रथमाह्निकस्य-सर्वोपादानस्याव्यक्तस्य नित्यत्वम्, रूपवद्वस्तुनः प्रत्यक्ष त्वे कारणपरिग्रहः । - .
- . ( उ ) द्वितीयाह्निकस्य-पृथिव्यादीना कार्यविध्यम् । शरीरस्यकोपादानकत्वं यो. निजत्वमयोनिजत्वं च । अयोनिजत्वस्य कारण प्रदर्शनम् । पञ्चमाध्याये- प्रथमाह्निकस्य-भिन्नभिन्नवस्तुषु वतमानस्य विविधकर्मणः प्रवृत्तेः कारणानि । द्वितीयाह्निकस्य-पूर्ववत् कर्मणः प्रवृत्त: कारणानि तथा चेतनस्यात्मनः कर्मकारणानि च कर्म प्रति निष्क्रियाणां द्रव्याणां तथा गुणानां चासमवायि- कारणत्वम्, गुणानां गुणं प्रति द्रव्य प्रत्यप्यसमवायिकारणत्वम्, कर्म प्रति दिशोs- समवायि कारणत्वम्, कालस्य कर्मप्रति निमित्तकारणत्वम् । षष्ठाध्याये- प्रथमाह्निकसय-वेदस्य बुद्धिपूर्वकत्वात् प्रामाण्यप्रदर्शनम्, स्वकृतस्य पुण्य- पापकर्मण: फलभागी स्वयं नान्यः, दुष्टादृष्टभोजनविचारः । भोक्तव्यविषये पात्रापा- अनिर्णयश्च । द्वितीयाह्निकस्य-अदृष्टफलप्रयोजकानि कर्माणि, शुचिव्रतानां यमनियमा- नामाचरणीयत्वम्, रागप्रवृत्त : कारणानि, आत्मकर्मणां योगाभ्यासानां मोक्ष- साधनत्वम् । सप्तमाध्याये- प्रथमाह्निकस्य-रूपादिगुणानां नित्यत्वानित्यत्वे, परमात्मनो महत्परि- मारावयव जीवात्मनो मनसश्चाशुपरिमारणवत्वम्,दिक्कालाकाशाना महत्परिमा- रणवत्वम्। द्वितीयाह्निकस्य-द्रव्यस्थस्य एकत्वसंख्यागुणस्यान्यगुणेभ्यो भिन्नवस्तुत्वं स्पादिभ्यो गुणेभ्यः सख्याया गुणकर्मणोरवर्तमानत्वं द्रव्यवर्तित्व, गुणेषु गुणाभाव- स्य कर्मसु कर्माभावस्य प्रदर्शनम्, सयोगविभागयोः स्वकारण कार्ययोरवर्त मानत्म्, शब्दार्थयोः समवायसम्बन्धस्य संयोगसम्बन्धस्य चास्वीकारस्तथा सामयिक- सम्बन्धस्य सस्थापनम्, समवायसम्बन्धस्य लक्षणम् । अष्टमाध्याये- प्रथमाह्निकस्य-आत्मनो मनसश्चन्द्रियकप्रत्यक्षत्वाभावः । गुणज्ञानेन गुणिन सत.त्समवायिनो द्रव्यस्य ज्ञानम्, कार्यकारणभावरहितेषु द्रव्येषु परस्परानापेक्षिक ज्ञानम् । द्वितीयाह्निकस्य-साङ्केतिकज्ञानस्य बुद्धयपेक्षत्वम्, द्रव्यगुणकर्मणामर्थपद- वाच्यत्वम्, कार्यद्रव्याणामेकोपादानकत्वम्, नासिकादिष्विन्द्रयेषु पृथिव्यादीनामे- कोपादनकत्वम् । - नवमाध्याये- प्रथमाह्निकस्य-प्रागभावप्रध्वंसाभावान्योन्याभावात्यन्ताभावसंसर्गाभावानां विवेचनम्, आत्मप्रत्यक्षस्य (अध्यात्मप्रत्यक्षस्य) योगसमाधिजस्य लक्षणम् । द्वितीयाह्निकसय-आनुमानिकशाब्दस्मार्तस्वाप्नसौषुपतार्षाणा ज्ञानानां वर्णनं विपरीतज्ञानस्य च प्रतिपादनम् । दशमाध्याये- प्रथमालिकस्य-सुखदुःखयोर्भेदः, सुखदुःख्योर्ज्ञानाद् भिन्नत्वम्, सुखदुःखयो- निष्पत्तिकारणं प्रत्यक्षानुमाने । द्वितीयाह्निकस्य कार्यसमवेत द्रव्यं समवायिकारणम्, संयोगात् कार्यहेतु द्रव्यमसमवायिकारणम् कारणकार्थसमवेतत्वाद, गुणोऽसमवायिकारणम्, कारण- समवेतत्वादसमवायिकारणं सयोगः कार्यस्य, अग्निस्तद्गुणश्चौष्णयं विशिष्ट- कारण समवाय्यसयवायिभ्यां भिन्न तन्त्रान्तरप्रसिद्ध निमित्तकारणम् । -.-- + प्रशस्तपादभाष्ये तु प्रयुज्य ते निमित्तकारण शब्दो वैशेषिकदर्शने नो- पलभ्यते ।
अन्यकृतभाष्यालोचनान्वितानि सूत्राणि
यतोऽभ्युदयनिःश्रेयससिद्धिः
स धर्मः ।।१।१२।।
उभयथा गुणाः ॥११॥१३॥
व्यतिरेकात् ॥१३॥२२॥
गुणवंधान्न कर्मणां कर्म
॥११॥२४॥
सदिति लिङ्गाविशेषाद् विशेषा-
भावाच्चैको भावः ॥१२॥१७॥
अद्रव्यवत्त्वेन
द्रव्यम् ॥२॥१॥११॥
तस्मादागमिकम् ।।२।१।१७
संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम्
।।२।१११८॥
प्रत्यक्षप्रवृत्तत्वात्
संज्ञाकर्मणः
॥२॥१॥१९॥
संयोगादभावः कर्मणः
॥२॥१॥२३॥
कार्यान्तराप्रादुर्भावाच शब्द: स्पर्श-
वतामगुणः ।।२।१।२५॥
परिशेषाल्लिङ्गमाकाशस्य
॥२॥१॥२७॥
पुष्पवस्त्रयोः सति सन्निकर्षे गुणा-
न्तराप्रादुर्भावो वस्त्रे गन्धा
भावलिङ्गम् ।।२।२।१॥
अपरस्मिन् परं युगपचिर क्षिप्र-
मिति काललिङ्गानि ॥२।२।६।।
नित्येष्वभावादनित्येषु भावात्
कारणे कालाख्येति ॥२।।२।६
तल्यजातीयेष्वर्थान्तरभूतेषु विशे-
षस्योभयथा दृष्टत्वात् ।।२।२।२२
अन्यदेव हेतुरित्यनपदेशः
॥३॥१७॥
अहमिति शब्दस्य व्यतिरेकान्ना-
गमिकम् ॥३२॥
न तु शरीरविशेषाद् यज्ञदत्तविष्णु-
मित्रयोनि विषयः ॥३॥२॥१७॥
अनित्य इति विशेषतः प्रतिषेध-
भावः ॥४१॥४॥
अविद्या ॥४॥१॥५॥
सत्यपि द्रव्यत्वे महत्त्वे रूपसंस्कारा-
भावाद् वायोरनुपलब्धि: ।।४।१७॥
एतेन गुणत्वे भावे च सर्वेन्द्रियं
ज्ञानं व्याख्यातम् ।।४।।१३॥
नोदनाभिघातात् सयुक्तसयोगाचं
पृथिव्यां कर्म ॥५॥२॥१॥
तद्विशेषेणादृष्टकारितम् ॥५।२।२।।
नोदनापीडनात् संयुक्तसंयोगाच
॥५॥६॥
नित्यं परिमण्डलम ॥७॥१॥२०॥
मविद्या च विद्यालिङ्गम्
॥७।१।२१॥
विभवान्महानाकाशस्तथा चात्मा
॥७॥१॥२२॥
नि.संख्यत्वात् कर्मगुणानां सवैकत्वं
न विद्यते ॥७।२।४॥
भ्रान्त तत् ॥७॥२॥५॥
एकत्वाभावाद् भक्तिस्तु न विद्यते
॥७॥२॥६॥
(1) कार्यकारणयोरेकत्वैकपृथक्त्वा- भावादेकत्वैकपृथक्त्वं विद्यते ॥७॥२॥७॥ एतदनित्ययो ाख्यातम् ॥७॥२८॥ युतसिद्धयभावात् कार्यकारणयोः संयोगविभागो न विद्यते ॥७॥२॥१३ गुरगत्वात् ॥७॥२॥१४॥ सामान्यविशेषेषु सामान्य०।८।११५ गुणकर्मसु गुणकर्माभावाद् गुण- कर्मापेक्षं न विद्यते ।।८।१॥८॥ असमाहितान्त:करणा उपसंहृत- समाधयस्तेषां च ।।१।१३।। तत्समवायात् कर्मगुणेषु ।।६।१११४॥ प्रात्मसमवायादात्मगुणेषु ॥हा॥१५॥ अस्येदं कार्यकारण सम्बन्धश्चा- वयवाद् भवति ।।६।२।२।। सशयनिर्णयान्तराभवश्च ज्ञाना- न्तरत्वे हेतु. ॥१०॥१॥२॥ अभूदित्यपि ॥१०॥१॥ संयुक्तसमवायादग्नेवशेषिकम् ॥१ ।२७॥
प्राक्कथनम् केचिद् भाष्यकारा: "न वयं षट्पदार्थादिवादिनो वैशेषिकादिवत्" (सांख्य० ११२५) इति पदार्थविषये "महद्दीर्घवद्वा ह्रस्वपरिमण्डला- भ्याम्” (वेदान्त० २।२।११) इति परिमाणविषये "कर्मके तत्र दर्शनात्" (मीमांसा० १२१६६) इति शब्दानित्यत्वविषये, एवं सांख्यवेदान्त- मीमांसादर्शनेषु वैशेषिकदर्शनस्थवादानां निर्देशनात् तद्दर्शनेभ्यः प्राक्त- नत्वं वैशेषिकदर्शनस्य मन्यन्ते। मन्येरन् ते तथादृष्टया, अयं वादो वा विवादो वा तु खल्वैतिहासिकेषु तिष्ठतु । परन्तु वैशेषिकादीनि नामानि दर्शनविद्यानामानि यौगिकानि । दर्शनानि तु वेदानामुपाङ्गानि वैदिक- कालादेव मनीषिणां विचारविषयाः । अङ्गान्युपाङ्गानि चाङ्गिभिर्वेदैः सह संसक्तानि यद्वा तेभ्योऽङ्गिभ्यो वेदेभ्यः प्रकटीभूतानि सन्ति । एवं सर्वाण्यपि दर्शनानि समानकालानि तत्र पौर्वापर्यं न युक्तम् . "वेदान्त- विज्ञानसुनिश्चितार्थाः सन्यासयोगाद् यतयः शुद्धसत्त्वाः" (मुण्डको० ३।२।६) वेदान्तनाम्नी योगनाम्नी विद्यामधिकृत्य खलु वर्णनमिदमुप- निषदि युज्यते यतो वेदान्तदर्शनग्रन्थे तूपनिषदो व्याख्यायन्ते प्रमाणी- क्रियन्ते च। तथा "सांख्यं योगं समभ्यस्येत्” (निरु० १४।६) गर्भ सांख्ययोगयोरवलम्बनं विद्यादृष्टया न तु ग्रन्थरूपेण सङ्गच्छते । तत्र प्रन्थेषु तु यथायोग्यं स्वक्षेत्रानुसारिणा विचारप्रदर्शनेनैव भवितव्यं न हि तत्रान्यविद्यावादस्य खण्डनमक्षितम्, अपितु तत्र भिन्नक्षेत्रस्यानु- वादमात्रतया प्रतिपादनं यत्तत्र क्षेत्रे वित्थमस्मदोयक्षेत्रे खल्विदमिति मतिरस्माकं सर्वदर्शनेषु ॥ वैशेषिकदर्शनस्य भाष्यं रावणेनापि व्यधायीति रत्नप्रभादौ प्रचितं तच्च कारणादस्य वैशेषिकस्य यद्वाऽन्यकृतस्य प्राक्तनस्य वैशेषिकस्यति न ज्ञायते तस्यानुपलब्धत्वात्। साम्प्रतं प्रशस्तपादभाष्यमुपलभ्यते यच्च पुरातनत्वपदमधितिष्ठति विदुषां मतौ। स्वामिदयानन्देन सत्यार्थप्रकाशे घोषितं वैशेषिकस्य भाष्यं गौतमेन मुनिना कृतमिति । ऋग्वेदादिभाष्यभूमिकायां तु प्रशस्तपादकृतभाष्यसहितं करणादमुनि- कृतं वैशेषिकशास्त्रमिति सूचितम् । प्रशस्तपादभाष्यं हि गौतममुनि- तु ( ख ) कृतमिति प्रसिद्धिः । भवतु तथा, परन्तु तत्र प्रारम्भिक मङ्गलाचरणम् "प्रणम्य हेतुमोश्वरं मुनिकणादमन्वतः” एतन्नास्मभ्यं रोचते, न ह्य तादृशः खल्वृषीणां शिष्टाचारः क्वचिदन्यत्र दृष्टः, ईश्वरं नमस्कृत्य मुनयेऽपि तद्वन्नमस्कारो नमस्कर्तुरमुनित्वं द्योतयति । तथापि भवतु तत्प्रशस्तपादभाष्यं पुरातनं यद्वा प्रामाणिककल्पं तथापि न हि तत् सूत्रक्रममनुसरद् यद्वा न प्रत्येकसूत्रावलम्बनपरं भाष्यं तत्तु स्वतन्त्र व्याख्यानरूपमस्ति। अस्य दर्शनस्य भारद्वाजीया वृत्तिरप्यासोदिति शङ्करमिश्रेण निजो- पस्कारवृत्ती 'वृत्तिकृतस्तु" इति वचनेन स्थाने स्थाने सङ्केतितम् । अस्तोदं मोक्षशास्त्रं तत्र यथा वेदोपनिषद आगमशास्त्रं श्रवणशास्त्रं योगदर्शनं तु ध्यानाभ्यासरसशास्त्रं निदिध्यासनशास्त्रं पुनर्वैशेषिक- दर्शनं तु खल्वनुमानशास्त्रं मननशास्त्रम्। त्रयाणामुपयुक्तिः प्रदर्शिता च परमात्मसङ्गे । “आगमेनानुमानेन ध्यानाभ्यासरसेन च। विधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥" (योग० ११४८ व्यासः) अभ्यु- दयपूर्वकतया खल्वस्य मोक्षशास्त्रत्वं तस्मादत्र पूर्वमभ्युदयः साध्यः पश्चान्मोक्षः, यतो हि मानवस्य प्रयोजनद्वयम्-अभ्युदयो निःश्रेयसश्च तत्र प्रयोजनद्वये धर्मार्थकाममोक्षाश्चत्वारः पदार्थाः। अर्थकामौ त्वभ्यु- दयस्तस्य मूलं धर्मः, पुनरभ्युदयानन्तरं निःश्रेयसं मोक्षसिद्धिरिति . युक्तम्। पृथिव्यादिपरमात्मपर्यन्तवस्तूनां विज्ञानमत्र धर्मविशेषः स च मनु- स्मृत्यादिधर्मशास्त्रप्रतिपादितवर्णाश्रमधर्मतो मीमांसाशास्त्रविहितकर्म- काण्डाख्यधर्मतश्च विशिष्टो धर्मोऽस्य शास्त्रस्य लक्ष्यं तस्मात्तद्वयाख्यान- करणमाचार्यस्य प्रतिज्ञा तत्परिबृहणार्थः खल्वेष सन्दर्भः । षण्णां दर्शनानां युगलत्रयं तत्र सांख्ययोगयोरेकं मीमांसावेदान्तयो- द्वितीयं, वैशेषिकन्याययोस्तुतीयमिति, तत्र च प्रत्येकस्मिन् युगले पूर्व- पूर्व दर्शनमनीश्वरवादपरमिति धारणा खल्वाधुनिकानां भाष्यकृतामध्य तृणां च, परन्तु सा न सत्या। सांख्यमीमांसयोविषये तु सांख्यदर्शन- भाष्ये तथा दार्शनिकाध्यात्मतत्त्वे ग्रन्थेऽहं विरतरशः प्रतिपादितवान्, वैशेषिकदर्शनविषयेऽत्रोच्यते- वैशेषिकदर्शनस्य न्यायवर्शने साकं समानतन्त्रत्वात् तत्रापि ( ग ) खल्वोश्वरस्य स्वीकरण भवितव्यमेव । न्यायदर्शने खल्वीश्वरः स्वी- क्रियते "ईश्वर: कारगं तत्कारितत्वादहेतुः” (न्याय० ४।१।१६-२१) कर्मफलं कर्मानुरूपमीश्वरः प्रयच्छतीन्याशयः । स च पृथिव्यादिभूतानां प्रवर्तकः-इति वात्स्यायनः । तत्र वैशेषिकदर्शनेऽपीश्वरः सूत्रनिर्देश्यो- ऽस्ति "विभवान्महानाकाशस्तथा चात्मा" ( ७ । १।२२ ) "संज्ञाकर्म स्वस्मद्विशिष्टानां लिङ्गम्' (२।१।१८) अत्र सूत्रयोनिर्दिष्टमस्ति खल्वा- काश इव विभु महान् आत्मा-परमात्मा तथा चागमानामस्मद्विशिष्टानां मानवविशिष्टानामपौरुषेयाणां वचनानां प्रामाण्यमिति कथनादीश्वर- सिद्धिर्भवति तत्स्पष्टीकरणं तु सूत्रभाष्ये द्रष्टव्यम् । प्रशस्तपादभाष्ये- त्वीश्वरोऽनेकत्र स्थलेषु स्वीकृत एव तद्यथा- प्रणम्य हेतुमीश्वरं मुनि कणादमन्वतः । ( प्रशस्तपाद: ) तच्चेश्वरचोदनाभिव्यक्ताद् धर्मादेव । (प्रशस्तपादः) महेश्वरेच्छात्मगुणसंयोगजकर्मभ्यः शरीरेन्द्रियकारणाणुविभा- गेभ्यः । (प्रशस्तपाद:) तत्पुनः प्राणिनां भोगभूतये महेश्वरसिसृक्षानन्तरम् । (प्रशस्तपादः) उपलभ्यमानेषु वैशेषिकभाष्येषु प्रधान प्रशस्तपादभाष्यं तत्रेश्वर- स्य स्वीकारः स्पष्ट एव । अतो न वैशेषिकदर्शनमनीश्वरवादपरम् । अत्र वैशेषिकदर्शने यद्यपि समवाय्यसमवायिनिमित्तभेदात् कारण- त्रयं स्वीक्रियते परन्तु निमित्तनाम्ना निमित्तकारणं नोच्यते किन्तु समवाय्यसमवायिभ्यां भिन्नं कारणं वैशेषिकनाम्ना ह्य च्यते, अग्ने- वैशेषिकम् .... ( १०।२।७ ) तदेव तन्त्रान्तरसमाचारानिमित्तकारण- नामभागिति मतं भाष्यकाराणाम् । प्रशस्तपादभाष्ये तु निमित्तकारणं स्पष्टमुपलभ्यते । तदत्र कारणविषये विवरण तालिका दीयते- कारणप्रक्रियया समवाधिकारणम-क्रियागुणवत् पृथिव्यादि द्रव्यं समवायिकारणं द्रव्यगुण- कर्मणाम्, निष्क्रियमाकाशादि द्रव्यं समवायिकारणं गुणानामेव । द्रव्याणि हि समवायिकारणानि न गुणा न कर्माणि । असमवायिकारणम् --द्रव्यं [संयोगात्] असमवायिकारणं द्रव्यकर्मणाम् निष्क्रियं द्रव्यं द्रव्यगुणयोरसमवायिकारणं भवति न तु कर्मणः। गुणो भवत्यसमवायिकारणं द्रव्यगुण कर्मणाम् । कर्म (कारणसमवायाद, न तु साक्षात्) मसमवायिकारणं द्रव्यगुणयोः । - - (घ ) निमित्तकारणम्-द्रव्य (जनेषु) कालोऽग्निश्च निमित्तकारणं परिणाम- कारित्वात, आकाशश्च निष्क्रमणप्रवेशनयो निमित्तम् । चेतन प्रात्मा परमात्मा । च निमित्तकारण निजज्ञानादिगुणः परिणमयितृत्वात् । गुण:-अग्नेरोष्ण्यं निमित्तकारणम्, मात्मनः परमात्मनश्च चेतनस्य ज्ञानादिगुणो निमित्तकारणम् । कर्म-चेतनकर्मप्रयत्नो निमित्तकारण द्रव्यगुणयोः । वस्तुप्रक्रिया कियागुरणबद् द्रव्यमू-समवायिकारण समवायात् । असमवायिकारण तु सयोगात् । निष्क्रय द्रव्यं त्वसमवायिकारम् । कालोऽग्निश्चेतन आत्मा परमात्मा च द्रव्य निमित्तकारणम् । आकाशोऽपि निष्क्रमप्रवेशदस्य निमित्तम् । गुरण:-असमवायि कारण गुणस्य कारणकार्यसमवायाद, कर्मणश्चापि साधारण्यात, द्रव्यस्यापि भवत्यसमवायिकारणं संयोगः कारणसमवायात् । निमित्तकारणं भवत्यग्नेर्गुण औष्ण्यं चेतनस्यात्मनः परमात्मनश्च ज्ञानादि- गुणो द्रव्यगुणकर्मणाम् । संयोगविभागगुरुत्वद्रवत्ववेगाश्च निमित्तकारणं कदाचिद् भवन्ति (निमित्तान्तरमन्तरेण) इति प्रशस्तपादः । कर्म-असमवायिकारणं द्रव्यस्य कारणसमवायात्, न तु साक्षाद् जडान्तवं- तिनः सयोगस्य तु साक्षादसमवायिकारणं निमिकारणं सर्वत्र प्रयत्नश्चेतनकर्म हि । - भाष्यप्रयोजनम्- अस्मद्भाष्यस्य प्रयोजनं सरलया भाषया कठिनस्यापि सूत्रस्य पारस्परिकसूत्रसङ्गत्या सूत्रानुसारि विषयस्फुटीकरणमथान्यैः कृताना- मन्यथार्थानां प्रतिवादनं च । इति बुद्धिमद्वर्येषु स्वामी ब्रह्ममुनिः परिव्राजको विधामार्तण्डः ८७१९६२ ई० विज्ञप्तिः-ग्रन्थान्तसंलग्नशुद्धाशुद्धपत्रानुसारतः संशोध्याधीयताम् वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् प्रथमोऽध्यायः तत्र प्रथमाह्निकम् । अथातो धर्म व्याख्यास्यामः ॥१॥ (अथ) 'अथ' शब्दोऽधिकारार्थः, अधिकारः प्रस्तावो विषयप्रारम्भः प्रारभ्यते खलु विषयः, सम्प्रति (अतः) हेतो, मानवस्य प्रयोजन- सिद्धिर्भवेदिति हेतोः (धर्मम्) तत्प्रयोजनसाधकं धर्मम् (व्याख्यास्यामः) निरूपयिष्यामः। धर्मार्थकाममोक्षा इति पदार्थचतुष्टयं हि प्रयोजनं मानवस्य, तत्रार्थकामी त्वभ्युदयः, मोक्षः खलु निःश्रेयसम् । तथाकृत्वा हि "यतऽ- भ्युदयनिःश्रेयससिद्धिः स धर्मः" इत्यनन्तरसूत्रम् । किमत्र मनुस्मृत्यादि- धर्मशास्त्रेषु वर्णितो वर्णाश्रमधर्मो यद्वा "अथातो धर्मजिज्ञासा" इत्यधि- कृत्य जैमिनीयमीमांसाशास्त्रे प्रदर्शितः कर्मकाण्डाख्यो धर्मो व्याख्या- स्यते किंवाऽन्यतमः कश्चित् । इति जिज्ञासायामस्तीदं वैशेषिकं दर्शनम्, अत्र तु धर्मविशेषस्तद्भिन्न एव व्याख्यातु युक्तः । उक्तं हि "धर्म- विशेषप्रसूतात् " (४) ॥१॥ स च धर्मः किस्वरूपः किम्फलो वेत्युच्यते- यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः ॥२॥ (यतः) यस्मात् खलु यदनुष्ठानादिति यावत् युदयनिःश्रेयस सिद्धिः) अभ्युदयस्य-अभिमुखीभूतस्योदयस्य भाविन उत्कर्षस्य-इह २ [ वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् परत्र च जन्मनि सांसारिकसुखैश्वयंस्या पुनश्च निःश्रेयसस्य नितान्त- कल्याणस्य मोक्षस्य सिद्धिर्भवेत् (स:-धर्मः) स खलु धर्मो धर्मपदवाच्यः स चात्र व्याख्यातव्यः । न केवलं सांसारिकसुखैश्वयं धर्मो न च मोक्षमार्गचिन्तनमात्रं धर्म: किन्तुभयसहभावो यद्वोभयसम्पत्तिधर्मः । तदत्र वैशिष्ट्यं यद- भ्युदयरूपभूमिकोपरि निःश्रेयसमवतिष्ठतेऽथं च निःश्रेयसस्य छायाया- मभ्युदयः सम्प्रतिष्ठते। धर्ममाश्रित्यार्थकामौ साध्यौ तावेवाभ्युदयः प्रयोजनमेकम्, अपरञ्च धर्ममुपजीव्य.. निःश्रेयसं मोक्षः साध्यः, इति प्रयोजनं द्वितीयम् । एवं प्रयोजनद्वयं साध्यं धर्मतः ॥२॥ किञ्च मनुस्मृत्यादिधर्मशास्त्रेषु प्रतिपादितस्य तथा पूर्वमीमांसायां वणितस्य धर्मस्य व्याख्यानमत्र लक्ष्यं नास्ति ? पुनः किमन्यतमं धर्म व्याख्यातु निजाधिकारमथ च तथाकरणे स्वात्मानं प्रमाणीभूतं मन्यते भवान् ? उच्यते नैवम्, किन्तु- तद्वचनादाम्नायस्य प्रामाण्यम् ॥३॥ ( तद्वचनात् ) 'तत्' शब्देन प्रकृतो धर्मशब्दो गृह्यते । तस्य धर्मस्य वचनं तद्वचनम्, उच्यतेऽस्मिन्निति वचनम् प्रवचनशास्त्रं धर्मप्रवचन- शास्त्रं तस्माद् धर्मप्रवचनशास्त्रत्वात् (आम्नायस्य प्रामाण्यम्) वेदस्य प्रमाणत्वं स्वीकुर्वे । आम्नायो वेदः खलु धर्मप्रवचनशास्त्रम्, उक्तं हि मनुना "वेदोऽखिलो धर्ममूलम् ( मनु० २ । ६) "धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः" (मनु० २।१३) । अथवा- मनुस्मृत्यादिधर्मशास्त्राण्यनुसत्य यद्वा पूर्वमीमांसादर्शनं लक्ष्यी- कृत्य धर्मव्याख्यानं न करोतु, तत्र भवतो धर्मव्याख्याने ततः किं वैशिष्टयमथ च किं लक्ष्यीकृत्य तद्वयाख्यानं क्रियते। अत्रोच्यते- + 'दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय" (वै०६।२।१) तस्मादभ्युदयोऽत्र प्रस्तुतसूत्रेऽभिमुखीभूतं सुखैश्वयं न तु शङ्करमिश्रजयनारायण- कृतोऽयंस्तत्वज्ञानं स्वर्गोवा संगच्छते । * अधिकरणार्थे ल्युट् ।
'३ प्रथमाध्याये प्रथमाह्निकम् ] तद्वचनादाम्नायस्य प्रामाण्यम् ॥३॥ (आम्नायस्य प्रामाण्यम्) मयाऽत्र व्याख्यातव्ये धर्मे वेदस्य प्रमाणत्वं स्वीक्रियते, वेदं लक्ष्यीकृत्य धर्मो व्याख्यास्यते। यतः ( तद्वचनात् ) ईश्वरवचनात्-ईश्वरस्या प्रवचनात् , वेदः खलु ईश्वरप्रवचनम् "प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम्" ( यजु० ३४ । ५७ ) तथा च प्रशस्तपाद: "तच्चेश्वरचोदनाभिव्यक्ताद्धर्मादेव" (प्रशस्तपादः) ।।३।। अस्मिञ्छास्त्रे व्याख्यातव्यो धर्मो न चैहिक इह लोके फलप्रदो मनुस्मृत्यादिधर्मशास्त्रप्रतिपाद्यो वर्णाश्नमधर्मो न चामुष्मिकः परजन्मनि फलप्रदो मीमांसाशास्त्रवर्णितः कर्मकाण्डाख्यः, अपि तूभाभ्यां भिन्नो निःश्रेयसफलो धर्मविशेषस्तत्वज्ञानाख्यः । उच्यते च- धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधाभ्यां तत्त्वज्ञानान्निश्रेयसम् ॥४॥ ( द्रव्यगुणकर्मसामान्यविशेषसमयवायानां पदार्थानाम् ) द्रव्या- दीनां षण्णां पदार्थपदवाच्यानाम् ( साधर्म्यवैधाभ्याम् ) अन्यैः सह समानधर्मत्वेन तुल्यधर्मत्वेन तथा विरुद्धधर्मत्वेनान्योन्यव्यावर्तक- धर्मत्वेन नैजिकगुणवत्त्वेन च (धर्मविशेषप्रसूतात् तत्त्वज्ञानात्) आत्मनि प्रकटीभूतधर्मविशेषात् । तत्त्वज्ञानात् तत्त्वज्ञानाख्यादेव धर्मविशेष- प्रसूतात्, तत्त्वज्ञानमेवात्मनि प्रकटीभूतो धर्मविशेषः, ऐहिकामुष्मक- धर्माभ्यां वर्णाश्रमकर्मकाण्डरूपाभ्यां स्मृतिशास्त्रमीमांसादर्शनप्रति- पादिताभ्यां विशिष्टो यतस्तस्मात् (निःश्रेयसम्) नितान्तं श्रेयसं कल्याणं परमकल्याणं मोक्षो भवतीति शेषः ॥४॥ तत्र षट्सु पदार्थेषु क्रमानुरोधेन द्रव्याण्युदृिश्यन्ते- पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि ॥४॥ (पृथिवी-आप:-तेजः-वायु:-आकाशं काल:-दिक्-आत्मा मन:- t'तत्' इति सर्वनाम प्रसिद्धमिदं ब्रह्मनाम "ओ३म् तत् सत्" : * धर्मविशेषश्चासौ प्रसूतश्च धर्मविशेषप्रसूतः तस्माद् धर्मविशेषप्रसूतात् । प्रसूतशब्दस्य परनिपात आर्षों राजदन्तादिषु परं तस्याकृतिगणत्वात् ।
[वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् इति द्रव्याणि ) 'पृथिवी, आपः, अग्निः, वायुः, आकाशः, काल', दिक- दिशा, आत्मा, मनः' इत्येतानि द्रव्याणि नव सन्ति ॥५॥ " गुणा उच्यन्ते- . रूपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोग- विभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वषो प्रयत्नाश्च गुणाः ॥६॥ (रूपरसगन्धस्पर्शाः) इन्द्रिय व्याणां प्रत्यक्षत्वे रूपगुणस्य प्राधान्य प्रत्यक्षशब्दे साक्षात् 'अक्ष' शब्दस्य नेत्रेन्द्रियवाचित्वात्, नेत्रेन्द्रियग्राह्यो रूपगुणस्तस्मात् प्रथमं रूपगुणउपात्तः, रसस्य च गन्धापेक्षया मुख्यत्वं तस्माद्रसगुणस्ततः पूर्व गृहीतः, भूतेष्वाकाशस्याव्यक्तत्वात्तद्गुणस्यानु- मेयत्वात् परीक्षणीयत्वाच्च सोऽत्र न पठितः (संख्याः) एकादिकाः पराभन्ताः ( परिमाणानि ) इयत्ताकराणि बहुविधानि मानज्ञानानि (पृथक्त्वं संयोगविभागो) स्वतः पृथग्भावः पृथकत्वम्, संयोगः सङ्गतिः, विभागो वियोगः (परत्वापरत्वे) दिक्कालावाश्रित्य परस्परापेक्षाबुद्धि- जन्यौ दूरसमीपलक्षणो व्यवहारौ ( बुद्धयः ) अनेकविधानि ज्ञानानि प्रात्यक्षिकानुमानिकशाब्दादीनि ( सुखदुःखे ) हर्षखेदौ ( इच्छाद्वषो) अभिलाषाभिद्रोही ( प्रयत्नाः-च गुणाः ) वागिन्द्रियशरीरव्यवहाराः । चकारो लोकप्रसिद्धगुणानां समुच्चयार्थस्ते च गुरुत्वद्रवत्वस्नेहसंस्कार- धर्माधर्मशब्दाः, एवं चतुर्विशतिगुणाः । “रूपरसगन्धस्पर्शपरत्वापरत्व- गुरुत्वद्रवत्वस्नेहवेगा मूर्तानां गुणाः, बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्मा- धर्मभावनाशब्दा अमूर्तानां गुणाः, संख्यापरिमाणपृथकत्वसंयोगविभागा उभयेषां गुणाः" इति प्रशस्तपादः ।।६।। कर्माणि खल्वपि प्रदर्श्यन्ते- उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि ॥७॥ (उत्क्षेपणम्) क्रियाया ऊध्र्वप्रवृत्तिः, यथा मुषलोत्थापनम् ( अव- क्षेपणम्) क्रियाया अधःप्रवृत्तिः, यथा मुषलादिकस्याधः पतनम् ( आकुञ्चनम् ) समन्ताद् वेष्टनं समूहनं सम्मूच्छनं पिण्डीभवनम् (प्रसारणम् ) पिण्डस्य राशेर्वा विकीर्णी भवनं विकीर्णोकरणं वा (गमनम्) गतिकर्म नानागतयोऽनुक्ताः सर्वाः क्रियाः खलु गमननाम्ना - ५ - प्रथमाध्याये प्रथमाह्निकम् ] विज्ञयाः, यथा नर्तनस्पन्दनपरिभ्रमणधावनविरेचनाद्याः ( कर्माणि ) कर्मनामानि सन्ति ।।७।। द्रव्यगुणकर्माणि खल्वर्थाः, तदवस्थितास्तत्समवेताः सामान्यविशेष- समवाया अर्थशब्दवाच्यानां द्रव्यगुणकर्मणां तत्त्वज्ञानाय तावत्तेषां साधर्म्यमुच्यते- सदनित्यं द्रव्यवत् कार्य कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः ।।८।। ( द्रव्यगुणकर्मणाम् ) द्रव्यगुणकर्मणां त्रयाणां खलु ( अविशेषः ) समानो धर्मः साधर्म्यम् (सत्) सत्ता वर्तमानत्वं स्वोपलब्धिकाले विद्य- मानत्वम् ( अनित्यम् ) अनित्यत्वं विनाशित्वमन्यत्र नित्यद्रव्येभ्यः ( द्रव्यवत् ) द्रव्याश्रयित्वं समवायिद्रव्यवत्त्वं स्वकारणद्रव्येऽन्वयित्वेन वर्तमानत्वमन्यत्र नित्यद्रव्येभ्यः कार्यद्रव्यं स्वकारणद्रव्यमाश्रयति हि तथा गुणकर्मणी तु द्रव्यवर्तिनी भवत एव द्रव्यमन्तरेण न तयोः स्वरूपो- पलब्धिः (कार्यम्) कार्यत्वं कार्यद्रव्ये हि, कार्यद्रव्यं कार्यगुणः कार्य- कर्म (कारणम्) कारणत्वम् , कार्यद्रव्यस्य द्रव्यं कारणं गुणश्च कारणं गुणान्तरस्य कर्मापि कारणं भवति हि संयोगविभागवेगानाम् (सामान्य- विशेषवत्) सामान्यं च विशेषश्च सामान्यविशेषौ तद्वत्त्वं सामान्य- वत्त्वं विशेषवत्त्वं च, अनुवृत्तिधर्मत्वं सामान्यं व्यावृत्तिधर्मत्वं विशेषः, सामान्यं यथा द्रव्यं सद् गुणः सन् कर्म सत् तदिदं सत्तावत्त्वं सामान्य तथा द्रव्येषु द्रव्यत्वं गुणेषु गुणत्वं कर्मसु कर्मत्वं सामान्यं तद्वत्त्वं जाति- मत्त्वम् । विशेषो यथा द्रव्यं गुणकर्मभ्यां विशिष्टधर्म गुणो द्रव्यकर्मभ्यां विशिष्टधर्मः कर्म द्रव्यगुणाभ्यां विशिष्टधर्मम्, एवं विशेषवत्त्वं द्रव्यगुण- कर्मणां स्वस्वरूपे हि खल्वन्योऽन्यभिन्नधर्मवत्त्वं भवति विशेषः, द्रव्यादिषु गवादयो द्रव्याणि रूपादयो गुणा उत्क्षेपणादीनि कर्माणि व्यक्तयो विशेषाः, तद्वत्त्वं च तेषामपि विशेषवत्त्वमित्युत्प्रेक्ष्यम् ।।८।। द्रव्यगुणयोः साधर्म्य समानधर्मः प्रोच्यते- द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् ॥६॥ (द्रव्यगुणयोः) द्रव्याणां गुणानां च (सजातीयारम्भकत्वम्) समान- जातीयानामुत्पादकत्वम् (साधर्म्यम् ) समानधर्मवत्त्वमस्ति ।।६।। तदेवोच्यते- तथा - - [ वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् ॥१०॥ ( द्रव्याणि द्रव्यान्तरम् ) द्रव्याणि । खलु स्वसमानमन्यसत्ताक द्रव्यमेव (च) अथ च (गुणाः-गुणान्तरम् ) गुणा अपरगुणम् । ( आरभन्ते ) उत्पादयन्ति ॥१०॥ किन्तु कर्म कर्मसाध्यं न विद्यते ॥११॥ (कर्म ) कर्म खलु ( कर्मसाध्यम् ) कर्म [अस्ति] साध्यं यस्य तथा- भूतम् ( न विद्यते ) न लभ्यते, तस्य क्षणिकत्वात् तस्य तथास्वभावात् कर्मसाध्यत्वाभावात् कर्मसाध्यसामर्थ्याभावात् ॥११॥ अथ वैधयें, द्रव्यस्य गुणकर्मभ्यां वैधयं प्रदर्श्यते- न द्रव्यं कार्य कारणं च वति ।।१२।। (द्रव्यम् ) द्रव्यपदवाच्यं वस्तु ( कार्य कारणं च न वधति ) स्वकार्य स्वान्वयि द्रव्यं कार्यभूतं तथानुगतगुणं कार्यमेवं कारणं च स्वकारणं समवायिकारणद्रव्यमथासमवायिकारणं संयोगादिगुणं च न हन्ति ।।१२।। गुणः कीदृशा इत्यत्रोच्यते- उभयथा गुणाः ॥१३।। (गुणाः-उभयथा) गुणाः खलुभयथाप्रकाराः, ते कार्य कारणं घ्नन्ति नापि घ्नन्ति। सूत्रशैल्याऽयमर्थोऽभिव्यज्यते सूत्रस्यार्थस्वारस्यमत्र- वास्ति । उभयथा शब्देन नकारस्वीकारावेव ग्रहीतु युज्येते, यदि तूभ- यथा शब्देन कार्यकारणयोग्रहणमभोष्टं स्यात् तदा तु “न तथा गुणा. इति सूत्रेण भवितव्यम् । ते गुणास्तु कार्यकारणवधका एवेत्यर्थः समा- पद्येतानायासेन । यद्यप्युपस्कारविवृत्तिव्याख्ययोरेषोऽर्थो विहितः परन्तु न स सूत्रशैल्या लभ्यते । चन्द्रकान्तभाष्यं तु सूत्रानुसारि प्रति- भाति 'वधति च नापि वधति' उभयथा प्रवृत्तिगुणानाम् । यथा हरिद्राचूर्णयोः पीतत्वश्वेतत्वे उभे कारणभूते तत्कार्येण लोहितेन रूपेण गुणेन हन्येते, तन्तूनां रूपं वस्त्रगतरूपस्य कारणं तन्न वस्त्रगतेन कार्येण अन्त्यावयविद्रव्याणि विभुद्रव्याणि च विहाय न ह्येतानि स्वसदृश- द्रव्याणि खलूत्पादयन्ति । * अन्त्यावयविगुणान् द्वित्वद्विपृथक्त्वपरत्वापरत्वादींश्च गुणान् परित्यज्य ।
प्रथमाध्याये प्रथमाह्निकम् ] रूपेण हन्यते, आद्य शब्द: कारणभूतः स्वानन्तरं कार्य न हन्ति, संयो- गाज्जायमानः शब्दः स्वकारणस्य संयोगस्य स्थितत्वान्नश्यति हि ॥१३॥ कर्म पुनः कीदृशमिति कथ्यते- कार्यविरोधि कर्म ॥१४॥ ( कार्यविरोधि कर्म ) कार्य विरोधि यस्य तथाभूतं कर्म, कर्म खलु स्वकार्येण विरुध्यते विरम्यते विनश्यते, यद्वा कार्यस्य विरोधि कर्म कार्यकाले नावतिष्ठते । कर्म खलु न कारणवधकं नापि कार्यवधकं किन्तु तत्तु वध्यमेवास्ति संयोगादिना स्वकार्येण कार्यद्वारेण कर्मणो वध्यत्वात्, अथ च पुनः प्रवृत्तं कर्म पूर्वोत्पादितं संयोगं कार्य विरुणद्धि विनाशय- तीति द्रव्यगुणाभ्यां वैधयं कर्मणः ॥१४॥ द्रव्यगुणकर्मणां साधर्म्यमुक्त्वाऽधुना क्रमेण तेषां लक्षणमर्थात् परस्परतो वैधयं प्रदर्शयति तत्र तावद् द्रव्यम्- क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम् ॥१५॥ (क्रियागुणवत्) क्रिया च गुणश्च यस्य यस्मिन् वा विद्यते तत् क्रियागुणवत् , क्रिया खलूत्क्षेपणादि कर्म गुणश्च रूपादिः । क्रियागुणा- वुभौ यद्वा द्वयोरेको गुणो यस्य यस्मिन् वा स्यात् तद् द्रव्यं भवतीति च वक्तु शक्यते न तु केवला क्रिया विद्यते यस्य यस्मिन् वा न हि गुणमन्तेरण क्वचित् क्रियाऽवतिष्ठते न च गुणहोनानि द्रव्याणि भवन्ति क्रियामन्तरेण गुणोऽवस्थातु शक्यते निष्क्रियाणि खल्वनवयवानि जडानि द्रव्याणि दिक्कालाकाशास्तु भवन्ति हि तस्मात् तेषां गुणवत्त्वेन द्रव्यसंज्ञा । तथाऽनवयव आत्मा द्रव्यं तस्य क्रियावत्त्वं क्रियास्वामित्वात् क्रियाकरणे समर्थत्वात् क्रिया यस्यास्तीति हेतोः क्रियावान् खल्वात्मा- गुणास्तु तत्र ज्ञानादयः सन्ति । अथ क्रिया यस्मिन् विद्यते तद् द्रव्य- मित्यपि सावयवेषु जडेषु पृथिव्यादिषु द्रव्येषु तु क्रिया तदवयवेषु व्याप्रियते । अथ चानवयवेषु दिक्कालाकाशेषु व्यापिद्रव्येषु खल्वपि क्रिया प्रवर्तते तेषामनिवार्याधारत्वात् तत्रापि तथाभूतक्रियावत्त्वोत्प्रेक्षणे न क्षति:* ( समवायिकारणम् ) कार्यद्रव्यं गुणं कर्म च स्वस्मिन् समवेतु * उक्तं हि सूत्रकृता "गुणदिग्व्याख्याता" ( वै० ५।२ । २५ ) पूर्वस्यामुदितः पश्चिमायामस्तंगतः, पूर्वस्याः आगतः पश्चिमायां गतः, कर्मणो दिगसमवायिकारणमिति दिग्विषये । “कारणेन कालः" (वै० ५।२।२६) दिने - [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् समावेशितु शीलं यस्य तत् समवायिकारणं कार्यद्रव्योत्पादशक्तिमत्, जाते कार्यद्रव्ये तदन्तरे वर्तमान कार्यनाशेऽप्यनश्वरं सत्, गुणकर्मभ्यां च लक्षितसत्ताकं गुणकर्मणोरविनाभावाधारः (इति द्रव्यलक्षणम्) इत्थं द्रव्यलक्षणं द्रव्यमस्तीति लक्षितव्यम् । गुणकर्मभ्यां वैधर्म्यमेतद् द्रव्यस्य, गुणा न गुणवन्तो न च कर्मवन्तः, कर्माणि न गुणवन्ति न कर्मवन्ति । न च गुणाः कर्माणि वा समवायिकारणानि भवन्ति, असमवायिकारणानि तु भवन्ति स्वकार्यस्य, एवं सामान्यादिष्वपि ज्ञातव्यम् ॥१५॥ - अथ गुणस्य लक्षणं यद्वा गुणस्य द्रव्यकर्मभ्यां वैधर्म्यमुच्यते- द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् ॥१६॥ (द्रव्याश्रयी) द्रव्यमाश्रयतीति तच्छीलो द्रव्यनिष्ठ इत्यर्थः, गुणो न द्रव्यवत् स्वतन्त्रसत्ताकः, इति गुणस्य कारणद्रव्यतो वैधर्म्यम् (अगुण- वान् ) न गुणो यस्मिन् स गुणरहितः, गुणे न गुणो भवतीति कार्यद्रव्यतो वैधयं कार्यद्रव्यं कारणद्रव्यमाश्रयत् सद् गुणवद् भवति हि ( संयोग- विभागेषु-अकारणम्-अनपेक्षः) संयोगविभागेषु कारणं न भवति, संयोग- विभागान् विहायान्येषु गुणेषु तु गुण: कारणं भवति हि, उक्तं यथा "गुणा गुणान्तारमरभन्ते" संयोगविभागेषु नैष नियमः, संयोगजः संयोगो विभागजश्च विभागस्तु भवति हि । न च गुणः संयोगविभागान- पेक्षते तैः सह न सम्बध्यते गुणः, कर्म तु संयोगविभागाननपेक्षमाणं सदपि तेषां कारणं भवतीति कर्मतो वैधयं गुणस्य । कार्यद्रव्यं स्वकारणद्रव्याणां संयोगमपेक्षते यावत् कार्यद्रव्यं तावत् कारणद्रव्याणां संयोगेन भवितव्यमेव, यद्वा यावत् कारणद्रव्याणां संयोगस्तावदेव कार्य- द्रव्यस्य स्थितिः । कारणद्रव्याणि निजस्थितौ निजस्वरूपे वा विभागम- पेक्षन्ते हि । संयोगविभागान् विहाय तु खल्वन्यान् गुणान् गुणा अपेक्षे- रन्निति सम्भवः, यथारूपं स्पर्शमपेक्षते यत्र रूपं तत्र स्पर्शनापि भवि- तव्यमेवेत्येवं गुणलक्षणं भवति ।।१६।। जातो रात्री जातो वसन्ते पुष्प्यन्ते वर्षर्तावुत्पद्यन्ते काले नश्यन्ते, कालः कर्मणो निमित्तकारणम् । इति कालविषये "निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम्" ( वै० २।१ । २० ) निष्क्रमणप्रवेशनक्रियाया बाकाशः, इत्याकाशविषये। आधार 8 प्रथमाध्याये प्रथमाह्निकम् ] अधुना कर्मणो लक्षणं किंवा तस्य द्रव्यगुणाभ्यां वैधर्म्यमुच्यते- एकद्रव्यगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम् ॥१७॥ (एकद्रव्यम्) एक द्रव्यं यस्याश्रय इति तदेकद्रव्यमेकद्रव्यवर्ति, एकैकं द्रव्यमाश्रयत् सदेकै कर्म भवति न खल्वनेकद्रव्यवति भवत्येक कर्म, अवयविद्रव्ये यद्वाऽवयवद्रव्ये खल्वेकैकश एव कर्म भवति, तथा परमाणुष्वाद्यं कर्माप्येकैकशोऽनुमेयम् । इति कार्यद्रव्यतो वैधर्म्यमस्ति कार्यद्रव्यमनेककारणद्रव्याश्रित भवति, तथा गुणतोऽप्यांशिकं वैधयं यतो गुण एकद्रव्याश्रितोऽवयविद्रव्याश्रितो रूपादिरनेकद्रव्याश्रितो ऽनेकावयवाश्रितश्च संयोगादिद्वित्वादिश्च गुणो भवति (अगुणम्) न गुणो यस्मिस्तथा कर्माविद्यमानगुणम्, अभिव्यक्तानभिव्यक्ताभिव्यज्यमान- गुणसम्पर्को यस्मिन् नास्ति तत्खलु कर्म, इति द्रव्यतो वैधयं विज्ञेयं द्रव्येष्वेवानभिव्यक्ताभिव्यक्ताभिव्यज्यमानगुणयोगो भवति परमाणु- द्रव्येष्वनभिव्यक्त गुणत्वमुत्पन्नेऽवयविद्रव्ये ऽभिव्यक्तगुणभाव उत्पद्यमाने चाभिव्यज्यमानगुणवत्ता भवति हि ( संयोगविभागेषु-अनपेक्षकारणाम् ) संयोगेषु विभागेषु चानपेक्षं सत् कारणं भवति । संयोगानां विभागानां च कारणं कर्म, कर्मजन्याः संयोगविभागास्तत्र कारणं सदपि भवत्यन- पेक्षं तस्यास्थिरत्वात्, इति द्रव्यतो गुणतश्च वैधर्म्यमस्ति द्रव्येण गुणेन च स्वकार्यमपेक्षमाणेन स्थातव्यम् । तथा तस्य संयोगा. विभागाश्च कार्याणीत्यपि वैधर्म्य ताभ्यामिति कर्मलक्षणं विज्ञेयम् ॥१७॥ द्रव्यगुणकर्मणां लक्षण यद्वा तेषामन्योन्यतो वैधर्म्यमुक्त्वाऽधुना तेषामेव त्रयाणां कार्यत्वे कारणसाधर्म्यमाह- द्र व्यगुणकर्मणां द्रव्यं कारण सामान्यम् ।।१८।। (द्रव्यगुणकर्मणां कारणं द्रव्यम् ) द्रव्यगुणकर्मणां त्रयाणां कारणं द्रव्ययमिति ( सामान्यम् ) तेषां कार्यत्वापन्नानां साधर्म्यमस्ति; यथा कार्यद्रव्याणि कारणद्रव्यमाश्रयन्ति तथा गुणाः कर्माणि चापि तदाश्र- यन्ति तेषां त्रयाणां तस्य समवायिकारणत्वात् त्रयाणामपि द्रव्यं समवा- यिकारणमिति विवेकः ।।१८।। गुणश्च खलु- [ वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् उभयथा गुरगः ॥१६॥ ( गुणः ) द्रव्यगुणकर्मणां गुणः कारणं सामान्यम् ( उभयथा ) उभयथा दृश्यते, कश्चिद् गुणो भवति कारणं सामान्यं कश्चन गुणो नापि भवति । तत्र यथा-अवयवानां संयोगो गुणोऽवय विद्रव्यस्यासम- वायिकारणं भवति परन्तु रूपादिगुणो न कारणं भवति द्रव्यस्य । अवयवानां रूपादिगुणोऽवयविद्रव्यस्थरूपादिगुणस्य कारणं भवति परन्तु संख्यादिगुणोऽवयवगतोऽवयविसंख्यागुणस्य न कारणं भवति । अव- क्षेपणादिकर्मणो कारणं गुरुत्वादिगुणो भवति परन्तु रूपादिगुणस्तत्र न कारणम् , तदत्र प्रसङ्गे गुणोऽसमवायिकारणं भवति । शङ्करमिश्र- जयनारायणाभ्यां सूत्रमन्यथा व्याख्यातम् 'उभयथा' स्थाने 'तथा' शब्दमाश्रित्य ॥१६॥ कर्मविषये खलूच्यते- संयोगविभागवेगानां कर्म समानम् ।।२०।। (संयोगविभागवेगानाम्) विभक्तानां पृथग्भूतानां सहभावः संयोगः, संयुक्तानां पृथग्भावो विभागः, स्वभावप्रतिबन्धकबलं वेगः, एषाम् (कर्म समानम् ) कर्म खलु समानं कारणं भवति तच्च तेषां साधर्म्यम् । कर्म हि संयोग विभागं वेगं जनयति । संयोगविभागौ तु खल्वनेकद्रव्येषु भवतो यथा पटोत्पत्तये तन्तुषु संयोगं विदारणाय विभागं जनयति कर्म परन्तु वेगमेकस्मिन्नेव द्रव्ये जनयति, यथा शरे। पुनः ‘समानम्' इति शब्दोपादानं पूर्वसूत्रगतगुणविषयकसामान्यस्योभयथात्वं विकल्पं वार- यितुम् ।।२०॥ पुनश्च- न द्रव्याणां कर्म ॥२१॥ व्यतिरेकात् ॥२२॥ अनयोः सूत्रयोरेकवाक्यताऽस्ति यद्वा सूत्रमेकं स्याञ्चन्द्रकान्तभाष्या- नुसारि- • एष चन्द्रकान्तभाष्यपाठः समीचीन: अन्यत्रत्यस्तु 'तथा गुणः' यद्येवं स्यात्, तर्हि पूर्व सूत्रं "द्रव्यगुणकर्मणां द्रव्यगुणो कारणं सामान्यम्" इत्येवं स्यात्। * असमवायिकारम् ।
