Central Archaeological Library_ Asi_ New Delhi
The Kashmir Series Of Texts And Studies J And K Srinagar State Vol I
Front matter
OF THE DIRECTOR GENERAL OF ARCHÆDI
THE KASHMIR SERIES
OF
TEXTS AND STUDIES.
Library Reg No
LOGY
INDIA
OF
SESEIMHL VIS
PRIMED THE
Vol 26
Kashmir Series of Texts and Studies.
No. XXMI
THE
ĪSHVARA-PRATYABHIJNĀ VIMARSHINĪ
UTPALADEVA
With Commentary by Abhinava-Gupta.
Edited with notes by
MAHĀMAHOPADHYAYA
PANDIT MUKUND RĀM SHASTRĪ,
Officer-in-Charge Research Department,
JAMMU AND KASHMIR STATE
SRINAGAR.
Published under the Authority of the Government
His Highness Lieut.-General Mahārāja
Sir PRATĀP SINGH SĀHIB BAHADUR,
G. C. S. I., G. C. I. E., K. G. C. B. E., LL.D.,
MAHĀRĀJA OF JAMMU AND KASHMIR STATE.
Volume I.
DIABOMBA VERAL
THE NIRNAYA-SAGAR
1918
pe
D 2838
Sa2 Hs
utp/mak
KIRIT
ORNTRA:
AVOLICA
LIBRI SEW DELHI.
Aoc.
Date.
2.4.-
4.5...........
Oall No... Sa.H.S.
9.............
Dem96.
RASU
upt Muh
(All rights reserved ).
Printed by Ramchandra Yesu Shedge, at the 'Nirnaya-sagar' Press,
23, Kolbhat Lane, Bombay.
Published by Mahamahopadhyaya Pandit
Mukund Ram Shastri for the Research Department,
Jammu and Kashmir State, SRINAGAR.
MORE
TE
DIRECTOR
GENERAL
OF
ARCMAS
काश्मीर-संस्कृतग्रन्थावलिः ।
ग्रन्थाङ्क: २२
ईश्वरप्रत्यभिज्ञा।
श्रीमन्महामाहेश्वराचार्यवर्य-उत्पलदेवपादविरचिता।
श्रीमन्महामाहेश्वराचार्यवर्य-श्रीमदभिनवगुप्तकृतविमर्शिन्या-
ख्यटीकोपेता।
श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज-श्रीप्रतापसिंहवरप्रतिष्ठापिते
प्रत्नविद्याप्रकाश-(रिसर्च)कार्यालये
तदध्यक्ष-महामहोपाध्याय-पण्डित-मुकुन्दराम-शास्त्रिणा
उद्दिष्टकार्यालयस्थेतरपण्डितसहायेन
संगृह्य, संशोधन-पर्यायाङ्कन-विवरणादिसंस्करणोत्तर
पाश्चात्यविद्वत्परिषत्संमताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्कारैः परिष्कृत्य
मुम्बय्यां
निर्णयसागराख्यमुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतः
(प्रथमो भागः।)
म
vagmy Reg No
INDIA
संवत् १९७५
खैस्ताब्दः १९१६
काश्मीर-श्रीनगर।
(अस्य ग्रन्थस्य सर्वे प्रकाशन - मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्यैः
खायत्तीकृताः सन्ति)
श्रीमच्छ्रीकण्ठनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गो
लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः ।
कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रञ्जयन्सर्वदेश्यान-
देशेऽप्यसिन्नदृष्टो घुसृणविसरवत्स्तान्मुदे सजनानाम्॥१॥
तरत तरसा संसाराब्धि विधत्त परे पदे
पदमविचलं नित्यालोकप्रमोदसुनिर्भरे।
विमृशत शिवादिष्टाद्वैतावबोधसुधारसं
प्रसभविलसत्सद्युक्त्यान्तःसमुत्प्लवदायिनम् ॥२॥
No text on this page.
PREFACE. The Kashmir Durbar as also those interested in the Philosophy of the sacred soil of Kashyapa are to be complimented on the appearance in public, for the first time, of Volume I of the Ishvara Pratyabhijñâ by Utpala Deva, together with the commentary of Abhinava Gupta, containing, as the text does, much of the best Indian thought in support of the rationalistic basis of the Advaita Shaivaism of Kashmir. Since it fell from the lips of Utpala, the famous pupil of Somânanda who is traditionally believed to be the founder of Pratyabhijiâ Shâstra or Philosophy proper of the Trika', how many clouds of mystery has it cleared away, how many troubled hearts has it tranquillised, and how many seekers after truth have found the way, across the ocean of miseries, to the home of eternal bliss by the recognition of the true self ! II. The MSS., on which this edition of the Ishvara Pratyabhijñâ Vimarshini, Volume I, has mainly been based, are the following :- ()—Belonging to Pandit Govardhana of this Department. It contains 23 leaves of old Kashmiri paper. Of this a copy was made in this office. (T)-Belonging to M. M. Pandit Mukund Râm Shâstrî, late of this Department. (57)—Belonging to Maheshvara Râjânaka, also of this Department. It is about 150 years old and consists of 175 leaves of very old Kashmiri paper. ()-Belonging to the Library of this Department. It contains 390 leaves of Kashmiri paper. III. All these manuscripts are written in Shâradâ characters. They are generally correct and contain some marginal notes with a few variant readings here and there. Of these, the last three were intelligently made use of in collating the first therewith.
II PREFACE. The owners of these MSS., all of whom are con. nected with this Department in one way or the other, are specially to be thanked for their kindness in lending the MSS., as also for the satisfactory discharge of their respective duties. No less share of credit is due to other employees of this Department, who have helped in the publication of this book in the latter way only. IV. No doubt, the highly abstruse and deeply philosophical contents of this book urge on the necessity of an introduction being written out on it, in order to give the foretaste of the subject-matter and to acquaint the reader with the underlying ideas of the book. But partly, in view of the keen interest the sister works of the Ishvara Pratyabhijña have awakened in the educated public, and of the consequent demand for this book from all quarters in India and abroad and partly due to some more pressing duties devolving upon me, the writing of an introduction on the Ishvara Pratyabhijña Vimarshini, on the lines of modern scholarship and research, has perforce been postponed for the time being. This I intend to do as soon as see the work on its way to completion. Srinagar, Kashmir. 1 MADHUSUDAN KAUL, The 28th March 1919. $ SHASTRI, M.A., M.O.L., Superintendent, Research Department, Jammu and Kashmir State.
ओं नमः संविद्वपुषे शिवाय । ईश्वरप्रत्यभिज्ञा। महामाहेश्वराचार्यवर्यश्रीमदुत्पलदेवाचार्यविरचिता । श्रीमदभिनवगुप्ताचार्यवर्यविरचित- विमर्शिन्याख्यव्याख्योपेता। निराशंसात्पूर्णादहमिति पुरा भासयति यद्- द्विशाखामाशास्ते तदनु च विभक्तुं निजकलाम् । स्वरूपादुन्मेषप्रसरणनिमेषस्थितिजुषस्- तदद्वैतं वन्दे परमशिवशक्त्यात्म निखिलम् ॥ १॥ (१) अनायमाशयः । इह खलु चिन्मानस्वभावः परमशिव एव पूर्णत्वात् निराशंसो निराकाङ्क्षोऽपि स्त्रस्वातन्त्र्यमाहात्म्यात् बहिरुल्लि- लसिषया परानन्दचमत्कारतारतम्येन पुरा प्रथमम् अहमिति-परामर्श- तया शक्तिदशामधिशयानः प्रस्फुरेत् प्रस्फुरति इति संभाव्यते । अनन्तरं च अहम्, इदम्-इति परामर्शरूपशाखाद्वयमवभासयेत् । तत्र च शुद्धचिन्मात्राधिकरण एव अहमित्यंशे यदा परमेश्वर इदमंशमुल्ला- सयति, तदा तस्य प्रोन्मीलितमानचित्रकल्पभावराशिविषयत्वेनास्फु- टत्वात् इच्छाप्रधानं सदाशिवतत्त्वम्, अहमिदम्-इति भावराशौ पुनः स्फुटीभूते तदधिकरण एव इदमंशे यदा अहमंशं निषिञ्चति अभि- पं० १ ग० पु. निराभासादिति पाठः। पं० २ घ० पु० विभक्तुमिति, विभागेन भासयितुमिति पर्यायोपेतः पाठः।
२ ईश्वरप्रत्यभिज्ञा । [१अ०१० श्रीत्रयम्बकसवंशमध्यमुक्तामयस्थितेः। श्रीसोमानन्दनाथस्य विज्ञानप्रतिबिम्बकम्॥२॥ , , निविशते, तदा ज्ञानशक्तिप्रधानमीश्वरतत्त्वम् इदमहमिति, अत एव च अहं विमर्शस्य अविशेषेऽपि अन इदमंशस्य अस्फुटत्व-स्फुटत्वाभ्याम् अयं विशेषः । यदा पुनः प्ररूढभेदभावराशिगतेदमंशस्फुरणे चिन्मात्रगतत्वेन अहमंशः समुल्लसति, तदा द्वैतवादिनामिव ईश्वरस्य यः समवृततुलापुट- न्यायेन अहमिति परामर्शः तत् क्रियाशक्तिप्रधानं विद्यातत्त्वमिति वि- भागः । यद्यपि परमशिवस्यैव इदमेकघनमैश्वर्य तथापि तस्य यथा बहिरौन्मुख्येन व्यापारः शक्तितत्त्वम् । तथा सदाशिवेश्वरयोरपि विद्यातत्वम् । इत्येवं-प्रकारेण निराशंसतया अहन्तेदन्ताप्रतिभास- विरहेऽपि विसर्गशत्योन्मुख्येन उन्मेषनिमेषात्मानौ प्रसरस्थिती जुषतः अवस्थातारतम्योगासनेन चमत्कुर्वतः, तत्र उन्मेषेण स्वान्तर्गत- शक्तिभागस्य शिवभागात् पृथग्भासनेन प्रसरणं शिवादिक्षित्य- न्ततत्त्वभावेन संचारः, निभेषेण पुनः शक्तिभागस्य स्वान्तःसंयोजनेन अवस्थितिः। एवं भूतात् चिदानन्दमयात् स्वरूपात अव्यतिरिक्ततया पूर्णाहन्तोद्भावनपूर्वमवभास्यां निजकलां स्वस्वातन्त्र्यशक्तिं विभक्तुं विच्छित्या भासयितुं यत् शक्तिसामरस्य यामलस्वरूपं सदाशिवेश्वरादि- तत्वदशामाशास्ते अर्थात् स्वस्वातन्त्र्यमहिनैव उपादानादिसामग्रीनिरपेक्ष प्रकाशमानसारतया स्वस्मादविभिन्नमपि भिन्नमिव दर्पणनगरवत् विश्व- वैचित्र्यचिन्नमुन्मीलयति, तत् द्विधा इतं द्वीतं तदेव द्वैतं तदभाववत् अद्वैतम्,वस्तुतः अहन्तेदन्तादिज्ञानरहितम् । अथवा द्वाभ्यामितं द्वीतं तत्र भवं द्वैतं संशयविपर्ययादिज्ञानं तद्वर्जितं, निखिलं विश्वनिर्भरतया परिपूर्ण देहादिपरिमितप्रमातृभावकलकातकन्यक्करणपूर्वं वन्दे समाविशामि इति। (२) शैवागमरहस्यं हि पुरा मुनीनां मुखेष्वेव अनुग्रहाधर्थक्रिया- कारि अभूत् । तदेव बहुकालं दृढाव्याभिचरितसपर्याप्रसादितेभ्यो मुनि- वरेभ्यः सत्तीर्थान्तरहृदयेषु । उपसंक्रान्तखशाकवीय सच्छिष्यमशिष्य. प्रचयप्रवृत्ति, कलिकालुष्यात् मुनिषु तेषु कलापिग्रामप्रमुखदुर्गमपार्वत- स्थलीरूपयातेषु सत्सु व्युदच्छिद्यत । तदनन्तरं कदाचित् कैलासाद्रौ लोकानुजिघृक्षया अवतीय पर्यटन् श्रीकण्ठमूर्तिः शिवः दुर्वाससं मुनि १का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। अनुत्तरानन्यसाक्षिपुमर्थोपायमभ्यधात् । ईश्वरप्रत्यभिज्ञाख्यं यः शास्त्रं यत्सुनिर्मलम् ॥३॥ तत्प्रशिष्यः करोम्येतां तत्सूत्रविवृति लघुम् । बुद्धवाभिनवगुप्तोऽहं श्रीमल्लक्ष्मणगुप्ततः॥४॥ वृत्त्या तात्पर्य टीकया तद्विचारः सूत्रेष्वेतेषु ग्रन्थकारेण दृब्धम् । तस्मात्सूत्रार्थ मन्दबुद्धीन्प्रतीत्थं सम्यग्व्याख्यास्से प्रत्यभिज्ञाविविक्तयै ॥५॥ शैवागमरहस्यं लोके पुनः प्रचारयितुमन्वशात् । तदादेशात् स मुनिः निखिलागमोपनिषत्सारभूतस्य षडर्धक्रमविज्ञानभूतशैवागमस्य व्युच्छिं- नीभूतस्य प्रचाराय त्र्यम्बकादित्याभिख्यं मानसं पुत्रं संजनयामास । तस्य त्र्यम्बकादित्यस्य सद्वंशः सदन्वय एव जातिवेणुः तन्मध्ये मुक्ता निरस्ता आमयस्थितिः भेदावभासनमयी स्थितिः, मुक्तारलमयी च स्थितिर्यस्य तथाभूतस्य श्रीसोमानन्दनाथस्य यत् विज्ञानं तदुपज्ञात्म शिवदृष्टिनामकं शास्त्रं, तस्य प्रतिबिम्बकं समानाभिधेयविषयप्रयो- जनम् । अनुत्तरानन्यसाक्षीति भेदवादिभिरभ्युपगतमोक्षाभासविलक्षणे खसंवित्साक्षिकम्, पुमर्थोपायं मोक्षोपायम्, ईश्वरप्रत्यभिज्ञाख्यं यत् सुनिर्मलं शासनं, य उत्पलदेवाचार्यः अभ्यधात्, तस्यैव शिष्यात् श्रीलक्ष्मणगुप्तात् उक्तशास्त्रं विज्ञाय, तत्प्रशिष्योऽहमभिनवगुप्तः तत्प्रोक्तेश्वरप्रत्यभिज्ञासूत्रवृत्ति लघ्वी करोमीति । ३ शास्त्रार्थस्य संवृतस्य आच्छादितस्येव शङ्ख्यमानपरमतपांसुराशि- प्रायावरणस्यापसारणेनापगतावरणत्वं विवरणं विवृतिः, तत्प्रतिपाद- कत्वात् ग्रन्थोऽपि स एव । सूत्रस्य स्वाभिधेये वर्तनं वृत्तिः, तत्प्रतिपाद- कत्वात् सूत्रार्थोद्भेदनो ग्रन्थोऽपि वृत्तिशब्देन निर्दिश्यते । टीक्यते अव- गम्यते हृदयभूमिसंचरणचातुर्ययोग्योऽर्थः क्रियते यया सा टीका । अत्र एक एव शास्त्रकारः श्रीमान् उत्पलाचार्यः, अभिनवगुप्तपरमेष्ठिगुरोः श्री- ४ ईश्वरप्रत्यभिज्ञा । [१अ०१आ० सर्वत्राल्पमतौ यद्वा कुत्रापि सुमहाधियि । नवान्यत्रापि तु खात्मन्येषा स्यादुपकारिणी॥६॥ ग्रन्थकारः अपरोक्षात्मनि दृष्टशक्तिकां प- रमेश्वरतन्मयतां परत्र संचिक्रमयिषुः, स्वता- . सोमानन्दस्य पादप्रसादापसारितहृदयसंकोचो विकस्वरस्वहृत्कमलपरि- मलपविनितदिगन्तः सूत्र-वृत्ति-टीका ईश्वरप्रत्यभिज्ञासिद्धये कृतवान् । तत्र सूत्र-(कारिका)कारभूमिकावस्थितः कथंचित् इत्यादिना महेश्वरं प्रति प्रत स्वात्मानं परामृशन्, तद्वाक्यपठनपुरःसरीभावेन वृत्तेरवश्यंभा- वितां पश्यन् पुनर्वृत्तिकारपदावस्थितः, प्रवृत्त्यन्तरेण (टीकया) च परमेश्वरप्रहतां स्वात्मनि सततवाहिनीमपि परामृशन् सूत्रकार एव एतद्भूमिकापन्नो वर्तते इति दयते । ४ सर्वसामान्यजने मन्दमतौ संशयविपर्ययाद्यज्ञत्वनिरासनेन प्रबुद्धे खभ्यस्तत्वदृढनिश्चयतादिविधानात् स्वात्मन्यपि एतद्वारेणैव समावेशवैव- श्यापादनात् उपकृतिरनिर्गलप्रसरा अवश्यंभाविनी अत्र प्रसिद्धा । ५ शक्तिपदेनात्र संदर्यमाणेश्वरप्रत्यभिज्ञानन्थे स्वातच्यवादोन्मी- लनमभिव्यज्यते । येन विवर्तपरिणामप्रभृतिपक्षान्तराणि प्रतिक्षितानि स्युः । तथाहि विव” नाम असत्यरूपनिर्भासात्मा इत्युक्तम्, निर्भासते च असत्यं च-इति कथम् ? इति न चिन्तितम् । परिणामे तु रूपान्तरं तिरोभवति रूपान्तरं च प्रादुर्भवति इत्युक्तम् । प्रकाशस्य तु रूपान्तरा- भावात् तत्तिरोधाने आन्ध्यं स्यात् अप्रकाशश्च प्रादुर्भवन् नैव प्रकाशेत इत्युभयथापि सुप्तं जगत् स्यात्-इति न पर्यालोचितम् । प्रतिबिम्ब- वादे च स्वच्छतामात्रं संवेदनस्य, न स्वातन्त्र्यम्-इति तत्समर्पकवस्व- न्तरपर्यषणा कर्तव्या । अविद्या च अनिर्वाच्या वैचित्र्यं च आधत्ते इति च्याहतम् । पारमेश्वरी शक्तिरेव इयम् इति हृदयावर्जकः क्रमः । तसात् अनपह्नवनीयः प्रकाशविमर्शात्मा संवित्स्वभावः परमशिवो भगवान् पं० ३ ख. ग० घ० पु० अपरोक्षात्मदृष्टेति समस्तः पाठः । पं. ४ घ० पु. संचिक्रामयिषुरिति पाठः ।
१का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। दात्म्यसमर्पणपूर्वम् अविघ्नेन तत्सम्पत्तिं मन्य- मानः, परमेश्वरोत्कर्षप्रतापरामर्शशेषतया प- रमेश्वरतादात्म्ययोग्यतापादनबुद्ध्या प्रयोजनम् आसूत्रयति कथंचिदासाद्य महेश्वरस्य दास्यं जनस्याप्युपकारमिच्छन् । स्वातन्त्र्यादेव रुद्रादि-स्थावरान्तप्रमातृरूपतया नीलसुखादिप्रमेयरूप- तया च अनतिरिक्तयापि अतिरिक्तया इव स्वरूपानाच्छादिकया संविद्रूप- नान्तरीयकस्वातन्त्र्यमहिन्ना प्रकाशते इति स्वातन्त्र्यवादः प्रोन्मीलितः । ६ विघ्नन्ति विलुम्पन्ति कर्तव्यम् इति विघ्नाः, आध्यात्मिकादयोऽन- वधानदोषादयः त्रिविधोपघाताः, तदधिष्ठातारश्च देवताविशेषाः; ते च प्रक्षीणमोहस्यापि मायासंस्काराविनिवृत्तशरीरप्राणप्रभृतिगतप्रमातृभा- वस्य प्रत्यगात्मनः प्रभवेयुरपि इच्छाविधाताय, विशेषतः समस्तलोकम- भ्युद्धर्तुं परिगृहीतोद्यमस्य । लोकगतधर्माधर्मपरिस्पन्दने तदधिष्ठात्रा च देवताशब्देन संसारपरिरक्षणपरिगृहीतक्षणेन अवश्यं विघ्नसङ्गसंघटना क्रियते । तदसौ विघ्नसंघातो यदि परं तादृशालौकिकोद्योगयोजकेन भगवतैव अनुग्रहात्मकचरमनिजकृत्यनिर्वाहकारिणा विहन्तुं शक्यते इति प्रत्यगात्मनि शरीरादौ तद्रूपतातिरस्कारेण अवनतिरूपेण प्रथमसमये परमेश्वरस्वरूपोत्कर्षणपरामर्शात्मा समावेशः स्वीकार्यः । तत्र हि सति विश्वमपि स्वात्मभूतमभिन्न स्वतन्त्रसंविन्मानपरमार्थं भवति-इति का कस्य कुन विघ्नः! अनन्तरं तु ग्रन्थकरणकाले यद्यपि प्रत्यगात्मप्राधान्यमे- वानुसंधेयम् अन्यथा वैखरीपर्यन्तप्रातिनिर्वाह्यशास्त्रविरचनानुपपत्तेः, त- थापि तत्समावेशसंस्कारमहौजसा जाज्वल्यमाननिजौजासमुज्झासितभेद- महतया न प्रभवन्ति विना इति । ७ प्रकर्षण अन्यतिरस्कारेण ह्वयति शब्दयति तादूप्यं परामृशति तद्गुणानुप्रवेशस्पर्धावान् इव इति प्रहः । सदीयते अस्सै स्वामिना सर्व यथाभिलषितमिति दासः, तस्य भावः ईश्वरप्रत्यभिज्ञा । [१अ०१आ० समस्तसंपत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि ॥१॥ इह परमेश्वरं प्रति या इयं कायवाङ्म- नसां तदेकविषयतानियोजनालक्षणा प्रता सा नमस्कारस्य अर्थः । सा च तथा कर्तुम् उचिता प्रामाणिकस्य भवति, यदि सर्वतो नमस्करणीयस्य उत्कर्ष पश्येत् । अन्यथा यु- क्तिम् अपरामृशतः अपरमार्थरूपेऽपि नमस्का- रोद्यतस्य सांसारिकपशुजनमध्यपातित्वमेव । यथोक्तम् 'न विन्दन्ति परं देवं विद्यारागेण रञ्जिताः।' , दास्य, महाफलं तद्दास्यमिति ईश्वरस्य उत्कर्षः, दासत्वादेव ईश्वरे लब्धे पुनः ईश्वरपदं माहेश्वर्यपर्यवसितम् । ९ प्रतीपमात्माभिमुख्येन ज्ञान प्रकाशः प्रत्यभिज्ञा । १० न च मायाधिकारिणि ब्रह्मविष्ण्वादौ उचितः समावेश इति परम- ग्रहणं कृतम् । ११ बौद्धसांख्यादीनां बुद्धिपुरुषतत्वादौ इव, मायाधिकारिणि ब्रह्म- विष्ण्वादौ वा। पं० ६ घ० पु० प्राणामिकस्य प्रणामकर्तुरिति पर्यायोपेतः, तदा भवति इति तदा-शब्दाधिकश्च पाठः । पुस्तकान्तरेषु प्रामाणिकस्य प्रेक्षापूर्वकारिणो युक्तिज्ञस्येति पर्याययुतो वर्तमानपाठ उपन्यस्तः । पं०११ घ. पु० न विदन्ति परं तत्त्वमिति पाठः।
७ १का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। इति । तावति हि मायीयाशुद्धविद्याराग- कलासंचार्यमाणस्य पशुत्वमेव । इतरापेक्षया तु कतिपयाध्वोत्तीर्णतया समुत्कर्षोऽपि स्यात् । तदुक्तम् 'कस्य नाम करणैर कृत्रिमैः पश्यतस्तव विभूतिमक्षताम् । विभ्रमादवरतोऽपि जायते त्वां व्युदय वरद स्तुतिस्पृहा । इति श्रीमद्विद्यापतिना । एतच्च आगम- काण्डे निरूपयिष्यामः । तस्मात् निखिलोत्क- र्षपरामर्शनमपि तत्र स्वीकार्यम् । यद्यपि आया- तहढेश्वरशक्तिपातस्य स्वयमेवेयमियती पर- मशिवभूमिरभ्येति हृदयगोचरम्, न तु अत्र खात्मीयः पुरुषकारः कोऽपि निर्वहति, सर्वस्य तस्य मायामयत्वेनान्धतमसप्रख्यस्यामायीयं शुद्धप्रकाशं खप्रतिद्वन्द्विनं प्रति उपायतानु- १२ यथा महत्तत्वाद्यात्माभिमानिनां बौद्धादीनामपेक्षया सांख्यादीनां समुत्कर्षस्तथा तेषामपि इत्याह इतरेति । १३ अकृत्रिमैमरीचिमयैः, अक्षतां सदोदिताम् , अवरतः अवरस्सिन् ब्रह्मादावित्यत्र सार्वविभक्तिकः तसिल। पं० ४ ख० पु० यदुक्तमिति पाठः । पं० १४ घ• आत्मीयपुरुषकार इति विशिष्टः समस्तश्च पाठः ।
ईश्वरप्रत्यभिज्ञा । [१अ०१आ० पपत्तेः, तथापि तदेव तथाविधं रूपं प्रख्योपा- ख्याक्रमेण खात्मपरावभासविषयभावजिगमि- षया निःशेषोत्कर्षविशेषाभिधायि-जयत्यादिश- ब्दानुवेधेन परामर्शनीयम्, इति नमस्कारे ज- यत्यर्थ आक्षेप्यः। जयपदोदीरणेऽपि तादृश- समुत्कर्षातिशयशालिनि खात्मानमप्रतीकुर्वा- णस्य तटस्थस्य परमनात्मोपकारित्वम्-इति समुत्कर्षविशेषाक्षिप्त एव नमस्कारोऽवश्य- मभ्यन्तरीकार्यः, इत्यनया युक्त्या जय-न- मस्कारैकतरप्रक्रमे अन्यतरस्य अर्थाक्षिप्तता अवश्यमङ्गीकर्तव्या । वन्दन-नमन-स्मरण- प्रध्यानप्रभृतीनामपि मात्रपरमार्थत्वात् इयमेव वर्तनी । अत्रायं नमस्कार-जयत्यर्थ- १४ स्वप्रतिपत्तिः प्रख्या, परप्रतिबोधनमुपाख्या; तत्र प्रख्यया स्वा- स्मावभासविषयीभावः, अन्तःस्फुरितं हि स्वात्मनैव विषयीकर्तुं शक्यते । उपाख्यया तु परावभासनविषयीभावः, स्फुटमुच्चारितस्य शब्दस्यार्थो हि परेणापि ज्ञानविषयीक्रियते इत्येवं क्रमेण निखिलोत्कर्ष परमशिवरूपं निराभासमपि स्वातच्यामुक्तम्-(१-५-१६)इति भाविनीत्या स्वपराव- भास्यताप्राप्त्यर्थं समावेशोपदेशादौ परामर्शनीयम् । १५ प्रह्वता च उत्कर्षणं च तथा प्रकाशपरामर्शनरूपं मानसे संवेदने तत्साररूपे च वाक्तत्त्वे विश्रान्तम् । पं० ३ ख० पु० समुत्कर्षातिशायिनि इति पाठः।
१का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । पुनम्रन्थकृता तादृक् प्रक्रम आश्रितः, यत्र द्वयमपि इदं खशब्दपरामृष्टमेव । एतच्च प- दार्थव्याख्यानावसर एव प्रकटीभविष्यति । खशब्दपरामर्शश्च सर्वजनहितत्वायुक्तियु- क्तः, स हि सर्वस्यैव झटिति हृदयंगमः, अर्थाक्षिप्तस्तु कतिचिदेव प्रति स्वप्रतिभोदि- तवाक्तत्त्वावमासंभवात्, वाक्तत्त्वावमर्शशू- न्यस्य च प्रकाशस्याप्रकाशकल्पत्वात् । एतच्च अंग्रे स्फुटीभविष्यति । तदनेन अभिप्रायेण प्र- सिद्धजय-नमःप्रभृतिशब्दशय्यानाश्लेषेण इमां सरणिम् अनुसरति स्म ग्रन्थकारः। इंह यद्यत्किंचित् स्फुरति तत्तद्वक्ष्यमाणे- श्वररूपखात्मप्रथामात्र, तत्र तु उपायोपेय- भावप्रभृतिः कार्यकारणभावोऽपि यथाप्रकाशं १६ नमनोत्कर्षरूपम् । १७ स्वभावमवमासस्य (१-५-११) इत्यत्र । १८ इदानीं कथंचित् इति सौत्रमंशं परामृशन् तदर्थसमर्थनाय द्विविध कार्यकारणभावं विवृणोति इहेत्यादिना । पं० ५१० पु० सर्वस्य झटिति इति पाठः । पं०१२क० पु० किंचित् स्फुरति वक्ष्यमाणेति तत्तदिति वाक्यहीनः, ग. घ० पु० किंचन इति च पाठः ।
'प्रकाशश्वैष भावानाम् ............ ................ १० ईश्वरप्रत्यभिज्ञा । [१अ०१आ० परमार्थभूत एव,प्रकाशस्य अनपह्नवनीयत्वात् । यदाह भदिवाकरवत्सो विवेकालने " इत्यादि ..........न शापोक्त्या विलीयते ।' इत्यन्तम् । तत्र तु कार्यकारणभावेऽपि क्वचित् परिपूर्णखातत्र्यलक्षणमाहेश्वर्यनान्तरी- यकताक्रोडीकृतानन्तशक्तिचक्रचुम्बितभावभा- वितप्रथान्तरव्यवधानं चकास्ति; स तु मायी- यत्वेन व्यवस्थापयिष्यते, जडचेतनाद्यवान्तर- भेदशतसंभिन्नश्च असौ, तत्कृतश्च सर्वोऽयं निष्पाद्य-निष्पादकभावज्ञाप्य-ज्ञापकभावावभा- सो लोकव्यवहाररूपः । यत्र तु शुद्धप्रथा- ३९ न अन्तरं नान्तरम् अचिनाभावः, तत्र भवं नान्तरीयं तदेव नान्तरीयकं तस्य भावो नान्तरीयकता व्याप्तिः, तया क्रोडीकृतेति । २० भावः बीजादिभिः भावितं प्रकटीकृतं यत् प्रथान्तरं शुद्धप्रका- शव्यतिरेकेण भासमानमङ्कुरादि तेन व्यवधानं स्वात्मास्फुरणं चकास्ति अन्यथा सर्वत्र प्रकाशपरमार्थत्वे अस्य इदं कारणं कार्य वा इति विभागो न युज्येत इत्यर्थः । पं० १ ख० पु. प्रकाशमानस्य इति पाठः । पं० २ ग० पु० यदाह स्म इति पाठः । पं०३ क० ग० प्रकाशश्चैव इति पाठः। पं०१३ख० पु० शुद्धखप्रथात्मेति पाठः । , १का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। मकानुत्तरशक्तिशालिनिरर्गलखात्मप्रकाश एव मायीयप्रथान्तरव्यवधानवन्ध्यो निबन्धनं, तत्र तस्यैव भगवतः कारणत्वम् । एष च अनुग्रह- लक्षणोऽन्त्यः पञ्चमः पारमेश्वरः कृत्यविशेषः परपुरुषार्थप्रापकः, तन्निबन्धनत्वात् परमार्थमो- क्षस्य । अन्यत्रत्यो हि अपवर्गः कुतश्चित् मुक्तिः, न सर्वत इति निःश्रेयसाभास इति वक्ष्यामः । स चौयं द्वितीयः कार्यकारणभावो लौकि- २१ सृष्टि-स्थिति-संहार-पिधानानुग्रहलक्षणानि पञ्चकृत्यानि । तत्र पिधानं नाम संस्कारमात्रतया स्थितस्यापि विलीनीकरणम् , अनुग्रहः स्वात्मतादात्म्यतयावस्थापनमिति । २२ बौद्धाद्यागमप्रसिद्धो बुद्धितत्त्वादाववस्थित्यात्मापवर्गो मोक्षाभास एव सर्वतो बन्धस्याविगलनात् । तदुक्तम् 'बुद्धितत्त्वे स्थिता बौद्धा गुणेष्वेवाहताः स्थिताः । स्थिता वेदविदः पुंसि ह्यन्यक्ते पाञ्चरात्रकाः ॥' इति । 'सांख्यवेदादिसंसिद्धाश्रीकण्ठस्तदहर्मुखे । सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी ॥' इति च। २३ अस्यैव कार्यकारणभावस्य कथंचिदिति-शब्दप्रवृत्तिनिमित्तत्वं परामृशति स च अयमिति । मायीयो हि कार्यकारणभावः स्वमगतकु- लालघटन्यायेन स्वातच्यसारतया भासनरूपसंविनिष्ठपारमार्थिककर्तृत्वा- स्मककार्यकारणभावभित्तिविश्रान्तो मायामये लोके हृदयङ्गमत्वात् प्रसिद्धः स तु यन्त्र नोपपद्यते तत्र स पारमार्थिक एव इति ।
१२ ईश्वरप्रत्यभिज्ञा । [१अ०१आ० कान्वयव्यतिरेकसिद्धप्रसिद्धकार्यकारणभाव- विलक्षणत्वात् स्फुटेन रूपेणासंचेत्यमानः का- दाचित्कवस्तुसद्भावावभासोनीयमानपरमार्थः अतिदुर्घटेकारित्वलक्षणैश्वर्यविजृम्भाभाविता- द्भुतभावः प्रथमकोटिसंभावनाशून्यः कालि- काकारखप्रकाशावरणनिराकरणमनोरथशतदु- प्राप इत्येवं प्रकारः थमा द्योतकनिपातसहि- तेन निरूपितः कथंचिदिति केनचिच्च प्रकारेण परमेश्वराभिन्नगुरुचरणसमाराधनेन परमेश्वर- घटितेनैव । यथोक्तम् 'सबैन्धोऽतीव दुर्घटः.......। इति । 'औसायेति'आ समन्तात् परिपूर्ण- २४ अतिदुर्घटकारित्वं विश्वस्य स्वरूपात भिन्नतया अवमासनं, भासि- तस्य च पुनः स्वरूपैक्येनावभासनविमर्शनम् । २५ सद्गुरुसमवाप्तिः शिष्यस्य शक्तिपातं विना न घटते इत्यर्थः । २६ यद्यपि पूर्वकाले धात्वर्थे वर्तमानात् धातोः भावे क्त्वाप्रत्ययो विधीयते तथापि धातुसंबन्धबलात् तद्वाक्यार्थानुप्राणकत्वेन क्त्वान्तार्थः पं० १ ख० पु० व्यतिरेकासिद्धः प्रसिद्धति पाठः । ४ ग. घ० पु. ऐश्वर्यजृम्भा इति पाठः । पं० ७ १० पु. कथमा इति पाठः । पं० ८ क. पु. केनचित्प्रकारेण इति पाठः ।
१का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। १३ रूपतया सादयित्वा, खात्मोपभोगयोग्यता निरर्गलां गमयित्वा; इयता विदितवेद्यत्वेन परार्थे शास्त्रकरणे अधिकारो दर्शितः; अन्यथा प्रतारकतामात्रमेव स्यात् । पौर्वकाल्येन साम- नन्तर्यम् अत्र विवक्षितम् । अन्यथा तु आसादनतारतम्यप्राप्तौ मायीयमलकलापसं- स्कारप्रक्षये कथं परोपदेशः शक्यक्रियः। सभव- न्ति हि मायागर्भाधिकारिणो विष्णुविरिंचाद्याः, , , प्रतीयते । पूर्वमासवं पिबति ततो गायति इति हि वाक्ये यादृशं क्रिययोः पौर्वापर्यमानं प्रतीयते न तादृशमेव आसवं पीत्वा गायति इति अपि तु तदासवपानमुपकारकत्वेन प्रधानवाक्यानुप्राणकत्वेन अनुयायि इव भाति, केवलं पूर्वोत्पन्नतामात्रं पौर्वकाल्ये, न तु उत्पधैव निरन्वयः प्रवि- लय इति, एवं जातं चेत् परमेश्वरदास्यासादनं, तत् सुजनेन न विलम्ब कर्तव्यः, विलम्बे मायासंस्कारतिरस्कारेण अशङ्कितोपनतपरमेश्वरतादा- त्म्यापवर्गसंभावनया परोपकारसंपत्तेरभावात्, अनासादिततत्स्वरूपस्य तु शास्त्रकरणे प्रतारकत्वात् अवश्यमासादनसामनन्तर्येणैव परोपकारकरण- मुचितं न तु विलम्बनीयम् । तेन परमेशगुरुप्रसादोचितं शुद्धाशुद्धा- धिकारिसदाशिवरुद्रविष्णुविरिञ्चाधुत्तीर्णपरमेश्वरदास्यासादनं लाभपूर्वकस्य' परोपकारैषणानिमित्तकस्य सर्वसंपदवाप्तिप्रयोजनोपायस्य ईश्वरप्रत्यभिज्ञोपपादनस्य प्रत्यंशं निर्वाहकत्वेन वर्तते इति आसाद्येति एकवाक्यताप्रयोगेन उक्तम् । २७ तारतम्यम् इति शब्दः क्रमातिशये रूढः । २८ महेश्वरपदं विवृणोति संभवन्तीति सज्जनत्व- पं० ७ ग० पु. संस्काराप्रक्षये इति, घ० पु० शक्यप्राय इति च पाठः ।
१४ ईश्वरप्रत्यभिज्ञा। [१अ०१० तदुत्तीर्णा अपि महामायाधिकृताः शुद्धा- शुद्धा मन्त्र-तदीश-तन्महेशात्मानः, शुद्धा अपि श्रीसदाशिवप्रभृतयः। ते तु यदीयैश्वर्यविनुड़ि- रीश्वरीभूताः स भगवान् अनवच्छिन्नप्रकाशा- नन्दस्वातव्यपरमार्थो महेश्वरः, तस्य 'दास्यम्' इत्यनेन तत्प्रत्यभिज्ञोपपादनस्य महाफलत्वम् आसूत्रयति । दीयते अस्मै खामिना सर्व यथाभिलषितम् इति दासः, तस्य भाव इत्यनेन परमेश्वररूपस्वातच्यपात्रता उक्ता। 'जनस्येति' यः कश्चित् जायमानः तस्य, इत्यनेन अधिकारिविषयो नात्र कश्चिनियम इति दर्शयति, यस्य यस्य हि इदं खरूपप्रथनं तस्य तस्य महाफलं, प्रथनस्यैव परमार्थफ- लत्वात्, तस्य च प्रतिबन्धकसंमतैरप्रतिबन्ध- नीयत्वात् नहि प्रथितमप्रथितमिति न्यायात् । तदुक्तम्, २९ शुद्धविद्याया अधस्तात् मायायाश्च उपरि महामाया नाम तत्त्वम् इति संप्रदायविदः, यत्र सुप्ता अणवो मनव इत्युच्यन्ते । ३० प्रत्यभिज्ञातस्वस्वभावं परमेश्वरतादाम्यापन्नं जनं विहाय यः क- श्चित् अन्यो भूतभविष्यद्वर्तमानप्रमातृप्रबन्धरूपो जनः तस्य इति सामा- न्यनिर्देशात कोऽपि वर्णाश्रमादिनियमः अधिकारिविषयतां नापेक्षते । , १का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । १५ 'नेहौतिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ इति । परमगुरुपादैरपि शिवदृष्टौ 'एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः। ज्ञाते शिवत्वे सर्वस्थ प्रतिपत्त्या दृढात्मना ।। करणेन नास्ति कृत्यं कापि भावनयापि वा। सकृज्ज्ञाते सुवर्णे किं भावनाकरणादिना ॥ सर्वदा पितृमात्रादितुल्यदायन सत्यता।' इति । 'जनस्य' अनवरतजननमरणपीडितस्य इत्यनेन कृपास्पदतया उपकरणीयत्वमाह । अपिशब्दः खात्मनः तदभिन्नताम् आवि- कुर्वन् पूर्णत्वेन खात्मनि परार्थसंपत्त्यतिरि- ३१ अतिक्रमेण प्रमादात्मना अपराधेन इह आत्माद्वैतज्ञानयोगे नाशो नास्ति प्रमादस्य अभावात्, ईश्वरोद्देशेन स्वरूपविदो विनवैगुण्याद्य- संभवाच्च । यथा परिमितेन श्रीखण्डचन्दनेन जाज्वल्यमानोऽपि तैलकटाहा सद्यः शीतीभवति एवमनया स्वल्पयापि योगबुड्या महाभयं संसाररूपं विनश्यति इत्यर्थः ३२ यथा सुवर्णे ज्ञाते निकषपरीक्षादिना किं सत्यता भवति ? प्रथममेव निर्णीतत्वात् न भवत्येव, एवं सकृदेव स्वतो युक्तितः अपरमाद्वा गुर्वादेः सकाशात् अचलविमर्शन शिवत्वे ज्ञाते सति द्वादशान्तादौ भाव- नया आसनबन्धादिना च कर्तव्यं नास्ति सकृदाभातस्य विच्छेदाभावात् इत्यर्थः। पं० १ आधुनिकप्रसिद्धश्रीभगवद्गीतापुस्तकेषु 'नेहाभिकमनाश' इति पाठः ।
१६ ईश्वरप्रत्यभिज्ञा । [१अ०१आ० तप्रयोजनान्तरावकाशं पराकरोति । परार्थश्च प्रयोजनं भवत्येव तल्लक्षणयोगात्, नहि अयं दैवशापः खार्थ एव प्रयोजनं, न प- रार्थ इति; तस्यापि अतल्लक्षणयोगित्वे सति अप्रयोजनत्वात् संपाद्यत्वेन अभिसंहितं यत् मुख्यतया, तत एव क्रियासु प्रयोजकं तत्प्र- योजनम् । अत एव भेदवादेऽपि ईश्वरस्य स्पृष्ट्यादिकरणे परार्थ एव प्रयोजनम् इति दर्शयितुं न्यायनिर्माणवेर्धेसा निरूपितम्। 'यमर्थमधिकृत्य पुरुषः प्रवर्तते तत् प्रयोजनम्' ३३ इच्छारूपाया आकाङ्क्षाया गत्यन्तरविरहात् पर एव विषयो भवति न च परापकारविषया असौ युक्ता, तस्य अपूर्णस्वात्मकैः एषणीयत्वात्, अस्य तु ईश्वरदास्येन समस्तसंपत्यातिहेतुना परिपूर्णत्वात् स्वात्मनि किं. चिदपि कर्तव्यम् एषणीयं नास्ति । अप्रतिहता च चित्स्वभावत्वात् इच्छा, सा परार्थविषयैव बलात् संपद्यते । स्वसंपायनियन्त्रितो हि न पर- मुपचिकीर्षेत्, स्वसंपाद्याभावे तु बलादेव परोपकारविषया सा भवति । यथोक्तम् । 'वं कर्तव्यं किमपि कलयल्लोक एष प्रयत्नात् नो पारायें प्रति घटयते कांचन स्वात्मवृत्तिम् । यस्तु त्यक्ताखिलभवमलः प्राप्तसंपूर्णबोधः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमानम् ॥' इति । तेन आत्मनोऽशेषसंपन्निधानमहादेवदास्थलाभात् संपन्ने उपकारे परस्यापि तमिच्छन् इति । ३४ गोतममुनिना। ।
१का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । इति । ईच्छन्' इति इच्छाविषयीकृतस्य फलस्य प्रवृत्तौ हेतुत्वं शत्रा दर्शयति । इच्छाशक्तिश्व उत्तरोत्तरम् उच्छूनखभावतया क्रियाशक्तिप- यन्तीभवति-इति दर्शयिष्यामः । उपशब्दः समीपार्थः, तेन जनस्य परमेश्वरधर्मसमीपता- करणम् अत्र फलम्।तत एव आह-समस्त इति परमेश्वरतालाभे हि समस्ताः संपदः तन्निःष्य- न्दमय्यः संपन्ना एव, रोहणलाभे रत्नसंपद इव । पँमुषितखात्मपरमार्थस्य हि किम् अन्येने लब्धेन, लब्धतत्परमार्थस्यापि तदन्यत् नास्ति यद् वाञ्छनीयम् । यदुक्तं ग्रन्थकृतैव 'भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् । एनया वा दरिद्राणां किमन्यदुपयाचितम् ॥' इति । एवं षष्ठीसमासेन प्रयोजनमुक्तम्, ३५ इच्छन् इति 'लक्षणहेत्वोः क्रियायाः' (३-२-१२६) इति सूत्रेण क्रियाहेतावर्थे शतृङ्। ३६ क्रियाधिकारे। ३७ धर्माः पूर्णत्वसर्वज्ञत्वादयः । ३८ अख्यात्यात्ममायाशक्त्या। ३९ अणिमादिसिद्धिलाभेनापि । ४० समावेशसंपदा समृद्धानां प्राप्तव्यस्य प्राप्तत्वात् नास्ति अन्यत् उपयाचितव्यम्, उप इति आत्मनः समीपे, याचितं याजा इति । भक्तिसं. पदा रहितानां तु परमार्थस्य अनासादनात् किमन्येन असारप्रायेणेत्यर्थः । ३ १८ ईश्वरप्रत्यभिज्ञा । [१अ०१आ० बहुव्रीहिणा तु उपायः सूच्यते । 'समस्तस्य' भावाभावरूपस्य बाह्याभ्यन्तरस्य नीलसुखा- देः या 'संपत्' संपत्तिः सिद्धिः तथात्वप्रकाशः, तस्याः सम्यक् 'अवाप्तिः' विमर्शरूढिः, सैव 'हेतुः' यस्यां तत्प्रत्यभिज्ञायाम् , तथाहि-स्फु- टतरभासमाननीलसुखादिप्रमान्वेषणद्वारेणैव पारमार्थिकप्रमातृलाभ इह उपदिश्यते । य- दाह अन्यत्र 'ईदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता। या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ॥ इति । तथा तत्रैव ४१ एतेन प्रत्यभिज्ञाया विशेषणत्वमस्य पदस्य परामशति । ४२ 'तृणमिदम्' इत्यादेः विच्छिन्नविमर्शस्य विभिन्नप्रकाशाधीनसिद्धि- कस्य इदन्ताविमृश्यस्य या स्वस्वरूपे चिन्मये, न तु वेधे शरीरप्राणशू- न्यादौ कृतार्थता निराकासात्मा विश्रान्तिः स्वात्मसात्कारः सोऽयं विमर्शः यत् अहमिति । यद्वा 'तृणम्' इत्यादि यो विमर्शः स एव प्रकाशस्य स्वरूपं, प्रकाश एव प्रमाता, तृणगतौ यौ प्रकाशविमौं तावेव स्वरूप प्रमातुः, 'तृणमिदम्' इति यो विमर्शमयः प्रकाशः स यदि प्रमेयशरीरनिष्ठितः नितरां प्रमेयदेहे चेद्विश्रान्तः तर्हि ममेति प्रत्यवभासो नैव भवेत् , स्वात्मन्येव हि तदा तृणं स्फुरेत् । न चैवमस्ति ततस्तृणमिदमिति प्रका. शविमौं तौ तृणांशादुत्तीर्णौ संविदागमवलम्बेते । तयोश्च तत्रगयो। प्रकाशविमर्शनायोगे प्रकाशन विमर्शनापर्यवसाने वा पुनरपि न किंचिन- वेत, तेन तृणमिदमित्ययं विमर्शः स्वातन्ये विश्राम्यति यत्, तत् अहमित्यु- १का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। 'प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः। उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः॥ खातत्यमथ कर्तृत्वं मुख्यमीश्वरतापि च। इति । इयता च उपाये अतिदुर्घटत्वाशङ्का पराकृता । यदन्ते निरूपयिष्यति 'सुघट एष मार्गो नव:' (४ अ०३ आ०१६ श्लो०) इति । 'तस्य महेश्वरस्य 'प्रत्यभिज्ञा' प्रतीपमा- । च्यते । तदेतदुक्तम् 'इदमित्यस्य विच्छिन्नेति ।' एतदुक्तं भवति-संवेद- नमविमर्शरूपं तावत् न किंचित् । विमर्शमयतायां स्वातत्र्यं प्रमातृता स्वप्रकाशत्वमिति कथं संवेदनमात्रं, तदाधारमानं निर्विमर्शसंवित्पुरुषरूपं वा सिद्ध्येत् । यो हि अपर्यन्तप्रकाशविमर्शात्मा अहमिति वेद्यावभासभि- त्तिभूतः, तस्य वेद्यतारूपेदन्ताभावात् देशकालभेदाभावे स्वरूपभेदाभावे च एकत्वं, व्यापित्वं नित्यत्वं च न यत्नान्तरमवलम्बते । नीलसुखादिप्रमे- यव्यवहारः प्रकाशविमर्शात्मकसिद्धिनिबन्धनभूतप्रमानविनाभावी प्रमे- यव्यवहारत्वात्, यः किल प्रकाशविमर्शात्मकसिद्ध्यधीनो न भवति नासौ प्रमेयताव्यवहारः, बीजाङ्कुरादीनामिव कार्यकारणभावः । ४३ अहंभावो हि नाम प्रकाशस्य जीवितभूतः स्वरूपविमर्शः, यतोऽयं स्वस्य परस्य वा प्रकाशने नान्यत् अपेक्षते । इदन्ता तु स्वमवभासयितु- मसमर्था, का कथा परस्य । असावेव मुख्यधर्मों व्यापकत्वनित्यत्वादि- धर्मान्तरजातमाक्षिपेत् , विम्रष्टतयैव स्वपरात्मप्रकाशरूपतायां प्रतिष्ठास्प- दत्वेन अनन्योन्मुखात्मतृप्तिकृतादपेक्षाऽभावहेतोः विश्रान्त्यात्मा स्वरू- पस्थितिः, एतदेव स्वातघ्यरूपं तत्तद्देशकालाद्यवभाससहस्रोल्लाससामर्थ्य तत्तदीषणाधुपाधिवशात् नानाशक्तियोगितया कर्तृतादिशब्दैः व्यवहि- यते। अहंप्रकाशमयत्वमेतदुच्यते यत् प्रकाशतायां स्वातन्त्रयमनन्यमुखने- क्षित्वम् अन्यथा प्रकाशान्तराज्युपरमे अनवस्थानात् न किंचित् प्रकाशेत ।
