Shantarakshita Sarnath Library Varanasi

The Spanda Karikas

Pt. Madhusudan Kaul Shastri ,edt. · 21-01-06

PDF Proofread

Front matter

THE KASHMIR SERIES
OF
TEXTS AND STUDIES.

3S283HI DOBIVIS MINH
प्रपाबाजENT
PUBLISHED UNDER THE
THE
KASHMIR SERIES OF TEXTS AND STUDIES
authority of the Government of His Highness
Major General Mahāraja Sır Pratap Singh Sahib
Bahadur, G. C S.I., G CI.E, Maharaja of
Jammu and Kashmir State
EDITED
BY
TWITH TIE
I C GHATTERJI, B. A.(cantab), VIDYAVARIDHI
Co-operation of the Pandits of the
RESEARCH DEPARTMENT,
KASHMIR STATE,
Vol. VI.
कश्मीरग्रन्थावली
श्रीमत्-कश्मीर-महाराजादेशेन
संपादिता।
षष्ठखण्डम्
JAMMU
DEPARTME
& KA
SRINAGAR
KASHMIR
1913,

SRINAGAR
Printed by P Vishi Nath and Sons, Photographers and Proprietors of
"Kashmi Pratap Steam Press” and published by the Rosenich
Department, Sunagai, Kashmir.

138383H1003IVIS
THE
SPANDA KARIKĀS
WITH THE
VIVRITI OF RAMAKANTHA.
अथ
स्पन्दकारिकाः
रामकण्ठाचार्यकृतविकृत्युपेताः
&
T
HOUvast
KASHMIAS
श्रीनगर
(कश्मीर)
संवत् १९६६
Price Rs.

27
SRINAGAR
Printed by P Vishi Nath and Sons, Photographers and Proprietors of
"Kashmi Pratap Steam Press” and published by the Research
Department, Suinagar, Kashmir
REST...10.0.7.2......
अन्धालब, के. . त शि संस्थान

ओ नमः स्वस्पन्दात्मसंविन्मूर्तये शभवे । स्पन्दकारिकाः श्रीरामकण्ठाचार्यविरचितविवृत्युपेताः। प्रथमो निःष्यन्दः। दशादिकालारिकलितचिदालोकवषुषः सदा तादृक्स्वात्मानुभवितृतया विस्फुरति यः। निजो धर्मः शम्भोरनुपमचमत्कारसरसः परं शाक्तं तत्त्वं जगति जयति स्पन्द इति तत् ॥१॥ १ दिगादिवृत्तयः शक्तावनुद्भिन्नप्रसरतया तन्मया एव स्वालक्षण्येन भातुमप्रभविष्णव , शक्तिरपि शक्तिमदोन्मुख्येन तन्मात्रावशेषा केवलमनु- भवितरूपविस्फुरणमाश्लिष्टा । अत एव दिगादिकलनया अकलितं चिन्मात्रं वपुः इति प्रथमपादेन शक्तिमान् परामृष्टः। शेषेण स्पन्दशब्दस्य सार्थकता प्रकटयितुं शक्तिमदभिव्यक्षिका तत्समवायिनी ब्रह्माह्रादादिपर्याया शाक्त- विजृम्भणा परामृश्यते। जयति-पदाभिधेयं सर्वोत्कर्घ्यशालित्व शाक्ततत्त्वस्य अवगम्यते । ततश्च तत्समावेशरसपरिभोगविगाहनवता भक्तिभाजां भुक्ति- मुक्तिसंपत्तिपात्रता विश्वाभिलषणीयता च ध्वन्यते स्पन्दकारिकाः [१नि. तज्ज्ञैरदर्शितदिशः स्वयमाविशन्तः केचिनिसर्गगहनं विषमं भ्रमन्तु । तेनैव यत्पुनरमी हतवम॑नान्यान् आकारयन्ति गमनाय महान्भ्रमोऽयम् ॥२॥ २ नानावादानिलौघाननवसरकृतान्योन्यसंघट्टयोरो- द्वातानापादयद्भिः श्रवणविदलनोद्दामशब्दप्रवन्धान् । शास्त्राब्धिः क्षोभ्यते यैर्विवरणरभसादुद्यदावर्तभीम- भ्रान्तिभ्रष्टागमार्थप्लवविधुरमतिस्तारितोऽर्थी जनस्तैः॥३॥ कश्चिद्भिनरुचिदिन्नपि पर तत्त्वं विपर्यस्यति द्वेषध्वान्तविरुद्धबुद्धिरितरो जात्यैव चान्यो जडः। इत्थं दुर्लभ एव सर्वहृदयग्राही गिरां संग्रहः किंत्वेतेऽद्य विवेकिनः कतिपये सन्त्यत्र पात्रं सताम् ॥ ४॥ १ २ विज्ञजनोपदिष्टसत्संप्रदायमन्तरेण निसर्गगम्भीरं शैवागमाब्धि मवगाहमानाना वामाख्यशक्तिसंवृतसंविदा स्वोपज्ञतया संभावनावता, वस्तुतो विना पारतीरलाभ मध्ये निममप्रायतैव । तदीयदुष्पथे तु भ्रमि- मनुभवता तदनुगाना या पारदर्शनाय तच्चोदना, हन्त तत् चक्षुरुन्मेष- मन्धकूपनिपतनम् । अत. तादृशजनान् पारं लड्धयितुमयं मदीयो यत्न इति । पं. १ क. ग. पु० परस्तत्त्वमिति पाठः ।

१का०] रामकण्ठाचार्यकृतविवृत्युपेताः केनापि ग्रथितां प्रसारणधिया कैश्चिद्विसूत्रीकृता- मेकीकृत्य यथागमं विरचितां स्पन्दार्थसूत्रावलीम् । ईशानुग्रहशक्तिबज्रशिखया विद्वेषु विद्वन्मनो- माणिक्येषु निवेशयाम्यहमिमां कर्तुं कृतार्थी द्वयीम् ॥५॥ ३ यस्योन्मेषनिमेषाभ्यां जगतःप्रलयोदयौ। तं शक्तिचक्रविभवप्रभवं शंकरंस्तुमः॥१॥ 'तं शंकरं-श्रेयसः कर्तारं 'स्तुमः'-प्रशंसा- मः।तंकं,'यस्य उन्मेष-निमेषाभ्यां'-शक्तिप्रस- रप्रलयाभ्यां 'जगतों-विश्वस्य 'प्रलयोदयौं- विनाशप्रादुर्भावौ। अत्र यथासंख्यं न विवक्षित- मिति वक्ष्यामः। तं कीदृशं 'शक्तिचक्रविभव- - ३ प्रथमं श्रीवसुगुप्तपादै. सूत्रावलि. दृब्धा । तदनु भट्टश्रीकल्लटादिभि सिद्धैः संवृतार्थविवृत्या प्रगुणीकृता। अधुना तु सूत्रसंदर्भण-प्रगुणीकरणात्म पूर्वसिद्धं कार्यद्वयं सफलीकर्तु सैव इयं स्पन्दार्थसूत्रावली, एकीकृत्य संयोज्य, वृत्तिसंवादितार्थविवरणं क्रोडीकृत्य च, आगमानातपरमार्थनिर्णीत्या विशिष्ट- रचनया उपेता, पराशक्तिपाताख्यचुम्बकमणिशिखया अनुविद्वासु सहृदयाना विमलमनोरत्नजातिषु निगुम्फ्यते। यत्परिमलसौभाग्यादिचर्चनया सुधाम- यस्वामिप्रासादमध्यारुह्य निरतिशयसुखानुभूतिरनर्गलविकचितवृत्त्या सुर- स्यते इति । पं० १ ख. ग. पु. कैश्चिद्विसूत्रीकृताम् इति पाठः।

स्पन्दकारिकाः [१नि० प्रभवं'-शक्तीनां वक्ष्यमाणस्वरूपाणां 'चक्रं- समूहः, स एव विभव'-ऐश्वर्य,तस्य प्रभवं-का- रणम्, इति पदसंबन्धयोजना तावत् सुबोधा। वस्तुसंगतिस्तु कथं ?-इति विचार्यम् । शंकर- स्तावत् नित्यम् अव्यभिचरदेकस्वभाव एक एव पदार्थः परमार्थसन् ,-इति प्रकरणस्य अस्य ता- त्पर्य तथानिर्वाहात्; तस्य परस्परविरुद्धौ अनि- त्यौ निमेषोन्मेषात्मको अवस्थाविशेषौ संबन्धि- त्वेन कथं प्रतिपादितौ? कर्तृप्रथया हि अनया एवं प्रतिपाद्यते-शंकर उन्मिपति निमिषति इ. ति। एवं च अनित्यावस्थायोगित्वं नित्ये भगव- ति अनुपपन्नम् , तत् कथमुक्तं 'यस्योन्मेषनिमे- षाभ्याम्' इति? अत्रोच्यते। उन्मेष-निमेषशब्दाभ्यां तदुप- चरितवृत्तिभ्याम् इच्छामात्रमेकं शंकरसंबन्धि प्रतिपाद्यते; स च तस्य नित्यो धर्मः स्वभाव- भूतः, तस्य उन्मेष-निमेषशब्दवाच्यत्वं द्वित्वं च ५० ६ क ग. पु. कर्तृप्रथा हि इति पाठः।

५ १का०] रामकण्ठाचार्यकृतविदृत्युपेताः उपचारात्; यतो जगत एव परमेश्वरमायाश- तयुद्भावितकार्यरूपत्वात् अनित्यस्य प्रलयोदय- संभवे सति, निमेषोन्मेषौ वस्तुतः संभवतः। तो चईश्वरेच्छामात्रनिमित्तकौ;-इति उदयात्मको- न्मेषहेतुत्वात् ईश्वरेच्छैव उन्मेषशब्देन,प्रलया- त्मकनिमेषहेतुत्वात् निमेषशब्देन च उपचर्यते। यथा आयुष्कारणत्वात् आयुःशब्देन घृतम् । सा च अव्यतिरिक्ता शंकरस्य शक्तिः, तदवगम एव च आत्मैश्वर्यप्रत्यभिज्ञालक्षणसिद्धेहेतु। सा च 'दिदृक्षयेव सर्वार्थान्' (३ नि.११ का.) इत्यत्र वक्ष्यमाणन्यायेन सांसारिकपुरुषप्रसिद्धे. च्छासादृश्यात् तदवगमोपायतया इच्छाशब्देन व्यपदिश्यते । यथा हि पुरुषस्य इच्छावस्था- याम् इष्यमाणः पदार्थः स्वरूपाव्यतिरेकेणैव अवतिष्ठते , तथा भगवतः शक्तौ अनन्तावभा- सविशेषचित्रं जगत् मनागपि अनुपजातविशे- षात् स्वरूपात् अव्यतिरेकेणेव अवतिष्ठते । सेयं परमार्थसती शिवदशा, या एवं तद्विद्वद्भिःस्तूयते स्पन्दकारिकाः [१नि० 'सदा सृष्टिविनोदाय सदा स्थितिसुखासिने । सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः॥' इति। तथा ईश्वरप्रत्यभिज्ञायाम् 'या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता । अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः॥ इति । इत्थम् एकस्या एव पारमेश्वर्याः शक्ते: इच्छा-ज्ञान-क्रियाव्यपदेशः इदन्तोन्मिषन्मा- याशक्तिजनित एव; यतः शिवदशामेकांमुक्त्वा मायाशक्तिः सर्वत्र कृतपदा, यद्वशात् एकस्मिन् शिवतत्त्वे परमार्थसति सदाशिवादि-तत्त्वान्त- व्यपदेशः प्रक्रियाशास्त्रेषु। एतच्च पुरस्तात् 'परामृतरसापायः' (३ नि० १४ का०) इत्या- दिश्लोकव्याख्यानावसरे प्रतिपादयिष्यते । सा एवंलक्षणा पारमेश्वरी शक्तिः स्वलीलोल्लासित- स्य जगतोऽवस्थाद्वयहेतुत्वात् द्वित्वेनापि च उपचरिता। तेन इदमत्र प्रथमश्लोकपूर्वार्धे ता- त्पर्यम्,-यस्य इच्छामात्रेण जगतः प्रलयोदयौ तं स्तुमः। तच्च यथासंख्यम् अत्र मुख्यया ७ , , , १का०]] रामकण्ठाचार्यकृतविवृत्युपेताः वृत्त्या नापेक्षणीयम् उन्मेषेण उदयो, निमेषेण प्रलयः,-इति तु अर्थसंख्या समवैति । एतच्च, इच्छामात्रम् उन्मेषनिमेषौ - इत्येतावत्तात्पर्य प्रतिपादयितुं, स्वयं वृत्तिकृता भट्टकल्लटेन व्याख्यातम् 'संकल्पमात्रेण. इति । ये तु यथासंख्यसमर्थनानुरोधात् , यस्य उन्मेषे क्रियाशक्तिप्रतिसंहारात् स्वरूपविकासे जगतः प्रलयो विनाशः, निमेषे प्रसृतक्रियाश- क्तित्वात् स्वरूपसंकोचरूपे जगतः उदय उद्भवः, इति व्याचक्षाणा, शंकरस्यैव पारमार्थिको उन्मेषनिमेषौ धर्मत्वेन प्रतिपादयन्ति, ते च काल्पनिकमेव अर्थं परमार्थत्वेन प्रतिपद्यमानाः तथा दर्शनस्य अस्य अन्तरं ननु प्रविष्टाः?-इति नमस्तेभ्यः। ननु नित्याव्यभिचरदेकस्वभावस्य भगवतः शक्तिरपि तादृगेव प्रतिपादिता, तयोरभेदा- भ्युपगमात्। तत् कथं व्याख्यातं शक्तीनां चक्र- मिति ? अत्र ब्रूमः। ननु इदमेव तत् निरति. , - ८ स्पन्दकारिकाः [१नि० शयम् ऐश्वर्यम् ईश्वरस्य इह विवक्षितं, यत् सर्वत्र 'अहम्'-इति स्वरूपपरामर्शमात्राव्यभि- चारेऽपि निरवधिविजृम्भमाणविचित्रावभास- खचितं त्रैलोक्यालेख्यम् इदम् उल्लिखति; इत्थ- म् उल्लिख्यमानमपि एतत् परमार्थतः परामृश्य- मानं तत्स्वभावात् मनागपि च यत् न भिद्यते। यथोक्तम् 'परमेश्वरता जयत्यपूर्वा तव सर्वेश यदीशितव्यशून्या । अपरापि तथैव ते ययेदं जगदाभाति यथा तथा न भाति ॥ इति । अन्यत्रापि 'लिखते जगत्रितयचित्रमद्भुत- प्रतिभापरिस्फुरितशंसि ते नमः। सुसितैकसूक्ष्मनिजशक्तिवर्तिका- रचितावभासशतशोभि शंभवे ॥ इति । एतच्च एवंविधं शांकरमैश्वर्यं तदनुग्र- हग्रस्तसमस्तमायातमस्त्वप्रकाशितपरमार्थानां स्वसंवेद्यमेव सुप्रबुद्धानां महात्मनाम् । ईश्वर- शक्तिपातप्रबोधितानां तु सम्यक् उपनतसद्गुरू- 8 १का०] रामकण्ठाचार्यकृतविवृत्युपेताः पदेशक्रमेण अभ्यस्यतां प्रत्यासन्नखानुभवम् । अप्रबुद्धाः पुनः अनुपदेश्या एव, इति । एतदेव इह पुरस्तात् प्रतिपादयिष्यमाणम् । तत् एवंविधे स्थिते शंकरस्य पारमैश्वर्ये या इमाः परमाद्भुतमायाशक्तिवशात् चिदचिने- देन द्विविधा अपि अवान्तरभेदात् अपर्य- न्ता भावव्यक्तयः, सा परमेश्वरस्य स्वरूपात् अभिन्ना शक्तिरेकैव तात्त्विकी , इदमिति प- रामर्शभेदमात्रजन्मना तु नानानामरूपविभ- कभावभेदेन अवभासमाना सती बहुत्वेन व्यपदिष्टा 'शक्तीनां चक्रम्'-इति । श- क्तिशब्देन च भावव्यक्तीनां व्यपदेशे परमे- श्वरात् शक्तिमतो भेदाभावप्रतिपादनमेव प्र- योजनम् । एता एव विभव : ऐश्वर्यमी- श्वरस्य , ताभिरेव तस्य इत्थं विभवनशील- त्वात्। यथोक्तं पारमेश्वरे 'शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते । शक्कयोऽस्य जगत्कृत्स्नं शक्तिमांश्च महेश्वरः ॥' प० ३ इह-पद ग० पुस्तकात् प्रक्षिप्तम् ।

१० स्पन्दकारिकाः [शनि. इति । एवं च स्वशक्तिभूतस्य अस्य विभवस्य असौ 'प्रभव:'-उत्पत्तिकारणं, न तु ख- रूपव्यतिरिक्तस्य अन्यतः कुतश्चित् लब्धा- त्मनः; अतश्च 'यस्य' इत्यादिना प्रथम- श्लोकपूर्वार्धेन शंकरस्य जगत्कारणत्वे प्रति- पादितेऽपि, शक्तिचक्रात्मकखैश्वर्यभूतजगत्प्र- भवत्वलक्षणविशेषप्रत्यायनपरम् इदम् 'तम्' इत्यादिना श्लोकापरार्धेन विशेषणं, न पुन- रुक्तम् । एतदेव वृत्तिकृता व्याख्यातम् 'विज्ञानदेहात्मकस्य शक्तिचक्रैश्वर्यस्य उत्पत्तिहेतुत्वम् इत्यादिना। 'विज्ञानदेहों-विशुद्धसंविन्मात्र- मूर्तिः महेश्वर :, स 'आत्मा'-खभावो यस्य 'शक्तिचक्रात्मन ऐश्वर्यस्य'-इति हि तस्य अर्थोऽभिमतः। किं च यस्य एवं- विधधर्माव्यभिचारः स परमेश्वरो व्या- ख्यास्यमानार्थेन शंकरशब्देन इह प्रति- , ...... .. प.क.पु. स्वशक्तिविभवस्य इति पाठः।

- इति १का०] रामकण्ठाचार्यकृतविवृत्युपेताः पादितः। स च आत्मैव नान्यः,-इति यत्तच्छब्दोपलक्षितवाक्योपनिबन्धः सूचय- ति; यतः श्लोकपञ्चाशत्प्रपञ्चितप्रकरणार्थ- पर्यालोचनया तस्यैव प्रोक्तविशेषणाव्यभिचा- रः पर्यवस्यति । एतदेव वृत्तिकृता दर्शितम् 'अनेन स्वखभावस्यैव शिवात्मकस्य' इति व्याचक्षाणेन; 'खस्य-आत्मनः 'ख'- आत्मीयो 'भाव:'-खरूपं, खखभावः, हि तस्य विग्रहोऽभिप्रेतः। तत् अस्य आ- यश्लोकस्य अयं तात्पर्यार्थः प्रकरणनिर्वाह्य- वस्तुप्रतिज्ञाबन्धरूपः यत्,-परमेश्वरः इच्छा- मात्रेण जगतः प्रलयोदयौ विदधाति, लब्ध- स्थितिकमपि जगत् तच्छक्तिविभूतिरेकैव मा- यावशात् तु नानात्वेन अवभासते,-इति। इ- दमेव अर्थद्वयम् अत्र प्रकरणे विस्तार्यते उपप- त्युपलब्धिप्रदर्शनक्रमेण। तथा च-प्रथमत एव मायावशात् स्वरूपप्रत्यवमर्शस्य अनुल्लासात् , वेद्यात् देहादेव्यतिरेकेण प्रतिभासमानस्यैव १२ स्पन्दकारिकाः [१नि० आत्मनो व्यतिरेकः प्रदर्श्यते। ततो वेद्यस्यैव जगतो वेदकात् तस्मात् उपलब्धतात्त्विकख- भावात् शक्तिभावेन अव्यतिरिक्तत्वम् ,-इति अस्मिन्नेव अर्थद्वये उपपत्त्युपलब्धी,-इति च- तुनिःष्यन्दः स्पन्दसिद्धान्तोऽनेन श्लोकेन आ- सूत्रितः। सिद्धान्तता च अस्य, सिद्धस्यैव-न साध्यस्य-ईश्वरतत्त्वस्य, अन्तो-निष्ठा निश्चयः, इति कृत्वा; यदि वा नानासिद्धान्तोदितस्य ज्ञान-क्रिया-योग-चर्यात्मकस्य चतुष्टयस्य ए- तद्विज्ञानं संस्कारकत्वात् साफल्यकारणम् इ- त्यस्यैव सिद्धान्तता। किंच प्रारब्धप्रकरणा- विघ्नपरिसमाप्तिप्रयोजनेनापि अनेन आदि- श्लोकेन संबन्धादयोऽपि सूच्यन्ते-इत्यादि- शन्ति गुरवः। तच्च सर्व 'शंकरं स्तुमः' इत्यत एव वाक्यात् लभ्यते। यतः उपाय- लक्षणं श्रेय शास्त्ररूपं मुख्यतया, उपेयलक्ष- णं च आत्मैश्वर्यप्रत्यभिज्ञारूपं; तदुभयमपि पं. १० क. पु० संस्कारकारणत्वात् साफल्यकारकत्वम् इति पाठ.। - १का०] रामकण्ठाचार्यकृतविवृत्युपेताः १३ 'शम्' इत्यनेन पदेन उक्तम् । तस्य कर्ता शंकरः इत्यन्वर्था इयं संज्ञा परमेश्वरस्य । अत एतच्छास्त्रात्मकश्रेयसः साक्षात् कर्ता परमेश्वर एव । तत्संप्रदायमि निबध्नाद्भिः कर्तृव्यपदेशोऽधिगतः। एवम् ईश्वरशास्त्रयोः कर्तृकार्यलक्षणः संबन्धः। अभिधेयमिह शंक- रस्वरूपमिति 'स्तुमः' इति पदात् प्रतीयते । उपादेयवस्तुस्वरूपप्रतिपादनमेव स्तुत्यर्थः,-इ- ति हि निश्चितं विपश्चिद्भिः। अतः शास्त्रा- भिधेययोः प्रतिपाद्य-प्रतिपादकभावलक्षणःसं- बन्धः। प्रयोजनं च आत्मैश्वर्यप्रत्यभिज्ञात्मक शंकरपदादेव अवसीयते। परस्यापि हि श्रे- यसः कर्तृत्वेन ईश्वर एव व्याख्यातः, इति अभिधेय-प्रयोजनयोः उपायोपेयभावलक्षण : संबन्धः। इति व्याख्याता संबन्धादयस्त्रयः। अभिधानमस्य शास्त्रस्य स्पन्द इति। यतः 'स्प- न्दतत्त्वविविक्तये।' (१नि० २१ का ०२पा. इत्यादौ इहैव व्यवहारः। स्पन्द-शब्दश्च अयंख- :

स्पन्दकारिकाः [१नि. स्वभावपरामर्शमात्रस्य नित्यस्य शून्यताव्यति- रेचनकारणभूतस्य तावन्मात्रसंरम्भात्मनःश- त्यपराभिधानस्य पारमेश्वरस्य धर्मस्य किंचि- चलनात् 'स्पन्द' इति, अर्थानुगमात् वाचक- खेन व्यपदिष्टः। तत्प्रतिपादनहेतुत्वात् शा- स्वमपि इदं स्पन्दशब्देन अभिधीयते। विषयश्च अस्य विशुद्धश्रद्धाभक्तिप्रकर्षपिशुनितपरमेश्वर- परशक्तिपातप्रोन्मील्यमानस्वभावालोकतिरस्कृ- तसकलसंदेहान्धकारत्वात् प्रबुद्धः सम्यगुपनत- दीक्षादिसंस्कारो गुरुवचनचोदनामात्रावशेष- स्वात्मैश्वर्योपलब्धिः, तादृशस्यैव इह उपदेश्य- वेन पुरस्तात् परिगृहीतत्वात्।-इति अभिधा- न-विषयावपि अवगन्तव्यौ।व्याख्यातश्च अय- मादिश्लोकः समस्तप्रकरणाथोंपक्षेपगर्भः॥१॥ ननु सुर-नर-तिर्यगादिभेदेन प्रविभक्त- तनु-करण-भुवनाभोगादेः : अपरिसंख्येयावा- : ४ अत्र विषयशब्देन उपदेशविषयः अधिकारी निर्दिश्यते, शास्त्रान्तरेषु विषयशब्देनाभिधेयं विवक्षितम् , इह तु अभिधेयं व्याख्यातपूर्वम् ।

२का०] रामकण्ठाचार्यकृतविवृत्युपेताः १५ न्तरभेदभिन्नस्य प्राणभृत्प्रपञ्चस्य सुख-दुः- ख-सुत्तृष्णा-जरामरणद्वन्द्वानुविद्धस्य जात्या- द्यवच्छिन्नाभिमानभाजः सततं संसरतः पर- स्परदूरभिन्नो यः स्वभाव :, स कथं समनन्त- रप्रतिपादिताद्भुतैश्वर्यशंकराभेदेन प्रतिज्ञात : येन एवं व्याख्यातम् ? यस्य एवंप्रतिपादि- तविशेषणाव्यभिचारः, स कथं शंकरो ममैव आत्मा ?-इति अत आह यत्र स्थितमिदं सर्व कार्य यस्माच्च निर्गतम्। तस्यानावृतरूपत्वान्न निरोधोस्ति कुत्रचित् ॥२॥ 'तस्य-अस्य वक्ष्यमाणस्य तत्त्वस्य 'न कचित्'-कस्मिंश्चित् देशे काले आकारे अव- स्थाविशेषे वा 'निरोधः'-अवच्छेदः इदन्ते- यत्ताव्यपदेशहेतुः वेद्यवस्तुधर्मः 'अस्ति'-वि- द्यते; कुतो हेतोः ? 'अनावृतरूपत्वात्-जात्या- सं०२ द्वन्द्वपदं ग० पुस्तकात् प्रक्षिप्तम् । पं०१३ ख. पु. आकारावस्थेति पाठ।

स्पन्दकारिकाः [१नि० द्यभिमानरूपेण मलेन अनावृतम् अनाच्छा- दितं रूपं यस्य तत्, तथा तस्य भावः तत्त्वं तस्मात्। तस्य अनावृतत्वोपपत्तिप्रतिपादनाय विशेषणमाह 'यत्र स्थितमिदं सर्व कार्य य- स्माच्च निर्गतम्-इति। 'इदम्' इति वेद्यतयाव- स्थितं; 'सर्वम्' इति यत्र यत्र दर्शने यथा यथा परिकल्पितं; तत् अशेष कार्य कर्बधीनसद्भावं 'यत्र-यस्मिन् वेदकत्वेन कर्तृत्वेन च अवस्थिते आधेयसमस्तपदार्थसार्थसामान्याधारभूते एक- स्मिन् "स्थितं'-तेन तेन पृथिव्यादिना घटप- ट-गवादिना वा रूपेण लब्धप्रतिष्ठं, यदन्तर्ग- तस्य सर्वस्य वस्तुनः प्रकाशमानत्वात् स्वरूप- सत्तासादनमित्यर्थः। ननु सूर्यादिप्रकाशान्त- र्गतं घटपटादिव्यं तेन तेन रूपेण प्रका- शमानत्वात् सत्ताम् आसादयति, तथैव स- वमिदं कार्य 'यत्र स्थितम्' इत्युक्तम् , उत अन्येन प्रकारेण ? इत्याह-'यस्माच्च निर्गतम्' इति, प्रधानादिकारणान्तरपरिहारेण 'यस्मात् " , २का०] रामकण्ठाचार्यकृतविकृत्युपेताः १७ एककर्तृभूतात् एकस्मात् कारणात् 'निर्गतम्' उद्भूतम् । तत् अयमत्रार्थः,-यः पदार्थः स- वस्य इदन्तापन्नतया प्रमेयभूतस्य शास्त्रेषु ना- नाविभागेन संगृहीतस्य तत्ववातस्य एकः प्र. काशकत्वेन स्थितिहेतुत्वात् आधारभूतः, क- र्तृत्वात् च प्रभवः कारणं, स्वयं च वेद्यत्वसं- स्पर्शासहिष्णुत्वात् मायीयप्रमानन्तराविषयमू- तोऽनवच्छिन्नमहिमा निर्मलचिन्मात्रैकरूपः, स इह स्वस्वभावशब्देनाभिमतः, न तु जा- त्याद्यवच्छिन्नाभिमानसंकोचितात्मनो मायाश- त्यपहृतस्वैश्वर्यसंविदः कार्यवर्गान्तःपातिनः प्राणिप्रबन्धस्य स्वरूपं स्वस्वभावः।-इति यु- क्तम् उक्तम् 'आत्मैव शंकर' इति। तत् ए- तत् वृत्तिकृता 'कथं पुनः स्वस्वभावस्यैव संसारिणः शिवत्वेन व्यपदेशः' इति आक्षिप्य 'यत्र स्थितम् इदं जगत् , यस्मात् च उत्पन्नम्' पं०६ ग० पु. वेद्यसस्पृष्टत्वासहिष्णुत्वादिति पाठः । पं०१५ मूलपाठस्तु वृत्तौ 'शिवत्वेन निर्देश' इत्यस्ति।

१८ स्पन्दकारिकाः [१नि० इति विवृण्वता प्रतिसमाहितम् । 'तस्य संसार्यवस्थायाम्' इति। वृत्तिरेवं बोद्धव्या,-संसारिणां तन्माया- वभासितजात्याद्यभिमाना मायीयावस्था, त- स्यामपि तस्य स्वस्वभावस्य तत्त्वतो निरोधो नास्ति इति ॥ २॥ ननु योऽयं स्वभावाख्य एवंप्रतिपादि- तः पदार्थः, स किं केवलात् आगमाज्ञामात्रात् ओम् इति अभ्युपगन्तव्यः, उत प्रगुणाभ्याम् उपपत्त्युपलब्धिभ्यां व्युत्पाद्याभ्यां प्रतिपत्तिगो- चरतां नेतुं शक्यः?-इति संशयच्छेदाय श्लो. कान्तरेण उपपत्तिं यां प्रतिपादयिष्यति तदव- तारणार्थम् इदं तावत् उच्यते,-सकलप्रकरण- प्रतिपाद्यार्थतत्त्वलब्धप्रतिष्ठया परया प्रज्ञया स्वस्वभावस्य परामर्शावसरे रविकिरणस्पृष्ट- नीहारनिकरनिःसारनश्यत्स्वरूपया, संप्रति तु द्वैतमहामोहतिमिरात्मना विजृम्भमाणया मा- पं० ३ वृत्तिरेव इत्येव सर्वेषु मूलपुस्तकेषु पाठ. । पं० १२ क० ख० पु० प्रतिपादयतीति पाठः।

३का०] रामकण्ठाचार्यकृतविवृत्युपेताः १६ याशक्त्या आविष्टानां सर्वप्रमातॄणां पारमा- र्थिकात् वेदकात् स्वभावात् प्रच्युत्येव वेद्य एव देहादौ वेदकभावेन अहमिति प्रत्ययः परमदुर्भेदस्य भेदग्रन्थेर्मूलम् । ततस्तेभ्यो दे- हादिभ्यः तस्य अहंप्रत्ययात्मनः स्वस्वभाव- स्य व्यतिरेचनाय समनन्तरप्रतिज्ञातस्य सर्व- था निरोधाभावस्य उपलब्धये स्वानुभवप्रमा- णाम् उपपत्तिं प्रस्तावयन् आह जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति । निवर्तते निजान्नैव स्वभावादुपलब्धृतः ॥३॥ अतः तस्य स्वभावस्य न क्वचित् निरोधः अस्ति , यतः असौ 'निजात्' आत्मीयात् अनुपाधेः 'स्वभावात्' स्वरूपात् 'न निवर्तते' नान्यथा भवति, न च्यवते इति संबन्धः । कीदृशात् स्वभावात् ? 'उपलब्धृतः' उपलम्भ- कात् ज्ञातुः अनुभवितुः इत्यर्थः। कदा च न नि- वर्तते? 'जाग्रदादिविभेदे प्रसर्पति अपि' जाग्र- , २० , स्पन्दकारिकाः [नि दादिना यो 'विभेदों' व्यतिरेकः, अवस्थानाम् अन्योन्यवैलक्षण्यं , तस्मिन् 'प्रसर्पति' विज- म्भमाणे। आदिग्रहणात् खप्न-सुषुप्तावस्थे गृ- ह्येते; स्मृत्याद्यवस्थाः स्वप्नेनैव संगृहीताः, तुल्य- रूपत्वात्;मदमूर्जाद्यवस्थाश्च सुषुप्तेन। तत्र जा. ग्रत् इति जागरावस्थैव शास्त्रेषु प्रसिद्धा, यस्यां श्रोत्रादिभिः इन्द्रियैः शब्दादीन् इन्द्रियार्थान् गृह्णन् प्रसृतशक्तिः पुरुषः परिस्पन्दते। स्वप्नः स्वापावस्था , यस्यां स्वव्यापारपरिश्रान्तः श्रो. त्रादिविहारविरतावपि मनसैव असौ विष- थान् परिगृह्णाति । सुषुप्तं गाढनिद्रारूपा सुख- स्वापावस्था , मनोव्यापारस्थापि व्युपरमे सति यत्र व्यतिरिक्तवेद्यसंवेदनं तात्कालिकं नास्ति। स्मृत्यवस्था अनुभूतविषयासंप्रमोषात्मिका स्व- नसदृशी, मनसैव विषयग्रहणसाम्यात् । मदः पानातिशयजः चित्तेन्द्रियवृत्तिप्रमोषरूपो विका- रः। मूळ विषादविषादिभोजनादिजनितमो- हात्मा। एवमादिवेद्यग्रहणाभावसाम्यात् सुषु- , , ३का०] रामकण्ठाचार्यकृतविकृत्युपेताः २१ ततुल्या अन्या अपि याः काश्चनापि अव- स्थाः संभवन्ति , ता एतासु एव अन्तर्भवन्ति। एतन्निमित्तके विभेदे प्रवर्तमानेऽपि, निजात् उपलब्धुः स्वभावात् असौ न निवर्तते । यदि अवस्थात्मक एव अयम् उपलब्धा स्यात् , तत् अवस्थावत् सोऽपि विभियेत । यावता तासां विभेदे प्रसर्पति , अयं स्वभावात् अ- वस्थाव्यतिरिक्तात् न निवर्तते,- इति अपिश- ब्दस्य अर्थः। कथम् एतत् प्रतिपद्यामहे ,- यत् अवस्थातापि सन् अवस्थासु भिन्नरूपासु प्र- सरन्तीष्वपि स एकस्मात् स्वभावात् न नि- वर्तते इति ? अत्र हेतुगर्भ विशेषणम् आह,- कीदृशि तस्मिन् प्रसर्पति? 'तदभिन्ने' अ- भिन्न एकरूपो निर्विशेषोपलब्धृत्वमात्रेण लक्ष- णेन युक्तः स्वस्वभावो व्यापकत्वेन स्वयम् अनुभूयमानो यत्र स तथा तस्मिन् । अवस्था- भेदेऽपि उपलब्धृलक्षणस्य अवस्थातु : अभे- पं0 १७ ग• पु० लक्षणस्य अवस्थान्तरभेद इति पाठः ।

