Prakrit Bharati Academy, Jaipur
Pratima Shatakam
Front matter
No text on this page.
म भेट त्ता OLUCIOSOCIOCCOK 2C2C2C2%252C252525252C2K2RS25252C2C2C25252C2CP श्रीआत्मानन्द-मन्दरत्नमाला-द्विचत्वारिशं रत्नम् (४२) न्यायविसरदन्यायाचा श्री मद्यशोविजयवाचकपुङ्गवसङ्कलितपौर्णिमागच्छीयश्रीमद्भावमसूरिकृतलघुबत्तिसमेतम् Fাহাবি চাননি छातलाशतकम्। न्यापामोनिभित्रीनहिजयानन्दसूरीश्वरपदालङ्कारश्रीमद्विजयकमलसूरीशोपदिष्ट-वालुकड' ग्राम- वास्तव्य-शाह-गोविन्दजी-विठ्ठलदास-इत्याय श्राद्धस्य द्रव्यसहाय्येन महाशयिनी भावनगरस्था-श्रीजनआत्मानन्दसभा. इदं पुस्तकं भावपुरे वल्लभदास-निभुवनदास-गांधी-सेक्रेटरी-श्रीजनआत्मानन्दसभा भावनगर-इत्यनेन विद्याविजयमुद्रणालयाधिपति गीगाभातृ-तनूज-पुरुपोत्तमदास द्वारा मुद्रयित्वा प्राकाश्यं नीतम् । ककककककककककककककककककककककटहर ENSCHACNICICCHOCICCC S वीरसंवत् २४४१. आत्मसंवत् २०. विक्रमसंवत् १९७१.
No text on this page.
॥ अईम् ॥ - अथ प्रस्तावना ।। त्रिभुवनान्तर्वतिसकलसुरासुरनराधीशार्चितश्रीमद्भगवद न्यासबन्धुरस्य प्रतिमाशतकनामधेयस्यास्य ग्रन्थस्य के कारः किमर्थं अन्योऽयं प्रथितः ? कदा गुम्फितश्च ? इति विज्ञासायां जातायां- अन्योऽयं जन्मजरामरणरोगशोकादिविपत्तिमध्वजैदेदह्यमानानां सत्वानां श्रीमदाहतीयप्रवचनोपनिषत्लुधारसैकपरिषिञ्चमानैः, अनेकतर्फप्रमाणनयनिक्षेपादिशास्त्राभ्यासवशात् बुधजनार्पितन्यायविशारद-न्यायाचार्य-बिरुदद्वयैः, तपगणगगनाङ्गणदिनमणिप्रगल्भाभि- भवसुरगुरुअकबरसुरत्राणप्रतिबोधकसूरिपुरन्दरश्रहिरिविजयाभिषेयसूरीश्वरा अभूवन् , तच्छिण्या यतिकौटीमौलिकोटीरकल्पश्रीकल्याण- विजयास्तेषां छात्रा जान्हवीभुवनविमलभियो लाभनिजयविबुधास्तदन्तेवासिनः सनया नयविजयप्राज्ञास्तेषां विनीतबिनेयः, श्रीमद्यशावि- जयवाचकपुरवैः जिना लुम्पकाम्पफमतिनाग्वागुरायां मा पतवितिभिया भवभयोद्रिग्नपरमानन्दसन्दोहामिलापुकजन्तूनाभुपकृत्यर्थ, जिनागमोत्तीर्णमतीनां वसनखण्डवद्धास्यानां दुण्ढकानां समुद्धरणार्थं च वैक्रमीयाष्टादशशताब्द्या प्रथितः। कुमतोन्मत्तेभोन्मूलनकण्ठीरवाणां एतेषां वाचकवर्याणां न्यायविशारदपदं न्यायाचार्यपदं च कुत्र कैः समर्पितं ? इति सम्यग् विचारे जायमाने- "पूर्व न्यायविशारदत्वविरुदं काश्यां प्रदत्तं बुधैः, न्यायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम् । एतेन वाराणस्यां मनीषिभिर्विरुदद्वयं पूज्यानां समर्पितमितिस्वकृततर्कभाषाप्रशस्तिगतेन प्रान्त्यार्द्ध श्लोकाल्लेखेनावसीयते । अन्थस्यास्योपरि श्रीमन्महोपाध्याययशोविजयवाचंयमपुङ्गवैः स्वोपज्ञवृहद्वृत्तिः प्रणीतास्ति, तदनुसृत्या पौर्णिमागच्छप्रधानैः मातृकाप्रकरण-नयोपदेशावचूर्यादिग्रन्थप्रणेतृभिः श्रीमद्भिर्भावप्रभसूरिभिर्वैक्रमीयत्रिनवत्युत्तरसप्तदशशत [१७९३] वर्ष इयं लघुवृत्तिः सङ्कलितास्ति- यदाह " सूरिभावपमेणास्यां, तेनानाभोगतो मया । वृत्तौ पृथवकृतायां यत् , तच्छोध्यं विबुधैरसत् ॥१॥ व्यंकाश्वभूमिते [१७९३] वर्षे, माघशुक्लाष्टमी तिथौ । वारे देवगुरौ जाता, पूर्णेयं वृत्तिरुत्तमा ॥२॥" इति प्रस्तुतग्रन्थवृत्तिपशस्त्यन्तर्गतेनैतद्वृत्तद्वयेन वृत्तिनिर्माता वृत्तिनिर्माणसमयश्च प्रतीत एव । निष्प्रतिमप्रतिभाशालिभिरेभिर्वाचकपूज्यैरन्येऽपि-नयोपदेश-अध्यात्मसार-अध्यात्मोपनिषद्-अध्यात्मिकमतखण्डन-अध्यात्म- मतपरीक्षा-नयरहस्य-नयप्रदीप-न्यायालोक-जैनतर्कभाषा-ज्ञानबिन्दु-न्यायखण्डखाद्य-मार्गपारशुद्धि-उपदेशरहस्य-वैराग्यकल्पलता- ज्ञानसाराष्टक-देवधर्मपरीक्षा-धर्मपरीक्षा-यतिलक्षणसमुच्चय-गुरुतत्वनिर्णय-सामाचारी-भाषारहस्य-दात्रिशद्वात्रिशिका-अध्यात्मोपदेश- स्याद्वादरहस्य-ज्ञानार्णव-विचारबिन्दु-आत्मख्याति-सिद्धांततर्क-परिष्कार-अनेकान्तमतव्यवस्था--कर्मप्रकृतिवृत्ति-शास्त्रवार्तासमुच्चय- वृत्ति-षोडशकवृत्तीत्याद्यनेके कृता ग्रन्थास्सुप्रसिद्धा एव । तथा प्राकृतसत्त्वसङ्घातोपकृत्यर्थ गुर्जरगिरायामपि श्रीमद्वीतरागदेवस्तुतिद्वारेण कुमतिमतोन्मूलनतत्परा अनेके ग्रन्था गुम्फितास्सन्तिः। ग्रन्थेऽस्मिन् चतुरुत्तरशतं काव्यानां वर्तते । तत्र काव्यानामेकोनसप्तत्या श्रीमदाहतीयप्रतिकृत्युत्थापनलुप्ताशिवपथस्य लम्पकमतस्य खण्डनं कृतम् । नवभिः काव्यधर्मोत्तरसागरीयमतं निराकृतम् । काव्यद्वयेन सर्वज्ञा स्तुतिः कृता। द्वादशभिः काव्यैर्भगवद्र्व्यपूजा जानिषेधकं पार्श्वचन्द्रमतं निरस्तम्। - पञ्चभिः काव्यर्जिनचैत्यार्चनादिपुण्यकर्मवादिनां मतं निरस्तम् । षड्भिः काव्यैर्जिना स्तुतिः कृता । शेषैकेन काव्येन ग्रन्थकारैः खप्रशस्तिः प्रतिपादितास्ति । अन्धस्यास्य संशोधनकर्मणि चत्वारि पुस्तकानि समासादितानि । तेष्वायं अस्मद्गुरुवर्याणां उपाध्यायभीमवीरविजयपूज्य- पादानां सत्कं । द्वितीयं च प्रवर्तकश्रीमरकान्तिविजयपूज्यानां सत्कं । तृतीय पुनः श्रीमद्विजयानन्दसूरीशशिष्यश्रीमदमरविजयमहाशयानां सत्कं । तुर्य तु मज्ञांशश्रीमदानन्दसागरमुनिवर्याणां सत्कं । एतत्पुस्तकचतुष्काधारण महतायासेन संशोधितेऽप्यस्मिन्निबन्धे अस्मद्- रष्टिदोषादक्षरयोजकदोषावा यत्र कचन स्ललनं जातं भवेत्तत्र संशोध्य वाचनीयं प्रकृष्टप्रतिभाप्रधान प्रवरपण्डितैरित्याकासति- , ता.-२८-६-१५. पावलिप्तपुर, उपाध्यायश्रीमद्वीरविजयपदान्जभ्रमरायमाण: पं० दानबिजयगणो.
श्रीमद् विजयानन्दमूरीश्वरपादपोभ्यो नमः । प्रतिमाशतकम् । । सटीकम् । श्रीमहिमाप्रभसूरिसदगुरुभ्यो नमः । लक्ष्मीपुण्यगृहेऽणहिल्लपुरके श्रीपत्तने पत्तने, याथार्थ्य दधतीहरत्नखनितो हँढेरके पाटके । श्रीवीरः कलिकुण्डपार्श्वभगवान् प्रौढिं गतः श्यामलः, पार्यो नाथ इति त्रयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥ १ ॥ नित्यं स्नात्रमहैरिहैव भविकैः पुष्पादिभिः पूजितः, सद्भिः साधुगणहृदम्बुजपदे संस्थापितो भावतः । श्रीपञ्चासरपार्श्वनाथ इति यः प्रासिद्धथमयं गतः, सोऽयं वो विदधातु वाञ्छिततति चिन्तामणीतोऽधिकः ॥२॥ ध्यात्वा सारखतं तेजो महिमाप्रभचित्पदम् । पूर्णिमीयगणाधीशश्रीभावप्रभमूरिभिः ॥३॥ प्रतिमाशतकत्तेत्तिरीपत्पृथक्कृता । मूत्रमात्रार्थदा शिष्यज्योतीरत्नस्य हेतवे ॥ ४ ॥ युग्मम् ॥
पातमाश०.
सटीक।
॥१॥
लुम्पाकैः प्रतिमा प्रपूजनविधौ दुष्टैनिपिद्धा स्फुट, सा गच्छान्तरनिश्रिता परिहता तद्वत्तदंशाश्रितैः ।
मोक्ताापि च मिश्रपक्षमिलिता सा पाशदोषाकरैः, कैश्चित्पुण्यफलाय पण्डितवरैः सा पूजिता निर्जरा ॥५॥
क्षेपककाव्यमिदं द्वाररुपं ज्ञेयं । अथ कृतशतग्रन्थेन महोपाध्यायश्रीयशोविजयेन ग्रन्थोऽयं प्रतिमाशतकनामा कृतः
तत्रेदं प्रतिमाविषयाशङ्कानिराकरणस्य चिकीर्षितत्वात्प्रतिमास्तुतिरूपमिष्टवीजप्रणिधानपुरस्सरमाचं पद्यमाह-
ऐन्डश्रेणिनता प्रतापनवनं नव्याङ्गिन्नेत्रामृतं, सिमान्तोपनिषहिचारचतुरैः प्रीत्या प्रमाणीकृता ।
मूतिः स्फुतिमती सदा विजयते जैनेश्वरी विस्फुरन्मोहोन्मादधनप्रमादमदिरामतैरनालोकिता ॥१॥
व्याख्या-जैनेश्वरी मूर्तिः सदा विजयत इत्यन्वयः । जिनेश्वराणामियं जैनेश्वरी मूर्तिः प्रतिमा सदा व्यक्ता
(क्त्या) प्रवाहतश्च निरन्तरं विजयते सर्वोत्कर्षण वर्तते, अत्र जयतेरर्थ उत्कर्षः "पराभवे तथोत्कर्षे जयत्यन्ते त्वकर्मकः "
इत्याख्यातचन्द्रिकावचनात् । सर्वावधिकत्वं च वेरुपसर्गस्येति वोध्यं । मूर्तिः कीदृशी ? ऐन्द्रश्रेणिनता इन्द्राणामियमैन्द्री सा
चासौ श्रेणिश्चेति कर्मधारयः, तया नता नमिकर्मीकृता । एतेनैतदपलापकारिणामैन्द्रः शापो ध्रुव इति व्यज्यते । पुनः कीदृशी
प्रतापभवनं प्रतापस्य कोशदण्डजस्य तेजसो
भवनं गृह
। उक्ततेज स्थाप्यगतं स्थापनायामुपचर्य
व्याख्येयं । तेनैतदपलापकारिणो भगवत्प्रतापदहनेनैवापहता भविष्यन्ति इति व्यज्यते । पुनः कीदृशी ? भव्याङ्गिनेत्रा-
.
॥ १ ॥
मृतं भव्याङ्गिनामासन्नसिद्धिकमाणिनों नेत्रयौरमृतं पीयूषं सकलनेत्ररोगापनयनात् परमानन्दजननाच्च । एतेनैतद्दर्शनाद्येष नयनयो नन्दस्तेऽभव्या दूरभव्या वेत्यभिव्यज्यते । पुनः कीदृशी ? प्रमाणीकृता प्रमाणत्वेनाभ्युपगता । कैः ? सिद्धान्तो- पनिषद्विचारचतुरैः सिद्धान्तानामुपनिषदहस्यं तद्विचारे ये चतुरास्तैः । कया ? प्रीत्या स्वरसेन नतु बलाभियोगादिना । एतेन सिद्धान्तप्रतिमाप्रामाण्याभ्युपगमयोनान्तर्रायकत्वात् स्वरसतः मतिमामामाण्याभ्युपगन्ता नर एर शिष्टो मान्य इत्या- वदितं भवति, तदनभ्युपगन्ता च सिद्धान्तानभिज्ञ इति । पुनः कीदृशी? स्फूतिमती स्फूर्तिः प्रतिक्षणवर्द्धमानकान्तिः सन्निहितपातिहार्यत्वं वा तद्वती। एतेन तदाराधकानामेव बुद्धिस्फूर्तिर्भवति नान्यस्येति सूच्यते । पुनः कीदृशी ? अना- लोकिता सादरमवीक्षितेत्यर्थः, अर्थान्तरसंक्रमितवाच्यत्वात् । कैः ? विस्फुरन्मोहोन्मादधनप्रमादमदिरामत्तैः विस्फुरन् विविध परिणमन् यो मोहोन्मादो घनप्रमादश्च तावेव ये मदिरे ताभ्यां ये मत्तास्तैः । नच प्रमादस्य मोहेनैव गतार्थत्वादाधिक्यं, अनाभोगमतिभ्रंशादिरूपस्य तस्य ग्रहणादिति ॥ १ ॥ इत्येवमाद्यपये प्रतिमाया निखिलप्रेक्षावदादरणीयत्वमुक्त । अथ तदनादरकारिणी नामादिनिक्षेपत्रयस्य भावनिक्षेप- तुल्यताव्यवस्थापनाद्वारेणाक्षिपन्नाह- नामादित्रयमेव नावनगवत्ताप्यधीकारणं, शास्त्रात्स्वानुभवाच्च शुव्हृदयैरिष्टं च दृष्टं मुहुः । १ वाच्यं जिनबिबादिस्तस्याऽयातरो वृक्षादिस्तस्मिन् ।
सटीक।
प्रतिमाश०-
॥ २ ॥
तेनार्हत्प्रतिमामनाहतवतां नावं पुरस्कुर्वतामन्धानामिव दर्पणे निजमुखालोकार्थिना का मतिः॥२॥
व्याख्या-शुद्धहृदयैर्गीतार्थैः । नामादित्रयमेव नामादिपदस्य नामादिनिक्षेपपरत्वात् कुदभिहितन्यायानिक्षिप्यमाणं
नामादित्रयमेवेत्यर्थः । भावभगवतो निक्षिप्यमाणभावार्हतस्ताप्यधियोऽभेदबुद्धेः कारणं । शास्त्रादागमप्रमाणात् । स्वानु-
भवात् स्वगतमातिभप्रमाणाच । मुहुर्वारंवारमिष्टं च दृष्टं चेत्यन्वयः । शास्त्रादिष्टमनुभवाच्च दृष्टं । तेन तत्त्वप्रतिपत्युपाय-
सामग्र्यमावेदितं । तदाह योगाचार्यवचनानुवादी हरिभद्रसूरिः-"आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्प-
यन् मज्ञां लभते तत्त्वमुत्तमम् ॥ १॥” इति । तेन भावनिक्षेपाध्यात्मोपनायकत्वेन नामादिनिक्षेपत्रयस्य । अहमतिमा
स्थापनानिक्षेपस्वरूपत्वेनानादृतवता भावं भावनिक्षेपं पुरस्कुर्वतां वाङ्मात्रेण भयाणयतां । दर्पणे निजमुखालोकार्थिनामन्धा-
नामिव का मतिर्न काचिदित्यर्थः । निक्षेपत्रयानादरे भावोल्लासस्यैव कर्तुमशक्यत्वाच्छास इव नामादित्रये हृदयस्थिते
सति भगवान् पुर इव स्फुरति, हृदयभिवानुपविशति, मधुरालापमिवानुवदति, सर्वाङ्गीणमिवानुभवति, तेन च सर्वकल्याण
सिद्धिः, तत्कथं निशेषत्रयादरं विना भावनिक्षेपादरो भावोल्लासस्य तदधीनत्वात् । न च नैसर्गिकएव भावोल्लास इत्येका-
न्तोऽस्ति जैनमते, तथा सति सर्वव्यवहारोच्छेदप्रसङ्गादिति स्पर्तव्यम् । अत्र निरुक्तविशेषणविशिष्टेषु लुम्पकेषु निरुक्तविशे-
षणविशिष्टान्धरूपोत्प्रेक्षाकल्पितोपमानमादायोपमा वेति यथोचियेन योजनीयं तत्तदलङ्कारग्रन्थनिपुणैः । एतेन स्वगताध्या-
त्मोपनायकता गुणेन वन्द्यत्वमपि चतुष्टयं विशिष्टं इत्युक्तं भवति शिरश्चरणसंयोगरूपं हि बन्दनं, भावभगवतोऽपि शरीर एवं
॥ २ ॥
संभवति, नतु भावभगवत्यरूपे आकाश इव तदसंभवी (वि)। भावसम्बन्धाच्छरीरसम्बद्धं वन्दनं भावस्यै- वायातीति । तत एव नामादिसम्बद्धमपि भावस्य किं न प्राप्नोतीति परिभावय । कश्चिदाह जडमतिव्युदाहित:- किमेताभिर्युक्तिभिः, महानिशीथ एव भावाचार्यस्य तीर्थकृत्तुल्यत्वमुक्तं, निक्षेपत्रयस्य चाकिञ्चित्करत्व-मिति । तत्र पञ्चमाध्ययने “चउन्विहा आयरिया पन्नत्ता तंजहा नामायरिया ३ भावायरिया, जे भावायरिया ते तित्थयरसमा चेव दछन्वा" । अत्र वयं ब्रूमः-परमशुद्धभावग्राहकनिश्चयनयस्यैवायं विषयः, यन्मते एकस्यापि गुणस्य त्यागे मिथ्यादृष्टित्व- मिष्यते, तदाहुः-"जो जह वायं न कुणइ मिच्छदिट्ठी तओ हुकोनो ति" तन्मते निक्षेपान्तरानादरेऽपि नैगमादिनयन्देन. नामादिनिक्षेपानां प्रामाण्याभ्युपगमात्क इव व्यामोहो भवतः, सर्वनयसंमतस्यैव शास्त्रार्थत्वात् । अन्यथा सम्यक्त्वचारित्रै- क्यग्राहिणा निश्चयनयेनाप्रमत्तसंयत एव सम्यक्त्वस्वास्युक्तो न प्रमत्तान्त इति श्रेणिकादिनां बहूनां प्रसिद्धं सम्यक्त्वं न स्वीकरणीयं स्यादेवानांप्रियेण । उक्तार्थप्रतिपादक चेदं सूत्रमाचाराङ्गे पञ्चमाध्ययने तृतीयोदेशके आलापकः। सूत्रतः- "ज सम्म ति पासहा तं मोण ति पासहा, जं. मोणं ति पासहा तं सम्मै ति पासहा" इत्यादि । अस्यार्थः-जं. सम्म ति यत्सम्यक्त्वं कारकसम्यक्त्वं तन्मौनं मुनिभावं यच्च मौन तत्सम्यक्त्वं, कारकसम्यक्त्वं, पासह पश्यत इत्यादि ज्ञेयं । भावा- चायनामस्थापना भावतः प्रशस्तं नातिक्रामति । अङ्गारमर्दकादेव्यं तु तन्नामस्थापनावदमशस्तमेवेति मागुक्तमहानिशीथसूत्रे नियोजयनीयत्वार्थः, तद्वदागमः गुरुतत्त्वनिश्चये आलापका-"तत्थ् णिओगो एसो जं व्वं होइ सुद्धभावस्स । तण्णामा गिइ- अतिमाश०. सटीक तुल्लं तं सुहमियरं तु विवरीयं ॥ १॥ जह गोयमाइआणं णामाई तिण्णि हुँति पावहरा । अंगारसदस्स य णामाई तिपिण पावयरा ॥२॥ " इति प्रशस्तभावसंवन्धिनां सर्वेषां निक्षेपाणां प्रशस्तत्वमेवेति नियूढं । किंच नामनिक्षेपस्याराध्यत्वं तावत् आलापक:-"चवीसत्येणं भंते जीवे किं जणइ ? चउवीसत्थएणं दंसणविसोहिं जणइ ति"।'व्याख्या उत्तराध्यय- नसके सम्यक्त्वपराक्रमाध्ययने ज्ञेया दर्शनाराधनस्योक्तत्वात् । “महाफलं खलु 'नहारूवाणं भगवंताणं णामगोत्तस्स विसव- णयाए" इत्यादिना भगवत्यादौ महापुरुषनामश्रवणस्य महाफलोक्तेश्च । नामस्थापना निक्षेपस्याराध्यता च आलापको-“थयथु- इमंगलेण भंते जीवे किं जणइ ? थयथुइ मंगलेणं नाणदसणचरित्तयोहिलाभ जणइ । नाणदसणचरित्तवोहिलाभसंपत्तेणं भंते जीवे अंतकिरिअं कप्पविमाणोववत्तिरं आराहणं आराहे " इतिवचनेनैव सिद्धा व्याख्या । अत्र स्तवः स्तवनं स्तुतिः स्तुतित्रयं प्रसिद्धं । तत्र द्वितीया स्तुतिः स्थापनार्हतः पुरतः क्रियते चैत्यवन्दनावसरतयेति । अथ द्रव्यनिक्षेपाराध्यता च सूत्रयुक्ता (क्त्या) स्फुटैव प्रतीयते, तथाहि-श्रीआदिनाथवारके साधूनामावश्यकक्रियां कुर्वतां चतुर्विंशतिस्तवाराधने त्रयोविंशतिव्यजिना एवाराध्यतामास्कन्दयेयुरिति । नच ऋषभाजितादिकाले एकस्तवद्विस्तवादिप्रक्रियाऽपि कर्तुं शक्या, शाश्वताध्ययनपाठस्य लेशेनापि परावृत्त्या कृतान्तकोपस्य बजलेपत्वात् । अर्थोपयोगरहितस्योत्कीर्तनस्य राजविष्टिसमत्वेन योगिकुलजन्मवाधकत्वात् । अत एव द्रव्यावश्यकस्य निषेधः सूत्रेऽनुपयोगथ द्रव्यं इति सर्वत्रोद्घोषितमनुयोगद्वारादौ । अर्थोपयोगे तु स्वीकारार्थतयैव सिद्धा द्रव्यजिनाराध्यतेति । एतेन द्रव्यजिनस्यागध्यत्वे करतलपरिकलितजलचु लुकवत्तिजीवानामप्याराध्यत्वापत्तिः, तेषामपि कदाचिजिनपदवीमाप्तिसंभवादिति शासनविडम्बकस्य लुम्पकस्योपहासो निरस्तः, द्रव्यजिनत्वनियामकपर्यायस्य तत्रापरिज्ञानात् । मरीचिस्तु नाभिनन्दनगिरा ज्ञातत्वाद्भरतेन वन्दित इति प्रसिद्धं, अनल्पकालेऽपि प्रस्थकादिदृष्टान्तेन दूरेऽपि नैगमनयाभिप्रायेणाश्रयणात् । योग्यता-विशेषे च ज्ञानिवचनादिनाऽवगते दोषमुपेक्ष्यापि तेषां तेषां वन्दनयावृत्यादिव्यवहारः संगच्छते । अत एवातिमुक्तक- 4:रवचनात् भाविभद्रतामवगम्य स्थविरैतस्खलितमुपेक्ष्य वैयावृत्त्यं निर्ममे । किंच "नमो सुअस्स" इत्यादिनापि द्रव्यनिक्षेपस्याराध्यत्वं सुमतीतं । अक्षरादिश्रुतभेदेषु संज्ञाव्यञ्जनाक्षरादीनां भावभुतकारणत्वेन द्रव्यश्रुतत्वात् । पत्रकपु- स्तकलिखितस्य च "दच्वसुअं जं पत्तयपोत्थयलिहि" इत्यागमेन द्रव्यश्रुतत्वप्रसिद्धेः । किं च जिनवाग्योगः श्रुतं द्रव्यं श्रोतृषु भावश्रुतकारणत्वादिति । भावनिक्षेपे तु न विपतिपत्तिरिति चतुर्णामपि सिद्धमाराध्यत्वम् ॥ २ ॥ एवं व्यवस्थिते ब्राह्मी लिपिरिव प्रतिमा सूत्रन्यायेन वन्योति तदपह्नवकारिणां मूढतामाविष्करोति- लुप्तं मोहविषेण किं किमु हत मिथ्यात्वदम्नोलिना, मग्नं किं कुनयावटे किमु भनो लीनं तु दोषाकरे । प्रझप्तौ प्रथमं नतां लिपिमपिब्राह्मीमनालोकयन, वन्द्याऽहत्प्रतिमा नसाधुनिरिति ब्रूसे यउन्मादवान्॥३ व्याख्या--प्रज्ञप्तौ प्रथममादावेव नतां सुधर्मस्वामिना ब्राह्मी लिपिमप्यनालोकयन् धारणावुद्ध्याऽपरिकलयन् अहमतिमा साधुभिर्न वन्येति यदुन्मादवान् मोहवशो ब्रूते, तत् किं तस्य मनो मोहविषेण लुप्तं व्याकुलितं ? किमु मिथ्या- पातमाश०. सटीक) MARA त्वदम्भोलिना मिथ्यात्ववजेणाहतं चूर्णितं ? अथवा कि कुनयाक्टे दुर्नयकूपे मग्नं १ यद्वा तु इति उत्प्रेक्षायां दोपसमूहाभिने दोपाकरे लीनं ? छायाश्लेपेण मनचन्द्रं विशतीति श्रुतेर्मतमित्यर्थः । अत्र “लिम्पतीक् तमोऽङ्गानि" इत्यादौ लेपनादिना व्यापनादेरिव विपकर्तृकलुप्ततादिना लुम्पकमनोमूढताया अध्यवसानात्स्वरूपोत्नेक्षा किमादिद्योतकसंभावनं, अथोपेक्षा प्रकृतस्य समान यदिति काव्यप्रकाशकारः । असद्धर्मसंभावने वादिद्योत्योमोक्षति हेमचन्द्राचार्याः । “णमो बंभीए लिचीए" इति प्रथमं प्राप्तौ पदं शेयमिति ॥३॥ अथ नामपतिवन्द्यां स्थापनां स्थापयति- किं नामस्मरणेन न प्रतिमया किंवा निदा कानयोः, सम्बन्धःप्रतियोगिनान सदृशोनावेन किवाद्वयोः। तइन्धं घ्यमेव वा जम्मते त्याज्यं ध्यं वा त्वया, स्यात्तादत एव लुम्पकमुखे दत्तो मषीकूर्चकः॥४॥ व्याख्या-किं नामस्मरणेन चतुर्विंशतिस्तवादिगतनामानुचिन्तनेन ? नाम्नः पुदलात्मकत्वेनात्माऽनुपकारित्वात् । नाम्नः स्मरणेन नामिस्मरणे तद्गुणसमापत्त्या फवमिति चेदत्राह-प्रतिमया किं वा न स्यात् ? अमुद्रगुणसमुद्रलोकोत्तरमुद्रा- लङ्कृतभगवत्पतिमादर्शनादपि सकलाविशायिभगवद्गुणध्यानस्य सुतरां संभवात् । तदुक्तं-"प्रशमरसनिमग्नं दृष्टियुरगं प्रसन" । नाम्नो नामिना सह वाच्यवाचकभावसम्बन्धोऽस्ति यथा न तथा स्थापनाया इत्यस्ति विशेष इति चेदत्राह-- मतियोगिना इतरनिक्षेपनिरूपकेण भावनिक्षेपेण सह द्वयोनामस्थापनयोः सवन्धः किं सदृशो न सद्दशवचनमिथः किञ्चिद्वेष- म्यमित्यर्थः । एकत्र वाच्यवाचकमावस्यान्यत्र स्थाप्यस्थापकभावस्याविशेषात् । अनया प्रतिबन्धा दुर्वा दिनमाक्षिपति-तत्त- स्मात्कारणात् हे जडमते ? त्वया द्वयमेव नामस्थापनालक्षणमविशेषेण वन्यं, द्वयोरपि भगवदध्यात्मोपनायकत्वाविशेषात् । अन्तरङ्गप्रत्यासत्यभावादुपेक्ष्यत्वे तु द्वयमेव त्वया त्याज्यं स्यात् । तचानिष्टं, नाम्नः परेणाप्यङ्गीकरणात् । अत एवं तात् लुम्पकमुखे मपीकूर्चको दत्तः स्यात, मालिन्यापादनादिति भावः। अत्र मषीकूर्चकत्वेन मौनदानविवक्षायां "कमलमनम्भास" इत्यादाविव रूपकगर्भा यथाश्रुतविवक्षायां त्वसम्बन्धे सम्बन्धरूपातिशयोक्तिः । भावनिक्षेपो यद्यवन्यस्थापनानिक्षेप- मतियोगी स्यादवन्यनामनिक्षेपप्रतियोगी स्यादित्येवं वा तकस्य व्यधिकरणत्वं निरसनीयम् ॥ ४ ॥ मतिमादीनेव भङ्गयाक्षिपस्तदाराधकानभिष्टौति । स्वान्तं ध्वान्तमयं मुखं विषमयं दृग्धूमधारामयी, तेषां यैर्न नता स्तुता न नगवन्मूतिर्न वा प्रेदिता। देवैश्वारणपुङ्गवैः सहृदयैरानन्दितैर्वन्दितां, ये त्वेनां समुपासते कृतधियस्तेषां पवित्रं जनुः ॥ ५ ॥ व्याख्या-यैर्भगवन्मूतिर्न नता तेषां स्वान्तं हृदयं ध्वान्तमयमन्धकारप्रचुरं, हृदये नमनप्रयोजकलोकाभावादेव तदनमनोपपत्तेः । यभगवन्मूर्तिन स्तुता तेषां मुखं विषमयं, स्तुतिरूपपीयूपाभावस्य तत्र विषसत्त्वे एवोपपत्तेः । यैर्भगव- मूर्तिर्वाऽथवा न प्रेक्षिता तेषां दृग धूमधारामयी जगद्गासेचनकतत्मेक्षणाभावस्य धूमधारातनेत्रत एवोपपत्तेः । ध्वान्तत्वा- दिना दोषविशेषा एवाध्यवसीयन्ते इत्यतिशयोक्तिः सा चोक्तदिशा काव्यलिङ्गानुप्राणिताऽवसेया । ये तु कृतधियः पण्डि- ता एनां भगवन्मूर्ति समुपासते, तेषां जनुजन्म पवित्रं नित्यं मिथ्यात्वमलपरित्यागात् । कीदृशीं ? देवैः सुरासुरव्यन्तरज्यो- अतिमाश०- सटीका ॥ ५॥ तिष्कः चारणपुङ्गवैश्चारणप्रधानजङ्घाचारणविद्याचारणैः सहृदयीततत्वैरानन्दितैर्जातानन्दैर्वन्दितां । हेतुगर्भ चेदं विशेषणं, देवादिवन्दितत्वेन शिष्टाचारात्तत्समुपासनं जन्मपावित्र्यायेति भावः । देवैर्यथा वन्दिता तथाऽनन्तरं स्फुटीकरिष्यामः, चार- णाधिकारमतिबद्धश्चायं विंशतितमशते नवमोद्देशके-"कइविहाणं भंते चारणा पन्नत्ता" इत्यादि ज्ञेयम् ॥ ५॥ उक्तमेव स्वीकारणं तत्र कुमतिकल्पिताशङ्कां निरस्यन्नाह- प्रज्ञप्तौ प्रतिमानतिर्न विदिता किं चारणैनिर्मिता, तेषां लब्ध्युपजीवनाद्विकटनानावात्वनाराधना। सा कृत्याकरणादकृत्यकरणानग्नव्रतत्वं नवेदित्येता विलसन्ति सन्नयसुधासारा बुधानां गिरेः॥६॥ व्याख्या-प्रज्ञप्तौ भगवतीसूत्रे किं चारणैर्जङ्घाचारणविद्याचारणश्रमणनिर्मिता प्रतिमानतिर्न विदिता न प्रसिद्धा ? अपि तु प्रसिदैव सुधर्मस्वामिना कण्ठीरवेणोक्तस्य तत्र तरणिप्रकाशतुल्यस्य कुमतिकौशिकवाग्मात्रेणापहोतुमशक्यत्वात् । ननु यदुक्तं तद्व्यक्तमेव, परं चैत्यवन्दननिमित्तालोचनाऽभावेऽनाराधकत्वमुक्तमिति तेषां चैत्यनति खारसिकी नाभ्युपगच्छाम इत्याशङ्कायामाह-तेपामिति, तेषां जङ्घाचारणविद्याचारणानां लब्ध्युपजीवनात् तस्य प्रमादरूपत्वात् । तु पुनर्विकटनाभा- वादालोचनाभावात् “आलोयणा वियडणा" इतिनियुक्तिवचनाद्विकटनाशब्दस्यालोचनार्थः। अनाराधनात् न त्वन्यतो निमित्तात् तदाह-साऽनाराधना कृत्यस्य प्रमादालोचनस्याकरणात् , अकृत्यकरणं चैत्यवन्दने मिथ्यात्वकरणं, ततस्तत्पुर- स्कृत्याऽनाराधनायां तूच्यमानायां भग्नवतत्वं भवेत् मिथ्यात्वसहचारिणामनन्तानुवन्धिनामुदयेन चारित्रस्य मूलत एवोच्छेदात् ॥ ५ ॥ १०००० "मूलच्छेज्झं पुण होइ बारसन्ई कसायाण" इतिवचनात् । तच नालोचनामात्रेऽपि शोधयितुं शक्यमित्ययं भारो मिथ्याकल्प- कस्य शिरस्यास्तामित्येताः सन्नयः समीचीननयः स एव मिथ्याकल्पनाविपविकारनिरासकत्वात् सुधा पीयूषं तेन साराः । बुधाचां सिद्धान्तपारदृश्वानां गिरो वाचः ॥ ६॥ ननु चारणानां यावान् गतेगोंचर उक्तस्तावद्देशगमनपरीक्षायामेव मुख्य उद्देशस्तस्यां क्रियमाणायां तत्तचैत्यानाम- पूर्वाणां दर्शनाद्विस्मयोबोधेन तन्नतिर्न तु स्वरसत इति तदाचरणं न शिष्टाचार इति सर्वेषां साधूनां न तद्वन्धता तद्दष्टान्तेनेति कुमतिमतमाशङ्कय निषेधति-- तेषां न प्रतिमानतिः स्वरसतो लीलानुषङ्गातुसा, लब्ध्याप्तादिति कालकूटकवलोजारा गिरः पाप्मनाम् । हन्तवं न कथं नगादिषु नतिर्व्यक्ता कथंचेह सा,चैत्यानामितितर्ककर्कशगिरास्यात्तन्मुख मुन्तिम् ॥७॥ व्याख्या-तेषां जङ्घाचारणविद्याचारणानां प्रतिमानतिः स्वरसतो न वर्तते स्वरसः श्रद्धाभक्तिसंलुलितः परिणा- मस्तस्मादिति । तु पुनः । लब्ध्याताल्लब्धिमाप्तात् लीलानुषङ्गात् लब्धिमाप्तलीलादिदृक्षया प्रवृत्तानां तत्रावर्जनीयसंनिधि- कदर्शनतयेत्यर्थः । सा नतिवेत्तते, न चास्वारसिकतनत्यापि क्षतिः स्वरसिकाकृत्यकरणस्यैव दोपत्वादित्येताः पाप्मनां लुम्पाकदुर्गतानां गिरो वर्तन्ते । किं विशिष्टाः ? कालकूटकवलोदारा उद्गीर्यमाणकालकूटकवला इत्यर्थः। भक्षितमिथ्या- त्वकालकूटानामीदृशानामेवोदाराणां संभवात् । अत्रोत्तरं हन्तेति निर्देसे, एवं लालापाप्तस्य विस्मयेन साधूनां वन्दनसंभवे प्रतिमाश०. सटीक ॥६॥ कथं नगादिपु मानुपोत्तरनन्दीश्वररुचकमेरुतदारामादिविषये न चारणानां नतिर्जाता। तत्रापि अपूर्वदर्शनजनितविस्मयेन तत्संभवात् कथं चेह भरतविदेहादौ ततः प्रतिनिवृत्तानां साधूनां चैत्यानां प्रतिमानां सा नतिर्जाता ? इत्येवंभूता या तर्क- कर्कशा गीस्तया तन्मुखं पाप्मवदनं मुद्रितं स्यात् , अनया गिरा ते प्रतिवक्तुं न शक्नुयुरित्यर्थः । कर्कशपदं तत्तस्य निविडमुद्राहेतुत्वमभिव्यनक्ति । अत्र यथा गोचरचर्योद्देशेनापि निर्गतेन साधुनाऽन्तरोपनताः साधवः स्वरसत एवं वन्द- नीयास्तथा गतिगोचरदर्शनायापि गतैश्चारणैनन्दीश्वरादिप्रतिमानतिः स्वरसत एवानभ्रोपनीतपीयूपष्टिवत् परमप्रमोद- हेतुत्वादित्युक्तं भवति ॥ ७॥ अथोक्तालापके "तहिं चेइआई वंदइ" इत्यस्यायमर्थों यथा भगवद्भिक्तं तथैव नन्दीश्वरादिष्टमिति अहो तथ्यमिदं भगवज्ज्ञानमित्यनुमोद्त इत्यर्थः चैत्यपदस्य ज्ञानार्थत्वादिति मुग्धपर्षदि मूर्धानमाधूय व्याचक्षाणमुपहसन्नाह- झानं चैत्यपदार्थमाद न पुनर्मूनि प्रनोर्यो द्विषन, वन्यं तत्तदपूर्ववस्तुकलनादृष्टार्थसंचार्यपि । धातुप्रत्ययरूढिवाक्यवचनव्याख्यामजानन्नसौ, प्रज्ञावत्सु जमः श्रियं न लन्नते काको मरालेष्विव ॥७॥ व्याख्या—यो द्विपन् जिनशासने द्वेष कुर्वन् प्रकृते चैत्यपदार्थ ज्ञानमाह, न पुनः प्रभोमूर्तिमाह । किं भूतं ज्ञानं ? तस्य तस्यापूर्वस्य वस्तुनः कलनात् परिच्छेदात् । बन्धमनुपोधमिति योगः। किं भूतमपि ? दृष्टार्थसंचार्यपि इह लोके चैत्यवन्दनं संचरिष्णुभविष्णुशब्दार्थमपि अपूर्वदर्शनेन विस्मयोत्पादकत्वाद्भगवज्ञानस्य बन्यत्वे "इह चेइआई वंदइ" इत्य- स्यानुपपत्तिः इहापूर्वदर्शनादित्यपिरापातोनौचित्यं दर्शयति-स जडः प्रज्ञावत्सु प्रेक्षावतां मध्ये श्रियं सदुत्तरस्फूर्तिसमृद्धि न लभते । केषु क इव ? मरालेषु राजहंसेषु काक इवेत्युपमा । किं कुवन् ? अजानन् । कां ? धात्वादिव्याख्यां। तथाहि- चैत्यानीत्यत्र "चिती संज्ञाने" इति धातुः कर्मणि ण्यप्रत्ययः, तथा चाहत्पतिमा एवार्थः । चिती संज्ञाने संज्ञानमुत्पद्यते काष्ठकर्मादिषु प्रतिकृतिं दृष्ट्वा "जहा एसा अरिहंतपडिमत्ति" चूर्णिस्वरसादिति प्रकृतीनमर्थ वदन् प्रकृतिप्रत्ययानभिज्ञ एव । तथा रूढेरप्यनभिज्ञ एव चैत्यशब्दस्य जिनगृहादावेच रूढत्वात् "चैत्ये जिनौकस्तद्विम्बं चैत्यो जिनसभातरुः" इति कोशात् । एतेन विपरीतव्युत्पत्त्या नामभेदप्रत्यययोगार्थोऽपि निरस्तः, योगाढेलवत्त्वात्, अन्यथा पङ्कजपदाच्छैवाला- दिवोधप्रसङ्गात् । वाक्यस्यापि वाक्यं साकांक्षापदसमुदाय "इहं चेइआई वंदइ" इत्यस्यात्रस्थानि चैत्यानि वन्दत इति हि वाक्यार्थः । स च चैत्यपदस्य ज्ञानार्थत्वे न घटते, भगवज्ज्ञानं नन्दीश्वरादिचित्वाभावात, जगवृत्तित्वस्यान्यसाधारण्येना- विस्मापकत्वात् । वचनस्यापि चैत्यशब्दस्य ज्ञानस्यैकत्वात् ज्ञानार्थे चैत्यशब्दस्यादिष्टबहुवचनस्य कुत्राप्यननुशासनात् तथा परिभाषणस्याभावात् , अन्यथा केवलनाणं इत्यस्य स्थले चेइआई इति प्रयोगापत्तेः । उक्तश्चारणवन्धताधिकारः ॥८॥ अथ देववन्धतामधिकृत्य देवानां शरणीयकरणीयतया भगवन्मूर्तिमभिष्टौति- अर्हच्चैत्यमुनीन्सुनिश्रिततया शक्रासनमावधि, प्राप्तौ भगवाञ्जगाद चमरस्योत्पातशक्ति ध्रुवम् । जैनी मूर्तिमतो न योऽत्र जिनवजानाति जानाति कस्तं मर्त्य बत शृङ्गपुच्छर हितं स्पष्टं पशुं परिमतः ॥णा प्रतिमाश०- सटीक। ॥७॥ ..." व्याख्या-अर्हन्तस्तीर्थकराश्चैत्यानि तत्पतिमा मुनीन्दवः परमसौम्यभाजः साधुचन्द्राः, तनिश्रिततया तान्न श्राकरणेन हेतुना भगवान् ज्ञातनन्दनः चमरस्यासुरकुमारराजस्य शक्रस्य चासनक्षमा आसनपृथ्वी साऽवधिर्यत्र यस्यां क्रियायां, तथा चमरस्योत्पातस्य शक्ति ध्रुवं निश्चितं जगाद । अतः अहंदनगारमध्ये चैत्यपाठात् , योऽत्र जिनशासने जैनी मूर्ति जिनवज्जिनतुल्यां न जानाति, तं मर्त्य मनुष्यं कः पण्डितो मोक्षानुगतप्रज्ञावान जानाति ? न कोऽपीत्यर्थः । सर्वेषामपि प्रेक्षावतां स मनुष्यमध्ये न गणनीय इति तात्पर्यम् । कीदृशं तं ? अत्यविवेकतया स्पष्टं प्रत्यक्ष पशुं । कीदृशं पशु ? शृङ्गपुच्छाभ्यां रहितं भृङ्गपुच्छाभावमात्रेण तस्य पशोः (च) वैधणे, नान्यदित्यर्थः । व्यतिरेकालङ्कारगर्भोनाक्षेपः " उपमानाघदन्यस्य व्यतिरेकः स एव सः" इति काव्यमकाशकारः। प्रपञ्चितं चैतदलङ्कारचूडामणिवृत्तावस्माभिः ॥९॥ अथानाशातनाविनयेन देवैर्वन्दिता भगवन्मूर्तिः कस्य सचेतसो न वन्येत्याशयेनाह- मूर्तीनां विदशैस्तथा नगवतां सक्थनां सदाऽऽशातनात्यागो यत्र विधीयते जगति साख्याता सुधर्मा सन्ना। श्त्यन्वर्थविचारणापि हरते निशं दृशोऽनयध्वान्तच्छेदरविप्रन्ना जडधियं घूकं विना कस्य न ॥१०॥ व्याख्या-तथेत्यर्थान्तरसमुच्चये । भगवतां मूर्तीनामसद्भावस्थापनारूपाणां सक्थ्नां जिनदाढानां यत्रे सदाऽऽ- शातनात्यागो विधीयते सा सभा सुधर्मेति ख्याता इत्यन्वर्थविचारणापि सुधर्मापदव्युत्पत्तिभावनापि जडधियं घूकमुलूकं विना कस्य दृशोनिद्रा न हरते ? अपि तु सर्वस्यैव दृशोनिद्रां हरत इत्यर्थः । कीदृशी अन्वर्थविचारणा ? दुर्नया एवं ध्वा- न्तानि तेषां छेदे रविप्रभा तरणिकान्तिः । रविसदृशी तु न व्याख्येया. तत्सदृशात्तत्कार्यानुपपत्तेः । अत्र विनोक्तिरूपकका- व्यलिङ्गान्यलङ्काराः– "विनोक्तिः सा विनाऽन्येन यत्रान्यः सन्न चेतरः" । " तद्रूपकमभेदो य उपमानोपमेययोः" काव्य- लिङ्गहेतोर्वाक्यपदार्थता" इति ( च ) तल्लक्षणानि । रविप्रभापदार्थों निद्राहरणे हेतुरिति पदार्थरूपं काव्यलिङ्गं द्रष्टव्य- मित्यादि ॥ १०॥ अथ सूर्याभाधिकारेण प्रतिमारिणां शासनार्थस्तेनानां कांदिशीकतां प्रदर्शयंस्ता अभिष्टौति- प्राक्पश्चाच हितार्थतां हृदि विदन तैस्तैरुपायैर्यथा, मूर्तीः पूजितवान्मुदा नगवतां सूर्याननामा सुरः। याति प्रच्युतवर्णकर्णकुहरे तप्तत्रपुवं नृपप्रश्नोपाङ्गसमर्थिता हतधियां व्यक्ता तथा पद्धतिः ॥११॥ व्याख्या-पागादौ पश्चाच्च उत्तरवद्भवभवान्तरसंवन्धिन्यामायत्यां हितार्थतां श्रेयोभिलाषितां हृदि स्वान्ते विदन् जानन् तैस्तैर्विवक्ष्यमाणैरुपायैर्भक्तिसाधनप्रकारैर्यथा सूर्याभनामा सुरः भगवतां मूर्तीः पूजितवान् । तथा व्यक्ता प्रकटा नृप- प्रश्नोपाङ्गे राजपनीयोपाङ्गे समर्थिता सहेतुं निर्णीता पद्धतिः प्रक्रिया। हतधियां मूलोच्छिन्नबुद्धीनां लुम्पकमतवासितानां प्रच्युतवणे पच्युतो वर्णो यस्मात्तादृशेऽनक्षरे इत्यर्थः । तेनाक्षरशक्तिमतिवन्धाभावादतिदाहसंभवो व्यज्यते । कर्णकुहरे श्रोत्र विले तेनासंस्कृतत्वं व्यज्यते । तप्तत्रपुत्वं याति तान्यक्षराणि दुर्मतिकणे तप्तत्रपुवत् स्वगतदोषादेव दाहं जनयतीत्यर्थः । अत्र तप्तत्रपुत्वं यातीति निदर्शना "अभवद्वस्तुसम्बन्धः उपमापरिकल्पः निदर्शना" इति मम्मटवचनात् , असम्बन्धे सम्बन्धरू-
मतिमाश०.
सटीक
पातिशयोक्तिरित्यपरे ॥११॥
नन्वत्र प्राक् पचाच हितार्थिता देवभवापेक्षयैव पर्यवस्यति तथा चैहिकाभ्युदयमात्रं प्रतिमापूजनादिफलं सूर्याभस्य न
मोक्षार्थिनामादरणीय, देवस्थितर्देवानामेवाश्रवणीयत्वादित्याशङ्कय तनिराकरणपूर्व तादृशशङ्काकारिण आक्षिपन्नाह-
नात्र प्रेत्य हितार्थितोच्यत इति व्यक्ता जिना स्थितिर्देवानां न तु धर्महेतुरिति ये पूकुर्वते ऽधियः।
प्राक्पश्चादिव रम्यतां परनवश्रेयोऽथितासङ्गतां, प्राक् पश्चाञ्च हितार्थितां श्रुतमतां पश्यन्त्यहोते न किम्
व्याख्या-नानाधिकृते सूर्याभकृत्ये प्रेत्य हितार्थिता उच्यते "एयं मे पेचाहिआए" इत्याद्यवचनात्, “पच्छापुराहिआए"
इतिवचनस्य च धनकर्षणस्थलेऽप्युक्तत्वादिति जिनार्चा व्यक्ता प्रकटा देवानां स्थितिः स्थितिमात्रं, न तु धर्महेतुर्धर्मसाधनं
इति ये दुर्धियो दुष्टबुद्धयः पूत्कुर्वते शिरसि रजः क्षिपन्त इव बाढं प्रलपन्ति । ते श्रुतमतां आगमकथितां प्राक् पश्चादम्यतामिव-
पार पश्चाच हितार्थितां परभवश्रेयोऽर्थितायाः संगतां सहितां उभयलोकार्थितापरिणतामित्यर्थः किं न पश्यन्ति ? तथाऽदशेनं
तेपा महाप्रमाद इत्यर्थः । प्राक् पश्चादम्यतावचनं चेदं राजपनीये-"तएण केसीकुमारसमणे मरसिं एवं वयासी-मा ण तुम
पएसी पुचि रमणिज्जे पच्छा अरमाणिज्जे भवेज्जासि जहा से वणसंडेइ वा” इत्यालापकाः। व्याख्या अत्र चतुर्थभागे
विवेकितया पूर्व प्रतिपन्नदानधर्मनिर्वाहविशिष्टशीलादिगुणैः प्राक् पश्चाद्रमणीयत्वं यथोक्तोभयलोकोपयोगं ख्यापयति । तथा
कि मे इत्यादिपश्नोत्तरं “पुब्धि" पच्छा वि "इत्यादि सामानिकदेवानां वचनं किं न तथेत्यन्तरात्मना पर्यालोचय । ननु
॥८॥
"परिभाएमाणे" इत्यन्तमनुकम्प्यमात्र शीलवतादिना रमणीयत्वभाव एव च विधिरिति चेत् तत्किं दानधर्मविधिमप्युच्छेत्तु- मुद्यतोऽसि ? न जानासि तुंगियाश्राद्धवर्णने “पडिलाभेमाणे" इत्यन्तस्येक "परिभाएमाणे" इत्यन्तस्याधिकृते आनश्प्रत्य- यवलेन विधिसूचकत्वमिति ॥ १२ ॥ स्थितिविषयाशङ्कामेव समानधर्मदर्शनेन प्रपञ्चयत उपहसन्नाह- वाप्यादेरिव पूजना दिविषदा मूर्तेर्जिनानां स्थितिः,सादृश्यादिति ये वदन्ति कुधियः पश्यन्ति नेदं तुन । एकत्वं यदि ते वदन्ति निजयोःस्त्रीत्वेन जायाम्बयोस्तत्कोवायततामसंवृततरं वक्त्रं पिधातुं बुधः॥२३॥ व्याख्या-चाप्यादेनन्दापुष्करिण्यादेरिव । आदिना महेन्द्रध्वजतोरणसभाशालभञ्जिकादिपरिग्रहः । दिविषदां देवानां जिनानां मूर्तेः पूजना स्थितिः स्थितिमात्र सादृश्यात् अर्चनशब्दाभिधानसाम्यादिति ये कुधियः कुत्सितबुद्धयो व- दन्ति, भेदं तु वक्ष्यमाणं न पश्यन्ति । ते यदि स्त्रीत्वेन स्त्रीलिङ्गमात्रेण निजयोः स्वकीययोजोयाम्बयोः कान्ताजनन्योः एक- त्वं वदन्ति । तत्तर्हि को वा को नाम वक्त्रं मुखं अर्थातदीयं असंढततरं अतिशयेनोद्घाटं बुधः पण्डितः पिधातुमाच्छादयितुं यततां पराक्रमतां अशक्येऽर्थे पण्डितस्य यत्नकरणायोगात् न कोऽपि यततामिति भावः । प्रतिवस्तूपमया दूरान्तरेऽपि य- किश्चित्साम्येन भ्राम्यतामुपहासो व्यज्यते । तदुक्तं-“काके काष्र्ण्यमलौकिकं धवलिमा हंसे निसर्गस्थितो, गाम्भीर्ये महद- न्तरं वचसि यो भेदः स किं कथ्यते । एतावत्सु विशेषणेष्वपि सखे यन्नेमालोक्येते. केकायाः शिखिके च हंसशिशवो देशा
पतिमाश०-
॥९॥
सटीका
य तस्मै नमः ॥१॥” इति ॥ १३ ॥
भेदहेतूनेवोपदर्शयंस्तददर्शिन आक्षिपनाह-
सद्धर्मव्यवसायपूर्वकतया शक्रस्तवप्रक्रियानावत्राजितहृद्यपद्यरचनालोकप्रणामैरपि ।
ईक्षन्तेऽतिशयं न चेजगवतां मूर्त्यर्चने स्वःसदा, बालास्तत्पथि लौकिकेऽपि शपथप्रत्यायनीया न किम् १४
व्याख्या-ये वाला लुम्पकाः चेयदि स्वःसदां देवानां भगवतां मूर्यचनेऽतिशयं विशेषं नेक्षन्ते । कया कैश्च ?
सद्धर्मव्यवसायपूर्वकतया शक्रस्तवप्रक्रियादिभिः पदैच । एतेषां पदानामर्थमाह-सद्धर्मव्यवसायपूर्वकत्वं जिनमतिमार्चन-
स्यानुषङ्गिकवाप्याद्यर्चनतो भेदकं व्यवसायसभासंभविक्षयोपशमनिमितस्य सद्धर्मव्यवसायस्य भावत्वात् , भावानुगतसम्य-
ग्दृष्टिक्रियायाश्च क्रियान्तरवद्धर्मत्वात् , व्यवसायसभायाश्च शुभाध्यवसायनिमित्तं च क्षेत्रादिरपि कर्मक्षयोपशमादिहेतुत्वा-
जिनशासने नासिद्धं, अनुगतो धर्मव्यवहारस्तु पुष्टिशुद्धिमचित्तानुगतक्रियैव चतुर्थेगुणस्थानक्रियानुरोधात् दर्शनाचाररूप-
त्वादर्शनव्यवसायात्मकं जिना दिसिद्धं देवानां । तदुक्तं स्थानाङ्गे-" सामइए ववसार तिविहे पन्नत्ते, नाणववसाए
दसणववसाए चरित्तववसाए ति" । अथ द्वितीय भेदकं शक्रस्तवप्रक्रिया प्रसिद्धपणिपातदण्डकपाठः । न हि वाप्यादिकं पूज-
यता वाप्यादेः पुरतः शक्रस्तवः पठितोऽस्ति किं त्वईत्यतिमानामेत्र सकलसंपद्भावान्वितः, स्थितिमात्रे त्वन्यत्राप्यपठिष्यत् ।
१ पाप्यादिके.
॥ ९ ॥
न च तीर्णस्त्वं तारकम्त्वमित्यादयो भावा जिनप्रतिमातोऽन्यत्राभिनेतुं शत्यन्ते । न चाभिनयादिव्यापार विना शान्तरसा- स्वाद इति, यत्र, यदुचितं तत्रैव तत्पयोज्यं सहृदयैरिति । अथ तथा भावैः पापनिवेदनमणिधानायै जितानि यानि यानि पद्यान्यष्टोत्तरशतसङ्ख्यानि तेषां रचना प्रतिमानां पुरस्तदपि तृतीय भेदकं भावस्तुतिमाङ्गल्यता महोदयहेतुत्वेन सूत्रेऽभि- धानात् तस्याधर्माक्षेपकत्वात् । न हि वाप्यादेरने कृता चेति । अथ तथा चतुर्थ भेदकं आलोकमणामः यत्र जिनमतिमास्तत्र "आलोए पणामं करेइ ति" पाठः, अन्यत्र तु नेति विनयविशेषोऽपि धमाक्षेपक एव । इत्येतैः पदैः कृत्वा भेदकमिति । तर्हि ते वाला विशेषदर्शनहेतुशक्तिविकला लुम्पका लौकिकेऽपि पथि भोजनादौ शपथेन कोशपानादिना मत्यायनीया विश्वासनी- याः किं न भवन्ति ? अपि तु तथैव भवन्ति । कामिनीकरकमलोपास्थिते शिष्यानीते वा भोजने किमिदं पुरीषमन्नं वेति संशयात् ते न विरमेयुरित्यर्थः ॥ १४ ॥ अथ स्थितिमभ्युपगम्याह- नव्योऽन्यग्रगबोधिरल्पनवन्नाक् सद्दृष्टिराराधको, यश्चोक्तश्चरमोऽर्हता स्थितिरहो सूर्याजनानोऽस्य या। सा कटपस्थितिवन्नधर्मपरतामत्येतिनावान्वयात् ,मा कार्बुज्रममत्र केऽपि पिशुनैः शब्दान्तरैर्वश्चिताः१५ व्याख्या-अर्हता श्रीमहावीरेण यश्च सूर्याभदेव एवंविध उक्तः । कीदृशः १ विशेषणद्वारेणाह-भव्यो भवसिद्धिकः । अभ्यागबोधिः समीपगतवोधिः सुलभचोधिक इति यावत् । अल्पं भवं भजतीत्यल्पभवभाक् परीत्तसंसारिक (रक) इत्यर्थः ।
सटीका
प्रतिमाश०.
॥१०॥
सती समीचीना दृष्टिर्यस्यासौ सदृष्टिः सम्यग्दृष्टिरित्यर्थः । आराधको ज्ञानाचाराधनको । च पुनश्चरमोऽपश्चिमभवोध्या-
स्त्यर्थेऽअत्यय इति । अहो इत्याश्चर्ये । अस्य मूर्याभनाम्नो देवस्य या स्थितिरस्ति सा कल्पस्थितिवत् न धर्मपरतां न धर्म-
व्यवहारविपयतामत्येति अतिक्रामति । कस्मात् ? भावान्वयात् शुभभावसम्बन्धात् । अत्राधिकृते पिशुनैर्नीचैः शद्धान्तरैर्व-
चिता व्यामोहं प्रापिताः केपि जना भ्रमं मा कार्युः न धर्मोऽयं किंतु स्थितिरित्यादिभ्रमभाजो मा भूवन्नित्यर्थः । सूर्या-
भस्य भव्यत्वादिनिश्चायक आलापको यथा-"अहन्नं भंते सूरियाभे देवे किं भवसिद्धिए" इत्यादि। अत्र देवानां ज्योति-
कविमानाधिपतिपर्यन्तानां विमानाधिपतीनां सर्वेषां सम्यक्त्वं द्रव्यसम्यक्त्वादिकं भवत्येव, तेन तेषां पूजादिकर्त्तव्यं
निश्चायकमुक्तं, मिथ्यादृष्टीनां तु विमानाधिपतित्वं नास्त्येवेत्यादिवक्तव्यता मूलत्तितो ज्ञेयेति ॥ १५ ॥
नन्वधार्मिका एव देवा उच्यन्ते इति तत्कृत्यं न प्रमाणमित्याशङ्कय निराचिकीर्षुराह---
सद्भक्त्यादिगुणान्वितानपि सुरान सम्यग्दृशो ये ध्रुवं, मन्यन्ते स्म विधर्मणो गुरुकुलभ्रष्टा जिना_हिषः।
देवाशातनयाऽनया जिनमतान्मातङ्गवल्लेनिरे,स्थानाङ्गप्रतिषिद्धया विहितया ते सर्वतो बाह्यताम्॥१६॥
व्याख्या गुरुकुलात् भ्रष्टाः त्यक्तगुरुकुलवासाः यथाच्छन्दविहारिणः एवंविधा ये जिनार्चाद्विपो जिनपूजादी
धृतद्वेषाः लुम्पाकश्वपाकाः सुरान् देवान् विधर्मणः विगतो धर्मो येभ्यस्ते विधर्माणस्तान तादृशान् मन्यन्ते स्म । परं स्वभा-
१ आदिशब्दादपुनर्वन्धकादि.