२० , ईश्वरप्रत्यभिज्ञा। [१अ०१आ० स्माभिमुख्येन ज्ञानं प्रकाशः प्रत्यभिज्ञा। प्रती- पम् इति-खात्मावभासो हि न अननुभूतपूर्वो- ऽविच्छिन्नप्रकाशत्वात् तस्य, स तु तच्छक्त्यैव विच्छिन्न इव विकल्पित इव लक्ष्यते-इति वक्ष्यते । प्रत्यभिज्ञा च-भातभासमानरूपानु- संधानात्मिका, स एवायं चैत्र-इति प्रतिसं- धानेन अभिमुखीभूते वस्तुनि ज्ञानम् ; लो- केऽपि एतत्पुत्र एवंगुण एवंरूपक इत्येवं वा, अन्ततोऽपि सामान्यात्मना वा ज्ञातस्य पुनर- भिमुखीभावावसरे प्रतिसंधितप्राणितमेव ज्ञानं प्रत्यभिज्ञा-इति व्यवहियते; नृपतिं प्रति प्र- त्यभिज्ञापितोऽयम्-इत्यादौ । इहापि प्रसिद्धपु- ४४ ज्ञातस्थापि मोहवशात अज्ञातस्येव आभिमुख्येन हृदयंगमी- भावेन ज्ञानं प्रत्यभिज्ञानम् । अथवा प्रतीपं ज्ञातस्यापि विस्मृतस्येव छादितस्येव पुनः आभिमुख्येन, न तु सर्यमाणतया अपि तु स्फुटत्वेन ज्ञानं प्रत्यभिज्ञानं, स एवायमिति भातभासमानानुसंधाने स्थिरस्य अधुनातनकालच्यापिनो ज्ञातत्वमेव, अयमसौ अद्य मया प्रत्य- भिज्ञात इत्यत्रापि तु कुतश्चित् सामान्याकारेण ज्ञानमभूदेव, एवमात्मनि सततं भात्यपि मोहात आवृते इव पुनराभिमुख्येन ज्ञानम् । तदुक्तम् 'स्मरणानुभवारूढा सामानाधिकरण्यधीः । संस्कारेन्द्रियजन्या च प्रत्यभिज्ञा प्रकीर्तिता ॥' इति । ४५ तच्छत्त्यैव मायाशत्या स्वातन्त्र्यरूपया, ममायं स्वास्मावभास- इति मिततया विकल्पित इव वस्तुतः परप्रकाश एव सदा स्फुरति ।
२१ १का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। राणसिद्धान्तागमानुमानादिविदितपूर्णशक्ति- खभावे ईश्वरे सति खात्मन्यभिमुखीभूते तत्प्र- तिसंधानेन ज्ञानम् उदेति, नूनं स एव ईश्वरो- ऽहम्-इति, तामेनाम् 'उपपादयामि' इति। उ- पपत्तिः संभवः, तां संभवन्तीं तत्समर्थाचरणेन प्रयोजकव्यापरेण संपादयामि । तथाहि-संभ- वति तावत् असौ, अविच्छिन्नप्रकाशत्वात्; नि- रोधकाभिमतमायाशक्तिसमपसारणमात्रमेव तु तत्र उपपादनम् । प्रत्यभिज्ञोपपत्तौ स्वपरविभा- गाभावे तदपेक्षं कत्रभिप्रायादि असंभाव्यम् . ४६ प्रत्यभिज्ञापनं हि प्रयोजकव्यापारः, न च प्रत्यभिजानीव-इति प्रैषाध्येषणरूपोऽसाविह, अपि तु तत्समर्थाचरणलक्षणः; प्रत्यभिज्ञायां च यत्तत्समर्थांचरणं तदुपपत्या तत्संभवनिरूपणं नान्यत् , अतः प्रत्यभि. ज्ञामुपपत्या निरूपयामि, तद्विषयानुपायान् प्रदर्शयामि, संभवन्ती तां संभावयामि, एवंविधलोकोत्तररहस्योपदेशभाजनवप्रात्यनुमितादेव पर- मेश्वरप्रसादास्महेश्वरदास्यप्रापणापूर्विका प्रत्यभिज्ञामुपपादयामि, प्रत्यभि- ज्ञापयामि, इत्येक एवार्थः। ५७ तदपेक्षम्' इति स्वपरविभागपरामर्शस्तच्छन्देन 'कत्रभिप्रायादि असंभाव्यम्' इत्यत्र अयमर्थः :-यत्र कत्रभिप्रायक्रियाफलविवक्षा तत्रा- स्मनेपदम् , यन्न तु सा नास्ति तत्र परसैपदम् शेषात्कर्तरि परस्मैपदम्' इत्युक्तत्वात्। अस्य तु प्रत्यभिज्ञोपायप्रदर्शकस्य ग्रन्थकर्तुः समस्तसंपत्कार- णपरमेश्वरदास्यसमासादनेन परिपूर्णत्वात् स्वपरविभागो गलिता, तेनैव कत्रभिप्रायक्रियाफलं चोत्साम् इति तत्प्रत्यभिज्ञामुपपादयेहम्' इति नोपनिबद्धम् । स्वात्मनि किंचिदस्य कर्तव्यैषणीयत्वाभावात, परार्थविषयैव २२ ईश्वरप्रत्यभिज्ञा। [१अ०१आ० इति परस्मैपदप्रयोगः। इत्थं च अत्र श्लोके योजना,-महेश्वरस्य दास्यं समस्तसंपल्लाभहेतुं कथंचित् आसाद्य, जनस्यापि कथंचित् तत्प्रत्य- भिज्ञाम् आसाद्य प्रापय्य, उपकारं समस्तसं- पल्लाभहेतुभूतं महेश्वरदास्यात्मकम् इच्छन्, तामेव समस्तसंपत्समवाप्तिहेतुकां तत्प्रत्यभि- ज्ञाम् उपपादयामि। आसाद्य इति आवृत्तियो- जने द्वौ णिचौ।इयति च व्याख्याने वृत्तिकृता भरो न कृतः, तात्पर्यव्याख्यानात् । यदुक्तम् 'संतसौत्रनिर्देशविवृतिमात्रव्यापारायाम् ।' बलात्संपद्यते इच्छा, स्व संपाद्यनियन्त्रितस्य हि परोपकारकरणाभावात् , इति अतो हेतोः परस्मैपदप्रयोगः । एष चार्थः 'परितुष्येयम्' इत्यस्य विवृति- विमर्शकाले विशेषविषयो निषेधः शेषमभ्यनुजानाति; इतीच्छारूपाया आकाङ्क्षाया गत्यन्तरविरहात्पर एव विषयो भवति इत्यादिना विवृतिविम- शिन्यां विस्तारितम् । ४८ देहलीदीपन्यायेन युगपदुपकारकत्वं तत्रत्वम्, सहभोजिनाम- कपानन्यायेन क्रमेणोपकारकत्वमावृत्तित्वम् । तत्र चुरादि-हेतुमदात्मकौ- णिचौ। ४९ संवृतो यथास्थितत्वेन अनन्यथाकृतो यः सूत्रकृतो निर्दिश्यमानो. ऽर्थः तस्य या विवृतिः भञ्जन तावानेव यतोऽस्या व्यापारः । यदि सौत्रं निर्देशमन्यथा कुर्यात् , तर्हि वादिप्रतिवादिनोः सिद्धान्तपूर्वपक्षगतयोः उत्थापनं भवेत्। ततश्च प्रतिवादिकृतस्य आक्षेपस्य पुनः तृतीयस्थाने वादि. कृतस्य प्रतिसमाधानस्य करणं स्यात, तथाकरणे टीकैव स्यात् न वृत्तिः। तत आक्षेपाचकरणेन प्रयोजनेन पूर्वपक्षाद्यनुत्थापनं तदर्थं च संवृतसौत्र- विवरणम् ।
२३
१का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता।
इति । टीकाकारेणापि वृत्तिमात्रं व्याख्यातुमु-
यतेन नेदं स्पृष्टम् , अस्माकं तु सूत्रव्याख्यान
एव उद्यम-इति विभज्य व्याख्यातम् । एवं
सर्वत्र । एवमनेन श्लोकेन अभिधेयं, प्रयोजनं,
तत्प्रयोजनं, तत्प्रयोजनम् , अधिकारिनिरूपणं,
गुरुपर्वक्रमः, संबन्ध-इति दर्शितम् । तथाहि-
समस्तसंपल्लक्षणो व्याख्योतो योऽर्थः पूर्व
पुण्यपापादौ संसारमूलकारणे हेतुः, स एव
प्रत्यभिज्ञायते अनया-इति करणव्युत्पत्त्या
उपायः इह लोकोत्तरमार्ग प्रति निर्णीतः, इति
अतिदुर्घटकारित्वलक्षणमैश्वर्यम्
'मार्गो नव' (४ अ०३ आ०१६ श्लो०)
५०अभिधेयमुपायम्, प्रयोजनमुपायज्ञानम्, तत्प्रयोजनं प्रत्यभिज्ञानम्,
तत्प्रयोजनं पारमैश्वर्यावाप्तिः । अधिकारी यः कश्चित् शक्तिपातपवित्रहृदयो
जनः । श्रीकण्ठनाथात् प्रभृति गुरुसंबन्धः । तत्र श्रीकण्ठनाथ: शासने
समुत्सन्ने श्रीदुर्वांसोमुनि तदवतारणायादिदेश, सोऽपि श्रीभ्यम्बकादित्य
त्रयम्बकाख्ये लोकप्रसिद्ध्या तैरिम्बाभिधाने गुरुसंताने प्रवर्तयितारं मानसं
पुत्रं ससर्ज । श्रीकण्ठनाथश्च अधिगततत्त्वार्थः श्रीमदनन्तनाथात्, सोपि
श्रीभगवच्छक्तित इत्यादिना आगमेषु निरूपितः गुरुपर्वक्रम इति ।
संबन्धः प्रतिपाद्यप्रतिपादकभावः ।
५१ बहुव्रीहिसमासमाश्रित्य ।
५२ प्रत्यभिज्ञायते उपायभावेन प्रत्यभिज्ञापदं प्राप्यते, अनया इति
अनेन शास्त्रेणेति । प्रत्यभिज्ञाया ह्येतावानेवातिशयः, यो हि नीलसुखा-
२४. ईश्वरप्रत्यभिज्ञा। [१अ०१आ० इति शास्त्रान्ते निरूपयिष्यमाणं सूचयता उपायः प्रदर्शितः अभिधेयत्वेन । अत एव 'तथाहि जडभूतानाम्' (१ अ० १ आ० ४ श्लो०) इत्युपक्रमपूर्व श्लोकान्तरं भविष्यति। प्र- योजनं च प्रत्यभिज्ञोपायज्ञानं, तस्य प्रयो- जनं प्रत्यभिज्ञानं, तस्यापि प्रयोजनं सम- स्तसंपल्हेक्षणपारमैश्वर्यैकरूपप्रथनं, ततः परं नास्त्येव, तस्य सर्वपर्यन्तफलत्वात् अंशांशिक- यापि । यदुक्तं मयैव स्तोत्रे 'फलं क्रियाणामथवा विधीनी पर्यन्ततस्त्वन्मयतैव देव । फलेप्सवो ये पुनरत्र तेषां मूढा स्थितिः सादनवस्थयैव ॥ इति । एतद् वक्ष्यति 'तदत्र निदधत्पदम्' (४ अ०३ आ० १६ श्लो०) दिभावः पुण्यपापहेतुत्वेन पूर्व प्रसिद्धः, स एव मोक्षसाधनमिति । नील. सुखादिज्ञानस्य मोक्षहेतुरूपदुःसंपाद्यवस्तुसंपादनलक्षणमैश्चर्यम् । ५३ समस्तसंपद्योगेन पूर्णता लक्ष्यते, राज्यभोगस्वर्गभवनभोगप्राप्तौ अपि उत्तरोत्तराशंसनीयसंभवे कः पूर्णतावकाशः, परमत्वे अर्थनीये यतः परमर्थनीयान्तरं नास्ति, तस्मिन् परमेश्वरभावे समासादिते किम् आशंसनीयं परं स्यात् इति तात्पर्यम् । ५४ अप्रवृत्तप्रवर्तनात्मनाम् । का
१का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । २५
इति पादद्वयेन । 'जनस्य' इत्यनेन अधिकारी
दर्शितः। यत् निगमयिष्यति
'अनिशमाविशन् (४ अ०३ आ०१६ श्लो०)
इति। 'कथंचित्' इत्यनेन गुरुपर्वक्रमः । वक्ष्यति
'महागुरुभिरुच्यते स शिवदृष्टिशास्त्रे यथा।'
(४ अ०३ आ०१६ श्लो०)
इति । एवं प्रतिज्ञातव्यसमस्तवस्तुसंग्रहणेन
इदं वाक्यमुद्देशरूपं प्रतिज्ञापिण्डात्मकं च,
मध्यग्रन्थस्तु हेत्वादिनिरूपकः,
'इति प्रकटितो मया (४-३-१६)
इति च अन्त्यश्लोको निगमनग्रन्थः,-इत्येवं-
पञ्चावयवात्मकमिदं शास्त्रं परव्युत्पत्तिफलम् ।
नैयायिकक्रमस्यैव मायापदे पारमार्थिकत्वम्-
इति ग्रन्थकाराभिप्रायः
'क्रियासंबन्धसामान्य' (२ अ०२ आ०१ श्लो०)
इत्यादिषु उद्देशेषु प्रकटीभविष्यति-इति तावद्
५५ परस्य व्युत्पादनमनुमानेन संभवति, अनुमानं च द्विविधं स्वार्थ
परार्थं चेति, यत्र च स्वयमेव धूमादग्निमनुमाय परमतीत्यर्थं पञ्चावयवं
वाक्यं प्रयुज्यते तत्परार्थानुमानम् , प्रतिज्ञाहेतूदाहरणोपनयननिगमनानि
पञ्चावयवाः, पर्वतोयं वह्निमानिति प्रतिज्ञा, धूमवत्त्वादिति हेतुः, यो यो
धूमवान् स स वह्निमान् यथा महानस इत्युदाहरणम्, तथा चायमि-
त्युपनयः, तस्मात्तथेति निगमनमिति ।
,
-
ईश्वरप्रत्यभिज्ञा । [१अ०१आ० ग्रन्थस्य तात्पर्यम् । सुजनश्च लौकिकेश्वरप- रिचित ईश्वरविषये जनम् अनुजीविगुणोप- पन्नं प्रकाशयति, जनविषये च आभिगामि- कादिगुणगणसंपन्नम् ईश्वरं प्रकाशयति,-इति इयानर्थः सामान्येन षष्ठीसमासेन दर्शितः 'तस्य प्रत्यभिज्ञा' इति । एतच्छोकाकर्णनसमये च शिष्याणाम् एतदर्थसंक्रमणक्रमेण परमेश्वर- तादात्म्यमेव उपजायते तावत् । तथाहि-ज- नस्य'-इत्याकर्णनात् वयं ते जननमरणपीडिता अपर्युदस्तवृत्तयश्च, अस्माकमयम् उपकारम् इच्छन्, महेश्वरस्य दास्यम् आसाद्य, समस्तसं- पत्समवाप्तिहेतुं तत्प्रत्यभिज्ञाम् उपपादयति; ततश्च प्रत्यभिज्ञामेवं-भूतां वयं प्राप्ता एव-इति। इत्थमेव हि अधिकारिणि शास्त्रार्थस्य बिम्बप्र- ५६ तस्कर्तृका तत्कर्मिका चेत्यर्थः । ५७ परित उदस्ता वृत्तिर्येषां ते उदासीनास्तद्विपरीता इति, पञ्च वृत्तयः प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतय इति । अथवा 'सदृशवस्तुपरिग्रहणं पर्युदासः, तद्विषयतां न नीता वृत्तयो येषां ते अधिकारित्वेन गृहीताश्चेति अनन्यवृत्तयः, स्वरूपसंमुखा इत्यर्थः । ५८ दुर्लभेश्वरदास्यासादनाद्वारेण जनस्य अयमुपकारमिच्छन् तत्प्रत्य- भिज्ञामुपपादयति, इत्येवंभूतमर्थं प्रतिबिम्बकल्पं बिम्बस्थानीयात् उत्तम- पुरुषार्थात्, प्रतिसंक्रमणवशात् आयात प्रतिपद्य अधिकारिरूपतासंवेद- नात् जनो जायमानो यः कश्चित् स इह उपकार्य:-इत्येवंरूपात् स्वा- स्मनि उदितात् सदा अहं जन उपकार्यः, तत् दुर्लभेश्वरदास्यासादनौपयि- १का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । तिबिम्बवत् संक्रान्तिः लोडूलिङादीनां विष- यीभवति-इति प्रथमपुरुषार्थः उत्तमपुरुषार्थे पर्यवस्यति,न तु ताटस्थ्येन; अधिकार्यनधिकारि- णोः प्रतिपत्तौ विशेषाभावप्रसङ्गात् । आरोग्य- कामाः शिवां सेवन्तां सेवेध्वम्-इति वा वाक्या- र्थस्य सेवामहै-इत्येवंरूपेण अधिकारिणि द्विती- यकक्ष्यासंक्रान्तौ तृतीयकक्ष्यायामेव भाविको- टिपतितामपि पुरुषार्थसंपत्तिम् अकालकलित- खरूपानुप्रवेशेन वात्मीकृताम् अभिमन्यमाने, तत एव विततसंवित्सुन्दरपरामर्शे पूर्णताभि- मानप्रतिलम्भात्, अन्यस्य तु अनेव-रूपत्वेनैव अधिकारिता ताटस्थ्यप्राणी-इति । तदास्ताम् काम् अनेन उपपत्या स्थाप्यमानां प्रत्यभिज्ञाम् अहमपि उपपत्या हृदये स्थापयामि इति इयत्प्रतिपत्तिपर्यन्ता प्रतिपत्तिः । अत्र तावत् कौशलात् संक्रमणेऽपि परामर्शसाम्यं दर्शितम् । अन्यत्रापि तु एवं, यत एष एव अ- धिकार्यनधिकारिणोविशेषः । तथाहि त्वां गच्छ' इत्युपदिशामि इति श्रुतेः यथा अर्थमवबुध्य, मामयं गच्छ' इत्युपदिशति-इति द्वितीयं प्रति संक्रमेण सोपानमारुह्य, तत् गच्छामि इति तृतीयं पदमासाद्य वाक्यार्थज्ञो भवति । अनधिकारी तु प्रथमसोपान एव विशाम्यति । एवमयं विवक्षति एनं प्रेरयति इत्यपि भवत् सोपानान्तरं न वक्तुरभिसंहितं कर्तव्यत्वे तु न विश्राम्यति इति । ५९ स एवाहमिति पूर्णताभिमानाद्विततसंवित्सुन्दरपरामर्श संक्रान्ति- भवतीति । यावदेव रहस्योपदेशयोग्यतावास्यनुमेयो माहेश्वरः प्रसादः तावदात्मपरोपकारकरणसमर्थोऽहं जात एवेति, वृष्टश्चेद्देनः संपन्नाः शालय इतिवत् उचित एव शिष्यस्य परामर्श इति वाक्यार्थः। - २८ ईश्वरप्रत्यभिज्ञा । [१अ०१आ० अवान्तरमेतत् अतिगहनं च-इति स्थितमे- तत् । एतेन श्लोकेन ईश्वरसांमुख्यं विनेयानां प्रयोजनादिप्रतिपादनं च क्रियते-इति ॥ १॥ अनन्तभावसंभारभासने स्पन्दनं परम् । उपोद्घातायते यस्य तं स्तुमः सर्वदा शिवम् ।। ननु ईश्वरस्य सिद्धिरेव कर्तव्या, केयं सिद्धिः ! न तावत् उत्पत्तिः, नित्यत्वात् । नापि ईश्वरसिद्धिकारादयस्तस्योत्पत्तिं विदधते।ज्ञप्तिः सिद्धिरिति चेत् ! अनवच्छिन्नप्रकाशस्य प्र- माणव्यापारोपाधेयप्रकाशात्मकसिखानुपयोग एवाननु अनवच्छिन्नस्तदीयः प्रकाश-इति कथ मेतत्; घटसुखादिप्रकाशे हि तत्प्रकाशः कुतः?, ६० मौलिकदृढप्रमाणप्रभावप्रकाशमानतायोगिनि वस्तुनि व्यवहार- साधनरूपं प्रत्यभिज्ञानं मोहापसारणफलं कामं केवलं निरूप्यताम् पूर्वप्रकाशस्य सिद्धिरूपत्वात्, यत्र तु अवभास एव न वृत्तः तत्र मौलिक तावत् प्रमाणं वाच्यम् , तत्र तु निरूपितेपि यो मोहः स्यात् तदपासनाय भवतु व्यवहारसाधनम्, प्रत्यभिज्ञा तावत् प्रथमं साध्या तत उच्यतां प्रत्यभिज्ञा इति व्यवहारसाधनविषयताया व्यापकम् अवभासमानत्वं तद्विरुद्वत्वं च अनवभासमानत्वम् अत्र उपलभ्यते इति व्यापकविरुद्धोप- लब्धिः । ईश्वरो न व्यवहारसाधनप्रमाणमानविषयः कथंचिदपि अनव- भासमानत्वात् नहि ईश्वरो विश्वत्र कस्यचित्कदाचित् भासते इत्याशये- नाह ननु इति । सिद्धिरपि द्विविधा उत्पत्तिसिद्धिः ज्ञप्तिसिद्धिश्व इति द्विविधायाः सिद्धेविषयो नेश्वर इति च प्रतिपादयति ।
२का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। तदप्रकाशेऽपि सुप्तमूर्छादो नतरां; खप्रका- शेऽपि वा ईश्वरे प्रमातॄणां किं वृत्तं, येन तेषां प्रमाणव्यापारानुपयोग ?-इत्याशङ्कयाह कर्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे। अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः॥२॥ इह क ईश्वरे कीदृशे कीदृशेन प्रमाणेन अक्षर्योर्थग्रहः पुंसां तजाग्रदिति कथ्यते । यसैर्विनार्थस्सरणं मनसा स्वमसंज्ञितम् ॥ यत्रार्थस्सरणे न स्तस्तत्सौषुप्तमिति स्मृतम् । शुद्धबोधैकरूपो योऽवस्थातः सैव तुर्यता ॥ इति । मूर्खादिन्यायेन सौषुतं, सवेद्यमपवेद्यं च इति द्विविधम् सुखी अहम् इति सवेद्यम्, मया किंचित् न चेतितम् इत्यपवेद्यम् । परोहि ईश्वरविषयं साधकं बाधकं वा अभिदधत् सिद्विम् अस्तीति प्रकाशव्यवहा- ररूपां, निषेधं वा नास्तीति तच्छून्यवस्त्वन्तरप्रकाशव्यवहरणरूपं कर्तुम् उद्युक्तः, स एवं कुर्वाणः प्रमाणस्य तत्कृतयोश्च सिद्धिनिषेधयोः विषयतया अधिकरणमीश्वरं प्रमेयं परतन्त्रमेव अभिमन्यते जाड्यं तु अस्य विधीयते परमतेन सिद्धिविषयत्वं सूचितं नहि उपपद्यते तत्प्रमात्रेकरूपत्वात् इति अक्षरार्थसंगतिः। अयमाशय:-कः ईश्वरस्य निषेधं सिद्धिं वा कुर्यात्, कुतः, य ईश्वरविषयनिषेधसिद्धिकारी तस्यैव सत्ता नास्ति परमेश्वरसत्तां बिना इति कथं तौ साधयेत्, तदपि असिन परमेश्वरे ये बौद्धनैयायि- कादयो मोहाद्विप्रतिपद्यन्ते । तेषु इदमापतितम् यथा कश्चित् माण्डलिको राजा चक्रवर्तिनः काका किंचित् चतुरङ्गादिसाधनं प्रार्थ्य अनन्तरं साम्राज्यजिगीषया तेनैव सह युद्धं कर्तुमिच्छति तदात्मविनाशायैव तस्य स्यात् । एवं तेषामपि । तदित्थमपि अस्य अजय्यत्वं सिद्धमेव इति ।
३० , ईश्वरप्रत्यभिज्ञा । [१अ०१आ० अस्ति-इति ज्ञानलक्षणां सिद्धिं, नास्तीति ज्ञान- लक्षणं वा निषेधं कुर्यात् ? प्रमाता इति चेत्, स एव कः? देहादिर्जडः उत तदन्यो वा कश्चित् आत्मादिशब्दवाच्यः? सोऽपि वप्रकाशखभावो वान वा? देहादिर्जडः इति चेत्, स एव खात्मनि असिद्धः परत्र का सिद्धिं कुर्यात् ? आत्मापि अखप्रकाशो जड एव तत्तुल्ययोगक्षेमः । स्व- प्रकाशखभावः इति चेत्, कीदृशेन खेन रूपेण आभाति ? यदि परिनिष्ठितसंविन्मात्ररूपेण, तदा संविदां भेदनं, भेदितानां च अन्तरनु- संधानेन अभेदनं न स्यात्ः तेन खतन्त्रवप्रका- शात्मतया तावत् स भासते, तथा भासमानश्च कीदृशमीश्वरं साधयेत् निषेधेत् वा? कर्तृज्ञातृख- भावम् इति चेत्, ननु स प्रमातैव तथाभूतः-इति कोऽन्यः सः? ननु सर्वकर्तृत्वसर्वज्ञत्वे प्रमातुर्न स्तः, न खलु सर्वशब्दार्थों ज्ञातृकर्तृत्वयोः स्वरूपं भिनत्ति, भेददर्शनेऽपि ईश्वरज्ञानचिकीर्षाय- नादेनित्यस्य विषयेण अकारणभूतेन अनाधे- यातिशयत्वात् । प्रकाशमानतानयनमेव विष- यत्वम् इति चेत्, अप्रकाशखभावस्य तथात्वम- २का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। नुचितम्-इति वक्ष्यामः । प्रकाशमानखभा- वत्वे विषयोऽपि सर्वात्मना प्रकाश एव निमग्न इति प्रकाशः प्रकाशते-इत्येतावन्मात्रपरमार्थत्वे कः सर्वज्ञासर्वज्ञविभागः?, प्रमाणमपि एवं सि- द्धत्वासिद्धत्वाभ्यां पर्यनुयोज्यम्; एवं सिद्धि- रपि । तस्मात् विषयाभिमतं वस्तु शरीरतया गृहीत्वा तावत् निर्भासमान आत्मैव प्रकाशते विच्छेदशून्यः, सुषुप्तमपि प्रति प्रकाशत एव, अन्यथा स्मृत्ययोगात्; प्रकाशस्य च नित्यत्वात् विच्छेदहेतोरभावेन, अन्यप्रमात्रपेक्षया च प्रकाशमानत्वात्, खपरप्रमातृविभागस्य तत्स्स- ष्टस्य मायीयत्वेन वक्ष्यमाणत्वात् । स चायं खतनः । खातत्र्यं च अस्य अभेदे भेदनं, भेदिते च अन्तरनुसंधानेन अभेदनम्-इति बहुप्रकारं वक्ष्यामः। तदेव अस्य पारमेश्वर्यं मु- ख्यमानन्दमयं रूपम्-इति पूर्वमुपौत्तं 'कर्तरि' ६२ प्रमाणं चेत्प्रकाशान्तर्गतं सिद्धं प्रकाश एव सः स्वात्मनः सिद्धिनि- षेधौ किं कुर्यात्, असिद्धं चेत् अप्रकाशस्वभावस्य तथात्वमनुचितमिति । ६३ यतो ज्ञाने कृतौ च स्वातन्यमेव चित्त्वं ततः कर्तृशब्देन अव्यु- पन्नेन क्रियासामान्याभिधायिकर केन वा क्रियाविशेषोपाधिसं- बन्धकालुष्यानारूषितं स्वातव्यमभिदधता तद्भित्तिलग्नं ज्ञानस्वातघ्यं श्लेषेण च निर्मातृत्वस्य तदविनाभावितां दर्शयितुं यत्नपरिगृहीतेन तत्पू- ३२ ईश्वरप्रत्यभिज्ञा। [१अ०१आ० इति। तदेव तु खातत्र्यं विभज्य वक्तुं 'ज्ञातरि' इति पश्चान्निर्दिष्टम् । ज्ञानपल्लवस्वभावैव हि कि- या-इति वक्ष्यते। तेन सर्वक्रियाखतन्ने सर्वश- क्तिके-इति यावद् उक्तं, भवेत् तावदेव 'कर्तरि ज्ञातरि' इति । इयमेव च संवित्स्वभावता। संविदिति तु उच्यमाना विकल्प्यत्वेन प्रमेयतां वकं निर्माणे स्वातन्यमुक्तम् , अन्यथा यथेष शुद्धस्वातन्त्र्यप्रतिपादनाभि- प्रायो न स्यात् तत् ज्ञानपूर्वकं निर्माणं दृष्टम् असंविद्रूपस्य हि कारणत्वं दूषयिष्यते, न च तन्निर्माणम् इति एवं ज्ञातरि इति प्राक् निर्दिश्येत । ६४ प्रमेयत्वे हि स्वातन्त्र्यं विघटते तदैव तत्रैव स्वातच्यपारतत्र्ययोर्विरो- धात्, एवं प्रमेयं परतन्त्ररूपं विभिन्ने स्वतन्त्रे प्रमातरि विश्राम्यत् प्रमेयं भवति । न च नीलं स्वात्मनि प्रकाश विमर्शमये विश्रमयन् प्रमाता स्वात्मानं प्रकाशत्रिमर्शान्तरे विश्रमयेत्, अनवस्थानात् । न च प्रकाशविमर्शान्तर- मपि अस्ति, स्वरूपदेशकालभेदासंभवात् । तदयं प्रमाता अनन्याधीनस्वा- भाविकप्रकाशविमर्शमयः प्रमेयतां कथं यायात, प्रमेये च प्रमाणचिन्ता । तदयं प्रयोगः-प्रमेयप्रतिष्टानं यतः प्रमाता ततः प्रमेयो न भवति, प्रमे- यताया व्यापकं पारतच्यं तद्विरुद्धेन च प्रमेयप्रतिष्ठानत्वं स्वातत्र्येण व्याप्तं पारतच्येऽनवस्थानात् प्रमेयप्रतिष्ठानायोगात् , तत् इयं व्यापकविरुद्धव्या- लोपलब्धिः अमातरि प्रमेयतां निषेधति, स्वप्रकाशोचित एव परामर्शोऽह- मिति उच्यते । ननु दृष्टः प्रमातरि प्रमेयताव्यवहार उपदेशादौ, नासौ प्रमातरि अपि तु नीलादिस्थानीये सृष्टे वस्त्वन्तरे एव । ननु च देशकालरहितत्वम् अविच्छिन्नावभासत्वयोगात् विच्छिद्यावभासनकृत- पुनरर्थप्राणत्वनिषेधपर्यवसितासकृद्विभातरूपता प्रमातृत्वं च कथं सृष्टे संभवेत्, कथं च अतो वाक्यात प्रमातरि आत्मनि प्रतिपत्तिर्भवेत् । सत्य- मेवम् किन्तु प्रकाशस्त्रभावोऽनन्याधीनाहमिति-विमर्शमयश्च यः प्रमाता तत्स्वातच्यात् उदितो यो मेयः स तमेव मूलत्वेन अवलम्बमानो दृश्य- विकल्प्यैकीकारन्यायेन विकल्परूपया सृष्ट्या तत्स्वप्रकाशरूपैकीकारेणैव अव्यवधानतया सूज्यते।
३ २का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। स्पृशन्ती सृष्टत्वात् न परमार्थसंवित्-इति व- क्ष्यामः। कर्ता ज्ञाता च महेश्वर-इत्यभिधानेऽपि स एव प्रकार आपतेत्,इति-यथायथा प्रमेयभू- मिकापादनन्यकारकलङ्कपरिहारः शक्यः तथा तथा यावद्गति यतितव्यम्, इति भूतविभत्त्या निर्देशः कृतः । उपदेशावसरे हि सर्वात्मना तावत् सा प्रमेयता अस्य परिहर्तुम् अशक्या। खात्मनि' इति, स्वस्मिन् अनपायिरूपे खभावे ६५ उपदेशावसरे हि कर्तरि इति विषयत्वं युक्तम् ईश्वरस्य, न तु वस्तुतः परमशिवावस्थायामयमीश्वर इति अनुत्तरस्यानिर्देश्यत्वात्, उप- चारत एव उपदेशकाले निर्देशः न तु तत्वतो वेद्यत्वम् । ६६ स्वात्मनीति । यद्यपि आत्मा वस्तुस्वभाव इति दृष्टया स्वभाव- वाची संबन्धिशब्दः तथापि वैशेषिकादिशि खतत्र एव आत्मपदार्थः इति शक्येतापि । स्वशब्दोपादाने तु स्वभाववचनता अस्य गम्यते। ननु स्वो यदि आत्मीयः तदा आत्मनो यः संबन्धी स्वभाव इति आत्म- प्रकृतिवाच्यः स्वभाव एव इति स्वभावस्य स्वभाव इति न किंचिदुकं स्यात् ! सत्यम्-किन्तु आत्मपदे उच्यमाने पृथगेव आत्मपदार्थो घट- स्थानीयः प्रतीयेत, स्वशब्दे तु खं वस्त्रमित्यत्र यथा अन्यलग्नत्वं प्रतीयते आत्मीयं वस्त्रमिति, एवं आत्मीय आत्मा इति । कस्य आत्मीय इत्यवतरति अन्याकाङ्क्षा । न च कश्चित् उपात्त इति सर्वस्य' आत्मीय आत्मा-इति गम्यते । तत्र आत्मीयार्थेपि य आत्मार्थः स पृथक् दृष्ट एव उपदेश्योपदे- शोपायतया, अन्यथा हि न संबन्धिप्रतीतिर्भवेत् इति । सर्वेषामात्मनि इत्यादिशय्यान्तरसमाश्लेषेऽपि संयोगित्वादिसंबन्धान्तरशङ्का निवर्तेत । आत्मीयत्वे तु अव्यभिचरणीयत्वमनन्यापेक्षत्वं स्वविश्रान्तत्वं गम्यते इत्येतदर्थ दृष्ट एव भेदेन आत्मा, उपदेशस्य प्रकृतसिद्ध्यङ्गस्य अन्यथा- नुपपत्तेः ।
४ ईश्वरप्रत्यभिज्ञा । [१अ०१आ० इत्यनेन वैशेषिकायभिमतजडात्मवादनिरासः। 'आदिसिद्धे' इति, अविच्छिन्नप्रकाशे इत्यर्थः । 'महेश्वरे इति, एतदेव माहेश्वर्य-यद् अनव- च्छिन्नप्रकाशत्वेन ज्ञातृ-कर्तृत्वधारोपारोहः । 'अजडात्मा' इति, यस्य तु वैशेषिकादेर्जड आत्मा स सिद्धिं करोतु ईश्वरविषयाम् ; अन्यस्तु सांख्यादिनिषेधं; सांख्योऽपि विषया- वभासनरूपं ज्ञानं बुद्धिधर्ममिच्छन् आत्मानं वस्तुतो जडमेव उपैति; न च जडात्मा खात्मन्यपि दुर्लभप्रकाशखातयलेशः किंचित् साधयितुं निषेधुं वा प्रभविष्णुः पाषाण इव; न च अजडात्मनोऽपि एतद् उचितं, तथाहि- स वात्मनि सिद्धिमित्थं कुर्यात्-यदि अस्य सोऽभिनवत्वेन भासमानः पूर्वं न भासते, अनाभासनं चेत् जडतैव । निषेधं च इत्थं विदध्यात् -- यदि स न प्रकाशते तथा च जडः, न च जडस्य एतत् युक्तम्-इत्युक्तं, नापि अजडस्य; तस्मात् संवित्प्रकाश एव घटादिप्र- काशः, न त्वसौ खतन्त्रः कश्चित् वास्तवः; प्र- काश एव च आत्मा; ततून तत्र कारकव्यापा- MEAN ३का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । रवत् प्रमाणव्यापारोऽपि नित्यत्ववत् खप्रका- शत्वस्यापि तत्र भावात् ॥२॥ ननु कारकव्यापारः प्रमाणव्यापारश्च यदि ईश्वरे न संभवति, तर्हि प्रत्यभिज्ञापयामि-इति यो व्यापार उक्तः स कतमो व्यापार ?,-इत्या- शङ्कयाह किंतु मोहवशादस्मिन्दृष्टेऽप्यनुपलक्षिते । शत्तयाविष्करणेनेयं प्रत्यभिज्ञोपदय॑ते ३ स ईश्वरस्वभाव आत्मा प्रकाशते तावत् , ६७ किमिति प्रश्नयोग्यता, तु इति विशेषं द्योतयति, किंतु इति-अस- माप्तवक्तव्यतां द्योतयन् अन्यप्रमेयाभिधानावकाशमाह । मोहयति इति मोहः ईश्वरः तस्य वशः सामर्थ मायाशक्तिः ततः, मोहयति अनेन शक्तिविशेषेण इति वा मोहो मायाशक्तिः तस्या वशः सामर्थ्य मोहनकार्य प्रति अविरामः । यथोक्तं 'मायाविमोहिनी नाम इति।मूहिवा मोहः आवरणं, तस्य वशो विच्युतिः इति-क्रियया शक्तिः, तया च शक्तिमान् आक्षिप्यते, तेन पशुप्रमातॄणामख्यातिरूपो मोहः, कारणं च अस्य ईश्वरशक्तिः इति-स्वरूपतः कारणतश्च निर्वाच्यतैव । न खलु अनिर्वाच्याकारः कश्चित् अविद्यात्मा मोहः अवस्तुत्वेन अस्य इयद्वै- चिन्यप्रथनसामर्थ्यासंभवातू संभवे वा पूर्णमेव वस्तुत्वं नानिर्वाच्यता। नापि सांख्यद्दशि इव रजस्तमोवृत्तिः मोहः, तस्य जडत्वेन प्रवृत्तिवैचित्र्या- नुपपत्तिः यतः,तस्मात् परमेश्वरस्वातन्त्र्यमेव मायाख्यं मोहयति इत्याशयः। न च स्वप्रकाशत्वमीश्वरस्य यत्नेन उपपादितं तत् कथमुक्तम् अस्मिन् ईश्वरे दृष्टेऽपि इति वाच्यम्, दृष्टशब्दोऽयम् उपचरितकर्मसाधनः उपचरितं ईश्वरप्रत्यभिज्ञा । [१अ०१ आ० तत्र च अस्य खातत्र्यम्-इति न केनचिद्वपुषा न प्रकाशते, तत्र अप्रकाशात्मनापि प्रकाशते प्रकाशात्मनापि, तत्रापि प्रकाशात्मनि सर्वथा प्रकाशात्मना प्रकाशो भागशो वा; भागशः प्रकाशने सर्वस्य व्यतिरेकेण अव्यतिरेकेण वा, यत् कर्म आतिदेशिकं थगात्मनेपदादि हि तत्र उदाहरणमात्रम् भिन्नः कुसूलः स्वयमित्यपि दर्शनात् । यदि वा उपचरितं दृशः कर्तृस्वभावकतायां गोण्या वृत्त्या आश्रितं कर्म तत् साधनं यस्य स तथा, तत्र उपचारे मुख्यार्थबाधबीजं स्वप्रकाशस्य दृशिक्रियाया विषयासंभवः । नहि द्रष्ट्र- न्तरमस्ति अनवस्थानात् । निमित्तं च प्रकाशमानत्वं प्रयोजनं च स्फुट- दृष्टाभिमतघटादितुल्यताप्रतिपादनेन अनपह्नवनीयत्वप्रख्यापनम् । यथा दृष्टोऽर्थो विमर्श विना न सुखविश्रमाद्यर्थक्रियासु क्षमः तथा आत्मापि, इति-दृष्टान्तदासन्तिकताख्यापनमपि प्रयोजनम् । ६८ (१)अप्रकाशात्मनेति जडात्मना शून्यरूपतया । (२) सर्वथा प्रकाशात्मना-इति शिवात्मना । (३) सर्वस्य व्यतिरेकेण-इति पशुन- मातृरूपेण । (४) अव्यतिरेकेण-इति मन्त्रमहेश्वरादिरूपेण । (५) कति- पयस्य व्यतिरेकेण इति विद्येशरूपेण, विद्येश्वराः प्रमातारो हि स्वात्मनि विपर्यासाभावेपि स्वतो भिन्नं वेद्यं पश्यन्ति । (६) अव्यतिरेकेण इति विज्ञानाकलरूपेण, तेषां यद्यपि अन्योन्यं भेदः तथापि ते वेद्यं शुद्धबोधा- त्मकं स्वतो भेदशून्यमेव पश्यन्ति । (७) पूर्णतया-इति परमशिवरूपेण, इति-प्रकारसप्तकेन ग्रहीतृभेदः । परमेश्वरप्रकाश एव स्वमायाशक्त्या अतिदुर्घटकारित्वस्वातन्त्र्यरूपया स्वरूपमनाच्छादितमपि आच्छादितमिव अवभासयति; तत्र अनाच्छादनांशप्रधानतायां सदाशिवेश्वररूपता समा- वेशदशा, आच्छादनभागावभासप्रधानतायां मायाविजृम्भारूपा संसारि- दशा, ततो नीलमित्यादिवेद्यभेदः आभासमानकायभेदोपलक्षितः, माया- प्रमातृत्वे कायस्य मूर्धाभिषिक्तत्वात् । बुद्धिप्राणपुर्यष्टकाधुपाधिभेदारू- षितचैतन्यच्छायाकृतो वेदकभेदः इति भेदविजृम्भणम् ।
३का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। कतिपयस्य व्यतिरेकेण अव्यतिरेकेण वा, उक्तप्रकारपूर्णतया वा; तदमी सप्त प्रकाराः। तत्र प्रथमः प्रकारो जडोल्लासः, अन्त्यः परमशि- वात्मा, मध्यमा जीवाभासाः, सैव भगवतो माया विमोहिनी नाम शक्तिः, तद्वशात् प्रका- शात्मतया सततम् अवभासमानेऽपि आत्मनि भागेन अप्रकाशनवशाद् ‘अनुपलक्षिते' सर्वथा हृदयंगमीभावमप्राप्ते अत एव पूर्णतावभास- नसाध्याम् अर्थक्रियाम् अकुर्वति, तत्पूर्णताव- भासनात्मकाभिमानविशेषसिद्धये 'प्रत्यभिज्ञा' व्याख्यातपूर्वा प्रदीते, कथं शक्तेः' ईश्वरनि- ६९ ईश्वरस्य स्वसंवेदनसिद्धत्वात् दृष्टत्वं केवलं मायाव्यामोहात् अनु- पलक्षितत्वमहृदयङ्गमत्वं मार्गदृष्टस्य तृणादेरिव, यथा रथ्यागमने तृणादि भातमपि अभातमेव तृणादिविशिष्टरूपेण अविमृष्टत्वात् सति विमर्शने अर्थक्रियायामुपयुज्यते । यथा वा अस्मिन् घटादिके दृष्टेपि मोहवशात् अनुपलक्षिते अत्यन्तोपादेये व्यवहारसाधनेन स्वशक्त्याविष्कारेण दृढनि- श्चयप्रदर्शनमिति लोके दृष्टं, तथा च अयमात्मा ईश्वरो दृष्टोऽपि तथा अनुपलक्षित इति स्वभावहेतोः अत्यन्तोपादेयस्य दृष्टस्यापि अविमृष्टस्य कथमुपादानं स्यात् । विमर्शपदवीमप्राप्ततया ईश्वरसाधारणधमैः नित्यत्व- विभुत्व-सर्वज्ञतादिभिः समवायशालिनं स्वात्मानमविमृश्य कथं च परम- चमत्कारात्मानन्दरसास्वादनसमापत्तिः स्यात् अर्थक्रियात्मा। सूत्रे निमि- त्तार्थसप्तमी । यतोऽयमीश्वरो दृष्टोऽपि अनुपलक्षितः, ततः प्रत्यभिज्ञा तस्यैव प्रदर्यते । ७० शक्तिः असाधारणः प्रभावः अनीश्वरेऽसंभाव्यः ज्ञत्वकर्तुत्वादिमा- ।
३८ ईश्वरप्रत्यभिज्ञा । [१अ०१आ० ष्ठत्वेन प्रसिद्धाया दृक्रियात्मिकाया 'आवि- करणेन' प्रदर्शनेन अभिमानसाध्यार्थक्रियाणां तदभिमानसिद्धया विना असिद्धेः, तथा च दृष्टान्तं दर्शयति 'तैस्तैरप्युपयाचितैः (४१०३आ०१७श्लो०)।' इति । एतदुक्तं भवति-न कारकव्यापारो भगवति, नापि ज्ञापकव्यापारोऽयम्, अपि तु मोहापसारणमात्रमेतत्, व्यवहारसाधनानां प्रमाणानां तावत्येव विश्रान्तेः । घटोऽयमग्रगः प्रत्यक्षत्वात्-इत्यनेन हि घटोन ज्ञाप्यते प्रत्य- क्षेणैव प्रकाशमानत्वात् , अन्यथा पक्षे हेत्व- सिद्धेः, केवलं मोहमात्रमपसार्यते। यश्चायं मोह- स्तदपसारणं च यत्, तदुभयमपि भगवत एव विजृम्भामात्रं, न तु अधिकं किंचित्-इत्युक्तं वक्ष्यते च ॥३॥ ननु परिदृश्यमाने भावराशौ किमीया शक्तिराविष्क्रियते कं च प्रति? इति, जडानां . हात्म्यमिति यावत् , तस्या आविष्करणमभिज्ञानख्यापनम् , अभिज्ञानम् एकधर्मात्मकस्वरूपमुखेन अनन्तधर्मचित्रवस्तुस्वरूपप्रवेशाधुपायः अभितः स्वरूपसर्ववस्वीकारेण वस्तु ज्ञायते यथा इति तस्य ख्यापनेन ।
४का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। तावत् न ज्ञानात्मिका शक्तिरस्ति, क्रियात्मि- कापि स्वातन्त्र्यप्राणा स्वातत्र्यव्यपगमाद् असं- भावनाभूमिरेव; तथा च रथो गच्छति- इत्यादौ उपचारं केचन प्रतिपन्नाः, न च जडान्प्रति व्यवहारसाधनम् उचितम्, अथ अजडजीवजनताधिकारेण उभयमपि, तर्हि सर्वस्य खात्मा महेश्वर-इति दूरतरं विप्रकर्षिता प्रत्याशा, तदेतद् आशङ्कय निरूपयति तथाहि अँडभूतानांप्रतिष्ठा जीवदाश्रया। ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम्॥४॥ 'तथाहि इति युक्त्युपक्रमं द्योतयति, दृश्यतां ७१ ननु अजडो वर्गः प्रथमं वक्तव्यो न तु जडः अजडस्य प्राधान्यात् इतरस्य च तदभावात् ?-इति चेत् नैवत्, जडं हि पूर्वसिद्धमनूध चिद्रूपे अन्तर्भावनीयं यत्नेन, न तु चिद्रूपस्य चिद्रूपतान्तर्भावनं यत्नसाध्यम् व्यामोहात्तु यत्तत्रानैश्वर्य बहुत्वं चाभिमन्यते तत् केवलमपसारणीयम् तेन यत्नसाध्यचिदन्तर्भावनाय पूर्व जडेत्युद्दिष्टम् । ७२ ननु पञ्च भूतानि इति आहुः पञ्चानां भूतशब्दवाच्यत्वमिति तत् कथमुक्तं भूतानां जीवतामिति ? उच्यते-सिद्धं भवति,-क्रियाकर्तृरूपं हि भूतमुच्यते तत् परमार्थतो जीवत एव भूतत्वमुचितं तत्प्रसादेन तु अपरस्य । पार्षदसमयस्तु अनियतः सोऽपि च अन्न अस्त्येव । भगवद्गी- तासु च यद्यपि 'बुद्धिर्बुद्धिमतामसि' इत्यादौ संबन्धषष्टी तथापि बाहुल्येन निर्धारणषष्ठयः पाण्डवानां धनञ्जय' इत्यादयः श्रूयन्ते, ।
ईश्वरप्रत्यभिज्ञा। [१अ०१आ० किल इत्यर्थः । तथा' इत्यनेन साध्यं सूच्यते, 'हिना' हेतुरित्यन्ये, प्रकृतं साध्यं हेतुसिद्धया- यत्तमुपंक्रम्यते इत्यर्थः । तेन इति बुद्धिवर्तिना, अत एव स्मर्यमाणेन ग्रन्थेन वर्णयिष्य- माणेन प्रकारेण यस्मात् सर्वमेतद् युक्तम् इति 'तथाहिं' इति शब्दस्य वार्थः । इह तावत् भावराशियथा विमृश्यते तथा अस्ति, अस्तित्वस्य प्रकाशं शरणीकुर्वतः प्रकाश- प्राणितदेशीयं विमर्शम् आश्रित्य समुन्मेषात्, अविमृष्टं हि यदि वस्तु तन्न नीलं न पीतं समानजातीयानामेव च निर्धारणम् इति चेतनापि भूतरूपैव इति । जीवतामित्युपक्रम्य जीवनं ज्ञानक्रिये इत्येकवचनेन संविद ऐक्यं पारमार्थिकमाह । ननु जीवनं यदि ज्ञानक्रिये तदा तत्संबन्धः स्वात- व्यस्य हेतुः इति किं केन संगतम् ? इति चेत् ते एव हि स्वातव्यं वक्ष्येते 'चितिः प्रत्यवमात्मा परा वाक्स्वरसोदिता। स्वातन्त्यमेतन्मुख्यं त. दैश्वर्यं परमात्मनः॥ इत्यत्र प्रकाशरूपं ज्ञानं विमर्शरूपा च क्रिया इत्येतदेव स्वातन्त्र्यमिति निर्णायिष्यते। ७३ जडभूतानां जीवदाश्रयं प्रतिष्ठानं जीवतां च जीवनं ज्ञानक्रिये एवं यस्मात् तस्मात् तथेति आत्मैव ईश्वरः सदा सिद्धः इति । हि-शब्दो हेतुहेतुमद्धावं द्योतयति, आत्मनः सिद्धत्वमश्वयं च यदुक्तं कर्तरि ज्ञातरि इति, तेन प्रकारेण यस्मात् इदं सकललोकसंमत-जडानां जीवन्मना सिद्धिः, जीवनस्य ज्ञानक्रिये तत्त्वम् इति उपपद्यते ।
४का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। न सत् न असदिति, कुत ?-इति पर्यनुयोगे किम् उत्तरं स्यात्। तेन यद् यथा यावत् अवा- धितं विमृश्यते तत् तथा तावत् अस्ति, तत एव देशकालाकारविततात्मानोऽपि द्रव्यक्रिया- संबन्धादयः एकत्वेन परमार्थसन्त-इति वक्ष्यते 'क्रिया संबन्धसामान्य (२आ०२आ०१श्लो०)।' इत्यादिना, ततश्च विततमपि इदं विश्वं संक्षे- पविमर्शदशाधिरोहे जडं जीवच्च-इत्येतावता द्वयरूपेण अस्ति। तत्र जडा अपि विमृश्यमाना न खतत्रा भवन्ति, विमृश्यमानता हि तेषां न खशरीरविश्रान्तः कोऽपि धर्मः जडत्वाभावप्र- संगात्, मम नीलं भाति मया नीलं ज्ञायते इति। तेषां जडभूतानां चिन्मयत्वेऽपि मायाख्यया ईश्वरशक्त्या जाड्यं प्रापितानां 'जीवन्तं' प्रमा- ७४ ननु जडाजडवर्गस्यायं वृत्तान्तो निरूपितः न त्वन्यस्य इत्याशक्य, अन्यस्तु न कोप्यस्ति इत्यभिप्रायेण उत्तरयति-ततश्च 'विततमपि' इत्यादि। अयं भावः-निःसंख्याका अपि अमी भावाः तनु-करण-भुवनादिरूपा वेद्याः, ब्रह्मादयः स्थावरान्ताश्च वेदकाः तावत् जडमजडमिति इयता द्वैराश्यरूपेण विमृश्यन्ते प्रकाशन्ते च । तत् विमर्शप्रकाशपरवशत्वाच्च बहुत्वमुज्झित्वा द्वैध शिष्यते । तत् एकतापि एभिः न दुर्लभा प्रकाशवि. मर्शरूपश्च ईश्वर एव स्वतन्त्रः तान् आत्मभूतान् यथारुचि रचयति नैषां किमपि प्रातिस्विकं तत्त्वमिति । or ४२ ईश्वरप्रत्यभिज्ञा । [१अ०१आ० तारमाश्रित्य प्रतिष्ठी तत्प्रमात्राभिमुख्येन अ- वस्थानं, ततो जडा नाम न पृथक् सन्ति । यथोक्तं ग्रन्थकृतैव 'एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी। जडा:.... ....................................... इति । स एव हि खात्मा सन् वक्तव्यो यस्य अन्यानुपाहितं रूपं चकास्ति; न च भारू- पानुपाहितं जडं नाम किञ्चित्, तेन जडानां हि शक्तिराविष्क्रियते जडान्प्रति- इत्येतत् तावत् निरुत्थानमेव । ये तु अन्ये जडेभ्यो जीवन्त-इति नाम प्रसिद्धाः तेषामपि शरीर- प्राणपुर्यष्टकशून्याकाराः तावत् जडा एव-इति तेषामपि किमुच्यते । एवं घटशरीरप्राणसुख- तदभावरूपं सत् यल्लग्नं भाति तदेव जीवरूप- भूतं सत्य; तस्य च आपाते यद्यपि बहुत्वं भाति तथापि तत् जडात्मकवेद्यशरीराद्युपाधे। ततस्तत् ७५ तथा च घटो मम स्फुरतीति कोर्थः, मदीयं स्फुरणं स्पन्दन- माविष्टः सद्रूपतामापन्न एव चिन्मयत्वात् । ७६ असंभाव्यमित्यर्थः । ७७ न च संविदो भेद उपपद्यते-प्रकाशैकरूपायां हि संविदि संविद- न्तरास्वरूपभेदकृते भेदव्यवहारे एकतरत्राप्रकाशरूपत्वमुक्तं स्यात् इत्य. संविद्रूपत्वमापतेत , वेद्याश्वामी तत्स्वरूपैकात्म्यभाजः स्वयं भिधमानत्वं .
