Ramkrishna Mission Institute Of Culture, Golpark

Karikabali

Shastri, Jibaram, Rev. · 2006/04/22

PDF Proofread

Front matter

No text on this page.

॥ श्रीः॥
कारिकावली।
सिद्धान्तमुक्तावलीसहिता।
श्रीविश्वनाथपञ्चाननभट्टाचार्येण
विरचिता
इयं च
"बडोदामण्डलान्तर्गतब्राह्मणग्राममधिवसता
संपति" मुम्बापुरीवास्तव्येन रैक (रायकवाल)
लल्लुरामतनुजनुषा
जीवरामशास्त्रिंणा
संशोधिता
सा च
मुकुन्दात्मजज्येष्ठारामशर्मणा
मुम्बय्यां
निर्णयसागराख्यमुद्रणालये मुद्रयित्वा प्रकाशिता.
शके १८२०. संवत् १९५५.

C.LIBRARY 6778 Tass No.181 ॥ अथ IN Date: VIS? 1. Card ॥ कारिकावली॥ BA.Cird Cherked. नूतनजलधररुचये गोपवधूटीदुकूलचौराय । तस्मै कृष्णाय नमः संसारमहीरुहस्य बीजाय ॥१॥ द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् । समवायस्तथाऽभावः पदार्थाः सप्त की- तिताः ॥२॥ क्षित्यतेजोमरुदयोमकालदिग्देहिनो मनः । द्रव्याण्यथ गुणा रूपं रसो गन्धस्ततः परम् ॥३॥ स्पर्श संख्या परिमितिः पृथक्त्वं च ततः परम् । संयोगश्च विभागश्च परत्वं चापरखकम् ॥४॥ बुद्धिः सुखं दुःखमिच्छा द्वेषो यत्ने गुरुखकम् । द्रवत्वं स्नेहसंस्कारावदृष्टं शब्द एव च ॥५॥ उत्क्षेपण ततोऽपक्षेपणमाकुञ्चनं तथा । प्रसारणं च गमनं कर्माण्येतानि पश्च च ॥ ६॥ भ्रमणं रेचनं स्यन्दनोव॑ज्वलनमेव च । तिर्य ग्गमनमप्यत्र गमनादेव लभ्यते ॥ ७ ॥ सामान्यं द्विविः प्रोक्तं परं चापरमेव च। द्रव्यादित्रिकत्तिस्तु सत्ता परतयोच्या ॥८॥ परभिन्ना तु या जातिः सैवापरतयोच्यते ॥ द्रव्यला दिकजातिस्तु परापरतयोच्यते ॥९॥ व्यापकखात्परापि स्या याप्यवादपरापि च । अन्त्यो नित्यद्रव्यवृत्तिविशेषः परिकी तितः ॥ १० ॥ घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः तेषु जातेश्च संवन्धः समवायः प्रकीर्तितः ॥११॥ अमावस्तु द्वि धान्योन्यसंसर्गाभावभेदतः । प्रागभावस्तथा ध्वंसोऽप्यन्ता भाव एव च ॥ १२ ॥ एवं त्रैविध्यमापन्नः संसर्गाभाव इष्य ते । सप्तानामपि साधयं ज्ञेयसादिकमुच्यते ॥ १३ ॥ द्रव्या दयः पञ्च भावा अनेके समवायिनः । सत्तावन्तस्त्रयस्वाद्य १) गुणादिनिर्गुणक्रियः ॥ १४ ॥ सामान्यपरिहीनास्तु सर्वे जा- सादयो मताः । परिमाण्डल्यभिन्नानां कारणसमुदाहृतम् ॥ ॥ १५ ॥ अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता। कारण- लं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ॥ १६ ॥ समवायिकारण- लं ज्ञेयमथाप्यसमवायिहेतुखम् । एवं न्यायनयज्ञैस्तृतीयमुक्तं निमित्तहेतुखम् ॥ १७॥ यत्समवेतं कार्य भवति ज्ञेयं तु समवा- यिजनकं तत् । तत्रासन्न जनकं द्वितीयमाभ्यां परं तृतीयं स्यात् ॥ १८ ॥ येन सह पूर्वभावः कारणमादाय वा यस्य । अन्य प्रति पूर्वभावे ज्ञाते यत्पूर्वभावविज्ञानम् ॥ १९ ॥ जनकं प्रति पूर्ववृत्तितामपरिज्ञाय न यस्य गृह्यते । अतिरिक्तमथापि यद्भ- वेनियतावश्यकपूर्वभाविनः ॥ २०॥ एते पश्चान्यथासिद्धा दण्डखादिकमादिमम् । घटादौ दण्डरूपादि द्वितीयमपि दर्शि- तम् ॥ २१ ॥ तृतीयं तु भवेद्वयोम कुलालजनकोऽपरः । पञ्च- मो रासभादिः स्यादेतेष्वावश्यकस्त्वसौ ॥ २२॥ समवायि- कारणलं द्रव्यस्यैवेति विज्ञेयम् ॥ गुणकर्ममात्रवृत्ति ज्ञेयमथाप्य- समवायिहेतुखम् ॥ २३ ॥ अन्यत्र नित्यद्रव्येभ्य आश्रितलमि- होच्यते । क्षित्यादीनां नवानां तु द्रव्यवं गुणयोगिता ॥२४॥ क्षितिजेलं तथा तेजः पवनो मन एव च । परापरवमूर्तसक्रि- यावेगाश्रया अमी ॥२५॥ कालखात्मदिशां सर्वगतत्वं परमं महत् । सित्यादिपञ्च भूतानि चखारि स्पर्शवन्ति हि ॥२६॥ द्रव्यारम्भश्चतुषु स्यादथाकाशशरीरिणाम् । अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते ॥ २७ ॥ रूपद्रवत्वप्रत्यक्षयोगिनः । प्रथमायः । गुरुणी द्वे रसवती द्वयोनैमित्तिको द्रवः ॥२८॥ आत्मनो भूतवर्गाश्च विशेषगुणयोगिनः । यदुक्तं यस्य साधर्म्य वैधर्म्यमितरस्य तत् ॥ २९ ॥ स्पर्शादयोऽष्टौ वेगाख्यः सं. स्कारो मरुतो गुणाः । स्पर्शाद्यष्टौ रूपवेगौ द्रवत्त्वं तेजसो गुणाः .

(३) ॥३०॥ स्पर्शादयोऽष्टौ वेगश्च गुरुखं च द्रवलकम् । रूपं रसस्तथा स्नेहो वारिण्येते चतुर्दश ॥ ३१ ॥ स्नेहहीना गन्धयुताः क्षि- तावेते चतुर्दश । बुद्ध्यादिषदं संख्यादिपञ्चकं भावना तथा ॥ ॥ ३२ ॥ धर्माधर्मों गुणा एत आत्मनः स्युश्चतुर्दश। संख्यादि- पञ्चकं कालदिशोः शब्दश्च ते च खे ॥३३॥ संख्यादयः पञ्च- बुद्धिरिच्छा यत्नोऽपि चेश्वरे। परापरखे संख्याद्याः पञ्च वेगश्च मानसे ॥ ३४ ॥ तत्र क्षितिर्गन्धहेतुर्नानारूपवती मता। षड्डि- धस्तु रसस्तत्र गन्धस्तु द्विविधो मतः ॥ ३५ ॥ स्पर्शस्तस्या- स्तु विज्ञेयो ह्यनुष्णाशीतपाकजः । नित्यानित्या च सा द्वेधा नित्या स्यादणुलक्षणा ॥ ३६ ॥ अनित्या तु तदन्या स्यात्सै- वावयवयोगिनी । सा च त्रिधा भवेदेहमिन्द्रियं विषयस्तथा। ॥ ३७॥ योनिजादिर्भवेदेह इन्द्रियं प्राणलक्षणम् । विषयो द्वयणुकादिश्च ब्रह्मण्डान्त उदाहृतः ॥ ३८ ॥वर्णः शुक्लो रस- स्पशौँ जले मधुरशीतलौ । स्नेहस्तत्र द्रवत्वं तु सांसिद्धिकमुदा. हृतम् ॥ ३९ ॥ नित्यतादि प्रथमवत्किं तु देहमयोनिजम् । इन्द्रियं रसनं सिन्धुर्हिमादिविषयो मतः॥४०॥ उष्णस्पर्श स्तेजसस्तु स्याद्रूपं शुक्लभास्वरम् । नैमित्तिकं द्रवत्वं तु नित्य- तादि च पूर्ववत् ॥ ४१ ॥ इन्द्रियं नयनं वद्विस्वर्णादिविषयो' मतः । अपाकजोऽनुष्णाशीतः स्पर्शस्तु पवने मतः ॥ ४२ ॥ तिर्यग्गमनवानेष ज्ञेयः स्पर्शादिलिङ्गकः । पूर्ववन्नित्यतायुक्तं देहव्यापि खगिन्द्रियम् ॥ ४३ ॥ प्राणादिस्तु महावायुपर्यन्तो विषयो मतः । आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः॥ ॥ ४४ ॥ इन्द्रियं च भवेच्छ्रोत्रमेकः सन्नप्युपाधितः । जन्यानां जनकः कालो जगतामाश्रयो मतः ॥ ४५ ॥ परापरत्वधीहेतुः क्षणादिः स्यादुपाधितः । दूरान्तिकादिधीहेतुरेका नित्या दि. गुच्यते ॥ ४६ ॥ उपाधिभेदादेकापि प्राच्यादिव्यपदेशभाक।

(४) आत्मेन्द्रियायधिष्ठाता करणं हि सकर्तृकम् ॥ ४७ ॥ शरी- रस्य न चैतन्यं मृतेषु व्यभिचारतः । तथावं चेदिन्द्रियाणा- मुपघाते कथं स्मृतिः॥४८॥ मनोऽपि न तथा ज्ञानाद्यनध्य- सं तदा भवेत् । धर्माधर्माश्रयोऽध्यक्षो विशेषगुणयोग- तः॥ ४९ ॥ प्रवृत्त्याद्यनुमेयोऽयं रथगत्येव सारथिः । अहं- कारस्याश्रयोऽयं मनोमात्रस्य गोचरः ॥ ५० ॥ विभुर्बुद्ध्या- दिगुणवान्बुद्धिस्तु द्विविधा मता । अनुभूतिः स्मृतिश्च स्याद- जुभूतिश्चतुर्विधा ॥५१॥ प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे । घ्राणजादिप्रभेदेन प्रत्यक्षं पड्डिविधं मतम् ॥ ५२ ॥ घ्राणस्य गोचरो गन्धो गन्धलादिरपि स्मृतः । तथा रसो रसज्ञायास्त- था शब्दोपि च श्रुतेः॥५३॥ उद्भूतरूपं नयनस्य गोचरो द्रव्या- णि तद्वन्ति पृथक्वसंख्ये । विभागसंयोगपरापरखस्नेहद्रवलं परिमाणयुक्तम् ॥ ५४ ॥ क्रिया जातियॊग्यवृत्तिः समवायश्च तादृशः । गृह्णाति चक्षुःसंबन्धादालोकोद्भूतरूपयोः॥५५॥ उद्भूतस्पर्शवद्रव्यं गोचरः सोऽपि च वचः । रूपान्यचक्षुषो योग्यं रूपमत्रापि कारणम् ॥ ५६ ॥ द्रव्याध्यक्षं खचो यो- गो मनसा ज्ञानकारणम् । मनोग्राह्यं मुखं दुःखमिच्छा द्वषो म- 'तिः कृतिः ॥५७ ॥ ज्ञानं यनिर्विकल्पाख्यं तदतीन्द्रियमिष्य- ते । महत्त्वं पड्विधे हेतुरिन्द्रियं करणं मतम् ॥५८॥ विषये- न्द्रियसंबन्धो व्यापारः सोऽपि षड्विधः। द्रव्यग्रहस्तु संयोगा- संयुक्तसमवायतः ॥ ५९ ॥ द्रव्येषु समवेतानां तथा तत्सम वायतः। तत्रापि समवेतानां शब्दस्य समवायतः ॥ ६०॥ त- दृत्तीनां समवेतसमवायेन तु ग्रहः । विशेपणतया तद्वदभावाना ग्रहो भवेत् ॥ ६१॥ यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते । प्रत्यक्ष समवायस्य विशेषणतया भवेत् ॥ ६२ ॥ अलौलिकः संनिकर्षत्रिविधः परिकीर्तितः। सामान्यलक्षणो ज्ञानलक्षणो (५) योगजस्तथा ॥६३॥ आसत्तिराश्रयाणां तु सामान्यज्ञानमि- ष्यते । तदिन्द्रियजतद्धर्मबोधसामग्र्यपेक्ष्यते ॥ ६४ ॥ विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः । योगजो द्विविधः मोक्तो युक्तयुञ्जानभेदतः ॥६५॥ युक्तस्य सर्वदा भानं चिन्तासह- कृतोऽपरः ॥ व्यापारस्तु परामर्शः करणं व्याप्तिधीर्भवेत्॥६६॥ अनुमायां ज्ञायमानं लिङ्गं तु करणं न हि । अनागतादिलिङ्गेन न स्यादनुमितिस्तदा ॥६७॥व्याप्यस्य पक्षवृत्तिबधीः पराम- र्श उच्यते । व्याप्तिः साध्यवदन्यस्मिन्नसंबन्ध उदाहृतः॥६॥ अथवा हेतुमनिष्ठविरहापतियोगिनः। साध्येन हेतोरैकाधिकर- ण्यं व्याप्तिरुच्यते ॥ ६९ ॥ सिपाधयिषया शून्या सिद्धिर्यत्र न विद्यते। सपक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत् ॥ ७० ॥ अ- नैकान्तो विरुद्धश्चाप्यसिद्धःपतिपक्षितः । कालत्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा।।७१॥आयः साधारणस्तु स्यादसाधार• णकोऽपरः। तथैवानुपसंहारी त्रिधाऽनैकान्तिको भवेत्॥७२॥ यः सपक्षे विपक्षे च भवेत्साधारणस्तु सः।यस्तुभयस्माद्व्या- तः स चासाधारणो मतः॥७३॥ तथैवानुपसंहारी केवलान्व- यिपक्षकः। यः साध्यवति नैवास्ति स विरुद्ध उदाहृतः॥७४॥ आश्रयासिद्धिराया स्यात्स्वरूपासिद्धिरप्यथ । व्याप्यलसि- दिरपरा स्यादसिद्धिरतस्विधा ॥७॥ पक्षासिद्धिर्यत्र पक्षो भ- वेन्मणिमयो गिरिः । हृदो द्रव्यं धूमवत्त्वादत्रासिद्धिरथापरा ॥ ७६ ॥ व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत् । विरु- द्धयोः परामर्शो हेलोः सत्यतिपक्षता ॥७७॥ साध्यशून्यो यत्र पक्षस्वसौ बाध उदाहृतः । उत्पत्तिकालीनघटे गन्धादिर्यत्र साध्यते ॥ ७८ ॥ ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् । सादृश्यधीर्गवादीनां या स्यात्सा करणं मतम् ॥७९॥ वाक्या-. र्थस्यातिदेशस्य स्मृतिर्व्यापार उच्यते । गवयादिपदानां तु श.

(६) क्तिधीरुपमाफलम् ॥४०॥ पदज्ञानं तु करणं द्वारं तत्र पदार्थ-. धीः । शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी॥८१॥ ल- क्षणा शक्यसंवन्धस्तात्पर्यानुपपत्तितः । आसत्तिर्योग्यताकासा तात्पर्यज्ञानमिष्यते ॥ ८२॥ कारणं संनिधानं तु पदस्यासत्ति- रुच्यते । पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता॥ ८३॥य- त्पदेन विना यस्याननुभावकता भवेत् । आकाङ्क्षा वक्तुरिच्छा तु तात्पर्य परिकीर्तितम् ॥ ८४॥ साक्षात्कारे सुखादीनां करणं मन उच्यते ॥अयोगपद्याज्ञानानां तस्याणुखमिहेष्यते॥८॥ अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिया गुणाः। रूपं रसःस्प- शगन्धौ परखमपरत्वकम् ॥८६॥ द्रवत्वं स्नेहवेगाश्च मता मूर्तगु- णा अमी। धर्माधर्मी भावना च शब्दो बुद्धयादयोऽपिच॥८७॥ एतेऽमूर्तगुणाः सर्वे विद्वद्भिः परिकीर्तिताः। संख्यादयो विभा- गान्ता उभयेषां गुणा मताः ॥८८ ॥ संयोगश्च विभागश्च सं- ख्या द्विखादिकास्तथा । द्विपृथक्खादयस्तद्वदेतेऽनेकाश्रिता गु- णाः ॥८९॥ अतः शेषगुणाः सर्वे मता एकेकटत्तयः। बुद्धया. दिपटू स्पर्शान्ताः स्नेहः सांसिद्धिको द्रवः ॥ ९० ॥ अदृष्टभा- वनाशब्दा अमी वैशेषिका गुणाः । संख्यादिरपरत्वान्तोद्रवो सांसिद्धिकस्तथा ॥ ९१ ॥ गुरुखवेगौ सामान्यगुणा एते प्र- कीर्तिताः। संख्यादिरपरखान्तो द्रवत्वं स्नेह एव च ॥९२॥ ए- ते तु द्वीन्द्रियग्राह्या अथ स्पर्शान्तशब्दकाः। बाबैकैकेन्द्रियग्रा- या गुरुखादृष्टभावनाः ॥ ९३ ॥ अतीन्द्रिया विभूनां तु ये स्यु- वैशेषिका गुणाः । अकारणगुणोत्पन्ना एते तु परिकीर्तिताः॥ ॥ ९४ ॥ अपाकजास्तु स्पर्शान्ता द्रवत्वं च तथाविधम् । स्नेह- वेगगुरुबैकपृक्त्वपरिमाणकम् ॥ ९५ ॥ स्थितिस्थापक इत्येते स्युः कारणगुणोद्भवाः । संयोगश्च विभागश्च वेगश्चैते तु कर्मजाः ॥९६ ॥ स्पर्शान्तपरिमाणैकपृथक्त्वस्नेहशब्दके । भवेदसमवा- (७) यिखमय वैशेषिके गुणे ॥९७॥ आत्मनः स्यानिमित्तवमुष्ण- स्पर्शगुरुत्वयोः। वेगेऽपि च द्रवत्वे च संयोगादिद्वये तथा॥९८॥ द्विधैव कारणत्वं स्यादथ प्रादेशिको भवेत् । वैशेषिको विभुगुणः संयोगादिद्वयं तथा॥९९॥चक्षुर्लाह्यं भवेद्रूपंद्रव्यादेरुपलम्भकम् । चक्षुषः सहकारि स्याच्छुल्लादिकमनेकधा॥१००॥जलादिपर- माणौ तन्नित्यमन्यत्सहेतुकम् । रसस्तु रसनाग्राह्यो मधुरादिरने- कधा ॥ १०१ ॥ सहकारी रसज्ञाया नित्यतादि च पूर्ववत् । घ्राणग्राह्यो भवेद्गन्धो घ्राणस्यैवोपकारकः ॥ १०२॥ सौरभ- चासौरभश्च स द्वेधा परिकीर्तितः । स्पर्शस्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः ॥ १०३ ॥ अनुष्णाशीतशीतोष्णभेदात्स त्रि- विधो मतः । काठिन्यादि क्षितावेव नित्यतादि च पूर्ववत् ॥ ॥ १०४ ॥ एतेषां पाकजवं तु क्षितौ नान्यत्र कुत्रचित् । त- त्रापि परमाणौ स्यात्पाको वैशेपिके नये ॥१०५॥ नैयायि- कानां तु नये व्यणुकादावपीष्यते । गणनाव्यहारे तु हेतुः संख्याभिधीयते ॥ १०६ ॥ नित्येषु नित्यमेकत्वमनित्येऽनि- त्यमिष्यते । द्वित्वादयः परार्द्धान्ता अपेक्षावुद्धिजा मताः ॥ ॥ १०७ ॥ अनेकाश्रयपर्याप्ता एते तु परिकीर्तिताः । अपेक्षा- बुद्धिनाशाच्च तेषां नाशो निरूपितः ॥ १०८ ॥ अनेकैकलबु-.. द्विर्या सापेक्षाबुद्धिरिष्यते । परिमाणं भवेन्मानव्यवहारस्य कारणम् ॥ १०९ ॥ अणु दीर्घ महद्रस्वमिति तद्भेद ईरितः । अनित्ये तदनित्यं स्यानित्ये नित्यमुदाहृतम् ॥ ११० ॥ सं- ख्यातः परिमाणाच प्रचयादपि जायते । अनित्यं द्वयणुकादौ तु संख्याजन्यमुदाहृतम् ॥ १११ ॥ परिमाणं घटादौ तु परि- माणजमुच्यते । प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते ॥ ११२ ॥ परिमाणं तूलकादौ नाशस्त्वाश्रयनाशतः। संख्या.. वत्तु पृथक्त्वं स्यात्पृथक्प्रत्ययकारणम् ॥११३॥ अन्योन्याभा- (८) वतो नास्य चरितार्थत्वमिष्यते । अस्मात्पृथगिदं नेति प्रतीतिर्हि विलक्षणा ॥ ११४ ॥ अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ई- रितः। कीर्तितत्रिविधस्वेष आद्योऽन्यतरकर्मजः ॥११५॥ तथोभयक्रियाजन्यो भवेत्संयोगजोऽपरः। आदिमः श्येनशै- लादिसंयोगः परिकीर्तितः ॥ ११६ ॥ मेषयोःसंनिपातो यः स द्वितीय उदाहृतः । कपालतरुसंयोगात्संयोगस्तरुकुम्भयो। ॥११७॥ तृतीयः स्यात्कर्मजोऽपि द्विधैव परिकीर्तितः । अभि- घातो नोदनं च शब्दहेतुरिहादिमः ॥ ११८ ॥ शब्दाहेतुर्द्वि- तीयः स्याद्विभागोऽपि त्रिधा भवेत् । एककर्मोद्भवस्त्वाद्यो द्वय- कर्मोद्भवोऽपरः॥ ११९ ॥ विभागजस्तृतीयः स्यात्तृतीयोऽपि द्विधा भवेत् । हेतुमात्रविभागोत्थो हेत्वहेतुविभागजः ॥१२०॥ परत्वं चापरत्वं च द्विविधं परिकीर्तितम् । दैशिकं कालिकं चा- पि मूर्त एव तु दैशिकम् ॥ १२१॥ परत्वं मूर्तसंयोगभूयस्त्व- ज्ञानतो भवेत् । अपरलं तदल्पत्वबुद्धितः स्यादितीरितम् ॥ ॥ १२२ ॥ तयोरसमवायी तु दिक्संगोगस्तदाश्रये । दिवाक- रपरिस्पन्दभूयस्त्वज्ञानतो भवेत् ॥ १२३ ॥ परत्वमपरत्वं तुत- दीयाल्पत्वबुद्धितः । अत्र त्वसमवायी स्यात्संयोगः कालपि- *ण्डयोः॥ १२४ ॥ अपेक्षाबुद्धिनाशेन नाशस्तेषां निरूपितः । बुद्धेः प्रपञ्चः प्रागेव प्रायशो विनिरूपितः॥ १२५ ॥ अथाव- शिष्टोऽप्यपरः प्रकारः परिदयते।अप्रमा च प्रमा चेति द्विविधं ज्ञानमिष्यते ॥ १२६ ॥ तच्छ्न्ये तन्मतिर्या स्यादपमा सा निरूपिता । तत्मपञ्चो विपर्यासः संशयोऽपि प्रकीर्तितः ॥ ।। १२७ ॥ आद्यो देहेष्वात्मबुद्धिः शङ्खादौ पीततामतिः। भ- वेनिश्चयरूपा या संशयोऽथ प्रदर्श्यते ॥ १२८ ॥ किंस्विनरो .वा स्थाणुर्वेत्यादिबुद्धिस्तु संशयः । तदभावाप्रकारा धीस्तत्प- कारा तु निश्चयः ॥ १२९ ॥ स संशयो मतिर्या स्यादेकत्रा- (९) भावभावयोः। साधारणादिधर्मस्य ज्ञानं संशयकारणम्॥१३०॥ दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् । पित्तदूरखादि- रूपो दोषो नानाविधः स्मृतः ॥ १३१॥ प्रत्यक्षे तु विशेष्येण विशेषणवता समम् । संनिकर्षों गुणस्तु स्यादथ त्वनुमितौ गुणः ॥ १३२ ॥ पक्षे साध्यविशिष्टे तु परामर्शो गुणो भवेत् । शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुणः ॥ १३३ ॥ शाब्दबोधे यो- ग्यतायास्तात्पर्यस्याथ वा प्रमा। गुणः स्याङ्गमभिन्नं तु ज्ञान- मत्रोच्यते प्रमा ॥ १३४ ॥ अथवा तत्पकारं यज्ज्ञानं तद्वद्विशे- ध्यकम् । तत्पमा न प्रमा नापि भ्रमः स्यानिर्विकल्पकम् ॥ ॥१३५॥ प्रकारतादिशून्यं हि संबन्धानवगाहि तत् । प्रमालं न खतो ग्राह्यं संशयानुपपत्तितः ॥ १३६ ॥ व्यभिचारस्याग्र होऽपि सहचारग्रहस्तथा । हेतुर्व्याप्तिग्रहे तर्कः कचिच्छङ्कानि- वर्तकः ॥१३७॥ साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा। स उपाधिर्भवेत्तस्य निष्कार्षोऽयं प्रदर्श्यते ॥ १३८ ॥ सर्वे साध्यसमानाधिकरणाः सदुपाधयः । हेतोरेकाश्रये येषां स्व- साध्यव्यभिचारिता ॥ १३९ ॥ व्यभिचारस्यानुमानमुपाघेस्तु प्रयोजनम् । शब्दोपमानयो व पृथक्मामाण्यमिष्यते ॥१४०॥ अनुमानगतार्थवादिति वैशेषिकंमतम् । तन्त्रसम्यग्विना व्याप्ति बोधं शब्दादिबोधतः ॥ १४१ ॥ त्रैविध्यमनुमानस्य केवला. न्वयिभेदतः । द्वैविध्यं तु भवेद्वयाप्रन्वयव्यतिरेकतः॥१४२॥ अन्वयव्याप्तिरुक्ततैव व्यतिरेकादयोच्यते। साध्याभावव्यापकर्स हेलभावस्य यद्भवेत् ॥ १४३ ॥ अर्थापत्तेस्तु नैवेह प्रमाणान्तर- मिष्यते । व्यतिरेकव्याप्तिबुद्ध्या चरितार्थाहि सा यतः॥१४४॥ मुखं तु जगतामेव काम्यं धर्मेण जायते। अधर्मजन्यं दुःखं स्या- लतिकूलं सचेतसाम् ॥ १४५ ॥ निर्दुःखले सुखे चेच्छा त- जानादेव जायते । इच्छा तु तदुपाये स्यादिष्टोपायत्वधीर्यदि (१०) ॥ १४६ ॥ चिकीर्षाकृतिसाध्यसप्रकारेच्छा च या भवेत् । त- देतुः कृतिसाध्यष्टसाधनबमतिर्भवेत् ॥ १४७ ॥ बलवद्विष्टहे- तुलमतिः स्यात्मतिबन्धिका। तदहेतुखबुद्धेस्तु हेतुलं कस्यचिन्मते ॥१४८॥ द्विष्टसाधनताज्ञानं भवेद्वेषस्य कारणम् । प्रवृत्तिय निवृत्तिश्च तथा जीवनकारणम् ॥ १४९ ॥ एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिकीर्तितम् । चिकीर्षाकृतिसाध्येष्टसाधनलमति- स्तथा ॥ १५० ॥ उपादानस्य चाध्यक्ष प्रवृत्तौ जनकं भवेत् । निवृत्तिस्तु भवेद्वेषाविष्टसाधनता धियः ॥ १५१ ॥ यत्रो जीवनयोनिस्तु सर्वदातीन्द्रियो भवेत् । शरीरे प्राणसंचारे का- रणं परिकीर्तितम् ॥१५२॥ अतीन्द्रियं गुरुवं स्यात्पृथिव्यादि द्वये तु तत् । अनित्ये तदनित्यं स्यानित्ये नित्यमुदाहृतम् ॥ १५३ ॥ तदेवासमवायि स्यात्पतनाख्ये तु कर्मणि । सां- सिद्धिकं द्रवत्वं स्यान्नैमित्तिकमथापरम् ॥१५४॥ सांसिद्धिक तु सलिले द्वितीयं क्षितितेजसोः । परमाणुजले नित्यमन्यत्रा- नित्यमुच्यते ॥ १५५ ॥ नैमित्तिकं वह्रियोगात्तपनीयघृतादिषु । द्रवत्वं स्यन्दने हेतुर्निमित्तं संग्रहे तु तत् ॥ १५६ ॥ स्नेहो जले स नित्योऽणावनित्योऽवयविन्यसो । तैलान्तरे तत्मक- दहनस्यानुकूलता ॥ १५७ ॥ संस्कारभेदो वेगोऽथ स्थि- तिस्थापकभावने । मूर्तमात्रे तु वेगः स्यात्कर्मजो वेगजः क- चित् ॥ १५८ ॥ स्थितिस्थापकसंस्कारः क्षितौ केचिच्चतुर्वपि । अतीन्द्रियोऽसौ विज्ञेयः कचित्स्पन्देऽपि कारणम् ॥ १५९ ॥ भावनाख्यस्तु संस्कारो जीवत्तिरतीद्रियः । उपेक्षानात्मक- स्तस्य निश्चयः कारणं भवेत् ॥ १६०॥ स्मरणे प्रत्यभिज्ञाया- मप्यसौ हेतुरुच्यते । धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिसाधनम् ॥ १६१ ॥ गङ्गास्नानादियागादिव्यापारः स तु कीर्तितः । कर्मनाशाजलस्पर्शादिना नाश्यवसौ मतः ॥६२ ॥ अधर्मों (११) नरकादीनां हेतुर्निन्दितकर्मजः। प्रायश्चित्तादिनाश्योऽसौ जी. ववृत्ती विमौ गुणौ ॥ १६३ ॥ इमौ तु वासनाजन्यौ ज्ञाना- दपि विनश्यतः । शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः ॥ १६४ ॥ कण्ठसंयोगादिजन्या वर्णास्ते कादयोमताः।सर्वः शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते ॥ १६५ ॥ वीचीतरङ्ग- न्यायेन तदुत्पत्तिस्तु कीर्तिता । कदम्बगोलकन्यायादुत्पतिः क- स्यचिन्मते॥१६६।। उत्पन्नः को विनष्टः क इति बुद्धरनित्यता। सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते ॥ १६७ ॥ तदे- वौषधमित्यादौ सजातीयेऽपि दर्शनात् । तस्मादनित्या एवेति वर्णाः सर्वे मतं हि नः ॥ १६८ ॥ ॥ इति श्रीविश्वनाथपश्चाननकृता कारिकावली समाप्ता । -- ॥ अथ विषयानुक्रमः॥ विपयः पृष्ठम्. पतिः १ ३ .... .... २ २३ ३ २० १२ २० .... .... ५ .... ६ ३ .... .... ९ मङ्गलाचरणम् पदार्थविभागः द्रव्यविभागः गुणविभागः कर्मविभागः सामान्यनिरूपणम् विशेषनिरूपणम् समवायनिरूपणम् अभावविभागः सप्तानां पदार्थानां साधर्म्यनिरूपणम् द्रव्यादिपञ्चानां द्रव्यगुणकर्मणां च साधर्म्यम् सामान्यविशेषसमवायाभावानां साधर्म्यनिरू- पणं कारणवाभाववत्स्थलप्रदर्शनम् कारणवनिरूपणं कारणविभागश्व अन्यथासिद्धखनिरूपणम् अन्यथासिद्धानां परिगणनम् द्रव्यस्य समवायिकाग्णखकथनं गुणकर्मसा- ८ ५ .... ९ ३ .... ९ १ .... १२ ७ .... धर्म्य च. .... .... .... .... me अनित्यानां साधर्म्यम् क्षित्यादीनां नवानां साधर्म्यम् क्षितिजलतेजःपवनमनसां साधर्म्यम् १२ २१ १३ १३ ८ १२ ....

२ विपयः पृष्ठम्. पतिः .... .... .... .... .... " .... ७ .... .... .... .... कालाकाशात्मदिशां क्षित्यादीनां पञ्चानां चतु- ी च साधर्म्यम् आकाशशरीरिणां साधर्म्यम् १४ १२ पृथिवीजलतेजसां पृथ्वीजलयोः पृथिवीतेज- सोश्च साधर्म्यम् पृथिव्यप्तेजोवाय्वाकाशात्मनां साधर्म्यम् वैधर्म्यदिग्दर्शनम् वायुप्रभृतिषु के के कति च गुणा इति कथनम् १७ पृथ्वीनिरूपणम् जलनिरूपणम् २१ २१ तेजोनिरूपणम् २३ २४ वायुनिरूपणम् १३ आकाशनिरूपणम् २६ १४ कालनिरूपणम् २७ १३ दिनिरूपणम् आत्मनिरूपणम् शरीरात्मवादि ( चार्वाक ) मतखण्डनम् १२ इन्द्रियात्मवादिमतखण्डनम् मनआत्मवादिमतखण्डनम् विज्ञानात्मवादिमतखण्डनम् नित्यविज्ञानात्मवादि ( वेदान्ति ) मतखण्डनम् ३१ १६ सांख्यमतखण्डनम् ३२ १९ परदेहादावात्मानुमानादि बुद्धिद्वैविध्यम् .... .... .... २८ .... २१. .... २९ .... २ .... .... .... ....

३ विषयः पृष्ठम्. पङ्क्तिः .... २४ .... .... .... .... .... ७ .... ४३ अनुभूतिचातुर्विध्यम् प्रत्यक्षषड्विधवम् घ्राणादिग्राह्यकथनम् नयनग्राह्याणां कथनम् चाक्षुषप्रत्यक्षे कारणकथनम् १२ बगिन्द्रियग्राह्यकथनं खाचप्रत्यक्षे कारणकथनं च १९ ज्ञानसामान्य कारणम् १९ मनोग्राह्यकथनम् ३८ १६ अतीन्द्रियज्ञानं षड्धिप्रत्यक्षे हेतुकथनं करणकथनं च २१ प्रत्यक्षज्ञाने व्यापारकथनं लौकिकसंनिकर्षस्य पनि धखं च अलौकिकग्रत्यक्षत्रैविध्यम् सामान्यलक्षणप्रत्यासत्तिनिरूपणम् ज्ञानलक्षणप्रत्यासत्तिनिरूपणम् २३ योगजप्रत्यासत्तिनिरूपणम् ४५ २० अनुमितिव्युत्पादनं तत्र व्यापारस्य कारणस्य च कथनम् अनुमितिकरणे प्राचीनमतखण्डनम् परामर्शलक्षणम् व्याप्तिलक्षणम् पक्षलक्षणम् हेत्वाभासविभागः अनकान्तहेखाभासविभागः हेत्वाभासलक्षणम् अनैकान्तिकलक्षणादि ९ .... .... .... .... 12. .... .... .... .... ४८ .... ५४ .... .... ३ ३ ४ विषयः पृष्ठम्. पतिः .... ५७ २० ५८ ३ .... .... .... " .... .... १८ २२ .... .... .... .... ५९ ९ .... .... १५ १ १५ .... ८ " .... साधारणहेत्वाभासलक्षणम् असाधारणहेलाभासलक्षणम् अनुपसंहारिहेत्वाभासलक्षणम् विरुद्धलक्षणम् असिद्धिविभागः असिद्धित्रयोदाहरणानि सत्प्रतिपक्षलक्षणम् कालात्ययापदिष्ट (बाधित ) लक्षणम् उपमितिव्युत्पादनम् शाब्दबोधप्रकारप्रदर्शनम् शक्तिग्रहकारणविचारः व्याकरणाच्छक्तिग्रहः कोशाच्छक्तिग्रहः आप्तवाक्याच्छक्तिग्रहः व्यवहाराच्छक्तिग्रहः वाक्यशेषाच्छक्तिग्रहः विवरणाच्छक्तिग्रहः प्रसिद्धपदसांनिध्याच्छक्तिग्रहः पदलक्षणं तद्भेदनिरूपणं च लक्षणानिरूपणम् शाब्दबोधे करणम् आसत्तिनिरूपणं च योग्यतानिरूपणम् आकांक्षानिरूपणं तात्पर्यनिरूपणं च स्मरणनिरूपणम् १२ २ ६२ .... " ५ ६ .... २३ .... .... ३ .... .... .... २३ .... .... .... .... ६८ २१ ९ ....

पतिः पृष्ठम्. ७१ .... .... .... .... .... २२ .... ... ३ .... .... .... .... .... ११ १८ .... .... ७४ १ .... .... ४ विषयः मनोनिरूपणम् गुणनिरूपणम् मूर्तगुणाः अमूर्तगुणाः मूर्तामूर्तगुणाः अनेकाश्रितगुणाः एकैकवृत्तिगुणाः .... वैशेषिकगुणाः सामान्यगुणाः द्वीन्द्रियग्राह्यगुणाः एकैकेन्द्रियग्राह्यगुणाः अतीन्द्रिया अकारणगुणोत्पन्ना गुणाः अपाकजगुणाः कारणगुणोद्भवगुणाः कर्मजगुणाः असमवायिकारणगुणाः निमित्तकारणगुणाः असमवायिनिमित्तकारणगुणा: .." अव्याप्यत्तिगुणाः रूपनिरूपणम् रसनिरूपणम् गन्धनिरूपणत् स्पर्शनिरूपणम् वैशेषिकमते पाकोत्पत्तिः ६ .... .... .... .... १७ २१ ७५ ४ .... .... १३ १७ ७६ ४ .... ७८ ८ १४ .... .... .... .... .... १० ....

६ विषयः पृष्ठम्. पतिः .... " w ७९ २२ ८२ १४ २२ ८४ १५ ८६ १७ ८७ ९ .... .... .... .... .... .... ८८ १ .... ८९ ४ ३ .... .... ९२ .... .. १६ .... क्षणक्रिया नैयायिकमते पाकोत्पत्तिः संख्यानिरूपणम् अपेक्षाबुद्धिलक्षणम् परिमाणनिरूपणम् पृथक्तनिरूपणम् संयोगनिरूपणम् विभागनिरूपणम् परत्वापरखयोनिरूपणम् बुद्धिनिरूपणन् प्रत्यक्षादौ गुणकथनम् प्रमानिरूपणम् खतःप्रमाणखण्डनम् व्याप्तिग्रहोपायः उपाधिनिरूपणम् उपाधिप्रयोजनम् वैशेषिकमते प्रमाणदर्शनं तन्मतखण्डनं च अनुमानत्रैविध्यं व्याप्तिद्वैविध्यं च व्यतिरेकव्याप्तिनिरूपणम् अर्थापत्तेः प्रमाणान्तरत्वखण्डनम् ... अनुपलम्मस्य प्रमाणान्तरखखण्डनम् चेष्टायाः प्रमाणान्तरवखण्डनम् मुखनिरूपणम् दुःखनिरूपणम् ९३ .... .... .... .... ९६ ५ .... .... .... ९ .... ९८ .... .... १३ १०० ९ .... .... २१ २३ .... १०१ ३

विषयः
पृष्टम्. पतिः
....
११
१०२ १०
....
....
....
"
१०८
३
....
....
च्छानिरूपणम्
षनिरूपणम्
प्रयत्ननिरूपणम्
गुरुखनिरूपणम्
इवत्वनिरूपणम्
स्नेहनिरूपणम्
संस्कारनिरूपणम्
अदृष्ट ( धर्माधर्म ) निरूपणम् ....
शब्दनिरूपणम्
१०
....
w
१५
९
....
....

No text on this page.

