Asr,melkote
Purva Mimamsa Adhikarana Koumudi Part 1
Front matter
No text on this page.
No text on this page.
No text on this page.
1917 January ICHOWKHAMBA SANSKRIT SERIES: A COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS. NO. 229. - पूर्वमीमांसा- अधिकरणकौमुदी । श्रीमन्महामहोपाध्याय पं० रामकृष्णभट्टाचार्य- विरचिता नेने-इत्युपाव्हगोपालशास्त्रिणा परिशिष्टाधिकरणानि- रूपणपूर्वकं टिप्पण्या परिष्कृत्य संशोधिता। बाबू हरिदासात्मजेन जयकृष्णदासगुप्तेन स्वीये विद्याविलासनानि यन्त्रालये संमुद्य प्रकाशिता। PURVAMIMAMSA ADHIKARANAKOUMUDI By Mahàmahopadhyaya Pandit Ramkrishna Bhttacharya. Edited by:Pandit Gopal Sastri Nene. साच- FASCICULUS I-१ PUBLISHED & SOLD BY THE SECRETARY, CHOWKHMBA SANSKRIT SERIES OFFICE. BENARES. AGENTS:- OTTO HARRASSOWITZ, LEIPZIG: PANDITA JYESHTHARAM MUKUNDAJI, BOMBAY: PROBSTHAIN & CO; BOOKSELLERS, LONDON. Printed. by Jai Krishna:Das Gupta, at the Vidya Vilas Press. BENARES. Price Rupee one.
॥ श्रीः ॥ आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ।। सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना ॥ रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तवकः-२२९ १ अस्या चौखम्बा- संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशतके सुन्दरैः सीसकाक्षरैरुत्तमेषु पत्तेषु एकः स्तवको मुद्रयित्वा प्रकाश्यते । एकस्मिन् स्तवके एक एव ग्रन्थो मुद्यते । २ प्राचीना दुर्लभाश्चामुद्रिता मीमासावेदान्तादिदर्शनव्याकरणधर्मशास्त्रसाहित्यपुराणादिग्रन्था एवाऽत्र सुपरिष्कृत्य मुद्यन्ते । ३ काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः पण्डिता अन्ये च शास्त्रदृष्टयो विद्वास एतत्परिशोधनादिकार्यकारिणो भवन्ति । ४ भारतवर्षीयैः,ब्रह्मदेशीयः,सिंहलद्वीपवासिभिश्वेतद्ग्राहकैदेयं वार्षिकमग्रिम मूल्यम्-मुद्राः ७आनकाः । ५ अन्यैर्देयं प्रतिस्तवक ६ प्रापणव्ययः पृथग् नास्ति । ... ... ... ... ... ... ... साम्प्रतं मुद्रयमाणा ग्रन्थाः- सूत्रस्य यतीन्द्रश्रीमद्विज्ञानभिक्षुकृतव्या- (१) संस्काररत्नमाला । गोपीनाथभट्टकृता ख्यानम् । सम्पूर्ण । (वेदान्तः) खण्डे २ (९) स्याद्वादमञ्जरीमल्लिषेणनिर्मिता सम्पूर्णा २ (२) शब्दकौस्तुभ । भट्टोजिदीक्षितकृतः १० (१०) सिद्धित्रयम्-विशिष्टाद्वैतब्रह्मनिरूपणपरम् (३ ) श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् श्रीभाष्यकृतां परमगुरुभिः श्री श्रीयामु- पार्थसाराथमिश्रकृतन्यायरत्नाकराख्यया नमुनिभिर्विरचितम् । सम्पूर्ण(वेदान्तः)१ व्याख्यया सहितम् । सम्पूर्णम् । १० (११) न्यायमकरन्दः । श्रीमदानन्दबोधभट्टार- (४) भाष्योपबृहितं तत्त्वत्रयम् । विशिष्टाद्वैत- काचार्यसंगृहीतः । आचार्यचित्सुखमुनि- दर्शनप्रकरणम् । श्रीमल्लोकाचार्यप्रणीतम्। विराचितव्याख्यापेतः ( वेदान्तः) श्रीनारायणतीर्थविरचितभाट्टभाषाप्रकाश- (१२) विभक्त्यर्थनिर्णयो न्यायानुसारिप्रथमादि- सहितं सम्पूर्णम् (वेदान्तः) सप्तविभक्तिविस्तृतविचाररूप: म० म० (५) करणप्रकाशः। श्रीब्रह्मदेवविरचितः १ श्रीगिरिधरोपाध्यायविरचितः सम्पूर्ण: (६) भादृचिन्तामाणिः । महामहोपाध्यायश्री ( न्यायः) गागाभट्टविरचिता। तर्कपादः(मीमांसा)२ (१३) विधिरसायनम् । श्रीअप्पयदीक्षितकृतम्। (७) न्यायरत्नमाला श्रीपार्थसारथिमिश्रविर सम्पूर्णम् ( मीमासा) चिता सम्पूर्णः ( मीमांसा ) २ (१४) न्यायसुधा (तन्त्रवार्तिकटीका) भहसा- (८) ब्रह्मसूत्रभाष्यम्-बादरायणप्रणीतवेदान्त मेश्वरविरचिता । (मीमांसा) २ ५ ...
CHOWKHAMBA SANSKRIT SERIES: A COLLEOTION OF RARE & EXTRAORDINARY SANSKRIT WORKS NO. 229. पूर्वमीमांसा- अधिकरणकौमुदी। श्रीमन्महामहोपाध्याय पं० रामकृष्णभट्टाचार्य- विरचिता नेने-इत्युपाव्हगोपालशास्त्रिणा परिशिष्टाधिकरणनि- रूपणपूर्वकं टिप्पण्या परिष्कृत्य संशोधिता। साच- बाबू हरिदासात्मजेन जयकृष्णदासगुप्तेन स्वीये विद्याविलासनाम्नि यन्त्रालये संमुग्ध प्रकाशिता। PURVAMÎMÂMSÂ ADHIKARANAKOUMUDI By Mahamahopadhyaya Pandit Ramkrishna Bhttacharya, Edited by Pandit Gopal Sastri Nene. PUBLISHED & SOLD BY THE SECRETARY, CHOWKHAMBA SANSKRIT SERIES OFFICE. BENARES. AGENTS:- OTTO HARRASSOWITZ, LEIPZIG: PANDITA JYESHTHARAM MUKUNDAJI, BOMBAY: PROBSTHAIN & CO; BOOKSELLERS, LONDON. Printed by Jai Krishna Das Gupta, at the Vidya Vilas Press. BENARES. 1916. Registered According to Act XXV of 1867,
No text on this page.
भूमिका। ईश्वरकृपया समापत् किल मुद्रणमेतस्य मीमांसावादशल- क्षणीसहस्राधिकरणगतधर्मशास्त्राघुपयुक्ताधिकरणानां संग्राहक- स्याधिकरणकौमुद्याख्यस्य ग्रन्थस्य । अयं खलु निबन्धो धर्मशास्त्रोपयोगिमीमांसाशास्त्रजिज्ञासूनां तदर्थमधिकरणमालाशास्त्रदीपिकादिबहुग्रन्थान् सप्रयत्नं पठताम- पि तेषामतिविस्तृततयाऽभ्यासासौकर्य पर्यालोच्य तेषामुपकार- करणे कृतमतिभिर्विरचितो महामहोपाध्याय पं० श्रीमद्विद्वद्वरराम- कृष्णभट्टाचार्यमहाशयः । मीमांसादर्शनाभिलाषिणां धर्मशास्त्रिणां झटित्यर्थबोधकं क- श्चिद्रन्थं बहुदिनेभ्यो गवेषयद्भिः काशीस्थराजकीयप्रधानपाठ- शालातो लब्धव्याकरणाचार्यपदवीकैः श्री १०६ युत पं० नित्यान- न्दपन्तैर्गुरुचरणैः प्रेरितेन विविधसंस्कृतपुस्तकसम्पादनरसिकेन श्रीगोविन्ददासमहाशयेन मिथिलातो महता ऽऽयासेन महामहोपा- ध्याय पं० श्रीगङ्गानाथ झां डाक्तरमहाशयद्वारा ऽऽनायितमेकं ख- ण्डितमपरं जगन्नाथपूरीस्थगोवर्द्धनमठाल्लब्धमशुद्धप्रायं च पुस्तकं वितरता प्रवर्तितो गुरुजनाज्ञया च मुद्रणे कृतमतिरन्यशुद्धपुस्तक- सम्पादने कृतबहुलायासोऽपि हताभिलाषः त्रुटिताक्षरस्थलेषु विष- मपदस्थलेषु च समपादयं शाबरभाष्यादिपर्यालोचनया टिप्पणीम् । अथास्य मुद्रणे प्रवृत्ते प्रमाणतयोपन्यस्तानि सूत्राणि म- हर्षिजैमिनिकात्यायनादिसूत्रेष्वपश्यन् तत्रतत्राध्यायाङ्कमददानः 'तानि तात्पर्यार्थकानि' इति सूचयन् क्वचिच्च पाठभेदं दर्शयन् एतत्पर्यालोचिनामवगमसौकर्याय सूत्राणि स्थूलाक्षरैरस्थापयम् । धर्मशास्त्रादिषु बहुश उपयुक्तान्यत्र चानुक्तानि कतिपयान्यधिकर. णानि तन्त्रवार्तिकादिप्राचीनग्रन्थाशयपरिग्रहेण यथामतिन्यरूपयंश्च। तदेवं महान्तमायासमनुभूय सम्पादितेऽस्मिन् कार्य मीमांसा- दर्शनदुरूहतायाः सुप्रसिद्धतया मन्मतेरपाटवेन सीसकाक्षरयो- जकदोषेण च सुलभानि स्खलितानि क्षाम्यन्तो गुणैकदशो द- शनरसिका, आस्वादयन्तु च मीमांसाधिकरणरचनासुगमशैली- समुत्थं प्रमोद, प्रसीदतु च भगवाननेन व्यापारेण सर्वान्तर्यामी श्रीकाशीविश्वेश्वर इति शम् । नेने-इत्युपाख्यो गोपालशर्मा...
अधिकरणकौमुद्याम् । :00 अधिकरणसूचीपत्रम्। पृ० पं० ... ... २ १८ ३ २३ ... ... ... ६ ... ... ... ... ... ... १ परिषदधिकरणम् २ रात्रिसत्राधिकरणम् ३ विश्वजिदधिकरणम् ... ४ सर्वस्वदाक्षिण्याधिकरणम् ५ होलाकाधिकरणम् ६ फलचमसाधिकरणम् ७ सर्वपिष्टाधिकरणम् ८ हविरुभयत्वाधिकरणम्.. ९ ग्रहैकत्वाधिकरणम् १० तदर्थशास्त्राधिकरणम् ११ निषादस्थपत्यधिकरणम् १२ रथकाराधिकरणम् १३ तन्त्रन्यायः-(क्षामवतीष्टिन्यायः) १४ प्रसङ्गन्यायः १५ अङ्गस्य प्रधानावृत्त्यप्रयोजकत्वन्यायः १६ योगसिचाधिकरणम् १७ कर्मण्यारम्भाधिकरणम् १८ शंय्वधिकरणम् १९ देवताधिकरणम् २० परिषदधिकरणम् २१ कौण्डपायिनामयनाधिकरणम् २२ यागदानहोमाधिकरणम् २३ पदाहवनीयन्यायः २४ प्रविन्यायः ... ... ... १ ... " १२ १७ १३ ७ ... .. ... ... ११ ... .. ... ... ...
(२) पृ० पं० १८ १३ ... ... " ... ... ... २२ १ २३ २३ १० २४ ८ ... ... ... ... " ... ... ... ... २५ स्फ्यादिलष्टेज्याधिकरणम् २६ कृष्णलन्यायः २७ कपालाधिकरणम् २८ अर्थवादाधिकरणम् २९ विरोधाधिकरणम् ३० प्रतिनिध्यधिकरणम् ३१ फलभूमाधिकरणम् ३२ अनुषङ्गाधिकरणम् ३३ देवतासाहित्याधिकरणम् (विकल्पे अष्टदोषनिरूपणम्) ३४ यात्रजीवाधिकरणम् ३५ जातेष्ट्यधिकरणम् ३६ काम्यस्य नित्यापेक्षया विलम्बिताधिकारः ३७ तदन्तापकर्षन्यायः ३८ तदाधुत्कर्षन्यायः ३९ संयोगपृथक्त्वन्यायः ४० व्यक्तिवचनन्यायः ४१ पणपुराणन्यायः ४२ दण्डापूपन्यायः ४३ धूतपणन्यायः ४४ कपिजलाधिकरणम् ४५ तक्षसूत्राधिकरणम् ४६ आरम्भणीयन्यायः ४७ अङ्गस्य प्रधानकालान्वयानन्वयौ ४८ समं स्यादश्रुतित्वादितिन्यायः ४९ अनेकार्थत्वाकल्पना ५० प्रक्रमाधिकरणम् ५१ पृथग्विधौ गुणविधानासम्भवः ५२ सर्वशक्त्यधिकरणम् ५३ तिर्यगधिकरणम् ३० १ ... ... ... ... २० ... ... ... ... ... २४ ३२ ३ ९ २१ ३३ ८ ... ... ... ... " ... ... ... ... ...
(३) पृ० पं० ... ... .. ... २० .. " :: ... ... . ४० ... ... " २० ४२ ५ १२ ... ... ... ... " ४३१७ ... ... ... १ १३ ... ... ... " ५४ पश्वधिकरणम् ५५ सहसाहित्यविवेकः ५६ खलेवालीन्यायः ५७ प्रतिपत्त्यधिकरणम् ५८ आष्टमिकविकृत्याधिकरणम् ५९ धान्यमस्यधिकरणम् ६० ऊहाधिकरणम् ६१ पाशाधिकरणम् ६२ कालशौचाधिकरणम् ६३ हेतुमन्निगदाधिकरणम् ६४ आरुणीन्यायः ६५ सोमयाजिन्यायः ६६ अक्ताधिकरणम् ६७ आमिक्षाधिकरणम् ६८ अभ्युदितष्टिन्यायः ६९ हविरुपलक्षणाधिकरणम् ७० प्राणाधिकरणम् ७१ विविदिषदधिकरणम् ७२ स्मृत्यधिकरणम् ७३ ज्योतिरधिकरणम् ७४ वैश्वानराधिकरणम् ७५ गुणविकृत्यधिकरणम् ७६ क्रम ७७ श्रुतिलिङ्गादिन्यायः (श्रुतिप्राबल्यम् ) (वाक्याल्लिङ्गस्य बलवत्त्वम्) (प्रकरणाद्वाक्यस्य (स्थानात्प्रकरणस्य ( समाख्यातः स्थानस्य") ७८ विधिनियमादिः ... ... ... ... ... २३ ४६ ११ २३ ४७१३ २२ ४८ १७ ४९ २ ५० १७ ८ " ... ... ... ... ... ... ... " " ५३ १२ ... " :: ३ ... ...
(४) पृ० पं. ... ... orm ... ... ... ... ६९ २१ ७० १० ... ७९ श्रुतशब्दात्यागः ८० विध्यनुवादवैषम्यम् ८१ नित्यानित्यवैषम्यम् ८२ सापेक्षत्वनिरपेक्षत्ववैषम्यम् ८३ वयोः प्रणयन्तीत्यधिकरणम् ८४ परिभाषाधिकरणम् ८५ सर्वनामाधिकरणम् ८६ निषेधपर्युदासौ ८७ यद्भक्तन्यायः ८८ अनुयाजाधिकरणम् ८९ सक्त्वधिकरणम् ९० गिरगिराधिकरणम् ९१ कलाधिकरणम् ९२ लिङ्गसमवायन्यायः ९३ प्रकृतिभागव्यवस्था (प्रकृतिविकृतिलक्षणे) ९४ स्थालीपुलाकन्यायः ९५ वाजपेयाधिकरणम् ९६ अरुणाधिकरणम् ९७ वैश्वानरेष्टयधिकरणम् ( जातेष्टिन्यायः) ९८ असातविरोधिन्यायः ... ७२१३ ... ७८ १३ ... . ... ... ८३१३ ... ... ८९१२ ...
शुद्धिपत्रम् । ૨ ४ ૨ " अशुद्ध. करियते इष्टत्वन्तु समृण्मये मृण्मय काष्ठा भन्यरं विहितत्वात् निर्वाह बाधका यदाह शुद्ध. करिष्यते इष्टन्तु समृन्मये मृन्मय काष्ठे पा नन्तरं विहितत्वात् निर्वाह बोधका पदाह सूर्य मनोता ११ ९ " २ २३ तस्य चाधि २७ चेतनत्वेन बोधना समुच्चयो वा (इत्यादि) ४२ २४ १५ मनोहा सञ्चाधि चेनत्वेन वोधना अर्थकत्वे (इत्यादि) ३-१-६-१२ रदः नाशकन तेन बाधका बाधकमू प्रायश्चित वैष्णव्यविति मर्थकत्वं नाशकेन ४६ १३ बोधका ७३ ११ " बोधक प्रायश्चित्त वैष्णव्याविति अथैकत्वे ॥ अधिकरणकौमुदी॥ श्रीहनुमते नमः॥ श्रीगुरुभ्यो नमः । श्रीगणेशाय नमः॥ नन्दसूनुं नमस्कृत्य सर्वलोकेश्वरेश्वरम् ॥ निरूप्यते ऽधिकरणं रामकृष्णेन विश्रुतम् ॥ १॥ अधिकृत क्रियते ऽर्थविचारो यस्मिंस्तदधिकरणं मीमांसासि- द्धान्तः। तस्याङ्गानि पञ्च । यथाऽऽह भट्टः- विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति पञ्चाङ्गं शास्त्रे ऽधिकरणं स्मृतम् ।। विषयो यमधिकृस विचारः। विशयो विप्रतिपत्त्या संश- या। पूर्वस्य वादिनः पक्षो मतं पूर्वपक्षः । वादिनिरासकं वा- क्यमुत्तरम् । निरासश्चासदुत्तरेणाप्यप्रतिभस्य वादिनः सम्भव- तीत्यत आह-निर्णयश्चेति । प्रमारूप इत्यर्थः । १ अथ परिषदधिकरणम्- पथा "सप्तदशावरा ऋद्धिकामा द्वादशाब्दं सत्रमुपासीरन् , य एव यजमानास्त एव ऋत्विजः" इति श्रूयते । सप्तदश अब- रे निकृष्टा येषां ते सप्तदशावरा ऋत्विजः, तेन सप्तदशन्यून- कर्तृकं सत्र नं सम्भवति । य एव यजमाना इति । तथाच स- वैरेव होतव्यमिति पूर्वपक्षे जैमिनिसूत्रम्-(१)"सत्रे वयों होता (१) अस्मिन् ग्रन्थे प्रमाणतयोपन्यस्तानि सूत्राणीदानीमुपल- ब्धेषु महर्षिजैमिनिप्रणीतषोडशाध्यायीसूत्रपाठ-तत्सहितशाबरभा- व्याधिकरणमालासूत्रवृत्त्यादिपुस्तकेषु नोपलभ्यन्ते । अतः कुत्र- लघुपूर्वमीमांसाऽधिकरणकौमुदी- अन्येषामर्पणम्" इति । अस्यार्थः–सने स्वीयस्वीयद्रव्याणि मि. श्रणेन साधारणानि कृत्वा वयं मुख्यं होतारं कृत्वा ऽन्ये ब्रह्म त्वसदस्यत्वादीनि ऋत्विकर्माणि कुर्युः । साधारणद्रव्येषु सर्वेषां स्वत्वेन देवोद्देश्यकत्यागाव (१)यजमानत्वमिति । किन्त्वनाऽऽन- तिकरी दक्षिणा नास्ति । सर्वेषां यजमानत्वात्। स्त्रोद्देश्यक(२)सागा- सम्भवात् । तिर्यगधिकरणविरोधात अ०६पा० अधि०२। आनतिः प्रीतिः । तथाच स्वस एव स्वस्मिन्मीतिरस्ति । नचैकेनान्यस्मै दक्षि- णा दीयतामिति वाच्यम् । सत्रस्यैककर्मत्वेनैक एव दक्षिणोत्सर्गः, ज्योतिष्टोमे षोडशस्विज उद्दिश्य गोशातदक्षिणोत्तर्गवद । अ- व सर्वेषामृत्तिक्त्वेन स्वोदेश्यकत्वस्यासम्भवात् । श्राद्धादौ वा- चनिको दक्षिणामेदः । नवोदासीनाय दीयतामिति वाच्यम् । तर्हि नानतिकरी दक्षिणा, तस्थानृवित्वात् । अष्टार्था दक्षि- णा तु पानिकी । बचनन्वत्र नारत्येवेति सत्रे दक्षिणाभा. व इति । अत्र च न परिषदीत्तत्वम् ब. हुत्वविशिष्टस्थाचेतनस्यात् । किन्तु प्रसेकत्तित्वामिति । तथाच फलस्व बहुत्वमेवान्यथाऽनुपपत्तेः । तदुक्तं-"सर्वतो बलवती ह्य- न्यथाऽनुपपत्तिः" इति । २ अथ रात्रिसत्राधिकरणम्- "प्रतितिष्ठन्ति हवा य एता रात्रीरुपयन्ति" इति श्रूयते । प्रतिर्वीप्सायाम् । पुनः पुनर्देहावच्छेदेन तिष्ठन्तीत्यर्थः । चिरंजी- विनो भवन्तीति यावत् । एता रात्रीरिति प्रकरणात् । अ- धिकार्थे उप । यन्तीति इण् धातोः । तथाच अधि- त्यानीति न ज्ञायते । कचित्तु पाठभेदेन दृश्यन्ते । स च तत्र तत्र स्पष्टीकरियते। (१) यागजन्यफलभागित्वमित्यर्थः। (२) स्वमुद्दिश्यति वा पाठः। RESARIES लघुपूर्वमीमांसाऽधिकरणकौमुदी- कं ध्यायन्तीत्यर्थः । यागे उद्देश्यदेवताध्यानस्य विहितत्वात् । अत्र चास्याः श्रुतेर्थवादत्वेन प्रतिष्ठाफलं न प्राथम् । किं तु विश्वजि- न्यायेन स्वर्ग एर फलामति पूर्वपक्षे सूत्रसू-"फलं साबिधिक- म्" अ०४पा०३सू१८ इति(१)। अस्यार्थः-यद्यत्समिहिवं श्रुतं तदेव फलं ग्राह्यम् । तत्राऽऽदौ विधिश्रुतम्, तत आर्थवादिकम, बदभावे आतुषङ्गिकर , तदभावे लिङ्ग स्थामिति । अत्र यथापूर्व अभिहितं बोध्यम् । तथाच रात्रिसत्रे विध्यभावनाऽऽर्थवादिकं प्रतिष्ठाख्यं फलमेव ब्राह्यम् । विश्वजित्स्थळे तु फलं न श्रुवं किन्तु कल्प्य- मिति तस्य दुर्बलत्वम् । आलुरुङ्गिकं यथा-"आरोग्यकामः औरेण वजेब"इयानन्तरं "आशिनौ यजेव" इति श्रूयते । तचाप्यनुषना(२)दारो- ग्यं फलम् । नचानुषले तत्पदस्याऽऽद्यचिरिवि याच्यम् । आ. तौ हि तादृशपहान्तरकल्पना, अनुपले बु सपहस्य परवा- क्ये समभिन्याहारकल्पनामिति । अयमेशानुपतिकाधिकरणन्या- यः । अ० २ पा० १ अधि० १६ । अन्वयकोषस्तु क्रमिकः । अतो वाक्यभेद एशेति । अत्र चैकसाधनाबरुद्ध साचनान्तरस्प निराकावित्वेन लिकल्पः कस्यते । सौरेण दा ऽऽविषयागे. न वा आरोग्यमिति । सौरहश्य बलङ्गकरलेन सहसाबले भा- वियाग इति व्यवस्थितो बिकल्प इति । लिङ्गस्थं फलं यथा-लिई मन्त्रः(३)। "ऐन्द्र गजेस" इत्यत्र यागे मन्त्रः श्रूयते "इन्द्रो देवः सहस्राक्ष पेन्द्रदस्तस्मै जुहोमि" इति । अबैन्द्रद इति श्रवणादेन्द्रपदं फलमिति । ३ अथ विश्वजिधिकरणम्- (१) “फलमात्रेयो निर्देशादश्रुनौ ह्यनुमानं स्यात्" इति पाठः । (२) अनुषङ्गः सामीप्यम् । (३) लिङ्ग्यते ज्ञाप्यतेऽनेनेतिव्युत्पत्तेः।
- लघुपूर्वमीमांसाऽधिकरणकौमुदी- "विश्वजिता यजेत" इति श्रुत्येष्टसाधनत्वं घोधितम् । इ. ष्टत्वन्तु कल्प्यम् । उक्तचतुर्विधफलासम्भवाद । तत्र च ग्राम- धनादीनां गौणपुरुषार्थत्वाद्विनिगमनाविरहाच न फलत्वम् । मोक्षस्य च तत्त्वज्ञानमात्रसाध्यत्वाद, तत्र ज्ञानस्य च गौणप्रयो- जनत्वाव, प्रतियोगिनिरूप्यतया मोक्षस्याभावरूपस्यानुपस्थितेश्चे- ति, स्वर्गस्याप्यनुपस्थित्या फलत्वेन कल्पने मानाभावादिखत्र सूत्रम्- “स स्वर्गः स्यात्सर्वान्मत्यविशिष्टत्वात्" अ०४ पा०३ सू० १५ इति । देशात्मकस्वर्गवारणाय स इति । दुःखास- म्भिन्नादिरूप(१) इत्यर्थः । सर्वानिति । वैराग्यरहितानिति शेषः । अविशिष्ट इति-इच्छाज्ञानविषयत्वेन । तथाच ज्ञानं विना इच्छाया असम्भवाद स्वर्गस्योपस्थितिरस्येवोत फलं स्वर्ग एव । ननु विश्वजयिनो विश्वजिद्यागो नित्य एवास्तु फला- श्रवणात, कार्तिकामावास्यायामुल्कादानलक्ष्मीपूजनवत, इति चेन्मैवम् । विश्वजित्सबीनद्वहुमुवर्णकराजसूयादिसर्वमेधान्तानां षोडशानामेत्र विश्वजयिकर्तव्यत्वेन बोधनाव । तथाच विश्व- जितो नित्यत्वेन प्रथमकर्तव्यत्वात् सत्र च सर्वस्वदक्षिणया सर्व- जिदादिषु धनाभावेनाप्रवृत्त्या तद्विघेरननुष्ठानलक्षणामामाण्यं स्यात् । अतो विश्वजिद्यागो न नित्यः । सर्वजिदादीनान्तु फलश्रुत्या काम्यतैवेति । ४ अथ सर्वस्वदाक्षिण्याधिकरणम्- "उद्भातृपूर्वान् विश्वजिात, प्रतिप्रस्थातृपूर्वान् सर्वजि- (१) यन्न दुःखेन सम्मिन्नं नच अस्तमनन्तरम् ॥ आभिलाषोपनी- तञ्चतत्सुखं स्वःपदास्पदम्। इति तन्त्रवार्तिकोक्ता स्वर्ग इति यावत् ।
५ . लघुपूर्वमीमांसाऽधिकरणकौमुदी- दादौ, सर्वमेधे तूभयम्” इतिश्रुत्या विश्वजित्युद्गातृपधा- नाः षोडशविजः, सीजदादौ प्रतिषस्थातृप्रधानाः षोडश, सर्वमेधे तूद्गातृप्रधानाः प्रतिप्रस्थातृप्रधानाश्च । तेनात्र गणव- येन द्वात्रिंशहत्विजो भवन्ति । तथा च "उद्गातभ्यः सर्वस्वं दाक्षिण्यं, प्रतिप्रस्थातृभ्यो न"इति श्रूयते । उद्गातृभ्य उद्गात्रा- दिभ्यः । तेन विश्वजिति सर्वस्वदक्षिणा, सर्वजिदादिषु यत्किञ्चि त् पारितोषिकं, सर्वमेधे तु सर्वस्वं यत्किञ्चिच्चेति । न च सर्वस्वे दत्ते यत्किञ्चिदिति कथं स्यादिति वाच्यम् । सर्वस्वपदेन सर्व तैजसमुक्तं(१) भूमिवस्त्रादिकं च न सर्वस्वाभ्य- न्तरीणम् । ५ अथ होलाकाधिकरणम्- माच्यानां होलाकाऽऽचारदर्शनात्तदर्थ 'होलाका ऽऽचरणी- या' इति सामान्यविधिः कल्प्यते । न च प्रतीच्यानामनाचर- णात्माच्यैरिति विशेषणपदं देयम् । सामान्यविधिनैव प्राच्या- sऽचारोपपत्चेः। प्रतीच्यानामनाचरणस्येच्छाविरहेणैवोपपत्तेः । इच्छाविरहश्च तद्देशीयपूर्वपूर्वाणामनाचारदर्शनात, प्रतीच्याना- मुल्कादानाद्याचारविरहवत् । नानाचारार्थं वेद:(२) कल्प्यते । तथा च पत्र सामान्यश्रुखा उपपत्तिस्तत्र विशेषविधिर्न कल्प्यते, 'गुरुरनुगन्तव्यः सदा' इतिवत् । नहि कर्मकाले वदसम्भवाचदन्य- काले इति तत्र विशेषणीयमिति । ६ अथ फलचमसाधिकरणम्- (१) अत एव रघुकाव्ये "समृण्मये वीतहिरण्मयत्वात्' इति । अन्यथा मृण्मयमपि कथं तस्य । हिरण्मयं तैजसम् । (अतिरिति पाठः।
लघुपूर्वमीमांसाधिकरणकौमुदी- "मोद्गातॄणां फलचमस हुतशेष भक्ष्यं ददाति" इति श्रू- यते । मोद्गातृणामिति बहुवचनात् प्रोद्गात्रादिऋत्विजां सर्वे- पामित्यर्थः। यवव्रीहितिलैर्मुद्रैः साधितश्चमसः स्मृतः ।। फलं नारिकेलं "अनादेशे नारिकेलं फलम्" इति श्रुतेः । तथा च फलसहितश्चमस इयर्थः । हुतशेषमिति । तेन होमेऽपि तद्व्यमिति । ७ अथ सर्वपिष्टाधिकरणम्- "सर्वपिष्टं मिथुनेन पेषणीयम्" इति श्रूयते । अत्र मिथु- नशब्दस्य सपुत्रपाषाणे न लक्षणा । तथा च मिथुनपदेन स्त्रीपुंसावित्युक्तौ । पेषणन्तु यत्र तत्र काष्ठपाषाणादौ वा कर्तव्यमिति पूर्वपक्षे जैमिनिसूत्रम्-"निरूढत्वात्" इति । निरू- ढलक्षणा शक्तितुल्या, शक्तिवत्तस्या अपि झटित्युपस्थापकत्वा- व । मिथुनपदस्य सपुत्रपाषाणे निरूढलक्षणा । तेन सपुत्रपाषाण एव पेषणम् । अन्यथा कुत्र पेषणीयमित्यनध्यवसायेन प्रवत्तिर्न स्यात् । पेषणे स्त्रिया अन्यत्रये गौरवञ्च स्यादिति । ८ अथ हविरूअधश्चाधिकरणम्- पुत्रेष्टियागे श्रुतिः "श्रीहिभिर्यदैश्च माजापत्यं पृथक् श्र- पयेत्, हविषी संस्कुरुसे, भाज्या भोक्ष्यावहत्य कपिलाक्षीरेण पचेत्" इति । आज्येनेबिविशेषाशुले सामान्यविधिमाप्तस्य जलेन मोक्षणस्य बाधः । हविषी त्रीष्टियौ । अथास्य विकृतौ पु. त्रेष्टियागान्तरे श्रुतिः “यवमयश्वरुर्भवति" इति । अत्र च 'प्र- कृतिवद्विकृतिः' इतिन्यायेन सर्वधर्मप्राप्तावपि न संस्कारप्राप्तिः । प्रकृतौ हविषी इतिश्रवणात् द्वित्वविशिष्टस्य संस्कारप्राप्तेः ।
4- लघुपूर्वमीमांसाऽधिकरणकौमुदी- अत्र च यवमात्रश्रवणे द्वित्वविशिष्टहविषोऽभावात् तत्याप्तयभाव इत्याज्येन नात्र मोक्षणं, किन्तु सामान्यमाप्तजलेनैवेत्यत्र सिद्धा- न्तसूत्रम्-"द्विस्वमनपेक्षितमप्रधानवाद" इति । शाब्दबोधे वि- धेयं प्रधानम्, उद्देश्यमप्रधानम् । तेनात्रोद्देश्यगतत्वावित्वं हविर्गत लिङ्गञ्च नपुंसकमविवक्षितामाते । ও অঙ্খ অস্বাম্বিয়া "ग्रहं संपाष्टि" इति श्रूयते । गृह्यते हविरनेनेति ग्रहो य- सपात्रम् । सुनुवादयः । “ग्रहैर्जुहोति" “दश ग्रहान् गृ- लाति" इति । तथा च अहमित्येकवचनेनैकपात्रस्य मार्जनप्राप्ती कस्येत्यनध्यवसायादवृत्त्यापत्तिरिति । अत्र सूत्रम् - "सर्वेषां- घा लक्षणत्वादविशिष्टं हि लक्षणम्" अ०३ पा० १ सू० १४ इति । असंस्कृतेन पात्रेण यज्ञनिषेधात्सर्वेषामेव मार्जनमपे- क्षितम् । सेनात्रैकत्वमविवक्षितम् । न च हविरुभयवाधिकरणेने- दमन्यथासिद्धम् । तत्र द्वित्वस्यान्वयबोधे ऽप्रवेशात् । अत्र चैकत्व- यावच्छेदकत्वेनानन्वयेऽपि सामानाधिकरण्येनान्वये प्रवेशादिति। १० अथ तदर्थशास्त्राधिकरणम्- बार्हस्पत्ययागे श्रूयते "प्रयाजं करोति नानुयाजम्" इति । अत्र नानुयाजमिति श्रवणान्निषेधानुपपत्त्या दर्शधर्मातिदेशः पश्चा- द्भाव्यः । तथा च "अनुवादः प्राप्तबोधो विधिरप्राप्तबोधकः" इति सूत्रे मातेति निष्ठाप्रत्ययश्रुतेः पश्चात्माप्तव्येऽपि प्रयाजे न विधित्वहानिः । पूर्ववाक्यस्य "मयाजं करोति" इति वाक्य- स्य सार्थकत्वादादौ प्रयाजाचरणं ततो ऽनुयाजं विहायाति- देशप्राप्तव्याश्चतस्त्र आहुतयः कर्तव्या इति नात्र षडा तय इति पूर्वपक्षे सिद्धान्तसूत्रम् - "तदर्थशाने निष्ठाया अनिष्ठितत्त्वाव" ..
