Sringeri Sharada Peetham

Dvaitam Kavyam

Sri Dwijendralal Sharma · 2005/03/10

PDF Proofread

Front matter

मंगलाचरणम्
नमामि विघ्ननाशाय गणेशं च शिवं शिवाम् ।
शुभसाफल्यभाग्याथं श्रियं वाणी च माधवम् ॥१॥
धिये नमो गुरुभ्योऽस्तु श्रद्धामात्रधनस्य मे ।
भक्तिसम्पज्जयानन्दश्रीशक्तिशान्तिसिद्धये ॥२॥
स्वर्गतौ स्नेहसर्वस्वी मद्भौमजन्मकारणम् ।
नमामि पितरौ भक्त्या दुलालानन्दविग्रहौ ॥ ३ ॥

द्वैतं काव्यम्
प्रस्तावना-
स्वाधिकारवशात् कश्चित् प्रवासी प्रेमिकः पतिः ।
वर्षकालं नयत्याशे वंचिता स्त्री गृहे तथा ॥क ।।
ग्रन्थारम्भः
(अथ वर्षाकाले)
नायकः । दूरप्रवासवसतौ हरितप्रभायां
नृत्यकलापिलपितं खलु कल्पकल्पम् ।
कालं तु वर्षणमयं घनमेवघोषैः
कामाहतः कथमहं विरही नयामि ॥ १ ॥
यक्षोऽथवा प्रभु-रुषा किल मैघदूत
एकः प्रवासगमितो विरहानलातः ।
वृष्टः समागममिमं पुनरेवमाप्त्वा
निश्चेतनं गमयति स्वगृहं स्म मेघम् ॥ २ ॥

२ द्वतं काव्यम् . नायिका । कासौ पति मन पुनः क च वाहमस्मि दृते न वा समुदिते न च पत्रलेखे। वर्षासुदीर्घरजनी नयनाश्रुसिक्तां व्यर्थ दिनं च विहता कथमावहामि ॥ ३ ॥ कालोऽत्र याति दिवसे न तु गन्तुकाम आयाति रात्रिरधिकार्तिकरी सुदीर्घा । भ्रान्त्या भ्रमामि निभृतं विफलात्रलोका प्रेमप्रसादगतये पतिरागकक्षम् ॥४॥ नायक :। मेधैर्धनैरधिकृतो गगनः समन्ताद् विद्युत्प्रभाविकिरणे नवगचित्रः । आवृत्य भानुशशिनाविह तारकाच रात्रिन्दिवं भवति वा समदर्शनोऽद्य ॥ ५ ॥ मेघाम्बरेऽस्य धवलो वलयार्धकल्प श्राकाशमार्गगमनो वृतमानसाप्तिः । हारांश्च मौक्तिकमयान् विलिखन् प्रभूतम् आनन्दयेज् जनगणान् न तु मां वकालिः ॥६॥ नायिका । सिक्ता धरास्ति सरसा शिखिमेकगीता पत्रै नवै स्तरुलताः कुमुमैश्च चित्राः ।

वर्षाकाले
नृत्यन्ति मेघरवतः सुखिनो मयूराः
वर्षाप्रसाद इह मां परितापयेद् वै ॥७॥
रागैः सुचित्रवसना गगने दिवास्ते
रात्रौ पुनश्च प्रकृति निकृष्णवासः ।
प्रान्तेषु रौप्यखचितं कनकांकमध्यं
धृत्वापि रम्यचरिता मम दुःखदेयम् ॥ ८॥
नायक । प्राणप्रिये स्मरशराभिहतस्य भूयो
निःसीमदुःखजलधौ सुनिमज्जितस्य ।
नित्यं परामवशतां गमितस्य मेऽतो
रात्रिन्दिवं त्वकरुणं पुनरेति मोघम् ।।६।।
किं चापरं भुवि प्रिये प्रणयात्परं ते
त्वत्संगहीन इह नाप्यवलम्बमीक्षे ।
संसार एवमदयः पुनरीयितो नौ
संयोग-भोगज-सुखं सहते न नूनम् ॥ १० ॥
नायिका | प्राणप्रिये मम गते परदेशवासं
किंवा भवेदिह पुनर्मम वीक्षणीयम् ।
अत्रास्ति यद् यदधुना किल नेत्रलक्ष्यं
सर्व तु दुःखदमहो मयि भासते तत् ॥ ११ ॥

द्वतं काव्यम् एकाकिनी कथमहं पतिसंगहीना तद्भावनास्मृतिबलैः सुखलेशमीप्सुः । तत्रापि सत्यतिशयं खलु पीडिता तैः किं चेतनां न मनसो वृणजानि सद्यः॥१२॥ नायक : । धृत्वा तु मानसपटे स्मृतिलेखपुंज नित्यं सुकातर इह प्रणयाद् भजे तम् । यद् यद्धि योगसमये सुखदं ममासीत् तत्तत् कथं स्मृतिगतं त्वधुनार्तिकृत् स्यात् ॥१३॥ प्रेमाश्रयप्रियरतिच्युतकालदाहे मय्यत्र वा मरुतले पतिते हि मीने । संयोगभोगसुरसै चिरवंचितेऽद्य किं नातिमूलमपि मे स्मृति रेतु लोपम् ॥ १४ ॥ नायिका । जीवन्त्यहं कथमपि स्वयमेकतन्त्रा प्राणैविना तनुरिव च्युतकान्तसंगा । भूयः प्रियं स्मृतिधना हृतनाथयोगं संप्रार्थये ह्यनुदिनं विवशं वसन्ती ॥ १५ ॥ रे वासवेश्म वहसि स्वप्रभो रभावं तद्योगमोदवसति ध्रुवमद्य निन्यम् ।

वर्षाकाले धृत्वासि पुष्पितलता इव लौहररज्जूः किंवा विषाक्तभुजगीरिव पीडक मे ॥ १६ ॥ नायकः। काले भवन्ति दिवसा विविधा विचित्रा आलोकिता श्च तमसाभिवृतस्वरूपाः । हास्योज्ज्वलाश्च रुदिता अपि रात्रिभागा विच्छेदकाल इह मे रुदितं तमो वै ॥ १७ ॥ स्यादेकधा मम पुन दिनमत्र सर्व गच्छद् विषादविरसं न तु भिन्नचारम् । कालोऽन्तकत्वरहितो मम दुःखभोगे वस्तु त्यजेत्स्वप्रकृतिं किमतो विचित्रम् ॥ १८ ॥ नायिका । यद्वा गृहेऽत्र नगरे सुरसं सरागं स्पर्श प्रियं प्रियपते धरति स्वतो यत् । गन्धं तदंगसुलभं वहतीह वा यत् तत्सर्वमद्य विरहे कथमासहेय ॥ १६ ॥ यच्चात्र वस्तु भवति स्वयमाप्यमान सर्व तथास्ति किल तन्न विकारपृक्तम् । एकाकिनी परमहं पतिसंगभंगा नास्मि स्वयं खलु पुन स्त्वपरा भवामि ।। २० ।।