॥ १० ॥
वेन कीदृशान् सुरान् ? सद्भक्त्येति सतां चातुर्वर्णवर्णनीयस्थितीनां भक्तिर्बाह्यप्रतिपत्तिरादिर्येषां बहुमानवैयावृत्त्यादीनां ते च ते गुणाश्च तैरन्वितान् संयुतान् , एवंविधानपि । ते जिना द्विषः सर्वतः सर्वस्माजिनमतात् मातङ्गवत् बाह्यता लेभिरे । कया ? अनयाऽवर्णवादरूपया आशातनया । किं विशिष्टया ? स्थानाङ्गे (ग) प्रतिषिद्धयाऽकर्तव्यत्वेन उक्तया विहितया प्रसह्य कृतयाऽनया तैः कर्मचण्डालत्वं प्राप्तमिति व्यङ्गयप्रतीतेः पर्यायोक्तं "व्यंङ्गचस्योक्ति पर्यायोक्तं " इति हैमवचनात् । देवाशातनयेत्यनन्तरं इवशब्दोल्लेखे तेषां सर्वतो बाह्यताया हेतोरुत्प्रेक्षणात् गम्योत्प्रेक्षा वेति ध्येयम् ॥ १६ ॥ अथ देवेषु धर्मस्थापकान् गुणानेव दर्शयन् परानाक्षिपति- शक्रेऽवग्रहदातृता व्रतन्नृतां निष्पापवाग्नाषिता, सच्चाद्यनिलाषिता च गदिता प्रज्ञप्तिसूत्रे स्फुटम्। इत्युच्चैरतिदेशपेशलमतिः सम्यग्दृशां स्वःसदां,धर्मित्वप्रतिनूः खलस्खलनकृद्धर्मस्थितिं जानताम् ॥१७ व्याख्या-शक्रे सौधर्मेन्द्रे व्रतभृतां साधूनामवग्रहदातृताऽवग्रहदानगुणः, तथा निष्पापवाग्भाषकत्वगुणः सतां साध्वादीनां शर्माद्यभिलाषिता हितसुखादिकामित्वगुणः । चः समुच्चये । प्रज्ञप्तिसूत्रे भगवत्यां स्फुटं प्रकट गदिता एते गुणा व्यक्तं प्रतिपादिता इत्यर्थः । इत्यमुना प्रकारेण उच्चैरत्यर्थ सम्यग्दृष्टीनां स्वःसदां देवानां तत्सम्बन्धिनीत्यर्थः । मतिः धर्मस्थितिं धर्मव्यवस्थां जानतां सहृदयानां धर्मित्वप्रतिभूः धर्मित्वस्थापनायां ' जयहेतुसाक्षिणी ' वर्तते । कथंभूता मतिः ? १ अवगृह्यते स्वामिना स्वीक्रियते य सोऽवग्रह । - - प्रतिमाश०- सटीक। ॥११॥ अतिदेशपेशला अतिदेशेन सादृश्यग्राहकवचनेन पेशला रमणीयाऽत एव । पुनर्मतिः कीदृशी ? खलस्खलनकृत् दुर्जयदुर्जनम- तिवादिपराजयकृदित्यर्थः ॥ १७ ॥ यत्यननुमोद्यत्वाद्देवानां भक्तिकृत्यं न धर्म इति गूढाशयस्य शङ्कामसिद्ध्या निराकुर्वनाह- देवानामपि नक्तिकृत्यमपि नश्लाघ्यं यतीनां यतः, सूर्यान्नः कृतनृत्यदर्शनरुचिप्रश्नोऽर्हता नाहतः। हंतेयं जमचातुरी गुरुकुले कुत्र त्वया शिक्षिता, सर्वत्रापि हिपमितैरनुमतं येनानिषिद्धं स्मृतम्॥१८॥ व्याख्या-ननु देवानां भक्तिकृत्यमपि प्रतिमार्चनादि यतीनां न श्लाघ्यं नानुगोधं ततश्च न धर्मो; वन्दनादि तु श्ला- ध्यत्वाद्धर्म एव । अत एव "पोराणमेयं सूरियाभा" इत्यादि । यच्चतुर्विधा देवा अहतो भगवतो वन्दित्वा नमस्कृत्य स्व- नामगोत्राणि आवयंतीत्येव निगमनमिति द्रष्टव्यं । इदमित्थमेव, यतोऽर्हता श्रीमहावीरेण सूर्याभ एवंविधो न आवृतः । कीदृशः ? कृतो नृत्यविधेर्नृत्यकरणस्य प्रश्नो येन स तथा । अत्रोत्रम्-हन्तेति खेदे, इयं चातुरी त्वया गुरुकुले कुत्र शिक्षिता ? यन्मौनं निषेधमेव व्यञ्जयतीति येन कारणेन सर्वत्रापि सर्वस्मिन्नपि संप्रदाये पण्डितैः अनिषिद्धमनुमतं स्मृतं अत एव ॥ १८ ॥ तूष्णींभावे भवद्भिरपि किं वीज वाच्यमित्याकाङ्क्षायामाह- ॥ ११ ॥ १ लुम्पाक स्वाशयं द्रढयति २ अथ ग्रन्धकार उत्तरमाह.
इच्छा स्वस्य न नृत्यदर्शनविधौ स्वाध्यायनङ्गः पुनः,साधूनां त्रिशस्यचातिशयिनी त्नक्तिनवध्वंसिनी। तुल्यायव्ययतामिति प्रतियता तूषणी स्थितं स्वामिना,बाह्यस्तत्प्रतिषेधको न कलयेत्त इंशजानां स्थितिम् व्याख्या-स्वस्य भगवतो नृत्यदर्शनविधौ इच्छा न वर्त्तते, बीतगत्वात् । पुनः साधूनां गौतमादीनां नृत्यदर्शने स्वाध्यायभङ्गः स्यात् , स चानिष्टस्तेषां । च पुनः । त्रिदशस्य सूर्याभस्य भक्तिर्भवध्वंसिनी वर्तते, ततो नृत्यमदर्शने समु- दायापेक्षया तुल्यायव्ययतां समानवृद्धिहानिकत्वं प्रतियता केवलज्ञानालोकेन कलयता जानता स्वामिना श्रीवर्द्धमानखामिना तूष्णीं मानेन स्थितं । भावे नपुंसके क्तप्रत्ययः । वाह्यः शासनवहिभूतो लुम्पकः तदंशजानां वीरस्वामिवंशोत्पन्नानां साधूनां इमा पूर्वोक्तां स्थितिं मर्यादां न कलयेत् न जानीयात् , न ह्यन्यकुलमर्यादां तदहिवती जानातीत्युक्तिः ॥ १९ ॥ वाक्क्रमवैचित्र्यमेवोपदर्शयति- सावा व्यवहारतोऽपिनगवान साक्षात् किलानादिशन,बब्यादिप्रतिमार्चनादि गुणकन्मौनेन संमन्यते। नत्यादि ासदां तदाचरणतः कर्त्तव्यमाह स्फुट, योग्येच्छामनुगृह्य वा व्रतमतश्चित्रो विन्नोर्वाक्क्रमः व्याख्या--भगवान् वर्धमानस्वामी किल यत् बल्यादि प्रतिमार्चनादि च व्यवहारतोऽपि स्थूलव्यवहारेणापि सावधं सावद्यत्वव्यपदेशविषयस्थं साक्षात् कण्ठरवेण अनादिशन् सन् । मौनेन गुणकृत् संमन्यते मौनाक्षिप्तविधिना तत्र प्रवर्तयतीत्य-
प्रतिमाश०-
सटीका
॥१२॥
यः । अप्रमादसारो हि भगवदुपदेशोऽपुनर्बन्धकादौ स्वस्त्रौचित्येन विशेष विश्राम्यतीति तदीयवागतिशयविजृम्भितमिति
भगवान् शुसदां देवानां नत्यादि वन्दनादि तदाचरणतस्तदाचरणमाश्रित्य स्फुटं कर्त्तव्यमाह । अत एवाह सूर्याभो "देवानु-
भियं वन्दे" इत्यायुक्तौ "पोराणमेयं" इत्यायुक्तं भगवता । अयं च नाट्यकरणादिपर्युपासनाया अप्युपदेशः, अन्यथा "जाव
पज्जुवासामि" इत्यस्योत्तराभावेन न्यूनतापतेः । नच नामगोत्र श्रावणविधिः स्वतन्त्र एव, किं तु चिकीर्षितसाधनानुकूल-
प्रतिशाविधिशेषतया तस्योपयोगः । शेषेण च विशेषिण आक्षेपः सुकर एवेति व्युत्पन्नानां न कश्चिदत्र व्यामोह इति भगवान्
प्रवृत्तियोगिनं प्रतिव्रतं चारित्रं स्फुटं प्रकटमाह-“एवं देवाणुप्पिया गंतवं" इत्यादिनेति । भगवान् इच्छायोगिनं प्रति च यो-
ग्येच्छामनुगृह्य वा व्रतमाह-"अहामुहं देवाणुप्पिया मा पडिवंधं करेह" इतीच्छानुलोमभावयाहेत्यर्थः । वाकारो व्यवस्थायां ।
एवं विभोर्भगवतो वाक्क्रमो वचनरचनानुक्रमः चित्रो नानाप्रकारो भवति । मौनमपि विनीतमभिज्ञ पुरुषं प्रतीच्छानुलोमाभि-
व्यजकमेवेति तत्तात्पर्यप्रतिसन्धानेनैव प्रेक्षावत्मवृत्तिः सुघटा । अत एव भगवता मौने स्वव्यवहारानुरोधेन कृतेऽपि पारिणा-
मिक्या बुद्धया स्वकृतिसाध्येष्ट साधनत्वायनुसन्धाय नाट्यकरणमारब्धं सूर्याभेनेत्यादि राजपनीयवृत्तितोऽपि ज्ञेयमिति ॥२०॥
एकाधिकारिकतुल्यायव्ययत्वादेव भक्तिकमणि विभोमानमुचितमिति लुम्पकस्य मतं निषेधति-
दानादाविव नक्तिकर्मणि विन्नुर्दोषान्निषेधे विधौ,मौनी स्यादिति गीधैव कुधियां उष्टे निषेधस्थितेः।
अन्यत्रप्रतिबन्धतोऽननिमतत्यागानुपस्थापनात्,प्रज्ञाप्येविनयान्वितेविफलतादेषोदयासंनवात्॥३१॥
॥१२॥
व्याख्या-दानशीलादिपु श्राद्धस्थानेषु दीयमाने दानादाविव भक्तिकणि नाट्यजिनार्चादौ विभुः श्रीवीरजिनः नि- पेधे विधौ च दोषात् उभयतः पाशरज्जुस्थानीयात् मौनी स्यात् । यथाहि दानादिनिषेधेऽन्तरायभयं तद्विधाने च पाणिवधा- नुमतिरिति । । तत्र साधूनां मौनमेव युक्तं । "जे अदाणं पसंसंति. वहमिच्छंति पाणिणं । जे अणं पडिसेहति वित्तिच्छेयं करेंति ते ॥१॥ दुहतो वि ते ण भासंति अत्थि वा णत्थि वा पुणो । आयरहस्स हिचाणं निवाणं पाउणंति ते ॥२॥” इति सूत्रकृद्वचनात् । तथा भक्तिकर्मणि अपि निषेधे भक्तिव्याघातभयं विधौ च बहुमाणिव्यापत्तिभयमिति मौनमेवोचितमिति भावः । इतीयं गीः कुधियां कुबुद्धीनां मृषैवास्ति । कुतः ? दुष्टे दोपवति निषेधस्थितेः निषेधव्यवस्थानात् । एतदपि कुतः ? प्रतिवन्धत इति हेतोः । पुनः अन्यत्र अनभिमतत्यागानुपस्थापनात् मौनी स्यादिति हेतोः : पुनः प्रज्ञाप्ये विनयान्विते पुरुषे विफलताद्वेपोदयासंभवात् मौनी स्यादिति हेतोः, इत्यन्वयलेशः । विस्तरार्थमाह-प्रतिवन्धतः प्रतिवन्धो व्याप्तिस्तस्मात् । प्रतिवन्धाकारश्चायं-यत्र येन दोपचज्ज्ञायते तत्तत्र तेन निषेध्यमिति निषेधार्थः । अथ दुष्टमशुद्धाहारदानं तच्च व्याख्यानश- क्त्यभावेऽनुकूलप्रत्यनीकेन निषिध्यते इति व्यभिचारः। तत्राह-अन्यत्र विनाऽनभिमतो यस्त्यागस्तस्यानुपस्थापनं उपस्था- पनानुकूलशक्त्यभावस्तस्मात् । तदुक्तमाचारे सप्तमस्य द्वितीये---"फासे पुछो धीरो अहियासे” इत्याद्यालापके अदुवा वयगुत्तीए गोयरस्स" इत्यादि । तर्कयित्वा पुरुष कोश्यं पुरुष इत्यनन्यसदृशमाचक्षीत । सामर्थ्य विकलेन तु वाग्गुप्तिर्विधे- १. दानादिविधाने,
प्रतिमाश०
सटीक।
॥१३॥
येत्याह-अदु वा इत्यर्थः । तथा च यदुष्टं तच्छक्तिसत्त्वे निषिध्यत इति नियमो लभ्यते । तेनैकान्तदुष्टस्य निर्बलेन वादि-
नानिषेधेऽपि वाग्गुप्तिसमाध्यप्रतिरोधान्न दोपः । तदुक्तं तत्रैव-"अदु वा वायाउं विउंजंति, तंजहा-अस्थि लोए णस्थि
लोए " इत्याद्यालापकः, व्याख्या-अस्ति नास्ति ध्रुवाध्रुवाकान्तवादीनां वादायोत्थितानां त्रयाणां त्रिपष्टयधिकानां प्रा-
वादुकशतानां वादलब्धिमता विचक्षणेन प्रतिज्ञाहेतुदृष्टान्तोपन्यासेन तत्पराजयमापादयता सम्यगुत्तरं देयं । अथवा
गुप्तिर्वाग्गोचरा विधेया इत्येतदहं ब्रवीमीति फलितार्थः । तेन जमालिना पृथग्विहारकर्तव्यतां पृष्टो भगवाँस्तदुष्टतां जाना-
नोऽपि यन्त्र निपिद्धवान् , किं तु मौनमास्थितवान् तत्र न दोपः । अविनीते हि सत्यवचःप्रयोगोऽपि फलितोऽसत्यः, एत-
दाह-"अविणीयमाणवं लो किलेस्सई भासई मुसं चेव । घंटालोहं नाउ कोकडकरणे पवत्तिज त्ति ॥ १ ॥” इति । तथा
प्रज्ञाप्ये प्रज्ञापनीये विनयान्विते पुरुपे इत्यपि विशेषणीयं । कुतो निपेधस्य च विफलतायाश्च श्रोतुषोदयस्य चासंभवादिति
हेतोः, प्रज्ञाप्ये विनीते सूर्याभे नाट्यकर्त्तव्यतां पृष्टपति भगवतो मौनमनुमतिमेव व्यञ्जयतीतिस्थितम् ।। २१ ॥
अनिषेधानुमतिमेव सदृष्टान्तमुपपादयति-
झातैः शल्यविशादिभिर्नु जरतादीनां निषिद्धा यथा, कामा नो जिनसमकारणविधियक्तं निषिद्धस्तथा।
तीर्थेशानुमते पराननुमते व्यस्तवे किं ततो,नेष्टा चेज्ज्वरिणां ततः किमु सिता माधुर्यमुन्मुञ्चति ॥श्शा
व्याख्या-नु इति निश्चये । शल्यविपादिभिदृष्टान्तर्यथा भरतादीनां कामा निषिद्धाः सन्ति तथा जिनसमकारण-
॥ १३ ॥
विधिय॑क् न निषिद्धोऽस्ति । श्रूयते च स आगमे-" धूभसयभाउयाणं अट्ठासीयं च जिणघरे कासी" इत्यादिना । यदि च स दुष्टः स्यात्तदा कामादिवदेव निषिध्येत । तथा-"ओसरणे बलिमाई भरहाईण न निवारियं तेण । जह तोसि चिय कामा सल्लविसाईहिं णाएहिं ति ॥ १॥" एवं च तीर्थेशानुमते तीर्थकरैरनुज्ञाते द्रव्यस्तवे पराननुमतेर्द्विषोऽननुमोदनात् किं स्यात् ? न किञ्चिदित्यर्थः । इदमेव प्रतिवस्तूपमया द्रढयति-चेत् यदि वरिणां सिता शर्करा न इष्टा नाभिमता तत्ति मा- धुर्य खभावसिद्धं मधुरतागुणं उन्मुञ्चति ? नैवोन्मुञ्चति, तद्वद्भगवदनुमतस्य द्रव्यस्तस्वस्यान्यद्वेषमात्रान्नासुन्दरत्वमिति ग- भार्थः ॥ २२॥ यत्यनुमोद्यत्वमेव द्रव्यस्तवस्य सूत्रनीत्या स्थापयन् परमाक्षिपति । साधूनां वचनं च चैत्यनमनश्लाघार्चनोदेशतः, कायोत्सर्गविधायकं ह्यनुमति व्यस्तवस्याह यत् । तत्किं लुम्पक लुम्पतस्तव जयं दुःखौघहालाहलज्वालाजालमये नवाहिवदने पातेन नोत्पद्यते ॥१३॥ व्याख्या-च पुनः । हि निश्चितं । साधूनां परमार्थतश्चारित्रवतां यद्वचनं कर्तृपदं द्रव्यस्तवस्य अनुमतिं अनुमोदन आह । कीदृशं वचनं ? कायोत्सर्गविधायकं कायोत्सर्गकरणप्रतिज्ञामतिपादकं । केन ? चैत्यनमनश्लाघार्चनाद्देशतः चैत्यवन्द- नाजुद्देशेन है लुम्पक ! तद्वचनं लुम्पतस्तव भवाहिवदने संसारभुजगवक्त्रक्रोडे पातेन कृत्वा, भयं कर्तृपदं न उत्पद्यते, अयुक्त- मेतत्तवति व्यङ्गयं । भवाहिवदने किंभूते ? दुःखौघ एवं हालाहलं तस्य यज्वालाजालं विभावव्याप्तिरूपं तन्मये। सूत्रं
प्रतिमाश०-
॥१४॥
सटीक
चेदं स्पष्टमेव-"अरिहंतचेइआण" इत्यादि, अस्यार्थ:-अहंतां भावाहतां चैत्यानि चित्तसमाधिजनकानि प्रतिमालक्षणानि अ-
हेचैत्यानि तेपां वन्दनादिप्रत्ययं कायोत्सर्ग करोमीति सम्बन्धः। कायोत्सर्गः स्थानमौनध्यानं विना क्रियान्तरत्यागः तं
करोमि । किं निमित्तमित्याह-"वंदणवत्तिआए" इत्यादि, चन्दनं प्रशस्तमनोवाकायप्रवृत्तिस्तत्पत्ययं तन्निमित्तं, यादृग्व-
न्दनात् पुण्यं स्यात्ताहकायोत्सर्गादपि मे भकत्वित्यर्थः । “वत्तिआएत्ति" आपत्वात् सिद्धं । “पूअणवत्तियाए” पूजनं गन्ध-
मालादिनाऽभ्यर्चनं तत्मत्ययमित्यादि ॥ २३ ॥
अथ द्रव्यस्तवस्य भक्तिहिंसोभयमिश्रत्वादेकानुमोदेन कथं नान्यानुमोदनमित्याशङ्का निरस्यन् कविः स्वस्य
प्रेक्षावत्तामाह-
किं हिंसानुमतिर्न संयमवतां द्रव्यस्तवश्लाघये त्येतब्लुम्पकलुब्धकस्य वचनं मुग्धे मृगे वागुरा ।
हृद्याधाय सरागसंयम व त्यक्ताश्रवांशाः स्थिता, नावाङ्गांशमदूषणा इति पुनस्तच्छेदशस्त्रं वचः।।श्व
व्याख्या-संयमवतां चारित्रिणां द्रव्यस्तवश्लाघया द्रव्यार्चानुमोदनया कि हिंसानुमतिर्न भवति ? अपि तु भवत्येव.
पश्यन्तु दयारासिका इति भावः । इत्येतत् वचनं लुम्पकलुब्धकस्य लुम्पाकमृगयोः वागुरा वन्धपाशः वर्तते । कस्मिन् ?
मुग्धे आपाततः श्रुतबाह्यधर्माचारे मृगे इति व्यस्तरूपकं मुरधपदमनभिज्ञश्रोतर्यर्थान्तरसङ्क्रमितवाच्यमिति । य एतद्वचनं श्रुत
१, मृगयुयोधस्तस्य.
॥१४॥
वान् स मृतवानेवेति व्यङ्गथं । इति पुनः अस्मत्संप्रदायकानां वचो वर्त्तते । किंभूतं वचः ? तच्छेदशस्त्रं तस्य पाशस्य च्छेदे शस्त्रतुल्यं । इतीति किं ? तथा वयमदूषणाः दोषरहिताः स्थिताः स्मः । किं कृत्वा ? इह प्रक्रान्ते द्रव्यस्तवे द्रव्यभावाभ- यात्मके भाव एवाङ्गभूतो योऽशस्तं हृदि चित्ते आधाय स्थापयित्वा । कथंभूता वयं ? सरागसंयमे चारित्रे इव, त्यक्तः उपे- क्षित आश्रवांश आश्रवभागो यैस्ते । अयं भावः-सरागसंयमेऽनुमोद्यमाने यथा रागो नानुमोद्यताकुक्षौ प्रविशति तथा द्रव्य- स्तवेऽनुमोद्यमाने हिंसांशोऽपि न प्रविशति, संयमत्वेनानुमोद्यत्वे रागांशो नोपतिष्ठत एवति द्रव्यस्तवेनानुमोयत्वे सुतरां हिंसानुपस्थितिरिति ॥ २४ ॥ अनुपदेश्यत्वादननुमोद्यत्वं द्रव्यस्तवस्येत्यत्राह- मिश्रस्यानुपदेश्यता यदि तदा श्राद्धस्य धर्मस्तया,सर्वः स्यात्सदृशी नु दोषघटना सौत्रक्रमोल्लङ्घनात् तत्सम्यग्विधिन्नक्तिपूर्वमुचितव्यस्तवस्थापने, विद्मो नापरमत्र लुम्पकमुखम्लानिं विना दूषणम् २५ व्याख्या-यदि साधूनां मिश्रस्य द्रव्यस्तवस्य अनुपदेश्यता उपदेशाविषयता त्वया प्रतिज्ञायते । मिश्रस्यति हेतुगर्भ विशेषणं मिश्रत्वादिति यावत् इति । तदा श्राद्धस्य धर्मः सर्वस्तथाऽनुपदेश्यः स्यात् । नु इति निश्चये। दोषघटना दोषसङ्गतिः सदृशी तुल्या वर्तते । कस्मात् ? सौत्रस्य सूत्रसिद्ध स्य क्रमस्योल्लङ्घनात् उल्लङ्घनमाश्रित्य । ततः क्रमप्राप्ते उपदेशे तु न कोऽपि दोष इति । तत्तस्मात् कारणात् सम्यगवपरीत्येन विधिभक्तिपूर्व यथा स्याचथा उचितस्य द्रव्यस्तवस्य स्थापने उपदेशे वयं अपरं १ अङ्गीक्रियते ?
सटीका प्रतिमाश०. ॥१५॥ दूषणं न विद्यः न जानीमः । कां विना ? लुम्पकमुखम्लानिं विना जाताप्रतिभाख्यनिग्रहस्थानस्य लुम्पकस्य मुखश्यामतामिति विनोक्तिरलङ्कारः ॥ २५॥ द्रव्यस्तवे हिंसानुमतेर्यावद्विशेषाभावात्सामान्याभाव इत्यनुशास्ति- नाशंसानुमतिर्दयापरिणतिस्थैर्यार्थमुद्यच्छता, संवासानुमतिस्त्वनायतनतो दूरस्थितानां कथम् । हिंसाया अनिषेधनानुमतिरप्याज्ञास्थितानां न यत्, साधूनां निरवद्यमेव तदिदं व्यस्तवश्लाघनम्॥२६॥ व्याख्या-भगवत्पूजादर्शनाबहवो जीवाः सम्यग्दर्शन मल्यमासाय चारित्रप्राप्त्या सिद्धिसौधमध्यासतामिति भाव- नया पूजा कर्तव्येति दयापरिणतेः स्थैर्यार्थमुद्यच्छतामुद्यम कुर्वाणानां साधूनां आशंसानुमतिर्न भवति, उपदेशफलेच्छायां हिंसाया अविषयत्वात् । तु पुनः संवासानुमतिरपि अनायतनतो हिंसायतनादुरस्थितानां साधूनां कथं भवति ? पुष्पाधायतनमेवानायतनं मोक्तमिति चेत्तहि समवसरणस्थितानां अनायतनवर्णित्वासङ्गः । न च देवगृहेऽपि स्तुतित्रयकर्षणात्परतोऽवस्थानमनुज्ञातमिति विधिवन्दनाअर्थमवस्थानेन उक्तदोषः । पुनः यत् यस्मात् आज्ञास्थितानां क्रमाविरुद्धोपदेशाज्ञावर्तिनां साधूनां हिंसाया अनि- पेधनानुमतिरपि न भवति, तत् तस्मात् कारणात् इदं द्रव्यस्तवस्य श्लाघनं माहात्म्यप्रकाशनं साधूनां निरवद्यमेव वर्त्तते,शुभा- नुवन्धित्वादिति निष्कर्षः ॥ २६ ॥ कश्चिदाह--द्रव्यस्तवो यदि साधूनामनुमोद्यस्तदा तेषां कर्त्तव्यः स्यादिति चेत् किमिदं स्वतन्त्रसाधनं प्रसङ्गापादनं वा ?
नायः साधुकर्त्तव्यत्वस्यानभीप्सितत्वेनासाध्यत्वात् , अन्त्ये त्वाह- साधूनामनुमोद्यमित्यय न किं कर्त्तव्यमर्चादिकं, सत्यं केवलसाहचर्यकलनानेष्टाऽनुमानप्रथा । व्याप्तिः क्वापि गता स्वरूपनिरयाचारापास्तव,क्लीवस्येव वृथा वधूनिधुवने तद्बाल! तर्के रतिः२७ व्याख्या—अथानुमोद्यमिति हेतोः साधूनामर्चादिकं किं न कर्तव्यं स्यात् ? यद्यनुमोघं स्यात् (तर्हि) कर्त्तव्यं स्यात् । न च कर्त्तव्यमस्ति, अतो नानुमोद्यमिति । अत्रोत्तरं यत्त्वया आपाततः प्रसञ्जनं कृतं परं अनुमानप्रथा प्रसङ्गापादननिष्ठा न इष्टाऽस्ति । कस्मात् ? केवलस्य साहचर्यस्य कलनात् पुरस्करणात् । अत्र हि साहचर्यमालं व्याप्तिः, यद्यदनुमोद्य तत्त्कर्त्तव्यमित्यत्र नियतसाहचर्यायाप्तिरस्त्येवेत्यत्राह-व्याप्तिः क्वापि गता दूरेनष्टाऽस्ति । कस्मात् ? स्वरूपनिरयाचारात् स्वरूपनिरवद्याचारात् उपाधेः, यत्र साधुकर्तव्यत्वं तत्र स्वरूपतो निरवद्यत्वं यत्र च तदनुमोद्यत्वं तत्रस्वरूपतोनिरवद्यत्वमिति नास्ति, कारणविहितानां वर्षाविहारादीनां नयुत्तारादीनां संयत्यवलम्बनादीनां चानुमोद्यत्वेऽपीत्यादि क्षेयं । एवं च शुष्कपाठवलीवर्दस्य तर्के मुखं प्र- विशत उपहासमाह-तत्तस्मात् कारणात् हे वाल! अविवेकिन् ! तव तर्के रतिः वृथाऽस्ति, अन्तरङ्गशक्त्यभावात् । कस्य कुत्र? क्लीवस्य वधूनिधुबने इस कान्तारतसंमः इव । नच विद्यामुखचुम्बनमात्रात्तद्भोगसौभाग्यमाविर्भवति । यतः सूक्तं-"वेश्या- नामिव विद्यानां मुखं कैः कैन चुम्बितम् । हृदयग्राहिणस्तासां द्वित्राः सन्ति न सन्ति च ॥१॥" किं च अचेलकादीनां. एक चेलायाचारस्यानुमोयत्वेऽपि तदकर्त्तव्यत्वात्सूत्रनीत्या व्यक्त एव दोष इत्यादि परं "सचे वि अ ते जिणाणाए शि"||२७||
.
प्रतिमाश०.
सटीक।
ननु यदि द्रव्यस्तवानुमतिर्भावस्तगोपचयायापेक्ष्यते तदा द्रव्याचैव कयं नापेक्ष्यते ? तबाह-
उग्धं सर्पिरपेक्षते न तु तृणं साक्षाद्यथोत्पत्तये,इव्या नुमतिप्रभृत्यपि तथा नावस्तवो न विमाम् ।
इत्येवं शुचिशास्त्रतत्त्वमविदन् यत्किञ्चिदापादयन,कि मत्तोऽसि पिशाचकी किमथवा किं वातकी पातकी२८
व्याख्या-सर्पिघृतं कर्तृपदं, यथा उत्पत्तये, दुग्धं क्षीरमपेक्षते, क्षीरादेवाव्यवधानेन सर्पिष उत्पद्यमानस्योपलम्भात् ।
साक्षात् । तथा सर्पिः तृणं तु नापेक्षते, गवाभ्यवहारेण तथापरिणम्यमानमपि व्यवधानात् । तथा भावस्तव उपचितावयवि-
स्थानीयो द्रव्यार्चानुमतिमभृत्यपि स्वावयवभूतं कारणमुत्पत्त्येऽपेक्षते, नतु इमां द्रव्यार्चा अपेक्षते, व्यवधानात् । अत एव
द्रव्याग्निकारिकाव्युदासेन भावाग्निकारिकैवानुज्ञाता साधूनां । तथा च तदष्टकं हारिभद्रं-“कर्मेन्धनं समाश्रित्य दृढा सद्भा-
बनाहुतिः । धर्मध्यानाग्निना कार्या दीक्षितेनाग्निकारिका ॥१॥" अस्य व्याख्या-कर्मेन्धनं समाश्रित्य अमिकारिका कार्या
दीक्षितेनेति योगः । अग्निकारिकाऽग्निकर्म । किंविधा ? दृढा कर्मेन्धनदाहप्रत्यला । पुनः किंविधा ? सद्भावना एवाहुतिः
घृतमक्षेपलक्षणा यस्यां सा धर्मध्यानशुक्लध्यानस्योपलक्षणमित्यादि । हे लुम्पक! त्वमित्येवं उक्तजातीयप्रकारं शुचिशास्त्रतत्त्वं
अविदन्नजानन् यत्किञ्चिदापादयन् जातिप्रायमुपन्यस्य सभायां जातोपहास:-किं मत्त उन्मादवानसि ? अथवा पिशाचकी
पिशाचग्रस्तोऽसि ? किं वातकी सन्निपाताख्यवातरोगवानसि ? किं वा पातकी महापातकवानसि ? अत्र यत्किश्चिदापादने
पिशाचकित्वादिहेतूत्मेक्षा ॥ २८ ॥
अपि च- व्यार्चामवलम्वते न हि मुनिस्तत्तुं समर्थो जलं, बाहुन्न्यामिव काष्ठमन विषमं नैतावता श्रावकः। याहुन्यां नववारि तर्तुमपटुः काष्ठोपमां नाश्रयेद्दव्यार्चामपि विप्रतारकगिरा ब्रान्तीरनासादयन्॥श्या व्याख्या-अत्र जगति बाहुभ्यां जलं तत्तुं समर्थः भुजेन भवजलतरणक्षम एवंविधो मुनिः विषमं सकण्टकं काष्ठमिव द्रव्याचा न हि अवलम्बते, स्वरूपतः सावद्यायास्तस्याः सकण्टककाष्ठस्थानीयाया अवलम्बनायोगात् । एतावता कुश्रुतादि दोषेण स्वौचित्यमविदन् श्रावको बाहुभ्यां भववारि संसारसमुद्रं तर्तुमपटुः सन् काष्ठोपमां विषमकाष्ठतुल्यां द्रव्यार्चा न आश्रयेदिति न, (किंतु ) आश्रयेत् (एव) इत्यर्थः, द्वौ नकारौ प्रकृत्यर्थं सूचयतः । श्राद्धः किं कुर्वन् ? विप्रतारकगिरा लु- म्पकवचनेन भ्रान्तीविपर्ययान् अनासादयन् अनाप्नुवन् , तदासादने तु स्वौचित्यापरिज्ञाने स्यादेव तदनाश्रयणं मुग्धस्येति भावः ॥ २९ ॥ किं च- अकोणाविरतिज्वरा हि गृहिणो द्रव्यस्तवं सर्वदा,सेवन्ते कटुकोषधेन सदृशं नानीदृशाः साधवः। इत्युच्चैरधिकारिन्दमविदन् बालो वृथा खिद्यते, नैतस्य प्रतिमाद्विषो व्रतशतैर्मुक्तिः परं विद्यते॥३॥ व्याख्या-हि निश्चितं । अक्षीणाविरतिः एव ज्वरो येषां ते तथाविधा गृहिणो द्रव्यस्तवं सदा सेवन्ते । कीदृशं द्रव्यस्तवं ? ज्वरापहारिणा कटुकौषधेन सदृशं तुल्यं । साधवो द्रव्यस्तवं न सेवन्ते । कीदृशाः साधवः ? अनीदृशाः क्षीणा- ?