लघुपूर्वमीमांसाऽधिकरणकौमुदी- - इति । स विधिरों ऽभिधेयो यस्य तत्तदर्थशास्त्रम् 'अप्राप्तमापको विधिः' इतिसूत्रम् । तत्र निष्ठामत्ययस्यानिष्ठितत्वादविवक्षणादि- त्यर्थः । तेन मानान्तरेण प्राप्तयविषयबोधको विधिः । अत्र च प्राप्तव्यत्वेन प्राप्तिविषयत्वात् प्रयाज करोतीति न विधिः । कि- न्त्वनुयाजस्थाने एव प्रयाजान्तरविधिः । तेनातिदेशमाप्तव्यस्य प्रयाजस्याऽऽदावाचरणम्, ततोऽनुयाजस्थले पुनः प्रयाजान्तरा- चरणं, ततश्चतस्र आहुतय इति षडाहुतिसंख्या स्थितेति । ११ अथ निषादस्थपत्यधिकरणम्- "निषादस्थपति याजयेत्, स वै पाक्त इति स्वयं जुहो. ति" इति श्रुसा यजमानकर्तृको मन्त्रपाठः माप्तः । तथा च नि- पादस्थपतीत्यत्र कर्मधारयसमासे निषादस्य मन्त्रपाठापत्त्या वि- द्यापयुत्त्यापत्तिः । निषिद्धस्य पाठनं विद्याप्रयुक्तिः। तथा च निषादः स्थपतिर्यस्येति बहुव्रीहिः,निषादस्य स्थपतिरिति षष्ठीतत्पु- रुषसमासो वा ऽऽश्रयणीयः । तेन त्रैवर्णिकस्यैवम्भूतस्य याजन- मिति न विद्याप्रयुक्तिरिति । अत्र सिद्धान्तसूत्रम् - "झटित्युप- स्थापकत्वाद" अ० ६ पा० १ सू०५१ इति(१) । बहुव्रीहिषष्ठी. तत्पुरुषसमासयोलाक्षणिकत्वेनानुपपत्त्यधीनतया विलम्बोपस्थाप- कत्वात् । कर्मधारयस्य तदभावेन शीघोपस्थापकत्वात् तेनैवान्व- यबोधः । फलमुखत्वाद्विद्याप्रयुक्तिर्न दोषायेति ।। १२ अथ रथकाराधिकरणम्- "वर्षासु रथकार आदधीत" इसाधानाख्यं कर्म रथ- कारस्य विधीयते । अत्र योगार्थाऽऽदरे त्रैवर्णिकपरत्वं सम्भ- वदपि लाघवाढस्य जातिविशेषस्यैव ग्रहणम् । यथा- (१) "शब्दसामर्थ्यात्" इति सूत्रपाठे । - लघुपूर्वमीमांसाऽधिकरणकौमुदी- ९ 'माहिष्येण करिण्यां तु रथकारः प्रजायते' इति । योगार्थस्य तु रूढ्यर्थतो गौरवम् । अनेकपदार्थान्वयानन्त- रमुपस्थापकत्वादिति । तेन याजनं विना आधानकरणासम्भवाद रथकारस्य ब्राह्मणेन याजनसिद्धिरिति ।। १३ अथ(१) तन्त्रन्यायः- "असंस्कर्ता पिता बालहा भवति यथासमयम, तदकर- णे शामवत्या यजेत, ततश्च संस्करोति" इति श्रुतेः मुख्य- काले जातेष्टयादेरकरणे तजन्यप्रत्यवायनाशाय क्षामवतीमिष्टिं कृत्वा गौणकालेऽपि संस्कारान् जातेष्टयादीन कुर्यादिति सिद्धम् । तत्र यदि बहुसंस्काराकरणं तदा बहुप्रत्यवायोत्पत्तेः प्रत्येकदो- पनाशाय पृथक् क्षामवतीं कुर्यात् । एकयाक्षामवत्याऽनेकप्रसवाय- नाशासम्भवात् । प्रत्येकविघ्ननाशाय भिन्नमङ्गलबत, इत्यत्र सिद्धा न्त सूत्रम्-"तन्त्रवत्" इति । यथा तन्त्रस्य दीर्घसूत्रसमुदाय- मध्ये सर्वसूत्रमुद्दिश्य कृतेन एकेन विस्तरसूत्रप्रक्षेपेण सर्वसूत्रसम्ब. न्धो, न तु यावन्ति दीर्घमूत्राणि तन्मध्ये प्रसेकं प्रस्तारसूत्रप्र- क्षेपः कुविन्देन क्रियते, तथा एकया क्षामवसा सर्वमुद्दिश्य कृतया सर्वदोषसम्बन्धात् सर्वेषामेव नाशः । नाशकस्य नाश्य- सम्बन्धे सति नाशे ऽन्यानपेक्षणादिति । एवं दर्शे प्रयाजादिषण्णामङ्गत्वं श्रूयते । दर्शयागश्चाऽऽहु- तित्रयरूपः। तथाच तन्त्रन्यायेन सकृत्कृतेन प्रयाजादिनाऽदृष्टनि- पत्तिर्न तु प्रयाजादीनां त्रिधा आत्तिरिति । प्रयो- गविध्यैक्ये तन्त्रता । प्रयोगविषिश्च एभिरङ्गरिदं कर्तव्यमेवं- रूपः । तेन समानाङ्गत्वेनैव तन्त्रता । तथाच देवतैक्ये तन्त्रता। क- १ नानाफलकसमानाकारकव्यापाराणां मध्ये नानाफलान्युदि- श्यैकव्यापारकरणं तन्त्रम् । ૨ - लघुपूर्वमीमांसाऽधिकरणकौमुदी- चिद् द्रव्यैक्येऽपि । किन्तु काम्ययोर्न तन्त्रतेति । नित्ययोनित्यका- म्ययोरङ्गयोश्च तन्त्रता । क्षामवत्याः प्रायश्चित्तरूपत्वेनावश्यक- तैव्यत्वात् । “चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये " इति- वाचनिकनित्यत्वात् । काम्यानां तन्त्रले यजमानद्वयस्य शिव- लिङ्गसहस्रद्वयसंकल्पे एकसहस्त्रपूजनेनैव निर्वाहः स्यादिति । अयमेव क्षामवतीष्टिन्यायः । १४ अथ (१)प्रसङ्गन्याय:- "पशुं मोक्ष्य, तन्मांसैर्जुहुयात्" इति श्रुतिः । अत्र पशुपो. क्षणेन न मांसस्य प्रोक्षणं सिद्ध्यति, तस्य ततोऽन्यत्वादितिमांसमपि मोक्षयोदत्यत्र सिद्धान्तसूत्रम्-"प्रसङ्गात्सिद्धे" इति । प्रस- ङ्गो नान्तरीयकत्वम् । तथाच पशुमोक्षणेन समन्त्रकणामन्त्रक पुरोडाशस्य सन्मांसस्य च प्रोक्षणमपि सिद्धं, तत्र जलसम्बन्धा- भावेऽपि पशुघटकत्वेन पुरोडाशस्यापि संस्कारो धान्यराशे- रुपरि मोक्षणेनाधोतिधान्यानामपि सर्वेषां सद्घटकत्वेन प्रो- क्षणवत् ॥ 'होम्यं यत्कठिनं स्यात्तु पुरोडाश इति स्मृतम्, इति । तेन मांस-पिष्टकमोदकादीनां होमे विहितानांपुरोडाशसंज्ञोत। तेन समानाङ्गके उद्दिश्य कृते तन्त्रन्यायः । अधिकाङ्गेन न्यूना- ङ्गसिद्धौ प्रसङ्गन्यायः। अत्र कुत्रचिदुद्देश्यस्य सिद्धिः, कचिद- नुद्देश्यस्यापि । आद्यं यथा-आज्यसंस्कारस्य तयागोपयुक्तसर्गऽऽज्यमुद्दि- श्य करणात कलशस्थाऽऽज्यस्थापि शुद्धिानहि राजसूयादियागो- पयुक्तं सर्वमाज्यं (२)पात्र स्थ तुम्हीत । नच यदाज्यं ग्राह्यं तद- १ अन्योद्देशेनान्यदीयस्यापि सहानुष्ठानं प्रसङ्गः । २ आज्यस्थाल्यामित्यर्थः।
लघुपूर्वमीमांसाधिकरणकौमुदी ११ पि संस्कार्य , तत्समयस्य कुशण्डिकान्तर्गतत्वेनातीतत्वात् । एवं संस्कृतस्तुवापचारे नवीनवे संस्काराभावः। द्वितीयं यथा-अधिकपापप्रायश्चित्तेन क्षुद्रपापनाशस्यानुद्दे- श्यस्यापि सिद्धिः। वृश्चिकनाशाय पाषाणक्षेपे पिपीलिका- दिनाशवत् । माधवीये तु पशुयागार्थ प्रयाजाद्यनुष्ठाने कृते पुरोडाशार्थं न पुनः प्रयाजाद्यनुष्ठानं प्रसङ्गेनोमयागानुष्ठाना- दित्युक्तम् । १५ अथाङ्गस्य प्रधानाऽऽदृश्यप्रयोजकत्वन्याय:- प्रधाननिष्यत्यनन्यरं चशेरपचारे ऽङ्गभूतस्विष्टकृद्धोमार्थ न पुनः पाकः । तस्य होमशेषद्रव्येण निहितत्वात् । किन्तु चरूं प्रसाध्य पुनः प्रधानाचरणं हिनष्टकद्धोगाथै कार्यमिखत्र सिद्धा- न्तसूत्रम्-"अङ्गस्य प्रधानाऽऽवृत्त्यायोजकत्वात्"इति । तेन स्विष्टकद्धोमं विनैव सत्र कर्मनिर्वाहः । एवमेकोद्दिष्टादौ न पुनः श्राद्धाऽऽकृत्तिः । शेषान्नापचारे पिण्डाय न पाकान्तरं कार्य- मिति । एवमपिण्डकेन मघाश्राद्धेन पक्षश्राद्धनिर्वाहः । अत एव छन्दोगपरिशिष्टम्- प्रधानस्याक्रिया यत्र साङ्गं तरिक्रयते पुनः । सदङ्गस्याक्रियायां तु नाऽऽसि पि यरित्रमा" इति ॥ १६ अथ योगसिधिकरणम् - यः पुत्रकामः स इदं कुर्यात्, ष, पशुकामः स इदं कुर्यात्" इयादि चतुर्दशतिथियागानुक्त्वा “एकैकस्मै कामाया- न्ये यज्ञक्रतव उपाहियन्ते सर्वेभ्यो दर्शपौर्णमासान्" इति श्रुतावुक्तम् । यज्ञक्रतू भिन्नौ। "इष्टिस्तु चरुणा यागो यज्ञस्तु पशुना स्मृतः । एतच्छेषः क्रतुः प्रोक्तो होमान्यत्पूजनं स्मृतम् ॥ m १२ लघुपूर्वमीमांसाऽधिकरणकौमुदी- यज्ञोऽपीष्टिरेव यजधातोः सिद्धत्वात । एतच्च "क्रतुय- ज्ञेभ्यश्च" इति अ० ४ पा० ३ सू० ६८ पाणिनिसूत्रे उक्तम् । सर्वेभ्य इति । प्रक्रान्तपुत्रादिचतुर्दशफलान्युद्दिश्ये- त्यर्थः । तथाचैकदैव पुत्रपश्वादिचतुर्दशफलकामनया द- शपूर्णमासौ कार्याविति पूर्वपक्षे जैमिनिमूत्रम्-“ योग- सियसम्भवात्" इति । योगः साहित्यम् । तथाचैकस्मा- कर्मणः साहियेन फलासम्भवादिसर्थः । अयम्भावः । यः पु. काम इत्यादिपक्रमेण प्रत्येकमधिकारित्वश्रुतेः तेषामेवान्वयबोधो युक्तो, नतु समुच्चितफलकामस्याधिकारित्वम् । फलानां समुच्चय- स्याश्रवणात् । कल्पनायां मानाभावात् । तथाच प्रयोगभेदात्स- वै फलं भवति नत्वेकप्रयोगणेति । अत्र च बाधकामाचे सती. ति बोध्यम् । तेन यत्र समुच्चयेन फलश्रुतिस्तत्र न दोषः । यथा "स्वर्गमामोति मोक्षं च कार्तिके केशवार्चनात्" इति । अत्र चकारेण समुच्चयबोधः । एवञ्च महाभारतादिश्रवणस्य बहुफ- लश्रवणे ऽप्येकं फलमुद्दिश्य सङ्कल्पः कार्यों न तु समुच्चयेन, तद्बोधकाभावादिति । १७ अथ कर्मण्यारम्भाधिकरणम्- नन्वेकस्माद्दण्डाद्यथा बहुघटोत्पत्तिः । तथैकस्मात ज्योति- टोमादहूनि स्वर्गादिकानि फलानि भविष्यन्तीति किमर्थं पुन: पुनरनुष्ठानाचार इति पूर्वपक्षे सिद्धान्तसूत्रम्-“कर्मण्यारम्भा- वृत्त्या फलात्तिः" इति । अयमाशयः । "ज्योतिष्टोमात्पष्टिव- पसहस्राणि स्वर्गो भवति" इति श्रुतौ षष्टिवर्षसहस्त्राणीति व्य- थै स्यात् । फलानामानन्त्यादनिर्मोक्षश्च स्यात् । एकयागफ- लाविच्छेदाद्यागान्तरफलमाप्तिश्च न स्यात् । सूत्रार्थस्तु एकक- मविषयकाऽऽरम्भ आद्यः प्रयत्नस्तस्याऽऽत्तेर्यावती संख्या ता.
लघुपूर्वमीमांसाऽधिकरणकौमुदी- वत्संख्यं फलं भवतीति । आद्यप्रयत्नभेदस्तु कर्मभेदादेव । तथा- च प्रधानीभूतादेकस्मात्कर्मण एकमेव भिन्नकालीनं फलं भव- तीति । प्रधानीभूतेति प्रयाजादिवारणाय तेषां सकृत्कृताना- मेव दर्शत्रयोपकारकत्वात्तत् त्रयमपि फलं तन्त्रप्रसङ्गाभ्या- म् । बहुपापनाशककर्मवारणाय, 'कुलकोटि मुमुद्धरेत्' इयत्र तत्तदात्मनिष्ठनानाफलोत्पादककर्मवारणाय च भिन्नकालीनेति । १८ अथ शय्वधिकरणम्- "सोमयाजी ब्रह्मलोकमाप्नोति" इति श्रुत्या सोमयाजिनो ब्रह्मलोकावाप्तिरुक्ता । अत्र च सोमयागस्य हेतुत्वं न सम्भवति कर्तृविशेषणत्वेनोपस्थितत्वात्कुलालत्ववत् । तथाच ब्रह्मलोकमाप्तिः कस्य फलमुक्तमित्यत्र जैमिनिसूत्रम्-“शयुवत्तत्त्वसिद्धेः इति । अयम्भावः । "देवाः शंयुं बार्हस्पत्यमब्रुवन् , त्वमस्माक- मविनाशाय हव्यं वह, ततः शंयुमन्तस्ते ऽरीनजयन्" इति श्रूयते । अत्र शंयुविशिष्टदेवानामरिजयहेतुत्वं प्राप्तम् । बाधकामा- वाच्च विशिष्टस्य हेतुत्वबोधे विशेषणस्यापि हेतुत्वम् । कुला- लत्वस्य तु न तथा स्वतन्त्रान्वयव्यतिरेकाभावात् । शयोस्तु त- सत्त्वाद्धेतुत्वबोधविषयीभूतदेव विशेषणत्वेऽपि हेतुत्वमिति । श्रुसर्थस्तु-बृहस्पतिपुत्रं शंयुं देवा अब्रुवन् हव्यं शत्रु- नाशकं यागं वह ततस्तधागानन्तरमियर्थः । तथा च शंयोः साक्षाज्जनकत्वाभावाद्यथा यागो व्यापारः तथा सोमयागस्यापि अपूर्व व्यापारः(१) । एवं "सप्तदश पशु- नालभेत" इत्यत्र सप्तदशत्वविशिष्टपशूनामङ्गत्वबोधनाव सप्तद- शत्वमप्यङ्गमिति ॥ १९ अथ देवताऽधिकरणम् (१) तजन्यत्वे सति तजन्यजनको व्यापारः।
लघुपूर्वमीमांसाधिकरणकौमुदी- RSTRIC - ननु देवतामीतिरेव यागन्यापारो ऽस्तु किमपूर्वेणेसत्र सूत्रम्- "देवता चैतन्यासम्भवात्" इति । चेतने एव पी. तिजायते नवचेतने तथा च कथं देवताप्रीतिरिति । २० अथ परिषदाधिकरणम्- "ब्राह्मणेभ्यो ऽन्नं दद्यात्" इति श्रुत्या बहुत्वविशिष्टमेव सम्प्रदान तथा चैकमेवोत्सर्गवाक्यमव सूत्रम्-"परिषदि दत्त- मदत्तम्" इति । परिषदो बहुत्वविशिष्टस्याचैतन्यन स्वीकारास- म्भवात् प्रत्येकमेव दानवाक्यम् । तुलापुरुषादिदाने च वाच. निकत्वादहुत्वविशिष्टा एवोद्देश्याः। तेन बाधकाभावे सतीति विशेषणं सूत्रे इति ॥ २१ अथ कौण्डपायिनामयनाधिकरणम्- "उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहुयात् तेजस्कामः" इति । उपसत् कल्प्यते यत्र सतिलैत्रीहिभिश्वरः । तथा च सतिलैबाहिभिः चरित्वा-चरुं कृत्वा मासं व्या. प्याग्निहोत्रं जुहुयादिसर्थः । अत्र चाग्निहोत्रान्तरविधौ गौर. वात् प्राप्ताग्निहोत्रे एव मासव्याप्तोपसद्विधिः । तेन प्रकृता- निहोत्रमेवोपसदा कर्तव्यम् । अन्यथा प्रकृताग्निहोत्रं कृत्वा ऽग्नि- होत्रान्तराऽऽचरणे गौरवं स्यादिसत्र सिद्धान्तसूत्रम्-"वाक्यभे- दापत्तेः" इति(१)। प्रकृताग्निहोत्रमुद्दिश्य मासोपसदुभयगुणविधौ वाक्यभेदापत्तेः। मासविशिष्टोपसद्विधिः गुणानाश्व परार्थत्वादसम्बन्धः समत्वात्स्यात्" इति यादङ्गानामन्योन्यं विशेष्यविशेषणभावविरहादिति । गु. (१) वाक्यभेदस्य च दुष्टत्वमुक्तमभियुक्तैः- 'सम्भवत्येकवाक्यत्वे वाक्यभेदो न युज्यते' इति । न्या- - लघुपूर्वमीमांसाऽधिकरणकौमुदी १५ णानामङ्गानां परार्थत्वादङ्गयर्थत्वादसम्बन्धः परस्परं वि- शेष्यविशेषणभावविरहः । कुत इसत्राऽऽह-समत्वादिति । वि- निगमनाविरहादिसर्थः । तथा च गुणद्वयविशिष्टस्याग्निहोत्रा- न्तरस्यैव विधिः । अग्निहोत्रपदप्रयोगस्तु तद्धर्मप्राप्यर्थ इति । कु- ण्डसम्बन्धित्वात्कौण्डः पिण्डसोमस्तत्पायिनाम् अयनं-कर्तव्यत्वेन ज्ञानं यत्र तत्कौण्डपायिनामयनम् । अलुक्समासात् यागस्य संज्ञा(१)। कृतसोमयागस्य तत्राधिकारात । केचित्तु कौण्डपायिनां कृतसोमपानानामयनं तदाख्यो यागः। सच द्वादशाहसाध्य इयर्थः। षष्ठयर्थश्च कर्तृत्वामिति वदन्ति । २२ अथ यागदानहोमाधिकरणम्- बाईस्पसयागे श्रूयते "शरमयं बर्हिरुत्तरतस्त्यजति, तत्र द्रव्याण्यासादयति" इति । अत्र च त्यक्तद्रव्ये कथं द्रव्याऽऽसादनं त्यत्तस्य विनियोगविरहादित्यत्र सूत्रम्-"यागदानहामान्यत्वे त्यागानुपपत्तेः" इति । अस्यार्थः-या क्रिया यागदानहोमाऽन्या सा न त्यागरूपेति । तथा च शरमयबहिषो न त्यागः तेन त्यजती त्यस्य स्थापयतीत्यर्थः। ननु मुख्यशब्दं विहाय लाक्षणिकस्य त्यजतीत्यस्याभिषा- नं कथम् ? इत्थं, "देवा गातु इति मन्त्रेण बहिषो होममाचरत" इति पूर्णाहुत्यनन्तरं बर्हिषो होमविधानादत्र शरस्य बहिष्ट्वेन होमप्राप्तौ तद्वारणाय त्यजतीति । तेन त्यक्तधर्मातिदेशात्पुनर- नुपादानाचन शरस्य होम इति । नचोत्सर्गोऽपि त्याग एवेति कथं त्यागस्य त्रितयान्यतमरूपत्वमिति वाच्यम् । उत्सर्गस्यापि त्यागादिरूपत्वात् । तथाहि-तडागोत्सर्गस्य देवतोद्देश्यकत्यागत्वेन (१) संज्ञास्वरूपभङ्गभिया षष्ठया अलुगित्यर्थः ।
१६ लथुपूर्वमीमांसाऽधिकरणकौमुदी- यागत्वम् । सर्वसत्वानां चतुर्थ्यन्तपदनिर्देश्यत्वेन देवतात्वात् । एवं वृषोत्सर्गस्यापि । तत्रापि वत्सतरीणां देवतात्वात् । एवं मठाद्युत्सर्गस्य साक्षादेव यागत्वम् । एवं मनसा ब्राह्मणमुद्दिश्य त्यागस्य दानत्वमेव स्वीकाराहोंदेश्यकसागस्य दानत्वात् । नतु स्वीकारोपहितेति वक्तव्यम् गौरवात् । स्वीकारयोग्यता च वि- शिष्टचेतनत्वेन । शूद्रााद्देश्यकबागेऽपि दानपदप्रयोगात् । नचैवं वैराग्यादिना एवमेव द्रव्यत्यागे कथमुपपत्तिरिति वाच्यम् । तत्रोत्सर्गत्वस्याप्यभावेन उभयसमाधेयत्वात् । तथा च लानाद्यङ्गकत्यागस्य त्रैविध्यमिति । एवं 'सर्व परित्यज्य संन्य- सेतू' इत्यत्रापि स्नानाद्यङ्गत्वाभाव इति । न च होमोऽपि देवतोद्देश्यकत्यागत्वाद्याग एवेति कर्य तस्य पृथगुपन्यास इति वाच्यम् । स्वतन्त्रेच्छस्य मुने- नियोगपर्यनुयोगानहत्वात् । कर्मणो गुणान्तर्भावसम्भवेऽपि पृथ. गुपम्यासवत् । तथा च यागे ऽन्यानुपहितत्वं विशेषणं दे- थम् । होमे त्वग्निप्रक्षेपविधिकेति विशेषणमिति सर्वे पूर्वपक्षा: परास्ताः। २३ अथ यदाहवनीयन्याय:- सोमयागे “पदे जुहोति" इति श्रूयते । तस्य चानुपपत्तिः "पज्जुहोति तदाहवनीये" इतिश्रुतेःसामान्याया:सङ्कोचापत्तेरिय- प्रसिद्धान्तसूत्रम्-"निरवकाशत्वात्" इति । पदे जुहोतीत्यस्य निरवकाशवापत्त्या आहवनीयवाक्यस्य सङ्कोच एव युक्तः । त. थाच निरवकाशवचनविषयातिरिक्त सामान्यवचनस्य प्रोत्त. रिति । एवं ज्योतिष्टोमे "सोमेन यजेत" इति सामान्यश्रुतिर- स्ति, तथा "राजन्यवैश्यौ फलचमसाभ्याम्" इति । तत्र वि- शेषश्रुत्या सामान्यश्रुताह्मणमात्रपरत्वं नतु राजन्यवैश्ययोर- लघुपूर्वमीमांसाऽधिकरणकौमुदी १५ णानामङ्गानां परार्थत्वादङ्गयर्थत्वादसम्बन्धः परस्परं वि- शेष्यविशेषणभावविरहः । कुत इसत्राऽऽह-समत्वादिति । वि- निगमनाविरहादिसर्थः । तथा च गुणद्वयविशिष्टस्याग्निहोत्रा- न्तरस्यैव विधिः । अग्निहोत्रपदप्रयोगस्तु तद्धर्मप्राप्यर्थ इति । कु- ण्डसम्बन्धित्वात्कौण्डः पिण्डसोमस्तत्पायिनाम् अयनं-कर्तव्यत्वेन ज्ञानं यत्र तत्कौण्डपायिनामयनम् । अलुक्समासात् यागस्य संज्ञा(१)। कृतसोमयागस्य तत्राधिकारात । केचित्तु कौण्डपायिनां कृतसोमपानानामयनं तदाख्यो यागः। सच द्वादशाहसाध्य इयर्थः। षष्ठयर्थश्च कर्तृत्वामिति वदन्ति । २२ अथ यागदानहोमाधिकरणम्- बाईस्पसयागे श्रूयते "शरमयं बर्हिरुत्तरतस्त्यजति, तत्र द्रव्याण्यासादयति" इति । अत्र च त्यक्तद्रव्ये कथं द्रव्याऽऽसादनं त्यत्तस्य विनियोगविरहादित्यत्र सूत्रम्-"यागदानहामान्यत्वे त्यागानुपपत्तेः" इति । अस्यार्थः-या क्रिया यागदानहोमाऽन्या सा न त्यागरूपेति । तथा च शरमयबहिषो न त्यागः तेन त्यजती त्यस्य स्थापयतीत्यर्थः। ननु मुख्यशब्दं विहाय लाक्षणिकस्य त्यजतीत्यस्याभिषा- नं कथम् ? इत्थं, "देवा गातु इति मन्त्रेण बहिषो होममाचरत" इति पूर्णाहुत्यनन्तरं बर्हिषो होमविधानादत्र शरस्य बहिष्ट्वेन होमप्राप्तौ तद्वारणाय त्यजतीति । तेन त्यक्तधर्मातिदेशात्पुनर- नुपादानाचन शरस्य होम इति । नचोत्सर्गोऽपि त्याग एवेति कथं त्यागस्य त्रितयान्यतमरूपत्वमिति वाच्यम् । उत्सर्गस्यापि त्यागादिरूपत्वात् । तथाहि-तडागोत्सर्गस्य देवतोद्देश्यकत्यागत्वेन (१) संज्ञास्वरूपभङ्गभिया षष्ठया अलुगित्यर्थः ।
१८ लघुपूर्वमीमांसाऽधिकरणकौमुदी- तिः' इतिन्यायेन दर्शधर्मस्य पूर्वदिने देवताऽऽवाहनस्य प्राप्तिः । तथा च परदिने स्फ्याश्लेषसंशयेऽपि पूर्वदिने आवाहनं का- यमेव । अन्यथा सति यागे तत्राङ्गवैगुण्यापत्तेः; इसत्र सिद्धा- तसूत्रम्-"न नैमित्तिकत्वात्" इति । नैमित्तिके निमित्तनि- श्चयवानधिकारी । तेन पूर्वदिने तदभावान्न यागाधिकारः। प्र- धानाधिकाराभावे च कथमङ्गानुष्ठानमिति पूर्वदिने नाऽऽवा- हनम् । परदिने स्फ्याश्लेषे सत्याप नाऽऽवाहनं, तत्र पूर्वदि- नस्याङ्गत्वादिति तत्राऽऽवाहनबाध एव । निमित्तनिश्चयश्चासति प्रतिबन्धे अवश्यमेव कर्तव्यमित्येवंरूपः । तेन भविष्यद्विवाहा- दिनिमित्तकमाभ्युदयिककरणं सिद्ध्यति । अन्यथा भाविनि मा- नाभावेन (१)तेषामनिश्चयात्तत्रापि वृद्धिश्राद्धं न स्यात् । इज्यायां तु तादृशो निश्चयो नास्ति स्फ्याश्लेषसंशयेन संशयादिति । २६ अथ कृष्णलन्याय:- "कृष्णलान् श्रपयेत्" इति व्रीहिविकृतियागे श्रूयते । कृष्णलश्च कलापाकारः स्वर्णमाषनिर्मितः । तत्र यागे ब्रीहि- धर्माचघातप्राप्तया तुषाभावेऽप्यदृष्टार्थं कृष्णले ऽवघातः कार्य इत्यत्र सूत्रम्-"द्वाराऽसम्भवात्" इति । अवघातस्य वैतुष्यं द्वारं, तस्य च तत्र स्वतः सिद्धत्वादवघातो व्यर्थः । नचाह- ष्टार्थः । दृष्टार्थत्वे सम्भवत्यदृष्टार्थत्वकल्पनाया अयुक्तवाद्गौरवा- दिति कृष्णले ऽवघातबाधः । २७ अथ कपालाधिकरणम् - "व्रीहिभिवायव्यं यजते, अष्टाकपालं पुरोडाशं करोति, पुरोडाशकपालेन तुषान् उपवपति" इति श्रूयते । अत्र (१) विवाहादीनाम् ।