प्रथमाध्याये प्रथमाह्निकम् । ११ (द्रव्याणां कर्म न) द्रव्याणां कर्म कारणमसमवायि वा निमित्तं वा न भवति । संयोगविभागवेगानां गुणानां तु कर्म कारणं भवति यद्यपि तन्तुषु कर्मणा पटद्रव्यस्योत्पत्तिर्भवति परन्तु तन्तुषु वर्तमानं तत् कर्म पटद्रव्यस्य कारणं दर्शनशास्त्रे न स्वीक्रियते लोके तथा दृश्यते कर्मकारणमत एवाशक्यते हि तस्य कारणत्वं तस्मात् तदाशंकानिवृ- त्तयेऽत्रोच्यते कर्म न द्रव्याणां कारणम् । कुतः (व्यतिरेकात्) अनन्व- यात्-व्यतिरिक्तत्वात् कर्मणः, व्यतिरिक्तं हि कर्म पटात्, कर्मणा तन्तुषु संयोगो जायते संयोगादनन्तरं पटद्रव्यम्, सयोगस्य कारणं कर्म, सयोगं प्रति कर्मण: कारणत्वं चरितार्थं पुनः संयोगं व्यतिरिच्य व्यतिक्रम्य व्यवधाय कर्मणः कारणत्वं पटं प्रति न यौक्तिकम् । भवतु पटस्य कारणं कर्म परम्परया न तु साक्षादिति सूत्रकारस्य लक्ष्यम् । उक्तं हि स्वयं सूत्रकारेण दशमाध्याये कर्मणोऽसमवायिकारणत्वं परम्परया "कारणे समवायात् कर्माणि" (वै० १०।२।३) 'व्यतिरेकात्' पदमन्यभाष्य- कारैरन्यथाव्याख्यातम् । तत्र व्यतिरेकशब्दस्य निवर्तनमभावश्चार्थो- विहितो यत् "कर्मणः संयोगो जायते संयोगाद् द्रव्यमुत्पद्यते निवृत्ते कर्मणि यद्वा द्रव्योत्पत्तिसमये कर्मणोऽभावस्तस्मान्न कर्मकारणमिति व्याख्यातम् ।" कर्मणो निवर्तनमभावो वा केवलमुत्पन्ने द्रव्ये हि न किन्तु सयोगे जातेऽपि तु कर्मणो निवर्तनमभावश्च भवति तस्माद् व्यति- रेकशब्दस्यात्रार्थो निवर्तनभावश्च नेष्यते ॥२१-२२।। कारणसाधर्म्यमुक्त्वा कार्यसाधर्म्यमाह- द्रव्याणां द्रव्यं कार्य सामान्यं ॥२३॥ (द्रव्याणां द्रव्यं कार्यम्) द्रव्याणामिति बहुवचनमनेकार्थम्, द्वयोर- वयवयोर्द्रव्ययोर्बहूनां वाऽवयवानां द्रव्याणां कार्यमेक द्रव्यं यथा द्वयो- रर्धगोलयोर्गोलः कलशः कन्दुकं वा बहूनां तन्तूनामेक: पटोऽवयविद्रव्यं भवति । तत् (सामान्यम्) एकद्रव्योत्पादकत्वं द्रव्याणां साधर्म्य- मस्ति ॥२३॥ गुणानां गुणः कार्य सामान्यं त्वग्रे वक्ष्यते विस्तरेण संक्षिप्तविषय- त्वात् कर्मणां कर्मसामान्यविषये पूर्वमुच्यते- गुणवैधान्न कर्मणां कर्म ॥२४॥ पुरुषप्रयत्न कर्म विहाय, पुरुषप्रयत्नस्तु भवति निमित्तकारणम् ।
१२ [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् ( कर्मणां कर्म न ) कर्मणां कर्म सामान्य कार्य न भवति (गुण- वैधात् ) गुणशब्दोऽत्र स्वभाववाची स्वभाववैधात् । अस्थिरत्वं क्षरिणकत्वं वा कर्मणां स्वभावः, अस्थिराणां क्षणिकानां न मिश्रीभावः कार्यात्मना सम्भवतीति स्वभावधर्म्यम् । द्रव्याणां गुणानां मिश्री- भावस्तु भवति कार्यात्मना तेषां स्थिरत्वात् स्थिरधर्मवत्त्वात् स्थिर- स्वभाववत्त्वाता पूर्व तु "कर्म कर्मसाध्यं न विद्यते" इति कारणसामा- न्येनोक्तम्, अत्र खलु कार्यसामान्येनोच्यते यदनेकेषां कर्मणामेकं कार्य- सामान्यमपि न भवतीत्यपौनरुक्तयम् ॥२४॥ कार्यसामान्यप्रकरणे द्रव्याणां सामान्य कार्य प्रकृत तत्रैवेदमुच्यते- द्वित्वप्रभृतयः संख्याः पृथक्त्वसंयोगविभागाश्च ॥२५॥ (द्वित्वप्रभृतयः संख्याः) द्वित्वत्रित्वपरान्तिः सख्यात्मको गुणः (पृथक्त्वसंयोगविभागाः-च ) तथा पृथक्त्वं संयोगो विभागाश्च गुणः सामान्य कार्य द्रव्याणां भवति ॥२५।। किं द्वित्वादिवत् कर्मापि द्रव्याणां सामान्य कार्य भवति न वेत्य- त्रोच्यते- असमवायात् सामान्यकार्य कर्म न विद्यते ।।२६।। ( सामान्यकार्य कर्म न विद्यते) द्रव्ययोर्द्रव्याणां वा सामान्यकार्य कर्म नोपलभ्यते न सम्भवति ( असमवायात् ) द्वयोर्द्रव्ययोर्बहुषु द्रव्येषु कर्मणोऽसमवायात् । न हि द्वयोर्द्रव्ययोर्बहुषु द्रव्येषु वैक कर्म समवायेन निस्तिष्ठति । एकस्य कर्मणः खल्वेकमेव द्रव्यं समवायिकारणं भवति । उक्त हि कर्मलक्षणे “एकद्रव्यम..." (वै० १ । १ । १७) एकद्रव्याश्रयि कर्म ॥२६॥ कर्मणस्तु द्रव्यारम्भकत्वं न भवति गुणस्य द्रव्यारम्भकत्वं भवति न वेति कथ्यते- - 'गुणवैधात्' "द्रव्यगुणयोः सजातीयारम्भकत्वं साधयं कर्म कर्मसाध्यं न विद्यते इत्येवात्र सूत्रेणानूद्यते”. शङ्करमिश्रः । पूर्वोक्तमेव भिन्नक्रमे सूत्रे हेतुत्वे- नोपादानं न सम्यक् । "गुणकर्मणोर्द्रव्यसमवेतत्वं गुणसाधर्म्य परन्तु कर्मणि गुणतो वैधयं कर्मत्व कर्मसज्ञा" ( जयनारायणः ) एतदपि न समीचीनं तहि नाममात्रतो वैधयं भवति । "कारणगुणा कार्यगुणमारभन्ते तथा नाव- यवकर्मायवविनि कारभते इति गुणतो वैधर्म्यम् इति चन्द्रकान्तः । एवं द्रव्यतोऽपि वैषम्यं वक्तव्यं स्यात् एतदपि न युक्तम् । हरिप्रसाद वृत्तौ न विशेषः ।
प्रथमाध्याये प्रथमाह्निकम् ] संयोगानां द्रव्यं ॥२७॥ ( संयोगानां द्रव्यम् ) बहूनां संयोगानां द्रव्यमेकौं सामान्यकार्य भवति, यथा-तन्तुगतसंयोगानां पट: कार्यमेकं द्रव्यं सामान्यं भवति पार्थिवाद्यणुसंयोगानां पृथिव्यादिस्थूलं द्रव्यं सामान्य कार्य भवति ॥२७॥ केषाश्चिद्गुणानां गुणः सामान्य कार्य भवतीति दशर्यत्याचार्य:- रूपाणां रूपम् ॥२८॥ (रूपाणां रूपम्) अवयवद्रव्यस्थरूपाणां नीललोहितादीनामवयवि- स्थरूपं तथाभूतं सामान्य कार्य भवति । "द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम्, द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरमारभन्ते" इति पूर्वोक्तत्वादत्र रूपाणां रूपं कथने खलूभयत्र रूपरसगन्धस्पर्शस्नेह- सांसिद्धिकद्रवत्वादीनामपि ग्रहणं कर्तव्यम् ॥२८॥ गुणानां कर्मापि सामान्यं कायं भवति- गुरुत्वप्रयत्नययोगानामुत्क्षेपणम ॥२६॥ ( गुरुत्वप्रयत्नसंयोगानाम् ) गुरुत्ववतो द्रव्यस्य गुरुत्वम्, आत्म- प्रयत्नः, गुरुत्ववता लोष्ठादिना सह हस्तसंयोगः, इत्येषां त्रयाणाम् ( उत्क्षेपणम् ) ऊर्ध्वं क्षेपणं लोष्ठगतं कर्म कार्य सामान्यं भवति । अत्रात्मप्रयत्नो निमित्तकारणं गुरुत्ववद् द्रव्यं लोष्ठादि समवायिकारणं लोष्ठादिकस्य गुरुत्वं लोष्ठादिना सह हस्तसंयोगश्चासमवायिकारणम्, तथावक्षेपणे च गुरुत्वं हस्तशैथिल्यरूपः प्रयत्नश्चासमवायिकारणमुत्- प्रक्ष्यम् ॥२६॥ कर्मणामपि सामान्यं कार्य काचिद् गुणव्यक्तिर्भवतीत्युच्यते- संयोगविभागाश्च कर्मणाम् ॥३०॥ ( कर्मणां संयोगविभागाः-च ) कर्मणां द्वयोः कर्मणोर्बहूनां वा कर्मणां संयोगो विभागश्चकाराद् वेगश्च गुणः कार्यसामान्यं भवति ॥३०॥ परन्तु द्रव्यं कर्म वा कर्मणः सामान्य कार्य न भवति, यता-
१४
[ वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम्
कारण सामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम् ॥३१॥
( कारणसामान्ये ) कारणसामान्ये प्रकरणे ( द्रव्यकर्मणां कर्म-
अकारणम्-उक्तम् ) द्रव्यस्य कर्मणश्च कर्म सामान्यं कारण न भवति,
उक्तं यथा “न द्रव्याणां कर्म, न कर्म कर्मसाध्यं विद्यते''- "गुणवैधा
न कर्मणां कर्म" इत्यपि चोक्तमेव ॥३१॥
प्रथमाध्याये प्रथमाह्निकं समाप्तम्
-
प्रथमाध्याये द्वितीयाह्निकम्
पूर्वाह्निकस्यान्तिमे भागे कारणसामान्यं कायसामान्यं च प्रदर्शितम् ।
तदेतदुभयविध सामान्य कार्यकारणयोः सम्बन्धमन्तरेण न स्यात् , स
एष कार्यकारणसम्बन्धोऽत्र प्रथमं दर्शयत्याचार्य:-
कारणाभावात् कार्याभावः ॥१॥
(कारणाभावात्) सर्वविधस्य कारणस्य समवाय्यसमवायिनिमित्ता-
ख्यस्याभावादविद्यमानत्वात् ( कार्याभावः ) कार्यस्याभावः कार्य न
निष्पद्यतेऽर्थात् कार्यभावः कार्यनिष्पत्तिः कारणभावाद् भवति नान्य-
थेति स्थिरनियमः । एदुःखाभावोऽपवर्गो भवतु तत्कारणस्य जन्मनोऽ-
विवेकस्य मिथ्याज्ञानस्य वाऽभावादित्युत्प्रेक्ष्यम् ॥१॥
परन्तु-
न तु कार्याभावात् कारणाभावः ॥२॥
(न तु) न खलु (कार्याभावात्) कार्यस्याभावाद् विद्यमानत्वादनु-
त्पादात् (कारणाभावः) कारणस्याभावोऽविद्यमानत्वं भवति । कार्य-
मन्तरेणापि कारणं स्वरूपेऽवतिष्ठते हि । बीजं कारणं यथाऽङ्कुरात्पूर्व
स्वरूपेऽवतिष्ठते । कार्य
खलु कारणं नातिकामति किन्तु कार्यमतिक्रम्य
कार्यमनुत्पाद्यापि कारणमवतिष्ठते। कदाचित् कार्याभावात् कारणा-
भावो न मन्तव्यः,
कायं
तु
समयं प्राप्योत्पत्स्यते हि कारणात् । एवं
कदाचित् सामयिकदुःखाभावे दुःखकारणस्यापि सर्वथाऽस्त्यभाव इति
न मन्तव्यं न हि कृतार्थता सा, नितान्तदुःखाभावः कृतार्थता सा तु
नितान्तकारणाभावे नान्यथा ॥२॥
- प्रथमाध्याये द्वितीयाह्निकम् ] द्रव्यगुणकर्मणां त्रयाणां षड्भ्यः पदार्थभ्यो विभक्तानामर्थपद- वाच्यानामुद्दशलक्षणे कार्यकारणभावं चोक्त्वा क्रमप्राप्ती सामान्य- विशेषौ लक्षयत्याचार्य:- सामान्यं विशेष इति बुद्धयपेक्षम्.॥३॥ ( सामान्यं विशेष:-इति ) सामान्यं यश्च विशेषः, इत्येतद् वृत्तम् (बुद्धयपेक्षम्) बुद्धेरपेक्षा यस्मिन् , असमानविभक्तिर्बहुव्रीहिः, यद्वाऽ- पेक्षा परस्परापेक्षणकारिणी बुद्धिर्यस्मिन्, विशेषणस्य परनिपात आर्षो राजदन्तादिषु परमित्याश्रयेण वा, अथवा बुद्धिमपेक्षते-इति बुद्धयपेक्षम्, न त्वन्द्रियिकमर्थमपेक्षते-इत्यर्थः, एवमुपपदतत्पुरुषसमासः । कश्चिाप भवतु समासः, सामान्यं तथा विशेषश्च नेन्द्रियगोचरतामापयेते द्रव्यवत्, किन्तु बुद्धया हि तयोः स्वरूपमपक्ष्यते विवेच्यते ज्ञायते वा ॥३॥ तद् बुद्धयपेक्षं कथमिति स्वयं प्रदर्शयत्याचार्य भावोऽनुवृत्तेरेव हेतुत्वात् सामान्यमेव ॥४॥ (अनुवृत्तेः-एव हेतुत्वात्) अनुवृत्तिबुद्धेर्यद्वाऽनुवृत्तबुद्धेरेव हेतुत्वात् (भावः सामान्यम्-एव) भावः सत्ता सामान्यमेव द्रव्यं सत्, गुणः सन्, कर्म सत्, इति सत्तायाः सर्वत्र द्रव्ये गुणे कर्मणि खल्वनुवर्तमान- त्वात् । अत्रार्थादापद्यते यत् “व्यावृत्तेरेव हेतुत्वाद् विशेष एव, व्यावृत्ति- बुद्धेर्यद्वा व्यावृत्तबुद्धरेव हेतुत्वाद् विशेष एव । तथा च यस्मिन् खलु कदाचिदनुवृत्तिबुद्धिः कदाचिद् व्यावृत्तिबुद्धिस्तस्मिन् सामान्यं विशेष- श्चेति द्वय भवति स्वरूपं स्वरूपज्ञानं वा, यथा व्यक्तिषु खलु द्रव्येषु द्रव्यत्वं गुणेषु गुणत्वं कर्मसु कर्मत्वं सामान्यम् । अथ भावापेक्षया यद्वा महासत्तापेक्षया तु विशेषश्चापि भवत्युभयथा। पृथिव्यादिषु व्यक्तिषु विशेषेषु द्रव्यत्वं सामान्यं पृथिव्यादयस्तु व्यक्तयो विशेषा एव परन्तु द्रव्यत्वं सामान्यमपि विशेषोऽपीति विवेकः ।।४।। तदेव विवृणोत्याचार्य:- द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च ॥५॥ (द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाः-च) द्रव्येषु द्रव्यत्वं गुणेषु गुणत्वं कर्मसु कर्मत्वमिति त्रीण्यप्यनुवर्तनात् सामान्यानि भवन्त्यथ सत्तापेक्षया विशेषाः, सत्तातो व्यावर्तनाद् द्रव्यत्वादीनां विशेषत्वं भवत्येव यतो द्रव्यत्वादिष्वपि सत्ताया अनुवर्तनात् । एवं द्रव्यत्वं गुणत्वं कर्मत्वं सामान्यविशेषोभयविधस्वरूपम् ।।५।।
[वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् एकस्मिन्नर्थे सामान्यानि विशेषाश्चेत्येषा सरणि:- अन्यत्रान्त्येभ्यो विशेषेभ्यः ।।६।। (अन्त्येभ्यः-विशेषेभ्यः-अन्यत्र) अन्तेभवाः-अन्त्याः सर्वान्त्यास्तेभ्यो- विशेषेभ्यो द्रव्यगुणकर्मभ्योऽन्यत्रार्थात् तत्पूर्ववर्तिषु ह्यनुयोज्या सरणि- रेषा सामान्याविशेषाश्च भवन्तीति। न खल्वन्त्यविशेषा उभय- विधत्वमाप्नुवन्ति ते तु विशेषा एव भवन्ति व्यावृत्तेस्तत्र स्थिरत्वात् तेषामग्रे विशेषाभावाच्च। कर्मजातावुत्क्षेपणादि गुणजातो गन्धादि- द्रव्यजातौ पृथिव्यादि०॥६॥ अन्त्यविशेषास्तु विशेषा एवेति तूक्तम्, अथ परमं सामान्यं यद्वा महासामान्यमुच्यते- सदिति यतो दिव्यगुणकर्मसु सा सत्ता ॥७॥ (द्रव्यगुणकर्मसु) द्रव्ये गुणे कर्मणि च भावात्मकव्यक्तौ (यतः सत्- इति) यस्माद्धेतोर्यत्तत्त्वमाश्रित्य वा 'सत्' इति व्यवहारः सद् द्रव्यं सन् गुणः सत् कर्म प्रत्येकं प्रति वर्तते यद्वा सत्प्रत्ययोऽनुवृत्तो भवति- सदात्मकत्वात् सत्ता सा महासामान्यं च तद् विशेषलेशाभावात् । द्रव्यत्वगुणत्वकर्मत्वादीनि तु सत्तातो विशिष्टत्वान्नाविशेषाः ॥७॥ - अथ च- द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता ।।८।। (द्रव्यगुणकर्मभ्यः-अर्थान्तरं सत्ता ) द्रव्याद् गुणात् कर्मणश्च भिन्न हि वस्तु भवति सत्ता। यथा पृथिव्यादिद्रव्येषु द्रव्यत्वं सर्व- द्रव्यव्यापित्वात् तेभ्यः पृथिव्यादिभ्यो भिन्नं यथा वा रूपादिगुणेषु गुणत्वं सर्वगुणव्यापित्वात् तेभ्यो रूपादिभ्यो भिन्नमथ चोत्क्षेपणादिकर्मसु कर्मत्वं सर्वकर्मव्यापित्वात् तेभ्य उत्क्षेपणादिभ्यो भिन्नं तथैव द्रव्य- गुणकर्मसु सत्तायाः खल्वेकरूपतया व्यापित्वात् तेभ्यो द्रव्यगुणकर्मभ्यो भिन्नं वस्तु सत्ताऽस्ति ॥८॥ *गमनमिति सामान्यं गमनत्वार्यकं तद्भदाश्च भ्रमणपतनस्पन्दनादीनि विशेषा इति प्रशस्तपादः । पृथिवीत्वं सामान्यं पृथिवीविकारा गवादयो घटाद- यश्च विशेषास्तत्रापि गोत्वं घटत्वं सामान्यं गोव्यक्तिर्घटव्यक्तिविशेषः, एवं रूपत्वं सामान्यं रूपव्यक्तिविशेष इति च प्रशस्तपादः, लोकप्रसिदः खल्वेष व्यवहारः।
.
प्रथमाध्याये नितम्यासिकम् ।
ससा द्रव्ये भवति द्रव्याद भिन्ना, गुणकर्मणी मपि मध्ये भक्तो भिन्ने
च द्रव्यात् तदा कथं न गुणः कर्म वा सत्तानोच्यते-
गुणकर्मसु भावान्न कर्म न गुणः ॥६॥
(गुणकर्मसु भावात्) रूपादिगुणेषुत्वोपणादिकर्मसु च सत्ताया
विद्यमानत्वात् ( न कर्म न गुणः ) सत्ता न कर्म न गुणः, कर्मणि कर्म
न भवति गुणे गुणो न भवति, सत्ता तु कर्मणि च भवति गुणे चापि
भवति तस्माद् द्रव्यनिष्ठत्वेन हि सत्ता न कर्म न गुणः । अवयवद्रव्येषु
खल्ववयविद्रव्यं भवति तदपि सत्ता न गुणकर्मसु भावादेवेत्यपि
चाल्लभ्यते तथाऽवयविद्रव्ये चापि सत्ताया भावादिति चोत्प्रेक्ष-
णीयम् ॥६॥
-
अपि च-
सामान्यविशेषाभावेन च ॥१०॥
-
(सामान्यविशेषाभावेन च) सत्तायां खलु द्रव्यगुणकर्मस्विव सामान्य
विशेषश्चेति व्यवहारो न वर्तते तस्मात् सत्ता न द्रव्यं न गुणो न कर्म
किन्तु तद्भिन्न वस्तु ॥१०॥
परसामान्यमुक्त्वाऽपरसामान्यविषये ब्रवीत्याचार्य:-
अनेकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् ॥११॥
(द्रव्यत्वम्) द्रव्यत्वं खल्वपरसामान्यम् (अनेकद्रव्यवत्त्वेन-उक्तम्)
अनेकानि द्रव्याणि पृथिव्यादीनि यस्य तदनेकद्रव्यवत्-तस्य भावोऽनेक-
द्रव्यवत्त्वं तेनानेकद्रव्यवत्त्वेनानेकद्रव्येषु पृथिव्यादिषु समानरूपेण भवति
हि द्रव्यत्वं तस्माद् द्रव्यव्यक्तितो भिन्नं वस्तु द्रव्यत्वमपरसामान्य-
मुक्तम् ॥११॥
अथ च-
सामान्यविशेषाभावेन च ।।१२।।
(सामान्य विशेषाभावेन च) तच्च द्रव्यत्वमपरसामान्यं द्रव्यव्यक्ते-
भिन्नं तत्र द्रव्यवत् सामान्यं विशेषश्चेति व्यवहारो न भवति ॥१२॥
तथा-
गुरणेषु भावाद् गुणत्वमुक्तम् ॥१३॥
[वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् (गुणत्वं गुणेषु भावात्-उक्तम्) गुणत्वमपरसामान्यं रूपादिष्वनेक- गुणेषु भावात् खलु रूपादिगुणव्यक्तितो भिन्न वस्तूक्तम् ॥१३॥ अथ च- सामान्यविशेषाभावेन च ॥१४॥ ( सामान्यविशेषाभावेन च) गुणत्वमपरसामान्यं गुणव्यक्तेभिन्न वस्तु, तत्र गुणवत् सामान्यं विशेषश्चेति व्यवहारो न भवति ॥१४॥ तथा- कर्मसु भावात् कर्मत्वमुक्तम् ॥१५॥ (कर्मत्वं कर्मसु भावात्-उक्तम्) कर्मत्वमपरसामान्यं खलुत्क्षेपणा- दिषु कर्मसु भावादुत्क्षेपणादिकर्मव्यक्तितो भिन्न वस्तूक्तम् ।।१५।। अथच- सामान्यविशेषाभावेन च ॥१६॥ (सामान्यविशेषाभावेन च) कर्मत्वमपरसामान्यं कर्मव्यक्तेभिन्न बस्तु यतस्तत्र कर्मवत् सामान्यं विशेषश्चेति व्यवहारो न भवति ॥१६॥ भावं विवृणोत्याचार्य:- सदिति लिङ्गाविशेषाद् विशेषाभावाच्चैको भावः ।।१७।। (सत्-इति लिङ्गाविशेषात्) द्रव्ये गुणे कर्मणि 'सत्' शङ्करमिश्रा- दिभिर्भाष्यकारैरिदं सूत्रमन्यथा व्याख्यातं तत्र सत्तापरकं व्याख्यानं कृतं तन्न सम्यक, यदि खलु सत्तापरं सूत्रमिदं स्यात् तर्हि "सदिति यतो द्रव्यगुणकर्मसु सा सत्ता” इति सप्तमसूत्रस्यानन्तरमेवानेन सूत्रेण भवि- तव्यं यद्वा तदेव सप्तमं सूत्रम् “सदिति यतो द्रव्यगुणकर्मसु सा सत्ता सा चैका" इत्थं भवेत् । पुनश्च ते भाष्यकाराः प्रष्टव्याः कि सत्ता ह्य का ? द्रव्यत्वं गुणत्वं कर्मत्वं वा किन्नकैकम् ? अथ तदप्येकैकम्, तर्हि केन सूत्रेणेति प्रश्नः, यदि तन्नककं किन्तु द्रव्येषु द्रव्यत्वानि गुणेषु गुणत्वानि कर्मसु कर्मत्वानि खल्वनेकानि तर्हि द्रव्यद्रव्यत्वयोर्गुणगुण- त्वयोः कर्मकर्मत्वयोः को भेदः । तथा द्रव्यत्वस्य गुणत्वस्य कर्मत्वस्य किं स्वरूपम् ? न किमपि स्वरूपं तथाव्याख्याने। तस्मान्न सोऽर्थो युक्तः । किन्तु सत्ताद्रव्यत्वगुणत्वकर्मत्वानां भावानां प्रत्येकं प्रति समानं विधानमस्ति । ? - प्रथमाध्याये द्वितीयाह्निकम् ] यत् ( भाव:-एक:) यः खलु भावप्रत्ययेन "तस्य भावस्त्वतलौ" (अष्टा० ५।१।११६) 'त्व, तल्-ता' इत्यनेन' द्रव्येषु द्रव्यत्वं तदेक भिन्न- भिन्नद्रव्येषु पृथिव्यादिषु वर्तमानं सदपि तथा गुणेषु गुणत्वं तदेकं भिन्न- भिन्नगुणेषु रूपादिषु वर्तमानं सदपि तथा कर्मसु कर्मत्वं तदेक भिन्न- भिन्नकर्मसूत्क्षेपणादिषु वर्तमानं सदपि यदपरसामान्यं तथा च द्रव्य- गुणकर्मसु च भाव:-भावप्रत्ययेन 'तल्-ता' इत्यनेन परसामान्यं सत्ता द्रव्यगुणकर्माख्येषु भिन्नभिन्नार्थेषु खल्वेकं वस्तु। तेन द्रव्येषु द्रव्यत्वमेक गुणेषु गुणत्वमेक कर्मसु कर्मत्वमेक सर्वेषु द्रव्यगुणकर्मसु सत्ता चैक वस्तु येषां यो भावस्तेषु स एक एव (सत्-इति लिङ्गाविशेषात्) तथा तथा भावेन 'सत्' अस्तित्वमिति लिङ्गस्याभेदात् (विशेषाभावात्-च) तद्विशेषणाभावाच्च न हि भावे जातौ तद्विशेषणं भवति तस्या एक- त्वाद्-व्यक्तयो गावोऽश्वा वा विशेष्यन्ते न जातिविशेष्यते गोत्वम- श्वत्वं वा तथैवार्था विशेष्यन्ते द्रव्यं गुण: कर्मेति नामानि, न सत्ता परमसामान्यं विशेष्यते। तस्माद् द्रव्यगुणकर्मसु सत्ता खल्वेका द्रव्येषु द्रव्यत्वमेक गुणेषु गुणत्वमेक कर्मसु कर्मत्वमेकम् ॥१७॥ प्रथमाध्यायस्य द्वितोयाह्निकम् समाप्तम् समाप्ति गतश्च प्रथमोऽध्यायः द्वितीयोऽध्यायः संत्र प्रथमाह्निकम् प्रथमाध्याये द्रव्यादयः पदार्था विभागश उद्दिष्टा अथ च तेषां लक्षणं यथासम्भवं कृतम् । अत्रेदानीं विभक्तानां बाह्यद्रव्याणां क्रमशो विशिष्टलक्षणपरीक्षे क्रियेते। रूपरसगन्धस्पर्शवतो पृथिवी ।।१।। (पृथिवी रूपरसगन्धस्पर्शवती) द्रव्येषु पृथिवी खलु रूपरसगन्ध- स्पर्शेर्गुणैर्लक्ष्यते सा हि तद्वती। पृथिव्या नैजिको गुणस्तु गन्धोऽस्ति वक्ष्यति ह्यने “व्यवस्थितः पृथिव्यां गन्धः (वै० २।२।२) परन्तु केवलेन गन्धेन गुणेन सा न लक्षयितुं शक्या रसादिभिर्गुणैः सह सा लक्ष्यते रसादयो गुणास्त्वबादीनां सन्ति पृथिवी तदपेक्षया स्थूला ते च पृथिव्यपेक्षया सूक्ष्माः सन्ति स्थूले सूक्ष्माणां प्रवेशेनावश्यं भवितव्यं तेन तेषां गुणानामपि तत्र वर्तमानत्वं स्यादेव तस्मात् सा रसादिमती- त्युक्तम् । तत्र प्रत्यक्ष रूपगुणस्य प्राधान्यात् प्रथमं रूपं तल्लक्षणे निर्दिष्टं पुनस्तदपेक्षया न्यूनवृत्तिकोऽन्यापेक्षया चाधिकवृत्तिको रसः पश्चाद् गन्धः, पुनः स्पर्शस्याप्रत्यक्षत्वात् सर्वपश्चात् तस्योपादानम् । कृष्णपोतरक्तादि रूपं पृथिव्याम्, कटुकषायादिरसैरसवती पृथिवी, गन्धोऽपि विविधः परन्तु सुरभिरसुरभिश्चेति भेदद्वयं मुख्यं गन्धस्य स्पर्शस्त्वनुष्णशीतस्तथा कर्कशादिरपि । सूक्ष्मद्रव्याणां तत्र समावेशात् तद्गुणैर्गुणवत्त्वाद् रूपादिमती पृथिवी लक्ष्यते नान्ये गुणा: संख्यादयो लक्षणे भिद्यन्ते ॥१॥ रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः ।।२।। (रूपरसस्पर्शवत्यः-द्रवाः स्निग्धा:-आप:) आपः खलु रूपरसस्पर्श- गुणयुक्तास्तत्र रूपस्पर्शी तु गुणावग्निवाय्वोः संसर्गतस्ताभ्यामविना- भावादपामुपलब्धेः । गन्धोऽपि गुणः कदाचिदासु प्रतिभाति स च पाथिववस्तुनः सामयिकसम्पर्कतस्तत्सम्पर्काभावेऽप्सु गन्धस्तु नोप- २१ वितीयाध्याये प्रथमालिकम लभ्यते । एवं गन्धगुणवत्त्वे तु लक्षणव्यभिचारोऽस्ति तस्मानोक्तः । पुनस्तरला संश्लेषधर्माश्चापो भवन्तीति ॥२॥ तेजो रूपस्पर्शवत् ॥३॥ (रूपस्पर्शवत् तेजः) रूपस्पर्शवानग्निद्रव्यम्, अग्नौ रूपस्पर्शी गुणौ भवतः । स्पर्शस्तु गुणोऽग्नौ लक्ष्यते वायोर्योगेन, यतो वायुयोगस्य तत्रानिवार्यत्वं तदपेक्षया वायोः सौक्ष्म्यात् ॥३॥ स्पर्शवान् वायुः ॥४॥ (स्पर्शवान् वायुः) वायौ स्पर्शो गुणो भवति । वायुन दृष्टिपथमा- गच्छति यदा वायुर्वाति तदा स्पर्शस्तु तस्य त्वगिन्द्रियेण गृह्यते ॥४॥ त आकाशे न विद्यन्ते ॥५॥ ( ते-आकाशे न विद्यन्ते ) ते गन्धरसरूपस्पर्शा गुणा आकाशे न विद्यन्ते न भवन्ति ॥५॥ सपिजतुमधूच्छिष्टानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् ॥६॥ ( सर्पिर्जतुमधूच्छिष्टानाम् ) वृतलाक्षासिक्थानां पार्थिववस्तूनाम् (अग्निसंयोगात्) अग्निसंयोगात्-आग्नेयतापात् (द्रवत्वम्) द्रवीभावोऽ- सांसिद्धिको भवतीति (अद्भिः सामान्यम्) अद्भिः सह सामान्यं सादृश्य- मस्ति ॥६॥ तथा- - पुसोसलोहरजतमुवर्णानामग्नि- संयोगाद् द्रवत्वमद्भिः सामान्यम् ।।७।। ( अपुसीसलोहरजतसुवर्णानाम् ) रङ्गसीसलोहरजतसुवर्णादीनां धातूनां तंजरापदार्थानाम् (अग्निसंयोगात्) प्रखराग्नितापात् (द्रवत्वम्) द्रवीभावोऽसांसिद्धिको भवतीति (अद्भिः सामान्यम्) अद्भिः सह सामान्य साधर्म्यमस्ति ॥७॥ विषाणी ककुदमान प्रान्तेवालधिः सास्नावानिति गोत्वे दृष्टं लिङ्गम् ।।८।।
२२ [वैशेषिकदर्शन ब्रह्ममुनिभाष्योपेतम् स्पर्शश्च वायोः ॥६॥ न च द्रष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः ॥१०॥ एतेषां त्रयाणां सूत्राणामेकवाक्यताऽस्ति तस्मात् सहैव व्याख्या- यन्ते-- ( विषाणी ककुभान प्रान्तेवालधिः सास्नावान् ) विशिष्टविषाण- वान्* प्रशस्तशृङ्गवान् प्रशस्तस्कन्धमांसपिण्डवान् , पुच्छाग्रे प्रशस्त- वालाधानवानां प्रशस्तगलकम्बलवान् (इति दृष्टं लिङ्ग गोत्वे) इत्येवं प्रत्यक्षोभूतं लिङ्ग लक्षणं गुणो गोत्वे जातौ यथा भवति ( स्पर्शः-च वायौ) तथा च स्पर्शो लिङ्ग लक्षणं गुणो वायोरस्ति, गुणश्च गुणिनं साधयति यदाश्रितः स भवति, भेदस्त्वियानेव यत् (न दृष्टानां स्पर्शः) दृष्टानां नेत्रेन्द्रियपर्यन्तप्रत्यक्षोभूतानां रूपवतां पृथिव्यप्तेजसां न खलु स्पर्शो लिङ्गमदृष्टमस्ति (इति-अदृष्टलिङ्गः-वायुः) अतो हेतोरदृष्टलिङ्गकः स्पर्शलिङ्गको वायुरस्ति । य एष केवल: स्पर्शस्त्वगिन्द्रियेणानुभूयते गन्धरसरूपवद्रव्यप्रत्यक्षमन्तरेण तस्याश्रयेण गुणिना भवितव्यं हि न खलु गुणो गुणिनमन्तरेण भवति न च दृष्टानां गन्धरसरूपवतां पृथिव्य- प्तेजसा लिङ्गमिति । अथ च पृथिवीजलाग्निषु पृथुशीतोष्णा: स्पर्शा उपलभ्यन्ते ते वायुसन्नियोगेनैव, वायोस्तदन्तराविष्टत्वात्, तत्र तत्र स्थितं पृथुत्वं शीतत्वमुष्णत्वं वायुरेव प्रद्योतयति प्रकटयति वा तद्धर्म- रहितः केवलः स्पर्शो वायोर्गुण इति सुतरां सिद्धम् ।।८-१०।। ननु केवलेन स्पर्शेन गुणेन वायुर्लक्ष्यते न च दृश्यते तदैव दृष्टेभ्यः पृथिव्यादिभ्यो भिन्नोऽदृश्यः सन् किम्प्रकारकं द्रव्यमुच्यते तदाह- अद्रव्यवत्त्वेन द्रव्यम् ॥११॥ ( अद्रव्यवत्त्वेन द्रव्यम् ) पृथिवीजलाग्नयो द्रव्यवन्तोऽन्यद्रव्यसंसक्ताः सन्तोऽनेकगुणवन्तः । तत्रापि खल्वन्यगुणसंयुक्तः स्पर्शो गुणो लभ्यते । पृथिवी खलु जलग्निवायुभिः सम्पृक्ता सती गन्धरसरूपस्पर्शवती, जलं त्वग्निवायुभ्यां युक्तं सद् भवति रसरूपस्पर्शवत्, अग्निश्च वायुना * अत्र सर्वत्र प्रशंसायां मतुप मतुबर्थश्च प्रत्ययः । 1 प्रान्ते पुच्छान्ते वाला धीयन्ते धार्यन्तेऽननेति, "सप्तम्या अलुक्" कण्ठे. काल इति यथा।
२३ - प्रथमाध्याये प्रथमाह्निकम् ] संयुक्तः सन् रूपस्पर्शवान् । एते सर्वे स्पर्शवन्तो द्रव्यवत्त्वेन वायुद्रव्य- वत्त्वेन वायुमत्त्वेन वायुमाश्रित्येत्यर्थः, परन्तु वायुस्त्वद्रव्यवान् पृथि- व्यादिवन्न द्रव्यवान् तेनाद्रव्यवत्त्वेन स्वाश्रयत्वेन स्पर्शवान् स्पर्शगुण- वान् वायुर्द्रव्यम् । गुणश्च द्रव्यं न व्यभिचरति यथा स्पर्शो गुणोऽन्यैर्गुणः सह पृथिव्यादिदृश्येषु द्रव्येषूपलभ्यते, उपलब्धिसामान्यात् केवल उप- लब्धः स्पर्शो गुणः स्वकीयगुणिनमदृश्यं वायुं द्रव्य लक्षयति साधयति । शङ्करमिश्रादिभिरन्यथाव्याख्यातं सूत्रमिदमप्रासङ्गिकी परमाणुकल्पना कृता । चन्द्रकान्तभाष्ये हरिप्रसादवृत्तौ च ‘अद्रव्य' शब्दात् स्पर्शो गुणो गृहीतः सोऽपि न युक्तः "क्रियावत्त्वाद् गुणवत्त्वाद्" उत्तरसूत्रस्य विद्यमानत्वात् ।।११।। अपि च- क्रियावत्त्वाद् गुणवत्त्वाच्च ।।१२।। (क्रियवत्त्वात्-गुणवत्त्वात्-च) वायुः क्रियावान्-गतिमान् गुणवान्- स्पर्शवांश्च वर्तते तस्मात् वायुर्द्रव्यमेव । उक्तं हि "क्रियागुणवत्... द्रव्यलक्षणम्" ॥१२॥ ननु भवतु स्पर्शन गुरगन गुणवान् गतिक्रियया क्रियावान् वायुद्रव्यं यदा स्पर्शो गात्ररनुभूयते यदा वा पर्णशाखासु गतिक्रियोपलभ्यते तदा वायोर्वर्तमानत्वं परन्तु यदा न गात्रः स्पर्शः प्रतीयते न च पर्णशाखासु गतिक्रिया लक्ष्यते तदा वायो नै वर्तमानत्वमिति तु तस्यानित्यत्वमा- याति । अत्रोच्यते- अद्रव्यत्वेन नित्यत्वमुक्तम् ।।१३।। ( अद्रव्यत्वेन ) न द्रव्यमाश्रयः समवायित्वेन यस्य तदद्रव्य तस्य भावोऽद्रव्यत्वं तेनाद्रव्यत्वेनानवयवित्वेन ( नित्यत्वम्-उक्तम् ) वायो- नित्यत्वमुक्तं वेदितव्यमित्यर्थः । वायोरनित्यत्वं तदा स्याद् यदि वायु- रवयवी स्यात् समवायिद्रव्यं तस्याश्रयः स्यात् स तु न तथा । किन्तु वायोश्चलधर्मवत्त्वाद् वातीति वायुरिति समाख्यानात् कदाचिन्न तस्य गतेरभाव: परन्तु तीव्रत्वमन्दत्वभेदात् तद्गते विध्यं तस्मात् सर्व- त्रापि मन्दगतिमांस्तु सर्वदा वाति हि नोचेद् वायुमन्तरेण प्राणिनो म्रिय- रन् । एवं तस्य नित्यत्वे न क्षतिः ॥१३॥ वायो नात्वमुच्यते- - वायोर्वायुसम्मूच्छन्नं नानात्वलिङ्गम् ॥१४॥ ( वायोः-नानात्वलिङ्गम् ) वायोविविधत्वे लिङ्गमस्ति (वायुसम्मू- च्छन्नम् ) वायूनां संहत्य वृत्ताकारेण भ्रमणम् ॥१४॥ वायुसन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गन विद्यते ॥१५॥ (वायुसन्निकर्षे) यद्यपि त्वगिन्द्रियेण वायुसन्निकर्षो भवति परन्तु तत्र (प्रत्यक्षाभावात् ) नेत्रेन्द्रियेण प्रत्यक्षस्याभावोऽस्ति, अतस्तत्र (दृष्टं लिङ्ग न विद्यते) नेत्रदृष्टं लिङ्ग लक्षणं वायौ वायुसिद्धौ वा न विद्यते ॥१५॥ सामान्यतो दृष्टाच्चाविशेषः ॥१६॥ (सामान्यतो दृष्टात्-च) यदि नेत्रेन्द्रियेणैव सन्निकर्षः प्रत्यक्षं स्यात् , त्वगिन्द्रियेण सन्निकर्षो न प्रत्यक्षमिति मन्येत तदापि वायुसिद्धिस्तु भवति सामान्यतोदृष्टादपि। त्वगिन्द्रियेण यः खलु स्पर्शो गुणः सन्नि- कृष्यते तस्य गुणस्य गुणिना द्रव्येण भाव्यमेव । यद्वा पार्थिवमाप्यं तैजसं दृश्यं वस्तु स्पर्शगुणवत्तया न दृष्टिपथमागच्छति यतो नेत्राभ्यां न पाथि- वादिकस्य स्पर्शा गृह्यते परन्तु तत्रत्यः स्पर्शस्त्वचा तु सन्निकृष्यते हि तदा स स्पर्शो गुणः पार्थिवाप्यतैजसानां न भवन् तेभ्योऽन्यस्य द्रव्यस्य लिङ्गमिति गम्यते गुणस्य गुणिना भाव्यं न गुणो गुणिनमन्तरेण भवतीति सामान्यतो दृष्टात्, स च (अविशेषः) अभेदः, न च सामान्यतो दृष्टाद्- भिद्यते। तथा वस्त्रपर्णशाखादीनां कम्पनचलनादिक्रियानिमित्तं न दृश्यते किमपि पार्थिवादिकमाघातकारि दृश्यं वस्तु, परन्तु तत्कम्पन- चलनादिक्रिया तु प्रवर्तते, पुनस्तत्कम्पनप्रचलनादिक्रियायाः प्रवर्तकेन भवितव्यमेव सामान्यतोदृष्टात् तस्मादपि वायुसिद्धावविशेषः समानो हेतुः ॥१६॥ एवं सिद्धे सति वायौ पुनस्तन्नाम- तस्मादागमिकम् ॥१७॥ संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् ॥१८॥ अनयोः सूत्रयोरेकवाक्यताऽस्ति- (तस्मात् संज्ञाकर्म तु-आगमिकम्) यतो हि नेत्रेन्द्रियेणाप्रत्यक्षस्य वायुप्रभृतेर्वस्तुनः संज्ञाकर्म नामकरणं खल्वागमिकमागमः सिद्धमागमेषु तु m २५ द्वितीयाध्याय प्रथमाह्निकम् ] भवं, वा आगमाः खल्वृग्यजुःसामाणिस्तः सिद्धं तत्रे भवं वा, तद्धर्म- पूर्वकमन्वर्थमस्ति हि यथा "वायवायाहि""" (ऋ० १२२।१) "प्राणाद् वायुरजायत" (यजु० ३।१३) (अस्मद्विशिष्टानां लिङ्गम्) गमाः खल्वस्मद्विशिष्टानि वचनानि नहि तानि खल्वस्माभिः प्रोक्तानि-मनुष्यैः प्रोक्तानि यदा नास्माभिर्मनुष्यः प्रोक्तानि तदा तान्यपौरुषेयाणि खल्वी- श्वरप्रोक्तानि हि तथाविधानामीश्वरवचनानां लिङ्ग प्रमाणं नेत्रेणा- दृश्यवस्तुविषये भवति हि तच्च मन्तव्यमेव ।।१७-१८॥ तस्य च- प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः ॥१६॥ ( सज्ञाकर्मणः प्रत्यक्षप्रवृत्तत्वात् ) नामकरणस्य प्रत्यक्षप्रवृत्तिम- त्त्वात् । प्रत्यक्षे नामकरणं प्रवर्तते, लोके जनो यत् प्रत्यक्षमुपलभते तस्य नामकरणं विदधाति । वायुप्रभृतयो नास्माकं दृष्टिगोचराः, नहि तेषां प्रत्यक्षमस्माभिः क्रियते तस्मादस्मद्विशिष्टेषु वचनेष्वागमेषु प्रत्यक्ष- मुपलभमानेन सर्वज्ञेनेश्वरेण संज्ञाकर्म-नामकरणं कृतमस्ति । उक्तं हि स्वयं वेदे “यो देवानां नामधा' ( ऋ० १०। ८२। ३) तथा स्मृतावपि "सर्वेषां तु स नामानि वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे" ( मनु० १ । २१) तस्मात्तत्प्रमाणम् । १५-१६ सूत्रत्रयमन्यैरन्यथा व्याख्यातम् ॥१६॥ आकाशविषये- निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् ॥२०॥ (निष्क्रमणं प्रवेशनम्) दृष्टवस्तुनो बहिर्गमन यस्माद् भवति तथा यस्मिन् निवेशनं भवति-इति दृश्यवस्तुनो निष्क्रामतः प्रविशतश्चाव- काशग्रहणम् (आकाशस्य लिङ्गम्) आकाशस्य लिङ्ग लिङ्गयते येन तत् साधकमस्ति, आकाशो ह्यवकाशं प्रयच्छति निष्क्रमितुं प्रवेष्टुं च दृश्यपदार्थाय ॥२०॥ एतद् दूषयति पूर्वपक्षत्वेन- तदलिङ्गमेकद्रव्यत्वात् कर्मणः ॥२१॥ (तत्-अलिङ्गम्) दृश्यस्य वस्तुनो यनिष्क्रमणं प्रवेशनं न लिङ्गमा- काशस्य ( कर्मणः-एकद्रव्यत्वात्) निष्क्रमणं प्रवेशनं खलु कर्म तत्त्वेक- द्रव्यवति निष्कामति प्रविशति च वस्तुनि वर्तमाने सत् तस्मानिष्कामतः - २६ [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् प्रविशतश्च वस्तुनो भिन्नस्याकाशस्य लिङ्ग न भवितुमर्हति, निष्कामत प्रविशद् वस्तु हि तस्य समवायिकारणं नाकाशः ॥२१॥ तथा- - । कारणान्तरानुक्लूप्तिवैधाच्च ॥२२॥ ( कारणान्तरानुक्लृप्तिवैधात्-च ) समवायिकारणतो भिन्न कारणं कारणान्तरमनुकल्प्यतेऽनुमन्यते यया सा कारणान्तरानुक्लृप्तिः कारणान्तरानुमानशक्तिस्तस्या वैधयं चेदं यत्खल्वाकाशो द्रव्यमपि द्वितीयमसमवायिकारणं कर्मणो भवति संयोगादसमवायिकारणं भवेत्, तथा कारणे कार्य प्रति कारणत्वधर्मः पूर्वतो नियतो वर्तते यदु- पस्थिते कारणे कार्यमुत्पद्यते, आकाशस्तु सर्वकाले सर्वत्र चोपतिष्ठते नास्य व्यतिरेकोऽस्ति, पुन: कदाचित् कर्म कदाचिदकर्मेति व्यवस्था न स्यात्, तस्मादनुक्लुप्तेरनुमानशक्तेर्वैधादाकाशो निष्क्रमणस्य प्रवेशनस्य च कर्मणो न कारणम् । पुनश्चाकाशः सर्वगतस्तत्र निष्क्रम- णस्य प्रवेशनस्य च कर्मणो नैरन्तर्येण भवितव्यं यदि कारणं स्यादाकाशः ॥२२॥ सूत्रद्वयेनोक्तस्य पूर्वपक्षस्य समाधानम्- संयोगादभावः कर्मणः ॥२३॥ (संयोगात्-अभावः कर्मणः) निष्कामतः प्रविशतश्च द्रव्यस्य तद्भिन्नेन मूर्तिमता वस्तुना संयोगात् संयोगरूपप्रतिबन्धात् तत्राकाशे निष्क्रमणस्य प्रवेशनस्य कर्मणो व्यापारस्य नैरन्तर्यणाभावो विद्यते न तु तत्राकाशे कारणत्वस्याभावात् कर्मणोऽभावः । तस्मात् तत्कार- गत्वमवकाशदानाद् व्यवतिष्ठते हि । यद्वा ( कर्मणः संयोगात् ) निष्क्रमणस्य प्रवेशनस्य कर्मणः कारणं समवायिकारणं भवतु निष्का- मत् प्रविशच्च द्रव्यं परन्तु निष्कामतः प्रविशतश्च वस्तुनो निष्क्रम- णस्य प्रवेशनस्य कर्मण: परिणाम: फलं वा संयोगस्तु नाकाशे व्याहन्यते स तु तत्र भवत्येव, उक्तं हि प्रशस्तपादे "शब्दकारणत्ववच- नात् आकाशे संयोगविभागाविति" (प्रशस्तपाद:) तस्मात् (अभावः) कारणत्वप्रतिषेधस्याभाव आकाशे । अथवा (कर्मणः संयोगात्-अभाव:) कर्मण:-आकाशे संयोगात् सम्यग्योगात् समवायादभावोऽस्त्याकाशो न कर्मण: समवायिकारणं कर्मण एकद्रव्यवर्तित्वात् परन्तु तस्य द्वितीयाध्याये प्रथमाह्निकम् ] निष्क्रमणप्रवेशनलिङ्गत्वे न क्षतिस्तत्र निष्कामते प्रविशते द्रव्याय तस्यावकाशप्रदानमित्वात् तस्मान्निष्कमणं प्रवेशनमिति लिङ्गमा- काशस्य निरवद्यम् । विचित्रा खलु सूत्रकृतिः सूत्रकारस्य । अत्र सूत्रेऽपि सूत्रशलीविरुद्धं भाष्यं व्यधायि शङ्करमिश्रादिभिः ।।२३।। निष्क्रमणप्रवेशने तु खल्ववकाशग्रहणादाकाशसूचके भवतो यतो ऽवकाशदानस्य निमित्तमाकाशः। शब्दः खल्वाकाशस्य गुणः, इत्यत्र पोठमारचयन् परिभाषां विदधाति कारणगुणपूर्वकः कार्यगुणो दृष्टः ॥२४॥ ( कार्यगुणः कारणगुणपूर्वकः-दृष्टः ) घटपटादिकार्यस्य गुणः स्व- कारणगुणपूर्वको भवति, ये कारणे गुणा भवन्ति ते कार्येऽनुशेरते, ये च गुणा: कारणे न भवन्ति ते तस्य कार्येऽपि न भवन्ति । तस्मात्- कार्यान्तराप्रादुर्भावाच्च शब्द: स्पर्शवतामगुणः ॥२५॥ ( स्पर्शवताम्-अगुणः शब्दः ) पृथिव्यप्तेजोवायूनां न गुणः शब्द. । यतः ( कार्यान्तराप्रादुर्भावात्-च ) पृथिव्याः कार्य पार्थिवम्, अपां कार्यमाप्यम्, तेजसः कार्य तेजसम्, वायोः कार्य वायव्यम् । एतेभ्यःपार्थि- वाप्यतैजसवायव्येभ्यः कार्येभ्यो भिन्नानि कार्याणि कार्यान्तराणि, यानि पृथिव्यादीनां मिश्रणादुद्भूतानि कार्याणि तेष्वपि शब्दस्याप्रादुर्भावात्. तथा चकारात् पृथिव्यादीनां पृथक्-पृथग् यानि सजातीयानि कार्याणि पार्थिवानि, आप्यानि, तेजसानि, वायव्यानि तेषु चाप्रादुर्भावात् । यदि शब्दः स्पर्शवतां पृथिव्यप्तेजोवायूनां गुणः स्यात् तेषां कार्येषु कार्यान्त- रेषु प्रादुर्भवेत् "कारणगुणपूर्वकः कार्यगुणो दृष्टः" इति नियमात् । न च प्रादुर्भवति तस्मान्न स्पर्शवतां पृथिव्यप्तेजोवायूनां गुणः शब्दः । शङ्करमिश्रादिभिः सूत्रं न सम्यग्व्याख्यातम् ॥