४ का०] श्रीमदभिनवगुप्ताचार्यकृतविभार्शिन्युपेता। अपारमार्थिकम् अन्योन्याश्रयात्, जीवा हि जडभेदात् भेदभागिनः जडॉश्च जीवभेदात्, एतदेहोऽयम् एतद्वेद्योऽयम्-इति भेदम् उपेयुः, नीलपीतादिभेदस्तु प्रमातृसंलग्नतया अभेद- भूमिमेव परमारूढ इति किं तेन । तदयं जीवानामभेद एव संपन्न, इति जीवन्प्रमाता- इति जातं।जीवनं च जीवनकर्तृत्वं तच्च ज्ञान- क्रियात्मकं, यो हि जानाति च करोति च स जीवति-इत्युच्यते । तदयं प्रमाता ज्ञानक्रिया- शक्तियोगाद् ईश्वर-इति व्यवहर्तव्यः पुराणा- .. चेत्सहेरन् तत्स्वमहिम्ना संविदं भेदयेयुरपि त एव तु न स्वतो भेदमाल- स्बितुं समर्थाः । अथ संवेदनकृत एवैषां भेदः सुस्पष्टमन्योन्याश्रयम् इत्य- भिप्राय प्रकटयति 'ततस्तदपारमार्थिकम्' इत्यादिना 'भेदमुपेयुः' इत्यन्तेन । 'परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् । जडाद्विलक्षणो बोधो यतो न परिमीयते ॥' ७९ तथाच 'इच्छा-ज्ञान-क्रियापूर्वा यस्मात्सर्वाः प्रवृत्तयः । सर्वेपि जन्तवस्तस्मादीश्वरा इति निश्चिताः॥' इति । ज्ञानक्रियाशक्तिलक्षणं च 'स्वप्रकाशे निजे धान्नि भासयेशावविभ्रमान् । भासना च क्रियाशक्तिरिति शास्त्रेषु कथ्यते ॥ यया विचित्रतन्वादिकलना प्रविभज्यते । भासनानवभाते च कथं नामप्रकल्पनम् ॥ तदस्यान्तास्थितं भानं ज्ञानशक्तिरहं स्मृता ।'
ईश्वरप्रत्यभिज्ञा । [१अ१आ० गमादिप्रसिद्धेश्वरवत्; तदप्रंसिद्धावपि सर्व- विषयज्ञानक्रियाशक्तिमत्त्वस्वभावमेव ऐश्वर्य तन्मात्रानुबन्धित्वादेव सिद्धं तदपि च कल्पि- तेश्वरे राजादौ तथा व्याप्तिग्रहणात्, यो यावति ज्ञाता कर्ता च स तावति ईश्वरो रा- जेव, अनीश्वरस्य ज्ञातृत्वकर्तृत्वे स्वभावविरुद्धे यतः, आत्मा च विश्वत्र ज्ञाता कर्ता च-इति सिद्धा प्रत्यभिज्ञा । ज्ञानक्रियाशक्ती एव खा- भाविक्यौ अप्ररूढभेदोन्मेषे सदाशिवेश्वरी, भेदस्य सामान्यतः प्ररोहे विद्याकले, विशेषतः प्ररोहे बुद्धिकर्मेन्द्रियगण-इति भविष्यति । जडा इति अजीवन्तः, अन्ये च जीवन्त- इत्यापाते तावत् भाति न तु संविदापाते भाति । जीवतामिति जङ्गमा एव अमी इत्थं निर्दिष्टाः ॥४॥ ननु ज्ञानक्रिये एव कथं सिद्धे यत ऐश्व- यव्यवहारः प्रसाध्येत?,-इति शङ्कां शमयि- तुमाह ८० ऐश्वर्या प्रसिद्धौ, पुराणागमप्रसिद्धेश्वरताभाचेपि वा।
४५ ५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । तंत्रज्ञानं स्वतःसिद्ध क्रियाकायाश्रितासती परैरप्युपलक्ष्येत तयान्यज्ञानमूह्यते ॥५॥ अहं जानामि, मया ज्ञातं ज्ञास्यते च- इत्येवं प्रकाशापरामर्शपरिनिष्ठितमेव इदं ज्ञानं ८१ तत्रेति तयोर्ज्ञानक्रिययोर्मध्ये, दृष्टान्ताभिप्रायकं कायानितत्वं न दान्तिके, ईश्वरीया क्रिया परीक्षितुं प्रारब्धा कायाश्रिता च परीक्ष्यते इति कोऽयं नयः ? परैरिति मितममातृभिः । कारिकातात्पर्यार्थस्तु,- स्वात्मनि ज्ञानं स्वप्रकाशं, क्रियाप्यान्तरी संवेदनादव्यतिरिक्ता विमर्श- रूपा स्वप्रकाशा, सैव शरीरपर्यन्तीभूता बाह्यदर्शनस्पर्शनादिगम्या, पर- प्रमातरि तु कायपर्यन्तीभूता व्यापारव्याहाररूपा दर्शनादिप्रमाण- गम्या तादात्म्यात्तत्कार्यत्वात् तत्पर्यन्तत्वात् आन्तरसंवेदननिर्भासमपि करोतीति स्वपरप्रमातृगतं जीवनं ज्ञानक्रियात्मसिद्धहेतुरूपम् , तत ऐश्वर्य- .व्यवहारसाधनमिति। ८२ ननु ज्ञानं विषयप्रकाशसमये नैकान्तेन प्रकाशते अपि तु विषयः प्रकाशते न तत्प्रकाशः स तु यदा प्रकाशते तदा ज्ञानान्तरग्राह्यतयैव इत्याक्षपादीया शङ्का, न तु एतत् विषयः प्रकाशते इति हि यदि विषयस्य धर्मः तन्ममेति नियमेन प्रमातृलग्नता न स्यात्, प्रमातृकार्यत्वेन तथा इति चेत् न, कारणेन कार्यस्य तल्लमतावभासनियमकरणं न दृष्टं यतः, एवं हि सति कुविन्दस्यैव पट इति स्यात्, प्रमातृलग्नताभावे च स विषयप्रकाशः सर्वान्प्रति न कंचिद्वा प्रति इति सर्वज्ञं सुप्तं वा जगत्स्यात्, अथ प्रकाशते इति नायं विषयस्य धर्मः, तर्हि कस्य ? आत्मन इति चेत् विषयः प्रकाशते इत्यात्मनि रूपं समवेतम् इति आत्मा विषयप्रकाशमय एव इत्यायातम्, तथात्वं च तस्य यद्यात्मनो न भासते तदतथाभूतरूपत्वात्कोऽस्य विशेषः शुक्लगुणयोगात् हि यः शुक्ल: पटः स यथा जडः तथा प्रकाशमानस्वे, खातज्यविरहात्तथात्मापि भवेत् विषयप्रकाशयोग एव वास्तवेन वृत्तेन भवेत् जडत्वादात्मानं रक्षति इति चेत् अस्तु एवं तावत् , तथापि तु स्वात्मपरास्मविवेको न स्यात् परात्मापि हि वास्तवेन विषयप्रकाशन- । ईश्वरप्रत्यभिज्ञा [१अ०१आ० नाम, किं तत्र अन्यत् विचार्यते, तदप्रै- काशे हि विश्वम् अन्धतमसं स्यात्, तदपि वा न स्यात्, बालोऽपि हि प्रकाशविश्रान्ति- मेव संवेदयते । तदुक्तम् 'विज्ञातारमरे केन विजानीयात् ।' (वृ०२।५।१९) इति । तनिहवे हि कः प्रश्नः, किम् उत्तरं च स्यात्-इति । तत्र जानामि-इत्यन्तः संरम्भयो- ज्ञानगुणसमवायबलेन ज्ञाता चेतनो न च प्रकाशते स्वात्माप्येवमिति, अहं जानामीति यत् आत्मनि स्वातच्यमनुभूयते परात्मविवेकेन तत् कथमुपपद्यते स्वात्मनि ज्ञानान्तरेण ज्ञातृतारूपं गृह्यते न परात्मनि तत्कथं स्वात्मपरात्मनोविवेकः तदपि ज्ञानान्तरं यदि अन्यत् ज्ञानमपे- क्षते तदनवस्था तथापि च स्वात्मपरास्मविवेकसिद्धिः तत एवोक्तम् 'विज्ञातारमरे केन विजानीयात्' इति । किंच विषयस्य तावत् न प्रकाशो धर्म-इति स तावत् न प्रकाशते, विषयप्रकाशरूपमपि ज्ञानं न प्रकाशते, तद्राहकज्ञानान्तरमालापि क- ल्पिता नाभाति, तत्समवायकारणभूतोऽप्यात्मा न प्रकाशते, तत्प्रकाश- रूपमपि ज्ञानं न स्वयं भाति, तज्ज्ञानान्तरमालाप्येवम् इत्यनवस्थानात न किंचिझाति इत्यन्धं जगत् स्यात् । इति ममेति नियमेन प्रमातृलग्नत्वमेवेति। ८३ यथा असिद्धौ च प्रकाशस्य कोऽहं किं त्वं तमोऽपि किम् । न किंचिदपि वा किं स्यातूष्णीं स्यादपि वा कथम् ॥ किंच अयं घटोऽयं पट इत्येवं नानाप्रतीतिषु । अर्कप्रमेव स्वज्ञानं स्वयमेव प्रकाशते । ज्ञानं न चेत्स्वयं सिद्धं जगदन्धं ततो भवेत् । इति ।
४७ ५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। गोऽपि भाति, येन शुक्लादेर्गुणात् अत्यन्त- जडात् जानामि-इति वपुः चित्स्वभावताम् अभ्येति; स च संरम्भो विमर्शः क्रियाशक्ति- रुच्यते । यदुक्तम् अस्मत्परमेष्ठिश्रीसोमानन्द- पादैः 'घटादिग्रहकालेऽपि घटं जानाति सा क्रियों ।' इति । तेन आन्तरीयक्रियाशक्तिः ज्ञानवदेव खतः सिद्धा स्वप्रकाशा, सैव तु खशक्त्या प्राण- पुर्यष्टकक्रमेण शरीरमपि संचरमाणा स्पन्दन- रूपा सती व्यापारव्याहारात्मिका मायापदेऽपि प्रमाणस्य प्रत्यक्षादेविषयः।सा च परशरीरादि- ८४ अत्र वेदान्तमतेन विशेषः यथा जानाति इत्यादी अन्तःकरण- वृत्तिविशेषरूपा क्रिया ज्ञाधातुवाच्या । ज्ञा अवबोधने इति हि धातुः। चित्प्रतिबिम्बलक्षणाभासविशिष्टश्च तिर्थ आश्रयः परस्पराध्यासिताभा- सबुद्ध्योः विवेकाग्रहात् । यदुक्तमाचार्यैः आत्माभासस्तु तिवाच्यो धात्वर्थश्च धियः क्रिया उभयं चाविवेकेन जानातीत्युच्यते मृषा ॥ बुद्धः कर्तृत्वमध्यस्य जानातीति ज्ञ उच्यते । तथा चैतन्यमध्यस्य ज्ञत्वं बुद्धरिहोच्यते ॥ इति । आत्माभास इति बहुव्रीहिः । धियोऽन्तःकरणस्य । तदेवाह । उभयं चेति भूषेति । आभासबुद्धितक्रियाणां मिथ्यात्वात् अयं व्यव- हारोऽपि मिथ्येत्यर्थः । सकलबुद्धिसमष्टिरूपमायावच्छिन्नं चैतन्यमीश्वरः । तत्तद्बुद्धिप्रतिबिम्बितं चैतन्यं जीवः । निरुपाधिकं पूर्ण शुद्धचैतन्यं ब्रह्म इति चितिस्त्रिधा।
ईश्वरप्रत्यभिज्ञा। [१अ०१० साहित्येन अवगता खं स्वभावं ज्ञानात्मक गमयति, न च ज्ञानम् इदन्तया भाति, इदन्ता हि अज्ञानत्वं, न च अन्यत् अन्येन वपुषा भातं भातं भवेत् , तत् ज्ञानं भात्येव परं, भाति च यत् तदेव अहमित्यस्य वपुः, इति परज्ञानमपि स्वात्मैव; परत्वं केवलम् उपाधे- देहादेः, स चापि विचारितो यावत् न अन्य इति विश्वः प्रमातृवर्गः परमार्थत एकः प्रमाता, स एव च अस्ति । यदुक्तम् '....प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः।' इति । ततश्च भगवान् सदाशिवो जानाति इत्यतः प्रभृति क्रिमिरपि जानाति-इत्यन्तम् एक एव प्रमाता-इति फलतः सर्वत्वं प्रमातुः। , ८५ परकायक्रियोपहितं परज्ञानमपि प्रकाशमानतादिन्यायोपहतत्वात् स्वात्मैव, नहि घटद्वयान्तर्गतयोः आकाशयोः भिन्नत्वं मायापदे तु स्वप- रविभागस्य इहत्यदर्शनेऽतात्त्विकत्वात् । संवेदनं हि एकमेव परमार्थतः, कल्पितशून्यप्राणशरीरादिमायाप्रमातृविषयतया तु स्वपरव्यवहारः इति । ८६ ननु यद्यात्मा ईश्वरः सर्वः सर्वज्ञो न कस्मात् ? सर्व इति यदि प्रमातृभेदाशयेनोक्तिः तदसत् प्रमातृभेदस्यापारमार्थिकत्वात् , केवल स्वातन्त्र्यशक्त्यैव तद्भेदावभासनम् एकस्तु प्रमाता शिवादिस्थावरान्तः स च सदा सर्वज्ञ एवेति अतो रामावतरणकाले नाहमभूवमित्यत्रापि प्रमा- अन्तरसंवेदनात्मना वक्तैव तत्कालानुभविता-इत्यादि अयत्नघटितमुप- पद्यत एव ।
५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । एवं कर्तृत्वेऽपि वाच्यम् । यदुक्तम् अस्मत्पर- मेष्ठिभिः शिवदृष्टौ 'घटो मदात्मना वेत्ति वेद्यहं च घटात्मना । सदाशिवात्मना वेनिस वा वेत्ति मदात्मना । नानाभावैः स्वमात्मानं जाननास्ते खयं शिवः।' इत्यादि । ऊँह्यते' इत्यनेन ज्ञानस्य प्रमेयत्वं न निर्वहति-इति दर्शयति, अन्यथा हि अनुमी- यते-इति ब्रूयात् । तदेवं येषां तार्किकप्रवाद- पांसुपातधूसरीभावो न वृत्तोऽस्मिन् संवेदन- पथे, ते इयतैर्वे आत्मानमीश्वरं विद्वांसो घटशरीरप्राणसुखतदभावान् तत्रैव निमज्ज- यन्त ईश्वरसमाविष्टा एव भवन्ति । ततोऽयम् उपोद्धतिः।-उप इति आत्मनः समीपे टङ्कवत् ईश्वराभिज्ञानलक्षण उत्कर्षो हन्यते विश्राम्यते येन; एतावदेव च अस्य ग्रन्थस्य तात्पर्यम्,- ८७ ऊह्यते इति नानुमेयतामानं परसंवेदनस्य ऊहनं तकणं संभावन- मित्यत्रांशे इन्द्रियव्यापारणमप्यस्ति ततश्च साक्षात्कारमुपलक्षयत्यूहः सोऽपि हि परमार्थतः परसंवेदनेऽस्ति परत्वं तु मायामोहकृतमभिमान- मानसारम् । ८८ संक्षेपेण वस्त्वभिधानं नोक्तिवैचित्र्यपोषणामात्रफलम् अपि तु अधिकारिविशेष तीव्रशक्तिपातशरदभ्रभङ्गीभ्रश्यन्मोहावरणम् अनुपयोगि- पूर्वपक्षोपक्षेपविस्तरमनुग्रहीतुम् इत्याशयत आह इयतेति ।
५० ईश्वरप्रत्यभिज्ञा । [१अ०१आ० इति। ततोऽपि अयम् उपोद्धातः।-उपांशु अवि- ततं कृत्वा उदिति शास्त्रस्य ऊर्ध्व एव हन्यते अपसार्यते प्रमेयविषयो व्यामोहो येन-इति । गत्यर्थत्वाद्वा हन्तेानमर्थः, ज्ञायते प्रमेयं येन इति। केचित्तु गति स्त्रियं गच्छति--इत्येतद्विषया- मेव हन्त्यर्थमाहुः। एवं श्लोकचतुष्टयार्थभावना- दाढ्यादेव लभ्यते परमशिवः-इति शिवम् ॥५॥ इति श्रीमदाचार्योत्पलदेवशिष्य-श्रीमदाचार्यलक्ष्मणगुप्तद- तोपदेश-श्रीमदाचार्याभिनवगुप्तविरचितायां श्रीप्रत्य- भिज्ञाविमर्शिन्यां ज्ञानाधिकारे उपोद्घातः । इति प्रथममाह्निकम् ॥१॥ ८९ प्रतिपाद्यमर्थ बुद्धौ संगृह्य तदर्थमर्थान्तरवचनमुपोद्रातः। तथा च 'चिन्ता प्रकृतसिध्यर्थामुपोद्धातं प्रचक्षते । प्रसक्तानुप्रसक्तादि प्रस्तुतादुपजायते ॥' इति ।
अथ द्वितीयमाह्निकम् । पूर्वपक्षतया येन विश्वमाभास भेदतः। अभेदोत्तरपक्षान्तीयते तं स्तुमः शिवम् ॥ इह यत् परमार्थरूपं तद् आशङ्कयमानप्रति- पक्षप्रतिक्षेपेण निरूपयिष्यमाणं सुष्टुतमां स्पष्टी- कृतं भवति । यदाह भट्टनारायणः 'नमस्ते भवसंभ्रान्तभ्रान्तिमुद्भाव्य भिन्दते । ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते ॥ तंत्रेह अनात्मानीश्वरवादिनां भ्रान्तिभे- दनपूर्वकं परमार्थ विवरीष्यन् तदुद्भावनं तावत् एकादशभिः श्लोकैः करोति 'ननु स्खलक्षणाभासम्" १ आत्मन एव सद्भावे ये विप्रतिपन्नाः, त एव कथं तस्य ऐश्वर्यमुपग- च्छेयु:-इति त एव इह मूल विपक्षाः । तत्र लोकायतिकाः स्वपक्षस्थाप- नाविहीनाः परपक्षमपि कथं दूषयेयुः प्रमाणादिप्रक्रियामर्यादानुप्रवेशेन तद्दूषणात्, तदनुप्रवेशे तु चार्वाकताहानिः-इति सौगता एव इह पूर्वप- क्षवादिनः।ये हि आत्मानमुपयन्ति अनेकमनीश्वरं च, एकं वा छन्नैश्वर्यम् , ते तावत् नात्यन्ताय इह दूर स्फुटिताः असाधारणेन धर्मेण धर्मिणोऽङ्गी- करणेन, अङ्गीकृतधर्माभ्युपगमा हि सुघटाः नतु सर्वथानुपगमे-इति सौगतीयः पूर्वपक्षोऽत्र उद्भाव्यते । पं० ४ ग० पु० निरूप्यमाणमिति पाठः। पं० ८ ग० पु. अनात्मनि ईश्वरवादिनामिति पाठः। .................. ..
५२ .................... ईश्वरप्रत्यभिज्ञा । [१अ०२ आ० इत्यादिभिः "तेन कर्तापि कल्पितः॥ इत्यन्तैः । तत्र श्लोकद्वयेन आत्मनो ध्रुवस्य दृ- श्यानुपलब्ध्या अभाव उक्तः प्रत्यक्षात्मवादिनः प्रति । तत्र श्लोकत्रयेण स्मृत्यनुसंधान संस्का- रात् सिद्धम्-इति अन्यथासिद्धत्वात् आत्मानु- मानाय न पर्याप्तम्-इति प्रोक्तम् अनुमेयात्मवा- दिनः प्रति । तत्र श्लोकेन ज्ञानादिगुणैर्युणिनि प्रतिपत्तिः-इति अनुमानं निरस्तम्। एवम् आ- त्मानं निराकृत्य, ततो ज्ञानक्रियाशक्तिसंबन्ध- रूपमैश्वर्य निराकर्तुं ज्ञानस्य खरूपमेव व्यति- रिक्तं वाद्यन्तरमंते, सांख्यमते च अयुज्यमा- नम्-इति निरूपितं श्लोकद्वयेन । तत एकेन क्रिया नाम न काचित् क्वचिदपि अस्ति-इति कथितं । तत्र साधकं प्रतिक्षिप्य बाधकंच २ दृश्यस्य दर्शनार्हस्य प्रमातुरनुपलब्ध्या । शैव-वेदान्तिनो मानसप्रत्यक्षात्मवादिनः। नैयायिकान्प्रति ५ तार्किकमतेन । ६ ज्ञानक्रियासंबन्धानातृत्वकर्तृत्वरूपम् । पं० ४ ग० घ० पु. प्रत्यक्षवादिन इति पाठः । पं० ६ ग० पुं० आत्मानमनुमायेति पाठः ।
२का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । उपन्यस्यति । ततः संबन्धस्य श्लोकेन नास्तित्वं प्रतिपादितं प्रमाणाभावं वदता। श्लोकेनैव तत्र बाधकं प्रमाणमुक्त्वा, न आत्मा स्थिरो, नापि ज्ञातृत्वकर्तृत्वलक्षणम् अस्य ऐश्वर्यम्-इति वपक्ष उपसंहृतः-इति पूर्वपक्षस्य पिण्डार्थः । अथ ग्रन्थो व्याख्यायते ननु स्खलक्षणाभासं ज्ञानमेकं परं पुनः । साभिलापं विकल्पाख्यं बहुधा नापि तद्वयम् ॥१॥ नित्यस्य कस्यचिद्रष्टुस्तस्यात्रानवभासतः अहंप्रतीतिरप्येषा शरीराद्यवसायिनी॥२ ७ ज्ञानक्रियादेः। ८ आक्षेपेण च पूर्वपक्षी युक्तिविदग्धंमन्यताक्रान्तहृदयोऽत्र विप्रतिपन्नो यत्नेन स्वाभिनिवेशात् सौजन्याङ्गीकृतपरोपकारमावण्येन सिद्धान्तिना निवर्त्यते-इति सूचयन अज्ञससंशयौ दण्डापूपिकयैव इह व्युत्पाद्यते-इति दर्शयति । पं० १ ग० पु० न्यस्येति तत इति पाठः । पं० ३ क० ग० पुं० न आत्मा अस्ति नापि इति पाठः। पं० ४ ग० पु० ज्ञातृत्वलक्षणमिति पाठः । पं. ६ क. ग. पु० ग्रन्थार्थः इति पाठः ।
ईश्वरप्रत्यभिज्ञा । [१अ०२आ० 'ननु' इति आक्षेपे; इह आत्मा संवित्स्व- भावः स्थिरः-इति तावदयुक्तम्, स्थिरस्य खप्रकाशस्य अप्रकाशनात् । तथाहि-घटप्र- काशो, घटविकल्पो, घटप्रत्यभिज्ञा, घटस्मृतिः, घटोत्प्रेक्षा-इत्यादिरूपेण ज्ञानान्येव प्रकाशन्ते, भिन्नकालानि भिन्न विषयाणि भिन्नाकाराणि च । तत्र नीलप्रकाशः 'स्वलक्षणाभासं ज्ञानं । 'खम्' अन्याननुयायि स्वरूपसंकोचभागि 'ल- क्षणं' देशकालाकाररूपं यस्य तस्य 'आभासः' प्रकाशनम् अन्तर्मुखं यस्मिन् बहिर्मुखीनखरू- पधारिणि ज्ञाने तत् अविकल्पकं, विषयभेदेऽपि एकजातीयं खरूपे, तद्वैचित्र्ये कारणाभावात् । विकल्पे हि वैचित्र्यकारणम् अभिलापः, स च अत्र नास्ति; नहि अभिलापो नीलस्य धर्मः, ९ उक्तस्य सिद्धान्तस्य निराकरणमाक्षेपः । ज्ञानक्रियाशक्तिमत्त्वं सं- वित्स्वभावत्वम् । १० घटप्रकाशो निर्विकल्पतया, घटविकल्पः अयं घट इति, घट- प्रत्यभिज्ञा सोऽयं घट इति, घटस्मृतिः-स घट इति, घटोत्प्रेक्षा-प्रायेणा- नेन घटेन भवितव्यम् इति । ११ ज्ञानानां क्षणिकत्वात् । १२ निर्विकल्परूपः । १३ मेयोपरागबाह्येन्द्रियजन्ये ।
२का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । नच चक्षुह्यः, ततोऽसौ प्राच्यः स्मर्तव्यः, अप्रबुद्धे च संस्कारे न स्मृतिः, तत्प्रबोधश्च वस्तुदर्शनोत्थितः-इति वस्तुदर्शनसमयेऽभि- लापस्मृतिर्नास्ति । ततः परं विकल्पकं ज्ञानं, सर्वस्य विकल्पस्य साक्षात्, पारम्पर्येण वा निर्विकल्पकमूलत्वात् । 'परम्' इति च अन्य- रूपं सामान्यलक्षणं तस्य विषयः, खलक्षणेऽति- संकोचिनि विततविकल्पसाध्यस्य वृद्धव्यावहा- रिकस्य, औपदेशिकस्य वा संकेतस्य कर्तुम् अशक्यत्वात् , कृतस्यापि वैयर्थ्यात् , तेन हि अ- ननुयायिना न पुनर्व्यवहारः। तच्च बहुभेदं, य- तस्तत् अभिलाँपेन संजल्पात्मना शब्दनरूपेण १४ अभिलापस्य श्रावणत्वात् । १५ समयरूपः ६६ परमिति अन्यत् अनुभवोत्तरभावि च तदुपजीवित्वात् सर्वविक- ल्पानां पारम्पर्येण अनुक्रमेण स्मृत्यादिरूपेण, यथा मणिप्रभादर्शनोत्थस्य 'मणिविकल्पकस्य पारंपर्येण मणिप्रभादर्शनोत्थत्वं, प्रभया हि प्रभादर्शन तेन च प्रभाविकल्पः, तेन च मणिविकल्पः-इत्यादि । १७ अभिलप्यते आभिमुख्येन विषयपरवशतात्यागेन बोधस्वातच्य- शब्दनेन च विषयस्य तादात्म्यापादनेन व्यक्ततया प्रमातृसाक्षात्कारपर्यन्त- तया उच्यते परामृश्यते येन सोऽभिलापः, आन्तरशब्दलक्षणः संजल्पः। यदाहुः भर्तृहरिपादाः 'सोऽयमित्यभिसंबन्धाद्रूपमेकीकृतं यदा । शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ॥'
ईश्वरप्रत्यभिज्ञा। [१अ०२० सह वर्तते।शब्दनं च इदम्-इति, तत्-इति, तदिदम-इति, भवेदिदम्-इति, इदं वा इदम्- इत्यादि बहुधा' भिद्यते। तच्चन विषयपक्षे वर्तते, अपि तु तस्य विकल्पस्य स्वरूपमेव विचित्री- कुर्वत्प्रतिभाति-इति विकल्पो बहुभेदः। एवम् अनुभवविकल्पपरम्परा तावत् वप्रकाशत्वेन भाति । स्यादेतत्, यल्लग्नासौ परम्परा सोऽपि आभाति-इति; तन्न, यतो द्वयमपि एतद् अविकल्पेतररूपं न अन्यस्य 'कस्यचित्' एत- इति । तेन सह वर्तते-इत्यनेन सोऽयमित्यभिसंबन्धात्मकसंकेतव्युत्पत्ति- कालव्यवहारकालानुगामित्वं विषयस्य वदता सामान्यविषयत्वं दर्शितम् । बहुधात्वे अवान्तरजातिभेदकृते युक्तिः सूचिता, स इत्यनुसंधाने स्मृतिः, सोऽयमित्यनुवेधे प्रत्यभिज्ञा, स इवायमित्यनुरोधे उत्प्रेक्षा, स एवायमि- त्यनुयोगे व्यवच्छेद इत्यादयो विकल्पभेदा अभिलापभेदमूला एव । स्मृ- त्युत्प्रेक्षादेश्च अवान्तरजातिभेदयोगेऽपि विकल्पलक्षणमहासामान्ययोगः- इत्यपि सामिलापशब्देन सूचितम् ॥ १८ अपिशब्दो भिन्नक्रमः, द्वयमपि तत् न नित्यस्य कस्यचित् द्रष्टश- ब्दवाच्यस्य परैरुपगतस्य संबन्धित्वेन युक्तम् । तस्य नित्यस्य अन ज्ञान- द्वये भासमाने सति, अत्र द्वये आधारतया च परेण स्वप्रकाशताभ्युपगत- प्रकाशभावयोग्यस्यापि अप्रकाशनात् , तस्य इति वा ज्ञानद्वयस्य अन्न आत्मनि आधारे अनवभासनात् स्वतन्त्रतयैव तत् ज्ञानद्वयं भाति नतु कचित् नित्ये आश्रितं सदित्यर्थः । पं० २ ग० घ० पु० इदं वा इदं वा इत्यादीति पाठः । पं० ४ ख० घ० पु० विकल्प्यस्येति पाठः।
२का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । दतिरिक्तस्य 'द्रष्टुः' अनुभवितुः संबन्धि, दृश्यस्य तु भवतु बाह्यार्थवादे । अत्र हेतुः- यतः 'तस्य' द्रष्टुः, अत एव संवित्स्वभावतो- पगमात् स्वप्रकाशतायोग्यत्वात् आपन्नोपल- ब्धिलक्षणप्राप्तेः; 'अत्र' एतबोधद्वयमध्ये नास्ति अवभासः । ननु अस्त्येव अवभासः-इति असिद्धा दृश्यानुपलब्धिः । तथाहि-अहं वेनि, निश्चिनोमि, स्मरामि इदम्-इति विदादिप्रक- त्यर्थरूपात् ज्ञानस्मृत्यादेः, इदम्-इति च कर्मरू- पात् विषयात् अतिरिक्तमेव अहम्-इति अनु- यायिनि प्रकाशे अनुयायि रूपं भाति । क एव- माह भाति-इति ? । भानं हि अविकल्पकम् , अहम्-इति शब्दानुविद्धो विकल्पप्रत्ययः । ननु तथापि किम् अनेन विकल्प्यते, शरी- रसन्तानो वा कृशोऽहम्-इत्यादिप्रत्ययात् , १९ दृश्यस्य दर्शनार्हस्य प्रमातुः । २० अनादिप्रबन्धप्रवृत्तो ज्ञानानां हेतुफलभावप्रवाहः संतानः । अहं- प्रतीत्या अहं जानामि, अहं पश्यामि-इत्येवंरूपेण अनुभवेन शरीरसं- तानो, ज्ञानसंतानो वा निश्चीयते, नतु ज्ञाता द्रष्टा कश्चित् अन्यो ज्ञाप्यते-इति सौगताः। पं० १२ क. पु० अविकल्पनमिति पाठः । ८ ईश्वरप्रत्यभिज्ञा । [१अ०२आ० ज्ञानसन्तानो वा सुख्यहम्-इत्यादिप्रतीतः । मत्वर्थीयश्च सन्तानमेव स्पृशति नातिरिक्तम् । तदेतदुक्तम्-'अहंप्रतीतिरपि' शरीरम् , आदि- ग्रहणात् ज्ञानम् अवस्यति, संतानरूपतया विकल्पयति अवश्यं; संदेशापरापरभावभेदग्रह- . 'आत्मानमात्मनात्मैव लिङ्गादनुमिनोति हि । तत्र नूनमुपेतव्या कर्तृता कर्मतास्य च ॥ तत्रानुमानज्ञानस्य यथात्मा याति कर्मताम् । तथाह-प्रत्ययस्यैव प्रत्यक्षस्यापि गच्छतु ॥ देहादिव्यतिरिक्तश्च यथा लिङ्गेन गम्यते । तथाह-प्रत्ययेनापि गम्यतां तद्विलक्षणः ॥' ननु आत्मनः किं रूपं यत् प्रत्यक्षेण साक्षात्क्रियते, यद्येवं सुखादेरपि किं रूपं यत् मानसप्रत्यक्षसमधिगम्यमिष्यते ! ननु आनन्दादि स्वभा- वप्रसिद्धमेव रूपं सुखादेः, तर्हि तदाधारत्वं स्वात्मनोऽपि रूपमवग- च्छतु भवान् "सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते । मतुबर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः ॥ इदं सुखमिदं ज्ञानं दृश्यते न घटादिवत् । अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका ॥' अपिच 'ज्ञातृज्ञानविशिष्टार्थग्रहणं किल भाष्यकृत् । स्वयं प्रादीदृशत्तच्च किं वा युक्तमुपेक्षितुम् ॥ विशेष्यबुद्धिमिच्छन्ति नागृहीतविशेषणाम् ।' इति प्रत्यक्षात्मवादिमतं मनसि निधाय आत्मप्रत्यक्षत्वं दूषयति अहं प्रतीतिरपि इत्यादिना। २२ सदृशेति तत्वतो हि ज्ञानमात्रमेकमेव इदमनारोपितनीलादिभे- दम् अनध्यस्तमायग्राहकादिप्रपञ्चं सौगतानां । अयं घटः, सोऽयं घटः, - mom ३का०] श्रीमदभिनवगुप्ताचार्यकृत विमर्शिन्युपेता । णसामर्थ्यवासनाविष्टत्वात्-इति । 'एषा' इति न अस्माभिर्निबुता, 'साभिलापं विकल्पाख्यम्' इत्यनेन संगृहीतत्वात् । एतदुक्तं भवति-अहं- प्रतीतिरेव तावत् न आत्मा, तस्या अपि विकल्परूपत्वात् अस्थैर्याच्च । एतत्प्रतीतिप्रत्ये- योऽपि नास्ति अन्यः शरीरादेः, भवन्नपि वा वेद्यपक्षपतितः स्यात्-इति । तथापि संवि- संवेद्यैव्यतिरिक्तस्य आत्मनो न सिद्धिः- इत्येतत् अपिशब्देन द्योतितम् । एवं नास्ति आत्मा संविसंवेद्यव्यतिरिक्तो दृश्यस्य अनुप- लब्धेः-इति ॥२॥ अत्र आत्मवाद्यनुमानमुत्थापयितुमाह अथानुभवविध्वंसे स्मृतिस्तदनुरोधिनी। स घटः, घटेन भवितव्यम्-इत्यादिरूपो हि अन्यान्यभावः सदृशः भेदः सदृशापरापरभावात्मा भेदः-इति यावत् । तस्य ग्रहणं विकल्पनं तत्सामर्थ्य तद्वत्वमेव वासना अनाद्यविद्यारूपा तयाविष्टाह-प्रतीतिः अवश्यं विकल्पयत्येव । ततश्च किं निष्पन्नं?-तुल्यापरापरोत्पत्त्या हेतुना ज्ञानानामर्थानां च स्थैर्यप्रतिपत्तिन्तैिव, योऽहं घटमद्राक्ष सोऽहम- स्त्राक्षं तदेव इदं वपुः इत्येवं-विधा-इति कृत्वापि अहमिति-शब्दसं. स्पृक्तो विकल्पप्रत्यय एव आगतो नतु नित्यः कश्चिदात्मा-इति ।। २३ संवित् ज्ञानसंतानः, संवेद्यं शरीरसंतानः, ताभ्यां भिन्नस्य इत्यर्थः। २४ घटविषयाः सर्वे अनुभवा उत्पन्नापवर्गिणः तावत, अनुभवं च ६० ईश्वरप्रत्यभिज्ञा। [१अ०२आ० कथंभवेन नित्यः स्यादात्मा यद्यनुभावकः इह स्मृतिकाले सुस्मूर्षितोऽर्थों भवतु, ध्वंसतां वा-इति किम् अनेन, अनुभवस्तावत् ध्वस्तः-इत्यत्र सर्वस्य अविवादः, तमेव च अनुरुन्धाना स्मृतिर्जायते । तथाहि-स्मृतौ न अर्थस्य प्रकाशः, न अध्यवसायः, नापि अनुभवस्य, अर्थस्य च अङ्गुलिद्वयवेत् , नापि अनुभवविशिष्टस्य अर्थस्य दण्डिवत्, सर्वत्र अयम्-इति प्रत्ययप्रसङ्गात् ; किंतु अनुभव- प्रकाश एव स्मृतौ प्रधानम, अनुभवस्य अनुरुध्यमाना स्मृतिदृष्टा, अन्यथा यत्रैव कुत्रचित् सा स्यात् । नच अनु- भवोद्भवमात्रात् सा भवति, चैत्रदृष्टे मैत्रस्य तदभावात् , तदयमनुभवो बहिर्मुखेन वपुषा ध्वस्तोऽपि अन्तर्मुखेन अध्वस्त एव उपगन्तव्यः-इति परस्य सिद्धान्तिनो मतम् । अथ-शब्दद्योतितसंभावनारूपाशङ्को- पलक्षितं कारिकया पूर्वपक्षवादी आह-अथानुभवेति । अनुभवस्य विध्वंसे अनुभवस्त्रीकारद्वारपरिगृहीतनियतविषया स्मृतिः केन प्रकारेण भवेत् , यदि तदनुभवान्तर्मुखरूपोऽनुभविता स्थिर आत्मा न स्यात्, अस्ति च इयं स्मृतिः, तत् तेनापि भवितव्यमिति यदि परो ब्रूयादिति कारिकार्थः। १ २५ समप्रधानतया। २६ यस्य यः प्रकाशः स तत्प्रकाशं विना न प्रकाशितुं योग्यः, नहि नीलाण्यगुणप्रकाशं विना नीलोत्पलो दृष्टः,-इति अनुभवप्रकाशस्यैव अर्थप्रकाशयुक्तायां स्मृतौ प्राधान्यम् इति । पं० ४ ग० ध० पु० विध्वंसताम् इति पाठः ।
६१ ३का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। तु अर्थप्रकाशात्मकत्वात् अनुभवप्रकाशना- न्तरीयकोऽर्थावभासः-इति । सर्वथा यदि अनुभवो ध्वस्तः, तदा तत्प्रकाशरूपा कथं स्मृतिस्तद्वारेण अर्थविषया स्यात् , तया च सर्वो व्यवहारः क्रियमाणो दृष्टः इत्यसौ स्वरू- पेण अनपहवनीया, सति अनुभवस्य नाशे, किंचित् अविनष्टम् आवेदयति । तदेव च अनुभवकर्तृ अनुभवितृरूपम् , आत्मा अनुभा- वको नित्यः-इति इयदेव च आत्मसिद्धेर्जी- वितं । तत्त न अधिकम् इहैव उन्मीलितम् आचार्येण, वक्तव्यशेषविवक्षया पूर्वपक्षो मा तावत् समापत्-इत्याशयेन 'कथंभवेत्' इति । अर्थस्तावत् तस्याम् अकिंचित्करः, अनुभवश्च ध्वस्तः-इति न केनचित्प्रकारेण स्मृतिः स्यात् , तदभावे च संकेतशब्दस्मृत्यायत्ता अपि अस्त- इताः सर्वे विकल्पाः, निर्विकल्पं च अन्धमूक- बधिरप्रायम्-इति हन्त निराकन्दम् अवसी- देत् विश्वम्-इति ॥३॥ इह कार्यव्यतिरेकेण ताहक् कल्पनीयं पं० ११ ग० घ० पु० पूर्वपक्षे मा इति पाठः ईश्वरप्रत्यभिज्ञा । [१अ०२ आ० यत् कार्यसिद्धये पर्याप्नोति, न चैवम् आत्मा, अर्थो हि तावत् स्मर्यते, स च अनुभवप्रकाश- मुखेन, अनुभवश्च ध्वस्त:-इत्युक्तं; यदि आत्मा कश्चिदस्ति, किं तेन । एतदपि हि वक्तव्यम्- आकाशमपि अस्ति-इति । अथ उच्यते-न केवलेन आत्मना एतत् सिध्यति, अपितु अनु- भवसंस्कारोऽपि अत्र उपयोगी-इति, तर्हि स एवास्तु, किम् आत्मना?-तत् एतत् दर्शयति सत्याप्यात्मनि हाशात्तद्वारा दृष्टवस्तुषु स्मृतिः केन ॥ २७ एवं सिद्धान्तिमतं संभाव्य दर्शितम्, अधुना एतन्निराकरणप्रकार स्वयमेव वक्ष्यति-इत्याशयेन सिद्धान्तिनं पूर्वपक्षवादी पृच्छति-सत्यपी- स्यादिना केनेत्यन्तेन । प्रश्नस्य च अयमाशयः-इह अनुभवस्य नीलं प्रका- शता च-इति धर्मद्वयं व्यावृत्त्युपकल्पितं वा, वास्तवं वा-इति तावदा- स्ताम्, किमस्थानेन विकल्पितेन । इदं तु विकल्प्यम्-स्मृतौ सविषयता- लाभाय नीलप्रकाशतांश उपजीवितव्यो न अन्तर्मुखस्वप्रकाशतांशः, तस्य विषयविशेषसमर्पणायोग्यत्वे प्रमात्रभेदभेदयोश्च स्मृतिविशेषप्रसं- गात्, स च उपजीवनीयोंऽशोऽर्थस्य अभावाय, असंनिकर्षाद्वा इन्द्रिय- व्यापाराभावात् वा सर्वज्ञतोपयोग्यदृष्टिनैर्मल्यसमाधानाधभावात् वा नष्ट एव, अर्थ आभासते यावता सामध्येण उक्तेन, तस्य अभावे तावत् नीलानुभवरूपा दर्शनरूपता नष्टा, सैव च केवला अविच्छिन्नबोधमानो- पयोगमनपेक्षमाणा द्वारमुपायोऽनुभूतवस्तु विषयतालाभे यस्याः स्मृतेः पं० ८ ग० पु० आत्मना एतत् इति पाठः ।
५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । ६३ 'दृष्टेषु' अनुभूतेषु 'वस्तुषु' या 'स्मृतिः' तस्याम् अनुभवो दृगात्मा द्वारम्' अर्थांशस्पशें, स च 'सत्यपि आत्मनि' नष्टोऽनुभवः, तस्य हि अनाशे इदम्-इत्येष एव अत्रुटितः प्रकाशः- इति का स्मृतिः, तदनुभविता किं स्मृतेः कुर्यात्-इति ॥ अर्थ यत्रैवानुभवस्तत्पदैव सा ॥४॥ 'यत्रैव' विषये 'अनुभवो' वृत्तः 'तदेव' तस्याः स्मृतेः पदं स्मर्यमाणम् । तत्पदा-इति बहुव्रीहिः, 'सा' इति स्मृतिः॥ ४ ॥ ननु ज्ञानान्तरस्य विषयेण कथं तस्याः विषयित्वाभिमानः-इत्याशङ्कयाह. यतो हि पूर्वानुभवसंस्कारात्स्मृतिसंभवः। सा सत्यपि आत्मनि निर्विषयशुद्धान्तर्मुखसंवेदनेपि अभ्युपगते केन प्रका- रेण इति न कश्चित् असौ प्रकारोस्ति येन सा स्थात् , ततो नैव भवेत् इति। २८ अथ सिद्धान्तिनो वचनं हृदयस्थं संभावनया उपन्यस्यति अथेति । २९ कथं सा नष्टस्य अनुभवस्य विषयेण विषयवती इत्यत्र हेतुमाह,- यतो हीति, यतः पूर्वानुभवसंस्कारात् स्मृतेः संभवः, तस्मात् विषयेण तत्पदैव सा, हि यसादेवं तसात् केन दृङ्गाशे स्मृतिरिति पर्यनुयोगासं- भवः-इत्याशयशेषं हि-शब्देन दर्शयति । पं० १२ ग० घ. पु० विषयवत्त्वेति पाठः ।
ईश्वरप्रत्यभिज्ञा । [१अ०२आ० अनुभवेन हि संस्कारो जन्यते खोचितः, संस्कारश्च प्राक्तनरूपांस्थितिं स्थापयति, आकृ, ष्टशाखादेश्चिरसंवर्तितस्य विवर्त्यमानस्य भू- जर्जादेः । तेन अत्रापि संस्कारः तां स्मृति पूर्वानुभवानुकारिणी करोति-इति तद्विषय एव स्मृतेविषयः॥ ययेवमन्तर्गडुना कोऽर्थः स्यात्स्थायिना- त्मना ॥५॥ एवं तर्हि 'अन्तर्गडुः' यथा आयासाय परं, तद्वत् आत्मा स्थिरः कल्पनायासमात्रफल:- इति किं तेन, सर्वं हि संस्कारेण जगद्व्यवहा- रकुटुम्बकं कृतकरावलम्बम्-इति ॥५॥ ननु तस्यैव संस्कारस्य आश्रयो वक्तव्यः, स हि गुणत्वाद् आश्रयमपेक्षते, य आश्रयः स आत्मा स्यात्-इत्याशङ्कयाह. ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतः। संस्कारात्स्मृतिसिद्धौ स्यात्स्मर्ता द्रष्टेव कल्पितः॥६॥ ३० ननु संस्कारो धर्मरूपो गुणो न स्वतन्त्र-इति धर्मिणा अस्य भवि- , ६का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। इह संस्कारे जायमाने, यदि आत्मनो विशेषः, स तर्हि अव्यतिरिक्तः-इति न नित्य आत्मा स्यात् ; अथ न कश्चित् अस्य विशेषः, तव्यम् । ज्ञानसंतान एव अस्य धर्मी इति चेत्, न तावत् संतानः कश्चित् अन्यो ज्ञानेभ्यः, तत् यदि ज्ञानेष्वेव संस्कार इत्युच्यते तत् अयुक्तम् , नहि अन्यत्र अनुभवरूपता, अन्यत्र संस्कारोऽन्यत्र स्मृतिः-इति युक्तं, प्रसिद्ध चैत्रमैत्रादिनमातृभेदे एवंविधवृत्तान्तानवलोकनात् , तसात् अनु- भवसंस्कारयोरभेदः समर्थनीयः, स च स्वरूपेण नोपलभ्यते, अतो वि- लक्षणत्वात्-इति आश्रयाभेदात् एकार्थसमवायलक्षणादेव स सिध्यति, अनुभवसंस्कारयोश्च आश्रयद्वारेण अभेदे सिद्धे सुखादीनामपि प्रतिसन्धिः सिध्यत्येव, सर्वस्य प्रतिसंधेः य एव अहं सुखानुभवेन सुखी समभवं स एव इच्छामि दुःखी द्वेष्मि इच्छाद्वेषयुक् च आदातुं हातुं वा प्रयते- इत्यादेः स्मरणसारत्वात् , अनेनैव आशयेन संक्षेपव्याख्यारूपायामवत- रण्यां संस्कारस्य धर्मत्वं व्याख्यातं, न सुखादीनां पृथक् तस्मात् संस्का- रस्य आश्रय एकः, एकत्वादेव च स्थिरो यः स एव आत्मा-इति पूर्वप: क्षवादिनो मतमाशय आह-ततो भिन्नेषु-इति । तत आत्मनो व्यतिरि- क्तेषु धर्मेषु संस्कारादिषु सत्स्वपि, व्यतिरिक्त च समवाये सत्यपि तस्य आत्मनः स्वस्मिन् रूपे अनुदितसंस्कारादिधर्मात् पूर्वरूपात् न विशेषः, विशेषे हि अनित्यत्वं, तस्मात् संस्कारादेव पूर्वोक्तन्यायेन स्मृतिः सिद्धा। यत्तु अहं स्मर्ता-इति भासते, तत्र तावदसौ अहंप्रतीतिरेव न आत्मा क्षणिकत्वात्, अस्थिरत्वात् , तत्प्रत्येयं तु वस्तु स्वलक्षणं यदि अनुभवगो- चरीकृतं भाति तदस्थिरमेव, अथ विकल्प्यं तत् शरीरं संतानो वा इति तथा वेद्यवेदनातिरिक्तो न कश्चित् वेदकः स्मर्तृद्रष्टरूपो भाति । एतदुक्तं भवति-यतो नित्य आत्मा, अतो यथा असौ अनुदितसंस्कारोऽपि नं स्मृतौ व्यापरिष्ट, तथा उदितसंस्कारोऽपि न व्याप्रियेत, तत्स्वरूपस्य अंशे; नापि अवैलक्षण्यात; वैलक्षण्यं हि संस्कार एव, तत्कृते वा व्यतिरेक. राहित्ये तस्य पूर्वरूपापायात् अनित्यत्वम्, व्यतिरिक्ते तु तस्य न तत् किंचित् स्यात्, ततः संस्कारस्य किमाश्रयेण स्मृतौ जन्यायामनुप- युक्तेन इति ।
ईश्वरप्रत्यभिज्ञा । [१अ०२आ० तेन तर्हि किम् । अथ संस्कार एव अस्य विशेषः, तर्हि न व्यतिरिक्तोऽसौ-इति, पुनरपि अनित्ये ज्ञाने संस्कारः-इत्यायातम् । अनुभवा- द्विशिष्टं विशिष्टस्मृत्याख्यकार्यकारि ज्ञानं पर- म्परया जायते-इति इयानेव संस्कारार्थः। अथ संस्कारात्मा व्यतिरिक्तो विशेषः, तस्य तर्हि किमसौ । संबन्धश्च व्यतिरिक्तो निराक- रिष्यते । एवं ज्ञानसुखदुःखेच्छाद्वेषप्रयत्नधर्मा- धर्मा अपि विकल्पनीयाः। एतदाह-'ततः' इति आत्मनो 'भिन्नेषु धर्मेषु' अङ्गीक्रियमाणेषु तेषु सत्खपि, आत्मनः 'खरूपे विशेषाभावात् स तावत् आत्मा स्मृतौ न व्याप्रियेत, अस्म- र्तृरूपासंस्कृतरूपादिप्राच्यरूपानपायात्-इति 'संस्कारादेव स्मृतेः सिद्धिः-इति। अहं स्मरा- मि-इति यः स्मर्ता' सोऽपि शरीरसंतानो, ज्ञानसंतानश्च अध्यवसीयते, यथा 'द्रष्टा' । पूर्व हि उक्तम् 'अहंप्रतीतिरप्येपा शरीराद्यवसायिनी । (१।२।२) पं० १२ ख. पु० व्याप्रियते इति पाठः ।