लघुपूर्वमीमांसाधिकरणकौमुदी- १९ कपा- यागे शूर्पण न तुषप्रस्फोटनं किन्तु पुरोडाशकपालेन । तत्र चाष्टानां कपालानां सत्त्वात् केन कपालेनेत्यनध्यवसाये सूत्रम् –“प्रथमोपस्थितिस्तन्त्रम्" इति । अयमाशयः- द्रव्यासादने पश्चिमावधि पूर्वान्तं पंक्तिक्रमेण तत्र लस्थापनम् । तथाच यजमानसन्निधौ यत्कपालं प्रथमपुरोडाशार्थ- मासादितं तस्य सन्निहितत्वेन प्रथमोपस्थितत्वेन च तदेव तुषप्र- स्फोटनार्थ ग्राह्यमिति । तथाच लक्षणया प्रथमोपस्थितपुरोडा- शकपालेन इसन्वयबोधः । अत्र पुरोडाशकपालेत्यत्र लक्षणा- या आवश्यकत्वात् । लक्षणया यदि पुरोडाशप्रयोजनकं क- पालमित्युच्यते तदा तत्र नोपवापाकाङ्क्षा । प्रयोजनवत्त्वेनोपस्थि- तस्य प्रयोजनान्तरानाकाङ्क्षत्वात् । तथाच तत्र नोपवापान्त्रयः स्यात् । तेनाधिष्ठाने लक्षणा कर्तव्या। पुरोडाशाधिष्ठातव्यकपाले- नेसर्थः । अधिष्ठानन्तु स्थितिरेवेति । २८ अथार्थवादाधिकरणम्- "शम्भुः सर्वदेवेश आशुतोषः सर्वकामफलप्रदश्च" इत्यर्थ- वादः श्रूयते । कार्यान्वितबोधकत्वन्तु सर्वशब्दानाम् । अर्थवा- दस्य सिद्धार्थकत्वात् अन्वयबोधाजनकत्वात् व्यर्थमेवाभिधान- मिसत्र सूत्रम्-"विधिशेषत्वात्प्रामाण्यम्" इति । वि- विशेषत्वात् विध्येकवाक्यत्वात् । तथाच यस्यार्थवादस्य वि. घिसमभिव्याहारस्तस्य प्रामाण्यमिति । विधिश्च द्विविधः-क्लप्त: कल्प्यश्चेति । तथाचात्र विधिः कल्प्यः । तस्मात् 'सर्वकाम्यका- मः शम्भु यजेव' इति । क्लतविधिर्यथा-वायु क्षेपिष्ठा(१) देवता' इयर्थवादस्य "वायव्यं श्वेतमालभेत" इतिश्रुतविधिनै- कवाक्यत्वमिति । १ शीघ्रफलदात्रीत्यर्थः। - . लघुपूर्वमीमांसाऽधिकरणकौमुदी- २९ अथ विरोधाधिकरणम् “औदुम्बरी स्पृष्ट्वोद्गायति" इति ऐन्द्रयागे श्रूयते । तत्रैव यागे 'सर्वा औदुम्बरी वेष्टयितव्या' इति कात्यायनोक्ता स्मृतिः । तथा च स्मृतेरपि श्रुतिमूलकत्वादुभयोः समबलत्वेन स्पृष्ट्वेत्य- त्र श्रुतौ (१)उपस्पर्शलक्षणाया अयोगातू , एवं स्मृतावपि स- पदसङ्कोचस्यायुक्तत्वादनुपात्तिरियत्र सूत्रम्-"श्रुत्या स्मृ. तिर्बाध्यते" इति । श्रुतेर्बलवत्वादिति भावः । तथा च स्मृ. तौ सर्वपदे सङ्कोचः-स्पर्शयोग्यभागं विहाय सर्वा वेष्टयितव्ये- ति । नच स्मृतेरपि समानार्थकश्रुतिमूलकत्वमिति वाच्यम् । स्मृत्वा ऽनुमीयमाना श्रुतिः प्रत्यक्षश्रुतिविरोधेन स्मृतिसमा- नार्थिका अनुमातुं न शक्यते किन्तु श्रुत्यनुगुणैवानुमातव्ये- ति । औदुम्बरी-उदुम्बरक्षनिर्मिता पशुवन्धनाथ स्थूणा, तस्या एव यूपसंज्ञेति। माधवीये तु औदुम्बरी उदुम्बरशा- खेति व्याख्याता। ३० अथ प्रतिनिध्यधिकरणम् । "व्रीहिभिर्यजेत" इत्यत्र ब्रीहेरुपादाने कृते तदपचारे सति यागो न सम्भवति । न च यवोपादान कार्य विकल्पे एकोपा दाने ऽन्यग्रहणस्य निराकाङ्गत्वेनासम्भवेनाशास्त्रार्थत्वादिति पूर्वपक्षे सिद्धान्तसूत्रे-"पूतीकाविधिदर्शनात्" "सारू- प्यं तन्त्रम्" इति । तथाच प्रतिनिधिना सदृशेन कर्मा- ऽऽचरणीयम् । अन्यथा “यदि सोमं न विन्देव, पूतीकानभि- षुणुयात्' इत्यस्य वैयर्थ स्यात् । अयम्भावः-वीहिन चरुसा- धनं, किन्तु सदवयवस्तण्डुलः । तथाच 'व्रीहिभिर्यजेत' इत्यत्र (१) सर्ववेष्टनस्मृतिबलेन स्पृष्टेति पदस्य वस्त्रव्यवधानेन स्पर्श कृत्वेत्यर्थे लक्षणाया अयुक्तत्वादित्यर्थः ।
लघुपूर्वमीमांसाऽधिकरणकौमुदी २१ वीहिशब्दस्य तदवयवे लक्षणा । तेन ब्रीह्यवयवमत्यभिज्ञाया: शाल्यवयवेऽपि सदृशत्वदर्शनात् व्रीह्यभावे शालिग्राह्य इति । एतन्न्यायमूलं वचनं । "यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत् । यवानामिव गोधूमा ब्रीहीणामिव शालयः" इति । अन्यथा प्रतिनिध्यस्वीकारे "मौद्गश्चरुर्भवति, अयज्ञीया वै माषाः" इति माषनिषेधानुपपत्तिरप्राप्तत्वात् । अत्र च माषा इति बहुवचनं माषमिश्रितमुद्गस्यापि निषेधार्थम् । तथाच प्रतिनिधित्वेन प्राप्त्या निषेधः । एवं 'काण्डमूलपत्रपुष्पफलप्ररोहगन्धरसादिना सादृश्येन प्रतिनिधिं कुर्यात्' इति पैठीनसिवचनादपि यथायथं प्रतिनिधि|ध्य इति । अत्र वदन्ति-किं तावत्प्रतिनिधित्वम् ? । न हि तत्कार्यकारि- त्वम् । तत्रैव मुख्ये गतत्वात् । नच तदभावे तत्कार्यकारित्वम् । होमाद्ययोग्येन यजमानेन संकल्प्य यागादौ प्रतिनिधिकरणे य. जमानस्य सत्त्वेन तत्मतिनिधावगतत्वात् । नच तदभाव इस. स्य तदयोग्यत्वे इत्यर्थः । विज्ञेनापि यजमानेन वाचनिकम- तिनिधिकरणे ऽसत्त्वात् । 'होतारं वृणुयात्' इति विधेः । न च तत्र होता न प्रतिनिधिः किन्वङ्गमेव, तत्र स्वयं प्रक्षेपस्य विधानात् । होता तु न सागकर्ता तस्य द्रव्ये स्वत्वाभावात किन्तु प्रक्षेप्लोच्यते । मुख्य यागे सागरूपे यजमान एवाधिका- री, अतो लक्षणं युक्तमेवेति वाच्यम् । तथाऽप्यन्यकार्यस्या- न्याजन्यत्वात् । व्रीहित्वेन कारणत्वस्य श्रुतत्वात् । अन्य- था व्रीहेयभिचारेण जनकत्वं न स्यात् । उच्यते । तद्या- गत्वेन तत्र विहितचरुत्वेन-एवं तच्चरुत्वेन तत्र विहितद्रव्यत्वेन कार्यकारणभावस्य वाच्यत्वादुक्तमेव लक्षणमिति ।
२२ लघुपूर्वमीमांसाधिकरणकौमुदी- ३१ अथ फलभूमाऽधिकरणम् --- आधाने दक्षिणा श्रूयते "एका देया, तिस्रो देयाः, षट देयाः" इति । अत्र चैकदक्षिणावरुद्ध दक्षिणान्तरस्य निराका- सतयाऽनन्वयात् वाशब्दः कल्प्यते । तेन एका वा देयेति । त. थाच तिस्र इसत्राऽऽकाङ्क्षा भवति । वाशब्दस्य कोट्यन्तराका- होत्थापकत्वात् । तथा च "अल्पेनेष्टस्य संसिद्धावधिके कः प्रव- तते" इति न्यायात गोत्रयादिदक्षिणायामप्रवृत्तौ तद्वेदाप्रामा- ण्यमियत्र सूत्रम्-"यो भूय आरभते, तस्य फले वि. शेषः" इति । भूय इति बहुशब्दस्य सिद्धम् । तेन भूयः बहूपका- रणाङ्गकम्, उत्कृष्टाङ्गकञ्च; एवं बहुकालकृच्छ्रसाध्यं, कृष्टोत्क- साध्यञ्च । आरभते-करोति । तस्य फले विशेषो बहुकालव्या. पकत्वम् । फलगतोत्कर्षविशेषश्च भवतीयर्थः । तेनाधिकफला- र्थिना तिस्रो देया इति। अत्र वदन्ति । "स्वर्गकामो वसन्ते आदधीत इत्या. धानविधौ स्वर्गकाम इति श्रवणात्तत्कामना-अधिकारः, नतु स्व. गविशेषकामना । तथा चाधिकारिमविष्टकामनायामनुलिखितफल- स्य यागजन्यते ऽतिप्रसङ्गात् कथं फलभूमेति ? उच्यते । यथा दीपमानार्थी दीपं करोति तत्र च तैलबहुवे तस्याधिक- कालव्यापकत्वं, वर्तुत्कर्षे दीपोत्कर्षः, कारणवैलक्षण्यात् । तथाs- त्रापि सामान्यकामनाया अधिकारात् सामान्यफलं भवत्येव, विशेषस्तु कारणवैलक्षण्यात् । विशेषफलेऽपि सामान्यधर्मो ऽस्त्येव । नचातिप्रसङ्गः । अन्यफलप्रयोजकरूपासत्त्वादिति । ३२ अधानुषत्राधिकरणम्- "पारमेष्ठ्यकामः परमेष्ठिनं यजते भास्वन्तम्” इति श्रु- " MARA लघुपूर्वमीमांसाऽधिकरणकौमुदी- o- २३ त्या परमेष्ठिदेवतावरोधे देवतान्तरं निराकासमिति । तथाच भास्वन्तमित्यत्र पारमेष्ठयकाम इत्यस्य यजते इत्यस्य चानुष- डाकर्मान्तरविधिः । तत्कामो भास्वन्तं सूर्य यजते इत्यत्र सूत्रम्- "वाक्यभेदापत्तर्विशेषणत्वम्" इति । तथा च भास्वन्त- मिति परमेष्ठिविशेषणम्, न तु रूपपरं, वाक्यभेदभिया रूढ्यर्थोऽपि त्यज्यत इति । एवमनुषङ्ग एकत्र समभिव्याहृतस्य पदस्य वाक्या- न्तरे समभिव्याहारः । तत्कल्पनञ्च तात्पर्यकल्पनाधीनम् । तत्र च मानाभावः । यत्र तु तत्पमाणमस्ति तत्रानुषङ्गाधिकरणन्यायो न प्रवर्तते इति बोध्यम् । ३३ अथ देवतासाहित्याधिकरणम्- "अग्नीषोमीयं पशुमालभेत" इत्यत्र "द्वन्द्वात्परो यः श्रूयते स प्रखेकमभिसम्बध्यते" इति न्यायाच्छप्रत्ययबोध्यदेवतात्वस्य प्रत्येकमन्वयेन प्रयेकं देवतात्वं युक्तम् । अत एव 'मनोतास्यमे मारिरिषस्त्वन्तवे जुषस्व सर्वरीरं नियुक्ष्व वाह" इति मन्त्रेण केवलाग्निप्रकाशकेन होमः सङ्गच्छते । सोमस्य होमस्तु परिभाषिके- ण प्रणवादिचतुर्यन्तनाम्नेत्यत्र पूर्वपक्षे सूत्रम्-"विकल्पाप- च्या अष्टदोषग्रासात्" इति । साहिसानवच्छिन्नयोः केव- लाग्नीषोमयोधर्मिणोस्तात्पर्यविषयत्वे विकल्पापत्तेः । एकदेवता- वरुद्धे यागे देवतान्तरविधानस्य साकाङ्कवाय विकल्प: स्यात् । तथा चाष्टदोषग्रासः । ते च वक्ष्यन्ते । अत एव 'यदग्नये च प्रजापतये च सायं जुहोति, य- सूर्याय च प्रजापतये च प्रातः' इसत्र प्रत्येक श्रुनावपि सा- हित्येन देवतात्वमुक्तम् । नच यागे चतुर्थ्यन्तपदप्रयोगे समाहारः प्रयोज्य इतरेतरो वेति वाच्यम् । समाहारे साहित्यस्य विशे- व्यत्वाद, तस्य च देवतात्वाभावात् । इतरेतरे तु पदार्था एव २४ लघुपूर्वमीमांसाधिकरणकौमुदी- विशेष्या इति स एव आदरणीयः । तेनाग्निप्रजापतिभ्यां स्वा. हेति वाच्यम् । “इन्द्रात्पर" इति न्यायस्तु यत्र साहिसान्वयो योग्यस्तत्परः । यथा शस्त्राशस्त्रहतानामित्यादौ । 'इन्द्राग्निलो. कमाप्नोति तत्तीर्थे स्नानमात्रतः' इसादौ चेन्द्राग्न्योरेकलोकाभा. वादिति । तथाच मनोहामन्त्रे अन्न इति पदस्य सोमसाहित्ये ल. क्षणा । नच लक्षणा स्वार्थहानि-परार्थकल्पना-दोषद्वयदुष्टेति वाच्यम् । अनन्यगतिकत्वात् । अथ विकल्प:-स द्विविधः । ऐच्छिको व्यव- स्थितश्च । आयो यथा-"व्रीहिभिर्यजेत" “यवैर्वा यजेत" इत्यनेन यागे हेतुत्वमुभयोर्बोध्यते । तत्र चैकसाधनावरुद्ध सा- धनान्तरविधेनिराकाङ्क्षतापत्त्या विकल्पार्थ वाशब्दः यवर्वे- ति । वाशब्दार्थश्चान्यतरव्यवच्छेदेनान्यतरान्वयः । तेन ब्रीहौ पवाभावः । सहकारियवे व्रीह्यभाव इति । नच व्रीह्यभाचे यव इति यवस्य पश्चादुपदेशात् प्राप्यते, यवाभावे व्रीहिरिति कुत इति वाच्यम् । व्रीहिजन्यपुरोडाशे यवस्य सहकारित्रे व्रीह्यभावे यव इसेव न स्यात् । नच समुच्चय एव कथं न कल्प्यते इति वा- च्यम् । तर्हि एकस्य यजतिपदस्य वैयापत्तेः । तथाच यजेतेति पदेन प्राधान्येनैवोभयस्य हेतुत्वं बोध्यते । तच्च विकल्पं वि- ना ऽनुपपन्नमिति । तेन यवजन्यपुरोडाशे व्रीह्यभावः कारणम- वच्छेदको वा । नच यत्रोभयमस्ति तत्र को ग्राह्य इति वा- च्यम् । तत्र यागाभाव एनान्यतराभावविशिष्टस्याऽन्यतरस्याभा- वात् इति पूर्वपक्षे सूत्रम् - "इच्छातो नियम" इति । तेन तुल्यबलयोर्विकल्प ऐछिकः । तथा च यत्र व्रीहिमात्रमस्ति पुरुष- स्य तु न तत्रेच्छा, तत्र यागनिवृत्तिरेव । एवं यवेऽपि । ऐच्छिकविकल्पे ऽष्टौ दोषा यथा-वार्थस्य व्रीहेस्त्यागः, प- : लघुपूर्वमीमांसाऽधिकरणकौमुदी २५ रार्थस्य व्रीह्यभावस्य कल्पनं, व्रीहिभिरिति तृतीयार्थस्य साधन- स्वस्य प्रकृत्यर्थे ऽनन्वयः, अन्वयश्चामकृत्यर्थे वीह्यभावे इति व्रीहिपक्षे चत्वारो दोषाः । एवं यवपक्षेऽपीयष्टौ दोषाः । "स्वार्थत्यागो ऽन्यार्थक्लप्तिः प्रकृत्यर्थेऽप्यनन्वयः । अन्वयश्वामकृयर्थे द्वयोरित्यष्टदोषकाः" इति । अत्र वदन्ति। ब्रह्मभावस्य जनकत्वे जनकीभूताभावप्रतियो- गित्वेन वीः प्रतिबन्धकत्वापत्तिः(१)। नच यवजन्ययागे तदस्त्ये- वेति वाच्यम् । नहि “यवैर्यजेत" इत्यनेन पृथग्यागविधिः, वाक्य- भेदापत्तेः । किन्तु प्राप्तपुरोडाशकरणकयागे व्रीहियवयोः सा- धनत्वविधिः । तथाच यवयजन्ये यागे व्रीहेः फलोपधा- नाभावेऽपि जननयोग्यताऽस्त्येवेति तस्य प्रतिबन्धकत्वं विरु- मेव । तयोर्जनकत्वञ्च तृणारणिमणिन्यायेनेति । अत एव 'सपिण्डीकरणादृवं सांवत्सरिकमाचरेत् । इत्यनेन प्राप्ते सांवत्सरिके श्राद्धे मृताहविधानम् । तदसम्भवे तत्रैव कृष्णैकादश्यां विधानं, नवेकादशीनिमित्तकश्राद्धान्तरं विधीयते । तथा सति तस्य श्राद्धस्य सपिण्डीकरणोत्तरत्वेन मृताहानिमि- तकत्वेन च त्रैपुरुषिकत्वापत्तरिति। नचैवमपि तस्य मृताहानिमि- त्तकत्वमेवेति वाच्यम् । एकोदिष्टं मृताहानि' इत्यस्य मृता. हनिमित्तकत्वयोग्यताया आर्थत्वात् । योग्यता च ताशवि- धिविषयत्वमिति । अत्राहुः-बाह्यभावस्याङ्गत्वं न श्रुतं, किन्तु कल्प्यम् । तथा चावच्छेदकत्वेनोपपत्तौ न तस्य कारणत्वं कल्प्यते । तेन ब्राह्यभा- वावच्छिन्नत्वेन यवस्य हेतुतेति । अमावस्यावच्छेदकत्वकल्प- (१) तद्वत्ताबुद्धिं प्रति तदभाववत्ताबुद्धेरिव तुल्यवित्तिवेद्यन्या- यात्तभाववत्ताबुद्धि प्रति तद्वत्ताबुद्धेः प्रतिबन्धकत्वमिति भावः ।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- नमेवैको दोषो बोध्यः । केचित्तु व्रीहेर्मुख्यत्वं यवस्यानुक ल्पत्वमुभयोपस्थितौ मुख्यत्वाद् ब्रीहिरेव ग्राह्य इति वदन्ति । तन्मते- 'वैशाखे पौर्णमास्यां तु नरो भक्तिसमन्वितः । शम्भुं हरिं वा सम्पूज्य स्वर्गलोके वसेचिरम् ॥ इसैच्छिकविकल्पोदाहरणं बोध्यम् । व्यवस्थितविकल्पो द्विविधः । मुख्यकल्पानुकल्पभे- देन शास्ताशस्तभेदेन च । आयो यथा-'कुशैः काशैर्भवे- च्छाद्धम्' इसत्र काशे कुशाभावः सहकारी, नतु कुशे का. साभावः । सखपि काशे कुशस्यैव ग्रहणान्मुख्यत्वात् । तेनाव षद् दोषाः । कुशपक्षे स्वार्थहानिः परार्थकल्पना कुशजनक. त्वबाधः अमावस्यावच्छेदकत्वम् । काशपक्षे स्वार्थहानिः स्वार्थस्य जनकत्वाभावश्चेति । शस्ताशस्तभेदश्च कचिच्छत्स्यपेक्षा कचिदैच्छिक इति यथायथं दोषा बोध्या इति । शास्तत्वमधिकफ- लजनकत्वमिति । ३४ अथ यावज्जीवाधिकरणम् । "सन्ध्यामुपासते ये तु" इत्याद्यर्थवादोपस्थितफलकाम- नाया अधिकारत्वबोधात् । अन्यथा ऽर्थवादवैयात् । तथा च फलकामनाविरहे ऽधिकाराभावात्तदकरणे प्रत्यवायो न स्यात् । अशौचकालबदिसत्र पूर्वपक्षे सूत्रम्-"यावज्जीवश्रुतिविरोधा- स्"अ०२पा०४सू०२इति(१)"यावज्जीवमहरहः सन्ध्यामुपासीत" इति विधिना"शुचिः कुर्यात्"इत्यनेनैकवाक्यतया (२)शौचकाली- नजीवनस्य सन्ध्यावन्दनव्याप्तिर्बोधितेति तदाधापत्या न फलकामना (१) 'कर्तुर्वा श्रुतिसंयोगात्' इति पाठः । (२) 'शुचिक्षकालजीवी कर्माधिकारी' इति सूत्रम् ।
लघुपूर्वमीमांसाधिकरणकौमुदी- तत्राधिकारः। अर्थवादस्तु विध्यपेक्षया दुर्बलः स्तुतिरूप: कर्तु। प्रोत्साहार्थम् । तथाचोक्तम्-'प्ररोचना चाङ्गतयोपयुज्यते' इति । ३५ अथ जातेष्टयधिकरणम् । अश्वयुक्कृष्णपक्षश्रादादौ पक्षव्यापकश्राद्धस्य प्रशस्तत्वम् । तच्चाधिकफलबत्त्वम् । तेन फलजनकत्वं तस्य सिद्धम् । तथाच फलकामनाया अधिकारत्वे काम्यत्वानियत्वहानिः स्यादित्यत्र भाष्यम्-'जातोष्टिवत्सम्वलिताधिकारात्'इति । यथा-जा- सष्टेरकरणे प्रत्यवायो 'बालहा भवेत्' इतिश्रुतेः । करणे पुत्रपूतत्वं फलम् । तथाच पुत्रोत्पादकस्य सत्संस्कारकामना नियता भवसवेति जीवित्वसहिता फलकामना जातेष्टावधिकारः । तथा पक्षश्राद्धमत्तस्य फलकामना नियताऽस्येव । अन्यथा प्रत्यवायपरिहारमात्रस्य चरमकल्पाल्लघूपायादेव सिद्धेः तन्मात्रार्थ बहुवित्तव्ययाऽऽयाससाध्ये पक्षश्रादे प्रतिर्न स्यादिति । तत्प- वृत्तस्याधिकोद्देश्यताऽस्त्येव । तथाच जीवित्वसहिता फलकामना तत्राधिकार इति काम्यत्वेऽपि नायश्पकरणवहानिः । ३६ अथ काम्यस्य नित्यापेक्षया विलम्बिताधिकार:- "कार्तिक्यामायुष्कामः प्रातघृतं दद्यात्" इति श्रुया प्रा. तर्दानं विहितम् । अग्निहोत्रमपि तत्काले कर्तव्यम् । तथा च किमादौ कर्तव्यमिति तत्र सिद्धान्त:-काम्यं हि कामनापेक्षं, सा चेष्टसाधनत्वज्ञानसापेक्षेति विलम्बिताधिकारम्(१)। "यावज्जी. वमग्निहोत्रं जुहोति" इति श्रुसा कृताग्निग्रहणस्याग्निहोत्रं जीवनमात्रापेक्षमिति निसं झटित्यधिकारम् । अतो ऽग्निहो- त्रमादौ कार्यम् । नन्वेवमुपरागे श्राद्धापूर्वं दानं न स्यात् । (१) विलम्बितो ऽधिकारो यस्मिस्तदिति बहुव्रीहिः । एवं झटित्याधिकारमित्यत्रापि बोध्यम् ।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- a - काम्यत्वेन तत्र विलम्बिताधिकारात् । श्राद्धस्य नित्यत्वेन झटित्यधिकारात् । तत्काले ऽधिकृताकरणेन प्रत्यवायप्रस- ङ्गात् । श्राद्धानन्तरञ्च दाननिषेधात्तदुत्तरमाप न स्यादिति दानस्य बाध एव स्यात् । नच दानविधिबलाद्भविष्यति दान- विधेः श्राद्धानधिकारिजीवपितृकादिपरत्वेनोपपत्तेः । उच्यते- 'स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने' इति वचने, तथा- 'स्नाने दाने तथा जप्ये होमे श्राद्ध सुरार्चने । पुण्यः स कालो भविता नित्यमेव सुरेश्वर' । इति वचने च स्नानानन्तरं दानस्य पाठात् श्राद्धाव पूर्वं पा- गच्च दानमेवाऽऽदौ । तदानीं श्राद्धाकरणेन जातस्य प्रत्यवायस्य पश्चात् श्राद्धकरणेन नाशात् । यथा शरदि नवश्राद्धाऽनाच. रणजन्यप्रसवायस्य गौणकाले वृश्चिके करणेन नाश इति । अत्रेदं बोध्यम्-यदि स्वल्प उपरागे कालः तदा श्रा- मेव कर्तव्यं नियबाधेन काम्यस्यान्याय्यत्वात् । यदि स्ना- नतर्पणाभ्यामेव कालो गच्छति तदा कालाभावात् श्राद्धं नास्त्येव । ३७ अथ तदन्तापकर्षन्याय:- "अनुदिते जुहोति" इत्यनेनारुणोदये होमस्य कर्तव्यता विहिता । स्नानकालोऽपि स एव । तथा च निरवकाशत्वा- द्धोम एव कर्तव्यस्तदानीं न स्नान, तत्पूर्वञ्च न स्नानं रात्रि- त्वात् । तेन स्नानं विनैव होमः । तेन 'स्नातो अधिकारी भवति इत्यत्र (१)सङ्कोच इति पूर्वपक्षे मूत्रम्-"तदन्तापकर्षादुपप- त्तेः" इति । रात्रावलक्ष्मीः कालकी । दुःस्वप्नेन्द्रियश्रवणादिना (१) अनुदितहोमकतिरिक्ततयेति भावः ।
२९ लघुपूर्वमीमांसाऽधिकरणकौमुदी- अशौचं जातम् । नहि सति अशौचे होमः। अतः स्नानं तत्पूर्व कर्तव्यं सन्ध्यावन्दनञ्च पूर्व सन्ध्यावन्दनहीनस्य कर्मानहत्व- बोधनात् । सूत्रार्थस्तु तदन्तवादपकर्षः-तस्य पूर्वकर्तव्यतेति । तथा च स्नानानन्तरकर्तव्यत्वात्स्नानस्यापकर्षः। विहितकालं विनाऽपि पूर्वाचरणमिति । तेनारुणोदयस्नानविधिरनुदितहो- मीतरपरः। ३८ अथ तदाद्युत्कर्षन्यायः- उत्कर्षः स्वकालं विहायोत्तरकालकर्तव्यता । तथा च यत्कर्म तदादिभूतं तत्स्वकाले ऽकृत्वा तदुत्तरकाले कर्तव्यम् । यथा सपिण्डनं स्वकाले ऽपराहे कृत्वा तदिवसीयं सांवत्सरिकं मध्याहाभावेऽपि कर्तव्यं सपिण्डनस्य तदादित्वात् । नच तदन्तापकर्षन्यायात्सपिण्डनं पूर्वाह्ने कृत्वा सांवत्सरिकं मध्याह्ने क्रियतामेकस्य कालयागे विनिगमनाभावादिति वाच्यम् । स. पिण्डनस्य भावरूपपितृत्वप्राप्तिफलकत्वात् । भावात्मकफलं तु मुख्यकालेनैव भवतीति । सांवत्सरिकस्य प्रत्यवायपरिहारमात्रा- र्थकत्वेन गौणकालेऽपि सम्भवात् । अत्र केचित्- 'तेनैव च सपिण्डत्वं तेनैवाब्दिकमिष्यते' इतिवचनात् सपिण्डनात्पृथक् न सांवत्सरिकं कर्तव्यमिति वदन्ति । तन्न- 'असंक्रान्तेऽपि कर्तव्यमादिकं प्रथमं द्विजैः। तथैव मासिकं पूर्व सपिण्डीकरणं तथा ॥ इसस्य निर्विषयत्वापत्तेः । तेनैव च सपिण्डत्वमिति वचन- स्यानाकरत्वात् । साकरत्वेऽपि एकादश्यादिक्रियमाणपतितस. पिण्डनपरमिति । - लघुपूर्वमीमांसाधिकरणकौमुदी- BRINEERIES ३९ अथ संयोगपृथक्त्वन्याय: "खादिरे पशु बधाति" खादिरं वीर्यकामस्य यूपं करोति" इति श्रुतिभ्यां खादिरस्य नित्याङ्गत्वम् , काम्याङ्गत्वञ्च बोधितम्। काम्यञ्च कामनासापेक्षत्वादनियतम् । तथाच सति अनिससंयो- गविरोधः । संयोगः सम्बन्धः प्रकृते तादात्म्यमिति यावत् । नच खादिरः काम्य एव । तथा काम्यत्वेन प्राप्ते खादिरे पशुब- न्धनाश्रयत्वमात्रं "खादिरे पशुं बध्नाति" इत्यनेन विधीयते । तेन यत्र कामनाविरहायूपाभावस्तत्र पशुबन्धनाभाव एवेति वाच्य- म् । खादिरे इत्यस्य सप्तम्यन्तस्य चयापत्तेः । सान्निध्या- देवाश्रयलाभात् । यस्यानियताङ्गत्वं तत्र नित्याङ्गत्वं नास्त्येव । यथा "चमसेनाऽपः प्रणयेत्, गोदोहेन पशुकामस्य" इति । चमसो-यत्काष्ठनिर्मित प्रणीतार्थ पात्रं सः। गौदुह्यते ऽत्रेति गोदोहो दोहनपात्रम् । गोदोहेनाऽपा प्रणयनं कामनासत्त्वे एवोति तस्यानियताङ्गतेति । तथा च खादिरे नियतत्वमनियत. त्वञ्च विरुद्धमित्यत्र सूत्रम्- "एकस्योभयत्वे संयोगपृ. थक्त्वम्" इति । एकस्याङ्गस्योभयत्वे नित्यत्वकाम्यत्वोभयत्वे संयोगयोः प्रयोजकधर्मसम्बन्धयोः पृथक्त्वं द्वित्वं प्रयोजकमिति नियताङ्गत्वप्रयोजकं यागं प्रति नियतपूर्वसत्त्वं, काम्याङ्गत्वप्रयो- जकं यागं प्रति नियतपूर्वासत्त्वं यस्याङ्गत्वपयोजिका कामना । एतदुभयसम्बन्धयोः पृथक्त्वमस्येव । खादिर इति । अयम्भाव:- यूपे पशुं निवध्याथ प्रोक्षयेदालभेत् । तत्र परिभाषया यूपे पशुनिबन्धनमावश्यकम् । ततः खादिरयूपस्य नियतत्वमेव । तत्रैव यूप काम्यत्वं बोषितम् । अपिना नियतत्वं कर्तुं समर्थम् । अतो ऽत्र न निसत्वकाम्यत्वयोर्विरोधः । तेन यस्य न कामना तेनापि खादिरः कर्तव्य एवेति । माधवीये तु "खादिरे पशुं बध्नाति" लघुपूर्वमीमांसाऽधिकरणकौमुदी ३१ इसत्र "खादिरो वै यूपो भवति" इति पाठो लिखितः । गोदो- हे तु कामनासम्बन्धमात्रम् । अयञ्च न्यायो ऽङ्गविषयो जाते- ष्टिन्यायस्तु प्रधानविषयः । ४० अथ व्यक्तिवचनन्यायः "आग्नेय्या जुहोति" इति श्रूयते । आग्नयी अग्निप्रका- शिका ऋक् । तस्याश्च स्थाने स्थाने नानाविधायाः श्रुतत्वाव सर्वा एव ग्राह्या इति केचित, तन्न प्रच्छन्नवेदवर्तितादृश- ऋक्शङ्कया ऽप्रवृत्तेः । तथा च यस्यामृचि इच्छा तयैव जुहुया- दिसत्र सिद्धान्तसूत्रम्-"व्यक्तिवचनानां सन्निहितवि- शेषपरत्वात्" इति । व्यक्तिमात्रवाचकपदानां सन्निहितत- रसन्निहिततमसन्निहितपरत्वात् । व्यक्तिवाचकास्तु योगार्थमा- त्रपुरस्कारेण प्रवृत्ताः पाचकादिशब्दाः । पाचकशब्दः पा- ककर्ममात्रे प्रयुज्यते । पाचकमात्रवृत्तिधर्मश्च न पाककति न सत्र प्रयोगः । एवञ्चाग्नेयीपदमपि व्यक्तिमात्रवाचकम् । अग्निर्देवता अस्या इति योगार्थत्वात् । तथाच सन्निहितैव ऋक् ग्राह्येति । मीमांमकमते रूढं घटादिपदं जातिवाचकम् । योगार्थ- प्रवृत्तम्पदं व्यक्तिमात्रवाचकं तत्र समुदायशत्यभावादिति। तेन गां दद्यादिसत्र यत्रेच्छा तां गां दद्यात् । तत्र नायं न्यायः व्यक्तिवाचकवाभावादिति । ४१ अथ पणपुराणन्यायः- "पुराणं षोडश पणा” इत्यत्र षोडशपणघटितं पुराणं श्रुतं तत्र च षोडशत्वं चरमव्यक्तः । तथाचान्येषां पणानां कथं तटकत्वमिति चेन्न, प्रत्येकापेक्षया सर्वेषां षोडशवात् । ४२ अथ दण्डापूपन्यायः- पिष्टकेषु पाकाथै स्थाल्यामधिश्रितेषु एकस्मिन् पक्षे तदुद्ध- D ३२ लघुपूर्वमीमांसाऽधिकरणकौमुदी- - रणं सूच्यग्रेण दण्डेन क्रियते । अत्र च अपूपस्योद्धरणे दण्डस्यो- दरणं भवतीति । ४३ अथ द्यूतपणन्याय:- द्यूते प्रथमक्रीडायां यः पणः कृतः ततो द्विगुणः पणो द्वितीयवारक्रीडायां पराजयिना दुःखास्क्रियते । एवं तृतीयवार दारपितृगुणादि । अत एव जिकनभट्टेन प्रथमप्राजापत्यानन्तरं द्वितीयादिमाजापत्ये दुःखाधिक्यादेकधनुनांचिता किन्तु धेनुर- यादीत्युच्यते। ४४ अथ कपिञ्जलाधिकरणम् - "कपिजलानालभेत" इति श्रुत्या कपिअलगतं बहुत्वं बो- धितम् । तच्च विवक्षितं विधेयगतसंख्यात्वात् । कपिञ्जलस्या- न्यतो ऽप्राप्तत्वाद्विधेयत्वम् । बहुत्वञ्च त्रित्वमारभ्य परार्द्धपर्यन्त- मित्यनध्यवसायेनाप्रवृत्त्या तद्वेदाप्रामाण्यापत्तिरिसत्र सूत्रम्-"प्र. थमोपस्थितेस्तन्त्रत्वात्"अ०११पा०१सू०४३ इति(१)। त्रि. वोत्पत्त्यनन्तरं त्रित्वसहितकत्वेन चतुष्वं जन्यते इति मते त्रित्वस्य प्रथमोपस्थितत्वातदेव बोध्यते । यस्य मते ऽपेक्षाबुद्धिविशेषसहकृ. तेनैकत्वत्रयेण त्रिलं जन्यते इति, तन्मते चतुष्ट्वोत्पत्तिकाले त्रित्वस्यानुपस्थितत्वान्न पूर्वव्याख्या समीचीना । किन्तु प्रथमोप- स्थितिशब्देन लाघवमुक्तम् । तथाच व्यक्तिलाघवाद त्रित्वमेव बहुत्वमिति । कपिलो जलचरः पक्षिविशेषः । ४५ अथ तक्षसूत्राधिकरणम्- "पर्यश्रीयतक्षसूत्रे च्छिन्ने आयुषी मिष्टिं निर्वपति" "आश्वि- न्यां जुहोति" इति श्रुतिः । पर्यङ्कपरिमाणज्ञापनार्थं तक्ष्णा (१) "प्रथमं वा नियम्यते कारणादतिक्रमः स्यात्” इति पाठः।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- यत्सूत्रं पर्यङ्कार्थककाष्ठे ऽर्पितं तस्य दैवाच्छेदे इयर्थः । अत्र च इष्टेः प्रधानत्वकल्पने फलकल्पनाऽधिकारकल्पनयोगौरवापत्त्या (१)पर्यङ्कस्यैवाङ्गित्वं करप्यते इति पूर्वपक्षे सूत्रम्-"अलौकि- कस्य लौकिकाङ्गत्वायोगात्" इति । अयम्भावः-अङ्गस्य प्रधानविधिसापेक्षत्वं नियतम् । पर्यङ्के च प्रधाने विध्यभावा- दिष्टेनं तदङ्गत्वं किन्तु सूत्रच्छेदनिमितकं तत्स्मृचितामङ्गलनाशाय कर्मान्तरमेवेति । ४६ अथ आरम्भणीयन्यायः- "आग्नावैष्णवमेकादशकपालं निर्वपेत् दर्शपूर्णमासावा. रिप्समानः” इति श्रुताचारम्भणीयेष्टेर्दापूर्वकाले कर्तव्यता बोधिता । तथा तस्या दर्शाङ्गत्वमेव कल्प्यते कर्मभेदे गौरवादिय- त्र सिद्धान्त:-"तस्या अतः सफलत्वात्" इति(२)। यथा "आग्नावैष्णवमारम्भणीयाख्यं जुहोति बमुकामः" इति श्रुत्पा सफलत्ववोधनात्, तदेकवाक्यतया चैकमेव कर्मेति । तथा चा. रिप्तमान इत्यनेन दर्शारम्भकालकर्तव्यत्वमा बोधितं नत्व ङ्गत्वमिति । ४७ अथाङ्गस्य प्रधानकालान्वयाऽनन्वयौ- शिखाबन्धनस्याङ्गत्वं "विशिखो व्युपबीतश्च यत्कराते न तत्कृतम्"इत्यनेन श्रूयते । कर्मभेदे Sङ्गानां भेदादनस्य प्रधानका- लान्वयनियमात् प्रतिकर्म पृथक् पृथक् शिस्खाबन्धनं कर्तव्यमि- (१) पर्यथेष्टेरेवेत्यर्थः। (२) "सकृद्धा ऽऽरम्भसंयोगादेकः पुनरारम्भो यावजीवप्रयो- गात्" (अ०९ पा० १ अधि० ११ सू० ३५) इति सूत्रं भाष्यादि- पुस्तकेषु दृश्यते ।
- - लघुपूर्वमीमांसाऽधिकरणकौमुदी- त्यत्र सिद्धान्तः-साधारणे ऽङ्गे प्रधानकालान्वयानियमात किन्तु असाधारणे प्रधानप्रयोगान्तर्गनेऽङ्गे प्रधानदेशकालान्वय. नियमः । श्राद्धादिपूर्वदिनकर्तव्यनिमन्त्रणादिवारणाय प्रधान- प्रयोगान्तर्गते इति । ४८ अथ समं स्यादश्रुतित्वादिति न्यायः- "अश्वं प्रस्तोतृप्रतिहर्तृभ्याम्" इति यागविशेषे एकाश्वद- क्षिणोभयोः श्रूयते । अत्र कीदृशो भाग इयत्र सिद्धान्त:-"समं स्थादश्रुतित्वात्" (अ० १० पा० ३ अधि० १३ सू० ५३) इति । समभागकल्पनमित्यर्थः(१)। ४९ अथानेकार्थत्वाकल्पना- "आदित्यो वै यूपो भवति" इति । अत्राऽऽदित्यपदेन आदित्यवर्ण उच्यते । आदित्यस्य यूपत्वासम्भवात् । तथा च आदित्यपदस्य आदित्यवर्णे शक्तिरेवाऽऽदित्यपदप्रयोगादित्यत्र सूत्रम्-"अन्यायश्चानेकार्थत्वम्" इति । लक्षणयाऽप्युपपत्तौ न शक्तिः कल्प्यते । शक्तिकल्पने नानार्थता स्यात् सा चायुक्ता। अत्र च बोधकाभावे सतीति बोध्यम् । तेन हरिपदादौ न दोषः । तत्र शक्तिग्राहकमानस्य कोशस्य बोधकत्वादिति । ५० अथ प्रक्रमाधिकरणम्- "मनसा सङ्कल्पयति, वाचा ऽभिलपति, कर्मणा चोपपाद- (१) वस्तुतस्तु इदं सूत्रं पूर्वपक्षसाधकम् । “अतुल्याः स्युः परिक्रये विषमाख्या विधिश्रुतौ परिक्रयान्न कर्मण्युपपद्यते दर्शना- विशेषस्य तथाऽभ्युदये” इति सूत्रेण-दीक्षावाक्ये प्रतिहतुस्तृती- यित्वसमाख्यानात् प्रस्तोतुश्चार्द्धित्वश्रुतेः समाख्याश्रुतिबलाद्वि. षमैव दक्षिणेति सिद्धान्तितम् । उभयसमुदायस्याचेनत्वेन स- म्प्रदानत्वासम्भवादक्षिणा विभज्यैव दातव्येति च भाष्यादितो ऽवगन्तव्यम्।
- - लघुपूर्वमीमांसाधिकरणकौमुदी ३५ यति, प्रक्रमे च सकुशतिलं सलिलं त्यजति" इति श्रुत्या प्रक्रमे कर्मारम्भसमये कुशतिलसहितजलत्यागो विहितः । आरम्भश्च मनसा सङ्कल्पयतीत्यनेन बोधिता कर्मेच्छैव । तथा च कर्मक- रणेच्छाकाल एव सलिलत्याग इत्यत्र सिद्धान्त:-"तस्याः प्रक्रमत्वासम्भवात्' इति । इच्छायाः पूर्वमासपूर्वदिनादावपि सम्भवात्तस्या न प्रक्रमत्वं किन्त्व मिलापस्य । तथा चाभिला- पनिष्पत्तौ सकुशतिलजलत्यागः कार्य इति । ५१ अथ पृथग्विधौ गुणविधानासम्भव:- "खगै नयति चात्मानं तथा पितृगणानपि । कल्पे यः स्नाति तपसि यत्किञ्चित्सलिलाशये"॥ इति श्रूयते । कल्पे-उपसि । तपसि-माघे । अत्र च न कर्मा- न्तरविधिः, किन्तु प्राप्तनित्यस्नाने माघाख्यगुणविधिरित तेन पृथक् न सङ्कल्प इसत्र सिद्धान्त:-"पृथग्विधाने गुणविधा- नायोगात्" इति । पृथग्विधानं प्रकरणान्तरे विधानम् । नित्यस्ना- नप्रकरणे माघस्नानाविधानात्कर्मान्तरमेवेति । ५२ अथ सर्वशत्यधिकरणम्- ननु नित्यस्य यथा किञ्चिदङ्गहान्याऽपि सिद्धिस्तथा काम्य. स्यापि स्यात् विहितत्वाविशषादित्यत्र सिद्धान्तसूत्रम्-"का. म्ये सर्वशक्तिमानधिकारी" इति । अयमर्थ:- काम्या. पूर्व प्रति तत्तदङ्गानां हेतुत्वेनैकस्याप्यभावे काम्यापूर्वानिष्प- त्तेः। नित्ये तु काम्यापूर्व नास्ति, किन्तु नित्यानाचरणस्य प्र- त्यवायहेतुत्वम् । तथा च शक्ययावदङ्गसहितप्रधानानाचरणस्य प्रत्यवायहेतुत्वं कल्प्यते निसे प्रतिनिध्युपदेशात् । अशक्ता- वनोत्सर्गमात्रेण श्रादनिर्वाहविधानाच शक्येति विशेषणम् ।
- ३६ लघुपूर्वमीमांसाऽधिकरणकौमुदी- एतच्च बोधाभावे सतीति बोध्यम् । “यदि सोमं न विन्दे- व, सदा पूतीकानभिषुणुयात्" इति बोधकम् । तथा च सो- मप्राप्त्या सङ्कल्पेन कर्मारम्भे सति यदि सोमापचारस्तदा पूती- को ग्राह्यः । आरब्धसमापनस्याऽऽवश्यकत्वात् । नतु प्रथममेव सोमालाभे पूतीकानादाय सङ्कल्प इति । ५३ अथ तिर्यगधिकरणम्- यथा जौमिनिमूत्रम्-"तिर्यपङ्गुत्र्याःयदेवानां कर्मसु नाधिकारः" इति(१) । तिरश्वां विशिष्टज्ञानाभावात्, पङ्गोः प्र- चरणशत्त्यभावेन 'उत्थाय पूर्णी जुहोति' इति कर्मणो बाधात, ध्यायेति-त्रय आर्षेया ऋषिधर्मा येषां से ज्याईया अन्धमूक- बधिराः । यथा-कश्चिहीषः परद्रव्यादिवीक्षणे रागोत्पत्तिसम्भ- वेन नयने निमील्य तिष्ठति न किञ्चित्पश्यति । एवं कश्चिदृ- षिः परद्रोहमिथ्यावचनसम्भवेन यत्किञ्चिन्न वक्ति, मौनी तिष्ठ- ति । तथा कश्चिदृषिः परनिन्दाश्रवणजन्यदोषपरिहाराय बनान्त गत्वा तिष्ठति, किञ्चिन्न शृणोतीति । तथाचान्धस्य वीक्षणा. भावात् 'यजमानवीक्षितं हनिर्जुहोति" इत्यादिवाधाद, मूकस्य मन्त्रोचारणासामर्यात, बधिरस्य श्रोत्राभावेन: लौकिकवैदिकव्य- वहाराभावात, देवानान्तु मन्त्रमयत्वेनाचेतनत्वात् । अत एव देवग्रामो हस्तिग्राम इसादयो गौणप्रयोगाः । अत्र वदन्ति-सिरश्वां विशिष्टज्ञानाभावात् , देवा- नां विग्रहशून्यत्वेनाचेतनत्वात्मसक्तिरेव नास्ति कथमधि- (१) "कर्तुर्वा श्रुतिसंयोगाद्विधिः कान्थेन गम्यते" ( अ० ६ पा० १ अधि०२ सू० ५) इति पाठो ऽन्यपुस्तकेषु ।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- ३७ कारनिषेधः । अन्यथा (१)घटादीनामाप निषेधो बोध्येत । तत्रा- हु:-येषां तिरश्चां विशिष्टज्ञानमस्ति वालिमुग्रीवादीनां, तेषामनधि- कारबोधनात् । देवानां तु विग्रहसत्त्वेन चैतन्यमस्त्येव "इन्द्रः सहस्राक्षः" इति श्रुतेः । किन्तु तेषामेकदा नानायागसान्नि- ध्यासम्भवेन यागीयदेवतावासम्भवात् मन्त्रस्य देवतात्वमुच्यते । तथा च देवानां यागोद्देश्यत्वयागकर्तृत्वविरोधान्न कर्मण्यधिकारः। वस्तुतस्तु तिरश्चां वर्णाश्रमाभावादेवानधिकारः प्राप्त एव । देवानान्तु मध्ये यो यष्टा स स्वं विहायान्येषां करणे ऽवि- रोधात, यथा कृष्णले ऽवघातबाधः । तथा स्वोद्देश्यकयागबाधेऽपि न कर्मवैगुण्यमिति । यत्र चान्यपात्रदेवतायागस्तत्र स्वाच्छन्थे- नाधिकारः । एवं दानेऽपि । अत एवेन्द्रादीनां महाभारतादौ यागश्रुतिरप्पुपपन्नेति । ५४ अथ पश्वधिकरणम्- "पशुना रुद्रान यजेत" इति श्रूयते। अत्र बहुरुद्रोद्देश्यक- एकपशुरनुचितो ऽतो रुद्रसमसंख्याः पशवो ग्राह्या इतिपूर्वपक्षे जैमिनिसूत्रम्-"असति बाधे वैभक्तिकसंख्याया अत्या- गात्" इति(२) । पशोधेियतया तद्गतसंख्या विवक्षिता । रु- द्रानिति बहुवचनेन साहियेन देवतात्ववोधनाच्च प्रोक्षणे नानु- पपत्तिः । रुद्रेभ्यः मोक्षयामीति सकृदेव मोक्षणादिति । ५५ अथ सहसाहित्यविवेकः- तुल्यक्रियाणां (रूपाणां) परस्परसापेक्षाणामेकक्रियाहत्वं (१) घटस्थजलप्रतिमादीनामिति यावत् । (२) एतदधिकरणसिद्धान्तसूत्रं-"शब्दवत्तूपलभ्यते, तदागमे हि तद् दृश्यते तस्य शानं हि यथा अन्येषाम्” (अ०४ पा०१ अधि० ५ सू० १५) भाष्यादिपुस्तकेषु ।
लघुपूर्वमीमांसाधिकरणकौमुदी- साहित्यम् । (१)अनेवम्भूते सहत्त्वमिति । तूल्यरूपत्वञ्च तरिक्रया- न्वय्येकतरधर्मिविशेषणत्वेनान्यतरस्यानुपस्थितत्वम् । तेन- "दामोदराय नभसि तुलायां लोलया सह । प्रदीपं ते प्रयच्छामि नमो ऽनन्ताय वेधसे" || इत्यत्र सहत्वमेव दामोदरविशेषणत्वेन लोलाया उपस्थितेः। उक्तञ्च तुल्यरूपत्वं 'घटं पटश्च पश्याति' इत्यत्राप्यस्ति एकस्याः क्रियायाः समूहालम्बनात्मिकाया विषयत्वात, साहित्यं तु नास्त्य- त: परस्परसापेक्षाणामिति । तरिक्रयान्वयियावद्धर्मिनिरूप्यध- र्मोपस्थितिविषयाणामित्यर्थः । “अग्नीषोमाभ्यां स्वाहा" इत्यादि- लक्ष्ये द्वित्वादिः साधर्म्यम् । सहस्थले तु लोलायुतदामोदर- त्वम् । तेन धर्मेणोश्योरुपस्थितिविषयत्वञ्च । चैत्रमैत्री स्वग्रामौ गच्छत इति धारणाय एकक्रियेति । तत्र गमनक्रियायाः प्रत्येक समाप्तत्वात् । ननु तथापि द्वन्द्वेन कथं साहित्यबोधः ? वच. नक्रियापेक्षया साहित्याव, क्रियायां शब्दोपात्तत्वविशेषणा- भावादिति । ५६ अथ खलेवालीन्याय:- सोमयागविकृती "खलेवाली यूपो भवति" इति श्रूयते । खलेवाली बलीवर्दबन्धनाय खले निखातस्य मेडिकाष्ठस्य संज्ञा । तथा च यूपधर्मा अष्टाश्रीकरणादयः अत्रापि कार्या इति(२)। (१) अतुल्यरूपाणामित्यर्थः । (२) वस्तुतस्तु खलेवालीस्वरूपभङ्गभिया अष्टाश्रीकरणत- क्षणादियूपोत्पत्तिसाधनसंस्काराणां बाध एव । ये तु खलेवाली. स्वरूपाविरोधिनो यूपसंस्काराः पयूँहणादयस्ते एवात्र कार्या इति । स्पष्टश्चेदं सुबोधिन्यां दशमाध्याये (पा०२ अधि० ३२ सू० ६९) लघुपूर्वमीमांसाऽधिकरणकौमुदी- ५७ अथ प्रतिपत्त्यधिकरणम्- "शकृत्संपविध्यति, लोहितं निरस्यात, गुदेनोपयजति, सर्व जुहोति" इत्यग्नीषोमीयपशौ श्रूयते । शकृत्संपविध्यतीति दृष्टा- न्तार्थम् । यथा पशोरुदरवर्ति शकृत् त्यजति, तथा लोहितमाप त्यजति । अन्यत्र पशौ शीर्षमांसोपक्रमेण होमः । अत्र तु गुदमां- सोपक्रमेणेति । तथा च "यज्ञशेषमृत्विग्भ्यो ददाति" इति परिभाषया मांसस्य उत्तरा प्रतिपत्तिः प्राप्ता । अत्र च सर्वप्रहरणेन प्रतिपत्यभावात्कर्मवैगुण्यं स्यादिसत्र सिद्धान्त:-"यदि का. रानुपपत्तेः” इति । यदि प्रतिपाद्यं स्यात्तदा प्रतिपत्तिरङ्ग- मित्यर्थः। - ५८ अथ आष्टमिकविकृत्यधिकरणम्- दर्शदिवसमपेक्ष्याष्टमदिने क्रियते इसाष्टमिकी विकृतिर्द- यागस्य । यथा श्रुतिः-" अष्टमे हि सौर्य चळं निर्वपेत् ब्रह्मवर्चसकामः" इति अस्य यागस्येष्टित्वेन दर्श- विकृतित्वम् । तथाच दर्शधर्मातिदेशेन षड्विधहोमद्रव्याङ्गकत्वं प्राप्तम् । तथा चात्र सौर्यमियेकवचनश्रुतावपि चरुषट्कं कार्य करणगतषट्वस्यापि प्राप्तत्वात् इति पूर्वपक्षे सिद्धान्तः-"ए. कोद्देश्यकत्वेनाकांक्षितत्वात्" इति । अत्रैकदेवतायाः सू- यस्योद्देश्यत्वेन एकचरुरेवाकांक्षितः । अतो ऽतिदेशप्राप्तस्यापि षट्वस्य बाध एव । दर्शे तु षद्रव्यस्यैव देवताभिधानादिति । ५९ अथ धान्यमस्यधिकरणम्- "धान्यमसि,इति तण्डुलानावपति" इति श्रूयते । अत्र मन्त्र- लिङ्गेन धान्यप्रकाशनात्तण्डुलशब्दो धान्यपरः । युक्तञ्चै- तत् । तण्डुलपरत्वे ऽवघातबाधापत्तेरित्यत्र सिद्धान्त:--तण्डु- लघुपूर्वमीमांसाऽधिकरणकौमुदी- लानिति द्वितीयया क्रियाजन्यफलस्य संस्कारविशेषस्य तण्डुले बोधनात् । मन्त्रलिङ्गेन चानुमितिद्वारा धान्ये संस्कारबोधः, तस्य च विलम्बितत्वात् । यथा-इदमावपनं धान्यनिष्ठसंस्कारज- नकं धान्यप्रकाशकमन्त्रकरणत्वादिति । तथा च श्रौतान्वय- बोधबलात्तण्डुलस्य कर्मत्वे प्राप्ते कृष्णलन्यायेनावघातबाधो न दोषाय । तथा च मन्त्रे धान्यपदं लक्षणया तण्डुलपरामिति । ६० अथ ऊहाधिकरणम्- "अग्नये त्वा जुष्टं निर्बपाम" इति मन्त्रः प्रकृतौ श्रुतः । तथा विकृतौ सौर्यचरावाप अग्नये इत्येव पाठ्य लक्षणया च सूर्यपरं, न तु सूर्यायेति । वेदे तथाश्रुतेः कल्पने च मन्त्रत्वव्याहते- रिसत्र सिद्धान्तः- "अतिदेशादेवोपपत्तेः" इति । अ- यमर्थ:-यथा मन्त्रो ऽतिदेशपात तथा मन्त्रगतसमवेतार्थत्वमपि माप्त, तच्चोहं विना ऽनुपपन्नम् । तथा च यो मन्त्रः प्रकृतौ समवे. तार्थकः स मन्त्री विकृतौ यद्यसमवेतार्थकः, तदा समवेतार्थकपद- प्रक्षेपः प्रयोज्य इति । ऊहश्चासमवेतार्थकपदत्यागपूर्वक समवेता- र्थपदसमभिव्याहारकरणम् । पस्तु प्रकृतावप्यसमवेतार्थकस्तस्य नोहः । यथा 'एतदः पितरो वास' इसस्य पार्वणप्रकृतावसमवे. तार्थकत्वादेकोद्दिष्टेऽपि नोहः । ननु धान्यमसीति मन्त्रेऽपि तण्डुलपदोहोऽस्तु । नच तत्र लक्षणयैवोपपत्तिरिति वाच्यम् । “अग्नये त्वा जुष्टमित्यत्रापि तथात्वापत्तेरित्यत्र सिद्धान्तसूत्रम्-"न प्रकृताचूहो ऽपूर्वत्वा- त्" इति । अपूर्ववादुपदेशविधिप्राप्तत्वात् । अयम्भावः-प्रकृतावूहे तत्र मुख्यपदं विहाय ऊह्मपदमेव वेदे प्रयुज्येत मुख्यपदस्य निष्प्रयोजनत्वात् । नन्वेवं "शब्दे ऽविप्रतिपत्तिः" इति कात्याय- नसूत्रविरोधः । मुख्यशब्दप्रयोगे न कस्यापि विप्रतिपत्तिः-न .
लघुपूर्वमीमांसाऽधिकरणकौमुदी- वैयमिति तदर्थत्वादिति, मैवम् । तत्सूत्रस्य प्रतिनिधित्वेन गृ. हीतपदार्थवाचकपदप्रयोगनिषेधार्थकत्वात् । यथा वीहिति. निधिशालिग्रहणे "व्रीहियज्ञेषु कल्पताम्" इति मन्त्रे शालिप- दोहाभावः। एतदपि मन्त्रे बोध्यम् । वाक्ये तु प्रतिनिधिरेवो. ह्यः । यथा मृताहप्रतिनिधावेकादश्यां श्राद्ध एकादशीस्वेन प्रयो- गो न तु मृततिथित्वेनेति । अग्नये त्वा ऽजुष्टमिति । अग्निमुद्दिश्य वा-वाम, अजुष्टम्-अयातयाम, मोक्षामीत्यर्थः । ६१ अथ पाशाधिकरणम्- दैक्षयागे श्रूयते "पाशेन पशुं बध्नाति, अथ प्रोक्षति, तिष्ठन्तं पशुं प्रयजति,ततः पाशं छिनत्ति, अदितिः पाशं प्रमुमोक्खेतम्, अदितिः पाशान् प्रमुमोक्त्वेतान्" इति । ततस्तद्विकृतियागे श्रू- यते "पाशाभ्यां पशु बध्नाति" इति । अत्रातिदेशागतौ पू. वोक्तपाशच्छेदनमन्त्रौ। ततः प्रथममन्त्रे पाशमित्यत्रैकवचनस्था- ने द्विवचनोहः कार्यः । द्वितीयमन्त्रे तु पाशानिति बहुवचनं प्रकृतावप्यसमवेनार्थकम, अतस्तस्य विकृतियागेऽपि नोहः । अदृष्टार्थकत्वेन पाशानियेव पाव्यमिति सिद्धान्तः । वस्तुतस्तु पाशानिति समारपाशकामक्रोधादिपरमिति । तिष्ठन्तमिति या- गान्तरे पशुधातानन्तरं प्रयाजाचरणम् । अत्र तु पशौ जी- चति । तथा च प्रयाजापकर्षे तदन्तकर्मकलापापकर्ष इति । ६२ अथ कालशौचाधिकरणम्- ननु शौचस्याङ्गत्वेन तदभावेऽपि नित्यानुष्ठानं कर्तव्यमे- च । किञ्चिदङ्गहान्याऽपि तस्येष्टत्वात । एवममावास्यायामती- सायामापे श्राद्धं कार्यममावास्याया अङ्गत्वादङ्गबाधेऽपि निसा- नुष्ठानादिस्यत्र सिद्धान्तः- "पुरुषविशेषणत्वान्नैवम्" इति । अयमर्थ:-'काले कुर्याच्छुचिः कुर्यात् । इतिश्रुत्या शौ- ४२ लघुपूर्वमीमासाऽधिकरणकौमुदी- घमधिकारिविशेषणं तदभावेऽधिकाराभावान कर्माऽऽचरणम् । एवं विहिनकालजीवनस्याधिकारिविशेषणत्वात्कालो ऽप्यधि. कारसम्पादक इति । एनन्यायमूलकमेव ‘सन्ध्यां पञ्च महायज्ञा. नू' इयादिवचनमिति ॥ ६३ अथ हेतुम्मन्निपदाधिकरणम्- हेतुर्मान्नगदः-सहेतुकं वचनम् । यथा “अग्निं यजेत्, सहि आशुतोषो, यथेष्टदाता" इति । अत्राऽऽशुनोपवादिकथनादाशु तोषत्वादिनाऽग्नेर्देवतात्वमन्यथा राद्वचनवैयर्थादित्यत्र सिद्धान्त- सूत्रम्-"प्ररोचनायोपपत्तेः" इति(१) । अयमाशयः-स हि आशुतोष इति हेतुमन्निगदः तस्य प्ररोचनार्थेनोपपत्तेः । प्ररोचना स्तुतिः । अग्नियागे झटिति प्रत्यर्थ हेतुन्निगदोऽग्नि प्रस्तोतीति । ६४ अथाऽऽरुणीन्यायः- " अरुणयैकहायन्या गचा सोमं क्रीणाति" इत्यनन्तरं “वा- ससा क्रीणाति " इति श्रूयते । अत्र च विकल्पो युक्तः । गत्रा वाससा वा सोमक्रयः कार्य इति । अत्र सिद्धान्त:-"गुणत्वेनै. कार्यसिद्धः" इति(२) । पूर्ववचनेन प्राप्ते ऽरुणैकहायनगो- करणकसोमक्रये फलाधिक्याय चासोलक्षणगुणविधिरेवेति ॥ ६५ अथ सोमयाजिन्यायः- पागविशेषे श्रूयते “सोमेन दधिपयोभ्याश्च यजेत" इति। अत्र सोमस्य दधिसहितपय सश्चोभयोरपि प्राधान्यं यद्यप्युचि- तं तथापि "असोमयाजी न सोमेन" इति श्रुत्या कृतसोम- । (१) "अर्थस्तु विधिशेषत्वाद्यथा लोके” इति सूत्रं ( अ० १ पा० २ आधि०३ सू० २९) इति दृश्यते । (२) "अर्थैकत्वे द्रव्यगुणयोरैककान्नियमः स्यात्" इति सूत्रं (अ०३ पा० १ अधि०६सू० १२) इति दृश्यते ।