प्रतिमास- . सटीक। ॥१७॥ ? विरतिज्वराः, तेन हि नीरोगवैद्योक्तं औषधं रोगवान् सेवते इति लोकेऽपि प्रसिद्धमिति । बालः अज्ञानी वृथा खिद्यते मुधा खेदं कुरुते । किं कुर्वन् ? उच्चैः अतिशयेन अधिकारिभेदं मलिनारंभितदितराधिकारिविशेपं अविदन् , एतस्य प्रतिमाद्विपः प्रतिमाशत्रोः [वतशतैः] पर केवलं मुक्तिर्न विद्यते प्रवचनार्थ एकत्राप्यश्रद्धानवतो योगशतस्यापि निष्फलत्वात् ॥ ३० ॥ द्रव्यस्तवे गुणानुपदर्शयति-- वैतृष्ण्यादपरिग्रहस्य दृढता दानेन धर्मोन्नतिः, सद्धर्मव्यवसायतश्च मलिनारम्नानुबन्धच्छिदा। चैत्यानत्युपनम्रसाधुवचसामाकर्णनात्कर्णयोरगोश्वामृतमजनं जिनमुखज्योत्स्नासमालोकनात्॥३१ व्याख्या-- अपरिग्रहस्य परिग्रहवतस्य दृढता भवति । कस्मात् ? वैतृष्ण्यात् तृष्णाविच्छेदात् । तथा धर्मोनतिर्भवति । केन ? दानेन कृत्वा । तथा मलिनारम्भानुवन्धस्य च्छिदा छेदो भवति । कस्मात् ? सद्धर्मेति प्रासौदादीतिकर्तव्यता सन्धाने सदारम्भाध्यवसायस्यैव प्राधान्यात् , इतरस्यानुपङ्गिकत्वात्। तत्मवाहप्रवृत्त्यैव वंशतरणोपपत्तेरिति तथा कर्णयोः अ- मृतमज्जनं भवति । कस्मात् ? आकर्णनात् । केषां ? चैत्येति चैत्यानामहत्पतिमानां आनत्यर्थ नमनाय उपनम्राः उपनमनशी- लाः ये साधवस्तेषां एकदेशदेशनोधतानां यानि वचांसि तेषां । च पुनः अक्ष्णोः अमृतमज्जनं भवति । कस्मात् ? जिनेति जिनमुखस्य भगवत्पतिमावदनेन्दोज्योत्स्नाया लावण्यस्य समालोकनात् । कणेयोनेयनयोश्चामृतमज्जनं विगलितवेद्यान्तगेभ- यानन्दात्मा शान्तरसोद्रोध इति यावत् ॥ ३१ ॥ ॥१७॥ १ जिनगृहादिकस्य तथा-- ? नानासङ्घसमागमात्सुकतवत्सजन्धहस्तित्रजस्वस्तिप्रश्नपरम्परापरिचयादप्यद्लुतोद्भावना । वीणावेणुमृदङ्गसङ्गमचमत्काराच्च नृत्योत्सवे, स्फाराईद्गुणलीनतालिनयनाद्भेदभ्रमप्लावना ॥ ३ ॥ व्याख्या-अद्भुतोद्भावना अद्भुतरसस्य उद्भावना उद्बोधः भवति । कस्मात् ' नानासङ्घति नानाप्रकारा अनेकदेशीया ये सवास्तेषां समागमात् सङ्गमात् अपि । पुनः कस्मात् ? सुकृतेति सुकृतवन्तो ये सन्तः सज्जनाः ते एव गन्धहस्तिनो ग- न्धमात्रेण पादिगजभञ्जनत्वात् तेषां व्रजः समूहस्तत्र या स्वस्तिमश्नस्य परम्परा तस्याः परिचयात् मेलापकात् सद्योगा- वञ्चकादिक्रमेण परमः समाधिलाभ इति । च पुनः । भेदभ्रमप्लावना भवति भेदभ्रमस्य भेदविपर्ययस्य प्लावना परिगलनं । कस्मात् ? वीणेति वीणावेणुमृदङ्गसङ्गमेन तौर्यत्रिकसंपत्त्या यः चमत्कारस्तस्मात् । च पुनः कस्मात् ? नृत्योत्सवे स्फारेति स्फारा येऽर्हद्गुणास्तल्लीनता विभावानुभावीभूतं यदभिनयनं तस्मात् । तथा च समापत्त्यादिभेदेनाईदर्शनं स्यादिति भावः । समापत्तिलक्षणं योगग्रन्थमसिद्धम् ॥ ३२ ॥ पूजापूजकपूज्यसङ्गतगुणध्यानावधानक्षणे, मैत्री सत्त्वगणेष्वनेन विधिना नव्यः सुखी स्तादिति । वैरव्याधिविरोधमत्सरमदक्रोधैश्च नोपप्लवस्तको नाम गुणो न दोषदलनो व्यस्तवोपक्रमे ॥३३॥ व्याख्या-इति सत्त्वगणेषु प्राणिसमूहेषु मैत्री भवति । इतीति किम् ? पूजेति पूजापूजकपूज्यसङ्गतास्त्रयान्वयिनो तथा
सटीक।
प्रतिमाश०.
॥१८॥
गुणास्तेषां यत् दृग्दृश्य इष्टसमापत्तिसमाधिफलं ध्यानं । ततो यदवधानमनुप्रेक्षा तत्क्षणे तदवसरे । अनेन द्रव्यस्तवविधिना
भव्यः सर्वोऽपि सुखी स्तात् भवतु इति । च पुनस्तथा उपप्लव उपद्रवो न भवति । वैरेति वैरं च व्याधिश्च विरोधश्च मत्स-
रथ मदश्च क्रोधश्च तेः कृत्वा । तत्तस्मात् कारणात् द्रव्यस्तवोपक्रमे उपक्रम्यमाणे द्रव्यस्तवे को नाम गुणो न भवति ? अपि
तु भूयानेव भवतीति भावः । कीदृशो गुणः ? दोषदलनो दोपोच्छेदकारी ।। ३३ ।।
उक्तशेपमाह-
सत्तन्त्रोक्तदशत्रिकादिकविधौ सूत्रार्थमुशक्रियायोगेषु प्रणिधानतो व्रतनृतां स्याद्भावयझो ह्ययम् ।
नावापछिनिवारणाबहुगुणे ह्यप्यत्र हिंसामतिर्मूढानां महती शिला खलु गले जन्मोदधौ मज्जताम्॥३॥
व्याख्या-हि निश्चितं व्रतभृतां देशतिनां अयं द्रव्यस्तवः भावयज्ञः स्यात् , अभ्युदयनिःश्रेयसहेतुयज्ञरूपत्वात् ।
कस्मात् १ प्रणिधानतो ध्यानतः । केषु ? सत्तन्त्रेति सूत्रार्थेति (च) सत्तन्त्रे सच्छास्त्रे उक्तः पूजापूर्वाङ्गीभूतः "दह तिग अ-
हिगम पणगं" इत्यादिनाभिहितो दशत्रिकादिविधिस्तस्मिन् विपये। सूत्रं चार्थश्च मुद्रा च क्रिया च तल्लक्षणेषु योगेषु । हि
निश्चितं । अत्र द्रव्यस्तवे या हिंसामतिरस्ति । कीदृशेऽत्र द्रव्यस्तवे ? बहुगुणे । कस्मात् ? जिनविरहप्रयुक्ततद्विनयासंपत्ति-
रूपा या भावापत् तस्या विनिवारणात् । अथवा भावापद्विनिवारणोचितगुणे इति पाठे या भावापत्तस्या विनिवारणे उचितो
गुणो यस्मिन् देशेऽपि खलु निश्चितं सा हिंसामतिमूढानां विपर्यस्तानां जन्मोदधौ संसारसमुद्रे मज्जतां गले महती शिला
वर्तते । मज्जतां हि पापानां गले शिलारोप उचित एवेति सममलङ्कारः “समं योग्यतया योगो यदि संभावितः कचित्" इति
काव्यप्रकाशकारः ॥३॥
॥१८॥
भावापदिनिवारणगुणेन कृतां स्थापनामेव दृढयति- सम्यग्दृष्टिरयोगतो नगवतां सर्वत्र नावापर्द, नेत्तुं तद्भवने तदर्चन विधिं कुर्वन्न पुष्टो नवेत् । वाहिन्युत्तरणोद्यतो मुनिरिव द्रव्यापदं निस्तरन् , वैषज्यं किमिहेति हेतुविकलः शून्यं परं पश्यतु॥३५॥ व्याख्या-सम्पग्दृष्टिः दुष्टः दोपवान् न भवेत् । किं कुर्वन् ? तद्भवने भगवदायतने तदर्चनविधि विहितां भगवत्पूजा कुर्वन् सन् । किं कर्तुं ? भगवतां तीर्थकृतां अयोगतो विरहात सर्वत्र स्थाने भावापदं भेत्तुं । सम्यग्दृष्टिः क इव ? मुनिरिव यथा मुनिर्दुष्टो न भवेत् । किं कुर्वन् ? अन्यतो विहारायोगरूपां द्रव्यापदं निस्तरन् निस्तरणकामः । कीदृशो मुनिः ? वाहि- न्या नद्या उत्तरणे उद्यतः कृतोद्यमः । इह उक्तस्थानयोः किं वैषम्यं अल्पव्ययबहुलाभयोराज्ञायोगस्य तत्तदधिकार्योंचितस्य च तुल्यत्वात् । एकत्र नित्यत्वं कारणनित्यत्वात् , अन्यत्र नैमित्तिकत्वं च निमित्तमात्रापेक्षणात इत्यस्योपपत्तेरिति । इति पर्य- नुयोगे हेतुविकलः प्रत्युत्तरदानासमर्थः लुम्पकः प्रतिमारि. परं केवलं शून्यं पश्यतु दिग्मूढस्तिष्ठत्वित्यर्थः ॥ ३५ ॥ पम्यहेतुमाशङ्कथ निराकरोति- नो नद्युत्तरणे मुनेनियमनाद्वैषम्यमिष्टं यतः, पुष्टालम्बनकं न तन्नियमितं किं तु श्रुते रागजम् । अस्मिन् सत्त्ववधेवदन्ति किल येऽशक्यप्रतीकारतां,तैनिन्दामि पिबामि चाम्न इति हि न्यायःकृतार्थःकृतः व्याख्या--मुनेः नयुत्तरणे नियमनात् सङ्ख्यानियमाभिधानात् श्राद्धस्य पूजायां तदभावाद्धेतोः वैषम्यं इष्टं अस्ति इति
सटीक।
प्रतिमाश०.
॥१९॥
नो नैव वाच्यं । यतस्तन्नयुत्तरणं पुष्टालम्बनकं ज्ञानादिलाभकारण न नियमितमस्ति,, किं तु श्रुते सिद्धान्ते रागजं रागप्राप्त
नयुत्तरणं नियमितमस्ति । इत्थमेव नखनिर्दलनप्राप्तावघातनिषेधार्थ प्रोक्षणविधेरिव द्रव्यस्तवविधिस्तु गृहिणोऽपूर्व एवेति सा-
म्यायोगात् पुष्टालम्बनं तु वर्पास्वपि ग्रामानुग्रामविहारकरणमप्यनुज्ञातमिति कस्तत्र सङ्ख्यानियमः ' । तथा च स्थानाङ्ग-
सूत्र-“वासावासं पज्जोसविआणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा गामानुगामं दूइज्जित्तए पंचहिं गणेहिं कप्पइ तं णाण-
याए दंसणट्टयाए" इत्याद्यालापके । तत्र च मालवादौ एकदिनमध्येऽपि बहुशो नद्युत्तरणं संभवतीति अशक्यपरिहारसमाधिमा-
श्रित्याह-अस्मिन्नात्तरणे सत्त्ववधे जलादिजीवोपमर्दे येऽशक्यप्रतीकारतां वदन्ति तैलम्पकैः अम्भो जलं निन्दामि पिवामि चेति
न्यायः कृतार्थः कृतः ॥ ३६ ॥
दृष्टान्तीकृत्य नद्युत्तरणेऽदुष्टत्वं न्यायेन साधयति-
यन्नद्युत्तरणं प्रवृत्तिविषयो ज्ञानादिलान्नार्थिनां, उष्टं तद्यदि तत्र कः खलु विधिव्यापारसारस्तदा ।
तस्मादीदृशकर्मणी हितगुणाधिक्येन निर्दोषतां, ज्ञात्वापि प्रतिमार्चनात्पशुरिव त्रस्तोऽसि किं उर्मते! ३७
व्याख्या-यत् कर्तृपदं ज्ञानादिलाभार्थिनां प्रवृत्तिविषयो नद्युत्तरणं अस्ति । तत् यदि दुष्टं स्यात् । तदा तत्र । खलु
इति निश्चये । विधिव्यापारस्य विध्यर्थस्य सारः कः तात्पर्य किं स्यात् ? विध्यर्थो हि अनिष्टस्य बाधाय क्रियते । पापे च
बलवत्यनिष्टे जायमाने तत्र विध्यर्थबाध एव स्यादिति । तस्मात् हे दुर्मते ! प्रतिमार्चनात् त्वं पशुरिव किमिति त्रस्तोऽसि भयं
प्राप्तोऽसि । । किं कृत्वा ? इहितगुणाधिक्येन ईहितस्येष्टस्य गुणस्पाधिक्येन निदोषतां स्वरूपतः सावद्यत्वेऽपि बलवदनिष्टाननु-
॥१९॥
बन्धिता ज्ञात्वापि । कस्मिन् ? ईशेऽधिकार्युचिते नद्युत्तारादिकर्मणि इति विशेषदर्शिनवासमयोजककुमतिनिरासान स्यादयं
त्रास इति भावः । नद्युत्तारे उत्सर्गापवादसूत्रं वृत्तितो ज्ञेयम् ।। ३७ ॥
दृष्टान्तान्तरेण समर्थनमाह-
ग"दङ्गविघर्षणैरपि सुतं मातुर्यथाऽहेर्मुखात्, कर्षन्त्या न हि दूषणं ननु तथा दुःखानलाचिर्नृतात्
संसारादपि कर्षतो बहुजनान् व्यस्तवाद्योगिनस्तीर्थस्फातिकृतो न किञ्चन मतं हिंसांशतो दूषणम्३०
व्याख्या--यथा मातुर्न हि नैव दूषणं वर्तते । मातुः किं कुर्वन्त्याः ? अहेर्मुखात् सर्पस्य वदनात् सुतं कर्षन्त्याः ।
कैः ? गर्त्तात् विवरात् अतित्वरया अङ्गस्य विघर्षणैरपि कृत्वा । ननु निश्चये । तथा तीर्थस्फातिकृतः जिनशासनोन्नतिकारिणः
श्रावकस्य दूषणं न मतं न कथितं । केन ? हिंसांशतः हिंसांशेन कृत्वा स्वरूपहिंसाया दोषस्यावलत्वात् प्रशस्यफलसाधन-
तयाऽनुवन्धतोऽदोषत्वाद्वा ! कीदृशस्य तीर्थस्फातिकृतः ? द्रव्यस्तवे उद्योगिन उद्यमवतः । पुनः कीदृशस्य ? बहुजनान् पीजा-
धानद्वारेण कर्षत उद्धरतः । कस्मात् ? संसाराद अपि । कीदृशात् ? दुःखानलाचिर्भूतात् असुखाग्निज्वालापूरितात् ॥ ३८॥
एतत्समर्थितदृष्टान्तन्याय प्रकृते योजयितुमाह---
एतेनैव समर्थिता जिनपतेः श्रीनानिन्नूपान्वयव्योमेन्दोः सुतनीवृतां विनजना शिष्पादिशिक्षापि च ।
अंशोऽस्यां बहुदोषवारणमतिश्रेष्ठो हि नेष्टोऽपरो, न्यायोऽसावपि धर्मतमवनप्रोद्दामदावानलः ॥३॥
प्रतिमाश०. सटीका ॥ २०॥ व्याख्या--एतन उपदर्शितेन सुतकर्षणदृष्टारतेनैव जिनपतेः श्रीऋषभदेवस्य । सुतनीयतां सुतदेशानां विभजना शिल्पादिशि- क्षाऽपि च समर्थिता विभज्य दानं शिल्पादीनां शिक्षाऽपि च, मजानामिति शेषः। निर्दोपतयोपदर्शिता। कीरशस्य जिनपतेः? श्री- नेति श्रीनाभिभूपस्य योऽन्वयो वंशस्तदेव व्योम अतिविशालत्वात्, तत्र इन्दुः परमसौम्पलेश्यत्वादिति विशेषणेन विशेष्यप्राप्ते: नीटदन्वितस्प मुतपदस्य शिक्षायां पृथगनन्वये सुतेभ्य इत्यध्याहारः कर्त्तव्यः । अन्यथा सुष्टु शोभना ता लक्ष्मीर्यत्रेति नीव- समानाधिकरणविशेषमेव व्याख्येयं । "ता सा श्रीः कमलेन्दिरा" इति हैमः । अस्यां सुननीवृद्विभजनायां शिल्पादिशिक्षा चाधिकारिणा भगवताऽयमतिश्रेष्ठोऽशोऽभिहितः। किंविशिष्टोंऽशः ? बहुदोषस्य मात्स्यन्यायेनान्यायप्रवृत्तिलक्षणस्य वारणं इतिरूपः । हि निश्चितं । अपरोऽन्योऽशोऽनुषङ्गहिसारूपो नेष्ट उपेक्षित इति यावत् । असौ अपि न्यायो निर्देशलक्षणः । दुर्मत्ते द्रव्यस्तवानभ्युपगमरूपे द्रुमवने वृक्षसमूहे प्रोदामो बलवत्तरी दावानलो वाडवाग्निरेवास्ति उन्मार्गे प्रचलितस्य दुर्म तस्य भस्मीभावात् ।। ३९ ॥ महानिशीथाक्षराणि तत्प्रामाण्यज्ञापनपूर्व दर्शयति-- किं योग्यत्वमकृत्स्नसंयमवता पूजासु पूज्या जगुः, श्राद्धानां न महानिशीअसमये भक्त्या त्रिलोकीगुरोः। नन्दीदर्शितसूत्रवृन्दविदितप्रामाण्यमुद्रानृतो, निक्षणेषु पतन्ति डिण्डिमडमत्काराचैता गिरः ॥४०॥ व्याख्या-महानिशीथसमये महानिशीथसिद्धान्ते पूज्या गणधरा अकृत्स्नसंयमवतां देशविरतानां श्रावकाणां योग्य- त्वं किं न जगुः ? अपि तु जगुरेव । कया ? भक्त्याऽतिशयितरागेण । कासु ? पूजामु पुष्पादिनाऽचेनेषु । कस्य ? त्रिलो- ॥२०॥ ?
कीगुरोत्रिभुवनधर्माचार्यस्येति । सार्वभौमानां एता गिरः कर्तृपदं । निद्राणेषु सुप्तप्रमत्तेषु डिण्डिमति डिण्डिमस्य पटहस्य डमत्कारा इव पतन्ति । यथा गाढसुप्ताः परिमोपिणः आकस्मिकभयङ्करभेरीभङ्कारशद्धश्रवणेन सर्वस्वनाशपस्थित्या कांदि- शीका भवन्ति तथोक्तमहानिशीथशद्धश्रवणेन लुम्पका अपीति । कथंभूता एता गिरः ? नन्दीति नन्द्यां नन्दीसूत्रे दर्शितं यत्सूत्रवृन्दं तन्मध्ये विदिता प्रसिद्धा या प्रामाण्यमुद्रा महानिशीथप्रामाण्यदाळ तद्विभ्रति यास्ता इति । महानिशीथ आ- लापकोऽयं-"अकसिण पवत्तगाणं विरयाविरयाण एस खलु जुत्तो। जेकसिणसंजमविऊ पुप्फाईअं न कप्पए तओ॥ बुज्झ गोअमा णीसंसयं देसविरयाणं तु विणिओगं' । उभयत्र द्रव्यस्तवे भावस्तवे चेति ॥ ४० ॥ अभ्युचयमाह--- यद्दानादिचतुष्कतुल्यफलता संकीर्तनं या पुनद्वौं श्राद्धस्य परो मुनेः स्तव इति व्यक्ता विनागप्रथा। यच्च स्वर्ण जिनौकसः समधिको प्रोक्तो तपःसंयमौ,तत्सर्वं प्रतिमार्चनस्य किमुन प्राग्धर्मताख्यापकम् ४१ व्याख्या--दानादिचतुष्कस्य दानादिचतुष्टयस्य तुल्यफलतायाः यत् संकीर्तनं वर्तते । पुनः इति या विभागप्रथा विभागस्य विस्तारो वर्तते । इतीति किं ? श्राद्धस्य द्वौ द्रव्यस्तवभावस्तवौ उचितौ, मुनेः साधोः परो भावस्तव एक एव इति । यच्च तपःसंयमौ समधिको पोक्तौ। कस्मात् ? स्वर्णजिनौकसः सुवर्णजिनभवनकारणोत्कृष्टद्रव्यस्तवादपि पूर्वोक्तं तत्सर्व कर्तृपदं प्रतिमार्चनस्य पारधर्मताया भावस्तवेनान्वाचीयमानतायाः किमु ख्यापकं मूचकं न वत्तते ? अपि तु वर्त्तत एव, उत्कृष्टतमावधेरुत्कृष्टतरस्यैव युक्तत्वात् हीनावधिकोत्कर्षोक्तेः अस्तुतित्वात् । न हि सामान्यजनादाधिक्यवर्णनं चक्र-
मतिमाश०.
सटीका
॥२१॥
वर्तिनः स्तुतिः, अपि तु महानरपतेराधिक्यात् तस्य स्तुतिर्भवेदिति ।। ४१ ॥
महानिशीयेऽस्मदुक्त्या प्रामाण्याभ्युपगमें कुमतिनो दूषयमाह-
प्रामाण्यं न महानिशीथसमये प्राचामपीत्यप्रियं, यत्तुर्याध्ययने न तत्परिमितैः केषाश्चिदालापकैः।
वृद्धास्त्वाहुरिदंन सातिशयमित्याशङ्कनीय क्वचित्, तत्किं पाप तवापदः परगिरांमामाण्यतो नोदिताः४२
व्याख्या-इति वचोऽपियमरमणीयं वर्तते । इतीति किं ? महानिशीथसमये माचामपि प्राचीनयुष्मत्सापदायिकानां
प्रामाण्यं प्रमाणता नास्तीति । यत् यस्मात् तुर्याध्ययने चतुर्थाध्ययने केषाश्चिदार्याणां परिमितैदिौरालापकैस्तत्मामाण्यं ना-
स्ति । पुनः वृद्धास्तु इति आहुः । इतीति किं ? इदं महानिशीथं सातिशयं समहत्मभावं अतिगंभीरार्थ कचिदपि स्थले न
आशङ्कनीयमिति । तत् तस्मात्कारणात् हे पाप ! परगिरामुत्कृष्टवाचा अस्मत्संपदायशुद्धानां प्रामाण्यतः प्रामाण्याभ्युपगमेन
तव आपदः किं न उदिताः ? अपि तु उदिता एव सन्ति । अभ्युपगमसिद्धान्तस्वीकारे स्वतन्त्र सिद्धान्तभङ्गप्रसङ्गाद , अजां
निष्काशयतः क्रमेलकायमन्यायापातात् ॥ ४२ ॥
महानिशीथ एवान्ययावचनमाशङ्कते-
अष्टैश्चैत्यकृतेऽर्थितः कुवलयाचार्यों जिनेन्शलये, यद्यप्यस्ति तयाप्यदः सतम इत्युक्त्वा नवं तीर्णवान् ।
एतत् किं नवनीतसारवचनं नो मानमायुष्मता, यत्कुर्वन्ति महानिशीथबलतो व्यस्तवस्थापनम् ॥३३॥
॥२१॥
व्याख्या-कुवलयाचार्यः पदैकदेशे पदममुदायोपचारात् कुवलयमभाचार्यः भवं संसारार्णवं तीर्णवान् । किं कृत्वा ? इत्युक्खा । इतीति किं १ यद्यपि अद एतच्चैत्यालये वक्तव्यमस्ति तथापि सतमः सपाम् इति । कथंभूतः कुवलयमभाचार्यः ? आर्थितः प्रार्थितः । कैः ? भ्रष्टैः लिङ्गमात्रोपजीविभिः । कस्मै ? चैत्यकते स्वाभिमतचैत्यालयसंपादनाय इति । एतत् किं नव- नीतसाराध्ययनवचनं आयुष्मतां प्रशस्तायुषां भवतां नो मानं न प्रमाणं वर्तते ? यत् महानिशीथबलमवष्टभ्य द्रव्यस्तवस्थापन कुर्वन्ति आयुष्मन्तः। यत्र हि वारमात्रेणापिद्रव्यस्तवप्रशंसनं निषिदं तत्र कयं तत्करणकारणादिविहितं भविष्यतीति ॥४३॥ उत्तरयति- नान्तप्रान्तधिया किमेतदितं पूर्वापरा निश्चयात्, येनस्वश्रमक्लप्तचैत्यममता मूढात्मनां लिङ्गिनाम्। उन्मार्गस्थिरतान्यषेधिन पुनश्चैत्य स्थितिः सूरिणा, वाग्नही किमु यद्यपीतिन मुखं वक्र विधत्ते तवध व्याख्या–हे भ्रान्त, पूर्वापरग्रन्थतात्पर्यानिश्चयात् हे विपर्ययाभिभूत प्रान्ताधिया हीनबुद्धिना त्वया एतत् किं उदितं कृत्सितं उक्तं, येन उक्तवचनेन कुवलयाचार्येण उन्मार्गस्थिरताऽनायतनमत्तिदाय म्यषेधि निवारिता । उन्मागस्थिरता केषां ? स्वश्रमेति स्वश्रमक्लप्तानि यानि चैत्यानि तेषु या ममता तया मूढ आत्मा येषां ते तथा तादृशां लिङ्गिनां । कुवलयाचार्येण किं कुर्व- ता? मनसि मिश्रितचैत्यकर्त्तव्यतागोचरतत्मतिझा गलहस्तयता, अर्थशक्तयाऽस्य विशेषणस्य अध्याहारः। पुनस्तेनाचार्येण चैत्य- स्थितिने न्यषेधि सम्यग्भाविताचैत्यप्रतिव्यवस्था । इहार्थे यधपीति वाग्भङ्गी वचनरचना तव मुखं वनं किमु न विधत्ते १ अपि तु विधत्त एव । अव्याकरणिकस्य संबोध्य मुखवक्रीकरणस्य कार्यस्याभिधानेन प्रकृतवक्रोक्त्यभिधानादमस्तुतालकारः
-
सटीको
प्रतिमाश०.
|॥ २२ ॥
प्रस्तुनपशंसा या सा सैव प्रस्तुताश्रया" इति लक्षणं । तथा च " जइ वि निणालये तह विसावज्जभिण" न स्वभावतश्चै-
त्यस्थितेः दुष्टत्वमाह, किं तु मठपत्त्युपाधिनत्येव श्रद्धेयम् ॥ ४४॥
एवं व्याख्यान एवान्यत्रापि सूत्रस्य निःशाङ्कितत्वकरणेन प्रव्रज्यासार्थकतोपपत्तिरित्यनुशास्ति-
यत्कर्मापरदोषमिश्रिततया शास्त्रे विगीतं भवेत्, स्वाजीष्टार्थलवेन शुद्धमपि तस्लुम्पन्ति अष्टाशयाः ।
मध्यस्थास्तु पदे पदे धृतधियः संबन्ध्य सर्वं बुधाः,शुद्धाशुद्धविवेकतः स्वसमयं निःशब्यमातन्वतेथए
व्याख्या-यत्कर्म कर्तृपदं स्वरूपतः शुद्धमपि अपरदोषेण मिश्रिततया शास्त्रे विगीतं निपिद्धं भवेत् । दुष्टाशया लुम्पका
शुद्धमपि तत्कर्म लुम्पन्ति । केन ? स्वाभीष्टार्थलवेन स्वाभिमतार्थलेशप्राप्त्या, छिद्रान्वेषिणां ईदृशछलस्य सुलभत्वात् । मध्य-
स्थास्तु गीतार्थाः पदे पदे स्थाने स्थाने धृतधियः संमुखीकृतविमर्शाः सन्तः सर्व ग्रन्थं शनैर्मन्दं मन्दं श्रोतृप्रज्ञानुसारेण संव-
न्ध्य शुद्धाशुद्धयोविवेकात् विनिश्चयात् । स्वसमयं स्वसिद्धान्तं । निःशल्यं शल्यरहितं । आतन्वते तात्पर्यविवेचने सूत्रं प्रमा-
णयान्त, नतु गोद्भावनेन मिथ्यात्वं वर्द्धयन्तीति भावः ॥ ४५ ॥
एतेन मदेशान्तरविरोधोऽपि परिहत इत्याह-
तेनाकोविदकल्पितश्चरणभृद्यात्रानिषेधोद्यतश्रीवजार्यनिदर्शनेन सुसुनेर्यात्रानिषेधो हतः ।
स्वाञ्चन्येन निवारिता खलु यतश्चन्द्रप्रनस्यानतिः, प्रत्यज्ञायि महोत्तरं पुनरियं सातैः स्व शिष्यैःसह ४६
॥२२॥
व्याख्या-तेनोक्तहेतुना चरणभृतां यात्रानिषेधे उद्यताश्च ये श्रीवजार्याः श्रीवज्रसूरयश्च ते, तेषां निदर्शनेन दृष्टा- न्तेन सुमुनेः सुसाधोः यात्रानिषेधो इतो निराकृतः । कीदृशो यात्रानिषेधः ? अकोविदकल्पितः अतात्पर्यज्ञेन रचितः । यतस्तत्र ग्रन्धे स्वाच्छन्येन आज्ञारहिततया गुरुभिः चन्द्रमभस्य चन्द्रप्रभस्वामिन आनतिनिषिद्धा । खलु निश्चयेन । पुनः अत्र महोत्तरं सङ्घयात्रोत्सवनित्यनन्तरं तैराचार्यैः स्वशिष्यैः सह सा इयं चन्द्रप्रभयात्रा प्रत्यज्ञायि अङ्गीकृता सा एवं महोत्तरमिति ज्ञेयं । अत्र सावधाचार्यवज्राचार्यसम्बन्धौ महानिशीथतो ज्ञेयौ। काव्यं-" कुवलयप्रभचन्द्रमुनीशयोश्चरितयुग्म- मिदं विनिशम्य भोः । कुमतिभिनित मतिविभ्रमं त्यजत युक्तिमदुक्तविभावकाः ॥ १॥" प्रथम ह्युनधिकारिकर्तृकत्वविशिष्ट- चैत्यप्रवृत्त्यननुमोदने तात्पर्य, द्वितीये चाविधियात्रानिषेध इति ॥ ४६ ॥ सिंहावलोकितेन विम्बनमनानुकूलव्यापारे यात्रापदार्थवाधमाशङ्कय परिहरति- नो यात्रा प्रतिमानतिर्बतन्नृतां साक्षादनादेशनात् , तत्प्रश्नोत्तरवाक्य इत्यपि वचो मोहज्वरावेशजम् । मुख्याषैः प्रथिता यतो व्यवहतिः शेषान गुणान् लक्षयेत्, सामग्येण हि यावताऽस्ति यतना यात्रा स्मृता तावता ॥४७॥ व्याख्या---इति अपि यचो मोहज्वरावशजं वर्तते कुमतीनां मोहरूपो यो ज्वरस्तदावेशस्तजं तत्पारवश्यमलापजनितमिति। इतीति किं ? प्रतिमानतिः यात्रा न भवति । केषां ? व्रतभृतां । कस्मात् ? साक्षात् कंवपाठेन अनादेशनात् बिम्बपणतेरनुपदे-
सटीक।
प्रतिमाश०.