श्रीगणेशाय नमः। कारिकावली। व्रतनजलधररुचये गोपवधूटीदुकूलचौराय । तस्मै कृष्णाय नमः संसारमहीरुहस्य बीजाय ॥१॥ सिद्धान्तमुक्तावली। चूडामणीकृतविधुर्वलयीकृतवासुकिः । भवो भवतु भव्याय लीलाताण्डवपण्डितः॥१॥ निज निर्मितकारिकावलीमतिसंक्षिप्तचिरंतनोक्तिभिः । विशदीकरवाणि कौतुकाननु राजीवदयावशंवदः ॥२॥ सद्रव्या गुणगुम्फिता मुकृतिनां सत्कर्मणां ज्ञापिका सत्सामान्यविशेषनित्यमिलिताभावप्रकर्षोज्ज्वला । विष्णोर्वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्तावली विन्यस्ता मनसो मुदं वितनुतां सयुक्तिरेपा चिरम् ॥३॥ विघ्नविधाताय कृतं मङ्गलं शिष्यशिक्षायै निबध्नाति नूत- नेत्यादि । ननु मङ्गलं न विघ्नध्वंसं प्रति न वा समाप्ति प्रति कारणं विनापि मङ्गलं नास्तिकादीनां ग्रन्थे निर्विघ्नपरिसमा- निदर्शनादिति चेन्न । अविगीतशिष्टाचारविषयलेन मङ्गलस्य सफलखे सिद्धे तत्र च फलजिज्ञासायां संभवति दृष्टफलकले अदृष्टफलकल्पनाया अन्याय्यखात् उपस्थिखाच समाप्तिरेव फलं हल्प्यते । इत्थं च यत्र मङ्गलं न दृश्यते तत्रापि जन्मान्तरीयं तत्कल्प्यते, यत्र च सत्यपि मङ्गले समाप्तिर्न दृश्यते तत्र बलव-

२
कारिकावली।
त्तरो विघ्नो विघ्नमाचुर्य वा बोध्यं, प्रचुरस्यास्यैव बलवत्तरवि-
ननिराकरणकारणलं, विघ्नध्वंसस्तु मङ्गलस्य द्वारमित्याहुः
पाश्चः॥ नव्यास्तु मङ्गलस्य विघ्नध्वंस एव फलं समाप्तिस्तु बु-
द्धिप्रतिभादिकारणकलापात् । न च स्वतःसिद्धविघ्नविरहवता
कृतस्य मङ्गलस्य निष्फलत्वापत्तिरिति वाच्यम् । इष्टापत्तेः, वि-
नशङ्कया तदाचरणात् । तथैव शिष्टाचारात् । न च तस्य नि-
ष्फलत्वे तद्बोधकवेदापामाण्यापत्तिरिति वाच्यं, सति विघ्ने त-
नाशस्यैव वेदबोधितखात् । अत एव पापभ्रमेण कृतस्य प्राय-
श्चित्तस्य निष्फलत्वेऽपि न तद्बोधकवेदापामाण्यम् । मङ्गलं तु
विघ्नध्वंसविशेषे कारणं विघ्नध्वंसविशेषे च विनायकस्तवपा-
ठादि । कचिच्च विघ्नात्यन्ताभाव एव समाप्तिसाधनं प्रतिबन्ध-
कसंसर्गाभावस्यैव कार्यजनकत्वात् । इत्थं च नास्तिकादीनां
ग्रन्थेषु जन्मान्तरीयमङ्गलजन्यदुरितध्वंसः, स्वतः सिद्धविनात्य-
न्ताभावो वास्तीति न व्यभिचार इत्याहुः ॥ संसारेति ।
संसार एव महीरहो वृक्षस्तस्य बीजायाएतेन ईश्वरे प्रमाणमपि
दर्शितं भवति । तथाहि । यथा घटादिकार्य कर्तृजन्यं तथाक्षि-
त्यङ्कुरादिकमपि । न च तत्कर्तृत्वमस्मदादीनां संभवतीत्यतस्त-
कर्तृत्वेनेश्वरसिद्धिः।न च शरीराजन्यत्वेन कत्रजन्यत्वसाधकेन
सत्पतिपक्ष इति वाच्यम् , अप्रयोजकत्वात् । मम तु कर्तृलेन
कार्यत्वेन कार्यकारणभाव एव अनुकूलतर्कः। द्यावाभूमी ज.
नयन्देव एकः" "विश्वस्य कर्ता भुवनस्य गोप्ता" इत्यादय
आगमा अप्यनुसंधेयाः॥१॥
पदार्थान्विभजते । द्रव्यं गुण इति ।
द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषेकम् ।
समायस्तथाभावः पदार्थाः सप्त कीर्तिताः ॥२॥

सिद्धान्तमुक्तावलीसहिता। अत्र सप्तमस्याभावत्वकथनादेव षण्णां भावखं प्राप्तं तेन भावत्वेन पृथगुपन्यासो न कृतः । एते च पदार्था वैशेषिके प्र- सिद्धा नैयायिकानामप्यविरुद्राः। प्रतिपादितं चैवमेव भाष्ये। अत एवोपमानचिन्तामणौ सप्तपदार्थभिन्नतया शक्तिसादृश्या- दीनामतिरिक्तपदार्थत्वमाशङ्कितम् । ननु कथमेत एव पदार्थाः शक्तिसादृश्यादीनामप्यतिरिक्तपदार्थत्वात्। तथाहि। मण्यादि- समवहितेन वहिना दाहो न जन्यते तच्छ्न्येन तु जन्यते। तत्र मण्यादिना वह्नौ दाहानुकूला शक्तिर्नाश्यते उत्तेजकेन मण्या- धपसारणेन च जन्यत इति कल्प्यते । एवं सादृश्यमप्यति- रिक्तः पदार्थः । तद्धि न षट्सु भावेष्वन्तर्भवति सामान्येऽपि सत्त्वात् । यथा गोत्वं नित्यं तथाश्वत्वमपीति सादृश्यप्रतीतेः। नाप्यभावे सत्त्वेन प्रतीयमानखादिति चेन्न, मण्याद्यभाववि- शिष्टवद्यादेर्दाहादिकं प्रति स्वातन्त्र्येण मण्यभावादेरेव वा हेतुलं कल्प्यते । अनेनैव सामञ्जस्ये अनन्तशक्तितत्मागभा- वध्वंसकल्पनानौचित्यात् । न चोत्तेजके सति मणिप्रतिबन्धक सद्भावेऽपि कथं दाह इति वाच्यम् । उत्तेजकाभावविशिष्टमण्य- भावस्य हेतुत्वात् । सादृश्यमपि न पदार्थान्तरं किं तु तद्भि- नखे सति तद्गतभूयोधर्मवत्त्वम् । यथा चन्द्रभिन्नत्वे सति च- न्द्रगताडादकत्वादिमत्त्वं मुखे चन्द्रसादृश्यमिति ॥ २॥ द्रव्याणि विभजते । क्षित्यबिति । क्षित्यप्तेजोमरुदयोमकालदिग्देहिँनो मनः । द्रव्याणि क्षितिः पृथिवी, आपो जलानि, तेजो वह्निः, मरुद् वायुः, व्योम आकाशः, कालः समयः, दिगाशा, देही आत्मा, मनः, पतानि नव द्रव्याणीत्यर्थः । ननु द्रव्यत्वजातो किं मानम् ।

६ कारिकावली। देः परत्वं, सत्तापेक्षया व्याप्यत्रात् अल्पदेशत्तित्वाच द्रव्य- त्वस्यापरवं, तथा च धर्मद्वयसमावेशादुभयमविरुद्धम् ॥ विशेष निरूपयति । अन्त्य इति अन्त्यो नित्यद्रव्यवृत्तिविशेषः परिकीर्तितः ॥१०॥ अन्ते अवसाने वर्तत इत्यन्त्यः यदपेक्षया विशेषो नास्ती- त्यर्थः । घटादीनां व्यणुकपर्यन्तानां तत्तदवयवभेदात्परस्परं भेदः परमाणूनां परस्परभेदको विशेष एव । स तु खत एव व्यावृत्तः तेन तत्र विशेषान्तरापेक्षा नास्तीति भावः॥९॥१०॥ समवायं दर्शयति । घटादीनामिति । घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः । तेषु जातेश्च संबन्धः समवायः प्रकीर्तितः॥११॥ अवयवावयविनोर्जातिव्यक्त्योर्गुणगुणिनोः क्रियाक्रियाव- तोनित्यद्रव्यविशेषयोश्च यः संबन्धः स समवायः । समवायवं नित्यसंबन्धत्वम् । तत्र प्रमाणंतु गुणक्रियादिविशिष्टबुद्धिर्विशे- षणविशेष्यसंबन्धविषया विशिष्टबुद्धित्वात् दण्डी पुरुष इति वि- शिष्टबुद्धिवत् इत्यनुमानम् । एतेन संयोगादिवाधात्समवायसि- द्धिः। न च स्वरूपसंबन्धेन सिद्धसाधनम् अर्थान्तरं वा अनन्त- खरूपाणां संबन्धत्वकल्पने गौरवाल्लाघवादेकसमवायसिद्धिः । न च समवायस्यैकले वायौ रूपवत्ताबुद्धिप्रसङ्गः, तत्र रूपसम- वायसत्त्वेऽपि रूपाभावात् । न चैवमभावस्य वैशिष्टयं संबन्धा- न्तरं सिध्येदिति वाच्यम्, तस्य नित्यत्वे भूतले घटानयनान- न्तरमपि घटाभावबुद्धिप्रसङ्गात् । घटाभावसंबन्धस्य तत्र स. चात् । तस्य नित्यत्वात् । अन्यथा देशान्तरेऽपि तत्मतीतिर्न स्यात् वैशिष्टयस्य च तत्र सत्त्वात् । मम तु घटे पाकरक्तताद- ७ सिद्धान्तमुक्तावलीसहिता। शायां श्यामरूपस्य नष्टखान्न तद्वत्ताबुद्धिः। वैशिष्ट्यस्यानित्यले बनन्तवैशिष्टयकल्पने तवैव गौरवम् । इत्थं च तत्तत्कालीनत- त्तद्भूतलादिकं तत्तदभावानां संबन्धः ॥ ११ ॥ अभावं विभजते । अभावस्विति । अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः । प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च ॥१२॥ एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते । अभावत्वं द्रव्यादिषट्कान्योऽन्याभाववत्त्वम् । संसर्गाभा- वान्योन्याभावभेदादित्यर्थः । अन्योन्याभावस्यैकविधखात्त- द्विभागाभावात्संसर्गाभावं विभजते । प्रागभाव इति । संसर्गाभावलम्, अन्योन्याभावभिन्नाभावलम्। अन्योन्याभा- वत्वं तादात्म्यसंवन्धावच्छिन्नप्रतियोगिताकामावलम् । विना- श्यभावत्वं प्रागभावत्वम् । जन्याभावत्वं वंसत्वम्। नित्यसंसर्गा- भावसम् अत्यन्ताभावखम् । यत्र तु भूतलादौ घटादिकमपसा- रितं पुनरानीतं च तत्र घटकालस्य संबन्धाघटकतया अत्यन्ता- भावस्य नित्यत्वेऽपि घटकाले न घटात्यन्ताभावबुद्धिः। तत्र उ- त्पादविनाशशाली चतुर्थोऽयमभाव इति केचित् । अत्र ध्वंसपा- गभाषयोरधिकरणे नात्यन्ताभाव इति प्राचीनमतं, श्यामघटे र- क्तो नास्तीति रक्तघटे श्यामो नास्तीति धीश्च प्रागभावंध्वंसं चावगाहते न तु तदत्यन्ताभावम् । नव्यास्तु तत्र विरोधेमानाभा- वात् ध्वंसादिकालावच्छेदेनाप्यत्यन्ताभावो वर्तत इति पाहुः । नन्वस्तु अभावानामधिकरणात्मकत्वं लाघवादिति चेन्न, अन- न्ताधिकरणात्मकलकल्पनापेक्षयातिरिक्तकल्पनाया एव ल- यीयस्त्वात् । एवं च आधाराधेयभावोऽप्युपपद्यते । एवं चत- ८ कारिकावली। तच्छब्दगन्धरसाद्यभावानां प्रत्यक्षत्वमुपपद्यते । अन्यथा तत्तद- धिकरणानां तत्तदिन्द्रियाणामग्राह्यत्वादप्रत्यक्षत्वं स्यात् । एतेन ज्ञानविशेषकालविशेषाद्यात्मकत्वमत्यन्ताभावस्येति प्रत्युक्तम- प्रत्यक्षत्वापत्तेः॥ इदानी पदार्थानां साधयं वैधयं च वक्तुं प्रक्रमते । स- सानामिति । सप्तानामपि साधर्म्य ज्ञेयत्वादिकमुच्यते ॥ १३ ।। समानो धर्मो येषां ते सधर्माणः तेषां भावः साधर्म्य स- मानो धर्म इति फलितार्थः । एवं विरुद्धो धर्मो येषां ते विध- र्माणः तेषां भावो वैधयं विरुद्धो धर्म इति फलितार्थः । ज्ञेयवं ज्ञानविषयता सा च सर्वत्रैवास्ति ईश्वरादिज्ञानविषयतायाः केवलान्वयिखात् । एवमभिधेयत्वप्रमेयखादिकं बोध्यम् १२।१३ द्रव्येति । द्रव्यादयः पञ्च भावा अनेके समवायिनः । सत्तावन्तस्त्रयस्त्वाद्या गुणादिनिर्गुणक्रियः ॥१४॥ द्रव्यगुणकर्मसामान्यविशेषाणां साधर्म्यमनेकलं समवायिवं च । यद्यप्यनेकत्वमभावेऽप्यस्ति तथाप्यनेकले सति भावलं. पञ्चानां साधर्म्यम् । तथा चानेकभाववृत्तिपदार्थविभाजको- पाधिमत्त्वमिति फलितार्थः । तेन प्रत्येकं घटादावाकाशादौ च नाव्याप्तिः । समवायिलं च समवायसम्बन्धेन संबन्धित्वं न तु समवायवत्वं सामान्यादावभावात् । सत्तावन्त इति । द्रव्यगुणकर्मणां सत्तावत्त्वमित्यर्थः । गुणादिरिति । यद्यपि गु- पक्रियाशून्यत्वमाधक्षणे घटादावतिव्याप्तं क्रियाशून्यलं च ग- गनादावतिव्याप्तं तथापि गुणवदवृत्तिधर्मवत्त्वं कर्मवदत्तिपदा- विभाजकोपाधिमत्त्वं तदर्थः । न हि घटनादिकं द्रव्यत्वं वा ९ सिद्धान्तमुक्तावलीसहिता। गुणवदवृत्ति कर्मवदवृत्ति वा किन्तु गुणवादिकम् । तथा आ- काशत्वादिकं तु न पदार्थविभाजकोपाधिः ॥ १४ ॥ सामान्येति । सामान्यपरिहीनास्तु सर्वे जात्यादयो मताः। पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ।।१५॥ सामान्यानधिकरणत्वं सामान्यादीनामित्यर्थः । पारिमा- पडल्येति। पारिमाण्डल्यमणुपरिमाणं कारणलं तद्भिन्नानामि- त्यर्थः । अणुपरिमाणं तु न कस्यापि कारणम् । तद्धि स्वाश्रयार- ब्धद्रव्यपरिमाणारम्भकं भवेत् तच्च न संभवति परिमाणस्य खसमानजातीयोत्कृष्टपरिमाणजनकत्वनियमान्महदारब्धस्य महत्तरत्ववदणुजन्यस्याणुतरत्वप्रसङ्गात् । एवं परममहत्परिमा- णमतीन्द्रियसामान्यं विशेषाश्च बोध्याः । इदमपि योगिप्रत्यक्ष विषयस्य न कारणवम् । ज्ञायमानसामान्यं न प्रत्यासत्तिः । ज्ञायमानं लिङ्गं नानुमितिकारणमित्यभिप्रायेणोक्तम् । आत्म- मानसप्रत्यक्षे आत्ममहत्त्वस्य कारणत्वात्परमहत्परिमाणमाका- शादेवोध्यम् । तस्यापि न कारणत्वमित्याचार्याणामाशय इ- त्यन्ये, तन ज्ञानातिरिक्तं प्रत्येव कारणताया आचार्यैरु- क्तखात् ॥ १५॥ ननु कारणत्वं किम्, अत आह । अन्यथेति । अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता ।। कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ॥ १६ ।। समवायिकारणत्वं ज्ञेयमथाप्यसमवायिहेतुत्वम् । एवं न्यायनयज्ञैस्तृतीयमुक्तं निमित्तहेतुत्वम् १७ तस्य कारणवस्य ॥ १६॥ १७॥ - १२ कारिकावली। मात्रस्य घटंप्रति जनकत्वात् ॥ पञ्चममन्यथासिद्धमाह। अति- रिक्तमिति। अवश्यक्लप्तनियतपूर्ववर्तिन एव कार्यसंभवे त- द्भिनमन्यथासिद्धमित्यर्थः । अत एव प्रत्यक्षे महत्त्वं कारणम् अनेकद्रव्यवत्त्वमन्यथासिद्धम् । तत्र हि महत्त्वमवश्यं क्लुप्तं तेना- नेकद्रव्यवत्त्वमन्यथासिद्धम्। न च वैपरीत्ये किं विनिगमकमिति वाच्यं महत्त्वत्वजातेः कारणतावच्छेदकत्वे लाघवात् १९।२० एते पञ्चान्यथासिद्धा दण्डत्वादिकमादिमम् । घटादौ दण्डरूपादि द्वितीयमपि दर्शितम् ॥२१॥ तृतीयं तु भवेदयोम कुलालजनकोऽपरः। पञ्चमो रासभादिः स्यादेतेष्वावश्यकस्त्वसौ ॥२२॥ रासभादिरिति । यद्यपि यत्किंचिद्धटव्यक्ति प्रति रास भस्य नियतपूर्ववर्तितमस्ति तथापि घटजातीयं प्रति सिद्धकार- णभावैर्दण्डादिभिरेव तद्वयक्तेरपि संभवे रासभोऽन्यथासिद्ध इति भावः। एतेष्विति । एतेषु पञ्चस्वन्यथासिद्धेषु मध्ये पञ्च- मोऽन्यथासिद्ध आवश्यकः, तेनैव परेपां चरितार्थत्वात् । तथा हि । दण्डादिभिरवश्यक्लृप्तनियतपूर्ववर्तिभिरेव कार्यसंभवे दण्डत्वादिकमन्यथासिद्धम् । न च वैपरीत्ये किं विनिगमक- मिति वाच्यं दण्डलस्य कारणत्वे दण्डघटितपरम्परायाः संब- न्धकत्वकल्पने गौरवात् । एवमन्येषामप्यनेनैव चरितार्थत्वं संभवति ॥ २१॥ २२॥ समवायिकारणत्वं द्रव्यस्यैवेति विज्ञेयम् । गुणकर्ममात्रवृत्ति ज्ञेयमथाप्यसमवायिहेतुत्वम्॥२३॥ गुणकर्मेति । असमवायिकारणलं गुणकर्मभिन्नानां वैधयं न तु गुणकर्मणोः साधर्म्यमित्यत्र तात्पर्यम् । अथवाअसमवा-

सिद्धान्तमुक्तावलीसहिता ।
यिकारणवृत्तिसत्ताभिन्नजातिमत्त्वं तदर्थः । तेन ज्ञानादीनाम-
समवायिकारणत्वविरहेऽपि न क्षतिः ॥ २३ ॥
अन्यत्रेति।
अन्यत्र नित्यद्रव्येभ्य आश्रितत्वमिहोच्यते ।
नित्यद्रव्याणि परमाण्वाकाशादीनि विहायाश्रितलं साध-
hमित्यर्थः । आश्रितत्वं तु समवायादिसंबन्धेन वृत्तिमत्त्वं
विशेषणतया नित्यानामपि कालादौ वृत्तेः ।।
इदानीं द्रव्यस्यैव विशिष्य साधर्म्य वक्तुमारभते । क्षि.
त्यादीनामिति ॥
क्षित्यादीनां नवानां तु द्रव्यत्वगुणयोगिता ॥२४॥
क्षितिजेलमिति।
क्षितिर्जलं तथा तेजः पवनो मन एव च।
परापरत्वमूर्तत्वक्रियावेगाश्रया अमी ॥ २५ ॥
पृथिव्यप्तेजोवायुमनसां परत्वापरत्ववत्वं मूर्तत्वं क्रियावत्वं
वेगवत्त्वं च साधर्म्यम् । न च यत्र घटादौ परत्वमपरत्वं वा
नोत्पन्नं तत्राव्याप्तिरिति वाच्यं, परत्वादिसमानाधिकरण-
द्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । मूर्तत्वमपकृष्टप-
रिमाणवत्त्वम्, तच्च तेषामेव गगनादिपरिमाणस्य कुतोऽप्य-
पकृष्टत्वाभावात् । पूर्ववत् कर्मवत्त्वम् कर्मसमानाधिकरणद्रव्यत्र-
व्याप्यजातिमत्त्वं वेगवत्त्वं वेगववृत्तिद्रव्यात्वव्यप्यजातिमत्त्वं च
बोध्यम् ॥ २५ ॥
कालेति ।
कालखात्मदिशां सर्वगतत्वं परमं महत् ।
क्षित्यादिपञ्चभूतानि चत्वारि स्पर्शवन्ति हि ॥२६॥

कारिकावली । कालाकाशात्मदिशां सर्वगतत्वं सर्वमूर्तसंयोगित्वं परममा- क्वं च परममहत्त्वलं जातिविशेषः, अपकर्षानाश्रयपरिमाण- वत्त्वं वा । क्षित्यादीति । पृथिव्यप्तेजोवाय्वाकाशानां भूत- खम् । तच्च बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम् । अत्र ग्राह्यत्वं लौ- किकप्रत्यक्षस्वरूपयोग्यत्वं बोध्यम् । तेन ज्ञातो घट इत्यादिन- त्यक्ष ज्ञानस्याप्युपनीतभानविपयत्वात्तद्वति आत्मनि नातिव्या- तिः। न वा प्रत्यक्षाविषयरूपादिमति परमाण्वादावव्याप्तिः। तस्यापि स्वरूपयोग्यत्वान्महत्त्वलक्षणकारणान्तरासन्निधानाच न प्रत्यक्षम् । अथ वा आत्मवृत्तिविशेपगुवणत्त्वम् । चत्वा- रीति । पृथिव्यप्तेजोवायूनां स्पर्शवत्त्वम् ॥ २६ ॥ द्रव्यारम्भ इति । द्रव्यारम्भश्चतुर्षु स्यादथाकाशशरीरिणाम् । अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते ॥२७॥ पृथिव्यप्तेजोवायुषु चतुर्पु द्रव्यारम्भकत्वम् । न च द्रव्याना- रम्भके घटादावव्याप्तिः, द्रव्यसमवायिकारणवृत्तिद्रव्यत्वव्या- प्यजातिमत्त्वस्य विवक्षिततात् ।आकाशशरीरिणामिति। आकाशात्मनामव्याप्यवृत्तिक्षणिकविशेषगुणत्वं साधर्म्यमि- त्यर्थः। आकाशस्य विशेषगुणः शब्दः स चाव्याप्यवृत्तिः । यदा किश्चिदवच्छेदेन शब्द उत्पद्यते तदान्यावच्छेदेन तद- भावस्यापि सत्त्वात् । क्षणिकत्वं च तृतीयक्षणवृत्तिध्वंसप्रतियो- गित्वम् । योग्यविभुविशेषगुणानां खोत्तरवर्तिगुणनाश्यत्वात्म- यमशब्दस्य द्वितीयशब्देन नाशः। एवं ज्ञानादीनामपि ।ज्ञाना- दिकं यदात्मनि विभौ शरीराद्यवच्छेदेनोत्पद्यते तदा घटाधव- च्छेदेन तदभावोऽस्त्येवा एवं ज्ञानादिकमपि क्षणद्वयावस्थायि । इत्यं चाव्याप्यवृत्तिविशेषगुणवत्त्व क्षणिकविशेषगुणवत्त्वंचार्यः।

सिद्धान्तमुक्तावलीसहिता । पृथिव्यादौ रूपादिविशेषगुणोऽस्तीत्यतोऽव्याप्यवृत्तीत्युक्तम्। पृथिव्यादावव्याप्यवृत्तिः संयोगादिरस्तीत्यतो विशेषगुणेत्यु- क्तम् । न च रूपादीनामपि कदाचित्तृतीयक्षणे नाशसंभवात्क्ष- णिकविशेषगुणवत्वं तित्यादावतिव्याप्तमिति वाच्यं, चतुःक्षण- त्तिजन्यावृत्तिजातिमद्विशेषगुणवत्त्वस्य तदर्थखात् ।अपेक्षाबुद्धिः क्षणत्रयं तिष्ठति क्षणचतुष्टयंतुन किमपिजन्यज्ञानादिकं तिष्ठति। रूपत्वादिकं तु क्षणचतुष्टयस्थायिन्यपि रूपादौ वर्तत इति तद्वयु. दासः ईश्वरज्ञानस्य चतुःक्षणवृत्तित्वाज्ज्ञानखस्य तदृत्तित्वाज- न्येत्युक्तम् । यदाकाशजीवात्मनोः साधर्म्य तदा जन्येति न देयं द्वेषत्वादिकमादाय लक्षणसमन्वयात् परममहत्त्वस्य ताह- शगुणत्वाच । चतुर्थक्षणे द्वित्वादीनामपि नाशाभ्युपगमाद्वित्वा- दीनामपि तथात्वात्तद्वारणाय विशेषेति । त्रिक्षणत्तित्वं वा वाच्यम् । द्वेषलादिकमादायात्मनि लक्षणसमन्वयः ॥ २७ ।। रूपति। रूपद्रवत्वप्रत्यक्षयोगिनः प्रथमास्त्रयः। गुरुणी हे रसवती द्वयोनैमित्तिको द्रवः ॥ २८॥ पृथिव्यप्तेजसा रूपवत्त्वं द्रवत्ववत्त्वं प्रत्यक्षविषयत्वं चेत्यर्थः। न च चक्षुरादीनां भर्जनकपालस्थवरूष्मणश्च रूपत्वे किं मानमिति वाच्यं, तत्रापि तेजस्त्वेन रूपानुमानात् । एवं वा- स्वानीतपृथिवीजलतेजोभागानामपि पृथिवीत्वादिना रूपानु- मानं बोध्यम्। न च घटादौ द्रुतमुवर्णादिभिन्ने तेजसि च द्रवत्व- त्वमव्याप्तमिति वाच्यं, द्रवखवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्व- स्य विवक्षितत्वात् । घृतजतुप्रभृतिषु पृथिवीषु, जलेषु, द्रुतसुव- र्णादौ तेजसि च द्रवत्वसत्त्वात्तत्र च पृथिवीलादिसत्त्वात्तदा- दाय सर्वत्र लक्षणसमन्वयः। न च प्रत्यक्षविषयत्वं परमाण्वा-

१६
कारिकावली।
दावव्याप्तमतिव्याप्तं च रूपादाविति वाच्यं, चाक्षुषप्रत्यक्षविष-
यत्तिद्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । आत्मन्यति-
व्याप्तिवारणाय चाक्षुषेति । गुरुणी इति । गुरुत्ववत्त्वं रस-
वत्त्वं पृथिवीजलयोरित्यर्थः । न च घ्राणेन्द्रियादीनां वाय्वा-
नीतपार्थिवादिभागानां च रसादिमत्वे किं मानमिति वाच्यं,
तत्रापि पृथिवीत्वादिना तदनुमानात् । द्वयोरिति । पृथिवीते-
जसोरित्यर्थः । न च नैमित्तिकद्रववत्त्वं घटादौ वह्नयादौ चा-
व्याप्तमिति वाच्यं, नैमित्तिकद्रवलसमानाधिकरणद्रव्यत्वव्या.
प्यजातिमत्त्वस्य विवक्षितत्वात् ॥ २८॥
आत्मान इति ।
आत्मानो भूतवर्गाश्च विशेषगुणयोगिनः ।
पृथिव्यप्तेजोवाय्वाकाशात्मनां विशेषगुणवत्त्वमित्यर्थः ।
यदुक्तमिति ।
यदुक्तं यस्य साधयं वैधर्म्यमितरस्य तत् ॥२९॥
ज्ञेयत्वादिकं विहायेति बोध्यम् । तत्तु न कस्यापि वैधयं
केवलान्वयित्वात् ॥ २९ ॥
स्पर्शादयोऽष्टी वेगाख्यः संस्कारो मरुतो गुणाः ।
स्पर्शाद्यष्टौ रूपवेगौ द्रवत्वं तेजसो गुणाः ॥३०॥
स्पर्शादयोऽष्टौ वेगव गुरुत्वं च द्रवत्वकम् ।
रूपं रसस्तथा स्नेहो वारिण्येते चतुर्दश ॥ ३१ ॥
स्नेहहीना गन्धयुताः क्षितावेते चतुर्दश ।
बुद्धयादिषदं संख्यादिपञ्चकं भावना तथा ॥३२॥

सिद्धान्तमुक्तावलीसहिता । धर्माधर्मों गुणा एते आत्मनः स्युश्चतुर्दश । संख्यादिपञ्चकं कालदिशोः शब्दश्च तेच खे ।३३। संख्यादयः पञ्च बुद्धिरिच्छा यत्नोऽपि चेश्वरे । परापरत्वे संख्याद्याः पञ्च वेगश्च मानसे ॥३४॥ ते च खे आकाशे ॥३०॥३१॥ ३२॥ ३३ ॥३४॥ साधर्म्यवैधयें निरूप्य संप्रति प्रत्येकं पृथिव्यादिकं निरू- पयति तत्र क्षितिरित्यादिना । तत्र क्षितिर्गन्धहेतुर्नानारूपवती मता। षदिधस्तु रसस्तत्र गन्धस्तु द्विविधो मतः ॥३५॥ गन्धहेतुरिति गन्धसमवायिकारणमित्यर्थः । यद्यपि ग- न्धवत्वमा लक्षणमुचितं, तथापि पृथिवीलजातौ प्रमाणोप- न्यासाय कारणत्वमुपन्यस्तम् । तथाहि । पृथिवीलं हि गन्ध- समवायिकारणतावच्छेदकतया सिद्ध्यति, अन्यथा गन्धत्वाव- च्छिन्नस्याकस्मिकत्वापत्तेः। न च पाषाणादौ गन्धाभावाद्गन्ध- बत्त्वमव्याप्तमिति वाच्यं, तत्रापि गन्धसत्त्वात् अनुपलब्धि- स्त्वनुत्कटत्वेनाप्युपद्यते । कथमन्यथा तद्भस्मनि गन्ध उपल- भ्यते भस्मनो हि पाषाणध्वंसजन्यत्वात्पाषाणोपादानोपादेय- त्वं सिद्ध्यति यद्रव्यं यद्रव्यध्वंसजन्यं तत्तदुपादानोपादेयमिति व्याप्ते दृष्टं चैतत्खण्डपटे महापटध्वंसजन्ये । इत्थं च पाषाण- परमाणोः पृथिवीत्वात्तजन्यस्य पाषाणस्यापिपृथिवीत्वं तथा च तस्यापि गन्धवत्वे बाधकाभावः।नानारूपेति। शुक्लनी. कादिभेदेन नानाजातीयं रूपं पृथिव्यामेव वर्तते न तु ज- कादौ, वत्र शुक्लस्यैव सत्त्वात् ।पृथिव्यां तु एकस्मिन्नपि धर्मिणि पाकवशेन नानारूपसंभवात् । न च यत्र नानारूपं नोत्पन्न .

कारिकावली । तत्राव्याप्तिरिति वाच्यं, रूपवयवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्व- स्य विवक्षितत्वात् रूपनाशवदृत्तिद्रव्यत्वव्याप्यजातिमत्त्वस्य वा वाच्यत्वात् ।वैशेषिकनये पृथिवीपरमाणौ रूपनाशस्य रूपान्त- रस्य च सत्त्वाच्यायनये घटादावपि तत्सत्त्वाल्लक्षणसमन्वयः। षविध इति । मधुरादिभेदेन यः षविधो रसः स पृथि- व्यामेव । जले मधुर एव रसः। अत्रापि पूर्ववद्रसद्वयवदृत्तिद्र- व्यत्वव्याप्यजातिमत्त्वं लक्षणार्थोऽवसेयः । गन्धस्त्विति। विविध इतिावस्तुस्थितिमात्रं न तु द्विविधगन्धवत्वं लक्षणं द्वि- विधवस्य व्यर्थत्वात्।वैविध्यं च सौरभासौरभभेदेन बोध्यम् ३५ स्पर्श इति । स्पर्शस्तस्यास्तु विज्ञेयो ह्यनुष्णाशीतपाकजः। तस्याः पृथिव्याः । अनुष्णाशीतस्पर्शवत्वं वायोरपि वर्तत इत्युक्तं पाकज इति । इत्थं च पृथिव्याः स्पर्शोऽनुणाशीत इति ज्ञापनार्थं तदुक्तम् । वस्तुतस्तु पाकजस्पर्शवत्वमात्रं लक्ष- णम् , अधिकस्य वैयर्थ्यात् । यद्यपि पाकजस्पर्शः पटादौ नास्ति तथापि पाकजस्पर्शवदृत्तिद्रव्यत्वव्याप्यजातिमत्त्वमर्थो बोध्यः! नित्येति । नित्यानित्या च सा देधा नित्या स्यादणुलक्षणा३६ अनित्या तु तदन्या स्यात्सैवावयवयोगिनी। सा च त्रिधा भवेद्देहमिन्द्रियं विषयस्तथा ॥३७॥ सा पृथिवी द्विविधा नित्या अनित्या चेत्यर्थः। अणुल- क्षणा परमाणुरूपा पृथिवी नित्या । तदन्या परमाणुभिना पृ. थिवी व्यणुकादिरूपा सर्वाऽप्यनित्येत्यर्थः। सैवअनित्या पृथि- थिव्येवावयववतीत्यर्थः । ननु अवयविनि किं मानं परमाणु सिद्धान्तमुक्तावलीसहिता । १९ जैरेवोपपत्तेः । न च परमाणनामतीन्द्रियखाद्धटादेः प्रत्यक्षं न स्यादिति वाच्यम् , एकस्य परमाणोरमत्यक्षवेऽपि तत्समूहस्य प्रत्यक्षवात्। यथैकस्य केशस्य दूरेऽप्रत्यक्षत्वेऽपि तत्समूहस्य प्र- त्यक्षत्रम् । न चैको घटः स्थूल इति बुद्धेरनुपपत्तिरिति वाच्यम्, एकोमहान्धान्यराशिरितिवदुपपत्तेः। मैवं परमाणोरतीन्द्रियत्वेन तत्ममूहस्यापि प्रत्यक्षायोग्यत्वात्।दूरस्थकेशस्तु नातीन्द्रियः स- निधाने तस्यैव प्रत्यक्षवात्।न चतदानींदृश्यपरमाणुपुञ्जस्योत्प- अखान प्रत्यक्षत्वेऽपि विरोध इति वाच्यम् , अदृश्यस्य दृश्यानु- पादानत्वात्।अन्यथा चक्षुरूष्मादिसंततेः कदाचिदृश्यत्वप्रसङ्गा- तानचातितप्ततैलादौ कथमदृश्यदहनसंततेदृश्यदहनोत्पत्तिरिति वाच्यं,तत्र तदन्तःपातिभिदृश्यदहनावयवैः स्थूलदहनोत्पत्तेरुप- गमात् । न चादृश्येन व्यणुकेन कथं दृश्यत्रसरेणोरुत्पत्तिरिति वाच्यं, यतो न दृश्यत्वमदृश्यत्वं वा कस्यचित्स्वभावादाचक्ष्महे किंतु महत्त्वोद्भूतरूपादिकारणसमुदायवतोदृश्यत्वं तदभावे चा- दृश्यत्वम् । तथा च त्रसरेणोर्महत्त्वात्प्रत्यक्षत्वं न तु व्यणुकादेस्त- दभावात्।न हि त्वन्मतेऽपि संभवतीदं परमाणो महत्त्वाभावात्। इत्थं चावयवसिद्धौ तेषामुत्पादविनाशयोःप्रत्यक्षसिद्धखादनि- 'त्यत्वम् । तेषां चावयवावयवधाराया अनन्तत्वे मेरुसर्पपयोरपि साम्यप्रसङ्गात् । अतः कचिद्विश्रामो वाच्यः। यत्र तु विश्रा- मस्तस्यानित्यत्वेऽसमवेतकार्योत्पत्तिप्रसङ्गात्तस्य नित्यत्वम् । महत्परिमाणतारतम्यस्य गगनादौ विश्रान्तत्वमिवाणुपरिमा- णतारतम्यस्यापि कचिद्विश्रान्तत्वमस्तीति तस्य परमाणुत्वसि- दिन च त्रसरेणावेव विश्रामोऽस्त्विति वाच्यं, सरेणुः सा- वयकाचाक्षुषद्रव्यत्वात् घटवदित्यनुमानेन तदवयवसिद्धौ त्रस- . रेणोरवयवाः सावयवाः महदारम्भकत्वात् , कपालवदित्यनु- मानेन तदवयवसिद्धेः । न चेदमप्रयोजकम्, अपकृष्टमहत्त्वं प्र- कारिकावली । त्यनेकद्रव्यवस्य प्रयोजकलात् । न चैवं क्रमेण तदवयवधा- रापि सिद्धयेदिति वाच्यम् , अनवस्थाभयेन तदसिद्धेरिति । सा चेति । सा कार्यरूपा पृथिवी विधेयर्थः । शरीरेन्द्रिय- विषयभेदादित्यर्थः ॥ ३६॥ ॥ ३७॥ तत्र देहमुदाहरति । योनिजादिरिति । योनिजादिर्भवेद्देह इन्द्रियं प्राणलक्षणम् । विषयो दयणुकादिश्च ब्रह्माण्डान्त उदाहृतः॥३८॥ योनिजमयोनिजं चेत्यर्थः । योनिजमपि द्विविधं, जरायु- जमण्डजं च । जरायुजं मानुषादीनाम् । अण्डजं सर्पादीनाम् । अयोनिजं स्वेदजोद्भिजादिकम् । स्वेदजाः कृमिदंशाद्याः। उ- द्भिज्जास्तरुगुल्माद्याः। नारकिणां शरीरमप्ययोनिजम् । न च मानुषादिशरीराणां पार्थिवले किं मानमिति वाच्यं, ग- न्यादिमत्त्वस्यैव प्रमाणवात् । न च क्लेदोष्मादेरुपलम्भादा- प्यखादिकमपि स्यादिति वाच्यं, तथा सति जलखपृथिवी- बादिना संकरप्रसङ्गात् । न च तर्हि जलीयबादिकमेवास्तु न तु पार्थिवजमिति वाच्यं, क्लेदादीनां विनाशेऽपि शरीर- त्वेन प्रत्यभिज्ञानाद्गन्धाद्युपलब्धेश्च पृथिवीखसिद्धेः । तेन पा. थिवादिशरीरे जलादीनां निमित्तलमात्रं बोध्यम् । शरीरवं तु न जातिः पृथिवीखादिना सांकर्यात् किन्तु चेष्टाश्रयतम् । वृक्षादीनामपि चेष्टासत्त्वानाव्याप्तिः। न च वृक्षादेःशरीरले किं मानमिति वाच्यम् , आध्यात्मिकवायुसंबन्धस्य प्रमाणखाद।त- त्रैव किं मानमिति चेद्भग्नक्षतसंरोहणादिना तदनुमानातु । यदि हस्तादौ शरीरव्यवहारो न भवति तदान्त्यावयविखेन विशेष- णीयम् । न च यत्र शरीरे चेष्टा न जाता तत्राव्याप्तिरिति वाच्यं, तादृशे प्रमाणाभावात् । अथ वा चेष्टावदन्त्यावयविवृत्तिद्रव्य- २१ . सिद्धान्तमुक्तावलीसहिता । सव्याप्यजातिमत्त्वमन्त्यावयविमात्रवृत्तिचेष्टावदृत्तिजातिमत्त्वं वा तत् । मानुषखचैत्रबादिजातिमादाय लक्षणसमन्वयः । न च नृसिंहशरीरे कथं लक्षणसमन्वयः तत्र नृसिंहवस्यैकव्य- क्तिवृत्तितयाजातिखाभावाजलीयतैजसशरीरवद्वृत्तितया देव- बस्यापि जातिवाभावादिति वाच्यं, कल्पभेदेन नृसिंहशरी- रस्य नानावेन नृसिंहलजात्या लक्षणसमन्वयात् । इन्द्रिय मिति । घ्राणेन्द्रियं पार्थिवमित्यर्थः । पार्थिवलं कथमिति चे- दित्थम् । घ्राणेन्द्रियं पार्थिवं रूपादिषु मध्ये गन्धस्यैव व्यञ्जक- खात् कुङ्कुमगन्धादिव्यञ्जकघृतवत् । न च दृष्टान्ते स्वकीयरूपा- दिव्यञ्जकत्वादसिद्धिरिति वाच्यं, परकीयरूपाचव्यञ्जकलस्य तदर्थखात् । न च नवशरावगन्धव्यञ्जकजलेनानैकान्तिकत्व- मिति वाच्यं, तस्य सक्तुरसाभिव्यञ्जकत्वात् । यद्वा परकीयेति न देयं वायूपनीतसुरभिभागस्य दृष्टान्तवसंभवात् । न च घा- णेन्द्रियसन्निकर्षस्य गन्धमात्रव्यञ्जकत्वात् तत्र व्यभिचार इति वाच्यं, द्रव्यले सति इति विशेषणात् । विषय इति ।उपभोग- साधनं विषयः सर्वमेव हि कार्यजातमदृष्टाधीनम् यत्कार्य यददृष्टाधीनं तत्तदुपभोगं साक्षात्परम्परया वा जनयत्येव । न हि बीजप्रयोजनाभ्यां विना कस्यचिदुत्पत्तिरस्ति । तेन द्वयणु- कादिब्रह्माण्डं सर्वमेव विषयो भवति । शरीरेन्द्रिययोविषयखे- ऽपि प्रकारान्तरोपन्यासः शिष्यबुद्धिवैशद्यार्थः ॥ ३८ ॥ जलं निरूपयति । वर्णः शुक्ल इति वर्णः शुक्लो रसस्पर्शी जले मधुरशीतलौ । स्नेहस्तत्र द्रवत्वं तु सांसिद्धिकमुदाहृतम् ॥३९ ।। स्नेहसमवाधिकारणतावच्छेदकतया जलखजातिः सिद्ध्य- ति । यद्यपि नेहत्वं नित्यानित्यवृत्तितया न कार्यतावच्छेदक i २२ कारिकावली। तथापि जन्यस्नेहत्वं तथा वोध्यम् । अथ परमाणौ जलत्वं न स्यात्तत्र जन्यस्नेहाभावात्तस्य च नित्यस्य स्वरूपयोग्यत्वे फला- वश्यंभावनियमादिति चेन्न, जन्यस्नेहजनकतावच्छेदिकाया ज- न्यजलत्वजातेः सिद्धौ तदवच्छिन्नजनकतावच्छेदकतया जल- त्वजातिसिद्धेः।शुक्लरूपमेव जलस्येति दर्शयितुमुक्तं वर्णः शुक्ल इति । न तु शुक्लरूपवत्त्वं लक्षणम् । अथवा नैमित्तिकद्रवखवट्ट- त्तिरूपवत्तिद्रव्यखसाक्षाद्वयाप्यजातिमत्त्वम् , अभाखरशुक्ले- तररूपासमानाधिकरणरूपवद्वृत्तिद्रव्यखसाक्षाव्याप्यजातिमत्त्वं वा तदर्थःतेन स्फटिकादौ नातिव्याप्तिः॥रसस्पर्शाविति । जलस्य मधुर एव रसः शीत एव स्पर्शः तिक्तरसवदत्तिमधुर- वदृत्तिद्रव्यखसाक्षाव्याप्यजातिमत्त्वम् । तेन शर्करादौ नाति- व्याप्तिः।शीतेतरस्पर्शवदवृत्तिस्पर्शवबृत्तिद्रव्यवसाक्षाद्वयाप्यजा तिमत्त्वं तदर्थः। ननु शुक्लरूपमेवेतिकुतः कालिन्दीजलादौ नीलि- मोपलब्धेरिति चेन्न, नीलजनकतावच्छेदिकाया:पृथिवीबजा- तेरभावाजले नीलरूपासंभवात्।कालिन्दीजले नीलप्रतीतिस्वा- श्रयौपाधिकी । अत एव वियति विक्षेपे धवलिमोपलब्धिः। अथ जले माधुर्ये किं मानम्, न हि प्रत्यक्षेण कोऽपि रसस्तत्रानु- भूयते । न च नारिकेलजलादौ माधुर्यमुपलभ्यत एवेति वाच्यं, तस्याश्रयोपाधिकखात् । अन्यथा जम्बीररसादावम्लायुपल- ब्धेरम्लादिमत्त्वमपि स्यादिति चेन्न, हरीतक्यादिभक्षणस्य ज- लरसव्यञ्जकलात् । न च हरीतक्यामेव जलोष्मसंयोगादसा- न्तरोत्पत्तिरिति वाच्यं,कल्पनागौरवात् । पृथिवीवस्याम्लादि- जनकतावच्छेदकत्वाच्च जले नाम्लादिकम् । जम्बीररसादौ खा. श्रयौपाधिकी तथा प्रतीतिः । एवं जन्यशीतस्पर्शजनकतावच्छे. दकं जन्यजलत्वं तदवच्छिन्नजनकतावच्छेदकं जलत्वं बोध्यम् । घृष्टचन्दनादौ तु शैत्योपलब्धिश्चन्दनान्ततिशीततरसलिलस्ये.

