Central Archaeological Library_asi_new Delhi
The Anargharaghava Of Murari
Front matter
1732
KÁVYAMĀLĀ 5.
il
THE
ANARGHARAGHAVA
OF
MURĀRI.
WITH
The Commentary of Ruchipati.
EDITED BY
PANDIT DURGAPRASAD
AND
WĀSUDEV LAXMAN SĀSTRI PANSĪKAR.
1732
Fifth Edition.
Mir/D.P. PUBLISHED BY
PĀNDURANG JĀWAJI,
PROPRIETOR OF THE “NIRNAYA SĀGAR” PRESS,
BOMBAY.
MRCHAEO
1987.
(New Delhi
AGICAL
Pride
wees.
"CEM
SET
LIBRAR
SOMBAY
[All rights reserved by the publisher.]
Publisher:-Pandurang Jawaji, Nirnaya Sagar Press,
Printer:-Ramchandra Yesu Shedge, 526-28, Kolbhat Street, Bombaya
326-2
CENTRAL ARCHAEOLOGIGAL
LIBRARY, NEW DELHI.
Aco. No.1.732
Date.1.6.-.7-54...
Call No.SA...
SI
Nossae. Exploatatief
काव्यमाला ५.
श्रीमुरारिकविरचितम्
अनर्घराघवम्।
रुचिपत्युपाध्यायकृतया टीकया समेतम् ।
जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसादशर्मणा,
मुम्बापुरवासिपणशीकरोपाह्वलक्ष्मणशर्मात्मजेन
वासुदेवशर्मणा च संशोधितम् ।
(पञ्चमावृत्तिः)
तच्च
मुम्बय्यां
पाण्डुरङ्ग, जावजी...
इत्यनेन "निर्णयसागराख्य"यन्त्रालयाधिपतिना खीयेऽङ्कना-
लयेऽङ्कयित्वा प्रांकाश्यं नीतम् ।
18
शाकः १८५८, सन १९३७,
3-0
No text on this page.
काव्यमाला। श्रीमुरारिकविरचितम् । अनर्घराघवम् । श्रीमदुपाध्यायरुचिपतिकृतटीकासहितम् । -robock- प्रथमोऽङ्कः। निष्प्रत्यूहमुपासहे भगवतः कौमोदकीलक्ष्मणः कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने । याभ्यामर्धविबोधमुग्धमधुरश्रीरर्धनिद्रायितो नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृतः ॥ १ ॥ १. मुरारिकविः कस्सिन्देशे काले च बभूवेति सम्यङ् न निश्चयः, किं तु खिस्त- संवत्सरीयनवमशतकमध्यभागसमुत्पन्नाद्धरविजयमहाकाव्यकर्तुः श्रीराजानकरत्नाकरम- हाकवेः प्राचीन इति वक्तुं शक्यते. यतो हरविजये (३८६७) अकोत्थ ( अङ्केऽथ )- नाटक इवोत्तमनायकस्य नाशं कवियंवित यस्य मुरारिरित्यम् । माक्रान्तकृत्लभुवनः क गतः स दैत्यनाथो हिरण्यकशिपुः सह बन्धुभिर्वः ॥' इत्ययं श्लोको वर्तते. अत्र- यद्यपि 'अङ्क उत्सने, मुरारिर्विष्णुः' इति प्रकृतोऽर्थः तथापि रखाकरकविना यत्नपूर्व निवेशिता अङ्कनाटक-कवि-मुरारिशब्दा नाटककारं मुरारिकविमेव लक्षीकुर्वन्तीति विभावयन्तु विद्वांसः । मुरारिकविप्रशंसायां केषांविच्छोका:-'देवीं वाचमुपासते हि बहवः सारं तु सारखतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धिल- वित एक वानरभटैः किं त्वय गम्भीरतामापातालनिमयपीवरतनुर्जानाति मन्थाचलः ॥१॥ मुरारिपदचिन्ता चेत्तदा माझे मतिं कुरु । मुरारिपदचिन्ता चेत्तदा माथे यति कुरु ॥ २ ॥ मुरारिपदचिन्तायां भवभूतेस्तु का कथा । भवभूतिं परित्यज्य मुरा- रिमुररीकुरु ॥ ३ ॥ भवभूतिमनाहत्य निर्वाणमतिना मथा । मुरारिपदचिन्तायामिद प्रचारः..एतन्नाटकस्य काव्यमाला। दोर्दण्डद्वितयेन खण्ड परशोः कोदण्डमारोपय- न्कुर्वाणः सहसा विदेहनृपतिं पूर्णप्रतिज्ञाभरम् । सानन्दं कुशिकात्मजेन सुदृशां वृन्देन कौतूहला- त्सवीडं प्रिययावलोकितमुखो रामोऽस्तु नः श्रेयसे ।। अभूदभूतप्रतिपक्षभीतिः सदा समासादितभूरिनीतिः । चिरं कृतार्थीकृतभूमिदेवः स्फुरत्प्रतापो नरसिंहदेवः ।। सूजुस्तस्य वसुंधरापरिवृढस्यानन्दकन्दः क्षिते- राधारो जगतामशेषविदुषां विश्रामकल्पद्रुमः । दाने कर्णकथावलेपनिपुणः संसाररत्नाङ्कुरो भूमीपालशिरोमणिविजयते श्रीभैरवेन्द्रो नृपः ।। अर्थिप्रार्थितपूरकोऽपि रमतां स्वीये बलिमन्दिरे नाकेऽनेकफलान्वितोऽपि स सुखेनास्तां च देवद्रुमः । श्रीमान्संप्रति भैरवेन्द्रनुमणिः सर्वार्थिचिन्तामणि- जर्जातो लोचनगोचरो यदि तदा किं तेन तेनापि वा ॥ यस्मिन्राजनि राजनीतिचतुरे पाथोधितीरावधि- प्रख्यातप्रचितप्रतापनिचये पृथ्वीमिमां शासति । कोकं राजकरो न लोकनिकरं संतापयत्युन्नतो विख्यातः सुदृशां महोत्सवविधौ कान्तेन पाणिग्रहः ॥ खौआलवंशजातस्तस्यादेशान्महीशस्य । श्रीरुचिपतिरतिगूढाः स्पष्टीकुरुते मुरारिकविवाचः ।। असद्भिरधिरोप्यते यदपि दूषणं मत्कृतौ तथापि सुमनीषिणां भवति कण्ठभूषोचिता । माधीयते मनः ॥४॥' इति. अस्य नाटकस्य पठनपाठनादिषु कश्मीरेषु प्रचुरः पत्युपाध्यायप्रणीतं टीकापञ्चकं प्राप्यते. तत्र रुचिपतिकृतैव टीकातिसमीचीनेति सैव गृहीतानासाभिः. २. रुचिपत्युपाध्यायो मिथिलादेशप्रसिद्धाखिस्तसंवत्सरीयवर्तमा- नशतकप्रारम्भसमुद्भूतगोकुलनाथोपाध्यायशिष्यरुचिपतितः प्राचीनः. यतोऽस्माभिरे- तन्मुरारिनाटकटीकापुस्तकं १५३५ मिते शके लिखितमधिगतम्.
१ अङ्कः] अनर्घराघवम् । - निपीय खलु निर्दयं प्रसभमुज्झिता राहुणा न किं दिविषदः पराः परिपिबन्ति चान्द्रीः कलाः ॥ इह खलु सकलपदार्थजातेषु खेष्टसाधनताज्ञानादेव प्रेक्षावतां प्रवृत्तिदृश्यते । तदुक्तं न्यायकुसुमाञ्जलावाचार्यचरणैः 'तदज्ञानं विषयस्तस्य विधिः' इति । अत्र च प्रयोजनाकाङ्क्षायाम् 'निर्दोषं गुणवत्काव्यमलंकारैरलंकृतम् । रसान्वितं कविः कुर्वन्कीति प्रीतिं च विन्दति ॥' इति सरस्वतीकण्ठाभरणे भोजराजेन, 'धर्मार्थ- काममोक्षेषु वैचक्षण्यं कलासु च । करोति कीति प्रीतिं च साधुकाव्यनिषेवणम् ॥ इति रसप्रकाशकारेण, 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥' इति काव्यप्रकाशकारेण च विशिष्ट- काव्यकरणे प्रयोजनाभिधानात्प्रेक्षावन्तः प्रवर्तन्ते । तच्चेदं द्विविधम् , श्रव्यमभि- नेयं च । तत्र ये सुकुमारमतयो राजकुमारप्रभृतयः "निसर्गदुर्बोधमतिनीरसं खल्वेतत्, कथमिवात्र निष्फलमात्मानमवसादयामः' इति संततमालोचयन्तः शास्त्रे न प्रवर्तन्ते, ते तावदवश्यं चतुर्वर्गोपायेषु व्युत्पाद्याः । तेऽमी द्विविधाः । केचित्पदपदार्थमात्र परिचयचतुरास्तत्तद्रसप्रधानाभिः कविताभिः कविनामाङ्किता- दिभिश्चमत्कारिणीभिगाथाभिर्गोष्ठीबन्धमनुबध्नन्ति । केचित्ततोऽपि जडमतयस्त- त्राप्यनुत्सहमाना नृत्यादिप्रसङ्गेन समयं गमयन्ति । उभयेऽप्येतेऽभिमतवस्तु- पुरस्कारेण गुडजिबिकया रसास्वादसुखं मुखे दत्त्वा कटुकौषधपानादाविव प्रव- तयितव्याः । यदाह-खादुकाव्यरसोन्मिश्रं शास्त्रमप्युपयुञ्जते । प्रथमं लीढ- मधवः पिबन्ति कटुकौषधम् ॥' इति । प्रथमान्प्रति श्रव्यरूपं काव्यमधिक्रियते । चरमाणां तु 'न तज्ज्ञानं न तच्छिल्पं न सा विद्या न ताः कलाः । नासौ नयो न तत्कर्म नाटके यन्न दृश्यते ॥' इति भरतवचनादभिनेये तथा चैकाग्येण प्रवर्त- मानानामनायासेन व्युत्पत्त्याधानमित्येवं शास्त्रापेक्षया चास्य वैलक्षण्यम् ॥ अत्र च विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं विनोत्सारणसाधारण- कारणं मङ्गलमाचरन्नेव 'देवद्विजनृपादीनामाशीर्वादसमन्विता । अष्टभिर्वा द्वाद- शभिः पदैः सम्यङ् नियोजिता । नान्दी कार्यातियत्नेन बुधैर्विघ्नोपशान्तये ॥' इति तत्रभवान्मुरारिकविः पद्यद्वयेनाष्टपदां नान्दीमादौ निर्दिशति-निष्प्रत्यूह- मिति । भगवतो लोचने चक्षुषी उपास्मह आराधयाम इति संबन्धः । यत्तु 'लोचने इत्यस्य पूर्व ते इत्यपेक्षितं यत्पदाकाहितत्वात्' इति, तन्न । उत्तरखाक्या- थंगतत्वेनोपात्तेन यच्छब्देन पूर्ववाक्यार्थगततच्छब्दानपेक्षणात् । उदाहृतं च ४ काव्यमाला। । । तथा काव्यप्रकाशकृता-साधुचन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके' इति । पूर्ववाक्यार्थगतस्तु यच्छब्दस्तच्छब्दोपादानं विना साकाङ्क्षः । यथा साधु- चन्द्रमसीलवाद्यपादयोर्व्यत्यास इति । ननु किमर्थमियमुपासना क्रियत इत्यत आह-निष्प्रत्यूहमिति । निष्प्रत्यूह प्रत्यूहाभावाय । 'अव्ययं विभक्ति-' इत्या- दिनाव्ययीभावे 'नाव्ययीभावादतोऽम् त्वपञ्चम्याः' इति चतुर्थ्या अम्भावः । केचित्तु-निष्प्रत्यूहमिति क्रियाविशेषणं तत्र च क्लीबत्वादिकम् । यदाह---'द्विती- यान्तत्वकर्मत्वे क्लीबत्वं च तथैकता । क्रियाविशेषणस्यैवं मतं सूरिभिरादरात् ॥' इति, तथा च "निरन्तरया सेवया सेव्यप्रीतिस्तया च हितलाभ इति ध्वनितम्'--- इत्याहुः । भगवत इत्यस्य सामान्यशब्दस्य विशेषणद्वारा विशेषपरत्वमुपपाद- यति-कौमोदकीति । कौमोदकी हरिगदा सैव लक्ष्म चिहं यस्य तादृशस्य । एतेन विशिष्टशस्त्रधारकत्वेन भगवतो विघ्नोपशमनसमर्थत्वं व्यज्यते । ननु भगवतो लोचनयोरेव किमित्युपासना क्रियते, नान्येषां चरणादीनामित्यत आह-कोकप्री- तीति । कोकानां चक्रवाकाणां प्रीतिः कोकप्रीतिः, चकोरस पक्षिविशेषस्य पारणो- पवासान्ते भोजनं चकोरपारणा । अनयोर्द्वन्द्वे 'सर्वो द्वन्द्वो विभाषेकवद्भवति' इत्ये- कत्वं 'स नपुंसकम्' इति नपुंसकत्वात् 'हखो नपुंसके प्रातिपदिकस्य' इति हखत्वम् । तत्र पटुनी दक्षे ज्योतिष्मती चेति समासः। यद्वा कोकप्रीतिश्च चकोरपारणं च कोकप्रीतिचकोरपारणे तयोः पटुनी ज्योतिष्मती चेति समासः । प्यन्तादेव पारिधातोर्नपुंसके भावे ल्युदप्रत्यये पारणमिति रूपम् । यद्वा कोक- प्रीतिचकोरपारणयोः पटु यज्योतिः सूर्यचन्द्राख्यं तेजस्तद्ययोरस्तीति मतुः । अत्र यद्यपि कर्मधारयमत्वर्थीयाद्बहुव्रीहिरेवेष्टो लाघवात् , तथाप्यर्थलाघवार्थमिह कर्मधारयान्मत्वर्थीय एवं क्रियते । अर्थलाघवं च कर्मधारयमत्वर्थीये चाभि- धावृत्त्या प्रतिपत्तिर्बहुव्रीहौ तु लक्षणयेति साक्षात्संबन्धः परम्परासंबन्धश्च गमक इति विशिष्टेऽर्थे मत्वर्थसंबन्धस्य विवक्षणान्चोक्तदोषः विवक्षायाश्च पुरुषाधीनतया नातिप्रसङ्गः। अत एव "बिसकिसलयच्छेदपाथेयवन्तः' इत्यादि- प्रयोगोऽपि । यद्वा भूमनिन्दाप्रशंसासु' इति प्रशंसायां मतुम् । एतेन सूर्य- चन्द्रस्वरूपचक्षुईयेन कोकप्रीतिश्चकोरपारणा चेत्युक्तम् । तथा च परमकारु- णिकयोलोचनयोरुपाधि विना कोकानां प्रियाशोकापहारितया प्रीतिप्रदानेन, चको- राणां ज्योत्साभक्ष्यदानेन चोपासनकर्तुरभिलषितप्रदातृत्वं भविष्यतीति भावः । याभ्यां लोचनाभ्यां नाभ्येव पल्वलमल्पसरः । नामी पल्बलत्वेन रूपिता गभी- Sandes १ अङ्कः] अनर्घराधवम् । रत्वात् । रूपकलक्षणं चाह दण्डी-'उपमैव तिरोभूतभेदा रूपकमिष्यते' इति । तत्स्थं यत्पुण्डरीकं श्वेताम्भोजं तस्य यो मुकुल ईषद्विकसिता कलिका स कम्बोः शङ्खस्य सपत्नीकृतः सदृशीकृतः । पुण्डरीकस्य श्वेतगुणयोगितया शकेन सह सादृश्यम् । यद्यपि सपत्नशब्दः प्रतिपक्षवाची, तथापि यः प्रतिपक्षः स सदृशो भवतीति लक्षितलक्षणया सपत्नशब्देन सादृश्यं प्रतिपाद्यते । अत एव 'प्रति- पक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः। तस्य चानुकरोतीति शब्दाः सादृश्यवाचकाः ॥' इति दण्डी । पुण्डरीकमुकुलस्य शङ्खसादृश्ये बीजमाह-अर्धेत्यादि । अर्धे यो विबोधः प्रकाशस्तेन मुग्धाऽव्यक्ता मधुरा रम्या श्रीः शोभा यस्य तादृशः । यद्वा मुग्धा प्रत्यग्रा मधुरा रम्या श्रीः शोभा यस्य सः । यद्वा मुग्धमधुराऽत्यन्तमनो- हरा । पर्यायशब्दद्वयोपादानादतिशयित एवार्थो गम्यते । यथा नलचरिते ( नैष- धकाव्ये १२।१०१) 'उन्मीलल्लीलनीलोत्पल-' इत्यादि । यद्वा मधु यत्रास्ति सा मधुरा । 'ऊषसुषिमुष्कमधो रः' इति रः । अर्धे निद्रायितो मुद्रितोऽर्धनिद्रा- यितः । दलनिमीलनेन निद्रासादृश्यम् । इह सूर्यचन्द्रयोः सांनिध्यं हेतुः । अत एव शङ्खसाम्यम् । तथा च विशेषणबलाद्विष्णोर्लोचने उपास्मह इति पर्यवसितम् । अत्र यद्यपि 'गङ्गा नागपतिः सोमः सुधानन्दो जयाशिषः । एभिर्नामपदैः कार्या नान्दी कविभिरङ्किता ॥' इति भरतवचनादवश्योपादेयं गङ्गादिपदं न कण्ठतः श्रूयते । तथापि चकोरपारणपटुज्योतिःपदेन चन्द्रसंकीर्तनमेव । न च एभिर्ना- मपरित्यनेन तत्तत्पदेनैवोपादानमिति वाच्यम् । तस्योपलक्षणत्वात् । 'जितमुडुप- तिना' ( रत्नावल्याम् १।५) इत्यादौ तथैव परिदृष्टत्वात् । एवं चार्थलभ्यताभि- गम्यते । अनार्धविबोधमुग्धमधुरश्रीरित्यनेनैवार्धनिद्राणत्वं लभ्यत एवेति यद्यपि, तथाप्यवशिष्टार्धखण्डितत्वशङ्कानिराकरणायार्धनिद्रायित इति पदमुपात्तम् । केचित्तु 'अर्थतः प्राप्तेऽपि निद्राणत्वे स एव विशेषः शाब्द्या वृत्त्या परिचीयतामित्येतदर्थ तदुपादानं शाब्द्या वृत्त्या भणनं न पौनरुक्त्यमावहति' इति । तथा च सरख- तीकण्ठाभरणे 'आा वृत्त्या लब्धस्य शास्त्रेतिहासादौ शाब्द्या वृत्त्या भणनं न पोनरुक्त्याय' इत्याहुः । एवं च न्यायाचार्या अपि 'श्रुतिप्राप्तेऽर्थे प्रकरणादीनाम- नवकाशात्' इति द्रव्यकिरणावल्यामूचिरे । अपरे तु 'यतश्चार्धविबोधमुग्धमधु- रश्रीरत एवार्धनिद्रायित इति हेतुहेतुमद्धावसंगत्या न पौनरुक्त्यमत्र' इत्याहुः । अन्ये तु 'भगवल्लोचनयोः सूर्यचन्द्रखरूपतया तदुभयतेजःसंबन्धात्पुण्डरीकमु- कुलस्याविकासोऽर्धनिमीलनं च युक्तमेवेति खरूपकथनम्' इत्याहुः ॥ ।
६ काव्यमाला। इह यद्यपि नान्दीलक्षणे सूचनायाः कर्तव्यता न कुत्रापि बोधिता। न च पत्रा- वलीनान्यां वाच्यार्थबीजपदोपादानात्सूचना कर्तव्येति वाच्यम् । तत्र वाच्यार्थ- बीजपदेन नायकाभिधानात् , तथाप्यत्र बहुप्रामाणिकोपदेशः शरणमिति सूच- नावतारः । तदिह हरेनेत्रप्रायौ रामलक्ष्मणौ, चकोरतुल्ये सीतालोचने, तयोः पारणा रामचन्द्रमुखचन्द्रज्योत्स्नापानरूपा, याभ्यां रामलक्ष्मणाभ्यां रावणः शत्रुः कृत इति संप्रदायः । वयं तु ब्रूमः -निष्प्रत्यूहमित्यनेन प्रकृते निर्गतः प्रत्यूहो रावणादिर्यस्मात्स निष्प्रत्यूहो रामभद्रस्तमुपास्मह इति रामभद्रप्रवेशस्तत्कर्तृकवधश्च सूच्यते । कौमोदकीत्यनेन को पृथिव्यां मोदकी हर्षहेतुरिन्द्रजिद्विनाशादिस्तद्योगि- त्वान्मोदकी लक्ष्मणोऽस्तीति लक्ष्मणप्रवेश इन्द्रजिद्विनाशश्च सूच्यते। कोकप्रीती- त्यनेन कोकतुल्यः सुग्रीवः । कोकानां रात्रौ तारादर्शनात्संतापो भवति । सुग्रीव- स्यापि वालिपरिगृहीतायास्तारासंज्ञिकायाः पन्याः संताप इत्येतावता तत्सादृश्यं तस्य प्रीतिर्वालिवधादिति सुग्रीवेण समं रामचन्द्रस्य प्रीतिस्तत्कर्तृकवालिवधश्च सूच्यते । चकोरपारणेत्यनेन चकोरसदृशो विभीषणः । चकोराणां रात्रौ चन्द्रदर्शनेन हर्षोदयाद्विभीषणस्यापि राक्षसस्य रात्रौ संचरणखाच्छन्द्याद्रामचन्द्ररूपचन्द्रदर्श- नाच हर्षोदय इति तेन तत्सादृश्यं, तस्य पारणा लङ्कायां राज्य प्राप्तिरूपा । तथा च विभीषणस्य लङ्कायां राजत्वं सूच्यते । अर्धविबोधेत्यादिना रामभद्रसेनायाः प्रकाशः । अर्धनिद्रायित इत्यनेन रावणसेनाया अविकासः । यद्वार्धनिद्रायित एव कुम्भकर्णः प्रबोधितः सङ्ग्रामायेति सूच्यते । सपत्नीकृत इत्यनेन रावणेन सीता. हरणाद्रामः शत्रुः कृत इति सूच्यते । ज्योतिष्मती इत्यत्र 'तदस्यास्यस्मिन्' इति मतुप् । 'भगं श्रीयोनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु' इति मेदिनीकारः । 'कोमो- दकी गदा' इत्यमरः । 'विनोऽन्तरायः प्रत्यूहः' इति । 'चिढं लक्ष्म च लक्षणम् इति च । 'पल्वलं चाल्पसरः' इति । 'पुण्डरीकं सिताम्भोजम्' इति । 'कुमलो मुकुलोऽस्त्रियाम्' इति । 'कोकश्चक्रश्चक्रवाकः' इति । 'शङ्खोऽस्त्री कम्बुरस्त्रियाम्' इत्यपि । 'अव्यके सुन्दरे मूढे मुग्ध इत्यभिधीयते', 'मधुरो मधुयुक्तेऽपि प्रिये चापि मनोहरे' इति विश्वः ।। । 5 १ अङ्कः] अनर्घराघवम् । अपि च। विरमति महाकल्पे नाभीपथैकनिकेतन- स्त्रिभुवनपुरःशिल्पी यस्त्र प्रतिक्षणमात्मभूः । किमधिकरणं कीहक्कस्य व्यवस्थितिरित्यसा- वुदरमविशद्रष्टुं तस्मै जगन्निधये नमः ॥ २ ॥ अष्टपदां नान्दी दर्शयितुमाह-विरमतीति । तस्मै जगन्निधये जगदा- धारभूताय नमः । अस्त्विति शेषः । तथा चोक्तम्-'यत्रान्यक्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयोक्तव्यः । यथा 'काश्यां त्रिभुवनतिलको राजा' इति । तस्मै कस्मै । महाकल्पे प्रलये विरमति निवृत्ते सति । संहारेच्छायां गतायां सर्ग- च्छायां प्रवृत्तायामिति भावः । असौ प्रसिद्ध आत्मभूर्ब्रह्मा कस्य पदार्थस्य किम- धिकरणं क आधारः कीहरव्यवस्थितिराकारसंनिवेश इति द्रष्टुमुपलब्धुं प्रतिक्षणं अतिमुहूर्त यस्योदरमविशत्प्रविष्टः । विशेः कर्तरि लङ् । नाभिरेव पन्था नाभी- पथः । ऋक्पूरब्धः-' इत्यकारः समासान्तः । स एवैकमद्वितीयं निकेतनमालयो यस्य स तथा । एतेन ब्रह्मणः पद्मासनत्वेन सदा संनिधानात्प्रतिक्षणं पद्मनाभो- दरप्रवेशः सुशक इति सूचितम् । त्रिभुवनमेव पूर्नगरं तस्य शिल्पी निर्माता। इह 'ऋक्पू:-' इत्यकारः समासान्तो न भवति । तद्विधेरनित्यत्वात् । 'त्रिभु. वनपुनःशिल्पी' इति पाठे त्रयाणां भुवनानां पुनर्घटक इत्यर्थः। विश्वंभररूपस्य विष्णोरुदरे त्रैलोक्यमस्ति । अयं च स्रष्टा त्रिभुवनं निर्मित्सुः । निर्माणस्य च पूर्वदर्शनव्यतिरेकेणानिर्वाहात् किं किंवरूपं केन प्रकारेणावस्थितमिति ज्ञातुं तस्योदरं प्रविष्टः । प्राचीना सृष्टिविस्मृतैवेति भावः। वारंवारघटनात्पुनःशब्द उचित एव । अनेन पद्येन दशग्रीवे विरमत्यात्मभू रामो लकोदरं तत्संनिवेश- दर्शनाय प्रविष्ट इति सूचितम् । यद्वा तस्मिन्विरते तत्तत्संनिवेशदर्शनायायो- ध्यामेवाविशदिति सूचितम् । अनयोः पद्ययोः प्रसादनामा वाक्यार्थगुणः । तथा च सरखतीकण्ठाभरणे-'यत्तु प्राकट्यमर्थस्य प्रसादः सोऽभिधीयते' इति । यथा-'अयमुदयति निद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् । विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन्कुपितकपिकपोलकोडताम्रस्तमांसि ॥ इति । अत्र पद्मिनीविकासकरणे उदयशैलावतरणे कोकशोकापहरणे तमोविदारणेऽनुक्तोऽपि ।
काव्यमाला। (नान्द्यन्ते।) सूत्रधार:-अलमतिविस्तरेण । भो भो लवणोदवेलावनालीत. मालतरुकन्दलस्य त्रिभुवनमौलिमण्डनमहानीलमणेः कमलाकुचकल- शकेलिकस्तूरिकापत्राङ्कुरस्य भगवतः पुरुषोत्तमस्य यात्रायामुपस्थानीयाः सभासदः, कुतश्चिद्वीपादागतेन कलहकन्दलनाम्ना कुशीलवेन रौद्र- बीभत्सभयानकाद्भुतरसभूयिष्ठं कमपि प्रबन्धमभिनयता नित्यं किला- यमुद्वेजितो लोकः। सूर्यरूपोऽर्थः प्रकटमुपलक्ष्यते । तथा कौमोदकीधारणे चन्द्रसूर्यचक्षुष्मत्त्वे नाभ्यां पुण्डरीकपरिपालने उदरे त्रिलोक्याः समावेशेऽनुक्तोऽपि विष्णुरूपोऽर्थों लक्ष्यत इति । जगन्निधय इत्यत्र 'नमःस्वस्ति-' इत्यादिना चतुर्थी । विरमतीत्यत्र 'व्याङ्- परिभ्यो रमः' इति परस्मैपदत्वाच्छनन्तात्सप्तमी । त्रिभुवनेत्यत्र 'सुपसुपेति समासः। न तु समाहारद्विगुः । तथा सति त्रिभुवनीति स्यात् । 'पूः स्त्री पुरीन- गयौँ इत्यमरः ॥ । 'चान्द्यन्ते सूत्रधारः' इति वक्ष्यमाणलक्षणं नाटकाद्यपद्यं नान्दी। तथाहि-देव- तादेर्नमस्कारो गुरूणामपि च स्तुतिः। गोब्राह्मणनृपादीनामाशीर्नान्दीति कोहलः।'इति। युद्धा 'नदि स्तुतौ' इत्यत्र धातो पृषोदरादिपाठेन साधितः । तथाचाहुः---'स्तुत्वर्थ नदि धातौ वा समृद्ध्यर्थे च वा पुनः । पृषोदरादिपाठेन नान्दीसाधनमीरितम् ॥ इति । एवं च रत्नकोषः-'प्रत्याहारगीतवाद्यादिद्वाविंशत्यङ्गेष्वन्तर्गता पूर्वरङ्गस्य प्रधान नाङ्गभूता स्तुतिरेव नान्दी' इति । सा चेयं द्वादशपदाष्टपदा वा कार्या। 'सूत्रधारः पठेत्तत्र मध्यमं स्वरमाश्रितः । नान्दी पदैादशभिरष्टाभिर्वाप्यलंकृताम् ॥' इति । पदं चाथ द्विविधमभिप्रेतम् , सुप्तिङन्तं श्लोकपादाख्यं च। तदुक्तं नाट्यलोचन- कृता-सुप्तिङन्तं पदं चात्र श्लोकपादश्च वा पदम्' इति । तत्राये द्वादशपदा यथोत्तररामचरिते-'इदं गुरुभ्यः' इत्यादि । अष्टपदा यथा भगवदजके- 'जयति सितविलोलव्यालयज्ञोपवीती' इत्यादि । अन्य द्वादशपदा यथा रत्ना- १. कोहलो नाम कश्चिदतिप्राचीनों नाट्यशास्त्राचार्य:, 'विटखटके का नृत्यति कोहलभरतोदितक्रियया' इति कुट्टनीमतग्रन्थे दामोदरगुप्तः, १ अङ्क:] अनर्घराधवम् । MIRE वल्याम्-'जयमुडुपतिना' इत्यादि । अष्टपदा यथा मुद्राराक्षसे-धन्या केयम्' इत्यादि । ननु नान्दी द्वादशपदाष्टपदा च कर्तव्येति यदि नियमस्तदा कथमभि- ज्ञानशाकुन्तले 'या सृष्टिः स्रष्टुः' इत्यादेर्नान्दीत्वम् । द्वादशपदेभ्योऽधिकपदत्वा- दिति चेन्न । 'पञ्चविंशत्पदा नान्दी नित्यमेव शुभावहा । स्यान्नायकस्य च कवे- यदि शंभुविभूषिता॥' इति भरताभिधानात् । यद्वा 'नान्दी पदैादशभिरष्टाभिर्वा- प्यलंकृताम् । तां षोडशपदामेके केचिदाहुश्चतुष्पदाम् ॥' इत्यनुशासनाच्चतुष्पदैव सा नान्दीति । इयं च नान्दी चतुष्प्रकारिका । तथा च दशरूपकम्- 'नमस्कृतिर्माङ्गलिकी आशीः पत्रावली तथा। नान्दी चतुर्धा निर्दिष्टा नाटका- दिषु धीमता ॥ नमःप्रधानवाक्येन कोमलेन पदेन च । कल्पिता शंभुना युक्ता नमस्कृतिरितीरिता ॥ देवस्यार्धेन्दुचूडस्य विलासेनोपवर्णिता । मङ्गलानु- गतं वाक्यं यत्र माङ्गलिकीति सा॥ देवद्विजनृपादीनामाशीर्वादविभूषिता । ना- न्दी मङ्गलसंयुक्ता स्यादाशीरिति तद्विदः ॥ वाच्यार्थबीजरचिता शृङ्गारादिसम- न्विता । संयुक्ता चन्द्रपद्माभ्यां पत्रावल्यभिधीयते ॥' अत्र च नमस्कृतिरूप- नान्दीलक्षणसत्त्वात्सैव बोद्धव्येत्यलमतिवाक्पल्लवेन । 'नर्तनीयकथासूत्रं प्रथम येन सूच्यते । रङ्गभूमि समासाद्य सूत्रधारः स उच्यते ॥' ननु, 'नान्द्यन्ते सूत्रधारः' इत्यसंगतम् । सूत्रधारपठनीया नान्दी, नान्दीपाठानन्तरं च सूत्रधार- प्रवेशः, प्रवेशानन्तरं पाठावसरः, इत्यन्योन्याश्रयात् । उच्यते-नान्दीनामा सूत्रधारस्तदन्ते तनिष्कान्तौ सूत्रधार इव सूत्रधारः स्थापकः प्रविशतीत्यर्थः । तदुक्तं भरते---'अथ पात्राणि तत्रादौ नान्दी नान्दी तु यः पठेत्' इति । तत्रैव 'नान्दी प्रयुज्य निष्कामेत्सूत्रधारः सहानुगः । स्थापकः प्रविशेत्पश्चात्सूत्रधार- गुणाकृतिः ॥ पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्य- मास्थापयेन्चटः ॥' शातकर्ण:--सूत्रधारगुणाकारः स्थापकः प्रविशेत्ततः। उप- चारेण सोऽप्यन सूत्रधारोऽभिधीयते ॥' इति । यद्वा नान्यन्येनैव पठिता, तदन्ते सूत्रधारः प्रविशति । वदति च वक्ष्यमाणमिति शेषः । तथा च संगीतकल्प- तरुः–'सूत्रधारः पठेन्नान्दीमन्यो वा रङ्गभूमिगः । मङ्गलं सूचयित्वा तु ललितेन शुभान्विताम् ॥' अपरे तु-'पटान्तरित एव नान्दी पठित्वा सूत्रधारः प्रविशति वदति च' इत्याहुः । ननु 'अलमतिविस्तरेण' इत्यसंगतम् । 'रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थसूचकैः । ऋतुं कंचिदुपादाय भारती वृत्तिमाश्रयेत् ॥ भैदैः प्ररोचनायुकैर्वीथीप्रहसनामुखैः । सूत्रधारो नटी ब्रूते मार्ष वाथ विदूषकम् ॥ खकार्य . - १० काव्यमाला। - प्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् ॥' इत्यादीनां प्रस्तावनापूर्वकर्तव्यनान्ध- झानामनभिधानादिति नासंगतम् । प्रस्तुताभिनेयस्यातिविस्तरतया प्रेक्षकाणां प्रवृत्तिन स्यादिति तत्प्रवृत्त्यर्थ तत्प्रयोगस्य संगतत्वात् । अन्यथानेकसमयेन तत्प- र्यवसाने रङ्गभङ्गप्रसङ्ग इत्यानन्त्यात् । सकलपूर्वरङ्गस्य निर्वाहयितुमशक्यत्वा- नान्दीपाठेनैव संक्षिप्यत इति भावः । आवश्यकत्वात् । तथा चोक्तम्-'यद्यप्य- झानि भूयांसि पूर्वरङ्गास्य नाटके । तथाप्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये ॥' इति । अलंशब्दस्य तृतीयान्तपदसाचिव्येन निष्फलाभिधायकत्वम् । यदाहुनिष्फ- लपर्याये पाञ्चजन्ये हरिमिश्राः-भवति हि तृतीयान्तेन समन्वितमलम्' इति ॥ प्रस्तुतकथनीये श्रोतृणामनवधानेऽनवधेयवचनत्वमरण्यरुदितत्वं च स्वस्य स्यादिति तान्संबोधयन्निदानी प्रस्तावनामाह-भो भो इत्यादि । भो भो सभा- सदः सभ्याः, अयं लोको जनो नित्यं प्रत्यहं केनचित्कुशीलवेन नटेनो- दूजितो व्याकुलीकृत इति प्रसिद्धिः । किल प्रसिद्धौ । भो भो इति संबोधने । अव्यये वीप्सायां द्विरुक्तिः । 'अथ संबोधनार्थकाः। स्युः पाटप्याडङ्गहेहैभोः' इत्य- मरः । 'भरता इत्यपि नटाचारणाश्च कुशीलवाः' इत्यमरः । उद्वेजित इयत्र ण्यन्तत्वान्न 'विज इद' इति जित्त्वम् । कीदृशेन । कमप्यतिशयितं प्रबन्धं नाटक- मभिनयता नृत्यता। कीदृशम् । रौद्रमुग्रम् , बीभत्सं विकृतम् , भयानकं दारु- णम् , अद्भुतमाश्चर्यम्, एते रसा भूयिष्ठाः प्रचुरा यत्र तम् । एषां कठोरत्वादु- द्वेगः । भूयिष्ठपदस्य राजदन्तादिपाठात्परनिपातः । रौद्रादयो हि नाट्ये रसवि- शेषाः । तदुक्तं भरते-'शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतशा- न्ताश्च नव नाव्ये रसाः स्मृताः ॥ इति । कीदृशेन कुशीलवेन । कलहस्य कन्दलं प्रकाण्डं नाम यस्य तेन । अतिकलहशालिनेत्यर्थः । 'कलहकन्द-' इति पाठे कलहस्य कन्दो मूलं नाम यस्य तेन । कुतश्चिद्वीपात्सिंहलादेरागतेन । सभासदः कीदृशाः । पुरुषोत्तमस्य हरेर्यात्रायां पूजोत्सव उपस्थानीया उपस्थिताः । कीड- शस्य । लवणमुदकं यत्र स लवणोदः । 'उदकस्योदः संज्ञायाम्' इत्युदादेशः । तस्य वेलां तीरं तत्र बनाली वनपतिस्तत्र यस्तमालतरुस्तापिच्छवृक्षस्तस्य कन्द- लस्य प्रकाण्डस्येव । 'वेला तत्तीरनीरयोः' इत्यमरः । तमालो वरुणे खङ्गे तापिच्छे तिलकेऽपि च' इति विश्वः । 'कन्दलं तु नवाङ्कुरे' इति धरणिः । मौलि- मस्तकम् । मण्डनमलंकारः । नीलमणिरिव नीलमणिः श्यामरत्नम् । कमला लक्ष्मीस्तस्याः कुचावेव कलशौ तयोः केलिः क्रीडा तदर्थ कस्तूरिकया पत्रं पत्रा- - ।
१ अङ्कः अनर्घराघवम् । ११ । तत्कस्यचिदभिमतरसभावभाजः प्रेक्षणकस्य प्रयोगानुज्ञया नाट्यवेदो- पाध्यायबहुरूपान्तेवासी मध्यदेशीयः सुचरितो नाम भरतपुत्रोऽहमनु- गृह्ये । यतः। वली तदङ्कुरस्येव । हरेः कृष्णत्वात्रिभिरिह रूपकम् । पुरुषोत्तम इत्यत्र यद्यपि पुरुषाणामुत्तम इति 'न निर्धारण' इति षष्ठीसमासनिषेधः स्यात् । पुरुषश्वासावुत्त- मश्चेति कर्मधारये विशेषणत्वादुत्तमपदस्य पूर्वनिपातापत्तिः । न च पुरुषेषूत्तम इति विगृह्य समासः । तथा सति 'न निर्धारणे' इति सूत्रमनारभ्यं स्यात् । सप्तमी- समासेनैव सर्वत्र चरितार्थत्वात् । तथाप्यत्र पुरुषाणामुत्तम इति षष्ठीसमास एव । निर्धारणस्य विवक्षणात् , तदभिव्यञ्जकपदाभावात् , जातिगुणादेरश्रवणात् । यद्वा 'पञ्चमी' इति योगविभागात्समासः । पुरुषेभ्य उत्तमः पुरुषोत्तम इति । 'यस्मा- रक्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरु- षोत्तमः ॥' इति गीतासु भगवद्वचनात् । काव्यदर्पणकारास्तु-'न निर्धारणे' इति प्रतिषेधस्य तु स विषयो यत्र निर्धारणावधिर्निर्धार्यमाणं निर्धारणनिमित्तं च त्रितयमुपादीयते । यथा पुरुषाणां क्षत्रियः शूरतम इत्यत्र तु त्रितयं नोपा- त्तमिति नासौ तद्विषयः' इत्याहुः । 'यात्रा स्याद्यापनायां च गतौ देवार्चनोत्सवे' इति धरणिः । उपस्थानीया इत्यत्र 'भव्यगेय-' इत्यादिनिपातनात्कर्तर्यनी- यर् । 'सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते' इत्यमरः । भूयिष्ठा- मिति 'बहोर्लोपो भू च बहोः' इति बहुशब्दस्य भूभावः । 'इष्टस्य यिट् च' इति यिडागमः ॥ तत्कस्यचिदिति । यतोऽयं लोक उद्विग्नस्तत्तस्मात् । अभिमतः प्रेमपात्रं यो रसः शृङ्गारादिस्तद्भावमभिप्रायं भजते । 'भजो ण्विः' । तस्य प्रेक्षणकस्य नाटकस्य प्रयोगानुज्ञया प्रयुक्त्यनुशासनेन भरतपुत्रो नटपुत्रोऽहमनुगृह्येऽनुग्रहणीयः। तेनेति शेषः । लोकोद्वेगशान्त्यर्थमनुग्रह इति भावः । 'भरता इत्यपि नटाः' इति धरणिः । अनुगृह्य इति कर्मणि लट् । प्रकृष्टमीक्षणं दर्शनं यत्रेति प्रेक्षणकं नाटकम् । क्वचित् 'प्रेङ्खणकस्य' इति पाठः । तत्रापि प्रेक्षणकस्य नाटकस्येत्यर्थः । इखि- धातुर्गत्यर्थो दण्डकस्थस्तत्र करणे ल्युट प्रपूर्वः। ततः संज्ञायां कन् । कीदृशोऽ- हम् । नाम प्रसिद्धौ । सुचरितः । नामपदस्य संज्ञार्थत्वे 'प्रकृत्यादिभ्य उपसंख्या- नम्' इति तृतीयया भाव्यमित्यवधेयम् । पुनः कीदृशः । नाट्यं नृत्यं तत्र वेदस्तस्योपाध्यायो व्याख्याता । नानामषीनेपथ्यग्रहणाद्दुर्ग(बहु)रूपस्तन्नामा वा ।
१२ काव्यमाला। प्रीतिर्नाम सदस्यानां प्रिया रङ्गोपजीविनः । जित्वा तदपहर्तारमेष प्रत्याहरामि ताम् ॥ ३॥ (आकाशे कर्णं दत्त्वा ।) किं ब्रूथ । 'वैदेशिको भवानसमग्रपात्रः कथ- मीशे कर्मणि प्रगल्भते इति । (विहस्य । सप्रश्रयमञ्जलिं बद्ध्वा ।) हन्त भोः, किमेवमुदीर्यते । भवद्विधानामाराधनी वृत्तिरेव मे पात्राणि सम- ग्रयिष्यति । यतः। कश्चित्तस्यान्तेवासी शिष्यः । मध्यदेशो भरतखण्डस्तत्समुद्भवश्च । 'अवस्था या तु लोकस्य सुखदुःखसमुद्भवा । तदीयानुकृतिः प्राज्ञैर्नाव्यमित्यभिधीयते ॥ इति भरतः । मध्यदेशीयत्वेनातिविज्ञता प्रदर्शिता । यदाह भरत:-- भरतं वर्ष. माश्रित्य कर्तव्यं नाटकादिकम् । स्थानान्तरे समुद्भूतिर्यतो न सुखदुःखयोः ॥' इति । अनुग्रहे हेतुमाह-यत इति । नाम संभावनायाम् । यतो यस्मात्स- दस्यानां पारिषदानां या प्रीतिः सा मम रझोपजीविनो नटस्य प्रियापेक्षिता तस्याः प्रीतेरपहर्तारमपहारकं कलहकन्दलनामानं नटं जित्वेषोऽहं तां प्रीति- प्रत्साहरामि पुनरानयामि । येन त्वत्प्रीतिरपहृता तं जित्वा तां करोमीति भावः । रज्यन्त्यनुरक्ता भवन्त्यस्सिन्निति रङ्गो नृत्यम् । 'हलश्च' इत्यधिकरणे घन् । 'रको नृत्ये रणक्षितौ' इति विश्वः ॥ आकाश इति । 'पात्रस्याल्पतया यत्र पात्रं नैव प्रवेश्यते । नेपथ्य इत्यु- क्त्वाकाशे लक्ष्यं बवेति चोच्यते ॥ किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्वेवानुक्तमप्येकस्तत्स्यादाकाशभाषितम् ॥' इति भरतः । विविधो देशो विदे- शस्तन चरतीति वैदेशिकः पथिकः । 'चरति' इति ठक् । अत एवासमग्रपा- त्रोऽसंपूर्णभूमिकादिग्राहकः । यदाह भरतः- 'रङ्गे विशन्ति निर्यान्ति ये तत्का- यार्थिनः : पुनः । ते सर्व एव पात्राणि कीर्तितानि प्रयोक्तृभिः ॥' इति । ईदृशे विषमे कर्मणि प्रगल्भते धृष्टो भवति । 'गल्भ धार्थे' धातुः । सप्रश्रयं सहर्ष मित्यादि क्रियाविशेषणम् । सर्वत्र क्रिया च वदतिपठतिरूपाध्याहर्तव्या। प्रश्रयो विनयः । हन्त विषादे । 'हन्त हर्षे विषादे च' इति विश्वः । स्वधायें विषादः । यद्वा पात्रसमग्रता भविष्यत्येवेति हर्षः । उदीर्यत उच्यते । भवतेति शेषः । आरा- धनी सेवाविधात्री । करणे ल्युट् । टित्त्वान्डीप् । वृत्तिापारः । पात्राणि नृत्य- पात्राणि । समप्रयिष्यति संपूर्णानि करिष्यति ॥ -- Hema १ अङ्कः] अनर्घराघवम् । १३ यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥ ४ ॥ दृष्टान्तमाह-यान्तीति । न्यायप्रवृत्तस्य नीत्यनुयायिनः । पुरुषस्येति शेषः। तिर्यञ्चोऽपि तिर्यग्योनिजाता वानरादयोऽविवेकिनोऽपि सहायतां द्विती- यत्वं यान्ति गच्छन्ति । तिरसस्तियलोपे' इति तिर्यादेशः । तुशब्दः पुनरर्थे । अपन्थानमपथं यान्तं गच्छन्तं पुरुषं सोदरः सहोदरोऽपि विमुञ्चति विशेषतस्य- जति । अपन्थानमित्यत्र 'अपथं नपुंसकम्' इति न क्लीबत्वम् । तत्र कृतसमा- सान्तनिर्देशात् । इह त्वतथात्वात् । यद्वा 'पथो विभाषा' इत्यतः पाक्षिकतया 'पथः संख्याव्ययादेः' इति न क्लीबत्वम् । संख्यासाहचर्यात् पथोऽपि समासान्तयुक्तस्य प्रहणात् । 'अपन्थास्त्वपथं तुल्ये' इत्यमरः । ननु समानशब्दस्य 'विभाषोदरे' इति सभावे 'सोदरायः' इति यप्रत्यये सोदर्य इति स्यात् । 'समानोदर्यसोदर्य- सगीसहजाः समाः' इत्यमरोऽपि । तत्कथं सोदर इति । उच्यते । समान- मुझमस्येति वहुव्रीहौ सोदरः । 'समानस्य' इति योगविभागात् 'वोपसर्जनस्य' इति वा सभावः । यद्वा सहशब्दस्य सभावे रूपमिदम् । अत एव 'सोदरोऽपि सहोदरः' इति शब्दभेदः ॥ अत्र च ध्वनिरलंकारः । ध्वनिना च सदस्यानां हृदये सकलमभिधेयं सूच्यते । तथाहि सभ्याल्लक्षीकृत्य श्रीरामवचनमिदम्। कुतश्चिद्धीपान्तरादागतेन द्वीपान्तराल्ल- कातः समायातेन, कलहकन्दलनाम्ना कलहाङ्कुरतया प्रसिद्धन, कुत्सितं शीलं कुशील तद्योगिना कुशीलवेन रावणेन । व-प्रकरणे 'अन्येभ्योऽपि दृश्यते' इति मत्वर्थीयो वः । कमप्यनिर्वचनीयम्, प्रबन्धं कपटं परवञ्चनोपायम् , यद्वा प्रकृष्टो बन्धः प्रबन्ध इन्द्रादीनां यत्र तत्प्रबन्धं युद्धादिविन्यासम्, अभिनयताभिव्यञ्जयता। कुर्वतेति यावत् । कीदृशम् । रौद्रं तीव्रता, बीभत्सं विकृतरूपता, भयानक युद्धादो भयंकरत्वम् , अद्भुतमाश्चर्यकरत्वम्, एतैर्भूयिष्ठं बहुलम् । यद्वा कस्यचि. न्मारणादिना रौद्रः, कस्यचिदलिदानादिना बीभत्सः, कस्यचिन्मायादिना भया- नकः, कस्यचिदद्भुतकर्मणा कैलासोत्पाटनादिनाद्भुतो रसः, एभिभूयिष्ठं बहुलम् । नित्यं बहुशः, अयं लोको भुवनम् , उद्वेजितः किल । किलागमे । 'लोकन्तु भुवने जने' इत्यमरः । एतावतोद्वेगलक्षणो बिन्दुरुत्पन्नः । यदाह भरतः-'प्रयो- काव्यमाला। । । जनानां विच्छेदे फलविच्छेदकारणम् । फलं यावच्च नोदेति स बिन्दुरिति क- थ्यते ॥ तैलबिन्दुर्यथा तोयं स्वशक्त्या व्याप्य तिष्ठति । काव्याङ्गानि तथा बिन्दुः संदर्य मुखतां व्रजेत् ॥' इति । यथा वेणीसंहारे-'लाक्षागृहानल' इत्यादिनापमानलक्षणो बिन्दुः । उद्वेगश्चायं सप्तखकेषु बोद्धव्यः । यथा 'अपि कथमसौ' इति प्रथमाथे । 'अलमिष्ट्वा मखान्' इति द्वितीयाङ्के। कन्यामयोनिज- न्मानम्' इति तृतीयाङ्कादाबूद्यमिति । अभिमतेति। अभिमतो रसो वीरो भावश्चेष्टा तद्योगिनः । प्रेङ्खणकस्येति प्रेक्षन्ति गच्छन्ति वीरा अस्मिन्निति प्रेङ्खणं युद्धम् । अधिकरणे ल्युट् । प्रयोगानुज्ञया कृत्यनुमत्या कृतिस्मृत्या वा नाट्यस्य वेदों धनुर्वेदः । 'नट अवस्कन्दने चौरादिकण्यन्तादवस्कन्दनार्थकाद्धातोः 'अचो यत् इति यत् । हिंसार्थता च 'जासिनिप्रणनाटकाथपिषां हिंसायाम्' इत्यत्र हिंसायां वृत्तः । तस्योपाध्यायोऽध्यापकः कौशिक एव । स च क्षत्रियजातित्वात्संस्कार- विशेषाद्राह्मणत्वाच द्वैरूप्यावगमाद्बहुरूपः । एतदेव वक्ष्यति--'यः क्षत्रदेहम् इत्यादिना । तस्यान्तेवासी शिष्यः, मध्यदेशीयोऽयोध्याप्रभवः, सुचरितः सुष्टु चरितं व्यापारो यस्य सः, नाम प्रसिद्धः, 'नाम प्राकाश्यसंभाव्यप्रसिद्धिषु निगद्यवे' इति विश्वः । बिभर्ति पुष्णाति भूमिमिति भरतो राजा दशरथः । 'भृजादिभ्यो- उतच्' इत्यौणादिकोऽतच्प्रत्ययः । तस्य पुत्रः । यद्वा भरतः पुत्रः कनिष्ठो यस्य स रामः । 'कनिष्ठेऽपि सुते पुत्रः' इति विश्वः । पुत्रवाचकपर्यायशब्दाः कनिष्ठवाचका अपि भवन्ति । यथा किरातार्जुनीये-'अनुस्मृताखण्डलसूनुविक्रमः' इति । सदस्यानां देवानामृत्विजां वा, प्रीति म मम रजोपजीविनो रणोपजी विनो योधस्य क्षत्रियस्य वा या प्रिया सीता च तस्या अपहर्तारं रावणं जित्वा प्रीति सीतां चानयामि । एतेन सीताहरणादारभ्य रावणवधपर्यन्तं सूचितम् । 'सदस्या विधिदर्शिनः' इत्यमरः । रङ्गो नृले रणे रागे' इति धरणिः । एतावता प्रीति- सीतापहारलक्षणं बीजम् । यदाह भरत:- स्वल्पमात्रं समुद्दिष्टं बहुधा यद्विस- पंति । फलावसानपर्यन्तं तद्वीजमिति कीर्तितम् ॥ इति । यथा वेणीसंहारे- 'निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ।' इति । वैदेशिको विः पक्षी तस्य देशो वनं तत्र स्थाता वैदेशिको वनवासी । अध्यात्मादित्वादन् । पात्रममात्यादि । ईदृशे कर्मणि युद्धादौ । प्रश्रयो विनयः । सप्रश्रयमिति क्रियाविशेषणम् । हन्त हर्षे, वृत्तिः प्रवर्तनम् , पात्राणि सुग्रीवादीनि, नीयते प्राप्यतेऽभिमतसिद्धिरनेनेत्ति न्यायः सन्मार्गस्तत्र प्रवृत्तस्त्रानुगतस्य, तिर्यञ्चो वानरभल्लूकादयः । तदिह सन्मा- ।
१ अङ्कः] अनर्घराघवम् । (पुनराकाशे कर्ण दत्त्वा ।) किं ब्रूथ । 'तर्हि प्रहितेयमस्माभिः' पत्रिका इति । (प्रविश्य नटः पत्रिकां ददाति । सूत्रधारो गृहीत्वा वाचयति ।) 'यत्र सर्वपुरुषार्थरहस्यनिःस्यन्दिनि चेतःशुक्तिकया निपीय शतशः शास्त्रामृतानि क्रमा- द्वान्तैरक्षरमूर्तिभिः सुकविना मुक्ताफलैर्गुम्फिताः । उन्मीलत्कमनीयनायकगुणग्रामोपसंवल्गन- प्रौढाहंकृतयो लुठन्ति सुहृदां कण्ठेषु हारस्रजः ॥ ५॥ तस्मै वीराद्भुतारम्भगम्भीरोदात्तवस्तवे । जगदानन्दकन्दाय संदर्भाय त्वरामहे ॥६॥ गानुगतस्य रामस्य वानरादयोऽपि सहाया वृत्ताः, अपथप्रपन्नस्य तु रावणस्य सोदरो बिभीषणोऽपि तं त्यक्त्वा राममाश्रित इति ध्वनितम् । तर्हि प्रहितेयमिति सदस्यवचनानुवादः । अपटीक्षेपेण पात्रप्रवेशे प्रविश्येत्यु- च्यते । वाचयति पठति । यत्रेत्यादि । तस्मै संदर्भाय त्वरामहे त्वरिता भवाम इत्यन्वयः । तस्मा इति तादर्थं चतुर्थी । संदर्भो रचनाविशेषो विशिष्ट पदार्था- त्मकः प्रबन्धः । इह नाटकरूप एव सः । कीदृशाय । वीराद्भुतरसयोरारम्भ उद्यमो धनुर्भङ्गरूपतेन गम्भीरोऽनाकलितरूप उदात्तो हृद्यो वस्तुप्रधाननायको यन्त्र तस्मै । यद्वा वीर उत्साहशक्तिशाल्यद्भुतो जगद्विस्मयनीयचरितस्तस्यारम्भो राक्षसचक्रविनाश-कौशिकयज्ञसिद्धि-शंकरकार्मुकाकर्षण-परशुरामगर्वदलन-सुग्रीवा- भिषेक-दशग्रीववधरूपबहुकार्यसंभारस्तेन गम्भीरमनुत्तानम् , सकललोकचमत्का- रकारणम् , उदात्तं राज्यत्यागवनगमनादिमहत्त्वं तादृशं वस्तु पदार्थो वाच्यं यस्य तस्मै । 'बहुकार्यस्य संभार आरम्भ इति कीर्तितः' इति भरतः । यस्य प्रभावा- दन्तस्थाः शोकहर्षादयो बहिः । देहस्था नोपलभ्यन्ते तगाम्भीर्यमुदाहृतम् ॥' इति भरतः । 'आशयस्य विभूतेर्वा यन्महत्त्वमनुत्तमम् । उदात्तं नाम तत्प्राहु- रनेकगुणसंश्रयम् ॥' इति । जगतां सहृदयानामानन्दकन्दाय' हर्षमूलाय । यत्त- दोर्नित्यसंबन्धादाह-योति । समस्तकोऽयं श्लोकः । पुरुषार्था धर्मार्थकाम- मोक्षास्तेषां रहस्यं गोप्यतत्त्वं तस्य निःस्यन्दः. क्षरणं तयोगिनीत्यर्थः । यत्र ।
काव्यमाला। (विमृश्य सहप्रैसितम् ।) मारिष, रामायणमिति शृणोषि तत्रभवतः कवित्वावतारप्रथमतीर्थस्य वल्मीकजन्मनो मुनेः सरस्वतीनिर्यासो यशःशरीरमिक्ष्वाकूणाम् । । नाटक इत्यस्य विशेषणम् । तथा च नाट्यस्य चतुर्वर्गोपायत्वमाह संगीतक- ल्पतरुः-देवर्षिक्षितिपालपूर्वचरितान्यालोच्यधर्मोदयस्तद्भावाश्रितभुमिकाभिनयने स्थादर्थसिद्धिः परा । संगीताहृतचित्तवृत्तितरला वश्या भवन्त्यङ्गना ज्ञानं शंकर- सेवयेति कथितं नाट्यं चतुर्वर्गदम् ॥ इति । यत्र नाटके हरन्तीति हारा रम्याः खज इव स्रजः । हाराश्च ताः सजश्चेति कर्मधारयः । तेन हारवजोऽक्षरमाला इत्यर्थः । सुहृदां शोभनमनसां सुकवीनां तत्त्वज्ञानिनां वा कण्ठेषु लुठन्ति संब- ध्यन्ते । शोभनं हृद्येषां ते सुहृदः । 'खान्तं हृन्मानसं मनः' इत्यमरः । यद्वा हा- रस्रज इव हारस्रजो हाराणां मालाः । गद्यपद्यानीत्यर्थः । कीदृश्यः । उन्मीलन्दीप्य- मानः कमनीयः काम्यो यो नायकगुणप्रामो नायकगुणसमूहस्तस्योपसंवल्गनं संबन्धः शोभादिप्रतिपादनं वा तेन प्रौढा उद्भूटा अहंकृतयोऽहंकारा यासु ताः । इह मालाकर्तुरहंकारतत्कार्य उपचरितः । अन्यनाटकेभ्योऽतिवेलक्षण्येनाहंकार उचित एव । इह नायकः प्रधानपात्रम् । 'प्रधानपात्रताख्यातो नृये यः स्यात्स नायकः' इति भरतः । इह च नायकस्य श्रीरामस्य जगद्विलक्षणतया कवेरहंकारः समूल एव । 'उपसंवर्धन' इति पाठे संबन्ध एवार्थः । 'अलंकृतयः' इति पाठस्तु रम्यः । पुनः कीदृश्यः । सुकविना शास्त्राण्येवामृतानि सुधाः, चेत एव शुक्तिका, तया शतशो बहुवारं निपीय सादरं पीत्वा क्रमेण वान्तैरुगीगैरक्षरमूर्तिभिरक्षराणि मूर्तय आकारसंनिवेशा येषां तैर्गद्यपद्यादिभिर्गुम्फिता रचिताः । गुम्फनं गुम्फः । भावे घम् । ततस्तारकादित्वादितच् । ते सति 'अनिदितां-' इत्यनुनातिक- लोपापत्तिः । इह गद्यादिलाभो विशेषणद्वारेति न्यायेन । कीदृशैः । मुक्तं त्यकम- फलमसार यैः सारभूतैः । अन्या अपि हारस्रजो मुक्कामालाः शुक्तिकया बहुशः पानीयं पीत्वा क्रमेण वान्तैर्मुक्ताफलैर्विरचिता भवन्ति । अक्षराः क्षरणशून्याः । खच्छा इति यावत् । मूर्तयो येषाम् । अतिखच्छरित्यथैः । कविरिह शिल्पादि- पण्डितः। 'कविः काव्यकरे सूरौं' इत्यमरः । नायको हारमध्यमणिः । गुणा अथनसूत्राणि तारवृत्तत्वादयो वा । उपसंवलानं संबन्धः प्रशंसाभिरुपस्थानं वा । 1 - अङ्कः १] अनघराघवम् । नट:-अथकिम् । सूत्रधारः-तत्प्रतिबद्धप्रबन्धानुबन्धिनी परिषदाज्ञा । अहंकृतिरुज्वलतेति ध्वनिः । शतश इत्यत्र 'बह्वल्पार्थात्-' इति शस् । निपीयेति 'पीङ् पाने' इत्यस्य रूपम्, न तु पिबतेः । तत्र 'न ल्यपि' इतीत्वनिषेधात् । 'सुधायाममृतं जले' इति विश्वः । वान्तरित्यत्र प्राम्यत्वेऽपि गौणवृत्तित्वाद्गुण- त्वम् । तथा च दण्डी-'निष्ट्यतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्द- रमन्यत्र ग्राम्यकक्षां विगाहते ॥' इति । नायकलक्षणं रसप्रकाशे-'शुद्धोत्तुङ्ग- कुलः कलासु कुशलस्त्यागी युवा निर्गदो मानी वाक्पटुरुज्ज्वलाकृतिरथो गम्भीर- चेष्टः स्थिरः । विश्रम्भी सुजनः प्रियंवद उदारोऽसौ मतो नायकः सोऽत्र स्याद- नुकूलदक्षिणशठाधृष्टश्चतुर्धा पुनः ॥ एतच्चतुष्टयनायकमध्ये भगवान्दक्षिणनायकः। तल्लक्षणं तु रसिकसर्वखे-'यो गौरवं भयं प्रेम सद्भावं पूर्वयोरिति । न मुञ्चत्य- न्यचित्तोऽपि दक्षिणोऽसौ स्मृतो यथा ॥' 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्वः । 'ग्रामः संवसथे सङ्के' इति च । सितलक्षणम्-'ईषत्प्रफुल्लितगण्डैः कटाक्षः सौष्ठवान्वितैः । अदृष्टदन्तकुसुमैरुत्तमानां सितं भवेत् ॥' इति । मारिष इति नटसंबोधनम् । यदाह भरतः-सूत्रधारः पुनः पारिपार्श्वकेनाभिधीयते । भाव इत्येव तेनासावपि मार्षस्तु मारिषः ॥ इति । 'उत्कृष्टो विद्यया भावः किंचि- दूनस्तु मारिषः' इत्यपि भरतः । तत्रभवतो मान्यस्य । तच्छब्दात्प्रथमान्तात् 'इतराभ्योऽपि दृश्यन्ते' इति भवच्छब्दयोगेन त्रल् । लाध्ये तत्रभवानुक्कः' इति त्रिकाण्डः । अवतीर्यतेऽत्रेत्यवतारः । 'अवे तृस्रोर्घञ्' इत्यधिकरणे घञ् । नत्ववतरणमवतारः । तथा सति 'ऋदोरम्' इत्यप् स्यात् । यद्वा 'कृत्यल्युटो बहुलम्' इति बहुलवचनादवतारणमेवावतार इति घञ् । यद्वा अवतार इत्यत्र 'क्वचिदप- वादविषयेऽप्युत्सर्गः प्रवर्तते' इति न्यायेन भावे घन् । कवित्वस्यावतारः कवि- त्वावतारः । तत्राधिकरणे घजि कवित्वावतारः कवित्वावतरणाधिकरणं चासौ प्रथमतीर्थं आद्योपाध्यायश्चेति समासः । तस्य भावधजि कवित्वावतरणे प्रथमो- पाध्यायस्य प्रथमोपायस्य चेत्यर्थः। 'तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु' इति विश्वः । वल्मीको मुनिभेदः, ततो जन्म यस्य । वाल्मीरित्यर्थः । सरखती वाणी । निर्यासः सारभूतः । यशोरूपं शरीरं यशःशरीरम् । शाकपार्थिवादिः। इक्ष्वाकूणां सूर्यवंश्यानाम् । अथकिं स्वीकारे । 'यत्सत्यमिति भावार्थमथकिं स्वीकि- यार्थकम्' इति भरतः । तदिति । रामायणाश्रयनाटकानुवर्तिनीत्यर्थः । परि- २अ० रा० - काव्यमाला। नट:-(विहस्य ।) अहो, सकलकविसार्थसाधारणी खल्वियं वाल्मीकीया सुभाषितनीवी। सूत्रधारः-मारिष, किमुच्यते । अपि कथमसौ रक्षोराजस्तताप जगत्रयी- मपि कथमभूदिक्ष्वाकूणां कुले गरुडध्वजः । अपि कथमृषौ दैव्यो वाचः खतः प्रचकाशिरे सुचरितपरीपाकः सर्वः प्रबन्धकृतामयम् ॥ ७ ॥ तत्र तावन्निरूपयामि रूपकमभिरूपमीदृशम् । (मुहूर्तमिव स्थित्वा । स्मरणमभिनीय । सोल्लासम् ।) अस्ति मौद्गल्यगोत्रसंभवस्य महाकवेभट्ट- षत्सभा । सार्थः समूहः । साधारणी तुल्या । साधारणादजि 'टिड्ढाणञ्-' इति डीप् । खलु निश्चये । सुभाषितं शोभनवाक्यम् । 'सुः पूजायाम् । तदेव नीवी मूलधनम् । 'नीवी स्याद्वसनग्रन्थौ नीवी मूलधनेऽपि च' इति विश्वः । नीवीव नीवी । कविसार्थानामस्या उपजीव्यत्वात् । किमुच्यते । किमज्ञानं ख्याप्यत इत्यर्थः । अपीत्यादि । अपिः सर्वत्र प्रश्ने संभावनायामसंभवोत्तौ वा। कथ- मेतानि संभाव्यन्त इत्यर्थः । 'अपिः संभावनाप्रश्नशङ्कागर्दासमुच्चये' इति विश्वः । यदीदं सकलकविनिवहोपजीव्यं न भवति तदा रक्षोराजो रावणो जगत्रयीं त्रैलो- क्यमपि कथं तताप संतप्तीकृतवान् । एकस्य जगत्रयतापनेऽशक्तेः । गरुडध्वजो विष्णुर्वा इक्ष्वाकूणां रघूणां वंशे कथमभूत्कथमुत्पन्नः । अजस्य तस्य जन्मायो- गात् । ऋषौ वाल्मीकिमुनो दैव्यो देवसंबन्धिन्यः संस्कृतवाण्यः कथं खतः प्रच- काशिरे खयमाविर्भूताः । देववाण्या मनुष्ये प्रवेशायोगात् । तथा चैतत्सर्वं यथा स्यादेवं प्रबन्धकृतां कवीनामेवादृष्टपरिणामेनाभूदिति तात्पर्यम् । परिपाक इत्यत्र 'उपसर्गस्य घज्यमनुष्ये बहुलम्' इति दीर्घत्वम् । जगत्रयीमित्यत्र समाहारे द्विगुः । 'द्विगोः' इति डीप् । रूपकं नाटकादि । 'रूपकं नाटकादि स्यात्' इति भरतः । 'अभिरूपं मतं रम्ये सादृश्योत्कृष्टयोरपि' इति विश्वः । अभिनीय शिरःकम्पा- दिना स्फुटीकृत्य । सोल्लासं सहर्ष यथा स्यादेवम् । मौद्गल्यनामकं गोत्रम् । कवे- १. केषुचित्पुस्तकेषु महाकवेः' इत्यस्मात्पूर्वम् बालबाल्मीकेः' इत्यधिक विशेषणम्. । - ॥ । ।
१ अङ्कः] अनर्घराघवम् । श्रीवर्धमानतनूजन्मनस्तन्दुमतीनन्दनस्य मुरारेः कृतिरभिनवमनर्घरा- घवं नाम नाटकम् । तत्प्रयुञ्जानाः सामाजिकानुपास्महे । (विचिन्त्य सहर्षम् ।) अहो रमणीया खल्वियं सामग्री परिषदाराधनस्य । यतः। मद्वर्या रसपाठगीतिगतिषु प्रत्येकमुत्कर्षिणो मौद्गल्यस्य कवेर्गभीरमधुरोदारा गिरा व्यूतयः । गर्गोत्रकीर्तनादिकमपि कर्तव्यम् । यदाह भरतः-'गोत्रं नाम च बनीयात्पूजा- वाक्यं च पार्षदः । नाटकस्य च यन्नाम गर्भनिर्दिष्टलक्षणम् ॥' इति । मदृश्च- तुर्दशशास्त्राभिज्ञः । मालतीमाधवटीकायां तथैव सर्वरक्षितेन व्याख्यातत्वात् । देशभाषा चेयम् । तनूजन्मनः पुत्रस्य । तन्माता तन्तुमती तत्पुत्रस्य । कृति- नाटकपदयोरजहल्लिङ्गतयान्वयः । अनर्घः पूज्यो राघवो रामो यत्र तत् । 'अमूल्ये दृश्यतेऽनर्षस्तथा पूज्ये सुदुर्लभे' इति । नाटकलक्षणं संगीतकल्प- तरौ--'प्रख्यातोन्नतनायकं रसमयं राजर्षिवंशोद्भवं साझं भाजयान्वितं रसमयं तत्तत्पुराणाश्रयम् । भाषावैभवसुन्दरं प्रविलसन्नानाविलासं वलवृत्ति- व्याप्तमशेषसंधिसहितं सप्ताङ्कवन्नाटकम् ॥' इति । नाटके नियमास्तु-'नाटके सूच्यमर्थ तु पञ्चभिः प्रतिपादयेत् । विष्कम्भतूलिकावास्याङ्कावतारप्रवेशकैः ॥ एभिः संसूचयेत्सूच्यं दृश्यमकैः प्रदर्शयेत् । दूराध्वानं वर्ष युद्धं राजा- देशादिविप्लवम् ॥ निरोधं भोजनं स्नानं सुरतं चानुलेपनम् । असुरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ॥ अङ्खनैव निबन्नीयान्नैवान्येन कदाचन । नाधिकारिवधः कापि त्याज्यमावश्यकं न च ॥ एकाहाचरितैकार्थमित्थमासन्ननायकम् । पात्रस्त्रिच- तुरैरङ्कस्तेषामन्ते च निर्गमः ॥ एवमङ्काः प्रकर्तव्याः प्रवेशादिपुरस्कृताः । पञ्चाङ्क- मेतदवरं दशाई नाटकं वरम् ॥' इति भरतः । प्रयुञ्जाना नृत्यन्तः । वयमिति शेषः । 'प्रोपाभ्यां युजेः-' इति तङ् । 'सभायामुपविष्टा ये सभ्याः सामाजिकाश्च ते' इति भरतः । सहर्षमिति । परिषदाराधनसामग्रीस्मरणादिति भावः । खलु वाक्यालंकारे । आराधनसामग्रीकथनव्याजेन खोत्कर्षमप्याह-मद्धा इत्यादि । वर्गे भवा वाः । 'वर्गाच' इति यत् । रसः शृङ्गारादिः । पाठः पठितिः । गीतिर्बुवादिः । गतिश्चरणन्यासः । यद्वा गतिहस्ताद्यभिनयः। तेषु प्रत्येकमेकै- १. 'स्यूतयः' इति केचित्पुस्तकेषु पाठः.
काव्यमाला। वीरोदात्तगुणोत्तरो रघुपतिः काव्यार्थबीजं मुनि- वाल्मीकिः फलति स यस्य चरितस्तोत्राय दिव्या गिरः ॥८॥ कश एव उत्कर्षवन्तः । यद्वा रसादीनां गतिर्ज्ञानं तत्रोत्कृष्टाः । ननु रसपाठा- दयोऽप्याश्रयोत्कर्षादेवोत्कर्षिणो भवन्त्यत आश्रयोत्कर्षमाह-मौद्गल्यस्येति । मौद्गल्यस्य मुद्गलगोत्रसंभवस्य मुरारेः कवेः गिरां व्यूतयो विरचनाः । व्यूति- रिति प्रसिद्धा राशयो वा । गभीरोऽनुत्तानः । मधुरो मनोहरः । आभ्यामुदाराः। उद्भटा इति यावत् । “राशिर्वृतिः स्त्रियौ तुल्ये' इति शाश्वतः । निर्गुणनायके कवित्वोत्कर्षोऽपि वृथा भवतीत्याशङ्कायामाह-वीरोदात्तेत्यादि । वीरः शूरः। उदात्तो महान् । गुणे राजगुणैरुत्तरो मान्यः । 'उदात्तो दातृमहतोः' इत्यमरः। यद्वा वीरोदात्तो नायकभेदस्तस्य गुणैरुत्तरः श्रेष्ठो रघुपती रामः । तथा च यत्र रामो नायक इत्यर्थः । 'वीरोदात्तो वीरोद्धतः स्याद्वीरललितस्तथा। वीरप्रशान्त इत्येव चतुर्धा नायकः स्मृतः ॥' इति भरतः । तथा च वीरोदात्तस्य गुणैरुत्तरः श्रेष्ठः । तत्र च 'महासत्त्वो दयायुक्तः क्षमावानविकत्थनः । स्थिरो निगूढाहं- कारो वीरोदात्तो दृढक्रियः ॥ दर्पमात्सर्यभूयिष्ठो मायाच्छद्मपरायणः । वीरोद्धतो ह्यहंकारी ज्ञेयो रौद्रो विकत्थनः ॥ रूपयौवनसंपन्नो नानाक्रीडापरायणः । कला- युक्तः सुखी वीरललितश्चिन्तयोज्झितः ॥ सामान्यगुणसंयुक्तो नानावस्थः क्षमा- न्वितः । वीरप्रशान्त इत्येव निर्दिष्टो नाट्यवेदिभिः ॥' इति । नायकोत्कर्षमेव पुनराह-काव्यार्थबीजमित्यादिना गिर इत्यन्तेन । काव्यार्थबीजमिति मुनिवि- शेषणम् । काव्यं कविकर्म नाटकादि तस्यार्थोऽभिधेयो रामायणं तस्य बीजमुत्पत्ति- हेतुर्यत इति. वाल्मीकिर्यस्य रघुपतेश्चरितस्तोत्राय दिव्या दिवि भवा गिरः फलति स्म । केचित्तु काव्याभिधेयो रामायणं तस्य बीजं प्रधानमुद्देश्यं श्रीराम एव यस्य रामस्य चरितवर्णनाय वाल्मीकिनामा मुनिर्दिव्या गिरो वाणीः फलति स्म प्रसूते सेति योजयन्ति । अयं तु श्लोकः प्ररोचना । यदाह रङ्गशेखरे ज्योतिरीश्वरः 'प्ररोचनापि कर्तव्या पूर्वरङ्गार्थसिद्धये । 'भावसिद्धिः प्ररोचना' इति नाव्यदर्पणे । यथा रत्नावल्याम् ‘श्रीहर्षों निपुणः कविः' इत्यादि प्ररोचना । मौद्गल्यस्येत्यत्र मुद्गल- MOTA - १. सर्वत्र मूलपुस्तकेषु 'धीरोदात्त-' इति पाठः, अन्यत्रापि धीरोदात्तादय एक गायकाः प्रसिद्धाः अत्र तु केवलं टीकानुरोधेन 'बीरोदात्त-' इति पाठः स्वीकृतः.
१ अङ्कः] अनर्घराघवम् । अयं तु प्राचेतसीयं कथावस्तु बहुभिः प्रणीतमपि प्रयुञ्जानो नाप- राध्यति श्रोत्रियपुत्रः । पश्य । यदि क्षुण्णं पूर्वैरिति जहति रामस्य चरितं गुणैरेतावद्भिर्जगति पुनरन्यो जयति कः । स्वमात्मानं तत्तद्गुणगरिमगम्भीरमधुर- स्फुरद्वारब्रह्माणः कथमुपकरिष्यन्ति कवयः॥९॥ .. । स्थापत्यमित्यर्थे 'गर्गादिभ्यो यम्' । यद्वा 'अत इञ्' इत्यनेन इनि मौद्गलिशब्दा- दनन्तरापत्ये 'वृद्धत्कोसलाजादाभ्यङ्' इति व्यङ् । न च तत्र क्षत्रियादित्यनुवृत्तः कथं मौद्गलिशब्दाञ्यङिति वाच्यम् । मुद्गलो हि पूर्व क्षत्रिय एवासीदिति पुराण एव प्रव्यक्तम् । व्यूतिरित्यत्र वेञ्धातोः 'ऊतियूतिजूतिसातिहेतिकीर्तयश्च' इति क्तिनन्तो निपातः । दिव्या इत्यत्र 'दिगादिभ्यो यत्' । फलति स्मेति लट् स्ने' इति भूते लट् । ननु वाल्मीकीयमपि बहुभिरनेकदा पिष्टमेव तत्कथं पिष्टपेषणमेव क्रियत इत्यत आह-अयं त्विति । अयं तु मुरारिकविः । प्राचेतसीयमिति । प्रचेतसोड- पत्यमित्याणि कृते प्राचेतसो वाल्मीकि स्तस्येदामित्यर्थे वृद्धाच्छः। कथा काव्यशरीरं तस्य वस्तु पदार्थों रामायणं बहुभिः कृतमपि कुर्वश्रोत्रियश्छन्दोध्येता । जन्मसंस्कार- विद्यावान्वा । तस्य पुत्रो नापराध्यति नापराधवान्भवति । श्रोत्रिय इति श्रोत्रि- यंश्छन्दोऽधीते' इति व्याकरणे साधु । लक्षणान्तरं च-'जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥' अप- राधाभावे हेतुमाह-यदीत्यादि । पूर्वाल्मीकिप्रभृतिभिर्मुनिमी रामस्य चरितं क्षुण्णमिति कृत्वा यद्याधुनिका जहति त्यजन्ति तदा तत्तद्गुणानां धैर्यादीनां गरिम्णा गौरवेण गम्भीरमनुत्तानं मधुरं मनोहरं स्फुरद्दीप्यमानं वागूपं ब्रह्म येषां ते कवयः कथं खं खीयमात्मानमुपकरिष्यन्ति प्रसिद्धिं नेष्यन्ति । ब्रह्मद्वयं शब्दब्रह्म परंब्रह्म च । तदुक्तम्-'शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति' इति । अथ तथापि कश्चिदन्यस्तादृशो भविष्यतीत्यत आह-गुणैरिति । एता- वद्भिर्गुणैर्नानागुणै रामादन्यः कः पुनर्जगति संसारे जयति । अपि तु न कोऽपि । तथा च रामचरितं प्रयुञ्जानो नापराध्यति श्रोत्रियपुत्र इति प्रकटितमिति भावः ।
२२ काव्यमाला। उपक्रममाणश्च स कविः खनि सशब्दब्रह्माणमाचार्य प्राचेतसं गिरं च देवतामेवमुपश्लोकितवान् । तमृषि मनुष्यलोकप्रवेशविश्रामशाखिनं वाचाम् । सुरलोकादवतारप्रान्तरखेदच्छिदं वन्दे ॥ १० ॥ । उपक्रममाण आरममाणः । 'उपपराभ्याम्' इति तङ् । खेनात्मना निर्भासत आविर्भूय प्रकाशत इति खनिर्भासम् । पचाद्यच् । शब्दब्रह्म यत्र तम् । शब्दब्रह्मणः प्रकाशता विस्तरभयादुपेक्षिता । प्राचेतसं वाल्मीकिम् । गिरं देवतां वाणीरूपां देवीं सरस्वतीमुपश्लोकितवाञ्श्लोकैः स्तुतवान् । श्लोकेन स्तौतीत्यर्थे 'सत्यापपाश-' इति णिच् । 'उपश्लोकस्तु निन्दायां कथितः संस्तुता- वपि' इति धरणिः । अधुना काव्यनिदानत्वान्मुनि कविः प्रणमति-तमिति । तऋषि मुनिं वन्दे नौमि । कीदृशम् । वाचां मनुष्यलोकप्रवेशे विश्रामवृक्षम् । तथा सुरलोकात्स्वर्गाद्योऽवतारोऽर्थाद्वाचामेव । इदं च काकाक्षिन्यायेनोभयान्वयि । तेन यः प्रान्तरे दूरशून्यवर्मनि क्लेशस्तस्य च्छेत्तारमित्यर्थः । ब्रह्मलोकादवत- रन्ती वाणी वाल्मीकिवृक्षेऽत्यायासवशाद्विश्रम्य मनुष्यलोकमविशदिति भावः । ननु मनुष्यलोकप्रवेश इति कथं समासः । तथाहि 'कर्तृकर्मणोः कृति' इति षष्ठया न भवितव्यम् । वाचां कीणां मनुष्यलोकस्य कर्मणः प्रवेश क्रियायां सत्त्वात् , न च 'उभयप्राप्तौ कर्मणि' इति षष्ठीति वाच्यम् । तर्हि 'कर्मणि च' इति समासनिषेधापत्तेः । एवं वाचामित्यत्रापि षष्टी न युक्ता 'उभयप्राप्ती कर्मणि' इति नियमेन कर्मण्येव षष्ठीविधेः कर्तरि तदसंभवादिति । उच्यते--मनुष्यलोके प्रवेश इति 'सप्तमी-' इति योगविभागात्समासः । वाचामित्यत्र तु संबन्ध एव षष्ठी । वासंबन्धी प्रवेश इत्यर्थात् । नियमश्च प्रायिक इति न्यासकार इति दिक् । ननु विश्रामेत्यत्र 'श्रमु तपसि खेदे च' इति धातोर्विपूर्वाद्धजि कृते 'नोदात्तोपदेशस्य-' इति वृद्धिनिषेधे विश्रम इति स्यात् । मैवम् । 'वो श्रमः' इति महाभाष्यवचनाद्विपूर्वादपि श्रमेवृद्धिः । अत एव चान्द्रव्याकरणे विश्राम एव साधितः । वाचामित्यभ्यर्हितत्वाद्बहुवचनम् । 'ऋषिर्वेदे मुनी रश्मौ' इति विश्वः । 'प्रान्तरं दूरशून्योऽध्वा' इत्यमरः । खेदच्छिदमित्यत्र 'सत्सूद्विष- इति क्विपू । इदानी काव्ये प्रवृत्तत्वाकाव्यस्य शब्दार्थरूपत्वात्तस्य चासाधारणदेव- - - १ अङ्कः] अनर्घराघवम् । २३ नटः-(सहर्षम् ।) धातुश्चतुर्मुखीकण्ठशृङ्गाटकविहारिणीम् । नित्यप्रगल्भवाचालामुपतिष्ठे सरखतीम् ॥ ११ ॥ -(सहर्षम् ।) भाव, तत्प्रस्तूयताम् । अस्य हि मौद्ग- तात्वात्सरस्वती नौति-धातुरिति । सरखतीमुपतिष्ठे यजामि संगतीकरोमि वा । 'उपाद्देवपूजा-' इति तङ् । कीदृशीम् । धातुब्रह्मणो या चतुर्मुखी चतुणां मुखानां समाहारश्चतुर्मुखी तस्या ये कण्ठास्त एव शृङ्गाटकानि चतुष्पथानि तेषु विहारिणी विहरणशीलाम् । यद्वा चत्वारि मुखानि यस्यां तनौ सा चतुर्मुखी तनुः । विशेषणद्वारैव विशेष्यलाभः प्रायो दृश्यते । यथा 'निधानगर्भामिव सागराम्ब- राम्' इत्यत्र सागराम्बरत्वेन पृथिव्या एवान्वयः, तथा चतुर्मुखयोगाद्ब्रह्मतनो- रेव प्रतीतिः । तस्या ये कण्ठास्त एव शृङ्गाटकानि तत्र विहारिणीम् । न च प्रथमव्याख्याने पानादिपाठादत्र क्लीबत्वं स्यादिति वाच्यम् । तद्विधरनित्यत्वात् । यद्वा अल्पार्थे ङीप् । यथा मृणाली मण्डपीत्यादि । पुनः कीदृशीम् । नित्यं प्रगल्भा नित्यप्रगल्भा। 'द्वितीया' इति योगविभागात्समासः। नित्यप्रगल्भा च वाचाला च ताम् । बहुभाषिणीमित्यर्थः । 'आलजाटचौ बहुभाषिणि' इत्याल- विधानात् । ननु बहुभाषित्वेन सरखत्याः का स्तुतिरिति चेन्न । सरखत्या- श्चतुर्मुख विहारित्वेन पण्यस्त्रीत्वरूपणात्ताश्च प्रगल्भमेव वदन्ति । तथा च खक- मानुष्ठातृत्वात्स्तुतिरेव । यद्वा वाचां लात्यादत्ते सा वाचाला । 'टापं चापि हलन्तानाम्' इति वचनाद्वाचाशब्दस्य सत्त्वात्तस्मिन्कर्मण्युपपदे 'आतोऽनुपसर्गे कः' इति कप्रत्ययं कृत्वा रूपमेतदिति सर्व सुस्थम् । अपरे तु वाचालामुत्कृष्ट- भाषिणीम् । 'आलजाटचौ बहुभाषिणि' इति सूत्रेण योगविभागात्प्रशंसायाम- प्यालजाटचावित्याहुः । अयं च रङ्गवर्तिनावश्यं पठनीयः श्लोकः । यदाह भरतः-श्लोकं पठेदेकम्' इति । 'शृङ्गाटकं भवेद्वारिकण्टके च चतुष्पथे' इति मेदिनीकारः। 'स्याज्जल्पाकस्तु वाचालः' इति । विहारिणीमित्यत्र ताच्छीलिको णिनिः । मौद्गल्यानामित्यत्र 'तद्राजस्य बहुषु तेनैवास्त्रियाम्' इति यजो न लुक् । एकशेषेण तत्कृतबहुत्वाभावात् । ऋषय इव ब्राह्मणा ब्रह्मर्षयः। अन्वयो वंशः। मूर्धन्यः श्रेष्ठः । 'मूर्धन्यः स्याच्छिरोभूते प्रधाने श्रेष्ठसंज्ञिते' इति विश्वः। 'नामधेयं च नाम च' इत्यमरः । बालश्चासौं वाल्मीकिश्चेति समासः। बालपदेन पुराणवाल्मी- केहेंदः। वाङ्मयं कर्तृ, वाड्मयं वचनविकारो नाटकम् । विकारार्थे 'निसं वृद्धश- १. मूलपुस्तकेषु 'मौद्गल्यायनानाम्' इति पाठः, । । ।
२१ काव्यमाला। ल्यानां ब्रह्मर्षीणामन्वयमूर्धन्यस्य मुरारिनामधेयस्य बालवाल्मीका- ड्मयममृतबिन्दुनिष्यन्दि कन्दलयति कौतुकं मे । सूत्रधारः-मारिष, स्थाने भगवतः कुतूहलमीदृशमेवैतत् । तथाहि । तत्ताहगुज्ज्वलककुत्स्थकुलप्रशस्ति- सौरभ्यनिर्भरगभीरमनोहराणि । वाल्मीकिवागमृतकूपनिपानलक्ष्मी- मेतानि बिभ्रति मुरारिकवेर्वचांसि ॥ १२ ॥ । रादिभ्यः' इति मयद । कन्दलयत्यङ्कुरयति । इह कन्दलोऽङ्करं तदस्यास्तीति कन्दलवांस्तं करोतीति 'तत्करोति तदाचष्टे' इति णिच् । 'णाविष्ठवत्प्रातिपदि- कस्य' इतीष्ठवद्भावात् "विन्मतोलक्' इति मतुपो लुक् । स्थाने युक्तम् । अव्य- योऽयं स्थानेशब्दः । 'युक्तार्थे सांप्रतं स्थाने' इति विश्वः । सप्तम्यन्तमेव वा । स्थाने विषये । 'कुतुकं तु कुतूहलम्' इत्यमरः । तत्तादृगिति । एतानि मुरा- रिकवेर्वचांसि वाल्मीकेर्यद्वागेवामृतं तस्य यः कूपस्तस्य निपानलक्ष्मी कूपसमीप- स्थेष्टकादिबद्धखल्पजलाशयशोभां बिभ्रति दधति । अयं भावः-यथा कूपा- ब्यूनं निपानं तथा वाल्मीकिवचनेभ्यः किंचिन्यूनानि मुरारिवचनानीति । कीड- शानि । तत्प्रसिद्धं तादृगपूर्वगुणवदुज्वलं पवित्रं यत्ककुत्स्थकुलं ककुत्स्थः सूर्यवंशे राजविशेषस्तस्य कुलं तस्य प्रशस्तिः प्रशंसा तस्याः सौरभ्यं ख्यातत्वं मनोज्ञलं वा, तेन निर्भरमतिशयेन गभीराणि मनोहराणि चेति कर्मधारयः । अथवा प्रश. स्तिर्यशः, सौरभ्यं सौगन्ध्यम् , यशः सुगन्धीति कविसंप्रदायसिद्धम् । तथा तस्यैव श्वेतत्वम् । प्रशस्तिरिति तिच्क्तौ च संज्ञायाम्' इति तिच् । 'सौरभ्यं स्यात्तु सौगन्ध्ये सौभाग्ये गुणगौरवे। ख्याततायां मनोज्ञत्वे सौरभ्यं प्रवदन्ति हि ॥ इति विश्वः । 'प्रशस्तिश्च प्रशंसायां कीर्तावपि निगद्यते' इति धरणिः । 'आहावस्तु निपानं स्यादुपकूपजलाशये' इत्यमरः ॥ १. केषुचिन्मूलपुस्तकेषु 'तत्तादृगुज्वल-' इत्यादि श्लोकादने 'अपिच । देवीं वाच- मुपासते हि बहवः' इत्यादि श्लोको दृश्यते, स च प्रक्षिप्त इति ज्ञेयम्. अत एव टीकाकी न खीकृतः, अस्माभिस्त्वयं श्लोको ग्रन्थारम्भे टिप्पण्यां मुरारिकविप्रशंसाश्लोकेषु लिखितः• अनर्घराघवम् । (नेपथ्ये गीयते।) दिणअरकिरणुलेरो पिआअरो को वि जीअलोअस्स । कमलमउलंकवालीकिअमहुअरकड्डणविअड्डो ॥ १३ ॥ सूत्रधार (आकर्ण्य ।) कथमुपक्रान्तमेव नर्तकैः, रथोत्सङ्गादामभद्राकर्षिणो विश्वामित्रस्य प्रावेशिकी ध्रुवा । (पुरोऽवलो- क्य ससंभ्रमम् ।) अये, कथमत्रैव तत्रभवतः कमलयोनिजन्मनो मुने- ODHPURNA यदियं दश- नेपथ्ये इति । ‘रङ्गभूमेबहिःस्थानं यत्तन्नेपथ्यमुच्यते' इति भरतः। 'नेपथ्यं वर्णिका क्षितिः' इति च । अधुना नृत्योपक्रमव्याजेन प्रथमाङ्कस्य पर्यवसितमर्थ सूचयन्ध्रुवामाह-दिणअरेति । 'दिनकरकिरणोत्करः प्रियाकरः कोऽपि जीव- लोकस्य । कमलमुकुलाङ्कपालीकृतमधुकरकर्षणविदग्धः ॥' [इति च्छाया।] दिन- करकिरणोत्करः सूर्यतेजःसमूहः । अस्तीति शेषं दत्त्वा योज्यम् । कीदृशः। जीवलोकस्य प्राणिवर्गस्य कोऽप्यनिर्वचनीयः प्रियाकरः प्रियकारकः कमलमुकुलेनेष- द्विकसितकमलकलिकयाङ्कपालीकृतः क्रोडीकृतो यो मधुकरो भ्रमरस्तस्य कर्षणे बहिःकरणे विदग्धः कुशलः । तेजःसंबन्धेन कमलदलप्रकाशात् । 'अङ्कपाली परिरम्भः' इति मेदिनीकरः । प्रियाकर इत्यत्र 'सुखप्रियादानुलोम्ये' इति डान् । 'विदग्धश्चतुरे खिङ्गे नागरे कुशलेऽपि च' इति विश्वः । अधुना दिणअरेत्यादि गाथया सूचितमर्थ प्रकटयति-यदियमिति । उत्सङ्गः झोडः । प्रावेशिकी प्रवेशसूचिका । ध्रुवा गीतिभेदः। तथा च भरतः 'ध्रुवा तु गीतिभेदोऽयं वृन्द- सामा(१) निबध्यते' इति । सा च पञ्चधा। तथाहि-'प्रावेशिकी निष्कामणी परि- क्रामण्यवस्थितिः। उत्थापनी तु पञ्चम्या ध्रुवा नाट्यार्थसिद्धये ॥ तत्र प्रावेशिकी ज्ञेया प्रवेशे गानयोगतः ॥' अनया सूचनापि वृत्ता। 'असूचितस्य पात्रस्य प्रवेशो नैव युज्यते' इति भरतः । ससंभ्रमं सादरम् । अये इति सानुनये संबोधने । कमलयोनिब्रह्मा ततो जन्म यस्य तस्य वसिष्ठस्यायतनादाश्रमाकिमपि रहस्यं तस्य - - १. एकस्मिन्मूलपुस्तके 'नद्वयोस्तृतीयेन भवितव्यमिति निष्क्रान्तौ' इत्येतावदेव पाठः, भाति चायमेव पाठष्टीकाकारसंमतः. अस्माभिस्तु बहुपुस्तकानुरोधेन 'इत्यावा- मप्यनन्तरकरणीयाय सज्जीभवावः' इत्यधिकः पाठः स्वीकृतः, २६ काव्यमाला। maNIMACHAR रायतनात्प्रतिनिवृत्तेन ऋत्विजा वामदेवेन किमपि तद्वाचिकमभिधीय- मानो महाराजो दशरथस्तिष्ठति । तदेहि । न द्वयोस्तृतीयेन भवि- तव्यमित्यावामप्यनन्तरकरणीयाय सज्जीभवावः । (इति निष्क्रान्तौ ।) प्रस्तावना। (ततः प्रविशति यथोपदिष्टो दशरथो वामदेवश्च ।) दशरथः-अहो, बहुधा श्रुतमपि भगवतो वसिष्ठस्यानुशासनं नवं नवमिव प्रमोदयति माम् । वामदेवः- मधुकैटभदानवेन्द्रमेदःप्लवविस्रा विषमैव मेदिनीयम् । अधिवास्य यदि स्वकैर्यशोभिश्चिरमेनामुपभुञ्जते नरेन्द्राः ॥१४॥ वाचिकं तद्वाचिकम् । 'संदेशवाग्वाचिकं स्यात्' इत्यमरः । एह्यागच्छ । न द्वयो- स्तृतीयेनेति 'षट्कर्णो भिद्यते मन्त्रः' इत्यभिप्रायादिति । निष्कान्तौ । नटसूत्र- धाराविति शेषः । प्रस्तावना । निर्वर्तितेति शेषः । प्रस्तावनालक्षणं तु भरते- 'नटी विदूषको वापि पारिपार्श्वक एव वा । सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥ चित्रैर्वाक्यैः खकार्योत्थैर्वीथ्यकैश्चापि नाटके । प्रस्तावना हि सा ज्ञेया प्रकृतार्थोचितं वचः ॥' इति । अयमेव पूर्वरङ्गः । 'पूर्वरङ्गः सभापूजा कवेर्गोत्रा- दिकीर्तनम् । नाटकादिस्तथा संज्ञा सूत्रधारोऽप्यथो मुखम् ॥ गीतिक्रिया च वावं. च वर्णिकाग्रहणं तथा । धृतिर्जवनिकायाश्च पूर्वरङ्गश्चतुर्विधः ॥ इति ॥ दशरथः किंचित्तद्वाचिकामृतपानसंजातहर्षस्तत्प्रस्तौति-अहो बहुधेति । बहुधा बहुवारम् । 'संख्याया विधार्थे धा' इति धाप्रत्ययः । अनुशासनमाज्ञा एव । वसिष्ठवचनस्य राज्ञाविष्कारः कृतः । वसिष्ठ इति दन्यमध्यः । वसु तेजस्त- यस्यास्तीति स वसुमान् । तस्मादिष्टनि कृते ‘विन्मतो:-' इति मतोरुकारस्य च लोपे धातुपारायणे साधितत्वात् । अत एव 'प्रसृतासनानुवासनवसिष्ठरसविसोढ- विस्रब्धाः' इति गदसिंहः । आश्चर्यमजर्या तु श्लेषानुरोधेन वशिष्ट इति तालव्यश- कारो दर्शितः। प्रमोदयति हृष्टं करोति । अनुशासनमेवाह-मध्वित्यादि । इयं मेदिनी पृथिवी विषमैव दुःसाध्यैव । यद्वा अनुपभोग्यैवास्ति । कीदृशी।मधुश्च कैटभ- श्चेति द्वन्द्वः। तयोर्दानवेन्द्रयोर्मेदसो वसायाः प्लवेन प्रोक्षणेन पूरणेन वा विना आमगन्धवती अत एवाशक्यभोग्या। नरेन्द्रा राजानः खकैर्यशोभिरधिवास्य धूप- - PANNA १ अङ्कः] २७ दशरथ:- अनर्घराघवम् । (सविमर्शस्मितम् ।) सखे वामदेव, तस्याज्ञयैव परिपालयतः प्रजां मे कर्णोपकण्ठपलितंकरणी जरेयम् । यद्गर्भरूपमिव मामनुशास्ति सर्व- मद्यापि तन्मयि गुरुर्गुरुपक्षपातः ॥ १५ ॥ । - यित्वा यद्येनां पृथिवीमुपभुञ्जते तदा परमुपभुजते, नो चेदुपभुञ्जत एव नेत्यर्थः । तथा च भवन्तोऽपि यशोभिरधिवास्य भुवमुपभुञ्जन्तामिति भावः । तथा चोक्त- म्-'यशोधना हि राजानः' इति । मेदोयोगान्मेदिनीत्युचितं नाम । पृषोदरादि- त्वात्साधुः । 'स्यान्मेदस्तु वपा बसा' इत्यमरः । विसं स्यादामगन्धि यत्' इत्य- पि । 'लवः स्यात्प्लवने भेके' इति । 'अधिवासो निवासे स्यात्संस्कारे धूपनादिभिः' इति मेदिनीकारः। यशःसुगन्धिता कविसंप्रदायः । उपभुजत इति 'भुजोऽनवने' इति तङ् । स्मितमीषद्धासः। खस्य वसिष्ठाधीनत्वं प्रकटयति-तस्येति । तस्य वसिष्ठस्या व प्रजां रक्षतो ममेयं कर्णोपकण्ठे कर्णसमीपे पलितंकरणी शौक्लयका- रिणी जरा। उपस्थितेति शेषः । उपकण्ठः समीपम् । 'उपकण्ठान्तिकाभ्या- इत्याद्यमरः । पलितंकरणीत्यत्र 'आद्यसुभग-' इत्यादिना ख्युन् । 'अरुषिद- अन्तस्य-' इति मुम् 'टिड्डाणञ्-' इत्यादिना डीए । “पलितं जरसा शौक्लयम्' इत्यमरः । पलितं क्रियते यया सा पलितंकरणी। स्वस्मिन्वसिष्ठस्य स्नेहाधिक्यं द्रढयितुमाह-यदर्भरूपमिति । यदद्यापि बृहत्त्वेऽपि सति गर्भरूपमिवातिबाल- कमिव युवानमिव वा यथाकर्तव्यमनुशास्त्युपदिशति, तत्तस्माद्गुरोर्वसिष्ठस्य मयि पक्षपातोऽनुग्रहो गुरुरतिशयितः । तथा च वसिष्ठादेशो मयावश्यं कर्तव्य इति भावः । दशरथस्तु संस्कृतवाची। तदाहुः-'देवानां भूपतीनां च सचिवानां पुरोधसाम् । अमात्यवणिगादीनां पाठ्यमिच्छन्ति संस्कृतम्' इति । 'बालके तरु- णेऽपि स्याद्गर्भरूपः' इति विश्वः, 'गुरुमहति पित्रादावुपदेशकृति स्मृतः' इति १.'ऋषे' इति पाठान्तरम् ।
काव्यमाला। वामदेवः-महाराज, किमुच्यते । समानवृत्तेरपि क्वचिदेव कस्यचित्तारामैत्रकम् । तथाहि स तत्रभवान् साधारणो रघूणां गुरुभवन्नपि विशेषदृष्टिस्ते । नामोदयति कमिन्दुः कुमुदं पुनरस्य सर्वखम् ॥ १६ ॥ दशरथः-वामदेव, मम हि गुरुवचनश्रवणतृष्णामङ्कुशीकरोति श्रोत्रवृत्तिरिन्द्रियान्तरानुसारिणो हृदयमहागजस्य । तन्न किंचिदपर- मवशिष्यते । । । च । काकुत्स्थकुलसाधारणोऽपि वसिष्ठस्त्वय्येवानुरक्त इति बोधयितुमाह-समा- नवृत्तेरपि । समानवृत्तेस्तुल्यव्यापारस्य तारामैत्रकं स्वाभाविकी चक्षुःप्रीतिः । यद्वा नक्षत्रयोगकृता मैत्री। कचिदेव, न सर्वत्र । 'अक्षिपुत्र्यां च नक्षत्रे तारोक्ता वालियोषिति' इति विश्वः । तारामैनकमिति 'द्वन्द्वमनोज्ञादिभ्यश्च' इति वुजू । प्रकृते तदुपपादयति-साधारण इति । रघूणां रघोरपत्यानां साधारणो गुरु- भवन्नपि वसिष्ठस्तवकृते विशेषदृष्टिः । त्वय्यत्यन्तमनुरक्त इत्यर्थः । अत्र दृष्टान्त- द्वारोपपत्तिमाह-इन्दुश्चन्द्रः कं नानन्दयति, अपि तु बहुतरमेव । अस्य चन्द्रस्य पुनः कुमुदं सर्वखभूतम् । यद्यपि बहूनामानन्ददायी भवति चन्द्रस्तथापि कुमु- दस्यात्यन्तमिति भावः । प्रतिवस्तूपमायमलंकारः। यदाह दण्डी-वस्तु किंचि- दुपन्यस्य समानात्तत्सधर्मणः । साम्यप्रतीतिरस्तीति प्रतिवस्तूपमा मता ॥ मम हीत्यादि । मम हृदयस्य मनसः श्रोत्रवृत्तिः श्रवणव्यापारो गुरुवचनश्रवणतृष्णा- मभिलाषमङ्कुशीकरोति । अङ्कुशं कृत्वा मन आकर्षतीत्यर्थः । कीदृशस्य मनसः । इन्द्रियान्तरानुसारिण इन्द्रियान्तरानुसरणशीलस्यापि मनसः सकलेन्द्रियसंबन्धशा- लित्वात्तृष्णा मच्चित्तमिन्द्रियान्तरादाच्छिद्य श्रोत्रलग्नं करोतीति भावः । “हि हेतावव- धारणे' इति । अविशिष्यत इत्यत्र 'शिष विशेषणे' कर्मणि लट् । यद्वा 'शास इदङ्हलोः' इतीत्वम् । संग्रहः संक्षेपः । कारिका श्लोकः । 'कारिका तु कृतौ श्लोके' इति विश्वः । अनुस्मारयत्यवगमयति । न केवलं मदनुशासनादेव त्वयैवं .. । १. 'अशयति' इति पुस्तकान्तरपाठः, २. 'तत्किमपरमवशिष्यते', 'तन्न किंचि- वशिष्यते' इति च पाठः.
१ अङ्कः] अनर्घराघवम् । २९ वामदेवः-महाराज, निःशेषमभिहितम् । इमां तु सर्वसंदेश- संग्रहकारिकां कारिकामतिप्रयत्नेन भगवान्भवन्तमनुस्मारयति । दशरथ:--(सादरम् ।) अवहितोऽस्मि । किमाज्ञापयति । वामदेव:- हुतमिष्टं च ततं च धर्मश्चायं कुलस्य ते । गृहात्प्रतिनिवर्तन्ते पूर्णकामा यदर्थिनः ॥ १७ ॥ दशरथ:-(सहर्षम् ।) सुष्टु शिरसि कृतमाचार्यवचनम् । mama किं च। । .. अस्मद्गोत्रमहत्तरः ऋतुभुजामद्यायमाद्यो रवि- यज्वानो वयमद्य ते भगवती भूरद्य राजन्वती । अद्य खं बहुमन्यते सहचरैरस्माभिराखण्डलो येनैतावदरुन्धतीपतिरपि खेनानुगृह्णाति नः ॥ १८ ॥ वक्ष्यमाणं कर्तव्यं किंतु भवत्कुलायातोऽप्ययं धर्म इत्याह-हुतमित्यादि । हुतं होमः देवतोद्देशेन वह्नयादौ हविस्त्यागः । इष्टमग्निहोत्रादि । तप्तं तपः । अयं तव वंशस्य धर्मः स्वभावः । यच्चार्थिनः प्रार्थकाः पूर्णकामाः संपूर्णेच्छाः सन्तस्तव गृहात्प्रतिनिवर्तन्ते प्रतिनिवृत्ता भवन्ति सोऽपि भवत्कुलधर्म एव । अनेन रामप्रार्थनासाफल्यं सूचितम् । 'अग्निहोत्रं तपश्चैव वेदाभ्यासस्तथैव च । आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥' इति स्मृतिः। 'कामः पुंसि स्मरे- च्छयोः' इति शाश्वतः । 'सुष्ठ प्रशंसने' इत्यमरः । हुतमित्यादिवाक्यस्य तात्पर्य- विषयीभूतरामचन्द्रप्रदानजन्यविश्लेषजन्यदुःखाविमर्षणात्सामान्यतो वसिष्ठानुशा- सनत्वेन हर्षमाविष्करोति-अस्मादित्यादि । अद्य रविः सूर्यः ऋतुभुजां देवा- नामाद्यः प्रथमः । श्रेष्ठ इति यावत् । अस्मदोत्रमहत्तरो रघुवंशवृद्धः । यद्वा देवानामाद्यो रविरद्यास्मद्गोत्रमहत्तरोऽतिमहत्त्ववान् । अद्य ते प्रसिद्धा वयं यज्वानो याज्ञिकाः । अद्य भूः पृथ्वी राजन्वती प्रकृष्टराजयुक्ता । अद्याखण्डल इन्द्रोऽस्मा- भिः सहचरैः स्वमात्मानं बहु यथा स्यादेवं मन्यतेऽत्युत्कृष्टं जानाति । येन हेतु- १. किमाशापयन्ति गुरव इति' इति पाठान्तरम्. २. 'नो भगवती' इति पाठान्तरम् ।
my अनुभाव: प्रभावः। काव्यमाला। वामदेव:-राजर्षे, सहजानुभावगम्भीरमहिमानो यूयमेव ताह- शाय यशसे । वयं तु केवलमुपदेष्टारः। उन्मुद्रयति हि कुमुदाकरमशरन्निशानिशातनिस्तुषोऽपि तुषार- किरणः । स पुनः किमुच्यते भगवान्द्वितीयपरमेष्ठी वसिष्ठः ॥ १९ ॥ नारुन्धतीपतिरपि वसिष्ठोऽपि खेनात्मना नोऽस्मानेतावदर्थम् । यद्वानुग्रहखरूप- क्रियाविशेषणम् । अनुगृह्णाति । यज्वान' इत्यत्र 'सुयजो निप्' । राजन्वतीत्यत्र 'राजन्वान्सौराज्ये' इति निपातनान्चलोपाभावो वत्वं च । 'उगितश्च' इति डीम् । अनुगृह्णातीत्यत्र 'ऋवर्णाच' इति णत्वम् । 'बहिर्मुखाः ऋतुभुजः' इत्यमरः। 'यज्वा तु विधिनेष्टवान्' 'सुराशि देशे राजन्वान्' इत्यपि । 'गोत्रं नाम्नि कुले. तादृशाय यशसे । अलमित्यध्याहार्यम् । वयं वसिष्टादयः। केवलं यशसे यशोथ. मुपदेष्टारः वसिष्ठादिष्टार्थानुष्ठानार्थ वसिष्ठस्यैवाप्तत्वं द्रढयितुमाह-उन्मुद्रयती- ति । शरदो निशा रात्रिस्तया निशातस्तेजितः । प्रसन्नीकृत इति यावत् । अत एवं निस्तुषो मेघावनावृतः । निर्मल इति यावत् । शरनिशानिशातनिस्तुष इति समासः । पश्चानना समासेऽशरन्निशानिशातनिस्तुषोऽपि तुषारकिरणः शीतरश्मिः कुमुदाकरं कैरवसमूह कैरवस्थानं वा उन्मुद्रयति प्रकाशयति । शारदशुक्लपक्षे कुमुद- प्रबोधवर्णनमिति कविसंप्रदायः । स पुनर्वसिष्ठो द्वितीयपरमेष्ठी द्वितीयब्रह्मा किमुच्यते । अपि तु स सर्वाधिकोऽवश्यं कुमुदाकरं प्रकाशयत्येव । कोः पृथिव्या मुद्धर्षः कुमुत्, तस्या आकरः स्थानं दशरथस्तम् । कीदृशो वसिष्ठः । शरत्संव- त्सरतस्य निशायां निशातः प्रबुद्धः शरन्निशानिशातः, न शरन्निशानिशातोऽशरनि- शानिशातः । ध्यानाश्रयत्वात् । ततो निस्तुषो निर्मलः पापशून्यत्वात् । द्वयोः कर्मधारयः । इदं तु कुमुदाकरं नाम वृत्तम् । 'एकादशभिर्वणैरष्टादशभिः क्रमा- दुभौ पादौ । तत्कुमुदाकरवृत्तं चरमौ तु दशाक्षरौ यस्य ॥ द्वितीयपादे छन्दोविरोधश्चिन्त्यः । 'आकरः श्रेष्ठनिवहाबुत्पत्तिस्थानमाकरे' इति धरणिः । निशातेति 'शो तनूकरणे' क्तः । 'परमेष्ठी पितामहः' इत्यमरः । वसिष्ठ इति पदेन - । - १. केवलमुपदेष्टारो वयम्', 'केवलं वयमुपदेष्टारः' इति च पाठान्तरम्, Sayapat sound अङ्कः] अनर्घराघवम् । अपि च। इदं वो याज्यानामुदितमुदितं यत्कुलमभू- द्यदिष्टं वा कुर्वन्नकृत सगरः पूर्तमुदधिम् । असौ पूर्वेषां ते सुचरितपताका यदमर- स्रवन्ती कृत्स्रोऽयं त्रिभुवनगुरोस्तस्य विभवः ॥२०॥ किं च। कौशिकस्वीकृतस्यापि यदाज्ञातिक्रमादभूत् । त्रिशङ्कोरुपभोगाय न द्यौरपि न भूरपि ॥ २१ ॥ तेजखित्वमुक्तम् । ननु वसिष्ठस्य द्वितीयपरमेष्ठित्वेऽपि किमायातमस्माकमिति दशरथवचनमाशझ्याह-इदमिति । अयं कृत्स्नः सकलस्तस्य त्रिभुवनगुरोस्त्रि- लोकीमान्यस्य वसिष्ठस्य विभवः प्रभावः । किमित्याह-वो युष्माकं याज्यानां कुलमिदमुदितमत्यर्थ प्रथितम् । यद्वा उदितमुदययुक्तम् । मुदितं हृष्टम् । पश्चा- स्कर्मधारयः । अभूदिति भूतसामान्य विवक्षायां लुङ् । यच्च इष्टं चागं कुर्वन्सगरो राजा उदधिं समुद्रं पूर्त खातमकृत कृतवान् । यच्चासावमरखवन्ती देवनदी गङ्गा तव पूर्वेषां भगीरथस्य सुचरितपताका । शोभनव्यापारवैजयन्तीत्यर्थः । तथा च वसिष्ठादेशः सर्वथा कर्तव्य इति भावः । 'पूर्त त्रिषु पूरिते स्याक्लीबं खातादिकं मतम्' इति मेदिनीकरः। 'पताका वैजयन्ती स्यात्' इति च । 'सवन्ती निन्न- गापगा' इत्यमरः । 'पृभूम्नि पूर्वजेषु स्यात्पूर्वः प्रागाद्ययोस्त्रिषु' इति धरणिः । एतावतापि तस्याज्ञान्यथाकरणे निशङ्कुदृष्टान्तेन त्रासयन्कौशिकप्रवेशसूचनामाह- किं चेति । यस्य वसिष्ठस्याज्ञातिकमात्कौशिकस्खीकृतस्यापि विश्वामित्रानुमतस्यापि त्रिशङ्कोरुपभोगार्थम् । तादर्थं चतुर्थी । न द्यौरपि स्वर्गोऽपि, न वा भूः पृथि- व्यप्यभूदित्यर्थः । पुरा किल त्रिशङ्कुः क्षत्रियो राजा खदेहेन खर्ग गन्तुकाम इष्टिं कर्तुं वसिष्ठं वृतवान् । स तेन परिहृतः । पश्चात्तत्पुत्रांतदर्थ वृतवान् । तैरपि त्यक्तः । ततः कौशिकमुनिमनुगतं वीक्ष्य चण्डालत्वेनाभिशप्तः। ततोऽस्यै वंविधस्यापि यज्ञारम्भे देवगणानामामन्त्रणेऽप्यनागमनादन्यथा सृष्टिं कुर्वन्को- शिको ब्रह्मणा प्रसादितस्त्रिशहूं खपुण्यभागेन खर्ग प्रेषितवान् । ततश्चाण्डालोऽपि वर्गमधिरोहतीलनहतयेन्द्रेण हुंकारकरणात्तस्मात्पातितो द्यावापृथिव्योरन्तराले ३२ काव्यमाला। प्रतीहारी-जयतु जयतु देवः । देव, भगवान्कौशिको द्वार- मध्यास्ते। दशरथ:-(ससंभ्रमम् ।) किं कौशिकः । वामदेव:-अहं तमुपैत्य श्रौतेन विधीना पुरस्कृत्य प्रवेशयामि तपोनिधिम् । (इति पँतीहार्या सह निष्क्रान्तः।) दशरथ:--(सहर्षम् ।) । । यः क्षत्रदेहं परितक्ष्य टङ्कस्तपोमयैाह्मणमुच्चकार । परोरजोभिः स्वगुणैरगाधः स गाधिपुत्रोऽपि गृहानुपैति ॥ २२ ॥ लम्बमानः स्थितः-इति पुराणे व्यक्तम् । 'त्रिशङ्कुर्ना राजभेदे शलभे वृषदं- शके । तुरुष्कसिहके म्लेच्छजातौ देशान्तरेऽपि च ॥ इति विश्वः । प्रविश्य प्रतिहारीति । तल्लक्षणं तु 'संधिविग्रहसंवन्धं नानाचारमुपस्थितम् । निवेद- यन्ति याः कार्य प्रतीहार्यस्तु ता मताः ॥ इति । द्वारमध्यास्त इति 'अधिशीङ्- स्थासां कर्म' इति कर्मसंज्ञा । द्वारि तिष्ठतीत्यर्थः । अनादिष्टोऽप्यति विज्ञतया राजा- भिप्रायज्ञः प्राह-अहमित्यादि । उपेत्य गत्वा । श्रौतेन वेदोक्तेन । पुरस्कृ- येति 'पुरोऽव्ययम्' इति नित्यं गतिसंज्ञायां सत्यां ल्यबादेशः । अतिदुष्प्रापस्य प्राप्त्या खशुभहेतुतामभिज्ञाय सहर्ष तर्कयन्नाह-य इत्यादि । स गाधिपुत्रो- ऽपि कौशिकोऽपि गृहान्गृहमुपैयायाति । अपिरत्युत्कर्षसूचनाय । स कः । यस्त- पोमयैस्तपःप्रचुरैस्तत्प्रकृतिभिर्वा टकैः पाषाणदारणैः । 'टांकी' इति प्रसिद्धैः । क्षत्रदेहं क्षत्रियशरीरं परितक्ष्य तनूकृत्य । खण्डीकृत्येति यावत् । ब्राह्मणशरीर ब्राह्मणजातिसंबद्धमुच्चकार कृतवान् । परोरजोभी रजसः परैः सात्त्विकैः । जात्या- ख्यायां बहुवचनम् । 'पारस्करप्रभृतीनि च' इति सुद निपातितः । यद्वा रजोगुण आद्यो गुणस्तस्मात्परे ये सात्त्विकास्तामसाश्च तत्वरूपैः स्वगुणैरगाधो गभीरः। सात्त्विकतामसगुणसद्भावात्कौशिकस्यानुग्रहयोग्यता क्रोधशालिता च प्रका- शिता । परोरजस इति सुप्सुपेति समासः । परितक्ष्येति 'तक्षु त्वक्षु तनूकरणे' १. 'प्रतीहारः' इति पाठान्तरम्. २. 'जयति जयति देवः', 'जयतु देवः' इति च पाठान्तरम्. ३. 'किं कौशिकः' इत्यस्सादने केषुचित्पुस्तकेषु 'प्रतीहार:-अथ किम्' इत्यधिकं दृश्यते. ४. 'प्रतीहारेण सह' इति मूलपुस्तकेषु पाठः. ।
D १अः] अनर्घराधवम् । ३३. (ततः प्रविशति वामदेवोपदिश्यमानवमा विश्वामित्रः विश्वामित्र:-सखे वामदेव, त्वमधुनैव वसिष्ठाश्रमादागतोऽसि । कचित्कुशली तावदरुन्धतीनाम्ना पतिव्रतामयेन ज्योतिषा सहचरित- धर्मा तत्रभवान्मत्रावरुणिः । वामदेवः-विशेषेण पुनरद्य याज्यकुलमुपतिष्ठमाने चिरंतनप्र- णयिनि कौर्शिके। विश्वामित्र:-सखे वामदेव, चिरेण दशरथो द्रष्टव्य इति सर्व- मनोरथानामुपरि वर्तामहे । वामदेव:-(सविनयम् ।) भगवन्कुशिकनन्दन, धन्यः खल्वयं राजा सावित्रो यमेवमनुरुध्यन्ते भवन्तोऽपि । ल्यप् । ब्राह्मणमिति जातिपरम् । तेन ब्रह्मण इदं ब्राह्मणमित्यणि कृते 'ब्राह्मोऽजातो' इति टिलोपो न भवति । यद्यपि विशुद्धमातापितृयोनिजत्वं ब्राह्मणत्वमिति सर्वतात्रि- कसिद्धं तथापि क्षत्रियजातस्य परशुरामस्य योजनगन्धाजातस्य व्यासस्य च ब्राह्मण्यं तपःप्रभावाद्यथा तथास्यापीत्यदोषः । अचिन्त्यो हि तपःप्रभावः । को हि सागर- मगस्त्य इव पिबेदिति । 'गृहाः पुंसि च भूम्येव' इत्यमरः । 'टङ्कः पाषाणदारणः' इति च । 'रजोगुणे रजो रेणुः' इति विश्वः । 'अगाधमतलस्पर्शम्' इति । तपोमयेत्यत्र 'तत्प्रकृतवचने मय । विश्वामित्र इत्यत्र विश्वस्य मित्रं विश्वामित्रः । 'मित्रे चाँ' इति दीर्घः । तथा च पुंलिङ्गोऽपि मित्रशब्द इत्यवधेयम् । यद्वा विश्वं मित्रं यस्य । पूर्ववदीर्घत्वम् । 'कच्चित्कामप्रवेदने । काममपेक्षितं निवेदयेत्यर्थः । कुशली कुश- लयुक्त इति । ज्योतिरिव ज्योतिः पतिव्रतात्वम् । सहचरितधर्मेति । 'धर्मादनि- च्केवलात्' इत्यनिसमासान्तः । मैत्रावरुणिर्वसिष्ठः । अर्थतः स्तुवन्नाह-विशे- घेणेत्यादि । याज्यकुलमुपतिष्ठमाने यजमानगृहं लब्धुमिच्छति । 'वा लिप्सा- याम्' इति तङ् । चिरंतनप्रणयिनि पूर्वप्रेमवति । 'सायंचिरम्-' इति ट्युः तुद च । 'प्रियसुहृदि' इति पाठे प्रियः प्रीतः । 'इगुपधज्ञाप्रीकिरः कः' इति १. 'वामदेव' इत्यस्सादने 'कथय' इत्यधिकं क्वचित, २. विश्वामित्रे' इति पाठा- न्तरम् ३. भगवन्तोऽपि' इति पाठान्तरम्: ३अ०रा० । - । - काव्यमाला। विश्वामित्र:-सखे, धन्य एवायम् ! नमन्नृपतिमण्डलीमुकुटचन्द्रिकादुर्दिन- स्फुरचरणपल्लवप्रतिपदोक्तदोःसंपदा । अनेन ससृजेतरां तुरगमेधमुक्तभ्रम- तुरंगखुरचन्द्रकप्रकरदन्तुरा मेदिनी ।। २३ ।। (पुरोऽवलोक्य सहर्षम् ।) चिरादक्ष्णोर्जाड्यं शमयति समस्तासुरवधू- कचाकृष्टिक्रीडाप्रसभसुभगंभावुकभुजः । कः । सुहृच्छोभनं हृन्मनो यस्य । पश्चात्कर्मधारयः । कौशिक इत्यत्र 'यस्य च भावेन भावलक्षणम्' इति सप्तमी । अनुरुध्यन्ते कामयन्ते । 'अनोरुध कामे इत्यस्मात् श्यन् दैवादिकः । सावित्रः सवितुरपत्यम् । धन्यः कथमयमित्यत आह-नमदित्यादि । अनेन राज्ञा दशरथेन मेदिनी पृथिवी तुरगमेधोऽश्व- मेधो यज्ञस्तदर्थ त्यतोऽनन्तरं भ्रमन्यस्तुरंगोऽश्वस्तस्य यः खुरचन्द्रकप्रक- रश्चन्द्रकलाकारखुरसमूहस्तेन दन्तुरा निनोन्नता ससृजेतरामत्यर्थेन सृष्टा । कर्मणि लिटू । 'तिडव' इति तरए । 'किमेत्तिडव्ययघादाम्वद्रव्यप्रकर्षे इत्यामुः । कीदृशेन । नमन्ती या राजमण्डली । 'मण्डलं त्रिषु' इत्यमरः । तस्या या मुकुटचन्द्रिका शिरोलंकारज्योत्स्ना तया यहुर्दिनमिव दुर्दिनं तेन स्फुरन्य- श्चरणपल्लवस्तेन प्रतिपदं पदे पदे स्थाने स्थाने उक्ता कथिता दोःसंपदाहुबलं यस्य तादृशेन । यद्वा प्रतिपदोक्तं व्यक्तोदितम् । यद्वा प्रतिपदोक्तं कण्ठोत्तम् । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । 'मेघच्छन्नेऽह्नि दुर्दिनम्' इति च । 'दोर्दोषा च भुजा भुजः' इत्यपि । 'दन्तुरस्तूनतदन्ते तथोन्नतनतेऽपि च' इति मेदिनी- कारः । इदानीमस्य शूरत्वं प्रकटयन्नाह-चिरादिति । अयं दशरथोऽक्ष्यो- श्चक्षुषोजराज्यं जडतां विषयाग्राहकत्वं शमयति । उत्फुल्लनेत्रतामातनुत इत्यर्थः । समस्तदैत्यस्त्रीकचाकृष्टिः केशाकर्षणं सैव क्रीडा तया प्रसभं हठेन सुभगंभावुको मनोहरीभूतो भुजो बाहुर्यस्य । तथा त्रयाणां लोकानां समाहारस्त्रिलोकी तत्र जवालमतिशीघ्रगं - यदुज्वलं साहजिकं तेजस्तद्यस्यास्ति सः सुत्राम्ण इन्द्रस्य विजयसहकृत्वा विजयसहकारी । द्वितीयः सुभगंभावुक इत्यत्र असुभगः" ।
- । १ अङ्कः]] अनर्घराघवम् । ३५ त्रिलोकीजङ्घालोज्वलसहजतेजा मनुकुल. प्रसूतिः सुत्राम्णो विजयसहकृत्वा दशरथः ॥ २४ ॥ सखे वामदेव, इयमनेन पीयूषतुषारसीकरासारवर्षिणी सुजनसंवाद- कौतुकमेघलेखा पौरस्त्येनेव मरुता लोकनाथेन सहस्रशिखरी क्रियते । वामदेव:-भगवन् , अद्य खलु दिलीपकुलकुशलकर्मकल्पलता- सुभगो भवतीति 'कर्तरि भुवः खिष्णुच्खुको' इति खुकञ् । 'अरुषिदजन्त- स्य-' इति मुम् । जङ्घाल इत्यत्र 'प्राणिस्थादातो लजन्यतरस्याम्' इति लन् । 'जङ्घालोऽतिजवस्तुल्यौ' इत्यमरः । 'सुत्रामा गोत्रभिद्वज्री' इति च । सहकृत्वेति सह करोतीत्यर्थे 'सहे च' इति क्वनिप् । इयमनेनेति । इयं सुजनानां महतां यः संवादो मिथोभाषणं तत्र यत्कौतुकं तदेव मेघलेखा मेघश्रेणी। पौरस्त्येन प्राचीभवेन । यद्वा पुरःस्थितेन । मरुतेव मरुता देवेनेव लोकनाथेन दशरथेन सहस्रशिखरी. क्रियते । विस्तीर्णा क्रियत इत्यर्थः । अन्यापि च मेघलेखा मरुता वायुना विस्तीर्यते । 'शिखरं शैलवृक्षाप्रविस्तारेष्वपि दृश्यते' इति विश्वः । यद्वा यद्य- यमेतादृशो मित्रं तत्कथमतिचिरेणास्य दर्शनं क्रियत इति वामदेववचनमाशय चिरदर्शने निमित्तमाह-इयमनेनेति । अनेन लोकनाथेन दशरथेन यः सुजन- संवादस्तजन्यं यत्कौतुकं तदेव मेघलेखा मेघश्रेणी पौरस्त्येन पूर्वदिगीशेन मरुता देवेनेन्द्रेण सह । सहस्रशिखरीक्रियते । तथा च क्षणमप्येनमिन्द्रो न त्यजतीति भावः । कीदृशी । पीयूषमेव यत्तुषारं हिमं तस्य सीकरोऽम्बु- कणस्तस्यासारो धारासंपातस्तद्वर्षिणी । अमृतवर्षिणीत्यर्थः अन्यापि मेघलेखा तुषारासारवर्षिणी पौरस्त्येन मरुता पूर्ववातेन सहस्रशिखरीक्रियत इतस्ततः क्षिप्यत इति ध्वनिः । पौरस्त्येनेत्यत्र 'दक्षिणापश्चात्पुरसस्त्यक्' । 'सीकरोऽम्बुकणाः स्मृताः' इत्यमरः। 'मरुतौ पवनामरौ' इति च । 'धारासंपात आसारः' इत्यपि । कुशलकर्माण्येव कल्पलता इति रूपकम् । 'ग्रन्थिर्ना पर्व. परुषी' इत्यमरः । उदीयन्ते प्रकाश्यन्ते । सनातनो नित्यः । नरेन्द्रायेसत्र 'स्पृहेरीप्सितः' इति संप्रदानता । इक्ष्वाकुर्मनुवंशजो राजा । 'तस्यापत्यम्' इत्यण् । 'दाण्डिनायन-' इत्यादिना टिलोपः । भगवन्निति । 'आयति नृपतिर्विप्रं तथायुष्मन्निति द्विजः । भगवन्नाह राजा तं राजनिति तपोधनः॥'
काव्यमाला । नामङ्कुरग्रन्थिभिरुदीर्यन्ते किसलयानि । यदनभवानपि त्रिभुवनसनात- नगुरुरेवमस्मै नरेन्द्राय स्पृहयति । (इति परिकामतः।) दशरथ:--(सहर्ष ससंभ्रममासनादुत्थायोपसल च ।) भगवन्कुशि- कनन्दन, ऐक्ष्वाकः पतिरथोऽभिवादयते। विश्वामित्र:- स्वस्ति भवते सपरिवाराय । (इति सर्वे यथोचितमुपविशन्ति ।) दशरथ:-(संप्रश्रयम् ।) भगवन्विश्वामित्र, कञ्चित्कान्तारभाजां भवति परिभवः कोऽपि शौवापदो वा प्रत्यूहेन ऋतूनां न खलु मखभुजो भुञ्जते वा हवींषि । इति भरतः । पतिरथ इति पतिशब्दो दशसंख्यावाचको लक्षणया दशरथे वर्तते। 'गुरोर्नाम न गृह्णीयादात्मनः कृपणस्य च' इति निषेधाद्दशरथ इति साक्षा- नोक्तम् । पतिर्दशाक्षरच्छन्दोदशसंख्यालिघु स्त्रियाम्' इति मेदिनीकरः । खस्ति कुशलम् । 'वस्त्याशीःक्षेमपुण्यादौ' इति विश्वः । भवते इत्यत्र 'नमःस्वस्ति- इत्यादिना चतुर्थी । 'परिवारः परिजने खड्नकोषेऽपि जङ्गमे' इति विश्वः । सपरिवारायेति सह परिवारेण वर्तत इति । 'तेन सहेति तुल्ययोगे' इति समासः। 'वोपसर्जनस्य' इति सहस्य सः । ननु 'प्रकृत्याशिषि', 'अगोवत्सहलेषु' इत्या- शीविवक्षायां प्रकृतिभावप्राप्या सहभाव एव भवेत्, न तु सभाव इति । अत्र केचित् । इहाशीविवक्षाया अभावात्स्वस्तीत्यादिना प्रश्नस्यैव करणात् । अन्ये त्वाशी- विवक्षैवात्र, न तु प्रश्नः, तेन 'सहपरिवाराय' इत्येव पाठः । अनयोरुत्तरः पक्षः साधीयानिव । दशरथाभिवादनानन्तरं विश्वामित्रस्याशीर्दानस्यैवोचितत्वात् । अत एव 'कच्चित्कान्तारभाजाम्' इत्यादिना प्रश्रयपूर्वकं दशरथप्रश्नोऽपि संगच्छत इति । अन्यथा प्रश्नानन्तरमुत्तरदानस्यैवोचितत्वादिति विश्वामित्रस्यागमननिमित्त विकल्पयन्नाह-कञ्चिदिति । कञ्चित्कथय कान्तारभाजां महारण्यवासिनां कोऽपि शौवापदः श्वापदकृतः परिभवोऽभिभवो भवति यस्माद्धेतोः संप्राप्तोऽसीति १. 'उद्भगीर्यन्ते' इति पाठान्तरम्. २. 'सप्रणयम्' इति पाठान्तरम्.
अनर्घराघवम् । कर्तुं वा कच्चिदन्तर्वसति वसुमतीदक्षिणः सप्ततन्तु- यसंप्राप्तोऽसि किं वा रघुकुलतपसामीदृशोऽयं विवर्तः ॥२५॥ विश्वामित्र:-(विहस्य ।) जनयति त्वयि वीर दिशां पतीनपि गृहाङ्गनमात्रकुटुम्बिनः । रिपुरिति श्रुतिरेव न वास्तवी प्रतिभयोन्नतिरस्तु कुतस्तु नः॥२६॥ सर्वत्र प्रश्ने योज्यम् । यद्वा कान्तारभाजां दुर्गवमसेविनाम् । दस्यूनामिति यावत् । परिभवोऽभिभवः कोऽप्यनिर्वचनीयोऽस्ति । शौवापदो वाभिभवोऽस्ति । अथवा ऋतूनां यज्ञानां प्रत्यूहेन विन्नेन मखभुजो देवा हवींषि हवनीयद्रव्यं घृतादि न खलु भुजते न वा भक्षयन्ति खलु । जिज्ञासामाह-अयं नखलुशब्दो वितर्के वा। वसुमती पृथ्वी दक्षिणा यस्य तादृशः सप्ततन्तुर्यज्ञो वान्तर्मनसि वर्तते । किमर्थमित्यपेक्षायामाह-कर्तुमिति । अत्र कर्तुमित्यस्यापेक्षया यज्ञस्य यद्यपि कर्मत्वं तथा चानभिहिते कर्मणि द्वितीयायां सप्ततन्तुमिति युज्यते । तथापि वस- तीति प्रधानक्रियया प्रथमसंबन्धात्तदपेक्षया यज्ञस्य कर्तृत्वेऽभिहिते कर्तरि प्रथ- भैव भवति । प्रधानक्रियान्वयस्याभ्यर्हितत्वादित्यवधेयम् । तथा चाचार्यकारि- काप्यत्र-'यदेवोक्तं विशेष्येण तिडा वा यदि वा कृता । विशेषणक्रियानुक्त- मप्युक्तं तद्भवेदिति ॥' इति । आनीय गुरुः पूज्यते, आमन्त्र्य ब्राह्मणो भोज्यत इत्यस्योदाहरणम् । पृथ्वीदक्षिणं यज्ञं वा कर्तुं मनो वलत इति तात्पर्यम् । किं वा न परिभवः, न वा ऋतुप्रत्यूहः, न वा यज्ञारम्भः, किं च रघुवंशतपसामी- दृशः परिणामो यत्त्वमसद्गृहमागतोऽसीति भावः । शुन इव पदमस्येति श्वापदो व्याघ्रः। 'अन्येषामपि दृश्यते' इति दीर्घः । 'तस्येदम्' इत्यणि 'द्वारादीनां च' इत्यैचि शौवापदमिति रूपम् । 'शौवापदो वः' इति पाठे वो युष्माकं कान्तारभा- जामित्यन्वयः । 'कान्तारोऽस्त्री महारण्ये बिले दुर्गमवमनि' इति मेदिनीकरः । 'विन्नोऽन्तरायः प्रत्यूहः' इत्यमरः। 'सप्ततन्तुर्मखः ऋतुः' इति च । 'विवर्तः परिणामे स्यात्' इति मेदिनीकरः । रामभद्रप्राप्तिरूपस्वकार्यसिद्ध्यर्थ दशरथं स्तोतु- मुपक्रमते-जनयतीति । इह 'जनीजष्' इति मित्संज्ञा । 'मितां ह्रखः' इति हखः । हे वीर, दिशां पतीनपि दिक्पालानपि । यद्वा दिशां नराणां पतीनृपः तीन् । 'वैश्यप्रेष्यनरा दिशः' इति धरणिः । गृहाङ्गनमात्रकुटुम्बिनो गृहाङ्गन- । । । H ३८ काव्यमाला। m । अपि च। दत्तेन्द्राभयविभ्रमाद्भुतभुजासंभारगम्भीरया त्वद्वृत्त्या शिथिलीकृतस्त्रिभुवनत्राणाय नारायणः । अन्तस्तोषतुषारसौरभमयश्वासानिकापूरण- प्राणोत्तुङ्गभुजंगतल्पमधुना भद्रेण निद्रायते ॥ २७ ॥ मात्रावस्थायिनः । त्वद्भयात्त्वदीयाङ्गनावस्थितत्वात् । त्वयि जनयति सति रिपुः शत्रुरिति वास्तवी वस्तुसिद्धा श्रुतिरेव न श्रवणमेव न । तुशब्दः पुनरर्थे । नोऽस्माकं प्रतिभयं शत्रुप्रभृतित्रासस्तदुन्नतिस्तदुत्थानं कुतोऽस्तु । अपि तु न कुतोऽपीति भावः । मात्रपदेन तेषामकिंचित्करत्वं सूचितम् । अत्रानशब्दो णकारान्त इति केचित्पठन्ति, तदप्रामाणिकम् । न च पृषोदरादिपाठेन णत्वमिति वाच्यम् । पृषोदरादिपाठे प्रमाणाभावात् । तथाविधानुप्रासयमकादेरदर्शनात् । प्रत्युत 'तवर्गपञ्चमोपान्तमङ्गनं केवलं विदुः' इति शब्दभेददर्शनात् । 'अङ्गनं प्राङ्गणे याने कामिन्यामङ्गना मता' इति मेदिनीकरादिकोषे नान्तवर्गे तस्य पाठा- चेत्यवधेयम् । 'भयंकरं प्रतिभयम्' इत्यमरः । 'प्रतिश्रयः सभायां वाश्रये प्रति- भयं भये' इति विश्वः । पुनः स्तुतिमाह-दत्तेत्यादि । न भयमभयम् , विभ्रमो विलासः, अद्भुतमाश्चर्यम् , विभ्रमस्याद्भुतं विभ्रमाद्भुतम् , अभयं च विभ्र- माद्भुतं चेत्यभयविभ्रमाद्भुते । इन्द्रेण सह षष्ठीसमासः । दत्ते इन्द्राभयविभ्रमाद्भुते यया भुजया तादृशी च भुजा चेति कर्मधारये 'त्रियाः-' इत्यादिना पुंवद्भावः । तस्याः संभारो धारणं पूर्णत्वं वा तेन गम्भीरयानाकलितखरूपया त्वद्वृत्त्या त्वदी- यशौर्यादिव्यापारेण नारायणस्त्रिभुवनरक्षायै शिथिलीकृतः सन् । उक्तं च-'सृज- त्यजो रक्षति शाङ्गपाणिः' इति । अन्तस्तोषेणाभ्यन्तरहर्षेण यस्तुषारसौरभमयः शीतलः सुगन्धिश्च तथाविधः श्वासानिलश्चेति समासः । तेनापूरणं पूर्तिर्यस्य प्राणस्य वातविशेषस्य तेनोत्तुङ्ग उच्छ्तिो यो भुजंगः सर्पः स एव तल्पं शयनीयं १. 'इहाङ्गणपदेऽनुविधायकाभावाण्णत्वश्रुतिरयुक्ता' पृषोदरादित्वाण्णत्वमित्यपि वचोऽमूलकमेव, प्रत्युत 'अङ्गनं प्राङ्गणे जाले कामिन्यामङ्गना मता' इति विश्वादि- कोषात् 'तवर्गपञ्चमोपान्तमङ्गनं केवलम्' इति शब्दप्रकाशाच्च नान्तत्वमेवेत्सवधेयमिति भालतीमाधवटीकायां प्रथमाके जगद्धरः, ।
१ अङ्कः] अनपराघवम् । दशरथ:-(सवैलक्षलितम् ।) भगवन्विश्वामित्र, अभ्यमित्री- णस्य तत्रभवतः सुनासीरस्य नासीरपूरकेण पदातिपरमाणुना मयापि कदाचिदुद्धृतं धनुर्यन्मूलोऽयमलीकलोकप्रवादो भवन्तमप्याप्याययति । विश्वामित्र:-(सोत्साहस्मितम् ।) सखे, । । । यथा स्यादेवम् । अधुना संप्रति । भद्रेण सुखेन । रक्षाव्याकुलतारहितत्वात् । निद्रायते । निद्रां करोतीत्यर्थः । अयमभिप्रायः-शेषे शेते भगवान् , सर्पस्य च वायुर्भक्ष्यः, तथा च श्वासानिलभक्षणात्तस्य खास्थ्य उपजायमाने देहस्य समत्वं जातम् , तेन भगवतः सुखेन निद्रा भवतीति । एतेनेन्द्रादीनामभयदातृत्वे- नास्मदादीनामभयप्रदातृत्वं भवतामीषत्कर मिति भावः । 'तुषारः शीतलः शीतः' इत्यमरः । 'दोर्दोषा च भुजा भुजः' इत्यपि। 'तल्पं तु शयनीये स्यात्' इति धरणिः ।। निद्रायत इति 'कर्तुः क्यङ्' इति क्यङ् । सवैलक्षमिति । वलक्षं संकोचः । त्रिभुवनशिरोलंकारभूतोऽपि मामयं विश्वामित्रः केशवेन्द्राभ्यामर्हणीयाभ्यामु- स्कर्षयतीत्यत्राश्रवणश्रवणयोरप्यनौचित्यमित्युभयतःपाशा रजुरिति भावः । अत्र तावत्प्रथमपाशमपासयितुं स्मितमिति । 'सोत्प्रासः स मनास्मितम्' इत्यमरः । 'अलक्ष्यदशनद्वार स्मितमिच्छन्ति सूरयः' इति भरतः । द्वितीयपाशमपासय्- बाह-अभ्यमित्रीणस्येत्यादि । अभ्यमित्रीणस्य शत्रोरलमभिमुखं गच्छतः। 'अभ्यमित्राच्छ च' इति चकारात्खः । 'यो गच्छत्यलं विद्विषतः प्रति । सोऽभ्य- मित्र्योऽभ्यमित्रीयोऽप्यभ्यमित्रीण:-' इत्यमरः । सुनासीरस्येन्द्रस्य । "सुनासीरः पुरुहूतः पुरंदरः' इत्यमरः । 'नासीरोऽग्रगन्तरि' इति विश्वः । पदातिषु मध्ये परमाणुरतिलघुः । 'अलीकं त्वप्रियेऽनृते' इत्यमरः । प्रवादोऽत्र प्रकृष्टवचनम् । आप्याययति तृप्तं करोति । 'आप्यायी वृद्धौ' । णिचि कृते रूपम् । अयमेता- दृशोऽप्यत्यन्तं शतमखपक्षपाती, तस्मावश्यमध्वररक्षक इत्यभिप्रायादाह- सोत्साहमिति । तत्फलितमस्मदायासेनेति भावः । खोद्देश्यसिद्धये वारंवारं । । १. 'सोत्प्रासस्मितम्' इति पाठान्तरम्. २. सखे इत्यस्मादने 'दशरथ' इत्यधिक क्वचित.
काव्यमाला। त्रैलोक्याभयलमकेन भवता वीरेण विस्मारित- स्तज्जीमूतमुहूर्तमण्डनधनुःपाण्डित्यमाखण्डलः । किं चाजसमखार्पितेन हविषा संफुल्लमांसोल्लस- सर्वाङ्गीणवलीविलुप्तनयनव्यूढः कथं वर्तते ॥ २८ ॥ वामदेवः-महाराज भूकश्यप, यथाह भगवान्कौशिकः । खय- मनेकधा सुधर्मायामध्यक्षीकृतमहमपि ब्रवीमि । त्वय्यर्धासनभाजि किंनरगणोद्गीतैर्भवद्विक्रमै- रन्तःसंभृतमत्सरोऽपि भगवानाकारगुप्तौ कृती। उन्मीलद्भवदीयदक्षिणभुजारोमाञ्चविद्धोच्चर- द्वाप्पैरेव विलोचनैरभिनयत्यानन्दमाखण्डलः ॥ २९ ॥ स्तुतिपूर्वकमुत्तरलयति-त्रैलोक्येति । भवता वीरेणेति सहेतुकं विशेषणम् । आखण्डल इन्द्रः । जीमूते मेघे मुहूर्तमल्पकालं मण्डनमाभरणं यद्धनुस्तस्य पाण्डित्यं कौशलं विस्मारितस्याजितः । त्रैलोक्यस्याभयलमकेनाभयप्रतिभुवा । किं च स इन्द्रः कथं वर्तते कष्टसृष्ट्या तिष्ठति । तदभावे हेतुमाह-अजस्ले- त्यादि । अनवरतमखार्पितेन यज्ञदत्तेन हविषा घृतादिना संफुल्लं प्रवृद्धं यन्मां- सम् । देवानां हविर्भुक्त्वात् । तेनोलसन्त्युद्गच्छन्ती या सर्वाङ्गीणा सर्वाङ्गव्यापिनी वली त्रिवली तया विलुप्त आच्छादितो नयनव्यूहो लोचनसमूहो यस्य स तथा । सर्वाङ्गीणेति तव्यामोतीत्यर्थे 'तत्सर्वादेः' इति खः । 'घनजीमूतमुदिर-' इत्य- मरः । 'आखण्डलः सहस्राक्षः' इति च । 'व्यूहस्तर्कसमूहयोः' इति विश्वः । वामदेवो विश्वामित्रवाक्यं द्रढयितुं दशरथं प्रोत्साहयति-यथाहेत्यादि । भूकश्यप इति दशरथस्य नामान्तरम् । अनेकधेत्यत्र 'संख्याया विधार्थे धा' इति धा । सुधर्मायां देवसभायाम् । 'स्यात्सुधर्मा देवसभा' इत्यमरः । अध्यक्ष प्रत्यक्षम् । त्वयीति । त्वय्यर्धासनभाज्यर्धासन उपविष्टे सति, आखण्डल इन्द्रो विलोचनैरेवानन्दं हर्षमभिनयति प्रकाशयति । कीदृशः। किंनरगणैरुद्रीतैरुच्चैर्गी- १. 'वामदेवः इत्यस्सादने 'विहस्य' इत्यविकं क्वचित, २. 'यदाह' इति पाठान्तरम्, ३. बन्धोच्चरत्' इति पाठान्तरम्, । ।
१ अङ्कः] अनर्धराघवम् । ४१ दशरथ:-(सस्मितम् ।) वामदेव, त्वमपि भगवन्तं गाधिनन्द- नमनुप्रविष्टोऽसि । एतस्मै समराङ्गणप्रणयिने तिष्ठेत कः प्रज्वल- दम्भोलिद्युतिमण्डलोद्भटभुजस्तम्भाय जम्भारये। निर्यद्भिर्बहिरेष रोषदहनज्योतिःस्फुलिङ्गैरिव खै रज्यद्भिरपीक्षणैः समतनोदानेयमस्त्रं द्विषाम् ॥ ३० ॥ - तैर्भवत्पराक्रमैरन्तरभ्यन्तरे संभृत उद्भिनो मत्सरो मात्सर्यं पराभ्युदयासहिष्णुता यस्य सः। खपराक्रमातिरिक्तत्वत्पराक्रमश्रवणात् । आकारगुप्तौ बाह्यविकारगोप- नक्रियायां कृती कुशलः । दशरथो मनोधं मा जानाविल्याशयात् । लोचनैः कीदृशैः। उन्मीलद्यो भवदीयदक्षिणभुजारोमाञ्चः खपराक्रमश्रवणात् । तेन रोमा- बैन विद्धा वैधिता अत एवोच्चरन्त उद्गच्छन्तो बाष्पा येषु तैः । अश्रुणः पूर्वा- वस्था बाष्पः । 'मत्सरो मक्षिकायां स्यान्मात्सर्यक्रोधयोः पुमान्' इति मेदिनीकरः । 'विद्धं स्याद्वेधिते क्षिप्ते' इति च । अनुप्रविष्टो मिलितः । एतस्मा इति । एतस्मै जम्भारय इन्द्राय कस्तिष्ठेत क आत्मानं प्रकाशयेत् । अपि तु न कोऽपि । 'प्रकाशनस्थेयाख्ययोश्च' इति तङ् । 'श्लाघहुङ्-' इति संप्रदानता । समराङ्गण- प्रणयिने सङ्ग्रामाङ्गणसाधवे । प्रज्वलन्यो दम्भोलिर्वजं तस्य द्युतिमण्डलेन तेजःसमूहेनोद्भटः ख्यातो भुजस्तम्भो यस्य तस्मै । सङ्ग्रामाङ्गणे शत्रोरनवस्थाने हेतुमाह-निर्यद्भिरिति । एष इन्द्रो द्विषां शत्रूणामाग्नेयमन्त्रं समतनोद्विस्तारित- वान् । कैः । खै रज्यद्भिरपि स्वयं रक्तीभवद्भिरपि लोचनैः । 'कुषिरजोः प्राचां श्यन् परस्मैपदं च । कीदृशैः । बहिर्निर्यद्भिर्बहिर्निर्गच्छद्भिः । रोषदहनस्येति रूपकम् । ज्योतिःस्फुलिङ्गैः । ज्योतिर्युक्ताग्निकणैरिवेत्यर्थः । 'त्रिषु स्फुलिङ्गोऽग्नि- कणः' इत्यमरः । 'दम्भोलिरशनियोः' इति च। अग्नेरिदमानेयम् । 'सर्वत्रा- ग्निकलिभ्यां ढक्। आमृशन्स्पृशन् । विश्वामित्रो राजर्षित्वं द्रढयितुं वसिष्ठ- - । । - १. 'सखे वामदेव' इति कचित, ४२ काव्यमाला। विश्वामित्र:-(सगौरवं दशरथबाहुमाझशन् ।) राजर्षे वसिष्ठशिष्य, संवृत्तोऽयं यदि तव भुजच्छायया संप्रतीन्द्रो निर्विघ्नश्रीरियमभिनवा कीडशी ते प्रशस्तिः । इक्ष्वाकूणां लिखितपठिता खर्वधूगण्डपीठ- क्रीडापत्रप्रकरमकरीपाशुपाल्यं हि वृत्तिः ॥ ३१ ॥ दशरथः-भगवन्सर्वा तनिधे, भगवन्तमनुगन्तुमुक्तिप्रत्युक्ति- कया के वयम् । एवं किल त्रिशङ्कुसंकीर्तनोपाख्यानपारदृश्वानः पौरा- णिकाः कथयन्ति । त्रासोत्कम्पत्रिदशपरिषन्मौलिमाणिक्यमाला- बालादित्यप्रकरकिरणसेरपादारविन्दे । प्राचीमेतां भुवनरचनामन्यथा निर्मिमाणे कार्पण्योक्तीस्त्वयि रचितवानन्तरायं महेन्द्रः ॥ ३२ ॥ शिष्येति संबोधनमाह-संवृत्तोऽयमिति । तव भुजच्छायया भुजाश्रयेण भुजलक्ष्म्या वा निर्विघ्नश्रीः संप्रतीदानीं यद्ययमिन्द्रः संवृत्तः संपन्नस्तदेयं तव कीदृशी नूतनाभिनवा प्रशस्तिः स्तुतिः । अपि तु न कापि । प्रशस्तरप्राशस्त्ये बीजमाह-हि यत इक्ष्वाकूणां रघूणां स्वर्वधूनां देवस्त्रीणां यो गण्डपीठेषु क्रीडापत्रप्रकरः पत्रावलीसमूहस्तत्र मकरी जलजन्तुविशेषस्त्री तस्याः पाशुपाल्यं रक्षा सैव वृत्तिः स्थितिः । लिखिता पठिता चेति समासः । लोकोक्तिरियम् । देवकृत्यमपि भवानेव करोतीति भावः। सर्वाद्भुतनिधे इति वक्ष्यमाणाद्भुतकारि- त्वात्संबोधनम् । उक्तिप्रत्युक्तिकया भाषोत्तरेण के वयम् । अपि तु न केऽपि । अशक्ता इत्यर्थः । किल आगमे । संकीर्तनमित्यधिकरणे ल्युट । उपाख्यानमिति- हासः । श्वान इत्यत्र 'दृशेश्च' इति क्वनिप् । पौराणिका इति पुराणं जानन्ति । 'आख्यानाख्यायिकेतिहासपुराणेभ्यष्ठरवक्तव्यः' । सांप्रतं विश्वामित्रं स्तोतुमुप- क्रमते-त्रासोत्कम्पेति । त्रिदशपरिषद्देवसभा । माणिक्यं रत्नभेदः । तस्य लोहितत्वाबालसूर्येण रूपणम् । स्मेरं विकासि । एतां प्राची पुरातनी १. 'दशरथस्य बाहुं स्पृशन्', 'दशरथबाहुमास्पृशन्' इति च पाठान्तरम्. ।
१ अङ्कः] अनर्घराघवम् । 90 my (विहस्य।) जवादारार्द्ध त्वामुपनमति वर्गे दिविषदा- मपव्यस्तो मन्दैरजनि रथहंसैः कमलभूः । नियच्छामो जिह्वां न तव चरितेभ्यः किमुत ते सुधासधीचीनामतिपतति वाचामवसरः ॥ ३३ ॥ (अञ्जलिं बद्धा ।) भगवन् , प्रसीद तावत् । उत्तरोत्तरेषां महोत्सवानां कदाचिदपि न तृप्यन्ति पुंसां हृदयानि, यदियं त्वदुपस्थानसुलभ- संभावनातिप्रसङ्गसंगीतनर्तकी मे चित्तवृत्तिनियोगानुग्रहाय स्पृह- यति । अपि च । निर्मिमाणे कुर्वाणे । 'माङ् माने' शानच् । द्विवचनमित्वम् । कार्पण्योकीदैन्यव- चनानि । अन्तरायं विनम् । 'पुरा विश्वामित्रेणान्या सृष्टिः कर्तुमारब्धा । अन- न्तरमिन्द्रादीनां दैन्योक्त्या पादपातेन च समुपशमिता' इति पुराणम् । ब्रह्मणोऽ- पव्यस्ततामुत्प्रेक्ष्याह-(विहस्य) जवादिति । जवाद्वेगाद्दिविषदां देवानां वर्गे त्वामाराद्भुमुपनमत्युपनते सति कमलभूर्ब्रह्मा मन्दैर्मन्थरगमनै रथहंसै रथबद्धहं- सैरपव्यस्तोऽजनि विसंस्थुलो जातः । सत्वरकार्ये मन्दगमनादपव्यस्तता । तव चरितेभ्यो जिह्वां न नियच्छामो न निवारयामः ब्रूम एव तव चरितानी- त्यर्थः । किं तु सुधासध्रीचीनाममृतसहचरीणां तव वाचामवसरः प्रस्तावोऽति- पतत्यतिक्रामति । त्वदागमनप्रयोजनं ज्ञातुमिच्छामि तदादेशयेति भावः । अत्र चरितेभ्य इति पञ्चमी । 'प्रस्तावेऽवसरो वर्षे' इति विश्वः । 'व्यस्तो विसंस्थुले ख्याते' इति धरणिः । यद्वा चरितेभ्य इति चतुर्थी । तव चरितेभ्यो जिह्वां न नियच्छामो वयं न दो दातुमसमर्थाः किमुत किं च सुधासध्रीचीनां तव वाचामवसरोऽतिक्रामति । दाणो यच्छादेशः । सध्रीचौनामिति अञ्चतेः सह- शब्दोपपदात् 'ऋत्विक्-' आदिसूत्रेण क्विन् । 'सहस्य सध्रिः' । 'अञ्चतेश्चोप- संख्यानम्' इति डीप । 'अचः' इत्यकारलोपः। 'चौ' इति दीर्घः। उत्तरोत्तरेषामग्रि- माग्रिमाणाम् । महोत्सवानामिति करणे षष्ठी । अत्र यद्यपि षष्ठीविधायकं प्रमाणं १. 'अपध्वस्तः' इति पाठान्तरम्. २. 'अभिपतति' इति पाठान्तरम्. ३. प्रसी- दतामुत्तरोत्तरेषाम्' इति पाठान्तरम्. ४. 'नियोगानुयोगाय' इति पाठान्तरम्. । वयं काव्यमाला। । एताभिस्तव कौतुकोक्तिभिरपि त्रैविद्यमूर्तेरिव त्वष्टस्यामरशिल्पिना दिनकृतोऽवच्छेदवेदाक्षरैः । पूताः स्मो वयमद्य यद्यपि तदप्याज्ञामपि स्यामहो वोढुं विष्टिरनर्घता रघुकुले कल्पान्तमुन्मीलतु ॥ ३४ ॥ विश्वामित्र:-(विहस्य ।) ऐन्दुमतेय, किमन्यन्नियोज्यम् । निर्मुक्तशेषधवलैरचलेन्द्रमन्थ- संक्षुब्धदुग्धमयसागरगर्भगौरैः। नास्ति, तथापि 'पूरण-' इत्यादिसूत्रेण षष्ठीसमासनिषेधात्करणे षष्ट्यनुमीयते । यथा-'नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः' इति । उपस्थानं पूजा- स्तवादिकम् । यद्वोपस्थानमुपस्थितिः । संभावना गौरवम् , तस्या अतिप्रसङ्गो- तिशयः स एव संगीतं तत्र नर्तकी। नियोग आज्ञा तद्रूपोऽनुग्रहस्तस्मै स्पृहयति । 'स्पृहेरीप्सितः' इति संप्रदानता । एताभिरिति । एताभिस्तव कौतुकोक्तिभि- रपि परिहासवचनैरपि यद्यपि वयं पूताः पवित्राः स्मः, तदपि तथापि तवाज्ञां वोढुमुद्रोढुं विष्टिः कर्मकरः स्यां भविष्यामि । कैरिव । त्रिविद्यैव त्रैविद्यम् । स्वार्थे ध्यन् । मूर्तिः शरीरम् । विद्यमूर्तेत्रिवेदीशरीरस्य दिनकृतः सूर्यस्यावच्छेदाः खण्डानि तान्येव वेदास्तेषामक्षरैरिव । तथा च वेदतुल्योक्तिसंबन्धात्पावित्र्यं युज्यत एव । अमरशिल्पिना विश्वकर्मणा त्वष्टस्य । कुन्दे तनूकृतस्येत्यर्थः । 'तक्षु स्वक्षु तनूकरणे' । कर्मणि कः । पुरा विश्वकर्मणा सूर्यः कुन्दे निधाय सुन्दरी- कृतः-इति पुराणवार्ता । नियोगकरणे फलमाह-रघुकुलेऽनघताऽमूल्यता अतिपूज्यता वा । कल्पान्तं कल्पपर्यन्तमुन्मीलतु प्रकाशताम् । तवाज्ञाकरणादिति भावः। 'विष्टिः कर्मकरे त्रिषु' इति मेदिनीकरः । कल्पान्तमिति कालाथ्वनो:- इति द्वितीया । ऐन्दुमतेय इन्दुमतीपुत्रः । 'स्त्रीभ्यो ढक् । नियोज्यं वक्तव्यम् । निर्मुक्तेति । हे राजन् , तव यशोभिर्विश्वमशोभि । दीप्तमित्यर्थः। कीदृशैः । बहुलः कृष्णपक्षोऽर्धमासः । बहुलपक्षे कृष्णपक्षे यो दलंटन्मृगाङ्कश्चन्द्र स्तस्य यश्छेदः खण्डं तद्वदुज्वलैः । निर्मुक्तो मुक्तकञ्चुको यः शेषनामा सर्पस्तद्वद्धवलैः । । । - । । १. तथाप्याज्ञामपि स्यामहम्' इति पाठान्तरम्.