२२ स्पन्दकारिकाः [१नि० दः,- इति सर्वस्य अत्र स्वानुभवः प्रमाणम् । तथाहि ,-योऽहम् अस्वाप्सं स जागर्मि इति एकानुसंधातृसूत्रनिबद्धत्वेन स्वयम् अनुभू- यमाना जागरादयोऽवस्थाः प्रसर्पन्ति। एता- भ्यश्च अन्यदवस्थान्तरम् आनन्त्येऽपि संसारि- णां जन्तूनां न संभवति । अतो यथा एकस्मि- न देहे अवस्थाव्यतिरिक्तरूप उपलब्धा व्या- पक एकः, तथा सर्वदेहेष्वपि स एव एको व्यापकः सिद्धः; देहभेदेऽपि तस्य उपलब्धृ- मात्रव्यतिरिक्तलक्षणान्तराभावात् । प्रतिप्राणि पृथक्त्वेन अहमिति तु प्रत्ययो मायीयो, न तात्त्विकः । तद्व्युदासार्थमेव प्रकरणारम्भः। सोऽपि च उपलब्धृत्वमात्रम् एकं खल- क्षणं न व्यभिचरत्येव । -इति खखभाव ए- व शंकर-इति सम्यक् उपपादितं खानुभ- वानपहविनः प्रबुद्धान् प्रति। एताभिरेव अवस्थाभिः योगशास्त्रप्रसिद्धास्वपि जागराद्य- वस्थासु तस्य अभेदः प्रतिपादितो वेदितव्यः।

३का०] रामकण्ठाचार्यकृतविवृत्युपेताः २३ तास्वपि तस्य उपलब्धृत्वेन व्यापकतया अ- वस्थानात् । ताश्च संक्षेपतो लक्ष्यन्ते।-तत्र ध्येये अर्थे चेतसा झगिति प्रवृत्तिमात्रं जाग- रावस्था, धारणा इति क्वचित्प्रसिद्धा । तत्रैव विसदृशप्रत्ययपरिहारेण समानप्रत्ययप्रवाहैक- तानतानुसंधानं स्वप्नावस्था, ध्यानम् इति याम् आहुः। क्रमेण ऐकाम्यातिशयात् प्रत्ययान्त- रासंकीर्णसूक्ष्मध्येयाभासमात्रविशेषता चित्तस्य सवेद्यसुषुप्तावस्था, यां वितर्कविचारानन्दा- स्मितानुरूपानुगमलक्षणस्य संप्रज्ञातस्य समा- धेः आनन्दास्मितामात्रानुगतम् अवस्थाविशे- षम् आचक्षते । यस्तु 'विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः' (पा०१ सू०१७ पातञ्जले) इति कृतलक्षणः असंप्रज्ञातः समाधिः, तत् अपवेद्यसुषुप्तम् । सर्वासु एतासु च अनुभवि- तृरूपस्य व्यापकस्य एकस्य स्वभावस्य सत्ता , प०७ ग० पु. एकाग्रातिरायाप्रत्ययेति पाठः।

स्पन्दकारिकाः [१नि स्थितैव। यतः सालम्बने तावत् समाधौ व्य- तिरिक्तवेद्यसद्भावात् लौकिकावस्थावत् वेदक- स्य उपलब्धुः सत्त्वं स्फुटम् एव । यत्र तु नि- रालम्बनत्वात् अभावरूपत्वं तत्र तत्कालमेव वेद्यासंवेदनमात्रं, नतु वेदकस्य वेदकत्वाभा- वः सुषुप्तादिवत् ; ततो निःसृतस्य सा अवस्था स्मर्तव्यतया वेद्यत्वम् आपन्ना व्यापकस्य स- द्भावम् अभिव्यञ्जयत्येव। ये पुनः वेद्यसंवेद- नसामर्थ्याभावमात्रव्यामोहिता उपलब्धारमा- त्मानमेव असत्यं मन्यन्ते तान् पुरस्तात् प्रति- बोधयिष्यति । एतत् सर्व वृत्तिकृता 'जाग्रदादिनापि भेदे प्रवर्तमाने न तस्य स्वरूपमात्रियते' इत्यादिना ग्रन्थेन सूचयित्वा विषशक्तिदृष्टा- न्तेन प्रमाणीकृतम् ॥३॥ ननु जागरादिषु अवस्थाविशेषेषु स्वभावात् उपलब्धुः असौ न निवर्तते, 'स्वस्य' आत्मन ५ उपलब्धरूपात् इत्यर्थः। पं० १० ख० ग० पु० असन्तमित्यपि पाठान्तरमस्ति।

२५ ४का०]] रामकण्ठाचार्यकृतविवृत्युपेताः उपलब्धुर्ज्ञानस्य 'भावात्' स्वानुभवरूपात् ए- करूपतया अवस्थानात्,-इति यत् प्रतिपादित- म् तत् कथम् ? यतः तासु अवस्थासु अनुभ- वितुः एवंविधाः प्रत्ययाः प्रादुर्भवन्ति, तत् यथा,-मनुष्योऽहं, ब्राह्मणोऽहं, देवदत्तोऽहं, युवाहं, वृद्धोऽहं, कृशोऽहं, स्थूलोऽहम् ,-इ- त्यादयो देहालम्बनाः; सुखितोऽहं, दुःखितोऽ- हम् ,-इत्यादयो बुद्धयालम्बनाः; क्षुधितोऽहं, तृषितोऽहम्,-इत्यादयः प्राणालम्बनाः। शू- न्यताप्रमातृप्रत्ययश्च 'नाहं किंचित् अवेदिष- म्, इति प्रत्यवमर्शप्रत्येयः सुषुप्ताद्यवस्थातः प्रतिबुद्धस्य शून्यालम्बनः प्रादुर्भवति। त एते देहादयः सर्व एव अनित्याः, तदालम्बनश्च अहंप्रत्ययोऽपि अनित्य एव।-इति कथमु- तम् उपलब्धुः स्वभावात् असो न निवर्त- ते?-इत्यत आह ६ उपलब्धताविषयस्य इत्यर्थः ।

२६ स्पन्दकारिकाः [१नि० अहं सुखी च दुःखी चरक्तश्चेत्यादिसंविदः। सुखाद्यवस्थानुस्यूते वर्तन्तेऽन्यत्र ताः स्फुटम् ॥४॥ 'अहं सुखी इत्यादयो याः संविदः ता अ- न्यत्र वर्तन्ते ततः असौ स्वभावात् एकस्मा- त् न निवर्तते,-इति संबन्धः । अन्तरङ्गत्वात् मुख्या बुद्धयालम्बनाः संविदोऽत्र निर्दिष्टाः। आदिग्रहणात् तु देहायालम्बनाः संगृहीताः। ताश्च पूर्व प्रतिपादिताः। तेन सर्वा एताः संविदः अन्यत्र यथाप्रतिपादिताभ्यः सुखा- दिभ्यः अवस्थाभ्यो व्यतिरिक्त सुखाद्युपल- ब्धरि वर्तन्ते, सरितः सागरे इव तत्र वि- गलितान्योन्यभेदा ऐक्येन अवतिष्ठन्ते , ता- दात्म्यम् आपद्यन्ते इत्यर्थः। एतत् च 'स्फु- टं' स्वानुभवसंवेद्यत्वात् सुप्रकटमेव । अ- तश्च एकैव संवित् उपलब्धृरूपा अहमिति स्फुरन्ती पारमार्थिकी, मायाशक्तिजनिततथा- विधस्वभावपरामर्शाभावबलात् सुखाद्यनित्य- २७ ४का०] रामकण्ठाचार्यकृतविकृत्युपेताः वस्तुवेदकत्वेन 'अहं सुखी दुःखी च'-इत्या- दिना बुद्धयाद्यवस्थासामानाधिकरण्यम् उ- पगता सती, संविद इति बहुवचनेन नि- र्दिष्टा । यदि पुनः सुखादिवेद्यवस्तुसंबन्धा- त् सुखादिवत् संविदोऽपि अहं प्रत्ययरू- पाः परमार्थत एव बहुयः स्युः, तदा स्मृ- तिप्रत्यभिज्ञाद्यनुसंधानं न स्यात्; असति च तस्मिन् सर्वव्यवहारोच्छेदः प्रसक्तः; स च नेष्टः; ततः 'अन्यत्र' इति निर्दिष्ट- स्य अर्थस्य विशेषणम् आह-एताः संवि- दः कीदृशि अन्यत्र वर्तन्ते? 'सुखाद्यवस्था- नुस्यूते' सर्वेषु सुखादिषु सुखदुःखमोहरूपे- षु अवस्थाविशेषेषु, उत्पादविनाशधर्मकत्वात् अनित्येषु , वेद्यत्वसामान्यात् शब्दादिविषयस- मानवृत्तिषु अहमिति उपलब्धात्मकेन ए- केन रूपेण व्यापकतया स्थिते। यतः अहं सुखी दुःखी च इत्येवमादिषु प्रत्ययेषु उल्ल- सत्सु द्वौ अर्थो स्फुरतः। एकः सुखाद्यात्मा २८ स्पन्दकारिकाः [१निः वेद्यरूपः,- स वेद्यत्वादेव घटादिवत् अ- नित्यत्वेन नानात्वेन च प्रतिपद्यते; अहमिति अपरो वेदकरूपः, स च पूर्वापरावस्थाव्या- पकत्वेन समस्तप्रमातृप्रसिद्धः, सकलव्यवहा- रहेतोः अनुसंधानस्य कर्ता, नित्य उपलब्धृ. मात्ररूपत्वात् एक एव प्रकाशते । तत् ए- वम् ,-यथा जाग्रदादिना हेतुना विभेदे प्र- सर्पत्यपि अयम् अभिन्नस्वलक्षण एक एव, तथा जाग्रदाद्यवस्थान्तर्गतसुखित्वादि- प्रत्ययसंतानेन हेतुना विभेदे प्रवर्तमाने ऽपि अभिन्नस्वलक्षण एक एव; यतः इ. हापि योऽहं सुखी जातः, स इदानीं दु:- खी रक्तो वा स्थित-इति एकानुसंधातृनि- बद्धा एव अवस्थाः प्रतीयन्ते । तस्मात् अ. नन्तजन्तुसंतानवर्तिभिः अशेषैः अवस्थावि- शेषैः ईषदपि अनुपजनितोपलब्धृमात्रस्व- भावान्यथाभावः, स्वयंसिद्धो, नित्यनिरावरण- पं० ३ क० ख० पु० पूर्वापरब्यवस्थेति पाठः , , २६ ........ , ५का०] रामकण्ठाचार्यकृतविकृत्युपेताः रूपत्वात् सर्वत्र अनिरुद्धः, तात्त्विकः स्वस्व- भाव एव शंकर इति । तत् एतत् 'स च अनुस्यूत एव सर्वासु अवस्थासु' इत्यादिना व्याख्याय स स्वभावः परः स्मृतः।।' इति सिद्धान्तीकृतं वृत्तिकृता॥४॥ एवं स्वस्वभावस्य शिवत्वेन व्यपदेशो युक्त इति उपपाद्य, इदानीं तस्य संग्रहेण लक्षणम् अनुवदन् परमार्थसत्तां प्रतिपादयितुम् आह न दुःखं न सुखं यत्र न ग्राह्यं ग्राहको न च । न चास्ति मूढभावोऽपि तदस्ति परमार्थतः ॥५॥ 'तत्' वक्ष्यमाणविशेषणं वस्तु स्वस्वभावशब्द- वाच्यं परमार्थत': तत्त्वतः अस्ति, तद्वयतिरिक्तं सर्वम् असत्यसद्भावम् इत्यर्थः। किं तत् ? 'य- त्र न दुःखं, न सुखं, न च ग्राह्यं, न ग्राह- को , न मूढभावोऽपि अस्ति ।अनेन सुखादिरूप- ताप्रतिषेधेन वेद्यत्वम् अस्य प्रतिषिध्यते । द्वि- , , ३० स्पन्दकारिकाः [१नि० विधं हि वेद्यम् ,-बाह्यम् आभ्यन्तरं च। तत्र आभ्यन्तरं सुखादि अन्तःकरणवेद्यत्वात् ; तत् यत्र नास्ति, प्रतिपादितविविक्तवेदकैकस्वभाव- वात् तस्य। बाह्यं तु शब्दादि वेद्यं, तत् ग्राह्यश- ब्देन निर्दिष्टं, श्रोत्रादिबाह्येन्द्रियगृहीतं हि तत् अन्तःकरणेन सुखाद्यात्मकं वेद्यते; तदपि यत्र नास्ति । न हि तस्य रूपं शब्दादिविषया- त्मकत्वेन ग्राह्यताम् आपद्यते । ग्राहकोऽपि मायीयः प्रमाता अत्र विवक्षितः, न तु तात्त्वि- क उपलब्धृमात्रस्वरूपः, तस्य एवं नित्यस- त्वेन प्रतिपाद्यमानत्वात् । एवं मायीयो देहाद्य- हंकारमयो ग्राहकोऽपि यत्र नास्ति। ग्राहकमि- ति तु पाठे, ग्राहकम् इन्द्रियम् इति व्याचक्ष- ते; तदपि यत्र नास्ति । एवं ग्राह्यग्रहणस्व- रूपव्यतिरिक्तं ग्रहीतृमात्रखभावं यत् तत्वं तत् अस्ति इति । ननु च एवं सति, मूढावस्यैव असौ- पं० १४ क० ख० पु० ग्रहणस्वभावेति पाठः ।

५का०] रामकण्ठाचार्यकृतविवृत्युपेताः ३१ इति प्रतिपादितं भवति, तस्यां हि सुखादिरू- पताभावः। एतत् निराकर्तुम् आह,- 'न चास्ति मूढभावोऽपि इति,-मूढस्य भावो मूढत्वं वेद्य- वेदनसामर्थ्याभावः; सोऽपि यत्र नास्ति न विद्यते; यतः तस्यापि अवस्थान्तरे मूढोऽह- मासम् - इति प्रत्यवमृश्यमानत्वात् वेद्यत्वं स्थितमेव , केवलं तत्कालमनुपलम्भः । वेद्यत्व- सद्भावे च मूढावस्थायाः कथं वेदकैकखभाव- वस्तुरूपत्वं स्यात्? यद्येवं मूढभावोऽपि तत्र ना- स्ति, तत्प्रतिपत्तिगोचरसमस्तवेद्यवस्तुरूपताप्र- तिषेधात् अभावमात्रं तत्,-इति प्रतिपादि- तं स्यात्।तत्प्रतिक्षेपार्थम् आह,- 'तदस्ति पर- माथतः' इति;-यत् एवंविशिष्टतया व्याख्यातं, तत् वस्तु परमार्थतः अस्ति, सततम् अविलुप्तो- पलब्धृमात्रलक्षणखभावत्वात्। यत् पुनः सु- खादि, तत् कल्पनामात्रलब्धात्मकं क्षणभ- गुरं सर्वदा वेद्यमेव, वेदकैकखभावात् आत्म , प० १७ ग. पु. स्वभावत्वात् इति पाठः ।

३२ स्पन्दकारिकाः [१नि० नो दूरभिन्नम् । अतो यत् यत् वेद्यभूमिकायांव- तते, तत्सर्वम् असत्, अनित्यत्वात्। यस्तु वे- दकः, स एक एव परमार्थसन् इत्यर्थः। तत् इदं 'तस्य चायं खभाव इत्यादिना ग्रन्थेन वृत्तिकृता व्याख्यातम् ॥५॥ इदानीम् अस्य परमार्थसत आत्मन एव शिवस्य समस्तवस्तुसंपादनखतन्त्रशक्तित्वप्र- तिपादनपूर्वम् उपादेयतमत्वम् उपदेष्टुं युग- लकमाह यतः करणवर्गोऽयं विमूढोऽमूढवत्स्वयम् । सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतीः॥ लभते तत्प्रयत्नेन परीक्ष्यं तत्त्वमादरात् । यतः स्वतन्त्रता तस्य सर्वत्रेयमकृत्रिमा ॥६॥॥७॥ 'तत् तत्वं' वखभावाख्यं वस्तु परमार्थस- त्वेन अवस्थितं ' प्रयत्नेन' प्रकृष्टेन यत्नेन स- ततम् अविलुप्तेन उद्योगेन,'आदरात्' श्रद्धाति- ७का०] रामकण्ठाचार्यकृतविवृत्युपेताः शयात् 'परीक्ष्यं सर्वासु अनुभवदशासु वक्ष्य- माणोपदेशानुसारेण क्रमेण, वेद्यवेदकलक्षण- राशिद्वयविभजनपरतया, वेदकखरूपपरामर्शा- त् आत्मत्वेन स्फुटीकार्यम् । 'यतः तस्य इयम्' अधुनैव प्रस्तुतव्याख्याना 'स्वतन्त्रता' स्वे- च्छामात्राधीनसकलकार्यकर्तृत्वरूपा 'सर्वत्र' सर्वस्मिन् देहे दशाविशेषे वा अवस्थितस्यापि 'अकृत्रिमा' सहजैव , न तु उपादानसह- कार्यादिकारणान्तरापेक्षिणी,-यतः संसारि- णामपि तत्स्वातन्त्र्यमहिम्नैव समस्तव्यवहा- रसंपत्तिः, मायाव्यामोहवशात् तु सत्यस्व- भावपरामर्शाभावात् सर्वः संसारी परतन्त्र इव व्यवहरति सर्वक्रियासु व्यतिरिक्तका- रणापेक्षसर्वार्थसिद्धिकत्वात्,-तस्मात् स्वाभा- विकस्वातन्त्र्यप्राप्तये तत् तत्वं परीक्ष्यम् , न तु सुखदुःखमोहग्राह्यग्राहकरूपप्रतिषेधात् तत् अवस्तुभूतम् अवगन्तव्यम् इति उपदिष्टम्। इ- पं०११ क. ग. पु. मायाव्यपोहति पाठः ।

[१नि० . ३४ स्पन्दकारिकाः दानीम् ‘इयम्' इति निर्दिष्टां स्वतन्त्रतां प्रति- पादयितुं यच्छब्दविशिष्टं विशेषणं व्याख्याय- ते।-किंतत् तत्त्वं परीक्ष्यं? 'यतो' यस्मात् 'अ- यं करणवर्गः' करणानां श्रोत्रादीनां बाह्यानां, मनःप्रभृतीनाम् आभ्यन्तराणाम् इन्द्रियाणां वर्गः त्रयोदशकरणसमूहः 'प्रवृत्तिस्थितिसंह- तीः लभते' 'प्रवृत्तिः' जिघृक्षितार्थोन्मुखतास- मुन्मिषदवस्था, 'स्थितिः' गृहीतार्थविश्रान्त्यव- स्था, 'संहतिः' कृतकृत्यत्वात् बाह्यार्थपरित्यागे स्वव्यापारोपरमःप्रत्यस्तमयावस्था , एताः 'ल- भते' प्राप्नोति । कीदृशः करणवर्गः? 'विमूढः' प्रायशो जडतयैव प्रसिद्धः। कथं लभते? 'अमू- ढवत्' चेतनवत् । एतत् उक्तं भवति-प्राकृ- तं जडमपि एतत् बाह्याभ्यन्तरम् इन्द्रियचक्र प्रवृत्त्यादिचेतनव्यापारसमर्थ यत्संस्पर्शबलात् भवति, तत् तत्त्वम् आत्मत्वेन स्फुटीकृतं स- त् इन्द्रियचैतन्यापादनखातन्त्र्यवत् सर्वविषय- पं०२ ग० पु० विशेषणं यद्याख्यायते इति पाठः। , - ८का०]] रामकण्ठाचार्यकृतविवृत्युपेताः ३५ खातन्त्र्यलाभाय कल्पते एव; अतः परीक्ष्यं, येन अभ्यासदशायामेव अभिव्यज्यमाने खातन्त्र्ये परशरीरावेशादिक्रीडा उपपद्यते। त- त् इदम् 'न च सुखादिरूपो यदा नासौ' इत्यादिना तस्मात्तत्तत्वं यत्नेन परीक्षितव्यम् इत्यादिना च पृथक् व्याख्यातं वृत्तौ॥७॥ ननु किमिदम् उच्यते , - तत् किंचित् तत्त्वं परीक्ष्यं यद्वशात् इन्द्रियाणि चेतनी- भवन्तीति , किल एवं व्यवहारो व्यवस्थि- तः,- सर्वः कश्चित् चेतनः प्रमाता धर्माधर्म- संबन्धात् इच्छाख्येन गुणेन संयुज्यमानो हे- ये उपादेये वा विषयभूते प्रयत्नवान् भूत्वा , तेनैव इच्छाख्येन गुणेन करणवर्ग जडमेव त- त्तद्विषयहानोपादानादौ प्रेरयति; स च तत्प्रे- रितो जड एव दात्रादिवत् स्वकार्य करोति। तत् कथमुक्तम्। यतः कारणभूतात् अमूढवत् , - स्पन्दकारिकाः [१नि० प्रवृत्त्यादि लभते इति; व्याख्यातं च,-यत्सं- स्पर्शबलात् एव हेतोः प्रवृत्त्यादिचेतनव्यापा- रसंपादनसमर्थो भवति?-इत्याशक्य यथा एष करणवर्गः चेतनीभवति तथा संसारि- पुरुषस्य व्यवहारप्रदर्शनेन स्फुटीकर्तुमाह नहीच्छानोदनस्यायं प्रेरकत्वेन वर्तते । अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवे- त्॥८॥ 'नहि' न खलु 'इच्छानोदनस्य' इच्छेव नो- दनं, नुद्यते अनेन इति प्रतोदादि करणं, तस्य 'प्रेरकत्वेन' इन्द्रियवर्गप्रति चोदकत्वेन असौ पुरुषः संसारी प्रमाता वर्तते' अवतिष्ठते । य- था कश्चित् देवदत्तादिः केनचित् करणभूतेन हस्तादिना जडं प्रतोदादि प्रेरयति,न एवम् 'अ- यम्' आन्तरः 'पुरुषः'इच्छया जडं करणवर्ग स्व- विषये प्रवर्तयति; , अपि तु आत्मबलस्पर्शात्' आत्मनः परस्य प्रमातुः सर्वकर्तुः ईश्वरस्यैव प० ४ ग. पु. संसारिपुरुषव्यवहारेति समस्तः पाठः।

३ , ८का०] रामकण्ठाचार्यकृतविवृत्युपेताः ३७ खभावस्यैव यत् बलं सामर्थ्य कारणान्त- रनरपेक्ष्येण अखिलवस्तुसंपादनशक्तता, त- स्पर्शात् तत्संपर्कात् 'तत्समो भवेत् तेन आ- मशब्दोक्तेन परेण का तुल्यः संपद्यते। इ- दमत्र तात्पर्यम् ,-यत्रैव स्वस्वभावे स्थित्वा आ- त्मशब्दप्रतिपादितः परमेश्वरो जगदिदं प्र- वृत्तिस्थितिसंहृतीः यथेष्टं लम्भयितुं खतन्त्रः, तवैव स्थित्वा पुरुषोऽपि अयं संसारी कर- णवर्ग स्खविषये प्रवृत्त्यादि लम्भयितुं स्वतन्त्रः, तेन तत्समो भवेत् इति उक्तम् । ततो यथा ईश्वरः सर्वव्यापिकाभ्यां ज्ञानक्रियाख्याभ्यां श- क्तिभ्यां, विश्वं प्रवृत्त्यादि प्रापयन् सर्वं जानाति च करोति च, तथा पुरुषः तबलस्पर्शादेव उप- जातज्ञत्वकर्तृत्वसामों तविषयाभ्यां ज्ञानक्रियाशक्तिभ्यां अन्तर्बहीरू- पकरणवर्गतया प्रसृताभ्यां स्वविषयं जानाति च करोति च,- इति तत्साम्यम् अस्य उक्तम् 'न च इच्छाप्रेरणेन करणानि प्रेरयति' पं० १८ खगपु० इच्छाप्रेषणेन करणानि प्रेषयतीत्यपि पाठान्तरमस्ति । मायावशात् निय- ३८ स्पन्दकारिकाः [१नि० इत्यादि विवृतमेतत् वृत्तौ ॥८॥ ननु स्वव्यापारे करणवर्ग प्रवर्तयन् पुरुषः ईश्वरभूमिकासादनात् तद्वत् स्वातन्त्र्यम् आ- मोति, इति तयोः ईश्वरपुरुषयोः अभेदः एव प्रतिपादितः स्यात् । कथं भेदनिबन्धनम् ई- श्वरसाम्यं पुरुषस्य प्रतिपादितं तस्यां दशा- याम् ?-इत्यत आह निजाशुद्धयासमर्थस्य कर्तव्येष्वभिलाषिणः। यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ॥६॥ सत्यम् , अस्ति अभेदः तस्याम् अवस्था- याम् अनयोः। किन्तु अयं पुरुषो 'निजया' स- हजया देहाद्यात्मप्रतिपत्तिमूलरागादिरूपया अशुद्ध्या' मलेन हेतुना 'अभिलाषी' क्ष- णिकसुखलवलुब्धः, तयैव च तत्साधनभूतवि- षयावाप्तिहेतुषु 'कर्तव्येषु' क्रियासु 'असमर्थ' शक्तिदरिद्रो-यतः इच्छन् अपि अभिमतं न आप्नोति-; एवंविधस्य अस्य 'यदा' यस्मिन् , . , का०] रामकण्ठाचार्यकृतषिवृत्युपेताः ३६ काले क्षोभः' प्रतिनियतशरीराद्यालम्बनाप्र- त्ययात्मा मायीय उपप्नवः 'प्रलीयत' कृत्रिमाल- म्बनोत्तीर्णस्वाभाविकाहप्रत्ययप्रभाकरप्रकाशसं- पर्कात् प्रालेयपटलवत् विगलेत् विनश्येत् ; 'तदा परमं निरुत्तरं 'पदं स्थानं 'स्यात्' सद्भावेन प्रकाशेत-अभेद आत्मपुरुषशब्दप्रतिपादित- योः परापरयोः संविदोः तस्यामेव दशायाम् उ- पलभ्यतया प्रथेत इत्यर्थः। तदेतत-स्वखभावे प्रतिष्ठानम् इदम् इति अनेन श्लोकेन प्रतिपा- दितम् । उपपाद्यतां नाम दर्शनान्तरेषु तेस्तैः प्रकारैः अशुद्धिः अस्य पुंसः; इह तु एताव- त्येव असौ,-यत् अचित्खरूपेषु अनित्येषु प- रतन्त्रेषु देहादिषु तद्विलक्षणानिष्ठतया उ- पपन्नः अहंप्रत्ययः प्रवर्तते; तावन्मात्रनिबन्ध- ना हि सर्वाः संसारित्वप्रतिपत्तयः; तस्मिन्ने- व विगलिते स्वखभावाभिव्यक्तिलक्षणा परा प०८ ग. पु० उपलब्धतया इति पाठः । पं० १ ग० पु. अर्थसंगतिसौकर्याय 'इति' शब्दोऽत्र प्रक्षितः ।

स्पन्दकारिकाः [पनि शुद्धिरिति । यदुक्तम् 'जाते देहप्रत्ययद्वीपभङ्गे प्राप्तकध्ये निर्मले बोधसिन्धौ । अव्यावत्यैवेन्द्रियग्राममन्त- विश्वात्मा वं नित्यमेकोऽवभासि॥' तथा 'नात्माधीनतेऽपि विश्वं नियोक्तुं सर्वो हस्तादीनिवेष्टे यथेष्टम् । बालो राजेवात्मशक्त्यप्रबोधात खय्यन्तःस्थे सर्वशक्तिस्तु सर्वः॥' इति। तदेतत् तावत् 'स चास्य इत्यादिना वृत्तौ व्याख्यातम् ॥६॥ ननु प्रलीनदेहाद्यहंप्रत्ययलक्षणक्षोभो नि- वातनिश्चलजलधिवत् सुप्रशान्तस्थितिः आत्म- व परमपदशब्दप्रतिपादितः; तत् कथं तहल- स्पर्शात् पुरुषः तद्विलक्षणं क्षोभात्मकमेव ध- मम् आसादयेत् , येन युक्त इन्द्रियवर्ग प्रवृ- त्यादि लम्भयन्, ,अहं करोमि, अहं जानामि, , , १०का०] रामकण्ठाचार्यकृतविकृत्युपेताः ४१ इति स्वविषयं प्रतिपद्यमानः चुभित एव भव- ति ?-इति अनात्मज्ञानां मातविभ्रमभङ्गा- याह तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणः। यतस्तदेप्सितं सर्व जानाति च करोति च ॥१०॥ 'तदा' तस्मिन् यथोक्तक्षोभपरिक्षयोपलक्षि- ते काले, आत्मनः 'अस्य अकृत्रिमः' सहजसि- सततमव्यतिरिक्तो 'ज्ञत्वकर्तृत्वलक्षणो धर्मः' गुणोऽस्त्येवेति शेषः; 'यतो' यस्मात् अव्यभिचारिणो गुणात् कारणभूतात् 'सर्वम् अ- खिलम् 'ईप्सितं' ज्ञेयतया कार्यतया अवाप्तु- मिष्टं वस्तु, स पुरुषः 'तदा' तस्यां दशायां स- त्यस्वभावसंबन्धलक्षणयोगात्मिकायां, न तु अन्यदा-देहाद्यालम्बनाप्रतीतिसारसंसारिपु- रुषदशायां 'जानाति च करोति च । किम् उक्तं भवति ?-ज्ञत्वमुपलब्धृत्वं नाम अस्या- त्मनोऽव्यतिरिक्तो गुणः; स च इदन्ताव- द्धः

४२
स्पन्दकारिकाः
[१नि०
सेयस्य वस्तुनो ज्ञेयतया कार्यतया च द्वैवि-
ध्यात् द्वित्वेन उपचर्यते । वस्तुत एकैव
ईश्वरस्य स्वभावप्रत्यवमर्शरूपा शक्तिः; सा
संवेदनरूपत्वात् ज्ञानशब्देन उच्यते, तावन्मा-
त्रसंरम्भरूपत्वात् क्रियाशब्देन च उद्घोष्यते ।
स च एवंविधो धर्मः अस्य वेद्यत्वप्रतीत्युपप्नवा-
संस्पृष्ट वेदकैकलक्षणे स्वभावे स्थितस्य सर्व-
ज्ञतया सर्वकर्तृतया च विजृम्भते। यत् पुनः
ताहक्स्वभावप्रत्यवमर्शाभावात् वेद्य एव देहा-
दौ वेदकप्रत्ययनिबन्धनं ज्ञत्वं कर्तृत्वं च, तत्
कृत्रिमं परिमितविषयं च । तस्मात् आत्मनो
ज्ञत्वकर्तृत्वलक्षणाव्यतिरिक्तधर्मता स्वभाव ए-
व, न तु क्षोभावस्था । तादृशं च आत्मबलं
स्पृशन् संसारिपुरुषः करणवर्गप्रवर्तनादिना स्व-
विषये ज्ञत्वकर्तृत्वाभ्यां युज्यमानस्तत्समो भवे-
त् - इति यत् उक्तं तदेव उपपन्नम्। तदेतत्
'यतस्तस्मिन्मलीनतोभात्मके काले'
इत्यादिना वृत्तिकृत् व्याचष्ट ॥ १० ॥