सिद्धान्तमुक्तावलीसहिता ।
व । तेजःसंयोगाजले उष्णप्रतीतिरौपाधिकी स्फुटैव । तत्र
पाकासंभवात् ॥ स्नेहस्तत्रेति । घृतादावपि तदन्तर्वतिजल-
स्यैव स्नेहः जलस्य स्नेहसमवायिकारणखात् । तेन जल एव
स्नेह इति मन्तव्यम् ॥ द्रवत्वमिति । सांसिद्धिकद्रवत्वं जाति-
विशेषः प्रत्यक्षसिद्धः तदवच्छेदकमपि तदेवेति भावः । तैला-
दावपि जलस्य द्रवत्वं स्नेहप्रकर्षेण च दहनानुकूल्यमिति व-
क्ष्यति ॥ ३९॥
नित्यतादि प्रथमवत्किंतु देहमयोनिजम् ।
इन्द्रियं रसनं सिन्धुहिमादिर्विषयो मतः ॥ ४०॥
प्रथमवदिति । पृथिव्या इवेत्यर्थः । तथाहि । जलत्वं द्वि-
विधं नित्यमनित्यं च । परमाणुरूपं नित्यं व्यणुकादिकं सर्वमनि-
त्यमवयवसमवेतं च । अनित्यमपि त्रिविधं शरीरेन्द्रियविषयभे-
दात्॥पृथिवीतो यो विशेषस्तमाह। किंत्विति। देहमयोनिजम्
अयोनिजमेवेत्यर्थः॥ इन्द्रियमिति ।जलीयमित्यर्थः। तथाहि ।
रसनंजलीयं गन्धाद्यव्यञ्जकत्वेसतिरसव्यञ्जकत्वात्।सक्तुरसा-
भिव्यञ्जकोदकवत् । रसनेन्द्रियसंनिकर्षे व्यभिचारवारणाय द्र-
व्यत्वं देयम् । विषयं दर्शयति । सिन्धुहिमादिरिति। सिन्धुः
समुद्रः । हिमं तुषारः । आदिपदात्सरित्कासारकरकादिः
सर्वोऽपि ग्राह्यः। न च हिमकरकयो कठिनत्वात्पार्थिवत्वमिति
वाच्यम् , ऊष्मणा विलीनस्य तस्य जलत्वस्य प्रत्यक्षसिद्धत्वात् ।
यद्रव्यं यद्रव्यध्वंसजन्यमिति व्याप्ते लोपादानोपादेयत्वसि.
द्धेः । अदृष्टविशेषेण वा द्रवत्वप्रतिरोधात् । करकादीनां काठि-
न्यप्रत्ययस्य भ्रान्तत्वात् ॥ ४०॥
तेजो निरूपयति । उष्णः स्पर्श इत्यादिना ।
उष्णः स्पर्शस्तेजसस्तु स्याद्रूपं शुक्लभावरम् ।
नैमित्तिकं द्रवत्वं तु नित्यतादि च पूर्ववत् ॥४१॥

१४ कारिकावली। उष्णत्वं स्पर्शनिष्ठो जातिविशेषः प्रत्यक्षसिद्धः । इत्थं च ज- न्योष्णस्पर्शसमवायिकारणतावच्छेदकं तेजस्त्वं जातिविशेषः। तस्य परमाणुवृत्तित्वं तु जलत्वस्येवानुसंधेयम् । नचोष्णस्पर्श- वत्त्वं चन्द्रकिरणादावव्याप्तमिति वाच्यं तत्राप्युष्णत्वस्य सत्त्वा- । किंतु तदन्तःपातिजलस्पर्शेनाभिभवादग्रहः । एवं रत्नकि- रणादौ पार्थिवस्पर्शेनाभिभवाच्चक्षुरादौ चानुद्भूतत्वादग्रहः ॥ रूपमित्यादि । वैश्वानरे मरकतकिरणादौ च पार्थिवरूपेणा- भिभवाच्छुक्लरूपाग्रहः ॥ ननु तद्रूपाग्रहे धर्मिणोऽपि चाक्षुषत्वं न स्यादिति चेन्न, अन्यदीयरूपेणापि धर्मिणो ग्रहसंभवात् । शसस्येव पित्तपीतिम्ना । वस्तु शुक्लं रूपं नाभिभूतं किंतु तदीयं शुक्लत्वमभिभूतमित्यन्ये ॥ नैमित्तिकमिति । सुवर्णादिरूपे ते- जसि तत्सत्त्वात् । न च नैमित्तिकद्रवत्वं दहनादावव्याप्तं घृता- दावतिव्याप्तं चेति वाच्यं पृथिव्यवृत्तिनैमित्तिकद्रवत्ववदृत्तिद्र- व्यत्वसाक्षाद्वयाप्यजातिमत्त्वस्य विवक्षितत्वात्॥पूर्ववदितिाज- लस्येवेत्यर्थः । तथाहि। तत् द्विविधं नित्यमनित्यं च। नित्यं परमा- गुरूपं तदन्यदनित्यम् अवयवि च । तच त्रिधा शरीरेन्द्रियविषय. भेदात् । शरीरमयोनिजमेव । तच्च सूर्यलोकादौ प्रसिद्धम्॥४१॥ अत्र यो विशेषस्तमाह । इन्द्रियमिति । इन्द्रियं नयनं वह्निस्वर्णादिविषयो मतः । ननु चक्षुषस्तैजसत्वे किं मानमिति चेत्, चक्षुस्तैजसं परकी- यस्पर्शाव्यञ्जकत्वे सति परकीयरूपव्यञ्जकत्वात् प्रदीपवत् । प्र- दीपस्य स्वीयस्पर्शव्यञ्जकत्वादत्र दृष्टान्तेऽव्याप्तिवारणायप्रथम परकीयेति । घटादेः स्वीयरूपव्यञ्जजत्वाद्वयभिचारवारणाय द्वितीयं परकीयेति । अथवा प्रभाया दृष्टान्तत्वसंभवादाचं पर- कीयेति न देयम् । चक्षुःसन्निकर्षे व्यभिचारवारणाय द्रव्यत्वं सिद्धान्तमुक्तावलीसहिता। देयम् ॥ विषयं दर्शयति । वहिरिति। ननु सुवर्णस्य तैजस- त्वे किमानमिति चेन सुवर्ण तैजसम् असति प्रतिबन्धके अत्य- न्तानलसंयोगेऽप्यनुच्छिद्यमानद्रवत्वात् यनैवं तन्नैवम् यथा पृथिवीति। न चाप्रयोजकं पृथिवीद्रवतस्य जन्यजलद्रवखस्यात्य- न्तामिसंयोगनाश्यत्वात् । ननु पीतिमगुरुत्वाश्रयस्य पार्थिव- स्यापि तदानीं द्रुतत्वात्तेन व्यभिचार इति चेन, जलमध्यस्थम- पीक्षोदवत्तस्याद्रुतत्वात् । अपरे तु पीतिमाश्रयस्य अत्यन्तामि- संयोगेऽपि पूर्वरूपापरावृत्तिदर्शनात्तत्मतिबन्धकं विजातीयद्र- वद्रव्यं कल्प्यते । तथाहि । अत्यन्ताग्निसंयोगिपीतिमगुरुत्वाश्रयः विजातीयरूपप्रतिबन्धकद्रवद्रव्यसंयुक्तः अत्यन्तताग्निसंयोगे स- त्यपि पूर्वरूपविजातीयरूपानधिकरणलात् । जळमध्यस्थपीत- पटवत् । तस्य च पृथिवीजलभिन्नस्य तेजस्वनियमात् ॥ वायुं निरूपयति । अपाकज इति । अपाकजोऽनुष्णाशीतः स्पर्शस्तु पवने मतः॥४२॥ तिर्यग्गमनवानेष ज्ञेयः स्पर्शादिलिङ्गकः । पूर्ववन्नित्यतायुक्तं देहव्यापि त्वगिन्द्रियम् ॥४३॥ अनुष्णाशीतस्पर्शस्य पृथिव्यामपि सत्त्वादुक्तमपाकज इति। अपाकजस्पर्शस्य जलादावपि सत्त्वादुक्तमनुणाशीत इति । तेन वायवीयो विजातीय: स्पर्शो दर्शितः। तज्जनकतावच्छेदक वायुत्वमिति भावः । एष वायुः स्पर्शादिलिङ्गकः । वायुर्हि स्पर्शशब्दधृतिकम्पैरनुमीयते विजातीयस्पर्शेन विलक्षणशब्देन तृणादीनां धृत्या शाखादीनां कम्पेन च वायोरनुमानात् । यथा च वायोर्न प्रत्यक्ष तथाग्रे वक्ष्यते ॥ पूर्ववदिति । वायुविविधो नित्योऽनित्यश्च । परमाणुरूपोनित्यस्तदन्योऽनित्योऽवयवसम ३ २६ कारिकावली। वेतश्च । सोऽपि त्रिविधः शरीरेन्द्रियविषयभेदात् । तत्र शरीर- मयोनिजं पिशाचादीनाम् परंतु जलीयतैजसवायवीयशरीराणा पार्थिवभागोपष्टम्भादुपभोगक्षमत्वं जलादीनां प्राधान्याज्जलीय. खादिकमिति। अत्र यो विशेषस्तमाह । देहव्यापीति। शरी रव्यापकं स्पर्शग्राहकमिन्द्रियं त्वक् । तच्च वायवीयं रूपादिषु मध्ये स्पर्शस्यैवाभिव्यञ्जकत्वात् । अङ्गसङ्गसलिलशैत्याभि- व्यञ्जकव्यजनपवनवत् ॥ ४२ ॥ ४३ ।। विषयं दर्शयति प्राणादिरिति । प्राणादिस्तु महावायुपर्यन्तो विषयो मतः । यद्यप्यनित्यो वायुश्चतुर्विधः। तस्य चतुर्थी विधा माणा- दिरित्युक्तमाकरे । तथापि संक्षेपादत्र त्रैविध्यमुक्तम् । प्राण- स्त्वेक एव हृदादिनानास्थानवशान्मुखनिर्गमादिनानाक्रियाव- शाच्च नाना संज्ञा लभत इति ॥ आकाशं निरूपयति । आकाशस्येति । आकाशस्य तु विज्ञेयः शब्दोवैशेषिको गुणः॥४४॥ आकाशकालदिशामेकैकव्यक्तित्वादाकाशत्वादिकं न जा. तिः। किंतु आकाशत्वं शब्दाश्रयत्वम् । वैशेषिक इति कथनं तु विशेषगुणान्तरव्यवच्छेदाया एतेन प्रमाणमपि दर्शितम्। तथाहि। शब्दोविशेषगुणःचक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वात स्पर्शवत् । शब्दो द्रव्यसमवेतो गुणत्वात् संयोगवत्। इत्यनुमानेन शब्दस्य द्रव्यसमवेतत्वे सिद्धे शब्दो न स्पर्शवद्विशेषगुणः अग्नि- संयोगासमवायिकारणकत्वाभावे सत्यकारणगुणपूर्वकमत्यक्ष- त्वात् सुखवत् । पाकजरूपादौ व्यभिचारवारणाय सत्यन्तम् । पटरूपादौ व्यभिचारवारणायाकारणगुणपूर्वकेति । जलपरमा- गुरूपादौ व्यभिचारवारणाय प्रत्यक्षेति । शब्दो न दिकालम- २७ सिद्धान्तमुक्तावलीसहिता। नसां गुणः विशेषगुणत्वात् । नात्मविशेषगुणो बहिरिन्द्रियग्रा- प्रत्वात् रूपवत् । इत्थं च शब्दाधिकरणं नवमं द्रव्यं गगनना- मकं सिध्यति । न च वाय्ववयवेषु सूक्ष्मशब्दक्रमेण वायौ कारणगुणपूर्वकः शब्दः उत्पद्यतामिति वाच्यम्, अयावद्- व्यभावित्वेन वायुविशेषगुणत्वाभावात् ॥ ४४ ॥ तत्र शरीरस्य विषयस्य चाभावादिन्द्रियं दर्शयति । इ. न्द्रियमिति । इन्द्रियं तु भवेच्छ्रोत्रमेकः सन्नप्युपाधितः । नन्वाकाशं लाघवादेकं सिद्धं श्रोत्रं तु पुरुषभेदेन भिन्न कथमाकाशं स्यादिति चेत्तत्राह । एकः सन्नपीत्यादि । आकाश एक एव सन्नपि उपाधेः कर्णशष्कुलीभेदाभिन्न श्रोत्रात्मकं भवतीत्यर्थः॥ कालं निरूपयति । जन्यानामिति । जन्यानां जनकः कालो जगतामाश्रयो मतः४५ तत्र प्रमाणं दर्शयितुमाह जगतामिति । तथाहि । इदानीं घटइत्यादिप्रतीतिः सूर्यपरिस्पन्दादिकं यदा विषयीकरोति तदा सूर्यपरिस्पन्दादिना घटादेः संबन्धो वाच्यः । स च संबन्धः संयोगादिर्न संभवतीति काल एव तत्संबन्धघटक: कल्प्यते । इत्यं च तस्याश्रयत्वमेव सम्यक् ॥ ४५॥ प्रमाणान्तरं दर्शयति । परापरत्वेति । परापरत्वधीहेतुः क्षणादिः स्यादुपादितः। परत्वापरत्वबुद्धेरसाधारणं निमित्तं काल एव । परत्वापर- त्वयोरसमवायिकारणसंयोगाश्रयो लाघवादतिरिक्तः काल: एवं कल्प्यत इति भावः। नन्वेकस्य कालस्य सिद्धौ क्षणदिनमा- २८ कारिकावली। सवर्षादिसमयभेदो न स्यादत आह । क्षणादिरिति । का. लस्त्वेकोऽपि उपाधिभेदात्क्षणादिव्यवहारविषयः । उपाधिस्तु खजन्यविभागभागभावावच्छिन्नं कर्म, पूर्वसंयोगावच्छिन्नवि- भागो वा, पूर्वसंयोगनाशावच्छिन्नोत्तरसंयोगमागभावो वा, उत्तरसंयोगावच्छिन्नं कर्म वा । न चोत्तरसंयोगानन्तरं क्षणव्य- वहारो न स्यादिति वाच्यं, कर्मान्तरस्यापि सत्त्वादिति । महा- प्रलये क्षणादिव्यवहारो यद्यस्ति तदा ध्वंसेनोपपादनीय इति । दिनादिव्यवहारस्तु तत्तत्क्षणकूटैरेवेति ॥ दिशं निरूपयति । दूरान्तिकेति । दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते ॥ ४६॥ द्रत्वमन्तिकत्वं च दैशिकं परत्वमपरत्वं बोध्यम् । तदुद्धे- रसाधारणं बीजं दिगेव । दैशिकपरत्वापरखयोरसमवायिका. रणसंयोगाश्रयतया लाघवादेका दिक् सिध्यतीति भावः॥४६॥ नन्वेकैव दिक् तदा प्राचीप्रतीच्यादिव्यवहारः कथमुपपद्य- लामित्यत आह । उपाधीति । उपाधिभेदादेकापि प्राच्यादिव्यपदेशभाकू । यत्पुरुषस्य उदयगिरिसंनिहिता या दिक् सा तस्य प्राची। एवमुदयगिरिव्यवहिता या दिक् सा प्रतीची । एवं यत्पुरुष- स्य मुमेरुसनिहिता या दिक् सोदीची। तव्यवहिता त्यवाची। "सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थितः" इति नियमात् ॥ आत्मानं निरूपयति । आत्मेन्द्रियेति । आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् ॥१७॥ आत्मबजातिस्तु सुखदुःखादिसमवायिकारणतावच्छेदक- तया सिध्यति । ईश्वरेऽपि सा जातिरस्त्येव । अदृष्टादिरूपका. " २९ सिद्धान्तमुक्तावलीसहिता। रणाभावान सुखदुःखाद्युत्पत्तिः । नित्यस्य स्वरूपयोगस्य फ- लावश्यंभाव इत्यस्यामयोजकलात् । परे बीश्वरे सा जाति - स्त्येव प्रमाणाभावात् । न च दशमद्रव्यखापत्तिः, ज्ञानवत्त्वेन विभजनादित्याहुः । इन्द्रियादीति । इन्द्रियाणां शरीरस्य च परम्परया चैतन्यसम्पादकः । यद्यप्यात्मनि “अहं जाने अहं सुखीत्यादि" प्रत्यक्षविषयसमस्त्येव तथापि विमतिपत्र प्रति प्रथमत एव शरीरादिभिन्नस्तत्मतीतिगोचर इति प्रतिपा- दयितुं न शक्यत इत्यतः प्रमाणान्तरं दर्शयति । करणमिति । कुठारादीनां छिदाकरणानां कर्तारमन्तरेण फलानुपधानं ह. ष्टम् । एवं चक्षुरादीनां ज्ञानकरणानां फलोपधानमपि कर्ता- रमन्तरेण नोपपद्यत इत्यतिरिक्तः कर्ता कल्प्यते ॥४७॥ ननु शरीरस्यैव कर्तृखमस्वत आह । शरीरस्येति । शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः। तथात्वं चेदिन्द्रियाणामुपघाते कथं स्मृतिः॥४८|| ननु चैतन्यं ज्ञानादिकमेव मुक्तात्मना सन्मत इव मृतशरी- राणामपि तदभावे का क्षतिः प्राणाभावेन ज्ञानाभावस्य सिद्धे- रिति चेन्न, शरीरस्य चैतन्ये बाल्ये विलोकितस्य स्थाविरे स्मर- णानुपपत्तेः शरीराणामवयवोपचयापचयैरुत्पादविनाशशालि- खात् । न च पूर्वशरीरोत्पन्नसंस्कारेण द्वितीयशरीरे संस्कार उपपद्यत इति वाच्यम्, अनन्तसंस्कारकल्पने गौरवात् । एवं शरीरस्य चैतन्ये बालकस्य स्तन्यपाने प्रवृत्तिर्न स्यात् इष्टसाधन- ताज्ञानस्य तहेतुखात्तदानीमिष्टसाधनतास्मारकाभावात्। मन्म- ते तुजन्मान्तरानुभूतेष्टसाधनत्वस्य तदानीं स्मरणादेवप्रवृत्तिः। न च जन्मान्तरानुभूतमन्यदपि स्मर्यतामिति वाच्यम्, उद्बोध- काभावात् । अत्र त्वनायत्या जीवनादृष्टमेवोद्रोधकं कल्प्यते ।

३० कारिकावली। इत्थं च संस्कारस्यानादितया आत्मनोऽनादिखसिद्धावना- दिभावस्य नाशासंभवानित्यत्वं सिध्यतीति बोध्यम् । ननु च- क्षुरादीनामेव ज्ञानादिकं प्रति कारणलं कर्तृवं चास्तु विरोधेसा- धकामावादत आह । तथात्वमिति । चैतन्यमित्यर्थः । उप- घाते नाशे सति अर्थाच्चक्षुरादीनामेव कथं स्मृतिः । पूर्व च- क्षुषा साक्षात्कृतानां चक्षुषोऽभावे स्मरणं न स्यात् । अनुभ- वितुरभावात् । अन्यदृष्टस्यान्येन स्मरणासंभवात् । अनुभव- स्मरणयोः सामानाधिकरण्येन कार्यकारणभावादिति भावः४८ ननु चक्षुरादीनां चैतन्यं मास्तु मनसस्तु नित्यस्य चैतन्य स्यादत आह । मनोऽपीति । 26118 मनोपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेत् । धर्माधर्माश्रयोऽध्यक्षो विशेषगुणयोगतः ॥ १९ ॥ न तथा न चेतनम् । ज्ञानाद्यनध्यक्षं तदा भवेत् । मनसोऽ- णुखात्मत्यक्षे च महत्त्वस्य हेतुखान्मनसि ज्ञानमुखादिसत्त्वे त- प्रत्यक्षानुपपत्तेरित्यर्थः । यथा मनसोऽणुत्वं तथा वक्ष्यते ॥ नन्वस्तु विज्ञानमेवात्मा तस्य स्वतः प्रकाशरूपत्वाचेतनत्रम् ज्ञानमुखादिकं तु तस्यैवाकारविशेषः तस्यापि भावत्वादेव क्षणिकवं पूर्वपूर्वविज्ञानस्योत्तरोत्तरविज्ञाने हेतुखात् सुषुप्ता- वप्यालयविज्ञानधारा निरावाधैव मृगमदवासनावासितवसन इव पूर्वपूर्वविज्ञानजनितसंस्काराणामुत्तरोत्तरविज्ञाने संक्रान्त- खानानुपपत्तिः स्मरणादेरिति चेन्न, तस्य जगद्विषयकले सर्व- शत्वापत्तिः यत्किचिद्विषयकले विनिगमनाविरहः। सुषुप्तावपि विषयावभासप्रसङ्गाच ज्ञानस्य सविषयखात् तदानीं निरा- कारा चित्सन्ततिरनुवर्तत इति चेन, तस्याः स्वप्रकाशले प्रमा- णाभावात् । अन्यथा घटादीनामपि ज्ञानखापत्तिः। न चेष्टा- सिद्धान्तमुक्तावलीसहिता । ३१ पत्तिर्विज्ञानव्यतिरिक्तवस्तुनोऽभावादिति वाच्यं घटादेरनु- भूयमानस्यापलपितुमशक्यखात् । आकारविशेष एवायं वि- ज्ञानस्येति चेन, किमयमाकारोऽतिरिच्यते विज्ञानात्तर्हि समा- यातं विज्ञानव्यतिरिक्तेन । नातिरिच्यते चेहि समूहालम्ब- ने नीलाकारोऽपि पीताकारः स्यात् । स्वरूपतो विज्ञानस्या- विशेषात् । अपोहरूपो नीलखादिर्विज्ञानधर्म इति चेन्न, नील- त्वादीनां विरुद्धानामेकस्मिन्नसमावेशात् । इतरथा विरोधाव धारणस्यैव दुरुपपादत्वात् । न च वासनासंक्रमः संभवति, मातृपुत्रयोरपि वासनासंक्रमप्रसङ्गात् । न चोपादानोपादेय- भावो नियामक इति वाच्यं, वासनायाः संक्रमासंभवात् । उ. तरस्मिन्नुत्पत्तिरेव संक्रम इति चेन, तदुत्पादकाभावात् । चि- तामेवोत्पादकले तदानन्त्यप्रसङ्गः । क्षणिकविज्ञानेऽतिशयवि- शेषः कल्प्यत इति चेन्न, मानाभावात्कल्पनागौरवाच्च । एतेन क्षणिकशरीरेष्वेव चैतन्यं प्रत्युक्तं गौरवादतिशये मानाभावा- च । बीजादावपि सहकारिसमवधानासमवधानाभ्यामेवोपपत्तेः कुर्वदूपत्वाकल्पनात् । अस्तु तर्हि क्षणिकविज्ञाने गौरवान्नित्य- विज्ञानमेवात्मा " अविनाशी वारेऽयमात्मा सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादि श्रुतेरिति चेन्न, तस्य विषयवासंभवस्य दर्शि- तत्वानिर्विषयस्य ज्ञानले मानाभावात्सविषयत्वस्याप्यनुभवा- त् । अतो ज्ञानभिन्नो निस आत्मेति सिद्धम् । सत्यं ज्ञानमिति ब्रह्मपरं जीवे तु नोपयुज्यते । ज्ञानाज्ञानसुखिखादिभिर्जीवानां भेदसिद्धौ सुतरामीश्वरभेदः अन्यथा बन्धमोक्षव्यवस्थानुपप- त्तिः। योऽपीश्वराभेदबोधको वेदः सोपि तदभेदेन तदीयवं प्रतिपादयन्स्तौति अभेदभावने च यतितव्यमिति वदति । अत एव "सर्वे आत्मानः समर्पिताः" इति श्रूयते । मोक्षदशायाम- ज्ञाननिवृत्तावभेदो जायत इत्यपि न भेदस्य नित्यत्वे नाशायो- कारिकावली। गात् । भेदनाशेऽपि व्यक्तिद्वयं स्थास्यसेव । न च द्विवमपि नश्यतीति वाच्यं, तब निर्धर्मके ब्रह्मणि सत्यखाभावेऽपि स- त्यखरूपं तदितिवद् द्वित्वाभावेऽपि व्यक्तिद्वयात्मको ताविति सुवचत्वात् । मिथ्यात्वाभावोऽधिकरणात्मकस्तत्र सत्यत्वमिति चेदेकत्वाभावो व्यक्तिद्वयात्मको द्वित्वमप्युच्यताम् । प्रत्येकमे- कत्वेऽपि पृथिवीजलयोन गन्ध इतिवदुभयं नैकमित्यस्य सर्व- जनसिद्धत्वात् । योऽपि तदानीमभेदप्रतिपादको वेदः सोऽपि निर्दुःखत्वादिना साम्यं प्रतिपादयति । संपदाधिक्ये पुरोहि- तोऽयं राजा संवृत्त इतिवत् । अत एव "निरञ्जनः परमं साम्यमुपैति" इति श्रूयते । ईश्वरो न ज्ञानसुखात्मा किंतु शा. नाद्याश्रयः "नित्यं विज्ञानमानन्दं ब्रह्म" इत्यादौ विज्ञानपदेन ज्ञानाश्रय एवोक्तः “यः सर्वज्ञः स सर्ववित्" इत्यनुरोधात।आ- नन्दमित्यस्याप्यानन्दवदित्यर्थः । अर्शआदित्वान्मत्वर्थीयोच्स- सयः। अन्यथा पुल्लिङ्गत्वापत्तेः। आनन्दोऽपि दुःखाभावे उपच- यते भाराद्यपगमे सुखी संवृत्तोऽहमितिवत् दुःखाभावेन सुखित्व- प्रत्ययात् । अस्तु वा तस्मिन्नानन्दो नत्वसावानन्दः "असुखम्" इति श्रुतेः । न विद्यते सुखं यस्येति कुतो नार्थ इति चेन, क्लिष्ट- कल्पनापत्तेः प्रकरणविरोधादानन्दमित्यत्र मत्वर्थीयाच्मत्यय' विरोधाच्चेति संक्षेपः । एतेन प्रकृतिः की पुरुषस्तु पुष्करप- लाशवनिर्लेपः किंतु चेतनः कार्यकारणयोरभेदात् । कार्यनाशे सति कार्यरूपतया तन्नाशः स्यादित्यकारणत्वं तस्य। बुद्धिगतचै- तन्याभिमानान्यथानुपपत्त्या तत्कल्पनम् । बुद्धिश्च प्रकृतेः परि- णामः । सैव महत्तत्त्वम् अन्तःकरणमित्युच्यते। तत्सत्त्वासत्त्वा- भ्यां पुरुषस्य संसारापवौँ । तस्या एवेन्द्रियप्रणालिकया प- रिणतिर्ज्ञानरूपा घटादिना सम्बन्धः पुरुष कर्तृत्वाभिमानो. बुद्धौ चैतन्याभिमानश्च भेदाग्रहात् । ममेदं कर्तव्यमिति मदंशः

सिद्धान्तमुक्तावलीसहिता।
पुरुषोपरागो बुद्धरस्वच्छतया तत्पतिबिम्बादतात्विको दर्पण-
स्येव मुखोपरागः । इदमिति विषयोपराग इन्द्रियप्रणालिकया
परिणतिभेदस्तात्विको निःश्वासाभिहतदर्पणस्येव मलिनिमा।
कर्तव्यमिति व्यापारांशः । तेनांशत्रयवती बुद्धिस्तत्परिणामेन
ज्ञानेन पुरुषस्यातात्त्विकः सम्बन्धो दर्पणमलिनिम्नेव मुखस्यो-
पलब्धिरुच्यते । ज्ञानादिवत्सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा
अपि बुद्धेरेव कृतिसामानाधिकरण्येन प्रतीतेः । न च बुद्धिश्चेत-
नापरिणामिलादिति मतमपास्तं, कृत्यदृष्टभोगानामिव चैतन्य-
स्यापि सामानाधिकरण्यप्रतीतेस्तद्भिन्ने मानाभावाच्च। चेतनोऽहं
करोमीति प्रतीतिश्चैतन्यांशे भ्रम इति चेत्कृत्यंशे किं नेष्यते ।
अन्यथा बुद्धनित्यले मोक्षाभावोऽनित्यले तत्पूर्वमसंसाराप-
त्तिः।नवचेतनायाः प्रकृतेः कार्यखाबुद्धेरचैतन्य कार्यकारण-
योस्तादात्म्यादिति चेन्न, असिद्धः। कर्तुर्जन्यले मानाभावात् ।
वीतरागजन्मादर्शनादनादिवम् ।अनादे शासंभवानित्यवम्।
ततिक प्रकृत्यादिकल्पनेन । न च
"प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।
अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥"
इत्यनेन विरोध इति काय, प्रकृतेरदृष्टस्य गुणैरदृष्टजन्यै-
रिच्छादिभिः कर्ताहमेवेत्यस्य तदर्थखात् । “तत्रैवं सति कर्ता-
रमात्मानं केवलं तु यः" इत्यादि वदता भगवता प्रकटीकृतो.
ऽयमुपरिष्टादाशय इति संक्षेपः । धर्माधर्माश्रय इति । आ-
स्मेत्यनुषज्यते । शरीरस्य तदाश्रयत्ने देहान्तरकृतकर्मणां देहा-
न्तरेण भोगानुपपत्तेः। विशेषगुणयोगतइति । योग्यविशेष-
गुणस्य ज्ञानसुखादेः सम्बन्धेनात्मनः प्रत्यक्षवं संभवति न ब-
न्यथा अहं जाने अहं करोमीत्यादिप्रतीतेः॥४९॥

कारिकावली।
प्रवृत्त्येति ।
प्रवृत्त्याद्यनुमेयोऽयं स्थगत्येव सारथिः ।
अहंकारस्याश्रयोऽयं मनोमात्रस्य गोचरः ॥५०॥
अयमात्मा परदेहादौ प्रवृत्त्यादिनाऽनुमीयते । प्रवृत्तिरत्र
चेष्टा । ज्ञानेच्छाप्रयत्नादीनां देहेऽभावस्योक्तप्रायसाचेटायाश्च
प्रयत्नसाध्यखाचेष्टया प्रयत्नवानात्माप्यनुमीयत इति भावः ।
अत्र दृष्टांतमाह । रथेति । यद्यपि रथकर्म चेष्टा न भवति । त-
थापि तेन कर्मणा सारथिर्यथाऽनुमीयते तथा चेष्टात्मकेन क-
मणा परमात्मापीति भावः॥ अहंकारस्येति । अहंकारोऽह-
मिति प्रत्ययस्तस्याश्रयो विषयः आत्मा न शरीरादिरिति। म-
न इति।मनोभिन्नेन्द्रियजन्यप्रत्यक्षाविषयो मानसप्रत्यक्षविषय-
श्वेत्यर्थः । रूपाद्यभावेनेन्द्रियान्तरायोग्यखात् ॥ ५० ॥
विभुरिति ।
विभुर्बुधादिगुणवान्बुद्धिस्तु द्विविधा मता ।
अनुभूतिः स्मृतिश्च स्यादनुभूतिश्चतुर्विधा ॥५१॥
विभुवं परममहत्त्वम् । तच्च पूर्वोक्तमपि स्पष्टार्थमुक्तम् । बु.
यादीति । बुद्धिसुखदुःखेच्छादिचतुर्दशगुणाः पूर्वोक्ता वे..
दितव्याः । अत्रैव प्रसङ्गाबुद्धेः कतिपयं प्रपञ्चं दर्शयति । बु-
द्धिस्त्विति । द्वैविध्यं व्युत्पादयति । अनुभूतिरिति ।अनु-
भूतिश्चतुर्विधेति । एतासां चतसृणां करणानि चत्वारि
प्रत्यक्षानुमानोपमानशब्दाः प्रामाणानीति सूत्रोक्तानि वे-
दितव्यानि ५१
प्रत्यक्षमिति ।
प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे ।
प्राणजादिप्रभेदेन प्रत्यक्षं षड्विधं मतम् ॥ ५२ ॥