६ द्वतं काव्यम नायक । कासि त्वमार्तिशरणे क्व च वाहमेको च्यर्थ दिनं विगणयन् कृशतां गतोऽस्मि । नेत्रं न कल्पनकृतावपि वीक्षते त्वां स्वप्ने च वा न हि पुनः सततं त्वनिद्रम् ॥ २१॥ चित्रं तवैव लिखितं यदि वा प्रयासः प्रेमाश्रितं पदगतं विधरत् त्वधो माम् । दौर्भाग्यतश्च तदपि स्वयमश्रुपातै ईष्टक्षमा न मम दृक् परिवाध्यमाना ॥ २२ ॥ नायिका । वर्षाविमर्शदिवसे हृतनाथयोगा तं चिन्तयन्त्यविरतं नितरां हतास्मि । रूपं सदा हृदिगतं चिरचक्षुरN चित्रे निधातुमपि तेऽस्म्यधुनाप्यशक्ता ॥ २३ ॥ वीचे स्वमानसमपि प्रियचिन्तनातं तद्भावनावृतमिह स्वयमन्यदीयम् । प्राणाश्च मे विचलिता गततेजसो वै देहः स्वभावरहितोऽप्यहमस्मि भूयः॥ २४ ॥ नायक :। केशस्य ते तु समतां शिखिनां सुपुच्छे चन्द्रे च वापि कमले मुखतुल्यतां ते ।

७ वर्षाकाले विम्बे हि ते सुमधुरेऽधररागसाम्यं कुन्देषु दन्तदलतामहमा नुयां ते ॥ २५ ॥ भूयो मृणालशकले मृदुवाहुतां तेऽ- प्यम्भोजपर्णनिहितं नयन सुनेत्रे । हंसस्य मन्दगमने तव पादचारं वीक्षे तवैकविषये न तु पूर्णसाम्यम् ॥ २६ ॥ नायिका । क्लान्ता भवामि गणने विरहार्तसत्ता कालस्य दुःखदगतेरवशं वसन्ती । निर्मायतां गतमपि स्वयमन्तहीनं कालक्रमं कथमहं विफलं वहामि ॥ २७ ।। विच्छेदभोग इह वै मम मर्मभेदै रेकान्तचिन्तनपरां दहति स्वतो माम् । पत्युर्मनः कमलवद् रसकोमलं सत् प्रेमाप्लुतं ह्यपि कथं सहतां तमद्य ॥ २८ ॥ नायकः। भूयोऽहमस्मि नितरां स्मरवाणविद्धः क्लान्तश्च देहमनसो बलहीन एव । पद्मानने तव प्रिये प्रणयात्तसंगाद् विच्छिन्नतां गत इहाश्रयमात्रहीनः ।। २६ ।।

द्व तं काव्या स्पृष्टं त्वयेदमसकृन्मम वस्तुसर्व यच्चापि राजत इह स्वगृहच्युतं तत् । मत्तु ल्यदुःखि सततं परवासवासे स्वामिन्यभावविरसं किमु सान्त्वयेन्माम् ॥३०॥ नायिका । वीणे त्वमेवमसि वा पतियोगहीना शोकार्तितां गतवती विरसां रसांगी। मां सान्त्वयन्त्यनुदिनं समदुःखिताया भावैक्यधारणपरा किल मौनमेपि ॥३१॥ माल्यं विभूषणमहो सकलं मदीयं हैमं च पुष्यविभवं भवतीत्यनर्थम् । मद्यौवनं तु सरसं नवमंगरूपं चेतश्च मामकमिहास्ति वृथोत्सुकं सत् ॥ ३२ ॥ नायक । धाराश्रुमारमपि मे मन आतिपूर्ण वर्षाप्रगाढतमसावृतरात्रिरेव । त्वत्कल्पनं स्मृतिगतं नवकान्तरूपं तत्राद्य भाति चपला स्थिरतांगता मे ॥३३॥ त्वं चेतना मम प्रिये मनसः स्वतो वै प्राणाश्च देहवसतो मम तिष्ठसि त्वम् ।

ह
वर्षाकाले
चिन्ताविचारचरित वचसापि नित्यं
तिष्ठाम्यहं त्वयि सदा खलु नान्यचित्तः ॥ ३४ ॥
नायिका । त्वं भो विनोद-निपुणो विधुयामिनीनां
कुजेषु मंजुविपिने स्वयमावृतः सन् ।
स्वल्पक्षणेऽपि विरहात् प्रहृतां प्रियां मां
दृष्ट्वा पुन स्त्वरितधीः प्रकटं तदाभूः ॥ ३५ ॥
दीधं दिनं च रजनीमिह दीर्धमात्रां
कष्ट पुन निदधती विषमातिमुष्णाम् ।
अस्म्यद्य वर्षणयुता प्रभुशब्दकण्ठा
ज्ञात्वेति मामशरणां न कथं त्वमेपि ॥३६॥
नायक :। किंचित् क्षणं यदि कदाप्यहमात्मवासात्
कर्मच्छले बहि रुतस्त्वपरत्र यातः।
भीरो त्वमातिविषमा त्वभवः सुखिन्ना
भूयोऽद्य दुःसहमिमं विरहं धरेः किम् ॥ ३७॥
त्वां चिन्तयन् निशि दिवा परदेशवासी
वाचा हि जीवित इहार्थत एव नास्मि ।
त्वां वै प्रिये सुनयने शरणं ममैकं
हित्वा कथं विधिवशादधुनाप्यहं वा ॥ ३८ ॥

