Donor

Sakhyakarikaa

Shrii Kuruganti Veinkataramand-a Shaastri · 2005/08/23

PDF Proofread

Front matter

HIWI
MINER
tull
IS VARA KRISHNA'S
SANKHYA KARIKAS
WITH
SANKHYA RAMANIYA
Cominentary by
Brahina Sri.
Kuruganti Vend ytaramana Sastri

No text on this page.

श्री ईश्वरकृष्णेन प्रणीताः
सांख्यकारिकाः
DONATED TO
TTD ENTRAL LIBRARY
ब्रह्मश्री वेदमूर्तिभिः विद्वत्प्रवरैः
कुरगण्टि वेंकटरमणशास्त्रिभिः विरचितया
संख्यरमणीयया
व्याख्यया समुल्लसिताः
तदन्तेवासिमण्डलेन प्रकटीकृताः

Frist Edition 500 Copies 1955
Copies can he had of :
The Honourary Secretary
Sundari Vilasa Samskrita Pathasala
VEM UR (P. O.)
Tenali Tag. (Guntur Dt.)

निवेदनम् विज्ञातं खलु सर्वशास्त्रविद्भिः भगवता ईश्वरकृष्णन प्रणीतास्सांख्यकारिकाः मुमुक्षुगां तत्त्वावबोधनायेति । ताश्च व्याख्याताः पण्डितप्रकाण्डैः गौडपादवाचस्पत्यादिभिः। तासु व्याख्या तत्र- भवतां वाचम्पतिमिश्रानां तत्त्वकौमुदी शास्त्रजटिला कैश्चिदेवावगन्न शक्यते। गौडपादानां च भाष्यग्रन्यः बालानां सुम्वबाधागति बहुधा तत्त्वविमर्शनविरहिता। अत्र ग्रथिता च सांख्यरमगीना द्वयोः गुण सम्मेलनेन सर्वेषां जिज्ञानूनां परमसम्मिता भूयात् ।। एने व्याख्यातरश्च आन्ध्रदेशीयगुण्टरुमण्डल.न्य वेमुरुग्रान- वासिनः विद्वत्यवराः कुरुगण्टि वेङ्कटरमणशास्त्रियः । तेच आशैशवात् गीर्वाणविद्या समुद्रप्लाविनः परमपूज्यानां चन्द्रनारायणभट्टाचार्याणां सविध तक सांख्यादिपूर्वग्रन्थानभ्यन्य ब्रह्मीभूतकुरगष्टि सुब्रह्मण्याग्नि- चिद्या जिप्रसादितां वेदान्तवियां, मन्त्रमूर्तिभिः जन्न्याल दक्षिणामूर्ति शास्त्रिभिः प्रकाशितेन श्रीविद्यावर्त्मना परमुग्वसाक्षात्कारसियर्थ चर्वणमकुर्वन् । अन्ने च सन्यम्य परशिवनामाजुवन् । तेषां च पादपंकजाभ्यां अनेकशिप्यभ्रमराः बहुनि शास्त्र- मधूनि पीतवन्तः। एतच्च ग्रन्थप्रकाशमेतेषां कश्चित् म्वगुरुस्मरण- विशेषः॥

एतद्ग्रन्थस्य मुद्रणव्ययः ब्रह्मश्री वेदमूर्तिभिः शिष्टला
जानकिरामशास्त्रिभिः, वंकमामिडि वेङ्कटेश्वरशास्त्रिभिश्च संभृतः ।
तयोः श्रीगुरुप्रसादो नितरां भूयादिति आशास्महे ।।
इति निवेदितारः
प्रकाशकाः

श्रीशिवाय गुरवे नमः ईश्वरकृष्णविरचिताः सांख्यकारिकाः श्री कुरुगण्टि वेंकटग्मणशास्त्रि विरचितया सांख्यरमणीयया संबलिता: कपिल दक्षिणामूर्ति सुब्रह्मण्यगुरु नमन् । श्रीसांख्यकारिकाव्याग्व्यां रमणीयां तनोम्यहम्।। श्रीमानादिसिद्धः कपिलो महाज्ञानी कल्पादौ स्वयमेवाविभूत सकलतत्वविज्ञान आध्यात्मिका दिदुः वाभिभूतान् लोकानुद्दिधीर्षु : "नहि सांख्यसमें शास्त्रम्" इति सुप्रसिद्ध सांख्यशास्त्र प्रवर्त- वामास । तच्च शास्त्रमल्पबुद्धीनां दुरधिगमं मन्वानः ईश्वरकृष्णनामा महायोगी सकलं शस्त्रप्रमेयं आर्यासप्तत्य संक्षेपतो जग्रंथ । सा च महानुभावैर्वाचम्पत्यादिभिर्व्याख्यातैव। तथाऽपि तामेवाह व्याख्याय खविज्ञानकण्टकोद्धरणाय विदुषां पुरत: प्रख्यापयामि । अथ तत्रभनानीश्वरकृष्णनामा महायोगी आर्यासप्तत्याख्यं सांख्यशास्त्र प्रबंध चिकीर्षु : सकलमेव शास्त्रं मंगलं मन्वानः विषयप्रयोजनसम्बन्धाधिकारिनिरूपणपूर्वक शास्त्रमवतारयति :- दुःखत्रयाभिघाताजिज्ञासा तदपघातके हेतौ । दृष्टे साऽपार्था चेन्नैकांतात्यंततोऽभावात् ।।

३ सीख्यरमणीया दुःखानां त्रयं दुःखत्रयं आध्यात्मिक आधिभौतिक आधिदैविकं चेति । तत्र आध्यात्मिकं द्विविध शारीरं मानस चेति । तत्र शारीरं वातपित्त दिधातुवैषम्धनिमित्तम् । मानसं च कामक्रोधादिनिमित्तम् । आधिभौतिकं मानुषपशुपक्ष्यादिनिमित्तम् । आधिदैविकंच यक्षराक्षसादिनिमितम् । तच दुःवलयं रज:परिणामभेदः । तेन दुःखत्रयेणांत:करणवर्तिना अभिवातश्चेतनाशक्तेरभिसम्बन्धः । तेन संबंधेन विषण्णेन पुरुषेण तदपघातके तस्य दुःखत्रयस्य अपघातके आत्यंतिकध्वंसजनके हेतौ प्रकृतिपुरुषान्यथाख्यातिरूपे कारणे। जिज्ञासा ज्ञातुमिच्छा जिज्ञासा कर्तव्येति शेषः । इच्छा शब्देन इच्छासाध्यो विचारो लक्ष्यते । तथा च आत्यंतिकदुःखध्वंस- फलकः प्रकृतिपुरुषान्यथाख्यातिविज्ञानसाधन (नाय) भूतः। विचार: कर्तव्य इति फलितोऽर्थः । तथा च श्रुति:- “आत्मावा अरे द्रष्टव्य श्रोतव्यो मन्तव्यो निदिध्यासितव्य" इति । आत्मा चेतनः पुरुषः द्रष्टव्यः प्रकृतितो विविच्य साक्षात्कर्तव्यः । तत्साधनमाह श्रातव्यः । शास्त्रश्रवणपूर्वकं विचारः कर्तव्यः। मंतव्यः श्रोतोऽर्थः अनुकूलतर्क जालेन दृढीकर्तव्यः । निदिध्यासितव्यः साक्षात्कारानुकूलेन ध्यानेन संस्कर्तव्यः इति । एवंच शास्त्रारम्भश्च समर्थितो भवति । दुःखस्य बुद्धिगतत्वात् पुरुषस्य उदासीनत्वाच्च उदासीनत्वाच्च रज:परिणामरूपदुःखाप- घाताय शास्त्रं नारम्भगीयमिति प्राप्तेंऽत:करणवर्तिना दुःखेन चेतनाशक्तरभिभवसम्भवात् तादृशाभिभवविधाताय शास्त्रमारम्भणीय- मिति सिद्धम् । ननु तादृशदुःखत्रयाभिघाताय सुकरस्योपायांतरस्य सांख्यरमणीया सद्भावात् कृतमतिदुष्करतत्वज्ञानेन । तथाहि शारीरकदुःखोफ्धाताय वैद्यशास्त्रप्रसिद्धौषधादयः मानसिकदुःखोपघाताय स्रक्चंदनवनितादयः आधिभौतिकदुःखोपघाताय नीतिशास्त्रप्रसिद्धाः निरत्ययस्थानादयः आधिदैविकदुःखोपघाताय मणिमंत्रादयश्च बहवः सन्त्युपायाः। एवं दृष्टोपायैः दुःखत्रयोपघातस्य सुसाध्यत्वादिति शंकते दृष्टे सापार्थाचेदिति । दृष्टे सुकरे उपाये विद्यमाने सा जिज्ञासा अपार्था व्यर्था अनेकजन्मपरंपरायाससाध्यत्वात् । निराकरोति इतिचेन्नेति तत्र हेतुः एकांतात्यंततोभावादिति । एकांतः अवश्यं दुःख निवृत्तिभविष्यतीति नियमः । अत्यंतः निवृत्तस्य दुःखस्य पुनरनुदयः तयोरभावात् एकांतात्यंततोऽभावात् । सार्वविभक्तिकस्तसिः षष्ठी स्थाने प्रयुक्तः । अयं भावः :- औषधारिभिः क्वचित्तात्कालिकदुःखोप- शान्तावपि सर्वत्रादर्शनात तत्रापि पुनरुत्पत्तिदर्शनाच्च आत्यतिक- दुःखोपशान्तिस्तत्वज्ञान त जिज्ञासा युक्तैवेत्यतोऽपि शास्त्र मारम्भणीयमेवेति सिद्धम् : ए. ञ्च पुरुषान थाख्यातिः शास्त्रस्य विषयः । आत्यंतिकदुःखोपघात: दृष्टोपायेष्वेकांतात्यंताभावदर्शी अधिकारी । तेषां यथायोग सम्बन्धश्च । एवं विषयप्रयोजनादि सम्भवाच्च शास्त्रमवश्यमारम्भणीयमेवेति । एवं दृष्टोपायाभावेऽप्यतिदुश्मरतत्वज्ञानापेक्षया वैदिकस्य ज्योतिष्टोमादिकर्मकलाप सुकरस्य एकांतात्यन्तदुःखोपहतिहेतो- स्सत्वात् पुनर्जिज्ञासा व्यथैव । कर्मफलं च स्वर्गः । सच दुःखासं- मिन्न सुखमेव। “यन्न दुःखेन संभिन्न" इत्यादिना स्वर्गपदार्थ- .. प्रयोजनम् । दुःखत्रयाभिभूतो

४
सांख्यरमणीया
२
निर्वचनात् । तत्सुखं नित्यं च "अपाम सोमममृता अभूम" इति
श्रुतेः इत्याशंक्य समाधत्ते :-
दृष्टवदानुश्रविकस्सह्यविशुद्धिक्षयातिशययुक्तः।
तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ।।
दृष्टवदित्यादि। अनुश्रवो वेदः तत्र जातः आनुश्राविकः
कर्मकलापः ज्योतिष्टोमादिरूपः। सच दृष्टवत् दृष्टतुल्यः । यथा
दृष्ट उपाय: एकांतात्यताभाववान् तथा आनुश्रविकः कर्मकलापोऽ
पीति भावः।
विवेकज्ञानस्याप्यानुश्रविकत्वेऽप्यत्र
कर्मकलापरव
ग्राह्यः । तत्वज्ञानस्याऽपि “आत्मावा अरे द्रष्टव्यः" "न स पुनरा
वर्तते” इत्यदिश्रुतिभिरानुश्रविकत्वस्य सद्भावात् । आनुश्रवि-
कस्य कमैकलापस्याऽपि दृष्टतुल्यत्वे हेतुमाह सहीत्यादिना। हि
यस्मात् सः आनुश्रविकः कर्मकलाप: अविशुद्धिक्षयातिशयै-
युक्तस्तस्मात् अविशुद्धिः सोमादियागम्य
पशुबीजा दिसाधनत्वं ।
ज्योतिष्टोमादिजन्यधर्मरूपस्य पूर्व प्य पशुहिंसादिजन्येन अनर्थ हेतुना
अपूर्वेण अधर्मरूपेण
सांकर्यात् ।
क्षयः अनित्यस्य कर्मणः
फलस्य स्वर्गादेरपि अनित्यत्वम् । अपाम सोमममृता अभूमेति
श्रतिचोदितममृतत्वमापेक्षिकमेव नात्यंतिकम्। अतिशयः कर्मणां
बहुत्वात फलतारतम्याच्च । अपकृष्टकर्मफलं स्वर्गमात्रमनुभवतः
उत्कृष्ट कर्मफलं खाराज्यादिकमनुभवन्तं दृष्टया दुःखमुपजायत इति
अपकृष्ट कर्मफलापेक्षया उत्कृष्ट कर्मफलस्य अतिशयत्वं । भावप्रधानो

सांख्यरमणीया ५ निर्देशः। तैरविशुद्धिक्षयातिशयैर्युक्तः आनुश्रविकइत्यर्थः । तथा च प्रयोगाः :- कर्मफलं अविशुद्धम् । हिंसादिना सांकर्यात् । विषसंपृक्ता- नवत् । कर्मफल क्षयि । कार्यत्वात् । कृषिकार्यधान्यादिवत् । कर्मफलं सातिशयं । उत्कृष्टापकृष्टकर्महेतुत्वात् । उत्कृष्टापकृष्टकृष्यादिहेतुक- धान्यादिवत् । एवं दृष्टं आनुश्रविक च दुःखापघातुकमुपायं युक्तिभि- शास्त्रेण च निरस्य मुख्यमुपायमाह तद्विारीन इत्या दिना। ताभ्यां दृष्टानुश्रविकाभ्यां दुःखापघातुकाभ्यामुपायाभ्यां विपरीतः सत्व- पुरुषान्यताप्रत्यय साक्षात्काररूपो हेतुरुपायः श्रेयान् प्रशस्यतरः । दृष्टादानुश्रविक: प्रशस्यः। तस्मादप्ययमन्यथाप्रत्ययसाक्षात्काररूप:- शप्रन्यतर इति भावः। आनुश्रविक उपायः अविशुद्धानित्य- सातिशयफलः । प्रकृतिपुरुषान्यथाग्व्या तिरूपस्तूपायो विशुद्धनित्यनिरति- शयफल:। ताहशसाक्षात्कार में केवल विचारजन्यत्वाद्विशुद्धत्वम् । न स पुनरावर्तत ननु जन्यत्वादनित्यमेव ज्ञानफलमितिचेन्न । भावरूपस्य कार्यस्यैव जन्यत्वेनानित्यत्वम् । आत्यंतिकदुःवध्वंसरूपफलस्य तदै परीत्यान्नित्यत्वमेव । ज्ञानफलस्य एकरूपत्वात् निरतिशयत्वं चेति युक्तमस्योपायस्य सर्वोत्कृष्टत्वम् । कुतस्तस्य साक्षात्कारस्योत्पत्तिरित्यत आह व्यक्तेत्यादि । व्यक्तं कार्य जातं अव्यक्तं कारणं प्रधानम् ज्ञ पुरुषः तेषां विज्ञानात् तादृशसाक्षात्कारो जायत इत्यर्थः । कारणाव्यक्तनानाय व्यक्त क.यज्ञानमुपयुज्यते । व्यक्ता- व्यक्तयोर्ज्ञानं पुरुषस्य ताभ्यां वैलक्षण्यज्ञाने उपयुज्यते । अयमभि- प्रायः- श्रुतिस्मृतिपुराणादिभ्यः व्यक्तादीन् विवेकेन श्रुत्वा युक्तिभिः इनि २ नियताम् ।