११का०] रामकण्ठाचार्यकृतविकृत्युपेताः इत्थम् आत्मखरूपम् उपपत्त्या व्यवस्था- प्य तत्प्रतिपत्तिफलं प्रदर्शयितुम् आह तमधिष्ठातृभावेन स्वभावमवलोकयन् । स्मयमान इवास्ते यस्तस्येयं कुसृतिः कुतः ॥ ११॥ 'तम्' इति सर्वनाम्ना श्लोकदशकप्रतिपादित- मात्मतत्त्वं प्रत्यवमृश्यते । 'तम्' एवंलक्षणं 'स्वभावम् आत्मानम् 'अधिष्ठातृभावेन सर्वश रीरेषु सर्वावस्थासु सर्वदा सवत्र अनुभवितृमा- त्रेण सर्वम् आक्रम्य अवस्थितत्वात् अनन्याधि- ष्ठेयः अहमेव एकः स्वतन्त्रः परमेश्वरः अधिष्ठा- ता इत्येवंरूपतया 'अवलोकन्' उक्तया उपप- त्तिदृशा वक्ष्यमाणया च उपलब्ध्युपदेशदृशा पश्यन् प्रत्यभिजानन् 'स्मयमान इव' विस्मृत- परप्रमातृरूपात्मतत्त्वप्रत्यभिज्ञानात् मायीय- प्रमातृवरूपम् असत्यमपि इत्थं प्रथमानं. विमृशन् विस्मयमिव आपन्नो 'य आस्ते' निर्विप्लवां स्थितिम् अनुभवति, 'तस्य' एवंलक्ष- ४४ स्पन्दकारिकाः [१नि० णस्य योगिनः 'इयं' सुप्रसिद्धा देहाद्यहंप्रतीति- मात्रमूला 'कुमृतिः' जन्मजरामरणादिद्वन्द्वयो- गात् कुत्सिता गर्हिता मृतिः सरणं नानायो- न्यन्तरभ्रमणं 'कुतः' ?-प्रतिपादितक्षोभरूपा- या अशुद्धेः हेतुभूताया अभावात् असीन- स्य गतिरिव नास्त्येव इत्यर्थः । वृत्तिकृता च 'एवं यतः सर्वानुस्यूत एव अयमात्मा' इत्यादिना व्याख्यातमेतत् ॥११॥ इदानीं समस्तवेद्यधर्मविरहितस्वरूपस्या- त्मतत्त्वस्योपादेयतया प्रतिपादनादभाव एव प्राप्यतयोपदिष्टो भवति- इति मन्यमानान् प्रतिबोधयितुमाह नाभावोभाव्यतामेति नच तत्रास्त्यमूढता। यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चयः ॥ १२॥ 'अभावों वस्तुशून्यता 'भाव्यता' भावनीयत्वं समाधावालम्बनभावं 'नैति' न गच्छति, अभावभावभावनयोः परस्परविरोधात्; भावो , , १२का०] रामकण्ठाचार्यकृतविवृत्युपेताः हि संविद्विषयतायोग्यः पदार्थो, ध्येयतया अा- लम्बनीभवितुमर्हति , न पुनः न किंचित् । यथा कचित् उपदिष्टम् 'अभावं भावयेत्तावद्यावत्तन्मयतां व्रजेत् ॥' इति । भवतु वासौ ध्यातृ-ध्यान-ध्येयविक- ल्पोच्छेदरूपा समाध्यवस्था, यामभाव इति मन्यन्ते विस्मृतात्मानः। न च 'तत्र' तस्मिन्न- वस्थाविशेषे 'अमूढता मूढत्वाभावो विद्यते, 'यतोऽभियोगसंस्पर्शात्' व्युत्थानावसरे ताह- ग्दशान्तरानुसंधानविषयेणाभियोगेन तत्का- लप्रत्युदितेनाभिलापेन संस्पर्शात् संपर्कात् 'त- त्' दशान्तरम् 'आसीत्' अभूदतीतम् ‘इति निश्चयः' अध्यवसायः स्यात् । किम् उक्तं भव- ति ?- अभावसमाधिलब्धप्रतिष्ठो योगी ततो व्युत्थितः सन् यदि तामवस्थां नानु- संदध्यात् तत् कथं लब्धप्रतिष्ठोऽस्मि-इति प्रत्ययोऽस्य स्यात् ? असति च तस्मिन् समा ५० १४ क . स्व. पु. ततोऽभ्युत्थित सन् इति पाठ. । प० १५ क० ख . पु. यदा ताम् इति पाठः।

- स्पन्दकारिकाः [१नि० धिव्युत्थानयोः व्यतिरेकाग्रहणम् । तस्मात् तदानीं तादृशी दशाम् अहम् अन्वभवम्- इति अवश्यं स्मयते । तच्च अतीतत्वेन स्म- र्यमाणत्वादेव अनित्यं सुखादिवत् आत्म- नः खरूपं न भवति; तस्य चिद्रूपस्य अ- नुभवितृत्वेन सर्वदा वर्तमानत्वात् स्मन्तरे- ण स्मर्यमाणत्वं न संभवति । व्याख्यातम् एत- त् वृत्तौ 'न खभावो भावनीयः, इत्यादिना ॥ १२॥ तत् स्फुटीकर्तुम् आह अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा । न वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते ॥ १३॥ 'अत' आसीत् तत् इति भूतत्वेन अभियुज्य- मानत्वात् 'तत्' अभावसमाधिसंज्ञितं वस्तु 'कृ- त्रिमं ज्ञेयं' भावाभावदशायोगित्वात् कल्पना- पं० २ ग० पु० दशामवहम् इति पाठः ।

१३का०] रामकण्ठाचार्यकृतविवृत्युपेताः कृतम् अनित्यं बोद्धव्यं 'सदा' न काचिद- सौ कालकला विद्यते, यस्यां सा तादृशी स- माध्यवस्था नित्यत्वेन अवतिष्ठते । कथं कृत्रि- मं ज्ञेयं ?-'सौषुप्तपदवत्' सुषुप्तमेव सौषुप्तं सुखखापावस्था तदेव पदं संविदधिकरणं तेन तुल्यम् । किमुक्तं भवति?-यथा लौकि- की सुषुप्तावस्था निविडमोहात्मकत्वात् सतोऽ- पि वेद्यवेदकविभागस्य तत्कालम् अग्रहणे सति अभावरूपा इव सती प्रबोधकालप्रत्यु- दितानुसंधानविषयताम् आपाद्यमाना अतीत- वेन स्मर्यमाणत्वात् अनित्या, तद्वत् अभाव- समाध्यवस्थापि अनित्या व्युत्थानसमये भू- तत्वेन स्मर्यमाणत्वसाम्यात् । एतेन सर्वे एवंप्रायाः समाधयः सुषुप्तावस्थायामेव अ- न्तर्भवन्ति-इति प्रतिपादितम् 'न तु' पुनः 'तत् तत्त्वम्' इह उपादेयतमतया उपदिष्ट खस्वभावलक्षणं वस्तु एवम् अनेन उक्तप्रका- रेण 'स्मर्यमाणत्वं प्रतिपद्यते' तस्य हि नि- स्पन्दकारिकाः [१नि० त्योदितत्वात् सदा वर्तमानत्वमेव । तदेतत् 'अतोऽभावभावनया समाधिलब्धभूमिकस्यापि' इत्यादिना वृत्तौ विवृतम् ॥ १३ ॥ अथैवं नित्योदितत्वात् सदा प्रकाश- मानमपि तत् तत्त्वम् अप्रत्यभिज्ञायमान- त्वात् बन्धहेतुः; अतो लब्धोपदेशेन सर्वाव- स्थासु वेद्यवेदकरूपतत्त्वद्वयसंगृहीतविश्वप्रप- ञ्चविभजनपरतया वेदकांशम् अहमिति स- वैवेद्यस्वरूपोत्तीर्णमेव प्रत्यवमृशताम् आत्मी- कार्यम् । इति उपदेष्टुं तस्य तत्त्वस्य स्खमा- यावैभवोद्भासितं द्वैरूप्यं प्रतिपादयितुमाह अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम्। कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयम् ॥१४॥ अत्र' अस्मिन् इह प्रतिपादिते आत्माख्ये परस्मिन् तत्त्वे 'अवस्थायुगलं' द्वे अवस्थे सं- . पं० २ अभावभावनालब्धभूमिकस्यापि कृत्रिमा, इत्येवविध एच पाठ. मूलवृत्तिपुस्तकेजस्ति ।

१४का०] रामकण्ठाचार्यकृतविकृत्युपेताः भवतः । अनेन विविधदर्शनप्रक्रियाप्रबन्धव्यव- स्थापिततत्त्वादिभेदात् अपर्यन्तमपि हेयो- पादेयरूपं वस्तु लक्षणद्वययोगात् द्वित्वेनैव संगृह्य प्रतिपादितम् ; आनन्त्येऽपि विश्ववै- चित्र्यस्य द्वे एव तत्त्वे इत्यर्थः। एक एव तु परमार्थसन् परमेश्वर आत्मा निरुपम-नि- प्रतीघात-निरुपादाननिजैश्वर्यशक्तिबलाद् द्वित्वेन आत्मानम् अवभासयन् क्रीडति- इति प्रतिपादयितुम् अवस्थाशब्देन निर्देशः कृतः, एकमेव तत् तत्त्वं द्वित्वेन अवतिष्ठ- ते इत्यर्थः । कीदृशम् अवस्थायुगलं? 'कार्यकतृ- त्वशब्दितं' कर्तृत्वेन भोक्तृत्वेन वेदकत्वेन चेतनभावेन अहम् इति एका अवस्था खत- न्त्रा, द्वितीया तु तद्विपरीता कार्यरूपा भोग्या वेद्या जडा परतन्त्रा ताभ्यां 'शब्दितं' काथ तम् । शब्दितशब्देन अनयोः संज्ञामात्रभेदो, न वास्तवः-इति प्रतिपादितम् । ततः कार्यरूपा पं० ७ निरुपादानेति वाक्यं ख-ग-पु. नास्ति ।

स्सन्दकारिकाः
[१नि०
या इयम् अवस्था सा प्रकाशमानत्वमात्रल-
ब्धात्मकत्वात् आत्मनः परमकारणात् कर्तृ-
शब्देन व्यपदिष्टात् प्रकाशैकखभावात् न भिद्य-
ते, यतः शक्तिचक्रात्मकस्य स्खविभवस्य प्रभ-
वत्वेन एतत् तत्त्वं प्रागेव प्रतिपादितम् ।
तत्र तस्मिन् इत्थंभूते अवस्थायुगले 'कार्यता
क्षयिणी' कार्यरूपावस्था क्षणभङ्गिनी, यत्
यत् इदं मुकुलिततत्त्वपरामर्शतया कार्यरूप-
खेनैव अवसीयते, तत् सर्वम् उदयव्ययसं-
बन्धात् प्रतिक्षणविनश्वरम् 'कर्तृवं पुनर-
क्षयं' कर्तृरूपावस्था नित्या नित्योदितस-
विस्थाव्यापकत्वोपलब्धृत्वमात्रधर्मकत्वात् अ-
विनाशि । तदेवम् एकमेव कारं ज्ञा-
तारं सर्वाधिष्ठातारं सततम् आत्मत्वेन अनु-
संधानो यस्तिष्ठति तस्य बन्धानुपपत्तिः-इति
पूर्वश्लोकेन संबन्धः। तदेतत्
'अवस्थाद्वयमेव '
इत्यादिना वृत्तौ व्याख्यातम् ॥१४॥

१५का०] रामकण्ठाचार्यकृतविवृत्युपेताः ५१ ननु यत् उपलब्धृरूपं तत्त्वं तत् अ- क्षयमित्युक्तं; तच्च नोपपद्यत एव; अभा- वसमाध्यवस्थासु उपलभ्यखरूपाभावात्; क- थं तस्याक्षयत्वम् ?-इत्याक्षेपे प्राप्रतिज्ञातं समाधानमाह कार्योन्मुखःप्रयत्नो यः केवलं सोऽत्र लुप्यते। तस्मिंल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्य- ते॥१५॥ 'कायें निमेंये वेये वा वस्तुनि 'उन्मुखः' तस्य तथासंपादने प्रवणो 'यःप्रयत्नः' कर्तृत्वं [] सहज उत्साहः ‘स केवलं' स एव परं का- रणं व्यापारहेतुः, तस्यां दशायां कार्यस्य स्थूल- रूपस्य अभावात् 'लुप्यते' अनभिव्यक्ततया आत्मन्येव न्यग्भूयेव अवतिष्ठते । 'त- स्मिन्' प्रयत्ने तत्कालमेव 'लुप्ते' सति 'अबु- धः' तत्त्वावबोधशून्यो विलुप्तोऽस्मि-इति प्रतिपद्यते' नाहमस्मीति भावविलक्षणतया वस्तु परिच्छिन्दत एवंविधः प्रत्यय उपपन्नः। .

५२ , स्पन्दकारिकाः [१नि० परिच्छिनत्ति चेत् कर्तृत्वेन प्रथमतरं सन्ने- व असौ सिद्धः कथं निषेधस्य विषयः स्यात् ? तत् इदम् आयातम्,- यथा कश्चित् देवदत्तो गृहायवस्थितः केनापि आहूतो-भो देवदत्त ? - इति , स आत्मानम् अपह्नोतुका- मः प्रत्याह , - नाहमस्मीति; एवमुक्ते प्र- त्युत स्थितोऽहमस्मि - इति प्रतिपादितं भवति , न त्वसंनिधानम् । तस्मात् अभा- वसमाध्यवस्थासु कार्याभावात् करणव्यापार- विरतिमात्रेणात्माभावप्रत्ययो भ्रान्तिरेवेति । व्याख्यातमेतत् वृत्ती 'कार्यसंपादनसामर्थ्यम्' इत्यादिना ॥१५॥ एनमेवार्थं विशेषयितुम् आह । नतु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम्। तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भ. नात् ॥१६॥ 'न तु पुनः तस्य परमार्थसतः परस्य तत्वस्य १६का०] रामकण्ठाचार्यकृतविदृत्युपेताः ५३ 'कदाचित् कस्याचिदपि समाध्याग्रुपलक्षितायां कालकलायां 'लोपः' स्वरूपोच्छेदः ‘स्यात्' उप- पद्येत; 'अन्यस्य' तद्वयतिरिक्तस्य वेद्यरूपस्य अनित्यस्य वस्तुनः 'अनुपलम्भनात्' अनुभवा- भावात् , न हि वेद्यं नास्ति, वेदकोऽपि नास्ति- इति वक्तुं शक्यम् । कस्य तस्य लोपो न स्यात् ? 'यः अन्तर्मुखो' व्यतिरिक्तबाह्यवेद्याभावात् अ- न्तः स्वात्मन्येव मुखं ज्ञशक्तिर्यस्य स तादृ- शो 'भाव' आत्माख्यं तत्त्वं, यतः 'सर्वज्ञत्वगु- णास्पदं सकलवेद्यवर्गवेदकतारूपस्य गुणस्य धर्मस्यास्पदम् अनन्यसाधारणम् अधिकर- णम् । इदमत्र तात्पर्यम् -आत्मनो ज्ञा- नक्रियाभेदेन द्विविधा या शक्तिः सा पुरु- षावस्थायाम् अन्तःकरणबहिष्करणव्यापारो- परमे सति, केवलखात्ममात्राभिमुखज्ञशक्ति- मात्रत्वेनावशिष्यते; तेन 'अन्तर्मुखो भाव' इत्युक्तम् । मुखशब्देन च शक्तः व्यवहारो दृष्टो यथा पारमेश्वरे

५४
..
स्पन्दकारिकाः [१नि०
'शैवीमुखमिहोच्यते ॥
इत्यादौ । एवं च व्युत्थानावसरे तादृग्दशान्य-
थानुपपत्तिसद्भावः। स भावो बाह्यविषयाग्रहण-
मात्रव्यामोहैः अभाव इति तैः योगिभिः प्रति-
पद्यतेन तु सततम् अविलुप्तज्ञशक्तेः तस्य भा-
वस्य आत्मविलक्षणवस्त्वनुपलम्भात् कथंचित्
लोप उपपद्यते; तदा हि असौ स्वभावमेव
अमलगगनतलवत् सर्वतो व्यतिरिक्तं सर्वव्या-
पकं चित्मात्ररूपतया अनुभवति , केवलं मो-
हपरवशतया विस्मृतानुसंधायकखात्मरूपः त-
था न प्रतिपद्यते । प्रबुद्धस्तु यथा प्रति-
पद्यते तथा उपायं पुरस्तात् उपदेष्यति ।
व्याख्यातमेतत्
'न तु योऽन्तर्मुखोऽन्तश्चक्रारूढ'
इत्यादिना वृत्तौ ॥ १६ ॥
इति श्री राजानकरामकृतायां विकृत्याख्यायां स्पन्दका-
रिकाटीकायां व्यतिरेकोपपत्तिनिर्देशो नाम प्रथमो निःष्य-
न्दः ॥१॥

अथ व्यतिरिक्तस्वभावोपलब्धिर्नाम द्वितीयो निःष्यन्दः॥ एवं यथाप्रतिज्ञातं देहादिव्यतिरिक्तमा- त्मतत्त्वं खानुभवसिद्धयोपपत्त्या व्यवस्थाप्य इदानीं तदुपलब्ध्युपायोपदेशावसरे सुप्रबुद्ध- प्रबुद्धाप्रबुद्धभेदेन त्रिविधे लोकतन्त्रे, कस्ता- वत् प्रस्तुतोपदेशपात्रम् ?- इति विषयव्यव- स्थापनाय आह तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी। नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्तेऽपरस्य तु ॥१॥ 'तस्य' यथाप्रतिपादितस्य स्वात्मन एव प- रमेश्वरस्य 'उपलब्धिः अनुभवो निर्विकल्पा प्र- तिपत्तिः 'नित्यं सर्वदा सर्वासु अनुभवदशासु 'सुप्रबुद्धस्य' सुष्टु प्रबुद्धस्य देहाद्यहंप्रत्ययदी- पं. ४ ग.पु. व्यतिरिक्तस्वरूपमिति पाठः।

५६ स्पन्दकारिकाः [२नि० र्घदुःस्वप्नमय्या मोहमहानिद्रया मनागपि अ- नावृतसंविदःसिद्धसाध्यस्य सम्यग्दर्शिनः 'स्या- त्' उपपद्यते। कीदृशी? 'सततम्' अव्यवधानेन 'त्रिपदाव्यभिचारिणी' त्रिषु जागरस्वप्नसुषुप्तेषु पदेषु संवेदनभूमिकासु अव्यभिचारिणी अवि- संवादिनी कयाचिदपि अवस्थया अनभिभू- तत्वात् अव्यवहितसंनिधिः। एवम् एतस्य सु- प्रबुद्धस्य स्वीकृतखात्मैश्वर्यलक्षणपरसिद्धेरिहो. पदेशविषयत्वं नास्त्येव कृतकृत्यत्वात् । 'अ- परस्य' तत्समनन्तरस्य द्वितीयस्य प्रबुद्धस्य परशक्तिपातप्रभातालोकविलुप्यमानमायातमि- स्त्रतया समुन्मिषद्विशदविवेकचक्षुषः क्षीयमा- णमोहवशात् अविजृम्भमाणमोहोत्साहसंपदः 'तदाद्यन्तें तेषां जागरादीनां त्रयाणां पदानाम् आदिभूतं यत् पदं जाग्रदवस्थात्मकं, तस्य अन्तभूतं यत्पदद्वयं स्वप्नसुषुप्ताख्यं, तत्र तस्य , पं० १३ ग० पु. अजृम्भमाण इति पाठः । पं०१६ ख• पु० अन्तर्भूतमिति पाउः।

५७ १का०] रामकण्ठाचार्यकृतविवृत्युपेताः आत्मतत्वस्य उपलब्धिः स्यात् ।वृत्तिकृदभिप्रा- यानुसारेण तदाद्यन्तपदस्य एवं विग्रहः कृतः यतः 'स्वमसुषुप्तादौ इति तेन एतत्पदं व्याख्यातम् । अत्र च आदि- शब्देन स्वप्नसुषुप्तावस्थासंग्रहीतस्मृतिमोहाद्य- वस्थापरिग्रहः तस्याभिप्रेतः।एवं च व्याख्यान- स्य अयमाशयः-इह द्विविध आत्मतत्त्वस्य उपल- ब्ध्युपदेशः उपक्रान्तो निर्वाह्यश्च; एकः सर्वव्य- तिरिक्तचिन्मात्रखवरूपविषयः, अपरो विश्वा- त्मकतच्छक्तिचक्रविषयः। उभयरूपोपि अयमु- पदेशः अस्मिन् सुषुप्तस्वप्नरूपपदद्वयेऽपि प्रबु- द्धस्य प्रायशो नोपयुज्यते, पदत्रय इव सुप्रबु- द्धस्य, तत्वोपलब्धेरप्रयत्नसिद्धत्वात्; यत एत- त्पदवयवर्तिसंवित्प्रत्यवमर्शमात्रादेव यथाप्रति पादितपरतत्वोपलब्धिः खयमेव तस्य उपपद्य- क० पु० उत्क्रान्त इति पाठः । पं० १. क. पु. दिड्मात्रेति पाठान्तरम् । पं०१२ ग० पु. स्वप्नरूपे पदद्वये इत्यसमस्तः पाठः । पं० १४ ख. पुं० तत्तत्त्वोपलब्धेन प्रयत्नसिद्धत्वादिति पाठः । , P ५८ १ स्पन्दकारिकाः [२नि० ते, तथाहि-यदा विगलितसकलवेद्यविकल्पत्वात् निष्केवलां सुषुप्तावस्थां प्रबोधदशायाम् श्रा- त्मनः परामृशति, तदा सर्वोपरागरहितस्वरूप- मात्र विश्रान्तनित्याविलुप्तचेतयितृमात्रस्वभावम् आत्मतत्त्वं खयमेव उपलभते । यदा च त- तद्विभिन्नखकारणविरहेऽपि स्फुटतरावभास- चेतनाचेतनविचित्रभावचक्रनिर्माणमयीं विनि- द्रः सन् आत्मनः स्वप्नावस्थां परामृशति तदा तेनैव दृष्टान्तेन प्रबोधबलात् परमकारणस्य खभावस्यैव परमेश्वरस्य खेच्छामात्रव्यतिरिक्त- कारणान्तरनिरपेक्षसर्वकर्तृतारूपं तत्त्वमुपलभ- ते।अप्रबुद्धस्य पुनरेतत् प्रयत्नशतैरपि समl- माणं तुम्बकतोयद्रववत् नान्तः स्पर्श करोति । तदेवम् अस्मिन् पदद्वये प्रबुद्धस्य उपलब्धिः स्या- त्-इति प्रतिपाद्यते । परिशिष्टे जाग्रत्तुर्याख्ये प- पं. ४ क० पु० नित्यावलुप्तेति, ग.पु. नित्यालुप्तेति पाठः। पं० ७ ख० पु० विचित्रां इति व्यस्तपाठः । ५०११ग पु० तत्त्वमुपलभ्यते इति पाठः । ५. १३क० ख० पु. तुम्बकतोयवर्षवदिति पाठः ।

२कां०] रामकण्ठाचार्यकृतविकृत्युपेताः दद्वयेसाअस्य नास्ति-इति अर्थात् उक्तं भवति। अतो जागरावस्थायां शब्दादिविषयग्रहणव्य. ग्रेन्द्रियव्यापारव्यवहितं, तुर्यावस्थायां च लो- कोत्तरत्वात् अत्यन्तापरिचितं स्वयं दुर्लक्षं परं तत्त्वम् इति तदुपलब्धौ तत्र प्रबुद्धोऽपि उप- देशमपेक्षत एव । यत आह वृत्तिकारः 'जाग्रत्तुयौं त्वागममात्रगम्यौ इति। 'तस्य चिद्रूपस्य सर्वगतस्य' इत्यादिना व्याख्यातवान् वृत्तिकृत् एतत् ॥१॥ एवमुपदेशविषयं व्यवस्थाप्य इदानीं पार- मेश्वरस्य तत्त्वस्य सर्वव्यतिरिक्तत्वेन सार्वरू- प्येण च द्विप्रकारस्य जागरादिषु चतुर्वपि पदेषु प्रविभागप्रतिपादनायाह ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः। पदद्वये विभु ति तदन्यत्र तु चिन्मयः ॥२॥ पं०४ क. पु. दुर्लक्ष्यत्वमिति पाठः।

स्पन्दकारिकाः [२नि० 'विभुःव्यापक ईश्वरश्चिन्मात्रमूर्तिरात्मा पद- द्वये जागरस्वप्नाभिधाने ‘परमया' अत्यद्भुतरूप- त्वात् सर्वातिशायिन्या 'शक्त्या निजेन साम- येन ‘युतः' सहितो 'भाति' चकास्ति प्रकाशते। कीदृश्या शक्त्या ? 'ज्ञानज्ञेयस्वरूपिण्या' ज्ञायते. ऽनेन इति ज्ञानं, बाह्याभ्यन्तरं करणचक्र ग्रह- णात्मकं ज्ञप्तिमात्रं वा, ज्ञेयं ग्राह्यं शब्दादि सुखादि च विषयजातमनन्तविशेष, तदेव रूपं विद्यते यस्याः सा तथा तया । किमुक्तं भ- वति ?- परमेश्वर एव स्वमायावशात् नानाक्षेत्र- ज्ञरूपतयावभासमानः खामेव अव्यतिरिक्तांप- रां शक्ति ज्ञानज्ञेयभावेन अवभासयन् जागरख- नदशाव्यवहारमुद्भावयति ; एतदेव च अस्याः शक्तेः पारम्यम् -- यत् स्वस्य वैभवखरूपस्य प्रकाशमानतामतिरोदधती ज्ञानज्ञेयमयानन्त- रूपतया स्फुरति। भिन्ने तु अभेदाप्रथनमात्रप्रा- wer पं०१४ ग.पु. वैभवस्य रूपस्येति पाठः। पं०१६ ग० पु. अभेदामधानेति पाठः।

२का०] रामकण्ठाचार्यकृतविवृत्युपेताः णे मायातमास विगलितज्ञातृज्ञानज्ञेयविभाग- विभ्रमम् एकमेव परमार्थसत् चित्प्रकाशैकरूपं तादृक्खभावानुभवितृतामात्रधर्मलक्षणशक्तिकं तत्त्वमिष्यते, यत आह तदन्यत्र तु चिन्मय' इति। तस्मात् उक्तरूपात् पदद्वयात् 'अन्यत्र' अपरत्र सुषुप्ततुर्याभिधाने पदद्वये 'चिन्मयो विभुर्भाति' चेतयत इति चित् उपलब्धृस्व- भाव आत्मा ईश्वरः तन्मात्रप्रकृतिः, तयोः पदयोर्व्यतिरिक्तवेदनीयाभावात् निष्कलखा- स्ममात्रविश्रान्तशक्तिरीश्वर एव प्रकाशत इ. त्यर्थः। ननु जागरखप्नयोर्ज्ञानज्ञेयमयत्वेन, सुषुप्त- तुर्ययोश्चिन्मयत्वेनैव प्रकाशनाभेदात् पदद्वय- भेव, तत्कथं पदचतुष्टयम् इति ?-अत्र उच्यते, जागरस्वप्नपदार्थानां स्थैर्यास्थैर्यप्रतिपत्तिविक- ल्पकृतोऽस्ति भेद इति तत्पदद्वयम्; यतः ईश्वरपरिकल्पितः सर्गो जागरावस्थाया दृढ- , पं. ७ ग०पु० उपलब्धा स्वभाव इति पाठः । पं. ग.पु. निष्केवल इति पाठः । पं० १६ ख पु० पदचतुष्वम् इति पाठः ।

स्पन्दकारिकाः [रनि स्वेन प्रतिपद्यते, स्वप्ने तु अदृढत्वेन क्षेत्रज्ञ- परिकल्पित इत्यनयोः पदयोर्भेदकारणम् । सुषुप्तावस्थायां तु सदपि चिन्मात्ररूपं तत्त्वं मोहवशादहमित्युपलब्धृचमत्कारविरहात् अ- सदिवाभाति; तस्यैव तु तत्त्वस्य परमार्थसत्त- या आत्मत्वेनोपलब्धिस्तुर्यपदे; इत्ययं सुषुप्त- तुर्ययोर्भेदः। तेन चत्वार्येव पदानि विश्व-तैज- स-प्राज्ञ -तुर्यादिसंज्ञाभिः शास्त्रान्तरेष्वपि प्र- सिद्धानि। 'ज्ञानझेयभेदेन द्विरूपम्' इत्यादिना व्याख्यातमेतद्वृत्तौ ॥२॥ इदानीमुक्तेन प्रकारेण प्रबुद्धस्यैव उपदे- श्यत्वमुपक्रान्तं द्रढयितुम् , अप्रबुद्धानां च तत्प्र- तिषेधुं श्लोकत्रयमाह गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् । लब्धात्मलाभाः सततं स्युर्तस्यापरिपन्थिनः ॥३॥ पं. १ ख. पु० सुते इति पाठान्तरम् ।

५का०] रामकण्ठाचार्यकृतविवृत्युपेताः अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः। पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि ॥४॥ अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये जाग्रदेव निजं भावमचिरेणाधिगच्छति 'अतः'प्रस्तुतव्याख्यानश्लोकत्रयनिर्दिष्टात् हे- तोः 'जाग्रदेव' प्रबुद्ध एव 'निजं भावम्' आत्मी- यां पारमार्थिकी सत्ताम् 'अचिरण' अल्पीयसा कालेन 'अधिगच्छति' सम्यग् उपलब्ध्या खीक- रोति। एवकारेणाप्रबुद्धं व्यवच्छिनत्ति। कीदृशः सन्नधिगच्छति ?-'स्पन्दतत्त्वविविक्तये सतत- मुद्युक्तः' स्पन्दस्य, परस्य शाक्तस्य तत्त्वस्य उपचरितसामान्यविशेषात्मकतया द्विप्रकारत्वे- न व्याख्यास्यमानस्य, यत्तत्त्वं परमार्थः य- थाक्रममुपादेयतया हेयतया च निश्चितं रूपं, तस्य विविक्तये विवेकाय पृथकरणाय, एष उपा. पं०२ ग.पु. संसारसागरे इति पाठः । , ६४ स्पन्दकारिकाः [२नि० देयतमः परमकारणभूतस्य सत्यस्य आत्मखरू- पस्य-अयमहमस्मि,अतः सर्व प्रभवति, अत्रैव च प्रलीयते-इति प्रत्यवमर्शात्मको निजो धर्मः सामान्यस्पन्दः; तथैते अत्यन्तहेया विशेषस्पन्दा अनात्मभूतेषु देहादिषु आत्माभिमानमुद्भाव- यन्तः परस्परभिन्नमायीयप्रमातृविषयाः-सुखि- तोऽहं दुःखितोऽहम्-इत्यादयो गुणमयाःप्रत्यय- प्रवाहाः संसारहेतवः, इति विभागाय 'सततं' स र्वासु अवस्थासु अव्यवधानेन उद्युक्तः उक्तवक्ष्य- माणोपपत्त्युपलब्ध्युपायप्रतिपत्त्यभिव्यज्यमान - स्वबलवृंहणत्वात् अव्याहतोत्साहमध्यवसितः। एतेन प्रबुद्ध एव उपायपरिशीलनैकतानः सन् अचिरेण स्वरूपमुपलभते नान्यः, इति प्रतिपा- दितम्। कुतो हेतोः स एवाधिगच्छति नान्यः? इत्याह - 'गुणादिस्पन्दनिःष्यन्दा' इत्यादि यतो 'गुणादिस्पन्दनिःष्यन्दा ज्ञस्यापरिपन्थि- नः स्युः' इति संबन्धः। स्पन्दानां क्षेत्रज्ञज्ञाना- पं०१ ग. पु० उपादेयपरमेति पाठः। पं० ११ क. ग० पु० हितत्वात् इति पाठः ।