१ अङ्कः] अनर्घराघवम् । ४५ राजन्निदं बहुलपक्षदलन्मृगाङ्क- च्छेदोज्वलैस्तव यशोभिरशोभि विश्वम् ॥ ३५ ॥ पुनरिदानीमपि यशःस्तोमानुचैरुपचिनु चकोरप्रणयिनी- रसज्ञापाण्डित्यच्छिदुरशशिधामभ्रमभरान् । अचलेन्द्रो मन्दरसंज्ञकोऽद्रिः स एव मन्थो मन्थनदण्डस्तेन संक्षुब्धो मथितो यो दुग्धमयः सागरः क्षीरसमुद्रस्तस्य गर्भोऽभ्यन्तरं तद्वगौरैः श्वेतैः । संक्षुब्धे. त्यत्र 'क्षुब्धखान्तध्वान्त-' इत्यादिना मन्थे क्षुब्धनिपातनादपशब्दता नाशङ्कया । क्षुब्ध इत्येतत्परो निपातः । नतु संक्षुब्ध इत्यत्रापि । सोपसर्गेऽनियमात् । यद्वा मन्ये भाव्ये क्षुब्ध इत्येतत्परो निपातः । न तु संक्षुब्ध इत्यत्रापि । सोपसर्गेs- नियमात् । यद्वा मन्ये भाव्ये क्षुब्ध इत्येव भवति, क्षोभे तु क्षुभितं क्षुब्धमिति द्वयमपि भवतीति निपातार्थः । यद्वा क्षुभ्यतेऽनेनेति क्षुप् । सम्यकप्रकारेण क्षुपं दधातीति संक्षुब्ध इति । "निर्मुक्तो मुक्तकञ्चकः' इत्यमरः । 'गौरः पीतेऽरुणे श्वेते' इति मेदिनीकरः । 'बहुला नीलिकायां स्यादेलायां गवि योषिति । कृत्ति- कासु स्त्रियां भून्नि विहायसि नपुंसकम् ॥ पुंस्यग्नौ कृष्णपक्षे च वाच्यवत्प्राज्य- कृष्णयोः' इति मेदिनीकरः । रामभद्रप्रदानेन किमस्माकं प्रयोजनं स्यादिति दश- रथस्यानिमशङ्कामाशय तन्निरासाय प्रदानफलमाह-पुनरिदानीमपीत्यादि। इदानीमप्युच्चैरत्यर्थ यशःस्तोमान्यशःसमूहानुपचिनूपचयं नय । रामभद्रप्रदानेनेति भावः । किंभूतान् । चकोरस्य प्रणयिनी प्रिया चकोरी तस्या रसज्ञा जिह्वा तस्या यत्पाण्डित्यं प्रावीण्यं तस्य छिदुरं भेदकर्तृ यच्छशिधाम चन्द्रतेजस्तस्य प्रमोऽतद्वति तत्प्रकारकं ज्ञानं तस्य भरः प्राचुर्य येषु तान् । उपचिन्विति 'उतश्व प्रत्ययादसंयोगपूर्वात्' इति हेर्लक् । अयमर्थः-दर्शनेन तावन्न ज्ञातम् , नापि चकोरीभिर्न ज्ञातम्, स्त्रीत्वात्तासां मौग्ध्यं यतः। छिदुरमित्यत्र 'विदिभि- दिच्छिदेः कुरच्' इति कुरच् । वृत्तिकारस्तु 'कर्मकर्तर्येव कुरच्' इत्याह । अत ईदृशी योजना विधेया-चकोरप्रणयिनीरसज्ञापाण्डित्येन छिदुरः खतश्छेदन- शीलः शशिधामभिः सह भ्रमभरो येषां तान् । ताभिस्तावद्रसज्ञापाण्डियेन १. 'नमकरान् इति पाठान्तरम्, bM काव्यमाला। अपि त्वत्तेजोभिस्तमसि शमिते रक्षतु दिशा- मसौ यात्रामैत्री नभसि नितरामम्बरमणिः ॥ ३६॥ किं तु कतिपयरात्रमायुधसध्रीचा रामभद्रेण संनिहितवैतानवतानाम- साकमाश्रमपदं सनाथीकरिष्यते । अपि च । मध्येकृत्य धनं धिनोति जलधिः खैरम्बुभिर्मेदिनी हन्ति खैः किरणैस्तमिस्रमरुणं कृत्वान्तराले रविः । त्वं रामान्तरितश्च पालय निजैरेव प्रतापैः प्रजा- मीकोऽपि परोपकारसुहृदामेष खभावो हि वः ॥ ३७॥ ज्ञातमसौ शशिकरः । दर्शनेन ज्ञायते किमिदं यशः शशितेजो वेति । एतेन यश- सामतिशयो नैर्मल्यं च दर्शितम् । अथातिशयो भरः' इत्यमरः । इदानीं यशस उत्कर्षमुक्त्वा प्रतापोत्कर्षमाह-अपीति । त्वत्तेजोभिस्त्वत्किरणैः प्रभावैर्वा तमस्यन्धकारे शोके वा शमिते शान्ति नीते सत्यसावम्बरमणिः सूर्यों दिशां यात्रा- मैत्री गमनेन मैत्री मित्रत्वं यदि न रक्षति नितरां रक्षतु तथापि न कापि हानिः । यस्यां दिशि रविरुदेति सा प्राचीत्यादि व्यवहारमात्रे तदन्वयात् । दिशां तमो- नाशस्य त्वत्प्रतापैरेव कृतत्वादिति भावः । 'छिदुरं छेदनद्रव्ये' इति मेदिनीकरः । 'स्तोमौघनिकरत्रात-' इत्यमरः । रसज्ञा रसना जिह्वा' इति च । 'तेजः प्रभावे किरणे' इति विश्वः। तमो ध्वान्ते च शोकेऽपि' इति च ।'धुमणिस्तरणिमित्रः' इत्य- मरः । अधुना प्रयोजनमुद्घाटयति-किं त्विति । कतिपयरात्रमिति कतिपय- शब्दरात्रयोर्विशेषणसमासं कृत्वा 'अहःसर्वैकदेश-' इत्यादिनाच् समासान्तात् 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । 'पोटायुवति-' इत्यनेन तु समासे दारकतिपयवत्परनिपातः स्यात् । आयुधसध्रीचायुधद्वितीयेन । वितानो यज्ञ- स्तस्येदं वैतानं व्रतम् । “वितानो यज्ञ उल्लोचे' इति मेदिनीकरः । संनिहितयज्ञ- कर्मणामित्यर्थः । सनाथीकरिष्यते सरक्षकं विधास्यते । अभूततद्भावे विः । कर्मणि लद । ननु रामेण तवाश्रमपदमलंकृतं तेनास्माकं किमायातम् , यतः सर्वः खार्थ समीहत इत्याशङ्कानिरासायाह-अपि चेति । तथापि करणफलस्य कर्तरि व पर्यवसानमित्यत आह-मध्येकृत्येति । केचित्तु यद्येवं भवतां १. कतिपयमहोरात्रम्' इति पाठान्तरम्. २. 'प्रभावैः' इति पाठान्तरम्, १ अङ्कः] अनर्घराघवम् । किं च। दृष्टः साक्षादसुरविजयी नाकिनां चक्रवर्ती मात्स्यो न्यायः कथयति यथा वारुणी दण्डनीतिः। पातालेन्द्रादहिभयमथास्त्येव नित्यानुषक्तं तन्नः पुण्यैरजनि भवता वीर राजन्वती भूः ॥ ३८ ॥ महत्प्रयोजनं तदा यज्ञरक्षार्थ मयैव गन्तव्यम् , किं फलं रामभद्रगमनेनेति दश- रथवचनमाशय मध्येकृत्येत्याधुत्थापयन्ति । जलधिः समुद्रो धनं मेघ मध्ये- कृत्यान्तरामकृत्वाम्बुभिः पानीयैर्मेदिनीं पृथ्वी धिनोति प्रीणाति । मेघाः खलु समुद्राज्जलमादाय वर्षन्ति, तन्मेघद्वारा समुद्रः पृथिवीं प्रीणातीति भावः । रविः सूर्योऽरुणं खसारथिमन्तराले मध्ये कृत्वा किरणैस्तमिस्रमन्धकार हन्ति नाशयति । त्वमपि रामान्तरितो रामोऽन्तरितो मध्यीभूतो यस्य स तादृशः सन् , राममन्त- राले कृत्वा निजैः स्वकीयैः प्रतापैः प्रजा पालय रक्ष । प्रकृतप्रयोजक रूपमाह- यतः परोपकारसुहृदां वो युष्माकं जलध्यादित्रयाणामीहगीदृशः कोऽप्यनिर्वच- नीयः खभावः । तथा च रामद्वारा मत्कार्यमनुपालयेति भावः । मध्येकृत्येति 'मध्येपदे निवचने च' इति गतिसंज्ञा । 'कुगतिप्रादयः' इति समासे क्त्वो ल्यप् । धिनोतीति "धिन्विकृण्व्योर च' इत्युकारप्रत्ययोऽकारश्चान्तादेशः । 'तमिस्र तिमिरं तमः' इत्यमरः । 'अरुणोऽव्यक्तरागेऽके संध्यारागेऽर्कसारथी' इति मेदिनीकरः। 'निज स्वीये च निये च' इति च । तत्किमन्ये शकादयो रक्षका न सन्त्येवेत्यत आह- दृष्ट इत्यादि । किं च । अन्यच्चेत्यर्थः । नाकिनां चक्रवर्तीन्द्रः साक्षात्प्रत्यक्षमेव दृष्टः । कीदृशः । असुरविजय्यसुरस्यैव जेता, नाधर्मस्येति स्तुतिनिन्दापरं वचनम् । यद्वासुरमात्रविजयी सः त्वं पुनरधर्मविजय्यसुरविजयी च । यद्वासुराणां विजयी यतः, अतस्तस्य सकुल्य विजयित्वादन्यायप्रवृत्तस्य राज्ये स्थातुंन युक्तमिति । यद्वासुरादि- गतोजयो यस्य तादृशः । यद्वा तस्यासुरविजयित्वात्सदैव युद्धं लग्नमेव वर्तते, तेन तस्य खास्थ्यं नास्ति, अतः स्थातुमयुक्तं तत्रेति । यद्वा यादृश इन्द्रोऽसुरविजयी तादृशो दृष्ट एव । सोल्लुण्ठं वचनमेतदिति । तदने गणेशादिनाऽसुरा जिताः, अयं त्वशक्त एव कथं पराओष्यतीति । यद्वासुराणां विजयोऽसुरविजयः । कर्तरि षष्ठी । सोऽस्यास्तीत्यसुरविजयी । असुरकर्तृकविजययुक्त इत्यर्थः । तथा च स न रक्षा- क्षम इति न युक्तं तद्राज्ये स्थातुमिति । वरुणस्येयं वारुणी दण्डो दुष्टानां वध- । ।
४८ काव्यमाला। दशरथ:-(सविषादमात्मगतम् ।) कथमिदमस्माकं सकललोक- शोकशङ्कद्धरणशीलशीतलेभ्यः कौशिकप्रसादेभ्यो रामभद्रप्रवासवैम- नस्यमुत्पत्स्यते । दृष्टं वा निःशेषानन्दनिःस्यन्दिनीनामपीन्दुकरकन्द- बन्धादिना शासनं तत्प्रकाशिका नीतिरनुशासनम् । राज्यस्थितिरिति यावत् । तथा च वारुणी दण्डनीतिवरुणसंबन्धिनी राज्यस्थितियथा तथा मात्स्यो न्यायो व्यवहारः कथयति । मात्स्यो हि न्यायो बलवतां दुर्बलसजातीयभक्षकत्वम् । तथा च साधूनामल्पधनानां महाधनैरसाधुभिरुपद्रव इति पश्चिमदिक्पतेवरुण- स्याज्ञोक्ता । तथा च तत्राप्यवस्थातुं न सांप्रतम् । अथशब्दः समुच्चये । 'अथ प्रश्नसमुच्चये' इति विश्वः । पातालेन्द्राद्वासुकेरहिभयं सर्पभयं नित्यानुषक्तं नित्य- संबद्धमस्ति । तस्य सर्पत्वात् । यद्वा यो यस्य प्रतिपक्षः स तस्येश्वर इव । तत्र तस्य शक्तिमत्त्वात् । तेन पातालेन्द्रो गरुडस्तस्माद्भयं सर्पाणां नित्यमस्त्येव । तद्रक्षणासमर्थत्वाद्वासुकेः । यद्वा 'वासुकेरेव सर्पाणां नित्यं भयं कस्यायं वदिष्यति गरुडकर्तृकभक्षणार्थ त्वं गच्छ' इति । इति पाताले दोष उक्तः । तत्किममासु तादृग्गुणस्य व्यतिरेक इत्यत आह-तत्तस्मान्नोऽस्माकं पुण्यैः हे वीर, भवता त्वया करणभूतेन राजन्वती प्रकृष्टराजयुक्ता भूः पृथ्व्यजनि जाता । कर्तरि चिण । तथा च । इन्द्रादिभ्योऽपि त्वमद्भुतप्रताप इति भावः । मात्स्य इति तस्येदम्' इत्यण् । 'सूर्यतिष्यागस्यमत्स्यानां य उपधायाः' इति यलोपाभावः । सविषा- दमिति । शिशुरामभद्रप्रदानादिति भावः । विषादलक्षणं रसप्रकाशे-'सत्त्व- नाशो विषादः स्यादिष्टानाप्तिरसत्त्वजः । अकर्तव्यादिजनितो दैवव्यापत्तिजो यथा ॥' अस्य चाभिनयः-'निःश्वासोच्छ्वासहृत्तापसहान्वेषणकादिभिः । ध्यान- निद्रावैमनस्यविषादैश्चाभिनीयते' । आत्मगतमप्रकाशम् । 'हृदयस्थं वचो यत्तु तदात्मगतमुच्यते । यत्तु श्राव्यं न सर्वस्य खगतं तदिहोच्यते ॥' इति भरतः। विषादमेव प्रकटयति-कथमित्यादि । शङ्खः शल्यम् । 'शङ्खः संख्यान्तरे कीले' इति विश्वः । उद्धरणमुत्पाटनम् । 'उद्धरणं समुद्धारे वान्तान्ने पालनेऽपि च' इति धरणिः । उद्धरणमेव शीलं खभावस्तेन शीतलेभ्यः । सुखजनकेभ्य इत्यर्थः । वैमनस्यं दुःखिचित्तत्वम् । कौशिकप्रसादस्य विसदृशफलत्वात् । सकलानुरागविषयाच्छीतलवस्तुनोऽपि वैमनस्यं भवतीत्यत्र दृष्टान्तमाह-दृष्ट- मित्यादि । जगदानन्ददातॄणामपि चन्द्रकिरणकन्दलीनां कमलवनीमुद्रणं कलङ्क- १. 'कौशिकपादेभ्यः' इति पाठान्तरम्. २. 'अप्युत्पत्स्यते' इति पाठान्तरम्, ९ commom १ अङ्कः] अनर्घराघवम् । लीनां कमलवनीमीलनं कलङ्कस्थानम् । (विहस्य ।) का गतिः । कूर्मराजभुजगाधिपगोत्रप्रावदिक्करिभिरेकधुरीणः। मां प्रसूय कथमस्तु विगीतो हा परार्थविमुखो रघुवंशः ॥३९॥ विश्वामित्र:-(सस्मितम् ।) राजर्षे, ममकारो हि राजपुत्रेषु राज्ञा- मुपलालनक्लेशाय केवलम् । उपयोगस्तु प्रजानाम् । यथैतत् । कष्टा वेधव्यथा कष्टो नित्यमुद्रहनक्लमः । श्रवणानामलंकारः कपोलस्य तु कुण्डलम् ॥ ४० ॥ स्थानं दृष्टमिति योजना । कमलवनीत्यत्राल्पार्थे ङीष् । गतिरुपायः प्रकारो वा । 'उपायेऽपि प्रकारेऽपि गतिरुक्ता मनीषिभिः' इति धरणिः । अत्र तावदति- प्रियतमरामभद्रस्याप्रदानमेव श्रेय इति विकल्प्य तत्रापि दूषणमाशङ्कते. राजेति । हा कष्टम् । मां प्रसूय जनयित्वा रघुवंशोऽपि परार्थविमुखोऽन्य- कार्यविमुखः सन्कथं विगीतो निन्दितोऽस्तु । अपि तु नास्तु । 'सुगीतः इति क्वचित्पाठः । तत्र हा कष्टम् । परार्थविमुखोऽन्यप्रयोजनपराङ्मुखः कथमस्तु । अपि तु नास्तु । सुगीतः प्रसिद्धः सन्नित्यर्थः । 'विगीतो निन्दिते मतः' इति विश्वः । कूर्मराजः कच्छपपतिः, भुजगाधिपः सर्पराजः, गोत्रमावा कुलपर्वतः दिक्करी च दिग्गजश्च, एभिः सममेकधुरीणः । धरणीधारक इत्यर्थः । “कुलं गोत्रम्' इति शाश्वतः । 'पावाचलशैलशिलोच्चयाः' इत्यमरः । एकधुरीण इलेका चासौ धूश्चैकधुरा । 'ऋक्पू:-' इत्यादिनाच्समासान्तः । 'खः सर्वधुरात्' इत्य- नुवृत्तेः 'एकधुराल्लुक् च' इति खः । धूर्भारः । 'धूः स्याद्भारचिन्तयोः' इति विश्वः। विश्वामित्रः स्वप्रयोजनाय रामभद्रविषयकदशरथानुरागं शिथिलयति- ममकार इति । ममकारो ममत्वम् । ममशब्दोऽयं विभक्तिप्रतिरूपकोs- व्ययम् । यथा ममतेत्यादौ । उपलालनं दौर्लालित्यम् । अत्र दृष्टान्तमाह- कष्टेति । श्रवणानां कर्णानां वेधव्यथा वेधनपीडा कष्टा दुःखप्रदा । वहनक्लम उद्वहनपरिश्रमश्च नित्यम् । कुण्डलं पुनः कपोलस्य गण्डस्यालंकरणम् , न तु श्रव- णानाम् । तथा च रामप्रयोजनं खल्वरमदादीनाम्, न तु भवतामिति भावः । संभा. १. 'कमलिनीमीलनम्', 'कमलवनीविनिमीलनम्' इति च पाठान्तरम्. २. 'अङ्क- स्थानम्' इति पाठान्तरम्. ४०रा० ५० काव्यमाला। दशरथ:-भगवन्, परमनुगृहीता वयमेवं तत्रभवता संभाव्य- मानाः । किं पुनरकृतास्त्रः क्षीरकण्ठो वत्सोऽयमिति मुग्धोऽसि । विश्वामित्र:-(विहस्य ।) सखे, तत्रभवन्तं मैत्रावरुणिमृर्षि पुरो- धाय चरितब्रह्मचर्यत्रतस्य धनुर्वेदसंस्कारास्तावदस्य कृशाश्वप्रसादाद- साखायतन्ते। दशरथ:-(सविनयोपरोधम् ।) भगवन् , उच्छ्वसितमपि रघुराज- बीजिनां त्वदायत्तमेव, किसृत कार्मुकविद्यासंप्रदायः । शके सहस्रकि- रणकुलैकपक्षपातेनैव सहस्र वत्सरान्भमवन्तं कृशाश्वमुपासीनो दिव्या- स्त्रमन्त्रोपनिषदमध्यग्गीष्ठाः। विश्वामित्र:-अलं च ते रामभद्रेऽपि बालोऽयमित्यलीकसभा- व्यमानाः सम्यक्प्रभाव्यमानाः । अकृतास्त्रोऽशिक्षितायुधवेदोऽनभ्यस्तास्त्रो वा । क्षीरकण्ठो दुग्धपायी । बालक इत्यर्थः । मैत्रावरुणिं वसिष्ठम् । पुरोधाय पुरो- हितं कृत्वा । 'पुरोऽव्ययम्' इति गतित्वात्समासः। संस्कारोऽपूर्वशक्त्याधानम् । 'अपूर्वशक्त्याधाने च संस्कारोऽनुभवेऽपि च' इति विश्वः । कृशाश्वो विश्वामित्र- गुरु । आयतन्त आयत्ताः । उच्छृतितं जीवितम् । रघुराजबीजी रघुराजवंश्यः । बीजं प्रथमपुरुषः प्रधानपुरुषो वा । 'रघुराजबीजानाम्' इति पाठे रघुराजैव बीजान्यङ्कुर कारणानि तेषामुच्छ्रुसितमुद्रमः । संप्रदाय उपदेशः । शङ्के तर्कयामि । सहसं वत्सरान्सहसवर्षान् । 'अत्यन्तसंयोगे द्वितीया' । इह सहस्रशब्देनैकवच- नवतैव सहस्रसंख्याया अभिधानं वत्सरशब्देन बहुवचनवता बहुत्वाभिधानम्, अतस्तादृशयोरेवान्वयः । अन्यथा योग्यताया अभावः । तन्मूलकमेव 'विंश- खाद्याः सदैकत्वे संख्याः संख्येयसंख्ययोः' इत्यमराभिधानमपि । उपासीन उपस्थितः । समीपे स्थित इत्यर्थः । 'ईदासः' इतीत्वम् । मन्त्रोपनिषन्मन्त्रबहुल- वेदभागभेदः । यद्वा मन्त्री मन्त्रात्मको वेदः । तद्याख्याप्रन्थ उपनिषत् । अध्यगीष्ठा अधीतवानसि । 'इङ् अध्ययने' लुङ । “विभाषा लुङ्लङोः' इति १. क्षीरकाण्ठश्व इति पाठान्तरम्, २. 'प्रमुग्धोऽसि' इति पाठान्तरम्. ३. 'किं पुनः' इति पाठान्तरम्, ४. 'परिवत्सरान्' इति पाठान्तरम्, ।
अनर्घराघवम् । वनया । दिवस्पृथिव्योस्तिमिरतिरस्करिणीं तरणिरणुतरोऽपि तेजसा तिरस्करोति। दशरथ:-(सस्मितम् ।) भगवन्कुशिकवंशकेतो, कस्य तलिनी तादृशी जिह्वा यस्त्वामपि ब्रुवाणमधेरोत्तरेणाभिसंधत्ते । (अपवार्य ।) वामदेव, एवमत्रभवान्कौशिको ब्रवीति । वामदेवः-राजर्षे, किमत्र प्रष्टव्या वयम् । कौशिकोऽर्थां भवान्दाता रक्षणीयो महाक्रतुः । रक्षिता रामभद्रश्चेदनुमन्यामहे वयम् ॥ ४१ ।। अपि च। गाडादेशः। 'गाङ्कुटादि'सूत्रेण ङित्त्वे सति 'धुमास्था-' इतीत्वम् । अलं निषेधे । अलं चेत्याद्यर्थान्तरेण द्रढयति--दिव इति । अणुतरोऽपि सूक्ष्मतरोऽपि । अभिनवोऽपीति यावत् । तरणिः सूर्यतेजसा किरणेन दिवस्पृथिव्योः खर्गभुवोस्तिमिरमेव तिरस्करिणीमवरोधिकाम् । 'फलकी' इति प्रसिद्धम् । यद्वा जवनिकापटीम् । तिरस्करोत्यपसारयति । तिमिरतिरस्करिणीति तिमिरेण तिरस्करिण्या रूपकम् । दिवस्पृथिव्योरिति । द्योश्च पृथिवी चेति समासे "दिवसश्च पृथिव्याम्' इति दिवशब्दस्य दिवसादेशः । 'अणुः सूक्ष्मे व्रीहिभेदे' इति विश्वः । 'प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा' इत्यमरः । केतुः पताका । तलिनी स्वच्छा । पटुतरेति यावत् । यद्वा विरला । यथा च विश्वः-'तलिनं विरले स्तोके खच्छेऽपि वाच्यलिङ्गकम्' इति । केचित्तु शक्तेति वदन्ति । अधरोऽधोवर्ती बाध्यः । उत्तरः श्रेष्ठो बाधकः । तथा च बाध्यबाध- कभावेनेत्यर्थः । अभिसंधत्ते बाधितुमीहते विवदते वा । यद्वा कस्य ब्रह्मणस्ता- दृशी समर्था जिह्वा स एव तत्र समर्थः । 'कः प्रजापतिरुद्दिष्टः' इत्येकाक्षरः । अपवार्येति । 'रहस्यं तु यदन्यस्य परावृत्त्य प्रकाश्यते । नाट्यधर्मसमावेशा- स्मृतं तदपवारितम् ॥ इति भरतः । एवमिति । किमत्र विधेयमिति भावः । १. 'द्यावापृथिव्योः', 'दिवस्पृथिब्योरन्तराले' इति च पाठान्तरम्. २. अधरोत्तरः। इति पाठान्तरम्. ३. कौशिकेत्यादिश्शोकष्टीकाकारेण न व्याख्यातः. कदाचित्प्र., क्षिशः स्यात्. मूलपुस्तकेषु वर्तत एव. । ।
काव्यमाला। जगतीभारखिन्नानां विश्रामो भवतामयम् । यद्यथाकामसंपत्तिप्रीतार्थिमुखदर्शनम् ॥ ४२ ॥ किं च विशेषेण । पूरयितुमर्थिकामान्मत्रावरुणेन गोत्रगुरुणा ते । संदिशता संदिष्टः समाधिदृष्टोऽयमेवार्थः ।। १३ ॥ दशरथ: -वामदेव, एवमेतत् । ध्यानमयदृष्टिपातप्रमुषितकालाध्वविप्रकर्षेषु । विषयेषु नैष्ठिकानां सर्वपथीना मतिः क्रमते ॥ ४४ ।। (विमृश्य ।) Amittee वामदेवो रामप्रदानौपयिक रूपमाह-जगतीति । भवतां रघुवंश्यानां यथा- कामं यथेच्छं संपत्त्या प्रीतो योऽर्थी प्रार्थकस्तस्य मुखदर्शनं यदयं विश्रामः । श्रमोपशमहेतुरित्यर्थः । कीदृशानाम् । जगतीभारेण पृथ्वीभारेण खिन्नानाम् । रामभद्रप्रदानोपयिक पूर्व कथितं संदेशमनुस्मारयति-किं चेति । अयमेव कौशिकागमनानन्तरं रामभद्रप्रदानरूपो मैत्रावरुणेन वसिष्ठेन 'हुतमिष्टं च तप्तं च' (१।१७) इत्यादिपूर्वोक्तेन त्वयि संदिष्टः । ननु तेनानाग- तोऽयमर्थः कथं ज्ञात इत्यत आह-समाधिना ध्यानेन दृष्टः । वसिष्ठादेश- स्थावश्यकर्तव्यतामाह-गोत्रगुरुणेति । गोत्रं कुलम् । अर्थिकामान्प्रार्थ. काभिलषितान्पूरयितुं संदिशता । तथा च रामोऽवश्यं दातुमर्ह इति भावः । ध्यानेति । नैष्ठिकानां निष्ठावतां मुनीनां मतिर्विषयेषु कार्येष्विन्द्रियार्थेषु सर्व- पथीना सर्वपथव्यापिनी । सर्वकुलमार्गव्यापिनीति यावत् । क्रमते वृद्धिं याति । न केनापि प्रतिबध्यत इत्यर्थः । 'वृत्तिसर्गतायनेषु क्रमः' इति तङ्। कीदृशेषु । ध्यानमयी या दृष्टिस्तस्याः पातेन प्रमुषितो दूरीकृतः कालस्यातीतानागतस्याध्वनो मार्गस्य विप्रकर्षों दूरत्वं येषु । योगज्ञानवरूपेण चक्षुषा सर्वं पश्यतीत्यर्थः । पूर्व कूर्मराजेत्यादिना सामान्यतोऽनिष्टमात्रमाशङ्कितम् , इदानीमतिक्रोधशीलात्तपत्रि- -- १. 'ज्ञानमय' इति पाठान्तरम्, अनर्घराघवम् । ५३ क्रियाणां रक्षायै दशरथमुपस्थाय विमुखे मुनौ विश्वामित्रे भगवति गते संप्रति गृहान् । तपोलेशक्लेशादुपशमितविघ्नप्रतिभये प्रवृत्ते यष्टुं वा रघुकुलकथैवास्तमयते ॥ ४५ ॥ (मुनि प्रति ।) जगद्गुरो गाधिनन्दन, खं चेद्दीक्षिष्यमाणो मे रामभद्रं प्रतीक्षसे । तन्नः पतिव्रतावृत्तमियं चरतु मेदिनी ॥ ४६॥ (नेपथ्याभिमुखः ।) कः कोऽत्र भोः । नोऽत्यन्तानिष्टमाशङ्कते-क्रियाणामिति । क्रियाणां यज्ञानां प्रकृतत्वात् । रक्षायै दशरथं मामुपस्थाय संगतीभूय भगवति विश्वामित्रे मुनौ विमुखेऽप्राप्त- कामेऽनन्तरं गृहान्गते ततस्तपोलेशक्लेशात्स्वल्पतपोव्ययादुपशमिते दूरीकृते विघ्न- प्रतिभये विनत्रासे । अथ मुनौ यष्टुं यज्ञं कर्तुं प्रवृत्ते सति रघुवंशकथास्तमय- तेऽस्तं नाशमेष्यत्येव । 'अय गतौ' वर्तमानसामीप्ये लट् । अस्तमिति मान्तम- व्ययम् । तस्मादवश्यं रामो दातुमर्ह इति भावः । त्वमित्यादि । हे मुने, त्वं यदि दीक्षिष्यमाणो यज्ञं करिष्यन्रामं प्रतीक्षसे प्रत्यवेक्षकमिच्छसि, ततो नोऽस्माकमियं मेदिनी पतिव्रतावृत्तं पतिव्रताचरित्रमेकपतित्वं चरतु । चरति वा। तदा वर्तमानसामीप्ये लट् । पत्युतं यस्याः सा पतिव्रता । तस्या वृत्तं चरित्र- मेकपतित्वम् । अयमाशयः-य एवास्याः पती रक्षिता ततवृत्तं चरितमनु- गच्छति । पतिशब्दस्तु 'पा रक्षणे' पातेईतिः । तस्माद्रक्षणात्पतिः । तथा च राम एवास्याः पतिर्भवत्विति भावः । यद्यपि सर्वपतितया कुलटात्वं भवति, न तु पतिव्रतात्वम् , तथापि य एवास्या रक्षिता स एव पतिरिति नियमान्न दोषः । यथा पाञ्चाल्याः पञ्चपाण्डवखामित्वेऽपि नासतीत्वं वृत्तमिति । एतेन या मम पतिव्रता कैकेयी तस्या वृत्तं चरित्रं रामप्रवासभरतराज्यप्राप्तिरूपं मेदिनी चरत्वनु- सरविति सूचितमिति गण्डः । गण्डलक्षणं तु भरते-'अनावरणभाव्यर्थवादो गण्ड इति स्मृतः' इति । 'वृत्तं वृत्तेऽप्यधीते च चरित्रेऽपि' इति विश्वः । नेप- थ्येति । तल्लक्षणमहमालखं प्रागेव । दौवारिक इत्यत्र द्वारे चरतीति ठक् । 'द्वारादीनां च' इत्यैच् । अयमों लक्ष्मणागमनरूपः । उजिहीते। उदेतीत्यर्थः । ।
satara (प्रविश्य ।) दौवारिक -किमाज्ञापयति देवः। दशरथ:-आहूयतां रामभद्रः । वामदेवः-लक्ष्मणश्च । दशरथ:-(सस्मितम् ।) ऋषे, पृथक्प्रयत्नापेक्षी नायमर्थः । न खलु प्रकाशमन्तरेण तुहिनभानुरुजिहीते । (दौवारिको निष्कान्तः।) (ततः प्रविशतो रामलक्ष्मणौ। रामः-(सहर्षम् ।) सुराधीशक्रोधाज्जगदपरथा कर्तुमपरे पुराणब्रह्माणो भुवनपितरः सप्त च कृताः । धृतास्तुष्टेनामी बहिरपि च वैश्वानरपथा- कथा पौराणी यचरितमितिह स्म प्रथयति ॥४७॥ कथं सोऽपि भगवान्विश्वामित्रः स्वयमस्साभिरुपचरिष्यते । (इति परिकाम- 'ओहाङ् गतौ' । 'ई हल्यघोः' । अभ्यासस्य 'भृञामित्' इतीत्वम् । सुराधी- शेति । पौराणी पुराणसंबन्धिनी इतिह कथा ऐतियकथा यच्चरितं विश्वामित्र- चरितं प्रथयति ख्यातं कारयति स्म । तत्किमित्यत आह-सुराधीशेति । सुरा- धीशस्येन्द्रस्य क्रोधादपरथान्यथा जगत्कर्तुमपरेऽन्ये पुराणब्रह्माणः । अग्निष्वा- त्ताद्यपेक्षयापरत्वम् । सप्त च भुवनपितरो मरीच्यत्रिप्रभृतयः सप्तर्षयः कृताः । ततो नानादेवप्रणिपातात्तुष्टेन संतोषं गच्छतामुना कौशिकेनामी ब्रह्माणो वैश्वा- नरपथावहिधृताः । वैश्वानरपथ आकाशविशेषस्थानम्, यत्र सप्तर्षयः सन्ति । यद्वा वैश्वानरपथोऽग्निपथस्तत्र सप्तर्षयः सन्ति तद्वहिरेव । यद्वा वैश्वानरपथाद्ध- विनाहिरेव बाह्य एव धृताः । आहुतिभागिनो न कृता इत्यर्थः । प्रथयतीति । "प्रथ आख्याने' घटादिः । 'लट स्मे' इति भूते लट् । रूपयन्नाटयन् । नूनं निश्चये । पूयतेऽनयेति पावनी । करणे ल्युद। लक्ष्मणस्य कनिष्ठत्वाद्रामं प्रत्यार्य- १. 'स्वयमुपचरिष्यतेऽसाभिः' इति पाठान्तरम् .
१ अङ्कः] अनर्घराघवम् । न्पुरोऽवलोक्य हर्षातिशयं रूपयन् ।) नूनं विनयननयोतातवामदेवयो- स्वतीयः प्रशान्तपावनीयाकृतिः स भगवान्विश्वामित्रो भविष्यति । लक्ष्मणः-(साश्चर्यस्मितम् ।) आर्य, अयमयमीशप्रशमविश्वसनीयतनु- भुवनभयंकरीः कथमधत्त रुषोऽपि मुनिः। स्थितमिदमेव वा मृदुमनोज्ञतुषारतमा- स्तमसि सति ज्वलन्ति सहसैव महौषधयः ॥ ४८॥ रामः-वत्स लक्ष्मण, एवं दुरवगाहगम्भीराश्चित्रीयन्ते महान्तः । अपि च । व्रतविहतिकरीभिरप्सरोभिः सह जगदस्य निगृह्णतो गृणन्ति । दमरशिरःकिरीटरोचिर्मुकुलितरोषतमांसि चेष्टितानि ॥ १९॥ पदेनाभिधानम् । तदुक्तं भरते-"विप्रामात्याग्रजा आर्या नटीसूत्रकृतौ मिथः' इति । अयमयमिति । 'संभ्रमे द्वे भवतः' इति द्विवचनम् । अयं मुनिर्वि- श्वामित्रः कथं रुषोऽपि क्रोधमप्यधत्तेति योजना । ईदृशेन प्रशमेन शान्त्या विश्वसनीयतनुरपीत्याश्चर्यस्फोरणम् । रुषः कीदृशीः । भुवनभयंकरीः । 'मेघर्ति- भयेषु कृतः' इति खश् । 'असर्द्विषदजन्तस्य-' इति मुम् । कथमित्याक्षेपसमा- धानाय खकमेवार्थान्तरं न्यस्यति-स्थितमिति । इदमेव वा स्थितम् । युक्त- मेतदित्यर्थः। महौषधयो दिव्यलतास्तमस्यन्धकारे सति सहसैव हठेनैव ज्वलन्ति। कीदृश्यः । मृयः सुकुमाराः, मनोज्ञा रमणीयाः, तुषारतमा अतिशीतलाः । एतादृश्योऽपीत्यर्थः । अथ च तमसि क्रोधे । लक्ष्मणवाक्यमनुमोदते-एव- मिति । दुरवगाहोऽनवगाह्यः । गम्भीरो महान् । चित्रीयन्त आश्चर्य कुर्वन्ति । 'नमोवरिवश्चित्रः क्यच्' । उित्करणसामर्थ्यात्तङ् । दुरवगाहगम्भीरमहिमत्व- मेव स्फोरयति-व्रतेत्यादि । अस्य कौशिकस्य चेष्टितानि कर्मभूतानि पौराणिका १. 'विलोक्य'; 'अवलोक्य ति च पाठान्तरम्, २. 'तृतीया प्रशान्तपावनी- अमाकृतिः' इति पाठान्तरम्. ३. केषुचित्पुस्तकेषु 'आर्य' इति नास्ति. ४. 'गम्भीर- चरिताः' इति पाठान्तरम.
काव्यमाला। । वामदेवः-(संहषं दृष्ट्वा ।) कथमागतो रामभद्रः। (मुनिप्रति ।) भगवन्, ब्रह्मज्योतिर्विवर्तस्य चतुर्घा देहयोगिनः ऋष्यशृङ्गचरोरंशः प्रथमोऽयं महाभुजः ॥ ५० ॥ विश्वामित्र:-(सहर्षसंभ्रममैवलोक्य ।) वामदेव, किमुच्यत आर- ण्यकेषु किमपि प्रकृष्टतमं ब्राह्मण्यमृष्यशृङ्गस्य । न केवलममुना वत्सेन ब्रह्मर्षिविभाण्डकः पुत्रवतां धुरमारोपितः, दशरथोऽपि । गृणन्ति वदन्ति । 'गृ शब्दे न्यादिः । कीदृशानि । नमन्तो येऽमरा देवास्तेषां शिरःकिरीटानां शिरोमुकुटानां यद्रोचिस्तेजस्तेन मुकुलितानि संकुचितानि रोष- रूपाणि तमांसि यत्र तानि । व्रतविहतिकरीभिस्तपोनाशकारिणीमिरप्सरोभिः सह जगद्विष्टपं निगृह्णतो भस्मीकर्तुमिच्छतः । व्रतविहतिकरीभिरिति 'को हेतुताच्छील्यानुलोम्येषु' इति टः । टित्त्वात् डीप् । 'विष्टपं भुवनं जगत्' इत्य- मरः । वामदेवो रामभद्रं परिचाययति-ब्रह्मेत्यादि । ऋष्यशृङ्गस्य मुनिवि- शेषस्य चरोहव्यान्नस्यायं महाभुजो रामः प्रथमोऽश आयो भागः। कीदृशस्य । ब्रह्मतेजःपरिणामस्य चतुर्धा चतुष्प्रकारेण रामादिराजपुत्रचतुष्टयत्वेन देहयो- गिनः शरीरभागिनः । 'अंशः स्कन्धे च भागे च' इति विश्वः । 'जलावर्तेऽप्यर्थ चरुः पुमान्हव्यानभाण्डयोः' इति धरणिः । ब्रह्मज्योतिर्विवर्तोऽयमिति कृत्वा लीलामात्रेणैव मदिष्टसाधनक्षम इत्याशयादाह-सहर्षमिति । अत एव संभ्रम आदरः । आरण्यकेषु वनवासिषु मध्ये । 'अरण्यान्मनुष्ये' इति वुन् । ब्राह्मये ब्रह्मकर्म । ब्राह्मणादित्वात्ष्यञ् । वत्सेन पुत्रप्रायेण । 'पुत्रादौ तर्णके वर्षे वत्सः' इति विश्वः । असुना ऋष्यशृङ्गेण । 'विभाण्डकस्यापि ऋष्यशृङ्गप्रसादादेव पुत्रो वृत्तः' इति पुराणम् । विश्वामित्रवाक्यमनुमोदमान एव ऋष्यशृङ्गस्तुतिमाह- १. 'रामं दृष्ट्वा सहर्षम्' इति पाठान्तरम्. २. 'आलोक्य' इति पाठान्तरम्, ३. 'प्रकृष्टतमं किमपि' इति पाठान्तरम्. ४. 'राजर्षिर्दशरथोऽपि' इति पाठान्तरम्, १ अङ्कः] अनर्घराघवम् । देशरथः-भगवन् , एवमेवैतत् । ये मैत्रावरुणं पुरोहितवतो वंशे मनोर्जज्ञिरे तास्ता वैनयिकीः क्रिया विदधिरे येषां च युष्मादृशः तेषामञ्चलमेष ते दशरथः संप्रत्यमी ये पुन- बतास्ते ध्रुवमृष्यशृङ्गतपसामैश्चर्यमिक्ष्वाकवः ॥ ५१ ॥ (रामलक्ष्मणावुपसर्पतः।) भगवानेष निःशेषभुवनमहनीयो महामुनिः कौशिकः प्रणम्यताम् । रामलक्ष्मणौ-(उपसृत्य ।) भगवन्विश्वामित्र, सावित्रौ राम- लक्ष्मणावभिवादयेते। विश्वामित्र:-वत्सौ, आयुष्मन्तौ भूयास्ताम् । (इवि भुजाभ्यां गृहीत्वा रामं निय॑ च सबहुमानम् । आत्मगतम् ।) दशरथ:- वत्सौ, NEHRAMERARMS ये मैत्रावरुणमिति । ये राजानो मैत्रावरुणं वसिष्टं पुरोहितवतः पुरोहित कुर्वतः । यद्वा पुरोऽग्रे हितवतोऽर्पितवतः । मनोवंशे जज्ञिरे जाताः । येषां चं राज्ञां युष्मादृशो भवद्विधास्तास्ताः प्रसिद्धा वैनयिकीर्विनयप्रधानाः । यद्वा विन- याधारहेतुभूताः । क्रिया व्यापारकलापान्विदधिरे विहितवन्तः । ते तवायं दशरथस्तेषां राज्ञामञ्चलं प्रान्तदेशः । 'अञ्चल' इति ख्यातेः अञ्चलशब्दस्या- जहल्लिङ्गतयान्वयः । संप्रत्यधुना ये पुनरमी रामादय इक्ष्वाकवो जातास्ते ध्रुवं निश्चितमृष्यशृङ्गतपसामैश्वर्यं परिणामः । अत्राप्यजहल्लिङ्गता । वैनयिकीरिति 'विनयादिभ्यष्ठक्' इति ठक् । उपसर्पतः समीपं गच्छतः । महनीयः पूजनीयः । सावित्री सूर्यापत्ये । 'तस्यापत्यम्' इत्यण् । भूयास्तामित्याशीलिङ् । मध्यमपुरुष- द्विवचनम् । निर्वर्ण्य दृष्ट्वा । तदुक्तम्-'समौ निर्वर्णननिभालनौ' इति । सबहु- । १. 'वामदेवः' इति पाठान्तरम्. २. 'मैत्रावरुणिम्' इति पाठान्तरम्. ३. 'अञ्चलः' इति पाठान्तरम्, ४. वामदेवः' इति पाठान्तरम्. ५, 'च निर्वर्य' इति पाठान्तरम् ५८ काव्यमाला। वसिष्ठोक्तैर्मन्त्रैर्दधति जगतामाभ्युदयिकी धुरं संप्रत्येते दिनकरकुलीनाः क्षितिभुजः । गृहे येषां रामादिभिरपि कलाभिश्चतसृभिः खयं देवो लक्ष्मीतनकलशवारीगजपतिः ।। ५२ ॥ अपि च। त्वं तास्ताः स्मृतवान्चो दशतयोस्त्वत्प्रीतये यज्वभिः खाहाकारमुपाहितं हविरिह त्रेताग्निराचामति । मानं प्रचुरसंमानं यथा स्यादेवम् । विश्वामित्रश्छलतो वसिष्ठं स्तौति-वसि- ठोक्तैरिति । एते दिनकरकुलीनाः सूर्यवंशजाताः क्षितिभुजो राजानः संप्रति वसिष्ठोत्तैमन्त्रैर्जगतामाभ्युदयिकीमभ्युदयप्रयोजनां धुरं भारं दधति वहन्ति । जगतामाभ्युदयिकभारधारणे हेतुमाह-येषामिति । येषां राज्ञां गृहे रामादिभी रामलक्ष्मणभरतशत्रुघ्नरूपाभिश्चतसृभिः कलाभिश्चतुर्भिरेशैर्देवो नारायणः खय- मस्ति साक्षादस्ति । अस्तीत्यध्याहार्यम् । 'यत्र क्रियापदं नास्ति तत्रास्तिर्भवन्ती- परः प्रयोक्तव्यः' इति भाष्यकारवचनात् । देवः कीदृशः । लक्ष्म्याः स्तनावेव कलशौ तावेव वारी गजबन्धनी तत्र गजपतिहस्तिराजः । इह कलशाभ्यां स्तनौ रूप्येते, वार्या च कलशौ इति रूपकरूपकोऽयमलंकारः । यदाह दण्डी-मुख- पङ्कजरङ्गेऽस्मिन्भ्रूलतानर्तकी तव । लीलानृत्यं करोतीति रम्यं रूपकरूपकम् ॥' इति । स्तनविषमवारी-' इति पादे विषमा कठिना वारी विषमवारी तस्या गजपतिरिव । अत्र तु रूपकम् । एतेन "विशेषणद्वारा-' इति न्यायेन नारायणोऽत्र लभ्यते । आभ्युदयिकीमिति तदस्य प्रयोजनम्' इति ठक् । कुलीना इत्यत्र 'कुलात्खः' इति खः । न च 'ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' इति तदन्तत्वाभावात्खप्रत्ययाभाव इति वाच्यम् । परिभाषाया ज्ञापकमूलत्वादनित्यत्वात् ज्ञापकसिद्धं न सर्वत्र' इति वचनात् । यद्वा दिनकरा इव कुलीना दिनकरकु- लीनाः । 'वारी स्याद्गजबन्धन्याम्' इति धरणिः । वसिष्ठस्तुतिप्रसङ्गादाम स्तुत्वा स्वातन्येण विष्णुरूपतया पुनस्तं स्तौति-त्वमिति । त्वं तास्ता अनिर्वचनी- प्रस्वरूपा दशतयीनामधेया ऋचः स्मृतवान् । ब्रह्मरूपित्वात् । दशतयीनामधेया ऋचो ऋग्वेदे बयः सन्ति । यद्वा दश्शतयीर्दशावयवाः । 'संख्याया अवयचे । - MRAPHAREL १ अङ्कः] अनघराघवम् । ५९ त्वां क्षीरोदजलेशयं ऋतुलिहः पृथ्वीमवातीतर- नुवृत्ता दशकंधरप्रभृतयो निग्राहितारस्त्वया ।। ५३ ।। वामदेवः-(सैस्मितम् ।) वत्सौ, अयमत्रभवान्भवन्तौ नेतुमागतः। रामलक्ष्मणौ-यदभिरुचितं भवते ताताय च । (दशरथस्तौ सस्नेहमादाय 'भगवन्कौशिक' इत्य|क्ते मन्यूत्पीडनिगृह्यमाणकण्ठो वामदेवस्य मुखमीक्षते।) । - तयप्' । त्वत्प्रीतये यज्वभिर्याज्ञिकैः खाहाकार खाहाकृत्वोपाहितं दत्तं हविधु- तादि त्रेतारूपोऽमिस्त्रेताग्निराचामति खादति । 'चमु अदने' । 'ष्ठिवुलमुचमां शिति' इति दीर्घः । स्वाहाकारमिति 'द्वितीयायां च' इति णमुल् । ननु वीप्सायां णमु- विधानात्कथमत्रावीप्सायां तदिति चेन्न । 'अनुदात्तं पदमेकवर्जम्' इति ज्ञाप- कादवीप्सायामपि णमुलो विधानात् । त्रेताग्निरिति 'दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः । अग्नित्रयमिदं त्रेता' इत्यमरः । अत्र यद्यपि त्रेलाशब्देनैवामित्रयं लभ्यते तथाप्यग्निशब्दोपादानं स्फुटार्थम् । यथा करिकलभ इत्यत्र करिशब्द इति । यद्वा वेताशब्दस्य नानार्थत्वादग्निखरूपत्रेताबोधनार्थमग्निपदम् । क्षीरोदस्य समुद्रस्य जलेशयं जलशायिनं त्वां ऋतुलिहो देवाः । दुष्टदानवनिग्रहार्थमित्य- र्थात् । अवातीतरनवतारितवन्तः । क्षीरोदशब्देन रूढ्या समुद्र एवोच्यते । यद्वा जलशब्देन लक्षणया क्षीरमुच्यत इत्यनयोर्न सामानाधिकरण्यविरोधः । जले- शयमिति 'अधिकरणे शेतेः' इति टः । 'शयवासवासिष्वकालात्' इत्यलुक् । अवातीतरन्नित्यवतरेर्ण्यन्ताल्लङ् चङ् । ण्यन्तत्वाद्विकर्मकता । उद्वृत्ताः ख्यातचरित्रा गर्विष्ठा वा । दशकंधरप्रभृतयो रावणादयस्त्वया निग्राहितारस्त्वयैव निगृही- तव्याः। एतेन रावणवधपर्यन्तमस्साकमुद्देश्यमिति सूचितम् । निग्राहितार इति अहेर्लुटि कर्मणि तङि रसि 'स्यसिच्-' इत्यादिना चिण्वद्भावाद्वृद्धिरिट् च । अयं कौशिकः । भवते ताताय चेत्यत्र 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानता। मन्युर्दैन्यम् । दुःखमिति यावत् । 'मन्युर्दैन्ये ऋतौ कुधि' इति विश्वः । उत्पीड: समूह उद्गमो वा । निगृह्यमाणोऽभिभूयमानः । दशरथो वामदेवस्य मुखमीक्षत १. 'क्रतुभुजः' इति पाठान्तरम्. २. केषुचित्पुस्तकेषु 'ससितम्' इति नास्ति. ३. ताताय भवते च' इति पाठान्तरम्, काव्यमाला। वामदेव:-इमौ तौ रामलक्ष्मणौ । (इत्यर्पयति ।) (विश्वामित्रः सादरं गृह्णाति ।) (नेपथ्ये शङ्खध्वनिः।) (वामदेवो निमित्तमनुमोदमानो दशरथमुल्लासयति।) (पुनर्नैपथ्ये।) वैतालिका-सुखाय माध्यंदिनी संध्या भवतु देवस्य । संप्रति हि किरति मिहिरे विष्वद्रीचः करानतिवामनी स्थलकमठवदेहच्छाया जनस्य विचेष्टते । गजपतिमुखोद्गीर्णेराप्यैरपि त्रसरेणुभिः शिशिरमधुरामेणाः कच्छस्थलीमधिशेरते ॥ ५४ ॥ इति । इमौ तौ रामलक्ष्मणौ । मुनये समप्येतामिति भावः । निमित्तं शुभलक्ष- णम् । नेपथ्ये वैतालिकः पठति । सुखाय सुखार्थम् । तादर्थं चतुर्थी । माध्य- दिनीति मध्यं दिनस्य मध्यंदिनम् । यद्वा 'मध्ये मध्यं दिनण् चास्मात्" इति दिनण् । मध्यशब्दस्य मध्यमादेशः । मध्यंदिनस्येयं माध्यंदिनी । अण् । ङीप् । वैतालिक एव मध्याहं वर्णयति-किरतीति । मिहिरे सूर्ये विष्वद्रीचः सर्वतो गमनशालिनः करान्किरति क्षिपति सति जनस्य देहच्छाया स्थलस्थितकच्छ- पवद्विचेष्टते चलति । अतिवामन्यतिखर्वा । मध्याह्न पादप्रदेशेऽतिसूक्ष्मा छाया दृश्यत एवेति भावः । अपिः समुच्चये । एणा हरिणा अपि कच्छस्थली जल- बहुलप्रदेशमधिशेरते । तत्र खपन्तीत्यर्थः । कीदृशीम् । हस्तिराजमुखेनोद्गीर्णैः क्षिप्तेराप्यैर्जलीयैस्त्रसरेणुभिधणुकत्रयारब्धैर्द्रव्यैः शिशिरमधुरां शीतलां मनोहरां च । विष्वदीच इति विष्वगञ्चतीत्यर्थे 'ऋत्विग्-' इत्यादिना क्विन् । 'विष्वग्देव- योश्च टेरन्यञ्चतावप्रत्यये' इत्यद्यादेशे रूपम् । अतिवामनीति गौरादित्वान्कीए । अधिशेरत इति 'शीडो रुट् । कच्छस्थलीमिति 'अधिशीङ्-' इत्यादिना कर्मता । 'मिहिरारुणपूषणः' इत्यमरः । "विष्वद्यङ् विष्वगञ्चति' इति च । 'परमाणुश्च घणुकं त्रसरेणुस्ततो रजः । त्रसरेणुभिरष्टाभिरथ रेणुरिति स्मृतः' इति शिक्षों। 'कमठः कच्छपे पुंसि' इति मेदिनीकरः। 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथा- 'शङ्खध्वनिर्मङ्गलगीतिश्च' इति पाठः, १ अङ्कः]] अनर्घराघवम् । अपि चेदानी पटीरतरुकोटरकुटीरमध्यासीनाः प्रत्यक्षरसुतसुधारसनिर्विषाभि- राशीर्रिरभ्यधिकभूषितभोगभाजः। गायन्ति कञ्चुकविनिहुतलोमहर्ष- खेदोर्मयस्तव गुणानुरगेन्द्रकन्याः ॥ ५५ ॥ विश्वामित्र:-सखे दशरथ, प्रियमपि तथ्यमाह वैतालिकः । मन्दोद्भूतैः शिरोभिर्मणिभरगुरुभिः प्रौढरोमाञ्चदण्ड- स्फायन्निर्मोकसंधिप्रसरदविगलत्संमदखेदपूराः । विधः' इत्यमरः। 'पृषतैणयॆरोहिताः' इत्यपि । अपि चेदानीमिति । पटी- रतरुश्चन्दन वृक्षस्तस्य यः कोटरो रन्ध्रः स एव कुटीरोऽल्पकुटी तामध्यासीनाः सर्पराजकन्यास्तव गुणान्गायन्ति । आशीभिर्दष्ट्राभिरभ्यधिकमत्यन्तं भूषितोs- उकतो यो भोगः फणा तद्वत्यः । अधिकभूषणममृतरसेन निर्विषत्वात् । कीड- शीभिः । प्रत्यक्षरमक्षरेऽक्षरे । प्रतिवीप्सायाम् । क्षरितो यः सुधारसस्तेन निर्वि- पाभिः : । सुधारसेन निर्विषत्वमुचितम् । कञ्चकेन निर्मोकेन विनिहतो गोपितो लोमहर्षों रोमोद्मः खेदोर्मिधर्मकल्लोलश्च यासां ताः । 'पटीरश्चन्दनतरौ' इति मेदिनीकरः । कुटीर इत्यत्र 'कुटीशमीशुण्डाभ्यो रः' । 'अल्पा कुटी कुटीरः स्यात्' इत्यमरः । 'अधिशीस्थासां कर्म' इति कर्मता । 'भोगः सुखेऽवने चाहेः शरीरफणयोरपि ।' इति मेदिनीकरः । 'खेदस्तु खेदने धर्मे' इति च । 'आशीः स्यादहिदंष्ट्रायाम्' इत्यपि । प्रियमपीत्यत्रापिशब्द एकत्र प्रियतथ्ययोर्दुलभता- माह । तथा च किरातार्जुनीये-'हितं मनोहारि च दुर्लभं वचः' इति । 'वैता- लिका बोधकरा बन्दिनः स्तुतिपाठकाः' इत्यमरः । वैतालिकवाक्ये तथ्यत्वं स्थापयति-मन्दोद्धृतैरिति । जिह्वायुग्मेनाभिपूर्ण यदाननं मुखम् । सर्पाणां द्विजिह्वत्वात् । तेन विषमं कृत्वा समुद्गीर्णो यो वर्णोऽक्षरं तेनाभिरामं मनोहरं यथा स्यादेवम् । नारीणामविस्पष्टवचनानामेव रमणीयत्वात् । भुजगयुवतयस्त्व- द्गुणानुद्गृणन्ति गायन्ति । वेलायां समुद्रतीरे यः शैलः पर्वतस्तस्याङ्कभाजः पर्वत- १. 'मध्यमध्यासीनाः' इति पाठः, - ૬૨ काव्यमाला। जिह्वायुग्माभिपूर्णाननविषमसमुद्गीर्णवर्णाभिरामं वेलाशैलाङ्कभाजो भुजगयुवतयस्त्वद्गुणानुगुणन्ति ॥५६॥ (सविनयविलक्षस्मितं च ।) राजर्षे, प्रत्यासीदति दीक्षाप्रवेशसमयः। तदे- वंविधमधुरगोष्ठीमङ्गनिष्टुराणां प्रथमे तावद्वयमेव भवितुमिच्छामः । (दशरथो रामलक्ष्मणाववलोक्य बाष्पभरोत्तरङ्गितलोचनो मुनि प्रति 'भगवन्' इत्योक्ते वाचःस्तम्भ नाटयति ।) वामदेवः-(ससंभ्रमम् ।) भगवन्कौशिक, साधय । शिवाः सन्तु पन्थानो वत्सयो रामलक्ष्मणयोः । (इत्युत्थाय सर्वे यथोचितमाचरन्ति ।) विश्वामित्र:-एवमास्यतां भवद्भिः । (इति राजपुत्राभ्यामनुगम्य- मानो निष्क्रान्तः ।) दशरथ:-(दीर्घमुष्णं च निःश्वस्य ।) वामदेव, नूनमिदानीममा- निव भगवन्तमपि कौशिकमकारणवत्सलं वत्सो मे रामभद्रः मध्यस्थाः 'भजो ण्विः' शिरोभिर्लक्षिताः। इत्थंभूतलक्षणे तृतीया । मणिभरेण गुरुभिर्गुरुतरैः। तादृशसर्पशिरसि मणेरवश्यंभावात् । अत एव मन्दोद्भूतैर्लघु- चालितैः । प्रौढ उद्गतो रोमाञ्चो दण्ड इव रोमाञ्चदण्डः । 'उपमितं व्याघ्रा- दिभिः सामान्याप्रयोगे' इति समासः । तेन स्फायन्वृद्धिं गच्छन् । आत्मनेप- दानित्यत्वादत्र न तङ् । यो निर्मोकसंधिः कञ्चुकावकाशस्तस्मात्प्रसरनविगलंश्च संमदो हर्षः खेदपूरो धर्मप्रवाहो यासां तास्तथा । प्रसरदविगलदिलेतयोः संम- दखेदपूरयोर्यथाक्रममन्वयः । यद्वोभयमुभयत्रान्वयि । भुजगवधूनां हर्षातिशयेन रोमाञ्चदण्डो वृत्तस्तेन निर्मोकसंधिरुच्छेसितः । अनयोश्च मध्यं खेदपूरैः पूरितं संध्यभावात्तन्न गलितमिति निर्गलितोऽर्थः । 'नाटकाङ्केऽपि संधिः स्यादवकाशेऽपि चेष्यते' इति धरणिः । 'प्रमोदामोदसंमदाः' इत्यमरः। 'वेला तत्तीरनीरयोः' इति च । प्रत्यासीदति प्रत्यासन्चो भवति । दीक्षा यज्ञः । निष्ठुराणामिति निर्धारणे १. 'दशरथ:-(सविनयविलक्षसितम् ।); विश्वामित्र:-'राजर्षे' इति पाठः. २. 'तावद्भवितुम्' इति पाठः. ३. 'उत्तम्भितलोचनः' इति पाठः, । ।
१ अङ्क:] अनर्घराधकम् । कचिदसद्वियोगार्तिदुःखी दुःखाकरिष्यति । अपूर्वविषयालोकसुखी च सुखयिष्यति ।। ५७ ॥ वामदेवः--(विहस्य ।) राजर्षे, वयं वा कौशिको वेति क पुन- रेष कक्षाविभागो रामभद्रमाधुर्यस्य । पश्य । यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपा- मुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता । अयं कः संबन्धो यदनुहरते तस्य कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसंधिप्रण यिनः ॥५८ ॥ । - षष्टी । प्रथमे आद्याः । 'प्रथमचरम-' इति जसि विकल्पेन सर्वनामसंज्ञा । उत्तर- जितं चञ्चलम् । साधय गच्छ । 'साधयेति च गत्यर्थः' इति भरतः । यद्वा साधय, कार्यमिति शेषः । शिवाः कल्याणयुक्ताः । निःश्वस्येति । रामस्यापि विश्लेषो मयोति भावः । अकारणवत्सलं निरुपधिवन्धुम् । कचिदिति । 'वत्सो मे रामभद्रो भगवन्तं कौशिकमपि' इति मस्त कस्थमादायास्मद्वियोगाास्सद्विश्लेष- पीडया दुःखी. सन्दुःखाकरिष्यति दुःखितं करिष्यति । 'दुःखात्प्रातिलोम्ये' इति डाच् । अपूर्वविषयस्य, अर्थात्तपोवनविवर्तस्य, आलोकनेन सुखी सन्सुखयिष्यति सुखिनं करिष्यति । विषयो वस्तु । 'अर्तिः पीडाधनुष्कोट्योः' इत्यमरः । कक्षा स्पर्धा । 'कक्षा प्रकोष्ठः स्पर्धा च' इति । माधुर्यस्य सौश्शील्यस्य । वयं वा कौशिको वेत्यादि पोषकं सज्जनानामनिमित्तं प्रेमोत्थापयितुमाह-यदिन्दोरिति । अपां निधिः समुद्र इन्दोश्चन्द्रस्य यद्व्यसनं विपत्तिमुदयमुच्छ्रायं वान्वेत्यनुगच्छति, तत्रा- नुगमेऽयमुपाधिः कारणम् । प्रयोजको धर्म इति यावत् । जनिकर्तुर्जननकारणस्य पितुः प्रकृतिता खभावो जयति । तत्र जन्यजनकभाव एव संबन्धः । जनकः समुद्रः, जन्य इन्दुः, अतो जन्यवृद्धिक्षयौ जनको धत्त इत्युचितमेव । यद्वा जननकारणस्य प्रकृतिकार्य भवति । तथा च समुद्रो जनकः सन्वृद्धिक्षयवानिति तजन्येऽपि वृद्धिक्षयौ युज्यते । उपाधि विनापि व्यसनोदयौ दृष्टावित्याह-- कुमुदं कर्तृ तस्य चन्द्रस्य यद्व्यसनमुदयं वानुहरतेऽनुगच्छत्यनुकरोति वा । चन्द्रे झुदयति सति कुमुदमुन्मीलति, तस्मिन्नस्तमिते निमीलति तदित्यनुममेऽयं कः काव्यमाला। - दशरथः-(विमृश्य ।) एवमेतत् । रत्नाकरो जनयिता सहजश्च वर्गः किं कथ्यताममृतकौस्तुभपारिजाताः। किं तैरचिन्त्यमिह तत्पुनरन्यदेव तत्त्वान्तरं कुमुदवन्धुरसौ यदिन्दुः ।। ५९ ।। (पुनरवलोक्य ।) कथं लोचनपथमतिक्रान्तः सरामलक्ष्मणो भगवान् । तद्वयमपि वत्सप्रवासदुर्मनायमानां दक्षिणकोसलेश्वरसुतां देवीमुपेत्य सान्त्वयामः। (इति निष्क्रान्ताः सर्वे ।) इति मुनीन्द्रसंवादो नाम प्रथमोऽङ्कः । संबन्धो जन्यजनकभावादिः । अपि तु न कोऽपि । कथमेवमत आह-विशुद्धा इति । ध्रुवं तर्कयामि । विशुद्धाः शुद्धाः शुद्धानामभिसंधानं विना प्रिया भवन्ती त्यर्थः । तथा च यद्यप्यत्र न संबन्धस्तथापि निरुपाधिरेव चन्द्रकुमुदयोः साह- जिकी प्रीतिरिति भावः । प्रकृतेऽपि रामस्य तादृश एव गुणविभवो यत्सर्वान्सु- खयतीति । अनुहरत इति 'हरतेर्गतताच्छील्ये' इति तङ् । 'व्यसनं विपदि भ्रंशे दोषे कामजकोपजे' इत्यमरः । 'जनिरुत्पत्तिरुद्भवः' इत्यपि । 'प्रकृतिगुणसाम्ये स्यादमात्यादिखभावयोः' इति मेदिनीकरः । 'ध्रुवं निश्चिततर्कयोः' इति विश्वः । 'प्रणयः प्रेम्णि विश्वासे' इति च । वामदेवोक्तमनुवदति-रत्नाकर इति । अस्य चन्द्रस्य रत्नाकरो जनयितोत्पादकः। सहजः सोदो वर्गोऽमृतादयः किं कथ्यताम्। तदुपमानाभावात् । अमृतादिभिः सहजैस्तैः किम्, अपि तु न किमपि । इह पुन- स्तदन्यदेवाचिन्त्यमचिन्तनीयस्वरूपं तत्त्वान्तरं स्वभावान्तरं स्वभावविशेषो यदसा- विन्दुः कुमुदबन्धुरित्यस्ति । तथा च स्वाभाविकरूपनिबन्धनो व्यपदेश इति भावः । अमृतकौस्तुभपारिजाता इत्यत्र 'समुदायिभ्योऽन्यः समुदायः' इति न्याया- समुदायिभ्यो बहुवचनम् । 'सगर्यसहजाः समाः' इत्यमरः । 'कौस्तुभो मणिः। इत्यपि । 'तत्त्वं खभावे सत्ये च' ' इति धरणिः । दक्षिणकोसलेश्वरसुतां कौस- १. 'विमृश्य' इति पुस्तकान्तरे नास्ति. २. 'पुरोऽवलोक्य' इति पाठान्तरम्. ।
१ अङ्कः] अनर्घराघवम् । । 1 ल्याम् । सान्त्वयामः समाश्वासयामः । 'अङ्के प्रवेशः पात्राणां नाहेतुः परिकी- र्तितः । अर्थप्रसङ्गमालम्ब्य तेषां निर्गम इष्यते ॥ विस्तारो गुणसंपत्तेः स्वभा- वादुद्धृतिर्नहि । वैरस्याय भवेदको दीर्घो रोगीव पण्यताम् ॥ नैकनाङ्के प्रशंसन्ति बहुपात्र विभावनाम् । न चैकैकरसोद्रेक नापि विस्तरयोजनम् ॥ क्रोधप्रसादशोकाः शापोत्सर्गौ च विद्रवोद्वाही । अद्भुतदर्शनमके कापि प्रत्यक्षजा न स्युः॥ युद्धं राज्यभ्रंशो मरणं नगरोपरोधं च । अप्रत्यक्षाणि भवन्ति प्रवेशकैः संविधेयानि ॥ न कार्य शयनं रङ्गे नाट्ययोगमपेक्षता । केनचिट्यपदेशेन तद्विच्छेदं च कारयेत् ॥ शस्त्राघातं वधं चैव मैथुनं युद्धमेव च । नैते. प्रत्यक्षतो नाट्ये दर्शनीयाः कथं- चन ॥ भवेदर्थवशाद्वापि पुरुषः सहितः स्त्रिया। न च तचुम्बनं कुर्यान्निाजा- लिङ्गनं न च ॥ दन्तच्छेदं नखच्छेदं तथा लज्जाकरं च यत् । भोजनं सलिल- क्रीडां रङ्गमध्ये परित्यजेत् ॥ बीजार्थयुक्तियुक्तं च कृत्वा कार्य यथारसम् । निष्क्रमं तु ततः कुर्यात्सर्वेषां रङ्गवर्तिनाम् ॥' इति नाटकसूत्रात्तथा समाचरन्नेव कविराह-इति निष्कान्ताः सर्वे इत्यादि । अङ्कलक्षणमाह भरतः-'प्रस्तुतार्थों- पसंहारो यत्राङ्कः सोऽभिधीयते' इति । अत्र च प्रियापरितोषापेक्षया प्रस्तुतार्थों- पसंहार इति सर्व सुन्दरमिति ॥ । इति समस्तप्रक्रियाविराजमानरिपुराजकंसनारायणभवभक्तिपरायणश्रीहरिनारा- यणपदसमलंकृतमहाराजाधिराजश्रीमद्भरवसिंहदेवप्रोत्साहितवैजो- लीग्रामवास्तव्यखौआलवंशप्रभवश्रीरुचिपतिमहोपाध्याय- विरचितायामनर्घराघवटीकायां प्रथमोऽङ्कः । - ५० रा.
काव्यमाला। द्वितीयोऽङ्कः। (ततः प्रविशति यजमानशिष्यः।) शिष्य:-अये, प्रभातप्रायैव रजनी । तथा हि । तमोभिः पीयन्ते गतवयसि पीयूषवपुषि ज्वलिष्यन्मार्तण्डोपलपटलधूमैरिव दिशः । सरोजानां कर्षन्नलिमयमयस्कान्तमणिव- क्षणादन्तःशल्यं तपति पतिरद्यापि न रुचाम् ॥ १॥ - विश्वामित्रयागरक्षणार्थ रामभद्रस्य तपोवनागमनं तत्प्रासङ्गिकाहल्यायाः पूर्व- रूपप्राप्तिस्ताटकावधो मारीचादेर्दूरापसरणादिकं सम्यक्सूचयितुं शुनःशेपप्रवेश- माह-ततः प्रविशतीति । एतावानेव द्वितीयाङ्कार्थः । यजमानो यः सोमवति यज्ञे दीक्षितः । स च कौशिकस्तस्य शिष्यः शुनःशेपः । प्रभातप्राया प्रभान- सदृशी । 'प्रायो बाहुल्यतुल्ययोः' इति धरणिः । प्रभातप्रायत्वमस्याः कुतोऽव- गतमित्यत आह-तमोभिरिति । तमोभिरन्धकारैर्दिशः पीयन्ते । आच्छा- यन्त इत्यर्थः । पीयूषवपुष्यमृतमहसि चन्द्रे गतवयसि गलितवयसि वृद्ध सति । पश्चिमाशामारोहतीति यावत् । कीदृशैः । ज्वलिष्यन्सूर्योदयाद्यो मार्तण्डोपल- पटलः सूर्यकान्तमणिसमूहस्तस्य धूमैरिव । धूमस्य श्यामत्वात्तमस्त्वेन रूपणम् । अन्योऽपि धूमो ज्वलिष्यतो वह्नेः पूर्व दिशो व्याप्नोतीति ध्वनिः । समिदाहरण- रूपगुरुकार्याय त्वरमाणः सत्वरमनुदेष्यमाणं सूर्यमप्याक्षिप्याह-रुचां पतिः सूर्योऽ- याप्येवंवृत्तेऽपि न तपति । नोदेतीत्यर्थः । किं कुर्वन् । सरोजानां पद्मानामलि- मयं भ्रमररूपमन्तःशल्यमन्तःस्थितलोहभागं कर्षन्बहिःकुर्वन्सन् । अयस्कान्त- मणिवदिति समाकर्षणमात्रदृष्टान्तः। यथायस्कान्तो मणिविशेषोऽयो लोहमाकर्षति तथेत्यर्थः । यद्वा सरोजानामन्तः पद्माभ्यन्तरादलिमयं शल्यं कर्षन् । अन्तः- शब्दोऽव्ययं पञ्चम्यन्तः । पञ्चम्याश्चाव्ययाल्लुक् । यद्वायो लोहकान्तमणिर्लोहावष्ण, मणिः । सरोजानामित्यादिनादित्योद्गमो न वृत्त इति सूच्यते । आदित्योदये सति पद्मविकासस्तद्विकासे च तत्र स्थितानामलीनां बहिनिःसरणमिति स्वरूपानुवादः। 'विकर्तनार्कमार्तण्डमिहिरारुणपूषणः' इत्यमरः । 'उपलः प्रस्तरे रत्ने' इति । ----- ANNARAN २ अङ्कः] अनर्घराघवम् । ६७ अपि च। । जाताः पकपलाण्डुपाण्डुमधुरच्छायाकिरस्तारकाः प्राचीमङ्कुरयन्ति किंचन रुचो राजीवजीवातवः । लूतातन्तुवितानवर्तुलमितो बिम्ब दधचुम्बति प्रातः प्रोषितरोचिरम्बरतलादस्ताचलं चन्द्रमाः॥२॥ (सर्वतोऽवलोक्य च ।) दिमण्डलीमुकुटमण्डनपद्मराग- रत्नाङ्कुरे किरणमालिनि गर्मितेऽपि । मेदिनीकरः। इदानीमविनाभाविलिङ्गमाह-जाता इति । पक्को यः पलाण्डुः 'पियाजु' इति प्रसिद्धस्तद्वत्पाण्डुषूसरा मधुरा मनोहरा च या कान्तिस्तत्क्षेपि- कास्तारका जाता वृत्ताः। किंचन रुचः किंचिद्दीप्तयः प्राची पूर्वी दिशमङ्कुरयन्त्यु - दयन्ति । अङ्कुरयुक्तां कुर्वन्तीत्यर्थः । यद्वा किं चापि चेत्यर्थः । रुचो दीप्तयः पूर्वी दिशं नाङ्कुरवती कुर्वन्ति । तथा चाद्याप्यरुणोदयो न वृत्त इत्यर्थः । कीदृश्यः । राजीवानां पद्मानां जीवातवो जीवनौषधानि । आदित्यसंबन्धिन्य इत्यर्थः । अङ्कु- रोऽस्यास्तीति 'तत्करोति' इति णिच् । 'णाविष्ठवत्प्रातिपदिकस्य' इतीष्ठवद्भावात् 'विन्मतोलक्' । किंचनशब्दोऽव्ययं किंचिदर्थे । चन्द्रमा इतोऽम्बरतलादाका- शात् । गत्वेति शेषः । अस्ताचलमखपर्वतं चुम्बत्यालिङ्गति । 'चुबि वसंयोगे' इति वक्रपदमुपलक्षणम् । 'अङ्गारचुम्बितमिव व्यथमानमास्ते' इति भवभूतिप्रयो- गदर्शनात् । तलं खरूपम् । 'खरूपानूर्ध्वयोस्तलम्' इत्यमरः । यद्वाम्बरतला- दितो गतश्रुम्बति । 'इण् गतौ' कः । लता मर्कटकृमिः । मर्कटसूत्रविस्तारव. द्वर्तुलं बिम्बं मण्डलं दधत् । तनोतेर्घञ् । प्रोषितरोचिः । अपगततेजा इत्यर्थः । दधदिति 'नाभ्यस्ताच्छतुः' इति नुनिषेधः । 'बिसप्रसूनराजीव-' इत्यमरः । 'जीवातुर्जीवनौषधम्' इति । 'हरिणः पाण्डुरः पाण्डुः' इति च । साश्चर्यमाह- दिङमण्डलीति । सौखप्रसुप्तिकाः सुखशयनप्रश्नकर्तारो ये मधुव्रता भ्रमरास्तेषां चक्रवालं मण्डलं तेन वाचाला बहुभाषिणी । सशब्देति यावत् । या पङ्कजवनी पद्मवनी तया सरसाःसोल्लासाःसशब्दा वा । रस शब्दें। पुंसि संज्ञायां घः प्रायेण' इति घः । सरस्यः सरोवराणि । सन्तीति शेषः । जाता इति वानुषजनीयम् । । । - काव्यमाला। सौखप्रसुप्तिकमधुव्रतचक्रवाल- वाचालपङ्कजवनीसरसाः सरस्यः ॥ ३॥ अपि च। प्राचीविभ्रमकर्णिकाकमलिनीसंवर्तिका संप्रति द्वे तिस्रो रमणीयमम्बरमणेामुच्चरन्ते रुचः। सूक्ष्मोच्छासमपीदमुत्सुकतया संभूय कोषाहहि- निष्कामद्भमरौघसंभ्रमभरादम्भोजमुज्जृम्भते ॥ ४ ॥ योऽपि सुखशयनप्रष्टा सोऽपि प्रातरुत्थायागच्छति । मधुकरसमूहा अपि प्रातरेव मधुपानाय तत्र गच्छन्तीति सुखसुप्तप्रष्टुत्वेन रूपिताः । सौखप्रसुप्तिक इति 'पृच्छतौ सुनातादिभ्यः' इति ठक् । किरणमालिनि सूर्य गर्भितेऽपि संजातगर्भ सति । तारकादित्वादितच् । गगनतिरोहितेऽपीत्यर्थः । यद्वा गर्भ इवाचरति । "सर्वप्रातिपदिकेभ्यः किम् वा वक्तव्यः' इति क्विपि कृते क्तः । कीडशे । दिशां, मण्डली दिक्समूहस्तस्या यन्मुकुटमलंकारभेदस्तस्य मण्डनः शोभयिता यः पद्म- रागः । 'क्रुधमण्डार्थेभ्यश्च' इति कर्तरि करणे वा युच् । पद्मरागश्चासौ रत्नं चेति कर्मधारयः । तस्याङ्कुर इवाङ्कुर इति रूपकम् । एतेनाभरणत्वेनातिमनोहारित्व- मुक्तम् । यदाह कालिदासः-'आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः । उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ इति । सूर्यस्याभिनवत्वेन मनोहारित्वा- लोहितत्वाच्च पद्मरागरत्नाङ्कुरत्वेन रूपणम् । अङ्कुरपदप्रक्षेपोऽतिलौहित्यप्रकट- नार्थः । 'मकि मण्डने' । 'मकेरुट नलोपश्च' इति न्यासकारमतेन मकुट इति भवति । 'मकुटं मुकुटं विदुः' इति शब्दभेदान्मुकुटशब्दोऽप्यस्तीत्यवधेयम् । अनेन पद्येनारुणोदयः सूचितः । 'अङ्कुरोऽभिनवोद्भिदि' इत्यमरः । 'चक्रवालं तु मण्डलम्' इति च । कलिकात्रोदने निन्दाश्रवणाद्विकसितानामेव कुसुमानां नोटने बोधिते तानि विकसितानि न वेति ज्ञातुं सर्वतोऽवलोकनमपूर्व प्रकटय- न्सूर्यकिरणानां किंचिदुदयमाह-प्राचीत्यादि । अम्बरमणेरादित्यस्य द्वे द्विसं- ख्याकास्तिस्रस्त्रिसंख्याका रुचः किरणा रमणीयं यथा स्यादेवं द्यामुच्चरन्ते। आकाशं प्रति गच्छन्तीत्यर्थः । 'उदश्चर' इत्यादिना तङ् । कीदृश्यः। प्रच्या दिशो विलासार्थ कर्णिका कर्णाभरणं या कमलिनी. पद्मिनी तस्याः संवर्तिका नव- - । .
२ अङ्कः] अनर्धराघवम् । । अपि च। एकद्विप्रभृतिक्रमेण गणनामेषामिवास्तं यतां कुर्वाणा समकोचयद्दशशतान्यम्भोजसंवर्तिकाः । भूयोऽपि क्रमशः प्रसारयति ताः संप्रत्यमूनुद्यतः संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान् ॥५॥ दलानीव । एतदुक्तं भवति-प्राचीविलासिन्या पद्मदलभ्रमादभिनवसूर्यकिरणा एवाभरणीकृता इति भावः । यद्वा प्राच्या दिशो विभ्रमेण विलासेन कर्णिकाः कर्णालंकाराः। 'कर्णललाटात्कनलंकारे' इति कन् । कमलिनीसंवर्तिकाः कम- लिनीनवपत्राणि । यद्वा संवर्तयन्ति प्रकाशयन्ति संवर्तिकाः । वुल् । प्रकाशिका इत्यर्थः । अनयोर्विशेषणसमासः। भिन्नमेव वा पदम् । तस्य कार्यमाह-अल्प- किरणोदयात्सूक्ष्मोच्छासमल्पप्रकाशमपीदमम्भोज पद्ममुज्जृम्भतेऽत्यर्थ विकसति । नतु किंचिदुन्मीलितं सत् । कुतो हेतोरत्यन्तं विकसतीत्यत आह–कस्मात् । संभूय मिलित्वोत्सुकतयोत्कण्ठितत्वेन कोषात्कुङ्मलादहिर्निष्कामनिर्गच्छन्योभ्रमरौ- घस्तस्य संभ्रमभरात्त्वरातिशयात् । यद्वा सूक्ष्मोच्छासं संभूय प्राप्य । 'संभूतिर्वर्तने प्राप्तौ' इति भरतः । अल्पदीधित्युदयात्किंचिद्विकसितं पद्ममनन्तरमेकदैव बहि- र्गच्छद्भिर्भमरैरत्यन्तविकासः कृत इति तात्पर्यम् । निष्कामदिति 'क्रमः परस्मै- पदेषु' इति दीर्घत्वम् । 'कर्णिका करिहस्ताग्रे करमध्याङ्गुलावपि । क्रमुकादिच्छ- दांशेऽब्जे वराटे कर्णभूषणे ॥' इति विश्वः । 'संवर्तिका नवदलम्' इति च । 'संभ्रमः साध्वसेऽपि स्यात्संवेगादरयोरपि ।' इत्यपि । सूर्यकिरणाः क्रमेणोद्ग- च्छन्त इत्यत्र परिहासपूर्व मानमाह-एकद्वीति । अस्तं यतामस्तं गच्छता- मेषां किरणानामेकद्विप्रभृतिक्रमेणैकट्यादिरूपेण गणनामिव कुर्वाणा नलिनी पद्मिनी या दशशतान्यम्भोजसंवर्तिकाः पद्मनवदलानि समकोचयत्संकोचितवती, ताः संवर्तिका दशशतान्येव संप्रतीदानीं भूयोऽपि पुनरप्युद्यत उदयं गच्छतो भानोः सूर्यस्य सहस्रं करान्कौतुकेनेव संख्यातुं गणयितुं क्रमशः प्रसारयति । कमलानां सहस्रपत्रत्वाद्भानोरपि सहस्रकिरणवाद्यथा यथा किरणा अस्तं यान्ति तथा तथा कमलिनीपत्राणि मुद्रितानि भवन्ति । यथोदयन्ते तथा विकसितानि भव. न्तीति भावः । यतामिति इणः शतरि रूपम् । यद्यपि दशशतशब्दो नपुंसक- स्तथापि संवर्तिकाशब्देन स्त्रीलिङ्गेन विशेष्यभावो भवत्येव । 'विंशत्यायाः सदैकत्वे काव्यमाला। अपि च। प्रत्यासन्नसुरेन्द्रसिन्धुरशिरःसिन्दूरसान्द्रारुणा यत्तेजनसरेणवो वियदितः प्राचीनमातन्वते । शङ्के संप्रति यावदभ्युदयते तत्तकैटकोन्मजा- रज्यविम्बरजश्छटावलयितो देवस्त्विषामीश्वरः ॥ ६॥ सर्वाः संख्येयसंख्ययोः' इति वचनात् । विशेषणविशेष्यभावश्चार्थयोरिति लिङ्ग- विशेषोपस्थाप्यताया अतन्त्रत्वात् । सहस्रं करानित्यत्र करगतं बहुत्वं सहस्रगतं बैकत्वं विवक्षितम् । अतो भिन्नवचनत्वेऽपि सामानाधिकरण्यम् । 'करो वर्षोंपले रश्मौ इति मेदिनीकरः । अनेककिरणेनालंकुर्वतोऽपि नभस्तलं सूर्यस्योदयं प्रति कुतो विलम्ब इत्यत्र निमित्तमाशङ्कते-प्रत्यासन्नेति । शङ्के तर्कयामि । विषामीश्वरः पतिर्देवः सूर्यः । तदिति पूर्वप्रसिद्धिख्यापनाय । तर्कुः कुम्भकारस्य चक्राकारशिलाभाण्डं तत्र या टङ्केन दारणेन 'टांकी' इति प्रसिद्धन । उन्मजा. शुद्धिः । तक्षणमिति यावत् । वित्त्वादङ् । तेन रज्यद्रतीभवत् । कर्मकर्तरि श्यन् , परस्मैपदं च । यहिम्बं मण्डलं तस्य रजश्छटया कणसमूहेन वलयितो वेष्टितः सन् यावदभ्युदयत उदेष्यति । यावत्पुरानिपातयोलेट' इति भविष्यति लट् । तावदेव ततस्त्रसरेणव इतोऽस्मिन्प्रदेशे प्राचीनं पूर्वदेशसंबन्धि वियदाका- शमातन्वत आच्छादयन्ति । प्राचीनमित्यत्र प्राचः 'विभाषाञ्चेरदिस्त्रियाम्' इति खः । इत इति आद्यादित्वात्तसिः सप्तम्यन्तात् । यद्वा इतोऽस्मात्कारणाच्छक उत्प्रेक्ष इति योज्यम् । यद्वा यावदित्युपक्रम उदयत इति वर्तमानतैव । 'अय गतो' तङि रूपम् । त्वष्ट्रटकोन्मजा' इति पाठे त्वष्टविश्वकर्मण इत्यर्थः । कीदृशाः । प्रत्यासन्नो निकटो यः सुरेन्द्रः । पूर्वदिगधिपत्वात् । तस्य यः सिन्धुरो हस्ती ऐरावतस्तस्य मस्तकसिन्दूरेण सान्द्रं निबिडं यथा तथाऽरुणा अत्यन्तलोहिताः। न तु स्वभावतः, किं तूपाधिसंभेदात्तथा । 'टङ्को नीलकपित्थे च खनित्रे टङ्कणे स्त्रियाम्' इति मेदिनीकरः । 'महामृगः पुष्करिदीर्घमारुतौ विलोमजिह्रो जलकाक्षसिन्धुरौ' इति हस्तिपर्याये हारावली । “वियद्विष्णुपदं वा तु पुंस्थाकाश- - १. माचिन्वते' इति पाठान्तरम्, Hamare २ अङ्कः] अनर्घराघवम् । ७१ (पुरोऽवलोक्य ।) कथमिदमुदयाचलमौलिमाणिक्यमर्कमण्डलमद्यापि न विहायस्तलमलंकरोति । तदस्मद्गुरोर्वितायमानयज्ञस्य कुलपतेः कौशि- कस्यादेशात्समिदाहरणाय प्रस्थितोऽस्मि । तत्त्वरितं गच्छामि । (इति परिक्रामति।) (प्रविश्य संभ्रान्तो बटुः।) -अज सुणस्सेह, किं वि अच्चरिअं भीसणं च वट्टदि । शुन शेपः (सचमत्कारं परिवृत्य।) सखे पशुमेद्र, किमाश्चर्य भीषणं च वर्तते। पशुमेद्रः-अज्ज रामो ति को वि खत्तिअकुमारो आअदो त्ति सुणिअ कोदूहलेन धावन्तस्स तवोवणपेरन्तपरिहिदा पत्थरपुत्तलिआ सच्चमाणुसीभविअ मम जेब संमुहं परावडिदा । तं पेक्खिअ उत्तरा- सङ्गवकलं वि उज्झिअ पलायिदो म्हि । SHIRanwerson INS विहायसी' इत्यमरः । चिरतरसमयापेक्षणे समिदाहरणत्वरयोत्पित्सुराह-कथ- मिति । अद्यापि । एतावतापि कालेनेत्यर्थः । विहायस्तलमाकाशम् । विताय- मानयज्ञस्य विस्तारीक्रियमाणयज्ञस्य । 'तनोतेर्यकि' इत्यात्वम् । बटुवाक्ये- अजेत्यादि । 'आर्य शुनःशेप, किमप्याश्चर्य भीषणं च वर्तते' [इति च्छाया ।] 'आर्येति ब्राह्मणं ब्रूयात्' इति भरतः । शुनःशेप इत्यत्र 'शेपपुच्छलाङ्गलेषु शुनः संज्ञायाम्' इत्यलुक् । पशुमेढ़वाक्ये-अजेत्यादि । 'अद्य राम इति कोऽपि क्षत्रियकुमार आगत इति श्रुत्वा कुतूहलेन धावतस्तपोवनपर्यन्तपरिस्थिता प्रस्त- रपुत्रिका सत्यमानुषीभूय ममैव संमुखं परापतिता। तां प्रेक्ष्य उत्तरासजवल्कल- मप्युज्झित्वा पलायितोऽस्मि' [इति च्छाया ।] अत्र पुत्रिका 'पुतळी' इति प्रसिद्धा । परापतितागता । उत्तरासङ्गमुपरिवस्त्रम् । उज्झित्वा त्यक्त्वा । शुनः- शेपः सोपहासमाह-सखे, साधु कृतमिति । पुनरावृत्तिः पुनरागमनम् । हि यस्माजीवत एव दृष्टा तस्मात्त्वमुत्तरीयं त्यक्त्वा समायातोऽसीति त्वया साधु । २. 'त्वरितम्' इति पाठः.. ३. 'गोदमत- १. 'नभःस्थलम्' इति पाठः. बोवण' इति पाठः.
૭૨ काव्यमाला। शुन शेपः-(विहस्य ।) सखे, साधु कृतम् । दिष्ट्या हि जीवतः पुनरावृत्तिः। पशुमेद्रः-ता रक्खदु मं अज्जो इमाए दुह्ररक्खसीए मुहादो। (इति वेपमानः पादयोः पतति ।) शुनाशेपः-(सस्मितमुत्थाप्यालिङ्गय च ।) वयस्य, शृणोषि भगवतो गोतमस्य महर्षेरहल्या नाम धर्मदारान् । पशुमेदः-जा जणअवंसपुरोहिदस्स तत्थभवदो सदाणन्दस्स जणणी । तेदो तदो। शुनाशेपः-सेयं पुरा पुरुहूतखण्डितचरित्रा तस्य दीर्घतपसो शोभनं कृतम् । जीवने सति पुनरागम्यत इति भावः । यद्वा पुनरावृत्तिः पुन- जन्म । 'पुनरावृत्तिदुर्लभम्' इत्यादौ तथा दर्शनात् । तेन जीवत एव तावदिह तव पुनर्जन्म दृष्टमित्यर्थः । यद्वा पुनरावृत्तिरेव जीवतो जनस्य मया दृष्य । लोकोकिरियम् । 'पुनरावृतिः' इति क्वचित्पाठः । तत्र जीवतो जनस्य पुन- रावृतिः पुनरावरणम् । वास इति यावत् । हि यतो दृष्टाऽतस्त्वमुत्तरीयं त्यक्त्वा समायातोऽसीति भद्रं कृतमिति भावः । ता रक्खदु इति । 'तद्रक्षतु मामार्य एतस्या दुष्टराक्षस्या मुखात्' [इति च्छाया।] वेपमानः कम्पमानः। आरोपित- भयादिति भावः । शुनःशेपोऽस्य त्रासोपशमनार्थमहल्यावृत्तान्तकथनायोपक्र- मते-वयस्येत्यादि । 'दाराः पुंभूनि' इत्यमरः । पशुमेट्रवाक्ये-जा इति । 'या जनकवंशपुरोहितस्य तत्रभवतः शतानन्दस्य जननी । 'ततस्ततः' [इति च्छाया । इह तत्रभवतः पूज्यस्य । 'जननी तु दयामात्रोः' इति विश्वः। सेय- मित्यादि । सेयमहल्या. पुरुहूतेनेन्द्रेण खण्डितं नाशितं चरित्रं यस्यास्तादृशी दीर्घतपसो मुनर्गोतमस्य । दीर्घ तपो यस्येति बहुव्रीहिः । यद्वा दीर्घतपा इति गोतमस्यैव नाम । तस्य मन्युना क्रोधेन । शापेनेति यावत् । निजं स्वीयमिन्द्रि- यदौर्बल्यमिन्द्रियासामर्थ्यमेवंविधं प्रस्तरपुत्रिकारूपं विवर्तमानं परिणतमनुभवन्ती. १. 'वस, शृणोषि', 'वयस्य, न भेतव्यम् । शृणोषि' इति पाठः, २. 'शुन:- शेपः-अथ किम् । पशुमेटः-तदो' इति पाठः.
२ अङ्कः] अनर्घराघवम् । मुनेर्मन्युना निजमेव तदिन्द्रियदौर्बल्यमेवं विवर्तमानमनुभवन्ती संप्र- त्यस्य रघुराजपुत्रस्य तेजसा तस्मादन्धकारान्निरमुच्यत । तदलमावेगेन । पशुमे:-(उन्मील्य चक्षुषी सर्वतोऽवलोक्य ।) अहो अच्चरिअं । अज्जस्स पसादेण पुणोवि जीअलोए पविठ्ठो म्हि । तह वि सङ्कजरो अज्ज वि ण मं परिच्चअदि । ता अज सुणस्सेह, मुहुत्तों विसमीअदु। शुनाशेप:-सखे, भयमिति किमेतद्राह्मणस्य । तत्पर्यवस्थाप- यात्मानम्। (इत्युपविशतः।) पशुमे:-(चिरं विमृश्य निःश्वस्य च सविस्मयम् ।) कधं विसय- मिअतिण्हासलज्झलाए भअवदो हरिणो वि हरिणदा विटप्पीअदि। संप्रत्यस्य रघुराजपुत्रस्य रामस्य तेजसा प्रभावेण रश्मिना वा तस्मादन्धकारा- च्छापात् । अन्धकार इवान्धकारः शापः । यद्वान्धमदृशं करोतीत्यन्धकारो मुनि: शाप एव । कर्मण्यण् । निरमुच्यत स्वयं मुक्ता । 'मुच्ल मोक्षणे' लङि कर्मकर्तरि. रूपम् । अन्यदप्यन्धकारं तेजसा तिरस्क्रियत इति ध्वनिः । कथा चात्राति- प्रसिद्धव । अलं निष्फलम् । आवेगेन भयेन । अहो इति । 'अहो आश्चर्यम् । आर्यस्य प्रसादेन पुनरपि जीवलोके प्रविष्टोऽस्मि । तथापि शङ्काज्वरोऽद्यापि न मां परित्यजति । तदार्य शुनःशेप, मुहूर्त विश्रभ्यताम्' इति च्छाया । अत्र जीवलोके प्रविष्टोऽस्मि जीवितोऽस्मि । पर्यवस्थापय संवृणु । विमृश्येत्यादि। अहह सुरपतिरपि कथमेतादृशं कर्म कृतवानिति भावः । अत एव निःश्वासोऽपि । कधमिति । 'कथं विषयमृगतृष्णासलज्जलया भगवतो हरेरपि हरिणता विट- प्यते' [इति च्छाया । इह विषय एव मृगतृष्णा मरीचिका तस्याः सलज्जलया- स्फालनेनाघातेन । अनर्थ एवार्थित्वजननात् । अतिशोभया वा । भगवतो हरेर- पीन्द्रस्यापि । हरिणता हरिणत्वम् । पशुत्वमिति यावत् । यद्वा हरिणता पाण्डुर- त्वम् । तत्तु मन्मथप्रभावात् । 'हरिणः पाण्डुरः पाण्डुः' इत्यमरः । विटप्यते १. पर्युपस्थापय', 'पर्यवष्टम्भय' इति पाठौ. २. 'विश्रम्य विमृश्य च' इति पाठक '७४ काव्यमाला। शुन शेप:-(विहस्य ।) साधु ब्रवीषि । अल्पीयान्खल्वयं लोकः। कैथमैहिकसुखाध्यवसायाद्वै अमूर्भूयस्यो रात्रयः पराहण्यन्ते । किंतु मनोहारिभिराहायैराह्रियमाणलोचन द्वितयस्यापि न जनो विवेकमङ्कु- शयितुम॑धीष्टे । किं पुनर्नयनसहस्रतयस्य तादृशि विभवे मरुतां पतिः । चक्षुःप्रीतिमुद्भवन्तीमनूद्भवन्ति चापराणि कुसुमचापलानि । । ज्य॑ते । विटपिरयं चुरादिरर्जने वर्तते । यद्वा 'अर्जतेर्विटप्यः' इति प्राकृतसूत्रा- त्तथा । विषयस्य विरसोदर्कतयाऽसारत्वेन मरीचिकया रूपणम् । 'मृगतृष्णा मरीचिका' इत्यमरः । हरिश्चन्द्रार्कवाताश्वशकमेकयमादिषु' इति मेदिनीकरः। 'भृगः पशौ कुरङ्गे च इति च । 'स्थादास्फाले सलज्जला' इति हारावली । 'सल- ज्जला तु शोभायाम्' इति रत्नकोषः । अल्पीयानल्पाशयः । अत्यर्थेनाल्पो वा । 'द्विवचनविभज्य-' इतीयसुन् । अल्पीयस्त्वमेव द्रढयति-कथमिति । ऐहिर कमेतज्जन्मजम् । इहशब्दाद्भवार्थे ठञ् । अध्यात्मादित्वाद्वा । ऐहिकसुखाध्यव- सायादेतजन्मसुखयत्नात् । वै पादपूरणे संबोधने वितर्के वा । अमूरामुष्मिक्यो रात्रयः सुखानि पराहण्यन्ते नाश्यन्ते । लोकेनेति शेषः । 'हन्तेरत्पूर्वस्य' इति णत्वम् । रात्रिशब्देन सुखमुपलक्ष्यते । सुखकालत्वात् । अत एव क्षणमुत्सवं ददातीति क्षणदेति रात्रिव्यपदेशः । अथवा विषयस्यैव तादृशं महत्त्वमित्याह-किं विति । मनोहारिभिरहार्यैराभरणादिभिराहियमाणस्याकृष्य- माणस्य लोचनद्वितयस्यापि जनो लोको विवेकं निर्मलज्ञानमङ्कुशयितुमड- शीकर्तुं नाधीष्टे न समर्थों भवति । किं पुनर्नयनसहस्रतयस्य सहस्रावयवस्य तादृश्यनिर्वचनीये विभवे वागपारसंपत्तौ सत्यां विवेकमङ्कुशं कर्तुं मरुतां पतिरि- न्द्रोऽधीश्वरः स्यात् । अपि तु न कदापि । यतः-'यौवनं धनसंपत्तिः प्रभुत्व- मविवेकिता। एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥' इति । लोचनद्वितयस्ये- १. 'ब्रवीति भवान्' इति पाठः. २. 'अन्यथा कथम्' इति पाठः. ३. 'सुखा- ध्यवसायलुब्धैः', 'सुखाध्यवसायात्' इति पाठौ. ४. 'आह्रियमाणस्य' इति पाठ:. ५. 'यस्य' इति पाठः..६.'ईष्टे' इति पाठः, २ अङ्कः] अनर्घराघवम् । ७५ पशुमेद्रः-(विहस्य ।) मण्णे एदाए एव्व मुणिघरणीए पुण्णपरि- णामो एत्थ रामभद्दस्य पवासे कारणम् । शुन शेपः-इदं तावत्प्रथमम् । पशुमे:-(साभ्यर्थनम् ।) अज, दुदीअं वि सुणिदुं इमिणा दे वअणेण पजुस्सुओ म्हि । शुन शेपः-सखे, त्वयि किमकथनीयं नाम । अस्ति किष्कि- न्धायां पुरंदरस्य नन्दनो वालि म प्लवगराजः । तं च रजनीचरचक्र- वर्तिना दशकंधरेण सह प्रवृत्तमैत्रीकमवलोक्य वानराच्छभल्लगोलाडू- लप्रभृतीनामाचार्यः सर्वामात्यानुमतो जाम्बवानवादीत् । । त्यत्र 'अधीगर्थ-' इत्यादिना कर्मणि षष्टी । नयनसहस्रतयस्येति 'संख्याया अव- यवे तयप् । 'सहस्रनयनस्य' इति क्वचित्पाठः । तत्र सहस्रं च तानि नयनानि चेति विशेषणसमासे "दिक्संख्ये संज्ञायाम्' इति नियमादसंज्ञायां समास एव न स्यात् । बहुवचनप्राप्तिश्च । उच्यते-सहस्रं नयनानामिति समाहारे द्विगुः । पात्रादित्वात्स्त्रीत्वनिषेधः । त्रिभुवनवत् । अनयोर्मानुषेन्द्रयोनॆत्रवैषम्यकथनेन प्रकृते किं प्रतिपादितं स्यादित्याशङ्ग्य चक्षुषस्तत्रासाधारणी कारणतामाह-चक्षुः- प्रीतीति । उद्भवन्तीमुपजायमानां चक्षुःप्रीतिं चाक्षुषरागमनुलक्ष्यीकृत्यापराण्यधि- कानि कुसुमचापचापलानि मन्मथविकारा उद्भवन्ति । 'अनुर्लक्षणे' इति द्वितीया। मण्णे इत्यादि । 'मन्ये एतस्या एव मुनिगृहिण्याः पुण्यपरिणामोऽत्र रामभद्रस्य प्रवासे कारणम्' [इति च्छाया । इह परिणामः परिणतिः । इदं तावप्रथ- मम् । अपरमपि वालिवधादिकमस्तीति हृदयम् । अभ्यर्थना प्रार्थना । अजेति । 'आर्य, द्वितीयमपि श्रोतुमनेन तव वचनेन पर्युत्सुकोऽस्मि' [इति च्छाया । ] इह पर्युत्सुक उत्कण्ठितः। अस्तीत्यादि । पुरंदरस्येन्द्रस्य नन्दनः पुत्रः । ‘नन्दनं वासवोद्याने नन्दनो हर्षके सुते' इति मेदिनीकरः । वालिरिति हखेका- रान्तोऽपि । तथा च विश्वप्रकाश:--'ऐन्द्रिाली च वालिश्च' इति । प्लवगो । । १. "प्लवंगमराजः' इति पाठः. २. 'प्रवृद्ध' इति पाठः. ३. 'अनुगतः' इति काव्यमाला। पशुमेदू: -(सकौतुकम् ।) तदो तदो। शुन शेप:-ततश्च राजन्मायाविनी खल्वियं राक्षसजातिः । विशेषेण महेन्द्रावस्कन्दकन्दलितविक्रमः पितृवैरी तवायं रावणः । अपि च त्वदीयदोर्मूलसंपीडनगलितपौरुषो न विश्वविजयीति खयमा- शङ्कनीयः । नापि सामन्तान्तरजिघृक्षायामन्तरावर्तिनि समुद्रे लघुस- मुत्थः । तदनेन विरोद्धमण्डलेन सहासुरविजयिना मैत्रमैनर्थानुबन्धि । वानरः । तं चेत्यादि । जाम्बवान्भलूकराजो वालिमन्त्री दशकंधरेण रावणेन प्रवृत्तमैत्रीकं तं वालिनमवलोक्यावादीदिति योजना । कीदृशेन । रजनिचरा राक्षसास्तेषां चक्रवर्तिना सार्वभौमेन । अच्छभल्ला भलूकाः । 'ऋक्षाच्छभल्लभालूकाः' इत्यमरः । 'ऋक्षमल्ल-' इति पाठे भल्लूक एवोच्यते । गोलाङ्गूलः कृष्णमुखो वानरभेदः। 'मन्त्रव्याख्याकृदाचार्यः' इत्यमरः। विशेषेणेत्यादि । महेन्द्रा- वस्कन्देनेन्द्रपराभवेण कन्दलितो नवीभूतो विक्रमो यस्य तादृशो रावणस्तव पितृवैरी। भवतो महेन्द्रपुत्रत्वात् । त्वदीयदोर्मूलसंपीडनेन कक्षायन्त्रणेन गलितं भ्रष्टं पौरुषं यस्य तादृशः । अत एव न विश्वविजयी । भवतैव जितत्वात् । तेनावश्यमाशङ्कनीयः । 'पुरा किल वालिना रावणं कक्षायामारोप्य सप्तसु समु- द्रेषु संध्यांवन्दनं कृतम्'-इति पुराणम् । नापि सामन्तान्तरस्य राजान्तरस्य जिघृक्षया ग्रहीतुमिच्छयान्तरावर्तिनि मध्यस्थिते समुद्रे लघु शीघ्रं समुत्थः समुत्थानं यस्य तादृशः । न शीघ्रं पारगमने शक्त इत्यर्थः । त्वद्दोर्मूलसंपीडन- गलितपौरुषत्वात् । समुत्थ इत्यत्र 'सुपि स्थः' इति योगविभागाद्भावे कः । यथा सुस्थ इत्यादौ । तात्पर्यमुपसंहरति-तदनेनेति । विराद्धं विरुद्ध मण्डलं राष्ट्र द्वादशराजचक्रं वा यस्य तेन सह मैत्रं मित्रतानर्थानुबन्धि अनर्थसहितम् । अनर्थमनुबद्धं शीलं यस्य तादृशम् । असुरविजयिना न सुरेभ्यो विजयो भङ्गो यस्य तेन । यद्वाऽसुरश्चासौ विजयी च तेन । यद्वा न सुरो विजयी यस्य अशब्दो निषेधार्थः । अमानोनाप्रतिषेधवचनादिति न्यायात् । 'सुरविजयिना' इति वा पाठः । 'मण्डलं परियों कोषे देशे द्वादशराजके' इति विश्वः । सोपहासं १. 'विहस्य' इति पाठ:. २. "विराद्धभुवनमण्डलेन' इति पाठः, ३. सुरासुर- विजयिना' इति पाठः, ४. 'अनर्थानुबन्धि भविता' इति पाठः, ।
२ अङ्कः]] अनर्घराघवम् । किं च सर्वथेयमनुपकारिणी पुलस्त्यापत्येषु प्रीतिरिति भगवानिहोदाह- रणं हरिणाङ्कशेखरः। तथा हि। उक्षा रथो भूषणमस्थिमाला भस्माङ्गरागो गजचर्म वासः। एकालयस्थेऽपि धनाधिनाथे सख्यौ दशेयं त्रिपुरान्तकस्य ॥ ७ ॥ पशुमेद्रः-(सहासम् ।) अहो ठेरभल्लुअस्स मन्तोवण्णासो परिहा- सकुसलदा अ। तदो तदो। शुन शेपः-ततश्च तद्वचनं जरामलपितमित्युपहसति हरीश्वर उपांशु तदनुमत्या महामात्यस्य केसरिणः पुत्रो हनुमान्कुमारं सुग्रीव- मादाय ऋष्यमूकं नाम पर्वतदुर्गमनुप्रविष्टः । मित्रताविघटकं दृष्टान्तमाह-किं चेति । पुलस्त्यो मुनिविशेषः । हरिणाङ्कशे- खरः शिवः । विप्रकृष्टदेशावस्थितत्वेन मित्रस्याप्यनुपकारकत्वे मान्यं न शक्यत इत्याशङ्कावारकमेकालयस्थेऽपीति विशेषणम् । एकगृहस्थितेऽपि सख्यौ धनाधि- नाथे कुबेरे । कुबेरशिवयोः कैलासावस्थायित्वात् । त्रिपुरान्तकस्य महादेवस्येयं दारिद्यद्योतिका दशावस्था । दशाखरूपमाह-उक्षा वृषः स एव रथः स्यन्द- नम् । वाहनमिति यावत् । अस्थिमाला भूषणमलंकरणम् । भस्माङ्गरागोऽङ्गानुले- पनम् । गजचर्म वासो वस्त्रम् । तथा च पुलस्त्यापत्येन समं मैत्रं न योग्य- मिति भावः । दशावस्थादीपवयोः' इति विश्वः । “उक्षा भद्रो बलीवर्दः' मरः । त्रिपुरान्तकत्वेन योग्यतोक्ता-अहो इत्यादि । 'अहो स्थविरभल्लूकस्य मन्त्रोपन्यासः परिहासकुशलता च । ततस्ततः' [इति च्छाया ] इह ठरः स्थविरः । राजन्मायाविनी राक्षसजातिः' इति मन्त्रस्य मन्त्रगाया उपन्यास उद्गारः। उक्षा रथ इत्यादि परिहासकुशलता । जराप्रलपितं वृद्धत्वेन निरर्थक- भाषितम् । 'प्रलापोऽनर्थकं वचः' इत्यमरः । हरीश्वरे वानरराजे वालिनि । उपांशु एकान्ते । 'उपांशु तूपभेदे स्यादुपांशु विजनेऽव्ययम्' इति विश्वः । रह- १. शेखरोऽपि' इति पाठः. २. केसरिनाम्नः' इति पाठः. ३. 'आदाय सुग्रीवम् इति पाठः. ४. पर्वतं सदुर्गम्' इति पाठः. - इत्य- काव्यमाला। पशुमे:-(साकृतम् ।) अज, जो सो मारुदी तेदामल्लो ति सुणीअदि। शुन शेपः-अथ किम् । पशुमेदः-(सविचिकित्सम् ।) अज, जधा तथा भोदु । सामी सामी जेव । तं परिचइअ तत्सरिसो तारिसस्स महाणुभाअस्स पडिऊलपरिग्गहो। शुनाशेप:-(विहस्य ।) पुरैव किलायमाञ्जनेयो भगवतः सहस्र- किरणाव्याकरणविद्यामधीयानस्तदात्मजन्मनो वानरयोनेः सुग्रीवस्य सा- हायकमभिप्रायज्ञो गुरुदक्षिणीचकार । श्चोपांशु चालिङ्गे' इत्यमरश्च । तदनुमत्या जाम्बवत्संमत्या । इह 'हनुमान्केसरिणः क्षेत्रजः पुत्रोऽजनायां वायुना जातः' इति पुराणम् । 'हनूमान्हनुमानपि' इति शब्दभेदः । साकूतं साभिप्रायम् । अजेति । 'आर्य, योऽसौ मारुतिस्त्रेतामल्ल इति श्रूयते' [ इति च्छाया। ] इह त्रेता द्वितीययुगं तत्र मल्लो वीरः श्रूयते । सोऽयमिति शेषः । यद्वा त्रेतामलोऽस्यैव नाम । तदुक्तम्-'आञ्जनेयो हनूमा- न्स्यात्रेतामल्लश्च मारुतिः' इति । 'अथकि खीक्रियार्थकम्' इति भरतः । सविचि- कित्सं सनिन्दम् । विचिकित्सायाः प्रयोजकं रूपकमाह-अजेति । 'आर्य, यथा तथा भवतु । खामी खाम्येव । तं परित्यज्य तत्सदृशस्तादृशस्य महानुभा- वस्य प्रतिकूलपरिग्रहः' | इति च्छाया । ] इह प्रतिकूलो वालिवैरि- सुग्रीवस्तस्य परिग्रहः खीकारः । 'प्रतिग्रहः' वा पाठः । तत्राप्ययमेवार्थः । वालिनोऽसन्मार्गप्रपन्नत्वादेव परं न सुग्रीवसुपक्षत्वम्, किं तु प्रकारान्तरेण तत्त्व- मिति तदुपपादयति-पुरैवेति । किलागमे । अयमाजनेयोऽजनीपुत्रो हनुमा- न्सहस्रकिरणादादित्याद्वयाकरण विद्यामधीयानः पठंस्तदात्मजन्मनः सूर्यपुत्रस्य सुग्रीवस्य साहायकं साहाय्यम् । द्वितीयत्वमित्यर्थः । गुरुदक्षिणीचकार गुरुदक्षिणां कृतवान् । वानरयोनेरिति योनिराकरः । 'योनिः स्यादाकरे हेतौ' इति विश्वः । नन्वादित्यखरसं विनैव किं तथा कृतवानियत आह-अभिप्रायज्ञः । तस्येति शेषः । आशयवेत्तेत्यर्थः । साहायकमिति सहायशब्दात् 'योपधाद्गुरूपोत्तमाटु' १. 'सखे, पुरैवाञ्जनेयो' इति पाठ, २. 'व्याकरणम्' इति पाठः..
अनर्घराघवम् । । पशुमेदः-(सानन्दम् ।) हुँ । ता उचितं जेव्व गुरुपुत्तो सब्बा- चारी वा अणुवट्टीअदि । तदो तदो शुनःशेप:-ततश्चाहिमयोपजापजर्जर सुहृदहमुपश्रुत्य राक्षसराजः खरदूषणत्रिशिरोभिर्महामात्यैरधिष्ठितमात्मबलैकदेशं सिन्धोरुदीचि कूले वालिप्रतिग्रहाय प्राहिणोत् । पशुमेद्रः-कधं अपरिहीणमित्तधम्मो वि सो रक्खसो। शुनाशेप:-सखे, किमुच्यते । रावणः खल्वसौ । प्रियाकर्तुं त्वस्मै नवनिजशिरःकर्तनरस- प्रहृष्यद्रोमा यः स परमिह लङ्कापरिवृढः । इति भावे वुञ् । हुमित्यादि । 'हुँ । तदुचितमेव गुरुपुत्रः सब्रह्मचारी वानु- वर्त्यते । ततस्ततः' [इति च्छाया।] इह 'हुं वितर्के परिप्रश्न' इति विश्वः। 'हुँ तकें स्यात्' इत्यमरोऽपि । सब्रह्मचारी एकब्रह्मवताचारः सहाध्येता वा । 'एक- ब्रह्मवताचारा मिथः सब्रह्मचारिणः' इत्यमरः । अहिभयं स्वपक्षभयम्, उपजापो भेदः, ताभ्यां जर्जरं जीर्णम् । 'महीभुजामहिभयं खपक्षप्रभवं भयम्' इत्यमरः । 'समौ । भेदोपजापौ' इति च । सुहृदृहं वालिवेश्म । राक्षसराजो रावणः । उदीचि उत्तरे । 'उद ईत्' इतीत्वेऽञ्चते रूपम् । वालिप्रतिग्रहाय वालिरक्षायै। यत्तु कचिद्र- हणायेति व्याख्यानं तन्मन्दम् । 'कधं अपरिहीणमित्तधम्मो वि सो रक्खसो' इत्य- ग्रिमग्रन्थविरोधात् । प्राहिणोत्प्रहितवान् । कधमित्यादि । 'कथमपरिहीन मित्र, धर्मोऽपि स राक्षसः' [इति च्छाया । इह अपरिहीनमत्यक्तम् । मित्रधर्मों मैत्र्यम् । कथमद्भुतमित्यर्थः । राक्षसो हि कस्य मित्रं भवतीति भावः । किमुच्यते । इदै त्वल्पमित्यर्थः । किं क्षेपे । खलु वाक्यालंकारेऽनुनये वा । असौ प्रसिद्धः पुलस्त्यापत्यं रावणः । तथा च रावणो महावीरो महासत्त्व इति । प्रसिद्ध एवायमर्थ इति भावः । इममेव श्लोकेनाह-प्रियाकर्तुमिति । तुः पुनरर्थे । अस्मै वालिने प्रियाकर्तुं प्रियं विधातुम् । उपकर्तुमिति यावत् । स लङ्काप्रभुरेव परम् । समर्थ इति शेषः । नान्यः । यद्वा त्वस्मै। अन्यस्मै त्वशब्दः सर्वादिरन्यार्थः । । १. सानन्दम्' इति पुस्तकान्तरे नास्ति. २. 'सुहृल्कुलम्' इति पाठः, ८० काव्यमाला। विलक्षव्यापारं किमपि ददृशुर्यस्य दशमं शिरस्ते मूर्धानः क्षणधृतपुनर्जन्मसुभगाः ॥ ८ ॥ पशुमेद्रः (सकौतुकम् ।) तदो तदो। शुनम्शेपः-ततः सुकेतुसुता नागसहस्रबलधारिणी ताडका नाम राक्षसी तस्मादनीकादागत्य मनुष्यमण्डलविहारकौतुकादिमामस्मदीयां भूमिमधिवसति। पशुमेद्रः-(सकौतुकम् ।) णाअसस्सबला इत्थीअत्ति ति अस्सु- दपुव्वं क्खु एदं । तदो तदो। 'प्रभौ परिवृढः' इति निपातनम् । प्रियाकर्तुमिति 'सुखप्रियादानुलोम्ये' इति डाच् । स कः । नवसंख्याकनिजशिरःकर्तनरसेन प्रहृष्यदुच्छ्वसद्रोम यस्य तादृशो यः । रोमाञ्चवानित्यर्थः । इह च नव च तानि निजशिरांसीति समास कृत्वा कर्तनरसेन समासे दिक्संख्ये संज्ञायाम् इत्यसंज्ञायां समासाभाव इति न वाच्यम् । संज्ञायामित्यस्य प्रायिकत्वात् । यद्वा नवो नूतनश्चासौ निजः शिरःकर्त- नरसश्चेति समासः । अभूतपूर्वत्वांच्छिरःकर्तनस्य नवरसत्वम् । यद्वा नवानां निजशिरसां समाहार इति द्विगुः । अकारान्तोत्तरपदत्वाभावान्न स्त्रीत्वम् । कचित् 'प्रियाकर्तुं कस्मैचन' इति पाठः तत्र कस्मैचनानिर्वचनीयखरूपाय भगवते शिवाय प्रियाकर्तुं तादृशरोमाञ्चवान्स परमिह रावण एवेति योज्यम् । 'केवलेऽपि परं मतम्' इति धरणिः । त्वस्मै इत्यत्र 'क्रियाग्रहणमपि कर्तव्यम्' इति संप्रदानता। 'कर्तनं तु द्वयोश्छेदे' इति विश्वः । विलक्षत्रपावान्व्यापारो यस्य तत् । क्षणेनाल्प- कालेन धृतं यत्पुनर्जन्म तेन सुभगाः प्रसिद्धाः स्पृहणीयां वा । अपरे दशमा- दन्ये मूर्धानः । ते दशमं शिरो विलक्षं दृष्टवन्त इत्यर्थः । 'मूर्धा ना मस्तकोऽस्त्रि- ग्राम्' इत्यमरः । सुकेतुर्नाम यक्षः। नागो हस्ती सो वा । बलं सामर्थ्य सैन्य चा। 'नागः पन्नगमातङ्ग-' इति मेदिनीकरः । अनीकात्खराज्यायधिष्ठितसैन्यात् । 'अनीकोऽस्त्री रणे सैन्ये” इति मेदिनीकरः । 'मण्डलं स्याद्वादशराजसु देशेऽपि कीर्तितम्' इति विश्वः । विहारः क्रीडा। भूमिमधिवसतीत्यत्र 'उपान्वध्यासः इत्यधिकरणस्य कर्मत्वम् । णाअसहस्सेति । 'नागसहस्रबला स्त्री अस्तीत्य- श्रुतपूर्व खल्वेतत् । ततस्ततः' [ इति च्छाया । ] श्रौतस्य श्रुतिविहितस्यः। श्रुति- ।
२ अङ्कः] अनर्घराघवम् । ८१ शुनः शेपः-ततश्च श्रौतस्य विधेः प्रत्यूहमस्याः शङ्कमानः कुल- पतिरिमौ दाशरथी रामलक्ष्मणावानीतवान् । पशुमेद्रः-जाणे रामभदो त्ति को वि रक्खसाणं उवरि अव- इण्णो क्खु एसो। शुन शेपः-सखे, एवमेतत् । रामभद्र इति कोऽप्ययं चतु- रक्षरो राक्षसरक्षासिद्धमन्त्रः । विशेषेण पुनरिदानी भगवता कौशिकेन ब्रह्मज्योतिषस्तादृशं विवर्तमाश्चर्य दिव्यास्त्रमन्त्रपारायणमध्यापितः । पशुमेद्रः-मण्णे मन्तमईहिं अत्थदेवदाहिं समं बलादिबलाओ सत्तीओ वि रामे संकमिस्सन्ति । शुन शेप:-अथ किम् । तदपि वृत्तमेव । पशुमेः-अज्ज, णं भणामि जइ णिआओ जेव्व सत्तीओ णिआओ जेव्व अत्थविज्जाओ, ता किं ति अत्तणो विग्धोवसमे राहवस्स गोरअमुप्पादेदि तत्थभवं कोसिओ । अहवा पाहुणहत्थेण सप्पमारणं क्खु एदम् । र्वेदः । विधेः कर्तव्यस्य प्रत्यूह विघ्नमस्या राक्षस्याः सकाशात् । जाणे इति । 'जाने रामभद्र इति कोऽपि राक्षसानामुपर्यवतीर्णः खल्वसौ' [इति च्छाया ।] चतुरक्षरो रामभद्र इति । ब्रह्मज्योतिषो वेदतेजसः । विवर्त फलम् । दिवि भवं दिव्यम् । दिव्यास्त्रमन्त्रपारायणं दिव्यास्त्रोपस्थितिहेतुकं मन्त्रसमूहरूपवेदभागम् । 'साकल्यासङ्गवचने पारायणतुरायणे' इत्यमरः । मण्णे इत्यादि । 'मन्ये मन्त्रमयी- भिरस्त्रदेवताभिः समं बलातिबले शक्ती अपि रामे संक्रमिष्यतः' इति च्छाया । द्वित्वे बहुवचन मिति प्राकृतपरिभाषा । इह बलातिबला च शक्तिद्वयम् । एतद्रह- णान्मासमेकं तृप्तेन पुंसा स्थीयत इत्यनुभाव इह । अजेति । 'आर्य, ननु भणामि थदि निजा एव शक्तयो निजा एवास्त्रविद्याः, तत्किमित्यात्मनो विघ्नोपशमे राघवस्य गौरवमुत्पादयति तत्रभवान्कौशिकः' [इति च्छाया। ] खयमेव शत्रुशमनश- १. 'संवृत्तमेव' इति पाठः. २. (विहस्य ।) 'अहवा' इति पाठ:. ६अ०रा० ८२ काव्यमाला। । शुनाशेपः-सखे, अनभिज्ञोऽसि । खयं प्रयोगादन्तेवासिभिर्वि- हितः प्रयोगो महिमानमाचार्याणामुपचिनोति । पश्य स्थानेषु शिष्यनिवहैर्विनियुज्यमाना विद्या गुरुं हि गुणवत्तरमातनोति । आदाय शुक्तिषु बलाहकविप्रकोण रत्नाकरो भवति वारिभिरम्बुराशिः ॥ ९॥ किं च दीक्षिष्यमाणा न क्रुध्यन्तीति रक्षितारं क्षत्रियमुपाददते । पशुमेद्रः-अज, सोहणं मन्तेसि । अण्णं वि किं वि पुच्छि- दुकामो मि। क्तत्वात्कथं तथा न करोतीति भावः । 'अथवा प्राधुणकहस्तेन सर्पमारणं ख- ल्वेतत्' [ इति च्छाया।] अस्योपलक्षणस्यायमभिसंधिः-सो यदि भक्षयि- व्यति तदा प्राधुणकं, न चेत्तदा सर्पमारणमभिलषितमेव । तथा प्रकृतेऽपि यदि राक्षसा भक्षयिष्यन्ति तदा रामं, अथ न तदा रक्षोमारणं श्रेय एवेति । 'प्राधुण- स्त्वतिथिईयोः' इति त्रिकाण्डशेषः । 'जइ जिआओ जेव्ध' इत्यादि पशुभेदवाक्य उत्तरयति-स्वयं प्रयोगादिति । खयं प्रयोगादात्मप्रयुक्तेः । अन्तेवासिभिः शिष्यैः करणभूतः । उपचिनोत्युपचितीकरोति । तदेव स्पष्टयति-स्थानेविति। हि यतः शिष्यनिवहैश्छात्रसमूहै: स्थानेषु समीचीनेषु विनियुज्यमाना सती विद्या गुरुमाचार्य गुगवत्तरमतिगुणमातनोति विस्तारयति । अन दृष्टान्तमाह-आदा- येति । अम्बुराशिः समुद्रः । आदाय । अर्थात्समुद्रादेव । वारि । बलाहकेन मेघेन शुक्तिषु विप्रकीर्णैः खातीनक्षत्रयोगाद्विक्षिप्तः । विशब्दस्य विशेषार्थाभिधाय- कत्वात् । वारिभिः पानीयैः करणभूतैः । मुक्तारूपेण परिणतैरिति भावः । रत्नाकरो भवति रत्नानामुत्पत्तिस्थानं भवति। कचित् 'आधाय' इति पाठः । तत्र शुक्तिष्वाधायारोप्येत्यर्थः। 'बलाहको गिरौ मेघे' इति मेदिनीकरः । अजेति । 'आर्य, शोभनं मन्त्रयसे' [ इति च्छाया।] शोभनं कथयसीत्यर्थः । यद्यपि 'मत्रि गुप्तपरिभाषणे' इति पठ्यते तथापि लक्षणया भाषणमात्रेऽपि प्रयोगः । यद्वा धातोरनेकार्थत्वादिदम् । अण्णं वीति । 'अन्यदपि किमपि १. दीक्षमाणाः' इति पाठः. । । ।
२ अङ्क:] अनर्घराघवम् । शुनाशेपः-किं तत् । पशुमेदः-सव्वधा णिगूढं वि वाणराणं छग्गुण कधं अजेण पडिवण्णम् । शुन शेपः-सखे, सर्वमेतदयोध्यायात्रायां समाधिमयेन चक्षुषा साक्षात्कृतत्रिभुवनवृत्तान्तस्य तातविश्वामित्रस्य मुखादश्रौषम् । (सर्वतोऽव- लोक्य ।) अये, प्राभातिकी भुवनस्य लक्ष्मीः । तथा हि । प्रत्यग्रज्वलितैः पतङ्गमणिभिनीराजिता भानवः सावित्राः कुरुविन्दकन्दलरुचः प्राचीमलंकुर्वते । प्रौढध्वान्तकरालितस्य वपुषश्छायाच्छलेन क्षणा- दप्रक्षालितनिर्मलं जगदहो निर्मोकमुन्मुञ्चति ॥ १० ॥ अष्टकामोऽस्मि' [ इति च्छाया । ] 'सर्वथा निगूढमपि वानराणां षाडण्यं कथ- भार्थग प्रतिपन्नम्' [इति च्छाया । ] प्रष्टुकाम इत्यत्र 'तुं काममनसोरपि' इत्यम्- लोपः । निगूढं गुप्तम् । षाड्ण्यं मन्त्रणा । आर्येण भवता । प्रतिपनं ज्ञातम् । यात्रा गमनम् । समाधिर्ध्यानम् । साक्षात्प्रत्यक्षम् । 'साक्षात्प्रत्यक्षतुल्ययोः' इति विश्वः । वृत्तान्तो वार्ता । अश्रौषं श्रुतवानस्मि । लुङि सिचि वृद्धौ च रूपम् । प्राभातिकी प्रभातभवा । 'कालाहञ्' । प्रसक्कानुप्रसक्त्या गुरुकार्यबाधशङ्कया पशुमेह्नमतिमित्रमन्यत्र दत्तचित्तं कारयितुं समिदाहरणाय जिगमिषुराह-प्रत्य- ग्रेति । सावित्राः सौराः। तस्येदम्' इत्यण् । भानवः किरणाः प्राची पूर्वा दिशमलंकुर्वतेऽनुरजयन्ति । कीदृशाः । कुरुविन्दस्य पद्मरागस्य यत्कन्दलं प्रकाण्डः । अङ्कुरमिति यावत् । तद्वद्रुक्शोभा येषां ते तथा । यद्वा कुरुविन्दः 'पद्मरागः, कन्दलं नवपल्लवः, तयोरिव रुचो येषां ते । यद्वा कन्दलं नवाङ्कुरम् । 'कन्दलं स्यात्पल्लवे च नवाङ्कुरे' इति विश्वः । अतिलोहिता इत्यर्थः । प्रत्यग्रज्व- लितैरभिनवदीप्तैः पतङ्गमणिभिः सूर्यकान्तै राजिता । निर्मन्थिता इत्यर्थः । नीराजना शान्तिकर्म । तेजोञ्छन इति प्रसिद्धम् । किरणोत्कर्षमुक्त्वा तैर्जगन्नै- 'मल्यमाह-इदं च जगच्छायाच्छलेनातपाभावव्याजेन वपुषः शरीरस्य निर्मोकं १. 'अहो' इति पाठः. २. 'भुवनलक्ष्मीः' इति पाठः.
८४ काव्यमाला। अपि। पीत्वा भृशं कमलकुल्बलशुक्तिकोषा दोषातनी तिमिरवृष्टिमथ स्फुटन्तः । निर्यन्मधुव्रतकदम्बमिषाद्वमन्ति बिभ्रन्ति कारणगुणानिव मौक्तिकानि ॥ ११ ॥ अपि च। विकसितसंकुचितपुनर्विकखरेष्बम्बुजेषु दुर्लक्ष्याः। कलिकाः कथयति नूतनविकासिनीमधुलिहामघः ॥ १२ ॥ (आदित्यमण्डलं निर्वर्ण्य ।) कञ्चुकमुन्मुञ्चति त्यजति । कीदृशं जगत् । अप्रक्षालितं सदपि निर्मलम् । अत्राहो आश्चर्यम् । अन्यद्धि वस्तु प्रक्षालनान्निर्मलं। भवति । एतत्तु न तथेति चित्रम् । विरोधाभासः । कीदृशस्य वपुषः । प्रौढमुपचितं यङ्घान्तमन्धकारं तेन करालित लेपितस्य । विभावनानामायमलंकारः । यदाह दण्डी-'प्रसिद्धहेतुव्यावृत्त्या यत्किंचित्कारणान्तरम् । यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ॥' इति । 'पतङ्गः शलमे शालिप्रभेदे विहगे रवौ' इति मेदिनीकरः । 'कुरुविन्दः पद्म- रागः' इति धरणिः । पीत्वेति । कमलानां ये कुडमलाः कलिकास्ता एव शुक्त- यस्तासां कोषाः कर्तृभूताः दोषातनी रात्रिभवां तिमिरवृष्टिमन्धकार वृष्टिं भृशमत्यर्थ पीत्वानु स्फुटन्तः सन्तो निर्यनिर्गच्छन्यो मधुव्रतसमूहस्तस्य मिषाव्याजान्मौ- क्तिकानि मुक्ताफलानि वमन्त्युद्गिरन्ति । ननु मधुव्रतानां श्यामत्वान्मुक्तानां च श्वेतखभानत्वात्कथं तुल्यतेत्यत आह-कारणगुणान्बिभ्रन्तीव दधानानीव । 'कारणगुणा हि कार्ये गुणमारभन्ते' इति सिद्धान्तः। अत्र च तिमिरवृष्टिपानं कारणं कार्य च मधुव्रतरूपमुक्ताफलमित्यर्थः । 'कुङ्बलो मुकुलोऽस्त्रियाम्' इत्यमरः । 'दोषा रात्रौ भुजेऽपि च' इति विश्वः । दोषातनीमिति दोषाशब्दात् 'सायंचिरं- इत्यादिना ट्युस्तुट् च । विकसितेति । मधुलिहां भ्रमराणामर्घ आदरो नूतनविकान सिनीस्त दिनविकासिताः कलिकाः कर्मभूताः कथयति । कलिका एता इति ज्ञानं तत्र- । १. 'आदित्यं निर्वर्ण्य च' इति पाठः.
२ अङ्कः] अनर्घराघवम् । कटुभिरपि कठोरचक्रवाकोत्करविरहज्वरशान्तिशीतवीर्यैः । तिमिरहतमयं महोभिरञ्जञ्जयति जगन्नयनौघमुष्णभानुः ॥ १३ ॥ तदनुजानीहि मां समिदाहरणाय । पशुमेद्रः-अहं वि खत्तिअकुमाराणं दसणे उक्कण्ठिदोमि । ता कहेहि कहिं पेक्खामि । त्यानां कुरुत इत्यर्थः । कीदृशीः । पूर्वदिने विकसितानि प्रफुल्लितानि रात्री संकुचितानि निमीलितानि पुनर्वर्तमानदिने विकखराणि विकासशीलानि यान्य- म्वुजानि पद्मानि तत्र दुर्लक्ष्या दुर्जेयाः । नानावस्थपद्मदर्शनेन कलिकाविकसित- संदेहे यत्र भ्रमरादरस्तत्र मधुप्राचुर्यज्ञानात्कलिकात्वं निश्चीयत इति भावः । विक- खरेष्बित्यत्र 'स्थेशभास-' इत्यादिना वरच् । यद्वा! मकरन्दो मधुलिहां कृते भूतनविकासिनीः कलिकाः कथयति । 'पूजायां मकरन्देऽपि भवेदर्धस्तथादरे' इति विश्वः । 'मधुलिहामोघः' इति पाठ ओघः समूहः। योजना तु पूर्वैव । निर्वर्ण्य निरूप्य । कटुभिरपीति । उष्णभानुः सूर्यों जयति । किं कुर्वन् । महोभिस्तेजोभिस्तिमिरेणान्धकारेण हतं प्रतिहतं जगन्नयनौघं संसारस्य लोच- नसमूहमजनक्तीकुर्वन्सन् । अन्येनाप्यौषधेन चक्षुषोऽजनं क्रियते । तेनापि तिमि- रादिरूपव्याधिविशेषो हन्यत इति ध्वनिः । क्वचित् 'तिमिरभरम्' इति, क्वचित् "तिमिरमयम्' इति पाठः । तद्वयेऽपि योजनार्थयोरविशेषः । कीदृशैः । कटु- भिरपि तीक्ष्णैरपि सद्भिः कठोरोऽसह्यो यश्चक्रवाकसमूहविरहज्वरस्तस्य शान्ता- बुपरामे शीतः पराक्रमो येषां तादृशैः। तीक्ष्णैरपि शीतलैरिति विरोधाभासः। यद्वा कटुभिरपि रूक्षेरपि । आतपो हि कटुरूक्ष इति द्रव्यगुणः । यच्च वस्तु कटु भवति तदपि शीतवीर्य सच्चक्षुष्यं भवति । यथा पिप्पल्याश्चक्षुषि शीतवीर्यत्वम् । तथा च वैद्यकम्-'चक्षुष्या पिप्पली शीतवीर्या च' इति । 'मह उत्सवतेजसोः इति विश्वः । अनुजानीहि खीकुरु । समित्काष्ठम् । समिदाहरणायेति तादयें चतुर्थी । अहं वीति । अहमपि क्षत्रियकुमारयोर्दर्शन उत्कण्ठितोऽस्मि । तत्क- थय कुन प्रेक्षे' [इति च्छाया । ] खत्तिअकुमाराणं इति 'प्राकृते द्विवचनस्य - काव्यमाला। शुनाशेपः-(विहस्य ।) नन्वेतावेव यज्ञवाटमुत्तरेण विहारभू- मिषु क्रीडतः । तदुपेत्य निःशङ्कमवलोकय । (इति निष्क्रान्ती।) विष्कम्भकः। (ततः प्रविशतो रामलक्ष्मणौ।) राम:-अहो विचित्रमिदमायतनं सिद्धाश्रमपदं नाम भगवतो गाधिनन्दनस्य। तत्तादृक्तृणपूलकोपनयनक्लेशाच्चिरद्वेषिभि- मेंध्या वत्सतरी विहस्य बटुभिः सोल्लुण्ठमालभ्यते । बहुवचनं नित्यम्' इति बहुवचनम् । यज्ञवाटं यज्ञस्थानं यज्ञमार्ग वा । 'वाटो मार्गे वृतिस्थाने' इति विश्वः। 'एनपा द्वितीया' इति द्वितीया षष्ठ्यर्थे । उत्तरेणो- त्तरासु । 'एनबन्यतरस्यामदूरेऽपञ्चम्याः' इति सप्तम्यर्थे एन । विहारः क्रीडा। निष्कान्तौ । पशुमेशुनःशेपाविति शेषः । विष्कम्भको नाम पात्रभेदः । तथा च भरतः-'वृत्तवर्तिष्यमाणानां कथाङ्गानां निवेदकः । संक्षेपोक्तिः स विष्कम्भो मध्यपात्रप्रयोजितः ॥ कुतोऽपि खेच्छया प्राप्तः संबन्धो नोभयोरपि । विष्क- म्भकः स विज्ञेयः कथार्थस्यापि सूचकः ॥ विष्कम्भको द्विधा ज्ञेयः शुद्धः संकीर्ण एव च । शुद्धो मध्यमपात्रेण संकीर्णो मध्यमाधमैः ॥ संस्कृतोक्त्या च शुद्धः स्यात्संकीर्णो नीचभाषया' इति । तत्र शुद्धो यथा मालतीमाधवे श्मशानाङ्के कपाल- कुण्डला । उन्मत्तमाधवे सौदामिनी । संकीर्णो यथा रामानन्दे क्षपणककापा- लिको । 'असूचितस्य पात्रस्य प्रवेशो नैव युज्यते । ततो विष्कम्भकेणास्य सूचनं रचयेद्बुधः ॥ इति संगीतकल्पतरुवचनात् । 'नन्वेतावेव' इत्यादिना सूचितयो रामलक्ष्मणयोः प्रवेशमाह-ततः प्रविशत इति । आयतनं स्थानम् । सिद्धाश्रमपदं वामनमूर्तेर्हरेः स्थानम् । कुतो विचित्रमिद- मायतनमित्यत आह-तत्ताहगिति । बटुभिर्मुनिबालकैर्विहस्य सो- १. सिद्धाश्रमं नाम' इति पाठः, . । २ अङ्कः] अनर्घराघवम् । अप्येष प्रतनूभवत्यतिथिभिः सोच्छासनासापुटै- रापीतो मधुपर्कपाकसुरभिः प्राग्वंशजन्मानिलः ॥ १४ ॥ लक्ष्मण:-आर्य, किलात्रैव देवः कौस्तुभकिंजल्कनीलोत्पलमसौ हरिः । खयं किमपि तत्तेपे तपः कपटवामनः ॥ १५॥ लुण्ठं सोपहासं यथा भवति तथा। मेध्या विशुद्धा वत्सतरी वर्षद्वयवयस्का गौरा- लभ्यते मार्यते । अपूर्वो लभिारणार्थः । यदाह-श्वेतं छागमालभेत' इति । 'आलम्भपिचविशरघातोन्माथवधा अपि' इत्यमरः । वत्सतरीमारणं चातिथावागते विहितमेव । 'महोक्षं वा त्वत्सतरी दद्यादतिथये गृही' इति स्मृतेः । 'इदानीं मयानीतं नवतृणं भुव' इति लोकोक्योपहासः । सोलुण्ठतायां निमित्तमाह- तत्ताडगिति । तदुःखजनकं तादृग्वत्सीयं यत्तृणपूलकं तस्योपनयनमुपस्थापनं तस्य केशाद्गुरुभारवहनश्रमाच्चिरद्वेषिभिः । अन्योऽपि द्वेष्युपहस्य मार्यत इति ध्वनिः । एषोऽपि प्राग्वंशे जन्म यस्य तादृशो हविर्गृहपूर्वजातोऽनिलो वायुः प्रतनूभवति । प्रकर्षेण कृशो भवतीत्यर्थः । मधुपर्कपाकेन हूयमानमधुपर्कस्य पाकेन सुरभिरत एवातिथिभिः सोच्छ्वासाः सप्रकाशा ये नासापुटास्तैरासमन्ताद्भावेन पीतः । अत एव कृशतरोऽपि । 'प्राग्वंशः प्राग्यविर्गेहात्' इत्यमरः । 'गन्धवाहानिला- शुगाः' इति च । 'मेध्यं पूते मेधसे च' इति धरणिः । अत्रैव सिद्धाश्रम एव । किल प्रसिद्धौ । न केवलमनेन प्रकारेणाश्रमपदस्य वैचित्र्यम्, किं त्वतिपावि- त्र्यमप्यस्तीत्याह-देव इति । असौ हरिदेवो नारायणोऽत्रैव स्वयमात्मना किमपि तदनिर्वचनीयं तपस्तेपे तप्तवान् । अन्ये तपखिनो भगवदाराधनार्थमेव तपः कुर्वते । अयं तु भगवान्किमिति तपः करोतीत्यनिर्वचनीयत्वं तपसः । कीदृशः । कौस्तुभो मणिभेदः स एव किंजल्कः केसरो यस्य तन्नीलोत्पलमिव नीलोत्पलम् । ततश्च द्वयोर्विशेषणसमासः । इह भगवतोऽतिश्यामत्वान्नीलोत्पल- त्वेन रूपणम् । कौस्तुभस्य भगवतो हृन्मध्यस्थितत्वाद्दीप्तिमत्त्वाच्च किंजल्केन 'रकम् । रूपकोऽयमलंकारः। कपटवामनो मायावामनमूर्तिः। 'हरिणा त्रिवि- ऋाण किल बलिच्छलनार्थ वामनरूपं कृत्वा तत्र सिद्धाश्रमे तपः कृतम्'-इति पुग्णम् । 'किंजल्कः केसरोऽस्त्रियाम्' इत्यमरः । “खों हखश्च वामनः' इति .
काव्यमाला। 000 इत्थमेतन्महातीर्थमध्यासीना द्विजातयः । अकुतोभयसंचाराः षट्कर्माणि प्रयुञ्जते ॥ १६ ॥ (अन्यतश्च दृष्ट्वा ।) आर्य, पश्यैते पशुबन्धवेदिवलयैरौदुम्बरीदन्तुरै- नित्यव्यञ्जितगृह्यतत्रविधयो रम्या गृहस्थाश्रमाः। यत्रामी गृहमेधिनः प्रचलितखाराज्यसिंहासना वैतानेषु कृपीटयोनिषु पुरोडाशं वषट्कुर्वते ॥ १७ ॥ च । इत्थमिति । द्विजातयो ब्राह्मणाः षट्कर्माणि प्रयुञ्जते। कुर्वत इत्यर्थः । अकुतोभयेन संचारो येषां ते। असुब्विभक्तिकत्वात्तसिलोऽलुक् । इत्थमनेन वामन- तपस्याधिकरणत्वेन यदेतन्महातीर्थ तदध्यासीनाः । महातीर्थमित्यत्र 'आन्महतः- इत्यादिनात्त्वम् । तीर्थस्य च महत्त्वं महाजनपरिग्रहेण । 'यदध्यासितं महद्भिस्तद्धि तीर्थ प्रचक्षते' इति स्मृतिः । 'तीर्थ शास्त्रे पुरे क्षेत्रे' इति विश्वः । 'दानमध्यापन पितृतर्पणातिथिपूजनम् । होमो बलिश्च विप्राणां षट्कर्माणि दिने दिने ॥' इति । यद्वा यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहाः षट्कर्माणि । प्रयुञ्जत इत्यत्र 'प्रोपाभ्यां युजेः-' इति तङ् । पश्येत्यादि । हे आर्य रामभद्र, एते पुरोवर्तिनो गृहस्थाश्रमा रम्याः । सन्तीति शेषः । तान्पश्येत्यन्वयः । तानित्यध्याहार्यम् । यद्वा वाक्यार्थस्यैव कर्मत्वम् । तत्र वाक्यस्याप्रतिपादकत्वान्न द्वितीया । कीदृशाः । पशुबन्धो यागविशेषस्तस्य वेदिः परिष्कृता भूमिस्तस्या वलयमण्डलैः कारणभूतै- नित्यं व्यजितो व्यक्तीकृतो गृह्यतन्त्रविधिह्यसिद्धान्तविधानं येषु ते । यद्वा पशूनां बन्धो यत्र सा पशुबन्धवेदिस्ता दृशवेदीनां] सां वलयैः समूहैः। कीदृशैः । औदु. म्वर्युदुम्बरकाष्ठस्थूणा तया दन्तुरैरुन्नतैः । पशुबन्धयागे हि पशुबध्यते, औदुम्ब- रीस्पर्शश्च क्रियते । यदाह-'औदुम्बरी स्पृष्ट्वोद्गायेत्' इति । 'उदुम्बरस्तु देहल्यां वृक्षभेदे च' इति मेदिनीकरः । यद्वा औदुम्बरी सर्पफणाकारः काष्ठभेदः । यः खलु यज्ञस्थाने पशुबन्धार्थं निखात्य ध्रियते तेन दन्तुरैः । यत्र गृहस्थाश्रमे गृह धिनः सपत्नीका गृहस्था वैतानेषु यज्ञसंबन्धिषु कृपीटयोनिषु वहिषु पुरोडा । । १. अन्यत्र च' इति पाठः, २ अङ्कः] अनर्घराघवम् । रामः-(सहर्षस्मितम् ।) वत्स, इतोऽपि तावत्कृतार्थयावश्चक्षुषी । प्रसन्नपाक्नोऽयमृषीणां समवायः । इदममीषाम् पूरयित्वेव सर्वाङ्गमतिरिक्ताः शिराततीः । जटारूपेण विभ्राणैः शिरोभिर्गहनं सदः ॥ १८॥ । । चतुर्मुष्टिव्रीहिनिर्मितमश्वशफाकारपिष्टकम् । "चतुरो मुष्टीनिर्वपति', 'अश्वशफा- कारः पुरोडाशः' इति श्रुत्या तादृक् पिष्टस्य पुरोडाशपदवाच्यत्वविधानात् । वषद- कुर्वते । जुह्वतीत्यर्थः । तदुक्तम्-'खाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधा' इति । प्रचलितं कम्पितं खाराज्यस्य स्वर्गराज्यस्य सिंहासनं येभ्यस्ते । ममैते कि खामिनो भवेयुरिति तेषां कम्प इति भावः । प्रचलितमिति 'चल कम्पने' णिच् । 'कम्पने चलिः' इति मित्संज्ञा । गृहमेधिन इति । गृहा दाराः । 'न गृह गृहमित्याहुदृहिणी गृहमुच्यते । तेषां मेधः संगमः । 'मेधृ संगमे । स एषा- मेस्तीति गृहमेधिनः । 'अत इनिः' । 'दन्तुरस्तूनतदन्ते तथोनतनतेऽपि च' इति मेदिनीकरः । 'कृपीटयोनिचलनः' इत्यमरः । वेदिः परिष्कृता भूमिः' इति च । इत इति । इतोऽत्रेत्यर्थः । आद्यादित्वात्सप्तम्यां तसिः । कृतार्थयावश्चरि- तार्थीकुर्वः । 'तत्करोति-' इति णिच् । समवायः समूहः । इदानीमतिशान्तरूपं वैचित्र्यमाह-इदममीषामिति । अमीषामृषीणामिदं सदः सभा शिरोभिर्मस्त- कैर्गहनं विषमम् । अस्तीति शेषः । कीदृशैः। जटारूपेण जटाव्याजेन शिरातती: शिरासमूहान्बिभ्राणैर्धारयद्भिः । ननु शिरायाः शरीराभ्यन्तरस्थायित्वात्कथं बहि- र्भाव इत्यत आह-सर्वाङ्गं सर्वावयवं पूरयित्वातिरिक्ता अवशिष्टा बहिर्भूताः । ननु तथाप्यत्यन्तासंभवेन बाधितोऽयमर्थः 'वहिरनुष्णः' इतिवदित्यत आह- इवेति । इवशब्द उत्प्रेक्षायाम् । यद्वा इवशब्दो भिन्नक्रमः 'ततीः' इत्यस्यान- न्तरं द्रष्टव्यः । नैता जटाः किं तु शिराततीरिवेति भावः । यद्वा इदं सदः सभा- स्थानं शिरोभिर्गहनं वनमिव । शिरावरूपास्ततीलता बिभ्राणैः । अन्यदपि वनं - । १. 'सहर्षन्' इति पाठः. इति पाठः २. 'वत्स, लक्ष्मण' इति पाठः, ३. 'तावत्कृतार्थय' काव्यमाला। किं, च। तपःकृशतरैरङ्गैः स्रष्टुमाकारितैरिव । सायं प्रातरमी पुण्यमनिहोत्रं प्रयुञ्जते ॥ १९ ॥ (इति परिक्रमतः।) लक्ष्मण:-(सहासम् ।) आर्य, रमणीयमितो वर्तते । बालेयतण्डुलविलोपेकदर्थिताभि- रेताभिरभिशरणेषु सधर्मिणीभिः । तत्रासहेतुमपि दण्डमुदस्यमान- माघ्रातुमिच्छति मृगे मुनयो हसन्ति ॥ २०॥ लतां धत्त इति ध्वनिः । तत्किमेषामाकारः स्वाभाविक एवेत्याह-किं चेत्यादि अमी मुनयः सायं प्रातश्च पुण्यं पवित्रमग्निहोत्रं यागविशेष प्रयुञ्जते कुर्वते । अझैः शरीरैलक्षिताः । इत्थंभूतलक्षणे' इति तृतीया । कीदृशैः। तपसा कृशतमैः । अत एव स्रष्टुमाकारितैरिव । इवशब्दो भिन्नक्रमः । स्रष्टुमि- वाकारितैः । उत्कीर्णैरिसके । अन्यत्रापि चित्रलिखनादौ प्रथमं रेखा क्रियते, ततो वर्णिकाभिः पूर्यत इति ध्वनिः । एतेऽप्यस्थिपुञ्जरूपाः, अतः सृष्ट्यर्थ किमानीता इति भावः । न केवलमृषीणामेव प्रशान्तस्वभावत्वम् , किं तु तत्पत्नीनामपीति प्रकटयन्वैचित्र्यान्तरं दर्शयति-तदित्यादिना मुनयो हसन्तीत्यनेन । मृगे हरिणे तत्रासहेतुमपि तस्य मृगस्य भयकारणमपि दण्डमा- प्रातुमिच्छति सति मुनयो हसन्तीति संबन्धः। मृगादीनां दण्डादिदर्शनाद्भय- सद्भाव इति तावद्वस्तुगतिः । तत्रान्यथादर्शनादतिकौतुकेन हासः । कीदृशम् । सधर्मिणीभिर्द्वितीयाभिः । पत्नीभिरिति यावत् । प्रकृतत्वान्मुनीनामेव । अग्नि- शरणेष्वग्निगृहेषूदस्यमानमुत्क्षिप्यमाणम् । 'असु क्षेपणे' । कीदृशीभिः । बल्यर्थं ये तण्डुलास्तेषां विलोपेनाहरणेन । भक्षणेनेति यावत् । कदर्थिताभिर्दुःखि- ताभिः । बालेयेत्यत्र 'छदिरुपधिबलेर्ड' । 'बालेयो गर्दभे पुंसि मृदौ बलिदि त्रिषु' इति विश्वः । 'शरणं गृहरक्षित्रोः' इति च । 'द्वितीया सहधर्मिणी' स्य- । १. 'उपासते' इति पाठः. २. विलेप' इति पाठः. ३. उत्रास' इति पाठ OUREDMINS १. 'इदं तावत्' इति पाठः, २. 'तृणानि' इति पाठा २ अङ्क: ] अनर्घराघवम् । (परिक्रामन्सकौतुकानुरागम् ।) वत्स, इतस्तावत् । आर्द्रप्रसूतिरियमङ्गनयज्ञवेदि- नेदिष्ठमेव हरिणी तृणुते तृणं च । वत्सीयतापसकुमारकरोपनीत- नीवारनिर्वृतमपत्यमैवेक्षते च ॥ २१ ॥ अपि च। विष्वक्तपोधनकुमारसमlमाण- श्यामाकतण्डुलहृतां च पिपीलिकानाम् । श्रेणीभिराश्रमपथाः प्रथमानचित्र- पत्रावलीवलयिनो मुदमुद्रहन्ति ॥ २२॥ मरः । न केवलमनयोवृद्धत्वे प्रशान्तखभावत्वम्, किं तु बालस्यातिचञ्चलखभाव- स्यापि प्रशान्तत्वमित्युपपादयन्वैचित्र्यान्तरमाह-आईत्यादि । इयं हरिणी तृणं तृणुते खादति च अपत्यमवेक्षते परिपालयति च । चकारद्वयं तुल्यकाल- ताद्योतनार्थम् । अपत्यावेक्षणप्रयोजक रूपमाह-आर्द्रप्रसूतिरिति । अभिनव- प्रसूतेत्यर्थः । कीदृशं तृणम् । अङ्गने या यज्ञवेदिस्तस्या नेदिष्ठमतिनिकटस्थम् । कीदृशमपत्यम् । वत्सीया वत्सेभ्यो हिता ये तापसकुमारास्तैः करैरुपनीता ये. नीवाराः 'तुरी' इति प्रसिद्धास्तैर्निवृतं संतुष्टम् । तृणुत इति 'तृणु अदने' तना- दिरुभयपदी । 'संज्ञापूर्वको विधिरनित्यः' इति गुणाभावः । व्याकरणान्तरे तु विकल्प एव गुणे । नेदिष्ठमिति 'अन्तिकबाढयोर्नेदसाधौ' इतीष्ठनि अन्तिकस्य नेदादेशः । 'नेदिष्ठमन्तिकतमम्' इत्यमरः । वत्सीयेत्यत्र 'तस्मै हितम्' इति छः । विष्वगिति । आश्रमपथा आश्रममार्गा मुदं हर्षमुद्वहन्तीति संबन्धः। आश्रमाणां पन्या आश्रमपथः। 'ऋक्पू:-' इत्यः । कीदृशाः। पिपीलिकानां श्रेणीभिः पतिभिः प्रथमाना ख्याता या चित्रा पत्रावली पत्रलेखा सैव वलयो यत्र तादृशाः। कीदृशीनाम् । विष्वक्सर्वत्र तपोधनकुमारैर्ये समय॑माणा दीयमानाः श्यामाकानां 'सामा' इति - ।
काव्यमाला। लक्ष्मणः-अहो पशूनामप्यपत्यवात्सल्यम् । अहो शिशूनामपि सत्कर्मताच्छील्यम् । राम:-(अन्यतोऽवलोक्य ।) मुनिविनियोगविलूनप्ररूढमृदुशावलानि वहींषि । गोकर्णतर्णकोऽयं त!त्युपकण्ठकच्छेषु ॥ २३ ॥ (इति परिक्रामतः।) प्रसिद्धानां तण्डुलास्तदपहारिकाणाम् । 'विप्च'इति क्विम् । श्यामाकतण्डलस्यातिश्वे- तखभावत्वात्पिपीलिकानां श्यामत्वात्कियतीनां च तासामीपल्लोहितत्वाचित्ररूपपत्राव- लीवलयत्वमुचितम् । 'समन्ततस्तु परितः सर्वतो विष्वगित्यपि' इत्यमरः । वात्सल्यं प्रेमा । ताच्छील्यं तत्स्वभावत्वम् । मृगाणामपि द्वेषिविषयकात्यन्तनिर्म- रत्वं दर्शयन्वैचित्र्यान्तरमाह -मुनीति । अयं गोकर्णतर्णको हरिणविशेष. बालक उपकण्ठकच्छेषु कच्छसमीपेषु बहींषि कुशांस्तोति खादति । 'तृणु अदने' उभयपदी । पक्षे गुणः । उपकण्ठः समीपम् । अतिगर्तजलबहुलं स्थानं कच्छः । नदीतटं वा । 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः' इत्यमरः । 'कच्छो नदीतटेऽनूपे' इति विश्वः । कीदृशानि । मुनिभिर्विनियोगार्थ क्रिया. निमित्तं विलूनान्युत्पाटितानि ततः प्ररूढान्युत्पन्नानि शाद्वलानि हरितानि येषां तादृशानि । यद्वा मुनिर्वियोगविलूनानि, प्ररूढमृदुशाद्वलानि चेति कर्मधारयः । 'शादो जम्बालशष्पयोः' इत्यमरः । 'शष्पं वालतृणम्' इति च । शादोऽस्यास्तीति 'नडशादावलच् । 'शाल: शादहरिते' इत्यमरः । न च शादुलशब्देन बर्हिः- शब्देन च तृणविशेषाभिधानात्पौनरुत्यापत्तिरिति वाच्यम् । शादलशब्दस्यात्र लक्षणया हरितमात्रवृत्तित्वात् । 'गोकर्णोऽश्वतरेऽपि स्यान्मृगसर्पविशेषयोः' इति मेदिनीकरः । 'तर्णको बालकः समौ' इत्यमरः । चेतनानां प्रशान्तस्वभावत्व- १. 'लक्ष्मणः-(दृश्या)' इति पाठः. २. 'प्रसव' इति पाठः. ३. 'रामः' इति केषुचित्पुस्तकेषु नास्ति. ४. 'इत्युभी' इति पाठः, २ अङ्कः] अनर्घराघवम् । लक्ष्मण:-आर्य, - इयमेभिरालवालैः पदे पदे ग्रन्थिलासु कुल्यासु । 'तीव्रतमा जलवेणिः प्रवहति विश्रम्य विश्रम्य ॥२४॥ रामः-वत्स, साधु दृष्टम् । आलवालवलयेषु भूरुहां मांसलस्तिमितमन्तरान्तरा । केरलीचिकुरभङ्गिभङ्गुरं सारणीषु पुनरम्बु दृश्यते ॥ २५ ॥ तदेहि । मंगवतीं कौशिकीमालोकयन्तौ मुहूर्तमात्रमात्मानं पुनीवहे । (परिक्रम्यावलोक्य च ।) कचित्सांकामिकोऽपि विशेषो नैसर्गिकमति- शेते । तथा हि। मुक्त्वाऽचेतनानामप्याह-इयमिति । इयं तीव्रतमातिवेगवती जलवेणिर्वेण्याकारं जलम् । सूक्ष्मत्वात्कुटिलत्वाच्च वेण्या रूपणम् । यद्वा जलपूर्णा वेणिः प्रवाहो जल- वणिः । 'नद्यादेरन्तरे वेणिः केशस्यापि च बन्धने' इति विश्वः। कुल्यासु कृत्रिम- नदीषु विश्रम्य विश्रम्य पुनः पुनर्विश्रामं कृत्वा प्रवहति निःसरति । किंभूतासु । एभिरालवालै क्षमूले जलधारकैः ‘थल' इति प्रसिद्धः पदे पदे स्थाने स्थाने सकल- तरूणां जलप्राप्त्यर्थं ग्रन्थिलासु पर्ववतीषु । विषमाखित्यर्थः । सिध्मादित्वा- क्लच् । प्रवहतीत्यत्र 'प्राद्वहः' इति परस्मैपदम् । 'कुल्या स्यात्कृत्रिमा सरित' इत्यमरः । रामोऽतिरम्यत्वेन लक्ष्मणवचनमनुवदति-आलवालेति । अम्बु पानीयं सारणीषु वल्पनदीषु । यद्वा सारण्यो जलप्रवाहिकास्तासु पुनदृश्यते । कीदृशम् । केरली केरलदेशजाता स्त्री तस्याश्चिकुरभङ्गिः केशकुटिलता तद्वद्भङ्गुरं खतः कुटिलम् । केरलदेशस्त्रीणां चिकुराः कुटिला भवन्तीति प्रसिद्धम् । भूरुहां वृक्षाणामालवालवलयेषु वृक्षमूलजलधारकसमूहेष्वन्तरान्तरा मध्ये मध्ये मांसलं प्रचुरम् । सिध्मादित्वाल्लच् । स्तिमितं निश्चलं चेति कर्मधारयः । 'खल्पनद्यां च सारणी' इति विश्वः । 'आलवालः स्थितो मूले वृक्षस्य जलधारके' इति च । ३. 'को- १. 'तीव्रतरा जलवेणी' इति पाठः. २. 'दृष्टम् । अहो' इति पाठः. शिकीभगवतीमवलोकयन्तौ मुहूर्वम्' इति पाठः. ४. 'पुनीमहे' इति पाठः. ५. नैसर्गिकमधिकम्' इति पाठः. ६. 'पश्य' इति पाठः.