द्वतं काव्यम्
नायिका । हे सारिके वद-कथं पतियोगहृष्ट
पत्यु वियोगविधुरा दिवसान् नये स्त्वम् ।
वाक्चातुरी मधुमयी चिरमेव हित्वा
शीर्णासि नीरवदशां गमिताद्य मद्वत् ॥ ३९ ॥
रम्यं प्रभोः सुमिलितेऽनुदिनं प्रसून
रुद्यान ! काममभव विरहास्यदीप्तम् ।
विच्छेदतः सदधुना हृतरूपमात
त्वं कानने परिणतं किल कण्टकाते ॥ ४० ॥
नायक : । त्वं चारुतैव जगति प्रतिपन्नमूर्ति
रन्यत्र ते ह्यनुकृतिः परमीक्ष्यते मे ।
चम्पासु वर्णसुषमा कमलेषु नेत्रे
बद्धालिपंक्तिषु प्रिये लिखितं भ्र वोस्ते ॥ ४१ ॥
आखण्डलस्य धनुषि प्रियवर्णपुज
स्त्वत्तः समाहृत इति ध्रु वमुत्तमत्वात् ।
कृष्णालकान्तकुसुमांकितहेमवणे
रक्ताधरे मरकतावलिमजुकण्ठे
नायिका । भूपा ममास्ति विफला प्रियरागलेखा
व्यर्थाः प्रतिक्षणमिह प्रणयाभिलाषाः ।
॥४२॥

वर्षाकाले
११
आशावशेषमपि वै कथमेत्य दैन्यं
प्राणांश्च धारयति मे लघुदेहयष्टिः ॥ ४३ ॥
निःश्वासदैयविवशं हृदयं च वक्षो
दौर्बल्ययुक्तमधुना मदनातायाः।
गण्डाधरा मम भृशं किल शुष्यमाना
रूपं च यौवनमसि स्वत एव मे त्वम् ॥ ४४ ॥
नायक । का कान्तिमविरहिणोऽपि तु देहकान्तिः
किंवा बलं परगृहे परसेवितस्य ।
प्रमार्थिन स्तव चिरं न सुखं हि पत्यु
यन्मेऽपि वैभवमहो तदुपैति हानिम् ॥ ४५ ॥
त्वं कामना प्रियतमे नवकल्पना त्वं
सौन्दर्यसारमपि मे मननान्त्यतत्त्वम्
सत्यं शिवं च मधुरं त्वपि सुन्दरं तन्
मूर्त हि सर्वमयि मे त्वयि मन्यते स्वम् ॥४६॥
नायिका । वपाविधौतमधुना सकलं हि वस्तु
शीतैश्च वायुभिरहो परिशीतलं तत् ।
को विस्मयो मम कृते जलवर्षणं वै
वात्याभिधात इह चास्ति तु तापमूलम् ॥ ४७ ॥

१२ द्वतं काव्यम् इन्दोः सुधाक्तशिशिरं करराशिमेवं प्राप्नोमि नक्तमबला प्रबलानलोपम् । निर्मायतापरिणतेः शशिवक्त्रकान्तौ शापै मृगांकलिखितं स्मरपीडितानाम् ॥ ४८ ॥ नायकः। तारापते त्वमसि वै शतलदतारा धृत्वा स्वयं तु परितो मधुहास्यलास्याः । सा कौमुदी तदुपरि स्वत एत्य मुग्धा स्मेरानना प्रणयिताप्यनुसेवेते त्वाम् ॥ ४६॥ वृष्ट्या च वायुरिह वै तडिता पयोदो वेलातट श्च सरिता चिरमोदमान । भूमि न भूधरपतिस्त्यजति क्षणार्थ कोऽन्यो विनाप्रणयिनीमपि मादृशोऽस्ति ॥५०॥ नायिका । स्पर्श स्तवात्र विषयै विधृतो भवन् वै सद्यो हि तापयति मे मन उष्णतायाः। विच्छेददुःखदलने क्षममद्य भूय : किं त्वां विनापि शरणं भवितु ममाहेत् ॥५१॥ प्रेमाद्रदर्शन पुन स्त्वदिहापरं वै किंचापि मे सुखकरं न हि दृश्यतेऽद्य ।

वर्षाकाले
१३
३
कामाहता विरहिनी पतिलग्ननिष्ठा
त्ववंचिता गृहमिदं निगडं हि मन्ये ॥ ५२ ॥
नायकः। कालेऽद्य वर्षणमये पतिरेति कान्तां
नार्यो भवन्त्यतिशयं स्मरपीडिताश्च ।
कोऽन्योऽस्ति वेह पुरुषः प्रणयात एवं
पत्नी प्रियां प्रणयिनीमपयाति मद्वत् ॥ ५३ ॥
क्लेशाश्च मेऽत्र बहवो न तु मन्यमाना
हे कोमलांगि गणनात्तव दुःखराशे ।
भोप्यहं त्विह गतः परदेशितां त्वाम्
आर्ते न रदितुमलं चिरमस्मि मन्दः ॥ ५४ ॥
नायिका। सर्वाः स्त्रियश्च नितरां पतिकण्ठलग्ना
आनन्दिता रतिरसा इह कालयोगे।
एकाकिनी विधिहतास्म्यहमार्तिमग्ना-
प्याशाश्रया भ्रमवशात् पतिमाह्वयामि ॥ ५५ ॥
जानाम्यहं प्रिय सदा तव मानसे मच-
चिन्ताविचार-कथनं बहु धार्यते वै ।
मद्भावनाविचलितो विषमातिदीर्णो
दुःखं स्वकीयमपि वा न हि मन्यसे त्वम् ॥ ५६ ॥

द्वतं काव्यम् नायकः। त्वां कल्पनान्मनसि मे चिरराजमानां स्पष्टत्वमेवमिह वा गमितां निरीक्ष्य । हस्तेन धतु मुत मे हृदये निधातु भूरिश्रम स्तदपि च क्षणमक्षमोऽस्मि ॥ ५७ ॥ स्वात्मन्यथात्ममनसि त्वमसीश्वरी मेऽ प्यस्तित्वमन्यदिह वै किमपीक्ष्यते न । सत्ता-विचार-चरितैरपि चोक्तिलेखैः सन् तन्मयोऽपरवशो विरहं वहामि ॥ ५८ ॥ नायिका । त्वचिन्तनं श्रितवती मनसा त्वदात्ता त्वद्भावनासु निरताप्यथ प्राणकान्त । योगं विना प्रणयितं सुखमुत्तमं ते हे मोहनांग नितरां चिरमस्मि खिन्ना ॥ ५६ ।। त्वं मे धनं मधुरता त्वमसि स्वयं मे सौन्दर्यमान्तरसुखं नवयौवनं त्वम् । आत्मा ममासि च मनः प्रणयस्त्वमेव प्राणाश्च जीवनमपि त्वयि मेऽस्ति सत्त्वम् ॥ ६० ॥ नायकः । कालोऽस्ति काल इह मम सौख्यघाताद् विच्छेदलोपमधुनापि न कारयेत् सः । । वै वर्षाकाले १५ कर्मक्षये यदि भवेत् स्वत एव मोक्षः कारुण्यमैशमपि वै किमु सार्थकं स्यात् ॥ ६१ ॥ भाग्यं ममातिकृपणं किल दीनचेतः संयोग-भोगजसुखं भुवि काम्यमानम् । द्रष्टुविधातुमपि वा सहते मनाड्न स्वात्मीयमस्त्यसमये पदमप्यमित्रम् ॥६२ ।। नायिका । किंवाहमेवमनिशं सुपिपासुरार्ता ग्रीष्मोष्मणाप्यभिहतास्मि हि चातकीव । पत्यु वियोगसमये मदनाहतैवं दुराशयास्थिरमतिः कथमाध्रियेऽहम् ॥ ६३ ।। को वात्र मे सरिवजनः प्रिय आवयोः सन् स्वात्मानुभूतिवशतः समदुःखभागः । दूरस्थमार्तिगमितं पतिमाश्रयं मे ह्यानेतुमत्र सदय स्त्वधुना क्षमः स्यात् ॥ ६४ ॥ इति समाप्तं द्वैते काव्ये प्रथमं मासद्वयं वर्षाकालीनम्