द सांख्यरमणीया मननं कृत्वा दीर्घकालादरनरंतर्यसत्कारसेविताद्भावनामयात् ध्यानात् प्रकृतिपुरुषान्यथाख्याति (प्रकृतिविविक्तपुरुष ) साक्षात्कारो जायत इति "आत्मावारे ....निदिध्यासितव्य" इति श्रुतेरथों द्वाभ्यां श्लोकाभ्यां सूचित इति सिद्धम्। ३ एवं शास्त्रस्यारंभणीयत्वमुक्त्वा शास्त्रमारभमाण: संक्षेप- विस्तराभ्यामुक्तोद्यर्थस्सम्यग्बुद्धिमारोहतीति न्यायेन संक्षेपतश्शास्त्र- प्रमेयमुपपादमति :- मूलप्रकृतिरविकृतिमहदाद्याः प्रकृतिविकृतयस्सप्त । षोडशकस्तु विकारो न प्रकृतिन विकृतिः पुरुषः ।। म्नप्रकृतिरित्याशि:- सांस्यशाम्त्रे तत्वानि चविंशतिः । तानि च - मूलप्रातिः ततो मातत्यम् । ततो हंकारतत्वम् । तत्र सात्विका कारत् सनसा म्हेंद्रियाणे एका दश। तामसाहंकारात् पञ्च तन्मात्राणि । पञ्चतन्मात्रेभ्यः पञ्च महाभूतानीति । मूलप्रकृतिः प्रधानम् सर्वेषां तत्वानां मूलत्वात् । तस्या अपि मूलसत्वे प्रमाणाभावात् अनवस्थाप्रसंगाच्च । सा मूलप्रकृतिः अविकृतिः सर्वथा प्रकृतिोष कदापि विकृतिन भवति । सा सत्वरजस्तमसां साम्यावस्था कुतो विकृतिन भवतीति चेत् मूलत्वादेव । महदादितन्मात्रपर्य ताः सप्त प्रकृतिविकृतयः प्रकृतयः विकृतयश्च । महतत्वं अहंकारतत्वस्य प्रकृतिः प्रधानस्य विकृतिः। अहंकारतत्वं इन्द्रियाणां तन्मात्राणां च प्रकृतिः महत्तत्वस्य विकृतिः। पञ्च तन्मात्राणि तु तत्र सांख्यरमणीया पञ्च महाभूतानां प्रकृतयः ताममाहंकारस्य विकृतयश्च। अतो महदादितन्मात्रांताम्सप्त प्रकृतिविकृतयः । षोडशकाश्च विकारः। एकादशेंद्रियाणां पञ्चभूतानाश्चेति षोडश तत्वानां गण: घोडशक: विकारएव । न प्रकृतिः । घटा'नां पृथिव्यादिमहाभूतजन्यत्वेऽपि पृथिव्यादिभ्यो न पृथक तांत वं पृथि यादीनां घटादीनाञ्च स्थूलत्वस्य इंद्रियग्राह्यत्व ब च सम्पनत्वात् थियादिप्वेवांतर्भावः । प्रकृतिविकृतिविलक्षण तत्वमाह न प्रकृतन वकृतिः पुरुष इति । प्रकृति- विकृतिविलक्षणचिन्मात्रः उदासीनः पुरुष इत्यर्थः । यदर्थ प्रकृतिः प्रवर्तते सोऽन्य एवेति भावः । mr एवं शास्त्रप्रमेयांतर्गत पञ्चविंशतितत्वस्वरूपं सामान्येनोक्त्वा प्रमेयस्य प्रमाणाधीनतया प्रमेय सिम्यौपयिक प्रमाणं निरूपयतिः दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि । दृष्टमित्यादि -- अत्र प्रमाणमिति लक्ष्यनिर्देशः । तन्निवचन- लक्षणं। तच प्रमाकरणत्वं। तत्र प्रमा नाम अनधिगतासंदिग्धा- विपरीतविषया बुद्धिवृत्तिः प्रमा। तत्करणत्वं प्रमाणसामान्यलक्षणं । स्मृतिसंश्यविपर्ययेष्यतिव्याप्तिवारणाय विशेषणत्रयं । तद्विभागमाह त्रिविधमिति । कास्ता विधा इत्यत्राह दृष्टमित्यादि । दृष्टं प्रत्यक्ष अनुमानं आप्तवचनं शब्दः इति त्रिविधं प्रमाणम् । लोकव्युत्पा- ८ सांम्यरमणीया ४ दनार्थत्वाच्छास्त्रम्य । लौकिकरमाण भिपायमेतत्। अतो योगिनां विज्ञानमत्र नाभिहितम् । ननु शास्त्रांनराणि उपमानादीन्यपि प्रमाणान्यङ्गीकर्वति । तानि किमत्र नोकानीत्यः आह सर्वप्रमाण सिद्धत्वादिति। सर्वाणि प्रमा गाने उपमान दीन्यपि सिद्धानि अन्तर्भूनान्यत्रति युत्पन्या सर्वेषां प्रमाणानामवैवांतर्भाव इति भावः । अयमन्तर्भावः पश्चादुपातयिप्यते । ननु प्रमयप्रतिपादनाय वृत्तं भलं कम्मात्प्रमाणं वक्तीत्यत आह प्रमयसिद्धि. प्रमाणा द्धि। प्रमाणप्रमितम्यव प्रमेयत्वात् प्रमेय- सिद्धये प्रथमं प्रमाणमेव निरूपणीयमिति भावः । एवं प्रमाणम्वरूपं विभागं च सामान्येनोक्त्वा विशेषतस्तेषां लक्षणानि प्रतिपाद यिष्यन् प्रथम प्रत्यक्षम्य सर्वप्रमाणमूलत्वात्तल्लक्षण प्रतिपादनपूर्वक प्रमागानि लक्षयतिः- प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातं । तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु ।। प्रतिविषयेत्यादि विषयाः पृथिव्यादयो बाह्या आंतरः सुखादयश्च। तन्मात्रादयो योगिप्रत्यक्षविषया नात्र लौकिकप्रत्यक्ष- प्रस्तावे संगृहीता. । विषयं वियं प्रतिवर्ततइति प्रतिविषय अर्थसन्निकृष्टमिंद्रियमित्यर्थः । तस्मिन्नव्यवसायः बुद्धिवृत्तिरूपं ज्ञानं तत्प्रमाणम् । अनेन यश्चेतनाशक्तग्नुग्रहः प्रमावुद्धेरचेतनत्वात् तवृत्तिरूप ज्ञानमप्यचेतनम् । सुखादयोऽपि बुद्धिपरिणामरूपा: 6 २) सांख्यरमणीया अचेतनाएव। पुरुषस्तु सुखाद्यननुषङ्गी चेतनः। सोऽयं बुद्धिप्रति- बिम्बित: बुद्धिवृत्तिरूपेण ज्ञान नुवादिना तच्छायापत्या घटादिज्ञान- वानिव सुग्वादिमा निव भवतीति (सायं सम्बन्धः अनुग्रह इत्युच्यते) अचेतनाऽपि बुद्धिः तदध्यवसायश्च पुरुषप्रतिबिम्बरूपच्छायापत्या चेतनेव भवतीति सोऽयं परम्घासम्बन्धश्च अनुपद इत्युच्यने । अयं पुरुषप्रतिबिम्बाव् चेतनाक्तिरित्युच्यते । तदेव वति तम्मात्तत्संयोगादित्यादिना । अत्र प्रतिगन्दन इन्द्रियार्थमनिरपग्रहाल म्मृत्यादयो निरस्ताः। विषयशब्दग्रहणेन असद्विषयो विपर्ययः परास्तः । अध्यवसायशब्द ग्रहण न संशयो निराकत । एवञ्च अर्थ सन्निकृष्टेन्द्रियसम्बन्ध्य व्यवसायात्मकवुदिन्यापार प्रत्यक्षम् इति प्रत्यक्षस्य संपूर्ण लक्षणम् । पवस्वेन्द्रियार्थसन्निकर्पजन्य ज्ञान प्रत्यक्षमिति ज्ञानं बुद्धिरिति च प्रकागन्तग तार्किकादिमिप्युक्तम् । इयान् भेद :-इन्द्रियं प्रमाण बुद्धिरूपं जान फलमिति नेपामाशयः । अब तु बुद्धिः प्रमाणं तेन चेतनाशक्तरनुग्रहः फलमिति। प्रत्यक्ष- कार्यत्वात् अनुमान प्रत्यक्षानन्तरं निरूपयति त्रिवियमित्यादिना । सामान्यलक्षणमाह नलिंगलिगिर्वकमिन ! तत अनुमानम् लिंगं व्याप्तो धूमादिः लिंगि व्यापको वयादिः लक्षणया तयानिमित्यर्थः । पक्षधर्मता च धूमादेः पर्वतादिवृत्तित्वम् । तथा च व्याप्ययापक- पक्षधर्मताज्ञानपूर्वकत्वं अनुमानसामान्यलक्षण बोध्यम् । नन्वनुमान- मिति प्रमागमेव नाम्ति लोकायतिकादिभिः प्रत्यक्षम्यैकम्यैद प्रमाणत्वेनाङ्गीकारादिति चेन्न। परपुरुषवर्तिनः अज्ञानसंशयविपर्यया: - १० सांख्यरमणीया कामक्रोधादयोवा अनुमानप्रमाणाभावे कथं ज्ञेया : तत्र चक्षु- रादीन्द्रियं न प्रवर्तते। सन्निकर्षाभावात् । अतो बचनभेदमुवादि- विकारभेदेन ज्ञातव्याः। एतदेवानुमानं यदचनभेदादिना लिंगेन संशयादिपरिज्ञानम् । अत: अशामेनाऽपि लोकाय तेकेन अनुमान- प्रमाणमभ्युपगन्तव्यमेव । तस्मा इनुमाने नशास्त्रादि सीकनम् । अनुमानं विमति लिपिवानुमान कम समिति भनुम न ववम् पूर्ववत्, शेषवद्. सामान्यतो र नतिः। तत्र प्रजनन धूरा दिना पर्वो बहन्यनुमानम्। पूर्व नहानसाती ती प्राप्तवहनेः पर्वतादौ पक्षे आआप्यधूम दिना लिगेन म म् । सर्वानुमानेषु लिंगप्रत्यक्षम्यावश्यकत्वात् प्रत्यक्षमापक्षत्वम् । शोध त व्यनिकीन्युच्यते । पृथिवी स्वेतरभिन्ना गंधयत्याहित्यत्र पृथियाः पक्षत्वात् प्रसक्तम्य अन्यस्य दृष्टांतल पविन अन्यत्र सारवासम्भवात् शिष्यमाणे पक्षएव धूम दिना इतर भेदाभ्यहनं शेषादिति भावः : सामान्यतो दृष्टम् इंद्रियानिविषय मानम् । ज्ञानम्या विक्रियात्वात् रूपादिज्ञानं कायद क्रिम वारिति: ला छिन रिज्ञान दृष्टांतः । पूर्वानुमानाभ्यामनायं विरोध: --- लिदादिनने सध्यन्य वाम्बादि- मत्त्वन्य रूपादिज्ञान साप्राय इन्द्रियात्वा च नकरूपतम् । भिन्न- जातीयत्वात् इन्द्रियात्ययोः करणः यथा महानसंध्यपर्वतीयवन्टोरेक जातिसामान्यम् इन्द्रियवान्ययो कातिमामा याभावात् इदमिन्द्रियायनुमान सामान्यतोऽहमित्यु यो अत्यशाप विभाग:- अनुमानं द्विविधम् वीतमी ति। अन्य मुन्बेः प्रबर्तमान - ..