२५॥ पुनः- परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः ॥२६॥ ( न-आत्मगुणः ) शब्दो न ह्यात्मनो गुणः । यतः (परत्र समवा- यात् ) आत्मनो भिन्ने समवेतत्वाच्छब्दस्य यदि ह्यात्मनि समवेयाद्, बधिरोऽपि शब्दं शृणुयादथ च सुखीदुःख्यहमिति शब्दीत्यपि खल्वनु- २८ [वैशेषिकदर्शनं ब्रह्ममुनिमायोपेवर "भवेत् । तथा (न मनोगुण:) न मनसो गुणः शब्दः । यतो हि (प्रत्य- क्षत्वात् ) बाह्यकरणेन श्रोत्रेन्द्रियेण ग्राह्यत्वात्, मनस्त्वन्तःकरणं 'तस्मान्न तस्य गुणः शब्दः ॥२६॥ परिशेषाल्लिङ्गमाकाशस्य ॥२७॥ ( परिशेषात् ) परिशेषन्यायात्. (आकाशस्य लिङ्गम्) आकाशस्य गुणः शब्द इति सिद्धम् । परिशेषे दिक्कालौ न गृह्य ते शब्दस्येन्द्रिय- ग्राह्यत्वात्, इन्द्रियाणि हि पृथक्पृथग् भूतप्रकृतीनि तत्राकाशो हि भूतेषु परिशिष्यते। आकाशः परिशेषात् कथं सूत्रकारेण गृहीतः, दिक्कालावपि तु परिशिष्येते। इत्यत्र कालो "दिक् चाकाशमेवेति' चन्द्रकान्तभाष्ये समाधानं न युक्तम्, तयोर्द्रव्यनाम्ना पृथक्सत्ता- वत्त्वात् । आत्ममनसोर्गुणविचारणस्यावसरस्तु श्रोतृत्वश्रावणत्व- सम्बन्धादासोत् ॥२६॥ तस्य- द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥२८।। ( द्रव्यत्वनित्यत्वे वायुना व्याख्याते ) आकाशस्य द्रव्यत्वं नित्यत्वं च वायुना तुल्यं व्याख्यातं वेदितव्यम् । वायोर्द्रव्यत्वं यथा खल्वद्रव्य- वत्त्वेनान्यद्रव्यमिश्रणराहित्येन केवलत्वेन तथा क्रियावत्त्वगुणवत्त्वाभ्यां तथाकाशस्यापि द्रव्यत्वमन्यद्रव्यमिश्रणराहित्यन केवलत्वेन तथा क्रिया- वत्त्वगुणवत्त्वाभ्यां तत्र निष्क्रमणप्रवेशनक्रियाया निमित्तत्वात् तस्य क्रियावत्त्वं शब्दगुणेन गुणवत्त्वम् । अथ च तस्य नित्यत्वमपि वायो- रिवाद्रव्यत्वेन द्रव्यानाश्रयित्वेनास्तीति विज्ञेयम् ॥२८।। तत्त्वं भावेन ॥२६॥ ( तत्त्वम् ) तत्स्वरूपं केवलत्वमेकत्वम् ( भावेन ) सत्तया तुल्यं व्याख्यातं वेदितव्यम् । यथा सत्ता खल्वेका तथाकाशोऽप्येक: स्वरूपतो निरवयवत्वाद्-भेदाभावाच्च ॥२९॥ सत्तायाः खल्वेकत्वं त्वनुगतप्रतीत्या भवति, कथमाकाशस्यैकत्व- मुच्यते- शब्दलिङ्गाविशेषाद् विशेषलिङ्गाभावाच्च ॥३०॥ (शब्दलिङ्गाविशेषात् ) यथा सत्ताया अनुगतप्रतीतिलिङ्गाविशेषः २९ द्वितीयाध्याये द्वितीयाह्निकम् ] , समानभावेन लिङ्ग तथवाकाशस्य शब्दोऽपि लिङ्गाविशेषः समान- भावेन लिङ्गमस्ति तथा (विशेषलिङ्गाभावात्-ब) शब्दाद् भिन्न- लिङ्गास्याभावादपि तस्यकत्वमखण्डत्वं केवलत्वं चास्ति नहि काल- भेदेन देशभेदेन शब्दभिन्नगुणस्य वर्तमानत्वमस्ति सकृद्वा गुणमिश्रण- मस्ति ॥३०॥ तदनुविधानादेकपृथक्त्वं चेति ।।३।। (तदनुविधानात्-एकपृथक्त्वं च-इति) आकाशस्य यदेकत्वं तस्या- नुविधानादनुसरणादेकपृथक्त्वमपि तस्यैकत्वमुनुसरति ह्य कपृथक्त्वं यत्रैकत्वं तत्रैवैकपृथक्त्वमप्यनिवार्यमिति व्याप्तेः ॥३१॥ द्वितीयाध्याये प्रथमाह्निकं समाप्तम् । द्वितीयाह्निकम् प्रथमाह्निकं पृथिव्यादीनां सामान्येन लक्षणान्युक्तानि तत्र कानि स्वाभाविकानि कानि चौपाधिकानि भिन्नद्रव्यसंसर्गजानीत्युच्यते, तत्र प्रथम दृष्टान्तमुपस्थापयत्याचार्य:- पुष्पवस्त्रयोः सति सन्निकर्षे गुणान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् ॥१॥ ( पुष्पवस्त्रयोः सन्निकर्षे सति ) केतकीपुष्पस्य वस्त्रस्य च संसर्ग सति ( वस्त्रे गुणान्तराप्रादुर्भावः ) वस्त्रे केतकोपुष्पगन्धादितरगन्धस्य चम्पागन्धस्याप्रादुर्भाव: । अथ च य एष केतकीगन्धो गुणान्तरं वस्त्राद् भिन्नस्य केतकीपुष्पस्य गुणः स च तत्संसर्गात् पूर्वं वस्त्रे तस्या- प्रादुर्भावः ( गन्धाभावलिङ्गम् ) वस्त्रे गन्धाभावस्य लिङ्ग लक्षणम- स्ति । यथा हि वस्त्रे स्वाभाविको गन्धो नास्ति पुष्पसंसर्गाद् भवति खल्वोपाधिक: संसर्गजः, एवमेव पृथिव्यादिषु द्रव्येष्वपि केचन गुणाः संसर्गादौषाधिका रूपादय उक्तपूर्वाः "रूपरसगन्धस्पर्शवती पृथिवी" (वै० २।१।१) इत्येवमादिस्थलेषु । शङ्करमिश्रादिभिः सूत्रमिदं न सम्यग- [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् व्याख्यातम्, सूत्रशल्या त्वानुलोम्येन सूत्रं व्याख्यातव्यमासीत् परन्तु तै न तथा व्याख्यातं किन्तु प्रातिलोम्येन व्याख्यातं ॥१॥ तत्र खलु- व्यवस्थितः पृथिव्यां गन्धः ।।२॥ (पृथिव्यां गन्धः-व्यवस्थितः) पृथिवीमभिलक्ष्य रूपरसगन्धस्पर्शा गुणाः प्रदर्शितास्तेषां गन्धो गुणः पृथिव्यां स्वाभाविको नैजोऽस्ति शेषा रसरूपम्पर्शा औपाधिका अप्तेजोवायूनां संसर्गादिति सूत्रलक्ष्य- मस्ति । एतल्लक्षणसाधनाय पुष्पसंसर्गाद् वस्त्रे गन्ध औपाधिको यथा तथैव पृथिव्यां रसरूपस्पर्शा औपाधिका अबादीनां संसर्गादिति दृष्टान्त- प्रयोजनम् । “व्यवस्थितः पृथिव्यां गन्धः" इति कथनमुपलक्षणार्थ तेन "रूपरसस्पर्शवत्य आपो..." अत्राप्सु रसो व्यवस्थितः, रूपस्पर्शी खल्वौपाधिको। एवं तेजो रूपस्पर्शवत् तेजसि रूपं व्यवस्थित स्पर्श औपाधिकः ॥२॥ एतेनोष्णता व्याख्याता ॥३।। ( एतेन-उष्णता व्याख्याता ) अनेन लक्षणप्रकरण गन्धं पति- रिच्य पृथिव्यामुष्णता खल्वौपाधिकी व्याख्याता विज्ञेया, तथैवाप्स्व- प्यौपाधिकी विज्ञेयोष्णता ॥३॥ तहि कस्योष्णता, इत्याकांक्षायामुच्यते-- तेजस उष्णता ॥४॥ तु -- (तेजस:-उष्णता) अग्ने: खलूष्णता व्यवस्थिता स्वाभाविको नान्यस्य ॥४॥ पुनश्च- अप्सु शोतता ॥५॥ (अप्सु शीतता) अप्सु खलु शीतता व्यवस्थिता स्वाभाविकी। एतेन पृथिव्यां पार्थिवे शिलाखण्डादौ शीतता त्वौपाधिकी व्याख्याता विज्ञेया। तथा तेजस्युष्णतायाः स्वाभाविकत्वेनाथाप्सु शीततायाः स्वाभाविकत्वेन सिद्धमिदं यद् वायोः स्पर्शे कदाचिदुष्णता तेजःसंसर्गात् कदाचिच्च शीतताऽप्संसर्गाद् भवति तथाकृत्वा हि क्रमवैलक्षण्यम् ।।५।।
द्वितीयाध्याये द्वितीयाह्निकम् . ३ पृथिव्यादीनामाकाशान्तानां भूतानां लक्षणान्युक्त्वा क्रमप्राप्तस्य कालस्य लक्षणानि विदधाति सूत्रकारः- अपरस्मिन् परं युगपच्चिरं क्षिप्रमिति काललिङ्गानि ॥६॥ (अपरस्मिन् परम्) अपरस्मिन् नवीने परं पुराणं नवीनमभिलक्ष्य पुराणमिति तूपलक्षणं सापेक्षत्वात्, तेन 'परस्मिन्-अपरम्' पुराणे नवीनं पुराणमभिलक्ष्य नवीनमिति कालस्य लिङ्गलक्षणम् । कालमा- धारं मत्त्वा कस्यापि पिण्डस्य घटस्य देहस्य वा नवीनत्वं पुराणत्वं च व्यपदिश्यते ( युगपत् ) युगपदुत्पद्यन्ते युगपद् गच्छन्ति युगपन्म्रियन्ते नश्यन्तीति समानप्रवृत्तेनिमित्तं काल एव ( चिरम् ) चिरं कृतं चिरं जातं चिरमभूदिति व्यवहारा: सातत्येन वर्तमाने काले प्रयुज्यन्ते ( क्षिप्रम् ) क्षिप्रमागतं क्षिप्रं प्रवृत्तं क्षिप्रं फलितमित्यपि काले हि वस्तुगत्या व्यवह्रियन्ते. इत्येतानि कालस्य लक्षणानि । अथवा 'अप- रस्मिन्' पदं प्रत्येकमभिसम्बध्यते तत अपरोऽन्यार्थकः । “परं युगपत् चिरं क्षिप्रम्" अपरस्मिन्-अन्यस्मिन्, खल्वाश्रितं यत् परं च युगपत् च चिरं च क्षिप्रं च व्यवह्रियते तत् काललक्षणम् । परं पुराणं तदपरमन्यं नवीनम्, युगपत्-क्रियाणं सहभावस्तदपरमन्यमेककस्याः क्रियाया: क्रमेण प्रवर्तनं, चिरं विलम्बस्तदपरमन्यं सद्यः, क्षिप्रं त्वरं तदपरमन्यं विप्रकृष्टम्, एते सापेक्षव्यवहाराः काललक्षणानि । यद्वा "युगपत् चिरं क्षिप्रम्" इति त्रयं प्रति 'अपरस्मिन् परम्' वचनमभिसम्बध्यते । तत्रा- परोऽन्यार्थको भिन्नार्थको वा परोऽनन्यार्थकः । अपरस्मिन्नाश्रितमन्यम- पेक्ष्यानन्यं 'युगपत्' इति क्रियाणां सहभावेन प्रवर्तनं वर्तमानत्वम् । चिरं-चिरन्तनं पुराणमित्यपरस्मिन्नन्यस्मिन्नाश्रितमन्यमपेक्ष्य भवति । क्षिप्रमप्यन्यं विलम्बमाश्रित्य भविष्यत्येवं कालत्रयव्यवहारा: कालस्य लक्षणानि । शङ्करमिश्रादिभिः सन्दिग्धार्थः कृतोऽन्यथा च व्याख्यातं सूत्रम् ॥६॥ द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥७॥ (द्रव्यत्वनित्यत्वे वायुना व्याख्याते) कालस्य द्रव्यत्वं नित्यत्वं च वायुना तुल्यं व्याख्यातं वेदितव्यम् । अद्रव्यवत्त्वेनान्यद्रव्यमिश्रण- * बाम्बे रायल प्राशियाटिक सोसायटी संज्ञक ग्रन्थ संग्रहालयस्थ लिखित प्राचीनपुस्तके तु अपरस्मिन् परम् इति पाठ उपलभ्यते स एव समीचीनः ।
३२ [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् राहित्येन तथा क्रियावत्त्वेन गुणवत्त्वेन च विज्ञेयं कालस्य द्रव्यत्वम् । कालस्य क्रियावत्त्वमुत्पादनादिक्रियाव्यापाराश्रयत्वात् । उक्तं हि सूत्र- कारेण कर्म प्रति कालस्य कारणत्वम् "कारणेन काल:" (वै० ।।२६) गुणस्तस्य पूर्वोक्त परत्वादिलक्षणं विभुत्वं च तस्मादेव नित्यत्वं च तस्य ॥७॥ तत्त्वं भावेन ॥८॥ ( तत्त्वं भावेन ) तस्य कालस्य स्वरूपकत्वं भावेन सत्तया तुल्यं विज्ञेयम्, तस्य निरवयवत्वात् सर्ववस्तुष्वनुगतधर्मवत्त्वात् ।।८।। अन्यच्च- - नित्येष्वभाबादनित्येषु भावात् कारणे कालाख्येति ॥६॥ ( नित्येषु-अभावात् ) नित्येषु द्रव्येषु कालस्याधेयतया कार्यतया वाऽभावात्-यथा तन्तुषु पटो भवत्याधेयतया कार्यतया वा न तथा कालो नित्येषु विद्यते। नित्ये द्रव्ये यन्नित्यत्वं तदपि काल- मपेक्ष्यैव भवति, कालो यावदवधिको नित्यद्रव्यमपि तावदवधिक तस्मा- नित्येषु द्रव्येषु तन्न्यूनावधिकत्वेन कालस्याभावात् तथा भूतमेव कारणं कालः । पुनश्च (अनित्येषु भावात् ) अनित्येषु द्रव्येषु कालस्य तदाधार- तया कारणतया भावाद् घटादीनां निर्माणे स्थितौ नाशे च कालोऽपि कारणत्वं भजते हि। तेषामनित्यानां भूतवर्तमानभविष्यपथगामिनां कालः कारणमतः काल इति संज्ञा कारणपरा । अन्यभाष्यकारः सूत्रं न सम्यग्व्याख्यातम् ॥६॥ क्रमप्राप्ता दिक्- इत इदमिति यतस्तद् दिश्यं लिङ्गम् ॥१०॥ ( इत:-इदम् ) इतः-अस्मात्-अपरस्मात्-अवरस्मात् खल्विदं परं दूरं यद्वा-इतः पूर्वस्मात्-इदं पश्चिमं दक्षिणमुत्तरं वेत्यादिकं निर्देशकृतं कल्पनं ( यतः) यतो भवति तत् खलु ( दिश्यं लिङ्गम् ) दिशाया लक्षणम् ॥१०॥ द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥११॥ (द्रव्यत्वनित्यत्वे वायुना व्याख्याते) दिशो द्रव्यत्वं नित्यत्वं च वायुना तुल्यं व्याख्यातं वेदितव्यम् । अद्रव्यवत्त्वेनान्यद्रव्यमिश्रण- द्वितीयाध्याये द्वितीयाह्निकम् ]] राहित्येन क्रियावत्त्वेन क्रियाया आधारत्वेन-यथा श्येन: पूर्वस्या दिश:- उड्डीय दक्षिणायां दिशि गतः, गुणवत्त्वेन च निर्देशवत्त्वेन विभुगुण- वत्त्वेन च ॥११॥ तस्वं भावेन ॥१२॥ ( तत्त्वं भावेन ) तत्स्वरूपत्वमेकत्वं भावेन सत्तया व्याख्यातं विज्ञेयम् ॥१२॥ कार्यविशेषेण नानात्वम् ॥१३॥ ( कार्यविशेषेण नानात्वम् ) दिश एकत्वेऽपि व्यवहारविशेषेण तस्या नानात्वमुपचर्यते ॥१३॥ तत्कथमित्युच्यते- आदित्यसंयोगाद् भूतपूर्वाद् भविष्यतो भूताच्च प्राचो ॥१४॥ (आदित्यसंयोगात् प्राची) सूर्यस्य संयोगात् खलु प्राची दिगुच्यते । कीदृशात् संयोगादित्युच्यते ( भूतपूर्वात् ) यः पूर्वो भूतस्तस्मात् प्रारम्भसृष्टितः परम्परया प्रवृत्तात् ( भूतात् ) वर्तमाने च सम्भूताद् वर्तमानकाले प्रवर्तमानात् ( भविष्यतः-च ) भविष्यत्काले चाप्रलयं प्रवतिष्यमाणादपि । यत्र दिग्भागे खलु प्रथमेन सूर्यसंयोगेन भवितव्यं स दिग्भागः प्राची दिक् ॥१४॥ तथा दक्षिणा प्रतीची। उदीची च ॥१५॥ (तथा) तथा च (दक्षिणा प्रतीची-उदीची) दक्षिणा सूर्यसंयोगं सम्मुखं लक्ष्यीकृत्य दक्षिणहस्तगता दिग् दक्षिणा, पृष्ठगता प्रतीची, वामहस्तगता खलूद्गता स्यादुदीची दिक् ॥१५॥ एतेन दिगन्तरालानि व्याख्यातानि ॥१६॥ (एतेन) 'प्राची' आदिदिनिर्णयेन (दिगन्तरालानि व्याख्यातानि) द्वयो योदिशोरन्तरालानि मध्यभूतानि कोणदिगन्तराणि पूर्वोत्तरादीनि नामकानि व्याख्यातानि विज्ञेयानि ॥१६॥ मित्रासन्देहार्थः सन्धेरभावः ।
३४ [ वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् एकविंशात् सूत्राच्छब्दं परीक्षमाण आचार्यः संशयमुत्थापयितु पूर्व संशयस्य स्वरूप लक्षणं वा विधत्ते चतुर्भिः सूत्रः- सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश्च संशयः ॥१७॥ (सामान्यप्रत्यक्षात्) समानधर्मप्रत्यक्षात्-यथा स्थाणुपुरुषयोरारोह- परिणाहरूपसमानधर्मस्य प्रत्यक्षात् (विशेषाप्रत्यक्षात्) तयोरेकतरस्य स्थाणोः पर्णशाखादिकं पुरुषस्य वा शिरोहस्तादिकं भेदकं लिङ्ग प्रत्यक्षं न भवतीत्यतः (विशेषस्मृतेः-च) विशेषस्य भेदकधर्मस्य मनसि- पुनः पुनर्जिज्ञासातः स्मरणात् (संशयः) संशयो भवति ॥१७॥ तद्भदाश्च- दृष्टं च दृष्टवत् ॥१८॥ (दृष्टं च दृष्टवत्) 'दृष्टवत्' शब्दस्तुल्यार्थकवत्प्रत्ययान्तो यद्वा मतु- प्रत्ययान्तः । उभयथाऽपि व्याख्यातुं युक्तः । पुरोवर्तिनि वस्तुनि दृष्टमुप- लब्धं लिङ्गमूलत्वं दृष्टवद् दृष्टयोः पूर्वदृष्टयोः प्रत्यक्षीकृतयोः स्थाणुपुरुष- योरिवास्ति तस्मात् संशयः । यद्वा पुरोवर्ति दृष्टं स्थाणुपुरुषविधं वस्तु दृष्टवत् खल्वारोहपरिणाहदृष्टलिङ्गयुक्तमस्ति तस्मात् संशयः, इति. तूभयत्र समानधर्मदर्शनाद् यकिधर्मदर्शनात् संशयः । अनेकाधिकरण- विषयकः संशयः ॥१८॥ यथादृष्टमयथादृष्टत्वाच्च ॥१६॥ (यथादृष्टम्) यथालिङ्गयुक्तं यल्लिङ्गयुक्तं वस्तु देवदत्तः सकेशोऽ केशो वा पूर्वो दृष्टः (अयथा दृष्टत्वात्-च) तस्य यथादृष्टत्वाभावादर्थात् कालान्तरे स एव छिन्नकेशः सकेशो वा दृष्टश्चेत् तहि संशयो भवति स एव देवदत्तोऽन्यो वेति धमिरिण संशयः । यद्वा स आवृतशिराः पूर्ववत् सकेशोऽकेशो वेति धर्मे संशयः, खल्वेकत्रैव संशयसूचकं सूत्रम् ॥१९॥ विद्याऽविद्यातश्च संशयः ॥२०॥ (विद्याऽविद्यातः-च संशयः) विद्या ज्ञानमुपलब्धिः, अविद्याऽज्ञान- मनुपलब्धिस्ताभ्यां ज्ञानाज्ञानाभ्यामुपलब्ध्यनुपलब्धिभ्यामपि भवति संशयः । यथा-सति मेघे वृष्टिर्भवतीति ज्ञानम्, अथ च कदाचित् सति मेघेऽपि वृष्टिर्न भवतीति तद्विरुद्धं भानम् । पुनरागते मेघे वृष्टिर्भविष्यति द्वितीयाध्याये द्वितीयाह्निकम् ] न वा भविष्यतीति संशयः । धूमोऽग्नेर्जायते-इति ज्ञानं तद्विपरीतं जला- शयादप्युत्तिष्ठति धूमो वाष्परूपः । धूममकस्माद् दृष्ट्वा संशयो भवति धूम एषोऽग्नेर्न वा । नद्यां जलस्योपलब्धिर्भवति मृगमरीचिकायां जलस्यानुपलब्धिर्भवति । कदाचिद् दूरतो दृश्यमाने प्रवाहे संशयो भवति जलनदीप्रवाहो यद्वा मृगमरीचिप्रवाहः । इत्येष संशयः खल्वान्तरिक- स्तद्भदार्थ एव पुनः संशयशब्दः सूत्रे ॥२०॥ परीक्षाप्रसङ्गस्य मुखं संशयं परिभाष्य यद्विषयः खलु संशयः प्रवर्तिष्यते स शब्दः स्वरूपत उपस्थाप्यते- श्रोत्रग्रहणो योऽर्थः स शब्दः ॥२१॥ (श्रोत्रग्रहणः) श्रोत्रेन्द्रियं ग्रहणसाधनं यस्य तथाभूतः (यः-अर्थः सः-शब्दः) यः खलु विषयः स शब्दः सर्वतन्त्रप्रसिद्ध उच्यते ॥२१॥ तत्र संशयः- तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्योभथया- दृष्टत्वात् ॥२२॥ ( तुल्यजातीयेषु ) शब्दः श्रोत्रेण ग्राह्यः, श्रोत्रं हीन्द्रियं तत्रेन्द्रिय- ग्राह्यषु तुल्यजातीयेषु रूपादिषु गुणेषु (अर्थान्तरभूतेषु) तद्भिन्नेषु द्रव्य- कर्मसु (विशेषस्य-उभयथा दृष्टत्वात्) शब्दविषयकविशेषधर्मस्योभय- प्रकारेण दृष्टत्वाद् यद्वा सन्धावकारस्य लुप्तरूपतया-अदृष्टत्वात् खलु शब्दे संशयः । शब्दे विशेषधर्मः संयोगजत्वं तुल्यजातीयेष्विन्द्रियै ह्यषु रूपादिषु गुणेषु तद्भिन्नेषु द्रव्यकर्मसु च दृश्यते तस्मात् संशयः शब्दो गुणो वा द्रव्यं वा कर्म वा । अथवा तत्रोभयप्रकारेण कोटिद्वयप्रकारेण न क्वपि दृश्यते विशेषधर्मो विभागजत्वम्, शब्दं विहाय न गुणेषु न द्रव्य- कर्मसु दृश्यते तस्मात् संशयः। पुनश्चास्य विशेषधर्मः श्रोत्रेन्द्रियग्राह्यत्वं तन्न द्रव्ये नान्यगुणे न कर्मणि तस्मात् संशयः । यद्वा शब्दे विशेषधर्मस्यो- भयकोटिगतस्य तुल्यजातीयगुणलक्षणस्य द्रव्याश्रयित्वस्यातुल्यजातीय- द्रव्यगतलक्षणस्य समवायित्वस्य क्रियागुणवत्त्वस्य तथा चातुल्यजातीय- कर्मणश्च कार्यविरोधित्वस्य लक्षणस्यादृष्टत्वात् संशयः। शङ्करमिश्रेण सूत्रं न सम्यग्व्याख्यातम् ॥२२॥ तत्र निर्णयप्रकार:- - [ वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् एकद्रव्यत्वान्न द्रव्यम् ॥२३॥ ( एकद्रव्यत्वात्-न द्रव्यम् ) शब्दस्यैकद्रव्यत्वादेकद्रव्याश्रयित्वादेक- द्रव्यसमवायिकारणकत्वात्, शब्दो ह्य कस्मिन् द्रव्ये किलाकाशे समवैति साधितं हि पूर्वम् “परिशेषाल्लिङ्गमाकाशस्य" तस्मात् स न द्रव्यम्, द्रव्यं कार्यद्रव्यं नैके द्रव्ये समवैति किन्त्वनेकेषु, यथा वस्त्रं नैकं तन्तु समवैति न ह्य कस्मात् तन्तोर्वस्त्रं सम्पद्यते बहुभ्य एव सम्पद्यते ॥२३॥ नन्वेकद्रव्यं कर्म भवति किं कर्म स्याच्छब्दः । उच्यते- नापि कर्माचाक्षुषत्वात् प्रत्ययस्य ॥२४॥ (न-अपि कर्म) न च शब्दः कर्म, यद्यपि कर्मभवत्येकद्रव्यसमवायिक परन्तु शब्द एकद्रव्यकः सन्नपि कर्म नास्ति (प्रत्ययस्य-अचाक्षुषत्वात्) शब्दप्रत्ययस्य । शब्दप्राप्तेरचाक्षुषत्वात्, शब्दप्राप्तिस्तु श्रोत्रेन्द्रियेण भवति, उक्तं हि "श्रोत्रग्रहणो योऽर्थः स शब्दः" (वै० २।२।२१) कर्म तु साक्षाच्चक्षुषा दृश्यते । तस्माच्छब्दो न कर्म। अथवा 'अपि' हेतुसमु- च्चयार्थः। शब्दः कर्म न तत्प्राप्तेरचाक्षुषत्वात्, कर्म चाक्षुषं तथा तद्विरुद्धधर्मकं च तस्मादचाक्षुषत्वात्तद्विरुद्धधर्मकत्वादपि, तद्विरुद्धधर्मश्च शब्दाच्छन्द उत्पद्यते स चेत् कर्म स्यात् तदा "कर्म कर्म- साध्यं न विद्यते" (वै० ११११११) इति विरोधः स्यात् । अथापि शब्दः खलु संयोगजो विभागजश्च पुनः संयोगो विभागश्च कर्मजः, इत्यपि वैपरीत्यमापद्यते तस्मादपि शब्दो, न कर्म। अतः परिशेषाच्छब्दो गुणोऽस्ति ॥२४॥ तस्य खलु- गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् ॥२५॥ ( गुणस्य सतः-अपवर्गः ) शब्दो गुणोऽस्तीति सिद्धं तथापि तस्य योऽपवर्ग आशुविनाशः सद्योविनाश इति वृत्तम् (कर्मभिः साधर्म्यम्) कर्मभिः सह साधर्म्यमस्ति शब्दोऽन्यगुणसदृशः स्थायी न, कर्मसदृशोऽ- स्थायीति कर्मभिः सह साधर्म्यमेतस्य ॥२५॥ शब्दस्यापवर्ग आशुविनाश उच्यते स कथं गुणस्य तु रूपादिवद् यावद्रव्यभावित्वाद् विनाशेन न भवितव्यं स्थिरत्वेनैव भाव्यम् । अत्रोच्यते- शब्दस्य -
द्वितीयाध्याये द्वितीयाह्निकम् ।
३
सतो लिङ्गाभावात् ॥२६॥
( सतः-लिङ्गाभावात् ) 'श्रोत्रेन्द्रियेण ग्राह्यः शब्दः' इत्युक्तम् ।
उच्चारणकाले ताडनकाले च सन् शब्द: श्रोत्रेण श्रूयते किन्तूच्चारणात्
ताडनाच्च प्रागूध्वं वा श्रवणान्न श्रूयते तस्याविद्यमानत्वान्नष्टत्वाच्च । यदि
खलूच्चारणात् ताडनात् प्रागूध्वं च शब्दोऽस्तीति तस्य सतो विद्यमानस्य
लिङ्ग लिङ्गयते येन तत्प्रमाणं श्रोत्रगोचरत्वं भवेत्, न चास्ति लिङ्ग
प्रमाणं श्रोत्रगोचरत्वं प्रत्यक्षं प्रमाणमनुमानं वा । न हि उच्चारणात्
ताडनाद्वा प्रामूवं च श्रवणाच्छ्रोत्रेण प्रत्यक्षं श्रूयते नानुमीयते ॥२६।।
पुनश्च-
नित्यवैधात् ॥२७॥
(नित्यवैधात् ) नित्यस्य धर्मवैपरीत्यात्, नित्यस्य धर्मः स्वग्रहण
साधनेन करणेन नित्यं निरन्तरं ग्रहणं प्राप्तिः, शब्दस्तु स्वग्रहणसाधनेन
न नित्यं निरन्तरं गृह्यतेऽथ च नित्यं वस्तु
नोत्पद्यते न विनश्यति शब्दो
न तथा ॥७॥
अपितु-
अनित्यश्चायं कारणतः ॥२८॥
( अनित्यः-च-अयं कारणतः ) शब्दः खलु न भूत्वा भवति, यो हि
नित्यो भवति न तथा स भवति, स तु सर्वदा भवति हि । शब्दोऽभूत्वा
पूर्वतो न भवन् पश्चाद् भवति कारणतश्च खलूच्चारणाद् भेरीदण्डा-
दिताडनाद्वा। तस्माच्छब्दो न पूर्वतो विद्यमानोऽस्ति किन्तु स त्व-
नित्यः ॥२८॥
न चासिद्धं विकारात् ॥२६॥
( न च-असिद्धम् ) कारणतः शब्दस्य कार्यत्वं न खल्वसिद्ध किन्तु
कारणात् तस्य कार्यत्वं सिद्धमेव (विकारात् ) विकारधर्मत्वात्
कार्यस्य । शब्दो विक्रियते विकारमापद्यते घटादिवत् , यथाघटपटादिः
कार्य वस्तु शनैः शनैर्विकारमापद्यमानः क्रमेण नैर्बल्यं जीर्णत्वं प्राप्नुवन्
सन्
विनष्टो भवति तथैव शब्दोऽपि तीव्रतमत्वं तीव्रतरत्वं तीव्रत्वं मन्दत्वं
मन्दतरत्वं मन्दतमत्वं विकारमापद्यमानः क्रमेण नैर्बल्यं प्राप्नुवन् विनष्टो
भवति ॥२६॥
३८ सन् व्यञ्जकादभि- [ वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् शब्द: कारणत: कार्यरूपेणोत्पद्यतेऽत एव तीव्रत्वंमन्दत्वं विकारमा- पद्यमानो विनष्टो भवतीति न, किन्तु स खलु स्थितः व्यज्यते प्रदीपेन व्यञ्जकेन स्थिरघटादिवत् सोऽभिव्यक्तः सन्नेव शब्द- स्तीवत्वं मन्दत्वमापद्यते, इति चेदुच्येत तर्हि- अभिव्यक्तौ दोषात् ॥३०॥ ( अभिव्यक्ती दोषात् ) अभिव्यज्यते शब्दः स्थितः सन् व्यञ्जकेनेति मन्तव्ये दोषोऽस्ति, दोषात्-दोषहेतोर्मतमेतन्न युक्तमित्यत्राकांक्षा नकारस्य सूत्रे । घटपटादयः पदार्थाः स्वस्वरूपसंख्याकारपरिमाणैः सह पूर्वतः स्थिताः सन्तः खल्वेकेन प्रदीपकेन समानदेशे समानेन्द्रियेण नेत्रेणाभिव्य- ज्यन्ते न च तथा शब्दः, भेरीदण्डाभिघातेन कल्पितव्यञ्जकेन न सर्वे शब्दा अभिव्यज्यन्ते श्रोत्रेण श्रूयन्ते वा एवमेकस्य मनुष्यस्योच्चारण- प्रयत्नेन कल्पितव्यञ्जकेनैकवर्णाभिव्यक्तौ सर्वे ककारादयो वर्णा अभि- व्यज्येरन् श्रूयेरंश्चेति न चाभिव्यज्यन्ते, इति दोषः । अथ चाभिव्यक्ती शब्दस्य व्यञ्जकेन भेरीशब्देन तन्त्रीशब्दो नाभिभूयेत व्यञ्जकेन प्रदीपेन तु यथास्वं यथास्थलं घट: पटो बिल्वमामलकमभिव्यज्यते हि तत्र नैके- नान्यस्याभिभवो भवति सोऽपि दोषः शब्दस्याभिव्यक्ती । अपरश्च कल्पितव्यञ्जन शब्दस्याभिव्यक्ती व्यखकसमानदेशकालयोरेव शब्द: श्रूयेत प्रदीपेन व्यञ्जकेन समानदेशकालयोर्घटपटादिदर्शनवत्, न च तथा शब्दोपलब्धिर्भवति, दारुवश्चनदेशकालाभ्यामन्यत्र देशे दूरस्थेन शब्द: श्रूयते तथा दारुपरशुसंयोगकालानन्तरं हि श्रूयते शब्दः । तस्मादभि- व्यक्तौ दोषान्मतं नैतत्सम्यक् ॥३०॥ शब्दस्याभिव्यक्तौ दोषोऽस्तीति हेतोः- संयोगाद् विभागाच्च शब्दनिष्पत्तिः ॥३१॥ (संयोगात्) भेरीदण्डयोराभिघातरूपात्, तथोभयहस्तताडनरूपादथ च वायुताडनपूर्वकजिह्वाकण्ठादिप्रघातरूपात् संयोगात् ( विभागात् ) वंशे वस्त्रादिके वा पाट्यमाने तदवयवानां विभागात् + ( शब्दात्-च) शब्दादपि यावद्वगं तत्तरङ्गसन्तानात् (शब्दनिष्पत्तिः) शब्दस्य निष्पत्ति: पूर्वतः खल्वविद्यमानस्य प्रादुर्भाव उत्पत्तिरितियावत्, संयोगादयोऽसम- चकाराद् वेगोऽपि ग्रहीतुं शक्यते वेगादपि शब्दनिष्पत्तिर्भवति विमानगति- वेगाच्छब्दो भवति यष्टिकागतिवेगादपि च ।
. द्वितीयाध्याये द्वितीयाह्निकम् ] वायिकारणानि। जिह्वाकण्ठादिशु वायुताडनपूर्वकाः शब्दानामुच्चा- रणे त्वात्मप्रयत्नादयो निमित्तकारणानि ॥३१॥ अतः- - लिङ्गाच्चानित्यः शब्दः ।।३२॥ (लिङ्गात्-च) चकारः पूर्वोक्तहेतुसमुच्चयार्थः "सतो लिङ्गाभावात्" (२६) शब्दः खलुच्चारणात् ताडनाद्वा प्राक् श्रवणानन्तरं च नास्ति तदानीं तस्यास्तित्वे लिङ्गाभावोऽस्ति, न हि श्रोत्रेण श्रूयते । तथा चात्र लिङ्गात् पूर्वोक्तानन्तरसूत्रे प्रतिपादितात् कारणात् संयोगादितस्तस्य संयोगादिजन्यत्वादपि ( शब्द:-अनित्यः ) शब्दोऽनित्यो ध्वन्यात्मको वर्णात्मकश्चोभयविधः ॥३२॥ भवतु ध्वन्यात्मकः शब्दोऽनित्यः परन्तु वर्णात्मकस्तु नित्यः स्यात् कुतः द्वयोस्तु प्रवृत्त्योरभावात् ॥३३॥ ( द्वयोः-तु प्रवृत्त्योः-अभावात् ) गुरुशिष्ययो र्यद्वाऽध्यापकाध्येत्रोः प्रवृत्त्योरध्यापनाध्ययनयोरभावप्रसङ्गात् खलु वर्णात्मकः शब्दस्तु नित्यः स्यादेव । गुरुणा शब्दो वर्णात्मकः शिष्याय प्रदीयते शिष्येण चादीयते तत्र द्वयोरादानप्रदाने नानुपस्थितस्यास्थितस्य सम्भवतः, तस्माद् वर्णा- त्मकेन शब्देन तु नित्येन भवितव्यमिति पूर्वपक्षः॥३३॥ प्रथमादिशब्दात् ॥३४॥ सम्प्रतिपत्तिभावाच्च ॥३५॥ अनयोः सूत्रयोरेकवाक्यताऽस्ति- (प्रथमादिशब्दात्) प्रथमोत्तमादिशब्दाच्छब्दो वर्णात्मको नित्यः "प्र वो वाजा अभिद्यवो..." ( ऋ० ३।२७।१) इत्येकादश खल्वृचः सामिधेन्यस्तासां प्रथमामुत्तमां चर्च त्रिः प्रथमां पूर्वा त्रिरुत्तमामन्तिमा च पुनरावर्त्य चतुर्दश सामिधेनीः सम्पाद्याग्निसमिन्धनाय प्रयुञ्जीते- त्यत्र प्रथमोत्तमयोः स्थितयोरेव पुनरावृत्तिर्भवितु युज्यते, तथा (सम्प्र- तिपत्तिभावात्-च ) सम्प्रतिपत्तिः सम्यक् प्रतिपत्तिः सिद्धस्यानुस्मृति- स्तस्याः सिद्धानुस्मृतेः सम्भवात्, यद्वा सिद्धस्य प्रयोगात् शब्दो वर्णात्मको नित्यो यतः स एवायं गायत्रीमन्त्रोऽध्यायो वाऽनेनाद्यापि प्रयुक्तो विनि- [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् युक्तो वाऽस्मिन् कर्मकाण्डे यश्च ह्यस्तनेऽमुष्मिन् कर्मकाण्डे प्रयुक्तो- विनियुक्तो वा ॥३४-३५॥ सर्व समाधत्ते- सन्दिग्धाः सति बहुत्वे ॥३६॥ (सन्दिग्धाः) एते त्रयोऽपि हेतव: "द्वयोः प्रवृत्तिः, प्रथमादिशब्दः, सम्प्रतिपत्तिः “सन्दिग्धाः सन्ति शब्दस्य नित्यत्वं साधयितु यतो ह्य तेऽस्थिरेषु खल्वपि प्रयुज्यन्ते, यथा व्यायामशिक्षणं गुरुणा शिष्याय प्रदीयते शिष्येण चादीयते, तत्र प्रथमोऽन्तिमो वा व्यायामः पुनरा- वर्तनीयः श्रेष्ठः सः, स एवायं व्यायामोऽनेन मल्लेन कृतः प्रदर्शितोऽ- त्रापि यः खल्वनेन तत्र ह्यः कृतः प्रदर्शितो वा । एवं सन्दिग्धाः सन्ति न च सन्दिग्धा हेतवो भवन्ति । वक्ष्यत्यग्रे खल्वाचार्यः "अप्रसिद्धोऽनप- देशोऽसन् सन्दिग्धश्चानपदेशः" (वै० ३।१।१५) तस्माद् वर्णात्मकोऽपि शब्दो न नित्यः । व्यायामः खलु कर्म, कर्म न स्थिरं किन्तु नश्वरम- नित्यं शब्दोऽपि नश्वरः, उक्तं हि "गुणस्य सतोऽपवर्गः कर्मभिः साध- Hम् (२५) (सति बहुत्वे) यदा व्यायामरूपाणां क्रियाणां क्षणवर्तिनी- नामपि बहुत्वे सति व्यायामशिक्षणं प्रदीयतेऽथादीयते-इति प्रयोगस्य वर्तमानत्वाद् भवति पुनः शब्दस्यादानप्रदानादिव्यवहाराः हेतुत्वेन प्रदर्शिताः सन्दिग्धाः सन्तोऽहेतवः ॥३६॥ यद्येवमनित्यो वर्णात्मकः शब्दस्तहि कर्मसदृशस्याशुविनाशिनोऽ- नवस्थितस्य शब्दस्य पञ्चाशद्वर्णाश्चतुर्दश स्वराः, इति कथं विभागः । अत्रोच्यते- संख्याभावः सामान्यतः ॥३७॥ ( संख्याभावः सामान्यतः) वर्णात्मकस्य शब्दस्यायं संख्याभावो गणननिर्देशः स खलु सामान्यतो जातितः-अत्वकत्वादिजातितोऽस्ति न तु नश्वरव्यक्तिरूपवर्णात्मकशब्दतः । यथा घटो व्यक्तितो नश्वरो घटत्वजातिरनश्वरा। यथा वाऽसंख्यानां कर्मणामुत्क्षेपणादिकं पञ्च- विधत्वं जातितः ॥३७॥ द्वितीयाह्निकं समाप्तम् । समाप्तश्च द्वितीयोऽध्यायः॥
तृतीयोऽध्यायः - प्रथमाह्निकम् । बाह्यद्रव्याणां लक्षणान्युक्त्वाऽधुनोद्देशक्रमेणान्तर्द्रव्यमात्मानं लक्षयन् पीठमारचयति- प्रसिद्धा इन्द्रियार्थाः ॥१॥ (इन्द्रियार्था: प्रसिद्धाः) इन्द्रियाणि घ्राणादीनि तदर्थाश्च गन्धरसा- दयश्च प्रसिद्धाः प्रकृष्टसिद्धाः सन्ति, क्रमेणकैकस्येन्द्रियस्यकैकविषय- व्यवस्थया प्रज्ञाताः सन्ति ॥१॥ इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः ॥२॥ (इन्द्रियार्थप्रसिद्धिः) इन्द्रियाणां तदर्थानां च प्रसिद्धिः प्रत्यक्षताऽ- नुभूतिर्ज्ञानं वा (इन्द्रियार्थेभ्यः-अर्थान्तरस्य हेतुः) घ्राणादीन्द्रियेभ्यो- गन्धाद्यर्थेभ्यश्च भिन्नस्य वस्तुन आत्मद्रव्यस्य हेतुः साधकं भवति । इन्द्रियाणि तु करणानि कुठारादिवत्साधनानि सन्त्यात्मनोऽथ गन्धाद- योऽर्थाः प्रयोजनानि ह्यात्मनः, एवमिन्द्रियाणां प्रयोक्ता तदर्थानां प्रयो- जनानां चोपभोक्ता करणरूपेभ्य इन्द्रियेभ्यस्तदर्थेभ्यो गन्धादिभ्यश्च प्रयोजनरूपेभ्यो भिन्न एवेति सिद्धम् ।।२।। अत्र शङ्कते- सोऽनपदेशः ॥३॥ (सः-अनपदेशः) स एषोऽहेतुः, इन्द्रियार्थप्रसिद्धिः । यतो हीन्द्रियाणि शरीराङ्गानि शरीरमाश्रयन्ति तथेन्द्रियार्थाश्च भौतिका इन्द्रियै ह्यन्ते, शरीरमपि भौतिकं तस्माच्छरीरमेव चेतनमिन्द्रियार्थाश्रयत्वान्न तद्भिन्न- मर्थान्तरमपेक्ष्यते ॥३॥ समाधत्ते चतुभिः सूत्रः- ४२ [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् कारणाज्ञानात् ॥४॥ कार्येषु ज्ञानात् ॥५॥ अज्ञानाच्च ॥६॥ अन्यदेव हेतुरित्यनपदेशः ।।७।। एषामेकवाक्यताऽस्ति- ( कारणाज्ञानात् ) शरीरस्य कारणेषु खल्वज्ञानाज्ज्ञानाभावात्, न हि शरीरकारणेषु भूतेषु ज्ञानमस्ति तस्माच्छरीरं चेतनं कथं स्यात्, न तच्चेतनमित्यर्थः (कार्यषु ज्ञानात् ) अथ चेदुच्येत सौक्षम्येण चैतन्यं भूतेषु विद्यते तेषां कार्ये शरीरे तदभिव्यज्यते । यद्येवम् (अज्ञानात्) घट- पटादिषु कार्येषु खल्वज्ञानात्, घटपटादयोऽपि भूतानां कार्याणि तत्र तु न चैतन्यमभिव्यक्तीभूतं पुनः कथमनपदेश उच्यते । अतः (अन्यत्-एव हेतु:-इति-अनपदेशः) अन्यत् खलु ज्ञानं तदत्र हेतुरुच्यते "इन्द्रियार्थ- प्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः" प्रसिद्धिः प्रत्यक्षत्वं ज्ञानं खल्वा- त्मनोऽस्ति यत्-नेत्रे मम साधनं नेत्राभ्यां रूपमहं जानेऽहं नेत्रयोरुप- योक्ता रूपस्योपभोक्तेति ज्ञानमत्र सूत्रे लक्ष्यं तस्माद्धेतुरस्ति, इत्यतो यत्पूर्वपक्षत्वेनोक्तमनपदेशः स एवानपदेशः, नास्माकं कथनमनपदेशः । शङ्करमिश्रादिभिरन्तिमं सूत्रं पूर्वपक्षत्वेनान्यथाव्याख्यातम् ॥४-७॥ वस्तुतः अर्थान्तरं ह्यर्थान्तरस्यानपदेशः ।।८।। ( अर्थान्तरं हि-अर्थान्तरस्य-अनपदेशः ) 'हि' शब्द: केवलार्थः, अर्थान्तरं हि केवलमर्थान्तरं खल्वर्थान्तरस्यानपदेशोऽहेतुर्भवति । यथा धूमो रासभस्य केवलमर्थान्तरं सन्न तस्य हेतुर्भवति वह्नस्तु धूमो न केवलमर्थान्तरं किन्तु तत्कार्य सदर्थान्तरं तस्माद् वह्न र्बोधे हेतुः । इन्द्रियाणि तदर्थाश्चार्थान्तराणि सन्त्यात्मनः परन्तु न केवलार्थान्तराणि हेतुत्वेनोक्तानि किन्तु तत्प्रसिद्धिरिन्द्रियार्थप्रसिद्धिरिन्द्रियार्थप्रत्यक्षत्व- मिन्द्रियार्थज्ञानं खल्वात्मनो हेतुरित्युक्तमतो नानपदेशः ।।८।। अर्थान्तरं किमपि साहचर्यमवलम्ब्यार्थान्तरस्य हेतुर्भवतीत्यायातं तत्परिगणनं क्रियते- संयोगि समवाय्येकार्थसमवायि विरोधि च ॥६॥ (संयोगि) शरीरं त्वग्वत् तदावरणं हि त्वक् तया विना न शरीरं - ४३ - तृतीयोध्याये प्रथमाह्निकम् ] भवति, कदाचिदन्धकारे त्वचं स्पृष्ट्वाऽनुमीयतेऽस्ति शरीरम्, सुपथा- गच्छतो रथस्य सारथिरनुमीयतेऽस्ति रथोऽयं सारथिमान् (समवायि) स्पर्शेन वायुरनुमीयते शब्देनाकाशो द्रव्यमित्यनुमीयते व्यक्तवाचा मन्त्र- पाठेन वा व्यवहितो विज्ञजनो होता वाऽनुमीयते (एकार्थसमवायि विरोधि च ) सूत्रकृदाचार्यः स्वयमुदाहरति सूत्रः ।।६।। एकार्थसमवायिन उदाहरणमाचष्टे- कार्य कार्यान्तरस्य ॥१०॥ ( कार्य कार्यान्तरस्य) कार्यद्रव्यस्थं रूपं कार्य कारणद्रव्यरूपस्य, यथा वस्त्रस्थं रूपं कार्यं तन्तुस्थरूपस्य, यद् वस्त्रस्थं रूपं कार्य तत् कार्यान्तरस्य वस्त्रगतस्पर्शस्य स्वभिन्नस्य कार्यस्य हेतुर्भवति । वस्त्रस्थ- स्पर्शोऽपि कार्य तन्तुस्थस्पर्शस्य तन्तूनां रूपं रक्तं नीलं वा वस्त्रस्थ- रूपस्य रक्तस्य नीलस्य कारणं तथैव तन्तूनां स्पर्शो मृदुः कर्कशो वा वस्त्रस्थस्पर्शस्य मृदोः कर्कशस्यापि कारणम् । वस्त्रस्थरूपं कार्य वस्त्र- स्थस्पर्शस्य स्वभिन्नस्य कार्यस्य हेतुर्भवति यतो रूपं न स्पर्शमन्तरेण तिष्ठति यत्र रूपं तत्र स्पर्शेनापि भाव्यम् । तथा गन्धोऽपि रसस्य हेतु- भवति गन्धेन रसोऽनुमीयते हि लोके पक्वाम्रादिफलस्य ॥१०॥ विरोधिलिङ्गमुदाहरति- विरोध्यभूतं भूतस्य ॥११॥ भूतमभूतस्य ॥१२॥ भूतो भूतस्य ॥१३॥ एषामेकवाक्यताऽस्ति- ( विरोधि ) विरोधि लिङ्गमनुमाने त्रिविधमस्ति तद्यथा ( अभूतं भूतस्य ) सत्यपि मेघेऽविद्यमाना वृष्टिविद्यमानस्य वाय्वभ्रसंयोगस्य वृष्टिप्रतिबन्धकस्य । ( भूतम्-अभूतस्य ) विद्यमाना जाता वृष्टिरविद्य- मानवाय्वभ्रसंयोगस्य, भ्रष्टाचारप्रवर्तनमविद्यमानधर्मशासनस्य (भूतो:- भूतस्य ) विद्यमानो विस्फूर्जन् सर्पो झाटान्तरितस्य नकुलस्य लिङ्ग विरोधि ॥११-१३॥ एतेऽपदेशा हेतवो लिङ्गानि सन्ति यतः- - , - [ वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् प्रसिद्धिपूर्वकत्वादपदेशस्य ॥१४॥ ( अपदेशस्य प्रसिद्धिपूर्वकत्वात् ) हेतोलिङ्गस्य प्रसिद्धिपूर्वकत्वात्- या खलु प्रसिद्धिः प्रकृष्टसिद्धिः सर्वविदिता सर्वानुभूतिर्यद्वाऽविनाभाव- स्थितिाप्तिः पूर्वा यस्मात् तथाभूतो भवत्यपदेशो हेतु: । पूर्वोक्तेषू- दाहरणेषु यथाऽपदेशो हेतुरन्यार्थस्य तथैवेन्द्रियाणि तदर्थाश्च प्रसिद्धि- पूर्वकत्वादात्मानोऽपदेशत्वमर्हन्ति । इन्द्रियाणि करणानि कुठारादिवत् प्रयोक्तव्यानि प्रयोक्तारमन्तरेण न भवन्ति स च ज्ञानपूर्वक प्रयोजयति तथागन्धादीनाश्च जानाति गन्धादीनां ज्ञानं न ज्ञातारमन्तरेण भवति तस्मादिन्द्रियाणां प्रसिद्धि: करणत्वेन प्रयोगोऽथार्थनां गन्धादीनां प्रसि- हिनिदृष्ट्या खलूपभोग आत्मनोऽपदेशो हेतुरिति निरवद्यम् ॥१४॥ अथानपदेशः क इत्याकांक्षायामुच्यते- अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चानपदेशः ॥१४॥ ( अप्रसिद्ध:-अनपदेशः ) 'प्रसिद्धिपूर्वकत्वादपदेशस्य इत्युक्तत्वाद् गतं ह्य तद् यो ह्यप्रसिद्धः सोऽनपदेशोऽहेतुः । इति तु परिभाषामात्रम् । तत्र विभागः ( असन् सन्दिग्ध:-च-अनपदेशः ) यः खलु भवत्यसन् तथा संदिग्धश्च भवति सोऽनपदेशो द्विविधः । अविद्यमानोऽसन्, अनै- कान्तिकः सन्दिग्धः ॥१५॥ उभयविधस्यानपदेशस्य सूत्राभ्यां क्रमेणोदाहरणं प्रदीयते- यस्माद् विषाणी तस्मादश्वः ।।१६।। (. यस्माद् विषाणी तस्मात्-अश्वः ) अश्वविषाणयोः प्रसिद्धिर्ना- स्ति अश्वत्वसाध्ये यस्माद् विषाणीति हेतुरप्रसिद्धोऽसन् न खल्वश्वे विषाणे विद्यते । विषाणाभ्यामश्वस्यानुमानं न युक्तम् ॥१६।। यस्माद्-विषाणी तस्माद् गौरिति चानकान्ति- कस्योदाहरणम् ॥१७॥ ( यस्मात्-विषाणी तस्मात्-गौः ) कश्चित् कदाचिद् सविषाणां गां दृष्ट्वाऽनन्तरं स्मृत्या कथयति यस्मादेष पशुर्विषाणी तस्माद् गौरस्ति, यद्यपि गवि विषाणे भवतः परन्तु विषाणत्वलक्षणमन्यत्रापि प्रक्रामति महिष्यामजायां हरिणे च, तत्खलु लक्षणं नासन्दिग्धं .