५ , ५का०] रामकण्ठाचार्यकृतविद्वत्पुपेताः ६५ दिशक्तीनां, निःष्यन्दा नानार्थोन्मुख्येन प्रस्त- ताःप्रवाहा भिन्नाः प्रत्ययाः स्पन्दनिःष्यन्दाः,गु- णा आदयः प्रथम प्रधानं येषां ते गुणाद- यः, सुखाद्यात्मकत्वेन सत्त्वादिमयाः गुणादय. श्च ते स्पन्दनिःष्यन्दा,-अहं सुखी, दुःखी, मृढः-इत्यादयो ज्ञानभेदाः। किंरूपाः? 'सामा- न्यस्पन्दसंश्रयात् लब्धात्मलाभाः' सामान्य- स्य सर्वव्यापकस्यान्तीनानन्तविशेषस्पन्दस्य परस्य शक्तिस्फुरितस्य 'संश्रयात्' सम्यक् अ- नन्यशरणतया श्रयणा भजनाद्धेतोः 'लब्धा- स्मलाभाः' लब्ध आसादितः तेन तेन भिन्नेना- कारेण आत्मनः स्वस्वरूपस्य लाभ उदयो यै- स्ते तथाविधा गुणादिस्पन्दनिःष्यन्दाः 'ज्ञस्य' परमेश्वरानुग्रहोदितहेयोपादेयप्रत्ययप्रमातृभा- वस्य, सामान्यस्पन्द एव परमेश्वरमुख्यशक्ति- पं० २ ख. पु. अभिन्ना इति पाठ ।' प० १२ क०ग० पु०स्वरूपस्यति पाठः। प. १४ क०गपु० ग्रहोचितेति पाठः । पं० १५ख. पु. पारमेश्वरेति पाठान्तरम् । - स्पन्दकारिकाः [२नि० वेन प्रतिष्ठितनिर्विकल्पप्रतिपत्तेः सुखाद्युपा- ध्युपरागजनितान्योन्यभिन्नरूपेभ्यो विशेषस्प- न्देभ्यो व्यावृत्तस्वशत्यभिमानस्य उक्तवक्ष्य- माणयुक्त्यभ्यासनित्योद्योगेन विजिगीषमाण- स्य 'अपरिपन्थिनः स्युः' स्वबलाविर्भावात् प्र. तिहतस्वभावावरणसामर्थ्याः सन्तः अप्रति- द्वन्दिनः संपद्यरन, परतत्वोपलब्ध्युत्साहं नि- हन्तुं न प्रभवेयुरिति यावत् । इदमत्र ता- त्पर्यम् - ये केचन यस्य कस्यचिन्मायीयस्य प्रमातुः सुखाद्यात्मकत्वात् गुणमयाः स्पन्द- निःष्यन्दाः प्रत्ययसंधानाः प्रसरन्ति ते सर्वे एकमेव सामान्यस्पन्दमाश्रित्य तं तमात्मानं प्रतिलभन्ते; प्रबुद्ध एव तु तदुदयाभिज्ञप्र. ज्ञापात्रम्; अतस्तस्य नित्योद्योगिनः सतः एते प्रयोगिनो भवितुं न प्रभवन्ति । ये ५०३ क० पु. व्यावृत्तस्येति असमस्तपाठ.। प० ११ ख० पु० प्रतिसंधाना इति पाठ. । प० १३ ख० क. पु० एव तु तथा तदुदयेति तथाशब्दाधिक्योपेतः पाठ.।

. का०]] रामकण्ठाचार्यकृतविवृत्युपेताः ६७ स्वप्रबुद्धाः तैरेते दुर्निवारप्रसराः, इत्याह- 'अप्रबुद्धधियस्तु' इत्यादि ,- अप्रबुद्धा पा- रमेश्वरपरानुग्रहविरहादविगलितगाढाज्ञाननिद्रा धीः प्रज्ञा येषां ते तथा, तान् पुनरमी यथाव्याख्याता गुणादिस्पन्दनिःष्यन्दा 'घोरे विभीषिकाशतसंकुलत्वाद् दारुणे, अत एव 'दुरुत्तारे' दुर्लक्थे 'संसारवमनि' जन्मादि- प्रबन्धमार्गे 'पातयन्ति' तत्रानवरतं भ्राम- यन्ति। कीदृशाः सन्तः ?-'खस्थितिस्थगनोद्य- ताः' स्वस्मिन् परमान्मनि सामान्यस्पन्दमात्र- कर्मके स्थितिनिर्विकल्पप्रतिपत्तिप्रभवा सुस्थि- रा प्रतिष्ठा तस्याः 'स्थगने सद्य एवं आच्छादने 'उद्यता' गृहीतोद्योगाः प्रतिपक्षभूतस्य प्रबो- धस्याभावात् लब्धप्रसरत्वादेवमुपचरिताः । किम् उक्तं भवति?- यथा कांश्चिद् राजादीन् पं०७ ग.पु. संसारसागरे इति पाठः। पं. क. पु० भ्रमयन्तीति पाठ। प०१५ क. पु. प्रभावा इति पाठः ।

६८ स्पन्दकारिकाः [२नि० प्रमादित्वाद्यवस्थासत्त्वात् सदपि सैन्यादिस्व- सामर्थ्य सत्त्वेनाप्रतिपद्यमानान् अन्तरप्रेक्षि- णो विपक्षाः स्वपदव्यपरोपणबद्धाभियोगा महति व्यसने पातयन्ति, आ स्वसामर्थ्यस- द्भावप्रतिपत्तेः । एवमप्रबुद्धस्य सर्वकर्तृत्वादि- लक्षणं निजं महिमानं सामान्यस्पन्दरूपं वि- द्यमानमपि अप्रतिबुद्धयमानस्य सर्वकार्यपरत- न्त्रं देहादिसर्गमेवात्मत्वेनावगच्छत एते ल- ब्धप्रसराः सुखितोऽहम् इत्यादयो गुणप्रधा- नाः प्रत्ययप्रवाहाः सत्ये स्वात्मनि स्थिति व्यव- धाय संसारमेवासादयन्ति, आ प्रबोधप्राप्तः,- इति प्रबुद्धा एवास्योपदेशस्य विषया नाप्रबु- द्धाः। तेषा हि कथंचिद् गृहीतमप्युपदेशवच- नं निश्चायकप्रतिपत्तिशिथिलप्रज्ञत्वान्नान्तर्वि- श्राम्यति । यथोक्तं केनापि 'ज्ञेयत्वमप्युपगता हृदये न रोडं शक्ताः प्रमूढमनसामुपदेशवाचः। आईखमादधति किं नलिनीदलानां श्लिष्टा निरन्तरतयापि नभोऽम्बुधाराः,

६का०]
रामकण्ठाचार्यकृतविकृत्युपेताः ६६
इति। तत्र
'जाग्रदवस्थायामेव'
इति वृत्तिग्रन्थः,प्रकृतानुसारेण प्रबुद्धावस्थाया-
म्,-इति बोद्धव्यम् । यदि वा सततोद्युक्तपदेन
प्रबुद्धस्वीकारे सति सततोयुक्तःप्रबुद्धो वक्ष्यमा-
णोपदेशकमेण जाग्रदवस्थायां व्यवहारदशा-
यामेव निजं आवमधिगच्छति,-इति व्याख्येय-
म् । व्याख्यातमेतत् श्लोकत्रयं वृत्तौ विभागेन
'अतः सतनं सर्वकालं यः करोति'
इत्यादिना । तथा
'गुणरपन्दस्य सत्त्वरजस्तमोरूपस्य'
इत्यादिना। तथा
'खल्पवोगांस्तु'
इत्यादिना ग्रन्थेन ॥३॥४॥५॥
एवं प्रबुद्धस्यैव जागरतुर्यपदयोरुपदेश्यत्वे
व्यवस्थायिते सर्वशरीरिसाधारणजायद्वृत्त्यन्तर-
लीनामेय तावत्परतत्त्वोपलब्धिमुपदेष्टुमाह
अतिक्रुद्धःप्रहृष्टो वा किं करोमीति वा मृशन्।
धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः
॥६॥

स्पन्दकारिका [२नि. सामान्यविशेषभेदेन प्रतिष्ठिताप्रतिष्ठितरूप- त्वात् स्पन्दस्य द्वैविध्ये स्थिते, उपादेयः 'प्रति- ष्टितः स्पन्दः तत्र पदे उपलभ्यते इति संबन्धः। यः प्रतिष्ठितश्चलत्वव्यपदेशहेतुः सुखित्वाद्यनि- त्यविशेषस्पन्दाविषयत्वादप्रकम्पस्थितिः स्व- भावमात्राधारः सामान्यरूपो मुख्यः स्पन्दः प्रत्यस्तमितसमस्तविशेषशक्तिचक्रपरमात्मधर्मः, स 'तत्र' तस्मिन् अधुनैव निर्दिश्यमाने पदे उप- लक्षणीयः। कस्मिन् ? यत्पदम् अतिक्रद्धो गच्छे- त्' प्रत्यग्रक्षत-दारुणोपद्रव-द्विषदर्शनादिना ती- व्रतरकोपाविष्टः तजन्यविकारावस्थायाः प्रागेव झटिति जातमात्रक्रोधो 'यत्पदं या भूमिकां 'ग च्छेत्' मनसा आसादयेत्; तथा 'अतिप्रहृष्टो यत्पदं गच्छेत्' मृतप्रत्युत्थितप्राणसमप्रमदादि- दर्शनादिना प्रहृष्टः प्रकृष्टेन परमेणातिशयेन हू- ष्टः प्रमुदित आनन्दनिर्भरः, तथैव उत्पन्नमात्र- हर्षो यत्पदं गच्छेत् ; तथा 'किं करोमि इति पं. २ ग० पु० द्वे विधे इति पाठः।

६का०] रामकण्ठाचार्यकृतविवृत्युपेताः ७१ मृशन्' यत् पदं गच्छेत् ; क्रुद्धेन राज्ञा रिपुणा वा बलवताभियुक्तस्तत्प्रतीकाराय कर्तव्यनि- श्चयमलभमानः केवलं 'किं करोमि' किमुपा- यमत्रावलम्बेय-इति प्रतिपत्तिमूढ एव 'मृशन्' विकल्पयन् निरालम्बनचित्तवृत्तियाँ भूमिकाम- धितिष्ठेत् तत्र प्रतिष्ठितस्पन्दोपलब्धिरित्यर्थः एतेन प्रकारत्रयेण दुःख-सुख-मोहात्मविषयग्र- हणरूपान्तःकरणव्यापारमयजाग्रदवस्थाविषये. ण एवंविधानि प्रकारान्तराणि संग्रहीतानि वेदि- तव्यानि। तेन अतिक्रुद्धवत् अशङ्कितेष्टजनविना- शश्रवणादिना कारणेन अतिशोकाविष्टोऽपिशो- कव्यञ्जकासुप्रलयादिविकृतेः प्रागेव समुन्मि- षितमात्रशोको यत्पदं गच्छेत् ; तथा अकस्मात् कुपितकृष्णोरगव्याधादिग्रासगोचरगमनादिना निमित्तेन अतिभीतः तथैव सद्यः समुद्भूतमा- त्रभयो यत्पदं गच्छेत् ; तथात्यन्तजुगुप्सास्पद- पं० २ ग० पु० तत्प्रतिवादायति पाठ. । ५०७ ख०पु० मोहाद्यात्मक इति, ग.पु० मोहात्मक इति पाठ. । पं० १० क. पु० अतिक्रोधवदिति पाठः।

, स्पन्दकारिकाः [२नि० पदार्थदर्शनादिहेतुना जातमात्रजुगुप्सो यत्पदं गच्छेत्, तत्रापि प्रतिष्ठितस्पन्दोपलब्धिः,-इत्यु- पदिष्टं भवतिः क्रोध-शोक-भय-जुगुप्साभेदेन चतुर्विधस्य दुःखराशेः अतिक्रुद्धशब्देन उपल- चितत्वात् । तथा प्रहृष्टवान्निजवीर्यबलसंपत्ति- संभावनादिहेतुना सुदुष्करमपि कार्य निर्वर्तयि- तुं निर्विकल्पमेव उत्तहमानो झटिति यत्पदं गच्छेत् ; तथैव अदृष्टपूर्वपरमरमणीयादिपदार्थ दर्शनादिना सपदि अतिविस्मयाविष्टो यत्पदं ग- च्छेत् ; तथा कुहनादिना कारणेन उत्पन्नमात्रा- तिहासो यत्पदं गच्छेत, तत्रापि प्रतिष्ठितस्पन्दो पलब्धिः,-इत्युपदिष्टं भवति ; हर्षोत्साह-विस्म- य-हासभेदेन चतूरूपसुखराशेरतिप्रहृष्टशब्देनो- पलक्षितत्वात् । तथा किंकर्तव्यतामूढवत् दूर वादिना दृष्टार्थनिश्चयावधारणाभावात् संशया- विष्टो यत्पदं गच्छेत् , तत्रापि पूर्ववदुपलब्धिः,- इत्युपदिष्टं भवति; विस्मरणादिदशासु तत्वाप्र- - प० १३ क० पु. हर्षराशेरिति पाठः। पं. १५ खगपु० दृष्टाद्यर्थ इति पाठः।

६का०] रामकण्ठाचार्यकृतविवृत्युपेताः ७३ तिपत्तिलक्षणस्य बहुविधस्य मोहराशेः किंकर्त- व्यतामूढभावेन उपलक्षणात् । एवमन्तःकरण- व्यापाररूपजाग्रदवस्थाश्रयं परतत्त्वोपलब्ध्यु- पायमभिधाय, बुद्धीन्द्रियव्यापाररूपजाग्रदव- स्थाश्रयस्य अस्य 'यथा ह्यर्थोऽस्फुटो दृष्टः' (e नि०६का०) इत्यत्र प्रसङ्गाद्वक्ष्यमाणत्वात; संप्र- ति कर्मेन्द्रियव्यापाररूपजाग्रदवस्थाश्रयं तं प- दं प्रतिपादयितुमाह-'धावन्वा यत्पदं गच्छेत् तत्र इति,'तत्र तस्मिन्नपि पदे प्रतिष्ठितस्पन्दो- पलब्धिः । तत्र हि इच्छाप्रयत्नज्ञानक्रियादिवृ- त्तीनां विभागाग्रहणाद् अद्वयेश्वररूपाभिव्य- क्तिः । तथा हि-धावतः प्रतिपदं पदोजिही- र्णोद्धारप्रयत्नदेशावधारणपदविन्यासक्रियादिषु वृत्तिविशेषेषु सत्वेव अनवधार्यमाणविभाग- वात् असत्स्विव संवित् अविभागपरखभावमा- प्रतिष्ठिता भवति, तदा परवश एव पुमान- श्वरं रूपमाविशति । एतदपि वागादिकमेंन्द्रि- यव्यापारोपलक्षणार्थं वेदितव्यम्। तेन धावद्वद् ७४ स्पन्दकारिकाः [नि० अतिचतुरवर्णवरोच्चारव्यग्रवाग्वृत्तिरपि यत्पदं गच्छेत्, तथा वीणावेणुवादनादित्वरिततरव्या- पार्यमाणकराङ्गुलिकलापो यत्पदं गच्छेत् त- त्रापि प्रतिष्ठितस्पन्दोपलब्धिः,- इत्युपदिष्टं भवति; सर्वकर्मेन्द्रियव्यापाराणां धावत्पदेन उपलक्षणात्। 'यथा ह्यर्थोऽस्फुटो दृष्ट' इत्यादि- श्लोके बुद्धीन्द्रियव्यापारगताम् एतामुपलब्धि दर्शयिष्यति । यद्यपि च सर्वस्य प्राणभृतः स- र्वासु अवस्थासु सर्वेन्द्रियवृत्तयो न अन्तरण नित्योदितप्रतिष्ठितस्सन्दप्रकाशपरिस्फुरितस . मापात्तम् उन्मिषितुमेव प्रभवन्ति, तथापि मा- याशक्त्युद्भावितभेदावभासबलात् नानात्वेन उ. लसद्भिः अनन्तैः ज्ञानक्रियाविशेषैः व्यवधीय- मान इवासौ प्रतिष्ठितःस्पन्दः प्रबुद्धस्यापि उप- लब्धिगोचरत्वं गमयितुमशक्य,-इति तदुपल- ब्धियोग्याः काश्चिदेव अतिक्रुद्धत्वादयो दशा उपायत्वेन संगृह्य उपदिष्टाः । एताश्च प्रबुद्धस्य प्रत्यवमृश्यमानाः सद्यः प्रतिष्ठितस्पन्दोपलब्ध्यु.

का०] रामकण्ठाचार्यकृतविवृत्युपताः पायतां भजन्ते, न तु अनुभूयमानाः; सा हि अ- वस्था दुःखादिमय्येव । ततो निष्क्रान्तस्तु प्रबुद्ध उपदेशबलाद् उपजाततादृशात्मस्वरूपविवेचन- क्षमप्रज्ञातिशयः स्पन्दतत्त्वमनुभवति ; यदनु- शीलनैकाग्यात् क्रमेण सुप्रबुद्धपदवीमधिरूढः सर्वत्र अनुभविष्यति, इति। विवृतमेतत् 'तस्य च स्पन्दतत्त्वस्य' इत्यादिना वृत्तौ ॥६॥ अथ जाग्रद्वृत्त्यन्तीनतुर्यदशागतस्वभावो- पलब्धये श्लोकत्रयमुपायोपदेशमाह, तत्र युग- लकं तावत् यामवस्थां समालम्ब्य यदयं मम वक्ष्यति। तदवश्यं करिष्येऽहमिति संकल्प्य तिष्ठति॥ तामाश्रित्योर्ध्वमार्गेण चन्द्रसूर्यावुभावपि । सौषुम्नेऽध्वन्यस्तमितो हित्वा ब्रह्माण्डगो- चरम् ॥७॥८॥ 'तो' यच्छब्दोपलक्षितवाक्यनिर्दिष्टाम् अव- ५० १४ क. पु. सोममूवित पाठ , स्पन्दकारिकाः [नि स्थां दशाम् 'आश्रित्य आसाद्य पुरुषस्य 'चन्द्र- सूर्यों मनःप्राणौ द्वावपि युगपदेव 'अस्तमितः' प्रलीयेते। किं कृत्वा? तादृग्दशाश्रयणसामर्थ्या- देव 'ब्रह्माण्डगोचरं हित्वा' यदन्तस्तद्दहिः-इ- ति 'ब्रह्माण्डं शरीरं स एव 'गोचरः' स्वप्रसरा- धिकरणं, तं हित्वा' त्यक्त्वा संवेद्यताभावाद- तिक्रम्येत्यर्थः । केन पथा अस्तमितः? 'ऊर्ध्वमा- र्गेण सर्वातिरिक्तन अलौकिकेन वर्त्मना । तथा च-चन्द्रशब्दप्रतिपादिता मनःप्रसररूपा ज्ञान- शक्तिः इदं हेयमिदमुपादेयम्-इति द्विधा सं- सारगोचरैव, आलम्बनीयं निजं विषयमतीत्य तस्यां दशायां मध्यस्थतां प्राप्य खकारण एव अस्तमेति; तथा सूर्यशब्दोदिता प्राणप्रसररू- पा क्रियाशक्तिः नानानाडीसंचारलक्षणां कुस- तिमखिलां खिलीकृत्य सामान्यप्राणरूपतामा- पन्ना लोकातिरिक्तन पथा स्वपद एव शाम्य. ति । ततः 'सौषुम्नेऽध्वन्यस्तमित' इत्याह- सुषुम्नाभिधा शरीरमध्यमध्यासिता या नाड़ी - ७७ का०] रामकण्ठाचार्यकृतविकृत्युपेताः तदीये 'अध्वनि' परस्याः पारमेश्वर्याः शक्तः प्रवहणमार्गे प्रशाम्यतः; शेयकार्योपरागपरित्या- गात् परशक्तिरूपतामापयेते,-इति यावत् । कां तां दशामाश्रित्य?इत्याह-'यामवस्था समाल- म्ब्य' सम्यक्त्यक्तसमस्तवस्तुव्यापृतिस्तिमित- सर्वशक्तितया अवलम्ब्य अवष्टभ्य कस्मिंश्चिद- वसरे पुरुषस्तिष्ठति। किं कृत्वा? समालम्ब्यति, समालम्बनक्रियापूर्वभाविक्रियान्तरनिष्ठं वाक्य- माह-'इति संकल्प्य' इति, इत्येवं संकल्पं कृ- खा। कथं? 'यदयं मम वक्ष्यति तदवश्यं करिष्ये- ऽहम्' इति, यस्य आज्ञातिक्रमात् सद्य एव प्रा- णात्ययादिरनर्थः समापतति, सोऽत्र राजादिः 'अयम्' इति निर्दिष्टः, 'अयं यद् वस्तु 'मम' क- र्तव्यतया 'वक्ष्यति' जल्पिष्यति तदवश्यं सर्वा- त्मना परिहतसमस्तान्यकरणीयोऽहं करिष्ये' संपादयामि,-इति युगलकस्य वाक्यार्थसंगतिः। इदं तु तात्पर्यम्-केनचित्कारणेन अवश्यकर- णीयवचसा प्रभविष्णुना कारयितव्यवस्तुविव- पं० २ ख. पु. प्रवाहमार्गे इति पाठ. ।

स्पन्दकारिकाः [रनिः
क्षया आक्षिप्तस्य पुंसः तद्वचनशुश्रूषामात्रनि-
विडावधानत्वात् समस्तवृत्तिप्रत्यस्तमये सति,
संवित् तुरीयां दशाम् अवश्यमेवाविशति,
तत्प्रत्यवमर्शाभ्यासात् परतत्त्वोपलब्धिः,-इ-
ति । अत्र ब्रह्माण्डगोचरशब्देन शरीराका-
शस्य चन्द्रसूर्यशब्दाभ्यां मनःप्राणप्रसरयो.
श्च प्रतिपादनम् । प्रयोजनम् अनेन उपदेशे-
न प्रत्यभिज्ञापिततुरीयदशाप्रत्यवमर्शाभ्यास-
काष्ठाधिरोहिणः प्रबुद्धस्य निखिलबाह्याभ्यन्त-
राध्वातिकान्तपरमपदविश्रान्तिलाभः, इति ।
व्याख्यातमेतत् पृथक् वृत्तिकृता
'यां स्पन्दरूपामवस्थाम्'
इत्यादिना
'तस्य तामवस्थाम्
इत्यादिना च ग्रन्थेन ॥८॥
ननु एवंविधा दशा सर्वस्य कस्यचित्कथं.
चित् उपजायत एव, तत्किमुपदेशेन-इत्याह
तदा तस्मिन्महाव्योम्नि
प्रलीनशशिभास्करे ।
सौषुप्तपदवन्मूढः
प्रबुद्धः स्यादनावृतः ॥६॥

७३ का०] रामकण्ठाचार्यकृतविवृत्युपेताः 'तदा' तत्र तादृशदशाविशिष्टे काले सौषुम्ना- ध्वशब्दप्रतिपादिते 'महाव्योनि' परमाकाशे समस्तवेद्यव्यतिरिक्तखरूपत्वात् शब्दगुणात्म- कभूताकाशखरूपवैलक्षण्याच्च महाव्योमशब्द- प्रतिपादिते खखभाव एव, कीदृशे? 'प्रलीन- शशिभास्करें प्रत्यस्तमितसमस्तज्ञानक्रियाप्रस- रप्रपञ्चे, मूढः परमेशतिग्मरश्मिपरमशक्त्यंशु- स्पर्शाभावाद् अनिद्राणपशुप्रत्ययनिद्रावसादः सौषुप्तपदवत्स्यात् 'सुषुप्तावस्थायामिव भवेत् । यथा सुषुप्तावस्था प्रलीनाखिलवेद्यप्रपञ्चरूपापि अप्रबुद्धस्य तत्कालम् अनुभवसामर्थ्याभावात् मोहमय्येव, तथा एषा तुर्यदशापि मोहात्मिकै- व। प्रबुद्धः पुनरीश्वरशक्तिपातप्रभावात् प्रकर्षे. ण लोकातिरिक्तातिशयन बुद्धः प्रत्युदितसम्य- गज्ञानदृष्टिःतादृग्दशाप्रत्यवमर्शावसरानुभूततु- र्याभोगः 'अनावृतो' देहाद्यवच्छिन्नाहंप्रत्ययरू- पं. १ क. पु. ग. पु. ताहग्दशेति पाठ । पं. ५ क. पु. कीदृशीति पाठः। पं०८ सुषुप्तवदित्येव पाठः सर्वत्र आदर्शपुस्तकेषु श्यते । प०१.क.पु. अस्य अप्रबुद्धस्येति पाठः ।

स्पन्दकारिकाः [२नि. पेण आवरणेन वियुक्तः 'स्यात् संपद्येत। तदेतत् 'तस्मिन्महाव्योन्नि' इत्यादिना ग्रन्थेन व्याख्यातं वृत्तौ ॥६॥ एवं देहादिवेद्यवर्गव्यतिरिक्तत्वेन सर्वदशा- नुस्यूतोपलब्धृमात्रलक्षणैकस्वभावत्वेन च उप- पादितस्य प्रतिपादितोपलब्ध्युपायस्य स्वात्मन एव शंकरस्य यत्सामर्थ्य तदेव अवश्यकरणीय- शास्त्रचोदितक्रियासाधनभूतानां मन्त्राणां वी- र्यम्-इति प्रबुद्धमेव उपलब्धताहगात्मस्वभावं प्रति उपदेष्टुं युगलकमाह तदाक्रम्य बलं मन्त्राःसर्वज्ञबलशालिनः। प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम्॥ तत्रैव संप्रलीयन्ते शान्तरूपा निरञ्जनाः। सहाराधकचित्तेन तेनैते शिवधर्मिणः ॥१०॥११॥ 'तेन' प्रस्तुतव्याख्यानेन हेतुना 'एते' मन्त्रा आराध्यदेवतावाचका वर्णादिसंनिवेशाः, शिव- धर्मिणः शिवस्य परमेश्वरस्यानन्यसाधारणः स- ११का०]] रामकण्ठाचार्यकृतविवृत्युपेताः ८१ वज्ञवादिगुणो धर्मः स विद्यते येषां ते तथा, शिवादभिन्नस्वरूपा इत्यर्थः । केन हेतुना?-य- तः 'तत् समनन्तरप्रतिपादितस्वरूपस्य शिवस्य संबन्धि 'बलं सामर्थ्य शक्तिम् 'आक्रम्य' उच्चि- चारयिषावस्थायां तदभेदोपपत्त्या स्वीकृत्य 'स- वज्ञबलशालिनः' सर्वज्ञस्य शिवस्य बलेन शक्त्या श्लाघमानासन्तः 'अधिकाराय प्रवर्तन्ते' यथास्वं प्रतिनियतकार्यसंपादनस्वाम्यार्थ्यं प्रसरन्ति । एते हि अनासादितपरमेश्वराभेददशा उत्पाद- विनाशधर्मकवर्णमात्रात्मकाः तृणमपि कुबुयितु- मशक्ताः उक्तबलाक्रमणेन तु नियतेतिकर्तव्य- तासहाया दीक्षादिवृश्चिकविषाकर्षणान्तपराप- रस्वकार्यसंपादनाधिकाराप्रतिहतशक्तयो भव- न्ति । यद्येवं सर्वमन्त्राणामुक्तबलाक्रमणलक्ष- णवीर्यसाम्यं, तत् कथमेषां भिन्नाधिकारित्वं, सर्वे सर्वार्थसाधनाधिकृताः कथं न भवेयुः१-इ- त्यत्र परमेश्वरपरिकल्पितनियतिनियन्त्रितत्वमे- पं. ७ क. पु० श्लाघ्यमाना इति पाठः । पं०- क. पु० साम्यार्थमिति पाठः ।

८२ - स्पन्दकारिकाः [२नि० व हेतुं प्रतिपादयितुमुपमानमाह-कथमेते म- त्रा नियताधिकाराय प्रवर्तन्ते साधकानां?- 'देहिनां करणानीव' यथा हि देहादिमात्रानि- त्यवस्तुव्यवस्थितात्माभिमानानां सर्वशरीरभृ. तां करणानि इन्द्रियाणि 'यतः करणवर्गोऽयम्' इत्यत्र प्रतिपादितयुक्त्या परमेश्वरादेव चेतन- त्वापादनहेतुप्रवृत्त्यादिलाभसाम्ये सत्यपि कर- णानि तत्परिकल्पितनियतिशक्तिबलात् शब्दा- दिविषयप्रकाशनमात्रपर्यवसितसामानि य- थास्वं पृथक्पृथगधिकाराय प्रवर्तन्ते न सर्वा- णि सर्वस्मै; तथैवैते मन्त्राः साधकानां स्वी- कृतपरस्वभावाहंभावप्रतिपत्तीनां यथानियमि- ताधिकाराय प्रवर्तन्ते, तस्मात् करणवत् सर्वज्ञब- लशालिनोऽपि मन्त्रा नियताधिकारा एव । त- तश्च शिवधर्मिणो मन्त्रा यत्कृताधिकाराः सन्तो 'निरञ्जना' अञ्जनात् वाच्योपरागरूपात् मलात् वर्णादिरूपभावनात्मकाद्वा निष्क्रान्ताः; अत एव 'शान्तरूपाः' शान्तं शुद्धं संविन्मात्रावशे- , ११का०] रामकण्ठाचार्यकृतविवृत्युपेताः ८३ षत्वात् निर्विकारं रूपमात्मा येषां ते तादृशाः सन्तः 'तत्रैव' शिवे परमकारणे स्वस्वभावे 'सं- प्रलीयन्ते' तदैक्यमुपगच्छन्ति । केन साकम् ? 'आराधकचित्तेन सह' साधकमनसा साकं । तस्यां हि दशायामभिसंध्युपाधिविरहात् स्वा- भाविकमात्रावशेष यत् साधकचित्तं तेन सा- कम्। किमनेन तात्त्विकमन्त्रवीर्य प्रतिपादितं भवति? तदिदं भवति-मन्त्रचेतसोः उद- यास्तमयदशयोः परमकारणात् शिवादभेदः,- इति मन्त्रात्मकतया साधकचित्तात्मकतया च शिवशक्तिरेव वर्णसंकल्पादिरूपधारिणी उदि- ता सती, संप्रति अनासादितस्वस्वभावब- लस्पर्शप्रतिपत्तीनां साधकानां भेदविभ्रममु- त्पादयन्ती नियतार्थसाधनाधिकाराय पर्यव- स्यति । यस्तु यथाप्रतिपादिते स्वस्वभावे एव सुदृढात्मप्रतिपत्तिः, तस्य उदयास्तमयज्ञस्य सर्व- पं०३ ख० पु० तादात्म्यमुपयान्ति इति पाठ. ।

८४
स्पन्दकारिकाः
[२नि.
मन्त्राः सर्वार्थसाधनाधिकारिणो भवन्ति तत्त-
दितिकर्तव्यतासाहित्यनियमाद्यपेक्षां विना; आ
सतां वा मन्त्राः, यद्यद्वचनं येन येनाभिसंधि-
ना उच्चारयति तत् तस्यामोघमन्त्रतामापद्यते,
इति स्वभावबलाक्रमणमेव सिद्धं स्वतोमन्त्रा-
णां वीर्य प्रत्यवम्रष्टव्यं योगिना,-इति तात्पर्या-
र्थः। उपलक्षणार्थ मन्तव्यं चैतत्। उक्तोपपत्त्या न
केवलं मन्त्रा एव शिवधर्मिणो, यावन्न काचि-
क्रिया ज्ञानं कार्य ज्ञेयं वा वस्तु संभवति, यत्
परतत्वाभेदापत्तिलब्धात्मकं सत् शिवात्मक
मेव न भवति, इति समनन्तरमेव वक्ष्यति ।
व्याख्यातम् एतत् वृत्तौ
'यदलं निरावरणाचिद्रूपम्'
इत्यादिना ॥११॥
इति राजानकश्रीरामविरचितायां स्पन्दविवृतौ
व्यतिरिक्तस्वभावोपलब्धिर्नाम द्वितीयो
निःष्यन्दः॥२॥

अथ
विश्वस्खभावशक्त्युपपत्तिर्नाम
तृतीयो निःष्यन्दः॥
इदानी पक्षान्तरोपन्यासभड़या प्रकरणा-
रम्भश्लोकापरार्धप्रतिज्ञातं स्वस्वभावस्यैव शिव-
स्य विश्वव्यक्तिमयशक्तिचक्रविभवनशीलत्व-
मवसरप्राप्तम् उपपत्त्युपलब्धिभ्यां निर्वाहयितुं
श्लोकत्रयमाह
यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् ।
तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः॥१॥
तेन शब्दार्थचिन्तासु
न सावस्था न या शिवः।
भोक्तैव भाग्यभावेन
सदा सर्वत्र संस्थितः॥२॥
इति वा यस्य संवित्तिः
क्रीडावनाखिलं जगत् ।
स पश्यन्सततं युक्तो
जीवन्मुक्तो न संशयः ॥३॥

८६ स्पन्दकारिकाः [३नि० 'यस्य इति वा संवित्तिःस जीवन्मुक्त' इति संबन्धः, इत्येवम् इदानीमेव प्रतिपाद्यप्रकारेण 'यस्य वा' साधकोत्तमस्य 'संवित्तिः' सम्यक् ज्ञानं स 'सततम' अव्यवधानेन सर्वावस्थासु 'युक्तः' समाहितः, उक्तवक्ष्यमाणोपदेशदृशा स्वभावब- लपरिशीलनाप्रमत्तैकाग्रमानसः 'सजीवन्' नि- यतदेहाधिकरणान् प्राणान् धारयन् एव 'मुक्त' सर्वव्यापकसर्वात्मकसर्वेश्वरस्वतन्त्रखखभावाह- कारप्रतिपत्तिदाढ्यन जन्मादिविरोधात् निष्का- न्तः परमेश्वर एव संवृत्त-इत्यत्र 'न संशयों न भ्रान्तिः; खसंवेद्योपपत्त्युपलब्धिनिष्पकम्पत्वात् अस्य अर्थस्य। किं कुर्वन् जीवन्मुक्तः?-'अखिल- म्' अशेषमनन्तवस्तुव्यक्तिविचित्रं 'जगत् विश्व 'क्रीडात्वेन' स्वनिर्मितचराचरभावक्रीडनकोपर- चितलीलामात्रतया 'पश्यन्' विभावयन्। सों हि जनः अनुन्मिषितस्वखभावनिभालनक्षमवि- पं०१३ गपु. वस्स्वभिव्यक्तिचित्रमिति पाठः । पं० १६ ग. पु० मिषितस्वभावनिरूपणेति पाठः ।