६का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । इति। एवम् आत्मनि साधकं प्रमाणं प्रत्यक्षम- नुमानं च पराकृतं, बाधकं च सूचितं-धर्मयोगे नित्यताहानिः, अन्यथा किं तेन । तदुक्तम् 'वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्वेदसत्समः ।। ३१ इयत्पर्यन्तमुक्तसंदर्भस्य संक्षिप्ताशयः-ननु स्वलक्षणेत्यादिना शरीराधवसायिनी-इत्यन्तेन श्लोकद्वयेन मानसप्रत्यक्षात्मवादिमतं दूपि- तम् । ततः, अथानुभवेत्यादिना कोऽर्थः स्यात् स्थायिनात्मना-इत्यन्तेन अनुमेयात्मवादिमतं दूषितम् । तदनु, ततो भिन्नेषु-इत्यनेन इच्छाद्वेष. प्रयत्नसुखदुःखज्ञानानि आत्मलिङ्गम्-इति सूत्रकारवचनात् पुनरपि यत् इच्छादिभिर्गुणैः गुणिन आत्मनोऽनुमेयत्वं प्रत्यपादि तददूष्यत-इति । ३२ तदयमन संक्षेपः-यत् कल्पितमपि यसिद्धये न संभवति न तत् तसिद्धये प्रकल्प्यते, खपुप्पमिव अङ्कुरसिद्धये, तथा च नित्यः कश्चित् आत्मा स्मरणप्रतिसंधिसिद्धये । इह हि कल्पनाया नियमवत्वं व्यापकम्, अन्यथा सा न विरमेत् , यदि च तत् अप्रभविष्णु तत्सिद्धये कल्प्यते तत् व्यापकत्वमस्या हीयेत-इति तत्सिद्धये प्रकल्पनं तत्प्रभविष्णुविषयत्वेन व्याप्तं, तच व्यापकमिह नोपलभ्यते-इति व्यापकानुपलब्धिः । तदाह- वर्षातपाभ्यामिति । यस्मिन् सति भवत्येव यत्ततोऽन्यस्य कल्पने । तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थितेः ॥' इति च। ३३ इदमत्र तात्पर्यम्-नित्यस्तु आत्मा अभ्युपगम्यमानो यदि सुखा- दिजन्मना विकृतिमनुभवति तदयमनित्य एव चर्मादिवत् उक्तः स्यात् । निर्विकारत्वे तु सता असता वा सुखदुःखादिना कर्मफलेन कस्तस्य विशेषः-इति कर्मवैफल्यमेव । तदुक्तम्-वर्षांतपाभ्यां किमित्यादि। तस्मात् उत्सृज्यताम् एष मूर्धाभिषिक्तः प्रथमो मोह आत्मग्रहो नाम, तन्निवृत्तौ आत्मीयग्रहोऽपि विरंस्यति अहमेवः न किं मम इति । तत् ६८ ईश्वरप्रत्यभिज्ञा । [१अ०२आ० इति ॥६॥ इत्थम् आत्मानं निराकृत्य, तस्य ऐश्वर्य- मपि निराकर्तु, ज्ञानशक्तिमेव परीक्षितुमाह ज्ञानं च चित्स्वरूपं चेत् तद् अनित्यं किमात्मवत्। अथापि जडमेतस्य कथमर्थप्रकाशता पराभ्युपगमेन प्रसङ्गापादनम् एतत् पूर्व- पक्षवादी करोति-प्रसङ्गविपर्ययलाभो भविष्यति इति । तत्र आत्मवादी नित्यत्वम् आत्मन इत्थं ब्रूते-इह कालो नाम इदंभाव- विशिष्टस्य विशेषणताम् अवलम्बमानः तं वि- शिष्टीकुर्वन् तत्संकोचात् अनित्यं संपादयति, आत्मनश्च चित्स्वभावत्वात् इदम्-इति प्रथना- इदम् अहंकार-ममकारग्रन्थिप्रहाणेन नैरात्म्यदर्शनमेव निर्वाणत्वात् अवलम्ब्यताम् इति । ३४ एवं धर्येव तावदात्मा नास्ति इति कुन हेतूपन्यासैरैश्वर्य प्रसा- ध्येत-इत्युक्त्वा ज्ञानक्रियायोगात-इति यो हेतुरुक्तः तत् निराकर्तुं ज्ञानमेव परस्य नोपपन्नं जडत्वेन अजडत्वेन वा--- -इति परस्य प्रसङ्गा- पादनं कर्तु कारिकाद्वयम् ।
बैव वाता-इति । तदपि कस्मात् न नित्यम? ७का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। भावेन विशेष्यत्वं नास्ति, विशेषणविशेष्य- भावो हि योजकायत्तः, नच स्वप्रकाशे योज- कान्तरम् अस्ति । स इत्थं ब्रुवाणः पर्यनुयुज्यते- 'ज्ञानमपि' तर्हि खप्रकाशम्-इति, तत्रापि ए- नच द्वयोनित्ययोः कश्चित् संवन्धः, कार्य- कारणभावो हि असौ नान्यः, तत आत्मनो ज्ञानं शक्तिः-इति अवसन्नम् अदः । अथै न ३५ अन अयं वैधयंदृष्टान्तो भवन् साधर्म्य एव पर्यवस्थति इवार्थतुल्यार्थयोः सादृश्यमेव हि सर्वत्र परमार्थतः । ततो वैधये तत्प्र- योगः केवलं साधर्म्यस्य व्यतिरेकनिष्ठतामभिधातुं विशेष्य व्यपदिश्यते तस्मात् एवमत्र योजना -समस्त एव अकारो नमर्थः प्रसज्यप्रति- षेधेऽपि वा 'अकर्तरि' इत्यत्र कारकशब्दोपादानलिङ्गसमार्थतोऽसमर्थ- समासः, ततश्च निषेध्येन तुल्यता आत्मवत् नित्यं कस्मात् न भवति इति चिरस्वरूपत्वेन तु स्पष्टा । अथ वा किंशब्देन काका निषेधोऽभिधी- यते-आत्मवत् किमनित्यम् ? आत्मवत् नानित्यमिति यावत् । यदि वा किमित्यनेन अनुपपत्तिप्रभवपर्यनुयोज्यधर्मत्वमभिधीयते, तेन यथा आत्मा किमनित्यः, तथा ज्ञानमपि किमनित्यम्, उभयोरपि अनित्यता- धर्मोऽनुपपद्यमानत्वेन पर्यनुयोगमात्रम् इति । ३६ अथेत्यादिना कारिकाया द्वितीया व्याचष्टे-यदि न स्वप्रकाश ज्ञानं स्यात , तर्हि परस्य घटादेरपि प्रकाशो बोधो न भवेत् , यस्मात् कारणात् असौ बोधः स्वकीयं यत् प्रकाशरूपं तस्मिन् आवेशनं परस्य कुर्वन् परं घटादिकमपि स्वप्रकाशान्तःकृतं विदधत् परस्य प्रकाशो भवति, अपि पे-शब्दात् स्वस्यापि प्रकाशो बोधः । स्वप्रकाशस्य एतल्लक्षणं-यत् , पं० ७ ग० पु० भाव एव हि इति पाठः ।
ईश्वरप्रत्यभिज्ञा । [१अ०२आ० खप्रकाशं ज्ञानं, तर्हि परस्यापि अदो न प्र- काशः, स्वप्रकाशरूपावेशनं हि असौ परस्य विद्धत् बोधः प्रकाशो भवति परस्यापि, ततः खपरप्रकाशताशून्यो न असौ अर्थस्य प्रकाशः स्यात् , भावान्तरवत् ॥७॥ जडोऽपि असौ इत्थम् अर्थस्य प्रकाशो भविष्यति-इति सांख्यमतम् आशङ्कते स्वमपि प्रकाशयन् परमपि प्रकाशयति इति । एतदुक्तं भवति-एतेषां नित्यत्वव्यापित्वाद्वैतत्वानां यः प्रसङ्गो बलादेव आपतितः, स एव दोषः स्वपक्षोपमर्दनात् ततो भीरुणा आत्मवादिना जडैकरूपं यदि ज्ञान- भङ्गीक्रियते, तदा नीलं यथा न पीतस्य प्रकाशनरूपं भवति तथा ज्ञानमपि न स्यात् । ननु जडोऽपि प्रकाशो भवति आदित्याझ्यादिः इति चेत् न, आलोकादित्वे दीपसूर्यरतप्रभादिमध्यप्रवेशः स्यात्, सत्यपि आलोके, प्रमातरि अविद्यमाने नार्थो भाति, सत्यपि तु प्रमातरि प्रदीपकल्पे तज्ज्ञानेन भासेतैव अर्थः । प्रदीपशतप्रज्वालनेऽपि न भात एव योऽर्थः स ज्ञाने तादृश्येव कस्मात् भासते, यो यथा जातीय- संनिधाने यथा न भवति स तथा भवन् तद्विलक्षणजातीयसंनिधि- मवद्योतयति, यथा-शीतलजलहिमवायुसंनिधावपि घटोरक्तत्वेन अनुभूतो रक्तो भवन उष्णवह्निसंनिधिम् । जडजातीयसंनिधौ च भावो दृश्यमानत्वाध्यवसीयमानत्वव्यवहार्यतारूपं विशेषमप्रतिलब्धं क- दाचन प्रतिलभमानोऽजडजातीयसंनिधिमवद्योतयति, विपर्यये नि- निमित्तत्वप्रसङ्गात् बाधकात् व्याप्तिसिद्धौ स्वभावहेतुः । संविदि अनु- भवनिश्चयरूपायां निष्ठा अनन्यापेक्षिणी विश्रान्तिः यासां ता विषयाणां नीलादीनां व्यवस्थितयो विविधेन असंकीर्णनात्मना अवस्थानानि, ता व्यवस्थितीः कथमचेतनोऽर्थो नीलादिप्रायः प्रयुञ्जीत व्यवस्थापयेत् च्यवस्थितीरिति । , ७१ ८का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । अथार्थस्य यथा रूपं धत्ते बुद्धिस्तथात्मनः। चैतन्यं ॥ इह तावत् अर्थ जानामि-इत्यस्ति व्यव- हारः । तत्र अर्थस्य प्रकाशः-इति एतावत्प- रमार्थः । तत् न अर्थस्य खं रूपं, सर्व प्रति तथात्वप्रसङ्गात्, न कंचित्प्रति वा-इति सर्व- ज्ञम् अझं वा जगत् स्यात् । नापि अर्थे अन्यत एतद्रूपम् उपनिपतितम्, एष एव हि दोषः स्यात्।तत् नूनम् अन्यत्रैव अयं धर्मः तत्त्वान्तरे, ३७ उक्तार्थस्य तात्पर्यमिदम्-ननु वैशेषिकादयोऽपि बुद्धिरुपलब्धिः ज्ञानम्-इत्यनर्थान्तरं मन्यन्ते तत् कोऽस्य वादस्य पूर्ववादात् विशेषः, संबित्स्वभाव एव आत्मनि उपगते किमन्येन ज्ञानेन अभ्युपगतेन, बुद्धिधर्मे वा ज्ञाने किमन्येन आत्मना कृत्यमिति चेत् न, वैशेषिकादि- दृशि तत् ज्ञानमात्मनो धर्मः सांख्ये तु न तथा इति भेदः-इत्येका शङ्का निरस्ता । शुद्धखभावसंचित् न अर्थप्रकाश:-इति द्वितीया, जड- प्रधानविकारबुद्धिस्वभावत्वात् जर्ड ज्ञानं न स्वतः प्रकाशरूपम् - इति तृतीया । ननु सौगतेऽपि संवेदनलक्षण आत्मा-इति चेत् न, स्वप्रकाशमानरूपमेव आत्मतत्वं सांख्यानाम् , सौगतानां तु स्वप्रकाश- स्वेन अन्तर्मुखं बाह्यनीलादिप्रकाशत्वेन च बहिर्मुखम् । न च एकस्य उभयोन्मुखता उपपन्ना स्वपरयोः ऐक्यापत्तिप्रसङ्गात् , नच सा युज्यते बाह्यस्य अर्थस्य ग्राहकात् विच्छेदेन अवभासात्-इति ग्राहकोऽन्तर्मुख एव । अत एव बाह्यत्वग्राहकत्वायोगात् न तेन तुल्यकक्ष्यतया परं किंचन चकास्ति, तुल्यकक्ष्यताप्रतिभासकृतश्च गुणभावप्रधानभावाभ्यां पं० ४ ग० पु० इत्येतावानू परमार्थ इति पाठः ।
७२ ईश्वरप्रत्यभिज्ञा । [१अ०२आ० तत्रापि कथम् अर्थस्य प्रकाशः स्यात्-इति नूनं तत्र तत्त्वान्तरे सोऽर्थः प्रतिबिम्बत्वेन उप- संक्रामति । तत् तत्त्वान्तरं सत्त्वप्रधानत्वात् प्रतिबिम्बोपग्रहयोग्य तमसाऽऽच्छादितत्वात् सकलप्रतिबिम्बनतो व्यावर्तितम्, भागे रजसा तमसोऽपसारणात् किंचिदेव प्रतिबि- म्बकं गृह्णाति, तदेव बुद्धितत्त्वम् उच्यते । अर्थ- धर्मिधर्मभाव-विशेषणविशेष्यभाव-उपधानोपधेयभावादिव्यवहारः तथा च पटोऽयं शुक्ल:-इति पटाभासशुक्लाभासयोबहि भूमौ तुल्ये- दन्ताग्राह्यभावेन स्थितयोः पटाभासोपरक्तः शुक्लाभासो विपर्ययो वा भवति-इति युज्यते । तेन अत्र गुणभूतो विशेषणम् अन्योपधेयरूप- त्वात् , अन्यत् स्वरूपव्यतिरिक्तमुपधेयं स्वात्मना अनु-रञ्जनीयं रूपं विशिष्टलक्षणं येन इति । प्रधानभूतस्तु विशेष्यः, अन्येन उपरजनीयं रूपमस्य इति । एवं च विशेष्यभावमुखेन यो व्यवहारः, स आत्मनि नोपपद्यते-इति न असौ कस्यचित् धर्मों, नापि कस्य कश्चित् धर्मः इति । ज्ञानं नाम यद्यपि बुद्धिरूपं तथापि न आत्मनो धर्म:-इति नैयायिकादितो भेदः । ननु स एव पुरुषोऽस्तु किमनेन ज्ञानेन-इति स हि शुद्धः प्रकाशः तेनैव वपुषा यदि अर्थानां प्रकाशः स्यात् तत् तस्य रूपस्य तृणमात्रेणापि अन्यूनाधिकरूपत्वात् सदा सर्वस्य अवभासनं, कस्यचित् वा कदाचिदपि अनवभासनं भवेत्-इति सर्वज्ञ- मझं वा जगत् भवेत् । नच घटपटाभाससंभेदं चिन्मात्ररूपं पुरुषः सहते । नच संवेदनं विषयस्य स्वरूपं जडाजडयोः रूपयोर्विरोधात् पूर्व- वत् सार्वज्ञ्याज्ञताप्रसङ्गात् च, तत् इदंविषयः प्रकाशते-इति यत् प्रकाशनं न तत्स पुरुषो नापि तत् नीलादि-इति पुरुषस्य प्रकाशरूपस्य छाया-इत्यायातम्। चेत् न, क पं० २ ग० पु. प्रतिबिम्बेन-इति पाठः ।
८का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । ७३ प्रतिबिम्बोपग्रहश्च ज्ञानम् अस्य वृत्तिरूप पूर्व- व्यपदेशतिरोधायकदध्यादिपरिणामविलक्षण- परिणतिविशेषात्मकम् । एवम् 'अर्थस्य' तावत् 'रूपं बुद्धिः' धारयति। इयच्च सत्त्वादीनां सुख- दुःखमोहतया भोग्यत्वात् जडम्-इति दर्पण- वत् अप्रकाशं । नच भोग्यस्य अप्रकाशस्य ३८ सम्यक् ख्यातिः प्रकृतिपुरुषयोः विवेकेन, संख्यानं च परिगणनं तत्वभेदानां संख्या, तदधिकृत्य कृतो ग्रन्थः सांख्यः, तत्र बुद्धितत्त्वस्य वृत्तिानमुक्तम् । वर्तनं वृत्तिः परिणामविशेषः, पूर्वरूपं हि तिरोदधत् कश्चित् परिणामः काष्ठभस्मवत् स कार्यपरिणाम उच्यते । यस्तु अति- रोदधत् स धर्मपरिणामो, यः सिद्धाकारतया भाति सुवर्णस्येव कुण्डलता। यस्तु अतिरोदधत् साध्याकारत्वेन गच्छति, बुध्यते-इति स वृत्तिपरि- णामः । तथाहि-वर्तनं तस्येव तथेति वृत्तिरुच्यते । अथवा बुद्धि- तत्वस्य जानामि-इत्येवंभूता जिघृक्षाप्रयत्नोपक्रमा विषयालोचनश- रीरा निश्चिनोमि-इत्यवसाना पूर्वापरीभूता, तावद्विषयाध्यवसायफलै. क्येन एका तद्धर्मिपरामर्शमतिरोदधती क्रियात्मा विशिष्टा परिणाम- परंपरा ज्ञानाख्या वृत्तिर्वर्तनं तथावस्थानमुच्यते, काष्ठस्य हि भस्म न वृत्तिः, काष्ठपरामर्शस्य तिरोधानात्, नापि एक एव क्षणो वृत्तिः, तत्र हि अयमित्थं वर्तते-इति को विभागः । तत् अनेक एव क्षणो धर्मिपरामर्शमतिरोदधत् फलबलेन कल्पितविचित्रमर्यादः क्रियात्मा परिणामो वृत्तिः, चैत्रे गच्छति इतिवत् । सा च वृत्तिर्विषयस्य अध्य- वसाये पर्यवसितरूपा पुरुषच्छायाबलेन प्रकाशरूपतामुपगता ज्ञान- मुच्यते। ३९ ननु सत्त्वं तावत् प्रकाशक, तत्र चेत् विषयप्रतिबिम्बं पतितं जातो विषयप्रकाशताव्यवहारः, किमन्येन आत्मप्रतिबिम्बकल्पनेन-इत्या. शङ्कां वारयति 'दर्पणवदिति' स हि सत्वप्रकाशो बाह्यालोककल्पो जड इत्यर्थः। ७ .. १० ७४ ईश्वरप्रत्यभिज्ञा। [१अ०२७० तद्विरुद्धभोक्तृतारूपप्रकाशात्मकखभावसंभवो युक्त्यनुपाती-इति तद्विलक्षणेन भोका भवि- तव्यम् । स च प्रकाशः इत्येतावत्खभावः, स्वभावान्तरं हि अप्रकाशरूपं भोग्यं कथं भोक्तः स्वभावतया संभाव्येत । स च प्रकाश- मात्रस्वभावत्वेनैव यदि विश्वस्य प्रकाशः, तर्हि विश्वं युगपदेव प्रकाशेत, घटप्रकाशोऽपि केवलं तस्य ४० ननु भोक्तैव अर्थादिभावमेत्य अर्थप्रकाशो भवतु इत्याशक्य आह स च प्रकाशेति । इदमत्र तात्पर्यम्-मम प्रकटो घट: :-इति आत्मन्येव उपसंहारदर्शनात् आत्मनिष्ठेव प्रकटता भविष्यति किं बुद्धि- तत्त्वेन-इति चेत् न, आत्मा संवित्स्वभावः साक्षात् द्रष्टा, विषयप्रकटता नाम यत् संविदोऽधिकं तजनकत्वं कथं स्वरूपं स्यात् । कथं तर्हि असौ विषयबोधेषु द्रष्टा साक्षी च-इति चेत् न, बुद्धावेव सत्याम् । ननु मा भूत् तत्र चिदात्मनि पुंसि किंचन अधिक विकारा- धायि, प्रकटतात्मकं फलं स एव तु भविष्यति, उच्यते निर्विकार एवं असौ यदि नीलप्रकाशः स्यात् तर्हि नीलस्येव विश्वस्य तथा स्थात्, प्रकाश एव हि नीलप्रकाशः पीतप्रकाश इत्यायातम् । ननु आत्मच्छायावशात् विषय एव प्रकाशमानता अस्तु किमन्तरालकल्पितेन बुद्धितत्त्वेन, लोके च विषय एव प्रकट:-इति व्यवहारः। तथा च जैमिनीया अर्थदृष्टतामेव फलं मन्यन्ते । अत्र आह-यदि विषय एव प्रकटता उत्पद्यते तदा स विषयः तादृशो जातः स कथं कस्यचित् अतादृशः स्यात् , नहि कारणा- दुत्पन्नं रूपं कारणमेव प्रति तथा भाति, एवं हि कुम्भकारमेव प्रति कुम्भः कुम्भो भवेत् अन्यान् प्रति अकुम्भः, तस्मात् विषयः प्रकट:-इति बुद्धितत्वप्रतिबिम्बितस्य विषयस्य संवित्प्रतिविम्बमेलनमेव इदमुच्यते, नतु बाह्यस्य प्रकटता काचित् धर्मः। पं० १ ग० पु. प्रकाशात्मकसंभव' इति पाठः ।
८का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । पटप्रकाशः स्यात्-इति विश्व संकीर्येत । स च अर्थात् अर्थप्रतिविम्बात्, तदाधाराच बुद्धितत्वात् अन्यः कथम् अर्थस्य प्रकाशः स्यात् , असंबन्धात्। तस्मात् बुद्धिरेव स्वच्छत्वात् प्रकाशप्रतिबिम्बमपि परिगृह्णाति । प्रकाशप्रतिबिम्बपरिग्रहमहिमोपनतप्रकाशावे- , , .. ४१ यस्मात् न विषये प्रकटतालक्षणो भोगो विश्रान्तो, नापि आत्मनि, अस्ति च विषयात्मनोः भोगयोगव्यवहारः, ततो बुद्धिरूपं यत् सत्त्वं तस्य यतो नैर्मल्यं रजोऽपसारणसहिष्णुता तदीयतमोभागस्य, नतु नीलादाविव अनपसारणीयत्वं, ततो हेतोः उभयीमपि आत्मनो विषयस्य च संबन्धिनी रूपच्छायां संवेदननीलमयतामनुकरोति, तदाकारधा- रितया भासते नीलरक्तपटमध्यगमितवस्त्रवत्, यत आत्मविषयप्रतिबिम्बं युज्यते ततो विषयबोधस्वभावो भोगः सिद्ध्यति, स हि ग्राह्यस्य ग्राहकस्य च यो मेलनात्मा संबन्धः तद्रूपतयैव लक्षितो नान्यत् अस्य रूपमि- त्याशयः । ननु बुद्धौ यदि द्वयप्रतिबिम्बयोगः आत्मनो विषयस्य च कथं भोक्तभोग्यव्यवहार इति । उच्यते, सा भोगसिद्धिः भोक्तृभो- ग्यभावे, आत्मा भोक्ता, विषयो भोग्यः-इति व्यवहारे हेतुर्यस्मात् , तस्मात् तयोरात्मविषययोर्भोक्तभोग्यतायोग्ययोः बुद्धितत्त्वे संबन्धो यावद्गति परस्पररूपमेलनात्मा वासगृह इव यूनोः यः स एव भोक्तृभो- :-इत्यादि सांख्यस्य बुद्धितत्त्वसनावे सर्वमुपपद्यते । यत आत्मा निर्विकारः, नच ताहक असौ विषयप्रकाशः, विषयस्य च न प्रकटता नैसर्गिकी उपपन्ना, नच आत्मसंनिधानतः, नापि इन्द्रियसंनिधान- मात्रात् , ततो बुद्धिसंज्ञकं स्वतन्त्रम् एवं-तत्त्वं वस्तुरूपम् , नतु आत्मनो धर्मो वैशेषिकवत्, नापि विषयस्य जैमिनीयवत् , न इन्द्रियाणां बार्हस्पत्यवत्-इति इयती सांख्यस्य मुख्या प्रमेयगतिः । अत उभय- प्रतिबिम्बधारणात् असौ बुद्धिः अर्थस्य प्रकाशः तत्फलपर्यन्तोऽधिगम इत्यर्थः। ग्यभाव:- ७ C ईश्वरप्रत्यभिज्ञा । [१अ०२आ० श-बुद्धितत्त्वावेशितप्रतिबिम्बक-नीलाद्यर्थपर्य- तसंक्रान्तःप्रकाशावेशस्य अर्थः प्रकाशते-इति सिद्धो व्यवहारः । तदेवं ज्ञानं जडबुद्धितत्वा- व्यतिरेकात् जडमपि चित्प्रतिविम्बयोगात् विषयस्य प्रकाशः-इति । एतदेव तावत् अनु- चितम्-यत् प्रकाशात्मा पुमान् बुद्धौ प्रति- बिम्बम् अर्पयति, समानगुणे बिम्बकापेक्षया च विमले प्रतिबिम्बसंक्रान्तिदर्शनात् , रूपवति आदर्श घटरूपप्रतिबिम्बवत्; आत्मबुद्ध्योश्च अतिवैलक्षण्यम्, आत्मापेक्षया च न बुद्धि- ४२ बुद्धिप्रतिबिम्बवादस्य अनुपपत्तिः प्रदश्यते-एतदेवेति । अय- माशयः-स्वच्छमपि हि अधिकस्वच्छमपेक्ष्य अस्वच्छं नाधिकस्वच्छस्य प्रतिबिम्ब स्वीकरोति सितदुकूल मिव स्फटिकमणेः, तथा च बुद्धितत्वं पुरुषापेक्षया । तथाहि-आलोकोऽपि बुद्धिप्रकाशमपेक्ष्य अस्वच्छः, तथा सोऽपि पुरुषप्रकाशमपेक्ष्य पुरुषप्रकाशो हि सर्वतः स्वच्छः, तस्य अनन्या. पेक्षणादेव संविद्रूपत्वम् यथा यथा हि स्फुटा वेद्यता तथा तथा स्वच्छता- भावः । एवमधिकस्वच्छेन प्रतिबिम्बं स्वीक्रियते । अस्वच्छस्य प्रतिबिम्ब- स्त्रीकरणे यत् कारणं तद्विरुद्ध मिह अस्वच्छत्वम्-इति कारणविरुद्धोपल- निधः । एवं-वदतोऽयमाशयः-सौगत एव सांख्यमतं दूषयन् मत्पक्षस्या- वकाशं दास्यति । सर्वतः स्वच्छे चिद्रूपे विश्वं प्रतिबिम्बितुमर्हति-इति सौगतस्यापि संविदि संवेद्यं प्रतिबिम्बमर्पयति नतु संवेद्ये संवित्-इति खपक्षसिद्धिराशये विपरिवर्तत एव ।। ४३ स्वच्छत्वं समानगुणत्वलक्षणं कारणं प्रतिबिम्बस्त्रीकरणे वस्तूनाम्- पं० ७ ग० पु० पेक्षया विमल इति पाठः ।
७७ ८का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। विमला, तत् भवतु तावत् एतत्-इति 'अर्थ'- शब्देन सूचयति ॥ किंतु प्रतिविम्बवादेनापि न किंचित् प्रति- समाहितं भवेत्-इति दर्शयति अँजडा सैवं जाड्ये नार्थप्रकाशता॥८॥ इति सिद्धं, तद्विरुद्धं च बुद्धेराल्मापेक्षया असमानगुणत्वम् अस्वच्छत्वं च कारणविरुद्धमुपलभ्यमानम् आत्मप्रतिबिम्बग्राहित्वस्य स्वविरुद्धकार्यस्य निषेधं करोति । अतिदूरवैलक्षण्यं धियः नैगुण्यात्मकत्वेन भोग्यत्वात् , आत्मनश्च नैर्गुण्येन भोक्तृत्वात्;-इति का समानगुणत्वे संभावनापीति भावः। ४४ ननु सौत्रान्तिकाः संविदि नीलादिप्रतिबिम्बमुपयन्ति, नच सा तैः समानगुणा तद्वासनायोगात् अनादिप्रवृत्तात् समानगुणत्वं बुद्धावपि भविष्यति-इत्याशझ्याह,-किन्तु प्रतिबिम्बवादेनापि इति । अयमाशय:- एवं वदन् अपि इदं तावत् सांख्यः प्रष्टव्यः। विषयव्यवस्थापनं दर्शन- परामर्शात्मकं यदुच्यते तत् मुख्यामजडरूपां कि भोक्री चितिशक्तिम- पेक्षते तां विना नो भवति-इति ओमिति चेत्, पुरुष एव तर्हि दर्शन- परामर्शनस्वभावोऽभ्युपगन्तव्यः किमनुपपद्यमानासंवेद्यमानबुद्धिप्रति- बिम्बितवादेन । अथ बुद्धिगतेन चित्प्रतिबिम्बेन तन्निर्वहति, तत्तर्हि जडमेव न चिद्रूपमिति बुद्धिरेव तादृशा तुर्येण गुणेन युक्ता कल्प्यता, या विषयं व्यवस्थापयिष्यति-इत्यलं पुरुषकल्पनया । यदाह देवबलाचार्यः 'पुंसि कर्तृत्वमारोप्य बुद्धावपि चिदात्मताम् ।' इति । अथ मुख्यचैतन्यमेव प्रतिबिम्बीभूतं तथा करोति-इत्युच्यते, तदयुक्तम्-अन्यन्न प्रतिबिम्बे तददृष्टेः, नहि दर्पणप्रतिबिम्बितो वह्निः तमेव दर्पणमपि तावत् तापयेत् , किमङ्ग इन्धनं दग्धुं प्रभवेत् । उक्तंच 'यजातीयेन प्रसिद्धान्यतज्जातीयरूपेणैव भवितुं युक्तम्' इति बुद्धिपुरुष- द्वयकल्पनमकिंचित्करमेव इति । ४५ पूर्वसूत्रांशसंभावितसांख्योक्तौ दूषणमाह-अजडा सैवमिति ।
७८ ईश्वरमत्यभिज्ञा । [१अ०२आ० चैतन्यप्रतिबिम्बयोगे यदि तावत् तत्प्रति- बिम्बकमपि मुख्यं प्रकाशरूपमेव न भवति, तेनापि न किंचित् कृतं स्यात् ; नहि प्रति- विम्बितवह्निपुञ्ज आदर्शो दाह्यं दहेत् । अथ मुख्यप्रकाशरूपमेव तत्प्रतिबिम्बकं, तत् तर्हि बुद्धेव्यतिरिक्तम्-इति मुख्यप्रकाशरूपैव बु- द्धिर्जाता-इति, यतो विरुद्धधर्माध्यासात् भी- रुभिः एतत् कल्पितं । स एव पुनः जाज्वल्य- मानं निजम् ओजो जृम्भयति, ततश्च सा बुद्धिरेव चिन्मयी स्यात्, किं पुरुषेण । एवम् अर्थप्रतिबिम्बकद्वारेण अर्थमयी-इत्यपि आ- यातो विज्ञानवादः । कुत एव अस्याः तद्रूप- एवं चैतन्यप्रतिबिम्बन अजडा संचिद्रूपा जाता, प्रकाशप्रतिबिम्बेनेव जलं प्रकाशरूपम् । एवं बुद्धिवृत्तिः चित्स्वरूपज्ञानात्मिका, ततश्च पूर्वोक्तनित्य- स्वव्यापित्वादिदोषः, सांख्यदर्शनोचितदोषान्तरयोगश्च इत्याशयशेषः सूत्रान्तरकरणे । अथ तत्प्रतिबिम्बेपि न तद्रूपापत्तिः, अग्निप्रतिबिम्बेऽपि दर्पणस्य दाहकत्वादृष्टेः; तर्हि सा बुद्धिः अर्थचित्प्रतिबिम्बहयग्रहणेऽपि जडैव । तत् स एव दोषो विषयव्यवस्था ततः कथमिति सूत्रार्थः । ४६ भोग्ये भोत्कृताध्यासो वा अचिद्रूपे चिद्रूपताध्यासो विरुद्धधर्मा- ध्यासः, तस्मात् चकितैः सांख्यैः प्रकाशप्रतिबिम्बनं कल्प्यते । ४७ विज्ञानवादिनो हि, निराकारस्य ज्ञानस्य अर्थप्रतिबिम्बद्वारेण साकारत्वं वदन्ति-इत्येतदेव योगाचारमतम् । यदुक्तम् पं० १२ क.पु० आयातोऽर्थविज्ञानेति पाठः। ग० पु० तद्रूपमिति पाठः ।
९का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। त्वम् ?-इति, पूर्वकारणपरम्परातः-इति उत्तरं वाच्यम् । एवं सैव चेत् चिद्रूपा, प्राग्वत् नित्यताप्रसङ्गम न चेत् चिद्रूपस्यापि नित्यता, तर्हि आत्मा न नित्यः कश्चिदस्ति, यस्य ज्ञान नाम शक्तिः स्यात्-इति ज्ञानमात्रमेव अस्ति । योऽर्थप्रकाशरूपो बोधो, यश्च विकल्पस्मृ- त्यादिरूपः, तावता अर्थव्यवहारसिद्धेः--इति प्रसङ्गविपर्ययलाभे 'ज्ञानं च चित्स्वरूपं चेत् इत्यादेः श्लोकद्वयस्य तात्पर्यम् ॥ ८॥ एवं ज्ञानं परीक्ष्य, क्रियां परीक्षते क्रियाप्यर्थस्य कायादेस्तत्तद्देशादिजातता। नान्याऽदृष्टेः ॥ 'अथ स्वच्छतया पुंसो बुद्धिवृत्त्यनुपातिता। बुद्धेर्वा चेतनाकारसंस्पर्श इव लक्ष्यते ॥ एवं सति स्ववाचैव मिथ्यात्वं कथितं भवेत् । चिद्धर्मो हि मृषा बुद्धौ बुद्धिधर्मश्चितौ मृषा ॥ साकारज्ञानवादाच्च नातीवैष विशिष्यते । त्वत्पक्षः इति । फलितमर्थ कथयति-एवमर्थप्रतिबिम्बकेति । तत्र पूर्वपूर्वानादि- वासनाप्रबोधात् अर्थमयत्वमायातमिति । ४८ एवं सूत्रद्वयोक्ताभियुक्तिभिर्यः प्रसङ्ग उक्तः, तद्विपर्ययेण अनित्य- रूपस्य अन्यानाश्रितस्य ज्ञानस्य सिद्धिः॥ ४९ क्रियापरीक्षायै प्रथमं तावत् तद्वादिनां मते वस्तुस्वरूपप्रदर्शनम् । पं०६ क. पु० विकल्पः स्मृत्यादीति पाठः। ..........
८० ईश्वरप्रत्यभिज्ञा । [१अ०२ आ० इह परिस्पन्दरूपं तावत् गच्छति, चलति, पतति-इत्यादि यत् प्रतिभासगोचरः, तत्र गृहदेशगतदेवदत्तखरूपात् अनन्तरं बाह्यदेश- वर्तिदेवदत्तखरूपम्-इत्येतावत् उपलभ्यते, तन्न कारकस्य फलसिद्धिहेतुभूतक्रियानिमित्तस्य स्वक्रियापेक्षया वा कर्तुः संबन्धी तत्समवायी तदात्मा वा व्यापारो रूपं स्वलक्षणं यस्याः सा क्रिया, यस्याः संबन्धिनो भागाः पूर्वापरीभूताः क्रमवृत्तयः। यदाह तत्रभवान् भर्तृहरिः 'यावसिद्धमसिद्धं वा साध्यत्वेनाभिधीयते। आश्रितक्रमरूपत्वादभिधानं प्रतीयते ॥ गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥ श्वेतं श्वेतत इत्येतच्छेतत्वेन प्रकाशते । आश्रितक्रमरूपत्वादभिधानं प्रवर्तते ॥ कार्यकारकभावेन ध्वनतीत्याश्रितक्रमः। ध्वनिः क्रमनिवृत्तौ तु ध्वनिरित्येष कथ्यते ॥' इति । एवं-भूता च क्रिया आत्मनोऽस्त्येव गच्छति जानाति यतते- इति पूर्वापरीभूततत्तद्धर्मप्रतीतेः, अङ्गीकृता च ईश्वरात्मवादिभिः। यदाहुः ग्रन्थकारगुरुपादाः 'तदिच्छा तावती तावज्ज्ञानं तावत् क्रिया हि सा।' इति । 'एवं न जातुचित् तस्य वियोगस्त्रितयात्मना । ... शक्त्या ............ इति । 'घटादिग्रहकालेऽपि घटं जानाति सा किया।' इत्यादि च। पं०३ ग० पु० गृहदेशकदेवदत्तेति पाठः। बाह्यदेशदेवदत्तेति च पाठः।
९का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। नतु तत्वरूपातिरिक्तां कांचित् अन्यां क्रियां प्रतीमः। 'देवदत्तो दिनं तिष्ठति' इत्यत्र तु प्रभातकालाविष्टदेवदत्तखरूपं ततः प्रहरका- लालिङ्गिततत्वरूपम्-इत्यादि भाति, 'दुग्धं परिणमते' इत्यत्र मधुरवस्तुरूपम् अम्लव- स्तुरूपं द्रवरूपं कठिनरूपम्-इत्यादि । एवं तद्देशतया तत्कालतया तदाकारतया च भाव एव भाति । साहश्याच्च तत्र प्रत्यभिज्ञा भिन्नेऽपि कायकेशनखादाविव । देशाकारान्यत्वे तु कालान्यत्वम् अवश्यंभावि देशकालान्य- त्वेऽपि खरूपस्यैव देशत्वात् , कालभेदे च ५० देशोपहिता क्रियां निरूप्य कालोपहितां तामाह दिनमिति । गमनादौ यद्यपि कालभेदोऽस्ति, तथापि स्थूलदृष्टिगम्यस्य देशभेदस्य तत्र असाधारणस्य संभवः-इत्यतः कालभेदः पृथक् उदाहृतः । ५१ क्रियापि पूर्वापरीभूतावयवा एका कारकव्यापाररूपा न युक्ता, क्रमिकस्य अनेककालस्पृशः स्वात्मैक्यायोगात्, नापि कालक्रमव्यापी च एकस्वभावश्च तस्या आश्रयो युक्तः केवलं गमनपरिणामादिरूपा सा क्रिया कायादीनां तु तत्तभिन्नदेशकालगतापूर्वसत्तामानम्, एतदतिरि- क्तस्य अन्यस्य अनुपलम्भात-इति । ५२ ननु सोऽयमिति प्रत्यभिज्ञानमेकत्रैव युक्तं, न देशादिना व्यव- हिते-इति तत्राह-सादृश्यादिति । ५३ स्वरूपस्यैव देशत्वात् इति, गमनक्रियायां देवदत्तसंबन्धियां पं० ७ ख० पु. भावा एव भान्तीति पाठः । ११ ८२ ईश्वरप्रत्यभिज्ञा । [१अ०२आ० खरूपभेदात् , देशकालाकारा आकार एव यद्यपि पर्यवस्यन्ति, तथापि स्थूलदृष्टया अस्ति भेदः-इति, ते हि भेदेन बौद्धैरुच्यन्ते-इति तात्पर्यम् । एवं प्रत्यक्षेण न दृश्यते कचित् क्रिया, तदभावात् न तत्पूर्वकेन अनुमानेन, कार्यं च ग्रामप्राप्त्याद्युत्तरक्षणरूपं तदेशवस्तु- रूपादि, इति कार्यान्यथानुपपत्यापि न सा कल्प्यों ॥ एवं प्रत्यक्षानुमानाभ्यां तस्या अदृष्टिः,- ७ देशभेदः, बहिर्देशसंबन्धान्तदेशसंबन्धो देवदत्तस्य संभवति, कालभे- दोऽपि क्रमगमनेनानुमेयः, आकारभेदश्च स्वरूपभेदापरपर्यायः संभव- त्येव, यतो नीलति श्वेतते राजते दीप्यत इति स्वरूपभेदो देवदत्तस्य प्रतीयते, इति भेदत्रयविषयो न कश्चिद्विवादो गमनक्रियायाम् । परि- णामक्रियायां तु मधुराम्लादिना स्वरूपभेदेनैव कालभेदोऽप्यस्ति, न तु तत्र देशभेदोऽनुभवगोचरः इति यद्यप्यस्ति तथापि देशस्यैव स्वरूप- त्वम्-इत्यनादरो देशभेदस्य कालभेदेन कृत इति । ५४ न तत्पूर्वकेनानुमानेनेति, प्रत्यक्षपृष्ठोपरिपातित्वादनुमानस्य, यत्र धूमस्तन्नाग्निरिति साहचर्यनियमो व्यातिः, यथा महानसादौ प्रत्यक्ष- दृष्टत्वात् इति प्रत्यक्षपूर्वमेव अनुमानमिति । ५५ कार्यान्यथानुपपत्त्येति, पीनश्चैत्रो दिवा न मुझे इत्यत्र यथा पीन- त्वेन कार्येण रात्रिभोजनम् अर्थापत्यनुमानेन कल्प्यते न तथा इहेति " भावः। पं० ३ कग० पु० इति आदिपदम् इति पाठः।
....... ९का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। इति साधकप्रमाणाभाव उक्तः, बाधकमपि आह 'न साप्येका क्रमिकैकस्यै चोचिता ॥९॥ तत्र पूर्वापररूपता क्षणानां नतु स्वात्मनि किंचित् पूर्वम् अपरं वा, वस्तुमानं हि तत्, अतो विकल्पप्राणितं पूर्वापरीभूतत्वं क्रमरू- पता क्रियाया लक्षणं न वस्तु किंचित् स्पृ- शति, ते हि क्षणा न अन्योन्यखरूपा- विष्टाः-इति कथम् “एका' क्रिया ?, क्रमो हि भेदेन व्याप्तः अभिन्ने तदभावात्, भेदस्य विरुद्धमू ऐक्यम्-इति कथं 'ऋमिका एका च' इति स्यात् ? । अथ एकत्र आश्रये- ऽवस्थानात् एका, तत्रापि तत्क्षणातिरिक्तो न कश्चित् आश्रयोऽनुभूयते, क्षणा एव हि प्रबन्धवृत्तयो भान्ति । किंच तथाभूतैर्मि- नदेशकालाकारैः क्रियाक्षणैराविष्ट आश्रयः कथमेकः स्यात् ?, अत एव 'देवदत्तोऽयं, स ५६ अयमत्राशयः-अनेककालस्पृक्त्वं हि क्रमिकता, एकश्च तत्का. लोऽतत्कालव-इति कथं स्यात् इति ।
८४ ईश्वरप्रत्यभिज्ञा । [१अ०२आ० एव ग्रामं प्राप्तः' इति सादृश्यात् भवन्ती प्रत्य- भिज्ञा न ऐक्यं वास्तवं गमयितुमलम् ॥९॥ एवं ज्ञानं क्रियां च परीक्ष्य, यस्मिन् सति ते संबद्धे सर्वज्ञत्व-सर्वकर्तृतारूपैश्वर्यप्रसाध- नाय प्रभवतः, तं संबन्धं ध्वंसयितुं तद्विषयं प्रमाणाभावं तावदाह तत्र तत्र स्थिते तत्त- द्भवतीत्येव दृश्यते। नान्यनान्योऽस्ति संबन्धः कार्यकारणभावतः॥ १०॥ ५७ एवं ज्ञानक्रिये परीक्ष्य तद्योगात् ऐश्वर्यम्-इत्यत्र हेतौ योगशब्द- वाच्यं संबन्धांशं परीक्षितुं संबन्धे तावत् साधकं प्रमाणं नास्ति-इति तत्र तन्नेति कारिकया कथयति । प्रसङ्गाच क्रियायामपि वक्तव्यशेषं परीक्षते। तथाहि-यदि कश्चित् ब्रूयातू-तत्तद्देशकालस्वरूपभिन्नं वस्तु संतानवृत्त्या प्रवहत् क्रिया-इति यत् उक्तं तत् आसनगमनादौ अस्तु, यन्त्र अकर्मकत्वं प्राप्यकर्मभावो वा; यत्र च निर्वयं घटादि कर्म, तत्र क्रियाकारकमावस्य अभावे कुम्भकृत मृदो दण्डादिभिः घटं करोति-इति बोधः, तथैव अर्थक्रियापर्यन्तव्यवहारसिद्धः कथं स्यात् , तद्भावश्च क्रियया विना कथमिति सोऽपि अनेन सूत्रेण प्रत्याय्यते ॥ ५८ इह नान्यदिति सामान्योक्तिरपि क्रियायामेव पर्यवसाय्यते तेन क्रियैव नास्ति इत्यर्थः, दृष्टान्तत्वेन च सा संबन्धे योज्यते इतीव दृश्यते, नान्यत्प्रत्यक्षम् इति सौत्रस्य एवकारस्य व्याख्या । दृश्यते इति प्रत्यक्षm maraन देत: यत एतावदेव दृश्यते किं द्रव्यमेव १०का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। ८५ ततो नान्यदिति न क्रिया न तत्संबन्धः कश्चिदस्ति इति संपद्य दृष्टान्त- साध्यनिर्देशः, तथा च वृत्तौ पृथगेव व्याचष्टे क्रियावचनक्रियाकारकसं- बन्धः कश्चिदिति तेनैव नान्यन्नान्योस्ति इत्यन्न स्थितयोरन्यशब्दयोन पुन- रुक्तिर्मन्तव्या, नान्यदित्यत्र पूर्वस्य दृश्यते इत्यस्य हेतुत्वं वृत्तायुक्तं भि- अस्य व्यतिरिक्तस्य अस्य संबन्धस्य क्रियाया इव अनुपलम्भात्-इत्यनेन । ननु तन्न तत्र इति सप्तम्याक्षिप्तो यः प्रातिपदिकार्थातिरिक्तः संबन्धः स तर्हि किम् इत्याशय यत् सूत्रं नान्योऽस्तीत्यादि तस्य संक्षेपेण निरूपणं कार्यकारणेति, एवं सप्तम्याक्षिप्तो यः स कार्यकारणरूप एव संबन्धः इह प्रकृते क्रियाकारकसंबन्धे नास्ति । ननु किं तत्र कारणं किं वा कार्य, नियतपूर्व कारणं नियतपरं कार्य इति चेत् तदेव किम् ? इति उच्यते,। अग्न्यभावे यो न भूतो धूमः तस्य अभूतस्यापि तस्मिन् अर्थान्तरस्वभावे अग्नौ सति यतो धूमस्य सद्भावः ततोऽसौ प्रयो- जकसत्ताकः पूर्वः-इति व्यवह्रियते, प्रयोज्यसत्ताकस्तु परः-इति स्वरूप- मेव तयोः पूर्वत्वं परत्वं च, न तु अन्येन प्रकारेण परस्परापेक्षा- पारतच्यरूपाश्लेषादिना कार्यकारणयोः परत्वपूर्वत्वलक्षणः कश्चित् का- लोऽस्ति । तदुक्तम् 'पश्यन्नेकमदृष्टस्य दर्शने तददर्शने । अपश्यन् कार्यमन्वेति विनाप्याख्यातृभिर्जनः ॥ दर्शनादर्शने मुक्त्वा कार्यबुद्धरसंभवात् । कार्यादिश्रुतिरप्यत्र लाघवार्थ निवेशिता॥' इति । एवं क्षणिकज्ञानत्वात् सकृत्प्रवृत्तप्रत्यक्षानुपलम्भप्रसिद्ध भाव- स्वरूपद्वयमेव कार्यकारणभाषः सार्वत्रिका-इति सिद्धम् । पश्यन्नेक- मित्यत्र अयमर्थ:-एक वहिं कारणं पश्यन् धूमं कार्यं न पश्यति ज्ञानस्य क्षणिकत्वात् पुनरदृष्टस्य कार्यस्य धूमस्य दर्शने सति तस्य' कारणस्य अद- र्शनं, तददर्शने सति कारणमपश्यन् जनः कार्यमन्वेति उपदेष्ट्रारं विनैव व्यवहाराय, एवं कार्यकारणभावमानं जानाति । अथ वा अयमर्थ:-एकस्यैव कारणस्य पूर्वमदृष्टस्य दर्शने सति तदेव एकं कारणं पश्यन् पुनः कार्यदर्शने सति तददर्शनं कारणैकादर्शने तदेव एकं कारणमपश्यन् एकं कार्य पश्यन् तदेव एकं कार्यमन्वेति, ८६ ईश्वरप्रत्यभिज्ञा । [१अ०२आ० मृत्पिण्डे सति स्तूपकः, तत्र सति शिविको यावत् घटः-इत्येवं भावक्षणा एव उपलभ्यन्ते, न अधिकं किंचित् प्रत्यक्षेण अवभासते, नापि अनुमानेन-इति क्रियायामिव वाच्यम् । सर्वत्र आधाराधेयभावादौ अयमेव पन्थाः- पृथग्रूपकुण्डबदरक्षणानन्तरं निरन्तरात्मकवि- शिष्टकुण्डबदरोदयः-इति । अयमेव च भावो भावान्तरेण सह नियतपूर्वापरतया विकल्पेन व्यवह्रियमाणः कार्यकारणभावः-इति अभि- धीयते । नच ज्ञानक्रियाभ्यां सह आत्मनः कार्यकारणभावः आत्मनस्तत्कार्यत्वाभावात् , ज्ञानस्य च वसामग्रीकार्यत्वात्, क्रियायाश्च अभावात् ,-इति न ज्ञानक्रियासंबन्धो यतो ज्ञातृत्व-कर्तृत्वे स्याताम् ॥ १० ॥ एवं प्रमाणं पराकृत्य, संबन्धे बाधक सामान्यविशेषमुखेन निरूपयति एवं प्रत्यक्षानुपलम्भबलेनैव कार्यबुद्धिसंभवात् अत्र कार्यकारणभावे कार्यकारणश्रुतियवहारलाघवार्थ निवेशिता, वस्तुतो भावद्वयमेव कार्यproti ११का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । द्विष्टस्यानेकरूपत्वात्- सिद्धस्यान्यानपेक्षणात् । पारतच्याद्ययोगाच्च तेन कर्तापि कल्पितः ॥११॥ संवन्धस्तावत् परस्परप्राप्तिरूपो द्वयोः प्रा- तिभाजोरेकस्तिष्ठति, इति सामान्यलक्षणं । तञ्च कथं, ? नहि एकत्र विश्रमिताशेषशरीर- सारोऽन्यत्र विश्रमितुम् अलं, खरूपभेदप्रस- ङ्गात् । एतेन संयोगसमवायौ तन्मूलाश्च अन्येऽपि संबन्धा बाधविधुरां धुरम् अध्यारो- पिता मन्तव्याः। योऽपि चेतनेषु तत्कल्पनया च अचेतनेषु पारतच्यात्मा संबन्धो व्यव- ह्रियते, तत्र सिद्धस्य न पारतत्र्यम् अस्ति सिद्धत्वादेव, असिद्धस्य न-तरां निःस्वरूपस्य ५९ पञ्चमी नशब्दं च संगमयति पूर्वसूत्रेण संबन्धपदं, तद्यथा 'नान्योऽस्ति संबन्धः' द्विष्ठस्यानेकरूपत्वात् इत्यादिसंगतिः, तत्र सामा- न्यलक्षणद्वारं बाधकमुपन्यस्यति द्विष्टस्येति, यत् किल द्वयोः स्वरूपस- माल्या युगपत् तिष्ठति तत् एकं न भवति वेश्मद्वयवर्ति घटद्वयमिव, एकत्वं हि अभिन्नरूपत्वं तद्विरुद्धेन च भिन्नरूपत्वेन व्याप्तं, द्वयोः युगपत्स्वरूपसर्वस्वेन अवस्थानात् । ६० एवं सामान्येन द्विष्ठकसंबन्धमान्ने बाधकमभिधाय तद्विशेषेs- प्याभिधिसुराह सिद्ध स्येति ।
ईश्वरप्रत्यभिज्ञा । [१अ०२आ० ताद्धयायोगात् । एवमपेक्षायामपि वाच्यम् । द्वे च रूपे कथं श्लिष्यतो ? द्वयोरेकत्वानुपपत्तेः; . ............... ६१ इह, राज्ञ इत्युक्ते न प्रतीतिः निराकाङ्क्षा राजा इतिवत् , अपितु अन्यत् आकाङ्क्षति राजा, तत् सा आकाङ्क्षा क्वचित् संबन्धस्य वपुर्भ- वन्ती सार्वत्रिकत्वेन व्यवस्थाप्यते इति अपेक्षैव संबन्ध-इति व्यव- हियेत तदेतदाशङ्कयाह अपेक्षायामिति, यथोक्तम् । 'अपेक्षा पारतयं च न संबन्धो जडात्मनोः। असंभवात् इति । यत्रापि अजडेषु सा भवति, तत्रापि उक्तद्विष्ठसंबन्धलक्षणैक- पदार्थरूपा नोपपन्ना; यत उपकारकरणात संबन्धः कारणमेव स्यात, अपेक्षितं च कार्यमेव, न च एतत् युक्तम् । यदुक्तम् 'अपेक्षा यदि संबन्धः सोऽसन् कथमपेक्षते।' इति । तस्मात् निःस्वभावस्य स्वभावः इति विरोधः । ६२ यदपि राजा च पुरुषश्च-इति उदाहरणान्तराभिप्रायेण उच्यते परस्पररूपा प्राप्तिरेव अमुल्योरिव संबन्धः इति, तत्र द्विरूपे कथं श्लेषः, अथ श्लेषः ऐक्यरूपात कथं संबन्धता, तस्य द्विष्ठत्वात् । तदुक्तम् द्वित्वे सति कथं भवेत्। इति रूपश्लेषात्मा संबन्धः सूत्रे तावत् आदिशब्दोक्तः । आदिपदेन तन्त्रान्तरोक्तमपि सूचयति । यदाह तत्रभवान् भर्तृहरिः नाभिधानं स्वधर्मेण संबन्धस्यास्ति वाचकम् । अत्यन्तपरतत्रत्वाद्रूपं नास्योपदिश्यते ॥ उपकारात्स यत्रास्ति धर्मस्तत्रानुगम्यते । शक्तीनामपि सा शक्तिर्गुणानामप्यसौ गुणः ॥ तद्धर्मणोस्तु ताच्छब्धं संयोगसमवाययोः। इत्यादि । एतच्च संबन्धस्तोत्रमानं न तु न्यायाभिधानम्, इति न दूषितं ग्रन्थकृता । कार्यकारणभावश्च नान संगतः, तथाहि-आत्मा तावत् न कार्यः, ज्ञानमपि विषयेन्द्रियमनस्कारादेर्भवत् नात्मानं नर्यात .