'काव्यमाला। जडखच्छखादुप्रकृतिरुपतेन्द्रियगणो गुणो यद्यप्यासामयमयुतसिद्धो विजयते । तथाप्युत्कर्षाय स्फुरति सरितामाश्रमसदा- मिदानी वानीरद्रुमकुसुमजन्मा परिमलः ॥ २६ ॥ लक्ष्मणः-आर्य, पुरस्तादनुकौशिकीतीरमालोकय । तैर्मेधाजननव्रतप्रणयिभिषूहैर्बटूनामियं सिक्ता नित्यवसन्तविभ्रमवती रम्या पलाशावली। । : कौशिकी नदीभेदम् । पुनीवहे पवित्रीकुर्वः । सांक्रामिक आगन्तुकः । नैसर्गिक स्वाभाविकम् । उभयोरप्यध्यात्मादित्वाट्ठक् । अतिशेतेऽभिभवति । सांक्रासिकेण नैसर्गिकस्याभिभवोपपादनार्थ नैसार्गक रूपमाह-जडेति । आसां सरितां नदीनामयुतसिद्धः पृथक्सिद्धः । 'यु मिश्रणे' । युतं मिलितं न युतमयुतम् । यद्वायुतसिद्धः खाभाविको गुणो यद्यपि विजयते। प्रत्यक्षविषयीभवतीत्यर्थः। कीदृशः। जडखच्छस्वादुप्रकृतिभूतः स्वभावभूतो यस्य गुणस्य स तथा । तेन जलत्वं स्वच्छत्वं खादुत्वं च लभ्यते । अत एवोपहूत आहूतः । आकृष्ट इति यावत् । इन्द्रियगणो येन स तथा । इदानीमुपपाद्यमाह-तथापि वेतसवृक्षपुष्पजन्मा परिमलो गन्ध आश्र- मसदामाश्रमाश्रितानामुत्कर्षाय प्रकर्षाय स्फुरति । आश्रमसदामिति 'सत्सूद्विष-' इति क्विकप् । 'शीतवानीरवञ्जुलाः' इत्यमरः । 'विमर्दोत्थे परिमलो गन्धमात्रेऽपि दृश्यते' इति विश्वः । अनु समीपे । अवलोकनक्रियापेक्षसमुदायवाक्यार्थस्यात्र कर्मता। केचित्तु अनुकौशिकीतीरमिति क्रियाविशेषणम् । यद्वानुशब्देन सह कौशिकीतीरपदस्य 'अनुर्यत्समया' इत्यव्ययीभावे सप्तमी । 'तृतीयासप्तम्योबहु- लम्' इत्यम् । इदानीमचेतनामप्यनिष्टजनकाद्रक्षकत्वेन च्छलतो मुनीनां तपःप्र- भावमाह-तैरिति । इयं पलाशावली पलाशवृक्षश्रेणी रम्या। अस्तीति शेषः कीदृशीं । बटूनां मुनिशिशूनां व्यूहैः समूहैः सिक्का । अत एव नियं सर्वदा वसन्तस्य ऋतुविशेषस्य विभ्रमो विलासो विशिष्टो वा भ्रमस्तद्वती । किमर्थं तैः पलाशावली सिच्यत इत्यत आह-मेधेति । 'धीर्धारणावती मेधा' इत्यमरः । । . १.'श्रयति' इति पाठः.
२ अङ्कः] अनर्घराघवम् । एतस्यां हरिणारिपाणिजमृणिश्रेणिश्रियः कोरका गोपायन्ति तपोवनं वनकरिक्रीडाकराकर्षणात् ॥ २७ ॥ (नेपथ्ये ।) रामभद्र, कियचिरमवलोकनेन कृतार्थीक्रियन्ते तपोवनविहारभू- मयः । संप्रति हि परिणमयति ज्योतिर्वृत्त्या यजूंषि रुचां पतिः किमपि शमिनः सावित्राख्यं रहस्यमुपासते । गुरुरयमैनुष्ठास्यन्माध्यंदिनीं सवनक्रिया- मिह मखविधौ नेदीयांस भवन्तमपेक्षते ॥ २८ ॥ मेधाजननाख्यं व्रतं छन्दोगब्रह्मचारिभिः क्रियते । तत्र जलेन पलाशमूलसेचनं क्रियत इति समाचारः । एतस्यां पलाशावल्यां कोरकाः कलिका वनकरिणां वनहस्तिनां क्रीडया यत्करेण स्थूलहस्तेन कर्षणं तस्मात्तपोवनं गोपायन्ति रक्षन्ति । 'गुपू रक्षणे' 'गुपूधूप-' इत्यादिनायः। रक्षणकारणं कलिकाविशेषण- माह-हरिणारेः सिंहस्य ये पाणिजा नखास्त एवं सृणिश्रेण्यकुशपतिस्तद्वच्छ्रीः शोभा यासां तास्तथा । 'व्यूहस्तु बलविन्यासे निर्मले वृन्दतर्कयोः' इति धरणिः । 'अङ्कुशोऽस्त्री सृणिः स्त्रियाम्' इत्यमरः । 'कलिका कोरकः पुमान्' इति च । प्रस्तुतयज्ञरक्षामपहायाप्रस्तुतेऽत्यन्तासक्ति रामभद्र स्याशय रसान्तराय शुनःशेपः प्रेरयति-नेपथ्य इत्यादि । अयमेव चूडिकानामालंकारः । तथा च भरतः- 'अन्तर्जवनिकासंस्थेः सूतमागधबन्दिभिः । अर्थोपक्षेपणं यद्धि क्रियते सा तु चूडिका ॥' इति । कृतार्थः कृतप्रयोजनः । विहारः क्रीडा । परीत्यादि। रुचां पतिः सूर्यो ज्योतिवृत्त्या ज्योतीरूपतया यजूंषि परिणमयति । परिणतानि करोतीत्यर्थः । मध्याह्ने यजुर्मयत्वादादित्यस्य । 'ऋड्मयः प्रातरादित्यो मध्याह्ने च यजुर्मयः । सायं साममयश्चेति त्रयीमय उदाहृतः ॥' इति पुराणम् । अत एवाग्रे वक्ष्यति-"एतत्रयीमयं ज्योतिरादित्याख्यं निमज्जति' इति । शमिनो सुनयः। सावित्राख्यं सावित्री मध्याह्नसंध्या तस्याः संबन्धि सावित्रं तेन तदाख्या यस्य तत् । यद्वा सवितृदेवताकं सावित्रनामधेयं वा रहस्यं तत्त्वम् । मन्त्रमिति १. 'यमिनः' इति पाठः. २. "अविष्ठास्यन्' इति पाठः. .. imawnema काव्यमाला । रामः-(अश्रुतमभिनीय सानुरागम् ।) वारांस्त्रीनभिषुण्वते विदधते वन्यैः शरीरस्थिती- रैणेय्यां त्वचि संविशन्ति वसते चापि त्वचस्तारवीः । तत्पश्यन्ति च धाम नाभिपततो यच्चामणे चक्षुषी धन्यानां विरजस्तमा भगवती चर्येयमाबादते ॥ २९ ॥ (नेपथ्ये पुनस्तदेव पठ्यते ।) रामः-(श्रुत्वा ससंभ्रममूर्ध्वमवलोक्य चै ।) कथं गंगनमध्यमध्यारूढो निदाघदीधितिः । वत्स, तदेहि । यज्ञवाटमधिष्ठाय क्रमेण कृताहि- कस्य भगवतः कौशिकस्य प्रत्यनन्तरीभवावः । (इति परिकामतः।) यावत् । उपासते । सेवन्त इत्यर्थः । अयं गुरुर्विश्वामित्रो मखविधौ यज्ञविधों मध्यंदिनभवां सवनक्रिया स्नानव्यापारमनुष्ठास्यन् । अनुष्ठानं कर्तुमिति यावत् । तुमर्थे लद । भवन्तं रामभद्रं नेदीयांसं निकटस्थमपेक्षते । 'सवनं त्वध्वरे स्नाने' इति विश्वः । 'रहस्तत्त्वे रसे गुह्ये' इति च । नेदीयांसमिति 'अन्तिकबाढ- योर्नेदसाधौ' इति नेदादेशः । आश्रमवैचित्र्यदर्शनासक्तमनाः पुनराश्रममेवो- पवर्णयति-वारानिति । धन्यानामियं विरजस्तमा विगतरजस्तमोगुणा । सात्त्विकीत्यर्थात् । चर्या कृतिराह्लादते । सुखयतीत्यर्थः । 'हादी सुखे च'। यद्वेर्यापथस्थितिश्चर्या । 'चर्या त्वीर्यापथस्थितिः' इत्यमरः। ईर्यते गुरोः शास्त्र- स्योपासनया ज्ञायत ईर्या । तस्याः पन्था उपाय ईर्यापथः । तत्र ध्यानधारणाधु- पाये या स्थितिरवस्थानं परिव्राजकादीनां सा चर्याशब्दवाच्या। चर्याखरूपमाह -वारानिति । एते । धन्या इत्यर्थात् । त्रीन्वारान्व्याप्याभिषुण्वते नान्ति । वा- रानित्यत्यन्तसंयोगे द्वितीया। वन्यैः फलमूलादिभिः शरीरस्थितीः प्राणरक्षा विदधते १. 'अश्रुतिम्' इति पाठः. २. 'त्रीन्वारान्' इति पाठः, ३. 'त्वचं तारवीम्' इति पाठः. ४. 'विरजन्तमा' इति पाठः. ५. 'तथैव' इति पाठः. ६. केषुचित्पुस्तके चकारो नास्ति. ७. 'गगनमध्यारूढः', 'गगनमध्यमारूढः' इति पाठौ. ८. 'वत्स' इति क्वचिन्नास्ति. ..
इत्यण् । 'कोशे टिलोपो २ अङ्कः] अनर्घराघवम् । लक्ष्मणः-(सर्वतो दृष्ट्वा ।) आर्य, उद्दामधुमणिद्युतिव्यतिकरप्रक्रीडदोंपल- ज्वालाजालजटालजाङ्गलतटीनिष्कूजकोयष्टयः । भौमोप्मप्लवमानसूर्यकिरणक्रूरप्रकाशा दृशो- राविष्कर्म समापयन्ति धिगमूर्मध्याह्नशून्या दिशः॥३०॥ अन्तिकतमा चेयं यज्ञवाटभूमिः । तदेतदेव न्यग्रोधच्छायामण्डपमन कुर्वन्ति । ऐणेय्यामेणी हरिणीभेदस्तद्विकारभूतायां त्वचि संविशन्ति शेरते। तारवी- खरुविकारास्त्वचो वसते परिदधति । यच्च धाम तेजश्चार्मणे चर्ममये चक्षुषी नाभिप- ततो न गच्छतस्तद्धाम पश्यन्ति । समाधिस्वरूपचक्षुषा परमात्मस्वरूपं तेजः पश्यन्ती- त्यर्थः। ऐणेय्यामिति 'एण्या ढञ्' इति विकारे ढञ्। वसत इति 'वस आच्छादने । 'आत्मनेपदेष्वनतः' इति झस्यातादेशः । तारवीरिति तरोर्विकारः । अण् । 'ओ- गुणः' । 'टिड्डाणञ्-' इति डीप् । चामणे इति चर्मणो विकारः । तस्य विकार' भ्रमं सादरमित्यर्थः । मामपि कौशिकोऽप्यपेक्षत इति भावः । वाटो मा- गर्गोऽग्निर्वा । अधिष्ठायाश्रित्य । अह्ना दिवसेन निवृत्तमाह्निकम् । 'तेन निवृत्तम्' इति ठञ् । 'अष्टखोरेव' इति नियमाटिलोपाभावः। 'अल्लोपोऽनः' इत्यल्लोपः। प्रत्यनन्तरः संनिहितः । मध्याह्नसंचारस्यातिदुःखजनकतया क्षणं छायामाश्र- यितुमना गुरुकार्यानुरोधेन रामं छायाश्रयणानुत्कण्ठितमालोक्य साक्षाद्वक्तुमाश- क्यतया मध्याह्नवर्णनेनार्थाद्विश्रामं कर्तुमाह-उद्दामेति । धिक्कष्टे निन्दायां वा । अमूमध्याह्ने शून्या दिशः । मध्याह्ने खल्वातपभयाजनसंचाराभावात् । दृशोश्चक्षुषोराविष्कर्माविष्कारः । प्रसरणमिति यावत् । समापयन्त्यपहरन्ति । क्वचित् 'आयुष्कर्म' इति पाठः । तत्र प्राणधारणसामर्थ्यमित्यर्थः । क्वचित 'मध्येऽह्नि शून्या दिशः' इति पाठः । भगवतः सूर्यस्यात्यन्ततेजःप्रसरणाचक्षु- तेजो न प्रसरति । सौरतेजसैवाभिभूतत्वात् । उद्दामा प्रबला या घुमणिद्युतिः १. निरूप्य' इति पाठः. २. 'सूरकिरण' इति पाठः. ३. 'यज्ञभूमिः । तदेत- न्यग्रोध' इति पाठः. ४. 'अध्यासीनानृविजः' इति पाठः.
९८ काव्यमाला। ध्यासीना ऋत्विजः प्रत्यवेक्षामहे । गलितयौवने पुनरहनि भगवन्तं द्रक्ष्यावः। रामः-एवमस्तु। (इति परिक्रम्य नाट्येनोपविशतः।) लक्ष्मण:-(पार्श्वतोऽवलोक्य ।) आर्य, मध्येव्योम क्रीडयित्वा मयूखान्भानोर्बिम्बे लम्बमाने क्रमेण । खैर खैर मूलतः पादपानां पश्य च्छायाः कश्चिदाकर्षतीव ॥ ३१ ॥ सूर्यदीधितिस्तस्या व्यतिकरः संबन्धः समूहो वा तेन प्रक्रीडन्योऽर्कोपल: सूर्य- कान्तमणिस्तस्य ज्वालाजालेन जटालेव जटाला जायलतटी निर्जलदेशस्तन निष्कूजो निःशब्दोऽथवा निःशेषेण शब्दयोगी कोयष्टिष्टिटिभः 'कोण्टाडावुक' इति प्रसिद्धो जलपक्षी यासु तादृशाः । भूम्या अयं भौमः ऊष्मा तापस्तत्र प्लवमाना भ्रमन्तो ये सूर्यकिरणास्तैः क्रूरः कठिनः प्रकाशो यासु तास्तथा । जटालेति 'जटाघटाकटाकालाः क्षेपे' इति लच् । 'उद्दामो बन्धुरहिते खतन्त्रे च प्रचेतसि' इति मेदिनीकरः। 'घुमणिस्तरणिमित्रः' इत्यमरः । 'जङ्गलं निर्जल- स्थानम्' इति धरणिः । 'क्रूरस्तु कठिने घोरे' इति च । मध्यमहो मध्याह्नः । "राजाहःसखिभ्यष्टच्' । 'अहोऽह्न एतेभ्यः' इत्यहादेशः। मध्याहे शून्या इति सप्तमीसमासः । न्यग्रोधो वटः । न्यग्रोधच्छायैव मण्डप इति रूपकम् । यद्वा छायायां मण्डपः । न्यग्रोधो बहुपाद्वंटः' इत्यमरः । चिरविलम्बेन कार्यातिपातमा- शक्षापरिश्रमेण कौशिकसकाशमाश्रयितुमुचितोऽयं समय इत्यांदाह-मध्ये व्योमेति । व्योम्नी मध्ये मध्येव्योम । 'पारे मध्ये षष्ठया वा' इत्यव्ययीभावः । मयूखान्किरणान्क्रीडयित्वा । प्रसारयित्वेति यावत् । भानोः सूर्यस्य बिम्बे मण्डले क्रमेण लम्बमाने सति खैरं खरं मन्दं मन्दं पादपानां वृक्षाणां मूलतो मूलात्क- बिच्छायां आकर्षतीव । यथा कोऽप्याकर्षति तथा छाया वर्धत इत्यर्थः । पश्ये- सत्र वाक्यार्थस्य कर्मता । 'छाया स्यादातपाभावे' इति विश्वः । दिनं मध्य मध्यावच्छिन्नम् । यद्वा मध्यंदिनमित्यत्र मध्यशब्दान्मदिन्प्रत्यय औणादिकः । दिनमप्यतिक्रान्तमेव । मध्यंदिनातिक्रमणस्य बहुसमयसाध्यखात्तस्मिन्नतिक्रान्ते । - २ अङ्कः] अनर्धराघवम् । राम:-(समन्तादवलोक्य ।) वत्स, मध्यंदिनमतिक्रान्तमिति दिन- मप्यतिक्रान्तमेव । पश्य । गगनशिखरमुदयादेरधिरूढाः कष्टमर्करथहरयः । अस्तमहीघरमधुना झटिति सुखेनावरोहन्ति ।। ३२ ॥ लक्ष्मण:-आर्य, नूनमद्य रक्षांसि परापतिष्यन्ति । यदयमध्वर- वेदिकासंनिधानं ते शुनःशेपमुखेन भगवानुपाध्यायः प्रशास्ति । राम:-(सरोषाहंकारम् ।) वत्स, यद्येवं स्यात् कल्पान्तकर्कशकृतान्तभयंकर मे निष्प्रनतः ऋतुविघातकृताममीषाम् । दिनमप्यतिक्रान्तमिति भावः। लक्ष्मणतात्पर्यमवगम्यार्थात्तत्रानुमतिमाह-गग- नेति । अर्करथहरयः सूर्यस्यन्दनाश्वा उदयपर्वतादगनशिखरं शिखराकारें गगनम् । यद्वा गगनशब्देनात्युच्चप्रदेश उच्यते। तस्य शिखरमग्रमधिरूढाः । कष्टं यथा स्यादेवम् । ऊर्ध्वगमनस्याशक्यसाध्यत्वात् । अधुना संप्रति झटिति शीघ्र- मस्तमहीधरमस्तपर्वतं सुखेनावरोहन्ति । अधोगमनस्य सुशकत्वात् । क्वचित् 'झगिति' इति पाठः । तत्रापि द्रुतमित्यर्थः। 'स्राग्झटिल्यअसाहाय द्राडांच सपदि द्रुतम्' इत्यमरः । 'हरिश्चन्द्रार्कवाताश्व-' इत्यादि विश्वः । 'शिखरोऽत्री शैलशृङ्गे द्रुमाग्रे शकलाग्रयोः' इति मेदिनीकरः । परापतिष्यन्यागमिष्यन्ति । उपाध्यायः कौशिकः । प्रशास्त्याज्ञापयति । लक्ष्मणस्य रक्षःपरापतनभीतिमाशा तामपनेतुं रक्षोवधे खप्रागल्भ्यमाह-कल्पान्तेति । ममेदं धनुर्वसुमतीमपि नीराक्षसां रक्षःशून्यां निर्गताः पलायिता राक्षसा यस्यास्तादृशीं कर्तुम् । पुण्य च तदहश्चेति कर्मधारयः । पुण्याहं रक्षोमरणदिनम् । 'पुण्यसुदिनाभ्यामहः इति नपुंसकत्वम् । तत्र मङ्गलं शुभकर्मादधातु । न केवलं लङ्काम्, अपि तु भूमिमात्रमपीत्यपेरर्थः । यद्वा पुण्याहं जन्मदिनसुखरात्रिकाद्युत्सवदिनं तत्र मङ्गलं यत्क्रियते तत्पुण्याहमङ्गलपदेनोच्यते। यस्य च तक्रियते स सततमभ्युदयी १. तथाहि' इति पाठः, २. 'लक्ष्मण:-(सर्षम्।) इति पाठः.
काव्यमाला। नीराक्षसां वसुमतीमपि कर्तुमद्य पुण्याहमङ्गलमिदं धनुराधातु ॥ ३३ ॥ लक्ष्मण:--(विहस्य ।) कथं रजनीचरचंक्रविनाशोत्कण्ठाविसंस्थु. लमार्यहृदयमदीर्घदर्शिन भगवन्तं कौशिकमपि संभावयति । अविद्याबीजविध्वंसादयमार्षेण चक्षुषा । कालौ भूतभविष्यन्तौ वर्तमानमवीविशत् ॥ ३४ ॥ राम:-किमुच्यते तत्रभवान्विश्वामित्रः । प्रज्ञातब्रह्मतत्त्वोऽपि स्वर्गीयैरेष खेलति । गृहस्थसमयाचारप्रक्रान्तैः सप्ततन्तुभिः ॥ ३५ ॥ भवति । तथेदमपि मम धनुर्भवत्विति भावः । मम कीदृशस्य । ऋतुविधात- कृताममीषां राक्षसानां निष्प्रनतो यज्ञनाशकान्मारयतः । अमीषामित्यत्र 'जासिनि- श्रहण-' इत्यादिना कर्मणि षष्ठी । धनुः कीदृशम् । कल्पान्ते प्रलये यः, कर्कशः ऋठिनः कृतान्तो यमस्तद्वद्भयंकरं भीषणम् । 'मेघर्तिभयेषु कृषः' इति खच् । *कृतान्तो यमुनाभ्राता शमनो यमराज्यमः' इत्यमरः । यद्येवं स्यादिति रामभद्रवचनं तर्कमुख विभाव्याह-कथामिति । चक्र समूहः । विसंस्थुलं विपर्यस्तम् । अदी. पदर्शिनमपण्डितम् । संभावयति बोधयति । 'दूरदर्शी दीर्घदर्शी धीरः' इत्यमरः। तत्त्वज्ञानित्वमस्य स्थापयति-अविद्येति । अयं विश्वामित्रोऽविद्याया मिथ्या- ज्ञानस्य बीजं कारणं पापं तस्याभावादार्षण ध्यानरूपेण चक्षुषा। यद्वा वेदजनि- ताध्यात्मज्ञानेन । 'ऋषिदे मुनौ तत्त्वे' इति विश्वः । भूतभविष्यन्तावतीताना- गतौ कालौं वर्तमान कालमवीविशत्प्रवेशितवान् । भूतं भविष्यन्तं च कालमयं वर्तमानकालमिव ध्यानेन पश्यतीत्यर्थः । अवीवि शदिति 'विश प्रवेशने' ज्यन्तालुङ् । [ प्रज्ञातेति । ] ब्रह्माध्यात्मतत्त्वखरूपम् । यद्वा चिदानन्दरूपं ज्ञानम् । खर्गीयैः खर्गहितैः। तस्मै हितम्' इति छः । यद्वा वर्गफलकैः । खेलति क्रीडति । समयो व्यवहारः कालो वा । आचारः क्रिया प्रचारो वा प्रक्रान्तैरारब्धैः । सप्ततन्तुभिर्यज्ञैः : । ज्ञातब्रह्मतत्त्वस्यापि विश्वामित्रस्य यस्या- १. "आदधाति' इति पाठः, २. 'चक्र' इति कचिन्नास्ति. ३. 'भगवन्तम्' इति कचिन्नास्ति.,४. वत्स, किमुच्यते तत्रभवान्कौशिकः । तथा हि' इति पाठः. । । - - २ अङ्कः] अनर्धराघवम् । १०१ Sammes । अपि च । आद्रीकृतो विनयनप्रमहेन्द्रमौलि- मन्दारदाममकरन्दरसैरिवायम् । प्रक्रान्तकुण्डलितनूतनभूतसर्ग- स्त्रैशङ्कवं चरितमद्भुतमाततान ॥ ३६॥ लक्ष्मणः -(पुरोऽवलोक्य । संहर्षम।) आभिरध्वरचर्यामिः श्रौतमर्थ कृतार्थयन् । अये कुलपतिः सोऽयमित एवाभिवर्तते ॥ ३७॥ (ततः प्रविशति दीक्षितवेषो विश्वामित्रः।) रामः-(निर्वर्ण्य । सबहुमानम् ।) वत्स लक्ष्मण, पश्य । कर्मणः श्रूयमाणस्य व्यञ्जनैरधिकोज्वलाम् । तपस्तेजोमयीं लक्ष्मीमद्य पुष्णाति मे गुरुः ॥ ३८॥ चरणीययज्ञाचरणं तत्क्रीडेवेति भावः 'सप्ततन्तुर्मखः क्रतुः' इत्यमरः । 'तत्त्वाज्ञानित्वे चास्य सृष्ट्यादिकारित्वं प्रमाणमाह-आर्द्राकृत इति । एष विश्वामित्रस्त्रंशङ्कवं त्रिशङ्कुसंबन्ध्यद्भुतमाश्चर्यकारि चरितमाततान विस्तारयामास । विनयेन नम्रो यो महेन्द्रस्तस्य मौलौ यन्मन्दारदाम देवतरुपुष्पमाला तस्य मकरन्दरसैरिवाीकृतः । इवशब्द उप्रेक्षायाम् । दयया स्तिमित इत्यर्थः । अत एव प्रकान्त उपक्रान्तः । कुण्डलितः संकोचितः । अनयोः कर्मधारयः । नूतनभूतस! लोकसृष्टियेन तादृशः । 'पञ्चैते देवतरवो मन्दारः पारिजातकः इत्यमरः । 'मकरन्दः पुष्परसः' इत्यपि । त्रैशङ्कवामित्यण् । ओर्पणः ।' 'नासूचितं विशेत्पात्रम्' इत्यादिभरतवाक्याद्विश्वामित्रप्रवेश सूचयितुमाह-आ भिरिति । श्रोतं वेदोक्तमर्थमभिधेयं यागादि कृतार्थयन् । सत्यापयचित्यर्थः । शिष्टाचारो हि तत्र प्रमाणमित्याशयः । अकस्सादनाकलिताकलने अयेशब्दः । इत एव । अत्रैव तिष्ठतीत्यर्थः । यज्ञादौ कृतसंकल्पादिनियमो दीक्षितः । प्रेक्ष्य । विश्वामित्रमिति शेषः । विश्वामित्रमतिमृदुमूर्तिमालोक्य लक्ष्मणस्यावा मा जायतामिति तस्य 'स्तुतिमाह-कर्मण इति ।' मे मम गुरुर्विश्वा- १. 'सकौतुकम्' इति पाठः. २. 'खाभिःइति पाठः.
काव्यमाला। विश्वामित्र:-(परिक्रामन्सहर्षम् ।) हन्त । कृतकृत्यप्रायमात्मानं पश्यामः । येतः निर्वृत्तो बहु तावदध्वरभुजामातर्पणोऽयं विधि- यादेन समं सुकेतुदुहिता चाचैव घानिष्यते । पाणौकृत्य पुनर्वृषध्वजधनुर्भङ्गैकशुल्कां वधू- मैक्ष्वाके सुरकार्यदिक्षु चलति स्वास्थ्य विधातास्महे ॥३९॥ (रामलक्ष्मणावुत्थायोपसर्पतः।) विश्वामित्र:-(राममतिचिरं निर्वर्ण्य सस्नेहकौतुकम् ।) मित्रः श्रूयमाणस्य श्रुतिप्रतिपादितस्य कर्मणो व्यञ्जनैश्चिहेरेकभुक्तादिभिरधिकोज्वलां तपस्तेजोमयीं लक्ष्मी पुष्णाति । हन्त हर्षे । विश्वामित्रो निर्वृत्ततामेव स्फुटय- रक्षोवध सूचयति-निर्वृत्त इति । अध्वरभुजां देवानामातर्पणस्तृप्तिहेतुर्वि- धिर्वहु यथा स्यादेवं तावन्नित्तः । किंचिदवशेषयितुमस्तीति हृदयम् । तावच्छन्द उपक्रमेऽवधारणे वा । अद्यैवं सुकेतुदुहिता ताटका दायादेन सुतेन सपिण्डेन वा सह धानिष्यते भारयितव्या । रामभद्रद्वारेति शेषः । कर्मणि लद । चिण्य- दिट् । ननु तादृक्कठिनकर्मणि रामभद्रः कथं प्रगल्भत इत्याशय तत्प्रवृत्त्यौपयिक रूपं सूचयन्नाह-पाणौकृत्येति । महादेवधनुर्भङ्ग एवैकं शुल्कं पणौ यस्यास्ता- दृशीं वधू सीतां पाणौकृत्य विवाह्य सुरकार्यदिक्षु । सुरकार्याा दिशः सुरकार्य- दिशः । शाकपार्थिवादिः । ता दक्षिणाः । तत्र रावणवधात् । दक्षिणदिश एक- त्वेऽपि तत्र प्रदेशबहुत्वाद्बहुवचनम् । तत्र ऐक्ष्वाके रामे चलति भ्रमति सति खास्थ्य विधातास्सहे करिष्यामहे । चलतीत्यत्र तोऽनित्यत्वात्परस्मैपदे शतरि सतिसप्तमीयम् । पाणौकृत्येति 'निलं हस्ते पाणावुपयमने' इति विभक्तिप्रति- रूपकस्य गतिसंज्ञायाम् 'कुगतिप्रादयः' इति समासः । 'आतर्पणं प्रोणने स्यात्' इति मेदिनीकरः । दायादस्तु भवेत्युंसि सपिण्डे तनयेऽपि च' इति १. कृतकल्यमिवात्मानं पश्यामि' इति पाठः २. 'यत: इति क्वचिन्नास्ति. १. 'धनुर्वसैक-' इति पाठः. ४. मतिचिराय' इति पाठ:
२ अङ्कः] अनर्घराववम् । १०३ एष वैहारिक वेषमादधानो धनुर्धरः । तत्त्वमान्तरमस्माकममृतैरिव लिम्पति ॥ १० ॥ उभौ-(उपसृत्य ।) भगवन् , दाशरथी रामलक्ष्मणावभिवादयेते। विश्वामित्र:-(आलिङ्गय ।) वत्सौ, किमन्यदाशासहे । युवाभ्यामभिनिवृत्तयोगक्षेमस्य वज्रिणः । ऐश्वर्यप्रक्रियामात्रकृतार्थाः सन्तु हेतयः ॥ ११ ॥ (उभौ तूष्णीमधोमुखौ स्तः।) विश्वमित्र:-(विहस्य ।) वत्सौ, समन्तादुपशीलितोऽयं संनि- वेशः । कच्चिदस्मदीयास्तपोवनभूमयो रमयन्ति वामुपस्नेहयति वा गार्हस्थ्यमृषीणाम् । ज। 'शुल्क घटादिदेये स्यात्पणे च' इत्यादि । एष इति । एष रामो ममान्तर्भवमान्तरम् । तत्त्वंपदार्थो मनः । यद्वान्तरं हृदयं तत्त्वं यथार्थ यथा स्यादेवममृतैरिव लिम्पति । अत्यन्ताभीष्टक्रियाकारित्वाद्यथामृतैर्लिप्यते तथा करो- तीत्यर्थः । कीदृशः । वैहारिकं वनविहारे वनभ्रमणे साधु वेषमाकारमादधानः । वैहारिकमिति 'तत्र कुशलः' इत्यर्थे ठञ् । आशास्सह आशिषं दद्मः। 'आङः शासु इच्छायाम् । युवाभ्यामिति । वज्रिण इन्द्रस्य हेतयोऽत्राण्यैश्वर्यप्रक्रियामात्रे कृतार्थाः कृतप्रयोजनाः सन्तु । ध्वंसनीयविरहात् । प्रक्रियाधिकारः परिच्छेदः प्रतिष्ठा वा । मात्रमवधारणे । कीदृशस्य । युवाभ्यां कर्तृभूताभ्यामभिनिवृत्तः कृतोऽधिकरूपत्वाप्तिोगः । पूर्वरूपाप्रच्यवः क्षेमः । यद्वा योगो हविराद्यपूर्वलामः क्षेमः प्रत्यवायशून्यता यस्य तादृशस्य । 'योगो ध्यानेऽपूर्वलाभे' इति धरणिः । 'हेतिः स्यादायुधज्वालासूर्यतेजःसु योषिति' इति मेदिनीकरः । तूष्णीं मौने । 'मौने च तूष्णीं तूष्णीकाम्' इत्यमरः। उपशीलितोऽवगाहितः । संनिविशो वनम् । प्रकृतत्वात् । ऋषीणां गार्हस्थ्यं गृहस्थत्वम् । कर्तृ । वां युवाम् । कर्मभूतौ । उपस्नेहयति प्रीणयति । गार्हस्थ्यमिति ब्राह्मणादित्वात्ष्यञ् । गुरुगौरवादाश्रम । । १. विहस्य' इति पाठः. २. 'वचित्' इति पाठः.
१०४ काव्यमाला। उभौ-(सप्रश्रयम् ।) भगवन् , रम्यमेतदरम्यं वा कः परिच्छेत्तुमर्हति । किं तु द्वयातिगं चित्तमद्य नौ पश्यतोरभूत् ॥ १२ ॥ म. (इति सर्वे यथोचितमु रविशन्ति विश्वामित्र: -(साकूतस्मितम् ।) वत्सो, इह वनेमु स कौतुकवामनो मुनिरतप्त तपांसि पुरातनः । तमिव वामवलोक्य तपखिनो नयनमद्य मनागुदमीमिलन् ॥४३॥ (उभौ मुहूर्तमुन्मनीभवतः।) विश्वामित्र:-(खगतम् ।) अये, किमप्युत्साहवर्धनाय प्राग्भवी- यमनुस्मारितमन्तःकरणमनयोः । तदेतावदस्तु । अन्यतः प्रक्षिपामि । लौति-रम्यमिति । द्वयातिगं रजस्तमःशून्यम् । सत्त्वैकनिष्ठमित्यर्थः । नो आवयोः । षष्ठीद्विवचने रूपम् । उत्साहवर्धनाय जन्मान्तरीयं संस्कार रामलक्ष्मण- रुद्वोधयन्नाह-इहेति । स पुरातनो मुनिरिहाश्रमे वनेषु तपस्थितप्त कृतवान् । कीदृशः । कौतुकेन क्रीडया वामनो वामनरूपी । यद्वा कौतुकजनको वामनः कौतुकवामनः । शाकपार्थिवादिः । 'कौतुकं कपटेऽपि स्यात्' इति कोषात्कपटेन वामन इति वार्थः । तमिव पुराणमुनिमिव वां युवामवलोक्योपलभ्य तपखिनोऽद्यः नयनं लोचनं मनाक्खल्पमुदमीमिलन्नुन्मीलयन्ति स्म । 'किंचिदीषन्मनागल्पम्' इत्यमरः । उन्मनीभवत उन्मनस्कौ भवतः प्राग्भवीयसंस्कारोबोधेन तत्तत्कर्म- मरणात् । उन्मनीभवत इत्यत्र 'अरुर्मनश्चक्षुश्तोरहोरजसां लोपश्च' इति विप्र- लयः सलोपश्च । प्राग्भवीयं पूर्वजन्मोद्भवम् । 'वृद्धाच्छः' इति छः। अन्तः- करणं मनः । प्रक्षिपामि प्रेरयामि । प्रत्यक् पश्चिमतः । “दिग्देशकाले पूर्वादी प्रागुदक्प्रत्यगादयः' इत्यमरः । उदयगिरिरेव काश्मीरो देशविशेषतज्जातं यत्कु- १. इति यथोचितमुपविशन्ति'; 'इति यथोचितमुपविशन्ति सर्वे' इति माठी. २. 'उदमीलयन्' इति पाठः. ३, 'क्षिपामि' इति पाठः.
२ अङ्कः] अनर्घराघवम् । १०५ (प्रत्यगवलोक्य प्रकाशं संसंभ्रमम् ।) कथमुदयगिरिकाश्मीरकुङ्कुमकेदारस्य प्रभातसंध्यालतायाः प्रथमस्तबको गभस्तिमाली हस्तहस्तिकया कुतूह- लिनीभिर्दिगङ्गनाभिर्वारुणी यावदुपनीतः । (सनिर्वेदं च ।) योतोऽस्तमेष चरमाचलचूडचुम्बी पकेरुहप्रकरजागरणप्रदीपः । आः सर्वतः स्फुरतु कैरवमाः पिबन्तु ज्योत्साकरम्भमुदरंभरयश्चकोराः ॥ ४४ ॥ कुमम् । कुखमस्य काश्मीरदेश एवोत्पादत्वात् । तस्य केदारस्य क्षेत्रस्य । प्रभात- संध्याविशेषणम् । अजहल्लिङ्गतयान्वयः। प्रथमस्तबक आद्यगुच्छः । लोहितत्वाद- तुलत्वाच्च । गभस्तिमाली सूर्यः । हस्तश्च हस्तश्च हस्ताहस्तिका । 'हाथी' इति प्रसिद्धा । मयूरव्यंसकादित्वात्समासः । 'इच्कर्मव्यतिहारे' इतीच् । 'अन्येभ्योऽपि दृश्यते' इति दीर्घः । 'न सामिवचने' इति ज्ञापकात्स्वार्थे कन् । 'खार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति स्त्रीत्वम् । 'हस्तानुहस्तिकया' इति पाठेs- नुगतो हस्तोऽनुहस्तः । शेषं समानम् । वारुणी पश्चिमा दिक् । 'केदारोऽद्री शिवे क्षेत्रे' इति मेदिनीकरः । 'वारुणी मण्डदूर्वायां प्रतीचिसुरयोरपि' इति च । 'स्थाद्गुच्छकस्तु स्तबकः' इत्यमरः । वैराग्यादिना मनःखेदो निर्वेदः । निर्वेदमेव स्फोरयति-यात इति । एष सूर्योऽस्तं यातः । चरमाचलस्यास्तपर्वतस्य चूडं शिरश्चुम्बितुं शीलं यस्य सः । 'जातो धिगेषः' इति पाठे धिङ् निन्द्य एष, सूर्यश्वरमाचलचूडचुम्बी जात इत्यन्वयः । पङ्केरुहप्रकरः पद्मसमूहस्तस्य जागरणे. प्रकाशने प्रदीप इव प्रदीपः । आः सर्वत्र रोषोक्तावनास्थायां वा । 'आः स्मरणेऽ- पाकरणे कोपसंतापयोरपि' इति मेदिनीकरः । सर्वतः सर्वत्र कैरवं कुमुदं स्फुरतु । शत्रोः सूर्यस्याभावात् । उदरंभरयः कुक्षिभरयश्चकोराः पक्षिविशेषा ज्योत्स्नाक- रम्भ चन्द्रिकारूपदधिसक्तुकं पिबन्तु ।अमृतदीधितेरुदयात् । उदरंभरिरिति फले- अहिरात्मभरिश्च' इति चकारस्यानुक्तसमुच्चयार्थत्वात्सिद्ध्यति । 'उभौ त्वात्मभरिः १. 'ससंश्रमम्' इति क्वचिन्नास्ति. २. 'जातः स एष' इति पाठः. ३. 'चूल- लम्बी' इति पाठः ४, संप्रति' - इति पाठः, ५. 'ज्योत्सां कषायमधुरामधुना चकोराः इति पाठः. । 1 काव्यमाला। (सर्वतोऽवलोक्य ।) अयमपि खरयोषिकर्णकाषायमीप- द्विसमरतिमिरोर्णाजर्जरोपान्तमर्चिः । मदकलकलविङ्कीकाकुनान्दीकरेभ्यः क्षितिरुहशिखरेभ्यो भानुमानुच्चिनोति ॥ ४५ ॥ अपि च। मन्त्रसंस्कारसंपन्नास्तन्वदौदन्वतीरपः । एतत्रयीमयं ज्योतिरादित्याख्यं निमज्जति ॥ १६ ॥ । कुक्षिभरिः खोदरपूरके' इत्यमरः । 'सिते कुमुदकैरवे' इति च । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यपि । 'करम्भो दधिसक्तवः' इति च । अयमपीति । कैरवस्फुरण- चकोरज्योत्स्नापानापेक्षयापिशब्दः । भानुमान्सूर्यः क्षितिरुहशिखरेभ्यो वृक्षानेभ्यो- ऽर्चिस्तेज उचिनोति वर्तुलीकरोति । मदकला या कलविको चटकनी 'गतुल' इति प्रसिद्धा तस्याः काकुवं निभेदः सैव नान्दी वाद्यभेदः स्तुतिर्वा तत्करेभ्यः । अधिः कीदृशम् । खरयोषिदर्दभी तस्याः कर्णवत्कषायेण रक्तमिव रक्कं काषायम्। 'तेन रकं रागात्' इत्यण् । अर्चिषः कषायत्वं कविसंप्रदायसिद्धम् । यथा यशसः शौक्लयम् । ईषत्किंचिद्विसमरं प्रसरणशीलं यत्तिमिरमन्धकारं तदेवोर्णा भ्रुवोरन्तरावर्तकं तद्वजर्जरमन्तरितमुपान्तं समीपं यस्य तत्तथा । यद्वोर्णा शिखा । मेषादिलोमप्रा- यया तिमिरशिखया जर्जरमन्तरितमुपान्तं समीपं यस्य। यद्वा तिमिरमेवोर्णा योग्य. त्वात्कृष्णमेषादिलोम तया जर्जरोपान्तम् । 'ऊर्णा मेषादिलोनि स्यादावर्ते चान्तरा ध्रुवोः' इति मेदिनीकरः। 'ऊर्णा मेषादिलोन्यग्रे' इति शाश्वतः। विसृमरेति 'सृघ- स्यदः क्मर' । 'खरः स्यात्तीक्ष्णधर्मयोः । गर्दभे स्त्री-' इत्यादि मेदिनीकरः । 'भवेन्मदकलो मत्ते' इति च । 'चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः' इत्यमरः । 'काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः' इति च । मन्त्रेति । मन्त्रसंस्कारो मन्त्रजनितसंस्कारः । मन्त्रमयत्वादादित्यस्य । उदन्वान्समुद्रस्त- स्येमा औदन्वतीः अपो जलानि तन्वत्कुर्वत् । त्रयी वेदत्रयम् । मन्त्रमयादिति . १. 'ही' अवलोक्यच' इति पाठः, अनघराघवम् । १०७ रामः-(सर्वतो निरूप्य।) वत्स लक्ष्मण, तापनैरेव तेजोभिः प्लष्टनिर्वाणमेचकाः । दिशो जाताः प्रतीची तु समुदाचरति क्रमात् ॥ ७॥ किं च। कांचिद्विति भूतिमाश्रमभुवो वैतानवैश्वानर- ज्वालोपप्लवमानधूमवलभीविभ्रान्तदिग्भित्तयः । श्रूयन्ते बटवस्तृतीयसवनखाध्यायदीर्घानपि स्पर्धाबन्धमनोहरं प्रति मुहुः खान्द्राधयन्तः खरान् ।। ४८॥ संबन्धेनैव मन्त्रसंस्कारसंपन्नत्वमपामित्याशयः । तापनैरिति । प्रतीच्यन्या दिशस्तापनैरादित्यसंबन्धिभिः किरणैः प्लुष्टा दग्धा अनन्तरं निर्वाणा अत एव मेचकाः श्यामा एवंभूता इव जाताः । ज्वलदङ्गारादिकं निर्वाणे सति श्यामत्न- मामोतीति ध्वनिः । तु पुनः प्रतीची पश्चिमा दिक् क्रमात्समुदाचरति पूर्वरूपं प्राप्नोति । यद्वा समुदाचरति राजते । यद्वा दिनाद्विभेतीत्यर्थः । 'समुदाचरस्तु शोभायां पूर्वरूपे भयेऽपि च' इति विश्वः। “निर्वाणमस्तंगमने' इति । 'काल- श्यामलमेचकाः' इत्यमरः । 'पृष्टप्लुटोषिता दग्धे' इति च । कांचिदिति । आश्रमस्य भूमयः कांचिदनिर्वचनीयां भूतिं शोभां बिभ्रति धारयन्ति । कीदृश्यः । वितानसंबन्धी यो वैश्वानरो वह्निस्तस्य ज्वालयोपप्लवमानोऽधिकतां गच्छन्यो धूमः स एव वलभी सौधोपरिगृहम् । उच्चैस्त्वेन रूपकम् । तत्र विभ्रान्ता विशेषतो भ्रमं प्राप्ता दिग्भित्तयो दिकप्रदेशा यत्र तास्तादृश्यः । 'उपोऽधिके च' इति सूत्रा- दुपशब्दस्याधिकार्थता । 'सौधोपरि कुटी वलभी विदुः' इति शाश्वतः । 'भित्तिः कुड्ये प्रदेशे च' इति धरणिः । 'वितानो यज्ञविस्तार- इति विश्वः । बटवो ब्रह्मचारिणः शिशवोऽपि श्रूयन्ते । इहाधाराधेययोरभेदोपचाराद्धनिश्रवणमेव विवक्षितम् । यथा माघे-'अश्रूयत पाञ्चजन्यः' इति । 'सविशेषणे हि विधि- निषेधौ विशेषणमुपसंक्रामतः' इति न्यायाविशेषणलाभः । कीदृशाः । स्पर्धा- न्योन्यजिगीषा तस्या बन्धेनानुबन्धेन मनोहरं यथा स्यादेवं मुहुर्वारंवारं खान्खरा- १. अवलोक्य' इति पाठः. २. 'दग्ध-- इति पाठः. ३. 'वडभी विश्रान्त- इति पाठ । ।
१०८ काव्यमाला। विश्वामित्र: :-वत्स राघव, उन्मुक्ताभिर्दिवसमधुना सर्वतस्ताभिरेव खच्छायाभिानचुलितमिव प्रेक्ष्यते विश्वमेतत् । पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्राङ्गीयं रमयति तमःस्तोमलीला धरित्री ॥ १९ ॥ लक्ष्मण:-(सनिवेदम् ।) तेजोमयं तमोमयमन्यतरस्यां तदेव दिक्चक्रम् । किमपि विचित्रा धात्रा सृष्टिरियं भुवनकोषस्य ॥ ५० ॥ - न्द्राघयन्तो दीर्घाकुर्वन्तः । "प्रियस्थिर-' इत्यादिना दीर्घस्य द्राघादेशः । कीदृ-- शान् । तृतीयसवने स्नाने खाध्यायेन जपेन दीर्घानपि । 'खाध्यायः स्याज्जपे' इत्यमरः । उन्मुक्ताभिरिति । ताभिरेव खच्छायाभिरिदानीं सर्वतः सर्वत्र निचुलितमिव पिहितमिवेतद्विश्वं संसारः प्रेक्ष्यते दृश्यते । मया जनवा । कीट- शीभिः । दिवसं व्याप्योन्मुक्ताभिरुच्छिन्नाभिः । दिने सौरेण तेजसाभिभूताभि- रित्यर्थः । दिवसमित्यत्यन्तसंयोगे द्वितीया। पर्यन्तेषु प्रान्तेषु जलधौ समुद्रे मध्ये रत्नसानौ सुमेरौ च ज्वलति सति चित्राझी सतीयं धरित्री पृथिवी रमयतित- रामत्यर्थ रतिमुत्पादयति । कीदृशी । तमःस्तोमस्यान्धकारसमूहस्य लीला विलासो यस्यां सा । अत एव चित्राङ्गी । तमःस्तोमरत्नमलिलसंबन्धाच्छयामरक्तश्वेत- त्वसंभवात् । 'रत्नसानुः सुरालयः' इत्यमरः । तेजोमयमिति । भुवनकोषस्य ब्रह्माण्डस्येयं धात्रा सृष्टिः किमप्यनिर्वचनीयं यथा भवत्येवं विचित्राश्चर्यजनिका । कुत इत्यत आह-तेजोमयमित्यादि । अन्यतरस्यांशब्दः समुच्चये विकल्पे वा । तदेव दिक्चक्र तेजोमयं तमोमयं च । एकतस्तेजोमयमन्यतस्तमोमय- मित्यर्थः । धात्रा सृष्टिरिति 'उभयप्राप्तौ कर्मणि-' इति कर्मण्येव षष्ठी। अतः कर्तरि । २. 'तमःस्तोमनीला' इति पाठः. ३. 'धातुः" १..'रामभद्र' इति पाठः.. इति पाठः.
। .. २ अङ्कः] अनर्घराघवम् । (सर्वतोऽवलोक्य।) चूडारनैः स्फुरद्भिर्विषधरविवराण्युज्वलान्युज्वलानि प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात्कृशानुः । किं चामी शल्ययन्तस्तिमिरमुभयतो निर्भराहस्तमिला- संघट्टोस्पिष्टसंध्याकणनिकरपरिस्पर्धिनो भान्ति दीपाः ॥५१॥ रामः-(विलोक्य ।) विश्वं चाक्षुषमस्तमस्ति हिं तमःकैवल्यमौपाधिक- प्राच्यादिव्यवहारबीजविरहाद्दिड्मात्रमेव स्थितम् । तृतीया । 'विचित्रा सूत्रस्य कृतिः पाणिनिना' इतिवत् । 'कोषो जीवे धने कोशे? इति धरणिः । चूडारनैरिति । विषधरविवराण्युज्वलान्यत्यन्तोज्ज्वलानि दृश्यन्ते। कैः। चूडारत्नैः । अर्थात्सर्पाणामेव । कृशानुरग्निः सूर्यकान्तान्मणिविशेषाचक्रवाकी मनसि निविशते प्रविशति । रात्रौ चक्रवाकीणां विरहेण संतापोदयात् । किं चामी दीपा भान्ति शोभन्ते । तिमिरमन्धकार शल्ययन्तो नाशयन्तः। कीदृशाः। उभयत उभयपाधै निर्भरमत्यर्थ योऽहस्त मिस्रोदिनरात्र्योः संघटो मिलनं तेनोस्पिष्टाया- थूर्णितायाः संध्याया ये कणसमूहास्तेषां परिस्पर्धिनस्तुल्याः । लोहितत्वादुत्प्रेक्षा । 'तमित्रा तामसी रात्रिः' इत्यमरः । 'आशीविषो विषधरः' इति च। 'अन्धकारो- ऽस्त्रियां ध्वान्तं तमिसं तिमिरं तमः' इत्यपि। निविशत इति 'नेविंशः' इति तङ् । उभयत इति सप्तम्यां तसिः । अन्धकारप्राचुर्यमाह-विश्वमिति । चाक्षुषं चक्षुर्ग्राह्यं विश्वं जगदस्तमस्तमितम् । तिरोहितमिति यावत् । विषयस्यालोकसहक- तुचक्षुर्ग्राह्यत्वात् तमःकैवल्यमन्धकार एव केवलमस्ति । उपाधिर्विशेषणं तद्भवमौ- पाधिकम् । औपाधिको यः प्राच्यादिव्यवहारस्तस्य बीजं कारणमादित्यस्तस्याभावा- हिङ्ग्यात्रमेव स्थितमस्ति । सूर्योपाधिना हि प्राच्यादिव्यवहारः । सूर्योपाधिविशिष्ट दिक्प्राची, तदस्तमनोपाधिविशिष्टा दिक्प्रतीचीत्यादिरस्त्यौपाधिको व्यवहारः । सचोपाधेरादित्यस्याभावान्नास्ति । वस्तुतस्त्वेकैव दिक् । तथा च केवलमेकमेव दिक्वरूपं सत्यमस्तीत्यर्थः । समान्यतो दिगवस्थिता न तु प्राच्यादिरूपेण । तथात्वेनाग्रहादिति भावः । अक्षान्तरैस्त्वगादिभिर्भयहेतवो भयकारणानि पदार्था गृह्यन्ते । भयहेतुत्वेनेत्यर्थः । तथा हि रज्जवः स्पृष्टा भोगित्वेन ज्ञायन्ते । ।
काव्यमाला। गृह्यन्ते भयहेतवः पटुभिरप्यक्षान्तरै ति च ध्वान्तेनातिघनेन वस्तु वचसा ज्ञातः खरेणामुकः ॥ ५२ ।। किं च। धनतरतिमिरधुणोत्करजग्धानामिव पतन्ति काष्ठानाम् । छिट्टैरमीभिरुडुमिः किरणव्याजेन चूर्णानि ॥ ५३ ॥ (नेपथ्ये कलकलः।) (सर्वे ससंभ्रममाकर्णयन्ति ।) (पुनस्तत्रैव।) । पटुभिरपि विषयग्रहसमथैरपि । तेषां तमसानभिभवात् । चक्षुर्मात्रे हि तम- सोऽभिभावकत्वम् । तथापि रजुषु भोगिज्ञानं तमोमाहात्म्यादिति भावः । पटुभिरपीत्सपिर्विरोधे । अक्षमिन्द्रियम् । अतिघनेन च ध्वान्तेनान्धकारेण हेतुभूतेन वस्तु पदार्थो घटपटादिरूपो वस्तुत्वेन भाति । न तु घटत्वादिना । यद्वा वस्तु पदार्थों वचसा भाति । अयं घट इत्याप्तवाक्येन घटत्वेन ज्ञायते न चक्षुषा । खरेण चामुको ज्ञातनानि प्रसिद्धः सर्वपर्यायो देवदत्तादिर्शात उपलब्धः तमःप्राबल्याचक्षुषाग्रहणादिति भावः । ज्ञात इत्यत्र 'जातिः' इति पाठे वचसा साधारणेन शब्देन । जातिर्मनुष्यत्वादिका । अमुको देवदत्तादिः । खरेणासाधारणेन भातीति सर्वत्रान्वीयते । अमुक इति लोकोक्तिः सर्वसाधारणी । अन्यानि तु पाठव्याख्यानान्यसारत्वादुपेक्षितानि । धनतरेति । काष्ठानां दिशां चूर्णान्यमीभिरुडुभिर्नक्षत्ररूपैश्छिद्र रन्धैः किरणव्याजेन पतन्ति । कीदृशानाम् । घनतरं निबिडं यत्तिमिरमन्धकारः स एव धुणोत्करो धुणसमूहस्तेन जग्धानां मेक्षितानामिव । काष्ठादौ यो लगति कीटः स धुणः । काष्ठं दारु । काष्ठा दिक् । अन्येषामपि घुणभक्षितानां काष्टानां चूर्णानि पतन्तीति ध्वनिः । अदो जग्ध्या- देशः। 'काष्ठं दार' इत्यमरः । 'दिशस्तु ककुभः काष्ठाः' इत्यपि । 'तारकाप्युड वा स्त्रियाम्' इति च । कलकल इति । शुनःशेपप्रमृतीनामित्यर्थः । ताडकायाः । १. आकलयन्ति' इति पाठः. २. 'तत्रैव भोः, मोः भोः' इति पाग.
२ अङ्कः] अनर्घराघवम् । निर्मजचक्षुरन्तभ्रमदतिकपिशक्रूरतारा नरास्थि- ग्रन्थि दन्तान्तरालपथितमविरतं जिह्वया पट्टयन्ती। ध्वान्तेऽपि व्यात्तवत्रज्वलदनलशिखाजरे व्यक्तकर्मा निर्भान्ती गृध्ररौद्री दिवमुपरि परिक्रीडते ताडकेयम् ॥५४॥ अपिच। त्रेतामिकुण्डपूरं च वर्षन्तो रुधिरच्छटाः । हिंसाः सुबाहुमारीचमिश्रा नः परिवृण्वते ॥ ५५ ॥ विश्वामित्रः-(साकूतम् ।) कथं ताडका । वत्स रामभद्र, क्रूरकर्मालोकनादिति भावः । 'कोलाहलः कलकलः' इत्यमरः। निर्मजदिति । इयं ताडकानानी राक्षसी उपयूँर्ध्वदेशे आकाशे परिक्रीडते । क्रीडां करोतीत्यर्थः । कीशी । निर्मजनिमग्नीभवत् । कोटररूपमिति यावत् । यच्चक्षुस्खस्यान्तर्मध्ये भ्रमन्त्यतिकपिशा क्रूरा दुर्दर्शा तारा नेत्रकनीनिका यस्याः सा । दन्तान्तराले दन्तमध्ये प्रथितं लग्नं नरास्थिग्रन्थि मनुष्यास्नो अन्थिमविरतं वारंवार जिह्वया घट्टयन्ती चालयन्ती । अन्धकारे कथमेवंकुर्वाणा दृश्यत इत्यत आह-व्यात्तं विस्तीर्णं यन्मुखं तत्र ज्वलन्ती यानलशिखा तया जर्जरे ध्वान्तेऽप्यन्धकारेऽपि व्यकं कर्म यस्यास्तादृशी । गृध्रस्येव पक्षिभेदस्येव रौद्रं तीव्रत्वं यस्यां दिवि तादृशी दिवमाकाशं निर्मान्ती कुर्वाणा । 'आच्छीनद्योर्नुम्' । परिक्रीडत इति 'क्रीडोऽनुसंपरिभ्यश्च' इति तङ् । व्यात्तेति व्याङ्पूर्वाद्ददातेः क्तः । 'अच उप- सर्गात्तः'। 'अभ्यन्तरं त्वन्तरालम्' इत्यमरः । तेति । हिंसा घातुका राक्षसा नोऽस्मान्परिवृण्वते वेष्टयन्ति । सुबाहुमारीचाभ्यां मिश्रा मिलिताः । यद्वा मिश्राः प्रधानाः । तथा च सुबाहुमारीचप्रधाना इत्यर्थः । त्रेताग्नित्रयं तस्य कुपडं पूर- यित्वा । 'चर्मोदरयोः पूरेः' इत्यनुवर्तमाने 'वर्षप्रमाण ऊलोषश्वास्यान्यतरस्याम् इति वृष्टिप्रमाणे णमुल् । छटाः समूहान् । 'अग्नित्रयमिदं त्रेता' इत्यमरः । 'शरा- रु_तुको हिंसः' इति च । वत्सेत्यादि । वत्स रामभद्र, इयं ताडका कर्य । । १. 'साशङ्कमिव', 'ससंभ्रममिव' इति पाठः.
११२ काव्यमाला। विधानमानुश्रविकं गृहेषु नः प्रतिस्किरन्ती किमियं प्रतीक्ष्यते । सुबाहुमुख्यैः सममाततायिभिर्गृहाण चापं निगृहाण ताडकाम् ॥५६॥ रामः-(सघृणातिरेकम् ।) भगवन् , स्त्रियमिमाम् । (पुनर्नेपथ्ये।) अब्रह्मण्यमब्रह्मण्यम् । भोस्तात विश्वामित्र, परिभूयामहे । प्रहीयता- मधिज्यधन्वा दाशरथिः । रामः-(विहस्य । नेपथ्यावलोकितकेन ।) बालर्षे शुनःशेप, मुहूर्त A बीरो भव। अलं क्लिशित्वा गुरुमल्पकोऽयं विधिस्त्वदाज्ञैव गरीयसी नः । न कौशिकस्य त्वयि धर्मपुत्रे पुत्रे मधुच्छन्दसि वा विशेषः ॥५७|| प्रतीक्ष्यते कथं क्षम्यते। किं तु मार्यतामिति भावः । नोऽस्माकं गृहेष्वानुश्रविकं वैदिकं विधानं प्रतिस्किरन्ती नाशयन्ती। तस्माद्धेतोः शस्त्रं गृहाण । सुबाहु- मुख्यैः सुबाहुप्रभृतिभिराततायिभिः शस्त्रपाणिभिः समं ताडकां निगृहाण । घातयेत्यर्थः । मुख्य आदिः । प्रशंसेयम् । 'आततायी वधोद्यतः' । 'अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आततायिनः ॥' इति स्मृतिः। प्रतिस्किरन्तीत्यत्र 'हिंसायां प्रतेश्च' इति सुद्र । स्त्रियमिमाम् । कर्थ निगृह्णामीति शेषः । 'अब्रह्मण्यमवध्योक्तौ' इत्यमरः। परिभूयामहे वयं परिभवं प्राप्नुमः । ज्या मौवीं । अधिगता ज्या यत्र तदधिज्यम् । ईदृशं धनुर्यस्य सः । 'धनुषश्च' इत्यनङ् समासान्तः । यद्वा धनुःशब्दसमानार्थो धन्वशब्दस्तस्य प्रयोगः । 'धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । कथमल्पीयसि भयहेतावमी व्याकुला इत्याह-विहस्येति । महौजसां महत्यपि भयहेतौ शौर्यातिशयाद्भवति हास इति स्वभावः । बालत्वादज्ञत्वेन संबोधनम् । तच्छा- प्रमाशय तं स्तुवंस्ताडकाववरूपकर्मणि खशौर्यमप्याह-अलमित्यादि । शुरुं विश्वामित्रं क्लिशित्वालम् । वृथा गुरुर्न क्लेशनीय इत्यर्थः । अयं ताडकाव- १. स्त्रियमिमां कथं हनिष्ये'; 'स्त्रियमिमां कथं निगृह्णामि' इति -पा. २. अब्रह्मण्यं भोः' इति पाठ:.
२ अङ्कः] अनर्घराघवम् । विश्वामित्र:-वत्स, कृतमुत्तरोत्तरेण । नन्वयं नेदीयानाश्रमो- पघातः। लक्ष्मण:-(सव्यथमिव । खगतम् ।) मीमांसते किमार्योऽयं कौशिकेऽप्यनुशासति । वाचमेषामृषीणां हि शास्त्रमेवानुवर्तते ॥ ५८ ॥ । रामः-(खगतम् ।) । गुर्वादेशादेव निर्मीयमाणो नाधर्माय स्त्रीवधोऽपि स्थितोऽयम् । अद्य स्थित्वा श्वो गमिष्यद्भिरल्पैर्लज्जास्माभिर्मीलितार्जितैव ॥५९॥ धरूपो विधिप्पारोऽल्पकोऽत्यल्पः । अल्पार्थे कन् । स्त्रीवधस्य सुखसाध्यत्वात् । नौऽस्माकं तवैवाज्ञा गरीयसी । तवैवाज्ञया मया ताडकावधो विधेय इति भावः । गरीयसीत्यत्र गुरुशब्दस्य 'प्रियस्थिर-' इत्यादिना गरादेशः । क्लिशित्वेत्यत्र 'अलंखल्वोः-' इत्यादिना क्त्वा । "क्लिशः क्त्वानिष्ठयोः' इतीद । 'न क्त्वा सेट्' इति कित्त्वनिषेधे प्राप्ते 'मृडमृद-' इत्यादिना कित्त्वम् । धर्मेण हेतुना पुत्रः । यद्वा धर्मार्थ पुत्रः । यद्वा धर्मप्रधानः पुत्रो धर्मपुत्रः । तस्मिन्धर्मपुत्रे त्वयि, मधुच्छन्दस्यौरसे वा पुत्रे कौशिकस्य न विशेषः। तथा च सर्वथा तवाज्ञा कर्तव्येति भावः । मधुच्छन्दा नाम विश्वामित्रस्यौरसः पुत्रः । नेदीयान्संनिहितः । 'अन्तिकबाढयोर्नेदसाधौ' इत्यन्तिकशब्दस्येयसुनि रूपम् । कथं स्त्रियमिमां निगृह्णामीति रामभद्रस्य संदिग्धं वचनमसहिष्णोः कौशिकादतित्रस्तस्य लक्ष्मणस्य सव्यथत्वमिति मीमांसते विचारयति । अपि तु विचारयितुं नाहतीत्यर्थः । 'मान्बंध-' आदिसूत्रेण सन्दीर्घश्चाभ्यासस्य । कौशिकेऽपीत्यपिर्विरोधाभासस्फो- रणाय । नन्वतिपापजनकं कर्म कथं न विचार्यत इत्यत आह-वाचमिति । हि यतः शास्त्रं कर्तृ, एषां मुनीनामेव वाचमनुवर्ततेऽतुधावति । मुनिवाक्शास्त्रार्था- नातिवर्तते । यथा शास्त्रं तथैवेत्यर्थः । 'प्रवृत्तिर्वा निवृत्तिा नित्येन कृतकेन वा । शब्देन येनादिश्येत तच्छास्त्रमभिधीयते ॥' इति स्मृतिः । यद्वा मुनीनां वाच- मनुलक्ष्यीकृत्य शास्त्रं वेदो वर्तते प्रवर्तते व्यवहरति । तामेवोद्दिश्य वेदप्रवृत्तेः । गुर्वादेशादिति । निर्मीयमाणः क्रियमाणः । ननु भवतु पापाभावस्तथापि १. 'कृतं कृतमुत्तरेण', 'कृतं कृतमुत्तरोत्तरेण' इति पाग. २. निर्मायमाण: इति पाठः ८अ० रा.
काव्यमाला। किंतु। दीर्घ प्रजाभिरतिकौतुकिनीभिराभि- रस्मिन्नकीर्तिपटहे मम ताड्यमाने । ज्योतिर्मयेन वपुषा जगदन्तसाक्षी लजिष्यते कुलगुरुभंगवान्वसिष्ठः ॥ ६० ॥ (नेपथ्ये ।) अलमिष्ठा मखान्मूर्खाः खड्गधारेयमस्ति नः । अदवीयानयं पन्थाः खोकमुपतिष्ठते ॥ ११ ॥ । रघूणां स्त्रीवधे लोकलज्जापि न भवतीत्यत आह-अल्पैरिति । अल्पैर्बालकैर्लज जितव । अद्यास्मिंस्तपोवने स्थित्वा श्वो गमिष्यद्भिः । अत एव मीलिताक्षः कृताक्षिनिमीलनैः । अक्षिण लज्जा संक्रामत इति लोकोक्तिः । श्वःशब्द आगामिदिनवाच्यव्ययः । 'ह्योऽतीतेऽनागतेऽहि श्वः' इत्यमरः । दीर्घमिति । अतिकौतुकिनीभिताडकावधेन साश्चर्याभिराभिः प्रजाभिर्जनैर्दीर्घमत्यर्थ ममास्मि- नकीर्तिपटहे स्त्रीवधरूपे ताड्यमाने वाद्यमाने सति भगवान्वसिष्ठः किं नु लजि. ष्यते। मामकीनस्त्रीवधरूपकर्मश्रवणात् । ननु कथमिमं वृत्तान्तं वसिष्ठो ज्ञास्यतीत्यत आह-ज्योतिर्मयेन ब्रह्ममयेन नक्षत्रमयेन वा वपुषा शरीरेण जगतोऽन्तेऽपि प्रलयेऽपि यः साक्षी साक्षाष्टिा । यद्वा जगतोऽन्तस्य चतुःसमुद्रपर्यन्तस्य साक्षी। द्रष्टेत्यर्थः । साक्षीति 'साक्षादृष्टरि संज्ञायाम्' इतीनिः । यद्यप्युत्कर्षबुद्ध्यैव लोकेन रामचन्द्रकृतताडकावधप्रकाशनं तथापि रामस्य स्त्रीवधेनापकर्षबुद्धिरित्यकीर्ति- पटहत्वेन कीर्तनम् । वसिष्ठस्य ताडकावधज्ञाने प्रजाकृतप्रकाशनं न हेतुः । तस्य ज्योतिर्मयत्वेनैव सकलगोचरज्ञानाश्रयत्वात् । किं तु प्रजाकृततद्वधप्रकाशनं वसि. ष्ठस्य लज्जायां हेतुः । तथाहि ममापि यजमानरघुकुलस्य स्त्रीवधेनाप्युत्कर्षः प्रथत इति तस्य लज्जेति । नेपथ्ये घातुकानां सुबाहुप्रभृतीनां प्रथमं यागनिन्दापरं खमार्गप्रवर्तकं वचनम् । अलमित्यादि । हे मूर्खाः । अत्रापि पूर्ववत्क्त्वा । कुतो वृथेत्यत आह-अस्माकमियं खड्गधारास्ति । यज्ञाधिकेति भावः । कुतोऽस्या यज्ञाधिक्यमत आह-अयं पन्था अदवीयान्संनिहितः स्वर्गलोकमुपतिष्ठत उप- ।
२ अङ्कः] अनर्घराघवम् । रामः-(श्रुत्वा सरोषं ससंभ्रमं चोत्थाय सविनयमञ्जलिं बद्धा।) भग- वञ्जगत्रयगुरो गाधिनन्दन, ‘दशरथगृहे संभूतं मामवाप्य धनुर्धर दिनकरकुलास्कन्दी कोऽयं कलङ्कनवाङ्कुरः । इति नै वनितामेती हन्तुं मनो विचिकित्सते यदधिकरणं धर्मस्थीयं तवैव वचांसि नः ॥ ६२ ॥ । स्थितो भवति । 'उपाद्देवपूजा--' इति संगतिकरणे तङ् । नाना हिप्रोक्षणाव- घातफलीकरणपुरोडाशहोमप्रभृतिभिर्यागः खलु निष्पाद्यते, तेनापूर्व जन्यते, तेन च वर्गों जन्यत इति खोकगमने वक्रः पन्थाः । मम तु खड्गधारापातेन शीघ्र स प्राप्यत इति यागेनालमिति भावः । तदुक्तम्-'द्वाविमौ पुरुषो राजन्सूर्य- मण्डलभेदिनी । परित्रायोगयुक्तश्च युद्धे चाभिमुखो हतः ॥' इति । ससंभ्रम सोद्वेगमित्यर्थः । संभ्रमस्त्वरा वा । तदेव स्फोरयति-दशरथेत्यादि । दश- रथगृहे संभूतं मां धनुर्धरमवाप्य दिनकरकुलमास्कन्दयितुं शीलं यस्य तादृशः कोऽयं कलङ्कस्य नवोऽङ्कुरः । इत्यनेन प्रकारेणैतां वनितां स्त्रियं ताडकां हन्तुं मम मनोन विचिकित्सते । 'अन्यत्रापि दृश्यते' इति वाचनात् । न संदेग्धी- त्यर्थः । 'गुप्तिक्रियः सन्' । 'विचिकित्सा तु संशयः' इत्यमरः । नन्वेवं विधेऽपि स्त्रीवधरूपकर्मणि कथं न संदेश्धीत्यत आह-यदिति । यद्यस्माद्धेतो!ऽस्मार्क तवैव वांसि धर्मस्थीयमधिकरणं धर्मक्रियाप्रवर्तकमधिकरणं निर्णयस्थानम् । तथा च धर्मस्थीयाधिकरणेन विश्वामित्रवचसो रूपणम् । तेन यथान्येषां राज्ञां धर्म- स्थीयादधिकरणात्प्रवृत्तिनिवृत्तिर्वा तथास्माकमपि भवद्वचनादिति भावः। रूपके भिन्न- लिङ्गता भिन्नवचनता च न दोषः । सौभाग्यादानात् । 'यदधिकरणं धर्मस्थेयम्' इति पाठे धर्मस्थानमित्यर्थः । 'यदधिकरणं धर्मश्वायम्' इत्यादिपाठो मनोहरो विस्तरभयान लिखितः । मा भैष्ट मा भीति कुरुध्वम् । “निभी भये । 'सिचि १. ससंभ्रममुत्थाय'; सरोषसंभ्रममुत्थाय' इति पाठौ. : २. भगवन्गुसे' इति पाठः. ३. 'हि' इति पाठः. ४. एनाम् इति पाठः. ५. धर्मस्था- नम्' इति पाठः.
काव्यमाला। । (प्रणिपत्य नेपथ्याभिमुखम् ।) भोस्तपोधनाः, मा भैष्ट । रजनिचरचमूरमूरपास्यन्नयमहमागत एव रामचन्द्रः । कुशिकसुतकुशाग्रतोयबिन्दोरिदमनुकल्पमवेत कार्मुकं मे ॥१३॥ (इति धनुरारोपयन्निष्क्रान्तः।) लक्ष्मण:-(साशङ्कमात्मगतम् ।) दिष्ट्या क्षात्रेण धर्मेण कौमार- मप्यशून्यमार्यस्यासीत् । (नेपथ्याभिमुखमवलोक्य हर्ष नाटयन्प्रकाशम् ।) भगवन्कौशिक, पश्य पुरस्तादायें धृतधनुषि वायव्यास्त्रव्यतिकरनिरालम्बनस्ताडकेयः प्राप्तो जीवन्मरणमसुभिर्विमुक्तः सुबाहुः । वृद्धिः परस्मैपदेषु' इति वृद्धिः । रजनिचरेति । अयमहमित्यत्यन्ताहंकारे। रजनिचरसेना अपास्यन्मारयिष्यन् । 'असु क्षेपणे'। 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यति लट् । दिवादित्वाच्छ्यन् । कौशिकस्य कुशाप्रतोयबिन्दोः शान्ति- जलस्यानुकल्पं पश्चात्कल्पं गौणमिदं मे कार्मुकं धनुरवेत जानीत । 'इणू गतौ'। सर्वे गत्या ज्ञानार्थी इति शाब्दिकाः । यथा कौशिकस्य मन्त्रसंस्कृतकुशाग्रतोय. बिन्दुः शत्रून्पातयति तथा ममापीदं धनुरिति भावः । 'मुख्यः स्यात्प्रथमः कल्पोऽनु- कल्पस्तु ततोऽधमः' इत्यमरः । आरोपयनधिज्यं कुर्वन् । 'दिष्ट्येत्यानन्दने मतम्' इति भावः । कौमारे बाल्यम् । अशुन्यं कृतिक्षमम् । आसीदित्यत्र 'आशंसायां भूतबच्च' इति लङ् । धृतधनुषीत्यत्र 'धनुषश्च' इत्यनङ् न भवति । समासान्त- विधेरनित्यत्वात् । सतिसप्तमीयम् । वायव्येति । अयं ताडकेयस्ताडकापुत्रः सुबाहु वन्सन्मरणं प्राप्तः । शक्त एव मारित इति भावः । अत एवासुभिः प्राणैर्विप्रमुक्तस्त्यक्तः । वायव्यास्त्रस्य वायुदेवताकस्यास्त्रस्य व्यतिकरण संबन्धन १. 'नेपथ्यामिमुखमवलोक्य' इति पाठः. २. 'मा भैष्ट तपोधनाः, मा भैष्ट', मा मैष्ट भोस्तपोधनाः, मा भैष्ट' इति पाठौ. ३, 'रामभद्रः' इति पाठः. ४. 'सोत्सा- हशङ्कमास्मगतम्' इति पाठः. ५. 'प्रकाशम्' इति पुस्तकान्तरे नास्ति; 'सप्रकाश- शम्' इति पाठः ६. 'पश्य पश्य' इति पाठः. ७. 'धनुषि धृते' इति पाठः, ८. 'विप्रयुक्तः' इति पाठः.
२ अङ्क:] अनर्घराघवम् । कृत्तोन्मुक्ता भुवि च करुणाश्चर्यबीभत्सहास त्रासक्रोधोत्तरलमृषिभिदृश्यते ताडकेयम् ॥ ६४ ॥ विश्वामित्र:-(विलोक्य ।) वत्स लक्ष्मण, विस्मयेन प्रमोदेन च परवन्तो वयं ने वाचामधीश्महे । वक्तव्यमेव वा किमस्ति । न खल्वियमद्यतनी वः प्रतिष्ठा । दिकूलंकषकीर्तिधौतवियतो निर्व्याजवीर्योद्धता- स्ते यूयं रघवः प्रसिद्धमहसो यैः सोऽपि देवाधिपः । बिभ्राणैरसुराधिराजविजयक्रीडानिदानं धनुः पौलोमीकुचपत्रभङ्गरचनाचातुर्यमध्यापितः ॥ १५ ॥ निरालम्बन आधारशून्यः । तेन मारणात्पूर्व कृत्ता छिन्ना पश्चादुन्मुक्ता त्यत्ता सतीयं राक्षसी ताडका । वधस्य स्त्रीविषयत्वेन करुणा, बालेनैव महाराक्षसी ताडका सधुवा मारितेत्याश्चर्यम् , तपोवनेऽपि स्त्रीवधाद्वीभत्सः, आः कथं भवत्या कृतो यज्ञभङ्ग इति हासः, ताडकां सपुत्रां नष्टामाकर्ण्य रावणः किं कर्तेति त्रासः, तस्यास्तादृशदुश्चेष्टास्मरणात्क्रोधः, एभिरत्तरलं यथा स्यादेवमृषिभिर्भुवि दृश्यत इत्यर्थः । ताडकेय इति 'स्त्रीभ्यो ढक्' । विस्मयप्रमोदयोः पूर्वोक्त एव हेतुः । परवन्तः पराधीनाः । नाधीश्महे न प्रभवामः । ईश ऐश्वर्ये । वाचामिति 'अधी- गर्थदयेशां कर्मणि' इति षष्ठी। अद्यतन्यद्यभवा । वो युष्माकम् । दिकूलंक- खेति । यूयं तेऽनिर्वचनीयपराक्रमा रघवो रघूणामपत्यानि । अत्र यद्यपि रघो- रपलं राघव इत्यण्प्रत्ययान्तादाघव इत्येव भवति तथापि 'संज्ञापूर्वको विधि- रनित्यः' इति वचनसामर्थ्यादृद्धेरभावः । वस्तुतस्तु 'ते ताजाः' इत्यनेन तद्रा- जसंज्ञायाम् 'तद्राजस्य बहुषु तेनैवास्त्रियाम्' इत्यनेनापत्यवाचिनोऽष्प्रत्ययस्य लोपे कृते वजा इतिवद्रघव इति सिद्ध्यति । कीदृशाः । दिशां कूलंकषा या कीर्तिस्तया दिकूलंकषा या कीर्तिस्तया धौतं प्रक्षालितं वियदाकाशं यैस्ते तादृशाः । निर्व्या- जवीर्यण साहजिकप्रभावेणोद्धताः प्रचण्डाः । क्वचित् 'वीरोद्धताः' इति पाठः । १. 'असुभिः' इति पाठः. २. 'न च' इति पाठः, ३. वीरव्रताः' इति पाठः, ४. पत्रमशः इति पाठः an काव्यमाला 1 लक्ष्मण:-भगवन्, पश्य । अद्य नैशाचरी सेनामेनामुन्मूलयन्नयम् । आधानं वीरधर्मस्य निर्माय स्वामुपस्थितः ॥ ६६ ॥ (प्रविश्य।) रामः-(संवैलक्ष्यस्मितम् ।) पूषा वसिष्ठः कुशिकात्मजोऽयं त्रयस्त एते गुरवो रघूणाम् । महामुनेरस्य गिरा कृतोऽपि स्त्रैणो वधो मां न सुखाकरोति ॥६७॥ तत्र वीरेण वीररसेनोद्धताः प्रगल्भाः। यद्वा वीराश्च त उद्धताश्चेति कर्मधारयः। प्रसिद्धं महस्तेजो येषां ते । तदाकासां पूरयति-यैरिति । यै रघुभिः सोऽपि देवाधिप इन्द्रः पौलोम्याः पुलोमजायाः शच्याः कुचयोर्या पत्रभङ्गरचना पत्राव- लीकुटिलताचरणं तस्यां तस्या वा चातुर्यमध्यापितः । रघुभिरेव कृतकृत्यत्वादि- न्द्रस्त्रक्रियायामेवासक्त इति भावः । असुराधिराजस्य या विजयक्रीडा तस्या निदानमादिकारणं धनुर्विभ्राणैः । कूलंकष इति 'सर्वकूलाभ्रकरीषेषु कषः' इति खच् । पौलोमीति 'तस्यापत्यम्' इत्यणू । डीप् । 'वीर्यं शुके प्रभावे च' इति मेदिनीकरः। 'निदानं त्वादिकारणम्' इत्यमरः। उत्कर्षमुखेन रामप्रवेशं सूचयति- अद्येति । वीरधर्मस्याधानं स्थानं निधानं वा निर्माय कृत्वा । खस्मिन्नित्यर्थात् । खस्मिन्बीरधर्ममाघायेत्यर्थः । शत्रुसेनावधं कृत्वेति भावः। एवमुक्तप्रमाणेन गुरुका- र्यानुरोधेनात्यन्ताकार्यमपि कृत्वानुतापं प्रकटयन्नाह -पूषेति। पूषा सूर्यः । वसिष्ठों मैत्रावरुणिः । कुशिकात्मजः कौशिकः । तथा च महामुनेः कौशिकस्य गिरा वाण्या. स्त्रैणः स्त्रीसंबन्धी वधो मां न सुखाकरोति न सुखयति । 'सुखप्रियादानुलोम्ये इति डान् । 'स्त्रैण' इति 'स्त्रीपुंसाभ्यां ननजी भवनात्' इति नन्। 'गीर्वाग्वाणी: । 'इव' इति पाठः. २. आधारम्' इति पाठः. ३. 'विधाय' इति पाठः. ४. 'सवैलक्ष्यम्' इति पाठः. ५. 'तस्य' इति पाठः, ६. 'अयम्' इति पाठ भी २ अङ्कः] अनर्घराधवम् । । (आश्रममवलोक्य।) प्रत्यासन्नतुषारदीधितिकरक्लिश्यत्तमोवल्लरी- बल्याभिर्मखधूमवल्लिभिरमी संमीलितव्यञ्जनाः श्वः संचीवरयिष्यमाणबटुकव्याधूतशुष्यत्त्वचो निद्राणातिथयस्तपोधनगृहाः कुर्वन्ति नः कौतुकम् ॥ ६८ ॥ ((रतोऽवलोक्य ।) स्फुरति पुरतो माद्यन्माद्यच्चकोरविलोचन- प्रकरकिरणश्रेणीदत्तस्वहस्तघनं महः । हृदय लघु मा भूः प्रेयोदर्शनप्रतिभूरयं कुवलयदृशामिन्दुनेत्रे सुधाभिरनक्ति नः ॥ ६९ ॥ सरखती' इत्यमरः । अनुतापापनोदायान्यमनीभवितुमन्यद्वर्णयति-प्रत्यास- नेति । तपोधनगृहा नोऽस्माकं कौतुकं कुर्वन्तीत्यन्वयः। कौतुकहेतुमाह-प्रत्या- सन्ना ये तुषारदीधितिकराश्चन्द्रकिरणास्तैः क्लिश्यन्ती नष्टा भवन्ती या तमोवल्लरी अन्धकारसमूहस्तया बल्याभिज्ञैयाभिर्मखधूमवल्लिभिर्यागधूमलताभिः संमीलितं लुप्तं व्यञ्जनं चिहं द्वारभित्त्यादिरूपं येषां ते। चन्द्रतेजसा तमोविनाशाच्चन्द्रोदयेऽत्यर्थ धूम- लता दृश्यत इति भावः । श्व आगामिदिने संचीवरयिष्यमाणाः परिधास्यमाना बटुकेन व्याधूता अत्यर्थ प्रक्षालिताः शुष्यन्त्यस्त्वचो वल्कला येषु ते । क्लिश्यदित्यत्र 'क्लिश विबाधने इत्यस्य झ्यादित्वात्ना स्यात् । 'क्लिश उपतापे' इत्यस्य चात्मने- पदित्वाच्छत न स्यादित्यसाधुतेति न वाच्यम् । आत्मनेपदविधेरनित्यत्वात् । सहतीत्यादिप्रयोगस्य दृष्टत्वात् । निद्राणो निद्रायुक्तः । आतो धातोः' इति निष्टातकारस्य नकारः । संचीवरयिष्यमाणेति 'पुच्छभाण्डचीवराष्णिङ्' इति परिधानार्थे गिङ् । 'वल्ली तु व्रततिर्लता' इत्यमरः । स्फुरतीति । महस्ते- जोऽर्थाञ्चन्द्रस्य स्फुरति। कीदृशम् । माद्यन्तोऽत्यर्थं हृष्यन्तः । 'मदी हर्षे दिवादिः । 'शमामष्टानां दीर्घः श्यनि' इति दीर्घः । ये चकोराणां विलोचनप्रकरा. श्चक्षुःसमूहास्तेषु किरणश्रेणीभिर्दत्तं खहस्तस्य 'खहथ' इति प्रसिद्धस्य धनं समूहो येन तत्तादृशम् । यद्वा खहस्तोऽवलम्बस्तेन घनं निरन्तरम् । हे कुवल- १. 'कल्पाभिः' इति पाठः, २. 'तपोवने' इति पाठः, ३. पुरोऽवलोक्य' इति पाठः, ।
१२० काव्यमाला. अपि च। उन्मीलन्ति मृणालकोमलरुची राजीवसंवर्तिका- संवर्तव्रतवृत्तयः कतिपये पीयूषभानोः कराः । अप्युर्घवलीभवत्सु गिरिषु क्षुब्धोऽयमुन्मज्जता विश्वेनेव तमोमयो निधिरपामहाय फेनायते ॥ ७० ॥ यदृशां हृदय, लघु मा भूः कातरं मा भूयाः । अयमिन्दुश्चन्द्रः प्रेयसोड- त्यन्तप्रियस्य दर्शने प्रतिभूर्लनको नोऽस्माकं नेत्रे चक्षुषी सुधाभिरमृतैरनक्ति लिम्पति । नेत्रे इति प्रत्येकं संबन्धः । अन्यथा नेत्राणीति स्यात् । यद्वा न इति अस्मदो द्वयोश्च' इत्येकत्र बहुवचनम् । चन्द्रोदयस्य विरहिणां कंदर्प- ज्वरदाहदायित्वाचन्द्रमालोक्य खयमेव कुसुमबाणवशगः प्रियः समागमिष्यतीति हृदयाश्वासनमिति भावः । ननु चाप्रस्तुतमिदम् । कुवलयदृशां तत्रासांनिध्यात् । अत्र केचित्-उद्विग्नवचनमिदम् । यथा-'कैकेयि प्रियसाहसे सुतवधान्मातः कृतार्था भव' इति । अपरे तु-आकाशवचनमेतत् । तथा-कैकेयि कामा फलितास्तवेति' । अन्ये तु-भगवतो हि चेतस्यन्धकारे सति महद्दुःखमुत्पन्नमत आह-हे हृदय मदीय, मा लघु उपतप्तं भूः । अयं कुवलयदृशां प्रेयोदर्शन- प्रतिभूरिन्दुः सुधाभिनेत्रे अनक्ति । अतोऽन्धकारापनोदः संनिहित इति भावः । इतरे तु-भगवतः प्राच्यां दिशि तेजःपटलं दृष्ट्वा किमयमन्य एव मायावी राक्षसः समायात इति बुद्धिरुत्पन्नाः ततो निरूप्याह-हे मदीय हृदय, मा लघु भूर्मा सत्वरं भव । नासौ राक्षसः कश्चित् , किं तु कुवलयदृशां प्रेयोदर्शनप्रति- भूरयमिन्दुः-इति वर्णयन्ति । न चातीतानागतज्ञतया रामस्य नेयं शङ्केति वाच्यम् । सर्वदा तस्य तथात्वानभ्युपगमात् । अन्यथा मायादिदर्शने तस्येति- कर्तव्यतायां मोहस्याप्राप्तिप्रसङ्गात् । मा भूरिति भवतेः 'माङि लु' सिच् । 'गातिस्था-' इत्यादिना सिचो लुक् । 'न माङयोगे' इत्यनिषेधः । 'प्रतिभूल- नकः पुमान्' इति विश्वः । सकौतुकं रुचो रमणीयतामाह-उन्मीलन्ती- त्यादि । पीयूषभानोश्चन्द्रस्य कतिपयेऽसमस्ताः कराः किरणा उन्मीलन्ति प्रसरन्ति । मृणालवत्कोमला रुकान्तिर्येषां ते । राजीवानां पद्मानां संवर्तिका १. 'अण्युप्रैः' इति पाठ:..
२ अङ्कः] अनघराधवम् । (सनिर्वेदम् ।) इन्दुर्ययुदयाद्रिमूर्ध्नि न भवत्यद्यापि तन्मा स भू- नासीरेऽपि तमःसमुच्चयममूरुन्मूलयन्ति त्विषः । अप्यक्ष्णोर्मुदमुद्विरन्ति कुमुदैरामोदयन्ते दिशः संप्रत्यूर्ध्वमसौ तु लाञ्छनमभिव्यक्तुं प्रकाशिष्यते ॥७॥ नवदलानि तेषां संवर्तः प्रलयः । पत्रसंकोच इति यावत् । व्रतमेव वृत्तिापारी येषां ते । उत्प्रेक्षते-तमोमयोऽप्यन्धकारमयोऽप्यन्धकारसमूह एवापांनिधिः समुद्रोहाय झटिति फेनायते फेनमुद्वमति । समूहे मयद । यद्वा तमोमयोऽन्ध- कारप्रकृतिः समुद्रः । समुद्रतुल्योऽन्धकार इत्यर्थः । कीदृशः । उसैः किरणे- धवलीभवत्सु गिरिषु पर्वतेषून्मजतोन्मज्जनं करिष्यता विश्वेन जगता क्षुब्धो मथित इव । अन्योऽपि समुद्रो गिरिणा मन्दरेण मथितः सन्फेनं त्यक्तवानिति ध्वनिः। क्षुब्ध इति 'क्षुब्धखान्तध्वान्त-'इत्यादिना मन्थे निपातित इति यद्यपीत्यादि पूर्वपक्षः, सिद्धान्तश्चात्र 'संक्षुब्धदुग्धमयसागर-' (१३५) इत्यादौ प्रथमाङ्क एव विवेचित इति तत्रैवालोचनीयमेतत् । कतिपय इति 'प्रथमचरम-' इति जति विकल्पेन सर्वनामसंज्ञा । फेनायत इति 'फेनाच' इति क्यङ् । 'संवतः प्रलयः कल्पः' इत्यमरः । 'संवर्तिका नवदलम्' इति च । 'द्राग्झटि- त्यजसाहाय' इत्यपि । 'विश्वं जगति स्यानपुंसकम्' इति मेदिनीकरः । निर्वेदो वैराग्यम् । इन्दुरित्यादि । इन्दुश्चन्द्र उदयाद्रिमूर्यद्याप्येतावतापि कालेन यदि न भवति तदा मा भून्मा भवतु । 'स्मोत्तरे लङ् च' इति चाल्लुङ् । 'न माझ्योगे' इत्यनिषेधः । ननु तिमिरपटलनाशः कथं स्याद्यदि चन्द्रोदयो न स्यादित्यत आह-अमूस्त्विषोऽपि कर्व्यः । अपिर्मिनक्रमः । नासीरेऽने तमःसमुच्चयम- न्धकारसमूहमुन्मूलयन्ति । तथा च चन्द्रकर्तव्यान्धकारनाशरूपकर्मणस्त्विषैव करणात्कृतमन्यथासिद्धेन चन्द्रोदयेनेति भावः । ननु भवत्वेवं तावत्, चक्षुःप्री- त्याद्यर्थमेवोदेत्वित्यत आह-अक्ष्णोरपि चक्षुषोरपि मुदं हर्षमुद्रिन्ति । कुमुदैः करणभूतैश्च दिश आमोदयन्ते हृष्यन्ति । खार्थे णिच् । “णिचश्च' इति तङ् । अन्यथा 'गतिबुद्धि-' आदिसूत्रेणाकर्मकान्मुदेः कर्मसंज्ञायां १. 'उद्वहन्ति' इति पाठः २. 'अभिव्यक्तुम्' इति पाठः, १२२ काव्यमाला (संहर्षम् ।) काश्मीरेण दिहानमम्बरतलं वामझुवामानन- द्वैराज्यं विदधानमिन्दुदृषदा मिन्दानमम्भःशिराः । प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्धदर्भाकुर- क्षीबोत्सङ्गकुरङ्गमैन्दवमिदं बिम्ब समुज्जृम्भते ॥ ७२ ॥ एताश्च पौलोमीकुचकुम्भकुङ्कुमरजःखाजन्यजन्मोद्धताः शीतांशोर्युतयः पुरंदरपुरीसीम्नामुपस्कुर्वते । ज्ञायां कुमुदानीति स्यातू । यद्वा दिश, आमोदिष्यन्ते । गन्धयुक्ता भवन्तीत्यर्थः एतावतापि चन्द्रोदये तस्यानिष्टमाशङ्कते-संप्रतीदानीमसौ चन्द्रो लाञ्छनं कलङ्क- मभिव्यङ्कुमभिव्यक्तीकर्तुम् । स्पष्टयितुमिति यावत् । ऊर्ध्वं यथा भवति तथा प्रकाशिष्यते । क्वचित् 'अभिव्यक्तम्' इति पाठः । तत्रासौ चन्द्र ऊर्ध्वमभिव्याप्य व्यक्तं स्फुटं लाञ्छनं कलङ्कं प्रकाशिष्यतेऽभिव्यक्तीकरिष्यत इत्यर्थः । एतना, संबद्धम् । प्रकाशतेरकर्मकत्वालाञ्छनस्य कर्मत्वानुपपत्तरिति । अत्र कश्चित्- प्रकाशिष्यत इत्यन्त वितण्यर्थोऽयमर्थः सकर्मक इति । अन्ये तु-व्यक्त लाञ्छनमभिलक्षीकृत्य ऊर्ध्वं यथा स्यादेवमसौ चन्द्रः प्रकाशिष्यते लाञ्छन- संबन्धिनं प्रकाशं व्यक्तं घास्यतीति । तथा च प्रकाशो लाञ्छनविषयः स चन्द्रविषयो भविष्यतीत्यर्थः-इत्याहुरिति । वस्तुतस्तु प्रथमपाठः साधीयानिति । 'नासीरोऽग्रयाने स्यादग्रेऽपि' इति विश्वः । 'मुत्प्रीतिः प्रमदो हर्षः' इत्यमरः । काश्मीरेणेति । इदमैन्दवमिन्दुसंबन्धि बिम्बं मण्डलं समुज्जृम्भते प्रकाशते । काश्मीरेणेव । काश्मीरेण कुङ्कुमेनाम्बरतलमाकाशस्वरूपं दिहानं लिप्तं कुर्वा- णम् । 'दिह उपचये' । लट् । शानच् । प्रथमोदितकिरणानामतिलोहितत्वात्का: श्मीरसादृश्यम् । वामभ्रुवामङ्गनानामाननस्य मुखस्य द्वैराज्यं प्रातिपक्ष्यम् । सादृश्यमिति यावत् । विदधानम् । इन्दुदृषदां चन्द्रकान्तमणीनामम्भःशिराः पानीयाधारनाडीभिन्दानं द्विधा कुर्वत् । प्रत्युद्गच्छन्त्यो याः पुरंदरनगरनार्य- ताभिर्दत्तो योऽस्तित्रस्था ये दर्भाङ्कुरास्तैः क्षीबो मत्तः । अतिभक्षणान्मत्त इव । 'अनुपसर्गात्फुल्लक्षीब-' इति निपातितः । उत्सङ्गे कोडे कुरङ्गो हरिणो यत्र तत्ता- १. 'सहर्ष च' इति पाठः २. 'दुर्वाङ्कुर- इति पाठः.
२ अक] अनर्घराघवम् । १२३ एताभिलिहतीभिरन्धतमसान्युनतीमिर्दिशः क्षोणीमास्तृणतीभिरन्तरतम व्योमेदमोजायते ॥ ७३ ॥ अपि च । नैवायं भगवानुदञ्चति शशी गव्यूतिमात्रीमपि यामद्यापि तमस्तु कैरवकुलश्रीचाटुकाराः कराः । मनन्ति स्थलसीनि शैलगहनोत्सङ्गेषु संरुन्धते जीवग्राहमिव कचित्वचिदपि च्छायासु गृह्णन्ति च ॥४॥ दशम् । 'काश्मीरं कुङ्कुमे च स्यात्' इति मेदिनीकरः । 'नाडी तु धमनिः शिरा' इत्यमरः । 'पूः स्त्री पुरीनगर्यो वा पत्तनं पुटभेदनम्' इति च । एताश्च पौलो. मीत्यादि । एताः शीतांशोद्युतयः पुरंदरपुरीसीनामुपस्कुर्वते गुणान्तराधान विदधति । 'गन्धनावक्षेपण-' इति प्रतियत्ने तङ् । 'उपात्प्रतियत्नवैकृतवाक्याध्या- हारेषु च' इति सुट् । यद्वा सीमानमलंकुर्वत इत्यर्थः । 'संपर्युपेभ्यः करोतो भूषणे' इति सुट् । 'कृषः प्रतियत्ने' इति कर्मणि षष्ठी । पुरीव पुरीत्युपचारात् । कीदृश्यः । इन्द्राणीस्तनकलशकुङ्कुमरजसा खाजन्ये समानकुले जन्म तेनोद्धताः सगर्वाः । कुङ्कुमस्य वर्णसाम्येन खाजन्यम्, पौलोमीसंबन्धेनोद्धतत्वं द्युती- नाम् । इदमन्तरतममतिमध्यं व्योमाकाशमेताभिद्युतिभिः करणभूताभिरोजायते ओजखिवदाचरति । क्यास्तद्वदर्थे विधानात् 'कर्तुः क्यङ् सलोपश्च' इत्युप- माने क्या सलोपश्च । 'अकृत्सार्वधातुकयोर्दीर्घः' । 'ओजो बलमवष्टम्भः स्यादो- जस्त्विट्प्रकाशयोः' इति धरणिः । अन्धतमसानि गाढान्धकारांल्लिहतीभिः खाद- न्तीभिः । “लिह आखादने । शतृ । 'ध्वान्ते गाढेऽन्धतमसम्' इत्यमरः । 'अव- समन्धेभ्यस्तमसः' इत्यच् समासान्तः । दिशः उद्मश्नतीभिः क्रमेण पूर्वादिदिशा- मुद्रथनं कुर्वतीभिः । अन्धकारेण प्राच्यादिभेदाज्ञानाद्रथिता इव दिश आसन् , इदानी चन्द्रद्युतिभिरुथिताः । प्राच्यादिभेदं प्रापिता इत्यर्थः । क्षोणीं पृथि- वीमास्तृणतीभिराच्छादयन्तीभिः । 'स्तृञ् आच्छादने । तत्किंकराणामेतदेव प्रयोजनमित्यत आह-नैवायमिति । अयं भगवाञ्शशी अद्यापीदानीमपि गव्यूतिमात्रीमपि क्रोशद्वयपरिमाणामपि द्यामाकाशं नोदञ्चति नोवं गच्छति । करास्तु तमोऽन्धकार स्थलसीनि मनन्ति नाशयन्ति । शैलगहनोत्सङ्गेषु पर्वतवन १२४ काव्यमाला। (ज्योत्स्नातिशयं विभाव्य) किं नु ध्वान्तपयोधिरेष कतकक्षोदेरिवेन्दोः करै- रत्यच्छोऽयमधश्च पैङ्कमखिलं छायापदेशादभूत् । किं वा तत्करकर्तरीमिरभितो निस्तक्षणादुज्वलं व्योमैवेदमितस्ततश्च पतिताश्छायाच्छलेन त्वचः ।। ७५॥ (परिक्रम्य पार्वतोऽवलोक्य।) दलविततिभृतां तले तरूणामिह तिलतण्डुलितं मृगाकरोचिः । मदचपलचकोरचञ्चकोटीकवलनतुच्छमिवान्तरान्तराभूत् ॥ ७६ ॥ क्रोडेषु संरुन्धतेऽवरुद्धं कुर्वन्ति । जीवग्राहं जीवं गृहीत्वा छायासु क्वचिदपि गृह्ण- न्ति । तम इति सर्व क्रियान्वयि । चाटुरालोको वर्णनं वा । 'नृपादेवं. र्णने चाटुरालोके चाटुरिष्यते' इति धरणिः । गन्यूतिमात्रीमित्यन्न 'प्रमाणे द्वयसच्-' इत्यादिना मात्रच् । 'टिड्डाणञ्-' इति डीप् । जीवप्राहमित्यत्र 'समूलाकृतजीवेषु हन्कृञ्ग्रहः' इति णमुल् । 'गम्यूतिः स्त्री क्रोशयुगम्' इत्यमरः । किं न्विति । अयं ध्वान्तपयोधिरन्धकारसमुद्रः किं नु । ननु यद्ययमन्धकारसमुदतत्कथमति- शुभ्रत्वमादधाति अन्धकारस्य श्यामखभावत्वादित्यत आह-इन्दोः करैरत्य- च्छोऽतिधवलः । तथा चौपाधिक धावल्यमस्य प्रतिपादितम् । कतकशोदैरिव । औषधविशेषधूलिभिरिवेत्यर्थः । कतकं 'कजिज' इति प्रसिद्धवृक्षस्य फलं मग- धदेशे जातं तस्य क्षोदो धूलिः । तद्दानमात्रात्पङ्कादिकमधः पतति जलं च निर्मलं भवति । पयोधिजलं श्यामवर्णमिति कविसंप्रदायः । अत्र चान्धकारस्य कर्द- मत्वेन रूपणाचन्द्रकिरणानां कतकेन रूपणम् । ननु पानीये कतकानुप्रवेशा- त्पङ्कमधः पतति, अत्र तु किमित्यत आह-छायापदेशाच्छायाव्याजादखिलं पङ्कमधोऽभूत् । तथा चास्य च्छायैव पङ्कमित्यर्थः । अथवेदं व्योमैवाकाशमेव तत्करकर्तरीभिश्चन्द्रकिरणकर्तरीभिर्निस्तक्षणात्कर्तनादभितः सर्वत्रोज्वलम् । धवलमित्यर्थः । इतस्ततः सर्वत्र च्छायाच्छलेन त्वचः पतिता इति । अन्य स्थापि कर्तितस्य वृक्षादेस्त्वचः पतन्तीति ध्वनिः । कर्तरी 'कतरणी' इति प्रसिद्धा । 'जोदः स्यात्पुंसि रजसि' इति मेदिनीकरः। दलविततीति । दलविततिभृतां १. विभाव्य च' इति पाठः. २. 'पक्पटलम्' इति पाठः. ३. 'परिक्रम्याव- लोक्य च 'परिक्रम्य सर्वतोऽवलोक्य इति पाठौ.
२ अङ्कः] अनर्घराघवम् । १२५ (विभाव्य च।) त्रिभुवनतमोलुण्टाकीनामहो मिहिरत्विषा- मभिविधिरसौ कोकश्रेणीमनस्यैवशिष्यते । क्षुधमपि तमः कोपीदन्तः प्रविश्य विनिम्नतः शशधरकरानच्छिन्नाग्रांश्चरन्ति चकोरकाः ॥ ७७॥ अपि चेदानी तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका- कपाटनीमिन्दुः किरणलहरीमुल्ललयति । पत्रविस्तारधारकाणां तरूणां वृक्षाणां तलेऽधो मृगाङ्करोचिश्चन्द्रद्युतिस्तिलतण्डु- लितम् । तिलतण्डुलाभ्यां मिश्रीकृतमिव श्यामशुभ्रमभूदित्यर्थः । सान्तरपत्र- च्छायासंबन्धात् । उत्प्रेक्षते-अन्तरान्तरा मध्ये मध्ये मदेन चञ्चला ये चकोरास्तेषां चश्वग्रेण कृतं यत्कवलनं तेन तुच्छमिव शून्यमिव । त्रिभुव- नैति। मिहिरत्विषां सूर्यकिरणानामभिविधिरभिव्याप्तिः कोकश्रेणीमनस्यवशि- प्यते । चक्रवाकाणां मनसि परं संतापो भवतीत्यर्थः । अहो आश्चर्ये । रात्रावपि संताप इत्याश्चर्यम् । कीदृशीनाम् । त्रिभुवनतमोलुण्टाकीनां त्रिभुवन- तमसां लुण्टनकीणाम् । 'लुटि तेये । 'जल्पभिक्षकुलुण्टवृङः षाकन् । 'बिगौरादिभ्यश्च' इति ङीष् । चकोराः पुनरच्छिन्ना अग्रा येषां तादृशाशश- धरकरांश्वरन्ति खादन्ति । 'चर भक्षणे' । कीदृशान् । कोपात्तमः प्रविश्यान्त- मध्ये क्षुधं बुभुक्षा विनिघ्नतो नाशयतः । अपिरेवार्थे । यद्वा क्षुधं तजनितं तमोऽपि विनिम्नतः । यद्वा रोषाचकोराणामन्तहृदयं प्रविश्य क्षुधं नाशयतः। रोषादेवान्धकाराणामन्तः प्रविश्य तमो नाशयत इत्यर्थः । तथेति । इन्दुश्चन्द्रः पौरस्त्यायां पूर्वस्यां दिशि किरणलहरी किरणकल्लोलमुल्ललयति प्रसारयति । यथा एणाङ्कमणयश्चन्द्रकान्ताः प्रतिगुडकं गुडिकां गुडिकां प्रति पुजायन्ते । अपुजाः पुजा भवन्ति । 'भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः' इति क्यङ् । यद्वा पुजवदा- चरन्ति । आचारे 'कर्तुः क्यङ्' इति क्यङ् । कीदृशीम् । कुमुदानां यः केदार- स्तत्र या कलिका मुकुलं तदेव कपाटमिव कपाटं पत्रसंकोचस्तन्नाशिकाम् । अवृतिष्ठते' इति पाठः. २. 'साक्षादन्तः' इति पाठः ३. निगृह्णतः' इति पाठ, । .
१२६ काव्यमाला. समन्तादुन्मीलङ्कहलजलबिन्दुस्तबकिनो यथा पुञ्जायन्ते प्रतिगुडकमेणाङ्कमणयः ।। ७८ ॥ (परिकामवमवलोक्य ।) तरुणतमालकोमलमलीमसमेतदयं कलयति चन्द्रमाः किल कलङ्कमिति ब्रुवते । तदनृतमेव नियविधुतुददन्तपद- व्रणविवरोपदर्शितमिदं हि विभाति नभः ॥ ७९ ॥ किंच। रुचिभिरभितष्टकोत्कीर्णैरिव त्रसरेणुभि- यदुडुभिरपि च्छेदैः स्थूलैरिव प्रियते नभः । विकासकत्वात् । कीदृशाः। समन्तात्सर्वत्रोन्मीलन्त उद्गच्छन्तः । प्रादुर्भवन्त- इति यावत् । एतादृशा बहलाः प्रचुरा ये जलबिन्दवस्तैः स्तबकिनो गुच्छप्रायाः। संलग्नजलबिन्दूनामपि चन्द्रकान्ताकारत्वादेकस्यापि पुजाकारतेति भावः । उल्ल- लयतीति 'लल ईप्सायाम् । चुरादिरदन्तः । 'कपाटमररं तुल्ये' इत्यमरः । तरुणेति । तरुणो यस्तमालस्तापिच्छस्तद्वत्कोमलं मनोहरं मलीमसं च श्याम. मेतद्वस्तु, अयं चन्द्रमाः कलयति दधाति । 'कलिवली कामधेनू' इति वैयाकरणाः । किल प्रसिद्धौ । यत्कलङ्कमिति ब्रुवते । जना इति शेषः । तदनृतमेव, कलङ्क- मिदमिति मिथ्यैव । तर्हि यच्छयामलमालोक्यते तत्किमित्यत आह-इदं नर्भ आकाशं विभाति । हिरवधारणे । अतिनिबिडस्यावयविनो नयनगतिप्रतिवन्ध्र- कस्यान्तरा वर्मना कथं नभो दृश्यत इत्यत आह-निर्दयो यो विधुतुदो राहुस्तस्य दन्तपदव्रणविवरेणोपदर्शितम् । आवेदितमित्यर्थः । पदं स्थानम् । रुचिभिरिति । यद्रुचिभिः कान्तिभिरभितः सर्वत्र नभो म्रियते पूर्यते टुड्वेनोत्कीर्णैरुत्क्षिप्तस्त्रसरेणुभिरिवेत्युत्प्रेक्षा । नैता रुचयः, किं तु विश्वकर्मण- टक्केनोत्कीर्णास्त्रसरेणव इत्यर्थः । यद्वा रुचिभित्रसरेणुभिरिति व्यस्तरूपकम् । यचोडुभिरपि नक्षत्रैरपि नभो नियते । स्थूलैरवयवमहत्त्ववद्भिश्छेदैः खण्डै- रिवेत्युत्प्रेक्षा । टोत्कीर्णैरित्यत्राप्यनुकर्षणीयम् । नैतानि नक्षत्राणि, किंतु ।
२ अङ्कः] अनर्घराघवम् । १२७ प्रकृतिमलिनो भाखहिम्बोन्मजाकृतकर्मण- स्तदयमपि हि त्वष्टुः कुन्दे भविष्यति चन्द्रमाः॥८॥ लक्ष्मण:-(सर्वतोऽवलोक्य ।) भूयस्तराणि यदमूनि- तमस्विनीषु ज्यौल्लीषु च प्रविरलानि ततः प्रतीमः संध्यानलेन भृशमम्बरमूषिकाया- मावर्तितैरुडुभिरेव भृतोऽयमिन्दुः ।। ८१ ॥ (विहेस्य च ।) हन्त, यथाधर्ममेतत् । टकैरिव च्छिन्नानि चन्द्रमस एव स्थूलावयवानीत्यर्थः । तत्तस्मादेवायमपि चन्द्रमाः त्वष्टुर्विश्वकर्मणः कुन्दे भविष्यत्येवेत्युक्तिविशेषे भूत एवेत्यर्थः । हिशब्द एवार्थे । कीदृशस्य । भाखतः सूर्यस्य यो बिम्बस्तस्य योन्मजोन्मार्जनम् । प्रोञ्छन मिति यावत् । तत्र कृतकर्मणः, कृतव्यापारस्य । अतिकुशलस्येत्यर्थः । विश्वकर्मणा खसुता सूर्याय दत्ता, सा च तत्तेजोऽसहिष्णुतां पित्रे कथयामास, तेन विश्वकर्मणा तत्तेजःक्षयार्थ सूर्यस्तक्षित इति कथा । प्रकृत्या खभावेन मलिनः । अन्यस्यापि मलिनस्यादर्शादेरुन्मार्जनं क्रियत इति ध्वनिः । 'देवशि- लिपन्यपि त्वष्टा' इति धरणिः । 'तारकाप्युड वा स्त्रियाम्' इत्यमरः । भूयस्तरा- णीति । तमखिनीषु तमोयुक्तासु रात्रिषु यद्यस्माद्भूयस्तराण्यतिबहून्यमूनि । उडूनि, प्रकरणप्राप्तत्वात् । ज्योत्स्नीषु चन्द्रिकान्वितासु रात्रिषु च प्रविरलानि खल्पानि । सन्तीति शेषः । ततो हेतोरिति प्रतीमो जानीमः । संध्यैवानलो वह्निस्तेन भृशमत्यर्थमम्बरमूषिकायामाकाश एव मूषिका 'भूस' इति प्रसिद्धा यत्र सुवर्णादिकमावलंते तस्यामावर्तितैर्द्रवीकृतैरुडुभिरेव नक्षत्रैरेवायमिन्दुर्भुतः पूरित इत्यर्थः । तेन चन्द्रोदये नक्षत्राणां खल्पतेति भावः । 'ज्यौत्नी चन्द्रिकयान्विता' इत्यमरः । 'तैजसावर्तनी मूषा' इत्यपि । हन्त खेदे । 'हन्त । । - १. कृतः' इति पाठः. २ विहस्य यथाधर्ममेतत्' इति पाठः.
काव्यमाला - यत्पीयूषमयूखमालिनि तमःस्तोमावलीढायुषा नेत्राणामपमृत्युहारिणि पुरः सूर्योढ एवातिथौ । अम्भोजानि पराञ्चि तन्निजमघं दत्त्वेव तेभ्यस्ततो गौराङ्गीवदनोपमासुकृतमादत्ते पतिर्यज्वनाम् ॥ ८२ ॥ विश्वामित्र:-(सर्वतोऽवलोक्य । सस्मितम् ।) अहह नामधेयमात्र- माधुर्यादपरमार्थदृश्वानो विप्रलभ्यन्ते । तथा हि । मेरा दिशः कुमुदमुद्भिदुरं पिबन्ति ज्योत्स्नाकरम्भमुदरंभरयश्चकोराः । हर्षे च खेदे च' इत्यमरः । यथाधर्म धर्मस्थानतिक्रमः। यथाधर्ममाचष्टे-यत्पी- यूषेति । यद्यस्मात्तमःस्तोमेनान्धकारसमूहेनावलीढमाखादितमायुर्वेषां तादृशानां नेत्राणामपमृत्युहारिणि । अपमृत्युरकालमरणम् । अपमृत्युरिवापमृत्युस्तनाशके । पीयूषमयूखमालिनि चन्द्रे । अन्यदप्यमृतं मृत्युहारि भवतीति ध्वनिः । सूर्योढे संध्याकाल एव पुरोऽग्रे पूर्वदिशि वा तिथौ सत्यम्भोजानि पानि पराञ्चि पराङ्मुखानि । संकुचितानीति यावत् । भूतानीति शेषः । तत्तस्माद्धतोर्यज्वनां याज्ञिकानां पतिर्द्विजराजश्चन्द्रो निजं स्वीयमघं पापं तेभ्यः पनेभ्यो दत्त्वा ततः प्रत्यवायाभावात् । ततः पद्मभ्यो वा गौराझ्या या वदनोपमा तदेव सुकृतं पुण्यमादत्ते गृह्णाति । चन्द्रसदृशं सुखमिति प्रतीतेः । तथा च धर्मशास्त्रम्- 'अतिथिर्यस्य भन्नाशो गृहात्प्रतिनिवर्तते । स तस्य दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ अतिथौ विमुखे प्रोकं गते यत्पातकं नृणाम् । तदेवाष्टगुणं प्रोकं सूर्योढे विमुखे गते । विप्रलभ्यन्ते विसंवाद्यन्ते । जनैरिति शेषः । रामस्याति- चिरं चन्द्रवर्णनमवलोक्य ततो निवर्तयितुं भूमिकामारचयति-सेरा इति । आः निन्दायाम् । अत्रिनाम्रो मुनेर्लोचनदूषिकायां नेत्रमले पीयूषदीधितिरिति कीगनुरागः प्रथितः। नेत्रमलेऽमृतदीधितिरिति वक्तुं न युक्तमिति भावः ननु दिवप्रसादकुमुदप्रकाशचकोरोदरपूर्तिकारिवाल्लक्षणयापि कथं न वक्तुं युक्त- मित्यत आह --दिशः स्मेयः स्वभावादेव, न तु चन्द्रकिरणसंबन्धात् । कुमुदमु. Phowtone । १. 'नामषेयमाधुर्यात्' इति पाठः, २ अङ्कः] अनर्घराघवम् । आः कोहगत्रिमुनिलोचनदूषिकायां पीयूषदीधितिरिति प्रथितोऽनुरागः ॥ ८३ ॥ (रामं च दृष्टी । सहर्षसितम् ।). कथमयं कुमाराङ्कविजयप्रत्यागतोऽपि ताडकानिग्रहेण हिणीयमानः सहसा नोपतिष्ठते वत्सः । (लक्ष्मणं प्रति ।) वत्स सौमित्रे, असाकमनेन वृत्तान्तेन प्रदोषलक्ष्मीरियमनूद्यते। पश्य । निशाचराणां तमसां निहन्ता पुरोऽयमुद्गच्छति रामचन्द्रः । अथोल्लसद्भिर्नयनैर्मुनीनामयं कुमुद्रानजनि प्रदेशः ॥.८४ ॥ द्भिदुरमुत्कर्षेण प्रकाशशीलं खप्रकृतेरेव, न तु ततः ।। उदरंभरयश्चकोरा ज्योत्स्नैव दधिसक्तुकं पिबन्ति । करम्भधान्या पिबन्ति, न तु ज्योत्स्नात्वेनेति । उदरंभरिरिति । 'फलेपहिरात्मभरिश्च' इति चकारस्थानुक्तसमुच्चयार्थत्वातिपाता- साधुः । तथा च वृत्तिः-'अनुक्तसमुच्चयार्थश्वकारः कुक्षिभरिरुदरभरिरित्यादा- वपि शिष्टप्रयोगादवगन्तव्यः' । 'करम्भो दधिसक्तवः' इत्यमरः । 'दूषिका नेत्रयोर्मलम्' इति च । कुमाराङ्कः प्रथमयुद्धमेकतुलायुद्धं वा । 'एकसा' इति प्रसि- द्धम् । निग्रहो मारणम् । हिणीयमानो लज्जमानः। हुणीशब्दात्कण्डादियगन्ता- छानच् । ङित्त्वात्तङ् । नोपतिष्ठते न संगच्छते । 'उपाद्देवपूजासंगतिकरणमित्रक- रणपथिष्विति वाच्यम्' इति संगतिकरणे तङ् । अनेन वृत्तान्तेन ताडकाताडनरू- पेण । अनूद्यते पुनरुक्ता भवति । अपरा प्रदोषलक्ष्मीर्भवतीत्यर्थः । प्रदोषसाधर्म्य- माह-निशाचराणामिति । अयं रामचन्द्रो रामः । अथ च राम एव चन्द्रः पुरोऽग्रे उद्गच्छत्युदयते । कीदृशः । निशाचराणां राक्षसानां तमसामिति व्यस्तरू- पकम् । यद्वा तमसां पापयुक्तानाम् । पक्षे निशि रात्रौ चरतां तमसामन्धकाराणां निहन्ता । अथानन्तरं रामचन्द्र उदित आयाते सत्युल्लसद्भिर्मुनीनां नयनैः करण- भूतरयं प्रदेशः कुमुद्दान्कुमुदबहुलोऽजनि जातः। कर्तरि णिच् । अन्योऽपि प्रदेश- १. 'ग्रथितः' इति पाठः. २. 'कुमारोऽकविजय', 'कुमारो विजय- इति पाठौर, ३. 'घृणीयमानः' इति पाठः. ४. 'वत्सः' इति पुस्तकान्तरे नास्ति. ५. 'रामभद्रा इति पाठः. ९०रा० - काव्यमाला। राम:-(विभाव्य) मदयति यदुत्पन्नो दुग्धाम्बुधेरयमम्बुधी- अयति नयनादवेर्जातो मुदं नयनानि च। तदखिलसुरश्रेणीसाधारणप्रणया शची- सहचरचरुस्थाली सोमः समञ्जसमीहते॥ ८५॥ (सैलजमुपसृत्य ।) भगवन् , अभिवादये। विश्वामित्र:-(सैस्नेहबहुमानमालिङ्गय ।) वत्स रघुनन्दन, इत्थमेव प्रकृष्टकभिप्रायक्रियाफलवतो विधीन् । प्रयुञ्जानास्त्वया वीर परिपाल्यामहे वयम् ॥ ८६ ॥ राम:-(खंगतम् ।) शिरसा गृहीतमाचार्यवचनम् । चन्द्रोदये सति कुमुद्वान्भवति । 'कुमुद्वान्कुमुदप्राये' इत्यमरः । मदयतीति), अयं सोमो दुग्धाम्बुधेर्यद्यस्मादुत्पन्नोऽतोऽम्बुधीन्समुद्रान्मदयति हृष्टान्करोति । पुत्रेण पितुः प्रीत्युत्पादनस्य युक्तत्वात् । अत्रेमुनिविशेषस्य नयनाद्यजातो नयनानि मुदं नयति । चकारः कालायें । सकलनयनानीत्यर्थः । यद्यपि जन्यजनकरूपसंब- न्धोपाधिना तथा कर्तुमर्हति तथाप्यत्रोपाधि विनापि युक्तमाचरतीत्याह-तत्सोमः समञ्जसमीहते युक्तं चेष्टते । कीदृशः। शचीसहचरस्येन्द्रस्य चरुस्थाली हव्यानभा- ण्डम् । इन्द्रभक्ष्यामृतस्याधारत्वात् । अखिलसुरश्रेण्या सांधारणः प्रणयो यस्याः साखिलसुरश्रेणीसाधारणप्रणया। चरुस्थालीविशेषणम् । अयं तु सर्वदेवानां प्रति- पदादिक्रमेण भक्षणात्सोमत्वमवलम्बत इति भावः । सोमपद एव च्छलम् । लता- मेदश्चन्द्रश्च सोमः । 'सोमः सोमलतायां च चन्द्रे च' इति विश्वः । अतिगुरुकार्य- करणादौद्धत्यपरिहाराय सलजमिति । प्रकृष्टेति । हे वीर, त्वया वयं परिपाल्या- महे रक्षणीयाः। कर्मणि लोट । उत्तमपुरुषबहुवचनम् । एते कीदृशाः । प्र शौचादिसंपन्न कर्तारं यजमानमभिप्रेत्यभिसंबध्नाति । कत्रभिप्रायं क्रियाफलम् । क- मण्यण । तयेषामस्ति तान्विधीन्यागान्प्रयुञ्जानाः कुर्वाणाः। 'प्रोपाभ्यां युजेः-' इति १. विभाव्य च' इति पाठः. २. रामः सलज्ज-इति पाठः. ३. 'सलेहमालिङ्ग्य' इति पाठः. ४. 'प्रतिपाल्यामहे' इति पाठः ५. 'स्वगतम्' इति पुस्तकान्तरे नास्ति. । । । ।
२ अङ्कः] अनर्घराघवम् । विश्वामित्र:-(समरधूलिधूसरं रामस्य कपोलमुन्मार्जयन् ।) यत्सत्य- ममुना नक्तंचरव्यतिकरण प्रियसुहृदा सीरध्वजेन वितन्यमाने वैताने कर्मणि कम्पितमिव मे हृदयम् । रामः-(सगौरवम् ।) भगवन् , क एष सीरध्वजो नाम यमद्य ते त्रिभुवनदुर्लभोऽयं प्रियसुहृच्छब्दप्रयोगः कमपि महिमानमारोपयति । विश्वामित्र:-वत्स, शृणोषि विदेहेषु मिथिलां नाम नगरीम् । राम:-यत्र पवित्रमाश्चर्यद्वयं जनाः कथयन्ति । सकलराजदुरा- कर्षमैन्दुशेखरं धनुः, लाङ्गलमुखोल्लिक्षितविश्वंभराप्रसूतिरगर्भसंभवा मानुषी। विश्वामित्र:-(विहस्य ।) अथ किम् । रामः-(सकौतुकम् ।) ततः किं तस्याम् । विश्वामित्र- असौ सीरध्वजो राजा यो देवायुमणेरपि । अध्यैष्ट याज्ञवल्क्यस्य मुखेन ब्रह्मसंहिताम् ॥ ८७ ॥ तडू। खार्थपरानमात्प्रत्युपकारनिरपेक्षस्त्वं रक्षिष्यसीति रामस्यातिमहत्त्वं दर्शि- तम् । कर्तव्यप्रत्युपकारविषयकोत्कण्ठां रामभद्रस्योत्थापयितुमाह-यत्सत्यमि- त्यादि । नक्तंचरव्यतिकरेण राक्षसव्यसनेन । 'अथ व्यतिकरः पुंसि व्यसनव्यति- षडयोः' इत्यमरः । सीरध्वजेन जनकेन वितन्यमाने क्रियमाणे । दुःखेनाकृष्यते यत्तहुराकर्षम् । 'ईषदुःसुषु-' इति कर्मणि खल । ऐन्दुशेखरं माहेश्वरम् । लाङ्गल- मुखेन हलमुखेनोल्लिखिता कृष्टा या विश्वंभरा पृथिवी तस्याः प्रसूतिरपत्यम् । अत एवागर्भसंभवा । 'लागलं हलम्' इत्यमरः। रामस्यैवोत्कण्ठां वर्धयन्नाह-असा- विति । सीरध्वजो जनकः । द्युमणेः सूर्यात् । 'आख्यातोपयोगे' इत्यपादानता। १. 'चुबुककपोल-' इति पाठः. २. 'वत्स यत्सत्य-सत्य-' इति पाठौ:: ३. 'नक्तंचरचक्र-' इति पाठः. ४. 'येनाच' इति पाठः. ५. 'दुराधर्षम्' इति पाठ:. ६. 'उत्खातविश्वंभरायाः' इति पाठः. ७. 'मानुषी च' इति पाठः. ८. 'एष' इति पाठः. ।
१३२ काव्यमाला। तस्य संन्यस्तशस्त्रस्य पुराणराजर्जनकवंशजन्मनो दीक्षाविलोपशङ्का पर्याकुलयति माम् । तदेतमायुष्मन्तौ, विधिशेषमस्मदीयं समाप्य सहैव मिथिलामुपतिष्ठामहे । रामः-(सहर्षमपवार्य ।) वत्स लक्ष्मण, मैमापि तस्मिन्नतरुणरो- हिणीरमणचूडामणिपाणिप्रणयिनि शेरासने चिरस्य कौतुकमस्ति । लक्ष्मणः-(सपरिहासम् ।) आर्यायामयोनिजन्मनि राजकन्य- कायामपि। रामः-(सरोषस्मितम् ।) कथमन्यदेव किमपि प्रहसनं सूत्रयति भवान् । (मुनिं प्रति ।) भगवन् इक्ष्वाकुवंशगुरो, यदभिरुचितं भवते। (इति परिक्रम्य निष्क्रान्ताः सर्वे ।) इति कौमारविक्रमो. नाम द्वितीयोऽङ्कः । अध्यष्टाधीतवान् । 'इङ् अध्ययने'। लुङ् सिच् आद वृद्धिश्च । ब्रह्मसंहिता, तत्त्वज्ञानोपदेशवेंदभागं वेदान्तम् । याज्ञवल्क्यमुखेन याज्ञवल्क्यद्वारा। याज्ञव- ल्क्येन सूर्यादधीतं ततो जनकेन । तथा च सूर्यप्रशिष्योऽयमित्यर्थः । तथापि किंतु तस्यामित्याशङ्का न निवर्तितेत्यत आह-तस्येत्यादि । तत्किं स न रक्षा- क्षम इत्यत आह-संन्यस्तं त्यतम् । 'असु क्षेपणे' । पुराणश्चिरंतनः । जनक- वंशजन्मेति । तस्यापि जनक एव नाम । दीक्षा यज्ञोपनयनम् । एतमागच्छ- तम् । युवामिति शेषः । 'इंणू गतौ' । आपूर्वः । लोट् । आयुष्मन्ताविति संबो- धनम् । अपवार्य निभृतमित्यर्थः । 'रहस्यं कथ्यतेऽन्यस्य स्मृतं तदपवारितम्' इति भरतः। अतरुणो बालो यो रोहिणीरमणश्चन्द्रः स चूडामणिर्यस्य स शिवः । • १.'तस्य च न्यस्त-'; 'तस्य विन्यस्त-' इति पाठौ. २. 'तदेतस्मादादायायुष्मन्तौ'; 'तदेनमायु-' इति पाठौ. ३. 'मखमसदीयं परिसमाप्य' इति पाठः. ४. 'ममाप्य- तरुण-'; 'ममापि तरुण' इति पाठौ. ५. वाणासने' इति पाठः, ६. 'जन्मनि च राजकन्यायाम्' इति पाठः..७. 'सासूयस्मितम्' इति पाठः, ८. 'अन्यदेव प्रहसनं सूत्रयसि', 'सूचयति भगवान्' इति पाठौ... ९. 'कुलगुरो', 'गोगुरो' इति पाठौ. १०. 'यदभिरुचित ते', 'यदभिरुचितं भवते तक्रियताम्' इति पाठौ. । - ।
२ अङ्कः] अनर्घराघवम् । शरासनं धनुः। चिरस्य चिरम् । महत्त्वादार्या । यद्वा अर्या अन्वेष्टव्या। 'ऋ गतौ' । 'ऋहलोय॑त् । प्रहसनं हास्यप्रधान नाट्यम् । शृक्षारहास्यवहुलं शान्ता- द्भुतरसान्वितम् । यङ्कमारभटीहीनं प्राह प्रहसनं मुनिः ॥ इति भरतः। 'असू- चितस्य पात्रस्य प्रवेशो नैव युज्यते' इति भरतमताद्वक्ष्यमाणप्रहसनसूचनमिदम् ।' इक्ष्वाकुवंशगुरो इत्यादेशकर्तव्यतोपयिकं संबोधनम् । भवते तुभ्यम् । 'रुच्यर्था- नां प्रीयमाणः' इति संप्रदानता । कौमार एव कौमारः। प्रज्ञादित्वात्स्वार्थिकोऽण् ॥ इति समस्तप्रक्रियाविराजमानरिपुराजकंसनारायणभवभक्तिपरायणश्रीहरिनारायण- पदसमलंकृतमहाराजाधिराजश्रीमद्भरवसिंहदेवप्रोत्साहितवैजौलीग्रामवा- स्तव्यखौआलवंशप्रभवश्रीरुचिपतिमहोपाध्यायविरचिताया- मनर्घराधवटीकायां द्वितीयोऽङ्कः ।
RAMPUR । तृतीयोऽङ्कः। (ततः प्रविशति ऋचुकी।) कञ्चकी-(जरावैलव्यनिसंस्थुलानि कतिचित्पदानि देत्त्या आत्मानं प्रति सखेदोपालम्भम् ।) गार्गिरा च विकलचटुमीवराणां कुर्वनयं प्रहसनस्य नटः कृतोऽस्मि । तत्त्वां पुनः पालेतवर्णकमाजमेनं नाव्येन केन नटयिष्यति दीर्घमायुः॥१॥ (पुरो विलोक्य ।) अये सीतापादमूलोपजीविनी कलहंसिका । पिनाकारोपणसीतापरिणयादिरूपवाक्यार्थ सूचयितुं कचुकिनः प्रवेशमाह- ततः प्रविशतीति । कञ्चकी अन्तःपुराधिकृतः । 'अन्तःपुरचरो वृद्धो विनो गुणगणान्वितः । सर्वकार्यार्थकुशलः कञ्चुकीत्यभिधीयते ॥ जरावैक्लव्ययुक्तेन विशे- द्वात्रेण कचुकी ॥' इति भरतः । 'अन्तःपुरे त्वधिकृतः स्यादन्तर्वशको बना। सौविदल्लाः कञ्चकिनः स्थापत्याः सौविदाश्च ते॥' इत्यमरः। विसंस्थुलानि स्वलि- तानि । चिरतरसेवादुःखविकलः सन्नात्मानं निन्दयन्नाह-गावैरिति । हे आत्मन् , त्वं प्रहसनस्योपहास्यतायाः, अथ च हास्यप्रधाननाट्यस्य, नटो नर्तकः कृतोऽसि । गानः शरीरैगिरा वाण्या च विकलो निष्क्रियः सन्नीश्वराणां चटुं चाटुम् । प्रिय- भाषितमिति यावत् । कुर्वन्नेतद्दीर्घमायुः कर्तृ पुनरपि पलितवर्णकभाजं जराशौक्लच- वन्तम्, अथ च पलितमेव वर्णकं खटिकादि तद्वन्तम्, त्वां केन नाट्येन नटयि- ध्यति । अपि तु सर्वेणैव । 'नट नृत्ये' घटादिः । अन्योऽपि नटः प्रहसनमङ्क- द्वयारब्धं नृत्यति । शरीरैर्मायामयैर्वाण्या च तादृश्या ईश्वराणां प्रेक्षकाणां चाटुं करोति । वर्णकेन हरितालादिना संयुक्तो भवतीति ध्वनिः। 'पलितं जरसा शौ- क्लयम्' इत्यमरः । 'चटुश्चाटौ पिचण्डे च' इति मेदिनीकरः । 'प्रहसनमपि प्रहये- रूपकमेदे च परिहासे' इति च । उत्तरस्य द्वितीयसाध्यत्वात्कलहंसिकाप्रवेशं सूच यितुमाह-पुरो विलोक्येति । 'आर्य, प्रणमामि' [इति च्छाया । ] 'आन, १. 'विसंष्टलानि'. २. 'गत्वा'. ३.'न त्वाम्', 'कृत्वा'. ४. विभाव्य च'. ५. सीतापादोपजीविनी'; 'सीतापादोपसेविनी', 'सीतापादपद्मोएजीविनी'. । ब ३ अङ्कः] अनर्घराघवम् । (प्रविश्य।) कलहंसिका-अज्ज, पणमामि । कञ्चकी-वत्से, कल्याणिनी भूयाः । कलहंसिका-अज्ज, चिरेण कुदो तुझे। कञ्चकी-(विटॅश्य ।) तत्किं न कथ्यते । वत्से, विदितमेव भवत्याः, यथा तत्तादृगद्भुतं दारकद्वयमादाय भगवान्कौशिको यजमानं महाराजं सीरध्वजमुपस्थितः। कलहंसिका-अध इं। अज, पहवं मामधेशं च ताणं सुणि, अस्थि मे कोदूहलम् । कञ्चकी-वत्से, कथयामि । त्रयस्त्रिंशत्कोटित्रिदशमयमूर्तेर्भगवतः सहस्रांशोशे जयति जगदीशो दशरथः । चिरेण कुतो यूयम् [इति च्छाया।] आगता इति शेषः । 'प्रश्नाख्यानयोश्च' इति पञ्चमी । 'स्त्रीणां तु प्राकृतं प्रायः' इति भरतानुशासनात्त्रीणां प्राकृतभाष- पाम् । विदितं ज्ञातम् । 'मतिबुद्धिपूजार्थेभ्यश्च' इति कः । भवत्या इति 'कस्य च वर्तमाने' इति षष्ठी । दारकद्वयं बालकद्वयम् । 'दारको बालकेऽपि स्यात्' इति मेदिनीकरः । कलहंसिकावाक्ये-'अथ किम् । आर्य, प्रभवं नामधेयं च तयोः श्रोतमस्ति मे कौतूहलम्' [इति च्छाया।] इह प्रभवं कुलम् । प्रभवत्यस्मि- निति । प्रथमे प्रश्न उत्तरमाह-त्रय इति । भगवतः सहस्रांशोः सूर्यस्य वंशे जगदीशो दशरथो जयतीति संबन्धः । कीडशस्य । त्रयस्त्रिंशत्कोट्यो ये देवास्त- न्मयी मूर्तिः शरीरं यस्य तस्य । एतेन भगवतः सर्वदेवमयत्वेन दशरथस्य कुली- नत्वं प्रतिपादितम् । यदर्दशरथास्त्रैरस्निग्धैः कठिनैरसुरयुवतीनां श्वासपवनस्य प्रकोप आधिक्ये सति शतमख इन्द्रः शतकोटिं वजं न स्पृशति । असुरनाशस्या- - १. (विमृश्य । ) तत्' इति पुस्तकान्तरे नास्ति. २. 'विदितं भवत्यापि, विदितं न भवत्यापि'. ३. 'यत्तादृगद्भुतम् . ४. 'कुमारद्वयमादाय कौशिकः'. ५. 'जगतीशः', काव्यमाला यदस्त्रैरस्निग्धैरसुग्युवतिश्वासपवन- प्रकोपे सिद्धे न स्पृशति शतकोटिं शतमखः॥२॥ इमौ तस्य विशांपत्युरात्मजौ रामलक्ष्मणौ । ययोर्भरतशत्रुघ्नावनुजौ-द्वन्द्वचारिणौ ॥ ३ ॥ कलहंसिका-जधा अमघरे भट्टदारिआ सीदा उम्मिला अ मण्डवी सुदकित्ती ।विचिन्त्य । हेर्ष निरूपयन्ती ।) कंधं महाकुल- प्पसूदा एदे वि कुमारआ। (मुहूर्तमिव स्थित्वा । दीर्घोष्णं च निःश्वस्य ।) कुदो अह्माणं ईरिसो भाअधेओ। कञ्चुकी-भवति, मा विषीद । सर्वं भविष्यति देवब्राह्मणांनु- ग्रहात् । कलहंसिका-तदो तदो। नेनैव कृतत्वात् । त्रयस्त्रिंश दित्यत्र 'स्त्रयः' इति त्रयादेशः । युवतिरित्यत्र 'यूनस्तिः' । द्वितीय प्रश्न उत्तरयति-इमाविति । तस्येत्यनेन विवाहप्रयोजकी- भूतं म्हावंशप्रसूतत्वं शूरत्वं च सूचितम् । विशांपत्युरिति विशां मनुष्याणाम् । 'विशो वैश्यमनुष्ययोः' इति विश्वः। अनुजौ कनिष्ठौ । द्वन्द्वचारिणों सहगा- मिनौ । युगनद्धवाहनावियर्थः । अत्र यद्यपि रामलक्ष्मणयोरेव-श्रवणाकाहायां तयोरेव नामकथनं युक्तम् , तथापि प्रसङ्गान्माण्ड व्याः श्रुतकीर्तेश्च परिणयसूचना- थमुक्तं भरतशम्ना विति । जति । यथास्मद्गृहे भर्तृदारिका सीता ऊर्मिला च माण्डवी श्रुतकीर्तिश्च' [इति च्छाया।]. राजा भट्टारके देवस्तत्सुता भर्तृदारिका' इत्यमरः । हर्ष निरूपयन्तीति । चतुर्णा रामादीनां वरत्वेन स्मरणानन्तरं सी- ताप्रभूतानां च-परिणययोग्यत्वेन स्मरणादिति भावः । कधमिति । कथं महा- कुलप्रसूता र तेऽपि कुमारका' [इति च्छाया। तथा च वरणयोग्या इति भावः दीर्घमुष्णं चेति । रामादीनामतिविमलकुलप्रसूतत्वान्महार्यतामुत्प्रेक्ष्येति भावः । "कुतोऽस्माकमीदृशं भागधेयम्' [ इति च्छाया । ] येन रामादयो वस भवेयुरिति भावः । तदो तदो इति । ततस्ततः । इति च्छाया।] कथ्यतामिति, शेषः । सहर्ष. २..निनुशासनात, १३७ , ३ अङ्कः] अनर्घराघवम् । कञ्चकी--ततश्च वृद्धान्तःपुराणामभ्यर्थनया तौ. विकर्तनकुल- कुमारको दृष्ट्वा निवर्तमानः पुरोधसा गौतमेनाहमाहूय राजपुत्रीणां सौभाग्यदेवताराधनाय संविहितोऽस्मि । कलहंसिका-(सहर्षम् ।) अज, सव्वजणमणीसिदाणुऊलं विज तत्थभवदो सदाणन्दस्स वअणम् । कञ्चकी-वत्से, एवमेतत् । न खल्वतथ्यमगम्भीरमाङ्गिरसो ब्रवीति । कलहंसिका-ता किं मण्णेध संकरसरासणारोवणव्ववसाएण राएसिणो जणअस्स पडिण्णाहसं णिव्वाहेस्सदि राहवो । कञ्चकी-वत्से, अस्मानपि तर्कोऽयं तरलीकरोति । तथाहि । पूर्णेऽपि कर्मणि हतेष्वपि राक्षसेषु विज्ञाय मैथिलसुतामपि वीर्यशुल्काम् । बालं पितुः प्रियममुं रघुराजपुत्र- मेतावती भुवमृषिः कथमानिनाय ॥ ४ ॥ वृद्धान्तःपुराणां वृद्धमहादेवीनाम् । विकर्तनः सूर्यः । पुरोधसा पुरोहितेन । गौत- मेन शतानन्देन । सौभाग्यदेवताराधनाय गौरीपूजनाय। संविहित आज्ञापितः । अजेति। 'आर्य, सर्वजनमनीषितानुकूलमिव तत्रभवतः शतानन्दस्य वचनम् [इति च्छाया। ] अत्र मनीषितमभिलषितम् । तत्रभवान्मान्यः । खलु निश्चये । आशिरसः शतानन्दः। ता किमिति । 'तल्किं मन्यध्वे शंकरशरासनारोपणव्यव- सायेन राजर्षेर्जनकस्य प्रतिज्ञासाहसं.निर्वाहयिष्यति राघवः' [इति च्छाया 1] आरो- पुणव्यवसाय आकर्षणकर्म । तर्को वितर्कः । पूर्णेऽपीति । पूर्णे समाप्ते.। कर्मणि १. 'समागतौ तौ विकर्तनकुलकुमारौ । तौ किल'.. २, संप्रहितोऽस्मि', 'संप्रति प्रहितोऽस्मि'. ३. 'हर्ष नाटयति. ४. 'न खल्वयमतथ्यं वदति'; 'नखल्वगम्भीर- मागिरसः'. UBE । ।
काव्यमाला। कलहंसिका-(स्मरणमभिनीय । सविषादम् ।) अज्ज, पउत्तिविसे- सलम्भेण दुम्मणायमाणमत्ताणं पञ्चालिआकेलिवावारेण विणोदअन्ती भट्टदारिअं पेक्खिअ उविण्णाए कारणं परिवजिदूं आगदाए अज्ज- स्स देसणेन मए विसुमरिदं इमिणा उण दे रक्खसणामागहणेन सुमराविदलि। कञ्चुकी-(सविषादम् ।) वसे, कीदृशी सा प्रवृत्तिः, या तव भर्तृदारिकामपि दुर्मनाययति । कलहंसिका-सुणादु अज्जो । जधा किल सीदादेवी पत्थि, दसग्गीवपुरोहिदो आअदोति । कञ्चकी-(तत्रावशां नाटयन्सहर्षम् ।) कथमेतावदपि कार्य वत्सा जानकी जानाति । यदनेनोदन्तेन दुर्मनीभूयते । नूनमिदानीमस्याः कृतावतरणमङ्गलान्यङ्गकानि यौवनस्य पन्थानमीक्षन्ते । यज्ञे। वीर्य पराक्रमः शुल्कः पणो यस्यां ताम् । एतावती दूरतराम् । अज, पर- त्तिविसेसेति । 'आर्य, प्रवृत्तिविशेषलम्भेन दुर्मनायमानमात्मानं पाञ्चालिकाके. लिव्यापारेण विनोदयन्ती भर्तृदारिकां प्रेक्ष्य उद्विग्नया कारणं प्रतिपत्तुमागतया आर्यस्य दर्शनेन मया विस्मृतमेतेन पुनस्ते राक्षसनामग्रहणेन स्मारितास्मि' इति च्छाया । ] अत्र प्रवृत्तिर्वार्ता । लम्भो लाभः । दुर्मनायमानमिति दुर्मना इवा- चरति । 'कर्तुः क्यङ् सलोपश्च' इति क्यङि सलोपे दीर्घत्वे च रूपम् । पाश्चा- लिका 'पुतळी' इति प्रसिद्धा । 'पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता' इत्यमरः । प्रतिपत्तुं ज्ञातुम् । अर्थात्तस्या उन्मनस्कत्वम् । राक्षसनामग्रहणम् 'हतेष्वपि राक्षसेषु' इत्यनेन । दुर्मनाययति व्यथयति । दुर्मनसं करोतीति 'तत्क- रोति-' इति णिच् । 'णाविष्ठवत्प्रातिपदिकस्य' इति टिलोपः । जति । 'यथा किल सीतादेवी प्रार्थयितुं दशग्रीवपुरोहित आगत इति' [इति च्छाया।] यदनेनेति । अनेनोदन्तेन वार्तया राक्षससंबन्धरूपेण दुर्मनीभूयते । इति १. 'दुर्भनीभवति'. २. 'अङ्गानि'.
। ३ अङ्कः] अनर्घराघवम् । कलहंसिका-अज्ज, एवं ण्णेदम् । अजओसित्ति सिढिलीकि- दलज्जा संपदि जेव्व अणुहूदं किंपि णिवेदेमि । (संस्कृतमाश्रित्य ।) अनाकूतैरेव प्रियसहचरीणां शिशुतया वचोभिः पाञ्चालीमिथुनमधुना संगमयितुम् । उपादत्ते नो वा विरमति न वा केवलमियं कपोलौ कल्याणी पुलकमुकुलैर्दन्तुरयति ॥ ५ ॥ कञ्चकी (सहर्षम् ।) दिष्ट्या चिरस्य जीवद्भिरस्माभिर्योवनवती वत्सा जानकी दृष्टा । (सस्मितम् ।) ततस्ततः । जानकी जानातीत्यर्थः । तस्याः कर्तव्याकर्तव्यनिश्चयो जात इति हर्षः । दुर्मनी- भूयत इति दुर्मनःशब्दाच्चिप्रत्यये कृते 'अरुर्मनश्चक्षुः-' इति सूत्रेण सलोपः । 'वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात्' इत्यमरः । कृतं यौवनावतरणविधेयं मङ्गलं मन्त्र तानि । अङ्गकानीत्यल्पार्थे प्रशंसायां वा कन् । 'आर्य, एवमेतत् । अर्ज- कोऽसीति शिथिलीकृतलज्जा संप्रत्येवानुभूतं किमपि निवेदयामि' [इति च्छाया।] इहार्जकः पितुः पिता पितामहः । यद्वार्जकोऽर्जनकर्तासि । 'अजा सीदा' इति पाठे आर्या सीता । शिथिलीकृतलजेत्यर्थः । 'अज्जो सि' इति पाठ आर्योऽसि । इत्येवं मन्दीकृतलज्जाहं प्रत्यक्षोपलब्धं किमपि कथयामीत्यर्थः । संस्कृतमा- श्रित्येति । 'संस्कृतभाषाचाराः प्रायो नाव्येषु न स्त्रियः श्लाघ्याः । क्वचिदपि तपःप्रभावाद्विदग्धताबोधनाच शस्यन्ते ॥' इति भरतमतेन वैदग्ध्यताख्यापनाय स्त्रियः संस्कृतभाषणम् । यद्वा 'चेटी प्राकृतभाषिणी स्याच्च संस्कृतभाषिणी' इति नियमाभावादेव संस्कृतभाषितम् । यदलौकिककथनसमार्जनाय अर्जकोऽसी. त्याशङ्कितोद्धाररूपं समार्जनं तदाह-अनाकूतैरिति । इयं सीता प्रियसह- चरीणां प्रियसखीनां वचोभिः करणभूतैः पाञ्चालीमिथुनं, कृत्रिमपुत्रिकायुगुलं संगमयितुं मेलयितुं नोपादत्ते न गृहीते। लज्जाप्राचुर्यात् । न वा विरमति । तद्ब्रहणे विरक्का न भवति । कामवशीकृतचित्तत्वात् । तत्किं करोतीत्येव न किमपीत्यत आह-इयं कल्याणी सीता केवलं. पुलकमुकुलैः करणैः कपोलो - । १. 'वत्सा वैदेही 'वत्सापि'.