सांख्यरमणीया ११ वीतं । व्यतिरेकमुग्वेन प्रवर्तमानमवीतम् । तत्र अबीतमेव शेषवदित्युच्यते। वीतं तु द्विविधम् । दृष्टवलक्षणसामान्य विषयम् अदृष्टवक्षलण- सामान्यविषयं वेति। तत्र दृष्टस्वलक्षण प्रामान्यविषयं पूर्ववदित्युच्यते । अष्टवलक्षणासामान्यविषय सामान्यतोऽदृष्टभित्युच्यते। एवं द्विधापि विभाग एकरूप एव । आमवचनरूपं शब्दं लक्षयति। गामानयति उत्तमवृद्धवाक्यश्रवणानन्तरं मध्यमवृद्धस्य गवानयनप्रवृत्तिमुपलभ्य गामानयति वाक्यच गयानयनं वाक्यार्थइति बालेनानुमीयत इति अनुमान प्रमाणपूर्वीचात् अनुमानानन शब्दप्रमाणस्य । आपश्रुति वचनाय न । आताचा मी तिच अभिश्रुतिः। श्रुति- वक जाने बापयर्थः। न माम् । तकरण श्रुतिवाक्यम् । श्रुतिनाम है। अत: निति नाक्यमित्यर्थः। तच्च स्वतः प्रमाम् । श्व वेदमू कातारा | दि राक्यमपि प्रमाणम् । तथा वाचनः काषन लादो कल्पांतरावीतश्रुत्यादिस्मरण- समय यकथमपि प्रभा गम् अहोर शत् । वेदवाक्ये वेदस्यैव आतत्वम् प्रम गत्वं च। इतम्यां तु आतवक्तृकत्वेन प्रमाणत्वम् । आतातु यथार्थवक्तेति तार्किका ऊचुः। आप्तग्रहणेन श्रुतिविरुद्धाः शाक्यादीनामागमा निरस्ताः । नयां चेदमूलत्वाभावात् । अयुक्ताः। युक्तं चैतत्सांख्यम् । आतवचनं त्यति । तु शब्द: दृष्टानु- मानाभ्यां भेदकः । एवं वाभिमसेवेच प्रमाणेषु शास्त्रांतरङ्गीकृतानि उपमानादिप्रमा गानि अतभव ने। तथा हि-उपमानं तावत् कश्चित् गवयशब्दार्थमजानन् कुतश्चिदारण्यकपुरुषात् गोसदृशो गवय इति अतस्ते १२ सांस्टयरमणीया तन शृण्वन् गवयशब्दः गोसदृशम्य वाचक इति ज्ञात्वा अरण्यं गत वक्याथ स्मरन् तत्र गोसह शव्यक्तिं पश्यति। पश्चात् अयं गवय पदवाच्य इति ज्ञानमुपपद्यते। तत्र गोमदृशो गवय इति वाक्य मुपमानम् । तत् शब्दप्रमाणेऽतर्भवति। गवयशब्द गोसदृशम्य वाचक इति ज्ञानमन मितिः। यय'-गवयशब्द गोसदृशाय वाचकः । नत्र वृद्वैः प्रयुज्यमानत्वात् । गोत्यवाचकगोशब्द वदिति। . नस्सन्निष्टे गाये यं गवयपदवाच्य इ ज्ञानमुपमिने: प्रत्याउने। इति उपमान न प्रमेयान्तामन्तीति न प्रमाणांतरमुपमानम् । एवमर्थापत्तिरपि प्रमाणांत । यथा पीना देवदत्तो दिवा न भुक्ने इत्यत्र पीनत्वा न्यथानुपपत्त्या रात्रिभोजनमर्थापत्या कल्प्यते इति तदप्यनुमानमेव यथा देवदत्तः गत्री भुक्ने दिवा अ जानत्वे मति पीनत्वा यज्ञदत्तवदिति । अतः अनुमानात् न प्रमाणांतरमापत्ति । एवमभावोऽ न प्रमाणांतरम् । अभावग्य अधिकरणस्वरूपत्वं नास्तिकैरप्यंगीकृत मिति । भूतलातिरिक्तम्य अभावन्य अविद्यमानत्वात् । अभावोऽ प्रत्यक्षमेव । भूतले घटो नास्ति । यद्यस्ति उपलभ्येत । उपलब्धेरभावा भृतलं घटाभाववदिति । अभावो नाम अनुपलब्धिः । ए सम्भवोऽपि न प्रमाणम् । स चानुमानमेव । यथा शते पञ्चाशदिति शतं पञ्चाशदविनाभूतम् । शतत्वात् । द्रोणाविनाभूतवारीवदिति ऐतिह्यमपि न प्रमाणम् । तस्यानिर्दिष्टप्रवक्तृकप्रवादपारंपयमात्रत्वात् यथा इह वटे यक्षम्तिष्ठतीति । तच्च न प्रमाणम् सांशयिकत्वात् सांख्यरमणीया १३ आप्तवक्तृकत्वनिश्चये तु शब्दप्रमाण एवांतर्भवतीति न प्रमाणांतर- मैतिह्यम् । अतस्त्रिविधं प्रमाणमिति सुष्ठुक्तम् । एवं व्यक्ताव्यक्तज्ञरूपप्रमेयसिध्यर्थं प्रमाणान्युक्तानि । तत्र व्यक्तं पृथिव्यादि । वहन्यादि च प्रत्यक्षण पूर्ववता अनुमानेन च सर्वैरपि विज्ञायते । अतस्तन्निरूपणाय न शास्त्रम्यावश्यकत्वं । किंतु यदुरधिगमं तदेव शास्त्रातिपादनीयम् । अतो येन प्रमाणेन यत्प्रमेयं साध्यं तन्निष्कृष्य दर्शयति :: सामान्यतस्त्वदृष्टा दींद्रियाणां प्रतीनिरनुमानान् । तस्मादपि चासिद्धं रामनानागमानिसद्धम् ।। सामान्यतइत्यादि-नुक": प्रत्यक्ष-पूर्वबदनुमानाभ्यां विशेषाभि- धायकः । अतीन्द्रियाणां श्वानपुरूषादीनां प्रनीतिः । सामान्यतोऽ- दृष्टादध्ययसा परूपादनुमानाद्धयति । बुद्धश्चितिच्छायापत्तिरध्यवसाय इति पूर्वमेवोक्तम् । शपवतोऽनुमानादित्यपि द्रष्टव्यम् । तच्चानुमानं महदादिक्रमे वर्ग अपूर्वदेवतादौ च न साधकं । अतः तस्मादपि च सामान्यतोऽदृष्टादनुमानात् चकारात् शेषवतश्चासिद्धम् । परोक्ष स्वर्गादिक आप्तागमात्मिद्धम् । वेदप्रमाणैकगम्यमित्यर्थः । यथा गगनारविंदादिक प्रत्यक्षेणानुपलभ्यमानत्वादसत् तथा प्रधानादिकमपि असदेव स्यात् । कथमनुमानासिद्धिरित्याशक्य नास- त्वात्प्रधानादेरनुपलब्धिः । किंतु हेत्वंतरै रिति सामान्यतोऽनुपलब्धि. हेतूनाहः- ६ सांस्यरमणीया अतिदूरात्सामीप्यादिद्रियघातान्मनोऽनवस्थानात् । सौश्याव्यवधानादभिभवात्समानाभिहाराच्च ।। अतिदूरादित्यादि :- अत्रानुपलब्धिरिति पदं उत्तरश्लोका- दनुषंजनीयम् । अतिदूराद्वियति समुत्पतन् पक्षी नोपलभ्यते नास- त्वात् । अतंति 14 (अ) त्रानुषंजनीयम् । अतिसामीप्यात् लोचनस्थ- मञ्जनं न दृश्यन; इंद्रियघातात् अंत्यादिकपात् ताद्वेषयं रूपादिकं न गृह्यने । मनोऽनवस्यानात् क मादिभपातमनसः खाभिलषित- मेव स्मादिकं कितपत. विनियों र गृह्यत्र : सौक्ष्म्या- दिदिवनि के गाने . व्यवनात् कुड्यादि- ध्यवाह: जनन ६६ सूयाकरणाभिभूतं मानक्षः गल- ही रथैसमूह सहपठित- वदन्य मान्य । चकागदनुद्भवा- दयसंस सति अध्ययनाथ दातात मायः प्रसन्नत। किंतु उपलब्धि- योग्यताऽभावे अभावप्रसक्तिः। उक्तेषु उक्तहतुभिः उपलब्ध्यभावेऽपि उपलब्धियोग्यतायाम्सत्वात् नासत्त्वम् । प्रधानादिष्वपि लौकिक- प्रत्यक्षयोग्यताऽभावेऽप योगिप्रत्यक्षयोग्यतायास्सत्वात् नासत्त्वम् । शास्त्रस्य लौकिकव्युत्पादनार्थ वात् । उक्तकारणेषु प्रधानादीनामनुपरब्धौ किं कारणमित्यत्राह :- सौक्ष्म्यात्तदनुपलब्धिर्नाऽभावात्कार्यतस्तदुपलब्धेः । महदादि तब कार्य प्रकृतिसरूपं विरूपं च ।। तथा साख्यरमणीया १५ 1 ८ सौक्ष्म्यादिति :- अतिसौक्ष्म्यात् तल प्रधानन्यानुपलब्धिः । न अभावात् सप्तनासवत् । कुतः कार्यतः तज्जयात् कार्यात् तस्य प्रधानस्योपल: लौकिक त्यायोजना अनुमा नेन कार्य- लिंगकेन तत्व प्रधानम्यो र प्रभातोगा। कार्य सिमित्यत्र आह तच्च कार्य सहन महताना या नुमानं तदने वक्ष्यो प्रान वरनाम :: :: :: :: कार्य प्रकृति पर तनाव का समय विरूपं च तदे का। 1 नवना विरूपं मृाय घादि। केवल ३. तदपि कारण- मेव भवेत् : न कार्यमित भावः । प्रधान सिद्ध्यर्थं प्रथम तत्काय:स महदासत्वं सायति असदकरणादुपादानग्रहणात्सर्वयम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ।। असदकरणादित्यादि :-- अत्र बोलाः मतो वितानादत् निरुपाख्यं जायत इति बदन्ति ! तरसत् ! असोति जायत इति विरुद्धम् । यज्जायते तदेव सत्। तोतवाल्यासम्भवाच्च । सतः कारणात् वितभूः कार्यन मियात्मक कार्य तं जायत इति वेदांतिनः। तदप्यनुपपन्तम् । अनगन्य सत. मुखदुः-वमोह- इच्छब्दाद्यात्मकत्वं भेवरूत्वं च नमाति । अपि च प्रपंचप्रत्ययस्य असति बाधके मिथ्यति वक्तुं न शक्यते । पूर्व असत्कार्य सत् ९ १६ सांख्यरमणीया एव कारणाात् सदात्मकं जायत इति तार्किकाः। पूर्व सदेव कार्य कारणात्मना पश्चाज्जायतइति सांख्याः। एवं तार्किकसांख्ययो- विप्रतिपत्तौ तार्किकमतनिरासपूर्वकं स्वसम्मतं कार्यस्य कारणात्मना सत्त्वं साधयति सत्कार्यमिति। कार्यं महदाति सत् कारण- व्यापारात्पूर्वमपि सदेव । तत्र हेतूनाह असदकरणात् । अत्यंतासतः वंध्यापुत्रादेः कार्यम्य करणं सत्वसंपादनं न केनापि कर्तुं शक्यते। अतः कारणव्यापारात्पूर्व कार्य कारणे अन्त्येव । यथा तिलेषु सदेव तैलं कारणच्या पारादभिव्यज्यते तथा कारणे कार्य सदेव सत् अकरणं यस्य तत् वंध्यापुत्रादि तद्विरुद्धत्वादित्यर्थः । न तार्किकादिवत् कार्यस्य प्रागभावश्शक्यः। तथात्वे अभावात् भावोत्पत्तिः प्रसज्येत । तार्किकाणां तु प्रागभावस्यापि कारणत्वं । तत्सर्वशास्त्रविरुद्धत्वात् अनुपादेयमेवेत्यर्थः । अत्र कार्यः पक्षः। सत्वं साध्या असद करणत्वं हेतुः । इदम् चानुमानं व्यतिरेकि। महदादेस्सर्वस्याऽपि कार्यस्य पक्षत्वादन्वयदृष्टांताभावे व्यतिरेकिदृष्टांतेनैव परिशेषात्साध्य सिद्धमिति व्यतिरेकित्वम् । एतदेवानुमानमवीतमिति शेषवदितिचोच्यते । कार्यस्य पूर्वमपि सत्त्वे हेत्वंतरमाह उपादानग्रहणादिति । उपादानानां कारणानां ग्रहणात् कार्येण सम्बन्धात् कार्यकारणयोस्सम्बन्धः समवायादिस्तार्किकैरप्यङ्कीकृतः । कारणानां तादृशसम्बन्धः उत्पत्तेः पूर्वमसता कार्येण कथं संवटते ? इदमप्यनुमानं व्यतिरेक्येव । अलाप्ति कार्यमात्रस्य पक्षत्वात् कार्यस्य कारणसम्बन्धोऽत्र हेतुः । तार्किकपक्षे तदभावात । सांख्ये तु उत्पत्तेः प्रागपि कार्यस्य ३) सांख्यरमणीया कारणैस्सम्बन्धोऽस्तीति सदेव कार्य । हेत्वंतरमाह सर्वसंभवाभावा- दिति । कारणे संबद्धस्याऽपि कार्यस्य जन्यत्वे घटवत् पटादीनां कार्याणामपि घटकारणैरसंबद्धत्वात् । तार्किकमते असंबद्धत्वसामा- न्येन सर्व कार्यजातमपि जायेत । तदभावादुत्पत्तेः पूर्व कार्य कारणे सदेव । कार्यमात्रस्य पक्षत्वा देदमप्यनुमान व्यतिरेक्येव । हेत्वंतरमाह शक्तस्य शक्यकरणादिति । तत्तत्कारण तत्तत्कार्यजनन- सामर्थ्यमस्तीति नान्यकारणादन्यकार्यसभवः । किन्तु प्रतिनियत- कार्यसंभवएवेति यदि तार्किकरुच्यते तदा तत्सामर्थ्यमेव कार्यस्य पूर्वावस्थेतिः उत्पत्तेः प्रागपि सदेव कार्य । वस्तुतस्तु तार्किकैः शक्तेरनङ्गीकारात् कारणशक्तिरूपस्य सामर्थ्यस्येवाभावात् अनियत- कार्यसम्भवस्तदवस्थ एव । अस्माकं तु शक्तस्य शत्तिरूपकार्य- विशिष्टस्य कारणस्य शक्यकरणात् घटादिकार्यकरणात् पूर्वम् सदेव कार्यम् । इदमप्यनुमानं पूर्ववत् व्यतिरेक्येव । हत्वंतरमाह कारण- भावाचेति । कारणात्मकत्वादित्यर्थः । इञ्चानुमान व्यतिरेक्येव । गवाश्ववत् हिमवद्विंध्यवत् कुंडबदरा दिवत् कार्य- कारणयोः पृथक्त्वे संयोगादिसम्बन्धस्स्यात् । स च नावाऽस्ति । द्विपलत्रिपलाभरणयोः गुरुत्वभदवत् नास्ति गुरुत्वभेदस्तंतुपटयोः । किंतु तंतव एव पटत्वन परिणताः। अतस्तंतुपटयोन भेदः । यथा कूर्मस्यांगानि कदाचित् कूर्मशरीरे तिरोभवंति कदाकिहाधि- भवंति च तथा आविर्भावतिरोभावावेव पटतंतुभावौ। अतस्तंतुभ्यो नार्थातरं पटः। अर्थक्रियाभेदादपि नार्थोतरं कार्यम्। विष्ट कार्यस्य सांख्यरमणीया प्रत्यकं यथा मार्गदर्शन दीपवहनादिना कुर्वति मिलितास्तु शिविकां वहति एवं तंतवः प्रत्येक कार्यातर समर्थाः । मिलिता अंगप्रावरणाय समर्था भवंति। तस्मादर्थक्रियाभेदादपि न कार्य- कारणयोर्भेदः। ततः कारणव्यापारात्पागपि कार्यबीजादिषु वृक्षादिवत् मृदि घटवच्च अस्तीति सिद्धम् । एवं कार्यस्य सत्त्वं प्रसाध्य प्रधान साधनाय विवेकज्ञानोप- योगितया कार्यकारणयोळक्ताव्यक्तव्योंर्वरूप्यमाह :- हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रित लिंगं । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ।। तुमदित्यादि पूर्वं त्यक्ताव्यक्तज्ञविज्ञानादित्युक्तम् । तत्र व्यक्तम्य म्वरूपमाह । हेतुमत् आविर्भावशीलं कारणजन्यमित्यर्थः । न तु कारणमात्रम् । अनित्यं विनाशशीलम् । तमोभावयुक्तमित्यर्थः । अस्मन्मते आविर्भावतिरोभावयोरेव जन्मविनाशशब्दार्थत्वात् । अव्यापि व्याप्यं कार्यमित्यर्थः । लोकेऽपि कारणं व्यापकं कार्यम् व्यापि च दृष्टं। तद्वत् सक्रिय हानोपादानादिक्रियायुक्तम् । बुद्ध्यादीनां कार्याणां पूर्वदेहहानस्य देहान्तरोपादानस्य प्रसिद्धत्वात् । अनेक । प्रतिपूरुष बुद्ध्यादीनां देहादीनां च भिन्नत्वात् । आश्रितं स्वकारण- माश्रित्य व्यवस्थितं। यथा घटो मृदमाश्रितः तद्वत। लिंग प्रधानसाधकानुमाने हेतुभावं प्राप्तमित्यर्थः। सावयवं संयोगवान्। कार्याणां घटशरावादीनां परस्परं संयोगः न कारणेन मृदा। - सांख्यरमणीया १९ - अलिंगम् । तयोस्तादात्म्यात्। अतः कार्यमेव संयोगि परतन्त्रम्। सर्वमपि कार्यम् स्वकार्य जननीये कारणसापेक्षं भवति न स्वतन्त्रम् । खस्य खकारणात्मत्वात्। तद्वन्महदाद्यपि। एवं व्यक्तस्य स्वरूपमभिधाय अव्यक्तस्य स्वरूपमाह विपरीतमव्यक्तमिति । व्यक्तलक्षणविपरीतलक्षणं अव्यक्तं प्रधानमित्यर्थः। यथा अहेतुमत् आविर्भावहीनं कारणमात्र न तु कदापि कार्यम् । नित्यं तिरोभावरहितं । व्यापि न्यापकं । न कदापि केनचिद्व्याप्यने। निष्क्रिय प्रधानम्यापि परिणामक्रिया अस्त्येव । तथापि हानोपादानादिराहित्यात् निष्क्रियमित्यर्थः । एक मूलकारणत्वात् । अनाश्रितं प्रधानं तु सर्वकार्याणामाश्रयएव । न कदाचिदपि किंचिदाश्रयीत्यर्थः । प्रधानं तु न कस्यापि लिंग भवतीति अलिंगम् । निरवयवं । प्रधानस्य संयोगादयो धर्मा न संति। निरवयव- त्वात् मूलकारणत्वाच्च । स्वका यिम्सह तादात्म्यमेव । स्वतंत्रम् स्वकार्ये जननीये नान्यापेक्षा प्रधानम्य । ततस्वतन्त्रम् । एवं व्यक्तविपरीतलक्षणकमव्यक्तम् । २० एवं ध्यक्ताव्यक्तयोः कार्यकारणयोः वैधर्म्यमभिधाय कार्य- कारणभावनिर्वाहकं साधर्म्यमाह :- त्रिगुणमविवेकि विषयरसामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ।। ११ त्रिगुणमित्यादि कार्यकारणयोरर्थक्रिया कारितया वैधयेऽपि २० सांख्यरमणीया खभावतया साधर्म्यमवश्यंभावीत्यर्थः : त्रिगुणं मुम्वदुःखमोहात्मक- सत्वरजस्तमोगुणकं । व्यक्तमव्यक्तं च त्रिगुणमेव । अविवेकि । विवेकः पुरुषधर्मः। उभयमपि विवेकामाववदित्यर्थः । विज्ञानमेव सुखदुःखमोहात्मकं । न पुनभिन्न विज्ञानात्मुखदुःखादीति बौद्धाः । तदपवादायाह । विषयः ग्राह्यम् न पुनदिकम् । व्यक्तमव्यक्तं च विज्ञानविषयमेव न विज्ञानमिति भावः । विज्ञानं तु पुरुषधर्मः । सामान्यं सर्वैः पुरुषैः सामान्येन ग्राम् । अचेतनं जडम् । पुरुष एव चेतनः । प्रसवः कार्यात्मना परिणामः तद्वत् । एवं निगुणत्वादिधर्मकं व्यक्तं महदादि कार्य जातं । तथा प्रधानं । त्रिगुणत्वादिधर्मयोगि तथा कारणं प्रधानमपीति भावः । एवं व्यक्ताव्यक्ते साधम्र्येण वैवयंण च निरूप्य ज्ञस्य पुरुषस्य स्वरूपं निरूपयति तद्विपरीतः पुमानिति । पुमान् पुरुषस्तु तद्विपरीतः । ताभ्यां व्यक्ताव्यक्ताभ्यां विपरीतः । विपरीतधर्म वानित्यर्थ । यद्यपि पुरुषस्य व्यक्ताव्यक्तवैधरीत्यमस्ति । तथाऽपि क्वचित्तत्सारूप्यमप्यत्तीति सूचयितुं तथाचेत्युत्तम् । नित्यत्वादिकं प्रधानसाधर्म्यम् अनेकत्वं व्यक्तसाधयं चाम्ति पुरुषस्य । तन्न किं. चित्करं । वैपरीत्यम्य व प्राधान्यमिति भावः । सांख्ये तु त्रयः पदार्थाः व्यक्तमव्यक्तं पुरुषश्चेति । तन्निर्वाहकमेव तत्साधयं न विशेषाधाय- कमिति निगलितोर्थः । यथा कार्य साख्यरमणीया २१ के ते गुणास्तेषां स्वरूपं किमित्यत आह :-- प्रीत्यप्रीतिविषादात्मका: प्रकाशप्रवृत्तिनियमार्थाः अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ।। १२ प्रीत्यप्रीतीत्यादिः गुणाः सत्वरजस्तमोरूपाः प्रीत्यप्रीति- विषादात्मकाः। प्रीतिस्सुख सत्वस्य स्वरूपं । अप्रीतिर्दुःख रज- सस्वरूपं । विषादो मोहस्तमसस्स्वरूपम् । तदात्मकाः तत्स्वरूपाः। अत्रात्मशब्देन सुखादयो गुणानां स्वरूपमेव न धर्मा इत्युक्तं भवति । एवं गुणानां स्वरूपमुक्त्वा प्रयोजनमाह प्रकाशप्रवृत्तिनियमार्था- इति । सत्वम्य प्रकाश: प्रयोजनम् । रजसः प्रवृत्तिः । तमसो नियमः । सत्वतमसी न स्वतः प्रवर्तनशीले । किंतु प्रवृत्तिशील रजस्ते प्रवर्तयति । अथ तेषां क्रियामाह अन्योन्याभिभवाश्रयजननमिथुनवृनय- शति । तंत्र एकदभूतं अन् अन्यद्वयमभिभवति । सत्वं रजस्तमसी अभिभूय शान्तां वृत्ति जनयति । रत्वतमसो अभिभूय घोरां वृत्तिं जनयति । तमः इतरे अभिभूय मूढां वृत्तिं जनयति । तथा अन्योन्याश्रयवृत्तयः एते गुणा न समूलमुन्मूलयंति खेतरं । अभिभवमानसेव कुर्वति । अतोऽन्योन्यमाश्रित्यैव गुणा वर्धन्ते । न स्वतन्त्रतया । अन्योन्यजननवृत्तय इति । एतेषामन्यतमः अन्यतम जनयति परिणमयति । नापूर्व सृजति । अन्योन्यमिथुनवृत्तयः अन्योन्यं मिथुनीभूय वर्तन्ने । न प्रत्येकम् । अन्योन्यसहचरा एव भवंतीय॑थः । न्यूनाधिकभावमात्रमेव गुणानाम् । न तु वियोग इति यावत् । च शब्दस्समुच्चये। १२ रजः २२ सांख्यरमणीया अन्यथा पुनर्गुणानामेव स्वरूपमाड :-- सत्वं लघु प्रकाशकमिटमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः प्रदीपवचार्थतो वृत्तिः ।। १३ सत्वमित्यादि :- सत्वं लघु। लघुत्वं च गुरुत्वप्रतिद्वं- द्वित्वम् । उद्गमनादिहेतुर्लाघवम् । यथा अग्नेरूज्वलनम् वायो- स्तिर्यगमनं च। इंद्रियाणां वृत्त्युद्गमहेतुश्च लाघवमेव । मुरुत्वे तानीन्द्रियाणि मंदानि स्युः । प्रकाशकं प्रकाशस्वरूपं च । सत्वोद्रेक एव प्रमाण यथावद्वस्तु गृङ्गाति । अन्यथा रजस्तमोऽभिभवे संशयो विपर्ययो वा स्यात्। इष्ट सांख्यविद्भिरङ्गीकृतम्। रजः उपष्टंभवम्। सत्वतमसोरक्रियतया क्रियात्मना रजसा उपष्टब्धौ खकार्थम् कुरुतः। अत उपष्टभकमित्युक्तम् । रजस उपष्टंभे कथं सत्वतमसोः प्रवृत्तिरित्यत आह चलं चेति। चलं प्रवृत्तिस्वभावम् । ख्यं चलन् इतरावपि चालयतीत्यर्थः । यदि गुरुणा तमसा प्रतिबध्यते तदा क्वचिदेव पवर्त यति । चकारस्समुच्चायकः । तमो गुरु- लघुप्रतिद्वंद्वि । बरणकमावरणस्वभावम् । यदावृणोति तमः तन्निय- मयति। अत उक्तं नियमार्थ इति । एवकारः त्रिष्वपि सम्बध्यते । परस्परविरोधिनां गुगानां कथमेकक्रियाकारित्वम्। परस्परविरोधेन खयमेव बिनशेयुरित्यत आह प्रदीपवञ्चेति । यथा परस्पर विरुद्धाः वर्तितेलानलाः मिलित्वा दोपतां प्राप्य वखप्रकाशेन रूपप्रकाशनरूपं कार्य कुर्वति; यथा घा वातपितादयः शरीरधारण कुर्वति एकमेव सांख्यरमणीया २३ विरुद्धाः गुणाअपीति भावः। एतेषां गुणानां स्वप्रयोजनाभावात् किमर्था प्रवृत्तिरित्यत आह अर्थतो वृत्तिरिति। पुरुषस्य भोगाप- वर्गार्थं गुणानां प्रवृत्तिरित्यर्थः। यथा वृक्षादयः परार्थ फलति मेघाः परार्थ वर्षति तथा गुणानां प्रवृत्तिरपि परार्थेव। सर्वेषां वस्तूनां सुखदुःखमोहात्मकत्वात् तदभिन्नत्रिगुणात्मकत्वम्। यथा एकमेव रत्नं स्वप्राप्त्या कंचित्पुरुष यतमानं सुखयति; स्वाप्राप्त्या यतमानमेव कंचिद्दुःखयति; तटस्थं कंचिदयतमानं मोहयति। एवं सर्वमपि वस्तु सुखदुःखमोहात्मकगुणत्रयस्वरूपमेव । तस्मात् गुणाः परस्पराभिभवशीलाः सहचारस्वभावाश्च भवंतीति यावत् । १३ पूर्वोक्ता: अविवेकित्वविषयत्वसामान्यत्वाचेतनत्वपसवधर्मित्वादयः प्रत्यक्षेषु पृथिव्यादिषु संभवन्तु। प्रकृतावननुभूतेषु गुणेषु संती कथं ज्ञायत इत्यत अह:- अविवेक्यादेस्सिद्धिस्त्रगुण्यात्ताद्वपर्ययेऽभावात् । कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम् ।। १४ अविवेक्यादेरितिः-त्रिगुणात्मकेऽव्यक्ते अविवेक्यादेः अविवेकि- त्वादेः। भावप्रधानो निर्देशः। सिद्धिः वैगुण्यात् सुखदुःखमोहात्मक- त्रिगुणवभावात् । अत्रायं प्रयोगः :- प्रधानं अविवेकित्वादिमत् । सुख- दुःखमोहात्मकत्वात् । यद्यत् सुखदुःखमोहात्मकं तत्तदविवेकित्वादिमत् । यथा व्यक्तम् । इत्यन्वयदृष्टांत: प्रसिद्धत्वान्नोक्तः। व्यतिरेकदृष्टांतमाह तद्विपर्योऽभावादिति । तद्विपर्यये अविवेकित्वादिरहिते पुरुष सांख्यरमणीया १४ वैगुण्यात्मकसुखदुःखमोहाभावात्। यत्र यत्र अविवेकित्वाद्यभावः तत्र तत्र सुखदुःखमोहात्मकत्वाभावः । यथा पुरुष इति व्यतिरेक- दृष्टांतः । एवमुभयदृष्टांतसत्त्वात् त्रिगुणात्मकेऽव्यक्ते अविवेकित्वादि- सिद्धिरिति भावः। ननु अध्यक्तमेवासिद्धम् कथं तत्राविवेकित्वादि- विचार इत्यत आह । कार्यस्य कारणगुणात्मकत्वात्। यथा पटादि कार्यम् तन्त्वादि कारणगुणात्मकं दृष्टम् तथा महदादिकार्येण कारणगुणात्मकेन भवितव्यम् । ततो महदादिकारणं सुखदुःखमोहा- त्मकं त्रिगुणमन्यक्तं सिद्धम् । अपीति । यथा भूतादि प्रपंचकारणं महदादि सिद्धम् तथा महदादि कारणं अव्यक्तमपि सिद्धमिति भावः। व्यक्तेभ्यः परमाणुभ्यः व्यक्ताः व्यणुकादिमहापृथिव्यता उत्पद्यन्ते । कारणगुणाश्च कार्ये समुत्पद्यते । किमव्यक्तेन त्रिगुणात्म- नेत्यत आह :- भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ १५ भेदानामित्यादि :- अव्यक्तं सामान्यम् महदादयः विशेषाः भेदानां महदादीनां विशेषाणां कारणं सामान्यमव्यतमस्तीति उत्तरलोकेनान्वयः । तत्र हेतूनाह । परिमाणात् भेदानां परिमित- त्वात् । महदादीनां परिमितिरस्ति इयदीदृशमस्तीति । परिमितिर्नाम अव्यापित्वं । महदादयः स्वकार्येण व्याप्नुवन्ति । न कारणमव्यक्तम् । ।

५) सांख्यरमणीया २५ च्यते तथा अत: परिमितानि महदादीनि । अयमत्र प्रयोगः :- व्यक्ताः महदादयः अपरिमिताव्यक्तकारणवन्तः। तदपेक्षया परिमितत्वात् । अपरिमित- मृत्कारणकघटादिवत् । यथा व्यक्तघटादिकमव्यक्तावस्थापन्नं मृदित्यु- व्यक्ता: महदादयः अव्यक्तावस्थापन्नाः सामान्य प्रकृति- रित्युच्यत इति भावः । हेत्वंतरमाह समन्वयात् । भिन्नानां महदादीनां अभिन्नस्वकारणसमन्वयात् । समन्वयो नाम सरूपता । कार्यकारणयोस्सारूप्यस्यावश्यकत्वात् सुखदुःखमोह समन्विताः बुध्या (महदा) दयः स्वसरूपाव्यक्तकारणका इति सुखदुःखमोहात्मकं मूल- कारणमव्यक्तं सिद्धम् । यथा घटादयः खसरूपमृदात्मकाव्यक्त. कारणकाः तयेत्यर्थः । हेत्वंतरमाह शक्तितः प्रवृत्तेश्च । कारणशक्ति कार्यप्रवृत्तेः। नाशक्तं कारण कार्यम् जनयति। यत्र काय यत्कारणं शक्तं तत् तदेव जनयति। यथा मृत् घटमेव जनयति कारणगता शक्तिर्नाम कार्यस्याव्यक्ततैव । न ततो भिन्ना। अतोऽपि अव्यक्तं कारण सिद्धम् । हेत्वंतरमाह कारणकार्यविभागात् । यथा कूर्मे सन्त्येवाङ्गानि निस्सरन्ति विभज्यन्ते च तथा कारणे . सन्त्येव कार्याणि निम्सरन्ति विभज्यन्ते च । एतत्कारणं एतानि कार्याणि चेति । हेत्वंतरमाह अविभागाद्वैश्वरूप्यस्यति । वैश्वरूप्यस्य महदादिजगतः कारणे अविभागात् अविभागापत्तेः । अयं भावः -यथा घटादि कार्याणि -यथा घटादि कार्याणि कारणे मृदादौ सत्येव आविभवंति विभज्यन्ते च; पुनः कारणे विशेतः कारणमव्यक्तयंति तथा सर्वे। खकारणे प्रधाने सन्नेव महान् प्रधानात् आविर्भवति न पटम् तयेत्यर्थः ।

सांस्यरमणीया विभज्यते च । स्वकारणे महति सन्नेव अहंकारः महत आविर्भवति विभज्यते च । एवमेव महापृथिव्यन्ताः स्वकारणेषु संत एव स्वकारणेभ्य आविर्मवति विभज्यन्ते च। पुनः प्रतिसर्गे महापृथिव्यादयः खकारणेषु तन्मात्रादिषु विंशतः स्वकारणमव्यक्तवन्ति। एवं क्रमेण महदन्तम् कार्याणि कारणेषु विशंति कारणमव्यक्तयन्ति। महच्च स्वकारणे प्रधाने विश्त् प्रधानमव्यक्तयति । प्रधानस्य तु न कचिन्निवेशः । अतः प्रधानमेव परमाव्यक्तं मूलप्रकृतिरिति चोच्यते । अव्यक्तस्य तु क्वचिन्निवेशे प्रमाणाभावात् । तस्मात् वैश्वरूप्यस्व नानारूपस्य कार्यस्य कारणे विभागाविभागाभ्यां सर्वकारणं अव्यक्तं अस्ति । न परमाणव इति सिद्धम् । १५ एवं पूर्वश्लोकोक्तेभ्यः कारणेभ्यः कारणास्तित्वप्रतिज्ञापूर्वक तस्य कारणस्य प्रवृत्तिमाह : कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतस्समुदय च । परिणामतस्सलिलबत् प्रतिप्रतिगुणाश्रयविरोधात् ।। कारणमित्यादि :- कारणं परमाव्यक्तमस्ति । तत्प्रवृत्तिमाह। तदव्यक्तं प्रवर्तते । प्रतिसर्गे प्रजयावस्थायां त्रिगुणतः प्रवर्तते । महदादीनां विशेषाणां प्रलयकाले त्रिगुणात्मकं अव्यक्तं विशति। गुणास्तु नित्यं परिणामशीलाः। ततः प्रलयकाले सत्वं सत्वरूपेणैव रजः स्जोरूपेणैव तमः तमोरूपेणैव सहशपरिणामेनैव प्रवर्तते नान्येना- वष्टभ्यते । तत उक्तम् त्रिगुणत इति । ततः प्रतिसगै गुणा.