११का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । एकत्वे वा कः श्लेषः, ? तस्मात् ज्ञानसंबन्धात् 'ज्ञाता' इति यथा विकल्पकल्पितोऽर्थो न वस्तु तथा क्रियासंबन्धात् 'कर्ता' इत्यपि कल्प- नामात्रम्-इति पूर्वपक्षः ॥ आदितः ॥ १६ ॥ इति श्रीमदाचार्याभिनवगुप्तविरचितायां प्रत्यभिज्ञा- सूत्रविमर्शिन्या ज्ञानाधिकारे पूर्वपक्षविवृतिर्नाम द्वितीयमाह्निकम् ॥२॥ 'यस्मिन् सति भवत्येव यत्ततोऽन्यस्य कल्पने। तद्धेतुत्वेन सर्वन हेतूनामनवस्थितेः ॥' इति न्यायात्; क्रिया च नाम न काचित्, न च कश्चित् तत्समा- श्रयः । प्रकृत्या क्रिया प्रत्ययेन च कर्ता संबद्धौ वक्तव्यो, न च अस्ति संबन्धः कश्चित् इत्यर्थः ।। ६३ अनुभवविकल्पनस्सरणादिज्ञानमालैव' अस्ति, न तु ज्ञाता कश्चि- त्-इत्यर्थस्य प्राक् प्रसाधितत्वात् , एवं क्रियाया अभावात् कर्तापि कल्पितः-इति क्रियाकारकादीनां तावन्मात्रलक्षणस्य उपकल्पितत्वात् , कथमात्मा सर्वेश्वरः, के ज्ञानक्रिये, तदभावात् कथमैश्वर्यव्यवहारसिद्धि:- इति धर्मिहेत्वसिद्धिं समर्थयता सिद्धान्त्युक्तस्य ऐश्वर्यव्यवहारसिद्धौ स्वभावहेतोरभावं वदता बौद्धेन 'ज्ञानसंततिमानमेव आत्मा' इति प्रसाधितम् ॥ ७ अथ तृतीयमाह्निकम् । विना येन न किंचित्स्यात्समस्ता अपि दृष्टयः। अनस्तमितसंबोधखरूप तं स्तुमः शिवम् ।। एतस्मिन् पूर्वपक्षे यदुक्तं स्मृतेः संस्कारमा- त्रादेव सिद्धिः-इति, तदेव दूषयितुं 'सत्यं" इत्यादि .."ज्ञानस्मृत्यपोहनशक्तिमान् ॥ यन्तं श्लोकसप्तकम् । क्रियायां संबन्धे च ......... १ अथ अस्मिन् पूर्वपक्षे अधिकारद्वयेन सिद्धान्तो निरूप्यते यदुक्तं 'ननु स्खलक्षणाभासं' इत्यादिना पीठबन्धं विरचय्य 'संस्कारात् स्मृतिसिद्धौ स्थात् स्मर्ता द्रष्टेव कल्पितः' इति तत् ज्ञानविचारोऽयमधिकारः, क्रिया- संबन्धविचारस्तु द्वितीयेऽधिकारे भविष्यति । ज्ञानशक्तियोगात् ज्ञाता ज्ञानाधिकारे, क्रियाशक्तियोगात् कर्ता क्रियाधिकारे दृढीक्रियते । वस्तुतो ज्ञानाधिकारप्रक्रमेण समस्तशास्त्रार्थोपक्षेपः । ज्ञानमुखेन कर्तृत्वसमर्थ- नात शुद्धस्वातच्यरूपमेवैश्वर्यमिति दर्शितमादिसिद्धसूत्रे । तथाहि ज्ञान- विषयं यत् यथारुचि संयोजनावियोजनलक्षणं स्वातन्त्र्यं प्रकाशविमर्शद्वय- सारतया, तत्र प्रकाशभागमानं प्रधानीकृत्य ज्ञानाधिकारी विचार्यते, क्रियाधिकारस्तु विमर्शप्राधान्येन । नहि एकांशद्वारेण धर्मिणि पूर्ण एव प्रवेश इति । तेन कर्तृत्वं शुद्धस्वातन्त्रयरूपं पूर्णमिह समर्थनीयम् । तत्र ज्ञानक्रियाविचार उपायमानम् । - . मन १का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । दूषणोद्धरणं द्वितीये क्रियाधिकारे भविष्यति । यत्तु परेण व्यतिरिक्तं ज्ञानं काणादसांख्या- दिदृष्टौ निराकृतं तदभिमतमेव ग्रन्थकृतः- इति तत् दूषणान्तमेव । तत्र श्लोकद्वयेन ज्ञानस्य खसंवेदनरूपतया अनुभवस्य स्मृती अप्रकाश्यत्वं दर्शितं संस्कारजत्वेऽपि । ततः श्लोकद्वयेन स्मृतेः भ्रान्तित्वम् आशङ्कापूर्वक पराकृत्य तृतीयेन प्रसङ्गात् सर्वाध्यवसाया- नामपि भ्रान्तित्वाशङ्का शमिता । ततः स- त्यपि संस्कारे स्मृत्यनुपपत्तौ व्यवहारोच्छेदः,- इति श्लोकेन उक्त्वा स्वपक्षे तदुपपत्तिः, इति श्लोकेन उक्तम्-इति तात्पर्यम् । ग्रन्थार्थस्तु निरूप्यते २ सत्यपि संस्कारे परदशि स्मृतिरयुक्तति व्यवहारलोप इति । पं० ४ घ० पु. दूषणान्तरमेवेति पाठः । पं० ५ ग० पु० द्वयेन प्रकाशस्येति पाठः। पं० ६ क. पु० अप्रकाशलमिति पाठः । पं० ८ क० ग० पु० पराकृतं ततस्तृतीयेति पाठः । पं० १२ कग० पु० उक्तं तात्पर्यमिति पाठः ।
[११०३आ० ईश्वरप्रत्यभिज्ञा। सत्यं किंतु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः। जातमप्यात्मनिष्ठं त- नाद्यानुभववेदकम् ॥१॥ पूर्वपक्षमध्यात् मया तावत् बहु अङ्गी- कर्तव्यम्, इति "सत्यम्' इत्यनेन दर्शितम् , यत्तु न अङ्गीकर्तव्यं तत् दूष्यते,-इत्येतदुक्तं 'किंतु' इत्यनेन इत्यनेन विशेषाभिधायिना । इह ३ तत्र पूर्वपक्षे सर्वात्मना शमयितव्ये नेति प्रयुज्यते, ईषदङ्गीकार्य उच्यते इति, ईषन्निराकार्ये सत्यं किन्तु इति एषा प्रेक्षापूर्वकप्रयोग- शालिनां शैली । शीले भवा शैली समाधानपूर्विका प्रवृत्तिरिति कैय्यटः। इह च प्रेक्षापूर्वकप्रयोगशालित्वात् अत्रभवत आचार्यस्य तथैवो- पयोगः, इत्याह तदाशयज्ञः तावद्वङ्गीकर्तव्यमिति । यच्च सांख्यकाणा- दादिदर्शनोक्तं व्यतिरिक्तं ज्ञानं नोपपद्यते इति तदभीष्टमेव प्रयास विना ग्रन्थकृतः, इत्याचार्यः पूर्वपक्षवादिन प्रति सुहृद्भूत्वानुमोदते 'सत्य- मित्यादिना। ४ इह अनुभवमुखेन सुखहेतुतां निश्चित्य सरणात् उपादत्ते इति व्यवहारः । तत्र अनुभवसंस्कारात् स्मृती विषयप्रकाशः समर्थितः । न च तावता किंचित् अनुभवस्य अप्रकाशे तदित्येवं-रूपाभावात् , अनु- भवप्रकाशश्च न घटते संस्कारजतायामपि इति प्रकरणे तात्पर्यार्थः । तदाह सूत्रं,-स्मृतिज्ञानामिति । स्मृतिरूपं ज्ञानं पूर्वानुभवसंस्कारात यद्यपि जातं, तथापि आत्मनि स्वरूपे निष्ठा विश्रान्तिः यस्य तादृशं, न तु आयस्यानुभवस्य ज्ञापकं तत् भवति नहि तत् तेन सह आत्मानं मिश्रयति इत्यर्थः।
, १का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। स्मृतौ विषयमात्रस्य प्रकाशो न समर्थनीयो वर्तते यः संस्कारादेव सिद्ध्येत्, किंतु अनु- भवप्रकाशेन विना "तत्' इत्येवं-रूपा कथं स्मृतिः स्यात् , कथं च तया विना अभिलाषण [पेन] व्यवहारः स्यात् ?, अनुभवेन हि अस्य सुखसाधनता निश्चिता, तत उपादानम् ; तत्र पूर्वानुभवजनितात् संस्कारात् एतावत् जातम्- यद्यपि तज्ज्ञानं विषयेण न जनितं, तथापि तद्विषयम्-इति । नच एतावता किंचित्, आत्मनिष्ठे स्वप्रकाशज्ञाने विषयस्येव अनु- भवस्य प्राच्यस्य अप्रकाशनात् ॥१॥ नर्नु संस्कारजत्वादेव प्राच्यमनुभवमपि विषयीकुरुतां स्मृतिः-इत्याशङ्कयाह ५ अनुभवाविषयत्वेन अवभासाभावात् स्मरणादभिलाषेण [पेन] या प्रवृत्तिरुपादानादिका सा न स्यात् । पूर्वानुभवस्य यो विषयः तेन यदि स्मृतिविषय एकतां नीयते तदासौ उपपद्यते । तथाहि कपित्थमवलोक्य सुखसाधनमिदम् इति स्मृत्वा उपादत्ते, सुखं च पूर्वानुभवैकलग्नमस्यां स्मृतौ न किंचिदस्ति ॥ ६ ननु मा भूत् परविषयस्य स्वीकारो, यस्तु संस्कारमहिमोपनतोऽ- ध्यात्मसिद्धश्च मम अनुभवोऽभवत्-इति स्मृतावनुभवस्य अवभासः स किं नाङ्गीक्रियते-इत्याशक्य तन्निराकरणहेतुतया दृगिति सूत्रमित्यर्थः।। पं० ६ ख• पु० उपादानादिति पाठः । पं० १० ख० पु० खप्रकाशे ज्ञाने इति पाठः ।
दृक् 'खाभासा ईश्वरप्रत्यभिज्ञा। [१अ०३० हक्स्वाभासैव नान्येन वेद्या रूपहशेव दृक् । रसे संस्कारजत्वं तु तत्तुल्यत्वं न तद्गतिः ॥२॥ 'दृक् ज्ञानं, तच्च जडात् विभिद्यते खप्रकाशैकरूपतया, जडो हि हि प्रकाशात् पृथग्भूतो वक्तव्यः, तेन ७ दृक् ज्ञानं सा स्वस्यैव आभासः स्वस्याभासनं नाम तस्यैवेति । न च अस्या अप्रकाशमान रूपमस्ति-इति प्रकाशश्च अस्याः परप्रसादोपन- तोऽपि भवेत् । सदा प्रकाशमानत्वेपि च नीलाद्याकारच्छायाकल्पं द्विती- यमपि अप्रकाशमान रूपं स्यात्-इत्यवधारणद्वयमेतत् । तेन स्व एव अस्या आभास एव, स्वस्या आभास एवेति वा-इत्येवं वैयधिकरण्य- सामानाधिकरण्याभ्यां यदीयः स्वभावः प्रकाशेन सर्वस्य नियम्यते सा जडाभिद्यते । तदन्न नियमोपलक्षितेन अनेन लक्षणेन अन्यवेद्यत्वं निरा- कृतम् । रसे' रसविषया दृक् यथा नान्येन रूपादिज्ञानेन वेद्या, तद्वत् सर्वा हक नान्येन ज्ञानेन वेद्या । अनुभवश्व ग्रूपः-इति न स्मृतिज्ञानेन वेधः । संस्कारेण तर्हि किं कृतम् इत्याह, विषयस्य जनकस्याभावात् निर्विषयतायां प्राप्तायां सविषयतारूपं तत्तुल्यत्वं तेन कृतम् , उपचारात् तु कार्यकारणयोरभेदेन निर्देशः । उपचारे प्रयोजक कार्यान्तराभावेन तदेकप्रवणताधिगमः, न तु तदवगमरूपत्वं पूर्वानुभवाभासकत्वं, संस्का. रजन्यं तत्तुल्यत्वमपि वस्तुचिन्तयोच्यते । तस्य तु गतिरवगमो नोपपद्यते, स्मृल वयोः हि कः तृतीयः सादृश्यमध्यवस्येत् । तौ च अनन्योन्य- दृश्वानौ न सादृश्यमधिगच्छतः-इति सूत्रार्थः । स्वाभासैवेति नियमश्चतुर्धा व्याख्यातः टीकाकृता । तथाहि स्वरू- पस्यैव स प्रकाश इति ब्याख्यातं, स्वात्मनः प्रकाश इति । अप्रकाशमा- " , २का०] श्रीमदभिनवगुप्ताचार्यकृत विमर्शिन्युपेता । आभासः प्रकाशमानता सा खं रूपमव्यभि- चारि यस्याः, स्वस्य च आभासनं रूपं यस्याः। सत्यपि बाह्ये तच्छरीरसंक्रान्तं न प्रकाशनं ज्ञानस्य रूपं भवितुमर्हति, परप्रकाशनात्मक- निजरूपप्रकाशनमेव हि स्वप्रकाशत्वं ज्ञानस्य भण्यते । ननु स्वाभासमेव सत् तत् अनुभव- ज्ञानं स्मरणे भासिष्यते, न-इत्याह 'नान्येने वेद्या' । परत्र यदि दृक् भासेत तर्हि न सा खाभासा, इदमेव हि स्वप्रकाशस्य लक्षणं- नमस्या न रूपमिति व्याख्यातं, स्वात्मास्य प्रकाश इति । कदाचिदपि नास्याः प्रकाशः परप्रसादोपनत इति विवृतं, स्वात्मन एव प्रकाशते, न परस्येति । नीलाद्याकारान्तरमस्या न रूपमिति विवृतं, परोऽस्य न प्रकाश इति । परो हि यो नीलादिः सोऽस्य कथं प्रकाशात्मकरूपः स्थादित्यर्थः। ९ अन्यवेधतायां हि स्मृतिज्ञानस्य तावदनुभवज्ञानं पारम्पर्येण कार- णमिति यदि विषय उच्यते, तत् रूपज्ञानस्यापि रसादिज्ञानं समनन्त- रत्वेन परस्परया वावश्यं कारणमिति रूपज्ञानेनापि अशेषाणि रसगन्धा- दिज्ञानानि विषयीक्रियेरन् । एकज्ञातृसमवेतपदेन बौद्धमते कारणत्वेन विशिष्टं, काणादमते तु एकार्थसमवायेन विशिष्टं ज्ञानत्वमविशिष्टं सूचितं । तेन एकसमवायिज्ञानत्वविशेषादिति मन्तव्यं, न तु ज्ञानत्वा- विशेषमानात् । एवं हि निर्मलमभिधीयमाने सति वासुकिज्ञानाद्यपि अस्मदादिज्ञानस्य विषयो भवेदिति सर्वः सर्वज्ञः स्थादित्यादिः भूयान्विलवः। पं० ४ ख० पु० ज्ञानस्य खं रूपमिति पाठः । पं ५ क० घ० पु० खपरप्रकाशलमिति पाठः ।
ईश्वरप्रत्यभिज्ञा । [१अ०३आ० खयं हि यदि प्रकाशेत तदा परेण सह अ- संबन्धात् संबन्धप्राणा कथं परत्र' इति सप्तमी संगच्छताम्; तथा च रूपज्ञानेन 'रसे दृक्' रसविषयं ज्ञानं न वेद्यते, एवं हि चक्षुषैव रसः फलतो गृहीत एव' स्यात् । ननु यदि न आभाति स्मरणेऽनुभवः किं तर्हि संस्कारेण कृतं स्यात्, रूपज्ञानं न रसज्ञानजात् संस्का- रात् जातं, तत् कथम् अयं प्रसङ्गः, तस्मात् संस्कार एव भवत्संभावितदोषभङ्गाय प्रभवेत् ; नैतत् , यतो हि असौ तत्संस्कारसंस्कृतात् समन्तरप्रत्ययात् उत्थितः स्मृतिबोधः, तेन तत्सदृशो भवतु शाखासंनिवेश इव पूर्वसंनि- वेशतुल्यः, नतु यो यत्संस्कारात् जातः स तस्य वेदनस्वभावो भवति-इति युक्तम् । सदृ- १० अन्योन्यवेदनेऽन्योन्यविषयवेदनमपि स्यात् । तथाङ्गीकारादि- न्द्रियनियमो हीयेत । स हि त्रिविधः प्रसिद्धः । इन्द्रियबलात् ज्ञानस्य कार्यस्य नियमः, चक्षुर्जनितं हि ज्ञानं रूपस्यैव प्रकाश इति । इन्द्रियस्य च नियमो योग्यतात्मा येन नयनं रूपज्ञानमेव जनयति नान्यदिति । इन्द्रियाणां च नियम इयत्ता पद इन्द्रियाणीत्यादिः । पं० ४ ग० घ० पु. विषयज्ञानमिति पाठः ।
२ का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। शत्वस्यापि गतिरवगमः कथम् ?, नहि अनुभव- ज्ञानं सादृश्यं गमयति, नापि स्मृतिज्ञानं, परस्परम् असंवेदने द्वयनिष्ठसादृश्याध्यव- सायायोगात्, अन्यस्य च तदुभयवेदन- रूपस्य अभावात्, इति संस्कारात् परं सविष- यतामात्रं स्मृतेः सिद्धं, नतु अनुभवविषयत्वं, नापि अस्य विषयस्य पूर्वानुभवविषयीकृत- त्वम्-इति निश्चय एषः॥२॥ ननु यदि स्मृतिज्ञाने अनुभवस्य सत्यतः प्रकाशः स्यात्, तन्मुखेन च तद्विषयस्य, तदा भवेत् भवदुक्तेरवकाशः, यावता स्मृतिर्वि- कल्परूपत्वात् केवलमप्रकाशमानमेव अनुभव ११ यत् वस्तु स्थितं प्ररूढं भवति तदवश्यं संस्कारमाधत्ते । यत्र च संस्कार आधीयते तत्र सादृश्यामित्युभयं भूर्जसंनिवेशशरगमनादौ दृष्टम् । इह च पूर्वज्ञानं स्थितमभूत्, तदवश्यं संस्कारसादृश्याभ्यां भाव्यमिति कल्प्यते, न तु सादृश्यं ज्ञातुं शक्यं । द्वयवेदी हि कापि अक्रमेणैव संनिवेशद्वयं गोगवययोरिव क्वचित् क्रमेण भूर्ज इव पराप• ररूपं पश्यन् तृतीयः तत्सादृश्यमवेयात् । नतु इह तृतीयोऽस्ति । स्थिर- मात्मानमभ्युपयतापि वैशेषिकेण दुःसमर्थमेकविषयत्वं । स्मृत्यनुभ- वयोहि न ग्राहक तृतीयं ज्ञानमस्ति, यत् तयोः सादृश्यमवगच्छत् एक- विषयतामध्यवस्येदुपचरेद्वा । पं० ६ ग• पु० मात्रस्मृतेरिति पाठः। क० पु० विषयित्वमिति पाठः । १३ ईश्वरप्रत्यभिज्ञा [१अ०३आ० तद्विषयं च अध्यवस्यति, तत् इयं भ्रान्ति- खभावा, तत्र कोऽयं निवन्धः, तदेतत् दर्शयति शङ्कयमानत्वेन अथातद्विषयत्वेऽपि स्मृतेस्तदवसायतः। दृष्टालम्बनता भ्रान्त्यो ॥ न तदर्शनं नापि तद्विषयः स्मृतेविषयः, तथापि तु उभयम् अध्यवसीयते, भ्रमरूपतया स्मृतेः॥ , १२ न तावनुभवतद्विषयौ विषयो यस्याः, असोऽसन् वा आत्माकारो वा विषयो यस्याः, स च अर्थोऽनुभवश्व विषयो न यस्या इति वा विग्रहः । १३ ननु यदि स्मृत्यनुभवयोरेकविषयत्वं पारमार्थिकं भवेत् तत्समर्थ- नायां प्रयस्येतापि, न तु तथा। तथाहि यस्तावत् अतीतः पिता स्मरणे भाति स तदा नष्टः कथं स्मरणे यायात् । यथा स निर्दग्धः पिता न हसति न कण्डूयति तथा भात्यपि न-इति निश्चयः । न च अस्य वर्त- मानातीतकालद्वययोगः पितुर्विरोधात्, अभ्युपगमे च सर्वतो व्यावृत्तं रजतं कथमन्यत्रापि अनेकं स्यात् । भ्रमश्च सः, नच असावस्फुटः स्मर्तुः पित्राभासो देशकालस्वरूपानियतः तद्विपरीतेन आनुभविकेनाभासेन एकतामुपगन्तुमुत्सहेत । तेन अनिभासमान एव तसिन् विषये अभि- मानरूपात् तस्यवसायात् तदवमासिकेति स्मृति ईष्टविषया उच्यते হাৰিনি হিজাবাবা।
४का०] श्रीमदभिनवगुप्ताचार्यकृतत्रिमर्शिन्युपेता । एतत् निराकरोति तदेतदसमञ्जसमें ॥३॥ अत्र कारिकया उपपत्तिम् आह स्मृतितैव कथं तीव- द्धान्तेश्वार्थस्थितिः कथम् । पूर्वानुभवसंस्कारा- पेक्षा च किमितीष्यते ॥४॥ अनुभूतस्य अनुभवप्रकाशितस्य विषयस्य १४ स्मृतिरसदेव असत्रख्यातिपक्षे आलम्बते, वासनोपकल्पितं वा ज्ञानाकारम् आत्माख्यातिपक्षे आभासयति, न तु प्राच्यमनुभवं तद्विषयं वा, उभयस्यापि स्मृतिकाले नास्तित्वात् । तत् केवलमभिमानसारत्वेन अध्यवस्यति तदनुभवकालावलम्बनेन अध्यवसायस्य स्वरूपं दर्शयति सोऽनुभूत इति । स इत्यनुभवकालस्पर्शः अनुभूत इति अनुभवस्य अर्थस्य च अध्यवसायः, असतोऽप्यात्मनो निर्भासमानस्य तेनानुभूतेन अध्यवसीयमानेन अभेदानध्यवसायमयात् अभेदाध्यवसायात् भ्रमात् अनुभूतालम्बनत्वं स्मृतेः न विवेकिनः प्रतियन्ति । १५ कथम् इति पदं सर्वतोमुखं पूर्वोक्तमेतन्निराकरोति समस्तोत- वस्तुदूषणद्वारेण, तथाहि-अन्यत्र किंचिन्निराक्रियते, यथा श्रोत्रग्राह्यो वर्णात्मा नित्यः शब्दः समयापेक्षी वाचक इत्यत्र नित्यत्वमेव निराक्रियते नान्यत् , तदंशदूषणेन तु वाक्यार्थोऽयं दूषितो भवेत् । इह तु स्मृतिः संस्कारजा भ्रान्त्या पूर्वानुभूतार्थव्यवस्थापिकेति प्रतिपदार्थ तद्वारेण च वाक्यार्थः-इति सर्वमेतत् निराक्रियते । यः स्वरूपविशेष इह विचार- चित्रे भित्तित्वेन अवलम्ब्यते स एव नोपपद्यते इति तावच्छब्दार्थः । .
ईश्वरप्रत्यभिज्ञा । [१अ०३आ० अप्रेमोषोऽनपहारः तथैव प्रकाशनं यत् एतत् स्मृतेः आत्मीयं रूपं तथा-प्रकाशनाभावे विघटेततमाम् । किंच भ्रान्तौ असद्वा आत्माकारो वा प्रख्याति, नतु तया अर्थः खीक्रियते तस्य अप्रकाशनात्, इति तया अर्थो न व्यवस्थापित एव । प्रकाशनात्मा हि व्यवस्थापना, ततश्च स्मरणादभिलापेन कथम् अर्थविषयो व्यवहारः ?; नच तदप्र- काशने संस्कारजत्वेन किंचित् कृत्यं, तद्धि सादृश्यं लब्धुम् अवलम्ब्यते; नच अनुभवेन विषयप्रकाशनात्मना स्मृत्यभिधानाया भ्रान्तेः किंचिदपि सादृश्यम् अस्ति, सर्वथा विषयम- स्पृशन्त्याः॥४॥ ननु योऽनुभवो यश्च तद्विषयः स यतः तया अध्यवसीयते, ततः अंशात् सादृश्यम् १६ अनुभूतस्य विषयस्य असंप्रमोषः कंचित् कालं मध्ये मुषितस्येव न पूर्णः प्रमोपोऽपहारः पुनः प्रकाशनेन लाभादिति स्मृतेः मुख्य रूपं, येन ज्ञानान्तरेभ्योऽस्या विशेषः, तदेव पूर्वसूत्रार्थेन उन्मूल्यते अनु- भवो न प्रकाशते तद्विषयोऽपि नैव प्रकाशते अपि तु सम्यक् प्रकर्षण मुषित इवासौ जातः इति । पं० ७ ख० ग. पु. अभिलाषेणेति पाठः।
५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। अनुभवेन स्मृतेः, तत्सिद्धये च संस्कारपरि- ग्रहः । 'अध्यवसीयते' इति किम् उच्यते ? 'प्रकाश्यते' इति चेत् न भ्रान्तित्वं; 'न प्र- काश्यते' इति चेत् पुनरपि विषयो न स्पृष्ट एव अनया,-इति सादृश्यमपि शब्दगडु- मात्रम् ; तदेतत् दर्शयितुमाह भ्रान्तित्वे चावसायस्य न जडाद्विषयस्थितिः। इह स्मृतेः अन्यस्य वा भ्रान्तिबोधस्य १७ स्मृतिज्ञानं प्रतिभासमानरूपे स्वसंवेदनमध्यवसीयमाने पुनः पूर्वानुभूतार्थो विकल्पः इति स स्वसंवेदनं सोऽस्य न प्रान्तः, नापि अनुभूतार्थव्यवस्थाहेतुः तस्याभिन्नत्वात् विकल्पेऽध्यवसायस्तु स्यात् अर्थ- व्यवस्थापनं यावता भ्रान्तिरसौ, भ्रान्तस्यापि अवसायस्य विषयव्यवस्था न युक्ता-इत्याह भ्रान्तित्वे चेति । तथा भ्रान्तस्यापि अध्यवसायस्य जडत्वात् विषयव्यवस्थापकत्वं न युज्यते, व्यवस्थापनं हि वस्तुतो नः संवेदनमात्मनि तद्वाचकशब्दोदीरणे च श्रोतृषु तथाभूतार्थाकारे संवेद- नोत्पादनार्थम् । तथा च आर्यधर्मकीर्तिः 'संविनिष्ठा हि विषयव्यवस्थितयः ताः कथमचेतनोऽर्थों व्यव- स्थापयेत् । इति । १८ प्रतिप्रमातृ व्यवस्थितत्वं तावद्भिद्यते तस्य भावस्वरूपत्वे भेदो न स्थात् प्रमाना व्यवस्थापितोऽर्थः सर्वान्प्रमातॄन्प्रति व्यवस्थितः स्यात् न चैवं तदा तथाभूतवस्तुसंवेदनरूपत्वलाभः प्रमातुर्व्यवस्थापनम् अतो जडोऽध्यवसायस्तथा स्यात् तदाह न जडाद्विषयस्थितिः इति ।
ईश्वरप्रत्यभिज्ञा । [१अ०३ आ० खसंवेदना प्रकाशमाने न भ्रान्तिता, तत्र वैपरीत्याभावात् ; यस्तु तत्र अध्यवसीयते खाकारः स विपरीततयों अस्वाकारत्वेन अर्थ- तया,-इति तत्र अंशे भ्रान्तिता । स च अंशोऽर्थलक्षणो न स्मृत्या अन्यया भ्रान्त्या स्पृश्यते, तत्र असौ तूष्णीका,-इति बलादेव तत्र अंशे जडत्वम् अस्या आयातं घटज्ञानस्येव पटे । नच जडेन विषयस्य किंचित् कृत्यम् , ततश्च अर्थविषयो व्यवहारो विलुप्येत । ततोऽजाड्ये निजोल्लेख- निष्टान्नार्थस्थितिस्ततः॥५॥ अथ तु तम् अवसायरूपं खसंवेदनांशं स्वाकारं वा अवलम्ब्य अजडत्वम् अस्याः, एवमपि 'अजाड्ये निजं खसंवेदनम् 'उल्ले- १९ इदमिति निर्विकल्पाशे। २० नहि शुक्तौ रजतज्ञानेन सत्यरजतस्य शुक्तेची व्यवस्था काचित् । २१ ननु केनैवमुक्तं-जडोऽध्यवसायः संविस्वभावो ह्यसौ ज्ञाना- व्यतिरेकात् इत्याह तत इत्यादि । निजं च उल्लेखश्च इति द्वन्द्वः । निष्ठा- दिति ल्यब्लोपे पञ्चमी । ततः स्मृत्यध्यवसायत इति ।
६का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । खश्च' खाकारः-इति इयति एषा परिनिष्टितो स्मृतिः, इति विषयस्य नामापि ग्रहीतुम् अशक्नुवतः 'ततः स्मृत्यध्यवसायात् कथं विष- यस्य व्यवस्थापनं व्यवहार्यत्वसंपादनसाम- र्थ्यम् ? ॥५॥ संस्कारे सत्यपि स्मृतिः न कथंचन घटते, ततश्च परस्परसङ्गतिहीनानि सकलानि ज्ञा- नानि,-इति यदुक्तं श्लोकपञ्चकेन तत् इदानीं प्रकृते योजयति एवमन्योन्यभिन्नाना- मपरस्परवेदिनाम् । ज्ञानानामनुसंधान- जन्मा नश्येजनस्थितिः॥६॥ 'जनस्य' लोकस्य या काँचन स्थितिः' व्यवहारः सा सर्वज्ञानानां यत् 'अनुसंधान' २२ परिनिष्ठिता नियता। २३ ज्ञानानामिति अनुसन्धानापेक्षयात्र षष्ठी। २४ काचन आन्तरबाह्यरूपा। पं० १४ घ० पु० काचन व्यवहार स्थितिरिति पाठः ।
१०४ ईश्वरप्रत्यभिज्ञा । [१अ०३आ० एकविषयभावोपपन्नस्मृतिताप्राप्तिरूपं, आयत्ता । तथा हि-स्मरणनिबन्धनः सर्वो व्यवहारः। 4थममपि हि प्रत्यक्षज्ञानम् अहम्' इति पूर्वापररूपानुसंधानेन स्मरणानुप्राणितेन विना न घटते, प्रमातरि विश्रान्त्यभावात् अप्रैत्यक्षत्वप्रसङ्गात् । एवं सुखादौ मन्तव्यम् । होनादानप्रेरणाभ्युपगमादयस्तु व्यवहाराः स्मरणमया एव । 'एवं ज्ञानानां यत् 'अनु- २५ प्रथमम् अनुभवकाले। २६ अहमिति, अहमिदं जानामि-इत्यहन्तापर्यवसितं पूर्वापरस्वात्म- रूपपरामर्शविश्रान्तं हि अहमिति स्वरूपम् । यस्य नीलज्ञानमभूत् तस्यैव पीतज्ञानम् इति । २७ प्रमातरि नित्यबोधरूपे। २८ स चायमनुसन्ध्येकरसतया प्रमाता व्यवहरंस्तदभावे मूर्छितपायी- भवेदिति भावः। २९ हानादानेति, परज्ञानविषयस्वीकाराभावाच्च अर्थिनामर्थक्रिया- लाभः प्रवृत्तिपूर्वको न स्यात् अथिताया एवोदयाभावात् , सा हि प्रवृ- त्तिविषयस्य प्रार्थनीयस्यार्थविशेषस्य निश्चये सति भवति, प्रार्थनीयश्च इत्थमर्थों भवति, यदि पूर्व स सुखसाधनत्वेन दृष्ट इति निश्चयः, एवं च विषयसंमेलनात्मा निश्चयः प्रार्थनाकारणं तन्नास्ति-इति कारणानुप- पत्या प्रार्थनाया अभावे तयैव उत्तरोत्तरकार्याणामभाव इति प्रार्थनापि अवसायप्रवृत्तिहानादानसंव्यवहारादिर्लोकयात्रा उत्सीदेत, क्रमोपजातस्य संवित्प्रबन्धस्य विचित्रं कृत्वा संयोजन वियोजनादि बहुप्रकारेण वैचि- ज्येण यत्कस्मिंश्चिद्विषये मेलन, यस्त्वयाय विषयो दृश्यते स पूर्वमपि मया इत्थमवलोकित इत्येवंरूपा हि हानादानादिप्रवृत्तयः । , ..