द्वैतं काव्यम्
(अथ शरत्काले)
नायकः । चिरमविचलचारु श्वित्रचारो विचित्र
रजलजलदजाले र्लजजयन् ज्योतिरार्कम् ।
अगणितधननादो गौरवानास्पदं सन्
उपगत इह कालः शारदः कामिकान्तः ॥ १ ॥
शरदि सहृदयोऽपि च्छमनन्दं दधानः
कथमपि धृततापातं तु मां तापयन् वै ।
पतिहितरतियुक्तां नानयन् मत्कृते ताम्
ऋतुरयमथ जातु व्यर्थतां प्राप्नुयान्मे ॥२॥
नायिका । पतिविरहितकान्ता निन्दितैकान्तिकत्वाद्
विरसदिवसभारं विभ्रती व्याकुलाहम् ।
शरददयप्रसिद्धा दुःखदैवाप्यखेदा
त्वरितमुपगतास्ते मन्सुखं नानयन्ती ॥३॥

शरदि हृदहृदि धृतहारं पंकजाजस्रजालै- नववनखगरागै हसचारैश्च चित्रम् । नरनयनमनोज्ञं नीरमेकान्तशान्तं भवदपि सुखसारं नाहरेन्मे प्रसादम् ॥४॥ नायकः । वितततरुलताभि वृन्तपत्राश्रिताभि- विविधविशदवणे य॑क्तवैचित्र्यभारैः । सरसकुसुमभासै चित्रगात्रैः पतंगै- मदन इव दहेन्मां निर्दयोद्यानदृश्यम् ॥ ५ ॥ दिनकरकर-कान्तं शान्तमाधुर्यवन्तं वियति सितपयोदं नीलपट्ट वितन्वन् । मधुर-दिवसधर्मा शारदः स्निग्धकालो रमयति न हि सत्त्वं त्वान्तरं त्वां विना मे ।।६।। नायिका। मृदुमदमयवायु मन्दमेवावहन् मां दहति विधुरसत्तां कान्तमेकान्तमीप्सुम् । नवरविकररागै वर्षणान्ते विवृद्ध- लसति सकललोकः केवलं हेलिताहम् ॥ ७ ॥ निशि दिशि दिशि चान्द्री चारुचन्द्रावतीर्णा तमसि सुसितसान्द्राच्छादना सौम्यशोभा । -

१८
द्वत काव्यम्
-
नयन-नयन-दक्षान्तः समन्ताद्धरन्ती
स्मृतिगतपतिचित्तां तापयेन्मां प्रभूतम् ॥ ८ ॥
नायकः । ललितकमल-लीला भृगसंगांगलग्नां
सरसि सुरससारां सौरभास्वादसत्त्वाम् ।
विवृतपवनभावां शारदामेव शोभा
वितरति मतितापः काल एवात्र मोघः ॥ ६ ॥
तरुणतपनतापे तृप्तसत्तो दिने वा
मृदुमृगदलचार श्चित्रचारित्र्यचारुः ।
गतशिखशिखिनां सा मन्दिता कान्तकान्ति-
स्तृषितरतिमते, सार्थकत्वं धरेत् किम् ॥ १० ॥
नायिका। द्विरदरददलाभं दीर्घसन्दर्भहप्तं
शरदि सुखददृश्यं छन्दवन्धाभ्रपुजंम् ।
तमसि नभसि तीण कन्दरान्धावृते स्या-
दनियतगतिमन्दो मन्दरे वा मृगेन्द्रः ॥ ११ ॥
कमलकुमुदकान्तं क्रान्तकल्लोलमम्बु
धरति गिरिसरि संयमाशेषशान्तिम् ।
मधुरमृदुरनिन्द्यश्चन्दसानन्दयन् नृन
पवन इह वहंश्च व्यर्थतां मेऽद्य याति ॥ १२ ॥

शरदि नायकः । चरति सितपयोदे प्रेमसिक्ताक्षिपत्रं विततमतिमितं ते स्वच्छतापातितं मे । पुनरिह तव वापि प्रेमसत्ताप्तिमत्याः पतिमयि प्रतिभाति श्वेतशीतस्तु गण्डः ॥ १३ ॥ सरिति गतवितानाकुंचितायां प्रभूतं नतिमति समतां ते देहतत्या सुतन्वि । भवति सततमातिः पश्यतो मेऽग्रतोऽत्र्या विधुरिव विधिरास्ते निर्दयोऽधीदुरन्तः ॥ १४ ॥ नायिका। पयसि प्रणयवाता प्रेरयन् प्रेमिवायु नववनविटपी वै वक्षसि स्वव्रतत्याम् । ललितकमलकुजे गुंजयं श्वालिपुंजो रतपतिरहिताया मेऽति दुःखं दधाति ॥ १५ ॥ सरसि सरसिजास्ते सूर्यसंगेऽभिलग्ना नभसि निशि शशांकेंऽकस्थिताः कान्तताराः । नवविकचमहीजे वल्लरी वल्लभास्ते सुखि तु शरदि सर्व केवलं वंचिताहम् ॥ १६ ॥ नायकः। गलितरजततापः सर्वत स्तन्यमानो निशि विदइति तीव्र चन्द्रिकाच्छद्मनाम्ना ।