. लघुपूर्वमीमांसाऽधिकरणकौमुदी- यागस्य सोमनिषेधात् न सोमस्य प्राधान्यमत्र, किन्तु दधिपय. सोरेव । अत्र सिद्धान्त:-"निमित्ताध्यतिरेके प्राधान्यावि. रोधात्" इति । सोमयागाकरणनिमित्तात्सोमस्य व्यतिरे- केऽपि न प्राधान्यबाधः । तथा च सोमयाजिनां यागे उभय. स्यैव प्राधान्यम् । असोमयाजिनां तु प्रधानीभूतस्य सोमस्य बाधः । नहि बाधेन तस्य प्राधान्यं दूरीक्रियते इति । ननु सोमस्याङ्गत्वमस्तु, मैत्रम् । तर्हि तद्विकृतियागे ऽति. देशात्सोमप्राप्तिः स्यात् । प्रधानत्वे तु तस्यातिदेशो न स- म्भवति प्रधानातिदेशे तयागस्य प्रकृतयागत्वमेव स्यात् वै. लक्षण्याभावात् । तथा चाङ्गानामेवातिदेशः । तेषामुपकारकत्वा- त् प्रधानस्य चोपकार्यत्वात् कथं यजेतेआकाङ्क्षायामतिदेशः । त. था च कथमित्यस्य केनाङ्गनेत्यर्थवादङ्गानामेवातिदेश इति । अत एव दीक्षणीयादियागे “अप्रयाजास्ता" इति श्रूयते । तत्र आहुनयो ऽप्रयाजाः प्रयाजरहिताः कार्या इसमाप्तप्रयाजनिषेधा. नुपपत्त्या दर्शधर्माणामतिदेशः कल्प्यते, नतु दर्शप्रधानीभूता- नामाग्नेयादीनां त्रयाणामिति ॥ ६६ अथाक्ताधिकरणम् - "अक्ताः सिता जुहुयात्" इति श्रूयते । तत्र केनाक्ता इत्याकाङ्क्षायामेतत्पतियागे 'दना जुहोति' इति श्रुतेर्द- वाक्ताः सिना इति प्राप्यते । अत्र सिद्धान्तः-"वाक्यशेषे घृतस्तुतेः" इति । अस्य यागप्रकरणस्योपसंहारे 'तेजो वै घृतम्" इति घृतस्तुत्यन्यथाऽनुपपत्त्या घृतेनैवाक्ता इति बोध्यते । नच व्याहृतिहोमाद्यर्था घृतस्तुतिः तस्य सर्वत्राऽऽज्यकरणलेन स्तुते।यात् ॥
. लघुपूर्वमीमांसाऽधिकरणकौमुदी- ताकम् ६७ अथाऽऽमिक्षाधिकरणम्- "तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा भवति, वा- जिभ्यो वाजिनम्" इति श्रूयते । अत्युष्णदुग्धेऽम्लदधियोगेन क्षीरभागः कठिनो भवति, नीरभागश्च भवति । तत्र क्षीरभाग आमिक्षा, सा विश्वेदेवदेवताका । नीरभागो वाजिनं तद्वाजिदे. | वाजं होमद्रव्यमामिक्षारूपमस्तीति वाजी इति योगार्थेन उपस्थिता विश्वेदेवा एव बोध्यन्ते । यथा 'बृहस्पतिर्वि श्वेदेवैः' इत्यत्र विश्वशब्दस्य सर्वार्थतयोक्तसर्वदेवौरीत योगा- र्थाऽऽदरो नतु रूढ्या विश्वदेवगणग्रहणं, तथा ऽत्रापि । अन्ये तु योगाढेलबत्त्वात् वाजिपदेन सूर्याश्वा एवो- च्यन्ते । बृहस्पतिविश्वेदेवौरिसत्र प्रकरणाद्योगार्थाऽऽदरः । नचात्र तथा । तथाच कर्मभेद एवेति वदन्ति । ६८ अथाभ्युदितेष्टिन्पाय:- अभ्युदितेष्टिकालः सूर्योदयकालः। सच मुहूर्तात्मकः। यथा- सन्धिर्दिनरजन्योश्च उदयास्तमयौ तथा । दिवाराज्योस्तथाच मुहूर्ताः समुदाहृताः ॥ तथा च मुहूर्तात्मके उदयसमये साङ्गेष्ट्यनिष्पत्तेः कथं तत्र प्रतिः। अत्र सिद्धान्त:--"कालस्यारम्भ एवोपयोगात्" इति । अयम्भाव:-विहितकालजीवित्वेनाधिकारित्वात्कालो ऽधि- कारसम्पादकः । तथा चाधिकारस्य आरम्भ एवोपयोगः । शुचित्ववत् । अन्यथा आरम्भानन्तरमशौचे कर्मवैगुण्यं स्यात् । 'आरब्धे सूतकं न स्यात्' इत्यपि वचनमेन्न्यायमूलकमेव । काले खलु समारब्धमकाले ऽपि समापयेत् ' इति । केचित्तु प्रधाननिष्पत्तिपर्यन्त कालापेक्षाऽस्येव, उत्तराने लघुपूर्वमीमांसाऽधिकरणकौमुदी- ४५ स्वपेक्षा नास्ति कालस्याधिकारत्वे ऽप्यङ्गत्वात् । अङ्गत्वञ्च प्रधाननिष्पत्त्यैव चरितार्थमिति वदन्ति । ६९ अथ हविरुपलक्षणाधिकरणम्- “यस्य निरुतं हविश्चन्द्रमा अभ्युदियात, स त्रेधा तण्डुलान् विभजेद, व्याहृतिभिर्जुहुयात्" इति दर्शयागे श्रूयते । “आग्ने योऽष्टाकपालो भवत्यमावास्यायाम्" "ऐन्द्रं दधि" "ऐन्द्रं पयः" इत्यनेनामावास्यायां दध्यारम्भो विहितः । दनश्च बहसाध्यत्वात् यागो नाऽमारास्यायां, किन्तु तदुत्तरदिने । तत्र चापराण्हे द्विती- यावेधे सति न यागः, किन्तु पूर्वदिने एव । तथा च दध्यार. म्भोऽपि यागपूर्वदिने । तथा च द्वितीयाविद्धप्रतिपदि याग- करणे प्रायश्चित्तार्थमाह-यस्य निरुप्तमिति । यस्य हविर्निरुतं पूर्वाण्हे यागो निष्पन्नः । अथ च दिवा द्वितीयावेधाधीनस्तदिने सायं चन्द्रोदयो भवति स महाव्याहृतिहोमरूपप्रायश्चित्ताय चर्वर्थ त्रेधा तण्डुलान् विभजेत् । अत्र च "देवतातो हविर्षिभ- जेत्" इति चोपसंहारे श्रूयते । दर्शे या देवतोद्देश्या तस्या यद्ध- विस्तद्विभजेदित्यर्थः । तेन दधिपयसोरपि त्रेधा विभाग: प्राप्तः । तथा च तण्डुलानिति पदं हविरुपलक्षणार्थामति । तथा च कात्यायन:- पर्वणयोश्चतुर्थीश आद्याः प्रतिपदस्त्रयः। यागकालः स विज्ञेयः प्रातरुतो मनीषिभिः॥ तेन यागपरदिने प्रायश्चित्तार्थ दधिपयस्तण्डुलान् समानीय प्रत्येकं त्रेधा कृत्वा व्याहृतिभिः प्रत्येकं जुहुयादिति । ७० अथ प्राणाधिकरणम्- “वेधसे वैधस्या जुहोति" इति श्रूयते । वैधस्या वेधःप्रका- ४६ लघुपूर्वमीमांसाऽधिकरणकौमुदी- - शिकया ऋचेत्यर्थः । वेधःशब्दवाच्यो विरिश्चिर्विष्णुश्चेति । अत्र सन्देहे प्रवृत्त्यनुपपत्तिरियत्र सिद्धान्त:-प्राणशब्दवत् ख्यातत्वात्" इति । अयमर्थः-उपासनाकाण्डे 'प्राणोऽस्मीति सं चिन्तयति' इति श्रुतिरस्ति । तत्र प्राणशब्दस्य प्रयोग इन्द्रे इन्द्रिये जीवे वायौ ब्रह्मणि च दृश्यते । यथा- 'इन्द्रन्द्रियब्रह्मजीववायुषु प्राण इष्यते' इति । तत्र बहुपयोगो ब्रह्मणि । यथा “सोऽयं प्राणमयः" इति, "प्राणः सर्व विभावयति" इति, “प्राणो ह्यानन्दमयः" इति । तथा च प्रयोगपाचुर्यात प्राणोऽस्मीति ब्रह्मपरम् । तथा वेधःशब्दस्य विरिञ्चौ ख्यातत्वेन बड्डुप्रयोगाद्विरिञ्चिरेव वेधःशब्दार्थ इति । ७१ अथ विविदिषदधिकरणम्- "तमेवात्मानं ब्रह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकन" इतिश्रुत्या आत्मज्ञानफलको ऽग्निहोत्रादिर्यज्ञः प्राप्तः । “यावज्जीवमग्निहोत्रं जुहोति" इतिश्रुत्या नित्यमाप तत्माप्तम् । तथा च विविदिषुभिहस्थैर्वारद्वयमेतत्कर्तव्यम्, मैवम् । ब्रह्मज्ञानार्थं तत्करणेनैव नित्यस्यापि निष्पत्तेः । नच नित्यानित्यवैषम्यम् । काम्यकरणेनैव नित्यस्यापि सिद्धिरिति प्रसङ्गन्याय एवात्र । यथा निमन्त्रितो ब्राह्मणो भुक्त्वा परकी यश्राद्धं, स्वतृप्तिञ्च निष्पादयतीति । गुरुमते तु काम्यापूर्वनियापूर्वयोरेकविधिबोध्यत्वासम्भवा. दावृत्तौ वाक्यभेदापत्तेनित्यस्य फलश्रुतिः स्तुतिरूपैव, नतु नित्यस्य सकामाधिकारित्वमिति । ७२ अथ स्मृत्यधिकरणम्- स्मृतेर्वेदमूलकत्वानुमानादेव निष्कम्पप्रत्तिजनकत्वम् । -- लघुपूर्वमीमांसाऽधिकरणकौमुदी- अन्यथा पौरुषेयत्वेन भ्रमादिमूलकत्वशङ्कया तन्न स्या- त् । तथाहि-इयं स्मृतिः स्वसमानार्थकवेदमूला, अ- सम्भवन्मूलान्तरत्रे सति समूलत्वात, प्रत्यक्षवेदमूलकस्मू- तिवत् । एवञ्च वेदमूलकत्वानुगानादेवावच्छेदकतया वाक्या- थसिद्धेः श्रुतेर्न प्रमाजनकत्वमिसत्र सूत्रम्-"अकार- णत्वादर्थस्य" इति । कार्येण स्मृसा कारणस्य वेदस्यानुमाने Sकारणत्वात् पदार्थप्यैव नानुमानविषयत्वं कुतो वाक्यार्थ- स्येति । अकारणस्य तद्विषयत्वे ऽतिप्रसङ्गाद । नचैवं कुतो विशिष्टप्रतीतिः ?, अर्थविषयकेण तटस्थपूर्वज्ञानेन भेदाग्रहाद्विशिष्टधीव्यवहारः । पाककृतौ मानसप्रत्यक्षायां पाक- विशिष्टधीव्यवहारवत् । बहिविषयके मनसो ऽस्त्रातच्यात् । मी. मांमकमते ज्ञानस्याप्रत्यासत्तित्वादिति ॥ ७३ अथ ज्योतिरधिकरणम्- "अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिरनेन स- हस्रदक्षिणेन यजेन" इति श्रूयते । तेन ज्योतिष्टोमयागस्य त्रै. विध्यं नामत्रयविधानात् । 'गोशतं दक्षिणा' इत्यनेन च दक्षिणा विहिता प्राक् । अनेन सहस्रदक्षिणाख्यो गुणो विधीय. ते । तथा चानेनेतिपदात् त्रयाणामप्युपस्थानात् त्रिष्वेव सह- स्रदक्षिणागुण इत्यत्र सिद्धान्तः-"अथ पदेन च्छेदात्" इति(१) । अथैष सर्वज्योतिरित्यत्रसाथ पदेन पूर्वोक्तव्यवच्छेदाद- नेनेतिपदेन सन्निहितसर्बज्योतिर्याग एवोक्तस्तत्रैव सहस्रदक्षिणेति । ७४ अथ वैश्वानराधिकरणम्- " वैश्वानरमुपास्ते विद्युदादिसवाय्वाकाशोदकपृथिव्या (१) संज्ञा चोत्पत्तिसंयोगातू" ( अ० २ पा० २ अधि० ८ सू० २२) इति सूत्रं सूत्रपाठेऽस्ति ।
- ४८ लघुपूर्वमीमांसाधिकरणकौमुदी- स्मकैः षड्भिरुपेतम्" इति । अत्र विद्युदादिरूपेण वैश्वानरस्य चिन्तनमुक्तम् । अत्र किं समुदायरूपेण चिन्तनं प्रत्येकं वा ?, इति संशये सिद्धान्न:-"साहित्य श्रुतेः" इति । बहुवचनेन सा- हित्यबोधनात् समुदायरूपेणैव चिन्तनमिति । यथाह भट्टः- "साहित्यं द्विवचनबहुवचनाभ्यां द्वन्द्रसमासाच" इति । ननु "आ- दियेभ्यो जुहोतीत्यादित्यो वै देवता' इति श्रुत्या साहित्येन च- तुझं देवतात्वबोधो ऽस्तु, मैत्रम् । नहि देवताले चतुर्थ्याः शक्तिः किन्तु चतुर्थ्या देवतायामनिराकर्तृकसम्प्रदानत्वान्यथाऽनुपपत्त्या तत् कल्पनीयं, तत्र च बाधकं देवता इति बहुत्वश्रुतिः । तथा च भाष्यम्-'बहुत्वस्य पृथग् निवेशितत्वात्' इति । अस्यार्थः-पृथक्पदं तृतीयान्तं परस्परभिन्नस्वाश्रयार्थकं ते. न परस्परभिन्नस्वाश्रयैर्निवेशितत्वात् बुद्धावपितत्वात् । प्र. कृत्यर्थतावच्छेदकविशिष्टयावत्स्वाश्रयनिरूप्यत्वादिति यावत् । तथा च देवता इति बहुवचनेन प्रसेकं देवतात्वावगम इति । नि. राकर्तृकं "मा दद्या" इति निषेधवचनं तन्नास्ति यस्य सम्प्रदा- नस्य तदनिराकर्तृकामिति । अनिराकर्तृकसम्प्रदानस्यार्थः ॥ ७५ अथ गुणविकृत्यधिकरणम्- "एष एव विधिर्यत्र कुत्रचिोमे" इत्यनेन कुशकण्डिकाक- मातिदेशादग्निष्टोमे 'शरमयं बर्हिर्भवति' इत्यनेन किं विधात. व्यमास्तरणार्थं कुशस्य प्राप्तत्वादित्यत्र सिद्धान्त:-"गुणवि- कृतिभावात् " इति । अयमर्थः-गुणस्य प्राप्तकुशस्य विकृति- वं तत्कार्यकारित्वं शरस्य विधीयते । तथा च शरा आस्तर- णीया नतु कुशाः । नचैवं "दध्ना जुहोति" इति स्थलेऽपि प्रकृ. तियागातिदेशप्राप्तचरुस्थाने दधिविधानं स्यादिति वाच्यम् । तत्र 'दध्नेन्द्रियकामस्य' इति श्रवणात् गुणफलत्वं, नतु गुणविकृति. - -- लघुपूर्वमीमांसाऽधिकरणकौमुदी- स्वम् । दध्नो गुणविकृतित्वे कदाचिदपि चरुस्तत्र न स्यादिति ॥ ७६ अथ क्रमः- यथाऽऽह भट्टा- "श्रुसर्थपठनस्थानमुख्यपात्तिकाः क्रमाः" इति । तत्र श्रौतक्रमो यथा-"विता यूपं परिवीय आग्नेयं सव. नीयं पशुसुपाकरोति" इसत्र क्त्वाश्रुत्या आनन्तर्य बोध्यते । त्रि- वृता-त्रिगुणात्मककुशमेखलया परिवीय-परिवेष्टय सवनीयं- सोमाङ्गकम् उपाकरोति-आलमते इयर्थः । अत्र केचित्-क्त्वाप्रसयेन परिव्यानस्याङ्गत्वं बो- ध्यते । तेन पशूपाकरणस्याङ्गं परिव्यानमिति वदन्ति, तन्न । उभयोरपि मुख्ययागाङ्गतया "गुणानाञ्च परा- र्थवादसम्बन्धः समत्वात्स्यात् ( अ० ३ पा० १ अधि० १२ सू० २२) इति न्यायात् । अत एवाग्नीषोमीययागे "यूपं परिवीयानीषोमीयं पशुमुपाकरोति, ततः सवनीयम्" इसभिधाय तद्विकृतियागे उक्तं "नात्राग्नीषोमीयमालभते, आश्वि- नग्रहं गृह्णाति" इति । तेनात्र यूपपरिव्यानानन्तरमाश्विनग्रहग्रहणं, ततः सवनीयपशूपाकरणम् । यदि परिव्यानं सबनीयपशूपाकरणाङ्गं स्यात्तदा मध्ये आश्विनग्रहग्रहणं नोच्येत इति । यथा वा “दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत" इति । अर्थक्रमो यथा-"अग्निहोत्रं जुहोति" "यवागू पचति" इति । अत्र पाठक्रमादग्निहोत्रस्य पारिभाषिकस्याऽऽदावनुष्ठाने य- वागूपाकस्य निरर्थकत्वं स्यात् । तथा च कथं जुहोतीसाकाङ्क्षायां यवागूपाकोपदेशः । तेनाऽऽदौ यवागूपाकः कार्यः । ततस्तया होमः । अर्थों युक्तिस्तेन क्रमो ऽर्थक्रमः । इदमग्निहोत्रं कर्मा- न्तरं पृषदेवताकम, अग्निहोत्रकर्मप्राप्यर्थ सत्प्रयोगः । यवायुस्तु ५० लघुपूर्वमीमांसाऽधिकरणकौमुदी- पिष्टचरुरिति । पाठक्रमो यथा-"इन्द्राय जुहोति", "अग्नये जुहोति' इसादौ । यथा वा मावपूजानन्तरं वसुधारादानम् । यथा च स्नानतर्पणयोमध्ये सन्ध्यावन्दनपाठात् मध्ये एव तदाचरणमिति । स्थानक्रमो यथा-एकोद्दिष्टे पार्वणधर्मातिदेशात कुभा- सनाधनुष्ठानं कर्तव्यम् । तत्र पार्वणे यस्मिन् स्थाने यत् क्रियते एकोद्दिष्टेऽपि तथा । तेन नाऽनध्यवसायः केन क्रमेण कर्तव्य- मिति । स्थानपदेनाऽऽदिमध्यावसानमुच्यते । मुख्यक्रमो यथा-ग्रहयागे ऽधिदैवतप्रत्यधिदैवतपूजनं केन क्रमेण कार्यमित्याकाङ्क्षायां मुख्यपूजनानन्तरमेव कर्तव्य- मुत्पत्तिविधौ मुख्यस्य प्रथमोपस्थितत्वादिति । प्रावृत्तिकक्रमो यथा-वाजपेये "सप्तदश प्राजापत्यान पशूननक्ति, आलभेत" इति श्रूयते । तत्र च सप्तदशानाम- अने इच्छया क्रमो, ऽभ्यअनन्तु अञ्जनप्रवृत्तिक्रमेण कर्तव्यमे- वमालम्भनञ्चेति । एवं श्राद्धे पितृपितामहादिपात्रक्रमेण संस्रव- ग्रहणं पितृपात्रे कर्तव्यम् । एवं बलिच्छेदनमुत्सर्गक्रमेणेति ॥ ७७ अथ (१) श्रुतिलिङ्गादिन्याया- यथाऽऽह-जैमिनि: "श्रुतिलिङ्गवाक्यप्रकरणस्थानस- माख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्" ( अ. ३ पा० ३ अधि० ७ सू० १४) इति । श्रुत्यादिन्यायानामेक. विषये प्रसक्तावुत्तरोत्तरन्यायस्य दौर्बल्यं पूर्वमपेक्ष्योत्तरस्य विल- म्बेनार्थोपस्थापकत्वादित्यर्थः । एषां लक्षणमुक्तं भाष्ये । यथा- (१) कचित् समवाये विरोधन्याय इति पाठः।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- ५१ श्रुतिद्धितीया, (१)क्षमता च लिङ्गं, वाक्यं पदान्येव तु संहतानि । सा प्रक्रिया या कथमित्यपेक्षा, स्थानं क्रमो, योगबलं समाख्या ॥ १ ॥ कारकविभत्त्यात्मकद्वितीया(२)श्रुतिः, तया कर्मगतं क्रियाफलाश्रयत्वं बोध्यते । तत्र क्रिया ( गमनादिः) शेषः साधनत्वात् (प्रामप्राप्तरिअर्थः) । क्रियाफलाश्रयः शेषी साध्यत्वात् । तथा च शेषशेषिबोधकत्वाद् द्वितीयाया बलवत्वम् । मासमधीते इत्यादिवारणाय कारकविभक्तीति(३) उपपदविभक्ती- नान्त्वन्तर्भावितपदसापेक्षत्वाद् विलम्बितत्वम् । वेदान्तटीकायां वाचस्पतिमिश्रास्तु कारकविभक्तिमा श्रुतिः,सर्वातामेव विभ- तीनों प्रकृत्यर्थस्वार्थबोधे ऽन्यनिरपेक्षत्वाद् बलवत्त्वमिति वदन्ति लिङ्गयते झाप्यते ऽनेनेति लिङ्ग मन्त्रः । बोधकप- दघटितमन्त्रस्पार्थप्रकाशनसामर्थ्य लिङ्गत्वम् । यथा-बर्हिर्देवसदनं दामि" इत्यस्य मन्त्रस्य 'दाप् लवने' इतिधातोर्दामीति सिद्धत्वा- हिच्छेदनप्रकाशकत्वेन तत्रैव विनियोगः । वाक्यं परस्परसा. काङ्क्षपदकदम्बः। प्रकरणन्तूत्पत्तिविधिना प्रधानबोधानन्तरं केन प्रकारेण कर्तव्यमित्याकाङ्क्षाऽङ्गाभिधानप्रयोजिका । स्थानं क्रमः, स च तत्सानिध्ये पठितत्वम् । समाख्या योगार्थेन प्रवृत्तं पदम् । " यथाऽऽह भट्टः- (१)शब्दसामर्थ्यमित्यर्थः । (२) यथा “व्रीहीनवहन्ति" इत्यत्र द्वितीयाश्रवणमात्रेण व्री- हीणामवहननक्रियायां विनियोगो ऽवगम्यते । (३) “कालाध्वनोरत्यन्तसंयोगे” इति सूत्रविहितद्वितीयाया उपपदविभक्तित्वात् ।
५२ लघुपूर्वमीमांसाऽधिकरणकौमुदी- अभिधातुं पदे ऽन्यस्मिन्ननपेक्षो रवः श्रुतिः । सर्वत्रावगता शक्तिलिङ्गमियभिधीयते ॥ संहत्याऽर्थ ब्रुवन्वृन्दं पदानां वाक्यामिष्यते । प्रधानवाक्यस्याङ्गोत्स्या ऽऽकाङ्क्षा प्रकरणं मतम् ॥ स्थानं समानदेशत्वं समाख्या यौगिको वरः । इति श्रुत्यादिलक्ष्मोक्तं मीमांसापारदर्शिभिरिति । वर:- शब्दः सर्वत्राभिधीयते इसन्वयः । समानदेशत्वं-सान्निध्यम् । तत्र श्रुतिर्यथा-"ऐन्या गाईपसमुपतिष्ठते" इति द्वितीयया गार्हपत्याग्निगतंक्रियाजन्यप्रीतिफलाश्रयत्वं साक्षाद्बोधितमातथा च तस्य देवतात्वं श्रुतिप्राप्तम् । ऐन्येति इन्द्रप्रकाशिकाया ऋचः करणत्वं बोधितम् । तथा च विरोधः । नान्योपस्थापकमन्त्रेणा- न्यस्योपस्थानं विहितं, तेनैकलक्षणा ऽऽवश्यकी । तत्र च गा. हपसपदे नेन्द्रलक्षणा । तदेवतात्वस्य श्रौतत्वात् । लिङ्गेन तु देवतात्वं विलम्बबोध्यम् इदमुपस्थानमिन्द्रदेवताकमिन्द्रप्रका- शकमन्त्रकरणत्वात्, ततः श्रुतिकल्पनम् 'ऐन्द्या इन्द्रमुपतिष्ठते' इतीयनुमानाधीनत्वात् । अत इन्द्रपद एवं गार्हपत्यलक्षणास च मन्त्रः कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषे' इति । एवं "पा- यसेन दध्ना जुहोति" इति श्रुतिः । पायसेन-पयः प्रकाशन मन्त्रेण, पयः पृथिव्यामित्यादिना । तथा. च दधिनिष्ठं करण- स्वं श्रौतं, पयोनिष्ठञ्च लिङ्गादनुमेयमिति लिङ्गं दुर्बलमिति । लिङ्गस्य वाक्याबलवत्त्वं यथा- "पुरोडाशं श्रपयेत्" इसनन्तरमङ्गाकाङ्क्षायां "स्योनं ते सदनं कृणोमि, घृतस्य धा- रया सुषेवं कल्पयामि । तस्मिन् सीदामृते प्रतितिष्ठ जीहीणां मे. ध(१) सुमनस्यमान"इति श्रूयते । अत्र कल्पयामीसन्तेन पूर्वाशेन (१) सारभूतेत्यर्थः।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- पुरोडाशसदनकरणस्य प्रकाशः । उत्तरांशेन सादनस्य प्र. काशनम् । तथा च मन्त्रीलङ्गताद्वयप्रकाशः। एवं तस्मिन्निति श्रुत्या यदिति पदं कल्प्यम् । यत्सदनं कल्पयामि, तस्मिन् सी- देत्येकवाक्यतया एक एव मन्त्रः सादनमात्रे वाक्येन विनियुज्यते इति लिङ्गवाक्ययोर्विरोध, इति चेन्न । लिङ्गस्य वाक्यतो बलवत्त्वा- त् । तथाहि यत्पदं श्रुतं नास्ति, किन्तु तत्कल्पयित्वा एकवा- क्यतया लिङ्गं कल्पनीयम् । तत्कल्पने तु प्रमाणाभावः। तद्विना च एकवाक्यता नास्त्येकार्थप्रतिपादकत्वाभावात, सदनसादन- योः प्रतिपादकत्वात् । अत एव सूत्रम्-"अर्थैक्यादेकं वाक्यं साकाङ्कं चेद्विभागः" इति । शीघ्रोपस्थापक लिङ्गम्" इति च । वाक्यप्रकरणयोर्विरोधो यथा-ज्योतिष्टोमप्रकरणे श्रूयते "तिस्रः सानाय्यस्योपसदो द्वादशाहीनस्य"इति । अत्र च उपस- त्-सतिलत्रीहिचरूः । सानायो-ज्योतिष्टोमविशेषः । अत्र च ज्यो- तिष्टोमप्रकरणीयत्वेनाहीनपदं 'न हीनम्' इतियोगार्थेन सान्ना- ययपरम् । न च तत्रोपसत्त्रयविधिरस्त्येवेति वाच्यम् । एकवाक्य- तया पञ्चदशोपसद्विधानात् । एवं वाक्येन चाहीनपदस्य रू- ढ्या ज्योतिष्टोमविकृतेरहीनाख्ययागस्योपस्थितिः तत्रैव द्वाद- शोपसदः, इति विरोधे सिद्धान्तः-योगाढूँढर्बलवत्वेन रूढपदघ- टितवाक्याच्छीघ्रं यागविशेषस्योपसदङ्गत्वप्राप्तिः, नतु प्रकरणा- नुरोधात् योगार्थस्याऽऽदरः । अहीनविषये प्रकरणस्य 'ज्योति- ष्टोमः कथम्' इत्याकासाकल्पनाधीनप्रवृत्तिकत्वेन विलम्बितत्वा- दिति । अन्यप्रकरणमध्ये ऽपि प्रसङ्गादन्यनिरूपणं क्रियते इति ग्रन्थरीतिः । यथा छन्दोगपरिशिष्टे आभ्युदयिकप्रकरणे प्रस. ङ्गात्कतिचित्पार्वणधर्मा उक्ता इति । यथा वा दर्शप्रकरणे , लघुपूर्वमीमांसाधिकरणकौमुदी- ब्राह्मणावगोरणादेर्दोषमुक्त्वाऽऽह-श्रुतिः–'तस्माद् ब्राह्मणो नावगोरयितव्यो नापि साड्य' इयादि । अत्र प्रकरणाद् ब्राह्म- णानगोरणं तदहननादि च श्रुत्या दर्शाङ्गतया बोधितम् । तथा चान्यत्र न नियम इति, तेन्न । वाक्याप्रकरणस्य दुर्बलत्वात् । तथा च सर्वदैव निषेधः । नच तत्प्रकरणपाठः किमर्थ इति वाच्यम् । प्रसङ्गसङ्गसा तपाठात् ।। प्रकरणस्थानयोर्विरोधो यथा- राजसूये सर्वे एव इंष्टिपशुयागा अङ्गत्वं प्राप्ताः । तत्रा- भिषेचनीयाख्यस्य सोमयागविशेषस्य सन्निधौ श्रूयते "अक्षैर्दी- व्यति, राजन्यं जिनाति, शौनायोफ शृणोति" इति । शौनःशेफ-शुनोफमुनेश्वरितं पुराणोक्तम् । अत्र चाक्षदेव- नादि अभिषेचनीयस्थाने श्रवणात तस्यैवाङ्गं ?, किंवा प्रकरणा- द्वाजम्यस्थाङ्गमिति ? । नचोभयथापि राजसूये तेषां कर्तव्यत्वा- द्विचारो ऽयमनुपयुक्त इति वाच्यम् । देवनादीनामभिषे. चनीयाङ्गत्वे यत्र प्रधानीभूतो ऽभिषेचनीययागः स्वतन्त्रस्तत्रापि तेषामनुष्ठानापत्तेः । अत्रोच्यते । कथं राजसूयः कर्तव्य इत्या- काङ्क्षायाः प्रवृत्तत्वात् तेषां राजसूयाजत्वम् । अभिषेचनीयसन्नि विपाठस्तु तदानन्तर्यकरणार्थमात्रमिति । स्थानसमाख्ययोर्विरोधो यथा- बहून्मन्त्रानुक्त्वा "एतत्पौराडाशिकम्" इति पठितम् । तन्मन्त्रगणमध्ये 'शुन्य, दैव्याय कर्मणे' इति पठितम् । तथा च सान्नाय्ययागे श्रूयते “सान्नाय्याय ग्रहान् गृह्णाति, शुन्ध, दैव्याय कर्मणे, सान्नायेन जुहोति, पुरोडाशग्रहान् गृह्णाति" इति । अत्र च मन्त्रलिङ्गाच्छुन्धध्वमिति मन्त्रः पात्रशोधने विनियुक्तः। सच सान्नाय्यसन्निधौ श्रुतः । तथा च सान्निध्यरूपस्थानबला.