॥ २३ ॥
शात् । कस्मिन् ? तत्पश्नोत्तरवाक्ये शुकसोमिलादिकृतयात्रापदार्थप्रश्नानां थावच्चापुत्रभगवदायुत्तरवाक्ये । यतो व्यवहतिः व्य-
वहारः शेषान् गुणान् लक्षयेत् शद्धप्रयोगरूपाशेपान् उक्तावशिष्टान् गुणानिति । कथंभूता व्यवहृतिः ? मुख्याथैः प्रथिता प्रसिद्धा ।
हि यतः । यावता सामग्र्यण यावत्या सामग्र्या यतना भवति तावता यात्रा स्मृता । तथा च "कि भंते जत्ता सुआ जं
मे तवणियमसंयमसज्झायज्झाणावस्सयमाईसु जोपसु जयणा" इत्यत्रादिपदस्वरसात् यत्याश्रमोचितयोगमात्रयतनायां
यात्रापदार्थो लभ्यते । अत एव सोमिलमश्नोत्तरे यात्रा ज्ञेया श्रुतार्थफलितत्वात् ॥ ४७ ।।
साक्षादादेशगतिमप्याह-
वैयावृत्त्यतया तपो नगवतांजक्तिः समग्राऽपि वा, वैयावृत्त्यमुदाहृतं हि दशमे चैत्यार्थमङ्ग स्फुटम् ।
नैतत्स्यादशनादिनैवनजनाद्वाराऽपिकिं त्वन्यथा,सङ्घादेस्तदीरणे बत कथं न व्याकुलः स्यात्परः॥४०
व्याख्या-वाऽथवा स्वस्वाधिकारौचित्येन कृतकारितानुमतिरूपा समग्राऽपि सर्वाऽपि भगवतां भक्तिः तप एवोच्यते।
कया ? वैयावत्यतया भक्तेःयावृत्त्यरूपत्वात् । तथा च तपःपदेन यात्रायाः साक्षादुपदेश एवेति भावः । वैयावृत्त्यत्वमस्याः
कुतः सिद्धमत आह-हि निश्चितं । दशमेऽङ्गे प्रश्नव्याकरणाख्ये स्फुटं प्रकटं चैत्यार्थ वैयावृत्त्यमुदाहृतं कथितमस्ति । एतद्वै-
यावत्य अशनादिनैव अशनादिसंपादनेनैव स्यात् इति न वक्तव्यं तर्हि किं तु भजनाद्वाराऽपि भक्तिद्वारेणापि प्रत्यनीकनि-
वारणरूपे भक्तिव्यापारेऽपि वैयावृत्त्यमुदाहृतं । यत उत्तराध्ययने-"जरका हु वेयावडियं करंति तम्हाउ एए निहया कुमारा"
॥२३॥
इत्यादि । न च आदिशब्देन पानादिकमेव ग्राह्यं, किं तु भक्त्यादिकमपि । अन्यथा उक्तवैपरीत्ये परः कुमतिः कथं न व्या- कुलो व्यग्रः स्यात् ? । कस्मिन् ? सङ्घादेः तदुदीरणे वैयावृत्त्योचारे । किं वक्ति ? अत्र प्रश्नव्याकरणपाठः-"अह केरिसए पुणाई आराइएवयमिणं जे से उवहिभत्तपाणदाणसंगहणकुसले अचंतबालदुवलादि"पाठे चेइयो चैत्यानि जिनप्रतिमाः। एतासां योऽर्थः प्रयोजनं स तथा तत्र निर्जरार्थी कर्मक्षयकामः वैयावृत्त्यं व्याप्तकर्मरूपं उपष्टम्भनमित्यर्थः । अनिश्रितं कीर्त्यादिनि- रपेक्षं दशाविधं बहुविधं करोति ।। ४८ ॥ अर्थान्तरवादमधिकृत्याह- झानं चैत्यपदार्थमत्र वदतः प्रत्यकवाधैकतो, धर्मिद्वारतया मुनावधिकृते त्वाधिक्यधीरन्यतः । दोषायेति परः परःशतगुणप्रगदनात् पातकी, दग्धांगतु पृष्ठतश्च पुरतः कां कांदिशीको दिशमा४९। व्याख्या--अत्र प्रश्नव्याकरणे चैत्यपदार्थ ज्ञानं वदतः लुम्पकस्य एकत एकस्मिन् पक्षे प्रत्यक्षवाधा प्रत्यक्षप्रमाणवाधः स्यात् । परिदृष्टविश्रामणादिवैयावृत्त्यस्य ज्ञानेऽनुपपत्तेहेतोः । अथ च धर्मिद्वारतया धर्मिणि धर्मोपचाराभिप्रायेण मुनौ साधौ अधिकृतेऽधिकारवशात् गृहीते तु अन्यतः पक्षान्तरे आधिक्यधीदोषाय स्यात् । मुनेवालादिपदैः गृहीतत्वात्चैत्यपदस्य पौनरु- त्यमित्यर्थः । इति पूर्वोक्तमकारेण परः कुमतिः कांदिशीको भयद्रुतः सन् कां दिशं गच्छतु ? मिथ्याभिशङ्की कुत्रापि गन्तुं न समर्थ इति भावः । कीदृशः परः कुमतिः ? पर शैतानां गुणानां चैत्यशब्दनिर्देशमयुक्तानां प्रच्छादनान्निन्हवाद पातकी १" पर शताधास्ते येषां पर सख्यां शतादिकात् ' इति सामान्यकाडे हैमे.
सटीका
तिमाशम-
॥२४॥
रितवान् । कीदृशी दिशं पृष्ठतः पुस्तश्च दग्धा अत्र दग्धदिक्त्वेन पूर्वोत्तरपक्षद्वयाध्यवसानादतिशयोक्तिः।। ४९ ॥
निश्चितार्थेऽनुपपत्तिमाशङ्कय निराकरोति-
वैयावृत्त्यमथैवमापतति वस्तुर्ये गुणस्थानके, यस्माद्भक्तिरभगुरा भगवतां तत्रापि पूजाविधौ ।
सत्यं दर्शनलक्षणेऽत्र विदितेऽनन्तानुबन्धिव्ययानो हानि त्वयि निर्मलां वियमिव प्रेकामहे कामपि।५०॥
व्याख्या-अथैवं चैत्यभक्तेयावृत्यत्वे पूर्वोक्ते सति तदा वो युष्माकं तुर्ये चतुर्थे गुणस्थानके वैयावृत्त्यमापतति प्रस-
ज्यते । यस्मात् तत्र भगवतामहतां पूजाविधौ विहितार्चने अभङ्गुराऽभङ्गव्याप्या भक्तिर्वर्त्तते । सत्यमित्यर्द्धाङ्गीकारे । अत्र
चतुर्थगुणस्थानके दर्शनलक्षणे सम्यक्त्त्वलक्षणीभूते वैयावृत्ये विदिते वयं अनन्तानुवन्धिनां व्ययात् क्षयोपशमात् कामपि हानि
न प्रेक्षामहे । कुत्र कामिव ? त्वयि विपये धियमिव यथा वयं खयि कामपि निर्मलां निःशङ्कितां धियं बुद्धिं न प्रेक्षामहे इत्यु-
पमा । चारित्रमोहनीयभेदानन्तानुबन्धिव्यये जायमानस्य वैयाटल्यगुणस्याविरतसम्यग्दृशामाप संभवे बाधकाभावादित्यर्थ:५०
तथा सति तेषां चारित्रलेशसंभवऽविरत्वानुपपत्तिरेव वाधिकेत्यत्राह--
श्राद्धानां तपसः परं गुणतया सभ्यक्त्वमुख्यत्वतः,सम्यक्त्वाङ्गमियं तपस्विनि मुनौ प्राधान्यमेषाऽश्रुते।
धोलीलागतयोपसर्जनविधांधत्ते यथा शैशवे, तारुण्ये व्यवसायसंनृततया सा मुख्यतामञ्चति ॥ ५१ ॥
व्याख्या-श्राद्धानां दर्शनश्रावकाणां परं केवलं तपसो गुणतयाऽमुख्यतया इयं भक्तिः सम्यक्त्वाझं वर्त्तते सम्य-
॥२४॥
क्त्वस्य प्रधानस्य अङ्गीभूता सम्यक्त्वफलेनैव फलवतीत्यर्थः । " फलवत्सन्निधौ अफलं तदङ्गं" इतिन्यायात् । तथा च तावता न अविरतत्वहानिः “कापणमात्रधनेन धनवान् एकगोमात्रेण गोमान्" इति पञ्चाशकहत्तौ अभयदेवेसूरयः । एतदेवाह-तपस्विनि प्रधानतपोयुक्ते मुनौ चारित्रिणि एषा भक्तिः प्राधान्यमश्नुते मधानभावं प्राप्नोति । अत्र दृष्टान्तमाइ-यथा, शैशवे बाल्ये धी- बुद्धिः उपसर्जनविधा गौणभावं धत्ते । कया ? लीलाङ्गतया लीलायाः प्रधानीभूतायाः क्रीडाया अङ्गत्वेन कृत्वा । अथ ता- रुण्ये यौवनकाले च सा बुद्धिः मुख्यतां मुख्यभावं अश्चति प्राप्नोति । कया ? व्यवसायसंभृततया वलपराक्रमसधीचीनत्वेन छत्वा ॥ ५१ ॥ अत्र सूत्रनीत्या हिंसामाशङ्कयोद्वेगमभिनयति पर:- अर्थ काममपेक्ष्य धर्ममथवा निन्नन्ति ये प्राणिनः,प्रश्रव्याकरणे हि मन्दमतयस्ते दर्शितास्तत्कथम् । पुष्पान्नोदहनादिजीववधतो निष्पाद्यमानां जनैः,पूजां धर्मतया प्रसह्यवदतां जिह्वा न नः कम्पताम्?५२ व्याख्या-ये जनाः पाणिनः सत्त्वान् निघ्नन्ति विनाशयन्ति । किं कृत्वा ? अर्थ वा काम वा धर्म वाऽपेक्ष्यापेक्षा कृत्वा | हि निश्चितं । प्रश्नव्याकरणे ते मन्दमतयो दर्शिताः । तत्तस्मात् नोऽस्माकं जिव्हा कथं न फम्पतां ? अपि तु कम्पतां । किं विधानामस्माकं ? प्रसह्य हठात् धर्मतया धर्मत्वेन पूजां वदतां । किंविधां पूजां ? निष्पाद्यमानां । कैः ? जनैलोकैः अत- वज्ञैः । कस्मात् ? पुष्पाम्भोदहनादिजीवानां यो वधः तस्मात् । धर्मिणां जिव्हा एव हि मूषा भाषितुं कम्पते इत्युक्तिः ॥५२॥ अत्रोत्तरदातुः स्वस्य वैद्यताभिव्यक्तये भेषजमुपदर्शयति- मतिमाश०. सटीका ॥२५॥ भोः पापाभवतां भविष्यति जगद्वैद्योक्तिशङ्काभृतां,किं मिथ्यात्वमरुत्प्रेकम्पवशतः सर्वाङ्गकम्पोऽपि न। यो धर्मानन्तयावधः कुसमये दृष्टोऽत्र धर्मार्थिका,सा हिंसा नतुसत्क्रियास्थितिरिति श्रद्धवसद् भेषजम्५३ व्याख्या-भोः पापा पापान्वेषिणः भवतां फि सर्वाङ्गकम्पोऽपि न भविष्यात ? आप तु भाविष्यत्येव । कस्मात् ? मिथ्यति मिथ्यात्वरूपो यो मरुद्वायुस्तस्य प्रकंपवशतः । कथंभूतानां भवतों ? जगद्वैद्यस्य भगवतः उक्तौ शङ्काभृतां, तत्र वयं के प्रतिकर्तारः ? वैधवचनशङ्कितस्य रोगिणो ब्रह्मणापि प्रतिकर्तुमशक्यत्वात् । अत्र रोगोषधविवक्षायामाह-यो वधः कुस- मये कुशास्त्रे धर्माजन्तया दृष्टोस्ति, अत्र परीक्षकलोके स वध एव सा धर्मार्थिका हिंसा कथिताऽस्ति, अथ न तु सक्रियास्थितिः हिंसा मोक्तास्ति अप्रमत्तयोगेन हिंसाया अनुपगमात् । इति पूर्वोक्तप्रकारेण श्रद्धव सत्समीचीनं भेषजं वर्त्तते । अन्यथा माता- परिखोदकशोधने सुबुद्धिमन्त्री महाहिसको मन्दबुद्धिन स्यात्, परं शुभाध्यवसायेन शुद्ध एवेति ॥ ५३ ॥ यो धर्माङ्गतयेत्यायुक्तमेवोपपादयति- यागीयो वध एव धर्मजनकः प्रोक्तः परैः स्वागमे, नास्मिन्नौघनिषेधदर्शितफलं कार्यान्तरार्थाश्रिते । दाहे कापि यथा सुवैद्यकबुधैरुत्सर्गतो चारिते,धर्मत्वेन धृतोऽप्यधर्मफलको धर्मार्थकोऽयं वधः ॥५॥ व्याख्या-परैः वैदिकैः स्वागमे यागीयो यागस्थलीयः वध एव धर्मजनकाप्रोक्तः "भूतिकामः पशुमालभेत" इत्यादिवचनात् । ॥२५॥ १ 'प्रकोप' इत्यपि पाठः अस्मिन् दाहे भोषनिगेधेन सामान्यनिषेधेन दर्शितफलं निषेध्यपगोजन दुर्गतिगमनलक्षणे न नर्गत हात न । गौ नौ प्रकृत्यर्थ धूवाते। फीरो दारे कार्यान्तरं भोपनिषेधनिर्वात मुक्तिरूपफलभित्र कार्य भूतिपाक्षिणं तस्य पर्थ भाषिते। पुनः कीदृशे दाहे? कापि गया सुषकाभैः उत्सर्गतो वारिते । एतेन उत्सर्गनिशातगुणं दुःखरूपं फलं न भवतीति न. अतोऽयं धर्मार्थको वषः धर्मत्वेन भूतोऽपि भान्तिविपणीकृतोऽपि अधर्मफलकोऽधर्मतिर्तिते । भाइच-"मिश्गादिभिराम्नातो हिंसाः कलपी- कुतः स धर्म इति वित्तोऽपि भवनमणकारणम् ॥१॥" तस्मादा हिंसा गागादौ एन, न तु जिनपूजायामिति श्रद्धेगम्॥५४॥ ननु भवतामपि सामान्यतो निविदागा हिंसागाः फलं कथं न पूजास्थलीयायां हिंसागामत पाह--- मस्माकं लपवादमाकलंयतां दोषोऽपि दोषान्तरोन्जेदी तुज्जफवेच्या विरहितश्चोत्सर्गरझाकते। यागादावपिसत्त्वशुदिफलतो नेयं स्थितिऽधतः, श्येनादेरिव सत्त्वशुध्ध्यनुदयात्तसंनवादन्यतः॥५५॥ व्याख्या---अस्माकं तु दोषोपि द्रगस्तनेषिकारिविशेषणीभूतोऽपि मजिनारम्भस्तकालीनः सदारम्भो ना उत्सर्गरक्षा- ते एन उत्सर्गरक्षार्थभेन पवर्तते । करिशानामस्मा । अपनादगाककयता उत्सगैंकाधिकारिकमपनादं निम्तोमतन्यागेन तुल्य- सपा सभापगकतामित्यर्थः । कीडशो दोष दोपान्तरस्यानुबन्धईिसारूपस्य उदी। पुनः कीयाः १ तुलाफलस्य भूत्यादिलक्षणस्य इन्दया निरहित इलाविरोधः । गागादौ अपि इस भस्मतजातीया स्थितिमेगोदा नवते । कि कला! सत्तशुदि फलतः सत्लशुदिफलमामिल । उत्तो हेतोः । सवाखानदयात मनःशुः कामसनयत्नात् । कस्मादिन । थे- नादः श्येनयागादरिन । कीदृशात् पेनादेः १ दृष्टतः स्नरूपतो दुधात् । पुनः कस्मातोः । अन्यतो गायनीजपादेः सत्संभवात् सटीक! प्रतिमाश०- ॥ २६॥ सत्त्वशुद्धिसंभवात् न इयं स्थितिरिति । ये हि प्रतिपदोक्तफलत्यागेन वेदोक्तमिति कृत्वा ज्योतिष्टोमादिसत्त्वशुद्ध्यर्थमाद्रियन्ते, तैः श्येनयागोऽप्यतिचारफलत्यागेन सत्त्वशुध्ध्यर्थमादरणीय इति भावः । अस्माकं त्वनन्यगल्या आयव्ययतुल्यतयाऽपवादा- श्रयणे सत्त्वशुद्ध संभवः ॥ ५५ ॥ अनन्यगतिकले पूजादावन्यथासिद्धिं शङ्कते- नन्वैवं किमु पूजयापि नवतां सिध्यत्यवद्योज्जिताभावापद्विनिवारणोचितगुणः सामायिकादेरपि । सत्यं योऽधिकरोति दर्शनगुणोल्लासाय वित्तव्यये,तस्येयं महते गुणाय विफलो हेतुर्न हेत्वन्तरात्॥५६॥ व्याख्या-ननु एवं सत्त्वशुद्धेरन्यतः संभवे तहिं भवतां स्वरूपतः सावद्यया पूजयाऽपि किं ? सूतमित्यर्थः । यतो जिन- विरहप्रयुक्तभावापद्विनिवारणे जिने उचितगुणः सामायिकादेरपि सिध्यति । कीदृशात् सामायिकादेः ? अवद्योज्झितात् पाप- रहितात् , तस्य सामायिकादेः पारमार्थिकविनयरूपत्वात् । आह च-“पुष्पामिषस्तुतिप्रतिपत्तीनां यथोत्तरं प्रामाण्यमिति । उत्तरमाह-सत्यमित्याङ्गीकारे । यो दर्शनगुणोल्लासाय सम्यक्त्वगुणवृध्ध्यर्थ पित्तव्यये क्षेत्रे धनवापाय अधिकरोति अधिका- रभाग्भवति, तस्य श्राद्धस्येपं पूजा मइते गुणाय भवति, अधिकारिविशेषेण कारणविशेषात् । अत एव द्रव्यस्तवः श्राद्धानां हस्तिशरीरतुल्यो भावस्तवश्च तेषां किञ्चित्कालीनसामायिकादिरूपस्तदक्षितुल्य इति । तुल्यफलत्वेऽप्याह-हेतुर्विफलो न भव- ति। कस्मात् ? हेत्वन्तरात् । तथा च सति दानादीनां सामायिकादीनां देवपूजायाश्च श्राद्धोचितफले कारणत्वान्न दोपः॥५६॥ आरम्भशङ्कायामन दोषानाह- રા' अन्यारम्नवतो जिनार्चन विधावारम्नशङ्कानृतो, मोहः शासननिन्दनं च विलयो वोधेश्च दोषाः स्मृताः सङ्काशादिवदिष्यते गुणनिधिर्धर्मार्थमृध्ध्यर्जनं,शुद्धालम्बनपक्षपातनिरतः कुर्वन्नुपेत्यापि हि ॥५७॥ व्याख्या-अन्यारम्भो जिनगृहातिरिक्तारम्भस्तद्वतः । पुनः कीदृशस्य ? जिनार्चनविधौ विहितपूजायां आरम्भशङ्का विभीति आरम्भशङ्काभृत् तस्य । एवं विधस्य हीनश्रद्धस्य एते दोषाः सन्ति । ते के ? मोहोज्नाभोगः स्वेष्टार्थभ्रंशात् । च पुनः शासननिन्दनं, यतो लोका वदन्ति कीदृश एतेषां शासने धर्मों ये स्वष्टदेवतमपि शङ्कितकलुपिता नाराधयन्तीति, ततो बोधेविलयश्चेति, एते दोपाः स्मृताः । हि निश्चितं । श्राद्धो गुणनिधिः गुणनिधानं इष्यते । किं कुर्वन् ? धर्मार्थ ऋद्धयर्जनं वित्तोपार्जनमुपेत्यापि अङ्गीकृत्यापि । कुर्वन् किंवत् ? सङ्काशादिवत् सङ्काशश्रावकादिरिव । कीदृशः ? गुणनिधिः। शुद्धति सुद्धालम्बने यः पक्षपातस्तत्र निरत इति हेतो: । संकाशश्रावको हि प्रमादाद्भक्षितचैत्यद्रव्य इत्यादि कथानकं ज्ञेयं ।। ५७॥ नन्वेवं मलिनारम्भो नाधिकारिविशेषणं, किं तु सदारम्भेच्छैवेति यतेरप्यधिकारः स्यादत आह- यःश्रा छोऽपि यतिक्रियारतमतिःसावद्यसंकेपकृत्, नीरुः स्थावरमर्दनाच्च यतनायुक्तःप्रकृत्यैव च । तस्यात्रानधिकारितां वयमपिब्रूमो वरं दूरतः, पङ्कास्पर्शनमेव तत्कृतमलप्रक्षालनापेक्ष्या ॥ ५ ॥ व्याख्या--यः श्राद्धोऽपि एवंविधः स्यात् । विशेषणद्वारेणाह । कथंभूतः श्राद्धः? यतिक्रियारतमतिः यतिक्रियायां रता कर्त्तव्यत्वेन उत्सुका मतिः यस्य स तथा । पुनः कीदृशः ? सावद्यसंक्षेपकृत् सर्वसावद्यसंक्षेपकारकः पुनः कीदृशः ?
सटीक
प्रतिमाश०.