काव्यमाला कलहंसिका-तदो अ पुणो पुणो वि ताहिं उज्जुआहिं पिब्ब- न्धिजमाणा लजिदं वि लज्जेदि। कञ्चुकी-(विहस्य ।) वत्से, संकीणे वयसि खल्वियं - वर्तते । अत्र हि मनोऽपि शङ्कमानाभिर्वालाभिरुपजीव्यते । अषडक्षीणषानुण्यमन्त्री मकरकेतनः ॥ ६ ॥ कलहंसिका--(सलज्जम् ।) अज, रमणीअं मन्तेसि । सव्वस्स वि अणुवसंवादिणी दे वाआ। कर्मभूतो दन्तुरयति निनोन्नतौ करोति । सात्त्विकभावात् । दन्तुरशब्दात् 'तत्करोति-' इति णिच् । वचोभिः कीदृशैः । अनाकूतैरेव । न विद्यत आकू- तमभिप्रायों यत्र तैः । भावशून्यरित्यर्थः । शिशुतया बालकत्वेन हेतुना । तासां शिशुत्वेन तत्कर्मानभिज्ञत्वात् । विरमतीति 'व्याभरिभ्यो रमः' इति परस्मैपदम् । कल्याणीति गौरादित्वान्डीए । तदो अ इति । 'ततश्च पुनः पुनरपि ताभिः ऋजुभाभिर्निबध्यमाना लजितुमपि लज्जते' [ इति च्छाया ।। अत्र ऋजुकामिलित्वादकुशलाभिः । निर्बध्यमानाभ्यर्थ्यमाना । लजितुमपि लज्जते । उत्पनभावात् । संकीर्णे बाल्ययौवन मिश्रे । खलु यतः । ननु यदि, मिथुन विषयकं तासां. ज्ञानं नास्ति, तत्कथं ताभ्यस्तस्या लजेयत आह-अत्र हीत्यादि । यतोऽत्र वयसि मनोऽपि शङ्कमानाभिर्मनसोऽपि शङ्कां कुर्वाणाभि- बोलाभिश्चतुर्दशवर्षवयस्काभिमैकरकेतनः कंदर्प उपजीव्यते सेव्यते । अत्र वयस्थत्यन्त निगूढो मदनोत्सवो भवतीति भावः । कीदृशः । न विद्यन्ते षडक्षीणि यत्र तदषडक्षीणम् । षड्गुणा एव पाडण्यम् । संधिविग्रहादिको मन्त्रः । खार्थे ध्यञ् । अनयोः कर्मधारयः । तयोर्मन्त्री। तथा च यत्र तृतीयगोचरता नास्ति तन्मन्त्रे परं मन्त्री काम इति भावः । 'अषडक्षीणो यस्तृतीयाद्यगोचरः' इत्यमरः । 'अषडक्षाशि तंग्वलंकर्मालंपुरुषाध्युत्तरपदात्खः' । 'संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः' इत्यमरः । सलजमिति । बालाभिरिति १. 'खल्वियं वयसि वर्वते', 'वर्तते बाला'. २. 'मनो विशङ्कमानाभिः'.
३ अङ्कः] अनर्घराघवम् । कञ्चकी-किं वत्से, तदात्वप्रोन्मीलन्मदिमरमणीयाकठिनतां निचित्य प्रत्यङ्गादिव तरुणभावेन घटितौ। स्तनौ संबित्राणाः क्षणविनयवैयात्यमसूण- सरोन्मेषाः केषामुपरि न रसानां युवतयः ।। ७ ।। कलहंसिका-(विहस्य ।) भोदु । ता ण किं पि तुझेहिं सुदम् । कञ्चकी-वत्से, न तावदर्थोऽयमद्यापि राजगोचरीभवति । यदि च स्यात्किमेतावता। बहुत्वनिर्देशात्खामप्युद्देश्यामाशयेति भावः । 'आर्य, रमणीय मन्त्रयसे । सर्वस्याप्यनुभवसंवादिनी ते वाकू' [इति च्छाया।] अत्र मन्त्रयसे वदसि । तदात्वेति । युवतयस्त रुग्यः केषां रसानां शृङ्गारादीनां मधुराखादादीनां वा उपरि न वर्तन्ते । अपि तु. सर्वेषामपि । कीदृश्यः । क्षणं व्याप्य विनयश्च वैयात्यं च ते ताभ्यां विनयधार्थ्याभ्यां मसृणो मन्दो मधुरो वा स्मरोन्मेषो यासां ताः । वैया धाय॑म् । अन्तस्थमध्यं वैयात्यम्' इति शब्दभेदः । स्तनौ संबिभ्राणा धारयन्त्यः पोषयन्यो वा । कीदृशौ । तरुणभावेन तारुण्येन प्रत्यगात्सर्वावयवात्कठिनतां निचित्य समाहृत्यैव घटितौ । प्रत्यज्ञात्काठिन्यं वर्तुलीकृतमिति कुतो ज्ञातमित्यत आह-तदात्वे तत्काले. प्रोन्मीलन्यो म्रदिमा मृदुत्वं तेन रमणीयात् । प्रत्यङ्गादित्यस्य विशेषणम् । म्रदिमेति 'पृथ्वादिभ्य इमनिन्-'। र ऋतो हलादेर्लघोः' इति रेफादेशः । टेः' इत्युकारलोपः । 'तत्कालस्तु तदात्वं स्यात्' इत्यमरः । 'दसरगीवपुरोहिदो आअदोत्ति' इति वाक्ये कबुंकिनोऽवज्ञामवगम्य तत्रोत्तराप्राप्तौ सत्यामिदानी प्रसक्तानुप्रसक्त्या तिरो- हिततद्वाक्यस्योत्तरप्राप्त्यर्थ · कलहंसिका कञ्चु किनं प्रत्याह-भोदु इति । 'भवतु । तन्न किमपि युष्माभिः श्रुतम् [इति च्छाया । ] अधुना तत्रोत्तर- यति-वत्से, न तावदित्यादि । यदि न स्यादित्यस्याकाहां पूरयति- १. किं च इति पुस्तकान्तरे नास्ति. २. 'विचित्य'. ३. 'तावदयमर्थः'.
१४२ काव्यमाला। कलहंसिका-तदा हदासो रावणो देवीं परिणेदि । कञ्चकी-(विहस्य।) हस्ते करिष्यति जगत्रयजित्वरोऽपि कस्तादृशो दुहितरं कनकेश्वरस्य । प्राणाधिकं विपुलबाहुभृतामपीदं त्रयम्बकं किमपि कार्मुकमन्तरायः ॥ ८॥ नापि दशकंघरानुरोधेन खयं प्रतिज्ञातमन्यथा करिष्यति महाक्षत्रियो विदेहराजः । तन्न किंचिदेतत् । कलहंसिका-(विहस्य ।) एवं भोदु । अन्ज, संपदि कहिं ते रामलक्खणा। कञ्चकी-नन्वेतावेव देवतागारवेदिकायां मुनीन्कौशिकवैदेहगौतमानभिराध्यतः । दौकितौ ज्ञानकर्मभ्यां मोक्षखर्गाविव खयम् ॥ ९ ॥ तदेति । तदा हताशो रावणो देवी परिणयते' [ इति च्छाया।] अत्र हताशो निन्दितप्रत्याशः। परिणयते विवाहयति । हस्ते करिष्यतीति । हते करिष्यति विवाहयिष्यति । 'नित्यं हस्ते पाणावुपयमने' इति हस्तेशब्दस्य सप्तम्यन्तप्रतिरूपकस्याव्ययस्य गतित्वाद्धातोः प्राक्प्रयोगः । जित्वरो जयनशील इत्यत्र 'सर्तिशास्त्यतिभ्यश्च' इति करप् । प्राणाधिकं बलाधिकम् । “वरं प्राणा- धिको योधो न तु प्राणाधिकं धनुः' इति धनुःशास्त्रम् । त्रैयम्बकं माहेश्वरम् । त्र्यम्बकस्येदम् । तस्येदम्' इत्यण् 'न य्वाभ्याम्-' इत्यैच् । कार्मुकं धनुः । अन्तरायो विनः । एवमिति । एवं भवतु । आर्य, संप्रति कुत्र तौ राम- लक्ष्मणौ' [इति च्छाया। ] अत्रैवं भवतु त्वद्वचनमेवास्तु । उत्तरं कुर्वाणोऽपि तयोः प्रवेशं मुख्यत्वेन सूचयन्नाह-नन्वेतावेवेत्यादि । एतावेव राम- लक्ष्मणावेव मुनीन्कौशिकादीनभिराध्यत आराध्यतः। वैदेहो जनकः। गौतमः १. 'यस्तादृशः', 'कस्तादृशीम्'. २. (निःश्वस्य ।).
अनर्घराधवम् । १४३ तदेहि । महच्चिरमागतानामसाकम् । कन्यान्तःपुरमेव गच्छामः । (इति निक्रान्तौ।) विष्कम्भकः। (ततः प्रविशति जनको विश्वामित्रशतानन्दौ रामलक्ष्मणौ च।) जनक:-(सहर्षम् ।) भगवन्विश्वामित्र, लुम्पन्नदृष्टजामातृसंपदां शुचमध नः । त्वदागमनजन्मायमानन्दः सुदिनायते ॥ १० ॥ अपि च । अद्य प्रदक्षिणशिखावलयः कृशानु- रश्नाति मे जनपदेषु वषट्कृतानि । त्वत्तेजसि स्फुरति शान्तिकपौष्टिकेषु खां च मुचं शिथिलमाजिरसो बिभर्ति ॥ ११ ॥ शतानन्दः । कीदृशौ । ज्ञानं तत्त्वज्ञानम् , कर्म यज्ञादि, ताभ्यां दौकितावुपनीती मोक्षस्वर्गाविव मोक्षस्वर्गतुल्यौ । उपमायामिवशब्दः । ननु मुनीनभिराध्यत इत्यसं- बद्धम् । दिवादौ राधः अकर्मकाढुद्धावेव सकर्मकाच श्यन्न प्राप्नोति यत इति । मैवम् । कौशिकादीनमि लक्षीकृत्य । 'अभिरभागे' इति कर्मप्रवचनीयसंज्ञा- विधानात् । यद्वाकर्मकादृद्धावेवेति नियमः । सकर्मकात्तु भवत्येव श्यन् । यद्वा मुनीन्ढौकितावभिवादयमानावाराध्यत इत्यकर्मको धातुः । चिरं विलम्बः। लुम्प- निवि लुम्पन्विनाशयन् । शुचं शोकम् । नोऽस्माकम् । सुदिनायते सुदिनं करोति । 'सुदिनदुर्दिननीहारेभ्यश्च' इति क्यङ् । अद्येति । अद्य प्रदक्षिणभूता या शिखा ज्वाला सैव वलयः कङ्कणं यस्य तादृशः । यद्वा प्रदक्षिणज्वालावेष्टनः । कृशानुरनिर्नोऽस्माकं जनपदेषु देशेषु वषदकृतानि हुतान्यनाति खादति । यज्ञवह्नेः प्रदक्षिणशिखा प्रशस्ता । आङ्गिरसः शतानन्दः खां च त्रुचिभेद शिथिलं यथा स्यादेवं बिभर्ति धारयति । कुतः शिथिलं विभतीत्याह-शान्ति- कपौष्टिकेषु शान्तिपुष्टिनिमित्तकर्मसु त्वत्तेजसि स्फुरति सति । तदस्य प्रयोजनम्' १. 'आगतयोरावयोः'. २. 'पुर एव गच्छाव:'.
णिच् । लुङ। चङ्णी: काव्यमाला। विश्वामित्र:--सखे सीरध्वज, चिरस्य शान्तः पुष्टश्च तवायं जनपद:। यत्र त्वं ब्रह्ममीमांसातत्त्वज्ञो दण्डधारकः । पुरोधाश्चैव यस्यासावगिरः प्रपितामहः ॥ १२ ॥ (स्मितं कृत्वा ।) जामातुरदर्शनजन्मा शोकः पुनरस्माकमुपशमयितुमव- शिष्यते । किं शोकहर्षी नाम लोकयात्रेयं भवतः । तथाहि । यजूंषि तैत्तिरीयाणि मूर्तानि वमति स यः । स योगी याज्ञवल्क्यस्त्वां वेदान्तानध्यजीगपत् ॥ १३ ॥ इति ठक् । 'शान्तिकपौष्टिके च' इति पाठे त्वत्तेजसि कीदृशे । शान्तिकारिणि पुष्टिकारिणि चेत्यर्थः । त्वत्तेजसैव दुरितोपशमाच्छान्तिकार्थं न जुहोतीति भावः । 'अग्नौ तु हुतं त्रिषु वषट्कृतम्' इत्यमरः । 'स्ववोभेदाः सुचः स्त्रियाम्' इति च । "देशे जने जनपदः' इति च । कुतः शान्तः पुष्टश्चेत्यत आह-यत्रेति । ब्रह्ममीमांसा भामतम् । ब्रह्मप्रतिपादकत्वात्तस्य । यद्वा ब्रह्म वेदः । तथा च वेदान्तः । दण्डधारकः शासकः । राजेति यावत् । असौ शतानन्दो यस्य पुरोधाः पुरोहितः । कीदृशः । अङ्गिरामुनिः प्रपितामहो यस्य सः । 'पुरोधास्तु पुरोहितः इत्यमरः । उपशमयितुं खण्डयितुम् । यजूंषीति । तित्तिरिमुनिना प्रकर्षेणा- नूदितानि तैत्तिरीयाणि । 'तित्तिरिवरतन्तुखण्डिकोखाच्छण' । मूर्तिः शरीरं सेषामस्ति । अर्शआदित्वादच् । मूर्तानि कृतदेहपरिग्रहाणि वमति स्मोगीर्णवान् । 'लट् से' इति भूते लट् । अध्यजीगपदध्यापयति स्म । 'इङ् अध्ययने । त्यमुनेर्याज्ञवल्क्येन यजुर्वेदमधीत्य गुरुदक्षिणार्थ मुनिरुक्तः । मुनिना च दक्षिणा न गृहीता । ततश्च याज्ञवल्क्यनिर्बन्धेन जातकोपेन मुनिना मम विद्यैव दीयतामित्युक्तेन याज्ञवल्क्येनाधीतयजुर्वेद उद्गीर्य दत्तः । गुरुणा च तित्तिरिपक्षिरूपेण पीतः । तेन स तित्तिरिनामाभूत् । याज्ञवल्क्येन चानन्तरं । । १. 'अदर्शनशोकः'. WRIT SHAINTAINERNA ३ अङ्कः] अनर्घराघवम् । १४५ लक्ष्मणः-(जनान्तिकम् ।) आर्य, अयमयं स राजा वैदेहः । पवित्रमपरिमेयाश्चर्य यस्यावदानमुपाध्यायादनुश्रूयते । रामः-(सप्रमोदानुरागम् ।) वत्स, स एवायं शतपथकथाधिकारी पुरुषः प्रणाय्यायान्तेवासिने यस्सै वाजसनेयो याज्ञवल्क्यः सूक्तानि यजूंषि प्रोवाच । विश्वामित्र:-(मुहूर्त निर्वर्ण्य च ।) निजाय तस्मै गुरवे यतीनां जैत्राय विश्राणितगोसहस्रम् । तं गोसहस्राधिपतेः प्रशिष्यमुपास्महे मैथिलमातिथेयम् ॥ १४ ॥ जनका-(सप्रश्रयम् ।) भगवन् , यदन्यत्किंचिदभिर्दधाति तत्र यजुर्वेदः सूर्यादधीतः । याज्ञवल्क्याच जनकेन-इति प्राचीनकथा । जनान्ति- कमिति । 'अन्योन्यामन्त्रणं यत्स्याजनान्ते तज्जनान्तिकम्' इति भरतः । अवदानं शुद्ध कर्म पूर्ववृत्तकर्म वा-। 'अवदानं वृत्तकर्म शुद्धं कर्म प्रकीर्तितम्' इति विश्वः । शतपथो वेदः । शतशाखत्वात्तस्य । शतपथकर्ता याज्ञवल्क्यः शतपथप्रकाशकः । प्रणाय्यायाभिलाषशून्याय । मुमुक्षव इति यावत् । इदं तु 'प्रणाय्योऽसंमतौ' इति ण्यदन्तं निपातितम् । 'प्रणाय्योऽभिलाषशून्यः स्यात्' इति हारावली । अन्तेवासिने शिष्याय । 'छात्रान्तेवासिनौ शिष्ये' इत्यमरः । वाजसनेयो यजुर्वेदशाखीयः । निजायेति । निजाय खीयाय । गुरवे याज्ञ- वल्क्याय । जैत्राय जयशीलाय। जेतैव जैत्रः। प्रज्ञादित्वात्स्वार्थेऽण् । विश्रा- णितं दत्तम् । 'श्रण दाने' । गवां सहस्रं गोसहस्रम् । गोसहस्राधिपतेः सूर्यस्य । 'गोशब्दः पशुभूम्यंशुवाग्दिगर्थः' इति शाश्वतः । प्रशिष्यं शिष्यशिष्यम् । याज्ञवल्क्यस्य सूर्यशिष्यत्वात् । अस्य च तच्छिध्यत्वात् । उपास्मह उपगता भवामः । आतिथेयमतिथौ साधुम् । 'पथ्यतिथिवसतिखपतेर्ड' । यदन्यत्कि- चिदिति । जामातृसंबन्धीति भावः । प्रभविष्णुः प्रभावशीलः । योगीश्वरा- १. पवित्रमाश्चर्य च; पावित्र्यमपरिमेयमाश्चर्यम्'. २. 'उपाध्यायमुखात्. ३. 'स एवायं शतपथाधिकारी'.४. 'यस वाजसनेयाय वाजसनेयः'. ५. च निर्वये'. 'अभिदधासि'. . ६. १० अ०रा० १४६ काव्यमाला। प्रभविष्णुर्भवान् । तत्रभवतः सहस्रमयूखान्तेवासिनो योगीश्वराध्य. यनमिति महीयसीयमस्माकं यशःपताका । विश्वामित्र:-(विहस्य ।) भो महायोगिन्, किं याज्ञवल्क्यो जनकः किमेवं न वः खरूपं कवयोऽपि विद्युः । प्रवाहनित्यानधिकृत्य युष्मान्सहस्रशाखाः श्रुतयः प्रथन्ते ॥ १५॥ शतानन्द:-भगवन्कौशिक, एवमीडशाः खल्वमी त्रिभुवनम- हनीयमहिमानो मनीषिणः। जनकः-(सवैलैक्ष्यस्मितम् ।) निर्माय कार्मणमृचामघमर्षणीना- मुन्मार्जनीर्जगदधानि तवाद्य वाचः। द्याज्ञवल्क्यात् । विहस्येति । अतिगूढतात्पर्यसमानविषयकोत्तरश्रवणादिति भावः । किं याज्ञवल्क्य इति । याज्ञवल्क्यः किमेवमस्तु, जनको वा किमे- वमस्तु, इति बो युष्माकं वरूपं कवयो वाल्मीकिप्रभृतयोऽपि न विद्युर्न जानन्ति । याज्ञवल्क्यो वा जनको वेति न कश्चिद्विशेष इति भावः । एवमिति सामान्योतः क्लौबता । विद्युरिति 'विद ज्ञाने । विध्यादि लिङ् । झर्जुस्' । युष्मानधिकृत्य त्वामाधारीकृत्य । सहस्रशाखाः श्रुतयः प्रथन्ते ख्याता भवन्ति । 'प्रथ प्रख्याने । शाखा वेदविभागः । श्रुतिरिह सामवेदः । स एव सहस्रशाखः । यजुर्वेदस्तु शतशाखः । ऋग्वेद एकविंशतिशाखः । श्रुतय इति बहुवचनं शाखाबहुत्वात् । अवयवधर्मस्यावयविन्युपचारात् । समुदायसमुदायिनोरमेदाद्वा । युष्मान्कीदृशान् । प्रवाहेण गुरुशिष्यपरम्परया नित्यानविनाशिनः । विश्वामित्रं निव- तयितुमाह-निर्मायेति । अद्य तव वाचः श्रोतुं मम कौतुकमस्ति । ममेत्युभया- न्वयि । ममैषोऽर्थवादः स्तुतिः पुनश्चेतः कर्म दुःखाकरोति । चेतः कीदृशम् । विरप्रणयि चिरानुवन्धि । वाचः कीदृश्यः । अघमर्षणीनां पापापहारिकाणामृचाँ कामणमाभिचारिकरूपं कृत्वा जगदधानि जगत्पापान्युन्मार्जनी: शोधयन्तीः । १. "योगीधराशावतो वाचवल्क्यात्'.. २. 'महतीयममाकम्', 'इयमस्माकं महती'. ३. 'सविलक्ष-'.
३ अङ्क: अनर्घराघवम् । श्रोतुं चिरप्रणयिकौतुकमस्ति चेतो दुःखाकरोति पुनरेष ममार्थवादः ॥ १६ ॥ तद्विरम । (इति शिरस्यशालिं घटयति ।) विश्वामित्र:-(सस्मितमस्याञ्जलिमुद्घाटयन् ।) सखे सीरध्वज, संहि- यतामञ्जलिः । अमी तूष्णीभूताः सः । कात्यायनीकामुककार्मुकारोप- णपणप्रणयप्रवीणेन तु दुहितुः पत्या संपत्यपर्युषितप्रतिज्ञो भूयाः । लक्ष्मणः-(अपवार्य ।) आर्य, परस्परेषां पौरुषोत्कर्षप्रशंसारम- णीयः पावनोऽयममीषां समवायः। रामः-वत्स, यदात्थ । स्मरन्ति लोकार्थममी किल श्रुतीरिति प्रतिष्ठामधिगन्तुमीश्महे । परं यदेषां पुनरस्ति वैभवं तदेत एव व्यतिविद्रते यदि ॥ १७ ॥ त्वद्वाचामेवादरात्तासासचामादरं लोका न कुर्वत इति भावः । मर्षणीयन्त्र करणे ल्युट । 'कार्मणं मन्त्रतन्त्रादि योजने कर्मठेऽपि च' इति धरणिः । उद्धा- टयप्रकाशयन् । ननु घटादित्वान्मित्संज्ञायां मिता हखत्वेन भाव्यम् । मैवम् । 'घट संघाते' इति चौरादिकस्यामितोऽयं प्रयोगः । यथा 'कमलवनोद्घाटनं कुर्वते ये' इति सूर्यशतके। यद्वोद्धटनमुद्घाटः । भावे घञ् । 'तत्करोति-' इति णिजन्ताच्छतृ । तूष्णीभूताः स्मो मौनिनो भूताः सः। 'भौने तु तूष्णीं तूष्णी- काम्' इत्यमरः । काल्यायनी गौरी तस्साः कामुकः खामी हुरस्तस्य यत्कार्मुकं धनुस्खदारोपणमेव पणतत्प्रणये प्रवीणेन कुशलेन । 'दुहितुःपतिना' इति पाडे दुहितृखामिनेत्यर्थः । 'ऋतो विद्यायोनिसंबन्धेभ्यः' इति षष्ठया बलुक । पतिः समास एवं' इति नियमाद्धिसंज्ञायां नाभावः । अपचायति । रहस्यं कथ्य- तेऽन्यस स्मृतं तदपवारितम्' इति भरतः । पौरुषं पुरुषार्थख्यातिस्तया य उत्कर्षस्तस्य प्रशंसा प्रशस्तिस्तया रमणीयो रम्यः समवायः समूहः । लक्षाण- वचनमनुमोदमान आह-सरन्तीति । अमी कोशिकादय ऋषयो लोकार्य लोकनिमित्तं श्रुतीर्वेदान्स्मरन्ति स्मृतिरूपतां नयन्ति । श्रुत्यनुसारेण स्मृति- १. 'रोपणप्रवीणेन'. २. 'पावनोऽयमृषीणाम्'. - १४६ काव्यमाला। जनक:-(सहर्षम् ।) भगवन् , परमनुगृहीतोऽस्मि । यतः। समस्या वा साम्नां बहिरबहिरंहःपरिमृजा- मृचां वा संवादः किमपि यजुषां वा परिपणः त्वदाशीर्वादोऽयं बहुविषयसाक्षात्कृतफलो वरं मे वत्सायाः प्रथयति पुरोवर्तिनमिव ॥ १८॥ विश्वामित्र:-(साकृतस्मितम् ।) सखे सीरध्वज, एवमेतत् । दवीयस्यो दूरादपथमिह चामुत्र च शुचां त्रिवेदीवाक्यानामनतिचिरभना इव खिलाः । करणात् । वयमेषामिति प्रतिष्ठामुत्कर्षमधिगन्तुं ज्ञातुमीश्महे प्रभवामः । किल निश्चये । इति खरूपे । एषामृषीणां पुनः परं श्रेष्ठं वैभवं विभुत्वं यदस्ति तद्वैभवमेत एव ऋषयो यदि व्यतिविद्रतेऽन्योन्यं जानन्ति तदा जानन्ति । न त्वन्ये केचनेत्यर्थः । 'विद ज्ञाने' व्यतिपूर्वः । 'कर्तरि कर्मव्यतिहारे' इति तङ् । 'वेत्तर्विभाषा' इति रुटू । समस्येति । अयं त्वदाशीर्वाद आशीर्वचनं मे वत्सायाः सीताया वर जामांतरं पुरोवर्तिनमिव प्रथयति कथयति । विश्वामित्रा- शीर्वादस्य कथमेभिः समं साम्यमित्यत आह-बहुविषये साक्षात्कृतं फलं यस्य सः । पुनः कीदृश आशीर्वादः । सान्नां सामवेदऋचा समस्या संक्षिप्तार्थवाक् । अत्र सर्वे वाशब्दा उपमावाचिनो विकल्पे वा । ऋचामृग्वेदानां वा संवादः सम्यम्भाषणम् । बहिर्बाह्ये । अबहिरभ्यन्तरे । अंहसां पापानां परिमृजां प्रोञ्छिकानाम् । ऋचामित्यस्य विशेषणम् । किमप्यनिर्वचनीयस्वरूपो यजुषां यजुर्वेदानां वा परिपणो मूलधनम् । 'नीवी परिपणो मूलधनम्' इत्यमरः । कचित् 'परिणमः' इति पाठः। 'समस्या तु समासार्था' इत्यमरः । प्रस्तुत- प्रयोजनानुरोधेन खोत्कर्ष कथन]जन्यदूषणमङ्गीकृत्यापि खतात्पर्यविषयक ज्ञानं जनकस्य स्थिरीभवत्वित्यभिप्रायादाह-वीयस्य इति । द्विजगिरो ब्राह्मणवचनानि क नु विपरियन्ति विपरीतानि भवन्ति । अपि तु न कापि । जुर्वितर्के । कीदृश्यः । दवीयस्यो महत्सः । दूरशब्दस्येयसुनि स्थूलदूर--' इत्यादिना रेफलोपे गुणेऽवादेशे च रूपम् । पुनः कीदृश्यः । इह इहलोके १. कथयति ३ अङ्कः] अनघराघवम् । श्रुतिग्राह्यं ज्योतिः किमपि बहिरन्तर्मलमुषो मृजाया मज्जानः क नु विपरियन्ति द्विजगिरः ॥ १९॥ शतानन्द: (स्वगतम् ।) नूनं रामभद्रमेव जामातरमभिसंधाय भगवानयं पुनः पुनर्वक्रोक्तिभिः सीरध्वजं पैरिमोहयते । भवतु । अ- हमस्य प्ररोचनार्थमसंविदान इव पृच्छामि । (प्रकाशम् ।) भगवन् , कस्येदं शकुन्तराजकेतोरिव कौस्तुभश्रीवत्सौ रनद्वयम् । विश्वामित्र:-(विहस्य खगतम् ।) साधु वत्स शतानन्द, साधु । यदेतत्कृतं तीर्थ विवक्षितस्य वस्तुनः सुखावताराय । (प्रकाशम् ।) वत्स गौतम, ककुत्स्थकुलसंभवौ कुमारावेतौ । चामुत्र परलोके च शुचां शोकानां दूरादत्यर्थेनापथमस्थानम् । अस्थानस्यै- कत्वेन विवक्षितार्थलाभादेकवचनम् । यद्वा शुचां दवीयस्यो दूरतराः । दूरादेव तदसंगमादेव । अत एव तासामस्थानमपि । दूरादिति भावप्रधानों निर्देशः। तथा च दूरत्वादपथं शुचामित्यर्थः । त्रिवेदीवाक्यानां खिला इवान- हतभूमय इव । 'खिलमप्रहतेऽपि स्यात्' इति मेदिनीकरः। कीदृशाः खिलाः । अनतिचिरभन्नास्तत्कालकृष्टाः। गिरोऽपि तत्कालदत्ताः। पुनः कीदृश्यो गिरः। श्रुतिग्राह्य कर्णप्राचं किमप्यनिर्वचनीयं ज्योतिः शब्दब्रह्म। तत्त्वप्रकाशकत्वात् । 'श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । मलं पापम् । बहिरन्तर्मलमुषों बाह्याभ्य- न्तरमलापहारिकाः । यद्वा बहियोतिरिति व्यस्तरूपकम् । अन्तर्मलमुषोऽन्तः- पापापहारिकाः । मृजायाः शुद्धमज्जानः सारभागाः । विपरियन्तीति विपरिपूर्वां- दिणो लटि 'इणो यण् इति यणादेशः । अपथमिति 'पथः संख्याव्ययादेः' इति क्लीबत्वम् । 'सारो मज्जा नरि' इत्यमरः । परिमोहयत इत्यत्र 'न पादम्याङ्-' इति परस्मैपदनिषेधे "णिचश्च' इति तङ् । प्ररोचनमभिलाषः । असंविदान इवाजानन्निव । 'विद ज्ञाने' । 'समो गम्-' इति तिङ् । कस्येदं दारकद्वयं बाल- कद्वयमिति संबन्धः । शकुन्तराजकेतोः कौस्तुभश्रीवत्सरत्नद्वयमिव । शकुन्तराजः पक्षिराजो गरुडः स केतुश्चिहं यस्य सः विष्णुः । श्रीवत्सः कृष्णस्य मणिः कौस्तु- १. रामचन्द्रमेव'. २. 'पुनर्वक्रोक्तिभिः'. ३. 'मोहयते'. ४. 'कुमाररत्नद्वयम्'. ५. 'विहस्य' इति पुस्तकान्तरे नास्ति. ६. 'तीर्थ मिव .७. 'शतानन्द', ।
१५० काव्यमाला। शतानन्द:-(सप्रत्यभिज्ञमिव ।) पुत्रार्थे अगदेकजाकिययूहामनमत्कीर्तिना चातुहर्होत्रवितीर्णविश्ववसुधाचक्रेण चक्रे मखः । राज्ञा पतिरथेन यत्र सकलखर्वासिसर्वातिथौ स खेनैव फलप्रदः फलमपि खेनैव नारायणः ॥२०॥ तत्किमेतावेव तौ दाशरथी यौ किल रामलक्ष्मणौ ताडकामथनम- गलोद्धातवितीर्णदिव्यास्त्रमन्त्रपारायणेन भगवतैव विनीतौ वैतानिकस्य कर्मणश्छिद्रापिधानदक्षिणया भगवन्तमुपासांबभूवतुः । भोऽपि । तीर्थ सोपानकम् । 'कटकली' इति प्रसिद्धम् । 'तीर्थ सोपानपतो स्यात्' इति धरणिः । अवतारो ज्ञानमवतरणं च । पूर्वप्रकाशितासंविदानत्वस्था- पनायाह-सप्रत्यभिशमिवेति । पूर्वानुभूतस्य तत्तदन्ताविशिष्टतया ज्ञान प्रत्यभिज्ञा । तत्सहितं यथा स्यादेवमित्यर्थः । “समक्षदिग्भागमिव' इति पाठे ज्ञातैकदेशमिवेत्यर्थः । पुत्रार्थ इत्यादि । पङ्किरथेन राज्ञा पुत्रार्थे मखो यज्ञश्चके कृतः । कीदृशेन । जगति संसार एकः श्रेष्टो जाङ्घिकोऽतिवेगवान्यो ययुरश्वमेधीयोऽश्वः स एवोद्दामोद्भटा भ्रमन्ती कीर्तिर्यस्य तेन । 'ययुरश्वोऽश्वमेधी- यः' इत्यमरः । चतुर्होत्रा एव चातुर्होत्राः । स्वार्थे प्रज्ञादित्वादण् । तेभ्यो वितीर्ण दत्तं विश्वं समस्तं वसुधाचक्र पृथ्वीमण्डलं येन तेन । वेदचतुष्टयप्रयोगाद्धोत्रचतुष्टयं यत्र यज्ञे । स नारायणो देवः खेनैव खयमेव फलप्रदो यज्ञफलदायी खेनैवः खयमेव फलमपि । अभूदिति शेषः । खेनैव रामादिरूपेण जातत्वात् । कीदृशे यज्ञे । सकलाः समस्ताः खर्वासिनो देवाः सर्वप्रकारेणातिथय आगन्तुका यत्र तस्मिन् । यद्वा सकलाः समस्ताः खर्वासिनो देवाः सर्वो महेश्वरश्चातिथिर्यत्र । वासवदत्तायाम् 'गौरीव सर्वप्रिया' इति श्लेषेण सर्वशब्दस्य महेश्वरवाचकत्व- बोधनात् । अन्यथा श्लेषभजप्रसङ्गः । न चास्मिन्व्याख्याने सकलखर्वासिपदेन महेश्वरस्यापि लाभात्पृथक्तस्योपादानं पौनरुक्त्यमावहतीति वाच्यम् । गोबली- वर्दन्यायेन तदुपादानात् । यद्वा सकलाः कलासहिताः प्रत्यक्षा एव खर्वासिनो देवा इति पूर्ववदपरम् । यद्वा सकलखः समस्तवर्ग वासयन्तीति सकलखा- १. 'मालो पोतात. भवत'. ३, 'भवन्तम्'. । ।
यद्वा मथनमेव मङ्गलम् । तस्योद्धात उपक्रमे वितीर्ण दत्तं दिव्यास्त्रमन्त्रस्य पारा- अनर्घराघवम् । विश्वामित्रा-(सकौतुकम् ।) अथ किस् । (जनकस्तौ सेनेहबहुमानं पश्यति।) शतानन्दा--तदनयोः कतरो रामभद्रः कतरश्च लक्ष्मणः । विश्वामित्र:- (रामं निर्दिश्य ।) वत्स आशिरस, ये चत्वारो दिनकरकुलक्षत्रसंतानमल्ली- मालाम्लानस्तबकमधुरा जज्ञिरे राजपुत्राः । रामस्तेषामचरमभवस्ताडकाकालरात्रि- प्रत्यूषोऽयं सुचरितकथाकन्दलीमूलकन्दः ॥ २१ ॥ सिनो देवाः । सर्वेऽतिथयो यस्मिन्मखे तत्रेत्यर्थः । 'अतिथिः कुशपुत्र स्यात्पु- भानागन्तुकेऽपि च' इति मेदिनीकरः । ताडकामथनेन नाशेन यन्मङ्गलम् । । यणमाश्रयो येन । यद्वा दिव्यास्त्रं मन्त्ररूपं पारायणमभीष्टम् । यद्वा परायणं साकल्यम् । 'उद्घातस्तु पुमान्पादस्खलने समुपक्रमे' इति मेदिनीकरः । 'पारा- यणमभीष्टं स्यात्तत्पराश्रययोरपि' इति च । 'साकल्यासङ्गवचने पारायणतुरायणे' इत्यमरः । विनीतौ शिक्षितौ संमानितौ वा । वैतानिकस्य यज्ञसंबन्धिनः । छिद्रस्य विष्टस्यापिधान खण्डनं तदेव दक्षिणा तयोपासांबभूवतुः सेवितवन्तौ । 'दया- यासश्च' इत्याम् । सस्नेहबहुमानमिति । रामलक्ष्मणयोः सौकुमार्यदर्श- नात्तादृगतिदुष्करताडकाताडनश्रवणाचेति भावः । तदनयोरिति । कतरः कः । वरत्वोपयिक रामपरिचयं कारयितुमाह-ये चत्वार इति । दिनकरकुले सूर्यवंशे ये क्षत्राः क्षत्रियास्तेषां संतानः संततिः समूहो वा स एव मल्ली पुष्प- विशेषस्तस्या या माला तस्या अम्लानो निर्मलो यः स्तबको गुच्छस्तद्वन्मधुरा मनोहरा ये चत्वारो राजपुत्रा रामभरतलक्ष्मणशत्रुघ्नरूपा जज्ञिरे जातास्तेषा- मयमचरमभव आद्योत्पन्चो रामः । कचित् 'क्षत्रसंतानवल्ली-' इति पाठः । क्षत्रसंतान एव वल्ली लता तस्या माला इत्यर्थः । ताडकेव कालरात्रिः श्यामर- जनी तस्याः प्रत्यूष इव प्रत्यूषः प्रभातम् । तस्मात्तस्या अपायात् । अन्यापि १. 'सकौतुकम्' इति पुस्तकान्तरे नास्ति. २. 'सलेई पश्यति'. ३. रमः ४. "निर्दिशन्', 'निदर्शयन्.५, 'रचयः'.
काव्यमाला। जनक:-(विहस्य । शतानन्दः-(लक्ष्मणं निर्दिश्य । अयं चापरो लक्ष्मणः। दिष्ट्या भगवद्वसिष्ठप्रसूतं क्षत्रकुलमृध्यते । -(विहस्य ।) साधु भगवन् , अस्साहशीषु प्रजासु प्रविश्य क्रीडसि । क्रोधानौ पुरुहूतहुंकृतिपराभूतत्रिशङ्कुत्रपा- संपातज्वलिते जगत्रयमयीं त्वय्याहुतिं जुह्वति । संभ्रान्तोपनतस्य नाटितजरावैक्लेव्यशीर्णाक्षराः प्रत्यूहाय बभूवुरम्बुजभुवो देवस्य चाटूक्तयः ॥ २२ ॥ तमपि नाम भगवन्तं यजमानमन्ये गोपायितारः । शतानन्दः-राजर्षे, एवमेतत् । किं पुनर्न दीक्षिष्यमाणाः क्रुध्यन्तीति रक्षितारं क्षत्रियमुपाददते । - । रात्रिः प्रत्यूषेण नाश्यत इति धनिः । सुचरितस्य या कथा सैव कन्दली वृक्ष- भेदस्तस्या मूलं प्रधानं कन्दः । मूलमित्यर्थः । तमधिकृत्यैषा सुचरितकथा प्रवर्तत इति भावः । 'प्रत्यूषोऽहर्मुखम्' इत्यमरः । ऋयते वर्धते। क्रोधानाविति । पुरुहूतस्यन्द्रस्य या हुंकृतिहुंकारस्तया पराभूतः पराङ्मुखो यस्त्रिशङ्कुस्तेन या त्रपा लज्जा सैव संपातो युगान्तवातस्तेन । यद्वा लज्जायाः संपातेन पतनेन समूहेन वा ज्वलिते देदीप्यमाने क्रोधानौ जगत्रयमयीमाहुतिं त्वयि जुह्वति सति अम्बुज- भुवो देवस्य ब्रह्मणश्चाटूक्तयः प्रत्यूहाय बभूवुर्वृत्ताः । संभ्रान्तस्य सभयस्य सोद्वेगस्य वा सत उपनतस्योप समीपे नतस्य नम्रस्य । सृष्टिविनाशावश्यंभाव. माशक्य तस्य संभ्रान्तत्वम् । नाटितं कृतं जरावैक्लव्यं तेन शीर्णानि जीर्णान्य- क्षराणि यासां ताः । त्रिशङ्कुकथा प्रागेव ( ३५ पृष्ठे ) लिखिता । गोपायितारो रक्षितारः । किं पुनः । किं वित्यर्थः । प्रसक्तानुप्रसक्ति निवारयन्प्रस्तुतं प्रस्तोतुं .१. 'वर्धते', 'ऋष्याते'..१: वैकल्यशीर्णाक्षरा', 'वैऋत्यजीर्णाक्षरा:'. ३. 'भव- तम्'. ४. 'दीक्षमाणाः'.
३ अङ्कः] अनर्घराघवम् । १५३ जनकः-(सहर्ष रामलक्ष्मणौ निर्वर्ण्य जनान्तिकम् ।) भगवन्शतानन्द, भवति न तथा भानोः शिष्ये गुरौ रसतो न च सयमपि मुनौ विश्वामित्रे गृहानधितिष्ठति । दशरथसुतावेतौ दृष्ट्वा यथोच्छुसितं मनः शिथिलयति में प्रत्यग्ज्योतिःप्रबोधसुखासिकाम् ॥ २३ ॥ शतानन्दः-राजर्षे वैदेह, एवमेतत् । ममापि राजपुत्राविमौ साक्षात्कुर्वतो वत्से सीतोर्मिले न हृदयादवरोहतः । जनक:-(विश्वामित्रं प्रति ।) भगवन् , इदं वयो मूर्तिरियं मनोज्ञा वीराद्भुतोऽयं चरितप्ररोहः । इमौ कुमारौ बत पश्यतो मे कृतार्थमन्तर्नटतीव चेतः ॥२४॥ विश्वामित्र:-(सोत्प्रासम् ।) सखे सीरध्वज, हृदयमेवामन्त्रयख किमर्थ कृतार्थमसीति । भूमिमारचयति-भवतीति । एतौ दशरथसुतौ दृष्ट्वा उच्छसितं सन्मम मनः कर्तृ यथा प्रत्यरज्योतिःप्रबोधसुखासिकामात्मज्ञानसुखावस्थानं शिथिलयति मन्दी- करोति तथा भानोः सूर्यस्य शिध्ये याज्ञवल्क्ये मम गुरौ रसतोऽनुरागान भवति । 'वसतः' इति पाठे गुरौ गुरुसमीपे वसतस्तिष्ठतो मम मनस्तथा नोच्छुसितम् । नोल्लसितमित्यर्थः । न च विश्वामित्रे मुनौ खयमपि गृहानधिति- छति सति तथा भवति। तथा चात्मज्ञानेऽपि मम मनोऽधुना न लगतीति भावः । अवरोहतो लम्बेते । धातोरनेकार्थत्वात् । जनको रामलक्ष्मणौ वरत्वेन हृदि निधायोक्तिभझ्या विश्वामित्रमाह-इदमिति । इदं वय इत्यत्र ययोरिति योज्यम् । वीरो रसस्तेनाद्भुतश्चित्रः । चरितप्ररोहश्चरित्रस्य विस्तारोऽङ्करो वा। यद्वा वीराणामद्भुत आश्चर्यकरः। अन्तरभ्यन्तरे नटतीव नृत्यतीव । हर्षाति- शयादिति भावः । कुमाराविति वरत्वोपयिक विशेषणम् । आमन्त्रयख पृच्छ । सखेदमिति । महादेवधनुरारोपणपणं विस्मृत्यैव तत्रानास्थामास्थाय विश्वामित्रो १. 'सोत्पासहासम्. ।
काव्यमाला जनक:-(सखेदस्मितम् ।) यदोत्रस्य प्रथमपुरुषस्वेजसामीश्वरोऽयं येषां धर्मप्रवचनगुरुर्ब्रह्मवादी वसिष्ठः । ये वर्तन्ते तव च हृदये सुष्टु संबन्धयोग्या- स्ते राजानो मम पुनरसौ दारुणः शुरकसेतुः॥ २५ ॥ रामलक्ष्मणौ-(संविमर्शम् ।) कथमस्मदीयाः कथाः प्रस्तूयन्ते । विश्वामित्र:-(सस्मितम् ।) राजर्षे, यदि शुल्कसंस्थैव केवलम- न्तरायस्तन्न किंचिदेतत् । जनकः-(सखेदं विमृशनपवार्य ।) भगवन्नौशिरस, यद्विदन्नपि विदेहनन्दिनीपाणिपीडनविधेर्महार्यताम् । एवमाह मुनिरेष कौशिकस्तेन मुहति चिराय मे मनः ॥२६॥ वदति 'हृदयमेवामन्त्रयख' इत्याद्याशयेति भावः । सस्मितमिति । अहो अस्य विश्वामित्रस्य भ्रमो यज्जानन्नपि धनुरारोपणपणम् 'हृदयम्' इत्याद्याहेति भावः । धनुरारोपणपर्ण कौशिकं स्मारयितुमाह-यद्गोत्रस्येति । यद्गोत्रस्य रामभद्रादिगोत्रस्यायं तेजसामीश्वरः सूर्यः प्रथमपुरुषः । येषां धर्मप्रवचने धर्म- भाषणे वसिष्ठो गुरुः । कीदृशः । ब्रह्मवादी तत्त्वकथकः परब्रह्मतत्त्वज्ञो वा । ये च तव हृदये वर्तन्ते । वरत्वेनेति शेषः । ते राजानः सुषु यथा स्यादेवं संबन्ध- योग्याः संबन्धाः । ननु यद्येवं तर्हि कथं न वियत इत्यत आह-मम पुनरसौ शुल्कसेतुः पणबन्धो दारुणः कठोरः । प्रतिबन्धक इति यावत् । तथा च यो धनुराकर्षणकर्ता स एव वरणीय इति भावः । शुल्कस्य संस्था व्यवस्था । य एतद्धनुराकर्षति तेनैव परमियं वोढव्येति । न किंचिदिति । रामो धनुरारोपयि- ध्यत्यैवेति भावः । सखेदमिति । विश्वामित्रवचनतात्पर्याबोधादिति भावः । कौश्चिकवाक्यतात्पर्यमजानञ्शतानन्दद्वारा तत्तात्पर्य बोद्धमाह-यद्विदन्निति । यद्यस्माद्विदेहनन्दिन्याः सीतायाः पाणिपीडनविधेः पाणिग्रहणविधेर्महार्घतां १. (सविसयम् । कथमेभिरमदीया:'. २. 'सखेदं विमृश्यापवार्य च'. ३. शतानन्द ३ अङ्कः] अनर्घराघवम् । । -शान्तं शान्तम् । RERNMURNA तदेव स्थाणवीयं वा धनुः स्यादिदमीदृशम् । एतदरोपणं नाम पणो वा मम जर्जरः ॥ २७ ॥ शतानन्द दुर्लक्ष्यमीश्वरशरासनमप्रमोच्य- शुल्कग्रहस्त्वमसि सर्वमिदं तथैव । किं त्वस्य राघवशिशोः सहजानुभाव- गम्भीरभीषणमतिस्फुटमेव वृत्तम् ॥ २८॥ जनक:-(मुनि प्रति ।) भगवन्कौशिक, चिरमपि विकल्पयन भवद्विरामभिधेयमद्यापि निश्चिनोमि । विश्वामित्र:-(विहस्य ।) तदुपदर्शय कार्मुकमैन्दुशेखरं रामभद्र एव व्याकरोतु। दुर्लभत्वं बहुमूल्यत्वं वा । धनुरारोपणस्यान्तरायत्वात् विदन्नपि जानन्नप्ययं कौशिकः । एवं 'यदि शुल्कसंस्थैव' इत्यादि पूर्वोक्तमाह वदति तेन हेतुना मम मनश्चिराय चिरसमयं मुह्यति । मोहमुपैतीत्यर्थः । विदन्निति । 'विदेः शतुर्वसुः' इति वखादेशस्यानित्यत्वम् । मोहमपास्य विकल्पयन्नाह-तदेवेति । तदेवेदं स्थाणवीयं महादेवसंबन्धि धनुरीदृशं दुरारोपणं वा न स्यात् । अथवैतदारोपणे नाम मम पणो जर्जरो जीर्णोऽदृढो वा स्यात् । मिथ्या भवेदिति यावत् । जनकमाश्वासयितुमाह-दुर्लङ्घयमिति । दुर्लईयं दुर्गमम् । त्वमप्य प्रमोच्योऽत्याज्यः पणो यस्य तादृशः । इदं सर्व धनुर्दुर्लच्यत्वादि तथैव तथ्य- मेव । नात्र कुत्राप्यन्यथात्वशङ्केति भावः । किं त्वा राघवशिशो रामस्य खाभा- विको योऽनुभावस्तेन गम्भीरं दुरवगाहं भीषणं च वृत्तं व्यापारस्ताडकामथना- दिरूपमतिस्फुटमेव विदितमेव । तथा च येन तत्ता गतिभीषणं कर्माकारि तस्या- वश्यं धनुरारोपणं नाशक्यमिति भावः । विकल्पय मानापक्षं समुद्भावयन् । विहः स्येति । मुनेस्तात्पर्य जनकेन किंचिदपि न ज्ञाह मिति भावः । ऐन्दुशेखरमि- १. 'शान्तम् .. २. 'विमृशन्न भवद्विरामधापि'. ३. तदुपसर्पय कार्मुक- 'कार्मुकमैन्दुशेखरं दर्शय. ।
काव्यमाला। SINHAIYA रामः-(सहर्ष स्वगतम् ।) कथमलीकविकल्पैरात्मानं प्रमोहयामि नन्वयं ममैव कौतुकं पूरयितुमैश्वरं धनुरभ्यर्थयते भगवान् । (जनकं च दृष्ट्वा सविमर्शम् ।) अहह । बालेन संभाव्यमिदं च कर्म ब्रवीति च प्रत्ययितो महर्षिः । इति ध्रुवं मन्नयते नृपोऽयं दत्ते किमत्रोत्तरमाकुलोऽस्मि ॥ २९ ॥ (मुहूर्तमिव स्थित्वा दीर्घमुष्णं च निःश्वस्य ।) भगवन् , क तादृशं मागधेयमस्माकं येन भगवता विश्वामित्रेण नाथवन्तो वयं मैथिलीमेतस्मै रघुकुलकुमाराय प्रतिपाद्य चिराय कृतार्थीभवामः । (रामो लज्जवे।) जनक:-किं च भगवन् , येषां चापसमर्पितत्रिभुवनच्छिद्रापिधानं व्रतं जातं रोहितमेव केवलमपज्याबन्धमैन्द्रं धनुः । न्दुशेखरसंबन्धिः । व्याकरोतु विवृणोतु । अलीकं मिथ्या । बालेनेति । इदं धनुरारोपणाख्यं कर्म बालेन रामेण संभाव्यं कर्तव्यमिति प्रत्ययितः प्रत्यययुक्त आप्तो वा । 'आप्तः प्रत्ययितस्त्रिषु' इत्यमरः । महर्षिः कौशिको ब्रवीति । इति पूर्वार्धोक्तमयं नृपो जनको ध्रुवं निश्चितं मन्त्रयत आलोचयति । अत्रोत्तरं किं दत्ते दास्यतीत्याकुलोऽस्मीत्यन्वयः । दीर्घमुष्णां च निःश्वस्येति । अतिमधुरमू- तिना रामेणातिमीषणमिदं धनुर्नारोपणीयमेवेति भावः । प्रतिपाद्य दत्त्वा । येषा- मिति । ऐन्द्रमिन्द्रसंबन्धि धनुरपगतो ज्याबन्धः प्रत्यञ्चिकांबन्धो यस्य तादृशं सद्रोहितमेव ऋज्वेव जातम् । कुत इत्यत आह-कीदृशम् । येषां राज्ञां चापे धनुषि समर्पितं त्रिभुवनस्य च्छिद्रमुपद्रवस्तस्यापिधानमाच्छादनम् । दूरीकरण- मिति यावत् । तदेव व्रतं येन धनुषा तादृशं तेन इत्यर्थः । तेऽपि भूभुजो १. 'खगतम्', 'स्वगतं सहर्षम्'. २. 'मोहयामि'; 'प्रमोदयामि'. ३. 'कौतूह- लम'. ४. 'वत्सेन'. ५. 'तु'. ६. 'एतस्मै रघुकुलकुमाराय सीताम्'.७. चरितार्थी-'. ८. 'किं च' इति पुस्तकान्तरे नास्ति. - । ।
१५७ ३ अङ्कः] अनर्घराघवम् । तेऽपि प्रेक्ष्य पुरा शरासनमिदं मौर्वीकिणश्यामिका- कस्तूरीसुरभीकृतानबिभरुर्व्यर्थ मुजान्भूभुजः ॥ ३० ॥ विश्वामित्र:-(विहस्य ।) सखे, सीरध्वज, कथं महापुण्यराशि- मात्मानमवमन्यसे। त्वद्भागधेयमपि तादृशमुत्सवाना- मेतादृशां वयमपि प्रसमीक्षितारः। सन्त्येव विश्वभुवनाभयदानशौण्डाः क्षोणीभुजः परममी तुन रामभद्रः ॥ ३१ ॥ लक्ष्मण:-(स्वगतम् ।) कथमुपाध्यायेनैतदभिहितं यदस्मि वक्तु- कामः। जनक:-भगवन् , सत्यमचिन्तो मणिमन्त्रौषधीनामिव रघुकुल- कुटुम्बकानामनुभावः । परमेतद्रवीमि । राजानः पुरा पूर्वमिदं शरासनं धनुः प्रेक्ष्य दृष्ट्वा व्यर्थं यथा स्यादेवं भुजानबिम- रुर्धारयन्ति स्म । आरोपणानध्यवसायादिति भावः । कीदृशान् । मौर्वी प्रत्यञ्चिका तया किणो मृतमांसपिण्डस्तस्य श्यामिका कृष्णत्वं सैव कस्तूरी तया सुरभीकृतान् । अन्यापि कस्तूरी कमपि सुरभयतीति ध्वनिः । अबिभरुरित्यत्र भृजो लड्। शपः लुः । द्विवचनम् । 'भृक्षामित्' इतीत्त्वम् । अभ्यस्तद्वारको जुस् । 'तदेव ऋजु रोहितम्' इत्यमरः । रामं स्तोतुं जनकमाश्वासयन्नाह-त्वद्भागधेय- मिति । तव भागधेयमपि भाग्यमपि तादृशमत्युत्सवप्रसवशीलम् । एताद्दशा धनुरारोपणसीतापरिणयादीनामुत्सवानां वयमपि प्रसमीक्षितारो द्रष्टारः । वयमप्ये तागुत्सवयोग्या एवेत्यर्थः । प्रकृते संगमयन्नाह-सन्येवेति । विश्वानि सम- खानि भुवनानि चतुर्दश । शौण्डः कुशलः ख्यातो वा । एतादृशा नृपाः सन्त्येव । अमी पुनर्न रामभद्रः । न राम इत्यर्थः । रामस्यान्यादृशी शक्तिरिति भावः । 'भागधेयं भाग्यं स्त्री नियतिविधिः' इत्यमरः । 'शौण्डस्तु कुशले मत्ते: १. 'विहस्य' इति पुस्तकान्तरे नास्ति. २. 'भुवनत्रय-'. ३. 'न तु. ४. 'उपा- ध्यायेनैव-'.. ५. कडम्बकानाम्'. ।
काव्यमाला। गिरीशेनाराद्धस्त्रिजगदवजैत्रं दिविषदा- मुपादाय ज्योतिः सरसिरुहजन्मा यदसृजत् । हृषीकेशो यस्मिन्निपुरजनि मौर्वी फणिपतिः पुरस्तिस्रो लक्ष्यं धनुरिति किमप्यद्भुतमिदम् ।। ३२॥ शतानन्द:-आः किमनया पुनःपुनः पिनाकप्रशस्तिपञ्जिकया। तैदेतत्कौशिकमेव प्रमाणयन्तो बहु मन्यामहे । अपि च किमशक्यं रामभद्रस्य। उत्पादयन्कमपि कौणपकोटिहोम तेजोहुताशनसमिन्धनसामिषेनीम् । यस्ताडकामकृत बालसखैः पृषकै- रीषज्जयः स्फुटमनेन दशाननोऽपि ॥ ३३ ॥ इति धरणिः । गिरीशेनेति । इत्यनेन प्रकारेणेदं धनुः किमप्यनिर्वचनीयखरू- अमद्भुतमाश्चर्यजनकम् । अस्तीति शेषः । इति कुत इत्यत आह-यद्धनुर्गिरी- शेन महादेवेनाराद्ध आराधितः सन्सरसिरहजन्मा ब्रह्मा दिविषदां देवानां ज्योति- रुपादाय गृहीत्वासृजत्सृष्टवान् । कीदृशम् । त्रिजगतामवजेत्रमवसादकम् । जेतृ- शब्दात्प्रज्ञायण । यस्मिन्धनुषि हृषीकेशो विष्णुरिषुर्वाणोऽजनि जातः । कतरि पिण् । फणिपतिर्नागराजो मौर्वी गुणः । तिस्रः पुरो नगराणि त्रिपुरदैत्यरूपाणि लक्ष्य वेध्यम् । अजनीति सर्वत्र क्रियान्वयः । तिसृणां पुरामेकरूपत्वेन लक्ष्य- त्वालक्ष्येऽप्येकत्वमवधेयम् । भवतु याहत्ताकठिनं धनुः कौशिकवाक्यादेव निर्णीत रामो व्याकरिष्यतीत्याह-आ: किमनयेत्यादि । आः कोपेऽनास्थायां या । प्रशस्तिपजिकया स्तुतिविस्तारेण । प्रमाणयन्तः प्रमाणं कुर्वन्तः । उत्पाद- यनिति । यो रामः कमप्यनिर्वचनीयं कोणपकोटिभी राक्षसकोटिभिहाम- मुत्पादयन्कुर्वन् । बालस्य सखायो बालसखाः । 'राजाहःसखिभ्यष्टच् । पृषकैगिस्ताडको राक्षसीविशेषं तेज एव हुताशनो वह्निस्तस्य समिन्धने ज्वालने सानिधेनीमग्निसंधुक्षणऋचमकृत कृतवान् । अतो हेतोरनेन रामेण १. 'पुनःपुनः' इति पुस्खकान्तरे नास्ति. २. तदेनं कौशिकमेव'. ३. कालसखैः'. ।
३ अङ्कः] अनर्घराघवम् । १५९ (नेपथ्येऽर्धप्रविष्टः ।) पुरुषा-दशाननपुरोहितः शौकलो महाराज दिदृक्षते । शतानन्दः-(सोद्वेगम् ।) आः, आगच्छतु । (पुरुषो निष्कान्तः ।) राम:-(सेव्यथं जनान्तिकम् ।) वत्स लक्ष्मण, कथमन्तरितोऽयम- नेन दुरात्मना राक्षसेन कामारिकार्मुकपरिचर्यामहोत्सवः । लक्ष्मण:-आर्य, न केवलमयम्-(इत्य|क्ते हसति ।) (रामः सप्रणयरोषस्मितं तमपा न पश्यति ।) (प्रविश्य ।) शौकल:-(प्रत्येकमवलोक्यात्मंगतम् ।) कथमत्रैव जनकशतान- न्दाभ्यां पुरस्कृतो विश्वेषामस्माकममित्रो विश्वामित्रः । (विचिन्त्य ।) तिष्ठतु । कोऽयं हस्तदक्षिणेन । (दृष्ट्वा ।) अये, कावेतौ क्षत्रियब्रह्म- चारिणौ । स्फुटं निश्चितं दशाननोऽपि रावणोऽपीषजयोऽकृच्छ्रजयः । सुजय इति यावत् । 'ईषदुःसुषु-' इति खल् । 'राक्षसः कौणपः ऋव्यात्' इत्यमरः । ऋक्सामिधेनी धाय्या च या स्यादमिसमिन्धने' इति च । “पृषत्कबाणविशिखाः' इत्यपिः । नेपथ्येऽर्धप्रविष्टो जवनिकापटोद्धाटितार्धशरीरः । दिदृक्षते द्रष्टुमिच्छति । 'ज्ञाश्रु- स्मृशां सनः' इति तङ् । सोद्वेगमिति । कथमन्तरितमनेन शौष्कलेन धनुराकर्षणादामाय सीताप्रदानमिति भावः । आः कोपे, कष्टे वा । सव्यथा मिति । झटिति कार्मुकपरिचर्यामहोत्सवप्रतिबन्धात् । सीताविवाहप्रतिबन्धादिति भावः । कामारिः शिवः । परिचर्याकर्षणसेवा । न केवलमिति । किं तु तज- न्यसीताविवाहोत्सवोऽपीति शेषः । अपाङ्गेन नेत्रप्रान्तेन । पुरस्कृतोऽप्रतः कृतः । । । १. 'पुरुषः । पुरुषः'. २. 'शौष्कलो नाम'. ३. 'आः' इति पुस्तकान्तरे नास्ति. 'सरोषव्यथा'. ५. 'यक्षकाण्डासन--'. ६. 'बार्य इति पुस्तकान्तरे नाखि. ७. 'तम्' इति पुस्तकान्तरे नास्ति. ८. 'सौष्कल:'। शौष्कलः'. ९. 'आत्मगतमा. इति पुस्तकान्तरे नास्ति. १०. 'ममित्रम्'. ११. 'अये' इति पुस्तकान्तरे नास्ति काव्यमाला। पुण्यलक्ष्मीकयोः कोऽयमनयोः प्रतिभासते। मौज्यादिव्यञ्जनः शान्तो विरोपकरणो रसः ॥ ३४ ॥ निसर्गोदग्रमिदं च कुमारद्वयम् । पार्श्वे त्रयाणामेतेषामुक्सामयजुषामिव । रूपाभ्यां विधिमन्त्राभ्यामथर्वेव प्रदीप्यते ॥ ३५॥ (विमृश्य ।) औः, नूनं स एव लक्ष्मणद्वितीयो रामहतकः कौशिकम- षिमनुप्लवमानो मिथिलामुपस्थितः। (सक्रोधशोकम् ।) हा वत्से सुकेतुन- न्दिनि ताडके, कथमीदृशान्मनुष्यडिम्भाचाहशो दैवदुर्विपाकस्ते संवृ. चः । कष्टमैनरण्यवंशजन्मनः क्षत्रियशिशोरनात्मवेदिता । विश्वेषां सर्वेषामस्माकमित्यभेदेनान्वयः । हस्तदक्षिणेन खहस्तस्य दक्षिण दिशा। पुण्यलक्ष्मीकयोरिति । अनयो रामलक्ष्मणयोः शान्तो रसो वीरोपकरणो वीररसानुबद्धः प्रतिभासते। वीर उपकरणमनुबन्धो यत्र । वीररसहेतुरित्यर्थः । मौज्यादि व्यञ्जनं चिहं यस्य तादृशः । कीदृशयोः । पुण्या शोभना लक्ष्मीश्च कान्तिर्ययोस्तयोः । 'पुण्यं शोभने त्रिषु' इति मेदिनीकरः । 'व्यञ्जनं तेमने चिहे' इति च । उदनस्तेजखी। पार्श्व इत्यादि । इदं कुमारद्वयं रूपाभ्यामाकाराभ्यां प्रदीप्यते प्रकाश्यते । यथा विधिमन्त्राभ्यां रूपाभ्यां ग्रन्थावृत्तिभ्यामथर्वा वेद- भेदः । प्रकाश्यते तथेत्यर्थः । विधिमन्त्रावथर्वणो रूपे। 'ग्रन्थावृत्तौ भवेद्रूपमा- कारश्लेषयोरपि' इति विश्वः । अथर्ववेदोऽभिचारप्रतिपादकः । कौशिकऋषिमि, यत्र 'ऋत्यकः' इति प्रकृतिवद्भावः । अनुप्लवमानोऽनुगच्छन् । सुकेतुनन्दिनि सुकेतुसुते । संबोधनम् । मनुष्यडिम्भान्मनुष्यशिशोः। 'डिम्भो बालिशबालयोः इति विश्वः। दुर्विपाको दुष्टो विपाकः । कर्मणो विसदृक्फलमित्यर्थः । “विपाक: पटले खेदे कर्मणो विसदृक्फले' इति मेदिनीकरः । अनरण्यो राजा दशरथस्य . १. 'सोऽयम्'. २. 'वीरोपकरणम्'. ३. 'चेदम्'. ४. 'आ' इति पुस्तकान्तरे नास्ति. ५. 'एषः'. ६. 'मुनिम्'; 'ऋषिम्' इति पुस्तकान्तरे नास्ति. ७. 'मिथि- दायाम्'. ८. 'हा' इति पुस्तकान्तरे नास्ति. ९. 'विपाकोऽयं ते वृत्तः'. १०. 'अन- रण्यजन्मनः'.११. 'बटोः'.
द्रोहं चकार दशक । ३ अङ्कः] अनर्घराघवम् । सुन्दासुरेन्द्रसुतशोणितसीधुपान- दुर्मत्तमार्गणनिरर्गलवीरशब्दः। दशकण्ठकुटुम्बकेऽपि सोऽयं बटुः कुशिकनन्दनयज्ञबन्धुः ॥ ३६॥ भवतु । द्रष्टव्यमस्य भुजाशौण्डीर्यम् । (उपसृत्य ।) अपि सुखिनो यूयं जनकमिश्राः। जनकः-खागतं पौलस्त्यपुरोहितस्य । इत आस्यताम् । शिौष्कलस्तथा करोति ।) जनक:-अपि कुशलं ते राज्ञो रावणस्य । अथवा । विपदा प्रतिकर्तारो यस्योपायैरभिः । त्वादृशाः सन्ति किं तस्य कल्याणमनुयुज्यते ॥ ३७ ॥ खपिण्डः । स च रावणेन मारित इति तदपकर्षसूचनम् । सुन्दासुरेन्द्रेति । सोऽयं बटुब्रह्मचारी रामो दशकण्ठकुटुम्बकेऽपि रावणस्य प्रशस्त बन्धुवर्गेऽपि द्रोहं मारणं चकार । सुन्दनामासुरेन्द्रः स च ताडकापतिस्तस्य सुतः सुबाहुस्तख शोणितमेव रुधिरमेव सीधुर्मयं तस्य पानेन दुर्मत्ता अतिमत्ता ये मार्गणा बाणास्तर्नि- रंगलोऽप्रतिरुद्धो वीररूपः शब्दो यस्य स तथा । 'मैरेयमासवः सीधुः' इत्यमरः 'कलम्बमार्गणशराः' इति च । शौण्डीर्य सुभटत्वम् । मिश्रा मुख्याः । स्वागतं सुष्टु आगमनं कुशलं वा । अपिः प्रश्ने । सोपहासं स्तुतिमाह-विपदामिति । यस्य रावणस्य त्वादृशा अथर्वभिः शान्तिकपौष्टिकमन्त्ररुपायहेतुभिर्विपदा विपत्तीना प्रतिकारः प्रतिकारकाः । स्फोटयितार इति यावत् । तस्य रावणस्य कल्याणं कि- मन्युज्यते किं पृच्छयते । अपि तु कल्याणमेव तस्येत्यर्थः । प्रतिकार इति तृनि तृचि वा रूपम् । तेन विपदामिति कर्मणि षष्ठी। पक्षे विपदा प्रति विपत्ति प्रति त्वादृशाः पाप्मानो यस्य कर्तारो विपत्कारकास्तस्य किं कल्याणमनुयुज्यते । अपितु कदापि न तस्य कल्याणमित्यर्थः । अत्र पक्षे प्रतिवाप्सायाम् । विपदाशब्दो मि- १. गर्वः'. २. 'भुजाशैौटीर्यम्'. ३. पौलस्त्यपुरोहित' पुस्तकान्तरे एतावदेव. ४. 'कञ्चित्. ५. 'राशस्ते'. । । ११ अ०रा० काव्यमाला शौष्कल:-(विहस्य ।) श्रोत्रिय सीरध्वज, प्रेत्याकरिष्यामैव वयं यदि खभुजमण्डलीमत्तवारणावलीवलयितोरःप्रासादसुस्थितचतुर्दश- लोकलक्ष्मीमहान्तःपुरे लेकापतौ किमपि प्रतिकार्यमभविष्यत् । पश्य । यच्चेष्टाः समनीकसीमनि परित्रस्तः पराञ्चन्नपि प्रत्यक्षीकुरुते सहस्रनयनः पृष्ठोद्भवैरक्षिभिः । चक्के वर्म च नागलोकजयिनी यात्रामिव प्रस्तुव- न्यः कैलासमुदस्य कीदृशमपादानं तु तस्यापदाम् ॥३८॥ दादावादन्तः । यद्वा 'टापं चापि हलन्तानाम्' इति भागुरिमतेन टाप् । 'यथावाचा निशा दिशा' इत्यादिस्त्वेकदेशानुवादः । जनकवाक्यमनवगम्यवाह-श्रोत्रियेति। प्रत्याकरिष्यामः अभविष्यदित्यनयोः क्रियातिमत्तौ लङ् । 'नित्यं ङितः' इति मसः सकारलोपः । यदि प्रतिकार्य प्रतिकरणीयमभविष्यद्भवेत्तदा प्रत्याकरिष्यामैव व- यम्।प्रतिकार्यमेव नास्तीति भावः। लङ्कापतो कीदृशे। स्वभुजमण्डलमेव मत्तवारणाः समददन्तिनस्तेषामावली समूहस्तेन वलयितो वेष्टितो य उरःप्रासादो हृदयधवलगृह तत्र सुस्थिता सुखोपविष्टा या चतुर्दशलोकानां लक्ष्मी स्तस्या महान्तःपुरे कोष्ठागारे । यद्वा चतुर्दशलोकलक्ष्मीरेव महान्तःपुरं महिषी यस्य तस्मिन् । अन्तःपुरशब्देन तत्रस्था स्त्री लक्षणया भण्यते । 'भूः, भुवः, खः, महः, जनः, तपः, सत्यम्, वा- युस्कन्धाश्च सप्तेति चतुर्दशभुवनानी'ति पुराणम् । 'मत्तवारण आख्यातो धीरैः समददन्तिनिः। क्लीबं प्रासादवीथीनां कुन्दवृक्ष वृतावपि ॥' इति मेदिनीकरः । विगारे भूभुजामन्तःपुरम्' इत्यमरः । तत्किमिन्द्रादितोऽपि न तस्य प्रतिकर्त- व्यमस्तीत्यत आह यच्चेष्टा इति । यस्य रावणस्य चेष्टाः पराक्रमव्यापारान्स- सनीकसीमनि सङ्ग्रामसीमायां परित्रस्तः सभयः सन्पराञ्चन्नपि परामुखोऽपि । अपिर्विरोधाभासाय । सहस्रनयन इन्द्रः प्रत्यक्षीकुरुते पश्यति । ननु परापुखः कथं पश्चादवस्थितं प्रत्यक्षीकरोतीत्यत आह-पृष्ठोद्भवैरक्षिभिनेत्रैः। सहस्रनय- नत्वादेव. पृष्ठेऽपि नेत्रसद्भावः । यश्च रावणो नागलोकजयिनी यात्रामिव प्रस्तुद- "महाक्षत्रिय श्रोत्रिय', 'महाक्षत्रिय'. २. 'प्रत्यकरिष्यामः'. ३. 'वारणवलपि- तोर:-. ४. 'भुवन'. ५. 'लङ्काधिपती. ६. 'प्रतिकर्तव्यम्'. ७. 'स समीक-'. ८. 'उपादानम्.
३ अङ्कः] अनर्घराघवम् । लक्ष्मण: (सामर्ष जनान्तिकम् ।) आर्य, कथमसौ सहस्रार्जुन- वालिभ्यामवलीढशौर्यसारो दुरात्मा रावणः प्रस्तूयते । रामः-वत्स, न वक्तव्यमिदम् । महान्तो हि तादृशाः। किंच। स्यातां नाम कपीन्द्रहैहयपती तस्यावगाढान्तर- स्थामानौ दशकंधरस्य महती स्कन्धप्रतिष्ठा पुनः। सद्यःपाटितकण्ठकीकसकणाकीर्णा यदंसस्थलीः खेनेभाजिनपल्लवेन मुदितः प्रास्फोटयर्जटिः ॥ ३९ ॥ अपि च। मघोनस्तद्धोरं कुलिशमलसीकृत्य समरे भुनक्ति खाराज्यं त्रिभुवनभटोऽयं दशमुखः । न्कुर्वन्कैलास पर्वतविशेषमुदस्योत्पाट्य वम मार्ग चक्रे, तस्य रावणस्यापदां विपत्तीनां कीदृशमपादानं प्रभवो यस्मादापद्भविष्यति । अपि तु नास्त्येवेत्यर्थः । 'अनीकोऽस्त्री रणे सैन्ये' इति विश्वः । 'आखण्डलः सहस्राक्षः' इत्यमरः । सामर्षमिति । रावणशौर्यश्रवणादिति भावः। अवलीढशौर्यसारो ज्ञातशौर्यधनो गृहीतशौर्यधनो वा। 'सारो बले स्थिरांशे च मज्ज्ञि पुंसि जले धने' इति मेदिनीकरः। नन्ववलीढशौर्य- सारत्वात्कुतो महत्त्वमित्यत आह-स्यातामिति । तस्य रावणस्यावगाढान्तर- स्थामानौ ज्ञातान्तर्बलो कपीन्द्रहै हयपती वालिसहस्रार्जुनौ स्यातां नाम । ताभ्यां जितो रावण इति न किंचिदेतत् । तथापि तस्य रावणस्य पुनर्महती स्कन्धप्रतिष्ठा कायप्रतिपत्तिः । स्कन्धः कायः, रूपादिपश्चकं वा, अंसो वा । कुत इत्यत आह- यस्य कायस्य, रावणस्य वा, अंसस्थलीः स्कन्धप्रदेशान्धूर्जटिः शिवः खेनात्मने- वेभाजिनपल्लवेन हस्तिचर्माञ्चलेन मुदितो हर्षितः सन्प्रास्फोटयद्वीजयति स्म, संमा- र्जितवान्वा । कीदृशाः । सद्यस्तत्क्षणादेव पाटिता ये कण्ठास्तासां कीकसकणाभिर- स्थिकणाभिः कीर्णा व्याप्ताः । 'रूपादिपञ्चके स्कन्धः कार्येऽसे भूपतावपि' इति विश्वः । 'कीकसं कुल्यमस्थि च' इत्यमरः । नन्वेतावता शिवभक्तत्वं दार्शतम् ,न तु शूरत्वमित्यत आह-अपि चेत्यादि । अयं त्रिभुवनभटत्रिलोकीवीरो दश- मुखो रावणः खाराज्यं स्वर्ग भुनक्ति पालयति । किं कृत्वा । मघोन इन्द्रस्य त- १. 'अपि कथमसौ बलिसहस्रभुजार्जुनाभ्याम्'. २. 'एवम्'. ३. 'अपि'. । mund । ।
१६४ काव्यमाला। श्रियो नानास्थानभ्रमणरमणीयां चपलता- मवच्छिद्य खस्मिन्नपि भुजबने पूरयति यः ॥ ४०॥ जनकः-(शौष्कलं प्रति ।) ब्रह्मन्, सत्यमीदृशो राक्षसराजः । शौष्कल:-राजर्षे जनक, संतुष्टे तिसृणां पुरामपि रिपौ कण्डूलदोर्मण्डली- क्रीडाकृत्तपुनःप्ररूढशिरसो वीरस्य लिप्सोवरम् । याच्यादैन्यपराञ्चि यस्य कलहायन्ते मिथस्त्वं वृणु त्वं वृण्वित्यभितो मुखानि स दशग्रीवः कथं वर्ण्यताम् ॥ ११ ॥ प्रसिद्धं घोरं भयानकं कुलिशं वजं समरे सङ्कामेऽलसीकृत्य निष्क्रियं कृत्वा । यश्च रावणः श्रियो लक्ष्म्या नानास्थानभ्रमणेन रमणीयां चपलतां चलत्वमवच्छिद्या- न्यतो व्यावलं स्वस्मिन्खकीये भुजवने पूरयति कुरुते। अपिः संभावनाथाम् । तदीयभुजवन एवैकभुजादपरभुजगमनमित्यनेन प्रकारेण विश्वाञ्चल्यम् । यद्धा तदीयभुजाखेव प्रत्येक वीरश्रीः स्थितेति बहुस्थानस्थिततया चाश्चल्यमिति भावः । 'घोरो भीमे हरेऽपि च' इति विश्वः । 'भटः स्यात्पुंसि वीरे च' इति च । आग- मनप्रयोजनं पूरयितुं भूमिमारचयति-संतुष्ट इति । तिसृणां पुरामपि रिपौ त्रिपुरारौ महादेवे संतुष्टे सति । राक्षसरिपोरपि राक्षसे वरदानेन रावणस्यातिभक्तिः प्रकाशितेत्यपेः खरसः। कण्डूला कण्डूयुक्ता या दोर्मण्डली बाहुसमूहस्तस्याः क्रीडया कृत्तानि च्छिन्नानि पुनरनन्तरे प्ररूढानि जातानि शिरांसि मस्तकानि यस्य तस्य । अनन्तरं च वरं लिप्सोर्लब्धुमिच्छोर्यस्य रावणस्य मुखानि यात्रादैन्ये पराञ्चि परा- मुखानि । अत एवाभितः सर्वतो मिथोऽन्योन्यं त्वं वृणु त्वं वृण्विति कृत्वा कल- हायन्ते कलहं कुर्वन्ति स दशग्रीवः कथं वर्ण्यताम् । अपि तु कथमपि वर्णयितुं न शक्यत इति । कण्डूलेत्यत्र “सिध्मादिभ्यश्च' इति लच् । तिसृणामित्यत्र 'न तिसूचतम्' इति दीर्घत्वनिषेधः । कलहायन्त इत्यत्र 'शब्दवैरकलह-' इत्यादिना क्यङ् । 'कृत्तं तु वेष्टिते छिन्ने' इति विश्वः । प्रयोजनमाह- . १. 'शतानन्दः'. २. 'ईदृशोऽयम्'. ३. 'लीलालून-'. ४. 'कथ्यताम्'.
३ अङ्कः] अनर्घराघवम् । सोऽपि। कन्यामयोनिजन्मानं वरीतुं प्रजिघाय माम् । पुरोधसा गौतमेन गुप्तस्य भवतो गृहान् ॥ १२ ॥ विश्वामित्र:-सखे सीरध्वज, पंश्य पिनाकदर्शनोल्लासिकाविसं- स्थुलचित्तवृत्तिरिव वत्सो रामभद्रः । जनका-(विहस्य ।) किमेतदेव भगवन्नभिधीये पुनस्तराम् । इक्ष्वाकवो विदेहाश्च परवन्तस्त्वया वयम् ॥ ४३ ।। शौष्कला--भोः सीरध्वज, किमिदमस्माकमाकाशवचनम् , उत दुष्परिच्छेद्य एवायमर्थः । यदुत्तरमपि न प्रतिपद्यसे । पैश्य ! दातव्येयमवश्यमेव दुहिता कस्मैचिदेनामसौ दोलीलाममृणीकृतत्रिभुवनो लङ्कापतिर्याचते । सोऽपीति । यः प्रार्थनायामेतादृशः पराङ्मुखः सोऽपीत्यर्थः। वरीतुं प्रार्थयितुम् । 'वृतो वा' इतीटि दीर्घत्वम् । प्रजिघाय प्रहितवान् । 'हि गतौ' लिट् । खकार्य- साधनाय शतानन्दं स्तुवन्नाह---पुरोधसेति । गौतमेन शतानन्देन गुप्तस्य रक्षि- तस्य । उल्लासिकोत्कण्ठा तया विसंस्थुला व्याकुला चित्तवृत्तिर्यस्य तादृश इव । परवन्तः पराधीनाः। तथा च त्वदधीना एव वयमित्यर्थः । आकाशवचनमाकाश लक्षीकृत्य वचनमित्यर्थः । न प्रतिपद्यसे न ददासि । नेदं वचनं दुष्परिच्छेद्यमिति पर्यवसितमाह-दातव्येति । इयं दुहिता सीता कस्मैचिदवश्यमेव दातव्या देया। एनां च लङ्कापतिर्याचते प्रार्थयते यतोऽतो रावणाय देयेत्याशयः । सीता- प्रदानौपयिकरावणस्तुतिमाह-कीदृशः । दोल्लया भुजक्रीडया मसृणीकृतं लक्षणीकृतं त्रिभुवनं येन तादृशः। यतस्तादृशोऽपि लङ्कापतिर्याचतेऽतो मूढव- । १. 'पश्य पश्य'. २. 'एवम्'. ३. 'किमलाकम्'. ४. 'पश्य पश्य'. ५. 'दो:- क्रीडा', 'दो:क्रीडामशकीकृत-.६. 'लङ्काधिपः'.
काव्यमाला। तरिक मूढवदीक्षसे ननु कथागोष्ठीषु नः शासति त्वद्वृत्तानि परोरजांसि मुनयः प्राच्या मरीच्यादयः॥४४॥ शतानन्द:-ब्रह्मन्, चिराय दत्तमेवोत्तरमस्माभिः । शौष्कल:- हन्त, राजपुत्रीसमर्पणादन्यत्कीदृशं तत् । शतानन्दः-शृणु। शांभवं चापमारोप्य योऽस्मानानन्दयिष्यति । पूर्णपात्रमियं तस्मै मैथिली कल्पयिष्यते ॥ १५॥ शौष्कलः-(विहस्य ।) शान्तम् । अहह युष्माकमप्यमून्यक्षराणि। तेनाङ्गुलीशतनिघृष्टकुबेरशैल- कण्ठोक्तदोःकुलिंशकन्दलविक्रमेण । किमीक्षसे पश्यसि । ननु मूढवदिति वतिप्रत्ययेन सादृश्यमभिहितं तस्य च मेदगर्भत्वेनास्माकममूढत्वं प्रतिपादितं तच्च कुतो ज्ञातमित्यत आह-ननु हेतौ । नोऽस्माकं कथागोष्ठीषु प्राच्याः पुरातना मरीच्यादयो मुनयः परोरजांसि रजसः पराणि । सात्त्विकानीति यावत् । त्वद्वृत्तानि त्वदीयचरितानि शासति कथयन्ति । यद्वा नोऽस्मांस्त्वदृत्तानि शासति । शासद्धिकर्मकत्वात् । तथा च तादृशस्य तव रा. वणेतराय सीता दातुं न युक्तेति भावः । दत्तमेवोत्तरमिति । ईशधनुर्भङ्गरूपः पण एवोत्तरमिति भावः । शतानन्दवचनाभिप्रायमनभिज्ञायाह-राजपुत्रीति । राजपुत्री सीता । समर्पणं दानम् । विवाह इति यावत् । तदुत्तरम् । उत्तरमाह- शांभवमिति। पूर्णपात्रं संतोषदानम् । 'हर्षादुत्सवकाले यदलंकाराम्बरादिकम् । आकृष्य दीयते पूर्णपात्रं पूर्णानकं च तत् ॥' इति हारावली । तस्मै इति 'क्लपि संपद्यमाने च' इति चतुर्थी । सुष्माकमपीति । रावणं प्रति हरचापारोपणरूपा- णीत्यर्थः । रावणस्य हरधनुःसमाकर्षणेऽशक्तिमवगम्य तदाकर्षणे व्याजमुद्भावयति- तेनाङ्गुलीति । विंशतिबाहुत्वादडलिशतेन निघृष्टो यः कुबेरशैलः कैलासस्तेन १. 'तथा'. २. 'हुम्'. ३. शृणु' इति पुस्तकान्तरे नास्ति. तकान्तरे नास्ति. ४. 'कल्पयिष्यति', ५. "विहस्य' इति पुस्तकान्तरे नास्ति. ६. 'शान्तं शान्तम्'. ७. 'अपि' इति पुस्तकान्तरे, नास्ति. - -- TREATRNIMIMIRMIRE अनर्घराघवम् । Redmateries माहेश्वरेण महता दशकंघरेण कदृशं कथमनार्यमधिक्रियेत॥ १६ ॥ शतानन्दा-(विहस्य ।) ब्रह्मन्, अयं महाक्षत्रियगोत्रजन्मा दृढप्रतिज्ञो जनकाधिराजः । न चापमारोपयिता दशास्यस्तथापि जानासि यदुत्तरं नः॥४७॥ शौष्कल -(सहासम् ।) अङ्गिराश्च पुलस्त्यश्च प्रसवौ परमेष्ठिनः । पौलस्त्ये ज्ञातिधर्मोऽयं तकिमाङ्गिरसस्य ते ॥४८॥ (सामर्षम् ।) माहेश्वरो दशग्रीवः क्षुद्राश्चान्ये महीभुजः । पिनाकारोपणं शुल्क हा सीते किं भविष्यसि ॥ १९॥ शतानन्दः (सरोषव्यथम् ।) ब्रह्मन् , एवमनेन धनुषा किमपि विनयाधिकारिकमध्याप्यते । यदद्य परममाहेश्वरस्ते रावणोऽपि संवृत्तः। DISNA कण्ठेनोक्तः कथितो दो:कुलिशकन्दलस्य बाहुवनप्रकाण्डस्य विक्रमः पराक्रमो यस्य तादृशेन । महता माहेश्वरेणातिमहेश्वरभक्तेन दशकंधरेणेदृशमनार्यमनुचितं कर्न सेव्यस्य धनुःसमाकर्षणरूपं कथमधिक्रियेत । तथा च गुरोरीश्वरस्य चापारोपणं रावणस्य न युक्तमिति भावः । सोपहासमाह-अयमिति । आरोपयिता आरो- पयिष्यति । लद । प्रस्तुतास्फूर्तावर्थान्तरमाह-अङ्गिराश्चेति । प्रसवः पुत्रः। पौलस्त्ये पुलस्त्यनप्तरि रावणे । माहेश्वर इति । दशग्रीवो रावणो माहेश्वरों महेश्वरभक्तो यतोऽतो न धनुरारोपयिष्यतीति भावः । ननु नारोपयतु नाम तकि न सन्त्येवान्ये राजान इत्यत आह-क्षुद्राश्चेति । अथ बलशून्या अपि त एव वरणीयाः, न तु रावण इत्यत आह-पिनाकस्य शिवधनुष आरोपणं शुल्क १. 'कर्मेदमीदृशमनार्य-'. २. 'जाति-'. ३. सामर्षमाकाशे कर्ण दरखा सहा- सम्'. ४. 'सरोषावहित्थम्. ५. किमनेन'. ६. 'कारिका कारिकामध्या-'.७. ते रावणोऽपि परममाहेश्वर'.
FFERE काव्यमाला। शंभोराधारमचलमुत्क्षप्तुं भुजकौतुकी । माहेश्वरो धनुः ऋष्टुमहो ते दशकंधरः ॥ ५० ॥ (शौष्कलवर्जमन्ये सयन्ते।) शतानन्दः-(सरोषावहित्थम् ।) रोमभद्र, तदेतदारोपय चापमीशप्रकोष्ठभस्मप्रतिरूषितज्यम् । शौर्योष्मभाजां भजतां मुखानि खबाहुमौर्वीकिणकालिकैव ५१ शौष्कल:-(सक्रोधम् ।) अरे रे, शतानन्द, किमुद्धान्तोऽसि । यदेवमस्मदने पौलस्त्यं महाराजमधिक्षिपसि । कथमयं ते माणिक्य- रिहाणेन गैरिकपरिग्रहः । यदेवं देशग्रीवमवमन्यमानस्य मनुष्यपोतेs. । Rice पणः । तथा च न तदारोपणयोग्या इति भावः । हा कष्टम् । हे सीते, त्वं किं भविष्यसि । किं वस्तु त्वं भविष्यसीत्यर्थः । यद्वा किंभविष्यसि कुत्सिता भवि- ध्यसि । कुत्सितप्रदानादिति भावः । यद्वाविवाहितैव भविष्यसि । 'किं भविष्यति' इति पाठे सीते किं भविता । तवेति शेषः । विनयाधिकारिक विनयाधिकारिकसं- ज्ञमधिकरणं चाणक्ये। तत्र विनय उपदिश्यते । विनयाधिकारयोगात्तत्त्वम् । 'अत इनिठनौ' । ऋष्टुमाकर्षितुम् । स्मयन्ते ईषद्धसन्ति । शौष्कलक्रोधादाह- तदेतदिति । तस्माद्धेतोरेतच्चापं धनुरारोपयेति योज्यम् । कीदृशम् । ईशस्य शिवस्य प्रकोष्ठभस्मना प्रतिरूषितज्यं मृदितगुणम् । कफोरधो मणिबन्धान्तं यावत्प्रकोष्ठः । ‘स्यात्कफोणिस्तु कूर्परः । तस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः ॥' इत्यमरः । तेन हरचापारोपणेन खबाहौ या मौर्वी किणकालिका प्रत्यश्चिकामृतमांसश्यामिका सैव शौर्योध्मभाजां नृपतीनां मुखानि कर्मभूतानि भजताम् । अन्यवीरमुखे श्यामिका भवत्विति भावः । ऊष्मा गर्वः । उद्घान्तो दिमोहग्रस्तः । माणिक्यपरिहाणेन रत्नविशेषल्यागेन । 'ओहाक त्यागे । 'ओदि- तश्च' इति निष्ठातकारस्य नत्वम् । गैरिकं मनःशिलादि । पोतो बालकः । डुलिः -- - १. 'इतरे'. २. 'रामभद्र रामभद्र'. ३. 'ऐश-भूषितज्यम्. ४. परिहारेणा' ५. 'दशाननमवमत्य', 'दशग्रीवमप्यवमन्यमानस्य ते.
३ अङ्कः] अनर्घराघवम् । नुरागः । यदि वा तत्रभवन्तं गौतममपहाय डुलिचक्षुषि सहस्राक्षे भवतो मातुरहल्यायाः । शतानन्दः-(सरोषहासम् ।) किमात्थ रे, किमात्थ असदप्र इति । विश्वामित्र:-(संप्रणयरोषमिव ।) वत्स गौतम, विरम विरम शु- प्ककलहात् । अतिथिरयमस्माकमुपाध्यायो दशकण्ठस्य । (व्यथमानौ रामलक्ष्मणौ च दृष्ट्वा विहस्य ।) वत्स रामभद्र, धनुर्गृहोपसर्पणमभ्यनुजा- नाति ते जनकान्वयपुरोधाः। राम:-यदादिशन्ति गुरवः । (इति सविनयलज्जाकौतुकं परिक्रम्य लक्ष्मणेन सह निष्क्रान्तः ।) शौष्कल:-राजर्षे सीरध्वज, धन्योऽसि । पुरा किल परमेश्वर- परिचर्यावदाने निकृतेषु नवमूर्धसु वरं ताहकर्माद्भुतसदृशमप्रेक्ष्य किमपि प्ररोहद्वैलक्ष्यं पुरविजयिनो येन दहशे। तदुन्माष्टुं येन त्रिभुवनमपि प्रार्थितमिदं तदेव त्वय्यर्थीभवति दशमं रावणमुखम् ॥ ५२ ॥ कच्छपी। 'कछवी' इति ख्याता । डुलिरिव चक्षुषि यस्य तस्मिन्सहस्राक्षे इन्द्रे तस्य हि चक्षुः पिङ्गलं किल । तथा च श्रुतिः-अक्षीणि ते इन्द्र, पिङ्गलानि' इति । 'कमठी डुलिः' इत्यमरः । अहल्याया अनुराग इत्यनुषज्यते । अन्वयो वंशः । सविनयमिति कौशिकादेशश्रवणात् । सलजमिति सीताविवाहस्मरणात् । सकौतुकमिति धनुग्रहण इति भावः । धन्यः पुण्यवान् । 'सुकृती पुण्यवान्धन्यः' इत्यमरः । अवदानं शुद्धकर्म । निकृत्तं छिन्नम् । वरमित्यादि । तदेव दशमं रावणमुखं त्वयि त्वद्विषयेऽर्थीभवति प्रार्थकं भवति । अभूततद्भावादिना चिः । 'अस्य च्चा' इतीत्वम् । दशममित्युपचारात् । नवानामभावात् । तत्कतरदित्साह -येन मुखेन तादृकर्माद्भुतसदृशं मस्तककर्तनोचितं वरं किमपि किंचिदप्यप्रेक्ष्य १. “यदिव', 'अथवा'.२. 'तव'. ३. भातुरपि कथमहल्यायाः ४. 'सरोषाहं. कारम्'. ५. 'सप्रणयमिव'. ६. 'दशकंधरस्य'. ७. 'धनुग्रहोप-'. - ।
शतानन्दः-(उत्थाय । नेपथ्यावलोकितकेन सहर्षाद्भुतम् ।) १७० काव्यमाला। पश्यन्तु भवन्तः। यस्मिन्नेकधनुष्मतो भगवतः खट्वाङ्गपाणेरसा- वाकृष्टो गुणतां गतोऽप्यहिपतिः कर्णावतंसायते । उन्मुक्तः पुनरेव भूषणपदं याति प्रकोष्ठान्तरे (जनक औत्सुक्यं नाटयति।) शतानन्द: काकुत्स्थेन तदेव भार्गवगुरोः कोदण्डमाकृष्यते ॥ ५३ ॥ (नेपथ्ये।) RAINER EHIMACHAR रुन्धनष्ट विधेः श्रुतीर्मुखरयत्नष्टौ दिशः क्रोडय- न्मूतीरष्ट महेश्वरस्य दलयन्नष्टौ कुलक्ष्माभृतः । प्ररोहदुत्पद्यमानं वैलक्ष्यं पुरविजयिनो महादेवस्य ददृशे दृष्टम् । कर्मणि लिद । ततस्तद्वैलक्ष्यमुन्माष्टुं स्फोटयितुं त्रिभुवनमपीदं प्रार्थितम् । तथा च ताहगर्थी भाग्येन लभ्यत इति भावः। 'रावणशिरः' इति क्वचित्पाठः । 'रावणमुखम्' इति युक्तः पाठः । प्रार्थनाया मुखसाध्यत्वात् । यस्मिन्निति । यस्मिन्धनुषि गुणतां गतोऽहिपतिर्वासुकिराकृष्टः सन्खटाङ्गपाणेर्महेशस्य कर्णावतंसायते कर्णालं- कारवदाचरति । उन्मुक्तस्त्यक्तः सन्प्रकोष्ठान्तरे, अर्थात्खटाङ्गपाणेरेव, पुनरेव भूषणपदमलंकारस्थानं याति गच्छति । करस्योपरि मणिबन्धादारभ्य कफोणेरधः प्रकोष्ठः । तदेव कोदण्डं धनुर्भार्गवगुरोः परशुरामगुरोर्हरस्य काकुत्स्थेन रामेणा- कृष्यत इति संबन्धः । नेपथ्ये लक्ष्मणवचनम्-रुन्धन्निति । अयमार्यस्य रामस्य दोर्बलेन भुजबलेन दलव्यद्यत्कोदण्डं धनुस्तस्य कोलाहलः शब्द उन्मी- लति प्रसरति । किं कुर्वन् । विधेब्रह्मणोऽष्ट श्रुतीः कर्णान्रुन्धनवरोधयन् । चतु- मुखत्वादष्टश्रुतित्वम् । अष्टौ दिशः प्राच्याद्या मुखरयन्सशब्दाः कुर्वन् । शिव- स्याष्ट मूर्तीरिवह्नयादीः क्रोडयन्व्याप्नुवन् । धातोरनेकार्थत्वात् । 'वारि वहिधरा १. 'नेपथ्याभिमुखमवलोकयन्'. २. 'पश्यन्तु पश्यन्तु'. ३. 'उन्मुक्तश्च पुरेव'. ।
waHAPA ३ अङ्कः] अनर्घराघवम् । तान्यक्ष्णा बधिराणि पन्नगकुलान्यष्टौ च संपादय- त्रुन्मीलत्ययमार्यदोर्बलदलत्कोदण्डकोलाहलः ॥ ५४ ॥ जनक:-(सहर्षविषादाद्भुतम् ।) कथं भन्नमपि । शतानन्द वैदेहीकरबन्धमङ्गलयजुःसूक्तं द्विजानां मुखे नारीणां च कपोलकैन्दलतले श्रेयानुलूलध्वनिः । पेष्टुं च द्विषतामुपश्रुतिशतं मध्येनभो जृम्भते रामक्षुण्णमहोक्षलाञ्छनधनुर्दम्भोलिजन्मा रवः ॥ ५५ ॥ शौष्कल:-(संविषादाडुतमात्मगतम् ।) अहो दुरात्मनः क्षत्रिय- स्फुलिङ्गस्य सर्वकर्मीणमूष्मायितम् । वायुराकाशं चन्द्रमा अपि । यजमानो रविश्चेति मूर्तयोऽष्टौ मता हेरेः ॥' इति पुराणम् । अष्टौ कुलक्ष्माभृतः कुलपर्वतान्दलयन्खण्डयन् । तानि प्रसिद्धान्यष्टौं पन्नगकुलानि चाक्षणा चक्षुषा बधिराणि शब्दाग्राहकाणि संपादयन्कुर्वन् । तेषां चक्षुःश्रवस्त्वात् । अक्ष्णेति येनाङ्गविकारः' इति तृतीया। कथं भन्नमपीत्याकर्ष. णापेक्षयापिः । वैदेहीति । रामेण क्षुग्णो भन्नो यो महोक्षलाञ्छनस्य महेशस्य धनुर्दम्भोलिर्धनुरेव वज्रं तज्जन्मा रवः शब्दो द्विषतां शत्रूणां पेष्टुं शत्रून्हन्तुं मध्येनभो गगनस्य मध्ये जृम्भते । प्रसरतीत्यर्थः। उपश्रुतिशतं कर्णशतसमीपे । सामीप्येऽव्ययीभावः । धनुर्भङ्गादेव द्विजानां ब्राह्मणानां मुखे वैदेयाः सीताया, करबन्धे विवाहे मङ्गलार्थ यजुर्वेदस्थं सूक्तम् । यद्वा मङ्गलनामकं यजुःसूक्तम् । जृम्भत इति सर्वत्रान्वयः । नारीणां स्त्रीणां च कपोलकन्दलतले श्रेयानुलूलुध्वनिः । 'उलउली' इति प्रसिद्धः । जृम्भत इत्यन्वयः । दक्षिणदेशे विवाहाद्यवसरे स्त्रीभि- रुलूलुध्वनिः क्रियत इत्याचारः । यद्वा द्वयमपि रवविशेषणमेव रूपकम् ॥ द्विष- तामित्यत्र 'जासिनिग्रहण-' इति कर्मणि षष्टी । मध्येनभ इति 'पारे मध्ये षष्ठया वा' इति समासः । सर्वकर्मांणं सर्वकर्मसाधु । ऊष्मायितं तेजःशालित्वम् । 'बाष्पोष्म- १. 'ललत'. २. 'सहर्षाद्भुतम्'. ३. 'कन्दर-'. ४. 'सविषादमात्मगतम्', ५. अत्र 'विमो' इति पाठः सुवचः । शन्भोरष्टमूर्तित्वाद. ।
काव्यमाला। जनकः-(सहर्ष पादयोर्निपत्य ।) भगवन्डॅशिकनन्दन, इयमात्मगुणेनैव क्रीता रामेण मैथिली । खगृहव्यवहारस्तु लक्ष्मणायोर्मिलास्तु नः ॥५६॥ विश्वामित्र:-(सस्मितम् ।) सखे सीरध्वज, यदभिरुचितं भवते। शतानन्दः--(जैनककर्णे एवमेवं कथयित्वा ।) भगवन्विश्वामित्र, ममापि चन्द्रशेखरशासनारोपणप्रथमप्रियवादिनः पारितोषकं धार- यसि। । विश्वामित्र:-(विहस्य ।) वत्स, दीयते । किमभिप्रैषि । शतानन्दः--कुशध्वजदुहितृभ्यां माण्डवीश्रुतकीर्तिभ्यां भरतश- बुन्नावभ्यर्थये। विश्वामित्र:-एवमस्तु । (शतानन्दं हस्ते गृहीत्वा सस्मितम् ।) वत्स, सर्वमसाभिर्विधातव्यम् । आगमयख तावद्दशरथम् । जनकः-तर्हि प्रहीयतामेष एव भगवानाजिरसः प्रियसुहृदमुत्त- रकोसलेश्वरमानेतुम् । विश्वामित्र:-एवमस्तु । शतानन्द:-(उत्थाय ।) भगवन् , किमन्यदधिकमस्ति वाचिकम् । भ्यामुमने इति क्यङ् । स्वग्रहस्य गृहस्थस्य व्यवहारः कन्यादानरूपः नोऽस्मा- कम् । भवत इति 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानता। कर्णे एवमेवेति । कुश- ध्वजदुहितरावपि भरतशत्रुघ्नाभ्यां दीयतामिति रहः कथनीयम् । पारितोषकं परितो- षभवं दानम् । अध्यात्मादित्वाट्टक् । ममेति 'धारेरुत्तमर्णः' इति संप्रदानता न भवति । उत्तमर्णत्वाभावात् । अभिप्रेषि प्रार्थयसे । माण्डवीश्रुतकीर्तिभ्यामिति तादर्थं चतुर्थी । अभ्यर्थये । वरत्वेनेति शेषः । आगमयख प्रतीक्षख १. कौशिकवंशवर्धन'. २. 'जनकस्य कर्णे एवमेवमिति'. ३. 'एवमस्तु' इति पुस्तकान्तरे नास्ति, ४. 'एन' इति पुस्तकान्तरे नास्ति. ५. 'उत्थाय' इति पुस्त- कान्तरे नास्ति.
ealnamATARAMES ३ अङ्कः] अनर्घराघवम् । विश्वामित्र:-वत्स, निसृष्टार्थोऽसि । गम्यताम् । (इति शतानन्दो निष्क्रान्तः।) विश्वमित्र: -(हर्ष नाटयन्नात्मगतम् ।) दोलीलादलितेन्दुशेखरधनुर्विख्यातविक्रान्तिना काकुत्स्थेन कृतो विदेहनृपतिः पूर्णप्रतिज्ञामरः । पश्यामश्च सुहृद्गृहान्नवनवोन्मीलद्विवाहोत्सवा- नैक्ष्वाकेषु च मैथिलेषु च फलन्त्यस्माकमद्याशिषः ॥ ५७ ॥ शौष्कला-(वैलक्ष्यरोषाभ्यां स्मयमानः ।) भोः सीरध्वज, पुरुषप्र- 'आगमेः क्षमायाम्' इति तक् । उत्तरकोसलायोध्या तस्या ईश्वरो दशरथः । वा- चिकं संदेशवाक् । 'संदेशवाग्वाचिकं स्यात्' इत्यमरः । निसृष्टार्थ ऊहापोहसमर्थों दूतविशेषः । तदुक्तम्---'उभयोर्भावमाश्रित्य परापेक्षाविवर्जितम् । खबुद्ध्या कु- रुते कार्य निसृष्टार्थः प्रकीर्तितः ॥ इति ।दोीलेति । काकुत्स्थेन रामेण विदेह- नृपतिर्जनकः पूर्णः प्रतिज्ञाभरो यस्य तादृशः कृतः । महादेवकार्मुकाकर्षणादिति भावः । नवनवेति वीप्सायां द्विवचनम् । यद्वा नवेन नूतनेन नवेन तवेनो- न्मीलन्प्रकाशवान्विवाहोत्सवो येषु तान् । 'गु स्तुतौ' । 'ऋदोरप्' इति कर्मण्यम्। ऐड्वाकेष्विति यदा जनपदनाम तदा 'जनपदशब्दात्क्षत्रियादम्' इत्यञ् । 'यत्र- जोश्च' इति बहुषु स्त्रियां लुक् । एवं चेक्ष्वाकूणामपत्यानीक्ष्वाकवः । यदा विक्ष्वाकुः क्षत्रियमात्रे वर्तते तदेवाकोरपत्यान्यैश्वाकाः । 'तस्यापत्यम्' इत्यौ- त्सर्गिकोऽण् । 'दाण्डिनायन-' इत्यादिनोकारलोपः। वैलक्ष्यरोषाभ्यासिति । इन्दुशेखरधनुर्भश्रवणात्सीताया अप्राप्तिनिर्णयाचेति भावः । रामभद्रजामात- करणे जनकस्याज्ञत्वमुपपादयति-पुरुषेति । पुरुषप्रकर्षाधाने पुरुषस्योत्कर्षा- रोपणे । हिशब्दोऽवधारणे । “हि हेताववधारणे' इत्यमरः। विद्या शास्त्रादिज्ञान तया वृद्धः पण्डितः । 'वुधवृद्धौ पण्डितेऽपि' इत्यमरः । यद्वा विद्यया ज्ञानेन वृद्धः प्रामाणिकः । तस्य संयोगः संबन्धः । तस्माद्वयांसि वार्धकानि बहिरङ्गा- न्यवलानि । एतदुक्तं भवति--विद्यावृद्धसंबन्धः पुरुषोत्कर्षेऽन्तरको हेतुर्वयो - काव्यमाला। कर्षाधाने हि विद्यावृद्धसंयोगादहिरङ्गानि वयांसि । यदनया नहीण- लब्धकन्यया यौनसंबन्धोपस्थितं पुलस्त्यकुलमुपेक्षमाणो वर्षीयानपि कोमलप्रैज्ञोऽसि । (मुनिं प्रति ।) कौशिक, नाद्यापि किंचिदतिक्रामति । तवापि लङ्कापतौ ताडकावधापराधमपमाष्टुंमयमेवावसरः । (कौशिकस्त नावशां नाटयति ।) जनक:-भगवन् , एहि । स्वयमुपेत्य रामभद्रवदनचन्द्रचन्द्रि- काप्रवाहेण निर्वापयामि तावदलीकधनुर्धरसहस्रप्राच॑मानमैथिली कद- र्थितमात्मानम् । नहि मिहिरमरीचिनिचयपचेलिमस्य तुहिनकरबिम्ब- 'संवादादपरोऽपि कश्चिदगदंकारः कैरवाकरस्य । १२ बहिरङ्गमिति भावः । नूनं कुतो वयसो बहिरङ्गत्वमित्यत आह-यदनयेति । यद्यस्मात्यहीणं हलपद्धतिस्तत्र प्राप्तकन्यया सीतया करणभूतया । अयोनिजयेति यावत् । यौनसंबन्धोपस्थितं यौनसंबन्धार्थमुपस्थितं मिलितं पुलस्त्यकुलं राव- णमुपेक्षमाणो वर्षीयानपि वृद्धोऽपि । वृद्धशब्दस्य 'प्रियस्थिर-'इत्यादिना वर्षा- देशः । कोमलप्रज्ञो मृदुबुद्धिरसि । ज्ञानशून्योऽसीत्यर्थः । यद्वा प्रहीणा प्रकर्षण हीना । भूम्यां लब्धत्वेन केन जनितेति ज्ञानाभावात् । यद्वा निन्दिता सामुद्र- कादौ । कृष्णवर्णत्वात् । 'कृष्णवर्णा हि सा सीता' इति रामायणम् । अपमार्ट खण्डयितुं शोधयितुं वा । निर्वापयामि सुखयामि । अलीकं मिथ्या निष्फलं वा । कदर्थितं सतापितम् । दृष्टान्तमाह-नहीति । मिहिरः सूर्यः । निचयः समूहः । परिचयः । संबन्धः । पचेलिमस्य पच्यमानस्य । खयं कथ्यमानस्येति यावत् । 'केलिमर उपसंख्यानम्' इति कर्मकर्तरि केलिमर । अगदंकारः संकोचरूप- .. १. 'वृद्धस्व-'.२. "यौवन-'. ३. प्रतिज्ञोऽसि', ४. 'राजर्षे कौशिक ऋषे कौशिक ५. 'वधमपि.माटुंम्'. ६. 'जनकः-(तत्रावशां नाटयन् ।) भगवन्, पहि'. ७. 'वयमुपेत्य' इति पुस्तकान्तरे नास्ति. ८. रामचन्द्रमुखचन्द्रचन्द्रिकाप्रवाहै: रामभद्र--प्रवाहे'. ९. 'निर्वापयामः'. १०. सहस्रार्थ्य-'. ११. परिचय-'. १२ , हिमकर-१३. 'अपि' इति पुस्तकान्तरे नास्ति. १४. कैरवकेदारस'.
३ अङ्कः] अनर्घराघवम् । - (इत्युत्थाय परिक्रामतः ।) शौष्कल:-(सखेदमाकाशे ।) हा तपखिनि सीते, हतासि । पौल- स्त्यप्रार्थितापि विचार्यसे। त्रिभुवनविजयश्रियः सपत्नी जनयतु को भवतीमनात्मतन्त्राम् । खजनमपि न ते निरूपयामः किमपि विपाव्य भुवं विनिर्गतासि ॥५८॥ (सरोष जनकं प्रति ।) सीरध्वज, पौराणीभिरनेकविक्रमकथागाथामिरर्थापिता- स्ते वीरस्य जयन्ति राक्षसपतेर्दोःस्तम्भदम्भोलयः यानुत्प्रेक्ष्य विशोषयन्मदमयं मैरेयमैरावणो भूषास्रग्भिरभूदमात्यमधुपश्रेणीषु साधारणः ॥ ५९ ॥ ज्याधेरपहर्ता । 'कारे सत्यागदस्य' इति मुम् । कैरवाकरस्य कुमुदसमूहस्य । 'आकरो निवहोत्पत्तिस्थानकोशेषु कथ्यते' इति मेदिनीकरः । हे तपखिन्य- नुकम्प्ये। वराकीति यावत् । अनात्मतन्त्रां पराधीनाम् । आद्योऽपिनिन्दा- याम् । निन्दितं स्वजनमित्यर्थः । द्वितीयोऽपिः समुच्चये । विपाट्य विदार्य। नयेन सीताया अप्राप्तिमवधार्य पराक्रमेण रावणः सीतां परिणेष्यतीति जनक- मुत्रासयितुं रावणभुजपराक्रममाह-पौराणीभिरिति । राक्षसपते रावणस्य ते दोःस्तम्भदम्भोलयो बाहुस्तम्भवज्राणि जयन्ति । दोःस्तम्भदम्भोलय इति रूपकरूपकम् । कीदृशाः । पौराणीभिः पुराणभवाभिरनेकपराक्रमकथागाथा- भिरापिता अभिधेयीकृताः । व्याख्याता इत्यर्थः । 'तत्करोति- इति णिच् । 'अर्थवेदसत्यानामापुक्' । के ते। ऐरावण इन्द्रहस्ती यान्बाहूनुत्प्रेक्ष्य दृष्ट्वा मदो हर्षस्तस्मादागतम् । “हेतुमनुष्येभ्यो मयद' इति मयद । यद्वा मदमयं मत्ततामयम् । मैरेयं मयं विशोषयन्सन् । यद्वायमैरावणो मदं दानं मैरेयं मद्यजातम् । कारणे कार्योपचारात् । विशोषयंत्रासात् । भूषास्रग्भिरलंकर- णमालाभिरमात्यमधुपश्रेणीषु सहचरभ्रमरपतिषु साधारणो हेयोऽन्यहस्तितुल्यो वाभूत् । अमात्यः सहचरः सहजो वा। श्रेणीष्विति निमित्तसप्तमी। 'साधा- रणो हेयतुल्ययोः' इति विश्वः । 'मदो दाने च हर्षे च' इत्यमरः । 'भैरे- काव्यमाला। तेषु च सत्सु वृथा सज्जनसंबन्धसत्कारेणासि वञ्चितः। पौलस्त्यहस्तवर्तिन्या सीतया तु भविष्यते ॥ ६० ॥ (साक्षेपं चैं नेपथ्याभिमुखमवलोक्य ।) समन्तादुत्तालैः सुरसहचरीचामरमरु- त्तरङ्गैरुत्कीलद्भुजपरिघसौरभ्यशुचिना । स्वयं पौलस्त्येन त्रिभुवनभुजा चेतसि कृता- मरे राम त्वं मा जनकपतिपुत्रीमुपयथाः ॥ ६१ ।। (सविमर्शमात्मगतम् ।) अहो गम्भीरमिदमुपस्थितं वस्तु । तन्मत्रिणं मा- त्यवन्तमेव पुरस्कृत्य लङ्केश्वरस्य निवेदयामि । (इति निष्क्रान्ताः सर्वे ।) इति पिनाकमको नाम तृतीयोऽङ्कः । यमासवः सीधुः' इति च । वृथेति । वञ्चितस्त्यक्तः । भविष्यते इति भावे लट् । तथा च सांप्रतमपि रावणायैव सीतां दातुमर्हसीति भावः। संप्रति राम- मप्युत्रासयति-समन्तादिति । उत्तालैः । अनभ्यासादिति भावः । सुरसह- चरी देवस्त्री । मरुत्तरङ्गैर्वायुकल्लोलैः । करणभूतैः। परिघोऽर्गलः । 'परिघोऽर्ग- लघातयोः' इति धरणिः । सौरभ्यं ख्यातिः । शुचिना शुद्धेन । त्रिभुवनभुजा त्रिभुवनं भुनक्ति । 'विप्च' इति क्विम् । अरे नीचसंबोधने । जनकपतिपुत्री सी. ताम् । मा उपयथा न विवाहयिष्यसि । 'यम उपयमे लुङ् । 'उपाद्यमः स्खकरणे" इति तङ् । थासः 'विभाषोपयमने' इति कित्त्वम् । इदं वस्तु हरधनुर्भङ्गरूपम् । सीतापरिणयखरूपं चेत्यर्थः । माल्यवान्रावणस्य मातामहः । पुरस्कृत्य सत्कृत्य । 'पुरोऽव्ययम्' इति गतिसंज्ञा 'नमस्पुरसोर्गयोः' इति विसर्जनीयस्य सत्वम् ॥ इति समस्तप्रक्रियाविराजमानरिपुराजकंसनारायणभवभक्तिपरायणश्रीहरिनारायण- पदसमलंकृतमहाराजाधिराजश्रीमद्भरवसिंहदेवप्रोत्साहितवैजौवीग्रामवा- स्तव्यखौआलवंशप्रभवत्रीरुचिपतिमहोपाध्यायविरचिताया- मनर्घराघवटीकायां तृतीयोऽङ्कः । १. 'च' इति पुस्तकान्तरे नास्ति. २. 'वशवर्तिन्या'. ३. 'च' इति पुस्तकान्तरे नास्तिः ४. सविस्मयमात्ममतम्'. ५. 'इदम्' इति पुस्तकान्तरे नास्ति. ।
४ अङ्कः] अनर्धराघवम् । १७७ चतुर्थोऽङ्कः। (ततः प्रविशति माल्यवान् ।) माल्यवान्-(जृम्भमाणश्चक्षुषी परिसृज्य !) अये, विमातैव विभा- वरी । तथाहि । स्तोकोन्निद्रनिदाघदीधितिमहस्तन्द्रालुचन्द्रातपा- स्तायन्ते ककुभो रथाङ्गगृहिणीगार्हस्थ्यगर्दाभिदः अद्यापि खकुलायशाखिशिरसि स्थित्वा रुवन्तो मुहु- स्तूष्णीं प्रत्यभिजानते बलिभुजो भीताः खयूथ्यखरान् ॥१॥ तृतीयाङ्कन सीतायाः परिणयनं प्रतिपाद्य सांप्रतं पञ्चमाङ्कप्रतिपन्नमर्थ सूचयन्नेव 'अण्ण वि एत्थ अणत्यंतरं परापडिदं' इत्यादि वक्ष्यमाणेन चतुर्थाङ्कपर्यवसन्नं जामद- भ्यविजयं सूचयितुम् 'तन्मन्त्रिणं माल्यवन्तं पुरस्कृत्य लङ्केश्वरस्य निवेदयामि' इत्यनेन सूचितप्रवेशस्य माल्यवतः प्रवेशमाह-ततः प्रविशतीति [ जृम्भ- माणः 'जांभी' इति प्रसिद्धों कुर्वन् । विभाता प्रातःकालीना। विभावरी रात्रिः । शौष्कलमुखावगतसीतापाणिग्रहणं रावणाय निवेदयितुं राजकुलगमनस्यानुकूलि- कत्वेन प्रातर्वर्णनमाह-स्तोकोनिद्रेति । ककुभो दिशस्तायन्ते स्फीता भवन्ति । 'ताय संताने' धातुः । कीदृशाः । स्तोकोनिद्रमल्पप्रकाशि यन्निदाघदीधितिमहः सूर्यतेजस्तेन तन्द्रालवो निद्रालसाश्चन्द्रातपाश्चन्द्रकिरणा यासु ताः । 'स्पृहिय- हिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्' । 'आतपो रश्मिमात्रे च सूर्यरश्मौ च दृश्यते' इति धरणिः । रथाङ्गगृहिण्याश्चक्रवाक्या गार्हस्थ्ये या गर्दा निन्दा तस्या भेदिकाः । रात्रावेकत्र स्थितयोरपि संगमाभावादनित्योऽयं संसारस्त्याज्यः । कृतं गार्हस्थ्येनेत्यादिरूपा या मतिरुदेति तामेव पुनरुदिते सूर्ये तयोरेवान्योन्य- संगतयोविपरीततां दिशो नयन्तीति भावः । ननु विभातैव विभावरीति कुतो ज्ञातमित्यत आह-अद्यापि । सूर्योदयं यावदपीत्यर्थः । बलिभुजः काका भीताः सन्तः तूष्णीं मूकीभूय स्खयूथ्यखरान् यूथ्यो यूथसंबन्धी । “दिगादिभ्यो यत्' । प्रत्यभिजानते सम्यकप्रकारेण जानन्ति । खीयः कुलायः पक्षिगृहं यत्र १. 'विजृम्भ-प्रभृज्य'. २. 'विभातप्रायैव विभावरीयम्', ३. 'स्त्यायन्ते'. ४. 'शिखरे १२ अ०रा० १७८ काव्यमाला। अपि च। प्राची वासकसज्जिकामुपगते भानौ दिशां वल्लभे पश्यैता रुचयः पतङ्गदृषदामाग्नेयनाडिंधमाः लोकस्य क्षणदानिरङ्कुशरसौ संभोगनिद्रागमौ कोकस्तोमकुमुद्वतीविपिनयोनिक्षेपमातन्वते ॥२॥ (सर्वतो निरूप्य ।) हन्त समन्तादामोदमानपौरसंभोगमयी खल्वियं दश- ग्रीभुजार्गलापरिपालिता राजधानी । शाखिनि स खकुलायशाखी तस्य शिरसि स्थित्वा रुवन्तः शब्दं कुर्वन्तः। प्रत्यभिजानत इत्यत्र 'अनुपसर्गाज्ज्ञः' इति न तङ् । अस्य सोपसर्गत्वात् । नापि 'संप्रतिभ्यामनाध्याने' इति तङ् । अभिना प्रतेर्व्यवधानात् । मैवम् । प्रतिना धातोर्योगं कृत्वा 'संप्रतिभ्यामनाध्याने' इति तडं विधाय पश्चादभिना संबन्धः । स्वतन्त्रेच्छाया नियन्तुमशक्यत्वात् । विवक्षायाश्च प्रयोगेऽभ्यर्हित- त्वात् । यद्वा प्रत्यभिजानते मिथः पूर्वानुभूतान्स्मरन्ति । कर्मव्यतिहारे तङ् । 'दिशस्तु ककुभः काष्ठाः' इत्यमरः । 'कुलायो नीडमस्त्रियाम्' इति च । 'काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः' इत्यपि । ननु काकशब्दस्य व्यभिचारित्वात्कथं प्रातनिर्णय इत्यत आह-प्राचीमिति । पश्येत्यस्य वाक्यार्थ एव कर्म । एता रुचयो लोकस्य संभोगनिद्रागमौ रमणखापौ कर्मभूतौ कोकस्तोमे चक्रवाकसमूहे कुमुदतीविपिने कुमुदिनीवने च निक्षेपं न्यासं 'स्थगी' इति प्रसिद्धमातन्वते विस्तारयन्ति । कीदृशौ । क्षणदायां रात्रौ निरङ्कुशोऽनिवारितो रसो ययोस्ता- दृशौ । रात्री संभोगनिद्रयोरन्यकार्याभावाद्रसनिष्पत्तिरिति । चक्रद्वन्द्वे रतिः, कुमुदिनीवने संकोचो निक्षेप इति भावः । क सति । दिशां वल्लमे भानौ सूर्ये प्राची पूर्वी दिशमुपगते सति । कीदृशीम् । वासकसज्जिकां नायिकामेदमिति रूपकम् । वासकसज्जिकालक्षणम्-'वासवेश्मनि सुकल्पितशय्या या समागमविधि विदधाना । तिष्ठति प्रियसमागमसजा तामिहाकलय वासकसज्जाम् ॥ इति 'वासवदीक्षिताम्' इति पाठे वासवेनेन्द्रेण चिह्नभूतेन दीक्षितां कथिताम् । ऐन्द्रीति । १. 'कोकद्वन्द-. २. 'निरूप्य सहर्षम्'. ३. 'मोदमान'. ४. 'भुजार्गलपालिता'.
अनर्धराववन् । इतः पौरस्त्यायां ककुमि विवृणोति क्रमदल- तमिसामर्माणं किरणकलिकामम्बरमणिः । इतो निष्कामन्ती नवरतिगुरोः प्रोञ्छति वचूः खकस्तूरीपत्राङ्कुरमकरिकामुद्रितमुरः ॥ अपि च। । अयं सूदुमृणालिनीबनविलासबैहासिक- स्त्विषां वितपते पतिः सपदि दृश्यमाना निजाः । व्यपदेशात् । यद्वा दीक्षितां स्वीकृताम् । 'दीक्षा स्वीकार आदेशे' इति विश्वः । कीदृश्यो रुचयः । पतङ्गदृषदां सूर्यकान्तमणीनामानेयनाडिंधमा आमेयनाडी- मापिकाः । अग्नेरियमाग्नेयी । 'सर्वत्राग्निकलिभ्यां ढक' । आग्नेयनाडीतोऽग्नि- रुत्तिष्ठति । आग्नेयनाडी धमन्त्यग्निसंयुक्तां कुर्वन्ति । 'नाडीमुष्टयोश्च' इति खश् । 'पतङ्गः सूर्ये शलभे' इति विश्वः । 'कोकश्चक्रश्चक्रवाक-' इत्यमरः । 'कुमुद्वती कुमुदिन्याम्' इति च । हन्त हर्षे । आमोदमानो हृष्यन् । पौरः पुरवासी। संभोगः सुखम् । खलु निश्चये । राजधानी नगरी। इति इत्यादि । इतोऽत्र प्रदेशे । आद्यादित्वात्तसिः। पौरस्त्यायां पूर्वसंबद्धायाम् । ककुभि दिशि । पुर- सस्त्यक् । अम्बरमणिः सूर्यः । किरण एवं कलिका तो विवृणोति प्रकाशयति । मम हृदयादि । इत इहप्रदेशे । काचिद्वधू वरती गुरोरध्यापकस्य । अभिनव- नायकस्येत्यर्थः । उरो हृदयं प्रोञ्छति । निष्कामन्ती सती । कीदृशम् । निजक- स्तूरीपत्रावलीमकरिकया मुद्रितं चिह्नितम् । अयमाशयः-नवजारस्य वक्षसि कस्तूरिकापत्रावलीदर्शनेनान्यज्ञानं स्यात् । तथा च वलभस्य पुनरागमनं न भवे- दिति कामिन्या तदुरःप्रोञ्छनम् । यद्वा एतद्दर्शनान्मम ज्ञानं मा भूदिति कृत्वा कामिन्या नवजारवक्षःप्रोञ्छितम् । यद्वा नवरतिगुरोः सकाशानिर्गच्छन्ती खीय- मेवोरस्तादृशं प्रोञ्छति कांचित् । सो हि कुलस्त्री नूतनाभिसारिका । ततो गोपनार्थमिदम् । यद्वा नवरतिगुरोर्नवखामिनो वधूर्नवोढा उरः प्रोञ्छति ताह- शम् । एतद्दर्शनाच्छ्वश्रवादिभितिव्यमिति- लज्जा स्यात् । अयमिति । अयं त्विषां पतिः सूर्यों वितपते । 'उद्विभ्यां तपः' इति तङ् । मृदु कोमलं यन्म- १. 'अपि च इति पुस्तकान्तरे नास्ति.
काव्यमाला। स्तनौ पुलकयन्ति चोत्पलदृशां प्रियोरःस्थले विपर्ययितवृत्तयो घुसुणपक्कपत्राकुराः ॥ ४॥ प्रियवसतेरपयान्त्यो मिथः करम्बितकराम्बुजन्मानः । करजव्रणविरलस्तनपुलकममूः किमपि विवदन्ते ॥ ५॥ (अन्यतश्च दृष्ट्वा ।) इतो रम्यतरं वर्तते । प्रभाते पृच्छन्तीरनुरहसवृत्तं सहचरी- नवोढा न ब्रीडामुकुलितमुखीयं सुखयति । गालीवनं पद्मिनीकाननं तस्य यो विलासस्तस्य वैहासिकः केलिकर्ता । विदूषक इत्यर्थः । विहासो विहसितं तेन दीव्यतीति वैहासिकः । तेन दीव्यति- इति ठक् । 'वैहासिकः केलिकरः प्रहासी च विदूषकः' इति भरतः । यद्वा वैहासिकः प्रकाशकारी । सपदि तत्क्षणादेव निजाः खीया दृश्यमाना घुसृणपङ्कपत्राङ्कुराः कुङ्कुमपङ्कपत्रावल्यः कर्तीभूता उत्पलदृशां स्तनौ कर्मभूतौ पुलकयन्ति रोमा- श्वयन्तिः । प्रियालेषस्मरणादिति भावः । घुसणं कुङ्कुमम् । प्रियोरःस्थले विप- ययिता विपर्ययं वैपरीत्यं प्राप्ता वृत्तिर्येषां ते । पुरुषायिते हि स्त्रिया अधोमुख्याः कान्तसमालिङ्गनाद्वामदक्षिणतनयोवैपरीयेन पत्रावली स्थितेति भावः । विप- ययितेति तारकादित्वादितच् । कुलवधूसंभोगमुक्त्वा वारवनितासंभोगमाह- प्रियेति । वसतेहात् । 'वसतिहयामिन्योः' इति शाश्वतः । अपयान्यो निःस- रन्त्यः । मिथो रहसि परस्परं वा । करम्बितं मिलितमालम्बितं वा । अम्बुजन्म पद्मम् । अमूः स्त्रियः । किमप्य निर्वचनीयस्वरूपम् । करजवणैर्नखक्षतैर्विरला व्याप्ता ये स्तनास्तेषां पुलकं रोमाञ्चं यथा स्यादेवं विवदन्ते विवादं कुर्वन्ति । न मम स्तने नखक्षतं न वा रोमाञ्चस्तत्र, किं त्वागन्तुकोऽयं कोऽपि वेषभेद इति पर- स्परमनयोर्विवाद इति भावः । विवदन्त इति भासन-' इत्यादिना विमतौ करजा नखाः । 'पुनर्भवः कररुहो नखोऽस्त्री' इत्यमरः । सामान्यवनिताना संभोगमुक्त्वा नायिकाविशेषसंभोगमाह-प्रभात इति । अन्यतोऽन्यत्र चेयं काचित्सहचरीः सखीः कर्मभूताः न सुखयति । कीदृशीः । प्रभाते प्रातः- १. इतः' इत्यादि पुस्तकान्तरे नास्ति. ..
४ अङ्कः] अनर्घराघवम् । लिखन्तीनां पत्राङ्कुरमनिशमस्थास्तु कुचयो- श्चमत्कारो गूढं करजपदमासां कथयति ॥ ६ ॥ (मुहूर्तमनुध्याय ।) अहो यतःप्रभृति वैदेहीवरणाय प्रहितेन पुरोधसा कथ्यमानं ककुत्स्थकुलकुमारस्य मानुष्यकातिशयमशृणवम् , ततःप्रमृति कष्टां दशामनुभवामि । तथाहि । तत्तादृशं कथमुदेति मनुष्यलोके तेजोऽद्भुतं निरभिसंधि न तावदेतत् । तान्येव चास्य चरितानि दशाननस्य धिक्चिन्तया रजनिरक्षिषु नः प्रभाति ॥ ७ ॥ । काले, अनु समीपं रहोऽनुरहसम् । 'अन्ववतप्ताद्रहसः' इत्यच् समासान्तः । यता रहोऽनु लक्षीकृत्य । अव्ययीभावः । पूर्ववदच् । तत्र वृत्तं कथां पृच्छन्तीः । कथं रहोवृत्तान्तेन सहचरीन सुखयतीत्यत आह-नवोढा नवविवाहिता यतः, अत एव सखीवचःश्रवणानन्तरं ब्रीडया लजया मुकुलितमुखी नम्रमुखी । तु पुनः, अस्याः कुचयोश्चमत्कारश्चेष्टाविशेष आसां सखीनां कृते गूढं गुप्तमप्रत्यक्ष करजपदं नखस्थानं कथयति । स्वामिनो रहोवृत्तं लज्जया वक्तुमशक्ता वारंवार रहोवृत्तं पृच्छन्त्यः सख्यः कुचयोर्नखवृत्तेनैवमेकान्तकर्तृकानुरागं जानन्त्वित्ला- शयेन चेष्टाविशेषेण तया कथितमिति भावः । कीदृशीनाम् । अनिशं वारंवार पत्राङ्कुरं पत्रावलीलिखन्तीनाम् । प्रभृतिशब्दोऽयमारभ्यार्थोऽव्ययः । यतःप्रमृति । यत आरभ्येत्यर्थः । पुरोधसा शौष्कलेन । मानुष्यकं मनुष्यकर्म । 'योपधाहु- रूपोत्तमादुञ्' । अशृणवं श्रुतवानस्मि । 'श्रु श्रवणे' लडू । मिपोऽम्भावः । दशामवस्थाम् । तत्तादृशमिति । तादृशमनिर्वचनीयम् । अद्भुतमाश्चर्यजन- कम् । तेजो रामरूपम् । एतत्कर्म न निरभिसंधि न निरभिप्रायम् । तावदिति लोकोक्तौ । दशाननस्य तानि चरितानि दुष्टचरितानि धिक् । घिग्योगे द्वितीया। नो ममाक्षिषु दर्शनपथेषु रजनी रात्रिः प्रभाति प्रतिभाति । चिन्तया जागर- णेऽपि चक्षुष्यन्धकार इवेति भावः । न इति 'अस्मदो द्वयोश्च' इत्येकत्वे बहु- १. 'मनुष्याति-'. २. 'प्रयाति. । । । .
१८२ काव्यमाला। - आपिच। श्रुत्वा दुःश्रवमद्भुतं च मिथिलावृत्तान्तमन्तःपत- चिन्तापह्नवसावहित्थवदनत्वग्विप्रकीर्णस्मितः । हेलाकृष्टसुरावरोधरमणीसीमन्तसंतानक- स्रम्वासोज्वलपाणिरप्यवति मां वत्सो न लकेश्वरः ।। ८॥ (विमृश्य । आकाशे ।) अहह, दारुणेयमस्माकं चिरजीविता । प्रीते विधातरि पुरा परिभूय मां- न्वत्रेऽन्यतो यदभयं स भवानहंयुः । वचनम् । श्रुत्वेति । लकेश्वरो रावणो मां नावति न प्रीणाति । कीदृशः दुःश्रवं कर्णकटु । रामकर्तृकसीतापरिणयात् । अद्भुतमाश्चर्यजनकम् । हरधनु- भङ्गात् । एतादृशं मिथिलावृत्तान्तं श्रुत्वा अन्तरभ्यन्तरे पतन्ती या चिन्ता तस्या अपहवेन गोपनेन सावहित्थान्याकारगुप्तिसहितानि यानि वदनानि तेषु दशसु मुखेषु त्वचि त्वचि प्रतित्वम् विकीर्ण दार्शतं स्मितमीषद्धासो येन सः । मुखैकदेशकृताल्पहास इत्यर्थः । हेलया लीलयाकृष्टा या सुरावरोधरमणीनां देवान्तःपुरस्त्रीणां सीमन्तेभ्यः संतानकसग्देववृक्षमाला तस्या वासेन सौरभे- णोज्ज्वलः ख्यातः पाणिर्यस्य स तथा । 'स्रग्दामोज्वल-' इति पाठे सगेकमाला, दाम मालासमूहः इत्यूनयोर्भेदः । यद्वा स्रगेव लग्दाम । यथा सूत्रं सूत्रतन्तु- रिति । सीमन्तः केशरचनाभेदः । 'सिचमि' इति प्रसिद्धः । 'अवाहित्थाकार- गुप्तिः' इत्यमरः । अहह खेदे। दारुणा कठिना। प्रीते विधातरीति । स भवानित्याकाशे । विधातरि शिवे प्रीते सति मान्मनुष्यान्परिभूयाना- दृत्याहयुरहंकारयुक्तः सन्पुरा पूर्व यदन्यतो मान्येभ्योऽभयं वत्रे वृतवां- स्तदतिमात्रमत्यर्थं मां मर्मणि हृदि स्पृशति । मानुषाद्रामाद्रावणस्याहितं भवि- ध्यतीति भावः । रामादहितं निश्चित्याह-हा वत्सेति । हा कष्टम् । हे वत्स, कष्टमित्यर्थः । इह शान्तमिति मङ्गलोक्तिः । रावणस्यापि शौर्यातिशयं स्मृत्वा हृद- यप्रबोधायाह-अथवेति । एककंधरो रामो दशकंधरेण त्वया विनाश्य इति १. 'सुरावरोधनवधू-'; 'सुराधिराजरमणी-'.
HARTNERMATHANI अनर्घराघवम् । १८३ . तन्ममणि स्पृशति मामतिमात्रमद्य हा वत्स शान्तमथवा दशकंघरोऽसि ॥९॥ (सविमर्शम् ।) अहो मैथिलस्य नृपतेरकार्यज्ञता। विश्वामित्रवशीकृते हृदि वयं मा भूम संबन्धिन- स्ते दृष्टा न कथं पुराणमुनयो मान्याः पुलस्त्यादयः । जामातापि महेन्द्रमौलिवलभीपर्यकरत्नाङ्कुर- ज्योत्स्नापुष्टनखेन्दुदीधितिरय नापेक्षितो रावणः ॥१०॥ (पुरोऽवलोक्य ।) कथं मिथिलाचरितानि चरितुमनुप्रहिता चिरयति वैसा शूर्पणखा। (प्रविश्य शूर्पणखा ।) शूर्पणखा-(सहर्षम् ।) अम्महे, सोम्मसुन्दरविआहणेववच्छल- च्छीविच्छरिदकान्तिपब्भाराई रहुउलकुमाराणं मुहपुण्डरीआई पेक्ख- भावः । अहंयुरिति 'अहंशुभमोर्युस्' । अकार्यज्ञत्वे हेतुमाह-विश्वामित्रेति । विश्वामित्रेण वशीकृतेऽनायत्तीकृते हृदि सति वयं संबन्धिनो-मा भूम मा भवि- घ्यामः । ते पुनः पुराणमुनयः पुलस्त्यादयो मान्याः कथं न दृष्टाः । पुलस्त्या- पत्यत्वादपि रावणो वरीतुमर्हतीति भावः । ननु भवन्तु पुलस्त्यादयो मान्या- स्तथापि वरगुणाभावादेव रावणो न वृत इत्यत आह-अयं रावणोऽपि जामाता नापेक्षितः । कीदृशः । महेन्द्रमौलिरेव वलभी प्रासादोपरिगृहं तदेव पर्यङ्कः । 'पालङ्क' इति प्रसिद्धः खट्वाभेदः । तत्रस्थो यो रत्नाङ्कुरस्तस्य ज्योत्नया पुष्टा नखचन्द्रदीधितिर्यस्य । तादृशोऽपीत्यर्थः । चरितुं गन्तुं चरक्रियां विधातुं वा । चिरयति विलम्बते। अम्महे इत्यादि । 'अम्महे, सौम्यसुन्दविवाहनेपथ्य- लक्ष्मीविच्छर्दितकान्तिप्रारभाराणि रघुकुलकुमाराणां मुखपुण्डरीकाणि प्रेक्ष- माणा जुगुप्सितेनापि मायामानुषीभावेन कृतार्थीकृतास्मि । अहो सा तादृशी -गुणानां प्रकृतिर्या विपक्षहस्तपतितापि सुखयति' [इति च्छाया । ] इह अम्महे विस्मये । 'अम्मो अम्महे इति पदं कुर्यात्स्त्रीणां तु विस्मये' इति भरतः । यता १. 'नावेक्षितः'. २. 'वत्सा मे' । ।
काव्यमाला न्ती जुउच्छिदेणावि माआमाणुसीभावेण कदत्थीकिदमि । अम्मो, सा तारिसी गुणाणं पकिदी जा विपक्खहत्थपडिदावि सुहावेदि । माल्यवान्-(दृष्ट्वा सस्नेहम् ।) कथं वत्स, शूर्पणखा। वत्से, अय- महम् । इत इतो भवती। शूर्पणखा-कधं इह जेव्व अदालअसिहरपग्गीवे मादामहो। अहो दुसिलिट्ठता दद्धकज्जाणम् । जं दाणिं पजागरकिलिअन्तलोअणो पढिक्खणजिम्भिआपसारिदमुहकुहरदिट्ठहिअअद्विदकठिणकजभारो अण्णोविअ को वि दीसदि । अहवा सामण्णो वि गुरुओ मन्तिभावो विसेसेण साहसेकरसव्ववसाअस्स चण्डचरिदस्स अह्मसामिणो रावण- । - - अम्ब हे मातः । सौम्या प्रियदर्शना सुन्दरी शोभावती विवाहलक्ष्मीः । यद्वा सोम एव सौम्यः । स्वार्थिकः ध्यञ् । सोमस्य चन्द्रस्येव सुन्दरी विवाहलक्ष्मीः । 'सामसुन्दरी' इति पाठे श्यामसुन्दरी या विवाहलक्ष्मीविवाहाधिष्ठात्री देवता तस्या नेपथ्यं शोभालंकरणं वा । यद्वा श्यामसुन्दरेण रामेण सह विवाहस्तस्य नेपथ्यं प्रसादनं तस्य लक्ष्मीः शोभा । विच्छर्दिता अतिशयिता या कान्तिस्तस्याः प्राग्भारो विस्तारो येषु तानि रघुकुलकुमाराणां चतुर्णा मुखपुण्डरीकाणि प्रेक्षमाणा जुगुप्सितेन निन्दितेनापि मायामानुषीभावेन कपटमानुषीत्वेन कृतार्थीकृतास्मि । अम्मो वितर्के देशीयं पदम् । सा तादृशी गुणानां प्रकृतिः खभावो वा विपक्ष- हस्ते पतितापि सुखयति । इतोऽत्रोपविशामि, अस्मि वा। कधं इह जेब्वे- त्यादि । 'कथमिहैवाट्टालकशिखरप्रग्रीवे मातामहः । अहो दुःश्लिष्टता दग्धकार्या- णाम् । यदिदानी प्रजागरक्लान्तलोचनः प्रतिक्षणजृम्भाप्रसारितमुखकुहरदृष्टह- दयस्थितकठिनकार्यभारोऽन्य इव कोऽपि दृश्यसे । अथवा सामान्योऽपि गुरुको मन्त्रिभावो विशेषेण साहसैकरसव्यवसायस्य चण्डचरितस्यास्माकं खामिनो रावणस्य । जानामि मामेव प्रतिपालयंस्तिष्ठति । यावदेनमुपसर्पामि । आर्य, वन्दे' [ इति च्छाया।] इहाहालकं 'अटारी' इति प्रसिद्धं घनधारणस्थानम् । शिखरमग्रम् । प्रग्गीवं प्राङ्गणम् । मातामहो माल्यवान् । दुःश्लिष्टतां दुःखदताम् । दग्धकार्याणां निन्दितकार्याणाम् । 'दग्धहतकनिन्दितानि कुत्सायाम्' इति अनर्घराघवम् । । स्स । जाणामि मं जेव्व पडिपालअन्तो चिट्टदि । जाब णं उक्सप्पा- मि । (सविषादमुपसृत्य ।) अन्ज, वन्दे । माल्यवान्-वत्से, कल्याणिनी भूयाः । इहाल्यताम् । अपि भरतशत्रुघ्नाभ्यां मिथिलामुपस्थितो दशरथः । शूर्पणखा-(उपविश्य ।) अज, दसरहे आअदे कुमाराणं गोदा- णमङ्गले अ संवुत्ते दाव मए पत्तं मिहिलाणअरम् । माल्यवान् (निःश्वस्य ।) अतिप्रकाशोऽयमों यथा निवृत्तवी- करणा जानकीति। शूर्पणखा-अध इं। माल्यवान् -(विमृश्य ।) अहो दुरात्मनः क्षत्रियब्राह्मणस्य कुशि- कजन्मनो दुर्नाटकम् । यज्ञोपप्लवशान्तये परिणतो राजा सुतं याचित- स्तं चानीय विनीय चायुधविधौ ते जन्निरे राक्षसाः । शाब्दाः । जम्मा 'हांफी' इति प्रसिद्धा । कठिनं दुष्करं गुरु वा । गुरुकोऽसह्यः । व्यवसायो व्यापारः । चण्डं तीक्ष्णम् । रावणस्य । कृते इति शेषः । रावणं लक्षी- कृत्य मत्रिभावोऽतिदुष्कर इत्यर्थः । यावच्छब्दो यस्मादर्थे । यत्तदोनित्याभि- संबन्धात् । यस्मान्मां प्रतिपालयस्तिष्ठति तदेनमुपसर्पामीत्यर्थः । अपिः प्रश्ने । शूर्पणखावाक्ये-'आर्य, दशरथे आगते कुमाराणां गोदानमङ्गले च संवृत्ते तावन्मया प्राप्तं मिथिलानगरम्' [ इति च्छाया । ] इह क्षत्रियाणां गोदानख- रूपमङ्गलपूर्वको विवाहः क्रियत इत्याचारः । अर्थो विषयः । स्वीकरणं विवाहः । 'अथ किम्' खीकारे । दुर्नाटकं दुश्चेष्टा । यज्ञोपप्लवेति । उपप्लवो विनः । सुतं याचित इत्यत्र यद्यपि कर्मणि क्तः, तथाप्यत्राप्रधानकर्मणस्तेनाभिहितत्वा- त्सुतमिति द्वितीया । प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहा- १. 'कल्याणिनि, इहास्यतास्', २. 'सह वैदेहमुपस्थितः 'शत्रुनाभ्यामुपस्थितः'. ३. 'प्रतिपदप्रकाश । - काव्यमाला। । त्रैयक्षं विदलय्य कार्मुकमथ खीकार्य सीतामितो नो विद्मः कुहनाविटेन बटुना किं तेन कारिष्यते॥११॥ शूर्पणखा-अज्ज, एव्वं णेदम् । सो मए तत्थ बह्मणो वसिट्ठ- महेसिणो वि फुरन्तो दिट्ठो। माल्यवान्-(विहस्य ।) वत्से, तपोभिरस्य ब्राह्मणादेशोऽपि स्था- निवद्भावेन क्षत्रकार्य न जहाति । किं च खभावमधुरोऽपि काकुत्स्थ- बटुरौत्पत्तिकेन क्षात्रेण ब्राह्मण्येन च जन्मना त्रिजातकादस्मान्मुनेरधी- यानोऽधरीणं(णः) परिणस्यते । तथाहि । दीनाम्' इति वचनात् । विनीय शिक्षयित्वा । जग्निरे हताः । 'हन हिंसागत्योः'। लिट् । कर्मणि तङ् । 'गमहन-' इत्युपधालोपः । 'हो हन्तेः-' इति हस्य घत्वम् । त्र्यक्षो महेशस्तस्येदं त्रैयक्षम् । 'तस्येदम्' इत्यण् । 'न स्वाभ्यां- इत्यैच् । विदलय्य भङ्क्त्वा । 'दल विदारणे' । चुरादावदन्तः । अथानन्तरम् । स्वीकार्य विवाह्य । इतोऽस्मादनन्तरम् । कुहना दम्भाचरणं तया विटो धूर्तः । 'कुहना दम्भचर्यायाम्' इति मेदिनीकरः। 'कुहना लोभान्मिथ्येर्यापथकल्पना' इत्यमरः । तेन बटुना कौशिकेन किं कर्तव्यमिति नो विद्मो न जानीमः । यद्वा नो विद्मोऽपि तु जानीम एव । अनन्तरं रावणवधो येन कार्य इति भावः । कारिष्यत इति कर्मणि लुट् । 'स्यसिच्-' इत्यादिना वृद्धिरिडागमश्च । अजेति । 'आर्य, एवमेतत् । स मया तत्र ब्रह्मणो वसिष्ठमहर्षेरपि स्फुरन्दृष्टः' [इति च्छाया।] ब्राह्मणः कौशिकः । तपोभिरस्येति । आदेशोऽतिदेशः । स्थानिवद्भावेन, स्थान प्रकृतधर्मोऽस्यास्तीति स्थानी, स्थानिना तुल्यं वर्तते स्थानिवत् । तस्य भावेन तत्त्वेन । तथा च क्षत्रियत्वेनेत्यर्थः । यथा-'स्थानिवदादेशोऽनल्विधौ' इति सू- त्रसामर्थ्यादादेशः स्थानित्वं न जहाति तथा कौशिकस्य ब्राह्मणादेशोऽपि स्थानिव- त्वेन क्षत्रकार्य मारणादिस्वरूपं न त्यजतीत्यर्थः । स्वभावमधुरो निसर्गसुन्दरः । औत्पत्तिकेनोत्पत्तिभवेन क्षात्रमयेन। ब्राह्मण्येन ब्रह्म तपोधनमुपनयनव्रतं वा तद्भ- वेन । ब्राह्मणेन विशुद्धमातापितृयोनिजत्वेन । एतत्रितयानुगतेन जन्मना त्रिजात- .. । १. 'अधीयन्नधरीणशील:'.
किमितिक्रान्तोपंवर्णनेन । कथं त्विदानी खयंग्रहीतुमुत्तिष्ठमानो अधरीणं निन्दितम् । 'अवरीणो धिकृतः' इत्यमरः । परिणस्यते स्वयं परिणतो ४ अङ्कः] अनर्धराघवम् । अविनयभुवामज्ञानानां शमाय भवन्नपि प्रकृतिकुटिलाद्विद्याभ्यासः खलत्वविवृद्धये। फणिभयभृतामस्तूच्छेदक्षमस्तमसामसौ विषधरफणारत्नालोको भयं तु भृशायते ॥ १२ ॥ भवतु राक्षसपतिः प्रतिकर्तव्यः स्यात् । शूर्पणखा-अज्ज, ण खु मोट्टिमं परिहरन्तो अण्णो उआओ लक्खीअदि। काजन्मत्रययोगिनः । अथ च त्रिजातकमिति गालिदानम् । मुनेरिति 'आख्यातो- पयोगे' इत्यपादानसंज्ञा । अधीयानोऽध्ययनं कुर्वन् । 'इङ् अध्ययने । शानच् । - । भविष्यति । सदपि वस्त्वसत्संसर्गात्सत्कार्य जहातील्याह-अविनयभुवामिति । भवत्यस्मादिति भूः स्थानम् । शमाय शान्तये। प्रकृतिकुटिलात्खभाववक्रात् । खलत्वविवृद्धये दौर्जन्यसंपत्तये। दृष्टान्तेन खोक्तं द्रढयति-असौ विषधरफणा- रत्नालोकः फणिभयपोषकाणां तमसामन्धकाराणामुच्छेदशमोऽस्तु तथापि भयं पुन शायते । अभृशं भृशं भवति । अत्यर्थं भवति। 'भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः' इति क्यङ् । 'फणिभयभृतां मास्तूच्छेदक्षमः' इति पाठे फणिभयपोषकाणां तमसामुच्छेदक्षमो मास्तु भयं पुन शायतेऽत्यर्थेन भवति । तस्मादित्यर्थः । यद्वा तमसा छेदक्षमो मास्तु फणिभयभृतां जनानां भयं पुनरत्यर्थेन भवति । ये सर्पः- द्विभ्यति तेषां ततो भयमेव विषधरसंबन्धाद्भवतीति भावः । उत्तिष्ठमानो यत्नं कुर्वाणः । 'उदोऽनूर्ध्वकर्मणि' इति तङ् । प्रतिकर्तव्यः । प्रतिविधातव्यः । अ- जेति । 'आर्य, न खलु मोटिमं परिहरतोऽन्य उपायो लक्ष्यते [इति च्छाया ।] इह मोहिमं बलात्कारे देशी। तथा च बलात्कारं विना नान्या युक्तिरिति भावः। मा मैवम् । वदेत्यध्याहार्यम् । महान्दोषो यस्मात्स महादोषः। धर्मेण विजयी धर्मविजयी । प्रवालोऽतिशिशुरङ्कुरो वा । परिगृहीता विवाहिता । प्रसह्य हठात् । १. 'अस्तुच्छेद-'. २. 'वर्णितेन'. ३. 'कथं वेत्थमिदानीम्', ।
। । १८८ काव्यमाला। माल्यवान्-वत्से, मा मैवम् । महादोषो हि तादृशेन धर्मवि- जयिना वीरप्रवालेन परिगृहीताया वैदेह्याः प्रसह्यापहारः । पश्य । दोःस्तम्भद्वयदर्पडम्बरमिति स्पष्टं न विस्पदन्ते वैदेहीकरबन्धसूचनमिति प्रस्तौति न ब्रीडया । इत्यालोच्य कृतस्मितैर्मुनिभिरादिष्टेन येन क्षणा- दात्तं वन्दितमाञ्चितं च सहसा भग्नं च तादृग्धनुः ॥१३॥ तत्कथं च तस्मिन्निशाचरनाथमाततायिनमनुजानीमः । शूर्पणखा—(निःश्वस्य ।) जधा णिरूविदं मादामहेण । अहो कालस्य माहप्पं, जं दाणिं तिहुअणजअलच्छीलीलावन्दिआरे महा- राअरावणेवि एव्वं मन्तीअदि । दोस्तम्भेति । अयं राम इत्यध्याहार्यम् । दोःस्तम्भद्वयदर्पाणां डम्बरो विस्तारः स्यादिति कृत्वा स्पष्टं व्यक्तं न विस्पन्दते न प्रकाशयति । वैदेहीकरबन्धसूचनं सीताविवाहकथनं स्यादिति कृत्वा वीडया लज्जया न प्रस्तौति नाख्याति । इत्यालोच्य ज्ञात्वा कृतस्मितैर्मुनिभिः शतानन्दादिभिरादिष्टेन येन रामेण तादृगतिदुराकर्षणं धनुः सहसात्तं गृहीतम् , वन्दितं नमस्कृतम्, आञ्चित नामितम् , अनन्तरं भन्न- मिति । येन महेशधनुरारोप्य भन्नं तस्य कलत्रापहरणेऽवश्यमनिष्टं स्यादिति भावः । ननु 'मुनिभिरा' इत्यत्र द्वादशेऽक्षरे यतिभजो दोषः, पदमध्ये यतेरसंभवादिति चेत् । न । विशेषगुणेनादोषत्वात् । केचित्पाठविश्राम यतिमाहुः । तथा चोक्तम् 'विश्रामो यतिरुच्यते' इति । वस्तुतस्तु यत्र श्रवणोद्वेगो बन्धपारुष्यादिकं वावयवान्तरेण प्रच्छाद्यते तत्र न दूषणम् । तथा च मुनिभिरादिष्टेनेत्यत्र न श्रवणोद्वेगो न वा बन्धपारुष्यादिकमिति न दोषः । तस्मिन् रामे। आततायी कलत्रापहारी । 'अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आततायिनः ॥ इति स्मृतिः । जति। 'यथा निरूपितं मातामहेन । अहो कालस्य माहात्म्यम्, यदिदानी त्रिभुवनजयलक्ष्मीलीलाबन्दीकारे महाराज. १. निजधर्मविजयिना', 'धर्मविजयिना'...२. 'अञ्चितम् .. ३. 'कथं तस्मिन्!. ४. 'दीर्घमुष्णं च निःश्वस्य'. । Forma- ४ अङ्कः] अनर्घराघवम् । माल्यवान-वत्से, मुनिरपि गुरुर्दिव्यास्त्राणां बभूव दिवौकसा- मजगवधनुर्भङ्गे तावानहो स महोत्सवः । रघुपतिगुणक्रीतामेतामवेहि जगत्रयीं विपरिणमते दौर्जन्यं तु प्रभुत्वपदेन नः ॥ १४ ॥ शूर्पणखा को संदेहो । तस्सि विवाहमहूसवे सव्वं मए पच्च- क्खीकिदम् । माल्यवान् -तदेवमेकलोष्टवधः स्यात् । तथाहि । मिथिला प्रविश्य बलादाकृष्यमाणे कलत्रे कथं तितिक्षेतं रघुराजपुत्रः । तं रावणेऽप्येवं मन्यते' [इति च्छाया। इह मातामहो मातृपिता । मुनिरपीति । एतां जगत्रयों रघुपतिगुणकीता रघुपती रामस्तस्य गुणेन कीतामवेहि जानीहि । 'क्रीतात्करणपूर्वात्' इति ङीष् । कुतः । मुनिरपि विश्वामित्रोऽपि दिव्यास्त्राणां गुरुरुपदेष्टा बभूव । दिवौकसां देवानामजगवधनुर्भङ्गे पिनाकनामकहरधनुर्भजे तावानेव महोत्सवः । धनुष्यभङ्गे यादृश उत्सव आसीत्तादृश एव भन्नेऽपी- त्यर्थः । पिनाकभङ्गे देवानां क्रोधस्योचितत्वात्तं विहायोत्सवाचरणे रामेऽनुरका देवा इति भावः । एतादृशे रामे सत्येव नोऽस्माकं प्रभुत्वशब्देन दौर्जन्यमानं विपरिणमते विपर्यस्यति । कर्मव्यतिहारे तङ् । न त्वैश्वर्यादिकं भविष्यतीति भावः । 'पिनाकोऽजगवं धनुः' इत्यमरः । को संदेहो इति । 'कः संदेहः । तस्मिन्विवाहमहोत्सवे सर्व मया प्रत्यक्षीकृतम्' [ इति च्छाया।] तदेव- मिति । कलत्रापहरणे सतीत्यर्थः । एकलोष्टवध इति । लोष्टं मृत्तिका- खण्डम् । यथा लोष्टद्वयास्फालनेनान्यतरस्फुटनं भवति तथा यो वधः स एक- लोष्टवध इत्युच्यते । मिथिलातः सीतायामपहृतायां रामो रावणो वा नभवे- दित्यर्थः । यद्वा बहुभिर्जनैमिलित्वा लोप्टेनकेन य एकस्य वधः क्रियते स एक- लोष्टवधो भण्यते । आकृष्यमाण आनीयमाने । तितिक्षेत क्षमतेत्यर्थः । 'तिज निशाने' । 'गुप्तिज्किझ्यः सन्' इति क्षमायां सन् । उत्तिष्ठमानं यत्नं कुर्वाणम् । । - १. मिथिलायाम्'. २. तितिक्षते'. ३. 'राजपुत्रः,.