, सिद्धान्तमुक्तावलीसहिता । ३५ इन्द्रियजन्यं ज्ञानं प्रत्यक्षम् । यद्यपि मनोरूपेन्द्रियजन्यं सर्वमेव ज्ञानं तथापीन्द्रियत्वेन रूपेणेन्द्रियाणां यत्र ज्ञाने क- रणत्वं तत्सत्यक्षमिति विवक्षितम् । ईश्वरप्रत्यक्षं तु न लक्ष्यम् । इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यव- सायात्मकं प्रत्यक्षमिति सूत्रे तथैवोक्तत्वात् । अथवा ज्ञा- नाकरणकं ज्ञानं प्रत्यक्षम् । अनुमितौ व्याप्तिज्ञानस्योपमिती सादृश्यज्ञानस्य शाब्दबोधे पदज्ञानस्य स्मृतावनुभवस्य कारण- त्वात्तत्र नातिव्याप्तिः । इदं लक्षणमीश्वरप्रत्यक्षसाधारणम् । परा- मर्शजन्यं ज्ञानमनुमितिः । यद्यपि परामर्शप्रत्यक्षादिकं परामर्श- जन्यं तथापि परामर्शजन्यं हेलविषयकं यज्ज्ञानं तदेवानुमि- तिः । न च कादाचित्कहेतुविषयकानुमितावव्याप्तिरिति वा- च्य,तादृशज्ञानवृत्त्यनुभवखव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । अथवा व्याप्तिज्ञानकरणकं ज्ञानमनुमितिः । एवं सादृश्यज्ञान- करणकं ज्ञानमुपमितिः । पदज्ञानकरणकं ज्ञानं शाब्दबोधः । वस्तुतो यां कांचिदनुमितिव्यक्तिमादाय तव्यक्तिवृत्ति प्रत्यक्षा- वृत्ति जातिमत्त्वमनुमितित्वम्। एवं यत्किचित्प्रत्यक्षादिकमादाय तद्व्यक्तिवृत्त्यनुमित्यत्तिजातिमत्त्वं प्रत्यक्षत्वादिकं वाच्यमि- ति । जन्यप्रत्यक्षं विभजते घ्राणजादीति । घाण रासनं चाक्षुषं स्पार्शनं श्रौत्रं मानसमिति षड्विधं प्रत्यक्षम् । न चे- श्वरप्रत्यक्षस्याविभजनान्यूनत्वं, जन्यप्रत्यक्षस्यैव निरूपणी- यत्वादुक्तसूत्रानुसारात् ॥५२॥ घ्राणस्येति । घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः। तथा रसो रसज्ञायास्तथाशब्दोऽपि च श्रुते॥५३॥ गोचर इति ग्राह्य इत्यर्थः । गन्धत्वादिरिति । आदिप- दात् सुरभित्वादिपरिग्रहः। गन्धस्य प्रत्यक्षत्वात्तवृत्तिजातिरपि कारिकावली । प्रत्यक्षा । गन्धाश्रयग्रहणे तु घ्राणस्य न सामर्थ्य मिति बोध्य- म् । तथा रस इति। रसखादिसहित इत्यर्थः। तथा शब्दोऽ- पि शब्दखादिसहितः। गन्धो रसश्च उद्भूतो बोध्यः॥५३॥ उद्भूतरूपमिति । उद्धृतरूपं नयनस्य गोचरो द्रव्याणि तद्धन्ति पृथकक्त्वसंख्ये । विभागसंयोगपरापरत्व- स्नेहव्वत्वं परिमाणयुक्तम् ॥ ५४ ॥ ग्रीष्मोष्मादावनुद्भूतरूपमिति न तत्सत्यक्षम् । तद्वन्ति उन्मू- तरूपवन्ति ॥ ५४॥ क्रिया जातियोग्यवृत्तिः समवायश्च तादृशः॥ गृह्णाति चक्षुःसंयोगादालोकोद्भूतरूपयोः॥५५॥ योग्येति पृथक्लादिकमपि योग्यवृत्तितया बोध्यम् । तादृशः योग्यव्यक्तित्तिरित्यर्थः । चक्षुर्योग्यखमेव कथं तदाह । गृह्णा- तीति। आलोकसंयोग उद्भूतरूपं च चाक्षुषप्रत्यक्षे कारणम् । तत्र द्रव्यचाक्षुषं प्रति तयोः समवायसंबन्धेन कारणलम् । द्रव्य- समवेतरूपादिप्रत्यक्ष स्वाश्रयसमवायसंबन्धेन द्रव्यसमवेतस. मवेतस्य रूपलादेः प्रत्यक्षेखाश्रयसमवेतसमवायसंबन्धेनेति५५ उद्भूतेति। उद्धृतस्पर्शवद्रव्यं गोचरः सोऽपि च त्वचः । रूपान्यच्चक्षुषो योग्य रूपमत्रापि कारणम् ॥५६॥ द्रव्याध्यक्ष 4 सिद्धान्तमुक्तावलीसहिता । उद्भूतस्पर्शवद्रव्यं खचो गोचरः। सोऽपि उद्भूतस्पर्शो- ऽपि स्पर्शखादिसहितः । रूपान्यदिति। रूपभिन्न रूपलादि- भिन्नं यच्चक्षुषो योग्यं तत्त्वगिन्द्रियस्यापि ग्राह्यम् । तथा च पृ- थक्वसंख्यादयो ये चक्षुर्लाह्या गुणा उक्ता एवं क्रियाजातयो योग्यवृत्तयश्च ते वचो ग्राह्या इत्यर्थः । अत्रापि खगिन्द्रियज- न्येऽपि रूपं द्रव्यप्रत्यक्षे कारणम् । तथा च बहिरिन्द्रियजन्यद्र- व्यप्रत्यक्ष रूपं कारणम् । नवीनास्तु बहिरिन्द्रियजन्यद्रव्यप्रत्यक्ष- मात्रे न रूपं कारणं प्रमाणाभावात् । किंतु चाक्षुषप्रत्यक्ष रूपं स्पार्शनप्रत्यक्षे स्पर्शः कारणमन्वयव्यतिरेकात्।बहिरिन्द्रियज- न्यद्रव्यप्रत्यक्षमात्रे किं कारणमिति चेन्न, किंचिदात्मावृत्तिशब्द- भिन्नविशेषगुणवत्त्वं वा प्रयोजकमस्तु । रूपस्य कारणले ला- घवमिति चेन्न, वायोस्वगिन्द्रियेणाग्रहणप्रसङ्गात् । इष्टापत्तिरि- ति चेदुद्भूतस्पर्श एव लाघवात्कारणमस्तु । प्रभाया अप्रत्यक्ष- खे विष्टापत्तिरेव किं नेष्यते । तस्मात् प्रभां पश्यामीतिवत् वायुं स्पृशामीति प्रत्ययस्य संभवाद्वायोरपि प्रत्यक्ष संभवत्येव । बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे न रूपस्य न वा स्पर्शस्य हे- तुखं वायुप्रभयोरेकवं गृह्यत एव कचिविलादिकमपि क्वचि- संख्यापरिमाणाग्रहो दोषादित्याहुः॥५६॥ त्वचोयोग इति । त्वचो योगो मनसा ज्ञानकारणम् । खड्मनःसंयोगो ज्ञानसामान्य कारणमित्यर्थः । किं तत्र प्रमाणं सुषुप्तिकाले त्वचं त्यक्ता पुरीततिवर्तमानेन मनसा ज्ञानाजननमिति । ननु मुषुप्तिकाले किं ज्ञानं भविष्यति अनु- भवरूपं स्मरणरूपं वा नाद्यः अनुभवसामध्यभावात् । तथा- हि । प्रत्यक्षे चक्षुरादिना मनःसंयोगस्य हेतुखाचदभावादेव कारिकावली। न चाक्षुषादिप्रत्यक्षम् । ज्ञानादेरभावादेव न मानसं प्रत्य- क्षम् । ज्ञानाद्यभावे चात्मनोऽपि न प्रत्यक्षमिति । व्याप्ति- ज्ञानाभावादेव नानुमितिः । सादृश्यज्ञानाभावानोपमितिः । पदज्ञानाभावानशाब्दबोधः।इत्यनुभवसामग्रयभावानानुभवः। उद्बोधकाभावाच न स्मरणम् । मैवम् । सुषुप्तिप्राकालोत्पन्ने- च्छादिव्यक्तस्तत्संबन्धेनात्मनश्च प्रत्यक्षत्वप्रसङ्गात् । तदतीन्द्रि- यवे मानाभावात्। मुषुप्तिपाकाले निर्विकल्पकमेव नियमेन जा. यत इत्यत्रापि प्रमाणाभावात् । अथ ज्ञानमात्रे खड्मनःसंयोगस्य यदि कारणलं तदा रासनचाक्षुपादिप्रत्यक्षकाले बाचप्रत्यक्ष स्यात् । विषयवक्संयोगस्य खानःसंयोगस्य च सत्त्वात् । परस्परप्रतिबन्धादेकमपि वा न स्यादिति । अत्र केचित्पूर्वोक्त- युक्त्या बङानोयोगस्य ज्ञानहेतुत्वे सिद्धे चाक्षुषादिसामग्र्याः स्पार्शनादिप्रतिबन्धकलमनुभवानुरोधात्कल्प्यत इति । अन्ये तु सुपुत्यनुरोधाचर्ममनःसंयोगस्य ज्ञानहेतुत्वं कल्प्यते। चाक्षु- पादिप्रत्यक्षकाले खानःसंयोगाभावान पार्शनमत्यक्षमिति॥ मनोग्राह्य सुखंदुःखमिच्छादेषोमतिः कृतिः।।५७॥ मनोग्राह्यमिति मनोजन्यप्रत्यक्षविषयमित्यर्थः । मति नम् । कृतिः प्रयत्नः । एवं मुखनादिकमपि मनोग्राह्यम् । ए. वमात्मापि मनोग्राह्यः किंतु मनोमात्रस्य गोचर इत्यनेन पूर्व- मुक्तवादत्र नोक्तः॥५७॥ ज्ञानमिति । ज्ञानं यनिर्विकल्पाख्यं तदतीन्द्रियमिष्यते । महत्त्वं पइविधे हेतुरिन्द्रियं करणं मतम् ॥ ५८॥ चक्षुःसंयोगाधनन्तरं घट इत्याकारकं घटखादिविशिष्टं सिद्धान्तमुक्तावलीसहिता । ३९ नं न संभवति पूर्व विशेषणस्य घटनादेर्शानाभावात् । वि- शेष्टबुद्धौ विशेषणज्ञानस्य कारणलात् । तथा च प्रथमतो घटघ- अयोर्वैशिष्ट्यानवगा व ज्ञानं जायते । तदेव निर्विकल्पकम् । [च न प्रत्यक्षम् । तथा हि । वैशिष्ट्यानवगाहिज्ञानस्य प्रत्यक्ष । भवति घटमहं जानामीति प्रत्ययात् । तत्रात्मनि ज्ञानं प्र- कारीभूय भासते । ज्ञाने घटस्तत्र घटत्वं यः प्रकारः स एव वेशेषणमित्युच्यते । विशेषणे यद्विशेषणं तद्विशेषणतावच्छेद- मित्युच्यते । विशेषणतावच्छेदकप्रकारकं ज्ञानं विशिष्टवैशि- यज्ञाने कारणम् । निर्विकल्पके च घटबादिकं न प्रकारस्तेन पटनादिविशिष्टघटादिवैशिष्ट्यभानं न संभवति । घटत्वाद्यम- कारकं च घटादिविशिष्टज्ञानं न संभवति जात्यखण्डोपाध्य- तेरिक्तपदार्थज्ञानस्य किंचिद्धर्मप्रकारकत्वनियमात् ॥ मह- त्वमिति । द्रव्यप्रत्यक्षे महत्त्वं समवायसंबन्धेन कारणम् । इव्यसमवेतानां गुणकर्मसामान्यानां प्रत्यक्षे खाश्रयसमवायसं- बन्धेन द्रव्यसमवेतसमवेतानां गुणत्वकर्मत्वादीनां प्रत्यक्षे खा- अयसमवेतसमवायसंबन्धन कारणमिति ॥ इन्द्रियमिति । अत्रापि षड्विध इत्यनुषज्यते । इन्द्रियत्वं तु न जातिः पृ. थेवीखादिना सांकर्यप्रसङ्गात् । शब्देतरोद्भूतविशेषगुणानाश्र- पत्वे सति ज्ञानकारणमनःसंयोगाश्रयखमिन्द्रियत्वम् । आत्मा- देवारणाय सत्यन्तम् । उद्भूतविशेषगुणस्य शब्दस्य श्रोत्रे स- त्वाच्छब्देतरेति । विशेषगुणस्य रूपादेश्चक्षुरादावपि सत्त्वादुद्भू- ति । उद्भूतलं न जातिः शुक्लत्वादिना सांकर्यात् । न च शुक्लत्वादिव्याप्यं नानैवोद्भूतत्वमिति वाच्यम् उद्भूतरूपत्वादि- ना चाक्षुषादौ जनकत्वानुपपत्तेः। किंतु शुक्लत्वादिव्याप्यं नानै- बानुभूतत्वं तदभावकूटश्चोद्भूतत्वम् । तच्च संयोगादावप्यस्ति तथा च शब्दतरोद्भूतगुणः संयोगादिश्चक्षुरादावप्यस्त्यतो वि- कारिकावली। शेषेति । कालादिवारणाय विशेष्यदलम् । इन्द्रियावयव विष- यसंयोगस्यापिप्राचां मते प्रत्यक्षजनकत्वादिन्द्रियावयववारणा- य नवीनमते कालादौ रूपाभावप्रत्यक्षे संनिकर्षघटकतया का- रणीभूतचक्षुःसंयोगाश्रयस्य कालादेरिणाय मनःपदम् । ज्ञा- नकरणमित्यपि तद्वारणाय । करणमिति । असाधारणं कारणं करणम् । असाधारणवं व्यापारवत्त्वम् ॥ ५८॥ विषयेन्द्रियसम्बन्ध इति । विषयेन्द्रियसंबन्धो व्यापारः सोऽपि षड्विधः । द्रव्यग्रहस्तु संयोगात्संयुक्तसमवायतः ॥ ५९ ॥ द्रव्येषु समवेतानां तथा तत्समवायतः । तत्रापि समवेतानां शब्दस्य समवायतः॥ ६०॥ तदृत्तीनां समवेतसमवायेन तु ग्रहः । विशेषणतया तद्वदभावानां ग्रहो भवेत् ॥ ६१ ।। यदि स्यादुपलभ्यतेत्येवं यत्र प्रसज्यते । प्रत्यक्षं समवायस्य विशेषणतया भवेत् ॥ ६२ ॥ व्यापारः संनिकर्षः । षड्डिधं संनिकर्षमुदाहरणद्वारा दर्श- यति । द्रव्यग्रह इति । द्रव्यप्रत्यक्षमिन्द्रियसंयोगजन्यम् । द्र- व्यसमवेतप्रत्यक्षमिन्द्रियसंयुक्तसमवायजन्यम् । एवमग्रेऽपि । वस्तुतस्तु द्रव्यचाक्षुषं प्रति चक्षुःसंयोगः कारणं द्रव्यसमवेतचा- क्षुषं प्रति चक्षुःसंयुक्तसमवायः कारणं द्रव्यसमवेतसमवेतचा- क्षुषं प्रति चक्षुःसंयुक्तसमवेतसमवायः। एवमन्यत्रापि विशि: प्यैव कार्यकारणभावः । परंतु पृथिवीपरमाणुनीले नीलत्वं सिद्धान्तमुक्तावलीसहिता। ४१ पृथिवीत्वं च चक्षुषा कथं न गृह्यते तत्र परंपरयोद्भूतरूपसंब- न्धस्य महत्त्वसंबन्धस्य च सत्त्वात् । तथाहि नीले नीलत्वंजाति- रेकैव घटनीले परमाणुनीले च वर्तते तथा च महत्त्वसंबन्धो घटनीलमादाय वर्तते । उद्भूतरूपसंबन्धस्तूभयमादायैव वर्तते। एवं पृथिवीत्वेऽपि घटादिकमादाय महत्त्वसंबन्धो वोध्यः। एवं वायौ तदीयस्पर्शादौ च सत्तायाश्चाक्षुषप्रत्यक्षं स्यात् । तस्मा- दुद्भूतरूपावच्छिन्नमहत्त्वावच्छिन्नचक्षुःसंयुक्तसमवायस्य द्रव्यस- मवेतचाक्षुषे तादृशचक्षुःसंयुक्तसमवेतसमवायस्य द्रव्यसमवेतस- मवेतचाक्षुषे कारणत्वं वाच्यम् । इत्थं च परमाणुनीलादौ न नीलखादिग्रहः परमाणौ चक्षुःसंयोगस्य महत्त्वावच्छिन्नला- भावात् । एवं वायवादौ न सत्तादिचाक्षुषं तत्र चक्षुःसंयोगस्य रूपावच्छिन्नत्वाभावात् । एवं यत्र घटस्य पृष्ठावच्छेदेनालोक- संयोगः चक्षुःसंयोगस्वग्रावच्छेदेन तत्र घटप्रत्यक्षाभावादालो- कसंयोगावच्छिन्नलं चक्षुःसंयोगे विशेषणं देयम् । एवं द्रव्य- स्पार्शनप्रत्यक्षे बक्संयोगः कारणं द्रव्यसमवेतस्पार्शनप्रत्यक्षे खसंयुक्तसमवायः द्रव्यसमवेतसमवेतस्पार्शनप्रत्यक्षे खक्संयु- क्तसमवेतसमवायः कारणम् । अत्रापि महत्त्वावच्छिन्नत्वमुद्भू- तस्पर्शावच्छिन्नत्वं च पूर्ववदेव बोध्यम् । एवं गन्धप्रत्यक्षे प्रा- णसंयुक्तसमवायः। गन्धसमवेतस्य प्राणजन्यप्रत्यक्षे घ्राणसं- युक्तसमवेतसमवायः कारणम् । एवं रसप्रत्यक्षे रसनासंयुक्त- समवायः। रससमवेतरासनप्रत्यक्षेरसनासंयुक्तसमवेतसमवायः कारणम् । शब्दप्रत्यक्षे श्रोत्रावच्छिन्नसमवायः शब्दसमवेतश्रा- वणप्रत्यक्षे श्रोत्रावच्छिन्नसमवेतसमवायः कारणम् । अत्र सर्व प्रत्यक्षं लौकिकं बोध्यम् । वक्ष्यमाणमलौकिकं प्रत्यक्षमिन्द्रिय- संयोगादिकं विनापि भवति । एवमात्मनः प्रत्यक्षे मनःसंयोगः आत्मसमवेतमानसप्रत्यक्षे मनःसंयुक्तसमवायः आत्मसमवेत- कारिकावली। समवेतमानसप्रत्यक्षे मनःसंयुक्तसमवेतसमवायः कारणम् । अभावप्रत्यक्ष समवायप्रत्यक्षे चेन्द्रियसम्बद्धविशेषणता हेतुः । वैशेषिकमते तु समवायो न प्रत्यक्षः । अत्र यद्यपि विशेषणता नानाविधा यथा हि भूतलादौ घटाघभावः संयुक्तविशेषण- तया गृह्यते । संख्यादौ रूपाद्यभावः संयुक्तसमवेतविशेषणत- या । संख्यात्वादौ रूपाधभावः संयुक्तसमवेतसमवेतविशेष- णतया । शब्दाभावः केवलश्रोत्रावच्छिन्नविशेषणतया । कादौ खत्वाद्यभावः श्रोत्रावच्छिन्नसमवेतविशेषणतया । एवं कत्वा- घवच्छिन्नाभावे गत्वाभावादिकं श्रोत्रावच्छिन्नविशेषणविशे- पणतया । एवं घटाभावादौ पटाभावः चक्षुःसंयुक्तसंयुक्तवि. शेषणविशेषणतया । एवमन्यदप्यूह्यम् । तथापि विशेषणतान- रूपेणैकैव सा गण्यते अन्यथा पोढा संनिकर्ष इति प्राचां प्र- वादो व्याहन्येतेति। अत्राभावप्रत्यक्षे योग्यानुपलब्धिः कारण- म् । तथा हि । भूतलादौ घटादिज्ञाने जाते घटाभावादिकं न ज्ञायते । तेनाभावोपलम्भे प्रतियोग्युपलम्भाभावः कारणम् । तत्र योग्यताप्यपेक्षितासाचप्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितपतियो- गिकत्वरूपातदर्थश्चमतियोगिनोघटादेः सत्त्वप्रसक्त्याप्रसञ्जित उपलम्भरूपः प्रतियोगी यस्य सोऽभावप्रत्यक्षे हेतुः। तथा हि । यत्रालोकसंयोगादिकं वर्तते तत्र यद्यत्र घटः स्यात्तर्हि उपलभ्ये- तेत्यापादयितुं शक्यते । तत्र घटाभावादिप्रत्यक्षं भवति । अन्ध- कारे तु नापादयितुं शक्यते । तेन घटाभावादेरन्धकारे न चा- क्षुषप्रत्यक्षं स्पार्शनप्रत्यक्षं तु भवत्येव । आलोकसंयोग विनापि स्पार्शनप्रत्यक्षस्यापादयितुं शक्यत्वात् । गुरुत्वादिकं यदयोग्य तदभावस्तु न योग्यस्तत्र गुरुत्वादिमत्यक्षस्यापादयितुमशक्य- त्वात् । वा यावद्भूतरूपाभावः । पाषाणे सौरभाभावः । गुडे तिक्ताभावः । श्रोत्रे शब्दाभावः । आत्मनि सुखाभावः ।

सिद्धान्तमुक्तावलीसहिता। एवमादयस्तत्तदिन्द्रियैर्गृह्यन्ते तत्तत्प्रत्यक्षस्यापादयितुं शक्यत्वा- व।संसर्गाभावप्रत्यक्षे प्रतियोगिनो योग्यता । अन्योन्याभाव- प्रत्यक्षे खधिकरणयोग्यताऽपेक्षिता । अतः स्तम्भादौ पिशा- चादिभेदोऽपि चक्षुषा गृह्यत एव ॥५९॥६०॥६१॥६२॥ एवं प्रत्यक्ष लौकिकालौकिकभेदेन द्विविधम् । तत्र लौकिकम- त्यक्षेपोढा संनिकर्षों वर्णितः। अलौकिकसंनिकर्षस्त्विदानी- मुच्यते । अलौकिकस्त्विति । अलौकिकः संनिकर्षत्रिविधः परिकीर्तितः। सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा ॥३॥ व्यापारः संनिकर्पः। सामान्यलक्षण इति सामान्य लक्षणं यस्येत्यर्थः। तत्र लक्षणपदेन यदि स्वरूपमुच्यते तदा सामान्यस्वरूपा प्रत्यासत्तिरित्यर्थो लभ्यते । तच्चेन्द्रियसंबद्ध- विशेष्यकज्ञानप्रकारीभूतं बोध्यम् । तथाहि । यत्रेन्द्रियसंयुक्तो धूमादिस्तद्विशेष्यकं धूम इति ज्ञानं यत्र जातं तत्र ज्ञाने धूमत्वं प्रकारः। तत्र धूमत्वेन संनिकर्षेण धूमा इत्येवंरूपं सकलधूम- विषयकं ज्ञानं जायते । अत्र यदीन्द्रियसंबद्धपकारीभूतमित्ये- वोच्यते तदा धूलीपटले धूमखभ्रमानन्तरं सकलधूमविषयक ज्ञानं न स्यात् तत्र धूमत्वेन सहेन्द्रियसंबन्धाभावात् । मन्मते तु इन्द्रियसंबद्धं धूलीपटलं तद्विशेष्यकं धूम इति ज्ञानम्, तत्र प्रकारीभूतं धूमत्वं प्रत्यासत्तिः। इन्द्रियसंबन्धश्च लौकिको ग्राह्यः । इदं च बहिरिन्द्रियस्थले । मानसस्थले तु ज्ञानप्रका- रीभूतं सामान्यं प्रत्यासत्तिः । परंतु समानानां भावः सामा- न्यम्, तच्च कचिन्नित्यं धूमात्वादि, क्वचिच्चानित्यं घटादि । यत्रैको घटः संयोगेन भूतले समबायेन कपाले ज्ञातस्तदनन्तरं सर्वेषामेव तद्धटवतां भूतलादीनां कपालादीनां वा ज्ञानं भ- .

४४ कारिकावली। वति । अत्रेदं वोध्यम् । परंतु सामान्यं येन संबन्धेन ज्ञायते तेन संबन्धेनाधिकरणानां प्रत्यासत्तिः किंतु यत्र तद्धटनाशा. नन्तरं तद्धटवतः स्मरणं जातं तत्र सामान्यलक्षणया सर्वेषां तद्धटवतां भानं न स्यात् । सामान्यस्य तदानीमभावात् । किंचेन्द्रियसंबद्धविशेष्यकं घट इति ज्ञानं यत्र जातं तत्र पर- दिने इन्द्रियसंवन्धं विनापि तादृशज्ञानप्रकारीभूतसामान्यस्य सत्त्वात्तादृशज्ञानं कुतो न जायते, तस्मात्सामान्यविषयकंज्ञानं प्रत्यासत्तिनं तु सामान्यमित्याह । आसत्तिरित्यादि। आसत्तिराश्रयाणां तु सामान्यज्ञानमिष्यते । आसत्तिः प्रत्यासत्तिरित्यर्थः । तथा च सामान्यलक्षण इत्यत्र लक्षणशब्दस्य विषयोऽर्थः । तेन सामान्यविषयक ज्ञानं प्रत्यासत्तिरित्यर्थो लभ्यते ॥ ननु चक्षुःसंयोगादिकं विनापि सामान्यज्ञानं यत्र वर्तते तत्र सकलघटादीनां चाक्षुषादिप्रत्यक्षं स्यादत आह । तदिन्द्रियजेति । तदिन्द्रियजतद्धर्मबोधसामग्र्यपेक्ष्यते ॥ ६४ ॥ अस्यार्थः। यदा बहिरिन्द्रियेण सामान्यलक्षणया ज्ञानं जननीयं तदा यत्किंचिद्धर्मिणि तत्सामान्यस्य तदिन्द्रियज- न्यज्ञानस्य सामग्री अपेक्षिता । सा च सामग्री चक्षुःसंयोगा- लोकसंयोगादिकम् । तेनान्धकारादौ चक्षुरादिना तादृशं ज्ञानं न जायते ॥ ६ ॥६४ ॥ ननुज्ञानलक्षणा प्रत्यासत्तिर्यदि ज्ञानरूपा सामान्यलक्षणा- पि ज्ञानरूपा तदा तयोर्भेदो न स्यादत आह ।

सिद्धान्तमुक्तावलीसहिता।
विषयीति ।
विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः ।
सामान्यलक्षणा प्रत्यासत्तिर्हि तदाश्रयस्य ज्ञानं जनयति ।
ज्ञानलक्षणा प्रत्यासत्तिस्तु यद्विषयकं ज्ञानं तस्यैव प्रत्यासत्ति-
रिति । अत्रायमर्थः। प्रत्यक्षे संनिकर्ष विना भानं न संभवति
तथा च सामान्यलक्षणां विना धूमन सकलधूमानां वहिलेन
सकलवहीनां च भानं कथं भवेत्तदर्थ सामान्यलक्षणा स्वीक्रि-
यते । न च सकलवह्निधूमभानाभावे का क्षतिरिति वाच्यं, प्रत्य-
क्षधूमे वह्निसंबन्धस्य गृहीतखादन्यधूमस्य चानुपस्थितखाछूमो
वहिव्याप्यो न वेति संशयानुपपत्तेः । मन्मते तु सामान्यलक्ष-
गया सकलधूमोपस्थितौ कालान्तरीयदेशान्तरीयधूमे वह्निव्या-
प्यखसंदेहः संभवति । न च सामान्यलक्षणास्वीकारे प्रमेयखेन
सकलप्रमेयज्ञाने जाते सार्वज्ञापत्तिरिति वाच्यं, प्रमेयखेन स-
कलप्रमेयज्ञाने जातेऽपि विशिष्यसकलपदार्थानामज्ञातवेन सा.
वज्ञाभावात् । एवं ज्ञानलक्षणाया अस्वीकारे सुरभि चन्दन-
मिति ज्ञाने सौरभस्य भानं कथं स्यात् । यद्यपि सामान्यलक्ष-
णयापि सौरभमानं संभवति तथापि सौरभवस्य भानं ज्ञान-
लक्षणया । एवं यत्र धूमलेन धूलीपटलं ज्ञातं तत्र धूलीपटल-
स्यानुव्यवसाये भानं ज्ञानलक्षणया ॥
योगजो दिविध इति ।
योगजो द्विविधःप्रोक्तोयुक्तयुञ्जानभेदतः॥६५॥
योगाभ्यासजनितो धर्मविशेषः श्रुतिपुराणादिप्रतिपाद्य इ-
त्यर्थः । युक्तयुञ्जानभेदत इति । युक्तयुञ्जानरूपयोगिद्वै-
विध्याद्धर्मस्यापि वैविध्यमिति भावः ॥६५॥

कारिकावली।
युक्तस्य सर्वदा भानमिति ।
युक्तस्य सर्वदा भानं चिन्तासहकृतोऽपरः ।
युक्तस्य तावद्योगधर्मसहायेन मनसा अकाशपरमाण्वा-
दिनिखिलपदार्थगोचरं ज्ञानं सर्वदैव भवितुमर्हति । द्वितीयस्य
चिन्ताविशेषोऽपि सहकारीति ॥
इति श्रीविश्वनाथपञ्चाननभटाचार्यविरचितायां सि.
डांतमुक्तावल्यां प्रत्यक्षखण्डम् ॥
अनुमितिं व्युत्पादयति । व्यापारस्त्विति ।
व्यापारस्तु परामर्शः करणं व्याप्तिधीर्भवेत् ॥६६॥
अनुमायाम
अनुमितौ व्याप्तिज्ञानं करणम् । परामर्शो व्यापारः। तथा
हि । येन पुरुषेण महानसादौ धूमे वह्वेाप्तिर्ग्रहीता पश्चात्स
एव पुरुषः क्वचित्पर्वतादावविच्छिन्नमूलां धूमलेखां पश्यति।
तदनन्तरं धूमो वहिव्याप्य इत्येवं रूपं व्याप्तिस्मरणं भवति ।
पश्चाच्च वहिव्याप्यधूमवानयमिति ज्ञानं भवति । स एव परामर्श
इत्युच्यते । तदनन्तरं पर्वतो वह्निमानित्यनुमितिर्जायते । अत्र
प्राचीनास्तु व्याप्यत्वेन ज्ञायमानं लिङ्गमनुमितिकरणमिति व-
दन्ति तहषयति । ज्ञायमानमिति ।
ज्ञायमानं लिहं तु करणं न हि ।
लिङ्गस्यानुमित्यकरणत्वे युक्तिमाह । अनागतादीति ।
अनागतादिलिङ्गेन न स्यादनुमितिस्तदा ॥६७॥
यद्यनुमितौ लिङ्गं करणं स्यात्तदाऽनागतेन लिङ्गेन वि-
नष्टेन चानुमितिर्न स्यादनुमितिकरणस्य लिङ्गस्य तदानीमभा-
वात् ॥ ६६ ॥ ६७॥

४७ सिद्धान्तमुक्तावलीसहिता। व्याप्यस्य पक्षधर्मत्वधीरिति । व्याप्यस्य पक्षवृत्तित्वधीः परामर्श उच्यते । व्याप्तिविशिष्टस्य पक्षेण सह वैशिष्टयावगाहिज्ञानमनुमिति- जनकम् । तच पक्षे व्याप्य इति ज्ञानं पक्षो व्याप्यवानिति ज्ञानं वा । अनुमितिस्तु पक्षे वाप्य इति ज्ञानात्पक्षे साध्यमि- त्याकारिका पक्षो व्याप्यवानिति ज्ञानात्पक्षः साध्यवानि- त्याकारिका । द्विविधादपि परामर्शात्पक्षः साध्यवानित्येवा- नुमितिरित्यन्ये । ननु वह्निव्याप्यधूमवान्पूर्वत इति ज्ञानं वि- नापि यत्र पर्वतो धूमवानिति प्रत्यक्षं ततो धूमो वहिव्याप्य इति स्मरणम् तत्र ज्ञानद्वयादेवानुमितिदर्शनाद्व्याप्तिविशिष्टवै- शिष्ट्यावगाहिज्ञानं न सर्वत्र कारणं किंतु व्याप्यतावच्छेदकम- कारकपक्षधर्मताज्ञानत्वेन कारणत्वस्यावश्यकत्वात् तत्र विशि- ज्ञानकल्पने गौरवाच्चेति चेन्न,व्याप्यतावच्छेदकज्ञानेऽपि वह्नि- व्याप्यवानिति ज्ञानादनुमित्युत्पत्तेः, लाघवाच्च व्याप्तिप्रकार- कपक्षधर्मताज्ञानत्वेनैव हेतुबम्। किंच धूमवान्पर्वत इति ज्ञाना- दनुमित्यापत्तिः व्याप्यतावच्छेदकीभूनधूमप्रकारकपक्षधर्मताज्ञा- नस्य सत्त्वात् । न च तदानीं गृह्यमाणव्याप्यतावच्छेदकमकाक कपक्षधर्मताज्ञानस्य हेतुत्वमिति वाच्यं, चैत्रस्य व्याप्तिग्रहे मै- त्रस्य पक्षधर्मताज्ञानादनुमितिः स्यादिति । यदि तु तत्पुरुषी- यगृह्यमाणव्याप्यतावच्छेदकप्रकारकतत्पुरुषीयपक्षधर्मताज्ञानं त- त्पुरुषीयानुमितौ हेतुरित्युच्यते तदाऽनन्तकार्यकारणभावः। म- न्मते तु सयवायसंबन्धेन व्याप्तिप्रकारकपक्षधर्मताज्ञानं समवा- यसंबन्धेनानुमिति जनयतीतिनानन्तकार्यकारणभावः। यदि तु व्याप्तिपकारकं ज्ञानं पक्षधर्मताज्ञानं च स्वतन्त्रं कारणमित्युच्यते तदा कार्यकारणभावद्वयं वह्निव्याप्यो धूम आलोकवान् पर्वत ४८ कारिकावली । इति ज्ञानादप्यनुमित्यापत्तिः स्यात् । इत्थं च यत्र ज्ञानद्वयं तत्रापि विशिष्टज्ञानं कल्पनीयं फलमुखगौरवस्यादोषत्वात् ॥ व्याप्यो नाम व्याप्त्याश्रयः। तत्र का व्याप्तिरित्यत आह । व्याप्तिरिति । व्याप्तिःसाध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः ॥६८॥ वहिमान् धूमादित्यादौ साध्यो वह्निः साध्यवान्महानसा- दिः तदन्यो जलहूदादि तदत्तिवं धूमस्येति लक्षणसमन्वयः। धूमवान् वढेरित्यादौ साध्यवदन्यस्मिस्तप्तायःपिण्डादौ वह्नि- सत्त्वान्नातिव्याप्तिः । अत्र येन संबन्धेन साध्यं तेनैव संबन्धेन साध्यवान्बोध्यः। अन्यथा समवायसंबन्धेन वहिमान्वहरवय- वस्तदन्यो महानसादिः । तत्र धूमस्य विद्यमानत्वादव्याप्ति- प्रसङ्गात् । साव्यवदन्यश्च साध्यवत्त्वावच्छिन्नप्रतियोगिताकभेद- वान्बोध्यः । तेन यत्किचिह्निमतो महानसादेर्भिन्ने पर्वतादौ धूमस्य सत्त्वेऽपि न क्षतिः। येन संबन्धेन हेतुता तेनैव संवन्धन साध्यवदन्यावृत्तित्वं बोध्यम् । तेन साध्यवदन्यस्मिन्धूमावयवे घूमस्य समवायसंबन्धेन सत्त्वेऽपि न क्षतिः। साध्यवदन्याट- तित्वं च साध्यवदन्यवृत्तिवनावच्छिन्नप्रतियोगिताकाभावः तेन धूमवान् वढेरित्यत्र साध्यवदन्यजलहूदादित्तिखाभावेऽपि ना- तिव्याप्तिः । अत्र यद्यपि द्रव्यं गुणकर्मान्यखविशिष्टसत्त्वादित्या- दौ विशिष्टसत्तायाः शुद्धसत्तायाश्चैक्यात्साध्यवदन्यस्मिन्गुणा- दाववृत्तिवं नास्ति तथापि हेतुतावच्छेदकरूपेणात्तित्वं वाच्यम् हेतुतावच्छेदकं वृत्तितानवच्छेदकमिति फलितोर्थः ॥ ६८॥ ननु केवलान्वयिनि ज्ञेयखादौ साध्ये साध्यवदन्यस्यापसि- द्धखादव्याप्तिः किंच सत्तावान् जातेरित्यादौ साध्यवदन्य- स्मिन्सामान्यादौ हेतुतावच्छेदकसंबन्धेन समवायेन वृत्तेरपसि- खात् । अत आह । अथवा हेतुमनिष्ठेति ।

सिद्धान्तमुक्तावलीसहिता । अथवा हेतुमनिष्ठविरहापतियोगिना । साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते ॥ ६९ ॥ हेतुमति निष्ठा वृत्तिर्यस्य स तथा विरहोऽभावः, तथा च हेलधिकरणदृत्तिर्योऽभावः तदप्रतियोगिना साध्येन सह हेतोः सामानाधिकरण्यं व्याप्तिरुच्यते । अत्र यद्यपि वहिमा- न् धूमादित्यादौ हेबधिकरणपर्वतादिवृत्त्यभावप्रतियोगिवं त- तयादेरस्तीत्यव्याप्तिः । न च समानाधिकरणवद्विधूमयोरेव व्याप्तिरिति वाच्यं, तत्तद्यादेरप्युभयाभावसत्त्वादेकसत्त्वेऽ- पि द्वयं नास्तीति प्रतीतेः। गुणवान् द्रव्यखादित्यादावव्याप्तिव, तथापि प्रतियोगितानवच्छेदकं यत्साध्यतावच्छेदकं तदवच्छिन्न- सामानाधिकरण्यं व्याप्तिरिति वाच्यम् । ननु रूपलव्याप्यजा- तिमद्वान् पृथिवीलादित्यादौ साध्यतावच्छेदिका रूपलव्याप्य- जातयस्तासांच शुक्लखादिजातीनांनीलघटादिवृत्त्यभावप्रतियो- गितावच्छेदकलमस्तीत्यव्याप्तिरिति चेन, तत्र परंपरया रूपन- व्याप्यजातिवस्यैव साध्यतावच्छेदकलात् । न हि तादृशधर्माव- च्छिन्नाभावः क्वापि पृथिव्यामस्ति रूपखव्याप्यजातिमानास्ती- ति बुद्ध्यापत्तेः।साध्यादिभेदेन व्याप्तेर्भेदात्ताशस्थले साध्यता- वच्छेदकतावच्छेदकं प्रतियोगितावच्छेदकतानवच्छेदकमित्येवल- क्षणघटकमित्यपि वदन्ति । हेलधिकरणंच हेतुतावच्छेदकविशि- धाधिकरणं वाच्यं, तेनद्रव्यं गुणकर्मान्यखविशिष्टसत्त्वादित्यादौ शुद्धसत्ताधिकरणगुणादिनिष्ठाभावप्रतियोगिवेऽपि द्रव्यवस्य नाव्याप्तिः । हेतुतावच्छेदकसंबन्धेन हेबधिकरणं बोध्यम् । तेन समवायेन धूमाधिकरणतदवयवनिष्ठाभावप्रतियोगिवेऽपि वढे- नाव्याप्तिः । अभावश्च प्रतियोगिव्यधिकरणो बोध्यः। तेन क- पिसंयोगी एतदृक्षलादित्यत्र मूलावच्छेदेनैव एतवृक्षवृत्तिक- ५० कारिकावली। पिसंयोगाभावप्रतियोगिवेऽपि कपिसंयोगस्य नाव्याप्तिः । न- च प्रतियोगिव्यधिकरणलं यदि प्रतियोग्यनधिकरणदृत्तिलं तदा तथैव व्याप्तिः प्रतियोगिनः कपिसंयोगस्यानधिकरणेगुणादौ व- र्तमानो योऽभावस्तस्यैव वृक्षे मूलावच्छेदेन सत्त्वात् यदि तु भ- तियोग्यधिकरणावृत्तिखतदासंयोगीसत्वादित्यादावतिव्याप्तिः सत्ताधिकरणे गुणादौ यः संयोगाभावस्तस्य प्रतियोग्यधिक- रणद्रव्यवृत्तिवादिति वाच्यम्, हेखधिकरणे प्रतियोग्यनधिक- रणवृत्तिखविशिष्टस्य विवक्षितखात्, स्वप्रतियोग्यनधिकरणीभू. तहेवधिकरणवृत्त्यभाव इति निष्कर्षः । प्रतियोग्यनधिकरणलं प्रतियोगितावच्छेदकावच्छिन्नानधिकरणलं वाच्यम् तेन विशि- ष्टसत्तावान् जातेरित्यादौ जात्यधिकरणगुणादौ विशिष्टसत्ता- भावप्रतियोगिसमानाधिकरणलेऽपिन क्षतिः। अत्र साध्यताव. च्छेदकसंबन्धेन प्रतियोग्यनधिकरणलं बोध्यम् । तेन ज्ञानवान् सत्त्वादित्यादौ सत्ताधिकरणघटादेविषयतया ज्ञानाधिकरण- वेऽपि न क्षतिः। इत्थं च वह्निमान धूमादित्यादौ धूमाधिकरणे समवायेन वह्निविरहसत्त्वेऽपि न क्षतिः । ननु प्रतियोगिताव- च्छेदकावच्छिन्नस्य यस्य कस्यचित्पतियोगिनोऽनधिकरणलं त- सामान्यस्य वा यत्किंचित्पतियोगितावच्छेदकावच्छिन्नानधि करणलं वा विवक्षितम् आये कपिसंयोगी एतदृक्षत्रादित्यादौ तथैवाव्याप्तिः कपिसंयोगाभावप्रतियोतावच्छेदकावच्छिन्नो वृक्षावृत्तिकपिसंयोगोऽपि भवति तदनधिकरणं वृक्ष इति, द्विती- ये तु प्रतियोगिव्यधिकरणाभावाप्रद्धिःसिसर्वस्यैवाभावस्य पूर्व- क्षणवृत्तिखविशिष्टस्वाभावात्मकप्रतियोगिसमानाधिकरणलात्। न च वह्निमान् धूमादित्यादौघटाभावादेः पूर्वक्षणदृत्तित्वविशि- एखाभावात्मकप्रतियोग्यधिकरणत्वं यद्यपि पर्वतादेस्तथापिसा- ध्यतावच्छेदकसंबन्धेन तत्पतियोग्य नधिकरणत्वमस्त्येवेति क- सिद्धान्तमुक्तावलीसहिता । यं प्रतियोगिव्यधिकरणाभावाप्रसिद्धिरिति वाच्यम्, घटाभावे यो वह्नयभावस्तस्य घटाभावात्मकतया घटाभावस्य वह्निरपि प्रतियोगी तदधिकरणं च पर्वतादिरित्येवं क्रमेण प्रतियोगिव्य- धिकरणस्याप्रसिद्धत्वात् यदि च घटाभावादौ वह्नयाभावादि- भिन इत्युच्यते तथापि धूमाभाववान् वदयाभावादित्यादाव- व्याप्तिः । तत्र साध्यतावच्छेदकसंबन्धः स्वरूपसंवन्धः तेन संबन्धेन सर्वस्यैवाभावस्य पूर्वक्षणत्तित्वविविष्टस्वाभावात्म- कातियोग्यधिकरणत्वं हेत्वधिकरणस्येति । तृतीये तु कपिसं- योगाभाववान् आत्मत्वादित्यादावव्याप्तिः तत्रात्मवृत्तिकपिसं- योगाभावाभावः कपिसंगस्तस्य च गुणत्वाप्रतियोगिताव- च्छेदकं गुणसामान्याभावत्वमपि तदवच्छिन्नानधिकरणत्वं हेत्व- धिकरणस्यात्मन इति मैवम् । यादृशप्रतियोगितावच्छेदकाव- च्छिन्नानधिकरणत्वं हेतुमतस्तादृशप्रतियोगितानवच्छेदकत्वस्य विवक्षितत्वात् । ननु कालो घटवान् कालपरिमाणादित्यत्र प्रति- योगिव्यधिकरणाभावाप्रसिद्धिः हेत्वधिकरणस्य महाकालस्य जगदाधारतया सर्वेषामभावानां साध्यतावच्छेदकसंबन्धेन का. लिकविशेषणतया प्रतियोग्यधिकरणत्वात् । अत्र केचित् । म- हाकालभेदविशिष्टघटाभावस्तत्र प्रतियोगिव्यधिकरणमहाका- लस्य घटाधारत्वेऽपि महाकालभेदविशिष्टघटानाधारत्वात्। म- हाकाले महाकालभेदाभावात् । वस्तुतस्तु प्रतियोगितावच्छेद- कसंबन्धेन प्रतियोग्यनधिकरणीभूतहेत्वधिकरणवृत्त्यभावप्रति- योगितासामान्ये यत्संबन्धावच्छिन्नत्वयद्धर्मावच्छिन्नत्वोभया- मावस्तेन संबन्धेन तद्धर्मावच्छिन्नस्य तद्धतुव्यापकत्वं बोध्यम् । इत्थं च कालो घटवान् कालपरिमाणादित्यादौ संयोगसंबन्धन घटाभावप्रतियोगिनो घटस्यानधिकरणे हेत्वधिकरणे महाकाले वर्तमानः स एव संयोगेन घटाभावस्तस्य प्रतियोगितायां का- कारिकावली। लिकसंबन्धावच्छिन्नत्वघटत्वावच्छिन्नत्वोभयाभावसत्त्वाचाव्या प्तिः। ननु प्रमेयवह्निमान् धूमादित्यादौ प्रमेयवह्नित्वावच्छिन्नत्व- मपसिद्धं गुरुधर्मस्यानवच्छेदकत्वादिति चेन्न, कम्बुग्रीवादिमाना स्तीति प्रतीत्या कम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियोगिताविषयी- करणेन गुरुधर्मस्याप्यवच्छेदकलस्वीकारादिति संक्षेपः ॥६९॥ पक्षवृत्तित्वमित्यत्र पक्षत्वं किं तदाह सिषाधयिषयेति । सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते । स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत् ॥७० ॥ सिपाधयिषाविरहविशिष्टसिद्ध्यभावः पक्षता तद्वान्पक्ष इ. त्यर्थः। सिषाधयिषामात्रं न पक्षता विनापि सिषाधयिषां धनगजितेन मेघानुमानात् । अत एव साध्यसंदेहोऽपि न प- क्षता विनापि संदेहं तदनुमानात् । सिद्धौ सत्यामपि सिषाध- यिषासत्त्वेऽनुमितिर्भवत्येव । अतः सिषाधयिषा विरहविशि- टत्वं सिद्धौ विशेषणम् । तथा च यत्र सिद्धिर्नास्ति तत्र सि- षाधयिषायां सत्यामसत्यामपि पक्षता । यत्र सिषाधयिषाऽस्ति तत्र सिद्धौ सत्यामसत्यामपि पक्षता । यत्र सिद्धिरस्ति सिषा- धयिषा च नास्ति तत्र न पक्षता सिषाधयिषाविरहविशिष्ट- सिद्धेः सत्त्वात् । ननु यत्र परामर्शानन्तरं सिद्धिस्ततः सिषाध- विषा तत्र सिषाधयिषाकाले परामर्शनाशानानुमितिः। यत्र सि- दिपरामर्शसिषाधयिषाः क्रमेण भवन्ति तत्र सिषाधयिषाकाले सिद्ध शात्मतिबन्धकाभावादेवानुमितिः । यत्र सिपाधयिषा- सिद्धिपरामर्शाः सन्ति तत्र परामर्शकाले सिषाधयिषैव नास्ति। एवमन्यत्रापि सिद्धिकाले परामर्शकाले च न सिषाधयिषा यो- ग्यविभुगुणानां यौगपद्यनिषेधात्। तत्कथं सिषाधयिषाविरहवि: शिष्ट सिदेविशेषणमिति चेन्न, यत्र वहिव्याप्यधूमवान् वर्पतो