॥ २७॥
स्थायराणां पृथिव्यादीनां मर्दनात् भीरुः । पुनः कीदृशः ? प्रकृत्यैव स्वभावनैव च यतनायुक्तः इति । वयमपि तस्य श्रावकस्य
अत्र पूजायां अनधिकारितां ब्रूमः, मलिनारम्भस्य नाशनीयस्याभावात् अनारम्भस्य च चारित्रच्छायोगत एवोपपत्तेः । यतो
दूरतः पङ्कनस्पर्शनमेव वरं वर्तते । कया ? तत्कृतेति तत्कृतः पङ्कस्पर्शतो यो मलस्तस्य प्रक्षालनापेक्षयेति । तस्मात्सदारम्भेच्छा
मलिनारम्भथेति । उभयमेवाधिकारिविशेषणं श्रद्धेयमित्यर्थः । यतिक्रियाभ्यासेन श्रमणोपासकत्वं ज्ञेयं, न पुनरिदानींतनानां
कुमतीनामनुज्ञातं स्यात् स्वमतिविकल्पितत्वादिति ।। ५८ ।।
सिंहावलोकितेन हिंसांशमतिमेव द्रव्यस्तवे निरस्यति-
धमार्थ सृजतां क्रियां बहुविधां हिंसा न धर्मार्थिका, हिंसांशेन यतः सदाशयनृतांवाचा क्रियांशे परम्।
न द्रव्याश्रवतश्च बाधनमपि स्वाध्यात्मभावोन्नतेरारम्नादिकमुच्यतेहि समये योगस्थितिव्यापकम्॥५९।
व्याख्या-धमार्थ बहूविधा बहुमकारां क्रियां पूजादिरूपां सजतां कुर्वतां श्राद्धानां तदर्थिका धर्मार्थिका हिंसा न भवति ।
यतः सदाशयभृतां शुभभाववतां श्राद्धानां हिंसांशे वाञ्छा न वर्त्तते। परं केवलं क्रियांशे वाञ्छा वर्तते । तेन चानुवन्धाह
सानिरासः, सदाशयच यवनोपटंहितो ग्राह्य इति हेतुहिंसापि निरस्तैव, तथा च स्वरूपहिंसा एवास्ति, तत्राह-दव्याश्रवतश्च
'स्वाध्येति' स्वस्य योऽध्यात्मभावस्तदुन्नते धनमपि नास्ति । हि यतः समये सिद्धान्ते योगस्थितिव्यापकं यावद्योगास्ति-
ठन्ति तावत् आरम्भादिकमुच्यते इष्यते " जावं च णं एयइ वेयइ तावं च णं आरंभइ सारंभइ समारंभइ" इत्यादिवचनात् ।
यदि घ द्रव्याश्रवमात्राइन्धः स्यात्तदा त्रयोदशगुणस्थानेऽपि स्यात्, तन्नचैवमस्ति ॥५९॥
॥२७॥
एवं व्यवस्थिते कूपनिदर्शनीचन्त्यतामाविर्भावयति- पूजायां खलु नावकारणतया हिंसा न बन्धावहा, गौणीत्थं व्यवहारपद्धतिरिय हिंसा वृथा निश्चये । नावः केवलमेक एव फलदो बन्धोऽविरत्यंशजस्त्वन्यः कूपनिदर्शनं तत इहाशङ्कापदं कस्यचित्॥६॥ व्याख्या—खलु निश्चये । पूजायां स्नानादिसामग्रयां हिंसा बन्धावहा न भवति । कया ? भावेति भावस्य द्रव्यस्त- वकारणाध्यवसायरूपस्य कारणतया कृत्वा दुर्गतिनार्याः देवलोकगमनानुपपत्तेः । इत्थमियं व्यवहारपद्धतिर्व्यवहारनयसरणि- र्गाणी प्रशस्तहिंसा वर्तते, या पुण्यवन्धहेतुत्वस्यापि घृतं दहतीति न्यायेनैवेष्टत्वात् । अथ निश्चये निश्चयनये तु विचार्य- माणे हिंसा वृथा एव अस्ति, अन्यतरवन्धस्यापि अहेतुत्वात् । केवलं एक एव भावः फलदो वर्तते प्रशस्तोऽप्रशस्तो वा प्रशस्तमप्रशस्तं वा फलं जनयितुं समर्थ इत्यर्थः । एवं विविक्तविवेकेविरत सम्यग्दृष्टेरपि पूजायां न बन्धः अविरत्यंशजस्तु बन्धोऽन्योऽस्ति पूजायोगाप्रयोक्तः । अन्यथा जिनवन्दनादौ अपि सः । तत इह कूपनिदर्शनं कस्यचित् यथाश्रुतज्ञस्य आश- कापदं आशङ्कास्थानं । एवं हि तदावश्यके द्रव्यस्तवीयप्रसङ्गसमाधानस्थले व्यवस्थितम् ॥ ६० ॥ अत्रास्माकमिदं हृदि स्फुरति यन्दव्यस्तवे दूषणं, वैगुण्येन विधेस्तदप्युपहतं नक्त्येति हि ज्ञापनम्। कूपज्ञातफलं यतोऽविधियुताप्युक्तक्रिया मोकदा, नक्त्यैव व्यवधानतःश्रुतधराः शिष्टाः प्रमाणं पुनः६१ व्याख्या-अत्रास्माकं इदं हृदि स्फुरति यद्रव्यस्तवे दूषणमस्ति तदूषणं विधेवैगुण्येन भक्तिमात्रैकतानतासंभविविधि- वैकल्येन । तदपि विधिवैकल्यप्रयुक्तं द्रव्यस्तवदूषणमपि भत्त्या अधिकतरभक्तिभावेन उपहतं भवति इति विज्ञापनं कूपनातस्य -मतिमाश ॥२८॥ सटीक) फलं अस्ति, कूपज्ञातेन एतत् शाप्यतर' इत्यर्थः । यतः अविधियुताऽपि क्रिया व्यवधानेन अतिपारंपर्येण भक्तथा एच कृत्वा मोक्षदा उक्ता । शिष्टाः पुनरत्र प्रमाणं सन्ति, शिष्टेकवाक्यतया पुनर्माभूदत्र खकपोलकल्पितत्वमात्रमिति भावः ॥६१ ॥ पूजायां हिंसासंभवोक्ति विकल्प्य दूषयमाह- धर्मार्थः प्रतिमार्चनं यदि वधः स्यादर्भदण्डस्तदा, तरिक सूत्रकृते न तत्र परितो भूताहियक्षार्थवत् । या हिंसा खलु जैनमार्गविहिता सा स्यान्निषेध्यास्फुट,नाधाकर्मिकवन्निहन्तुमिह किं दोषं प्रसङ्गोद्भवम्६२ व्याख्या-यदि पूजायां हिंसा कुमतिना वाच्या तदा सा किमनर्थदण्डरूपा वा स्यात् अर्थदण्डरूपा वा स्यात् ? नायः पक्षः क्षोदक्षमः प्रयोजनराहित्यासिद्धेः । अन्ते वाह-यदि प्रतिमार्चनं धर्मों वधः स्यादर्थदण्डत्वेन व्यवहार्यः स्यात्, तदर्थ- दण्डश्चेद्भवति तदा तत्र सूत्रकृतेऽर्थदन्डाधिकारे किं न पठितः । । किंवत् ? भूताहियक्षार्थवत् खलु निश्चितं या जैनमार्गविहिता हिंसा स्यात् तदा इह सा स्फूटं प्रकटं किं निषेध्या न स्यात् ? अपितु स्यादेव । किं कर्तुं ? आधाकर्मिकवत् प्रसङ्गोद्भवं दोपं नि- हन्तुमिति । तत्र भूताहिपाठो यथा--" पढमे दंडसमादाणे अहार्दडवत्ति आहिज्जइ । से जहाणामए केई पुरिसे आयहेउं वा आगारहेड वा परिवारहेज वा मित्तहे वा णागहेउंचा भूयहेउँ वा जक्खहे वा तं दंड तसथावरेहिं सयमेव णिसिरइ" इत्यादि। यदि हि जिनप्रतिमापूजार्थोऽपि वधोत्राधिकृतः स्यात्तदा" जिणपडिमाहे जिणहेउं वा " इत्यप्यभणिष्यत् सूत्रकारः तत्त नोक्तं, तेन हिंसाऽपि सा पूजा न स्यादित्यर्थः ।। ६२ ।। सूत्रान्तराक्षराण्याह--- ॥२८॥ I 10 आनन्दस्य हि सप्तमाङ्गवचसा हित्वा परिवाड्वरश्राद्धस्य प्रश्रितोपपातिकगिरा चैत्यान्तरोपासनाम् । अर्हचैत्यनतिं विशिष्य विहितां श्रुत्वान यो धुर्मति,स्वान्तान्मुञ्चति नाश्रयप्रियतया कर्माणि मुश्चन्ति तम् ६३ व्याख्या-हि निश्चितं । यो लुम्पका स्वान्तात् चित्तात् दुर्मति न मुञ्चति । किं कृत्वा ? आनन्दस्य पुनः परिबाड्वर- श्राद्धस्य अम्बडस्य अर्हचैत्यनति अर्हत्प्रतिमानां नतिं विशिष्य नामग्राहं विहितां कर्त्तव्यत्वेन उक्तां श्रुत्वा । केन ? आनन्द- श्रावकापेक्षया सप्तमाङ्गवचसा उपासकदशाङ्गवचनेन । पुनः कया ? अम्बडश्रमणोपासकापेक्षया प्रथितेति प्रथिता प्रसिद्धा औप- पातिकगीः औपपातिकोपाङ्गवाक् तया कृत्वा । किं कृत्वा ? चैयान्तरोपासनां हित्वा अन्यतीर्थिकचैत्यतत्परिगृहीताईच्चैयो- पासनां त्यक्त्वा स्थितस्येति शेषः । कर्माणि ज्ञानावरणीयादीनि कर्तृपदं, तं लुम्पकं न मुञ्चन्ति । कया ? आश्रयमियतया आ- श्रयवल्लभत्वेन कृत्वा इति । परिवार वरः प्रधानो यः श्राध्धोऽम्बड इति समासः । अत्र हित्वेति " मत्समुतिमनाराध्य" इत्यत्रेव अन्यथा भिन्नकर्तृकक्त्वात्ययानुपपत्तेः, अथवाऽन्तर्भूतण्यर्थत्वात् हित्वेत्यस्य हापयित्वेत्यर्थः । एवंथीभमतानभिमत- विधानहापनयोरेककर्तृकत्वेन क्त्वाप्रत्ययानुपपत्तेः आश्रितस्य प्रियतया अत्यन्ताभीष्टतया इवेत्यस्य गम्योत्मक्षेयं । आश्रिता प्रिया यस्य तत्तयेति व्याख्याने गुणमिय इत्यादाविव विशेषणपरनिपात इति । तत्र सप्तमाशालापको यथा-"तएणं से आणंदे गाहावती समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइ सत्त सिरकावों दुवालसविहं गिहिधम्म पडिवजइ, समणं भगवं महावीरं वंदइ णमंसइ, वंदइचा णमंसइत्ता एवं वदासि-नो खलु मे भंते कप्पइ अज्जप्पभिड्, अण्णउत्थिया चा अण उत्थियदेवयाणि अणउत्थिय परिग्गहियाई वा अरिहंतचेइयाई वंदित्तए वा णमंसित्तए वा पुदि अणालित्तेणं आलवित्तए वा संलवित्तए ना
मतिमाश०
सटीका
॥२९॥
वा कल्लाणं मंगलं देवयं चेइयं पज्जुवासित्तए वा तसिं असणं पाणं खाइमं साइमं दाउँ वा णण्णस्थ रायाभिओगेणं गणाभिओ-
गेणं वलाभिओगणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकतारेणं कप्पइ मे समणे णिग्गथे फासुएसणिज्जेण असणपाणखाइमसाइ-
मेणं वत्थपडिग्गहकंवलपायपुछणेणं पीढफलगसेज्जासंथारगएणं ओसहभेसज्जेण पडिलाभेमाणस्स विहरित्तए ति कडु इमं एया-
रूवं अभिग्गई -गिण्हइ, गिण्हइत्ता पसिणाई पुच्छइ, पुच्छइत्ता अठाई गादियइत्ति । " व्याख्या-एतद्वतियथा नो खल्वि-
त्यादि नो खलु मम भदंत भगवन्! कल्प्यते युज्यते इसादि वृत्तौ। अत्रान्यतीर्थिकपरिगृहीतचैत्यनिषेधे निश्रितार्हचैत्यवन्दनादि
विधिः स्फुट एव । औपपातिकालापको यथा-"अम्मडस्स णं णो कप्पइ अण्णउत्थिए वा अन्नउत्थियदेवयाणि वा अण्णउत्थिय
परिग्गहिआणि अरिहंतचेइआणि वा वंदित्तए वा णमसित्तए वा जाव पज्जुवासित्तए वा णण्णत्व अरहंतचेइआणि वा वत्ति"
एतदत्तिर्यथा-नण्णत्थ अरहतेहिं व त्ति न कल्प्यते इह योऽयं नेति प्रतिषेधः सोऽन्यत्राहद्भ्यः अईतोवयित्वत्यर्थः । अत्राई-
चैत्यनतिरम्बलस्य कण्ठत एव विहितेति, उत्तराध्ययनसत्के सम्यक्त्वपराक्रमाध्ययने स्फुट । लुम्पकाः पूजाविधानं न पश्यन्ति तत्तु
अयं स्थाणोरपराधो न, यदेनमन्धो न पश्यतीति स्वस्यैवापराधत्वात् । यतः सम्यक्त्वालापक एव सूक्ष्मदृष्टयादर्शनात् । सम्य-
क्त्वपराक्रमाध्ययनेपि गुरुसाधर्मिकशुश्रूषाफलाभिधानेनैव पूजाफलाभिधानात् इति विभावनीयं सूरिभिः ॥ ६३ ।।
प्रभव्याकरणे सुवर्णगुलिकासम्बन्धनिर्धारणे, शस्ते कर्मणि दिग्द्वयग्रहरहःख्यातौ तृतीयाङ्गतः ।
सम्यम्भावितचैत्यसादिकमपिस्वालोचनाझाश्रुतौ, सूत्राच व्यवहारतो नवति नःप्रीतिर्जिनेन्द्रे स्थिराध
व्याख्या-नोऽस्माकं प्रीतिः जिनेन्द्रे स्थिराऽस्ति जितेन्द्र स्थापनाजिने थिराऽप्रतिपातिनी । कस्मिन् सति ? प्रश्नव्या-
॥२९॥
करणे सुवर्णगुलिकायाः सम्बन्धनिर्धारणे सति । पुनः कस्यां सत्यां ? तृतीयाङ्गतः स्थानाङ्गतः शस्ते प्रशस्ते कर्मणि दिग्द- यस्य पूर्वोत्तरादिग्रूपस्य यो ग्रहः पुरस्कारस्तस्य या रहःख्यातिः तात्पर्यप्रतिपत्तिः तस्यां सत्यां सपासान्तपद। पुनः कस्यां सत्या? व्यवहारतः सूत्रात् व्यवहारसूत्रात् स्वालोचना सुष्ठु समीचीना या आलोचना तस्याः श्रुतौ विधि श्रवणे सत्यां । कथं ? सम्यग्भाविनामि अनायतनरूपवर्जनया सद्भावं प्रापितानि यानि चैत्यानि तानि साक्षीण यत्र यस्यां क्रियायां इति क्रियाविशेषणं । तुर्याश्रवद्वारे " सुवनगुलिआए त्ति" प्रतीके सिन्धुसौवीरदेशेषु विदर्भकनगरे उदाय नराजा प्रभावती राज्ञी देवदत्ता दासी देवनिर्मिता श्रीमहावीरप्रतिमा, तत्र देशान्तरायतश्रावकदत्तगुटिकायत, गुटिकायाः प्रभावाद कुजत्वं हित्वा सुरूपा सुवर्णगुलिका जाता इति प्रसिद्धकथानकं । दिग्द्वयाभिग्रहे स्थानाङ्गालापको द्वितीयस्थाने प्रथमोद्देशके यथा-"दोदिसाओ अभिगिज्झ कप्पइ निग्गंधाण वा णिग्गंथीण वा पवावित्तए पाइणं चेव उदीणं चेव” इत्यादि पूर्वा उत्तरा। अत्र हि दिग्याभिमुखीकरणमईदहचै- त्यानां भूम्नाऽभिमुखीकरणायैवेति । तद्विनयस्य सर्वप्रशस्तकर्मपूर्वाङ्गत्वात् । गृहस्थस्याधिकारिणो लोकोपचारतद्विनयात्मकपूजायाः प्रधानत्वमुचितमेवेति तात्पर्यमिति । व्यवहारालापको यथा-"भिरकु अन्नयरं अकिचट्ठाणं सेविज्जा आलोइत्तए" इत्याद्यालापके "सम्म भावियाई" इति तासामंषि देवतानामभावेऽहमतिमानां पुरतः स्वप्रायश्चित्तदानपरिज्ञानकुशल आलोचयति स्वयमेव । अत्र "सम्म भाविआई ति" विशेषणेनैव देवतानां चैत्यानां च " अहं च भोगरायस्स" इत्यत्र पुत्र्या इवाक्षेपाद विशेष्यद्वयानु- रोधेनावृत्ति कला व्याख्येयं । सम्यग्भावितप्रतिमापुरस्कारश्च मनःशुद्धेविशेषायैवेति ॥ ६४ ॥ १ भिरकु इत्यालापके सम्मभावियाई इति पदं द्विवारं पठितं तत्र प्रथमं सम्मंभावियाइं जिनवचनभाविता देवता द्वितीयवारे सम्भावियाइं जिनमतिमा
सटीक।
प्रतिमाश०-
॥३०॥
तीर्थेशप्रतिमार्चनं कृतवती सूर्याभवनक्तितो, यत् कृष्णा परदर्पमाथि तदिदं षष्ठाङ्गाविस्फूर्जितम्।
सबके खल्लु यान नारदमृषि मत्त्वाव्रतासंयत, भूढानामुपजायते कायमसौ न श्राविकेति नमः॥६५॥
व्याख्या-यत् कृष्णा द्रौपदी भक्तितः भक्त्या तीर्थशानां भगवतां प्रतिमानां अर्चनं पूजनं कृतवती चकारेत्यर्थः । कि-
वन १ सूर्याभवत् राजप्रश्नीयोपाङ्गाभिहितव्यतिकरसूर्याभदेववत् । तत् इदं तदर्थाभिधायकं षष्ठाङ्गविस्फूर्जितं परदर्पमाथि वर्त्तते
पष्ठानस्य ज्ञाताधर्मकथाध्ययननाम्नोऽङ्गस्य विस्फूर्जितं सम्यग्व्याख्यानविलसितं इति समासः । परेषां कुवादिना दर्पमहङ्कारं
मथनातीत्येवंशीलं इति समासः । तस्याः पञ्चमगुणस्थानं नास्ति चेदवाह-या द्रौपदी नारदं ऋषि न सच्चक्रे न सत्कृतवती ।
किं कृत्वा नारदं ऋषि ? अवतासंयतं मत्वा ज्ञात्वा । मूढानां इति भ्रमः कथमुपजायते ? इतीति किं ? असौ श्राविका नेति।
पूजाघनन्तरमेव तथा सम्यक्त्वं लब्धमित्यपि सूत्राक्षरदर्शनं विना ध्याध्यकरणमात्रं । न च निदानफलभोगानन्तरमेव तस्या
देशविरतिसंभव इत्यपि सुवचनं, तत्पतिवन्धकत्वे तस्य पार्यन्तिकफलं विना कृष्णादेरिव तज्जन्मन्येव विरतिलाभासंभवादिति,
यत्किञ्चिदेतत् ॥ ६५॥
प्रतिबन्धैहिकार्थखं द्रौपदीकृतपूजायां निरस्यति-
तत्पाणिग्रहणोत्सवे कृतमिति प्रौढ्या प्रमाणं नचेत्,स्वःसन्निर्मितवन्दनादिकमपि स्थित्युत्सवे किं तथा,
श्लिष्टेच्चगविरहो द्वयोरपि समस्तुल्यश्च नक्तेर्गुणो,नागादिप्रतिमार्चनादिह खलु व्यक्ता विशेषप्रथा ६६
व्याख्या-पाणिग्रहणोत्सवे द्रौपद्या मोठ्या औत्सुक्येन तत्तीर्थेशमतिमार्चनं कृतं इति चेत्ममाणं नास्ति, तदा स्वःसदा
॥३॥
सूर्याभादिना निर्मितं वन्दनादिकमपि स्थित्युत्सवे इन्द्रपहोत्सवस्थितिकाले प्रौढ्यैवेति किं तथा किं प्रमाण अस्ति ? बन्दना- दिकमपि अप्रमाणं भवेदित्यर्थः । द्वयोरपि सूर्याभद्रौपद्योः क्लिष्टेच्छा कामभोगादीच्छा तस्या विरहः समः सदृशोऽस्ति । पुनर्भक्तेः गुणोऽपि द्वयोस्तुल्यः अस्ति एव । कथमिति चेत् खलु निश्चितं इह द्रौपद्या जिनार्चने विशेषप्रथा विशेपदृष्टिः व्य- का प्रकटा वर्तते, नागादिप्रतिमार्चनात् । यतो नागादिप्रतिमार्चने भद्रया सार्थवाह्या पुत्रप्रार्थनादि कृतं श्रूयते । तथाहि- "ततेणं सा भद्दा सत्यवाही धणेणं सत्यवाहेणं" इत्यादौ । अत्र तया नागादिपूजनं कृत्वा पुत्रादि याचितं, तद्वत् द्रौपचा जिनमतिमा अचित्वा वरोपयाचितं न कृतमिति ॥६६॥ अतिदेशशेषमाह- एतेनैव समर्थिताऽन्युदयिकी धा च कटपोदिता,श्रीसिद्धार्थनृपस्य यागकरणप्रौढिर्दशादोत्सवे श्राद्धःखव्वयमादिमाङ्गविदितो यागं जिनाची विना,कुर्यान्नान्यमुदाहृता व्रतभृतां त्याज्या कुशास्त्र स्थितिः व्याख्या-दशाहोत्सवे दशदिवसमहे श्रीसिद्धार्थनृपस्य श्रीसिद्धार्थनाम्नो राज्ञो भगवत्पितुः यागकरणस्य मौदिः मौढता समर्थिता उपपादिताऽस्ति । केन ? एतेनैव द्रौपदीचरितसमर्थेनेनैव । किंविशिष्टा ? अभ्युदयिकी अभ्युदयनिर्वृत्ता। पुनः किंविशिष्टा ? धा धर्मादनपेता । च पुनः किंविशिष्टा ? कल्पोदिता कल्पसूत्र मोक्ता । खल्लु निश्चितं । अयं सि- दार्थराजा आदिमानविदितः श्राद्धः श्रीपाचापत्यीयश्रमणोपासकः अन्यं लोकप्रसिद्धं यागं न कुर्यात् । कां विना । जिनार्चा विना । यतः व्रतभृतां कुशास्त्रस्थितिस्त्याज्या उदाहृता कविता । अन्यश्च यागः कुशास्त्रीय इति । कल्पसूत्रपाठः-"जाए भ
सटीक।
मतिमाश-
॥३१॥
दाए अमाए अ" इत्यादि प्रसिद्धः यागान् देवपूजा इति श्रीसिद्धार्थेन परमश्राद्धन पूजा कृता । अस्य श्रमणोपासकत्वं आ-
चाराने उक्तं अनशनं कृत्वा अच्युतदेवलोकदेवः ततो महाविदेहे मुक्ति गमिष्यति ॥ ६७ ॥
सर्व लुम्पकमतमुपसंहरनाह-
इत्येवं शुचिसूत्रवृन्दविदिता नियुक्तिनाष्यादिन्तिः,सन्न्यायेन समर्थिता च नगवन्मूर्तिःप्रमाणं सताम् ।
युक्तिस्त्वन्धपरंपराश्रयहता माजाघटीदुर्धियामेतदर्शनवञ्चिता गपि किं शून्येव नभ्राम्यति ॥६८॥
व्याख्या-भगवन्मूर्तिः सतां शिष्टानां प्रमाणं वर्तते आराध्यत्वादिना । कथंभूता भगवन्मूर्तिः ? इत्येवं शुचिसूत्रवृन्द-
विदिता निर्दोषसूत्रसमूहे उक्ता प्रसिद्धा । पुनः किंविशिष्टा ? समर्थिता निष्कलङ्कनिश्चयविषयीकृता । कैः ? नियुक्तिभाष्या-
दिभिः । च पुनः केन ? सन्न्यायेन सद्युक्त्या सत्मकरणेन चेति ! दुधियां दुष्टबुद्धीनां युक्तिस्तु मा जाघटीत मा सुतरां
घटिष्ट । कीदृशी युक्तिः ? अन्धपरंपराश्रयहता सती युक्तिनिरासपरम्परायां युक्तिग्रहणस्यानुपपन्नत्वात् । एतदर्शनेन भग-
वन्मूर्तिदर्शनेन वञ्चिता गपि दृष्टिरपि शून्या इव किं न भ्राम्यति ? अपि तु भ्राम्यति । काव्यं-"तिलकयुतललाटभ्राज-
मानाः स्वभांग्याकुरमिव समुदीतं दर्शयन्ते जनानाम् । स्फुरदगुरुमालासौरभोद्गारसाराः कृतनिनवरपूजादेवरूपा महेभ्याः॥१॥
आनन्दमान्तरमुदारमुदाहरन्ती, रोमाञ्चिते वपुषि सस्पृहमुल्लसन्ती । पुंसां प्रकाशयत्ति पुण्यरमा समाधिसौभाग्यमर्चनकृतां
निभृता हगेव ॥२॥ स्पृशति तिलकशून्यं नैव लक्ष्मीललाटं, मृतसुकृतमिव श्रीः शौचसंस्कारहीनम् । अकलितभजनानां वल्क-
कान्येव वनाण्यपि च शिरसि शुक् छत्रमप्युग्रभारः ॥३॥ अकृताईतपूजस्य तस्करस्येव लोचने । शोचनेनैव संस्पृष्टे गुप्तपात-
॥३१॥
कशङ्किते ॥४॥"॥ ६८ ॥ प्राप्यानूनमुपक्रिया प्रतिमया नो काऽपि पूजाकृता,चैतन्येन विहीनया ततश्यं व्यर्थेति मिथ्या मतिः। पूजा नावत एव देवमणिवत् सा पूजिता शर्मदेत्येतत्तन्मतगर्वपर्वतन्निदा वजं बुधानां वचः॥६॥ व्याख्या-नून निश्चितं । पूजां करोतीति पूजाकृत् तेन पूजाकृता नरेण काऽपि उपक्रिया उपकारता न प्राप्या । कया ? प्रतिमया कृत्वा । कीदृश्या प्रतिमया चैतन्येन विहीनया । ततस्तस्मात्कारणात् इयं पूजा व्यर्था इति मिथ्या मतिः प्रतिमा नेति मृषा गीर्वर्त्तते । यतो भावतः सा प्रतिमा पूजिता सती देवमणिवत् शर्मदा सुखदो एवास्ति । इति वुधानामेतद्वचः तन्मतगपर्वतभिदा वजं वर्तते । काव्यं-"एवं युक्त्या शंभोभक्त्या सूत्रव्यक्त्या लुम्पाकाश्चित्तोद्रिक्ता मायासिक्ताः क्लृप्ता- रिक्ताः किंपाका: । एतत्पुण्यं शिरैर्गुण्यं निर्वैगुण्यं सद्धोधैस्तत्त्वं बोध्यं नीत्या शोध्यं नैवायोध्यं निःक्रोधैः ॥१॥ आत्मारामे शुक्ला श्यामे हृद्विश्रामे विश्रान्तास्त्रूट्यगन्धाः श्रेयः सन्धाश्चित्सम्बन्धादनान्ताः । अर्हद्भक्ता युक्तौ रक्ता विद्यासक्तायेऽधीता निष्ठा तेपामुच्चैरेपा तोल्लेखा निर्णीता ॥२॥" इति समपि लुम्पकमतं निराकृतम् ॥ ६९ ॥ अथ पोदेन्वदनुसारिणो मतमुपन्यस्य दूपयति- वंन्याऽस्तु प्रतिमा तथापि विधिनासा कारिता मृग्यते,समायो विरलस्तथा च सकलं स्यादिन्द्रजालोपमम् हन्तवं यतिधर्मपौषधमुखश्राद्धक्रियादेविधेदौलन्येन तदस्ति किं तव न यत्स्यादिन्जालोपमम् ॥७॥ ॥ १ लुम्पाका एवंविधाः क्लृप्ता. कृत्या इत्यर्थः ॥ २ धर्मसागरानुसारिणोमतं
प्रतिमाश
॥३२॥
सटीक
व्याख्या-ननु वितर्के मतिमा वन्द्याऽस्तु उक्ताक्षरशतैः तथाव्यवस्थितेः इत्यन्वयः । तथापि सा पतिमा विधिना का-
रिता मृग्यते गवेष्यते, सम्यग्भावितानामेव प्रतिमानों भावग्रामत्वेनाभिधानात् इत्यन्वयः । स विधिः प्रायो विरलोऽस्ति, ऐदं-
युगीनानां मायोविधिप्रवृत्तत्वस्य प्रत्यक्षसिद्धत्वात् इत्यन्वयः । तथा च तदा सकलं मतिमागतं पूजापतिष्ठावन्दनादिकं इन्द्र-
जालोपमं स्यात् , महतोऽप्याडम्बरस्यासत्यालम्बनत्वात् इत्यन्वयः । अथोत्तरं-इन्तेति अवधारणे । एवं तर्हि तत्किमस्ति यत्तव
इन्द्रजालोपमं न स्यात् ? । किंवत् ? प्रतिमावत् । केन ? विधेदौलभ्येन, तस्य दुःषमायां दुर्लभत्वात् । कीदृशस्य विधेः ?
यतीत्यादि यतिधर्मश्चारित्राचारः, पौषधः श्राद्धानां पर्वदिनानुष्ठानं, तन्मुखा तदादियों श्राद्धक्रिया तदादियों विधिः, आ-
दिनाऽपुनर्वन्धकाझुचिताचारपरिग्रहः तस्येति, न्यायस्य समानत्वात् ॥ ७० ॥
तदाह-
योगाराधनशंसनैरथ विधेर्दोषः क्रियायां न चेत्,तत्किन प्रतिमास्थलेऽपि सदृशं प्रत्यक्षमुछीक्ष्यते ।
किंचोक्ता गुरुकारितादिविषयं त्यक्त्वाग्रहं भक्तितः,सर्वत्राप्यविशेषतः कृतिवरैः पूज्याकृतेः पूज्यता॥७१
व्याख्या-अथ विधेः क्रियायां चेत् न दोपोऽस्ति । कैः ? योगेत्यादि योगो विधिकञनुकूलपरिवारसंपत्तिः, आराधन-
मात्मनैव निर्वाहः, शंसनं च बहुमानः तैः, उपलक्षणादद्वेषश्च तैः कृत्वा । उत्तरं-तरिक विधियोगादिनाऽदुष्टत्वं प्रतिमास्थलेपि
सदृशं न उद्वीक्ष्यते विलोक्यते ? उद्वीक्षणीयमिदमपि इति परजिनार्चाविपये द्वेपस्त्याज्यस्तत्र शकुन्तलाज्ञातं । अथाभ्युचयमा-
१ अन्यगच्छीयः । २ द्वेषोपरि ।
॥३२॥
ह किंच कृतिवरैः मुख्यपण्डितः पूज्याकृतेः पूज्यस भगवन आकृतेः प्रतिमाया पूज्यता उता। कस्मिन् ? भक्तितः भक्तिमात्रेण अविशेषतः विशेपौदासीन्येन सर्वत्रापि चैत्ये । किं कृत्वा ? आग्रह कदाग्रहं आभनिवेशं त्यक्त्वा । कीदृशमान ? गुर्वित्यादि, गुरखो मातृपितृपितामहादय तैः कारितादिः विषयो यस्य रा त । कालाघालम्बनेनेत्थमेव बोधिसौलमोपपत्तेः । तथा च श्राद्धविधिपाठ.-मतिमाश्च विविधास्तत्पूजाविधौ सम्यक्त्वम करणे इत्युक्तं "गुरुकारियाइ केइ अन्ने सयंकारियाइ तं विति । विहिकारियाइ अन्ने पडिमाए पूभणविहाणं ॥ १॥ व्याख्या-केचिद्गुरवो मातृपितृपितामहादयस्तैः कारितायाः प्रतिमायाः पूजाविधानं त्रुवन्ति । एवं अन्ये स्वयंकारिताया प्रतिमायाः पूजाविधानं ब्रुवन्ति । अन्ये तु विधिकारितायाः मूतिमायाः पूजा- विधानं त्रुवन्ति । कर्तव्यमिति शेषः । अवस्थितपक्षस्तु गुर्वादिकृतत्वस्यानुपयोगित्वात् ममत्वाग्रहरहितेन सर्वप्रतिमा आविशे- घेण पूजनीयाः, सर्वत्र तीर्थकदाकारोपलम्भेन तबुद्धरुपजायमानत्वात् । अन्यथा हि स्वाग्रहबशादह द्विम्बेऽयवज्ञामाचरतो दुरन्तसंसारपरिभ्रमणलक्षणो वलाद्दण्डः समाढीकते । एवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेण आज्ञाभङ्गलक्षणदोषापत्तिर्न स्यात्, आगमप्रामाण्यात् । तथाहि श्रीकल्पभाष्ये-" निस्सकड " इत्यादि गाथार्थः निश्राकृते गच्छप्रतिबद्धेऽनिश्राकृते च तद्विपरीते चैत्ये सर्वत्र तिस्रः स्तुतयो दीयन्ते । अत्र प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमः स्यात्. तदा प्रतिचैत्यमे- कैकापि स्तुतिर्दातव्येत्यादि ज्ञेयमिति ॥ ७१ ॥ एतत्सव मनसिकृत्याह-- चैत्यानां खल्लु निश्रितेतरतया लेदेऽपि तन्त्रे स्मृतः, प्रत्येक लघुवृद्धवन्दनविधिः साम्ये तु यत्सांप्रतम् ।
मतिमाश.
सटीक।
॥३३॥
--
इच्छाकल्पितदूषणेन नजनासंकोचनं सर्वतः,स्वान्नीष्टस्य च वन्दनं तदपि किं शास्त्रार्थबोधोचितम् ७२
व्याख्या--खलु निश्चये चैत्यानां निश्रितेतरतया निश्रितानिश्रिततया भेदेऽपि । तन्त्रे शास्त्रे प्रत्येकं लघुवृद्धवन्दनविधिः
स्मृतः । अथ साम्ये नु प्रायस्तुल्यत्वे तु सांगतं विपमदुःपमाकाले यत् भजनायाः सेवनायाः संकोचनं संक्षेपणं कृतमस्ति ।
केन ? इच्छा० इच्छाकल्पितं यदूपणं अन्यगच्छीयत्वादिकं तेन कृत्वा बहुभिः अंशैलुम्पकतां समाश्रितमित्यर्थः । च पुनः
यत् स्वाभीष्टस्य स्वेच्छामात्रविपयस्य वन्दनं स्मृतं तदपि किं शास्त्रार्थबोधस्य उचित ? नैवोचितमस्ति कतिपयमुग्धवणिग्धंध-
नमात्रफलत्वादिति भावः ॥ ७२ ।।
उक्तार्थे काकुव्यङ्ग्यमेव कंठेन स्पष्टीकर्तुमाह-
चैत्यानां न हि लिङ्गिनामिव नतिर्गब्यान्तरस्योचितेत्येतावचसैव मोहयति यो मुग्धाञ्जनानाग्रही।
तेनावश्यकमेव किं न ददृशे वैषम्यनिर्णायकं,लिङ्गे च प्रतिमासु दोषगुणयोः सत्त्वादसत्त्वात्तथा ७३
व्याख्या--इति एतावद्वचसा कृत्वा यो मुग्धान् जनान् मोहयति विपर्यासयति । इतीति किं ? गच्छान्तरस्य चैत्यानां
नतिर्नहि अचिना । केपामित्र लिङ्गिनामिव, गच्छान्तरस्येति संवध्यते । अत्रपश्चावयवप्रयोग एवं कर्तव्यः-गच्छान्तरीया
प्रतिमा न वन्दनीया, गच्छान्तरपरिगृहीतत्वात, यो यो गच्छान्तरपरिगृहीतः स सोऽवन्दनीयः, यथाऽन्यगच्छसाधुरिति । पुन:
अस्मद्गुरुभिर्यदुक्तं तत्सत्यं । कीदृशः ? य आग्रही अभिनिवेशमिथ्यात्ववान् । तेन किमावश्यकमेव आवश्यक नियुक्त्याख्यं
॥३३॥
के ? शास्त्रमेव न ददृशे न दृष्टं ? । कीदृशं आवश्यक ? वैपम्यनिर्णायकं । कस्मात् १ लिङ्गे च दोषगुणयोः सत्त्वाव तथा प्रतिमासु दोपगुणयोरसवात् अजीवत्वात् भावारोपोऽस्त्वन्यः ।। ७३ ॥ उक्तमेव विवेचयन् वादिनो मुग्धतां दर्शयति- लिङ्गे स्वप्रतिवद्धबुद्धिकलनाद्भाज्यानवेन्यता,सैकान्तात्मतिमासुन्नावन्नगवट्यो गुणोद्दोधनात्। तुल्ये वस्तुनि पापकर्मरहिते नावोऽपि चारोप्यते,कूटद्रव्यतया धृतेऽत्र न पुनर्मोहस्ततः कः सताम्७४ व्याख्या-लिङ्गे वन्यता भाज्या भजनीया भवेत् । कस्मात् ? स्वा० स्वप्रतिबद्धः स्वसम्बन्धी यो धर्मः सन् असत्वा- तत्कलनात्तत्स्मरणादेकसम्बन्धिज्ञानेऽपरसम्बन्धिस्मृतिन्यापात् लिङ्गात् स्वमतिबद्धसद्धीपस्थिति तदालम्बनतया तस्य वन्यता, असद्धर्मोपस्थितौ च तदालम्बनतया निन्धता इत्यर्थः। प्रतिमासु सा वन्द्यता एकान्तादस्ति । कस्मात् ? भावभगवत्सम्बन्धिनो ये भूयांसो गुणास्तेषामुद्धोधनात् । च पुनः । तुल्ये उभयाभावेन आकारसाम्यवति पापकर्मरहिते सावधचेष्टाराहते एवंविधे वस्तु- नि भावोऽपि आरोप्यते । पुनः कूटद्रव्यतया धृते अत्र वस्तुनि भावो नारोप्यते अङ्गारमर्दके इव भावाचार्य गुण इति। ततः कारणात् सनां शिष्टानां कः मोहः अस्ति ॥ ७४ ॥ एवं सति प्रतिष्ठावैयमित्याशङ्कन्थ समाधत्ते- नन्वेवं प्रतिमैकतां प्रवदतामिष्टा प्रतिष्ठाऽपि का, सत्यं सात्मगतैव देव विषयोद्देशेन मुख्यो दितां । १ वैपम्यनिर्णायकं. वैसदृश्यनिर्णयकारि.