१९० काव्यमाला। चोत्तिष्ठमानं पौरजानपदप्रकृतयोऽप्यनुतिष्ठेरन् । किमङ्ग, संबन्धिवान्ध- वाः । यथोक्तम्-'आरभ्योऽमिरिव दुःसहदुःखामर्षजं तेजो विक्रम- यति, मण्डलस्य चानुग्राह्यो भवति' इति शूर्पणखा-(दीर्घमुष्णं च निःश्वस्य ।) अज, किं दाथि जुत्तम् । माल्यवान्-शृणु वत्से, कार्यज्ञासि । अस्ति वनौकसां मन्त्री जाम्बवान् । स मतङ्गाश्रमवास्तव्यामुपसृत्य श्रमणां नाम सिद्धशबरीम- मभ्यर्थितवान् । यथास्य वालिनो द्वैराज्येन क्षीणा लुब्धापवारिताः प्रकृतयः किष्किन्धायां कुमारसुग्रीवमभिप्रेक्ष्यमाणाः सामवायिकं रा- मभद्रमपेक्षन्ते । शूर्पणखा-(सातङ्कम् ।) कथं खत्तिअपोदओ वालिणिग्गहे वि सहाओ समीहीअदि । तदो तदो। माल्यवान्-ततश्चायोध्यातः कैकेय्या भरतवार्ताहरणाय प्रेषिता मन्थरा नाम स्थविरदासी कठोरतरणितापवैज्ञानलज्वालावलीढजीविता किमङ्गेति । किं पुनरित्यर्थः । अङ्ग संबोधने वा । 'अङ्ग संबोधने हर्षे पुनरर्थे च दृश्यते' इति मेदिनीकरः । यथोक्तमिति । चाणक्यादाविति शेषः । अरण्यं वनं तत्र भव आरण्यः । विक्रमयत्यतिशक्तिकयति । मण्डलस्य राष्ट्रस्य । द्वादशराजचक्रस्य वा । अनुग्राह्योऽनुगम्यः । अजेति । 'आर्य, किमिदानीं युक्तम्' । इति च्छाया। ] वनौकसो वानराः । वसतीति वास्तव्यः । 'वसेस्त- व्यत्कर्तरि णिच्च' इति तद्वृद्धिः । क्षीणा अधना अप्रधाना वा । लुब्धा लोलुपाः । अपवारिता अपकृताः । प्रकृतयः शिष्टाः । समवायः सैन्यसमूहस्तं समवैत्यागत्य मिलतो भवतीति सामवायिकः । 'समवायान्समवैति' इति ठक् । कथमिति । "कथं क्षत्रियपोतको वालिनिग्रहेऽपि सहायः समीयते । ततस्ततः [इति च्छाया । ] अत्र कथमाश्चर्ये । निग्रहो मारणम् । स्थविरदासी बृद्धचेटी। १..'जानपदाः'. २. किमुताङ्ग'. ३. 'तथोक्तम्'. ४. 'अग्निरिव दुःखा-'. ५. (चिन्तां नाटयति ।) शृणु वत्से'. ६. 'श्रवणाम्'. ७. 'अपचिताः'. ८. 'कु- मारम्'. ९. 'स्थविरतरा'. १०. 'कठोरतरतरणि'. ११.. 'वज्ञानलावलीढ, ४ अङ्कः] अनर्घराघवम् । मिथिलाप्रान्तरे तिष्ठतीति निदावकिरणान्तेवासी सतीर्थ्यमृषि याज्ञव- ल्क्यमुपस्थाय संप्रेत्येव निमेषमात्रानिवृत्तो हनूमान्कथयति । अतस्त्व- मप्यस्मदनुरोधेन ह मत्प्रत्यवेक्षितखशरीरा परपुरप्रवेशविद्यया मन्थरा- शरीरमधितिष्ठन्ती मिथिलामुपेत्य प्रत्ययिता संविधानकमिदं दशरथ- गोचरीकरिष्यसि । इत्थंभाविना गुरुनिदेशचर्याप्रसङ्गेन पकपाषाणविष- मकण्टकव्यालकुलबहुलामरण्यानीमनुप्रविष्टः सर्वथा वैदेशिको राजपुत्रः कार्यगौरवान्नियतमेव वालिवधपूर्वकेण प्रतीकारसंधिना संबन्धेन सुग्री- वमुपगृह्णीयादिति । शूर्पणखा-(सकौतुकम् ।) अन्ज, किं तं संविहाणअम् । माल्यवान्—(कर्णे ।) एवमेवम् । (इति कथयति ।) । कठोरः परिणतो दुःसहो वा । अवलीढं गृहीतम् । 'प्रान्तरं दूरशून्योऽध्वा' इत्यमरः । निदाघकिरणान्तेवासी सूर्यशिष्यः । 'छात्रान्तेवासिनौ शिष्ये' इत्य- मरः । सतीर्थ्यमेकगुरुम् । 'सतीर्थ्यास्त्वेकगुरवः' इत्यमरः । उपस्थायाभिवाद्य । परपुरमन्यकायम् । प्रत्ययिता जातसंप्रत्यया । संविधानकं रामभद्रवनप्रेषण- भरतराज्यदानरूपम् । निदेश आज्ञा । 'आज्ञा निदेश आदेशः' इत्यमरः । चर्या चरणम् । प्रसङ्गः प्रसक्तिः। विषमं महत् । व्यालो व्याघ्रादिः सर्पश्च । अरण्यानी महारण्यम् । 'महारण्यमरण्यानी' इत्यमरः । 'इन्द्रवरुण-' इत्यादिना डीषानुको । वैदेशिकोऽन्यदेशसंबद्धः । प्रतीकारसंधिरन्योन्योपकारतो यः संधिः। तदुक्तं चाणक्ये-'मयास्योपकृतं पूर्वमयं मामुपकारिष्यति । इति यः क्रियते संधिः प्रतीकारः स उच्यते ॥ उपकार करोम्यस्य ममाप्येष करिष्यति । अयं वापि प्रतीकारो रामसुग्रीवयोरिव ॥' इति । अजेति । 'आर्य, किं तत्संवि- धानकम्' [इति च्छाया।] । कर्णे एवमेवेति । रामभद्रवनप्रेषणभरतराज्य- १. 'प्रान्ते'. २. 'निदाघकिरणव्याकरणान्तेवासी'. ३. 'संप्रत्येष': ४. 'हनूमदवे- क्षित'. ५. 'उपातिष्ठन्ती'. ६. 'कुरुष्व'. ७. 'भाविना च'... 'व्यालबहलाम्'. ९. 'संधिना सुग्रीवम्'.१०. श्लोकद्वयं कामन्दकीयनीतिसारस्य नवमसर्गेऽपि वर्तते'.
काव्यमाला। शूर्पणखा-(हसन्ती ।) अहो बुढरिच्छस्स कुडिलदा । तदो तदो। माल्यवान्-ततश्च सापि शबरयोगिनी सुग्रीवगुणांनुरोधेन सर्व- मोमित्युरसिकृत्य तदैव विदेहाभिमुखी प्रस्थितेति मे जनस्थानविहारि- भिर्निशाचरैरागत्य निवेदितम् । तदैमुना च जाम्बवत्प्रयोगेण फैलता विराधप्रभृतिभिरधिष्ठितेषु विन्ध्यगिरिगह्वरेषु विहरतो रामस्य सुकर कलनापहरणम् । अस्मदीयास्तु मायाः सुरासुरप्रथमरे खयोधस्य युद्ध- मुदितविबुंधपतिना वितीर्णमायाहरणमन्त्रधारिणो दशरथस्य संनिधौ न प्रभवन्ति । शूर्पणखा-(सविचिकित्सम् ।) अज्ज, उवणदस्स एव्वं करीअदि । माल्यवान्-(विहस्य ।) वत्से, साधु । वृद्धसंवादिनी ते दृष्टिः । यदाहुः-'यो झुपनतस्य पुत्रदारांनतिमन्यते तस्योद्विग्नं मण्डलमभा- दानरूपं संविधानकमित्यर्थः । अहो इति । 'अहो वृद्धऋक्षस्य कुटिलता। ततस्ततः' [ इति च्छाया । ] इह वृद्धः स्थविरः । ऋक्षो भलूकः । उरसिकृत्य खीकृत्य हृदये कृता वा । 'अनत्याधान उरसिमनसी' इति गतिसंज्ञा । समासे ल्यप् । सुरासुरयोर्मध्ये प्रथमा रेखा यस्य सः । तथा चाग्रगण्य इत्यर्थः । विबुधपतिर्नाम महाब्राह्मणः । तेन वितीर्णो दत्तः । अजेति । 'आर्य, उपनतस्यैवं क्रियते' [इति च्छाया। ] इहोपनतस्य समीपागतस्य । अपि तु शरणागतस्याप्रियं न कर्तुमर्हतीति भावः । संवादिनी सदृशी। दृष्टिानम् । अतिमन्यतेऽपहरति । उद्विमं विकलं क्रुद्धं च । मण्डलं खचक्रं परचक्रं च । उप- १. 'ततः सापि', २. 'अनुरागेण सर्व तथेत्युररीकृत्य तथैव'. ३. 'अमुना 'जाम्बवतः'. ४. 'फलवता'..५. 'विहरतः सुकरम्'..६. 'सुरासुरलमरप्रथमरेखा', ७. "विबुधपतिवितीर्ण'...८.. 'साधु वत्से'. ९. 'बुद्धिः'..१०. 'अभिमन्यते'.
४ अङ्कः] अनबराघवम् । १९३ वायोपतिष्ठते' इति । किं पुनरसमासु नैषः निसर्गतेजवी संश्रयप्रवृत्ति- मातिष्ठते। शूर्पणखा-डूं।अण्णं भणामि । अवि एवं करिस्सदि रामभद्दो। माल्यवान-कः संशयः । लोकोत्तरं हि किमप्युन्नीलयन्तो जगति राज्योपभोगेभ्योऽपि बीभत्सन्ते महानुभावाः । शूर्पणखा-अण्णं वि किं वि अणत्यन्तरं अत्थ पडिदमिति तकेमि। । । माल्यवान्-(सहर्षम् ।) किं तत् । शूर्पणखा-मए जणअणअरादो णिकन्तीए सुदं, जधा खुडि- दसिरिकण्ठसरासणस्स दासरहिणो मच्छरेण सअलखत्तिअकिदन्तो परसुरामो परागदोति । माल्यवान-(संहर्षम् ।) सर्वमुपपद्यते । तिष्ठते पर्यवस्यति। यत्नं कुरुत इति यावत् । प्रतियने तङ् । निसर्गतेजखी ख- भावतेजोयुक्तः। राम इति शेषः । संश्रयप्रवृत्तिमाश्रयेण वर्तनम् । आतिष्ठतेऽजी- कुरुतें । अपि तु नाशीकुरुत इत्यर्थः । 'आङः स्थः प्रतिज्ञाने' इति तङ् । अयम- भिमानों नाम नाट्यालंकारः । 'अभिमानोऽपरित्यागो दुःखोदकफलस्य यत्' इति भरतः । हूं प्रश्ने । 'हूं प्रश्नेऽङ्गीकृतौ रोषे' इति विश्वः । अण्णमिति । 'अन्य- द्भणामि । अप्येवं करिष्यति रामभद्रः । इति च्छाया।] इहैवं दण्डकारण्यप्रवेश- रूपदशरथवाक्यमित्यर्थः । उन्मीलयन्तः प्रकाशयन्तः । बीभत्सन्ते जुगुप्सन्ते । राज्योपभोगाग्निन्दन्तीत्यर्थः । राज्योपभोगेभ्य इति 'जुगुप्साविराम-' इत्यादिना- पादानता।बीभत्सन्त इति 'मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य इति सन् दीर्घच । इदानीमेतदङ्कप्रतिपादितमर्थ स्तोतुमुपक्रमते-अण्णं वीति । 'अन्यदपि किमप्यनर्थान्तरमत्र पतितमिति तर्कयामि' [इति च्छाया ।] 'मया जनकन- गरानिष्कान्तया श्रुतम् , यथा क्षुण्णश्रीकण्ठशरासनस्य दाशरथेर्मात्सर्येण सकल- १. वत्से, कः संशयः । लोकोत्तरं किमपि रूपमुन्मीलयन्तः'. २. किं च अण्णं वि'. ३. 'कीदृशं तत'. ४. 'सहर्षम्' इति पुस्तकान्तरे नास्ति. १३ अ० रा.
काव्यमाला। भुजार्गलितनर्मदामकरचक्रदंष्ट्राङ्कुर- व्रणप्रकरकर्कशं किमपि बिभ्रदुग्रं वपुः । स येन परशौ हुतो नृपतिरर्जुनः कौतुका- दसौ कथमुपेक्षते गुरुधनुर्व्यलीकं मुनिः ॥ १५ ॥ पैरं त्वनेनापि संकलमूर्धाभिषिक्तकण्ठकाण्डरुधिरावसेकपङ्किलकुठारेण दुरभिभवो दाशरथिः । शूर्पणखा-(साभ्यसूयम् ।) अहो दुद्धमुहे तस्सि खत्तिअवटुए एवं संभावेदि मादामहो। माल्यवान्-वत्से, नैतज्जानासि । सर्वराजकदुर्धर्ष सर्वदेवमयं धनुः । भञ्जता रामभद्रेण विर्जिंग्ये भुवनत्रयम् ॥ १६ ॥ क्षत्रियकृतान्तः परशुरामः परागत इति' [इति च्छया।] इह मात्सर्यमा । कृतान्तो यमः। भुजार्गलितेति । सोऽसौ मुनिः परशुरामो गुरोर्महेशस्य यद्धनुः पिनाकस्तस्य व्यलीकं पीडनमप्रियं वा कथमुपेक्षते । अपि तु नायमुपेक्षा करिष्यतीत्यर्थः । येन मुनिनार्जुनः सहस्रार्जुनो नृपतिः कौतुकात्परशौ कुठारे हुतो दग्धः । मारित इति यावत् । कीदृशः । किमप्यतिशयितमुग्रं शरीरं बिभ्रद्दधानः । भुजाभिर्बाहुभिरर्गलिता या नर्मदा नदीभेदस्तस्या मकरो जलजन्तुभेदस्तस्य चक्र समूहस्तस्य दंष्ट्राकुरस्य दन्ताग्रस्य व्रणप्रकरण क्षतसमूहेन कर्कशं कठिनम् । 'पुरा किल बाहुभिर्नर्मदां बद्धवा स्त्रीभिः सह जलक्रीडां कुर्वतः सहस्रार्जुनस्याज्ञानि मक- रचक्रे क्षतानीति पुराणम् । बिदित्यत्र 'नाभ्यस्ताच्छतुः' इति नुम्निषेधः । 'मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्' इत्यमरः। पङ्किलः कर्दमयुक्तः । पिच्छादित्वादिलच् । अहो इति। 'अहो दुग्धमुखे तस्मिन्क्षत्रियबटुक एवं सं- भावयति मातामहः [इति च्छाया । इह दुग्धमुखोऽतिशिशुः । सर्वराजकेति। १. 'परमनेन'. २. 'कण्ठकंदरा'. ३. (विहस्य ।) नैव तावज्जानासि'. ४. 'विजितम् ४ अङ्कः] अनपराधवम् । इदानीं तु राजन्यरुधिराम्भोधिकृतत्रिषवणो मुनिः । प्राप्तः परशुरामोऽयं न विनः किं करिष्यति ॥ १७ ॥ तदेहि । राजकुलमेव गच्छावः । (इति निष्कान्तौ।) विष्कम्भकः। (नेपथ्ये।) भो भो जनकाग्निहोत्रपरिचारकाः, पाचं पाद्यम् । अर्घोऽर्थः । आजन्मब्रह्मचारी पृथुलभुजशिलास्तम्भविभ्राजमान- ज्याघातश्रेणिसंज्ञान्तरितवसुमतीचक्रजैत्रप्रशस्तिः । वक्षःपीठे घनास्त्रव्रणकिणकठिने संक्ष्णुवानः पृषत्का- प्राप्तो राजन्यगोष्ठीवनगजमृगयाकौतुकी जामदग्यः॥१८॥ । राजकं क्षत्रियसमूहः । गोत्रोक्षोष्ट्रोरभ्र-' इति वुञ् । दुर्धर्षे दुराकर्षम् । विजिग्ये जितम् । 'जि जये' । कर्मणि लिट् । 'सन्लिटोर्जेः' इति कुत्वम् । राजन्येति । राजन्यः क्षत्रियः । त्रिषवणं त्रिसंध्यन्नानम् । राजकुलं राजगृहम् । राऊल' इति प्रसिद्धम् । अग्निहोत्रमग्निहोमः। पायं पादार्थमुदकमित्यर्थः । अर्घः 'अर्घः पूजनमूल्ययोः' इति विश्वः । खरया आदराद्वा द्विरुक्तिः । आजन्मेति । जाम- दन्यः परशुरामः । प्राप्तोऽस्तीति शेषः। आजन्म जन्मन आरभ्य ब्रह्मचारी । पृथुलो विशालो यो भुजस्तत्र विराजमाना या ज्याघातश्रेणिः प्रत्यश्चिकात्रणपति- तस्याः संज्ञयान्तरिताच्छादिता वसुमतीचक्रस्य भूमण्डलस्य जैत्रप्रशस्तिर्यस्य सः। ज्याघातपतिव्याजेन जयप्रशस्तिरिव लिखिता वर्तत इति भावः। घनः कठिनो निर- न्तरो वा । व्रणकिणः क्षतमृतमांसचिहम् । संक्ष्णुवानस्तेजयन् । 'समः क्ष्णुवः' इति तङ् । पृषत्कान्बाणानू । 'पृषत्कबाणविशिखाः' इत्यमरः । राजन्यगोष्टयेव वनगजा इति रूपकम् । मृगयाखेटकम् । जैत्रेति जयतेस्तृजन्तात्प्रज्ञादित्वात्स्वार्थेऽण् ।
अपि च। एष स्त्रैणकपोलकुङ्कुमलिपिस्तेयातिभीरौ भुजे वित्राणश्चतुरन्तराजविजयि ज्यानादरौद्रं धनुः । तूणावेव पुनस्तरां द्रढयति खादन्तरस्मात्पटा- दाकृष्टैः कुशचीरतन्तुभिरभिक्रुद्धो मुनिर्भार्गवः ॥ १९॥ (ततः प्रविशति शरचापहस्तः क्रोधो तो जामदग्यः।) जामदग्य:-(सखेदम् ।) अहह यथा पृष्टभोजिना कृतान्तेन प्र- त्यवसितास्ते सांयुगीनाः । वर्तमाने तु - । एष इति । एष भार्गवो मुनि गोरपत्यं परशुरामोऽतिक्रुद्धः सन् । पिनाकभङ्गश्रवणा- दिति भावः। खात्खकीयादन्तरमादुत्तरीयात्पटास्नादाकृष्टैः कुशचीरन्तुभिः सूक्ष्म- वल्कलसूत्रैः करणभूतैः तूणावेव घुधी कर्मभूतो पुनस्तरां पुनरपि दृढयति । किं कुर्वन् । भुजे बाहौं धनुर्बिभ्राणः । कीदृशे । स्त्रैणः स्त्रीसंबन्धी यः कपोलस्तत्र या कुडमलिपिः कुडमपत्रावली तस्याः स्लेयेन चौर्येणातिभीरावतिशयितशङ्के । अन्योऽपि तेयेन सशको भवति । अनेनापि परशुरामबाहुना क्षत्रियस्त्रीणां कुङ्कुमलिपिश्चो- रिता। अतः सशङ्कोऽसावित्यर्थः । यद्वा तस्याः स्तेये चौर्येऽतिभीरौ । तदीयभुजे स्त्रीकपोलकुङ्कमलिपिनोञ्छनं न संवृत्तम् । स्त्रीसंबन्धाभावात् । आजन्मब्रह्मचारि- त्वात् । धनुः कीदृशम् । चतुरन्तराजविजयि चतुःसमुद्रान्तराजविजयीत्यर्थः । 'चतुरन्तरीपविजयि' इति पाठे चतुरन्तरीपस्य चतुर्दीपस्य। 'द्वीपोऽस्त्रियामन्तरी- पम्' इत्यमरः । ज्यानादष्टंकाररूपस्तेन रौद्रं भीषणम् । श्रेणेति स्त्रियां भवं बैणम् । 'स्त्रीपुंसाभ्यां नमो भवनात्' इति नन् । स्मादिति 'पूर्वादिभ्यो नवभ्यो वा' इति विकल्पेन स्मादादेशविधानात् । अन्तरस्मादिति 'अन्तर बहियोगोषसंन्या- नयोः' इत्यन्तरशब्दस्य सर्वनामसंज्ञायां सादादेशः । अहह खेदे। मृष्ट स्वादु कृतान्तेन यमेन । प्रत्यवसिताः खादिताः। 'प्रत्यवसितगिलितखादितप्सातम् इत्यमरः । साँयुगीना रणे साधकः सहस्रार्जुनप्रभृतयः । प्रतिजनादिभ्यः खन् । १. मनमण, २. अति भीमे', 'अतिरौद्र. ३. 'क्रुद्धोद्धता'. ४. 'मिष्ट.
AMICHARHARMA १ अङ्क:] अनघराचदम् । হ্যাহৰিৰ ফা নবীনাথাশিলা पन्थानो दिवि संकुचन्ति वसुधा बन्ध्या न सूते भटान् । लक्ष्मीरप्यरविन्दसौधवलभीनियूहपर्यधिका- विश्रान्तेरलिभिन कुञ्जरघरगण्डोद्धोदते ॥ २०॥ । - Poonam शस्त्राशस्त्रीत्यादि । शस्त्रैश्च शस्त्रैश्च प्रत्येदं युद्धं वृत्तं शस्त्रारालि युद्धं तस्य कथैव का। अपि तु न कापि।युद्धवार्ताप्यधुना नास्तीत्यर्थः । सङ्ग्रामे हता ये पार्थि- वास्ते नवा नूतना भवन्तो गीर्वाणा देवास्तेषामसंख्याततया संकटगमनादन्योन्यल- म्बितं पाणिं धमन्ति तापयन्ति ये पन्थानस्ते संप्रति दिवि व्योनि संकुचन्ति न प्रसरन्ति । रणाभावात् । नवभवदित्यत्राभूततद्भाववाविवक्षितत्वाचिवप्रत्ययाभावः। विकल्पो वा तद्विधेः । वसुधा पृथ्वी बन्ध्या । प्रयोजकापत्याप्रसवात् । यत एव वन्ध्यात एक भटान्वीरान सूते। लक्ष्मीरपि जयश्रीरपि कुचरघटा हस्तिसमूहस्तस्य अण्डरमालानिर्मितैरलिभिमरैः सह च मोदते । किं त्वरनिन्दसौधवलभीतिहार्य दिलानिधान्तमरैः सह । धस्स वलभी उपरिकुटी तस्यां यो नियूको नागह- स्तमः । या' इति प्रसिद्धः। स एव पर्यङ्किकाल्पखवा इति समासं कृत्वा अबाद- रबिन्दमेव लादशी पत्रिका तस्यां विधान्तैरिति समासः। अरविन्दस्य विशिष्ट- किलपणम् । सुखस्थानत्वात् । तथा च युद्धाभावाद्गुजघटागण्डोद्गतालीमाम- मालिः सह संबन्धो न लम्याः । किं तु पद्मस्थायिभ्रमरैरेव सह । तत्र तेषां साडी सर्वसिद्धत्वात् । यद्वारविन्देन सह पर्यङ्किकया द्वन्द्वसमासः । तथा चार निन्द्रस्यः अर्यतिकास्थै श्वेत्यर्थः । अरविन्दे सहजात, पर्यविकायां तु सब- विपत्मान्धाकृष्टत्वावस्थानमिति भावः । यद्वा निव्यहो द्वारम् । बलभ रसियर्थः । “नियूंहः शेखरे द्वारे निव्यूहो नागगन्तके' इति धरणिः । विका तु खट्वा स्यात्' इति मेदिनीकरः । लाशलीमात्र 'नच तेनेदसिदि भी इस बहुव्रीहिः । 'इच्कर्मव्यतिहारे इतीच्समासान्तः । 'अन्येभ्योऽपि नति दीर्घः । प्रणिधमा इति 'उनपश्येरेसदाशिंधमाधु' इति निपातः । २. किन ह'. २. स्टैः'.
काव्यमाला (सविमर्शाश्चर्यम् ।) शंभुर्वगुणवल्लरीमुपनयत्याकृष्य कर्णान्तिकं अश्यन्ति त्रिपुरावरोधसुदृशां कर्णोत्सलग्रन्थयः ।। चास्फालयति प्रकोष्ठकमिमामुन्मुच्य तासामहो भिद्यन्ते वलयानि दाशरथिना तद्भग्नमैशं धनुः ॥२१॥ (सरोषविकट परिक्रामन् ।) भो भो विदेहाः, क रामो दाशरथिः । यस्मिन्नर्जुनदोःसहस्रमलकनोदच्छदलच्छटा- जिहाले जुहवांबभूविम रुषा राजन्यसत्तामपि । सोऽयं प्राकवलग्रहस्य विषसीभूतेष्वपि क्षत्रिय- क्षुद्रेषु क्षुधितश्चिरेण परशुस्तेनायमन्विष्यते ॥ २२ ॥ । (ततः प्रविशति सधैर्यप्रमोदो दाशरथी रामः।) शंभुर्यदिति । यस्य धनुषः । गुणवल्लरीं गुणलताम् । कर्णान्तिकं कर्णेस- भीपम् । श्रश्यन्ति पतन्ति । अवरोधोऽन्तःपुरम् । सुदृशां ब्रीणाम् । खं खकीयम् । प्रकोष्ठकं कफोणेरधोभागम् । इमां गुणवल्लरीम् । तासां त्रिपुरावरोधसुदृशाम् । अहो आश्चर्ये । येन धनुषा तासां पतिवधनिश्चयात्कर्णोत्पलाद्यधारणमिति भावः। अन्यस्य कर्णघातेनान्यासां कर्णोत्पलभ्रंशः, अन्यस्य प्रकोष्ठास्फालनेनान्यासां वल यभ्रंश इत्यांश्चर्यम् । विरोधनामायमलंकारः । भियन्त इति कर्मकर्तरि तङ् । मुंजामन्तःपुरं स्यादवरोधनम्' इत्यमरः । यस्मिन्निति । यस्मिन्परशौ। रुषा क्रो- धेन । राजन्यस्य क्षत्रियस्य । सत्तां विद्यमानताम् । सामस्त्यमिति यावत् । यद्वा सत्ता गुणतया व्यवस्थिताम् । तथा गुणीभूता अपि क्षत्रिया हता इति भावः । यदा सत्ता स्वरूपम् । तथा च खरूपनाशे सर्व एवं नष्टा इति भावः । वयं जुहवांब- भूविम हुतवन्तः। सोऽयं परशुः क्षत्रियक्षुद्रेषु सत्सु, चिरेण' क्षुधितों यतस्तेन हेतुनायं क्षत्रियो रामोऽन्विध्यतेऽनृसंधीयते । मयेति शेषः । कीदृशेषु । प्राक- बलग्रहस्य प्राथमिककवलप्रहस्य विघसीभूतेषु । भोजनशेषभूतेषु । कीदृशे परशौ। अर्जुनः कार्तवीर्यस्तस्य दोःसहस्रमेव नलकं मांसादिवेधकलोहशलाका तस्मात्प्रोद्- १. 'शंभौ'. २. 'रुग्णं तदीदृग्धनुः'. ३. "अब', ४. 'सधैर्यसंभ्रमो रामः।
४ अङ्कः] अनर्धराघवम् । Emaitra राम:- साकं शक्तिधरेण तत्रभवतो देवाद्भवानीपते. यः सम्यञ्चमवाप चापनिगमं सम्यञ्चि सामानि च। शूराणां च तपखिनां च परमां काष्ठामधिष्ठास्नुभि- स्तेजोभिर्भगवानसौ भृगुपतिर्दिष्ट्याद्य दर्शिष्यते ॥ २३ ॥ जामदग्य:-(सखेदोपालम्भमात्मानं प्रति ।) भस्साङ्कुरेति खुरलीकलहे कुमार- मप्याक्षिपन्परुषरोषरसान्धचेताः । दृष्टोऽस्मि यः कृतमिथोहसितं शिवाभ्यां तच्चापभङ्गमपि हा सघृणः शृणोमि ॥ २४ ॥ च्छन्ती यात्रच्छटा रुधिरच्छटा सैव जिह्वा । लोहितत्वात् । तद्योगाजिह्वाले। “प्राणिस्थात्-' इत्यादिना लच् । जुहबिभूविमेत्यत्र 'भीही हुवा श्लुवच' इत्याम् । लुवद्भावश्च । क्षत्रियक्षुद्रेष्विति. 'क्षुद्राजातिः' इति समासः । 'अमृतं विघसी यज्ञशेषभोजनशेषयोः । इति मेदिनीकरः । साकमिति । असौ भगवान्भृगु- पतिः परशुरामो दिष्ट्या भाग्येन दर्शिष्यते द्रष्टव्यः । मयेति शेषः । यः शक्ति- घरेण कार्तिकेयेन सह तत्रभवतो मान्याद्भवानीपतेर्दैवान्महेशात्सम्यञ्चं सम्यग्रूपम् । 'समः समि' इति सम्यादेशः । चापनिगमं धनुर्वेदं सामानि चावाप प्राप्तवान् । तेजोभिरिते 'इत्थंभूतलक्षणे तृतीया' । शूराणां च तपखिनां च परमामतिशयितां काष्ठामवधिमधिष्टास्नुभिरधिष्ठानशीलैः । चकारौ समुच्चयार्थौ । 'शक्तिधरः कुमारः क्रौञ्चदारणः' इत्यमरः । दर्शिष्यत इति कर्मणि लट् । 'स्यसिच्सीयुद-' इत्यादिना चिण्वदिदै । अधिष्ठानुभिरिति 'ग्लाजिस्थश्च रख्नुः' । 'उपसर्गात्सुनोति- इति पत्वम् । अतिक्रोधेन रामोक्तामौचितीमश्रुत्वैवाह-भस्मेति । हा कष्टं सोऽहं सघृणो. गर्हितः . कृपावान्वा; तच्चापभङ्गः तस्य शिवस्य चापभङ्गं धनु- भङ्गमपि भृणोमि । मसणः' इति पाठे मन्द इत्यर्थः । स कः। योऽहं परुषं निठुरोक्तिः, रोषरसश्च ताभ्यामन्धं मुग्ध चेतो यस्य · तादृशः सन् । 'खुरलीकलहे शस्त्रा १. 'अधिष्ठानुभिः Meanlamm २०० काव्यमाला। । (विद्दृश्य च ।) अहो मामरण्यनिवासिनमुपश्रुत्य दुरात्मना रघुकुटुम्बकेन दूरमुच्छृसितम् । (किंचिदुच्चैः।) रे काकुत्स्थाः कथं वः श्रुतिविषयमयं नागमद्धार्मवीयो दुःसामन्तापचारमचितपितृवधामर्षनिस्तारबन्धुः । वारानासन्नविंशान्विशसितविषमक्षत्रजातिप्ररोहः क्रोधादुत्कृत्तगर्भामिषरुधिरवसाविस्रगन्धिः कुठारः ॥ २५ ॥ भ्यासकलहे प्रकृतत्वाद्धभस्माकुर इति कृत्वा कुमार कार्तिकेयमप्याक्षिपन्सन् । शिवाभ्यां भवभवानीभ्यामयमहो महारोषणो सामपि गुरु गुरुपत्नी च न गणयति, प्रत्युत कोपानिन्दतीत्याशयेन कृतमिथोहसितं कुतान्योन्यहासं अथा स्यादेवं दृष्टो- ऽस्मि । भस्माकुरो नष्टतपखिसुतः । अभ्यासः खुरली योग्या' इति हारावली । 'परुषं कर्बुरे रूक्षे निष्ठुरोक्ती नु वाच्यचत् ।' इति मेदिनीकरः। शिवाभ्यामिति शि- वश्च शिवा च शिवौ ताभ्याम् । 'पुमान्त्रिया' इत्येकशेषः । अहो कष्टे। समासंनिधा- नभ्रमादाह-रे काकुत्स्था इति।रे इति नीचामन्त्रणे।ये काकुत्स्थाः काकुत्स्थाकु- लोद्भवा राजानः, अयं भार्गवीयो भार्गवसंबन्धी कुठारः शचविशेषो को गुष्माकं श्रुतिविषयं श्रवणपथं नागमन गतः । यतः प्रगल्भा भवन्त इति शेषः । कीदृशः कुठारः । दुःसामन्तस्य दुष्टाधीश्वरस्य अर्थात्सहस्रार्जुनस्याफ्चारेणापराधेन प्रचित उपचितः। कृत इति यावत् । पितृवधस्तज्जन्यामर्षस्य निस्तारे बन्धुर्मिनम्। 'पूर्व सहस्रार्जुनेन जमदग्निहतः, अनन्तरं पितृबधामर्षात्परशुरामेण क्षत्रिया हता' इति मुराण एच स्फुटम् । आसञ्चविंशानेकविंशतिसंल्माकान्बारान्विशसितो भारितो विषमक्षनजातेः प्ररोहोऽङ्कुरो येन सः । पुनः कीदृशः । क्रोधादुत्कृत्तः खण्डितो यो गर्भः । अर्थात्क्षत्रियस्त्रीणाम् । तस्यामिषरुधिरवसाभिर्विनगन्धिरामसन्धिः । ननु विस्र स्यादामगन्धि यत्' इत्यादेविस्रशब्देनैवामगन्धिप्राप्तेः किमर्थ पुनर्ग- न्धिपदोपादानमिति चेत् । न । यत्र पर्यायशब्दोपादानं तत्रातिशयित एवार्थों सभ्यत इत्युक्तत्वात् । आसन्नर्विशानिति आसन्ना विंशतिर्येषाम् । 'संख्ययाव्यया- सब-' इत्यादिना बहुव्रीहिः । 'बहुनीहौ संख्येये ङजबहुगणात्' इति डचू। विविंशवेडिति' इति टिलोपः । आमिषं मांसम् । 'मांसं व्यसामिषम् इति १. (विमृश्य ।) अहो नु खलु मामरण्यवासिनम्'. - ४ अङ्कः] अनर्घराघवम् । २०१ राम:-(दृष्ट्वा सहर्षबहुमानम् ।) जैतारं दशकंधरस्य रभसादो श्रेणिनिःश्रेणिका- तुल्यारूढसमस्तलोकविजयश्रीपूर्यमाणोरसम् । यः संख्ये निजघान हैहयपति शत्रोर्मुखं दृष्टवा- न्यः पृष्ठं ददतोऽपि षण्मुखजये सोऽयं कृती भार्गवः ॥२६॥ (क्षणं च निवर्ण्य सस्मितम् ।) अहो संकीर्यमाणानेकरसानुभावगम्भीरमधु- रोऽयमस्याभोगः । तथाहि । जटां धत्ते मूर्धा परशुधनुषी बाहुशिखरं प्रकोष्ठो रौद्राक्षं वलयमिषुदण्डानपि करः । प्ररूढप्रौढास्त्रवणविकटरौद्राद्भुतमिदं प्रशान्तामणेयीं त्वचमपि च वक्षः कलयति ॥२७॥ हारावली । सामन्तः कतिपयदेशाधिपः परुषं बदन्तमपि खमहिन्ना स्तौति- जेतारमिति । सोऽयं कृती युद्धकुशलो भार्गवः परशुरामः । अस्तीति शेषः । यः संख्य सङ्ग्रामे हैहयपतिं सहस्रार्जुन निजधान हतवान् । कीदृशम् । दशकंधरस रावणस्थ जेतारम् । कीदृशस्य । रभसाही श्रेणिरेव भुजपतिरेव निःश्रेणिकाधि- रोहिणी । 'कटकली' इति ख्याता । तत्र तुल्यमेकदैवारूढा या समस्तलोकविजय- श्रीस्तया पूर्यमाणमुरो बस्य तस्य । रभस्रो हर्षः । स च तुल्यरोहेण जनितः। यः षण्मुखजये कार्तिकेयजये शत्रोः कार्तिकेयस्यैव पृष्ठं ददतोऽपि मुखं दृष्टवान् । षण्मुखस्य पश्चादपि मुखसंभवादिति भावः । 'निःश्रेणिस्त्वधिरोहिणी इत्यमरः । संकीर्यमाणः स्वयं संकीर्णीभवन् । कर्मकर्तरि लट् । आभोगः शरीरपरिपूर्णता । संकीर्यमाणानेकरसत्वमेव स्फोरयति-जटामिति । मूर्धा किये जटा धत्ते। बाहुशिखरं कर्तृ, परशुश्च धनुश्च परशुधनुषी ते कर्मभूते । सर्वत्र कल्यतीखने- नान्वयः । जनितान्वयस्थापि पुनरन्वय आकाडावशात् । आवृत्तिा कलयति पदे। सदाक्षस्येदं रौदाक्षं वलयं जपमालाम् । अरूढमुत्पन्नम् । विकटे स्फुटे रौद्राद्धते रसो यत्र तबू । एण्या विकार शेयी । एघ्या ढम् । बक्षो हृदयं कर्तृ । कळ- यति दधातीत्यर्थः । अनुकल्पितोऽनुगतः। बाकासे पो ही यात्राकृति- काव्यमाला। (इत्युपसर्पति ।) जामदग्न्यः-(विलोक्य ।) कथमयमसौ श्रूयमाणगुणानुकल्पिता- कारसंवादी दाशरथिः । साधु रे राजन्यपोत, साधु । सविधमुपसरन्समूलका कषितनृपान्वयमद्य मां धिनोषि। हरिमिव करिकुम्भकूटकोटिप्रकटकठोरनखाङ्कुरं कुरङ्गः ॥२८॥ रामः-(सस्मितम् ।) भगवन्भार्गव, गुरुगर्भरूपयोरेतावदेवान्तरम् । किंचे। आदेष्टा मगवान्भूगुर्जननयोरौत्पत्तिकमायो- देवो धूर्जटिरस्त्रकर्मणि गुरुवीय चे दूरेगिराम् । सप्तद्वीपवतीं ददद्भुवमभिप्रैषि द्विजान्कश्यप- प्रायानेप्रतिमानुभाव भवते कस्मैचिदमै नमः ॥ २९ ॥ तत्र गुणा वसन्ति' इति नीतेः । रे आक्षेपे नीचामन्त्रणे वा । बालकाभिमानेन तर्जयन्नाह-सविधमिति । सविधं समीपमुपसरन्नागच्छंस्त्वं मां धिनोधि प्रीणयसि । कीदृशम् । समूलकाषं समूलं कषितो हतो नृपान्वयः क्षत्रियवंशो येन तम् । कमिव कः । हरिमिव कुरङ्गः । यथा कुरङ्गो हरिणो हरि सिंह: प्रीणयति तथा त्वं मामित्यर्थः। तथा च यथा हरिणमारणे सिंहस्य न काप्यशक्तिस्तथा भवद्विनाशे ममेति भावः । कीदृशम् । करिणां हस्तिनां. कुम्भो गण्डस्थलं तस्य कूटं समूहः शिखरं वा । 'कूटं शिखरसंघयोः' इति धरणिः । तस्य कोटिः संख्याभेदस्तत्र प्रकटः स्फुटः कठोरः कठिनः । विदारक इति यावत् । नखाङ्कुरो यस्य तम् । समूलकाषमित्यत्र समूलनिमूलयोः कषः' इति णमुल् । 'यथाविध्यनु- प्रयोग: पूर्वस्मिन्' इति करेवानुप्रयोगः । गुरुमहान् । गर्भरूपो युवा । अन्तरं विशेषः । आदेष्टेति । हे अप्रतिमानुभाव अधिकपराक्रम, भवते तुभ्यमस्सै कस्मैचिदनिर्वचनीय गुणाय नमः । अस्त्विति शेषः । यस्य तवेत्यर्थात् । जन- नयोर्जन्मनोः । उत्पत्तिभवमौत्पत्तिकम् अध्यात्मादित्वाट्ठञ् । बटूकरणं व्रतुं ६.१, , कथमसौ २. 'गुणानुरूपकल्पिताकार-... मुरुगर्भयो, शुरुभ- मयोः', ४.'' 'अप्रतिमप्रभाव'.. .... । - ४ अङ्कः] अनर्धराघवम् । जामदश्यः-अरे क्षत्रियडिम्म, तवानेन सत्त्वसौजन्यपौरुषोत्कर्षण किमप्यन्तराप्यायितोऽसि । किंतु। नाराचैः कृतवीर्यनन्दनवधूबाष्पप्रियंभावुकै- रुत्पाद्य क्षतजोदमर्णवमथ न्युप्तं पितृभ्यां पयः । संप्रत्यस्य समस्तबाहुजभुजः क्रोधस्य निर्वास्थतः शुन्दानो धनुरैन्दुशेखरमहो जातो भवानिन्धनम् ॥ ३० ॥ रामः-(स्मित्वा ।) भगवन् , बालवभावसुलभेन कुतूहलेनः कृष्टं धनुर्भगवतो वृषभध्वजस्य । ब्रह्म । तस्येदं ब्राह्मम् । 'तस्पदम्' इत्यण । तयोर्भगवान्भृगुरादेष्टा निर्वाहकः । धूर्जटिदेवो महेशोऽस्त्रविद्यायां गुरुराचार्यः । तु पुनः । वीर्य पराक्रमो गिरां वाचा दूरै वर्तते । तवः पराक्रमस्तु वक्तुमेव न शक्य इति भावः । सप्तद्वीपवती भुवं ददत्सन्कश्यपप्रायान्कश्यपप्रभृतीन्द्विजानभिप्रेषि अभिसंबध्नासि । संप्रदानीकरो- पीति यावत् । 'जम्बूलंशकुशक्रोञ्चशाकशाल्मलिपुष्कराः। द्वीपाः सप्ताथः सप्तव समुद्रा अपि कीर्तिताः ॥ लक्णेक्षुसुरासर्पिर्दधिदुग्धपयोमया: । इति पुराणम् । अन्तरभ्यन्तरे । आप्यायितस्तृप्तः । क्रोधवंशात्स्तुतिमध्यसहमान आह-नारा. चैरिति । नाराचैर्बाणैः । क्षतजोदं रुधिरमेव पानीयं यस्य तमर्णवमुत्पाद्य अथा- नन्तरं पितृभ्यां पिने मात्रे च पयो न्युप्तं दत्तम् । संप्रति ममास्य निर्वास्यतो निर्वाणतो यास्यतः क्रोधस्यैन्दुशेखर धनुः कर्मभूत क्षुन्दामः क्षुण्ण कुर्वन्भवानि न्धनं जातः । अन्यस्यापि निर्वास्यतो वह्नयादेरिन्धनादिदानादुपचयो भवतीति ध्वनिः । कृतवीर्यनन्दनः कृतवीर्यपुत्रः सहस्रार्जुनः । प्रियंभाबुक इति अप्रियः प्रियो भवतीति 'कर्तरि भुवः खिष्णुच्खुकौ इति खुकञ् । रक्तक्षतजशोणितम् इसमरः । "निवापः पितृदानं स्यात्' इति च । पितृभ्यामिति 'पिती मात्रा' इत्ये- कशेषः । बाहुजं क्षत्रिय मुझे । भुज इति भुजेः किम् । तस्या । क्षुन्दान इति 'क्षुदिरे संप्रेषणे । रुधादिः सानच् । स्मित्वेति । स्वपराकमश्रवणादिति भावः । १. तिजोस्थ: २. भगवन्मार्गव - .
काव्यमाला। तत्रानुषतिकममङ्गलमीदृशं तु संवृत्तमत्र न मया गणितस्त्वमासोः ॥ ३१॥ जामदया-(सरोषम् ।) आः क्षुद्रक्षभियाडम्म, कथं प्रमथनाथ- प्रथमान्तेवासिनं परशुराममपि भवान्नाजीगणत् । महासेनो यस्य प्रमदयमदंष्ट्रासहचरैः शरैर्मुक्तो जीवन्द्विरिख शरजन्मा समभवत् । इमां च क्षत्राणां भुजवनमहादुर्गविषमा- मयं वीरो वारानजयदुपविंशान्वसुमतीम् ॥ ३२ ॥ रामः-शान्तं शान्तम् । प्रेसीद भगवन् , अविमृश्यकारितया न गणितोऽसि । न पुनरवलेपात् । स्त्रीषु प्रवीरजननी जननी तवैव देवी स्वयं भगवती गिरिजापि यस्यै। आनुषङ्गिकं प्रासनिकम् । अनाकलितमित्यर्थः । अमङ्गलं धनुर्भङ्गरूपयू । आ. कोपे। प्रमथनाथः शिवः । 'पिनाकी प्रमथाधिपः' इत्यमरः । नाजीगणन्न व्यकि- तवान् । 'गण संख्याने' । णिचू । लुङ् । ब्लेश्वङ् । 'ई व गणः' इत्याभ्यास ईकारः । महालेन इति । महासेनः कार्तिकेयः। 'कार्तिकेयो महासेनः बार- जन्मा' इत्यमरः । यस्य मम समदन्ततुल्यैः शरैर्मुक्तस्त्वतः सन् द्विरिन द्वौ वास शरजन्मा समभवदृत्तः । शरवणे जातत्वात्प्रथमं शरजन्मेति, पुनरपि परशुराम शराज्जालत्वादस्य वारद्वयं शरजन्मत्वमिति भावः । सोऽयं परशुराम उपविशालेक विंशतिवासन्वसुमती पृथ्वीमजयजितवान् । क्षत्राणां अजवनेन महादुर्गामत एव विषमां कठिनाम् । प्रमदो इसोऽतिमत्तो का। द्विरिति । 'द्वित्रिचतुर्व्यः सुचू । उम- विंशानिति । उपगता निकटस्था विंशतिर्येषां तान् । एकविंशानिमयः। 'अबळेपः स्मृतो गर्दै' इति विधः । स्त्रीष्विति । स्त्रीषु मध्ये प्रवीरजननी प्रदीरम- वित्री । जननी माता । सिरिजा गौरी यस्यै त्वन्मात्रे स्पृहयांबभूव स्टहांचकार । । - १. '' इति पुस्तकान्तरे नास्ति. २. 'प्रतीनि पुस्तास्वारे मालिख.
४ अङ्कः] अनर्घराधवम् । वहोर्वशीकृतविशाखमुखावलोक- ब्रीडाविदीर्णहृदया स्पृहयांबभूव ।। ३३ ॥ जामदश्य:-(विहस्य ।) रे राजन्यपोत, अनुभवपुनरुक्तां मुञ्च नः स्तोत्रचर्या- मुपनमय तदेतत्कौशिकोपज्ञमस्त्रम् । क्षिपति न खलु कालं वीरगोष्ठीविनोद- प्रियपरशुरयं मे बाहुरुद्यच्छमानः ॥ ३४ ॥ रामः-(स्वगतम् ।) अये, भगवन्तं विश्वामित्रमपि स्पृशति । भव- त्वेवं तावत् । (प्रकाशम् । सधैर्यस्मितम् ।) भूमात्रं कियदेतदर्णवर्मयं तत्साधितं हार्यते यद्वीरेण भवाहशेन वदति निःसप्तकृत्वो जयः । डिम्भोऽयं नवबाहुरीदृशमिदं घोरं च वीरव्रत तत्कोपाद्विरम प्रसीद भगवञ्जात्यैव पूज्योऽसि नः ॥३५॥ गौरवं कृतवतीत्यर्थः । 'स्पृहेरीप्सितः इति संप्रदानता। वशीकृतो निष्पीडितः। विशाख: कार्तिकेयः । "विशाखः शिखिवाहनः' इत्यमरः । विदीर्णमिक विदीर्णम् । परशुरामेण कौतुकेनैव बाहुपीडनेन कार्तिकेये जिते सति कथमहो मत्पुत्रः पराज- पीति सलजा या पार्वती योग्यपुत्रप्रसवितृत्वात्वमतिधन्यासीति परशुराममातर सुतवतीति फलितोऽर्थः । अनुभवेति । अनुभवेन पुनरुतां पुनः कथिताम् । उपममयारोपय। कौशिक आद्य उपदेष्टा यत्र तत्कौशिकोपज्ञम् । 'उपज्ञा झन- मायं स्यात्' इत्यमरः । खलु यस्मादर्थे । वीरगोष्ठी युद्धम् । उग्रच्छमान उद्यतो भवन् । 'समुदाङ्भ्यो यमोऽग्रन्थे' इति तङ् । विश्वामित्रमपि स्पृशतीति कौशि- कोपज्ञमस्त्रमुपनमयेत्यनेनेत्यर्थः । भवत्वेवमिति । वीरसदृशं कर्माचरिष्यामीति भावः । भूमात्रमिति । भूमात्रं भूमण्डलं कियदेतत् । अपि त्वल्पमिदम् । अर्णवमयं समुद्रव्याप्तम् । तद्भूमात्रं साधितं जितं सद्भवादृशेन वीरेण यद्धार्यते तत्रिःसप्तकृत्व १. रे राजन्यपोत' इति पुस्तकान्तरे नास्ति. २. 'मितम्'. ३. अहम्'. ४. 'क्रोधात काव्यमाला। जामदग्य:-(सक्रोधकम्पं खगतम् ।) अहो दुरात्मनोऽस्य राजन्य- पोतस्य वीरप्रहतायाः पद्धतेरस्खलितमुक्तिवैदग्ध्यम् । (प्रकाशम् ।) आः पाप, जात्यैव केवलया पूज्यते परशुरामः । कथमद्यापि निरायुधोऽसि । विनयनिचुलितैर्भवद्वचोभिः किमपि नवं विवृणद्भिरङ्कमन्तः । अयमजनि करः कृतान्तदंष्ट्राक्रकचकठोरकुठारदुर्निरीक्ष्यः ॥ ३६ ॥ (उच्चैश्च ।) अहो नु खलु भोः, त्रैलोक्यत्राणशौण्डः सरर्सिंजवसतेयः प्रसूतो भुजाभ्यां स क्षत्रं नाम वर्णः कुलिशकठिनयोर्यस्य दोष्णोविलीनः । एकविंशतिवारान्कृतो जयो वदति कथयति । यदि हि मध्ये तन्न हारितं स्यात्तदा पुनः कथं जयः स्यात् । एकजयेनैव निर्वाहादिति भावः । त्रिरिति 'द्वित्रिचतुर्थ्यः सुच्' । सप्तकृत्व इति 'संख्यायाः क्रियावृत्तिगणने कृत्वसुच्' । अयमहं रामो डिम्भो बालकः । नवबाहुः कोमलबाहुः । वीरव्रतं घोरं भयानकम् । तर्हि किमुचितमि- त्यत आह-तस्माद्धेतोः कोपाद्विरम विरतो भव । नोऽस्माकं जात्यैव ब्राह्मणत्वे- नैव त्वं पूज्योऽसि । ब्रह्मवधभयादेव क्षम्य इति भावः। कोपादिति 'जुगुप्साविराम- इत्यादिनापादानता । विरमेति 'व्यापरिभ्यो रमः' इति परस्मैपदम् । वीरप्रहताया वीरशीलितायाः । पद्धतेर्मार्गत् , मार्गस्य वा। उक्तिप्रत्युक्तिवैदग्ध्यमुत्तरप्रत्युत्तर- कौशलम् । विनयनिचुलितैरिति । भवद्वचोभिरयं मम करो हस्तः कृतान्तो यमस्तस्य दंष्ट्रा दन्तः स एव ऋकचः करपत्रं 'करवत' इति प्रसिद्धं तद्वत्कठोरो यः कुठारस्तेन दुनिरीक्ष्योऽजनि । जात इत्यर्थः । विनयेन निचुलितैः पिहितैः । तथा च विनयेन पिहितम्, परं न त्वदभ्यन्तरेऽपि विनयोऽस्तीति भावः । नोs- स्माकं किमप्यनिर्वचनीयं धनुर्भङ्गरूपमझं कलङ्क विवृणद्भिः प्रकाशयद्भिः। अहो नु खलु भोरिति विस्मये संप्रयुज्यते' इति भरतः । त्रैलोक्येति । अयं पार्वती- धर्मपुत्रः परशुरामः । हरशिष्यत्वात्तस्य । ज्वलति दीप्यते । अतिक्रुद्ध इति या- बत् । कीदृशः। त्रैलोक्यरक्षायां शौण्डः ख्यातो दर्पिष्ठो वा । पुनः कीदृशः। १. 'सक्रोधकम्पन्' इति पुस्तकान्तरे नास्ति. २. 'मस्य' इति पुस्तकान्तरे नास्ति. ३. 'महावीर'. ४. 'प्रकाशं सरोषम्'. ५. 'पूजनीयः'. ६. 'संप्रसूतः . । । ।
४ अङ्क:] अनर्घराधवम् । २०७ ज्वालाजिहालकालानलकवलमयभ्रान्तदेवासुराणि व्यातन्वानो जगन्ति ज्वलति मुनिरयं पार्वतीधर्मपुत्रः॥३७॥ (नेपथ्ये।) भगवन्भार्गव, अप्रवृत्तिविषयं वितन्वतः क्षत्रशब्दमियमेव मेदिनी। दक्षिणा तव बभूव यज्वनो मुञ्च संप्रति तु शुष्कमायुधम् ॥३८॥ जामदग्नयः-अये, प्रशान्तगम्भीरः क एषः । तर्हि जनकेन भवितव्यम् । (तदभिमुखमवलोक्य ।) रॉजर्षे सीरध्वज, भगवतः सूर्यशि- ध्यात्पुराणवाजसनेयिनो याज्ञवल्क्याधीतब्रह्मसिद्धान्तो गृहीतवाक्य एवासि । किं तु नायमवसरः शिष्टानुरोधस्य । ज्वालैव जिह्वा तद्योगालच् । एतादृशो यः कालानलः प्रलयामिः। यद्वा कालो यमः स एवानलोऽग्निस्तस्य कवलनभयेन प्रासत्रासेन भ्रान्ताः पलायिता देवा असुराच येषु ताशानि जगन्ति भुवनानि व्यातन्वानो विस्तीर्णीकुर्वन् । यस्य परशुरामस्थ दोष्णोबाह्रोरधिकरणयोः सः क्षत्रं नाम वर्णः क्षत्रियजातिविलीनो लयितः । की- दृशः क्षत्रं नाम वर्णः । सरसिजवसतेर्ब्रह्मणो भुजाभ्यां संप्रसूतो जातः । बाहुज- त्वात्क्षत्रियस्य । 'बाहू राजन्यः कृतः' इति श्रुतेः । 'शौण्डो मत्ते च विख्याते द- पेशालिन्यपि स्मृतः' इति विश्वः । दोष्णोरित्यत्र 'पद्दन्नोमास्- इत्यादिना दो शब्दस्य दोषनादेशः। नेपथ्ये जनकः परशुरामक्रोधादनिष्टमाशङ्कमान आह- अप्रवृत्तीत्यादि । यज्वनो याज्ञिकस्य तवेयमेव पृथ्वी दक्षिणा बभूव । तस्मा- देतोः संप्रति शुष्कं निष्फलम् । कार्याभावात् । आयुधं मुञ्च । त्यजेत्यर्थः भूमिदक्षिणायैव त्यक्तातः किमर्थमायुधग्रहणमिति भावः । पुराणवाजसनेयेनोकं वेद वा, अधीते वा । 'शौनकादिभ्यश्च' इति णिनिः। ब्रह्म वेदः । गृहीतं [वाक्यं यस्य सः । यद्वा गृहीतं] ज्ञातं वाक्यं वेदवाक्यं येन सः। अवसरः प्रस्तावः । - Samay । १. 'भार्गव भार्गव २. 'अप्रवृत्त'. ३. 'प्रशान्तगम्भीरस्वरेण जनकेन ४. 'राजर्षे इति पुस्तकान्तरे नास्ति. ५. 'वागेवासि'.
काव्यमाला। २०८ अवनिमधिकविंशानभ्यवस्कन्ध वारा- नवभृथमृतकेभ्यः संप्रदाय द्विजेभ्यः । विरमति रमणीयावन्द्रयुद्धात्कथं मे निखिलनृपतिहत्यादृष्टसारः कुठारः ॥ ३९ ॥ (पुनर्नेपथ्ये ।) भूगुतिलक नमस्ते मुञ्च वैमत्यमेत- कुरु करुणमिदानी मानसं मानशौण्ड । वहति बत किमस्त्रं पुत्रमाण्डेऽपि रामे त्रिजगदभयदानस्थूललक्ष्यो भुजस्ते ॥ ४० ॥ जामदश्य:-(रामं प्रति ।) अये, धीरकर्कशखरः क एषः । रामः-(सप्रश्रयम् ।) भगवन् , अयं नस्तातो रघुपतिः । अवनिमिति । मे मम कुठारो द्वन्द्वस्य युग्मस्य युद्धं द्वन्द्वयुद्धं तस्मात्कथं विर- मति। अपि न कथमपीत्यर्थः । अधिकविंशानधिका विंशतिर्येषां तानेकविंशति- वारानभ्यक्स्कन्ध मारयित्वा । क्षत्रियानित्यर्थात् । स्कन्दिरभ्यवपूर्वो मारणार्थः । 'हन्लाश्च' इति चुरादिपाठाणिच् । अवनिं द्विजेभ्यो ब्राह्मणेभ्यो दत्त्वा । कीट- शेभ्यः । अवमृथो यज्ञान्तस्तस्य भूतका वैतनिका ऋत्विजस्तेभ्यः। यागे मृति- भुत्विम्भवति । हत्या हननम् । 'दीक्षान्तोऽवमृथो यज्ञे' इत्यमरः । “मृतको मृतिभुकर्मकरो वैतनिकोऽपि सः' इति धरणिः । नेपथ्ये दशरथः परशुरामादनि- टमाशङ्कमानः पुत्रस्नेहात्तं निवर्तयितुमाह-भृगुतिलकेति । मानेन माने वा शौण्ड' ख्यात हे, ते तव भुजः पुत्रमाण्डेऽपि पुत्रतुल्येऽपि रामे रामचन्द्रे किमत्र वहति कुतोऽनं धारयति । अपि तु पुत्रेऽस्त्रधारणमयुक्तमिति भावः । बत बँदै। अनाधारणे हेतुमाह-त्रिलोक्या अभयदाने स्थूललक्ष्यो बहुप्रदः । तथा च रामचन्द्रेऽप्यभयदानं युक्तमिति भावः । वैमत्यं मतविपरीतता । करुणं कृपामयम् । 'भाण्डं पात्रेऽपि सदृशे खल्पेऽपि च निगद्यते इति धरणिः । 'स्थूललक्षो बहु- प्रदः' इत्यमरः । धीरो गभीरः । धिक् निन्दायां सामान्यतः । तेन तद्योगेन १. 'पुनः' इति पुस्तकान्तरे नास्ति. ।
४ अङ्कः] अनर्घराघवम् । २०९ जामदग्या---(सव्यथम् ।) धिक्, सर्वतः क्षत्रकलम्बोद्भेदः । (नेपथ्य-- भिमुखमवलोक्य ।) भो राजन्दशरथ, असैन्नामधेयमात्रमित्रेण पुत्रेणामुना माना) भवान् । किं पुनरनभिज्ञोऽसि वीरव्यवहारस्य । पुरमथनधनुर्विमर्दनोत्थं प्रदहदहर्दिवमस्ति तीव्रमचिः । रघुजनककुटुम्बबाष्पपूरैः परमिह शान्तिमुशन्ति शस्त्रभाजः ॥४१॥ (नेपथ्ये ।) आः जामदग्न्य, किमेवमतिप्रसक्तः संन्यस्तस्त्रिानस्सानपि बलाद्ध- नुहियसि । जामदश्यः-(सरोषम्।) अरे विदेहप्रसवपांशुल, अयमधिपतिर्भासामेकान्तरो भक्तो गुरु- स्त्वमसि तपसा यद्वर्षीयानिति स तितिक्ष्यसे । द्वितीया । सर्वतः सर्वत्र । कलम्बोऽङ्कुरः। उद्भेदः प्रकाशः। गुरुधनुर्भङ्गजन्यको- धान्धः स्तुतिमप्यसहिष्णुराह-पुरमथनेति । पुरमथनधनुर्विमर्दनोत्थं हरध- नुभङ्गसमुद्भूतं तीव्रमर्चिस्तेजोऽस्ति । अहर्दिवं प्रत्यहं प्रदहत् । 'अचतुर-' इत्या- दिना निपातनम् । शत्रभाजोऽस्मदादयो रघुजनकयोः कटुम्बस्य बाष्पपूरैः पर- मर्चिषः शान्तिमुशन्तीच्छन्ति । 'वश कान्तौ' । 'अहिज्या--' इत्यादिना संप्रसा- रणम् । नेपथ्ये जनकवचनम् । 'आस्तु स्यात्कोपपीडयोः' इत्यमरः । पांशुलोऽधमो दूषको वा । अयमिति । अयं भासामधिपतिः सूर्यो भवतः एकान्तरो गुरुः । याज्ञवल्क्येन सूर्यादधीतम् , जनकेन याज्ञवल्क्यात् , तेन सूर्यशिष्यशिष्यो जनकः। तपसा यद्वर्षीयान्वृद्धस्त्वमसि, अतो हेतोस्तितिक्ष्यसे म क्षान्तोऽसि । कचित् 'तपसे' इति पाठः । तत्र त्वमपि तपसे तपः करोषीति हेतोस्तितिक्ष्यसे स क्षा- न्तस्त्वम् । धनुर्नामग्राही धनुषो नामग्रहणकर्ता कथमसि । अपि तु धनुर्नामग्राही यदसि तत्तस्मादेष भवान्समाप्यते । मार्यत इत्यर्थः । कीदृशः । मम हि ममैव १. 'कदम्बकोद्भेदः'. २. 'नेपथ्याभिमुखः'. ३. 'राजन्' इति पुस्तकान्तरे नास्ति. ४. 'नामधेयमित्रेण'. ५. 'सूनुना मानार्दो'. ६. 'शस्त्रानपि'. ७. 'पांसन' ८. 'तपसा त्वम्'. । । । १४ अ० रा.
काव्यमाला। कथमसि धनुर्नामग्राही तदेष समाप्यते मम हि सकलक्षत्रालम्भकतोरमृतं भवान् ॥ ४२ ॥ (नेपथ्ये। भार्गव भार्गव, च्यवनादिवृद्धवाक्यगौरवनिगृहीतसंप्रहारक्रियासम- मिहारस्य तत्रभवतः परमे ब्रह्मणि वर्तमानस्य पुनरुपप्लवन्ते बुद्धयः । तद्विरम, कियच्चिरमितः परमपि नाटयिष्यति भवन्तमायुधपिशाची। जामदग्यः-(विहस्य ।) अहो याज्यस्नेहः शतानन्दमाकुलयति । भवतु, सान्त्वयामि तावदेनम् । (तदभिमुखम् ।) आङ्गिरस, नृपस्ते पाल्योऽयं मम पशुपुरोडाशरसिकः पृथिव्यामव्याजोद्भटभुजभृतः सन्ति रघवः । अमीषामुत्सितं किमपि कुलमुत्कृत्य लवशो विधाता तत्सर्वं यदभिरुचितं ते भृगुपतिः ॥ ४३ ॥ सकलक्षत्रालम्भकतोर्निखिलक्षत्रियमारणयज्ञस्यामृतं यज्ञशेषीभुतः । तितिक्ष्यस इत्यत्र 'तिज निशाने' । 'गुप्तिकिझ्यः सन्' इति क्षमायां सन् । 'लट् स्मे' इति कर्मणि लटू । हि हेताववधारणे' इत्यमरः । 'अमृतं यज्ञशेषे स्यात्' इति विश्वः। च्यवनो मुनिः । वृद्धः पण्डितः सुचिरो वा। निगृहीतः संकुचितः। संप्रहारो युद्धम् । क्रियासमभिहारः पौनःपुन्यं भृशार्थों वा । तत्रभवतो मान्यस्य । तवेति शेषः । ब्रह्म तत्त्वम् । उपल्लवन्तेऽस्थिरीभवन्ति । पिशाची तृष्णा । याज्यत इति याज्यो यागशिष्यः। नृप इति । ते तवायं नृपो जनको मम पाल्यो रक्षणीयः। पशुश्छागो मृगो वा। पुरोडाशो हविर्भेदः। तथा च पशुपुरोडाशरसिकोऽयं तपस्वी वराको न हन्तव्य इति भावः । क्रोधान्धोऽपि मान्यतया प्रबोधायाह-अमीषां रघूणामुत्सितमुद्धतं कुलं लवशो लेशं लेशं कृत्वोत्कृत्य खण्डयित्वा यत्ते तुभ्यम- भिरुचितं तव प्रीतिविषयस्तत्सर्वं भृगुपतिर्विधाता करिष्यति। रामभद्रविनाशवर्ज, १. समाप्यसे'. २. भगवन्भार्गव'. ३. भवत'. ४. 'विरम विरम'. ५. 'इय- मपरमपि'. ६. परवन्तम".
४ अङ्क:] अनपराघवम् । २११ (नेपथ्ये।) आः पाप क्षत्रियायाः पुत्र, क्षत्रियभ्रूणहत्यापातकिन् , निसर्गनि- ष्प्राणं हि प्रहरणमिक्ष्वाकूणां ब्राह्मणेषु । तैर्यादृशस्तादृशो वा सोढ- व्योऽसि । कथमेवमतिक्रामन्नस्माकमपि ब्रह्मवर्चसान्न बिभेषि । जामदग्न्यः-(सरोषहासम् ।) अरे ब्रह्मबन्धो बान्धकिनेय गौत- मगोत्रपांसन, कुर्युः शस्त्रकथाममी यदि मनोवंशे मनुष्याङ्कुराः स्यान्चेब्रह्मगणोऽयमाकृतिगणस्तनेष्यते चेद्भवान् । सम्राजां समिधां च साधकतमं धत्ते छिदाकारणं धिमौर्वीकुशकर्षणोल्बणकिणग्रन्थिममायं करः॥४४॥ (नेपथ्ये ।) सकलमभिमतं ते करिष्यामीति भावः । 'रच्यर्थानां प्रीयमाणः' इति संप्रदानता । नेपथ्ये पुनः शतानन्दवचनम् । आः कोपे । क्षत्रियायाः पुत्र । कुत्सितक्षत्रियायाः पुत्रेत्यर्थः । षष्ट्या आक्रोशे' इत्यलुक् । भ्रूणो गर्भः। हत्या हननम् । 'हनस्त च' इति भावे क्विप् । तश्चान्तादेशः। निसर्गनिष्प्राणं खभावबलशून्यम् । ब्रह्म- वर्चसं ब्रह्मतेजः । यद्वा वृत्ताध्ययनसंपत् । 'स्याब्रह्मवर्चसं वृत्ताध्ययनर्द्धिः' इत्य- मरः । 'ब्रह्महस्तिभ्यां वर्चसः' इत्यच् । वर्चसादिति 'भीत्रार्थानां भयहेतुः' इत्य- पादानता । ब्रह्मबन्धो कुत्सितब्राह्मण। 'ब्रह्मबन्धुरधिक्षेपे' इत्यमरः । बान्धकिनेयो. ऽसतीपुत्रः। 'अथ बान्धकिनेयः स्याद्वन्धुलश्चासतीसुतः' इत्यमरः। कुर्युरिति ।म- नोवंशे कुले अमी मनुष्याङ्कुरा मनुष्यपोता यदि शस्त्रकथां कुर्युः । यदि चायं ब्रह्मगणो ब्राह्मणगणः ऋत्विग्गणो वा आकृतिगणः स्यात् । आकृत्या आकारेण गृह्यते यत्र गणेस आकृतिगणो वैयाकरणप्रसिद्धः। तत्रापि चेद्यदि भवानिष्यते। तदा सम्राजां क्षत्रियाणां समिधा होमीयकाष्ठानां च च्छिदाकारणं छेदनिमित्तं साधकतमं करणं कुठारं यन्ममायं करो धत्ते तद्धिक् निष्फलम् । इह धिक्शब्दस्य कुत्सार्थस्याभावान्न द्वितीया । 'धिग्भर्त्सने च निन्दायां निष्फले कुत्सितेऽपि च' इति विश्वः । 'मौर्वी १. 'क्षत्रियपुत्र'. २. 'अतिक्रमन्. । - २१२ 'काव्यमाला। । भगवन्भार्गव भार्गव, त्वं वेदवानसि वसिष्ठगुरोः सनाभिः खायंभुवः स भगवान्प्रभवो गुरुस्ते । तेनातिमात्रमसृणं हृदयं मदीय. मद्यापि न त्रुटति शाम्यतु ते कुदृष्टिः॥ ४५ ॥ जामदग्यः-(सोच्चै सम् ।) किमात्थ रे दशरथ, किमात्थ नाद्यापि हृदयं त्रुटतीति । कथं वा त्रुटतु यावदेष न व्याप्रियते परशुः। (नेपथ्ये।) आः जामदम्य, गुरूनप्यधिक्षिपसि । पुरोजन्मा नाद्यप्रभृति मम रामः खयमहं न पुत्रः पौत्रो वा रघुकुलभुवां च क्षितिभुजाम् । अधीर धीरं वा कलयतु जनो मामयमयं मया बद्धो दुष्टद्विजदमनदीक्षापरिकरः ॥ १६ ॥ जामदग्यः-(सावज्ञं रामं प्रति ।) अये, किमयं लक्ष्मणो भवन्तं पुरोजन्मानमपदिशति । ज्या शिञ्जिनी गुणः' इत्यमरः । "किणः स्यान्मृतशोणिते' इति च । नेपथ्ये दश- रथवाक्यम् । सनाभिः सपिण्डः । एकगोत्र इति यावत् । 'सपिण्डास्तु सनाभयः' इत्यमरः । स्वयंभूर्ब्रह्मा । तस्यापलं खायंभुवः । अण् । संज्ञापूर्वकविधेरनित्यत्वान्न गुणः । किं तु उवडेव भवति । प्रभवत्यस्मादिति प्रभव उत्पत्तिहेतुः। गुरोरधि. क्षेपमसहमानः सक्रोधं लक्ष्मण आह-पुरोजन्मेति । अद्यप्रभृत्यद्यारभ्य रामो मम पुरोजन्मा ज्येष्ठभ्राता न। तदादेशाकरणात् । रघुवंशजातानां क्षितिभुजां च न पुत्रो न वा पौत्रः । तादृशाचारानाचरणात्। किं तु खयमेवाहम् । असाधारणखभाव इति भावः । अधीरमपण्डितमधैर्यशालिनं वा कलयतु कथयतु जानातु वायं जनः । अयं परिकरः प्रारम्भः । संनाहो बद्धः कृतः । 'मामघमयम् इति पाठे अघमर्य १. 'भगवन्' इति पुस्तकान्तरे नास्ति. २. 'अपि' इति पुस्तकान्तरे नास्ति. ३. 'अवीरं वीरं वा'. ।
windore ४ अङ्कः] अनर्धराघवम् । २१३ रामः- -(सविलक्षस्मितम् ।) प्रसीद भगवन् , स एवायं यौवनाद- र्वाचि निरपराधमधुरे वयसि वर्तमानो यानिकानिचिदक्षराणि प्रल्पति । जामदग्न्यः-(सस्मितम् ।) कथमेतावत्यपि माममृष्यमाणमाश- कसे । यतस्त्वद॑नुवर्ती खल्वयं त्वामेवास्तमयमानमन्वस्तमयिष्यते । निर्वाणं हि सवितारं तरणिमणिरप्यनुनिर्वाति । (नेपथ्यं प्रति ।) साधु लक्ष्मण, साधु । कनिष्ठतरोऽपि वरं भवान् , न पुनरयं वृथाज्येष्ठो रामस्ते । । । । प्रागुच्चैःर्शिरसं क्षुरप्रनखरैः क्रौञ्चाद्रिदन्तावलं भित्त्वा हंसमयानि मौक्तिकफलान्याकीर्य पर्यापिताम् । सैंही वृत्तिमधिष्ठितेऽपि हि मयि क्षात्रेण कल्पेन ते दिष्ट्या कौतुकमाभिरामिकमसि त्वं कोऽपि वीराङ्कुरः ॥४७॥ पापमयं द्विजवधात् । अपदिशति दूरीकरोति । यौवनादर्वाचि यौवनात्पूर्वस्मिन् । कौमार इत्यर्थः । प्रलपत्यनर्थकं वदति । 'प्रलापोऽनर्थकं वचः' इत्यमरः । एता- वति विषये । अमृध्यमाणमक्षाम्यन्तम् । अस्तं नाशमयमानं गच्छन्तम् । 'अय गतौ । शानच् । अनु पश्चात् । तरणिमणिः सूर्यकान्तः। वरं भवानिति वरमव्य- यम् । 'मनागिष्टे वरं यत्तु कश्चिदाह तदव्ययम्' इति शाश्वतः । यथा. 'याच्या मोघा वरमधिगुणे' इति, 'वरं विरोधोऽपि समं महात्मभिः' इति च । प्रागिति । प्राक् पूर्व क्षुरप्रस्वरूपैर्नखरैर्नखैः क्रौञ्चाद्रिरेव क्रौत्रनामकपर्वत एव दन्तावलो हत्ती तं भित्त्वा विदार्य हंसमयानि हंसरूपाणि मौक्तिकान्याकीर्य विक्षिप्य पर्यापितां व्य- वस्थापितां सैंहीं सिंहस्येयं सैंही तां वृत्तिं व्यापारमधिष्ठितेऽप्यास्थितेऽपि मयि वि- षये ते तव क्षात्रेण कल्पेन विधिना कौतुकं कौतुकहेतुत्वादस्ति । कीदृशम् । आ- भिरामिकम् । अभिरमणमभिरामः प्रीतिः । तस्मै प्रभवत्याभिरामिकम् । तस्मै प्र- भवति संतापादिभ्यः' इति ठक् । तस्मात्त्वं कोऽप्यनिर्वचनीयो वीराङ्कुरोऽसि । उच्चैःशिरस मिति । उच्चैः शिरो मस्तकं शिखरं वा यस्य तम् । 'परशुरामेण क्रौञ्चं १. सवैलक्ष्य-'. २. 'अर्वाच्यपराध-'. ३. एतावतापि'. ४. स्वदनुवर्ती ख- ल्वल्पं'. ५. 'वरो'. ६. 'शिखर', - २१४. काव्यमाला। , (नेपथ्ये ।) भार्गव भार्गव, दुर्विज्ञानमिदमक्फिलनिष्पत्तेराभिरामिकं सामा- मिकं वा। रामः-(सरोषं नेपथ्याभिमुखम् ।) आः वत्स, कोऽयमद्यतनस्ते दुर्विनयप्ररोहो यद्गुरूनपि क्षेत्रीकरोषि । (नेपथ्ये ।) आर्य, तूष्णीमयमस्मि । क्षमख जामदग्य, नियन्त्रितोऽहमार्येण । राम, कथमद्यापि वाचमेव सूनृता- मस्सदभियोगप्रशमनी प्रेथयसे । कवचहरोऽसि । शस्त्रैरेव प्रतिक्रियन्तां शस्त्राणि । किं च रे, राजन्येभ्यो जन्म वैवखतेभ्यश्चक्रे चापाचार्य कौशिकश्च । क्षात्री चर्यामेवमुन्मुञ्चतस्ते गोत्राक्षेपी वज्रलेपः कलङ्कः ॥ १८॥ जामदग्यः--(विहस्य ।) अरे - मित्वा राजहंसा आनीता' इति पुराणम् । क्षुरप्रखुरप्रशब्दावस्त्रभेदवाचकावपि भवतः । 'क्षुर विखण्डने', 'खुर च्छेदने' इति धात्वोर्वर्णदेशनायां साधितत्वात् । 'दशाननक्षिप्तखुरप्रखण्डितः' इत्यत्र, पुरस्तात् 'मृगखुरक्षुरप्रव्यालेखस्थपुटितवि- भागा वनभुवः' इत्यत्र च प्रयुक्तत्वात् । दन्तावलमिति 'दन्तशिखात्संज्ञायाम्' इति वलच् । 'वले च' इति दीर्घः। अर्वाक् पूर्वम्। सानामिकमाभिरामिकवत्साधु । क्षेत्रमाश्रयः । क्षमख सहख । 'क्षमु प्रसहने' भूवादावपि पठ्यते । स चात्मने- पदी । सूनृतां प्रियसत्याम् । 'सत्यं प्रियं च वचनं सूनृतं समुदाहृतम्' इति । अभियोगो युद्धम् । कवचहरः संनद्धः । राजन्येभ्य इति । वैवखतेभ्यो विव- खदपत्येभ्यो राजन्येभ्यः क्षत्रियेभ्यस्ते तव जन्म । अभूदिति शेषः । कौशिकश्च तव चापाचार्यकं धनुरध्यापकत्वं चक्रे कृतवान् । क्षात्रीं क्षत्रसंबन्धिनी चर्चा परि- पाटीमुन्मुञ्चतस्त्यजतस्तव गोत्रमाक्षिपतीति गोत्राक्षेपी कलङ्कोऽपवादः । जात इति शेषः । तथा च क्षत्रियेभ्यो जन्म, विश्वामित्रादध्ययनं च क्षात्रचर्यापालनकारणम् , १. विनयातिप्ररोहो यद्गूनपि', २. 'तूष्णीमस्मि'. ३. 'रे'. ४. 'कथं वाचमेव'. ५. 'समर्थयसे.
४ अङ्कः] अनर्घराघवम् । रामः--(सगर्वस्मितम् ।) भगवन् , सत्यमेतत् । जातः सोऽहं दिनकरकुले क्षत्रियश्रोत्रियेभ्यो विश्वामित्रादपि भगवतो दृष्टदिव्यापारः । अस्मिन्वंशे कथयतु जनो दुर्यशो वा यशो वा विप्रे शस्त्रग्रहणगुरुणः साहसिक्याद्विभमि ॥ १९ ॥ जामदग्यः-(सक्रोधम् ।) आः पाप दुर्मुख, वसिष्ठ इव विश्वा- मित्र इव स्वस्तिवाचनिको ब्राह्मणस्ते परशुरामः । (सव्यथम् ।) धिक्क- ष्टम् । एवमुच्चावचवाचः क्षत्रियाः श्रूयन्ते । (क्रोधातिशयं नाटयन् ।) अयमहं भोः, सहदशरथमद्योत्कृत्य पुत्रैश्चतुर्मि- जनककुलकबन्धस्कन्धनिर्गत्वरीभिः । नवरुधिरलताभिः क्लुप्तलीलापताकां रणभुवमतिरौद्री रुद्रशिष्यः करोमि ॥ ५० ॥ तत्सर्वं त्यजतस्तव कलङ्क एव भविष्यतीत्यतः सर्वथा मया सह युद्धादि योग्यमिति भावः । आचार्यकमिति 'योपधाद्गुरूपोत्तमाद्रुम्' इति भावे वुञ् । जात इत्या- दि। श्रोत्रियश्छन्दोध्येता उत्तमो वा । दृष्टं ज्ञातम् । अस्मिन्वंशे सूर्यवंशे । सहो बलं तेन सह वर्तते साहसिकः । 'ओजःसहोऽम्भसा वर्तते' इति ठक् । तस्य भावः साहसिक्यं साहसम् । अस्यैव विशेषणं गुरुण इति । 'भीत्रार्थानां भयहेतुः' इत्यपादानता । खस्तिवचनमाह खतिवाचनिकः । तदाहेति माशब्दादिभ्यः' इति ठक् । 'उत्तरपदस्य च' इति वृद्धिः । यद्वा खस्तिवाचन प्रयोजनमस्य । 'तदस्य प्रयोजनम्' इति ठक् । 'उच्चावचं नैकभेदम्' इत्यमरः। सहदशरथेति । चतुर्भिः पुत्रैः सह । सहयुक्ते तृतीया । उत्कृत्योन्मूल्य। स्कन्धः समूहः । निर्गत्वरी निर्गम- नशीला। 'गत्वरश्च' इति साधुत्वम् । नवरुधिरेति । नवपदं स्त्यानरकनिषेधार्थम् । अन्यापि पताका लतया क्रियत इति ध्वनिः। अतिरौद्रीमतिभयानकाम् । वाचा त्रा- १. कुलक्षत्रिय-'. २. लब्धाविद्यान-'.३. 'अस्मिनशे कलयतु'. ४. 'लुन-. ।
काव्यमाला। रामः-(सरोषम् ।) आः जामदग्न्य, केयं वाग्विभीषिका । दूर- मतिकामति प्रसङ्गे कदाचिदिक्ष्वाकवोऽपि दुर्मनायन्ते । जामदग्न्यः-(संभृकुटीभङ्गम् ।) ततः किम् । -(सावष्टम्भम् ।) ततश्च । तैस्त्रिःसप्तभिरेव राजविजयैर्यत्ते भुजस्तम्भयोः कृत्वा तोरणमालिकां पुनरमुं द्वाविंशमारिप्सते । द्रक्ष्यामि त्वयि वर्तमानमधुना तच्चापविद्याद्भुतं शंभोस्तस्य हि केवलेन धनुषा कृष्टेन तुष्टिर्न मे ॥ ५१ ॥ जामदस्य:-(सरोषम् ।) किमात्थ रे, किमात्थ । ('द्रक्ष्यामि त्वयि वर्तमानमधुना' इत्यादि श्लोकोत्तरार्धं पठित्वा सव्यथम् ।) अहो सर्वतः समि- ध्यमानदारुणस्य रोषजातवेदसो विदेहदिलीपयोः कुलं नाम कति भविष्यन्त्याहुतयः । (उच्चैः ।) भो भोः सप्तद्वीपकुलपर्वतवर्तिनो राजानः, चेतयध्वं चेतयध्वम् । - सयितुमिच्छा वाग्विभीषिका । बिभेतेरन्त वितण्यर्थात्सन् । अतिक्रामति वर्तमाने प्रसङ्गे कोपे। दुर्मनायन्ते। अच्च्यर्थे भृशादित्वात्क्यङ् सलोपश्च । तैरिति । यच्चापविद्याद्भुतं कर्तृ, तैत्रिभिः सप्तभिरेकविंशतिसंख्याकै राजविजय जावेव स्तम्भौतयोस्तोरणमालां कृत्वा पुनरप्यस्मजयादमुं द्वाविंशं द्वाविंशतेः पूरणं राज- विजयमारिप्सते आरब्धुमिच्छति । तदधुना त्वयि वर्तमानं द्रक्ष्यामि। यतः केवलेन हरचापाकर्षणेन मम न तुष्टिः । द्वाविंशमिति द्वाविंशतः पूरणम् । 'तस्य पूरणे डट्' "तिविंशतेर्डिति' इति टिलोपः। समिध्यमानस्य खयं दीप्यमानस्य। 'जिइन्धी दीप्तो' जातवेदसोऽग्नेः कुलपर्वता गन्धमादनादयः । राजानो दिक्पालाः । चेतयध्वं चे- - ३. 'सभ्रुकुटिबन्धम्'. ४. 'ससंरम्भम्'. १. 'सक्रोधम्'. २. 'विभीषा'. ५. 'उच्चैः' इति पुस्तकान्तरे नास्ति..
४ अङ्क:11 अनर्घराघवम् । २१७ येन खां विनिहत्य मातरमपि क्षत्रालमध्वासव- खादाभिज्ञपरश्वधेन विदधे निःक्षत्रिया मेदिनी। यहाणवणवर्मना शिखरिणः क्रौञ्चस्य हंसच्छला- दद्याप्यस्थिकणाः पतन्ति स पुनः क्रुद्धो मुनिर्भार्गवः ॥५२॥ रामः-(सहर्षसंभ्रमम् ।) नृपानप्रत्यक्षान्किमपवदसे नन्वयमहं शिशुक्रीडाभग्नत्रिपुरहरधन्वा तव पुरः । अहंकारक्रूरार्जुनभुजवनव्रश्चनकला- निसृष्टार्थो बाहुः कथय कतरस्ते प्रहरतु ॥ ५३ ॥ जामदग्न्यः-(सकोपाटोपम् ।) आः पाप विकर्तनकुलकलङ्क, पु. नस्तरां तदेव पार्वतीदयितकोदण्डदलनसाहसमुद्भावयसि । अहह क्षत्रियोऽपि भार्गवस्य कार्तवीर्यजयिनं भुजदण्डमन्विष्यति । अहो गरीयान्कालः । यदश्रुतचरमपि श्रावयति । अष्टचरमपि दर्शयति । अपि च रे राजन्यकीट, जानास्येव यथा पितुः परिभवन्होमार्जुनीमर्जुनो मत्कोदण्डमनेकराजकवधस्वाध्यायमध्यापिपत् । तना भवत । विधौ लोद । येनेति । खां मातर क्षत्रियामेव । क्षत्रास्रमेव क्षत्रिय- रुधिरमेव मधु क्षौद्रं आसवो मद्यम् । मध्वासवो माधवको मधु माध्वीकमद्वयोः' इत्य- मरः। रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् इति च । 'परशुश्च परश्वधः' इत्यमरः। व्रणं रन्ध्ररूपम् । हंसा हि कैलासस्थमानससरसः शरदि क्रौञ्चगिरिविवरेण भुवमाया- न्तीति वर्ता । नृपानिति । अपवदसे निन्दसि । 'अपाद्वदः' इति तङ् । अय- महमित्यत्यन्ताहंकारे । त्रिपुरहरो'महेशः । अर्जुनः कार्तवीर्यः । ब्रश्चनं छेद- नम् । निसृष्टार्थो ज्ञातार्थः । विकर्तनः सूर्यः। अश्रुतचरं न पूर्वश्रुतम् । 'भूतपूर्वे चरट्' । कीट इव कीटः पोतः । जानास्येवेति । मम पितुर्जमदग्ने)मसाधनि- १. सहासम्.२. 'साटोपम्'. ३. 'साहसम्' इति पुस्तकान्तरे नास्ति. 'कार्त- वीर्यभुजविजयिन-अन्वेषयति'. ५. 'अध्यापयत्। । । ।
काव्यमाला। । तेनैवास्ति भवत्सु यद्यपि मम क्रोधोऽयमौत्सर्गिक- स्तत्संप्रत्युपसर्जनं गुरुधनुर्भङ्गादयं हेतुमान् ॥ ५४॥ राम:-ऋषे जामदग्न्य, पटच्चरीभूता खल्वियं पुरातनी कीर्ति- पताका । नन्विदानीमेव द्रष्टव्यम् । (नेपथ्याभिमुखम् ।) वत्स लक्ष्मण, धनुर्धनुः । जामदग्नयः-(साक्षेपम् ।) अरे अनात्मज्ञ क्षत्रियबटो, तच्चापमीशभुजपीडनपीतसारं प्रागप्यभज्यत भवांस्तु निमित्तमात्रम् । राजन्यकप्रधनसाधनमस्मदीय- माकर्ष कार्मुकमिदं गरुडध्वजस्य ॥ ५५ ॥ आकृष्टेन पुनरमुनैव धनुषा किलास्मानमियोत्स्यसे । क्षत्रसत्रे दीक्षि- तानां तु चिरस्य होतायं परशुरस्माकमस्त्येव । (इति रामस्य हस्ते धनुरर्पयति ।) कामर्जुनी गां परिभवन्नपहरन्सन्नर्जुनः कार्तवीर्यो यथा मम कोदण्डं धनुरनेकक्ष- त्रियवधस्वरूपं स्वाध्यायं वेदं पाठमानं वाध्यापिपदध्यापितवान्, तथा त्वं जाना- स्येव । तेनैव हेतुना भवत्सु क्षत्रियवंशोद्भूतेषु ममौत्सर्गिकः स्वाभाविकः क्षत्रिय- सामान्यविषयकः क्रोधो यद्यप्यस्ति तत्संप्रत्युपसर्जनमप्रधानम् । यतो गुरुधनुर्भ- 'झादयं क्रोधः क्षत्रियवधे हेतुमान्प्रयोजकवान् । 'तत्प्रयोजको हेतुश्च' इति । 'भङ्गा- दहं हेतुमान्' इति पाठेऽहमेव प्रयोजकवानित्यर्थः। 'भङ्गे तु' इति पाठे भने सतीत्यर्थः । अध्यापिपदिति अधिपूर्वकादिङः 'क्रीजीनां णौ' इत्यात्वे कृते रूपम् । न च 'अभिज्ञावचने लट्' इति लट् स्यादिति वाच्यम् । विभाषा साकाझे' इति विक- ल्पनात् । 'अर्जुनी सौरभेयी गौः' इत्यमरः । 'अर्जुनः ककुभे पार्थे भवेदप्यर्जुनी गवि' इति मेदिनीकरः । पटचरीभूता जीर्णवस्त्रीभूता । 'पटचरं जीर्णवस्त्रम्' इत्य- मरः । अनात्मज्ञोऽतत्त्वज्ञः । चापं कर्तृ । पीतसारं गृहीतबलम् । प्रागप्यभज्यत १. "ऋषे' इति पुस्तकान्तरे नास्ति. २. 'साक्षेपम्' इति पुस्तकान्तरे नास्ति. ३. २२.४ 'अभियोक्ष्यसे'. ५. 'अयम्' इति पुस्तकान्तरे नास्ति. - ।
पूर्वमेव भन्नम् । अपिरेवार्थे। भजो आमर्दने ४ अङ्क:] अनर्घराधवम् । राम:-(गृहीत्वा ।) भार्गव, समन्तादुद्धातिनी भूमिरियम् । तदेहि, विमर्दक्षमं प्रदेशान्तरमवतरावः। जामदग्यः-(सरोषं परिक्रामन् ।) भो भोः क्षात्रेण ब्राह्मण च तेजसा विकत्थमानाः, तदत्र भवतु शरणदो वा सर्वशस्त्राभिसारः प्रतिविदधतु वास्सिन्नाशिषो वैजयिक्यः । अदशरथमरामं निर्विदेहेन्द्रमुर्वी- वलयमिह विधत्ते रोषणो रैणुकेयः ॥ ५६ ॥ (इति निष्क्रान्तौ।) (नेपथ्ये।) भो भोः पौरजानपदाः, प्रवर्त्यतां माङ्गलिकमातोद्यम् । प्रसज्यता- मयमपि वैदेहीविवाहमहोत्सवो जामदग्यविजयोत्सवेन । यसमूहः । प्रधनं मारणम् । साधनं हेतुः। कार्मुकं धनुः । अभियोत्स्यसे योध- यिष्यसि । शनसने क्षत्रियहोमयज्ञे । 'सत्रमाच्छादने यज्ञे' इति विश्वः । दीक्षि- तानां गृहीतव्रतानाम् । उद्धातः पादस्खलनं तद्युक्ता उद्घातिनी । 'उद्धातस्तु पुमा- न्पादस्खलने समुपक्रमे' इति मेदिनीकरः। विकत्थमानाः श्लाघमानाः । शरणं रक्ष- णम् । 'शरणं रक्षणेऽपि च' इति धरणिः । सर्वशस्त्राभिसारः सर्वयोधैरेकदैव सर्वशस्त्रेण युद्धम् । प्रतिविदधतु प्रतीकारं कुर्वन्तु । वैजयिक्यो विजयप्रयोजनाः। 'तदस्य प्रयोजनम्' इति ठक् । रोषणो रोषशीलः । 'क्रुधमण्डार्थेभ्यश्च' इति युच् । रेणुका परशुराममाता। तस्या अपत्यं रैणुकेयः। 'स्त्रीभ्यो ढक्'। निष्क्रान्तौ रामपर- शुरामौ । मङ्गलाय प्रभवति माङ्गलिकम् । 'तस्मै प्रभवति संतापादिभ्यः' इति ठक् । आतोद्यं वीणामुरजवंशकांस्यवाद्यम् । 'चतुर्विधमिदं वाद्यं वादित्रातोधनामकम्' इत्य- मरः । प्रसज्यतामारभ्यताम् । यद्वा प्रसज्यतां प्रसङ्गादेव निष्पाद्यताम् । अन्यथानु- "ष्ठितस्यान्यदीयोपकारजननसामर्थ्य प्रसङ्गः। यथा प्रासादे देवाय दत्तस्य दीपस्य १. 'प्रसर्पतामयं वैदेहीविवाहोत्सवो जामदग्यविजयमहोत्सवेन'; 'प्रसज्जतामय. मपि-विजयेन'. .
२२० काव्यमाला। कन्यां काचिदिहापि कर्मणि पणः स्यादित्यसूयावल- सीतापाङ्गमयूखमांसलमुखज्योत्स्नाविलिप्ती दिवम् । कुर्वाणेन रघुबहेन चकृषे नारायणीयं धनुः संघायाथ शरश्च भार्गवगतिच्छेदादमोघीकृतः ।। ५७ ॥ (ततः प्रविशतो रामजामदग्न्यौ।) रामः-भगवन्भार्गव, -- परैराहूतानां विहितमपि शस्त्रं भवतु नः प्रकृत्या विप्रेभ्यः पुनरकृतशिल्पा रघुभुवः । चिरादण्डीरेण त्वयि तदपि रामे न गणितं तपोविद्यावीरव्रतमय मैयि क्षाम्यतु भवान् ॥ ५८ ॥ जामदग्न्यः-(विहस्य ।) कथमपराद्धमस्सासु वत्सेन । यदर्थमस्माभिरिह प्रकोपितस्तदद्य दृष्ट्वा तव धाम वैष्णवम् । विशीर्णसर्वामयमसदान्तरं चिरस्य कंचिल्लघिमानमश्नुते ॥ ५९॥ राजमार्गावलोककरणसामर्थ्यम् । इहापि कर्मणि नारायणीयधनुर्भङ्गेऽपि । पणः शुल्कः । अपाङ्गो नेत्रप्रान्तो नेत्रान्तदर्शनं वा। ज्योत्स्ना कान्तिः। विलिप्तीमल्प विलि प्ताम् । 'क्तादल्पाख्यायाम्' इति ङीष् । दिवमाकाशम् । उद्बह्ः पुत्रः। यद्वा रघुमु- द्वहति । रघुवंशधारक इत्यर्थः । 'मूलविभुजादिभ्यः कः' । चकृषे आकृष्टम् । कर्मणि लिट् । संधाय शरं संयुज्य । गतिः स्वर्गगमनम् । अमोघः सफलः । परैः श- त्रुभिः । आहूतानामास्कन्दितानाम् । यद्वा युक्तानाम् । युद्धार्थमिति शेषः । विहितं विधिबोधितम् । प्रकृत्या स्वभावेन । रघुभुवो रघुवंश्याः। विप्रेभ्योऽकृतशस्त्रा- भ्यासाः । अण्डीरेण दर्पिष्ठेन मया त्वयि रामे परशुरामे तदपि न गणितं नावग- तम् । रामेण गुणितम्' इति पाठे रामेण मया चिरेण गुणितं प्रमाणीकृतम् । अण्डीर इति 'काण्डाण्डादीरनीरचौ' इतीरच् । 'अण्डीरः पुरुषे शक्ते' इति मेदि- नीकरः । यदर्थमिति । यदर्थमस्माभिस्त्वं प्रकोपितोऽसि तद्वैष्णवं विष्णुसंबन्धि १. 'शरं च'. २. 'ततः प्रविशति रामः परशुरामश्च'. ३. 'मम', ४. 'दृष्टम्। - ४ अङ्कः] अनपराघवम् । २२१ रामः-इत इतो भगवन् । जामदग्न्य:-(रामस्य चिबुकमुन्नमथ्य सस्मितम् ।) वत्स, अप्रशस्तः खल्वारण्यकानां जनपदेषु चिरप्रचारः । तत्क पुनरस्मान्नेष्यसि । रामः-भगवन् , भगवतो याज्ञवल्क्यस्यावसथे कृतातिथेयसंवि- धानौ तातजनको भवन्तमनुपालयतः । एहि विष्टरपादार्घमधुपर्कैरुपस्थितान् । इक्ष्वाकुंश्च विदेहांश्च पुनीहि भगवन्नमून् ॥ ६०॥ जामदग्यः-वत्स, अपरिहार्यमेवे ह्यातिथ्यं राजन्यश्रोत्रियाणाम् । किं पुनरेवंविधवैखानसोचिताचारस्खलितविलक्षो न शक्नोमि धर्माचार्य याज्ञवल्क्यमुपेत्यावलोकितुम् । आचारस्तु दूरादपि कृतः कृतः स्यात् । (किंचिदुचेर्नेपाभिमुखम् ।) यस्य स्मृतीः प्रतीक्षन्ते चतुर्वर्गे मनीषिणः । नमो भगवते तस्मै याज्ञवल्क्याय योगिने ॥ ६१ ॥ धाम तेजस्तव दृष्ट्वा ममैतदान्तरम् । अन्तरेवान्तरम् । खार्थेऽण् । किंचिल्लघिमान- मल्पलघुत्वमश्नुते प्राप्नोति । कीदृशम् । विशीर्णो नष्टः सर्व आमयो रागादिरोगो यत्र तत् । वैष्णवधामदर्शनादेवेति भावः । 'अस्मदन्तरम्' इति पाठे मम हृदय- मित्यर्थः । 'गर्वामयम्' इति पाठे अहंकाररूपरोगमित्यर्थः । इत इत इह इह । आ- गच्छेति शेषः। अधरोऽधश्चिबुकम् । अधस्ताश्चिबुकम्'इत्यमरः । उन्नमय्योत्तोल्य । 'ल्यपि लघुपूर्वात्' इति गेरयादेशः । आरण्यकानामरण्यवासिनाम् । 'अरण्यान्म- नुष्ये' इति वुञ् । प्रचारो गमनम् । अवसथे गृहे । अतिथौ साधु आतिथेयम् । 'पथ्यतिथिवसतिखपतेर्ड' । विष्टरमासनम् । 'वृक्षासनयोर्विष्टरः' इति निपातनम् । आतिथ्यमतिथिसत्कारः । ब्राह्मणादित्वात्व्यञ् । वैखानसो नाम मुनितेन प्रोक्तम- धीयते वैखानसास्तृतीयाश्रमस्था मुनयः। वैखानसो वानप्रस्थो गृह इति पर्यायाः। १. 'भवान्', 'भगवान्'. २. तत्कथम्'. ३. 'भगवतः' इति पुस्तकान्तरे नास्ति. ४. पाद्या', 'पाधाय'. ५. 'एव हि' इति पुस्तकान्तरे नास्ति. ६. 'अवलोक- यितुम्'. ७. "कृतकृत्यः'. ८. 'अभिमुखः'. ९. 'अपेक्षन्ते'.
२२२ काव्यमाला। । (नेपथ्ये। गायत्री द्रुपदा देवी पाप्मानमपहन्तु ते । पुनन्तु पावमान्यस्त्वामृनोतु ब्रह्म ते परम् ॥ १२ ॥ जामदश्यः-भगवन् , अपत्रपमाणो न भवन्तं द्रष्टुमुत्सहे । त. दनुमन्यख मामरण्याय। (नेपथ्ये।) शिवास्ते पन्थानो ब्रज निजगृहेभ्यो निजगृहा- किमन्यत्सर्वेषां गुणमय शिरोमाल्यमसि नः । त्रिलोकीनिर्माणस्थितिनिधनबन्धोर्मधुभिदो भवान्यष्ठी मूर्ति गुकुलमधिष्ठाय रमते ॥ ६३ ॥ जामदग्य:-वत्स रामभद्र। राम:-आज्ञापय । स्खसितं स्खलनम् । दूरादेवास्माभिरर्धादि प्रतिगृह्यत इति भावः । स्मृती: स्मृतिवाक्यानि चतुर्वर्गे धर्मार्थकाममोक्षे। "त्रिवर्गो धर्मकामार्थश्चतुर्वर्गः समो- क्षकैः । इत्यमरः । प्रतीक्षन्ते चिन्तयन्ति प्रमाणयन्तीति यावत् । योगिने । योगियाज्ञवल्क्यायेत्यर्थः। गायत्री सावित्रीमन्त्रः । यद्वा गायत्रीमन्त्रे ध्येया देवता । द्रुपदा 'द्रुपशादिव मुमुचानः' इत्यादि मन्त्रः । पाप्मानं पापम् । पाव- मान्य ऋविशेषाः । परं ब्रह्म तत्त्वज्ञानम् । ऋनोतु । उपचितिं यात्वित्यर्थः । अपत्रपमाणोऽन्यतो लज्जमानः । 'लज्जा सापत्र पान्यतः' इत्यमरः । अरण्याय गन्तुमित्यर्थः । "क्रियार्थोपपद-' इत्यादिना चतुर्थी । शिवाः कल्याणदाः पन्थानः। सन्त्विति शेषः । हे गुणमय । 'तत्प्रकृतवचने मयट्' । नोऽस्माकं सर्वेषां शिरो- माल्यं शिरसि पुष्पं माला वा । 'पुष्पपुष्पस्रजोर्माल्यम्' इत्यमरः । निर्माणं सृष्टिः । स्थितिः पालनम् । निधनं विनाशः। मधुभिदो विष्णोः षष्ठी मूर्तिः परशुराम- खरूपा। तथा हि दशावतारे-'मत्स्यः कूर्मों वराहश्च नरसिंहोऽथ वामनः । - १. 'त्रिपदा'. २. 'अरण्यगमनाय'. ३. 'शिरोरत्नम् . ४. 'मूर्तिः षष्ठी'.
IMMISARTAINMETRY ४ अङ्कः] अनर्घराधवम् । २२३ जामदग्य:-निवर्तख । नूनमिदानी कृतकौतुकागारमङ्गलोप- चारः श्वशुरकुललोकस्त्वां प्रतीक्षते । (इति परिष्वज्य निष्कान्तः।) राम:---(सोद्वैगम् ।) कथं गतो भगवान् । तदहमपि तातसमीप- मेव गच्छामि । (इति परिक्रामन्पुरोऽवलोक्य ।) कथं तातश्च जनकश्वेत एवाभिवर्तते । (इत्युपसर्पति ।) (ततः प्रविशतो जनकदशरथौ राजानावन्योन्यं परिष्वज्य ।) RABARISHAD सुचरितमिदमैतिहासिकानां हँदि न विरंस्यति यत्तवैष पुत्रः । भृगुसुतपरशूदराद्विराजा सहजविजित्वरमाचकर्ष तेजः॥६॥ दशरथा-(पुरोऽवलोक्य सहर्षम् ।) कथमागत एव वत्सो रामभद्रः। जनकः-सखे महाराज दशरथ, पश्य पश्य । चिराक्षानं तेजस्त्रिजगर्दैवजैत्रं जनयिता विधाता सर्वेषामुपरि सवितारं कुलभृताम् । रामो रामश्च रामश्च बुद्धः कल्की च ते दश ॥' अत्र रामः परशुरामः । रामो रामभद्रः। रामो बलभद्र इति । कौतुकं विवाहः, उत्सवः हर्षों वा । तदर्थम- गारो गृहं तत्र मङ्गलस्य चित्रादेरुपचारः परिपाटी । 'कौतुकं तु विवाहे स्यादुत्सवे नमहर्षयोः' इति मेदिनीकरः । इतिहासः पुरावृत्तं तद्विदन्ति ऐतिहासिकाः । 'आख्यानाख्यायिकेतिहासपुराणेभ्यष्ठरवक्तव्यः । ऐतिहासिकानां हृदि इदं सुच- रितं न विरस्यति न लुप्तं भविष्यति । यत्तवैष पुत्रो भार्गवकुठारमध्याद्विराजा क्षत्रियाणां खभावजयशीलं तेजः कर्म आचकर्ष कृष्टवान् । विजित्वरमिति 'इण्नशजिसर्तिभ्यः करप्' । 'बाहुजःक्षत्रियो विराट्' इत्यमरः । चिरादिति । अयं रामोऽक्षणोरधिकरणयोरमृतं विकिरति विक्षिपति । अत्यन्तानन्ददानातू १. 'कुल' इति पुस्तकान्तरे नास्ति. २. 'पुरतोऽवलोक्य च'. ३. 'न हृदि'. ४. 'उपजीव्यम्'. ५. 'कुलकृताम्'.
२२४ काव्यमाला। Sha विनेता वर्णानां भृगुपतिभुज़ादर्पनिकषो महावीरः श्रीमानयममृतमक्ष्णोविकिरति ॥ ६५॥ दशरथा-(निर्वर्ण्य । सस्नेहम् ।) सखे सीरध्वज, रघुराजधर्माधि- कारसर्वधुरीणः शिशुरपि वत्सोऽयम् । तदस्मिञ्जरसा दुर्वहं वर्णाश्रम- भारमारोप्य वयमपि कापि तपोवने दिलीपकुलोचितेन विधिना शेष- मायुरुपबुभुक्षामहे । जनकः-सखे दशरथ, साधु ते हृदयमीदृशम् । क्रमादेतद्नु- ष्ठातव्यम् । रामः (उपसृत्य।) तातौ, अभिवादये। जनकः-एह्येहि वत्स रामभद्र । (इति सहर्षमालिङ्गति ।) दशरथ:-(राममालिङ्गय ।) सखे जनक, रामभद्रमभिषेक्तुं जाम- दग्न्यविजयप्रीतिरेव श्रेयानवसरः । कालक्षेपे पुनः को हेतुः । (प्रविश्य ।) लक्ष्मण:-इयमार्यया मन्थरयोपनीता मध्यमाम्बायाः पत्री। कीदृशः। क्षात्रं तेजस्त्रिजगतामवजैत्रं जेतृजनयिता उत्पादयिता। तृनि रूपम्। तेन 'न लोकाव्ययनिष्ठाखलर्थतनाम्' इति न षष्ठी । कुलभृतां कुलधारकाणां बीजिनां चन्द्रादीनां सर्वेषामुपरि सवितारं सूर्य विधाता कर्ता । रामेण सवितृकुलं सर्वकु- लेभ्यः प्रशस्यमित्यर्थः। वर्णानां ब्राह्मणादीनां विनेता विनयकर्ता । निकषः 'कसौटी' इति प्रसिद्धः । 'निकषः कषपट्टिका' इत्यमरः । धर्माधिकारो धर्मजि- ज्ञासाभियोगः । तत्र सर्वधुरीणः सर्वभारवाही । 'खः सर्वधुरात्' इति खः । वर्णा ब्राह्मणादयः । आश्रमा ब्रह्मचर्यादयः । उपबुभुक्षामह उपभोक्तुमिच्छामः । भुजेः सन्नन्तात् 'पूर्ववत्सनः' इति तङ् । कालक्षेपे पुनः इति छलोक्तिः । 'वाक्यं वाक्यान्तरासतमर्थान्तरस्य सूचकम् । यत्र सा स्याच्छलोक्तिस्तु नाट्यालंकार- १. 'अमृतमयम्'. २. 'वयमपि' इति पुस्तकान्तरे नास्ति. ३. 'उपभोक्ष्यामहे'. ४. 'एवमनुष्ठातव्यम्'.५. 'तातौ' इति पुस्तकान्तरे नास्ति. ।
२२५ ४ अङ्कः] अनर्घराघवम् । (राजानौ सवितर्कमन्योन्वं पश्यतः।) राम:-(सहर्षम् ।) वत्स लक्ष्मण, अपि सपरिवाराया कुशलम- म्बायाः कथयत्यार्या मन्थरा। लक्ष्मण:-आर्य, अथ किम् । रामः-नूनमस्मत्प्रवासदौर्मनस्यमम्बां पीडयिष्यति । जनक:-(लक्ष्मणहस्तात्पत्रिकां गृहीत्वा वाचयति ।) खस्ति । महाराज दशरथं कैकेयी विज्ञापयति । यथा तन्मे वरद्वयमुरीकृतपूर्वमेव याचे बिभर्तु भरतस्तव राज्यलक्ष्मीम् । वर्षाणि तिष्ठतु चतुर्दश दण्डकायां सौमित्रिमैथिलसुतासहितश्च रामः ॥ ६६ ॥ (इति राजानौ मूर्च्छतः।) रामः-यदादिशत्यम्बा। (इति शिरसि पत्रिका दैत्त्वा ।) वत्स लक्ष्मण, निजामस्सदाराधनसहाध्यायिनी प्रजावतीमादाय पुरो भव । लक्ष्मण:-तथा । (इति निष्क्रान्तः ।) रामः--तातौ, समाश्वसितं समाश्वसितम् । जनक:-(आश्वस्य ।) अहह पाणिर्गृहीतो रघुपुंगवेन देवः पुराणः श्वशुरो विवखान् । संमता ॥' इति भरतः । यथोत्तरचरिते-'किमस्या न प्रेयो यदि परमस- ह्यस्तु विरहः' इति । मन्थरानानी प्रतीहारी । दौर्मनस्यं विमनस्कत्वं कर्तृ । ऊरीकृतपूर्व पूर्वाङ्गीकृतमेव । वरद्वयमहं याचे। तदेवाह-बिभर्विति । दण्डका- रण्यभेदः । 'प्रजावती भ्रातृजाया' इत्यमरः । पुंगवः श्रेष्ठः। पुराणोऽतिचिरंतनः। १. 'आर्य' इति पुस्तकान्तरे नास्ति. २. 'देवी कैकेयी'. ३. 'गृहीत्वा'. ४. 'पुर- स्ताद्भवेति'. ५. 'यदाज्ञापयत्यार्यः'. ६. 'समाश्वसितां समाश्वसिताम्'. ७. 'देवश्च साक्षात्' १५०रा० । - २२६ काव्यमाला। BETWEETHEME पिता खयं केकयचक्रवर्ती कर्मेदमेतादृशमाः किमेतत् ॥६७ ॥ (इति मूर्च्छति।) (रामः पटाञ्चलेन वीजयति।) दशरथ: -(आश्वस्य ।) कोऽप्येष वाङ्मनसयोरतिवृत्तवृत्ति- र्भावो हुताशनमयश्च तमोमयश्च । भोक्तृत्वमात्रमिह मे पुनरीदृशं मां हा वत्स राम कथमुत्सहसे विहातुम् ॥ ६८ ॥ (विमृश्य ।) हा वत्से जानकि, निशाचराणामातिथेयीभवितुं दशरथगृहे प्रविष्टासि । (इति मूर्च्छति।) रामः-तातो, समाश्वसितं समाश्वसितम् । जनक:-(आश्वस्य । आकाशे लक्ष्यं बद्ध्वा ।) साधु सखि कैकेयि, साधु । यदस्या विश्वंभरादुहितुर्मे वत्सायाः पत्युरनुवृत्तिरेव प्रसादीकृता (विमृश्य । सव्यथम् ।) धनुष्मन्तौ वत्सौ दशरथभुजैरूष्मलेतमाः प्रदेशास्ते वत्सा शिशुरशिववृत्ता वनभुवः । आः क्रोधे । वाङ्मनसोऽजन्तोऽचतुरादौ निपातितः। अतिवृत्तवृत्तिरविषयः । इह हुताशनमयतमोमयभावे भोक्तृत्वमात्रं मे । अनुभविता परमहं न प्रतीकारक्षम इत्यर्थः। आतिथेयी अतिथिविषये साध्वी । ऊष्मलतमा अत्यन्ततेजोयुक्ताः। सिध्मा- दित्वाल्लच् । अशिववृत्ता अकल्याणयुक्ताः। सर्पव्याघ्रादियोगात् मुक्तैस्त्यक्तैः । अपमार्टि खण्डयति । व्यत्यासो विपर्ययः । जनपदेषु लोकेषु । देशे जने जनपदः' इति । दुर्यशसः श्यामत्वात्तमालपत्रेण रूपणम् । उन्नमय्योत्तोल्य । सुस्थं निरा- 'रामस्तथैव पटान्तेन'. २. 'अनिवृत्तकर्मा', 'अतिवृत्तवा'. ३. 'गृहमनुप्र. विष्टासि'. ४. 'समाश्वसितां समाश्वसिताम्'. ५. 'उल्बणतमा:'.
४ अङ्कः] अनर्घराधवम् । ૨૭ प्रियै राजा मुक्तैरसुभिरपमाष्टिं स्वमयश- श्चरित्रव्यत्यासः सखि कथमयं केकयकुले ॥१९॥ कष्टं च । वयमपि कथमनेन जनपदेषु बहुलीभवता भरतबौवराज्यल- क्ष्मीकर्णपूरतमालपल्लवेन कैकेयीदुर्यशसा मूर्धानमुन्नमय्य लोकस्य मुखं द्रक्ष्यामः। राम:-(उत्थाय ।) तात जनक, यथा सुस्थं तातं शृणोमि तथा भवता विधातव्यम् । (इति निष्क्रान्तः।) दशरथ:-(आश्वस्योत्थाय च ।) वत्स रामभद्र, परिपालय माम् । (इति जनकेन धार्यमाणो निष्कान्तः ।) (इति निष्कान्ताः सर्वे।) इति दशरथविप्रलम्भो नाम चतुर्थोऽङ्कः । कुलम् । “खस्थम्' इति पाठे खस्मिन्नात्मनि तिष्ठतीति स्वस्थः । आत्मज्ञ इत्यर्थः । यद्वा प्रकृतिस्थम् । खस्थं स्वर्गस्थमित्यपि सूचितम् । 'खर्परे शरि वा विसर्ग लोपो लोपो वक्तव्यः इति विसर्गलोपः। गण्डोक्तिरियम् । 'अनारम्मेण भाव्यार्थवादो गण्ड इति स्मृतः' इति भरतः । परिपालय प्रतीक्षख ॥ इति समस्तप्रक्रियाविराजमानरिपुराजकंसनारायणभवभक्तिपरायणश्रीहरिना- रायणपदसमलंकृतमहाराजाधिराजश्रीमद्भरवासिंहदेवप्रोत्साहितवैजौली- ग्रामवास्तव्यखौआलवंशप्रभवश्रीरुचिपतिमहोपाध्यायविरचिता- यामनर्घराघवटीकायां चतुर्थोऽङ्कः । १. 'बहुलीभविष्यता'. २. 'भवतैव'. ३. 'तथा विधातव्यम्'.
२२८ काव्यमाला। पञ्चमोऽङ्कः। (ततः प्रविशतः श्रवणाजाम्बवन्तौ ।) जाम्बवान्-ततस्ततः। श्रवणा-ततो मिथिलाया निष्क्रम्य मन्थराकलेवरमवकीर्य मारु- तिप्रत्यवेक्षितं स्वशरीरमधिष्ठाय गङ्गायां शृङ्गवेरपुरं नाम निषादपकण- मागत्य शबरीभूतासि । जाम्बवान्- -ततस्ततः॥ श्रवणा-ततश्च ममानुपदमेव तसिन्निमौ रामलक्ष्मणावियं सीतेति सर्वतः शब्दो महानभूत् । जाम्बवान्-(सहर्षम् ।) ततस्ततः । श्रवणा-ततश्च कावेतौ रामलक्ष्मणाविति कर्णधाराधिपतिना गुहेनाहमनुयुक्ता निवेदितवत्यस्मि । इदानीं रामचन्द्रस्य दशरथस्वर्गगमनश्रवणं पञ्चवटीगमनं शूर्पणखानासाच्छेदनं खरदूषणादिवधो रावणकर्तृकसीतापहरणं सुप्रीवमैत्रं वालिवधादिकं च पञ्चमाङ्क- प्रतिपन्नमर्थ सूचयितुं श्रवणाजाम्बवतोः प्रवेशमाह-ततः प्रविशत इति । चतुर्थाके शूर्पणखामाल्यवद्विष्कम्भके 'मन्थराकायप्रवेशेन मिथिलामुपेत्य प्रत्ययिता संविधानकमिदं दशरथगोचरीकुरुष्वेति जाम्बवता श्रवणा प्रार्थिता । सापि शबर- योगिनी श्रवणा सर्व तथेत्युरसिकृत्वैव विदेहाभिमुखी प्रस्थिता' इत्युक्तम् । इदानीं विदेहात्समागतायाः श्रवणायाः सकाशात्तद्वृत्तान्तं शुश्रूषुर्जाम्बवानाह-ततस्तत इति । तत्र श्रवणा खव्यापारं कथयतीति पूर्वापरसंबन्धः। कलेवरं मृतकायम् । अवकीर्य क्षिप्त्वा । 'अवतीर्य' इति पाठे त्यक्त्वेत्यर्थः । धातोरनेकार्थत्वात् । मारु- तिहनूमान् । गङ्गायामिति सामीप्ये सप्तमी । लक्षणया वा तीरोपस्थितिः । निषादो धीवरश्चण्डालो वा । 'निषादः खरभेदे स्याच्चण्डाले धीवरेऽपि च' इति मेदिनी- करः । पक्कणस्तद्रामः । 'पक्कणः शबरालयः' इत्यमरः । ममानुपदं मम पश्चात् । १. 'श्रमणा-'. २. 'गङ्गातीरे'. ३. 'आगत्य भूतास्मि'.. ४. 'अस्मि', इति पुस्तकान्तरे नास्ति. ।
५ अङ्कः] अनर्घराघवम् । २२९ पुत्रीयता दशरथेन मुनिप्रसादा- प्राप्ताः पुराणपुरुषस्य कलाश्चततः । तासामयं गुणमयः प्रथमः कुमारो वीरोद्धतः पुनरसावपरस्तृतीयः ॥ १॥ जाम्बवान्-श्रमणे, साधूक्तम् । ततस्ततः । श्रवणा-ततश्चोदकान्तनिवर्तितानुयात्रिकबन्धुवर्गः ससंभ्रमोपे- गतेन गुहेनोपनीतां नावमधिरुह्य तीर्खा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय- स्तसै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय । व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं कृच्छ्रादवीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे ॥२॥ जाम्बवान् हन्त महत्करुणम् । तस्मिञ्शबरालये। कर्णधारो नाविकः । गुहेन गुहनाना निषादेन । अनुयुक्ता पृष्टा । निवेदनखरूपमाह-पुत्रीयतेति । पुत्रीयता आत्मनः पुत्रमिच्छता दशरथेन मुनिप्रसादादृष्यशृङ्गप्रसादात्पुराणपुरुषस्य विष्णोश्चतस्रः कला अंशाः प्राप्ताः । तासां कलानां मध्येऽयं गुणमयो रामः प्रथमा कला । असावपरस्तृतीया कला लक्ष्मणो वीरोद्धतो नायकः । देवांशत्वात् । 'देवा वीरोद्धता ज्ञेयाः' इति प्रागेवोक्तत्वात् । यद्वा वीरेण रसेनोद्धत उपचितः । पुत्रीयतेति 'सुप आत्मनः क्यचू' । 'क्यचि च' इति दीर्घत्वम् । उदकान्तो जलसमीपम् । 'आ उदकान्तं प्रियमनुव्रजेत्' इति स्मृतिः । अनुयात्रया चरत्यानुयात्रिकः । 'चरति' इति ठक् । संभ्रमस्त्वरा । उपगतः समीपगतः । उपनीतामुपढौकिताम् । तीवेति । अम- रधुनीं गङ्गाम् । असौ राम आत्मना खेन तृतीयस्त्रिपूरणः सन्सौमित्रिमैत्रीमयं लक्ष्मणमैत्रप्रधानमातरं तरपण्यं 'खेव' इति प्रसिद्धं तस्मै नाविकाय कर्णधाराय गुहायोपहृतवान्दत्तवान् । 'आतरस्तरपण्यं स्यात्कर्णधारस्तु नाविकः' इत्यमरः। १. धीरोद्धतः २. उपगतेन'. । ।
काव्यमाला। श्रवणा-आर्य, करुणभयादेव तस्मिन्निङ्गुदीतरुमूले कुमारयोर्ज- टाग्रहणवृत्तान्तमन्तरितवत्यस्मि । जाम्बवान्-श्रवणे, सर्वमेतत्कल्याणोदक भविष्यति । श्रवणा-अहं तु निषादपतिप्रीतये तत्रैवातिष्ठम् । अतीते च गणरात्रे सप्रकृतिजनपदः पितुः स्वर्गारोहणवार्ताभिधायी द्वितीयो दाश- रथी रामभद्रमयोध्यामुपनेतुं तेनैव पथा चित्रकूटमुपगतः। जाम्बवान् .(संशङ्कम् ।) ततस्ततः । श्रवणा-ततश्च तस्मिन् 'आर्य, लोके कैकेयानामाकल्पमनल्प- मकीर्तिस्तम्भ निखनता केनापि च्छलितस्तातः । तत्संप्रति गृहाण रघूणामधिराज्यम्' इति पुनः पुनश्चिरमनुबन्धी रामेण सृष्टिकया प्रत्या- दिष्टः कृतजटापरिग्रहो भरतः शरभङ्गमुनिप्रेषितामस्य पादुकां भद्रास- नमधिरोप्य प्रजानामाभ्युदयिकमवेक्षमाणस्तदैव नन्दिग्रामं गतवान् । व्यामग्राह्यस्त नीभिरङ्कपालीग्राह्यपयोधराभिः । 'व्यामो बाह्वोः सकरयोस्ततयोस्तिर्य- गन्तरम्' इत्यमरः । कौतुकोदश्चदक्षं कौतुकोन्नतचक्षुर्यथा स्यादेवम् । अन्वीयमा- नोऽनुगम्यमानः । इङ्गुदी पुत्रंजीववृक्षो मुञ्जनीवृक्षो वा । 'इङ्गुदी तापसतरौ पुत्रंजी- वेऽपि चेङ्गुदी' इति विश्वः । अन्तरितवती त्यक्तवती । कल्याणोदक कल्याणोत्त- रफलम् । 'उदर्कः फलमुत्तरम्' इत्यमरः । अतिष्ठं स्थितवती । लङ् । गणरात्रे प्रचुरनिशासु । 'गणरात्रं निशा बह्वयः' इत्यमरः । प्रकृतिः शिष्टः। द्वितीयो दा- शरथिर्भरतः । तस्मिन्रामे पुनः पुनरनुबन्धीत्यन्वयः । 'आर्य' इति संबोधनम् । अनुबन्धी सस्नेहवचनः । आकल्पं यावत्संसारम् । निखनता आरोपयता । 'सृष्टिका शपथेऽपि च' इति रत्नकोषः । 'शरीरस्पृष्टिकया' इति पाठे शरीरस्पर्शरूपशप- . । - . । । १. 'जटाजूट-'. २. 'भविष्यति ततः'. ३. 'प्रकृतिपौरजानपदः': ४. 'स्वर्गा- धिरोहण-'.. ५. 'दाशरथिद्वितीयः', 'भरतो दाशरथिर्द्वितीयः'. ६. 'सातङ्कम् . ७. 'केनापि भूतेन'. ८. 'रघूणां धुरमिति पुनः पुनरनुबन्धी', ९. 'अस्य रामस्य'. १०. 'भारोप्य'.११. अवेक्षिष्यमाणः'.१२ गतः'.
५ अङ्कः] अनर्घराघवम् । २३१ जाम्बवान्-(सहर्षम् ।) हन्त फलितमस्सयवसाय श्रवणापरिश्र- माभ्याम् । ततस्ततः। श्रवणा--ततश्च शावाशौचमास्थितस्य क्षत्रियस्य प्रतिषिद्धमस्त्र- ग्रहणमिति च्छिद्रान्वेषिमिर्जनस्थानवास्तव्यैः खरदूषणप्रभृतिभिस्तत्र विराधो नाम राक्षसस्तीक्ष्णः प्रहितः । जाम्बवान्-(विहस्य ।) धिमूर्खाः, आतिपातिके हि कायें राज्ञां सद्यः शुद्धिः । ततस्ततः। श्रवणा-ततश्च विरीधवधाक्षिप्तहृदये दुःसहशोकदीर्घालीमौर्ध्व- देहिकी पितुः क्रियामतिवाह्य भगवता चतुःसमुद्रमुष्टिंधयेन विन्ध्याच- लचापलारम्भवितब्धघातिना वातापिदानवदीर्घयात्रामङ्गलकलशेन कल- । । खेनेत्यर्थः । प्रत्यादिष्टो निषिद्धः । परिग्रहो ग्रहणम् । पादुका उपानत् । अथ पादुका । पादूरुपानत्' इत्यमरः । साध्वसाच्छरभङ्गमुनिद्वारा पादुका याचितेति भावः । भद्रासनं सिंहासनम् । भ्युदयिकमभ्युदयम् । खार्थे 'विनयादिभ्यष्टक् । शावाशौचं मृतकाशुद्धिः । 'शावमाशौचं' इति पाठे 'नमः शुचीश्वर-' इत्यादिनो- भयपदवृद्धिः । आस्थितः प्राप्तः । जनस्थानं मलयाद्रिसमीपे रक्षोवासस्थानम् । वास्तव्यासिभिः । 'वसेस्तव्यत् कर्तरि णिच' । तीक्ष्णः खरः। खरात्मत्यागिनो- तीक्ष्णः' इति धरणिः । आतिपातिके तत्क्षणोपजावे । यद्वातिपातः शत्रोरा- गमनं तद्भवं कार्यमस्त्रग्रहणम् । 'न राज्ञा राजकर्मणि' इति स्मृतेः। दीर्घाणीम् । 'राजाहःसखिभ्यष्टच् । 'अहोऽह एतेभ्यः' इत्यहादेशः । 'अहोऽदन्तात्' इति णत्वम् । गौरादित्वान्ङीष् । देहादूर्ध्व भवामौर्ध्वदेहिकी श्राद्धादिक्रियाम् । अध्या- स्मादित्वाट्ठञ् । चतुर्णा समुद्राणां समाहारश्चतुःसमुद्रम् । पात्रादित्वात्स्त्रीत्वनिषेधः । समुद्राणां चतुःसंख्यत्वं प्राच्यादिदिक्चतुष्टयभेदात् । तन्मुष्टीकृत्यं धयति पिबति १. क्षत्रस्य, निषिद्धम् .. २. विराधनामा'. ३. 'विशुद्धिः.' ४. “वधक्षणाक्षि- प्रहृदये दुःख-'. ५. दीर्घनिद्रा-'. ६. कलशयोनिनागस्त्येन मुनिज़ा सनाथमान स्पयानी प्रविष्टमाने.
२३२ काव्यमाला। शयोनिना सनाथामरण्यवीथीं प्रतिष्ठमाने दाशरथौ पथि धाराधरो नाम वायसः सहसैव वैदेहीमुपाद्रवत् । जाम्बवान्-(खगतम्) इदं तावदपशकुनं नाम । (प्रकाशम् ।) तत- । श्रवणा-ततश्च रक्षोभिचारचरुभाण्डमिव स्तनं यो देव्या विदेहदुहितुर्विददार काकः। ऐषीकमस्त्रमधिकृत्य तदा तमक्ष्णा काणीचकार चरमो रघुराजपुत्रः ॥ ३ ॥ मुष्टिंधयः । 'नाडीमुष्ट्योश्च' इति खशू । 'असुरैर्देवगणैः सह युधि भङ्गमवाप्य समुद्रे प्रविश्य स्थितम् । पुनरपि तथा कृत्वा तथा स्थितम् । एवं पुनःपुनरिति ज्ञात्वा शक्रेण समुद्रपानार्थमगस्त्यमुनिरर्थितः । तेन च निःशेषमयं पीतः' इति पुराणम्। विस्रब्धघाती विश्वासघातकः । 'पुरा किल सुमेरुस्पर्धया वर्धिते विन्ध्ये सूर्यसंचा- रावरोधाद्विनश्वरे जगति देवैरगस्त्यमुनिरर्थितः । ततस्तेन यावदहं परावृत्त्यागच्छामि तावत्त्वया न वर्धनीयम् , किं तु खर्वो भवेति विन्ध्यः सत्यंकारितः । ततो दक्षिणां दिशं प्रति गतोऽगस्त्यो न परावृत्त्य पुनरायातः। ततःप्रभृति विन्ध्यस्तादृश एवा सीत्'-इति पुराणम् । वातापी दानवभेदः। दीर्घयात्रा मरणम् । यात्रायां मङ्गल- कलशस्यान्वयाद्रूपकम् । 'देवापिवातापिनौ भ्रातरावसुरौ मायाविनौ बभूवतुः । तत्र वातापी मेषरूपः।देवापी यं कंचिन्मांसार्थिनं वातापिनं मारयित्वा संस्कृत्य च भोज- यति । ततो देवापी भुक्तं तमाह्वयति । स च भोजकस्योदरं विदार्य निर्गत्य तेन सह हस्तास्फालनेन क्रीडते । एवं तेन हर्षाद्वहवो मारिताः; कालक्रमेणागस्त्यमुनिरपि तेन तथैव भोजितः । ततश्वजीर्णस्तदुदरे वातापी-'इति पुराणम् । कलशयोनिना- गस्त्येन । वीथ्यालिरावलिः पतिः' इत्यमरः । प्रतिष्ठमाने गच्छति । 'समवप्रविभ्यः स्थः' इति तङ् । वायसः काक उपाद्रवत् । स स्तनौ नखेन दारितवान् । संप्रति. सीतापहारोत्थानं सूचयति-रक्षोभिचारेति । यः काकः सीतायाः स्तन विददार विदारयति स्म तं काकं चरमो रघुराजपुत्रो रामोऽक्षणा काणीचकार । 'येनाविकारः' इति तृतीया। इषीका वीरणशलाका । तस्या विकार ऐषीकमन- । - ५ अङ्कः] अनर्घराघवम् । २३३ जाम्बवान्ततस्ततः। श्रवणा-ततश्च। क्रमेणैव सुतीक्ष्णादीनुपस्थाय महामुनीन् । अगस्त्यशासनादास्ये पञ्चवट्यां रघूद्वहः ॥ ४ ॥ जाम्बवान्-(सहर्षम् ।) तर्हि हस्तगत एवास्माकम् । कियदन्त- रमृष्यमूकजनस्थानयोः। श्रवणा-आर्य, न खल्वद्यापि श्रोतव्यं शृणोषि । जाम्बवान्-अवहितोऽसि । श्रवणा-तत्र च कामुकी रामभद्रमनुप्रविश्य रैसं दास्यामीति संकल्पितपतिद्रोहपातकिनी शूर्पणखा लक्ष्मणरोषहुतभुजि कर्णनासौष्ठ- भयौभिस्तिसृभिराहुतिभिः प्रायश्चित्त्यांचक्रे । मधिकृत्य व्यापार्य। विक्षिप्येति यावत् । कीदृशम् । अभिचारस्य मरणकारण- यागस्य चरुभाण्ड हव्यभाण्डमिव । 'हव्यपाके चरुः पुमान्' इत्यमरः । ननु चर- मशब्दस्य कनिष्ठवाचकत्वाद्रामस्य ज्येष्ठत्वात्कथं चरमो रघुराजपुत्र इति । न च चरमशब्देन कनिष्ठ एव लक्ष्मणो वाच्य इति वाच्यम् । रामेणैवाक्ष्णा काणः काकः कृत इति रामायणे दृष्टत्वात् । किं च रघुराजपुत्रान्वितेन कनिष्ठवाचकचरम- शब्देन शत्रुनस्यान्वयात् । तस्य च तत्रासांनिध्यादिति चेत्, अत्र केचित्--- 'ज्वलति कसन्तेभ्यो णः' इति विकल्पेन णप्रत्ययः । तेन रमयतीति रमो रामः इति समाधानमाहुः । तन्मन्दम् । चकारानन्वयात् । न च विददारेति क्रिया- पेक्षया काणीचकार चेत्यत्रैव चकारान्वयः । भित्रकर्तृकत्वात् । एककर्तृके हि चकारान्वयो दृष्टः । यथा-देवदत्तो ग्रामं गच्छति पचति चेति । अन्ये तु- चरा संचारिणी । गतेति यावत् । मा लक्ष्मीर्यस्य स चरमो रामः । भरतप्रविष्ट- राज्यलक्ष्मीकत्वात्-इति वर्णयन्ति । अपरे तु-चरभो ज्येष्ठकनिष्ठयोः' इति विश्वप्रकाशदर्शनाचरमो ज्येष्ठो रघुराजपुत्रः-इत्याहुः । इदं तु संगतमिव । कुव्याख्या तु विस्तरत्रासादुपेक्षिता । सुतीक्ष्णादीन्सुतीक्ष्णतृणबिन्दुशरभङ्गप्रभू- २. 'इस्तसा. २. "राममनु-'. ३. "विषं', काव्यमाला। जाम्बवान्-(सातङ्कम् ।) अहह महाननर्थकन्दः संवृत्तः । अथ भगिन्यास्तादृशं विडम्बनमवलोक्य खरादिभिः किं प्रतिपन्नम् । श्रवणा-(विहस्य ।) आर्य, किं प्रतिपन्नम् । यद्रामभद्रे धृतधनुषि प्रतिपद्यते । जाम्बवान्-(सहर्षहासम् ।) तकि तेऽपि वालिसाहायकोपस्था- यिनो विराधयात्राप्रहतमध्वानमनुप्रपन्नाः । श्रवणा-अथ किम् । जाम्बवान्-श्रवणे, प्ररूढमिदानी रामरावणयोर्वैरम् । श्रवणा-(हसन्ती ।) आर्य, मन्ये खरदूषणप्रभृतीनामभिभवाभि- धाने केवलं क्लेशयिष्यति वाचमात्मनः । पुनरनक्षरमपि शूर्पणखामुख- मावेदयिष्यति दशकंधरस्य । जाम्बवान् -(सस्मितम् ।) श्रवणे, लघूत्थमनर्थमुत्प्रेक्ष्य प्रमु- ग्योऽस्मि । ऐक्ष्वाकेण पुरापि कौशिकमखादारभ्य लकेश्वरो धत्ते शाश्वतिकं विरोधमधुना स्वेते हता बान्धवाः । तीन् । उपस्थाय संपूज्य । पञ्चवटी दण्डकारण्ये तपोवनम् । अन्तरं व्यवधानम् । कामुकी कामान्धा । 'लषपत-' इत्यादिना उकञ् । रसं विषविशेषम् । संकल्पितो मनसा कृतः । प्रायश्चित्तयांचके प्रायश्चित्तं कृतवती । आतङ्कवासः । अहह खेदे । अनर्थक्रन्दोऽनिष्टमूलम् । विडम्बनं धर्षणम् । धृतधनुषीत्यत्र 'धनुषश्वर इत्यनङ्समासान्तो न भवति । समासान्तविधेरनित्यत्वात् । साहायकं सहाय- त्वम् । 'सहायाचेति वक्तव्यम्' इति वुन् । यात्रा गमनम् । प्रहतं क्षुण्णम् । अभिभवी मारणम् । लघूत्थं शीघ्रोत्थानम् । ऐक्ष्वाकेणेति । ऐक्ष्वाकेण सह । शश्वन्नित्यम् । तद्भवं शाश्वतिकम् । 'कालाकृञ् । कौशिकयागादारभ्य नित्यं विरोध थत्ते । अधुना पुनरेते बान्धवा हता यतः, अतोऽवश्यं विरोधं धत्त इति: १. 'साहायकस्थायिनो'. २. 'खरपभृतीना' ... लघूत्थानम् ..४ चैते'.
SAPNA ५ अङ्कः] अनघराघवम् २३५ उत्साहप्रभुमन्त्रशक्तिभिरलंभूष्णुश्छलज्ञो बली हप्तः शूर्पणखानिकारमपरं दृष्ट्वा कथं मृष्यते ॥ ५ ॥ शनैः शनैरनयोविरोधे संधुक्षमाणे तुल्यव्यसनस्थो दाशरथिरसहायः सूर्यसूनुना संधातुमीपत्करः स्यात् । श्रवणा-आर्य, किमिदानीमनुष्ठेयमस्ति । मम हि शिष्यपुत्रो निषादचक्रवर्ती गुहो लक्ष्मणमित्रम् । अनेन सोपानेन सुखाधिरोहो रघुपतिरस्माकम् । जाम्बवान्-(सहर्षस्मितम् ।) श्रवणे, यद्यसि सुग्रीवपक्षपातिनी । तद्गच्छ सत्वरमुपस्थापय निषादराजम् । (इति श्रवणा निष्क्रान्ता ।) (नेपथ्ये । एकतः।) भो भो लक्ष्मण, वैशेषिककटन्दीपण्डितो जगद्विजयमानः पर्यटामि । कासौ रामः । तेन सह विदिष्ये । । भावः । अपरं शूर्पणखानिकारं दृष्ट्वा कथं मृष्यते सहिष्यते । उत्साहशक्तिरुत्सा- हसामर्थ्यम् । प्रभुशक्तिः प्रभावः । मन्त्रशक्तिर्मन्त्रणासामर्थ्यम् । अलंभूष्णुरतिस- मर्थः । 'भुवश्च' इति उस्नुः । दृप्तो दर्पिष्ठः । संधुक्षणं दीपनम् । वैरम् । सहायो द्वितीयः सूर्यसूनुः सुग्रीवः ईषत्करः सुकरः । सोपानेनोपायेन । 'कटकली' इति प्रसिद्धन । उपस्थापय लक्ष्मणसंनिधि प्रस्थापय । 'निषादराजानम्' इति पाठे समा. सान्तविधेरनित्यत्वं शरणम् । नेपथ्ये रावणवचनम् । कटन्दी वैशेषिकशास्त्रव्या- ख्याग्रन्थः । कटन्द इति यस्य प्रसिद्धिः। सा च रावणेन कृतेति च्छलतो ज्ञाप- यति । 'कन्दली' इति पाठे कन्दली वैशेषिकटीका । सापि रावणेनैव कृता । अथ च कन्दली कलहवान् । पण्डितः सूरिः कुशलश्च । विवदिष्ये उद्राहं करिष्ये योत्स्ये च । 'भासनोप-' इति तङ् । अन्यतश्च लक्ष्मणवचनम् । खलीकारो १. स्वल्पव्यसनस्थो'.२, सत्यमसि'. ३. 'पण्डितोऽस्मि', ४, 'ते' रामभद्रः', ५. 'विवदितव्यम्' काव्यमाला। (अन्यतः।) भो भो परिव्राजक, कालसर्पखलीकारखजूलता न खलु सुखाकरी वृश्चिकमन्त्रतान्त्रिकस्य । जाम्बवान् कथं लक्ष्मणपरिव्राजको संलपतः। शृणोमि तावत् । (इत्यवधत्ते )) (नेपथ्ये । पुनरेकतः।) आः लक्ष्मण, सर्वविद्रावणः खल्वहम् । को मया जनितमानभङ्गो न पराजीयते। (नेपथ्ये । पुनरन्यतः।) किं भवान्नावणः। (जाम्बवान्सविशेषमवदधाति ।) (नेपथ्ये । पुनरेकतः।) भो वाचोयुक्तिज्ञ, सर्वेषां विद्रावणः खल्वहमिति रामस्य व्याहृत- मन्यथाभिसंघाय वाक्छलेन प्रत्यवतिष्ठमानो निगृहीतोऽसि । तन्मुञ्च मां भिक्षायै । भर्त्सनम् । तत्र खजूः कण्डूः । तद्योगासिध्मादित्वाल्लच् । तस्य भावः खजुलता । न सुखाकरी न सुखजनिका । 'सुखप्रियादानुलोम्ये' इति डाच् । वृश्चिकमन्त्र- तान्त्रिकस्य वृश्चिकमन्त्रज्ञातसिद्धान्तस्य । वृश्चिकः शूककीटः । 'वीछ' इति प्रसिद्धः। वृश्चिकः शूककीटौषधिविशेषयोः' इति विश्वः । 'तान्त्रिको ज्ञातसिद्धान्तः' इत्यमरः । संलपतः संलापं कुरुतः। 'संलापो भाषणं मिथः' इत्यमरः । सर्व विद्रावयतीति सर्वविद्रावणः सर्वविप्लवकर्ता । अथ च सर्ववित्सर्वज्ञो रावणः । अनयोः पुरःस्फूर्तिकमर्थमाश्रित्याह-भवात्रावण इति । वाचोयुक्तिरुक्तिप्रत्युक्त्यादिः । 'वाग्दिक्पश्यन्यो युक्तिदण्डहरेषु' इत्यलुक् । अन्यथाभिसंधाय तात्पर्याज्ञानेन हेतुना वा वाक्छलेनोत्तरं ददन्निगृहीतोऽसीत्यर्थः । यथा 'अयं नेपालादा- १. 'कथं पथि', २. 'मिथः प्रलपतः', 'संप्रलतः'. ३. इत्यवधत्ते इति पुस्तकान्तरे नास्ति'.
५ अङ्कः] अनर्धराघवम् । (अन्यतः।) किं त्वया, किंतरां च रावणेन । अहमप्युसुकोऽसि गच्छामि। जाम्बवान-कथमेतदस्फुटार्थमेव निर्वहणम् । मन्ये पुनरेष परि- ब्राजकच्छलेन रावण एव कोपादुक्तमप्यपलप्य खं नाम द्रागपक्रान्तः । (सर्वतो निरूप्य !) अये, पुराणप्रियसुहृदस्माकं दक्षिणस्या दिशः परापत- जटायुरिव लक्ष्यते । तदेनमैनुपालयामि तावत् । दूरदृशो हि गृध्राः कदाचिदेष लङ्काद्वीपवृत्तान्तमप्युपलभेत । (प्रविश्य ।) जटायु:-प्राप्तैवेयमस्माभिः पञ्चवटी । यदमूर्गोदावरीतरङ्गसीकर- सेकसुकुमारमांसलपरिसरारण्यमालिन्यो जनस्थानसीमानः । अपि च । दृश्यन्ते मधुमत्तकोकिलवधूनिधूतचूताङ्कुर- प्राग्भारप्रसरत्परागसिकतादुर्गास्तटीभूमयः । गतः। नवकम्बलवत्त्वात्' इति वादिवाक्ये 'कुतोऽस्य नवसंख्याकाः कम्बलाः' इत्युत्तरं ददत्प्रतिवादी वाक्छलेन निगृहीतो भवति, तथा 'सर्वविद्रावणोऽहम् इति वाक्ये 'भवान्सर्वज्ञाता रावणः' इत्युत्तरं प्रयच्छन् लक्ष्मणो निगृहीत इति भावः । प्रत्यवतिष्ठमानः प्रत्यवस्थानं कुर्वन् । विरोधेनोपतिष्ठमान इति यावत् । भिक्षायै भिक्षां याचितुम् । "क्रियार्थोपपदस्य च- इति चतुर्थी । किं त्वया, किंतरां च रावणेन । अपि तु न किमपि । उभयत्र किंशब्दो जुगुप्सायाम् । निर्वहणमुपक्रान्तस्योपसंहारः । 'उपक्रान्तस्य संहारो भवेनिर्वहणं त्विदम्' इति भरतः । परिव्राजको भिक्षुः । द्राक्शीघ्रम् । 'नासूचितं विशेत्पात्रम्' इति खर- साज्जटायुप्रवेशं सूचयितुमाह-अये इत्यादि । अये इति निर्लक्ष्यसंबोधने । दक्षिणस्या इत्यपादाने पञ्चमी । परापतनागच्छन् । अनुपालयाम्यपेक्षे । गृध्राः पक्षिभेदाः । वृत्तान्तं वार्ताम् । 'जटायुस्तु जटायुषा' इति शब्दभेदाजटायुशब्दे द्विरूपता । मांसलं धनम् । परिसरः समीपभूः । मालिन्यो मालायुक्ताः। 'ब्रीह्या- दिभ्यश्च' इतीनिः । दृश्यन्त इति । तटीभूमयो जलस्थानपरिसरभूमयो १. 'किं च'. २. 'पुराणसुहृत्'. ३. 'अनुलपामि'. ४. 'पञ्चवटीभूः २३८ काव्यमाला। याः कृच्छ्रादतिलक्ष्य लुब्धकमयात्तैरेव रेणूत्करै- र्धारावाहिभिरस्ति लुप्तपदवीनिःशङ्कमेणीकुलम् ॥ ६॥ जाम्बवान्-(किंचिदुपसृत्य ।) कुतः पुनरियता वेगेन वयस्यो जटायुः। जटायु:--(दृष्ट्वा ।) कथं जाम्बवान् । सखे, क्षमख । न समाज- यिष्यामि तावद्भवन्तम् । मया हि मलयाचलकुलायादार्यसंपातिपादा- नभिवाद्य निवर्तमानेन मारीचसहचरः संचरन्निमामरण्यानीमभिलक्षितो राक्षसराजः । तदतिविषममाशङ्कमानं मां वत्सरामभद्रस्नेहस्त्वरयति । जाम्बवान्-(खगतम् ।) वयमप्येतदेव प्रतिपित्सामहे । (प्रका- शम् ।) सखे, वरख । (इति निष्क्रान्तः ।) जटायु:-(परिक्रम्यावलोक्य च ।) इयमने पञ्चवटी । (सवितर्कम् ।) नीतो दूरं कनकहरिणश्रद्धया रामभद्रः पश्चादेनं द्रुतमुपसरत्येष वत्सः कनिष्ठः । दृश्यन्त इत्यन्वयः । मधुभिः पुष्परसैमत्ता याः कोकिलवध्वस्ताभिर्निधूतो यथू- ताङ्कुरप्राग्भारस्तस्मात्तस्य वा प्रसरन्तो ये परागाः पुष्परेणवस्त एव सिकता वालुकास्ताभिर्दुर्गा गहनाः । यद्वा मधुर्वसन्तस्तत्र मत्ता उत्साहशालिन्यो. याः कोकिलवच्च इत्यादि पूर्ववत् । प्राग्भारो विस्तारः शिखरं वा । 'परागः सुमनो- रजः' इत्यमरः । यास्तटीभूमयः । कृच्छ्रात्कष्टात् । लुब्धक आखेटिकः । धारा- वाहिभिः पुनः पुनरनुवर्तमानैः कूटीभूतैर्वा । एणीकुलं कर्तृ । रेणूत्करैलुप्तपदवी निःशङ्कं यथा स्यादेवमस्ति । कुलविशेषणमेव वा । सभाजयिष्यामि पूजयिष्यामि प्रीतिं करिष्यामि वा । 'समाज प्रीतिसेवनयोः' । कुलायः पक्षिगृहम् । संपाति- र्जटायुषो ज्येष्ठभ्राता । सहचरो द्वितीयः । 'महारण्यमरण्यानी' इत्यमरः । अति- विषममत्यन्तकठिनम् । प्रतिपित्सामहे प्रतिपत्तुं ज्ञातुमिच्छामः । ‘पद गतौ'। सन् । 'सनि मीमा-' इतीस् । 'पूर्ववत्सनः' इति तङ् । श्रद्धाभिलाषः । कनिष्ठों १. 'संभावयिष्यामि'. २. 'पादावमिवन्ध'. ३. 'प्रतिपत्स्यामहे'. ४. 'स्वरस्त खरस्व'. ५. 'हरिणच्छमना', ५ अङ्कः] अनर्घराधवम् । विभ्यद्विभ्यत्प्रविशति ततः पर्णशालां च भिक्षु- धिकष्ट भोः प्रथयति निजामाकृति रावणोऽयम् ॥ ७ ॥ अहह। आर्यपुत्रार्यपुत्रेति रुदन्ती कुररीमिव । रथमारोप्य वैदेहीमेष पापः क यास्यति ॥ ८॥ (सोटोपं परिक्रामन् ।) अरेरे रावण, वधूटीमिक्ष्वाकोनिजकरतलस्पर्शमलिना- मिमां कुर्वाणस्य स्फुरति हृदि शोभैव भवतः । कुले येषां किं तु त्वमसि गणितास्तेऽपि गुरखो न सप्त ब्रह्माणः कथमिव पुलस्त्यप्रभृतयः॥९॥ (पुनराकाशे ।) अलीकाट्टहासधूमधूसरितदशवक्रवल्मीक, किमाथ रे राक्षसापस, किमाथ। 'जगद्विलोभिसीताख्यमामिषं हरतो मम । अयं किल जरध्रः करादाच्छिद्य नेष्यति ॥ १० ॥ इति । लक्ष्मणः । ततो रामात् । बिभ्यन्त्रस्यत् । वीप्सायां द्विरुक्तिः । 'नाभ्यस्ताच्छतुः इति नुनिषेधः। तत इति 'भीत्रार्थानां भयहेतुः' इत्यपादानता । धिक्कष्ट भोरि- त्यव्ययसमुदायः खेदे । 'धिकष्टं भोश्चापि खेदे' इति भरतः । निजामाकृति दशमुखादिवरूपाम् । प्रथयति प्रकाशयति । 'आर्यपुत्रेति संबोध्यः पतिः पत्नी- जनेन तु' इति भरतः । कुररी 'हापुती' इति प्रसिद्धा चटकविशेषत्री । 'वधूटी वर्धटी जनी' इत्यमरः । मलिनां दूषिताम् । तव हृदि शोभैव स्फुरति । अपि तु शोभा न युक्ता । सप्त ब्रह्मणाः सप्तर्षयः । येषामिति निर्धारणे षष्ठी । तस्य पुलस्त्यस्यापत्यत्वात् । अलीकं मिथ्या । अट्टहासो महाहासः। अपसदोऽधमः । - आमिषं भोग्यवस्तु । उत्कृष्टरूपं मांसं वा । 'उत्कृष्टे पलले भोगे भोग्यवस्तुनि चामिषम् इति विश्वः । किल निश्चये वाक्यभूषायां वा । आच्छिद्य गृहीला । १. 'विग्धिकष्टम् .. २. 'इति.सादोपम्'. ३. 'इति इति पुस्तकाम्तरे' नास्ति. ।
काव्यमाला। आः पाप, कथमेवमभिदधासि । तिष्ठतिष्ठ। भुजविटपमदेन व्यर्थमन्धंभविष्णु- धिंगपसरसि चौरंकारमाक्रुश्यमानः । त्वदुरसि विदधातु खामपस्कारकेलिं कुटिलकरजकोटिक्रूरकर्मा जटायुः ॥ ११ ॥ (इति निष्कान्तौ ।) विष्कम्भकः। (ततः प्रविशति लक्ष्मणः।) लक्ष्मण:-अहो दुर्निवारदारुणक्रोधशोकलज्जागहनो विषमोऽयं दशाविवर्तः । यस्मिन्नितिकर्तव्यताभिधानमप्यस्माकमनौपयिकम् । तथाहि तत्तादृग्दशकण्ठवञ्चनरुषा धूमायमानो गिरं ना?क्तपविलीनवर्णविधुरामार्यः समाप्नोति मे । भुजेति । भुजा एव विटपाः शाखास्तेषां मदेन गर्वेण व्यर्थ निष्फलमेवान्धं- भविष्णुरन्धीभवन्संस्त्वं यदपसरस्यपयासि तद्धिक् । अनन्ध एवान्धो भवति । 'कर्तरि भुवः-' इति खिष्णुच् । कीदृशः। चौरंकारं चौरवत्कृत्वाक्रुश्यमानः । चोरिकामुच्चार्य वाक्रुश्यमानः । 'कर्मण्याक्रोशे कृनः खमुन्' । नखैर्विदारणमप- स्कारः । 'अपाचतुष्पात्-' इत्यादिना सुटू । करजो नखः । कोटिरमम् । क्रूर कठिनम् । दारुणो महान् । गहनो गभीरः । विवर्तः परिणामः । इतिकर्तव्यतेदं कृत्वेदं कर्तव्यमिति ज्ञानम् । अनौपयिकमयुक्तम् । 'युक्तमौपयिकं लल्यम्' इत्यमरः । 'उपायाखश्च' इति ठक् हस्खत्वं च । तत्ताडगिति। तत्ताहक्सी- तापहरणरूपं वश्चनं भर्त्सनम् । रुषा क्रोधेन । धूमायमानो धूममुद्वमन् । वह्नि- रिवं । 'फेनाच' इति चकारात्क्यङ् । आर्यों मे मम कृते गिरं वाणीं न समानो- तीति संबन्धः । रोषवशाद|क्त एव प्रविलीनो ध्वस्तो यो वर्णस्तेन विधुरी खण्डिताम् । चापे पुनदृष्टिर्विश्राम्यति । अर्याद्रामस्य तातोऽनुकम्प्यः । २. 'कथमभिदधासि'. २. 'आकृष्यमाणः'. ३. 'प्रविश्य'..४. 'समामोत्ययम्'. । -- ।
५ अङ्क:] अनपराषवम् । २४१ चापे तातजटायुजीवितकथापर्यन्तधूमायित- क्रोधोत्पीडनिपीतशोकजडिमा दृष्टिस्तु निधान्यति ॥१२॥ (नेपथ्याभिमुखः ।) इत इत आर्य मारीचमथन, दृश्यन्तामभूस्वाची ककुभमभिवर्धमाना विन्ध्यवनवीथिभूमयः । (विश्य।) रामः-(आकाशे लक्ष्यं बवा।) कुले वा शौर्ये वा भुजसमुदये वा तपसि वा बभूवुर्न प्राञ्चस्त्वमिव भवितारो न चरमे । अहो दिङ्मोहस्ते समजनि चिरादेष न खलु प्रवीराणां पन्था दशवदन येनासि चलितः ॥ १३ ॥ (विमृश्य । सखेदस्मितम् ।) हहो पौलस्त्य, सिद्धश्रोत्रपरम्परापरिगतैरेमिः प्रपौत्रस्य ते वृत्तैरद्य पुलस्त्यवर्जमभितः मेरेषु देवर्षिषु । 'तातोऽनुकम्प्ये जनके' इति धरणिः । पर्यन्तोऽवसानम् । अनेन जटायुवधः सूचितः। धूमायितेति क्रोधस्याग्निना साधर्म्यात् । उत्पीडोऽतिशयः निपीतः शुष्कीकृतः शोकस्य जडिमा शीतलत्वं यया सा । मारीचमथन इत्यनेन मारीच- वध उक्तः । अवाची ककुभं दक्षिणां दिशम् । अभि अभिमुखम् । 'अभिप्रती आभिमुख्ये' इति कर्मप्रवचनीयसंज्ञा । 'दक्षिणस्यामवाच्येव' इति शब्दभेदः । 'दिशस्तु ककुभः काष्ठाः' इत्यमरः । वीथिः पतिः। समुदयः सङ्ग्राम उच्छ्रायो वा। प्राञ्चः पूर्वे चरमे पश्चाद्भवाः । 'प्रथमचरम-' इति वा सर्वनामसंज्ञा। भविष्यन्ति । लुद । दिङ्मोहो दिग्भ्रमः। समजनि जातः । कर्तरि चिण् । खलु । १. 'मुखम्'. २. 'विन्ध्याचल--'. ३. 'ततः प्रविशति रामः'. ४. 'वियोहः', ५. 'कथयति', 'कथमिह'. १६ अ० रा.