सिद्धान्तमुक्तावलीसहिता।
वनिमानिति प्रत्यक्षं स्मरणं वा ततः सिषाधयिषा तत्र पक्षता-
संपत्तये तद्विशेषणस्यावश्यकत्वात् । अत्रेदं बोध्यम् । यादृशया-
दृशसिषाधयिषासत्त्वे सिद्धिसत्त्वे यल्लिङ्गकानुमितिस्तादृशता-
दृशसिषाधयिषाविरहविशिष्टसिद्धयभावस्तल्लिङ्गकानुमितौ प-
क्षता । तेन सिद्धिपरामर्शसत्त्वेऽपि यत्किचिज्ज्ञानं जायतामि-
तीच्छायामपि नानुमितिः। वह्निव्याप्यधूमवान् पर्वतो वह्निमा-
निति प्रत्यक्षसत्त्वे प्रत्यक्षातिरिक्तं ज्ञानं जायतामितीच्छा तु
भवत्येव । एवं धूमपरामर्शसत्त्वे आलोकेन वह्निमनुमिनुयामि-
तीच्छायामपि नानुमितिः । सिषाधयिषाविरहकाले यादृशसि-
द्धिसत्त्वे नानुमितिस्तादृशी सिद्धिर्विशिष्यैव तदनुमितौ प्रति-
बन्धिका वक्तव्या । तेन पर्वतस्तेजस्वी पाषाणमयो वह्निमा-
निति ज्ञानसत्त्वेऽप्यनुमितेर्न विरोधः परंतु पक्षतावच्छेदकसा.
मानाधिकरण्येन साध्यसिद्धावपि तदवच्छेदेनानुमितिदर्शना-
त्पक्षतावच्छेदकावच्छेदनानुमिति प्रति पक्षतावच्छेदकावच्छेदेन
साध्यसिद्धिरेव प्रतिबन्धिका । पक्षतावच्छेदकसामानाधिकर-
ण्येनानुमितिं प्रति तु सिद्धिमात्रं विरोधि । इदं तु बोध्यम् ।
यत्रायं पुरुषो न वेति संशयानन्तरं पुरुषत्वव्याप्यकरादिमान्
अयमिति ज्ञानं तत्रासत्यामनुमित्सायां पुरुषस्य प्रत्यक्षं भवति
नखनुमितिरतोऽनुमित्साविरहविशिष्टसमानविषयकप्रत्यक्षसा-
मग्री कामिनीजिज्ञासादिवत्वात्र्येण प्रतिबन्धिका । एवं प-
रामर्शानन्तरं विनापि प्रत्यक्षेच्छां पक्षादेः प्रत्यक्षानुत्पत्तेः ।
प्रत्यक्षेच्छाविरहविशिष्टानुमितिसामग्री भिन्नविषयकमत्यक्षे प्र-
तिबन्धिका ॥ ७०॥
हेतुमसङ्गादेखाभासान्विभजते । अनैकान्त इति ।
अनैकान्तो विरुद्धचाप्यसिद्धः प्रतिपक्षितः।
कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा ॥७॥

५४ कारिकावली। आद्यः साधारणस्तु स्यादसाधारणकोऽपरः। तथैवानुपसंहारी विधानैकान्तिको भवेत् ।। ७२॥ तल्लक्षणं तु यद्विषयकलेन ज्ञानस्यानुमितिविरोधिवं तत्त्वम् । तथाहि व्यभिचारादिविषयकवेन ज्ञानस्यानुमितिविरोधिखाते दोषाः। यद्विषयकलं च यादृशविशिष्टविषयकलम् । तेन बाधभ्र- मस्यानुमितिविरोधिवेऽपि न क्षतिः । तत्र पर्वतो वह्नयभाव- वानिति विशिष्टस्यापसिद्धत्वान्न हेतुदोषः । न च वह्नयभाव. व्याप्यपाषाणमयत्ववानिति परामर्शकाले वहिव्याप्यधूमस्या- भासत्वं स्यात् तत्र वह्नयभावव्याप्यवान्पक्ष इति विशिष्टस्या- प्रसिद्धत्वादिति वाच्यम् , इष्टापत्तेः । अन्यथा बाधस्यानि- त्यदोषत्वापत्तेः । तस्मात्तत्र वदयभावव्याप्यपाषाणमयत्ववा- निति परामर्शकाले वह्निव्याप्यधूमस्य नाभासत्वम् ।भ्रमादनु मितिपतिबन्धमानहेतुस्तु न दुष्टः । इत्थं च साध्याभाववद्वृत्तिहे- त्वादिकं दोषः। तद्वत्त्वं च हेतौ येन केनापि संबन्धेनेति नव्याः। परे तु यद्विषयकत्वेन ज्ञानस्यानुमितिविरोधित्वं तद्वत्त्वं हेत्वाभा- सत्वम् । सत्प्रतिपक्षे विरोधिव्याप्त्यादिकमेव तथा तद्वत्त्वं च हतोर्ज्ञानरूपसंबन्धेन । न चैवं वह्निमान् धूमादित्यादौ पक्षे बा- धभ्रमस्य साध्यभावविषयकत्वेनानुमितिविरोधित्वाज्ज्ञानरू- पसंवन्धेन तद्वत्त्वस्यापि सत्त्वात्सद्धेतोरपि बाधितत्वापत्तिरिति वाच्यं, तत्र ज्ञानस्य संबन्धत्वाकल्पनात् । अत्र सत्पतिपक्षित इति व्यवहारेण तत्कल्पनात् । तत्र बाधित इति व्यवहाराभा- वादित्याहुः । अनुमितिविरोधित्वं च अनुमितितत्करणान्य- तरविरोधित्वम् । तेन व्यभिचारिणि नाव्याप्तिः । दोषज्ञानं च यद्धेतुविषयकं तद्धेतुकानुमितौ प्रतिबन्धकम् । तेनैकहेतीव्यभिचा. रज्ञाने हेत्वन्तरेणानुमित्युत्पत्तिस्तदभावाधनवगाहिलाचव्यभि- सिद्धान्तमुक्तावलीसहिता। चारज्ञानस्यानुमितिविरोधिखाभावेऽपि न क्षतिरिति संक्षेपः। यादशसाध्यपक्षहेतौ यावन्तो दोषास्तावदन्यान्यत्वं तत्र हेखा- भासखम् । पञ्चवकथनं तत्संभवस्थलाभिप्रायेण । एवं च सा- धारणाधन्यतमत्वमनैकान्तिकसम् । साधारणः साध्यवदन्यत्र- त्तिः । तेन च व्याप्तिज्ञानप्रतिबन्धः क्रियते । असाधारण: साध्यासमानाधिकरणो हेतुः । तेन साध्यसामानाधिकरण्यग्रहः प्रतिवध्यते । अन्ये तु सपक्षावृत्तिरसाधारणः। सपक्षश्च निश्चित- साध्यवान् । इत्थं च शब्दोऽनित्यः शब्दखादित्यादौ यदा पक्षे साध्यनिश्चयस्तदा नासाधारण्यं तत्र हेतोनिश्चयादिति वदन्ति । अनुपसंहारी चात्यन्ताभावाप्रतियोगिसाध्यकादिः। अनेन व्य- तिरेकव्याप्तिज्ञानप्रतिवन्धः क्रियते। विरुद्धस्तु साध्यव्यापकीभू- ताभावप्रतियोगी । अयं साध्याभावग्रहसामग्रीत्वेन प्रतिबन्ध- कः । सत्पतिपक्षे तु प्रतिहेतुःसाध्याभावसाधकः । अत्र हेतु- रेकएवेति विशेषः। साध्याभावसाधक एव साध्यसाधकत्वेनोप- न्यस्त इति । अशक्तिविशेपोपस्थापकत्वाच्च विशेषः सत्पति- पक्षः साध्याभावव्याप्यवान्पक्षः । अगृहीताप्रामाण्यकसाध्य- व्याप्यवत्त्वोपस्थितिकालीनागृहीताप्रामाण्यकतदभावव्याप्यव- चोपस्थितिविषयस्तथेत्यन्ये । अत्र च परस्पराभावव्याप्यव- ताज्ञानात्परस्परानुमितिप्रतिबन्धः फलम् । अत्र केचित् । यथा घटाभावव्याप्यवत्ताज्ञानेऽपि घटचक्षुःसंयोगे सति घटवत्ता- ज्ञानं जायते । यथा च शङ्ख सत्यपि पीतत्वाभावव्याप्यशा- त्ववत्ताज्ञाने सति पित्तादिदोषे पीतः शङ्ख इति धीर्जायते एवं कोटिद्वयव्याप्यदर्शनेऽपि कोटिद्वयस्य प्रत्यक्षरूपः संशयो भवति । तथा सत्मतिपक्षस्थले संशयरूपानुमितिर्भवत्येव । यत्र चैककोटिव्याप्यदर्शनं तत्राधिकबलतया द्वितीयकोटिभानपति- बन्धान संशयः। फलबलेन चाधिकसमबलभावः कल्प्यत इति ५६ कारिकावली। वदन्ति । तन्न । तदभावव्याप्यवत्ताज्ञाने सति तदुपनीतभानवि- शेषशाब्दबोधादेरनुदयाल्लौकिकसंनिकर्षाजन्यदोषजन्यज्ञान- मात्रे तस्य प्रतिबन्धकता लाघवात् । न तूपनीतभानविशेष शाब्दबोधे च पृथक्प्रतिबन्धकता गौरवात् । तथा च प्रति- बन्धकसत्त्वात्कथमनुमितिः । न हि लौकिकसंनिकर्षस्थले प्र- त्यक्षमिव सत्प्रतिपक्षस्थले संशयाकारानुमितिः प्रामाणिकी ये- नानुमितिभिन्नतेनापि विशेषणीयम् । यत्र च कोटिद्वयव्याप्यव- ताज्ञानं तत्रोभयत्रापामाण्यज्ञानात्संशयो नान्यथाऽगृहीतापा- माण्यकस्यैव विरोधिज्ञानस्य प्रतिबन्धकत्वादिति । असिदि- स्त्वाश्रयासिद्धयाचन्यतमत्वम्, आश्रयासिद्धिः पक्षे पक्षता- वच्छेदकस्याभावः। यत्र च काञ्चनमयः पर्वतो वह्निमानिति साध्यते तत्र पर्वतो न काञ्चनमय इति ज्ञाने विद्यमाने काञ्च- नमये पर्वते परामर्शपतिवन्धः फलम् । स्वरूपासिद्धिस्तु पक्षे व्याप्यत्वाभिमतस्याभावः । तत्र च हृदो द्रव्यं धूमादित्या- दौ पक्षे व्याप्यत्वाभिमतस्य हेतोरभावे ज्ञाते पक्षे व्याप्यहे. तुमत्ताज्ञानरूपस्य परामर्शस्य प्रतिबन्धः फलम् । साध्याप- सिद्धयादयस्तु व्याप्यत्वासिद्धिः मध्येऽन्तर्भूताः। साध्ये सा- ध्यतावच्छेदकस्याभावः साध्याप्रसिद्धिः। एतज्ज्ञाने जाते का.. वनमयवह्निमानित्यादौ साध्यतावच्छेदकविशिष्टसाध्यपराम- शप्रतिबन्धः फलम् । एवं हेतौ हेतुतावच्छेदकाभावः साधना- प्रसिद्धिः । यथा काञ्चनमयधूमादित्यादौ । अत्र हेतुतावच्छे- दकविशिष्टहेतोर्शानाभावात्तद्धेतुकव्याप्तिज्ञानादेरभावः फलम् । एवंवह्निमान् नीलधूमादित्यादौगुरुतयानीलधूमत्वं हेतुतावच्छे- दकत्वमपि व्याप्यत्वासिद्धिरित्यपि वदन्ति । बाधस्तु पक्षे सा- ध्याभावादिः। एतस्यानुमितिप्रतिबन्धः फलम् । तद्धर्मिकतद- भावनिश्चयो लौकिकसंनिकर्षाजन्यदोषविशेषाजन्यतर्मिकत- सिद्धान्तमुक्तावलीसहिता। ज्ज्ञानमात्रे विरोधीति न तु संशयसाधारणं पक्षे साध्यसंस- ष्टवज्ञानमनुमितिकारणं तद्विरोधितया बाधसत्प्रतिपक्षयोर्तेला- भासत्वमिति युक्तम् । अप्रसिद्धसाध्यकानुमित्यनापत्तेः सा- ध्यसंशयादिकं विनानुमित्युत्पत्तेश्च । एवं साध्याभावज्ञाने प्र- मात्वज्ञानमपि न प्रतिबन्धकं प्रमाणाभावागौरवाच । अन्यथा सत्यतिपक्षादावपि तदभावव्याप्यवत्ताज्ञाने प्रमात्वविषयक- त्वेन प्रतिबन्धकतापत्तेः। किंतु भ्रमत्वज्ञानानास्कन्दितबाधबुद्धेः प्रतिबन्धकता तत्र भ्रमत्वशङ्काविघटनेनप्रामाण्यज्ञानं क्वचिदुप- युज्यते । न च बाधस्थले पक्षे हेतुसत्वे व्यभिचारः पक्षे हेत्व- भावे वरूपासिद्धिरेव दोष इति वाच्यं, बाधज्ञानव्यभिचार- मानादेर्भेदात् । किं च यत्र परामर्शानन्तरं वाधबुद्धिस्तत्र व्य- भिचारज्ञानादेरकिंचित्करबादाधस्यानुमितिप्रतिबन्धकत्वं वा- च्यम् । एवं यत्रोत्पत्तिक्षणावच्छिन्ने घटादौ गन्धव्याप्यपृथिवीब- वत्ताज्ञानं तत्र बाधस्यैव प्रतिबन्धकत्वं वाच्यम् । न च पक्षे घटे गन्धसत्त्वात्कथं बाध इति वाच्यं, पक्षतावच्छेदकदेशकालावच्छे- देनानुमितेरनुभवसिद्धत्वादिति । बाधतव्याप्यभिन्ना ये हेला- भासास्तव्याप्या अपि तन्मध्य एवान्तर्भवन्ति । अन्यथा हेवा- भासाधिक्यप्रसङ्गात् ।बाधव्याप्यसत्मतिपक्षो भिन्न एव स्वतन्त्रे- च्छेन मुनिना पृथगुपदेशात् । सत्पतिपक्षव्याप्यस्तु न प्रतिब- न्धक इति प्रघट्टकार्थः ॥ ७१ ॥ ७२ ॥ यः सपक्ष इति । यः सपक्षे विपक्षे च भवेत्साधारणस्तु सः। सपक्षविपक्षवृत्तिःसाधारण इत्यर्थः । सपक्षो निश्चितसाध्य- वान् । विपक्षः साध्यवद्भिन्नः । विरुदवारणाय सपक्षचिन-

कारिकावली।
मुक्तम् । वस्तुतो विपक्षवृत्तित्वमेव वाच्यम्, विरुद्धस्य साधार-
गत्वेऽपि दूषकताबीजस्य भिन्नतया तस्य पार्थक्यात् ॥
यस्तूभयस्मादिति ।
यस्तूभयस्मादयावृत्तः स चासाधारणो मतः॥७३॥
सपक्षविपक्षव्यावृत्त इत्यर्थः । सपक्षः साध्यवत्तया निश्चि-
तः। विपक्षः साध्यशून्यतया निश्चितः । शब्दोऽनित्यः शब्द-
वादित्यादौ यदा शब्देऽनित्यत्वसन्देहस्तदा सपक्षत्वं घट-
त्वादीनामेव तव्यावृत्तं च शब्दत्वमिति तदा तदसाधारणम् ।
यदा तु शब्दे नित्यत्वनिश्चयस्तदा नासाधारणम् । इदं तु
प्राचां मतम् । नवीनमतं पूर्वमुक्तम् ॥ ७३ ॥
तथैवेति ।
तथैवानुपसंहारी केवलान्वयिपक्षकः ।
सर्वमभिधेयं प्रमेयत्वादित्यादौ सर्वस्यैव पक्षत्वात्सामाना-
धिकरण्यग्रहस्थलान्तराभावान्नानुमितिः । इदं तु न सम्यक
पक्षकदेशे सहचारग्रहेऽपि क्षतेरभावात् । अस्तु वा सहचारा-
ग्रहस्तावताप्यज्ञानरूपासिद्धिरेव न हेत्वाभासत्वं तस्य तथापि
केवलान्वयिसाध्यकत्वं तत्त्वमित्युक्तम् ।।
यः साध्यवतीति ।
यः साध्यवति नैवास्ति स विरुद्ध उदाहृतः॥७४॥
एवकारेण साध्यवत्त्वावच्छेदेन हेत्वभावो बोधितः। तथा
च साध्यव्यापकीभूताभावप्रतियोगित्वं तदर्थः ॥ ७४ ॥
असिद्धि विभजते । आश्रयासिद्धिरिति ।
आश्रयासिद्धिराद्या स्यात्स्वरूपासिद्धिरप्यथ ।
व्याप्यत्वासिद्धिरपरा स्यादसिद्धिरतस्त्रिधा॥७५॥

: सिद्धान्तमुक्तावलीसहिता। पक्षासिद्धिर्यत्र पक्षो भवेन्मणिमयो गिरिः। इदो द्रव्यं धूमवत्त्वादत्रासिद्धिस्थापरा ।। ७६ ।। व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत् । पक्षासिद्धिरिति । आश्रयासिद्धिरित्यर्थः । अपरेति । स्वरूपासिद्धिरित्यर्थः । नीलधूमादिक इति । नीलधूम- त्वादिकं गुरुतया न हेतुतावच्छेदकं स्वसमानाधिकरणव्याप्य- तावच्छदेकधर्मान्तराघटितस्यैव व्याप्यतावच्छेदकत्वात् । धूम- भागभावत्वसंग्रहाय स्वसमानाधिकरणेति ॥ विरुद्धयोरिति । विरुद्धयोःपरामशों हेत्वोः सत्प्रतिपक्षता ।। ७७ ॥ कपिसंयोगतदभावव्याप्यवत्तापरामर्शेऽपि न समतिपक्ष- खमत उक्तं विरुद्धयोरिति । तथा च वसाध्यविरुद्धसा- व्याभावव्याप्यवत्तापरामर्शकालीनसाध्यव्याप्यवत्तापरामर्श- विषय इत्यर्थः ॥ ७५ ॥ ७६ ॥ ७७ ॥ साध्यशून्य इति । साध्यशून्यो यत्र पक्षस्त्वसौ बाध उदाहृतः । उत्पत्तिकालीनघटे गन्धादिर्यत्र साध्यते ॥७८॥ पक्षः पक्षतावच्छेदकविशिष्ट इत्यर्थः । तेन घटे गन्धसत्त्वे- ऽपि न क्षतिः । एवं मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यत्रा- पि बोध्यम् ॥ ७८॥ इति श्रीविश्वनाथपश्चाननभट्टाचार्यविरचितायां सि. हान्तमुक्तावल्यामनुमानखण्डम् ॥

-- कारिकावली। उपमितिं व्युत्पादयति । ग्रामीणस्येति । ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् । सादृश्यधीर्गवादीनां यास्यात्सा करणं मतम्।।७९॥ वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार उच्यते । गवयादिपदानां तु शक्तिधीरुपमाफलम् ८० यत्रारण्यकेन केनचिद्रामीणं प्रत्युक्तं गोसदृशो गवयपद- वाच्य इति । पश्चाद्रामीणेन क्वचिदरण्यादौ गवयो दृष्टस्तत्र गोसादृश्यदर्शनं यज्जातं तदुपमितिकरणम् । तदनन्तरं गोस. दृशो गवयपदवाच्य इत्यतिदेशवाक्यार्थस्मरणं यज्जायते तदेव व्यापारः । तदनन्तरं गवयो गवयपदवाच्य इति ज्ञानं यजा- यते तदुपमितिः।न त्वयं गवयपदवाच्य इत्युपमितिः गवयान्तरे शक्तिग्रहाभावप्रसङ्गात् ॥ ७९ ॥ ८०॥ इति श्रीविश्वनाथपश्चाननभट्टाचार्यविरचितायां सि- डान्तमुक्तावल्यामुपमानखण्डम् ।। शाब्दबोधप्रकारं दर्शयति । पदज्ञानं विति । पदज्ञानं तु करणं दारं तत्र पदार्थधीः । शब्दाबोधः फलं तत्रशक्तिधीः सहकारिणी ८१ न तु ज्ञायमानं पदं करणं पदाभावेऽपि मौनिश्लोकादौ शाब्दयोधात् । पदार्थधीरिति । पदजन्यपदार्थस्मरणं व्या- पारः । अन्यथा पदज्ञानवतः प्रत्यक्षादिना पदार्थोपस्थितावपि शाब्दबोधापत्तेः । तत्रापि वृत्त्या पदजन्यखं बोध्यम् । अन्यथा घटादिपदात्समवायसंबन्धेनाकाशस्मरणे जाते आकाशस्यापि शाब्दबोधापत्तेः। वृत्तिश्च शक्तिलक्षणान्यतरसंबन्धः । अ- सिद्धान्तमुक्तावलीसहिता। त्रैव शक्तिज्ञानस्योपयोगः पूर्व शक्तिग्रहाभावे पदज्ञानेऽपि तत्संबन्धेन स्मरणानुपपत्तेः । पदज्ञानस्य हि एकसंबन्धिज्ञा. नविधया स्मारकखम् । शक्तिश्च पदेन सह पदार्थस्य संबन्धः। सा चास्माच्छाब्दादयमर्थो बोद्धव्य इतीश्वरेच्छारूपा । आधु- निके नाम्नि शक्तिरस्त्येव एकादशेऽहनि पिता नाम कुर्या- दितीश्वरेच्छायाः सत्त्वात् । आधुनिकसंकेतिते तु न शक्ति- रिति संप्रदायः । नव्यास्तु ईश्वरेच्छा न शक्तिः किंबिच्छैव तेनाधुनिकसंकेतितेऽपि शक्तिरस्त्येवेत्याहुः। शक्तिग्रहस्तु व्या- करणादितः । तथा हि । शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याव्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः ॥ धातुप्रकृतिप्रत्ययादीनां शक्तिग्रहो व्याकरणाद्भवति । क- चित्सति बाधके त्यज्यते । यथा वैयाकरणैराख्यातस्य कर्तरि शक्तिरुच्यते । चैत्रः पचतीत्यादौ का सह चैत्रस्याभेदान्वयः। तच्च गौरवात्यज्यते किंतु कृतौ शक्तिग्रहो लाघवात् । कृतिश्चै- त्रादौ प्रकारीभूय भासते । न च कर्तुरनभिधानाचैत्रादिपदा- नन्तरं तृतीया स्यादिति वाच्यं, कर्तृसंख्यानभिधानस्य तत्रत- बलात् । संख्याभिधानयोग्यश्च कर्मवाद्यनवरुद्धः प्रथमान्तप- दोपस्थाप्यः कर्मवादीत्यस्येतरविशेषणखतात्पर्याविषयसमर्थः। तेन चैत्र इव मैत्रो गच्छतीत्यादौ न चैत्रे संख्यान्वयः। यत्र क- मादौ न विशेषणसे तात्पर्य तद्वारणाय प्रथमान्तेति । यद्वा धा- खातिरिक्ताविशेषणलं प्रथमदलार्थः । तेन चैत्र इव मैत्रो ग- च्छतीत्यत्र चैत्रादेारणम् । स्तोकं पचतीत्यादौ स्तोकादेवार- णाय च द्वितीयदलम् । तस्य द्वितीयान्तोपस्थाप्यखाद्वारणमिति । एवं व्यापारेऽपिन शक्तिर्गौरवात्।रयोगच्छतीत्यादौ तु खव्या- पारे आश्रयले वा लक्षणा। जानातीत्यादौ तु आश्रयत्वे नश्य- .

६२ कारिकावली। तीत्यादौ प्रतियोगित्वे निरूढलक्षणा। उपमानाद्यया शक्तिग्रह- स्तथोक्तम् ॥ एवं कोशादपि शक्तिग्रहः । सतिषाधके कचित्त्य- ज्येत । यथा नीलादिपदानां नीलरूपादौ नीलादिविशिष्टे च शक्तिः कोशेन व्युत्पादिता तथापि लाघवानीलादावेव शक्तिः। नीलादिरूपविशिष्टे तु लक्षणेति॥एवमाप्तवाक्यादपि। यथा को- किलः पिकपदवाच्य इत्यादिशब्दापिकादिशक्तिग्रहः ॥ एवं व्यवहारादपि । यथा प्रयोजकटद्धेन घटमानयेत्युक्तम् । तच्छु. लाप्रयोज्यवद्धन घट आनीतः। तदवधार्य पार्थस्थोवालो घटान- यनरूपं कार्य घटमानयेतिशब्दप्रयोज्यमवधारयति । ततश्च घ- टं नय गामानयेत्यादावावापोद्वापाभ्यां घटादिपदानां कार्या- वितघटादौ शक्तिं गृह्णाति । इत्यं च भूतले नीलो घट इत्या. दिशब्दाम शाब्दबोधः । घटादिपदानां कार्यान्वितघटादिबोधे सामर्थ्यावधारणात्कार्यताबोधं प्रति च लिङ्गादीनां सामर्थ्या- सदभावान शाब्दबोध इत्यपि केचित् । तन्न । प्रथमतः कार्या- वितघटादौ शक्त्यवधारणेऽपि लाघवेन पश्चात्तस्य परित्यागौ- चित्यात् । अत एव चैत्र पुत्रस्ते जातः कन्या ते गर्भिणी जाता इत्यादौ मुखप्रसादमुखमालिन्याभ्यां सुखदुःखे अनुमाय त- कारणत्वेन परिशेषाच्छाब्दबोधं निर्णीय तहेतुतया तं शब्दम- वधारयति । तथा च व्यभिचारात्कार्यान्विते न शक्तिः। न च तत्र तं पश्येत्यादि शब्दान्तरमध्याहार्य, मानाभावात्। चैत्र पुत्रस्ते जातो मृतश्चेत्यादौ तदभावाच्च । इत्यं च लाघवादन्वि- सघटेऽपि शक्तिं त्यक्सा घटपदस्य घटमात्रे शक्तिमवधार- यति ॥ एवं वाक्यशेषादपि शक्तिग्रहः । यथा यवमयश्चरुर्भव- तीत्यत्र यवपदस्य दीर्घशकविशेष कार्याणां प्रयोगः कौ च म्लेच्छानाम्, तत्र हि, अथान्या ओषधयो म्लायन्तेऽथैवे मोदमाना इवोत्तिष्ठन्ति, इति वाक्यशेषादीर्घशूकेशक्तिनिर्णी- सिद्धान्तमुक्तावलीसहिता। यते, कङ्गौ तु शक्तिभ्रमात्प्रयोगो नानाशक्तिकल्पने गौर- वात् । हर्यादिपदे तु विनिगमकाभावान्नानाशक्तिकल्पनम् ॥ एवं विवरणादपि शक्तिग्रहः। विवरणं तु तत्समानार्थपदान्त- रेण तदर्थकथनम् । यथा घटोऽस्तीत्यस्य कलशोऽस्तीत्यनेन विवरणाद्धटपदस्य कलशे शक्तिग्रहः । एवं पचतीत्यस्य पार्क करोतीत्यनेन विवरणादाख्यातस्य यनार्थकत्वं कल्प्यते ॥ एवं प्रसिद्धपदसांनिध्यादपि शक्तिग्रहः । यथा इह सहकारतरौ मधुरं पिको रौतीत्यादौ पिकपदस्य कोकिले शक्तिग्रह इति । तत्र जातादेव शक्तिर्न तु व्यक्तौ व्यभिचारादानन्त्याच्च । शक्ति विना च जातिमानस्यासंभवाद्व्यक्तेरपि भानमिति केचित, तन्न । शक्ति विना व्यक्तिभानानुपपत्तेः । न च व्यक्तौ लक्ष- णाऽनुपपत्तिप्रतिसन्धानं, विनापि व्यक्तिबोधात् । न च व्यक्ति- शक्तावानन्त्य, सकलव्यक्तावेकस्या एव शक्तेः स्वीकारात् । न चाननुगमः, गोलादेरेवानुगमकत्वात् । किंच गौः शक्येति श- क्तिग्रहो यदि तदा व्यक्तौ शक्तिः। यदि तु गोत्वं शक्यमिति शक्तिग्रहस्तदा गोत्वप्रकारकपदार्थस्मरणं शाब्दबोधश्च न स्यात्। समानप्रकारकनेन शक्तिज्ञानस्य पदार्थस्मरणं शाब्दबोधं प्रति च हेतुत्वात् । किं च गोत्वे यदि शक्तिस्तदा गोललं शक्यता- वच्छेदकं वाच्यम्।गोजजंतु.गवितरासमवेतत्वे सतिसकलगोस. मवेतत्वम्। तथा च गोव्यक्तीनां शक्यतावच्छेदकेऽनुप्रवेशात्तवैव गौरवम् । तस्मात्तत्तज्जात्याकृतिविशिष्टतत्तव्यक्तिबोधानुपप- च्या कल्प्यमाना शक्तिर्जात्याकृतिविशिष्टव्यक्तौ विश्राम्यतीति शक्तं पदं, तञ्चतुर्विधम्, क्वचिद्यौगिकंक्वचिदृढ क्वचिद्योगरूढ़ क्वचिद्यौगिकरूढम्। तथा हि । यत्रावयवार्थ एवबुध्यते तद्यौगि- कम् । यथा पाचकादिपदम् । यत्रावयवशक्तिनैरपेक्ष्येण समु- दायशक्तिमात्रेण बुध्यते तबूढम् । यथा गोमण्डलादिपदम् ।

कारिकावली। यत्र तु अवयवशक्तिविषये समुदायशक्तिरप्यस्ति तद्योगरूढम् । यथा पङ्कजादिपदम् । तथा हि पङ्कजपदमवयवशक्त्या पङ्कज- निकर्तृवरूपमर्थ बोधयति । समुदायशक्त्या च पद्मलेन रूपेण पद्म बोधयति । न च केवलयाऽवयवशक्त्या कुमुदे प्रयोगः स्यादिति वाच्यं, रूढिज्ञानस्य केवलयौगिकार्थज्ञाने प्रतिबन्धक- खादिति पाश्चः । वस्तुतस्तु, समुदायशक्त्युपस्थितपद्मेऽवयवा- र्थपङ्कजनिकर्तुरन्वयो भवति सांनिध्यात् । यत्र तु रूढ्यर्थस्य बाधः प्रतिसंधीयते तत्र लक्षणया कुमुदादेर्बोधः । यत्र तु कुमु- दलेन रूपेण बोधे तात्पर्यज्ञानं पद्यवस्य च बाधस्तत्रावयवश- क्तिमात्रेण निर्वाह इत्याहुः । यत्र तुस्थलपद्मादावषयवार्थबा- धस्तत्र समुदायशक्त्या च पद्मलेन रूपेण बोधः । यदि तु स्थ- लपङ्कजं विजातीयमेव तदा लक्षणयैवेति । यत्र तु यौगिकार्थ- रूढ्यर्थयोः स्वातन्त्र्येण बोधस्तद्यौगिकरूढम् । यथोद्भिदादि- पदम् । तत्र हि उद्भेदनकर्ता तरुगुल्मादिरपि बुध्यते यागवि- शेषोऽपीति ॥ ८१॥ लक्षणेति । लक्षणा शक्यसंबन्धस्तात्पर्यानुपपत्तितः । गङ्गायां घोष इत्यादौ गङ्गापदस्य शक्यार्थे प्रवाहरूपे घो. पस्यान्वयानुपपत्तिस्तात्पर्यानुपपत्तिा प्रतिसंधीयते तत्र लक्ष- गया तीरस्य बोध इति । सा च शक्यसंबन्धरूपा । तथा हि । प्रवाहरूपशक्यार्थसंबन्धस्य तीरे गृहीतत्वात्तीरस्य स्मरणम् । ततः शाब्दबोधः । परंतु यद्यन्वयानुपपत्तिलक्षणाबीजं स्यात्तदा यष्टीः प्रवेशयेत्यत्र लक्षणा न स्यात् यष्टिषु प्रवेशान्वयस्यानु. पपत्तेरभावात् । तेन यष्टिमवेशे भोजनतात्पर्यानुपपत्त्या यष्टि- धरेषु लक्षणा । एवं काकेभ्यो दधि रक्ष्यतामित्यादौ काकप- । सिद्धान्तमुक्तावलीसहिता। दस्य दध्युपघातके लक्षणा सर्वतो दधिरक्षायास्तात्पर्यविषय- लात् । एवं छत्रिणो यान्तीत्यादौ छत्रिपदस्यैकसार्थवाहिने लक्षणा । इयमेवाजहत्स्वार्था लक्षणेत्युच्यते एकसार्थवाहिलेन रूपेण छत्रितदन्ययोर्बोधात्। यदि चान्वयानुपपत्तिर्लक्षणाबीज स्यात्तदा क्वचिद्गङ्गापदस्य तीरे कचिदोषपदस्य मत्स्यादौ ल- क्षणेति नियमो न स्यात् । इदं तु बोध्यम् । शक्यार्थसंबन्धो यदि तीरत्वेन रूपेण गृहीतस्तदा तीरखेन तीरबोधः। यदि तु गङ्गातीरखेन रूपेण गृहीतस्तदा तेनैव रूपेण स्मरणम् । अत एव लक्ष्यतावच्छेदके न लक्षणा तत्पकारकबोधस्य तत्र लक्षणां विनाप्युपपत्तेः । परंतु एवं क्रमेण शक्यतावच्छेदकोऽपि शक्तिर्न स्यात्तत्मकारकशक्यार्थस्मरणं प्रति तत्पदस्य सामर्थ्यमित्यस्य मुवचखादिति विभावनीयम् । यत्र तु शक्यार्थस्य परंपरासंबन्ध- रूपा लक्षणा सा लक्षितलक्षणेत्युच्यते । यथा द्विरेफादिपदे रेफद्वयसंबन्धो भ्रमरपदे ज्ञायते । भ्रमरपदस्य च संबन्धो भ्र. मरे ज्ञायते । तत्र लक्षितलक्षणा । किंतु लाक्षणिकं पदं नानु- भावकम् । लाक्षणिकार्थस्य शाब्दबोधे तु पदान्तरं कारणम् । श- क्तिलक्षणान्यतरसंबन्धेनेतरपदार्थान्वितस्वशक्यार्थशाब्दबोधं प्रति पदानां सामर्थ्यावधारणात् । वाक्ये तु शक्तेरभावाच्छक्य- संबन्धरूपा लक्षणाऽपि नास्ति । यत्र गभीरायां नयां घोष इत्युक्तं तत्र नदीपदस्य नदीतीरे लक्षणा । गभीरपदार्थस्य नद्या सहाभेदेनान्वयः कचिदेकदेशान्वयस्यापि स्वीकृतवात् । यदि तत्रैकदेशान्वयोऽपि न स्वीक्रियते तदा नदी पदस्य गभी- रनदीतीरे लक्षणा। गभीरपदं तात्पर्यग्राहकम् ॥ बहुव्रीहावप्ये- वम्, तत्र हि चित्रगुपदादौ यद्येकदेशान्वयः स्वीक्रियते तदा गोपदस्य गोस्वामिनि लक्षणा गवि चित्राभेदान्वयः । यदि खेकदेशान्वयो न स्वीक्रियते तदा गोपदस्य चित्रगोमति ल- कारिकावली। क्षणा चित्रपदं तात्पर्यग्राहकम् । एवमारूढवानरो वृक्ष इत्यत्र वानरपदे वानरारोहणकर्मणि लक्षणा । आरूढपदं तात्पर्यग्रा. हकम् । एवमन्यत्रापि बोध्यम् ॥ तत्पुरुषे तु पूर्वपदे लक्षणा । तथा हि ।राजपुरुष इत्यादौ राजपदार्थेन पुरुषपदार्थस्य साक्षा- भान्वयो निपातातिरिक्तनामार्थयोर्भेदेनान्वयबोधस्याव्युत्प- भवात् । अन्यथा राजा पुरुष इत्यत्रापि तथान्वयबोधःस्यात् । घटो न पट इत्यादौ घटपटाभ्यां नमः साक्षादेवान्वयानिपा- तातिरिक्तेति । नीलो घट इत्यादौ नामार्थयोरभेदसंबन्धेना- न्वया देनेति । न च राजपुरुष इत्यादौ लुप्तविभक्तेः स्मरणं कल्प्यमिति वाच्यम्, अस्मृतविभक्तेरपि ततोबोधोदयात् । त. स्माद्राजपदादौ राजसंबन्धिनि लक्षणा । तस्य पुरुषेण सहाभे- दान्वयः॥ द्वन्द्वे तु, धवखदिरौ छिन्धीत्यादौ धवः खदिरश्च वि- भक्त्यर्थद्वित्वप्रकारेण बुध्यते। तत्र न लक्षणा । न च साहित्ये लक्षणेति वाच्यं, साहित्यशून्ययोरपि द्वन्द्वदर्शनात् । न चैकक्रि- यान्वयित्वरूपं साहित्यमस्तीति वाच्यं, क्रियाभेदेऽपि धवख- दिरौ पश्य छिन्धीत्यादौतदर्शनात्साहित्यस्याननुभवाच । अत एवराजपुरोहितौ सायुज्यकामौ यजेतामित्यत्र लक्षणाभावाइन्छ आश्रीयते । तस्मात्साहित्यं नार्थः किंतु वास्तवभेदो यत्र तत्र इन्दुः । न च नीलघटयोरभेद इत्यादौ कथमिति वाच्यं, तत्र नीलपदस्य नीलले घटपदस्य घटने लक्षणा अभेद इत्यस्य चा- अयभेद इत्यर्थात् ॥ समाहारद्वन्द्वे तु यदि समाहारोऽप्यनुभूयत इत्युच्यते तदाऽहिनकुलमित्यादौ परपदेऽहिनकुलसमाहारे ल. क्षणा । पूर्वपदं तु तात्पर्यग्राहकम् । न च भेरीमृदङ्ग वादये- त्यत्र कथं समाहारस्यान्वयस्तस्यापेक्षाबुद्धिविशेषरूपस्य वाद- नासम्भवादिति वाच्यं, परंपरासंबन्धेन तदन्वयात् । एवं पश्च मूलीत्यादावपि । परे तु अहिनकुलमित्यादौ अहिर्नकुलश्च बु.