सांख्यरमणीया २७ खरूपेणैव प्रवर्तन्ने न विशेषभावमापद्यत इति भावः । संगकाले तु । समुदयाच्चेति। प्रवर्तत इत्यनुवर्तते । समुदयात् समेत्य परस्पर- सहकारमुपेत्य उदयात् । गुणप्रधानभावमुपेत्य महदादिरूपेण प्रवर्तन्ते इयर्थः । ननु एकरूपाणां गुणानां सर्गकालेऽपि कथं नानारूप- प्रवृत्तिरित्यत आह परिणामतस्सलिलरदिति। सलिलवत्परिणामात् । यथा मेघविनिमुक्तं शुक्लरूप-मधुररस-युक्तं जलं नानाभूप्रदेशेषु पतत् तदवष्टंभेन तत्तद्भूतलस्पर्शात् नानारूपतां नानारसतां घनजते एवं सत्त्वादयो गुणा अपि गुणान्तरस्पर्शमासाद्य तत्तद्गुणावष्टंभेन नाना- रूपतां भजतीत्यर्थः । तदेवाह प्रतिप्रतिगुणाश्रयविशेषादिति । तत्तद्गुणाश्रयेण गुणानां यो विशेषः तस्मादित्यर्थः । एवमव्यक्तस्य प्रवृत्तिमुपपाद्य पुरुषास्तित्वं साधयति संघातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च ॥ १७ संवातेत्यादि :- पुरुषः अव्यक्तमहदादिभ्यो व्यतिरिक्तः अस्ति । कुतः संघातपरार्थत्वात् । संघातस्य अव्यक्तमहदादि- संघातस्य । परार्थत्वात् परार्थत्वनियमात् । यथा स्थलगृहभांडादि- संघातः परार्थः ाण्युपभोगार्थो दृष्टः तथा अव्यक्तादिसंघातोऽपि । संघातत्वं चैषां पुग्वदुःखमोहादित्रिगुणात्मकत्वम् । तस्मात् तेभ्यो व्यतिरिक्तः पुरुषोऽस्ति । अत्राऽयं प्रयोगः :- अव्यक्तमहदादयः परार्थाः । संघातत्वात् । स्थलगृहमांडादिसंघातवत् । ननु गृहादिसंघातः निगुणा- ..

२८ सांख्यरमणोया स्मकशरीराद्यर्थो दृष्टः। तद्वत् पुरुषोऽपि त्रिगुणात्मक एवेत्यत आह त्रिगुणादिविपर्ययात् । आदिपदेन अविवेकित्वादयो गृहीताः । संघातात्परोऽपि त्रिगुणाद्यात्मकश्चेत् सोऽपि संघातांतर्गत एव भवति । ततः अंततः परिशेषात् अत्रिगुणाद्यात्मकः असंहतः परः अङ्गी- कर्तव्य एव । स एव पुरुषः असंहतः विवेकी चेतन इत्यादिक- मवश्यमभ्युपगन्तव्यम् । अत्रायं प्रयोगः :- परः पुरुषः असंहतः । त्रिगुणादिविपर्ययात् । व्यतिरेकेण घटादिवत् । हेत्वंतरमाह अघि- ष्ठानादिति । अधिष्ठानात् अधिष्ठीयमानत्वादित्यर्थः । यद्यत्संघातात्मकं तत्तत्परेणाधिष्ठीयमानं दृष्टं । यथा स्थादि। तथा बुद्ध्यदिसंघातोऽपि परेणाधिष्ठीयमानं । स च परः पुरुष एव । बुद्ध्यादयः पुरुषाधिष्ठिताः। संघातत्वात्। स्थादिवदिति प्रयोगः। हेत्वंतरमाह भोक्तृभावादिति । सुखदुःखमोहाद्यात्मकाः बुध्यादयस्सर्वे त्रिगुणत्वात् भोग्याः। ते च भोक्तारमन्तरेण न सिध्यति । यतस्ते अचेतनाः। ततश्चेतनो- ऽन्यो भोक्ता अम्ति स च भोक्ता पुरुष एव । त्रिगुणाद्या. त्मकः । भोम्याः बुध्यादयः चेतनभोक्त्रन्विताः । अचेतनत्वात्। स्रक्चंद- नादिवत् । इति प्रयोगः ; हेत्वंतरमाह कैवल्यार्थ प्रवृत्तश्च । कैवल्य च आत्यंतिकदुःखत्रयप्रशांतिः । तदर्थ शास्त्राणां सर्वज्ञकपिलादि- महर्षीणां च प्रवृत्तिः । पुरुषाभावे अव्यक्तादिसघातस्य नित्यं सुख- दुःखापन्वितत्वात् तदुच्छेदस्य कर्तुमशक्यत्वात् शास्त्रादीनां वैयर्थ्यः स्वात् । ततः केवलः पुरुषः असंहतोऽस्तीति अवश्यमभ्युपेयः । पुरुषः मंत्रातादतिरिक्तः अस्ति । कैवल्यबोधकशास्त्राधिकारित्वात् ।

सांख्यरसणीया २९ १८ व्यतिरेकेण घटादिवदिति प्रयोगः। तस्मात् अव्यक्तात् प्रकृतेः व्यक्तेभ्यः महदादिभ्यश्च परः असंहतः विवेकादित्रैगुण्यादिलक्षणः पुरुषः अवश्यमभ्युपगन्तव्यइति सिद्धम् । केचित् तु अव्यक्त मात्मेति केचिन्महदिति केचित् अहंकार इति इंद्रियाणीति च वदन्ति । तेषां सर्वेषां संघातांतर्गतत्वात् नात्मत्वमिति निर्गलितोऽर्थः । एवं पुरुषः प्रसाधितः। स च पुरुषः एकः अनेकोवेति विचिकित्सायामाह :--- जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाचैव ॥ जननेत्यादिः :-- जननमरणकरणानां प्रतिनियमात् । जननं नाम व्हेंद्रियादिभिम्सम्बन्धः । सण नाम तेषां परित्यागः । करणानि बुद्ध्याटीनि त्रयोदय नेता प्रतिनियणत् व्यवस्थितत्वात् । पुरुषैकत्वे स नोपपद्यते। पुरु? कत्वे तु एकस्मिन् जायमाने सर्ने जायेरन्। एकस्मिन्नन्धे सर्वे अन्धा भवेयुः । तददर्शनात् प्रतिक्षेत्र पुरुषो भिन्न इति सिद्धम् । पुरुषः प्रतिक्षेत्रं भिन्नः । जननमरण- करणादिव्यवस्थाभेदात् । घटवदिति प्रयोगः । हेत्वंतरमाह. अयुग- पत्प्रवृत्तेश्चेति । अतःकरणवर्तिनी प्रवृत्तिः पुरुषे उपचर्यते । पुरुषैकत्वे एकस्मिन्प्रयतमाने सर्वे प्रयतेरन् । एकस्य गतौ सर्वेषा- मपि गतिः स्यात् । न तथा दृश्यते । एको गच्छति । एकस्तिष्ठति। एकश्शेते । एवमादिदर्शनात् पुरुषः प्रतिक्षेत्रं भिन्नः । अत्र प्रयोग- ३. सांख्यरमणीया स्सुबोधः । हेत्वंतरमाह त्रैगुण्यविपर्ययाच्चैवेति । त्रयो गुणास्त्रैगुण्यम् । तस्य विपर्ययात् भेदात् । ऊलोकस्थाः सत्वबहुलाः, मनुष्यादयो रजोबहुलाः स्थावरादयस्तमोबहुलाश्च दृश्यन्ते । सर्वत्र पुरुषैकत्वे तन्न स्यात् । ततश्च पुरुषः प्रतिक्षेत्र भिन्न इति । सर्वत्र चशब्दस्समुच्चयार्थः । एवकारः सिद्धमित्यनेनान्वेति । पुरुषबहुत्वं सिद्धमेवेत्यर्थः । १८ एवं पुरुषबहुत्वं प्रसाध्य तस्य धर्मानाह तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टुत्वमकर्तृभावश्च ॥ १९ तस्म दित्यादि :- तस्माच्च विपर्यासात् वैगुण्यविपर्ययात् । पशब्देन अत्रिगुणत्वेन साकं विवेकित्वमविषयत्वं असाधारणत्वं चेतनत्वं अप्रसवधर्मित्वं च समुच्चीयते । तत्र चेतनत्वेन अविषयत्वेन च अस्य पुरुषस्य साक्षित्वं द्रष्टुःवं च सिद्धम् । चेतनो हि साक्षी भवति । नाचेतनः । तथात्वे घटाडीनामपि साक्षित्वं स्यात् । यथा अर्थिपत्यर्थिनोः चरितं विषयं पश्यन् साक्षी भवति तथा प्रकृतिचरितं विषयं पश्यन् पुरुषस्साक्षी भवति । नहि विषयो विषयं पश्यति। उभयोरप्य- चेतनत्वात् । अचेतनं खलु चेतनस्य विषमे भवति । तस्माचेतनत्वादविष- यत्वाच्च पुरुषस्य साक्षित्वं सिद्धम्। अतएव द्रष्टत्वमपि सिद्धम् । लोके द्रष्टा सन् साक्षी भवति । तथा पुरुषोऽपि प्रकृतिचरितस्य द्रष्टा सन् साक्षी भवतीत्यर्थः । अत्रैगुण्यादेव कैवल्य सिद्धम् । केबल्यं नाम मातलि कदुःखाभावः । तच पुरुषस्य स्वाभाविकं । नागन्तुकं ।

साख्यरमणीया ३१ १९ तथात्वे दुःखत्रयात् अनिर्मोक्षप्रसंगस्स्यात् । किंतु सुखदुःखमोहात्मकेन जैगुण्येन तिरोहितं शास्त्राभ्यासादिना अभिव्यक्तं स्यात् । ततः. पुरुषस्य स्वयमत्रिगुणत्वात् । कैवल्यं तस्य सहजमिति सिद्धम् । अत्रैगुण्यादेव माध्यस्थ्यं च सिद्धम् । सुखी दुःखी च न मध्यस्थो भवति । ताभ्यामभिभूतत्वात्। सुन्वदुःखरहितस्तु मध्यस्थो भवति । माध्यस्थ्यं नाम औदासीन्यम्। तत्स्वाभाविकं पुरुषस्य सिद्धम् अत्रै- गुण्यात् । विवेकित्वादप्रसवधर्मित्वाच्च अकर्तृभावश्च सिद्धः । अविवेकी प्रसवधर्मी च कर्ता दृष्टः । तदुभयाभावात् खाभाविकमकर्तृत्वं पुरुषस्येति सिद्धम् । ननु अहं करोमीति कर्तृत्वमुपलभ्यते। अचेतनायाः प्रकृतेः कर्तृत्वासम्भवात्, चेतनस्य पुरुषस्य वर्तृत्वानङ्गीकारात्, कर्तृत्वं कस्येत्यत आह :- तस्मात्तत्संयोगादचेतनं चेतनावदिव लिंग । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः।। २० तस्मादित्यादि :-यस्माद्वस्तुतः कतृत्वं पुरुषस्य नास्ति तस्मादहं करोमोति प्रत्ययो भ्रांतिरिति भावः। तदेवाह। लिंग अव्यक्त- महदादि सर्व। तत्संयोगात् तस्य पुरुषस्य संयोगात् सन्निधानात् । स्पसचेतनमपि चेतनावदिव चैतन्ययुक्तमिव भवति भातीत्यर्थः । न तु वस्तुतः चैतन्ययुक्तम्। किंतु अचेतने बैतन्यमानं भ्रांतिरेव । पुरुषश्च उदासीनोऽपि। तथा तत्संयोगात् तस्य लिंगम्य सन्निधानात्।

३२ सांख्यरमणीया २० -.. गुणकर्तृत्वे च गुणानां कर्तृत्वेऽपीत्यर्थः । कर्तेव भवति भाति । न तु कर्ता वस्तुत इति भावः। तद्वानमपि भ्रांति वेत्यर्थः । परिशेषात्संयोगस्य कर्तृत्वमिति भावः । भिन्नयोस्सयोगः परस्परोपार्यो कारकलावं विना न संभवतीति तदुपकारमेवाह : पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य । पंग्बंधवदुभयोरपि संयोगस्तत्कृतस्सर्गः ॥ २१ पुरुषस्येत्यादि :--तत्र प्रथमं प्रधानस्य उपकारं दर्शयति पुरुषस्यति । कर्तरि षष्ठी। प्रधानस्य पुरुषकर्तृकदर्शनार्थ । प्रधान स्वस्तायै पुरुषकर्तृकदर्शनमपेक्षते। ततस्तस्य भोयं भवति। ततः प्रधानस्य भोग्यत्वार्थ भोक्त्रपेक्षाऽस्तीति प्रधानस्योपकारः। अथ पुरुषस्योप- कारमाह । तथा प्रधानवत् । पुरुषस्य कैवल्याथ ततः स्वभोग्येन प्रधानेन पुरुषः तद्गतं दुःखं खस्मिन्नभिमनुते । ततो दुःखत्रयाभिभूतः स्वाभाविक- खकैवल्यार्थं सत्वपुरुषान्यथाख्यातिमभिलषति । सा च प्रधानविवेक- मंतरेण न संभवतीति पुरुषस्य प्रधानकृत उपकारः । एतस्मिन्नुप- कार्योपकारकभावे दृष्टांतमाह पंवंधवदिति । पंगुवत् अंधवदित्यर्थः । पंगुः गमनासमर्थः। अंधः मार्गदर्शनासमर्थः । तावुभौ केनचिद्वन- मध्यं नीतौ तत्र त्यक्तौ । तत्र पंगुरंधमवदत्-अहं मार्गदर्शन- समर्थः । किंतु गंतुं न शक्नोमि इति । अंध अवदत् - अहं गमनसमर्थः। किंतु मार्ग न पश्यामि । भवंतं स्कंधमारोप्य तब ५) सांख्यरमणीया ३३ ३ दर्शनसामर्थ्येन महढुंग तीर्खा त्वया सह निरपायप्रदेशं गच्छामीति । एवमुभयोरपि दुःखोपहतिरूपकार्यसिद्धिरभूत्। एवं पंगुवत्पुरुषः- अधवत्प्रधानम् । तस्मात्पुरुषारूढं प्रधानं सर्वक्रियाकरणसमर्थ भवति । एवमुभयोरपि पंवन्धवत् संयोगः। सर्गस्सर्वोऽपि तत्कृतः तत्संयोग- कृतः परिशेषात्सर्गकर्तृत्वं संयोगस्यति भाति । एतत्संयोगस्यानादित्वात् पूर्व भोगाय संयुक्तोऽपि अपवर्गाय पुनस्संयुज्यत इति भावः । स च संयोगो नलिनीदलजलबिंदुसंयोगसदृशः। महदादिभूतान्तसर्ग विना भोगमोक्षयोरसम्भवात् तत्संयोगकृत एव सर्वोऽपि सर्ग इति भावः। २१ अथ तादृशसर्गक्रममाह : प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्णश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ।। २२ प्रकृतेरित्यादि :-ननु पूर्वस्मिन् श्लोके संयोगकृतस्सर्ग- इत्युक्तम् । अधुना प्रकृतिकृत इत्युच्यते। तत्कथं सङ्गच्छत इति चेन्न । संयोगस्य निमित्तत्वेन प्रकृतेरुपादानत्वेन च स्वीकारात् । प्रकृतिः प्रधान। तस्मात् महान् महत्तत्त्वम्। तस्मान्महत्तत्त्वादहंकारः। तनामकं तत्वम्। तस्मात् अहंकारात् षोडशको गणः । ज्ञानेंद्रियाणि पंच, कमेंद्रियाणि पंच, मनः, पञ्च तन्मात्राणि च सम्भूय षोडश । उस्मादपि षोडशकात् षोडशकांतर्गणात् अंतर्गतेभ्य इत्ययः । पश्चभ्यस्तन्मात्रेभ्यः शब्दादिभ्यः पञ्च भूतानि पृथिव्यादीनि जातानीत्यर्थः ।