४५. तृतीयाध्याये द्वितीयाह्निकम् ] किन्तु सन्दिग्धं व्यभिचारि, यतस्तदन्यत्रापि घटमानं सदनैकान्तिकत्वा- दनपदेशोऽहेतुः । ॥१७॥ तस्मात्- आत्मेन्द्रियार्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत् ।।१८।। ( आत्मेन्द्रियार्थसन्निकर्षात्-यत्-निष्पद्यते-तत्-अन्यत् ) आत्म- न्द्रियार्थानां सन्निकर्षात् । आत्मा खल्विन्द्रियैः सह युज्यते, इन्द्रियराः सन्निकृष्यन्ते तदेवं सन्निकर्षाद् यदुत्पद्यते ज्ञानं तत्खल्वात्मनोऽपदेशो हेतुर्यदर्थमपदेशत्वमुक्तं हि पूर्व "अन्यदेव हेतु......" (२) यश्च प्रसिद्धि- शब्देन प्रदर्शितो हेतु: "इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः” (२) ॥१८॥ एवम्- प्रवृत्तिनिवृत्तो च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् ॥१९॥ (च) अथ च (प्रत्यगात्मनि प्रवृत्तिनिवृत्ती दृष्टे) स्वात्मनि प्रवृत्तिर- भीष्टविषयम्प्रति निवृत्तिश्चानिष्टाद् दृष्टेऽनुभूते यत्ते ज्ञानपूविके स्तस्ते खलु ( परत्र लिङ्गम् ) परात्मनि लिङ्ग विज्ञेयं यत् तत्रापि ते आत्मा- श्रिते हि स्तः ॥१६॥ प्रथमाह्निकं समाप्तम्। द्वितीयाह्निकम् आत्मनोऽविनाभूतसहकारि खल्वन्तःकरणं मनो लक्षयति, तल्लक्षण- विशेषप्रदर्शनाय- आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् ॥१॥ (आत्मेन्द्रियार्थसन्निकर्षे ) आत्मेन्द्रियार्थानां सन्निकर्षे सति (ज्ञानस्य इति चानकान्तिकस्योदाहरणम्' पाठोऽनावश्यकः सूत्रकारस्य न स्यादिति प्रतिभाति।
[वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् ( भावः-अभाव:-च मनस:-लिङ्गम् ) शब्दादिज्ञानस्य कदाचिद् भावः खलूत्पादो भवति कदाचिदभावोऽनुत्पादश्चेति मनसो लिङ्गमस्ति, अस्ति किमप्यन्तःकरणं यदपेक्ष्य ज्ञानस्योत्पादानुत्पादौ भवतः सर्वेन्द्रियैः सह सम्बद्धस्यापि खल्वात्मनः । तेनात्मेन्द्रियगणयोर्मध्यवर्ति मनोऽनुमीयते यत् सन्निकर्षेऽपेक्ष्यते । तच्च ज्ञानसाधनं करणमान्तरिकं यथा च रूप- साधनं नेत्रं बहिष्करणं ज्ञातुरात्मनः ॥१॥ तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥२॥ ( तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ) मनसो द्रव्यत्वं नित्यत्वं च वायुना तुल्यं व्याख्यातं वेदितव्यम् । वायोर्द्रव्यत्वं यथा खल्वद्रव्य- वत्त्वेनान्यसमवायिद्रव्यानाश्रितत्वेन क्रियावत्वेनेन्द्रियप्रेरकत्वेन गुणवत्वेन गन्धादिसुखादिज्ञानजनकत्वेन चेति ॥२॥ प्रयत्नायौगपद्याज्ज्ञानायोगपद्याच्चैकम् ॥३॥ (प्रयत्नायौगपद्यात्-ज्ञानायौगपद्यात्-च-एकम् ) सर्वकर्मेन्द्रियैर्यु- गपत् प्रयत्ना न भवन्ति सर्वज्ञानेन्द्रियैर्युगपज्ज्ञानानि न भवन्ति तेनैकं मनः सिद्धयति क्रमेण संयोगमपेक्ष्य मनः प्रयत्ननिमित्तं ज्ञाननिमित्तं च भवति । नर्तक्याः करचरणचालनगानादिव्यवहारा न वस्तुतो युगपद् भवन्ति तेऽपि क्रमेणैव भवन्ति मनस आशुसञ्चारित्वात् तस्य क्रमो न लक्ष्यतेऽलातचक्रवत् परिभ्रमणे खलूभयतो ज्वलद्दण्डवत् ॥३॥ उच्यते खल्वात्मनो विशिष्टलक्षणानि- प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वषप्रयत्नाश्चात्मनो लिङ्गानि ॥४॥ (प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखे- च्छाद्वषप्रयत्नाः-च-आत्मनः-लिङ्गानि) प्रसिद्धिर्ज्ञानमात्मनो लिङ्गमित्येव न, किन्त्वत्र सूत्रे पठिता अपि प्राणादयो धर्मास्तस्य लिङ्गानि चकारेणा- नूच्यन्ते । ज्ञानं तु स्वरूपलिङ्ग यदात्मा ज्ञः । परन्तु प्राणादयो विशि- ष्टानि लिङ्गानि तत्कृत्यानि परीक्षणार्थानि च यदात्माऽत्र पिण्डेऽस्ति न वेति परीक्षितुम् । आत्माधिकृते पिण्डे प्राणादयो लिङ्गानि सर्वाणि स्युरिति न नियमः, क्वचिनिकाये सर्वाणि भवन्ति यथा मानवदेहे, कस्मिश्चित् तदपेक्षया न्यूनानि यथा पशुपक्षिशरीरे कुत्रचिच्चाति- - तृतीयोध्याये द्वितीयाह्निकम् ] न्यूनानि द्वित्रीणि वा यथा सरीसृपे कृमिकीटे वा, भवतु कस्मिंश्चिदेक- मेव जीवनमात्रं जीवस्य लिङ्ग यथा वनस्पतिवर्गे, जीवतीति जीवो यत्र जीवस्तत्र जीवनं यत्र वा जीवनं तत्र जीवेनात्मना भवितव्य- मेवेति । तत्र लिङ्गेषु खलु प्राणापानौ शरीरान्तःस्थस्य वायोः प्रगमन- प्रवृत्तिशक्तिर्बहिर्गतिप्रेरणशक्तिः प्राणोथऽबहिस्तोऽपगमनप्रवृत्तिशक्तिर- न्तराकर्षणशक्तिरपानः, यत्रैतौ प्राणापानौ प्रचलतस्तत्रात्मा मनागनु- मीयते निमेषोन्मेषी नेत्रपक्ष्मणोः संयोजनं निमेषस्तयोश्चोद्घाटनमुन्मेषः, यत्र निकाये तो प्रवर्तेते तत्रात्माऽस्तीति विज्ञेयम्, आत्मशक्त्या हि तौ क्रमेण भवतः । जीवनं खल्वाहारग्रहणमाहारात्पुष्टिप्राप्तिर्विविधाङ्ग- विकासो बीजादुत्पादः स्वजातीयबीजात् स्वजातीयपिण्डसन्ततिरित्येतत्सर्व जीवमन्तरेण न सम्भवति । मन:-मननसाधनमन्तःकरणमपि खल्वात्म- लिङ्ग यथा दर्शनसाधनाभ्यां नेत्राभ्यां द्रष्टाऽऽत्मा तथा मननसाधनेन मनसा मन्ताऽऽत्माप्यनुमातव्यः, एक कार्यं कुर्वन् सन् मध्ये त्यक्त्वाऽन्यं कार्यमारभते तेन मनसा मननकर्ताऽऽत्मा सिद्धयति । गतिः-कश्चित् पिण्डो बाह्यप्रेरणमन्तरेण स्थितः शयानो वा सहसोत्थाय गच्छति तद्गत्याऽऽत्मा तत्पिण्डेऽस्तीति ज्ञायते । इन्द्रियान्तरविकार:-कदाचिदेके- नेन्द्रियेण जिह्वयाऽऽस्वादितं नागरङ्गमपक्वाघ्र फलं वा पुनर्नेत्रेण दृष्ट्वा तद्रसस्मृतिवशाज्जिह्वोपरि तद्रसोद्भासो विकारः सञ्जायते तेने- न्द्रियविषयसंवेदी स्मर्ताऽऽत्माऽनुमीयते ताभ्यामिन्द्रियाभ्यां भिन्नः । सुख दुःखेच्छादयस्त्वान्तरिका अनुभूतिगुणा न जडे संतिष्ठन्ते तेषां ज्ञानव- च्चेतनेनानुभूयमानत्वात्, ते गुणाः क्वचिदाश्रितास्तदाश्रयश्चेतन आत्मा सिद्धयतितराम् ॥४॥ तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ।।५।। ( तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ) तस्यात्मनो द्रव्यत्वं नित्यत्वं च वायुना तुल्यं व्याख्यातं वेदितव्यम् । अद्रव्यत्वेनान्यसमवायि- द्रव्यानाश्रितत्वेन क्रियावत्त्वेन सर्वेन्द्रियैर्मनसा च कार्य विधातु निज- प्रयत्नवत्त्वेन क्रियाकरणशक्तिमत्त्वेन ज्ञानेच्छादिगुणवत्त्वेन द्रव्यत्वं निरवयवत्त्वेन नित्यत्वं विज्ञेयम् ॥५॥ आत्मनोऽनुमाने विप्रतिपत्तिः प्रदर्श्यते त्रिभिः सूत्रः- यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्ग न विद्यते ॥६॥ - .
४ [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् - ( यज्ञदत्त इति सन्निकर्षे ) यज्ञदत्तशरीरे चक्षुरादीन्द्रियसन्निकर्षे सति ( प्रत्यक्षाभावात् ) तदधिष्ठातुस्तदन्तरे वर्तमानस्य वात्मनः प्रत्यक्षाभावात्, न ह्यात्मा प्रत्यक्षं भवति । तस्मात् (दृष्टं लिङ्गन विद्यते ) दृष्टं चाक्षुषं लिङ्गं नास्ति, यथा खलु महानसे सन्निकर्षेऽग्निः प्रत्यक्षीक्रियते धूमेन साद्धं धूमस्तस्य दृष्टं लिङ्गमन्यत्राप्रत्यक्षेग्नौ धूमेन दृष्टेन लिङ्गेनाग्निरनुमीयते न तथा महानससदृशे यज्ञदत्तशरीरे धूमेनेव दृष्टेन लिङ्गेनात्माऽनुमातुं युज्यते, न च तल्लिङ्ग नात्मा प्रत्यक्ष- तामापद्यते । तस्मात्तस्यानुमानं न युक्तम् ॥६॥ सामान्यतो दृष्टाच्चाविशेषः ।।७।। (सामान्यतो दृष्टात्-च-अविशेषः) सामान्यतो दृष्टादनुमानाच्चापि खल्वविशेषो न वस्तुविशेष आत्मा सिद्धयति यतो हि ज्ञानेच्छादयो गुणास्तैर्गुणीत्यनुमीयते गुणाः खलु द्रव्यमाश्रयन्ति, भवतु तद्युक्तं किमपि द्रव्यमदृष्टं तत्किमिति न वक्तुं शक्यते, तस्मात् तददृष्टलिङ्ग : स आत्मेति बोधः कथं स्यात् ।।७।। पूर्वपक्षनिष्कर्ष:- तस्मादागमिकः ॥८॥ (तस्मात्-आगमिकः) तस्मात् स आत्मा प्रत्यक्षानुमानाभ्यामसिद्धः सन् खल्वागमसाध्य एवेति, आगमे तु विद्यते-आत्मा नाम्ना पदार्थः । "यस्मिन्त्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।" (यजु० ४०।७) "आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।" (बृ० ४।४।१२) "आत्मानं रथिनं विद्धि शरीरं रथमेव तु" । ( कठ० १ । ३। ३) "तमणुमात्रमा- स्मानमनुविद्यास्मीत्येवं सम्प्रजानीते।” (योग० १ । ३६ व्यासः) । अत- स्तत्रात्मनि लिङ्गप्रदर्शनं न युक्तं किन्त्वागमत एव स स्वीकर्तव्यः ।।८।। समाधत्ते- अहमिति शब्दस्य व्यतिरकान्नागमिकम् ।।६।। ( अहम्-इति न-आगमिकम् ) 'अहम्' इति न स्वानु- भूतिरूपं प्रत्यक्षविषयकमात्मनः, आत्मा ह्यनुभवति यदहमस्मि, तथा मम मदीयमात्मीयमिति च साम्यं लोकेऽपि तस्मादात्मस्वरूपमह- मिति प्रत्यक्षानुभूतमात्मनाम, न ह्यागमलक्ष्यं वक्तुं शक्यते, भवतु खल्वागमोऽपि तत्र प्रमाणं, (शब्दस्य व्यतिरेकात् ) शब्दः खल्वागम- -
४६
-
तृतीयाध्याये द्वितीयाह्निकम् ]
स्तस्य व्यतिरेकाद् व्यतिरिक्तत्त्वाद् विलक्षणत्वात्, विलक्षणो
ह्यागमः
प्रत्यक्षादहम्प्रत्ययात् सति प्रत्यक्षे किं प्रमाणं नान्यप्रमाणमपेक्ष्यते।
प्रत्यक्षविषयत्वमस्ति स्वस्मिन्ननुभूयमानत्वात्, तत्पोषणार्थं भवतु
खल्वागमो नात्र क्षतिः परन्तु न केवलमागममात्रमात्मनि प्रमाणं किन्तु
प्रत्यक्षं स्वकीयं प्रधानमित्यर्थः । यद्वा 'अहम्' इति प्रत्यक्षीभूतस्यात्म-
शब्दस्य व्यतिरेकाद् भिन्नत्वादागमतः, नागमिकं प्रमाणमेव किन्तु सर्व-
प्रत्यक्षमत्र सर्वैरात्मभिः प्रत्यक्षमनुभूयते स्वात्माहमिति ॥ शङ्कर-
मिश्रेणोपस्कारवृत्तौ व्यतिरेकः पृथिव्यादितोऽहंशब्दस्य व्याख्यातः स
न युक्तः, अत्र तु 'तस्मादागमिकः' इति पूर्वपक्षस्य समाधानं विहितं न
ह्यहंशब्दः पृथिव्यादिषु घटमान इति पूर्वपक्षः, तथाकृते व्याख्यानेऽपि
न पूर्वपक्षनिवृत्तिर्भवति, वस्तुतोऽत्रागमप्रमाणसाध्य एवेति पूर्वपक्ष-
निवृत्तये 'अहम्' इति प्रत्यक्षाद् व्यतिरेक आगमस्येति तात्पर्य तथा-
कृत्वा नागममात्रं प्रमाणमिति पूर्वपक्षो निराकृतः ।।६।।
पुनरुच्यते-
यदि दृष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति ॥१०॥
दृष्ट आत्मनि लिङ्गे एक एव दृढत्वात्प्रत्यक्षवत्प्रत्ययः ।।११।।
अनयोः सूत्रयोरेकवाक्यताऽस्ति-
(यदि-अन्वक्षं दृष्टम्) यदि खल्वन्वक्षं प्रत्यक्षं दृष्टं दर्शनं स्याद् यथा
लोके (अहं देवदत्तः-अहं यज्ञदत्तः-इति) तदा (आत्मनि दृष्टे) आत्मनि
'अहम्' इति खल्वात्मनि प्रत्यक्षे सति । पुन: (लिङ्ग दृढत्वात् प्रत्यक्ष-
वत् प्रत्ययः-एकः-एव:) लिङ्गयतेऽनुमीयते येन तल्लिङ्गमनुमानं तस्मि-
ननुमाने दाढर्यात् प्रत्यक्षमिव प्रत्ययो बोधो यद्वा प्रत्यक्षवान् प्रत्यक्ष-
पूर्वको बोध एक एवाभिन्नः स्यात्, सरोवरं गच्छता जनेन सरोवरे
प्रत्यक्षे कृते सत्यपि तत्र स्थितैर्वकवलाकभिश्च लिङ्गरनुमीयते
सरोवरोऽवश्यमिति तस्य दृढज्ञानं भवति तथैव 'अहम्' इति प्रत्यक्ष
खल्वात्मनि सत्यपीच्छादिलिङ्गरागमेन च तस्य दृढं ज्ञानं भवति
यदस्ति खल्वात्मा ॥१०-११।।
शङ्कते सूत्रद्वयेन-
देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचाराच्छरीरे
प्रत्ययः ॥१२॥
- - [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् सन्दिग्धस्तूपचारः ॥१३॥ अनयोः सूत्रयोरेकवाक्यताऽस्ति- (देवदत्तः-गच्छति यज्ञदत्तः गच्छति-इति-उपचारात्-शरीरे प्रत्ययः) यदुक्तमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति खल्वहं शब्द आत्मनि प्रत्यक्ष तन्न युक्तं यतो हि यथा देवदत्तोऽहं यज्ञदत्तोऽहं तथा "देवदत्तो गच्छति यज्ञदत्तो गच्छति" इत्यपि तूपचर्यते । स एष गमनप्रत्ययः साक्षाच्छरीरे वर्तते, शरीरं हि गमनक्रियाया अधिकरणं तद्धि स्थानात्स्थानान्तरं गच्छति न ह्यात्मा तथैव देवदत्ते यज्ञदत्ते वाऽहमिति प्रत्ययः कथं स्यादात्मनि, कथं न शरीरे । यतः स एषः (उपचार: सन्दिग्धः-तु) उपचार उभयविषो देवदत्तेऽहंरूपो गमनरूपश्च सन्दिग्धस्तु जातः कथं ह्यात्मप्रत्यक्षोऽहम्प्रत्ययः ॥१२-१३॥ समाधत्ते- अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्षः ।।१४।। ( अहम्-इति प्रत्यगात्मनि भावात् ) 'अहम्' इति प्रत्ययो बोधः स्वात्मनि भवतीति तस्मात् तथा (परत्राभावात् ) परस्मिन्न भवतीति यतः (अर्थान्तरप्रत्यक्षः) अर्थान्तरं ह्यात्मा तत्प्रत्यक्ष आत्म- प्रत्यक्षो न शरीरप्रत्यक्षः । शरीरं हि जडं न हि जडे 'अहम्' इत्यनु- भूतेर्योग्यता तस्यानुभूतिशून्यत्वात् । आत्मनिर्गते शरीरेऽहं देवदत्त इत्यनुभूतिर्न भवति न चोत्थाय गच्छति तत् ॥१४॥ पुनः शङ्कते- देवदत्तो गच्छतीत्युपचारादभिमाना- तावच्छरीरप्रत्यक्षोऽहंकारः ॥१५॥ सन्दिग्धस्तूपचारः॥१६॥ अनयोः सूत्रयोरेकवाक्यताऽस्ति- (देवदत्तः-गच्छति-इति-उपचारात्) देवदत्तो गच्छतीति यथोपचर्यते शरीरे व्यवह्रियते तथा हि ( अहंकारः-अभिमानात् ) अहङ्कारोऽपितु खल्वभिमन्यते शरीरे 'अहं गोरोऽहं कृष्णः, अहं स्थूलोऽहं कृशः। एवं ५१ तृतीयाध्याये द्वितीयाह्निकम् ] गमनमिवाहंकारोऽपि शरीरे प्रवर्तते तस्मात् सोऽहंकारः (शरीर- प्रत्यक्षः ) शरीरप्रत्यक्ष उपलभ्यते । तस्माद् यः खलूक्तो हेतुरहङ्कारः प्रत्यगात्मनि, भवतु प्रत्यगात्मन्यपि परन्तु शरीरेऽपितु भवति तस्मात् ( उपचारः सन्दिग्धः-तु ) स एष उभयविधो व्यवहारः 'अहम्' इति प्रत्ययस्य प्रत्यगात्मनि. शरीरे च विद्यमानत्वात् सन्दिग्धस्तु जातः, क्व वास्तविकः क्व चावास्तविकः ।।१५-१६।। समाधत्ते- न तु शरोरविशेषाद् यज्ञदत्त- विष्णुमित्रयोर्ज्ञानं विषयः ॥१७॥ ( शरीरविशेषात्-यज्ञदत्तविष्णुमित्रयो:--ज्ञानं विषयः-न तु ) शरीरभेदात्-शरीरभेदं प्राप्य यज्ञदत्तविष्णुमित्रयोर्ज्ञानं विषयो न खलु भवति । यज्ञदत्तविष्णुमित्रयोर्ज्ञानं विषयोऽहं सुखो दुःखो जानेऽ- हमिच्छामि वेत्यादिज्ञानं विषयः शरीरभेदं शरीरस्य गौरत्वकृष्ण- त्रादिकमाश्रित्य नैव भवति यदि ह्यहं सुखी दुःखीच्छामीत्येवमादि- ज्ञानं गुणः शरीरस्य शरीरभेदमाश्रित्य तर्हि गौरशरीरवतो देवदत्तस्य सदा सुखानुभूत्या भवितव्यम्, न च तथा भवति । गौरः सुखिनं च दुःखिनं चानुभवत्यात्मानं तस्मादहं सुखी दुःखीच्छामीत्येवं ज्ञानं गुणो न शरीरस्य । अथ च यथा शरीरगुणा रूपादयस्तु शरीरे स्थिरा भवन्ति परन्तु सुखदुःखादयस्तु पर्यायेणानुभूयन्ते कदाचित् सुखं कदाचिद् दुःखं कदाचिदिच्छा कदाचिद् द्वेषश्च त एते पर्यायेण नानुभूयेरन् । तथा यदि ज्ञानं विषयः शरीरस्य स्यात्तर्हि शरीरस्य रूपादिगुणाः शरीरे गृह्य- माणे यथा नेत्रादिभिरिन्द्रियगुह्यन्ते तथा ज्ञानं गुणोऽपि. शरीरे गृह्यमाणे तथैवेन्द्रियेण गृह्यत न च गृह्यते। तस्मादहं सुखी दुःखी. च्छामि द्वष्मि जाने इति ज्ञानं विषयः शरीरादर्थान्तरस्यात्मनो गुणोऽ- स्तीति सुतरां सिद्धम् । शङ्करमिश्रादिभिः सूत्रं न सम्यग्व्याख्या- तम् ॥ १७॥ आत्मसिद्धिमुपसंहरति- अहमिति मुख्ययोग्याभ्यां शब्दवद् व्यतिरेकाव्यभिचाराद्- विशेषसिद्ध गमिकः ॥१८।। -
५२
-
[वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम्
( अहमिति मुख्ययोग्याभ्यां शब्दवद् व्यतिरेकाव्यभिचाराद् विशेष-
सिद्धेः-न-आगमिकः) 'अहम्' इति प्रत्ययो ज्ञानगुणो मुख्यः प्रधानो
योग्यः साक्षादनुभाव्यः प्रत्यक्षसिद्धः खल्वात्मन एव तस्मात् तस्या-
त्मनि मुख्यत्वयोग्यत्वाभ्यां शब्दवद् व्यतिरेकाव्यभिचाराद् यथा शब्दो
व्यतिरेकात् पृथिव्यादितो व्यतिरिक्तत्वात् परिशेषात् परिशेषस्याव्यभि-
चारादननैकान्तिकत्वादाकाशस्य गुणस्तथा 'अहम्' इति प्रत्ययो ज्ञान-
गुणोऽपि व्यतिरेकात् परिशेषात् परिशेषस्य चाव्यभिचारादननैकान्ति-
कत्वादात्मनो हि गुणः, इतीत्थं विशेषसिद्ध : शरीराद् विशिष्टस्य-
भिन्नस्याहन्त्ववतोऽहमितिप्रत्यक्षानुभूतिमत आत्मनः सिद्धत्वान्न स
आत्मा केवलमागमिक आगममात्रसाध्यः ॥१८॥
भवतु शरीराद् भिन्नस्तावदात्मा 'अहम्' इति प्रत्ययेन साक्षात्सिद्ध
आगमानुमानाभ्यां समर्थितः परन्तु सर्वप्राणिशरीरेषु खल्वात्मा स्यादेक
एवेति पूर्वपक्षत्वेनोच्यते-
सुखदुःखज्ञाननिष्पत्त्यविशेषादैकात्म्यम् ॥१९॥
( सुखदुःखज्ञाननिष्पत्त्यविशेषात्-ऐकात्म्यम् ) सुखदुःखज्ञानानामा-
त्मगुणानामुत्पत्तिसमानत्वात् खल्वात्मा सर्वप्राणिशरीरेष्वेक एव ।
यथा हि शब्दगुणस्याभेदात्समानत्वादाकाशः खल्वेक एव यथा वा
योगपद्यादिकाललिङ्गाविशेषादेकः कालस्तथाहि सुखाद्यात्मलिङ्गाविशे-
षादात्मा सर्वप्राणिशरीरेषु स्यादेक एव ॥ १६ ॥
समाधत्ते सूत्रद्वयेन-
व्यवस्थातो नाना ॥२०॥
( व्यवस्थातः-नाना ) सर्वप्राणिशरीरेषु नैक आत्मा किन्तु नाना
सन्ति खल्वात्मानः, अतः प्रतिशरीरं भिन्न-भिन्न आत्मा व्यवस्थातः ।
व्यवस्था प्रतिनियतिः । एकस्मिन्काले देशे च कश्चित् सुखी-कश्चिद्
दुःखी, कश्चिज्ज्ञानी-कश्चिदज्ञानी, कश्चिद् गुणवान्-कश्चिदगुणवान्,
कश्चिद्धर्मात्मा-कश्चिदधर्मात्मा, कश्चित् पूर्वजन्मकृतकर्मतः सर्वाङ्ग:-
कश्चिद् विकलाङ्गो गलिताङ्गश्चेति व्यवस्थातः सिद्धयति न खल्वेक
आत्मा सर्वशरीरेषु परन्तु प्रत्येकस्मिञ्छरीरे पृथक् पृथगात्मेति
निश्चयः ॥२०॥
५३ तृतीयाध्याये द्वितीयाह्निकम् ] शास्त्रसामर्थ्याच्च ।।२१॥ (शास्त्रसामर्थ्यात्-च) शास्त्रे प्राप्तसमर्थनत्वात् वेदादिशास्त्रं खलु प्रमाणमस्माकं तत्र वर्णनबलात् तस्य नानात्वमस्ति । यथा “ये समानाः समनसो जीवा...।" ( यजु० १६ । ४६ ) “य इत्तद् विदु- इस्त इमे समासते" ( ऋ० १ । १६४ । ३६ ) "चेतनानाम् ( कठो० ५ । १३ ) ॥२१॥ द्वितीयाह्निकं समाप्तम् समाप्तिगतश्च तृतीयोऽध्याय.
चतुर्थोऽध्यायः तत्र प्रथमाह्निकम् नव द्रव्याण्युद्दिष्टानि परीक्षितानि च “सदनित्यमित्यादिना" द्रव्य- गुणकर्मणामविशेषेणानित्यत्वमुक्तम् । अत्र विशेषेण खलूच्यते नित्यत्व- विषये यत्- - सदकारणवन्नित्यम् ॥१॥ ( सत्-अकारणवत्-नित्यम् ) सद् वस्तु यत्तु कारणवत् सकारणं तत्तु खल्वनित्यमस्ति, परन्तु यत् सत् खल्वकारणवत् स्वस्माद्भिन्नं कारणं नापेक्षते तत्तु नित्यमेव तच्चान्तिमं कारणं तदन्तरवत्तिनां कारणानामपि कारणमिति यावत् । अथ च यदकारणं मूलकारणं तन्नासद्रूपं तत्तु सद्रूपमेव हि न ह्यसतः सदुत्पादः । तत्तु सदेव स्वरूपतो ऽपि सत् तथा कारणात्मना यद्वा समवायित्वेन स्वकार्यान्तवति भवत् सदेव सद्रूपेणावभासते हि पटे तन्तव इव । तदेतत् सदकारणं तु नित्यम् ॥१॥ अर्थतादृशे कारणे कि लिङ्ग, यतादृशस्य कारणस्य सद्भावे कि लिङ्गमित्याकांक्षायामुच्यते- तस्य कार्य लिङ्गम् ॥२॥ कारणभावात् कार्यभावः ॥३॥ अनयोः सूत्रयोरेकवाक्यताऽस्ति- ( तस्य-कार्यम्-लिङ्गम् ) तस्य तथाभूतस्य मूलकारणस्य सत्त्वे कार्य लिङ्ग ज्ञापकमस्ति । कार्येण खल्ववश्यं कारणस्य विद्यमानत्वं लिङ्गयते ज्ञायते । यतः (कारणभावात् कार्यभावः) कार्यभावः कार्यस्य सत्त्वं कारणभावात् कारणस्य सत्त्वाद् विद्यमानत्वात् सम्भवति नान्यथा, तस्मात् कार्यमिव व्यक्तमभवदपि कारणं सद्रूपमेव । अस्ति किमप्य- - चतुर्थाध्याये प्रथमाह्निकम् । न्यद्वस्तु यत्खलु पृथिव्यादिभौतिकद्रव्यस्यापि कारणं सद्रूपं प्रकृत्याख्यं यदर्थं "कारणभावात् कार्यभावः" इति शब्दभेदेन पुनरावृत्तं "कारणा- भावात् कार्याभावः" ( वै० २२११) इति सिद्धे सति यच्च कार्य- भूतेन द्रव्येण लिङ्गयतेऽदृश्यं च सच्चेति ॥३॥ कथं तदकारणवत् सद् वस्तु सर्वकारणं नित्यमित्यत्रोच्यते सूत्रद्वयेन- अनित्य इति विशेषतः प्रतिषेधभावः ।।४।। अविद्या ॥५॥ अनयोः सूत्रयोरेकवाक्यताऽस्ति- ( अनित्यः-इति विशेषतः प्रतिषेधभावः ) “सदनित्य.....।" ( वै० १।१।८) 'अनित्यः' इति सतः खलु विशेषतो विशेषणतो हि तस्य प्रतिषेधभावो नित्यमपि सद् वरतु किश्चिदस्तीति सिद्धयति । यत्खल्व- कारणं सत् तन्नित्यमेव सदनित्यमिति सूत्रे किमपि नित्यमस्तीति लक्ष्यीकृत्यानित्यमिति प्रयुक्तम् । यथा हि ( अविद्या ) सर्वप्रसिद्धमिदं यत् 'अविद्या' इति प्रयोगेऽस्ति 'विद्या' यस्य प्रतिषेधो 'अविद्या' यथा 'अविद्या' विशेषणतस्तत्प्रतिषेधो विद्या स्वतः सिद्धयति न हि तत्साधने प्रयत्नापेक्षा * शङ्करमिश्रादिभिः सूत्रद्वयमसम्बद्धं व्याख्यातम् ॥४-५।। यत्खलु कारणानामपि कारणं कार्येण लिङ्ग नानुमीयते तस्य कार्यस्योपलब्धिः प्रत्यक्षं कथं भवतीत्युच्यते- महत्यनेकद्रव्यवत्त्वाद् रूपाच्चोपलब्धिः ॥६॥ ( महति-अनेकद्रव्यवत्त्वात्-रूपात्-च-उपलब्धिः ) महति महत्- परिमाणवति भवति खलूपलब्धिः प्रत्यक्षत्वम् । तत्रापि-अनेकद्रव्याश्रयि- त्त्वात् । तथा रूपाद् रूपवशात् तस्य रूपवत्त्वात्, अर्थात्-उपलब्धियद्वा प्रत्यक्षज्ञानं भवति महत्ववति महत्परिमाणवति वस्तूनि न तु सूक्ष्मे, तच्च कारणानां कारणं सूक्ष्ममस्ति, तस्मान्न तत्प्रत्यक्षम् । अथ चेत् कार- णानां कारणमपि महत् सर्वत्र प्रसृतं तदा 'अनेकद्रव्यवन्न, नानेकद्रव्या- श्रयि तस्मान्न प्रत्यक्षं यथाकाशस्य महतो सतोऽपि न प्रत्यक्षत्वम् । - - * अनित्य शब्दाद् यथा नित्योऽत्र साध्यते 'अविद्या' दृष्टान्तमुक्त्वा तथैवा- प्रेऽपि 'अविद्या' दृष्टान्तेन सप्तमाध्याये साधयिष्यते 'नित्यं परिमण्डलम्'- अविद्या च विद्यालिङ्गम् ॥ (७ । १ । २०-२१) [वैशेषिकदर्शन ब्रह्ममुनिभाष्योपेतम् अथानेकद्रव्यवद् द्वथाणुकं न तत्प्रत्यक्षमतस्तन्न महत्-महत्त्ववत्-महत्प- रिमाणवत् तस्मान्न प्रत्यक्षम् । वस्तुतो भवत्युपलब्धिः प्रत्यक्षत्वं महत्व- वति-अनेकद्रव्यवति रूपाद् रूपवशाद् रूपगुणसहभावाद् यद्वा समवेत- रूपगुणवत्त्वाद्धि महदनेकद्रव्यवत् प्रत्यक्षं भवति नान्यथा ॥६॥ ननु पृथिव्यां पार्थिवे च घटादौ, अप्सु तथाप्ये च हिमादौ रूपमुप- लभ्यते प्रत्यक्षी क्रियते कथन्न वायोरप्युपलब्धिः प्रत्यक्षत्वम् । अत्रोच्यते- सत्यपि द्रव्यत्व महत्त्वे रूपसंस्काराभावाद्वायोरनुपलब्धिः ।।७।। ( वायो:-द्रव्यत्वे महत्वे सति-अपि ) वायुः खलु महान् सर्वत्र गतिमत्त्वादथ द्रव्यं च, द्रव्यत्वात् सावयवोऽवयवात्मकानेकद्रव्यवान् यतो न स कारणानां कारणम् । इत्थं तस्य महत्त्वे महत्ववत्त्वे महत्परिमाण- वत्त्वे द्रव्यवत्त्वे सत्यपि ( रूपसंस्काराभावात्-अनुपलब्धिः ) रूपगुणस्य संस्काराभावो वासनाऽभाव: संस्कारो वासना तत्र रूपगुणस्य वासना नास्ति तस्माद्वायोरुपलब्धिः प्रत्यक्षत्वं चाक्षुष प्रत्यक्षत्वं न भवति । अग्नी तु रूपगुणो वर्तते तन्नजिकगुणवत्त्वात्, पृथिव्यां पार्थिवेऽप्सु तथाप्ये रूपं तु खलु रूपसंस्कारवशादस्ति । रूपस्य संस्कारो वासना तत्रास्ति रूपं गुणो ह्यग्नेरस्ति, अग्नेर्गुणस्य रूपस्य संस्कारेण वासनया संस्कृता वासिताः पृथिवी पार्थिवा आप आप्याश्च पदार्थाः । तेषां रूपं न वास्तविक परन्तु तैजसो रूपस्य संस्कारेण वासनया संस्कृतं वासितमेव तत्र रूपम्, वायौ न तथा रूपगुणस्य सस्कारो वासना तस्माद वायौ न चाक्षुपं प्रत्यक्षम् । वातीति वायुरिति योगाद् वायुः पार्थिवं गन्धमाप्यं रसं तैजसं रूपं तु वहति हि, यथा गन्धमादाय नयति रसं नयति तथाऽग्निरूपमपि ज्वालामितस्ततस्तिर्यगूज़ च नयति हि वायुरिति वहनं तत्कर्म। अन्य- भाष्यकारैरित आरभ्य चत्वारि सूत्राण्यन्यथाव्याख्यातानि ।।७।। द्रव्याणां चाक्षुषप्रत्यक्षत्वाप्रत्यक्षत्वे विधाय गुणानामुपलब्धि- प्रदर्शयन् प्रथम रूपगुणस्योपलब्धिः प्रदर्श्यते, तत्र च प्रकारद्वयमि- त्युच्यते- अनेकद्रव्यसमवायाद् रूपविशेषाच्च रूपोपलब्धिः ।।८।। ( रूपोपलब्धि: ) रूपगुणस्योपलब्धिः प्रत्यक्षत्व भवति खलु ( अनेकद्रव्यसमवायात् ) अनेकानां द्रव्याणां समवायात् संयोगात्, यः खलु रूपसंस्कारः स खल्वनेकषु द्रव्येषु समवेतेषु रूपगुणस्योपलब्धिकारणं चतुर्थाध्याय प्रथमाह्निकम् ]] भवति, पृथिव्यां पार्थिवेऽप्सु तथा चाप्ये । (च) अथ च ( रूपविशेषात् ) विशिष्टरूपगुणात्, अग्नौ हि रूपगुणविशेषस्तस्मादग्नौ तथाग्नेये पदार्थ रूपस्योपलब्धिः प्रत्यक्षत्वं भवति तस्याग्ने जिकगुणविशेषत्वात्, ततो- ऽन्यत्र तु रूपसंस्कारादेव रूपम् ।।८।। अथान्येषु गुणेषु च- नेन रसगन्धस्पर्शषु ज्ञानं व्याख्यातम् ।।६।। ( तेन ) तथाप्रकारेण संस्कारेण गुणसंस्कारेणानेकद्रव्यसमवायात् तथा नैजिकगुणविशिष्टत्वेन गुणविशेषात् (रसगन्धस्पर्शेषु.ज्ञानं व्याख्या- तम् ) गन्धे रसे स्पर्श ज्ञानं घ्राणेन्द्रियजन्यं रसनेन्द्रियजन्यं त्वगिन्द्र- यजन्यं व्याख्यातं वेदितव्यम् । तत्र पृथिव्यां पार्थिवे घ्राणेन गन्धस्य ज्ञानं गुणविशेषात्-नैजिक गुणविशिष्टत्वात्, अन्यत्राप्सु तथाप्ये गन्धसंस्का- रेणानेकद्रव्यसमवायात् । अप्सु तथाप्ये रसनया रसज्ञान रसविशेषात्- नैजिकगुणविशिष्टत्वात्, अन्यत्र पृथिव्यां पार्थिवे च रससंस्का- रेणानेकद्रव्यसमवायाद् भवति । एवं वायौ वायव्ये त्वगिन्द्रियेण स्पर्श- ज्ञानं स्पर्शविशेषात्-नैजिकगुणविशिष्टत्वात्, अन्यत्र पृथिव्यां पार्थिवेऽप्सु तथाप्य तथाग्नावाग्नेये स्पर्शसंस्कारेणानेकद्रव्यसमवायाद् भवतीति विज्ञेयम् ।।६।। रसगन्धस्पर्शेषु ज्ञानमुक्तं कथन्न तत्र प्रत्यक्षम् । उच्यते- तस्याभावादव्यभिचारः ।।१०।। ( तस्य-अभावात्-अव्यभिचार: ) रसगन्धस्पर्शेषु तस्य प्रत्यक्षस्य प्रत्यक्षकारणस्य वा रूपसस्कारस्य रूपविशेषस्य चाभावात् खल्वव्यभि- चार:-व्यभिचारो न भवति न ततोऽन्यत्र प्रत्यक्षत्व किन्तु ज्ञानमेव हि । अथ च कारणानां कारणे न चाक्षुषं प्रत्यक्ष न हि खल्वन्येन्द्रियजग्यं ज्ञानं तत्र तस्य रूपसंस्कारस्य रूपविशेषस्य गन्धरसस्पर्शसंस्कारस्य गन्धरसस्पर्शविशेषस्य चाभावान्न व्यभिचार:. किन्तु नियतिरेव तत्र न प्रत्यक्षं न च तथैन्द्रियिकं ज्ञानमस्ति तत्तु खलु कार्येणैवानुमीयते ॥१०॥ - अथ च- संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वा- परत्वे कर्म च रूपिद्रव्यसमवायाच्चाक्षुषाणि ।।११।। * न तु चाक्षुषं प्रत्यक्षं।
५८ [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् अरूपिष्वचाक्षुषाणि ।।१२।। अनयोः सूत्रयोरेकवाक्यतास्ति- (संख्याः......."कर्म च) संख्यादयो गुणाः कर्म च स्नेहवेगद्रव- त्वानि चेति सर्वाणि रूपवत्सु द्रव्येषु समवेतानि चाक्षुषाणि चक्षुरि- न्द्रियग्राह्याणि तेषां चाक्षुषत्वात्स्पार्शनानि च सन्ति परन्तु (अरुपिषु- अचाक्षुषाणि) रूपरहितद्रव्येषु समवेतानि तु न चाक्षुषाणि भवन्तु क्वचित्स्पार्शनानि, अथ च नेत्रहीनं जनं प्रति तु रूपवत्सु द्रव्येषु समवे- तानि सन्त्यपि न चाक्षुषाणि, स्पार्शनानि तु सन्ति हि, जडं विहाय चेतने खल्वात्मनि तु मानसानि हि ॥११-१२।। एवम्- एतेन गुणत्वे भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम् ।।१३॥ ( एतेन गुणत्वे भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम् ) एतेन तत्तदि- न्द्रियगुणस्य ज्ञानप्रकारेण गुणत्वे तथा भावे सत्तायां च सर्वेन्द्रिय ज्ञानं व्याख्यातं वेदितव्यं न हि तत्रान्यप्रयत्नापेक्षा, गुणत्वसत्तयोः सामा- न्ययोर्यद्वा जात्योरपि ज्ञानमिन्द्रियजन्यम् । इत्येषोऽर्थः क्रियते सर्वेरेव- भाष्यकारैः। प्रश्नो ह्यत्रोपतिष्ठते कर्मत्वे द्रव्यत्वे च किसाधनक ज्ञानं किं तन्नन्द्रियिकम् ? यथा हि खलु गुणत्वं सामान्य जातिर्वा तथा कर्मत्वं द्रव्यत्वमपि, सत्तां तु महासामान्यं परजातिर्वा, गुणत्वस्य सत्तायाश्च ज्ञानं तूक्तं कर्मत्वस्य द्रव्यत्वस्य ज्ञानेनापि तु भाव्यमेवेति । अतोऽन्योऽर्थः (एतेन गुणत्वे सर्वेन्द्रियं ज्ञानं व्याख्यातम्) उक्तप्रकारेण गुणत्वे गुणजातौ गुणमात्रे सर्वेन्द्रियं ज्ञानं यथायोग्यं चाक्षुषं प्रत्यक्षं यद्वा- न्येन्द्रियजन्यमचाक्षुषं नासिक्यं रासनं स्पार्शनं श्रौत्रं ज्ञानं तत्र गुणगणे, अथ तत्र कर्माप्युक्तं 'परापरत्वे कर्म च तस्मात् तेन कर्मज्ञानप्रतिपादन- प्रकारेण कर्मत्वे कर्मजातौ कर्ममात्रे यथायोग्यं चाक्षुष स्पार्शनं ज्ञानं प्रत्यक्षमानुमानिकं वा व्याख्यातं सत् (भावे च) भावात्मके पदार्थे- द्रव्ये द्रव्यत्वे द्रव्यमात्रेऽपि चाक्षुषप्रत्यक्षमचाक्षुषं नासिक्यं रासनं स्पार्शनं श्रोत्रं वाऽऽनुमानिकं यथायोग्यं व्याख्यातं वेदितव्यम् । येनेन्द्रियेण गुणस्य कर्मणो वा ज्ञानं चाक्षुषमचाक्षुषं वा यथा भवति तथैव द्रव्यस्यापि ज्ञानं भवति यतो द्रव्याश्रिते हि गुणकर्मणी इत्यर्थस्वारस्यं सूत्रशैल्याए ।१३।। प्रथमाह्निकं समाप्तम् + सामान्ये विशेषे तु बुद्धधपेक्षं ज्ञानमुक्तम् । ?