सिद्धान्तमुक्तावलीसहिता। ध्यते प्रत्येकमेकलान्वयः, समाहारसंज्ञा च यत्रैकत्वं नपुंसकत्वं द्वन्दश्च प्राणितूर्येत्यादिसूत्रेणोक्तं तत्रैव, अन्यत्रैकवचनमसा- वित्याहुः । पितरौ श्वशुरावित्यादौ पितृपदे जनकद- म्पत्योः श्वशुरपदे स्त्रीजनकदम्पत्योर्लक्षणा । एवमन्यत्रापि । घटा इत्यादौ न लक्षणा घटनेन रूपेण नानाघटोपस्थितिसं- भवात् ॥ कर्मधारयस्थले तु, नीलोत्पलमित्यादावभेदसंबन्धेन नीलपदार्थ उत्पलपदार्थे प्रकारः । तत्र न लक्षणा । अत एव निषादस्थपतिं याजयेदित्यत्र न तत्पुरुषो लक्षणापतेः किंतु कर्मधारयो लक्षणाभावात् । न च निषादस्य संकरजातिविशे- षस्य वेदानधिकाराबाजनासंभव इति वाच्यं, निषादस्य वि- द्यापयुक्तेस्तत एव कल्पनीयत्वात् । लाघवेन मुख्यार्थस्यान्वये तदनुपपत्त्या कल्पनायाः फलमुखगौरवतयाऽदोषलादिति । उपकुम्भमर्धपिप्पलीत्यादौ परपदे तत्संबन्धिनि लक्षणा पूर्वप- दार्थप्रधानतया चान्वयबोध इति । इत्थं च समासे न कापि शक्तिः पदशक्त्यैव निर्वाहादिति ॥ आसत्तिरिति । आसत्तिर्योग्यताकाडातात्पर्यज्ञान मिष्यते ॥८॥ कारणं संनिधानं तु पदस्थासत्तिरुच्यते । आसत्तिज्ञानं योग्यताज्ञानमाकाहाज्ञानं तात्पर्यज्ञानं च शाब्दबोधे कारणम्। तत्रासत्तिपदार्थमाह। संनिधानं त्विति। यत्पदार्थेन यत्पदार्थस्यान्वयोऽपेक्षितस्तयोरव्यवधानेनोपस्थि- तिः शब्दबोधे कारणम् । तेन गिरि(क्तमग्निमान्देवदत्तेनेस्यादौ न शाब्दबोधः। नीलो घटो द्रव्यं घट इत्यादावासत्तिभ्रमा- च्छाब्दबोधः।आसत्तिभ्रमाच्छाब्दम्रमाभावेऽपिन क्षतिः। ननु यत्र छत्री कुण्डली वासस्वी देवदत्त इत्यायुक्तं तत्रोत्तरपदस- कारिकावली। रणेनपूर्वपदस्मरणस्य नाशादव्यवधानेनतदुत्तरपदस्मरणासंभ- व इति चेन्न, प्रत्येकपदानुभवजन्यसंस्कारैश्चरमस्य तावत्पदवि- षयकस्मरणस्थाव्यवधानेनोत्पत्तेः। नानासनिकषैरेकमयक्षस्येव नानासंस्कारैरेकस्मरणोत्पत्तेरपि संभवात् । तावत्पदसंस्कार सहितचरमवर्णज्ञानस्योद्घोषकलात् । कथमन्यथा नानावगैरे- कपदस्मरणम् । परंतु तावत्पदार्थानां स्मरणादेकदैव खले क- पोतन्यायेन तावत्पदार्थानां क्रियाकर्मभावेनान्वयरूपः साब्द- बोधो भवतीति । केचित् । वृद्धा युवानः शिशवः कपोताःखले यथामी युगपत्पतन्ति । तथैव सर्वे युगपत्पदार्थाः परस्परेणान्वयिनो भवन्ति ॥ परे तु । यद्यदाकासितं योग्यं संनिधानं प्रपद्यते । तेन तेनान्वितः स्वार्थः पदैरेवामगम्यते ॥ तथा च खण्डवाक्यार्थबोधानन्तरं तथैव पदार्थस्मृत्या महा- वाक्यार्थबोध इत्यप्याहुः । इदं तु बोध्यम् । यत्र द्वारमित्युक्तं तत्र पिधेहीत्यादिपदस्य ज्ञानादेव बोधो न तु पिधानादिरूपा. र्थज्ञानात् । पदजन्यतत्तत्पदार्थोपस्थितेस्तत्तच्छाब्दबोधे हेतु- खात् । किंच क्रियाकर्मपदानां तेन तेनैव रूपेणाकाङ्कितखात् । तेन क्रियापदं विना कथं शाब्दबोधः स्यात् । तथा पुष्पेभ्य इत्यादौ . स्पृहयतीत्यादिपदाध्याहारं विना चतुर्थ्यनुपपत्तेः पदाध्याहार आवश्यकः ॥ योग्यतां निर्वक्ति । पदार्थ इत्यादिना । पदाथें तत्र तद्वत्ता योग्यता परिकीर्तिता॥ ८३॥ एकपदार्थेऽपरपदार्थसंबन्धो योग्यतेत्यर्थः। तज्ज्ञानाभावाच्च वहिना सिञ्चतीयादौ न शाब्दबोधः। नन्वेतस्या योग्यताया ज्ञानं शाब्दबोधात्माक्सर्वत्र न संभवति वाक्यार्थस्यापूर्वत्वा- सिद्धान्तमुक्तावलीसहिता । दिति चेन्न, तत्तत्पदार्थस्मरणे सति क्वचित्संशयरूपस्य क्वचि- निश्चयरूपस्यापि योग्यताया ज्ञानस्य संभवात् ॥नव्यास्तु, यो- ग्यताज्ञानं न शब्दज्ञानकारणम् । वह्निना सिञ्चतीत्यादौ सेके व- निकरणखाभावरूपायोग्यतानिश्चयेन प्रतिबन्धान शाब्दबोधः । तदभावनिश्चयस्य लौकिकसंनिकर्षाजन्यदोषविशेषाजन्यतद्भा- वनमात्रे प्रतिबन्धकबाच्छाब्दबोधं प्रत्यपि प्रतिबन्धकवं सिद्धम्। योग्यताज्ञान विलम्बाच शाब्दबोधविलम्बोऽसिद्ध इति व- दन्ति ॥ ८२ ॥ ८३ ॥ आकाहां निर्वक्ति । यत्पदेनेति । यत्पदेन विना यस्याननुभावकता भवेत् । आकाङ्क्षा वक्तुरिच्छा तु तात्पर्य परिकीर्तितम् ८४ येन पदेन विना यत्पदस्यान्वयाननुभावकलं तेन पदेन सह तस्याकाङ्केत्यर्थः । क्रियापदं विना कारकपदं नान्वय- बोधं जनयति तेन तस्याकासा । वस्तुतस्तु क्रियाकारकप- दानां संनिधानमासत्या चरितार्थम् । परंतु घटकर्मताबोध प्रति घटपदोत्तरद्वितीयारूपाकाङ्क्षाज्ञानं करणम् । तेन घटः कर्मन- मानयनं कृतिरित्यादौ न शाब्दबोधः। अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ तु पुत्रेण सह राजपदस्य तात्पर्यग्र- हसत्त्वात्तेनैवान्वयबोधः। पुरुषेण सह तात्पर्यग्रहे तु तेन सहा- न्वयबोधः स्यादेव ॥ तात्पर्य निर्वक्ति । वक्तुरिच्छेति । यदि तात्पर्यज्ञानं कारणं न स्यात्तदा सैन्धवमानयेत्यादौ क्वचिद- श्वस्य क्वचिल्लवणस्य बोध इति न स्यात् । न च तात्पर्यग्राह- कमकरणादीनां शाब्दबोधे कारणबमस्विति वाच्यं, तेषामननु- गमात् । तात्पर्यज्ञानजनकलेन तेषामनुगमे तु तात्पर्यज्ञानमेव लाघवात्कारणमस्तु । इत्थं च वेदस्थलेऽपि तात्पर्यज्ञानार्थमी- कारिकावली। श्वरः कल्प्यते । न च तत्राध्यापकतात्पर्यज्ञानं कारणमिति वाच्यं, सर्गादावध्यापकाभावात् । न च प्रलय एव नास्तीति कुतः सर्गादिरिति वाच्यं, प्रलयस्यागमेषुप्रतिपाद्यलात् । इत्थं च शुकवाक्येऽपीश्वरीयतात्पर्यज्ञानं कारणम् । विसंवादिशु- कवाक्ये तु शिक्षयितुरेव तात्पर्यज्ञानं कारणम् । अन्ये तु ना- नार्थादौ क्वचिदेव तात्पर्यज्ञानं कारणम् । तथा च शुकवाक्ये विनैव तात्पर्यज्ञानं शाब्दबोधः । वेदे बनादिमीमांसापरिशो- धिततकैरावधारणमित्याहुः ॥ ८४ ॥ इति श्रीविश्वनाथपश्चाननभट्टाचार्यविरचितायां सि- डान्तमुक्तावल्यां शब्दखण्डं समाप्तम् ॥ पूर्वमनुभवस्मरणभेदाहुद्धदैविध्यमुक्तम् । तत्रानुभवप्रकारा दर्शिताः। सुगमतया स्मरणं न दर्शितम् । तत्र हि पूर्वानुभवः कारणम् । अत्र केचित् । अनुभवलेन न कारणलं किंतु ज्ञान- खेनैव । अन्यथा स्मरणानन्तरं स्मरणं न स्यात्समानप्रकारक- स्मरणेन पूर्वसंस्कारस्य विनष्टलात् । मन्मते तु तेनैव स्मरणेन संस्कारान्तरद्वारा स्मरणान्तरं जन्यत इत्याहुस्तन्न । यत्र समू हालम्बनोत्तरं घटपटादीनां क्रमेण स्मरणमजनिष्ट सकलविष- यकस्मरणं तु नाभूत्तत्र फलस्य संस्कारनाशकवाभावात्कालस्य रोगस्य वा चरमफलस्य वा संस्कारनाशकलं वाच्यम् । तथा च न क्रमिकस्मरणानुपपत्तिः। न च पुनः पुनः स्मरणादृढत- रसंस्कारानुपपत्तिरिति वाच्यं, शटित्युद्धोधकसमवधानस्य दा- द्यपदार्थबात् । न च विनिगमनाविरहादेव ज्ञानबेनापि जन- कलं स्यादिति वाच्यं, विशेषधर्मेण व्यभिचाराज्ञाने सामान्यध- मणान्यथासिद्धनात् । कथमन्यथा दण्डस्य भ्रमिद्वारा द्रव्यनेन रूपेण न कारणबम् । न चान्तरालिकस्मरणानां संस्कारना- शकबसंशयायभिचारसंशय इति वाच्यम्, अनन्तसंस्कारत- सिद्धान्तमुक्तावलीसहिता। नाशकल्पनापेक्षया चरमस्मरणस्यैव संस्कारनाशकलकल्पनेन व्यभिचारसंशयाभावात् ॥ इति स्मृतिप्रक्रिया ॥ इदानीं क्रमप्राप्तं मनो निरूपयितुमाह।साक्षात्कार इति । साक्षात्कारे सुखादीनां करणं मन उच्यते । अयोगपद्याज्ज्ञानानां तस्याणुत्वमिहेष्यते ।।८५|| एतेन मनसि प्रमाणं दर्शितम् । तथा हि । सुखसाक्षात्कारः सकरणको जन्यसाक्षात्कारखात् चाक्षुषसाक्षात्कारवत् । इत्य- नुमानेन मनसः करणबसिद्धिः। न चैवं दुःखादिसाक्षात्का- राणामपि करणान्तराणि स्युरिति वाच्यं, लाघवादेकस्यैव सकलसाक्षात्कारकरणतया सिद्धेः। एवं सुखादीनामसमवा- यिकारणसंयोगाश्रयतया मनसः सिद्धिर्बोद्धव्या ॥तत्र मनसो- ऽणुत्वे प्रमाणमाह । अयोगपद्यादिति । ज्ञानानां चाक्षुषरा- सनादीनामयोगपद्यमेककालोत्पत्तिर्नास्तीत्यनुभवसिद्धम् । तत्र ज्ञानेन्द्रियाणां सत्यपि विषयसंनिधाने यत्संबन्धादेकेनेन्द्रियेण ज्ञानमुत्पद्यते यदसंबन्धाच परैर्ज्ञानं नोत्पद्यते तन्मनसो विभुले चासंनिधानं न संभवतीति न विभु मनः । न च तदानीमह- .ष्टविशेषोदोधकविलम्बादेव तज्ज्ञानविलम्ब इति वाच्यं, तथा सति चक्षुरादीनामप्यकल्पनापत्तेः । न च दीर्घशष्कुलीभक्ष- णादौ नानावधानभाजां च कथमेकदाऽनेकेन्द्रियजन्यज्ञानमि- ति वाच्यं, मनसोऽतिलाघवात्वरया नानेन्द्रियसंबन्धानाना- ज्ञानोत्पत्तेः । उत्पलशतपत्रभेदादिव यौगपधप्रत्ययस्य भ्रान्त- बात् । न च मनसः संकोचविकाशशालिनादुभयोपपत्तिर- स्विति वाच्यं, नानावयवतमाशादिकल्पने गौरवाल्लाघवानि- रवयवस्थाणुरूपस्यैव मनसः कल्पनादिति संक्षेपः॥ ८५ ॥ इति द्रव्यपदार्थो व्याख्यातः ।।

७२ कारिकावली। द्रव्यं निरूप्य गुणानिरूपयति । अथेत्यादिना। अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिया गुणाः गुणत्वजातौ किं मानमिति चेत्,द्रव्यकर्मभिनेसामान्यवतिय कारणतासा किंचिद्धर्मावच्छिन्ना निरवच्छिन्नकारणताया असं भवात् । न हि रूपत्वादिकं सत्ता वा तत्रावच्छेदिका न्यूनाधि कदेशत्तिखात् । अतश्चतुर्विंशत्यनुगतं किंचिद्वाच्यं तदेव गुण बमिति । द्रव्याश्रिता इति । यद्यपि द्रव्याश्रितत्वं न लक्षणं क मांदावतिव्याप्तेस्तथापि द्रव्यत्वव्यापकतावच्छेदकसत्ताभिन्नजा तिमत्त्वं तदर्थः। भवति हि गुणत्वं द्रव्यत्वव्यापकतावच्छेदकंत द्वत्ता च गुणानामिति। द्रव्यत्वं कर्मत्वं वा न द्रव्यत्वव्यापकताव च्छेदकं गगनादौ द्रव्यकर्मणोरभावात् । द्रव्यत्वत्वं सामान्यत्वा दिकं वा न जातिरिति तद्वयुदासः॥ निर्गुणा इति। यो निर्गुणत्वं कर्मादावपि तथापि सामान्यवत्त्वे सति कर्मान्यत्वे सति निर्गुणत्वं बोध्यम् । जात्यादीनां न सामान्यवत्त्वं कर्म णो न कर्मान्यवं द्रव्यस्य न निर्गुणत्वमिति तत्र नातिव्याप्तिः निष्क्रिया इति स्वरूपकथनं न तु लक्षणं गगनादावतिव्या। रूपं रसः स्पर्शगन्धौ परत्वमपरत्वकम् ॥ ८६ ॥ द्रवत्वस्नेहवेगाश्च मता मूर्तगुणा अमी। वेगा इति । वेगेन स्थितिस्थापकोऽप्युपलक्षणीयः । मूर्त गुणा इति । अमूर्तेषु न वर्तन्त इत्यर्थः । लक्षणं तु तावदन्या न्यत्वम् । एवमग्रेऽपि ॥ धर्माधर्मो भावना चशब्दोबुद्धयादयोऽपिच||८|| एतेऽमूर्तगुणाः सर्वे विद्वद्भिः परिकीर्तिताः । अमूर्तगुणा इति । मूर्तेषु न वर्तन्त इत्यर्थः ।

सिद्धान्तमुक्तावलीसहिता। ७३ संख्यादयो विभागान्ताउभयेषां गुणा मताः ॥८॥ उभयेषामिति । मूर्तामूर्तगुणा इत्यर्थः ॥८६॥८७॥४८॥ संयोगश्च विभागश्च संख्या द्वित्वादिकास्तथा । द्विपृथक्त्वादयस्तद्धदेतेऽनेकाश्रिता गुणाः॥८९॥ अनेकाश्रिता उति । संयोगविभागद्विखादीनि विद्वत्ती- नि । त्रिखचतुष्ट्वादिकं त्रिचतुरादिवृत्तीति बोध्यम् ॥ ८९ ॥ अत इति । अतः शेषगुणाः सर्वे मता एकैकवृत्तयः । रूपरसगन्धस्पर्शकलपरिमाणैकपृथक्वपरखापरखबुद्धिमुख- दुःखेच्छाद्वेषप्रयत्नगुरुखवखस्नेहसंस्कारादृष्टशब्दा इत्यर्थः । वुद्धयादीति । बुद्ध्यादिषटुं स्पर्शान्ताः स्नेहः सांसिद्धिको द्रवः॥ ९०॥ अदृष्टभावनाशब्दा अमी वैशेषिका गुणाः बुद्धिसुखदुःखेच्छाद्वेषप्रयत्ना इत्यर्थः । स्पर्शान्ताः रूपरस- गन्धस्पर्शा इत्यर्थः । द्रवो द्रवलम् । वैशेषिकाः विशेषा एव वै- शेषिकाः । स्वार्थे ठक् । विशेषगुणा इत्यर्थः ॥ संख्येति । संख्यादिरपरत्वान्तो वोऽसांसिद्धिकस्तथा ॥९॥ गुरुत्ववेगौ सामान्यगुणा एते प्रकीर्तिताः । सङ्ख्यापरिमाणपृथक्वसंयोगविभागपरखापरखानीत्यर्थः ।

कारिकावली । संख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च ॥ ९२ ॥ एते तु दीन्द्रियग्राह्या दीन्द्रियेति । चक्षुषा बचाऽपि ग्रहणयोग्यखात् । अथ स्पर्शान्तशब्दकाः। बाबैकैकेन्द्रियग्राह्या बाह्येति । रूपादीनां चक्षुरादिग्राह्यखात् ॥ गुरुत्वादृष्टभावनाः॥९३ ॥ अतीन्द्रिया विभूनां तु ये स्युर्वेशेषिका गुणाः। अकारणगुणोत्पन्ना एते तु परिकीर्तिताः॥ ९४ ॥ विभूनामिति । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभाव. नाशब्दा इत्यर्थः। कारणगुणेन कार्ये ये गुणा उत्पद्यन्ते ते कार- णगुणपूर्वका रूपादयो वक्ष्यन्ते । बुद्ध्यादयस्तु न तादृशा आ- स्मादेः कारणाभावात् ॥ ९० ॥९१ ॥९२॥९३ ॥९४ ॥ अपाकजास्त्विति । अपाकजास्तु स्पर्शान्ता द्रवत्वं च तथाविधम् । पाकजरूपादीनां कारणगुणपूर्वकलाभावात् आपाकजा इ- त्युक्तम् । तथाविधमपाकजम् । तथैकलमपि बोध्यम् ॥ स्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणकम् ।। ९५ ॥ स्थितिस्थापक इत्येते स्युः कारणगुणोद्भवाः । स्पष्टम् ॥ संगयोश्चेति । संयोगश्च विभागश्च वेगश्चैते तु कर्मजाः॥९६ ।।

सिद्धान्तमुक्तावलीसहिता। कर्मजन्यलं यद्यपि न साधयं घटादावतिव्याप्तेः, संयोगज- संयोगेऽव्याप्तेश्च तथापि कर्मजन्यवृत्तिगुणखव्याप्यजातिमत्त्वं बोध्यम् । एवमन्यत्राप्यूह्यम् ॥ ९५ ॥ ९६ ॥ स्पर्शान्तेति । स्पर्शान्तपरिमाणैकपृथक्त्वस्नेहशब्दके । भवेदसमवायित्वं पृथक्वमित्यत्र खप्रत्ययस्य प्रत्येकमन्वयादेकलं पृथक्वं च ग्राह्यम् । पृथक्लपदेन चैकपृथक्वम् । भवेदसमवायित्व- मिति।घटादिरूपरसगन्धस्पर्शाः कपालादिरूपरसगन्धस्पर्शेभ्यो भवन्ति । एवं कपालादिपरिमाणादीनां घटादिपरिमाणाद्य- समवायिकारणबम् । शब्दस्यापि द्वितीयशब्दं प्रति । एवं स्थि- तिस्थापकैकपृथक्लयोरपि ज्ञेयम् । अथ वैशेषिके गुणे ॥ ९७ ॥ आत्मनः स्यानिमित्तत्वम् निमित्तत्वमिति । बुद्ध्यादीनामिच्छादिनिमित्तत्रादिति भावः ॥ उष्णस्पर्शगुरुत्वयोः। वेगेऽपि च द्रवत्वे च संयोगादिद्धये तथा ॥९८॥ द्विधैव करणत्वं स्याद् द्विधैवेति । असमवायिकारणत्वं निमित्तकारणत्वं च । त थाहि । उष्णस्पर्श उष्णस्पर्शस्यासमवायिकारणं पाकजे निमि- तम् । गुरुत्वं गुरुत्वपतनयोरसमवायिकारणं प्रतिघाते निमि- त्तम् । वेगो वेगस्पन्दनयोरसमायी अभिघाते निमित्तन् । द्र- .

कारिकावली । वत्वं द्रवत्वस्पन्दनयोरसमवायि संग्रहे निमित्तम् । भेरीदण्डसं- योगः शब्दे निमित्तम्। भेर्याकाशसंयोगोऽसमवायी । वंशदलद- यविभागः शब्दे निमित्तम् । वंशदलाकाशविभागोऽसमवायीति। अथ प्रादेशिको भवेत् । वैशेषिको विभुगुणः संयोगादिद्वयं तथा ॥ ९९ ॥ प्रादेशिकोऽव्याप्यवृत्तिः ॥ ९७ ॥ ९८ ॥ ९९ ॥ चक्षुरिति । चक्षुह्यं भवेदूपं द्रव्यादेपलम्भकम् । चक्षुषः सहकारि स्याच्छुक्लादिकमनेकधा ॥१०॥ रूपत्वजातिस्तु प्रत्यक्षसिद्धा । रूपशब्दोल्लेखिनी प्रतीति - स्तीति चेन्मास्तु रूपशब्दप्रयोगस्तथापि नीलपीतादिष्वनुगत- जातिविशेषोऽनुभवसिद्ध एव रूपशब्दाप्रयोगेऽपि नीलो वर्णः पीतो वर्ण इति वर्णविशेषोल्लेखिनी प्रतीतिरस्त्येव । एवं नील- वादिकमपि प्रत्यक्षसिद्धम् । न चैकैका एव नीलरूपादिव्यक्तय इत्येकव्यक्तिवृत्तित्वान्नीलत्वादिकंजातिरिति वाच्यं, नीलो नष्टो रक्त उत्पन्न इत्यादिप्रतीतेर्नीलादेरुत्पादविनाशशालितया ना- नात्वात् । अन्यथा एकनीलमाशे जगदनीलमापद्यत । न च नीलसमवायरक्तसमवाययोरेवोत्पादविनाशाविषयकोऽसौ प्र- त्यय इति वाच्यं, प्रतीत्या समवायानुल्लेखात् । न च स एवायं नील इति प्रत्ययाल्लाघवाचैक्यमिति वाच्यं, प्रत्यक्षस्य तज्जाती- यविषयकत्वात् । सैवेयं गुर्जरीति वल्लाघवं तु प्रत्यक्षबाधितम् । अन्यथा घटादीनामप्यैक्यप्रसङ्गादुत्पादविनाशबुद्धेः समवाया- वलम्बनत्वापत्तेरिति । एतेन रसादिकमपि व्याख्यातम् । चक्षु यमिति । चक्षुर्ग्राह्यविशेषगुण इत्यर्थः । एवमग्रेऽपि ।द्रव्या ७७ सिद्धान्तमुक्तावलीसहिता। देरिति । उपलम्भकमुपलब्धिकारणम् । इदमेव विठ्ठणोति । चक्षुष इति। द्रव्यगुणकर्मसामान्यानांचाक्षुषप्रत्यक्ष प्रति उभू- तरूपं कारणम् । शुक्लादिकमनेकधेति। तच्च रूपं शुक्लनील- पीतरक्तहरितकपिशकर्बुरादिभेदादनप्रकारकं भवति। ननु कर्य कर्बुरमतिरिक्तरूपं भवति । इत्यं नीलपीताद्यवयवारब्धोऽवयवी न तावनीलरूपोऽप्रत्यक्षप्रसङ्गात् । नापि व्याप्यवृत्तिनीलादिरू- पमुत्पद्यते पीतावच्छेदेनापि नीलोपलब्धिप्रसङ्गात् । नाप्यव्या- प्यवृत्तिनीलादिकमुत्पद्यते व्याप्यत्तिजातीयगुणानामव्याप्य त्तिले विरोधात् । तस्मानानाजातीयरूपैरवयविनि विजातीयं चित्रं रूपमारभ्यते। अत एवैकं चित्रमित्यनुभवोऽपि । नाना- रूपकल्पने गौरवात् । इत्थं च नीलादीनां पीताद्यारम्भे प्रतिष- न्धकलकल्पनादवयविनि न पीताद्युत्पत्तिः । एतेन स्पर्शोऽपि व्याख्यातः । रसादिकमपि नाव्याप्यवृत्ति किंतु नानाजातीय- रसवदवयवैरारब्धेऽवयविनि रसाभावेऽपि न क्षतिः। तत्र र. सनयाऽवयवरस एव गृह्यते रसनेन्द्रियादीनां द्रव्यग्रहसामर्थ्या- भावादवयविनो नीरसलेऽपि क्षतेरभावात् । नव्यास्तु, तत्रा- व्याप्यवृत्त्येव नानारूपं नीलादेः पीतादिप्रतिबन्धकबकल्पने गौरवात् । अत एव लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः। श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ॥ इत्यादिशास्त्रमप्युपपद्यते । न च व्याप्याव्याप्यवृत्तिजाती- ययोर्द्वयोर्विरोधः, मानाभावात् । न चलाघवादेकं रूपम्, अनु- भवविरोधात् । अन्यथा घटादेरपि लाघवादैक्यं स्यात् । एतेन स्पर्शादिकमपि व्याख्यातमिति वदन्ति ॥ १००॥ .

कारिकावली। जलादीति । जलादिपरमाणौ तन्नित्यमन्यत्सहेतुकम् । जलपरमाणौ तेजःपरमाणौ च रूपं नित्यम् । पृथिवीपरमा- णुरूपं तु न नित्यं तत्र पाकेन रूपान्तरोत्पत्तेः । न हि घटस्य पाकानन्तरं तदवयवोऽपक्व उपलभ्यते । न हि रक्तकपालस्य कपालिका नीलावयवा भवति । एवं क्रमेण परमाणावपि पा. कसिद्धेः। अन्यजलतेजःपरमाणुरूपभिन्न रूपं सहेतुकं जन्यम् ॥ रसं निरूपयति रसस्त्विति । रसस्तु रसनाग्राह्यो मधुरादिरनेकधा ॥ १०१ ॥ सहकारी रसज्ञाया नित्यतादि च पूर्ववत् । सहकारीति । रासनशाने रसः कारणमित्यर्थः । पूर्वव- दिति । जलपरमाणौ रसो नित्योऽन्यः सर्वोऽपि रसोऽनित्य इत्यर्थः॥ गन्धं निरूपयति । प्राणग्राह्य इति । प्राणग्राह्यो भवेद्गन्धो घ्राणस्यैवोपकारकः ॥१०२॥ उपकारक इति । घ्राणजन्यज्ञाने कारणमित्यर्थः । सर्वो. गन्धोऽनित्य एव ॥ १.१॥ १०२॥ सौरभश्चासौरभश्च स देधा परिकीर्तितः । स्पर्श निरूपयति । स्पर्श इति । स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः १०३ उपकारक इति । स्पार्शनप्रत्यक्षे स्पर्शः कारणमित्यर्थः सिद्धान्तमुक्तावलीसहिता । अनुष्णाशीतेति। अनुष्णाशीतशीतोष्णभेदात्स त्रिविधो मतः । काठिन्यादि क्षितावेव नित्यतादि च पूर्ववत् १०४ पृथिव्यां वायौ च स्पर्शोऽनुष्णाशीतः।जले शीतः। तेजस्यु- णः। कठिनसुकुमारस्पशौं पृथिव्यामेवेत्यर्थः। कठिनत्वादिकं तु न संयोगनिष्ठो जातिविशेषः चक्षुर्ग्राह्यत्वापत्तेः। पूर्ववदिति।ज- लतेजोवायुपरमाणुस्पर्शा नित्यास्तद्भिन्नास्त्वनित्या इत्यर्थः१०४ एतेषामिति । एतेषां पाकजत्वं तु क्षितौ नान्यत्र कुत्रचित् । तत्रापि परमाणौस्यात्पाको वैशेषिके नये ॥१०५॥ एतेषां रूपरसगन्धस्पर्शानाम् । नान्यत्रेति । पृथिव्यां हि रूपरसगन्धस्पर्शपरावृत्तिरग्निसंयोगादुपलभ्यते । न हि शत- धापि ध्मायमाने जले रूपादिकं परिवर्तते । नीरे सौरभमौष्ण्यं चान्वयव्यतिरेकाभ्यामौपाधिकमेवेति निर्णीयते । पवनपृथि- व्योः शीतस्पर्शादिवत् । तत्रापि पृथिवीष्वपि मध्ये परमाणावे- व रूपादीनां पाक इति वैशेषिका वदन्ति । तेषामयमाशयः।अ- वयविनाऽवष्टब्धेष्ववयवेषु.पाको न संभवति परंतु वहिसंयो. गेनावयविषु विनष्टेषु स्वतन्त्रेषु परमाणुषु पाकः । पुनश्च पक्वप- रमाणुसंयोगाद्यणुकादिक्रमेण पुनर्महावयविपर्यन्तमुत्पत्तिः। तेजसामतिशयितवेगवशात्पूर्वव्यूहनाशो झटिति व्यूहान्तरोत्प- त्तिश्चेति । अत्र घणुकादिविनाशमारभ्य कतिभिः क्षणैः पुन- रुत्पत्त्या रूपादिमद्भवतीति शिष्यबुद्धिवैशद्यार्थ क्षणप्रक्रिया । तत्र विभागजविभागानङ्गीकारे नवक्षणा। तदङ्गीकारे तु विभागः किंचित्सापेक्षो विभागं जनयेत् । निरपेक्षस्य तत्वे कर्मलं स्यात् ।

कारिकावली। संयोगविभागयोरनपेक्ष कारणं कर्मेति वैशेषिकसूत्रम्। खोत्तरो. पन्नभावान्तरानपेक्षत्वं तस्यार्थः । अन्यथा कर्मणोऽप्युत्तरसं- योगोत्पत्तौ पूर्वसंयोगनाशापेक्षणादव्याप्तिः स्यात् । तत्र यदि द्र- व्यारम्भकसंयोगविनाशविशिष्टं कालमपेक्ष्य विभागजविभागः स्यात्तदा दशक्षणा । अथ द्रव्यनाशविशिष्टं कालमपेक्ष्य विभा- गजविभागः स्यात्तदैकादशक्षणा। तथा हि । अथ नवक्षणा । वह्नि- संयोगात्परमाणौ कर्म । ततः परमाण्वन्तरेण विभागः । तत आरम्भकसंयोगनाशः । ततो द्वयणुकनाशः।। ततः परमाणौ श्यामादिनाशः।२। ततो रक्तावत्पत्तिः ॥३॥ ततो द्रव्यारम्भा- नुगुणा क्रिया । ४। ततो विभागः। ५। ततः पूर्वसंयोगनाशः ।६। तत आरम्भकसंयोगः।७। ततो व्यणुकोत्पत्तिः । ८॥ ततो रूपाद्युत्पत्तिः ।। ननु श्यामादिनाशक्षणे रक्तोत्पत्ति- क्षणे वापरमाणौ द्रव्यारम्भानुगुणा क्रियाऽस्त्विति चेन्न, अग्नि- संयुक्ते परमाणौ यत्कर्म तद्विनाशमन्तरेण गुणोत्पत्तिमन्तरेण च परमाणौ क्रियान्तराभावात्कर्मवति कर्मानुत्पत्तेनिर्गुणे द्रव्ये द्रव्यारम्भानुगुणक्रियानुपपत्तेश्च । तथापि परमाणौ श्यामादि- निवृत्तिसमकालं रक्ताद्युत्पत्तिः स्यादिति चेन, पूर्वरूपादि- ध्वंसस्यापि रूपान्तरे हेतुत्वात् । इति नवक्षणा॥ अथ दशक्षणा। सा च आरम्भकसंयोगविनाशविशिष्टं कालमपेक्ष्य विभागेन विभागजनने सति स्यात् । तथा हि । वह्निसंयोगावयणुका. रम्भके परमाणौ कर्म । ततो विभागः । तत आरम्भकसंयोग- नाशः। ततो घणुकनाशविभागजविभागौ ।१॥ ततः श्या- मनाशपूर्वसंयोगनाशौ ।२। ततो रक्तोत्पत्त्युत्तरसंयोगौ ।३। ततो वहिनोदनजन्यपरमाणुकर्मणो नाशः॥४॥ ततोऽदृष्टवदा- त्मसंयोगाद्रव्यारम्भानुगुणा क्रिया ।५। ततो विभागः।६। ततः पूर्वसंयोगनाशः।७। तत आरम्भकसंयोगः।८। ततो सिद्धान्तमुक्कावलीसहिता । ८१ व्यणुकोत्पत्तिः। ९ । ततो रक्तोत्पत्तिः । १०॥ अथैकादश- क्षणा । वह्निसंयोगात्परमाणौ कर्म । ततो विभागः। ततो द्र- व्यारम्भकसंयोगनाशः। ततो व्यणुकनाशः।१। ततो व्य- णुकनाशविशिष्टं कालमपेक्ष्य विभागजविभागश्यामनाशौ ।२। ततः पूर्वसंयोगनाशरक्तोत्पत्ती । ३ । तत उत्तरसंयोगः।४। ततो वह्निनोदनजन्यपरमाणौ कर्मनाशः। ५। ततोऽदृष्टवदात्म- संयोगाद्रव्यारम्भानुगुणा क्रिया।६। ततो विभागः। ततः पूर्वसंयोगनाशः। ८। ततो द्रव्यारम्भकोत्तरसंयोगः।९। ततो व्यणुकोत्पत्तिः । १० । ततो रक्ताद्युत्पत्तिः। ११ । मध्यमश- ब्दवदकस्मादग्निसंयोगान रूपनाशोत्पादौ तावत्कालमेकस्याग्ने- रस्थिरतात् । किंच नाशक एव यद्युत्पादकस्तदा नष्टे रूपादा- वग्निनाशे नीरूपश्चिरं परमाणुः स्यात् । उत्पादकश्चेन्नाशकस्तदा रक्तोत्पत्तौ तदग्निनाशे रक्तता न स्यात् । अथ परमाण्वन्तरेक- मचिन्तनात्पश्चमादिक्षणेऽपि गुणोत्पत्तिः । तथाहि । एकत्र प- रमाणौ कर्म । ततो विभागः। तत आरम्भकसंयोगनाशपरमा- ण्वन्तरकर्मणी । ततस्तु व्यणुकनाशः। परमाण्वन्तरकर्मजन्यवि- भाग इत्येकः कालः।१। ततः श्यामादिनाशः। विभागाच्च पू- संयोगनाशश्चेत्येकः कालः।२। ततो रक्तोत्पत्तिव्यारम्भ- कसंयोगश्चेत्येकः कालः। ३ । अथ व्यणुकोत्पत्तिः। ४ । ततो रक्तोत्पत्तिरिति । ५॥पञ्चक्षणा । द्रव्यनाशसमकालं परमाण्व. न्तरे कर्मचिन्तनात्षष्ठे गुणोत्पत्तिः । तथा हि । परमाणुकर्मणा परमाण्वन्तरविभागः । तत आरम्भकसंयोगनाशः। अथ व्य- णुकनाशपरमाण्वन्तरकर्मणी।१। अथ श्यामादिनाशः। पर- माण्वन्तरकर्मजश्च विभागः।२। ततो रक्तोत्पत्तिः परमाण्व. न्तरे पूर्वसंयोगनाशश्च । ३ । ततः परमाण्वन्तरसंयोगः । ४ । वतो द्वयणुकोत्पतिः । ५। अथ रक्तोत्पत्तिरिति । ६॥