६का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । १०५ संधानं ततो जायमाना 'जनस्थितिः' 'एवम्' इति पराभ्युपगमे सति 'नश्येत्' नश्यति- इति संभाव्यते । कुतः ?-इति चेत्, विशे- षणद्वारेण हेतुमाह 'अन्योन्यं' तावत् 'भि- नोनि' ज्ञानानि-अन्यत् अनुभवज्ञानं, अन्यत् इदानीन्तनं ज्ञानं विकल्पाभिमतं, अन्यत् स्मरणसंमतं ज्ञानं । तत् एतानि स्वविषयप्र- काशमात्ररूपाणि परविषये जडान्धानेलेमूक- कल्पानि, नच अन्योन्यस्य प्रकाशरूपाणि । एवं न खरूपतो न वेद्यतो वा एकीभावरू- पम् अनुसंधानम् अस्ति । अन्योन्यं च विषय- ३० बौद्धमताझीकारे। ३१ नश्येदिति, संभावनेऽलमिति चेत् सिद्धाप्रयोग इति । अयमर्थः संभावनायां गम्यमानायां प्रौढ्यर्थे लिविभक्तिः चेत् सिद्धस्याप्रयोगः । अपि शिरसा गिरि भिन्द्यात् , अन सिद्धस्य भेदस्य असंभव एव, तथा चान नश्येदिति, नाशस्य सिद्धफलरूपस्य असंभव एव । ३२ कुत इत्यादिना परप्रतीत्यै पञ्चावयवं वाक्यमुत्थापयति । ३३ एकप्रमातृविश्वान्ति विना इति भावः । ३४ शुद्धज्ञानमित्यर्थः। ३५ अनेलमूकस्तु वक्तुं श्रोतुमशिक्षिते इति कोशः। ३६ न चेति, तथा च सति स्वमतहानिरिति च-शब्देन छोतितम् । ३७ स्मृतिर्न स्वरूपतोऽनुभवं विषयीकरोति न वेद्यतोऽनुभूतं विषयी. करोति इति । १४ । १०६ ईश्वरप्रत्यभिज्ञा । [१अ०३ आ० विषयिभावो नास्ति । न तुर्य होतेयनिव- न्धनम् अनुसन्धानाधायि संभाव्यते,-इति ध्वंसेरन् व्यवहाराः । नच, ध्वंसन्ताम्' इति भवदभीष्टशापमात्रात् ते ध्वंसन्ते प्रकाशन्ते यतः तत एतत् आपद्यते, एतदेव समर्थयि- तुम् उद्यन्तव्यम्-इति ॥६॥ तच्च अस्मदभिमतप्रकारेण विना विधेरपि अशक्यसमर्थनम्-इति दर्शयति न चेदन्तःकृतानन्त- विश्वरूपो महेश्वरः। स्यादेकश्चिद्वपुर्ज्ञान- स्मृत्यपोहनशक्तिमान् ॥७॥ ३८ च-शब्दोऽत्यन्तासंभावनायाम् इति । ३९ परस्परभिन्नानामपि यदेकसंश्लेषणं तेन संबन्धोऽन्योन्यमपि सं- बन्धो ज्ञातेयम् । ४० अनुभवविकल्पस्मरणानामिति शेषः । ४१ विनम्भास्पदीक्रियते इत्यर्थः । भवदनभिमतमपि बलादायाति-इति भावः । ४३ एतत्-वक्ष्यमाणम्। ४४ परैरशक्ये कर्मण्यध्यवसायः समर्थना, तदेतदाह तञ्चेत्यादिना । पं० ७ क० घ० पु० एतच्चास्मदिति पाठः ।
७का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । 'संवित् तावत् प्रकाशते' इति तावत् न केचित् अपहुवते । सा तु संवित् यदि स्वा- ममात्रविश्रान्ता अर्थस्य सा कथं प्रकाशः?, स हि अर्थधर्म एव तथा स्यात्। ततश्च अर्थ- प्रकाशः तावत्येव पर्यवसितः, इति गलितो ग्राह्यग्राहकभावः। अतोऽर्थप्रकाशरूपां संवि- दम इच्छता बलादेव अर्थोऽपि तद्रूपान्तर्गत एव अङ्गीकर्तव्यः; स च अर्थप्रकाशो यदि अन्यश्च अन्यश्व, तत् न स्मरणम् उपपन्नम्,- इति अत एक एव असौ,-इति एकत्वात् सर्वो वेद्यराशिः तेन क्रोडीकृतः, इत्येतदपि अनिच्छता अङ्गीकार्यम् । एवमपि सततमेव उन्मनेन निमग्नेन वा विश्वात्मना प्रकाशेत, तथाखभावत्वात् । न चैवंम् , अतः स्वरूपान्त- ४५ अर्थात्मन्येव इत्यर्थः । ४६ बौद्धेनेति शेषः। ४७ तद्रूपान्तर्गतः संविद्रूपान्तर्गत इत्यर्थः । ४८ क्रोडीकृतः अन्ताकृतः इत्यर्थः । ४९ अयमाशयः, यद्यसावेकः सर्वैर्भावमण्डलैर्निर्भरश्चिद्वपुस्तहि तानि सदैव उन्मग्नानि सदैव वा निमन्नानि निर्भासेरन्, कादाचित्कं तु वैचि- ज्यमेषां कथमिति । ५० दृश्यते, इति शेषः ।
१०८ अर्थ खरूपात् ईश्वरप्रत्यभिज्ञा । [१अ०३आ० बुडितम् अर्थराशिम् अपरमपि भिन्नाकारम् आत्मनि परिगृह्य, कंचिदेव उन्मैग्नम् आभासयति,-इति आपतितम् । सैषा ज्ञानशक्तिः । उन्मनाभाससंभिन्नं च चि- स्वरूपं बहिर्मुखत्वात् तँच्छायानुरागात् नवं ५१ अयमाशयः, 'इच्छाया एव यस्येयत्फलं लोकनयात्मकम् । इत्यागमिकोक्त्या अपरिगणितसर्वभावनिर्भरो भगवान् स्वातच्यात् भावराशिमध्यात् कंचिद्भावं प्रकाशस्वरूपात् पृथक्करोति, पृथकूकृतं च प्रकाशयति, न च पृथक्कृतस्य प्रकाशना उपपन्ना इति न महाप्रकाशात् पृथक्करोति-इत्युक्तम् अपरमित्यभिन्नमपीत्यर्थः, परं व्यतिरिक्तं ततोs- न्यदपरमिति । ५२ प्रकाशस्वाच्छन्द्यमेव चित्तत्त्वमित्याशयेन पृथग्भूतम् । ५३ कंचिदेवेति, तथाविधं च भिन्नाकारमपरमार्थप्रकाशरूपमपि आ- रोपितप्रकाशं मायाप्रमातारं निर्मिमीते, तथा च संकोचेन अवभासनमेव छ भगवतः स्वात्मनि तन्निर्माणमुच्यते सैषा ज्ञानशक्तिः । अत्र च विवे- कसर्वस्वा एवं प्रमाणम् । ५४ उन्मग्नं पृथग्भूतमित्यर्थः । ५५ आपतितं स्फुटमनुक्तमपि अर्थादायातम् इत्यर्थः । ५६ एवं च मायाप्रमाता शरीराधवच्छिन्नसंकुचितप्रकाशस्वभावो भवन स्वापेक्षया पृथग्भूतं भावमवभासयति, तनवनवतदीयच्छायोपर- तमस्य बहिर्मुखं रूपं नवं नवं ज्ञानमुच्यते, तन च यदैश्वरं स्वातच्यं सा ज्ञानशक्तिरिति । ५७ उन्मनाभाससंभिन्नं शरीराद्यवच्छिन्नसंकुचितप्रकाशस्वरूपमित्यर्थः। ५८ तच्छायानुरागात् स्वापेक्षया पृथग्भूतभावावभासेन, उन्ममा- भासात्मकवेद्यच्छायोपरागात् इति ।
१०९ ७का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। नवं ज्ञानमुक्तम् । एवमपि नवनवाभासाः प्र- तिक्षणम् उदयव्ययभाजः, इति सैव व्यवहार- निवहहानिः । तेन क्वचित् आभासे गृहीतपूर्वे यत् संवेदनं बहिर्मुखम् अभूत्, तस्य यत् अन्तर्मुखं चित्स्वरूपत्वं तत् कालान्तरेऽपि अ- वस्थास्नु खात्मगतं तद्विषयविशेषे बहिर्मुखत्वं पैरामशति,-इति एषा स्मृतिशक्तिः । यच्च तत् नवं भासयति स्मरति वा तत् वस्तुतः संविदा विश्वमय्या तादात्म्यवृत्ति,-इति वि- श्वमयं पूर्णमेव,-इति नैवं न किंचित् आभा- सितं स्मृतं वा स्यात् । इदमपि प्रवाहपति- ५९ नवं नवं बहिर्मुखरूपमित्यर्थः । ६० ज्ञानशक्तिसमर्थने। ६१ तेषां नवनवाभासानां प्रतिक्षणम् उदयलयग्रस्तत्वेन कथं व्यव- हारोपयोग इत्यर्थः। ६२ पित्रादौ विशिष्टविषये इति । ६३ स्वात्मगतां तामेव विशिष्टविषयां बहिर्मुखतां परामृशति । ६४ मायाप्रमातरि तदेतत् सरतीत्युच्यते, तत्र यत्तथाविधं प्रमाना- दिनिर्माणसामर्थ्य तद्भगवतः स्मृतिशक्तिरिति भावः । ६५ तादात्म्यवृत्ति अभेदसंविन्मयमित्यर्थः । ६६ यच भानं स्मरणं वा पुनस्तदपि परमेश्वरसृष्टत्वात् पारमार्थिक- मेव इत्यप्यांदायातम् । ६७ इदमपि वक्ष्यमाणम् । , ११० ईश्वरप्रत्यभिज्ञा । [१अ०३० तम् ऊरीकार्यम्-यत् किल तत् आभास्यते तत् संविदो विच्छिद्यते, संविच्च ततः, संविच्च संविदन्तरात्, संवेद्यं च संवेद्यान्तरात्, नच विच्छेदनं वस्तुतः संभवति,-इति विच्छेदनस्य अवभासमात्रम् उच्यते । नच तत् इयता अपारमार्थिकम् , निर्मीयमाणस्य सर्वस्य अय- मेव परमार्थो यतः । एष एव परितश्छेदनात् परिच्छेद उच्यते, तदवभासनसामर्थ्यम् अ- पोहनशक्तिः । अनेन शक्तित्रयेण विश्वे व्य- वहाराः । तच्च भैगवत एव शक्तित्रयं यत् ६८ आभास्यते चिद्रूपेण का इति शेषः । ६९ तथा चोक्तं भगवता पतञ्जलिना "शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः" इति । ७० तत् विच्छेदनमित्यर्थः । ७१ परितश्छेदनादिति, देशकालविशेषावच्छेदशून्यत्वेन विचित्रेच्छा- प्रबोधितावभासभेदवासनामानोपपादितविकल्परूपविज्ञाना अपोहन- शक्तिः, पूर्वावभासितवस्तुनः पूर्वावभासितत्वेन वर्तमानकाले प्रख्यापन- शक्तिः स्मृतिशक्तिरित्यनयोर्भेदः । ७२ तथा च यया भगवतः स्वातन्यशक्त्या मायीयप्रमातुर्विकल्परूपं विज्ञानं सा अपोहनशक्तिरिति फलितार्थः । ७३ महेश्वरपदस्थार्थमाह तच भगवत एवेति, अयं भावः यद्यपि पशुप्रमातुरपि तथाभूतं ज्ञानं ततश्च सोऽपीश्वर एव, तथापि न तस्य तन्त्र खेच्छा प्रभवति अप्रतिहतसंकल्पत्वाभावात् तेन यस्यैव अप्रतिघात इच्छायाः स महेश्वर एव तथाभूत इति ।
७का०] श्रीमदभिनवगुप्ताचार्यकृत विमर्शिन्युपेता। १११ तथाभूतानुभवितृ-स्मर्तृ-विकल्पयितृस्वभावचै- त्रमैत्राद्यवभासनम् । स एवं हि तेन तेन वपुषा जानाति, स्मरति विकल्पयति च। यथो- तम् आचार्येणैव 'यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते। जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता।' इत्यादि । एतासां च ज्ञानादिशक्तीनाम् अ- संख्यप्रकारो वैचित्र्यविकल्पः, इति तत्सामर्थ्य स्वांतत्र्यम्, अपराधीनं पूर्ण महदैश्वर्यं त- निर्मितब्रह्मविष्णुरुद्राद्यैश्वर्यापेक्षया उच्यते । ७४ अयं भावः 'न वढेर्दाहिका शक्तिर्व्यतिरिक्ता विभाव्यते । केवलं ज्ञानसत्तायाः प्रारम्भोऽयं प्रवेशने ॥' इत्यागमोक्या यथाग्निर्दाहकः पाचकः प्रकाशक इति तत्र बहुत्वपरामर्श- प्रधानतायां शक्तिव्यवहारः, तदेकपरामर्शप्रधानत्वे तद्वद्ध्यवहार इति । ७५ 'न सा जीवकला काचित्सन्तानद्वयवर्तिनी । च्याप्त्री शिवकला यस्यामधिष्ठात्री न विद्यते ॥' इति-न्यायेन परमात्मन्येव सा अर्थस्थितिनियन्त्रिता इति । ७६ अन्न महेश्वर-शक्तिपदाभ्यामेव अपराधीनं ज्ञानादीनां स्वातन्त्र्यम- भिदधयां स्पष्टं यथाग्निः शक्तः सन् सन्दहति इतिवत् तत्र इच्छाशक्ति- गृहीतैव । तथा चोक्तं भगवता गीतासु 'मत्तः स्मृतिर्ज्ञानमपोहनं च ।' इति । अत्र च मत्त इति मत्सामर्थ्यादेतन ममेति प्रदर्शितम् । अयं भावः यदलात् तद्भवति तन्मम स्वातन्त्र्यमिति ।
११२ ईश्वरप्रत्यभिज्ञा । [१अ०३आ० तदेव 'चिद्वपुः' इत्येवं कृत्वा इयदायातम् 'वि- श्वरूपः' इति । तत एव च परिनिष्ठितैकरूप- जडभाववैलक्षण्यात् ज्ञानादिशक्तियुक्ततामा- हेश्वर्यम् उपसंप्राप्तः । एतदनुपगमे न किं- चित् इदं भासत,-इति प्रसङ्गः। भासते तु; तस्मात् एतत् अवश्यम् अङ्गीकर्तव्यम्, इति प्रसङ्गविपर्ययः। नश्येजनस्थितिः, ययेवं न स्यात्, इति प्राक्तनेन श्लोकेन सह प्रसङ्गः 'चेत्' इत्यनेन तद्विपर्ययः सूचितः ॥ ७ ॥ आदितः ॥ २३ ॥ इति श्रीमदाचार्याभिनवगुप्तविरचितायां ईश्वरप्रत्य- भिज्ञासूत्रविमर्शिन्यां ज्ञानाधिकारे परदर्शनानुप- पत्तिर्नाम तृतीयमाह्निकम् ॥३॥ ७७ तद्विपर्ययः प्रसङ्गविपर्ययः इत्यर्थः ।
अथ चतुर्थमाह्निकम् । ............ पदार्थरत्ननिकर निजहृद्गञ्जपुञ्जितम् । प्रश्नन्तं स्मृतिसूत्रान्तः संतत्यैव स्तुमः शिवम् ॥ १॥ एवं ज्ञानपूर्विका स्मृतिः, तदुभयानुयाँ- हिणी अपोहनशक्तिः,-इति तावत् वस्तुसंभव- क्रमेण प्रदर्शितम् । उपक्रमानुसारेण स्मृति- रेव सूचितप्रसङ्गविपर्ययसमर्थनदृशा विवेच्या। 'सत्यं किंतु स्मृतिज्ञानम्' इति हि उपक्रान्तम् । तत्र संस्कारमात्रात् १ चिदानन्दसारसर्वाभाससमूहम् । २ तत्तत्सुवर्णरत्नादिनिवेशस्थानं गाः, अनेन न बहिर्भावेनैव स्मृति- स्वरूपं तत्तु परप्रतीत्यै दर्शितम् । ३ संतत्या क्रमेणेत्यर्थः । ४ स्मृतिस्वरूपसमर्थनेनान्यदर्शनाधस्पदीकारेण स्वदर्शनोत्कर्षतया विमृशाम इति यावत् । ५ अन्तरनुप्राणिका। ६ तन पूर्वपक्षे 'अथानुभवविध्वंसे स्मृतिः' इति, तथा सिद्धान्ते 'सत्यं किंतु' इति न चेत्' इत्यनेन आत्मेश्वरसिद्धौ सातिशयमभिज्ञा- नम्, अत एवाविष्टमहेश्वरभावेन भगवतापि गीतासु 'मत्तः स्मृतिज्ञानमयोहनं च' इति स्मृतिरेव पूर्वमुपाता। पं० ५ ख० पु० अनुसारेण तु इति पाठः । पं०८ क. पु० संस्कारमात्रात्मा नामेति पाठः। , १५ .... ...... " ११४ ईश्वरप्रत्यभिज्ञा । [१अ०४आ० तावत् मा नाम उदपादि स्मृतिः, इदं तु व- क्तव्यम्-तथाभूतभवदभ्युपगतभगवत्प्रभावो- ऽपि कथम् एनां कुर्यात् ?, इति शङ्कां शम- यितुं स्मृतितत्त्वनिरूपणाय 'स हि पूर्वानुभूतार्थोपलब्धाः इत्यादि .............अर्थी भातः प्रमातरि ।' इत्यन्तं श्लोकाष्टकम् । तत्र श्लोकेन वपक्षे स्मृतिरुपपन्ना, इति कथितम् । द्वितीयेन स्मृतेः पूर्वानुभवविषयीकृतस्खलक्षणप्रकाशन- सामर्थ्यमुक्तम् । तृतीयेन अनुभवेन तद्विषयेण च एकीभावपर्यन्त आवेशः स्मरणस्य उक्तः। तुर्येण अनुभवस्य न विषयतया स्मृत्या प्रका- ७ प्रभावो हि असंभाविनीमपि अर्थक्रियां संभावयति, तत्र च भग- वच्छब्द एव तत्प्रयोजकः । ८ कुर्यात् संनोत् इत्यर्थः । ९ स्मृतिशक्तेस्तत्त्वं परदर्शने व्यामोहवशादनुपपन्नमपि चानच्युत- प्राच्यखरूपमिति, तत्त्वस्य पारमार्थिकस्वरूपस्येत्यर्थः । १० मा म परदर्शने स्मृतिरुपपादि भवदर्शनेऽपि तु कथं सेति, तत्र एकेन उपपत्तिरुक्ता । ११ विषयरूपेण पृथत भातीत्यर्थः । पं० १० पूर्वानुभूतार्थेति पाठान्तरम् ।
११५ १का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । शनम्, इति निरूपितम् । पञ्चमेन योगिज्ञान- मपि अनुभवं पृथग्भावेन न विषयीकरोति,- इति वैदेता तुर्यश्लोकार्थ एव उपोहलितः । षष्ठेनाशयमानम् अनुभवस्य स्मृत्या पृथग्वि- षयीकरणं काल्पनिकम्, इत्यवास्तवीकृतम् । सप्तमेन स्मृतिप्रसङ्गात् विकल्पेऽपि पूर्वानुभ- वेन ऐक्यात्मावेशो दर्शितः। अष्टमेन स्मर्त- व्यस्य, स्मृतेः स्मर्तुश्च एकचित्तत्त्वविश्रान्तिः उक्ता; प्रसङ्गाच दृश्यस्य, दर्शनस्य द्रष्टुश्च,- इति तात्पर्यार्थः । अथ क्रमेण श्लोकार्थ उ- च्यते । सँ हि पूर्वानुभूतार्थों- पलब्धा परतोऽपि सन् । १२ वदता इति आचार्येण, तथा पञ्चमेनेति गौणी तृतीया, अथ वा स्वतन्त्रतृतीयैवास्तु तथा हि ग्रन्थकृदभिन्न एव तद्विमर्शपरिस्पन्दस्वभाव एव हि श्लोक इति । १३ दृढीकृतः। १४ इदंतया भेदेन ज्ञानम् । १५ काल्पनिकस्वान वास्तवीकृतमित्यर्थः, इति शब्दोत्र हेतौ। १६ पारमार्थिकमहाप्रकाशप्रमातरि विश्रान्तिः । १७ स्मृत्यादीनामिदानी ज्ञानप्रकरणेनानेन स्वरूपं निरूपयिष्यन्नशेष. पं० ५ ग० पु० इति न वास्तवीकृतमिति पाठः ।
ईश्वरप्रत्यभिज्ञा। [१०४० विमृशेन्स इति स्वैरी स्मरतीत्यपदिश्यते॥१॥ 'पूर्वमनुभूतस्य अर्थस्य' य ‘उपलब्धा' अ- न्तर्मुखो बोधः स तावत् अद्यापि 'परतः' कालानुगतवतन्त्रावबोधलक्षणात्मतत्त्वस्वभावेश्वरशक्तिरूपता. प्रतिपिपाद- यिपुः स्मृतेरेव तावत्सुस्पष्टमीश्वरात्मसिद्धि हेतुतया प्रथम संभवमाह स हि इत्यादि । प्रत्यगात्मतादशायां तथानेककालतोपचाराचर्यमाणः पर- तोऽपि पूर्वानुभवकालादन्यस्मिन्नपि स्मरणवर्तमानकाले संस्कारप्रबोधधा- मनि पूर्वानुभूतार्थोंपलब्धैव यतो भवति न तु तदस्य पूर्वार्थोपलब्धुत्वं वि- च्छिद्यते ततो भावनाद्धेतोस्तथैव पूर्वापरोभयकालावलम्बनौचित्यात् आग- तेन स इत्यनेन विमर्शनेन तमर्थ विमृशति । अनन्तभावानुभवितृत्वेऽपि तमेव कस्मादिति न वाच्यं यतः स स्वैरी स्वतन्त्रः सदृशादृष्टप्रणिधानाद्यपि हि तस्यैव स्वातन्त्र्यान्नियतिविजृम्भा, स इत्यस्य विमर्शय पूर्वापरौ कालो परस्परगलितावपि चिद्रूपे चानिमन्नावपि सन्तौ परस्परं चिद्रूपे च निमग्नौ तं चार्थ चिद्रूपे स्फुरन्तमपि अधिकमिव अबाह्यमपि बाह्यमिव परामृशता, परमेश्वरस्वातन्त्रयमेव जीवितमित्यपि स्वैरिपदम्, स्मरणश- क्तिरेव हि परमं स्वातन्त्र्यम् । यदाह' दिवाकरवत्सः ध्यानादिभाव- मिति' । यस्मात् स स्वैरी महेश्वर एवंभूतः सन् उच्यमान-वक्ष्यमाण- न्यायात् स्मरति इत्येतब्यवहारभाजनम् इत्यन्वयोऽयमुपपन्नः तस्मात् न चेदिति पूर्वसूत्रोक्तः प्रसङ्गरूपत्वेन व्यतिरेको युक्तः, अन्यथा हि आत्मा- भावप्रयुक्तोऽयं तेषां स्मृत्यादीनामभाव इति कथं भवेत्, न हि भवति घटाभावादडराभाव इति, तसाधुक्तः प्रसङ्गरूपतया अयं व्यतिरेक: इति । हि-शब्देन समस्तस्य स्मरणप्रकरणार्थस्य हेतुतां बोतयन् पूर्वप्रक- रणेन सह एतत्प्रकरणं सङ्गमितं करोति-इति सूत्रार्थः । १८ स इति विमर्श कुर्वाणः । १९ वर्तमानकाले । परतोऽपि पूर्वानुभवकालादन्यसिन्नपि स्मरण- वर्तमानकाले।
१का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। स्मृतिकालेऽपि अस्त्येव,संविन्मात्रखरूपस्य का- लकृतसंकोचरूपविशेषात्मकविच्छेदायोगात् । अनुभवस्य च अन्तः अर्थोऽपि अपृथग्भा- वेन अवस्थितः,-इत्येतदपि अयत्नसिद्धम् । इदं तु चिन्त्यम्-अकालकलिते संवेदने तद- न्तर्वर्तिनि च विश्वत्र भावजाते यदि तावत् चिन्मयतापरामर्शः, तत् 'अहम्' इति एताव- तैव पूर्णेन विमर्शेन भाव्यम्; अथ इदन्तया पृथग्भावावभासनेन, तथापि तत्र द्वेयी गतिः। 'अहम्' इत्यंशे यदि विश्राम्यति इदन्ता, तदा 'अहमिदम्' इति सदाशिवदशया भाव्यम्; अथ ने रोहति, तत् इदम्' इत्येव आभास- २० यदि हि तदविभागेन पूर्वानुभूतवस्तुसंभवो न भवेत् कथं सर- णम् इति साकारतालक्षणं स्वातन्त्र्यमस्याः कथितम् । तदेतदुक्तं भट्ट- दिवाकरेण 'सर्वेऽनुभूता यदि नान्तरर्था- स्त्वदात्मसात्कारसुरक्षिताः स्युः । विज्ञातवस्त्वप्रतिमोषरूपा काचित्स्मृति म न संभवेत्तत् ॥' इति । २१ कालविच्छेदशून्ये। २२ प्रकारद्वयम्। २३ इदंता न विश्राम्यति । पं० १२ ख. पु० आभासेनेति पाठः ।
ईश्वरप्रत्यभिज्ञा । [१अ०४आ० नेन भवितव्यम् ; अपूर्वाभासनाच्च तत् अ- नुभवनमेव स्यात् न स्मरणम्, इत्याशङ्कयाह खैरी' इति । 'स्वम्' आत्मीयम् उपकरणम् ईरयति कर्तव्येषु अवश्यं तच्छीलच; विं' च आत्मानम् ईरयति न पुनः खकर्तव्ये प्रेरकमपेक्षते,-इति 'खैरी' खतन्त्रः । तेन खतन्त्रत्वात् 'स' इत्येवं विमृशति । 'स' इति विमर्शनस्य च इयद्रूपम्-यत् सर्वथा अंकाल- कलितखरूपपरोमर्शनमेव न, नापि अत्यन्त- भेदपरामर्शनमेव; अपि यो भावः पूर्व- मनुभवकाले तद्देशकालप्रमात्रन्तरसाचिव्येन २४ अपूर्वत्वेनाभासनात् । २५ स इत्यस्य विमर्शस्य पूर्वापरौ कालौ परस्परगलितावपि चिद्रूपे चानिमग्नावपि सन्तौ परस्परं चिद्रूपे च निमनौ तं चार्थ चिद्रूपे स्फुर- न्तमभ्यधिकमिवाबाह्यमपि बायमिव परामृशतः, परमेश्वरस्वातन्त्र्यमेव जीवितमित्यपि स्वैरिपदेन धोतितम् । २६ स्वशब्द आत्मात्मीयवाची इति गणपाठवृत्तौ । २७ ततोऽपि किम् ? इत्यत आह स इति । २८ कालेन असंकुचितम् । २९ अहमिति । ३० इदन्तया। ३१ तच्छब्देनानुभव उच्यते । पं. ४ क. पु. स्वकर्तव्येषु इति पाठः । तु ११९ , १का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । पृथकृतो न च अहन्तायामेव विलीनीकृतः, स तादृगेव तमसेव आच्छाद्य अवस्थापितः संस्कारशब्दवाच्यः, तस्य तमाच्छादकम् अ. पहस्तयति; तत्र अपहस्तिते स पूर्ववत् पृथ- कृत इवावभाति । ननु च इदन्तया अवभा- सेत पूर्ववदेव, नैवम् । तदानीन्तनावभासन- पृथकृतशरीरादिसंबन्धमनवधूयैव हि तत्प्र- काशः, ततश्च इदानीन्तनावभासनकालपरा- मर्शोऽपि न निमीलति,-इति एतत्परामर्शभि- त्तिप्राधान्येन पूर्वकालपरामर्शः, इति विरुद्ध- पूर्वापरपरामर्शखभाव एव 'स' इति परामर्श उच्यते । एवं च स एव परमेश्वरः ‘स्मरति । एतदेव हि तस्य स्मरणम्-यत् एवंप्रकारपरा- मर्शोचितकालकलादिस्पर्शसहिष्णुमायाप्रेमा- ३२ अनुभवकालिकं च तत् । ३३ तस्य स्मर्यमाणस्य प्रकाशः । ३४ स्मरणकालिकं परामर्शमवधीकृत्य । ३५ विरुद्धपूर्वांपरेति । ३६ मितप्रमातृ। पं. ५ ख० पु० एवाभाति इति पाठः । पं०६ख० पु० भासतेति पाठः । मैवमिति च पाठः । पं०८ ग० पु० इदानीन्तनकालपरामर्श इति पाठः।
१२० ईश्वरप्रत्यभिज्ञा । [१अ०४ आ० तृभावपरिग्रहः, इति मायाविद्याद्वयायम- यम् । तत एव सकलसिद्धिवितरणचतुरचि- न्तामणिप्रख्यम् आगमिकाः स्मरणमेव मन्त्रा- दिप्राणितं मन्यन्ते । तथा च ध्यानादिभावं स्मृतिरेव लब्ध्वा चिन्तामणिस्त्वद्विभवं व्यनक्ति।' इति । अलं तावत् अनेन । तृन्नन्तसमासेन यनतोऽनुभवस्यार्थमुखेन कालस्पर्शम्, अर्थ- ३७ माया भेदप्रथा, 'विद्या शुद्धविद्या। ३८ मायाविद्यारूपं च तवयं तस्य यदद्वयं तन्मयं स्मरणम् । ३९ शुद्धविद्यापरामर्शप्राणितम् । ४० यैव बहिः पूर्वानुभूतार्थपरामर्शमयी सैवान्तारूपा विमर्शशक्ति- स्वभावा स्मृतिरित्युक्ता। ४१ विभवं स्वातन्त्र्याख्यं, नहि निर्विमर्शः प्रकाशस्वरूपः कामपि प्रगुणां सिद्धिं दातुं शक्त इति भावः । ४२ अलं तावदिति पराक्षेपपूर्व हि परमतनिरासेन स्वमतस्थापना एवेहोपयोगिनी तच्च तावदाहिनीवतयैव सिद्ध्यति इति कृतमनेन सूक्ष्म- विवेकेनेति । ४३ पूर्वानुभूतार्थोपलब्धा इत्यत्र न लोकाव्ययेति सूत्रेण षष्ठीनिषेधे सति द्वितीयाश्रितातीतेति सूत्रे द्वितीयेति योगविभागायनतः तृनन्त- समासः । भर्तीश्वराचार्यस्तु वचनवार्तिके शेषषष्ठीसमासस्य न निषेध इति न्यरूपयत्-इति। ४४ तृन्नन्तेति,-'तृजकाभ्यां कतरि' इति सूत्रेण हि समासः अत्र प्रतिषिद्धः इति परस्य प्रमादकथितमेतत् इति व्यामोहं निवारयितुमाह यत्नत इति समासस्त्वत्र वक्तव्यवस्तुश्रद्धया कृतः समासे हि वृत्तिपदार्थः १का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। १२१ विश्रान्तता, द्वयोरपि प्रमातरि निरूढिं भेदा- भेदाभ्यां दर्शयति, वृत्तौ एकार्थीभावात् तस्य च भेदाभेदमयत्वम्-इति वक्ष्यामः ॥१॥ एतदेव स्मृतितत्त्वमुपपादयितुं श्लोकान्त- राणि । तत्र यदि कश्चिद्रूयात् - इह स्मृति- विकल्पः, न च अनेनार्थः प्रकाश्यते, अर्थासं- स्पर्शिनो हि विकल्पाः, अनुभवेन च येन सोऽर्थः प्रकाशतां नीतः स इदानीं कीर्ति- मात्रमूर्तिर्जातः, न च सोऽपि स्मृत्या प्रका- श्यते-ज्ञानस्य ज्ञानान्तरेणासंवेद्यत्वात् अस- त्त्वाच्च-इति अर्थस्य प्रकाशनाभावात् 'इदं स्म- पांसुरिवोदके मिश्रीभवंस्तत्कालुष्यरूपणां तत्र नावभासयति, न चात्य- न्तमलाक्षणिकोऽयं शब्दः येनापशब्दत्वादवाचकत्वे कापुष्कलत्वकथा वक्तव्यस्य, अनोच्यते सूत्रकारज्ञापकादेतसिध्यति किमिदं ज्ञापकं नाम ज्ञापकस्य सामान्यापेक्षित्वात-तत्प्रयोजको हेतुश्चेति (पा० व्या० १ अ०४ पा० ५४ सू०)। ४५ अथौँन्मुख्यम् , द्वयोरिति अनुभवार्थयोः । ४६ निरूढिं-विश्रान्तिम् । ४७ वृत्तौ-समासे। ४४ स्खलक्षणात्मनोऽननुगामित्वेन अजनकत्वेन तन्त्र अनवभासात् । ४९ अनुभवेन अर्थसंस्पर्शित्वमाशच्याह-अनुभवेनेति । ५० नष्ट इत्यर्थः। पं० ५ क० पु० स्मृतिविकल्पे इति पाठः ।
१२२ ईश्वरप्रत्यभिज्ञा। [१अ०४आ० रामि' इति ज्ञानं भ्रान्तिमात्रमेव-इति पुन- रपि आपतितम्-इति, तदा तं प्रति उच्यते भौसयेच्च स्वकालेऽर्था- त्पूर्वाभासितमामृशन्। स्खलक्षणं घटाभास- मात्रेणाथाखिलात्मना ॥२॥ ५१ ननु च निर्विषयास्तावद्विकल्पाः खलक्षणात्मनोऽननुगामित्वेन अजनकत्वेन च तन्त्र अनवभासात्, सामान्यादेश्च अवास्तवत्वात् , अाह्या- कारस्य च ज्ञानकविश्रान्तस्य ग्राहकाकारवदविकल्प्यत्वात् , विकल्पविशेष एव च स्मृतिरिति, सापि निर्विषयैव, एकविषयतया च एक संवेदन- तत्वमुपपादयिपितमन्न, अनुभवस्मृत्योरेकं स्वसंवेदनरूपम् एकविषयतो- पलम्भात्, भिन्नसंवेदनरूपतायां हि पृथकू स्वप्रकाशमानरूपत्वमेकवि- पयतोपलम्भस्य विरुद्धम् इति स्वभावविरुद्धोपलब्ध्या भिन्नसंवेद्यरू- पत्वात् विपक्षाघ्यावृत्त एव स्वसंवेदनरूपत्वेन व्याप्यते इति व्याप्ति- सिद्धौ स्वभावहेतुः, स चायं निर्विषयत्वेऽत्यन्तासिद्ध इत्याशङ्ग्य सूत्रम् भासयेदिति। ५२ अनायं तात्पर्यार्थ:-स हीति पूर्वसूत्रात् योज्यम् । स महेश्वरी भगवांश्चिदात्मा पूर्वाभासितमर्थं तावत् स्मृतौ परामशति चिकल्पयतीति उपगम्यम्, तथा उपगमे च तस्य अर्थस्य पूर्वदेशकालाभ्यामवच्छेदात् देशकालसंकोचसारत्वाञ्च स्वलक्षणात्मनः स्खलक्षणरूपं तमर्थ परामृश- तीति आयातम् , परामर्शनं च प्रकाशनान्तरीयकम् , अप्रकाशमानतायां हि किं परामृष्टं स्यात्-अप्रकाशितं विमृष्टं चेति हि अन्धपदम् परामर्शश्च प्रकाशस्य स्वभाव इति स्वभाविनोऽसंभवे कस्य स्वभावो भवेत्, परा- मर्शनेन हेतुना उपलक्षणेन वा तस्य स्वलक्षणस्यावश्यंभाविनी भासना, अर्थात् सामर्थ्यात् परामर्शनान्यथानुपपत्या घटाभास एव एकाकी वा लो- पं. ३ क. पु० स्वकालेऽर्थान् इति पाठः।
२का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। १२३ इह स्मृतिकाले तावत् अर्थोऽध्यवसीयते, अन्यथा सुप्तमूछितकल्पतापत्तेः । एवं च यावत् अध्यवसायोऽर्थस्य तावत् 'अर्थात्' इति. सामर्थ्यात् इयत् अभ्युपगन्तव्यम्- यत् सोऽर्थः प्रकाशते, अप्रकाशमानेऽध्यवसातव्येऽध्यवसा- योऽन्धप्रायः स्यात् । प्रकाशनं च न तदानी- हित्यौन्नत्यायनेकाभासयोगित्वेन वा बहुप्रकारः समस्तपूर्वाभाससंभिन्नो वावमृश्यते, सर्वश्चासौ देशकालाभाससभेदात् स्वलक्षणीभूतः । अथेति विकल्पं द्योतयति । ननु यदि सोऽर्थः प्रकाशते तदनुभवात् को भेदः, क एवमाह प्रकाशत इति । प्रकाशते किलासौ, स हि प्राच्यः कालोs- स्थावभासांशे वेद्यस्वीकारिणि स्वालक्षण्य हेतुः इदानीन्तनश्व सदेह- प्राणादिगतो वर्तमानो विमर्शभागे, तदेतदुभयकालस्पर्शनं विमर्शस्य स इति, तेन भगवत इवाहमिति, सदाशिवस्य वाहमिदमिति, अनुम- वितरि वा इदमिति न सर्तुः स्मरणपरामर्शप्रसङ्गः वेद्यस्योन्मेषात् पृथक्त्वात् प्राक्कालत्वाच्च यदाह 'स्वकाल' इति, पूर्वाभासितं च स्वकाल- त्यागेन तद्देशत्यागेन च घटाभासमानतया परामशसंकोचाभासवान् सामान्यात्मकमर्थ प्रकाशयत्येव स्मृतिव्यतिरिक्तं विकल्पमात्रमित्यपि अथशब्दः, तस्मात् वैलक्षण्येन वा सामान्यलक्षणेन वा विषयवत्तव स्मृतिविकल्पादाविति निर्विषयत्वासिद्धौ स हेतुः स्थित एव एकविषय- त्वोपलम्भात् इति । ५३ अर्थ:-स्खलक्षणम् । ५. अन्यथा-अर्थानध्यवसाये । सुप्तमूञ्छितेति, सुप्तस्य मूञ्छितस्य च यथा अर्थानध्यवसायः तथा स्यात् । ५५ इयत-वक्ष्यमाणम् । ५६ अङ्गीकार्यम् सवैरिति शेषः । ५७ अन्धकल्पः। ५८ अनुभवकालस्य। ।
१२४ ईश्वरप्रत्यभिज्ञा । [१अ०४आ० न्तनकालस्य त्यागेन,नापि खीकारेण इदम् इत्ये- वावभासनप्रसङ्गात्। तस्मात् अतीतानुभवकालः पूर्वानुभूतभावस्खालक्षण्याक्षेपकत्वेनापेक्षणीयो वेद्यभागे प्रकाशात्मकावभासाभिनिवेशितया, स्मर्तृदेहप्राणाद्यवभासकालश्वावलम्बनीयो वे- दकभागे विमर्शाशाभिनिवेशित्वेन । आभास- मात्रं हि भावस्य स्वरूपं, प्रत्याभासं प्रमाणस्य व्यापारात् । तदेव आभासान्तरव्यामिश्रणया दीपसहस्रप्रभासंमूर्च्छनवत् स्फुटीभवति । आभासान्तरव्यामिश्रणाभावेऽपि तु कालाभा- ससंभेदेनैव खालक्षण्यं तस्य आभासस्य क- रोति-कालशक्वेरेव भेदकत्वात् इति वक्ष्यते । ५९ उभयत्रापि। ६० तसात्-कारणात् । ६१ प्रमाणस्य-प्रत्यक्षादेः, व्यापारात्-प्रमारूपात् । ६२ तदेव-भावस्वरूपम्, यथोक्तं मध्यप्रत्यभिज्ञायां-अर्थितावशात् स्मृतावुपजायमानायां घटाद्याभासस्यैव काञ्चनाद्याभाससंभिन्न स्थापि यथोपयोगं पूर्वदेशकालाद्याभासायवच्छेदोपरागात् स्खलक्षणरूपस्य सर- णादसाववभासो भवति इति, स्वलक्षणे तु तत्रावभासोन्मेष एव कथित इति न कश्चिद्विरोध इति । ६३ अन अधुना इति गृहीतो य एवाप्याभासः स व्यापकत्वनि- स्यत्वात्मसामान्यलक्षणतिरस्कारात्संकुचितः खलक्षणमुच्यते। ७ , २का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। १२५ एवं तावत् खलक्षणीभावः प्राक्तनदेह भाससा- चियाँधुदितकालाभासयोजनया घटाभासस्य इति । तावत्येव वा स्मृतिः आभासान्तरैरपि व्यामिश्रा अतिस्फुटा । अत्यन्तस्फुटीभा. वेऽपि तदानीन्तनकालता न त्रुव्यति अन्य- साधारण्येन अनवभासनात् । तविभासे तु योगिनस्तन्निर्माणमेव । ब्रह्मभाषितादौ तु ६४ प्राक्तनदेहेति प्रकाशते इति त्वनुभवे, यद्यपि प्रकाशे कालयोगो नास्ति तथापि वेद्यदेहादौ निषिक्तोऽसौ प्रकाशस्तदनुकारी मायापदे निर्भासते इत्यतीतवर्तमानदेहादिसहभूतोऽसौ मर्यमाणवस्तुगतो विम- शमयोऽपि प्रकाशो देहप्रमातृमानिनामस्फुटत्वेनाभिमानगोचरत्वमेति, स्फुटत्वेन तु वर्तमानदेहोपाधिविश्रान्तो वर्तमानो विमर्शो द्वितीय इति । ६५ साचिव्यं-सहभावः। ६६ तावत्येव-घटाभासमाने । ६७ अत्यन्तस्फुटीभावेत्यनेन अखिलात्मना इति व्याख्यातम् । यथो- तमष्टसहख्याम्-कदाचित्पुनरत्यन्तैकरसाधानोद्युक्तस्य निरवशेषविशेषणा- वमाससामानाधिकरण्यापत्तिविशदीकृतः मर्यमाणोऽर्थः साक्षात्कारमय एव स्फुटं पुरः स्फुरति, तथा च प्रत्यक्षीभावेऽपि पूर्वदृष्टतयैव प्रत्यक्षी. भावादनुभूतविषयासंप्रमोषः सुतराम् इति स्मृतिभेदमध्यगणनायां न क्षतिः । अत्यन्तेति साक्षात्कारसमये यावद्भिराभासैः पूर्वोक्तः प्रत्यभासिष्ट तावदिरेव मर्यते, यथा अधुनैवान इव इममहं पश्याम्येवेति अन्न वर्त. मानदेशकालयोस्तद्देशकालतयाच्छुरितयोस्तद्देशकालीभूतयोरेव सोऽर्थः स्फुरति इति । ६८ तथेति-अन्यसाधारण्येन, अत्र वर्तमानप्रमातृस्वरूपैकीभावा- भावात् पूर्वदृष्ट एव सविमर्शा सती इदानींतनविमर्शभूमिपतिता स इति विमर्श उच्यते। पं० १ ग० पु० देहाद्याभासेति पाठः । . .
ईश्वरप्रत्यभिज्ञा। [१अ०४ आ० नवमेव अवभासनम् इति। तत्र तु आगमादि- मानान्तरानुभूतब्रह्मादिवरूपस्मरणपरम्परा अ- भ्युपायः। 'भासयेत्' इति विधिरूपेण नियो- गेन नियमो लक्ष्यते, न भासयति इत्येतत् न, अपि तु भासयत्येव इति । 'स्वकाले' इति स्मरणकाले । 'आमृशन्' इति वेदकभागनिवेशी वर्तमानकाल उक्तः । 'पूर्वावभासितं खलक्ष- णम्, इति वेद्यांशस्पर्शी भूतकालो घटाभास- स्यापि केवलस्य खालक्षण्यापत्तिहेतुर्दर्शितः । इयदेव स्मृतेः अव्यभिचारि वपुः, अर्थिताति- शयात् तु स्फुटत्वम् इति 'अर्थ' शब्दो द्योत- यति । तदेवाह 'अखिलात्मना' इति सर्वा- भासमिश्रेण वपुषा इत्यर्थः ॥२॥ ६९ नवमेवेति-तदानीन्तनत्वेन ये प्रमातारः सर्वज्ञाः, यदि वा संसा- रिणः, अनुमानागमादिप्रमाणान्तरायाततद्विषयप्रकाशा अपूर्वत्वेन पश्यन्ति विमृशन्ति तेषां यो ज्ञानाभासः तेन सह तत्रांशे भगवदिच्छया स एकीभवति । स्मरणे तु पूर्वप्रमाणां यो ज्ञानाभासस्तस्य सर्तुः पूर्वा- नुभवेन सह मिलितोऽभूत् स एव इदानीमुन्मिषति इति विशेषः । ७० नियोगेन-आज्ञया, नियम:-अवश्यंभावः । मर्यादाज्ञानमेव हि आज्ञानम् , स्वयं मर्यादां जानन्परस्य तत्प्रत्ययमुत्थापयन् आज्ञापयति इत्युच्यते, अग्निहोनं जुहुयात्स्वर्गकाम इत्यत्र हि स्वर्गकामस्थायं नियमः जुहोत्येवेति, अन्यथा हि स स्वर्गकामो न परमार्थत इति भासयेदिति ७ लिङर्थः । ७१ यतः परामर्शस्थान्धपदप्रख्यता न भवतीत्यर्थः ।
३का०] श्रीमदभिनवगुप्ताचार्यकृतत्रिमर्शिन्युपेता । ननु एवं खलक्षणस्य प्रकाशने भेदेन बहि- स्तदवभासेत । एतदेव हि बहिरवभासनम्- यत् स्खलक्षणप्रकाशनम् इति शङ्काशमनाय निरूपयति नंच युक्तं स्मृतेर्भेदे स्मर्यमाणस्य भासनम्। ७२ ननु परामर्शस्यान्धपदप्रख्यता माभूदिति स्मरणेऽपि अर्थस्य प्रकाश उपगम्यते, ततश्चानुभूयमान इव स्मर्यमाणोऽपि बहिरयमिति कथं न व्यवहार्यः तम्यवहारकारणं हि तस्यार्थस्य प्रकाशनं, तञ्चाविक- लमस्तीत्याशझ्याह 'न च युक्तम्' इति मर्यमाणस्यार्थस्य यत् प्रकाशनं तदिदानीन्तनं न भवति अपि तु प्राच्यमेव तत्, तदपि च प्राच्यं प्रकाशनं स्मृतिलक्षणे संवेदनेऽधुनातनं विमर्शरूपं प्रधानीकृत्य निर्भा- समाने संभेदेनैव न तु भेदेनाभाति, ततश्च स्मरणे खात्मांशे सवि- मर्शः प्रकाशः कालानवच्छिन्न एव, अर्थाशे तु प्रकाशः प्राच्य एव तन्नान्तरीयकविमर्शसहितः, पुनर्विमर्शस्तु इदानीन्तनः । एवं तत् सर्य- माणस्यानुभवप्रकाशनद्वारेण भासनं भवति अन्यथा स्वातन्वयेणानुभू- यमानतोचितं तद्भासनं भवेत् न मर्यमाणतोचितं, तेन यथानुभव- ज्ञाने प्रकाशादपृथग्भूतमपि मायाशक्त्या मायाप्रमातुः पृथग्भूतमिव प्रकाश्यते वस्तु न तथा स्मृतिज्ञाने, अपि तु तन्न प्राच्य एवासौ पृथ. ग्भावप्रकाशाभिमानोऽनुवर्तते, तेन पृथक् प्रकाशः कस्सान भवति स्मृतौ इति न चोदनीयम्, एतदोषपरिहारनान्तरीयकतया च प्रसङ्गतः प्रकृतमपि सिध्यति अधिकरणसिद्धान्ततया इत्याह तेनेति । यदुक्तम् 'स्मृतावनुभवप्रकाशनम् अनुवेदकतया वर्तते, अनुभवप्रकाशाभेदेन च अर्थो वर्तते' इति, ततो हेतोरिदमपि सिद्धं भवति, शरीरमाणाया• पं० ख० पु. भेदेनैव इति पाठः। RAL ( New Delhi १२८ ईश्वरप्रत्यभिज्ञा । [१अ०४आ० तेनैक्यं भिन्नकालानां संविदां वेदितैष सः॥३॥ स्मरणज्ञानात् भिन्नत्वेन बहीरूपतया यदि सोऽर्थो भासेत 'स्मर्यमाणस्य च यत् 'भासनं' तदेव न स्यात् स्मर्यमाणमेव तत् न स्यात्, अनुभूयमानमेव तत् भवेत् इति यावत् । ननु चैवं कथं खलक्षणस्य प्रकाशनम् ? उक्तमेतत्- न इदानी प्रकाशनम् अपि तु पूर्वकाले एव, तदा चासौ बहिरवभासत एव । ननु चेदानी भासानां स्फुटत्वेन अस्फुटत्वेन संभावितस्फुटत्वेन च वर्तमानातीत. भविष्यद्रूपतया तदुपाधिसंकोचयोगेन संविदोऽपि वर्तमानादिभेदेन उपचरितकालभेदाया अपि परमार्थत ऐक्यमेव इति । सत्यपि च सर्वत ऐक्ये यावत्येव निजस्वातव्यमहिम्ना स प्रमाता परामृशति ऐक्यम् , तावत्येव तद्भाति स्मरणानुभवयोरिव, एतदेव हि संवेदनाधिक संवेदितृत्वम्-यत् संविस्सु संयोजने वियोजने च. स्वाच्छन्द्यमिति, यदेवमैक्यम् अनुसंधानरूपं स्वातन्त्र्यं तदेव अपरवैलक्षण्यप्रदम् आत्मन इति, स एवात्मा एक आत्मा इति वक्तव्ये भावप्रत्ययेन तद्धर्मप्राधान्य दर्शितम् , यथा 'चैतन्यमात्मा' इति श्रीशिवसूत्रेषु । तथा यायः 'धर्मान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर्द्वयोः । संकेतभेदस्य फलं ज्ञातृवान्छानुरोधिनः ॥' इति । स इति छन्नाकारस्येव, एष इति स्फुटं स्वरूपमुक्तम् इति सूत्रार्थः। ७३ स्मृतेरिति पञ्चमी विभक्तिः । ७४ तेन-हेतुना। .
, ३का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। १२९ तर्हि किम् ?-विमर्शनम् इति ब्रूमः । ननु प्रकाशनविमर्शनयोः भिन्नकालत्वम् आपतितम् ततः किम् उभयमपि न किंचित् स्यात् अन्यो- न्यजीवितत्वात् अस्य ?, मैवम् , यस्य हि संवे- दनान्येव भिन्नानि तत्त्वम् तस्य इदम् अप्रै- तिसमाधेयमेव, अस्मदर्शने तु भिन्नकाला अपि संविदः तत्कालात्यागेनैव एकताभासनेन खतन्त्रः प्रमाता यावदन्तर्मुखतया तावत्यंशे विमृशति तावत् प्रकाशस्य तात्कालिकबहि- र्भावावभासो, विमर्शस्य इदानीन्तनान्तर्मुखा स्थितिरेव, एतदेव वेदनाधिक वेदितृत्वं- वेदनेषु संयोजनवियोजनयोः यथारुचि करणं खातन्त्र्यम्, कर्तृत्वं च एतदेव उच्यते घट- महमन्वभूवम् इति वा, स घटः इति वा य-बौद्धस्य । ७६ अशक्यसमर्थनम् । ७७ संविद इति क्रर्मप्रयोगः । ७८ अंशे-अर्थे । विमृशति-संविद इत्यन्वयः। ७९ घटमहमन्वभूवम् इत्यत्र पूर्वानुभवस्य स्मर्तृबोधैक्येन प्रतिपाद- नम् स घट इत्यत्रापि अर्थ एव पृथग्भूतो भाति, अनुभवस्तु तदानी- पं० ११ ख० पु. स्थितिरिति इति पाठः । पं० ११ ख० पु. संवेदनेषु इति पाठः । ७५ तस्य- ईश्वरप्रत्यभिज्ञा । [१अ०४आ० 'ऐक्यम्' अनुसंधानम् अनुसंधातुरभिन्नम् इति दर्शयितुं यदेव ऐक्यं स एव वेदिता' इति सामानाधिकरण्येन दर्शितम् । ' एस' इति आच्छादितस्येव प्रमातृतत्त्वस्य स्फुटाव- भासनं कृतम् इदम् इति विस्मयगर्भया उक्त्या प्रत्यभिज्ञानमेव सूचितम् । यदाह ग्रन्थकार एव 'इत्थं स्वसंवित्तिमपढुवान- यत्तद्वदद्भिः कलुषीकृतं यत् । प्रमावृतत्वं स्फुटयुक्तिभिस्ता- न्मूकान्विधाय प्रकटीकृतं तत् ॥ इति ॥३॥ ननु च प्राच्य एव अनुभवो यदि मर्य- माणस्य बहिरवभासनरूपः प्रकाशः तर्हि इयत् उच्यताम् -सोऽनुभव इदानीं स्मरणेन विषयी- मर्थोपसर्जनभावेन सृज्यमानोऽपि तदुत्तीर्ण इव इदंतापरामर्शसंस्प- शक्षिमः अहंमात्र विश्रान्तिसतस्वः, तस्य तु यः स इति स्फुट इति च परामर्शः तदनुभाव्यधर्मोपचारेण व्यवहारमानमिति भावः । ८. संधानरूपं स्वातन्त्र्यमित्यर्थः । ८१ वेदिता आत्मा इत्यर्थः। ८२ स इति च्छन्नाकारः, एष इति स्फुटमुक्तस्वरूपः। .८३ भौतिकमायमसंगतम् । , ४का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । क्रियते-इति, ऐक्येन तु अलौकिकेन कोऽर्थः इति व्यामोहं विहन्तुमाह नैव ह्यनुभवो भाति स्मृतौ पूर्वोऽर्थवत्पृथक् । प्रागन्वभूवमहमि- त्यात्मारोहणभासनात् ॥४॥ वैधर्म्यसाधाभ्यां दृष्टान्तः 'प्राक्' इति अनुभवकाले यथा स 'पूर्वो' घटादिः अर्थः 'पृथक्' इति इदन्तया भाति स्म नैवं स्मर- णकाले स्मृतिज्ञानात् पृथक्त्वेन इदं पूर्वमनु- भवनम् इति 'भाति' । यर्थी च स्मृतिकाले तस्मात् स्मृतिज्ञानात् सोऽर्थः 'प्राक्' इति पूर्वस्वभावो न भेदेन आभाति, स्मृतिकाले बहिरवभासाभावात् । एवं तत एव हेतोः 'पू- ८४ अनुभूतार्थवत् । ८५ अन्वयव्याप्तिकः साधर्म्यदृष्टान्तः, तद्विपरीतो वैधयंदृष्टान्तः । तत्र वैधय॑दृष्टान्तमाह प्रागिति । ८६ साधर्म्यदृष्टान्तमाह-यथा चेति । एवं-स्थिते सति । ८८ हेतो:-बहिरवभासाभावरूपात् । पं० ४ क० पु० पूर्वार्थवदिति पाठः । , १३२ ईश्वरप्रत्यभिज्ञा । [१अ०४आ० वोऽपि अनुभवो' न भेदेन आभाति, कथं तर्हि उभयं भाति!-अन्वभूवम् इत्येवम्। एतत् कि- मुच्यते?-इति चेत्, 'अहम्'-इत्येवं स्वभावो य 'आत्मा' पूर्वापैरसंविदन्तर्मुखस्वभावः तत्र यत् 'आरोहण' विश्रमः तेन हेतुना पूर्वसंवि- दूपतायाः स्वप्रकाशाया 'भासनात् तल्लीन- स्थापि घटस्य स्वप्रकाशदेशीयत्वेन अवभास- नम् । 'आत्मनि च आरोहणं' विश्रमणा अ- नुभवस्य अर्थस्य च । प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूतः--इति न्यायात् संख्योक्षिप्ते तद्वति वा कर्तृभूतेऽस्मदर्थे प्रत्ययार्थेऽनुभवो बुडितः तवारेण अर्थोऽपि च, न तु खातयेणैव असौ, तदर्थमेव कर्म न निर्दिष्टम् । घटादिः पुनः अनुभवकाले न अस्मदर्थमारोहति, 'हि' ८९ उभयम्-अर्थानुभवलक्षणम् । ९० अर्थानुभवस्मृती। ९१ स्वप्रकाशकल्पतया। ९२ अन्न ण्यासश्रन्थो युच् (पा० व्या० ३ ० ३ पा० १९ सू०)। ९३ संख्याक्षिप्त इति युक्त्यन्तरमेतत्, तहति-संख्यावति । ९४ तवारेण-अनुभवद्वारा। पं० १ क० ग० पु० तत्कथं भाति ह्युभयमिति पाठः।
- ४का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। १३३ यस्मात् नैव भाति पूर्वोऽनुभवः पृथक् अपरा- |क्तात् हेतोः, तस्मात् संविदामैक्यम् इति पूर्वेण संबन्धः । लुङा भूतकालस्य द्योतित- त्वात्, 'प्राक्' इति भिन्नक्रमः, उत्तमपुरुषेण अस्मदर्थस्य 'अहम्' इत्यपि, आरोहणम् इति रुहिरपि णिजन्तोऽपि ॥ ४ ॥ ननु क एवमाह-अनुभवः पृथक् न भाति ?-इति, घटवत् न भाति-इति चेत् कि ततः ? घटोऽपि हि न अनुभवभङ्गया भाति- इति, किं न भाति ? स्वभावेन भाति-इति तु उभयत्रापि समानम् । तथाहि-अतीताना- गतसूक्ष्मादि यथा योगिज्ञाने विषयीभवति इति अभ्युपगतम् , तथा परचित्तमपि 'प्रत्ययस्य परचित्तज्ञानम् ।' (योगद० ३ पा० १९ सू०) ९५ भिन्नक्रम इत्यन्वयः। ९६ अर्थवत् पृथगनुभवः । ९७ स्मृतौ न भाति इति । ९८ अनुभवे अर्थे च। ९९ परचित्तमपि योगिज्ञाने विषयीभवति इति संबन्धः । भूतभा- विपरमाण्वादि। १०० प्रत्ययस्य परचित्तज्ञानमिति, प्रत्ययस्य संयमात् प्रत्ययस्य पं० ख० पु० यथा इति पदं नास्ति ।
१३४
ईश्वरप्रत्यभिज्ञा ।
[१अ०४ा०
१०१
,
इत्यादौ । तत्र ज्ञानवृत्तिपरिणतमेव सत्त्वं
चित्तशब्देनोक्तम्, अन्यथा प्रत्ययस्य संयम
विषयीकार्यत्वं किमुच्यते, आलम्बनयोगश्च
कथं शङ्कथेत,-'न च सालम्बनमिति-' तस्मात्
परकीयमनुभवनमिव निजमपि विषयीक्रिय
ताम् इत्याशङ्कय दृष्टान्त एवासिद्धः इति,
'भान्ति' इत्यन्तेन अभ्युपगमेन वा सिद्धत्वेऽपि
प्रकृतेऽर्थे विषमः इति शेषेण दर्शयति
योगिनामपि भासन्ते
न दृशो दर्शनान्तरे।
साक्षात्करणं, ततश्च परचित्तज्ञानमुत्पद्यते योगिन इति । 'न च सालम्बनं
तस्याविषयीभूतत्वात्' रक्तं प्रत्ययं जानाति अमुष्मिन्त्रालम्बने रक्कम्
इति न जानाति, परप्रत्ययमानं तु योगिचित्तस्य मालम्बनीभूतमिति
पातालभाष्ये।
१०१ सत्त्वम्-अन्तःकरणम्।
१०२ संयम:-प्रणिधानम् ।
१०३ सालम्बनं-सविषयम् ।
१०४ दृष्टान्त:-योगिप्रत्ययरूपः ।
१०५ मेयपद इत्यादिना।
१०६ अपिशब्देन दृष्टान्तत्वेन यत्संभावितं परेण तदस्य न घटत
इत्याह।
१०७ दर्शनान्तरे-विषये । अत्र योगिनामपि इति दृष्टान्तवाक्यं
पं० ४ ख. पु. कथं शक्यतेति पादः ।
, ५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। स्वसंविदेकमानास्ता भान्ति मेयपदेऽपि वा ॥५॥ 'योगिनां' यत् एतत् 'दर्शनान्तरं' भावनायुद्भवः परचित्तविषयो ज्ञानविशेषः, तत्र 'दृशः' इति उपलब्धयो न भान्ति । तथाहि-सौगतानां तावत् स्वप्रकाशैकरूपं ज्ञानं, तत् चेत् ज्ञानान्तरेण वेद्यं, तर्हि यत् अस्य निजं वपुः अनन्यवेद्यतया प्रकाशनं नाम, न तत्प्रकाशितं स्यात् । सांख्यानामपि पुरुषच्छायैव उपलब्धिः, पुरुषश्च असंवेद्यप- र्वा इति कथं वेद्यः स्यात् । वैशेषिकोणामपि , परंतु स्वभावेन भाति इत्यत्रैव समर्थनमेतत् , तथाहि ग्राह्यग्राहकयोरनु- भवबला दोऽङ्गीकर्तव्यः, ततश्च ज्ञानस्य ज्ञानान्तरवेद्यत्वं, तेन च अनु- भवस्मरणयोरपि वेद्यवेदकता, तया च एकविषयत्वेन विषयमेलनम् तेन व्यवहारसिद्धिः इति कथमेकप्रमातृसमर्थनमित्यत्राह 'दृशो दर्शनान्तरे न भान्ति' इति । अत्र भान्ति इति काकाक्षिवद्योज्यम् । १०८ भूतार्थभावनाप्रकर्षपर्यन्तजः । १०९ परकीयाः। ११० भान्ति इत्यत्र वेद्यतया इति योज्यम् । १११ उपलब्धिः, ज्ञान, बुद्धिः इति भिन्ना एव संमन्यन्ते तैरिति । ११२ काणादानाम्। पं० ६ ग० पु. खप्रकाशं ज्ञानमिति पाठः ।
१३६ ईश्वरप्रत्यभिज्ञा । [१अ०४ आ० आत्मनि अभेदेन समवायि संवेदनं पर- गतं मनसा कथं गृह्येत अन्तःशरीरवृत्तिना, तेच्छरीरान्तरऽनुप्रवेशे तु तस्यैव अहम् इति शरीरीकरणात् अहन्तावभासितत्वात् आत्मनो भेदो विगलेत् , नित्यानुमेयत्वं तु न आत्मन उपपद्यते, ज्ञानस्य च ज्ञानान्तरवेद्य- त्वेऽनवस्थादि उक्तम्। तस्मात् योगिनः परचि- त्तवेदनावसरे इयान् प्रकाशः- एतदेहप्रकाश- सहचारी घटसुखादिप्रकाशः- इति। तत्र घट- सुखादिः इदन्तया भाँति, तद्गतस्तु प्रकाशो- ऽहम्-इत्येव स्वप्रकाशतया प्रकाशते । प्रमा- जैमिनीयवत् । ११४ योगिन इयत् परज्ञानवेदनं - यत् परदेहादिसहभावी नील- मधुरसुखरागायवभासमयः प्रकाश इति, तत्र च नीलादि पृथग्भावेन वेद्यमेव, प्रकाशांशस्तु अहमित्येव प्रकाशते, प्रमात्रीकृतदेहायवभाससं- स्कारात्तु तनिष्ठामिदन्ता प्रकाशभागेऽभिमन्यते, दृढस्वपरविभागसंस्का- रभ्रंशे तु सर्वमात्मतया पश्यन् स्वसृष्टमेव स्वपरविभागं पश्यति इति तदपेक्षयापि न ज्ञानं ज्ञानान्तरेण वेद्यम्, योगिज्ञाने वा अविचारिता- पातशङ्कितप्रतिभानबलादेव वेद्यतास्तु परज्ञानस्य, न त्वेवं स्मृतौ इति भावः। ११५ वक्ष्यमाणः । ११६ एतदिति-परार्थः। ११७ पृथग्भावेन वेद्यमेव । ११८ घटसुखादिप्रकाशः।
५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । त्रीकृतपरदेहप्राणादिसमवभाससंस्कारात् तु तन्निष्ठीम् इदन्तां प्रकाशभागेऽपि मन्यमान इदं परज्ञानम् इति अभिमन्यते अविगलि- तखपरविभागो योगी। प्राप्तकर्षस्तु सर्वम् आत्मत्वेन पश्यन् स्वस्तृष्टमेव स्वपरविभागं पश्यति इति ज्ञानस्य न योगिज्ञानेन प्रका- श्यता, भवतु वा तथापि प्रकते न एतत् स- मम् । तथाहि-अयमनुभवति इति परनिष्ठ एव असौ अनुभवे योगिनः प्रकाशो, न तु अहमनुभवामि इति आत्मारोहेण, इह तु अन्वभूवम् इति अहमंशविश्रान्तिः अनाली- ढेदभावैव अनुभवस्य इति युक्तमुक्तम्-य- स्मात् अनुभवः पृथक् न भाति तस्मात् ऐक्यं भिन्नकालानां संविदा वेदिता इति ॥ ५॥ ११९ परदेहाधवभाससंस्कारनिष्ठाम् । १२० दृढतरस्वपरविभागसंस्कारभ्रंशेन । १२१ भवतु वेत्यादि, ग्राह्यभूमिगतत्वेन अवभासनाभ्युपगमेऽपि वा तस्य परबोधस्य स्मृत्यनुभववृत्तान्तवैलक्षण्यमेव परबोधविषययोगिवि- ज्ञानोत्पत्तेः, न तु एतनिदर्शनेऽनुभवस्मृत्योर्मायग्राहकभाव इति मेय- पदेऽपि वेत्यस्य वाक्यस्य तात्पर्यम् । पं० ५ ख० ग० पु० खमृष्टमिति पाठः । १८ १३८ ईश्वरप्रत्यभिज्ञा । १अ०४आ० यदि 'अहं-भावविश्वान्तिवशात् अनुभवः स्मृतौ पृथक् न भाति इति उच्यते, तदा परामर्शान्तरं साक्षादेव इदन्तया अनुभवं परामृशत्, यदि वा इदं-भावोचितघटादिवि- श्रान्तताम् अनुभवस्य प्रथयत् उपलब्धम्, इति तदनुसारेणापि किं न व्यवहियते इति पराभिप्रायं प्रतिक्षिपति स्मर्यते यदृगासीन्मे सैवमित्यपि भेदतः। तळ्याकरणमेवास्या मया दृष्टमिति स्मृतेः॥६॥ लोकस्य तावत् एवं न संवेदनं, स हि न १२२ अहमित्यात्मारोहेण भासनात् । १२३ सा हमे आसीत् इति इदन्तया अनुभवं परामृशदिति, घटे हि स्मयमाणे वेद्यदशाधिशायिनि अनुभवो ग्राहकेणैव मिलति इत्यत्रा- विवाद एव तस्मिन्नेव तु स्मर्यमाणे वेधीकृते किं वाच्यमिति । १२४ उचितमिति-अनुभूयमानम् । १२५ अनायं भावः - घटे ममानुभवोऽभूत् इत्यपि कथने घट एव वेद्यः यथाह तत्रभवान् 'घट मिति ज्ञानं घटज्ञानविलक्षणम् । घट इत्यपि यज्ज्ञानं विषयोपनिपाति तत् ॥' इति। १२६ सा दृक् सोऽनुभवः मम आसीत् इति यत्मयते इत्यन्वयः । १२६ ६का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। पृथग्भूतां दृशं कांचित् मन्यते-सा दृक् मे आसीत्' इत्येवम् , अपि तु यत् स्मयते एवं- भूतमपि यत् स्मरणं कस्यचित् विवेचकम- न्यस्य, तत् स्मृतेर्व्याकरणम् , पदस्येव प्रकृति- प्रत्ययार्थनिरूपणं काल्पनिक विभज्य आक- रणं परत्र प्रतिपादनमात्रम् । सोऽपि यदि मूलप्रेतीतिं विमृशति पूर्वोक्तक्रमेण, तदा अनुभवं पृथग्भूतं न वेद, यत एव तत् राहोः शिरः इतिवत् कल्पितं भेदं मन्यते, अन्यथा घटः इतिवत् 'सा दृक्' इत्यत्रापि प्राक्तनं दृगन्तरम् अपेक्षणीयं स्यात् । तत् इत्यनेन हि घटस्य वा दृशो वा पूर्वानुभव- विषयापत्तिः उच्यते, अन्यथा दृक् इत्येव स्यात् । ततश्च दृक् मया दृगन्तरेण अनु- , १३१ १२७ अहमित्यात्मारोहण १२८ अन्वभूवमहमिति । १२९ काल्पनिकम् । १३० स घट इत्यत्र। १३१ सा दृक् इत्यत्र । पं. ० १३ ग० पु० विषयतापत्तिरिति पाठः।
१३५० १४० ईश्वरप्रत्यभिज्ञा। [१अ०४आ० भूता इति आपतेत् । तत्रापि तथोत्वेऽन- वस्था । ननु स्मृतेः मौलिक किंरूपम् ? उ- च्यते- मया दृष्टम् इति । ननु अत्र दयिता- वदननलिनादिविश्रान्तं दर्शनम् उक्तम् न तु आत्मारूढं-कर्मणि निष्ठोत्पत्तेः। स एष खवा- चमेव न चेतयति । कर्तुः क्रियया हि आप्यं कर्म इति दृशिक्रियायाः कर्तृनिष्ठतैव । तथा च कर्तृस्थामेव दृशिक्रियामाहुः-दर्शयते १३२ हगन्तरेण अनुभूतत्वे । मौलिकं पारमार्थिकं, २, मूलात् - अविसंवादिस्थानादागतमिति तात्त्विकमित्यर्थः ५३४ द्विधा हि धातवः कर्मस्थभावाः, कर्तृस्थभावाच, तथाहि येषां भावः कर्मणा अनुभूयते ते कर्मस्थभावाः, येषां की अनुभूयते ते कर्तृस्थभावाः । तत्र विभाग:- 'कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः क्रिया। आसासिभावः कर्तृस्थः कर्तृस्था च दृशेः क्रिया ॥' इति । तद्यथा-तण्डुलान्पचति, अन च भाव्यमानो विक्वित्त्याख्यः क्रियात्मको धात्वथः कर्मस्थः इति दिक् । तथा आस्यते भवता इत्यत्र उपवेशनात्मा धात्वर्थः कर्तृस्थः, तदुक्तं हरिणा । 'गतिबोधाशनत्यागशब्देच्छाप्राप्तिवाचिनाम् । द्वेषार्थाकर्मकाणां च भावः कानुभूयते ॥' इति । यद्यपि शब्दानुशासने अपरिस्पन्दसाधनसाध्यत्वसंपरिस्यन्द- साधनसाध्यत्वाभ्यां भावक्रिययोर्भेदः तथापि सूक्ष्मेक्षिकया अनापि क्रियात्वमस्त्येव इति 'दृशिक्रियाम्' इत्युक्तम् । १३५ दर्शयते इति-उपदिष्टा विधयः कर्मस्थभावकानां कर्तृस्थ- .