लघुपूर्वमीमांसाऽधिकरणकौमुदी- सानायपात्रशोधने उपयुक्तः। अथ पौराडाशिकमन्त्रगणमध्यपाठाद्योगार्थबलेन पुरोडाश- पात्रक्षालने विनियुक्तः । पुरोडाशस्येदं पौराडाशं पात्रम् | तत्स- म्बन्धित्वान्मन्त्रः पौराडाशिक इति योगार्थः । अत्र सिद्धान्तः । सान्निध्यं बलबद्यदा पौराडाशिकपदस्यान्यत्रोपस्थितस्यानुसन्धान तदा योगार्थस्योपस्थितिस्तत्पूर्वमेव सान्निध्यात्सान्नाय्यपात्रे ऽन्व- पादिति । नच पुरोडाशपात्रक्षालनमावश्यकं तत् केन मन्त्रेणेति वाच्यम् । पौराडाशिकमन्त्रगणपठितान्यमन्त्रेण तत्कर्तव्यत्वा- त् । नचैवं शुन्धध्वमिति मन्त्रस्य पौरोडाशिकमन्त्रमध्यपाठो नोचित इति वाच्यम् । यागान्तरे तस्य पुरोडाशपात्रेषूपयु- कत्वात् । सान्नाय्यं (१)हविर्विशेषः । ग्रहः पात्रं, गृह्यते ऽत्रेति व्युत्पत्त्या। समाख्योदाहरणं यथा-"हौत्रमाचरति, औद्गात्र- माचरति" अत्र होतुरिदमिति योगार्थेन हौत्रं होमः । औद्गात्रं गानम् । अत्र वाधकाभावाद्यौगिक एवार्थो ग्राह्य इति । तदुक्तं- वाधिकैव श्रुतिनिसं समाख्या बाध्यते सदा । मध्यमानन्तु बाध्यत्वं बाधकत्वमपेक्षयोति ॥ ७८ अथ विधिनियमादिः- विधिरसन्तमप्राप्तौ नियमः पाक्षिके सति । तंत्र चान्यत्र च प्राप्तौ परिसंख्यति गीयते ॥१॥ यद्यपि कार्यत्वप्रमापकः प्रययो विधिः । सच लिङादिः । कार्यादिपदवारणाय प्रसय इति । तथापि प्रकृतेऽज्ञातार्थप्रमापको MEDIA (१) दधिपयोरूपम् ।
५६ लघुपूर्वमीमांसाऽधिकरणकौमुदी- वैदिकः शब्दो विधिः । अनुवादकस्य गृहीतग्राहकत्वेनाप्रमापक- त्वात् । नच तस्य भ्रमजनकत्वं वाच्यम् । प्रमाभ्रमविलक्षण- ज्ञानजनकत्वात् । स्मृतिवत् निर्विकल्पकवच्च तन्मते तदुभयविल- क्षणज्ञानमस्तीति । नियम आवश्यकत्वम् । अयोगव्यवच्छेद इति यावत् । परिसंख्या ऽन्ययोगव्यवच्छेदः । असन्तमप्रा. साविति प्राप्तिसामान्याभावार्थम् । तथा च वेदान्तराद, अतिदे- शाद, अर्थतो, रागाचाप्राप्तावित्यर्थः । आधे यथा-"सोष्णीषा ऋत्विजः प्रचरन्ति" इत्यनेन पूर्वमुष्णीषस्य विहितत्वात् "लोहितोष्णीषा ऋत्विज" इसनेनाधि-. कफलार्थ प्राप्ते उष्णीषे लौहिसमा विधीयते। अन्यांशोऽनुवादः। अतिदेशाद्यथा-"एष एव विधिर्यत्र कचन होमे" इसनेन कुशकण्डिकातिदेशात्पर्युक्षणस्यापि प्राप्तौ वैश्वदेवहोमे “पर्युक्षण- स्वाहाकारैर्जुहुयात्" इत्यनेन पर्युक्षणोत्तरसकलकुशकण्डिकाधर्मों निषिध्यते । “आधारमाघारयति" इत्यनेनापि कुशकण्डिकाधर्मत्वे- नाऽऽघारस्य माप्तत्वादाज्यभागनित्तिर्बोध्यते । यथा वा पा- वणधर्मातिदेशात्सपिण्डने विश्वेदेवप्राप्तौ- सपिण्डनं तथा श्राद्धं दैवपूर्व नियोजयेत् । इति काण्डानुसमयो विधीयते । अनुसमयः अमिश्रणम् । देवकाण्डं समाप्य पितृकाण्डं कर्तव्यमिति । अर्थतो यथा-एकोद्दिष्टे ऽथैक्येन पवित्रैक्यस्यार्यतः प्राप्त्या एक पवित्रमित्यनेन दलैक्यं विधीयते । रागाद्यथा-ऋतौ भार्यामुपेयात् इत्यत्र नियमो विधीयते उपेयादेवेति । तथा “पञ्च (१)पश्चनखा भक्ष्या"इत्यत्र परिसंख्या १"शशकः शल्यकं गोधा कुर्मों खड्गश्च पञ्चमः” इति स्मृ- त्युक्ता बोध्याः।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- ५७ विधीयते । पञ्चनखेतरेऽभक्ष्या इति । तथा च कुत्र नियमः कुत्र परिसंख्या रागप्राप्तत्वाविशेषादत आह-नियमः पाक्षिके स. तीति । अयं भावः-रागतो-यथा तस्य(१) प्राप्तिः, तथा तदभावस्यापि प्राप्तिरिति पाक्षिको ऽभावः, अयोग इति यावत् । तस्मिन्नयोगे सति अप्रशस्तिनियमः-अयोगस्य व्यवच्छेदः । अप्राशस्यञ्च पापजनकत्वं कर्गवैगुण्यञ्च यथासम्भवं बोध्यम् । तत्र चेति । तत्र-अप्रशस्ते । अन्यत्र--प्रशस्ते । तथा च अप्रशस्तान्यविषयकप्राप्तौ परिसंख्या। अन्ययोगव्यवच्छेदो यथा-पञ्चनखेतरभक्षणस्याप्र- शस्तत्वात्तयवच्छेदः । तथा च नियमे ऽयोगो दोषः । अतस्तद- भावो विधीयते । परिसंख्यास्थले ऽन्ययोगो दोषः । अतस्तद. भावो विधीयते इति । तेन नियमे लक्षणया तदभावनित्तिः । तथा च स्वार्थहानिः, परार्थकल्पनेनि दूषणद्वयम् । परिसंख्याया- न्तु स्वार्थहानिः, परार्थकल्पना, रागप्राप्तपञ्चनखेतरभक्षणवा- घश्चेति दोषत्रयमिति ॥ मिश्रास्तु-पाक्षिकत्वं-समुच्चयाभावः । ऋतुकालतदन्य- कालयोरुपगमे समुच्चयाभावात् नियमः । पञ्चनखतदन्ययोर्भक्षणे समुच्चयसम्भवात्परिसंख्या । अत एव शेषतदन्ययोर्भक्षणे समुच्च- यसम्भवात् “शेषम्भुञ्जीत” इत्यत्र परिसंख्यति, वदन्ति । तच्चि- न्त्यम् । “स्वदारनिरतः सदा" "शयनं मध्ययामयोः" इत्यादौ समुच्चयासम्भवेन परिसंख्या न स्यादिति । विधिश्चतुर्विधः-उत्पत्तिविधिरधिकाराविधिरङ्गविधिः प्र- योगविधिश्चेति । तत्र प्रधानस्वरूपविधिरुत्पत्तिविधिः। यथा- (१) भार्यागमनस्य ।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- "अमावास्यायां पितृभ्यो दद्यात्" इति । उत्पत्तिविधेश्च विध्यन्तरापेक्षया बलवत्त्वं निरपेक्षत्वात् । द्वितीयो यथा- "सपिण्डीकरणादृषं दर्शश्राद्धादि चेष्यते” इति । अनेन कृतसपिण्डीकरणपिकत्वममावास्याश्राद्धेऽधिकार इति बोध्यते । अङ्गविधिर्यथा-प्रधानमुक्त्वा तत्कथमित्याकाङ्क्षायां प्र- तायथा-दर्शमुक्त्वा “इडो यजाति” “समिधो यजति" "तनूनपा. तं यजति" "स्वाहाकारं यजति" "बहिर्यजति" "हविर्यजति" इति प्रयाजाद्यङ्गषट्कविधिः । प्रयोगविधिस्तु कल्प्यः । यथा-अयमधिकारी एभिर- ङ्गैः कुर्यादिति विशिष्टविधिः । तथा उत्पत्तिविधिरपि द्विविधः- श्रूयमाणः, कल्प्यश्च । आद्यः प्रसिद्ध एव । कल्प्यो यथा-रा- त्रिसवेऽर्थवादाविधिकल्पनम्-"प्रतितिष्ठन्ति ह वा य एता रात्री- रुपयन्ति" इसनेन प्रतिष्ठाकामो रात्रिसत्रं कुर्यादिति कल्प्यते । कचिदनुवादाद्विधिकल्पनम् । यथा-"चरुंश्रपयति, चतुर- वत्तं जुहोति" इति । अनेन चरुहोममनूध चरुश्रपणं चतुरवदानं च विधीयते।तेन"चरुहोमं कुर्यात्" इत्यादावेव विधिः कल्प्यते।अवदा- नं तु जुबादौ घृतपूर्णेन स्रवेण घृतनिधानं, ततश्च तदुपरि चरुः स्थाप्यते, तदुपरि पुनस्तादृशघृतदानमित्युच्यते इति । एव. मतिदेशोऽपि कचित्कल्प्यः । यथा दीक्षणीयादियागानुक्त्वा "अप्रयाजास्ता" इति श्रूयते । ता आहुतयः प्रयाजरहिताः कार्या इयर्थः । तथा च प्रयाजाप्राप्तौ तनिषेधासम्भवादर्शधर्मातिदेशः करप्यः॥
लघुपूर्वमीमांसाधिकरणकौमुदी- . ७९ अथ श्रुतशब्दात्याग:- यथा "तद्विष्णोरिति केशवं यजते" इति श्रूयते । अत्र केशववा- चकनाम्नां बहूनां सत्त्वाकेन नाम्ना उल्लेख इयत्र सिद्धान्त:- 'यथाश्रुतविहारेण वक्तव्यम्' इति । विहारो व्याहारः । तत्रा. प्युत्पत्तिवाक्यस्य बलेवत्त्वात्केशवेत्युल्लेख्यम्, नतु मन्त्रस्थवि- ष्णुरिति । यत्र विधौ नाम नास्ति तत्र लिङ्गस्थं ग्राह्यम् । यथा दामोदराय नभसीति । ननु- शिवाय पद्मक्षेपेण शिवलोके महीयते । इसत्र क्षेपशब्दो लक्षणया दानपरः । तथाच तत्सङ्कल्पवा- क्ये पूर्ववत क्षेपशब्दप्रयोगः स्यात् । मैवम् । स्वायत्ते वाक्ये लक्ष- णाव्याहारयोरनुचितत्वात् । अध्याहारेऽपि वाक्यभेद एच श्रुत. वाक्यजन्यशाब्दबोधविषयादधिकविषयकबोधजनकत्वादिति । ८० अथ विध्यनुवादवैषम्यम्- एकविषये वाक्यस्य विधित्वानुवादत्वयोर्विरोध इयर्थः । यथा-"वासन्तसितपक्षं वन्द्यादीन यजेत, पौर्णमास्यां पौर्णमा- सेन" इति श्रूयते । तत्र च पौर्णमासेनेसंशेऽनुवादत्वं "दर्शपौर्ण मासाभ्यां यजेत" इसनेन तस्य प्राप्तत्वेन तदंशे विधित्वासम्भ- वात् । नच तां विहायैव चतुर्दशतिथिषु विधिरस्तु । पक्षमियत्यन्त- संयोगे द्वितीयाश्रुतिविरोधात् । तथा चायं पौर्णमासोऽन्य एवं विधेयः । पौर्णमासेनेति तद्विधिप्राप्त्यर्थ तसंज्ञा । यथा इष्टिसंज्ञा अतिदेशप्राष्टिधर्मकत्वात् पशुयागविशेषस्य । तथा चाऽऽरब्ध. पक्षयागेन पौर्णमास्यां पौर्णमासद्वयमेव कार्यम् । काम्थयो- स्तन्त्रत्वाभावात् एवापरपक्षनिमित्तकममावास्यायां श्राद्धान्तरमेव विधीयते । तत्र तु सामान्यामावास्याश्राद्ध लघुपूर्वमीमांसाऽधिकरणकौमुदी- तदमावास्याश्राद्धयोस्तन्त्रेणैव निर्वाहो निसत्वात् । ८१ अथ नित्यानित्यवैषम्यम्- यस्य कर्मणो नियविधिविषयत्वं तस्य काम्यविधिविषयत्वं नास्ति । एतच्च गुरुमते बोध्यम् । निसापूर्वकाम्यापूर्वयोरेक- विधिबोध्यत्वासम्भवात् । यथा- 'यस्तु पूजयते निसं लिङ्गं त्रैभुवनेश्वरम् । स स्वर्गवासमोक्षाणां क्षिप्रं भवति भाजनम् ।। इति नित्यशिवपूजनस्य स्तुतिमात्रम् । यद्वा विधिकल्पनद्वारा कर्मान्तरमेवानेनार्थवादेन बोध्यते । तथा च काम्येन नित्यस्यापि प्रसङ्गेन सिद्धिर्न तु कर्मैक्यामिति । ८२ अथ सापेक्षत्वनिरपेक्षत्ववैषम्यम्- " आदित्यपरिवेशे आदिसाय यजेत" इति श्रूयते । न पूर्वाण्हनियमः आदित्यपरिवेशसमयकर्तव्यत्वादित्यत्र सिद्धान्तः- "बाधसापेक्षत्वापत्तेः" इति । तथा हि-सा. मान्यप्राप्तपूर्वाहबाधं कृत्वा ऽस्य मध्याह्नादौ प्रवृत्तिः । पूर्वाण्ड- समये परिवेशे तु बाधीनरपेक्षेति एकविधेरुभयविधत्वं न सम्भ- वति । तेनास्य यागस्य पूर्वाहमात्रपरिवेशे कर्तव्यत्वम् न तु मध्याह्नादौ, निरपेक्षपत्तेः । यस्य बाधसापेक्षा प्रवृत्तिः । स विधिः कदाचिदपि न निरपेक्ष इति । न चोपरागस्यापरा- एहबाधकत्वात्तत्राप्येतादृशं स्यादिति वाच्यम् । सूर्योपरागस्या- पराहविषयकत्वसम्भवेऽपि चन्द्रोपरागस्य निरवकाशत्वापत्या अपराहविधेरेवोपरागातिरिक्तविषयत्वं कल्प्यत इति । वस्तुतो 'निशि काम्यव्रतेषु च' इतिवचने (१)पदाहवनीयवद्विरोधापत्त्या (१) एतद्वन्थस्थ(२३)त्रयोविंशाधिकरणवदित्यर्थः।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- निश्यपीयर्थः । तथा दिवा भागान्तरे मध्याह्नादौ (१)दण्डापूपव- सिद्धिरिति ॥ ८३ अथ द्वयोः प्रणयन्तीत्यधिकरणम्- यथा धातुयागे “तपस्तपस्यौ शशिरण, मधुमाधवौ वासन्तेन, शुक्रशुची ग्रैष्मेण, नभोनभस्यौ वार्षिकेण, इषोजौँ शारदेन, सहःसहस्यौ हैमन्तेन यज" । "चतुर्यु पर्वसु वेदिं कुर्व- न्ति"। "शारदे तु द्वयोः प्रणयन्ति, उपात्र वपन्ति" । "न वैश्व- देवे उत्तरवेदिमुपकिरन्ति, न शुनासीये" इति शतपथश्रुतिः(२)। अस्यार्थः-तपस्तपस्यौ माघफाल्गुनौ व्याप्य शैशिरनाम्ना या- गेन यजते । एवमुत्तरत्रापि व्याख्येयम् । धातौ च पौर्णमा. सीद्वयममावास्याद्वयं च वर्तते । तदेव पर्वचतुष्टयम् । तेषु द्रव्या- सादनाय वेदिं कुर्वन्ति । तेन नैतेषु पर्वसु दर्भे द्रव्यासादनम् । शारदधातुयागे तु द्वयोः पर्वणोरेव वेदि प्रणयन्ति-कुर्वन्ति । पर्वनामान्याह- कर्कभाष्ये । आग्नेयं प्रथमं प्रोक्तं वैश्वदेवं द्वितीयकम् । बाईस्पत्यं तृतीयन्तु शुनासीर्य तुरीयकम् ॥ १ ॥ आद्ययोः पूर्ववेदिः स्यादुत्तरादिरन्सयोः । यागोपयुक्तवस्तूनि स्थापयेत्तत्र याज्ञिक इति ॥२॥ प्रथमं पर्व पौर्णमासी । द्वितीयममावास्या । तृतीयञ्च पौर्ण- मासी । चतुर्थममावास्येति । शुनासीर इन्द्रस्तत्सम्बन्धि शुनासी- यम् । आद्यपर्वद्वये वेदिः पूर्ववेदिसंज्ञिका । अन्त्ययोरुत्तरवेद्या. (१) अत्रत्य(४२)द्विचत्वारिंशाधिकरणन्यायेनेति भावः । (२) उक्तानुपूर्वीका श्रुतिः शतपथब्राह्मणे नोपलभ्यते । संहितायां तु 'तपश्च तपस्यश्च शैशिरावृतू' इत्याद्यानुपूर्वी- का दृश्यते इति बोध्यम् ।
लघुपूर्वमीमांसाधिकरणकौमुदी- ख्या । वदिषु किं करणीयं तत्राऽऽह-उपात्र वपन्तीति । अ- त्र-आसु वेदिषु उपवपन्ति-उपरि द्रव्याणि स्थापयन्ति । शा. रदे द्वयोरित्युक्तं तत्कयोदयोरियाह-न वैश्वदेवे उत्तरवैदिमु- पकिरन्ति-कुर्वन्ति । एवं शुनासीय्येऽपीति । तेन शारदे पूर्व- वेदिद्वयकरणमेव उत्तरवेद्योनिषिद्धत्वात् । अत्र च शारदेऽपि वेदिचतुष्टयस्य प्राप्योत्तरवेदिनिषेधः सङ्गच्छते । तथा चोत्तर- वेद्यंशे मापकस्य विधेर्बाधं विना न निषेधविधिर्भवतीति, सर्वदैव बाधसापेक्षोऽयं निषेधविधिन कदाऽपि बाधनिरपेक्षः। यस्तु निरपेक्षः स कदापि न तत्सापेक्ष इति । श्राद्धविवेके तु पर्युदासविधिरयमुक्तः । वैश्वदेवशुनासीर्य- भिन्नपर्वणि वेदिं कुर्वन्तीसर्थः । तथा 'वेदाविदं पिनाष्ट' इति परिभाषया सोमाङ्गकयागमात्रे सोमपेषणार्थ वेदिविहिता। सो- माङ्गकयागविधिश्च द्विविधः-इष्टिः, पशुश्च । चङ्गको याग इष्टिः । तेन दीक्षणीयादिविधिः सोमाङ्गकस्तत्र सोमविधेः । तथा च सर्वासामिष्टीनां दर्शपौर्णमासौ प्रकृतिः । 'प्रकृतिवच्च विकृतिः' इति न्यायेन दर्शधर्मा दीणक्षीयादिष्यतिदिष्टाः । वे- दिरपि दर्शधर्मः । यागोपयुक्तं कर्म वेद्यां क करणीयमिति दर्शे ऽश्रवणाद्वेदिरप्यतिदेशादर्श प्राप्ता । एवं सोमाङ्गकत्वेन परिभाषयाऽपि वेद्यन्तरं प्राप्तम् । तथा च वेदिद्वयस्य वैयर्थेन शा- स्वार्थत्वाभावादातदिष्टवोदि बाधित्वा दीक्षणीयादिषु परिभाषा- बोधितवेदिप्रवृत्तिः । परिभाषातो ऽतिदेशस्य दुर्बलत्वात् । सोम.- यागादौ विष्टित्वाभावेन दर्शधर्मानतिदेशाद्वाधनिरपेक्ष एव पारि- भाषिकवेदिविधिरिति वैषम्यम् । तथा च वैषम्यपरिहाराय दी- क्षणीयादिषु वेद्यतिरिक्तधर्मातिदेश एव । पारिभाषिकवेदिवि. धिस्तु तत्र निरपेक्ष एव भवतीति स्पष्टं दायभागसंसृष्टिवचन- लघुपूर्वमीमांसाऽधिकरणकौमुदी- द्वयप्रकरणे । एवं-- दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणा हविरग्नयः ।। अयातयामान्येतानि नियोज्यानि पुनः पुनः । इतिवचने दर्भपदं केचित् श्रावणामावास्याऽऽहृतदर्भपरं वदन्तिा मासे नभस्यमावास्या तस्यां दोच्चयो मतः ॥ अयातयामास्ते दर्भा विनियोज्याः पुनः पुनः । इसनेनैकवाक्यत्वादिति, तन्न । वैषम्यात् । दर्भा इत्यस्यै- कवाक्यत्वाय वचनान्तरसापेक्षत्वात्, कृष्णाजिनादौ तु निर- पेक्षत्वाद्वाक्यभेदः स्यात् । न तु समूहालम्बनरूपैकान्वयबोधः स्यात् । सापेक्षस्य चिलम्बेनान्वयबोधजनकत्वादिति-दर्भा इति पदं दर्भसामान्यपरमेव । मासे नभस्यमावास्येति वचनं प्रति- मसवरूपम् । यथा- वार्षिकांश्चतुरो मासान् नाऽऽहरेत् मृत्तिकाः, कुशान् । असम्भवे त्वाददीत सद्यो यस्य प्रयोजनम् । इसनेन कुशाहरणनिषेधे तस्य प्रतिप्रसवरूपत्वादिति ॥ ८४ अथ परिभाषाधिकरणम्- 'कर्मण्यङ्गवैगुण्ये जुहोति' इति श्रूयते । तत्र द्रव्यमन्त्राका- झायां परिभाषा ग्राह्या । यथा । 'आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः ।। मन्त्रस्यानादेशे प्रजापतिा हृतिमन्त्र इयर्थः । यथाऽऽह परिशिष्टे- प्रजानां पतये वेता महाव्याहृतयो ऽव्यया इति । एवं देवतायाश्चानादेशे व्याहृतिरेव प्रजापतित्वेन पूज्ये. - CC लघुपूर्वमीमांसाऽधिकरणकौमुदी- सर्थः । एवञ्च यत्र विशेषपरिभाषा नास्ति तत्रोक्ता सामा- न्यपरिभाषा ग्राह्या । तथाहि "चतुर्होत्रां पौर्णमासीम्" इति, “पञ्चहोत्राममावास्याम्" इति च श्रूयते । चत्वारो होत्रा होतारो ऽस्यामियनेनोपांशुसंज्ञको याग उक्तः । पञ्चहोत्रामि. त्यनेनाग्नीषोमसंज्ञको याग उक्तः । अनयोर्द्रव्यदेवतासाकाङ्कवा- द्विशेषपरिभाषा ग्राह्या । यथा- ऐन्द्रं दध्यमावास्यापौर्णमास्योः पयस्तथा । तथा ऐन्द्रमियर्थः । एवम् "आग्नेयेन पक्षान्ते यजेत" इति श्रूयते । आग्नेयेन-आग्नेयाख्ययागेन । पक्षान्ते-तत्तिथिद्वये । तेन पौर्णमास्यामारम्भः, समाप्तिस्त्वमावास्यायामिति । मध्यस्थप्र- तिपदादिचतुर्दश्यन्ततिथिव्यवधानं न दोषाय वचनबलात् । एवञ्चाग्नेयेऽपि द्रव्यदेवताकाङ्क्षायां तयैव परिभाषया तिथिद्वये ऐन्द्रदध्यैन्द्रपयसोरेव ग्रहणमिति ॥ ८५ अथ सर्वनामाधिकरणम्- बहुष्वपि प्रक्रान्तेषु सर्वनामपदेन शीघ्रोपस्थितिकं ग्राह्यम् । यथा श्रुतिः–'इष्टिपूर्वकमेवादः पौर्णमासं हविः' इति । प्रयाजाद्याहुतित्रयमदः पौर्णमासं हविरिष्टिपूर्वकं कुर्यादिसर्थः । पौर्णमासयागो द्विविधः-एकोऽग्नीषोमीयपुरोडाशद्रव्यकः, अपर उपांशुयागाख्यो ऽग्नीषोमबृहस्पतीन्द्रादिदेवताऽऽज्यद्रव्यकः । यथा 'अग्नीषोमाभ्यां पुरोडाशेन, उपांशुयाजी त्वग्नीषोमबृहस्प- तीन्द्रादिभ्य आज्येन जुहोति' इति । अत्र चादःपदस्य सर्व- नामत्वादुभयमेवोपस्थितं हविः-पुरोडाशः, आज्यञ्च वाच्यम् । च पौर्णमासयोर्द्वयोरेवेष्टिपूर्वकता प्राप्तसत्र सिद्धान्तमू- त्रम्-"शीघ्रोपस्थितिकेनानुभयम्" इति । उभयत्र नेष्टि- - तथा लघुपूर्वमीमांसाऽधिकरणकौमुदी- ६५ - पूर्वकता प्राप्यते, अग्नीषोमीयपुरोडाशस्याल्पदेवताघटितत्वेन शीघ्रोपस्थितिवाददःपदेन तदेवोपस्थाप्यते । अतस्तेनैवान्वय इति दायभागे उक्तम् । ८६ अथ निषेधपर्युदासौ- तत्रातिदेशाद्रागादर्थतश्च यत्र प्राप्तिस्तत्र न पर्युदासः ।किन्तु निषेध एव, श्रूयमाणस्य प्रापकविधेरभावात् । ताहाविध्यभावे च पर्युदासनमा केन सहकवाक्यत्वं कर्तव्यमिति । अतिदेशाद्यथा-"न तो पशौ करोति" इबनेन पशुयागे प्रयाजानुयाजौ निषिध्येते । न च निषेधः प्राप्तिमन्तरेण स- म्भवति, इति दर्शधर्मातिदेशः कल्प्यते । रागाद्यथा-'पर्वणि मांसं नाश्नीयात् ' इसादौ । अर्थतो यथा-शरद्वसन्तयोर्नवश्राद्धं विहितम् । तत्र शरत्पदेन शरदादिषण्मासा एव गौणमुख्यभावेन विहिताः। तथा च शरदादिषण्मासेषु नवश्राद्धं कर्तव्यमित्यर्थतो विधि: कल्प्यते । तत्र च 'नन्दायां भार्गवदिने' इसादिनिषेधः । यत्र तु सामान्यरूपेण शास्त्रतः प्राप्तस्य विशेषरूपेण निषे- धस्तत्र पर्युदासः-यथा-“यजतिषु ये यजामहं करोति, नानु- याजेषु' इति श्रुतिः । अत्र च नानुयाजेषु यजतिष्वित्यन्वयः । एकवाक्यत्वानुरोधात् । निषेधे वाक्यभेदापत्तिः। न चेष्टापत्तिः । "सम्भक्षेकवाक्यत्वे वाक्यभेदो न युज्यते" इति वचनात् । तथा चानुयोगिप्रतियोगिनोः समानविभ. क्तिकत्वेन यो नना ऽन्योन्याभावो बोध्यते स एव पर्युदासः । तेनानुयाजभिन्नेषु यजतिष्वित्यर्थः । अत्र यजतिरनुयोगी, अ- नुयाजः प्रतियोगीति । तथा-"अहरहर्ददाति" "दीक्षितो न ददाति" इसत्र लघुपूर्वमीमांसाऽधिकरणकौमुदी- पर्युदासेन दीक्षिततेतर इत्यर्थः । दीक्षितः कृतयज्ञारम्भः । एक- कर्ममध्ये ऽन्यकर्मनिषेधाहाननिषेधः । ननु पर्युदासनना दीक्षि- तेतरोऽहरहर्ददातीति सिद्धम् । तथाचैकस्य ददातिपदस्य वैयर्य- म(१)। मैत्रम् । निषेधपक्षे वाक्यभेदान्मूलभूतश्रुतेरपि वाक्य. भेदापत्तेः । तथा चास्मन्मते सम्भेदे नान्यतरवैययमिति न्या. यादरः । सम्भेदे एकपदार्थोपस्थापकबहुपदोपस्थितावित्यर्थः । अयम्भाव:-यदि पदोपस्थाप्यपदार्थो नान्वयबोधे निविशते, तदा वैयर्थ्यम् । अत्र तु तत्रास्ति 'बहवो विप्राः सन्ति' इसत्र बहव इ. तिपदवत् । अत एव तत्तत्स्थले एकवाक्यत्वाय दोषद्वयग्रस्ता लक्षणाऽपि समाश्रीयते इति । नचाधिकस्य ददातिपदस्याऽऽकाङ्क्षा नास्ति तत्पदं विनाऽपि तदर्थान्वयबोधादिति वाच्यम् । यत्प- दोपस्थाप्यस्यार्थस्य यत्पदोपस्थितिजन्यार्थोपस्थिति विना अ. न्वयानुभवविषयत्वाभावस्तत्पदस्य तत्पदे आकांक्षेत्युक्तवाद । घट कलशमानयेत्यादावप्यन्वयबोधो भवत्येव किन्वधिकक- लशपदप्रयोक्तुनिग्रहमात्रमिति । यञ्चोक्तं-विप्रेभ्यो दधि दातव्यं, कौण्डिन्याय न दातव्य. मित्यादौ दातव्यपदस्याऽऽधिक्यापस्या निषेध एव न तु पर्युदास इति । तदपि लौकिकवाक्ये । तत्रैकवाक्यताविरहे क्षत्यभावात् । नाहि तदृष्टान्तेन वेदेऽपि वाक्यभेद आदरणीय इति युक्तमिति । एवं 'रात्रौ श्राद्धं न कुर्वीत' इत्यत्रैकवाक्यत्वानुरोधात्पर्युदासेन रात्रीतरामावास्यायामियन्वयः । अमावास्यावचनस्य सावका- शात्वेन पर्युदस्तेतरकर्मसम्भवात् । न चैकवाक्यतायां कुतिति व्यर्थमुक्तोत्तरत्वात् । वस्तुतस्तु श्राद्धं कुर्वीतेसनेन प्राप्तश्राद्धकरणमुद्दिश्य तत्र (१) एषञ्च निषेध एवोचित इति ।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- न रात्रौ इत्यनेन रात्रिभिन्नः कालो विधीयते । अतो ऽनुवादा- थमेव तत्पदम् । अन्येतु अमावास्यादिश्राद्धविधेः प्रातःकालादिदिवस. भागचतुष्टयपरत्वेन रात्रौ प्रसत्यभावान्निषेधो ऽनुपपन्न इति पर्युदास आश्रीयते इत्याहुः- अत्र वदन्ति-प्रत्यक्षे आरोपरूपप्रमक्तिसम्भवेऽपि इदे वहिर्नास्तीति शाब्दवोधस्थले प्रसत्यभावेन निषेधबोधानुपपसेः प्रसक्तिन तत्र हेतुः । नन्वाऽऽकाशं नखाद्यमित्याप विधिः कथं न कृतः ?, तत्र प्रयोजनाभावात् । अत्र तु तात्पर्यानवधारणनि- बन्धनरात्रिश्राद्धकरणवारणस्य प्रयोजनस्य सत्वादिति तत्स्वात- व्यम्। नहि विशेषदर्शिभ्रमप्रवृत्तिवारणाय वेद इति युक्तम् । यथा 'दक्षिणामुखः श्राद्धं कुर्यात्' इति विशेषादार्शनो-देवयागे पूर्वा- भिमुखत्वदर्शनाद् भ्रमेण तन्मुखश्राद्धवारणाय तनिषेधो विधीयते। तथाऽत्रापि रात्रिनिषेधादर्शिनां तत्र प्रवृत्तिः कथं वारणी. येति । उक्त वहिर्नास्तीति शाब्दबोधस्थलेऽपि प्रसक्तिरस्त्येव । लोके निषेधवाक्यं हि सन्दिग्धविपर्यस्तान्यतरं प्रत्येव प्रयुज्यते, न तनिश्चितार्थकं प्रति । तथा चोद्देश्यस्याश्रोतुः सन्देहवि- पर्यस्तान्यतररूपा प्रसक्तिरस्त्येव । तथा च व्युत्पन्न प्रति वेदो विहितः, न विशेषादर्शिनं प्रति । तथाचोक्तम्- 'यस्तकेंणानुसन्धत्ते स धर्म वेद नेतरः' इति । तर्केण विशेषदर्शनप्रयोजकन्यायेन । स धर्म वेद-व्यवस्था- प्रयोजकमवृत्तिप्रयोजनार्थवान् स एवेत्यर्थः । अन्येतु पर्युदासपक्षे निषेधमसक्तस्य नमो लक्षणा स्यात् । न चात्र लक्षणाबीजमनुपपत्तिरस्तीति । अत्र हेतुः-अमावास्या. पदाव सामान्यात् रात्रिपरस्यापि प्राप्त्या निषेधो वाच्यः । म लघुपूर्वमीमांसाऽधिकरणकौमुदी- - न सम्भवति उपजीव्यबाधापत्तेः । तथा च बाधवारणायोभय- विधिसार्थक्याय च विकल्पो वाच्यः । राज्यमावास्याऽवच्छेदेन निषेधेन बाधाद्विकल्पे च तदभावात् । तथा चामावास्या- विधेर्दिवांशश्राद्धविधौ निरपेक्षवाद राज्यशे विधौ विकल्प- कल्पनासापेक्षत्वाद्विधेः सापेक्षत्वनिरपेक्षत्वलक्षणं वैषम्यं स्या- दिति विधित्वानुपपत्त्या लक्षणोति- अत्र वदन्ति-नाहि सावकाशनिरवकाशविध्योर्विकल्पस्तु. ल्यबलवत्त्वाभावात् । निरवकाशत्वेन निषेधस्य बलवत्वात् । (१)पदाहवनीयस्थले निरवकाशस्य बलवत्त्वेन क्लुप्तत्वात् । इतरे तु प्राप्तनेष्टसाधनत्वबोधः । तथा चामावास्यापदस्य दिवारात्रिसामान्यपरत्वे रात्र्यंशे इष्टसाधनत्वबोधे तज्ज्ञानस्य राध्यंशे भ्रमत्वमापद्येत । तत्र च वेदस्य भ्रमत्वे ऽश्वमेधादिबो- धकवेदे ऽनाश्वासापत्त्या ऽननुष्ठापकत्वलक्षणाप्रामाण्यं स्यात् । अतः प्राप्यभावार्थं पर्युदासलक्षणेति वदन्ति । तन्न । तात्पर्यभ्रमे वेदस्यापि भ्रमजनकत्वादव्यवस्थादर्शनात् । तथा चाज्ञा- ततात्पर्यकत्वेन भ्रमजनकत्वं, न वेदत्वेन । अतो वेदत्वेना- SSश्वास एव । अन्येतु अमावास्याविधेर्दिवापरत्वमेवास्तु, किं पर्युदासनि- षेधाभ्याम् । तदपि न । दिवापरते तात्पर्यग्राहकप्रकरणाधभावात्त- तात्पर्यग्रहार्थमेव निषेधवचनस्य सार्थक्यात् । दृष्टश्च तात्पर्यग्रहार्थं विशेषवचनम् । यथा-'पायसेन श्रियै जुहोति' इति । श्रीहोमे पायसशब्दस्य श्रीवासाख्यगन्धद्रव्यस्यापि वाचकत्वात्तात्पर्यग्र- उक्त:-क्षीरशृतस्तण्डुलः पायसो भवति' इति । यथा वा 'यवमयश्चर्भवाति' इति । अत्र यवशब्दस्य- (१) अत्रत्य(२३)त्रयोविंशाधिकरणे। हाय वाक्यशेष लघुपूर्वमीमांसाऽधिकरणकौमुदी ६९ यवेभ्यः स्वाहेति धान्ये निरूढलक्षणया धान्येऽपि यवपदम- योगदर्शनात्तात्पर्यग्रहाय वाक्यशेषः- "वसन्ते सर्वसस्यानां जायते यत्र शातनम् । मोदमानाश्च दृश्यन्ते यवाः कणिशशालिनः" इति ।। ननु पर्युदासपक्षेऽपि कथं लक्षणा ?, अत्यन्ताभाव इव भेदे- ऽपि नञः शक्तः । मैवम् । 'अन्यायश्चानेकार्थ' इति न्यायेन नानार्थत्वायोगात् । तथात्वे च अन्योन्याभावे लक्षणैव तस्यैवाभे- दान्वयात् । तथा चैकवाक्यार्थ एव पर्युदास इति । परे तु पर्युदासपक्षे अमावास्यायामित्यत्र यथा रात्रीतरान्व- यस्तथा ऽष्टकादावपीति रात्रिश्राद्धनिषेधवचनस्याऽऽत्त्यापत्ति- रिति, सत्यम् । सति तात्पर्ये आकृत्यकल्पना विशेषवचना- विषयसर्वश्राद्धतिथीनामेव दिवापरत्वग्रहस्याऽऽकाशितवादात्ति विनैव सर्वत्रान्वय इति सर्वत्रान्वये एकवाक्यस्यैव तात्पर्यमिति । तुल्यबलवत्त्वे विकल्पो यथा-'अतिरात्रे षोडशिनं गृह्णाति' 'नातिरात्रे षोडशिनं गृह्णाति' इत्यत्र उभयोरेव निरव- काशत्वात्तुल्यत्वम् । षोडशकला अस्य सन्तीति षोडशी सोमः । प्रकृते स वृक्षविशेषः । तथा च प्रकृतियागे सोमग्रहणस्य वि- हितत्वाद्विकृतियागे ऽतिरात्रे ऽतिदेशेन सर्वदा प्राप्तत्वातद्विक- ल्पार्थ वचनम् । नच यदि षोडशिग्रहणं विना यागसिद्धिस्तदा सद्भहणोपदेशो व्यर्थः । फलभूमाथ ग्रहणोपदेशात् । ८७ अथ यद्भक्तन्यायः- ननु तत्तदेवपूजायामावरणपूजा क्रियते तत्कथम् । नतत्प्रधा- नस्वरूपनिर्वाहक प्रधानस्वरूपस्य गन्धाधुपचारैरेव सिद्धेः । नाप्यदृष्टद्वारा, मानाभावात् । कदा वा तत्कार्यमत्र सिद्धान्त:- "यो यता स तबलात्" इति । तदलात्प्रधानपूजनात्म- - .
लघुपूर्वमीमांसाधिकरणकौमुदी- - कबलात् । तथा च प्रधानपूजा तेषां प्रयोजिका । अतः प्रधान- पूजानन्तरं तत्कार्यम् । अत एव प्रयोजकत्वात्तदुत्तराङ्गमिति । तेन प्राचीनाङ्गापूर्वसहितं प्रधानं प्रधानापूर्व (परमापूर्व) जनयाते । चरमाङ्गापूर्वसहितं प्रधानापूर्व चरमाङ्गापूर्वं जनयति इति । तथा च ग्रहयागे ऽधिदैवतप्रसधिदैवते ग्रहपूजानन्तरं पूज्ये । एवं दुर्गापूजायां पश्चादेव योगिन्याद्याः पूज्याः । एवमिष्टदेवता. पूजनेऽपि । नच तत्तत्क्रमविधित एव तत्तत्पूजा प्राप्तेति न्यायोऽयं व्यर्थः । एतन्यायमूलत्वात्तत्क्रमविधेः । आवरणदे- बताज्ञानार्थमेव तद्विधेः । पश्चात्कर्तव्यत्वञ्च न्यायवलादिति । ८८ अथानुयाजाधिकरणम्- तत्र परिभाषाश्रुतिः श्रूयते "सूक्तवाकेन्द्रस्तुतिप्राजापसमू- क्तानि प्रजप्यानुयाजान करोति, ततः प्रकृतमनुतिष्ठति" इति । तथा चानुयाजाङ्गकयागे सूक्तवाकादीन मजप्यानुयाजान कृत्वैव प्रकृतं कुर्यात् । अयश्चानुयाजः प्रयाजानुयाजभिन्नः । एवं बहुसुवर्णके श्रूयते "आग्निमारुतादूर्ध्वमनुयाजैश्चरन्ति" इति । आग्निमा- रुतयागो बहुसुवर्णयागैकदेशः प्रधानीभूतः । तदुत्तरमनुयाजानां विधानादनुपाजानामुत्कर्षों नतु सूक्तवाकादीनां तथाश्रुतेरिति पूर्वपक्षे जैमिनिसूत्रम्-"तदन्तत्वादनुयाजानाम्" इति । अपमर्थः-अनुपाजानां सूक्तवाकोचरं कर्तव्यत्वादनुयाजो- स्कर्षे सूक्तवाकादीनामप्युत्कर्ष इसेतदधिकरणं तदाद्युत्क- न्यायमूलमिति । एवं सपिण्डनापकर्षे मासिकानामध्यपकर्ष इति श्राचिन्तामणिः॥ ८९ अथ सक्त्वधिकरणम्- पूषयागे "सक्तुना यजेत" इति श्रूयते । सक्तोस्तु मोक्षणं न श्रूयते । अत: सक्कोरमोक्षितस्यैव होम इत्यत्र सिद्धान्तम्- - लघुपूर्वमीमांसाऽधिकरणकौमुदी- ७१ त्रम्- "नियोगसाधनलक्षणया सिद्धेः" इति । अस्या. र्थ:-त्रीहीन् प्रोक्षतीसत्र द्वितीयाबोधितक्रियाजन्यफलाश्रय- स्वरूपकर्मत्वानुपपत्त्या व्रीहिनिष्ठः संस्कारः कल्प्यते । अन्यथा मोक्षणस्याऽऽशुविनाशितया मोक्षिततुल्यतया प्रोक्षितवदमोक्षि- तस्याप्यवघाताचयापत्तेः । एवं यः प्रोक्षणं कथम् ? इत्थम् । ब्रीहिशब्दस्य नियोगसाधनद्रव्यपरतया यवेऽपि तत्सिद्धः । अन्यथाऽवघातस्यापि यो बाघः स्यात् । ब्रीहिष्वेव तदुपदेशात् । नच ब्रीहीनवहन्तीसत्र लक्षणाऽस्तु । अन्यथा यवाऽनवघाते सतुषयवेन पुरोडाशानिष्पत्तिरिति वाच्यम् । ब्रीहीन प्रोक्षति ब्रीहीनवहन्तीयादौ समानप्रकारतानिर्वाहार्थं सर्वत्रैव लक्षणा। एवं सक्तोरपि नियोगसाधनत्वात् प्रोक्षणान्वयः। अन्ये तु अवघातमकरणीयत्वाद् व्रीहिपदस्य सक्तौ न प्रोक्षणम् । अत एवाऽऽज्यस्य प्रोक्षणं विनैव होम इति वदन्ति- तत्र परे वदन्ति । संस्कृतद्रव्यस्य वैदिककर्मणि नियो. गादाज्यस्यापि पवित्रोत्पवनेन संस्कृतत्वात् न तत्र प्रोक्षणापेक्षा । सक्तोस्तु प्रोक्षणं विना संस्काराभावात्प्रोक्षणमेव । अत एव- "नामोक्षितं स्पृशेत् किञ्चिद्दवे पिये च कर्मणि" । इसत्र नियमार्थ नइद्वयम् । नन्ववधातरूपः संस्कारस्ताह कथं न स्यादिसत आह-त्रीहीनित्यादि । तत्र विधेरसम्भवाना. सौ संस्कारः। प्रोक्षणे तु नामोक्षितमित्यादिविधिरस्त्येवेति । वीहीनवहन्तीति लक्षणया सर्वत्र प्रोक्षणप्राप्तत्वाद्विधैरसम्भवाद । परे तु बीहावियत्रासमानप्रकारकबोधं कल्पयित्वा यवे प्रो. क्षणाभाव एव कल्प्यताम् । कल्पनातो जघन्या लक्षणेति न्यायात । यथा विष्णुधर्मोत्तरे- ७२ लघुपूर्वमीमांसाऽधिकरणकौमुदी- Rasu- ज्येष्ठे मासि सिताष्टम्यां यः पूजयति केशवम् । न दुर्गतिमवाप्नोति वाजपेयञ्च विन्दति ॥ शिवरहस्ये- शुक्लाष्टम्यां शुक्रमासे यः पूजयति शङ्करम् । दुर्गतिं न लभेच्चैव वाजपेयफलं लभेत् ॥ अत्र मूलभूतश्रुतिद्वयकल्पनाभिया केशवपदस्य लक्षणया शङ्करपरत्वमेवास्तु । नच विनिगमनाविरहः अष्टमीतिथेः शैवत्वे- नोक्तत्वात् । यथा- 'हरस्य तिथिरष्टमी' इति । तथा चात्र लक्षणा न क्रियते, किन्तु मूलश्रुतिद्वयकल्पनैवेति वदन्ति । एवं ते वक्तव्याः-धान्यमसिमन्त्रे धान्यपदेन तण्डुललक्षणा कर्तव्या मन्त्रपाठस्यादृष्टार्थकत्वकल्पनयैवोपपत्तेः । केशवपदे च न लक्षणा लक्षणांबीजस्य मुख्यार्थानुपपचेरभावादिति । ९० अथ गिरगिराऽधिकरणम्- अग्निष्टोमे "ऋत्विजो देवानामन्त्रयन्ति, यज्ञायज्ञा वो ऽग्नये गिरागिरा च दक्षमे" इति श्रुतिः । अस्यार्थ:-बो युष्मभ्यमिन्द्रा- दिभ्यः अग्नये च यज्ञा यज्ञा यज्ञे यज्ञे गिरा गिरा तत्तन्मन्त्रेण दक्षसे ऽहं यजे। 'दक्ष दाने' इतिधातोर्लेट उत्तमपुरुषैकवचनामद, तस्यैत्वं "सिब्बहुलं लेटि"इति सिपि दक्षसे इति । यज्ञायज्ञा इति "मुपां मुलुग्" इति सप्तमीस्थाने आजादेशः । उक्तश्रुखनन्तरं "न गिरागिरेति ब्रूयात । यद्रािगिरेति ब्रूयादात्मानमेव तदुद्गाता गिरेत् । तस्मादैरं कृत्वोनेयम्" इति । अस्यार्थः-ऋत्विजो देवानिति यदुक्तं तत्रोद्गातृव्यतिरिक्ता ऋत्विज इति बोध्यम् । तत्र हेतुमा- ह-उद्गाता न गिरागिरेति ब्रूयात् यदि वदेत् तदाऽऽत्मानमे व गिरेन्नाशयेत् । तर्हि किं वाच्यम् । तत्राऽऽह- तस्मादिति । ऐरं गिरागिरेतिपदस्थाने इरापदयुक्तं मन्त्रं कृत्वोगात्रोद्रेय.