८२
कारिकावली।
एवं श्यामनाशक्षणे परमाण्वन्तरेण कर्मचिन्तनात्सप्तक्षणा । त-
था हि । परमाणौ कर्म ततः परमाण्वन्तरेण विभागः । तत
आरम्भकसंयोगनाशः। ततो द्वयणुकनाशः। १। ततःश्यामा-
दिनाशपरमाण्वन्तरकर्मणी।२। ततो रक्तोत्पत्तिः परमाण्वन्तरे
कर्मजविभागश्च । ३ । ततः परमाण्वन्तरेण पूर्वसंयोगनाशः । ४।
ततः परमाण्वन्तरेण संयोगः। ५। ततो द्वयणुकोत्पत्तिः। ६।
ततो रक्तोत्पत्तिः।७॥ एवं रक्तोत्पत्तिसमकालं परमाण्वन्तरे
कर्मचिन्तनादष्टलक्षणा । तथाहि । परमाणौ कर्म । ततः परमा-
ण्वन्तरविभागः। तत आरम्भकसंयोगनाशः। ततो व्यणुकनाशः
।१। ततः श्यामनाशः।२। ततो रक्तोत्पत्तिपरमाण्वन्तरकर्म-
णी । ३ । ततः परमाण्वन्तरकर्मजविभागः । ४ । ततः पूर्वसं-
योगनाशः। ५। ततः परमाण्वन्तरसंयोगः।६। ततो घणु-
कोत्पत्तिः । ७। अथ रक्तोत्पत्तिरित्यष्टलक्षणा ॥ १०५॥
नैयायिकानामिति ।
नैयायिकानां तु नये घणुकादावपीष्यते ।
नैयायिकानां मते द्वयणुकादाववयविन्यपि पाको भवति ।
तेषामयमाशयः । अवयविनां सच्छिद्रलाह्नः सूक्ष्मावयवैरन्त:-
प्रविष्टैरयवेष्ववष्टब्धेष्वपि पाको न विरुद्ध्यते । अनन्तावयवि-
तनाशकल्पने गौरवात् । इत्थं च सोऽयं घट इत्यादिप्रत्यभि-
ज्ञाऽपि संगच्छते । यत्र तु न प्रत्यभिज्ञा तत्रावयविनाशोऽपि
खीक्रियत इति ॥
संख्यां निरूपयितुमाह । गणनेति ।
गणनव्यवहारे तु हेतुः संख्याभिधीयते ।। १०६ ॥
गणनव्यवहारासाधारणकारणं संख्येत्यर्थः॥ १०६॥

सिद्धान्तमुक्तावलीसहिता। नित्येष्विति । नित्येषु नित्यमेकत्वमनियेऽनित्यमिष्यते । द्वित्वादयः परार्धान्ता अपेक्षाबुद्धिजा मताः॥१०७ नित्येषु पारमाण्वादिषु एकत्वं नित्यम् । अनिये घटादावे. कत्वमनित्यमित्यर्थः। द्वित्वादयो व्यासज्यवृत्तिसंख्या अपेक्षाबु- द्धिजन्याः॥१०७॥ अनेकेति । अनेकाश्रयपर्याप्ता एते तु परिकीर्तिताः। अपेक्षाबुद्धिनाशाच्च नाशस्तेषां निरूपितः।।१०८॥ यद्यपि द्वित्वादिसमवायः प्रत्येकं घटादावपि वर्तते तथाप्येको द्वाविति प्रत्ययाभावात् एको न द्वाविति प्रत्य- यसंभवाच द्वित्वादीनां पर्याप्तिलक्षणः कश्चन संबन्धोऽनेका. श्रयोऽभ्युपगम्यते । प्रथममपेक्षाबुद्धिः ततो द्वित्वोत्पत्तिः । ततो विशेषणज्ञानं द्वित्वत्वनिर्विकल्पात्मकम् । ततो द्वित्वविशिष्टप- त्यक्षम् । अपेक्षाबुद्धिनाशश्च । ततो द्वित्वनाश इति । यद्यपि ज्ञा- नानां द्विक्षणमात्रस्थायित्वं योग्यविभुविशेषगुणानां स्वोत्तरव- तिगुणनाश्यत्वात्। तथाप्यपेक्षाबुद्धेस्त्रिक्षणावस्थायित्वं कल्प्यते। अन्यथा निर्विकल्पकालेऽपेक्षाबुद्धिनाशानन्तरं द्वित्वस्यैव नाशः स्यात् । न तु द्वित्वप्रत्यक्षं तदानीं विषयाभावात् । विद्यमान- स्यैव चक्षुरादिना ज्ञानजननोपगमात् । तस्माद्वित्वप्रत्यक्षा- दिकमपेक्षाबुद्धेर्नाशकं कल्प्यते । न चापेक्षाबुद्धिनाशात्कथं द्वि त्वनाश इति वाच्यं, कालान्तरे द्वित्वप्रत्यक्षाभावात् । अपेक्षाबु- द्धिस्तदुत्पादिका तन्नाशात्तन्नाश इति कल्पनात् । अत एव त- त्पुरुषीयापेक्षाबुद्धिजन्यद्वित्वादिकं तेनैव गृह्यत इति कल्प्यते ।

८४ कारिकावली। न चापेक्षाबुद्धद्वित्वप्रत्यक्षे कारणवमस्त्विति वाच्यं, लाघवेन द्वि- खं प्रत्येव कारणवस्यैवोचितत्वात् । अतीन्द्रिये द्वयणुकादावपे- क्षाबुद्धिर्योगिनाम् । सर्गादिकालीनपरमाण्वादावीश्वरीयापेक्षा- बुद्धिर्ब्रह्माण्डान्तरवतियोगिनामपेक्षाबुद्धिर्वा द्विवादिकारण- मिति ॥ १०८॥ अपेक्षाबुद्धिः केत्यत आह । अनेकेति । अनेकैकत्वबुद्धिर्या सापेक्षाबुद्धिरिष्यते । अयमेकोऽयमेक इत्याकारिका इत्यर्थः । इदं तु बोध्यम् । यत्रानियतैकवज्ञानं तत्र त्रिवादिभिन्ना बहुसंख्योत्पद्यते यथा सेनावनादाविति कन्दलीकारः । आचार्यास्तु त्रिखादि- कमेव बहुत्वं मन्यन्ते । तथा च त्रित्वत्वादिव्यापिका बहुत्वत्व- जाति तिरिच्यते । सेनादावुत्पन्नेत्रित्वादौ त्रित्वत्वान्यग्रहो दोषात् । इत्थं चेतो बहुतरेयं सेनेति प्रतीतिरुपपद्यते । बहुत्वस्य संख्यान्तरत्वे तु तत्तारतम्याभावानोपपद्येदित्यवधेयम् ॥ परिमाणं निरूपयति परिमाणमिति । परिमाणं भवेन्मानव्यवहारस्य कारणम् ॥ १०९॥ परिमितिव्यवहारासाधारणं कारणं परिमाणमित्यर्थः॥१०९॥ अणु दीर्घ महदूखमिति तद्भेद ईरितः। तचतुर्विध अणु महद् दीर्घ इखं चेति । अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम् ११० संख्यातः परिमाणाच प्रचयादपि जायते । तत्परिमाणम् । नित्यमित्यत्र परिमाणमित्यनुषज्यते । जा. यत इत्यत्रापि परिमाणमित्यनुवर्तते । अनित्यमिति पूर्वेणान्वि- सिद्धान्तमुक्तावलीसहिता। तम् । तथा चानित्यपरिमाणं संख्याजन्य परिमाणजन्यं प्रच यजन्यं चेत्यर्थः॥ -तत्र संख्याजन्यमुदाहरति । अनित्यमिति । अनित्यं व्यणुकादौ तु संख्याजन्यमुदाहृतम् १११ व्यणुकस्य त्रसरेणोश्च परिमाणं प्रति परमाणुपरिमाणं द्वय. णुकादिपरिमाणं वा न कारणे परिमाणस्य स्वसमानजातीयो- स्कृष्टपरिमाणजनकलात् । द्वयणुकस्याणुपरिमाणं तु परमावणुः सापेक्षया नोत्कृष्टम् । त्रसरेणुपरिमाणं तु न सजातीयम् । अतः परमाणौ द्विखसंख्या द्वयणुकपरिमाणस्य व्यणुके त्रिखसंख्या च त्रसरेणुपरिमाणस्यासमवायिकारणमित्यर्थः॥११०॥१११॥ परिमाणजन्यं परिमाणमुदाहरति । परिमाणं घटा. दाविति। परिमाणं घटादौ तु परिमाणजमुच्यते । प्रचयःशिथिलाख्योयःसंयोगस्तेनजन्यते॥११॥ परिमाणं तूलकादौ घटादिपरिमाणं कपालादिपरिमाणजन्यम् ॥ पचयजन्यमु- दाहर्तु प्रचयं निर्वक्ति । प्रचय इति ॥ ११२॥ नाशस्त्वाश्रयनाशतः। परिमाणं चाश्रयनाशादेव नश्यतीत्याह । नाश इति । अ- र्थात्परिमाणस्यैव । न चावयवनाशः कयं परिमाणनाशकःस- त्यप्यवयविनि त्रिचतुरादिपरमाणुविश्लेषे तदुपचये चावयविनः प्रत्यभिज्ञानेऽपिपरिमाणान्तरस्य प्रत्यक्षसिदत्वादिति वाच्यम्, परमाणुविश्लेषे हि घणुकस्य नामोऽवश्यमभ्युपेयस्तभाशे च .

८६ कारिकावली। त्रसरेणुकनाशः एवं क्रमेण महावयविनो नाशस्यावश्यकलात् । सति च नाशकेऽनभ्युपगममात्रेण नाशस्यापलपितुमशक्यत्वात्। शरीरादाववयवोपचयेऽसमवायिकारणनाशस्यावश्यकबादव- यविनाश आवश्यकः। न च पटादिविनाशेऽपि तन्वन्तरसंयो. गात्परिमाणाधिक्यं न स्यादिति वाच्यं, तत्रापि वेमाघभिघाते- नासमवायिकारणतन्तुसंयोगनाशात्पटनाशस्यावश्यकत्वात् । किंच तन्त्वन्तरस्य तत्पटावयवत्वे पूर्व तत्पट एव न स्यात्तन्त्व- न्तररूपकारणाभावात् । तन्त्वन्तरस्यावयवखाभावे च न तेन परिमाणाधिक्यं संयुक्तद्रव्यान्तरवत् । तस्मात्तत्र तन्वन्तरसंयो- गे सति पूर्वपटनाशस्ततः पटान्तरोत्पत्तिरित्यवश्यं स्वीकार्यम् । अवयविनः प्रत्यभिज्ञानं तु साजात्येन दीपकलिकादिवत् । न च पूर्वतन्तव एव तन्त्वन्तरसहकारात्पूर्वपटे सत्येव पटान्तरमा- रमन्तामिति वाच्यं, मूर्तयोः समानदेशताविरोधात्तत्र पटद्वयासं- भवादेकदा नानाद्रव्यस्य तत्रोपलम्भस्य बाधिनत्वाच्च । तस्मा- त्पूर्वद्रव्यस्य प्रतिबन्धकस्य विनाशे द्रव्यान्तरोत्पत्तिरित्यवश्य- मभ्युपेयत्वात् ॥ पृथक्त्वं निरूपयति । संख्यावदिति । संख्यावत्तु पृथक्त्वं स्यात्पृथक्प्रत्ययकारणम्।।११३॥ अन्योन्याभावतो नास्य चरितार्थत्वमिष्यते । अस्मात्पृथगीदं नेति प्रतीतिर्हि विलक्षणा॥११॥ पृथक्प्रत्ययासाधारणं कारणं पृथक्त्वम् । तन्नित्यतादिकं संख्यावत् । तथा हि । नित्येष्वेकत्वं नित्यम् । अनित्येष्व- नित्यम्। अनित्यमेकलं तु आश्रयद्वितीयक्षणे चोत्पद्यते आश्रय- नाशानश्यति । तथैकपृथक्लमपि। द्विवादिवञ्च द्विपृथक्वादि- कमपीत्यर्थः । नन्वयपसात्पृथगित्यादावन्योन्याभावो भा.

८७ सिद्धान्तमुक्तावलीसहिता । सते तत्कथं पृथक्त्वं गुणान्तरं स्वीक्रियते, न चास्तु पृथक्त्वं न बन्योन्याभाव इति वाच्यं, रूपं न घट इति प्रतीत्यनापत्तेः । न हि रूपे घटावधिकं पृथक्त्वं गुणान्तरमस्ति न वा घटे घटावधिकं पृथक्त्वमस्ति येन परंपरासंबन्धः कल्प्यत इत्यत आहाअस्मादिति।ननु शब्दवैलक्षण्यमेव न बर्थवैलक्षण्यमिति चेन्न, विनार्थभेदं घटात्पृथगितिवद्घटोन पट इत्यत्रापि पञ्चमी- प्रसंगात् । तस्माद्यदर्थयोगे पञ्चमी सोऽर्थों नअन्योन्याभा- घतो भिन्नो गुणान्तरं कल्प्यत इति ॥ ११३ ॥ ११४ ॥ संयोगं निरूपयति । अप्राप्तयोरिति । अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः। कीर्तितस्त्रिविधस्त्वेष आद्योऽन्यतरकर्मजः||११५॥ तं विभजते । कीर्तित इति । एष संयोगः॥ ११५ ॥ तथोभयक्रियाजन्यो भवेत्संयोगजोऽपरः। आदिमः श्येनशैलादिसंयोगः परिकीर्तितः ११६।। मेषयोः संनिपातो यः स द्वितीय उदाहृतः । संनिपातः संयोगः। द्वितीय उभयकर्मजः ॥ कपालतरुसंयोगात्संयोगस्तरुकुम्भयोः ॥ ११७ ॥ तृतीयः स्यात्कर्मजोऽपि द्विधैव परिकीर्तितः । अभिघातो नोदनं च शब्दहेतुरिहादिमः ॥११॥ शब्दाहेतुर्दितीयः स्याद् तृतीयः स्यादिति पूर्वेणान्वितम् । तृतीय इति । संयो- गजसंयोग इत्यर्थः । आदिमः अभिघातः । द्वितीयो नोदना. ख्यः संयोग इति ॥ .

कारिकावली। विभक्तमत्ययकारणं विभागं निरूपयति।विभाग इति । विभागोऽपि त्रिधा भवेत् । एककर्मोद्भवस्त्वाद्यो दयकर्मोद्भवोऽपरः ॥ ११९॥ विभागजस्तृतीयः स्यात्तृतीयोऽपि द्विधा भवेत् । हेतुमात्रविभागोत्यो हेत्वहेतुविभागजः ॥ १२० ॥ एककर्मेति । तदुदाहरणं तु श्येनशैलविभागादिकं पूर्ववद्धो. ध्यम् । तृतीयोऽपि विभागजविभागः कारणमात्रविभागजन्यः कारणाकारणविभागजन्यश्चेति । आयस्तावत् । यत्र कपाले कर्म ततः कपालद्वयविभागः। ततो घटारम्भकसंयोगनाशः।ततो घटनाशः। ततस्तेनैव कपालविभागेन सकर्मणः कपालस्याव- काशविभागो जन्यते । तत आकाशसंयोगनाशः । तत उत्तर- देशसंयोगः । ततः कर्मनाश इति । न च तेन कर्मणैव कथं दे- शान्तरविभागो न जन्यत इति वाच्यम्, एकस्य कर्मण आर- म्भकसंयोगप्रतिद्वन्द्विविभागजनकलस्यानारम्भकसंयोगपतिद्व- न्द्विविभागजनकत्वस्य च विरोधात् । अन्यथा विकसत्कमलकु- अलभङ्गमसङ्गात् । तस्माद् यदीदमनारम्भकसंयोगप्रतिद्वन्द्रिवि- भागं जनयेत्तदाऽरम्भकसंयोगप्रतिद्वन्दिविभागं न जनयेत् । न च कारणविभागेनैव द्रव्यनाशात्पूर्व कुतो देशान्तरविभागो न जन्यत इति वाच्यम् , आरम्भकसंयोगपतिद्वन्दिविभागवतो- ऽवयवस्य सति द्रव्ये देशान्तरविभागासंभवात् । द्वितीयस्तावत् । यत्र हस्तक्रियया हस्ततरुविभागस्ततः शरीरेऽपि विभक्तप्र- त्ययो भवति तत्र शरीरतरुविभागे हस्तक्रिया न कारणं व्यधि- करणबात् । शरीरे तु क्रिया नास्त्येव अवयविकर्मणो यावदव- यवकर्मनियतखात्। अतस्तत्रकारणाकारणविभागेन कार्याकार्य:

सिद्धान्तमुक्तावलीसहिता। विभागो जन्यत इति । अत एव विभागो गुणान्तरम् । अन्यथा शरीरे विभक्तप्रत्ययो न स्यात् । अतः संयोगनाशेन विभागो नान्यथासिद्धो भवति ॥११६॥११७॥११८॥११९॥१२०॥ परापरव्यवहारनिमित्ते परखापरखे निरूपयति ।परत्वं चेति।। परत्वं चापरत्वं च द्विविधं परिकीर्तितम् । दैशिकं कालिकं चापि मूर्त एव तु दैशिकम्१२१॥ परत्वं मूर्तसंयोगभूयस्त्वज्ञानतो भवेत् । अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम् ॥१२२॥ दैशिकमिति । दैशिकपरत्वं बहुतरमूर्तसंयोगान्तरितवज्ञा- नादुत्पद्यते । एवं तदल्पीयस्त्वज्ञानादपरखमुत्पद्यते । अत्रावधि- खार्थ पञ्चम्यपेक्षा। यथा पाटलिपुत्राकाशीमपेक्ष्य प्रयागः परः । पाटलिपुत्रात्कुरुक्षेत्रमपेक्ष्य प्रयागोऽपर इति ॥१२१॥१२२ ।। तयोरसमवायी तु दिक्संयोगस्तदाश्रये । तयोर्दैशिकपरखापरखयोः । असमवायी असमवायि कार- णम् । तदाश्रये दैशिकपरखापरखाश्रये ॥ दिवाकरेति । दिवाकरपरिस्पन्दभूयस्त्वज्ञानतो भवेत् ॥१२३॥ परत्वमपरत्वं तु नदीयाल्पत्वबुद्धितः । अत्रत्वसमवायी स्यात्संयोगः कालपिण्डयोः १२४ अत्र परखापरख कालिकं ग्राह्यम् । यस्य सूर्यपरिस्पन्दापे- क्षया यस्य सूर्यपरिस्पन्दोऽधिकः स ज्येष्ठः । यस्य न्यूनः स कनिष्ठः कालिकपरखापरले जन्यद्रव्य एव । अत्र: कालिकुए- रत्वापरखयोः॥ १२३ ॥ १२४ ।। ५ LARARY कारिकावली। अपेक्षाबुद्धिनाशेन नाशस्तेषां निरूपितः । तेषां कालिकदैशिकपरखापरखानाम् ।। क्रमप्राप्तां बुद्धिं निरूपयितुमाह । बुद्धेरिति । बुद्धेः प्रपञ्चः प्रागेव प्रायशो विनिरूपितः॥१२५॥ अथावशिष्टोऽप्यपरः प्रकारः परिदर्श्यते । अप्रमा च प्रमा चेति ज्ञानं द्विविधमिष्यते ॥१२६ ।। तच्छृन्ये तन्मतिर्या स्यादप्रमा सा निरूपिता। तत्पपञ्चो विपर्यासःसंशयोऽपि प्रकीर्तितः।।१२७॥ तत्राप्रमां निरूपयति । तच्छून्य इति । तदभाववति त- मकारकं ज्ञानं भ्रम इयर्थः । तत्मपञ्चोऽप्रमाणपञ्चः ॥१२॥ ॥ १२६॥ १२७॥ आद्यो देहेष्वात्मबुद्धिः शङ्खादौ पीततामतिः । भवेनिश्चयरूपा या संशयोऽथ प्रदर्श्यते ॥ १२८॥ आद्य इति । विपर्यास इत्यर्थः । शरीरादौ निश्चयरूपं य. दात्मलप्रकारकं ज्ञानं गौरोऽहमित्याकारकम् । एवं शादौ पीतः शङ्खइत्याकारकं यज्ज्ञानं निश्चयरूपंतभ्रम इति ॥१२८॥ किंस्विदिति । किंस्विन्नरो वा स्थाणुर्वेत्यादिबुद्धिस्तु संशयः। तदभावाप्रकारा धीस्तत्प्रकारा तु निश्चयः ॥१२९॥ किंस्विदिति वितर्के । निश्चयस्य लक्षणमाह। तदभावेति। तदभावामकारकं तत्प्रकारकं ज्ञानं निश्चयः ॥ १२९ ॥ संशयं लक्षयति । स संशय इति ।

९१ सिद्धान्तमुक्तावलीसहिता। स संशयो मतिर्या स्यादेकत्राभावभावयोः। साधारणादिधर्मस्य ज्ञानं संशयकारणम् ॥ १३०॥ एकर्मिकविरुद्धभावाभावप्रकारकं ज्ञानं संशय इत्यर्थः । साधारणेति । उभयसाधारणो यो धर्मस्तज्ज्ञानं संशयकार- णम् । यथोचैस्तरत्वं स्थाणुखसाधारणं ज्ञाखाऽयं स्थाणुर्न वेति संदिग्धे । एवमसाधारणधर्मज्ञानं कारणम् । यथा शब्दखस्य नित्यानित्यव्यावृत्तखेन शब्दे गृहीतत्वाच्छन्दो नित्यो न वेति संदिग्धे । विप्रतिपत्तिस्तु शब्दो नित्यो न वेत्यादिशब्दात्मिका न संशयकारणं शब्दव्याप्तिज्ञानादीनां निश्चयमात्रजनकत्वस्व. भावात् । किंतु तत्र शब्देन कोटिद्वयज्ञानं जन्यते संशयस्तु मा- नस एवेति । एवं ज्ञाने प्रामाण्यसंशयाद्विषयसंशय इति । एवं व्याप्यसंशयादपि व्यापकसंशय इत्यादिकं बोध्यम् । किंतु संशये धर्मिज्ञानं धर्मीन्द्रियसंनिकों वा कारणमिति ॥१३०॥ दोष इति । दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् । पित्तदूरत्वादिरूपो दोषो नानाविधः स्मृतः॥१३१॥ अपमा प्रति दोषः कारणम् । प्रमा प्रति गुणः कारणम् । तत्रापि पित्तादिरूपा दोषा अननुगताः। तेषां कारणंसमन्व- यव्यतिरेकाभ्यां सिद्धम्। गुणस्य प्रमाजनकलं तु अनुमानात्सि- द्धम्। यथा प्रमाज्ञानसाधारणकारणभिन्नकारणजन्या जन्यज्ञा- नत्वात् अपमावत् । न च दोषाभाव एव कारणमस्त्विति वाच्यं, पीतः शाइनि ज्ञानस्थले पित्तदोषसत्वाच्छनासप्रमानु- त्पत्तिप्रसङ्गात् । विनिगमनाविरहादनन्तदोषाभावकारणखमपे- क्ष्य गुणस्य कारणताया न्याय्यखात् । न च गुणसत्त्वेऽपि पि- ९२ कारिकावली। त्तप्रतिबन्धाच्छो न चैत्यज्ञानमतः पित्तादिदोषाभावानां का. रणबमवश्यं वाच्यं तथा च किं गुणस्य हेतुखकल्पनयेति वाच्यं, तथाप्यन्वयव्यतिरेकाभ्यां गुणस्यापि हेतुत्वसिद्धः । एवं भ्रम प्रति गुणाभावः कारणमित्यस्यापि सुवचनम् । तत्र दोषाः के इत्याकांक्षायामाहापित्तेति । क्वचित्पीतादिभ्रमे पित्तं दोषः । क्वचिच्चन्द्रादेः स्वल्पपरिमाणभ्रमे दूरत्वं दोषः । क्वचिच्च वं- शोरगभ्रमे मण्डूकवसाञ्जनमित्येवंरूपा दोषा भ्रान्तिजनका इत्यर्थः ॥ १३१॥ अथ के गुणा इत्याकांक्षायां प्रत्यक्षादौ क्रमशो गुणान्दर्श- यति । प्रत्यक्षे विति । प्रत्यक्षे तु विशेष्येण विशेषणवता समम् । संनिकों गुणस्तु स्यादथ त्वनुमितो गुणः१३२ पक्षे साध्यविशिष्टे तु परामर्शों गुणो भवेत् । शक्ये सादृश्यबुद्धिस्तु भवेदुपमिती गुणः १३३ शाब्दबोधे योग्यतायास्तात्पर्यस्याथ वा प्रमा । गुणः स्याद्रमभिन्नं तु ज्ञानमत्रोच्यते प्रमा १३४ प्रत्यक्षे विशेषणवद्विशेष्यसनिकर्षों गुणः । अनुमितौ सा. ध्यवति साध्यव्याप्यवैशिष्ट्यज्ञानं गुणः । एवमग्रेऽप्यूह्यम् ॥ प्रमा निरूपयति । भ्रमभिन्नमिति ॥ १३२ ॥ १३३ ॥१३४॥ ननु यत्र शुक्तिरजतयोरिमे रजते इति ज्ञानं जातं तत्र रज- तांशेऽपि ममा न स्यात् तमानस भ्रमभिमनाभाषादत आह। अथ वेति।

सिदान्तमुक्तावलीसहिता। अथ वा तत्पकार यज्ज्ञानं तद्विशेष्यकम् । तत्पमान प्रमा नापि भ्रमः स्यानिर्विकल्पकम्१३५ प्रकारतादिशून्यं हि संबन्धानवगाहि तत् । तद्विशेष्यकत्वे तत्प्रकारकं ज्ञानं प्रमेत्यर्थः । अथैवं स्मृतेरपि प्रमात्वं स्यात् । ततः किमितिचेत्तथा सति तत्करणस्यापि प्रमा- णान्तरत्वं स्यादितिचेन्न,यथार्थानुभवकरणस्यैव प्रमाणत्वेन वि- वक्षितत्वात् । इदं तु बोध्यम् । येन संबन्धेन तद्वत्ता तेन संव- न्धेन तद्विशेष्यकत्वं तेन संबन्धेन तत्प्रकारकत्वं वाच्यम् । तेन कपालादौ संयोगादिना घटादिज्ञाने नातिव्याप्तिः। एवं सति निर्विकल्पकं प्रमा न स्यात्तस्य सप्रकारकत्वाभावादत आह । न प्रमेति । ननु वृक्षे कपिसंयोगज्ञानं भ्रमः प्रमा च स्यादिति चेन्न, प्रतियोगिव्यधिकरणकपिसंयोगाभाववति संयोगज्ञानस्य भ्रमसात् । न च वृक्षे संयोगाभावावच्छेदेन संयोगज्ञानं भ्रमो न स्यात्तत्र संयोगाभावस्य प्रतियोगिसमानाधिकरणत्वादिति वाच्यं, तत्र संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमखाल्ल- क्ष्यस्याननुगमाल्लक्षणाननुगमेऽपि न क्षतिः॥ प्रमात्वमिति । प्रमात्वं न खतो ग्राह्यं संशयानुपपत्तितः१३६ मीमांसका हि प्रमात्वं खतो ग्राह्यमिति वदन्ति । तत्रगुरूणां मते ज्ञानस्य स्वप्रकाशरूपलात्तज्ज्ञानप्रामाण्यं तेनैव गृह्यत इति । भट्टानां मते ज्ञानमतीन्द्रियम् । ज्ञानजन्या ज्ञातताप्रत्यक्षा तया च शानमनुमीयते । मुरारिमिश्राणां मतेऽनुव्यवसायेन ज्ञानं रखते । सर्वेषामपि मने तज्ज्ञानविषयकज्ञानेन तज्ज्ञानप्रामाण्यं गृह्यते । विषयनिरूप्यं हि शानम् । अतो शानवित्तिवेद्यो वि- षयः । तन्मतं दूषयति । न स्वतो प्राथमिति । संशयेति ।

कारिकावली। यदि ज्ञानस्य प्रामाण्यं खतो प्राचं स्यात्तदाऽनभ्यासदशोत्पन्न- ज्ञाने प्रामाण्यसंशयो न स्यात् । तत्र हि यदि ज्ञानं ज्ञातं तदा ख- न्मते प्रामाण्यं ज्ञातमेवेति कथं संशयः। यदि तु ज्ञानं न ज्ञात तदा धर्मिज्ञानाभावात्कथं संशयः । तस्माज्ज्ञाने प्रामाण्यमनुमे. यम् । तथा हि । इदं ज्ञानं प्रमा संवादिप्रवृत्तिजनकत्वात् यन्नैवं तन्नैवम् यथाऽप्रमा । इदं पृथिवीत्वप्रकारकं ज्ञानं प्रमा गन्धवति पृथिवीवप्रकारकज्ञानवात् । एवमिदं जलखप्रकारक ज्ञानं प्रमा स्नेहवति जलवप्रकारकज्ञानखात् । न च हेतुज्ञानं कथं जातमिति वाच्यं, पृथिवीत्वप्रकारकत्वस्य स्वतो ग्राह्य- बात् । तत्र गन्धग्रहेण गन्धवद्विशेष्यकत्वस्यापि सुग्रहत्वात् । तत्पकारकत्वावच्छिन्नतद्वद्विशेष्यकत्वं परं न गृह्यते संशयानुरो- धात् । ननु सर्वेषां ज्ञानानां यथार्थवात्पमालक्षणे तद्विशेष्यक- त्वं विशेषणं व्यर्थम् , न च रङ्गे रजतार्थिनः प्रवृत्तिभ्रमजन्या न स्यात् तव मते भ्रमस्याभावादिति वाच्यं, तत्र हि दोषाधी- नस्य पुरोवर्तिनि स्वतन्त्रोपस्थितरजतभेदाग्रहस्य हेतुत्वाद सत्यरजतस्थले तु विशिष्टज्ञानस्य सत्त्वात्तदेव कारणम् , अस्तु वा तत्रापि भेदाग्रहः स एव कारणमिति, न चाऽन्यथाख्या- तिः संभवति, रजतप्रत्यक्षकारणस्य रजतसंनिकर्षस्याभावात् । रङ्गे रजतबुद्धरनुपपत्तेरिति चेन्न, सत्यरजतस्थले प्रवृत्ति प्रति विशिष्टज्ञानस्य हेतुतायाः कृप्तत्वादन्यत्रापि तत्कल्पनात् । न च संवादिप्रवृत्तौ तत्कारणं विसंवादिप्रवृत्तौ च भेदाग्रहःका- रणमिति वाच्यं लाघवेन प्रवृत्तिमात्रे तस्य हेतुखकल्पनात् । इत्यं च रङ्गे रजतखविशिष्टबुद्धधनुरोधेन ज्ञानलक्षणमत्यासत्तिक- ल्पनेऽपि न क्षतिः फलमुखगौरवस्यादोषखात् । किंच यत्र रबरजतयोरिमे रजते रङ्गे वेति ज्ञानं ज्ञातं तत्र न कारणबाधोऽ. पि । अपि च यत्र रङ्गरजतयोरिमे रजतरले इति ज्ञानं तत्रोभ- सिद्धान्तमुक्तावलीसहिता। ९५ यत्र युगपत्मवृत्तिनिवृत्ती स्याता रले रङ्गभेदग्रहे रजते रजतभे- दग्रहे चान्यथाख्यातिभयात् । खन्मते रहे रङ्गभेदाग्रहस्य रजते रजतभेदाग्रहस्य च सत्त्वादोषादेव रङ्गे रजतभेदाग्रहस्य रजते रबभेदाग्रहस्य च सत्त्वात् । किंचानुमितिं प्रति भेदाग्रहस्य हे- तुले जलहदे वहिव्याप्यधूमवद्देदाग्रहादनुमितिनिराबाधा । यदि च विशिष्टज्ञानं कारणं तदाऽयोगोलके वहिव्याप्यधूमना- नमनुमित्यनुरोधादापतितम् । सेयमुभयतःपाशा रज्जुः । इत्यं चान्यथाख्याती प्रत्यक्षमेव प्रमाणं रङ्गं रजततयाऽवेदिषमि- त्यनुभवादिति संक्षेपः ॥ १३५ ॥ १३६ ॥ पूर्व व्याप्तिरुक्ता तगृहोपायस्तु न दर्शित इत्यतस्तं दर्शयति । व्यभिचारस्येति । व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथा । हेतुर्व्याप्तिग्रहे तर्कः कचिच्छङ्कानिवर्तकः ॥१३७॥ व्यभिचाराग्रहः सहचारग्रहश्च व्याप्तिग्रहे कारणम् । व्यभि- चारग्रहस्य व्याप्तिग्रहे प्रतिबन्धकखात्तदभावः कारणमित्यर्थः। एवमन्वयव्यतिरेकाभ्यां सहचारग्रहस्यापि हेतुता । भूयोदर्शनं तु न कारणं व्यभिचारास्फूतौ सकृद्दर्शनेऽपि क्वचिद्वयाप्तिग्र- हात् क्वचिद्वयभिचारशकाविधूननद्वारा भूयोदर्शनमुपयुज्यते । यत्र तु भूयोदर्शनादपि शङ्का नापैति तत्र विपक्षबाधकतर्कोऽपे क्षितः । तथाहि । वह्निविरहिण्यपि धूमः स्यादिति ययाशङ्का भवति तदा सा वद्विधूमयोः कार्यकारणभावस्य प्रतिसंधाना- निवर्तते । यद्ययं वह्निमान्न स्यात्तदा धूमवान्न स्यात्कारणं विना कार्यानुपपत्तेः । यदि च क्वचित्कारणं विना कार्य भवि- प्यति तदाऽहेतुक एव भविष्यतीति तत्राप्याशङ्का भवेत्तदा सा ९६ कारिकावली। व्याघातादपसारणीया । यदि कारणं विना कार्य स्यात्तदा धू. मार्थ वस्तृप्त्यर्थ भोजनस्य वा नियमत उपादानं तत्रैव न स्या- दिति । यत्र स्वत एव शङ्का नावतरति तत्र न तर्कापेक्षापीति तदिदमुक्तं तर्कः क्वचिच्छानिवर्तक इति ॥ १३७ ॥ इदानी परकीयव्याप्तिग्रहमतिबन्धार्थमुपाधि निरूपयति । साध्यस्येति । साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा । स उपाधिर्भवेत्तस्य निष्कर्षोऽयं प्रदर्श्यते ॥१३॥ साध्यवाभिमतव्यापकत्वे सति साधनत्वाभिमताव्यापकल- मुपाधिरित्यर्थः । ननु स श्यामो मित्रातनयखादित्यत्र शाक- पाकजन्यखं नोपाधिः स्यात्तस्य साध्यव्यापकत्वाभावाच्छयाम- खस्य घटादावपि सत्त्वात् एवं वायुः प्रत्यक्षः प्रत्यक्षस्पर्शा- श्रयत्वादित्यत्रोद्भूतरूपवत्त्वं नोपाधिः स्यात्प्रत्यक्षखस्यात्मादिषु सत्त्वात्तत्र च रूपाभावात् , एवं ध्वंसो विनाशी जन्यखादि- त्यत्र भावलं नोपाधिः स्याद्विनाशिवस्य भागभावेऽपि स. चात्तत्र च भावत्वाभावादिति चेन्न, यद्धर्मावच्छिन्नसाध्यव्याप- कलं तद्धर्मावच्छिन्नसाधनाव्यापकसमित्यर्थे तात्पर्यात् । मित्रा- तनयत्वावच्छिन्नश्यामजस्य व्यापकं शाकपाकजलं तदवच्छिन्न- साधनाव्यापकं च । एवं पक्षधर्मे बहिर्द्रव्यखावच्छिन्नमत्यक्षत्वस्य व्यापकमुद्भूतरूपवत्त्वम्। एवंवहिव्यत्वावच्छिन्नसाधनस्याव्या. पकं च एवं ध्वंसो विनाशी जन्यत्वादित्यत्र जन्यत्वावच्छिन्न- साध्यव्यापकं भावत्वम् । सद्धेतौ तु एतादृशो धर्मो नास्ति य. दवच्छिन्नस्य साध्यस्य व्यापकं तदवच्छिन्नस्य साधनस्य चा. व्यापकं किंचित्स्यात् । व्यभिचारिणि तूपाध्यधिकरणं यत्सा. ध्याधिकरणं यचोपाधिशून्यं साध्ययभिचाराधिकरणं तदन्य.

९७ सिद्धान्तमुक्तावलीसहिता। तरखावच्छिन्नस्य साध्यस्य व्यापकलं साधनस्य चाव्यापकल- मुपाघेरन्ततः संभवतीति ॥ १३८ ॥ अत एव लक्ष्यमप्युपाधिस्वरूपमेतदनुसारेण दर्शयति । सर्व इत्यादिना। सर्वे साध्यसमानाधिकरणाः सदुपाधयः। हेतोरेकाश्रये येषां वसाध्यव्यभिचारिता ॥१३९॥ स्वसाध्येति । स्खं च साध्यं च स्वसाध्ये तयोर्व्यभिचा. रितेत्यर्थः ॥ १३९॥ उपाधेर्दूषकताबीजमाह । व्यभिचारस्येति । व्यभिचारस्यानुमानमुपाधेस्तु प्रयोजनम् । उपाधिव्यभिचारेण हेतौ साध्यव्यभिचारानुमानमुपमाः प्रयोजनमित्यर्थः । तथाहि । यत्र शुद्धसाध्यव्यापक उपाधिस्तत्र तद्धर्मवति उपाधिव्यभिचारेण साध्यव्यभिचारानुमानम् । यथा स श्यामो मित्रातनयखादित्यादौ मित्रातनयलं श्यामबव्यभि- चारि मित्रातनये शाकपाकजलव्यभिचारिखादिति । बाधानु- नीतपक्षेतरस्तु साध्यव्यापकताग्राहकप्रमाणाभावात्स्वव्याघात- कलाच नोपाधिः । बाधोनीतस्तूपाधिर्भवत्येव । यथा वह्निर- नुष्णः कृतकलादित्यादौ प्रत्यक्षेण वह्नावुष्णत्वग्रहे वह्नींतरखमु. पाधिः । यत्र तूपाधेः साध्यव्यापकता संदिह्यते स संदिग्धो- पाधिः । पक्षेतरस्तु संदिग्धोपाधिरपि नोद्भावनीयः कथकसंप- दायानुरोधात् । केचित्तु सत्मतिपक्षोत्थापनमुपाधिफलम् । तथा हि । अयोगोलकं धूमवद्वहेरित्यादावयोगोलकं धूमाभाववदाः- न्धनाभावादिति सत्यतिपक्षसंभवात् । इत्थं च साधनव्यापको- ऽपि कचिदुपाधिः । यथा करका पृथिवी कठिनसंयोगवत्वा- .