८७
३का०] रामकण्ठाचार्यकृतविद्वत्युपताः
मलविज्ञानदृष्टिरात्मनोऽन्योन्यतश्च विभिन्नम्
इदमखिलं भावजातं कुतश्चिदन्यतः कारणात्
उद्भूतम् अनिशं मन्यमानः, तद्भावजन्यहर्षशो-
कभयादिविकारान् अनुभवन् , भवाध्वनि पुनः
पुनः जन्मादिबन्धनभाजनतां भजते। यस्तु
प्रतिपाद्यप्रकारेण उत्पन्नपरसंविदभिव्यक्तिः, स
यथा कश्चित् क्रीडापरः स्वपरिकल्पितैः भयको-
धादिकारणभूतभावप्रतिच्छन्दकैः क्रीडन् तद्या-
थात्म्यवेदित्वात् भयादिविकारकालुष्यं मना-
गपि नापद्यते, तथैव भावानां खखभावशक्ति-
विजृम्भितमात्रतया याथात्म्यवेदी सन् मना-
गपि विकृति न आपद्यते । एवं सर्वं क्रीडा-
वेनैव पश्यन् जीवन्नेव मुक्तः। कथं यस्य सं-
वित्तिः? इति,-तेनेत्यादिश्लोकेन प्रतिपादयति;
'तेन' वक्ष्यमाणेन हेतुना 'शब्दार्थचिन्तासु सा
अवस्थैव नास्ति या न शिवः' इति यस्य संवि-
त्तिः स जीवन्मुक्तः, इति। शब्दोऽर्थप्रत्यायकः
पदसमुदायः, अर्थो जात्यादिभेदात् बहुविधम्

८८ स्पन्दकारिकाः [३नि अभिधेयं वस्तुजातं, तयोः 'चिन्ता' तथा तथा विकल्पनाः अनन्तचिन्तनीयवस्तूपरागात् वि- चित्राणि ज्ञानानि, यन्मयो व्यवहारः एतासु शब्दार्थचिन्तासु ‘सा अवस्था' दशा न का- चित्, शब्दचिन्तारूपा अर्थचिन्तारूपा वा संभवति, या शिव एव साक्षात् न भवति । यत एवं तदा 'भोक्ता' अनुभवितैव ई- श्वरः 'सदा' नित्यं 'सर्वत्र' सर्वासु अवस्थासु 'भोग्यभावेन' अनुभवनीयवस्त्वात्मना 'स्थितो' न पृथक् किंचित् भोग्यं नामास्ति, तत्त्वान- वमर्शमात्रविजृम्भितम् एतत् भोक्तृभोग्यवि- भागरूपम् । केन हेतुना 'न सावस्था न या शिवः? इत्याह ,-'यस्मात् जीवः' आत्मा 'सर्वमयो विश्वरूपः परस्परव्यतिरिक्तप्रतिप- त्तिः, जीवस्यापि यो व्यवहारः सोऽपि वेद्यवेद- काभेदपूर्वकतयैव उपपन्न-इत्यर्थः, कुत एतत्? 'तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः सर्व- पं. १० क. पु. तत्त्वावमर्शेति पाठः ।

८ ३का०] रामकण्ठाचार्यकृतविकृत्युपेताः भावसमुद्भवात् सर्वमयो जीवः तस्य कस्य- चित् संवेद्यस्य घटसुखादेः यत् 'संवेदनं ज्ञानं, तस्य यत् 'रूपंखभावः,तेन हेतुनाया तादात्म्य- प्रतिपत्तिः' तदभेदसंवित् , ततो हेतोः निर्वर्त- मानो यः 'सर्वभावसमुद्भवः' सर्वेषां भावानां उत्पत्तिः, तस्मात् सर्वमयो जीवः । किमुक्त भवति-जीवस्यैव व्यवहारो विचार्यमाणोऽयं वस्तुयाथात्म्यमुपपादयति । तथाहि-अयं स्व- विषयं संविदन्नेव समुद्भावयति सृजति, सं- वेद्यमानमेव हि वस्तु खरूपं लभते, न तु असं- वेद्यमानं; संवेद्यमानता च तेन तेन रूपेण प्रकाशमानता; प्रकाशमानत्वं च प्रकाशाद- व्यतिरिक्तं, नान्यत् किंचित्। यदाह न्यायवादी 'चेतनाचापि वेद्यखादतद्रूपाप्रवेदनात् ।' इति । एवं च यत् यत् अयं जीवः संवेत्ति तत्त- दस्य शरीरमेव संपद्यते, न तु नियतशिरः- प० १ ग० पु०सर्वमय इत्यनन्तरं विश्वमयः इत्यधिक पाठः । पं०२० पु. घटसुखगवादेरिति पाठः ।

स्पन्दकारिकाः [३नि० पाण्याद्यवयवसंनिवेश एव, सोऽपि हि अस्य संवेद्यमानतावस्थायामेवशरीरीभवति, अन्यदा तु व्यतिरिक्तो विषय एव । तथा च-संवे- द्यमानत्वसामान्यात् द्विविधं शरीरमस्याम्नातं तत्त्वविद्भिः, भूतात्मकं भावात्मकं च; तत्र माया- शक्तिवैभवविस्मारिततात्त्विकखभावतया वस्तु- संवेदनावसरे स्वरूपापरामर्शवमुकुलितसाम- योऽयं जीवः अवच्छिन्नाहंकारास्पदतया शिरः- पाण्यादिमच्छरीरत्वेन यत् परामृशति तत् अ. स्य सृष्ट्यादिमयत्वात् भूतात्मकम्-इत्युक्तम् । यत्तु व्यतिरिक्तं शब्दादिविषयत्वेन परामृशति तद्भावात्मकं । परमार्थे तु विचार्यमाणे यम- प्यस्य शरीरं संवेद्यमानत्वाविशेषात् । एवं संवे- द्यमानतालक्षणभावसंसर्गावस्थायां जीवः संवे- द्यवस्त्वव्यतिरेकात् सर्वमयो विश्वरूपः स्थितो- ऽपि सन् तथावस्तुसंवेदनतत्त्वपरामर्शानुन्मेषा- त् सर्वमिदम् आत्मव्यतिरिक्तकारणान्तरलब्धा- त्मकत्वेन आत्मनः परस्परतश्च पृथक्त्वेन व्यव- ६१ ३का०]] रामकण्ठाचार्यकृतविकृत्युपेताः च्छिन्दन्, आत्मानं च देहाद्यनित्यभावाभावे- न अध्यवस्यन् जन्मादिबन्धभाक् संसारी जीव इति व्यपदिश्यते। यदा तु शिवदिवाकरशक्त्यं- शुपातजनितप्रबोधोन्मिषितविशददृष्टिस्फुटतर- प्रकाशमानदेहादिव्यतिरिक्तसत्यात्मस्वभावसु- स्थिताहंप्रतिपत्तिः सन् यथावस्थितवस्तुसंवेद- नपरामर्शशक्तिभिर्व्यक्तिभाक् भवति, तदा स एव संकल्पमात्रविलिखितविचित्रविश्वव्यक्तिम- यशक्तिचक्रः शिवः संपद्यते। तेन उक्तम्-त- तद्वस्तुसंवेदनस्वभावबलेन या तादात्म्यप्रति- पत्तिः संवेद्यमानवस्त्वभेदसंवित्तितः सर्वभावस- मुद्भवः, तस्मात् जीवः तावत् सर्वमयः; तेन च तस्य सर्वमयत्वप्रातिपत्तिलक्षणेन हेतुना सा अवस्था नास्ति या शिवमयी न भवति, तत- श्च भोक्तैव ईश्वरो भोग्यभावेन ईशितव्यव- स्तुरूपतया सदा सर्वत्र संस्थितः। एवं यस्य वा संवित्तिः स जीवन्मुक्त-इति वाक्यसम- प० २ ग० पु० सव्यवस्थन् इति पाठ. । प० ५ ग० पु० सत्यात्मभावति पाठ. ।

६२ स्पन्दकारिकाः [३नि० न्वयसंकलनार्थमेतत् पुनरुक्तम् , इत्यनेन श्लो- कत्रयेण आत्मन एव विश्वरूपत्वेन स्थितिः प्रतिपादिता, विश्वप्रपञ्चस्य निमित्तान्तरानु- पपत्तेः । यथोक्तं ब्रह्मविदा कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया । स एव बुद्धयते भेदादिति वेदान्तनिश्चयः ॥' इति। तथा अन्येनापि स्तुतिद्वारेणोक्तम् 'विविधैरुपाधिभिरवस्थितैर्बहिः स्फटिकादिवत्तव विचित्रतोच्यताम् । यदि ते कदाचन कथंचन कचि- द्भवितुं क्षमास्वदवभासतः पृथक् ॥ परमाणुपाकपरिणामविभ्रमा- द्युत वा विवर्त इति विश्वमिष्यताम् । विबुधोत्तमैयदिह तद्विकल्पना- स्तव शक्तिरेव न तथोपपादयेत् ।। तदिहापि च प्रतिनिमेषमुन्मिष- निमिषद्विकल्पविविधांशुमण्डलः। अथ चातिशुद्धवपुरद्भुतैकभूः स्फुरसि वमेव शिव चिन्मयो मणिः॥' पं०१ ग० पु० संकल्पनार्थमिति पाठः। पं० ६ ग० पु. भेदमिति पाठः ।

३का] रामकण्ठाचार्यकृतविवृत्युपेताः व्याख्यातमेतत् वृत्तौ पृथक् पृथक् 'सर्वात्मक एवायमात्मा' इत्यादिना 'तेन तथाविधेन' इत्यादिना 'एवं स्वभावे यस्य' इत्यादिना च ग्रन्थेन ॥१॥२॥३॥ इति श्रीराजानकश्रीरामविरचितायां स्पन्दविवृतौ विश्वस्य स्वस्वभावशक्तिमात्रखोपपत्तिर्नाम तृतीयो निःष्यन्दः॥३॥ पं० ६ ग. पु० एवंस्वभावस्य इति पाठः ।

अथ अभेदोपलब्धिर्नाम चतुर्थो निःष्यन्दः ॥ इदानीमियमेव उपपत्तिः सुगृहीता सती, अभेदोपलब्ध्युपायः-इति प्रदर्शयितुं मन्त्र- न्यासादिसमस्तविधिसंस्कारकत्वमस्याः प्रति- पादयितुमाह अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि । तदात्मतासमापत्तिरिच्छतः साधकस्य या ॥१॥ 'तस्य' कस्यचिद् 'ध्येयस्य तेन तेनाकारेण स्मर्तव्यस्य मन्त्रवाच्यस्य देवताविशेषस्य 'उ- दय'तत्तदर्थक्रियासंपादिना अमोघशक्तिना ते- न तेनोपास्येनाकारेण प्रथनमक अधिकरणे?- 'ध्यायिचेतसि' ध्यायिनः स्मर्तुः संबन्धिनि चेत- सि संकल्पे; कोऽसावुदयः?-'इच्छतः' इच्छाव- पं० १६ ग० पु. इच्छायां वर्तमानस्येति पाठ. । - ६५ २का०] रामकण्ठाचार्यकृतविवृत्युपेताः स्थायां वर्तमानस्य मन्त्रमुच्चिचारयिषोः 'साध- कस्य अभियुक्तस्य, वस्तुसामर्थ्यसिद्धा या 'त- दात्मतासमापत्तिः' तस्य ध्येयस्य य आत्मा खरूपं तस्य भावस्तदात्मता तया समापत्तिरे- कीभावः। इदमत्र तात्पर्यम्-न्यासादिहेतोर्म- न्त्रोच्चारणेच्छावस्थायां मन्त्ररुद्धान्यदेवताका- रायां साधकचेतसः स्वयमप्रयत्नेन संपाद्यमानं यदभिन्नरूपत्वं, स एव परामर्शक्षमसंविदो ध्यातुर्मुख्य आराध्यदेवतायाः प्रत्यक्षदर्शनरूप उदयो, न तु व्यतिरेकविभाव्यमानाकारता,- इति अनयैव संविदा शिवरूपतापत्तेः । शिवो भूत्वा शिवं यजेत् । इत्यस्य विधेः चरितार्थत्वम्। 'अयमेव तत्संवेदनद्वारेण इत्यादिना व्याख्यातमेतत् वृत्तौ ॥१॥ अस्या एव संविदो विध्यन्तरसंस्कारकत्वमाह इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः । इयं निर्वाणदीता च शिवसद्धावदायिनी ॥२॥ पं० ७ ग० पु० चेतस. सर्वमिति पाठ. । - ..

६८ स्पन्दकारिकाः [नि इति प्रतिपत्तिरबाधिता सिद्धयवस्थायामुपपद्य- ते तस्य दायिनी प्रतिपादिका, स हि निरु- त्तरः संस्कारः सुप्रबुद्धगुरोर्गोचरः परमशिवात्म- कस्वरूपप्राप्तिमात्रो, न तु बाह्यसाधनसाध्यवि- धिविशेषात्मक इति । व्याख्यातमेतत् 'इयमेव सा मिथ्याज्ञानशून्यस्य' इत्यादिना वृत्तौ ॥२॥ एवमुत्तमाविधिसंस्कारकारणत्वमस्याः सं- विदः प्रतिपाद्य, इदानीं सिद्धयन्तरकारणत्वं संसारिव्यवहारनिदर्शनेन प्रतिपादयितुं श्लो- कद्वयमाह यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान् हृदि स्थितान् । सोमसूर्योदयं कृत्वा संपादयति देहिनः॥३॥ तथा स्वप्नेऽप्यभीष्टार्था- प्रणयस्यानतिक्रमात् । नित्यं स्फुटतरं मध्ये स्थितोऽवश्यं प्रकाशयेत् ॥४॥ पं० ९क० पु. करणत्वमिति पाठः ।

88 ४का०] रामकण्ठाचार्यकृतविवृत्युपेताः 'यथा देहिनों' देहमात्रमेव आत्मत्वेन प्रति- पन्नस्य सर्वस्य संसारिणो 'जाग्रतो' यथास्वं वि- षयग्रहणव्यग्रेन्द्रियवृत्तिलक्षणां जागरावस्थाम् अनुभवतो 'हृदि स्थितान्' आशयनिविष्टान्द्र- ष्टुम् अभीष्टान् भावान् 'इच्छाभ्यार्थतः' इच्छया दिदृक्षारूपया अभ्यर्थितः, तदवस्थास्वभावब- लात् तादात्म्यसमापत्त्या तदर्थसंपत्तेःयाचित इ- व 'धाता' सर्वकर्ता परमेश्वरः परमात्मा 'संपाद- यति' यथाभिप्रायं प्रकाशयति। किं कृत्वा?-'सो- मसूर्ययोः' चक्षुषोः 'उदयम्' अभिप्रेतार्थावधार- णमात्रावधानरूपस्वरूपप्रथनं विधाय , इत्यु- पमानवाक्यम् । इदमत्र तात्पर्यम्-यो यः कश्चित् संसारी यमेवार्थं द्रष्टुमुत्पन्नेच्छो भवति, स त- दिदृक्षावस्थायांझगित्यवश एव परमात्मानं धा- तारमभेदेन आविशति, सा अवस्था अस्य प्रार्थ- मा-इत्युपचरिता,तत्पूर्वकतया अभीष्टार्थप्राप्तेः। an प०१ ख.पु. प्रतिपद्यमानस्येति पाठः। पं. ४ ख. पु० आशयनिष्ठान् इति पाठः ।

१०० स्पन्दकारिकाः [४नि. स तया अभ्यर्थितो धाता तावन्मात्रार्थप्रथना. य अवधानात्मना चक्षुषोः स्वरूपव्यक्तिलक्षण- मुदयं कृत्वा, संनिहितेष्वपि अन्येषु बहुषु दृश्ये- षु यक्षियैव अभ्यर्थितः तमेवार्थप्रदर्शयति, नान्यत्। चक्षुषोरुदयं कृत्वा-इति उपलक्षणमा- त्रमेतत् मन्तव्यम् । तेन शुश्रूषाभ्यर्थितः श्रव- णयोरुदयं कृत्वा श्रव्यान्तरसंनिधावपि शुश्रू- षितमेव अर्थ श्रावयति धाता देहिनः, इति सन्द्रियेष्वपि योज्यम् । चक्षुषोश्च सोमसूर्य- शब्देन प्रतिपादनेन विश्वरूपात् धातुर्जीवस्य वास्तवाभेदप्रतिपादनप्रयोजनम् । उपलक्ष- णार्थं च वृत्तिकृतैव व्याख्यातम् 'चक्षुरादिष्ववधानेन' इत्यत्रादिग्रहणात् । इत्थं सर्वजीवानां सर्वा- र्थप्रथनमिच्छापूर्वकं भवति, सा च इच्छाव- स्था संसारिणः परमकारणाभेदरूपा,-इति प- रमेश्वर एव स्वतन्त्रो यथेष्टमिदमखिलं प्रका- प० ११ ग० पु० प्रतिपादनमिति पाठः।

४का०] रामकण्ठाचार्यकृतविवृत्युपेताः १०१ शयति-इति परमार्थं तदीयमायाशक्तिजनित- देहादिव्यवच्छेदाः संसारिणो न प्रपद्यन्ते। यस्तु प्रबुद्ध उक्तोपदेशाभ्यासप्रकर्षकषणपाषाणनि- शितीकृतप्रज्ञाकृपाणीनिकृत्तकल्पकायाद्यहंकार- कर्कशग्रन्थिरुदितनिरावरणसत्यात्मसंवित्स एव संस्मर्यमाणः तं प्रत्यभिज्ञातुमलम्, इति सिद्धा- व्यतिरेकसमाधियोगिनं प्रति इदमुपमेयवाक्ये- नोपदिश्यते। यथा वा तैरेव प्रतिपादितयुक्त्या इच्छाभ्यर्थितः सन् सर्वार्थान् प्रथयति; 'तथैव' तेन प्रकारेण 'नित्यं सर्वदासर्वासु ज्ञातृज्ञेयसंब- न्धदशासु 'प्रणयस्य' इच्छावस्थायां तादात्म्य- प्रतिपत्तिरूपायाःप्रार्थनायाः 'अनतिकमात्' अ- नुल्लङ्घनात् प्रत्यवमर्शावहितत्वेन अनुपेक्षणात् 'स्वप्नेऽपि' स्वव्यापारोपरतचक्षुरादौ मनोमात्र- ग्राह्यस्वसृष्टिविषयायां स्वापावस्थायां यावद 'अभीष्टान्' साधकाभिमतानेव 'अर्थान्' 'स्फु- पं. ३ ग० पु. कषणनिशितीति पाठ । प० ६ क० पु० सिद्धव्यतिरेकेति, ग० पु० सिद्धसमाधियोगिनमिति पाठः । पं० १३ क. पु. अनपेक्षणादिति पाठः प्रन्थालय, के. उ. 'त शि सारन थ राणसी परिग्रहण सं .1007 , १०२ स्पन्दकारिकाः [४नि. टतरम्' अतिप्रकटं कृत्वा 'मध्ये स्थितो' हृदये सदासीनो ऽवश्यं नियमेन असौ धाता 'प्रका- शयेत्' प्रथयेत्-इति तथेत्यादेरुपमेयवाक्यस्या- र्थः। तात्पर्य पुनरिद-यः सर्वदा सर्वानुभवेषु, धातुःसर्वेश्वरस्य स्वखभावस्य तल्लीनत्वलक्षणं प्रणयं स्वसामर्थ्यसिद्धं प्रतिक्षणप्रत्यवमर्शाव- हितत्वात् नातिकामति, तस्यासौ धाता जागर- वत् स्वप्नेऽपि अभिमतानेवार्थान् प्रकाशयति,न तस्य स्वप्नपदार्थाः स्वातन्त्र्येण प्रवर्तमानाः सर्वकर्तृत्वलक्षणस्वशक्तिप्रतिबन्धमुद्भावयन्ति असंसारित्वात् ; किंतु स्वतन्त्रःस्वशक्त्या यथेष्टं तान् सृजति । यथाह भर्तृहरिः 'प्रविभज्यात्मनात्मानं सृष्टा भावान् पृथग्विधान् । सर्वेश्वरः सर्वशक्तिः स्वमे भोक्ता प्रपद्यते ॥' इति। अत एव स्वप्नस्वातन्त्र्यमेतत्-इत्युक्तम् । तस्य खप्नजागरयोर्विशेषो नास्ति,-इति तमोव- रणनिर्भेदः स एवोक्तः। देहाद्यहन्ताजनितोऽ- पं० ख० पु. लक्षणप्रणयमिति पाठ ।

प्रका०] रामकण्ठाचार्यकृतविकृत्युपेताः १०३ नवच्छिन्नखमाहात्म्यनिरोधः तमः, तेन वरणं स्थगनं स्वभावतिरोधानं, तस्य निर्भेदोऽनन्त- निजवैभवाभिव्यक्तिवशात् विनाशः, स हि तस्यामवस्थायामाविर्भवति । व्याख्यातमेतत् वृत्तौ पृथक् पृथक 'यथा अस्य अनभिव्यक्तस्वस्वरूपस्य' इत्यादिना । तथा 'स्वप्नेऽप्यभीष्टार्थानेव पश्यति' इत्यादिना ग्रन्थेन ॥३॥ ४॥ अथ एवंविधसमाधिव्युत्थानमात्रात् संसा- रिसमानतां योगिनः प्रतिपादयन् , नित्ययु- ततां द्रढयितुमाह अन्यथा तु स्वतन्त्रा स्या- त्सृष्टिस्तधर्मकत्वतः। सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये ॥५॥ 'अन्यथा तु' उक्तात्प्रकारात् अन्येन प्रकारेण, सर्वकर्तुः स्वतन्त्रस्य परमेश्वरस्य एकस्य ममै- १०४ स्पन्दकारिकाः [नि० वेदं जगत्कार्यम्-इति प्रतिपत्त्यभावरूपेण वर्त- मानस्य योगिनो 'जाग्रत्स्वप्नपदद्वयें जागरखा- पदशयोः 'तद्धर्मकत्वतः' सर्गगुणात्मकत्वात् 'सृष्टिः' नानाभावनिर्मितिः 'सततम्' आत्मत- त्वसंविदुदयात् 'स्वतन्त्रा स्यात्' वास्तवेन खत- न्त्रखात्ममात्रकर्तृत्वेन अपरामृश्यमाना सती, विचित्रविभ्रमदानखच्छन्दा दुर्निवारताहक्सा- मर्थ्यप्रसरा भवेत्। कस्येव?-'लौकिकस्येव' सं- सारिणो लोकस्य यथा। इदमत्र तात्पर्यम्-जा- गरास्वप्नलक्षणं पदद्वयं सर्गखभावं, तत्र हि ज्ञानज्ञेयभावेन पारमेश्वर्याः शक्तेः स्थितिः प्रतिपादिता, तादृशि अस्मिन् द्वयात्मके प. दद्वये यो योगी यथोक्तसंवित्तिसमाधानाप- रित्यागात् अप्युत्थितः स्यात् , तस्य सर्वथा खतन्त्रे सर्वकर्तरि स्वात्मनि सुव्यवस्थितस्य पं. ३ क० ख० पु० सर्वगुणेति पाठः । पं०५क० पु० संविदुपायादिति पाठान्तरच,ख.पु. संविदपायादिति पाठः। पं. ७ ग० पु० दाने स्वतन्त्रा इति पाठः। पं० १४ ग. पु. अब्युस्थित इति पाठः ।

७का०] रामकण्ठाचार्यकृतविकृत्युपेताः सृष्टिस्वभावं तत्पदद्वयं शक्तिप्रतिबन्धाय न प्रभवति ; यस्तु अतोऽन्यथा स्यात् स लो- कवन्निजयैव भावसृष्ट्या परवशीक्रियते-इति नित्ययुक्तेन योगिना भाव्यमित्यर्थः । तदेतत् 'अन्यथा स्वरूपस्थित्यभावे इत्यादिना व्याख्यातमेतद्वृत्तौ ॥ ५ ॥ इदानीमतीतानागतव्यवहितविप्रकृष्टादि- वस्तुविज्ञानमनयैव संविदा सुलभम् ,-इति युगलकेनाह यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि। भूयः स्फुटतरो भाति स्वबलोद्योगभावितः ॥६॥ एवं यत्परमार्थेन यत्र येन यथा स्थितम् । तत्तथा बलमाक्रम्य न चिरात्संप्रवर्तते ॥७॥ पं०६ ग० पु० यौगपयेनेति पाठः ।

स्पन्दकारिकाः [निः 'यथा हिं' कस्यचित् 'सावधाने' तदर्थदि- दृक्षानिविडप्रयत्नेऽपि 'चेतसि सति, झगिति दृष्टभात्रो'ऽर्थः अस्फुटः'अप्रकटो भाति' प्रथते, 'भूयोऽनन्तरं 'स्वबलोद्योगभावितः' स्वस्यात्म- नःसर्वज्ञस्य बलं सामर्थ्यं ज्ञवादिलक्षणा शक्तिः तया, 'उद्योगः' उद्यमो निविडतरावधानतया दर्शनोत्साहः, तेन 'भावितो' लक्षितः सन् 'स्फु- टतरो भाति' प्रत्यभिज्ञायमाननिरवशेषविशेष: सोऽयम् इति प्रथते,-इत्युपमानवाक्यम् । अ- स्येदं तात्पर्य यस्य कस्यचित् द्रष्टुमभीष्टोऽर्थों झगिति विस्फारितमात्रचक्षुषो न सम्यक् दृ- श्यतामापद्यते, पुनः क्षणान्तरे तद्देशगतस्यै- व तथैव न्यतानक्षिप्ताक्षस्य स्फुटतरः प्रकाशते, तत्र को हेतुः?-न हि तेन द्रष्टव्यतिरिक्तं वि- शेषदर्शनसाधनं किंचिदाह्रियते, तेन तात्त्वि- , पं०५ ग० पु० ज्ञातृत्वादि इति पाठान्तरम् । पं.१० ख० पु. द्रष्टुष्टुमिति पाठः। पं. १३ क. पु. तथेत्यादि, को हेतुरित्यन्तः पाठी नास्ति ।

७का०] रामकण्ठाचार्यकृतविकृत्युपेताः १०७ कस्वभावानुप्रवेश एव तस्य संजायते , यह- लस्पर्शात् तस्य सोऽर्थों याथात्म्येन प्रथते-; ततः स्वबलोद्योगमात्रं सर्वार्थप्रकाशनसाधनं सर्वदेहिनां, नान्यत्किंचित् । एवंविधार्थप्रका- शनं सर्वप्राणिसाधारणमपि प्रबुद्धस्य योगि- न एव प्रत्यवमृश्यमानं सत् तथा प्रकाशते, नान्यस्य मायातिमिरतिरस्कृतसम्यग्दर्शनस्य,- इति योगी एव अनेन उपदेशेन स्मार्यते 'एवम्'- इत्याद्युपमेयवाक्योक्तेन । यथा हि अस्फुटदृष्टोऽ- र्थः स्वबलमेवाक्रम्य स्फुटतरं प्रकाशते, 'एवम्' अनेनैव उपमानवाक्योक्तेन प्रकारेण 'बलं' स्व- स्वभावसामर्थ्यम् 'आक्रम्य' दिदृक्षाक्षणे 'तत्' अभेदेन अधिष्ठाय, वर्तमानस्य योगिनः 'तथा' तेनैव तत्तदवस्थाकारदेशकालायविसंवादिना प्रकारेण 'संप्रवर्तते' सम्यगभिव्यक्तिमेति स. पं ४ ख. पु. एवं चार्थप्रकाशन मिति पाठ । प० ६ ग० पु० तदा इति पाठ. । पं० ६ ग० पु. वाक्योत्थेनेति पाठः।

- , १०८ स्पन्दकारिकाः [४नि. म्यक् ज्ञेयतया अभिमुखीभवति।किंतद्वस्तु?- 'परमार्थेन' तत्त्वतो 'यत्' वस्तु गवादि 'यथा' येन अवस्थात्मना प्रकारेण 'येन' यादृशेन विशि- ष्टसास्नादिमता आकारेण 'यत्र' यस्मिन् व्यवहि- तविप्रकृष्टादौ देशे, भूतादौ वा काले 'स्थितं तत्तथा संप्रवर्तत'-इति।अयमत्र भावार्थः-अ- स्फुटेऽर्थे दृष्टे तस्य स्फुटतरावभासाय स- वज्ञस्वस्वभावाभेदो यः सर्वस्य कस्यचित् अप्रयत्नेन उत्पद्यते, प्रबुद्धः तत्परामर्शाभ्या- सात् देशकालादिव्यवहितानपि यथाभिमता- नर्थान् तत्त्वतो जानाति-इत्यबाधितायां युक्तौ स्थितायां सर्वज्ञत्वादिगुणाभिव्यक्तौ अयमेव हेतुः। अत एवोक्तम् 'परिमितविषयमतीतानागतज्ञानं न किंचिदाश्चर्य निरावरणस्वस्वभावत्वात्' इति । तस्यां हि दशायां देशकालाद्यनिरुद्धं स्व- पं. ४ ग. पु० सानादिमता कारणेन इति पाठः । पं० १० ग० पु. तथाभिमतार्थानिति पाठः।

का०] रामकण्ठाचार्यकृतविकृत्युपेताः १०६ स्वभाववलमभिव्यज्यते। 'अस्फुटोऽर्थों दृष्ठः' इत्युपलक्षणार्थमेतन्मन्तव्यम्, तेन श्रुतादि- वेवमेव योज्यम् । एतेन च दृश्यादेरर्थस्य स्फुटतरदर्शनाद्यर्थ प्रयत्नविशेषावस्थायां सं- पाद्यमानेन प्रतिष्ठितस्पन्दानुप्रवेशेन सर्वबुद्ध्य- क्षव्यापारात्मकजाग्रदवस्थाश्रयः परतत्त्वोपल- ब्ध्युपायः प्रसङ्गात् प्रतिपादितो वेदितव्यः व्याख्यातमेतद्वृत्तिकृता श्लोकद्वयं पृथक् पृथक् 'यथा किल दूरस्थित' इत्यादिना, 'तथा तेनैव प्रयत्नविशेषेण' इत्यादिना ग्रन्थेन ॥६॥७॥ अथैतयैव युक्त्या चुत्तृष्णादिजयं प्रति- पादयितुमाह दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते। आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षि- तः॥८॥ 'यतो' यस्माद्धेतोबलं सर्वकर्तृत्वस्वातन्त्र्यलक्ष- ११० स्पन्दकारिकाः [४नि णं सामर्थ्यमात्मीयमाक्रम्य,पूर्वोक्तया युक्त्या त- त्राव्यतिरेकेण स्थित्वा ‘दुर्बलोऽपि' अपचितदे- हधातुत्वात् असमर्थोऽपि सन् , कश्चित् 'कार्ये भारोद्वहनादिव्यापारे 'प्रवर्तते' क्रियाप्रधानो भवति,-एतत् दृष्टान्तवाक्यम् । अस्येदं ता- त्पर्यम्-यः परिकृशकायत्वात् अशक्त एव सं- ध्यादिव्यापारमारभमाणः,अभ्यासबलात् विष- यान्तरे बलवत्तरेणाप्यशक्यं व्यायामादिकर्म कर्तुं प्रभवति, तस्य तथा सामोत्पत्तौ प्राक्- प्रतिपादितयुक्त्या स्वस्वभावबलाक्रमणमकं वर्जयित्वा नान्यत्किंचिन्निमित्तम् । तत्तु यथेष्ट- सर्वकर्तृत्वलक्षणं बलमात्मतत्त्वस्य , मायीयः कर्ता मायाप्रतिबद्धशक्तित्वात् नियतकारणा- न्तरापेक्षनियतकार्यसंपादनसामर्थ्य मन्यते । सोऽपीदमहं कर्तुं शक्नोमि-इत्यविकलोत्सा. हदशायां तदेव बलमवलम्बमानः तत्कार्य. संपादनक्षमो भवति,-इति युक्तियोंगिन एव प्रतिपत्तिगोचरीभवति-इति, तामेतां दृष्टान्ती- का०] रामकण्ठाचार्यकृतविवृत्युपेताः १११ कृत्य तं प्रत्येव इदं दान्तिकवाक्येन उपदि- श्यते,-यथा दुर्बलोऽपि बलवत्संपाद्यकार्यसं- पादनसमर्थः स्वखभावबलाक्रमणादेव भवति, 'तथा' तेनैव प्रकारेण सर्वकार्यसंपादनस्वतन्त्रं खबलमाक्रम्य तत् खशक्तितया अधिष्ठाय 'योऽतिबुभुक्षितः' अत्यर्थं भोजनेच्छाविष्टः, स तांबुभुक्षाम् 'आच्छादयेत्' स्थगयेत् न्यक्कुर्या- त्, नित्यतृप्ताकृतकस्वरूपसामर्थ्यप्रथनात् अ- नाद्यभ्यवहारकारणमेव चुन्निवृत्त्यादिकार्यम्, इति नियतिशक्तिप्रतिबन्धविदलने सति अत्य- न्तं तां तिरोभावयेत्, नित्यतृप्त एव स्यादित्यर्थः। 'दुबलः क्षीणधातुरपि' इत्यादिना व्याख्यातमेतद्वृत्तौ ॥८॥ एवं पृथक् सर्वज्ञत्वसर्वकर्तृत्वादिगुणव्य- क्युपायोपपत्तीः प्रतिपाद्य पुनरेकोपपत्तिनिद- पं०८ ग० पु. पाच्छादनेन न्यक्कुर्यात् इति पाठः । पं. ग. पु. अन्नाद्यव्यवहारेति पाठः ।