ARD लघुपूर्वमीमांसाऽधिकरणकौमुदी- मित्यर्थः । तथा चोद्गात्रैवं पाठ्यम्- "यज्ञायज्ञा वो अग्नये इरा इरा च दक्षसे" इति(१)। इराइरेति-"मुपां मुलुग्" इति तृती- याया आजादेशः । तेन इरया मन्त्रवाण्या दक्षसे इत्यर्थः । इरा- शब्देन वाण्युच्यते इति ॥ ९१ अथ कलक्षाधिकरणम्- 'न कलअं(२) भक्षयेत्' इसत्र लिङग बोधितङ्कार्यत्वमभावे ऽन्वेति । तेन कलाभक्षणाभावविषयकं कार्यमित्यन्वयबोधः । तथा च निषेधापूर्वस्य विहितादृष्टत्वेन संस्कारसापेक्षोत्पत्तिक- वादनुपनीतानामपरिणीतानां कन्यानाश्च नैतद्विधिविषयत्त्वम् । न चाष्टकादिश्राद्धाधिकारो ऽनुपनीतानामपि दृश्यते इति नादृष्टे संस्कारापेक्षेति वाच्यम्। बाधकाभावे सतीति विशेषणात् । तत्र च- 'एतच्चानुपनीतोऽपि कुर्यात् सर्वेषु पर्वमु' इसेव वचनं बाधकम् । अन्यथा ऽनुपनीतानां दर्शादिया- गाधिकारोऽपि स्यात् । इयत्र सिद्धान्तसूत्रम्- "नैतदन्यनि- षिद्धत्वाद" इति । अस्यार्थः-एतद्भवदुक्तं न । कुतः ?, अस्य कलअभक्षणस्य निषिद्धत्वात् । अयम्भावः -कलाभक्षणस्य रागप्राप्तविषयकनिषिद्धत्वेन पापजनकत्वव्याप्तत्वात् । न च पा. पोत्पत्तौ संस्कारः सहकारी । तथा च असंस्कृतैरपि कलाभक्ष- णादितो निवर्तितव्यम् । अष्टकादिश्राद्धवदेतददृष्टेऽपि न संस्कारः सहकारी । तत्र वचनवदत्र (कलाभक्षणे) न्यायस्य सत्त्वादिति । (१) सामगा इरापदगानार्थ गानशास्त्रपरिभाषयेकारस्य स्थाने आकारो यकार ईकारश्चेति त्रीन्वर्णान् प्रयुञ्जते । तत आयी। इत्येव गातव्यम् । (२) विषाक्तशरविद्धपशुमांसं कलनम् । १० ७४ लघुपूर्वमीमांसाऽधिकरणकौमुदी- ९२ अथ लिङ्गसमवायन्यायः- इष्टकाचयनयागे 'प्राणभृता इष्टकां संस्करोति' इति श्रूयते । प्राणभृता-प्राणभृन्मन्त्रेण । अत्र च दशानामिष्टकानां यागे उपयोगः । तथा श्रुसन्तरं "प्राणभृत उपदधाति"इति। अस्यार्थ:- प्राणभृन्मन्त्रेण संस्कृता इष्टका अग्निसमीपे दशदिक्षु स्थापयतीति । तथा च सर्वेष्टकानामेव संस्कारः, पूर्वश्रुतौ इष्टकामिसेकवचन- स्थाविवक्षितत्वात् । अत्र सिद्धान्तसूत्रम्-"लिङ्गसमवायात्" (अ०१पा०४अधि०१८सु०२८) इति । लिङ्यते ज्ञाप्यते ऽनेनेति लिङ्ग, प्राणभृत्पदवाच्याः संस्कृता इष्टकास्तत्समवायात्तत्सम्बन्धा- दिष्टकागणस्यैवाजहत्स्वार्थलक्षणया ऽभिधानमिति प्राणभृत इति बहुवचनस्योपपचेरुचरश्रुतेक्षणयेवोपपती पूर्वश्रुतिबाघस्या- न्याय्यत्वम् । तस्य निरपेक्षत्वेन बलवत्वात् । नचेष्टकासंस्कारे ऽनध्यवसायः पुरोडाशकपालवदुपपत्तेः । ९३ अथ प्रकृतिभागव्यवस्था- "कृष्णान्याक्षीरे कृष्णलान् श्रपयेत्, विष्णुब्रह्मरुद्रेन्द्रादिस- यमेभ्यो जुहोति इदं विष्णुः, ब्रह्मादेवानां, नमः शम्भवे, वाताव- मित्रं, आकृष्णेन, असियमइति" इति श्रुतिः। कृष्णान्या-कृष्णा गौः। अत्र यमेभ्यइति बहुत्वश्रुतावपि न साहित्येन देवतात्वम् प्रत्येकम्मन्त्रोपदेशादिति । अस्य विकृतियागे श्रुतिः "तथैव नीवारान् श्रपये, तथैव जुहोतीत्यायुष्कामः, व्यंशं विष्णचे, साम्येनान्येभ्यः" इति । चरुत्रिभागं कृत्वा एकमंत्री विष्णवे ऽन्यद्यशं समभागेन ब्रह्मादिभ्यो जुहुयादित्यर्थः । तथा च प्रकृति- यागे कृष्णलचरोर्न त्र्यंशकरणम् विकृतावेव तदुपदेशात् । इत्यत्र सूत्रम्-"असति विरूपे पूर्वापरयोः साम्यम्" इति । विरूपे बाधके ऽसति पूर्वापरयोः प्रकृतिविकृत्त्योः ७५ लघुपूर्वमीमांसाधिकरणकौमुदी- साम्यमेव । तेन कृष्णलचरोरपि त्र्यंशकरणमिति । पृथिवीयागे श्रूयते-"पृथिव्यै क्षीरेण दना च जुहोति, इरा. वतीति वायुं पिबति, क्षीरं, दधि च" इति । अस्य विकृतौ श्रुतिः "वायवे जुहोति, चतुःपलं चतुर्धा ऽश्नाति" इति । अत्र पल. चतुष्कस्य चतुर्भागं कृत्वा ऽशनं विहितम् । प्रकृतिविकृयोः सा- म्यकथनात्-प्रकृतावपि तथैव भागस्य वायवादित्रयाणां मा- सत्वादाह-असति विरूप इति । वायोर्गुरुत्वाभावेन पलाभावा- भागासम्भव इति प्रकृतौ दधिपयसोरेव भागकरणं, वायोः सकृदेव पानम् । एवं विकृतियागे वायुभक्षणं नाङ्गं तस्य पला- सम्भवात् । पलत्वेनैव भक्षणविधानात् । तथा च- यो येन संपिबेदर्ष सोऽपि तत्समतामियात् । पादन्यूनश्चरेत्सोऽपि तस्य तच्च व्रतं द्विज ॥ इति व्यासवचनम् । यः पापी येन पापिना सम्पिबेत्संसर्गी स्यात् तस्य व्रतं पादन्युनं स कुर्यादित्यर्थः । तेन ज्ञानपूर्वक ब्राह्मणघातिनि मनुना द्वादशवार्षिकादित्रयोदशप्रायश्चित्ताभि- धानात्तन्मध्ये मरणस्य विधानेऽपि न तस्यातिदेशः तत्संसर्गि- णि मरणस्य पादन्यूनत्वासम्भवात किन्तु द्वादशवार्षिकमेव पाद- न्यूनं प्रायश्चितमिति प्रायश्चित्वविवेकः । एवं प्रकृतिविक- सोः साम्यकथनाद्विकृतावाभ्युदयिके 'कराग्राग्रपवित्रकान्' इति श्रुतेः पार्वणेऽपि तथैव विशेषानुपदेशादिति नवीनगौडाः। मैथिलास्तु 'पिध्ये द्विगुणा दर्भा दक्षिणाग्राश्च' इति परि- भाषया पवित्रस्य पार्वणे ब्राह्मणकरे दक्षिणाग्रत्वमेव, तथाऽऽभ्युद- यिकेऽषि तथात्वप्राप्त्या तद्वापाय कराग्रायोति । अत एवा- Wणामुत्सर्गे द्विगुणकुशाग्रदिशि नानध्यवसायः किन्तु दक्षि- पाना पत्र धार्या इति वदन्ति ।
लघुपूर्वमीमांसाऽधिकरणकौमुदी- अत्र वदन्ति-पार्वणस्याभ्युदयिकप्रकृतित्वे 'प्रकृतिव- द्विकृतिः' इतिन्यायेन पार्वणाङ्गसमुदायस्यैवातिदशः । तथा चाष्टकाश्राद्धस्यापि पार्वणतया तद्धर्माणामपूपमांसशाकानामा- वश्यकानामङ्गानामपि प्राप्तिः स्यात्पार्वणपदवाच्यता च तस्या- पि । यथा भविष्ये- अमावास्यायां क्रियते पार्वणं समुदाहृतम् । क्रियते वा पर्वणि यत्तत्पर्विणमिति स्थितिः । तथा चामावास्याश्राद्धत्वं पर्वश्राद्धत्वञ्च पार्वणपदशक्यताव- उछेदकमतोऽष्टकाश्राद्धं पार्वणपदवाच्यमेवेति । अत्र नवी. नाः-यद्यपि पार्वणपदस्योभयमपि शक्यं, तथापि अमावास्या- श्राद्धे रूढेस्तस्य शीघ्रोपस्थितिकत्वात्पार्वणविधिना कुर्यादिस- घामावास्याश्राद्धमुपस्थापितम् । पर्वश्राद्धे यौगिकत्वात्तस्य चाव- यवार्थोपस्थिसधीनत्वाद्विलम्बोपस्थितिः । ततः शीघ्रोपस्थि- तिनैवान्वयबोधः स्यादिति नापूपादीनामतिदेश इति बहु- दिनभावनापूर्वकं समाधानमाहुः । सामान्यातिदेशे विशेषा- नतिदेश इति न्यायात्पार्वणविशेषाष्टकाधर्मस्यामाप्तत्वात् । स तु न्यायो यथा--"विद्याकाम ऊर्जमारभ्य वर्ष प्रति कृष्णचतु. दश्यां रुद्राय तिलैर्जुहोति इमारुद्रायेति, तपस्ये तु यवान अपयति" इति रुद्रयागमुक्त्वा "एवं दाम्पससर्वकामः प्रत्यष्टम्प- म्बिकायै जुहोत्यम्बेऽम्बिकइति" इति श्रुतायुक्तम् । ऊर्ज-कार्ति. कमिति । तपस्ये-फाल्गुने । अत्र च रुद्रयागः अम्बिकायागस्य प्रकृतिरेवमित्युक्तेः । तथा च रुद्रयागे फाल्गुनकर्तव्ये चरुरङ्गम् । तथा चाम्बिकायागे सर्वमासेष्वेव चरोरप्यतिदेशात्माप्सा अ. म्बिकायागस्तिलैश्चरुणा च कार्यः । नच तपस्ये इतिश्रुतेः कथं सर्वमासेष्विति वक्तव्यम् । त.
लघुपूर्वमीमांसाऽधिकरणकौमुदी- ७७ पस्यस्य चतुर्दशीधीशेषत्वात्तपस्ये च चतुर्दश्यामियन्वयात् । तथा अष्टम्यां न तपस्यान्वयो ऽन्यान्वितत्वात् । एवञ्च केवलम- तिदेशेन यत्रस्यैवान्वयः । इसत्र सिद्धान्तसूत्रम्-"तुल्यप्राप्त्या नातुल्यप्राप्तिः" इति । सामान्यस्यातिदेशेन न विशेष- स्यातिदेश इत्यर्थः । तेनाम्बिकाहोमे न चरुः तस्य मासवि. शेषणीयत्वेन विशेषत्वात् । एवं सांवत्सरिकैकोद्दिष्टं प्रकृतिराचैकोद्दिष्टे च "इह लोकं परित्यज्य" इति मन्त्रोऽङ्गम् । सांवत्सरिके एकोद्दिष्टविकृतौ स. स्याङ्गत्वं स्यात्तत्राप्येष एव न्याय इति । यच्चोतं-पार्वणपदस्योभयमेव शक्यं, तदपि न । “अन्या. यश्चानेकार्थत्वम्' (अधि०४९) इति सूत्राव । अमावास्याश्रा- द्धत्वमेव शक्यतावच्छेदकं, नान्यत् । तथा हि अमावास्यायामिति यद्यधिकरणसप्तमी तदा मावास्याधिकरणकं भाद्राधेकोहि- टमपि पार्वणं स्यात्, ततश्चामावास्यात्वेन यत्र निमित्तता तपार्वणं नत्वमावास्यानिमित्तकमात्रम् । अमावास्याया मृताहत्वे मृताहनिमित्तकस्यामावास्यानिमित्तत्वात् । एवं पर्वणीसत्रा- धिकरणसप्तमीत्वेन स एव दोषः । अतः पर्वत्वेन निमित्तता वाच्या, सा च न सम्भवति अष्टकादिश्राद्धे पर्वणीत्युल्लेखा- पत्तेः । निमित्ततावच्छेदकरूपण निमित्तस्योल्लेखात् । न च निमित्तानामिति श्रवणानिमित्तस्यैवोल्लेखो न तु तत्त्वेनेति वाच्यम् । एवमशौचान्तद्वितीयेऽनि इसादरेनुल्लेखातू । निमि- तस्य तद्दिनस्य अधेसनेनैवोल्लेखात् । तथा चामावास्या- स्वावच्छिन्ननिमित्तताकश्राद्धवं पार्वणपदशक्यतावच्छेदकम् । कथं पार्वणपदप्रयोगस्तत्राह-क्रियते इति । वा एवार्थः । "वा स्याद्विकल्पोपमयोरेवार्थे चावधारणे" ७८ AIRS लघुपूर्वमीमांसाऽधिकरणकौमुदी- इति कोशात् । पर्वण्येव क्रियत इति पार्वणम् । तथा च योगस्यापि दर्शनेन पङ्कजपदचद्योगरूढिः प्रदर्शितेति । एवञ्चामावास्यायां पार्वणश्राद्धमिसेव प्रयोगो नतु अ. मावास्यानिमित्तकमिति श्राद्धीवशेषणम् । पार्वणपदेनैव तद- थोपस्थितेः । अमावास्यायामिति निमित्तसप्तमीमुक्त्वा केचि- द्विशेषणं वदन्ति । तन्न। अमावास्यायास्तहि अधिकरणत्वेना. लाभात् । न का सप्तमी सकृदुचरिता उभयमर्थ बोधयति । ततश्चाष्टकायामपि पार्वणविधिनेति प्रयोज्यम्, न पार्वणमिति मघादिश्राद्धवदिति । अत एव । पार्वणे त्वष्टकाश्राद्धे चान्द्रमिष्टं तथाब्दिके। इसत्र पार्वणाष्टकाश्राद्धयोर्भेदेनोपादानम् ॥ अथ कस्तावत्प्रकृतिविकृतिभावः । न तावत्कार्यकारणभावः । घटस्य कुलालविकृतित्वापत्तेः । मृद्विकारो हि घटः । नच समवायेति तत्र वाच्यम् । गुण- स्य द्रव्यविकृतित्वापत्तेः । अथ कारणतावच्छेदकाश्रयकार्यत्वं विकृतित्वम्। तथा च सुवर्णत्वं कुण्डलकारणतावच्छेदकं तदाश्रयं कुण्डलमिति सुवर्णविकारं तदुच्यते । नचैवं कार्यस्य स्वजनकला- पत्तिरिति वाच्यम् । स्वरूपयोग्यत्त्वस्येष्टत्वात् । फलोपधान- स्य तु पूर्ववर्तित्वाभावादभावः, जातघटं प्रति भाविदण्डवत् । मैवम् । उक्तविकृतित्वमाभ्युदायकादावसत्त्वेन प्रकृतानुपयोगीति । ननु मुर्वर्णादिसाधारणमिदं प्रकृतित्वं विकृतित्वञ्च ना- स्ति यागादेः प्रकृतित्वम्-अतिदिश्यमानाङ्गप्रतियोगित्व- म् । यस्याङ्गमतिदिश्यते तत्प्रतियोगि । तादृशानुयोगित्वञ्च विकृतित्वमिति चेदेवमन्योन्याश्रयापत्तिः । प्रकृतित्वज्ञाने प्रकृति- लघुपूर्वमीमांसाऽधिकरणकौमुदी- वद्विकृतिरिसतिदेशः। अतिदेशघटितस्य विकृतित्वमिति । उच्यते- नावान्योन्याश्रयः । स हि द्विविध एव दुष्टः । उत्पत्तितो क्लुप्तित- श्चेति । नाद्यः-प्रकृतित्वस्याजन्यत्वेनाऽतिदेशानपेक्षणात् । न द्वि- तीयः प्रकृतित्वस्यातिदेशज्ञानं विनापि कचित्तद्वदिदमियादि- वाक्यत्वात्, कचिन्यायगम्यत्वात् । किञ्चातिदेशज्ञानं न प्रकृतित्वज्ञानाधीनं लक्षणप्रविष्टाति. देशपदादेव तदुपस्थितेः । नन्वतिदेशात्प्राप्तिरियनानिषिद्धविषये प्राप्तिः प्रमैव वा. च्या । तथा चातिदेशस्यातिरिक्तप्रमाणत्वापत्तिः । प्रत्यक्षा- नुमानयोरसम्भवात्, शब्दस्याभावाच । मैवम् । अन्यत्र श्रुतस्य प्रकृतेऽश्रुतस्य कल्पनमतिदेशः । “पार- मेष्ठयकामो विरिञ्चये जुहोति ब्रह्मादेवानामिति, प्रो. द्गातृभ्यो हुतशेषफलचमसभक्षं प्रयच्छति" इति श्रूयते । प्रो- द्गातृभ्य इति बहुवचननिर्देशात्मोगात्रादिभ्य ऋत्विग्भ्य इत्यर्थः । अत्र यद्यपि होमस्य द्रव्यं नोक्तं तथा ऽपि हुतशेषमिति श्रुत्या फलचमसस्य होमद्रव्यत्वं कल्प्यते नातिदेशादतोऽन्यत्रश्रुतस्येति । श्रुतस्य-माप्तस्य । तेनातिदिष्टातिदेशे नाव्याप्तिः । यथा पार्व- णातिदेश एकोद्दिष्टे, तदतिदेशः साम्वत्सरिके इति । "चक्षुष्काम- आदिसायासमिधा जुहुयात्" इति । चित्रं देवानामिति स- हस्रं सौरलोककामस्तथैव तस्मै जुहोति" इसत्र तथैवेति श्रुसैव पूर्वोक्तसर्वाङ्गप्राप्तिातिदेशादतोऽतिव्याप्तिवारणाय प्र- कृतेऽश्रुतस्यति । वस्तुतोऽश्रुतस्येति न देयम् । तथैवेत्यनेनाप्य- तिदेशदर्शनादिति । कल्पनन्त्वनुमानम्-यथाऽयं यागः प्रकृ. तिविकृतियावदङ्गाङ्गकः विकृतित्वात् दर्शविकृयाष्टमिकयागवत् । नच दृष्टान्तेऽसिद्धिः पूर्वपूर्वानुमानाधीनत्वात् । यद्वा प्रकृ- लघुपूर्वमीमांसाधिकरणकौमुदी- तिश्रुतानामेव वाक्यानां न्यायेन समभिव्याहारः कल्प्यते । तथाच शब्द एवातिदेशः। नन्वतिदेशस्य शब्दत्वे ऽतिदिष्टनिषेधस्य पर्युदासत्ता- सम्भवः श्रुसभावेनैकवाक्यताया असम्भवादिति । न, तत्र पर्युदासत्वे वैयर्थापत्तेः । एकोद्दिष्टे नावाहनम्' इत्यत्र पर्युदासत्वे आवाहनभिन्नं कुशासनादि कुर्यादित्यर्थः स्यात्तस्य चाति- देशादेव प्राप्त्या नावाहनमिति व्यर्थं स्यात् । आवाहनश्च स्यात्तस्याप्यतिदेशात् । 'आवाहनरहितं कुर्यात्' इसर्थे तु निषेधे एव पर्यवसानमिति। ९४ अथ स्थालीपुलाकन्यायः- "श्येनेनाभिचरन् यजेत । मेमीक्षीरेण श्येनं श्रपयति । कालान्तकयमरुद्रेभ्यो जुहोति, कालःकरालइति, कार्षिरसीति, असियमइति, यातेरुद्र इति । अष्टाशासु भस्म किरति । अष्टलोह- पात्रे पुलाकान् दहति स्थाल्यां वा"इति श्रूयते । कस्य भस्मेसतो अष्टेति । अष्टलोहानि यथा- काञ्चनं रजतं ताम्रमारकूटं तथायसम् । शीसकं रङ्गकांस्ये च लोहाष्टकमुदाहृतम् ॥ १ ॥ तथा शैवयागे "भस्मतिलकी मृत्युञ्जयाय जुहोति" "अभिचार- शमनाय गोमयचूर्णानि लोहाष्टकपात्रे दहति तद्भस्म भवति" इति । एवञ्च लोहाष्टकपात्रसम्पत्त्या शिवयागसङ्कल्पे कृते त- त्पात्रापचारी कथं कर्म कुर्यात् ?। कर्मासम्पत्तौ च प्रसवायी स्थादत्र सूत्रम्-"स्थालीपुलाकवत्" इति । यथा-पुलाकदाहे- लोहाष्टकापचारे स्थाली ग्राह्या, तन्न्यायादत्रापि तथा । एवं गवामभावे दातव्यं तन्मूल्यं न तु संशयः । इति गोवधप्रकरणोक्तमन्यत्रापि सम्बध्यते । तथा लघुपूर्वमीमांसाऽधिकरणकौमुदी ८१ चान्यप्रकरणोक्तमवश्यापेक्षणीयमन्यत्रापि ग्राह्यमिति । अत एवं मैथिला:-यज्ञप्रकरणोक्तं "पवित्रस्थोवैष्णव्यौ" इति म- न्त्रद्वयं श्राद्धार्थपवित्रेषु न वदन्ति, अमावास्यापेक्षणी- यत्वाभावाव अवश्यापेक्षणीयत्वे दक्षिणकरधारणार्थ- पवित्रेऽपि तदापत्तेः । नचैवं श्राद्धेऽसंस्कृतपवित्रान्वय. प्रसङ्गः । तत्र द्रव्यान्तरवत्तूष्णीं प्रोक्षणेन संस्कारात् । वस्तुत- स्तु "बर्हिषः प्रादेशमाने पवित्रे कुरुते, ओषधीमन्तर्धाय छिन. त्ति, न नखेन, पवित्रस्थोवैष्णव्यविति । अथैनमद्भिरनुमाष्टि विष्णोर्मनसा पूतेस्थ" इति गोभिलवचनं यज्ञप्रकरणपठित- मपि परिभाषारूपम् । अन्यथा श्राद्धे नखेनापि छेदनं स्यात् । तहि श्राद्धे ओषधिव्यवधानेन छेदनमायातमिष्टापत्तेः । ओषधि- र्यवादिः । धारणार्थपवित्रे तु ओषध्यादेरन्वयोऽस्त्येव, नतु मन्त्रान्वयः । स्नानं विना मन्त्रपाठेऽनधिकारात् । स्नानेऽपि पवित्रधारणस्याङ्गत्वात् । नचातोऽधिस्नातन समन्त्रकपवित्रं क्रियतां, विशेषवचनाभावे अज्ञानां समानकर्तृत्वनियमाव । एवं पूर्वदिनकृतसमन्त्रकपवित्रस्य न कर्माङ्गत्वं विशेषत्रचनाभावे स- मानकालकर्तव्यत्वात् । नच स्नानातिरिक्तकर्मसु मन्त्रान्वयो. ऽस्तु, मन्त्रपाठेऽपि पवित्रधारणस्याङ्गत्वादनवस्थापातात् । तथा च कृष्णले ऽवघातबाधवद्धारणपवित्रे मन्त्रबाधः । नच गोभिलेन पिण्डस्थाने पवित्रेण रेखोक्ता, तत्र मन्त्रान्वयोऽस्त्विति वाच्यम्। सत्र पिअल्या इति श्रवणात् । तथा च पवित्रपदेन पत्राभिधानं तत्र मन्त्रस्याङ्गता । नचैवं सर्वाङ्गपवित्रे मन्त्रान्वयः । इष्टापत्तेः । पद्धतौ तादृशलेरवनन्तु आज्यसंस्कारकपवित्रममावुपदेशात् तत्रा. पि तथा प्राप्त्यति । अत्र वदन्ति-यज्ञे 'बर्हिषः पवित्रे कुरुते' इति श्रुतेर्मध्य- . ११ ८२ लघुपूर्वमीमांसाऽधिकरणकौमुदी- - एवं समन्त्रकपवित्रकरणं, श्राद्धे तु "चमसेषु पवित्रान्तहितेष्वपः क्षिपति शन्नोदेवीरिति" इति तदानीकरणश्रुतेः श्राद्धारम्भाव पूर्व समन्त्रकपवित्रकरणमस्तु । यथा- "शुचींश्च विदुषो विपान सम्यग्यत्नेन भोजयेत्" । इसत्र श्राद्धभोजनसमये तेषां न शुचित्वकरणं, किन्तु श्राद्धारम्भात्पूर्व शुचित्वाविशिष्टा एव ते भोजनसमये इति । यथा वा चमसानां न तदा करणमिति । तन, श्राद्धात्पूर्व पवित्रं यत्कर्तव्यं तत्र मन्त्रपाठो न । तद्विधानं द्विविधम्- काम्यं, निसश्च । नाद्य, फलाश्रुतेः । विश्वजिन्न्याये च तत्र पृ- थक् सङ्कल्पः स्यात् । न द्वितीयमकरणे प्रत्यवायाश्रुतेः, प्रायः श्चित्तानुपदेशाच्च । किन्तु पवित्रविशेषणत्वेनाङ्गत्वम् । पवि. त्रमप्यस्य विशेषणत्वेनाङ्गमतो मन्त्रविशिष्टं पवित्रमध्ये ऽपेक्षितम् । अतस्तदानीमेव समन्त्रकपवित्रकरणं, न श्राद्धारम्भात्पूर्वम् । नच तदानीमपि पवित्रमोक्षणमपेक्षितमिति वाच्यम् । दलद्वयं सन्निधाप्य प्रोक्षणं कार्यमय॑समये तेनैव दलद्वयेन पवित्रं कर्तव्य- मिति । नच श्राद्धोपयुक्तयावद्रव्यप्रोक्षणमादौ कर्तव्यं पवित्रञ्च तदुपयुक्तं न दलसामान्यमिति वाच्यम् । तथा सति प्रोक्षितपिण्ड- दानापत्तेः । आकारविशेषविशिष्टस्यापि तत्त्वात्तदभावात् । तथा च पिण्डघटकान्नादिप्रोक्षणेन यथा पिण्डस्य संस्कारः, तथा प. वित्रघटकदलपोक्षणादेव पवित्रसंस्कारः । किञ्च पवित्रपोक्षणं "विष्णोर्मनसा पूतेस्थ" इति मन्त्रकर्तव्यं, तच्च नादौ विहितं किन्वय॑समये एवेति । ननु पवित्रे इति द्विवचनानुपपत्तिः, पवित्र- पदस्य दलद्वयवाचकत्वात् नानार्थत्वकल्पने मानाभावादिति । मैवम् । मन्त्रपाठकरणकच्छेदान्मन्त्रपाठकाले छेदाभावेन प. वित्रत्वानिष्पत्तेरिति पवित्रपदं तदारम्भकदलपरम् । एवं प.