मतिमाश०
सटीक।
॥३४॥
यस्याः सा वचनानलेन परमा स्थाप्ये समापचितो, दग्धे कर्ममले मवेत्कनकता जीवायसः सिद्धता ७५
व्याख्या-ननु एवं आकारमात्रेण प्रतिमायाः एकतां वंद्यतामायोजिका वदतां युष्माकं प्रतिष्ठाऽपि का इष्टा स्यात् ।न
काचिदित्यर्थः । तद्वैयर्थ स्यादिति । अत्रोचर-सत्यं सा प्रतिष्ठा देवविषयोदेशेन आत्मनि अधिगता एव आत्मनिष्ठा एव मुख्या
प्रतिष्ठा कथिताऽस्ति, विधिना जनितस्य आत्मगतातिशयस्य अष्टाख्यस्य पूजाफलप्रयोजकत्वात् । अत एवात्मगतातिशयस्य
समानाधिकरणपार्यन्तिकमुक्तिफलकत्वमप्युपपद्यते । तदाह-यस्याः प्रतिष्ठायाः सकाशात् सा प्रतिष्ठा परमा भवेत् । किं स्व-
रूपा प्रतिष्ठा ? जीवायसः जीव रूपलोहस्य मिद्धतारूपा कनकता। कस्याः? स्थापये परमात्मनि समापत्तितः समापत्तिमासाय।
कस्मिन् सति ? कर्ममले दग्धे सति । केन ? वचनानलेन नियोगनाक्याग्निना ॥ ७५ ॥
नन्वेश्मात्मनः प्रतिष्ठितत्वेऽपि प्रतिमाया अगतिष्ठितत्वं स्यात, प्रतिष्ठाकगनास्टक्षये प्रतिमायाः पूज्यताऽनापत्तिश्चेत्यत आह-
विम्बेऽसावुपचारतो निजहदो जावस्य संकायते,पूजा स्याद्विहिता विशिष्टफलदा द्राक्प्रत्यनिझा यथा।
तेनास्यामधिकारिता गुणवतां शुद्धाशयस्फूर्तये, वैगुण्ये तु ततः स्वतोऽन्युपनत्तादिष्टं प्रतिष्ठाफलम् ७६
व्याख्या-विम्बेऽसौ प्रतिष्ठा संकीर्त्यते । कस्मात् ? निजहदो निजहृदयमम्वन्धिनो भावस्य अध्यनसायस्य उपचारात्।
यथा द्राक् शीघ्र प्रत्यभिज्ञा या पूजा विहिता कृता विशिष्ट फलदा स्यात् विशिष्टं फलमाकारणाचालम्वनाध्यवसायफलातिशायि,
तथा च प्रतिष्ठिनविषयकं यथार्थ प्रत्यभिज्ञानमेव पूजाफलप्रयोजकमिति । तेन अस्यां प्रतिष्ठायां गुणतां प्रशस्तगुणानां कर्तृणां
॥३४॥
अधिकारिताऽस्ति । कस्यै ? शुद्धा० शुद्धस्य विशिष्टस्य आशयस्य स्फूर्तये उपस्थितये विशिष्टगुणवत्प्रतिष्ठिता इयमिति प्रत्यभिज्ञाने विशिष्टाध्यवसायस्य प्रत्यक्षसिद्धत्वात् । अथ वैगुण्ये तु प्रतिष्ठाविधिसामग्र्यसंपत्तौ तु ततः प्रत्यभिज्ञानात् । स्वतोपे उपनतात् वाह्यसामग्री विना मनसोऽप्युपस्थितात् प्रतिष्ठा फलमिष्टं । कटुकदिगम्बरप्रतिष्ठितद्रव्यलिङ्गिद्रव्य निष्पन्नव्यतिरिक्ताः सर्वा अपि प्रतिमा वन्दनीया इति । वचनप्रतिष्ठाऽपि फलावदेत्याम्नायविदः । त्रयानादरोऽपि कर्तृगतोत्कटदोषज्ञानाच्छुद्धाशयापरिस्फूर्तिः। अत एव साधुवासक्षेपादवन्दनीयाः तिस्रोऽपि वन्दनीयतां नातिक्रामन्तीतिसूरिश्रीहीरनामधेयानामाज्ञा स्त ॥ ७६ ॥ एतेनैव शङ्काशेपोऽपि मुनिरस्य एवेत्याह- चैत्येऽनायतनत्वमुक्तमथ यत्तीर्घान्तरीयग्रहात् , तक्किं तन्ननु दुर्मतिग्रहवशाढुष्टं श्रयामीति चेत् । साम्राज्ये घटमानमेतदखिलं चारित्रभाजां भवेत् , पार्श्वस्थस्त्वसती सतीचरितवन्नो बक्तुमेतत्प्रभुः ॥ व्याख्या-अथ यद्यस्मात् कारणात् चैत्येऽनायतनत्वमुक्तं । कस्मात् ? तीर्था तीर्थान्तरीयस्य ग्रहः परिग्रहस्तस्मात् तत्तर्हि ननु इति आक्षेपे, अहं तच्चैत्यं किं अयामि ? । कीदृशं चैत्यं ? दुष्टं दोषयुक्तं । कस्मात् ? दुर्म• दुर्मतीनां दुर्बुद्धिनां पार्श्वस्यादीनां यो ग्रहः तद्वशात् इति चेत् । उत्तरमाह-त्वया उच्यमानमेतदखिलं घटमानं युक्तं भवेत् । कस्मिन् ? चारित्र- भाजां साम्राज्ये सम्राड्भावे प्रवर्त्तमाने सति । विधिगुणपक्षपातस्य सर्वेषां सुकरः, पार्श्वस्थस्तु भवान् अर्थशून्यधर्मसागरः पार्थ- स्थमध्यवर्ती एतनिर्दिष्टं असती सतीचरितवत् सतीचरित्रं नो वक्तुं प्रभुः न समर्थः स्यात् ॥ ७७ ।। उपसंहरति-
सटीक।
प्रतिमाश०
॥३५॥
?
सर्वासु प्रतिमासु नाग्रहकृतं वैषम्यमीक्षामहे, पूर्वाचार्य परम्परागतगिरा शास्त्रीययुक्न्याऽपि च ।
इत्यं चाविधिदोषतापदलनं शक्ता विधातुं विधिस्वरोजागररागसागरविधुज्योत्स्नेव नतिप्रथा ॥७॥
॥ इति धर्मसागरमते निराकृतम् ॥
-वयं सर्वाम निश्रितानिश्रितादिभेदमिन्नासु प्रतिमासु आग्रहकृतं स्वमत्येक्षिचं वैषम्यं विषमत्वं न ईक्षामहे सर्वत्र साम्यमेव
प्रमाणयाम इति । कया ? पूर्वाचार्यपरंपरया आगता या मीः तया परंपरागमेनेत्यर्थः । च पुनः शास्त्रीया या युक्तिस्तयापि ।
इत्यं च एवं व्यवस्थिते च भक्तिमथा प्रयमाना भक्तिः शक्ता समयों इत्ते । कीदृशी भक्तिमथा? विधि विधौ विधाने
स्वरोज्जागरो यथेच्छपवृद्धिमान् यो राग एव सागरस्तस्मिन् विधुज्योत्स्ना इव चन्द्रचन्द्रिका इव । किं कर्तुं ? विपातुं । किं
मवि ? अविधिदोषतापदलनं अविघिदोषतापस्य परितापकारिणोपविध्यनुपोदनप्रसंगस्य दलनं ॥ ७८ ॥
॥ इति धर्मोचरसागरीयमतं निराकृतम् ॥
उपस्थिवया भक्त्या प्रणुन इव भगवत्प्रतिमामेवामिष्टौति-
उत्फुल्लामिव मालती मधुकरो रेवामिवेभः प्रियां, माकन्दममअरीमिव पिकः सौन्दर्यनाज मधौ ।
नन्वञ्चन्दनचारुनन्दनवनीभूमीमिव योः पतिस्तीर्थेशप्रतिमा न हि क्षणमपि स्वान्ताहिमुञ्चाम्यहम् ७ए
व्याख्या-अहं तीर्थेशपतिमां क्षणमपि स्वान्ताचित्तात् न मुश्चामि न त्यजामि, किं तु विषयान्तरसश्चारविरहेण सदा
ध्यायामीति ध्वन्यते । कां क इव ? उत्फुल्ला मालती मधुकर इन ! भ्रमर इव, स हि मालवीगुणवस्तदसंपचावपि तत्पक्षपात
7
॥३५॥
न परित्यजति । तथा प्रियां मनोहारिणी रेवामिव इमः हस्ती, तस्य तद्हनक्रीडयैव रत्युत्पत्तेः। तथा माकन्दद्रुमपञ्जरी सहकारतरुमजरों । कीची पधौ वसन्ते सौन्दर्य भजतीत्येवंशीळां । पिक इव कोकिल इव । स हि सहकारमजरीकषाय- कण्ठः कलकाकळीकळकलैर्मदयति च यूनां मन इति । तथा योः पतिरिन्द्रः नन्ददिश्चन्दनैधार्थी या नन्दनवनीभूपीमिव (भूमी तामिव) । स हि मियाविरहतापमपि तचारिमचमत्कारदर्शनादिस्मरतीति । अत्र रसनोपमालकारः ॥ ७९ ॥ मोहोदामदवानलप्रशमने पाथोवृष्टिः शमश्रोतोनिर्धारिणी समीहितविधौ कल्पवलिः सताम् । संसारप्रघवान्धकारमप्रनेमार्तण्डचण्डयुतिर्जेनी मूर्तिरुपास्यतां शिवसुखे नव्याःपिपासाऽस्ति चेत् ७० व्याख्या-भो भव्या भवद्भिः एतादृशी जैनी जिनसम्बन्धिनी मूर्तिः उपास्यतां सेव्यता, कीदनी जैनी मूर्तिः? मोहो० मोह एव य उद्दापो दवानलः सकळशमवनप्लोषकत्वाचस्य प्रशमने पावोदष्टिः मेघवृष्टिः । पुनः कीशी ? शमश्रोतसो निर्म- रिणी नदी वस्मपाइकस्वात् । पुनः कीदशी ? समी० समीहितस्य वाञ्छितस्य विधौ विधाने सतां शिष्टानां कल्पद्वल्लिः मुरवरुकवा, अषिसम्बन सर्वसिद्धिकरत्वात् । पुनः कीदृशी ? संसा० संसार एव यः प्रवलान्धकार उत्कटं तमः तस्य मयनेऽप- नयने मार्चण्डस्य सूर्यस्य चम्डद्युतिः तीव्रप्रभाविवेकवासरतारुण्ये मोहच्छायाया अप्यनुपलम्मात् इति । चेत् यदि विचमुखे मुक्तिशर्मणि वायुम्माकं पिपासा उत्कटेच्छास्ति । रूपकमलटारः ॥ ८॥ ॥ अय पाशचन्द्रमतं निराकरोति ॥ एवं वृत्तद्वयेन भगवन्मूर्ति स्तुत्वा वादान्तरमारभवे-
प्रतिमाश.
सटीक।
॥३६॥
श्राद्धन खजनुःफले जिनमतात्सारं गृहीत्वाऽखिलं त्रैलोक्याधिपपूजने कल्लुषतामोक्षार्थिना मुच्यताम्।
धृत्वाधर्मधियं विशुद्धमेनसाव्यस्तवेत्यज्यताम्,मिश्रोऽसाविति लम्बितःपथि परैः पाशोऽपि चाशोन्ननः
व्याख्या-श्राद्धन श्रद्धावता उपासकेन मोक्षार्थिना सता त्रैलाक्याधिपपूजने कलुपता सशङ्कता मुच्यतां त्यज्यतां त्रैलो-
क्याधिपस्य त्रिजगतोऽधिकं रक्षितुः, अत एव साराध्यस्य पूजने इति समासः । किं कृत्वा जिनमतात् जैनमवचनात् अखिलं सारं
तात्पर्य गृहीत्वा । कीदृशे त्रैलोक्यधिपपूजने? स्वजनुःफले स्वजेनुपो मनुजावतारस्य फले। पुनः श्राद्धेन अशाभूनः पाशोऽपि त्यज्यतां
द्रव्यस्तवे धर्मधियं धर्मत्वबुद्धि धृत्वा । केन ? विशुद्धमनसा विशुद्धेन मनसा कृत्वा । कीदृशः पाशः ? परैः मतिभिः पथिमार्गे
इति लम्वितः । इतीति किं ? असा द्रव्यस्तवः मिश्रः धर्माधर्मोभयरूपः इति पाशचन्द्राभ्युपगम्य पाशत्वेनाध्यवसानं मुग्धजन-
मृगपातनध्रौव्यमभिन्यनक्ति ।। ८१ ।।
उक्तं मिश्रत्वमेव पक्षचतुष्टयेन विकल्प्य खण्डयितुमुपक्रमते-
नावेन क्रियया तयोर्ननु तयोमिश्रत्ववादे चतुर्नङ्गन्यां नादिम एकदाऽननिमतं येनोपयोगछ्यम् ।
नावो धर्मगतः क्रियेतरगतेत्यल्पो द्वितीयः पुनर्भावादेव शुन्नास्क्रियागतरजोहेतुस्वरूपक्षयात् ॥२॥
व्याख्या-ननु इति पूर्वपक्षे । भावेन क्रियया च तयोः भावक्रिययोः द्रव्यस्तवे तयोः धर्माधर्मयोर्भिश्रत्वे चतुर्भङ्गयां ।
कोयः ? चतुर्भङ्गाः सन्ति-भावो धर्मगतः भावोऽधर्मगनः १, भावो धर्मगतः क्रियाऽधर्मगता २. भागोऽधर्मगतः क्रिया धर्म-
गता ३, क्रिया धर्मगता क्रियाऽधर्मगता ४ इति । एषु चतुर्भङ्गेपु आदिमः पक्षो भावेन भावत्य मिश्रस्वामित्याकारो न घटते ।
॥ ३६॥
कस्मादेतोः ? येन एकदा उपयोगद्वयं अनभिमतं अनिटं, द्रव्यस्तवारम्भोपयोगयोयोगपद्याभावाद न भावयोर्मिश्रत्वं । अना- रम्भे हि यत्नवान् न आरम्भे उपयुज्यते थैर्येऽतिचारभियोऽप्यभावादिति सूक्ष्मदृष्ट्या भावनीयमिति प्रथमभङ्गः १ । भावो धर्मगतः क्रिया इतरगता आरम्भाख्याऽधर्मगता पुनरयं भङ्गोऽल्पः अक्षोदक्षम इत्यर्थः । कुतः ? शुभात् भावात् एव क्रियागतं यत् रजोहेतुस्वरूपं अशुभभावद्वारकत्वं तस्य क्षयात् ।क्रिया हि अशुभभावद्वारा अधर्मस्य शुभभावद्वारा च धमस्य कारणं न स्वरूपतः८२ द्वितीयपक्षानभ्युपगमे एव वादिनोनिष्टापत्तिपाह- वाहिन्युत्तरणादिके परपदे चारित्रिणामन्यथा, स्यान्मिश्रत्वमपापभावमिलितां पापक्रियां तन्वताम् । किंचाकेवलिनं विचार्य समये द्रव्यावं भाषितं, शुद्धं धर्ममपश्यतस्तनुधियः शोकः कयं गच्छति ८३ व्याख्या-अन्यथा उक्तानभ्युपगमे स्वरूपत एवाश्रवत्वाभिमतस्याधर्मत्वोक्तौ चारित्रिणां भावसाधूनां पिश्रत्वं स्यात् । कस्मिन् ? वाहिन्युत्तरणादिके नद्युत्तारममुखे परपदेऽपवादमार्गे। चारित्रिणां किं कुर्वतां ? । पापक्रियां नद्युत्तारादिरूपां कुर्वतां । कीशी पापक्रियां ?। अपा० अपापो धर्मैकस्वभावो यो भावः पुष्टालम्बनाध्यवसायः तन्मिलितामिति । अत्र मिश्रत्वं मिश्र- पक्षाश्रयणं परस्यापि न इष्टं, साधूनां धर्मेकपक्षाभ्युपगमात् । तस्मात् न धर्मभावे स्वरूपतः सावधक्रियामिश्रणं द्रव्यस्तव इति गर्भार्थः । अभ्युच्चयमाह-किं चाकेवलिनं केबलिपर्यन्तं समये सिद्धान्ते द्रव्याश्रवं भाषितं विचार्य तावत् शुद्ध धर्म अपश्यतः तनुधियः तुच्छबुद्ध नरस्य शोकः धर्मपक्षस्थानोच्छेदजनितवैक्लव्यलक्षणः कथं गच्छतु ! न कचित् । अत एव सुन्दरषि- रयोगिकेवलिष्वेव सर्वथा संवरो मत इति सूक्ष्माघाणेन आकेवलं देशविरतिमेव संभावयति "जावं च णं एसजीवे एयइ वे यइ ताव च मतिमाश० सटीक। ॥३०॥ ण आरंभइ ति" । एवं द्रव्यभावमिश्रता केवलिन्यपि संजाता पाशोऽपि'सोरस्ताड शोचयन् केन वार्यतामिति तेन मिश्रत्वं ना॥८॥ वादी प्रसङ्गं समाधत्ते- वाहिन्युत्तरणादिकेऽपि यतनाभागे विधिर्न क्रियाभागे प्राप्तविधेयता हि गदिता तन्त्रेऽखिलैस्तान्त्रिकैः। हिंसा न व्यवहारतश्च गृहिवत्साधोरितीष्टं तु नो मित्रत्वं ननु नो मते किमिह तदोषस्य संकीर्तनम् ८४ व्याख्या-वादी स्वमतं समर्थयति, तदाह-वाहिन्युत्तरणादिके नद्युत्तर्णादिकेऽपि कर्मणि यतनाभागे विधिरस्ति, अमाप्तत्वात् । क्रियाभागे तु न विधिरस्ति । हि यतः तन्त्रे शास्त्रेऽखिलैः तान्त्रिकैः अप्राप्तविधेयता गदिता । " अप्राप्तपापणं विधिः" इति मीमांसाव्यवस्थितेः । अयं चेह न्यायोऽस्माभिराश्रियने, यनना च भाव इति न तेन मिश्रता अन्येनैव मिश्रण- संभवात् । तर्हि नद्युत्तारादिक्रिययैव मिश्रता स्यात् । तत्राह-गृहिवत् साधोः हिंसा नद्युत्तारादिक्रिया न भवति । कस्मात् ? व्यवहारतः व्यवहारनयाच्च गृहिसाध्वोर्यतनाऽयतनाभ्यामेव व्यवहारविशेषादिति । ततो हिंसामिश्णाभावात् नो नैव मिश्रत्वं इष्टं अस्ति । ननु इत्याक्षेपे । नः अस्माकं किं इह तदोपस्य संकीर्तनं, भवतां द्रव्यस्तवे तु साधूचितयतनाऽभावादवर्जनीयैव हिंसेति मिश्रपक्ष इति वादिन उल्लेखः । अथ अग्रतनकाव्ये उत्तरम् ॥ ८४ ॥ एतदूषयति हिंसा सवयवहारतो विधिकृतःश्राद्धस्य साधोश्च नो,सा लोक व्यवहारत्तस्तु विदिता बाधाकरी नोभयोः इच्छाकल्पनयाऽभ्युपेत्य विहितेतल्या तदुत्पादनोत्पत्तिभ्यां तु भिदान काऽपि नियतव्यापारके कर्मणि ॥ ॥३७॥ नम् व्याख्या-ग्रन्थकारो वादिमतं दूषयति-विधि करोतीति विधिकृत्तस्य विधिकृतः श्राद्धस्य साधोश्च हिंसा नो नैव भवति । कस्मात् ? सद्वयवहारतः सिद्धान्तव्युत्पन्नजनव्यवहारतः प्रमत्तयोगेन प्राणव्यपरोपणस्यैव तन्मते हिंसात्वात् स्वगुणस्थानो- चितयतनया प्रमादपरिहारस्य चोभयोरविशेषात धर्मकर्मणि हिंसा नास्त्येवेतिस्थितं । अथ लोकव्यवहारतस्तु बाह्यलोकव्यवहारा- पेक्षया सा परमाणव्यपरोपणरूपा हिंसा उमयोहिसावोर्वाधाकरी न मिश्रपक्षप्रवेशकरी न स्यात् । अथ तदुत्पादनोत्पत्तिभ्यां तु मिदा काऽपि तथ्या नास्ति । कस्मिन् ? इच्छाकल्पनया स्वरसपूर्वया इच्छया अभ्युपेत्य विहिते नियतव्यापारके अवर्णनीय- हिंसासम्बन्धे कर्मणि, अपि तु स्वकपोलकल्पनया मुग्धमनोविनोदमात्रमिति भावः ॥८५ ॥ अपवादमाये कर्मणि न विधिः, किं तु यतनाभाग एव स्वच्छन्दप्राप्ततया तत्र मिश्रत्वं स्यादत्राह- "ऽर्थेऽपि विधेयता वचनतःसिहा लिङात्मिका, भागे बुद्धिकृता यतःप्रतिजनं चित्रा स्मृता साऽऽकरे । नोचेजैनवचः क्रिया नयविधिः सर्वश्च मिश्रो भवेदित्यं भेदमयं न किं तव मतं मिश्राध्यं लुम्पति ८६॥ व्याख्या-पूर्णेऽर्थेऽर्यमाणे यतनाविशिष्टे कर्मणि लिडात्मिका लिङर्थस्वरूपा विधेयता सिद्धाऽस्ति । केन ? वचनतः श्रुतिमात्रेण प्रवर्तनाया एव तदर्थत्वात् । या च बुद्धि कृता विधेयता विषयता विशेषरूपास्ति सा भागे भवतु, न तावता क्षतिः, यतः सा प्रनिजनं प्रतिपाद्यं चित्रा स्थिता स्मृता । कस्मिन् ? आकरे स्याद्वादरत्नाकरे स्वपरव्यवसायि ज्ञानं प्रमाणमिति । नो चेदेवं यतना क्रियाभागाभ्यां मिश्रत्वं तदा तत्यतिपादकं जनं वचः क्रिया नयविधिश्च सर्वो मिश्रो भवेत् । इत्थं च धर्मपक्षोऽपि ताभ्यां भागाभ्यां मिश्रो भवेदिति मिश्राद्वयं स्यात्, इतरद्वयलोपेन तदेकशेषात् । तथा च तन्मिश्राद्वयं तव मतं भेदमयं पक्षत्रय-
मातमाश.
सटीक ।
॥३८॥
प्रतिपादकं कथं न लुम्पति ? स्वशस्त्रं स्वोपघातायति न्यायस्तवापन्न इति भावः । इति द्वितीयभङ्गः समर्थितः २ ॥ ८६ ।।
तृतीयपक्षमधिकृत्याह-
नावोऽधर्मगतः क्रियेतरगतेत्यत्रापि जने कथं, मिश्रत्वं तमधर्ममेव मुनयो नावानुरोधादिः ।
भक्त्याहत्प्रतिमार्चनं कृतवतां न स्पृश्यमानः पुनर्भावश्चित्तमिवाग्रहाविलधिया पापेन संलक्ष्यते ८७
व्याख्या-भावोऽधर्मगतः, क्रिया इतरगता धर्मगता इत्यत्रापि तातीगिके भङ्गे मिश्रत्वं कथं स्यात् १ यतो भावानुगे-
घात्
तं अधर्ममेव मुनयो विदुः दुष्टभावपूर्विकाया विहितक्रियाया अपि प्रत्यवायबहुलत्वेनाधर्मत्वात् । अत एव निह्नवादीनां
निर्ग्रन्थरूपस्य दुरन्तसंसारहेतुत्वेनाधर्मत्वमिति । अथ भक्त्या उपलक्षणाद विधिना च अईत्पतिमार्चनं कृतवतां भव्यमाणिनां
भावः पापेन न स्पृश्यमानः संलक्ष्यते । व्यतिरेकदृष्टान्तमाह-किमिव चित्तमिव, यथाऽऽग्रहाविलधियां आभिनिवेशमलीयस-
बुद्धीनां चिचं पापेन स्पृश्यमानं संलक्ष्यते तथा न भक्तिकृतां भाव इति योजना । अथ पुष्पा बुपमर्दयामि ततः प्रतिमा पूज-
यामि इति भावः पाप स्पृष्टो लक्ष्यते एवेति चेत् तर्हि नदीजलजीवान् उपमृद्नागि इति । ततो नदीमुत्तीय विहारं कुर्वे इति
साधारपि दुष्टः स्थात् इति तृतीयभङ्ग निराकृतः ।। ८७ ॥
तुरीयं विकल्पमपि निराकुर्वनाह-
धर्माधर्मगते क्रिये च युगपद्धत्तो विरोधं मिथो, नाप्येते प्रकृतस्थले कचिदतस्तुर्योऽपि भङ्गो वृथाः ।
शुद्धाशुद्ध उदाहतो ह्यविधिना योगोऽर्चनाद्यश्च यः, सोऽप्येको व्यवहारदर्शनमतो नैव द्वयोर्मिश्रणात्।।
॥ ३८॥
व्याख्या-धर्माधर्मगते च क्रिये मिधो युगपद्विरोध धत्तः, भिन्न विषयक्रियाद्वयस्य एकसमयनिापद्धत्वात् । अपि पुनः एते
धर्माधर्मगतक्रिये कर्तृपदं प्रकृतस्थले द्रव्यस्तवस्थाने क्वचित् न स्तः । अतः कारणात् तुर्योऽपि भङ्गो थाऽस्ति मिश्रपक्षसमर्थ-
नाय मृपोपन्यास इति । शुद्धाशुद्धयोगः शास्त्रोक्त एवेति तत्र तुर्यभङ्गावकाशः किं न स्यादत्राह-हि निश्चितं अविधिना जिना-
चनाधश्च यः शुद्धाशुद्धो योग उदाहृतः कथितोऽस्ति, सोऽपि योगः व्यवहारदर्शममतः अस्ति, द्वयोमिश्रणात् नैवास्ति शुद्धा-
शुद्धयोर्विरोधाव इति दत्तो मिश्रपक्षजलाञ्जलिरिति चतुर्थभङ्गो निराकृतः । ८८ ॥
निश्चयतस्तु शुद्धाशुद्धयोगो नास्त्येवेत्याह-
नावद्रव्यतया द्विधा परिणतिः प्रस्पन्दरूपाः स्मृता, योगास्तत्र तृतीयराश्यकथनादायेषु नो मिश्रता
नैवान्त्येष्वपि निश्चयादिति विषोजारः कथं ते ब्रमो, निष्पीता किमुन क्षमाश्रमणगीःसद्भाष्यसिन्धोः
व्याख्या-परिणतिः मनोवाकाययोगनिबन्धाध्यवसायरूपं भावकरणं परिणतिः मनोवाकायद्रव्योपष्टम्भजनिता या
वाह्यक्रियाः परिस्पन्दरूपास्तल्लक्षणाः योगाः भावद्रव्यतया द्विधा स्मृताः । परिणतिरपि द्विधा योगा अपि द्विधा इत्यर्थः । तत्र
आयेषु भावयोगेषु मिश्रता नो भवति । कस्मात् ! तृतीयराशेः अकथनात शुभान्यशुभानीति द्विविधान्येवाध्यवसायस्थाना-
न्युक्तानि, न तु तृतीयो राशिरिति । अन्त्येषु द्रव्ययोगेष्वपि निश्चयात् मिश्रता नैव भवति इत्ये ते तव को भ्रमो भ्रान्तम-
योगो विपोद्गारः अस्ति । किसु क्षमाश्रमणगी जिनभद्रगणिक्षमाश्रमणवाणी न निष्पीता 1 कीदृशी वाणी ? सदा० सद्भाष्य
यद्विशेषावश्यकं तदेव सिन्धुः समुद्रः तस्य सुधाऽमृतं, तत्पाने हि भ्रमविपोद्गारो न स्यात् ॥ ८९ ॥
सटीक।
पातमाश
1
॥३९॥
किं च संकीर्णकर्मरूपफलाभावदपि संकीर्णयोगो नास्तीति द्रव्यस्तवे मिश्रपक्षोक्तिमौदिः खलता विस्तार इत्याह-
मिश्रुत्वे खल्लु: योगभावविधया कुत्रापि कृत्ये नवेन्मिभं कर्म न बध्यते च शबलं तत्संक्रमात्स्यात्परम् ।
तद्रव्यस्तवमिश्रतां प्रवदता किं तस्य वाच्यं फलं, स्वव्युग्राहितमूढपर्षदिमदान्मूर्धानमाधुन्यताएगा
व्याख्या-खड़ निश्चये फुत्रापि कृत्ये योगभावविधया मिश्रन्वेऽङ्गीक्रियमाणे फलत्वेनाङ्गीक्रियमाणं मिश्रं कर्म न भवेत्
तञ्च बन्यतो नास्तीत्याह-न वध्यते च शवलमिति शवलं कर्म न बध्यते । कथं तर्हि मिश्रमोहनीयं प्रसिद्धं ? तत्राह-
परं केवलं तत् मिश्रं संक्रमात् स्यात् । तत्तस्मात् - द्रव्यस्तवमिश्रतां प्रवड्ता तस्य द्रव्यस्तवस्य फलं वध्यमानं - कर्म. वाच्यं
शुभमशुभं वा तावन्न भवति अननुरूपत्वात् मिश्रं च वध्यमानं अभ्युपगच्छतः कृतान्तः कुप्येत् इत्यत्र तूष्णीमेव स्थेयं त्वया ।
कीदृशेन ? स्व० व्युद्ग्राहिता ये मूढास्तेषां पर्पदि मदात् बुद्धिगारवात् : मूर्धानं शिर आधुखता कम्पयताऽयमनुभावो
,मदस्येति ॥ ९०॥
ननु न्यायस्तावन्मुग्धानां कूटपाशमाय इत्यभिन्नलादेशेन श्राद्धानां मिश्रपक्ष एवेति पश्यन्तः तदधिकृतद्रव्यस्तवस्य भिन्नत्वं
रोचयाम इति चेदहो दुराशयसिद्धान्ततात्पर्यपरिज्ञानमनुपासितगुरुकुलस्य जब कथंकारं संभवति ? तत्र हि व्यवहारनयादेशेन
बन्धानौपयिकं पक्षत्रयोपवर्णनं कृतं, सग्रहनयादेशेन तु फलापेक्षया विध्योति पूजापोषधयोः को विशेषः श्राद्धानां मिश्रः
पक्षस्येत्यभिप्रायवाना
सिद्धान्ते परिक्षाषितो हि गृहिणां मिश्रत्वपक्तस्ततो, बन्धानौपयिको विरत्यविरतिस्थानान्वयोप्रक्षया ।
॥३९॥
अन्तर्नावित एव सोऽपि पुरतो धर्मे फलापेक्षया, पूजापोषधतुल्यताऽस्य किमु नव्यक्ता विशेषविणाम्॥ व्याख्या-अधर्मपक्षः धर्मपक्षः धर्माधर्म इति पक्षत्रयं, तत्र धाँधमपक्षमाइ-हि निश्चितं सिद्धान्ते मूत्रतालये ततः गृहिणो मिश्रत्वपक्षो वन्धाननुगुण परिभाषितः संकेतितः अस्ति । कया ? विर० विरत्यविरतिस्थानयोर्योऽन्वयानुगमः तदुत्प्रे- क्षया स्वरूपमात्रेणेति यावत् । सोऽपि परिभापितमिश्रपक्षोऽपिपुरतोऽने फलापेक्षया धर्मेऽन्तीवित एवास्ति । ततोऽस्य गृहिणः विशेषेक्षिणां विशेषदर्शिनां पूजापौषधयोस्तुल्यत्य किमु न व्यक्ता ? अपि तु व्यक्ताऽस्ति । कस्मति ? वाग्व्यवहारतो मिश्प- क्षस्य निश्चयतन धमल्लस्य हेतोरिति । सूत्रकृते हि पक्षत्रयव्याख्यान मूलतितो ज्ञेयं ॥११॥ अत्र हि कुतीर्थिकदृष्टधनुगत आचारोऽधर्मः स्वसमयानुगतच धर्मः प्रतीयते इति एतत्सर्वमाभिप्रेत्य भक्तिरागमतिबन्धा द्रव्यस्तवे धर्मपक्षं वलात्परमङ्गीकारयन्नाह- हिंसांशो यदि दोषकृत्तव जड व्यस्तवे केन तन्मिश्रत्वं यदि दर्शनेन किमु तद्भोगादिकालेऽपि न । भक्त्वा चेन्ननु साऽपि का यदि सतोरागो भवाझंतदा, हिंसायामरिशस्तता नु सदृशीत्यत्रोत्तरंमृग्यते॥ ।। शत पाशदोषाकरस्य मतं निरस्तम् ।। व्याख्या-हे जड यदि द्रव्यस्तवे हिंसांशो दोषकृत मिश्रत्वकृत् स्यात्, तदा केन तन्मिश्रत्वं भवेत् ? न तावद्देशसंयमन चतुर्थगुणस्थानगतेः । यदि च दशनेन सम्यक्त्वेन मिश्रत्वं तदा भोगादिकालपि तन्मिश्रुत्वं किं न स्यात् ? याद भक्त्या मिश्रत्वं त्वयोच्यते, तर्हि सापि भक्तिरपि च का ?। यदि भक्ती रागो मतस्तदा भवाङ्गं रागद्वेषयोरेव. संसारमूलत्वात् तदा
मतिमाश
सटीक।
॥१०॥
द्वाभ्यां संसारान्तर्गताभ्यां अधर्मपक्ष एवोत्कटः स्यादिति को मिश्रावकाशः । प्रशस्तरागत्वाद्भक्तिर्न भवाङ्गमिति चेत्तर्हि
द्रव्यस्तवानुगता हिंसायामपि शस्तता सदृशी अस्ति । अत्र तव किमुत्तरमिति मृग्यते, तत्र च सम्यगुत्तरं वर्षसहस्रेणापि न परेण
दातुं शक्यमिति मोक्षार्थिभिरस्मदुक्त एव पन्थाः श्रद्धयः । एतेन षट्पुरुषीप्रदर्शनेन श्रमणोपासकानां न द्रव्यस्तवाधिकार इति
कापुरुषस्य पाशस्य मतं निरस्तं ।। अत्र काव्यानि-
अयमतिविशदो विचारमार्गः, स्फुरति हृदि प्रतिभाजुषां मुनीनाम् । जडमतिवचनैस्तु विपलब्धाः, कति न जडास्तदहो कलिबलीयान्
॥१॥ निजपतिरुचितमकल्पितार्थेविबुधजनोक्तितिरस्क्रियापराणाम् । श्रुतलवमतिदृप्पामराणां, स्फुरितमतन्त्रमुदीक्ष्य विस्मिताः स्मः
॥राविधिवदनुपदं विकृण्वते ज्ञा, नयगमभङ्गगभीरमाप्तवाक्यम् । कथमिव भवताद्विनिश्चितार्थ, तदिदमधौतपुतैर्जनहीतम् ॥३॥ शिष्ये
मूढे गुरौ मूढे श्रुतं मूढमिवाखिलम् । इति शङ्कापिशाचिन्यः सुखं खेलन्तु वालिशैः ॥४॥ स्फुटोदर्के तर्के स्फुटमभिनवे स्फुति
सता, मिये प्राचां वाचा न गतिरिति मूढः प्रलपति। न जानीते चित्रां नयपरिणति नापि रचना, पृथा गर्वग्रस्तः स्थलमखिल-
मन्वेष्टि विदुषाम्॥५॥शोभते नॅ विदुषां प्रगल्भता, पल्लवज्ञजडरागि पर्षदि । पञ्जरे वहुलकाकसंकुले, सङ्गता न हि मराकलालना
॥६॥ कृष्णवासिततयोः स्फुटान्तरे, गीगभीरिमगुणे च भेदिनि । यस्य हेसशिशुकाकशङ्किता, तं धिगस्तु जननीं च तस्य धिक
||७|| अस्तु वस्तु तदर्थो यथा तथा, पंण्डिताय जिनवाग्विदे नमः । शीसनं सकलपापनाशनं, यद्वयां जयति पारमेश्वरम् ॥८॥
इति ॥१२॥
अत्रातिदेशेन कुमतिशेष निराकुर्वन्नाह-
एतेनेदमपि व्यपास्तमपरे यत्प्राहुरज्ञाः परं, पुण्यं कर्म जिनार्चनादि न पुनश्चारित्रवद्धर्मकृत् ।
.