६का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । १४१ भृत्यान् राजा इत्यादौ । जैमिनीयैरपि ज्ञान- रूपा दृशिः भावनात्मिका प्रमाविश्रान्तव उक्ता, केवलं प्रकटता विषयधर्मों, दृष्टता नाम अन्या, संवित् वा खतन्त्रा इति अन्यत् एतत् । प्रमातृविश्रान्तत्वमेव कथयितुं मया इत्यु- क्तम् । तेन अन्वभूवमहम्, मयानुभूतम् इति शब्दवैचित्र्यमात्रमिदम् , न तु अर्थभेदः । अन्ये तु भिन्नक्रमत्वेन योजयन्ति-हक् आसीत् सा मे इत्येवं, मया दृष्टम् -इति च यत् स्मरणं, 'तत् व्याकरणमस्याः' इति अनन्तरोक्तान्वभूवम् इति उचितपरामर्शायाः स्मृतेः इति, अपिः चार्थे ॥ ६ ॥ ननु दृष्टमपि निर्विकल्पेन यावत् न परा- मृष्टं विमर्शविशेषविश्रान्त्या तावत् न स्मर्यते क्रियाणां वा भवन्ति कर्तृस्थभावकश्च अयम् , एवं तर्हि सिद्धे सति यदनाध्यान इति प्रतिषेधं शास्ति तत् ज्ञापयत्याचार्यः भवत्येवंजातीय- कानामात्मनेपदम् इति, किमेतस्य ज्ञापकस्य प्रयोजनम् पश्यन्ति भृत्या राजानम् दर्शयते भृत्यान् राजा इत्यत्रात्मनेपदं सिद्धं भवति इति। १३६ आत्मवर्तिनी एव । १३७ स्वपक्षस्य विशेषमाह केवलमिति । १३८ अन्यदिति-अवान्तरम् । १३९ दृष्टमपि-वस्तु ।
१४२ [१अ०४० ईश्वरप्रत्यभिज्ञा । मार्गदृष्टमिव तृणपर्णादि विशेषरूपेण, तदि- दमेव विचारणीयं, समनन्तरभाविविकल्प- काले तदर्शनम् इदन्तया अवभातपूर्व वा न वा इति तदेतत् आशङ्कयाह या च पश्याम्यहमिमं घटोऽयमिति वाऽवसा। मन्यते समवेतं सा- प्यवसातरि दर्शनम् ॥७॥ १४० निर्विकल्पनमनुभवनम् । १४१ अनुभवानन्तरभाव्यध्यवसायरूपम् अनुजीवति स्मृतिः अवि- कल्पिते स्मरणासंभवात्, ततस्तदध्यवसायमुखप्रेक्षिण्या स्मृत्या तद- गोचरीकृतं न स्पृश्यते खपुष्पभिव, न चाध्यवसायेन प्रत्यक्षानन्त र भाविना अनुभवांशो वेद्यत्वेनाध्यवसितो ग्राहकभागे असदर्थ सामाना- धिकरण्येन विश्रान्तः इति दर्शयति 'या च' इत्यादि । इदमन पुनः संक्षे. पेण तात्पर्यम्-प्रत्यक्षपृष्ठपातिनापि परामर्शेन दर्शनस्याहंकारास्पदस्यैव परामर्श इति । १४२ मन्यते-साक्षात्कुरुते । अपि-शब्देन सूत्रे इदमाह यादृक् दर्शनस्य वपुस्तदेव निरूप्यं खसंवेदने विकल्पांशविचारस्तु अत्र व उपयुज्यते भवतु वा तथापि विकल्पनमपि न इदन्तोदन्तमाविष्करोतीति। १४३ अयमत्र सूत्रार्थ:-या अवसा अध्यवसायः पश्यामि इत्येवं जायते सा तावदर्शनमवसातरि ग्राहकांशे प्रत्यवमृशन्ती तदनुभव- संस्कारान्मन्यते तथैव साक्षात्कुरुते यत्रापि स्वशब्दपरामृष्टं दर्शनं न भाति तत्रापि अयमिति तावत् प्रत्यक्षतः परामृश्यते सा च न भावनीयं रूपम् अपि तु दर्शनमेव, तच्च न भावधर्मत्वेन अध्यवसीयते इदमर्थेन किंतु , ७का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । १४३ इह दर्शनं यादृशं निजेन वपुषा तादृशे- नैव तेन भातव्यं सर्वदा, तेच खकालेऽनन्य- प्रकाशम् अहम् इत्येतावता रूपेण उचितप्र- काशम् , तदिकल्पांशविचारः तावत् न कुत्र- चित् अङ्गम् , भवतु वा, अवसायोऽपि एवंभूतः इति अपि-शब्देन सूचयति । तत्र समनन्तरभाविना विकल्पेन वस्तु परामृश्य- मानम् अनुभवपरामर्शमुखेन वा परामृश्यते अहमिमं पश्यामि इति वर्तमानतया, इमम् इत्यनेन च प्रत्यक्षव्यापारत्वं प्रत्यक्षायमाण- त्वेन दर्शितम् । एवमेव वा परामृश्यते- संभेदाभावात् , तस्मान् न वेद्योऽनुभवोऽध्यवसाये वेद्यता व्यापकेदन्ता- विरुद्धास्मदर्थसंभेदोपलब्धेः न स्मृत्यानुभवो वेद्यत्वेन भास्यते, तथा- नध्यवसायात् अस्मदर्थसंभेदाध्यवसायाद्वा इति स्मृतिनिर्भासनायाः कारणस्यानुपलब्धिः, कारणाविरुद्धस्य वा इति । अध्यवसायविशेषश्च स्मृतिः न च क्वचिदप्यध्यवसायः अनुभवमिदन्तया विषयीकरोति ततः सापि कथमित्थं कुर्वीत कुर्वती वा अध्यवसायरूपतां जह्यादिति सूत्रतात्पर्यम् । -दर्शनं, स्वकाले-निर्विकल्पकाले। १४५ निर्विकल्पे सविकल्पे वा। १४६ द्वितीयः प्रत्ययः। १४७ नेदन्तोदन्तमपि आविष्करोति इति भावः । १४८ अहं पश्यामि इति हि अस्मच्छब्दप्रयोग विनापि इति । पं०५ ग० पु० किं त्वध्यवसायोऽपिति पाठः।
ईश्वरप्रत्यभिज्ञा। [१अ०४आ० घटोऽयम इति । अत्र अयं-शब्देन प्रत्यक्षा- यमाणत्वमुक्तम् । तत्र अन्त्ये विकल्पे दर्श- नस्य पृथक् परामर्श एव नास्ति इति का तत्र इदन्ताशङ्का । ततश्च पारिशेष्यात् अह- न्तया तस्य अत्रास्ति परामर्शः, तदभावे विकल्पस्य निमीलिताक्षेऽपि भावात् स्वयम- स्पर्श स्फुटतमविषयपर्यवसितः कथमध्य- वसायो भवेत् । आये तु दर्शनं परामृष्टमपि अस्मदर्थान्तर्भूतम् अहंभावास्पदम् अवसा- तरि विश्रान्तं स्वप्रकाशमेव परामृष्टम् इति विकल्पोऽपि न बोधान्तरबोध्यतां बोधयति बोधस्य । अवसायः अवसा, समवेतम् इति अपृथग्भावमाह । अवसातरि इति स्वतन्त्रे- ऽन्तर्मुखे बोधात्मनि अहन्तास्पदे इत्यर्थः । १४९ ननु घटोऽयमित्यध्यवसाये न असदो नापि दृशः प्रयोगः तत् कुन विश्रान्तं किं परामृश्यते ? सत्यम् नैतयोरस्ति प्रयोगः, तेन विनापि तदुभयार्थपरामर्शोऽस्ति अयमिति, नान अयं शब्दो घटरूपतापरामर्श- विश्रान्तिमात्रेण कृती भवति अपि तु तदीययोग्यदेशस्थत्वपरामर्शमु. खेन तत्प्रत्यक्षतापरामर्श विश्राम्यति इति । १५० पूर्वत्र तु अहं पश्यामि इति वर्तमानकालोऽपि अन तत्पराम- शान्तर्भावमाह तत्रान्त्ये इत्यादिना । अन्त्ये विकल्पे-घटोऽयमित्यन्न । १५१ अहं पश्यामि इत्पन्न ।
१४५ ८का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। दर्शनम् इति निर्विकल्पकमनुभवनम् । उप- लक्षणं चैतत् - विकल्पस्मृत्यादेरपि, ज्ञानस्य ज्ञानान्तरेण परामर्श हि अयमेव न्यायः । विकल्पयाम्यहं, स्मराम्यहम् , विकल्पितं मया, स्मृतं मया इति अहन्तारूढ्यैव विकल्पादेः अवभासात् । अत एव आत्मनोऽमी विक- ल्पाद्याः शक्तिविशेषाः तद्विश्रान्तशरीरत्वात् इति दर्शितम्, ज्ञानस्मृत्यपोहनक्तिमान्, इत्यत्र ॥७॥ एवमियतः प्रमेयस्य यत्फलं तदुपैसंहर्तुमाह तन्मयों दृश्यते दृष्टो- १५२ तेन अपूर्वमन्त्र न परामर्शनीयमिति भावः । चिद्वपुरेव ज्ञाना- दिशक्तिमान् स्मरणानुभवयोश्च एकमेव संविद्रूपत्वं तत्त्वम् ततश्चार्था- दियदायातम्-यन्मायीयो ग्राह्यग्राहको शुद्धसंविन्मयावेवावभासेते इति । प्रमेयस्य-विचार्यस्य । १५३ यदुक्तं पूर्वत्र। 'तेनैक्यं भिन्नकालानां संविदां वेदितैष सः।' इति तत्समर्थनप्रकारं विप्रा.प तानाल र्थप्राह 'तन या' इति, वि प्रतिपत्तिश्च बहुधा अवसातुः अह नीलः क्षुधितः सुखी इति शरीरमाण- बुद्धिरूपस्य असंविद्रूपत्वादत्यन्तभेदाच्चेति, तत्रायं हेतुः समर्थकः । अयं आमर्शनेनोपलक्षितः संवित्वभावः यतः प्रमाता उपपद्यते क- ल्पितग्राहकस्तु भवन्नपि तत्रैव ग्राह्यवनिर्भासते, तदिति - तस्मात् हेतोः संविदेकतानता न न समर्थिता, प्रााग्राहकताभिन्नावित्यनेन भावप्रत्यय- भावः - १९ " ईश्वरप्रत्यभिज्ञा । [१अ०४आ० ऽयं स इत्यामशेयपि । ग्राह्यग्राहकताभिन्ना- वर्थो भातः प्रमौतरि ॥८॥ 'तत्' इति तस्मादर्थे पूर्वोक्तस्य प्रमेयस्य हेतुभावेन उपजीवनम् इह सूचयति । यत एवमुक्तम् - अनुभवस्य अर्थस्येव स्मरणात् न भेदेन अवभासः, स्मृतिशक्तिश्च परमेश्वरस्यैव, तत इदमत्र परिनिष्ठितं तत्त्वम् इति । इह स्मृतिः अनुभवं क्रोडीकरोति इत्युक्तम् । प्रकृतेर्द्वन्द्वस्य इतरेतरयोगो दर्शितः सहविवक्षात्रैव युक्ता द्वयोरपि ग्राह्यत्वा- ड्राहकत्वाचेति । तन्मयेति यदेतत्पूर्वमुक्तं तस्माद्धेतोरयमन तात्पर्यार्थः,- यत् विशुद्धसंविद्रूपे प्रमातरि ग्राह्यग्राहकरूपतया परस्परापेक्षया भिन्नौ वेद्यावी भासेते इति, कीदृशी? मया दृश्यते मया दृष्ट इत्यनुभवसर- णामर्शनोपलक्षिते अपमिति स इति च दर्शनभागानादरणेन अनुभूय- मानस्मर्यमाणार्थभागप्रधानेन आमर्शनेन उपलक्ष्यते, अपिश्चाथै अपि- शब्दो भिन्नक्रमः, भिन्नावपि एकत्र आभासेते इति । १५४ आमृशति-अनुभवति, स्मरति चेति । १५५ न भ्रान्तिरूपा इत्यर्थः । १५६ भन्तः करोति इत्यर्थः। १५७ इह अभिसंधाने द्रष्टुभागबहुमाने च दृक्प्राधान्येन परामृश्यते, सरणे प्रत्यक्षाध्यवसाये च आदरणमेव पुरःसरपूर्वादिशब्दैदर्शितम्, अ. नादरणं तु परित्यागादिशब्दैः । तथाहि अनभिसंधौ दृश्यभागबहुमाने च . पं० ०७ ग० पु० आभास इति पाठः।
१४७ ८का०] श्रीमदमिनवगुप्ताचार्यकृतविमर्शिन्युपेता। अनुभैःश्च द्विधा,- परामर्शभेदात् कदाचित् खात्मपरामर्शपूर्वकम् अनुभाव्यम् आमृशति यत्र अस्य अभिसंधिप्रधानता 'मया दृश्यते' इति, कदाचित् अनुभवनीयमेव प्रधानतया परामृशति यत्र अनभिसंधेरेव सहसा वस्तू- पनिपातः, अर्थक्रियां प्रति आग्रहविशेषो वा 'अयम्' इति, तंत्रापि च प्रकाशपरामर्शोऽ- स्त्येव, अन्यथा प्रकाशायोगात् । एवमुभय- थानुभवे प्रत्येकं स्मृतिरपि द्वयपरामर्शमयी उदेति इति चत्वारः स्मरणभेदाः, द्वौ अनु- भवभेदौ अनुसंधानरूपं प्रत्यभिज्ञानमपि एत- दृम्भागो नादियते अपि तु अर्थभाग एव इति चतुर्धानुभवे षोडशधा च स्मृतौ उभयस्पृशि च प्रत्यभिज्ञाने चतुःषष्टिधा पूर्वापरभागभेदप्राधान्येन च द्विगुणीभूते वर्तमाने हेयोपादेयादिभेदेन पुनरपि भिन्ने स्वतन्त्रविकल्प च उत्प्रेक्षादिलक्षणे सर्वमिन्नेवमन संवेदने ग्राहको ग्राह्यश्च परस्परापे- क्षया भिन्नप्रथौ परस्परापेक्षया च ग्राह्यग्राहकतां गतौ युगलसृष्टियोगेन भिन्नौ प्रकाशेते, व ? परामर्शनवतन्नकर्तृस्वभावे संविद्रूपे विशुद्धप्रमात- रीति। १५८ दृष्टभागबहुमाने। १५९ तत्र हि न दृशो नापि अमदः इत्यनाप्रकाशशङ्का । १६० दृष्ट इति स इति च उभयपरामर्शमयी। १६१ मया दृश्यते घटोऽयमिति वा।
१४८ ईश्वरप्रत्यभिज्ञा । [२.४आ० दुर्भयेमेलनात्मकम् अत्रैवान्तर्भूतम् । तच्चे एतद्भेदात् अष्टधा, पूर्वापरविश्रान्तिकृतात् प्रत्येक विधाभेदाच षोडशधा। तदेते द्वाविं- शतिः संवेदनभेदाः । तेषु च ग्राह्यं तावत् प्रकाशात् अबहिर्भूतम् अन्यथा प्रकाशनायो- गात् , बहिर्भूतं च तत् अन्यथार्थत्वासंभवात् , न च तत एव, तदैव, तदेव पृथग्भूतं अत्र पृथग्भूतं च भवति इति नूनमन्यः कल्पित- प्रकाशात्मा कश्चित् अत्र अर्थोऽस्ति, यतोऽयम् अर्थराशिः पृथग्भवन् अन्योन्यमपि पृथक्ताम् अधिगच्छेत् , अन्यथा प्रकाशाभिन्नानां पर- स्परमपि कथकारं पृथग्भावो भवेत् । सोऽयं वेद्यैकदेश एव, विच्छिन्न एव अनुज्झितवे- द्यभाव एव, अहम् इति विच्छेदशुन्योचितेन १६२ स्मरणानुभवयोर्मेलनात्मकम् । अत्रैवेति-चतुर्वेव विकल्पेषु । १६३ तच्चेति-अनुसंधानम् । स्मृतानुभूतमेलनात्मकेन प्रत्यभिज्ञानेन अष्टत्वम् । १६४ तदिति-प्राह्यम्, तत एव-प्रकाशात् , तदैवेति-प्रकाशे सति, तदेव-प्रकाशमानम् । १६५ स इति-युक्तिबलानीतोयम् इति वक्ष्यमाणनयेनोक्तखरूप इति । पं० १४ ख० पु. विच्छेदशन्यप्रकाशोचितेनेति पाठः ।
........ ८का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । परामर्शेन परामृश्यमानो मायाप्रमाता इति वक्ष्यते,-'देहे बुद्धौ, । (१।६।४) इत्यत्र । स च ग्राहकः इति उच्यते । एवं सममेव खात्मनि विमलमकुरस्थानीये यत् युगलकं खस्मात् प्रकाशरूपात् अव्यतिरिक्तम् अवभासयति परमेश्वरः तदेव एतत् भगवतो ज्ञानकर्तृत्वं, स्मरणकर्तृत्वं, ज्ञानशक्तिस्मृति- शक्तिरूपम् उच्यते इति तात्पर्यार्थः। अक्षरार्थस्तु-मया दृश्यते इति, अयम् इति च यत् आमृशति प्रमाता प्रकाशरूपो येन अनुभवति इति उच्यते, तत आमर्श- नात् एतत् लक्ष्यते, ग्राह्यरूपेण ग्राहकरूपेण योजितौ घटादिदेहादिखभावौ अर्थों वेद्यौ प्रमातरि विशुद्धप्रकाशरूपे भातः प्रकाशेते। एवं दृष्टः इति स इति च यत् परामृशति प्रकाशरूपः प्रमाता, यतोऽसौ स्मरति इति १६६ १६६ येन-आमर्शनेन । १६७ लक्ष्यते-लक्षणया बोध्यते । पं० १४ ख० पु० खप्रकाशेति पाठः ।
७ १६९ १५० ईश्वरप्रत्यभिज्ञा । [१अ०४आ० व्यपदेश्यः, ततोऽपि एतदेव लक्ष्यते। अनु- भवरूपोपजीवित्वं पूर्वोक्तं द्रढयितुं प्रसङ्गात् अत्र ज्ञानशक्तेरपि उन्मीलनं कृतम् । लक्षणे शत्रोंदेशः । अपि-शब्दश्चार्थे । अर्थ-शब्दो विच्छिन्नवेद्यवाची । ग्राहको मायीयः कल्पितः प्रमाता अशुद्धप्रकाशखभाव इति । आदितः श्लो०॥३१॥ श्रीमदाचार्याभिनवगुप्तविरचितायामीश्वरप्रत्यभि- ज्ञासूत्रविमर्शिन्यां प्रथमे ज्ञानाधिकारे स्मृतिश- तिनिरूपणं नाम चतुर्थमाह्निकम् ॥ ४ ॥ १६८ अनापि ग्राह्यरूपेण इत्यादि पुनरपि आवर्तनीयम् । १६९ अनार्य भावः - स्मृतिप्रकरणात्तस्या एव पूर्व प्राधान्येनाभिधाने युक्ते यत् 'अन्न दृश्यते इति पूर्वमनुभवपरामर्श एव' उक्तं तत्तस्था एव समर्थनार्थमिति । १७० आमृशति इत्यत्र लक्षणहेत्वोः क्रियायाः इति सूत्रेण । पं० ०१ क. पु. व्यपदेश इति पाठः । पं०२ क० पु० उपजीवितत्वमिति पाठः।
अथ प्रथमे ज्ञानाधिकारे ज्ञानशक्तिनिरूपणाख्य पञ्चममाह्निकं प्रारभ्यते । महागुहान्तर्निर्मग्नभावजातप्रकाशकः । ज्ञानशक्तिप्रदीपेन यः सदा तं स्तुमः शिवम् ।। एवं तावत् स्मृतिशक्तेः स्वरूपं प्रतिपादि- तम् , अधुना तदुपजीवनीयज्ञानशक्तिपरामर्श- निर्णयं वितत्य, 'वर्तमानावभासानाम्' इत्या- दिकया, 'सक्रमं प्रतिभासते' इत्यन्तया श्लोकैकविंशत्या निरूपयति । तत्रायेन श्लोकेन वस्तुनि प्रतिज्ञां करोति, एवंभूता ज्ञानशक्तिः इति, ततः श्लोकद्वयेन प्रकाश एवार्थानां खरूपम् इत्याह । ततो द्वयेन प्रकाशबाह्याना- मर्थानां सद्भावं विज्ञानवादोपगतवासनादूष- णेन दृढीकृतम् आशय, तृतीयेन तदनभ्यु- १ इत्याह्निकसंगतिः, अवान्तरसंगतीरप्याह तत्र इत्यादिना । २ ज्ञानशक्तिविमर्शरूपे । पक्षवचनरूपा हि प्रतिज्ञा इति तदर्थ- हेत्वादिनिरूपकाणि चोत्तरपद्यानि । पं० १ क. पु० भावसार्थेति पाठः। पं० ३ क० पु० एवमियता तावदिति पाठः ।
१५२
ईश्वरप्रत्यभिज्ञा। [अ०५आ०
पगमेऽपि तावत् न किञ्चित् उपरुध्यत इति
दर्शयति । अथ श्लोकेन खदर्शनेऽर्थतत्त्वम्
उपदर्शयन् बाह्यार्थसद्भावे प्रत्यक्ष निराकरोति
प्रमाणत्वेन । ततो द्वयेन अनुमेयतामपि
बाह्यस्य निरस्यति । अनन्तरं श्लोकेन चिदा-
त्मनि अर्थानाम् अवश्यं सद्भावः परामर्शा-
त्मना इति प्रकटयति । ततोऽपि प्रकाशस्य
प्रमातृरूपस्य प्रत्यवमर्श एवं जीवितम् , इति
श्लोकचतुष्टयेन अनुभवागमन्यायस्वरूपनिरू-
पणाभिः अभिधत्ते । अनन्तरं ज्ञानपरामर्श
एव ज्ञेयं शुद्धं प्रमातृरूपतानुज्झितं च प्रथयति
इति तस्यैव प्रधानत्वे न्यायं श्लोकत्रयेणाह ।
प्रकाशैकरूपत्वे च ज्ञानज्ञात्रादि भिन्नम् इति
श्लोकेनाह । ततो ज्ञातरि इव विशुद्ध ज्ञानेऽपि
अविकल्पकसविकल्पकरूपे विमर्श एव प्राणि-
तम् इति श्लोकद्वयेनाह। ततो ज्ञातुर्ज्ञानस्य
च पूर्वपक्षे दूषितं यत् भिन्नत्वं
तत् उपसंहा-
३ प्रत्यक्षपातो यद्यपि बाह्यार्थसद्भावेऽस्ति तथापि प्रमाणतया न
पततीत्यर्थः।
४ यन्त्र हि प्रत्यक्षमकिंचित्करं तत्रानुमानेन कृतमित्यपि-शब्दार्थः ।
५ प्रत्यवमर्शेनैव प्रमातृत्वमित्यतस्तदेव जीवनं तस्य इति एव-कारार्थः।
।
१का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। १५३ रदिशा श्लोकेन समर्थयते, इति तात्पर्यम् आह्निकस्य । श्लोकार्थस्तु निरूप्यते । ननु स्मरणविकल्पादीनाम् अनुभव एव जीवितम्, तत्र यदि भेदेन आभासन्तेऽर्थाः, तत् तेष्वपि तथैव अवभास उचितः, नो चेत् अन्यथा तदनुभव एव तावत् ज्ञानशक्ति- रूपो विचारणीय इति आशयेनाह वर्तमानावभासानां भावानामवभासनम्। अन्तःस्थितवतामेव घटते बहिरात्मना ॥१॥ वर्तमानत्वेन स्फुटतया अवभासनम् इद- मित्येवमाकारं येषां तेषाम् , यदेतत् बहिरा- मना-कल्पितमायीयशून्यादिशरीरान्तप्रमा- तृपृथग्भावेन हेतुना भिन्नानां, ततो मायाप्र- ६ पार्यन्तिकफलतया, समर्थयते-उपोद्धलयतीत्यर्थः । ७ तत्-तर्हि, तेषु-अनुभवसरणादिषु, तथैव-भेदेन । ८ भेदेन नो चेदवभासः अभेदेनेति यावत्तदनुभवस्मरणादावपि चान्यथेत्यभेदेनैव परामर्श उचित इत्यर्थः । ९ विशिष्टदेशकालाभासतया स्फुटमेव पृथग्भावेन । १० ततो-हेतोः। २० १५४ ईश्वरप्रत्यभिज्ञा। [१अ०५आ० मातुः विच्छिन्नानाम् 'अवभासन,' तत् पर- मार्थप्रमातरि शुद्धचिन्मये 'अन्तःस्थितवता' तेन सह ऐकात्म्यम् अनुज्झितवतामेव 'घटते' प्रमाणेन उपपद्यते, तेन अनुज्झितसंविदभे- दस्य भावस्य कल्पितप्रमात्रपेक्षया भेदेन प्रका- शनं भगवतो ज्ञानशक्तिरित्युक्तं भवति ॥१॥ प्रमाणेनोपपद्यते, इत्युक्तं तत् प्रमाणं दर्शयति प्रोगिवार्थोऽप्रकाशः स्या- त्प्रकाशात्मतया विना। न च प्रकाशो भिन्नः स्या- दात्मार्थस्य प्रकाशता ॥२॥ अर्थो नीलादिः, तस्य नीलादिरूपतैव यदि प्रकाशमानता न पुनरपरी काचित् अर्थशरी- ११ अवच्छिन्नतया। १२ ज्ञानानुदये । प्रकाशान्न भिन्नोऽर्थः प्रकाशमानो युक्तः, प्रकाश- मानाचार्थान्न भिन्नः प्रकाशो युक्त इत्युभयतोमुखमर्थप्रकाशयोर्भेदमप- सारयति प्रागित्यनेन प्रथमार्धेन । अयं चार्थशरीरविश्रान्त एव प्रका- शोऽर्थवभिन्नस्वभावोऽस्तु इत्याशङ्कयाह न च इत्यादि, अर्थशरीरत्वे चार्थवदस्य भेदः प्रामोति न च स युक्तः अनुसंधानाभावप्रसंगात् । १३ यत एवं पूर्ववदप्रकाशता स्यात्तस्मात्प्रकाशमानता नाम नार्थस्य भिन्ना, आत्मा परमार्थरूपं न तु भिन्नः कश्चिदर्थः ।
७ २का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । रोत्तीर्णा प्रकाशात्मता तर्हि यी सर्वान् प्रति नीलमेव तत्संभावनया भण्यते, न कंचित् वा प्रति, वस्तुतो वा खात्मन्येव तत् नीलें परस्य परनिष्ठतानुपपत्तेः, स्वात्मनि वा न नीलं न अनीलम् प्रकाशानुग्रहेण विना व्यवस्थानायोगात् । ती प्रकाशमानतापि अस्य सर्वान् प्रति न कंचित् वा प्रति अपि तु खात्मन्येव, खात्मन्यपि वा न स्यात् इति अन्धता जगतः। अथ इन्द्रियालोकादिक्षण- वर्गात् प्रकाशरूपोऽसौ नीलैंक्षणो विशिष्ट एव जातः, एवमपि स एव प्रसङ्गः, प्रकटतावा- १४ ज्ञानानुदये। १५ परमार्थसमीक्षया। १६ ज्ञानोदयेऽपि । १७ क्षणान्तरसहकृतादुपादानाद् घटक्षणात् । १८ प्रकाशमानघटरूपः। १९ ततश्चास्त्येव प्रागवस्थातो विज्ञानोदयकाले विशेषो, न तु स्थिर- पदार्थवादिनामिव बौद्धानां स एवासौ घट इति । २० प्रकटतावाद इति,-इत्थं तद्वादः-ज्ञानं नाम क्रिया, सा च फला- नुमेया, फलं च प्रकटनाख्यं विषयधर्मः, सैव च वेद्यता इति कौमारिला: प्रोचुः, तदेतत्प्रतिक्षिपति-अयमेवेति, यथा हि संनिवेशत्वनीलस्वादयो धर्मा यथा सर्वान्प्रत्यविशिष्टास्तथा वेद्यताख्यो धर्मों भवेत् इत्यन्ताद्य- भावः प्रसज्येत् सर्वे च सर्वज्ञाः स्युरिति । ७ ईश्वरप्रत्यभिज्ञा। [१अ०५आ० देऽपि अयमेव दोषः, सर्वथा अर्थशरीरवि- श्रान्तः चेत् प्रकाशो मम अवभासते इति प्रमातृलमतया प्रकाशस्थितिः दुरुपपादा । प्रमाता हि तदानीम् इन्द्रियार्थमयोऽर्थरूपस्य प्रकाशस्य कारणं भवेत् , बीजमिव अङ्करस्य । न च अङ्कुरो बीजापेक्षोऽङ्कुरात्मा, ततो यदि न प्रकाशात्मा से भवेत् 'प्रागिव' ज्ञानोद- यात् पूर्वं यथा सोऽप्रकाशः, तथा ज्ञानोदयेऽपि स्यात् । नेनु ज्ञानम् अर्थप्रकाशरूपमेव, तत् कथं २१ ननु यदीयमेवेन्द्रियादि तथाभूतघटता विशेषप्रकाशमानतोदये कारणतां प्रतिपद्यते तमेव प्रमातारं प्रति तथा व्यवहियेत इति सिद्धोऽयं नियमः, कारणेन च तावत्कार्यस्य संबन्धो दृष्टो बीजस्याङ्कुरः कुलालस्य घट इति, तद्वदेव च चैत्रस्य घटः प्रकाशमान इति भविष्यति । एतावता च तत्कृता प्रकाशमानता घटस्य इति सिद्धम्, स च यथा बीजकृता अखरता कुलालकृता च घटता, न तु सा अङ्कुरता घटता च स्वार्थ- क्रियाकालव्यवाहियमाणतां कारणकला भित्तित्वेनोपादाय व्यवहियते कारणनि सानपेक्षयैवाङ्कुरादिस्वरूपव्यवहारात , प्रकाशमानता तु ममेति चैत्रस्य इति च भित्तिभूतं प्रमातारमवलम्ब्य नियमेन व्यवहियते इति । २२ लब्धस्वरूपः। २३ अर्थः। २४ ननु प्रदीपस्येव ज्ञानस्यार्थप्रकाशत्वमेव रूपं चेत्तत्कस्य चोयम् अर्थप्रकाशात्मके ज्ञाने सत्यपि नार्थः प्रकाशत इति पूर्वपक्षं संकलय्याह ननु इत्यादि, यथोक्तं तैः 'ज्ञानस्यार्थप्रकाशत्वं ननु रूपं प्रदीपवत् ।' इति। तत्र ज्ञानस्यार्थप्रकाशत्वमेव रूपम् इति निधा विकल्पयति यावता a २का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। १५७ ज्ञानस्य उदयानुदययोः अर्थस्य तुल्यता स्यात् । स्यात् एतत् यदि उपपद्येत, यावतों अर्थात् भिन्नं यत् ज्ञानं प्रकाशरूपं, तत् अर्थस्यै संबन्धितया कथं स्यात् । यदि तावत् अर्थः प्रकाशते, इत्येवंभूतं ज्ञानस्य स्वरूपं तत् अर्थज्ञानयोः अभेद एवायातः- अर्थखभावस्य ज्ञानत्वेन उक्तत्वात्, अर्थवभावत्वे च प्रका- शस्य अर्थात्मतायाम् उक्तं दूषणम् । अर्थ अर्थ प्रकाशयति इति ज्ञानस्य स्वरूपम् , तर्हि इत्यादिना, तत्रायं विकल्पार्थः किमर्थश्चासौ प्रकाशश्च इति सामानाधि. करण्यम्, अथ वा अर्थश्च प्रकाशश्व इति समुच्चयः, आहोस्वित् अर्थस्य प्रकाश इति संबन्धमानं तत्सर्वं क्रमेण दलयति संबन्धितया इत्यादिना । २५ अर्थस्य प्रकाशकं ज्ञानमिति पक्षं तावदाह यावता इति, याव- च्छब्दोऽत्र हेतौ। २६ तत्र तावदर्थस्य प्रकाशकं ज्ञानं कर्तृषष्ट्या दोषोद्भावनं विधत्ते अर्थस्य संबन्धितया इत्यादिना, अयं यदि नामार्थस्य प्रकाशनक्रियायां कर्तृत्वं तत्कथं ज्ञानस्यैवमतिशयः अन्यस्यातिशये अन्यस्यातिशयतारत- म्यम् इति हि भौतिककथितं परस्पररूपामहस्वरूपोऽन दुर्लयो दोषश्च प्रसज्येत् । २७ प्रथमः पक्षः। २८ द्वितीयः पक्षः। २९ पूर्वमेव । ३० अर्थस्य प्रकाशकं ज्ञानम् इति तृतीयस्यैव पक्षस्य पुनरपि कर्म- षध्या विकल्पयति अथ इत्यादिना, अयं भावः-ज्ञानमर्थ प्रकाशयति इति सिद्धस्तावत् प्रेषणाध्येषणादिविलक्षणस्तत्समर्थाचरणलक्षणः प्रयोज्यप्रयो- ईश्वरप्रत्यभिज्ञा। [१अ०५० प्रकाशमानमर्थं करोति ज्ञानम् इति आप- तिते पुनरपि स एव दोषः । कृतप्रतानश्च अयं प्रकृत्यर्थण्यर्थविवेको मयैव भेदवाद- विदारणे इति तत एव अन्वेष्यः। तस्मात् भिन्नः प्रकाशोऽर्थस्य संबन्धी भवति इति संभावनैव नास्ति । अतश्च इदम् उपपत्त्या आयातम्-अर्थस्य स्वरूपं प्रकाशमानत्वं प्रका- शाभिन्नत्वम् इति । प्रकाशश्च यदि घटेऽन्यः पटेऽन्यः तदा अनुसंधानस्य अयोगः-द्वयोः प्रकाशयोः खात्ममात्रपर्यवसानात् इति वितत्य उपपादितं 'नश्येत् जनस्थितिः' इत्यत्र । तस्मात् एक एव प्रकाशः । एतदेव आवृत्त्या दर्शितं 'न चे प्रकाशो भिन्नः स्यात् इति ॥२॥ जकव्यापारभावः, तच्च एतदयुक्तम् इत्याह तर्हि इत्यादिना, इदमत्र तात्पर्यम्-प्रयोजकव्यापारस्य प्रयोज्यव्यापारनिष्टत्वात् प्रकाशमान एवार्थों ज्ञानेन प्रकाशते इति, तच्च न युक्तं स्वयं प्रकाशमानस्सार्थस्य प्रयोजक- व्यापारानपेक्षणे ज्ञानोपयोगवैयर्थात् इति । ३१ प्रकाशते इत्यत्र प्रकृत्यर्थः, प्रकाशयति इति पयर्थः । ३२ शङ्कापि। ३३ न च प्रकाशः प्रकाशानिनः, न च प्रकाशोऽर्थात् इति । " ३का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । व्यतिरिक्तस्य ज्ञानस्य अर्थप्रकाशरूपताम् अभ्युपगम्यापि बाधकान्तरमाह भिन्ने प्रकाशे चाभिन्ने संकरो विषयस्य तत् । प्रकाशात्मा प्रकाश्योऽर्थो नाप्रकाशच सिद्ध्यति ॥३॥ ३४ अर्थानिन्नस्य । ३५ आदौ तावदर्थस्य प्रकाशमानता न व्यतिरिक्तं ज्ञानम् इति पार- मार्थिकमेव इत्यपिशब्देन सूचितम् बाधकान्तरकथनार्थमभ्युपगम्येति बोध्यं तच्च विषयसांकर्यलक्षणम् । ३६ एवं सावळ्यतिरिक्तं ज्ञानम् अर्थस्य प्रकाशमानता इत्यसंगतोऽय. मर्थः, भवतु वा-व्यतिरेके तु अभ्युपगम्यमाने विषयाणां च स्वरूपसांक- यप्रसंगः इति दर्शयति सूत्रेण, भिन्ने प्रकाशे इति, भिन्ने स्वात्ममात्रप. यवसाने, अभिन्ने नीलाद्याकारशून्ये । ३७ यत एवं प्रकाशेऽर्थाभिने संकरः प्रसज्येत् न चासौ तथा, तसात् । ३८ चकारोऽन पूर्वसूचनाय,जडस्य खात्मनि न काचित् सिद्धिरित्यर्थः । ३९ अयं भाव:-भिन्न इति अर्थात् प्रकाश इति बोधमात्रपरमार्थे, अभिन्न इति स्वात्मनि, भिजेऽपि सर्वपदार्थानुप्रवेशात्प्रकाश इत्येताव- न्मानताचिकमभिन्नमेव तत्त्वमवशिष्यत इति भिन्नेऽपि विषयसंकरः, अस एव चामिनेऽपि संपने स एव दोषः, ततश्च विषयव्यवस्थापि न सिकोत्, सा चावश्यं समर्थनीया, तदेतत्समर्थयति-प्रकाश्योऽर्थ इति, अयभाशय:-न भावस्य प्रकाश्यता नाम धर्मः अपि तु अर्थः प्रकाशते क ईश्वरप्रत्यभिज्ञा। [१अ०५आ० यदि अर्थात् अन्य एव ज्ञानात्मा प्रकाशः अत एव भिन्नोऽर्थतः, तर्हि खात्मनि तस्य प्रकाशमात्ररूपत्वात् अभेद एव । तथाहि नीलस्य प्रकाशः, पीतस्य प्रकाशः इति यो नीलांशः पीतांशश्च, स तावत् ज्ञानस्य स्वरूपम् खं वपुरेवास्य प्रकाशः तदेवाह प्रकाशात्मा इति, ननु चात्र दोषबाहु- ल्यादलं विषयसंकीर्णतापादकेन प्रबोधेन इत्यत आह नाप्रकाश इति इति सुबोधमञ्जरीकारः। ४० अर्थात् भिन्नः सन् बोधमात्ररूपो यः प्रकाशः सोऽर्थानां न कश्चिनिन्नत्वेन परस्य परनिष्ठत्वायोगात्, तथा च सति प्रकाशबलेन यत् नीलादीनां तत्स्वरूपारूषणायाः सामर्थ्य, ततो नीलः प्रकाशः पीतः प्रकाश इति अन्न सर्वपदार्थानुप्रवेशनात् प्रकाश इत्येतावन्मानमभिन्न तत्वमवशिष्यते प्रकाशबलाच्च नीलपीतयोर्भेदोऽभ्युपगन्तव्यः, स च प्रकाश उभयन्नापि अभिन्नस्तुल्यः तदनुग्रहात् यदि नीलं तत्पीतं न कसात् , न वा नीलं नापि पीतं तदपि च न व्यवतिष्ठेत, अनेकान्त- वादोऽपि न च प्रतिष्ठामधिगच्छेत् एकज्ञानज्ञेयस्फुटत्वादेः स्मृत्यादेश्च न व्यवस्था स्यात् इति बहुशाखासंकरः, तस्मात् प्रकाशस्य यदि न परनि- ष्ठता तथापि संकर इति चकारार्थः। तदिति यत एवं प्रकाशेऽर्थाद्भिन्ने संकरः प्रसज्यते न चासौ तथा तस्मादर्थात् प्रकाशमानादभिन्न एव प्रकाश, भिन्नत्वे हि बाधकप्रमाणं विषययोगेन पाटवादिना स्मरणदिशा च विषयसंकीर्णतापत्तिः, तद्विरुद्धं च विषयासंकीर्णत्वमुपलभ्यते इति व्यापकविरुद्धोपलब्ध्या भिन्नत्वमर्थात् प्रकाशस्य प्रतिषिध्यते । ननु एव. मर्थ एव नीलादिरस्तु किं ततो भिन्नस्वभावेन स्वरूपाभिलेन प्रकाश- नाना बोधेन विषयसंकीर्णतात्मकदोषापादकेन अङ्गीकृतेन, आह-नाम- काशश्व इति, चः पूर्वपक्षसूचनाय, एतदुक्तं भवति 'अप्रकाशस्य जडस्य खात्मनि न काचिसिद्धिः' । उक्तं हि 'प्राङ्नीलं यदि स्वात्मन्यनीलं न वान्यत्किंचित् तत् किं दुष्येत्' तथा च अजडप्रमातृसिद्धिः एवमात्म- नीत्यादि । तसात् प्रकाशरूपात् बोधादभिन्न एवार्थ इति सूत्रार्थः । १ , १६१ ३का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। भेदवादत्यागापत्तेः । अथ विषयः, तदेवेदं विचार्यते - इह प्रकाशवलात् नीलपीतयोः भेदोऽभ्युपगन्तव्यः, येनैवे च प्रकाशेन नीलो नील एव इति उपगम्यते, तेनैव च प्रका- शेन पीतः पीत इति कथं संगच्छताम् , नीलेन जनितः, पीतेन जनितः, तेन वा सह एकसामग्रीक इत्यादि यत् उच्यते, तत् सिद्धे ४१ज्ञानस्य। ४२ प्रकाशस्यार्थाद्भिन्नत्वे त्रिविधं बाधक,-१ विषययोगेन २ पाटवा- दिना ३ स्मरणदिशा चेति, तत्र द्वयोर्विषय एवान्तर्भावात्संकरो विषयस्य इत्युक्तम्, तत्र क्रमेण तदेव त्रिविधत्वं सूचयति,-येनैव इत्यादिना । तत्र नीलो नील इत्यर्थापौनरुत्थात् द्वितीयस्य नीलशब्दस्याभिधाबाधे प्रतीयमानार्थप्रतिश्रुतिरभ्युपगन्तव्या तच्च व्यवस्थायां पर्यवस्यति तच्च न संभवति इत्याह कथं संगच्छताम् इति । ४३ तस्य साधारणत्वात् । ४४ कौमारिलमतम् । ते हि माहुः-साकारताकृत एवायं नियमः, यदाहुः 'तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः । भाव्यं तेनात्मना येन प्रतिकर्म विभज्यते॥' इति । तस्मान्नीलाकारोऽपृथग्भूतो बोधात् इति सिद्धे तदाकारतया विनापि तत्र तत्र नीले पीते वा नियत एव बोधस्यावस्थानरूपा व्यवस्था इति, तदेतत्संक्षिप्यावतारयति नीलेन जनित इति । अत्रावान्तरभे- दसामग्रीवादिन आहुः- एतेनापि समानकाल एव विषयः स्यात् ततः प्रत्यासत्तिरेवैकसामग्यधीनामा नियमकारिणी तथाह्यर्थज्ञानक्षणलक्ष- णात्पर्यायेणान्योन्यमुपादानसहकारिभावेन वर्तमानादेकसात्सामग्रीरूपा- .
। १६२ ईश्वरप्रत्यभिज्ञा । [१अ०५आ० नीलपीतयोर्भेदे स्यात्, स एव विचार्यः। अर्थ नीलाकारोऽसौ तत् यदि प्रतिबिम्बब- लात् तद्वितीय विम्बानवभासात् अयुक्तम् । अथ अभेदः, तर्हि त्यक्तो भेदवादः, तथा कारणतादिवादे शिखरस्थज्ञानं बहुतरनीला- दिजन्यम् एकत्र पटु अन्यत्र मन्दम् इति कथं भेदः-प्रकाशशरीरस्य अभेदात्, तथी- भूते च अन्यतरदर्शनोहोधितेऽपि संस्कारे बलौदेव अशेषस्मरणप्रसङ्ग इति भूयान् त्परस्परोन्मुखरणरसिकोरभ्रयुगलवद्विषयिविषयभावावनुमेलनयोग्यौ स्वो- पादानकारणपरम्पराप्रतिलब्धजनितचेतनस्वभावविषयसंबोधौ जातावि- त्यर्थः। . ४५ नीलपीतादिभेदः। ४६ सौत्रान्तिकमतं । असौ-प्रकाशः। ४७ तदिति सा नीलाकारता यदि प्रतिबिम्बबलाजायते । ४८ यस्मात्प्रतिबिम्बो जातः । ४९ इति विषयसंकीर्णता। ५० पाटवादिसंकीर्णतामाह । तदेतत् न्यायवादिमतम् । अत्र तेन वा सहैकसामग्रीक इति पूर्वमुक्तमपि साकारतावादप्रसङ्गान्मध्येऽन्यद- प्युपपाय इदानीं तद्भागमवतारयति-तथा कारणता इत्यादि, तेन नैतद- पूर्वमिति भ्रमितव्यम् यदि हि अपूर्व स्वादत्रापि प्रश्नपूर्वमेव कथयेत् इति । ५१ शिखरस्थस्य यदुत्पद्यते ज्ञानम् । ५२ स्मृतिद्वारेणापि संकरमाह तथेति, तथाभूते-अभिन्ने इत्यर्थः । ५३ अयं भावः-नीले पीते चानुभवः समकालमेव तथापि नीलदर्श- नेनैव संस्कारो दत्त इति पूर्वपक्षिमतम् अत्राह बलादेवेति, इदं तात्प.