सांख्यरमणोया - तलं शब्दतन्मात्रात् आकाशो जातः शब्दगुणकः। शब्दतन्मात्र- सहितात् स्पर्शतन्मात्रात् शब्दस्पर्शगुणको वायुर्जातः। एवं पूर्व- पूर्वतन्मात्रयुक्तात्. उत्तरोत्तरतन्मात्रात् तत्तत्पूर्वपूर्वगुणयुक्तं तत्तद्भूतं जातमित्यर्थः । २२ एवं सामान्यतः सर्गमुक्तवा विशेषतस्सर्गक्रमं वक्तुकामः सामान्यविशेषाभ्यां प्रकृते पूर्व लक्षितत्वात् अधुना महत्तत्वस्य स्वरूपं विशेषतो निरूपयति :- अध्यवसायो बुद्धिमों ज्ञानं विराग ऐश्वर्यम् । सात्विकमेतद् रूपं तामसमस्माद्विपर्यस्तम् ।। २३ अध्यवसायइत्यादि :-अध्यवसायो बुद्धिः महत्तत्त्वमित्यर्थः । महत्तत्त्वस्य समष्ट्या एकस्यापि प्रकृत्या प्रतिपूरुषं विभज्य विनियुक्त- त्वात नानात्वम् । अध्यवसाय इति बुद्धिधर्मः ! धर्मधर्मिणोरभेद- विवक्षयोक्तम् । अध्यवसायो वुद्धिरिति । लोके पुरुषः इंद्रियैरालोच्य मनसा आलोच्य अहंकारेणाभिमत्य कर्तव्यमेतन्मयेति बुद्ध्या अध्यवस्थति। स चाध्यवसायः चित्सन्निधानात् आपनचैतन्याया बुद्धेः असाधारणो व्यापारः । अतः बुद्धेरध्यवसायो व्यावर्तक लक्षणम् । एवं ' बुद्धिं लक्षयित्वा विवेकज्ञानोपयोगाय तद्धर्मानाह। तद्धर्माः द्विविधाः सात्विकास्तामसाश्चेति । रजसः प्रवर्तकत्वमात्र- पर्यवसानात् न पृथक् धर्मत्वम्। तत्र धर्मः ज्ञानं विरागः ऐश्वर्य च . सस्थिकाः। अतः । एतेषां रूपं. सात्विकम् । अस्मात्सात्विकात क सांख्यरमणीया ३५ विपर्यस्तं तामसं रूपमिति शेषः। अधर्मः अज्ञानं । अवैराग्यं अनैश्चर्य च तामसा इत्यर्थः। तत्र अभ्युदयनिःश्रेयसहेतुर्धर्मः। यागाद्यनुष्ठानजन्यो: धर्मः अभ्युदयहेतुः । अष्टांगयोगाद्यनुष्ठानजनितो निःश्रेयसहेतुः प्रकृतिपुरुषान्यथाख्याति. ज्ञान। विरागो वैराग्यम् रागाभावः। स चतुर्विधः - यतमान-व्यतिरेक एकेंद्रिय -वशीकार- भेदात् । रागादिभिः कषायरिंद्रियेषु प्रवत्यते। तत्प्रवृत्तिभूदिति तत्परिपाकायारम्भरूपो यत्नः यतमानसंहा। एवं यत्ने कृते केचित्कायाः पक्वा भवन्ति। केचित्पक्ष्यते । तत्र पक्ष्यमाणेभ्यः कषायेभ्यः पक्कानां व्यतिरेकेण निश्चयः व्यतिरेकसंज्ञा । पक्कानां सर्वेषां कषायाणां इंद्रियप्रवृत्तावसमर्थत्वात् औदासीन्येन केवलमनस्यवस्थानमेकेंद्रियसंज्ञा । तस्याऽपि निवृत्तिः । दृष्टेष्वानुश्रविकेषु च विषयेषु प्राप्तप्वपि तत्र औत्सुक्यमात्रस्याऽपि अभावः वशी कारसंज्ञा । एवं वैराग्यं चतुर्विधम् । ऐश्वर्यम् अणिमादिप्रादुर्भावः। येन शिलामपि प्रविशति सोऽणिमा - अणुत्वस्य परमावधिरित्यर्थः । येन सूर्यकिरणमालम्ब्य सूर्यलोकं याति स रधिमा लघुभावः - लघुत्वस्य परमावधिरित्यर्थः । येन समस्तेऽपि ब्रह्माण्डे समवायं प्राप्नोति स महिमा - महत्त्वस्य परमावधिः । येन मशकशरीरे गजशरीरेऽपि तिष्ठन् नोत्थापयितुं शक्यते स गरिमा - गुरुत्वस्य परमावधिः । यया अंगुल्यग्रेण चन्द्रं स्पृशति सा प्राप्तिः - प्राप्नेः परमावधिरित्यर्थः । येन स्वेच्छाया अभिघातो न भवति तत्प्राकाम्यम्। तत्र उदक इव भूमौ उन्मजति निमज्जति च। येन भूतभौतिकसृष्टिस्थिति- ३६ सांख्यरमणीया my संहारेषु ईष्टे प्रभवति तदीशत्वम् । तत्र सत्यकामत्वसत्यसंकल्पत्वा- दयो भवन्ति । यथाऽस्य संकल्पो भवति तथा भूतानि प्रवर्तते । प्राकृतानां तु जनानां भूतानुसारेण संकल्पो भवति । योगिनस्तु संकल्पानुसारेण भूतानि प्रवर्तत इत्यर्थः । येन भूतभौतिकं वशी भवति तद्वशित्वम् । एते चत्वारः सात्विका बुद्धिधर्माः । तामसा बुद्धिधर्मास्तु तद्विपरीताः। अधर्म-अज्ञान-अवैराग्य-अनैश्वर्य संज्ञकाश्च- स्वारः सम्भूयाष्टौ बुद्धिधर्माः। २३ एवं महत्तत्त्वं बुद्धिं लक्षयित्वा अहंकारतत्त्वं विशेषतो निरूपयति : अभिमानोऽहंकारस्तस्मादू द्विविधः पवर्तते सर्गः। एकादशकश्च गणस्तन्मात्रपञ्चकश्चैव ।। २१ अभिमान इत्यादि :- आलोचितेषु मतेषु च विषरेषु 'मदर्था एवामी विषयाः । अहमताधिकृतश्शक्त।' इति योऽभिमानः स एवाहंकारः। पश्चादेव बुद्धेरध्यवसायो जायते - मयैतत्कर्तव्यमिति । तस्मात् अहंकारात् द्विविधः सर्गः प्रवर्तते। द्वैविध्यमेवाह- एकादश- कश्चगणः। ज्ञानेंद्रियकमै द्रियमनोरूपो गण एकस्तन्मात्रपञ्चकश्चैव शब्दस्पर्शरूपरसगन्धतन्मात्रपञ्चकरूपो द्वितीयः। एवकारेण अहंकारात् द्विविधएव सर्गः। नवन्यस्तृतीयोऽस्तीति अवधारितम्। २४ एकस्मादहंकारात् कथं द्विविवस्सर्गः प्रवृत्त इत्यत आह :- सात्विक एकादशकः प्रवर्तते वैकृतादहंकारात् । भूतादेस्तन्मानस्स तामसस्तैजसादुभयम् ॥ २५ सांख्यरमणीया ३७ प्रकाशकः । सात्विक इत्यादि : -अहंकारस्त्रिविधः - वैकृतः तैजसः भूतादिरिति । वैकृतस्सात्विकः। तैजसो राजसः। भूतादिस्तामसः । तत्र वैकृतात् लघोः प्रकाशात् सात्विकादहंकारात् । सात्विको लघुः एकादशकः ज्ञानेंद्रियकर्मेंद्रियमनोरूप: इंद्रियात्मकः सर्गः प्रवर्तते। भूतादेस्तामसाहंकारात्। तन्मानसर्गः तामसः । तामसा- हंकारजन्यत्वादित्यर्थः। ननु द्वाभ्यामेवाहंकाराभ्यां सर्वस्य सर्गस्य सम्भवे किं प्रयोजन तैजसेनेत्यत आह - तै जसादुभयं । यद्यपि तैजसान्न पृथक सर्गः प्रवर्तते। किंतु सत्वतमसोरक्रियत्वात् खकार्यकरणसामर्थ्य नास्तीति चंचलेन रजसा चालितौ स्वस्वकार्य कुरुत इति तयोः क्रियोत्पादनद्वारेण रजसः तदुभयकारणत्वमस्ती- त्युक्तम्-तैजसादुभयमिति । २५ अथ सात्विके एकादशगणे ज्ञानेंद्रियकर्मेंद्रियदशकं निरूप- यति बुद्धींद्रियाणि चक्षुश्श्रोत्रघ्राणरसनत्वगाख्यानि । वाक्पाणिपादपायूपस्थान कर्मेंद्रियाण्याहुः ।। २६ बुद्धीत्यादि :-सात्विकाहंकारजन्यत्वमिंद्रियाणां लक्षणम् । तानि द्विविधानि। चक्षुरादीनि ज्ञानेंद्रियाणि पश्च। वागादीनि कर्मेद्रियाणि पञ्च । आहुः सांख्याचार्या इति शेषः। तत्र रूपग्राहक चक्षुः । शब्दग्राहकं श्रोत्रम् । गंधग्राहक ब्राणं। रसग्राहकं रसनम् । स्पर्शग्राहकमिद्रियं त्वक् । कर्मेद्रियाणां स्वरूपमुत्तरत्र वक्ष्यते । २६ :- ३८ सांख्यरमणीया - २७ अथ एकादशमिंद्रियमाह:- उभयात्मकमत्र मनस्संकल्पकमिंद्रियं च साधात् । गुणपरिणामविशेषात् नानात्वं बाह्यभेदाश्च ।। उभयेत्यादि :-अत्र एकादशखिंद्रियेषु मध्ये मनः उभयात्मकं- ज्ञानेंद्रिय कर्मेंद्रियं च। ज्ञानेन्द्रियाणां कर्मेंद्रियाणां च मनोऽधिष्ठि- तानामेव खकार्यकरणसामर्थ्यात् मनस उभयेन्द्रियत्वम् । संकल्पक विवेचकं । प्रथममिन्द्रियैस्सामान्येन आलोचिंत गृहीतं निर्विकल्पक वस्तु जात्यादिभिर्मनो विवेचयति । ततः अभिमानादिक्रमेण बुद्धिरध्यव- स्यति। अतो मनः विवेचक। एतद्विवेचकत्वं मनसः असाधारण लक्षणम् । इन्द्रियं च मनस: बुद्ध्यहंकारयोरिव असाधारणलक्षणस्य सत्त्वेऽपि इन्द्रियत्वमप्यस्तीति भावः । इन्द्रियत्वं च सात्विकाहंकार- जन्यत्वम् । ताहशेन्द्रियधर्मस्य मनस्यपि सत्त्वात् साधादित्युक्तम् । ननु व्युत्पत्तिसामर्थ्यात्-इन्द्रियत्वं इंद्रलिंगत्वम्, इंद्रः पुरुषः - तल्लिंग- वस्य महदादिधपि सत्त्वात् तेषामपींद्रियत्वं स्यात्-इति चेन्न । इंद्रलिंगत्वमिति व्युत्पत्तिमात्रमेव - न तु प्रवृत्तिनिमित्तमिति भावः । एकसात्विकाहंकारजन्यानां तेषां कथं नानात्वमित्यत आह- गुणपरिणामविशेषान्नानात्वम् । तत्तच्छब्दादिभोगहेत्वदृष्टविशेषैः गुणानां परिणामात् नानात्वमिंद्रियाणामित्यर्थः । बाह्यभेदाश्च । चकारः सादृश्य- बोधकः। “बाह्मभेदा इवेत्यर्थः। एकस्मात् मृदूपात् कारणात पटशरावादयो यथा तथेत्यर्थः । - सौख्यरमणीया ३९ एवमिद्रियाणां स्वरूपमुक्त्वा मनोव्यापारस्यालोचनस्योक्तत्वात् इतरेषामिंद्रियाणां व्यापारानाह :- शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः। वचनादानविहरणोत्सर्गानंदाश्च पश्चानाम् ।। २८ शब्देत्यादि :- पञ्चानां ज्ञानेंद्रियाणां शब्दादिषु विषयेषु आलोचनमात्रम् । आलोचनं - सामान्येन इदं किञ्चिदिति दर्शन- ग्रहणमात्रम्। तन्मात्रमेव वृत्तिः व्यापारः। न तु विवेचनादिकं जात्यादिभिः। पञ्चानां कर्मेद्रियाणां क्रमेण वचनादानविहरणोत्सर्गा- नंदाः वृत्तय इत्यर्थः । वाक्पाणिपादपायूपस्थानां क्रमेण वृत्तय इति भावः । २८. मनोबुद्ध्यहंकारात्मकमंतःकरणत्रयं, तस्य वृत्तिमाह :- खालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या। सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ।। २९. स्वेत्यादि :-अंतःकरणवृत्तिर्द्विविधा- साधारणा असाधारणा चेति। तत्रासाधारणा वृत्तिरुत्तेत्याह--स्वालक्षण्यमिति। खालक्षण्य- महत्तत्वस्याध्यवसायः, · अहंकारस्याभिमानः, मनसस्संकल्पश्च- खस्य स्वस्य पूर्वोक्ताः असाधारणवृत्तयः । तदेवाह-खालक्षण्यं पूर्वोक्त- खस्खलक्षणानीत्यर्थः । त्रयस्य - बुद्ध्यहंकारमनसां त्रयस्य - वृत्तिः व्यापारः। सैषा वृत्ति असामान्या असाधारणा भवति। सामान्य- करणवृत्तिः - अंतःकरणत्रयस्य सामान्यवृत्तिस्तु। प्राणाद्याः प्राणापान- सांख्यरमणीया व्यानोदानसमानाख्याः पञ्च वायवः जीवनहेतवः । "हृदि प्राणो गुदेऽपानस्समानो नाभिसंस्थितः। उदानः कण्ठदेशस्थो व्यानस्सर्व- शरीरगः ॥” इति । अंतःकरणत्रयस्य अन्वयव्यतिरेकाभ्यामनुगतत्वात् पंच वायवः सव्यापार इति भावः । २९ बुद्ध्यादींद्रियांतानां चतुर्णा वृत्तिः युगपद्वा क्रमेण वा भवतीत्याह :- युगपञ्चतुष्टयस्य तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा । दृष्टे तथाऽप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः॥ ३० युगपदित्यादि :-दृष्टे प्रत्यक्षे वस्तुनि - तस्य पूर्वोक्तस्य तु चतुष्टयस्य- इंद्रियाणां- मनसः, अहंकारस्य, बुद्धेश्व- वृत्तिः युगपद्भवति कदाचित्। कदाचित् क्रमशश्च आलोचनादिक्रमेण च निर्दिष्टा । यथा गाढांधकारे अभिमुखमागच्छन्तं व्याघ्रं विद्युदुन्मेषमात्रात् क्रम विना युगपदेव पश्यति विवेचयति अभिमनुते अध्यवस्यति च अयं मां हंतुमागत इति- तत्क्षण एव उप्लुत्य अपसरति च-तथा युगपत् इंद्रियमनोहंकारबुद्धीनां वृत्युद्भव इति ज्ञेयम् । क्रमेण यथा मन्दांधकारे स्वाभिमुखमागच्छन्तं व्याघ्र इंद्रियेण चक्षुषा प्रथम पश्यति - अनंतरं मनसा आलोचयति व्याघ्रोऽयमागच्छतीति - ततः अहंकांग्ण मां प्रत्यायातीत्यभिमनुते - ततो बुद्ध्या निश्चिनोति अपसरामीति - ततः अपसरति - सोऽयं वृत्तीनां क्रमप्रकारः। एतद् द्वयं दृष्टे विषये प्रत्यक्षे। यथा दृष्टे तथा अदृष्टेऽपि त्रयस्य ६) सांख्यरमणीया ४१ बुद्धिमनोऽहंकाररूपांतःकरणत्रयस्य वृत्तिः युगपद्धा क्रमेण वा भवति । अदृष्टे अप्रत्यक्षे-अनुमानागमस्मृतिविषये वस्तुनीत्यर्थः । तत्र बाह्ये- न्द्रियव्यापाराभावात् त्रयाणामेव युगपत्क्रमेण वा वृत्तिरुक्ता। परं तु- बाह्येन्द्रियव्यापाराभाबेऽपि । तत्पूर्विकैवेति-दृष्टपूर्विकैवेति अङ्गीकर्तव्ये- त्यर्थः। अनुमानस्य दृष्टलिंगसापेक्षत्वात् आगमविषयस्य वस्तुनः आप्तदृष्टत्वात् स्मृतेरनुभवपूर्वकत्वाच्च सा वृत्तिः दृष्टपूर्विकैवेति भावः।३० ननु अस्य करणस्य इयमेव वृत्तिरिति नियमहेतोरभावात् बुद्ध्यादीनां वृत्तिसंकरप्रसङ्गः स्यादितीत्यत आह :- स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिं । पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम् ।। ३१ खां खामित्यादि :-- करणानि बुद्धिमनोहंकारेन्द्रियरूपाणि त्रयोदश करणानि । खां खां परस्पराकूतहेतुकां वृत्तिं प्रतिपद्यते । यथा आखेटाय प्रवृत्ताः निषादादयः वने व्याघ्रादिव्यापादनाय तत्तगुप्तिस्थानेषु स्थिताः खस्वाभ्यस्तबाणमुसलाधायुधधारिणः व्याघ्रादिद्रष्टुः कस्यचिदाकूतमवगम्य सर्वे व्यापादनाय प्रवर्तते स्वैस्वैरायुधैः-नायुधसंकरं भजते तथा करणानां मध्ये अन्यतमस्य करणस्य स्वकार्यकरणाऽऽभिमुख्यरूपादाकृतात्स- वण्यपीतराणि करणानि स्वस्वप्रतिनियतव्यापाराभिमुखा भवंतीति न वृत्तिसांकर्यपसंगः । निषादादीनां चेतनत्वात् ते परस्पराकूतग्रहणसमर्थाः । करणानान्त्वचेतनत्वात् तानि नैवंविधानोत्यतः करणानामाधिष्ठाता - ४२ सांख्यरमणोया ३ त्रयोदश- केनचित् चेतनेन भवितव्यमित्यत आह-पुरुषार्थ एव हेतुः । न केनचित् कार्यते करणमिति । पुरुषस्य अर्थः भोगापवर्गलक्षण एव करण- प्रवृत्तौ हेतुः । नान्यः कश्चन चेतनः प्रवर्तक इति भावः । एतत् वत्सविवृद्ध्यर्थमित्यत्र सम्यक्प्रतिपादयिष्यते । ६१ करणं विभज्य तद्व्यापारान् वक्तुमुपक्रमते :- करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् । कार्य च तस्य दशधा हार्य धार्य प्रकाश्यं च ।। ३२ करणमित्यादि :- करण ज्ञानेन्द्रियाणि पश्च कर्मेन्द्रि- याणि पंच मनोऽहंकारबुद्धय इति त्रयोदशविधम् । तत् विध करणं आहरणधारणप्रकाशकरं । तत्र कर्मेन्द्रियाणि खविष- यात् वचनादीनाहरंतीति आहरणं कर्मेन्द्रियव्यापारः बुद्ध्यहंकार- मनांसि खसाधारणवृत्या प्राणादिरूपया धारयति देहादिकमिति धारणं अंतःकरणस्य व्यापारः । ज्ञानेन्द्रियाणि प्रकाशयंति शब्दादी- चिति प्रकाशन ज्ञानेन्द्रियाणां व्यापारः । करणकार्य- आहार्य - धार्य - प्रकाश्यं - च कतिविधमित्यत आह - विषस करणस्य कार्य प्रत्येक दशधा। अयं भावः-कर्मेन्द्रियैराहार्य वचनादानगमनोत्सर्गानंदात्मकं पञ्चकं द्विविधम् - दिव्यमदिव्यं चेति । ततं दिव्यं देवतादिसम्बन्धि--अदिव्यं मानुवादिसम्बन्धि । एवं दशविधमाहार्यम् । अंतःकरणेन विविवेन प्राणादिवृत्त्या धार्यस्य शरीरव पाश्चभौतिक्तया शारीराणि पंच भूतानि द्विविधानि तस्य त्रयोदश- सांख्यरमणीया १३ ३ ३ दिव्यान्यदिव्यानि चेति । एवं धार्यमपि दराविधम् । ज्ञानेन्द्रिय- प्रकाश्यानां शब्दादीनां पञ्चानामपि दिव्यादिव्यतया द्विविधत्वा- प्रकाश्यमपि दशविधम्। एवं प्रत्येक दशविधमिति भावः । ३२ अधुना त्रयोदशविधं करणं पुनः द्विधा विभज्यते । तयो- खांतरविभाग करोति :- अंत:करणं त्रिविध दशधा बाह्य त्रयस्य विषयाख्यम् । सांप्रतकाल बाह्य त्रिकालमाभ्यंतरं करणम् ॥ अंतःकरणमित्यादि :-करणं द्विविधम् अंतःकरणं बहिःकरणं चेति। तत्र अंतःकरणं त्रिविधम् बुद्ध्यहंकारमनोभेदात् । बाई करणं दशधा - ज्ञानेन्द्रियकर्मेन्द्रियभेदात् । एतद्वाद्यं करणं त्रयस्य अंतःकरणस्य । विषयाख्यं विषय आख्यातीति विषयाख्यम् । विषय शब्दादिकमाहृत्य ददातीत्यर्थः । तद्दत्तं विषयं मन आलोचयति- अहंकारः अभिमनुते-बुद्धिाध्यवस्यतीत्यर्थः । अंतर्बहिःकरणयोः विशेषमाह-सांप्रतकालं बाह्यमिति। बाह्यं करणं सांप्रतकालं वर्तमान- कालं । अत्र वर्तमानशब्देन वर्तमनसभीपस्थ अतीतमनागतमपि लक्ष्यते वर्तमानमेव विषयं गृहणातीत्यर्थः । आभ्यंतरं करणं तु त्रिकालं कालत्रयविषयं गृह्णातीत्यर्थः। यथा - नदीपूरं दृष्ट्वा दूरे वृष्टिर- भूदिति ज्ञायते। धूमं पर्वते दृष्ट्वा वर्तमानं वहिमनुमिनोति। सांडां पिपीलिकापंक्तिं दृष्ट्वा वृष्टिभविष्यतीति जानाति । एवं आभ्यंतरं करणं त्रिकाल । ननु कालस्य अतीतादिव्यवहारहेतोः वैशेषिका-

सांख्यरमणीया
दिभिरङ्गीकृतत्वात् तत्वेषु गणना किमर्थं न कृतेति चेत् उच्यते
अतीतादिव्यवहारे न कालो हेतुः। किंतु यैर्विषयैरतीतादिव्यवहारे
जायते ते विषया एव व्यवहारहेतवः। किं कालेनेति तस्य तत्वे
गणना न कृता सांख्याचा रिति भावः ।
३३
अथ बाह्येन्द्रियाणां विषयान् शब्दादीन् विशेषते
विविन्ध निरूपयति
बुद्धीन्द्रियाणि तेषां पंच विशेषा विशेषविषयाणि ।
वाग्भवति शब्दविषया शेषाणि तु पंच विषयाणि ॥ ३४
बुद्धीति :- शब्दादयो विषयाः त्रिविधा:- स्थूलास्सूक्ष्मा
श्चेति । तत्र स्थूलाश्शब्दादयएव भूतानीति विशेषा इति ६
कथ्यन्ते।
सूक्ष्मास्तन्मात्रानीत्युच्यन्ते । तेषां करणानां मरे
बुद्धीन्द्रियाणि पञ्च श्रोत्रादीनि विशेषा विशेष विषयाणि भूततन्मात्र
विषयाणीत्यर्थः । योगिनां श्रोत्रादीनि तन्मात्रविषयाणि स्थूल
शब्दादिभूतविषयाणि च भवन्ति। कर्मेद्रियेषु च वाक् शब्द
विषया भवति । स्थूलशब्दविषयैव भवति । स्थूलशब्दोच्चारगहेतुत्वात
सूक्ष्मशब्दहेतुत्वं तु अहंकारस्यैव । शेषाणि पाणिपादपायूपस्थानि
पञ्च विषयाणि स्थूलशब्दादिरूपपञ्चभूतात्मकघटादिविषयत्वात् पञ्च
विषयत्वम् ।
३४
अथ त्रयोदशकरणेषु गुणप्रधानभावमाह :-
सांतःकरणा बुद्धिसर्व विषयमवगाहते यस्मात् ।
तमात्त्रिविध करणं द्वारि द्वाराणि शेषाणि ।। ३८