। २४२ काव्यमाला। विष्वावृत्तिरसंगवा नमयितुं दुरिलज्जाभर- म्लानश्रीस्तु चतुर्मुखी भगवतो धातुः कथं वर्तते ॥१४॥ (क्षणमनुध्याय !) हा प्रिये विदेहराजपुत्रि । (इति संवरणं नाटयति ।) लक्ष्मण:-(उपसृत्य ।) आर्य, कोऽयमभिषङ्गो नाम भवादृशान- प्यास्पदीकरोति। पंतिते व्यसने देवादारुणे दारुणात्मनि । संवर्मयति वज्रेण धैर्य हि महतां मनः ॥ १५ ॥ रामः-(दीर्घ निःश्वस्य ।) वत्स, सहजधैर्यवशंवदवृत्तयो हृदि रुषश्च शुचश्च नियन्त्रिताः । इह तु किं करवै यदपत्रपा किमपि मामवमत्य विजृम्भते ॥१६॥ एवार्थे । सुभटानामेष पन्था नैवेत्यर्थः । येन पथा। हहो संबोधने । वृत्तश्चरित्रैः सीतापहारस्वरूपैः । अभितः सर्वतः पुलस्त्यवर्ज पुलस्त्यापत्यत्वाद्रावणस्य । मेरेषु किंचिद्धासवत्सु सत्सु । विष्वग्वृत्तिश्चतुःपार्श्ववर्तिनी । अत एव नमयितु- मसंगता । अन्योन्याकर्षणात् । कथं वर्तते । अपि तु केनापि प्रकारेण स्थातुं न शक्ता भवति । लजया पुरुषेण मुखं नम्रीकृत्य स्थीयते इति खभावः । चतुर्मु- खस्य तदपि न संभवतीति भावः । अभिषण आसङ्गो दुःखं पराभवो वा। 'अभिषशो मतो दुःखे आसङ्गेऽपि पराभवे' इति विश्वः । आस्पदं स्थानम् । व्यसनेऽनिष्टफले । दारुणे भीषणे। दारुणात्मनि महास्वरूपे जने । 'दारुणो भीषणे गुरौ' इति शाश्वतः । धैर्य धीरता पाण्डित्यं वा कर्तृ । साधूनां मनः कर्म । वज्रेण संवर्मयति वर्मणा संनह्यते। 'सत्यापपाश-' इति णिच् । सहजे. त्यादि । स्वाभाविकधैर्येण वशंवदा आयत्ता वृत्तयो व्यापारा यासां ताः शुचः शोकाः, रुषः क्रोधाश्च हृदि चित्ते नियन्त्रिता नियमिताः । इह पुनः किं करवै करवाणि । आत्मनेपदे 'एत ऐ । यत् अपनपा अन्यतो लजा किमप्यनिर्वचनीयं यथा स्यादेवं मां विजित्य विजृम्भते स्फुटीभवति । रोषाः शोकाश्च साहजिक- १. 'पतति व्यसने', 'पतितव्यसने'. २. 'दारुणात्'.. ३. 'दारुणात्मनः', ४. 'दीर्घमुष्णं च' । । - - ५ अङ्कः] अनर्धराघवम् । लक्ष्मणः-(पुरोऽवलोक्य ।) आर्य, अयमग्रे तातजटायुषो वीर- लोकसाधनसिद्धक्षेत्रमरण्यानीसंनिवेशः । पश्य । भनोऽयं कथमस्ति रावणरथस्तातेन वजापुर- क्रूरीपस्किरमाणभङ्गुरनखनोटित्रुटद्वन्धनः । राम:-(सकरुणम् ।) । हा सीरध्वजराजपुत्रि स तदा दृष्टस्त्वया धन्यया पक्षीन्द्रो दशकण्ठकुञ्जरशिरःसंचारिपञ्चाननः ॥ १७ ॥ (इति लक्ष्मणमवष्टभ्य ध्यानं नाटयति ।) लक्ष्मण:-(खगतम् ।) महादोषः खल्वयमतिप्रसज्यमानो मानसः शोकाख्यो विकारः। तदन्यतः प्रेरयामि । (प्रकाशम् ।) आर्य, पश्य पश्य। विन्ध्यगिरिराजकन्यान्तःपुरमेतास्तरङ्गमालिन्यः । वेतखतीभिरद्भिस्तौर्यत्रिकगुणनिकां दधते ॥ १८ ॥ धैर्यायत्तव्यापारा भवन्तीति ते नियमिताः, अपनपा तु न धैर्यनिवारणीयेति कि करिष्यामीति भावः । क्शंवदेति 'प्रियवशे बदः खच् । 'अरुषिदजन्तस्य- इति मुम् । 'लज्जा सापत्रपान्यतः' इत्यमरः 'मन्युशोको तु शुक्स्त्रियाम्' इति च । 'रुदधौ स्त्रियाम्' इत्यपि । वीरस्य युद्धे मरणाद्यो लोको भुवनं तस्य साधनं हेतुः । भग्नोऽयमिति । तातेन जटायुषा वज्राग्रवत्क्रूरे भयंकरे अप- स्किरमाणे विदारयन्त्यौ तत एव भगुरे खतः कुटिले ये नखत्रोटी ताभ्यां त्रुटद्वन्धनं यत्र सः । अपस्किरमाणेति 'किरतेर्हषजीविकाकुलायकरणेषु' इति तङ् । पूर्ववत्सुट् । त्रोटिश्चञ्चुः । 'चञ्चुनोटिरुभे स्त्रियौ' इत्यमरः । पञ्चाननः सिंहः । ध्यानं नाटयति । मूर्च्छतीत्यर्थः । अतिप्रसज्यमानो बलात्कारेण प्रक- र्तमानः । रसान्तरं कर्तुमाह-विन्ध्येति । एतास्तरङ्गमालिन्यो नद्योऽद्भि- १. 'अयमेवाग्रे'. २. 'सिद्धिक्षेत्रमरण्यसंनिवेशः'. ३. 'अपस्क्रियमाण-'. ४. 'महान्दोषो हि'. ५. 'मानसः' इति पुस्तकान्तरे नास्ति. ६. 'प्रतिसारयामि'. ७. 'बहुवेतसाभिः.
काव्यमाला। रामः-(उन्मील्य चक्षुषी दीर्घमुष्णं च निःश्वस्य ।) वत्स, दर्शनीय- मेतत् । कुमुदवनविशायजाग्रदम्भोरुहकृतयामिकविधमा रमन्ते । मदकलकरिकर्णतालनृत्यन्मुखरमयूरमनोरमास्तटिन्यः ॥ १९ ॥ (इति परिक्रामतः।) लक्ष्मणः-आर्य, अयमितो गिरिमाल्यवान् । इह महिषविषाणव्यस्तपाषाणपीठ- स्खलनसुलभरोहिद्दर्भिणीभ्रूणहत्याः । कुहरविहरमाणप्रौढमल्लूकहिका- चयचकितकिरातत्रस्तशस्त्रा वनान्ताः ॥ २० ॥ जलैस्तौर्यत्रिकगुणनिकां गीतवाद्यनृत्याभ्यासं कुर्वते । अद्भिः कीदृशीभिः । वेतख- तीभिः । वेतसो वानीरवृक्षस्तयुक्ताभिः । 'कुमुदनडवेतसेभ्यो बतुप्' । नद्यः कीदृश्यः। विन्ध्याद्रिराजस्य कन्यान्तःपुरं कन्यावरोधः । अन्तःपुरपदेनान्तः- पुरस्थाः स्त्रियो लक्षणयोच्यन्ते । 'ख्यगारं भूभुजामन्तःपुरं स्यादवरोधनम्' इत्य- मरः । 'अभ्यासे गुणनी योग्या' इति च । 'तौर्यत्रिकं नृत्यगीतवायं नाट्यमिदं त्रयम्' इति च । अद्भिरिति 'अपो मि' इति तकारः । दर्शनीयताप्रयोजक रूपमाह-कुमुदेति । तटिन्यो नद्यो रमन्ते रतिं जनयन्ति । कीदृश्यः । कुमुदवनेन सह विशायेन पर्यायेण जाग्रता अम्भोरुहेण कृतो यामिकस्य प्राह- रिकस्य विश्रमो विलासो यासु ताः । विशाय इति 'व्युपयोः शेतेः पर्याये' इति घञ् । मदकला मत्ता ये करिणो हस्तिनस्तेषां कर्णतालेन कर्णशब्देन नृत्यन्तो मुखराः शब्दायमाना ये मयूरास्तैमनोहराः । 'भवेन्मदकलो मत्ते' इत्यमरः । अपरमपि रसान्तरमाह-आयेति । इतोऽत्र । इह महिषेति । विषाण शृङ्गम् । रोहितो हरिणविशेषाः । भ्रूणो गर्भः । हत्या विनाशः । विहरमाणोऽटन् । कभित्राये तङ् । हिका शब्दभेदः । वनान्ता वनदेशाः । स्मन्ते इति क्रिया- ध्याहारोऽनुषसो वा । 'अन्तः स्याद्देशनाशयोः' इति धरणिः । खरूपवाचित्वे क्लीबता स्यात् । यद्वा वनान्ता वनसमीपभूमयः। 'अन्तं खरूपे देशे ना न स्त्री ।
। । ५ अङ्क:] अनर्घराघवम् । रामः--(चिरं दृष्ट्वा सकरुणासम् ।) प्रतिपरिसरं भूयानघः शिखण्डभृतां यथा- मिलितमलिभिः संभुज्यन्ते कदम्बविभूतयः। अभिनवधनव्यूढोरस्कः प्रवर्षति माल्यवा- विषधरवधूगर्भाधानप्रियंकरणीरपः ॥ २१ ॥ वत्स लक्ष्मण, धारय माम् । न शक्नोमि स्तम्भयितुमात्मानम् । इयमविरलश्वासा शुष्यन्मुखी भिंदुरखरा तनुरवयवैः श्रीन्तसस्तैरुपैति विवर्णताम् शेषेऽन्तिकेष्वपि' इति मेदिनीकरः । पर्यन्तभूः परिसरः । प्रतिवर्वीप्सायाम् । तेन परिसरं परिसरं प्रतित्यर्थः । 'प्रतिपरिसरे' इति पाठे 'तृतीयासप्तम्योर्बहुलम् इत्यनिषेधः । अर्को महोत्सवः पूजाविधिर्वा । 'अर्को महोत्सवे पूजाविधौ मूल्येऽपि दृश्यते' इति विश्वः । शिखण्डभृतां मयूराणाम् । यथामिलितं कालोपस्थितवस्त्वन- तिक्रमेण । 'यथा सादृश्ये' इत्यव्ययीभावः । कदम्बो नीपवृक्षः । विभूतिः पुष्पा- दिसंपत्तिः । नवमेधेन व्यूढं विन्यस्तं संहृतं वा उरो मध्यं यस्य सः । 'व्यूढः संहतविन्यस्तपृथुलेष्वभिधेयवत्' इति मेदिनीकरः । विषधरः सर्पः । अप्रियं प्रियं क्रियते याभिस्ताः प्रियंकरणीः । 'आद्यसुभग-' इति ख्युन् । अपो जलानि । स्तम्भयितुं स्थिरीकर्तुम् । आत्मानं देहम् । ननु कुतो हेतोरात्मानं स्तम्भयितुं न शक्यत इत्यत आह-इयमिति । इयं तनुः शरीरमवयवैः करचरणादिभिः करणभूतैर्विवर्णतामुपैति । कीदृशैः। श्रान्ताः परिश्रान्ता अत एव सस्ता इतस्ततः पतनशीलाः । अबलत्वात् । तैरविरलो निरन्तरः श्वासो यस्यां तादृशी । अत एव शुष्यन्मुखं यस्यां तादृशी । भिदुरखरा भिन्नखरा । घर्घरखरेति यावत् । कुतस्त- नुवैवर्ण्यमुपैतीत्यत आहे--मयि मद्विषये शोकः स्थायिभावश्चिरेण रसतया करुण- रूपेण विपच्यते परिणतो भवति । भाव एव शोकादिः करुणादिरसता याति । तथा चोक्तं रसप्रकाशे-'प्रेमरूपो रसो ज्ञेयः शृङ्गारादिप्रमेदवान् । काव्याथ भावय- येष भाव इत्यभिधीयते ॥ आलम्बनविभावेभ्यः खेभ्यः खेभ्यः समुन्मिषन् । रसो रत्यादिरूपेण भाव इत्यभिधीयते ॥ रतिहाँसश्च शोकश्च क्रोधोत्साहौ भयं १. 'मधुरखरा'. २. 'श्रान्तश्रान्तः। । । । ॥ ।
काव्यमाला। स्फुरति जडता बाष्पायेते दृशौ गलति स्मृति- मयि रसतया शोको भावश्चिरेण विपच्यते ॥२२॥ (इति लक्ष्मणेन धार्यमाणो निमीलिताक्ष एव ।) हा प्रिये दण्डकारण्यविहार- सब्रह्मचारिणि । (इति पुनः संवृणुते।) लक्ष्मण:-(सखेदमात्मगतम् ।) केन पुनरेष रसो रसान्तरेण तिरस्क्रियते। (नेपथ्ये ।) आः पाप कबन्धहतक, अयं न भवसि । रामः-(आकर्ण्य । ससंभ्रभम् ।) वत्स लक्ष्मण, दुरात्मना दनुकब- न्धेन कल्हायमानो वयस्यस्ते गुह इव श्रूयते । बहुच्छलानि रक्षांसि । तत्त्वरितमभ्युपपद्यख। लक्ष्मण:-तथा । (इति निष्कान्तः ।) तथा । जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ भावा एवाभिसंपन्नाः प्रयान्ति रसताममी । यथा द्रव्याणि भिन्नानि मधुरादिरसात्मताम् ॥' कुतः शोकः परिणतो भवतीत्यतं आह-जडता जाज्यं स्फुरति । दृशौ चक्षुषी बाष्पायेते অপু ण्युद्वमतः । 'बाष्पोष्मभ्यामुद्वमने” इति क्यङ् । ['वा क्यषः' इति तङ् । स्मृतिश्च गलति । तथा च शोकस्यैवाभिनयोऽयम् । तथा च रसप्रकाशे-'जाचं शरीरे नयने बाष्पोद्रेकः स्मृतिक्षयः । शोके सति भवेदेवम्' इति । हे सब्रह्मचारिणि सहाध्यायिनि । कबन्धो नामासुरमेदः । अयं न भवसि इदानीमेव न भविष्यसि । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् । कलहायमानो युद्धं कुर्वन् । 'शब्दवैर- इति क्यङ् । उपपद्यख नायख । गुह इव श्रूयत इत्यनेन भविष्यगृहप्रवेशः सूचितः। विश्ववितम्भमर्मवेदिनी समस्तविश्वासतत्त्वज्ञा। निचुलो हिजलः । लेखा । । १. 'गलिता'. २. 'इति' पुस्तकान्तरे नास्ति।
५ अङ्कः] अनर्धराघवम् । २४७ रामः-(पार्श्वतोऽवलोक्य । सकरुणम् ।) देवि वामशीले सीरध्वज- राजनन्दिनि, इयं ते विश्ववित्रम्भमभवेदिनी निचुलनिकुञ्जलेखा । इह हि खवपुषि नखलक्ष्म खेन कृत्वा भवत्या कृतमिति चतुराणां दर्शयिष्ये सखीनाम् । इति रहसि मया ते भीषितायाः स्मरामि स्मरपरिमलमुद्राभङ्गसर्वसहायाः ॥ २३ ॥ (इति धनुरवष्टभ्य लक्ष्मणवृत्तान्तदत्तचेतास्तथैवास्ते ।) (ततः प्रविशति लक्ष्मणो गुहश्च ।) गुहः-जयतु जयतु देवः । विनेता वर्णानामयमभयदुर्ग दिविषदां कनिष्ठः काकुत्स्थो जयति जगदाश्चर्यचरितः । यदस्त्रैः पाप्मानं रजनिचरजन्मग्रहसृजं विजित्य खर्लोकानविकलमुपातिष्ठत दनुः ॥ २४ ॥ राम:-साधु वृत्तम् । शिवाः सन्तु तस्य देवयानाः पन्थानः । वत्स गुह, वियति विवर्तमानः कश्चिदचल इव लक्षितः किमसौ तेनैव योजनबाहुना प्रहरणीकृतः । राजिः । चतुराणां विदग्धानाम् । दर्शयिष्ये 'अभिवादिदृशोरात्मनेपदस्योपसंख्या- नम्' इत्यनेन प्रकारेण रहस्येकान्ते ते स्मरामि त्वां स्मरामि । 'अधीगर्थ-'इति कर्मणि षष्ठी। भीषितायास्त्रासितायाः। 'भियो हेतुभये षुक्' । स्मरः कंदर्पस्तस्य परिमलो मर्दस्तस्य मुद्रा निश्चयस्तेन भङ्गः पराभवस्तस्य सर्वसहायाः । 'पूःसर्व- योरिसहोः' इति खच् । विनेता रक्षको विनयकर्ता वा। वर्णानां ब्राह्मणादीनां विनेता । 'हप्तानाम्' इति पाठे दर्पशालिनां जयकर्ता । दिविषदां देवानामभयदुर्ग ज भयं यस्मादेतादृशदुर्गम् । यद्वा अभयार्थ दुर्ग दुर्गस्थानम् । लक्ष्मणविशेषणम् । अजहल्लिातयान्वयः । यद्यपि कनिष्ठः काकुत्स्थः शत्रुघ्नस्तथापि संनिहितत्वात्प्रकृते १. 'सीरध्वजनन्दिनि'.२. नर्मवित्रम्भमर्मभेदिनी'. ३. 'जयति जयति'. । - ।
काव्यमाला। गुहा--देव, । । NpNE । । दुन्दुमि नाम दैत्येन्द्र निष्पिपेष कपीश्वरः । तस्य कङ्कालकूटोऽयं कुमारेण विलोडितः ॥ २५ ॥ तन्निमित्तजन्मा संप्रति वालिनो महानभियोगः संभाव्यते । लक्ष्मण:-ततः किम् । रामः-वत्स, मा मैवम् । माननीयः खल्वसौ पुराणवीरो महेन्द्र- सूनुः । (गुहं प्रति ।) कुतः पुनरागच्छतो वत्सस्य योजनबाहुरन्तरायः संवृत्तः। गुहः-देव, व्योमयानेन सत्वरमपक्रामति रावणे सीतादेव्याः- राम:-(सोशङ्कमात्मगतम् ।) किं पुनरस्याः । लक्ष्मणस्यैवान्वयः । यदौर्लक्ष्मणास्त्रैः । दनुर्दैत्यविशेषः । रजनिचरो दानवो राक्षसो वा । एकक्रियाकारितया साम्यम् । तस्य जन्मने ग्रह आसक्तिस्तत्सृजं तज्जनकम् । यद्वा दानवजन्मरूपो ग्रहो दुष्टप्रहस्तजनकं पाप्मानं पापं विजित्य खाल्लोकानुपा- तिष्ठत संगतवान् । संगतिकरणे तङ् । एष खलु गन्धर्वो लक्ष्मणाद्विनाशं प्राप्य खर्गमागमिष्यतीति शापान्तः । तेन खर्ग गत इति भावः । वृत्तं निष्पन्नम् । देवै- र्गम्यते यैस्ते देवयानाः । करणे ल्युट । विवर्तमानो भ्राम्यन् । असौ अचलः । योजनबाहुना कबन्धेन 'विदुर्योजनबाहुं तं कबन्धमुदरे मुखम्' इति पुराणम् । प्रहरणमन्त्रम् । निष्पिपेष चूर्णयामास । कपीश्वरो वाली । 'स्याच्छरीरास्नि कङ्कालः' इत्यमरः । कुमारेण लक्ष्मणेन । विलोडितो धनुष्कोच्या विक्षिप्तः । अभियोगो युद्धोद्यमः, रोषो वा। मा मैवम् । वाच्यमिति शेषः । अत्यन्तनिषेधार्थ द्विरुक्तिः । वत्सस्य तव । गुहस्येत्यर्थः । अन्तरायो विनः। अन्तरा वृत्तः' इति पाठे पथि मध्यवर्ती भूत इत्यर्थः । व्योमयानेन विमानेन । 'व्योमयानं विमानोऽस्त्री' इत्यमरः । यद्वा आकाशगमनेन । हनूमानिति 'अन्येषामपि दृश्यते' इति दीर्घः । सभाजयितुं प्रीण- यितुम् । प्रामृतमुपढौकनम् । 'पासन' इति प्रसिद्धम् । 'प्राभृतं तु प्रदेशनम्' इत्य- १- पुनालिनो'. २. (साशकम् । किं तस्याः किमस्या:'. । ।
५ अङ्कः] अनपराधवस् । गुहा-यदुत्तरीयमुटुत्य हनूमानाहीत् , तदेतद्देव गुणानुरागिणा कुमारसुग्रीवेण समाजयितुमुपस्थितवतो मम हते देवस्य प्राभूतीकृतम् । (इति रामस्य हस्ते सीताया उत्तरीयमर्पति।) राम:-(गृहीत्वा हृदये निधाय । साखम् ।) हा देवि विदेहराजन- न्दिनि, कथमुत्तरीयशेषा दृश्यसे । (इति निमीलिताक्षो लक्ष्मणमवष्टनाति ।) लक्ष्मणः-(निःश्वस्य ।) सखे निषादराज, कुशलं सुग्रीवस्य । गुहः-अद्य त्वयि वार्तामनुयुञ्जाने । रामः-(खगतम् । जानन्नेव दशाननोऽपहरते नः प्रेयसीमस्ति वा चन्द्रापीडमुपासितुं स हि शिरोदाम खयं कृत्तवान् । तत्रासो रजनीचरस्य न पुनः कण्ठाटवीकर्तना- द्धिग्बाणैर्मम चन्द्रहासहतकक्षुण्णोऽयमध्वा वृतः॥ २६॥ लक्ष्मणः-आर्य, कथमस्मासु वनौकसोऽपि सौजन्यमनुरुध्यन्ते । राम:-किमुच्यते । सुग्रीवः सनाभिरयमस्माकम् । अस्य हि प्रभवो भगवानक्ष्वाकस्य राजर्षिवंशस्य प्रसविता सहस्रदीधितिः । (हृदय- स्थमुत्तरीयं दृष्ट्वा ।) वत्स गुह, स्पृहयामि सुग्रीवहनूमतोर्दर्शनाय । तह- ष्यमूकगामिनं मार्गमावेदय । मरः । अनुयुजाने पृच्छति । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । जाननेवेति । नोऽस्माकं प्रेयसी सीतां जानन्नेव । यद्वा जानन्नेव । रक्षोनाशहेतूनस्मानिति भावः । अपहरते चोरयति, नयति वा । अस्ति वेति लोकोक्तिः । इदं पुनर्वर्तत इत्यर्थः । हि यतः स रावणश्चन्द्रापीडं महादेवमुपासितुं वयं शिरोदाम कृत्तवान् । तत्तस्मा- त्पुनः कण्ठाटवीकर्तनादपि रावणस्य न वा त्रासः । चन्द्रहासो रावणखगः। स एव हतको निन्द्यः। तेन क्षुण्णः प्रहतोऽयमध्वा मार्गः शिरश्छेदरूपो वृतोऽन्विष्टः १. 'तदेतदेव.' २. 'अवलम्बते'. ३. 'अस्तु'. ४. 'किमसासु'. ५. 'भगवान् इति पुस्तकान्तरे नास्ति. ६. 'आदेशय'. ।
काव्यमाला। गुहः-(सहर्षमात्मगतम् ।) कथमचिरादेव फलवती जाम्बवतो मन्त्रशक्तिः । (प्रकाशम् ।) इत इतो मतङ्गाश्रमवर्मना देवः । (इति सर्व परिक्रामन्ति ।) गुहः-देव, पश्य पश्य। विदधति मुदमक्ष्णोनूतनानूपनीप- प्रहसनसहचर्यानित्यनृत्यन्मयूराः । फलपुलकितजम्बूकुञ्जकूजत्कपोत- प्रियशवरपुरंध्रीबन्धवो विन्ध्यलेखाः ॥ २७ ॥ राम:-(सर्वतो निरूप्य । सखेदम् ।) समन्तादुन्मीलङ्कहललहरीलङ्घनकला- लघुप्रेडपम्पानिलविदलदेलासुरभयः । अविद्यावैदेहीशतलिपिकरीणां मम धिया- ममी हस्तालम्बं विपिनविनिवेशा विदधते ॥ २८॥ प्रार्थितो वा । मम बाणैः । अत्र धिक् । गर्हेत्यर्थः । वनौकसो वानराः । अनुरु- ध्यन्ते कामयन्ते । 'अनो रुध कामे' दिवादिः। किमुच्यते । अपि तु नास्ति वाग- वसरः । यतोऽस्माकमयं सनाभिः खजनः । 'सपिण्डास्तु सनाभयः' इत्यमरः । प्र- भवत्यस्मादिति प्रभव उत्पत्तिस्थानम् । प्रसविता जनकः । दर्शनायेति 'स्पृहेरीप्सितः' इति संप्रदानता। ऋष्यमूकः पर्वतभेदः । मन्त्रशक्तिर्मन्त्रणासामर्थ्यम् । सीताविरहसं. तप्तं राममन्यमनीकर्तुमाह-विद्धतीति । विन्ध्यस्य लेखाः शृङ्गपतयो वनपङ्ग्यो वा अक्ष्णोश्चक्षुषोर्मुदं हर्ष विदधतीति योज्यम् । कीदृश्यः। फलैः पुलकित इव पुल- कितो यो जम्बूवृक्षस्तस्य कुञ्ज कूजन्तः शब्दायमाना ये कपोतास्तेषु प्रिया लालसा याः शवरपुरंध्यस्तासां बन्धवो मित्राणीत्यर्थः । अनुगता आपो यत्र सोऽनूपो जल- प्रायो देशः। 'ऊदनोर्देशे' इत्यपोऽकारस्य ऊत्त्वम् । नीपः कदम्बवृक्षः । प्रहस- नमिव प्रहसनं पुष्पविकासः । सहचर्या साहचर्यम् । 'जलप्रायमनूपं स्यात्' इत्य- मरः। समन्तादिति । अमी विपिनविनिवेशा वनप्रदेशा मम घियां हस्ताल- १, 'जाम्बवी'. २,'विन्ध्यपादाः'. । । । ।
५ अङ्कः] अनर्धराघवम् । २५१ लक्ष्मण:-आर्य, इतस्तावत् । भयभ्रष्टप्रेयोविरहनिरहंकारहरिणी- मुखालोकोन्मीलद्गुरुकरुणरुग्णां सहचरीम् । विलोक्य म्लेच्छन्तीमलमलमिति प्राप्रणिहित शरव्यालुब्धानां हृदयमपराद्धं न तु शराः ॥ २९॥ रामः-(साखम् ।) हा देवि जानकि, मारीचमृगयाव्यग्रे मयि प्राप्ते च रावणे। मासामिव कुरङ्गीणां तवोत्पश्यामि लोचने ॥ ३०॥ लक्ष्मण:-(स्वगतम् ।) कः पुनरुपायो येन विनोचते हृदय- मार्यस्य । म्बमुपजयं हस्ताकर्षणं व्यवसायं वा विदधत इत्यन्वयः। कीदृशीनाम् । अविद्या- वैदेहीशतलिपिकरीणां मिथ्यासीताशतस्य लिखनकर्तीणाम् । सीताविनिविष्टचित्तत्वा- सर्वत्र सीतैवास्तीति भ्रम इति भावः । समन्तात् सर्वत्रोन्मीलन्ती प्रसरन्ती या बहला निविडा लहरी कल्लोलस्तल्लङ्घनकलायां लघवो ये प्रेवत्पम्पानिलाश्चलत्सरो- विशेषवायवस्तैर्विदलन्त्यो या एलास्ताभिः सुरभय इत्यर्थः । भयेत्यादि । भयेन त्रासेन भ्रष्टः पलायितो यः प्रेयान्वल्लभस्तस्य विरहेण निरहंकारा शोच्या या हरिणी तस्या मुखावलोकनेनोन्मीलन्नुदयं गच्छन्यो गुरुरतिशयितः करुणो रसस्तेन रुग्णां दुःखिताम् । अलमलं मैवं मैवमिति चारुभाषया भाषमाणाम् । यद्वा व्यक्तमभि- दधतीं सहचरी प्रियां प्रेक्ष्य लुब्धानां व्याधानां शरव्यालक्ष्यात्प्राक्प्रणिहितं पूर्वप्र- हितं हृदयमपराद्धं च्युतलक्ष्यमभूत् । न तु शरा अपराधाः । शरव्य एव पतिता इत्यर्थः । हरिणीहनननिषेधकारिण्याः प्रियाया वचनं श्रुत्वा प्रथमं त्यकशरत्वाद्धरि- णीहनने व्याधानां धिग्बुद्धिरभूदिति भावः । केचित्तु 'मृगवधे प्रथमं मनोमात्र प्रहितं प्रेयसीवचसा तन्निवृत्तम् । इति तस्यापराद्धत्वं च्युतलक्ष्यत्वम् । शरप्रस्थापनं कर्तव्यमेवासीदिति न तस्यापराद्धत्वमभूत्' इति वर्णयन्ति । 'अपराषत्कोऽसौ लक्ष्यायश्चयुतसायकः' इत्यमरः।म्लेच्छन्तीमिति 'म्लेच्छ अव्यक्तायां वाचि' इत्यस्य २. प्रणिहिताः'.२. 'विनोदयते'. BRai काव्यमाला। (नेपथ्ये) भो भो वनौकसः, कथयन्तु भवन्तः । केनास्मकीर्तिकामिनीकेलि. चङ्क्रमणक्रीडापर्वतो विवर्तितोऽयं दनुराचकङ्कालकूटः । गुहः-(दृष्ट्वा । सभयसंभ्रमम् ।) देव, पश्य पश्य । कनकमय- सहस्रपत्रपुण्डरीकवैकक्षकप्रभापटलेन दुन्दुभिकरकव्यतिकरजन्मना च रोषरागेण त्रिगुणपिशङ्गी तनुमादधानः प्लवगराजोऽयमित एवाभिवर्तते। पौलस्त्यावयवौघसंकटभुजामूलक्षणोन्मूलित- द्वैराज्याममरावती कृतवते वीराय यस्मै हरिः । नि त्यालोकनकौतुकव्यसनिनीः शके सहस्र दृशः पिण्डीकृत्य दलच्छलेन कनकाम्भोजसनं दत्तवान् ।।३१॥ क्षेणं च देवस्य महावीरसंवादगोष्ठीयमृष्यमूकयात्रामन्तरयिष्यति । तदमनतो गत्वा दिल्या वर्धयामि सूर्यतनयम् । रूपम् । 'म्लेच्छनं चारुभाषायाम्' इति विश्वः। मृगया आखेटकम् । व्यग्रे आकुले। उत्पश्यामि तर्कयामि । नेपथ्ये भो भो इत्यादि वालिवचनम् । चक्रमणं कुटिलगम- नम् । विवर्तितो विलोडितः। कङ्कालकूटः कूटाकारं मांसशून्यसकलशरीरास्थि । 'कराट' इति प्रसिद्धम् । 'स्याच्छरीरास्नि कङ्कालः' इत्यमरः । कनकमयेति । कन- कमयानि सहस्रं पत्राणि यस्मिन्पुण्डरीके तस्य वैकक्षकं तिर्यगुरसि न्यस्तपुष्पमाला पटलं समूहः । 'बैंकक्षकं तु तत् । यत्तिर्यविक्षप्तमुरसि' इत्यमरः । करङ्कमस्थि । 'करङ्को मस्तकास्थिनि' इति मेदिनीकरः । व्यतिकरो विलोडनम् । रागो लौहित्यम्। कनकमयपुण्डरीकमालाप्रभया, रोषरागेण, खभावेन च त्रैगुण्यमित्यर्थः। पौल. स्त्येति । पौलस्त्यो रावणस्तस्यावयवौधो हस्तादिसमूहस्तेन संकटं व्याप्तं यद्भुजा- मूलं कक्षा तेन क्षणमुन्मूलितं द्वैराज्यं यस्यास्ताम् । प्रत्यहं वाली रावणं कक्षायां निक्षिप्य पृथ्वीप्रदक्षिणं कृत्वा सप्तसमुद्रेषु संध्यामकृतेति पुराणम् । यदा रावणं 'कामिनीचङ्क्रमणकलिपर्वत'. २. 'प्रभामण्डलेन'. ३. 'तस्सै'. ४. मन्ये'. ५. 'क्षणं च वीरसंवाद-'.६. 'तदयम्'.
५ अङ्कः] अनघराधनम् । ૨ राम:--एवमस्तु। गुहः-वाचिकं पुनरेतावस्कुमारसुश्रीवा यत् निवपर्यायान्तरितं देवस्य दाखमिच्छामि' इति । रामः-(अपवार्य ।) वत्स लक्ष्मण, एवमाह बयस्सस्ते गुहः । कि च मन्त्रोत्साहसंपन्नानामपि प्रभुशक्तिमपेक्षन्ते सिद्धयः । तदहं वालि- स्थाने सुग्रीवमभिषिच्य तत्कोषदण्डाभ्यां समग्रशक्तिर्वैरपारं गन्तु- मिच्छामि। लक्ष्मण:-(सस्मितम् ।) यद्येवमुपयुज्यमानमिन्द्रसूनुमुपेक्ष्य सुग्री- वेणोपयोक्ष्यमाणेन संधिरिति वक्रः खल्वयं पन्थाः। राम:-(सस्मितम् ।) वत्स, साध्वेव ब्रवीषि । किं तु । दृप्यत्पौलस्त्यकण्डूभिदुरभुजभरोष्मायमाणः कपीन्द्रो नायं नः संदधीत क्वचिदपि हि विधौ नैव साहाय्यकामः। कक्षनिक्षिप्तं करोति तदामरावती एकराजवती भवति । अन्यदा रावणेनैव द्वैराज्य तत्रेति भावः । यस्मै वालिने । हरिरिन्द्रः । शङ्के तर्कयामि । मम सुतेन तेन मम द्वैराज्यं क्षणं खण्डितमिति दृशश्चक्षूषि दलच्छलेन पत्रव्याजेन पिण्डीकृत्य वर्तुली- कृत्य कनकाम्भोजस्रजं दत्तवानिति । दिष्ट्या वर्धयामि उत्सवं तस्य करोमि । 'दिष्ट्या- पूर्वो वर्धतिरुत्सवे' इति भरतः । 'संदेशवाग्वाचिकं स्यात्' इत्यमरः । मित्रपर्यायः सुहृदभिधानं तेनान्तरितं व्यवहितम् । मित्राभिधानं दासत्वमित्यर्थः । मन्त्रः षाड- ग्यम् । शक्तयः प्रभावोत्साहमन्त्रजाः । अभिषिच्यारोप्य । कोषो धनम् । दण्डो राज्यम् । उपयुज्यमानमुपयुक्तीभवन्तम् । इन्द्रसूनुं वालिनम् । उपयोक्ष्यमाणेनो- पयुक्तीभविष्यता । वक्रोऽनृजुः । उपयुक्तत्यागात् । सुग्रीवेण समं प्रीतिकरणे कारणमाह-दृप्यदिति । भिदुरः खयं भेदनशीलः । ऊष्मायमाणस्तेज उद्व- मन् । 'बाष्पोष्मभ्यामुद्वमने' इति क्यङ् । अयं कपीन्द्रो वाली नोऽस्मान संद- धीत न संधियुकान्कुर्यात् । हि यतः । विधौ कार्ये । साहाय्यं सहाय- १. 'मत्रोत्साहशक्ति-'. २. 'आधाय'. ३. 'साध्वेवं', . ।
उपाभावे' इति क्यप् । 'स्याद्देवभूयं देवत्वम्' इत्यमरः । अभिलम्भितः काव्यमाला। सोऽहं सुग्रीवमेतदमनदृढतरं मित्रमिच्छामि पश्चा- पारस्त्रैणेयपुत्रव्ययशिथिलशुचं शक्रमाराधयामि ॥ ३२ ॥ लक्ष्मण:- साधुदर्शिनी बुद्धिरार्यस्य । किं च विधूतशापेन दनु- नापि देवभूयां गतिमभिलम्भितेन संदिष्टमार्यस्य यथा 'अस्य निषाद- पतेर्वचसि देवेनावधातव्यम्' इति । रामः-तद्नुहोऽपि प्रतिदूत्यमर्हति । लक्ष्मणः--(गुहं प्रति ।) वयस्य, एवमस्मद्राि सुग्रीवो वक्तव्यः- 'पिताय रेतोधास्तव तरणिरस्मत्कुलगुरु- मनुर्वैमात्रेयस्तदपि सहजं मित्रमसि नः । अथापि ज्ञातेयं शिथिलयसि कापेयचपलः शरास्तन्मे वालिक्षतजरसलोलाः प्रतिभुवः ॥ ३३ ॥ त्वम् । प्रकृतमुपसंहरति-सोऽहमित्यादि । दमनं मारणम् । तीन्द्रपुत्रस्य वालिनो वधे इन्द्रस्य शोकः स्यादित्यत आह-पश्चादित्यादि । पश्चाच्छकमाराधयाम्यारा- धयिष्यामि । वर्तमानसामीप्ये लट् । परस्त्रिया अपत्यं पारणेयः। 'कल्याण्या- दीनामिनङ् च वा' इति ढक् । ढस्येयः । व्ययो नाशः। शिथिलशुचमल्पशोकम् । तथा च परस्त्रीसंभवपुत्रनाशादिन्द्रस्यापि नातिकोधो भविष्यतीति भावः । 'पार- स्त्रैणेयस्तु परस्त्रियाः' इत्यमरः । विधूतस्त्यक्तः । दनुर्दनुजः कबन्धः । देवभूयं प्रापितः । दूत्यं दूतकर्म । पुरोहितादित्वाद्यत् । 'दूत्यं तद्भावक्रमणि' इत्यमरः । पितेत्यादि । अयं तरणिः सूर्यस्तव पिता । कीदृशः । रेतोधाः शुक्रापकः । 'आतो मनिन्-' इत्यादिना विच् । सूर्यस्य त्वमौरसः पुत्रः । यद्वा रेतस्तेजः । तद्दधाति रेतोधास्तेजोनिधिः । 'रेतः शुक्रे च तेजसि' इति विश्वः । अस्मत्कुल- गुरुमनुस्खव वैमात्रेयः सपत्ननाता । तस्मादस्माकमपि सहजं कुलजं मित्रं त्वमसि । । । १. 'दृढतम'. २. 'आराधयाव:', 'आराधयामः'. ३. 'साधुदर्शनीया'. ४. 'गति लम्भितेन'. ५. 'तरल:'.
५ अङ्क:] अनर्घराधवम् । रामः-(विहस्य ।) वत्स गुंह, एष खलु पौलस्त्यगतेनामर्षेण धूमा- यमानो यया कयाचिद्वाचा सौमित्रिरमिदधातु नाम । सततसमिध्य- मानजानकीविरहवैश्वानरेण रामचेतसा पुनरभिसाक्षिकमेव सुग्रीवो मित्रमभ्युपगतः। गुहः-(सहर्षम् ।) परमनुगृहीतोऽसौ देवेन विकतनतनयः । (सपरिहासस्मितं च ।) सुग्रीवे यदि पक्षपातमधुरं देव त्वदीयं मनः किं नस्तेन विदांकरोतु भगवानम्भोजिनीवल्लभः । नव्येनात्मजराज्यलाभरभसोद्भूतेन यस्तेजसा पूर्वस्मादधिकेन दुःसहतरो लोकेषु वर्तिष्यते ॥ ३४ ॥ लक्ष्मणः-(विहस्य ।) कथं तपनतनयस्य राज्यमनीकारिता वयं वयस्येन। राम:-(सस्मितम् ।) वत्स गुह, न तावत्प्रकाशमेवं प्रतिशुश्रूषति हृदयम् । मे तथापि कापेयचपल: कपिभावचञ्चलः सन्यदि ज्ञातेयं ज्ञातिभावं शिथिलयसि त्यजसि तदा वालिक्षतजरसचपल मे शराः प्रतिभुवो लग्नकाः । तव चाञ्चल्ये सति यः शरैर्वाली मारणीयस्तैरेव त्वामपि हनिष्यामीति भावः । ज्ञातेयं कापेयमिति ‘कपि- ज्ञायोर्डक्' इति भावे ढक् । 'सगोत्रबान्धवज्ञातिबन्धुखखजनाः समाः । ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः ॥' इत्यमरः । क्षत रक्कम् । समिध्यमानः खयं प्रज्वलन् । 'जिइन्धी दीप्तौ' । कर्मकर्तरि लट् । अग्निसाक्षिकमिति । अग्निः साक्षी यत्र । पक्षपातोऽनुग्रहः । विदांकरोतु जानातु । अम्भोजिनीवल्लभो भग- वान्सूर्यो दुःसहतरं यथा स्यादेवं लोकेषु वर्तिष्यत इत्यन्वयः । नव्येन स्तव्येन । प्रतिशुश्रूषत्यङ्गीकारमिच्छति । 'ज्ञाश्रुस्मृदृशां सनः' इति प्राप्तस्य तङः 'प्रत्याभ्यां श्रुवः' इति प्रतिषेधः। 'अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः' इत्यमरः । शैली १. 'वयस्य'. २. 'असौ' इति पुस्तकान्तरे नास्ति.
काव्यमाला। गुहः--(सप्रश्रयस्मितम् ।) खामिन् , इयमेव महतां शैली । सन्तो मनसिकृत्यैव प्रवृत्ताः कृत्यवस्तुनि । कस्य प्रतिशृणोति स कमलेभ्यः श्रियं रविः ॥ ३५॥ (नेपथ्ये ।) भो भो वनौकसः, कथयन्तु भवन्तः। दुन्दुभिकरविक्षेपसंभा- व्यमानगम्भीरावष्टम्भनिर्भरेण केनास्माकमियं चिरस्य भुजकाण्डकण्डू- तिरपनेष्यते। गुहा-(खगतम् ।) मन्ये दर्पामयाविभ्यां नित्यं दोाममर्षणः । जाम्बवत्प्रेरणादीप्तः प्राप्तोऽयं प्लवगेश्वरः ।। ३६ ॥ तदहमपि वीरयात्रादर्शनसुखं मुहूर्तमनुभवामि । (प्रविश्य ।) वाली-(पुरोऽवलोक्य ।) अये, प्रसन्नोज्ज्वलाकृती कावेतौ । निय- तमाभ्यामेकेन दानवनाथकङ्कालोत्क्षेपनिमित्तेन भवितव्यम् । (स्मृतिमभि- नीय । सवितर्कम् ।) आः संदिष्टमस्सासु प्रियसुहृदा लकेश्वरेण । यथा- व्यवहारः । मनसिकृत्य हृदये कृत्वा । 'अनत्याधान उरसिमनसी' इति गतिसंज्ञायां समासे ल्यपू । अत्रार्थान्तरं न्यस्यति-कस्येति । कस्येत्यनन्तरं पुरत इति शेषः । यद्वा कस्य कृते । प्रतिशृणोति स्माङ्गीकृतवान् । तथा च रविणा कमलेभ्यः श्रीम- नसैव प्रतिश्रुतेति भावः । कमलेभ्य इति 'प्रत्याभ्यां श्रुवः-' इति संप्रदानता । नेपथ्ये वाली वदति । अवष्टम्भो गर्वः । चिरस्येति निपातश्चिरार्थे । भुजकाण्डो भुजदण्डः, प्रकाण्डो वा । प्रशस्तभुज इत्यर्थः । दर्पणैवामयावी रोगी। 'अमायस्य च दीर्घः' इति विनिः, दीर्घत्वं च । आकृतिः शरीरम् । नियतमाभ्यामेकेनेति । १. 'वो महतो. २. 'कृत्वैव'. ३. प्रेरणाद'. ४. "अवलोक्य च'.
५ अङ्कः] अनर्घराघवम् । २५७ 'प्रक्लप्तकान्तारकुमारभक्तिदौ गिनेयो जनकेन मुक्तः । मनुष्यसामन्तसुतो निषङ्गी सहानुजस्तिष्ठति दण्डकायाम् ॥३७॥ तौ चास्माकं तत्र विहारिषु निशाचरेषु पाटचरी वृत्तिमातिष्ठमानौ भ- वद्भिः प्रतिकर्तव्यो' इति । तत्किमयमयं च तौ स्याताम् । रामः-वत्स लक्ष्मण, शृणु । किमयं ब्रवीति महावीरः । लक्ष्मणः-(किंचिदुपसृत्य ।) इँत आवाम् । इत इतो भवान् । वाली-भोः कावेतौ युवाम् । लक्ष्मणः-महाभाग, राघवौ क्षत्रियावावाम् । वाली-आयुष्मन् , आकारविशेषा एव गेमयन्ति जातिविशे- वान् । तद्विशेषं ब्रूहि । लक्ष्मणः-ननूक्तमेव राघवावावाम् । वाली—(साभ्यसूयमिव ।) आः, वपुरपि विवृणोति क्षत्रतां को विशेषो रघुषु यदभिधत्से राघवावित्यभीक्ष्णम् । परिकलयितुमिष्टं नाम सांस्कारिकं वा- महह कथमपत्यप्रत्ययानिश्चिनोमि ॥ ३८॥ 'पञ्चमी विभक्ते' इति निर्धारणे पञ्चमी । प्रक्लप्तेति । प्रक्लुप्ता कृता कान्तारे वने कुमारे सुग्रीवे भक्तिः सेवा येन सः। दो गिनेयो दुर्भगापुत्रः । कल्याण्यादि- वादिनङ् । ढक् । जनकेन पित्रा मुक्तस्त्यक्तः । मनुष्येषु सामन्तो राजा तत्पुत्रः। निषशी तूणवान् । विहारिषु क्रीडत्सु, भ्रमत्सुवा । पटच्चरश्चोरस्तस्तेयं पाटचरी तां वृत्तिं जीविकामातिष्ठमानौ खीकुर्वाणौ। 'आडः प्रतिज्ञाने' इति तङ् । प्रतिकर्तव्यो निवारणीयौ । गमयन्ति बोधयन्ति । को विशेषः । भेदो नेत्यर्थः । अभीक्ष्णं पुनः पुनः । सांस्कारिकं संस्कारो नामकरणादि तद्भवं नाम परिकलयितुं ज्ञातुमिष्टम् । १. 'अनयोः'. २. शृणु' इति पुस्तकान्तरे नास्ति. ३. इत इत:'. ४. 'भो भोः'. ५. 'अवगमयन्ति'. । । १७ अ०रा० काव्यमाला। लक्ष्मणः-(सधैर्यसंरम्भम् ।) भोः, आवां तौ रामलक्ष्मणौ । वाली-(सविमर्शमात्मगतम् ।) कथं 'तो' इति सर्वनामपदेन प्रसि- द्धावित्याह । तत्किमनयोरेवान्यतरः पिनाकधन्वनो दमयिता । सोऽपि रामभद्रो रामः स्यात् । भवतु । एवं तावत् । (प्रकाशं विहस्य ।) एको वेषपरिग्रहः परिकरः साधारणः कर्मणा- माकृत्योर्मधुरत्वमेव सदृशं तुल्यैव गम्भीरता । तद्रष्टुं चिरमुत्सुकोऽस्मि कतरो वां रामभद्रः पुनः सर्वक्षत्रवधव्रती भृगुपतिर्येनावकीर्णीकृतः ।। ३९ ॥ लक्ष्मणः-(सविनयमिव ।) आर्य सन्दिने, लक्ष्मणस्तावदहम् । वाली-अयमप्यपरो दाशरथिः कौशिकान्तेवासी रामः । लक्ष्मण:-अथ किम्। वाली-(सहर्षोल्लासम् । किंचिदुच्चैः ।) भो रामभद्र, एष त्रैवर्ण्यमात्रव्यवसितजगतो भार्गवस्यास्त्रगर्मा- दाकृष्टक्षत्रजातिस्त्वमसि पथि गिरामद्य नः सुप्रभातम् । अहह खेदे । अपत्यप्रत्ययादपत्यार्थविहितानादिप्रत्ययात्कथं तनिश्चिनोमि । दम- यिता भङ्गा । एक इत्यादि । एकः समानः । कर्मणां धनुर्धारणादीनां साधारण- तुल्यः परिकरः समारम्भः । उद्योग इति यावत् । यद्वा परिकरः प्रगाढगात्र- बन्धः । 'स्यात्परिकरः समारम्भे प्रगाढे गात्रबन्धने' इति मेदिनीकरः । वां युव- योर्मध्ये। निर्धारणे षष्ठी। भृगुपतिः परशुरामः । 'अवकीर्णी क्षतव्रतः' इत्यमरः । संक्रन्दन इन्द्रस्तस्यापत्यं सांक्रन्दनिः । 'अत इञ्' । तस्य संबोधनम् । अयमप्य- पर इत्यत्रापिः प्रश्ने, वितर्के वा । अन्तेवासी शिष्यः । ब्राह्मणविदशूद्रास्त्रिवर्णी तस्या भाववैवर्ण्यम् । तन्मात्रं व्यवसितं कृतं जगद्येन । सकलक्षत्रियविनाशात् । तादृशस्य । गर्भो मध्यम् । नोऽस्माकं गिरां पथि अद्य सुप्रभातमिदानी कुशलम् । १. 'संभ्रमम्. २. 'एव' इति पुस्तकान्तरे नास्ति. ३. 'सांक्रन्दनेय'. 'अथायमपर: ।
५ अङ्कः] अनर्घराघवम् । कक्षोष्मखेदसद्यःशमितदशमुखास्फोटकण्डूविकारो वीरश्राद्धो भुजस्त्वां परिचरतु चिरं चक्षुषी नन्दतां च ॥१०॥ राम:-(दृष्ट्वा सहर्षम् ।) स एष महाबाहुः संक्रन्दनसूनुः । येन वीरेण गुप्तायां किष्किन्धायामियं मही। रावणाभिभवक्लान्ता शश्वदुच्छ्रासमश्नुते ॥ ४१ ।। (इति परिक्रामति।) लक्ष्मणः-महाभाग, अयमार्यः । इत इतो भवान् । वाली (उपसृत्य ।) रामभद्र, सुरासुराणामसुभिर्दीव्यतां समिको मुनिः। अद्य मे नारदस्तुष्टो येनासि भुजगोचरः ॥१२॥ महावीर, किमुच्यते। मूर्धाभिषिक्तोऽसि समरशौण्डानाम् । तथा हि। MAHEMAMASHAINA । - भवद्विषयिणी मम वाणी कुशलिनीति भावः । ऊष्मणः खेद ऊष्मखेदो धर्मजलम् । आस्फोटो युद्धम् । श्राद्धः श्रद्धायुक्तः । 'प्रज्ञाश्रद्धा_वृत्तिभ्यो णः' । वीरे श्राद्धो वीरश्राद्धः । त्वां परिचरतु । त्वया सह युद्धमाचरत्वित्यर्थः । नन्दतां हर्ष भजे. ताम् । येनेत्यादि । क्लान्ता क्लिष्टा । शश्वदत्यर्थम् । उच्छ्वासमुच्चतामश्नुते प्राप्नोति । महाभागेति । 'भागो भाग्यैकदेशयोः' इति विश्वः। सङ्ग्रामाय भूमि- मारचयति-सुरासुराणामिति । येन हेतुना त्वं भुजगोचरोऽसि, अतो मे नारदो मुनिविशेषस्तुष्टः । तस्य कलहप्रियत्वात् । कीदृशः । असुभिः प्राणैर्दीव्यतां क्रीडतां सुरासुराणां सभिको द्यूतकारकः । 'सहिआर' इति ख्यातः । वालिनं माभिमुखं कर्तुं तत्प्रशंसामाह-महावीरेति । मूर्धाभिषिको राजा । समरे शौण्डानां ख्यातानाम् । 'शौण्डो मत्तेऽपि विख्याते' इति मेदिनीकरः । अधुना प्रशंसामुखेन - १. 'नीरश्रद्धः. २. 'किंचित्'. ३.. शौण्डोऽसि'.
२६० काव्यमाला। देवः स त्वामसूत द्विषदुपमृदितखर्वधूवेणिबन्ध- प्रेक्षाघारालवैरप्रसमरसमरोड्डामरौजा बिडोजाः। यो विद्धोत्खातबाणत्रणनिवहनिभं निर्मरोद्गुरनू- भीमः श्रीमद्भिरङ्गैरुदवहत रुषा रज्यदक्ष्णां सहस्रम् ॥ ४३ ॥ अपि च। बन्दीकृत्य जगद्विजित्वरभुजस्तम्भौघदुःसंचरं रक्षोराजमपि त्वया विदधता संध्यासमाधिव्रतम् । प्रत्यक्षीकृतकार्तवीर्यचरितामुन्मुच्य रेवां समं सर्वाभिर्महिषीमिरम्बुनिधयो विश्वेऽपि विस्सापिताः ॥ ४४ ॥ । । निन्दामाह-देव इत्यादि । बिडौजा इन्द्रो देवस्त्वामसूत । कीदृशः। द्विषद्भिः शत्रुभिरुपमृदितो यः सर्वधूवेणिबन्धस्तस्य प्रेक्षया दर्शनेन धारालवमविरलं यद्वैर तेन प्रस्मरं प्रसारि समरे सङ्ग्रामे उड्डामरं निरर्गलमोजस्तेजो यस्य सः। य इन्द्रः । रुषा क्रोधेन । रज्यद्रतीभवत् । 'रज रागे' दिवादिः । अक्षणां सहस्रमुदवहत धार- यति स्म । कीदृशम् । प्रथमं विद्धा अनन्तरमुत्खाता उत्पाटिता ये बाणास्तेषां क्षत- समूहतुल्यमित्यर्थः । निर्भरमत्यर्थेनोद्भङ्गुरा कुटिला या भ्रूस्तया भीमः । बन्दीक- त्येति । रेवां नदीविशेषाम् । उन्मुच्य त्यक्त्वा । त्वया वालिना । सर्वाभिमंहिषीनि- महानदीभिः समम् । तत्र संध्यावन्दनविधानात् । विश्वेऽपि सर्वेऽप्यम्बुनिधयः समुद्रा विस्मापिता विस्मयं प्रापिताः । 'कृताभिषेका महिषी' इत्यमरः । प्रकृते च समुद्रस्य नद्य एव महिष्यः । रेवां कीदृशीम् । प्रत्यक्षीकृतं दृष्टं कार्तवीर्यस्य सहस्रार्जुनस्य चरितं रावणबन्धनरूपं यया ताम् । रावणबन्धनं रेवायां वृत्तम् । तथा च रेवया कार्तवीर्यपराक्रमो दृष्टः । अतस्तस्या नाश्चर्यमभूदिति भावः । त्वया कीदृशेन । रक्षो- राजं रावणमपि बन्दीकृत्य संध्यासमाधिव्रतं संध्योपासनं विदधता कुर्वता । विजि- त्वरों जयशीलः । पूर्ववत्करप् । ओघः समूहः । दुःसंचरं दुर्धर्षम् । दुश्चेष्टमिति यावत् । विस्मापिता इति नित्यं स्मयतेः' इत्यात्वम् । सङ्ग्रामाय राममभिमुखीक- ।
५ अङ्कः] अनर्घराघवम् । २६१ वाली-(विहस्य ।) चिराय रात्रिंचरवीरचक्रमाराङ्कवैज्ञानिक पश्यतस्त्वाम् । सुधासधर्माणमिमां च वाचं न शृण्वतस्तृप्यति मानस मे॥४५॥ किं तु। येनाच्छिद्य समस्तपार्थिवकुलप्राणान्तकं कार्मुकं रामः संप्रति लम्भितो भृगुमुवामुत्सर्गसिद्धां सुचम् । द्रष्टुं वीर चिराय धाम भवतस्तद्भूर्भुवःखस्त्रयी- हृन्मर्मव्रणरोपणौषधमिमौ बाहू बहूत्ताम्यतः ॥ ४६ ॥ रामः-(सस्मितम् ।) नन्वेतदधिमौवाक युद्धसर्वखदक्षिणम् । सज्जमस्त्येव मे रक्षोलक्ष्मीमूलहरं धनुः ॥ १७ ॥ तन्महाभागोऽपि शस्त्रमादत्ताम् । वाली-(विहस्य ।) साधु भो महाक्षत्रिय, यथाधर्ममभिदधासि । किं तु। । तुमाह-चिरायेति । चक्र समूहः । मारणं मारः। तस्याङ्कश्चिद्रं यत्र स माराको युद्धं, संप्रहारो वा । तत्र हे वैज्ञानिक कुशल । तव सुधासधर्माणममृततुल्यां वाचं शृण्वतो मम मानसं न तृप्यति । तर्हि केन तृप्यतीत्यत आह-किं त्वित्यादि। हे वीर, भवतस्तद्धाम तेजो द्रष्टुमिमौ मे बाहू बहु यथा स्यादेवमुत्ताम्यतो म्लानी- भवतः । वीरेति साक्षेपं संबोधनम् । तत्कतरत् । येन धान्ना सकलराजकुलप्राणा- न्तकं कार्मुकमाच्छिद्याकृष्य रामः परशुरामो भृगुभुवामुत्सर्गसिद्धां साहजिकी खुवं होमपात्रं लम्भितः प्रापितः । तपखितां नीत इत्यर्थः । भुवस्त्यागादिति भावः । 'उत्सर्गशुद्धाम्' इति पाठे उत्सर्गस्त्यागस्तेन शुद्धाम् । दानात्प्रभृति परशुरामेण खभूमित्यागात् , त्रुचो ग्रहणाच्च । भूर्भवःखस्त्रयी त्रिलोकी रोपणं व्रणापनयनम् । सापेक्षमाह-नन्वेतदिति । अधिमौर्वीकं दत्तगुणम् । युद्धसर्वखदक्षिणं युद्धं १. 'शोषणौषध-'. २. 'सज्यम्'. ३. किं पुनः'.
२६२ काव्यमाला। नयो हि सानामिक एष दोष्मतां यदात्मजातिप्रतिबद्धमायुधम् । अयःकुशीभिः कपयो नशस्त्रिणस्तलं च मुष्टिश्च नखाश्च सन्ति नः १८ लक्ष्मणः-आर्य, साधूक्तं महाभागेन । नित्योपनतवाङ्गशस्त्रैव तैरश्ची जातिः। रामः-(विहस्य । धनुरास्फालयन् ।) अहह । खर्विघ्नप्रसरेण रावणिरसौ यहुर्यशोभागिनं चक्रे गौतमशापयत्रितभुजस्थामानमाखण्डलम् । कक्षागर्तकुलीरतां गमयता वीर त्वया रावणं तत्संमृष्टमहो विशल्यकरणी जागति सत्पुत्रता ॥ ४९॥ सोऽपि त्वमस्माकमधुना देवेन शरव्यीकृतोऽसि । सर्वखदक्षिणा यस्य तत् । अन्योऽपि तुष्टो यस्य भवति तस्य सर्वखं दक्षिणां दत्ते । इदमपि युद्धमेव ददातीति भावः । यद्वा युद्धमेव सर्वखदक्षिणो यागो यत्र तत् । मूलं कारागारं तद्धरतीति मूलहरम् । यद्वा मूलं रावण एव कारणं तद्धरम् । आदत्तां गृह्णातु । 'आडो दोऽनास्यविहरणे' इति तङ् । सङ्ग्रामाय प्रभवति साशामिकः । 'प्रभ- वति इति ठक् । दोष्मतां बाहुबलशालिनाम् । प्रतिबद्धं संबद्धम् । 'प्रतिरूपम्' इति पाठे तुल्यमित्यर्थः । अयःकुशी लोहफालं काण्डादि । यद्वा लोहविकारः । 'कुशी फाले कुशी रज्वां विकारमयसः कुशी' इति विश्वः । तलं चपेटः । तथा च खाजेन शस्त्रीति भावः । अहहेत्सद्भुते । स्वरित्यादि । असौ रावणिरिन्द्रजित् आखण्ड- लमिन्द्रं स्वर्गे विघ्नप्रसरेण यदुर्यशोभागिनं चक्रे तज्जयं कृतवान् । 'शस्त्रौघप्रसरेण' इति पाठे शस्त्रसमूहप्रसारेणेत्यर्थः । स्थाम बलम् । 'तव भुजबलं सङ्ग्रामे मा भूया- दिति गौतमपत्नीपरिप्रहपर इन्द्रो गौतमेनाभिशप्तः' इति पुराणम् । हे वीर, त्वया तत्संमृष्टं लुप्तम् । प्रोञ्छितमित्यर्थः। त्वया कीदृशेन । रावणं कक्षागर्तस्य कक्षा- विवरस्य कुलीरता कर्कटत्वं गमयता । विशल्यं क्रियते यया सा विशल्यकरणी दुःखोपशामिका । सत्पुत्रता जागर्ति । तथा चेन्द्रजिता इन्द्रो जितः, त्वया चेन्द्र- १. 'निजस्थामानम्. २. 'कक्षागर्भ-'. ३. 'शरव्यम्', TATAHMONSIMARRIANCE ५ अङ्कः] अनर्घराधवम् । वाली-(सरोषम् ।) आः काकुत्स्थ, अस्सद्दोर्मूलकूलंकषविषमभुजग्रन्थिभङ्गप्रसङ्ग- क्रोशल्लकेशदत्तत्रिभुवनविजयख्यातिसर्वस्खदायः। यः कश्चिद्विक्रमोऽयं स खलु करचुलिक्षत्रसाधारणत्वा- दन्तर्मन्दायमानो विजितभृगुपतिं त्वामजित्वा दुनोति ५० तदेहि । विमर्दक्षमा भुवमवतरावः । गुहः-(स्वगतम् ।) दिष्ट्या फलितमस्साकं मनोरथेन । लक्ष्मण:-(नेपथ्याभिमुखमवलोक्य ।) इदमन्यतो वानरद्वयमार्यस्य पाणिग्राहमिव संभ्रमादनुप्लवते । तदहमपि धनुरारोपयामि । गुहः-(दृष्ट्वा । सहर्षम् ।) कुमार कुमार, अलमावेगेन । नन्वयं सुग्रीवो रामभद्रगुणानुरागेण वालिमत्सरेण च द्विगुणितोत्साहः समरसी- मानमापतति । लक्ष्मणः-दिष्ट्या स एष वैकर्तनिः । अथापरः कः। गुहः-अयमपि किष्किन्धेश्वरस्कन्धावारैकवीरो भगवतः प्रभ- अनस्य पारस्त्रैणेयः पुत्रो हनूमान् । पुत्रेण वालिना इन्द्रजित्पिता रावणो जित इति पितृवैरनिर्यातनमेव सत्पुत्रता । दोर्मूलमेव कूलं तत्कषतीति । 'सर्वकूलाभ्रकरीषेषु कषः' इति खच् । खित्वान्मुम् । विषमो महान् । प्रसङ्गो विधानम् । ख्यातिः प्रसिद्धिः, कीर्तिर्वा । दायो दानम् । करचुलिः सहस्रार्जुनस्यादिपुरुषः । दुनोति परितप्यते (परितापयति) । पाणि- ग्राहं पाणिग्राहकम् । संभ्रमस्त्वरा । रामत्राणप्रतीकाराशया संभ्रम इति भावः । अनुप्लवतेऽनुगच्छति । विकर्तनः सूर्यस्तत्पुत्रो वैकर्तनिः सुग्रीवः । स्कन्धावारः सेना । प्रभञ्जनस्य वायोः । पारस्त्रैणेयः परस्त्रीपुत्रः। अजनापुत्रः । 'स्त्रीभ्यो ढक्'। । १. 'अस्मन्मनोरथेन'. २. 'अनुवतते'. ३. 'कुमार' इति पुस्तकान्तरे एकबारमेव. ४. 'रामदेवगुणानुरोधेन'.
काव्यमाला। लक्ष्मण:-(सहर्षम् ।) कथमयमसावाञ्जनेयः । अयं हि ब्रह्मशापपरिक्लिष्टखवीर्यज्ञानयन्त्रितः । अन्यैरपि भुवं वीरैःकीर्यमाणामुपेक्षते ॥५१॥ नियतमनेन सख्या हृदयशल्यमस्माकमुद्धरिष्यते । इदं तु वर्तमान- मेकतुलायुद्धमार्यस्य । जयलक्ष्मीपरिग्रहयौतके यशसि वयमयं वा सुग्रीवो वा न केचिदंशाधिकारिणः। गुहः-(ससंभ्रमम् ।) कुमार, पश्य पश्य । सप्त तालानयं भित्त्वा वालिप्रहरणीकृतान् । हत्वा च वालिनं बाणो रामतूणीरमागतः ॥ ५२ ॥ अहह। प्राणैः समं कनकपुष्करकण्ठमाला- सूत्रेण दाशरथये विहितातिथेयः । दिकूलमुद्वहयशःसरिदादिशैलः शेते स वीरशयने कपिचक्रवर्ती ॥ ५३ ॥ खवीर्यस्य निजबलस्य ज्ञाने यन्त्रितो विस्मारितः । 'पुरा किल ब्रह्मा हनूमतोऽति- शयपराक्रमं वीक्ष्यानेन पराक्रमेण क्रोधान्धतयानेन त्रैलोक्यं चेन्नाशनीयं तर्हि सर्वमिदमाकुलं स्यादिति हृदि निधाय, भवतः पराक्रमज्ञानं स्वयं मा भूदिति हनू- मन्तमभिशशाप-'इति पुराणम् । कीर्यमाणां व्याप्ताम् । सख्या मित्रेण, द्वितीयेन वा । 'सखा मित्रसहाययोः' इति विश्वः । एकतुलायुद्धं द्वाभ्यामेव सङ्ग्रामः । परि- ग्रहो विवाहः तत्र यौतकत्वेन यश एव लब्धम् । अंशो भागः । 'मैत्रमौताहिक चैव दायादानां न तद्भवेत्' इति वाक्येन वैवाहिकधने भागानहत्वादिति भावः । प्रहरणमस्त्रम् । प्राणैरिति । स कपिचक्रवर्ती वानरराजो वाली वीरशयने रणा- ङ्गणे शेते । मृत इत्यर्थः प्रकरणात् । प्राणैः समं सुवर्णपद्मपुष्पकण्ठदामतन्तुना दाशरथये रामाय विहितमातिथेयं येन सः । दिगेव कूलं दिक्कूलम् । तदुद्वहते । १. 'द्यूत-'.२. पाणिपरिग्रह'. ३.'वा' इति पुस्तकान्तरे नास्ति. ४. 'आगमत्'. ।
५ अङ्कः] अनर्घराघवम् । २६५ लक्ष्मण:-(सखेदम् ।) हा देव संक्रन्दन, क पुनरीदृशं महा- वीरप्रकाण्डमात्मजं सहस्रेणापि लोचनैरालोकयिष्यसि । (नेपथ्ये दुन्दुभिध्वनिमजलगीतिश्च ।) गुहः-(सहर्षम् ।) कथमयमार्यजाम्बवदभिमन्त्रितैः शातकुम्भकल- शैनीलः कुमारसुग्रीवमभिषिञ्चति । खयं चास्य देवो दाशरथिः कार्त- खरपुण्डरीकमालया कण्ठमलंकरोति । लक्ष्मणः-प्रियतरं नः। (नेपथ्ये ।) भो भो वानराच्छभल्लगोलाङ्गुलयूथपतयः, सर्वानेष वो महाराजः सुग्रीवः समाज्ञापयति-सज्जयन्तु भवन्तः सर्वाणि यौवराज्योपकर- णानि । अयमहं सीतादेव्याः प्रवृत्तिमन्वेष्टुं प्रहित्य हनूमन्तमूर्ध्वमौ- हूर्तिके लग्ने कुमारमङ्गदमभिषेक्ष्यामि इति । लक्ष्मण:- उत्सवः सोऽयमस्माकं सर्वथा हृदयंगमः । किं तु वाली विलीनोऽयं व्यथयिष्यति वासवम् ॥ ५४॥ 'उदि कूले सजिवहोः' इति खशू । दिकूलमुबहा तादृशी यश एव सरिनदी तस्या आदिशैलः प्रभवपर्वतः । पर्वतादेव नदीनामुत्पत्तिः । अत्र च पर्वतसदृशाद्वालिनो यशःसरिदुत्पत्तिरित्यर्थः । प्रकाण्डमिव प्रकाण्डम् । 'अस्त्री प्रकाण्डः स्कन्धः स्यान्मू- लाच्छाखावधिस्तरोः' इत्यमरः । क्व पुनरालोकयिष्यसि । तस्य स्वर्गगमनात् । दुन्दुभिर्भेरीति प्रसिद्धं वाद्यम् । 'मेर्यामानकदुन्दुभी' इत्यमरः । शातकुम्भकलशैः सुवर्णघटैः । कार्तखरं सुवर्णम् । अच्छभल्गोलाङ्गूलप्रभृतयो वानरविशेषाः। प्रवृत्ति वार्ताम् । ऊर्च मुहूर्तादूर्ध्वमुहूर्तम् । 'सुप्सुपा-' इति योगविभागात्समासः । तत्र १. 'अवलोकयिष्यसि'. २. शातकुम्भकुम्भसलिलै:'. ३. 'कण्ठकाण्डम्'. ४. 'प्रि- यात्प्रियतरम्'; 'प्रियम्'. ५. गोलाशूलप्रभृतयो यूथपतयः'. ६. 'सज्जयन्तु सज्ज- यस्तु'. ७. 'औ_मौहूर्तिके काले'. ८. 'इति' इति पुस्तकान्तरे नास्ति. । ।
काव्यमाला। (अन्तरिक्षे पुष्पवृष्ट्यनन्तरम् ।) जय जय जगत्पते रामभद्र, लक्ष्म्या वालिनिबर्हणप्रशमितद्वैराज्यवैराग्यया किष्किन्धायतनैकदैवतमयं तारापतिर्दीप्यते । नतारं युवराजमङ्गदमपि श्रुत्वातिहर्षादभू- दलाम्भःपृषतौघमौक्तिकमयो गुम्फः सहस्रेक्षणः ।। ५५ ॥ लक्ष्मण:-प्रियात्प्रियतरं नः । वयस्य गुह, तदेहि । आवामपि महोत्सवसंविभागिनौ भवावः । (इति निष्कान्तौ ।) इति सुग्रीवाभिषेको नाम पञ्चमोऽङ्कः। । भवमूर्ध्वमौहूर्तिकम् । अध्यात्मादित्वाञ्। 'उत्तरपदस्य' इति वृद्धिः । सोऽयम- ङ्गदाभिषेकरूप उत्सवः । हृदयंगमोऽभिलषितः । विलीनो मृतः । अन्तरिक्षे जय जयेत्यादि देववाणी । लक्ष्म्येति । वालिनिबर्हणेन वालिविनाशेन प्रशमितं द्वैरा- ज्यवैराग्यं यस्यास्तादृशा लक्ष्म्या तारापतिः सुग्रीवो दीप्यते । वालिनापहृतायास्ता- राया लाभात्संप्रति सुग्रीवस्य तारापतिपदेनोपन्यासः। किष्किन्धायतनस्यैकमद्वि- तीयम् । वालिनोऽभावात् । यद्वा एकं श्रेष्ठं दैवतं देव इति तारापतिविशेषणम् । सहस्रेक्षणोऽपीन्द्रोऽपि नप्तारं पौत्रमदं युवराजं श्रुत्वातिहर्षादलाम्भःपृषतौघ- मौक्तिकमयो गुम्फोऽभूत् । अस्राम्भोऽश्रुजलं तस्य पृषतो बिन्दुः । 'पृषन्ति बिन्दुपृषताः' इत्यमरः। तस्यौघः समूहः : स एव मौक्तिकं तन्मयो गुम्फो गुम्फनं कङ्कणं वा । 'गुम्फस्तु गुम्फने बाह्वोरलंकारेऽपि कथ्यते' इति मेदिनीकरः । निष्कान्तौ लक्ष्मणगुहौ। इति समस्तप्रक्रियाविराजमानरिपुराजकंसनारायणभवभक्तिपरायणश्रीहरिना- रायणपदसमलंकृतमहाराजाधिराजश्रीमद्भरवसिंहदेवप्रोत्साहितवै- जोलीग्रामवास्तव्यखौआलवंशप्रभवरुचिपतिमहोपाध्याय- विरचितायामनर्घराघवटीकायां पञ्चमोऽङ्कः । १. उपशमित- ६ अङ्कः] अनर्धराघवम् । षष्ठोऽङ्कः। (ततः प्रविशति माल्यवान् ।) माल्यवान्-(सर्वतोऽवलोक्य सखेदम् ।) अहह कष्टम् । दग्धाः प्रदीप्तपावकपरिचयपिण्डस्थहेमवेश्मानः । क्षणमुत्पुच्छयमाने हनुमति लङ्कापुरोद्देशाः॥ अपि च। निजकिरणौघप्रमुषितनिम्नोन्नतरूपकर्मभेदेषु । मणिभवनेषु कृशानुज्वालाः फलतोऽनुमीयन्ते ॥२॥ (विमृश्य।) अहो दुर्निवारता भवितव्यतायाः । दोःसंदोहवशंवदत्रिभुवनश्रीगर्वसर्वकषः कैलासोद्धरणप्रचण्डचरितो वीरः कुबेरानुजः । यत्रायं खयमस्ति सेयममरावत्यापि वन्द्या पुरी नीता मर्कटकेन कामपि दिशां धिग्दैवमावश्यकम् ॥ ३ ॥ संप्रति रावणविनाशसूचकं लङ्कादाहाशोकवनिकाभङ्गादिरूपमुत्पातं प्रकटयितुं माल्यवतः प्रवेशमाह-ततः प्रविशतीति । न चात्र 'नासूचितं विशेत्पात्रम्' इति भरतविरोधः । चतुर्थाके माल्यवता 'तदेहि। राजकुलमेव गच्छावः' इति निजप्रवेशस्य सूचितत्वात् । अन्तरा तु परशुरामकलहादीत्यन्यदेतत् । दुग्धा इति । परिचयः संबन्धः । पिण्डस्थं पिण्डीभूतम् । उत्पुच्छयमाने पुच्छमुत्क्षि- पति सति । 'पुच्छभाण्डचीवराण्णिङ् । लङ्कापुरस्योद्देशा वासस्थानानि । निजेति। प्रमुषितोऽपहस्तितः। मणितेजःसमूहसंबन्धान्मणिभवनानि निनोचतानि न दृश्यन्त इति भावः। फलतो दाहादिकार्यात् । कार्येणैव कारणमनुमीयत इत्यर्थः । भवितव्य- तेत्यत्र 'कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति तत्प्रत्ययः। अत एव 'सर्वकषा भ- गवती भवितव्यतैव' इति भवभूतिरप्याह । भवितव्यताया दुर्निवारत्वं स्फुटयति- दोःसंदोहेति । संदोहः समूहः । वशंवदो वश्यः । 'प्रियवशे वदः खचू' । श्री:- संपत्, उत्कर्षों वा । सर्वकष इति । 'सर्वकूलाभ्रमकरीषेषु कषः' इति खच् । उद्ध- रणमुत्तोलनम् । कुबेरानुजो रावणः । अमरावत्या देवनगर्या । 'नगरी त्वमरावती' m - २६८ काव्यमाला। । न किंचिदेतद्वा रावणदुर्नयेन । (सखेदमाकाशे ।) आः पौलस्त्य, विद्याश्चतुर्दश चतुर्षु निजाननेषु संबाधदुःस्थितवतीरवलोक्य वेधाः। ताभ्योऽपराणि नियतं दश ते मुखानि खस्य प्रणतुरकरोत्स कथं जडोऽसि ॥ ४ ॥ (क्षणं च ध्यात्वा सैव्यथम् ।) कथमेवं विशीर्यतीव नः कुलमिदम् । खरादीनवधीद्रामो वत्समक्षं च मारुतिः । खयं निष्कामयामास दशास्यश्च विभीषणम् ॥ ५॥ अलं वा दुर्विहितमतीतमुपालभ्य । संप्रति सिन्धोरुदीचि तीरे निवे- शितस्कन्धावारो दाशरथिः किमारम्भ इति कथं प्रतीमः । (पुरो दृष्ट्वा ।) कथं राघवचरितानि चरितुं प्रहितयोः शुकसारणयोः सारणः । इत्यमरः । इह 'कृत्यानां कर्तरि वा' इति षष्ठीविकल्पातृतीया । मर्कटकेन कुत्सि- तवानरेण हनुमता। कुत्साथै कन् , निन्दायां वा। कामपि शोचनीयाम् । आव- श्यकमवश्यंभावि दैवं धिगस्तु । अवश्यंभाव आवश्यकम् । 'ओरावश्यके' इति निपातनादुञ्। 'अव्ययानां भमाने टिलोपो वक्तव्यः' इति टिलोपः । लङ्कादाह- मप्यालोक्य निरुद्विग्नं रावणं लक्षीकृत्याह-विद्या इति । चतुर्दश विद्याश्चतुर्यु निजाननेषु स्वकीयमुखेषु संबाधेन संकटेन दुःस्थितवतीदुःखेनावस्थिता दृष्ट्वा ताभ्यो विद्याभ्यः । तादर्थ्य चतुर्थी । प्रणप्तुः प्रपौत्रस्य तवापराणि दश मुखान्यकरोत्स त्वं कथं जडोऽसि मूर्योऽसि । तथा चात्र प्रतिक्रिया कर्तुमुचितेति भावः । 'अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश ॥' अङ्गानि वेदङ्गानि षट् । 'शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिष तथा। छन्दसा. विचितिश्चैव षडङ्गो वेद इष्यते ॥' इति पुराणम् । विशीर्यत्यवसन्नं भवति । नोs- १, न किंचिदेतद्रावणस्य दुर्नयेन'; 'न किंचिदेव तावद्रुवणस्य दुर्नयेन'. २. 'आभ्यः'. ३. 'सव्यथम्' इति पुस्तकान्तरे नास्ति. ४. 'सकलमेव शीर्यतीव नः कुलम्'. ५. 'दुर्दैवम्'. ६. 'संप्रति' इति पुस्तकान्तरे नास्ति, ७. किमारभते', ६ अङ्कः] अनर्घराधवम् । (प्रविश्य ।) सारण:-जयतु जयतु कनिष्ठमातामहः । माल्यवान्-(अभिनन्य समीपमुपवेश्य च ।) वत्स सारण, कश्चि- दमुनैव पदेन सुग्रीवकटकादागतोऽसि । सारण:-अथ किम् । माल्यवान्-तद्यथानुभवमभिधीयतां तावत् । सारणः-सारसंख्ये वनौकसामसन्मुखेनैव शतशः प्रतीते माता- महेनालमुक्त्वा। अधुना तु सेतुप्रथनाय मिलितेषु वानरसैनिकेषु वान- रमूर्तिधरोऽप्यहं महाराजविभीषणेन-(इत्यर्पोक्ते सभयम् ।) आर्य, चिर- संवासेन रामराजधानीप्रवादो मामनुबध्नाति । माल्यवान्-(साकूतम् ।) किमभिषिक्तः कनिष्ठवत्सो राघवेण । सारण:-अथ किम् । माल्यवान्-(क्षणमिव स्तब्धं स्थित्वा निःश्वस्य ।) वत्स, निःशङ्कम- भिधेहि । स्माकम् । अवधीद्धतवान् । हन्तेः 'लुङि च' इति वधादेशः । अक्षं रावणसुतम् । निष्कामयामास निःसारितवान् । दुर्विहितं दुश्चेष्टितम् । उदीच्युत्तरस्मिन् । स्कन्धा- वारः कटकम् । आरम्भ उद्यमः । चरितुं ज्ञातुम् । 'चर गतौ' 'सर्वे गल्यों ज्ञानार्थाः' इति न्यायात् । सारणः । अस्तीति शेषः । दृश्यत इति वा । समीपं संनिहितम् । अमुनैव पदेनेति लोकोक्तिः । इदानीमेवेत्यर्थः । 'पदं स्याद्धर्मपादयोः' इति शाश्वतः । सारो बलम् । संख्या एकत्वादिगणना । ग्रथनं बन्धनम् । सैनिकेषु सेनासमवेतेषु, सेनारक्षकेषु वा। सभयामिति । विभीषणे महाराजपदप्रक्षेपादिति भावः । स्तब्धमिति क्रियाविशेषणम् । उपगृह्य ज्ञात्वा । यावदिति । यावद्व्यं तिष्ठति । -- १. 'तावत्' इति पुस्तकान्तरे नास्ति. २. 'अलमुक्त्वा' इति पुस्तकान्तरे नास्ति. ३. 'वानर' इति पुस्तकान्तरं नास्ति. ४. 'मायावानरमूर्तिधरोऽपि महाराज-', ५. 'स्तब्धवत्' २७० काव्यमाला। RAABAR सारण:-कुमारविभीषणेन ज्ञात्वा संयम्य चाहं रामस्य दर्शितः। माल्यवान् (साशङ्कम् ।) ततस्ततः। सारण -ततश्च राघवेण निजसचिवनिर्विशेषमुपगृह्य पुरस्कृत्य च प्रहितोऽस्मि । माल्यवान- (सहर्षम् ।) किमुच्यते, यावद्रव्यभावी गुणो हि विजिगीषूणामुदात्तता । विशेषेण पुनरैयं रामभद्रः । यतः । अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो विपक्षादम्भोजादुपगतवतो वा मधुलिहः । अपर्याप्तः कोऽपि वपरपरिचर्यापरिचय- प्रबन्धः साधूनामयमनभिसंधानमधुरः ॥ ६॥ अथ शुकः किमासीत् । सारण:-अहमपि न जानामि । माल्यवान्-(विमृश्य ।) वत्सविभीषणस्य रामोपश्लेषेण खकुल्यं व्यसनमिति प्रमुग्धोऽस्मि । तावत्तिष्ठति । द्रव्यनाशे नश्यति गुण इत्यर्थः । यावद्रव्यं भवितुं शीलमस्य यावद्रव्य- भावी । ताच्छील्ये णिनिः । गुण इह वीर्यशौर्यादिः । यद्वा यावद्रव्यं यावत्परिमाणं द्रव्यं तत्परिमाण एवं गुणो वीर्यशौर्यादिः । द्रव्यं च महदिति गुणोऽपि महानिति भावः । विजिगीषूणां जेतुमिच्छूनाम् । 'न विकारं विकारस्य हेतौ यदवगाहते। तदुदात्तं गुणः' इति दण्डी । तद्भाव उदात्ततागुण इत्यन्वयः। औदार्य गुण इत्यर्थः । विशेषेण पुनरयं रामभद्र उदारत्वेन प्रसिद्ध इत्यर्थः । रामभद्रपुरस्कारस्त्वयि युक्त एवेत्यत्र दृष्टान्तमाह-अमेदेनेति । कुमुदं कर्तृ, उदरेऽभ्यन्तरे स्थितवतो वा विपक्षादतुल्यादम्भोजाद्वा सकाशादुपगतवतो मधुलिहो भ्रमरानभेदेन तुल्यत्वे- नोपास्ते संयुनक्ति । कथमित्यत आह–साधूनां खस्यात्मीयस्य परस्यान्यस्य च परिचर्या पूजा तत्परिचये ज्ञाने समूहे वा प्रबन्धोऽनुबन्धोपर्याप्तोऽनिवारितो भवति । मधुरो मनोज्ञः किमासीत् । किंभूत इत्यर्थः । किंशब्दो निपातः । १. 'उपसंगृह्य'. २. हि गुणो'. ३. 'असौ'.४. 'किं च'. । - MRITA name ६ अङ्कः] अनर्घराघवम् । २७१ सारण:-आर्य, तथा धर्मवृत्तिरार्यसंतानश्च कुमारः कथं ज्यायांसं भ्रातरमवधूय प्रेतिपक्षवर्ती संवृत्तः। माल्यवान्-वत्स, दशग्रीवं पृच्छ । (निःश्वस्य ।) अथवा दैवम् । सारण:-आर्य, यदि श्रवणा)ऽस्मि तदा निवेदय । माल्यवान्-वत्स, केसरिकलत्रसंभवेन प्रभञ्जनसूनुना वैलुण्ठि- तामशोकवनिकामवलोक्य राजा तवायं विभीषणमवोचत् । यथा- 'वत्स, पश्यमनुष्यपोतद्वयावष्टब्धेन दुरात्मना कपिकीटेन कथं विजृ- म्भितम्' इति । सारण:-ततस्ततः । माल्यवान्-ततो विभीषणः प्रणम्य व्यजिज्ञपत्-'देव, जाति मानय मानुषीमभिमुखो दृष्टस्त्वया हैहयः स्मृत्वा वालिभुजौ न सांप्रतमवज्ञातुं च ते वानराः । तत्पौलस्त्यमहामिहोत्रिणमहं त्वामेतदभ्यर्थये सीतामर्पय मुञ्च च ऋतुभुजः काराकुटुम्बीकृतान् ॥ ७ ॥ कीदृक् । बद्धोऽबद्धो वासीदिति भावः । उपश्लेषः समाश्रयम् , उपष्टम्भो वा । ज्यायांसं ज्येष्ठम् । 'वृद्धस्य ज्यः' इति ज्यः । 'ज्यादादीयसः' इत्यात्वम् । अवधूय त्यक्त्वा । केसरी वालिशिष्टो वानरः । तस्य कलत्रं वधूस्तत्संभवेन प्रभञ्जनो वातस्तस्य सूनुना पुत्रेण हनुमता विलुण्ठिता भन्ना अशोकेन वृक्षभेदेनोपलक्षिता वनिकाल्पवनम् । यद्वा अशोकनिमित्तं वनिकेति शाकपार्थिवादिः । अवष्टब्धेनावलम्भितेन कीटेनेव कीटेन । विजृम्भितं चेष्टितम् । विक्रान्तं वा । व्यजिज्ञपद्विज्ञापयति स्म । वक्ष्यमाणमिति शेषः । जातिमिति । हे पौलस्त्य रावण, त्वामहमेतदभ्यर्थये प्रार्थयामि । एतत्किम् । सीतामर्पय । रामायेति शेषः । काराकुटुम्बीकृतान्बन्धनागार- १. 'धर्मप्रवृत्तिः'. २. 'प्रतिपक्षवृत्तिः संपन्नः', 'विपक्षवर्ती संप्रति संवृत्तः'. ३. यदि वा'. ४. राजा ते दशास्यो', 'राजा बतायम्'. ५. अवष्टम्भेन'. ६. वानरान्'. ।
२७२ काव्यमाला। सारणः-(सबहुमानाश्चर्यम् ।) अहह, 'वालिभुजौ' इति ब्रुवता मातामहेन किमपि सारितोऽसि । आर्य, किमाचक्षे सेतुक्षितिधरशिरःश्रेणिकषणैः प्रकोष्ठे नीरोम्णः कपिभटभुजस्तम्भनिवहान् । सुमेरोर्मात्सर्यादनतिचिरसंरूढमृदुभिः शिरोभिर्विन्ध्यो यद्भरमपि न सोढुं परिवृढः ॥ ८॥ (साशङ्कम् ।) ततस्ततः । माल्यवान्-ततश्च रोषान्धता मिस्ने मन्जता राक्षसराजेन तथा चेष्टितं यथा विपक्षमप्याश्रितः । मित्रीकृतान्क्रतुभुजो देवान्मुञ्च त्यज । कीदृशं त्वाम् । महाग्निहोत्रिणम् । अनेन परस्त्रीवैमुख्यं प्रकटितम् । ननु मानुषेण ममाभिभवः कर्तृ न पार्यत एवेति रावणवचनमाशङ्याह-मानुषी जाति मानय पूजय । यतस्त्वया हैहयः सहस्रा- र्जुनोऽभिमुखो दृष्टः । तथा च मानुषेणैव सहस्रार्जुनेन सङ्ग्रामे त्वमभिभूतोऽसि, अतो मानुषविषये गर्वो न विधेय' इति भावः । वालिभुजौ च स्मृत्वा ते तव वानरा अवज्ञातुं न सांप्रतम् । न युक्ता इत्यर्थः । इह सांप्रतपदेन युक्तार्थेन कर्म- गोऽभिधानाद्वानरा इत्यत्र न द्वितीया । यथा-विषवृक्षोऽपि संवर्ध्य खयं छेत्तुमसांप्रतम्' इति । वानरेण त्वं कक्षायां क्षिप्तोऽसि, अतो वानरेष्वपि नावज्ञा युक्तेति भावः । 'कारा स्याद्वन्धनालये' इत्यमरः । 'युक्ते द्वे सांप्रतं स्थाने' इत्यपि। स्मारितोऽस्मि । वानरबाहुबलमिति शेषः । किमाचक्षे इति । हे आर्य, कपि- भटानां वानरयोधानां भुजस्तम्भसमूहान्किमाचक्षे किं ब्रवीमि । अपि तु वक्तुं न शक्नोमीति भावः । कीदृशान् । सेत्वर्थ क्षितिधरशिरःश्रेणिकषणैः पर्वतमस्तकपति- घर्षणैः । प्रकोष्ठे कफोणाधःप्रदेशे । नीरोम्णो लोमशून्यान् । यद्भरं बाहुसमूहभरं विन्ध्योऽपि शिरोभिः सोढुं न परिवृढो न समर्थः । सुमेरोर्मात्सर्यादुच्चैस्त्वस्या- सदनात् । अनतिचिरमतिशीघ्र संरूढेः प्रवृद्धः । अत एव मृदुभिः । अत एव भरं सोढुं न शक्तोऽभवदित्यर्थः । सुमेरुजिगीषया विन्ध्यो वर्धितः-इति कथा । रोषान्धतामिस्र रोषरूपगाढान्धकारे । 'रोषान्धतमसे' इति पाठेऽप्ययमेवार्थः । १. 'किमपि इति पुस्तकान्तरे नास्ति. २. 'तमसि'. । ।
६ अङ्कः] अनर्घराघवम् । २७३ सारण:-(सखेदमाकाशे ।) हा देव पुलस्त्यनन्दन, कथं भवतैव वै- धर्म्यदृष्टान्तेन मानतो मूलोच्छेदनिमित्तान्निवर्तिष्यते लोकः। (साभ्यर्थनं चा) अरिषड्वर्ग एवायमस्यास्तात पदानि षट् । तेषामेकमपि च्छिन्दन्खञ्जय भ्रमरी श्रियम् ॥ ९ ॥ (मन्त्रिणं प्रति ।) आर्य, यत्सत्यं राघवेण व्यूढां वानरवरूथिनीमुत्प्रेक्ष्य शङ्के-विभीषण एव यद्यस्माकं कुलतन्तुरवशिष्येत । माल्यवान्-(निःश्वस्य ।) वत्स, द्वयोरपि कटकयोस्तत्त्वज्ञोऽसि । तत्किमिदानीमुचितम् । सारण:-आर्य, नन्वेवं ब्रवीमि-राजपुत्रोऽङ्गदोऽसौ बोलो नव- बुद्धिरांमपात्रमिव यद्यदाधीयते तत्तदाचुचूषति । 'ध्वान्ते गाढेऽन्धतमसम्' इत्यमरः । भवतैव सह । मानतोऽभिमानालोको निवर्ति- भ्यते । मानं न करिष्यतीत्यर्थः । वैधय॑ वैपरीत्यम् । नाश इति यावत् । तत्र दृष्टान्तेन निदर्शनेन । यद्वा विरुद्धो धर्मो विगतो वा धर्मो विधर्मः । ततः खार्थिकः व्यञ् । वैधयं धर्माभावस्तेन दृष्टोऽन्तो नाशो यस्य तेन । निवृत्तौ हेतुमाह- मानतः । कीदृशात् । मूलं रावणस्तस्योच्छेदो नाशस्तद्धेतोः । तथा च माने सति रावणो नष्टः। तन्मानं न युक्तमिति लोको निवृत्तिं करिष्यतीति भावः । अधुनोप- देशमाह-अरीति । हे तात मान्य रावण । श्रियं भ्रमरीमिति व्यस्तरूपकम् । श्रियं भ्रमरी लक्ष्मी भ्रमरवधू खञ्जय खजां कुरु । यद्वा भ्रमरी भ्रमणशीलाम् । अस्याः श्रीभ्रमर्या अरिः षड्वर्गोऽरिषड्वर्गः कामक्रोधलोभमोहमदमानरूपः स एवं षट् पदानि तेषां पदानां मध्ये एकमपि पदं छिन्दन्द्वैधीकुर्वन्सन् । तथा चं कामादीनामेकत्यागादपि सीतापरित्यागः । तेन च श्रीः खञ्जा स्थिरा भवति । अन्यथा कामादिसत्त्वात्तव लक्ष्मीः स्थिरा न भविष्यति, अपि तु राममेवाश्रयि- ष्यतीति भावः । व्यूढां विन्यस्ताम् । 'व्यूढं तु बलविन्यासे' इति विश्वः। वरूथिनी सेना । उत्प्रेक्ष्य उच्चैदृष्ट्वा । तन्तुरिव तन्तुः सूत्रम् । आममपक्वं पात्रं १. 'अनुमानतः'. २. 'भ्रामरीम्'. ३. एवास्य'. ४. 'वत्स' इति पुस्तकान्तरे नास्ति. ५. 'बालोऽसौ'. ६. आममिव पात्रम्', १८ अकरा लितो वर्धितः । अपवाहं घअन्तं निष्पा २७४ काव्यमाला माल्यवान् -ततः किम् । सारण:-ततश्च भवतः पितृवैरिणौ रामसुग्रीवौ व्यापाद्य कि- ष्किन्धायांभवन्तमभिषिच्य वालिसौहृदस्यात्मानमनृणमिच्छाम इति गूंढ- प्रणिधिमुखेन दशकंधरादेशमभिधाय सुग्रीवशिबिरादपवाह्यते । तस्मिन्न- पक्रान्ते तु खगृहमहिभयोपजापजर्जरमवेक्षमाणो वानरपतिः शिथिलित- रामप्रयोजनः स्यात् । माल्यवान् (सस्मितम् ।) वत्स, साधु समर्थयसे । किं पुनः खयमङ्गदो गर्भरूपोऽभिनवोज्ज्वल्यौवराज्यसुखोपलालितो दुरपवाह एव । ये चास्य मातापितृबान्धवस्ते सुग्रीवस्यापि संबन्धिनः कथमेनमुत्तिष्ठमा- नमनुजानीयुः। शरावादि । आधीयते आरोप्यते । आचुचूषति पिबति । 'चूष पाने' । सौहृदं सुहृद्भावः । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धिर्न भवति । तत्रार्थवतो हृच्छब्दस्य ग्रहणात् । 'सुहृदुईदौ मित्रामित्रयोः' इति निपातसमुदायस्यार्थवत्त्वात् । एकदेशे चातथात्वात् । अनृणमृणात्प्रत्युपकाराद्विनिर्मुक्तम् । गूढो गुप्तो वानरादिवेषः। प्रणिधिश्वरः । 'प्रणिधिः प्रार्थने चरे' इति विश्वः । 'आज्ञा निदेश आदेशः' इत्य- मरः । शिबिरात्कटकादपवाह्यते आनीयते । तस्मिन्नगदे । स्वपक्षप्रभवं भयमहिम- यम् । उपजापो मेदः । जर्जरमाकुलम् । शिथिलितं शिथिलीकृतम् । 'तत्करोति' इति णिजन्तात्क्तः । 'महीभुजामहिभयं खपक्षप्रभवं भयम्' इत्यमरः । 'समौ भेदो- पजापौ' इति च । समर्थयसे।मन्यसे किं पुनः किं तु । गर्भरूपो बालकः । उपला- वह इति स्यात् । यद्वा 'वाह प्रयत्ने' इत्यतः खलःप्रयोगः। मातापित्रिति । 'आनतो द्वन्द्वे' इत्यानडादेशः। मातृबान्धवा मातुलादयः । पितृवान्धवाः पितृव्यादयः । उत्तिष्ठमानमुद्यम कुर्वाणम् । 'उदोऽनूर्वकर्मणि' इति तङ्। अनुजानीयुरनुमन्यन्ते। 'दमो दण्ड इति प्रोक्तस्तात्स्थ्याद्दण्डो महीपतिः' इति नीतिशास्त्रम् । तस्य राज्ञो २. 'अनृणमात्मानम्', 'आनृण्यमात्मनः'. २. 'निरूढ'. ३. 'च'. ४. 'किं तु खयम्', 'किं पुनरगद. ५. 'अपि सुग्रीवस्यैव'.
६ अङ्कः] अनर्घराघवम् । २७५ सारण:-यथा दृष्टमार्येण । किं च कालापेक्षी दण्डनीतिप्र- योगः । तथा कथमपि महोत्साहैः कपिभिः सेतुकर्मणि प्रवृत्तं यथैता- वता कालेन संतीर्णमहार्णवो रामः सुवेलशैलोपत्यकामध्यास्ते । माल्यवान्-(सविमर्शाद्भुतम् ।) अहह । असौ मनुष्यमात्रेण लवितो यदि सागरः । प्रतापो दशकण्ठस्य भुवनैरपि लञ्चितः ॥ १०॥ (सखेदं च।) पौलस्त्यस्य सुरासुरेन्द्रशिरसां निर्माल्यमद्वियं कुर्वाणेन रघुबहेन घटितो सेतो निधावम्भसाम् । अद्योन्मुद्रयति खहस्तविधृतं राजीवमिद्धो रविः प्रत्यावृत्तरसस्य चामृतभुजामिन्दोः खदन्ते कलाः॥११॥ नीतिर्दण्डनीतिः । नयनं नीतिस्तस्याः प्रयोग आरम्भः । यद्वा दण्डनीतिः शास्ति- प्रधाना नीतिः । उत्साहः पराक्रमः । प्रवृत्तं प्रवृत्तिः कृता । भावे क्तः । तेनान- भिहिते कर्तरि तृतीया । सुवेलो गिरिभेदः । उपत्यका पर्वतासन्नभूमिः । 'उपत्य- कानेरासन्ना भूमिः' इत्यमरः । भुवनैर्भुवनस्थैः । तात्स्थ्यात्प्रयोगः । मञ्चाः कोश- न्तीतिवत् । सर्वैरपीत्यर्थः । पौलस्त्येति । अद्य इद्धो दीप्तो रविः सूर्यः स्वहस्त- विधृतं राजीवं पद्ममुन्मुद्रयति प्रबोधयति । अन्यदा रावणत्रासात्वहस्तस्थमपि पड़ सूर्यो न प्रकाशयति, किं पुनः सुरस्थितमिति भावः । अमृतभुजां देवानां चेन्दो- श्चन्द्रस्य कलाः स्वदन्ते रोचन्ते । इह प्रीयमाणार्थस्याविवक्षितत्वान्न चतुर्थी । प्रत्यावृत्तो व्याधुव्यायातो रसः खादो यत्र । यद्वा प्रत्यावृत्तो रसोऽनुरागो यत्र । अर्थाद्देवानाम् । अन्यदा रावणत्रासाद्देवाश्चन्द्रकला न पिबन्ति, इदानीं तु पिब- न्तीति भावः । क सति । रघूद्वहेन रामेणाम्भसा निधौ समुद्रे सेतो घटिते बद्धे सति । कीदृशेन । पौलस्त्यस्य रावणस्याद्वियं पदयुगं सुरासुरेन्द्रशिरसा देव- दानवमस्तकानां निर्माल्यं कुर्वाणेन । निर्माल्यमलङ्घनीयत्वात् । इद्ध इति 'बिइन्धी १. “यथा तु महोत्साहै:. २. "समुत्तीर्ण'. ३. 'मुवेलोपत्यका-. ।
२७६ काव्यमाला। । (विमृश्य ।) वत्स सारण, वालिवधविशुद्धपाणैरनेकवानरानीकनायकेन साक्षादुपकृतेन सख्या सुग्रीवेण महापक्षस्य हनुमच्चरितज्ञातास्मदीयवृ- तेरयमेव सुविहतसकलाभियास्यत्कर्मणस्तस्याभियोगसमयः । सारण:-आर्य, अयमेवात्मद्रव्यप्रकृतिसंपन्नो नयस्याधिष्ठानं वि. विजिगीषुरिति प्रथमोदाहरणं दाशरथिः । माल्यवान्-(स्तम्भं नाटयित्वा ।) यत्तस्मिन्निहतेऽपि वालिनि वयं क्षुद्रास्तथैवामहे तद्युक्तं भुजयोर्बलादपि बलं दुर्गस्य दुर्निग्रहम् । मत्येनापि जगद्विलक्षणगुणग्रामेण रामेण तु द्वे गव्यूतिशते हि नाम केयती तीर्णोऽयमोंनिधिः॥ १२॥ (दीर्घमुष्णं च निःश्वस्य । आकाशे ।) दीप्तौ'। क्तः । पाणिः पश्चाद्देशस्थितः । पक्षः सहायः, बलं च । वृत्तिर्व्यापारः । सुविहितं सकलमभियास्यतः शनोरभिमुखं गमिष्यतः कर्म येन तस्य । अभियोग आक्रमणम् । आत्मद्रव्याणि च प्रकृतयश्च ताभिः संपन्नः । 'बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा। भावशुद्धिर्दया सत्यं नियमश्चात्मसंपदः॥ अमात्यराष्ट्रदुर्गाणि कोषो इण्डश्च पञ्चमः । एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः । एताः पञ्च तथा मित्रं सप्तमः पृथिवीपतिः । सप्तप्रकृतिकं राज्यमित्युवाच बृहस्पतिः ॥' इति नीतिशास्त्रम् । अधिष्ठानमाश्रयः । अजहल्लिङ्गतात्र । यत्तस्सिन्निति । तस्मिन्न- तिबलशालिनि वालिनि हतेऽपि सति यद्वयं क्षुद्रा अल्पज्ञास्तथैव पूर्ववदेव आस्महे स्थिताः सस्तद्धजयोर्षलादपि दुर्गस्य बलं दुर्निग्रहं दुःखेन निगृह्यते यत्तादृशं भव- तीति कृत्वा । वालिनि हतेऽपि वयं मध्यस्थितसमुद्ररूपदुर्गत्वाजीवाम इति भावः । अधुना समुद्ररूपदुर्गस्यापि नास्माकं त्राणं शक्यमिति पर्यवसन्नमर्थमाह-मा- नापि । मीन मनुष्येण विलक्षणः श्रेष्ठः । ग्रामः समूहः । 'गव्यूतिः स्त्री कोश- युगम्' इत्यमरः । द्वे इति । शतयोजनविस्तारत्वात्समुद्रस्य । हिरवधारणे । तीर्ण । १. "विमृश्य च'..२. 'आर्य, एवमेतत्'. ३. 'तद्व्यक्तम्'. ४. 'विजित्वर- -- ६ अङ्कः] अनर्घराघवम् । २७७ तर्षार्तिव्यतिलेलिहानरसनारम्यैर्मुखैरष्टभिः क्रन्दन्ती क्रमशः पपौ दशमुखी वत्सस्य यस्याः स्तनौ । वत्से नैकषि विश्ववीरजननी सीमन्तमुक्तामणिः सा तादृग्भवती कथं गुणवतः पुत्रस्य किं द्रक्ष्यति ॥ १३ ॥ सारण:-शान्तं शान्तम् । प्रतिहतममङ्गलम् । अनर्थशङ्कीनि बन्धुहृदयानि भवन्ति । किं च आर्य, भुजनिवहविहजिकावलम्बी निबिडगुणौषधृतोऽपि राज्यभारः । खयमपि दशकंधरे धुरीणे स्खलति यदि स्खलनं तदास्य रूपम् ॥१४॥ माल्यवान्-(अश्रूणि स्तम्भयन् ।) वत्स, एव । नाम संभावनायाम् । कियति किंपरिमाणे । अल्पे इत्यर्थः । 'हिहेतावव- धारणे' इत्यमरः । 'अम्भोर्णस्तोयपानीयम्' इति च । रामाद्रावणविनाशं निश्चित्य रावणमातरमुद्दिश्याह-तर्षार्तीति । हे वत्से नैकषि निकषात्मजे । 'क्वचिदपवा- दविषयेऽप्युत्सर्गः प्रवर्तते' इति स्त्रीभ्यो ढकं बाधित्वाण । सा भवती ताट- कप्रसिद्धा गुणवतः पुत्रस्य रावणस्य कथं केन प्रकारेण । विनाशमिति हृदयम् । अमङ्गलत्वाद्विनाशपदं नोपात्तम् । द्रक्ष्यसि । सा का । यस्याः कर्मभूतौ अष्टभिर्मुखैः क्रन्दन्ती वत्सस्य रावणस्य दशमुखी पपौ पीतवती । कीदृशैः । तर्षः पिपासा आतिः पीडा तया व्यतिलेलिहानाः पुनःपुनरा. खादयन्त्यो या रसनास्तामी रम्यैः। द्वाभ्यां स्तनद्वयं पीतमपराण्यष्टमुखानि क्रमेण क्रन्दन्तीति भावः । व्यतिलेलिहान इति लिहेर्यङ्लुगन्तात् 'कर्तरि कर्मव्यतिहारे' इति तङ् । भुजनिवह इति । भुजसमूह एव विहङ्गिका भारयष्टिः । 'वहंगी' इति प्रसिद्धा । गुणाः शौर्यादयः, शिक्यं च । धुरीणे भारवाहे । 'खः सर्वधुरात्' इत्यत्र ख इति योगविभागात्खः । 'धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः' इत्यमरः । अस्य राज्यभारस्य । रूपं खभावः । एककंधराद्भारः स्खलतीत्युचितम् । दशकंधरा- दपि यदि भारः स्खलति तदास्य भारस्य स्खलनमेव स्वभाव इति भावः । विद्वाना- । १. कैकसि'. २. 'शान्तं पापम्'. ३. 'स्खलितम्'.
काव्यमाला। .. विद्वानपावृत्तमिव स्खभाग्यं न तावदात्मानमहं ब्रवीमि । महामुनेर्विश्रवसस्तपोभिर्निवापबीजं यदि नः कुलं स्यात् ॥ १५ ॥ (प्रविश्य पटाक्षेपेण संभ्रान्तः शुकः ।) शुक:- प्रहस्तधूम्राक्षमहोदरादीन्व्यापाद्य सेनाधिपतीनमात्यान् । स एष लङ्कामुपरुध्य रामः शाखामृगैरर्णवमातनोति ॥ १६ ॥ माल्यवान्-(सविषादम् ।) पुरस्तादेव दृष्टमिदमस्माभिः । देश- कालव्यवहितस्यापि प्रमेयग्रामस्य यथामुखीनमादर्शतलं हि स्थविर- बुद्धिः । (विमृश्य । आकाशे ।) साधु रामभद्र, साधु । विजिगीषोरदीर्घ- सूत्रता हि कार्यसिद्धेरवश्यंभावः । सारण:-सखे शुक, अथ किंविधानो यातुधानेश्वरः । शुकः-(सखेदस्मितम् ।) सखे, किं तस्य विधानम् । श्रुत्वा दाशरथी सुवेलकटके साटोपमधै धनु- ष्टंकारैः परिपूरयन्ति ककुभः प्रोञ्छन्ति कौक्षेयकान् । नन् । 'विदेः शतुर्वसुः' । अपावृत्तमपगतम् । पुलस्त्यपुत्रो विश्रवाः । विश्रवा राव- णपिता। निवापो मृतस्य जलाजल्यादिदानम् । 'निवापः पितृदानं स्यात्' इत्यमरः। बीजं कारणम् । यदि स्यात् । तदा स्यादित्यर्थः । पटी जवनिका । प्रहस्तादयो योधाः । व्यापाद्य विनाश्य । उपरुध्य वेष्टयित्वा । शाखामृगो वानरः । अर्णवमि. वार्णवम् । ननु भावि कार्य पुरस्तादेव कुतो दृष्टमित्यत आह-देशकालेति। हि यतः । स्थविरबुद्धिवृद्धमतिः। देशकालव्यवहितस्यापि प्रमेयसमूहस्य यथामुखीनं मुखस्य सदृशं दृश्यते यत्र तादृशमादर्शतलं भवतीत्यर्थः । मुखस्य सदृशं यथामुखम् । 'यथामुखसंमुखस्य दर्शनः खः' । आदर्शो दर्पणः । तलशब्दस्याजहल्लिङ्गत्वात्तलम्। बुद्धिरिति सामानाधिकरण्यम् । अदीर्घसूत्रताऽचिरक्रियता। दीर्घसूत्रश्चिरक्रियः इत्यमरः। किं विधानं यस्य सः । किं प्रश्ने, निन्दायां वा । यातुधानो राक्षसस्तस्ये- श्वरो रावणः । किं तस्य विधानम् । अपि तु न किमपि । श्रुत्वेति । सुवेलो गिरि- १. 'खभाग्यात्', २. 'संमुखीनम्'. ३. 'प्रविदारयन्ति'. ।
। ६ अङ्कः] अनर्घराघवम् । २७९ अभ्यस्यन्ति तथैव चित्रफलके लङ्कापतेस्तत्पुन- वैदेहीकुचपत्रवल्लिरचनाचातुर्यमर्चे कराः ॥ १७ ॥ माल्यवान् -(निश्वस्य ।) हा वत्स रावण, कथमद्यापि सैव हृद- यपरिस्पन्दमुद्रा । (शुकं प्रति ।) वत्स, अथ गोपुरगौल्मिकबलाध्यक्षण वत्सेन नरान्तकेन किं प्रतिपन्नम् । शुक:-(निःश्वस्य ।) मातामह, कृतैव कुमारेण द्वारमर्यादा । परमङ्गदेन सोऽपि । (इत्य|क्के साखमधोमुखस्तिष्ठति ।) माल्यवान् हा वत्स दशग्रीवनन्दन, कथमिदं तव द्रष्टुमेता- वन्तं कालमस्साकमायुः। (नेपथ्ये।) भो भो महापाचप्रभृतयः सैनिकाः, । स्तस्य कटके नितम्बे दाशरथी रामलक्ष्मणौ कर्मभूतौ श्रुत्वा लङ्कापतेरर्धे करा दश हस्ता धनुष्टंकारैर्धनुःशब्दैः ककुभो दिशः परिपूरयन्ति । कौक्षेयक खड्गं प्रोञ्छन्ति मार्जन्ति । तथैवार्धे कराश्वित्रफलके चित्ररचनाधारे वैदेह्याः कुचे या पत्रवलिः पत्रावली तस्या रचना लिखनं तत्र वैदग्ध्यं कौशलमभ्यस्यन्ति । अर्धे इति 'प्रथ- मचरम-' इत्यादिना जसि वा सर्वनामसंज्ञायां शीभावे रूपम् । 'कटकोऽस्त्री नित- म्बोऽदेः' इत्यमरः । 'कौक्षेयको मण्डलानः करवालः कृपाणवत्' इति च । सेव हृदयपरिस्पन्दमुद्रा स एव सीतास्तनपत्ररचनायां हृदयावष्टम्भ इत्यर्थः । परिस्प- न्दश्चेष्टा, अवष्टम्भो वा । मुद्रा निश्चयः । गोपुरं पुरद्वारम् । 'गोपुरंतु पुरद्वार' इत्यमरः । गुल्मः सेना, घट्ट वा । तत्र नियुक्तो गौल्मिकः । 'तत्र नियुक्तः' इति ठक् । 'गुल्मः सेनाघभिदोः सैन्यरक्षणरुग्भिदोः' इति मेदिनीकरः । अध्यक्ष- शब्दः प्रत्येकमभिसंबध्यते । नरान्तको रावणपुत्रः । प्रतिपन्नं कृतम् । मर्यादा १. 'सैव ते हृदय परिपन्थिनीपरिस्पन्दमुद्रा'. २. 'मातामह' इति पुस्तकान्तरे नास्ति. ३. 'सोऽपीत्थम्'. ४. 'तव' इति पुस्तकान्तरे नास्ति.
२८०, काव्यमाला। व्यावर्तध्वमुपाध्वमुद्भुरशरज्वालामुखीं मातरं देवीमस्त्रमयीं प्लवंगपशवः पश्यन्ति पृष्ठानि वः । चेतः शक्रजितोऽपि लक्ष्मणवधे बद्धोत्सवं मध्यमः पौलस्त्यः खयमायुधं विधृतवानद्यापि रामाद्भयम् ॥१८॥ सारण:-(श्रुत्वा सहर्षम् ।) आर्य, जातं जातमवलम्बनम् । यदयं प्रतिबुध्य कुमारकुम्भकर्णः पुरस्कृत्य च मेघनादमभ्यमित्रीणः संवृत्तः। माल्यवान् (निःश्वस्य 1) खस्ति विजयेतां रामलक्ष्मणौ कुम्भ- कर्णमेघनादौ। शुकः--(संविषादमात्मगतम् ।) शान्तं शान्तम् । कथमविशिष्टक- र्तृकर्मभावमुभयत्र द्विवचनं प्रयुक्तमार्येण । माल्यवान-(सखेदम् ।) वत्सौ शुकसारणौ, अद्य खल्वियं राक्षस- लक्ष्मीः सर्वथा कुम्भकर्णमबलम्ब्य वर्तते । इदं तु न विद्मः । निरोधः । अङ्गदेन वालिपुत्रेण । व्यावर्तध्वमित्यादि । हे सैनिकाः, व्याव- तध्वम् । किमिति पलायध्वम् , निवर्तध्वमित्यर्थः । यतो हेतोः प्लवंगपशवः कुत्सि- तवानरा वो युष्माकं पृष्ठानि पश्यन्ति, अतोऽत्रमयीं देवीमुपाध्वं सेवध्वम् । 'आस उपवेशने' उपपूर्वः । लोटि मध्यमपुरुषबहुवचने 'घि च' इति सलोपः। कीड- शाम् । उद्भुरा उद्योगिनो ये शरास्तेषां ज्वाला तेजस्तदेव मुखं यस्यास्ताम् । अन्यापि ज्वालामुखी देवता भवतीति ध्वनिः। अद्यापि रामाद्भयमस्ति । अपि तु नास्ति भय- मिति । इन्द्रजितोऽपि मेघनादस्यापि चित्तं लक्ष्मणवधे बद्ध उत्सवो येन तादृशं जा- तम् । मध्यमः पौलस्त्यः कुम्भकर्ण आयुधं शस्त्रं धृतवान् । अतो रामाद्भयं न विधे- यमिति भावः । रामादिति “भीत्रार्थानां भयहेतुः' इत्यपादानता । पुरस्कृत्याग्रतः कृत्वा । अभ्यमित्रीणो रणे शत्रोरभिमुखगामी । 'अस्य मित्राच्छ च' इति चका- रात्खः । विजयेतां रामलक्ष्मणावित्यत्र' रामलक्ष्मणौ कर्मभूतौ । कर्तृपरत्वभ्रान्त्या १. 'जातम्' इत्येकवारमेव पुस्तकान्तरे. २. 'मेघनादौ च'. ३. 'राजलक्ष्मीः'. ४. अवलम्बते'. । M ANNARESMANINRN ६ अङ्कः] अनर्घराघवम् । २८९ अग्रज वा दशग्रीवमनुजं वा बिभीषणम् । अन्वयव्यतिरेकाभ्यां वीरः कमभिषेक्ष्यति ॥ १९॥ (नेपथ्ये।) मा भैष्टं कमठेन्द्रपन्नगपती कश्चिन्न वैशेषिको भूमेरद्य भरः पतिः पलभुजामाज्ञापयत्येष वाम् । शुकः-(सहर्षम् ।) नूनमसदीयैर्विशेषेण, किमपि विक्रान्तम् । (माल्यवानवधत्ते ।) (पुनर्नेपथ्ये।) दोःशैलौ हरता पृथक्पृथगयो मूर्धानमुरिक्षम्मुना रामेणापि लघूकृतं पतति यत्तत्कौम्भकर्णं वपुः ॥२०॥ माल्यवान् हा वत्स । (इति मूच्छितः पतति ।) उभौ-(सास्रम् ।) आर्य, समाश्वसिहि समाश्वसिहि । माल्यवान्-(आश्वस्य ।) वत्सौ, जीवतो रामभद्रस्य मैथिलीहर- णादेतदस्माभिरान्तरेण चक्षुषा विषयीकृतमेव । किमिदानीं समाश्वसि- तव्यमस्ति। सविषादमाह-शान्तमिति उभयत्रेति । रामलक्ष्मणावियत्र कुम्भकर्णमेघनादावित्य- त्रचेत्यर्थः । अन्वयव्यतिरेकाभ्यां जयपराजयाभ्यामित्यर्थः । अन्वयेनाग्रज ज्येष्ठम् , व्यतिरेकेणानुजं कनिष्ठम् । रावणादीनां मरणादिति भावः । वीरः कुम्भकर्णः । मा भैष्टमित्यादि । पलं मांसं भुञ्जते पलभुजो राक्षसास्तेषां पतिः खामी रावणः, हे कमठेन्द्रपन्नगपती कूर्मराजसर्पराजौ, वां युवामित्याज्ञापयति-भूमेवैशेषिको विशेषभवः । अध्यात्मादित्वाञ् । कश्चिन्च भरः अतो मा भैष्टं मा भयं कुरुतम् । कुम्भकर्णस्यातिगुरुशरीरपातेन भूमेरधिको भरः स्यात् । तथा च तद्धारकत्वादा- वामपि भरभागिनौ भवावं इति भयं मा कुरुतमित्यर्थः । सहर्षमिति । रामबल- स्याहितभ्रमादिति भावः । अवधत्त इति । कुतो भूमेर्भर इति ज्ञातुमिति भावः । १. 'वत्स शुक'. २. 'समाश्वसितम्'. - । ।
२८२ काव्यमाला। शुकः-धिक्कष्टम् । 'कौम्भकर्ण वपुः पतति' एतदपि देवेनाज्ञा- पयितव्यम्। माल्यवान्-वत्स, अद्यापि रावणस्याज्ञा । नूनमन्योन्येषां वैहा- सिकाः कपयो दशकण्ठमुल्लुण्ठयन्ति । सारण:-आः क्षुद्राः, यद्यस्ति वीर्यमस्त्येव तत्कर्म कथयिष्यति । मेघनादमजित्वैव धिक्प्रहासविभीषिकाम् ॥ २१ ॥ (नेपथ्ये ।) भो भो यूथपतयः, विलुम्पन्तु भवन्तो लङ्कागोपुरप्राकारतोरणानि । संनद्धेन्द्रायुधमविरलारम्भिगीर्वाणवाण- श्रेणीवर्ष तदवजगृहे येन दुष्टग्रहेण । माल्यवान्-(सोद्वेगम् ।) आः, किमनेन श्रावयितव्योऽस्मि । (इति को पिदधाति ।) (पुनर्नेपथ्ये।) दृष्ट्वा कांचित्प्रहरणमयीं वीरयज्वानमिष्टिं दिष्ट्या सोऽयं समुपशमितः शक्रजिल्लक्ष्मणेन ॥ २२॥ नन्वतिगुरुकुम्भकर्णशरीरपातेन कुतो न भरो भूमेरत आह-दोःशैलाविति । यद्यस्माद्धेतोः कौम्भकर्ण कुम्भकर्णसंबन्धि वपुः शरीरं तद्रामेणैव लघूकृतं सत्प- तति । कीदृशेन । पृथक्पृथग्यथा भवति तथा दोःशैलौ बाहुपर्वतो हरता छिन्दता। अथो अनन्तरं मूर्धान मस्तकमुत्क्षिप्नुना ऊर्ध्व प्रेरणशीलेन । अतो न कश्चिद्भर इति भावः । 'सिगृधिधृषिक्षिपेः क्नुः' इति नुः । अन्तरेण मानसेन चक्षुषेव चक्षुषा ज्ञानेन विषयीकृतं ज्ञातम् । 'विषयो ज्ञानमुच्यते' इति विश्वः । वैहासिका हास्यकराः । उल्लुण्ठयन्त्युपहसन्ति । प्रहास उपहासस्तद्रूपा विभीषिका । धिग्योगे द्वितीया । इन्द्रजिद्विनाशं श्रुत्वा रामसेनापतिराह-भो भो इत्यादि । विलुम्प- न्त्वपनयन्तु । 'तोरणोऽस्त्री बहिरम्' इत्यमरः । वर्ष वर्षणम् । अवजगृहे वृष्टि- १. आशापितव्यम्', 'अज्ञायि'. २. 'रावणाचा'. ३. 'उल्लुठन्ति'; 'उल्छुठयन्ति'. ४. 'अजित्वापि, अजित्वा तु'. ।
६ अङ्कः] अनर्घराघवम् । २८३ माल्यवान्-सत्योऽयम् 'अतिदुःखो निर्दुःखः' इति लोकप्र- वादः । यदस्मिन्नपि समूलघातमभिन्नति व्यतिकरे तथैव श्वसिमः । शुक:-(ऊर्ध्वमवलोक्य ।) यथा समन्तादम्बरचरविमानवीथयः ककुभां मुखानि पर्यवष्टभ्नन्ति, तथा शङ्के दुर्वारदारुणक्रोधवडवानल- निपीयमानशोकसमुद्रो दाशरथिविजयाय संनते देवः । सारण:-(सविषादमात्मगतम्) कष्टम् । कथं दाशरथिविजयाये- त्यविशिष्टोपपत्तिककर्तृकर्मकारकार्थविषयं वयस्यवचनम् । माल्यवान्–(उत्थाय ।) तदस्माभिरपि जरसा दूषितस्यात्मनः प्र- क्षालनाय प्राप्तं शस्त्रधारातीर्थम् । (इंति सशुकसारणो निष्कान्तः।) विष्कम्भकः। (ततः प्रविशति विद्याधरद्वयमाकाशयानेन ।) एक:-अहो, बहोः कालादनया गगनवीथ्या निरातङ्कमिव संचरावहे । (अधोऽवलोक्य ।) निरोधः कृतः दुष्टग्रहेणेति । ग्रह आसङ्गः। पिदधात्याच्छादयति । वीरो यज्वा याज्ञिको यत्र तामिष्टिं यज्ञम् । समुपशमितो मारितः । अन्येनापि दुष्टग्रहेण शनै- श्वरादिनेन्द्रधनुःसहितं वर्षणमवगृह्यते। तच्च कारीरीयज्ञादिना शाम्यत इति ध्वनिः। अतिशयितं दुःखं यस्य सोऽतिदुःखः । समूलघातं समूलं हत्वेत्यर्थः । 'समूला- कृतजीवेषु हन्कृञ्ग्रहः' इति णमुल् । व्यतिकरे दैवविपाके । श्वसिमो जीवामः । अम्बरचरा देवाः । वीथयः पतयः। पर्यवष्टम्नन्ति । व्यामुवन्ति । दारुणो महान् । दूषितस्य मलिनीकृतस्य । तीर्थ पुण्यभूमिः । वीथ्यानं, वम वा । 'वीथी पथ्यङ्ग- नेऽपि च' इति विश्वः । संचरावहे 'समस्तृतीयायुक्तात्' इति तङ् । निरातङ्कमिति । १. 'अतिदुःखोऽतिदुःखः'. २. 'व्यतिरेके'. ३. विश्वसिमः'. ४. 'अम्बरान्तर- चर्यो'. ५. पर्यवस्तम्नन्ति', 'पर्यवस्कन्दन्ति'. ६. 'कष्टं कष्टं दाशरथि-', 'कथं दाशरथि-'. ७. 'इति निष्क्रान्ताः'. ८. 'आकाशयानेन विद्याधरद्वयम्'. ९. 'अध- स्तादवलोक्य'.
२८४ काव्यमाला। देवेन्द्रोपनिवेद्यनन्दनवनस्रक्तोरणश्लाधिनी लकेयं दशकण्ठविक्रमसखी यस्यां समन्तादिमाः । युद्धालोकनकौतुकोन्मुखवधूसंकीर्णकर्णीरथा रथ्याः किं कथयामि यान्ति यदमी न व्योनि वैमानिकाः ॥ (सखेदाद्भुतम् ।) सखे हेमाङ्गद, एताः पश्य पलादपत्तनभुवः सौत्रामणीनां दशा- मसाम्भोभिरदेवमातृकगृहारामाभिरामश्रियः । एतासु प्रतिघातिविक्रमकथोपालम्भवैतण्डिकैः कृप्तेन्द्रध्वजिनीजयानुकृतिभिर्डिम्भैरपि क्रीडितम् ॥२४॥ क्रियाविशेषणम् । देवेन्द्रेति । इयं लङ्कास्तीति शेषः । कीदृशी । देवेन्द्रेणोप- निवेद्या उपभोग्या या नन्दनवनस्रङ् नन्दनवनसंबन्धिनी माला तस्यास्तोरणेन वन्दनमालिकया श्लाघिन्यादरणीया। दशकण्ठविक्रमसखी रावणपराक्रमसङ्गिनी । यस्यां लङ्कायामिमा रथ्या नगरमध्यगतप्रकीर्णमार्गाः किं कथयामि । अपि तु कथयितुं न शक्नोमीत्यर्थः । कीदृशीः । युद्धालोकनकौतुकोन्मुखा या वध्वो राक्ष- सस्त्रियस्तासां संकीर्णा निरन्तराः कर्णीरथाः स्त्रीरथाः यत्र तादृशीः । वैमानिका देवा व्योनि यन्न यान्ति । रावणयुद्धालोकनभयात्तदपि किं कथयामीत्यनुषङ्गः । कचित् 'मान्ति' इति पाठः । तच्च स्फुटं तवाप्यनुषङ्गः । 'कीरथः प्रवहणम् इत्यमरः । विमानेन चरति वैमानिकः । 'चरति' इति ठक् । सखेदमिति । इन्द्र- वन्द्यापि लङ्का कपिना दग्धेति भावः । एता इति । एताः पलादपत्तनभुवो राक्षसनगरभूमीः पश्य । कीदृशीः । सुत्रामा इन्द्रस्तत्संबन्धिनीनां दृशां चक्षुषा- मनाम्भोभिरश्रुजलैरदेवमातृका नद्यम्बुपालिता ये गृहारामा गृहवनानि तैरभिरामाः श्रियो यत्र तादृशीः । यद्वा गृहाण्याराम उपवनं च तैमनोहरश्रियः । 'गृहारामास्तु निष्कुटाः' इत्यमरः । 'आरामः स्यादुपवनम्' इति च । एतासु भूमिषु डिम्मरपि बालकैरपि क्रीडितम् । क्लृप्ता निराकृता या इन्द्रस्य ध्वजिनी सेना तस्या जयानुक- तिमिर्जयानुकारैः । अनुकृतिस्तुल्यता । वेषग्रहणमिति यावत् । डिम्भैः कीदृशैः । १. 'बाप्पाम्भोभिः'. २. 'प्रतिपक्ष-'. ।
६ अङ्कः] अनर्घराघवम् । २८५ द्वितीयः-सखे रत्नचूड, किमुच्यते । रक्षांसीति पुरापि संशृणुमहे वीरस्तु कस्तादृशो जागर्ति स्म जगत्रयीविपदलंकर्मीणदोर्विक्रमः । शश्वद्वारभुवि प्रशस्तिरचनावर्णायमानेक्षण- श्रेणीसंभृतगोत्रभिन्मयजयस्तम्भो यथा रावणः ।। २५ ॥ रत्नचूड:-सखे हेमाङ्गद, पश्य पश्य । पौलस्त्यपत्तनप्रतोलीषु दीयमाने संनाहपटहे दिग्दन्तावलदन्तमौक्तिकमयद्वास्तोरणस्रग्विणो गीर्वाणाधिपतिप्रतीष्टनिगडोन्मृष्टान्यबन्दीशुचः । प्रतिघाती विपक्षस्तस्य विक्रमः पराक्रमस्तस्य कथायामुपालम्भ आक्रोशस्तत्र वैत- ण्डिकैर्दूषणमात्रदायिभिः। 'कथादिभ्यष्ठक्' इति ठक् । तिस्रः खलु कथा भवन्ति- वादो जल्पो वितण्डा चेति । तत्र वादो नाम प्रवक्तृकः शिष्यादिविषयः । विजि- गीषुकथा जल्पः । वितण्डा तु [प्रति] पक्षस्थापनहीना। वितण्ड्यते आहन्यतेऽनया प्रतिपक्षस्थापनमित्युपपत्त्या परपक्षोपघातेन पारिशेष्यात्स्वपक्षसिद्धिरस्याः प्रयोजन प्रतीयते । अपरमप्रस्तुतत्वान्न विवेचितमिति । रक्षांसीति । रसांसि सन्तीति पुरापि संशृणुमहे पूर्वमेवास्माभिः श्रुतम् । 'पुरि लुङ् चास्मे' इति चका- राभूते लट् । यद्यपि संयोगादिसूत्रे अकर्मकादित्यनुवृत्ताविह तङ् न प्राप्नोति, तथापि कर्मव्यतीहार एवात्र तङ् । अन्योन्यं शृणुम इत्यर्थात् । यद्वा अकर्मकादिति नत्रानुवर्तत इति प्रायिकम् । तु पुनः यः पुरुषो जगत्रयीविपदामलंकर्मीणः समर्थो बाहुपराक्रमो यस्य तादृशः को जागर्ति । अपितु यथा रावणस्तथा न कोऽपीत्यर्थः । प्रशस्तिरचना प्रशंसालिखनं तत्र वर्णायमाना अक्षरायमाणा या ईक्षणश्रेणी नेत्र- पङ्किस्तया संभृत उपचितो गोत्रभिदिन्द्रस्तन्मयस्तत्वरूपो जयस्तम्भो यस्य सः। अन्यस्मिन्नपि जयस्तम्मे प्रशस्तिलिखिखा ध्रियत इति धनिः । रावणेन द्वारभू- माविन्द्रशरीरजयस्तम्भे तदीयेक्षणसहस्राण्येव प्रशस्तिरचना लिखित्वा धृतेति 'भावः । पत्तनं पुरम् । प्रतोली रथ्या। संनाहाथ पटहः संनाहपटहः । संनहन- निमित्तढकेत्यर्थः । दीयमाने ताड्यमाने । धातोरनेकार्थत्वात् । लोकोक्तिरियम् । दिगिणि दन्तावलो हस्ती । ‘दन्तशिखात्संज्ञायाम्' इति वलच् । 'वले' इति दीर्घः । - - २८६ काव्यमाला। वीरश्रीसहपांसुकेलिसुहृदो मन्दोदरीबन्धुता- शौटीरासुरसुन्दरीसुरभयः क्षुभ्यन्ति रक्षोगृहाः ॥ २६ ॥ हेमाङ्गदः-(विहस्य ।) नूनमिदानीमत्र दृष्ट्वा राघवमेकराक्षसवनस्वच्छन्ददावानलं जानक्यां निजवल्लभस्य परमं प्रेमाणमालोक्य च । काङ्क्षन्ती मुहुरात्मपक्षविजयं भङ्गं च मुग्धा मुहु- ायन्ती ध्रुवमन्तरालपतिता मन्दोदरी वर्तते ॥ २७ ॥ रत्नचूड:-(सकरुणस्मितम् ।) वयस्य, विबुधराजविजयविक्रमक्री- द्वारं तत्र तोरणलक्तोरणमाला तद्योगात्प्रशंसायाम्। 'असायामेधास्रजो विनिः । गीर्वाणाधिपतिरिन्द्रः । प्रतीष्टः सोढः । सोऽपि निगडे बद्ध इत्यर्थः । बन्दीनां शोक उन्मृष्टोऽपनीतः । वीरश्रिया समं पांसुकेलिधूलिक्रीडा । मन्दोदरी रावणवधूः । सा त्वसुरकन्येति तत्संबन्धवशेन शौटीरा गर्ववती । 'शौटीरस्तु मतो गर्वे' इति शाश्वतः । सुरभिर्मनोहरः, ख्यातो वा । क्षुभ्यन्ति चलीभवन्ति । 'क्षुभ संचलने । दृष्ट्वेति । दावो वनम् । वने च वनवह्नौ च दवो दावः प्रकीर्तितः' इति विश्वः । राक्षसा एव वनम् । एकश्चासौ राक्षसवनखच्छन्ददावानलश्चेति कर्म- धारयः । तादृशं राघवं रामं दृष्ट्वा निजवल्लभस्य रावणस्य जानक्यां सीतायां परमं श्रेष्ठं प्रेमाणमवलोक्य च आत्मपक्षविजयं भङ्गं च अर्थादात्मपक्षस्यैव कान्तिीच्छन्ती मुग्धा अज्ञा एतत्सकलं वाक्यार्थं ध्यायन्ती चिन्तयन्ती ध्रुवं निश्चितमन्तरालप- तिता मध्यस्थिता सती मन्दोदरी रावणपत्नी वर्तते । तदयं वाक्यार्थः -रामस्य रक्षोविनाशकारणत्वात्वपक्षस्य जयमाकाङ्क्षन्ती रामभङ्गे च रावणस्य सीताविषयक प्रेमाणमालोक्यावश्यं मां परित्यज्य रावणः सीतावश एव भविष्यतीत्यतो रामस्य जयपराजयाभ्यामपि न ममेष्टमित्युभयपक्षमध्ये निपतिता मन्दोदरी सचिन्तास्तीति। 'प्रेमा ना प्रियता हार्दम्' इत्यमरः । परमेष्टी ब्रह्मा । प्रतिष्ठितं कृतं यदिन्द्रजिनाम तदेव शेषोऽवशेषो यस्य तस्य । मृतस्येत्यर्थः । विचेष्टमानां विगतचेष्टाम् । अस. तिगृहिणीं शत्रुभार्यां मन्दोदरीमुपकोष्टुं निन्दितुम् । 'अपक्षेप्नुम्', 'उपक्षेप्तुम्' । २. 'शौण्डीर-'.२. 'इदानीम्' इति पुस्तकान्तरे नास्ति. ३, 'एव'. ४. 'मुहुः'.
६ अङ्कः] अनघराघवन् । २८७ तचेतसा वृद्धपितामहेन वयं परमेष्ठिना प्रतिष्ठितेन्द्रजिन्नामधेयशेषस्य तादृशस्य तनूजस्य शुचा विचेष्टमानामरातिगृहिणीमपि नैवमुपक्रोष्टम- हसि । (पुरोऽवलोक्य च ।) इस्तदक्षिणेन केथमयं द्विधा विभज्यते महा- जनः । (निरूप्य च सभटाकौतुकम्।) सखे, पश्य पश्य । न्यञ्चन्यञ्चद्धरित्रीधृतचरणभरश्चन्द्रहासैकष्टि- ावल्गद्योगपद्योत्सुकसकलभुजाक्रान्तदिक्चक्रवालः । क्रोधवराक्षिरक्तोत्पलरचितवियत्तोरणसजि बिभ्र- द्वक्त्राणि प्रत्यनीकप्रसरसरमसो निर्जिहीते दशास्यः॥२८॥ हेमाङ्गदः-(निर्वर्ण्य ।) अहो, दृष्टचरमप्यस्य सानामिकमोजा- यितमयातयाममिव भीषयते । सखे रत्नचूड, इति च पाठयोरपहसितुमुत्क्षेप्नुमिति वार्थः । अर्हसि । हे हेमाङ्गद इति शेषः । दक्षिणेन प्रवेशेन विभज्यते विभागवान्भवति । कर्मकर्तरि तङ् । न्यञ्चदिति । दशास्यो निर्जिहीते निर्गतो भवति । लङ्कात इति शेषः । कीदृशः । क्रोधेन क्रूराणि भयानकान्यक्षीण्येव रक्कोत्पलानि तै रचिता निर्मिता वियत्याकाशे तोरणस्रजो यैस्ता- दृशानि मुखानि बिश्रद्दधत् । पुनः कीदृशः । न्यश्चन्ती अत्यर्थं निम्ना भवन्ती या धरित्री पृथिवी तस्यां धृतश्चरणभरो येन सः । रावणस्य चत्वारि चरणानीति रामायणम् । चन्द्रहासो रावणखड्गस्तत्रैका दृष्टिर्यस्य सः । व्यावल्गन्त इतस्ततश्व- लन्तो योगपद्येनैकदैवोत्सुका उत्कण्ठिताश्च ये सकला भुजा विंशतिबाहवस्तै- राक्रान्तं दिक्चक्रवालं दिमण्डलं येन सः। प्रत्यनीकं शत्रुसैन्यं तत्र प्रसरणं गतागतं तत्र रभसो यस्य सः । 'चक्रवालं तु मण्डलम्' इत्यमरः । दृष्टचरं पूर्वदृष्टम् । सानामिकं सङ्ग्रामाय भवति । 'तस्मै प्रभवति संतापा- दिभ्यः' इति ठक् । ओजायितमोजखिता । प्रागल्भ्यमिति यावत् । क्य सलोपश्च । अयातयाममिवेति । जीर्ण परिभुक्तं च यातयामम् । तदितरत् । अन- नुभूतमिवेत्यर्थः । 'यज्जीणं परिभुक्तं च यातयामं तदुच्यते' इत्यमरः । भीषयते । । । । १. 'प्रतिष्ठापित-'.२. 'कथमत्र'. ३. चित्तः'.
२८८ काव्यमाला। मरुत्वद्दम्भोलिक्षणघटितघोरश्वयथुना निसर्गोदरेण प्रसभमुरसा पीतगगनः । श्रियं देवद्रीची निजभुजवनोदामकरिणी- मयं कुर्वन्वीरः स्मरसि कथमासीद्दशमुखः ॥ २९ ॥ रत्नचूड:--सखे, किमुच्यते । महतामप्युपरि किमप्ययं रावणः । एनं कल्पतरूद्भवैरसुकरव्याजैः सदा भूषणै- रारानोति सुराधिपः किमपरं दीनो नदीनां पतिः । दण्डाधिक्यभयात्कथंकथमपि स्कन्धोपनेयान्मणी- नप्यस्सै परिशोधयत्यैपदिशन्निःसंपदः खाकरान् ।। ३० ॥ हेमाङ्गदः-(सभयम् ।) कथमयं परापतित एवासमसमरहेर्षहेष- त्रासयति । 'भीम्योर्हेतुभये' इति तङ् । 'भियो हेतुभये षुक्' । मरुत्वदिति । अयं रावणो देवद्रीची देवगामिनीं श्रियं प्रसभं हठेन निजभुजवनोद्दाम करिणीं कुर्व- न्कथमासीदिति स्मरसि । उरसा हृदयेन पीतमाच्छादितं गगनं येन तादृशः । कीदृशेन । निसर्गोदरेण खभावतो विशालेन । मरुलत इन्द्रस्य दम्भोलिना वज्रेण क्षणं घटितो घोरो महाश्वयथुः 'शोथ' इति प्रसिद्धो यत्र तादृशेन । श्वयथुरिति 'टु ओश्वि गतिवृद्ध्योः' । 'वितोऽथुच्' । एनमिति । सुराधिप इन्द्रः कल्पतरू- द्भवैरत एवासुकरव्याजैः । कल्पतरूणां यथेष्टप्रदत्वात् । भूषणैरलंकरणैः सर्वदा एनं रावणमाराध्नोति सेवते । ननु भवतु नाम स्वाराज्यप्राप्त्यर्थ शक्रस्य तदाराधनं, जलरूपः समुद्रोऽपि तमाराध्नोतीत्याह--किमपरं किं च नदीनां पतिः समुद्रो दीनो दुःखितः खाकरान्निजोत्पत्तिस्थानानि निःसंपदो गतसंपत्तीनपदिशन्कुर्व- न्सन् , कथयन्निति वा, अस्मै रावणाय मणीन्परिशोधयति पूरयति । दण्डाधिक्य- भयात् । दण्डो दमस्तदाधिक्यत्रासात् । ये मनोज्ञास्ते दत्ता इदानीममनोज्ञानपि परिशोधयितुं दण्डः स्यादिति भावः । कीदृशान्मणीन् । कथंकथमपि महता कष्टेन, स्कन्धैर्बाहुमूलैर्वाजिभिर्वोपनेयानुपनतीकर्तुं शक्यान् । अतिस्थूलानित्यर्थः । 'स्कन्धो । - १. अपि दिशन्'. २. 'सहर्ष-'.
६ अङ्कः] अनर्घराघवम् । २८९ माणवनायुजवाजिनिवहवितीर्णकीनाशकासरकर्णज्वरेण प्रजविना रथेन कार्मुकपाणिर्महावीरः । रत्नचूड:-(सभयाद्भुतम् ।) कल्पान्तक्रूरसूरोत्करविकटमुखो मानुषद्वन्द्वयुद्ध- क्रीडाकण्डूयदूर्जखलसकलभुजालोकभूयोविलक्षः। संभूयोत्तिष्ठमानखपरबलमहाशस्त्रसंपातभीमा- मुर्वी गीर्वाणगोष्ठीगुरुमैदनिकषो नैकषेयः पिधत्ते ॥३१॥ हेमाङ्गदः-(सकौतुकम् ।) सखे, दक्षिणतः पश्य तावत् । अगस्त्याज्ञासद्यःशमितविपुलोच्छ्रायविषमा- नुदस्यन्तः सेतावलगितवतो विन्ध्यशिखरान् । वाजिभुजामूले समानायसमूहयोः' इति मेदिनीकरः। 'परिच्छिन्नं फलं यत्र स्कन्ध- स्कन्धेन दीयते । स्कन्धोपनेयं तं प्राहुः संधि मन्त्रविदो जनाः ॥' इति नीतिः । 'उत्पत्तिस्थानमाकरः' इति धरणिः । आपतितः समागतः । हेषमाणः शब्दविशेषं कुर्वन् । वनायुर्देशविशेषः । तत्र भवा वनायुजा अश्वविशेषाः । कीनाशो यमः। 'कीनाशः कर्षके क्षुद्रे कृतान्तोपांशुघातिनि' इति विश्वः । कासरो महिषः। 'ललायो महिषो वाहद्विषत्कासरसैरिभाः' इत्यमरः । कर्णज्वरः श्रवणव्याधिः। प्रजविनाति- वेगवता । कल्पान्तेति । नैकषेयो निकषापुत्रो रावणः । संभूय मिलित्वा । उत्तिष्ठ, मान आक्रममाणो यः खबल आत्मबलः शत्रुबलस्तयोर्महाशस्त्रसंपातेन भयानकामुर्वी पृथिवीं विधत्त आच्छादयति । 'अपिधानतिरोधानपिधानाच्छादनानि च मरः । कीदृशः । कल्पान्ते प्रलयकाले क्रूरो भयंकरो यः सूरोत्करः सूर्यसमूहस्त- द्वद्विकटं विकरालं मुखं यस्य सः। मानुषद्वन्द्वयुद्धक्रीडया कण्डूयन्त ऊर्जखला बलवन्तश्च ये सकलभुजास्तेषामालोकनेन भूयोविलक्षोऽत्यन्तविलक्षः। द्वन्द्वयुद्ध- मेकतुलायुद्धम् । कण्डूयन्त इति 'कण्ड्वादिभ्यो यक्' । उत्तिष्ठमान इति 'उदोऽ- 'नूर्वकर्मणि' इति तङ् । निकषो घर्षणप्रस्तरः । दक्षिणतो दक्षिणस्यां दिशि । दक्षिणोत्तराभ्यामतसुच्' । अगस्त्येति । कपयो वानराश्चपलं यथा स्यादेवमप- १. 'महारथः', २. 'भटनिकषः'. ३. 'कैकसेयो विधत्ते'... १९ अ० रा० २९० काव्यमाला। हेमाङ्गदः- शिरःसंख्यासत्याकृतदशमुखालोकरभसा- दुपेत्यातित्रस्ताश्चपलमपसर्पन्ति कृपयः ॥ ३२ ॥ रत्नचूड:-(दृष्ट्वा सहासम् ।) शस्त्रीकृतान्कपिभिरापततो मुदेव विक्रम्य चन्दनतरून्दधते पलादाः । तत्सङ्गिनस्तु भुजगाः क्षणपाशबन्ध- दुःखासिकामवयवेषु दिशन्त्यमीषाम् ॥ ३३ ॥ (विहस्य ।) इतोऽपि तावत् रक्षःस्वयंवरविडम्बपराङ्मुखीभिः पुष्पोत्करे सुरवधूभिरनुज्झितेऽपि । शस्त्रीकृतेन तरुणा हरिणा हतोऽसौ नक्तंचरः खपिति तत्कुसुमावकीर्णः ॥ ३४ ॥ रत्नचूड:-(चिरं विभाव्य ।) सखे, पश्य पश्य । खतनुरुचिभिर्दीर्घाह्रीं द्यामितः सृजतां निजै- रथ विदधतः कायाभोगैरकाण्डतमखिनीम् । सर्पन्त्यपगच्छन्ति । कीदृशाः । उपेत्य समीपं गत्वा शिरःसंख्यया सत्याकृतो ज्ञातो दशमुखस्तस्यालोकरभसादतित्रस्ताः सभया विन्ध्यशिखरानुदस्यन्त उरिक्ष- पन्तः । कीदृशान् । अगस्त्याज्ञया सद्यःशमितः सकल उच्छ्राय उन्नतिस्तेन विष- मान् । सेतावलगितवतोऽलनान् । सत्याकृतेत्यत्र 'सत्यादशपथे' इति डाच । श- स्त्रीकृतानिति । कपिभिः शस्त्रीकृताननन्तरमापतत आगच्छतश्चन्दनतरून्मु- दैव हर्षेणैव विक्रम्योत्लुत्य पलादा राक्षसा दधते धारयन्ति । तत्सङ्गिनश्चन्दनवृक्षा. श्रिता भुजगाः सर्पा अमीषां राक्षसानामवयवेषु करादिषु वेष्टनात्क्षणं पाशव न्धदुःखासिकां दुःखावस्थितिं दिशन्ति कुर्वन्ति, प्रयच्छन्ति वा। विडम्बस्ति- रस्कारः । सुरवधूभिर्विद्याधरीभिः । हरिणा वानरेण का तरुणा करणेनः हतः । तत्कुसुमेन शस्त्रीकृतवृक्षपुष्पेणावकीर्णश्छन्नः । खतन्विति । अमी १. 'मुदैवम्'. २. सहासम्'.
६ अङ्क:] अनर्घराघवम् । २९१ दधति नितरामुद्दीमाणामपश्चिदुरथियो हरिहुतभुजां धूमच्छायाममी रजनीचराः ॥ ३५ ॥ हेमाङ्गद:-(सस्मितम् ।) सखे, पश्य पश्य । किमपि कपयः कर्माश्चर्य महातरुशस्त्रिणो विदधति यथा दिक्कूलेभ्यस्तथापसरन्त्यमूः । ध्रुवमवपतद्रक्षःश्रेणीविमुक्तनभोन्तर- प्रतिभरणिकानिःस्थामानो दशाननकीर्तयः ।। ३६ ॥ रत्नचूड:-(ससंभ्रमम् ।) अहह, दारुणमुपस्थितम् । रक्षोनिपिष्टकपिमुक्तमहीध्रचूर्ण- पूर्णान्तरामिरिषुवृष्टिभिरुज्जिहानः । रजनीचरा राक्षसाः हरय एव वानरा एव हुतभुजोऽग्नयः । तेषां लोहितमु- खत्वात् । तेषां धूमच्छायां दधति धारयन्ति । कृष्णवर्णत्वाद्रक्षसाम् । वानरा भूमिष्ठा राक्षसा उपरिवर्तिनस्तथा दृश्यन्त इति भावः । कीदृशानाम्। नितरामत्यर्थे- नोद्दीप्राणामुद्दीप्तिशीलानाम् । रजनीचराः कीदृशाः । छिदुरा भङ्गुरा श्रीर्येषां ते । धूमोऽपि भङ्गुरश्रीक एव भवति । किमपीति । कपयो वानराः किमप्यनिर्वच- नीयमाश्चर्यमद्भुतं कर्म तथा विद्धति यथामूर्दशाननकीर्तयो दिकूलेभ्योऽपसरन्ति पलायन्ते।त्रुट्यन्तीति यावत्।ध्रुवमुत्प्रेक्षायाम् । अवपतन्त्या अधःपतन्त्या रक्षःश्रेण्या विमुक्तं त्यतं यन्नभोन्तरमाकाशमध्यं तस्य प्रतिभरणिकया प्रतिभरणेन निःस्था- मानो बलशून्याः। क्षीणा इत्यर्थः । स्थाम बलम् । शुन्यदेशस्य प्रतिभरणं युज्यत एव । तथा च रावणकीर्तयो नभोमध्यस्य रक्षोव्याप्तत्वाद्दिशामन्ते स्थिताः । अन- न्तरं नभोमध्यस्थरक्षोविनाशेन पुनर्दिगन्तान्नभोमध्य एव स्थिता इति भावः । अहह खेदे । दारुणं भीषणम् । रक्ष इति । लङ्काधिपः किमप्यनिर्वचनीयं संत- मसं विश्वव्यापकं भयम् , अथ च गाढान्धकारं तनोति विस्तारयति । रोषाहा- साभ्यां येऽग्निप्रसरास्तैस्तडित्त्वान्दीप्तिमान् । अथ च लङ्काधिपस्तडित्त्वान्मेघ इति व्यस्तरूपकम् । रक्षसा निपिष्टा ये कपिमुक्तमहीध्रास्तेषां चूर्णेन रजसा पूर्णमन्तर- १. 'उद्दीप्तानाम् २. 'अथ'. । । ।
२९२ काव्यमाला। रोषाहासदहनप्रसरैस्तडित्त्वां- लाधिपः किमपि संतमर्स तनोति ॥ ३७॥ हेमाङ्गदः-(क्षणं निर्वर्ण्य ।) अहो, क्षुरैरपि संभूय भूयोभिरेको महान्सुकरः कदर्थयितुम् । यतः । दृप्यदिक्पालवन्ताबलबहलमदावग्रहोग्राभिरक्ष्णां ताराभिर्दीप्यमानं दिशि विदिशि दशग्रीवमुद्रीवयन्तः । एते निःशेषसेतुप्रथनसमधिकैः शस्त्रिणः शैलपादै- रुदामानः कपीन्द्रा रजनिचरपुरीमुत्तरेण प्लवन्ते ॥ ३८ ॥ रत्नचूड:-(सविषादम् ।) हन्त महद्विषममिव पश्यामि । यदमी निष्कृपकृपाणपाट्यमानप्रतिभटविकटोरःकपाटकण्टकितकपोलभित्तयः संतानपातिनीभिरनीकरुधिरधाराभिरतिप्रवृद्धवीरपाणगोष्ठीमहोत्सवाः स- मन्तादभिद्रवन्ति यातुधानाः प्लवंगमयूथपतीन् । मवकाशो यासां ताभिर्वाणवृष्टिभिरुजिहान उद्गच्छन् । प्रभवन्निति यावत् । अन्योऽपि मेघोऽन्धकारं वृष्टिं च तनोतीति भावः । संभूय मिलित्वा । भूयोभि. बहुतरैः । कदर्थयितुं पीडयितुम् । दृप्यदिति । एते कपीन्द्रा रजनिचरपुरी लङ्कामुत्तरेण प्लवन्ते गच्छन्ति । शैलानां पर्वतानां पादैः प्रत्यन्तपर्वतैः शस्त्रिण: शस्त्रयुक्ताः । अत एवोद्दामानः प्रबला दिशि विदिशि दशग्रीवमुद्रीवयन्तः । उद्गता चासौ ग्रीवा उद्रीवा तया पश्यन्तः। 'कर्तृकरणाद्धात्वर्थे' इति णिच् । यद्वा उद्रीवं कुर्वन्ति । कीदृशम् । दृप्यन्तो ये दिक्पालदन्तावला दिग्दन्तिनस्तेषां प्रचुरमदानामवग्रहे दृष्टिप्रतिबन्धे उग्राभिरक्ष्णां ताराभिर्गोलकैर्दीप्यमानम् । प्रथनं निर्माणम् । समधिकमुद्वृत्तम् । उत्तरेणेति अव्ययोऽयम् । 'एनबन्यतरस्यामदूरे पञ्चम्याः' इत्येनम् । रजनिचरपुरीमिति 'एनपा द्वितीया' इति द्वितीया । 'पादाः प्रत्सन्तपर्वताः' इत्यमरः । विषमतुल्यमन्यादृशम् । कृपाणः खड्गः। प्रतिभटः ३. 'प्रतिभटोर, प्रतिभटविकटोर। १. 'दशन-. २. 'लङ्कापतिः'. ४. 'संतत'. ५. 'प्रधानयूथपतीन्'.
६ अङ्कः] अनर्घराघवम् । हेमाङ्गदा-(सहर्षम् ।) सखे, कृतं विषादेन । यदेषः- दशमुखशरपीडितापयानोद्यमपरिपुच्छयमानवानराणि । सरभसममिसान्त्वयन्बलानि द्विषमभियोधयति प्लवंगराजः ॥३९॥ रत्नचूड:-(दृष्ट्वा संखेदहासाद्भुतम् ।) अहह, अस्त्राणि प्लवगाधिपेन विहिताः पौलस्त्यवक्षःस्थली- संघट्टानलदत्तदावविपदः सीदन्ति भूमीरुहाः । उत्पाट्य प्रहितश्च शैलशिखरो लकेन्द्रहस्तावली- निष्पिष्टो निजकुञ्जनिझरजलैर्जम्बालपिण्डायते ॥ ४० ॥ हेमाङ्गदः-(विहस्य ।) सखे, दशकंधरमधिकृत्य न किंचिदेतत् । तथैतेनोद्धृत्य स्फटिकशिखरी सोऽपि विदधे समन्तादामूलत्रुटितवसुधाबन्धविधुरः । अमुं येनाद्यापि त्रिपुरहरनृत्यव्यतिकरः पुरस्तादन्येषामपि शिखरिणामुल्ललयति ॥ ४१ ॥ शत्रुयोधः । कण्टकितो रोमाञ्चितः । संतानपातिनीभिरनवच्छेदपतनशीलाभिः । अनीकं सैन्यम् । 'युद्धे यत्क्रियते पानं वीरपाणं तदुच्यते' इति हारावली। अभि- द्रवन्यभिमुखं धावन्ति । कृतं निष्फलम् । 'कृतं क्लीबं तु निष्फले' इत्यमरः । अपयानं पालयनम् । परिपुच्छयमानः पुच्छं पर्यस्यन् । इतस्ततो नयन्नित्यर्थः । 'पुच्छभाण्डचीवराण्णि' । अभिसान्त्वयन्प्रियवचनेनोत्साहयन् । अभियोधयत्य- भिमुखं संप्रहारयति । प्लवंगराजः सुग्रीवः । अहहेत्याश्चर्ये । प्लवगाधिपेन वान- रेश्वरेण सुग्रीवेणास्त्राणि विहिता भूमीरुहा वृक्षाः पौलस्त्यवक्षःस्थलीसंघटेन जातो योऽनलस्तेन दत्ता दावविपदो वनाग्निविपत्तयो येषु तादृशाः सन्तः सीदन्त्यवसन्ना भवन्ति । निजशब्दोऽत्र शैलवाचकः । जम्बालः कर्दमः । तथेत्यादि । एतेन रावणेन सोऽपि स्फटिकशिखरी कैलासस्तथोद्धृत्य समन्तात्सर्वत आमूलं त्रुटितो यो वसुधाबन्धस्तेन विधुरो विकलो विदधे । यथान्यगिरीणां मध्ये पुरस्तात्प्रथम १. 'सखेदाद्भुतम्'. २. 'शस्त्राणि'. । ३. 'तटी'.