२० द्वतं काव्यम् सितकर इति प्रोक्तश्चन्द्रमा स्तप्ततेजाः पतितप्रकृतिसत्त्वं मेऽत्र सर्व विचित्रम् ॥ १७ ॥ सितकुशकुसुमानां शुद्धभासः प्रसन्नः सरसदिवसपातै भूषितो वैशदैश्च । गहनगगनवणे यंढरागांगसंगै स्तुदति हृदमशेषं द्राड् ममाद्यष कालः ॥ १८ ॥ नायिका। मदनदमनदक्षे स्निग्धमन्दादृश्ये शरदि वरददी सिद्धि-संशुद्धकाले । अलभत प्रभुरामो भार्यया भोगभूति किमु मम विषमाति लङ्घयेन्नाद्य कान्तः ॥ १६ ॥ विधुरविधिमवेत्ता निर्दयोऽधी विधि प्रणयनयनियोगान्धत्वमन्दार्थनेत्रः । कटुकरपुटकोटिः क्र रकर्मा पटु र्वा सुहृदि हृदयभेदे स्यादुत च्छेददत्वे ॥ २० ॥ इति समाप्तं द्वैते काव्ये द्वितीयं मासद्वयं शारदम्

द्वैतं काव्यम्
(अथ हेमन्तकाले
नायकः । हेमन्तस्याभिनवसमये स्वर्णवस्त्रावृताया
लोकानां वै नयनसुभगा क्लान्तकान्ति र्धरित्र्याः ।
श्याम वृन्ते तरुणकुसुमं प्रातरास्ते च सिक्त
भूमौ क्षिप्त किमपि सकलं तन्महत् तापयेन्माम् ॥१॥
स्स्रोतस्विन्या मधुरसुखदं प्रीतिसंगं ह्यतुल्यं
त्यक्त्वा मेघः स्ववशरहितः क्षीणतां प्रापितः सन् ।
चांचल्याद्वा खलु लघुतया क्षिप्यमानोऽत्र तत्र
मत्तुल्योऽसौ विरसवदनो निन्दति स्वीयभाग्यम् ॥२॥
नायिका । शुष्यन्त्येवं सुरससरसामम्बुधारातिमन्दा
मेधत्यक्ता किल विरहिनी भावगाम्भीर्यभारा ।
वाड्मन्दापि श्लथगतिरतो भीतिसंकोचपृक्ता
दौर्भाग्याद्वापतितसमयं क्लिष्टमावाहयेत्सा ॥३॥

२२ द्वतं काव्यम् हेमन्ते वै धृतसितशुचि मन्दवेगा विषण्णा प्रेमावेशाद् विरहतरला शीर्णताक्रान्तकान्तिः। मत्सादृश्यं तितिरपि च मे मन्यते धारयन्ती हेमांगीयं कपिशवसना धिक्करोत्यात्मभाग्यम् ॥४॥ नायकः । सौम्ये काले स्फुटमुकुलितैः शस्यशीर्षेषु वातैः रागैर्गन्धैरपि नवफलैः पुष्षित बन्यवृक्ष । सर्व रम्यं नयनमनसोः प्राप्यते भाग्यवद्भि- हेमन्तेऽत्र स्वजनविरहान्मेऽपि किं स्यान्मनोज्ञम् ॥५॥ नीडं हित्वा स्थिरसुखकर देशदेशान्तरेषु झंझावातै भृशमभिहताः पक्षिणः सन्ति यद्वत् । तद्वच्चाहं विरहविधुरः कामसंतापितः सन् शान्तिं कांचित् त्वपि न मनसि त्वां विनाप्नोमि कान्ते६ नायिका । दूरे देशे त्वमसि प्रिय मे च्छेददीर्णाहमत्र त्वचिन्तायां परमनुरता त्वन्मयी सर्वथापि । वायु र्वाहं न भवितुमलं सर्वतोऽवाधयानो नाहं पक्षी च तव सविधेः प्राप्तिदक्षोऽस्मि धिड्माम्७ सौन्दर्य यन्नवमृतधृतं प्राप्तवत्यत्र पृथ्वी साह्लादत्वं प्रणयिमिलिते योषितां प्रेमधन्यम् ।।

हेमन्ते
तत्सर्व तु स्वपतिरहिता मन्दभाग्याहमीचे
हेमन्तेऽद्य प्रहतमदना कुत्सितं व्यर्थमत्र ॥ ८ ॥
नायकः। कालेऽस्मिन् वै श्लथलयगतौ जीवताशून्यतां वा
पश्यन्नेव स्वमनसि भुवि व्यर्थदृष्ट्यात्र सद्यः ।
त्वां प्रभात नयनपथगां नाप्नुवन् मन्दशक्तिः
स्मारं स्मारं खलु विफलतां सर्वथाहं गतोऽस्मि ॥६॥
हेमन्तान्तःस्थितसुखकरं सर्वमेवात्र यत्तत्
कान्तां हित्वा नयनमफलं दुःखदमद्य पश्येत् ।
प्रेमाधार स्त्वमसि सततं काम्यसारं प्रिये मे
त्वं सामर्थ्य मतिकृतिबलेस्त्वां विनास्म्पक्षमोऽहम् १
नायिका । भूम्याः शुभ्र कनकवसनं विस्तृतं वीच्यते यद्-
हेमन्ते तद् विरसमनसा मन्दवर्ण हि मन्ये ।
यच्चान्यद्वा मनुजमनसि प्रीतिदं सौख्यमूलम्
आाया मे किमपि च तत स्तद्भवेत्सार्थकं न॥११॥
नाप्नोम्येव ध्रुवमिह पुनः क्लान्तहेमन्तकान्तौ
लेशानन्दं कमपि विरहे ते प्रियानन्दमूर्ते ।
त्वं वै सर्व सुखमभिनवं प्रेमसाराश्रयो मे
त्वद्विच्छिन्नानिशमशरणा भ्रान्तदृष्टिर्भवामि ॥१२॥