११२ स्पन्दकारिकाः [नि० र्शनेन ताः प्रतिपादयितुमाह अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः। तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति ॥४॥ 'अनेम' आत्मना चेतयित्रा 'अधिष्ठितें - हमिति प्रतिपत्त्या अध्यासिते 'देहे शरीरे 'स- वज्ञतादयः' शरीराश्रयाणि सर्वाणि ज्ञेयानि कार्याणि च, तेषु ज्ञता ज्ञातृत्वमादिर्येषां ता- न्येव कर्तृत्वादयो धर्माः 'यथा' सर्वस्य स्थिता -इति दृष्टान्तवाक्यम्।अस्येदं तात्पर्यम्-यय- दयमात्मा अहमिति-प्रतिपत्त्या अधितिष्ठति तत्तदस्य शरीरम् , तदाश्रयं च सर्वमयं स्थूलं सूक्ष्म वा ज्ञेयं कार्यं च जानाति च करोति च-इत्यनेन निदर्शनेन 'तथैव तेनैव प्रकारेण अहंतया देहाधिष्ठानवत् 'खात्मनि स्वखभावे 'न दुःखं न सुखं यत्र' इत्यादिनोक्तलक्षणे देहादिव्यतिरिक्तविशुद्धाद्वयचिन्मात्रवपुषि'अ- धिष्ठानात्' अहंतया अध्यासनात्, एवं शरीरा- १०का०] रामकण्ठाचार्यकृतविवृत्युपेताः ११३ श्रयसमस्तज्ञेयकार्यवस्तु ज्ञातृत्वादिवत् 'सर्वत्र' सकलेष्वपि भुवनेषु,योगिनः सर्वज्ञतादयो भवि- प्यन्ति अवश्यमभिव्यक्तिं यास्यन्ति; परस्परव्य- तिरिक्त-दहमात्राहंभावलक्षण-प्रतिबन्धभङ्गाद् अद्वयचिन्मात्रखात्मप्रतिष्ठिताहंकारस्य योगिनो निर्विघ्नाः सर्वज्ञतादयः सर्वत्र अभिव्यज्यन्त एव इत्यर्थः । 'अनेन अात्मस्वभावेन' इत्यादिना व्याख्यातमेतत् वृत्तौ ॥ ६ ॥ एवं व्याधिवलीपलितायुच्छेदाय उपपत्तिमाह ग्लानिर्विलुण्ठिका देहे तस्याश्चाज्ञानतः सृतिः। तदुन्मेषविलुप्तं चे- त्कुतः सा स्यादहेतुका ॥ १०॥ 'ग्लानिः' मान्द्यादिजनिता हर्षहानिः, सा 'देहे' शरीरे 'विलुण्ठिका' धातुबलवर्णतेजःश- क्यादीनां हठेन ही; 'तस्याश्चाज्ञानतः' प्रति- पं० १० ख० पु. इदानीं व्याधिवलीति पाठ ।

११४ स्पन्दकारिकाः [४नि० पादिततत्त्वावगमाभावात् 'मृतिः' सरणं प्रवृ. त्तिः'तत्' अज्ञानम् 'उन्मेषविलुप्तं चेत्' उन्मेषे- ण वक्ष्यमाणेन खभावालोकविकासेन, विलुप्तं विच्छिन्नं निर्मूलतां नीतं यदि, तदा असौ ग्ला- निः 'अहेतुका' कारणरहिता 'कुतो भवेत्' न भवेदेव, निनिमित्तस्य उत्पादाभावात्; अज्ञानं नाम जन्म-परिणाम-विवृद्धि-क्षय-विनाशात्मक- विकारविरहितनित्यनिर्विकारस्वस्वभावाप्रत्यभि- ज्ञानात् जन्मादिविकाराधिकरणे कलेवरादो आत्माभिमानः, यस्मिंश्च सति अप्रबुद्धो जनः तद्विकारान् जन्मादीन् आत्मनि आरोपयन् ग्लान्या विलुण्ठ्यते। यस्तु वक्ष्यमाणोन्मेषपरि- शीलनाद् आविर्भूतसत्यात्मप्रत्ययः तस्य कुतः ग्लानिः,-इति मुख्यं फलं सहजानन्दहानिरूपा- पं. ३ ख. पु० स्वभावावलोकेति पाठः । पं. १ ग० पु. तदसाविति पाठ । ५.५ क० ग० पु. कुतो भवेदेव, निर्निमित्तस्येति पाठः। पं० १० ख० पु० तस्मिन्सति इति पाठः ।

११का०] रामकण्ठाचार्यकृताववृत्युपेताः ११५ या ग्लानेरभावः, गौणस्तु वलीपलिताद्यभावः, यतः तदा कुतः सा ग्लानिः कारणरहिता भवे- तु,-इति व्याख्याय पुनर्वृत्तिकृता व्याख्यातम् 'अनेनैव कारणेन वलीपलिताभावः शरीरदाय च योगिनाम्' इति ॥१०॥ अथ उन्मेषस्य ग्लानिकारणभूताज्ञानविना- शहेतोः स्वरूपप्रतिपादनाय आह एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः। उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ॥११॥ 'स तु' स पुनरुन्मेषः स्वस्वभावाभासविका- सो 'विज्ञेयों' बोद्धव्यो लक्षणीयः। कोऽसौ?- 'एकचिन्ताप्रसक्तस्य' एकस्यां चिन्तायां दृश्य- मान-स्मर्यमाणतत्तद्वस्तूपरक्त ज्ञाने प्रसक्तस्य, एकाग्रस्य चिन्तयितुः ‘यतो' यस्मात् चिन्त्याभा- सानुपरक्तज्ञानात्मनः स्वस्वभावप्रकाशात् कार- प. १२ ख. पु. उन्मेष. म्वभावावमासेति पाठ स्पन्दकारिकाः [४नि० णभूतात् 'अपरस्याः' चिन्तायाः ग्राह्यालम्बिनो ज्ञानान्तरस्य 'उदयः' उत्पत्तिः 'स्यात् । तं च योगी 'स्वयं आत्मनैव 'उपलक्षयेत्'- परमार्थ- परमेश्वरः सर्वतो विविक्तः परमकारणं परमा- स्मा अयमहमस्मि-इति प्रतिपद्यत । नहि त- स्य शब्दादिवत् इदन्तया स्वरूपमुपलक्षयितुं शक्यं,-स्वसंवेदनसंविदितखभावत्वात् । तस्यै- वंविधस्य नित्योदितस्यापि उपदेश्यं प्रति तदा- नीमेव अभिव्यज्यमानत्वात् उन्मेषशब्देन व्य- पदेशः कृतः। यस्त्वेवं मन्यते-यस्यां चिन्तायां सत्याम् अपरचिन्तोदयः सा चिन्तैव चिन्ता- तरकारणं नान्तरालवर्ति वस्त्वन्तरं विद्यते, य- चिन्ताद्वयस्वरूपव्यतिरेकेण उपलक्षणीयात्मकं द्वितीयचिन्ताकारणं स्यात-इति, तं प्रति कार- णभावेन कार्यभावेन च अभिमतस्य पूर्वापरी- भूतस्य चिन्ताद्वयस्य एष संबन्धो न सिद्धयति, अनुसंधातारं तृतीयं विना । पूर्व कारणम् प०१ ख. पु. ग्राह्यावलम्बिन इति पाठः।

१२का०] रामकण्ठाचार्यकृतविवृत्युपेताः ११७ अपरा च कार्यभूता चिन्ता,-इति योऽनुसंधत्ते, यश्चासौ अनपढ़वनीयोऽनुसंधाता सोऽनुसं- धेयचिन्ताद्वयव्यापकविशुद्धचिन्मात्रस्वरूपः स- र्वकारणमात्मैवोन्मेष इत्युक्तः। अत एव वृत्ति- कृता व्याख्यातम् 'चिन्ताद्वयान्ते व्यापकतया अनुभूयमानः' इत्यादिना ॥११॥ इदानीं तत्तत्साधनविशेषाभिनिविष्टानां योगिनां प्रायेण याः प्राप्यफलतया अभीष्टाः सिद्धयः ता एतदुपासायोगिनो विघ्नपरम्परा एव, इत्युन्मेषाभ्यासप्रभावं प्रतिपादयितुमाह अतो बिन्दुरतो नादो रूपमस्मादतोरसः। प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः ॥ १२॥ 'अतः अस्मात् प्रतिपादितखरूपात् उन्मे- षात् , जागरायवस्थागतसुखदुःखाद्यनुभवद- शासु अविलुप्तेन अवधानेन, प्रतिक्षणविनश्वर- प० १५ क. पु. अत इति मौलं पदं नस्ति । , ११८ स्पन्दकारिकाः [४नि. विचित्रपरतन्त्रतुच्छरूपात् वेद्यवस्तुनो वैधये- ण भाव्यमानात् सर्वकारणभृतात् 'अचिरेण अल्पेन कालेन, एतानि सिद्धचिह्नानि, क्षोभ- कत्वेन संतोष-स्मयाभिमानादिभिः चित्तव्यु- स्थापकत्वेन 'देहिनो' नितरामनुन्मूलितदेहाद्य- हंप्रत्ययस्य योगिनः 'प्रवर्तन्ते' प्रादुर्भवन्ति । कानि तानि?- 'बिन्दुः' भ्रूमध्यादौ प्रदेशे ध्या- नाभ्यासप्रकर्षप्रवर्धमानोत्तरोत्तरप्रसादस्तेजो- विशेषो, यो बिन्दुभेदाभ्यासात् धरातत्त्वध्या- यिनामभिव्यज्यते। तथा-'नादो' वेगवन्नद्यो- घनिर्घोषघनोपक्रमः क्रमसूक्ष्मीभावाभिव्यज्य- मानमधुमत्तमधुकरध्वनितानुकारी स्वोच्चरितो ध्वनिविशेषो, यं व्योमतत्त्वाभ्यासिनःशृण्वन्ति। तथा-'रूपं सन्तमसायावरणेऽपि सति तत्तद्- दृश्यवस्त्वाकारदर्शनं, यत् तेजस्तत्त्वन्यक्षान- (१) न्यक्षेण कात्स्न्येनेत्यर्थः । पं०३ ख. पु. अल्पेनाल्पीयसा इति पाठः । पं० ६ ख० पु० चिन्ताव्युत्थापकेनेति पाठः । पं० १ ख. पु० धरातत्त्वव्यापिनामिति पाठ ।

१२का०] रामकण्ठाचार्यकृतविवृत्युपताः ११३ क्षिप्तमतयो निरीक्षन्ते। तथा-'रसो' रसववस्तु- विरहेऽपि अमृतास्वादो मुखे, लोलाग्रेलम्बिका- दिधारणानिरतैः अप्तत्वध्यायिभिर्य उपलभ्यते; पवनतत्त्वध्यायिनां स्पर्शविशेषोऽपि योऽभिव्य- ज्यते सोऽपि अस्मात् प्रवर्तत,-इति अत्र द्रष्ट- व्यम् । इदमत्र तात्पर्यम्-उन्मेषाभ्यासयोगि- ना तत्तद्धारणाद्यभ्यासचिरलभ्यास्वपि अचिर- प्राप्यासु एतासु उपलब्धिषु संतोषिणा न भा- व्यम्,-निरुत्तरपदारोहप्रत्यूहभूतत्वादासाम् । एताश्चेतरयोगिनां क्रमभाविन्योऽपि उन्मेषा- भ्यासयोगिनां तदभिसंधिविरहात् अक्रमेणापि प्रवर्तन्ते इति तथैव निर्दिष्टाः। व्याख्यातमे तत् 'अतोऽस्मात् उन्मेषात्' इत्यादिना वृत्तौ ॥१२॥ (२) लोलान जिह्वामूलम् । (३) लम्बिका तालुरन्ध्रम् । प०५ ख० पु. 'तथा' शब्दो नास्ति । प०११ ख. पु. अभिसधीति तदभिप्रायेति पर्यायोपेत. पाठ ।।

१२० स्पन्दकारिकाः [४नि एवम् उन्मेषोपदेशेन आत्मनो देहादिवे- द्यव्यतिरिक्तस्वरूपतां प्राक् बहुभिः प्रकारैः प्रतिपादितां संग्रहेण प्रतिपाद्य, इदानीं तथैव तस्य सकललोकस्वानुभवसिद्धं व्यवहारं प्रदर्श- नीकृत्य विश्वरूपतां संक्षेपतः प्रतिपादयन् समस्तप्रकरणार्थतात्पर्यमाह दिदृक्षयेव सर्वार्थान्यदा व्याप्यावतिष्ठते। तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ॥१३॥ 'यदा' यस्मिन् काले, साधको 'दिदृक्षयेव' द्रष्टुमिच्छया यथा 'सर्वार्थान्' अखिलान् प्रमे- यपदवीजुषो भावान् 'व्याप्य' खसंवित्प्रकाशन आच्छाद्य, तदन्तीनान् कृत्वा 'अवतिष्ठते नानात्वदर्शनभ्रान्तिनिवृत्तेरेकत्र तत्त्वे विश्राम्य- ति; 'तदा' तस्यां दशायां यत्फलमनुभूयते तत्र 'बहुना' भूयसा 'उक्तेन फलाभिधानेन 'किं? पं. ४ ख. पु. अनुभवप्रसिद्धमिति पाठः । पं०८ स्वयं तदवभोत्स्यते' इतीत्थमेवात्र मूलपाठ. समुचितः प्रतिभा. ति तथैव व्याख्यातत्वात् ।

. १३का०] रामकण्ठाचार्यकृतविकृत्युपेताः १२१ तत्प्रतिपादनेच्छया ग्रन्थसहस्राण्यपि उक्तानि निरर्थकानि भवन्ति, तस्य वचनगोचरातीतत्वा- त्, अत आह 'खयं तदवभोत्स्यते' इति, तत् तादृशं फलं, स्वयमात्मनैव, व्यतिरिक्तसाधन- निरपेक्षेण प्रतिपत्स्यते अभियुक्तः, स्वसंवेद्यत्वा- त् तस्य । इदमत्र तात्पर्यम्, योगिना सर्वभा- वानां स्वस्वभावाव्यतिरेकजिज्ञासुना स्वानुभूता दिदृक्षावस्था निदर्शनीकार्या, तथा हि- द्रष्टु- मभीष्टा भावाः स्वस्वभावाभेदेन व्यवतिष्ठन्ते, भावभेदहेतोरिदन्ताप्रत्ययस्य अनुन्मेषात्, त- दा यथा दिदृक्षावस्थायां क्षेत्रज्ञस्वभावादभेदः तदिक्षितानां भावानां, तथा परमात्मस्वभावा- त् अखिलजगद्भावानामभेद एव,-इति पूर्वोप- दिष्टव्यतिरिक्तात्मस्वरूपोपलब्धिपरामर्शाभ्या- सात् उन्मिषितदिदृक्षाक्षणोपलक्षणक्षमविज्ञा- नचक्षुषं योगिनं प्रत्येव अयमुपदेशः; मायाश- क्तिजनितेन हि विकल्पतिमिरेण तिरस्कृतस- म्यग्ज्ञानदृश एकमेव निर्विभागचिन्मात्रखरूप- , १२२ स्पन्दकारिकाः [४नि मात्मतत्त्वं प्रमातृभेदेन प्रमेयभेदेन च नानारूपं पश्यन्तो दिक्षितदृश्यमानदृष्टाद्यवस्थाविभा- गं भावानां परिकल्प्य, दिक्षितानामपि तेषां जीवस्वभावादभेदं वस्तुसन्तमेव पराम्रष्टुमश- ताः, कुतो जगद्भावानां परमात्मस्वभावानाम् अभेदं प्रतिपद्येरन्, तदायोगिनैव दृष्टान्तीकृत- खदिदृक्षाक्षणपरामर्शदिशा स्वस्वभावाभेदम- खिलभुवनभावाभासानां भावयता भेदध्वान्त- निर्भेदभास्करेण भवितव्यम्-व्याख्यातमेतत् ' दिक्षा द्रष्टुमिच्छा तदवस्थास्थ इव' इत्यादिना वृत्तौ ॥ १३॥ एनमेव उपदेशं द्रढयितुमाह पं० १ ख० पु. प्रमातृप्रमेयभेदेनेति समस्तः पाठः । प०२ ख० पु० दृश्यमानद्रष्ट्रादीति, दृश्यमानदृश्यादीति पाठान्तरोपे तश्च पाठः। पं. ४ ग० पु. वस्तुत. सन्तमिति पाठः। पं० ६ ख० पु. तदा यदि नैवेति पाठ. । पं० १२ क. ग. पु० एवमेवोपदेशमिति पाठ. ।

१४का०] रामकण्ठाचार्यकृतविकृत्युपेताः १२३ प्रबुद्धः सर्वदा तिष्ठे- ज्ज्ञानेनालोच्य गोचरम् । एकत्रारोपयेत्सर्व ततोऽन्येन न पीड्यते ॥ १४॥ 'सर्वदा सर्वासु अनुभवदशासु 'प्रबुद्धस्ति- छेत्' प्रतिपादितोपदेशाभ्यासपरत्वात् अनिमी- लितसम्यग्ज्ञानदृष्टिः जाग्रदेव आसीत। कथं?- 'ज्ञानेन' संवेदनेन 'गोचरं' विषयम् 'आलोच्य' परिच्छेद्य, तथारूपतया निश्चित्य 'एकत्र' ज्ञा- तरि स्वात्मनि 'सर्व' परिच्छेद्यम् 'आरोपयेत्' अर्पयेत्, तदभिन्नतया प्रतिपद्येत इत्यर्थः । 'ततश्च' सर्वभावानामेकप्रमातृवरूपाभेदप्रति- पत्तिरूपात् आरोपणात् 'अन्येन व्यतिरिक्त या अवभासमानेन प्रमेयेण, वक्ष्यमाणेन कला- द्यात्मकेन भावजातेन 'न पीडयते' विनश्वर- भावाहंभावप्रतिपत्त्यादिना पाशेन संसारचके निबध्य न कदर्थ्यते । इदमत्र तात्पर्यम्,-यं १२४ स्पन्दकारिकाः [निः यमर्थ रूपादिकं चक्षुरादिज्ञानेन प्रमाता आ- लोचयति निश्चिनोति, स स निश्चयावस्थायां प्रमातृरूपात् अभिन्न एव भवति; निश्चितत्वं हि नाम वस्तुनः प्रकाशमानत्वं, तच्च प्रकाश- मानत्वादभिन्नमेव, नान्यद्भवितुमर्हति, प्र- काशव्यतिरिक्तरूपत्वे तस्य प्रकाशमानतानुप- पत्तेः। एवं निश्चयावस्थायां प्रकाशमात्रखरूप- प्रमात्रभेदः सर्वभावानां स्वभावसिद्धः, तत एवंविधो ग्राह्यग्रहीतृग्रहणसंबन्धः स्थितोऽपि अपरामृश्यमानो नानात्वमोहजालेन बध्नाति सर्वजन्तून् , अतः सर्वावस्थासु अविरतपराम- शे भवेत् , येनैकप्रमातृपरमार्थत्वं जगद्भावानां प्रतिपन्नः सन् पुनः संसारी न स्यात्। तदेवं 'प्र. बुद्धः सर्वदा तिष्ठेत्' इत्युक्तम् । 'प्रबुद्धोऽसंकुचितशक्तिः इत्यादिना व्याख्यातमेतत् वृत्तौ ॥ १४ ॥ , पं०६ ख० पु. प्रकाशमानतापत्तरिति पाठः । पं. १० क. पु. नानातममोहजालेनेति पाठ.।

सन् १५का०] रामकण्ठाचार्यकृतविकृत्युपेताः १२५ इदानीमेवं स्वयं संव्यवस्थितः स्वात्मैव प- रमेश्वरः एकः पदार्थः निजयैव मायाश. क्या प्रतिपशु भेदेन आत्मानमवभासयन् की- डति-इति तत्वतो द्वितीयपदार्थाभावमेव स- मर्थयमानः पशुस्वरूपप्रतिपादनद्वारेण शक्ति- प्रसरक्रीडामेव अस्य प्रतिपादयितुमाह शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् । कलाविलुप्तविभवो गतःसन् स पशुः स्मृतः ॥१५॥ 'स' इयता प्रबन्धेन प्रतिपादयितव्यस्व- रूप आत्मैव ईश्वरो, वक्ष्यमाणेन हेतुना परा- धीनसर्ववृत्तित्वेन अनवभासितात्मा 'पशुः ति- र्यक्प्रायः 'स्मृतः' अनादित्वात् संसारक्रीडा- व्यवहारस्य सदा स्मर्यमाणत्वेन स्थितः । की- दृशः सन् ?-'शब्दराशिसमुत्थस्य शक्तिवर्गस्य प० २ ख० ग० पु० मायाशक्त्या पतिपशुभेदेनेति पाठः । प० ११ ख. पु० प्रतिपादितस्वरूप इति पाठ ।

१२६
स्पन्दकारिकाः [४नि०
कलाविलुप्तविभवो भोग्यतां गतः सन्' पारमे-
श्वर्याः शक्तेः वक्ष्यमाणवायूपप्रसराभिप्रायेण
आदि-क्षान्तवर्णसमुदायात्मिकाया] स्तद्वि-
परीत
(१)
परामृतरसापायस्तस्य यः प्रत्ययोद्भवः ।
तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः
॥१६॥
(१) 'विपरीतम्' इत्यतोऽनन्तरमस्य श्लोकस्यावशिष्टव्याख्याभागो
यावत्समस्तमूलादर्शपुस्तकेषु विनष्टसत्तया त्रुटितोऽस्ति । अतः इद ब्या-
ख्यानं पद्यार्थभिज्ञानाय स्पन्दप्रदीपिकाग्रन्थात् प्रक्षिप्योपन्यस्यते-
--
शब्दानां राशि. 'शब्दराशिः' वर्णसमूह , मातृका अकारादि क्षकारान्ता
शब्दजननी वर्णात्मकत्वात् शब्दानाम्, 'तत्समुत्थस्य' कादिवर्गात्मकस्य
ब्राह्मयादिशक्तिवस्य 'कलाभिः' ककाराद्यक्षरैः 'विलुप्तविभव' हृतमहा
व्याप्ति स्वस्वभावात्प्रच्यावित अत एवास्य 'भोग्यतां गतः सन्' पुरुष.
'पशुः' उच्यते अज्ञत्वात् । उक्तं च ईश्वरप्रत्यभिज्ञायाम्
'स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पति ।
मायातो भेदिषु क्लेशकर्मादिकलुषः पशु ॥'
इति । अन्यत्रापि
भेदग्रन्थिविभड्गे हि कर्मात्मैक्यं प्रपद्यते ।
सोऽविज्ञात
पशुः
प्रोक्तो विज्ञातः पतिरेव स.।'
इति ॥११॥

१६का०] रामकण्ठाचार्यकृतविवृत्युपताः- १२७ 'अस्वतन्त्रों' व्यतिरिक्तसाधनसामग्यपेक्षसक- लसमीहितार्थः पुमान् तद्भावमापद्यते , जागर- स्वप्नसुषुप्तावस्थोपमेयसकल-विज्ञानाकल-प्रल - यकेवलाख्यभेदत्रययोगी सहजादिमलत्रया- वृतः पशुर्भवति इत्यर्थः । यतस्तस्य प्रत्ययोद्भव एव 'परामृतरसापायः' परम् अनुत्तरम् अमृत- मविनाशि अद्वयचिन्मयं शिवाख्यं स्वरूपं तस्य 'रसः' तथाप्रत्यवमर्शात्मक आस्वादः, तस्मात् 'अपायः' पृथग्भावोऽन्यथावृत्तिः इदमित्यादि- (१) 'परामृतेति' अस्य पद्यस्यापि 'अस्वतन्त्र' इत्यन्त श्राद्यच्या- ख्याभाग समस्तमूलादर्शपुस्तकेषु पूर्वपद्यव्याख्याभागवद्विनष्टसत्तया त्रु- हितोऽस्ति । अतोऽस्य पद्यस्याप्यर्थज्ञापक व्याख्यान स्पन्दप्रदीपिकाग्रन्या- देव प्रक्षिप्य उपन्यस्यते- 'तस्य' च पशोर्य 'प्रत्ययोद्भव.' श्रोत्रादिद्वारेण विषयदर्शने स्मरणादि- ज्ञानोत्पत्तिः , स एव 'परामृतरसात्' स्वरूपोदयात् 'पाय' प्रच्युतिः यत 'स' पुमान् तेनास्वतन्त्रतां पारतन्त्र्यम् असर्वगतादिम् ‘एति' प्रामो- ति, स च 'प्रत्ययोद्भव तन्मानगोचर.'शब्दादिविषयविषय. तदभिलाषा- स्मक इत्यर्थः ॥ १६॥ प०३ ग० पु. विज्ञानप्रलयाकलेति पाठ । प०५ क. पु. प्रलयोद्भव एवेति पाठ ।

१२८ स्पन्दकारिकाः [४नि० विकल्परूपः। इदमत्र वाक्ये गर्भीकृतम्-ए- कस्यैव परस्य तत्त्वस्य स्वेच्छापरिकल्पितानुग्रा- ह्यानुग्राहकभावविविक्तात्मनोऽनुग्राह्योपायार्थ, तथैव स्वेच्छया परिकल्पितशिवशक्तिसदाशि- वेश्वरविद्यात्मकविभागाभासस्य प्रक्रियाशास्त्रे- षु यत् पञ्चरूपत्वं व्यवस्थितं, तत् परामृतश- ब्देन रसशब्देन च संग्रहेण उक्तम् । तथा च- अहमित्येव अत्यन्तभेदसंस्पर्शशून्यपरमशिवा- ख्यस्वभाववाचकत्वेन परामृतशब्दः, तत्पराम- शरूपशक्तितत्त्ववाचकत्वेन च रसशब्दः अत्य- न्तप्रशान्तनिष्परामर्शशून्यप्रायशिवतत्त्ववादि. मतनिरासार्थं यः प्रयुक्तः स पूर्वं व्याख्यात एव; तदेवं तत्त्वद्वयं शिवशक्त्याख्यं, यदभिन्नमपि स्वरूपप्रतिपादनान्यथानुपपत्त्या विभज्य तत्त्व- पं. ६ ख. पु. पञ्चरूपत्वं स्थितमिति पाठ । पं. ७ ख० पु. संगृह्य उक्तमिति पाठ । पं. ग. . परामर्शरूपः शक्तीति पाठः । पं० १२ ग० पु. स एवं व्याख्याततत्त्वेति पाठ. ।

१६का०] रामकण्ठाचार्यकृतविकृत्युपेताः १२६ विद्भिःप्रकाश्यते। तथा च तत्त्वगर्भस्तोत्रे गुरु- भिः सततमविलुप्तोपलब्धृत्वलक्षणस्वधर्मरूपा- याः शक्तेः प्राधान्यप्रतिपादनाभिप्रायेण शिव- तत्त्वमेवमस्तूयत। 'यस्या निरुपधिज्योतीरूपायाः शिवसंज्ञया। व्यपदेशः परां तां खामम्बां नित्यमुपास्महे ।। इति । शक्तितत्त्वं च विदितपरमार्थैः स्वरूपप्र- त्यवमर्शसामान्यस्पन्दादिसंज्ञाभिः व्यवह्रिय- माणं तत्पर्यायभूतोन्मेषादिपदाभिधेयतया प्र- तिपादितम् । यदुक्तम् 'किंचिदुच्छूनतापत्तेरुन्मेषादिपदाभिधाः। प्रवर्तन्ते खयि शिव शक्तिता ते यदाम्बिके ।' इति। न च यदाशब्दश्रुतिभ्रमात् कदाचिदेषा शक्त्यवस्था भवति, कदाचिन्न भवति इति म- न्तव्यम् ; यतः स्वभावसंवेदनात्मको नित्यः सा- मान्यस्पन्दरूप एव धर्मः किंचिदुच्छूनता इत्यु- प० ४ ख. पु० तत्त्वं स्तूयते इति पाठ । पं०८ ख० पु० स्पन्दादिभिर्व्यवह्रियमाणं तात्पर्यभूतोन्मेषादीति पाठ ।

१३० स्पन्दकारिकाः [४नि० क्तम् । ततः परं सदाशिवेश्वरविद्याख्यं तत्त्वत्रय- मपि परामृतशब्दवाच्यमेव; यतः परमेश्वरस्य परमार्थतः एकत्वेऽपि अत्यद्भुतस्वैश्वर्यवीर्येण विशुद्धचिन्मात्ररूपतया विश्वात्मकत्वेन च अ- न्तर्बहीरूपं द्वैविध्यं यदवस्थितम् , तत्र विश्वा- त्मकस्य बाह्यस्य रूपस्य ज्ञेयकार्यभावेन लब्धस्व- रूपत्वात् एकापि तच्छक्तिः ज्ञानक्रियारूपतया द्वित्वेन उपचर्यते । तच्च ज्ञानक्रियात्मकत्वं यत्र बहिरगृहीतोन्मेषमन्तः साम्येनैवावतिष्ठते त्रैगु- ण्यमिव अव्यक्तावस्थायां, सा परमेश्वरभोगा- त्मकज्ञानक्रियारूपत्वेऽपि अन्तर्मुखत्वात् निमे- षात्मिका सदाशिवदशा। यत्र पुनः शक्तेः कि- याप्राधान्येन बहिहीतोन्मेषायाः पराहंभाव- विश्रान्तिः सा ईश्वरदशा। यस्यां पुनर्ज्ञानश- क्युरेकेण अस्या बहिर्मुखत्वं बाह्याभ्यन्तररूप- सामानाधिकरण्यपर्यवसायित्वात् स्वरूपवि- पं० १० ख० पु० पारमश्वरभोगेति पाठ । पं० १५ ख० पु. बहिर्मुखबाह्याभ्यन्तरेति पाठ. ।

१६का०] रामकण्ठाचार्यकृतविवृत्युपेताः १३१ श्रान्तिनिष्ठत्वमेव सा विद्यादशा इति । तिस- ध्वपि एतासु दशासु भेदप्रतिपत्तिमूलत्वात् ल- ब्धात्मिकापि मायाशक्तिः परस्याः संविदःसर्वा- पूरकपरिपूर्णाहंकारलक्षणे स्वभावे एव विश्रा- न्तत्वात् प्रत्यस्तमिता सती परमानन्दनिर्भर- शिवरूपं तिरोधातुं नालम् ,इति पदत्रयमेतत्प- रामृतमेव । यदुक्तं तत्त्वगर्भ एव 'ज्ञानक्रियास्वरूपेण प्रवृत्तायास्तु ते शिवे । सदाशिवलं जगदुर्भोगाई तत्त्ववेदिनः ।। गुणीभूतज्ञशक्तिस्वं व्यक्तीभूतक्रियात्मिका। यदा तदैश्वरं तत्त्वं व्यक्ततामेति वृत्तिमत् ।। प्रवृत्तावुन्मुखीभूता भवेस्त्वं परमे यदा। ज्ञानशक्तिस्तदोदारा विद्या वं परिगीयसे॥' इति । तथा ईश्वरप्रत्यभिज्ञायाम् 'एवमन्तर्बहित्तिः क्रिया कालक्रमानुगा। मातुरेव तदन्योन्यावियुक्त ज्ञानकर्मणी ।। पं० २ ख. पु० भेदप्रत्ययमूलत्वादिति पाठ । पं० ६ ख० पु० पदत्रयमेवैतत्परामृतरूपमेवेति पाउ. । पं. १६ ख० पु० सान्तरेवेति पाठ. ।

१३२ स्पन्दकारिकाः [नि किं लान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः। बहिर्भावपरखे तु परतः पारमेश्वरम् ।। ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः। सामानाधिकरण्यं च सद्विद्याहमिदंधियोः॥ इदंभावोपपन्नानां वेधभूमिमुपेयुषाम् । भावानां बोधसारखाद्यथावस्ववलोकनात् ।।' इति। ततः परं तु परस्परपरिहारावस्थिताहंप्र- तीतिलक्षणभिन्नविषयापक्षिणि नानाभेदनिय- तात्माभिमानत्वात् तात्त्विकस्वैश्वर्यानभिज्ञे क्षे. त्रज्ञतत्त्वे मायाशक्तिरेव केवला प्रभोर्विश्वरूपै- श्वर्यप्रथास्पदभूता विजृम्भते । यथोक्तं तत्त्व. गर्भे एव 'यदा खेवंविधादत्र निजा भोगाज्ञता पशोः। तदा मायास्वरूपति गीयसे वैभवाश्रयः॥' इति । प्रत्यभिज्ञायामपि ५०१ ख. पु० दशोद्रेके सादेति पाठः । पं० २ ख० पु. परत परमेश्वर इति पाठ पं० ४ ख. पु. इदं द्वयोरिति पाठ । प० १३ ग० पु० एवंविधा चात्रेति पाठ । प० १४ ग. पु० स्वरूति ज्ञायसे इति पाठ, ।