विन्यासे लिपिलिबिरुमे स्त्रियो काव्यमाला। किं च तर्कयामि। शस्त्रीकृतस्तरुवरो हरिपुंगवेन लङ्केन्द्रवक्षसि मृणालमृदुः पपात । तत्रस्थितैस्तु कुसुमैः कुसुमेषुरेनं सीतावियोगविधुरं दृढमाजघान ॥४२॥ रत्नचूड:-(विहस्य ।) सखे, किमुच्यते महासत्त्ववतामुपरि खल्वसौ रावणः । तथा हि। स्वेषूत्कृत्य हुतेषु मूर्धसु जवादग्नेः स्फुटित्वा बहि- ाकीर्णेष्वलिकेषु दैवलिपिभिदृष्ट्वापि रामायणम् । चित्तेनास्खलितेन यस्तदधिकं ब्रह्माणमप्रीणय- कस्तमै प्रथमाय मानिषु महावीराय वैरायते ॥ १३ ॥ हेमाङ्गदः-सखे, पश्य पश्य भयानकमद्भुतं च वर्तते । विशिखौघविकीर्णगण्डशैले तरुसंचूर्णितशक्तितोमरे च । कपिराक्षसराजयोरजस्रं तुमुले भान्ति तलातलिपंपञ्चाः ॥१४॥ हरनर्तनक्रमोऽमुमेव कैलासमुल्लयति चालयति । यद्वान्यगिरीणां पुरस्तादने हरनृत्यक्रमोऽमुमेव चालयति । आमूलत्रुटितवसुधाबन्धविधुरत्वात् । कैलास एवं चलति नान्ये केचन पर्वता इति भावः । हरिपुंगवेन सुग्रीवेण । लङ्केन्द्रो रावणः । तत्रस्थितै क्षस्थितैः । कुसुमेषुः कामः । एनं रावणम् । विधुरं दुःखितम् । आज- घान हन्ति स्म । आङो यमहनः' इति न तङ् । अखाङ्गकर्मकत्वात् । खेष्विति। उत्कृत्य च्छित्त्वा । अग्नेः सकाशाजवाद्वेगात्स्फुटिता बहिाकीर्णेषु विस्तृतेष्वलि- केषु ललाटेष्वाधारेषु दैवलिपिभिर्दैवाक्षरै रामायणं रामेण रावणवधं दृष्ट्वापीय- न्वयः । अस्खलितेन निर्विकारेण । तदधिकं पूर्वस्मादप्यधिकं यथा स्यादेवम् । अप्रीणयत्प्रीतमकरोत् । प्रथमायाद्यभूताय । मानिष्वभिमानिषु । वैरायते वैर करोति । 'शब्दवैर-' इति क्यषु ( क्यङ्)। 'वा क्यषः' इति तङ् । तस्मै इति 'क्रुधगृह-' इति संप्रदानत्वम् । 'ललाटमलिकं गोधिः' इत्यमरः । “लिखिताक्षर- इति त्रिकाण्डशेषः। विशिखौघेत्यादि । पद्यपूर्वार्धपदद्वयं कपिराक्षसराजयोरि- १. 'महासत्त्वतायां रावणः खवयम्', 'महासखवतामुपरि रावणः खल्वसौ. । । २. महारा' ६ अङ्कः] अनर्धराघवम् । २९५ नूनमिदानी श्वासोर्मिप्रतिबन्धतुन्दिलगलप्रच्छिन्नहारावली- रनैरापतयालुभिः कृतफणप्राग्भारभङ्गभ्रमः । श्रोत्राभावनिरन्तरालमिलितैः स्तब्धैः शिरोभिर्भुवं धत्ते वानरवीरविक्रमभराद्भग्नैर्भुजंगाधिपः॥ ४५ ॥ (सविषादम् ।) अहह, बाहुयन्त्रेणापीड्य वानरराजं सुग्रीवं किमाह रावणः । अंसद्बाहुवनान्दोलसुलभं फलमाप्नुवन् । नियुद्धलाघवक्लान्त शाखामृग सुखी भव ॥ १६ ॥ रत्नचूड:-(सहर्षम् ।) सखे, करणकौशलमोचितात्मा विपक्ष- दुर्वचनत्रुट्यमानहृदयो हृदयंगममभिदधाति वानरेन्द्रः । त्यस्य प्रत्येक यथाक्रम सप्तम्येकवचनान्तं विशेषणम् । विशिखो बाणः । विकीर्णो विक्षिप्तः । 'गण्डशैलास्तु च्युताः स्थूलोपला गिरेः' इत्यमरः । शक्तिरस्नमेदः । तोमरः शस्त्रभेदः । तुमुलं संकुलरणः । तलश्चपेटः । तलैश्च तलैश्च प्रहृत्येदं युद्ध प्रवृत्तं तलातलि । 'तत्र तेनेदमिति सरूपे' इति समासः । 'इच्कर्मव्यतिहारे' इतीच्। 'अन्येषामपि दृश्यते' इति दीर्घः । तस्य प्रपञ्चा विस्ताराः। श्वासोरुति । भुजंगाधिपः सर्पराजो वानरवीरविक्रमभरांत्सुग्रीवपराक्रमातिशया नैर्नः शिरो- मिर्मस्तक वं पृथिवीं धत्ते । शिरोभिः कीदृशैः। श्रोत्रं कर्णस्तस्य विरहात् । सर्पस्य चक्षुःश्रवस्त्वात्कर्णाभावस्ततो निरन्तरालमन्तरालशुन्यं मिलितैरत एव स्तब्धैश्च । शेषस्य सहस्रफणत्वाद्बहुवचनम् । भुजंगाधिपः कीदृशः । श्वासोर्मि: श्वासपरम्परा तस्याः प्रतिबन्धेन निरोधेन तुन्दिलादुच्छूनाद्गलात्प्रच्छिन्ना त्रुटिता या हारावली तस्या रनैः कृतो धृतो वा फणानां यः प्राग्भारो विस्तारः, शिखरं वा, तद्भङ्गस्यं भ्रमो येन तादृशः। आपतयालुभिः समन्तात्पतनशीलैः । 'स्पृहि- गृहि-' इत्यादिना आलुच् । आन्दोल आरोहणम् , कम्पनं वा । 'नियुद्धं बाहुयुद्धे १. 'विक्रमभराभुनो'. २. वानरराजम्' इति पुस्तकान्तरे नास्ति. ३. दशग्रीवः'. ४. 'असद्धाह' इत्यादिश्लोकात्पूर्व पुस्तकान्तरे 'अनुवदति' इत्यधिकमस्ति. - २९६ काव्यमाला। विंशत्या युगपत्क्षमैरपि भुजैराकर्षणच्छेदयो- रैच्छिन्नं दशमं शिरः कथयति च्छिन्नानि यानि क्रमात्। तान्याराद्धमहेश्वराणि भवतः शीर्षाणि तुल्यं दश- च्छिन्दानो दशभिर्नखैयदि पुनः शाखामृगेन्द्रः सुखी ॥१७॥ अपि च रे रे राक्षस, दशमुखवधनाट्यसूत्रधारो रघुपतिरस्य च पारिपार्थकोऽहम् । प्रकरणफलबीजभावकानाममृतभुजां समुपाखहे समाजम् ॥ १८ ॥ स्यात्' इत्यमरः । करणं शरीरसंकोचादि । विपक्षो रावणः । हृदयंगमं मनोहरम् । विशत्येति । तव विंशत्या भुजैर्युगपदेकदा क्षमैः समर्थैरप्यच्छिन्नं दशमं शिरः कर्तृ यानि शिरांसि क्रमाच्छिन्नानि कथयति तानि तव दश शीर्षाणि तुल्यमेकदैव दशभिनखैश्छिन्दानः शाखामृगेन्द्रः सुग्रीवो यदि सुखी तदा सुखी । तव शिर- श्छेदनं विना नाहं सुखीत्यर्थः । इह विंशतिशब्द एकवचनान्त एव तावत्संख्या- माह । भुजशब्दस्तु बहुवचनान्त इति तथैव सामानाधिकरण्यम् । कीदृशानिः । आराद्धः सेवितो महेश्वरो यैस्तानि । रे इति नीचसंबोधने । दशमुखेति । दशमुखवध एव नाव्यं नृत्यं तस्य सूचना तद्धारयति । अथ च नाव्ये सूत्रधारो भवत्येव । पारिपार्श्वकः परिपार्ववर्ती । अथ च सूत्रधारद्वितीयः । अमृतभुजां देवानां समाजं सभामावां समुपाखहे उपासनाविषयं कुर्वः । कीदृशानाम् । प्रकृष्टं करणमुत्फालस्तस्य फलं मूर्छादि, बीजं दर्पवचनादि, तेषां भावकानामनुभावका- नाम् । अथ च नाट्ये प्रकरणं रूपक दस्तस्य फलं कार्य बीजं नाट्यबीजं तद्भाव- कानां प्रकाशकानाम् । अमृतमिवामृतं सरसं नाव्यं तद्भुजां तदनुभवितृणाम् । काव्यरसशालिनामिति यावत् । समाज सूत्रधारपारिपार्थकावुपासाते इति ध्वनिः । सूत्रधारलक्षणं प्रागेव लिखितम् । 'सूत्रधारेण सहितः संलापं प्रकरोति यः । सूत्र- धारसमो वापि स भवेत्पारिपार्श्वकः ॥ इति भरतः। 'आत्मशक्त्या कवियत्र कथां नायकमेव च । औत्पादिकं प्रकुरुते तद्धि प्रकरणं विदुः ॥' यथा मालतीमाधवम् । १. “अहिन्दन् .. २. 'ससुपासहे.
६ अङ्कः] अनर्घराघवम् । इत्यभिदधानेनैवोत्प्लुत्य निर्दयं शिरसि ताडितो रथध्वजदण्डावलम्बी कथंचिदाश्वसिति रावणः । (सर्वतोऽवलोक्य सहर्षम् ।) सखे, पश्य पश्य । यन्माल्यग्रथनावशेषविकलैः संतानकै किनां भर्ने गैर्भगमेव दाम निर्भूतं खर्मालिकैर्गुम्फितम् । तस्मिन्नद्य दशास्यमूर्धनि नवप्रस्तावनामापदां पश्यन्तो रभसौषभर्सितभियः क्रोशन्ति नः स्यन्दनाः ॥४९॥ हेमाङ्गदः-(सविषादम् ।) अहह, सोऽप्याश्वस्य दशकण्ठेनापि मुष्टिना ताडितो मूछितः कपीन्द्रो नीलहनूमद्भयामाश्वस्यमानोऽप- सार्यते। रत्नचूड:-सखे, प्रधनस्य "हि प्रथमे पर्वणि शतकृत्वो विज- ज्यन्ते पराजीयन्ते च वीराः । तत्र को विषादः। यन्माल्येति । रभसौघेन हर्षातिशयेन भत्सिता तिरस्कृता भीभयं येषां तादृशाः सन्तो नोऽस्माकं स्यन्दना रथाः, तात्स्थ्यात्तदारोहा वा, कोशन्ति शब्दं कुर्वन्ति । कीदृशाः । तस्मिन्नपि दशास्यमूर्धनि आपदां विपत्तीनां नवप्रस्तावनां नूतनविभा- वनां पश्यन्तः । यस्य मूनों माल्यं माला तद्थनादवशेषास्त्यकाः अत एव विकलाः कीटादिविद्धा ये तैः संतानकैः पुष्पभेदैर्नाकिनां भत्रे इन्द्राय गर्भगं केशमध्यगतमेव दाम माला निभृतं गुप्तं यथा स्यादेवं रावणभयात्स्वालिकैर्देवमा- लाकारैर्गुम्फितं अथितम् । एतादृशस्यापि रावणस्यापदं पश्यतां क्रोशनं युक्तमेव । 'केशमध्ये तु गर्भकम्' इत्यमरः । भनें इति तादर्थ्य चतुर्थी । मुष्टिनेति 'मुष्टि- द्वयोः' इत्यमरात्पुंलिङ्गता । आश्वास्यमानो जलादिनाश्वास कार्यमाणः । अपसार्यते स्थानान्तर नीयते । प्रधनं युद्धं तस्य प्रथमपर्व आद्योत्सवः। 'प्रधनं रणनाशयोः' इति विश्वः । शतकृत्वः शतवारान् । 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुन्। १. 'इत्यभिधायानेन'. २. गर्भकम् .. ३. 'निभृतैः'. ४. 'सोऽपि' इति पुस्तकान्तरे नास्ति.. 'हि' इति पुस्तकान्तरे नास्ति. ६. 'महावीरा'.
२९८ काव्यमाला । हेमाङ्गदः-(अन्यतोऽवलोक्य ।) सखे रत्नचूड, दिष्ट्या वर्धसे यदय- सुनुप्राप्तः कुशिकसुतसपर्यादृष्टदिव्यावतो भृगुपतिसहयुध्वा वीरभोगीणबाहुः । दिनकरकुलकेतुः कौतुकोत्तानचक्षु- बहुमतरिपुकर्मा कार्मुकी रामभद्रः ॥ ५० ॥ रत्नचूड:-(सहर्ष राममवलोक्य रावणं प्रति ।) राक्षसराज, बालेनापि विलूनधूर्जटिधनुःस्तम्भेन बाहूष्मभि- येन खेदयता मनोहरमृजूचक्रे मुनिर्भार्गवः । संप्राप्तो रघुनन्दनः किमपरं तेनाधुना नेष्यते धन्यो वालिसमानकर्तकवधश्लौघातिभूमि भवान् ॥५१॥ दिष्ट्येति हर्षाभिव्यञ्जकम् । वर्धसे साभ्युदयोऽसीत्यर्थः । कुशिकसुतेति । सपर्या सत्कारः । तत्रं शास्त्रम् । भृगुपतिः परशुरामः तेन सहयुद्धा सहयुद्धवान् । 'सहे च' इति कनिषु । वीरभोगाय योग्यो वीरभोगीणः । 'आत्मन्विश्वजन- भोगोत्तरपदात्खः । कुमति च' इति णत्वम् । केतुः पताका चिहं वा । 'केतु- श्चिह्नपताकयोः' इति विश्वः। उत्तानं विकसितम् । बहुमतं स्तुतं रिपौ कर्म युद्धा. दिव्यापारो यस्य सः । छलतो रावणं स्तुवन्रामस्तुतिमाह-बालेनापीति । येन रामेण बाहूष्मभिर्बाहुबलैः स्वेदयता खेदं कुर्वता मनोहरं यथा स्यादेवं भार्गवो मुनिः ऋजूचक्रे । अवक्रः । सरल इति यावत् । कृतः । अन्यदपि वंशाद्यनृजु वहिखेदनादृजूक्रियत इति ध्वनिः । बालेनापि न तु समर्थेन विलूनो भग्नो धूर्ज- टेमहादेवस्य धनुःस्तम्भो येन तादृशेन । सोऽयं रघुनन्दनः संप्राप्तः । तेन रामे- शाधुना संप्रति भवान्रावणो वालिनि वालिविषये समानः कर्ता यस्य स समानकर्तृ- कवधस्तेन करणेन श्लाघातिभूमिं स्तुतिप्रकर्ष नेष्यते प्रापयिष्यते यतोऽतस्त्वं धन्योऽसीत्यर्थः । तथा च भवदभिभवकर्तारं वालिनं यो हतवान्स त्वामपि हनि- ध्यतीति तव महती श्लाघेति भावः । यद्वा वालिवधेनैवात्मवधोऽपि त्वया ज्ञात- १. 'रामदेवः'. २.रे राक्षसराज'. ३. 'लाध्यातिभूमिम्'. ४. 'आस्वः'. - ब्रवीति रावणः। (कर्ण ६ अङ्कः] अनर्घराघवम् । २९९ हेमाङ्गदः-(सकौतुकम् ।) सखे, तूष्णीमाखहे तावत् । शृणुवः किं यत्कन्यामभिलष्यता निमिपतेर्न स्थाणवीयं मया दोलीलातुलितावतारितहरग्राव्णापि रुग्णं धनुः । तद्रक्ष्यन्त्यधुना कियन्तमवधिं यावद्भवानित्यमी देवेन्द्रद्विपदानदुर्दिनमिदो रौद्रार्चिषो मार्गणाः ॥ ५२ ।। (सविस्मयम् ।)कथमद्यापि तृणीकृतजगत्रयः स एवास्य तावानहंकारग्रन्थिः। रत्नचूड:--(सोत्प्रासस्मितम् ।) सखे,कथमिदमेव भवन्तं विस्मापयते । मानाध्मातः खां किलोत्कृत्य तावन्मूर्धश्रेणीमेकशेषोत्तमाङ्गः । स्त्रीमर्धाङ्गे वञ्चयित्वा मुखेन प्रीतः शंभोरेकपादे पपात ॥ ५३ ।। स्तथापि मानवशान सीता दत्ता न वा संधिः कृत इति मनखितया तवातिश्लाघेति भावः । तूष्णीमाखहे निर्वचनौ तिष्ठावः। यत्कन्यामिति । निमिर्जनकपूर्वपुरुषः। लत्पतेर्जनकस्य कन्यां सीतामभिलष्यतेच्छता मया यद्धनुर्न रुग्णं न भन्नं तत्र स्थाणवीयमैश्वरं तदिति हेतुः । न त्वशक्तिः । ईश्वरभक्तस्य मम न युक्तस्त- धनुर्भङ्ग इति भावः । स्वसामर्थ्य स्मारयति-दोलीलया बाहुक्रीडया तुलितोऽ. नन्तरमवतारितो हरग्रावा कैलासो येन तादृशेनापि । 'ग्रावाणौ शैलपाषाणौ' इत्य- मरः । तदधुना कियन्तं कालमवधि यावत् । अमी मम मार्गणाः । भवानिति द्रक्ष्यन्ति चिराय द्रष्टुं न शक्नुवन्ति । दर्शनावधिस्ते पूर्ण इति भावः । इतिशब्देना- व्ययेनोकत्वाद्भवच्छब्दान्न द्वितीया । देवेन्द्रद्विपस्यैरावतस्य यद्दानदुर्दिनं मदजल- वृष्टिस्तद्भिदस्तन्नाशकाः । रावणबाणदर्शनादेव ऐरावतस्य मदशोष इति भावः । 'कलम्बमार्गणशराः' इत्यमरः । कथमिदमेव विस्मापयत इति । किं त्वन्यदपीति बोषः। 'नित्यं स्मयतेः' इत्यात्वम् । 'भीस्म्योहे तुभये' इति तङ् । अपरविस्मय- हेतुमाह-मानाध्मात इति । किलेति वार्तायाम् । अयं रावणः खां मूर्धश्रेणी निजां मस्तकपङ्क्तिमुत्कृत्य च्छित्त्वा एकमद्वितीयं शेषमवशेषमुत्तमाझं शिरो यस्य तादृशः सन्नर्धाङ्गे वामाचे । अर्थान्महादेवस्य । स्त्री गौरी वञ्चयित्वा त्यक्त्वा १. 'सखे' इति पुस्तकान्तरे नास्ति. । । ।
काव्यमाला। (ऊर्ध्वमवलोक्य च सवितर्कम् ।) भगवतो दिवस्पतेरिव रथो दाशरथिमुप- तिष्ठते । । हेमाङ्गदः-(दृष्ट्वा सहर्षम् ) सखे, स एवायं किं न पश्यसि । लोचनमार्गसहस्रचन्द्रकस्तबकितमाहेन्द्रकवचहस्तो मातलिः । (क्षणं निर्वर्ण्य विहस्य च।) विविधमणिमयूखमञ्जरीभिः कृतसुरचापसहस्रसंनिपाते । अधिसमरमहारयद्विमाने निजमपि कार्मुकमत्र देवराजः॥५४॥ (आकाशे कर्ण दत्वा ।) किमाह रावणप्रतीहारः-अरेरे पुरुहूतसूत, दर्पोऽयं भवतः सुरासुरचमूदोःकाण्डकण्डूविष- ज्वालाजाङ्गलिकेन जङ्गलभुजां पत्यापि न त्याजितः । येनेन्द्रे स्थवर्मणीरघुशिशोरस्योपनीते त्वया राजद्विष्टमिदं विधाय स कथं शक्तोऽपि वर्तिष्यते ॥५५॥ शंभोरेकपादे पपात । मुखेन प्रीतस्तुष्टः । 'येनाङ्गविकारः' इति तृतीया । मानेना- ध्मातः सगर्वः । स्त्रीमिति 'वाम्शसोः' इतीयङो विकल्पात् । दिवस्पतेरिन्द्रस्य 'विभाषा खसृपत्योः' इत्यलुक् । 'षष्ठ्याः पतिपुत्र-' इति सत्वम् । उपतिष्ठते संगतीभवति । संगतिकरणे तत् । चन्द्रकं रन्ध्रस्तेन स्तबक्रितो गुच्छीकृतः। कवचः संनाहः । मातलिरिन्द्रसारथिः । 'सूतो मातलिः' इत्यमरः । विविधेति। देवराज इन्द्रोऽधिसमरं सङ्ग्रामे निजमपि कार्मुकं धनुरहारयत्प्रास्थापयत् । अत्र हेतुगर्भ विशेषणम्-कृतेति । उत्तमरत्नानां तेजोभिरिन्द्रधनुः क्रियत इति तदे- वोक्तम् । संनिपातः समागमः । अधिसमरमिति 'अव्ययं विभक्ति-' इत्यादिना विभक्त्यर्थेऽव्ययीभावः । देवयानं विमानोऽस्त्री' इत्यमरः । पुरुहूतसूत इन्द्रसारथे। काण्डः प्रकाण्डः । कण्डूतेजस्खदेव विषं तस्य ज्वालाया जाङ्गलिकेन विषवैद्येन जङ्गलं मांसम् । तद्भुञ्जते जङ्गलभुजो राक्षसाः । “विप् च' इति क्विम् । तेषां पत्या रावणेन येन हेतुना ऐन्द्रे इन्द्रसंबन्धिनी रथश्च वर्म च रथवर्मणी । वर्म संनाहः । उपनीते उपढौकिते। राज्ञो द्विष्टं द्वेषः । भावे क्तः । कथं वर्तिष्यते कथं १. 'महेन्द्र'. २. 'अरेरे' इत्यसात्पूर्व पुस्तकान्तरे 'अनुवदति' इत्यधिकमस्ति. । । । ।
Sasarta ६ अङ्क:] अनर्घराघवम् । रत्नचूड:-(श्रुतिमभिनीय ।) किमाह रामः-सत्यमिदं भोः । यच्छीलः खामी तच्छीलास्तस्य प्रकृतयः । यदेवमपि खामिनो मूलो- च्छेदिना दुर्नयेन विकस्थन्ते। हेमाङ्गद:-(आकाशे कर्ण दत्वा ।) किमाह रावणः-अरे ताप- सबटो, क्रोधेन ज्वेलिता मुहूर्तमनु च खैरेव निर्वापिताः क्लीबैरश्रुमहोर्मिभिर्मखभुजां पत्युः सहस्रं दृशः । यदृष्टा भुवनत्रयीविजयिभिः सर्वकषाः सन्त्यमी ते संप्रत्यपि मे नयापनययोनिर्वाहमूलं भुजाः ॥ ५६ ॥ रत्नचूड:-(कर्ण दत्त्वा विहस्य ।) किमाह रामः- छित्त्वा मूर्ध्नः किमिति स वृतो धूर्जटियद्यमीषां दोःस्तम्भानां त्रिभुवनजयश्रीरियं वास्तवी ते । स्थास्यति । रावणादिति शेषः । तस्यापि नाशहेतोरुपस्थितिरिति भावः । जाङ्गलिक इति । 'जाङ्गली विषविद्यायाम्' इति मेदिनीकरः । जाङ्गलीमधीते वेत्ति वा जाङ्ग- लिकः। अध्यात्मादित्वाञ् । 'जङ्गलं निर्जलस्थाने त्रिलिङ्गयां पिशितेऽस्त्रियाम्' इति मेदिनीकरः । प्रकृतयः परिजनाः । विकत्थन्ते श्लाघन्ते । आत्मानं प्रशं- सन्ति वा । विकत्थनमात्मप्रशंसेति शाब्दिकाः। क्रोधनेति। ननु पश्चानिर्वा- पिता निस्तेजीकृताः । क्लीबैर्विक्रमशून्यैः। ये जैरिन्द्रस्य सहस्रं दृशो दृष्टा इति संबन्धः । अपनयो दुर्नयः । नयानयसमर्था इत्यर्थः । मूलशब्दस्याजहल्लिङ्गतया भुजा इत्यनेन विशेषणविशेष्यभावः । मूलत्वं च सर्वेषां भुजानां साधारण्येनेति सामान्यविवक्षायामेकवचनता मूलमिति । ते संप्रतीति । तथा च तैरेव त्वामपि हनिष्यामीति भावः । छित्त्वेति । मूतॊ मस्तकानि छित्त्वा वृतः प्रार्थितः। सोल्लुण्ठ- माह-मूर्धानो वेत्यादि । न खलुशब्दोऽत्यन्तनिषेधे। नैवेत्यर्थः। जगतां शिल्पिनो १. 'सत्यम्' इत्यस्मात्पूर्व पुस्तकान्तरे 'अनुवदति' इत्यधिकमस्ति. एवमग्रेऽपि. २. 'प्रभुः'. ३. 'तदेवम्'. ४. 'मूलोच्छेदेन'. ५. 'ज्वलता'. ६. 'अपि च'.
३०२ काव्यमाला। M मूर्धानो वा न खलु भवतो दुर्लभाः संभवेयु- यद्देवस्य त्वमसि जगतां शिल्पिनोऽपि प्रपौत्रः ॥ ५७ ॥ यत्पुनर्ब्रवीषि 'संप्रत्यपि ते भुजाः सन्ति', इति तदधुनैव ज्ञास्यन्ते ।। हेमाङ्गदः-(कर्ण दत्त्वा ।) किमाह रावणः-अरेरे राजन्यडिम्भ, भवतः पुराणपितामहेन बहु तावदनरण्येनैव ज्ञातम् । इदानीं भवानपि ज्ञास्यति । रत्नचूड:-(कर्ण दत्त्वा विहस्यै ।) किमाह रामः अरेरे राक्षसीपुत्र, न दूये नः पूर्व नृपतिमनरण्यं यदवधी- र्जयो वा मृत्यु युधि भुजभृतां कः परिभवः । जितं तु त्वां कारागृह विनिहितं हैहयपतेः पुलस्त्यो यद्भिक्षामकृत कृपणस्तयथयति ॥ ५८ ॥ हेमाङ्गदः (कर्णं दत्त्वा ।) किमाह रावणः -आः क्षत्रियबटो वाचाट, कथमपूर्वशिल्पी रजनीचरेन्द्रचरितचन्द्रेऽपि लक्ष्म लिखसि । ब्रह्मणः । प्रपौत्रः प्रणप्ता । महादेवप्रीत्यर्थ [वा] भवता शिरांसि न च्छिद्यन्ते किं तु सुलभान्येवेति कृत्वा छिद्यन्त इति सोल्लुण्ठमुक्तिः। राजन्यडिम्भ क्षत्रियबालक । पुराणस्य पूर्वपुरुषस्य पितामहेन । अतिचिरपूर्वपुरुषत्वात् । अनरण्यनामा राजर्षी रामस्य पूर्वपुरुषः । स च रावणेन जितः । न दूय इति । न दूये न परितपामि । 'दुङ् परितापे' दिवादिः। नोऽस्माकं पूर्व पूर्वपुरुषमनरण्यनामानं यत्त्वमवधीहत- वानसि । कः परिभवः, अपि तु न कोऽपि । कारागारं बन्धनगृहम् । 'स्यात्कारा बन्धनागारबन्धयोः' इति मेदिनीकरः । यद्वा कारारूपं गृहं कारागृहम् । उक्तिपो- षोऽयमलंकारः । हैहयपतेः सहस्रार्जुनस्य भिक्षामकृत भिक्षा प्रार्थितवान् । करोतिः प्रार्थनार्थः । धातोरनेकार्थत्वात् । कृपणो दीनः, निन्दितो वा । 'कृपणः सननि- न्दितयोरपि' इति विश्वः । तयथयति तदतिपीडां जनयतीत्युपहासः। 'वाचाटो बहुगवाक्' इत्यमरः । लक्ष्म कलङ्कम् । अन्यस्मिन्नपि चन्द्रे लक्ष्म भवतीति ध्वनिः । तदयं न भवसि । तत्त्वं न भविष्यसीत्यर्थः । 'वर्तमानसामीप्ये १.. विहस्य इति पुस्तकान्तरे नास्ति. २.रेरे.. -- ।
। ६ अङ्कः] अनर्घराघवम् । ३०३ तदयं न भवसि । (ससंभ्रममवलोक्य ।) कथमुपक्रान्तमेव शरसहस्रदु- र्दिनं मन्दोदरीदयितेन । रत्नचूड:-कथं मैथिलीवल्लभेनापि प्रत्युपक्रान्तमेव । (विहस्य ।) पतन्ति रोमभद्रेण खण्डिता रावणेषवः । पूर्वार्धेः फलिभिवेगात्पश्चाधैः पक्षिमिश्चिरात् ।। ५९ ॥ किं च। अक्षेषु केतुदण्डे च सारथौ च हयेषु च । खेलन्ति राक्षसेन्द्रस्य स्यन्दने रामपत्रिणः ॥ ६०॥ हेमाङ्गद:-(सभयम् ।) अहह । अन्धकारीकृतव्योमा बाणवर्षेण रावणः । रामारूढं तिरोधत्ते शताङ्गं शातमन्यवम् ॥ ६१ ।। (चिरं दृष्ट्वा सविस्मयम् ।) सखे, नानाविधानि शस्त्राणि शस्त्रैर्नानाविधैरपि । इमौ हि प्रतिकुर्वाते न कश्चिदतिरिच्यते ॥ ६२ ॥ रत्नचूड:-एवमेतत् । यद्रावणो बहुभिरेष भुजैः करोति तद्राघवः प्रतिकरोति भुजद्वयेन । वर्तमानवद्वा' इति भविष्यति लट् । दुर्दिनमन्धकारो वृष्टिा । मन्दोदरी- दयितेन रावणेन । प्रत्युपक्रान्तमेवेत्सत्र शरसहस्रदुर्दिनमित्यनुकर्षणीयम् । इषुः काण्डः । फलिभि.हफलयुक्तैः । गौरवेण वेगात्पतनमिति भावः । पक्षिभिः पुख- युक्तैः । पर्वातावरुद्धगतित्वेन चिरात्पतनमिति भावः। अक्षेषु चक्रेषु । 'चक्रे कर्षे पुमानक्षः' इति मेदिनीकरः । यद्वाक्षेषु रथकीलकेषु । केतुदण्डे पताकादण्डे । खेलन्ति क्रीडन्ति । स्यन्दनो रथः । पत्रिणः काण्डाः । तिरोधत्ते आच्छादयति । - 'प्रक्रान्तमेव'. २. 'रामचन्द्रेण'. ३. 'पत्रिभिः'.४. 'पतन्ति'.
काव्यमाला। कर्म द्वयोर्यदपि तुल्यफलं तथापि रक्षोभटादशगुणं नरवीरशिल्पम् ॥ ६३ ।। हेमाङ्गद:-(विहस्य ।) सखे, विंशत्यापि भुजैरेष द्वौ भुजावभियोधयन् । अदूषितद्वन्द्वयुद्धमर्यादो दशकंधरः ॥ ६४ ॥ (सखेदभयं च ।) कथमयं रावणो माहेन्द्रस्यन्दनात् तस्यारिबलभीमस्य ध्वजदण्डस्य लाञ्छनम् । दर्पदीप्तः क्षुरप्रेण मायूरं पिच्छमच्छिनत् ॥ ६५ ॥ रत्नचूड:-(सहर्षम् ।) सखे, पश्य पश्य कुलिशकेतुकेतनविमा- ननाविलक्षक्रुद्धेन दिक्पालद्विपदर्पदानलहरीसौरभ्यगर्भानिलैः पक्षैरेव समस्तराक्षसकथाकल्पान्तकर्णेजपाः । दीयन्ते रघुपुंगवेन कतिचित्पौलस्त्यमौलिष्वमी पौलोमीनयनाम्बुसीकरकणावग्राहिणो मार्गणाः ॥ ६६ ॥ शताङ्गं स्थम् । 'शताङ्गः स्यन्दनो रथः' इत्यमरः । शतमन्युरिन्द्रः । 'तस्येदम्' इत्यण् । हिरवधारणे। इमावेवेत्यर्थः । प्रतिकुर्वाते प्रतीकारविषयाणि कुरुतः । द्वयो रामरावणयोः । कर्म किया । व्यापार इति यावत् । यदपि । यद्यपीयर्थः। 'वकः पन्था यदपि' इतिवत् । रक्षोभटो रावणः । स च विंशतिबाहुः । तस्माद्द- शगुणं रामशिल्पं रामस्य युद्धकौशलम् । बाहुद्वयेन बाहुविंशतः प्रतीकारादिति भावः । द्वन्द्वयुद्धमेकतुलायुद्धम् । तस्येति । मायूरं पिच्छं लाञ्छनं चिह्नमच्छि- नत् । दीप्तो दीपनशीलः । क्षुरप्रेण काण्डभेदेन । 'पिच्छबहें नपुंसके' इत्यमरः । कुलिशकेतुरिन्द्रस्तस्य केतनं चिह्नम् । विमानना छेदनम् । विलक्षो लजितः । दिक्पालेति । दिक्पालद्विपानां दिग्गजानां दर्पण दानलहरी मदराजिस्तस्याः सौरभ्यं सौगन्ध्यं गर्भे यस्य सोऽनिलो येषां तैः पक्षैः पुकैः राक्षसकथायाः कल्पा- १. 'विहस्य' इति पुस्तकान्तरे नास्ति. २. 'अरिभयभीमस', 'अरिमयभूतस्य', ३. 'अवमानवैलक्ष्य-', 'अवमाननाविलक्ष-'. । ।
६ अङ्कः] अनर्घराघवम् । हेमाङ्गदः-(सखेदाद्भुतम् ।) कथं किरीटपरम्परापरिभवममृष्यमा- णेन बाणवर्षाद्वैतमातन्वता राक्षसराजेन विदेहकन्याकुचकुम्भकोटिकठोरतासाक्षिणि सायकोऽयम् । रामस्य जन्मान्तरमेलकारश्रीकौस्तुभे वक्षसि हा निखातः ।। ६७॥ (सम्यगवलोक्य ।) सखे, एकेनैव निवातकङ्कटभिदा लङ्कापतेः पत्रिणा विद्धोऽयं यदि नाम कोऽपि जगतामुल्लाघनो राघवः । चक्षुर्वम॑सहस्रनिःसरदसृग्धारौघझांकारिणा माहेन्द्रेण तु वर्मणा विवृणुते वीरः सहस्र व्रणान् ॥६८॥ । । । । न्तस्य महाविनाशस्य कर्णेजपाः सूचकाः । स्तम्भकर्णयो रमिजपोः' इत्यच् । 'कर्णेजपः सूचकः स्यात्' इत्यमरः । दीयन्ते पात्यन्ते । मौलिषु मस्तकेषु, किरी- टेषु वा । 'मौलिमूर्धकिरीटयोः' इति धरणिः । पौलोमी शची । अवग्राहिणो वृष्टि- प्रतिबन्धकाः । मार्गणा बाणाः । अमृष्यमाणेनाक्षममाणेन । विदेहेति । कोटि- रमम् । कठोरता कठिनत्वं तस्याः साक्षिणि ज्ञातरि । जन्मान्तरे विष्णोर्मूर्त्यन्तरे मेलकारौ सहचरौ श्रीकौस्तुभौ । यत्र तस्मिन् । मेलनं मेलः । भावे घञ् । तं करोति मेलकारः । कर्मण्यञ् । 'मेलकारः सहचरः' इति धरणिः । 'कौस्तुभो मणिः' इत्यमरः । हा कष्टम् । एकेनैवेति । निवातं दृढं शस्त्राभेद्यम् । कङ्कटः संनाहः । 'उरश्छदः कङ्कटकः' इत्यमरः । पत्रिणा बाणेन । नाम प्राकाइये, संभावनायां वा । इदं संभाव्यत इत्यर्थः । जगतां कोऽप्यनिर्वचनीय उल्लाघनो नैरुज्यकारी । रावणनाशरूपमेषजकरणादिति भावः । 'कृयल्युटो बहुलम्' इति कतरि ल्युट । 'उल्लाघो निर्गतो गदात्' इत्यमरः । असुग्धारोघो रुधिरधारासमूहः। झांकारोऽव्यक्तशब्दः । माहेन्द्रेण महेन्द्रसंबन्धिना । वर्मणा संनाहेन । विवृणुते प्रकाशयति । एकबाणपातेऽपि संनाहस्य चक्षुर्वमंसहस्रेण रुधिरनिर्गमाद्रणसहस्र- १. 'सात्कारिणा. २० अ०रा० ३०६ काव्यमाला। रतचूड:-(सहर्षम् ।) राघवेणापि सीतास्तनस्तवककुङ्कुमपङ्कलोप- संकल्पपातकिनि वक्षसि रावणस्य । न्यस्तः शरो विबुधकुञ्जरदैन्तघात- रूढवणार्बुदचतुष्टयमध्यवर्ती ॥ ६९ ॥ हेमाङ्गदः--(कर्णं दत्त्वा सविस्मयम् ।) एकेन सव्यपाणिना विशि- खमुत्खाय किमाह रावणः-साधु रे मनुष्यडिम्भ, साधु । त्रैविक्रमः सकलदानवजीवितव्य- विद्यासमाप्तिलिपिरेष सुदर्शनो मे । यस्मिन्निपत्य हृदये दलितारजाल- ज्योतिस्तुषारमयमाभरणं बभूव ।। ७० ॥ तमिन्नपि रुधिरदर्शनं कुर्वाणेन भवता दर्शितेयं सुरासुरवीरातिशायिनी हस्तवत्ता। विवरणमिति भावः । सीतास्तनेति । लोपः खण्डनं तत्र संकल्प इच्छा तेनैव पातकयुक्ते । विबुधकुञ्जरस्यैरावतस्य दन्तघातेन रूढमुपचितं यणस्यार्बुदचतुष्टयम्, अर्बुदमिवाव॒दं रूढव्रणोच्चस्थानं तस्य मध्यवर्ती । ऐरावतस्य चतुर्दन्तत्वात्तद्दन्ता- घातेन रावणहृदयेऽर्बुदचतुष्टयं युज्यत एव । सव्यपाणिना दक्षिणहस्तेन । विशिख बाणम् । उत्खायोत्पाट्य । त्रैविक्रम इति । एष मम त्रैविक्रमः । त्रिविक्रमो विष्णुस्तत्संबन्धी सुदर्शनश्चक्रविशेषोऽस्ति । सकलदानवानां जीवितव्यं जीविनं तदेव विद्या तस्याः समाप्तिलिपिः समाप्त इति यस्याः प्रसिद्धिस्तद्वत् । दानवसमूह- प्राणनाशक इत्यर्थः । यस्मिन्सुदर्शने निपत्य हृदये दलितं खण्डितं पदारजालं चक्रप्रान्तसमूहस्तस्य ज्योतिः कर्तृ तुषारमयमाभरणं भूषणं बभूव । अतिशायिनी जयनशीला । हस्तवत्ता प्रशस्तहस्तयोगित्वम् । प्रशंसायां मतुः । 'चक्र सुदर्शन' १. लेप-'. २. 'वारण-. ३. 'दन्तपात-. ४. 'एकेनापि सव्येन पाणिना ए केन सम्येन', 'एकेन सव्यपाणिना तमुत्खाय'. ५. 'वाहिनी'.
६ अङ्कः] अनर्घराघवम् । ३०७ रत्नचूड:- -अहह, विपक्षगिरामुद्गारेण सर्वग्रन्थिगुरुणा दूर दीप्यमानस्य सुविनिहितचन्द्रहासत्रणकिणवलयोपहसिवहारेषु । रामस्य मार्गणगणाः पतन्ति दशकण्ठकण्ठेषु ॥ ७१ ॥ हेमाङ्गदः-(सचमत्कारम् ।) सखे पश्य पश्य-अनुरूपवीरसं- वादप्रमोदभरद्विगुणितावष्टम्भसंक्षोभितभुवनत्रयस्य निरन्तरप्रहीयमाण- बाणपैञ्जरमध्यवर्तिना रामभद्रेण क्रीडाशकुन्तकौतुकं पूर्यते राक्षसरा- अस्य । नूनमिदानीम् उदञ्चन्यञ्चद्भूविवृतनिभृतानामनुफणं सणीनां विद्युद्भिः क्षणमुषितपातालतिमिरः । भुजक्रीडावल्गशमुखपदन्यासगरिम- प्रगल्भैनिःश्वासैरजनि भुजगानामधिपतिः ॥ ७२ ॥ इत्यमरः । विपक्षो रावणः । उदारेण भाषणेन । ग्रन्थिन्थना । दूरमत्यर्थम् । सुविनिहितेति । दशकण्ठकण्ठेषु कीदृशेषु । शिवाराधनावसरे शिरश्छेदार्थ सुष्टु यथा स्यादेवं विनिहितो धृतो यश्चन्द्रहासो रावणखड्गस्तस्य व्रणकिणवलयेन क्षत- विहवेष्टनेनोपहसितो निन्दितो हारो यत्र तादृशेषु । चन्द्रहासव्रणप्ररोहणाद्धारकृत्य चन्द्रहासव्रणरेखयैव कृतमिति भावः। संवादो मिलनम् । सादृश्यामिति यावत् । अवष्टम्भो गर्वः । प्रहीयमाणः प्रक्षिप्यमाणः । वेष्टनावाण एव पञ्जरम् । शकुन्तः पक्षी । अन्योऽपि क्रीडापक्षी पजस्मध्ये तिष्ठतीति ध्वनिः । उदश्चदित्यादि। भुजगानामधिपतिः सर्पराजो वासुकिः। अनुफणं फणां फणामनु । वीप्सायामव्य- यीभावः । मणीनां विद्युद्भिरिव विद्युद्भिर्दीप्तिभिः क्षणं मुषितं दूरीकृतं पातालतिमिरं येन तादृशोऽजनि जातः निःश्वासैर्लक्षितः । कीदृशः। भुजक्रीडया वल्गंश्चलन्यो दशमुखवस्य पदन्यासगरिम्णा चरणार्पणगुरुत्वेन पीडमास्त्रगल्भैरुपचितैः । मणीनां कीदृशानाम् । उदश्चन्त्युन्नता भवन्ती न्यञ्चन्ती निम्ना भवन्ती वा भूस्तया विवृतानां १. 'देदीप्यमानस्य', 'कम्पमानस्य'. २, प्रमोद द्विगुणित-', ३. पञ्चरवर्तिना'. ४. 'आपूर्यते'. - ।
काव्यमाला। रत्नचूड:-(सभयमवलोक्य ।) सखे, एवमेतत् । रक्षोविक्षोभवेगोच्छलितजलनिधिव्यक्तमातङ्गचक्र- क्रुध्यदिङ्गागमुक्तोद्धरणगुरुभरामद्य नागाधिराजः । अझैरङ्गेषु मग्नरविरलवलिना वामनेनातिपीना देहेनापढुवानः फणफलकपरीणाहमुवी बिभर्ति ॥७३॥ (ऊर्ध्वमवलोक्य ।) कथमितस्ततो वैमानिकैरपक्रम्यते गगनतलात् । हेमाङ्गदः-(सचमत्कारम् ।) अहो त्रिभुवनभयंकरमायोधनमुपक्रान्तं महावीराभ्याम् । तथा हि। ध्यायत्ययं गाधिसुतादधीतान्दिव्यास्त्रमन्त्रान्मनुवंशवीरः । ब्रह्मोपदिष्टामिह शस्त्रविद्यामसौ तदाकाङ्क्षति राक्षसेन्द्रः ॥७४ ॥ तँदावामप्यपसरावः । (इत्यपसृत्यासाते।) विकासितानां निभूतानां संकुचितानाम् । अजनीति कर्तरि चिण् । रक्ष इति । नागाधिराजो वासुकिः । रक्षसां विक्षोभश्चलनं संक्षोभो वा तज्जन्यवेगेनोच्छलित- स्तुच्छीभूतो यो जलनिधिस्तेन हेतुना व्यक्तो यो मातङ्गचक्रो जलहस्तिसमूहस्तमै विपक्षतया क्रुध्यन्तो ये दिङ्गागा दिग्गजास्तैर्मुक्तं त्यक्तमुद्धरणमुत्कृष्टधारणं तेन गुरु- भैरो यस्यास्तामुवौं पृथिवीं बिभर्ति धारयति । दिडागैः पृथ्वी घ्रियत इति पुरा- णम् । 'भातजनक्र-' इति पाठे मातङ्गो जलहस्ती, नको जलजन्तुः । यद्वा मात- जनको जलहस्ती। पृथ्वीधारणभारेणातिपीनातिस्थूलेन । अत एवाविरलवलिना निरन्तरमांससंकोचरूपत्रिवलीयुक्तेन वामनेन खर्वेण देहेन फणफलकपरीणाह फणसमूहविशालतामपढुवानः संकोचयन् । अङ्गेषु मग्नैरङ्गैर्लक्षितश्च । 'पीवा च स्थूलपीवरे' इत्यमरः । वैमानिकैर्विमानचारिभिः । विमान आकाशस्थः। 'तेन चरति' इति ठक् । 'व्योमयानं विमानोऽस्त्री' इत्यमरः । अपक्रम्यते गम्यते। १. 'गुरुतराम्'. २. 'आक्रम्यते गगनतलम्'; 'अपाक्रम्यते'. ३. 'भङ्गभयंकरमु- पक्रान्तम्'. ४. 'चास्त्रविद्याम्'. ५. 'तदाभ्यस्यति'. ६. 'तदावामुपस्त्यावहे':
PARIES ६ अङ्कः] अनर्घराघवम् । (३०९ हेमाङ्गदः-(समन्तादेवलोक्य ।) सखे, यथा भुवनसंक्षोभस्तथा तर्कयामि-तामित्रं भानवीयेन, भानवीयं राहवीयेण, राहवीयं वैष्ण- वीयेन, वैष्णवीयं पौष्पकेतवेन, पौष्पकेतवं चे पाशुपतेनास्त्रमस्त्रेण प्रतिकुर्बाणयोः पुरुस्त्यककुत्स्थकुलैकवीरयोस्तुमुलमायोधनं वर्तते । रत्नचूड:-संखे, कृतिप्रतिप्रतीनामविशेषेऽपि जेतव्यमिति रागस्य मर्तव्यमिति रावणस्य निर्णयनिर्भरोऽयं सर्वास्त्रमोक्षः । विशिखमुखोप- स्थायिनीनां च पुनर्देवतानामबलीयानाटोपः कल्प्यते । तथा हि । यदैवतं क्षिपति पत्रिषु राक्षसेन्द्रः स्नेहेन तद्रघुपतेर्मूदुःसंनिधत्ते । यां देवतामुपदाति च रामभद्र- स्त्रासादसौ दशमुखस्य शनैरुपैति ॥ ७५ ॥ (नेपथ्ये।) यद्यत्कृतं दशमुखशिरस्तस्य तस्यैव कान्तौ संक्रामन्त्यामतिशयवती शेषवक्त्रेषु लक्ष्मीः । पलाय्यत इति यावत् । ध्यायति चिन्तयति । गाधिसुतात्कौशिकात् । तामिस्रमि- त्यादौ 'सास्य देवता' इत्यण् । पौष्पकेतवेनेति कामस्य विष्णुसुतत्वेन स्नेहातिशया- द्वैष्णवीयमन्त्रं पौष्पकेतवेऽविरुद्धमिति पुष्पकेतवीयोपादानमिति भावः । तुमुलं महत् , अतिसंकुलं वा । आयोधनं सङ्ग्रामः। प्रतिकृतिःप्रतीकारः । मोक्षस्त्यागः। विशिखो बाणः । आटोपो गर्वो रोषो वा । यदैवतमिति । यां देवतां पत्रिषु बाणेषु क्षिपति तद्रघुपतेः स्नेहेन मृदु यथा स्यादेवं संनिधत्ते संनिहिता भवति । देवांशत्वाद्रामस्य । 'वृन्दारका दैवतानि' इत्यमरः । असौ देवता दशमुखस्य त्रासा- च्छनैर्मन्दमुपैति दशमुखसंनिधिं गच्छति । यदित्यादि । कृत्तं छिन्नम् । यानि १. 'यथायम्'. २.'च' इति पुस्तकान्तरे नास्ति. ३. पौलस्त्यकाकुत्स्थकुलजयोः'. ४. 'सखे' इति पुस्तकान्तरे नास्ति. ५. देवतानां पुनः'. ६. 'कथयति'. ७. तस्येव'.
काव्यमाला। यो यः कृत्तो दशमुखभुजस्तस्य तस्यैव वीर्य लब्ध्वा दृप्यन्त्यधिकमधिकं बाहवः शिष्यमाणाः ॥७॥ (नेपथ्ये कलकलः । उभौ-(सहर्षरोमाञ्चमाकर्ण्य ।) अये, शब्दोपलम्भसंवर्तकेन कर्मणा निर्मितानि त्रिभुवनकोषस्य कोऽयमिन्द्रियाणि प्रीणयति । (पुनर्नेपथ्ये कलकलः ।) उमौ-(सभयाइतम् ।) अये, कथमयं कपटकण्ठीरववैकुण्ठकण्ठ- कठोरकोलाहलकाहलो महानिर्घोषः पँजाकोषभङ्गमपर्वणि प्रेक्रमते । नूनं चेदानी कालकूटोपदिग्धैरिव कण्ठध्वनिभिरेव मूर्च्छयतो भुवनानि भैरवस्य स्मरति समयमद्य परमेष्ठी (पुनर्नेपथ्ये ।) दिव्यास्त्रैर्भूर्भुवःस्वस्त्रितयडमरणोड्डामरैर्योधयित्वा लूनोत्क्षिप्तैः शिरोभिर्दशभिरभिनभो दर्शितैकादशार्कः शिरांसि च्छिन्नानि तेषां कान्तिरवस्थितेषु मुखेषु संक्रामतीति भावः । लक्ष्मीः शोभा । छिन्नानां बाहूनां बलमच्छिन्नेषु बाहुषु संक्रामति । शिष्यमाणा अवशिष्टाः। शब्दोपलम्भसंवर्तकेन शब्दज्ञानजनकेन कर्मणा अदृष्टेन । इन्द्रियाणि श्रोत्रेन्द्रि- याणि । तथा चातिकोलाहलः श्रूयत इति भावः । कपटेन भूतो यः कण्ठीरवः सिंह एतादृशो वैकुण्ठो नारायणो नरसिंहरूपी तस्य कण्ठानिर्गतो यः कठोरो महान्को- लाहलस्तद्वत्काहल: कटुध्वनिः । देशी शब्दः । भयानको वा । प्रजाकोषो ब्रह्माण्डं तस्य भङ्गो नाशः। अपर्वण्यकाले। प्रलयं विनापीत्यर्थः । प्रक्रमत आरभते । नूनं चेति । नूनं निश्चितमद्य परमेष्ठी ब्रह्मा सभयं यथा स्यदिवं भैरवस्य स्मरति । कालभैरवं महेशं स्मरतीत्यर्थः । 'अधीगर्थदयेशां कर्मणि' इति षष्टी । कालकूटेन विषेणोपदिग्धैलिप्तरिव कण्ठध्वनिभिर्भुवनानि मूर्छयतो मूर्छा नयतः। दिव्यास्त्रै- रिति । रजनिचरपते रावणस्य कबन्धः शिरःशून्यशरीर वीरशय्यां समराङ्गण- १. नेपथ्ये कलकल इति पुस्तकान्तरे नास्ति.२. संवतेकैककर्मणा'.३. कोऽय- मिन्द्रियाणि प्रीणयति त्रिभुवनख. ४,'ब्रह्माण्डकोश-.५.'ऋमते, 'अद्यापि, ।
अनर्घराघवम् । काकुत्स्थेनावकीर्णो निजविशिखशिखायोगपीठोपहूत- ब्रह्मास्त्रेणाधिशेते रजनिचरपतेवरिशय्यां कबन्धः ॥७॥ उभौ-(श्रुत्वा सहर्षसंभ्रममूर्ध्वमवलोक्य संविसयमन्योन्यम्।) पश्य पश्य प्रलयकालकरालकालानलज्वालापुञ्जपिञ्जराणि रावणशिरांसि । (सत्व- रमुपसृत्य चाधस्तात्पश्यतः।) हेमाङ्गदः-(सकरुणम् ।) हा महावीरप्रकाण्ड लङ्केश्वर, पर्यवसि- तोऽसि । भिन्नैरावणगन्धसिन्धुरशिरःसंपातिभिर्मौक्तिकैः शश्वद्विश्वजयप्रशस्तिरचनावर्णावलीशिल्पिने । मधिशेते। तत्र खपितीत्यर्थः । काकुल्थेन रामेणाव कीर्णः क्षिप्तः । कीदृशेन । निजविशिखशिखा एव खबाणाप्रभाग एव योगपीठो देवपूजासन तस्मिन्नुपहूतमा- हूतं ब्रह्मास्त्रं येन तेन । यद्वा ब्रह्मास्त्रेणेति करणे तृतीया । दिव्यास्त्रैर्योधयित्वा लुनैदिछन्नैः । अर्थादिव्यास्त्रैरेव । अनन्तरमुत्क्षिप्तरूवं नीतैर्दशभिः शिरोभिर- मिनमो नभसि दर्शिता एकादशाकोः सूर्या येन सः । दश रावणशिरांसि, एकः प्रकृतः सूर्यः, एभिरेकादशार्का उदिता इति भावः । भूः पृथिवी, भुवोऽन्तरिक्षम्, खः स्वर्गः, एतत्रितयस्य त्रिभुवनस्य डमरणं चमत्कारस्तदर्थमुड्डामरैरुत्क्षिप्तरूध नीतैः । केचित्तु डमरेण विनाशेनोड्डामरैर्भयानकैरित्यर्थः । 'कबन्धोऽत्री क्रियायुक्त. अपमूर्धकलेवरे' इत्यमरः । 'करालो भीषणेऽन्यवत्' इत्यमरः । कालानलो रौद्राग्नि खज्वालापुञ्जवत्पिञ्जराणि पिङ्गलानि । हे महावीरप्रकाण्ड प्रशस्तमहावीर । 'प्रका- ण्डमुद्धतल्लजी । प्रशस्तवाचकान्यमूनि' इत्यमरः । पर्यवसितोऽसि समाप्तोऽसि । मिन्नेत्यादि । हे रावण, तुभ्यं नमः । अस्त्विति शेषः । भिन्नं द्विधाकृतम् । ऐरावण ऐरावतः स एव गन्धसिन्धुरो गन्धगजस्तस्य यच्छिरो मस्तकं तस्मात्सं- पातिभिः संपतनशीलैमौक्तिकैः करणभूतैः शश्वद्वारंवारं विश्वविजयेन प्रशस्तिरचना प्रशंसाप्रथना तदर्थ या वर्णावल्यक्षरपतिस्तस्याः शिल्पिने घटकाय । नाकस्यान्तः- १. सविमर्शम्'. २. 'च' इति पुस्तकान्तरे नास्ति, ३. 'प्रवसितोऽसि'.
काव्यमाला। नाकान्तःपुरिकाकपोलविलसत्काश्मीरपत्राङ्कुर- श्रीविन्यासविलासभीषणभुजस्तम्भाय तुभ्यं नमः ॥७॥ (निर्वर्ण्य ।) सखे रत्नचूड, ध्रुवं पतितपतिकंधरकबन्धपीडाभरा- निजावनमनक्रमोन्नमितचक्रवालाचलम् । महीवलयमर्धकुण्डलितविग्रहाधारक- प्रतीष्टफणमण्डलो वहति काद्रवेयाधिपः ॥ ७९ ॥ रत्नचूड:-सखे, सर्वमतिशायि रावणस्य । पुरापि खलु चलति जगतीजैत्रे यत्र खभोगिचमूभटै- वलयितमहादेहस्तम्भो विभर्ति भुवस्तलम् । प्रचलदखिलक्ष्माभृन्मूलोपलव्यतिघट्टितो- वणमणिशिलाजल्पाकीभिः फणाभिरहीश्वरः ।।८०॥ पुरिकाणामप्सरसां कपोले विलसन्तो ये काश्मीरपत्राङ्कुराः कुङ्कुमपत्रावल्यस्तेषु श्रीविन्यासविलासे भीषणा भुजस्तम्भा यस्य तस्मै । श्रीः शोभा । विन्यासो विक्षेपः । दूरीकरणमिति यावत् । तत्पतिवधात् । अत एव भुजस्तम्भानामपि भीषणत्वमिति भावः । तुभ्यमिति ‘नमःखस्ति-' इत्यादिना चतुर्थी । ध्रुचमि- त्यादि । काद्रवेयाधिपः सर्पराजः शेषः, अर्धे कुण्डलितः संकुचितो विग्रहः काय एवाधारक आधारस्तेन प्रतीष्टो धृतः फणमण्डलो येन तादृशः सन्महीवलयं वहति धारयति । ध्रुवं निश्चये । पतितो यः पत्रिकंधरस्य दशग्रीवस्य रावणस्य कबन्धस्तेन पीडाभराद्यन्त्रणातिशयान्निजावनमनक्रमेणोन्नमिताश्चक्रवालाचलाः कुल- पर्वता गन्धमादनादयो येन तादृशम् । रावणकबन्धभरेण महीवलयस्याधोगमनेन पर्वतानामुच्चत्वं वृत्तमिति भावः । अतिशाय्यतिशयितम् । चलतीति। यत्र रावणे जमतीजैत्रे भुवनजेतरि चलति सति अहीश्वरो वासुकिः फणाभिर्भुवस्तलं बिभर्ति दधाति। कीदृशः।खभोगिचमूभटः स्वीयसर्पसेनाभटैर्वलयितो वेष्टितो महादेहस्तम्भो १. "विनाश'. २. 'जगतां जैत्रे'. ।
६ अङ्कः]] अनर्घराघवम् । ३१३ इदानीं पुनरुत्क्रान्तवायुरतिदुर्वहो देहबन्धः । (: हेमाङ्गदः-(अन्यतोऽवलोक्य ।)कथमियं दशकन्धरस्य कबन्धाभि- मुखी शोकविक्लवा मन्दोदरी निशाचरीमिरपकृष्यते । (कर्ण दत्त्वा । आकाशे ।) कष्टम् । चपलकपिकुलानुक्रियमाणकरुणकाकुप्रकारकातरखरा मन्दोदरी किमाह महावीरवरवर्णिनी- भूयिष्ठानि मुखानि चुम्बति भुजैर्भूयोभिरालिङ्ग्यते चारित्रव्रतदेवतापि भवता कान्तेन मन्दोदरी । हा लम्बोदरकुम्भमौक्तिकमणिस्तोमैर्म मैकावली- शिल्पे वागधमर्णिकस्य भवतो लकेन्द्र निद्रारसः ॥८१॥ mutam महाङ्मयष्टिर्यस्य तादृशः सन् । प्रचलन्तो येऽखिलाः सर्वे मामृतः पर्वतास्तेषां मूलोपलैर्मूलप्रस्तरैर्व्यतिघहिता अन्योन्यलमा या उल्वणा महत्यो मणिरूपाः शिला- स्तासां जल्पाकीभिः शब्दनशीलाभिः । पर्वतमूलपाषाणानां परस्परघर्षणेन उल्बणा त्या शिरोमणिशिला तस्याः कथयित्रीभिरित्यर्थः । जल्पाकीभिरिति जल्पभिक्ष- इति षाकन् । पित्त्वान्डीए । जेतैव जैत्रः। खार्थिकोऽण् । 'जैत्रस्तु जेता' इत्यमरः । उत्क्रान्तो देहबहिर्भूतः । विक्लवा विह्वला । निशाचरीभी राक्षसीभिरपकृष्यते [मरणादपनिवार्यते । अनुक्रियमाणः सदृशीक्रियमाणः । काकुः शोककृतो ध्वनिः। उत्तमा वरवर्णिनी' इत्यमरः । भूयिष्ठानीति । मन्दोदरी भूयिष्ठानि प्रचुराणि दश मुखानि चुम्बति । भवता त्वया । कान्तेन स्वामिना रम्येण वा । भूयोभिः प्रचुरेविंशत्या भुजैः सैवालिङ्गयते । चारित्रवते सुचरित्रावते देवतेव देवता । साध्वी- त्यर्थः। अपिविरोधाभासे। तथा च पतिव्रताप्यहं नानामुखचुम्बनं भवतः कृते करो- मीति भावः। हा कष्टम् । हे लकेन्द्र, भवतोऽपि निद्रारसः। कीदृशस्य लम्बोदरस्य गणपतेः कुम्भमौक्तिकमणिसमूहैयेकावली हारभेदस्तस्याः शिल्पे निर्माणे मम वाचा- धमर्णिकस्य ऋणिकस्य । गणेशस्य हस्तिरूपत्वात्तस्य कुम्भस्थमौक्तिकैरेकावलीं कृत्वा तुभ्यं दास्यामीत्यनेनाङ्गीकारेण त्वं ममाधमोऽसीत्यधमणिकस्य निद्रा न भवतीति १. 'अपक्रान्तदेह्वायुर्दुवहोऽयम्'. २. 'कातरतरस्वरा'. ३. 'मन्दोदरी' इति पुस्तकान्तरे नास्ति. ।
काव्यमाला। । उभौ-(सखेदम् ।) इदमशक्यानुभवं चक्षुःश्रोत्रस्य । प्रतिकृताना विद्विषामपि व्यसनमतिमात्रं हृदयमर्माणि च्छिनत्ति । (सविमर्शम् ।)- अहह, न किंचिदनीषत्करं नाम कृतान्तस्य । वन्दारुवृन्दारकवृन्दबन्दीमन्दारमालामकरन्दबिन्दून् । मन्दोदरीयं चरणारविन्दरेणूत्करैः कर्करतामनैषीत् ॥ ८२ ॥ (नेपथ्ये।) नीयन्ते वनदेवताभिरमरक्षोणीरुहो नन्दनं नीतो वल्लभपालकेन च निजामुच्चैःश्रवा मन्दुराम् । रक्षोभिश्च विभीषणप्रणयिभिः कारागृहान्मोचित- खर्बन्दीवदनावलोकनिबिडब्रीडो बिडौजाः कृतः ॥ ८३॥ रत्नचूडा- -(सहर्षम् ।) सखे, तदेहि । लकेश्वरकाराधिवासचिरप्र. वास्तव्यं बन्धुवर्गमीक्षावहे । (इति परिक्रामन्तौ विलोक्य सहर्षमन्योन्यम् ।) भावः । अधमर्णिक इति । अधर्म च तणं चाधमर्ण तद्यस्यास्ति । अत इनिठनौ' इति ठन् । 'एकावल्येकयष्टिका' इत्यमरः । खेदो दैन्यम् । अनुभवो ग्रहणम् । चक्षुश्व श्रोत्रं च । प्राण्यादेकवद्भावः । द्रष्टुं श्रोतुं न पार्यत इत्यर्थः । प्रतिकृताना- मुन्मूलितानाम् । व्यसनं दुःखम् । अतिमानमत्यर्थम् । मर्माणि तत्त्वानि । अनी- पत्कर दुष्करम् । वन्दार्विति । वन्दास्र्वन्दनशीलः । 'शृवन्द्योरारुः' । वृन्दा- रका देवाः । वृन्दं समूहः । मन्दार देवतरुपुष्पम् । कर्करतां कठिनताम् । 'कर्करः कठिनेऽन्यवत्' इति मेदिनीकरः । अनैषीचीतवती । अयं भावः-चरणपतितानां देवस्त्रीणां शिरःस्थितमन्दारपुष्परसान्खचरणारविन्दरेणुभिः कर्करतामियं मन्दोदरी नीतवती, तस्या इयं कष्टा दशेति कृतान्तस्य यमस्य न किंचिदनीषत्करम्, अपि तु सर्वमेवेषत्करमिति । नीयन्त इति । अमरक्षोणीरुहो देववृक्षाः पारिजातादयः। नन्दनमिन्द्रवनम् । वल्लभपालकेनाश्वरक्षकेण । 'यश्चारको मुद्गभुजां स स्याद्वल्लभ- १. 'बल्लव-'. २. 'प्रभृतिभि:'. ३. 'मोचितः'. ४. 'लकेश्वराधिवासचिरप्रवास- उययम्'; 'लङ्केश्वर कारागृहाधिवासचिरप्रवासवास्तव्यम्', 'लङ्केश्वरकाराधिवासन्निरम- वासव्यमबन्धुवर्गम्', ५. "समीक्षावहे. ६. परिक्रामतः'. । । ।
। - ६ अङ्कः] अनर्घराघवम् । ३१५. सखे, पश्य पश्य । प्रहारजर्जरवलीमुखाच्छभल्लगोलालग्रामसंवल्गन- वरिगतसुग्रीवो लक्ष्मणनिहितधन्वा विभीषणभुजावलम्बी विजयश्रिया किमपि प्रदीप्तरमणीयो रामभद्रः । अयं हि संप्रति पौलस्त्यन्यस्तशक्तित्रणकिणकणिकालक्ष्मणो लक्ष्मणोर:- पीठान्निर्मुक्तलज्जो विबुधपुरवधूक्लुप्तपुष्पाभिषेकः । सद्यो नप्तारमन्यं रजनिचरपुरीभद्रपीठप्रतिष्ठं दृष्ट्वा तुष्यत्पुलस्त्यो जगति विजयते जानकीजानिरेकः ॥८॥ (इति निष्क्रान्तौ ।) इति दर्शग्रीवनिग्रहो नाम षष्ठोऽङ्कः । पालकः' इति हारावली । उचैःश्रवा इन्द्राश्वः । 'वाजिशाला तु मन्दुरा' इत्यमरः। प्रणयिभिः स्निग्धैः। कारागृहाइन्धनागारात् । निबिडा गाढा।बिडोजा इन्द्रः प्रव- सतीति प्रवास्तव्यः। 'वसेस्तव्यत्कर्तरि णिच्च' इति कर्तरि तव्यत् ।प्रहारो घातः । वली- मुखो वानरः । अच्छभल्लो भल्लूकः । गोलाङ्कलः श्यामास्यो वानरः । ग्रामः समूहः संवल्गनं संमाननम् । वलिगतश्चलितः। पौलस्त्येति । जानकी जाया यस्य स जानकीजानी रामो विजयते । लक्ष्मणस्योरःपीठाद्धृदयपीठान्निर्मुक्तलज्जः । कोह- शात् । पौलस्त्येन रावणेन न्यस्ता क्षिप्ता या शक्तिरस्त्रभेदस्तस्या या व्रणकिणकणिका क्षतचिह्नरेखा सैव लक्ष्म चिह्नं यत्र तस्मात् । तथा च रावणवधाद्रामस्य सा लज्जा नष्टेति भावः । विबुधपुस्ममरावती । सद्यस्तत्क्षणादेव रावणवधानन्तरमेव । विभीषणस्य पिता विश्रवास्तस्य पिता पुलस्त्य इति पुलस्त्यनप्ता विभीषणः । अयं राबणादन्यमपरं नप्तारं पौत्रं विभीषणम् । राक्षसपुरीभद्रपीठे प्रतिष्ठाभिषेको यस्य तादृशम् । तुभ्यम्पुलस्त्यो यस्मात्सः । भद्रपीठं सिंहासनम् । 'नृपासनं यत्तद्ध- द्रासनम्' इत्यमरः । जानकीजानिरिति 'जायाया नि' 'लोपो व्योर्वलि' इति यलोपः। निष्क्रान्तौ हेमाङ्गदरत्नचूडौ ॥ इति समस्तप्रक्रियाविराजमानरिपुराजकंसनारायणभवभक्तिपरायणश्रीहरिना- रायणपदसमलंकृतमहाराजाधिराजश्रीमद्भरवसिंहदेवप्रोत्साहितवै- जोलीग्रामवास्तव्यखौआलवंशप्रभवश्रीरुचिपतिमहोपाध्याय- विरचितायामनधराघवटीकायां षष्ठोऽङ्कः । १. 'प्रहारविद्ध-'. २. 'संवर्गणव्यग्रित'. ३. विनिहित-'. ४. रामदेवः', ५. 'निष्क्रान्ताः', 'निष्क्रान्ताः सर्वे'. ६. 'दशास्यनिग्रहो नाम'. ।
काव्यमाला। सप्तमोऽङ्कः। (नेपथ्ये।) तमिस्रामूर्छालत्रिजगदगदंकारकिरणे रघूणां गोत्रस्य प्रसवितरि देवे सवितरि। पुरःस्थे दिक्पालैः सह परगृहावासवचना- प्रविष्टा वैदेही दहनमथ शुद्धा च निरगात् ॥ १॥ अयमपि एकैकानि शिरांसि राक्षसचमूचक्रस्य हुत्वा निजे तेजोग्नौ दशकण्ठमूर्धभिरथो निर्माय पूर्णाहुतिम् । अद्य वस्त्ययनं समाप्य जगतो लकेन्द्रबंन्दीवृतां सीतामप्यवलोक्य शोकरभसत्रीडाजडो राघवः ॥ २ ॥ तसिस्नेति । वैदेही सीता परगृहे रावणगृहे आवासश्चिरावस्थानं तद्रूपाद्वचना- द्धेतोः शुद्ध्यर्थ दहनमनिं प्रविष्टा । अथानन्तरं शुद्धा सती निरगानिर्गता बभूव । दहनादित्यर्थात् । दिक्पालैः सह रघूणां गोत्रस्य प्रसवितरि जनके सवितरि सूर्ये पुरःस्थऽप्रस्थ सति । परीक्षा हि वंश्यस्यान्यस्य च महतोऽग्रेक्रियत इति समाचारः। तमिस्रा रात्रिस्तस्यां मूर्छालं निद्रा तया युक्तं यत्रिजगत्तस्यागदंकारो वैद्यः। प्रका- शकर्तेति यावत् । किरणो यस्य तादृशे । मूर्छाल इत्यत्र 'सिध्मादिभ्यश्च' इति लच्। अगदंकार इति कर्मण्यण् । 'कारे सत्यागदस्य' इति मुम् । एकैकानीति । एकै- कान्यनेकानिः । प्रतीयमानबहुत्वाद्वहुवचनम् । अन्यराक्षसशिरांसि हुत्वा रावण- शिरोभिः पूर्णाहुतिः । होमसमाप्तौ हि पूर्णाहुतिः क्रियत इति भावः । खस्ति कल्याणं तस्यायनं वर्म खस्त्ययनं शान्तिकपौष्टिकं कर्म । 'अयनं पथि भानोरु- दग्दक्षिणतो गतौ' इति मेदिनीकरः । वृतां वेष्टिताम् । सकलवराकनिशाचराणां सहसैव संमूलमुन्मूलनाच्छोकः । सीतायाः प्राप्तेर्विशुद्धिज्ञानाच्च रभसः । निष्करुणेन मया सीताविशुद्धिं जानतापि प्रियतमा साग्निप्रवेशं कारितेति ब्रीडा । यद्वा बन्दी- कृतसीतावलोकनाद्रीडा । एतै रसैर्जडो निष्क्रियः अयमपि राघव इत्यन्वयः । १. 'बन्दीकृता' । ।
क्रमेण च WRAINMENT एकन शिरसा एकशतनेत्रस्य हर्षः । एवमपरेणापरस्येति ७ अङ्कः] अनर्घराघवम् । सहैव सुग्रीवविभीषणाभ्यां सौमित्रिसीतापरिपूर्णपार्श्वः । उपैति वैवखतवंशवृत्तमेध्यामयोध्यामथ पुष्पकेण ॥ ३ ॥ (युग्मम् ) (ततः प्रविशति विमानयानेन विजयाभिरामो रामः सीतालक्ष्मणौ सुग्रीवविभीषण सुग्रीव: -(रामं प्रति ।) देव, किंकुर्वाणपयोधिसेवितगृहोद्यानाधुनालोक्यतां लकेयं रघुवंशविक्रमकथाबीजप्ररोहस्थली । देवेनात्र दशाननस्य दशभिश्छिन्नैः शिरोभिः क्रमा- देकैकेन शतं शतं शतमखस्यामोदिता दृष्टयः ॥ ४ ॥ रामः-देवि वैदेहि, दृश्यतामितो लङ्का पूर्वेण सुवेलं पश्चिमेन । सहैवेति । विवखतः सूर्यस्थापत्यं वैवखतो मनुः । वृत्तं व्यापारः । मेध्यां पवि- त्राम् । 'मेध्यं त्रिषु शुचौ' इति विश्वः । पुष्पकेण कुबेररथेन । स च पुरा रावणेन गृहीत इदानीं राघवेण लब्धः। 'एकैकानि शिरांसि' इत्यादि श्लोकद्वयेन युग्मकम् । युग्मकलक्षणं तु–'कुलकं बहुभिः श्लोकैः साकाङ्क्षरेकवाक्यता । श्लोकाभ्यां युग्मकं ज्ञेयमेकार्थाभ्यां तु चुम्बकम् ॥' इति । किंकुर्वाणेति । किं कुर्वाणः किंकर: सेवकः । गृहोद्यानं गृहनिकटवाटिका । मुदे हर्षाय । विक्रमोऽतिशक्तिता । तत्क- थया यद्वीजं तस्य प्ररोहस्थली जन्मभूमिः । अन्यदपि बीजं भूमौ प्ररोहतीति ध्वनिः । अत्र लङ्कायाम् । [एकैकेन] इन्द्रस्य शतं शतं दृष्टयो नेत्रसहस्रं रावणस्यै- कैकेन शिरसा आमोदिताः इन्द्रस्य चक्षुषां दशशतानि प्रत्येकं रावणदशशिरोभि- क्रमः । लङ्का पूर्वेण सुवेलं पश्चिमेनेत्यत्र 'एनबन्यतरस्यामदूरेऽपञ्चम्याः' इलेन । । ।
काव्यमाला। त्वदर्थीयक्रव्यात्कपिकुलकबन्धव्यतिकरैः करालेयं भूमि वनभयमद्यापि तनुते । अभूवन्नम्भोधेरिह रुधिरमय्यो युवतयः सहस्रं साहस्रास्त्रिदिवयुवतीनां च पतयः ।। ५ ।। अपि च। उद्यम्य दृष्टनिजपन्नगरत्नमात्रा- नस्त्राणि चन्दनतरूनुपरि भ्रमन्तः । द्यां ज्योतिरिङ्गणमयीमिह मेघनाद- मायातमोपलपितां कपयो वितेनुः ॥ ६ ॥ 'एनपा द्वितीया' इति द्वितीया । लङ्कायाः पूर्व सुवेलस्य च पश्चिममित्यर्थः । त्वद- थीयेति । त्वमेवार्थः प्रयोजनं यस्य स त्वदर्थो रावणो रामश्च तस्मै हितं त्वदर्थी- यम् । रावणस्य कन्याकुलं रामस्य कपिकुलं तेषां. कबन्धव्यतिकरैः कबन्धमेलकैः कराला भयानका अतिदन्तुरा वा भूमिरद्यापि भुवनभयं तनुत इत्यन्वयः । इह भूमौ अम्भोघे रुधिरमय्यः सहस्रं युवतयो नद्योऽभूवन्भूताः। त्रिदिवयुवतीनामप्सरसां च पतयः स्वामिनः साहस्राः सहस्रपरिमाणा अभूवन् । सहलं परिमाणमेषां ते। 'शतमानविंशतिकसहस्रवसनाद' । रणसंमुखं ये मृता वीरास्ते विद्याधरीभूता अप्सरःपतयो वृत्ता इति भावः । यद्वा साहस्राः सहस्रपुरुषबलाः सहस्रजनेश्वरा वा। 'बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः' इत्यमरः । उद्यम्येति । इह लङ्कायां मेघनादस्य मायातमो मायोपदर्शितान्धकारस्तेनापलपिता आच्छादिताः कपयो ज्योतिरिङ्गणमयीं खद्योतव्याप्तामिव द्यामाकाशं वितेनुविस्तारयामासुः । कीदृशाः । चन्दनतरूनस्त्राण्युद्यम्योत्तोल्योपरि भ्रमन्तः। कीदृशान् । दृष्टा निजा खोया पन्नगरत्नानां मात्राल्पत्वं कालयं वा यत्र तान् । तथा च चन्दनवृक्षस्थ- सपाणां मणिप्रभाभिर्मेघनादमायान्धकारे ज्योतिरिङ्गणत्वमासादितम् । अन्योऽपि ज्योतिरिक्षणोऽन्धकारे प्रसरतीति ध्वनिः । 'भात्राल्पे च परीमाणे 'मात्रं काव्य- । ६. समोचलचिताम ७ अङ्कः]] अनर्घराघवम् । सीता-अजउत्त, अवि इध जेव्य भुअंगपासबन्धनं सीदाए अणुहाविदा तुझे । राम:-आं मैथिलि, आस् । चर्वितपीनाहिगणष्ठणिति विनिष्ठ्यूतफणिमणिरभीक्ष्णम् । धनबन्धनवैधुर्य व्यधुनोदिह नौ स विहगेन्द्रः ॥ ७ ॥ (विमृश्य सस्मितम् ।) अहो वैषम्यमस्या जातेः। द्वे तावत्करणे रसान्रसयितुं शब्दांश्च रूपाणि च श्रोतुं द्रष्टुमथैकमिन्द्रियमुरोगत्यै निगूढं पदम् । अन्येष्वप्यशनेषु सत्सु जगतः प्राणाः खदन्तेतरां मातः कटु यदि प्रसौति भवती भूयः सुतानीदृशान् ॥८॥ (सर्वे हसन्ति।) वधारणे' इति विश्वः । अजउत्तेति । 'आर्यपुत्र, अपि इहैव भुजंगपाशबन्धन सीतयानुभाविता यूयम्' [इति च्छाया । इह अपिः प्रश्ने संभावनायां वा । 'आर्य- पुत्रेति संबोध्यः पतिः पत्नीजनेन तु' इति भरतः । सीतयेति हेतौ तृतीया । आं खीकारे ज्ञाते वा । 'आं ज्ञातेऽथवा स्वीकारे' इति भरतः । आम्शब्दो हलन्तोऽय- मव्ययः । चर्वितेति । इह स्थाने विहगेन्द्रः पक्षिराजो गरुडो नौ आवयोर्मह- द्वन्धनवैधुर्य बन्धनकष्टं व्यधुनोन्मोचितवान् । कीदृशः । चर्वितः खादितः पीन उपचितोऽहिगणो येन सः । 'चर्वितपीत-' इति पाठे चर्वितोऽनन्तरं पीतो द्रवी- कृत्य पानविषयीकृतः । पुनः कीदृशः । अभीक्ष्णं वारंवारं ठणिति कृत्वा निष्ट्यूत उद्गीर्णः फणिमणियेन सः। ठणदित्यव्यक्तानुकरणस्येति शब्दे परतः 'अव्यक्तानु- करणस्यात इतौ' इत्यत् शब्दस्य पररूपत्वम् । द्वे तावदिति । हे मातः कट्ठ सर्पमातः, ईदृशान्सुतान्भूयः पुनरपि यदि भवती प्रसौति । तदा परं नान्या कापीत्यर्थः । तावदिति वाक्यालंकारे। रसान्रसयितुमाखादयितुं द्वे करणे द्वे इन्द्रिये १. 'ठगिति'. २. 'अहिबन्धन-'. ३. 'नौ विहंगपूगेन्द्रः', 'नः स विहगेन्द्रः'. ४. 'सविसितम्'. ।
३२० काव्यमाला। । सीता--(सस्नेहस्मितं लक्ष्मणमवलोक्य रामं प्रति ।) अज उत्त, सोमि- चिकित्तिकन्दलीए उम्पत्तिखेतं कदरो उण संणिवेसो। रामः-(सहर्षरोमाञ्चम् ।) देवि मैथिलि, अयमितो हस्तदक्षिणेन दशरथदशकंघरस्कन्धावारैकप्रवीरयोर्लक्ष्मणमेघनादयोर्द्वन्द्वयुद्धव्यतिकर- साक्षी सुवेलपादः। सीता-जहिं एव्व अणुराअरोमकण्टअसे अजलेहिं णिसाअरी कावि उद्दीविअणिव्वाविअदइदचिदाणलमनु मरेदि ।। ९॥ जिह्वारूपे । अन्येषां प्राणिनामेकैव रसना, सर्पाणां तु द्वे इति वैषम्यम् । शब्दांश्च रूपाणि श्रोतुं द्रष्टुम् । यथाक्रममन्वयः । एकमिन्द्रियं चक्षुः । तदेव श्रोत्रं च। चक्षुःश्रवस्त्वात् । अन्येषां द्वे इन्द्रिये श्रोत्रं चक्षुः । उरसा वक्षसा गलै गमनाय निगूढमव्यक्तं पदं चरणम् । अन्ये पुनः प्रसिद्धचरणैः संचरन्ति । अन्येषु कठि- नकोमलादिष्वशनेषु भक्ष्येषु सत्वपि जगतो विश्वस्य प्राणा वायवः, अथ चासवः खदन्ते रोचन्ते । तथा च न युक्ता ईदृशाः सुता उत्पादयितुमिति भावः । 'जग- प्राणसमीरणाः' इत्यर्थः । ननु संबुद्धौ गुणे कृते 'कद्रो' इति स्यात् तत्कथं न तथेति चेत्, न । 'कद्रुकमण्डल्वोः संज्ञायाम्' इत्यूङि कृते हस्खत्वविधानात् । अजउ- त्तेति । 'आर्यपुत्र, सौमित्रिकीर्तिकन्दल्या उत्पत्तिक्षेत्रं कतरः पुनः संनिवेशः इति च्छाया] इह 'कन्दली स्याद्गुल्मभेदे नवाकुरे' इति विश्वः । कतरः कः । स्वार्थ तरप् । संनिवेशः स्थानम् । इतोऽस्मिन्प्रदेशे। आद्यादित्वात्तसिः । हस्तदक्षिणेन "प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया । स्कन्धावारः कटकम् । द्वन्द्वमन्यो- न्यम् । यद्वा द्वन्द्वं युद्धभेदः । व्यतिकरः संगमः प्राचुर्य वा । पादाः प्रत्यन्तप- वताः । जहिं इत्यादि । 'यत्रैव, अनुरागरोमकण्टकखेदजलैनिशाचरी कापि । उद्दीपितनिर्वापितदयितचितानलमनु म्रियते ॥ इति च्छाया । इह रोमकण्ट- केन रोमाञ्चेनोद्दीपितं खेदजलेन निर्वापितं चितानलमनु लक्ष्यीकृत्य निशाचरी राक्षसी म्रियते प्राणांस्त्यजति । 'अनुसरेदि' इति पाठे अनुसरति चितानलं यथा १.व्यतिकरैक- - । ।
७ अङ्क:] अनर्घराघवम् । ३२४ NBADMATRA अज्जउत्त, रामः-आं जानकि, आम् । इदमेव तल्लक्ष्मणवीरलक्ष्मीवयंवर- कौतुकागारम् । इह हि आनीतद्रोणशैलेन सौमित्रेः शल्यहारिणा । अक्रियन्त जगन्त्येव निःशल्यानि हनूमता ॥१०॥ सीता -(स्मृतिमभिनीय सानुरागम् ।) किक्किन्धेसरकन्धा- वारधुरंधरो रहुउलकुटुम्बविहुरबन्धू सो कहिं हणूमन्तो । रामः-देवि निमिराजनन्दिनि, क्षुण्णे निशाचरपतौ रविबिम्बवर्ती तातो मया दशरथः स्वयमेव दृष्टः । तस्याज्ञया रघुपुरी प्रहितः पुरैव राज्याभिषेकविधिसंभृतये हनूमान् ॥ ११ ॥ (विमानवेगनाटितकेन ।) देवि, प्रणम्यतामयमितो भगवानम्बुराशिः। लक्ष्मीरस्य हि यादः कृष्णोरःस्थापि सुभटभुजवसतिः । इन्दुः स च मृडचूडामणिरपि जगतामलंकारः ॥ १२ ॥ स्यादेवमिति क्रियाविशेषणम् । वयवरे स्वयंवरणे । कौतुकागारं क्रीडागृहम् । द्रोणशैलः पर्वतविशेषः । यत्र विशल्या नाम महौषधिः स्थिता । शल्यं शरादि- कम् । निःशल्यान्यव्यथानि । अजउत्तेति । 'आर्यपुत्र, किष्किन्धेश्वरस्कन्धा- वारधुरंधरो रघुकुलकुटुम्बविधुरबन्धुः स कुत्र हनूमान्' [इति च्छाया।] इह किष्किन्धेश्वरः सुग्रीवः । धुरंधरो धुराधारणक्षमः । विधुरबन्धुवुःखवारकः । क्षुण्ण इति । क्षुण्णे निष्पिष्टे । मारित इति यावत् । रविबिम्बवर्ती आदित्य- मण्डलस्थः । तस्य योगयुक्तत्वात् । तदुक्तम्-'द्वावेतौ पुरुषो राजन्सूर्यमण्डल- मेदिनौ । परिव्राज्योगयुक्तश्च रणे चाभिमुखो हतः ॥' इति । रघुपुरीमयोध्याम् । पुरैव पूर्वमेव । 'पुरापि' इति पाठेऽपि स एवार्थः । अव्ययानामनेकार्थत्वात् । यद्वा न केवलं तातो दृष्टः, हनूमानपि प्रहित इति समुच्चयेऽपिः । इतोऽत्र प्रदेशे। लक्ष्मीरिति । हितौ । अस्य समुद्रस्य लक्ष्मीरिन्दुश्च यादो जलजन्तुः । अज़- १. 'जानकि २. देवि पार्थिवि. - २१ अ० रा.
३२२ काव्यमाला। (सविमर्श च।) स्थादेव तोयममृतप्रकृतिर्यदि स्या- नैकान्तमद्भुतमिदं पुनरद्भुतं नः। लक्ष्मीतुषारकरकौस्तुभपारिजात- धन्वन्तरिप्रभृतयो यदपां विवर्तः ॥ १३ ॥ अपि च देवि, आकण्ठदृष्टशिरसाप्यविभाव्यपृष्ठ- पार्थोदरेण चिरमृम्भिरुपास्यमानः । नाभीसरोरुहजुषा चतुराननेन शेते किलान भगवानरविन्दनाभः ॥ १४ ॥ (सीता वन्दते।) .. हल्लिङ्गतयान्वयः । अपिविरोधाभासे । या हि कृष्णवक्षःस्थिता सा कथं सुभटभुजे वसतीति। अथ च सैव भगवती श्रीः संपद्रूपतया सुभटभुजवर्तिनी वृत्तेत्यविरोधः । मृडो हरः । 'गिरीशो गिरिशो मृडः' इत्यमरः । अपिरिहापि विरोधाभासे। जगतां लोकानामलंकर्ता । यो हि हरचूडामणिः स कथं सर्वालंकर्तेति । अविरोधो दर्शित एव । स्यादेवेति । तोयं पानीयममृतप्रकृतिरमृतक्षारणममृतखभावो वा यदि स्यात्स्यादेव । तोयस्य द्रवद्रव्यलात् । अमृतमपि तादृगेवेति । एकान्तमत्यर्थं नाश्चर्यम् । यद्वा अमृतनामकलाजलस्य न चित्रम् । यद्वा तोयं जलममृतप्रकृतिः सु. धाकारणं यदि स्यात्स्यादेव । अमृतस्य हि समुद्रोत्पन्नत्वात् । यद्वा तोयममृतस्य प्रकृतिः समगुणं वा स्वभावो वा स्यादेव । प्रकृतिर्गुणसाम्ये स्यात्खभावे कारणेऽपि च' इति विश्वः। नोऽस्माकमिदं पुनरद्भुतमाश्चर्य यदेते लक्ष्म्यादयोऽपां विवर्तः परिणामः। वि- सदृशत्वात् । तुषारकरश्चन्द्रः। धन्वन्तरिमुनिभेदो वैद्यककर्ता आकण्टेति । किल प्रसिद्धौ। अत्र समुद्रे भगवानरबिन्दनाभो नारायणः शेते खपिति । कीदृशेन । नाभीपद्मस्थितेन चतुराननेन ब्रह्मणा चिरसमयं व्याप्य ऋम्भिदैरुपास्यमानः। कीदृशेन । कण्ठपर्यन्तं दृष्टमस्तकेनाप्यज्ञातपृष्ठपार्बोदरेण । यद्यपि कण्ठपर्यन्तं शिरो दृष्टं तथापि न ज्ञातं वास्य पृष्ठादिकम् । चतुर्मुखत्वात्तत्रापि मुखसंभावना ।
७ अङ्कः] अनर्घराघवम् । ३२३ लक्ष्मण:-यत्सत्यमुत्सर्पिणी धर्मोत्तराणां सिद्धिः जरयतु जगत्कल्पोच्छिनौ पिपतु पयोधरा- न्वहतु वडवावक्त्रज्योतिर्दधातु सुधाभुजः । भवतु वपुषा यावांस्तावानगस्त्यरुषा पुन- निधिरयमपामीपत्पानस्तपांसि नमोऽस्तु वः ॥ १५॥ राम:--(सबहुमानम् ।) वेत्स, किमुच्यते- मुनेः कलशजन्मनो जयति कापि गम्भीरता यया चुलकमम्भसामपि निधिः समुत्पद्यते । अमुष्य पुनरीश्महे न विवरीतुमुत्तुङ्गतां मया भवति नोचकैरहह सोऽपि विन्ध्याचलः ॥ १६ ॥ स्यादिति भावः । वन्दते नमस्करोति । उत्सर्पिणी वर्धमाना । धर्मोत्तराणां तपःप्र- धानानामगस्त्यादीनाम् । सिद्धिः कर्मफलम् । जरयत्विति । अयमपां निधिः समुद्रो जगद्भुवनं कल्पोच्छित्तौ सृष्ट्यवनासे जरयतु जीर्णं करोतु । नाशयत्वित्यर्थः। 'जनयतु जगत्' इति पाठे कल्पोच्छित्तौ प्रलयावसाने सति जगज्जनयतूत्पादयतु । 'समुद्रेण हि प्रलये पयःप्राचुर्याजगजीर्यते । सृष्टिकाले जलैरेव सृज्यते इति पुरा- णम् । सृष्टौ प्रथमं पयसामेव जननम् । तथा च विष्णुपुराणम्-'अप एव ससर्जादी तासु वीर्यमवासृजत्' इति । पयोधरान्मेघान्पिपर्तु पूरयतु । 'पृ पालन- पूरणयोः' लोट् । 'अर्तिपिपोश्च' इतीत्त्वम् । वडवावक्त्रज्योतिर्वडवानलं वहतु दधातु । सुधाभुजो देवान्दधातु पुष्णातु । 'डुधाञ् धारणपोषणयोः' । निजामृत- दानात्तेषां पोषणम् । अत एव सुधाभुज इत्युक्तम् । वपुषेति 'प्रकृत्यादिभ्य उप- संख्यानम्' इति तृतीया । वपुषा शरीरेण यावान्यावत्परिमाणस्तावांस्तावत्परिमाणो भवतु । अगस्त्यस्य रुषा क्रोधेन पुनरयमपां निधिरपि ईषत्पानः सुखपेयः । यैस्त- पोभिरगस्त्येन जलनिधिरपि पीतस्तानि हे तपांसि, वो युष्मभ्यं नमोऽस्तु । नम- स्कारोऽस्त्वित्यर्थः । मुनेरिति । कलशजन्मागस्त्यः। चुलकं गण्डूषः । अमु- म्यागस्त्यस्योत्तुङ्गतामुच्छ्रितत्वं पुनर्विवरीतुं प्रकाशयितुंन वयमीश्महे न प्रभवामः । अहह आश्चर्ये । ययोत्तुङ्गतया स विन्ध्यगिरिरपि नोच्चकैर्भवति। न वर्धत इत्यर्थः । १. 'उपसर्पिणी'. २. 'वत्स' इति पुस्तकान्तरे नास्ति. ।
३२४ काव्यमाला। अपि च वत्स, दुरवगाहगम्भीरखभावानि महतां चरितानि । तथा हि । जगद्विगमधलघस्मरसहस्रभानुप्रभा- परिक्वथितपिण्डितो लवणकूटमेवार्णवः । अयं क्षणमभूदथ ज्वलति कालरुद्रानले चटचटदिति स्फुटन्न भवति स यावत्क्षणात् ॥ १७ ॥ सीता-अजउत्त, जलणिहिमज्झवट्टिणो लङ्कापोदअस्स जम्बूदी- वोवसंजमणसिङ्खलेव्व को एसो पडिहासदे । कलशादुत्पन्नस्य गाम्भीर्योत्तुङ्गते किं ब्रूम इति भावः । विवरीतुमित्यत्र 'वृतो वा' इति दीर्घत्वम् । दुरवगाहानि दुःखविलोडनीयानि । अत एव गम्भीराणीत्यर्थः । जगदिति । अयमर्णवः समुद्रो जगद्विगमस्य प्रलयस्य यद्धलं दिनं तत्र घस्मरो भक्षणशीलो यः सहस्रभानुः सूर्यस्तस्य प्रभाभिः परिक्वथितोऽतिपक्कः अत एव पिण्डितः पिण्डीकृतो यतोऽतो लवणकूटमेवाभवत् । पूर्व रविरश्मिना कथितः पश्चात्पिण्डीकृतः । अत एव कूटत्वम् । दुग्धादौ तथा दृष्टम् । अथानन्तरं काल- रुद्रानले प्रलयकालीनरुद्र संवन्धिवह्नौ ज्वलति सति चटत् चटत् इति स्फुटन्सन् क्षणान्न भवति स यावत् । न वृत्त एव यावत् । यावदित्युक्तिविशेषे । चटचट- दिति स्फुटित्वा क्षणानष्ट इत्यर्थः । अयं भावः-प्रथमं रवितेजसा क्षारमयत्वा- लवणकूटमेवाभवत् । अनन्तरं प्रलयानलज्वालया चटचटदिति कृत्वा स्फुटित इति दुरवगाहगम्भीराणि महतां चेष्टितानीति । चटदित्यत्र चटच्छब्दस्य तान्तत्वे 'अव्यक्तानुकरणस्यात इतौ' इति 'अत्' इत्यस्य पररूपत्वे चटितीति रूपप्रसङ्गः । तेन चटदूशब्दो दान्त एवात्र गम्यते । 'घस्रो दिनाहनी' इत्यमरः । घस्सर इति 'सृघस्यदः क्मरच् । 'घस्ट अदने' । 'पुञ्जराशी तूत्करः कूटमस्त्रियाम्' इत्य- मरः । चटदित्यव्यक्तानुकरणम् । भवति स्मेति 'लट् स्' इति भूते लट् । अज- उत्तेति । 'आर्यपुत्र, जलनिधिमध्यवर्तिनो लङ्कापोतस्य य जम्बूद्वीपोपसंयमनशृङ्ख- लेव क एष प्रतिभासते' [इति च्छाया ।] इह लदैव पोतो वहिनं 'डोंगी' इति १. असाच्छोकादग्रे केषुचिन्मूलपुस्तकेषु 'अपि च, अचिन्त्याः पन्थानः किमपि महतामन्धकरिपोर्यदक्ष्णोऽभूज्योतिस्तदकृत कथामप्यमदनाम् । मुनेनॆत्रादत्रेर्यदजनि पुनज्योतिरहह प्रतेने तेनेदं मदनमयमेव त्रिभुवनम् ॥' अयं श्लोको वर्तते. । ।
HIRIANRAMA । ७ अङ्कः] अनर्घराघवम् । ३२५ रामः-देवि मेदिनीनन्दिनि, पतितपौलस्त्यजगद्विजयकेतुदण्डा- नुकारी ककुत्स्थकुटुम्बदुःखसंविभागदायादस्य वानरपतेः कीर्तनम- योऽयं महासेतुः। सीता-(सहर्षम् ।) दिडिआ अजउत्तदसणपञ्चासाए बन्धप्परोह- णमहौसहं सेदुबन्धो दीसइ । (अञ्जलिं बद्धा ।) भअवं, णमो दे। रामः-देवि विश्वभरासंभवे, पश्य पश्य यथा दूरापातित्रिदिवयुवतीनेत्रसुलभा- मपां भर्ता हारावलिवलयलक्ष्मी वितनुते । तथायं माणिक्यस्फटिककनकग्रावशिखरै- रशून्यात्मा सेतुः प्रभवति महानायक इव ॥ १८ ॥ ख्यातः । (उपसंयमनं बन्धनम्)। पोतोऽपि महत्या रज्वा बध्यत इति भावः । केतुः पताका । रावणे पतिते तत्केतुदण्डोऽयं पतित इति लक्ष्यते । ककुत्स्थ- कुटुम्बो रामादिः । संविभागः सम्यग्वण्टनम् । दायादोंऽशहरः। दायं विभजनीय- धनमादत्ते दायादः । 'आतश्चोपसर्गे' इति कः। विभक्तव्यधने दायः' इति विश्वः। वानरपतेः सुग्रीवस्य । कीर्तनं कीर्तिः । दिडिआ इत्यादि । 'दिष्ट्या आर्यपुत्रद- र्शनप्रत्याशाया वन्धप्ररोहणमहौषधं सेतुबन्धो दृश्यते' [इति च्छाया । इह दिष्ट्या हर्षे । प्रत्याशाया बन्धोऽनुबन्धस्तस्य प्ररोहणमङ्कुरस्तत्र महौषधं सेतुबन्ध इत्यजह- ल्लिङ्गतयान्वयः। यदा सेतुबन्धवार्ता मया श्रुता तदा त्वद्दर्शनप्रत्याशाबन्धो वृत इति भावः । 'प्रत्याशायाश्छिन्नप्ररोहणमहौषधम्' इति पाठे प्रत्याशायाश्छिन्नं छेदस्ततः प्ररोहणं जन्म तत्र महौषधमित्यर्थः । छिन्नमिति भावे क्तः । भअवमिति । 'भगवन् , नमस्ते' [इति च्छाया ।] इह 'नमःखस्ति-' इति चतुर्थी । यथेति । अयमपां भर्ता समुद्रस्तथा हारावलिवलयलक्ष्मी वितनुते । क्षमावेष्टनादूरागमनाच हारवलयाकारतया नेत्रविषयो भवतीति भावः । यथायं सेतुर्माणिक्यस्फटिककन- कप्रस्तरबॅरशून्यात्मा व्याप्तः सन्महानायक इव प्रभवति जायते, पारावारं व्याप्य १. 'चरित्रीनन्दिनि'. २. 'दुःखविभाग-'. ३. 'वानरपतेः सुग्रीवस्य कीर्ति- मयोऽयं'. ४. 'त्रिदशयुवती'. ५. 'विभवति'.
३२६ काव्यमाला। अपि चास्मिन्बध्यमाने शैलप्रवेशासंचलीभवद्भिः कल्लोलकूटैरभिताडितानाम् । आसीनिवृत्त्याचलगामिनीनामम्भोधिरेव प्रभवो नदीनाम् ॥१९॥ (सुप्रीवं प्रति ।) सखे, तथा सेतुश्रद्धोत्कलितकपिनिक्षिप्तशिखरि- प्रतिष्ठावर्धिष्णुः क्षणमथ नदीभिः प्रतिवहन् । समुत्खातक्षोणीधरकुहरपूर्तिव्यतिकर- प्रमृष्टाहंकारः सरति तदवस्थो निधिरपाम् ॥ २० ॥ सुग्रीवः-देव, भवचरितचित्रशालिकायामसाकं चेतसि किं किं नाम न लिखितमस्ति । अपि च । । तिष्ठति इति वा योज्यम् । नायको हारमध्यमणिः । कोदशी लक्ष्मीम् । दूरापाति- नीनां दूरादागमनशीलानां देवस्त्रीणां नेत्रः सुलभां सुखप्राप्याम् । बध्यमाने बन्धन प्राप्तवति । शैलेति । समुद्रे शैलप्रवेशात्प्रचलीभवद्भिः कल्लोलसमूहैरभिताडिता- नामाहतानां यतोऽतो हेतोनिवृत्त्य व्याधुव्य पर्वतगामिनीनां नदीनामम्भोधिरेव प्रभव उत्पत्तिस्थानमासीत् । नद्यः पर्वतात्प्रभवन्ति, अत्र तु शैलप्रवेशानन्तरं कल्लोलाघातात्परिवृत्त्याचलंप्रति यान्त्यो नद्यः समुद्रादिव प्रभूता इति भावः । तथेति । तथा सेतुश्रद्धया सेवादरेण उत्कलितैरुत्कण्ठितेः कपिभिनिक्षिप्तानां गिरीणां प्रतिष्ठया संघर्षेण वर्धिष्णुर्वर्धनशीलः । यद्वा सेत्वादरेण उत्कलितानामु- त्पाटितानां कपिभिर्निक्षिप्तानां गिरीणां प्रतिष्ठया उत्कर्षेण वर्धिष्णुः । अथानन्तरं क्षणं नदीभिः प्रतिवहन् सेतुसंगमात्प्रतीपेन वहन् सन् । अथ उत्पाटितशैलस्था- नविवरपूरणव्यतिकरण समूहेन संबन्धेन वा नष्टाहंकारस्तदवस्थो बन्धनकालावस्थः समुद्रः स्मरसि । इह वाक्यार्थस्यैव कर्मता । 'कथमासीन्निधिरपाम्' इत्यपि पाठः । तत्र कथमासीतिकरूप आसीदित्यर्थः । वर्धिष्णुरिति 'अलंकृञ्-' इत्यादिना इष्णुच् । 'कुहरं सुषिरं विवरं बिलम्' इत्यमरः । चित्रशालिका चित्रप्रधानं गृहम् । १. 'प्रबलीभवद्भिः'.
HAR ७ अङ्कः] अनर्घराघवम् । सेतूद्योगे सपदि लवणादन्यमन्तस्तिमिभ्यः कालेनापां मधुरमपि हि खादमुद्भेदयन्त्यः । शैलक्षेपोच्छलितसलिलब्यूहतुच्छे समन्ता- द्वारा पत्यौ पटुतररयं निम्नगाः संनिपेतुः ॥ २१ ॥ विभीषणः-देव मनुवंशमौक्तिकमणे, सद्यः पीत्वा दरीभिर्जलधिमथ चिरादृष्टमैनाकबन्धु- प्रीतिप्रौढाश्रुपूरद्विगुणमहिमभिर्निरैः पूरयन्तः । ये विन्यस्ताः पुरस्तान्निशि निशि निवहैरोषधीनां ज्वलद्भि- स्ते दृश्यन्ते तदात्वोषितकपिशिबिरस्मारिणः सेतुशैलाः॥२२॥ सीता-(सस्मितम् ।) अजउत्त, गोरीगुरुणो गिरिन्दस्स जुवराओ नाम संभावनायां निश्चये वा। सेत्विति । शैलक्षेपादुच्छलितो यः सलिलव्यूहो जलसमूहस्तेन तुच्छे वारां पत्यौ समुद्रे । अत एव पटुतररयं मनोहरवेगं यथाँ स्यादेवं निम्नगा नद्यः संनिपेतुर्मिलन्ति स्म । कीदृश्यः । पूर्व तिमिभिर्मत्स्यभेदैः समुद्रजलस्य लवणः खाद उपलब्धः शैलक्षेपादुच्छलितलवणमयजलपूरैस्तुच्छे समुद्रे तेभ्यस्तिमिभ्यो जलानां मधुरं खादं प्रकाशयन्त्यः । सेतोर्बन्धस्योद्योगे उप- क्रमे सति । कालेन क्रमेण । तिमिभ्य इति तादर्थं चतुर्थी । सद्य इति । ये सेतुशैलाः सेत्वर्थ पर्वताः पुरस्तात्प्रथमं विन्यस्ताः । अर्थात्सेतौ। यद्वा पुरस्तात्प्रथम विन्यस्तास्तटे जलनिधि न प्राप्तास्ते पर्वता निशि निशि प्रतिरात्रं ज्वलद्भिरोषधीनां निवहेर्हेतुभूतैः तदात्वं तत्कालः तत्रोषितमवस्थितं यद्वानरसैन्यं तस्य स्मारिणो दृ. श्यन्ते। ओषधीनां तेजसा पर्वताः कपीनां कपिशत्वाद्वानरसैन्यनिवासभ्रममुत्पाद- यन्तीति भावः । कीदृशाः । दरीभिः कंदरामिर्जलधिं पीत्वा अनन्तरं जलाभावा- दृष्टो यो मैनाक एव बन्धुः । मैनाकस्य समुद्रमध्यस्थितत्वात् । तस्य प्रीत्या प्रौढ उपचितो योऽश्रुपूर आनन्दाश्रुसमूहस्तेन द्विगुणो महिमा महत्त्वं येषां तैर्निर्झरैः पुनर्जलधिं पूरयन्तः । सेतुशैला इति शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। 'तत्कालस्तु तदात्वं स्यात्' इत्यमरः । अजउत्तेति । 'आर्यपुत्र, गौरीगुरोगिरी- १. सेतूद्योगात्', २. 'अन्यमन्यं'. ३. 'पटुतरममू:'. ४. 'जलनिधिमचिरं'. । .
३२८ काव्यमाला। जलणिहिग भवसदी मेणाओ जाणामि पक्खच्छेअंपि विणा थावरीभूदो। राम:-(विहस्य ।) आं जानकि, आम् । क्रौञ्चं विमुच्य पुत्रं च पितरं च हिमालयम् । प्रविश्य जलधि पक्षौ रक्षतानेन किं कृतम् ॥ २३ ॥ सीता-(हसन्ती पुष्पकं प्रति ।) विमाणराव, गअणमग्गचंकमण- कोदूहलुल्लसिअमाणसामि । ता उण्णमेहि दाव । रामः-(सकौतुकस्मितम् ।) देवि रत्नग गर्भरत्नशलाके, पश्य पश्य। यथा यथा परं व्योम विमानमधिरोहति । तथा तथापसर्पन्ति परतः परितो दिशः ॥ २४ ॥ । । न्द्रस्य युवराजो जलनिधिगर्भवसतिमैनाको जानामि पक्षच्छेदमपि विना स्थावरी- भूतः' [इति च्छाया] इह गौरीगुरोहिमालयस्य । युवराजः कृताभिषेकः पुत्रः । गर्भो मध्यम् । जानामीत्यत्र वाक्यार्थस्यैव कर्मता । इतिरध्याहार्यों वा । अपि- मिन्नक्रमः । तेन पदच्छेदं विनापीत्यर्थः । स्थावरः स्थिरः । नौचं गिरिभेदम् किंकृतं कुत्सितं कृतम् । पितापुत्रयोस्त्यागात् । यद्वा 'किं कृतम्' अपि तु न किमपि कृतमित्यर्थः । विमाणेति । 'विमानराज, गगनमार्गचङ्क्रमणकौतूहलोल्ल- सितमानसास्मि । तदुन्नम तावत्' [इति च्छाया] इह चङ्क्रमणं कौटिल्यगमनम् । 'नियं कौटिल्ये गतौ' इति यङ् । 'नुगतोऽनुनासिकान्तस्य' इति नुक् । उन्नम ऊर्च गच्छ । 'उल्लफलिदमाणसहिम' इति पाठे उल्लफलिदशब्दो देशी उत्कण्ठिते वर्तते । 'हलहलमाणसमि' इति पाठे हल्लहलशब्दोऽपि देशी उत्सुकतामाह । यथेति । विमानं कर्तृ परमुपरि । व्योम कर्म । अपसर्पन्ति पलायन्ते । परतोs- न्यस्थानम् । परितः सर्वतः । 'परतः परतः' इति पाठे नित्यवीप्सयोः' इति । १. 'विहस्य' इति पुस्तकान्तरे नास्ति. २. 'विलुप्य'. ३. 'तेन'. ४. 'रत्नगर्मा- गर्भरतशलाके' इति पुस्तकान्तरे नास्ति.
७ अङ्कः] अनर्घराघवम् । ३२९ किं च। आसन्नतपनाश्यानत्वचः पुष्पकपीडिताः। गगनार्णवयादांसि स्तिम्यन्ति स्तनयन्निव ॥ २५ ॥ अपि च । अमी ते गम्भीरस्तनितरवरौद्रा नयनयो- रनायुष्यं पुष्यन्त्यवतमसमुच्चैजेलमुचः । विसर्पद्भिर्येषामुपरि परमिन्दोः परिमलै- रसंबाधज्योत्स्वातिमिरचयचित्रं वियदभूत् ॥ २६ ॥ सुग्रीव:--(अधोऽवलोक्य सकौतुकं रामं प्रति ।) देव, दूरौदवागव- लोकय तावत् । । । । वीप्सायां द्विरुक्तिः । आसन्नेति । आसन्नो निकटो यस्तपनः सूर्यस्तस्य तेजसा आश्यानाः शुष्कास्त्वच इव त्वच एकदेशा येषां. तादृशाः स्तनयित्नवो मेघाः स्तिम्यन्ति आर्दीभूताः शब्दं कुर्वन्ति । यद्यपि स्तिमिर् आर्दीभावे' देवादिक आर्द्रतामात्रे पठ्यते, तथापि स्वभावादाीभावपूर्वकशब्दे तस्य प्रयोगः । तथैव सहचारात् । यादांसि जलजन्तवः। अजहल्लिङ्गतया यादःस्तनयित्नुशब्दयोः सामानाधिकरण्यम् । अमी इति । अमी ते जलमुचो मेघा नेत्रयोरनायुष्यम- नायुःप्रयोजनकमवतमसं क्षीणान्धकारमुच्चरत्यर्थेन पुष्यन्ति पुष्टं कुर्वन्ति । यद्वा उच्चैर्जलमुचो महामेघाः । कीदृशाः । गम्भीरं मन्द्रं स्तनितं मेघध्वनिस्तद्रूपों रवस्तेन रौद्रा भयंकराः । येषां मेघानां परिमलैविमर्दैरसंबाधा असंकटा । विरलेति यावत् । या ज्योत्स्ना तिमिरचयश्च ताभ्यां चित्रं शुक्लकृष्णवर्ण वियदाकाशमभूदु- त्तम् । कीदृशैः । इन्दोरुपरि परं चाधो विसर्पद्भिः। यद्वा येषामुपरि परिमलेरित्य- न्वयः। इन्दोरध इत्यन्वयः। अवतमसमिति 'अवसमन्धेभ्यस्तमसः' इत्यच् । 'क्षीणेऽवतमसं तमः' इत्यमरः 'स्यात्परिमलोऽतिमर्दातिमनोहरगन्धयोश्चापि । १. 'तिम्यन्ति, २. 'अपि च इति पुस्तकान्तरे नास्ति, ३. 'दूरादर्वागवलोकय' 'दूरादवलोकय' MANORAMA ३३० काव्यमाला। निद्भुतोन्नतनतप्रविभक्तिः खखवर्णविनिविष्टपदार्था । अम्बुराशिपरिवेषवती भूश्चित्रकुट्टिममिव प्रतिभाति ।। २७ ॥ अपिच देव, अयमनेन महोदधिभोगिना वलयितो वसुधाफणमण्डलः । जगदनर्धमवाप्य भवादृशं किमपि रत्नमहंकुरुतेतराम् ॥२८॥ सीता-(पुरो दर्शयन्ती ।) को एसो कप्पाणलज्जालाकलाबकढि- जमाणजलणिहिलवणत्थबकणिम्मलअब्मलिहसिहरसहस्समहुरो मही- हरो पलोइज्जदि। विभीषण: -देवि, पुरः प्रालेयशैलोऽयं यस्मिन्मकरकेतवे । मृतसंजीवनी दुर्गा महौषधिरजायत ॥ २९ ॥ इति मेदिनीकरः । 'संबाधः संकटे क्षेपे' इति विश्वः । निद्भुतेति । निद्भुत आच्छादितः । प्रविभक्तिः कुटिलता विभागो वा । वर्णाः शुक्लादयः । विनिविष्टः स्थितः । पदार्थो वस्तु । खे खे वर्णे विनिविष्टाः स्थिताः पदार्था द्रव्याणि यस्यां सा। दूरात्पदार्थविशेषतया न ज्ञाताः शुक्लादिवर्णशालितयैव परमुपलभ्यन्त इति भावः। परिवेषो वेष्टनम् । चित्रमाश्चर्यम् । कुट्टिम भूमिकर्म । अयमिति । अयं वसुधैव फणमण्डलः अनेन महोदधिभोगिना समुद्ररूपसर्पण वलयितो वेष्टितः सन् भवादृशं जगतामनर्घ श्रेष्ठं रत्नमवाप्य अहंकुरुतेतराम् । अत्यर्थमहं- कारं करोतीत्यर्थः । सर्पण कृष्णवर्णत्वात्समुद्रस्य रूपणम् । अब्धिव्योम्नोः कृष्णत्वं कविसंप्रदायः । अनर्घ श्रेष्ठं भवादृशं त्वां रत्नं प्राप्य । 'जातौ जातौ यदुत्कृष्ठं तद्धि रत्नं प्रचक्षते' इति विश्वः । को एसो इति । 'क एष कल्पानलज्वालाकलापक्क- थ्यमानजलनिधिलवणस्तबकनिर्मलाभ्रंलिहशिखरसहस्रमधुरो महीधरः प्रलोक्यते' [इति च्छाया] इह स्तबको गुच्छः । मधुरो हृद्यः । पुर इति । प्रालेयशैलो हिमालयः । मकरकेतवे कंदर्पाय । तादयें चतुर्थी । मृतः संजीव्यतेऽनया। करणे ल्युट् । टित्वात् डीप् । दुर्गा गौरी । दुर्गव महौषधिः । नयनानलदग्धः कामो महेशेन देहीकृतो गौरीप्रहेणेति गौरी मृतसंजीवनी महौषधिः । महौषधिरपि । - ७ अङ्क:] अनर्घराघवम् । सीता-(सकौतुकम् ।) अवि इध जेव चन्दसेहरणअणाणले आहुदीभूदो भअवं मम्महो। विभीषणः-आं देवि, आम् । इयमुत्तरेण देवदारुवनलेखा विषमशरदुरन्तसाक्षिणी। पुरा पुरां भेत्तुरिह त्रिनेत्रीशृङ्गाटके तुल्यरुषि स्थितेऽपि । धेग्धाग्धगित्यज्वलदेकमन्ये तद्भूमपीडामपि नासहेताम् ॥३०॥ रामा-किमुच्यते । नीललोहितललाटलान्छने लोचने जयति कोयपावकः । रक्षितस्य जगदन्तहेतवे यस्य संज्वलनमात्मभूरभूत् ॥ ३१ ॥ सीता-(रामं प्रति ।) अजउत्त, तधा णिरणुक्कोसो कधं उण पडि- णिवुत्तो महादेवो देवीए । मृतसंजीवनी भवतीति ध्वनिः । अवि इध जेवेति । 'अपि इहैव चन्द्रशेखर- नयनानले आहुतीभूतो भगवान्मन्मथः' [इति च्छाया] इह आहुतीभूतो हवनीय- द्रव्यमभूत् । लेखा पतिः । विषमशरः कामः । दुरन्तो दाहः । पुरेति । पुरा पूर्व इह देवदारुवने पुरां भेत्तुः शिवस्य त्रिनेत्री नेत्रत्रयं सैव शृङ्गाटकं वारि- कण्टकं 'सिङ्गाडा' इति प्रसिद्धं चतुष्पथं वा तस्मिन् तुल्यक्रोधेऽपि स्थिते सति एकनेत्रं कर्तृ, धक् धक् धक् इत्यनेनाकारेण कंदर्पदाहार्थमज्वलज्वलितम् । अन्ये इतरे नेत्रे तस्य ललाटनेत्रानेधूमव्यथामपि न असहेतां न सहेते स्म । धगित्यव्यक्तानुकरणम् । 'शृङ्गाटकं भवेद्वारिकण्टके च चतुष्पथे' इति मेदिनीकरः। नीलेति । नीललोहितो हरः । लाञ्छनं चिह्नम् । जगदन्तः प्रलयः। संज्वलनं संधुक्षणकाष्ठम् । आत्मभूः कामः । कामं काष्ठं प्राप्य ज्वलितो हराक्षि- ज्वलनो जगत्रयं धक्ष्यतीति भावः । अजउत्तेति । 'आर्यपुत्र, तथा निरनुक्रोशः कथं पुनः प्रतिनिवृत्तो महादेवो देव्यै' [इति च्छाया । इह निरनुक्रोशो निर्दयः। . १. 'जानकि'. २. 'धगद्धगित्यज्वलदेक'.
३३२ काव्यमाला। सरपरिभवनिःसहायदीधैरथ सुभगंकरणैरियं तपोभिः । तदकृत यदसौ निजेऽपि देहे जयति जगत्पतिरात्मनाद्वितीयः ३२ विभीषणः-(सपरिहासम् ।) चिरमनया तपसित्वा कपालविषविषधरैकचित्तस्य । चक्रे हरस्य मूर्तिः फलमधु फलदमधं च ॥ ३३ ॥ सीता-(विहस्य तं प्रति सकौतुकम् ।) कदरस्सि उण संणिवेसे भ- अवदीए सव्वमङ्गलाए पाणिग्गहणमङ्गलं आसी। विभीषणः-इदं पुरस्तादोषधिप्रस्थं नाम नगराजनगरम् । अत्र हि संप्रदातरि महौषधीमये भूधरे सुखमुवाह पार्वतीम् । मूढकङ्कणफणीन्द्रनिर्भयां तारकेश्वरकिशोरशेखरः ॥ ३४ ॥ प्रतिनिवृत्तः संमुखीभूतः । स्मरेति । इयं गौरी असुभगः सुभगः क्रियते यैस्ते- स्तपोभिस्तदकृत कृतवती यदसौ जगत्पतिः शिवो निजे खीयेऽपि शरीरे आत्मना खेन द्वितीयो द्विसंख्यापूरको जयति वर्धते । एका गौरी द्वितीयस्तु स्वयं भगवान् इत्यैकस्मिञ्शरीरेऽर्धनारीश्वरोऽभूदित्यर्थः । सुभगंकरणेति 'आब्यसुभग-'इति करणे ख्युन् । 'अरुर्द्विषत्-' इति मुम् । आत्मनाद्वितीय इत्यत्र 'आत्मनश्च पूरणे' इति तृतीयाया अलुक् । चिरमिति । अनया गौर्या चिरं तपसित्वा तपश्चरित्वा हरस्य मूर्तिः शरीरमध फलं चक्रे कृतम् । गौर्या तदर्धप्राप्तेः । यद्धि प्राप्यते तत्फलम् । अर्ध च फलदं कृतम् । तदर्धस्य फलदातृत्वात् । 'मूर्तेः' इति पाठे कायस्याध फल- मध च फलदमित्यर्थः स्फुट एव । तपसित्वेति तपश्चरतीत्यर्थे 'कर्मणो रोमन्थत- पोभ्यां वर्तिचरोः' इति क्यङ् । 'क्यस्य विभाषा' इति यलोपः । 'वृष-' इति पाठे वृषो वृषभः । विषधरो वासुकिः । 'मूर्तिः काठिन्यकाययोः' इत्यमरः । कदरस्सि इति । 'कतरस्मिन्पुनः संनिवेशे भगवत्याः सर्वमङ्गलायाः पाणिग्रहणमङ्गलमासीत्' । इति च्छाया।] इह कतरस्मिन्कुत्र। संनिवेशः स्थानम् । सर्वमङ्गला गौरी । ओषधिप्रस्थं हिमालयस्य पादशैलः । नगराजो हिमालयः । संप्रदाता सम्यक्प्रदा- नको। संप्रदातरि सतीत्यर्थः । तारकेश्वरश्चन्द्रः। किशोरो बालः । स शेखरें १. 'सहासम्, २. 'गूढः', 'मुग्ध', - । । ।
७ अङ्कः] अनर्घराघवम् । रामः-आं देवि, इहैव पितरि निजतुहिनसंपत्कल्पितहेमन्तविभ्रमे गौरी । निर्मदभुजंगभूषणमभीषणं प्रियकरं भेजे ॥ ३५ ॥ सीता-(सस्मितम् ।) अजउत्त, अवि एदस्सि जेव्व मअणतणु- दहणवइअणिरप्पणो फुडमविस्ससन्तीए गोरीए चन्दचूडो संघडिदो णिअसरीरेण । रामः-(विहस्य ।) आं देवि, एतस्यां हि तुषारभूधरशिरःसीन्नि प्रियार्धेन च खेनार्धेन च तादृशे पशुपतौ वृत्तेऽर्धनारीश्वरे । शेषेणार्धयुगेन सप्रहसनं गौरीसखीभिस्तदा चक्रे दक्षिणवामयोर्विनिमयादन्योऽर्धनारीश्वरः ॥ ३६॥ यस्य स हरः मुग्धकङ्कणसाभयमन्यां गौरी सुखं यथा स्यादेवमुवाह परिणयति स्म । अमृतरश्मे लत्वेऽपि कन्यादातुर्हिममयत्वान्महौषधीमयत्वाच सो निःस- हाङ्गस्तेन त्वभयंमन्याया गौर्याः सुखपरिणय इति भावः । “किशोरो बालकेऽपि स्यात्' इति शाश्वतः। हेमन्तस्य विभ्रमो विलासो यस्य तस्मिन् । हेमन्ते सर्पा निर्मदा भवन्तीति प्रसिद्धिः । अभीषणमभयंकरम् । प्रियकर हरहस्तम् । अज- उत्तेति । 'आर्यपुत्र, अप्येतस्मिन्नेव मदनतनुदहनव्यतिकरनिरात्मीयः स्फुटम- विश्वसन्त्या गौर्या चन्द्रचूडः संघटितो निजशरीरेण' [इति च्छाया । इह व्यति- करः संबन्धस्तेन निरात्मीयोऽस्वीयः। 'वइरणिप्पण्णो' इति पाठे निष्पन्नवरः । प्राकृते पूर्वनिपातानियमः। चन्द्रचूडो हरः । एतस्यामिति । एतस्यां हिमा- लयशिरःसीमायां तादृशे प्रसिद्ध पशुपती शिवे प्रियार्धन खेनार्धन च अर्धना- रीश्वरे वृत्ते सति सप्रहसनं सहासं यथा स्यादेवं शेषेणावशिष्टेन गौर्याः शिवस्य चार्धयुगेन दक्षिणवामयोर्विनिमयादन्योन्यपरीवर्तादन्योऽर्धनारीश्वरो गौरीसखी- भिश्चक्रे । कृत इत्यर्थः । दक्षिणेन गौरी, वामेन शंकर इति विपर्यासः । अत एव हासः । अर्ध नार्या अर्धनारी सा ईश्वरा यस्य सोऽर्धनारीश्वरः । न तु अधं नारी यस्येति समासं कृत्वा ईश्वरशब्देन कर्मधारयः। एवं हि कपि सति अर्धनारीकेश्वर काव्यमाला। - अपि च। 'संभोगानतिरिच्यमानविभवो यद्विप्रलम्भो रस- स्तदिव्यं मिथुनं परस्परपरिस्यूतं नमस्कुर्महे । एकस्याः प्रतिबिम्बसंभृतविपर्यासे मुहुर्दर्पणे सव्याङ्गस्थितिकौतुकं शमयति खामी स यत्रापरः ॥३७॥ विभीषणः--देव, खच्छन्दैकस्तनश्रीरुभयमतमिलन्मौलिचन्द्रः फणीन्द्र- प्राचीनावीतवाही सुखयतु भगवानर्धनारीश्वरो वः । इति स्यात् । संभोगेति । तद्दिव्यं मिथुनं स्त्रीपुंसौ नमस्कुर्महे । कीदृशम् । परस्परमन्योन्यं परिस्यूतं मिलितम् । यदित्यव्ययं यस्यार्थे । यस्य विप्रलम्भो रसो विप्रलम्भरूपः शृङ्गारः संभोगात् मिलितस्त्रीपुरुषचेष्टाविशेषरूपादनतिरिच्यमानो विवेक्तुमशक्यो विभवो वैभवं यस्य सः । यत्र मिथुने संभोग एव परं शृङ्गारो न विप्रलम्भः । संभोगश्च मिलितत्रीपुरुषयोश्चेष्टाविशेषः स चात्र नित्यमेवेति भावः। 'शृङ्गारः शुचिरुज्ज्वलः सरकलानिर्वेदसंयोगतो हावार्थादुपपद्यते निरुपमाद्भावात्सु- खैकाश्रयः । नारीनायकयोः परस्परभवत्संश्लेषविश्लेषजः संभोगः स च विप्रलम्भ इति च द्वेधा समुत्कीर्तितः ॥ भ्रूविक्षेपकटाक्षवीक्षणकलास्मेरास्यरोमाञ्चितैरन्यैश्चापि विलासचेष्टितलयैरेषोऽभिनेयो नटैः । संभोगेऽप्यथ विप्रलम्भनविधावस्तु प्रपाता- ननास्मेरास्यश्रवणोपतापि (१) वचनक्ष्मातल्पसंसेवनैः ॥' इति संगीतकल्पतरुः । यत्र मिथुने दर्पणे आदर्श प्रतिबिम्बे प्रतिकृती संभृत ऊर्जितः । उपदर्शित इति यावत् । यो विपर्यासो वैपरीत्यं तस्मिन्सति एकस्या गौर्याः सव्याङ्गस्थितिकौतुकं वामानावस्थानकुतूहलमपरः स्वामी शिवः शमयति शान्तं करोति । अयं भावः- शरीरस्य दक्षिणभागं विहाय वामभागे मां धारयतीति खसौभाग्याय शुद्धायां गौर्या दर्पणे वामं दक्षिणं दक्षिणं च वामं दृश्यत इत्याशयेन भगवता 'आदर्श पश्य तावत् , किं दक्षिणभागे धृतासि उत वामभागे' इत्युक्ताया गौर्या आदर्शद- र्शने तथा ज्ञानमभूदिति । 'सव्यं दक्षिणवामयोः' इति विश्वः । स्वच्छन्देति । भगवानर्धनारीश्वरो वो युष्मान्सुखयत्विति संबन्धः । कीदृशः । अर्धस्त्रीकत्वात्ख- १. 'संयोगात्र २. उभयदल-'. ।
७ अङ्कः] अनर्घराघवम् । यस्यार्धे विश्वदाहव्यसनविस्मरं ज्योतिरर्धे कृपोद्य- द्वाष्पं चान्योन्यवेगप्रहतिसिमसिमाकारि चक्षुस्तृतीयम् ॥३८॥ अपि च। खेदावामकुचमण्डलपैत्रभङ्ग- संशोषिदक्षिणकराङ्गुलिभस्सरेणुः । स्त्रीपुंनपुंसकपदव्यतिलचनी वः शंभोस्तनुः सुखयतु प्रकृतिश्चतुर्थी ॥ ३९ ॥ (अन्यतश्च दर्शयन् ।) आपत्ते दनुसूनुसूदनभुजाकेयूरबजाकुर- व्यूहोल्लेखपदावलीवलिमयैरङ्गैर्मुदं मन्दरः। च्छन्दा स्वतन्त्रा एकस्तनस्य श्रीः शोभा यत्र सः उभयमत उभयस्वीकृतः। साधारण इति यावत् । मिलन्मौलिचन्द्रो यस्य सः । फणीन्द्र एव प्राचीनावीतम् । दक्षिण- स्कन्धे तिर्यम्भावेन परिधानात् । तद्वोढुं शीलं यस्य सः । ताच्छीलिको णिनिः। 'उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे । प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बि- तम् ॥' इत्यमरः । यस्यार्धनारीश्वरस्य तृतीयं चक्षुः अर्धे शिवस्वरूपाधै जगद्दाह- व्यसने विसृमरं प्रसरणशीलं ज्योतिज्वलनस्वरूपम् । व्यसनमासक्तिः । अर्धे च पार्वतीस्वरूपे स्त्रीत्वात् विश्वदाहेन जाता या कृपा तया उद्यद्वाष्पं यस्य तादृशम् । ज्योतिर्बाष्पयोरन्योन्यवेगयोः प्रहत्या संश्लेषण सिमसिमारूपशब्दं कर्तुं शीलं यस्य: तादृशमस्ति । अग्नौ तु खल्पजलसंबन्धासिमसिमारूपशब्दः स्यात् । सिमसिमे- त्यव्यक्तानुकरणम् । स्वेदेति । हरस्य तनुर्वः सुखयतु । स्त्रीपुंनपुंसकानां पदं स्थानं तस्य व्यतिलङ्घनी अतिक्रामिका । त्रितयस्यापि वक्तुमशक्यत्वात् । अर्ध- नारीश्वरतनुन स्त्री । सेश्वरत्वात् । न च पुरुषः । सस्त्रीकत्वात् । नापि नपुंसकम् । सेश्वरस्त्रीकत्वात् । अत एव चतुर्थी प्रकृतिः । चतुर्थ लिङ्गमित्यर्थः । 'प्रकृतियोनि- लिङ्गयोः' इति विश्वः । कीदृशी तनुः। हरेण शृङ्गारितया गृहीतगौरीस्तनतटे सात्वि- कभावाविर्भावादुत्पन्नखेदेनार्दो वामकुचमण्डलपत्रभन्नो वामस्तनमण्डलपत्रावली तत्सं. शोषी दक्षिणकराङ्गुलिभस्मरेणुर्यत्र सा । आधत्त इति । अयं मन्दरो गिरिभेदः १. 'विसमरज्योतिः'. २. 'पत्रभङ्गी-'. ३. 'लङ्घनीया'. ४. 'अग्रतश्च'. । । ।
काव्यमाला। । । आधारीकृतकूर्मपृष्ठकषणप्रक्षीणमूलोऽधुना जानीमः परतः पयोधिमथनादुच्चैस्तरोऽयं गिरिः ॥ ४०॥ रामः--(निर्वर्ण्य सस्मितम् ।) तत्राहक्फणिराजरज्जुकषणं संरूढपक्षच्छिदा- घातारंतुदमप्यहो कथमयं मन्थाचलः सोढवान् । एतेनैव दुरात्मना जलनिधेरुत्थाप्य पापामिमां : लक्ष्मीमीश्वरदुर्गतव्यवहृतिव्यस्तं जगन्निर्मितम् ।। ४१ ॥ सीता-(सोद्वेगम् ।) इमिणा जेव्व मत्थुसेसीकिददुद्धसाअरेण चन्दमुद्धरिअ पउसिदभत्तणो इथिआजणस्स उवरि चारहली विढत्ता । अजैर्मुदमाधत्ते । यद्वा अझैलक्षितः । कीदृशैः । दनुसूनुर्दानवस्तत्सूदनो विष्णुस्तस्य बाहुस्थितकणहीरकाङ्कुरसमूहस्य उल्लेखपदावली विदारणस्थानपतिरेव वलिरुदरा- वयवस्त्रिवली तन्मयैः । उल्लेखो विदारणम् । पदं स्थानम् । विष्णुना जलधिमथ- नार्थ वाहुभिर्बध्वा कूर्मपृष्ठे मन्दरो धृतस्तदा तद्बाहुहीरकैरेवं लक्ष्यत इति भावः । समुद्रमथनावसरे आधारीकृतं मथनपात्रीकृतं यत्कूर्मपृष्ठं तस्य कषणेन घर्षणेन प्रक्षीणं कृशीभूतमपचितं मूलं यस्य तादृशो यतः अतः पयोधिमथनात्परतः पूर्व- मयं गिरिरुचैस्तरोऽत्युच्च इति जानीमः । तत्ताडगिति । तत्प्रसिद्धम् । तादृग- तिगुणवत् । फणिराजो वासुकिः स एव रज्जुर्मथनदोरकम् । कषणं घर्षणम् । संरूढ उपचितः । पक्षच्छिदा पक्षच्छेदः । 'इरितो वा' इत्यङ् । घातः किणः । अरंतुदं व्रणव्याकरम् । नवसंरूढव्रणे घर्षणादुःखं भवत्येवेत्यनुभवसिद्धम् । 'विध्व- रुषोस्तुदः' इति खश । 'अरुषिदजन्तस्य-' इति मुम् , सलोपश्च । मन्थाचलो मन्दरः । सोढवान्कथम् । निष्फलमित्यर्थः । यद्वा केन प्रकारेण । अशक्यत्वात् । कुतस्तन्निरर्थकमित्यत आह-एतेनैव मन्थाचलेन समुद्रादिमां लक्ष्मीमुत्थाप्य इदं जगदीश्वरदुर्गतव्यवहारेण व्यस्तमाकुलं निर्मितं कृतम् । लक्ष्म्या अनुत्पत्तौ जगदेक- प्रकृति स्यात् । नतु कोऽपि दुर्गतः कोऽपीश्वर इति । स्त्रीनिन्दामसहमाना सीता चन्द्रात्प्राप्तसंतापा पुरुषमपि चन्द्रं निन्दयितुं खं लक्ष्यीकृत्याह-इमिणाजेव्वेति। 'अनेनैव मस्तुशेषीकृतदुग्धसागरेण चन्द्रमुद्धृत्य प्रोषितभर्तृकस्य स्त्रीजनस्योपरि १. 'सावेग ससंम्रमम्'.
७ अङ्कः] अनर्घराघवम् । ३३७ (सर्वे हसन्ति ।) विभीषणः-(तदेव रामसूक्तं भावयन् ।) अहह । प्रक्षेप्तुमुदधौ लक्ष्मी भूयोऽपि वलते मनः । किं तु प्रक्षिप्त एवायं पुनरायाति चन्द्रमाः ॥ १२ ॥ (विमृश्य चाकाशे।) कस्मैचित्कपटाय कैटभरिपूर पीठदीर्घालयां देवि त्वामभिवाद्य कुप्यसि न चेत्तत्किंचिदाचक्ष्महे । चारहली विस्तीर्णा' [इति च्छाया । इह मस्तु तऋविशेषो दधिजलम् ‘घोल' इति प्रसिद्धम् । 'मण्डं दधिभवं मस्तु' इत्यमरः । तथा च निःसार इत्यर्थः । चारहली पौरुषम् । देशीशब्दोऽयम् । ननु सीतायाः स्वात्मानमुद्दिश्य मन्दं पापालम्भः (१)। तथा च तस्याः प्रोषितपतिकात्वमनुपपन्नम् । तथा हि भरतः-'कुतश्चित्कारणा- न्यस्याः पतिर्देशान्तरं गतः । दत्त्वावधिं भृशाः सा भवेत्प्रोषितभर्तृका ॥' इति । उच्यते-प्रोषितभर्तृकेति विरहिण्या उपलक्षणम् । विरहिणी च कान्तसङ्गमप्राप्त- वती विप्रलम्भरसमनुभवन्ती कालं क्षिपतीति स्थितिः । इदं च सीतायामप्यभूदे- वेत्युपपन्नम् । यद्वा मायाहेममृगवधार्थ तद्धारणमेवावधिं दत्त्वा रामे देशान्तरं गतवति भवत्येव तदा सीता प्रोषितभर्तृकेति । यद्वा प्रोषिता नाम नवमी नायिका। अष्टौ नायिका इत्युपलक्षणम् । सा च सीतैव । तदुक्तं भरते-'प्रवासोऽन्यत्र गमनं भर्तुस्तच विशेषणम् । सीतां च कथमाचष्टे जनः प्रोषितभर्तृकाम् ॥ अन्त- विमपश्यद्भिः पश्यद्भिर्जनकात्मजाम् । प्रोषिता नाम नवमी नायिका स्त्रीत्युदाह- तम् ॥ आयोध्यकस्य गृहिणी राक्षसेन प्रवासिता। प्रवासविप्रलब्धातो भवेत्सीसाथ नायिका ॥' इति सूक्तं सुवचनम् । 'तत्तादृक्फणिराज-' इति । [प्रक्षेप्नुमिति] मनः कर्तृ। वलते लगति। किं तु प्रक्षेपोऽस्या अयुक्तः। चन्द्रः प्रक्षिप्तोऽप्यायाति। यतः सूर्याचन्द्रमसौ पश्चिमसमुद्रं प्रविश्य पूर्वसमुद्रेणोत्तिष्ठत इत्यागमः। कस्मैचिदिति। हे देवि लक्ष्मि, चेद्यदि न कुप्यसि तदा त्वामभिवाद्य नत्वा किंचिदाचक्ष्महे ब्रूमः। कीदृशी । कस्मैचित्कपटाय। वञ्चनेन लोकविश्वासार्थमिति भावः । कैटभरिपुर्विष्णु- स्तस्य हृदयपीठमेव दीर्घश्चिरकालीन आलयो निवासस्थानं यस्यास्ताम् । यत्ते. मन्दिरं गृहमम्बुजन्म पद्मं किमिदमन्तः कुटिलपत्रसंनिवेशं विद्याभ्यासस्थानम् । २२ अ० रा. ।
काव्यमाला। यत्ते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच्च ते नीचान्नीचतरोपसर्पणमपामेतत्किमाचार्यकम् ॥ ४३ ॥ लक्ष्मण:---(सहासम् ।) हन्त, सुरासुरमल्लभटीतूर्यतालनर्तकी सक- लराजकुलखलीकमरखर्जूला साहसिकजनसहस्रशस्त्रान्धकारखेलनखद्योती मधुमथनजीमूतविलासविद्युल्लता किमेवमुपालभ्यते । इयं हि गुणवद्भिः सह संगममुच्चैःपदमाप्तुमुत्सुका लक्ष्मीः । वीरकरवालवसतिर्बुवमसिधारात्रतं चरति ॥ १४ ॥ सीता-(साभ्यसूयमिव ।) णिअदेव्वदुविलासविआरालसो लोओ लच्छीदेवीए दुज्जसवअणाई गाएदि । (पुरो दर्शयन्ती ।) को एसो दीसदि दिअसकूडीकिदजोहाविच्छदपडिरूवो गिरी। अत एव त्वयि कुटिलतेति भावः । यच्च ते नीचान्नीचतरस्योपसर्पणं तत्किमपां जलानामाचार्यकमाचार्यत्वम् । उपदेष्तृत्वमित्यर्थः । यथा आपो नीचानीचतरं यान्ति तथा त्वमपीति भावः । अयमाशयः-हरिवक्षति यच्चिरावस्थानं तल्लोक- विश्वासार्थम् । पद्मे च नीचतरोपसर्पणाध्ययनाय जलसंनिधानार्थितया चिराव- स्थानम् । अन्यत्र चाञ्चल्यमेवेति । मल्लभटी तूर्यम् । 'मलहली' इति प्रसिद्धं तूर्य यद्युद्धकाले ताज्यते । राजकुलं राजसमूहस्तस्य खलीकारः परिभवस्तत्र खजूला कण्डूदायिनी । खजूं लातीति खजूला । 'आतोऽनुपसर्गे कः । आत्मनिरपेक्षं कर्म साहसम् । साहसेन दीव्यते साहसिकः । तेन दीव्यति- इति ठक् । तेषां खड्गान्धकारे कृपाणतमसि खेलने क्रीडायां खद्योती ज्योतिरि- ङ्गणरूपा। अन्यापि खद्योती तमसि खेलतीति ध्वनिः । लक्ष्मीनिमित्तकमेव खड्डा- दिप्रहरणमिति भावः । मधुमथनो विष्णुः स एव जीमूतो मेघः । खद्योतीत्वं विद्युल्लतात्वं च चाञ्चल्यस्फोरणाय । उच्चैःपदं महोत्कर्षेण (महोत्कर्षम्)। करवाल: खड्गः। ध्रुवमुत्प्रेक्षे । असिधाराव्रतम् । असिधारायां संचरणरूपं व्रतमित्यर्थः । चरति करोति । णिअदेवेति । निजदैवदुर्विलासविचारालसो लोको लक्ष्मीदेव्या दुर्यशोवचनानि गायति । क एष दृश्यते दिवसकूटीकृतज्योत्स्नाविच्छर्दप्रतिरूपो गिरिः ॥' [इति च्छाया । इह दैवं भाग्यम् । दुर्विलासो दुर्विपाकः । विच्छर्दः १. 'मल्लारभटी २. 'साहसिकसहस्र- ७ अङ्क:] अनर्घराघवम् । विभीषण:-देवि, सोऽयं कैलासशैलः स्फटिकमणिभुवामंशुजालैज्वलद्धि- श्छाया पीतापि यत्र प्रतिकृतिभिरुपस्थाप्यते पादपानाम् । यत्रोपान्तोपसर्पत्तपनकरधृतस्यापि पद्मस्य मुद्रा- मुद्दामानो दिशन्ति त्रिपुरहरशिरश्चन्द्रलेखामयूखाः॥४५॥ रामः-हन्त, शतधा दृश्यमानोऽपि न चक्षुरकौतुकं करोति । गिरिः कैलासोऽयं दशवदनकेयूरविलस- न्मणिश्रेणीपत्राङ्कुरमकरमुद्राङ्कितशिलः । अमुष्मिन्नारुह्य स्फटिकमयसर्वाङ्गविमले निरीक्षन्ते यक्षाः फणिपतिपुरस्यापि चरितम् ॥ १६ ॥ अपि च । । समूहः । प्रतिरूपस्तुल्यः। सोऽयमिति । सोऽयं कैलासनामा शैलः । अस्ती- त्यध्याहार्यम् । यत्र शैलें पादपानां वृक्षाणां छाया स्फटिकांशुजालैः पीताप्यपङतापि प्रतिकृतिभिः प्रतिबिम्बैरुत्थाप्यते व्यक्तीक्रियते । शून्यनभोभागे स्फाटिककिरणैरेव वृक्षच्छाया नाशिता । स्फटिकभुवि तु प्रतिबिम्बेन गृह्यत इत्यर्थः । गिरेरत्युच्च- तया रवेरुपान्तगमनम् । करो हस्तो रश्मिश्च । धृतं विकासितं विधृतं च । पद्म- मब्जम् । मुद्रा संकोचः । त्रिपुरहरो महेशः । लेखा कला तस्या मयूखाः किरणाः। प्रकाशकसूर्यकिरणसमीपस्थितान्यपि पद्मानि अतिसंनिहितप्रबलमहादेवमस्तकस्थ- चन्द्रकिरणा मुद्रयन्तीति भावः । गिरिरिति । केयूरमङ्गदम् । पत्राङ्कुरं पत्रा- वली । मकरश्चिह्न विशेषस्तस्य मुद्रया चिह्ननाङ्किता शिला यस्य सः । अमुष्मिन्कै- लासे स्फटिकमयसर्वाङ्गविमले. आरुह्य यक्षाः फणिपतिपुरस्यापि वासुकिनगरस्य पातालस्यापि व्यवहारं पश्यन्ति । अत्युच्चत्वात् । यद्वा अति विमलस्फटिकतेजसा १. 'दृश्यमानेन चक्षुः', 'दृश्यमानो न चक्षुः'.
काव्यमाला। दशमुखभुजदण्डमण्डलीनां इंढपरिपीडिनपीतमेखलोऽयम् जलगृहकवितर्दिकासुखानि स्फटिकगिरिगिरिशस्य निर्मिमीते ॥४७॥ विभीषण:-(सीतां प्रति ।) देवि, दृश्यन्ताममी कैलासाद्वितटीषु धूर्जटिजटालंकारचन्द्राङ्कुर- ज्योत्लाकन्दलिताभिरिन्दुदृषदामद्भिर्नदीमातृकाः । गौरीहस्तगुणप्रवृद्धवपुषः पुष्प्यन्ति धात्रेयक- प्रातृस्नेहसहोढषण्मुखशिशुक्रीडासुखाः शाखिनः ॥ १८ ॥ अपि चास्य नित्यमधित्यकावासी परमेश्वरः । सहस्राक्षैरङ्गैर्नमसितरि नीलोत्पलमयी- मिवात्मानं मालामुपनयति पत्यौ मखभुजाम् । चक्षुस्तेजःप्रसरणस्याप्रतिबन्धादिति भावः । दशमुखेति । दशमुखस्य रावणस्य भुजदण्डमण्डलीनां दृढपरिपीडनेन गाढयन्त्रणेन पीता दुर्बलीकृता मेखला यस्य सोऽयं कैलासो महादेवस्य सलिलगृहं 'जलहरी' इति ख्यातं तदेव वितर्दिका वेदिका तत्सुखानि निर्मिमीते ददाति । 'माङ् माने । शपः श्लुः । 'भृञामित्' इतीत्त्वम् । जलनाड्या रावणभुजमण्डलीयन्त्रणेनोर्ध्वगमनाद्धारागृहसुखमिति भावः । 'स्याद्वितर्दिस्तु वेदिका' इत्यमरः । कैलासेति । अमी शाखिनो वृक्षाः कैलास- पर्वतस्य तटीषु पुष्यन्ति पुष्पवन्तो भवन्ति । महादेवजटालंकारीभूतो यश्चन्द्रा- कुरस्तस्य ज्योत्स्नया कन्दलिताभिः पल्लविताभिरिन्दुदृषदां चन्द्रकान्तमणीनामद्धि- जलैनदीमातृकाः । नदी माता परिपालिका येषां ते चन्द्रकान्तप्रसरणजलप्रवाहो नदीत्वेन रूपितः । गौर्या हस्तगुणेन भद्रकहस्तकर्मणा प्रवृद्धवपुषः । अत एव धात्रेयकभ्राता कार्तिकेयः । तन्मात्रा गौर्या शाखिना पोषणात् । धात्री उपमाता गौरी । धात्रेयकभ्रातृस्नेहेन हेतुना सहोढं सहप्राप्तं षण्मुखशिशुक्रीडासुखं बैस्ते । यादृशं सुखं गौरीतः षण्मुखेन लब्धं तादृशं शाखिभिरपि तैस्तेन सहैव लब्धमिति भावः । गिरेरुपरिभूरचित्यका । 'उपत्यकादरासन्ना भूमिर्ध्वमधित्यका' इत्यमरः सहस्राक्षैरिति । सहस्रमक्षीणि येषु तादृशैरज्ञैः कायावयवैर्नमसितरि नति कुर्वति सति मखभुजां पत्यौ इन्द्रे आत्मानं खं चक्षुषां नीलोत्पलसाम्याचीलोत्पल- १. 'मण्डलीमिः २. निबिडनिपीडन'.
। ७ अङ्कः] अनर्घराघवम् । ३११ जिघृक्षौ च क्रीडारभसिनि कुमारे सह गणै- हसन्वो भद्राणि द्रढयतु मृडानीपरिवृढः॥ १९॥ किं च। यन्नाव्यप्रमिपूर्णमानवसुधाचक्राधिरूढे भृशं मेरौ पार्श्वनिविष्टवासरनिशाचके परिभ्राम्यति । तैजस्यस्तडितो भवन्तु शतशो दृष्टा हि जाताः कथं तामस्योऽपि स वः पुनातु.जगतामन्तेष्टियज्वा विभुः ५० लक्ष्मण:- जयति परिमुषितलक्ष्मा भयादनुपसर्पतेव हरिणेन इह केसरिकरजाकुरकुटिला हरमौलिविधुलेखा ॥ ५१ ॥ मयीमिव मालारूपामुपनयति सति क्रीडारभसिनि कुमारे कार्तिकेये तां च पद्ममा- लाभ्रमेण जिघृक्षौ ग्रहीतुमिच्छौ सति हसन्सन् मृडानीप्रभुमहेशो वो युष्माकं कल्याणानि द्रढयवित्यर्थः । नमसितरीति 'नमो वरिव- इति क्यच् । 'यस्य हलः' इति यलोपः । परिवृढः प्रभुः । 'प्रभौ परिवृढः' इति निपातनम् । यन्ना- ट्येति । स भगवान् अन्तेष्टिरन्तकालयज्ञः प्रलयनामा तस्य यज्वा याज्ञिको विभुः सर्वव्यापी महादेवो वो युष्मान्पुनातु । यस्य प्रलयार्थ नाट्येभ्रम्या मण्डलीभ्रमेण घूर्णमानं भ्रमितं यद्भूचक्र तत्राधिरूढे मेरौ सुमेरौ अत एव भृशमत्यर्थ भ्राम्यति सति तैजस्यतेज़ोविकारास्तडितो विद्युतो भवन्तु । हि यतस्ताः शतशो बहुधा दृष्टाः । तामस्थस्तमोविकारा अपि तडितः कथं भवन्तु । अदृष्टपूर्वत्वात् । तथापि दृश्यन्त इत्याश्चर्यम् । ननु कथं तैजस्यस्तामस्यश्च तडितो भवन्तीत्यत आह- मेरौ कीदृशे । पाधै समीपे निविष्टाभ्यां दिनरात्रिभ्यां चित्रे कर्बुरे । अयमाशयः- परमेश्वरनाट्येन परिभ्राम्यति सुमेरौ समीपस्थितदिवसरात्र्योरपिभ्रमणेन यथाक्रम तेजस्य स्वामस्यश्च तडितो जाता इति । जयतीति । इह कैलासतटीभूमौ शिव- शिरःशशिलेखा जयति । कीदृशी । सिंहनखाग्रवत्कुटिला वका । अत एव सिंहन- खभ्रमजन्यत्रासादनुपसर्पतेव पलायमानेनेव हरिणेन परिमुषितं त्यक्तं लक्ष्म कलङ्को १. पार्थनिवेशि-'पानिवासि- ।
३४२ काव्यमाला। सीता-(सपरिहासम् ।) एदस्स दंदसूअणरकरोडिमुण्डमालामण्ड- णस्स मसाणवासिणो भूसणता जेव्व रोहिणीवल्लहस्स कलंको, किं तवस्सिणा कुरङ्गएण। विभीषणः-(विहस्य ।) शके भगवानपि न मृगाङ्कमलंकारकामः कलयति । तथा हि। सहचरपिशाचपरिषत्प्रसत्तये कामचारतो रजनीम् । कारयितुमिव कपाली शिरसि निशाकरमयं वहति ॥ ५२ ।। (सर्वे हसन्ति ।) राम:-(सबहुमानम् ।) श्रीकण्ठस्य कपर्दबन्धनपरिश्रान्तोरगग्रामणी- संदष्टां मुकुटावतंसकलिकां वन्दे कलामैन्दवीम् । यस्य तादृशी । हरिणेनेति 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया । करजो नखः । अनुपसर्पतेवेत्यत्र इवशब्द उत्प्रेक्षायाम् । 'अन्यथैव स्थिता वृत्तिश्चेतनस्ये- तरस्य वा । अन्यथोत्प्रेक्ष्यते या तु तामुत्प्रेक्षां विदुर्बुधाः' । 'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उप्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥ इति दण्डी । वस्तुतस्तु-हरशिरःस्थितचन्द्रलेखायां कलको न वर्तत एवेति तत्रोत्प्रेक्षा । एद. स्सेति । एतस्य दंदशकनरकरोटिमुण्डमालामण्डनस्य श्मशानवासिनो भूषणतैव रोहिणीवल्लभस्य कलङ्कः, किं तपखिना कुरङ्गकेण' [इति च्छाया । इह दंदशकः सर्पः । नरकरोटिब्रह्मकपालास्थि । लडआ' इति प्रसिद्धा । रोहिणीवल्लभश्चन्द्रः। तपखिना वराकेग । कुरण केणाल्पहरिणेन । अल्पार्थे कन् । 'भूषणताविलम्बनमेव' इति पाठे अलंकरणतारूपं विडम्बनं घर्षणमेव कलङ्क इत्यर्थः । कलयति धारयति । सहचरो द्वितीयः । परिषत्समूहः। प्रसत्तिः प्रसन्नता । कामचारत इच्छातः । पिशाचानां रात्रिचरत्वाचन्द्रोऽप्ययं निशां करोत्वितिकृत्वा शिवश्चन्द्रं वहति । एत- देव निशाकरपदोपादाने बीजम् । इवेत्युत्प्रेक्षायाम् । सबहुमानं सादरम् । श्रीक- ण्ठस्येति । ऐन्दवीमिन्दुसंवन्धिनी कलां वन्दे नमामि स्तौमि वा। श्रीकण्ठस्य शिवस्य कपर्दबन्धनेन जटाजूटसंयमनेन परिश्रान्तो य. उरगग्रामणीः सर्पराजो १. तथाहि' इति पुस्तकान्तरेषु नास्त्रि, २. शिरोनिशाकर.