द्वत काव्यम् नायकः । स्वर्णा भूषामपि घृतवतामय्य एवापि तिष्ठन् क्लिष्ट कालं कथमपि नयन केवलं वेशशेषः । निर्जीवोऽपि च्युतरतिरसो दुःखघातै विवर्णो हेमन्तोऽयं विरहविहतो भाति मे तुल्यसत्त्वः॥१३॥ हैमन्ती त्वं कनककिरणा चम्पकाभूषणा श्री- हित्वा त्वा हि प्रकृतिविकलो वंचनार्तोऽस्मि दीर्घम् । हेमन्तं वै गतसुखरसं नाममात्रं विना त्वां मन्ये व्यर्थं, त्वमसि सुषमासारमात्मैव तस्य ॥१४॥ नायिका । आशा मे त्वं शरणमनुपं नन्दमूलं दयाब्धि- स्त्वं दृष्टि में नयनयुगले भो ममालोक दृष्टः । स्वत्सामीप्ये महदिह भवेत् तुच्छमेवापि मेत्र त्वद्विच्छिन्ना पुनरशरणा सर्वमाप्नोमि निन्यम् ।१५। जानासि त्वं प्रकृतिसरलां मां च मद्भावना वै सर्व मेऽतोऽनियतचरितं हैमहेमन्तहेतोः । त्वं सार्थक्य निखिलविषये त्वां विना व्यर्थतास्ते सत्तासारं त्वमसि खलु मे त्वद्विहीनास्मि वा न ।१६। इति समाप्त द्वैते काव्ये तृतीयं मासद्वयं हैमन्तम् द्वैतं काव्यम् (अथ शिशिरे) नायकः । यस्यापात इहास्ति संकुचितता स्वाभाविके सर्वतो वस्तुन्यद्य सजीवितेऽथ च जड़े देहेऽपि मे मानसे जाड्यं निष्क्रियता मयि प्रियतमे भूयश्च मां बाधते सोऽयं दीनजनातिवृद्धिनिलयः शीतोऽत्र न त्वं कथम् १ पत्नीयोगविधानकर्मसफला लोकाः स्वतन्त्राश्च ये ते सर्वे तु चिरं प्रियांगनिरतास्ताः सेवमानाः सुखम् । मन्दोऽहं नितरां स्वकर्मवशतो दोर्भाग्यदोषादपि दूरस्थः सततं तु कातरमनाः सीदास्यतस्त्वां विना २ नायिका । शीतस्याद्य समागमे भवति मे क्वासि त्वमाशास्थलं प्राणाराम ममाधिका कठिनतास्ते यापने त्वां विना। आर्तायाः किल देहकान्तिनिचायः संकोचमापातित उष्णत्वं नियतं तु जीवनधन त्वत्संगजं नागतम् ॥३॥ निर्गन्धत्वमपि स्वतो विदधति क्लिष्टांगवर्णानि वै पुष्पान्यद्य च सितपर्णमधुराण्यर्धस्फुटं कोरकम् ।

२६ द्वैतं काव्यम् वृक्षाश्चात्र विशुष्कवल्कलधनाः पत्राल्पतां प्रापिता स्तन्मे व्यर्थमतो हि भाति सकलं शीतस्य शोभावलम् ४ नायकः । श्यामा त्वं प्रियप्रेमरागकुशले शीते कवोष्णासि ते देहे कान्तिमये च वक्षसि मया रम्याश्रयः स्मर्यते । अत्राहं परवासपीडितमति स्त्वत्संगसौख्यच्युतो झंकारै रलिराकुलमना निष्पुष्पदेशे यथा ॥ ५ ॥ स्वल्पोन्मीलितपर्णराशिषु तणे पुष्पेषु रात्र्याहृतं स्वच्छं चापलितं च वर्णबहुलं शीताप्तिकान्तं जलम् । विन्दुष्वेव यतस्ततः सुरचितं मुक्ताफलं वा नवं मामेकं खलु दूरदेशवसतिं नेत्रं तव स्मारयेत् ॥ ६॥ नायिका । भूयः कम्पितपत्रवृन्तनिचया शीतार्तिखिन्ना नता पुष्पाभूषणभारशोभितरुचिः संकोचमा वल्लरी। वाताघातकठोरतां धृतवती श्वासैः स्वयं पीडिता वृक्षोत्संगविहारभाग्यरहिता मे मद्विधा मन्यते॥७॥ शीते काल इहाधिकप्रणयित स्त्वं प्राणनाथः सदा मामाती नवप्रेमरागसुखदैरुष्णांगभोगायुतैः । क्लेशान् मोचयितुं स्वभावसदयः संचेष्टमानोऽनिशं नायास्यद्य विहाररीतिनिपुणोमद्भाग्यदोषात् कथम् ८ २७ शिशिरे नायकः। भूगर्भान्तरगर्तनिर्गततनुः सर्पश्च वा मूषकः शीताति त्वपनेतुमत्र तु बहिःक्षेत्रे चरंश्चालसः । नद्याः कूर्मगणाश्च नक्रमकरास्तीरे स्थिराः शेरते स्वेच्छारामनिदानलाभकरणे सर्वेऽद्य चेष्टापराः ॥३॥ पक्षिण्यप्यनुगा स्वकीयविहगं प्राप्नोति रागान्वितं सर्वे शीतनिवारणेच्छव इहाजीवाश्च जीवाः स्वयम् । त्वद्विच्छेदगतोऽधुनापि शिशिरे त्वद्भावनाभावितः कष्टप्राणप्रिये किलाहमवशः कालं नयेयं कथम् १०॥ नायिका। सर्वत्राद्य विशेषशीतप्रभवा बाह्य ऽन्तरेऽपि स्थले प्राणाप्राणयुते च चेतनवतां लोके हिमाविष्टता । वैचित्र्यं परमस्ति कान्तविरहाद् भाग्याहतायास्तु मे देहे चापि समस्तमानसतले सन्तापदाहोऽधुना ।११। शुष्कक्षेत्र इहाद्य पत्ररहिते वृक्षे ह्रदे चाजले धूमेनैव च धूसरातमसा वाष्पोत्तरीयच्छदा । पृथ्वीयं प्रकृतिश्च मे समतुला वैराग्यधारिण्यहो सत्यं शीतप्रतापताडितगति विच्छेददुःखाकुला ।१२। इति समाप्त व ते काव्ये तुरीयं मासद्वयं शीतकालीनम्

द्वैतं काव्यम्
(अथ वसन्तकाले)
नायकः । वसन्तारम्भे त्वं समधिकरतिः कोमलतनु
नवोत्फुल्ला रम्या सुरसविशदा मार्जितप्रभा ।
त्वमभ्यस्ता प्रीत्या प्रणयितपतौ संगिनि मयि
पुनस्त्वद्य वासि स्वपतिपरमा तद्विरहिता ॥१॥
विचित्राविर्भावा स्वयमभिनवैः पुष्पनिचयै
विभोद्भासाशेषांकुरविधरणा भृगलिखिता।
सुवासै मन्दैश्च प्रबलपवनैः कम्पितवती
वसन्ते भव्यास्ते प्रकृतिरपरा त्वत्प्रतिकृतिः ॥२॥
नायिका । कथं दूरस्थः सन् ऋतुपतियुते मञ्जुसमये
विहायामिका मदनदहनां व्यर्थविभवाम् ।
भवे स्त्वं दुःखानां पदमपि चिरं मद्विरहित-
स्त्वदाप्ताया मे त्वं प्रकटिततनु माधवरसः ॥ ३ ॥