, १६का०] रामकण्ठाचार्यकृतविकृत्युपेताः १३३ 'भेदे खेकरसे भाते ऽहंतयानात्मनीक्षिते। शून्ये बुद्धौ शरीरे वा मायाशक्तिविजृम्भते ।।' इति। सा इह प्रत्ययोद्भवशब्देन प्रतिपादिता, यतोऽहमित्येव शिवात्मकस्य स्वभावस्य पराम- र्शात्मकं सम्यक् ज्ञानं, तस्यैव च स्वभावस्य वि- श्वरूपतया अवभासमानस्य इदन्तोल्लेखने भे- दोद्भावनसामर्थ्य मायाख्या शक्तिराख्याता, न तु वस्त्वन्तरं किंचित् । इदामति च परामृश्य- मानोऽर्थः प्रकाशमानत्वमतिक्रम्य अन्यथाभ- वितुं यतो न शक्नोति ततो भेदरूपापि असौ माया प्रकाशात्मकपारमेश्वरधर्मत्वानतिक्रमात् भगवतः शक्तिरेव इयमत्यद्भुता, यत् स्वरूपं स एव एवं प्रत्यपादयत् । 'दैवी ह्येषा गुणमयी मम माया दुरत्यया। मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते॥' इति । तथाहि अत्रायमर्थः -एषा मम देवी- माया, देवस्य इत्थंक्रीडनैकरसस्य ईश्वरस्य पं. ६ ख० पु० स्वस्वभावस्येति, इदतोल्लेखभेदभावनेति च पाठ । प० १७ क० पु. क्रीडनकैकरसस्येति, ख० पु. क्रीडैकरसस्येति पाठः । ,

१३४
स्पन्दकारिकाः [४नि.
सतः शक्तित्वेन संबन्धिनी; किंस्वरूपा ?-गु-
णमयी,गुणाः सुखाद्यात्मानः सत्त्वाद्यभिधानाः
तत्प्रकृतिका; सा हि भेदावभासस्वभावा,
भिन्नश्चार्थः शब्दादिविषयात्मकः, विषयश्च
सुखादिसंवेदनपर्यवसितात्मा,-इति सुखादि-
रूपग्राह्याकारनिर्भासिनी माया गुणमयी इत्यु-
का। तथा दुरत्यया दुःखेन अत्येतुं शक्या,
तदतिक्रमणे कृतोत्साहैः प्रबुद्धैरपि सपदि स.
कलसंसार्यवस्थोच्छेदानुपपत्तेः भेदव्यवहारस्य
दुर्लद्ध्यत्वात् । किं तु मामेव ये प्रपद्यन्ते छि-
नद्वैतदशाप्रतिष्ठितसंविदः सुप्रबुद्धाः सन्तो
मामेवैकं तत्त्वमभेदेनारमतया प्रत्यभिजानते,
ते मद्भावमापन्ना एनामतितरन्ति। तस्यां
दशायां दिवसाताविव द्योतमानायाम् इयं
यामिनीव निर्मूलनष्टस्वरूपा तैरेवातिकान्ता
,
पं० ८ व. पु. क्रमणे नित्योत्माहरित पाठ ।
पं० ११ ख० पु. द्वैतदशा. प्रतिष्ठितेति पाठ ।
प० १३ ख. पु. तस्यां ह्यवस्थायामिति पाठ ।

। १६का०] रामकण्ठाचार्यकृतविकृत्युपेताः १३५ भवति । यदुक्तं स्तोत्रे 'समाधिवज्रेणाप्यन्यैरभेद्यो भेदभूधरः । परामृष्टश्च नष्टश्च त्वद्भक्तिबलशालिभिः ॥' एवंप्रत्ययोद्भवमानं माया, तन्मूलं च क्षेत्रज्ञ- तत्त्वं पशुपर्यायेण अस्वतन्त्रशब्देनात्र प्रतिपा- दितम् । प्रत्ययोद्भवरूपया हि अनया मायया स्वभावात् प्रच्यावितस्य अस्य तद्धर्मविपरीतेन कालादिरूपेण सुप्रसवेन पाशपञ्चकेन ग्रथितस्य पारतन्त्र्यं पशुत्वमुद्भाव्यते। तथा च-अयम् अनया व्यामोहितः अनवच्छिन्नत्वादिरूपं स्व- धर्मम् अपरामृशन् , तद्विपरीतेन अवच्छेदके- न कलनात्मना भूतभविष्यदादिविकल्पविभ- तेन कालाख्येन, तथा सर्वात्मकत्वधर्मविस्मृ- तेः सर्वत्र नियतकार्यकारणभावाख्यात्मकेन नियतिनाम्ना, तथा सर्वकर्तृत्वसर्वज्ञत्वलक्षण- धर्मद्वयौदासीन्यात् किंचित्कर्तृत्व-किंचिज्ज्ञत्व- प. ४ ख. पु क्षेत्रज्ञत्वमिति पाठ प० ११ ख पु. अवच्छेदककलनेति समस्त पाठ ।

स्पन्दकारिकाः [४नि. रूपाभ्यां कलाविद्याभिधानाभ्यां, तथा प्रेप्सि- तार्थविरहात् नित्यनिरभिलाषत्वलक्षणखधर्मा- परामर्शात् विषयाभिलाषितारूपेण रागाख्येन च पाशेन बध्यमानः पराधीनवृत्तिः पशुः संब- ध्यते । एष च मायाशक्तेः पञ्चभेदः प्रसवः स- मस्तस्य पशुप्रबन्धस्य अविशेषेण स्वरूपमावृत्य व्यवस्थितः । यस्तु प्रतिप्राणि विचित्रबुद्ध्या- दिरूपतया परिणमन् तमावृणोति, तस्य प्र- धानाख्यस्य प्रसवस्य प्रपञ्चं प्रत्ययोद्भवविषयप्र- तिपादनद्वारेणाह ‘स च तन्मात्रगोचरः' इति, स च पशुत्वकारणं प्रत्ययोद्भवः, तन्मात्रगोचरः तन्मात्राणि शब्दादिसामान्यानि गोचरो विष- यो यस्य स तथा; प्रत्ययो हि अयं प्रत्येयं भिन्नं विषयमपेक्ष्य प्रादुर्भवति, विषयविषयिभावश्च ग्रहीतृग्रहणग्राह्यरूपे त्रितये सति उपपद्यते। तदपि त्रितयं साधारण प्रवृत्तिकारणं विना न पं० १२ ख. पु. सामान्यशब्दादीनि इति पाठ । पं० १३ ख. पु. ह्येव प्रत्येकं भिन्नमिति पाठ. ।

१६का०] रामकण्ठाचार्यकृतविबृत्युपेताः १३७ स्यात् इति। तच्चतुष्टयमनेन वाक्येनाक्षिप्तम् । तत्र ग्रहीता प्रत्ययवान् पशुः, ग्राह्याः प्राधा- न्येन शब्दस्पर्शरसरूपगन्धाः आकाशादिस्थू- लभूताश्रया विशेषात्मका गुणाः, तदात्मना समस्तविषयोपलब्धेः। तेषां चात्रोपादाने उपप- ने सामान्ये सर्वविशेषाणामन्तर्भावः,-इति सामान्यवाचिना तन्मात्रशब्देन उपात्ताः । तैः शब्दादिभिराश्रयभूतानि स्थूलानि आकाशा- दिभूतानि आक्षिप्तानि, निराश्रयाणां तेषामनु- पपत्तेः। तदेतत् दशविधं कार्यम् । स च प्र- त्ययवान् परवशः पशुः विषयित्वे सति इष्टानि- ष्टविषये हानादानक्रियायां करणमपेक्षते । तत्र येन विषयं निश्चिनोति तत्प्रकाशप्रधानं बुद्धया- ख्यं करणं । येन च अनात्मभूतं देहादिकम- र्थम् आत्मतया अभिमन्यते तद्विपर्ययात्मकं नियमप्रधानमहंकाराख्यं, येन च प्रवृत्तिप्रधाने- न विषयं विकल्पयति तत्संशयात्मक मनोऽभि- , पं० १२ क. ग. पु० क्रियायां कारणमपेक्षते इति पाठ ।

, १३८ स्पन्दकारिकाः [४नि० धानम् ,-इति त्रिविधमन्तःकरणं यथोत्तरं कार्यत्वेनोक्तम् । येन तु शब्दादीन् गृह्णाति तच्छोत्रादिबुद्धीन्द्रियपञ्चकम् । येन वचनादि- क्रियां करोति तद्वागादिकर्मेन्द्रियपश्चकम् ,-इ- ति दशविधं बहिष्करणम्। तच्च अहंकारका- यतयैव उक्तम् । तदेतदाभ्यन्तरं बाह्यं च क- रणम् । एवं त्रयोविंशतिविधः कार्यकरणवर्गों विषयित्वान्यथानुपपत्त्या अत्राक्षिप्तः । तथा प्र- वर्तकं हेतुमन्तरेण विषयप्रवृत्तेरभावादपि विष- यत्वं न उपपद्यते,-इति स हेतुरत्र सुखाद्यात्मा प्रधानाभिधान आक्षिप्तः । तथाहि-सुखं प्रति- प्राणि स्ववासनानुगुणेष्टविषयप्राप्तेस्तृप्तिरनित्य आनन्दः, तेन प्रयुक्तः सन् इष्टविषयादानाय प्रवर्तते, तद्विपर्ययो दुःखम् अनिवतिः ततोऽनि- ष्टविषयहानाय; उभयन्यग्भावस्तु मोहः, त- स्मिन् सति व्यवतिष्ठते,-इति सुखदुःखमोहा- स्मकं प्रकाशप्रवृत्तिनियमार्थ सत्त्वाद्यभिधानगु- णत्रयमयं विकारावस्थायामपि अन्योन्याविना.

१६का०] रामकण्ठाचार्यकृताविबृत्युपेताः १३६
भूतत्वात् एकमेव प्रधानाख्यं सर्वप्राणभृतां वि-
विधवासनानुगुणनानारूपकार्यकरणात्मकस्खप.
रिणामप्रपञ्चानुगतसाधारणं प्रवृत्तिकारणं रा-
गाख्यमायीयमलप्रपञ्चभूतम् । अनेनैवाभिप्रा-
येण वृत्तिकृता स च तन्मात्रगोचरः, इत्यस्य
पदस्य
'रूपाधभिलाषात्मक
इति पर्यायः प्रयुक्तः। रूपादिषु योऽभिलाषो
रागः, तन्निमित्तकत्वात् तदात्मकः प्रत्ययोद्भवः,
ततश्च अभिलाषप्रपञ्च एव सुखाद्यात्मकं प्रधा.
नं कारणम् इत्येषा प्राधानिकी तत्त्वचतुर्विंशतिः
'स च तन्मात्रगोचरः' इत्यनेनाक्षिप्ता। प्राक् च
द्वादश तत्वानि निर्णीतानि, तद्यथा-शिवादिवि-
द्यान्तानि पञ्च, माया, कालादिपञ्चकं, पशुतत्त्वं
च,-इति षट्त्रिंशत्तत्त्वरूपतया पारमेश्वरी एकै-
वशक्तिर्विजृम्भते । व्याख्यातप्रायमेतत् वृत्तौ
प० २ क० पु. कारणात्मकस्वपरिणामेति पाठ ।
प० १२ ख. पु० तत्त्वान्याक्षिप्तानि इति पाठ ।
पं० १४ ख. पु० कलादिपञ्चकमित्ति पाठ ।

१४० स्पन्दकारिकाः [४नि० 'परामृतरसात् स्वरूपात् अपायः प्रच्युतिः' इत्यादिना ॥१६॥ एवं प्रत्ययोद्भवस्य पशुत्वकारणभावे प्रति- पादिते शक्तिवर्गस्य भोग्यतां गतः सन् पशुः स्मृतः, इति पूर्वोक्तविरोधपरिहारार्थमाह स्वरूपावरणे चास्य शक्तयः सततोत्थिताः। यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः ॥१७॥ 'अस्य' एवंप्रत्ययापादितपशुत्वस्य आत्म- नः 'स्वरूपावरणे' वरूपस्य शिवात्मकस्य ख- भावस्य आवरणे, तथाप्रत्यवमर्शाभावमात्रेण हेतुना व्यवधाने स्थगने; तन्निमित्तं 'शक्तयः' प्रागुक्ताः 'सततोत्थिताः' पतिपशुव्यवहारस्य न कदाचित् उपरमात् 'सततं नित्यम् ‘उत्थिताः' उदिताः; 'यतः' अवतन्त्रतापादनात्मना अ. मृतरसापायहेतुत्वेन प्रतिपादितो यः 'प्रत्ययो. पं० ६ ख० पु. एवंनत्ययापायपशुत्वस्येति पाठ । पं० १० ख० पु. शिवात्मस्वस्वभावेति पाठ ।

१७का०] रामकण्ठाचार्यकृतविकृत्युपेताः द्भवः' स 'शब्दानुवेधेन' शब्दसंभेदेन 'विना' न संभवति,-इति शेषः। एतदेव कुतः? इति चेत् , तदुच्यते,-शब्दः खलु प्रत्यवमर्शात्मा अवभासात्मनोऽर्थस्य अन्यतः खडोदकादर्शा- देरन्तःकोडीकृततत्तत्पदार्थसार्थात् जडात् भेद- तः खभावभूत एव । तथा च प्रत्यभिज्ञा 'स्वभावमवभासस्य विमर्श विदुरन्यथा । प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥' इति । अन्यत्रापि उक्तम् 'न सोऽस्ति प्रत्ययो लोके यःशब्दानुगमं विना । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ॥' इति। स च सर्वावच्छेदविरहितविशुद्धचित्प्रका- शात्मकमुख्यार्थनिष्ठः सन् प्रत्यवमर्श इत्युच्य- ते। जातिगुणक्रियाभिधानादिविविधविशेषाव- च्छिन्नभिन्नरूपविश्वात्मकार्थावभासनिष्ठस्तु वि. विधकल्पनात्मकत्वात् विकल्प इत्युच्यते । तदेव शब्दस्य मुख्यं रूपं, तत्संकेतत्वेन व्य- पं० १० ख० पु० शब्दानुगमाहते इति पाठ । पं० ११ ख. पु० सर्व शब्देन गम्यते इति पाठ. ।

, १४२ स्पन्दकारिकाः [नि वस्थितः श्रोत्रग्राह्यो ध्वनिविशेषात्मकोऽर्थ एव प्रायेण शब्द इति व्यवह्रियते । तस्माच्छब्द. रूपतामापन्नाः प्रत्ययोद्भवप्राणभूताः शक्तय एवास्य स्वरूपावरणे सदोयुक्ता,-इति शक्ति- वर्गस्य भोग्यतां गतः सन् पशुः स्मृतः, इति पूर्वोक्तेनाविरोधः प्रतिपादितः। 'स्वरूपस्य स्वस्वभावस्याच्छादने' इत्यादिना वृत्ती व्याख्यातमेतत् ॥१७॥ अथास्य शब्दपर्यन्तस्य प्रसरस्य, परस्याश्च शक्तेरभेदप्रतिपादनपूर्व तत्वरूपाप्रत्यभिज्ञा. मात्रनिबन्धनौ बन्धमोक्षौ प्रतिपादयितुमाह सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी। बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ॥१८॥ 'सा शिवस्य' स्वस्वभावस्यैव परमेश्वरस्य 'क्रियात्मिका' तत्वरूपप्रत्यवमर्शलक्षणव्यापा- पं० १० ख० पु. प्रत्यभिज्ञानिबन्धनाविति मात्रशब्दहीनः पाठः ।

१८का०] रामकण्ठाचार्यकृतविबृत्युपेताः १४३ रशरीरा'शक्तिः' अव्यभिचारी धर्मःसमर्थतारू- पः 'इयं' प्रतिपादितप्रसररूपा शक्तिः यैव अद्व- यचिन्मात्रस्वभावप्रत्यवमर्शिनी पराशक्तिः पर- मेश्वरस्य सैव इयम् इत्थं-प्रसृत्य अवभासते, तत्त्वतो नास्ति अस्याः ततो भेद इत्यर्थः । यथोक्तं वृत्तौ 'न सा जीवकला काचित्संतानद्वयवर्तिनी। व्याप्त्री शिवकला यस्यामधिष्ठात्री न विद्यते ।। इति। अस्य हि श्लोकस्यायमर्थः-जीवस्य पुंसः पशोः कलानां द्विविधः संतानो-ज्ञानरूपः कि- यारूपश्च; तत्र ज्ञानरूपोऽन्तःकरणात्मकः त्रि- विधः, क्रियारूपो बहिष्करणात्मकः खभावस्थ- प्राणशक्तिसहित एकादशविधः, इति चतुर्द- शविधो जीवकलासंतानः संग्रहात् द्विविध ए- व, संतानद्वयवर्तिनी जीवस्यात्मनः कला सा न काचित् संभवति इति शेषः; यस्यां व्याप्ती देशकालाधनवच्छिन्नवैभवाधिष्ठात्री वेद्यत्वादि- ना सर्वमधिष्ठाय आत्मपरतन्त्रं कृत्वा वर्तमाना । १४४ स्पन्दकारिकाः [४नि० शिवकला, शिवस्य परमात्मनः कला परा श- क्तिः उक्तरूपा न विद्यते सत्तां व्यभिचरति, सैव इत्थमवभासते इत्यर्थः। वैश्वरूप्येऽपि अ- वभासलक्षणस्य सामान्यरूपस्य शिवधर्मस्य व्यापकस्य अतिरोभावात् , सैव परा शक्तिरि- यम्, अपरा स्थूलक्रियारूपा,-इति परापरयोः शक्त्योरभेद एव पारमार्थिकः प्रत्यभिज्ञापितः। तदेतत् ज्ञानगर्भस्तोत्रेऽप्युक्तम् 'बहिष्करणबुद्धयहंकृतिमनःसुषुम्नाश्रया- चतुर्दशसु चण्डिके पथिषु येन येन व्रजेत् । कला शिवनिकेतनं जननि तत्र तत्र स्म ते दशोदयति दुर्लभा जगति या सुरैरप्यहो।' अस्यापि श्लोकस्यायं तात्पर्यार्थः-श्रोत्रादिप- ञ्चकं वागादिपञ्चकं दशविधं बहिष्करणं, बु. यहकारमनांसि त्रिविधमन्तःकरणं मध्यम- प्राणश्च,- इति कलायाः चिदात्मिकायाः शक्ते: चतुर्दश भेदाः। तेषां ये तावन्त एव पन्थानः प०१३ स० पु० जननि तत्र सा तादृशी इति पाठ. ।

.. १८का०] रामकण्ठाचार्यकृतविकृत्युपेताः १४५ प्रसरमार्गास्तेषु मध्ये येन येन केनचिदेकतमेन पथा एषा कला शिवनिकेतनं व्रजेत् , शिवः परमात्मा स एव निकेतनमालयस्तद् गच्छेत् , तत्र दशा उदयति-इति संबन्धः । शिवनिकेत- नं व्रजेत्-इति मायीयभेदप्रत्ययव्यतिरेकेण शि- वाख्यखपदाश्रयणरूपः पारमार्थिकः कलाया व्यापारः सिद्धवत् व्यवहृतः। इयं हि कला शिवा- त्मका निजास्पदात् 'न दुःखं न सुखम्' इत्या- दिना कृतलक्षणात् उदेति, कृतकृत्या च तत्रै- वान्तेन्तिः]प्रविश्य समरसीभवति सरिदिवसा- गरे; मध्येऽपि बुद्धयाद्यन्योन्यभिन्नप्रसररूपतया नानात्वेन अवभासमानापि जलरूपत्वमिव सा मान्यं चिदात्मकत्वं न व्यभिचरति,-इति न कदाचित् शिवस्वभावात् अपैति; किंतु मायाश- क्तिव्यामोहितःन तथा प्रत्यभिज्ञायते-इति । एवमेषा कला येन येन पथा शिवनिकेतनं - पं० १ ख. पु० मध्ये येन केनचिदिति पाठः । पं. ४ ख. पु० उदेति इति पाठः।

स्पन्दकारिकाः [४नि जेत्, तत्र सा तादृशी स्वसंवेद्यत्वात् व्यपदेष्टु- मशक्या कस्यचित् प्रबुद्धस्यैव दशा अवस्था उदयति अभिव्यज्यते, या सुरैब्रह्मादिभिरपि दुर्लभा, ते हि प्रत्ययोद्भवजनितब्रह्मत्वाद्यवच्छि- नपाशवाभिमानानतिक्रमात् शिवरूपां पतिद- शां कथमाप्नुयुः-इति । प्रकृतमिदानी व्याख्या- यते,-किंतु एवं-रूपापि असो पारमेश्वरी कि- यात्मिका परा शक्तिः ‘पशुवर्तिनी बन्धयित्री पशौ भेदप्रत्ययोद्भवापादितपारतन्त्र्ये पुंसि व- र्तमाना, बन्धस्य जन्मादिप्रबन्धपरिवर्तनात्म- कस्य संसारस्य की।-पशुः किल सर्वतो व्यव- च्छिन्नस्य आत्मन एव स्वत्वेन एनाम् अध्यव- स्यन् इष्टानिष्टविषयोपादानहानजनितसुखाद्य - नुभवमात्रपर्यवासितनिजज्ञानक्रियापरिस्पन्द स्वात् अपरामृष्टतत्परमार्थो व्यवच्छिनत्तिः । सा चैवं व्यवच्छिन्नत्वेन गृह्यमाणा तम् आ प्र. पं०४ ख. पु० तेन हि इति, ब्रह्मत्वाबनवीच्छन्नेति च पाठ. । प० १० ख०पु० जन्मादिप्रबन्धस्य संसारस्येति पाठः। प० १६ ख० पु० श्रा बोधोदयादिति पाठः । १ . १८का०] रामकण्ठाचार्यकृतावत्युपेताः १४७ बोधप्रत्युदयात् पशुत्वेन बध्नाति; इति पशुवर्ति- नी बन्धयित्री' इत्युक्तम् । ननु एवं-खभावत्वात् अस्याः, पशोः बन्धध्वंसाभावप्रसङ्गः ? तत आ- ह-'ज्ञाता' विदिता शिवात्मकस्वस्वभावप्रत्य- वमर्शक्रियारूपतया प्रत्यभिज्ञाता सती 'सिद्- ध्युपपादिका' सिद्धेः आत्मैश्वर्याधिगमलक्ष- णायाः परायाः , आनुषङ्गिकविविधविभूत्यावि. र्भावरूपायाश्च अपरायाः उपपादिका , वस्तु- खभावबलात् संपादयित्री ; यत एषा ‘खमार्ग. स्था' खस्मिन् आत्मीये शिवस्वभावरूपे मार्गे अध्वनि स्थिता , तद्वयतिरिक्तविषयान्तरनिवृ. तगतिरित्यर्थः; प्रत्ययोद्भवरूपमायावैभवोद्भा- वितभिदापेक्षया तु पशुवर्तिनी जीवकला-इ- त्युच्यते;प्रत्युदितप्रबोधस्य तु यथावस्थितत्वेन प्रत्यभिज्ञायमाना सर्वाः सिद्धीरुपपादयति।-इ- ति श्लोकार्थं व्याख्याय, इदानीं यथा एषा खमार्गस्था तथा वितत्य प्रतिपाद्यते । एषा प० १२ ख. पु. प्रत्ययोदमेति, प०१३ ख. पु. भेदापेक्षयेति पाठः।

१४८ स्पन्दकारिकाः [४नि हि परमेश्वरस्वरूपप्रकाशप्रत्यवमर्शमात्ररूपा परैव शक्तिः वाग्रूपतया प्रसृता,- इति प- रमेश्वरेण शास्त्रेषु बहुशः प्रदर्शयता सर्वदा खमार्गस्थत्वमस्याः प्रतिपादितम् । तथा च श्रीमालिनीविजये 'या सा शक्तिर्जगद्धातुः कथिता समवायिनी । इच्छात्वं तस्य सा देवि सिस्तोः संप्रपद्यते ॥ सैकापि सत्यनेकत्वं यथा गच्छति तच्छृणु । एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् ॥ ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते । एवं भवत्विदं सर्वमिति कार्योन्मुखी यदा ॥ जाता तदैव तत्तद्वत्कुर्वत्यत्र क्रिया मता । एवं यथा द्विरूपैव पुनर्भेदैरनेकताम् ॥ अर्थोपाधिवशायाति चिन्तामाणिरिवैश्वरी । तत्र तावत्समापन्ना मातृभावं विभिद्यते । द्विधा च नवधा भेदैः पश्चाशद्धा च मालिनी ।' इत्यादिना प्रकाशितोऽयमर्थः । तथा शब्दाद्व- प० ३ ख० पु. बहुशः प्रतिपादिता सर्वथा स्वभागैति पाठ । पं० १२ कुर्वन्त्यत्रेति पाट. समस्तादर्शपुस्तकेषु दृश्यते ।

१८का०] रामकण्ठाचार्यकृतविकृत्युपेताः १४६ यवादिभिरपि विवृत्तिवाचोयुक्त्या तत्प्रसरं प्रतिपादयद्भिः स्वमार्गस्थत्वमेव अस्याः प्रद. शितम् । यदाहुः 'वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥' इति । सैषा अत्यन्ताभेददशा, यस्यां स्फुटमेव अस्याः खमार्गस्थत्वम् । यदा पुनः इदमिति नानारूपं विभक्तत्वेन क्रमिकत्वेन च अन्तः परिस्फुरितमखिलं जगत् अविमर्शात् उपसंहृत्य विभागक्रमशून्यखमहिनि स्वभावव्योम्नि नि- मिषन्ती स्वरूपप्रकाशमात्रपरिशेषैव भवति, तदा आन्तरस्य परस्य ज्ञातुः पश्यन्त्यभिधान- वारूपा विवृत्तिः-इत्युक्ता । यदाहुः 'अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तः : सूक्ष्मा वागनपायिनी ॥" इति । अत्रापि खमार्गस्थैव एषा। यदा प्रा- रणप्रयत्नव्यतिरेकेण प्रतिप्राणि शरीरान्तरस्त्रो- प.क. पु. ऋमिकत्वेन भान्त इति, ग. पु. प्रथम पाठः ।

१५० स्पन्दकारिकाः [४नि. दितानादिनिधनध्वनिविशेषात्मकतया काला- दिक्रमं वर्णादिविभागं भाविनमनुगच्छन्ती प्रसरं गृह्णाति , तदा मध्यमाख्यवाग्रूपा वि- वृत्ति:-इत्यभिहिता; तदापि संविन्मात्रप्रकृति- कत्वमनतिक्रान्ता खमार्गस्थैव एषा । यदुक्तम् 'केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ।।" इति । यदा तु प्रयोक्तृपुरुषेच्छानुविधायिप्रय- नप्रेरिते प्राणाभिधाने मरुति शरीरोद्देशेषु उरःप्रभृतिषु जाताभिघाते, सैव सामान्यध्व- निरूपा स्वरव्यञ्जनादिभेदविभक्ताकारादिनि- यतवर्णरूपतां प्रयोक्तृभेदेऽपि अव्यभिचरन्ती प्रसरति , तदा वर्णभेदादिव्यञ्जकप्राणमात्रा- श्रया वैखर्यभिधानवारूपा विवृत्तिः-इत्युक्तम् । पं० ६ ख• पु. क्रमरूपानुवार्तनीति पाठ. । पं० ८ ख• पु० पुरुषानुविधायीति पाठः । पं० १२ ख० पु. रूपताप्रयोक्त्य इति पाठः। पं० १३ क० ग• पु० च पाठान्तरात्मा वर्णभेदाभिव्याकेति, पाठोस्ति ।

१८का०] रामकण्ठाचार्यकृतविवृत्युपेताः १५१ यदुक्कम् 'स्थानेष्वभिहते वायौ कृतवर्णपरिग्रहा । वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ।।' इति । तदापि असौ देशकालाधारप्रयोत्रादि- वैचित्र्यैः अविकार्यनियतवर्णसमुदायात्मिक- तां पुरुषेच्छादिसापेनाभिव्यक्तिकामजहती नित्यैव, संविद्रूपत्वमपि अनुगतमेव मध्यमा- वदस्यामपि:- इति स्वमार्गस्थत्वमपि अस्या न व्याहन्यते । एवमसौ वैखरीरूपतामापन्ना- पि मातृकावर्गवर्णपदवाक्यार्थभेदेन अपर्यन्तं प्रसरं गृह्णाति । यथा च वर्णवैखरीरूपा इयम् एवमनन्तप्रसरा,तथा स्वरवैखरीरूपापि खरग्रा- ममूर्च्छनातानजातरागादिभेदेनापि अनन्त- प्रसरा । तदेवम् इयं पारमेश्वरी परा शक्तिः .. पं. ६ क. पु० ५० ४ क० पु. देशकालाकारेति पाठान्तर च । सापचयभिव्यक्तीति पाठः । पं० १ ख. पु० स्वरवैखरीरूपेयमनन्तेति पाठ । पं० १२ ख० पु० अत्यन्तप्रसरा इति पाठ ।

, १५२ स्पन्दकारिकाः [४नि० खभावप्रत्यवमर्शक्रियादिना सांकेतिकशब्दप- यन्तेन निरवधिना स्वमहिम्ना प्रमृतापि, सर्व- स्यैव पदार्थजातस्य सामान्यसंवित्प्रकाशव्य- तिरेकेण अनुपपन्नखात्मलाभस्य प्रत्यवमर्शिनी सती, सर्वदा स्वमार्गस्थत्वं न व्यभिचरति । ततश्च-जगत्क्रीडार्थम् ईश्वरोद्भावितमायाश- क्तिजनितैः नानाविकल्परूपैरावरणः संबध्य- मानापि अनुग्रहशक्तिस्पर्शोन्मषितसत्यतद्रूप- ग्रहणकुशलविमलविज्ञानदृशः प्रमातन् प्रति तैः स्थगयितुमत्यन्तं तिरोधातुमशक्यैव-। यदुक्तम् 'सेयमाकीर्यमाणापि नित्यमागन्तुकर्मलैः । अन्त्या कलेव सोमस्य नात्यन्तमभिभूयते ॥' इति। तत् इत्थं परममेव कारणं यथाविभक्त- शब्दरूपतयापि प्रसृतम्-इति स्थितम् । 'सत्यं परागतं सूक्ष्मं निरवद्यमनुत्तरम् अथ ब्रह्म परं शान्तमादिवर्णत्वमागतम् ॥ प. ८ ख० पु० अनुग्रहशक्तिवशोन्मिषितेति पाठ । पं. ६ ख. पु. तद्रूपकुशलेति ग्रहणशब्दहीन पाठः । :

१८का०] रामकण्ठाचार्यकृताविकृत्युपेताः १५३ इत्यादि । तथा च शब्दाद्वयवादे सामान्येन शब्दार्थोभयरूपोऽपर्यन्तावान्तरभेदो योऽय- मीश्वरस्य शक्तिप्रसरः , तं विवर्तवाचोयु- त्या व्यवहरति स्म । यदाह 'अथायमान्तरो ज्ञाता सूक्ष्मे वागात्मान स्थितः। व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ।। अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥' इति । अत्र ब्रह्मपर्यायशब्दतत्त्वतया पारमेश्व- रमेव रूपं निर्दिष्टम् । तत्-इयं परा शक्तिरेव स्वमार्गस्था ज्ञाता तथा सम्यक्प्रतिपन्नस्व- भावा सती संपूर्णां सिद्धिम् उपपादयति,- इत्युक्तम् । सेयमेव वैखरीरूपतामापन्ना पुरुष- प्राणपरिस्पन्दाधीनाभिव्यक्तिकत्वात् स्थूला क्रियाशक्तिः, इत्यपि क्वचिदुक्ता, तत्पूर्वा च मध्यमा वाक् इच्छाशक्तिः, तत्पूर्वा च पश्य- पं. १ क. पु. वादिसामान्येनेति पाठान्तरं च । पं. ६ ख. पु० व्यक्तये स्वस्वरूपस्येति पाठ । पं०५३ क. पु० सेयमेवं वैखरेति पाठः।

- १५४ स्पन्दकारिकाः [४नि. न्ती ज्ञानशक्तिः इति । तदेवं शक्तिले सति शक्तिमन्तमियम् अपेक्षते, इत्यभिन्नमातृका- त्मकःशब्दराशिरूपक्रियाशक्तिप्रधान ऐश्वरो विग्रहोऽस्याः समाश्रयः, यत्र इयं वर्गादि. भिः वाक्यपर्यन्तैः स्वप्रसरभेदैः विजृम्भते । योऽपि वाक्यरूपः प्रसरोऽस्याः, स नित्यानि- त्यभेदेन द्विविधः, -तत्र मन्त्रात्मकः शास्त्रा. स्मकश्च नित्यः , लोकिकव्यवहारविषयलौकि- कवाक्यात्मकस्तु अनित्यः। एवं परमेश्वरशक्ति- खेन प्रत्यभिज्ञायमाना एषा वामयी विभूतिः परसिद्धिप्रदा, नानापशुसंबन्धितया तु अव. च्छिद्यमाना बन्धहेतुर्भवति-इति । व्याख्यात- मेतद् वृत्तौ 'सा चेयं क्रियात्मिका क्रियास्वभावा' इत्यादिना ॥१८॥ एवं पतिस्वभावस्यैव आत्मतत्त्वस्य स्वमायाव- भासितं पशुत्वं प्रतिपाद्य,इदानी पशोः सतो वि- द्योदयात् स्वमार्गस्थत्वेन अभिज्ञायमाना एषा पं० ८ ख. पु. लौकिकवाक्यात्मकलौकिकव्यवहारविषय इति पाठ. ।

१५५ २०का०] रामकण्ठाचार्यकृतविवृत्युपेताः परा शक्तिः, पतित्वाभिव्यक्तिमावहन्ती संसार- विच्छेदहेतुः यथाभवति,तथा संसारकारणप्रति- पादनपूर्व हेतुकथनं प्रतिजानानः श्लोकद्वयमाह तन्मात्रोदयरूपेण मनोऽहंबुद्धिवृत्तिना । पुर्यष्टकेन संरुद्धस्तदुत्थं प्रत्ययोद्भवम् ॥ १६ ॥ भुङ्क्ते परवशो भोगं तद्भावात्संसरेदतः। संमृतिप्रलयस्यास्य कारणं संप्रचक्ष्महे ॥ २० ॥ 'तो' हेतोः 'अस्य' उक्तवक्ष्यमाणरूपस्य पशोः, यः 'संसृतिप्रलयः, संसारक्षयः, तस्य 'कारणं हेतुं 'संप्रचक्ष्महे युगलकात् अस्मादु- तरेण श्लोकेन सम्यक् प्रकर्षेण च ब्रूमहे । अत्र व्यधिकरणेन षष्ठयो व्याख्येये। कुतो हे- तोः? यतोऽयं पशुः 'पुर्यष्टकेन संरुद्धः' सन् 'भोगं भुङ्क्ते' पुर्यां सूक्ष्मे शरीरे तन्मात्रप- ञ्चकं गुणत्रयम् -इति स्थूलशरीरकारणभूत- १५६ स्पन्दकारिकाः [४निः मष्टकम् यत् संनिविष्टं, तन्मुखं पुर्यष्टकम्, त- कार्यत्वात् स्थूलमपि शरीरं तच्छब्देन इह पुर्यष्टकम्-इत्युच्यते, तेन 'संरुद्धः 'तावन्मात्र. मात्मत्वेनाभिमन्यमानो विस्मृतसर्वात्मकत्वा. दिस्वसामर्थ्यवशात् बद्धः , अत एव 'परवशः सर्वशक्तिस्वभावव्यतिरिक्तकारणान्तराधीनस - कलसमीहितार्थसिद्धत्वात् अस्वतन्त्रः सन् 'भोगं' मायावभासितानादिनिजकोपचित. वासनानुगुणसुखादिसंवेदनात्मकतया पर्यव- सितं स्वविषयमानं 'भुङ्क्ते' अनुभवति । कीदृशं ?'तदुत्थं' तस्मात् पुर्यष्टकात् उत्थित- मुद्भूतं,-देहबन्धे हि सति भोगनिवृत्तिरुपपद्य- ते-तंभोगम् ?- 'प्रत्ययोद्भवं प्राग्व्याख्या- तस्वरूपनियतस्वविषयज्ञानोत्पादरूपं, विषयमात्रभोक्तृत्वाभिमानरूपस्य प्रत्ययस्य उ. त्पाद एव भोगः- इत्यर्थः । कीदृशेन पुर्यष्टकेन संरुद्धः ? - 'तन्मात्रोदयरूपेण' तन्मात्राणि • ११ ख० पु. कीदृश तदुस्थितमिति पाठः । पं० १२क०ग० पु. भागनिवृत्तिरिति पाठः । - स्व- पं.