॥ ४०॥
तद्वत्तस्य सरागतो कलयतः पुण्यार्जनद्वारतो, धर्मत्वं व्यवहारतो हि जननान्मोक्षस्य नो हीयते ॥ व्याख्या-एतेन शुद्धजिनपूजाया धर्मत्वव्यवस्थापूनेन इदमपि व्यपास्तं निराकृतं, यदपरेऽज्ञा अनधिगतसूत्रतात्पर्याः प्राहुः। किं पाहुः ? जिनार्चनादि पुण्यं कर्म न पुनश्चारित्रवत् धर्मकृत् धर्मकारणं । व्यपासनहेतुमतिदेशप्राप्त स्फुटयति-हि यतः तस्य जिनार्चनादिकर्षणः तद्वत् चारित्रवत् सरागतां कलयतःरागसहितस्य व्यवहारतो धर्मत्वं न हीयते । कस्मात् ? पुण्यार्जनद्वारतः शुभाश्रवव्यापारकत्वेन मोक्षस्य जननाद । यदुवाच वाचकः-"जिनभवनं जिनबिम्ब, निनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवमुखफलानि करपल्लवस्थानि ॥१॥” इति ॥ ९३ ॥ लोकोचरलौकिकत्वाभ्यां धर्मपुण्यरूपत्वं तु पूजायामिष्यत एवेत्याह- या ज्ञानाद्युपकारिका विधियुता शुद्धोपयोगोज्ज्वला,सा पूजा खलु धर्म एव गदिता लोकोत्तरत्वं श्रिता। श्राद्धस्यापि सुपात्रदानवदितस्त्वन्यादृशीं लौकिकीमाचार्या अपि दानन्नेदवदिमां जल्पन्ति पुण्याय नःए। व्याख्या-यो पूजाऽस्ति । कीदृशी ? ज्ञा० ज्ञानादेः आदिना सम्यक्त्वादिग्रहः उपकारिका पुष्टिकारिणी विधियुता विधिसहिता तथा शुद्धोपयोगेन इमां भवजकतरणि भगवत्पूर्जा दृष्ट्वा वहवः प्रतिबुध्यन्ता, पट्कायरक्षाश्च भवन्तु, इत्याद्याकारण उज्ज्वला ईदृशे (श्री) ति । सा पूजा खलु निश्चित तद्भावपूर्विका असंमोहपूर्विका वा इति धर्म एव गदिता । यतः लोकोत्तर थिता, एतादृशगुणप्रणिधाना (त) पूजाया आगमैकविहितत्त्वाद, कस्यापि श्रादस्यापि अस्ति । किंवद ? सुपात्रवत् । नोऽ- १ गुगप्रभानपूजापा. इति महतो।
पाधिमात्र
पीका
॥४१॥
स्माकं आचार्या इतस्तु अन्याशी कौकिकी सामान्यधर्मवचनमाप्त पूर्जा दानभेदवन दानविशेषवत् पुण्याय इच्छन्ति । कस्या-
पि श्रावकस्य कोकोत्तरा पूजा भवति, यथा सुपात्रे दचं दानं मोक्षायेति । तु पुनः कस्यचित् इतराऽन्यादृशी कौकिकी पूजा
पुण्याय भवति, यथा दत्तेन दानभेदेन पुण्यं भवति कृषिकरण इव पळालं । नियमादत्रानुपतिकोऽभ्युदयः, फलमिह धान्या-
वाप्तिः, परमं निर्वाणमिव, बीजात् दानविशेषस्य पुण्यत्वं चानुकम्पादानादेः अल्पतरपापबहुतरनिर्जराकारणत्वेन सूत्रोपदिष्ट-
स्य वा दानादिपुण्यमध्ये प्रोक्तं धर्ममध्येऽपि तद्वत्पूजाऽपि स्यादिति परमार्थः ॥९॥
ननु पूजादानमवचनवात्सल्यादिकं सरागकृत्य, तपश्चारित्रादिकं तु वीतरागकृत्यमिति विविक्तविभागो दृश्यते । तत्राचं
पुण्य, अन्त्यं धमः स्यात् । अत एव धर्मपदार्थो द्विविधः-एकः संज्ञानयोगलक्षणोऽन्यः पुण्यलक्षणः इति शास्त्रवार्तासमुच्चये
हरिभद्रसूरिभिरुक्तं, ततोऽग्भिौमिकस्य देवपूजादिकर्मणः कथं धर्मत्वं रोचयामस्तवाह
पुण्यं कर्म सरागमन्यऽदितं धर्माय शास्त्रेष्विति,श्रुत्वा शुद्धनयं न चात्र सुधियामेकान्तधीयुज्यते।
तस्माच्छुद्धतरश्चतुर्दशगुणस्थाने हि धर्म नयः, किं ब्रूते न तदनन्तां त्वधिकृतेऽप्यत्रान्तमीक्षामहे॥५॥
व्याख्या-अत्रच एवार्थो भिन्नक्रमथू मात्रैवेत्यर्थः । सुधियां पण्डिताना एकान्तधीः एकान्ताभिनिवेशो न युज्यते ।
किं कृत्वा पुण्यं सरागकर्म, अन्यद्वीतरागकर्म, शास्त्रेषु धर्माय उदितं परिभाषितं । इति शुद्धनयं शुद्धनार्थ श्रुत्वा, एकनया-
भिनिवेशस्य मिथ्यात्वरूपत्वात अन्यनयविचारेण तस्य मूलोत्खननाच "धम्मकंखिए पुनखिए" इत्यादी धर्मः श्रुतचारित्र-
१ लोकोत्तरपूजातः ३ भभस्तनवर्तिनः प्राणिनः
॥४१॥
लक्षणं पुण्यं तत्फलभूतं शुभकर्मेति हि यतः । तस्मादुक्तावान्तरनिश्चयात् शुद्धतरोऽतिशुद्धो नयो निश्चयः चतुर्दशगुणस्थाने
तचरमसमये किं धर्म ब्रूते ? ब्रूते एन । तथा चैकान्ताभिनिवेशे ततोर्वाक् सर्वत्राप्यधर्मः स्यात् , स चानिष्टस्तवापीति भावः ।
वयं तु तद्ङ्गतां तु शुद्धनिश्चयाभिमतधर्माङ्गतां तु अधिकृते द्रव्यस्तवेऽपि अभ्रान्तं भ्रान्तिरहितं इक्षामहे । प्रस्थकादिदृष्टान्तभा-
विविचित्रनैगमनयमवृत्तेः । "द्रव्यस्तवे तदिह भक्तिविधिप्रणीते, पुण्यं न धर्म इति दुर्मतिनां कुबुद्धिः। तत्तन्नयैस्तु सुधियां
विविधोपदेशः, संक्लेशकृयदि जडस्य किमत्र चित्रम् ॥१॥ अधर्मः पूजेति प्रलपति से लुम्पाकमुखरः, श्रयन् मिश्र पक्षं तमनु
हरते पाशकुमतिः । विधिभ्रान्तः पुण्यं वदति शुभगच्छोत्तमबुधाः, सुधासारां वाणीमभिदधति धर्मोद्ययमिति ॥२॥"॥९५॥
गभीरेऽत्र विचारे गुरुपारतन्त्र्येणैव फलवत्तां दर्शयन्नुपदेशासर्वस्वमाह-
इत्येवं नयनङ्गहेतुगहने मार्गे मनीषोन्मिषेन्मुग्धानां करुणां विना न सुगुरोरुद्यच्छतां स्वेच्छया ।
तस्मात्सद्गुरुपादपद्ममधुपः स्वं संविदानो बलं,सेवां तीर्थकृतां करोतु सुकृती इव्येण नावेन वा ॥१६॥
व्याख्या-मुग्धानां मनीपा बुदिः सुगरोः करुणां विना न उन्मिषेत् न निराकाङ्क्षतया विश्रामेत् । कीदृशाना
मुग्धानां ? स्वेच्छया स्वोत्मेक्षितेन उद्यच्छतां उद्यम कुर्वतां । कस्मिन् ? मागें । कीदृशे मार्गे ? इत्येवं अमुमा प्रकारेण नय.
नयाः नैगमादयो भङ्गाः संयोगा हेतव उत्कृष्टायपेक्षया-दशपञ्चायेकावयववाक्यानि तैर्गहने गंभीरे । तस्मात् सुकृती द्रव्येण गृही
भावेन चा साधुः तीर्थकता सेवां करोतु ययाधिकारं भगवद्भक्तेरेव परमधर्मत्वात् । कीदृशः सुकृती ? सद्गुरुपादपो मधुपः सन्
गुर्वाशामात्रवर्षी समित्यर्थः । किं कुर्वन् ? स्वं पलं योग्यतारूपं संविदानः मानन् , परस्मैपदिन प्रत्ययस्य रूपमिदम् ॥१६॥
m
मतिमाश
सटीक।
॥१२॥
भीगकेवरपुराधिष्ठित पार्थपरमेश्वरं संगोध्याभिमुखीकृत्य मया एवं तन्मतामृतवायो दृष्यते इति स्तुतिरेयं पर्यवसभेति
तत्रैव नयभेदमुपदर्शयति-
सेयं ते व्यवहारत्नक्तिरुचिता शखेश्वराधीश ! यद्,दुर्वादिव्रजदूषणेन पयसा शङ्कामलकालनम् ।
स्वात्मारामसमाधिबाधितभवै स्मानिरुन्नीयते, दूष्यं दूषकदूषणस्थितिरपि प्राप्तैर्नयं निश्चयम्॥७॥
व्याख्या हे श्रीशद्धेश्वराधीश ! सा इयं ते तव उचिता व्यवहारभक्तिः व्यवहारनयोचिता भक्तिः कृता इत्यर्थः । विधे-
यमाधान्यानुरोधात् स्त्रीत्वनिर्देशः । यत् दुर्वादिना व्रजः समूहः तदुषणरूपेण पयसा नीरेण शङ्कारूपमलस्य क्षालनं भवति ।
अत्र पत्तदोनित्यः सम्बन्धः, तेन सा इयं भक्तिः । सा का ? यत् क्षालनं । व्यस्तलिङ्गं न दूषणमिति शिष्टाः । परसमयदूष-
णपूर्वकस्वसमयस्थापनस्य भगवद्यथार्थवचनगुणस्तुत्योपासनात्वं व्यवहरन्ति । यदीय व्यवहारभक्तिः तदा निश्चयभक्तिः का
इति उच्यतामित्याकाक्षीयामाह-अस्माभिः दूष्यं दूषकदूषणयोः स्थितिरपि सत्तापि न उन्नीयते न वीक्ष्यते । कस्मात् ? त-
त्रितयांनुगतो वादग्रन्थ इति ध्यानदशायां निश्चयभक्तिस्थितानामस्माकं सर्वत्र सम एव परिणामो व्युत्थाने व्यवहारभक्ती तु
परपक्षदूषणमसंभावनाविपरीतभावनानिरासीय एवेति न रागद्वेषकालुष्यमिति उचितत्वमावेदितं भवति । कथंभूनरस्माभिः ?
स्वात्मेति स्वात्मा एवारामोऽत्यन्तसुखहेतुत्वात् नन्दनवनं यत्र तादृशः, स्वात्मानं आरामयति समन्तात् क्रीडयति तादृशो वा
यः समाधिः शुभोपयोगरूपः संप्रज्ञातः अपश्चिमविकल्पनिर्वचनद्रव्यार्थिकोपयोगजनितो लेशतो वा संप्रज्ञातो लयरूपः तेन वा-
॥४२॥
धितो राधिताऽनुवृत्या स्थापितो भवः संसारो यैस्तादृशौरिति। पुनः कथं भूतैरस्माभिः निश्चयं नयं प्राप्तः, कर्तरि क्तमत्ययः। क्वचित् "समाध्यबाधितसुखैः" इति पागन्तरम् ॥ ९७ ॥ अथ साक्षात्स्तुतिमेवाह- दर्श दर्शमवापमव्ययमुदं विद्योतमाना लसद्विश्वास प्रतिमामकेन रहित! स्वां ते सदानन्द ! याम् । सा धत्ते स्वरसप्रस्मृत्वरगुणस्थानोचितामानमधिश्वासम्प्रति मामके नरहित! स्वान्ते सदानं दयाम्॥एट व्याख्या-हे अकेन रहितः सर्वदुःखविषमुक्त। अत एव हे सदानन्द! ध्वंसापतियोग्यानन्द। ते तव प्रतिमा त्वन्मूत्ति या दर्श दशैं दृष्ट्वा दृष्ट्वा प्रतिक्षणप्रवर्धमानशुभपरिणामोऽहं अव्ययमुदं विगलितवेद्यान्तरपरब्रह्मास्वादसोदरशान्तरसास्वादं अवापं प्रापं । कस्मिन् ? मारके स्वान्ते मम हृदये । कथं? लसद्विश्वासं लसन् विश्वासो यत्र यस्यां क्रियायर्या । कीदृशीं प्रति- मांस्वां सद्भावस्थापनामित्यर्थः । हे नरहित! मनुष्यहितकारिन्! सा तव प्रतिमा सम्मति दर्शनजन्यभावनाप्रकर्ष काले सदानं दयां अभयदानसहितं दयावृत्ति पोषयति । कीदृशी दयां ? स्वरस० स्वरसमसत्त्वरं अनुपाधि प्रवदमानं यद्गुणस्थानं तदु- चितां तदनुरूपां अनुग्राह्यानुग्राहकयोग्यतयोईयोस्तुल्यत्तित्वात् । सा कीदृशी ? आनमद्विधा आनमत् विश्वं यां सा तथा । अत एव विद्योतमाना विशेषेण भ्राजमाना । यमकालङ्कारः "अर्थे सत्यर्थभिन्नानामावृत्तिर्यमक" इति लक्षणम् ॥९८॥ त्वहिम्बे विधृते हृदि स्फुरति न प्रागेव रूपान्तरं,त्वद्रूपे तु ततः स्मृते भुवि नवेन्नो रूपमात्रप्रथा। तस्मात्त्वन्मदन्नेदबुध्ध्युदयतो नो युष्मदस्मत्पदोल्लेखः किञ्चिदगोचरं तुलसति ज्योतिः परं चिन्मयम्॥एए *
मतिमाश
सटीका
॥४॥
-
व्याख्या--तब पिम् त्वनिम्न तस्मिन् इदि विशेषेण धृते सति मागेव सुतरा रूपान्तरं आकारान्तरं न स्फुरविन स्मृ-
तिकोटिमाटीकते त्वद्विम्वेन त्वदन्यस्य स्मृतिपथारोहायोगान बदिम्बमेव च तादृशं प्रकतिरमणीयं येनान्यबिम्बमेव रपये
नागन्तुं दीयते । ततः त्वादिम्बालम्बनध्यानानन्तरं त्वद्रूपेऽनुस्मृते ध्याते सति भुवि रूपमात्रमथा न भवेत् , सर्वेषां रूपाणां
ततो निकृष्टत्वात् , सर्वोत्कृष्टत्वेनैव च त्वद्वपस्य ध्येयत्वात् । ततः तस्मात् त्वद्रूपध्यानात् द्रव्यगुणपर्यायसादृश्येन निश्चयतः
स्वन्मदभेदबुध्ध्युदयतः युष्मदस्मत्पदोल्लेखः न भवति, ध्याध्यानध्येयानां प्रयाणामेकत्वमाः । ततः किश्चिदगोचरं चिन्मयं
ज्योतिः परप्रमाख्यं कसति स्फुरति, तत्स्फुरणेनैव सर्वक्रियाणां साफल्यत्वात् । अयं भावः-भगवदनिम्बे हदि घृते भगवद्रपा-
नुस्मरणं तध्यानमेव क्षीणकिल्पिषत्वात् नैषयिकद्रव्यगुणपर्यायसाम्यपर्यासोचनायो " स्वं आई, आं स्वं," इत्यमेवमान
समापचिरूपं भवति ॥ ९९ ॥
उक्तमेव भावयन्नभिष्टौति-
किं ब्रौकमयी किमुत्सवमयी श्रेयोमयी किं किमु,ज्ञानानन्दमयी किमुन्नतिमयी किं सर्वशोनामयी।
इत्थं कि किमिति प्रकल्पनपरैस्त्वन्मूर्तिरुद्वीक्षिता,किं सर्वातिगमेव दर्शयति सध्ध्यानप्रसादान्महः ॥१००
व्याख्या-किं प्रहलैकमयी ब्रह्मैव एकं प्रचुरं यस्यां सा ब्रह्मैकमयी, स्वरूपोत्प्रेक्षेयम् । एवमग्रेऽपि किमुत्सव.
पपीत्यादी उत्सवादयोऽपि ब्रह्मविवर्चा एन, न च रूपोत्प्रेक्षिताः, तेन नाक्रमदोषः, उस्मेक्षितेनैव क्रमस्यातन्त्रत्वात् । इत्थम-
एना प्रकारेण किं किमिति प्रकल्पनपरः कविभिः त्वन्मूर्तिरुदीक्षिता सती किंशन्दमभिगच्छति सर्वातिग यत्ताशं महावाका-
॥४॥
शमानं दर्शयति । कस्मात् ? सध्यानमसादात निर्षिकरुपकलयाऽधिगमात् । स्वतः सिदभावादेव । तत्र च न जिज्ञासति सकस- प्रयोजनमोलिभूतपरब्रह्मास्वादमदत्वाद्भगवन्मूर्चिदर्शनं भव्यानां परमहितमिति घोत्यते ॥ १० ॥ प्रार्थनागी स्तुतिमाह- त्वपं परिवर्ततां हृदि मम ज्योतिःस्वरूपं प्रनो, तावद्यावदरूपमुत्तमपदं निष्पापमाविनवेत् यत्रानन्दघने सुरासुरसुखं संपिण्डितं सर्वतो,नागेऽनन्ततमेऽपि नैति घटनां कालत्रयीसंन्नवि ॥११॥ व्याख्या-हे प्रभो! मम हृदि ज्योतिःस्वरूपं त्वद्रूपं तव रूपं परिवर्त्तता अनेकधा नेयाकारेण परिणमतु । कियत् ? पाव निष्पापंक्षीणकिल्विषं अरूपंरूपरहितं उत्तमपदं फलीभूतं साधनीभूतं वाऽप्रतिपाति ध्यानं न आविर्भवेत् तावत् । उत्तममभि- टौति-यत्र यस्मिन् आनन्दघने आनन्दैकरसे कालत्रयीसंभवि सर्वतः संपिंडितं एकराशीकृतं सुरासुरसुखं अनन्ततमेऽपि भागे घटना न एति, अनन्तानन्तमित्यर्थः । यदापम्-"सुरनरमुहं समत्तं सचद्धा पिंडिअं अणंतगुणं । ण वि पावे मुत्तिसुहं गंता- हिं विवेगवग्गूहि ॥१॥" तथा-"सिद्धस्स सुहो रासी सव्वदा पिंडिओजइ हविज्जा । सो गंतवग्गभइओ सवागासे ण माइज्जा ॥ २ ॥" इत्यादि ॥१०॥ स्वान्तं शुष्यति दह्यते च नयन नस्मीभवत्याननं, दृष्ट्वा तत्प्रतिमामपीह कुधियामित्याप्तलुप्तात्मनाम् । अस्माकं त्वनिमेषविस्मितहशांरागादिमां पश्यतां,सान्दानन्दसुधानिमज्जनसुखं व्यक्तीनवत्यन्वहम्।।१०२ व्याख्या-तत्मतिमा निर्णीतप्रसिदजिनेन्द्रमूर्ति दृष्ट्वाऽपि इह कुधियां कुबुद्धीनां स्वान्तं चित्तं शुष्यति घनजलेन यवा.
पतिमाश
॥१४॥
सटीक
सकवत् । अथवा अन्तर्गतसम्यक्त्वाधानस्थान. मनो मूलतः निर्गतसारनीर भवतीत्यर्थः अत एव कुधियां तत्मतिमा दृष्ट्वा न-
यनं स्वयमेव दह्यते, शीतलजलसंपर्कात्संतप्तघृतमिव । अथवा युक्तोऽयमर्थः, यदा भाजने नौरं ज्वलितं तदा तस्मिन्नन्नादिक-
मपि स्वयमेव दह्यते एवं । पुनः तेषामाननं मुखं भस्मीभवति भस्मावशेषमिव । इदमपि युक्तं यदा सर्व दग्धं तदा भस्मोडी-
नतो भस्मलितं सर्वं भवति । कीदृशानां कुधियां ? आप्तलुप्तात्मनां जिनजिनप्रतिमासु लुप्तो भ्रष्टः खंडित आत्मा येषां ते
तेषां । अन्वहं निरन्तरं । अस्माकं तु सान्द्रानन्दसुधानिमज्जनसुखं व्यक्तीभवति सान्द्रो घनश्चासौ आनन्द स एव सुधाऽ-
मृतं तत्र मज्जनसुखं प्रकटीभवति । कीदृशानां (किं कुवतां)अस्माकं.? रागात् अन्तरङ्गीतितः इमां पश्यतां सतां । पुनः कीद-
शानां ? अनि० अनिमेपे निमेषरहिते बिस्मिते दृशौ येषां ते तेषामिति ॥१२॥
मन्दारगुमचारुपुष्पनिकरैर्वृन्दारकैरर्चितां, सवृन्दाभिनतस्य निर्वृतिलताकन्दायमानस्य ते ।
निस्यन्दात् स्नपनामृतस्य जगती पान्तीममन्दामयावस्कन्दाप्रतिमां जिनेन्द्र!परमानन्दाय वन्दामहे१०३
व्याख्या-हे जिनेन्द्र ! वयं ते तव प्रतिमां परमानन्दाय वन्दामहे । कीदृशस्य तव स० सतापुत्तमपुरुषाणां वृन्दैभि-
नतस्य । पुनः कीदृशस्य तव ? निवृ० नितिलतायाः मुक्तिलतायाः कन्दीयमानस्य । कीदृशी प्रतिमा ? वृन्दारकैदेवैराचतां
पूजितां । कैः ? मन्दारद्रुमाः देववृक्षारतेषां चारुपुष्पाणां निकरैः समूहैः कृत्वा । पुनः कीदृशी प्रतिमां ? पान्ती, रसन्नी ।
कां प्रति ? जगती, आधारे आधेयोपचार त् तत्र निवासभन्यजनान् , "पा रक्षणे" शतप्रत्ययः । करमात् रूपनामृतस्य
प्रभुनावजलपीयूषस्य निस्पंदा झरणातः झरणेन कृत्वा । कीदृशात् निस्यन्दात् ? अम० अमन्दा उत्कटा ये भामया रोगास्नपा
॥४४॥
अवस्कन्दः शोप यस्मात् स तस्मात् ॥ १०३॥ अथ प्रशस्तिमाद। तपगणमुनिरुद्यत्कीर्तितेजोनृतां श्रीनय विजयगुरूणां पादपद्मोपजीवो। शतक मिदमकार्षीद्वीतरागैकभक्तिप्रथितशुचियशःश्रीरुल्लसद्वयक्तयुक्ति ॥ १०४ ॥ व्याख्या-तपगणमुनिः तपागच्छसाधुः इदं शतकमकार्षीत् मन्यते शास्त्रतत्त्वमिनि सार्थकं मुनिनाम । कीदृशस्तपगण- मुनिः ? वीत वीतरागेषु मिनेन्द्रेषु या एकाद्वितीया भक्तिस्तया प्रथिता शुचियशःश्रीः येन स इति । अनेन विशेषणेन क- विना यशोविजय इति स्वनाम सूचितं । कीदृशं शतकं ? लमन्त्यो व्यक्ताः प्रकटा युक्तयः यस्मित्तत् । अथवा क्रियाविशे. पणमिति । पुनः कीदृशः ? श्रीनयविजयगुरूणां पादपोपजीवी चरणकमलसेवी । कीदृशानां श्रीन ? उद्यत् ० उद्यती उ. कटे कीर्तितेजसी विभ्रतीति तेषामिति ॥ १०४॥ HereST OPERA ॥अथ प्रशस्तिः॥ जयति सुरनतः श्रीवर्धमानो जिनेन्द्रो, दददभिमतमत्र प्राणिनां कल्पकल्पः । जगनि जनितसौख्यं शासन वत्तेते सदिमल- मिह यदीयं गाढमिथ्यात्वभेदि ॥ १॥ तत्पट्टाम्बुजभास्करो गणधरः स्वामी सुधमोऽभवनस्मात्सूरिवराः क्रमात्समभयथारेन- प्रतिमाश सटीका ॥१५॥ भाजो युधाः । श्रीचन्द्रमभनामसूरिरभवच्छ्रीपूर्णिमागच्छराद, तशे विदितोऽय, सूरिरिह यो विद्यामभो वादिजित् ॥ २॥ तदनु वाग्विजितागरसूरयः, समभवन् ललितमभसूरयः । अजनि सूरिवरो विनयभः, प्रवरतत्पदभूषणसन्निभः ॥ ३॥ मवि- लसन्महिमण्डलकीर्तयश्वरणशुद्धिविराजितमूर्तयः । सुगुरवो महिमाप्रभसूरयः, शुभतदीयपदे गुणभूरयः ॥ ४॥ तदीयपादा- म्युजचञ्चरीकस्तदीयया सत्कृपया सुखादयः । ख्यातोऽस्ति भावप्रभनाममूरिः, सतीर्थ्य शिष्यादिगणैः समेतः ॥५॥ श्री- श्रीमालिमुवी रवंशकमले श्रीराजहंसोपमो, रामाकुक्षिसमुद्भवो जयततीदेहाङ्गजो दीप्तिमान् । जातो. योऽखिलसाधुकारतिलकः श्रीतेजसी श्रेष्ठिराद्, तेन श्राद्धवरेण यत्पदमहो द्रव्यव्ययैर्निर्मितः ॥६॥ सूरिभावप्रमेणास्यां तेनानाभोगतो मया। वृत्तौ पृथक्तायां यत्तच्छोध्यं विबुधैरसत् ॥७॥ व्यङ्काश्वभूमिति (१७९३ )वर्षे माघशुक्लाष्टमीतिथौ । वारे देवगुरौ जाता पूर्णेयं दृत्तिरुत्तमा॥८॥ ॥ इति श्रीमत्पूर्णिमागच्छीयमद्वारकश्रीभावप्रभसूरिसमुध्धृता प्रतिमाशतकलघुवृत्तिरिय शिष्यज्योतीरत्नस्य हेतवे संपूर्णा ॥ समाप्तमिदं लघुवृत्तिसमेतं प्रतिमाशतकम्। 'सामन्या an.
No text on this page.