वसन्ते २६ .. : प्रभो वासन्ते या नवकिसलयैः काल उदिते स्मितोन्मेषापूर्वं रलिदलमलैः पुष्पवसनः । विभान्ती नित्यं वै स्वत इह पुन मामशरणां प्रकृत्या चित्रा श्रीरपि विदहति त्वविरहिनीम् ॥४॥ नायकः । वसन्तादौ कान्तं नवमगणितं चित्रकुसुम सुवासाधारश्वामृतरससरो झंकृतपरै । सकृष्णांक भृगैरविरतरवै निसहरं ममार्तस्येहास्ति क्षणिकमपि नानन्दकरणम् ॥५॥ सुमिष्टः कण्ठैनिःसृतमभिनवं पल्लवभुजां पिकानां माधुर्यान्वितप्रियरुतं पंचमपदम् । सदा कामावेगं जगति वितरद् भोगसफलं परं विच्छिन्न मां विह सुसमयेऽप्यातपति तत् ॥६॥ नायिका । प्रसूनैरुद्भिन्नः कनककिरणे श्वेह जगति वने चात्रोद्याने मधुमदनता काममुदिता । सजीवेऽजीवे च प्रणयसुखदा जागरवती नवोद्गीतिप्राप्ता सकलप्रकृति होस्यचपला ॥ ७॥ पिकारावै नित्यं विजितकमलं मानसतलं मनोजाधिक्या मम तु नितरां पीडितमहो ।

द्वतं काव्यम्
समायातेऽस्म्येव प्रणयरसदेऽप्युत्तम दिने
वसन्ते हा इन्ताधिकमपहता कान्तविरहात् ।। ८ ॥
नायकः। रसालानां शीर्षे कुसुममुकुटं कोरकमयं
मधुस्वादोद्धान्तै निरवधि सदा झंकृतमदैः ।
द्विरेफै स्तल्लिप्त धृतमरकतः कांचनपटो
जनं कान्ताक्रान्तांगसुखमपि वै व्याकुलयति ॥ ६ ॥
सुधाकण्ठै गीतः पिककुलशतै मत्तचरितैः
पुनः सद्यः स्फोटाम्रकुसुमरसास्वादगुणितः ।
सरागो लालित्योल्लसिकलरखो लोल्यफलको
वृथा कामावेगं मयि वितनुते विह्वलमतौ ॥१०॥
नायिका । अपूर्वारम्भामा भृशमभिनवैः फुल्लकुसुमै
नवोन्मेषोद्भासा विविधवसना भूतिविशदा ।
सुखस्पशैं भूयो मलयपवन नर्तनवती
वसन्ते विभ्रान्ता प्रकृतिरतुलं रागमगमत् ॥ ११ ॥
नवोत्फुल्ल पुष्पैः कनकखचिता चम्पकमयै
भुवं व्याप्नोत्येवं मधुरिममदा मोहनकरी ।
जड़े जीवे चापि प्रविजितजगज् जागरजनि-
वृथास्ते मे सर्वा प्रकृतिसरसा माधवरुचिः ॥१२॥

३१ वसन्ते नायकः। विशेषात्तै गन्धै मलयजवहै ाकुलमतिः कुरंगांगाभंगै रपि शिखिशते श्चित्रचरिता। पिकालीनां वक्त्रै बदति मधुरा माधवरति वसन्ते दुर्दान्तेऽन्तक इव पुनर्मामिति दहेत् ॥१३॥ दिवानन्दाधारो जगति तपन स्तेजसि नवे निशायां शुभ्रांशु नयनसुखदो दीप्तमदनः। सुवासो मन्दं वै वहति पवनः कामकरणे सन्तापूर्वश्रीमयि तु विफला व्याहतरतो ॥ १४ ॥ नायिका। पलाशोन्मेषेण प्रभवति वने रागलिखितं नभो मेधैश्चित्रै लघुविचरण मण्डनयुतम् । धरित्री पीतांगैर्नयनमधुरा वर्धितरतिः परं विच्छिन्नाया मम तु तुदनं सर्वमिह तत् ॥१५॥ जड़े वस्तुन्यद्याप्यजडचरिते चेतनवति क्रियात्मन्येवापि स्वत इह नवा रागमयता । पुनः संजीवत्वाद् प्रिय तु नितरां मोहकतरा त्वदुत्संगत्यक्ता रमणरहितां दाहयति माम् ॥१६॥ नायकः । वसन्तापूर्वश्रीस्त्वयि प्रियतमे मानसहरा विकीर्णाभा भावरमलप्रकृति विग्रहमिता ।

३२ द्वतं काव्यम् वसन्तोऽयं मन्दो दयितरहितं नामविभवो न मां भ्रान्तध्यानं किमपि तु सुखं प्रापयति वै ॥१७॥ कथं वात्रायातोऽयमृतुप्रमुखो बंचितरतौ प्रियोत्संगाभावादनवधि मयि व्यर्थमनसि । अहं सद्यो दीर्णो मदनदहनै श्चैत्रचरितैः प्रिये त्वविच्छेदे न सहितुमलं प्राणधरणम् ॥१८॥ . : इति समाप्तं द्वैते काव्ये पंचमं मासद्वयं वासन्तम् KART.MAMAnal Prof Hardian.

द्वैतं काव्यम् (अथ ग्रीष्मकाले) नायिका । वासन्ते कान्तकाले भुवि मदनकृति क्षान्तवाणप्रयोगे दग्धीकृत्यात्र मां वै विरहसुविधुरां शून्यलक्ष्ये प्रयाते। कान्तस्यैकान्तसंगे मम तु न मिलिते जीवनं यौवनं वा कालस्याप्तिर्निवृत्तिः सममफलमहो स्थानमा नमप्यस्त्यनर्थम् ॥१॥ अद्य ग्रीष्मः समदं नवसुखविषयान् प्राणिमात्रस्य धृत्वा संसारेऽत्रागतोऽयं प्रकृतिविधिवशात प्रोज्ज्वलालोकहप्तः ।