५६ चतुर्थाध्याये द्वितीयाह्निकम् ] द्वितीयाह्निकम् प्रथमाह्निके कारणद्रव्याण्यभिधाय तत्कार्याणि प्रदर्श्यन्ते- तत्पुनः पृथिव्यादिकार्यद्रव्यं त्रिविधं शरीरेन्द्रिय- विषयसंज्ञकम् ॥१॥ तच्च (तत्पुनः) तत्पश्चात् कारणद्रव्यानन्तरं यदुत्पद्यमानम् (पृथिव्यादि- कार्यद्रव्यं त्रिविधम्) पृथिव्यादिकं कार्यद्रव्यं त्रिविधमस्ति (शरीरेन्द्रियविषयसंज्ञकम्) शरीरं यत् खलु भोगायतनं चेष्टेन्द्रियार्था- श्रयश्च, इन्द्रियं घ्राणादिकं विषयजातस्य ग्रहणसाधनम्, विषयस्तु- ताभ्यां शरीरेन्द्रियाभ्यामवशिष्टं यत् पृथिवी पार्थिवमाप आप्यं तेज- स्तैजसं वायुर्वायव्यं च। शरोरं तु पार्थिव पृथिवीलोके, आप्यमपां- लोके वरुणलोके, तैजसमादित्यलोके, वायव्यं मरुतां लोके, इति विवेकः ।।१॥ शरीरादिकं कार्य यत्खलूक्तमेकैकद्रव्योपादानकमाहोस्वित्पञ्चभूतो- पादानकमित्यत्रोच्यते- प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात्पञ्चात्मक न विद्यते ॥२॥ ( प्रत्यक्षाप्रत्यक्षाणां संयोगस्य-अप्रत्यक्षत्वात् ) पृथिवीजलाग्नोनां प्रत्यक्षाणां वाय्वाकाशयोरप्रत्यक्षयोश्च संयोगस्य खल्वप्रत्यक्षत्वाद- प्रसिद्धत्वात् पञ्चात्मकं पञ्चभूतोपादानकं शरीरादिकं कार्य नास्ति संयुज्य हि द्रव्याणि कार्यस्योपादानत्व भजन्ते स्वकार्य वोत्पादयन्ति, प्रत्यक्षाप्रत्यक्षाणां संयोगो ह्यसंभवः । प्रत्यक्षाणां मूतिमतां हि संयोगेन भवित्तव्यं तस्माच्छरीरादिकं न पञ्चभूतोपादानकं पञ्चभूतसंयोग- जन्यं वा ॥२॥ किन्तर्हि प्रत्यक्षाणां पृथिवीजलाग्नीनां संयोगजन्य व्यात्मक शरीरादिकम् । अत्रोच्यते- गुणान्तराप्रादुर्भावाच्च न त्र्यात्मकम् ॥३॥ (न त्र्यात्मकम्) शरीरादिकं कार्य न प्रत्यक्षाणां पृथिवीजलाग्नीनां संयोगजन्यं त्रिभूतोषादानकम् (गुणान्तराप्रादुर्भावात्-च) संयोगे खलु- - ६० - [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् गुणान्तरं प्रादुर्भवति यथा हरिद्राचूर्णयोः सति संयोगे लौहित्यं गुणान्तरं तद्युक्तं विलक्षणं द्रव्यञ्च प्रादुर्भवति, न च तथाऽत्र प्रादुर्भवति तस्मान्न भूतत्रयोपादानकम् । अत्र चकारोऽन्वाचयार्थः पूर्वं सूत्रमप्यन्वाचिनोति' तत्प्रतिहेतुमुत्क्षिपति । यत् प्रत्यक्षाप्रत्यक्षाणां संयोगः कल्प्येत तर्हि प्रत्यक्षाणां गन्धरसरूपाः खल्वप्रत्यक्षयोर्वाय्वाकाशयोरगन्धरसरूपयो- स्तत्र शरीरादिकार्ये सम्मिश्रिते गन्धरसरूपेभ्यो गुणान्तरमगन्धरसरूपत्वं यद्वोभयोई श्यादृश्यवैलक्ष्यमापद्यतेति हेतुत्वेनोत्प्रेक्ष्यम् ॥३।। प्रत्यक्षाप्रत्यक्षाणां पञ्चानां यद्वा प्रत्यक्षाणां द्रव्याणां संयोगः शरीरादिकार्ये खलूपादानत्वेन प्रतिषिद्धः, यतस्तेषां संयुक्तानां शरीरादि- कार्याणि न तस्मात् तान्युपादानकारणानि न, परन्तु- अणुसयोगस्त्वप्रतिषिद्धः ॥४॥ (अणुसंयोगः-तु-अप्रतिषिद्धः) पृथिव्याः खलुपादानत्वेऽपि तत्रैको- पादानके शरीरादावाप्यादीनामणूनां सयोगस्तु खल्वप्रतिषिद्धो मन्तव्यः, न हि शरीरसंस्थानं तैराप्यादिभिरणुभिविना सम्भवति घटादिपार्थिव- वस्तुवत्, घटो यद्यपि पार्थिवः परन्तु तत्र घटसंस्थाने जलादयो न विद्यन्ते परन्तु तदणूनामुपष्टम्भकत्वेन तु तत्र भवित्तव्यमेव तथैव शरी- रादौ खल्वपि तदनामुपष्टम्भकत्वेनावश्यं भवित्तव्यं हि, नोचेच्छरी- रादौ क्लेदपाकव्यूहावकाशानां यद्वा रसरूपस्पर्शावकाशानामसम्भवः स्यात् । सोऽणुसंयोगस्त्वभीष्टः ॥४॥ तत्र शरीरं द्विविधं योनिजमयोनिजं च ॥५।। (तत्र) शरीरेन्द्रियविषयेषु (शरोरं द्विविधं योनिजम्-अयोनिजम् च) शरीरं खलु द्विविधं द्विप्रकारं भवति, प्रकारद्वये खल्वेकं योनिजम्, प्राणिशरीरे शुक्रशोणितसन्निपातस्थानं योनिस्तत्र जातमण्डजरायुभ्यां बहिर्गमनशीलं यद्वाण्डजराय्वोः पुष्टिगतं योनिजम् । द्वितीयं तद्भिन्ना- ज्जातमयोनिजम्, शरीरमयोनिजमाप्यं वरुणलोके तेजसमादित्यलोके वायव्यं मारुते लोके पूर्वमुक्तं यथा। पृथिवी लोके तूभयविधं यानि जमयोनिजञ्च भवति ।।५।। पार्थिवशरीरस्यायोनिजत्वे परिकर्म निर्दिश्यते- अनियतदिग्देशपूर्वकत्वात् ॥६॥ - चतुर्थाध्याये द्वितीयाह्निकम् । धर्मविशेषाच्च ॥७॥ समाख्याभावाच्च ॥८॥ संज्ञाया आदित्वात् ॥६॥ सन्त्ययोनिजाः ॥१०॥ एतेषां सूत्राणामेकवाक्यताऽस्ति तस्मात् सहैव व्याख्यायन्ते- (अयोनिजाः सन्ति) पृथिवीलोकेऽपि सन्ति खल्वयोनिजाः शरीर- भेदा यद्वा देहा: साङ्कल्पिकसांसिद्धिकस्वेदजोद्भिज्जाः । कथमित्य- रोच्यते (अनियतदिग्देशपूर्वकत्वात्-धर्मविशेषात्-च) 'अनियतदिग्देश- पूर्वकत्वात्। इति तु 'धर्मविशेषात्' इत्यस्य विशेषणम् । धर्मविशेषात्, चकारेण 'अधर्मविशेषात्' इत्यपि गृह्यते । यद्वा धर्मशब्दाददृष्टं धर्मा- धर्मजन्यं गृह्यते। अदृष्टविशेषात् प्रबलादृष्टवशात्, शुभादृष्टविशेषाद- शुभादृष्टविशेषाच्चानियतदिग्देशपूर्वकात्, यस्य खलु धर्मविशेषस्याधर्म- विशेषस्य शुभाशुभादृष्टविशेषस्य दिग्देशौ न नियतौ देहारम्भकशक्ति- मद्भिर्भूतसूक्ष्मैरणुभिः सह, तस्य हि सर्वदिग्देशेषु कुत्रापि प्रवर्तनाद् भवन्ति खल्वयोनिजाः शरीरभेदा देहा वा, तच्छुभाशुभा दृष्टविशेषकारितं हि भूतसूक्ष्मेष्वणुष्वाद्यं कर्म, तस्मात् तदनियतदिग्देशपूर्व कादृष्टकारि- तैरयोनजैः शरीरभवितव्यम् । ये चायोनिजा देहा अशुभादृष्टविशेषात् ते स्वेदजोद्भिज्जानां सर्वकाले भवन्ति । शुभादृष्टविशेषात् साङ्कल्पिका देहा वैदिकानां परमर्षीणाम् । सांसिद्धिका नैसर्गिका आद्या देहाश्चाप्या- द्यायोनिजत्वधर्मविशेषाद् भवन्ति । अन्या व्याख्या (अयोनिजाः सन्ति- अनियतदिग्देशपूर्वकत्वात्-धर्मविशेषात्-च ) पृथिवीलोकेऽपि सन्ति खल्वयोनिजाः शरीरभेदा देहा वा साङ्कल्पिकसांसिद्धिकस्वेदजो- द्भिज्जाः । अनियतदिग्देशपूर्वकत्वात् अनियतदिग्देशनम्-अनियतरीति- निर्देशनम्-नियतयोनिमार्गो नियतयोनिप्रक्रिया वा न देष्टुं निर्देष्टुं + 'त्व' प्रत्ययोऽत्र स्वार्थे । * प्रशस्तपादभाष्याभासपरा व्याख्या । * 'त्व' प्रत्ययः स्वार्थे । * दिक्-रीति:, मार्गः, प्रक्रिया, पद्धतिः । यथा "अन्येषां परीक्षामनयव दिशा प्रतिपत्तुमर्हति" (वै० ७ । १११ चन्द्रकान्तः) "अवशिष्टानां परीक्षा उक्तदिशैव कर्तव्या" (वै० १०।२१७ जयनारायणविवृतौ)।
[वैशेषिकदर्शन ब्रह्ममुनिभाष्योपेतम् विधातु शक्यते पूर्व यस्य तथाभूताद् धर्मविशेषाच्छुभाशुभादृष्टविशे- षात् । अर्थाद् यस्य शुभाशुभादृष्टविशेषस्य योनिमार्गो योनिप्रक्रिया वा न नियम्यते स्त्रीपुरुषसंयोगादिस्तथाभूताद् भवन्ति ह्ययोनिजाः शरीर- भेदा देहा वा । शुभादृष्टविशेषात् साङ्कल्पिका वैदिकपरमर्षीणां सांसिद्धिकाश्चाद्यदेहा मनुष्यादीनाम्, अशुभादृष्टविशेषात् साम्प्रतमपि भवन्त्ययोनिजा देहाः क्षुद्रकृमिकीटानामुद्भिज्जानां च । अथ च तत्रैव स्वतन्त्रव्याख्यायामन्यो मार्गः ( अयोनिजाः सन्ति-अनियतदिग्देश पूर्वकत्वात्) पृथिवीलोकेऽपि सन्ति खल्वयोनिजाः शरीरभेदा देहा वा, तेषामयोनिजानामनियतदिग्देशपूर्वकत्वात् । अयोनिजा देहा अनियत- दिग्देशपूर्वका भवन्ति, अयोनिजाः खलु देहा न नियतमार्गनिर्देशपूर्व- कत्वं मैथुनादियोनिप्रक्रियापूर्वकत्वमपेक्षन्ते यतः सृष्टेरादौ योनि- प्रक्रियाया असम्भवात् तेषां मातापित्रोरभावात् । तस्मात् ते प्रारम्भिक- देहा योनिप्रक्रियारहिताः सन्तो भवन्त्ययोनिजाः, मनुष्यपशुपक्ष्यादीनां 'सांसिद्धिका नैसर्गिकाः । तथा ( धर्मविशेषात्-च ) अथ च केचना- योनिजा धर्मविशेषात्-मानसिकविशिष्टधर्मात् सङ्कल्पादपि भवन्ति साङ्कल्पिका देहा वैदिकानां परमर्षीणाम्। ( समाख्याभावात्-च ) समाख्या सम्यगाख्या यौगिकी संज्ञा यौगिकसंज्ञायाः सत्त्वात् तथा- भूता संज्ञाः सन्ति महर्षीणां यथा तेषाम योनिजा देहा: । यथा स्वयम्भ- वनात् स्वयन्भूः, भृगुर्भर्जनात्, इत्यादयः तथा (संज्ञाया:-आदित्वात् ) अग्निब्रह्मादीनां परमर्षीणां संज्ञा खलु सर्गादौ प्रसिद्धा तदा तेभ्यः पूव + “अनियदिग्देश" इतिशब्दः प्रशस्तपादे प्रयुज्यते कालकृतपरत्वापरत्व- प्रकरणे । तत्रापि खल्वभिप्राय एतादृशः । यथा “कालकृतयोरपि वर्तमानकाल- योरनियतदिग्देशसंयुक्तयोर्युवस्थविरयोः” इति विशेषणं 'युवस्थविरयोः' । कथ- म्भूतयोः परत्वापरत्वे भवतः 'अनियतदिग्देशसंयुक्तयोः' इति विशेषणम् । अर्थात् नियतवंशपद्धतिनिर्देशासम्बद्धयोयु वस्थविरयोरत्र परत्वापरत्वेऽभीष्येते न तु नियतवंशपद्धतिसम्बद्धयोर्भ्रातृव्य पितृव्ययोः, पितृव्यः स्थविरो भवति म्रातृव्यो युवा भवतीति नियतवंशपद्धतिसम्बद्धत्वात्, तत्र न कालोपेक्ष्यते तत्र भ्रातृव्याद- ल्पायुष्कोऽपि पितृव्यः स्थविरस्तथाऽधिकायुष्कोऽपि भ्रातृव्यो युवा भवति । तत्र परत्वापरत्वे काललक्षणमिति यावत् । * अद्यत्वेऽपि केषाञ्चित्क्षुद्रजन्तूनामिन्द्रगोपादीनां योनिमार्गाभावाद् वर्षौ भवन्त्ययोनिजा देहाः, तथोद्भिज्जानां वनस्पतीनां तु सदैवानियतदिग्देशपूर्वकत्वात मैथुनादियोगपद्धतिरहितत्वादयोनिजत्वं स्थिरमस्ति ।
६३ चतुर्थाध्याये द्वितीयाह्निकम् ) नासन् मातापितृरूपा जनाः पुनरग्निब्रह्मादिकाया: सर्वप्रथमायाः खल्वमनुष्यकृतत्वादमातापितृकृतत्वादन्यजनाकृतत्वादासंस्तेऽवश्यमयो - निजाः ।।६-१०॥ पुनश्च- वेदलिङ्गाच्च ॥११॥ ( वेदलिङ्गात्-च ) चकारोऽप्यर्थे । वेदलिङ्गादपि खलु सिद्धयति सन्ति ह्ययोनिजा: शरीरभेदा देहा वा। वेदो लिङ्गं प्रमाणं यस्य यद्वा वेदो लिङ्गयते प्रमाणीक्रियते यस्मिन् तत् स्मृतिशास्त्रं तस्मात् स्मृति- शास्त्रात्, चकारेण वेदादपि वेदलिङ्ग स्मृतिशास्त्रं तावत् “सर्वेषां तु स नामानि कर्माणि च पृथक पृथक् । वेदशब्देभ्य एवादौ पृथक् संस्था- श्च निर्ममे ॥" (मनु० ११२१ ) वेद: खल्वपि “यो देवानां नामधाः (ऋ० १०६२।३) "तेन चाक्लुपे ऋषयो मनुष्याः' ( ऋ० ८७।१८५) "तस्मादश्वा अजायन्त ये के चोभयादतः । गावोह जज्ञिरे तस्माज्जाता अजावयः” (ऋ० १०६०।१०) सृष्टेरादौ मनुष्यपशुपक्षिप्रभृतीनां सर्वेषां प्राणिनां देहानयोनिजान् मातापितृभ्या विना परमात्मा खलूत्पदित- वान् ॥११॥ द्वितोयाह्निकं समाप्तम् । समाप्तिगतश्च चतुर्थोऽध्यायः ॥
पञ्चमोऽध्यायः तत्र प्रथमाह्निकम कर्मणः शरीरोत्पत्तिकारणत्वात् तत्परोक्षामारभमारण आह- प्रात्मसंयोगप्रयत्नाभ्यां हस्ते कर्म ॥१॥ (आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म ) संयोगश्च प्रयत्नश्च संयोग- प्रयत्नौ तौ चात्मनो यौ भवतः, ताभ्यां भवति खलु शरीराङ्ग हस्ते कर्म। 'हस्ते' इत्युदाहरणमुत्क्षेपणकर्मणि । हस्तः समवायिकारणं कर्मणः, संयोगोऽसमवायि कारणं प्रयत्नो निमित्तकारणमात्मलिङ्ग- त्वात् ॥१॥ तथा हस्तसंयोगाच्च मुसले कर्म ।।२।। ( तथा च ) तथा च ( हस्तसंयोगात्-च ) हस्तस्य संयोगात्- मुसलेन सह संयोगात् ( मुसले कर्म ) मुसले कर्मोत्क्षेपणं भवति । मुसलं समवायिकारणं हस्तसंयोगोऽसमवायिकारणं गुरुत्वोत्तोलनपूर्वकः प्रय- नो निमित्तकारणम् । 'मुसले' इत्युदाहरणम् ॥२॥ अभिघातजे मुसलादौ कर्मणि व्यतिरेकादकारणं हस्तसंयोगः ।।३।। (मुसलादौ-अभिघातजे कर्मणि) मुसलादौ नीचैरुदूखलेन सह खल्व- भिघाताज्जाते मुसलस्य खलुत्पतनकर्मरिण ( हस्तसंयोगः-अकारणम् ) मुसलेन सह हस्तस्य संयोगोऽसमवायिकारणं न भवति, ( व्यतिरेकात् ) विनाभावात्, हस्तसंयोगेन विनाऽपि खलूदुखलाभिघातान्मुसलादावुत्पतनं तु भविष्यत्येव तत्र मुसलादि समवायिकारणं तु भवत्येव ॥३॥ तथात्मसंयोगो हस्तकर्मणि ॥४॥ ( हस्तकर्मणि ) अकारणमित्यनुवर्तते, मुसलादिनोत्पतता सह हस्तस्योत्पतनकर्मणि ( आत्मसंयोगः ) प्रयत्नादिगुणवत आत्मनः पचमाध्याये प्रथमाह्निकम् ] संयोगो हस्तेन सह सयोगो कारणं-निमित्तकारणं न भवति (तथा) तथव व्यतिरेकादित्यथः, तत्र प्रयत्नमन्तरेणानिच्छयाऽपि कर्म तु भवत्येव ॥४॥ कुतस्तहि हस्तेऽप्युत्पतनं कर्म । उच्यते- अभिघातान्मुसलसंयोगाद्धस्ते कर्म ॥५॥ ( अभिघातात्-मुसलसंयोगात्-हस्ते कर्म ) पूर्वोक्तादभिघातात् खलु हस्तेन मुसलस्य संयोगात्-हस्ते कर्म जातम् । यथा मुसलसंलग्नत्वाद वस्त्रे प्रचलनं घण्टायां दोलनं वा कर्म ॥१॥ अथ तदानीं स्वस्मिन् शरीरेऽवयविनि कुतः कर्मेत्युच्यते- प्रात्मकर्म हस्तसंयोगाच्च ॥६॥ (आत्मकर्म) स्वस्मिन् खल्ववयविनि शरीरे यदुत्पतनं स्फुरणं वा कर्म मुसलाभिघातादुत्पद्यते तत् ( हस्तसंयोगात्-च ) हस्तस्य शरीरेण सह संयोगादुत्पद्यते चकारेण हस्तवेगाच्च ॥६॥ पतने किं कारणम्-इत्युच्यते- संयोगाभावे गुरुत्वात् पतनम् ॥७॥ ( संयोगाभावे) उत्क्षेपणनिमित्तस्य संयोगस्य पतनप्रतिबन्धकस्य संयोगस्याभावे सति ( गुरुत्वात् पतनम् ) भारवत्त्वात् खलु वस्तुनो नीचैः पतनं भवति, पतने नान्यत् कारणं भार एव कारणम् ॥७॥ पतनं भवति संयोगाभावे गुरुत्ववतो वस्तुनः । परन्तु विशिष्टनोदना- दूवं गतं गुरुत्ववद् वस्तु कथं पतति । उच्यते- नोदनविशेषाभावान्नोवं न तिर्यग्गमनम् ॥८॥ (नोदनविशेषाभावात्) प्रेरणसंस्कारस्य प्रणाशाद् गुरुत्ववतो वस्तुनः ( न ऊध्वं न तिर्यग् गमनम्) न ह्य ध्वं न हि तिर्यग् गमनं भवति । कर्वप्रेरणसंस्कारेणोध्वं, तिर्यप्रेरणसंस्कारेण तिर्यग् गच्छति हि * संयोगोऽसमवायिकारणं निमित्तकारणं चोभयथा भवति तदुक्त प्रशस्त- पादेऽपि द्रव्योत्पत्तावसमवायिकारणं गुणकर्मोत्पत्तौ तु निमित्तकारणं वेतन- संयोगः सर्वत्र निमित्तकारणमिति विवेकःः।
-- [ वंशेषिकदर्शनं ब्रह्मानिमाम्योपेतन वस्नु, नान्यथा। तत्प्रेरणसंस्कारसमाप्ते कषं त्याहून तिर्यग् वा समनम् ॥८॥ कुतो नोदनविशेष इत्युच्यते- प्रयत्नविशेषान्मोदनविशेषः ।।६।। (प्रयत्नविशेषात् ) प्रयत्नविशेषात्-वाणलोष्टादि वा तिर्यगूर्व दूरं प्रक्षेप्तुहस्तज्यादिकस्य बलेन पश्चान्नीचैर्वा कर्षणं प्रयत्नविशेषो- विशिष्टप्रयत्नस्तस्मात् (नोदनविशेषः) प्रेरणसंस्कारविशेषो विशिष्ट- प्रेरणसंस्कारो भवति ।।। पुनः- नोदनविशेषादुदसनविशेषः ॥१०॥ (नोदनविशेषात्) विशिष्टप्रेरणसंस्कारात् (उदसनविशेषः) उदसन- विशेषो विशिष्टोदसनं विशिष्टोत्सर्पणं तिर्यगूर्व वा विशिष्टगमनं . भवति ॥१०॥ परन्तु तत्रायं विशेष:- हस्तकर्मणा दारकर्म व्याख्यातम् ॥११।। (दारकर्म) बालकस्योदसनकर्म तिर्यगूर्ध्वमङ्गचलनम् (हस्तकर्मणा व्याख्यातम्) हस्तकर्मणा तुल्यं व्याख्यातं वेदित्तव्यं, यथाभिघाता- न्मुसलेन सह यद्वा मुसलसंयोगाद् हस्ते भवत्युदसनं कर्म नोदनविशेष- मन्तरेणानिच्छया च संयोगमात्रेण तथैव क्रीडतो बालकस्योदसनं कर्म नीदनविशेषमन्तरेण क्रीडनसाधनसंयोगेन, यद्वा बालकस्य नवजात- शिशोरङ्गचलन न नोदनविशेषेण किन्तु तदभ्यन्तरस्थितस्य प्राणवायोः संयोगेन ॥११॥ तथा दग्धस्य विस्फोटने ॥१२॥ लिथा) तथा च ( दग्धस्य विस्फोटने ) दग्धस्य दह्यमानस्य काष्ठा- श्मादिकस्य विस्फोटने, विपाटने तदंशानां तिर्यगूर्ध्वगमनरूपमुदसनं कम हस्तकर्मणा तुल्यं व्याख्यातं नोदनविशेषमन्तरेण, अग्निसंयोगे- मैव ॥१२॥ एवं हि- पञ्चमाध्याये प्रथमाह्निकम् ] ६० - यत्नाभावे प्रसुप्तस्य चलनम् ॥१॥ तृणे कर्म वायुसंयोगात् ॥१४॥ भनयोः सूत्रयोरेकवाक्यताऽस्ति- (प्रसुप्तस्य यत्नाभावे चलनं तृणे कर्म वायुसंयोगात् ) प्रम- सुप्तस्य सुषुप्तिगतस्याचैतन्यगतस्य मूच्छितस्य प्राणिनश्च यत्नाभावे चलनं भवति वायुसंयोगाद् वातप्रबलत्वाद् वातरोगादिति यावत्, तथा तृणे तृणाविक्नस्पतिबर्मे च कर्म यत्र तत्र गमनोड्डयनरूपकर्म वायु- संयोगाद् वायुसंसर्गाद्भवति ॥१३-१४॥ अथ च- - : मणिगमनं सूच्यभिसर्पपमित्यदृष्टकारणकम् ॥१५॥ ( मणिगमनम् ) मणेर्गमनं मणिगमनं मणेर्गति विमानादिचालनार्थ गति कर्म* (सूच्यभिसर्पणम् ) सूच्या अभिसर्पणमयस्कान्तं प्रति (इति) इत्यादिकं तृणस्य तृणकान्तं प्रति सर्पणवृत्तम् (अदृष्टकारणकम्) अदृष्टं हि तच्छक्तिनैसगिकी कारणं यस्य तथाभूतं तदस्ति ॥१५॥ ज्याविमुक्ते वाणे यावत्पतनमन्यान्यानि कर्मणि भवन्ति 'कर्म कर्म- साध्यं न विद्यते' तत्र केनापि हेतुना भवित्तव्यम् । अत्रोच्यते- इषावयुगपत्संयोगविशेषाः कर्मान्यत्वे हेतुः ॥१६॥ (इंषौ कर्मान्यत्वे) ज्याविमुक्ते वेगेन गच्छति वाण यावत्पतन- मनेकानि कर्माणि भवन्ति नैकं कर्म तस्य पञ्चमे क्षणे नश्यमानत्वात् तत्र कर्मामेकत्वे (संयोगविशेषाः) विशिष्टशक्तिसंयोगाः प्रेरणसंस्कार- तरङ्गाः सन्ति ये खलु वाणे संयुक्ता विद्युत्तरङ्गा इव तरङ्गरूपाः (हेतुः) हेतुभूता विद्यन्ते ॥१६॥ कथमिति विवृणोति- नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारा- दुत्तरं तथोत्तरमुत्तरं च ॥१७॥ । "पश्चाच्छतिवेगेन मणयो भ्रामयन्ति हि।" ( यन्त्रसर्वस्वस्य वैमानिकप्रकरणे त्रिपुरविमाने ) ३६ ६८ [ वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् - (नोदनात्-इषो:-आद्यं कर्म) धृतवाणया ज्ययाऽऽकृष्टया वाणो नोद्यते तन्नोदनात्प्रक्षेपणबलाद् वाणस्य खल्वाद्यं कर्म ज्यातोऽपसर्पणम् (तत्कर्मकारितात्-च संस्कारात्-उत्तरम्-तथा-उत्तरम्-उत्तरम्-च ) तदपसर्पणात् वाणे संस्कारो वेगो जायते वेगरूपात्संस्कारादुत्तरोत्तरं कर्म प्रवर्तते यावत् संस्कारो वेगो वाणेऽवतिष्ठते। अतो वाणस्य कर्मानेकत्वे प्रेरकसंस्कारतरङ्गाः संयोगविशेषाः कारणम् ॥१७॥ पुनः- संस्काराभावे गुरुत्वात् पतनम् ॥१८॥ ( संस्काराभावे ) संस्कारो वेगः स चाद्यकर्मणः कार्यम्, आद्यकर्म वेगस्य कारणम्-उक्तं हि "संयोगविभागवेगानां कर्मसमानम्" (वै. शश२०) कार्य हि विनाशमि नश्वरं भवति, तच्च शनैः शनैह्र सति विनश्यति च तस्याभावे (गुरुत्वात् पतनम्) वाणस्य गुरुत्वाद् भारवत्त्वात् पृथिव्या गुरुत्वाकर्षणाद्वा पतनं भवति वाणस्य। संस्कारेण गुरुत्व- निमित्तकं पतनमवरुद्धमासीत् ॥१८॥ प्रथमाह्निकं समाप्तम् । द्वितीयाह्निकम् पृथिव्यादिषु नोदनादिजन्यं कर्म परीक्ष्यते- नोदनाभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म ॥१॥ (पृथिव्यां कर्म ) पृथिव्यां कर्म द्विविधं दृश्यमदृश्यश्च, यत् खलु दृश्यं कर्म तदत्र सूत्रे वणितं तदपि कारणद्वयाद् द्विविधं, पर्वतशिखर- पतनभूस्खलनरूपमेकं भूकम्पनं द्वितीयं तत्र क्रमेण (नोदनाभिघातात्) बाह्यवस्तूनां नोदनाभिघातात्-नोदनं प्रतोदनं तत्प्रहाराद्, अतिवृष्टि- वज्रपातवातप्रतोदनस्य प्रहारात् पर्वतशिखरपतनभूस्खलनरूपं कर्म- पृथिव्यां भवति । तथा (सयुक्तसंयोगात्) पृथिव्था सह ये संयुक्ताश्चूर्ण- जले गन्धकादयश्च पदार्थास्तेषां परस्परसंयोगाद् भूकम्पनस्फोटनादिकं भवति तत्र पृथिवो समवायिकारणं नोदनाभिघातः संयुक्तसयोगश्चा- पञ्चमाध्याये द्वितीयाह्निकम् ] समवायिकारणम् । नोदनाभिघातकारिणः संयुक्तसंयोगे संयुक्ताश्चूर्ण- गन्धकादय आग्नेयाः पदार्था निमित्तानि । शङ्करमिश्रादिभिः शास्त्र- शैल्या विरुद्धं परस्परासंगतञ्च व्याख्यातं सूत्रम् ॥१॥ अथच- - तद्विशेषेणादृष्टकारितम् ॥२॥ (तद्विशेषेण) 'तत्' शब्दो नोदनाभिघातसंयुक्तसंयोगी परामृशति, विशेषश्च व्यतिरेको विनाभावः । नोदनाभिघातसंयुक्तसंयोगाभ्यां व्यति- रेकेण विनाभावेन नोदनाभिधातसंयुक्तसंयोगयोरभावे पृथिव्यां यददृश्यं कर्म स्वकेन्द्र सूर्याभिमुखं दैनिकं भ्रमणं ध्रुवीयाक्षे सूर्य परितो वार्षिक परिक्रमणं च (अदृष्टकारितम्) अदृष्टशक्तिकारितं नैजिकीशक्तिरेवेश- प्रेरिता खल्वदृष्टम् । अत्र पृथिवी समवायिकारणमदृष्टमसमवायिकारणं, अदृष्टप्रेरक ईश्वरो निमित्तकारणम्, शङ्करमिश्रादिभिरिदमपि सूत्रमन्य- था व्याख्यातम् ॥२॥ अपां पतनं कथमित्युच्यते- अपां संयोगाभावे गुरुत्वात् पतनम् ॥३॥ ( अपां पतनम् ) आकाशीयानामपां पतनं वृष्टिरूपे निपतनं कर्म ( संयोगाभावे) विद्युद्वाताभ्रसंयोगस्य वृष्टिप्रतिबन्धकस्याभावे सति (गुरुत्वात्) भारवत्त्वाद् यद्वा पृथिव्या गुरुत्वाकर्षणाद्भवति । अत्राप: समवायिकारणं गुरुत्वमसमवायिकारणं संयोगाभावो निमित्तम् ॥३॥ अथ स्यन्दनम्- द्रवत्वात् स्यन्दनम् ॥४॥ स्यन्दनम् ) अधःपतितानामपां स्यन्दनं स्रवणं संसरणवहनरूपं कर्म (द्रवत्वात्) तरलत्वाद् भवति । अत्रापः समवायिकारणं द्रवत्वम- समवायिकारणं पृथिवीपृष्ठनिम्नत्ववशपृथिवीगुरुत्वाधिक्यं तद्वशो वेग- श्चापां निमित्तकारणम् ॥४॥ आरोहणं च- नाड्यवायुसंयोगादारोहणम् ॥५॥ (नाड्यवायुसंयोगात्) नाड्यः खलु सूर्यरश्मयः शरीरस्नावानश्च तत्रोभयत्रभवो नाड्यः स च वायुसंयोगः, नाडीषु रश्मिषु स्नावसु भवो .
[वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् यो वायुना संयोगस्तस्मात् (आरोहणम्) आरोहणमूर्ध्वगमनमपां ग्रीष्मे भवति खल्वाकाशेऽथ शरीरे रसरूपेण सर्वदा, तत्रापो रसाः समवायि- कारणं नाड्यवायुसंयोगोऽसमवायिकारणम्, अपां द्रवत्वं वायु ड्य- श्चोष्णत्वप्रधानो निमित्तकारणम् ॥५॥ अन्यच्चारोहणं यल्लोकेऽपां भवति तत्- नोदनापीडनात् संयुक्तसंयोगाच्च ॥६॥ (नोदनापोडनात्) नोदनकृतापीडनात् प्रतोदमकृतोवं प्रक्षेपणात् खलु भवत्यपामारोहणं लोके प्रतोदनप्रहाराद् भूमिष्ठं कृपादिगतं च अलमूर्ध्वमुद्गच्छति स्वतो विद्युद्यन्त्रप्रयोगेण वा तथा (संयुक्तसंयोगात्- च) अद्भिः सह संयुक्ताः खलूर्ध्वगमनशीला अग्नीज्वालाः स्थालीसंयुक्तं अलमूवं गमयन्ति, एवमद्भिः सह यानि संयुक्तानि स्थालीपात्राणि तैः सहाग्निज्वालानां संयोगात्तत्रस्थं जलं वाष्पीभूयोद्गच्छति । पूर्वस्मिन्नु- दाहरणे जलं समवायिकारणं नोदनापीडनमसमवायिकारणं प्रतोदन- साधनसंयोगो निमित्तकारणम्, उत्तरस्मिन्नुदाहरणे तु जलं समवायि- कारणं संयुक्तसंयोगोऽसमवायिकारणं संयुक्ता अग्निज्वाला निमित्त- कारणम् । अन्यभाष्यकारैस्तु पूर्वसूत्रविषयस्यैव पिष्टपेषणमन्यथाकृत- मस्ति ॥६॥ -- अथ वृक्षे मूलनिषिक्तं जलं कथमभिसर्पति । इत्युच्यते- वृक्षाभिसर्पणमित्यदृष्टकारितम् ॥७॥ ( वृक्षाभिसर्पणम्-इति ) मूले निषिक्तस्य जलस्य वृक्षस्याभितः सर्वशाखापत्रपुष्पफलेषु सर्वभागेपूर्ध्वपर्यन्तेषु सर्वत्र प्रसरणादिकं कर्म ( अदृष्टकारितम् ) तज्जीवनहेतुभूताकर्षणरूपादृष्टनैजिकशक्तिकारितं भवति ॥७॥ तथा- अपां संघातो विलयनं च तेजःसंयोगात् ॥८॥ ( अपां संघातः-विलयनं च तेजःसंयोगात् ) अपां संघातो हिम- करकादिरूपेण संहननं कठिनीभवनं कर्म तथा बिलयनं द्रवीभावः कर्म तेजःसंयोगाद् भवति । तत्रेयान् भेदो हिमकरकादिरूपे संघाते कठिमी- भावेऽनुद्भ तस्य शान्तस्य दिव्यस्य तेजसः संयोग ऐकात्म्यसंस्पर्शः पञ्चमाध्याये द्वितीयाह्निकम् ] कारणम्, विलयने द्रवीभावे तू तस्य तापवतः पार्थिवतेजसः संयोगः संस्पर्शः कारणम् । उभयत्र-आपः समवायिकारण तेजःसंयोगोऽसम- वायिकारणं तेजस्तु निमित्तकारण भवति ।।८।। अपां विलयने तु प्रत्यक्षं तेजःसंयोगः कारणं दृश्यते परन्तु कर- कादिरूपेण संघाते संहनने कर्मणि तेजःसंयोगः कारणमिति कथं ज्ञायते । अत्रोच्यते- तत्र विस्फूर्जलिङ्गम् ॥६॥ (तत्र विस्फूर्जयुः-लिङ्गम् ) तत्र दिव्यास्वप्सु दिव्यतेजःसंयोगे वृष्टिप्रतिबन्धकरूपेण तथा करकादिसम्पादकरूपेण वर्तमाने विस्फूर्जथु- र्वजनिर्घोषो लिङ्गमस्ति, यतो हि विद्युत्प्रकाशः पूर्वं दृश्यते पुनर्वत्र- निर्घोषः श्रूयते तत्कालं हि करका अवपतन्ति तदन्तहितं तेजो बहिनिः सरणानन्तरं करकविच्छिन्नत्वं सम्पद्यते ॥६॥ - अथ च तत्र- वैदिकं च ॥१०॥ ( वैदिकं च ) वैदिकं वेदोक्तं वचनं च प्रमाणमस्ति "अग्ने गर्भो अपामसि" (यजु० १२।३३) "आपस्ता अग्नि गर्भमावधीरन्" ॥१०॥ अथ कथं स्फूर्जथुरुत्पद्यते प्रसङ्गत उच्यते- अपां संयोगाद् विभागाच्च स्तनयित्नोः ॥११॥ अत्र 'अपां संघातो विलयनं च तेजःसंयोगात्' इति सूत्रतः 'तेजः' अनुकृष्यते। तच्च संयोगविभागयोर्यथाक्रमम् 'अपाम्' इति शब्देन 'स्तनयित्नोः' इति शब्देन सहाभिसम्बध्यते । तथा कृत्वार्थयोजना खल्वीदृशी यत् ( अपां संयोगात् ) तेजसा सहापां संयोगात् । तथा (स्तनयित्नो:-विभागात्-च) स्तनयित्नोरर्थान्मघात् तेजसो विभागाद्- विभजनाद् भवति स्फुर्जथुर्गर्जनम् ॥११॥ पृथिव्याः कर्मापां कर्म च विधाय क्रमप्राप्तं तेजःकर्म वायुकर्म च व्याचष्टे- पृथिवीकर्मणा तेजःकर्म वायुकर्म च व्याख्यातम् ॥१२॥ ( तेजःकर्म वायुकर्म च पृथिवीकर्मणा व्याख्यातम् ) अतितपनं [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् दिग्दाहादिकं तेजःकर्म, अन्धप्रवहणं वृक्षादिप्रभञ्जनं वायुकर्म पृथिवी- कर्मणा पृथिवीकर्महेतुना तुल्यं व्याख्यातं वेदितव्यं नोदनाभिघातात् संयुक्तसंयोगात् केषाञ्चित्पदार्थानां प्रतोदनप्रहारात् तत्संयुक्तानां संयो- गात् तथाऽदृष्टात्तद्गतशक्तिविशेषादपि भवति । तच्चाग्रिमे सूत्रे कथयत्या- चायः ॥१२॥ - अग्नेरूद्धज्वलनं वायोस्तिर्यक्पवनमणूनां मनसश्चाद्य- कर्मादृष्टकारितम् ॥१३॥ (अग्ने:-ऊर्ध्वज्वलनं वायोः तिर्यक्पवनम्) अग्ने: खलूव्रज्वलनं ज्वालानामूर्ध्वमुद्गमनं वायोश्चेतस्ततस्तिर्यग्भूय संचरणं कर्म 'अदृष्ट- कारितम्' तदन्तर्गतनैजिकशक्तिकारितम् । तथा (अणूनां मनसः-च- आद्यं कर्म-अदृष्टकारितम् ) अणूणां सूक्ष्माणां पृथिव्यादिपरमाणूनां मनसः च यदाद्य कर्म तदपि खल्व दृष्टकारितम् । अणूनामाद्यं कर्म द्वयणु- कादिक्रमेण प्रवतनं मनसश्चाद्यं कर्म संकल्प: कामो वेति सर्वमदृष्ट- कारितं तत्रादृष्टमीश्वरशक्तिराद्यपरमाणुकर्मणि तथाद्ये मनसः कर्मणि तु खल्वदृष्टमीश्वरशक्तिर्जीवात्माशक्तिश्च ।।१३।। अथानाद्ये साम्प्रतिके मनसः कमणि कारणमुच्यते- हस्तकर्मणा मनसः कर्म व्याख्यातम् ॥१४॥ ( मनसः कर्म हस्तकर्मणा व्याख्यातम् ) मनस: साम्प्रतिकं कर्म तु हस्तकर्मणा व्याख्यातं वेदितव्यम् । यथा हस्तकर्म मुसलोत्थापने भवति । प्रयत्नवदात्मसंयोगेनासमवायिकारणेन तथैवेन्द्रियार्थसन्निकर्षे संकल्प- रूपमिन्द्रियप्रेरणमपि मनसः कर्म भवति ॥१४॥ मनस्त्वन्तः करणं न हि हस्तवत् प्रत्यक्षं तस्य कर्मणि लिङ्गमुच्यते- आत्मेन्द्रियमनोर्थसन्निकर्षात् सुखदुःखे ॥१५॥ (आत्मेन्द्रियमनोर्थसन्निकर्षात्) सन्निकर्षः संयोगविशेषः। आत्मा मनसा सह सन्निकृष्यते संयोगं लभते, मनस्त्विन्द्रियेण सह सन्निकृष्यते संयोग लभते, इन्द्रियमर्थन सह सन्निकृष्यते संयोगं लभते । यद्वा-आत्मनो मनसा सह सन्निकर्षः संयोगविशेषस्तदुद्बोधनाय, मनस: खल्विन्द्रियेण सन्निकर्षः संयोगस्तत्प्रेरणाय, इन्द्रियस्यार्थेन सह सन्निकर्षः संयोग- विशेषस्तद्ग्रणाय भवति । पुनः (सुखदुःखे) सुखदुःखे भवतः, सुखं दुःखं - ७३ - पश्चमाध्याय द्वितीयासिकम् ] वा भवति यच्च कर्मणः फलम् । अर्थग्रहणे सुखं दुःखं वा भवति, अभीष्टे सुखमनिष्टे दुःखम् । अर्थग्रहणं सन्निकर्षात् तत्तत्संयोगविशेषात्, संयोगस्तु कर्मणः कार्यम् “संयोगविभागवेगानां कर्म समानम्" (१ । १। २०) इत्युक्तत्वात् । तत्र कर्माधिष्ठानानि त्रीणि-आत्मा, मनः, इन्द्रियम् आत्मनः कर्म मनःप्रबोधनं मनसः कर्म खल्विन्द्रियप्रेरणमथे- न्द्रियकर्म त्वर्थग्रहणं तेन सुखं वा दुःखं वा फलं भवति । अनेन मनसोऽपि कर्म सुखदुःखयोः कारणं सुखेन दुःखेन मनसः कर्माभिलक्षितं तत्रैवं सुखं दुःखं च लिङ्गमस्ति ॥१५॥ सुखदुःखे मनसः कर्मणि लिङ्ग कथमित्यत्रान्यो हेतुरुच्यते- तदनारम्भ आत्मस्थे मनसि शरीरस्य दु:खाभाव: स योगः ॥१६॥ (आत्मस्थे मनसि) आत्मनिष्ठे-इन्द्रियानभिमुखे वृत्तिरहिते मनसि, वृत्तिरहितं मनो ह्यात्मनि नितिष्ठति, उक्तं हि 'आत्मकल्पेन व्यवतिष्ठते' [व्यासः] (तदनारम्भे) कर्मणोऽनारम्भोऽनुत्पादोऽप्रवर्तनं भवति तत्र कर्मानारम्भे सति ( शरीरस्य दुःखाभावः ) शरीरस्यात्माधिष्ठितस्य शरीरस्य दुःखाभावो भवति, पूर्वोक्तसुखदुःखयोरभावो भवति, अत्र दुःखशब्दः सुखेऽपि प्रयुक्तो दुःखशबलत्वात् सुखस्य सांसारिकसुख- दुःखाभावो भवति (सः-योगः) स खलु योगो भवति यदा मनः खलु वृत्तिरहितं सदात्मनि तिष्ठति सुखदुःखे नानुभवति ।।१६।। अथ शरीरधारणरूपसंसारदशायां मनसः कर्मोच्यते- अपसर्पणमुपसर्पणमशीतपीतसंयोगाः कार्यान्तरसंयोगा- श्चेत्यदृष्टकारितानि ॥१७॥ ( अदृष्टकारितानि) अदृष्टं जीवात्मनो धर्माधर्मविशेषस्त- ज्जीवनसंस्कारश्च तत्कारितानि तन्निमित्तानि कर्माणि । कानि तानि। उच्यन्ते ( अपसर्पणम् ) जीवात्मन. पूर्वदेहादुत्क्रमणमपसर्पणं कर्म, आत्मना साकं सर्वप्राणानामपि भवत्यपसर्पणम्, ‘स यदाऽस्माच्छरीरा- दुत्क्रामति सहैवैतैः सर्वैरुत्क्रामति" (कौषीतकि० ३।३) एवमात्ममन:- प्राणानामपसर्पणं कर्म तत्र च मुख्यमपसर्पणं त्वात्मन एव यतः "तम् [आत्मानम्] उत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा उत्क्रामन्ति” (बृह० ४।४।२) तस्मादत्र सूत्रे सर्वेषामेवापसर्पणं कर्म - ७४ वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् लक्ष्यते न केवलं मनसोऽपसर्पणमेवान्येषामपि कर्मणां विधानात् । तथैव सर्वेषाम् ( उपसर्पणम् ) देहान्तरे प्रवेशनं कर्म ( अशीतपीतसंयोगाः ) भुक्तपोताहारस्य गर्भे मात्राशीतपीतस्य प्रसवानन्तरं स्वाशीतपीताहारस्य संयोजनानि । रसरक्तादिपरिणामकराणि कर्माणि (च) तथा (कार्या- न्तरसंयोगाः ) रसरक्तादिभ्यो यानि कार्यान्तराणि तद्भिन्नानि कार्याणि- इन्द्रियाणीन्द्रियस्थानानि तेषां संयोगा: संयोजनानि तदाकारनिर्माण- कर्माणि भवन्ति ॥१७॥ पुनः- तदभावे संयोगाभावोऽप्रादुर्भावश्च मोक्षः ॥१८॥ (तदभावे) तस्यादृष्टस्याभावे नाशे (संयोगाभावः) संयोगस्य संयो- जनस्य कर्मणो रसरक्तेन्द्रियपरिणामकारिणः कर्मणो भवत्यभावः क्षयः । (च) तथा (अप्रादुर्भावः-मोक्षः) देहस्यानुत्पादः। अथ मोक्षो भवति ॥१८॥ - ननु कर्म परीक्षाप्रसङ्ग तमसोऽपि कर्म दृश्यते तत्कि द्रव्यस्य सतस्तमसः कर्म वा अन्यथेत्यत्रोच्यते- द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः ॥१९॥ (द्रव्यगुणकर्मनिष्पत्तिवैधात्-अभावः-तमः ) तमः खलु भावो- भावात्मको नास्ति पृथिव्यादिवत्, यतो द्रव्यगुणकर्मनिष्पत्तिवैधात्- द्रव्यगुणकर्मणां निष्पत्तेः सिद्ध वैपरीत्यात् । द्रव्यनिष्पत्तिरवयवेभ्यो भवति यथा तन्तुभ्यः पटनिष्पत्तिः, न तथा तमसो निष्पत्तिर्भवति पटे तन्तवस्तदवयवा दृश्यन्ते न तमसि तदवयवा दृश्यन्ते । द्रव्यं खलु भवति गुणवत् कर्मवच्च, तमसि नीलं रूपं कल्प्यते चलनं कर्म च, परन्तु गुणनिष्पत्तिवैधर्म्यमथ कर्मनिष्पत्तिवैधयं च तत्रास्ति । यत्र रूपं गुणः स्यात् तत्र स्पर्शेन गुणेनापि भाव्यं न हि तमसि स्पर्शोऽस्ति यथा तमस्वतः स्थलस्य पूर्वः स्पर्शः कर्कशो मृदुर्वा खल्वासीत् तथैव सति तमसि विद्यते । अथ रूपवत्त्वात् तमसस्तत्र गन्धरसाभ्यामपि भवितव्यं न च भवति तस्माद् गुणवैधात् तमो न द्रव्यम् । तथा कर्मवैधाच्च, यत् कर्म चलनं कल्प्यते तन्न तस्य, चलनं तु रूपवतः 1 संयोगशब्दो नात्र गुणवाचकः किन्तु यौगिकरीत्या क्रियावाचकः संयोगः संयोजनं कर्म।
७५ पञ्चमाध्याये द्वितीयाह्निकम् ] स्पशंवतश्च द्रव्यस्य चलतः स्थानान्तरप्राप्त्यो भवति यथा मनुष्यः पशुः पक्षी वा चलति मनुष्यादयः स्वाकृतिभिः प्रकाशे नेत्रदृश्याः सन्ति न तथा तमः स्वाकृत्या प्रकाशे नेत्रदृश्यम्, तथा मनुष्यादयश्चलन्तः स्पर्शगुणवन्तो हस्ताभ्यामवरोधुं शक्यन्ते म तथा तमो हस्ताभ्यामव- रोढुं शक्यते तदेतत्कर्मवैधर्म्यम् । तस्मात्तमो न द्रव्यम् ।।१९।। तस्याद्रव्यत्वेऽन्यो हेतुरुच्यते- तेजसो द्रव्यान्तरेणावरणाच्च ॥२०॥ (द्रव्यान्तरेण तेजसः-आवरणात्-च) वृक्षभित्त्यादिद्रव्येण प्रकाशस्य खल्वावरणात् तमोनिष्पत्तिर्भवति द्रव्यनिष्पत्तिस्तु नावरणमपेक्षतेऽ- नावरणे भवति द्रव्यनिष्पत्तिरिति हेतुरयमन्योऽपि, तथा तेजसश्चलत- स्तदावरकवृक्षादेरचलतोऽपि चलति तस्मात् प्रकाशस्य चलतस्तदावरक- सम्बद्धस्तमश्चलति न स्वतन्त्रं द्रव्यं सत् तमश्चलति तस्य चलनव्यव- हारो गौणः, तस्मान्न द्रव्यम् ॥२०॥ तमसि कर्म न वास्तविकं न च तमो द्रव्यमिति तु परीक्षितम् । अधुना दिक्कालाकाशानां कर्मशून्यत्वं प्रतिपाद्यते- दिक्कालावाकाशं च क्रियावद धान्निष्क्रियाणि ॥२१॥ ( दिक्काली-आकाशं च ) दिशाकालाकाशानि द्रव्याणि (निष्कि- याणि ) क्रियारहितानि कर्मशून्यानि कर्मनिष्पाद्यपरिणामरहितानि (क्रियावद्वं धात्) क्रियावद्भयः कर्मवद्भयो वैधाद् वैपरीत्यात्, तेषां दिक्कालाकाशानां तद्विपरीतस्वरूपवत्त्वात् । यत्र यत्र द्रव्ये क्रिया तत्त- देकदेशि द्रव्यं तस्य स्थानान्तरप्राप्तिः कर्मणा भवति हि, दिक्कालाका- शानि द्रव्याणि तु नैकदेशीनि किन्तु सर्वदेशीनि सर्वत्र व्याप्तानि विभू- नीति क्रियांवैधर्म्यम् । तथा क्रियावन्ति कर्मवन्ति द्रव्याणि सावयवानि एतानि तु निरवयवान्यमूर्तानि तस्मात्परिणामरहितानि कर्मशून्यानि क्रियावद्वधात् । पुनश्च परमात्मा विभुः सन्नपि क्रियावान् कर्मवान् चैतन्यधर्मवत्त्वाज्ज्ञानवत्त्वाच्चेतयति क्रियां प्रेरयति जगति तन्निर्माति परिणयति च स्वयं परिणामरहितोऽस्ति विभुत्वात् । आत्मा क्रियावान् कर्मकर्ता चैतन्यधर्मवत्त्वाज्ज्ञानधर्मवत्त्वात् स्वसाधनैः कर्म करोति परन्तु क्रियापरिणामरहितोऽणुः सन्नपि तस्य निरवयवत्वात् । निष्क्रियत्वप्रकरणे दिगादिवदात्मपरमात्मनोरपठनादाचार्यप्रवृत्तिपि-
[ वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम्
यति तत्र न कर्मशून्यत्वं क्रियावत्त्वप्रकरणपाठात् तत्र परिणामकारिणी
क्रिया न विद्यते निरवयवात् ॥२१॥
एतेन कर्माणि गुणाश्च व्याख्याताः ॥२२॥
( एतेन ) क्रियावद्व धर्येण निरवयवत्वेन ( कर्माणि गुणाः-च
व्याख्याताः) कर्मभेदा गुणाश्च व्याख्याता विज्ञेयास्तेऽपि क्रियाशून्याः
सन्ति ॥२२॥
-
पुनः-
निष्क्रियाणां समवायः कर्मभ्यो निषिद्धः ॥२३॥
(निष्क्रियाणां समवायः कर्मभ्यः-निषिद्धः) निष्क्रियाणां द्रव्याणाम-
द्रव्याणां गुणकर्मणामुभयेषामपि यथायोग्यं समवायः समवायसम्बन्धः
कर्मभ्य उत्क्षेपणादिकर्मभ्यो निषिद्धोऽस्ति यानि तु निष्क्रियाणि
द्रव्याणि दिक्कालाकाशानि तेषां समवायसम्बन्ध उत्क्षेपणादिकर्मभ्यो-
हेतुभ्यो निषिद्धो वेदित्तव्यः। उत्क्षेपणादिकर्माणि लक्ष्यीकृत्य क्रियावतां
द्रव्याणामेव समवायसम्बन्धो भवति, दिक्कालाकाशेषु खलुत्क्षेपणादि-
कर्माणि भवन्ति सक्रियद्रव्यसमवेतानि तस्माद् दिक्कालाकाशानां
संयोगसम्बन्धस्त्वाधारत्वेनावतिष्ठते । यथा पूर्वस्यां दिशि गत्वोड्डोय
वोत्तरस्यामागतः, चिरेण गत इदानीमागतः, आकाशे चन्द्रताराणां
भ्रमणं निरन्तरं भवति । इति संयोगो लक्ष्यते। अथ च ये निष्क्रिया:
कर्मगुणाश्च तेषां निष्क्रियाणां तद्वद्भिः कर्मगुणवद्भिर्द्रव्यैः सह यः सम-
वायः समवायसम्बन्धः स खलु कर्मभ्यो हेतुभ्यो निषिद्धः, उत्क्षेपणादि-
कर्माणि लक्ष्यीकृत्य न भवति किन्तु स तु नित्य एवेति ॥२३॥
परन्तु-
कारणं त्वसमवायिनो गुणाः ॥२४॥
(गुणा:-तु-असमवायिनः कारणम्) निष्क्रियाणां कर्मभ्यः समवायो
नास्ति तेन सक्रियाणि द्रव्याणि समवायिकारणानि कर्मणां, निष्क्रियाणि
द्रव्याणि गुणानां समवायिकारणानि गुणैः सह समवायसम्बन्धवत्त्वात् ।
उभयेषां गुणकर्मणां तदाश्रयभूतानि सक्रियाणि द्रव्याणि समवायि-
कारणानि । निष्क्रिया गुणास्तु कर्मप्रति खल्वसमवायिकारणानि सन्ति
द्रव्यं प्रति गुणं प्रति तु सन्ति हीति विवेकः । यथा तन्तुसंयोगो द्रव्यस्य
वस्त्रस्यासमवायिकारणं संयोगविभागवेगाः शब्दस्यासमवायिकारणानि,
वाणे वेगः कर्मणोऽसमवायिकारणम् ॥२४॥
" पञ्चमाध्याये द्वितीयाह्निकम् ] गुणैदिग्व्याख्याता ॥२५॥ (गुणेः-दिक्-व्याख्याता) गुणैस्तुल्या दिक् खलु व्याख्याता विज्ञेया गुणवद् कर्म प्रति दिगप्यसमवायिकारणमस्ति पूर्वस्यामुदितः पश्चिमा- यामस्तंगतः । इत्यादि कर्मप्रवृत्तेः ॥२५॥ अथ काल:- - कारणेन कालः ॥२६॥ ( काल: कारणेन ) प्रातःसायंमासवसन्तादिकालो वस्तूनामुत्पत्ति- प्रभृतिकर्मणः क्रियमाणकर्मणश्च कारणेन कारणभावेन सिद्धः प्रसिद्धो- ऽस्ति तस्मात् स कारणं निमित्तकारणमस्ति, तस्य निष्क्रियत्वान्न भवतु समवायिकारणं निमित्तकारणं तु साक्षादस्त्येव, पुनः कारणशब्दो- पादानात्कालस्य निमित्तकारणत्वमभीष्टमुत्पत्त्यादिपरिणामनिमित्त- त्वात् ॥२६॥ द्वितीयाह्निकं समाप्तम् । समाप्तिगतश्च पञ्चमोऽध्यायः॥ -- षष्ठाध्यायः प्रयमाह्निकम् । भौतिकद्रव्याणां मनसश्च कर्माणि खलूक्तानि सम्प्रति त्वात्मकर्माणि विधिनिषेधपराणि वक्ष्यन्ते । तेषां कर्मणां प्रतिपादक शास्त्रं वेदस्तस्मात् तावद् वेदविहितानि कर्माणि स्वोकर्तव्यानि निषिद्धानि त्वग्राह्याणीत्यत्र हेतुं प्रदर्शयति- बुद्धिपूर्वा वाक्यकृतिर्वेदे ॥१॥ ( वेदे वाक्यकृतिः-बुद्धिपूर्वा) वेदे धर्माधर्मबोधकानां विधिनिषेध- पराणां वाक्यानां कृति. खलु बुद्धिपूर्वाऽस्ति, बुद्धिर्ज्ञानमित्यनर्थान्तरम्, ज्ञानपूर्विकाऽस्ति । परमात्मना खलु वेदो रचितो वेदो ज्ञानागारोऽस्ति 'विद ज्ञाने' संज्ञाया: सार्थकत्वात्, स च ज्ञानस्वरूपस्य सर्वज्ञस्य परमा- त्मनः कृतिः । तत्राऽन्यथाकर्मप्रतिपादनेन न भवितव्यं तस्मात्तत्र प्रति- पादितकर्मणां ज्ञानमनुष्ठानं चावश्यं कार्य निषिद्धानां च परित्यागः कार्यः ॥१॥ तदत्र विषये- - ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम् ॥२॥ (ब्राह्मणे ) ब्राह्मणग्रन्थे वेदव्याख्यानग्रन्थे ( संज्ञाकर्म) वेदोक्तानां संज्ञानां कर्म 'अर्थकरणं' अर्थानुरूपं स्पष्टीकरणं तदर्थविधानं कर्म वा ( सिद्धिलिङ्गम् ) 'बुद्धिपूर्वा वाक्यकृतिरिति सिद्धेर्यद्वा सिद्धिः प्रसिद्धि- निमयो हि वेद इत्यस्य लिङ्ग प्रमाणम् । यथा “विश्वामित्रः सर्व- मित्रः विश्वस्य ह वै मित्रं..... (ऐ० ६।२०) "देवापिर्देवानामाप्त्या, त्रितस्तीर्णतमो मेधया" (निरु०) "भरद्वाजस्य वाजभृतः” (आर्षेय ब्रा० १२२।०२।२) "अत्रिरत्रैव तृतीयमृच्छतेः" (निरु०) "छन्दांसि छादनात्" (निरु०७ । १३) "अच्छादयंस्तस्माच्छन्दांसि" ( शत० ८।५।२।१) षपाध्याये प्रथमाह्निकम् ) (निरु० ७ । १२ ) “यदरोदोत तस्माद् रुद्रः" (शत०६।१ । ३ । १०) "मन्त्रा मननात्" "प्राणा वै रुद्रा प्रारणा होदं सर्व रोदयन्ति" (जं० उ. ४१२) २॥ संशाया ज्ञानपूर्वकत्वं तूक्तमय कमेमोऽपि जामपूर्वकत्वं निदर्शयति- बुद्धिपूर्वो ददातिः । ३॥ ( ददातिः-बुद्धिपूर्वः ) ददातिरिति धातुनिर्देशे यद्वा धात्वर्थे शितप् प्रत्ययान्तः प्रयोगः । ददातिर्दानप्रकारः स च वेदे बुद्धिपूर्वो ज्ञानपूर्वको विद्यते तेनापि तद्विहितकर्माणि स्वीकर्तव्यानि, तद्यथा “अहं भूमिमद- दामार्याय" ( ऋ० ४।२६।२) "अहं दाशुषे विभाजामि भोजनम्" (ऋ० १०।४८।१) भूमिदानमार्याय श्रेष्ठाय-वीराय, श्रेष्ठ आर्यों वीरो हि भूमेः परिष्कारं शासनं च कर्तुं शक्नोति नाश्रेष्ठोऽवीरो निर्बलः । भोजने कृत- कर्मणोऽधिकारस्तस्मात् यथायोग्यं तद्विभजनम्, इति बुद्धिपूर्व ज्ञानपूर्व दानं भूमेविभाजनं स्पष्टमेव ॥३॥ तथा प्रतिग्रहः ॥४॥ (तथा प्रतिग्रहः) तथैव प्रतिग्रहो दानस्वोकारो योग्यादानाभिलाषो- ऽपि बुद्धिपूर्वो ज्ञानपूर्वको वेदे खलूपलभ्यते तेनापि तद्विहितकर्माणि स्वीकर्तव्यानि 'तद्यथा'-"वर्ची विज्ञानमाददे" (अथर्व० ७।१२।३) व! विज्ञानं तु सर्वेभ्यः सर्वैः प्रतिग्राह्यमादेयं स्वीकार्यं वा । तथा च "मोघमन्नं विन्दतेऽप्रचेताः सत्यं ब्रवीमि बध इत् स तस्य नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी" (ऋ० १० । ११७ । ६ ) अत्र 'अहम्' पदं भिक्षोर्वचनं स्वात्मप्रदर्शनार्थं प्रतिग्रहाकांक्षायां साक्षात् खल्वदातारं निन्दति, "पृणीयादिनाधमानाय तव्यान् द्राधीयांसमनु- पश्येत् पन्थाम्" (ऋ० १०.११७।५) भिक्षुरेव प्रतिग्रहाय दानादानार्थं दातारं प्रेरयति ॥४॥ दानादिकर्मणः फलं तत्कर्ता भुक्ते, इति दर्शयति- आत्मान्तरगुणानामात्मान्तरेऽकारणत्वात् ॥५॥ ( आत्मान्तरगुणानाम् ) आत्मान्तरस्यान्यस्यात्मनो गुणानां पुण्य- पापकर्मसम्भूतधर्माधर्माणाम् (आत्मान्तरे) अन्यस्मिन्नात्मनि (अकार- णत्वात्) फलं प्रदातुमकारणं भवति तस्मात्तेषामन्यस्मिन्नकारणत्वाद- न्येन कृतस्य कर्मणः फलं नान्यो भुक्ते किन्तु स्वकृतस्य हि फलं भुंक्ते । यथा च तत्रान्तरे कथितम "शास्त्रदेशितं फलमनुष्ठातरि" ॥॥ .