७ अङ्कः] अनर्घराघवम् । ३४३ या बिम्बप्रतिपूरणाय परितो निष्पीड्य संदंशिका. यन्त्रेणेव ललाटलोचनशिखिज्वालाभिरावयते ॥ ५३ ।। (पुष्पकं प्रति ।) विमानराज, मनागुन्नम्यताम् । आलोकयतु मैथिली सु- मेरुशिखराणि । विभीषणः-(सीतां प्रति ।) देवि पश्य पश्य । मेरोमेंदुरयन्ति संमदमधःसंपातिभिज्योतिषा- माटोपैर्विटपोपरिस्थिततरुच्छायाभृतोऽधित्यकाः । निष्पीतासु च मासि मासि विबुधैरिन्दोः कलासु क्रमा- दुद्दामप्लवमानलाञ्छनमृगच्छिन्नारदर्भाङ्कुराः ॥ ५४ ॥ । बासुकिस्तेन संदर्य कवलिताम् । अवतंसो भूषणम् । कलिकेव कलिका । या कला विम्वप्रतिपूरणाय अर्थाश्चन्द्रस्य संपूर्ण मण्डलं कर्तुं संदंशिका 'संडासी' इति प्रसिद्धा । सा च वासुकिरेव तद्रूपयन्त्रेण निष्पीड्य यन्त्रयित्वा महेशस्य ललाटलो- चनज्वालाभिरावर्खते द्रवीक्रियत इव । अन्यदपि हिरण्यादिकं किंचित्पूरणाय संद- शिकया धृत्वाग्निभिरावर्त्यत इति ध्वनिः । 'प्रामणी पिते प्रभौ' इति विश्वः । 'उग्रः कपर्दी श्रीकण्ठः' इत्यमरः । कपर्दोऽस्य जटाजूटः' इत्यपि । उन्नम्यतामूर्व गम्य- ताम् । मेरोरिति । अधित्यकाः पर्वतोर्वभूमयः । मेरोः संपदं हर्ष संपदं शोभा वा मेदुरयन्ति उपचितीकुर्वन्ति । कीदृश्यः । अधःसंपातिभिरधःसंचारिभिः सूर्या- दीनां ज्योतिषां तेजसामाटोपैः समूहहेतुभूतैः शाखोपरिस्थिततरुच्छायां बिभ्रति यास्ताः । यदा ज्योतिरूवं तदाधश्छाया, यदा चाधस्तजस्तदोपरिच्छाया । अत्र च मेरोरुच्चतया शैलाग्रस्थितवृक्षाणामधो ज्योतिषामाटोपादूर्ध्वमेव च्छाया। तेन च्छायानां स्थिरत्वमिति भावः । मासि मासि प्रतिमासम् । 'पहन्नोमास्-' इत्यादिना मासशब्दस्य हलन्तो मास्आदेशः। निष्पीतासु भक्षितासु । यथा-'पर्यायपीतस्य सुरै- हिमांशोः' इति । विबुधैर्देवैः । उद्दाम उद्भटः । मृगस्योद्दामत्वं प्रतिबन्धकचन्द्रभक्ष- २, 'उत्क्षम्यताम्', 'उत्ताम्यताम्'. २. 'अवलोकयतु'.
काव्यमाला। लक्ष्मणः-(सीतां प्रति ।) एतासु पर्वतनितम्बतटीषु पश्य मध्यंदिनेऽपि हरिचन्दनवाटिकेयम् । पक्षस्थितधुमणिबिम्बतयातिदीर्घ- च्छायावितानमधुरा मुदमादधाति ॥ ५५॥ अपि च। भूमेः खर्णतया फलोत्तरतरुस्मेरस्य मेरोस्तटी- सीमन्तोऽयमनूरुसारथिरथप्रस्थानघण्टापथः । अस्मिन्नुद्भियते कथंचन हयैरुद्दामचण्डातप- ज्वालाजालविलीनकाञ्चनशिलाजम्बालमग्नः प्रधिः ॥ ५६ ॥ । णात् । दर्भः कुशः । एताविति। नितम्बः कटकम् । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः। मध्यंदिने दिनमध्ये । मध्यशब्दादौणादिको दिनप्रत्ययः। हरिचन्दनं देवदारुभेदः । पक्षः सुमेरोः पार्श्वम् । घुमणिः सूर्यः। छाया प्रतिबिम्बम् । वितानो विस्तारः । मधुरा मनोज्ञा । अन्यत्र प्रातःसायंकालयोवृक्षच्छाया दीर्घा । अन तु रवेः पार्श्वस्थतया मध्याहेऽपि सा दीर्घति हर्ष इति भावः । भूमेरिति । अयं मेरोस्खटीसीमन्तस्तटीरेखा । स्त्रीकेशरचनारेखायां सीमन्तशब्दो मुख्यः । इह तु लक्षणया रेखामात्रे प्रयुक्त इति । भूमेः वर्णतया फलोत्तराः फलप्रधाना ये तर- वस्तैः स्मरस्य सहासस्य । वर्णादिप्रदेशे तरूणां फलोपचय इति प्रसिद्धिः। अनूरु- सारथेः सूर्यस्ख रथानां प्रस्थाने गमने घण्टापथो राजमार्गः । अस्मिन्सीमन्ते हयै- स्वैः अर्थादादित्यस्य प्रधिश्चक्रान्तः कथंचन कष्टसृष्ट्या उद्भियते उत्तोल्यते। उ-- हामा उद्भटा या चण्डातपज्वाला सूर्यार्चिस्तस्याः समूहस्तेन विलीना आवर्तिता। द्रवी- भूतेति यावत् । काञ्चनशिला सुवर्णप्रस्तरः । सैव जम्बालः कर्दमः । तत्र मग्नः । तथा च कर्दमममत्वात्कष्टेनोभियत इति भावः । 'घण्टापथः संसरणम्' इत्यमरः । 'नेमिः स्त्री स्यात्प्रधिः पुमान्' इति च । उपर्युपरीति 'उपर्यध्यधसः सामीप्ये" १. मूलपुस्तकेष्वयं शोकः 'भूमेः खर्णतया-'इत्यानिमश्चोकादनन्तरं वर्वते. - हरतेरकर्मकत्वम् । 'विहरति हरिरिह सरसि वसन्ते' इत्यादौ । ७ अङ्कः] अनर्घराघवम् । (निरूप्य च सहर्षस्मितम् ।) कथमुपर्युपरि पुष्करावर्तकानप्रमुवल्लभः । (विमृश्य ।) अद्यायं विबुधेन्द्रबान्धववधूसंभुक्तसंतानक- स्रग्दानीममरावती विहरते निर्वैरमैरावणः । यं दोर्मात्रपरिच्छदो युधि मुदोरिक्षप्य प्रतीच्छन्मुहुः संतेने दशभिर्निजैरपि मुखैः सांराविणं रावणः ॥ ५७ ॥ इति द्विरुक्तिः । पुष्करावर्तकान्मेघभेदान् । 'पुष्करावर्तका मेघाः पुण्यवारिप्रवर्षिणः इति ज्योतिःशास्त्रम् । 'उभसर्वतसोः' इत्यादिना द्वितीया । अभ्रमुवल्लभ ऐरावतः। ऐरावतस्य पुष्करावर्तको वाहनमिति प्रसिद्धिः। अद्यायमिति । ऐरावण ऐरावतः निर्वैरं शत्रुशून्यं यथा स्यादेवममरावतीमिन्द्रनगरी विहरते । भ्रमतीत्यर्थः। कर्ब- भिप्राये तङ् । विबुधेन्द्र इन्द्रस्तस्य बान्धवो मित्राणि देवास्तेषां वध्वोऽप्सरसस्ताभिः संभुक्तमुपभुक्तं संतानको देववृक्षो देवपुष्पं वा तस्य स्रग्दाम स्रगेव । वज्राशनि- न्यायात् । यद्वा खजो मालाया दाम समूहः । यद्वा खजा दाम वेष्टनं यत्र तादृशीम् । यमैरावणं दोर्मात्रपरिच्छदो भुजैकसहायो रावणो युधि सङ्ग्रामे, मुदा हर्षेणोत्क्षि- प्योर्ध्व नीत्वा वारंवारं प्रतीच्छन्सन् स्वीयैर्दशभिर्मुखैः सांराविणं संभूय रवं संतेने नितनुते स्म । साराविणमिति, 'अभिविधौ भाव इनु' । 'अणिनुणः' इति खा- र्थेऽणि 'इनण्यनपत्ये' इति प्रकृतिभावान्न टिलोपः। 'संरावो बहुभिः कृतः' इत्य- मरः। ननु 'दामहायनान्ताच्च' इत्यत्र संख्याव्ययादेः' इत्यनुवर्तते तत्कथं दानीत्यत्र डीए । मैवम् । 'डाबुभाभ्यामन्यतरस्याम्' इत्यतोऽन्यतरस्यांग्रहणादसंख्याव्यया. देरपि 'दामहायनान्ताच्च' इति ङीषो विधानात् । विहरत इत्यत्र यद्यपि विपूर्वस्य तथापि तत्र क्रीडार्थतया विहरतेः प्रयोगः । अत्र तु भ्रमणार्थतया। तथा च सकर्मकत्वमेव । भ्रमणार्थता च धातोरनेकार्थत्वात् । 'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते' इति न्यायाद्वा । न च विहरतेः क्रीडायां रूढेस्तत्त्यागे रूढिच्युतकं स्यादिति सांप्रतं विहरते नार्थत्वात् । तथाहि मेदिनीकर:-विहारो भ्रमणे स्कन्धे लीलायां सुगतालये' इति । यद्वा देशे अत्यन्तसंयोगे द्वितीया । १. 'पुष्करावर्तकानाम्', ।
काव्यमाला। सुग्रीवः-सत्यमगोचरे गिरां दशकण्ठक्रीडितानि । एकैके निवसन्ति ते भुजभृतः कमै निगृह्णामहे वीरक्षेत्रमियं पुनर्वसुमती पौलस्त्यमाविभ्रती । वाली त्वाह्वयमानमेनमपि यच्चक्रे कृते चक्षुषी पश्यामः श्रवसी कृते च शृणुमस्तद्वक्तुमल्पे वयम् ॥५८॥ राम:-(सबहुमानम् ।) स किं वाच्यो वाली भुजकुलिशमूलेन देशतो दशग्रीवं यस्य प्रतिजलधि संध्याविधिरभूत् । कथं वा निर्वाच्यः स च दशमुखो यस्य दमने मनागासीद्वालिव्ययचरितमेवोपकरणम् ॥ ५९॥ “कालभावाध्वदेशानाम् इति न्यायात् । तथा चामरावतीं प्राप्य विहारं करोतीत्यर्थः । अगोचरे अविषये । एकैक इति । एकैके अनेके ते भुजबलभृतो बाहुबलधारिणो निवसन्ति । तेषु मध्ये इत्यर्थात् । कस्सै निगृह्णामहे कुत्सां कुर्मः । कस्मै इत्यत्र 'क्रियाग्रहणमपि कर्तव्यम्' इति संप्रदानता । 'ग्रह गृह्ण कुत्सायाम्' । इयं पुनर्भूमी रावणं दधाना वीरक्षेत्रं वीराणां स्थान- मस्ति । वाली पुनरेनमपि रावणमपि आह्वयमानं स्पर्धमानं यच्चके यादृशं परिभवभाजनं कृतवान् । कक्षास्थमित्यर्थः । तच्चक्षुषी कृते इति कृत्वा पश्यामः । श्रवसी कौँ कृते इति कृत्वा शृणुमः । वक्तुं तद्वयमल्पे असमर्था एव । श्रवणौ चक्षुषी च द्वे द्वे इति श्रुतं दृष्टं च । एकेनैव तु मुखेन कथं रावणपरिभवो वालि. पराक्रमश्च वक्तुं शक्यः । बहुभिरेव मुखैर्वक्तुं शक्यत इति भावः । अल्पे इत्यत्र 'प्रथमचरम-' इत्यादिना जसि सर्वनामसंज्ञा । स किमिति । किं वाच्यः। अपि तु वक्तुमेव न शक्यः । भुज एव कुलिशं वज्रम् । दशतः पीडयतः। प्रतिजलघि समुद्रे समुद्र । वीप्सायामव्ययीभावः । रावणं कक्षायां निक्षिप्य प्रतिसमुद्र वाली संध्यावन्दनं कृतवानिति प्रसिद्धिः । दमने मारणे । व्ययो विनाशः। चरितमाचरणम् । मनागेकदेशतः । उपकरणं रावणवधकरणमित्यर्थः । रावणजेतृ- १. 'निगृहीमहे', 'निगृहामहे. २. 'दधतो'.
७ अङ्कः] अनर्घराघवम् । ३४७ सीता-(रामं प्रति ।) अजउत्त, किं उण एवं दलिदकप्पूरस- लाआमलक्कगोरअंगअणङ्गणे दीसइ । विभीषणः-(सीतां प्रति ।) देवि, चन्द्रलोकोपकण्ठमधिरूढो वि- मानराजः । दृश्यतां च भगवानयम् । यं प्राक्प्रत्यगवागुदञ्चि ककुभां नामानि संबिभ्रतं ज्योत्स्नाजालझलझलाभिरभितो लुम्पन्तमन्धं तमः । प्राचीनादचलादितस्त्रिजगतामालोकबीजाहि- निर्यान्तं हरिणाङ्कमङ्कुरमिव द्रष्टुं जनो जीवति ॥ ६०॥ विनाशे सति रावणस्य सुकरत्वादिति भावः । तथा च येन वालिना रावणः कक्षायां निक्षिप्य धृतः स वाली यथा नाशितस्तथैवायं रावणोऽपीति रावणस्य शौर्योत्कर्षः प्रतिपादितः । अजउत्तेति । 'आर्यपुत्र, किं पुनरेतद्दलितकर्पूरशलाकाखण्डगौर गगनाङ्गणे दृश्यते' [इति च्छाया ।] इह दलिता भन्नाः शलाकाः काष्ठिकाः 'सराग' इति ख्याता । 'छत्रादिकाष्टीशरयोः शलाका' इति मेदिनीकरः । मल्लक इति देशी खण्डवाचकः । गौरं शुभ्रम् । 'अवदातः सितो गौरः' इत्यमरः। उपकण्ठः समी- पम् । यमित्यादि। यं हरिणाझं द्रष्टुं जनो जीवतीयन्वयः । कीदृशम् । प्राकू प्राची, प्रत्यक् प्रतीची, अवाक् दक्षिणा, उदक उत्तरा, एवंरूपाणि ककुभां दिशां नामानि संबिभ्रतं धारयन्तम् । प्राच्यादिव्यपदेशस्य चन्द्रसूर्यादिनिमित्तकत्वात् । यत्र प्रथममञ्चति चन्द्रः स प्राक् । यत्र प्रतीपमञ्चति स प्रत्यक्, यत्रावाञ्चति ति. यंग्याति सोऽवाक् । यत्रोत्तरमञ्चति स उदग्देश इति व्युत्पत्तेः । इह 'दक्षिणस्या- मवाच्येव' इति विश्वप्रकाशकोषादवपूर्वस्याश्चतेरधःप्रदेशार्थत्वात् 'अवाङ्मुखस्योपरि पुष्पवृष्टिः' इत्यादौ तथा निर्णयाद्दक्षिणादिग्वाचकोऽवाक्शब्द इत्यवधेयम् । ज्यो- नाजालस्य झलझलाभिरास्फालैः । आघातैरिति यावत् । अभितः सर्वतोऽधंतमो माडान्धकार लम्पन्तं नाश्यन्तम् । प्राचीनात्पूर्वनोद्भवादितोऽस्मात्पर्वतान्निर्यान्त- मुद्यन्तम् । आलोकबीजाद्दर्शनकारणात् । कीदृशम् । अङ्करमिव अङ्कुरतुल्यम् । अन्योऽप्यकुरो बीजाहिर्निर्गच्छन्दृश्यत इति ध्वनिः । 'स्यादास्फाले झलञ्झला' १. 'च' इति पुस्तकान्तरे नास्ति. । । । ।
काव्यमाला। अपि च। - स श्रीकण्ठकिरीटकुट्टिमपरिष्कारप्रदीपाङ्कुरो देवः कैरवबन्धुरन्धतमसप्राग्भारकुक्षिभरिः । संस्कर्ता निजकान्तिमौक्तिकमणिश्रेणीभिरेणीशां गीर्वाणाधिपतेः सुधारसवतीपौरोगवः प्रोदगात् ॥ ६१॥ अपि च । प्राणायामोपदेष्टा सरसिरुहवने यौवनोन्मादलीला- गोष्ठीनां पीठमर्दस्त्रिभुवनवनितानेत्रयोः प्रातराशः इति हारावली । 'आलोको दर्शनोद्योतो' इत्यमरः । स श्रीकण्ठेति । सोऽयं कैरवबन्धुश्चन्द्रः प्रोदगादुदितः । श्रीकण्ठस्य शिवस्य यत्किरीटं मुकुटं तदेव कुट्टिम गृहभेदो भूमीकर्म वा तस्य परिष्कारे प्रदीपाकुर इव प्रदीपकलिकेवेत्युत्प्रेक्षा । अन्यस्यापि कुहिमस्य रात्रौ परिष्कारः प्रदीपेन क्रियत इति ध्वनिः । अन्धतमसानां गाटान्धकाराणां यः प्रारभारः प्राचुर्य तेन कुक्षिभरिः। अशेषान्धकारनाशक इति भावः । निजकान्तिरेव मौक्तिकमणिश्रेणी तया अङ्गनानां संस्कर्ता अलंकर्ता । 'संपर्यु- पेभ्यः करोती भूषणे' इति सुट् । गीर्वाणाधिपतेरिन्द्रस्य सुधारसवती अमृतपाकस्थान तस्य पौरोगवो महानसाधिपः । 'रसवती पाकस्थानं महानसम्' इत्यमरः । 'पौरो- गवस्तध्यक्षः' इति च । प्राणायामेति । एष पीयूषभानुश्चन्द्रो विभवति उदेति। सरसिरहवने प्राणायामोपदेष्टा पद्मवने निमीलनमौनकथकः । प्राणायामे हि नेत्र- निमीलनं मौनं च क्रियते । स निमीलितदृङ्मौनी प्राणायामान्समभ्यसेत् इति स्मृतेः । यौवनोन्मादे या लीला विलासस्तदर्थ या गोष्ठी मेलकं तस्याः पीठमर्दोs- नुनायकविशेषः । तथा च भरतः-'पीटमर्दो विटश्चैव विदूषक इति त्रयः । शृङ्गारे नर्मसचिवा नायकस्यानुनायकाः ॥' इति । यथा मालतीमाधवे मकरन्दः पीठमर्दः। पुनः कीदृशः । त्रिभुवनवनितानां त्रैलोक्यस्त्रीणां नेत्रयोर्लोचनयोः । स्तनादीनां द्विष्ठा जातिः' इत्युक्तत्वात्स्त्रीणां बहुत्वेऽपि नेत्रयोरिति जात्यपेक्षया द्वित्वम् । प्रात- राशः प्रातर्भोजनम् । नेत्रयोरिति द्विवचनेन तासां सुखित्वं प्रत्येकमेव ध्वनितम् । यथा लोकाः किंचिदुक्त्वैव दारेषु सुखं प्रवर्तन्ते तथैता अपि चन्द्रं दृष्ट्वा काम- १. 'अपि च इति पुस्तकान्तरे नास्त्रि. ।
३४९ mamiAN ७ अङ्कः] अनर्घराघवम् । कामायुष्टोमयज्वा शमितकुमुदिनीमौनमुद्रानुरागः शृङ्गाराद्वैतवादी विभवति भगवानेष पीयूषभानुः ॥ ६२ ॥ लक्ष्मण:-(विलोक्य सकौतुकम् ।) कर्णोत्तंसयवाङ्कुरं करतले कृत्वा हसित्वा मिथः संहूतः पुरुहूतपौरयुक्तीवर्गेण कौतूहलात् । प्रासार्तिक्षुभितोऽयमङ्कहरिणः कुर्वीत किं किं कला- कन्थामिन्दुमयीमजस्रघटेनोद्धाटश्लथावस्थिताम् ॥ ६३ ॥ सुग्रीवः- रोमन्धप्रचलौष्टसंपुटसुखासीनश्चिरं कौतुका- दृष्ट्वा सिद्धवधूभिरङ्कहरिणस्तालैरथोत्रासितः। मा भाङ्क्षीदनुमासनव्यघटनानिःसंधिबन्धं वपुः शीतांशोः क्षुभितस्तु शल्यवयं दुःखाय वर्तिष्यते ॥६॥ केलिषून्सहन्त इति भावः । 'प्रातराशः कल्यवर्तः प्रातभॊजनमित्यपि' इति हारा- वली । कंदर्पस्यायुष्टोम आयुर्वर्धको यागस्तस्य यज्वा कर्ता । 'ज्योलिरायुषः स्तोमः' इति षत्वम् । भूयः किंभूतः । शमितः कुमुदिनीनां मौनं तूष्णींभावस्तद्रूपा मुद्रा मीलनग्रहस्तदनुरागो येन स तथा। पुनः कीदृशः । शृङ्गाराद्वैतवादी शृङ्गार एव परं नान्यः कश्चिद्रस इति वादकः । कर्णोत्तंसेति । अयमङ्कहरिणः इन्दुमयीं कला- कन्यां कलया या कन्था कन्थेव कन्था इति प्रसिद्धा तां किं किं कीदृशीं कीदृशी कु- वति । अपि तु यवाङ्कुरभक्षणाय निरन्तरचलनाद्विपर्यस्ता कुर्वीतेति भावः। बहुशो निर्माणे उद्घाटश्चालनं तेन श्लथीभूय स्थिताम् । कृष्णपक्षे प्रत्यहमेव कलाया आक- र्षणात् श्लथत्वम् । रोमन्थेति । अयमङ्कहरिणः शीतांशोः शरीरं मा भाजीत् मा भन्नं कुर्यात् । तु पुनः क्षुभितश्चलितः सन् शल्यवदुःखाय वर्तिष्यते । भङ्गहेतुविशे- षणमाह-रोमन्थेत्यादि । तालैहतद्वयसंयोगजन्यशब्दभेदैः । वपुः कीदृशम् । अनुमासं प्रतिमासं या नव्यघटना नूतनघटनं तया निःसंधि संधिशून्यं बन्धो यत्र १. आशाति-.२. घटनादुद्यच्छुथावस्थिताम्'. ३. बहुत्रासितः''अथोल्लासितः'.
काव्यमाला। अपि च। एतस्य कलामेकाममृतमयूखस्य पार्वतीरमणः । वर्णावलिमिव वहति प्रतिमासं घट्यमानस्य ॥ ६५॥ रामः-(सादरं प्रणम्य।) वं गीर्वाणगणाय नित्यममृतश्राद्धं भवद्दीधिति- र्धात्रीकर्म च वीरुधां विदधती धत्ते जगज्जीवितम् । सोम त्वामनिधाय मूर्धनि भवेत्कः कालकूटं गिल- कण्ठे तच्छलकालपाशवलयालीढोऽपि मृत्युंजयः॥ ६६ ॥ (सीतां प्रति ।) नेत्राणां मधुपर्कसत्रमुदधेः सर्वाङ्गमेदस्करः शृङ्गारस्य रसायनं मखभुजां पीयूषगञ्जापतिः । तादृशम् । वर्णावलिमिव । यावतो वारानयं घटितस्तावदक्षरपङ्किमिवेत्यर्थः । घट्य- मानस्य क्रियमाणस्यात्वमिति । हे सोम, त्वं देवगणायामृतश्राद्धममृतरूपं हव्यम्। असीति शेषः। 'हव्ये कव्ये भवेच्छाद्धम् इति विश्वः। भवतो दीधितिः किरणो जगतां जीवितं प्राणान्धत्ते । कीदृशी । वीरुधां लतानां धात्री उपमाता तत्कर्म परिपालनत्र- रूपं विदधती कुर्वाणा। जलेन चन्द्रतेजसा च वृक्षा जीवन्तीति ध्वनिः । त्वां मूर्धनि मस्तके अनिधायाधृत्वा कालकूट विषमेदं गिलन्सन् कण्ठे गले तच्छलेन कालकू- टव्याजेन यमपाशवलयेन यमरज्जुवेष्टनेनालीढ आस्खादितोऽपि मृत्युंजयो मृत्यो- जैता को भवेत् । अपि तु न कोऽपि जीवेदित्यर्थः । तथा च भगवानेव शिवस्त्वां मूर्धनि निधायामृतरूपकिरणधारणाद्विषमपि गिलजीवतीति भावः। नेत्राणामिति। अयं दाक्षायणीनायकस्तारापतिश्चन्द्रः । अस्तीति शेषः । किं स्तुमहे कथं स्तुमहे । तमिति शेषः । अपि लतिगुणशालितया स्तोतुमेवैनं न पारयामः । कीदृशः। नेत्राणामानन्ददायित्वेन मधुपर्कस्य दधिमधुघृतखरूपस्य सत्रं यज्ञः सदा भोज- नशाला वा । 'सतर' इति यस्य प्रसिद्धिः । 'सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च' इत्यमरः । उदधेः समुद्रस्य मेदो मांसवृद्धिस्तत्कारकः । 'नित्यं समासे-' इति सत्वम् । रसायनं सदा क्रियमाणपुष्टिप्रदमौषधम् । पीयूषस्य गजा गृहं तत्पतिः। । । । PHEMISATTA CHHOSPES ७ अङ्क: अनर्घराघवम् । देवः किं स्तुमहे महेश्वरशिरोनेपथ्यरत्नाङ्कुरः क्षीरोदार्णवशुक्तिमौक्तिकमयं दाक्षायणीनायकः ॥ ६७॥ सीता-(हसन्ती) अजउत्त, समाणकुलसीलरूवजोव्वणाणं वि सवत्तीणं सीसे दिण्णो धण्णाए दक्खगोत्तधवलाए रोहिणीए चलणो। जेण रोहिणीरमणो जेव्व भअवं चन्दो सुणीअदि । राम:-(विहस्य ।) आं जानकि, प्रियोपभोगतुल्येऽपि तारणां सप्तविंशतेः । धत्ते किमपि सौभाग्यमञ्जरीमिह रोहिणी ॥ ६८॥ (स्पर्श च रूपयन् ।) । यद्यपि 'गजा तु मदिरागृहम्' इत्यमराद्गाशब्दो मदिरागृहे रूढस्तथापि लक्षणया योग्यतया वा गृहमात्रपरोऽत्र । यद्वा गजा खनिः । 'गञ्जा खनौ सुरागेहे' इति मेदि- नीकरः । नेपथ्यं प्रसाधनम् । 'आकल्पवेषौ नेपथ्यम्' इत्यमरः । क्षीरोदार्णव एव शुक्तिः । रूपकं शुभ्रत्वसाम्यात् । तत्र मौक्तिकं मुक्ताफलम् । अत्रार्णवस्य शुक्ति- त्ववर्णनं नानुचितम् । उक्तं च दण्डिना-'न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥' यथा-हंसीव धवलश्चन्द्रः सर- सीवामलं नमः । भर्तृभको भटः श्वेव खद्योतो भाति भानुवत् ॥' इति । दाक्षा- यण्यः सप्तविंशतितारकाः। 'दाक्षायण्योऽश्विनीत्यादि ताराः' इत्यमरः । अजउ- तेति । आर्यपुत्र, समानकुलशीलरूपयौवनानामपि सपत्नीनां शीर्षे दत्तो धन्ययह दक्षगोत्रधवलया रोहिण्या चरणः । येन रोहिणीरमण एव भगवांश्चन्द्रः श्रूयते' [इति च्छाया।] इह शीर्षे शिरसि । दक्षो नाम मुनिः । धवला निर्मला सुन्दरी वा । 'धवलः सुन्दरेऽमले' इति विश्वः । 'पदभिश्वरणोऽस्त्रियाम्' इत्यमरः । येन हेतुना । सप्तविंशतेरित्यत्र 'विंशत्याद्याः सदैकत्वे संख्याः संख्येयसंख्ययोः' इति वचनादेकत्वम् । मञ्जरी प्रकाण्डः। 'सौरभ्यम्' इति पाठे मनोहस्त्वं ख्यातिं वेत्यर्थः । - - १. 'सौभाग्यैः सौरभ्यमिह'.
काव्यमाला। दलितकुमुदकोषोदञ्चदूष्मोपचार- क्षणशमितचकोरीचन्द्रिकापानजाड्याः। अभिसृमरमृगाक्षीमूकदूत्यः खदन्ते शशिमणिमकरन्दोत्कन्दलाश्चन्द्रभासः॥ ६९ ॥ अपि च । 'तैः सर्वज्ञीभवदभिसृतानेत्रसिद्धाञ्जनैर्वा नीरन्धैर्वा त्रिभुवनदृशामन्धपट्टैस्तमोभिः । व्याप्तं पृथ्वीवलयमखिलं क्षालयन्नुच्छलद्भि- ज्योत्स्लाजालैरयमुदयते शर्वरीसार्वभौमः ॥ ७० ॥ । रूपयन्गृह्णन् । 'रूप निदर्शने' णिच् । दलितं विकासितम् । कोषो मध्यम् । उदा ञ्चदुद्गच्छत् । उपचारः समूहः । चकोरीणां चन्द्रिकापानेन यजाड्यं शीतलत्वं तद्विकसितकैरवगर्भादुत्थितेनोष्मणा शमितमिति तात्पर्यम् । अभिसृमरा अभिस. रणशीला या मृगाक्षी तस्या मूका अवचना दूत्य इव । अन्या दूती नायिकानायक- चोरन्योन्यवाक्यकथनेनान्योन्यानुरागं साधयति । चन्द्रकिरणास्तु वियुक्तयोरुभयोः संबन्धमात्रेणैव संयोग जनयन्तीति भावः । अभिसमरेति 'सृघस्यदः क्मरच्' । खदन्ते रोचन्ते । शशिमणिश्चन्द्रकान्तः । मकरन्दोऽमृतम् । मकरन्द इव मकरन्दः । तेनोत्कन्दला उद्तपल्लवाः । तैरिति । अभिसृताभिसारिका । "आदिकर्मणि तः कर्तरि च' इति क्तः । सर्वज्ञीभवन्ती चासावभिसारिका चेति । तस्या नयनसिद्धाजनैरिव । अभिसारिकाणामखिलकामकलापरसज्ञानप्रच्छा- दनादिज्ञातृतया सर्वज्ञत्वम् । तत्र चान्धकार एव सर्वत्र हेतुरित्याशयः । अन्य- स्मिन्नपि सर्वज्ञत्वे सिद्धाञ्जनतन्त्रता भवत्येवेति ध्वनिः । त्रिभुवननेत्राणां नीरन्फ्रे- निबिडैरन्धपट इति ख्यातैरिव तमोभिरन्धकारैर्व्याप्तमखिलं समस्तं पृथ्वीवलयमु- उछलद्भिरुत्थितैयॊत्नाजालैः क्षालयञ्शुचीकुर्वन् । प्रकाशयन्निति यावत् । अयं शर्वरीसार्वभौमः शर्वर्या रात्रेश्चक्रवर्ती चन्द्र उदयत इत्यन्वयः। वाद्वयं विकल्पे १. अयं श्लोकः पुस्तकान्तरेऽग्रिमश्लोकादनन्तरं वर्तते.
७ अङ्कः] अनर्धराघवम् । ३५३ अपि च जगतामनुग्रहाय उदयति कलमन्द्रः कण्ठतालैरलीनां कुमुदमुकुलकेषु व्यञ्जयन्नङ्गहारान् । मदमुखरचकोरीतोषकर्मान्तिकोऽयं तुहिनरुचिरधामा दक्षिणं लोकचक्षुः ॥ ७१ ॥ इदं चास्य प्राचीनाचलचुम्बिचन्द्रमणिमिनियूंढपाद्यं निजै- निर्यासैरुड्डुभिर्निजेन वपुषा दत्ताघलाजाञ्जलि । अन्तः प्रौढकलऋतुच्छमभितः सान्द्र परिस्तीर्यते बिम्बादङ्कुरभननैशिकतमःसंदोहमिन्दोर्महः ।। ७२ ॥ उपमायां वा । 'वा स्याद्विकल्पोपमयोः' इति विश्वः । उदयतीति । तुहिनं हिम तदेव रुचिरं मनोज्ञं धाम तेजो यस्य स चन्द्र उदयतीति संबन्धः । 'ई गतौ' इति भौवादिकः परस्मैपदी । कलोऽव्यक्तमधुरः। मन्द्रो गम्भीरः । तादृशैरलीनां भ्रम- राणां कण्ठा एव ताला गीतक्रियामानानि तैः । कुमुदमुकुलकेषु अङ्गहारानङ्गविक्षे- पान्व्यञ्जयप्रकाशयन् । 'अङ्गहारोऽङ्गविक्षेपः' इत्यमरः । चकोरीसंतोषरूपः कर्मान्तः कर्मस्थानं तद्योगात् । 'अत इनिठनौ' इति ठन् । कान्तिकः कर्मकरा- ध्यक्षः। 'कामत' इति ख्यातः । पुनः कीदृशः । दक्षिणं लोकानां चक्षुरिव चक्षुः । आनन्दजनकलाइक्षिणनयनेन रूपणम् । 'तुहिनरुचिरवामादक्षिणम्' इति पाठे तुहिनरुचिश्चन्द्र उदयतीत्यन्वयः । कीदृशः । लोकचक्षुरिव। कीदृशम् । अवामा अकुटिला स्त्री तस्यां दक्षिणं दाक्षिण्यवत् । लिङ्गव्यत्ययेनान्वयः। अवामाविषये दक्षिण इत्यर्थः । 'मन्द्रस्तु गम्भीरे' इत्यमरः । 'तालः कालक्रियामानम्' इति च। प्राचीनेति । इन्दोर्महस्तेजः कर्तृ अभितः सर्वत्र संभूय मिलित्वा बिम्बान्मण्ड- लात्परिस्तीर्यते विस्तीर्यते। स्वमाच्छादनं करोतीत्यर्थः । कर्मकर्तरि लट्। कीद- । १. 'जगतामनुग्रहाय' इति पुस्तकान्तरे नास्ति. २. 'इदं चास्य' इत्यारभ्य 'मलकु हामगोरं जसम्' इत्यन्तः पाठः केचित्पुस्तकेषु 'सेतूपक्रम-७-४४' इत्यादिश्लोकादग्रे वर्तमानादनन्तरं वर्तते. २३ अ०रा० काव्यमाला। DINARASNA एनं च मृगराजकरजभङ्गुरकिंशुककलिकावतंसिकाः सुदृशः । भयसंकुचदङ्कहरिणबहलोज्ज्वलमिन्दुमीक्षन्ते ॥ ७३ ।। विभीषण:- इन्दोरेककलाया रुद्रेणोद्धृत्य मूर्धनि धृतायाः । स्थानमिव तुच्छमेतत्कलङ्करूपेण परिणमते ॥ ७ ॥ (विहस्य रामं प्रति ।) रोदसीकूपमण्डूकः कियदेष प्रकाशते । चन्द्रमा यदयं देव त्वत्कीर्तेः प्रतिगर्जति ।। ७५ ॥ । . शम् । प्राचीनपर्वतापस्थितचन्द्रकान्तैर्नियूढं कृतं पाद्यं पादार्थमुदकं यस्य ताह- शम् । पुनः कीदृशम् । निर्जेनिर्यासः सारभूतैः उडुभिस्ताराभिर्निजेन वपुषा खरू- पेण दत्तो? लाजाञ्जलिश्च यस्मै तत् । आत्मनार्घदानं ताराभिर्लाजाज्ञलिदानमिति क्रमः । योग्यत्वादन्वयः । आर्थन क्रमेण शाब्दः ऋमो लक्ष्यते । यथा 'अग्निहोत्रं जुहोति, यावरों पचति' इत्यत्र । ताराणां शुभ्रवर्तुलत्वाभ्यां लाजत्वव्यपदेशः । अन्तर्मध्ये उपचितकलङ्केन तुच्छं शून्यम् । अङ्कुर एव भनो नैशिकतमःसमूहो येन तत् । नैशिक निशाभवम् 'निशाप्रदोषाभ्यां च' इति ठञ् । मृगेति । मृग- राजः सिंहः । करजो नखः । तद्भङ्गुरं कुटिलम् । सिंहनखभ्रमाद्भयम् । बहलम- घिकम् । उज्ज्वलं दीप्तम् । इन्दोरिति । उद्धृत्य उत्पाव्य । परिणमते निष्पद्यते। कर्मव्यतिहारे तङ् । रोदसीति । द्यावापृथिव्योमध्यं रोदसी। 'रोदश्च रोदसी चेति दिवि भूमौ पृथक्पृथक्' इत्यमरः। सैव कूपः तत्र मण्डूको भेक इव । एष चन्द्रः कियत् किंप्रमाणं प्रकाशत इत्यन्वयः । 'किंयत्तदेतेभ्यः परिमाणे वतु । 'किमि- दंभ्यां वो घः। कियदिति सामान्योतो क्रियाविशेषणे वा नपुंसकता । यद्यस्मा- न्महत्परिमाणायास्त्वत्कीर्तेः प्रतिगर्जति सहशीभवति । 'स्पर्धते जयति द्वेष्टि द्रुह्यति । । । १. 'एवं च' MEAN ७ अङ्कः] अनर्घराघवम् । सीता-(सस्मितम् ।) जाणामि अजउत्तस्स कित्तिकन्तीहिं पडि- स्पद्धं कदुअ पराजिदेण संपदि भवअदा हरिणकेण कलङ्कसंघदी विढत्ता। (सर्वे हसन्ति । रामः स्सयते।) सीता-(रामं प्रति ।) सारम्भ सिरिवच्छलञ्छणभुआपज्जत्थमन्थाअल- क्खोभोच्छल्लिददुद्धसिन्धुलहरीगब्भच्छईसच्छअम् । को गायेदि ण दे रहूणे पहुणो अन्धारपक्खन्तरा- संतुट्टन्तमिअङ्कमण्डलमलकुद्दामगोरं जसम् ।। ७६ ॥ रामः-(सहर्षस्मितम् ।) अयि प्रिये प्रियवादिनि, चन्द्रलोकादपि परं पदमारोपयन्ति माम् । अमूरमृतबिन्दूनामनुप्रासास्तवोक्तयः ।। ७७ ।। विभीषणः-(सानुरागम् ।) अद्योतिलमूलघर्षणवशादुन्मृष्टचूडामणि- श्रेणिश्रीपरिपीतपीवरतमः पूरे पुरे भोगिनाम् । प्रतिगर्जति' इत्याद्युक्त्वा 'शब्दाः सादृश्यवाचकाः' इति दण्डी । जाणामीति । 'जानाम्यार्यपुत्रस्य कीर्तिकान्तिभिः प्रतिस्पर्धा कृत्वा पराजितेन संप्रति भगवता हरिणाङ्केन कलङ्कसंहतिरर्जिता' [इति च्छाया।] विदत्ता इति देशी । सारम्भ- मिति । 'सारम्भ श्रीवत्सलाञ्छनभुजापर्यस्तमन्थाचलक्षोभोच्छलितदुग्धसिन्धुल- हरीगर्भच्छविसदृशम् । को गायति न ते रघूणां प्रभोरन्धकारपक्षान्तरासंत्रुट्यन्मू- गाङ्कमण्डलखण्डोद्दामगौरं यशः ॥' [इति च्छाया ।] ते तव यशः को न गायति । अपि तु सर्व एव । श्रीवत्सलाञ्छनो हरिस्तस्य बाहुभिः पर्यस्तः क्षिप्तो यो मन्था- चलस्तत्क्षोभादुच्छलितस्य दुग्धाम्बुधेलहरी तरङ्गःप्रवाहो वा तन्मध्यकान्तितुल्यम् । अन्तरा मध्यम् । मलकः खण्डः । मृगाङ्कखण्डवदुद्दामगौरमतिश्वेतम् । अनुप्रासाः सदृशाः । अद्येति । हे देव, भोगिनां पुरे पाताले पन्नगपुंगवेन वासुकिना सुभगं यथा स्यादेवं त्वत्कीर्तिराकर्ण्यते श्रूयते इत्यन्वयः । पुरे कीदृशे । उौमूलस्य घर्ष- काव्यमाला। कर्णाभावनिरस्तकुण्डलरवव्यासङ्गमाधुन्वता मूर्ध्नः पन्नगपुंगवेन सुभगं त्वत्कीर्तिराकर्ण्यते ॥ ७८ ॥ (विहस्य ।) भोगीन्द्रः प्रमदोत्तरङ्गमुरगीसंगीतगोष्ठीषु ते कीर्ति देव शृणोतु विंशतिशती यच्चक्षुषां वर्तते । रक्ताभिः सुरसुरन्दरीभिरभितो गीतां तु कर्णद्वयी- दुःस्थः श्रोष्यति नाम किं स हि सहस्राक्षो न चक्षुःश्रवाः ७९ रामः-(विलक्षस्मितेन विभीषणसूक्तमनुगृह्य चन्द्रं सीतामुखं च क्षणमा- लोक्य खगतम् ।) । । गेन उन्मृष्टा या चूडामणिश्रेणी तस्याः श्रिया कान्त्या परिपीतो नाशितो निबिडा- न्धकारप्रवाहो यत्र तादृशे । कर्णाभावान्निरतो यः कुण्डलरवस्य व्यासोऽन्तरा- यस्तादृशं यथा स्यादेवं मूर्ध्नः शिरांसि आधुन्वता कम्पयता । इह शिरसां सहस्त्र- तया बहुवचनम् । कर्णाभावेन कुण्डलपरिधानाभावः । अत एव तज्जन्यशब्दा- भावात्कीर्तेः सुखेन श्रवणमिति भावः । भोगीन्द्र इति । हे देव, तव कीर्ति भोगीन्द्रो वासुकिः शृणोतु श्रोतुं शक्नोतु । कुन । प्रमदो हर्षस्तेनोत्तरङ्गमुद्गताति- शयं यथा स्यादेवं सर्पिणीभिर्यत्संगीतं मिलिखा गानं तद्गोष्ठीषु सभासु।'सभासंला- पयोगोष्ठी' इति मेदिनीकरः। 'प्रमदसंमदौ हर्षे' इत्यप्रत्ययान्तो निपातः । विंश- तिशती सहस्रद्वयम् । वासुकेः सहस्रफणत्वात् चक्षुषां सहस्रद्वयम् । तस्य चक्षु:- श्रवस्त्वात् । रक्ताभिरनुरक्ताभिरप्सरोभिगीतां पुनः कीर्ति सहस्राक्ष इन्द्रो द्विक- १. 'विहस्य च'. २. केषुचिन्मूलपुस्तकेषु अस्माच्छोकादग्रे 'अपि च, अद्य स्वर्गि- वधूगणे गुणमय त्वकीर्तिमत्युज्वलामुच्चैर्गायति निष्कलङ्किमदशामापत्स्यते चन्द्रमाः। गीताकर्णनमोदमुक्तयवसग्रासाभिलाषोऽधुना स्वामिन्नमृगः कियन्त्यपि दिनान्येतस्य वर्तिष्यते ॥ अपि च, 'गीयन्ते यदि पन्नगीभिरभितस्त्वकीर्तयस्तद्वयं तुष्टा एव परंतु चेतसि चमस्कारोऽयमारोहति । तासां तादृशभावमङ्गवलनासंस्थानसंदर्शिनि व्यालेन्द्रे रसधूतमूर्धनि महीचक्रं पुनर्भ्राम्यति ॥ इति श्लोकद्वयमधिकमस्ति. ३. 'सविलक्षमि- तम्, ४. क्षणम्' इति पुस्तकान्तरे नास्ति. ५. 'स्वगतम्' इति पुस्तकान्तरे नास्ति.
७ अङ्कः] अनर्घराघवम् । आरब्धे दयितामुखप्रतिसमे निर्मातुमस्मिन्नपि व्यक्तं जन्मसमानकालमिलितामंशुच्छटां वर्षति । आत्मद्रोहिणि रोहिणीपरिवृढे पर्यपङ्केरुहः- संकोचादतिदुःस्थितस्य न विधेस्तैच्छिल्पमुन्मीलितम् ।। ८०॥ (सीतां प्रति।) अनेन रम्भोरु भवन्मुखेन तुषारभानोस्तुलया धृतस्य । ऊनस्य नूनं परिपूरणाय ताराः स्फुरन्ति प्रतिमानखण्डाः ॥ ८१॥ किं चान्यदपि गोत्रे साक्षादजनि भगवानेष यत्पद्मयोनिः शय्योत्थायं यदखिलमहः प्रीणयन्ति द्विरेफान् । र्णत्वारिक नाम श्रोष्यति । अपि तु न किमपि । हि यतः स इन्द्रः सहस्राक्षोऽपि न चक्षुःश्रवाः । तस्य न नेत्रेण श्रवणयोग्यतेत्यर्थः । आरब्ध इति । अस्मिन्रो- हिणीपरिवृढे चन्द्र दयिता सीता तन्मुखतुल्ये निर्मातुमारब्धे सति पर्यङ्क आसनं 'पालङ्क' इति ख्यातं तद्रूपं यत्पङ्केरुहं पद्मं तस्य संकोचादतिदुःस्थितस्या- सन्तासुस्थस्य विधेः स्रष्टुस्तच्छिल्पं कौशलं नोन्मीलितं न प्रकाशितम् । दयितामु- खसमश्चन्द्रो नाभूदिति भावः । पद्मसंकोचे हेतुमाह-रोहिणीपरिवृढे कीडशे । व्यक्तं स्फुटं यथा स्यादेवं जन्मसमय एव संबद्धामंशुच्छटां तेजोराशि वर्षति प्रकाशयति । तथा च चन्द्रकिरणसंबन्धादासनपद्मसंकोच इति भावः। अत एवात्मद्रोहिणि निज- शत्रौ । आत्मना ब्रह्मणः पद्मसंकोचादात्मनोऽसंपूर्णतयात्मशत्रुत्वमिति भावः । अ- नेनेति । रम्भा कदली तद्वदूरू यस्याः तादृशि हे कान्ते, भवत्या मुखं भवन्मुखम्। 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः' इति पुंवद्भावः । तुलया मानदण्डेन धृतस्य तुलितस्य । नूनमुत्प्रेक्षे । प्रतिमानं 'पडिमानं' इति ख्यातम् । हिरण्यादेस्तुलनायां न्यूनस्य क्षुद्रप्रतिमानेन पूरणात्तुल्यता क्रियते यथा तथात्रापीति भावः। गोत्रे इति । है सुतनु सीते, तत्तस्माद्धेतोरम्भोरुहाणि तव मुखसादृश्यं प्रापुः। यद्य- स्मादेषां गोत्रे पद्मयोनिब्रह्मा साक्षादजनि उत्पन्नः । शय्योत्थायं शय्याया उत्थाय। १. 'दयितानन-'. २. 'तचित्रमुन्मीलितम्', 'तच्छिल्पमुन्मीलति'. ३. 'तवान- नेन'.४. चैतान्यपि काव्यमाला। एकानां यधति भगवत्युष्णभानौ च भक्तिं तत्मापुस्ते सुतनु बदनौपम्यमम्भोरुहाणि ॥ ८२ ॥ सीता-(स्मेरावनतमुखी ।) अजउत्त, कधं उण संपुण्णमण्डलमीरिसं चन्दमवमच्चिअ कलामेत्तं भअवदा भूदणाहेण चूडामणीकिदं आसी। रामः-(संग्रहासम् ।) प्रिये जानकि, त्रयाणामपि जगतामुपजीव्यो- ऽययममृतदीधितिः । यदि पुनः समग्रमेनं मौलिना पिनाकपाणिरधार- यिष्यत् , अङ्ग शिवनिर्माल्यमनुपभोग्य एवायमभविष्यत् । (सर्वे हसन्ति ।) राम:-किं च भवत्यापि मौसप्रमितो दृश्यत एवायं 'अपादाने परीप्सायाम्' इति णमुल । परीप्सा त्वरा । अखिलं समस्तमहो दिनं व्याप्य भ्रमरान्त्रीणयन्ति प्रीतान्कुर्वन्ति । यच्चोष्णभानौ सूर्य एकाग्रामेकचित्तां भक्ति सेवां विदधति । तथा च परोपकारात् नियतसूर्यभक्तेश्च पद्मानि त्वन्मु- खसहशानि जातानीति भावः। अहः इत्यत्र अत्यन्तसंयोगे द्वितीया । अज- उत्तेति । 'आर्यपुत्र, कथं पुनः संपूर्णमण्डलमीदृशं चन्द्रमवमत्य कलामानं भगवता भूतनाथेन चूडामणीकृतमासीत्' [इति च्छाया] इह अवमत्य त्यक्त्वा । भूतनाथेन शिवेन । समग्रं संपूर्णम् । पिनाकपाणिः शिवः । अधारयिष्यत् तद्धा- रणमकरिष्यत् । क्रियातिपत्तौ लङ् । अतिपत्तिः कुतोऽपि हेतोः क्रियाया अनिष्पत्तिः। अङ्गशब्दः संबोधने वितके वा । निर्माल्यं पूजानन्तरं त्यक्तपुष्पम् । अजहल्लिङ्ग- त्वादन्वयः । शिवनिर्माल्यस्य धर्मशास्त्रेणोपभोगस्य निषेधात् । यद्यपि रामवचन- स्यैव तापमानता तथापि सर्वे हसन्तीत्युक्तमतो हासानामन्ते पुनवर्चने वक्तुरा- काङ्क्षायां राम इत्युक्तम् । क्वचित्पुस्तके तु राम इति नास्त्येव । किं चेत्यनेन समुच्चयवाचकेन तत्प्रक्रमस्य प्राप्तेः । व्युत्पत्तिस्तूभयरूपापि । मासं प्रमितो मास- अमितः । अत्यन्तसंयोगे द्वितीया । 'अत्यन्तसंयोगे च' इति समासः । प्रमित १. सप्रहासम्' इति पुस्तकान्तरे नास्ति, २. 'लोकानाम्'. ३. 'अङ्ग' इति पुस्तकान्तरे नास्त्रि. ४. 'अनुपयुक्तः', ५. 'मासं प्रमितो'; 'मासं प्रति', ischatist ७ अङ्कः] अनर्घराघवम् । पीयूषाश्रपणं जगत्रयदृशामालातलेखालवो विश्वोन्माथहुताशनस्य ककुभामुद्घाटनी कुञ्चिका । वीरेषु प्रथमा च पुष्पधनुषो रेखा मृगाक्षीमुख- श्रीणां च प्रतिराजबीजमधिकानन्दी नवश्चन्द्रमाः ॥ ८३ ॥ सीता-(अनुमोदमाना।) अजउत्त, परिपुण्णा गुणिणो जहिं कहिं पि सोहन्ति । खीणा उण सीसमारुहन्ति ति हरजडाचन्दो जेव्व पढमं णिदंसणम् । राम:-(विहस्य ।) देवि महाकुलक्षत्रियसंभवे, एवमेतत् । सेर्तृपक्रमसंभ्रमाहृतगिरिप्रक्षेपवेगोच्छल- निःशेषाम्बुपरिस्फुटोदरदरीगम्भीरिमा सागरः । चक्रे गोष्पदवद्विलचितवतोऽप्यन्तर्भयं मारुतेः पूर्णत्वादतिरिच्यते हि महतस्तुच्छस्य दुर्लक्ष्यता ॥ ८४ ॥ इति प्रमातुमारब्धः। आदिकर्मणि क्तः । पीयूषेति । अयं नवचन्द्रमा दृश्यत. इति मस्तकस्थेनान्वयः। कीदृशः । जगत्रयनेत्राणां पीयूषस्यामृतस्याश्रपणं स्थाली । विश्वः समस्त एव विरही तस्योन्माथी उन्मथनकर्ता कामस्तद्रूपहुताशनस्य कामानेः आलातलेखालवः । आलातमङ्गारस्तस्य लेखा पतिस्तस्या लवः कणः । ककुभां दिशामुद्धाटनी उद्वेलनकी कुञ्चिका । कपाटादिस्फोटनार्थ या क्रियते सा 'कुञ्चि इति ख्याता। उद्घाटयतीत्युद्धाटनी । 'ण्यासश्रन्थो युच्' । वीरेषु मध्ये कामस्य प्रथमा आद्या रेखा । गणनायां कठिन्या आद्या रेखा । प्रथम गणनीयेत्यर्थः । नारीमुखशोभानां प्रतिपक्षो राजा प्रतिराजः । राजा चन्द्रोऽपि भण्यते । 'राजाहः- सखिभ्यष्टच्' । तस्य बीजं कारणम् । पूर्ण एव चन्द्रः कविसंप्रदाये भण्यत इति भावः । सर्वत्राजहल्लिङ्गतयान्वयः। उजउत्तेति । 'आर्यपुत्र, परिपूर्णा गुणिनो यस्मिन्कस्मिन्नपि शोभन्ते । क्षीणाः पुनः शीर्षमारोहन्तीति हरजटाचन्द्र एव प्रथमं निदर्शनम्' [इति च्छाया।] इह निदर्शनं दृष्टान्तः । सेत्विति । उपक्रम आरम्भः। संभ्रमस्त्वरा । आहृत आनीतः । शैलपतनवेगादुच्छलदितस्ततो १. 'महाक्षत्रिय-'; 'महाक्षत्रियकुल-'. २. 'सेतुप्रक्रम'. ३. कौतुक. ।
काव्यमाला। (नेपथ्ये।) देव, त्वर्यतां त्वर्यताम् । संनिधत्ते खलु भगवद्वसिष्ठगृहीतो मङ्गला. भिषेकमुहूर्तः। रामः-(आकर्ण्य ।) कथमयोध्यायाः प्रत्यावृत्तो मारुतिरस्मांस्त्वर- यति । सीता-(सहर्षम् ।) अज्ज उत्त, कथं अञ्जणाणन्दणो तुवरावेदि । ता भअवं पुप्फअ, अवणम । मेइणीसंणिहिदगमणमग्गेण गच्छस । (अधोऽवलोक्य राम प्रति ।) अजउत्त, किं उण एदं तरुणजीमूदसामले महीवलए ममुमहणवच्छत्थले कोत्थुमकिरणत्थब विअ जलन्तं लक्खीअदि। राम:-(दृष्ट्वा विभीषणं प्रति।) तर्कुटङ्कलिखितार्कमण्डलप्रोच्छलत्कणकदम्बभासुरम् । शिल्पशालमिव विश्वकर्मणः किं विभाति मृगतृष्णिकामयम् ॥८५॥ गच्छत् । परिस्फुटो व्यक्तः उदरमेव दरी कंदरा तस्या गम्भीरिमा गम्भीर्यं यत्र तादृशः सागरो मारतेर्हनूमतोऽन्तर्भयं चक्रे । पूर्णत्वात् पूर्णदशातः । कीदृशस्य । गोष्पदं गोपदपरिमाणबिलं तद्वलचितवतोऽपि । 'गोष्पदं सेविते माने' इत्यमरः । 'गोष्पदं सेवितासे वितप्रमाणेषु' इति निपातनम् । उक्ते उपपत्तिमाह-हि यतः महतस्तुच्छस्यापि दुर्लच्यतातिरिच्यते अतिरिक्ता भवति । तुच्छ एव महादुर्लइयो भवतीति भावः । अजउत्तेति । 'आर्यपुत्र, कथमञ्जनानन्दनस्त्वरयति । तद्भ- गवन् पुष्पक, अवनम । मेदिनीसंनिहितगमनमार्गेण गच्छामः' [इति च्छाया।] इह अञ्जनानन्दनो हनूमान् । 'अञ्जना मरुतः सूनोर्जनन्यां च हलाहले' । अव- नम अधो गच्छ । अजउत्तेति । 'आर्यपुत्र, किं पुनरेतत्तरुणजीमूतश्यामले महीवलये मधुमथनवक्षःस्थले कौस्तुभकिरणस्तबक इव ज्वलल्लक्ष्यते' [इतिच्छाया।] इह जीमूतो मेघस्तद्वत् श्यामे महीवलये पृथ्वीमण्डले । तर्कुः कुन्दः । टङ्कः १. 'देव, त्वर्यताम् । संनिधत्ते भगवान्वसिष्ठः संगृहीतमङ्गला-'. २. 'खलु' इति पुस्तकान्तरे नास्ति. ३. 'अयोध्यातः'.. 1 ७ अङ्कः] अनर्घराघवम् । विभीषण:-देव, स एषः ज्येष्ठामूलीययात्रासरभसकरभीकाम्यकान्तारवा दूरेऽपि ज्योतिरक्ष्णोरपलपति मरुर्जाज्वलज्जाङ्गलश्रीः । विश्वद्रीचीभिरस्मिन्निबिडमुडुपतेः कान्तिभिः प्रस्नुवानाः फेनायन्ते निजोष्मक्कथनपरिणमबुद्बुदं चन्द्रकान्ताः ॥ ८६ ॥ (सर्वे विमानावनति नाटयन्ति ।) रामः-(विलोक्य सीतां प्रति ।) देवि, दक्षिणेन सिंहलद्वीपमम्भोधिसंभूतमिदमुत्पलम् । माणिक्याचलकिंजल्करमणीयमुदीक्ष्यते ॥ ८७ ॥ सीता-जहिं कासकुसुमसंकासो अगत्थहंसो चरइ । 'टांकी' इति प्रसिद्धः । लिखितस्तक्षितः । कदम्बः समूहः । शिल्पस्य शाला शिल्पशालम् । 'विभाषा सेना-' इत्यादिना क्लीबत्वम् । ज्येष्ठामूलीयेति । अयं मरुर्देशभेदो दूरेऽपि अक्ष्णोस्तेजोऽपलपति खण्डयति । कीदृशः । ज्येष्ठामूलीयो ज्येष्ठमासः । तथा च हारावली-'ज्येष्ठामूलीयमिच्छन्ति मासमाषाढपूर्वजम्' इति । तत्र यात्रायां सरभसा या करभी उष्ट्री तस्याः काम्य इच्छाविषयः कान्तारो दुर्गपथस्तद्रूपं वर्म यस्य सः । ज्येष्ठे हि उष्ट्री सरभसा कामुकी जायते । जङ्गलो निर्जलो देशः। तस्येयं जाङ्गली । सा चासौ श्रीश्चति 'पुंवत्कर्मधारय-' इति पुंव- द्भावः । अस्मिन्मरौ चन्द्रकान्ताः फेनायन्ते फेनमुद्वमन्ति । सर्वतो गमनकारि- णीभिरुडुपतेश्चन्द्रस्य कान्तिभिः प्रस्नुवानाः खयं क्षरन्तः । कर्मकर्तरि तङ् । निजोष्मणा मरुस्थलतेजसा कथनं पाकस्तेन परिणमबुद्रुदं यथा स्यादेवम् । 'क्वथ- नभरनमबुदुदं' इति पाठे क्वथनभरेण पाकभरेण । दक्षिणेन दक्षिणस्यां दिशीत्यर्थः । "एनबन्यतरस्याम्' इत्येनप् । सिंहलेत्यादि सुगमम् । जहिं इति । 'यत्र काश- कुसुमसंकाशोऽगस्त्यहंसश्चरति' [इति च्छाया।] इह संकाशः सदृशः । अन्योऽपि श्वेतो हंसश्वरति खादतीति ध्वनिः । रोहणः पर्वतभेदः । 'उपत्यकाढ़ेरासन्ना भूमिः इत्यमरः । आयतनं देवतागृहम् । 'चैत्यमायतनं तुल्ये' इत्यमरः । लोपामुद्रापस्त्य- ।
काव्यमाला। राम: -(स्मित्वा ।) आं मैथिलि, आम् । इहैव रोहणगिरेरुपत्य- कायां द्वितीयमायतनं मुनेलोपामुद्रावल्लभस्य । स तत्रभवान् बृहत्पात्रप्राप्त्या विततजलमम्भोधिमुदरे दघावीषद्राह्यं किल कलशजन्मा कुलपतिः । यमाराध्यन्विन्ध्याचलशिखरशोथैकभिषजं विवखानाश्चीनं गगनमै विरोधात्कलयति ॥ ८८ ॥ अपि च । निपीते येनाब्धौ स्तिमितगुरुभिः पक्षपटलैः प्रयत्नादुड्डीय प्रतिपदमपव्यस्तपतिताः । विशन्तः कौलीरं कुहरमशरण्याः शिखरिणः क्षणं दृष्टास्तस्य स्तुतिषु न गिरां साहसरसः ॥ ८९ ॥ पत्नी । बृहदिति । कलशजन्मागस्त्यः अम्भोधिमुदरे दधाविति संबन्धः । बृहत्पात्रस्य महायोग्यस्य प्राप्त्या विस्तीर्ण जलं यस्य तम् । यमगस्त्यमाराध्यन् रवि- राकाशमाश्वीनमश्वेनैकाहगम्यं कलयति जानाति करोति वा । अविरोधात् । निर्विघ्न- मित्यर्थः । विन्ध्याचलशिखरस्य यः शोथो रोगभेदः अकस्मादङ्गवृद्धिः शोथना- नैव प्रसिद्धस्तस्य भिषजं वैद्यम् । तत्प्रतीकारकर्तृत्वात् । कथेयमतिप्रसिद्धव । इह आराध्यन्नित्यत्र कथं सकर्मता, इयनोऽकर्मके विधीयमानत्वात् इति चेत्, न । तत्राकर्मकादित्यस्य प्रायिकत्वात् । एवंविधप्रयोगस्य बहुशो दर्शनात् । 'प्रयोगमूला हि पाणि निस्मृतिः' इति वचनादित्यवधेयम् । अश्वेन यदेकाहेन गम्यते तदाश्वी- नम् । 'अश्वस्यैकाहगमः' इति खञ् । निपीत इति । तस्यागस्त्यस्य स्तुतिषु गिरां साहसरसो न । अपि तु साहसरस एव । शिरश्चालने नकारः । तद्गुणा विशिष्य वक्तुं न शक्यन्त इति भावः। येनागस्त्येन समुद्रे पीते तत्रस्थाः शिखरिणो मैनाकादयः पर्वताः कौलीरं कुलीरः कर्कटस्तत्संबन्धि कुहरं विवरं विशन्तः सन्तः क्षणं दृष्याः । जनैरिति शेषः । स्तिमितमामत एव गुरुभिरतिभारैः पक्षपटलैर्यतः । । । १. 'इह हि'. २. 'गाध'. ३. 'अधिरोहन्'. ४. 'बजन्तः'.
७ अङ्कः] अनर्घराघवम् । अपि च यत्र शृङ्गारसार्वभौमस्य रत्नसिंहासने सिंहलद्वीपनाम्नि प्रदोषा- रम्भेषु उदेष्यत्पीयूषद्युतिरुचिकणाः शशिमणि- स्थलीनां पन्थानो घनचरणलाक्षालिपिभृतः। चकोररुड्डीनैझटिति कृतशङ्काः प्रतिपदं पराञ्चः संचारानविनयवतीनां विवृणते ॥ ९० ॥ (अन्यतो दर्शयन् ।) इयमितो मौक्तिकीयानामपामाधरास्ताम्रपर्णी । शुक्तिकागर्भसंबन्धस्तम्भितास्तोयबिन्दवः । भ्रमन्ति सुभ्रुवामङ्कादकमस्याः प्रसूतयः ॥ ९१ ।। अपि च। युवतिकुचभोगकर्मभिरुद्भुतैः शुक्तिसंपुटधृतानि । दधतीह ताम्रपाः स्थिरकरकाभावमम्भांसि ॥ ९२ ।। अतः प्रयत्नात्कष्टाढुड्डीय ऊर्ध्व गत्वा प्रतिपदं पदे पदे अपव्यस्ता व्याकुलाः सन्तः पतिताः। शरण्यो रक्षिता स न विद्यते येषां ते। शृङ्गार एव सार्वभौमश्चक्रवर्ती राजा। 'प्रदोषो रजनीमुखम्' इत्यमरः । उदेष्यदिति । चन्द्रकान्तस्थलीनां पन्थानः अविनयवतीनामभिसारिकाणां पराञ्चः प्रतीपान् पदन्यासान् विवृणते प्रकटयन्ति। कीदृशाः । उदेष्यन्नुदयं गमिष्यन् यश्चन्द्रस्तस्य दीप्तिलवैराः। घना निबिडा या वरणानां लाक्षा तस्या लिपिमक्षरं धारयन्तः । उड्डीनैश्चकोरैः शीघ्रं कृता शङ्का यत्र । अर्थादभिसारिकाणाम् । ते । अभिसारिकाश्चलिता अपि मार्गे चकोरसंचा- रामचकिता व्याधुटिताश्च । तासां पदलाक्षाक्तवाटेन प्रतीपचरणन्यासः प्रकटित इति भावः । ताम्रपर्णी मुक्तोत्पत्तिनदी। आधारस्ताम्रपर्णीत्यजहल्लिङ्गतयान्वयः। शुक्तिः केति । गर्भो मध्यम् । स्तम्भिताः पिण्डीभूताः । अस्यास्ताम्रपा अङ्कान्मध्यात् प्रसूतयो जाता जलबिन्दवो मुक्तारूपा युवतीनां क्रोडं भ्रमन्ति गच्छन्ति । युव- तीति । युवतिकुचानां यानि भोगकर्माणि यैरदृष्टैः स्त्रीकुचभोगं प्राप्नुवन्ति तैरुद्भूतैः परिणतेहेतुभिर्निबिडवर्षोपलत्वं यस्या जलानि दधति । 'वर्षांपलस्तु करका १. 'पत्र' इति पुस्तकान्तरे नास्ति, २. संभूत-'.३. भजन्ति', ४. 'ताम्रपयाम्'. । ।
काव्यमाला। सीता-अजउत्त, जेहेति दक्खिण्णमत्तएण भअवदो साअरस्स भाईरहीपक्खपादो । पेम्मसव्वस्सण्णीसन्दो उण सहजसव्वङ्गमोत्तिआ- हरणरमणीआए तम्मपण्णीए लक्खीअदि। रामः-(विहस्यान्यतो दर्शयन् ।) रमयति मलयाचलोऽयमसादुपनमता पवनेन मानिनीनाम् । दयितविनयकूटसाक्षिणीभिः स खलु सखीभिरदुष्करप्रबोधः ॥९३॥ लक्ष्मण:-(अग्रे दर्शयन् ।) खपाणिप्राग्भारप्रबलविततोत्तानसलिल- स्वयंदृष्टक्रीडत्तिमिनिवहलग्नामिव घृणाम् । दधानस्यापीतोज्झितजलनिधेरेतदपरं पुरो लोपामुद्रासहचरमुनेराश्रमपदम् ॥ ९४ ॥ अपि चास्मिन् चतुरब्धिपानचेष्टादृष्टपिपासे मुनावुद्यमाने । पाययितुमिवात्मानं विशुध्य सज्जीभवन्त्यापः ॥ ९५ ॥ इत्यमरः। अजउत्तेति । 'आर्यपुत्र, ज्येष्ठेति दाक्षिण्यमात्रकेण भगवतः सागरस्य भागीरथीपक्षपातः । प्रेमसर्वखनिःस्यन्दः पुनः सहजसर्वाङ्गमौक्तिकाभरणरमणीया- यास्ताम्रपा लक्ष्यते [इति च्छाया ।इह पक्षपातोऽग्रहः । निःस्यन्दोऽविच्छेदेन प्र- वृत्तिः।रमयतीति । अयं मलयाचलो रमयति ।मामिति शेषः । अस्मान्मलयपर्वतादु- पनमता आगच्छता पवनेन करणेन मानिनीनां प्रबोधः सखीभिरदुष्करः सुखसाध्यः। खलु निश्चितम् । दयितविनये वल्लभनम्रतायां कूटेऽसत्ये साक्षिणीभिः । स्वपाणीति । पुरोऽग्रे लोपामुद्रासहचरमुनेरगस्त्यस्य एतदपरमाश्रमस्थानम् । अस्तीति शेषः । आपीतोऽनन्तरमुज्झितस्त्यतो जलधिः समुद्रो येन तस्य । खपाणिप्रारभारेण प्रब- लमत्यन्तविस्तीर्णमत एवोत्तानं गाधं यत्सलिलं तत्र खयं दृष्टो यः क्रीडन् तिमिनि- वहस्तेन लग्नां संबद्धां घृणामिव दधानस्य । तथा च मत्स्यादिघृणयैव पीतस्याब्धेस- गिरणमगस्त्येन कृतमिति भावः । चतुरब्धीति । मुनावगस्त्ये । अगस्योदये १. 'अन्यतः'. २. 'विशुद्धसज्जी-'; 'विशुद्धिसज्जी-'.
EMAHANI ७ अङ्कः] अनर्घराघवम् । सुग्रीवः-(सस्मितम् ।) ध्रुवमिह चतुरम्भोनिधिरचितापोशानकर्मणि मुनीन्द्रे । भक्ष्यंमन्यानि किमपि चकम्पिरे सप्तभुवनानि ।। ९६ ॥ (सर्वतोऽवलोक्य सहर्षाद्भुतम् ।) अहो चिरेणाद्य चतुर्दशलोकैकदण्डधरे धर्मासनाधिकारिणि रामदेवे दण्डकारण्यगृहमेधिनां तपोवनानामृद्धयः। राम:-(सलज्जस्मितं विमानवेगनाटितकेनाधोऽवलोक्य ।) कथं हिर- ण्यहरिणविहारकान्तारस्थलीनामुपरि प्रतिष्ठामहे । सुग्रीवः-(सोपहासम् ।) इयं सा मारीचशरीरोपहाररक्षितात्मनो दशकण्ठस्य कपटभिक्षुवेषविडम्बनाडम्बरैकमर्मज्ञा पञ्चवटी । (सादरं च विश्वामित्रमखद्विषे च वपुषा चित्रेण पत्युमुखा- दप्याकृष्टविदेहराजतनयानेत्रारविन्दाय च । मारीचाय नमो नमः किमपरं यस्मै कुले रक्षसां द्वौ वारौ विभुनापि दाशरथिना चके ततज्यं धनुः ॥९७॥ खभावादेव जलं निर्मलं भवति । तत्रोत्प्रेक्षते-आत्मानं पाययितुमिवेति । उत्प्रे. क्षायामिवशब्दः । ध्रुवमिति । अस्मिन्मुनीन्द्रे चतुःसमुद्रेण रचितापोशानकर्मणिः सति किमप्यनिर्वचनीयं यथा स्यादेवं भक्ष्यंमन्यानि सप्तभुवनानि चकम्पिरे कम्पि- तानि । तथा च यस्यास्य चतुःसमुद्रेण भोजनारम्भचुलकरूपमापोशानं वृत्तं तस्य किं भक्ष्यं भविष्यति । तथा चास्मान् किं नु भक्षयिष्यतीति भावः । आत्मानं भक्ष्यं म- न्यते भक्ष्यमन्यः। 'आत्ममाने खश्च' इति खश । मुम् । रामदेव इति नाट्यभाषायां राजा देवपदवाच्यः । तथाचामरः-'राजा भट्टारको देवः' इति । गृहमेधिनां गृहस्थानाम् । दण्डकारण्यवासिनामित्यर्थः । प्रतिष्ठामहे गच्छामः । 'समवप्रविभ्यः स्थः' इति तङ् । मारीचशरीरोपहारेति मारीचद्वारा हरिणशरीरपरिग्रहणादिति भावः । विडम्बना कदर्थनं तस्या डम्बर आभोगः । मर्मदा तत्त्वज्ञा । विश्वा- मित्रमखद्विष इति । अनेनातिबलवत्त्वं सूचितम् । मखो यज्ञः। वपुषा चित्रेण । १. 'विडम्बनैक-.
काव्यमाला। (सीता लजते।) रामः-(प्रस्रवणाचलं दर्शयन्सीतामपवार्य ।) देवि, नक्तं रत्नमयूखपाटलमिलत्काकोलकोलाहल- त्रस्यत्कौशिकभुक्तकंदरतमाः सोऽयं गिरिः स्मर्यते । यत्राकृष्टकुचांशुके मयि रुषा वस्त्राय पत्राणि ते चिन्वन्त्या वनदेवतास्तरुलतामुच्चैय॑धुः कौतुकात् ॥९८॥ सीता--(स्मयमाना कपोतहस्तं कृत्वा ।) भअवदीओ जणट्ठाणदेव- दाओ, एसा बो परिचारिआ जाणई पणमदि। रामः-(अन्यतो दर्शयन् ।) देवि, वन्दख भगवतीमितो गोदाव- रीम् । (जनान्तिकम् ।) । - खर्णहरिणमयेनेति भावः। एतेनातिमनोहारित्वं सूचितम् । पत्यू रामस्य । मारीचः शूर्पणखापुत्रो रावणभागिनेयः । द्वा वारावित्यनेनातिमायावित्वं प्रकटितम् । तत्र विश्वामित्रमखरक्षायां तस्य नाशादित्येको वारः । सीतापहारावसरे द्वितीयो वारः । प्रस्रवणाचलः पर्वतभेदः । नक्तमिति । काकोलो द्रोणकाकः । 'डोडकौआ' इति प्रसिद्धः । 'द्रोणकाकस्तु काकोलः' इत्यमरः । रत्नकान्तिपाटलं च मिलत्काकोलको- लाहलश्च ताभ्यां त्रस्यन् यः कौशिकः पेचकस्तेन भुक्तं सेवितं कंदरतमो यस्य तादृशः । 'श्वेतरक्तस्तु पाटलः' इत्यमरः । तथा च पर्वतीयरत्नकान्त्या दिवसप्रमेण काकशब्देन च कौशिकस्य त्रास इति भावः । 'कौशिकोलूकपेचकाः' इत्यमरः । उच्चैwधुरूवं विहितवत्यः । उत्तोलितवत्य इति यावत् । अंशुकाकर्षणमेव कौतु- कबीजम् । कपोतहतो हस्तबन्धविशेषः । तथा च संगीतसर्वखम्-'पार्श्वद्वय- समाश्लेषात्कपोतः सर्वशीर्षके । विनयोपगमे शीते भये संभाषणे गुरोः ॥ वक्षःस्थ- लगतो ह्येष कल्पितस्तु कपोतवत् ॥' इति । भवदीओ इति । 'भगवत्यो जनस्थानदेवताः, एषा वः परिचारिका जानकी प्रणमति' [इति च्छाया ।] इहं वो १."चित्रन्त्यो'.
७ अङ्कः] अनर्घराघवम् । ३६७ एतस्याः पुलिनोपकण्ठफलिनीकुञ्जोदरेषु नजं कृत्वा किंशुककोरकैरकरजक्रीडासहिष्णुस्तने । दत्त्वा वक्षसि ते मयि प्रहसति प्रौढापराधे तदा कौमारतभङ्गरोषितमपि मेरं तवासीन्मुखम् ।। ९९ ॥ (सीता सलजस्मितं मुखमवनमयति, नमति च गोदावरीम् राम:-(परिवृत्यावलोकितकेन सखेदम् ।) देवि', असिन्माल्यवतस्तटीपरिसरे कादम्बिनीडम्बरः स स्थूलंकरणो मदश्रुपयसामासीदवर्षन्नपि । युष्माकम् । परिचारिका परिचरणकर्ती । एतस्या इति । एतस्या गोदावर्याः । प्रवाहापचये जलमध्ये जलादुत्थितो भूभागः पुलिनम् । 'तोयोत्थितं तत्पुलिनम्' इत्यमरः । उपकण्ठः समीपम् । 'उपकण्ठान्तिकाभ्याभ्यना अप्यभितोऽव्ययम्' इत्यमरः । फलिनी प्रियंगुवृक्षः। 'प्रियंगुः फलिनी फली' इत्यमरः। उदरं मध्यम्। किंशुककोरकैः पलाशकलिकाभिः । 'पलाशे किंशुकः पर्णः' इत्यमरः । 'कलिका कोरकः पुमान्' इत्यपि । किंशुककोरको हि वक्रो नखक्षताकारो भवतीति भावः। वक्षसि कीदृशे । करजस्य नखस्य क्रीडायाः सहिष्णू करजक्रीडासहिष्णू, न तादृशी स्तनौ यत्र तदकरजक्रीडासहिष्णुस्तनम् । तस्मिन् । दत्त्वा वक्षसीति यथेयं तव स्तनोपरि किंशुकमाला तथा ममाप्यत्र नखक्षतानि शोभां धारयिष्यन्तीति भावः। कौमारव्रतं नवोढाद्यवस्था तस्य भङ्गो नाशस्तेन रोषितमपि । अपिर्विरोधाभासाय। ब्रतभङ्गादेव प्रौढापराधे मयीति भावः । मेरं सहासम् । अस्मिन्निति । माल्य- वतः पर्वतविशेषस्य परिसरे समीपभुवि । “पर्यन्तभूः परिसरः' इत्यमरः । काद- म्बिनी मेघमाला तस्या डम्बर आभोगः अवर्षन्नपि मदश्रुपयसां स्थूलंकरणः स्थूलं विपुलं क्रियते येन तादृश आसीदिति संबन्धः । तथा च त्वद्विरहवारिधिमानेन मया तथा रुदितं यथा वर्षचपि मेघो मदश्रुजलस्य विपुलताकारणं वर्षनिवासीदिति भावः । १. 'मुखमानम्य गोदावरी नमति'. २. 'देवि' इति पुस्तकान्तरे नास्ति.
काव्यमाला। यद्धारावलितैर्न शाखिभिरपि त्वत्पालितैर्मी तथा दृष्ट्वा कन्दलितं न केकिभिरपि प्रारम्भि संगीतकम् ॥१०॥ सीता-(मन्युगद्गदकण्ठप्रन्थिलखरा पुष्पकं प्रति ।) विमाणराअ, सी- दसि । ण दलदि जेव वज्जम मे हिअअम् । तथा वि तुवरेहि । एसा अन्तरीअदु दण्डआरण्णविच्छोली । रामः-(विमानवेगनाटितकेन सीतां प्रति ।) देवि, इदमने महारा- ष्ट्रमण्डलैकमण्डनं कुण्डिनं नाम नगरम् । इह हि अनन्यक्षुण्णश्रीर्मलयवनजन्मायमनिलो निपीय खेदाम्बु स्मरमकरसंभुक्तविभवम् । विदर्भाणां भूरिप्रियतमपरीरम्भरभस- प्रसङ्गादङ्गानि द्विगुणपुलकसञ्जि तनुते ॥ १०१ ॥ मां तथा दृष्ट्वा । रुदन्तं दृष्ट्वेत्यर्थः । यद्धारावलितैर्मेघमालाधारासंवर्धितैः शाखिभि- रपि न कन्दलितं न नवपल्लवितम् । कन्दलं नवपल्लवः । तस्य तारकादित्वादितच । 'कन्दलं स्यात्पल्लवे च नवाङ्कुरे' इति विश्वः । केकिभिर्मयूरैरपि जलधरदर्शनादपि संगीतं गीतनृत्यादि न प्रारम्भि न प्रारब्धम् । कर्मणि चिणू । मन्युर्दैन्यम् । उप- ताप इति यावत् । प्रन्थिलो प्रन्थिमान् । सिध्मादित्वाल्लच् । विमानेति । "विमा- नराज, सीतास्मि । न दलल्येव वज्रमयं मे हृदयम् । तथापि त्वरख । एषा अन्तरीयतां दण्डकारण्यपतिः' [इति च्छाया ।] इह सीतास्मीत्यनेन शब्दच्छलात् यथा लालपद्धतिश्चिरकालेन शोषणात्कठिना तथाहमप्यस्मीति ध्वनितम् । त्वरख त्वरया चल । अन्तरीयतामतिक्रम्यताम् । विच्छोली पतिरिति देशी । महाराष्ट्रो देशविशेषः । मण्डनमलंकरणम् । अनन्येति । अनन्यक्षुण्णेत्यत्र मलयपर्वतात् । प्रथमं तद्देशसंबन्ध एव पवनस्येत्याशयः। श्रीः संपत्तिः । स्मरस्य कामस्य चिह्न- रूपो मकरस्तेन संभुक्त उपभुक्तो विभवः प्रभावो यस्य तत् । मकरो जलजन्तुतया जलमत्यर्थं पिबति । इह तु खेदाम्बु तेन प्रथमं पीतमिति भावः । विदर्भीणां १. 'मन्यूत्पीडगद्द-'. २. 'देवि' इति पुस्तकान्तरे नास्ति. - ७ अङ्कः] अनर्घराघवम् । ३६९ किंच बिभ्रती कैशिकी वृत्तिं सौरभोदारिणी गिरः । दूराध्वानोऽपि कवयो यस्य रीतिमुपासते ॥ १०२॥ विभीषणः-(दक्षिणतो दर्शयन् ।) देव, प्रणम्यतामयमन्ध्रविषय- लक्ष्म्याः सप्तगोदावरहारकलापैकनायको भगवान्भीमेश्वरः । अयं हि तत्कालारभटीविजृम्भणपरित्रासादिव भैश्यता वामार्धेन तदेकशेषचरणं बिभ्रद्वपुभैरवम् । तुश्यं चास्थिभुजंगभूषणमसौ भोगीन्द्रकङ्कालकै- र्बिभ्राणः परमेश्वरो विजयते कल्पान्तकौन्तिकः ॥ १०३ ॥ विदर्भस्त्रीणाम् । भूरि प्रचुरम् । परीरम्भ आलिङ्गनम् । द्विगुणा पुलकस्रक येषु तानि । वक् माला । बिभ्रतीमिति । यस्य महाराष्ट्रदेशस्य गिरो वाण्या रीति वैदभीनाम्नी कवयो दूरस्था अप्युपासते आश्रयन्ते । कीदृशीम् । कैशिकीनाम्नी वृत्तिं बिभ्रतीं दधानाम् । सौरभं मनोहरता ख्यातिश्च सौगन्ध्यं वा । तत्प्रकाशि- नीम् । रीतिलक्षणं सरखतीकण्ठाभरणे-वैदर्भादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः । ऋ गताविति धातोः स व्युत्पत्त्या रीतिरिष्यते ॥ वैदर्भी साथ पाञ्चाली गौडीयावन्तिका तथा । लाटीया मागधी चेति रीतिः षोढा निगद्यते ॥' तासु च- 'अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता । विपञ्चीखरसौभाग्या वैदर्भी रीतिरि- प्यते ॥' इति । वृत्तिलक्षणं तु तत्रैव-'या विकासेऽथ विक्षेप संकोचे विस्तरे तथा । चेतसो वर्तयित्री स्यात्सा वृत्तिः सापि षड्धिा ॥ कैशिक्यारभटी चैव भारती सात्वती परा । मध्यमारभटी चैव तथा मध्यमकैशिकी ॥ सुकुमारार्थ- संदर्भा कैशिकी तासु कथ्यते ।' अन्ध्रविषयोऽन्ध्रनामा देशः । गोदावों नदी- विशेषाः । सप्तानां गोदावरीणां समाहारः सप्तगोदावरम् । अच् समासान्तः पञ्च- नदवत् । नायकः प्रधानमणि: खामी च । भीमनामा ईश्वरो महादेवः । तत्का- लेति । अयं परमेश्वरो विजयते । कीदृशः । तत्काले नृत्यकाले । आरभटी आरम्भः नृत्यविशेषो वा । आरभटीवृत्तिमयत्वात् । तस्या विजृम्भणं वृद्धिस्तद्ध- । BHARATI ३. 'भ्राम्यता'. १. बिभ्रतः २. 'सप्तगोदावरी', २४ अ०रा० काव्यमाला। रामः-(कृताञ्जलिः।) नृत्यारम्भपरित्रसद्धिरिसुतारिक्तार्घसंपूर्तये नियूंढनमिविभ्रमाय जगतामीशाय तुभ्यं नमः । यभूडाभुजगेश्वरप्रभृतिभिस्तादृम्भमन्तीदिशः पश्यद्भिर्धमपूर्णमाननयनैः शान्तोऽपि न श्रधे ॥ १०४॥ अपि च। क्रीडानटस्य प्रलयान्धकारैः कण्ठे निपीते तव नीलकण्ठ । पृथक्कबन्धं पृथगुत्तमाङ्गं नृत्यद्भयादैक्षत कालरात्रिः ॥ १०५ ॥ (सर्वे नमन्ति ।) रामः-(अन्यतो दर्शयन् ।) देवि, द्रविडमण्डलमौलिमण्डनमाणि- यादिव भ्रश्यता अपगतेन वामार्धेन गौरीरूपेण तस्यैकशेषेण चरणं यत्र तादृशं भैरवशरीरं दधानः । अस्थिरूपस्य भुजंगरूपस्य च भूषणस्य रसद्वयं तुल्यं विभ्राणः । कैः । सर्पराजाझास्थिभिः एकेनैव भोगीन्द्रकङ्कालकेन रसदयावादमनु- भवति । प्रलये वासुक्यादीनां कङ्कालमानं तिष्ठतीति भावः । प्रलयकाले कर्माधि- कृतः । “नियुद्धयुद्धसंस्फोटविद्रवादिभिरन्विता । विज्ञेयारभटी वृत्तिरुद्धतैः पुरुषैः कृता ॥ कपटानृतदम्भेषु वञ्चनास्कन्दयोस्तथा । समुत्फालेन्द्रजालादौ सदा चोज्ये- यमार्यकैः ॥ इति संगीतसर्वस्वम् । 'कङ्कालोऽस्थि शरीरस्य' इत्यमरः । नृत्यति। रिकं तुच्छम् । संपूर्तिर्भरणम् । नियूंढः समाप्तो भ्रमिर्मण्डलिकया भ्रमणं तस्य विभ्रमो विलासो येन तस्मै । गौर्या भ्रमिभयात्त्य खशरीरं दृष्ट्वा भ्रमिविभ्रमः परित्यक्त इति भावः । यस्त्वं श्रान्तोऽपि नृत्लनिवृत्तोऽपि नायनात्यन्तघूर्णमान- नयनैथूडास्थितसर्पशायेर्न श्रद्दधे न निर्णीतः । अधुनापि नृत्यतीत्यवगतमिति भावः । कर्मणि लिट् । तागतिशयितं भ्रमन्तीभ्रंमणं कुर्वतीर्दिशः पश्यद्भिः। क्रीडेति । क्रीडार्थ नटो हरः । प्रलये अन्धकारैर्निपीते आच्छादिते । कबन्धः शिरःशून्यकायः । उत्तमाझं मस्तकम् । 'उत्तमा शिरः शीर्षम्' इत्यमरः । ऐक्षत । । १. 'त्यक्तार्ध-. २. मौलिमाणिक्यस्दबकम्'. m ७ अङ्कः] अनर्घराघवम् । क्यमणिस्तबकमिदं काञ्चीनामधेयमायतनं मीनकेतनस्य । (सीतामपवार्य ।) इह हि खेदजलपिच्छिलाभिस्तनुभियूनां च शिथिलमाश्लेषम् । विपुलं पुलकशलाकापटलं झटिति प्रतिकरोति ।। १०६ ॥ अपि च। अभिमुखपतयालुभिर्ललाटश्रमसलिलैरवधूतपत्रलेखः । कथयति पुरुषायितं वधूनां मृदितहिमद्युतिनिर्मलः कपोलः ॥१०७॥ सुग्रीवः-(वामतो दर्शयन् ।) इयमितः शृङ्गारदेवतागर्भगृहमव- न्तिविषयसीमन्तमौक्तिकमुज्जयिनी नाम राजधानी । इह हि कमितुरभिसृत्वरीणां गौराङ्गीणामिहेन्दुगौरीषु । उड्डयमानानामिव रजनिषु परमीक्ष्यते छाया ॥ १०८ ॥ पश्यति स्म । 'ईक्ष दर्शने' । लङ् । कालरात्रिमहाभैरवी कण्ठस्थितकालकूटत्वा- द्भिन्नमेवोत्तमाझं कबन्धं ददर्शति वाक्यार्थः । द्रविडनामा देशः । आयतनं स्थानम् । खेदेति । यूनां स्त्रीपुंसानाम् । युवा च युवती च 'पुमान्त्रिया' इत्ये- कशेषः । शिथिलं श्लथं आश्लेषमालिङ्गनं पुलक एव शलाका तत्पटलं कर्तृ शीघ्र प्रतिकरोति । खेदजलपिच्छिले शरीरे श्लथमालिङ्गनं रोमाञ्चः स्थिरीकरोतीत्यर्थः । अभिमुखेति । पतयालुभिः पतनशीलैः । 'स्मृहिगृहि-' इत्यालच् । 'अया- मन्ता-' इत्ययादेशः । पुरुषायितं विपरीतरतम् । विपरीतरते स्त्रिया अधोमुख्या धर्मस्याभिमुखं पतनात्कपोलपत्रलेखापनयः । मृदिता शुद्धा धौतेति यावत् । हिमस्य द्युतिश्छविस्तद्वन्निर्मलः । यद्वा विशुद्धो यो हिमद्युतिश्चन्द्रस्तद्वन्निर्मलः । शृङ्गारदेवता कंदर्पः । गर्भगृह मध्यगृहं 'गभहर' इति ख्यातम् । अवन्तिर्देशविशेषः। सीमन्तः केशरचनारेखा । गर्भगृहं मौक्तिकमिति चोज्जयिन्या विशेषणम् । अजहल्लिङ्गतया- न्वयः । कमितुरिति । परंशब्दो भिन्नक्रमश्छायाशब्दानन्तरं द्रष्टव्यः । तेन इह नगर्यामिन्दुगौरीषु चन्द्रधवलासु रात्रिषु कमितुः कामुकस्य कृते अभिसृत्वरीणाम- भिसरणशीलानां गौरामीणां छायैव परमीक्ष्यते दृश्यते । जनैरिति शेषः । न तु १. 'हिमद्युतिदुर्मनाः'. २. 'इह हि' इति पुस्तकान्तरे नास्ति. - 1 ।
३७२ काव्यमाला। अपि च। अधस्तात्सौधानामिह हि चरतामिन्दुकिरणा- न्धनोदञ्चच्चञ्चूपुटनिहितनेत्रा युवतयः । चकोराणां ज्योल्लारसकुतुपकौतूहलकृता- मुदीक्षन्ते नश्यत्तिमिरविशदाभोगमुदरम् ॥ १०९॥ अपि च । इह युवतिवदनकान्तिभिराप्यायिततुन्दपरिमृजः शेते । भुक्तापभुक्तहिमरुचिमरीचिरन्तःपुरचकोरः ॥ ११० ॥ विभीषणः-इहैवायमलकायाः शाखानगरगौरवभाजि त्रिपुरदह- नाधिष्ठानप्रतिष्ठो भगवान्महाकालनाथः । अयं हि उद्दामभ्रमिवेगविस्तृतजटावल्लीप्रणालीपत- वर्गङ्गाजलदण्डिकावलयितं निर्माय तत्पञ्जरम् । शरीरम् । तासां गौराशीत्वात् । इति परंशब्दार्थः । उड्डयमानानां बकादीनां यथाधश्छाया दृश्यते तथेत्यर्थः । गौरमेवाझं तद्देशस्त्रीणामिति भावः । अधस्ता- दिति । युवतयश्चकोराणामुदरमीक्षन्ते पश्यन्ति । कीदृशानाम् । ज्योत्स्नैव रसः पारदस्तस्य यः कुतुपश्चर्मघटः 'कुरुआ' इति ख्यातः तस्य कौतुककारिणाम् । 'कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान्' इत्यमरः । सौधानामधस्तादिन्दु- किरणान् चरताम् । कीदृशमुदरम् । ज्योत्स्नापानानश्यद्यत्तिमिरमन्धकारस्तेन विशदो धवल आभोगो यत्र तादृशम् । घनं वारं वारमुदञ्चद्विकसद्यच्चञ्चूपुटं तत्र निहितं नेत्रं याभिस्ताः । अधस्तादिति 'अस्ताति च' इत्यस्तातिप्रत्ययः । इह युवतीति । आप्यायितः स्फीतः । तुन्दपरिमृजोऽलसः । 'तुन्दशोकयोः परि- मृजापनुदोः' इत्यालस्ये कः । भुक्तापभुक्तं भुक्तमपभुक्तं त्यक्तम् । तथा चार्धभुक्त- मित्यर्थः । अलका कुबेरनगरी । मुख्यनगरावयवभूतं नगरं शाखानगरम् । तस्य गौरवभाजि तुल्ये । त्रिपुरदहनो हरस्तस्याधिष्ठानं साक्षादवस्थानम् । उद्दामेति । जटावल्येव प्रणाली जलनिर्गमपथः 'पनारी' इति प्रसिद्धः। जलमेव दण्डिका काष्टिका - । १. 'चञ्चूपथ- ७ अङ्कः] अनर्घराघवम् । ३७३ संभ्राम्यद्भुजदण्डपक्षपटलद्वन्द्वेन हंसायित- स्त्रैलोक्यव्ययनाटिकानयनटः स्वामी जगत्रायताम् ॥११॥ राम:-(प्राञ्जलिः।) नमस्तुभ्यं देवासुरमुकुटमाणिक्यकिरण- प्रणालीसंभेदस्खपितचरणाय स्मरजिते । महाकल्पवाहाकृतभुवनचक्रेऽपि नयने निरोद्धं भूयस्तत्प्रसरमिव कामं हुतवते ॥ ११२ ॥ किं च। वेगादगादेव तव त्रिनेत्र युग्मेतरस्मान्नयनात्कृशानुः । कामे तु संमोहनशस्त्रहस्ते खाहामनुध्याय चिरं जडोऽभूत् ॥११३॥ (सर्वे नमन्ति ।) सीता-(विहस्य ।) अहो तत्थभवदो ससहरसेहरस्स कवलिद- तया वलयितं वेष्टितं यत्पञ्जरं हंसपञ्जरम् । भुजदण्डावेव पक्षपटलद्वन्द्व पक्षतिद्वयम् । हंसायितो हंसीभूतः । व्ययो नाशः स एव नाटिका नाट्यविशेषस्तस्या नयोऽभि- नयस्तत्र नट इव नटः । नमस्तुभ्यमिति । प्रणाली 'पनारी' इति प्रसिद्धा तस्याः संमेदः संबन्धः । स्नपितं स्नानं कारितम् । मित्संज्ञायां "मितां ह्रखः' इति ह्रखत्वम् । स्मरजिते हराय । महाकल्पे प्रलये स्वाहाकृतं हुतं भुवनचक्रं यत्र तादृशे । नयने नेत्राग्नौ । निरोद्धं निरुद्धं कर्तुं वारयितुमिव । भूयः पुनरपि । तत्प्रसरं नेत्राग्निप्रसरणम् । इवशब्द उत्प्रेक्षायाम् । कामं कंदर्प हुतवते होमविषयं कुर्वते । कामः पूर्णाहुतिरिव कृत इति भावः । वेगादिति । हे देव त्रिनेत्र, इति संबोधनम् । युग्मेतरस्मात् द्वयान्यतरस्मात् तृतीयात् । कृशानुरग्निः । संमो- यतीति संमोहनम् । तादृशं शस्त्रं बाणो हस्ते यस्य तादृशे सति । यद्धा तादृश- कामविषये । जडः शीतलः । निष्क्रिय इति यावत् । खाहा अग्निवधूस्तामनुध्या- यानुस्मृत्य । कामेन संमोहनास्त्रेण मोहितः सन् वह्निः स्वाहास्मरणासक्त एवा- भूदिति भावः । 'खाहा तु हुतभुक्प्रिया' इत्यमरः । अहो तत्थेति । 'अहो तत्रभवतः शशधरशेखरस्य कवलितचतुर्दशभुवनस्यापि न पलायिता अक्षिबुभुक्षा १. 'भुजखण्ड-'. २. 'स्वाहीकृत-'.
३७४ काव्यमाला। चउद्दसभुवणस्स वि ण पलाइदा अक्खिबुभुक्खा जेण भअवं मअणो वि विआलिअग्गासीकिदो (सर्वे हसन्ति।) रामः-(सविमर्शम् ।) अस्य हि भगवतः बाणीभूतपुराणपूरुषधृतिप्रत्याशया धाविते विद्राति स्फुरदाशुशुक्षणिकणक्लान्ते शकुन्तेश्वरे । नम्रोन्नम्रभुजंगपुंगवगुणव्याकृष्टबाणासन- क्षिप्तास्त्रस्य पुरद्रुहो विजयते संधानसीमाश्रमः ॥ ११४ ॥ (अन्यतो दर्शयन् ।) इयं च कलचुरिकुलनरेन्द्रसाधारणाग्रमहिषी माहि- ष्मती नाम चेदिमण्डलमुण्डमाला नगरी । इह हि येन भगवान्मदनोऽपि विकालिकग्रासीकृतः । इति च्छाया । इह पलायिता अपगता । बुभुक्षा भोक्तुमिच्छा । विगतः कालो दिनरूपो यत्र स विकालः तद्भवो विकालिकः । स चायं ग्रासश्चेति विकालिकग्रासः 'विारी' इति यत्प्रसिद्धिः । बाणीभूतेति । पुरद्वहो महेशस्य संधानं शरसंयोजनं तदेव सीमा अवधिर्यस्य तादृशः श्रमः परिश्रमो विजयत इत्यन्वयः । पुरद्रुह इति पदेन पुरनामकदैत्य- नाशाय संधानं कृतमित्यर्थप्राप्तिनिमित्तमुपन्यासः । कीदृशस्य । बाणीभूतः शरी- भूतो यः पुराणपुरुषो विष्णुस्तस्य धृतिप्रत्याशया धारणेच्छया धाविते चलिते। विष्णोर्गरुडवाहनत्वात् । अनन्तरं महेशस्य यो नेत्रजो वह्निकणस्तेन क्लान्ते क्लिने। अत एव शकुन्तेश्वरे गरुडे विद्राति अपगच्छति सति संनिहिते गरुडे भयान्नम्रो नतः, अपगते तस्मिन् भयाभावादुन्नम्र उद्गतो यो भुजंगपुंगवः सर्पराजो वासुकि: स एव गुणः प्रत्यञ्चिका तेन विशेषेणाकृष्टं यद्वाणासनं धनुस्तेन क्षिप्तं प्रेरितमस्त्रं बाणो येन तस्य । तथा च गरुडकृतनम्रोन्नम्रनानावस्थवासुकिरूपगुणाकर्षणे संधान- श्रम इति भावः । 'वहिः शिखावानाशुशुक्षणिः' इत्यमरः । त्रिपुरदाहे विष्णुर्बाणो वृत्त' इति पुराणवार्ता । कलचुरिकुलं 'करचुरि' इति प्रसिद्धं पश्चिमदेशे क्षत्रियकु- । १. 'गति-'. २. 'पतङ्गेश्वरे.
७ अङ्कः] अनर्घराघवम् । ३७५ आश्लेषचुम्बनरतोत्सवकौतुकादि- क्रीडादुरोदरपणप्रतिभूरनङ्गः। भोगस्तु यद्यपि जये च पराजये च यूनोर्मनस्तदपि वाञ्छति जेतुमेव ॥ ११५ ॥ (विमानवेगं रूपयित्वा ।) देवि, देव्या भूमेर्मुगमदमषीमण्डनं सिद्धसिन्धोः सधीचीयं जयति यमुना या तटैकाग्रवृत्तीन् । प्रेमोत्कर्षादिव पितृपतेीतुराच्छिद्य हस्ता- दस्ताबा, गमयति पितुर्मण्डलं चण्डभानोः॥ ११६ ॥ लम् । अग्रमहिषी ज्येष्ठमहादेवी चेति नगरी विशेषणम् । तत्कुलजनरेन्द्राणां माहि- धमत्यामेवावस्थानात्साधारणतेति । पुनः कीदृशी नगरी। चेदिमण्डलस्य चेदिनाम- कराष्ट्रस्य मुण्डमाला शिरोलंकारविशेषः 'मुण्डवारी' इति प्रसिद्धा । इह हीति । इह नगर्याम् । क्रीडादुरोदरो विनोदद्यूतम् । 'दुरोदरो द्यूतकारे पणे द्यूते दुरोद- रम्' इत्यमरः । पणः 'पाट' इति ख्यातः । इहाश्लेषादीनां नानारूपतया पणस्य चैकरूपतया वचनभेदेनापि सामानाधिकरण्येनान्वयः । प्रतिभूलनकः 'सहिआर' इति ख्यातः । यद्यपि जये च पराजये चोभयथैव संभोग ( उपभोग इत्यर्थः । तदपि तथापीत्यर्थः । यूनोरिति युवतरुण्योरित्यर्थः । युवती च युवा चेति 'पुमान्त्रिया' इत्येकशेषः । रूपयित्वा नाटयित्वा । देव्या इति । इयं यमुना जयतीत्यन्वयः । कीदृशी। मृगमदः कस्तूरी । कृष्णत्वाद्रूपकम् । (सैव मषी ) तया जातं भूमेर्मण्डनं भूषणम् । अजहल्लिङ्गतयान्वयः । या यमुना सिद्धसिन्धोर्गङ्गायाः सध्रीची सहचरी सती तटैकाग्रवृत्तीन्पुरुषान्पितृपतेर्यमस्य खचातुर्हस्वात्प्रेमोत्कर्षात्लेहोद्रेकादिवाच्छिद्याकृष्य चण्डभानोः सूर्यस्य स्खपितुर्मण्डलं गमयति प्रवेशयति । प्रयागमरणे रविरश्मिवर्त्यांना स्वर्गगमनं भवतीत्यागमः । अस्ता आवाधा महापीडा यत्र तादृशम् । क्रियाविशेषणं वा । 'मृगनाभिर्मगमदः' १. 'कर चुलि-'. २. 'भोगस्तु यद्यपि जयेऽपजये च तुल्यो'; 'भोगः स यद्यपि जये विजयेऽपि तुल्यो'. ३. 'देवि' इति पुस्तकान्तरे नास्त्रि. ४. 'भास्करस्य', ३७६ काव्यमाला। लक्ष्मण:-(दूरमङ्गुल्या दर्शयन् ।) त्रिपुरहरकिरीटक्रीडितैः क्रीडयद्भि- भुवनममृतभानोर्बालमित्रैः पयोभिः । सगरसुतचितायाः पावनी तोयराशे- रियमियमधमग्रे जाह्नवी निद्भुते नः ॥ ११७ ।। राम:-(सहर्षम् ।) । गौरी विभज्यमानार्घसंकीर्णहरमूर्धनि । अम्ब द्विगुणगम्भीरे भागीरथि नमोऽस्तु ते ॥ ११८ ॥ (सीतां प्रति ।) देवि, वन्दख। इत्यमरः । "पितृपतिः समवर्ती परेतराट्' इत्यपि । त्रिपुरहरेति । इयमियमि- त्यत्र 'संभ्रमे द्वे भवतः' इति द्वित्वम् । अचं पापं नोऽस्माकं निद्भुते । नाशयती- त्यर्थः । सगरसुतचिताया इति तोयराशेरित्यस्य विशेषणम् । अजहल्लिङ्गतयान्वयः। चिता मृतदाहार्थमन्याधानम् । 'चिता चित्या चितिः स्त्रियाम्' इत्यमरः । पाव- नीति । 'करणाधिकरणयोश्च' इति ल्युट । पयोभिरिति करणे तृतीया । पयोभिः कीदृशैः। अमृतभानोश्चन्द्रस्य बालमित्रैः बाला एव मित्राणि तैः। यद्वा भावप्र- धानो निर्देशः। बाल्यान्मित्ररित्यर्थः । किरीटं भूपालादीनां शिरोलंकरणम् । 'मुकुट किरीटं पुनपुंसकम्' इत्यमरः । 'कलुषं वृजिनैनोघम्' इति च । सगरसुत- चितायाः पावनीत्यत्र सगरसुतकथा पुराणे व्यक्ता । तथा हि-'सगरेण राज्ञा अश्वमेधे आरब्धे तस्याश्वमिन्द्रो हृत्वा कपिलमुनिसंनिधाने वा गतः । सगरपुत्रै- स्वदश्वान्वेषणपरैः पृथिवीं खनद्भिः कपिलान्तिकेऽश्वो दृष्टः । स मुनिश्च ताडितः। ततस्तन्नेत्रोद्भवाग्निना सगरपुत्रा भस्मीभूताः । सगरपुत्रखननादेव समुद्रः सागर इति ख्यातः । ततश्च सगरप्रपौत्रेण भगीरथेन कपिलमुनिवचसैव गङ्गामानीय सागरे प्रवेश्य भस्मीभूता अगतयः सगरपुत्राः पाविता' इति । तेन सगरसुतचि- तायाः समुद्रजलराशेः पावनी सा गङ्गेति भावः । गौरीति। हे अम्ब मातः, इति संबोधनम् । 'अम्बार्थनद्योर्हखः' इति ह्रखत्वम् । यत्र किल नद्यो विस्तृता १. 'प्रीणयद्भिः -- ७ अङ्कः] अनर्घराघवम् । ३७७ देवस्याम्बुजसंभवस्य भवनादम्भोधिमागामुका सेयं मौलिविभूषणं भगवतो भर्गस्य भागीरथी । उद्यातानपहाय विग्रहमिह स्रोतःप्रतीपानपि स्रोतस्तीव्रतरत्वरा गमयति द्राब्रह्मलोकं जनान् ॥ ११९॥ सीता-(कृताञ्जलिः ।) एसा णिअस्सोतसिङ्खलासंदाणिदतिहुअणा- मन्दाइणि, वन्दिज्जसि । (सर्वे नमन्ति ।) लक्ष्मण:-(अन्यतो दर्शयन् ।) धनाधिनाथप्रणयानुरोधादभन्नकैलासनिकेतनस्य । देवस्य कल्पान्तकपालपाणेर्वाराणसी नाम पुरी पुरस्तात् ॥ १२०॥ रामः-(सहर्षमवलोक्य।) प्लवमानरपारोऽयं जनैः संसारसागरः । द्वीपे वाराणसीनाम्नि विश्रान्तैरिह तीर्यते ॥ १२१ ।। न भवन्ति तत्र गम्भीरा भवन्तीति भावः । देवस्येति । अम्बुजसंभवस्य देवस्य ब्रह्मणः । आगामुका आगमनशीला । 'लषपत-' इत्यादिना उकञ् । भर्गस्य शिवस्य । 'स्सरहरो भर्गः' इत्यमरः । इह भागीरथ्यां विग्रहं शरीरमपहाय त्यक्त्वा उद्यातानूवं गतान् । 'या प्रापणे' क्तः । स्रोतःप्रतीपास्रोतसः प्रवाहस्य प्रती- पान्विपरीतगामिनोऽपीति विरोधाभासः । गङ्गास्रोतोऽघोगामि, जना ऊर्ध्वगामिन इति भावः । स्रोतसा तीव्रतरा अतिशयिता खरा वेगो यस्याः सा । एतेनाद्भुतत्वं ध्वनितम् । द्राक्तत्क्षणम् । 'द्राग्झटियजसाहाय' इत्यमरः । एसेति । एषा निजस्रोतःशृङ्खलासंदानितत्रिभुवना । हे मन्दाकिनि, वन्द्यसे' [इति च्छाया । इह स्रोत एव शृङ्खला 'सांकर' इति ख्याता, इति रूपकम् । संदानितं बद्धम् । ‘बद्ध संदानितं मूतम्' इत्यमरः । धनेति। धनाधिनाथः कुबेरः। 'प्रणयः प्रेम्णि विश्वासे यानावित्रम्भयोरपि' इति । प्लवेति । संसार एव सागरः समुद्रः । जलमध्ये स्वत उत्थितः समुच्छ्रितभूभागो द्वीपः । 'द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्' १. 'आगामुकी'. । ।
विभ्रद्दधत् । पुनः । कण्ठच्छायया नीलगलप्रतिबिम्बेन पीत आच्छादितो यः काव्यमाला। अपि चैनां नित्यमध्यास्ते भगवान् कण्ठच्छायनिपीतपन्नगफणारत्नौघमात्रस्थिती हारे निर्भयपार्वतीभुजलताबन्धोल्लसत्कंधरः । तत्सर्वाङ्गविरामवामनतमैरेव खरैः सामगं बिभ्रद्ब्रह्मशिरः शिवाय जगतामेणाङ्कचूडामणिः ॥ १२२ ।। (अन्यतो दर्शयन् , सीतां प्रति ।) देवि, दृश्यतामितः । नवोन्मीलन्मौर्वीकिणनिकरकार्कश्यसदय- प्रवृत्तस्त्वत्पाणौ किमपि निबिडं पीडयति मे। कृतार्थोऽयं यस्यां समजनि करः सैव पुरतः पुरी पूर्वेषां ते नयनमियमालानयति नः॥ १२३ ॥ इत्यमरः । इह वाराणसीनाम्नि द्वीपे विश्रान्तेविंगतपरिश्रमैः । एनामध्यास्त इति 'अधिशीङ्स्थासां कर्म' इत्याधारे कर्मत्वम् । कण्ठेति । एणाङ्कचूडामणिः शिवो जगतां शिवायास्तु इति संवन्धः । कीदृशः । तत्प्रसिद्धं ब्रह्मशिरो ब्रह्मकपालं । सर्पफणारत्नसमूहस्तन्मात्रेणावस्थितिर्यस्य तादृशे हारे वासुकिखरूपे सति अत एव निर्भया या पार्वती तस्या भुजलताबन्धेनोल्लसन्ती कंधरा ग्रीवा यस्य सः। अन्यदा शिरोरत्नदीप्तवासुकिदर्शनाद्भयम् , इदानीं तु न तथेति भावः । ब्रह्मशिरः कीदृशम् । खरैः सामगं सामवेदगायनम् । कीदृशैः । सर्वाङ्गविरामेण शिरोव्यति- रिक्ताङ्गशून्यतया वामनतमैरतिनीचैः । कण्ठस्य च्छायेति समस्य, "विभाषा सेना- मुराच्छाया-' इत्यादिना क्लीबत्वम् । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इति नानार्थः । नवोन्मीलदिति । पुरतोऽग्रे ते तव पूर्वेषां पूर्वपुरुषाणां सैवेयं पुरी मिथिला नोऽस्माकं नयनमालानयति बन्धयति । तत्रात्यर्थ लगतीत्यर्थः । 'पूर्वोऽन्यलिङ्गः प्रागाह पुंबहुत्वे च पूर्वजान्' इत्यमरः । सा का। यत्र पुर्या त्वत्पाणावधिकरणे । मौवी हरधनुर्गुणः । किणो व्रणाव॒दस्तस्य निकरः समूहस्तस्य कार्कश्यात्काठिन्याद्धेतोः सदनं यथा स्यादेवं प्रवृत्तो व्यापारोद्यतः सन् अयं मे मम १. 'नित्यम्. २. 'अन्यच', । ।
NilesSPNGLA ७ अङ्कः] अनर्घराघवम् । ३७९ सीता-(सस्मितानुराग साचीकृताक्षी रामं पश्यन्ती पुरीं प्रति) मिहिले, वन्दिज्जसि । गुरुअणे वि वन्दणं मे विण्णवेसि । रामः-(सुग्रीवविभीषणौ प्रति ।) वैयस्यौ, इयं सा जानकी प्रजा- यमानाया भगवत्या भूमेररिष्टमन्दिरं मिथिला । सुग्रीवविभीषणौ-(सकौतुकस्मितम् ।) यत्र भगवतः पार्वतीजी- वितेश्वरस्य धेनुर्धनुरन्तेवासिनावजगवभार्गवौ भञ्जतो भवतः सहपांसु- क्रीडादीर्घसखीयं वीरलक्ष्मीः । रामः-(सर्लंजस्मितमन्यतो दर्शयन्सीतां प्रति ।) देवि, इयं पुनस्त- करः किमप्यनिर्वचनीयमनुरागातिरेकान्निबिडं गाढं यथा स्यादेवं अर्थात्त्वत्पाणिमेव कर्मभूतं मत्कर एव कर्तृभूते पीडयति सति कृतार्थोऽजनि कृतकृत्यो जातः । यद्यपि पीडनक्रियायाः कर्मपदं कर्तृपदं च शब्दतो न श्रूयते तथाप्यर्थमहिन्नैव शाब्द्या वृत्त्यानुक्तयोरप्या. वृत्त्यैव व्याख्यानरीत्या प्रत्यासत्त्यैव तयोरुपस्थितिरित्यवधा- तव्यम् । पाणिपीडनं विवाहः। 'तथा परिणयोद्वाहोपमायाः पाणिपीडनम्' इत्यमरः। साचीकृत्ताक्षी वक्रीकृताक्षी । साचीत्यव्ययं वक्रे। तिर्यगर्थे साचि तिरः' इत्यमरः । अम्बेति । 'अम्ब मिथिले, वन्यसे । गुरुजनेऽपि वन्दनं मे विज्ञापयिष्यसि [इति च्छाया ।] इह अम्ब हे मातरित्यर्थः । जानकी प्रजायमानायाः। जानकी जनयन्त्या इत्यर्थः । प्रपूर्वाण्णिजर्थोऽत्र गम्यते । ‘जातापत्या प्रजाता च प्रसूता च प्रसूतिका' इत्यत्र तथा दर्शनात् । प्रजाता जनितापयेत्यर्थात् । अरिष्टमन्दिरं सूतिकागृहम् । अजहल्लिङ्गतया मिथिलाविशेषणम् । 'अरिष्टं सूतिकागृहम्' इत्य- मरः । मन्दिरपदं स्फुटत्वार्थम् । तेन न पुनरुक्तिः । यत्रेत्यादि । यत्र मिथि- लायां पार्वतीजीवितेश्वरस्य शिवस्य । धनुश्च धनुरन्तेवासी चेति द्वन्द्वः । अजगव- भार्गवावित्यस्य यथाक्रमं विशेषणम् । शिवस्य धनुरजगवः शिवस्य धनुरन्तेवासी धनुर्विद्यायां शिष्यो भार्गवः । तो भञ्जतस्तवेत्यन्वयः । वीरस्य लक्ष्मीवीरलक्ष्मीः। इयं पुनरिति । पुरस्तादग्रे गौडानां गौडीयानां नगरीत्यन्वयः । चम्पानाम १. 'कृताङ्गी'२. 'वयस्यौ' इति पुस्तकान्तरे नास्ति. ३. 'तौ सकौतुकम्, ४. 'पार्वतीदायितस्य'. ५. 'धेनुरन्तवासिनौ'. ६. 'ससितम्', काव्यमाला। तोऽपि पुरस्ताच्चम्पा नाम गौडानां विनयमधुरशृङ्गारविभ्रमरमणीया मक- रकेतनकुमारवतचर्यातपोवनमिव राजधानी । (अपवार्य च ।) इह हि रोमाञ्चोच्छसदङ्गसंधिनिबिडैरालिङ्गनामिनी शेषीकृत्य विवृण्वते निजरहश्चातुर्यमेणीदृशः। यष्टिस्थे सपदि प्रदीपमुकुले दग्ध्वा दशां मल्लिका- तैले प्रज्वलति स्तृणोति बसतीर्यन्नाभिदन्नं तमः ॥ १२४ ॥ लक्ष्मणः-(अग्रे दर्शयन् ।) एते भगवत्यौ भूमिदेवानां मूलायत- नमन्तर्वेदी पूर्वेण कृष्णागुरुमलयजमयमगरागमिवान्योन्यस्य कुर्वाणे कलिन्दकन्यामन्दाकिन्यौ संगच्छेते। । 'चम्पा' इति ख्याता । कीदृशी । विनयेन मधुरो मनोहरो यः शृङ्गारो रसस्तस्य विभ्रमेण विलासेन रमणीया रम्या । मकरकेतनस्य कामस्य कुमारस्य व्रतं कुमारत्रत तस्य चर्या आचरणं तस्यास्तपोवनमिवेयजहल्लिङ्गतयान्वयः । तथा च तत्र सर्वदा कामो जागरूक एव वर्तत इति भावः । 'मकरकेतन विलासतपस्तपोवनमिव' इति क्वचित्पाठः । इह हीत्यादि । इह चम्पायामेणीदृशो मृगाक्ष्यः आलिङ्गनरावल- भस्य यामिनी रात्रि शेषीकृत्य किंचिदवशिष्टां कृत्वा निजरहश्चातुर्य स्वीयैकान्तवै- दग्ध्यं विवृण्वते प्रकाशयन्ति । कीदृशैः । रोमाञ्चेणोच्छ्रसन्नपचयं गच्छन् योऽङ्गस्य संधिरवयवद्वयमध्यभागः संधिरिति ख्यातस्तेन निबिडैगाढेः । तथा च रोमाञ्चे- नाङ्गस्य निम्नोन्नतसमतया आलिङ्गनस्य नैबिड्यामिति भावः । यद्यस्मात् यष्टिस्थे प्रदीपमुकुले दशां दग्ध्वा मल्लिकातले प्रज्वलति सति । नाभिदन्नं नाभिप्रमाणं तमः कर्तृ वसतीर्वेश्मानि स्तृणोत्याच्छादयति । तथा च समस्तरजन्यां दशायां दग्धायां मल्लिकाभ्यन्तरे ज्वलति सति प्रदीपे गृहाभ्यन्तर उपरिभागे उद्योतः, अधोभागेऽन्धकार इति भावः । समस्तरजन्यां क्रीडनात्कामिनीचातुर्यमपि प्रक. टितम् । 'वसती रात्रिवेश्मनोः' इत्यमरः । एते इत्यादि । भूमिदेवानां ब्राह्मणा- नाम् । मूलायतनं मूलावस्थितिस्थानमित्यन्तर्वेदी विशेषणम् । अन्तर्वेदी देशविशेषः । 'एनपा द्वितीया' इति द्वितीया । कृष्णागुरुमलयजमयमङ्गरागमन्योन्यं कुर्वाणा १. 'मकरकेतु-'. २. 'अङ्गसङ्ग'. ३. 'पूर्वतः'.
७ अङ्कः] अनर्घराघवम् । हिमालयोत्सनसदाधिवासतो जीतेव पाण्डुः प्रतिभाति जाह्नवी । निदाधमानोः पितुरकलालनात्कृतेव काली यमुना च दृश्यते ॥१२५॥ (विभाव्य च ।) बलिद्विषः पादनखांशुराजिभिः स्मरारिमौलीन्दुमरीचिवीचिभिः । हिमाद्विनिःस्यन्दरसैः पदे पदे विवर्धते वैवुधसैन्धवी रुचिः॥१२६॥ अपि च । प्रयागः सर्वतीर्थेभ्यस्तीर्थमुच्चैस्तरामयम् । संसौराब्धेः परं पारमिहस्थैरवलोक्यते ॥ १२७ ॥ रामः-(सादरम् ।) किमुच्यते । सत्यमेव प्रयागोऽयं मोक्षद्वारमुदीर्यते । देव्यौ यस्याभितो गङ्गायमुने वहतः श्रियम् ॥ १२८ ॥ (सीतां प्रति ।) देवि, प्रणम्यतामितः । श्यामो नाम वटः सोऽयमेतस्याद्भुतकर्मणः । छायामप्यधिवास्तव्यैः परं ज्योतिर्निषेव्यते ॥ १२९ ॥ इति यमुनागङ्गयोर्यथाक्रममन्वयः । मलयजं चन्दनम् । 'कालिन्दी सूर्यतनया यमुना' इत्यमरः । संगच्छेते संगतीभवतः । 'समो गम्-' इत्यादिना तङ् । काली श्यामला । 'कालश्यामलमेचकाः' इत्यमरः । निदाघभानोरुष्णतेजःसंबन्धा- च्छयामतेति तात्पर्यम् । बलीति । बलिं द्विषन् विष्णुः । स्मरारिमहेशः । विबु- धसिन्धुर्गङ्गा । तत्संबन्धिनी । 'हृद्भग-' इत्यादिनोभयपदवृद्धिः । पदे पदे प्रति- पदम् । तेषां सर्वेषां श्वेतानामुत्तरोत्तरसंबन्धात्प्रतिपदं शुक्ला द्युतिर्विशेषेण वर्धत इति भावः । उच्चैस्तरां महत् । परं पारमुत्तरं कूलम् । यस्य मोक्षद्वारस्य । श्रियं द्वारशोभाम् । अभितः पार्श्वद्वये गङ्गायमुनयोरवस्थानात्प्रयागस्य द्वारशोभा । अन्यस्मिन्नपि द्वारपार्श्वद्वये खातं भवतीति ध्वनिः । श्याम इति । सोऽयं श्यामो । । - १. 'जडेव'. २. 'कालीकृता बा', ३. 'संसारस्य'. ४. अध्यधि- काव्यमाला। (सर्वे प्रेणमन्ति ।) रामः-(विमानवेगनाटितकेन सहर्षम् ।) यूपाङ्कुरप्रकरदन्तुस्तीरलेखा- संख्यायमानमनुसंततिसप्ततन्तुः इक्ष्वाकुराजमहिषीपदपट्टलक्ष्मी- देव्या भुवो भगवती सरयूरियं नः ॥ १३० ।। इयं च भगवत्ययोध्या गंगनगतास्मदुदीक्षणकुतूहलोत्तानपृथुलनिःस्यन्दैः । उन्नालस्थलकुवलयवनमिव जनलोचनैः क्रियते ॥ १३१ ॥ (सर्वे नमस्यन्ति ।) सुग्रीवविभीषणौ -(निर्वर्ण्य ।) वृन्तैरिव ऋतुसहस्रभुवां फलाना- मालोक्य यूपनिकरैर्मधुरामयोध्याम् । नाम वटोऽक्षयवटोऽस्ति। एतस्य वटस्य छायामप्यधिवास्तव्यैः पुरुषैः परं श्रेष्टं ज्यो- तिस्तेजो निषेव्यते । अपिर्विरोधाभासे । छायायां स्थितस्य तेजोनिषेवणमिति विरु- द्धम् । अत एवाद्भुतमाश्चर्यकारि कर्म यस्य तस्य । तथा चास्याक्षयवटस्य तटस्थेन परं ब्रह्माधिगम्यत इति वाक्यार्थः । छायामिति 'उपान्वध्यावसः' इत्याधारस्य कर्मता । वास्तव्य इति 'वसेस्तव्यत्कर्तरि णिच्च' इति तव्यत् । यूपेति । नोऽस्मा- कमियं सरयूनदीविशेषोऽस्तीत्यन्वयः। कीदृशी । यूपरूपोऽङ्कुरो यूपाङ्कुरस्तत्प्रकरण तेषां समूहेन दन्तुरा उन्नतदन्ता इव यास्तीरलेखाताभिः संख्यायमाना गणना- विषयीकृता मनुसंततीनां मनोरपत्यानां राज्ञां सप्ततन्तवो यज्ञा यया सा। तीरखातयूपसमूहेनैव मनुसंततियज्ञसंख्या ज्ञातेति । पुनः कीदृशी । भुवो देव्याः पृथिव्या इक्ष्वाकुराजमहिषीपदे पट्टलक्ष्मीरिव । महिषी महादेवी । पट्टः 'पटवासि' इसि ख्यातः । तस्य लक्ष्मीः शोभा। 'सप्ततन्तुर्मखः क्रतुः' इत्यमरः । गगनगते. त्यादि सुगमम् । निर्वर्ण्य दृष्ट्वा । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः । वृन्तैरिवेति । अयोध्यामालोक्य इहायोध्यायां प्रवसतां प्रकर्षेणा- १. 'नमन्ति'. २. 'गगनतलास्म'. ३. 'प्रणमन्ति'. । . ।
७ अङ्कः] अनर्घराघवम् । ३८३ NANDHAMANNA राज्ञामिह प्रवसतां च विचिन्त्य सिद्धि देवः शचीसहचरोऽपि न रोचते नः ॥ १३२ ।। रामः-(तौ प्रति ।) वयस्यौ, ईदृशाः प्रागजायन्त राजानो यदिहान्वये । तद्वसिष्ठचरोरेन्द्राबार्हस्पत्यस्य वैभवम् ॥ १३३ ।। (पुरोऽवलोक्य सहर्षोल्लासम् ।) कथं स एवायं भगवान्प्रंकल्पितास्मदभिषे- कसंभारो भरतशत्रुघ्नाभ्यां सेह वसिष्ठो मां प्रतीक्षमाणस्तिष्ठति । (पुष्पकं प्रति ।) विमानराज, समवतीर्यतामस्यां ककुत्स्थकुलोपकारिकायाम् । (सर्वे विमानावतरणं नाटयन्ति ।) (ततः प्रविशति पटाक्षेपेण वसिष्ठो भरतशत्रुघ्नौ च ।) वसिष्ठः चक्रे लङ्केश्वरपरिभवच्छेदनिष्णातदोष्णा यद्वत्सेन त्रिजगदभयं तन्न चित्रीयते नः । वस्थितानां राज्ञां सिद्धिं च विचिन्त्य नोऽस्मभ्यं शचीसहचरोऽपीन्द्रोऽपि न रोचते न प्रीतिविषयः । कीदृशीम् । ऋतुसहस्रभुवां ऋतुसहस्रैर्जातानां फलानां वृन्तरिव यूपसमूहैर्मधुरां रम्याम् । अन्येषामपि फलानां वृन्तादिकं भवतीति ध्वनिः । तथा चात्र यज्ञसहस्रजन्यफलप्राप्तेरिन्द्रोऽपि न रोचत इति भावः । वसिष्ठप्रवेशं सूच- यितुं भूमिमारचयति-ईदृशा इति । ऐन्द्राबार्हस्पत्यस्येति इन्द्राबृहस्पती देवते यस्य तस्य । वसिष्ठचरोरित्यस्य विशेषणम् । 'देवताद्वन्द्वे च' इत्युभयपदवृद्धिः । इन्द्रश्च बृहस्पतिश्चेति द्वन्द्वे 'देवताद्वन्द्वे च' इति पूर्वपदे आनङ् । 'हव्यपाके चरुः पुमान्' इत्यमरः । वैभवं प्रभावः । उपकारिका राजगृहम् । 'राजसदनमुपकार्योप- कारिका' इत्यमरः । चक्रे इति । वत्सेन रामेण त्रिजगद्धवननयमगदं रोगशून्यं यत्कृतं तन्न चित्रीयते नाश्चर्ययति । ननु त्रिजगदेव कुतो रोगशून्यं कृतमित्यत आह-कीदृशेन । लङ्केश्वरस्य यः परिभवोऽभिभवश्छेदः खण्डनं च तत्र निष्णातः १. प्रभवताम्'. २. 'तादृशाः'. ३. 'सहर्षम्'. ४. 'उपकल्पित-'. ५. 'सह वसिष्ठो' इति पुस्तकान्तरे नास्ति. ६. 'अवतार्यतां'. ७. 'रघुकुल-'. ।
"-waniyPARJupiter HARIRAMOnmay Harjaisamund काव्यमाला। - . बालेनाजौ विगलितवतो वीर्यनिर्यासराशे- यत्पिण्याकः स मुनिरमुना निर्मितो जामदग्न्यः॥१३४ ॥ (राममवलोक्य सहर्षम् ।) भल्लावलूनदशकंधरकण्ठपीठ- सीमासमाप्तभुजविक्रमकर्मकाण्डः । दिष्ट्या जगद्विजयमाङ्गलिकैर्यशोभिः सोऽयं पुनर्नयनवर्त्मनि रामचन्द्रः ॥ १३५ ॥ रामः-(ससंभ्रममुपसृत्य वसिष्ठपादावुपगृह्य च।) रघुब्रह्मक्रियाचार्य पुराणब्रह्मवादिनम् । ब्रह्मर्षि ब्रह्मजन्मानमेष रामोऽभिवादये ॥ १३६ ॥ कुशलो दोबाहुर्यस्य तेन । निष्णात इति निनदीभ्यां नातेः कौशले' इति षत्वम् । 'भुजबाहू प्रवेष्टो दोः' इत्यमरः । ननु दुर्दलनरावणदलनेनापि कथं न चित्रीयत इत्यत आह-यद्यस्मात्कारणाद्वालेनापि सतामुना रामेणाजौ सङ्ग्रामे स जामदग्न्यो मुनिर्विगलितवतो विशेषेण गलितस्य वीर्यनिर्यासराशेः वीर्य पराक्रमस्तस्य निर्यास- राशेः सारभागराशेः पिण्याकस्तिलकल्को निर्मितः कृतः तत्परं चित्रीयते । त्याजि- तदर्पत्वात्सारशून्यः कृत इत्यर्थः । चित्रीयत इति 'नमोवरिवश्चित्रङः क्यच्' इति क्यच् । चित्रको ङित्त्वादात्मनेपदम् । भल्लेति। सोऽयं रामभद्रो नयनव- स्मनि कृतः दृष्ट इत्यर्थः । दिष्ट्येत्यानन्दे । 'दिष्ट्या समुपजोषं चेत्यानन्दे' इत्यमरः । यशोभिर्लक्षितः । इत्थंभूतलक्षणे तृतीया । कीदृशैः। जगद्विजये माङ्गलिकैः । मङ्गलाय प्रभवन्ति माङ्गलिकाः । ठक । कीदृशैः । भल्लेनास्त्रविशेषेणावलूनं छिन्नं यद्दशकंधरस्य कण्ठपीठं तस्य सीमावसानं तया समाप्तः पर्यवसन्नो भुजविक्रमकर्म- काण्डो बाहुबलव्यापारसमूहो यस्य सः। 'काण्डोऽस्त्री दण्डबाणावर्गावसरवारिषु' इत्यमरः । रघुब्रह्मेति । रघूणां या ब्रह्मक्रिया वेदाभ्यासस्तत्राचार्यमुपदेष्टारम् । पुराणब्रह्मवादिनं वृद्धं वेदवतारम् । अत्र ब्रह्मशब्दो वेदपरः । ब्रह्मर्षिमित्यत्र ब्रह्मा ब्राह्मणः ब्रह्मा चासौ ऋषिश्चेति ब्रह्मर्षिस्तम् । ब्रह्मजन्मानमित्यत्र ब्रह्मा प्रजापति- तस्माजन्म यस्य तम् । अभिवादये नमस्करोमि । अहमित्यध्याहारः । 'वेदस्तत्वं । । ।
CHANA ७ अङ्क:] अनर्घराघवम् । वसिष्ठः-(सादरमालिङ्गय ।) वत्स रामभद्र, का तुभ्यमाशीः । आदाय प्रतिपक्षकीर्तिनिवहान्ब्रह्माण्डमूषान्तरे निर्विघ्नं धमता नितान्तमुदितैः खैरेव तेजोनिभिः । तत्तादृक्पुटपाकशोधितमिव प्राप्तं गुणोत्कर्षिणा पिण्डस्थं च महत्तरं च भवता निःक्षारतारं यशः ॥ १३७ ॥ अपि च। त्रिजगदङ्गनलङ्घनजाचिकैस्तव यशोभिरतीव पवित्रिताः । प्रथमपार्थिवपुंगव कीर्तयो विबुधसिन्धुजलैरिव सिन्धवः ॥१३८॥ तथापीदमस्तु । तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः' इत्यमरः । आदायेति । भवता रामेण पिण्डस्थमेकीभूतं महत्तरं च यशः प्राप्तम् । कीदृशम् । निःक्षारं निर्मलम् । तारमुद्भटं शुभ्रं वा । अतः का तुभ्यमाशीः प्रदेया भवति । आशीर्जन्यफल- भागित्वाद्भवतः । ननु यशसः कुतः पिण्डस्थलमत आह-यशः कीदृशम् । प्रतिपक्षकीर्तिनिवहानादाय ब्रह्माण्ड एवं मूषा आवर्तनघटिका 'मूस' इति ख्याता तस्या अभ्यन्तरे खैरेव तेजोनिभिर्धमता । भवतेत्यर्थात् । 'ध्मा अग्नि- संयोगोपतापयोः' । 'पाघ्रा-' इत्यादिना धमादेशे शतरि रूपम् । 'तेजसा- वर्तनी मूषा' इत्यमरः । तत्तादृगत्युत्कृष्टपुटपाकेन 'घलिआ' इति ख्यातेन मृत्ति- कालेपादिना शोधितम् । अन्यदपि द्रव्यं वर्तुलीकृत्य मूषिकायामग्निना धम्यते पुटपाकं कृत्वा पिण्डीक्रियत इति ध्वनिः । त्रिजगदिति । जाकिरतिगन्तृभिः । विबुधसिन्धुजलैर्गङ्गाजलैः । सिन्धवः समुद्राः। 'देशे नदविशेषेऽब्धौ सिन्धुर्ना । । १. 'किं च'. २.'एतदस्तु'. २५ अ० रा० काव्यमाला। जगदालोकधौरेयौ सूर्याचन्द्रमसाविव । पुत्रौ गोत्रस्य गोप्तारौ जनय स्वभुजाविव ॥ १३९ ॥ (सीता मुनि वन्दते।) वसिष्ठः-~-वत्से जनकवंशसुवासिनि, युवयोः साधारणीमेव रामस्य वयमाशिषमवोचाम । सीता-(सहर्षमात्मगतम् ।) अम्मो, णिस्सावत्तअं मे अजउत्तस्स घरणित्तणं हुविस्सदि। लक्ष्मण:-सगरगोत्रगुरो मैत्रावरुणे, सौमित्रिरभिवादयते । वसिष्ठः--वत्स लक्ष्मण, आशिषां विषयमतिक्रम्य वर्तसे। वीरमिन्द्रजितं जित्वा दिष्टया वर्षयतो जगत् । अभये दक्षिणीयस्ते गीर्वाणग्रामणीरपि ॥ १४० ॥ । सरिति स्त्रियाम्' इत्यमरः । जगदिति । गोत्रस्य कुलस्य गोप्तारौ रक्षको पुत्री जनयेत्यन्वयः । स्वभुजाविवेति गोप्तृत्वे सादृश्यम् । कीदृशौ। जगतो लोकस्य य आलोको दीप्तिः । विपक्षतमोनाशात् । तत्र धौरेयौ धुरंधरौ । सूर्याचन्द्रमसाविति 'देवताद्वन्द्वे च' इत्यानङि रूपम् । 'धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः' इत्य- मरः । 'संततिर्गोत्रजननकुलान्यभिजनान्वयौ' इति च । सुवासिनी पितृभवनस्था नारी । 'सोआसुनि' इति ख्याता । "चिरण्टी तु सुवासिनी' इत्यमरः । अम्मो इति । 'अम्मो, निःसापत्यं मे आर्यपुत्रस्य गृहिणीत्वं भविष्यति' [इति च्छाया।] इह अम्मो हर्षे देशी । अभये अभयनिमित्तम् । गीर्वाणग्रामणीदेवाधिप इन्द्रः। 'ग्रामणी पिते पुंसि श्रेष्ठे प्रामाधिपे त्रिषु' इत्यमरः । दक्षिणीयो दक्षिणाईः । इन्द्रजिजयेनेन्द्रस्याप्यभये दक्षिणा भवता दत्तेति । इन्द्रस्याप्यभयं वृत्तमिति १. 'रामचन्द्रस्य भगवत्याश्च'. २. 'प्रवर्तते'.
७ अङ्क: अनर्घराघवम् । तथापि यूयं सर्वेऽपि द्वौ द्वौ जनयतात्मजौ । यैरादिराजवंशोऽयमष्टशाखः प्रेरोहति ॥ १४१ ।। रामः-(सहर्ष कृताञ्जलिः ।) भगवन् परमनुगृहीतमिक्ष्वाकुकुलम् । भरतः-(राम प्रति ।) आर्य, शून्यभवनप्रकोष्ठैकरक्षापदातिर्भरतः प्रणमति । राम:-(सहर्षमालिङ्गय ।) वत्स भरत, आत्मानमिन्दुकरमेदुरचन्द्रकान्त- स्तम्भोज्वलं वितर मे हृदि निर्वृणोमि । न भ्रातृसंगमसुखासिकया जहाति विष्णोः सकौस्तुभमुरश्चपलापि लक्ष्मीः ॥ १४२ ॥ भरतः-(सीतां प्रति ।) देवि, प्रणमामि । भावः । 'दक्षिणीयो दक्षिणाहस्तत्र दक्षिण्य इत्यपि' इत्यमरः । आदिराजो मनुः । भवनं गृहम् । द्विधाकृतस्य गृहस्य द्वारि बहिर्भूतो भागः प्रकोष्ठः 'ओहारी' इति प्रसिद्धः । तन्मात्ररक्षायां पदातिः । आत्मानं खशरीरम् । 'आत्मा देहमनोब्रह्म- स्वभावगतिबुद्धिषु' इति नानार्थः । मेदुरमतिचिक्कणम् । 'सान्द्रस्निग्धस्तु मेदुरः' इत्यमरः । चन्द्रकान्तस्तम्भोज्ज्वलमिति तद्वच्छीतलमिति भावः । वितर देहि । संयोजयेति यावत् । निर्वृणोमि सुखी भवामि। दृष्टान्तमाह-भ्रातृसंगमसुखासिक- यैव चञ्चलापि लक्ष्मीः सकौस्तुभं विष्णोर्हृदयं न त्यजति । समुद्रसमुद्भूतत्वादेव १. 'सीतां नमति'. २. 'सीते, भरतस्त्वां नमति'.
mamminayaint-management ३८८ काव्यमाला। ansar सीता-वच्छ भरद, उण्हकरकिरणणिउरम्बचुम्बिअकमलखण्ड विअ चिरं मे णअणं आणन्देहि । (लक्ष्मणो भरतं वन्दते ।) भरत:- वत्स लक्ष्मण सोत्कण्ठं चिरात्परिरभस्व माम् । श्रद्धालुओतुरङ्गानि चन्दनेष्वप्यरोचकी ॥ १४३ ॥ (निर्भर परिरभ्य ।) हन्त रघुवंशयशस्तडागयूपदण्डेन लक्ष्मणबाहुना परिक्षिप्यमाणश्चिरेण शीतलीकृतोऽस्मि । इन्दोः कलाकलापेन पङ्गिक्रमनिवेशिना । सर्वदुःखापनोदाय सोदर्याणां भुजाः कृताः ॥ १४४ ॥ शत्रुन्न:- (रामं प्रति ।) आर्य, पादुकाभृत्यानुभृत्यः शत्रुघ्नः प्रणमति। रामः-(गाढमालिङ्गय ।) कथमावृत्त्या लक्ष्मणमनुभवामि । (अपवार्य सीतायै दर्शयन् ।) । कौस्तुभस्य लक्ष्म्या भ्रातृत्वम् । वच्छेति । 'वत्स भरत, उष्णकरकिरणनिकुरम्ब- चुम्बितकमलखण्डमिव चिरं मे नयनमानन्दय' [ इति च्छाया।] इह उष्णकरः सूर्यः। निकुरम्बः समूहः । परिरभख आलिङ्ग । भ्रातुरङ्गानि कर्मभूतानि । श्रद्धालुः श्रद्दधानो जनश्चन्दनेष्वरोचकी अनभिलाषी भवति । भ्रातुरङ्गानां चन्दनादप्यधिक- सुखप्रदत्वात् । 'अङ्गानाम्' इति पाठे 'कर्तृकर्मणोः कृति' इति षष्ठी। इन्दोरिति। कलापः समूहः । सोदर्याणां सहोदराणाम् । पादुकाभृत्यानुभृत्य इति विशेषणा- दतिविनीतत्वं प्रकटितम् । आवृत्त्या पुनरपीत्यर्थः । अत्र शत्रुघ्नालिङ्गनेन लक्ष्मणा- १. 'निर्भरं च'. २. 'दुःखप्रणोदाय'. ३. 'आकृत्या'.
MANOHSHANSURANE ७ अङ्कः] अनर्घराघवम् । एतत्तदेव मुखमक्षतचन्द्रबिम्ब- संवावदूकमवलोकय लक्ष्मणस्य । गीर्वाणवारणकरार्गलकर्कशौ मां तावेव लक्ष्मणभुजौ नु परिष्वजाते ॥ १४५॥ (शत्रुघ्नः सीतां प्रणमति ।) सीता-तेल्लोक्कसल्लुद्धरणगोरविदेहिं चरिदेहिं लक्खणसरिसो होहि । वच्छ सत्तुहण, अज्जाजणो कहिं । शत्रुघ्न:-कृतमङ्गलोपचारो मध्यमाम्बाभवने भवतीं प्रतीक्षते । (उपसृत्य लक्ष्मणं प्रणमति ।) लक्ष्मणः-(सहर्षमालिङ्ग्य) वत्स, दिष्टया दीर्घायुषि त्वयि दीप्य- माने न वयमेकाकिनमार्यभरतं परित्यज्य गताः । रामः-(मुनि प्रति ।) भगवन् , एतौ लङ्काकिष्किन्धयोरधिपती विभीषणसुग्रीवौ भगवन्तं प्रणमतः । लिङ्गनानुभव इवेति भावः । एतदिति । लक्ष्मणस्य तदेवैतन्मुखम् । शत्रुघ्नमुखं लक्ष्मणस्यैवेत्यर्थः । अक्षतचन्द्रबिम्बस्य संपूर्णचन्द्रमण्डलस्य संवावदूकं संवदन- शीलम् । सदृशमिति यावत् । गीर्वाणवारणो देवहस्ती ऐरावणः । तस्य कर एवा- गेलं कपाटस्य प्रसरणप्रतिबन्धक लोहकाष्ठादिघटितं दण्डादि 'आगल' इति ख्या- तम् । तद्वत्कर्कशौ कठिनौ । नु वितर्के । परिष्वजाते आलिङ्गतः । तेल्लोकेति । 'त्रैलोक्यशल्योद्धरणगौरवितैश्चरितैर्लक्ष्मणसदृशो भव । वत्स शत्रुघ्न, श्वश्रूजनः १. 'प्रतिनमति'. कान्तरे नास्ति, २. 'वत्स' इति पुस्तकान्तरे नास्ति. ३. 'न' इति पुस्त- ३९० काव्यमाला। वसिष्ठः--विकर्तनपुलस्त्यकुलकीर्तितोरणमालावलम्बनस्तम्भाविमौ चिरस्य भूयास्ताम् । राम:-(भरतं प्रति) वत्स, वन्दख महात्मानावेतौ पौलस्त्य- सावित्रौ। (भरतशत्रुघ्नविभीषणसुग्रीवा मियो यथोचितमाचरन्ति ।) वसिष्ठः-(सहर्षम् ।) दिष्टंया चतुर्दशभिः परिवत्सरैः पुनः समु- दयमानं दशरथकुटुम्बमीक्षामहे । (सविमर्शस्मितम् ।) जेतारं दशकंधरस्य जितवानेवार्जुनं भार्गव- स्तं रामो यदि काकपक्षकधरस्तत्पूरितेयं कथा । ऊर्ध्वं कल्पयतस्तु बालचरितात्तत्प्रक्रियागौरवा- दन्येयं कविता तथापि जगतस्तोषाय वर्तिष्यते ॥१४६॥ (रामं प्रति ।) वत्स, माङ्गलिकलग्नमतिकामति । कुत्र' [ इति च्छाया । ] इह गौरवितैौरवं गतः । तारकादित्वादितच् । भवती प्रतीक्षत इत्यत्र श्वश्रूजन इत्यनुषङ्गः । विकर्तनः सूर्यः। जेतारमिति । दशकंध. रस्य जेतारं सहस्रार्जुनं भार्गवः परशुरामो जितवान् । तं परशुरामं चूडाधरोऽपि बालकोऽपि रामो यदि जितवान् तदा इयं कथा जयकथा पूरिता समाप्ता। पर- शुरामजयेनैव रावणजयावधारणात् । व्याप्यव्यापकस्य सुतरां व्याप्यत्वात् (व्याप- कत्वात)। तथापि बालचरितादूर्व कल्पयतः कवेरन्येयं कविता तत्प्रक्रियागौर- वाबगतस्तोषाय वर्तिष्यते। तथा च प्रक्रियागौरवमेव परं नान्यत्किंचित्कवित्व- १. स्वम्भौ स्वं वं भाविनौ'. २. मिथो' इति पुस्तकान्तरे नास्ति. ३. 'दृष्ट्वा'. ४. 'पुनः पुनः समुदयमानम्'.
७ अङ्क:] अनर्घराघवम् । । तदिदं रघुसिंहानां सिंहासनमलंकुरु । राजन्वन्तः प्रतन्वन्तु मुदमुत्तरकोशलाः ॥ १४७ ॥ (रामस्तथा करोति । वसिष्ठ ऐन्द्रेण महाभिषेकेण मन्त्रपूर्वकमभिषिञ्चति । अन्ये तूचावचमभिषेकं नाटयित्वा पञ्चाङ्गचुम्बितभूमयः प्रणमन्ति । नेपथ्ये मैश- लगीतिर्नान्दीवाद्यानि च।) वसिष्ठः-(सहर्षम् ।) वत्स रामभद्र, संप्रति उदयदुदयद्धर्मस्कन्धे धुरं त्वयि बिभ्रति क नु परिभवो दृष्टादृष्टौ प्रजाः परिचिन्वते । अपि खलु यथा जीवात्मानः प्रभोः परमात्मनो दिशि दिशि दिशामष्टौ नाथास्तवैव विभीषिकाः ॥ १४८ ॥ मित्यर्थः । रघुसिंहानां रघुश्रेष्ठानाम् । 'स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः । सिंह- शार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥' इत्यमरः । 'नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत् । हैमम्' इत्यमरः । राजन्वन्तः प्रशस्तराजयुक्ताः । उत्तरको- शला देशविशेषाः । तत्रस्था लक्ष्यन्ते । ऐन्द्रणेन्द्रसंबन्धिना । यथेन्द्रस्याभिषेक- तथेत्यर्थः । नान्दी अभ्युदयपूर्वकं तूर्यमित्यर्थः । उदयदिति । उदयदुदयद्धर्म- स्कन्धे अत्यन्तोदयमानधर्म एव स्कन्धो यस्य तादृशे त्वयि धुरं भारं बिभ्रति दधति सति दृष्टरूपः परिभवः परचक्रजातः । अदृष्टरूपोऽनावृष्ट्यादिः तौ प्रजा लोकाः क नु परिचिन्वते । अपि तु न क्वापि जानन्तीत्यर्थः । 'अदृष्टं वह्नितोयादि दृष्टं खपरचक्रजम्' इत्यमरः । अपिः समुच्चये। दिशि दिशि प्रतिदिशम् । दिशा- मष्टौ नाथा इन्द्रादयस्तवैव विभीषिकाः प्रपञ्चाः । 'तवैव विभूतयः' इति क्वचि- १. ऐन्द्रेण महाभिषेकेण' इति पुस्तकान्तरेषु नास्ति. २. 'मङ्गलगीतिनान्दीमङ्गल- माद्यानि'; 'मङ्गलगीतिनान्धादि'.
RegaHARIHA ३९२ काव्यमाला। (रामो लज्जते।) विभीषण:-(कृताञ्जलिर्जानुभ्यां प्रणिपत्य ।) देव, लङ्का च पुष्पकमिदं च विमानमार्या- द्यक्षेश्वरादपहृतं दशकंधरेण । एकां भवानदित मह्यमथेदमन्य- दाज्ञापय द्रुतमुपैतु पति निधीनाम् ॥ १४९ ॥ रामः-(वसिष्टेनानुज्ञातः पुष्पकं प्रति ।) विमानराज, प्रमथखामिनं प्रथमपौलस्त्यमुपतिष्ठख । । त्पाठः। तत्राप्ययमेवार्थः । दृष्टान्तमाह-'यथा परमात्मनः प्रभोजीवात्मानः' प्रपञ्चास्तथा । वेदान्तिभिरेकस्तावत्प्रधानभूतः परमात्मा वास्तवः स्वीक्रियते । तेषामद्वैतवादित्वात् । अन्ये जीवात्मानस्तस्यैव प्रपञ्चा अविद्यासंपन्ना अवतिष्ठन्त इति तन्मतेन । प्रभोः परमात्मन इति षष्ट्यन्तं पदम् । यद्वा पञ्चम्यन्तेनेन परमा- त्मशब्देन मुक्तात्माभिप्रेतः । जीवात्मानः संसारिण आत्मानः । तथा च नैयायिक- स्याशेषविशेषगुणोच्छेदो मोक्ष इति मतम् । स च पुरुषार्थः । आत्यन्तिकदुःखो- च्छेदवशात् । तेन हि संसार्यात्मतो मुक्तात्मा श्रेष्ठ इत्युच्यते । तव तु राज्ये प्रभोः परमात्मनः सांसारिका एवात्मानोऽतिश्रेष्ठाः । यतस्त्वद्राज्ये संसारिणां त्वत्प्रसादात्सुखानुभव एव केवलं न तु दुःखानुभवोऽपीति भावः । लङ्केति । पुष्पकं पुष्पकसंज्ञकः कुबेररथः । 'विमानं तु पुष्पकम्' इत्यमरः । विमानमाकाश- गरथः। व्योमयानं विमानोऽस्त्री' इत्यमरः । यक्षेश्वरात्कुबेरात् । एकां लङ्काम् । अदित दत्तवान् । अन्यत्पुष्पकम् । निधीनां पति कुबेरम् । उपतिष्ठखेति संगत- करणे तङ् । 'देवतादर्शनान्तं तु कर्तव्यं नाटकं बुधैः । राजर्षिदर्शनान्तं वा तेऽपि । । ।
७ अङ्कः] अनर्घराघवम् । वसिष्ठः-(सहर्षप्रसादम् ।)-रामभद्र, किं ते भूयः प्रियं करोमि । राम:-भगवन् , किमतः परमपि प्रियमस्ति भगवत्प्रसादात् । ताताज्ञामधिमौलि मौक्तिकमणिं कृत्वा महापोत्रिणो दंष्ट्राविन्ध्यविलासपत्रशबरी दृष्टा भृशं मेदिनी । सेतुर्दक्षिणपश्चिमौ जलनिधी सीमन्तयन्नर्पितः कैल्पान्तं च कृतं च विश्वमदशग्रीवोपसर्ग जगत् ॥ १५० ।। तथापीदमस्तु । समुन्मीलन्सूक्तस्तबकमकरन्दैः श्रवणयो- रविश्रम्यद्धारासवनमुपचिन्वन्तु कवयः । देवैः समा मताः ॥' इति भरतानुरोधाद्वसिष्ठदर्शनान्तमिदम् । महावाक्यार्थ- मुपसंहर्तु भूमिमारचयति-ताताज्ञामिति । ताताज्ञां पितुरादेशं अधिमौलि. मालौ मौक्तिकमणिं कृत्वा मेदिनी पृथ्वी दृष्टा। महापोत्रिणो महावराहस्य दंष्टेव यो विन्ध्यः पर्वतविशेषः स एव विलासार्थ पत्रावली कर्णालंकारविशेषो यस्यास्तादशी शबरी भिल्लीव दृष्टा । पितुराज्ञया चण्डालस्त्रीव पृथ्वी मया त्यक्तेति भावः । दक्षि- णपश्चिमौ समुद्रौ कर्मभूतौ सीमन्तयन् द्विधा कुर्वन् सेतुरर्पितः क्षिप्तः। विश्वं समस्तं च जगत्कल्पान्तं व्याप्य दशग्रीव एवोपसर्गो व्याधिविशेषः । दुःखजनकत्वात् । तच्छून्यं कृतं च । अतः परमपि प्रियमस्तीत्यन्वयः । 'वरप्रदानसंप्राप्तिः काव्य- संहार उच्यते' इति भरतानुरोधादाह-तथापीति । तदेवाह-समुन्मीलदिति। समुन्मीलन् विकासं गच्छन् यः सूक्तं सुष्ठुक्तमेव स्तबको गुच्छस्तस्य मकरन्दैः रसैः श्रवणयोः कर्णयोः अविश्रम्यद्धारासवनं निरन्तरधारानानं कवय उपचिन्वन्तु लभन्ताम् । जनश्च शब्दरूपब्रह्मण उत्थितं परिमलं सौरभमनाघ्रायाननुभूय कवीनां १. 'उपकरोमि'. २. 'भवतः प्रसादात'. ३. 'कल्पान्तेऽपि'. ४. 'लपन-'.
काव्यमाला। न शब्दब्रह्मोत्थं परिमलमनाघ्राय च जनः कवीनां गम्भीरे वचसि गुणदोषौ रचयतु ॥ १५१ ।। अपि च। देवस्यात्मभुवः कमण्डलुजलस्रोतांसि मन्दाकिनी- गङ्गाभोगवतीमयानि पुनते यावत्रिलोकीमिमाम् । तावद्वीरयशोरसायनमधुस्यन्दः कवीनामयं जागर्तु श्रुतिशष्कुलीवलयितव्योमावगाही गुणः ॥ १५२ ।। (इति निष्क्रान्ताः सर्वे ।) इति नायकानन्दो नाम सप्तमोऽङ्कः । इति महाकविश्रीमुरारिविरचितमनर्घराघवं नाम नाटकं समाप्तम् । गम्भीरे वचसि गुणदोषौ न रचयतु । तथा च शब्दप्रतिपाद्यमर्थविशेषं ज्ञात्वा जनो गुणदोषौ विदधात्विति भावः । देवस्येति । मन्दाकिन्याकाशगङ्गा, मर्त्य गङ्गैव भोगवती पातालगङ्गा, एतन्मयान्यात्मभुवो देवस्य ब्रह्मणः कमण्डलुजल- स्रोतांसि यावदिमां त्रिलोकी स्वर्गमर्त्यपातालरूपां पुनते पवित्रयन्ति तावत् कवी- नामयं गुणो जागर्नु । कीदृशः । श्रुतिशष्कुल्या कर्णविवरेण वलयितमवच्छिन्नं यद्योमाकाशं तदवगाहित्वं शीलं यस्य सः । कर्णशष्कुल्यवच्छिन्नाकाशदेश उत्पन्नः शब्दो गृह्यत इति राद्धान्तः । तथा च शब्दरूपो गुणो जागत्विति भावः । वीरः प्रकृते रामस्तस्य एव रसायनं निलं क्रियमाणमौषधं तस्य मधुस्यन्दो मधुस्रवः वीरयशोवर्णनेन मधुस्यन्द एवेति भावः । 'मन्दाकिनी वियद्गङ्गा' इत्यमरः ॥ १. 'स्यन्दी'. २. 'इति सप्तमोऽक', 'इति नायकपरमानन्दो नाम', ७ अङ्कः] अनर्घराघवम् । दोषाकरं समवधीर्य गुणानशेषानाशु प्रकाशयति सूर इवांशुराशीन् । यस्तं प्रति प्रविहितोऽअलिरेष नित्यमालोकनान्मम कृतेर्मुदमादधातु ॥ इति समस्तप्रक्रियाविराजमानरिपुराजकंसनारायणभवभक्तिपरायणश्रीहरिनारा- यणपदसमलंकृतमहाराजाधिराजश्रीमद्भरवसिंहदेवनिदेशप्रोत्साहितवै. जोलीग्रामवास्तव्यखौआलवंशप्रभवश्रीरुचिपतिमहोपाध्याय- विरचितायामनधराघवटीकायां सप्तमोऽङ्कः । समाप्त १. अधुनासाभिरस्य नाटकस्य टीकाद्वयमन्यदपि दृष्टम्. तत्रैकामलधारिशिष्य- नरचन्द्रसूरिकता, अपरा तु कर्तनामरहिता वर्वते.