९८
कारिकावली।
दित्यादावनुष्णाशीतस्पर्शवत्वम् । न चात्र स्वरूपासिद्धिरेव दू-
षणमिति वाच्यं, सर्वत्रोपाधेर्दूषणान्तरसांकर्यात् । अत्र च सा-
ध्यव्यापकः पक्षावृत्तिरुपाधिरित्याहुः॥
शब्दोपमानयोरिति ।
शब्दोपमानयो३व पृथक्प्रामाण्य मिष्यते ॥१४०॥
अनुमानगतार्थत्वादिति वैशेषिकं मतम् ।
तन्न सम्यग्विना व्याप्तिबोधं शब्दादिबोधतः१४१
वैशेषिकाणां मते प्रत्यक्षमनुमानं च प्रमाणम् । शब्दोपमान
योस्वनुमानविधयैव प्रामाण्यम् । तथा हि । दण्डेन गामानये-
त्यादिलौकिकपदानि यजेतेत्यादि वैदिकपदानि वा तात्पर्यवि.
पयस्मारितपदार्थसंसर्गप्रमापूर्वकाणि आकाङ्क्षादिमत्पदकदम्ब-
खाद् घटमानयेति पदकदम्बवत् । यद्वा । एते पदार्था मियः
संसर्गवन्तो योग्यतादिमत्पदोपस्थापितलात् तादृशपदार्थवत् ।
दृष्टान्तेऽमि दृष्टान्तान्तरेण साध्यसिद्धिरिति । एवं गवयव्यक्ति-
प्रत्यक्षानन्तरं गवयपदं गवयखप्रवृत्तिनिमित्तकम् , असति वृत्त्य-
न्तरे दृबैस्तत्र प्रयुज्यमानखात् । असति च वृत्त्यन्तरे वृद्धैर्यत्र.
यत्प्रयुज्यते तत्र तत्तत्प्रवृत्तिनिमित्तकम्। यथा गोपदं गोलम-
त्तिनिर्मित्तकम् । यद्वा गवयपदंसप्रवृत्तिनिमित्तकं साधुपदत्वादि-
त्यनुमानेन पक्षधर्मतावलाद्वयत्वप्रवृत्तिनिमित्तकत्वंसिद्धयति।
तन्मतं दूषयति । तन्न सम्यगिति । व्याप्तिज्ञानं विनापिशा-
ब्दबोधस्यानुभवसिद्धत्वात् । न हि सर्वत्र शब्दश्रवणानन्तरं
व्याप्तिज्ञाने प्रमाणमस्तीति। किंच सर्वत्र शब्दस्थले यदि व्याप्ति-
ज्ञानं कल्प्यते तदा सर्वत्रानुमितिस्थलेपदज्ञानं कल्पयित्वा शा-
ब्दबोध एव किं न खीक्रियतामिनि ध्येयम् ॥१४०॥१४१॥

सिद्धान्तमुक्तावलीसहिता। त्रैविध्यमिति । त्रैविध्यमनुमानस्य केवलान्वयिभेदतः । दैविध्यं तु भवेद्याप्तेरन्वयव्यतिरकतः ॥ १४२ ॥ अन्वयव्याप्तिरुक्तैव व्यतिरेकादयोच्यते । अनुमानं हि त्रिविधं केवलान्वयिकेवलव्यतिरेक्यन्वयव्यति- रेकिभेदात् । तत्रासद्विपक्षः केवलान्वयी । यथा घटोऽभिधेयः प्रमेयत्वादित्यादौ । तत्र हि सर्वस्यैवाभिधेयत्वाद्विपक्षासत्त्वम्।। असत्सपक्षः केवलव्यतिरेकी । यथा पृथिवी इतरेभ्यो भिद्यते गन्धववादित्यादौ । तत्र हि जलादित्रयोदशभेदस्य पूर्वमनि- श्चिततया निश्चितसाध्यवतः सपक्षस्याभावात् ॥ सत्सपक्षविप- सोऽन्वयव्यतिरेकी । यथा वह्निमान्धूमादित्यादौ । तत्र सप- क्षस्य महानसादेविपक्षस्य जलहदादेश्व सत्त्वादिति ॥ तत्र व्यतिरेकिणि व्यतिरेकव्याप्तिज्ञानं कारणं तदर्थ व्यतिरे- कव्याप्तिं निर्वक्ति । साध्याभावेति । साध्याभावव्यापकत्वं हेत्वभावस्य यद्भवेत्॥१४३।। साध्याभावव्यापकीभूताभावप्रतियोगिसमित्यर्थः । अत्रेदं बोध्यम् । यत्संबन्धेन यदवच्छिन्नं प्रति येन संबन्धेन येन रूपेण व्यापकता गृह्यते तत्संबन्धावच्छिन्नप्रतियोगिताकतद्धर्मावच्छि- भाभाववत्ताज्ञानात्तत्संबन्धावच्छिन्नप्रतियोगिताकतद्धर्मावच्छि- भाभावस्य सिद्धिरिति । इत्थं च यत्र विशेषणतादिसंबन्धेने- तरत्वव्यापकत्वं गन्धाभावे गृह्यते तत्र गन्धाभावाभावेनेतरता- सन्ताभावः सिध्यति । यत्र तु तादात्म्यसंबन्धेनेतरव्यापक त्वं गन्धाभावस्य गृह्यते तत्र तादात्म्यसंबन्धेनेतरस्याभावः सिध्यति । स एवान्योन्याभावः। एवं यत्र संयोगसंबन्धेन कारिकावली। धूमं प्रति संयोगसंबन्धेन वढेापकता गृह्यते तत्र संयोगसंव- न्धावच्छिन्नप्रतियोगिताकवनयभावेन जलहूदे संयोगसंबन्धा- वच्छिन्नप्रतियोगिताकधूमाभावः सिध्यति । अत्र च व्यतिरेक- व्याप्तिग्रहे व्यतिरेकसहचारज्ञानं कारणम् । केचित्तु व्यतिरे- कसहचारेणान्वयव्याप्तिरेव गृह्यते न तु व्यतिरेकव्याप्तिज्ञानं कारणम् । यत्र व्यतिरेकसहचाराव्याप्तिग्रहस्तत्र व्यतिरेकीत्यु- च्यते । साध्यप्रसिद्धिस्तु घटादावेव ज्ञायतां पश्चात्पृथिवी- त्वावच्छेदेन साध्यत इति वदन्ति ॥ १४२ ॥ १४३ ॥ अर्थापत्तिरिति। अर्थापत्तिस्तु नैवेह प्रमाणान्तरमिष्यते । व्यतिरेकव्याप्तिबुद्धयाचरितार्था हिसायतः॥१४॥ अर्थापत्तिःप्रमाणान्तरमिति केचन मन्यन्ते । तथा हि।यत्र देवदत्तस्य शतवर्षजीवित्वं ज्योतिःशास्त्रादवगतं जीविनो गृहा- सत्त्वं च प्रत्यक्षादवगतं तत्र शतवर्षजीविनो गृहासत्त्वं बहिःस- त्वं विनाऽनुपपन्नमिति बहिःसत्त्वं कल्प्यत इति । तदनुमानेन गतार्थत्वानेष्यते । तथा हि। यत्र जीवित्वस्य बहिःसत्त्वगृहस. खान्यतरव्याप्यत्वं गृहीतं तत्रान्यतरसिद्धौ जायमानायां गृह- सत्त्वबाधाबहिःसत्त्वमनुमितौ भासते।एवं पीनोदेवदत्तो दिवा नमुक्त इत्यादौ पीनत्वस्य भोजनव्याप्यत्वावगमाद्भोजनसि- दौ दिवाभोजनबाधेरात्रिभोजनं सिध्यतीति।अभावप्रत्यक्षस्या- नुभविकत्वादनुपलम्भोऽपि न प्रमाणान्तरम् । किंचानुपलम्भ- स्याज्ञातस्य हेतुत्वे ज्ञानाकरणकत्वात्प्रत्यक्षम्। ज्ञातस्य हेतुत्वे तु तत्राप्यनुपलम्भान्तरापेक्षेत्यनवस्था। एवं चेष्टापि न प्रमाणा- न्तरं तस्याःसंकेतग्राहकशब्दस्मारकत्वेन लिप्यादिसमशीलत्वा- .

सिद्धान्तमुक्तावलीसहिता । १०१ च्छब्द एवान्तर्भावात् । यत्र च व्याप्त्यादिग्रहस्तत्रानुमितिरे- वेति ॥ १४४॥ सुखं निरूपयति । सुखं त्विति । सुखं तु जगतामेव काम्यं धर्मेण जायते । काम्यमभिलाषविषयः। धर्मेणेति । धर्मलेन मुखलेन का- र्यकारणभाव इत्यर्थः॥ दुःखं निरूपयति । अधर्मेति । अधर्मजन्यं दुःखं स्यात्प्रतिकूलं सचेतसाम् ॥१४५॥ अधर्मलेन दुःखलेन कार्यकारणभाव इत्यर्थः । प्रतिकूल- मिति। दुःखत्वज्ञानादेव सर्वेषां स्वाभाविकद्वेषविषयइत्यर्थः१४५ इच्छां निरूपयति । निर्दुःखत्व इति । निर्दुःखत्वे सुखे चेच्छा तज्ज्ञानादेव जायते । इच्छा तु तदुपाये स्वादिष्टोपायत्वधीर्यदि ॥१४॥ इच्छा द्विविधा फलविषयिणी उपायविषयिणी च । फलं तु मुखं दुःखाभावश्च । तत्र फलेच्छां प्रति फलज्ञानं कारणम् । • अत एव पुरुषार्थः संभवति । यज्ज्ञानं सत्ववृत्तितयेष्यते स पुरुषार्थ इति तल्लक्षणात् । इतरेच्छानधीनेच्छाविषयलं फलितो. ऽर्थः । उपायेच्छां प्रतीष्टसाधनताज्ञानं कारणम् ॥ १४६ ॥ चिकीर्षेति । चिकीर्षा कतिसाध्यत्वप्रकारेच्छा च या भवेत् । तहेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत् ॥१४७॥ कृतिसाध्यसप्रकारिका कृतिसाध्यक्रियाविषयिणीच्छा चि- कीर्पा पाकं कृत्या साधयामीति तदनुभवात् । चिकीर्षा प्रति कारिकावली। कृतिसाध्यताज्ञानमिष्टसाधनताज्ञानं च कारणम् । तद्धेतुरिति । अत एव यादौ कृतिसाध्यताभावान्न चिकीर्षा ॥ १४७ ॥ बलवदिति । बलवद्विष्टहेतुत्वमितिः स्यात्पतिवन्धिका । वलवद्विष्टसाधनताज्ञानं प्रतिबन्धकम् । अतो मधुविषसंपृ. क्तानभोजने न चिकीर्षा । बलवद्वेषः प्रतिबन्धक इत्यन्ये ।। तदहेतुत्वेति । तदहेतुत्वबुद्देस्तु हेतुत्वं कस्यचिन्मते ॥ १४८॥ बलवदनिष्टाजनकत्वज्ञानं कारणमित्यर्थः ॥ १४८ ॥ द्वेषं निरूययति । द्विष्टसाधनतेति । दिष्टसाधनताबुद्धिर्भवेद्वेषस्य कारणम् । दुःखोपायविषयकं द्वेषं प्रति बलवद्विष्टसाधनताज्ञानं कार- णमित्यर्थः । बलवदिष्टसाधनताज्ञानं प्रतिबन्धकम् । तेन ना- न्तरीयकदुःखजनके पाकादौ न द्वेषः॥ प्रयत्नं निरूपयति । प्रवृत्तिश्चेति । प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् ॥१४९॥ एवं प्रयत्नत्रैविध्यं तात्रिकैः परिकीर्तितम् । प्रवृत्तिनिवृत्तिजीवनयोनियत्नभेदात्मयत्नस्त्रिविध इत्यर्थः। चिकीर्षे त्यादि। चिकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा ॥ १५०॥ उपादानस्य चाध्यक्ष प्रवृत्तौजनकं भवेत् । मधुविषसंपृक्तानभोजनादौ बलवदनिष्टानुबन्धित्वेन चि. कीर्षाभावान प्रवृत्तिरिति भावः । कृतिसाध्यताज्ञानादिवद्ध- .

सिद्धान्तमुक्तावलीसहिता । १०३ लवदनिष्टाननुबन्धित्वज्ञानमपि स्वतत्रान्वयव्यतिरेकाभ्यां प्र- वृत्तौ कारणमित्यपि वदन्ति । कार्यताज्ञानप्रवर्तकमिति गुरवः। तथा हि । ज्ञानस्य प्रवृत्तौ जननीयायां चिकीर्षातिरिक्तं नापे- सितमस्ति । सा च कृतिसाध्यताज्ञानसाध्या इच्छाया: स्वप्र- कारप्रकारकधीसाध्यत्वनियमात् । चिकीर्षा हि कृतिसाध्यत्व- प्रकारिकेच्छा। तत्र कृतिसाध्यत्वं प्रकारस्तत्प्रकारकज्ञानं चिकी- पायां तद्द्वारा च प्रवृत्तौ हेतुर्न त्विष्टसाधनताज्ञानं तत्र हेतुः । कृ- त्यसाध्येऽपिचद्रमण्डलानयतादौप्रवृत्त्यापत्तेः। ननु कृत्यसाध्य- ताज्ञानं प्रतिबन्धकमिति चेन्न, तदभावापेक्षया कृतिसाध्यताज्ञा- नस्य लघुत्वात् । न च द्वयोरपि हेतुत्वं, गौरवात्। ननु त्वन्मतेपि मधुविषसंपृक्तानभोजने चैत्यवन्दने च प्रवृत्त्यापत्तिः कार्यता. ज्ञानस्य सत्त्वादिति चेन्न, सविशेषणवत्ताप्रतिसंधानजन्यकार्य- ताज्ञानस्य प्रवर्तकत्वात् । काम्ये हि यागपाकादौ कामना स्व- विशेषणम् । ततश्च बलवदनिष्टाननुवन्धिकाम्यसाधनताज्ञानेन कार्यताज्ञानम् । ततः प्रवृत्तिः । तृप्तश्च भोजने न प्रवर्तते तदा- नी कामनायाः पुरुषविशेषणत्वाभावात् । नित्ये च शौचादिकं पुरुषविशेषणम् । तेन शौचादिज्ञानाधीनकृतिसाध्यताज्ञानात्तत्र प्रवृत्तिः । ननु तदपेक्षया लाघवेन बलवदनिष्टाननुबन्धीष्टसा- धनताविषयककार्यताज्ञानत्वेनैव हेतुत्वमस्तु बलवदनिष्टाननु- बन्धित्वं चेष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखाजनकवं बलव- द्वेषविषयदुःखाजनकत्वं वेति चेन्न, इष्टसाधनत्वकृतिसाध्य- त्वयोर्युगपज्ज्ञातुमशक्यत्वात्साध्यत्वसाधनत्वयोर्विरोधात् । अ- सिद्धस्य हि साध्यत्वं सिद्धस्य च साधनत्वम् । न चैक- मेकेनैकदा सिद्धमसिद्धं चेति ज्ञायते तस्मात्कालभेदादुभयं ज्ञा- यत इति मैवं, लाघवेन बलवदनिष्टानुनबन्धीष्टसाधनत्वे सतिक- तिसाध्यताज्ञानस्य हेतुत्वात् ।न च साध्यत्वसाधनत्वयोर्विरोधो १०४ कारिकावली। यदाकदाचित्साध्यत्वसाधनत्वयोरविरोधादेकदासाध्यत्वसा- धनत्वयोश्च ज्ञानात् ॥ नव्यास्तु ममेदं कृतिसाध्यमिति ज्ञान न प्रवर्तकमनागते तस्य ज्ञातुमशक्यत्वात् । किंतु यादृशस्य पुंसः कृतिसाध्यं यदृष्टं तादृशत्वं स्वस्य प्रतिसंधाय तत्र प्रवर्तते ।ते- नौदनकामस्य तत्साधनताज्ञानवतस्तदुपकरणवतः पाकः कृति- साध्यस्तादृशश्चाहमिति प्रतिसंधाय पाके प्रवर्तत इत्याहुस्तन्न, खकल्पितसिध्यादिप्रवृत्तौ यौवने कामोद्भेदादिना संभोगादौ च तदभावात् । इदं तु बोध्यम् । इदानींतनेष्टसाधनत्वादिज्ञानं प्रवर्तकंतेन भावियौवराज्ये बालस्यनप्रवृत्तिस्तदानीं कृतिसाध्य- त्वाज्ञानात्। एवं तृप्तश्च भोजने न प्रवर्तते तदानीमिष्टसाधनत्वा- ज्ञानात् । प्रवर्तते च रोगदूषितचित्तो विषादिभक्षणे तदानीं बलवदनिष्टानुबन्धित्वाज्ञानात् । न चास्तिकस्यागम्यागमनश- त्रुवधादिप्रवृत्तौ कथं बलवदनिष्टाननुबन्धित्वदृद्धिर्नरकसाधन- खज्ञानादिति वाच्यम्, उत्कटरागादिना नरकसानताधीतिरो. धानात् । वृष्ट्यादौ तु कृतिसाध्यताज्ञानाभावान चिकीर्षाप- वृत्ती किंखिष्टसाधनताज्ञानादिच्छामात्रम् । कृतिश्च प्रवृत्तिरूपा बोध्या। तेन जीवनयोनियत्नसाध्ये प्राणपञ्चकसञ्चारे न म. वृत्तिः । इत्थं च प्रवर्तकलानुरोधाद्विधेरपीष्टसाधनलादिकमे- वार्थः । इत्थं च विश्वजिता यजेतेत्यादौ यत्र फलं न श्रूयते तत्रापि स्वर्गः फलं कल्प्यते । नन्वहरहः संध्यामुपासीतेत्या- दाविष्टानुत्पत्तेः प्रवृत्तिः कथम्, न चार्थवादिकं ब्रह्मलोकादि प्रत्यवायाभावो वा फलमिनि वाच्यं, तथा सति साम्यले नि- त्यवहान्यापत्तेः कामनाभावे चाकरणापत्तेः, इत्थं च यत्र फल- श्रुतिस्तत्रार्थवादमात्रमिति चेन्न, ग्रहणश्राद्धादौ नित्यबनैमि- त्तिकखयोरिव नित्यसकाम्यत्वयोरप्यविरोधात्। न च कामना भावेऽकरणतापत्तिः, त्रिकालस्तवपाठादाविव कामनासद्भा- .

सिद्धान्तमुक्तावलीसहिता। १०५ वस्यैव कल्पनात्, न तु वेदबोधितकार्यताज्ञानात्मवृत्तिरिति सं. भवति खेष्टसाधनत्वमविज्ञाय तादृशकार्यताज्ञानसहस्रेणापि प्रवृत्तेरसंभवात् । यदपि पण्डापूर्व फलमिति तदपि न कामना- भावेऽकरणापत्तेस्तौल्यात् । कामनाकल्पने त्वार्थवादिफलमेव रात्रिसत्रन्यायात्कल्प्यताम् । अन्यथामवृत्त्यनुपपत्तेः । तेना- नुत्पत्तिं प्रत्यवायस्यान्ये मन्यन्ते । एवम् । सन्ध्यामुपासते ये तु सततं शंसितव्रताः। विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् ॥ एवम् । दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमावहन् । इति प्रीत्यात्मकमेव फलमस्तु । न च पितृप्रीतिः कथं फलं व्यधिकरणत्वादिति वाच्यं, गयाश्राद्धादाविवोद्देश्यसंबन्धे- नैव फलजनकत्वस्य क्वचित्कल्पनात् । अत एवोक्तं शास्त्रदर्शि- तफलमनुष्ठानकर्तरीत्युत्सर्ग इति । पितॄणां मुक्तत्वे तु स्वस्य स्ख- र्गादिफलं यावन्नित्यनैमित्तिकानुष्ठानस्य सामान्यतः स्वर्गजन- कत्वात् । पण्डापूर्वार्थ प्रवृत्तिश्च न संभवति न हि तत्मुख- दुःखाभाववत्स्वतः पुरुषार्थो न वा तत्साधनम् , प्रत्यवाया- नुत्पत्तौ कथं प्रवृत्तिरिति चेदित्यम्, यथा हि नित्ये कृते प्रत्य- वायाभावस्तिष्ठति तदभावे तदभावः । एवं प्रत्यवायाभावस- वे दुःखप्रागभावसत्त्वं तदभावे तदभाव इति योगक्षेमसाधार- णकारणताया दुःखपागभावं प्रत्यपि सुवचनात् । एवमेव मा- यश्चित्तस्यापि दुःखप्रागभावहेतुत्वमिति । ननु न कलचं भक्ष- येदित्यत्र विध्यर्थे कथं नअर्थान्वयः इष्टसाधनबाभावस्यकृति- साध्यत्वाभावस्य च बोधयितुमशक्यत्वादिति चेन, तब १०६ कारिकावली। बाधादिष्टसाधनत्वं कृतिसाध्यत्वं च न विध्यर्थः किंतु ब- लवदनिष्टाननुवन्धित्वमात्रं तदभावश्च ना बोध्यते । अथवा बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वे सति कृतिसाध्यत्वं विध्यर्थः। तदभावश्च नत्रा बोध्यमानो विशिष्टाभावो विशे- ष्यवति विशेषणाभावे विश्राम्यति । ननु श्येनेनाभिचरन् य. जेतेत्यादौ कथं बलवदनिष्टाननुबन्धिसमर्थः श्येनस्य मरणानु- कूलव्यापारस्य हिंसाबेन नरकसाधनलात्, न च वैधत्वान्न निषेध इति वाच्यम् , अभिचारे प्रायश्चित्तोपदेशात्, न च मर- णानुकूलव्यापारमात्रं यदि हिंसा तदा खड्गकारस्य कूपकर्तुश्च हिंसकत्वापत्तिर्गललग्नान्नभक्षणजन्यमरणे स्वात्मवधत्वापत्तिश्चे- तिवाच्यं,मरणोद्देश्यकलस्यापि विशेषणवात् ,अन्योद्देश्यकक्षि- सनाराचहतब्राह्मणस्य तु वाचनिकं प्रायश्चित्तमिति चेन्न, श्ये- नवारणायादृष्टाद्वारकलेन विशेषणात् । अत एव काशीमरणार्थ कृतशिवपूजादेरपि न हिंसालम् । न च साक्षान्मरणजनकस्यैव हि हिंसात्वं श्येनस्तु न तथा किंतु तज्जन्यापूर्वमिति वाच्यं, खगाघातेन ब्राह्मणे व्रणपाकपरंपरया मृते हिंसाखानापत्तेः। केचित्तु श्येनस्य हिंसाफलं न तु मरणम् । तेन श्येनजन्यखड्ग- घातादिरूपा हिंसाऽभिचारपदार्थः । तस्य च पापजनकखम्। अतः श्येनस्य वैधखात्पापाजनकत्वेऽपि अग्रिमपापं प्रतिसंधाय सन्तो न प्रवर्तन्त इत्याहुः । आचार्यास्तु आप्ताभिप्रायो वि- ध्यर्थः । पाकं कुर्या इत्यादावाज्ञादिरूपेच्छावाचिवबल्लिङ्मात्र- स्येच्छावाचिलं लाघवात् । एवं च स्वर्गकामो यजेतेत्यादौ यागः वर्गकामकृतिसाध्यतया आनेष्ट इत्यर्थः। ततश्चाप्तेष्टलेनेष्टसाधन- बादिकमनुमाय प्रवर्तते । कलञ्जभक्षणे तदभावान्न प्रवर्तते । यस्तु वेदे पौरुषेयजं नाभ्युपैति तं प्रति विधेरेव तावद्गर्भ इव सिद्धान्तमुक्तावलीसहिता। श्रुतिकुमार्याः पुंयोगे मानम् । न च कर्जस्मरणं बाधकं, कपिलक- णादादिभिरद्यपर्यन्तं कर्तृस्मरणस्यैव प्रतीयमानखात् । अन्यथा स्मृतीनामप्यकर्तृकखापत्तेः । तत्रैव कर्तृस्मरणमस्तीति चेद्वेदेऽपि छन्दांसि जज्ञिरे तस्मादित्यादिकर्तृस्मरणमस्त्येव । एवं “प्र- तिमन्वन्तरं चैषा श्रुतिरन्या विधीयते " इत्यपि द्रष्टव्यम् । खयंभूरेष भगवान्वेदो गीतस्वया पुरा । शिवादिऋषिपर्यन्ताः स्मारोऽस्य न कारकाः॥ इति तु वेदस्य स्तुतिमात्रम् । न च पौरुषेयले भ्रमादिसंभ- वादप्रामाण्यं स्यादिति वाच्यं, नित्यसर्वज्ञलेन निर्दोपलात् । अत एव पुरुषान्तरस्य भ्रमादिसंभवान कपिलादेरपि कर्तृवं वे- दस्य । किंच वर्णानामेवानित्यवस्य वक्ष्यमाणखात्सुतरां तत्सं- दर्भस्य वेदस्यानित्यत्वमिति संक्षेपः॥उपादानस्येति । उपा- दानस्य समवायिकारणस्याध्यक्ष प्रत्यक्ष प्रवृत्तौ कारणमिति ॥ निवृत्तिरिति । निवृत्तिस्तु भवेद्वेषाविष्टसाधनता धियः ॥ १५१॥ द्विष्टसाधनताज्ञानस्य निवृत्ति प्रति जनकसमन्वयव्यतिरेका- भ्यामवधारितमिति भावः ॥ १४९ ॥ १५० ॥ १५१ ॥ यत्न इति । यत्रो जीवनयोनिस्तु सर्वदातीन्द्रियो भवेत् । जीवनयोनियनो यावज्जीवनमनुवर्तते । स चातीन्द्रियः ॥ तत्र प्रमाणमाह । शरीर इति । शरीरे प्राणसंचारे कारणं परिकीर्तितम् ॥१५२ ॥ माणसंचारो हि अधिकश्वासादिः यत्नसाध्यः । इत्थं च . . १०८ कारिकावली। प्राणसंचारस्य सर्वस्य यनसाध्यत्वानुमानात्मत्यक्षयत्नबाधा- चातीन्द्रिययत्नसिद्धिः। स एव जीवनयोनिर्यनः ॥१५२॥ गुरुवं निरूपयति । अतीन्द्रियमिति । अतीन्द्रियं गुरुत्वं स्यात्पृथिव्यादिद्धये तु तत् । अनित्ये तदनित्यं स्यानित्ये नित्यमुदाहृतम्॥१५३॥ तदेवासमवायि स्यात्पतनाख्ये तु कर्मणि । अनित्य इति । अनित्ये व्यणुकादौ तद्गुरुखमनित्यम् । नित्ये परमाणौनित्यम्। गुरुखमित्यनुवर्तते । तद्गुरुखमसमवायि, असमवायिकारणम् । पतनाख्य इति । आद्यपतन इत्यर्थः। द्रवत्वं निरूपयति । सांसिद्धिकमिति । सांसिद्धिकं द्रवत्वं स्यान्नैमित्तिकमथापरम् ॥१५४॥ सांसिद्धिकं तु सलिले द्वितीयं क्षितितेजसोः। द्रवत्वं द्विविधं सांसिद्धिकं नैमित्तिकं चेति । द्वितीयं नै- मित्तिकम् ॥ परमाणाविति । परमाणौ जले नित्यमन्यत्रानित्यमुच्यते ॥१५५॥ जलपरमाणौ द्रवत्वं नित्यमित्यर्थः । अन्यत्र पृथिवीपरमा- ण्वादौ जलव्यणुकादौ च द्रवलमनित्यम् । कुत्रचित्तेजसि कुत्र- चित्पृथिव्यां च नैमित्तिकं द्रवलम् ।। १५३ ॥१५४॥ १५५ ॥ तत्र को वा नैमित्तिकार्थस्तदर्शयति । नैमित्तिकमिति ॥ नैमित्तिकं वह्रियोगात्तपनीयघृतादिषु । वहीति । अनिसंयोगजन्यं नैमित्तिकं द्रवत्वम् । तच्च सु. वर्णादिरूपे तेजसि घृतजतुप्रभृतिपृथिव्यां च वर्तत इत्यर्थः ॥

सिद्धान्तमुक्तावलीसहिता । १०९ द्रवत्वमिति । द्रवत्वं स्यन्दने हेतुर्निमित्तं संग्रहे तु तत् ॥१५६ हेतुरिति । असमवायिकारणमित्यर्थः । संग्रहे सक्तुकादि. संयोगविशेषे तद्रवत्वं स्नेहसहितमिति वोद्धव्यम् । तेन द्रुतसु- वर्णादीनां न संग्रहः ॥ १५६ ॥ स्नेहं निरूपयति । लेह इति । स्नेहो जले स नियोऽणावनित्योऽवयविन्यसौ तैलान्तरे तत्प्रकर्षादहनस्यानुकूलता ॥१५७ ॥ जले इति । जल एवेत्यर्थः । असौ स्नेहः । ननु पृथिव्या- मपि तैले स्नेह उपलभ्यते, न चासौ जलीयः, तथा सति दहनमातिकूल्यं स्यादत आह । तैलान्तर इति । तत्कर्षा- स्नेहप्रकर्षात् । तैले उपलभ्यमानस्नेहोऽपि जलीय एव । तस्य प्रकृष्टवादग्गेरानुकूल्यम् । अपकृष्टस्नेहं हि जलं वन्हि नाशयतीति भावः॥१५७॥ संस्कारं निरूपयति । संस्कारेति । संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने वेगस्थितिस्थापकभावनाभेदात्संस्कारखिविध इत्यर्थः ।। सूर्तमात्र इति । मूर्तमात्रे तु वेगः स्यात्कर्मजो वेगजःक्वचित् १५८ कर्मजवेगजभेदाद्वेगो द्विविध इत्यर्थः । शरीरादौ हि नोदन- जनितेन कर्मणा वेगो जन्यते । तेन च पूर्वकर्मनाशस्तत उत्तरं कर्म । एवमग्रेऽपि । विना च वेगं कर्मणः कर्मप्रतिबन्धकला- ११० कारिकावली। त्पूर्वकर्मनाश उत्तरकर्मोत्पत्तिश्च न स्यात्। यत्र वेगवता कपालेन जनिते घटे वेगो जन्यते स वेगजो वेगः ॥ १५८॥ स्थितिस्थापकेति। स्थितिस्थापकसंस्कारः क्षितो केचिच्चतुर्षपि अतीन्द्रियोऽसौ विज्ञेयः क्वचित्स्पन्देऽपि कारणम् १५९ अतीन्द्रिय इति।आकृष्टशाखादीनां परित्यागे पुनर्गमनस्य स्थितिस्थापकसाध्यवात् । केचिदिति । चतुर्पु सित्यादिषु स्थितिस्थापकं केचिन्मन्यन्ते तदप्रमाणमिति भावः । असौ स्थितिस्थापकः । क्वचिदाकृष्टशाखादौ ॥ १५९ ॥ भावनाख्य इति । भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रियः उपेक्षानात्मकस्तस्य निश्चयः कारणं भवेत् १६० तस्य संस्कारस्योपेक्षात्मकज्ञानात्संस्कारानुत्पत्तेरुपेक्षाना-. त्मक इत्युक्तम् । तत्संशयात्तस्यानुत्पत्तेनिश्चय इत्युक्तम् । ते- नोपेक्षान्यनिश्चयखेन संस्कारं प्रति हेतुतेति भावः ॥ १६०॥ ननु स्मरणं प्रत्युपेक्षान्यनिश्चयखेन हेतुत्वम्, तेनोपेक्षादि- स्थले न स्मरणम्, इत्थं च संस्कार प्रति ज्ञानत्वेनैव हेतुता. स्विति चेन्न, विनिगमनाविरहेणापि संस्कारं प्रति उपेक्षान्य- निश्चयलेन हेतुतायाः सिद्धत्वात् । किंचोपेक्षास्थले संस्कार- कल्पनाया गुरुवात्संस्कारंपति चोपेक्षान्यनिश्चयवेन हेतुताया: सिद्धखात् । तत्र प्रमाणं दर्शयति । स्मरण इति ।

सिद्धान्तमुक्तावलीसहिता। स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते । यतःस्मरणं प्रत्यभिज्ञानं च जनयत्यतः संस्कारः कल्प्यते विना व्यापरं पूर्वानुभवस्य स्मरणादिजननासामर्थ्यात्स्वस्व- व्यापारान्यतराभावे कारणत्वासंभवात् । नच प्रत्यभिज्ञा प्रति तत्तत्संस्कारस्य हेतुलेन प्रत्यभिज्ञायाः संस्कारजन्यखेन स्मृति- खापत्तिरिति वाच्यम्, अप्रयोजकखात् । परे खनुहुद्धसंस्का- रात्मत्यभिज्ञानुदयादुद्रुद्धसंस्कारस्य हेतुखापेक्षया तत्तत्स्मरण- स्यैव प्रत्यभिज्ञा प्रति हेतुत्वं कल्प्यत इत्याहुः॥ अदृष्टं निरूपयति । धर्माधर्माविति । धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिसाधनम् १६१ गङ्गास्नानादियागादिव्यापारः स तु कीर्तितः स्वर्गादीति । स्वर्गादिसकलसुखानां स्वर्गसाधनीभूतशरी- रादीनां च साधनं धर्म इत्यर्थः । तत्र प्रमाणं दर्शयितुमाह । यागादीति । यागादिव्यापारतया धर्मः कल्प्यते । अन्यथा यागादीनां चिरविनष्टतया निर्व्यापारतया च कालान्तरभा- विस्वर्गजनकलं न स्यात् । तदुक्तमाचार्यैः । चिरध्वस्तं फलायालं नं कर्मातिशयं विना । इति । ननु यागध्वंस एव व्यापारः स्यात् , न च प्रतियोगितङ्घ- सयोरेकनाजनकलं, सर्वत्र तथाले मानाभावात् , न च खन्मते- फलानन्त्यं मन्मते चरमफलस्यापूर्वनाशकत्वान्न तथात्वमिति वाच्यं, कालविशेषस्य सहकारिखादित्यत आह गङ्गाला- नेति । गङ्गास्नानस्य हि स्वर्गजनकत्वेऽनन्तानां जलसंयोगध्वं- साना व्यापारत्वमपेक्ष्यैकमपूर्वमेव कल्प्यतेलाघवादिति भावः।।

. ११२ कारिकावली। ननु ध्वसोऽपि न व्यापारोस्तु, न च निर्व्यापारस्य चिरध्व स्तस्य कथं कारणत्वमिति वाच्यम् , अनन्यथासिद्धनियतपूर्वव- तित्वस्य तत्रापि सत्त्वात्, अव्यवहितपूर्ववर्तित्वं हि चक्षुःसंयो. गादेः कारणत्वे न तु सर्वत्र कार्यकालवृत्तित्वमिव समवायि- कारणस्य कारणत्वे इत्यत आह । कर्मनाशेति । कर्मनाशाजलस्पर्शादिना नाश्यस्त्वसौ मतः १६२ यदि ह्यपूर्व न स्यात्तदा कर्मनाशाजलस्पर्शादिना नाश्यत्वं धर्मस्य न स्यात् , न हि तेन यागादे शः प्रतिबन्धो वा कर्तु शक्यते तस्य पूर्वमेव वृत्तत्वादिति। एतेन देवतापीतेरेव फलत्व- मित्यपास्तम् । गङ्गास्नानादौ सर्वत्र देवतापीतेरसंभवाच देव- तायाश्चेतनत्वेऽपि तत्पीतेरनुद्देश्यत्वात् । प्रीतः सुखस्वरूपत्वेन विष्णुप्रीत्यादौ तदसंभवात् । जन्यमुखादेस्तत्राभावात् । तेन विष्णुप्रीतिजन्यत्वेन पराभिमतस्वर्गादिरेव विष्णुप्रीतिशब्देन लक्ष्यते ॥ १६१ ॥ १६२॥ अधर्म इति । अधों नरकादीनां हेतुर्निन्दितकर्मजः नरकादिसकलदुःखानां नारकीयशरीरादीनां च साधनम- धर्म इत्यर्थः ॥ तत्र प्रमाणमाह । प्रायश्चितेति । प्रायश्चित्तादिनाश्योऽसौजीववृत्ती विमौ गुणौ१६३ यदि ह्यधर्मो न स्यात्तदा प्रायश्चित्वादिनाश्यत्वं न स्यात् । न हि तेन ब्रह्महननादीनां नाशः प्रतिबन्धो वा विधातुं शक्यते १९३. . सिद्धान्तमुक्तावलीसहिता। सस्य पूर्वमेव घिनष्टबादिति भावः ॥ जीवेति। ईश्वरस्य धर्मा- धर्माभावादिति भावः ॥ १६३॥ इमौ तु वासनाजन्यौ ज्ञानादपि विनश्यतः । इमौ धर्माधौं ।वासनेति । अतो ज्ञानिनो कृते अपि मुकृत. दुष्कृतकर्मणी न फलायालमिति भावः॥ज्ञानादपीति । अ. पिना भोगपरिग्रहः। ननु तत्त्वज्ञानस्य कथं धर्माधर्मनाशत्वं नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपीति वचनविरोधात्, इत्थं च तत्त्वज्ञानिनां झटिति कायव्यूहेन सकलकर्मणां भोगेन क्षय इति चेन्न, तत्र भोगस्य वेदबोधितनाशकोपलक्षितत्वात् कथमन्यथा प्रायश्चित्तादिना कर्मणां नाशः । तदुक्तम् । ज्ञानामिः सर्वकर्माणीत्यादिना । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे । इति । ननु तत्त्वज्ञानिनस्तर्हि शरीरावस्थानं सुखदुःखादि च न स्याज्ज्ञानेन च सर्वेषां कर्मणां नाशादिति चेन्न, पारब्धेतरकर्म- णामेव नाशात् । तत्तच्छरीरभोगजनकं हि यत्कर्म तत्मारब्धं त- दभिप्रायमेव नामुक्तमिति वचनमिति ॥ शब्द निरूपयति । शब्द इति । शब्दोध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः॥१६॥ कण्ठसंयोगादिजन्या वर्णास्ते कादयो मताः। सर्वःशब्दोनभोवृत्तिःश्रोत्रोत्पन्नस्तु गृह्यते।।१६५|| वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता । नभोवृत्तिराकाशसमवेतः। दूरस्थशब्दस्याग्रहणादाह । श्रो- वेति । ननु सदनाधवच्छेदेनोत्पन्ने शब्देश्रोत्रे कयमुत्पत्तिरत

.
कारिकावली ।
आह । वीचीति । आधशब्देन बहिर्दशदिगवच्छिन्नोऽन्यःश-
ब्दस्तेनैव शब्देन जन्यते । तेन चापरस्तव्यापकः। एवं क्रमेण
श्रोत्रोत्पन्नो गृह्यत इति ॥
कदम्बेति।
कदम्बगोलकन्यायादुत्पत्तिः कस्यचिन्मते॥१६६।।
आधशब्दादशदिक्षु दश शब्दा उत्पद्यन्ते । तैश्चान्ये दश
शब्दा उत्पद्यन्त इति भावः । अस्मिन्मते गौरवादुक्तं कस्य-
चिन्मत इति ॥ १६४ ॥ १६५ ॥ १६६ ॥
ननु शब्दस्य नित्यत्वादुत्पत्तिकथनमसंगतमत आह । उ.
त्पन्न इति ।
उत्पन्नः को विनष्टः क इति वुद्धेरनित्यता।
शब्दानामुत्पादविनाशप्रत्ययशालित्वादनित्यत्वमित्यर्थः॥
सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते ॥१६७॥
ननु स एवायं ककार इत्यादिमत्यभिज्ञानाच्छब्दानां नित्य-
त्वम्, इत्थं चोत्पादविनाशबुद्धिर्भमरूपैवेत्यत आह । सोऽयं
क इति ॥ साजात्यमिति। तत्र प्रत्यभिज्ञानस्य तत्सजातीयत्वं
विषयो न तु तद्वयक्त्यभेदो विषयः उक्तमतीतिविरोधात् । इत्थं
च द्वयोरपि प्रतीत्योरभ्रमत्वमिति ॥ १६७ ॥
ननु सजातीये सोऽयमिति प्रत्यभिज्ञा कुत्र दृष्टेत्यत आह ।
तदेवेति ।
तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात् ।
तस्मादनित्याएवेति वर्णाः सर्वे मतं हि नः॥१६८॥

ARUICTINGTHREE समाप्तिः सिद्धान्तमुक्तावलीसहिता। ११५ यदौषधं मया कृतं तदौषधमन्येनापि कृतमित्यादिदर्शना- दिति भावः ॥ १६८॥ इति श्रीविश्वनाथपश्चाननकृतकारिकावली समाप्ता ॥ इति श्रीमहामहोपाध्यायविद्यानिवासभट्टाचार्यसु- तश्रीविश्वनाथपश्चाननभट्टाचार्यविरचितायां सिद्धान्तमुक्तावल्यां गुणनिरूपणम् ॥ समाप्तश्चायं ग्रन्थः॥ - .. ACT:

No text on this page.

No text on this page.

MISICH INSTIUTC i
HA
#KA
LIBRARY
TH?
CALCUTTA

No text on this page.

Karikabali

Author
Shastri, Jibaram, Rev.
Title
Karikabali
File name
Karikabali
Text
OCR done
Citation
1898
Published
2006/04/22
Publisher
Ramsharma
Language
Sanskrit
Pages
136
Library
Ramkrishna Mission Institute Of Culture, Golpark
Classification
Literary Studies
DLI number
344922
Barcode
4990010216654.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
2N0ZTS4ocnJ
Download PDF

Karikabali