दतं काव्यम् उष्माधिक्यातिदग्धा मनमि प्रतिदिनं स्वामिविच्छेददीर्णा देहेऽस्मिन् भूतलेऽपि प्रबलविपमतां प्राप्तवत्याहतास्मि ॥२॥ नायकः। फुल्लाशोकैः पलाशैरपि सुमुकुलितैः रक्तरागान्वितत्वाच् चम्पानां हेमवर्णैः स्फुटमुकुलदलै- श्चित्रचारुत्वगात्रा । आकाशेऽसंख्यरागैरजलजलधरै रिसा क्लिष्टकाया ग्रीष्मे काले तु पृथ्वी तपसि खलु रता शुष्कवैराग्यतन्त्रा ॥३॥ तृष्णार्तासि प्रिये त्वं हृतमननवला क्लान्तिमाप्यांगभंगे ग्रीष्मे करे ह्युपेते. विकलरतिम त मन्मयी तापितापि ।

ग्रीष्मकाले ३५ बाह्य देशे क उष्मा मम मनसि पुन य॑र्थकामप्रभावाद् उष्णत्वं त्वन्तहीनं सदविरतमिह त्वां विनकाकिनोऽस्ति ॥ ४ ॥ नायिका । ग्रीष्मोष्मा स्वाभावैर्जगति जनगणान् दाहयेन्निर्दयत्वाद् बाह्य चाप्यान्तरं मे प्रकृतिसुविकलं सर्वथा सन्चमातम् । देहो मेऽयं प्रदग्धो भवति हृतवलो मानसं च्छेददीर्णम् श्रात्मा खिन्न स्तथापि प्रणयरससर- स्त्वन्मयो जीवतीह ॥ ५ ॥ शुष्यत्क्षेत्रं च नि:स्वाजलमिह दधती कूपयूथं तडागं वृक्षे भूमौ च तृष्णां निरवधि विततां क्लेशकाठिन्यभिन्ना ।

३६ द्रुतं काव्यम् जीवेऽजीवे विशेष तपनबलशतैः शुष्कतां प्रापयन्ती मां विच्छिन्ना विशीर्णामनुसरति धरा लब्धसाम्येति मन्ये ॥६॥ नायकः । त्वं मे शान्तिः स्वभावात् सततपतिरता सत्यनिष्ठासि नित्यं ग्रीष्माक्रान्तस्य मे त्वं कमलमवयवं वर्तसे धारयन्ती । दूरस्थोऽहं किलायोमयदहनवलाद् व्याकुलात्मा स्मरामि त्वां प्रमाईस्वरूपां रतिरसकुशलां मत्कथां चिन्तयन्तीम् ॥ ७॥ : उष्णत्वाद् विह्वला वै श्लथगतिमहिषाः पल्वले लीयमानाः जन्तुः सर्वो गवादिः पशुरपि सुतरु- च्छायमात्राश्रितोऽस्ति ।

ग्रीष्मकाले ३७ ३ पक्षिण्यश्च स्वकातें विषममसहना मूर्छिताः कोटरेषु ग्रीष्माक्रान्तो हि तिष्ठन् चिरमिह विरही जीवितोऽहं न वास्मि ॥८॥ नायिका । प्राणाराम स्त्वमेव स्वयमसि नितरां ग्रीष्मकाले विशेषाद् दीर्धेऽहन्यद्य मन्दे मम तु सरसता सान्त्वना स्निग्धकान्तिः । सन्तापोष्णत्वयो यनिशमशरणा त्वच्च्युताहं स्ववासे नित्यं ते संस्मरन्ती पुनरहनि निशि प्राणमात्रं धरेयम् ॥ ६ ॥ वर्षारम्भे भवेद्व मधुर उपशमः सर्वदुःखस्य कामं प्रत्यावृत्ते प्रवासात् प्रणयरसघने कौमुदीकान्तकान्ते ।

३८ द्वतं काव्यम ग्रीष्मान्तो ह्यन्तकः स्याद् अवशविरहज- क्लिष्टवर्षातिराशेः प्राणारामेण साधं सुमिलितसमयोऽ प्यतु तत्सत्वरं मे ॥१०॥ नायकः। यद् दुःखं ते प्रिये मे च कथमपि धृतं सर्वमाद्यन्तमध्यं दुरीभृयादवश्य तदुभयमिलिते वर्षणारम्भकाले । वर्षव्याप्येऽप्यशेषेऽसति रुदितशते सत्वरं तत्प्रमाणं सौख्यानन्दं हि भोक्तु' रितिविरहित खल्बसून धारयामि ॥ ११ ॥ - दीर्घच्छेदेऽस्ति कष्टं यदपि विधिवशेऽ- न्योन्यमेवाश्रयत्तत सर्व गच्छेद् विलोपं सफलसुमिलिते पूर्णसत्त्वेऽचिरानौ ।

ग्रीष्मकाले my पत्न्याः प्राणाधिकाया विहितरतिसुखः सर्वथा सार्थकः स्यां । सम्पूर्ण स्याच्च विश्व सकलसुखकरं योगधन्यद्वयानाम् ॥ १२ ॥ इति समाप्तं व ते काव्ये षष्ठं मासद्वयं ग्रीष्मकालीनम् उपसंहारः क्लेशोत्तीर्णौ पुनः सद्यो वर्षणारम्भणं गते । गाटालिंगनबद्धौ स्तो दम्पतीह परस्परम् ॥ क । सर्वे प्रणयिताः सन्तु नित्यं संयोगवैभवाः । सुखानि सर्वतो भान्तु पृथ्व्यस्तु धौतकल्मषा ।। ख ।। अथात्र चेति समाप्तं विरहात्मक द्वैतं काव्यम् ।

४०
द्वतं काव्यम्
।
[श्रीहट्टसूर्यगाँवस्थ दुलालानन्दजेन वै ।
धीरेन्द्रावरजेनाद्य राजस्थाननिवामिना ॥
दर्शनाध्यापकेनेदं काव्यं रसेप्सुना कृतम् ।
पुरकायस्थयुक्तश्रीद्विजेन्द्रलालशमेणा ॥
मालिन्यमस्ति यद् यत्तत् सर्वं तद्दन्यजं मतम् ।
भोग्यं चेद् रसमाधुर्यं स्यादस्मिन् वा सतां हि तत् ।।]
ओम् तत् सत् अोम्

Dvaitam Kavyam

Author
Sri Dwijendralal Sharma
Title
Dvaitam Kavyam
File name
Dvaitam Kavyam
Text
OCR done
Published
2005/03/10
Publisher
Sarvadikara Surakshita Jayapur
Language
Sanskrit
Pages
41
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
496126
Barcode
1990030070524.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Available
VMLT id
2OtXzEnfrwR
Download PDF

Dvaitam Kavyam