८० [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् तद् दुष्टभोजने न विद्यते ॥६॥ (तद् दुष्टभोजने न विद्यते) 'तत्' शब्देन पुण्यं फल परामृशति तत् पुण्यफलं कल्याणकरं दुष्टभोजने दुष्टानां भोजने पात्रत्वेन दुष्टानां भोक्तृणां भोजने प्रदानकर्मणि तथा दुष्टानां भोजनस्वामिनां दातृ णां भोजनविधाने भोजनस्वीकरणे तथा दुष्टभोजनपदार्थप्रदाने न विद्यते नास्ति ॥६॥ किं तद् दुष्टत्वमित्युच्यते- दुष्टं हिंसायाम् ॥७॥ (हिंसायां दुष्टम्) हिंसायां दुष्टं भवति भोजनम्, हिंसकाय भोजन- प्रदानं हिंसकस्य भोजयितुर्भोजनप्रतिग्रहणं हिंसाकृतभोजनं दुष्टमनुचितं भवति, तद्दानं प्रदातुः प्रतिग्रहीतुश्च न पुण्यफलप्रदायकमित्यर्थः ॥७॥ तस्य समभिव्याहरतो दोषः ॥८॥ ( तस्य समभिव्याहरतः ) तस्य हिंसाजन्यभोजनस्य समभिव्याह- राद् यथाकथञ्चिदपि . व्यवहारात् क्रयानयनपरिवेषणपाचनरूपात् , तस्य हिंसकजनस्य भोक्तुः प्रदातुश्च समभिव्यवहारादेकासनवासविवा- हादिव्यवहारात् (दोषः) दोषो भवति शुभफलस्य तु का कथा ॥८॥ तददुष्टे न विद्यते ॥६॥ (तत्-अदुष्टे न विद्यते) दुष्टभोजनाद्भिन्न यददुष्टभोजनं तस्मिन्नदुष्ट- भोजने न विद्यते दोषः समभिव्याहरात् । अहिंसाजन्यभोजनेऽहिंसकाय भोजनप्रदाने अहिंसकस्य भोजन प्रतिग्रहे न दोषोऽपितु शुभफलमेव ॥६॥ अज्ञानाद् दुष्टं जनं भोजयित्वा पुनः किं कार्यमित्युच्यते- पुनर्विशिष्टे प्रवृत्तिः ॥१०॥ (पुनः-विशिष्टे प्रवृत्तिः) पुनः स्वस्माद्विशिष्टगुणसम्पन्ने पवित्रा- चारसंयुक्ते भोक्तरि प्रवृत्तिविधेया स एतादृशो जनो भोजयितव्य. ॥१०॥ समे होने वा प्रवृत्तिः ॥११॥ (समे होने वा प्रवृत्तिः) स्वस्माद्विशिष्टानुपलब्धौ सत्यां समे स्वसमान- गुणाचारयुक्त प्रवृत्तिविषेया तदभावेऽपि हीने स्वस्माद्गुणहीनेऽप्यदुष्टे जने प्रवृत्तिविधेया॥११॥ एतेन हीनसमविशिष्टधार्मिकेभ्यः परस्वादानं व्याख्यातम् ॥१२॥ - पहाध्याये प्रथमाह्निकम् ! (एतेन) प्रदानप्रकारेण विशिष्टाभावे सति (हीनसमविशिष्टधार्मि- केभ्यः परस्वादानं व्याख्यातम्) हीनात् समाद् विशिष्टात् पुनर्धामिका परधनप्रतिग्रहो व्याख्यातो विज्ञेयः। प्रथमं विशिष्टात् तदभावे समात् तदभावे च हीनादपि धार्मिकाहानं ग्राह्यम् ॥१२॥ तथा विरुद्धानां त्यागः ॥१३॥ (तथा विरुद्धानां त्यागः) तथैव विरुद्धामामधार्मिकामां धनादान. स्यागः कार्यः, तत्र त्यागे प्रातिलोम्यं विधेयं पूर्व हीनस्यादानत्यागः पश्चाद् समस्यादानत्यागः पुनर्विशिष्टस्यादानत्यागः कार्यः । सत्यापति- काले कस्याप्यादानत्यागो न विधेयः ॥१३॥ हीने परत्यागः ॥१४॥ ( होने परत्यागः ) तथैवापत्तिकाले स्वस्मिन् परस्मिश्च धार्मिके जने बुभुक्षिते प्राप्ते प्राणसंशये च हीने परत्यागः परस्य भोजनत्यागः परो ही जलो भोजनात् पृथक् कर्तव्यः, यद्वा हीने परे त्याग इति पाठे परेऽत्यागः, तन्निमित्तं स्वभोजनस्य त्यागो न कर्तव्यः ॥१४॥ समे प्रात्मत्यागः परत्यागो वा ॥१५॥ (समे) स्क्समानगुणयुक्त धार्मिके जने प्राप्ते प्राणसंशये बुभुक्षिते (आत्मत्यागः) स्वभोजनस्य त्यागः कर्तव्यो यद्वा (परत्यागः) परस्य भोजनत्यागः कार्यः । न वैशिष्टयमस्ति पुण्यफलप्राप्तौ ॥१५॥ परन्तु- विशिष्टे आत्मत्याग इति ॥१६॥ (विशिष्टे) स्वस्माद् गुणविशिष्टे धार्मिके जने तु (आत्मत्यागः) आत्मनो भोजनत्यागो विधेयः । सत्यापत्तिकाले भोजनमन्तरेण प्राण- संशये (इति) प्रकारे खल्वेतादृशेऽवसरे यथायोग्यमनुष्यम् ॥१६॥ प्रथमाह्निकं समाप्तम् परेत्यागः' अन्येषां मुद्रितपुस्तकानां पाठः सूत्रक्रमेण तु परत्यागः पाठः स्यात्, यथा 'समें आत्मत्यागः परत्यागो वा सूत्रे।
[वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम्
-
द्वितीयाह्निकम
सामान्येन वैदिककर्माण्यात्मघटकानि प्रदश्येदानीं विशिष्टकर्मणां
तंत्फलानां च विषयः प्रोच्यते-
दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय ॥१॥
(दृष्टादृष्टप्रयोजनानाम्) दृष्टादृष्टे फले, प्रयोजनं तु कर्म, करणार्थे
ल्युट् प्रत्ययः। दृष्टादृष्टे फले प्रयुक्ते-उपभुक्ते एभिस्तानि कर्माणि, दृष्टा-
दृष्टयोः फलयोः प्रयोजनानि प्रयोगनिमित्तान्युपभोगसाधनानि कर्माणि ।
तेषां दृष्टादृष्टफलोपभोगनिमित्तानां कर्मणां दृष्टादृष्टफलप्रदकर्मणाम्
( दृष्टाभावे ) दृष्टफलाभावे साम्प्रतिकफलाभावे साम्प्रतिकफलाप्राप्ती
(प्रयोजनम्) तथाविधं फलनिमित्तं कर्म (अभ्युदयाय) अभिमुखीभूताय
भाविने खलूदयायोत्कर्षाय . भवति खल्विह जन्मनि परजन्मनि वा
निष्पत्स्यमानाय कल्याणाय भवति । दृष्टं फलं सद्यस्तनम्, अदृष्ट चिरेण-
निष्पत्स्यमानम् ॥१॥
तत्रादृष्टफलकानां कर्मणामुदाहरणानि दीयन्ते-
अभिषेचनोपवासब्रह्मचर्य गुरुकुलवासवानप्रस्थयज्ञदान-
प्रोक्षणदिङ्नक्षत्रमन्त्रकालनियमाश्चादृष्टाय ॥२॥
(अदृष्टाय) अदृष्टफलाय चिरेण चिरतरेण चिरतमेन कालेन फलाय
कल्याणायास्मिन् परस्मिन् जन्मनि जन्मोपरमे च सन्ति । के ते ।
उच्यन्ते (अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थयज्ञदानप्रोक्षणदिङ्
नक्षत्रमन्त्रकालनियमाः-च ) यथावचनं विग्रहस्तत्र:अभिषेचनं नित्य-
शुद्धजलेन स्नानम्, उपवास: पापादुपरम्य गुणैः सह वासः, ब्रह्मचर्य-
मुपस्थेन्द्रियसंयमः, गुरुकुलवासो गुरुकुले विद्याध्ययनार्थो वासः, इत्ये-
तानि कर्माणि ब्रह्मचारिणोऽदृष्टफलाय । वानप्रस्थसेवनं वानप्रस्था-
श्रमिणः। यज्ञदाने तथा प्रोक्षणं व्रीह्यादीनां धान्यानामाम्रादीनां
वृक्षाणां च सिञ्चनं दिगुपयोगः पूर्वाभिमुखोपवेशनादौ कर्मणि, नक्षत्रो-
पयोगो नामकरणादिसंस्कारे, मन्त्री मन्त्रजपः, कालो वसन्तादि र्दीक्षा-
यामिति गृहस्थकर्माणि, नियमाः शौचसन्तोषादय पश्च संन्यासिनः
कर्माणि, चकारेणावशिष्टानि योगाङ्गानि समाधिपयन्तानि कर्माणि
मुमुक्षूणां सन्ति । तान्येतानि खल्वदृष्टफलाय चिरेणास्मिन् जन्मनि चिर-
तरेण वा परजन्मनि चिरतमेन वा जन्मोपरमेऽपवर्गे मोक्षे ॥२॥
षष्ठाघ्याये द्वितीयाह्निकम् ] ८३ तत्र- चातुराश्रम्यमुपधा अनुपधाश्च ॥३॥ भावदोष उपधाऽदोषोऽनुपधा ।।४।। अनयोः सूत्रयोरेकवाक्यताऽस्ति- ( चातुराश्रम्यम् ) पूर्वानन्तरसूत्रे यदभिषेचनादिकं चातुराश्रम्यं कर्मविधानमुक्तं तत्रोपधानुपधाभेदाद् द्वैविध्यं विज्ञेयम् । तत्र तथा- विधेषु कर्मसूपधाश्चानुपधाश्च भवन्ति । तत्र (भावदोषः-उपधा-अदोष:- अनुपधा ) भावनादोष.-अश्रद्धा नास्तिक्यं भ्रमोऽज्ञानं तूपधार्थादन्तः- करणस्योपरिधानमावरणम् । अदोषः श्रद्धाऽऽस्तिकताऽध्यवसायो ज्ञान- मनुपधाऽर्थात् सौमनस्यम् । उपधायामधर्मोऽनुपधायां धर्मो भवति ॥३-४॥ यदिष्टरूपरसगन्धस्पर्श प्रोक्षितमभ्युक्षितं च तच्छुचि ॥५॥ ( यत्-इष्टरूपरसगन्धस्पर्श प्रोक्षितम्-अभ्युक्षितं च तत्-शुचि ) इष्टाः खलु वेदशास्त्रेषु वणिता येऽभीष्टा रूपरसगन्धस्पर्शा यस्य तथाभूतं वस्तु खल्विष्टरूपरसगन्धस्पर्शकं प्रोक्षितं संस्कृतेन यज्ञियेन जलेन सिक्तं पूर्वं च सामान्येन जलेन धोतं प्रक्षालितं यद् वस्तु भोज्यमुप- योज्यं वा तद् भवति शुचि पवित्रं भोज्यमुपयोज्यं स्वार्थायान्याय वा ॥५॥ अशुचोति शुचिप्रतिषेधः ।।६।। (अशुचि-इति शुचिप्रतिषेधः ) अशुचि वस्तु भवति शुचिनो वस्तुनः प्रतिषेधः. वेदशास्त्रविरुद्धरूपरसगन्धस्पर्शवद् वस्तु संस्कृतजला- सिक्तं साधारणेन जलेन चासिक्तं वा ॥६॥ अर्थान्तरं च ॥७॥ ( अर्थान्तरं च ) यत्खलु भोज्यमुपयोज्यं वा स्वार्थपरार्थश्चार्था- न्तरं शास्त्रानुमोदितं रूपरसगन्धस्पर्शवत् प्रोक्षितमभ्युक्षितं सदपि भावदोषयुक्तं तदपि भवत्यशुचि। पूर्व भावदोषोऽभिषेचनादीनां कर्मणां चरित्राणामुक्तः, अत्र भोज्योपयोज्यवस्तूनां भावदोषणाशुचित्व- मुच्यते ॥७॥ तथासत्यपि शुचि भोजने- - ८४ [ वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् अयतस्य शुचि भोजनादभ्युदयो न विद्यते, नियमाभा- वाद् विद्यते वा आन्तरत्वाद् यमस्स ॥८॥ (शुचिभोजनात्-अयतस्य-अभ्युदयः न विद्यते) पूर्वोत्तात् खलु शुचिभोजनात्-सति शुचिभोजनेऽपि यमरहितस्याहिसासत्यादिवतरहि- तस्य न विद्यतेऽभ्युदयः, अभिमुखी भूतो भावी खर्वृदय उत्कर्षः । (वा) अथ च नियमाभावात्-विद्यते ) नियमानामभावाद् यमानाचरतो जनस्य विद्यतेऽभ्युदयः । यतः ( यमस्य-अर्थान्तरत्वात् ) अहिंसासत्या- दियमनामकस्य व्रतस्य भिन्नवस्तुत्वात, तदपेक्षया खलूत्कृष्टवस्तुत्वात् । उक्तं हि मनुशास्त्रे "यमान सेवेत सततं न नियमान् केवलान् बुधः । यमान् पतत्यकुर्वाणो नियमान् केवलान् भजन् ।" (मनु० ४।२०४) ॥८॥ यत:- - असति चाभावात् ॥६॥ (असति च-अभावात्) असति यमे यथाभावे खलु शुचि भोजनस्या- भावादसम्भवात् । न हि यममन्तरेण शुचि भोजनं सम्भवति तस्माद- भ्युदयो न भवति ॥६॥ अहिसादयस्तु भावगुणा: खलूक्ताः, अथ खलु भावदोषविषयं प्रदर्शयति- सुखाद् रागः ॥१०॥ (सुखात्-रागः) विषयसुखातू सुखसाधतान्न तत्र भवति रागः। सति रागे विरुद्धेभ्यो द्वषोऽपि भवतीत्युत्प्रेक्ष्यम् । रागद्वेषाभ्यां मोहो जायते मूढश्च पुनारागद्वषो प्रतिपद्यते, रागद्वेषमोहा दोषास्ते प्रवर्तना लक्षणा दोषाः ॥१०॥ तन्मयाच्च ॥११॥ ( तन्मयात्-च ) 'तत्' शब्देन रागो गृह्यते। रागमयाद् विषय- सुखनाशे विषससुखसाधननाशेऽपि तद्विषयको रागोऽवतिष्ठते तस्य तथा- भूतस्य रागस्य कारणं पुनः पुनविषयसेवनाद् विषयसुखजन्यं रागमयव्य- अत्र 'वा' शब्दः समुच्चयार्थः । साकांक्षं पदं यममाकांक्षते । - ८५ - -- षष्ठाभ्याये द्वितीयाह्निकम् । सनं रागसंस्कारप्राबल्य रागसंस्कारचित्रं यत् स्थिरीभवति तस्मादपि रागः प्रवर्तते, एवं द्वषमयाद् द्वेषसंस्कारचित्रात्' पुनद्वषोऽपि जायते ॥११॥ + अष्टाच्च ॥१२॥ ( अदृष्टात्-च ) इह जन्मनि रागस्य द्वेषस्य कारणं सुखं दुःखं वा ऽननुभवन्नपि यो रागो द्वषो वा तत्र प्रवर्तते तस्य कारणं खल्वदृष्टं पूर्वजन्मानुभूतसुखं दुःखं यद्वा नैजिकस्वभावः कारणमस्ति। यथा यौव- नोद्भवे तरुणस्य तरुणीविषयकरागस्तरुण्याश्च तरुणविषयको रागः । तथा जातस्य स्तन्यपाने राग: । एवं द्वषोऽपि भवत्यसर्पदष्टेऽपि सपद्-ि द्वषः, नवशिशोरन्धकाराद् द्वषः॥१२॥ जातिविशेषाच्च ॥१३॥ ( जातिविशेषात्-च ) जातिविशेषात् खल्वपि रागो द्वेषश्च भवति । सम्भोगसुखाय मनुष्यजातेर्मनुष्यजातो, गोजाते!जातो, शूकर- जातेः शूकरजातौ रागोऽथ द्वषश्च अश्वजातेमहिषीजातितः, नकुलजातेः सर्पजातितः परस्परं विद्यते ॥१३॥ सुखदुःखभवौ रागद्वेषौ रागद्वषाभ्यां प्रभूतयोर्धर्माधर्मयोः प्रवृत्ति- भंवतीत्युच्यते- इच्छाद्वेषपूर्विका धर्माधर्मयोः प्रवृत्तिः ॥१४॥ (इच्छाद षपूर्विका धर्माधर्मयोः प्रवृत्तिः) धर्मस्याधर्मस्य च प्रवृत्तिः प्रवर्तनं खल्विच्छापूर्वकं रागपूर्वकं द्वेषपूर्वकं च यथासंख्यं विज्ञेयम् । रागात् खलु धर्मे शुभकर्मणि प्रवर्तते न हि रागेण विना क्वचिदनुकूले शुभेप्रवृत्तिर्जायते पुण्यफलार्थम्, न च द्वेषेण विनाऽधर्ममशुभं कर्मा- चरति ॥१४॥ - अथ धर्माधर्माभ्यां किं भवतीत्युच्यते- तत्संयोगो विभागः ॥१५॥ (तत् ) 'तत्' अव्ययं हेतौ । तस्मात् खलु धर्माधर्माचरणात् (संयोगः-विभागः) आत्मनो धर्माधर्मकर्मकर्तुः शरीरेण सह संयोगो जन्म देहधारणं पुनर्विभागो देहादुत्क्रमणं मरणं भवति । एवं जन्म- [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् मरणचक्रमनिशमावर्तते धर्माधर्माभ्यां यद्वा धर्माधर्माचरणात् ।।१५।। जन्ममरणप्रबन्धात् खलु- आत्मकर्मसु मोक्षो व्याख्यातः ।।१६।। ( मोक्षः ) जन्ममरणप्रबन्धाद् दुःखबहुलात् खलु मोक्षो विमोक्ष: ( आत्मकर्मसु ) अध्यात्मकर्मसु परमात्मनः श्रवणमनननिदिध्यासन- साक्षात्कारेषु तथाऽष्टाङ्गयोगाभ्यासेषु समाधिपर्यन्तेषु (व्याख्यातः) व्याख्यातो वेदितव्यः, व्याख्यातश्च सर्वमोक्षशास्त्रः "तमेव विदित्वाऽति मृत्यमेति" ( यजु० ३१ । १८) "अध्यात्मयोगाधिगमेन मत्वा धीरो हर्षशोको जहाति" ( कठो० १।२।१२) "यमनियमाभ्यामात्मसंस्कारो योगाच्वाध्यात्मविध्युपायैः" ॥१६॥ द्वितीयाह्निकं समाप्तम् । समाप्तिगतश्च षष्ठोऽध्यायः ।।
८७ सप्तमोऽध्यायः तत्र प्रथमाह्निकम विविधानि समस्तानि भौतिकान्याध्यात्मिकानि च कर्माणि परीक्ष्ये- दानीमत्र गुणान् परीक्षमाणः पीठं रचयति प्रथमेन सूत्रेण- उक्ता गुणाः ॥१॥ (उक्ताः-गुणाः) पूर्व खलूक्ता ये गुणाः रूपादयस्ते परीक्ष्यन्ते, इति - शेषः ॥१२॥ . तत्र रूपादिषु गुणेषु- पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च ॥२॥ (पृथिव्यादिरूपरसगन्धस्पर्शाः ) पृथिवीजलाग्निवायूनां ये गन्ध- रसरूपस्पर्शा गुणाः सन्त्येकैकशो यथासंख्यं ते यथायोग्यं तेषां पिण्डिता- वस्थायां यद्वा तदवयविद्रव्यगताः पृथिव्या गन्धरसरूपस्पर्शाः, जलस्य रसरूपस्पर्शाः, अग्नेरूपस्पर्शी, वायोः स्पर्शः, ते सर्वे (द्रव्यानित्यत्वात्- अनित्याः-च) द्रव्यस्यावयविनोऽनित्यत्वात् सन्ति ह्यनित्याः, चकार उत्तरसूत्रेणाभिसम्बध्यते, अथचेत्यर्थे ।।२।। एतेन नित्येषु नित्यत्वमुक्तम् ॥३॥ (एतेन) अथ चैतेन वर्णनप्रकरणेनायातमिदं यद् (नित्येषु नित्य त्वम्-उक्तम्) नित्येषु द्रव्येषु गुणानां नित्यत्वमुक्तं विज्ञेयम् ॥३॥ कुत्र नित्येषु नित्यत्वं तन्निर्दिश्यते- अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात् ।।४॥ (अप्सु तेजसि वायौ च नित्याः) जले-अग्नौ वायौ च नित्याः सन्ति तत्तद्गुणाः ( द्रव्यनित्यत्वात् ) द्रव्यस्य नित्यत्वात् तस्मात्-नित्या- स्वप्सु नित्येऽग्नौ नित्ये वायौ नित्यो गुणः । द्रव्यस्य नित्यत्वानित्याभ्यो - [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् भेदद्वयम्, नित्यः परमाणुर्भूतसूक्ष्मो वाऽनित्यस्तु स्थूलभूतः, तत्र त्वनित्येन गुणेन भाव्यमेवेत्युक्तं हि, इति विवेकः। तेनेदमप्यायातं यत् पार्थिवपरमाणावपि गुणोऽनित्योऽस्ति ॥४॥ अनित्येष्वनित्या द्रव्यानित्यत्वात् ॥५॥ ( अनित्येषु-अनित्याः-द्रव्यानित्यत्वात् ) अनित्येषु द्रव्येषु स्थूलेषु यद्वाऽवयविषु द्रव्येषु गुणा अनित्याः सन्ति द्रव्यस्यानित्यत्वात्, द्रव्यस्य नाशेन सह नश्यमानत्वात्-आश्रयनाशात् । रूपादयो गुणास्तु द्रव्यस्या- नित्यत्वादनित्याः सन्तीति तु गतमेव "पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च" अस्मिन् द्वितीयसूत्रे पुनराम्भो विशेषार्थ- द्योतनाय, स च ये रूपादिभ्योऽन्ये गुणाः सन्ति परिमाणादयस्ते खल्वा- श्रयनाशानश्यन्ति तेऽनित्यद्रव्येषु वर्तमानाः सन्तोऽनित्या विज्ञेयाः ॥५॥ यथा हि जलाग्निवायवो द्रव्याणि नित्यान्यनित्यानि च तेषां सूक्ष्मत्वस्थूलत्वाभ्यां भेदाभ्यां तेषु नित्येषु रूपादयो गुणा नित्याः सन्ति तथा पृथिवी द्रव्यमपि तु नित्यं चानित्यं च तस्याः सूक्ष्मत्वस्थूलत्वाभ्यां भेदाभ्यां तत्रापि नित्यायां पृथिव्यां रूपादयो गुणाः कथं न नित्याः कथं तत्र गुणनित्यत्वप्रसङ्ग पृथिवी वजिता ? इत्याकांक्षायामुच्यते- कारणगुणपूर्वकाः पृथिव्यां पाकजाः ॥६॥ ( कारणगुणपूर्वकाः पृथिव्यां पाकजाः ) पृथिवीतोऽन्यत्राप्तेजो- वायुषु नित्येषु तु रूपादयो गुणा नित्या भवन्ति किन्तु पृथिव्यां नित्याया- मपि रूपादयो गुणा न नित्या न सदा समानाः समावस्थागता वा, यतो ह्यग्निसंयोगात् परिवर्तन्ते प्राथमिकस्वरूपं त्यजन्ति भिन्नं स्वरूप- मुपयन्ति । तत्कथमित्युच्यते स्थूलायां पृथिव्यां दक्षिणोत्तरभिन्नभिन्न- प्रदेशगतायां विशिष्टसंस्थानभूतायां घटादिरूपेण विकृतायां कार्यभूतायां पृथिव्यां रूपादयो गुणा ये पाकजाः सन्ति ते न कार्यवशगा अपितु कारणगुणपूर्वकाः सन्तो मृत्कणेषु कार्यावयवेषु कारणेषु पाकजाः पाक- वशगा भवन्ति, यतो ह्यग्निसंयोगात् पृथिव्याः कणाः परमाणवो वा पच्यन्ते पाकं प्राप्नुवन्ति वा, पाकात् कणानां परमाणूनां कारणानां रूपादयो गुणाः परिवर्तन्ते ते हि कार्ये खलूपलभ्यन्ते तस्मात् पार्थिवस्य कार्यवस्सुनो गुणा न कार्ययोगात् किन्तु कारणस्यैव गुणाः सन्ति कारण- गुणपूर्वकत्वात्, पूर्व कारणेषु ते प्रकटीभवन्ति पश्चात् कार्ये लक्ष्यन्तेऽत सप्तमाध्याये प्रथमाह्निकम् ] - एव नित्यायामपि पृथिव्यां रूपादयो गुणा न नित्याः । जलादीनां तु रूपादयो गुणाः पाकेन न परिवर्तन्ते, दृश्यन्ते च पूर्ववदेव। तत्र पाकजगुणानां रूपादीनां समवायिकारणं पृथिवीपरमाणवः, पृथिवी- परमाणुगता रूपादयो गुणा अवयविरूपादीनामसमवायिकारणं, अग्नि- संयोगो निमित्तकारणम् ॥६॥ कथं पृथिव्यामेव रूपादिगुणानां पाकजत्वं कारणगुणपूर्वकं येन • नित्यायाः पृथिव्याः-रूपादयो गुणा अनित्याः स्युः कथनान्यत्राबादि ष्वपि रूपादिगुणानां पाक जत्वं कारणगुणपूर्वकं स्वीक्रियते, इत्याकांक्षा- यामुच्यते- एकद्रव्यत्वात् । ७॥ (एकद्रव्यत्वात्) पाकजानां गुणानामेकद्रव्यत्वात् केवलमेकं पृथिवों द्रव्यमेवाश्रयन्ति पाकजा गुणाः, अग्निसंयोगात् पृथिव्यामेव रूपादयो गुणाः पाकजाः खलु भिन्नाभिन्नाः प्रादुर्भवन्ति न ह्यबादिषु पाकजगुण- प्रादुर्भावः कारणगुणाद् भिन्नो भवति तद्गुणस्तु रूपादिस्तथैवावतिष्ठते । तादृशी पक्तव्या तु पृथिवी ह्यस्ति न च जलाग्निवायवस्तथा पक्तव्याः, यत् पृथिवीवत् तेष्वपि पाकजगुणाः प्रादुर्भवेयुः । पृथिवी तद्विकारश्च पाके दहनकर्मणि लक्ष्यते तस्य दहनाश्रयत्वादग्नेरिन्धनत्वाच्च । न जलं दग्धं भवति तत्तु वाष्पी भूयोद्गच्छति नाग्निना ऽग्निर्दह्यते न वायुर- ग्निना दग्धो भवति, तस्मात् पाकजगुणानामेकमेव पृथिवीद्रव्यमाश्रय- स्तत्रैव पाकजगुणानां प्रादुर्भाव. ॥७॥ रूपादीनिन्द्रियविषयान् गुणान् परीक्ष्य तत्सहचरितान् गुणानपि परीक्षमाणः क्रमप्राप्तां संख्यामन्तरयित्वाऽल्पविषयत्वात् पूर्वं परिमाणं परीक्षते- अणोर्महतश्चोपलब्ध्यनुपलब्धो नित्ये व्याख्याते ॥८॥ ( अणो:-महत:-च ) अणुपरिमाणस्य गुणस्य महतः-महत्परिमा- णस्य गुणस्य (उपलब्ध्यनुपलब्धी) यथायोग्यमन्वयन्यायात्, अनुपलब्धि- रुपलब्धिश्च (नित्ये व्याख्याते) नित्ये व्याख्याते वेदितव्ये । अणुत्ववति द्रव्ये ऽणुपरिमाणगुणस्यानुपलब्धिरप्रत्यक्षता नित्या, महत्ववति द्रव्ये- महत्परिमाणगुणस्योपलब्धिः प्रत्यक्षता नित्याऽस्ति ।।८।। अणुमहतोः स्वरूपं कारणं च प्रदर्शयन् पूर्वं महतः स्वरूपं कारणं च पश्चादणोः स्वरूपं कारणं च कथयति- - -
६०
[वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम्
कारणबहुत्वाच्च ॥६॥
अतो विपरीतमणुः ॥१०॥
अनयोः सूत्रयोरेकवाक्यताऽस्ति-
( कारणबहुत्वात्-च ) त्रसरेणुकारणानां द्वयणुकानां बहुत्वात्,
चतुरणुककारणानां त्र्यणुकानां बहुत्वात् संहतत्वाद् घटादौ पृथिव्यां च
चकारेण प्रचयात् तूलांशूनां शिथिलसयोगाच्च तूलपिण्डे महत्त्वं महत्प-
रिमाणं महत्परिमारणस्वरूपं वा भवति। अथ (अत:-विपरीतम्-अणुः)
अस्मादुक्तलक्षणाद् विपरीतमणु परिमाणमर्थात् कारणाबहुत्वात् तथाऽ-
प्रचयादणुपरिमाण तत्स्वरूपं च भवति । यत्खलु द्वयणुके परि-
माणं तदणु यच्च प्रचयहोनस्तूलासुस्तत्राणुपरिमाणमस्ति ।।९-१०॥
अणोर्महतश्च परिमाणस्याधिकरणमाश्रयो वा यद्यपि भिन्न भिन्न
भवति परन्तु लोके खल्वेकाधिकरणेऽपि व्यवह्रियतेऽणुत्वं महत्त्वं च
तत्कथमित्युच्यते-
अणुमहदिति तस्मिन् विशेषभावाद् विशेषाभावाच्च ॥११॥
( तस्मिन् ) एकस्मिन् व्यवह्रियमाणे पार्थिवद्रव्ये ( अणु महत्-
इति ) अणु महत् परिमाणं व्यवह्रियते ( विशेषभावात्-विशेषाभावात्-
च) विशेषो विशिष्टधर्मः सापेक्षोऽपकर्ष उत्कर्षश्चोभयविधः परीक्षणी-
यात्मकः । यथा बिल्वस्य महत्त्वमपेक्ष्य ह्यामलकेऽणुत्वं तस्मिन्नेव महत्त्वं
च कुवलयस्याणुत्वमपेक्ष्य भवति । यदाऽपकर्षोऽपेक्ष्यते तदा स विशेषो
विशिष्टधर्मस्तदा मलकमणु बिल्वात् तत्रामलकेऽपकर्षभावाद् बिल्वं
महदपकर्षाभावात् । अथ यदोत्कर्षोऽपेक्ष्यते तदा स विशेषो
विशिष्टधर्मस्तदा महदामलकमस्ति कुवलयात् तत्रामलके खलूत्कर्ष-
भावात् कुवलमणूत्कर्षाभावात् ॥११॥
एकस्मिन् पार्थिवद्रव्ये सापेक्षविशेषस्यापकर्षस्योत्कर्षस्य भावाद-
भावाच्च कथमणुत्वमहत्त्वव्यवहारः कल्प्यतेऽत्रोच्यते--
एककालत्वात् ।।१२।।
(एककालत्वात्) यतो ह्य कस्मिन् काले तत्रैकस्मिन् पार्थिवद्रव्येऽ-
गुत्वं महत्त्वं च प्रतीयते यद्वोपलभ्यते। सापेक्षविशेषभावाभावनिमित्ता
तयोरुपलब्धिः ॥१२॥
सप्तमाध्याये प्रथमाह्निकम् ] दृष्टान्ताच्च ।।१३॥ • (दृष्टान्तात्-च) 'अणु महत्' परिमाणमस्ति गुणः, गुणेषु भवति ह्यपकर्षोत्कर्षापेक्षा, तत्र दृष्टान्तो विद्यते यथा रूपं रसो वा गुणः । वस्त्रशङ्खस्फटिकेषु श्वेतत्वमपकर्षोत्कर्षापेक्षया लक्ष्यते यथा च द्राक्षाखर्जूरयोर्मधुररसोऽपकर्षोत्कर्षापेक्षया लक्ष्यते ॥१३॥ परन्तु स एषोऽणुत्वमहत्त्वव्यवहारो द्रव्येषु वर्तते किन्तु- अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणाख्यातः ॥१४॥ (अणुत्वमहत्त्वयो:-अणुत्वमहत्त्वाभावः) अणुत्वेऽणुत्वस्य महत्त्वे महत्त्वस्याभावोऽस्ति, नाणुत्वेऽणुत्वं न च महत्त्वे महत्त्वं विद्यते । स चाभावः (कर्मगुणैः-व्याख्यातः) कर्मभिर्गुणैश्च तुल्यो व्याख्यातो वेदितव्यः । कर्माणि न स्वतन्त्राणि गुणा अपि न स्वतन्त्राः किन्तु कर्मगुणा द्रव्याश्रयिणः सन्ति तथैवाणुत्वं महत्त्वं च द्रव्याश्रयि भवति न स्वतन्त्रम्, तस्मादणुत्वे नाणुत्वं न च महत्त्वे महत्त्वमस्ति तथा चोत्क्षेपणकर्मणि न पुनरुत्क्षेपणं रूपगुणे पुनर्न रूपगुणः कल्प्यते तथैवा- णुत्वे नाणुत्वं महत्त्वे न महत्त्वं कल्पयितुं शक्यतेऽस्वतन्त्रत्वादेव ॥१४॥ कर्मगुणाख्याता-इत्युच्यते, कर्माणि न कर्मवन्ति गुणा न गुण- वन्त इति कुतः, अत्रोच्यते- कर्मभिः कर्माणि गुणश्च गुणा व्याख्याताः ॥१५॥ ( कर्मभिः कर्माणि गुणैः-च गुणाः-व्याख्याताः ) व्याख्यातानि कर्माणि व्याख्याता गुणाश्च कर्मभिर्गुणैश्च सम्बध्यन्ते न वेति तत्र न सम्बध्यन्ते खल्वेष सिद्धान्तः "द्रव्याश्रय्यगुणवान् (१।१।१६) द्रव्याश्रयी चाणुश्च गुणः, “एकद्रव्यमगुणं (१।१।१७) “गुण- वैधान्न कर्मणां कर्म" (११११२४) कर्म कर्मणा सह न सम्बध्यते तस्य क्षणिकत्वात् । तस्मात् कर्माणि कर्मभिरसम्बद्धानि शून्यानि वा व्याख्या- तानि गुणैश्च गुणा असम्बद्धाः शून्या व्याख्याताः ।।१५।। तस्मादेव व्याख्यानप्रकारात्- अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः ॥१६॥ (अणुत्वमहत्त्वाभ्यां कर्मगुणाः-च व्याख्याताः) यथाऽणुत्वं नाणुत्व- . - १२ -- [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् वत्. महत्त्वं न महत्त्ववत् तस्याणुत्वस्य महत्त्वस्यास्वतन्त्रत्वाद् द्रव्या- श्रयित्वात् तथैव कर्म नाणुत्वमहत्त्ववत्, गुणो नाणुत्वमहत्त्ववान् तस्यास्वतन्त्रत्वाद् द्रव्याश्रयित्वात् । अथ च यथा कर्मभिः कर्माण्य- सम्बद्धानि शून्यानि गुणाश्च गुणैरसम्बद्धा: शून्यास्तथैवाणुत्वमह- त्वाभ्यामसम्बद्धानि शून्यानि कर्माणि, गुणाश्चाणुत्वमहत्त्वाभ्याम- सम्बद्धाः शून्याः सन्ति यतो गुणाः सन्त्यगुणवन्तः कर्माणि च सन्त्यगुण- वन्ति, अणुत्वं महत्त्वं च गुणः ।।१६।। दीर्घत्वह्रस्वत्वयोरपि महत्त्वाणुत्वाभ्यां परिकर्मसादृश्यमति- दिशति- एतेन दोर्घत्वह्रस्वत्वे व्याख्याते ॥१७॥ ( एतेन ) महत्त्वाणुत्वयोर्लक्षणादिपरिकर्मणा ( दीर्घत्वह्रस्वत्वे ) यथासंख्यं दीर्घत्वह्रस्वत्वे (व्याख्याते) व्याख्याते वेदितव्ये । महत्त्वा- णुत्वयोर्विषये यत्किश्चिदुक्तं लक्षणादिकं तत् सर्व दीर्घत्वह्रस्वत्वयोरपि तथैव विज्ञेयम् । तदत्र परिगण्यते-कारणबहुत्वाद् दीर्घत्वं कारणाबहु- त्वाद्धस्वत्वम्, उत्कर्षापेक्षं दीर्घत्वमपकर्षापेक्षं ह्रस्वत्वम् । दीर्घत्वं न दोर्घत्ववत्, ह्रस्वत्वं न ह्रस्वत्ववत् । इदं खलु महत्त्वाणुत्वाभ्यां सादृश्यं दीर्घत्वह्रस्वत्वयोरेतदर्थमुक्तं यतो हि यत्र महत्त्वं तत्र दीर्घत्वं यत्राणुत्वं तत्र ह्रस्वत्वम् । कथं पुनः कारणाभेदे कार्यभेदः ? यतो हि गुरुत्वं प्रस्तारं वापेक्ष्य महत्त्वाणुत्वयोर्व्यवहारो लम्बत्वमपेक्ष्य दीर्घत्व- ह्रस्वत्वयोव्यवहारोऽस्तीति भेदः । व्यवह्रियते च समेषु महत्सु दीर्घो- ऽयं तथा समेषु दीर्घषु महानयमिति । तत्र चतुःषु परिमाणेषु खल्व- णुत्वमहत्वयोः परिमाणयोः प्राधान्यमिति ज्ञापयति ह्याचार्यस्य सूत्रशैली । १७॥ किं तत्परिमाणं नित्यमथानित्यमित्यत्रोच्यते- अनित्येऽनित्यम् ॥१८॥ नित्ये नित्यम् ॥१९॥ अनयोः सूत्रयारेकवाक्यताऽस्ति- (अनित्ये-अनित्यं नित्ये नित्यम्) एतद्यत्परिमाणमुक्तं तदनित्यं च नित्यं च भवति, अनित्यं खल्वनित्ये द्रव्ये वर्तमानं तस्यानित्यद्रव्यस्य नाशात् तदपि नश्यति तस्य यावदाश्रयद्रव्यभावित्वादाश्रयनाशात् ।
१३ सप्तमाभ्याये प्रथमाह्निकम् अथ नित्यं परिमाणं नित्ये द्रव्ये वर्तते तदाश्रयद्रव्यस्य नित्यत्वात् तस्य यावदाश्रयद्रव्यभावित्वात् ॥१८-१९।। नित्यं परिमाणं नित्यं द्रव्यं किम्-इत्याकांक्षायामुच्यते- नित्यं परिमण्डलम् ॥२०॥ (परिमण्डलं नित्यम् ) परितः सर्वतो मण्डलं गोलं 'गालाकारं नि:शेषगोलाकारं परिमाणं द्रव्यं च यदणु महत् तन्नित्यं परिमाणं द्रव्यं च । परिमण्डलशब्देन सर्वतो गोलाकारं परिमाणं द्रव्यं चोभयं लक्ष्यते। तेनाणुमहदिति प्रधानं परिमाणद्वयमेव गृह्यते न दीर्घह्रस्वे। दीर्घह्रस्वे परिमाणे निमित्तकारिते द्रव्यान्तर्वतिनी भवतः, द्रव्यपीडनं हि तयोनिमित्तं परन्तु परिमण्डलं परितः सर्वत: स्वतन्त्रमप्रतिबद्धम- प्रतिहतं सर्वतो गोलाकारं तु पीडनमन्तरेण नैसर्गिकमेव भवति तच्च द्रव्यं खलु परमाणुराकाशश्च, तौ नित्यौ तयोश्चाणु महत्-इति परि- माणं नित्यम् । तथैव सम्यगुक्तं चन्द्रकान्तभाष्ये "तच्चैतत्परिमण्डलमणु- महच्च यथाविषयं वेदितव्यम्" अणुत्वे परमाणुनिरतिशयगोलो गोलाकारो वा महत्त्वे चाकाशो निरतिशयगोलो गोलाकारो वा, पर- माणो केवलमणुत्वमाकाशे केवलं महत्त्वं नित्यमेव । शङ्करमिश्रेण सूत्रं न सम्यग्व्याख्यातम् ।।२०।। आमलकांदिवत् कथं नापकर्षापेक्षं परमाणो स्यादणुपरिमाणम नित्यं तथा कथं नोत्कर्षापेक्षमाकाशे महत्त्वमनित्यमित्यत्रोच्यते- अविद्या च विद्यालिङ्गम् ॥२१॥ (अविद्या च विद्यालिङ्गम्) यथा ह्यविद्याकथनाद् विद्या लिङ्गयते ज्ञायते यदस्ति विद्या, न हि "विद्यामन्तरेणाविद्या भवति तथैवापकर्षम- पेक्ष्याणुपरिमाणमनित्यं सत् स्वभिन्न नित्यमणुपरिमाणं क्वचिद्वतमानं साधयति, परमाणौ खल्वपकर्षो निरतिशयस्तस्मात्तत्राणुपरिमाणं स्थितमेव, तथैवोत्कर्षमपेक्ष्य महत्परिमाणमनित्यं सत् स्वभिन्न क्व- चिद्वर्तमानं नित्यं महत्परिमाणं साधयति, आकाशे खलूत्कर्षो । निरति शयस्तस्मात् तत्र महत्परिमाणं नित्यमस्ति । एतदपि सूत्र शङ्कर- मिश्रादिभिर्न सारल्येन व्याख्यातम् ॥२१॥ कथमाकाशे महत्परिमाणं ? नहि तत्राकाशेऽवयवोत्कर्षों निरति- शयस्तस्य निरवयवत्वात् । अत्रोच्यते- - . -- [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् विभवान्महानाकाशः ॥२२ [क] तथा चात्मा। २२ [व] तदभावात् अणु मनः ॥२३॥ अनयोः सूत्रयोरेकवाक्यताऽस्ति- (आकाशः-महान् विभवात्) आकाशो महान् महत्परिमाणवानस्ति विभवात्-विभवो विभुत्वं सर्वद्रव्यसंयोगित्वमस्ति ह्याकाशस्य, तस्मादाकाशे महत्परिमारणं तच्च नित्यमुक्तम् ( तथा च-आत्मा) 'आत्मा' सामान्यं पदं परमात्मनि जीवात्मनि च प्रयुज्यते तस्मादेव पृथक पठितो लक्षणाय, आकाशमनसोर्मध्ये च क्षिप्तः, नोचेत् "विभवान्महा- न्तावाकाशात्मानौ” इति सूत्रेण भवितव्यमासोत् । तेनायातमिदं यत् तथा च विभवाद् विभुत्वादात्मेति विश्वस्थात्मा परमात्मा महान्, परमात्मनो विभुत्वं सर्वान्तर्यामित्वमनन्तत्वं च तस्मात् परमात्मा महान् तत्रापि महत्त्वं नित्यम् (तदभावात्) आत्माऽनुकृष्यते। आत्मा शरीरस्यात्मा शारीर आत्मा विभुत्वाभावान्न महान् किन्तु स त्वेकदेशी शरीरवर्ती हि नहि शरीराद् बहिरस्तिक ( मन:-अणु) मनोऽणु खल्वस्ति न तु परमाणुवत् किन्तु तदभावाद् विभुत्वाभावादेव । उच्यते हि समानतन्त्रे "ज्ञानायौगपद्यादेकं मनः "यथोक्तहेतुत्वाच्चाणु" (न्याय० ३।१५८-६१) तथा चात्र वात्स्यायन: "अणु मनः योगपद्यात्, महत्त्वे मनसः सर्वेन्द्रियसंयोगाद युगपद् विषयग्रहणं स्यात्" जीवात्मा सर्वस्मिञ्छरीरे सर्वेष्विन्द्रियेषु निजचैतन्यशक्तया तिष्ठति मनस्तु खल्वेकस्मिन्नेवेन्द्रिये प्रवर्तयितृत्वं भजते । अथवा (तदभावात्- अणु मनः) विभुत्वाभावात् खल्वणु मनोऽस्ति; तथा चात्माऽनुकृष्यते मध्यपठितो देहलीदीपकन्यायतः, स चात्मा शारीरो विभुत्वाभावात् खल्वणुरस्ति प्रत्येकस्मिञ्छरीरे तस्य मनोवद् भिन्नभिन्नत्वाद् यथा मनः * “( प्रश्न ) जीव शरीर से | में ? ] भिन्न विभु है या परिच्छिन्न ? (उत्तर) परिच्छिन्न" ( सत्यार्थप्रकाशसप्तम समु० दयानन्दः ) वैशेषिककारः परमात्मनं मन्यते, साधितं हि पूर्वम् । जीवात्मानं चापि मन्यते हि तर्हि परमात्मा किल्लक्षणस्तस्य मते-इति प्रश्नस्तथा परमात्मजीवात्मनोश्च भेदः क.? अत्र प्रसङ्ग खल्वेतत्सूत्ररचनयैव समाधानं कृतमाचार्येण सूत्रकृता, यत् परमात्मा विभुर्जीवात्मा त्वविभुरेकदेशी शरीरवर्ती । 'ज्ञाना- ।
सप्तमाध्याये द्वितीयाह्निकम् )
प्रत्येकस्मिञ्छरीरे भिन्नभिन्न तथा चात्मा भिन्नभिन्नोऽणुः । आकाश-
समकक्षतया य आत्मा परमात्मा स विभुर्महान् तथा मनोयोगादात्मा
जीवात्माऽविभुरणुरस्ति । आकाशस्य महत्त्व न कारणबहुत्वात् साव-
यवद्रव्यवत् किन्तु विभुत्वात् तथा मनसोऽणुत्वं न कारणाबहुत्वात्
परमाणुवत् , एवं खलु परमात्मनो महत्त्वं न कारणबहुत्वात् सावयव-
द्रव्यवत् तथा न जीवात्मनोऽणुत्वं कारणाबहुत्वात् परमाणुवदिति
विवेकः । शङ्करमिश्रादिकृतं सूत्रव्याख्यानं न सूत्रशैलीमनुसर-
दस्ति ।।२२-२३॥
अथ दिग्विषय उच्यते-
गुणैदिग्व्याख्याता ॥२४॥
(दिक्-गुणैः-व्याख्याता) दिक् स्वगुणैविभुत्वप्रदर्शकैः सर्वानुभूत-
पूर्वापरादिभिः समस्तपदार्थस्थ परत्वापरत्वव्यवहारात्मकैर्महत्परिमाण-
वती नित्या च व्याख्याता वेदितव्या, तत्र नित्यायां च महत्परिमाणमपि
नित्यम् ॥२४॥
अथकाल:-
कारणे कालः ॥२५॥
(कालः कारणे) पदार्थानामुत्पद्यमानानामुत्पत्तिः काले भवति, ह्यो
जातोऽद्य जात इदानीं जायतेऽग्रे जनिष्यते तथा यथर्तृत्पद्यमानाना-
मुत्पत्तिकारणं काल: सार्वत्रिको महान् नित्यश्च तत्र महत्परिमाणं
नित्यम् ॥२५॥
प्रथमाह्निकं समाप्तम्
द्वितीयाह्निकम्
लाघवात् परिमाणं प्रथमं परीक्ष्य पुनरधुना क्रमानुरोधेन संख्या-
दीन् गुणान् परोक्षमारण आह-
रूपरसगन्धस्पर्शव्यतिरेकादऽर्थान्तरमेकत्वम् ॥१॥
(वैशेषिकदर्शन बामुनिभाष्योत्तम (रूपरसगन्धस्पर्शव्यतिरेकात्) ऐन्द्रियिकविषयेभ्यो रूपरसगन्ध- स्पर्शभ्यो गुरणेभ्यो व्यतिरिक्तत्वाद्-यत्र खलु रूपादयो गुणा न विद्यन्त तत्रापि विद्यमानत्वात् (एकत्वम् अर्थान्तरम्) एकत्वं 'गुणो भिन्न वस्तु भिन्नो गुणस्तेभ्यो रूपरसगन्धस्पर्शेभ्यः । आकाशे काले च रूपरसगन्ध- स्पर्शा गुणा न सन्ति परन्त्वेकत्वस्ति-आकाश एक: काल एकः । रूपादिमत्सु चारूपादिमत्सु समानत्वेन वर्तमानत्वादेका संख्या रूपा- दिभ्यो भिन्ना, घट एकः 'पट एकस्तथाऽऽकाश एकः काल एक इति व्यवहारः सिद्ध एव ॥१॥ तथा पृथक्त्वम् ॥२॥ (तथा पृथक्त्वम्) यथा रूपरसगन्धस्पर्शेभ्योऽर्थान्तरं भिन्नं वस्तु खल्वेकत्वं तथा ह्म कपृथक्त्वमपि रूपादिभ्यो भिन्नो गुणः । रूपादिभ्यो व्यतिरिक्तत्वादेव, यथा रूपादिमान् घटः पटो वाऽस्त्येकोs- रूपादिमान् काल एक आकाश एकस्तथा पृथक् पृथक् च प्रत्येकः, तदेतत्पृथक्त्वमेकसंख्यान्वितमेकपृथक्त्वं रूपादिमति घटादौ यथाऽस्ति तथैवारूपादिमति खल्वाकाशे काले चाप्यस्ति, यथा घटात् पट: पृथगेकस्तथा घटादाकाशोऽपि पृथगेक: पदार्थः। घट एक: पट एका कट एक इति कथने यद्यप्येकत्वं गुणः प्रवर्तते परन्तु तत्र सर्वेषु तदेकत्वं नेकरूपं किन्तु पृथक् पृथगेव नोचेद् घटपटादिभेदो न स्यात् तस्मात् तत्रैकपृथक्त्वमपि गुण एकत्वेन गुणेन सह संवर्ततेऽत एकपृथक्त्वं गुणो रूपादिभ्यो भिन्नो गुणोऽस्तीति सिद्धम् ॥२॥ एकत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावोऽणुत्वमहत्त्वा- भ्यां व्याख्यातः ॥३॥ ( एकत्वैकपृथक्त्वयो:-एकत्वैकपृथक्त्वाभाव:-अणुत्वमहत्त्वाभ्यां व्याख्यातः) एकत्वे खल्वेकत्वस्यकपृथक्त्वे चैकपृथक्त्वस्याभावोऽणुत्व- महत्त्वभ्यां तुल्यो व्याख्यातो वेदितव्यः । यथाऽणुत्वेऽणुत्वं महत्त्वे महत्त्वं न भवति, गुणे गुणो न भवतीत्वर्थः । अथ च संख्याप्रसङ्ग सूत्रकृदा- चार्य एकत्वं परीक्ष्य विरराम, यतो ह्यकत्वे परीक्षितं न द्वित्वादि- परीक्षणमपेक्ष्यते, एककस्मिन् वस्तुनि खल्वेकत्वं पृथक्पृथङ् निर्धार्य द्वित्वादिकं परिगण्यते ॥३॥ सैषा संख्या किं सर्वत्र द्रव्यगुणकर्मसु समानं प्रवर्ततेऽथ न अत्रोच्यते- सप्तमाध्याये द्वितीयातिकम् ] निःसंख्यत्वात् कर्मगुणानां सर्वेकत्वं न विद्यते ॥४॥ (कर्मगुणानां निःसंख्यत्वात्) कर्मणां गुणानां च संख्यारहितत्वात्- संख्यागुणरहितत्वात् ( सर्वेकत्वं न विद्यते ) संख्यायाः सर्वसमानत्वं सर्वेषु द्रव्यगुणकर्मसु समानवर्तमानत्वं नास्ति, किन्तु नानात्वं भेदः संख्यावत्त्वमसंख्यावत्त्वं च भवति, द्रव्ये तु संख्यावत्त्वं गुणकर्मणोर- संख्यावत्त्वम् । यतो द्रव्येषु ह्य कादिका संख्या वर्तते तस्याः संख्याया गुणत्वात्, संख्या खलु गुणः, गुणश्च द्रव्यवर्ती भवति न गुणवर्ती न कर्मवर्ती । उक्तं हि — द्रव्याश्रयी-अगुणवान् गुणलक्षणम्” (१११११६) इति गुणे न गुण: "एकद्रव्यमगुणं "कर्मलक्षणम्” (१।१।१७) इति कर्मणि न गुणः । संख्यायाः सति गुणत्वे स्वत एव गुणे कर्मणि च तदभावः सिद्धः, पुनः कथनं विशिष्टपरामर्शाथं यश्च परामर्शोऽग्रिमेऽ- नन्तरसूत्रे विद्यते ॥४॥ ननु कथमुच्यते सर्वैकत्वं न संख्यायाः, यावता रूपमेकं रस एकः कमैकमुत्क्षेपणमिति गुणे कर्मणि भानं संख्याया भवति । अत्रोच्यते- भ्रान्तं तत् ॥५॥ (तत्-भ्रान्तम् ) तत्संख्यक त्वभानं द्रव्यवद् गुणे कर्मणि च भ्रान्तं भाक्तमित्यर्थः । अत्र "भ्रान्तशब्दो भाक्तार्थोऽस्ति यद्वा साक्षात् 'भाक्तं' शब्द एव स्यात् तदेतद् वृत्तमुत्तरसूत्रेणानूद्यते सम्पोष्यते वा “एकत्वा- भावाद् भक्तिस्तु न विद्यते" (६) भाक्तो गौणः । संख्याया द्रव्यवृत्ति- त्वाद् द्रव्ये वर्तमाना संख्या तद्गुणे तत्कर्मणि च प्रतीयते न हि स्वातन्त्रयण गुणे कर्मणि वा प्रवर्तते । तस्माद् द्रव्याश्रिता द्रव्यैकदेशा- श्रिता यद्वा द्रव्यस्य विविधदेशाश्रिता संख्या द्रव्यनिष्ठयोर्गणकर्मणोः प्रतिभासते, तत्र संख्याभानं भाक्तं गौणमवास्तविकमपारमार्थिक लौकिकं वेति विज्ञेयं नहि दार्शनिकम् ।।५।। ननु द्रव्येष्वपि गुणकर्मणोरिव संख्यैकत्वं भ्रान्तं भाक्तं स्यादत्र का हानिरित्येतत् प्रतिविधीयते- एकत्वाभावाद् भक्तिस्तु न विद्यते ॥६॥ (एकत्वाभावात्-भक्ति:-तु न विद्यते) द्रव्यगुणकर्मसु यदा संख्या- समानत्वाभावस्तदा द्रव्येषु संख्यकत्वस्य भाक्तत्वं गौणत्वं तु न सम्भवति - [ वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् गुणे कर्मणि हि भाक्तत्वं स्याद् द्रव्ये न, द्रव्यं हि तद्भिन्नं गुणकर्मभ्यां भिन्नं तदाश्रयश्च । अथवा-एकत्वाभावाद् द्रव्येऽपि संख्यकत्वस्याभा- वादवर्तमानत्वाद् भक्तिर्भाक्तत्वं न सम्भवति, भाक्तं हि गौणं ज्ञानं भानं वा तदा वक्तुं शक्यते यदा क्वचित् तद् वास्तविकं मुख्यं वा भवेत् । द्रव्यगुणकर्माणि त्वर्थपदानि तत्र द्रव्यं स्वतन्त्रं गुणकर्मणी परतन्त्रे द्रव्य- तन्त्रे, गुणकर्मणोस्तु वास्तविकेन मुख्येन संख्यैकत्वेन भवितव्यमेव न, पुनः परिशेषन्यायाद् द्रव्येषु हि सख्यैकत्वं वास्तविक मुख्यं स्यादिति पुनस्तत्र भाक्तमिति कथनं प्रलापमात्रमसिद्धं च मुख्यत्वस्याभावे भाक्तत्वस्यासम्भवात् । सूत्रत्रयप्रदर्शितः संख्यकत्वसन्दर्भः शङ्करमिश्रा- दिभिर्न सम्यग्व्याख्यातः ॥६॥ तत्रैव विशिष्टवृत्तं प्रतिपाद्यते- कार्यकारणयोरेकत्वैकपृथक्त्वाभावादेकत्वैकपृथक्त्वं न विद्यते ।।७।। कार्यकारणयो:-एकत्वैकपृथक्त्वाभावात्-एकत्वैक् पृथक्त्व न विद्यते) कार्ये कारणे च कार्यश्रेण्यां कारणश्रेण्यां खल्वेकत्वस्यक पृथक्त्वरय चाभावादसम्भवादेकत्वमेक्पृथक्त्वं च कार्य कारण च न भवति-न कार्यं भवति न वा कारणं भवति-कार्यश्रेण्यां वा कारणश्रेण्यामेकत्व- मेकपृथक्त्वं वा न भवति तत्र तदसम्भवात् । रूपादिगणो रूपादि- गुणस्य कार्य कारणं तु भवति कारणद्रव्ये कार्यद्रव्ये च निष्ठित. सन्, अर्थात् कारणद्रव्यस्थो रूपादिगुण: कारण भवति वार्यद्रव्यस्थस्य रूपादिगृणम्य तथा कार्यद्रव्यस्थो रूपादिगुणः कार्यं भवति कारण- द्रव्यस्थस्य रूपादिगुणस्य, उक्तं यथा “कारणगुणपूर्वक: कार्यगुणो- दृष्टः" ( वै० २।११२४ ) परन्त्वेकत्वमेकपृथवत्वं च गृणः कारणद्रव्यस्थ: कार्यद्रव्यस्थो वा सन्नपि कार्य वा कारणं वा न भवति यतो ह्यनयोः कार्यकारणयोः पारस्परिकी कार्यकारणसम्भावना नास्ति । तद्यथा-कार्ये वस्त्रे यदेकत्वमेकपृथक्त्व च गुणोऽस्ति, परन्तु तत्कारणे तन्तषु त्वनेकत्वमनेकपृथक्त्वं च गुणोऽस्ति, सख्याया गुणत्वादपि कार्य- स्थैका संख्या न कारणस्थसख्यानेकत्वमनुसरति, न कारणगुणपूर्वक कार्यस्थसंख्यैकत्वम् । अथ चैकस्य वस्त्रस्य शिरोवेष्टनमङ्गरक्षकं कौपी- नादिकं चेत्यनेकानि परिधानीयानि सीव्यन्ते क्रियन्ते निमियन्ते वा तेषां कारणं त्वेकं वस्त्रं तस्य कार्याणि त्वनेकानि स्यूतानि शिरोवेष्टना- ६९ सप्तमाध्याये द्वितीयाह्निकम् ] दीनि, कारणे वस्त्रे खल्वेकत्वमेकपृथक्त्वं तत्कार्येषु शिरोवेष्टानादिषु त्वनेकत्वमनेकपृथक्त्वमस्ति न चैतत् कारणगुणपूर्वकम् । अतः संख्याया एकत्वमेकपृथक्त्वं च कार्यश्रेण्यां कार्यकोट्यां कारणश्रेण्यां कारणकोट्यां न स्तः । शङ्करमिश्रादिभिः कार्यकारणयोरवयवावयविनोरभेदं सांख्यीयं कल्पयित्वा तन्निराकरणा) सूत्रमसम्बद्धं व्याख्यातं तत्र न तथाप्रसङ्गः, प्रसङ्गस्त्वत्र गुणानां पारस्परिककार्यकारणात्मकः उत्तरसूत्रेणापि स्पष्टमेतत् "एतदनित्ययोाख्यातम्" ॥७॥ परन्तु तच्च- एतदनित्ययोाख्यातम् ।।