सांख्यरमणीया ४५ ३ सांतःकरणेत्यादि :--यस्मात्सांत.करणामनोऽहंकारयुक्ता बुद्धि:- सर्व बाडेंद्रियोपनीतं विषयमवगाहते अध्यवत्यति । तस्मात् त्रिविधं बुद्धिमनोऽहंकारात्मकं करणं अंत:करण द्वारि प्रधानम् । शेषाणि वायेंद्रियाणि दश । द्वाराणि विषयग्रहणे द्वारभूतानि गौणानीत्यर्थः । अंत:करणत्रयं बाडेंद्रियद्वारा विषयजातं गृह्णातीत्यर्थः । ३५ अधुना बुद्धेरहंकारादिसर्वप्राधान्यमाह :- एते प्रदीपकल्पाः परस्परविरक्षणा गुणविशेषाः । कृतनं पुरुषस्यार्थ प्रकाश्य बुद्धौ प्रयच्छति ॥ ३६ एने इत्यादि :- गुणविशेषाः सत्वरजस्तमो गुणविकारभूताः एते अहंकारमनोबायेंद्रियरूपाणि द्वादश करणानीत्यर्थः । परस्पर- विलक्षणाः परस्परविरुद्धाअपि प्रदीपकल्पाः । यथा परस्परविरुद्धा- अपि वर्तितैलबहनयः परस्परं मिलिताः दीपतां प्राप्य रूपं प्रकाशयन्ति एवमेते मिलिताः पुरुषस्य कृत्स्नं अर्थ भोगाप- वर्गात्मकं प्रकाश्य बुद्धौ प्रयच्छन्ति समर्पयन्ति। बायेंद्रियाणि सर्वम् विषय प्रकाश्य मनसि समर्पयंति। मनः अहंकारे। अहं- कारश्च बुद्धौ सर्वाध्यक्षायां ममर्पयति। अधिकृताः कृषीवलेभ्यः करमादाय खोत्तरोत्तराधिकृतद्वारेण राजीवेति भावः । ३६ बुद्धेस्सर्वप्राधान्ये हेतुमाह : सर्व प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः। सैव च विशिष्ट पुनः प्रधानपुरुषान्तरं सूकम् ॥ ३७ १६ सांस्यरमणीया सर्वमित्यादि :-अधिकृतेषु सर्वेषु मंत्री राजसन्निधाना सर्व तदीयं अधिकार प्राप्य राज्ञे सर्वमुपभोग यथा साधयदि तथा। यस्माद्बुद्धिः पुरुषस्य साक्षात्साधनं तस्मादिति शेष: बुद्धिः पुरुषसन्निधानात् चिच्छायापत्त्या चिद्रुपैव । पुरुषस्य सर्व शब्दादिकं प्रति उपभोग इंद्रियाद्युपनीतविषयजन्यसुखादिकमुपभोगं साधयति संपादयति । तस्मात् सर्वेभ्योऽधिकृतेभ्यः मंत्रिणइव बुद्धरेव प्राधान्यमिति भावः । तथा चेत्पुरुषस्य अनिर्मोक्षप्रसंग इत्यत आह। सैव च- बुद्धिव पुनः सूक्ष्म दुहं प्रधानपुरुषान्तरं प्रकृतिपुरुषान्यथाख्यातिं च कैवल्यहेतुकां विशिनष्टि करोतीत्यर्थः । ततो बुद्धिरेव पुरुषस्य भोगमोक्षहेतुरिति भावः । ३७ एवं करणानां स्वरूपं सविषमुक्त्वा तन्नार-भूतस्वरूपमाह :- तन्मात्राण्यविशेषास्तेभ्यो भूतानि पंच पंचभ्यः। एते स्मृता विशेषाश्शांता घोराश्च मूढाश्च ।। तन्माताणीत्यादि :-तन्मात्राणि-शब्दादीनि-अविशेषात्सूक्ष्माणि। अतस्तेषां शांतादिरस्तीति भावः । तेभ्यः पञ्चभ्यस्तन्मात्रेभ्यः पंच भूतानि स्थूनशब्दायात्मकानि भवति। तत्राकाराः शब्दगुणः वायुः शब्दस्पर्शगुणः। अग्निः शब्दस्पर्शरूपगुणः । जलं शब्द- स्पर्शरूपरसगुणम् । पृथिली शब्दस्पर्शरूपरसगंवगुणां च-एते भूतानीत्यर्थः । विशेषाः स्थूला इति स्मृताः। स्थूलत्वे हेतुमाह-शांताः सत्व अपानाशब्दादयश्शांताः सुखहेतवः । घोराः रजःप्रधानाः दुःखहेतवः । ३८

सांख्यरमणीयो
सूक्ष्मा इत्यादि
मूढाश्च तमःप्रधानाः विषादयः मोहादिहेतवः। अतः स्थूला:
शब्दादिगुणवत्-तदाश्रयाः पृथियादयोऽवि शांतादिभेदभिन्ना इति
भावः ।
३८
अथ विशेषाणां मध्ये अवांतरभेदमाह
सूक्ष्मा मातापितृजास्सह प्रभूतैस्त्रिया विशेषास्स्युः ।
सूक्ष्मास्तेषां नियता मातापितृजा निवर्तते ।।
३९.
विशेषाः सूक्ष्माः प्रकृतिपरिकल्पिताः।
सूक्ष्मदेहा इति-मातापितृनाः स्थूलदेहा इति - प्रकृष्टैः
स्थूलदेहोपचयहेतुभिः महाभूतैस्सह त्रिधा स्युः। स्थूलदेहे च
मातृतो लोमलोहितमांसानि पितृतः स्नाय्वस्थिमज्जान इति षाटकौशिक
स्थूलं शरीरं मातापितृज। घटादीनामुपभोगहेतूनां महाभूतेष्वंतर्भावः
तेषु त्रिविधेषु विशेषेषु विशेषमाह। तेषां त्रिविधविशेषाणां मध्ये
सूक्ष्मा नियताः। कैवल्यपर्यंतमिति शेषः। मातापितृजा निवर्तते
जायते म्रियते च। महाभूतानि च प्रलयांतानीति परिशेषाज्ज्ञेयम् ।
तानि च अनुक्षणं उत्पद्यन्ने विलीयते चेति भावः ।
अथ ' सूक्ष्मशरीरस्वरूपं निरूपयति :
पूर्वोत्पन्नमसक्तं नियतं महदादि सूक्ष्मपर्यन्तं ।
संसरति निरुपभोग भारधिवासितं लिंगम् ॥
पूर्वोत्पन्नमित्यादि :-पूर्वोत्पन्न-आदिसणे एकैकस्य पुरुषस्य
एक प्रधानेनोत्सादित। असक्तं शिलादिष्वपि अव्यापारे ।

५८ सांख्यरमणीया नियतं आदिसर्गमारभ्य महाप्रलयपर्यन्तं नियमेन वर्तमानं । एवं. खभावं महदादि सूक्ष्मपर्यन्तं महदहकारैकादशेंद्रियपंचतन्मात्रपर्यन्ता- ष्टादशतत्वात्मकं सूक्ष्मं शरीरमित्यर्थः। एतच्च सूक्ष्मशरीरं तन्मात्रांशेन अविशेषविशेष एव । शांतत्वेऽपि घोरमूढस्वभावैरिंद्रियैर न्वितत्वादित्यर्थः । निरुपभोग भोगायतनं स्थूल शरीरं विना उपभोगरहितं यतः । तस्मात्कारणात् संसरति-पूर्वं पूर्व पाटकौशिकं स्थूलशरीरं जहाति नूतनं नूतनमुपादत्ते च । अतो न सूक्ष्मशरीरं भोगायतनम् । किंतु स्थूलशरीरमेव । तवारेणैव संसरतीति भावः । तत्सूक्ष्मशरीरं कथं संसरतीत्यत आह-भावैरधिवासित। यतो लावैः धर्माधर्मज्ञानाज्ञान- वैराग्यावैराग्यैश्वर्यानैश्वर्यैः पूर्वोक्तैः बुद्धिधर्मे : अधिवासितं अन्वितं ततः संसरतीति भावः। यद्यपि बुद्धिधर्मा एते-तथाऽपि सूक्ष्म- शरीरस्य बुद्धिप्रधानत्वात् सूक्ष्मशरीरधर्मत्वं । लिंग - लयं गच्छतीति- लिंगम् । महाप्रलये प्रधाने लीनं भवति पुनस्सर्गादौ आविर्भवतीति भावः। प्रधानं तु महाप्रलयेऽपि तिष्ठती पुरुषसत्वे लिंगत्वालिंगमिति वा। ननु साहंकारेंद्रिया बुद्धिव संसरतु। किं तन्मात्ररूपेण सूक्ष्मशरीरेणेत्यत आह :- चित्रं यथा श्रयमृते स्थाण्यादिभ्यो विना यथाच्छाया । दिनाविशेषैर्न तिति निराश्रयं लिंगम् ।।

७) सांख्यरमणीया चित्रमित्यादि :-यथा आश्रयमृते आश्रयं भित्त्यादिकं विना चित्रं न तिष्ठति; छाया यथा स्थाण्वादिभ्यो विना न तिष्ठति - तद्वत् लिंग साऽहंकारेंद्रियात्मकं लिंग अविशेषैस्तन्मात्रैर्विना-सूक्ष्म- शरीरेण विनेत्यर्थः । निराश्रयं न तिष्ठति । पंचतन्मात्राश्रितमेव तिष्ठतीत्यर्थः। पंचतन्मात्रात्मकस्य सूक्ष्मशरीरस्य पुरुष इति च व्यवहा- रोऽस्ति श्रुतिषु 'अंगुष्ठमात्रः पुरुष' इति। तत्र पुरि स्थूलशरीरे शयनात् पुरुष इत्यर्थसंज्ञा सूक्ष्मशरीरस्य । ४१ ४२ एवं सूक्ष्मशरीरं सविशेषमुपपाद्य अधुना तस्य संसार- प्रकारमाह: पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसंगेन । प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते लिंगम् ।। पुरुषेत्यादि :- पुरुषस्य अर्थः भोगापवर्गरूपो हेतुः यस्य तत्। न तु स्वस्य कोप्यर्थोऽस्तीति भावः ! इदं लिंग सूक्ष्मशरीरनिमित्तम्- धर्माधर्मादयो भावा: - नैमित्तिकं स्वादिलोकेषु शरीरप्ररिग्रहः - तयोः प्रसंगेनं। नटवत् व्यवतिष्ठने संसातीत्यर्थः । यथा नटः एकैकां भूमिकां परिगृह्य पुनस्तां तां भूमिकां विहाय अन्यामन्यां भूमिकां परिगृह्णाति तथा सूक्ष्मशरीरमपि पुरुष त्य भोगापवर्गा तत्तल्लोकेषु देवादिशरीरं परिगृह्य पुनस्तत्तच्छरीरं षाटकौशिक त्यक्त्वा अन्यदन्यच्छरीरं परिगृह्य संसरतीति भावः। सूक्ष्मशरीर- ५० सरियरमणीयां स्यैतादृशो महिमा कथमित्यत आह-प्रकृतेविभुत्वयोगादिति । प्रधानस्य महिमाऽत्यद्भुतः। तद्वशात्सपरतीति भावः । ४२ अथ निमित्तनैमित्तिकस्वरूपं सविभागं निरूपयति सासिद्धिकाश्च भावः प्राकृतिका वैकृताच धर्माद्याः । दृष्टाः करणायिणः कार्याश्रयणश्च कलिलाद्याः ।। ४३ सांसिद्धिका इत्यादि :- भावाः धर्माद्याः द्विविधाः । सांसिद्धिका असांसिद्धिकाश्चेति । चकारेण असांसिद्धिकपरिग्रहः । तत्र सांसिद्धिकाः प्राकृतिकाः । वल्पाही कपिले महासिद्धे स्वभावतएव प्रवृत्ताः- धर्मज्ञानवैराग्यैश्वर्याख्याः खाभाविकाः भावाः- सां सद्धिका इति यावत् । असांसिद्धिकाश्च वैकृताः उपायानुष्ठानसाध्याः यथा वाल्मीकिप्रभृतीनां धर्मादयः । अधर्माज्ञानावैराग्यानेश्वर्याख्या - अपि द्विविधाः । तत्र रक्षःप्रभृतीनां अधर्माद्याः सांसिद्धिका:- दैत्यदानवादीनां असांसिद्धिकाः उपायसाध्याः । यथा हिरण्यकशिपु- प्रभृतीनां । ते च सर्व धर्माधर्माद्याः करणाश्रयिणो बुद्ध्याद्याश्रयिणो दृष्टाः। कलिलाद्याः धर्माधर्मादिफलभूताः कार्याश्रयिणो दृष्टाः । गर्भस्थस्य कलिलबुद्बुदाद्याः जातस्य बालश्यौवनाद्या इत्यर्थः । ४३ एवं धर्मादीनां निमित्तानां कलिलादीनां नैमित्तिकानां स्वरूपमुक्तं । तत्र केन निमित्तेन धर्मादिना किं नैमित्तिक जायत इत्यत आह:- सांख्यरमणीया ५१ धर्मेण गमनमूर्ध्व गमनमधस्ताद्भवत्यधर्मेण । ज्ञानेन चापवगों विपर्ययारिष्यते बंधः ॥ धर्मेणेत्यादि :- धर्मग ऊर्च स्वर्गादिलोकेषु गमनं भवति । अधर्मण अवस्तात् अतलाद्यधोलोकेषु स्थावरांतेषु च गमनं भवति ज्ञानेन प्रकृतिपुरुवान्यथाख्यातिलक्षणेन अपवर्गः कैवल्यं भवति । विर्ययात् तत्याऽज्ञानादिय॑थः । बंधः इष्यते भवतीति यावत् । बंधश्च त्रिविधः प्राकृतिको वैकृतिको दाक्षिणश्चेति । तत्र पुरुष- स्वरूपाज्ञानेन प्रकृतिमेव पुरुषबुद्ध्या य उपासते तस्य प्राकृतिको बंधः । 'पूर्ण शतसहस्रं तु तिष्ठत्यव्यक्तचिंतकाः' इति । प्रकृतौ तिष्ठत ति भावः । विकारान् बुद्ध्यहंकारादीन् पुरुषबुद्ध्या य- उपासते तस्य सम्बन्धो वकारिकः । "बौद्धा दशसहस्राणि तिथेति विगतज्वराः" इत्यादि । बुद्ध्यादाविति भावः । इष्टा पृतदिना दक्षिणमार्गगमनं दाक्षिणो बंधः । एवं बंधस्त्रिविधः। ४४ ४५ वैराग्यात्प्रकृतिलयः संसारो भवति राजसादागात् । ऐश्वर्यादविधातो विपर्ययात्तद्विपर्यासः ॥ वैगग्यादित्यादि :- पूर्वमवैराग्यपूर्वक प्रकृत्यादीनुपासतां बंध उक्तः। अधुना वैराग्यात् पुरुषस्वरूपाज्ञानेन वैराग्यपूर्वकं प्रकृत्या- दीन् पुरुषबुद्ध्या उपासतां प्रकृतिलया प्रकृत्यादिषु लमः। अत्र वर्षनियम विना आकल्यं प्रकृत्यादिषु लय इत्यर्थ : । राजसात् :