वाजपेयाधिकरणम् । वित्रे इति मन्त्रेऽपि । “विष्णोर्मनसा पूतेस्थ" इत्येतत्पा- उकाले पवित्रवाच्यत्वेऽपि तत्र विशेष्यपदाभावादनन्वयेऽन्व- यार्थ पूर्वमन्त्रस्थं पवित्रे इति पदमनुषज्यते । तस्य च दलप- रतैवोक्ता । नोकं पदं तत्र दलमात्रपरमत्र दलद्वयपरं भवितुमर्हति । तदात्वनुषङ्गः । अनुषने तत्पदस्यैव पदान्तरसम- भिव्याहारतात्पर्यम् । आवृत्तौ तु तादृशपदान्तरकल्पनम् । तथा च पवित्रे कुरुते इत्यनेन दलद्वयविषयककृतिर्विहिता । तत्र किं. क्रियानुकूला कृतिरिसत्राऽऽह-छिनत्तीति । इति सर्व समञ्जसम् । इति श्रीमहामहोपाध्याय पं० रामकृष्णभट्टाचार्य विरचिताऽधिकरणकौमुदी समाप्ता ॥ अस्मिन् ग्रन्थे ऽनिर्दिष्टानि कानि चित् बहुशश्चो. पयुक्ताधिकरणानि प्रयन्ते । १ अथ वाजपेयाधिकरणम् । इदं श्रूयते "वाजपेयेन स्वाराज्यकामो यजेत" इति । वा- जोऽन्नं तस्य पेयं द्रवीभूतो रसो यवागूरिति यावत(१) । अत्रोक्त- व्युत्पत्त्या वाजपेयशब्दस्य प्रसिद्धार्थकत्वेन “दना जुहोति" इतिवद् यजतिना ज्योतिष्टोमं प्रकृतमनूद्य वाजपेयद्रव्यविधानाद गुणविधिरिति चेत्फलपदानर्थक्यापातः । अथ फलोद्देशेनापूर्व कर्म विधेयं, तदुद्देशेन च द्रव्यरूपगुणविधिस्तर्हि वाक्यं भिद्येत । तत्परिजिहीर्षकैकस्यार्थिकत्वे "सोमेन यजेत" इतिवद् मत्वर्थलक्ष. णाप्रसङ्गः 'वाजपेयद्रव्यवता यागेन स्वाराज्यं भावयेत्' इति । (१) आधिकरणमालादिषु 'वाजो ऽन्नं तच्च पेयं सुराद्रव्यमिति यावत्' इति व्युत्पत्तिः प्रदर्शिता । मूलोक्ता तु तन्त्रवार्तिके- "वाजपेयं यवागूः स्यादौषधद्रव्यता ततः" इत्यनेन स्पष्टीकृतेति सुधिभिराकलनीयम् ।
परिशिष्टाधिकरणेषु- इति चेन्न । तन्त्रेणाख्यातस्य फलद्रव्याभ्यां युगपत्सम्बन्धस्त्री- कारेण विनैव मत्वर्थलक्षणामुभयविधिसिद्धेः । आह च- करणेषूपदिष्टेषु या अर्थात्साध्यत्वकल्पना ॥ तस्यां गुणविधानेन नास्ति मत्वर्थलक्षणा ॥ १ ॥ तथाहि-यजेतेसाख्यातस्य तावद् द्वौ भागौ । एकः प्रकृतिरपरश्च प्रसयः। तत्र प्रत्ययांशेन तावद् भावनोच्यते। प्रकृत्यंशेन च यागः। प्रकृतेश्च निर्विभक्तिकतया प्रत्ययार्थेन सार्क सम्बन्धविशेषान। बोधात्समभिव्याहारात्सम्बन्धसामान्यं प्रतीयते । तदुक्तम्- सम्बन्धमात्रमुक्तं च श्रुसा धात्वर्थभावयोः ॥ तदेकांशनिवेशे तु व्यापारो ऽस्या न विद्यते ॥२॥ इति । निर्विशेषं न सामान्यमिति विशेषाक्षेपोन्मुखं तदविशेषाद् द्रव्यफलापेक्षितं साध्यसाधनरूपं सम्बन्धद्वयमाक्षिपेत् । तथा च द्रव्येण सम्बन्धाद कर्मकारकत्वं 'वाजपेयद्रव्येण यागं भाव- येत्' इति । फले सम्बन्धे च करणकारकत्वमपि 'यागेन स्वारा- ज्यं भावयेत्' इति । न खलु काचिदत्र कर्मत्वस्य करणत्वस्य वा प्रतिपादिका साक्षादसाधारणी विभक्तिः श्रूयते, येन उभ- यसम्बन्धासम्भवः स्यात् । तस्माद गुणकर्मोभयविधिरिपत्र सि- दान्तसूत्रे-"तुल्यत्वात् क्रिययोर्न" (अ०१.पा०४.अधि०६. सू०७) "ऐकशब्द्ये परार्थवत्"(अ० १.पा०४.अधि०६.सू०८) इति । अयमर्थः-क्रिययोः-दर्शपूर्णमासवाजपेययोः, तुल्यत्वात्- समानत्वात,न-गुणविधिर्नेति । तथा -सकृदुच्चरिते धात्वर्थे कर्म- त्वकरणत्वयोयुगपत्सम्बन्धवसापेक्षया परो यवागूरूपो यो ऽर्थ- स्तद्विधानवत् तद्विधानाश्रयः तदर्थमनुवादवदिति यावत् । अयम्भाव:-यवागूरूपगुणविधाने ओषधिद्रव्यत्वेन वा. जपेयस्य दर्शपूर्णमासविकृतित्वापत्तिः । न चेष्टापचिः "सप्त- वाजपेयाधिकरणम् । ८५ दशोपसको वाजपेयः" इति सौमिकधर्मश्रुतिविरोधात् । किश्च यागस्य तन्त्रेण सम्बन्धाङ्गीकारे विरुद्धत्रिकद्वयाप- त्तिः । विरुद्धत्रिकं च- उपादेयविधेयत्वगुणत्वाख्यं त्रिकं यजेः। उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रति ॥ ३ ॥ इति माधवाचार्येणोक्तम् । तत्रोद्देश्यत्वमिच्छाविषयत्वम् । उपादेयत्वञ्च अनुष्ठीयमान- स्वम् । ततश्चैतौ मनःशरीरोपाधिको धर्मों । विधेयत्वं नाम विधिविषयत्वम् । विधिश्च अज्ञातबोधनम् । ज्ञातस्य कथनन्त्व- नुवाद इति । विधेयत्वानुवाद्यत्वधर्मौ च शब्दोपाधिको । मुख्यत्वं तावत् प्रधानत्वम् । गुणत्वञ्च अप्रधानत्वम् । न चैतस्य त्रि. कद्वयस्यैकत्रावस्थानं सम्भवति, मिथो विरोधात् । योगफलयोस्तावत्स्वभावपर्यालोचनायां फलमुद्दिश्य पाग. स्योपादेयत्वात, फलानुवादेन तत्साधनतया यागस्य विधानाव, फलेच्छाधीनेच्छाविषयत्वाच्च, यागस्योपादेयत्वादित्रिकं, फलस्य च उद्देश्यत्वादित्रिकं पर्यवस्यति । तथा यागवाजपेयद्रव्ययोः स्वभावपर्यालोचने यागमुद्दिश्य द्रव्यस्योपादेयत्वाद,यागानुवादेन तस्य विधानात, तदधीनेच्छा. विषयत्वाच्च यागस्योद्देश्यत्वादि, द्रव्यस्य उपादेयत्वादि, त्रिकं पर्यवस्यति । न च द्रव्यं प्रति यागोऽई उपादातुम् । तस्य तत्सं- स्कारकत्वमसगाव, तृतीयाश्रुतिबाधाच्च । नापि संस्कृत- स्य यवागूद्रव्यस्यान्यत्रोपयोगो ऽस्ति यनैवमाश्रीयेत । त. स्माद्वाजपेयपदस्यामिहोत्रशन्दवद्यागसामानाधिकरण्येन च कर्म- नामषेयतेति स्वतन्त्रकर्ममात्र विधिरिति ।
परिशिष्टाधिकरणेषु- २ अथारुणाधिकरणम् । ज्योतिष्टोमे श्रूयते "अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति" इति । तत्रारुणाशब्दो गुणिविषयतया प्रयु. ज्यमानोऽपि अरुणं गुणमाचष्टे । “नागृहीतविशेषणा विशिष्टबुद्धिः" इति न्यायादन्वयव्यतिरेकाभ्यां तत्रैव व्युत्पत्तेश्च । तस्य च तृतीयाश्रुसा क्रयसाधनत्वं प्रती. यते । तच्चानुपपन्नम् । अमूर्तस्य तस्य वासोहिरण्या. दिवत्क्रयसाधनत्वासम्भवात् । उक्तं च- अमूर्तत्वाद् गुणो नैव क्रियां साधयितुं क्षमः ।। तस्मात्क्रीणातिना नास्य सम्भववेकवाक्यता ॥ १ ॥ इति । अतश्च तृतीयाश्रुतेरविनियोजकतया तया ज्योतिष्टोमप्रकरणगतग्र- हचमसादीन करणतयोपदिष्टाननूद्यारुण्यरूपो गुणो विधीयते । यदि च विभक्तेः निष्कृष्य कारकशत्यभिधायकत्वेन क्रियाविशेषकत्वात्कथं कृदन्तकरणादिशब्दवत्तृतीयया द्रव्याभि- धानमिति उच्यते, तर्हि गुणवाचकप्रातिपदिकस्योपादानलक्षणया द्रव्यवाचित्वेन तृतीयया तद्तकरणत्वाभिधानेन प्राप्ताप्राप्तविवेकेन विधिशक्तेर्गुणे उपसंक्रमात् प्रकरणगतविशेष्यभूतद्रव्यानुवादेन विशेषणभूतो गुणस्तत्परिच्छेदकत्वेन विधीयते । तथा च अरुण- येति भिन्नं वाक्यं, पिङ्गाक्ष्येति च । तत्राऽऽद्यस्य येन द्रव्येण किञ्चित् क्रियते तेनाऽरुणगुणकेन इयर्थः । नचैवं पिङ्गाक्ष्ये- कहायन्योरपि ज्योतिष्टोमगतसकलसाधनद्रव्यगामित्वं शङ्कनी- यम् । तयोर्द्रव्यचाचित्वेन द्रव्यान्तरगामित्वासम्भवात् । नच पिने अक्षिणी यस्या इति षष्ठयर्थे समासविधा- नात्सम्बन्धवाचित्वं शङ्ग्यम् । लाघवानुरोधेन सर्वैरपि यौगिकैः अरुणाधिकरणम् । ८७ शब्दै व्याभिधानात् ॥ तथाहि-तेषां सम्बन्धवाचित्वे सम्बन्धमात्रमभिधेयं कल्प्यते, सम्बन्धविशेषो वा ? । नाद्यः, तेषां सर्वेषां सम्बन्धमात्रवाचित. यैकार्थकत्वापातात् । अथ सम्बन्धविशेषः । ततस्तज्ज्ञानस्य सम्बन्ध्यधीनत्वादनुक्तसम्बन्धिनश्च तयवच्छेदासामर्थ्यमिति, तस्य चोभयनिष्ठत्वादुभौ सम्बन्धिनाववश्यमभिधातव्यौ । तत्रै- कस्य वृत्तिघटकपदेनाभिधानाद द्वितीयनिरूपिता वृत्तौ शक्तिः कल्प्यते इत्यवश्यमभ्युपेतव्यमिति । ततश्च सम्बन्धिनमभिधाय सम्बन्धीभिधानेऽतिगौरवमिति । एवं च पिङ्गाक्ष्येकहायनीशब्दयो. रपि पिङ्गे अक्षिणी यस्याः, एकं हायनं यस्या इति यौगिकत्वेन सिद्धं द्रव्यवाचित्वम् । उक्तं च- सर्वत्र यौगिकैः शब्दै द्रव्यमेवाभिधीयते । न हि सम्बन्धबाचित्वं सम्भवसतिगौरवात् ॥ २॥ सम्बन्धिनैव सम्बन्धः प्रसतुं यदि शक्यते । पुनस्तस्याभिधाशक्ति कः श्रुतेः परिकल्पयेत् ॥ ३ ॥ एवं च वाक्यभेदेन प्रकरणात् ज्योतिष्टोमगतकरणभूतस. कलद्रव्यगामी आरुण्यगुणः । यत्तु समानवाक्यश्रुतपिङ्गाक्षीद्रव्यानुवादेनाऽऽरुण्यगुणो वि- धीयताम् । वाक्यभेदश्च नेति । तन्न, "ऐकशब्द्ये परार्थ- वत्" इतिन्यायेन पिङ्गाक्ष्याः क्रयारुणौ प्रति वैरूप्यप्रसङ्गादिति पूर्वपक्षे सिद्धान्तसूत्रम्-"अर्थैकत्वं द्रव्यगुणयोरैकका- नियमः स्यात्' इति ( अ०३-पा० १-आधि०६-सू० १२) अयमर्थः-द्रव्यगुणयोरेकक्रियान्वयित्वरूपाईंकत्वे सम्भवति त. योः परिच्छेद्यपरिच्छेदकभावनियमः । ऐकका एकार्थप्रति- ८८ परिशिष्टाधिकरणेषु- पादकत्वरूपैकवाक्यत्वात् । अयम्भाव:-उदाहृतवाक्येन भावा- र्थाधिकरणन्यायेन (अ० २-पा० १ अधि० १ सू० १ द्वि- तीयवर्णकम् ) क्रयो विधीयते । तस्मिश्च तृतीयाश्रुया पि. झापादेर्यथा करणत्वं, तथा आरुण्यगुणस्यापि । तच्च स्वसा- ध्यक्रियापेक्षितया पिङ्गाक्ष्यादिद्रव्यमनपेक्ष्यैव वाक्येन साक्षात्क्रये ऽन्वेति । खलेकपोतन्यायेन सर्वकारकाणां साक्षाक्रियान्वय- नियमात् । उक्तं च- कारकं छुच्यते कुर्वन्नाक्रियां तत्करोति च ॥ तस्मान द्रव्यसम्बन्धः कारकस्यास्ति कस्य चिद ॥४॥ इति । यदि तस्यामूर्तत्वात्साक्षात्क्रियासाधनत्वं न सम्भवति इति विभाव्यते,सहि क्रयसाधनद्रव्यपरिच्छेदमुखेनान्वीयताम् । तदुक्तम्- तृतीयया गुणस्यैव करणत्वं क्रयं प्रति ॥ विस्पष्टं गम्यते तच्च द्रव्यद्वारेण युज्यते ॥ ५॥ किञ्च- द्रव्येण साधनीयेयीमति ज्ञाता यदा क्रिया। कीदृशेने अपेक्षा ऽस्य गुणे ऽप्युत्पद्यते तदा ॥ ६ ॥ द्रव्यमप्यपरिच्छिन्नं न क्रियां साधयितुमलमिति परि- छेदकमपेक्षने । गुणश्च क्रियासाधनत्वेनोच्यमानः तां च स्वतः साधयितुमक्षमः तदर्थं परिच्छेद्यं द्रव्यमपेक्षते इति द्रव्यगुणयोः परस्परमपेक्षितत्वात्सुनिरूपितः पाणिकः प. रिच्छेद्यपरिच्छेदकभावेनान्वयः । युक्तं च गुणस्य तत्प. रिच्छेदकत्वात्क्रियासाधनत्वाभिधानम् । एवञ्च साधनत्वेन गु. णं विदधती श्रुतिः यथैतेन शक्यते क्रियां साधयितुं तथा कु- दिसाह । स च द्रव्यपरिच्छेदेनैव शक्नोति साधयितुं, नान्यथा ।
वैश्वानरेष्टयधिकरणम् । तथा च अरुणपरिच्छिन्नेन पिङ्गाक्षाद्रव्येण क्रयं कुर्यादिसर्थस्य पर्यवमानेन वाक्यभेदाभावेन च न चमसादिषु गुणो निविशते । किञ्च प्रकरणेन चमसादिषु गुणनिवेशं वदता वक्तव्यमिदं केन तत्र गुणो विधीयते । नच श्रूयमाणविधिना तत्सम्भव- ति । क्रीणातिना त्वया सम्बन्धस्य नेष्यमाणत्वात् । नाप्यरुणपदस्य विधिशक्तिरस्ति । प्रयोगवचनं त्वक्रियात्म- कं दूरादुपेक्षते । मम तु क्रीणातिना सम्बन्धस्येष्टत्वात्सुलभं विधानम् । न चैवं वासोहिरण्यादिषु क्रयसाधनत्वात्तनिवेशः स्यादिति वाच्यम् । तेषां क्रयान्तरसाधनत्वात् । नहि स्ववाक्यगतं पिङ्गाक्षीद्रव्यमुपेक्ष्य चाक्यान्तरोपात्तवस्त्रायवच्छेदो युक्तः । तस्मादारुण्यगुणः क्रयहेतुं पिङ्गाक्षीमेव भजते इति । ३ अथ वैश्वानरेष्टयधिकरणम्- काम्येष्टिकाण्डे श्रूयते "वैश्वानरं द्वादशकपालं निपेत् पुत्रे जाते, यदष्टाकपालो भवति गायध्यैवैनं ब्रह्मवर्चसेन पु- नाति, यन्नवकपालस्वित्वास्मिस्तेजो दधाति, यद्दशकपालो वि. राजैवास्मिन्नन्नाचं दधाति, यदेकादशकपालस्त्रिष्टुभवास्मिन्नि- न्द्रियं दधाति, यद्वादशकपालो जगत्येवास्मिन् पशून् दधाति, यस्मिन् जाते एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रि- यावी पशुमान् भवति" इति । तत्राष्टाकपालादिशब्दाः प्रकृत- वैश्वानरयागस्य नामधेयपरा गुणविधिपरा अर्थवादपरा वा ? । तत्राष्टाकपालादिशब्दबोधिताष्टत्वादिसंख्यानां द्वादशस्वन्तर्भावे. न प्राप्तत्वात्तत्मख्यन्यायेन “वैश्वदेवेन यजेत" इतिवद् "अ- ग्निहोत्रं जुहोति" इतिवद्वा तेषां यागनामधेयत्वं युक्तम् । तत्र हि "वैश्वदेवीमामिक्षाम"इत्यनेन यागे विश्वदेवसम्बन्धस्य १२ "संस्कृतं ९० परिशिष्टाधिकरणेषु- प्राप्ततया “वैश्वदेवेन यजेत" इयत्र वैश्वदेवशब्देन विश्वदेवदे- वताविधानासम्भवात्तस्य नामेधयविधित्वम् । “अग्निहोत्रं जुहोति" इत्यत्रापि “अग्निज्योतिज्योतिरग्निः स्वाहा" इति मन्त्रवर्णेनामे: प्राप्तत्वेन तद्विधानासम्भवादग्निहोत्रमिति कर्मनामधेयम् । अथ नात्र द्वादशकपालादिशब्दाः संख्यापराः, किन्तु द्वा- दमासु कपालेषु संस्कृतः पुरोडाश इति योगेन द्रव्यपराः । एवञ्च द्रव्ये द्रव्यान्तरानन्तर्भाव इस पाप्तत्वम् । द्वादशकपाल एवाष्टसु संस्कृत इति तु वक्तुमशक्यम् । अन्यथा ऽष्टानामन्यैश्चतुर्भिः कपालैः साकाङ्क्षया सामर्थ्याभावात्समर्थाधिकारे भक्षाः" ( अ० ४ पा० २ सू० १६) इति पाणिनिसूत्रविधी- यमानतद्धितानुत्पत्तिप्रसङ्गः। एवं च न नामत्वम् । अप्राप्तत्वादेव च नार्थवादत्वम् । न ह्यविहितस्याष्टाकपालस्य स्तुतिः सम्भव- ति । तदुक्तम्- "सामानाधिकरण्ये हि नामधेयं प्रगीयते"। इति । "पूर्वज्ञातार्थवाचित्वे नामधेयार्थवादते" ॥ इति च । तस्मात्मकृतवैश्वानरयागे ऽष्टाकपालपुरोडाशरूपगुणविधिरिति । न चैवमुत्पत्तिशिष्टद्वादशकपालावरुद्धत्वात् तत्रान्यद्रव्यनिवे. शासम्भवातस्यैयामिति वाच्यम् । उपक्रमोपसंहारवशात्सर्वं चे- दमेकं वाक्यामिति पर्यालोचनेन वैकल्पिकाष्टाकपालादिद्रव्य- विशिष्टवैश्वानरोष्टिविधानात्सर्वेषामुत्पत्तिशिष्टत्वसाम्येन पक्षे चा. रितार्थ्यात् । तस्माद् गुणविधिरिति पूर्वपक्षे सिद्धान्तसूत्रम्- अविभागाद्विधानार्थे स्तुत्यर्थेनोपपद्येरन् ( अ० १-पा० ४-अधि० ११ मू० २०) इति । अयमर्थः-विधानार्थे-कपा- लगतद्वादशसंख्यायामष्टत्वादिसंख्याया अविभागाव-नियमाव, - वैश्वानरेष्टयधिकरणम् । ९१ तस्या अवयवरूपत्वादिति यावत् । द्वादशकपालस्तुसर्थत्वेनाष्टा- कपालादिशब्दा उपपद्येरन् । अषयवस्तुतिद्वारा अयविस्तु- तिरित्यर्थः । तथा हि- अष्टत्वाधविधानत्वाद्यर्थेयं तत्परोचना । तस्मादवयवद्वारं द्वादशत्वं परोच्यते ॥ अयम्भावः-सर्वत्र तावद्वरस्य स्तुतिदृश्यते । वरं चात्र द्वादश- कपालसंस्कृतपुरोडाशद्रव्यं विधेयत्वात् । तस्मात्तस्य यथा स्तुति वितुमर्हति तथा कर्तव्या । अष्टाकपालादिशब्दाश्च तत्पतीत्यजन- का अपि तदेकदेशं प्रत्याययितुमहन्तीति तदेकदेशप्रत्यायनद्वारा एकदेशिनो द्वादशकपालस्य तैः शब्दैः स्तुतिः प्रतीयते । तथा च श्रुतेरयमर्थः-ईदृशोऽयं द्वादशकपालः पुरोडाशो महाभागः, यस्मिन् क्रियमाणे अष्टाकपालादयोऽपि सम्भाविता भवन्ति, ते च ब्रह्मवर्चसादिसिद्धिभिः प्रशस्ताः, तस्मात्प्रशस्तोऽयमिति । यागविधायकवाक्येन द्वादशकपालस्य विहिततया न स्तुत्य- स्याज्ञातत्वं, येनाष्टादिशब्दानां स्तावकत्वं नोपपद्यत । किञ्च तस्य “जगसैवास्मिन्" इति पृथकस्तुतिसत्त्वेप्य- धिकपाशस्यबोधनार्थमाधिकस्तुत्यपेक्षया नानर्थक्यम् । विधिपक्षे तु वैज्ञानरस्य द्वादशकपालावरुद्धवात् पश्चा- च्यमाणाष्टाकपालादीनां वैयर्थ स्पष्टमेव । ननूक्तं सर्वेषामुत्पत्तिशिष्टत्वेन समानबलवत्त्वाह्रीहियवव. द्विकल्पेन चारितार्थ्यमिति । तत्रोक्तम्- उत्पत्तिवाक्पशिष्टत्वं न तावदुपपद्यते । सर्वेषामर्थभेदेन वाक्यं तत्र हि भिद्यते ॥ वैकल्पिका अष्टाकपालादिगुणा वैश्वानरे विधीयन्ते इति वि- ९२ परिशिष्टाधिकरणेषु- भाव्यते चेन्नानागुणविधानेनार्थभेदाद्वाक्यभेदप्रसङ्गः । उपक्रमोप- संहारदर्शनेन च वाक्यैकत्वं प्रतीयते । तस्मानाष्टाकपालादीनां स- मानबलवत्त्वमिति। ननु मास्तून्पत्तिशिष्टत्वं परमष्टाकपालादिगुणविधिगत. द्वादशकपालाधन्यथाऽनुपपच्या वैज्ञानरवाक्यगतद्वादशकपालस्य सामान्यतो द्रव्योपलक्षकत्वविचक्षणात्सर्वेषामेवैभिर्विधानादुत्पन्न शिष्टत्वात्तुल्यबलस्वामिति । उच्यते, अष्टाकपालादीनां स्तावकत्वे- नोपपत्तौ विधिवाक्यगतवैश्वानरसमानाधिकरणद्वादशकपालशब्द- लक्षणत्वविवक्षाया निष्प्रमाणत्वात् । किञ्च निर्वपतिनाऽत्र यागो विधीयते । स च द्विती- यान्तेन द्वादशकपालेनैव सम्बध्यते, न तु प्रथमान्ताष्टाकपा- लादिभिः, निराकास्त्वात् । आख्यातानिष्ठविशेष्यतानिरू- पितप्रकारतासम्बन्धेन शाब्दबोधे प्रातिपदिकाद्विहितकारकवि- भक्तिजन्योपस्थितेः कारणत्वादाख्यातस्य कारकविभत्त्यन्तेन साकाङ्कत्वात् । नचाष्टाकपालादिवाक्यैः स्वतन्त्रं कर्म विधीयते । द्रव्यदेवतारूपयागस्वरूपानुपलब्धेः । ननु वैश्वानरपदस्य अनुषङ्गाधिकरणन्यायेन (अ० २- पा० १ ० १६) सम्बन्धे देवतालाभेन यागस्वरूपसिद्धिरिति चेन्न । भिन्नविभक्तिकत्वेन द्वितीयान्तवैश्वानरपदस्य प्रथमान्ता. टाकपालादिशब्दैरनुषङ्गासम्भवात् । तदुक्तम्- वैश्वानरपदं नापि यागायात्रानुषज्यते । विभत्त्यन्तरयोगित्वात्, न चर्तेऽस्मादनर्थकम् ॥ इति । न च विभक्तिविपरिणामेन तत्सम्भव इति वाच्यम् । अष्टाकपालादिश्रुतेः स्तावकत्वेनोपपत्त्या ऽनुषङ्गविभक्तिविपरि- णामयारयुक्तत्वात ।
असञ्जातविरोधिन्यायः। नापि ब्रह्मवर्चसादिफलाय गुणविधिः । वाक्यभेदप्रस- ङ्गात् । तस्मात् पूर्वोक्तप्रकारेण नामधेयविधित्वयोरभावन 'पुत्रे जाते' इत्यत्रोपक्रान्तस्य द्वादशकपालस्य 'यस्मिन् जाते' इत्य- नेनोपसंहारादेकवाक्यत्वपर्यालोचनया स्तुसा विना च तदसम्भ. वात्स्तावकत्वमेव युक्तम् । तथा च अष्टाकपालादिभिरंऔरंशिनो द्वादशकपालस्य स्तुतिरिति ॥ ४ अथासञ्जातविरोधिन्यायः। "प्रजापतिरकामयत प्रजाः सृजेयेति । स तपो ऽतप्यत । तस्मात्तेपानावर त्रयो देवा असृज्यन्त 'अग्निायुरादियः । ते तपो ऽतप्यन्त । तेभ्यस्तपानेभ्यस्त्रयो वेदा ह्यसूज्यन्त । अग्नेक्र- ग्वेदो, वायोर्यजुर्वेद, आदिवात्सामवेदः" इत्युपक्रम्य ज्योतिष्टोमे श्रूयते "तस्मादुच्चैर्ऋचोपांशु यजुषा उच्चैः साम्ना" इति । अत्रोपक्रमोपसंहारयोरेकवाक्यत्वानुरोधाय तयोरेकार्थविषयत्वा- वश्यकतया उच्चैस्त्वादिविधिवाक्यगतऋगादिशब्दा-यत्रार्थवशेन पादव्यवस्थेत्यादिलक्षणार्थकाः पूर्वश्रुतमन्त्र-ब्राह्मणसमुदायपर- वेदशब्दसामानाधिकरण्याय लक्षणया तदर्थपरत्वेन व्याख्येया:? उतोपक्रमगतवेदशब्द एत्रोपसंहारस्थऋगादिशब्दसमानार्थत्वाय लक्षणया व्याख्येय इति । तत्रोक्तम्- गुणत्वादनुवादत्वादर्थवादस्य लक्षणा ॥ मुख्यस्यापि प्रधानत्वादप्राप्तविषयत्वतः ॥ विध्युद्देशो जघन्योऽपि स्वार्थहानि न गच्छति ॥ इति । उच्चैस्त्वादिधर्मविधाने हि ऋगादेरुद्देश्यतया विधिवाक्य- गतत्वेन प्राबल्यादप्राप्तविषयत्वेन प्राधान्याच तदपेक्षयोपक्र- * कानजन्तमेतत् । ?
परिशिष्टाधिकरणेषु- मगतवेदशब्दस्यार्थवादगतत्वेन तस्य च विधिसापेक्षप्रमाणत्वेन दौर्बल्याव, प्रमाणान्तरसिद्धस्यैवानुकीर्तनमर्थवाद इसनुवादत्वाद गुणभूतत्वेन "गुणे त्वन्यायकल्पना" इति न्यायेनोपक्रमगतो वे. दशब्द एव लक्षणया तदेकदेशमन्त्रपर इति । किञ्च ऋगादिशब्दानां वेदपरत्वे तैस्तदेकदेशब्राह्मणाभिधानं स्यात् । नच कदाचिदपि साम्प्रदायिका ब्राह्मणे ऋशब्द प्रयुञ्जते । दृष्टप्रयोगानुसारिणी च सर्वत्र वृत्तिकल्पना युक्ता। वे. दशब्दस्तु 'ग्राम आयात' इतिवदेकदेशं बोधयितुमीष्टे । ऋचं ब्राह्म णम वा ऽधीयानस्य सर्वैरपि वेदाध्यायी इत्युच्यमानत्वात् । किञ्च एकत्र वेदे पठ्यमाना वेदान्तरेऽप्युपलभ्यन्ते काश्चिह- चस्तथा यजूंषि सामानि च । वेदपरत्वे तेषूचैस्त्वादिधर्मस्यानुष्ठाने संशय-उभयवेदगतत्वेन किङ्गतस्यानुष्ठानमिति । वेदद्वयव्यपदेशस्य तुल्यतया समानबलवत्त्वविभावने त्वष्टदोषग्रस्तविकल्पापत्तिः। तेषां ऋगादिपरत्वे तु नोक्तापत्ती । न ह्येकस्मिन् वर्णसमुदाये ऋक्त्वं यजुष्टं चेत्युभयं समवेतम् । ज्योतिष्टोमप्रकरणं चैवमनुगृह्यते । अन्यथा वेदस्य समस्तेष्टिपश्वेकाहाहीनसत्रविषयत्वाद्यावद्वेदानु. सारी धर्मः प्रकरणमुल्लङ्घय सार्वत्रिकः स्यात् । तथाचोपक्रम- गतवेदशब्दस्य तदवयवे लक्षणया ऋगादिपरत्वमिति पूर्वपक्षे सिद्धान्तसूत्रम् "वेदो वा प्रायदर्शनात् । ( अ० ३ पा० ३ अधि० १ ० २) इति । अयमर्थः-वेदः-उक्तविध्युद्देश: मन्त्रब्राह्मणसमुदायरूपवेदधर्मः । ऋग्वेदेन विहितं कर्म उच्चैः कर्तव्यम, यजुर्वेदेनोपांशु, सामवेदेनोचैरित यावत् । प्राये- वाक्योपक्रमे दर्शनाव-वेदशब्ददर्शनात् । अयम्भावः-उप. क्रमे मन्त्रब्राह्मणसमुदायपरवेदपदश्रुया तजनितसंस्कारव्याप्तम. नस्कतया पश्वाच्यमाणऋगादिशब्दानामेव लक्षणा करणीया।
असनातविरोधिन्यायः । ९५ - यत्तु विध्युद्देशवलीयस्त्वान्न तत्र लक्षणोते । तत्रोक्तम्- विध्यर्थवादसम्बद्धमन्यदेव बलाबलम् । मुख्यपश्चात्तनत्वेन ज्ञानानामन्यदेव तत् ॥ इति । ते एवार्थवादा विध्युद्देशैः प्रषाध्यन्ते ये पश्चाच्यन्ते । येतु पूर्व, न ते पश्चाच्छ्यमाणस्य विधेरप्यनुरोधाय स्वार्था- तिक्रमं सहन्ते, कुतो विध्युद्देशस्य । सर्वेषामपि शब्दानां स्वार्था- तिक्रमे विरोधः कारणम् । स च विरोधिज्ञाने सयेवोपपद्यते । न चात्र "त्रयो वेदा हसूजन्त अग्नेर्ऋग्वेद" इसादिवाक्यश्रवणकाले जातिवाचकऋगादिपदानां श्रुतिः । यशोन वेदशब्दस्तदवय- वे लक्षणां भजेत । अवधारित च तदा वेदपदार्थे उपसंहारगतऋ- गादिशब्दाः सातपतिपक्षज्ञानत्वात्स्वार्थपराः सन्तस्तदेकवाक्य- सामप्रतिपद्यमाना बलाल्लक्षणां भजन्ते । किञ्च विध्यर्थवादयोः समानविषयत्वनियमात याव- देवार्थवादे वेदाः सङ्कीर्तितास्तावदेव किमप्येषां वि. धास्यते इसेतदवघृतम् ततश्च किमेषां विधेयमिये. तन्मात्रमपेक्षते, न तु कस्य किमिति । तथा चोत्तरस्माद्वाक्याद- पेक्षितमात्रं गृह्यते । विधेयं चापेक्षितम् , न विधिविषय इति उच्चै- स्त्वादिमात्रं सम्बध्यते, नतु ऋगादयः । ततश्चाविवक्षितत्वादेषाम- र्थवादगतवेदशब्दे च विध्युद्देशत्वेनावधारिते यस्मादवमेते वे- दा जातास्तस्मादेषामुच्चैस्त्वादि कर्तव्यमितिवक्तव्ये तमेवार्थ सिद्धमङ्गीकृस ऋगादिशब्दा उच्चार्यन्ते । अन्यथा ह्यसम्बद्धमैत्र स्यादिति तेषामेवानुवादत्वम् । यत्तूक्तं न हि कदाचिदपि ब्राह्मणे ऋशब्दप्रयोग इति । तन्न, वेदे एक- , परिशिष्टाधिकरणेषु । "ऋग्भिः पूर्वाह दिवि देव ईयते यजुर्वेदेन तिष्ठति मध्ये अन्हः । सामवेदेनास्तमये महीयते वेदैरशून्यस्त्रिभिरेति सूर्य:" ॥ इति मन्त्रे प्रथमचरणे ऋक्शब्दस्य मन्त्रब्राह्मणसमुदाये प्रयोगदर्शनाव । नहि तत्र स मन्त्रमात्राभिधानाभिप्रायेण प्रयुक्त इति भ्रमितव्यम् । चतुर्थचरणे वेदैसित बहुवचनानुपपत्तेः । यश्च संशय उच्चस्त्वानुष्ठाने उक्तः सोऽपि न । नहि पाठ- मात्रेण तद्गतधर्मानुष्ठानप्रसक्तिः। किन्तु येषां यत्र विधानं ते- षां तद्गतधर्मो भवति । यदि केषां चिदुभ्यत्रापि विधानं तर्हि "भूयस्त्वेनोभयश्रुति" ( अ० ३-पा० ३ अधि० ३ सू०१०) इति न्यायेन निर्णयः । यत्र तु भूयस्त्वमपि नास्ति तत्रेष्ट एवं विकल्प इति । शिवं भूयात्