८।। ( एतत्-अनित्ययो:-व्याख्यातम् ) एतत् पूर्वानन्तरसूत्रोक्तं कथनं मत वा खल्वनित्ययोरेकत्वैकपृथक्त्वयोः कारणकार्यस्थयोर्व्याख्यात- मुदाहृतं वेदितव्यं नित्यमेकत्वमेकपृथक्वं तु भवति कारणं कार्य च, अत्र निदर्शनम्-नित्ये वायव्ये तंजसेऽथाप्ये परमाणौ तन्मात्रे सूक्ष्मभूते त्वेकत्वमेकपृथक्त्वं नित्यं च कारणं पुनः क्रमेण नित्ये कार्ये द्रव्ये वायौ तेजसि जले चैकत्वमेकपृथक्त्वं च कार्यमस्ति हि कारणगुणपूर्वकः कार्यगुणः, शङ्करमिश्रादिभिविपरीतमेव व्याख्यातं सूत्रम् ।।८।। अथ क्रमप्राप्तौ सयोगविभागौ परिलक्ष्येते- अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः ।।६।। एतेन विभागो व्याख्यातः ।।१०।। अनयोः सूत्रयोरेकवाक्यताऽस्ति- ( संयोग:-अन्यतरर्मज:-उभयकर्मजः ) संयोगो भवति खल्वनेक- वस्तवर्ती स च कर्मजन्यः उक्तं हि "संयोगविभागवेगानां कर्मसमानम् [कारणम]" (१११।२०) “सयोगविभागाश्च कर्मणाम् [कार्याणि]" (१।१।३०) अत एवात्र तत्प्रकार: प्रदर्श्यते स एष सयोगोऽन्यतरकर्मजः संयोग प्राप्यमाणयोर्वस्तुनोरेकतरस्य कर्मजन्यो यथा पक्षिकर्मणो जातः पक्षिवृक्षयोः संयोगः प्रथविधः, उभयकर्मजः खलुभययोर्द्व यो वस्तुनोः कर्मभ्यां जातः स मेषयोर्मल्लयोः स्पर्द्धमानयोः, सम्मुखधावतोः पुरुषयोर्या- नयोर्वा द्वितीयः । तथा (संयोगज:-च) संयोगाज्जातोऽपि संयोगो भवति यथा हस्ततरुसंयोगाच्छरीरतरुसयोग:, हस्तसंयुक्तदण्डस्यामेध्यसंयोगाद- १०० [ वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् भेध्यशरीरसयोगः, त्रयाणां शङ्क ना बन्धनसयोगात् परस्परं त्रिशङ्क सं योगस्तृतीयो भवति ( एतेन विभाग:-व्याख्यातः ) एतेन पूर्वोक्तप्रका- रेणान्यतरकर्मज:-उभयकर्मजः-विभागजश्च विभागो व्याख्यातो वेदि- तव्यः । तद्यथा-गृहकोणस्थितस्य पक्षिणो गृहाद् विभाग: पक्षिकर्मजन्यो ऽन्यतरकर्मजः प्रथमः, युध्यमानयोर्मेषयोर्मल्लयोः परस्परं विभाग उभयकर्मजो द्वितीयः, शङ्क भ्यो बन्धनरज्जूविभागात् परस्परं शङ्क ना विभागः, हस्तदण्डामेध्यानां विभागाच्छरीरामध्यविभागस्तृतीयः । संयोगः खलु पृथग्भूतयोः सङ्गतिरप्राप्तयोः प्राप्तिर्वा, विभागस्तु तद्विप- रीतः संयुक्तयोः पृथग्गमनं पृथ ग्भावः, न तु पूर्वतः पृथगवस्थितिविभागः, विभागस्य कर्मजन्यत्वात् ।।९-१०।। संयोगविभागयोः संयोगविभागाभावोऽगुत्वमहत्त्वाभ्यां व्याख्यातः ॥११॥ ( संयोगविभागयोः संयोगविभागाभावः ) संयोगे संयोगाभावो विभागे विभागाभावोऽस्ति ( अणुत्वमहत्त्वाभ्यां व्याख्यातः) अणुत्वेऽ- णुत्वाभावो महत्त्वे महत्त्वाभावो यथा तथैवात्रापि विज्ञेयम् ॥११॥ कथं कृत्वेत्युच्यते- कर्मभिः कर्माणि गुणश्च गुणा अणुत्वमहत्त्वाभ्या- मिति ॥१२॥ ( कर्मभिः कर्माणि गुण:-च गुणा:-अणुत्वमहत्त्वाभ्याम्-इति ) कर्मभिरसम्बद्धानि कर्माणि गुणरसम्बद्धा गुणा भवन्तीत्युक्तं पुरस्तात्, संयोगविभागौ च गुणौ तौ न गुणेन सम्बद्धौ तस्मादेव तौ संयोग- विभागौ खल्वणुत्वमहत्त्वाभ्यां न सम्बद्धौ न हि तत्राणुत्वं महत्त्वमिति, अणुत्वमहत्त्वयोर्गुणत्वात् ॥१२॥ अधुना संयोगविभागविषये विशिष्टवृत्तमुच्यते- युत सिद्धयभावात् कार्यकारणयोः संयोगविभागौ न विद्यते ॥१३॥ विज्ञप्तिः :-अस्य सूत्रस्यान्यभाष्यकार्योऽर्थो विहितस्तत्रार्थे सूत्र- . सप्तमाध्याये द्वितीयाह्निकम् ] प्रणयनमनावश्यकम् । उपस्कारवृत्तौ तु "द्रव्ययोरवयवावयविनोः संयोगः संयोगसम्बन्धो युतसिद्धेरभावान्नास्ति' इत्युक्तं परन्तु सूत्रे तु "संयोगविभागौ" विचारणायामुपस्थापितौ सूत्रकारेण किन्तूपस्कार- वृत्तौ संयोग एव विचारणायां गृहीतः । अन्यभाष्यकारैर्यद्यपि संयोग- विभागो द्वावपि विचारणायां गृहीती परन्तु यदा संयोगविभागी खल्वन्यतरकर्मजी तथौभयकर्मजो युतसिद्धयोः पृथक् पृथगवस्थियो- द्रव्ययोस्तत्कर्मसम्भवौ तदा कार्यकारणस्थौ संयोगविभागौ स्वत एवं न भवतस्तत्र विचारणा खल्वनवसरा । तस्मादत्र केनचिद् विशिष्टेना- र्थेन भवितव्यम् । स चार्थोऽत्राधुना विधीयते- ( संयोगविभागौ कार्यकारणयो:-न विद्येते ) संयोगविभागौ निज- कार्य शब्दे न विद्यते। यथा तन्तवो निजकार्ये वस्त्रे विद्यन्ते। अथ च संयोगविभागौ निजकारणे कर्मणि न विद्यते। यथा तन्तुषु तन्यमानेषु ततेषु वा निजकारणेषु वस्त्रं विद्यते। कुतो न विद्यते इत्यत्र हेतुरुच्यते ( युतसिद्धयभावात् ) द्रव्यवत्कार्यकारणपृथग्दृष्टिसिद्धरभावात् । न हि संयोगविभागो स्वकार्ये शब्दे पृथादृष्टयोपलभ्येते वस्त्रे तन्तव इव तत्कार्यशब्दस्यास्थिरत्वात् तथा न च संयोगविभागौ स्वकारणे कर्मणि पृथग्दृष्टयोपलभ्येते तन्तृषु वस्त्रमिव तत्कारणकर्मणोऽस्थिरत्वात् । एवं संयोगविभागौ स्वकार्यस्य शब्दस्य न समवायिकारणे स्तो न च स्वकारणस्य कर्मणोऽन्वयिकार्ये स्तः। संयोगविभागयोर्ये कार्यकारणे शब्दकर्मणो स्तस्ते उभेऽस्थिरे इति यतः ॥१३॥ संयोगविभागौ स्वकार्य समवायित्वेन तथा स्वकारणेऽन्वयित्वेन कुतो न विद्यतेऽत्रान्योऽपि हेतुरुच्यते- गुणत्वात् ॥१४॥ (गुणत्वात् ) तयोः संयोगविभागयो र्गुणत्वात् खलु, न हि सम- वायि नान्वयि गुणो भवति । गुणः कस्यापि समवायिकारणं तथा कस्य चिदन्वयि कार्य न भवति। द्रव्यं हि समवायि चान्वयि च भव- तीति । इदमपि सूत्रमन्यैरन्यथा व्याख्यातम् ॥१४॥ + "संयोगाद् विभागाच्च शब्दाच्च शब्दनिष्पत्तिः" (वै० २।२।३१) + "संयोगविभागवेगानां कर्मसमानम् [कारणम्]" (वै० १११।२०) "संयोगविभागवेगाश्च कर्मणाम् [कार्याणि]" (वै० १३१॥३०) - [ वैशेषिकदर्शन ब्रह्ममुनिभाष्योपेतम् १०२ संयोगविभागप्रकरणतः सम्बद्धो विशिष्टप्रसङ्ग उत्थाप्यते- गुणोऽपि विभाव्यते ॥१५॥ ( गुणः-अपि विभाव्यते ) संयोगविभागजन्यः शब्दः, तेन शब्देन रूपादिगणोऽपि निरूप्यते निर्दिश्यते सङ्केत्यते नीलं कपिलं रक्त- मित्यादि, अपि शन्दाद् द्रव्यमात्रवृत्तिप्रतिषधो लक्ष्यतेऽर्थाद् द्रव्यमेव निरूप्यते शब्देनेति न, गुणोऽपि निरूप्यते, तेन चापिना कर्माप्युत्प्रेक्षितुं शक्यते, गच्छति पचतीति यथा। तत्रात्राकांक्षान्यतरकर्मजः संयोग- सम्बन्धोऽपि शब्दस्यार्थेन सह न सम्भाव्यते यदि द्रव्यमेव शब्देन निरूप्येत तदान्यतरकर्मजो द्रव्यकर्मजः संयोगसम्बन्धः कल्पयितुं शक्येत ।।१५।। निक्रियत्वात् ॥१६॥ (निष्क्रियत्वान्) रूपादिगुणेन सह शब्दस्य सम्बन्धः शब्दकर्मजन्यः सम्भाव्येत । अत्रोच्यते-शब्दस्य निष्क्रियत्वात् कथं स्यात् कथमपि न स्यादित्यर्थः ॥१६॥ द्रव्येण सहापि द्रव्यकर्मजः सम्बन्धः कल्प्येत, तत्र कुतो न सम्भा- व्येत । अत्रान्यो हेतू:- असति नास्तीति च प्रयोगात् ।।१७।। (असति) अविद्यमाने घटे (न-अस्ति-इति प्रयोगात् ) गृहे घटो न-अस्ति-इति प्रयोगात्-द्रव्ये विद्यमाने यथा घटोऽस्ति इति शब्दः प्रयुज्यते तथंव तदभावे द्रव्यस्याभावेऽविद्यमानेऽपि तु शब्दः प्रयुज्यते। तेन शब्दस्यार्थेन सह सम्बन्धः कथमपि न सम्भाव्येतोभयकर्मजोऽ- न्यतरकर्मजो वा ॥१७॥ तस्मात्- शब्दार्थावसम्बन्धौ ॥१८॥ ( शब्दार्थों-असम्बन्धौ ) शब्दार्थों खलूभयकर्मजसम्बन्धेनान्यतर- कर्मजसम्बन्धेन च रहितौ, न हि तयोः शब्दार्थयोरुभयकर्मजः सम्बन्धो नान्यतरकर्मजः सम्बन्धोऽस्ति, अथ च सम्बन्धाभावकथनात् समवाय- सम्बन्धस्यापि प्रतिषेधो लक्ष्यते शब्दार्थयोः । एवं शब्दार्थयोः परस्परं न संयोगसम्बन्धो न च समवायसम्बन्धोऽस्ति ॥१८॥ - सप्तमाध्याये द्वितीयाह्निकम् ] तत्र संयोगेसम्बन्धस्य समवायसम्बन्धस्य स्थानमुदाह्रियते- संयोगिनो दण्डात् समवायिनो विशेषात् ॥१६॥ ( दण्डात् संयोगिन.-विशेषात् समवायिनः ) दण्डात् दण्डधारण- संयोगाद्-दण्डसंयोगिनः पुरुषस्य प्रत्ययो दण्डो सन्यासोति संयोग- सम्बन्धस्योदाहरणम्, विशेषाद् वस्त्वन्तर्गताद्विशिष्टधर्माद्विशिष्टाङ्गा- त्खल्वङ्गिनः समवापिनस्तत्समवेतमिणो हस्तिनः शिखिनो वा हस्तो शिखीति समवायसम्बन्धस्योदाहरणम् । न तथा शब्दार्थयोः संयोगः सम- वायो वा सम्बन्धः ।।१६।। तहि किनिमित्तः शब्दार्थसम्बोधः । यदस्य शब्दस्थायमर्थो नान्यः । अत्रोच्यते- सामयिक: शब्दार्थसम्प्रत्ययः ।२०।। (शब्दार्थसम्प्रत्ययः ) शब्दार्थसम्बोधः शब्देनार्थसम्बोधो यदस्य शब्दस्यायमर्थो नान्यः । स सामयिक: समयकृतः, समय: सिद्धान्तः, वैदिकक्षब्दानां त्वर्थे या निजशक्त्यभव्यक्तिः, लोके खलु समयः शब्दानां यौगिकसंस्कारः पारिषदो परिभाषा क्षेत्रियनिर्धारणं च ।।२०।। अथ क्रमप्राप्ते परत्वापरत्वे परीक्ष्येते- - एकदिक्काभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां- परमपरं च ॥२१॥ कारणपरत्वात्कारणापरत्वाच्च ।।२२।। अनयोः सूत्रयोरेकवाक्यताऽस्ति- ( एकदिक्काभ्याम्-एककालाभ्याम् ) एका दिक् प्राची प्रतीची दक्षिणादिका ययोस्ताभ्यां तथैककालाभ्याम् (सनिकृष्टविप्रकृष्टाभ्याम्) निकटस्थदूरस्थाभ्यां पिण्डाभ्यां परं परत्वमपरमपरत्वञ्च भवति निष्पद्यते । ( कारणपरत्वात्कारणापरत्वात्-च ) परत्वापरत्वयोः कारणात् तत्र दिशि विन्द्रप्रस्थं कारणं ततः प्राच्यां दिशि स्थितः प्रयागोऽपरो वाराणसी च परा। वतमानः कालः कारणं कालपरत्वा- परत्वयोस्तमभिलक्ष्योत्पन्नयोरल्पायुष्कोऽपरोऽधिकायुष्कः परः ॥२२।।
[वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः ॥२३॥ कर्मभिः कर्माणि ॥२४॥ गुणगुणाः ॥२५॥ एषामेकवाक्यताऽस्ति- (परत्वापरत्वयोः परत्वापरत्वाभावः-अणुमहत्त्वाभ्यां व्याख्यातः) परत्वे परत्वाभावोपरत्वेऽपरत्वाभाव., स च यथाऽणुत्वेऽणुत्वाभावो महत्त्वे महत्त्वाभावोऽस्ति तथाऽस्ति । अथ च ( कर्मभिः कर्माणि ) कर्मभिरसम्बन्धानि कर्माणि ( गुणैः-गुणा: ) गुणेरम्बन्धा गुणा भवन्ति ॥२३-२५॥ अत्र समवायविषयः प्रतिपाद्यते- इहेदमिति यतः कार्यकारणयोः स समवायः ॥२६॥ ( इह-इदम्-इति यतः ) इहाधारे खल्विदमाधेयमित्यविनाभावेन प्रत्ययो बोधो वा यस्मात् सम्बन्धात् ( सः-समवायः) स समवाय- सम्बन्धो भवति, यथा ( कार्यकारणयोः) कार्यकारणयोरिह कारणे खल्विदं कार्य समवेतमविनाभावेन स्थितमिति, तन्तुषु पटः, वीरणेषु कटः, इति तु निदर्शनं परन्तु यत्राविनाभावेनेहेदं समवेतं तत्र सर्वत्र समवायेन भवित्तव्यं गुणगुणिनोः कर्मकर्मवतोर्व्यक्तिजात्योरपि द्वयोर- विनाभावयोरपृथग्भूतयोरयुतसिद्धयोरेव भवति ॥२६॥ द्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यातः ।।२७।। (द्रव्यत्वगुणत्वप्रतिषेधः-भावेन व्याख्यातः) समवाये खलु द्रव्यत्वस्य गुणत्वस्य च प्रतिषेधो भावेन व्याख्यातः, सर्वत्र भवतोति भावः सत्ता यथा न द्रव्यं न गुणः किन्तु तद्भिन्नमस्ति तथैव समवायोऽपि द्रव्यादिभ्यो भिन्नोऽस्ति विशिष्टबुद्धिगम्यत्वात् ॥२७॥ तत्त्वं भावेन ॥२८॥ (तत्वं भावेन) तस्य स्वरूपं द्रव्यादिभ्यो भिन्नं सदपि नास्वरूपवान् सप्तमाध्याये द्वितीयाह्निकम् ] १०५ समवायः किन्तु भावेन स्वसद्भावेन वर्तमानत्वात् तस्य स्वरूपैकत्व- मस्ति, यद्वा भावेनेव सत्तयेवैकः समवायः सर्ववर्ती ॥२८॥ द्वितीयाह्निकं समाप्तम्। समाप्तिगतश्च सप्तमोऽध्यायः ॥
अष्टमोऽध्यायः तत्र प्रथमाह्निकम् - परत्वापरत्वे परीक्षिते क्रमानुरोधेन बुद्धिरिदानी परीक्ष्यते, बुद्धि- निमत्र दर्शनेऽनन्तरं तस्मात् सूत्रे ज्ञानशब्द उपात्तस्तत्परी- क्षणाय- द्रव्येषु ज्ञानं व्याख्यातम् ॥१॥ (द्रव्येषु ज्ञानं व्याख्यातम्) पृथिव्यादिषु मनःपर्यन्तेषु समस्तद्रव्येषु ज्ञानं प्रात्यक्षिकमानुमानिकश्च ज्ञानं व्याख्यातं वणितं तत्र प्रात्यक्षिक ज्ञानं तु "महत्त्यनेकद्रव्यवत्त्वाद् रूपाच्चोपलब्धिः' (४।१।६) "रूपरस- गन्धस्पर्शवतो पृथिवी, रूपरसस्पर्शवत्य आपः, तेजो रूपस्पर्शवत्" (२।१।१-३) एतानि प्रत्यक्षज्ञानकानि द्रव्याणि, अथानुमानिकं ज्ञानं खलु "स्पर्शवान् वायुः” (२।१।४) शब्दलिङ्ग आकाशः " [शब्द:] परि- शेषाल्लिङ्गमाकाशस्य (२।१।२७) वाय्वाकाशा त्वानुमानिकज्ञानसाध्यौ तथा "इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थभ्योऽर्यान्तरस्य हेतुः" ( ३११२) "आत्मेन्द्रियार्थसन्निकर्षाद्यनिष्पद्यते तदन्यत्" ( ३।१११८ ) "आत्मे- न्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम्" (३।२।१) इन्द्रियाणां भोगकरणत्वमर्थानां च भोगभावोऽथेन्द्रियैरर्थज्ञानं त्वात्म- निष्ठत्वादात्मनो ज्ञानाय लिङ्गानि तस्मादेतानि लैङ्गिकानि ज्ञानानि, ज्ञानस्य साधनं मनस्तेन संयुक्तेन मनसाऽऽत्मेन्द्रियार्थसन्निकर्षे भवति ज्ञानं नान्यथेति तस्य ज्ञानकरणत्वादिति ज्ञानं लैङ्गिकम् ।।१।। अत एव- तत्रात्मा मनश्चाप्रत्यक्षे ॥२॥ ( तत्र-आत्मा मन:-च-अप्रत्यक्षे ) तत्र द्रव्येषु खल्वात्मा मनश्चा- अष्टमाध्याये प्रथमाह्निकम् ] १०७ प्रत्यक्षे लैङ्गिकज्ञानके द्रव्ये, चकारोऽत्र प्रकारार्थकः, लैङ्गिकज्ञानवन्त आकाशादयश्च निरवयवाः पदार्थाः सन्ति ॥रा। तच्च ज्ञानं कथं निष्पद्यते ? इति स्मार्यते- ज्ञाननिर्देशे ज्ञाननिष्पत्तिविधिरुक्तः ।।३।। ( ज्ञाननिर्दशे') प्रात्यक्षिकज्ञानस्य लैङ्गिकज्ञानस्य च निदेशे निर्दे- शनप्रकरणे ( ज्ञाननिष्पत्तिविधि:-उक्तः ) ज्ञानस्य प्रत्यक्षज्ञानस्य प्राप्तिविधिरिन्द्रियार्थसन्निकर्षोऽथानुमानज्ञानस्य लिङ्गदर्शनविधि- स्तत्रोक्तस्तत्रैव ।।३।। द्रव्याणां ज्ञानप्रकारं निर्दिश्य गुणकर्मणां ज्ञानं कथं भवतीत्युच्यते- गुणकर्मसु सन्निकृष्टेषु ज्ञाननिष्पत्तेर्द्रव्यं कारणम् ॥४॥ (गुणकर्मसु सन्निकृष्टेषु ज्ञाननिष्पत्तेः-द्रव्यं कारणम् ) इन्द्रियैर्गुणाः रूपादय. कर्माणि चोत्क्षेपणादीनि सन्निकृष्यन्ते तेषु सन्निकृष्टेषु सम्बद्धेषु संयुक्तेषु ज्ञानस्य तत्तज्ज्ञानस्य निष्पत्तिर्भवत्यात्मनि, तज्ज्ञाननिष्पत्तेः कारणं द्रव्यमस्ति, यतो हि गुणकर्मणी न स्वतन्त्र स्तस्तयोर्द्रव्याश्रित- त्वाद् द्रव्यनिष्ठे हि गुणकर्मणी सन्निकृष्येते । तस्मात् तयोनि द्रव्या- श्रितं यतो द्रव्यं तयोः समवायिकारणम् । तत्र द्रव्ये तयोः समवाय- सम्बन्धेन विद्यमानत्वात्, गुणकर्मणी न द्रव्यं व्यभिचरतः ।।४।। द्रव्यगुणकर्मणामर्थपदवाच्याना ज्ञान प्रदश्य सामान्यविशेषयोः कथ ज्ञानं भवतीत्यप्युच्यते- सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम् ।।५॥ ( सामान्यविशेषेषु ) सामान्ये परसामान्ये सत्तायां पृथिव्यादिषु रूपादिष्त्क्षेपणादिषु विशेषेषु खल्वन्त्यविशेषेषु ज्ञान तु ( तत एव ) सामान्यतो विशेषतश्च तत्स्वरूपतः स्वत एव भवति तदधीनमेव तयोर्ज्ञानम् । यतः ( सामान्यविशेषाभावात् ) द्रव्यगुणकर्मणा ज्ञानं तु सामान्यविशेषापेक्ष भवति तेषु सामान्यविशेषौ लक्ष्येते, परन्तु सामान्ये नितान्तसामान्ये परसामान्ये सत्तायां समान्य नास्ति तथा विशेषेऽन्त्यविशेषे विशेषो नास्ति। सामान्यं परसामान्यं सत्ता तु
१०८
[वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम
सामान्यरूपेणैवावतिष्ठते न पुनर्विशिष्यतेऽथ च विशेषोऽन्त्यविशेषो नं
समीक्रियते तस्मात् सामान्यं विशेषश्च स्वरूपत एव ज्ञायते शङ्करमि-
श्रादिभिरसम्बद्धं व्याख्यातं सूत्रं तत्र 'समान्यविशेषाभावात्' वचनस्या-
चरितार्थत्वात् ॥५॥
परसामान्येऽन्त्यविशेषे च ज्ञानं तु स्वरूपतो भवतु परन्तु-
सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु ॥६॥
(द्रव्यगुणकर्मसु सामान्यविशेषापेक्षम् ) द्रव्ये गुणे कर्मणि च ज्ञानं
सामान्यविशेषापेक्ष भवति । द्रव्ये खलु सामान्यं द्रव्यत्वम्, विशेषः पृथि-
व्यप्तेजोवाय्वाकाशाः, गुणे सामान्यं गुणत्वम्, विशेषो रूपरसगन्धस्पर्शा-
दयः, कर्मणि सामान्यं कर्मत्वम्, विशेषः खलुत्क्षेपणादीनि ॥६।।
कार्यद्रव्येऽन्यदपि ज्ञानकारणमुच्यते--
द्रव्ये द्रव्यगुणकर्मापेक्षम् ॥७॥
(द्रव्ये द्रव्यगुणकर्मापेक्षम्) कार्यद्रव्ये ज्ञानं द्रव्यापेक्ष गुणापेक्षं कर्मा
पेक्षं च भवति । तद्यथा या सास्नावती यद्वा घण्टावती पीतवर्णा गच्छति
सा गौः ॥७॥
परन्तु-
गुणकर्मसु गुणकर्माभावात् गुणकर्मापेक्षं न विद्यते ।।८।।
( गुणकर्मसु गुणकर्माभावात्-गुणकर्मापेक्षं न विद्यते ) गुणेषु गुणा-
पेक्षं कर्मापेक्षं ज्ञानं न विद्यते तत्र गुणे गुणाभावात् कर्माभावाच्च ।
गुणो हि "अगुणवान्" ( १ । १ । १६ ) तथा कर्म न गुणे न गुणाश्रय
"एकद्रव्यम्" (१।१।१८) द्रव्याश्रयित्वात् कर्मणः । अथ च कर्मसु ज्ञानं
न गुणापेक्षं तस्यागुणत्वात् “अगुणम्.." ( १ । १ । १८ ) तथा न
कर्मापेक्षं न कर्मणि कर्म भवति तस्य द्रव्याश्रयित्वात् "एकद्रव्यम्"
( १११।१८ ) किन्तु द्रव्यापेक्षं गुणकर्मसु ज्ञानं भवति यथायोग्यं प्रात्य-
क्षिकं लैङ्गिकं वा यथोक्तं च पूर्वम् । अन्यभाष्यकारैः सूत्रमेकाङ्गित्वेन
व्याख्यातम् ॥८॥
तथा-
समवायिन: श्वैत्याच्छ्वैत्यबुद्धश्च श्वेतेबुद्धिस्ते कार्य-
कारणभूते ॥६॥
१०१ । अष्टमाध्याये प्रथमाह्निकम् ) (समवायिनः) समवायोऽविनाभावसम्बन्धोऽस्यास्तीति समवायी तस्य समवायिनो गुणसमवायिनो यथा ( श्वैत्यात्-श्वैत्यबुद्धेः-च ) श्वेतसमवायिनः शङ्खस्य श्वेतत्वाद् गुणात् तथा श्वैत्यबुद्धेः श्वेतत्व- ज्ञानादपि (श्वेते बुद्धिः) श्वेते शङ्ख श्वेतत्वसमवायिनि द्रव्ये श्वेतोऽयं ज्ञानं भवति (ते एते कार्यकारणभूते) श्वैत्यं गुणः, तथा श्वत्यबुद्धिश्च श्वेतोऽयमिति ज्ञानं ते एते उभे कारणकार्ये भवतः, तत्र श्वत्यं गुणः कारणं श्वैत्यबुद्धिः श्वेतोऽयमिति ज्ञानं कार्यम्. अत्र गुणेन गुणो न ज्ञायते किन्तु गुणेन गुणसमवायी गुणी ज्ञायते खल्वेष निष्कर्षः ॥६॥ अथ च यथा गुणगुणिनोः पौवापर्यव्यवहारे कारणकार्यबुद्धयो भवन्ति तथा द्रव्येषु नेत्याह- द्रव्येष्वनितरेतरकारणाः ॥१०॥ ( द्रव्येषु-अनितरेतरकारणाः ) द्रव्येषु तु खलु द्रव्यबुद्धयो द्रव्य- ज्ञानानि घटः पट: कटः, इत्यादिज्ञानानि बद्धयो वा न खल्वन्योऽन्य- कारणाः परस्परकारणीभूता वा, यत्र हि द्रव्यं लिङ्गत्वेनोपादीयते तत्रैव तत् कारणत्वं भजते ज्ञाने नान्यत्र, यथाऽयं दण्डी दण्डेन लिङ्गन हस्ती हस्तेन तदुक्तमेव "द्रव्ये द्रव्यगुणकर्मापेक्षं ज्ञानम्" (८।११७)॥१०॥ य खलु घटपटकटादीनां क्रमेण ज्ञानं भवति तत्कथञ्जातीयं किं कारणकं वेत्यत्रोच्यते- कारणायोगपद्यात् कारणक्रमाच्च घटपटादिबुद्धीनां क्रमो न हेतुफलभावात् ॥११॥ ( घटपटादिबुद्धीनां क्रमः ) अयं घटोऽयं पटोऽयं कट: इत्यादि- ज्ञानानां यः क्रमो लभ्यते स खलु (कारणायोगपद्यात्) सन्निकर्षादीनां ज्ञानकारणानां युगपत्प्रवृत्त्यभावात् “युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" तथा ( कारणक्रमात् ) इन्द्रियार्थसन्निकर्षस्य ज्ञानकारणस्य क्रमात् पृथक-पृथक क्रमेण प्रवर्तनात् पौर्वापर्यं भवति (न हेतुफलभावात्) न तु कारणकार्यभावात् । तत्र पूर्वं घटज्ञानं स्वोत्तरस्य पटज्ञानस्य न कारणं न वोत्तरं पटज्ञानं पूर्वस्य घटज्ञानस्य कार्यम्, तत्र पौर्वापर्य ज्ञानस्य न नियतं घटज्ञानात् पूर्वमपि पटज्ञानं भवति तत्र घटपटादिज्ञानेषु न परस्परज्ञानापेक्षा ॥११॥ प्रशमाह्निकं समाप्तम्। -
११०
[वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम्
-
द्वितीयाह्निकम्
प्रात्यक्षिकं लंङ्गिकं च ज्ञानं विधाय सम्प्रति साङ्केतिकं बुद्धयपेक्षं
ज्ञानमाचष्टे-
अयमेष त्वया कृतं भोजयनमिति बुद्धयपेक्षम् ॥१॥
(अयम्-एषः) अय देवदत्तः, एष महाविद्वान् । अत्र 'अयम्' इति
बुद्धया देवदत्तसंज्ञाया ज्ञानं भवति, 'एषः' इति निर्देशबुद्धया तत्र
महती विद्वत्ता ज्ञायते ज्ञाप्यते वा (त्वया कृतम्) 'त्वया' युष्मबुद्धिकं
कर्तृ ज्ञानमुक्तं भवति (भोजय-एनम्) भुजिक्रियायां 'एनम्' इति सङ्के-
तेन विशिष्टं कर्मकारकं व्यवस्थापयति । तदेतत् सर्वं सङ्केतयुक्तं
साङ्कतिकं ज्ञानम् ( बुद्धयपेक्षम् ) निर्देशकृतां बुद्धिमपेक्षते बुद्धावेव
स्थितं न प्रात्यक्षिक न च लेङ्गिकम् ॥१॥
कथं ह्य तज्ज्ञानं बुद्धधपेक्षमुच्यते, न स्वतन्त्रं स्वतः सम्भूतं
वेत्यवाह-
दृष्टषु भावाददृष्ट ष्वभावात् ।।२॥
( दृष्टेषु भावात् ) जातेषु प्रत्यक्षीकृतेषु पिण्डेषु अयं 'देवदत्तः'
सङ्घतात् संज्ञाज्ञान भवति ( अदृष्टेषु-अभावात् ) अज्ञातेषु परोक्षेषु
सङ्केतस्याभावादसम्भवात् । तस्मात् प्रत्यक्षीकृते विषये पुनर्यत्
सङ्केतकृतज्ञानं बुद्धयपेक्षं भवति ॥२॥
द्रव्याणकर्मणां पृथक-पृथक् स्वस्वविषयक ज्ञानं तूक्तम् । इदानीं
सर्वेषां द्रव्यगुणकर्मना प्रात्यक्षिकं ज्ञान निविशिष्टमुच्यते-
अर्थ इति द्रव्यगुणकर्मसु ॥३॥
( अर्थ:-इति द्रव्यगुणकर्मस् ) अस्मिन् शास्त्रे 'अर्थः' इति शब्दः
खलु द्रव्यगुणकर्मसु प्रयुक्तो वेदितव्यः "इन्द्रियार्थसनिकपः" इत्यादि-
कथने द्रव्यगुणकर्माणि त्रोण्यपि गृह्यन्ते अर्थपदेन प्रत्यक्षीकरणे प्रात्य-
क्षिकज्ञाने वा त्रयाणां प्रात्यक्षिकं ज्ञानं भवतीति यावत् ॥३।।
द्रव्यविषये-कार्यद्रव्यविषये किमपि विशिष्टमुच्यते-
द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम् ॥४॥
? - अष्टमाध्याये द्वितीयाह्निकम् ] १११ (द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम्) कार्यद्रव्येषु शरीरादिषु पञ्चा- त्मकत्वं पञ्चभूतोपादनत्वं प्रतिषिद्धम् । “प्रत्यक्षाप्रत्यक्षाणां संयोगस्या- प्रत्यक्षत्वात् पञ्चात्मकं न विद्यते" (४।२।२) एकैकोपादानकं शरी- रादि द्रव्यम् ॥४॥ ननु तत्र शरीरे वर्तमानं भिन्न भिन्नविषयग्राहकं नासिकादीन्द्रियं किं शरीरोपादानोपादानकमन्योपादानकं वा ? अत्रोच्यते- भूयस्त्वाद् गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः ।।५।। (गन्धज्ञाने पृथिवी प्रकृतिः) गन्धस्य ज्ञानं ज्ञानकरणं घ्राणम्, ज्ञाय- तेऽनेनेति करणे ल्युट् । गन्धज्ञाने घ्राणेन्द्रिये प्रकृतिरुपादानं पृथिवी खल्वस्ति । यतः (भूयम्त्वात्-गन्धवत्त्वात्-च) तत्र पृथिव्या बाहुल्यात्, यथा शरीरमस्थिमयं पृथिवीभूयः पृथिवीप्रकृतिकं तथा घ्राणमप्यस्थि- मयं पृथिवीभूयः पृथिवीप्रकृतिकं तथा गन्धवदपि घ्राणं गन्धोऽस्यास्ति विषयस्तस्माद् गन्धवत्त्वात् गन्धग्राहकत्वात्, कार्यमनुगृह्णाति कारणम्, तथा "नासिकाग्रे धारयताऽस्य या दिव्यगन्धसंवित्' ( योग० ११३५ व्यास ) घ्राणे गन्धसंविदस्ति । तस्मादपि पृथिवी प्रकृतिरुपादानं वा घ्राणस्य || तेजः, वायुः प्रत्येकम् - तथापस्तेजोवायुश्च रसरूपस्पर्शाविशेषात् ॥६॥ ( तथा-आप:-तेजः-वायु:-च ) तथा आपः, ( रसरूपस्पर्शाविशेषात् ) रसज्ञानकरणे रसनायामापः प्रकृति:, रूप- ज्ञानकरणे नेत्र तेजः प्रकृतिः, स्पर्शज्ञानकरणे त्वचि वायुः प्रकृति । तत्र तत्र तत्तद्भूयस्त्वात् तथा रसवत्त्वाद् रूपवत्त्वात् स्पर्शवत्त्वात् । रसना- यामपांभूयरत्व सर्वदा जलमया रसनाऽस्थिरहिता, नेत्रे तेजोभूयत्वं ज्योतिर्भूयस्त्वं स्पष्टं लक्ष्यते, त्वचि वायुभूयस्त्वं वायुतन्तुजालवत् । रसविषयग्राहकत्वाद् रसना रसवती रससविदस्यां तथा च रसवती, रूपविषयग्राहकत्वाद् रूपवन्नेत्रं रूपसंविदस्मिन् तथा च रूपवत्, स्पर्श- विषयोऽस्या: स्पर्शवती त्वक् स्पर्शसंविदस्यां तथा च स्पर्शवती। एव मेकप्रकृतिकेऽपि शरोरे घ्राणादीनीन्द्रियाणि भिन्नभिन्नप्रकृतीनि स्वग्राह्य- विषयानुसारीणि ॥६॥ द्वितोयाह्निकं समाप्तम समाप्तिगतश्चाष्टमोऽध्यायः
नवमोऽध्यायः
तत्र
-
प्रथमाह्निकम् ।
पृथिव्यादिभूयस्त्ववतां कार्यद्रव्याणां भावं सत्त्वं परीक्ष्येदानी
तेषामभावमसत्त्वं परीक्षते सूत्रकृदाचार्य:-
क्रियागुणव्यपदेशाभावात् प्रागसत् ॥ १॥
(क्रियागुणव्यपदेशाभावात् प्रागसत्) क्रियया गुणेन च भावो द्रव्यं
कार्यद्रव्यं लक्ष्यते, क्रियाया गुणस्य च व्यवहाराभावादप्रवर्तनात् खलु
तस्याभावः प्रागसत् प्रागभावनामैकोऽभावः ।।१।।
द्वितीयः-
सदसत् ॥२॥
(सदसत्) सद् द्रव्यं केनापि कारणेन सतो विद्यमानस्य घटादिकस्य
कार्यद्रव्यस्य यः खल्वभावः स प्रध्वंसाभावो द्वितीयोऽभावः ।।२।।
ननु प्रागभावो वा प्रध्वंसाभावो वा खल्वेकस्यैव द्रव्यस्याभावरूप-
स्वरूपतया त्वेकमेव वस्तु कथं पूर्वाभावतो भिन्नत्वमस्योच्यते, अत्र प्रति-
विधीयते-
असतः क्रियागुणव्यपदेशाभावादर्थान्तरम् ॥३॥
(क्रियागुणव्यपदेशाभावात्-असतः-अर्थान्तरम्) यः खलु प्रागभाव
उक्तः स तु क्रियागुणव्यपदेशाभावादुक्तस्तस्मादसतः प्रागभावात् प्रध्वं.
साभावोऽर्थान्तरं भिन्न वस्तु। यत: प्रागभावस्तु क्रियागुणाप्रादुर्भाव-
पूर्वकः शून्यरूपः प्रध्वंसाभावश्च क्रियागुणप्रादुर्भावानन्तरः संस्कार-
रूपः ॥३॥
तृतीयः-
-
सच्चायच्च ॥४॥
नवमाध्याये प्रथमाह्निकम् ] - ( सत्-च-असत्-च ) भावश्चासावभावश्चेति खलूभयविधोऽन्योऽ- न्याभावः। अगौरश्वः, अनश्वो गौः । अपटो घटः, अघट: पटः। इत्य- न्योऽन्याभावस्तृतीयः ।।४।। चतुर्थ:- यच्चान्यदसदतस्तदसत् ॥५॥ (यत्-च-अन्यत्-असत्-अतः-तत्-असत्) यत् खलु प्रागसतः प्रध्वंसा- सतोऽन्योऽन्यासतोऽन्यत् तदसत् खलु प्रागभावात् प्रध्वंसाभावादन्योऽ- न्याभावाद् भिन्नोऽभावोऽत्यन्ताभावश्चतुर्थः ।।५।। अभावः कथं ज्ञायते ? अत्रोच्यते- असिदिति भूतप्रत्यक्षाभावाद् भूतस्मृतेविरोधिप्रत्यक्षवत्॥६॥ (असत्-इति) अभावः खलु ( भूतप्रत्यक्षाभावात्-भूतस्मृतेः ) भूत- शब्द: प्रायेण दर्शनशास्त्रे सदर्थकः । सतो भावात्मकस्य प्रत्यक्षानन्तर- वतिनोऽभावात्, सद्वस्तु घटादि: स न प्रत्यक्षं भवति यथोत्पन्नः सन् प्रध्वसात् पूर्वं प्रत्यक्षं भवति न तथा प्रध्वस्तसमये, पुनः भूतस्मृतेः सद्वस्तुनः स्मृतेश्च, स्मर्यते खलु तसत्सद्रूपद्रव्यं तन्नास्ति तस्मात् (विरोधिप्रत्यक्षवत् ) अभावस्य विरोधी भावस्तस्य विरोधिनो भावस्य भांवात्मकस्य प्रत्यक्षत्वमिव प्रत्यक्षत्वं भवति ह्यभावस्यापि, भावो यथा प्रत्यक्षं भवति तथा ह्यभावोऽपि प्रत्यक्षं भवति, भावः सदात्मना प्रत्यक्षं भवत्यभावोऽसदात्मना प्रत्यक्षं भवति हि । यदि त्वभावः प्रत्यक्षं न भवेत् तदा त्वभावो न वक्तुं शक्येत । इति प्रध्वंसाभाव उक्तः ॥६॥ अथ च- तथाऽभावे भावप्रत्यक्षत्वाच्च ॥७॥ (तथा-अभावे भावप्रत्यक्षत्वात्-च) तथा प्रत्यक्षात् पूर्व प्रागभावेऽपि प्रत्यक्षत्वं विज्ञेयं भावप्रत्यक्षत्वात्-भावात्मकस्य घटादेर्जातस्य प्रत्यक्ष- त्वात् । यथा हि जातो घटः प्रत्यक्षं भवति तथा तत्प्रागभावोऽपि प्रत्यक्ष भवति हि । इति प्रागभाव उक्तः । षष्ठसप्तमयोः सूत्रयोरन्यो व्याख्यामार्गः-भावाभावी प्रत्यक्षविषयको तत्र "असदिति भूतप्रत्यक्षा..." (६) सामान्येनाभावस्य प्राक्प्रध्वंसो- - ११४ [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् भयविधस्य प्रत्यक्षत्वं दर्शयति विरोधिप्रत्यक्षवत्-भावप्रत्यक्षवत् । सप्तमं सूत्रं भावविषयकं स्यात् तत्र भावप्रत्यक्षत्वमभावप्रत्यक्षवदुच्यते । सूत्रपाठश्च सन्धिमवलम्ब्य "तथा भावेऽभावप्रत्यक्षवत्" भावे भावा- स्मके द्रव्ये प्रत्यक्षत्वं खलु भवत्वभावप्रत्यक्षवत्, यथाऽभावात्मकतया:- भावः साक्षात् प्रत्यक्षं भवति पुनर्भावात्मकतया भावोपि प्रत्यक्षं भवति हि, तत्र भावाभावी प्रत्यक्षौ ॥७॥ अन्योऽन्याभावः कथजातीयः ? उच्यते- एतेनाघटोऽगौरधर्मश्च व्याख्यातः ॥८॥ ( एतेन ) एतेन भावाभावयोः प्रत्यक्षत्वनिर्देशनेन ( अघट:-अगौ:- अधर्म:-च व्याख्यातः) अघटी घटाभावः पटादी, अगौ\रभावोऽश्वादो, अधर्मो धर्माभावोऽधर्मे प्रत्यक्षं भवत्यन्योऽन्याभावो भावप्रत्यक्षवत् ॥८॥ यस्याभावस्य प्रत्यक्षत्वं प्रदर्शितं तस्य स्वरूपमुच्यते- अभूतं नास्तीत्यनर्थान्तरम् ।।६॥ (अभूतं न-अस्ति-इति-अनर्थान्तरम्) 'अभूतम्-असद् यद्वा न विद्यते' इति त्वभिन्नार्थकमेकार्थकमस्ति । भूतं सद्वस्तुरूपम्, अभूतमसदभावः । यद्वा न-अस्ति, यत् सत् तदस्ति यन्न सत् खल्वसत् तन्नास्ति-अभावः । अभूतमिति त्वभावः सदात्मना, नास्तीति त्वभावः प्रवर्तनक्रियया । भवतीति भावः सदात्मना प्रवर्तनक्रियया चोभयव्युत्पत्त्या । अभूतं वा नास्तीति वाऽभावपर्यायोऽभावस्वरूपं वा ।।६।। यद्येवं नास्तीति पदेनाभावोऽभावस्वरूपं वा गृह्यते, तर्हि- नास्ति घटो गेहे, इति सतो घटस्य गेहसंसर्गप्रतिषेधः ॥१०॥ ( गेहे घटः-न-अस्ति-इति) गृहे घटो नास्ति, इति वाक्ये नास्ति वचनेन किं प्रागभावः प्रध्वंसाभावोऽन्योऽन्याभावो वा लक्ष्येत । उच्यते (सतः-घटस्य गेह संसर्गप्रतिषेषः) सद्रूपस्य भावात्मकस्य विद्यमानस्य घटस्य गृहसंसर्गप्रतिषेधो विज्ञेयो न प्रागभावादयः, तस्य गृहादन्यत्र विद्यमानत्वात् सत्त्वात् । न ह्यत्र घटप्रतिषेधः किन्तु घटगृहयोः संसर्ग- प्रतिषेधः संसर्गाभावो न तु घटाभावः ॥१०॥ ऐन्द्रियिकं बाह्य प्रत्यक्षमुक्त्वाऽऽत्मप्रत्यक्षमान्तरिकप्रत्यक्षमुच्यते- - -- नवमाध्याये प्रथमालिकम् ] आत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम् ॥११॥ ( आत्ममनसोः संयोगविशेषात् ) आत्मनो मनसश्चैव विशिष्ट- संयोगात् किलेन्द्रियाणामर्थानां च संयोगमनपेक्ष्यात्मनो निरुद्धमनसश्च संयोगादेवेत्यर्थः ( आत्मनि) निमित्तसप्तमी । आत्मनिमित्तमात्मार्थ स्वात्मार्थ परमात्माथं च यत्प्रत्यक्षां तत् ( आत्मप्रत्यक्षम् ) अध्यात्म- प्रत्यक्षमान्तरिकप्रत्यक्षमनिन्द्रियप्रत्यक्षं साधनमस्ति ॥११॥ तथा द्रव्यान्तरेषु प्रत्यक्षम् ॥१२॥ (तथा प्रत्यक्षम) यथा खल्वात्मनि-आत्मनिमित्तमात्मार्थमात्मप्रत्यक्ष भवति तथाप्रत्यक्षं तथैव प्रत्यक्षमात्मप्रत्यक्षमध्यात्मप्रत्यक्षमात्ममनसोः संयोगविशेषाद् योगिनो भवति (द्रव्यान्तरेषु) आत्मभिन्नेषु जडेषु सूक्ष्म- व्यवहितविप्रकृष्टेषु खल्वतीन्द्रियेषु तन्निमित्तमित्यर्थः। उक्तं हि तत्रा- न्तरेषु “लीनवस्तुलब्धातिशयसम्बन्धाद्वाऽदोषः" प्रत्यक्षलक्षणे (सांख्य० श६१) "परमाणुपरमहत्त्वान्तोऽस्य वशीकारः" (योग०१।४०) ॥१२॥ आत्ममनसोः संयोगविशेषादात्मप्रत्यक्षमध्यात्मप्रत्यक्षं केषां जनानां भवतीत्यत्राचष्टे स्वयमाचार्य:- असमाहितान्तःकरणा उपसंहृतसमाधयस्तेषां च ॥१३॥ ( असमाहितान्तःकरणा:-उपसंहृतसमाधयः-तेषां च ) असमाहित- मन्तःकरणं चित्तं येषां यैर्वा तेषामेकाग्रचित्तानां सम्प्रज्ञातसमाधिवतां तथोपसंहृताः समाधयः समाप्ताः समाध्यभ्यासा येषां यैर्वा तेषां च योगिनामसम्प्रज्ञातसमाधिवतां च भवति खल्वात्मप्रत्यक्षमध्यात्म- प्रत्यक्षम् । तत्रोपसंहृतसमाधीनां तु परमात्मनि-स्वात्मनि तथान्यत्र सूक्ष्मादिजडेषु च, तथाऽसमाहितान्तःकरणानां द्रव्यान्तरेषु होति. विवेकः ॥१३॥ नन्वात्मप्रत्यक्षमध्यात्मप्रत्यक्ष प्राप्तसम्प्रज्ञातसमाधीनां योगिनां द्रव्यान्तरेषु भवति, तद्गुणकर्मस्वपि भवति न वात्मप्रत्यक्षम् । अत्रोच्यते- तत्समवायात् कर्मगुरणेषु ॥१४॥ ( तत्समवायात् कर्मगुणेषु ) द्रव्यान्तरसमवायाद् द्रव्यान्तरेष सम- "यो विद्याद् ब्रह्म प्रत्यक्षम्" (अथर्व० ४।६।१) "त्वमेव प्रत्यक्षं ब्रह्मासि" (तै० उ० १११११) - [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् वेतत्वात् कर्मसु गुणेषु चापि भवति ह्यात्मप्रत्यक्षमध्यात्मप्रत्यक्षम् ॥१४॥ तथैव- आत्मसमवायादात्मगुणेषु ॥१५।। (आत्मसमवायात्-आत्मगुणेषु) आत्मनि समवेतत्वात् खलु भवति ह्यात्मगुणेष्वप्यात्मप्रत्यक्षमध्यात्मप्रत्यक्षमसम्प्रज्ञातसमाधिवतां मुमुक्षू- णां योगिनाम् । त्रयोदशसंख्यात आपञ्चदशसंख्यं सूत्रत्रयमन्यभाष्य- कारैर्न सम्यग्व्याख्यातम् ॥१५।। प्रथमाह्निकं समाप्तम् । द्वितीयाह्निकम् । प्रथमाह्निके बाह्यमाध्यात्मिकं चोभयविधं प्रात्यक्षिकं ज्ञान परोक्ष्ये- दानी लैङ्गिकमानुमानिकं ज्ञानं परोक्ष्यते, प्रथमं तत्स्वरूपमुच्यते- अस्येदं कार्य कारणं सयोगि विरोधि समवायि चेति लैङ्गिकम् ॥१॥ (अस्य-इदं कार्य कारणं संयोगि विरोधि समवायि च-इति लैङ्गि- कम्) 'अस्य-इदम्' इति प्रत्येकमभिसम्बध्यते। अस्येदं कार्यम्, अस्येदं कारणम्, अस्येदं संयोगि, अस्येदं विरोधि, अस्येदं समवायि । अस्येति साध्यनिर्देशोऽनुमेयनिर्देशो लिङ्गयनिर्देशो वा, इदमिति साधननिर्देशोऽ- -नुमापकनिर्देशो लिङ्गनिर्देशो वा । तत्रोभयत्र व्याप्तिधर्मत्वे यथा योग्यमुदाहरणं कल्पनीयम् । यथा-अस्याभीष्टसाध्यस्यानुमेयस्याग्नेरिदं कार्य लिङ्ग धूमस्तेनास्त्यग्निरिति ज्ञानं लैङ्गिकं यद्वा स्रोतसः पूर्वोदक- वैपरीत्यं दृष्ट्वाऽभूद् वृष्टिरिति लैङ्गिकं ज्ञानम् । अस्य वृष्टिरूपस्य कार्य- स्यानुमेयस्येदं मेघवर्धनं कारणं दृष्ट्वा भविष्यति वृष्टिरिति लैङ्गिक ज्ञानम् । अन्धकारे त्वचं स्पृष्ट्वा तत्संयोगि शरीरमनुमीयते कुटयाः पृष्ठे स्थितस्य हस्तिनः शुण्डमुत्थितं दृष्ट्वा हस्ती व्यवहितोऽनुमीयते । विस्फूर्जन्तं सर्प दृष्ट्वा विरोधी नकुलोऽनुमीयते। स्पर्शन समवायी- नवमाध्याये प्रथमाह्निकम् ] ११७ वायुरनुमीयते, रूपं दृष्ट्वा रूपवति तत्रकार्थसमवायी स्पर्शोऽनुमीयते स्पर्शनापि तत्र भवितव्यमेवेति सर्वं ज्ञानं लैङ्गिकमानुमानिक भवति ॥१॥ पूर्वकथने विशिष्टमुच्यते- अस्येदं कार्यकारणसम्बन्धश्चावयवाद् भवति ॥२॥ विचित्रा खलु सूत्रकृतिराचार्यस्य तत्र त्रैविध्यमर्थस्य भासते । १-( अस्य-इदं कार्यकारणसम्बन्धः-च-अवयवात्-भवति ) पूर्वसूत्रे 'अस्येदं यल्लैङ्गिकं ज्ञानं' कार्यकारणसंयोगिविरोधि समवायि द्रव्याश्रितमुक्तं तत्र खलु कार्यकारणसम्बन्धो लिङ्गलिङ्गिसम्बन्धोऽनु- सन्धेयोऽवयवात् तन्त्रान्तरप्रसिद्धात् पश्चावयवगणात् प्रतिज्ञाहेतूदाहर- गोपनयनिगमनरूपाद् भवति । २-पूर्वसूत्रे लैङ्गिकं ज्ञानं यदुक्तं तत्र कार्यकारणसम्बन्धो लिङ्ग- लिङ्गिसम्बन्धो योजनीयोऽवयवादेकदेशाद् लिङ्गाद् भवति नोचेत् तत्र प्रत्यक्ष प्रात्यक्षिकमेव ज्ञानं स्यात् । ३-पूर्दसूत्रे तु 'अस्येदं कार्य कारणम्' कारणात् कार्यस्यानुमानं तथा कार्यात् कारणस्यानुमानमुक्तम्, अत्र सूत्रे-अस्येदं कार्य कारणं वेति द्वयोः कार्यकारणयोः सम्बन्धोऽनुमेयो भवति खल्ववयवात् । यथा अव- पवाः कार्पासा और्णाः कौशेयाः कर्कशा मृदवो गुरवो वा भवन्ति कारणभू- तास्तन्तवस्तथा खलु तेषामवयवि वस्त्रं भविष्यति कर्कशं मृदु गुरु लघूष्णं वेत्यनुमेयम् । यथा खलु दृश्यतेऽवयवि वस्त्रं गुरु लघूष्णं कर्कशं मृदु वा तथा तदवयवाः कारणभूताः कार्पासा और्णा कौशेया वा सन्तीत्यनुमा- तव्यम् । शङ्करमिश्रजयनारायणाभ्यां सूत्रमन्यथा व्याख्यातम् ॥२॥ शाब्दं ज्ञानमुच्यते- एतेन शाब्दं व्याख्यातम् ॥३॥ ( एतेन ) अस्येदमिति सम्बन्धप्रकारेण, अस्य शब्दस्यायमर्थः- इति ( शाब्दं व्याख्यातम् ) शाब्दं ज्ञानं वैदिकं लौकिकं च भवति ॥३॥ कथमुच्यते शाव्दं ज्ञानम् एतेन' अस्येदमिति प्रकारेण भवति न ह्यत्र लिङ्गलिङ्गिसम्बन्धोऽस्ति यल्लिङ्गमाश्रित्यार्थः प्रतीयेत। अत्रोच्यते- -
११८
[वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम्
हेतुरपदेशो लिङ्ग प्रमाणं करणमित्यनर्थान्तरम् ॥४॥
( हेतु:-अपदेशः-लिङ्गं प्रमाणं करणम्-इति-अनन्तरम् ) 'हेतुः,
अपदेशः, लिङ्गम्, प्रमाणम्, करणम्' इत्येतानि पदानि सन्त्येकार्थानि ।
शब्दस्यार्थविधाने हेतुस्तु तत्र समयोऽस्ति यदस्य शब्दस्यायमर्थोऽस्ति
नान्य इति, समयं प्रमाणं हेतुमाश्रित्यार्थो भवति ॥४४॥
अतः-
-
अस्येदमिति बुद्धयपेक्षितत्वात् ॥५॥
( अस्य-इदम्-इति बुद्धिपेक्षितत्वात् ) अस्य शब्दस्यायमर्थः- इति
बुद्धयपेक्षितत्वात्, शब्दस्यायमर्थः-इति व्यवहारो बुद्धिमपेशते तस्माद्
भवति शाब्दं ज्ञानम् । तत्र शब्दार्थयोः यौगिको बुद्धिरपेक्ष्यते यद्वा
शब्दार्थयो यः समयः स बुद्धिमपेक्षते। समयः शब्दस्यार्थविधाने
निजशक्त्यभिव्यक्तिर्योगिकसंस्कारो वा । तस्माच्छाब्दं ज्ञानमपि भवति,
नानुमानवत् कार्यकारणापेक्षं लिङ्गलिङ्गथपेक्षं वा ॥५॥
प्रात्यक्षिकमानुमानिकं शाब्दं च त्रिविधं ज्ञानमुक्त्वा स्मातं ज्ञानं
प्रदर्शयत्याचार्य:-
आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः ।६।।
( आत्ममनसोः संयोगविशेषात् ) आत्मनो मनसश्च विशिष्टसंयो-
गात्-अव्यवहितसंयोगादसमवायिकारणात् (संस्कारात्-च) पूर्वानुभूत-
वासनामयप्रभावानिमित्तादपि (स्मृतिः) स्मातं ज्ञानं भवति समवायि-
कारणे खल्वात्मनि ॥६॥
प्रात्यक्षिकमानुमानिकं शान्दं स्मार्तमिति चतुर्विधं ज्ञानं तु जाग्रद-
वस्थायां भवति, स्वप्नावस्थायां खलु स्वाप्निकं ज्ञानं कथं भवतीत्य-
त्रोच्यते-
-
तथा स्वप्नः ॥७॥
( तथा स्वप्नः ) तथाप्रकारात् खल्वात्ममनसोः संयोगविशेषात्
संस्काराच्च भवति स्वप्नः । बाह्यभोगाभावे मनसः खल्वात्मनि स्थित-
त्वात् तथा भोगसंस्कारवशाच्छयनकाले वासनाप्रभवं काल्पनिकं ज्ञानं
स्वप्न उच्यते ॥७॥
-- नवमाध्याये द्वितीयाह्निकम् ) अथ सुषुप्तावस्थायां कथं स्यादत्रोच्यते- स्वप्नान्तिकम् ॥८॥ धर्माच्च ॥६॥ अनयोः सूत्रयोरेकवाक्यताऽस्ति- ( स्वप्नान्तिकम् ) स्वप्नस्यान्तः सुषप्तिस्तत्र भवं स्वप्नान्तिकं सौषुप्तं ज्ञानम्, बाह्यभोगाभावे संस्काराभावे चात्मनि मनसो लयरूपात् संयोगविशेषात् तथा धर्माच्चादृष्टात् स्वशक्तिमयाद्भवति बाह्यभोगा- भावेऽथान्तरिकसंस्काराभावे चात्मस्वरूपत्वं ह्यदृष्टं तस्माददृष्टात् स्वशक्तिरूपाद् धर्मान्नमल्यात् सौषुप्तं ज्ञानमानन्दरूपमनुभवति ह्यन्त- रात्मा। "तथा स्वप्नस्वप्नान्तिके" इति वक्तव्ये पृथग्योगकरणमुत्त- रार्थम् "धर्माच्च" इति सूत्रेणातिरिक्तकारणप्रदर्शकेन सहान्वयार्थम् । आत्ममनसोः संयोगस्त्वनिवार्यः, अत्र संस्कारो नावश्यकोऽन्यथा स्वप्नस्वप्नालिकयोरभेद: स्यात्, भेदकरणाय सूत्रं पृथक् कृतम् ॥८-६॥ विविधं ज्ञानमुक्त्वाऽधुना खल्वज्ञानमुच्यते सूत्रद्वयेन- इन्द्रियदोषात् संस्कारदोषाच्चाविद्या ॥१०॥ तद् दुष्टज्ञानम् ॥११॥ अनयोः सूत्रयोरेकवाक्यताऽस्ति- (इन्द्रियदोषात्) नेत्रादीन्द्रियविकारादिन्द्रियाणामल्पदर्शनादिशक्ति- त्वात् कामलादिरोगग्रस्तत्वात् (संस्कारदोषात्-च ) मानसिकवास- नादिवशाच्च ( अविद्या ) अज्ञानं भवति। न च ज्ञानाभावोऽत्राज्ञानं किन्तु (तत्-दुष्टज्ञानम्) तत् खलु दुष्टज्ञानं विपरीतज्ञानं यथा द्विचन्द्र- दर्शनं शङ्खपीतत्वदर्शनं दुःखबहुले भोगे सुखज्ञानं हितवचनेऽहितभान- मभये भयज्ञानं भयेऽभयभानमित्यादिकम् ॥१०-११।। न तथा विद्या, कथं तर्हि ? उच्यते- अदुष्टं विद्या ॥१२॥ (अदुष्टं विद्या) अदुष्टं ज्ञानं विद्या भवति। न केनापि कारणेन बाधकेन वा दुष्यते बाध्यते वा सर्वत्र सर्वदा तथैवावतिष्ठते ॥१२॥ -- .