५२ सांख्यरमणीया दुःखरूपात रागात् संसारो दुःखरूपो भवति। ऐश्वर्यादविघात: इच्छाया इति शेषः । यद्यदिच्छति तत्तत्सिध्यतीत्यर्थः। विपर्ययात् अनैश्वर्यात् । तस्य अविघातस्य विपर्यासः विघात इत्यर्थः । यद्य- दिच्छति न तत्सिद्ध्यतीत्यर्थः । ४५ एवं बुद्धिधर्मेषु धर्मादिषु हेयान् उपादेयांश्च निरूपयितुं तेषां धर्माणां समासव्यासाभ्यां स्वरूपं निरूपयति :- एष प्रत्ययसगों विपर्ययाशक्तितुष्टिसिद्ध्याख्याः । गुणवैषम्यविमर्दात्तस्य च भेदास्तु पंचाशत् ।। एष इत्यादि :- एषः पूर्वोक्तः प्रत्ययस्य बुद्धेस्सर्गः । सः विपर्ययाशक्तितुष्टिसिद्ध्याख्यः विपर्ययादिभेदेन चतुर्विधः । तत्र विपर्ययः अविद्या। अशक्तः करणवैकल्यादिका। तुष्टिसिद्धी वक्ष्यमाणे । एते सर्वेऽपि साक्षात्परंपरया वा बुद्धिधर्मा एव । ज्ञानातिरिक्तानां सप्तानां धर्मादीनां विपर्ययाशक्तितुष्टिषु यथायथ- मन्तर्भावः । ज्ञानस्य तु सिद्धावन्तर्भावः । एवं समासतः स्वरूपमुक्त्वा व्यासतस्तद्विभागं स्वरूपश्चाह । तस्य च - प्रत्ययसर्गस्य-भेदास्तु । गुणवैषम्यविमर्दात् गुणानां न्यूनाधिकभावप्रयुक्तपरस्पराभिभवात् । पञ्चाशत् भवंतीति शेषः । ४६ अथ ते पंचाशद्भेदाः विपर्ययादीनां कस्य कस्य-कति कती. त्यत आह :- सांस्यरमणीया पंचेत्यादि पंच विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् । अष्टाविंशतिभेदा तुष्टिनवधाऽष्टधा सिद्धिः ।। ४७ विपर्ययत्य भेदाः पंच । अविद्याऽस्मिताराग- द्वेषाभिनिवेशाः। तमो मोहो महामोहस्तामिस्रमंधतामिस्रमित्यपि क्वचित् क्रमात्तेषां नामोक्तम् । विपर्ययजन्यानामस्मितादीनामपि विपर्यय शब्देन निर्देशः । भवतीति योजना । करणानामिद्रियादीनां वैकल्यात् अशक्तिश्च । अष्टाविंशतिभेदा । तुष्टिनवधा। सिद्धि- रष्टधा । एवं पंचाशद्भेदा भवतीत्यर्थः । ४७ ४८ अथ पंचानां विपर्ययभेदानामांतरभेदानाह :-- भेदस्तमसोऽष्टवियो मोहस्य च दशविधो महामोहः । तामिस्रोऽष्टादशधा तथा भवत्यंचतामिस्रः ।। भेद इत्यादि :- तमसोऽविप्राया अष्टवियो भेदः । प्रकृतिमहदहं- कारतन्मात्रेषु अनात्मसु आत्मबुद्धिरविया । प्रकृत्यादीनामष्टविधत्वाद- विद्याचाष्टविया । मोहस्य चेति चकारादष्टवियो भेद इत्यनुषज्यते । देवादीनां अविद्यया अणिमाडप्टैश्चर्येषु स्वीयेषु शाश्वितिकाभिभानो भवतीति अस्मिताख्यो मोहोऽपि अष्टविधः। महामोहः रागोऽपि दशविधः। शब्दादयो विषयाः पंच प्रत्येकं दिव्यादिव्यतया दश- विधाः। तद्विषयत्वात् महामोहाख्यो रागोऽपि दशविधः। तामिस्रो- देवः अष्टादशधा भिन्नेति भावः। शब्दादीनुपजीव्य अणिमादयोऽनु- सांख्यरमणीया .. भूयन्ते । ततो दिव्यादिव्यतया शब्दादिदशकं अणिमाद्यष्टविषयत्वात् तामिस्राख्यो द्वेषः अष्टादशविधः। परस्पराभिहत्या तेषु द्वेषो जायत इति भावः। अंधतामिस्रः अभिनिवेशोऽपि। तथा भवति अष्टादशविधो भवति । अभिनिवेशो नाम भयं । दिव्यादिव्यतया शब्दादयो दश अगिमाइयश्च अनुरादिभिरूपहन्यंत इति देवादीनां भयं भवति। तस्य अष्टादशविषयत्वात् अभिनिवेशः अष्टादशविधो भवति । एवं च संहत्य विपर्ययभेदाः द्विषष्टिसंख्याकाः । ४८ अथाशक्तेरष्टाविंशतिभेदानाह : एकादशेंद्रि पवितारसद बुद्धिविधैः शक्तिरुद्दिष्टा । सप्तदशविधा बुधिविधवा तुष्टिनिद्रानाम् ।। ४९ एकादशेत्य दि :- इंद्रियाग श्रीवादीनां वानदीनां ज्ञान- कमंदियागां मनमोले एशानां विनाः वैकल्यरूपाः बार्यि मूकत्वाद्याः । इंद्रियाणामेकामावर एकाइम । तत्प्रयुक्का बुद्धरशक्तिः एकादशविधा। सप्तदशभिः विधैरसह अष्टादशविधा बुद्धेरशक्तिरुट्टिष्टा । ते च स्वीया बुद्विविधाः के इत्यत्राह- नवविवानां तुष्टीनामष्टविधानां सिद्धीनां । विपर्ययात् विपर्यासात् । बुद्धिः स्वयं सप्तविया ! एवमष्टाविंशतिविधा अशक्तिरिति भावः । ४९ अथ नवविधां तुष्टि निरूपयति :-- आध्यात्मिकाश्चतस्त्रः प्रकृत्युपादानकालभागाख्याः । बाह्या विषयोपरमात्पंच च नव तुष्टयोऽभिहिताः ।। खाथैः सांख्यरमणीया ५५ आध्यात्मिका इत्यादि :- आध्यात्मिकान्तुष्टयश्चतस्रः । ते च प्रकृत्युपादानकालभागाग्याः। प्रातिविविक्तात्मज्ञ नमधिकृत्य प्रवृत्त- स्वादाध्यात्मका इत्युच्यते । प्रकृतिविवितः आ नेति निश्चयवतः प्रकृति- पुरुषान्यथाख्यातेर पि पतिपरिणाम का ख्याति प्रकृतिय करोति। किं ध्यानेनत्यमयदेशात् या नुष्टि गयो मा प्रकृयाया। तादृशनिश्चयवतएव केवला प्रकृति: तांति न करोति । तथा सति प्रकृते वैषम्यनैयाभावेन संबंशामध्येवोत्र केल्यं स्यात्। अतः प्रत्रज्यया सा ख्यातिम्म्यात् । किं ध्यानगः प्रसवंदा या तुष्टिजायने सा आदानाख्या । ताह शनिश्चयवत एव प्राण्यापि न सद्यः ख्याति करोति । किंतु ध्यान विनाऽपि कालपरिपाकवशात्। अतः कालनिरीक्षणं कर्तव्यम्। न कालविलम्बकृतोतायः कार्यः इत्य- सदुपदेशान् या तुष्टि जीया सा कालाच्या । नाहशनिश्चयत्रत एव न कालात् न प्रबध्यादेः म्यातर्मनि। किंतु भाग्य- वशाद्भवति । यथा मदालसाऽपत्यानामतिबाला मानुरुपदेशमात्रादेव- इत्यसदुपदेशात् या तुष्टिर्जायते सा भाग्याच्या । एताः प्रत्याद्यः- सिद्धयः क्रमेण अभ म्मलिन-ओव वृष्टि-पह-संकेनापि कथ्य रे । एवमाध्यात्मिकान्तुष्टयश्चतन्त्रः । विषयेषु शब्दम्पर्शादिषु उपरम त् वैराग्यात। बाह्याम्तुष्टयः पंच विषयसमानसंध्याकाः । बाह्येषु पुरुषव्यतिरिक्तेषु प्रकृतिमहदहंकारादिपु आत्मन्नानवतः पुरुषस्य वैराग्ये सति प्रवृत्तत्वात् बाह्यः । ते च विषयाणां आर्जने रक्षणे क्षये भोगे हिंसायां च दोपदर्शनेन जायो। विषयार्जन गज- सांख्यरमणोया सेवादिना दोषदर्शनात् विषयार्जनादुपरमे या तुष्टिरसैका । चोरा- दिभ्यस्तदक्षणे महतो दुःखस्य दर्शनात् तदुपरमे या तुष्टिस्सा द्वितीया । आयासेनार्जितं रक्षितं च धनं भुज्यमानं सत् क्षीयत- इति क्षयरूपदोपदर्शनात्तदुपरमे या तुप्टिस्सा तृतीया। विषयाणां निरन्तरं भोगाकामाः वृद्धिं गताः पुरुषं दुःखित कुर्वतीति भोगेऽपि दोषदर्शनात् तदुपरमे या तुष्टिः सा चतुर्थो । अन्याननुपहत्य विषयार्जन तदुपभोगश्च सम्भवतीति हिसारूपदोषदर्शनात् तदुपरमे या तुष्टिः सा पंचमी। एता सामेव तुष्टीनां क्रमात् अपारं सुपारं पारावारं अनुत्तगंमः उत्तमांभ इति नामांतराणि संकेतितानि । एवं बाह्याः पंच आध्यात्मिकीभिः चतसृभिस्सह नव तुष्टयो भवंतीति भाव । ५० अथ सिद्धीनां स्वरूपमाह : - अहः शब्दोऽध्ययनं दुःखविधातास्त्रयस्सुहृत्प्राप्तिः । दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वी कुशस्त्रिविधः ।। ५१ ऊहइत्यादि :- अत्र पाठक्रमादर्थक्रमो बलीयान् ग्रह्यः प्रथमतः अध्ययनं - गुरुमुखात् यथाविधि अध्यात्मविद्यास्वरूपग्रहण । ततः शब्दः- तेन अर्थग्रहणं लक्ष्यते। तदेव श्रवणं । ततः ऊहः- आगमाऽविरोधिना तर्केण गृहीतस्य अर्थस्य संश्यनिरासपूर्वक परीक्षणम् । तन्मननमित्युच्यते। ततः सुहृत्प्राप्तिः । मतस्यार्थस्य विश्वासजननार्थ संपादाय गुरुशिष्यसब्रह्मचारिणां प्राप्तिः सह- ८) सांख्यरमणीया प्राप्तिः। तैस्सह संवादात् तत्राऽर्थे विश्वासो जायते। ततो दानम् । एभिरुपायैः गृहीतस्य प्रकृतिपुरुषविवेकज्ञानस्य दानं शुद्धिः। स- च शुद्धिः आदरनरन्तर्यदीर्घकालसेविताभ्यासपरिपाकात् निदिध्या- सरूपाद्ध्यानाद्भवति। ततस्तत्कलभूताः आध्यात्मिकाधिभौतिकाधि- दैविकदु.खविधातास्त्रयस्सिद्धयः । अत्र दुःखविघातास्त्रयो मुख्याः । अन्ये गौणाः। तत्राऽपि पूर्वनुत्तरोत्तरस्य कारणम् । उत्तरोत्तरं पूर्वपूर्वस्य फलं। तत्राध्ययनं प्रथमत्वात्कारणमेव । न कदाऽपि फलं भवति । दुःखविघाताश्चरमत्वात् फलभूता एव । न कदाचित्कारणानि भवन्ति । इतरेतरकारणभूताः फलभूताश्च भवन्तीति विशेषः। एवं सिद्धयोऽष्टौ। तेषामेव क्रमेग-तारं, सुतारं, तारतारं, रम्यकं, सदामुदितं, प्रमोदः, मुदितः, नोदमानः इति नामानि संकेतितानि । अब केचित् अन्यथा व्याचक्षते - उपदेशं विना जन्मान्तरी- याभ्यासवशात् स्वयं तत्त्वस्य ऊहनम्ह: । अन्यदीयात्सांख्यशास्त्रपाठात् तत्वज्ञानोत्पत्तिः संशब्दः। आचार्यमुखाच्छन्दतोऽर्थतश्च सांख्यशास्त्रा- ध्ययनात् या ज्ञानसिद्धिः सा ध्यानमित्युच्यते। स्वस्याध्ययनाभावेऽपि अधिगततत्वस्य सुहृदः प्राप्त्या या ज्ञान सिद्धिः सा मुहृत्पाप्तिः । धनादिना आराधितात् ज्ञानिनम्सकाशात् या ज्ञानसिद्धिस्सा दानम्। दुःखविवातास्त्रयः उभयत्र समानाः। एवं तुष्टिसिद्धि- विपर्ययभूता बुद्धिविधासप्तदशेति पूर्वमेवोक्तम् । एतेषु विपर्यया- दिषु हेयानुपादेयांश्चाह-सिद्धेः पूर्वोकुशस्त्रिविध इति । अत्राष्टविधा सिद्धिरुपादेयैव । सिद्धः पूर्वस्त्रिविधः विपर्ययाशक्तितुष्टिरूपः अंकुशः सांख्यरमणीया अंकुशतुल्यः। यथा गजानामकुंशो निवारकः तथा विपर्ययशक्ति तुष्टयः सिद्धीनां निवारकाइति सिद्धिपरिपंथित्वात् ता हेया इति भावः । एवं भावसर्गस्सविशेष निरूपितः । अथ तेनैव भावसर्गेण पुरुषस्य भोगापवर्गसिद्धः किं प्रयोजनम् पंचतन्मात्रसृष्ट्येत्यत आह :- - न विना भावलिंग न विना लिंगेन भावनिर्टत्तिः । लिंगाख्यो भावाख्यलमाद्विविधः प्रवर्तते सर्गः ॥ ५२ नविनत्यादि :-लिंग पंचतन्मात्रकं लिंगशरीरं। एत स्थूलशरीरस्याप्युपलक्षणम् । भावैः प्रत्यथैः । विना। न तिष्ठति लिंगस्य पुरुषार्थसाधनत्वं प्रात्ययसग विना न सम्भवति । लिंगे विना भावानां प्रत्ययानां निर्वृत्तिः निष्पतिः न सम्भवति प्रत्ययसर्गस्याऽपि पुरुषार्थसाधनत्वं लिंगं विना न सम्भवतीत्यर्थः तस्मात् लिंगाख्यः-भावारव्यः एवं द्विविधः सर्गः पुरुषस्य भोगाप वर्गाथै प्रवर्तते । अयं भावः- पुरुषस्य भोगः भोग्यान् शब्दादीन् भोगायतनं शरीरं-द्वयं च विना न सम्भवति । स एव भोग भोगसाधनानि करगानि-तद्धावान् धर्मादींश्च - विना न सम्भवति पुरुषस्य विवेकख्यातिः तदुभयं विना न सम्भवतीति । अनादि रुभयविवस्सर्गः बीजांकुरन्यायेन प्रवर्तत इत्युपपन्नम्। कल्यादौ ३ पुरुषाणां भोग्यभोगायतनकरणभावरूपं सर्वमपि प्राचीनकल्पोत्पन्न भोन्यादिसंस्कारवशादुत्पद्यत इति नान्योन्याश्रयस्सम्भवतीति स सांख्यरमणीया सम्पद्यत इति भावः। ५२ सविशेष प्रत्ययसर्ग सम्यक निरूप्य तन्मात्रादिसर्ग विभज्य निरूपयति :- अष्टविकल्पो दैवस्तैर्यग्योन्यश्च पंचधा भवति । मानुष्यश्चैकविवरसमासतो भौतिकरसर्गः ॥ ५३ अष्टेत्यादिः- देवः सर्गः । ब्राहस्य-प्राजापत्य-ऐन्द्र-पत्र-गांधर्व-यक्ष- राक्षस-पैशाचभेदात् अष्टविकल्पः । तैयग्योन्पश्च सर्गः - पशुमृग- पक्षिसरीसृपस्थायामेदेन पंचधा भवति । घटाई नां स्थावरेवंतीवः । मानुष्यश्च सर्ग एकविधः । ममादिपु वर्णहु मिन्नेवपि शरीर- संस्थानस्य एकवियत्वात् 'कविवत्वमुक्तम् । एवं समासतः संक्षेपतः भौतिकसर्गः निरूपित इति शेषः । अत्र सर्गेषु सर्वत्र शरीरद्वय- ग्रहणं कर्तव्यम् । अस्य भौतिकसर्गस्य चैतन्यस्फूर्तितारतम्यात् स्थानस्थितितार- तम्य निरूपयति :- ऊर्ध्व सत्वविशालस्तमोविशालश्च मूलतस्सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ।। ५४ ऊर्ध्वमित्यादि :- ऊध्वं स्वर्गादिसत्यलोकांतः । सत्वविशालः- तारतम्येन सत्वबहुलः । मूलतः सर्गः अतलादि पातालांतः ।

६० सांख्यरमणीया ५४ पश्वादिस्थावरांतश्च । तमोबहुलः । तारतम्येनेति अनुषज्यते । मध्यलोके सर्गः सप्तद्वीपसमुद्रसहितः भूलोकः रजोविशालः रजोबहुल: दुःखबहुल इत्यर्थः । एवं ब्रह्मादिस्तम्बपर्यन्तः सर्गः संगृहीतः । एतस्य सर्गस्य दुःखहेतुतां पुरुषस्य ज्ञानोपयोगिवैराग्याय समुपदिशति :- तत्र जरामरणकृतं दुःख प्राप्नोति चेतनः पुरुषः । लिंगस्याऽविनिवृत्तेस्तस्माद्दुःख स्वभावेन ॥ तत्रेत्यादि :-चेतनोऽपि पुरि लिंगे शयनात् पुरुष: लिंग- शरीरसम्बन्धात् । लिंगत्य सूक्ष्मशरीरस्य अविनिवृत्तेः निवृत्त्यभावात् । अथवा आविनिवृत्तेः निवृत्तिपर्यन्तं। तत्र सर्गे ऊर्ध्वादिपूर्वाक्ते सर्गे। जरामरण कृतं दुःखं प्राप्नोत्येव । यद्यपि ऊर्ध्वसर्गे सुख- बाहुल्यमस्त्येव । तथाऽपि तत्राऽपि जरामरणयोरपरिहार्यत्वात् तत्सुखं दुःखभूयिष्ठमेव । तस्मात् लिंगशरीरे आत्माभिमानात् दुःख खभा- वेन, स्वभावसिद्धमेवानुभूयते। लिंगशरीरे आत्मत्वाभिमानपर्यंतत्वात् दुःस्वस्येति भावः। अथ सर्गस्य प्रकृतिरेव हेतुः। नेश्वरः - न निविशेष ब्रह्म- नाप्यकारणस्सर्ग इति प्रतिपादयति :- इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः । प्रतिपुरुषविमोक्षार्थ स्वार्थ इव परार्थ आरम्भः॥ ५५ सांख्यरमणीया ६१ इति-पूर्वोक्तप्रकारेण महदादिविशेषभूतपर्यन्तः महत्तत्वादि- लोकलयांतः । एषस्सर्गः । प्रकृतिकृतः प्रकृत्यैव कृतः। अकार णत्वे सर्वदा सों वा तदभावो वा स्यात् - शुक्तौ रजतवत् अविद्यथा ब्रह्मण्यध्यस्तत्वे रजताध्यामस्य सत्यरजतज्ञानाधीनत्ववत् प्रपंचाध्यासस्याऽपि सत्यप्रपंचज्ञानाधीनत्वावश्यंभावात् । तेन सत्य- प्रपंचेन ब्रह्मणः सद्वितीयता अविद्याश्रयता च स्यात् । ब्रह्मपरिणामत्वे निर्विशेषस्य ब्रह्मणः परिणामासम्भव च । ईश्वराधिष्ठितप्रकृतिकृतत्वे उदासीनस्य निर्यापारस्य वरम्य अधिष्ठातृत्वा सम्भवाच्च । परिशेपात् प्रकृतिपरिणामएव सर्ग इति भावः। ननु प्रकृतिकृतत्वे प्रकृत्याः नित्यप्रवृत्तिशीलत्वात् सनारोः पुरुषम्य नित्य एव स्यात् : तदा पुरुषस्यापवर्ग एव न स्यात् इत्यत आह-प्रतिपुरुषविमोक्षार्थ प्रत्येक पुरुषान् मोचयितुमेव तस्याः प्रवृतिः । न केवलं भोगार्थ । सा नित्यप्रवृत्तापि यं पुरुषं मोचितवती तदर्थ न पुनः प्रवर्तत इति भावः। यथा स्वार्थे लोकायारम्भ:-प्रयत्नः-तथा प्रकृतेः परार्थे एवारम्भः। न हि-तस्याः स्वार्थ एव नास्ति; अतः कस्यचित् मोक्षं च ददातीति भावः । प्रवृत्तः चेतनधर्मत्वात्- अचेतनायाः प्रकृतेः तदसम्भवात्- चेतनानां पुरुषाणां प्रकृतिस्वरूपे अज्ञत्वात्- सर्वज्ञः कश्चित्प्रकृते- रधिष्ठाता ईश्वरः तत्र वृत्यर्थं अङ्गीकर्तव्य इत्यत आह :- वत्सविवृद्धिनिमित्त क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥

६२ सांख्यरमणीया वत्सेत्यादि :- अज्ञस्य अचेतनस्यापि क्षीरस्य वत्सविवृद्धि- निमित्तं यथा प्रवृत्तिः तथा अचेतनस्याऽपि प्रधानस्य पुरुषविमोक्ष- निमित्तं भोगस्याऽपि संग्रह:- भोगापवर्गनिमित्तमित्यर्थः । प्रवृत्ति- भविष्यति- स्वयमेव प्रधानं पुरुषार्थ प्रवर्तते । नेश्वराधिष्ठानापेक्ष । लोके चेतनस्य सर्वस्यापि प्रवृत्तिः स्वार्थ वा कारुण्येन वा भवति । अवाप्तसकलकामस्येवरस्य न हि स्वार्थ कश्चिदस्ति । सृष्टेः प्राक् जीवानां करणाद्यभावेन तत्कृतदुःखाभावात् कारुण्यमपि न सम्भवति । दुःखप्रहाणेच्छैव कारुण्यम् । किं च यदि करुगया ईश्वरस्सृजेत् तदा सर्वानव जन्तून् उखिनस्सृजेत् । न विचित्रान् । जन्तुकर्मणां पैचित्र्यात् ईश्वरः तथा सृजातीति चेत् तदा विचित्र- नानाकर्म सहितं प्रधानमेव सृजतीति वक्तव्यम् । किमीश्वरेण प्रधानस्य तु अचेतनस्य प्रवृत्तौ न खार्थो न कारुण्यं वा हेतुः । तस्मान्नोक्तदोषावकाशः । 'प्रधानन्य प्रवृत्तेस्तु परार्थमात्र प्रयोजनम् । इदमुपलक्षणम् - यथा नदीजलादिकं तरुफलादिकं च अचेतनमपि परार्थ. प्रवर्तते - तथा प्रधानमपीति खयमेव प्रधाने प्रवतमाने पुरुषास्तत्र अनादिकर्मवासनावशात् सुखं वा दुःख वा प्राप्नुवन्तीति प्रधानस्य न वैषम्यनवृष्ये सम्भवत :- अचेतनत्वात् । नापि खार्थः ईश्वरांगीकारे ईश्वरस्य चेतनत्वात् तत्सम्भव इति नेश्वरकारणवाद समीचीन इत्युपेक्ष्यम् ।