, : २०का०] रामकण्ठाचार्यकृतविवृत्युपेताः १५७ स्थूलभूतकारणभावेन ईश्वरेच्छयैव अवभासि- ताः सूक्ष्माः शब्दादयः, तेषामुदयः स्थूल- शरीरभावपरिणताकाशाद्यात्मना अभिव्यक्ति। तथा च-अत्र यद्यन्नाड्यादि सुषिरं तदाकाशं शब्दतन्मात्रोदयः, यद्यत् सक्रियं प्राणादि स वायुः स्पर्शतन्मात्रोदयः, यद्यत् उष्णप्रभास्व- रादिरूपं अग्न्यादि तत्तेजो रूपतन्मात्रोदयः, यद्यत् द्रवरूपं रुधिरादि ता आपः रसतन्मात्रो दयः , यद्यत् कठिनं मांसास्थिस्नायवादि सा पृथ्वी गन्धतन्मात्रोदयः, - इति तन्मात्रो- दयो रूपमाकारो यस्य तत् तथा तेन । एवं तन्मात्रोदयरूपत्वं व्याख्याय , गुणोदयरूपत्वं दर्शयितुं विशेषणान्तरमाह, - मनोऽहंबुद्धिवृ- त्तिना' इति । अनुभूयमानस्य अस्य आत्म- लाभोऽनुभवश्च अन्तःकरणनिष्ठः - इति म- नसि रजोगुणोदये , अहङ्कारे तमोगुणोद- ये, बुद्धौ च सत्त्वगुणोदयरूपायां वृत्तिर्वत- प० १४ ख. पु० अन्तःकरणनिविष्ट इति, इति च पाठ. । प० १५ ख० पु० रजोगुणमये, तमोगुणमये इति पाठः ।

१५८ स्पन्दकारिकाः [४नि० नम् अवस्थितिः यस्य तादृशेन । स च ए- विधेन पुर्यष्टकेन संरुद्धः सन् पशुः 'तद्भा- वात् तस्य पुर्यष्टकस्य स्थूलसूक्ष्मस्य भावात् विद्यमानत्वात् अप्रबोधे सति अनुच्छेदात् 'संसरेत् ' अनवरतं नानाशरीरभोगवासनाक- र्मचक्रनममनुभवेत् आ प्रबोधप्रत्युदयात् । इदमत्र तात्पर्यम्-देहसंरुद्धस्य पुंसः प्रतिनि- यतसुखादिसंवेदनात्मनि भोगे यो भोक्तृत्वा- भिमानः,तत् संसारकारणम्, अतोऽस्य निराव णस्वस्वरूपस्थितिमात्र संसारविनाशहेतुं संप्र- चक्ष्महे-इति । व्याख्यातमेतत् वृत्तिकृता 'तन्मात्रोदय' इत्यादिना 'भक्तेऽश्नाति परवशः' इत्यादिना च ॥ १६ ॥२०॥ अधुना आत्मन एव शिवस्य यथोक्तैश्व- र्यरूपं पतित्वं येन अभिव्यज्यते, तत् समनन्त- पं० ६ ख० पु. प्रबोधप्रत्ययात् इति पाठ. । प० ८ व. पु. सवदेनात्ससरदात्मनि इति पाठः ।

२१का०] रामकण्ठाचार्यकृतविकृत्युपेताः रं प्रतिज्ञातम् उपायान्तरम् उपदिशन् प्रकरण- मुपसंहरति यदा त्वेकत्र संरूढ- स्तदा तस्य लयोद्भवौ। नियच्छन् भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ॥२१॥ 'यदा तु' यस्मिन् पुनः काले स्थूलसू- क्ष्मत्वात् अनयोः पुर्यष्टकसंज्ञानिर्दिष्टयोः प्र. त्ययोद्भवमात्रमूलयोःशरीरयोः मध्यात् ‘एकत्र' अन्यतरस्मिन्, अथवा-प्राक्प्रतिपादितोपप- स्या संवेद्यमानस्यैव अर्थस्य शरीरत्वे व्यव- स्थिते भूतात्मकभावात्मकभेदेन स्थूलसूक्ष्म- योः शरीरयोर्मध्यादेकत्र, अथवा-ध्येयतया आलम्बनीययोः स्थूलसूक्ष्मयो वयोर्मध्यात् एकत्र 'संरूढः' सम्यक् अविलम्बतया रूढः, पं०४ ख. पु. तस्य लयोदयाविति पाठः । पं०८ ख. पु. अनयोः प्रत्ययोद्भवमूलमानयो पुर्यष्टकनिर्दिष्टयोरिति पाठ । १० १५ ख० पु. अवलम्बनतया इति पाठ. ।

१६० स्पन्दकारिकाः [४नि० एकाग्रताप्रकर्षात् अभेदेन परिणतसंवित् साध- कः 'तदा, तस्मिन् क्षणे 'तस्य' अभेदेन प्रतिपन्नस्य यथोक्तस्य शरीरस्य 'लयोद्भवौ' त्यागग्रहरूपौ विनाशोत्पादो 'नियच्छन्' भो- क्तृशब्देन वक्ष्यमाणस्य सत्यस्य कर्तुः आ- त्मन एव कार्यतया अवधारयन् , - अहमेव नित्यनिरावरणस्वतन्त्रचिन्मात्रस्वरूपः अनयोः कर्ता-इति निर्विकल्पतया व्यवस्थापयन् 'भो. क्तृतामेति' भोक्तुरूपलब्धृमात्रस्वभावस्य पर- मात्मनो भावो भोक्तृता तामाप्नोति, सतीमीप तदानीमेव प्रत्यभिज्ञया स्वीकुरुते 'ततः' सत्या- त्मस्वरूपप्रत्यभिज्ञालक्षणात् हेतोः 'चक्रेश्व- रो भवेत्' चक्रस्य प्राक्प्रतिपादितस्थित्या च- राचरभावपर्यन्तेन प्रपञ्चेन प्रस्मृतस्य शब्दरा- शिसमुत्थस्य स्वशाक्तिसमूहस्य, ईश्वरोऽधि- ष्ठाता, स्वैश्वर्यविज़म्भामात्रतया अवगम्यमा- पं० ४ ख. पु. त्यागग्रहणेति पाठः। पं. ५ ख० पु. सत्यकर्तुरित पाठ । प० १४ ख. पु० प्रपञ्चेन प्रसृतेनेति पाठः ।

.. २१का०] रामकण्ठाचार्यकृतविकृत्युपेताः १६१ नस्य यथेष्टविनियोक्ता संपद्येत । तदैव स्वा- भाविकस्वातन्त्र्याभिव्यक्तेः पशुप्रत्ययप्रध्वंसे सति, शक्तिचक्रभोग्यतां विमुच्य, तद्भोक्तृभा- वरूपमैश्वर्य प्रतिपाद्यत; अतः तौ लयोद्भवौ तत्र भोक्तरि आत्मान नियच्छेत-इति वा- क्यार्थः । इदमत्र तात्पर्यम्-यथा सर्वः क- श्चित् देही देहमात्रप्रतिष्ठितात्माभिमानो बा- ह्यस्य घटादेः पदार्थस्य ग्राह्यतयैव प्रतिपन्न- स्य त्यागग्रही तादृशि स्वात्मनि नियच्छन् अहमेव एतयोः कर्ता-इति निश्चिन्वन् , ता- वति स्वतन्त्रं कर्तारं शरीरितानिविष्टमात्मानं मन्यते, तथैव तस्य शरीरस्य वेद्यभूमिकापाद- नेन क्रियमाणो त्यागग्रहो तद्विलक्षणे सर्वदा वेद्यत्वसंस्पर्शासहिष्णौ अनन्यसाधारणकर्तृत्व- स्वभावे सत्ये स्वात्मनि वस्तुसामर्थ्यात् नि- पं० ११ ख० पु. निविष्टं तमात्मानमिति पाठ । पं० १३ ख. पु० तद्विलक्षणेनेति पाठः । पं. १४ ख. पु० कर्तृस्वभावे इति पाठ. ।

१६२ स्पन्दकारिकाः [४नि० यमं भजन्तावपि अप्रबुद्धत्वात् न प्रतिपद्यते; ततः शरीरशरीरिविवेकग्रहणयोग्यप्रज्ञप्रबुद्ध- मेव प्रति अयमुपदेशः, यतः तादृश एव अनुग्र- हशक्तिशकलितसंशयग्रन्थिः परमेश्वरस्य एवं- विधविशेषोपदेशपात्रम् । यदाह 'अयं सर्वस्य प्रभव इतः सर्व प्रवर्तते । इति मला भजन्ते मां बुधा भावसमन्विताः ॥ मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति रमयन्ति च ॥ तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मांप्रापयन्ति ते ॥ तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥' इति । यस्मात् उपदेशात् अनुशील्यमा- नात्, अस्य ‘एकत्र' इति प्रतिपादितस्य शरी- रस्य अभेदेन प्रतिभासमानस्य सतः, सम- पं० ६ ख० पु. प्रसिद्ध-श्रीभगवद्गीतापुस्तकेषु च संदृश्यमानाः 'अहं सर्वस्य प्रभवो मत्तः सर्वमिति । 'तुष्यन्ति च रमन्ति चेति । 'येन मामुपयान्ति ते' इत्यवं पाठाःसन्ति । पं० १२ ख. पु० तेषामेवानुग्रहार्थमिति पाठः। ५० १६ ग० पु. ख.पु. च, शोधितः शरीरस्य भेदेनेति पाठः २१का०]] रामकण्ठा यकृतविवृत्युपेताः १६३ नन्तरं वेद्योक्रियमाणस्य त्यागग्रहात्मको लयो- द्भवौ तद्विधार्मिणि भोक्तरि सर्वेश्वरे स्वा- त्मन्येव स्वातन्त्र्येण कार्यतया नियम्यमानौ नियन्तुः परस्वभावप्रत्यभिज्ञामावहन्तौ सर्वे- श्वर्याय कल्पेते, ततः तौ तत्र नियच्छेत-इति वाक्यार्थः। तत् अनेन आत्मन एव शिवस्य स्वेच्छामात्राधीनौ जगतः प्रलयोदयौ, जग- दपि तत्स्वरूपाभेदात् तस्य स्वशक्तिचक्रम- यो विभव-इति यथोपक्रान्तार्थनिर्वाहात् एक- मेव तत्त्वं स्वरूपपरामर्शमात्राव्यभिचारधर्म- के परमार्थसन् , अतो व्यतिरिक्तं किंचित् न संभवति-इति उपपादितम् । यदुक्तम् 'परमार्थे तु नैकवं पृथक्खाद्भिन्नलक्षणम् । पृथक्लैकवरूपेण तत्त्वमेकं प्रकाशते ॥ यत्पृथक्खमसंदिग्धं तदेकलान भिद्यते । यदेकखमसंदिग्धं तत्पृथक्वान्न भिद्यते ॥ पं. २क. ग. पु. तद्रि धर्मिणि इति पाठ । पं० १ ख० पु० इति प्रथमोपक्रान्तेति पाठः। पं० १० ख० पु. एकमेव स्वतन्त्रं तस्वमिति पाठ.। पं० ११ परमार्थसत् इति संगतं भाति ।

१६४
स्पन्दकारिकाः
[निः
द्यौःक्षमा वायुरादित्यः सागराः सरितो दिशः।
अन्तःकरणतत्त्वस्य भागा बहिरवस्थिताः।'
इति । अयमेवार्थः उक्त्यन्तरेण स्वस्तोत्रे प्र-
तिपादितोऽस्माभिः
'चित्रालोकविकल्पकल्पितनवाकल्पाङ्कनानाकृति
नृत्यन्ती बहुधा बहिः खवपुषोऽप्यन्तर्न भिन्नां पुनः।
नित्यं नूतनकौतुकः प्रियतमां स्वां शक्तिमालोकयन्
अच्छिन्नापतिमप्रमोदमहिमा शंभुर्जयत्येककः॥
इति । तत् अत्र समनन्तरव्याख्याते श्लोके प्र-
करणारम्भश्लोकप्रतिज्ञातः स्वसंवेदनसंवेद्य
आत्मैश्वर्याद्वयलक्षणोऽर्थों निर्वाहितः। व्या.
ख्यातमेतत् वृत्तिकृता
'यदा पुनरेकत्र स्थूले मूक्ष्मे वा'
इत्यादिना ग्रन्थेन ॥२१॥
इति श्रीराजानकश्रीरामविरचितायां स्पन्दविवृतौ
शक्त्यात्मकविश्वाव्यातिरकोपलब्धिः प्रकीर्ण च
चतुर्थो निःष्यन्दः समाप्तः ॥४॥

रामकण्ठाचार्यकृतविवृत्युपेनाः १६५ इदानीम् आत्मन एव एकस्य तत्त्वस्य संशयमात्रम् अप्रथने कारणं, तच्च सद्गुरू- पदेशव्यतिरेकेण न शक्यमुन्मूलयितुम, पर- मेश्वरो हि गुरुमूर्तिमाविश्य अनुग्राह्यान् स्वप्र- त्यभिज्ञापनेन प्रबोधयति, इति निजगुरुसर- स्वतीस्तवनद्वारेणाह अगाधसंशयाम्भोधि- समुत्तरणतारिणीम् । वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम् ॥ १॥ 'ताम् अशक्यस्वरूपप्रतिपादनां हृदि स्फु- रन्तीं 'गुरुभारती वन्दे' गुरोः वसुगुप्ताभि- धानस्य साक्षात् सिद्धमुखसंक्रान्ततमस्तर- हस्योपनिषद्भूतस्पन्दतत्वामृतनिःष्यन्दस्य, भारती वाचं स्तौमि। कीदृशीम्?- 'अगाध' • २ ख. पु० संशयमात्रप्रथने इति पाठः । पं० ३ ख० पु. गुरूपदेशेन विनेति पाठः । पं० ४ ख. पु. गुरुमूर्तिमाश्रित्येति पाठः। प० ८ ख. पु० समुत्तरणशालिनीम् इति पाठ. । पं० स्पन्दकारिकाः [नि इत्याद्यार्धेन विशेषणम्, अविद्यमानो गाधो विश्रान्तिभूमिका यत्र तादृशो यः 'संशयः' तत्त्वाप्रतिपत्तिरूपो विभ्रमः, स एव दुर्जरवि- कल्पोर्मिजालसंकुलत्वादिना 'अम्भोधिः' स- मुद्रः, तस्य 'समुत्तरणें सम्यक् विलङ्घने 'तारिणीम्' नावम् । तथा 'विचित्रार्थपर्दा विचित्रः अत्यद्भुतः अर्थोऽभिधेयं वस्तु येषां ताशि पदानि यस्यां सा । तथा तां "चित्रां' घटनाविशेषशालित्वात् विस्मयाधायिनीम् । विशेषणद्वयेन अनेन अर्थगतं शब्दगतं च अतिशयं तुष्टाव, यतोऽत्र सकललोकाश- यनिर्विषयः कतिपयलोकोत्तरप्रबुद्धहृदयसंवा- दी विचित्रोऽर्थः पदानां, ताहगर्थप्रतिपादन- शालिनी च चित्रा पदवाक्यरचना-इति ओम् । व्याख्यातमेतत् वृत्ती 'अगाधो हि अप्रतिष्ठोऽनन्तः इत्यादिना ग्रन्थेन ॥१॥ पं० ३ ख. पु० स एव दुर्निवारेति पाठः ।

: रामकण्ठाचार्यकृतविवृत्युपेताः १६७ एष स्पन्दाभिधानो निधिरिह विवृतो वीतसंदेहसर्प- त्रासः संपूर्णासद्धिपदनिरतिशयज्ञानमाशिक्यगर्भः। सर्वार्थिभ्यो विलब्ध्या स्वयमपि सहजानन्दभोगोपलब्ध्या भव्यानामस्य लाभं सफलयतु परःशंकरस्य प्रसादः॥१॥ सद्विद्यासरसीविभूषणवरस्फारोत्पलोच्चाशय- प्रोत्सर्पत्परिपकबोधमधुपेनेदं मयागायि यत् । रामेणानुपमप्रमोदमधुरं बद्धावधानस्य त- च्छोतुः कस्य न चेतनस्य तनुते विश्रान्तिमन्तः पराम् ॥२॥ चेतस्याकुलिते कचित्कुविषये तूष्णीं विद्वत्य स्थितां व्यावर्त्य प्रणयात्मसाद्य च शनैः कान्तां निजांचेतनाम् । चुम्बन्तो विगलद्विभागनिविडाश्लेषोल्लसन्नूतना- नन्दस्पन्दानमीलिताक्षमनिशं भूयास्त भव्याशयाः ॥३॥ अत्युक्त यदिहास्त्यनुक्तमपि यद्यद्वा दुरुक्तं बुधै- स्तत्सूक्ष्मांशनिरूपणैकनिभृतमज्ञैरवज्ञायताम् । पुष्पान्तर्मकरन्दसारकाणकास्वादोत्सुकाः कानने किं विन्दन्ति कठोरकण्टकाशखास्पर्शव्यथां षट्पदाः॥४॥ शशिज्योतिर्दीपप्रभृतिभिरशक्यं शमयितुं यदासीनिःस्पन्दीकृतसकललोकं किल तमः। गते तत्रेदानी क्षयममलसूर्यागमहते कृतार्थाः संकोचं विजहतु विनिद्रा जनदृशः॥५॥ पं. १० क. पु. व्यावृत्त्य प्रणयादिति पाठ. ।

[४नि० १६८ स्पन्दकारिकाः जयति जनमरिष्टादुद्धरन्ती भवानी जयति निजविभूतिव्याप्तविश्वः स्मरारिः। जयति च गजवक्त्रः सोऽत्र यस्य प्रसादा- दुपरमति समस्तो विघ्नवर्गोपसर्गः ॥६॥ संपूर्णा इयं वृत्त्यनुसारिणी स्पन्दविवृतिः। कृतिस्तत्रभवतो महामाहेश्वराचार्यशिरोमणिराजानक- श्रीमदुत्पलदेवपादपद्यानुजीविनो राजानकश्रीरामकण्ठस्य इति शिवम् ॥ ॥ पं. १ जयतीति पद्यं क. ग० पुस्तकयोर्न विद्यते पं.८ग. पु. श्रीरामस्येति पाठः स्पन्दकारिकाविवृतौ प्रत्येकं कारिकाणां संक्षेपार्थसंग्रहः तत्रादौ व्यतिरेकोपपत्तिनिर्देशे प्रथमे नि ष्यन्दे om ३ ४ ५ जगदुत्पत्ति-प्रलयकर्तृत्वलक्षणशंकरखरूपलक्षणम् । जगत उत्पत्तिस्थित्युपादानत्वाचिन्मात्रतत्त्वस्यैवानव- च्छिन्नमहिमत्वनिरूपणम् । विभिन्नतया स्थितासु जाग्रदाद्यवस्थासु आत्मतत्त्व- स्य उपलब्धृत्वस्वरूपादनच्युविनिरूपणम् । अनन्तैः सुखित्व-दु:खित्वाद्यवस्थाविशेषैरनुषकस्य संवित्तत्त्वस्य एकावस्थानेनैव वृत्तिनिरूपणम् । वेदकैकस्वभावस्यात्मतत्त्वस्य सुखदुःखाद्यवस्थाननु- षङ्गप्रतिपादनम्। परमार्थतः शिवतत्त्वस्यैव समस्तवेद्यसंपादने स्वात. व्यनिरूपणम् । उक्तस्वतन्त्रशक्तेः शिवतत्त्वस्य श्रद्धादिसाधनावलम्ब- पुरःसरं स्वात्मत्वेन परीक्षणम् । सर्वकर्तुरीश्वरस्य वास्तवज्ञानात्मस्वस्वभावमवलम्ब्य पुरुषस्य तत्तुल्यस्वातन्त्र्यादिनिष्पत्तिनिरूपणम् । ६ क ख 8 देहाद्यात्मप्रतिपत्तिमूलरागादिमलातत्वात् जीवस्य व्यतिरिक्तत्वेऽपि उक्कमलापनुत्तिहेतुखभावानुभवात् स्वावस्थात्मपरपदावाप्तिनिरूपणम् । १० उतचरप्रथयापगतनोभस्य पुरुषस्य वास्तवज्ञत्व- कर्तृत्वलक्षणस्वस्वरूपावस्थानिरूपणम् । ११ उक्तदृशा स्वस्वरूपं प्रत्यभिजानानस्य जीवस्य जन्म- मरणादिक्षोभापगमनिरूपणम्। १२ समस्तवेद्यधर्मविरहितस्वरूपादात्मतत्त्वाद्यतिरिक्तस्या- सत्ताप्रतिपादनम्। १३ अभावभावनासमाधिलब्धभूमिकस्यापि सुषुप्त्यव- स्थावत् सत्तत्त्वप्रतिपत्तिनिरूपणम् । १४ कार्य-कर्तृत्वलक्षणेऽवस्थायुगले प्रथमस्य विनाशित- या, अपरस्य चित्स्वरूपस्य नित्याविनाशितया नि- रूपणम्। १५ चित्तत्त्वानुभवहीनस्य अभावसमाध्याद्यवस्थासु वैद्य- वस्तुनि केवलमुत्साहभङ्गनिरूपणम् । १६ सर्वज्ञत्वाद्यविच्छिन्नचित्तत्त्वज्ञानावस्थितस्य निरूपि- ताभावसमाधितद्यतिरिक्तयत्तदवस्थास्वपि स्वभावाम- च्युतिनिरूपणम् । व्यतिरिक्तस्वभावोपलब्धौ द्वितीये निःष्यन्दे असंभवन्मोहमबुद्धस्य स्वम-सुषुप्तयोः स्वात्मतत्त्वोप- लब्धेः, निरन्तरशब्दादिविषयासक्तिव्यग्रेन्द्रियव्या. पारस्यापबुद्धस्यासंभवत्परतत्त्वोपलब्धेश्च निरूपणम्।

ग २ ३ ४ ५ सार्वरूप्येण सर्वव्यतिरिक्तखेन च द्विप्रकारायाः पार- मेश्वरशक्तेः चतुर्वपि जागरादिषु पदेषु विभुत्व-चिन्म- यत्वप्रविभागनिरूपणम्। परशक्तिस्फाराश्रयणात् लब्धस्वस्वरूपस्य परमेश्वरा- नुग्रहोदितशुद्धपमातृभावस्य, अहं सुखी-दुःखीत्यादी- नां सत्त्वादिगुणस्पन्दानामपरिपन्थित्वनिरूपणम् । पारमेश्वरानुग्रहराहित्येन विमूढधिय उनसत्त्वादिगु- णस्पन्दानां दुस्तरसंसाराब्धौ निपातित्वप्रदर्शनम् । परशाक्ततत्त्वविवेकाय अव्याहतोत्साहस्याचिरानिज- स्वरूपोपलब्ध्यनुशासनम् । आत्मस्वरूपविवेचनक्षमप्रज्ञातिशयस्य प्रबुद्धस्य क्रोध- हर्षरागाधापतितावस्थानामपि प्रतिष्ठितस्पन्दोपल- ध्युपायतयातिदेशनम् । अवश्यकरणीयवचसः प्रभोराज्ञाशुश्रूषावधानाभ्या- सवत् समस्तवृत्तिप्रत्यस्तमयजाग्रवृत्त्यन्तीनतुरी- यदशावेशनिरूपणम्। उकाभ्यासदाात् सद्गुरूपदेशमत्यभिज्ञापिततुरी- यदशापत्यवमर्शस्य प्रबुद्धस्य बाह्याभ्यन्तराध्यातिक- मपरमपदविश्रान्तिलाभादेशनम् । ईश्वरशक्तिपातप्रभावात् प्रत्युदितसमस्तज्ञानदृष्टेः प्रबु- दस्य देहायहंमत्ययवियोगानुशासनम् । १० उचिचारयिषायां शिवाभेदोपपत्त्या स्वीकृतसाम- ७ घ र्थ्यानां मन्त्राणामिन्द्रियव्यापारवत्साधकस्याप्रति- हतसामर्थ्यादेशनम्। ११ उक्तमन्त्राणां शिवादभिन्नस्वरूपतया परमकारणे स्वस्वभावे एव शिवे सुदृढात्मप्रतिपत्तिरूपविलीनता- देशनम् । २ विश्वस्वभावशक्त्युपपत्तौ तृतीये भि ष्यम्दे संवेद्यघटसुखादी संवेदनाभेदसंविदुपलब्धेर्जीवस्य सर्वमयत्वनिरूपणम् । भोक्तुरेव भोग्यभावेन सर्वत्र संस्थानपरामर्शदाया- त् शब्दार्थचिन्तासु शिवावस्थानुशासनम् । इत्थमशेषवस्तुव्यक्तिविचित्रं विश्वं स्वनिर्मितचराचर- भावक्रीडनकोपरचितलीलामात्रतया पश्यतः साध- कस्य जीवन्मुक्ततादेशनम् । ३ १ २ अभेदोपलब्धौ चतुर्थे निःप्यन्दे साधकस्य स्मर्तव्यदेवताविषये तादात्म्याधिगमोप. देशः । उक्ततादात्म्यावस्थाधिगमस्य शिवात्मतामाप्तिस्वभा- वाभेदसमापत्त्युपायप्रतिपादनम् । इत्थमवधानवतो जीवस्य जागरावस्थायामिच्छापूर्व. कयथेष्टार्थप्रथनादेशनम् । स्वस्वभावप्रत्यवमर्शावहितस्य जागरवत् स्वपि स्वातन्त्र्येण स्वाभिमतार्थप्रत्यक्षीभवनादेशनम् । ३ ४ ५ w ७ 8 जागरास्वमलतणपदद्वये यथोक्तसंवित्तिसमाधानाप- रित्यागात् योगिनः समाधानादेशनं , तदन्यथात्वे भावसृष्टिपारतन्त्र्यादेशूनं च। चतोवधानेऽपि अदृष्टार्थवस्तुन आत्मसामर्थ्यात् प्रत्य- तीभवननिर्देशः। तथा दूरस्थानामपि अभिमतार्थानां सर्वज्ञस्वात्माभे- दपरामर्शाभ्यासात् झगिति प्रत्यक्षीभवनादेशनम् । सर्वकर्तृत्वस्वातन्त्र्यलक्षणात्मीयसामर्थ्याक्रमणाद- स्य योगिनः चुत्तृडादिजयनिरूपणम् । परस्परव्यतिरिक्तदेहमात्राहंभावलक्षणप्रतिबन्धमङ्- गात् अद्वयचिन्मात्रस्वात्मप्रतिष्ठिताहंकारस्य योगिनो निर्विघ्नतया सर्वज्ञखादिगुणाभिव्यक्तिनिरूपणम् । १० आविर्भूतसत्यात्मप्रत्ययस्य सहजानन्दलाभात् शरी- रमान्धादियातनापगमनिरूपणम् । ११ ग्लानिकारणभूताज्ञानविनाशहेतोः स्वस्वभावाभास- विकासस्य स्वरूपप्रतिपादनम् । १२ निःशेषेणानुन्मीलितदेहायहंमत्ययेण योगिना मा- प्यफलतया अभीष्टानामणिमादिसिद्धीनामुक्तोन्मे- षाभ्यासप्रभावसिद्धस्य योगिनो विनपरम्परारूप- त्वेन आदेशनम् । १३ पूर्वोपदिष्टात्मस्वरूपोपलब्ध्यभ्यासात् निवृत्तनाना- त्वदर्शनभ्रान्तेः स्वसंचित्प्रकाशेनान्तीनाखिलभा-C.. वजातस्य स्वानुभवसिद्धयधिगमादेशनम् । 10072 m श सस्थान परिग्रह प्रस्थान सारनाथ सो च १४ सर्वानुभवदशासु संपन्नसुज्ञानदृष्टेः स्वात्मनि तदभि- नतया आरोपितसर्वभावविपयस्य तद्भावजातकर्तु- खानाक्रमणातिदेशनम् । १५ अद्वयचिन्मात्रात्मस्वरूपस्य परमेश्वरस्यैव निजमा- याशत्तया चिक्रीडिषोः अनन्तभावराश्यात्मावविभा- सयिषयापशुस्वरूपप्रतिपादनम् । १६ गृहीतपशुभावस्य चिदात्मनो विषयप्रवृत्त्या स्वरूपो- दयप्रच्युतेः स्वातन्त्र्यादिगुणापगमनिरूपणम् । १७ इत्थं चिदात्मन उक्तलक्षणपशुखापतेः शब्दसंभेद- नशीलानां सदोदितशक्तीनां हेतुतया निरूपणम् । १८ पशुखयोगिन्याः बन्धयित्रयाः क्रियारूपेण परिण- तायाः, तथा शिवात्मकस्वस्वभावप्रत्यवमर्शरूपतया मोक्षसिद्धिप्रदखात् ज्ञानात्मिकायाश्च एकस्या एव शक्तेरभेदप्रतिपादनम् । १६ उक्तपशुखापत्तेरन्तः करणाद्याश्रयपुर्यष्टकयोगस्यापि हेतुतया निर्देशः। २० निर्दिष्टावस्थापचेः पारतन्त्र्यात्संसरतोऽस्य जीवस्य संसारक्षयहेतुप्रतिज्ञानम् । २१ अस्यैव पशुखमापनस्य चिदात्मनः प्राक्प्रतिपादि- तसर्वज्ञताद्यैश्वर्यलक्षणस्वस्वभावपतिवाभिव्यक्तेरु पायान्तरानुशासनम् । - इति स्पन्दविवृतौ कारिकासक्षेपार्थसंग्रह. समाप्तः ।

The Spanda Karikas

Author
Pt. Madhusudan Kaul Shastri ,edt.
Title
The Spanda Karikas
File name
The Spanda Karikas
Text
OCR done
Citation
1913
Published
21-01-06
Publisher
Byash Prakashan Varanasi
Language
Sanskrit
Pages
177
Library
Shantarakshita Sarnath Library Varanasi
Classification
Literture
DLI number
477572
Barcode
5990010152589.00
Scanning centre
IIIT, Allahabad
VMLT id
2espHCDYot9
Download PDF

The Spanda Karikas