- १२० [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् अथ खलु सृष्टेरादी सिद्धानामृषीणां यन्मन्त्रदर्शनं ज्ञानं तत्कथं भवति तदानीं प्रत्यक्षलिङ्गशब्दादीनामभावात् । अत्रोच्यते- आर्ष सिद्धदर्शनं च धर्मेभ्यः ॥१३ । (सिद्धदर्शनम्-आषं च धर्मेभ्यः ) सिद्धानां सर्वेभ्यो मानवेभ्यो मन्त्राध्येतृभ्यश्च पूर्वेषां सिद्धानां मन्त्रेषु सिद्धिम्प्राप्तानां परमर्षीणां दर्शनं मन्त्रदर्शनरूपज्ञानं तत्खलु धर्मेभ्यस्तेषामन्तरे वर्तमानेभ्यो विशिष्टनर्मल्यादिगुणेभ्यो भवति । एतत्खलु सिद्धदशनमार्षं ज्ञानं पूर्वोक्तज्ञानविकल्पाद् भिन्नमत एव सर्वान्ते प्रदर्शितम् ॥१३॥ द्वितीयाह्निकं समाप्तम्। समाप्तिगतश्च नवमोऽध्यायः ।।
दशमोऽध्यायः प्रथमाह्निकम् बुद्धयोऽर्थान्नानाविधानि ज्ञानानि परीक्षितानि सम्प्रति क्रमप्राप्ते सुखदुःखे परीक्ष्येते- इष्टानिष्टकारणविशेषाद् विरोधाच्च मिथः सुखदुःखयोर- र्थान्तरभावः ॥१॥ ( सुखदुःखयो:-अर्थान्तरभावः ) सुखदुःखयोरुभयोभिन्नवस्तुत्वम्, सुखं भिन्नं दुःखं भिन्नम् । यतः ( इष्टानिष्टकारणविशेषात् ) इष्टकारणं स्वातन्त्रयधनसुगन्धस्वादुभोजनादिसम्भार: सुखस्य, अनिष्टकारणं पार. तन्त्रयनिर्धनत्वदुर्गन्धास्वादुभोजनकण्टकादिसामग्री दुःखस्य । इत्थं कारणभेदात् । तथा ( मिथ:-विरोधात्-च ) परस्परं विरोधादपि सुखदुःखे परस्परं विरुध्येते, नह्य काधिकरणे सुखदुःखे युगपदनुभूयेतेऽथ च प्रत्ययविरोधात् सुखे प्रसन्नवदनत्वं दुःखे दीनवदनत्वं च भवति । तस्मादपि सुखं भिन्नं दुःखं भिन्नमस्ति ॥१॥ सुखदुःखयोः परोक्षा तयोर्ज्ञानाद् भिन्नत्वं मत्वा क्रियते, परन्तु सुख दुःखे न ज्ञानाद् भिद्यते तद्यथा सुखमहं जाने दुःखमहं जानेऽनुभूतिरेषा पुनः कथं ज्ञानादर्थान्तरत्वं सुखदुःखयोरात्मगुणप्रसङ्ग । अत्रोच्यते- संशयनिर्णयान्तराभावश्च ज्ञानान्तरत्वे हेतुः ॥२॥ (ज्ञानान्तरत्वे हेतुः) ज्ञानाद् भिन्नत्वे, सुख दुःख च न ज्ञानं किन्तु ज्ञमा द भिन्ने स्त आत्मगुणौ तत्रायं हेतुर्यतो ज्ञाने तु (संशय निर्णयान्तरा- भावः-च) संशयनिर्णयान्तरस्याभावोऽस्ति संशयनिर्णयान्तरं संशय- निर्णयाभ्यां भिन्नं न ज्ञानम्, संशयनिर्णयरूपं हि ज्ञानं भवति सांशयिक ज्ञानं विपरीतज्ञानमथ च निर्णीतं ज्ञानं च भवति हि, उक्तं च पूर्वा- १२२ [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् नन्तरसूत्रेषु प्रात्यक्षिकादि ज्ञानमदुष्टं ज्ञानं तद्विपरीतं दुष्टज्ञानं च। सूत्रे चकारो निश्चयार्थः । न तथा सुखं दुःखं च ज्ञानविभागौ संशय- निर्णयाविव, अहं जाने यथार्थ विपरीतं वेति ज्ञानविशेषणम्, न तथा सुखं संशयनिणय भागथ च न तथा दुःखं संशयनिर्णयभाक् । तस्मात् सुखदुःखे ज्ञानाद् भिन्नौ गुणौ खल्वात्मनः । अन्यभाष्यकारैः सूत्रमबुद्ध्वा विपरीतं व्याख्यातं तत्र प्रथमः-अन्तरशब्दोऽभ्यन्तरार्थे कल्पितः, स च बलाज्ज्ञाने योजितः । न ह्यत्र ज्ञानं लक्ष्यं यत्तस्य भिन्नत्वं सुखदुःखाभ्यां प्रदर्येत न च ज्ञानं स्वतन्त्रः शब्दः, ज्ञानात् सुखदुःखयोभिन्नत्वं लक्ष्यं सुखदुःखशब्दो स्वतन्त्री तस्मात्तदर्थकल्पना विपरीता ।।२।। हेत्वन्तरमाह- तयोनिष्पत्तिः प्रत्यक्षलैङ्गिकाभ्याम ॥३॥ (तयोः-निष्पत्तिः) तयोः प्रथमसूत्रतः प्रकृतयोः सुखदुःखयोरुत्पत्तिः प्राप्तिर्वा (प्रत्यक्षङ्गिकाभ्याम्) प्रत्यक्षलेङ्गिकाभ्यां ज्ञानाभ्यां भवति । यदा खल्विन्द्रियार्थसन्निकर्षजं ज्ञानं जायते तदा हि तज्ज्ञानस्यानुकूल्ये सुखं प्रातिकूल्ये दुःखं साक्षादनुभूयते । तथैव लिङ्गदर्शनाल्लैङ्गिकं ज्ञानं जायते तल्लैङ्गिकज्ञानस्यानुकल्ये सुखं प्रातिकूल्ये दुःखमनुभूयते । न हि ततो जातं तदेव भवति तस्मात् सुखं दुःखं च न ज्ञानं किन्तु ज्ञानाद् भिन्नमात्मनो गुणान्तरम् । इदमपि सूत्रमन्यभाष्यकारैन्त्यिा पूर्ववद् विपरीतं व्याख्यातम् ।।३।। लैङ्गिकात् कथं सुखदुःखे भवत इत्युत्तरमिषतः पुनरपरी हेतुर्दीयते सुखदुःखयोर्ज्ञानाद् भिन्नत्वे- अभूदित्यपि ॥४॥ (अभूत-इति-अपि) अभूत्-इति खलु सुखं दुःखं वा गते दिने मासे वाऽभवत् तस्य स्मरणात् पुनः सुखं दुःखमनुभवति जनः, अपि शब्दाद् भविष्यति मे सुखं जलवृष्टितोऽन्नोत्पत्त्या, पुत्रो मे प्रवासादागमिष्य- तीत्याशंसनाद् भवति हि सुखम् । तथा भोजनप्रापणात् तदास्वादनेनेति सङ्कल्प्य सुखमनुभवति हि जनः, एवं दुःखप्रदं दृष्ट्वाऽनेन दुःखं जातं स्मृत्या पुनर्दु :खमनुभवति, उद्यतदण्डहस्तं दृष्ट्वा दुःखमनुभवति यद् दुःखयिष्यति खल्वयम् । निवृत्तस्य सुखस्य दुःखस्य स्मृतिर्भवति तत् दशमाध्याये प्रथमाह्निकम् ] १२३ सुखं पुनः प्राप्नुयात् तद् दुःखं नाप्नुयात् सुखस्य दुःखस्य चास्थिरत्वात् पुनः स्मरणं भवति पुनस्तत्सुखस्य प्राप्तये तथा दुःखस्यापुनरागमनाय सङ्कल्पो भवति । ज्ञानं तु न क्षणिकमस्थिरं वा, न हि तन्नाशप्रसङ्गो यस्य स्मरणं भवेत् तथा पुनस्तत्प्राप्तिप्रसङ्गः खलु यस्य सङ्कल्पो भवेद् यदेतद् ज्ञानं मे गते दिनेऽप्यभूदागामिनि दिनेऽपि भविष्यति वेति व्यवहारो न दृश्यते, अर्थाकारनिर्भासो ज्ञानं भोगाकारनिर्भासः सुखं दुःखं च । अनेकैर्भाष्यकारैः सूत्रमिदमन्यथा व्याख्यातम् ॥४॥ पुनरन्यो हेतुरत्रैव दीयते- सति च कार्यादर्शनात् ॥५॥ (सति च) प्रात्यक्षिके लैङ्गिके वा ज्ञाने सति चापि (कार्यादर्शनात्) सुखदुःखयोः कार्यस्य मुखप्रसादस्य मुखदैन्यस्यादर्शनात्, न हि ज्ञान- काले सुखकार्य मुखप्रसादः दुःखकार्य मुखदैन्यं दृश्यते तस्मात् सुखदुःखे ज्ञानाद् भिन्ने स्तो नोचेत् सुखकार्यस्य मुखप्रसादस्य दुःखकार्यस्य मुख- दैन्यस्य निरन्तरं प्रवृत्तिर्भवेद् ज्ञानस्य स्थिरत्वात् ॥५॥ - अन्यच्च- एकार्थसमवायिकारणान्तरेषु दृष्टत्वात् ॥६॥ ( एकार्थसमवायिकारणान्तरेषु दृष्टत्वात् ) ज्ञानसुखदुःखानामिति शेषः, ज्ञानमात्मगुणः सुखदुःखे चाप्यात्मगुणी ते गुणा ज्ञानसुखदुःखानि खल्वेकार्थसमवायिकारणान्तरेषु दृश्यन्ते। एकस्मिन्नर्थे खल्वात्मनि समवयन्तीति तच्छीलानि कारणान्तराणि भिन्नभिन्नानि कारणानि ज्ञानसुखदुःखानां यानि तेषु दृष्टत्वाज्ज्ञानसुखदुःखानाम् । ज्ञानस्य कार- णानि सन्तीन्द्रियार्थसन्निकर्षो लिङ्गदर्शनं शब्दप्रत्ययः । सुखस्य कार- णानि धर्मः सुखरागः सुखसाधनोपार्जनेच्छाप्रयत्नौ, दुःखस्य कारणानि खल्वधर्मोद्वषो दुःखसाधनपरिग्रहचेष्टा । एतानि भिन्नभिन्नकारणानि खल्वात्मनि समवेतान्याश्रितानि तेषु भिन्नभिन्नेषु दृश्यमानानि ज्ञान- सुखदुःखानि भिन्नभिन्ना गुणाः सन्त्यात्मनस्तस्माज्ज्ञानाद् भिन्नं सुखं दुःखं चेति निष्कर्षः ॥६॥ ज्ञानसुखदुःखानि कथमेकस्मिन्नर्थे खल्वात्मनि समवेतकारणान्तरेषु दृष्टानि । अत्रोच्यते-
१२४
[ वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम
-
एकदेश इत्येकस्मिन् शिरः पृष्ठमुदरं मर्माणि तद्विशेष-
स्तद्विशेषेभ्यः ॥७॥
(एकस्मिन् ) एकस्मिन् देहे (शिरः पृष्टम्-उदरं मर्माणि एकदेश:-
इति तद्विशेषः ) यथाऽस्य देहस्यैकदेशः-एकैकदशो भिन्नभिन्नाङ्गं शिरः
पृष्ठमुदरं मर्मादिकं विशिष्टाङ्गम् ( तद्विशेषेभ्यः ) तद्भिन्नभिन्नकारणे-
भ्यः सन्ति तथैवैकस्मिन्नात्मनि भिन्नभिन्नकारणेभ्यो निष्पन्नानि ज्ञान-
सुखदुःखानि सन्ति,
तस्माज्ज्ञानाद्
भिन्ने सुखदुःखे खल्वात्मगुणौ ।।७।।
प्रथमाह्निकं समाप्तम्
-
द्वितीयाह्निकम्
अधुना सर्वान्ते कारणं परोक्ष्यते-
कारणमिति द्रव्ये कार्यसमवायात् ।।१।।
( कार्यसमवायात् ) कार्य हि त्रिविधं भवति द्रव्यं गुणः कर्मेति
सज्ञाभेदात्, कार्यद्रव्यं कार्यगुण: कार्यकर्म तेषां कार्याणां
कार्यभूतानां द्रव्यगुणकर्मणां समवायः समवेतत्वं समवेतसम्बन्धः सम-
वायसम्बन्धोऽविनाभावसम्बन्धः कार्यसमवायस्तस्मात् (कारणम्-इति)
कारणम्-इति व्यवहारः प्रयोगो वा ( द्रव्ये ) द्रव्ये भवति, नान्यत्र गुणे
कर्मणि वा । तस्मात् समवायात् कारणमर्थात् समवायिकारणं द्रव्यमेव
भवति स्वकार्य प्रति स्वकीयं कार्यद्रव्यं कार्यगुणं कार्यकर्म प्रति यथा
तन्तवः पटस्य, फलं रसादेः, पादौ गमनस्य हस्तावादनास्य मुसलुमुत्क्षे-
पणस्य समवायिकारणम् ।।१।।
तथा-
-
संयोगाद्वा ॥२॥
वशमाध्याये द्वितीयाह्निकम् । १२५ (संयोगात्-वा ) द्रव्ये कारणमिति वर्तते, वाकारः कारणान्तर- विधानाय चार्थे । कार्यसमवायात् तु द्रव्ये समवायिकारणमिति व्यव- हारः, तथा संयोगादपि द्रव्ये कारणमिति व्यवहारो भवति । समवाया- भावात् तत्खल्वसमवायिकारणम् । यथा घटं प्रति चक्रस्य हस्तस्य वा संयोगात् खलु चक्र हस्तोऽसमवायिकारणम्, पटं प्रति तुर्याः संयोगात् तुरी भवत्यसमवायिकारणम् । यद्वा द्रव्ये कारणमिति व्यवहारो द्विविधो भवति कार्यसमवायात् संयोगाच्च, तत्र प्रथमं समवायिकारणमुत्तरम- समवायिकारणमिति । संयोगाद्वा द्रव्ये कारणत्वमसमवायिकारणत्वं तु वैकल्पिक द्रव्यादन्यत्रापि तस्य प्रक्रान्तत्वात्तच्चाने वक्ष्यत्याचार्योऽत एवात्र वा शब्दः प्रयुक्तः, परन्तु कार्यसमवायाद् द्रव्ये समवायिकरणत्वं नित्यमेव तस्य द्रव्यादन्यत्रासम्भवादिति विवेकः ॥२॥ अद्रव्येऽपि भवत्यसमवायिकारणव्यवहारस्तत्र प्रथमं कर्मणि दर्श- . यति सूत्रकारः- - कारणे समवायात् कर्माणि ॥३॥ ( कर्माणि ) कर्माणि भवन्त्यसमवायिकारणानि, परन्तु न स्वत- न्त्राणि साक्षाद्वा, किन्तु ( कारणे समवायात् ) वस्तुतः संयोगविभाग- वेगानां कार्याणां कार्यगुणानां कारणानि कर्माणि, संयोगविभागवेगाश्च कारणे द्रव्ये समवयन्ति तत्रैव कारणे द्रव्ये कर्माण्यपि समवयन्ति, तत्र कारणे द्रव्ये कर्मणां समवायात् समवायसम्बन्धेन वर्तमानत्वात् कर्माणि खल्वपि परम्परया भवन्त्यसमवायिकारणानि । समवायिकारणं तु तन्तुप्रभृतिकं द्रव्यमेव तत्कार्यद्रव्यस्य पटादिकस्य तथा संयोगादिगुणानां कर्मणां चापि ॥३॥ अथ गुणेऽसमवायिकारणव्यवहारं दर्शयति- तथा रूपे कारणकार्थसमवायात् ॥४॥ (तथा रूपे कारणेकार्थसमवायात् ) तथा रूपे रूपादौ रूपरसस्पर्शेषु खल्वसमवायिकारणव्यवहारोऽस्ति । रूपादिकमसमवायिकारणं भवति कार्यरूपादिकस्य, यतो यदवयविद्रव्यं कार्य तस्यावयविनो द्रव्यस्य कारणमवयवद्रव्यमेकोऽर्थः समानाधिकरणं रूपादिकस्यावयविद्रव्यस्य - १२६ [वैशेषिकदर्शन ब्रह्ममुनिभाष्योपेतम् च तंत्र कारणाख्यकाधिकरणे द्वयोरपि समवायात् समवायसम्बन्धात् कारणस्थं रूपादिकमसमवायिकारणं भवति कार्यरूपादिकस्यावयविद्रव्य- स्थितस्य । अन्योव्याख्यामार्ग:-कार्यरूपादिकस्यावयविद्रव्यं समवायि- कारणं तेन कारणेनावयविना द्रव्येण सहैवैकस्मिन्नर्थेऽवयवाख्येऽधिकरणे कार्यरूपादिकं समवैति यथाऽवयविद्रव्यं समवैति तथाऽवयविरूपादिक- मपि समवेति यतोऽवयविद्रव्यस्य कारणमवयवद्रव्यमेवमजयविरूपस्य कारणमवयवरूपमस्ति तच्चावयवरूपादिकमवयवे समवैति, अवयवे वर्तमान सदेव रूपादिको गुणोऽवयविनि वर्तते कारणकाथसमवेतत्वेन कारणगुणपूर्वक्त्वेन कार्यगुणप्रादुर्भावाद्धेतो रूपादिको गुणोऽसमवा- .यिकारणम् ॥४॥ अन्यच्च- कारणसमवायात् संयोगः पटस्य ॥५॥ (संयोगः कारणसमवायात् पटस्य) संयोगोऽसमवायिकारणं भवति कारणेषु खल्ववयवेषु समवायात्, यथा-पटस्य पटकारणेषु तन्तुषु समवे- तत्वात् संयोगोऽसमवायिकारणं साक्षादस्ति, तन्तुषु दृश्यते हि। अत्र संयोगः कारणवर्ती गुणोऽस्ति न तु कार्यवर्ती, तस्मात् कारणसमवायादुक्तो हेतुः ॥५॥ संयोग: साक्षाद् स च संयोग:- कारणकारणसमवायाच्च ॥६॥ (कारणकारणसमवायात्-च) क्वचित् संयोगः कारणस्य कारणे समवेतत्वादपि भवत्यसमवायिकारणम् । यथा-तूलपिण्डे तूलराशी वा यन्महत्त्वं महत्परिमाणं तस्य कारणं समवायिकारणं तूलपिण्डस्तूल- राशिर्वा, तूलपिण्डस्य तुलराशेः कारणस्य कारणं समवायिकारणं तूलावयवा तूलांशवस्तेषु कारणभूतेषु तूलावयवेषु समवेतस्तेषां शिथिल- संयोगः, स एष संयोगः कारणस्य कारणे समवेतत्वाद् भवत्यसमवायि- कारणं महत्तूलपिण्डस्य महत्परिमाणस्य च ॥६॥ अथ च- संयुक्तसमवायादग्नेवैशेषिकम् ।।७।।
वशमाध्याये द्वितीयाह्निकम् १२७ ( अग्ने:-वैशेषिकम् ) अग्नेः खलु वैशेषिकं कारणत्वं समवाय्य- समवायिकारणत्वाभ्यां विशिष्टं भिन्न कारणत्वं निमित्तकारणत्वं भवति, अग्निनिमित्तकारणं भवति पाकजधर्माणां रूपादीनामित्यर्थः । कथमित्युच्यते (संयुक्तसमवायात्) अग्निना संयुक्तेषु घटफलादिषु तद्- रूपादीनां समवेतत्वात् तेषामग्निनिमित्तकारणं । जड़ेषु, कालोऽपि "कारणेन कालः" (६।१।२६) इत्युक्तत्वात वैशेषिकमेवात्र निमित्तकार- णापरनामकमन्यथा हि भाष्यकारैः कल्पितं निमित्तकारणमुत्सूत्रं स्यात् । इत्थमेवान्यत्र सयुक्त समवेतेषु ज्ञानादिगुणवान् चेतनः खलु जीवात्मा परमात्मा तथा तद्गुणा ज्ञानादयश्च निमित्तकारणमित्युत्प्रेक्ष्यम् ॥७॥ अधुना शास्त्रान्ते सूत्रद्वयेन शास्त्रस्योपसहारः क्रियते- दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय ॥८॥ (दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगः-अभ्युदयाय ) "अथातो धर्म व्याख्यास्यामः" इति धर्मव्याख्यानप्रतिज्ञा, व्याख्यातश्चासौ तत्त्व- ज्ञानाख्यो विशिष्टधर्मः । “यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः” इति धर्मात् साध्यं प्रयोजनं द्विविधमभ्युदयो निःश्रेयसश्च, तत्र दृष्टानां कर्मणां दृष्टफलवतां दृष्टप्रयोजनाभावे दृष्टफलाभावे प्रयोगः प्रयोजनं फलमभ्यु- दयाय-अभिमुखीभूतायोदयायोत्कर्षायेह जन्मनि परजन्मनि वा भवति न ह्यत्र फलेऽविश्वासः कार्यः ।।८।। यतः- तद्वचनादाम्नायस्य प्रामाण्य मिति ॥६॥ ( तद्वचनात् ) अत्र शास्त्रे यदात्मादिद्रव्याणां तद्गुणकर्मणां वैशेषिकधर्माणां विशिष्टधर्मपदवाच्यानां तत्त्वज्ञानानां व्याख्यानं कृतं तत्राविश्वासेन न भवितव्यं यतोऽत्र व्याख्यातस्य धर्मस्याश्रयः खल्वा- म्नायस्तद्वचनं धर्मप्रवचनशास्त्रं वेदस्तस्माद् धर्मप्रवचनशास्त्राद् धर्म- निष्क्रमणप्रवेशनयोनिमित्तमाकाशः ।
१२८ [वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतम् प्रवचनशास्त्रत्वात् (आम्नायस्य ) तस्य वेदस्य (प्रामाण्यम्-इति ) अत्र वैशेषिकदर्शने प्रामाण्यं कृतम्, वेदं प्रमाणीकृत्य हि व्याख्यातो धर्मो न हि सन्देहावसरोऽत्रेति शुभं समाप्तं शास्त्रम् ॥६॥ द्वितीयाह्निकं समाप्तम् समाप्तिगतश्च दशमोऽध्यायः, वैशेषिकदर्शनं ब्रह्ममुनिभाष्योपेतं च पूर्तिमगात् ।। सम्राट् प्रेस, पहाड़ी धीरज देहली।
वर्णानुक्रमेण सूत्रसूचिः सूत्रम् अ अग्नेरूद्धज्वलनं ८७ ९१ अप्सु शीतता। अज्ञानाच्च। अणुत्वमहत्त्वयो. पशुत्वमहत्त्वाभ्यां० प्रसु महदिति० अशुसंयोगस्त्वप्रतिषिद्धः । अणोर्महतश्चो प्रतो विपरीतमणु। अथातो धर्म व्याख्यास्यामः । अदुष्टं विद्या। अदृष्टाच्च । अद्रव्यत्वेन द्रव्यम्। अद्रव्यत्वेन नित्यत्वम्। अनित्य इति विशेषतः अनित्यश्चायं कारणतः। अनित्येऽनित्यम् । अनित्येष्वनित्या० अनियतदिदेशपूर्वकत्वात् । अनेकद्रव्यक्त्वेन अनेकद्रव्यसमवायाद् अन्यतरकर्मजउभयकर्मजः अन्यत्रान्त्येभ्यो विशेषेभ्यः। अन्यदेव हेतुरियनपदेशः। अपरस्मिन् परं बुगचिरं० अपसर्पणमुपसर्पणमशित. अपां संघातो विलयनंच० पृष्ठम् सूत्रम् पृष्ठम् अपां संयोगाद् विभागाच्च० ७१ ७२ अपां संयोगाभावे गुरुत्वा० ६६ ४२ अप्रसिद्धोऽनपदेशो० ६१ अप्सु तेजसि वायौ च० ३० अभिघातजे मुसलादी० ६४ ६० अभिघातान्मुसलसंयोगा० ६५ ८६ अभिव्यक्ती दोषात् । ३८ १० अभिषेचनोपवासब्रह्मचर्य० ८२ १ अभूतं नास्तीत्यनान्तरम् । ११४ ११९ अभूदित्यपि । १२२ ८५ प्रयतस्यचिभोजनाद० २२ अयमेष त्वया कृतं. ११० २३ अरूपिष्वचाक्षुषामि। ५८ ५५ अर्थ इति द्रव्यगुणकर्मसु । ११० ३७ अर्थान्तरं च । ८३ ९२ अर्थान्तरं ह्यर्थान्तरस्यानपदेशः । ४२ अविद्या। ६० अविद्या च विद्यालिङ्गम् । १७ अशुचीति शुचिप्रतिषेधः। ८२ ५६ असतः क्रियागुणव्यपदेशा० ११२ ६९ असति चाभावात् । १६ असति नास्तीति च प्रयोगात् । १०२ ४२ असदिति भूतप्रत्यक्षाभावाद० ११३ ३१ असमवायासामान्यकार्य १२ ७३ असमाहितान्तः करणा० ११५ अस्येदं कार्यकारणसम्बन्ध ११७ (२) पृष्ठम् सूत्रम् अस्येदं कार्यकारणं संयोगि० अस्येदमिति बुधपेक्षित्वात् ।। ११८ ११८ एककालत्वात् । १० महमिति प्रत्यगात्मनि भावात ५० एकत्वाभावाद भक्तिस्तु न विद्यते । ९७ अहमिति मुख्ययोग्याभ्यां ५१ एकत्वकपृथक्त्वयोरे. अहमिति शन्दस्य० एकदिक्काभ्यामेककालाभ्यां० १०३ एकदेश इत्येकस्मिन्० आ १२४ एकद्रव्यत्वात् । २९ मात्मकर्मसु मोक्षो व्याख्यातः । ८६ एकद्रव्यत्वान्न द्रव्यम् । आत्मकर्महस्तसंयोगाच्च। ६५ एकद्रव्यमगुणं संयोगविभागेष्व० आत्मन्यात्ममनसोः० ११५ एकार्थसमवायिकारणान्तरेषु० १२३ आत्ममनसोः संयोगविकोषात० ११८ एतदनित्ययोाख्यातम् । 88 मात्मसमवायादात्मगुरणेषु । ११६ एतेन कर्माणि गुणाश्च० ७६ आत्मसंयोगप्रयत्नभ्या हस्ते कर्म । ६४ एतेन गुणत्वे भावे च० ५८ आत्मान्तरगुणामामात्मा० ७६ एतेन दिगन्तरालानि ३३ आत्मेन्द्रियमनोऽर्थसन्निकर्षात. ७२ एतेन दीर्घत्वह्रस्वत्वे. ६२ आत्मेन्द्रियार्थ सन्निकर्षाद्० ४५ एतेन नित्ये । नित्यत्वम् । ८७ आत्ममेन्द्रियार्थसन्निकर्षे ज्ञानस्य० ४५ एतेन विभागो व्याख्यातः। 88 एतेन शाब्दं व्याख्यातम् । आदित्यसंयोगाद् भूतपू० ३३ एतेन हीनसमविशिष्ट आर्ष सिद्धदर्शनंच धर्मेभ्यः । १२० एतेनाघटोऽगौरधर्मश्च० इ एतेनोष्णता व्याख्याता। ३० इच्छाद्वेषपूर्विका धर्माधर्मयो:० ८५ क इत इदमिति यतस्तदु० ३२ कर्मकर्मसाध्यं न विद्यते । ६ इन्द्रियदोषात् संस्कारदो ११६ कर्मभिः कर्माणि । १०४ इन्द्रियार्थ प्रसिद्धिरिन्द्रिया० ४१ कर्मभिः कर्माणि गुणगुणामणुत्व० १०० इषावयुगपत्संयोगविशेषाः० ६७ कर्मभिः कर्माणि गुणश्च गुणा व्या० ६१ इहेदमिति यतः कार्यकारणयोः० १०४ कर्मसु भावात्कर्मत्वमुक्तम् । १८ इष्टानिष्टकारणविशेषाद् १२१ कारणकारणसमवायाच्च । १२६ उ कारणगुणपूर्वकः कार्यगुणो० २७ उक्ता गुरगाः। कारणगुण पूर्वकाः पृथिव्यां० उत्क्षेपणमवक्षेपणमाकुञ्चनं० कारणपरत्वात्कारणापरत्वाच्च। १०३ उभ्यथा गुणाः। ६ कारणं त्वसमवायिनो० ७६ १० कारणबहुत्वाच्च । 80 ११७ . ८० ११४ ८७ ४ (३) " . ६० पृष्ठम् सूत्रम् कारणभावात्काभावः। ५४ कारणमिति द्रव्ये कार्य १२४ चातुराश्रम्यमुपधा भनुपधाश्च । ८३ कारणसमवायात् संयोगः परस्य । १२६ कारणसामान्ये द्रव्यकर्मणां० १४ बातिविशेषाच्च । ८५ कारणाज्ञानात्। ४२ कारणान्तरानुक्लूप्तिव० ज्ञाननिर्देशे ज्ञाननिष्पत्ति १०७ २६ त कारणाभावात् कार्याभावः । १४ कारणायोगपद्यत् कारणक्रमाच्च० १०६ त अाकाशे न विद्यन्ते । २१ कारणे कालः । तत्त्वं भावेन। कारीन कालः। ७७ ३२ कारणे समवायात् कर्माणि । १२५ ३३ कार्यकारणयोरेक्त्वंकपृथक्त्वा० ६८ १०४ कार्यबिरोधि कर्म। तत्पुनः पृथिव्यादि कार्यद्रव्य ५६ कार्य कार्यान्तरस्य। ४३ तत्र विस्फूर्जलिंगम् । ७१ कार्यान्तराप्रादुर्भावाच्या २७ तत्र शरीरद्विविधं योनिज कार्यविशेषेण नानात्वम् । ३३ तत्रात्मा मनश्चाप्रत्यक्ष। १०६ कार्येषु ज्ञानात् । ४२ तत्समवायात् कर्मगुणेषु । ११५ क्रियागुणवत् समवायिकारण तत्संयोगो विभागः । ८५ क्रियागुणव्यपदेशाभावात्० ११२ क्रियावत्त्वाद् गुणवत्वाच्च । तथा गुणेषु भावाद् गुणत्वमुक्तम् । १७ २३ गे तथात्मसंयोगो हस्तकर्मणि । ६४ गुणकर्मसुगगुणकर्माभावाद् १०८ तथा दक्षिणा प्रतीची. गुणकर्मसु च भावान्न कर्म १७ तथा दग्धस्य विस्फोटने। गुणकर्मसु सन्निकृष्टेषु० १०७ तया द्रव्यान्तरेषु प्रत्यक्षम् । ११५ गुणत्वात् । १०१ गुणवैधान्न कर्मणां कर्म ११ तथापस्तेजो वायुश्च० १११ गुणस्य सतोपवर्गः कर्मभिः तथा पृथक्त्वम् । १६ गुणान्तराप्रादुर्भावाच्च० ५६ तथा प्रतिग्रहः । ७६ गुणेषु भावाद् गुणत्वमुक्तम् १७ गुणगुणाः। तथाऽभावे भावप्रत्यक्षत्वाच्च । १०४ ११३ गुणैदिग् व्याख्याता। ७७ तथा रूपे कारणकार्थसमः १२५ ६५ गुणोऽपि विभाव्यते। १०२ तथा विरुद्धानां त्यागः। ८१ गुरुत्वप्रयलसयोगानामुत्क्षेपणम् । १३ तथा स्वप्नः। - (४) . ६६. ८० " पृढेर तथा हस्तसंयोगाच्च मुसले. ६४ दृष्टानां दृष्टप्रयोजनानां० १२७. सददुष्टे न विद्यते। दृष्टान्ताच्च। १० तदनारम्भ आत्मस्थे मनसि० ७३ दृष्टेषु भावाबद्दष्टेष्वभावात् । तदनुविधानादेकपृथक्त्वं २९ देवदत्तो गच्छति यज्ञदत्तो. ४६ तदभावादरपु मनः। ६४ देवदत्तो गच्छतीत्युपचा० ५० तदभावे संयोगाभावो० ७४ द्रवत्वात् स्यन्दनम्। तदलिङ्गमेकद्रव्यत्वात् कर्मणः । २५ द्रव्यगुणकर्मणां द्रव्यं० ६ तद् दुष्टज्ञानम् । ११६ द्रव्यगुणकर्मनिष्पत्ति० तद् दुष्टभोजने न विद्यते। ७४ १६ तद्वचनादाम्नायस्य प्रामाण्यम् । ३,४ नयगुणकर्मभ्योऽर्था० तद्वचनादाम्नायस्य प्रामाण्यमिति । १२७ द्रव्यगुणयोः सजातीया० ५ तटिशेपेणादृष्टकारितम् । ६६ द्रव्यत्वगुणवप्रतिषेधो० १०४ तयोनिष्पत्तिः प्रत्यक्ष द्रव्यत्वनित्यत्वे वायुना० १.२ २८ तन्मयत्वाच्च तस्मादागमिकः। ४८ ३२ तस्मादागमिकम् । २४ ३३ तस्य कार्य लिङ्गम् । द्रव्यत्वं गुणत्व कर्मत्वं च सा० १५ तस्य द्रव्यत्वनित्वत्वे वायुना० ४६ द्रव्याणां द्रव्य कार्य सामान्यम् । ११ ४७ द्रव्याणि द्रव्यान्तरमारभन्ते. तस्य समभिव्याहारतो दोषः। द्रध्याश्रय्यगुणवान संयोग० तस्याभावादव्यभिचारः । ५७ द्रव्ये द्रव्यगुणकर्मापेक्षम्। १०६ तुल्यजातोयेष्वर्थान्तरभूतेषु० ३५ द्रव्येषु ज्ञानं व्याख्यातम् । तृणे कर्म वायुसंयोगात् । ६७ द्रव्येषु पञ्चात्मकत्वं. ११० तेजस उष्णता। ३० द्रव्येष्वनितरेतरकारणा:० १०८ तेजसो द्रव्यान्तरेणावरणाच्च । ७५ द्वयोस्तु प्रवृत्योरभावात् । ३६ तेजो रूपस्पर्शवत्। २१ द्वित्वप्रभृतयः संख्या:० १२ तेन रसगन्धस्पर्शेषु० ५७ ध त्रपुसीसलोहरजतसुवर्णानाम० धर्म विशेषप्रसूताद् द्रव्य० द दिक्कालावाकाशं च क्रिया० ७५ धर्मविशेषाच्च। दुष्टं हिंसायाम् । धर्माच्च। ८० ११९ दृष्ट प्रात्मनि लिङ्ग ४६ दृष्टं च दृष्टवत् । ३४ न च दृष्टानां स्पर्श २२ दृष्टाहष्टप्रयोजनानां० पर न चासि विकारात् । ३७ ६ ८० २१ ३ .
(५.) पृष्ठम् ३६ ६ ४६ ४५ ४१ ४६ ७८ ७६ ७८ पृष्ठमः सूत्रम् न तु कार्याभावात. १४. प्रथमादिशब्दात् । न तु शरीरविशेषा यावत ५१ प्रयत्नविशेषान्दोदन नद्रव्यं कार्य कारणंच वषति । प्रयत्लायोगपद्या. नद्रव्याणां कर्म। १० प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि० नाड्यवायुसंयोगादारोहणम् । ६६ प्रसिद्धा इन्द्रियार्थाः । नापि कर्माचाक्षुषत्वात्० ३६ प्रसिद्धिपूर्वकत्वादपदेशस्य । नास्ति घटो गेहे० ११४ प्राणापाननिमेषोन्मेष. नित्यवैधात् । ३७ ब नित्यं परिमण्डलम् । ६३ बुद्धिपूर्वा वाक्यवृतिदे। नित्ये नित्यम् । ६२ बुद्धिपूर्वो ददातिः। नित्येष्वभावादनित्येषु० ३२ ब्राह्मण संज्ञाकर्म० निष्क्रमणं प्रवेशनमित्याकाश० भ निष्क्रियत्वात् । १०२ भावदोष उपधाऽदो० निष्क्रियाणा समवायः ७६ भावोऽनुवृत्तेरेव हेतुत्वात् सा निःसंख्यत्वात् कर्मगुणानां० भूतमभूतस्य । नोक्नविशेषादुइसन ६६ भूतो भूतस्य । नोदनविशेषाभावान्नो ६५ भूयस्त्वाद् गन्धनवस्वाच्च० नोननादाद्यमिषोः कर्म भ्रान्त तत् । नोदनापीडनात् संयु० म नोदनाभिघातात् । ६९ मणिगमनं सूच्यभिसर्पण महत्यनेकद्रव्यवत्त्वाद् प य परत्र समवायात् प्रत्यक्षत्वाच्च० २७ यच्चान्यदसदतस्तदसत् । परत्वापरत्वयोः परत्वापर० १०४ यज्ञदत्त इति सन्निकर्षे परिशेषाल्लिङ्गमाकाशस्य। १८ यतोऽभ्युदयनिःश्रेयससिद्धि:० पुनविशिष्टेप्रवृत्तिः । यत्नाभावे प्रसुप्तस्य० पुष्पवस्त्रयोः सति सन्निकर्षे २६ यथादृष्टममथादृष्टत्वाच्च । पृथिवी कर्मणा तेजः कर्म १० यदि दृष्टमन्वक्षमहं पृथिव्यादिरूपरसगन्धस्पर्शा० यदिष्टरूपरसगन्धस्पर्श पृथिव्यापस्तेजोकायुराकाशं ३ यस्माद् विषाणी तस्माद । प्रत्यक्षप्रवृत्तत्वात् संज्ञ० २५ यस्माद् विषाणी तस्माद् गौ० प्रत्यक्षाप्रत्यक्षाणां संयोगस्या० ५६ युतंसिद्धयभावात्कार्यकारण. १५ ४३ ४३ . ६७ ६७ . ६७ . ११३ ४७ ६७ . ८७ ४६ ८३ ४४ १०० (१६). हम ४० ors सूत्रम् पृष्ठम् सूत्रम् र संज्ञाया आदित्वात् । ६१ रूपरसगन्धस्पर्शवती पृथिवी । २० सति च कार्यादर्शनात् । १२३ सतो लिङ्गाभावात् । ३७ रूपरसगन्धस्पर्शव्यतिरेकाद० सत्यपि द्रव्यत्वे महत्त्वे. रूपरसगन्धस्पर्शाः संख्या० सदकारणवंन्नित्यम् । ५४ रूपरसस्पर्शवत्य आपो० २० सदनित्यं द्रव्यवस्कार्य। ५ रूपाणां रूपम् । १३ सदसत् ११२ ल सदिति यतो द्रव्य लिङ्गच्चानित्यः शब्दः । ३६ सदिति लिङ्गाविशेषा० १८ व सन्त्ययोनिजाः वायुसन्निकर्षे प्रत्यक्षाभा० २४ सन्दिग्धस्तूपचारः। वायोर्वायुसम्मूर्छनं० २४ ५० विधाविद्यातश्च संशयः । ३४ सन्दिग्धाः सति बहुत्वे । विभवान्महानाकाशस्तथा चात्मा । ६४ समवायिनः श्वत्याच्छ्वै. १०८ विरोध्यभूतं भूतस्य । समाख्या भावाच्च । विशिष्टे आत्मत्यागः । ८१ समे आत्मत्यागः पर० २१ समे होने वा प्रवृत्तिः । वृक्षाभिसर्पणमित्यदृष्टः ७० सम्प्रतिपत्तिभावाच्च। बेदालिङ्गाच्च । ६३ सपिर्जतुमधूच्छिष्टानाम० २१ संयुक्तसमवायादग्ने बैशेषिकम् । १२६ व्यतिरेकात्। १० संयोग विभागयोः संयोगवि० १०० व्यवस्थातो नाना। ५२ संयोगविभागवेगानां कर्म० १० व्यवस्थितः पृथिव्यां गन्धः । संयोगविभागाश्च कर्मणाम् । १३ श संयोगादभावः कर्मणः । २६ शब्दलिङ्गाविशेषाद् विशा० २८ संयोगादा। शब्दार्थावसम्बन्धी। १२५ १०२ संयोगाद् विभागाच्च० ३८ शास्त्रसामर्थ्याच्च। ५३ संयोगानां द्रव्यम् । १३ श्रोत्रग्रहणो योऽर्थः स शब्दः । संयोगाभावे गुरुत्वात्। ६५ संयोगिनो दण्डात् सम. १०३ संख्यापरिमाणानि. ५७ संयोगि समवाय्येकार्थ ४२ संख्याभाव: सामान्यतः ४० संशयनिर्णयान्तराभावश्च० १२१ सच्चासत् ।। ११२ मस्काराभावे गुरुत्वात्। ६८ मंशाकर्म त्वस्मतिशिष्टानां० २४ सामयिकः शम्दार्थप्रत्ययः । विषाणी ककुपान्० ८० वैदिकं च। ३०
पृष्ठम्
पृष्ठम्
(७)
सूत्रम्
सामान्य विशेष इति.
१५ सुखदुःखमाननिष्पत्य.
सामान्यतो दृष्टान्चाविशेषः ।
१४ सुखाद् रागः ।
सोनपदेशः।
४८
स्पर्शवान् वायुः ।
सामान्यप्रत्यक्षा
विशेषाप्र० ३४
स्पर्शश्च वायोः ।
सामान्यविशेषापक्ष द्रव्य १०८
स्वप्नान्तिकम् ।
सामान्यविशेषाभावेन च । १७
१७ हस्तकर्मणा दारकर्म .
१८ हस्तकर्मणा मनसः०
१८ होने परत्यागः ।
सामान्यविशेषेषु सामान्यविशे० १०७ हेतुरपदेशो लिङ्ग
४१
२१
२२
११९
no
६५
७२
८१
८४ ७ नुभूत ... (८) सुद्धाशुद्धपत्रम पृ० पं० पशुखम पृ० पं० प्रशुरुन १११ यत यतोऽ ७६ ३१ कथितम कथितम् ४ २८ सम्मूच्छनं सम्मुर्छनम् २ फल फलं १० ३० असमवायि- असमवायिका- ८० १२ ह हा रणम् दर कारम् ६ ते एमि त एमि १२ १ कम कर्म 56 २३ तन्मयाच्च तन्मयत्वान्न १२ १२ विभागाश्च विभागरच १३ २ सामान्यकायं सामान्यकार्य ८५ १ प्राबल्य प्राबल्यं १४ १६ ...भावाद ८५ नुभूत १६ १६ "कम् क ८५ १६ पूदिका पूर्विका २२ ११ प्रत्यक्षा प्रत्यक्षी ८६ २८ महत्व महत्त्व २३ प्रथमाध्याये द्वितीयाध्याये ६० ८ परिमाण परिमारणं २३ १ सव सर्वे १० १० लाशु तूलांशु २३ १ स्पशवन्तो स्पर्शवन्तो ६२ १४ विज्ञयम् विज्ञेयम् २३ ६द्रव्य द्रव्य ९९ १४ तजसे तैजसे २३ ६ साऽपि सोऽपि १०३ ४ सन्यासी संन्यासी २६ १६ स्पशन स्पर्शन १०३ १४ क्षब्दानां शब्दानां २३ १६ गुणन गुणेन १०४ ६ गुणेर गुणेर २५ १ भवं, वा १०७ १८ प्रदश्य प्रदर्य १ ...णिस्त: वणिस्तैः ५०७७ सामान्य सामान्य ३० १५ 'प्रकरेण ..'प्रकारेण ११३ १० असिदिति असदिति ३५ १३ ""भथया "भयथा ११७ १५ पूर्द पूर्व ४७ ५ प्राणोथ प्राणोऽथन ११८ ८ बुद्धिपेक्षि बुद्धयषेक्षि ऽबहि १३ स्मातं स्मात ४८ २६ इति न स्वानु इति स्वादु १२० ७ सिद्धदशन सिद्धदर्शन ६१ २४ X १२१२१ शनाद् ज्ञानाद् ६१ २८ X १२१ १३ लेङ्गिका १ पूव पूर्व १२४ १३ सज्ञा-भेदात् संज्ञाभेदात् ४ वदिक वैदिक १२६ ८ कारणकाथ कारणकार्थ ६५ २ तथव तर्थव धर्म ६५ २ "त्यथः "विशष्टधर्मः विशिष्टधर्म ६७ १८ वारण वाणे धम ७३ ५ ""यम् प्रा .."यम् । आ १२७ १६ प्रयागः प्रयोगः भवं वा, . लैङ्गिका ६२ १२७ १३ धर्म ...त्यर्थः
No text on this page.