सांख्यरमणीया ६३ पूर्वम् स्वार्थ इव पार्थ आरम्भ इत्युक्तम् । तत्स्वरूप- माह: ५८ औत्सुक्यनिवृत्यर्थं यथा क्रियासु प्रवर्तते लोकः । पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् ।। औत्सुक्यं इच्छा-तन्निवृत्यर्थम् लोकः यथा क्रिया प्रव. तते। अभिल पितःस्तुप्राप्तौ त द्वेषयकेच्छा निवर्तते। फलप्राप्त्यता- हीन्छा। अभिलषितवस्तुप्राप्तिरेव स्वार्थः । तदर्थ तत्साधनक्रियासु लोकः प्रवर्तः। तत्प्राप्तौ निर्तिते च। तत् अव्यक्तम् पुरुषस्य विमोक्षार्थम् अपवार्थम् प्रवर्तते । तत्प्राप्तौ निवर्तते च। तस्मात् यथा लोकः स्वार्थे प्रवर्तते तथा प्रधान पदार्थ प्रवर्तते । इच्छा- भावेन अचेतनम्य तम्य स्वार्थासंभवात् । पुरुषार्धम् प्रकृतेः प्रवृत्तिरस्तु । निवृतिस्तु नित्यप्रवृत्तिशीलायाः तस्याः कथं स्यादित्यत आह :- रंगस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथाऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ।। ५९ रंगस्येत्यादि :-- रंगशब्देन रंगस्था जना लक्ष्यन्ते। रंगस्य- रंगस्थानां पारिषदानां - नर्तकी रूनृत्यं दर्शयित्वा यथा नृत्यात् निवर्तते तथा प्रकृतिः पुरुषस्य आत्मानं खनृत्यभूतं शब्दाद्यांत्मना पुरुषाद्भेदेन च प्रकाश्य शब्दाद्यात्मना प्रथमं भोगं दत्वा तत- ६४ सांख्यरमणोया स्ततः पुरुषाद्भिन्नं निजस्वरूपं दर्शयित्वा विनिवर्तते। तदर्थ खपरिणाम निवर्तयतीति भावः । ५९ पुरुषार्थम् प्रकृतिः प्रवर्तत इत्युक्तम् । लोके कोऽपि प्रत्युप- कारं विना परार्थ न प्रवर्तते। अतः प्रधानमपि पुरुषात् प्रत्युप- कारं लभते स एव तस्य स्वार्थः। 'प्रयोजनमनुद्दिश्य न मंदोऽपि प्रवर्तत इति न्यायादित्यत आह : नानाविधैरुपायैरुपकारिण्पनुपकारिगः पुंसः । गुणवत्यगुणस्य सतस्तस्वार्थमपार्थकं चरति ॥ ६० नानाविधैरित्यादि :- नानाविधैः बहुविधैः उपायैः भोग्यनिष्पा- दनादिभिः । उपकारिणी गुणवती प्रकृतिः । अनुपकारिणः प्रत्युपकार- मकुर्वतः । अगुणस्य निर्गुगस्य सतः पुंसः पुरुषस्य । तस्य । अर्थ भोगमोक्षरूपं । अपार्थकं प्रत्युपकारनिरपेक्षमेव । चरति आचरति । अयं भाव:- लोके गुणवान् भृत्यः स्वगुणैः निर्गुण- मनुपकारिणं पुरुषमाराध्य बहुधा अन्ते निष्फलाराधनो निवर्तते तद्वत् इयं सत्वादिगुणवती प्रकृतिरपि निगुगमनुपकारिणं पुरुष खगुणैभोग्यतां खपरिणामेन गतैराराध्य प्रत्युपकारमनुपलभ्यैव निवर्तत- इति भावः । ६० पूर्व नर्तकीसाम्यमुक्तं प्रकृतेः । नर्तकी तु पारिषदेभ्यः स्वनृत्य दर्शयित्वा निवृत्ताऽपि पुनस्तेषां कौतूहले जाते पुनस्तेभ्यः खनृत्ये दर्शयति । तद्वत् प्रकृतिरपि पुरुषाय स्वात्मानं प्रकाश्य ९) सांख्यरमणीया ६५ ६१ निवृत्तापि पुनस्तस्य कौतूहलमुपलभ्य पुनः प्रवर्ततामित्यत आह:- प्रकृतेस्सुकुमारतरं न किंचिदस्तीति मे मतिर्भवति । या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य ।। प्रकृतरित्यादि :- प्रकृतेः प्रधानात् । सुकुमारतरं अतिपेशल पर पुरुषदर्शनास हमिति यावत् । किंचिदपि वस्तु नास्तीति मे मतिर्भवति-इति शास्त्रकर्तुरभिप्रायः प्रकटितः । या प्रकृतिः विषयादि- रहिता केवला पुरुषेण दृष्टास्मीति हेतोः पुनस्तस्य पुरुषस्य दर्शनं नापैति । यथा लोके असूर्यपझ्या कुलवधूः प्रमादाद्विगलितांबरा परपुरुषेण दृष्टा चेत् तदा सा एवं परपुरुषैः यथा न दृश्यते पुनस्तथा अप्रत्ता भवति । एवं प्रकृतिरपि कुलवधूभ्योऽप्यधिका विवेकेन । न पुनः पुरुषेण दृश्यत इति भावः । पुरुषस्य पुनः कुतूहले जानेऽपि सा न दृष्टिगोचरं याति । पुरुषोऽपि कुतहला- निवर्तत इति यावत् । नन्वगुणस्यापरिगामिनः पुरुषस्य बंधस्यैवाभावात् मोक्षोऽपि न सम्भवति । द्धस्यैव हि मोक्षः । तस्मात् पुरुषविमोक्षार्थमित्यनुप- पन्नं वचः- इतीमां शंकामपनुदन्नुपसंहरति तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्चते च नानाश्रया प्रकृतिः ॥ ६२ तस्मादित्यादि :- तस्मात् निर्गुगस्याऽपरिणामिनः बंधासम्भवात कश्चिदपि पुरुषः न बध्यते - न मुच्यते - नाऽपि संसरति ।

६६ सांख्यरमणीया अद्धा इत्याश्चयें । तर्हि कस्य बंधादय इत्यत आह नानाश्रया नाना- परिणामाश्रया सगुणा प्रकृतिरेव संसरति - बध्यते - मुच्यते च । भृत्यगतजयपराजयादयः राज्ञीय प्रकृति ताः बंधमोक्षसंसाराः पुरुषे. खूपचर्यन्ते । प्रकृतिगतानामपि तेषां विवेकाग्रहात्पुरुषसंवन्ध इति सर्व रमणीयम् । ६२ कैस्साधनैः प्रकृतबंधादय इत्या आह :-.. रूपैरसप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृतिः । सैव च पुरुषार्थ प्रति विमोचयत्येकरूपेण ॥ ६३ रूपैरित्यादि :- पूर्वमुक्ताः धर्माधर्मादयो भाराः । बुद्धेः । देव जानवर्ज सप्तभिग्य रूपैः। तुशब्दः धर्मादीन् ज्ञान द्विविनक्ति । धर्माधमीज्ञानवैराग्यावैराग्यैश्ववारेश्वर्यैः । प्रतिः आत्मना स्वयमेव आत्मानं बध्नाति । सैत्र प्रकृतिश्च पुरुषग्यार्थं भोगापर्ग प्रति । आत्मना आत्मानं एकरूपेण ज्ञानेन प्रकृतिपुरुन्यथारूवातिलक्षणेन विमोचयति । पुनर्भोगापवा न करोतीत्यर्थः । ६३ ततः किमित्यत आह :- एवं तत्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेपम् । अविपर्ययाद्विशुद्धं केवल मुत्पद्यते ज्ञानम् ।। ६४ एवमुक्तप्रकारेण । तत्त्वाभ्यासात् - तत्वं महदानितत्वविषयक ज्ञानं लक्ष्यते । तस्याभ्यासात् । आदरनरंतर्यदीघकाल सेवितात् तत्व- म सांख्यरमणीया ६७ ज्ञानाभ्यासात् । ज्ञानं प्रकृतिपुरुषान्यता साक्षात्कारलक्षणं ज्ञानमुत्पद्यते यस्मादपवर्गा भवति तादृशमिति भावः । ज्ञानाय खरूपमाह: नास्मि न मे नाहमिति । नाम्मीति सर्वक्रियाहिपेत्र उक्तः । अनेन अध्यामायाभिमानसंकल्पालोचनाख्या आंतरक्रियाः बायन्सा व्यापारश्च निषिद्धो भवति । सर्वव्यापारा- भावादेव नाहं - न तेति - कर्तृत्वनिषेध आत्मनि प्रदर्शितः । अकर्तृत्वादेव न मे का यचिदई म्वामी। स्वस्वामिभावस्य कर्तृत्व- निबंधनत्वात् । अथवा नापुरुषः अस्मि । अतो नाहं न कर्ता पुरुषस्य अकर्तृत्वलक्षणत्वात् । अर्तृत्वात् न मे न स्वामीति । एतादृशज्ञानिनम् पि ययज्ञातं तवं किंचिदस्ति त्वज्ञानं पुनर्बध्ना- तीत्या आह:- अपरियं । एतस्मिन् साक्षात्कारे जाते न किंचित् ज्ञातव्यं परिशिष्यत इति भावः । अपरिशेषमिति शनविशेषणम् - एतादृशसाक्षात्कार ज्ञान न कदाचिद्विषयेति । अतः अविपर्ययादि- त्युक्तम् । संगयादेप्युपलक्षणमेतत् । संशयविपर्ययादिरहितत्वात् विशुद्धम् । संशयविपर्ययादय एव ज्ञानस्याविशुद्धयः । अनादि- मिथ्याज्ञानवासनावशात् पुनसंगारप्रसंग इत्यत आह-केवलं प्रमाण- जनितमित्यर्थः । प्रमाणभूता बुद्धिः तत्वपक्षपाता । प्रणाणजनितस्य ज्ञानस्य न कदाचिन्मिथ्यात्वं भवतीति न पुनस्संसारप्रसंगः । मिथ्याज्ञाननिबंधनो हि संसारः । अतो न कदाचिद्वध्यत इति. भावः।

१८ सांख्यरमणीया ताहरातत्वसाक्षात्कारेण किं सिध्यतीत्यत आह :- तेन निवृत्तप्रसवामर्थवशात्सप्तरूपविनिवृत्तां । प्रकृति पश्यति पुरुषः प्रेक्षकवदवस्थितस्स्वच्छः ॥ ६५ तेनेत्यादि:- तेन प्रकृतिपुरुषान्यत्वलक्षणेन साक्षात्कारेण । निवृत्त. प्रसवां - पुरुषस्य भोगविवेकसाक्षात्कारयाः पसवः दानं प्रकृते- स्वाभाविको धर्मः। तयोः निर्विशेषयसवात् । पुरुष थे निवृत्त- प्रसवां । अर्थस्य विवेकसाक्षात्काररूपस्य वशात् सामर्थात् । सप्सभ्यः रूपेभ्यः धर्माधर्माज्ञानवैराग्यावैराग्यश्वर्यानैश्चर्येभ्यः भावेभ्यः अतत्वज्ञानपूर्वकेभ्यः विनिवृत्तां । अतत्त्वज्ञानस्य विनिवृत्तत्वात् इति भावः । प्रकृति जानमात्रस्वरूपां पुरुषः पश्यति । सर्वपरिणाममूलभूतां मूलप्रकृति पश्यतीत्यर्थः । तत्प्रभृति संसाराभावात् रजस्तमोकलुषया बुद्ध्या असंभिन्नः । सत्वप्रधानया बुद्ध्या तदापि किंचित्सम्बन्धोस्त्येव । अन्यथा प्रकृति दर्शनानुपपत्तेः । प्रेक्षकवदुदा- सीनः सन् । अवस्थितः निष्क्रियसन्न प्रतिउते । अन्येभ्यः पुरुषेभ्यः- प्रकृत्या क्रियमाणस्य सारस्य प्रेक्षकासन्नवतिष्ठते । मुक्तः पुरुषो न तत्र सज्जते । प्रकृतिश्चैदतर्थम् न परिणमते चेति यावत् । ६५ स्वच्छ ननु प्रकृतिपुरुषयोस्संयोग एव संसारस्य हेतुरिति पूर्वमुक्तम् । अधुनाऽपि तादृशस्य संयोगस्य अनिवृत्ततात् पुन:पुनः संसारप्रसंग इत्यत आह:- - सांख्यरमणीया दृष्टा मयेत्युपेक्षत एको दृष्टाहमित्युपरमत्यन्या । सति संयोगेपि तयोः प्रयोजनं नास्ति सर्गस्य ।। ६६ हप्त्यादिः - एकः उत्पन्नविवेकसाक्षात्कारः पुरुषः । नेतरे इत्यर्थः । प्रकृतिः संसारहेतुभूता मया दृष्टेति उपेक्षते- प्रकृतिपरिणामभूतान् शब्दादोन् उपेक्षते । नोपभोक्तुमहतीत्यर्थः । पूर्वबुद्ध्युपरागाभावात् । अन्या प्रकृतिः कुलवधूतुल्या अहं विविक्ता पुरुषेण दृष्टेति उपरमति । परिणामादिति शेषः । बुद्धौ चिच्छवत्युपरंजनाभावात् मुक्तपुरुषार्थं न परिणमते । एवं द्वयोः- तयोः प्रकृतिपुरुग्यो संयोगे सत्यपि उपरागाभावात् सर्गस्य प्रयोजनं नास्ति : सर्गप्रयोजनयोः भोगापवर्गयोः पर्याप्तत्वान्न पुनः उपरागकृत प्रयोजनमातीति भावः । ननूत्पन्नतत्वसाक्षात्कारस्य सघव शरीरपातम्स्यात् । तथा न दृश्यते । अतः संचितानां आगामिनां च कर्मणामपरिपकानां सत्वात् तेषां भोगेन कर्माशयप्रहाणानन्तरमेवापवर्ग इति अपवर्ग- प्राप्तिः मनोरथमात्रमेवेत्यत आह :- सम्यग्ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ । तिष्ठति संस्कारवशाच्चकभ्रमिवद्धृतशरीरः ॥ ६७ सम्यगित्यादि :- सम्यग्ज्ञानाधिगमात् अपरोक्षतया तत्व- साक्षात्कारोदयात् 'ज्ञ'नाग्निम्सर्वकर्माणि भस्मसात्कुरुतेऽर्जुने ति गीतावचनप्रामाण्यात् संचितानामागामिनां च कर्मणां दग्धबीजन्या- सांख्यरमणीया येन प्ररोहाऽसमर्थत्वात् । ज्ञानव धर्मादीनां सप्तानां अकारणत्व- प्राप्तौ। भावप्रधानो निर्देशः । . संसारकारणत्वनिवृत्तेरित्यर्थः । उत्पन्नतत्वसाक्षात्कारोऽपि पुरुषः प्रारब्धस्य विमुक्तशरवदनुगमात् - संस्कारवशात् चकभ्रमिवत् - उपरतेऽपि कुलालव्यापारे वेगारव्य- संस्कारवशात् कुलाल चक्रं भ्रमंस्तिष्ठति एवं प्रारब्धवशात् तक्षय- पर्यन्तं धृतशरीर स्तिष्ठति । 'तम्य तावदेव चिरं यावन्नविमोक्ष्ये अथ संपत्स्य' इति श्रुतेः। तहि कदास्य मोमो भविष्यतीत्यत आह :- प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ । ऐकांतिकमात्यंतिकमुभयं कैवल्यमाप्नोति ।। प्राप्ते इत्यादि :- अवशिष्टस्य तु प्रारब्धस्य उपभोगेन क्षये । शरीरभेदे शरीरस्य नशे प्राप्ने सति पुरुषः । चरितार्थ- त्वा-तस्य पुरुषस्याथे कृतकृत्य वात्- आत्मानं प्रति प्रधानन्य विनिवृत्तौ परिणामनिवृत्तौ । ऐकान्तिकं नियतं आत्यतिकं विनाशरहित-उभयं- कैवल्यं । दुःखत्रय वंस विरेहकैवल्यमित्यर्थः । आप्नोति । जीवन्मुक्त- त्वदशायां तु विवेकसाक्षात्कारे जातेऽपि प्रारब्धवशात् दग्धपट- न्यायेन दुःखत्रयानुवृत्तिरस्ति । विदेहमुक्तौ तु तद्वंधोऽपि नास्तीति भावः । ६८ एवं प्रमाणोपपादिते अर्थे अत्यंतश्रद्धोत्पादनाय कपिलादि- महर्षिसंपदायं विवृणोति :- ७१ ६९ सांख्यरमणीया पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम् । स्थित्युत्पत्तिालयाश्चित्यते यत्र भूतानाम् ॥ पुरुषार्थे-यादि :- इदं पूर्वोक्तं गुह्य परमरहस्यं अनधिकारिणां दुर्बोवं। पुरुषार्थज्ञानं । पुरुषस्य अर्थः भोगापवर्गरूपः-तस्य ज्ञान- अन्यथा ख्यातिजनक शारत्रं परमर्पिणा आदिसिद्धेन कपिलेन समा- ख्यातम् । तत्र सर्वेषां सम्मतिमाह :- यत्र ज्ञाने यद्ज्ञानार्थमित्यर्थः । भूतानां स्थित्युत्पत्तिप्रलयाः चित्यंते विचार्यते । वेदशास्त्रपुराणादि- भिरिति शेपः। देवेषु च 'यतो वा इमानि भूतानि जायते" इत्यादिना 'जन्मायस्य यत इत्यादिना व्यासेन च सृष्टयादिप्रतिपादि- काख्यायिकाभिः पुराणैश्च सृष्ट्यादयः प्रकृतिपुरुषान्यथाख्यात्यर्थमेव विचार्यंत इति भावः । वेदादशास्त्राणि पुराणादीनि च अत्रैव पर्यवसन्न, नीत्यर्थः । ६९ एतत्पवित्रम्य मुनिरासुरयेऽनुकंपया प्रदौ । आसुरिरपि पंचशिखाय तेन बहुलीकृतं तंत्रम् ॥ एतदिति :- एतत् पवित्रं पावनम् । दुःखत्रयकृतपापापनोदकं । अग्रयं श्रेष्ठम्-सर्वशाश्त्रसारभूतमित्यर्थः । मुनिः कपिलः आसुरये खशिष्णय अनुकंपया प्रददौ। तेन पंचशिवेन महर्षिणा तंत्र सारख्यशास्त्रं बहुलीकृतं । बहुधा आख्यायिकावादादिभिः प्रपंचित विततीकृतमिति भावः । ७० - ७२ सांख्यरमणीया ७१ शिष्यपरंपरयागतमीश्वरकृष्णेन चैतदार्याभिः । संक्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धांतम् ।। शिष्यपरंपरया आगतं एतत् शास्त्रं आर्यमतिना मंद. प्रज्ञानुजिवृक्षुणा ईश्वरकृष्णेन योगिना आभिः सप्तत्या सिद्धांत सम्यग्विज्ञाय संक्षिप्त सिद्धान्ताविरोधेन- आख्यायिकावादादिविहित संक्षेपेण योजितमिति · भावः । ७१ संक्षेपप्रकारमेवाह सप्तत्यां किल स्तेिः कृत्स्नस्य पष्टितंत्रस्य । आख्यायिकाविरहिताः परवादविवर्जिताश्चापि ॥ ७२ पष्टितंत्रस्य षष्टिपदार्थस्य । कृत्स्नस्य सर्वम्य मास्त्रस्य विषयाः ये अर्थासन्ति - ते सर्वे अर्थाः सप्तत्यां-अम्यां आर्यासप्तत्या संतीति शेषः । अतः एतन्छास्त्रमेव - न प्रकरणमिति भावः । संक्षेपप्रकारमाह- अस्यां प्रतिपादिताः अर्थाः । आख्यायिकाविरहिताः । परवादविवर्जिताश्चापि । न प्रतिपाद्यविषयास्यक्ता इति भावः । तस्मादत्र सकलशास्त्रार्थः कथित इति निर्गलितोऽर्थः । अथ षष्टिपदार्थ- संग्रह : - एकत्वं अर्थत्वं परार्थत्वमिति त्रयः प्रकृतिगताः । अन्यत्वं अबर्तृत्वं बहुत्वमिति त्रयः पुरुषगताः । अस्तित्वं योगः वियोगश्चेति त्रयः उभयगतः: ! शेषवृत्तित्वमिति पदार्थः तन्मात्र. भूताश्रितः । एवं दश । पंच विपर्ययाः । अष्टाविंशत्यशक्तयः । नव तुष्टयः । अष्टौ सिद्धयः ।

73
एवं षष्टिपदार्थाः सांख्यशास्त्रोक्ताः। एवं तेषां षष्टिपदार्थानां
निरूपणमत्र कृतमिति सर्व रमणीयम् ।
पूर्वाचार्यानुसारेण · व्याख्याताः सांख्यकारिकाः ।
स्थश्चलति सन्मार्गे पूर्वक्षुण्णे यथा तथाः ।।
--
कपिलादीन् गुरुन् वाचस्पत्यतान् प्रणमाम्यहम् ।
यैम्सवशास्त्रसर्वस्वं सांख्यशास्त्रं समुतम् ।।
तार्किकमृगाधिपश्रीमद्वेकटरामशास्त्रिपौत्रस्य ।
रामस्वामिबुधात्मजवेंकटकृष्णाख्यशामित्रणः पुत्रः ॥
कुरुगण्ट्यन्वयवेंकटरमणो जग्रंथ सांख्यरमणीयां ।
मार्कडेयस्य श्रीसीतारामस्य चापि यो ज्यायान् ।।
इति श्रीमत्कुरुगंटिवेंकटरमणशास्त्रिविरचिता सांख्यरमणीयाख्या
सांख्यकारिकाव्याख्या समाप्ता ॥
श्री सद्गुरुदेवतार्पणमस्तु ।
ॐ तत्सत्

74 कारिका ६२ कारिकानन्तरं केपुचित्पुस्तकेषु एषा कैश्चित्पण्डितैः गौडपादीयभाष्यमनुसृत्य निर्मीयते । कारण मीश्वरमेके अवते कालं परे स्वभावं वा । मनाः कयं निगुणतो व्यक्तः कालः स्वभावश्च॥ इयं कारिका निरीश्वरतां प्रतिपादयति । तम्मादेव आम्तिक- पाठेषु इयं च्याविता स्यात् । अधुनातनेम्वपि एनां कारिकां प्रति विप्रतिपत्तयः सन्ति। दाक्षिणात्यपाठेषु एषा न दृश्यते । बाचस्पतिमिश्रा अपि न व्याकुर्वन् । अत्र व्याख्यातारोऽपि तथैव । DONATED TO TTD CENTRAL LIBRAR,

No text on this page.

Printed at
Sri Ajanta Art Printers
Kollur :: Guntur Dt.

Sakhyakarikaa

Author
Shrii Kuruganti Veinkataramand-a Shaastri
Title
Sakhyakarikaa
File name
Sakhyakarikaa
Text
OCR done
Citation
1955
Published
2005/08/23
Publisher
Sundari Vilasa Samskrita Pathasala , Vemur .
Language
Sanskrit
Pages
82
Library
Donor
Classification
Poetry. Poems. Verse
Keywords
Sundari Vilasa Samskrita Pathasala
DLI number
495931
Barcode
2990100073005.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
Digital Library Of India
VMLT id
2eScPrJL6Va
Download PDF

Sakhyakarikaa