३का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । १६३ संकरः । स्यात् एतत् , अर्थ एवास्तु, किम- नेन दोषोपपादकेन प्रकाशेन इति । अत्राह- अप्रकाशस्य प्रसिद्धिरेव न काचित्, स्वात्मनि हि नीलं यदि पीतं न किंचित् वा, तत् किं दुष्येत्, अत एव ग्रन्थकृतैव अन्यत्र उक्तम् 'एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी। जडाः प्रकाश एवास्ति खात्मनः स्वपरात्मभिः॥ इति, तत् यदि प्रकाशः तदा भवति अर्थः, प्रकाशश्च अँसौ कथम् । यदि प्रकाशतैव घटस्य वपुः सैव पटस्य इत्यादि विश्व- वपुः प्रकाशः सिद्धः॥३॥ एकस्यैव प्रकाशस्य एवंभूतक्रमाक्रमकार्य- कारणभावादिविचित्रवैश्वरूप्यप्रदर्शनसामर्थ्य- रूपम् ऐश्वर्यम्, इति तावत् पर्यवसाययित- यम्-तदा च प्राच्योऽनुभवो निर्विशेषः प्रबुद्धश्च नीलस्यैव न पीतस्येति नियमाभावात्पीतप्रकाशात्मापि भवेदिति पीतेऽपि सा स्मृतिः स्यात् इति । ५४ नीलादिः । दोषो-विषयसंकीर्णतात्मा । ५५ अनीलम् । ५६ न च प्रकाशः प्रकाशानिन्नः न च प्रकाशोऽर्थात् । ५७ अर्थः। ५८ तस्मात् प्रकाशरूपाबोधादमिन्न एवार्थ इति राद्धान्तः । ५९ स्वयं स्वसंविदागमयुक्तिभिः निश्चयेऽपि परस्य युक्तिभिः हृदयंग- मीकरणीयम् ।
१६४ ईश्वरप्रत्यभिज्ञा । [অ৭ঙ্গা व्यम् । तच्चैवं पर्यवस्यति, यदि प्रकाशस्य विचित्रभावे हेत्वन्तरम् अपातम् तंत्र प्रकाशस्य अविचित्रस्य क्रमेण विचित्रताका- रणं प्रतिबिम्बात्मकं, तत्प्रतिबिम्बसजातीयं यत् तदेव नीलादिरूपं बाह्यम् , तच्च यद्यपि अनुमेयं, तथापि इदं नीलमिति प्रत्यक्षेण अध्यवसायात् अध्यवसायप्राणितत्वाच्च प्रमा- णस्थितेः प्रत्यक्षव्यपदेश्यं भविष्यति । बाह्या- र्थवादिकथितमिति हेत्वन्तरम् अनुमीयमानं बाह्यरूपम् आशयमानत्वेन प्रदर्शयति तत्तदाकस्मिकोंभासो बाह्यं चेदनुमापयेत् । न ह्यभिन्नस्य बोधस्य विचित्राभासहेतुर्ती ॥४॥ ६० सौत्रान्तिकैरुपगतं हेत्वन्तरं चेद् दूष्यते इत्यर्थः। ६१ सौत्रान्तिकमतमेव तावद्दर्शयति । ६२ नीलादिजातीयम् । ६३ संवेदनरूपप्रकाशविच्छेदेन । ६४ तस्मादेकस्यैव बोधस्य ऋमिकानाभासात्प्रतिबिम्बकल्पनेनार्पयितुं चतुरस्तच्छायाधारी बाह्योऽर्थवर्गः कल्पनीयोऽनुमानेनेति । ६५ अज्ञातहेतूझवाभासः । ६६ भाविसूत्रार्थोपस्कृतस्यैतत्सूत्रार्थस्य चेदिति निपातो बाझार्थवा- ५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । न वासनाप्रबोधोऽत्र विचित्रो हेतुतामियात् । तस्यापि तत्प्रबोधस्य वैचित्र्ये किं निबन्धनमें ॥५॥ इह बोधः तावत् अभिन्नः, प्रकाशमात्रमेव हि अस्य परमार्थः, प्रकाशाधिकं यदि नीलस्य रूपं, तर्हि तत् अप्रकाशरूपम् इति न प्रका- शेत । अथ तथा प्रकाशत्वमेव अस्य रूपम् , पीतप्रकाशः कथं स्यात् । अथापि क्रमिकनी- लपीतादिप्रकाशरूपमेव तस्यै रूपम् , नीला- द्याभासशून्योऽहमिति प्रकाशः खापाद्यवस्थासु न स्यात् । तस्मात् प्रकाशः प्रकाश एव, अणु- दिना संभाव्यमानतामाह, वासनाप्रबोधादविचित्राद्विचित्रोऽयं तत्तदिति य उक्त आकस्मिको निर्भासमानबोधहेतुकत्वासंभवादज्ञानहेतुक आभासः स बाह्यमनुमापयति इति संभाव्यते । न ह्यविचित्राद्वोधात्क्रमिक आभा- सभेदो युक्तस्तत एकान्तेन बाह्य एव हेतुतयानुमीयत इति सूत्रार्थः । ६७ तस्माद्वाह्य एवार्थों भिन्नाभासकारणमित्यर्थः । ६० मिनं विरुद्ध मिति यावत् । ६९ नीलरूपतया। ७० नीलस्य पीतानेदात् । ७१ बोधस्य । ७२ आदिशब्देन मदमूर्छासमाधानकैवल्यायो गृह्यन्ते ।
१६६ ईश्वरप्रत्यभिज्ञा । [१०५० मात्रमपि न रूपान्तरम् अस्य अस्ति इति अभिन्नो बोधः, तस्य च अभिन्नस्य कदाचित् नीलाभासता कदाचित् पीताभासता इति ये विचित्राभासाः तत्रै कारणत्वम् हि यस्मात् न उपपन्नम् -हेतौ अभिन्ने कार्यभेदस्य असं- भवात् , तस्मात् स स विचित्रनीलपीतादि- रूप आकस्मिकोऽज्ञातप्रत्यक्षसिद्धहेतुकः सन् बाह्य विज्ञानगतप्रतिबिम्बात्मकखस्वभावसंपा- दकम् औचित्यवशात् निजरूपसदृशं मो- पनिपतद्रूपबहुतरभेदात्मकं ज्ञानात् सर्वथा ७३ विचित्राभासेषु। ७४ प्रकाशस्य। ७५ अप्रकाशमानं । बाह्मशब्दोऽत्रार्थक्रियाकारिणि वस्तुनि निरूढो, न तु प्रकाशबहिर्भूतमात्रमाह । ७६ दर्पणप्रतिबिम्बतया स्वभावान्तरतामनापन्नम् । ७७ तथाभूतनीलाद्याभासारोपकः प्रतिबिम्बारोपक इव सदृशः । विज्ञानान्तर्वर्ती नीलाद्याभासः सदृशमर्पकमपेक्षते प्रतिबिम्बत्वात् दर्पण- प्रतिबिम्बवदिति प्रयोगः । औचित्येति बोधप्रतिबिम्बताप्रकर्ष ये प्राप्ता नीलाद्याभासास्तेषामर्पकेण सदृशेन तावद्भवितव्यं, दर्पणाभासानामिव ततश्च नीलाभाससदृश एव नीलः सियत्यनुमानेन तस्मैव बाह्योऽर्थ इति संज्ञा। ७८ क्रमोपनिपतदिति यौगपद्येनाभासभेदस्यैकोऽपि हेतुः स्यादिति तत्तदिति । बहुतरेति यतो हि एते नीलाद्याकारा न नियतक्रमाः, न हि नीलाभासादनन्तरं पीताभासेनैवान्येन भवितव्यमिति नियमः। ७९ बोधविलक्षणत्वात् ।
१६७
५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता।
पृथग्भूतम् अनुमापयति इति संभावयते
बाह्यार्थवादी।न च अस्य इदं संभावनामात्रम्,
अपि तु निश्चयपर्यवसायि एव भवति। तथाहि
विज्ञानवादिना यो हेतुः वैचित्र्ये वासनाप्रबो-
धलक्षण उक्तः स न उपपद्यते। स्मृतिजनकः
संस्कारो वासनी' इति तावत् प्रसिद्धम्, इह
तु अनुभववैचित्र्ये हेतुः पर्येषणीयो वर्तते ।
अस्तु वा नीलाद्याभाससंपादनसामर्थ्यरूपा
ज्ञानस्य योग्यतात्मिका शक्तिः वासी,
तस्याश्च स्वीर्यसंपादनौन्मुख्यं प्रबोधः, ततो
बोधेषु आभासवैचित्र्यम् इति । तत्रीपि तु
ब्रूमः- यद्यपि आर्भासानां ज्ञानान्तर्वर्तिनाम्
अपारमार्थिक संवृतिसत्त्वम् उच्येतापि,
८० अप्रकाशमानत्वात् ।
८१ न तु अपूर्वानुभवजनकः स्मृतेरनुभवमूलत्वात् ।
८२ व्यापिनीरूपा।
८३ पक्षान्तरमाह 'अस्तु वा' इति ।
८४ व्यापिनीरूपा।
८५ स्वकार्य-नीलाद्याभासात्मक ।
८६ शक्तिरूपः।
८७ तत्रापि इति सौत्रान्तिकोक्तिः ।
८८ आभास्यन्ते इति आभासाः।
८९ संवृति:-विकल्पबुद्धिः।
१६८ ईश्वरप्रत्यभिज्ञा । [१अ०५आ० तथापि यत् एषां कारणम् तत् वस्तुसदेव अङ्गीकार्यम् - अवस्तुनः सर्वसामर्थ्यविरहिता- लक्षणस्य कार्यसंपादनप्राणितसामर्थ्यात्मकख- भावानुपपत्तेः । एवं स्थिते या एता वासना आभासकारणत्वेन इष्यन्ते, तासां बोधात् यदि भिन्न रूपम्, तच्च परमार्थसत्, तत् अयं शब्दान्तरप्रच्छन्नो बाद्यार्थवादप्रकारे एव । अथ संवृतिसत् , तर्हि तेन रूपेण कार- णतानुपपत्तिः, अथ येन रूपेण आसी पार- मार्थिकता तेन कारणता । तत् तर्हि ज्ञान- मात्रं, तच्च अभिन्नम्, इति नीलाद्याभासरूपस्य कार्यभेदस्य असिद्धिः । एवं वासनानाम् अविचित्रत्वे तत्प्रबोधो विचित्र इति को प्रत्याशा । भवन्तु वा वासना भिन्नाः, तथापि , ९० कारणवस्तुसत्त्वे। ९१ फलितं मम मनोरथकल्पतरुणा यत् अस्मन्मतं प्रविष्टोऽसि इत्यर्थः । ९२ 'कारणमपि' इत्यत्रान्वेयम् । ९३ तेन-संवृतिसत्वेन । ९४ आसा-वासनानाम् । ९५ ज्ञानात्मिकानां वासनानां कारणभूतानां भेदस्यासिद्धत्वात् । ९६ नैव कापि इत्यर्थः।
५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। बोधमात्रातिरिक्तस्य देशकालभावादेः प्रेबो- धकाभिमतस्य विचित्रस्य कारणस्य अभा- वात् प्रबोधोऽविचित्र इति एक एव प्रबोर्धेः इति सममेव नीलादिवैचित्र्यं भासेत । अर्थ खसंतानवर्तीनि बोधान्तराणि विचित्राणि प्रबोधकारणानि इति, तदसत्, सुख-दुःख- नील-पीतादि-पूर्वापरादिदेश-कालभेदस्य वि- ज्ञानमात्ररूपत्वे विज्ञानस्य च प्रकाशमात्रपरमा- र्थतायां खरूपभेदासंभवे बोधवैलक्षयानुप- पत्तेः । परप्रमातृरूपेषु बोधान्तरेषु संतानान्त- रशब्दवाच्येष्वपि तुल्योऽयम् अवैलक्षण्यप्र- :-आभासरूप:। ९७ प्रबोधकत्वेनाभिमतस्य इति योज्यम् । ९८ प्रबोधः- ९९ सममेव-युगपदेवेत्यर्थः । १०० अथेति विज्ञानवादिमताशङ्का, अथ-यदि इत्यर्थः । १०१ बाह्यार्थवादी प्राह- तदिति । १०२ सर्वथा बोधव्यतिरिक्तस्वकारणाधीनविचित्रपदार्थान्तरानभ्युप- गमात्सर्वेषामेव कारणानामेकबोधात्मन्येव पर्यवसानाद्वैचिन्यमहेतुकमेव स्वात् इति तदेवं सिद्ध्यति-यदि बोधरूपतातिरिक्तमनादिनिजनिजबाह्य- करणपरम्पराप्रभवं बाह्यमेव किंचित् वस्तु भवेत् इति बाह्यार्थवादिना स्वपक्षः प्रत्युजीवितः। १०३ अत्रैव पक्षान्तरमाह-परेत्यादि । १०४ बोधस्यैकरूप्यात्सर्वत्र । २२
१७०
ईश्वरप्रत्यभिज्ञा। [१अ०५आ०
कारः । तत्रापि परकीयाभिमतस्य कृशस्थू-
लादेः कायस्य, श्वासप्रश्वासादेः प्राणस्य,
सुखदुःखादेः धीगुणस्य, अनुमात्रंभिमतसंवि-
न्मात्ररूपाभेदे परत्वं कस्य इति न विद्मः।
बोधस्य तन्निष्ठस्य इति चेत्, सोऽपि प्रमाणेन
यदि न सिद्धः तत् असन् एव, सिद्धोऽपि
प्रमेयतया चेत् तत् जड एव, तथापि च
कायादिवत् एव ज्ञानमात्रखंभावः-स्वसंवि-
न्मात्ररूपत्वे परं प्रति अस्य असिद्धेः । नेर्नु
व्याहारादिक्रिया खात्मनि इच्छया व्याहरे-
१०५ अभेदरूपता इत्यर्थः ।
१०६ संतानान्तरेष्वपि तुल्यतामेव समर्थयति-तत्रापीति
१०७ अनुमातृत्वेनाभिमतेति योज्यम् ।
१०८ तनिष्टस्य-परनिष्ठस्येत्यर्थः।
१०९ सोऽपि बोधः, प्रमाणेन-प्रत्यक्षादिना, तत्-तर्हि ।
११० प्रमेयतया-वेद्यतया।
१११ तथापि-जडत्वेऽपि ।
११२ परनिष्ठो बोधः, सोऽपि जड इत्यर्थः ।
११३ स्वस्य ज्ञानमात्ररूपत्वे ।
११४ अस्य-परनिष्टबोधस्यासिद्धिः ज्ञानानां परस्परमसंवेदनात् इति
भावः।
११५ अत्रैव सौगतः प्रमाणमाह ननु इति व्यवहारादिक्रिया-
भाषितादि।
११६ स्वात्मनि-वसंताने ।
१२४ ५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। यम् इत्येवंरूपया हेतुभावेन व्याता तत् चैत्रकायेऽपि तैयाँ तद्धेतुकया भाव्यम् । न च मत्संततिपतिता समीही अस्ति इति स्वसंवेदनेने निश्चितम्, ततश्च परसमीही सिद्ध्यति, तदेव संतानान्तरम् इति । अत्रोच्यते - इह अनुमातुः व्याहाराभासो द्विधा भवति - व्याप्तिग्रहणकालेऽविच्छेदप्रा- णोऽहं व्याहरामि इत्येवंरूपः । अनुमाना- वसरे च 'व्याहरति अयम्' इति विच्छे- दजीवित इति अन्यस्य व्याप्तिः गृहीता, व्याहारादिक्रियया । तद्धेतुकया-इच्छाहेतुकया। ११८ समीहा-परकीया इति बोध्यम् । ११९ स्वसंवेदनेन- स्वानुभवेन, स्वानुभवसिद्धम् इति यावत् । १२० व्याहारेच्छा। १२१ परदेहचैतन्यम् । १२२ सौत्रान्तिकः प्रतिवक्ति-अत्रेति, इह-संतानान्तरानुमाने । १२३ परव्याहारो हि समीहापूर्वको भवितुमर्हति मम व्याहारवत् इति व्याप्तिः। १२४ इह व्याहरेयमहम् इति समीहा, ततो व्याहरामि इति समी- हितृत्वरूपस्वसंतानगतो व्याहाराभासः, तत्समकालमेव च समीहित- व्यतिरिक्त अनुमातृप्रमातरि परसंतानरूपे व्याहरति इत्येवंभूतो ब्याहारा- भासोऽनुमातृकर्तृकत्वाभावेन मैत्रकर्तृकत्वात् तत् मैनात्मकपरसंतान- समवायी द्वितीयः। १२५ अविच्छेदप्राणस्य अहमिति हि अस्मदर्थविनान्तित्वादविच्छेद- जीवितत्वम् । ११७ तया १७२ ईश्वरप्रत्यभिज्ञा । [१अ०५आ० १२७ १२८ अन्यश्च आभासः कथम् इदानी हेतुः स्यात्, व्याहरति इति आभासस्य च हेतुः अविदित एव इति कथं ततो हेतोः समीहा अनुमीयेत, किं च व्याहरति अयम्' इति यः प्रमात्रन्तरेऽ- नुमातृसंमते विच्छिन्नतया अवभासः सोऽनु- मेयसंमतायाः परसमीहीयाः कथं कार्यः स्यात् । तस्यों हि व्याहरामीत्याभासः कार्यों योऽसौ अविच्छेदजीवितः । न च अविच्छे- दमयस्य विच्छेदमयः कार्यम् इति युक्तम्- तथाभूतकार्यकारणभावग्रहणोपायाभावनात्, नहि स्वात्मनि योऽयम् अविच्छिन्नाभासः, स १२६ अन्य:-विच्छेदप्राणः । १२७ परसमीहाया गमकः । १२८ समीहारूपः। १२९ अत्र 'अनुमातृत्वेन संमते' इति योज्यम् । १३० अविदितत्वात्तस्याः। १३१ स यदि वक्ति इति बोध्यम् । १३२ तस्याः-परसमीहायाः। १३३ स्वात्माविच्छेदप्राणः। १३४ व्याहरामि इत्येवं रूपाभासस्य, विच्छेदमय:-व्याहरपयामित्ये- वंरूपः। १३५ दूरत्वात् इति बोध्यम् । १३६ नहि इत्यस्य प्रमाणेन सिद्धम् इति वक्ष्यमाणेन संबन्धः । १३७ व्याहरामि इत्येवंरूपः ।
१७३
१४०
५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता।
पत्र विच्छिन्नं 'व्याहरति अयम्' इत्येवंरूपम्
आभासं जनयति, इति केनचित् प्रमाणेन
सिद्धम्,-परसिद्धिपूर्वकत्वात् अस्य अर्थस्यै,
परप्रमातृसिद्धेश्च । एवंभूतार्थसिद्ध्यधीनत्वेन
इतरेतराश्रयात् । न च अवश्यम् अविच्छि-
नात् विच्छिन्नेन भाव्यम् इति नियमोऽस्ति
व्यभिचारात् । न च विच्छिन्नोऽपि आभास
उत्पद्यताम्, इति तदनुसंधानात् तदुत्पत्तिः
नियता-तत्सद्भावेऽपि अनुत्पत्तेः तदभावे च
उत्पत्तेः, विच्छिन्न आभासः परत्र उत्पद्यताम्
इति या समीहा तया सह परत्र उत्पन्नस्य
विच्छिन्नाभासस्य कार्यकारणभावग्रहणमेव
परासिद्धौ न युक्तम् इति व्याप्तेरेव असिद्धिः।
१४५
१३८ अनुमेये।
१३९ अविच्छिन्नाभासे विच्छिन्नाभासं जनयति इत्येवंरूपस्य ।
१४० व्याहरामि इत्यस्मात् , व्याहरत्ययम् इत्यनेन ।
१४१ अविच्छिन्नाभासस्यानुसंधानाद्विच्छिन्नाभासोत्पत्तिः।
१४२ अविच्छेदमयस्य सद्भावे ।
१४३ अविच्छेदमयाभावे।
१४४ व्याहरत्ययमित्येवंरूपः, परत्र-प्रमातरि।
१४५ परप्रमात्रसिद्धौ सत्यां ।
१४८ १७४ ईश्वरप्रत्यभिज्ञा । [१अ०५० प्रमात्रन्तरीणि च यदि भिन्नानि तदा तन्नि- ठानाम अवभासानां भेद एव, 'ज्ञानादव्य- तिरिक्तं च' इति न्यायात् । ततश्च एकाभा- सनिष्ठत्वाभावात् एकाभासविनान्तः संभूय प्र- मातॄणां व्यवहाँरो न स्यात् - इति अन्योन्या- नुपरक्तं भूतग्रस्तप्रकृतिप्रीयं जगत् आपद्येत । अनुमीयमानमपि च बोधान्तरम् अनुमति- संमतात् बोधात् यदि भिन्नम्, तत् अस्ति तावत् संभवः- यत् प्रमेयं बोधात् भिन्नम् अस्ति इति । सहोपलम्भनियमादेः अनैका- १४८ .. १४६ प्रमातार:-जीवाः । १४७ अन्यप्रमातृस्थितानाम् । अवभासाना-चैतन्यानाम् । 'ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं ब्रजेतू' इत्याचार्यधर्मकीयुक्तिः । १४९ शिबिकावाहनादिः। १५० मूर्छितमायम् । १५१ अनुमातृत्वेन संमतादित्यन्वयम् । १५२ तत्-तर्हि। १५३ कर्तृकर्मणोस्तादात्म्यानुपपत्तेः । १५४ अनुमातुः संबन्धिनः। १५५ असम्मते प्रविष्ट इति बोध्यम् । १५६ यथोक्तमन्यत्र, 'युगपढेदनाज्ज्ञानज्ञेययोरेकरूपता।'
१७५ ५का०] श्रीमदभिनवगुप्ताचार्यकृतविमशिन्युपेता । न्तिकत्वात् नीलपीतादिनापि प्रमेयरा- शिना किम् अपत, येन अस्य स्वरूपवि- श्रान्तिः न सह्यते, तस्मात् प्रमानन्तराणामपि असिद्धिरेव, सिद्धौ वा सर्वप्रमानन्तर्गता आभीसा एकैकत्र परत्र आभासवैचित्र्यहेतुं वासनोबोधवैचित्र्यं जनयेयुः-नियमे हेत्वन्त- राभावात् इति, तथापि न नीलादिवैचित्र्य- सिद्धिः । एवं वासनानां तदुद्दोधहेतूनां च विचित्राणाम् अनुपपत्तिरेव । ततश्च स्थितमे- .. इति । ततश्च विषयज्ञानयोः सहोपलम्भनियमादभेदः नहि अनयोरे- कस्यानुपलम्भे अन्यस्योपलम्भोऽस्ति न च एतत्स्वभावविवेके युक्तं प्रति- बन्धकारणाभावात् इति 'सहोपलम्भनियमादभेदो नीलतद्धियोः।' इति सिद्धम् । तच्चायुक्तं विज्ञानबाह्यस्य नीलादेः सत्वात् इति । १५७ अनियतत्वात् । १५० भवतामिति शेषः । १५९ येन-अपकारेण, अस्य-प्रमेयराशेः, विश्रान्ति:-निष्ठा, न सयते-विज्ञानवादिना इति शेषः । १६० अभ्युपगम्यापि इत्यर्थः । १६१ आभासा:-ज्ञानानि । १६२ एकैकत्र-सर्वत्र। १६३ युगपत्सदासंनिहितत्वात्तेषाम् । १६४ एवं यत्ने कृतेऽपि ।
ईश्वरप्रत्यभिज्ञा । [१अ०५आ० तत्, अभिन्नो बोधः तस्य आकस्मिकाभासभे- दहेतुत्वानुपपत्तेः बाह्योऽर्थोऽनुमेयः संभाव्यते- इति यदि बाह्यार्थवादिना उच्यते, इति श्लोक- द्वयार्थः । चेच्छब्दः श्लोकद्वयवाक्यार्थशङ्का- द्योतकः ॥५॥ एवम् आशङ्कयमानत्वेन परसंभावना दृढा दर्शिता, अधुना तु एनां संभावनां शिथिल- यितुं तावदोह स्यादेतदवासेषु तेष्वेवावसिते सति। १६५ बोधः-चिन्मात्रम् । १६६ आभास:-ज्ञानम्। १६७ बाह्यार्थवादिनः । १६८ चेदित्यनेन विज्ञाननयप्रतिषेधात् । १६९ पश्चाच सिद्धान्तं कथयिष्यति ईश्वराद्वयवादी । १७० व्यवहनपेक्षया तावद्भावव्यवस्था क्रियमाणा अवभासेष्वेव निर- पाया पर्यवस्यति इत्यधिकतराष्टवस्तुपर्यालोचनम् इदं स्वच्छन्दचेष्टितम् यथाहि इन्द्रियविचारं बिना न किंचिदुपपद्यते तथाहि केचित् इन्द्रि- यापवर्जनेनैव षड्वातुवादिनः अन्ये तद्वयवादिन इति, तथैव प्रतिभासा- तिरिक्तात्यन्तपरोक्षार्थान्वेषणम् अन्तरेणैव व्यवहारपरिसमाप्तिः इति अनङ्गं तद्विचारः, नापि विचारसिद्धमपि बाह्यस्थानुपपत्तेरित्याह ‘स्यादेत- दिति' एवं चाभासानामेवार्थत्वे प्रकाशः अर्थः अर्थोऽपि च प्रकाशः इति परस्परात्मकत्वमनयोर्भवति इत्यभिप्रेत्योक्तं श्रीगीतासु १७७ ६का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। व्यवहारे किमन्येन बाह्येनानुपपत्तिना ॥६॥ 'स्यादेतत् - इति पूर्वोक्तसंभावनाभ्युपगमे यदा व्याख्यायते तदा किं तु इति वाक्यशे- षेण तच्छैथिल्यविषयं संभावनान्तरं शेषश्लो- केन दर्यते इति व्याख्येयम् । यदि तु अध्याहारो न सह्यते तदा स्यादेतदिति इद- मपि संभावनान्तरं स्यात्, यदनेन श्लोकेन उच्यते इति एकवाक्यतयाँ योज्यम्, अन- 'यो मां पश्यति सर्वत्र सर्वच मयि पश्यति ।' इति । तथा 'सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।' इति । तथा गुरुभिः शिवदृष्टौ 'आत्मैव सर्वभूतेषु स्फुरनिर्वृतचिद्विभुः। अनिरुद्धच्छाप्रसरः प्रसरदृक्तियः शिवः ॥' इति। १७१. सत्यपि बाह्येऽर्थे तत्समर्पितेषु निःसपनतया :विजृम्भमाणेषु इत्येवकाराशयः । अवसिते-समाते । १७२ संभाव्यते तत् यद्भवता उक्तम् । १७३ भवदुक्तसंभावनातोऽपि दृढतमसंभावनान्तरमस्तीत्यर्थः । १७४ बुद्धिसंनिहितस्य व्याख्यानावसरे समुच्चारणमध्याहारः । १७५ अधिकमिदं संभावनान्तरमिति । १७६ 'संभवत्येकवाक्यत्वे वाक्यमेदो न युज्यते । १७७ अधुना पक्षद्वयेऽपि समानोऽर्थः ।
१७८ ईश्वरप्रत्यभिज्ञा । [१अ०५आ० यापि कष्टकल्पनया बाह्यान् अर्थान् प्रसाध- यता भवता तैः न किंचित् कर्तव्यम् , आभी- सैरेव तैः भवता अभ्युपगतैः व्यवहारसिद्धेः, न हि नित्यानुमेयेन कश्चित् व्यवहार इति किं बाह्येन, यत्र साधकं च नास्ति प्रमाणम्, बाधकं च प्रकाशात् भेदे अनुमेयतयापि प्रकाशनाभाव इति तावत् मुख्यम् । अभ्युञ्चयबाधकास्तु अ- वर्यविनो वृत्त्यनुपपत्तिः, समवायोसिद्धिः, क- तै:-बाबैरथैः १७९ सत्यपि बाहोऽर्थे तत्समर्पितेषु आभासेष्वेव व्यवहारसिद्धः १८० अप्रकाशमानत्वात् । १८१ अनुपपत्तिना इत्यस्यार्थ ब्याचष्टे यत्रेति । १८२ पूर्व हि मुख्यं बाधकं प्रमेयस्वरूपमनपेक्ष्यैव सांशमनंशं विरुद्ध- मविरुद्धं यजवतु तद्भवतु प्रकाशाद्भिन्नं न प्रकाशते इति सर्वथा बाधकम् । १८३ अधिका बाधका उच्यन्ते इत्यर्थः, अभ्युच्चयेति-पूर्व हि प्रमाण- मुखेन प्रवृत्तं बाधकमुक्तम् अधुना स्वयमपि प्रमेयस्व निरूपणप्रवृत्तप्रतीति- द्वारेणापि प्रवृत्तं प्रमेयस्वरूपमेव उन्मूलयति इति अधिकबाधकत्व- मस्येति । १८४ अवयवेषु अवयवी वर्तते । १८५ यदि हस्तश्वलति न शरीरं, तदा अवयवावयविनोर्युतसिद्धिः। यथा न्यायकन्दल्या विरुद्धधर्मयोगो विवेचित:-पाणौ कम्पवति तदा- श्रितं शरीरं न कम्पते पादे वा कम्पमाने तद्तं शरीरं न कम्पते इत्ये. कस्य विरुद्धधर्मताप्रसङ्गः । तथा एकावयवावरणे तत्समवेतस्यावयविनो न ग्रहणम् अनावृतावयवग्रहणे तु ग्रहणमित्येकस्य युगपद्रहणमग्रहणं ६का०], श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। १७९ म्पाकम्पावरणानावरणरक्तारक्तदिग्भोगभेदा- दिविरुद्धधर्मयोगः। अणुसंचयबाह्यवादेऽपि सं- चयस्य अन्यस्य अभावे अणव एव, ते च यदि संयुज्यन्ते निरन्तरतया तत् अवश्यं दिग्भा- गभेदः, देवनाक्षे षट्सु दिक्षु संचीयमानेषु १९० प्रामुत इति, अवयविनः प्रत्यवयवमेकदेशेन वृत्तिः कार्येन वा, न तावत् एकदेशेन वृत्तिः-अवयवव्यतिरेकेणास्यैकदेशाभावात् , कारस्येन वा वृत्तौ अवयवान्तरे वृत्त्यनुपपत्ति:-एकावयवसंसर्गावच्छिन्ने रूपे अच- यवान्तराणामनवकाशात् तत्स्वरूपव्यतिरेकेण चास्य स्वरूपान्तराभावात् । १८६ दिग्भिरुपलक्षितो भागभेदः । १८७ इति मूर्ते बाधः । १४८ वैभाषिकपरिभाषितं दुदूषयिषुराह, पूर्वत्र कणादमते अवय- व्यादिसमर्थने दोषमुद्भाव्य अधुना तेभ्यो विशेषज्ञा निरवयवमेवाभ्युपाग- मन् तथा सति पूर्वोक्तदोषासंभव इत्याह अणुसंचयेति । अन्न निरवय- वत्वे न पूर्वोक्तदोषानवकाशः। १८९ परमाणुविलक्षणस्य । १९० अणुतावादे कथंचिदपि अनुपपत्तिः ततश्च संयोगेनाणुसंचय- वादं संभावयति तत्र सान्तरं बहुदोषदूषितत्वात्यक्त्वा निरन्तरपक्षे पृच्छति-'ते च' इत्यादि तत्र यदि सान्तराः परमाणवः तददृश्यता, संचयस्यावधिनियमाभावः, अर्थक्रियानुपयोगः, धारणकर्षणाद्यभावः, आलोकपुअघटयोरेकदेश एव दर्शनं, पार्थिवतेजसादिवस्त्वन्तरहकप्रसङ्ग इति हि एते शतशो दोषाः । १९१ देवनाक्षे-षट्कोणे। , १८० ईश्वरप्रत्यभिज्ञा । [१अ०५आ० षट्सु अणुषु मध्यमस्य परमाणोः यत्रैव धाग्नि एको लग्नः तत्रैव यदि अपरः तत् एकपरमा- गुमात्रता । अथ अन्यत्र एकः अन्यत्र अपरः तत् अवश्यं भागभेदोपत्तिः, इति भाग एव परमार्थसैन , तस्यापि एषैव सरणिः इति न किंचित् अवशिष्यते बाह्यं तत्त्वतः । न चैतत् वाच्यम् - मूर्तानाम् एकदेशत्वायोगात् , संयोगे १९२ घटो हि विततरूपत्वेन प्रथमानः पूर्वापरादिभागवानेव प्रथते, न चैवं परमाणुमयत्वे घटते, तथाहि- योऽसौ पूर्वाभिमतः परमाणुस्तेन द्वितीयः परमाणुः संश्लिष्यमाणः तदेकतामापद्यते निरवयवयोहि संलग्नत्वे कियदसंलग्नमवशिष्यते, संलग्नौ च अन्योन्यस्वरूपपरिमन्ना. वित्येकपरमाणु सेतैव पुनरप्यपरपरमाणुसंस्पर्श तथैव इत्यनन्तपर- माणुयोजनेऽपि एकपरमाणुमानप्रकाशः स्यात् सोऽपि वा न स्यात् एकै- कपरमाणोरतीन्द्रियत्वात् इति । १९३ धान्नि-स्थाने। १९४ षट्केन युगपद्योग एकस्य परमाणोः षडंशत्वमापादयन्परमाणु- सद्भावं बाधते। १९५ युगपदेव संलग्नाः पडणवो यदि कल्प्यन्ते तत्समषट्कोणवस्तु- समुदायः कथम् इति परमाणुमानतैव । १९६ तथा च परमाणुता कथमिति शेषः । १९७ अणुः इति योज्यम् । १९८ तदेकपरमाणुमात्रता इत्येतदेव समर्थयति 'न च' इति । १९९ भिन्न देशत्वादित्यर्थः । २०० प्रदेशवृत्तिः संयोगः।
६का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। भिन्नदेशत्वाव्योवृत्तेः तन्निष्टं येणुकं नाम कार्यदेव्यम् अणुपरिमाणम् , तेभ्यः त्रिभ्यो महत्कार्यम् इति । अवयविवादो हि अयम् , स च पूर्वमेव अपबाधितः। यचं अव्याप्यवृ- त्तित्वं संयोगस्य उच्यते तन्निरंशे कथं संग- च्छताम् । खाश्रये हि यदि अंसौ समवैति किम् अन्यत् अस्य अवशिष्टम् यत् न व्याप्नु- यात् इति, अभ्युच्चयबाधकं च इदम्, इति न अत्र अस्माभिः भैरः कृतः। विस्तरेण च प्रज्ञा- लङ्कारे दर्शितम् आचार्यशंकरनन्दनेन ॥६॥ ननु बाधकं नाम प्रमाणसिद्धे वस्तुनि न किंचित् कर्तुं समर्थम् - तेनैव दृढेन प्रमाणेन बाधकाभिमतस्य बाधितस्य अप्रमाणत्वसंपा- दनात् । दर्शितं च इह साधकं प्रमाणं कार्य- २०१ इति कणादमतम् । तनिष्ठ-स्थूलनिष्ठम् । २०२ द्वाभ्यां संयुक्ताभ्यां व्यणुकमवयविरूपमारभ्यत इति । २०३ कार्यद्रव्यं-किंचित्स्थूलम् । २०४ अव्याप्यवृत्तिः संयोग इत्यक्षपादीयं मतमाशङ्कयाह-यश्चेति । २०५ असौ-संयोगः। २०६ अस्य-संयोगस्य। २०७ भर:-प्रयत्नातिशयः।
१८२ ईश्वरप्रत्यभिज्ञा । [१अ०५आ० हेतुः 'तत्तदाकस्मिकाभास' इति कारिकया इत्याशक्य आह चिदात्मैव हि देवोऽन्तः- स्थितमिच्छावशाबहिः। योगीव निरुपादान- मर्थजातं प्रकाशयेत् ॥७॥ इह तावत् खप्न-स्मरण-मनोराज्य-संकल्पा- दिषु नीलाद्याभासवैचित्र्यं बाह्यसमर्पकहेतुव्य- तिरेकेणैव निर्भासते इति यद्यपि अस्ति संभवः, तथापि तेदाभासवैचित्र्यम् अस्थैर्यात् सर्वप्रमात्रसाधारण्यात् पूर्वानुभवसंस्कारजत्व- २०८ वासनाप्रबोधवादिमतं बाझार्थवादिना निःशेषीकृतं, तच तावसिद्धान्तिना स्वरूपोपयोगासंभावनया शिथिलीकृतं तथापि दोलावदनवलम्बमानं सिद्धान्तिना तावत्स्वमतेन स्थिरीक्रियते-चिदात्मे- त्यादिना । एव-शब्दः 'अप्रयाससिद्धः अयमों बहुतराभीष्टसंपादकश्च' इति द्योतयति। २०९ अयमर्थ:-चित्तत्त्वमेव यतः स्वात्मरूपमहमित्यनन्यापेक्षप्रकाश- विमर्श ततस्तस्य यदाभासनं तत्तावदुपपन्नं न प्रयत्नसाध्यं तदभेदिनश्च भावराशेः प्रकाशात्मत्वादुपपन्नमाभासनमिति । २१० योगीव इति किमर्थो दृष्टान्त इत्याह इहेति । २११ तत्र तदभावात् । २१२ खमोद्भूतम् ।
७का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । १८३ संभावनात् अवस्तु इति शैक्येत । यत् पुन- रिदं योगिनाम् इच्छामात्रेण पुरसेनादिवैचि- त्र्यनिर्माणं दृष्टम् , तत्र उपादानं प्रसिद्धमृ- काष्ठ-शुक्र-शोणितादिवैचित्र्यमयं न संभव- त्येव, न हि एवं वक्तुं शक्यम् - सर्वगताः पर- माणवो योगीच्छया झटिति संघटिताः कार्यम आरप्स्यन्ते इति । यत एतत् लोकप्रसिद्ध- कारणभावानतिक्रमसिद्धये निरूप्यते । न च एतत् प्रसिद्धम् -परमाणुभ्य एव स्थूलं घटादि २१३ संभावनात्-शनात् । २१४ शक्यतेति, अविदितसंवित्स्वातन्त्र्यैस्तत्ससंशयमेव स्थाप्यता. मिति न पुनरत्र संवित्स्वातन्य तत्कारणान्तरमन्विष्यते । यदाह महदि वाकरवत्सः- 'न दृश्यते त्वत्प्रतिभासशक्तः स्वमेऽर्थवैचित्र्यानिमित्तमन्यत् । तहृष्टसामर्थ्यतया सदैषा विश्वप्रपञ्चप्रथनैकहेतुः॥ इति । २१५ उपादानं कार्येणाभिन्नं यथा घटस्य मृत्पिण्डः । २१६ एव-कारेणात्र परोऽपि न विप्रतिपत्त्या शङ्कत इत्याह । २१७ एवमिति-एवं तात्पर्य सिद्धान्तिते सति । २१८ एतदिति-परमाणवो योगीच्छया इत्यादि २१९ निरूप्यते इत्यत्र भवनिरिति शेषः ।
१८४ ईश्वरप्रत्यभिज्ञा। [१०५आ० २२० जायते इति, किं तु कपालादिव्यवधानेन, तत्रापि नियतसहकारिसमवलम्बनम् करचर- णादिव्यापारो विशिष्टदेशकालधर्माधिपत्ययोगः शिक्षाभ्यासप्रकर्ष इति, इयति च आश्रीयमाणे योगी कुम्भ निर्मिमाणः कुम्भकारप्रसिद्धसम- स्तसामग्रीसमर्जनपुरःसरं घटं घटयन् कुम्भ- कार एव स्यात्, तस्मात् प्रसिद्धकारणोल्लाने किम् असंचेत्यमानपरमाण्वाद्युपादानकारणा- न्तरचिन्तया इति । तत्र योगिसंविद एव सा तादृशी शक्तिः- यत् आभासवैचित्र्यरूपम् अर्थजातं प्रकाशयति इति । तेत् अस्ति संभवः- यत् संवित् एव अभ्युपगतखातम्या अप्रतीघातलक्षणात् इच्छाविशेषवशात् संवि- दोऽनधिकात्मताया अनपायात् अन्तःस्थितमेव २२० इति-शब्दो वाक्यसमालो। २२१ सहकारिकारणं कार्येण मिनदेशं यथा घटस्य दण्डचक्रचीवरादि । २२२ असंचेत्यमानम् असंभाव्यमानम् । २२३ योगिनश्च शरीरमाणाधारूषितमपि चैतन्यं तावति नैर्मल्या- निर्मातृस्वशरीरमाणादिसहितप्रमानन्तरापेक्षया बाह्मत्वेन तस्यार्थस्य चित्तत्वमेव सर्वत्र निर्मात । २२४ तदिति-तसात् ।
८का०) श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। १८५ सत् भावजातम् इदमित्येवं प्राणे,द्धिदेहादेः वितीर्णकियन्मात्रसंविद्रूपात् बाह्यत्वेन आभा- सयति इति, तत् इह विश्वरूपाभासवैचित्र्ये चिदात्मन एव खातभ्यं किं न अभ्युपगम्यते खसंवेदनसिद्धम् , किमिति हेत्वन्तरपर्येषणा- प्रयासेन खिद्यते । एवकारेण इदमाह- सर्वेण तावत् वादिना विषयव्यवस्थापनं संविद्रूपम् अनपह्नवनीयम् आदिसिद्धं हि तत् इति उक्तम् । तस्य च स्वातव्यमेव देवशब्दनिर्दिष्टं चिद्रूपत्वम्, इति किम् अपरकारणान्वेषणव्य- सनितया। हि यस्मात् एवं प्रकाशयति देव इति संभाव्यते, तस्मात् किं बाह्येन अनुपप- त्तिना, इति पूर्वेण संबन्धः ॥७॥ ननु ऐवम् उभयथापि संभावनानुमानम् उन्मिषति, तत्र किं मकुरप्रतिबिम्बितघटादिह- ष्टान्तेन ज्ञानप्रतिबिम्बताभासवैचित्र्ये विज्ञा- २२५ अत्र हि परप्रकाशावहिर्भूतत्वे अप्रकाशमानतापत्तिप्रसङ्गात्त- सिद्धये कल्पितप्रमात्रादर इति दर्शयन्नाह प्राणेत्यादि । २२६ एवमिति-वक्ष्यमाणम् । २२७ संभावनानुमानमिति -- सर्वथा हि परनिष्ठत्व मिहोपपादनीयं, तच्च संभावनारूपानुमानेन द्विधा समानमेव विकसति इति कस्यो- पादानं कस्य वा त्याग इति ।
[१अ०५आ० २२९ ईश्वरप्रत्यभिज्ञा । नदर्पणातिरिक्तं तत एव बाह्याँभिमतं हेतुं कल्पयेम? किं वा योगिदृष्टान्तेन संवित्वात- त्र्यमेव हेतुभावेन ब्रूयाम ? तदिदं सांशयिक वर्तते इति आशङ्ग्य बाह्यार्थानुमानसंभावनां सूत्रद्वयेन अपाकर्तुमाह अनुमानमनाभात- पूर्वे नैवेष्टमिन्द्रियम् । आभातमेव बीजादे- राभासाद्धेतुवस्तुनः॥८॥ आभासः पुनराभासा- बाह्यस्यासीत्कथंचन । २२८ बाह्याभिमतमिति-स्वसदृशभावान्तरसंक्रमणरूपम् । २२९ सांशयिक-संशयमापनम् । २३० पस्किंचिदनुमानं तत्सम विकल्परूपं, विकल्पश्चाननुभूते नो. देति । २३१ अनायं भावः- पूर्वावभासान्तःस्थित एवार्थों नान्तरीयकार्थ- दर्शनवशात्तद्देशकालादियोजनया विमर्शनमनुमानम्, इन्द्रियमप्यनुमी- यते किंचिन्मानं निमित्तं, तच्च बीजाद्याभासादाभासितमेवेति । २३२ बाह्यतासामान्यमपि पुनर्न कदाचित्प्रतिभातम्, अतो न बाह्यार्थस्यानुमानिकता युज्यते इत्याह आभास इति ।
१८७ ९का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । अर्थस्य नैव तेनास्य सिद्धिर्नाप्यनुमानतः ॥९॥ न केवलम् अनन्तरश्लोकनिर्दिष्टाभिः यु- क्तिभिः प्रत्यक्षेण बाह्योऽर्थों न आभासते, इयदेव हि प्रत्यक्षं- यत् नीलं भाति इति खप्रकाशसंविद्रूपं, नाधिकं किंचित् इति, या- वत् अनुमानेनापि न अस्य बाह्यस्य सिद्धिः इति अपिशब्दः। तत्र अनुमानम् अत्र नैव प्रवर्तितुम् उत्सहते। प्रवृत्तमपि न प्रेकृतसि- द्धिम् आदध्यात् इति अनेन सूत्रद्वयेन दर्यते। तत्र अनुमानं - विकल्पः, सर्वश्च अयं विक- ल्पोऽनुभवमूल इति प्रसिद्धम् । तेन यत् सर्वथा अनाभातपूर्वम् - अननुभूतचरं तत्र अनुमानम् अनुमितिव्यापारो विकल्पात्मा नैव केनचित् वादिना इष्यते । ननु भवतु २३३ अयं भावः- घटाद्याभासाद्वाह्यस्यानुपपत्तेः नासीदाभासः, तत- स्तन्त्र नानुमानादपि सिद्धिरिति । २३४ पूर्वोक्त्या साधितम् । २३५ बाह्यार्थसिद्धिरूपाम् । पं० ६ क० पु० संविन्मानं रूपमिति, ख. पु० संविन्मानं नाधिकमिति पाठः।
१८८ ईश्वरप्रत्यभिज्ञा । [१अ०५आ० प्रत्यक्षतो दृष्टेऽनुमाने संकथा इयम् , सामा- न्यतो दृष्टे तु किं वक्ष्यसि यथा अर्थोप- लब्ध्या इन्द्रियामाने ?, उच्यते - तत्रापि विकल्पेन यथा सोऽर्थः स्पृश्यते तथा अनुमेय इति स्थितिः । विकल्पश्च न इन्द्रियादिकम् अर्थ केनचित् संनिवेशविशेषात्मना स्पृशति, अपि तु किंचिदुपलब्धेः कारणम् इति अमुना खभावेन, स च खभावः कारणतालक्षणः प्रेत्यक्षगृहीत एव । तथा च बीजात् अङ्कुरः तन्तुभ्यः पट इत्यादी कार्यकारणभावः प्रत्य- क्षानुपलम्भबलेन तावत् निश्चयः । तत्र च २३६ इन्द्रियमपि पूर्वानुभूतमेव, न हि तत्प्रातित्रिकेन आकारेणा- नुमीयते अपि तु सामान्येन । २३७ द्विविधं प्रत्यक्षम् - सविकल्पकनिर्विकल्पकभेदात् । २३८ स्पृश्यते - प्रकाश्यते इत्यर्थः । २३९ इन्द्रियमिति ज्ञेयम् । २४० आभातमित्यस्यार्थः। २४१ प्रत्यक्षानुपलम्भौ हि कार्यकारणभावं साधयतः, तत्र प्रत्यक्ष प्रत्याभासं प्रमाणम् अनुपलम्भोऽपि अन्योपलम्भस्वभावत्वादेवमिति । २४२ तद्यथा मृजलयोः संनिहितयोरभवनङ्कुरः, स हि सति बीजे भवेत्, दण्डचक्रयोः सतोरभवन्धटः मृत्पिण्डे सति भवेत् । तदा बीजहेतुकः तदधिकमृत्पिण्डहेतुक इति क्रमेण प्रत्यक्षानुपलम्भजो निश्चयो जायते । तत्र च कारणत्वं नाम सामान्यमकारणव्यावृत्तमनधिकव्यावृत्तं ९का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। प्रत्यक्ष प्रत्याभासं प्रामाण्यं भजते, विमर्शल- क्षणस्य प्रमितिव्यापारस्य एकैकशब्दवाच्येऽर्थे विश्रान्तः, तदनुसारित्वोच्च प्रमाणस्य इति व- क्ष्यते । 'एकाभिधानविषये मितिर्वस्तुन्यबा- धिता।' इति। आभासमात्रं च सामान्यम् इति निर्णेष्यते । अनुपलम्भोऽपि अन्योपलम्भरूप आभासमात्रविश्रान्त एव-इति कारणाभासो विशेषशून्यः परिगृहीत एव बीजात् अङ्कुर इति प्रतीतौ यत् यस्य नियमम् अनुविधत्ते अव्यतिरिक्तम् तत् तस्य कार्यम्, इति प्रति- घटं मृत्तिकादिरूपस्य हेतुतद्वन्मात्रस्य आभा- चाधिकत्वं प्रत्येकं व्यावृत्तिनिष्ठात्प्रत्यक्षव्यापारागृहीतमेव, बीजं हि तत्र कारणरूपं वस्तु इति गृह्यते, अन्यथा एकत्र बीजे कारणशब्दः संके- तितो न मृत्पिण्डादौ संकेतितो भवेत, तस्मात्कारणत्वामाससामान्य पूर्वप्रत्यक्षस्वीकृतं, तत्र ततो युक्तं विकल्पनं, विकल्पनविशेष एव चानु- मानं, तदियं व्याप्तिः अनुमानमनाभाते विषये न भवति विकल्परूपत्वात् अनाभाते हि अर्थे भवदपूर्वसंवेदनं निर्विकल्पं भवेत् तद्विरुद्धं चेदमिति स्वभावविरुद्धोपलब्धिरिति तात्पर्यम् । २४३ एताभ्यामग्निसहचरितं धूममनग्नेश्च व्यावर्तमानं पश्यति । २४४ शब्दैरेकैकशोऽभिधेये अर्थे । २४५ तदनुसारित्वात्-विमर्शानुसारित्वात् । २४६ मृदो घट इति प्रत्यये यद्यस्य नियममनुविधत्ते तत्तस्य कार्यम् इत्यपि सामान्यमवभातमेव, ततश्च रूपोपलब्धिय॑स्य नियममनुविधत्ते तन्नेत्रमिति तत्पूर्व प्रमाणगृहीतमेव तत एव सामान्यतो दृष्टमिति तात्पर्यम्। , ईश्वरप्रत्यभिज्ञा । [१अ०५आ० सात् , आभासात् बाह्यः पुनरनाभासरूपः, स च आभासते इति विप्रतिषिद्धम् । अनाभाते च नास्ति विकल्परूपस्य अनुमानस्य व्यापारः। मिगृहादेस्तु यत् बाह्यं तत् अग्रामादिरूपं न उच्यते-प्रत्येकं वाटीपकुड्यतुलादेः बाह्य- त्वप्रसङ्गात् अपि तु तत्संनिकेष्टम् , तस्मात् ग्रामबाह्यम् आभासबाह्यम् इति च शब्दसा- म्यमात्रम् एतत् न वस्तुसाम्यम् । एवं विकल्पे वस्तु न आभाति इति मन्यन्ते २४७ पुनःशब्द इन्द्रियादेरपि कारणसामान्येन दृष्टाद्विशेष धोत- यति । अनाभासरूपः अप्रकाशरूपः । २४८ बाह्यत्वविशिष्टोऽर्थो प्रामादर्पणागृहात्संवेदनाद्वाह्यमिति बाह्य- तासामान्यमेकं तच्च गृहाबाह्यमिति प्रतीतौ सिद्धं, ततश्च समर्पकं दर्पणा- दिबाह्यं संवेदनादपि सेत्स्यति इति ऋमिकाभासवैचित्र्यादित्याशङ्याह ग्राम- गृहादेरिति। तथा चात्र पूर्वव्यवस्था स्फुटमेव दृश्यते-यथा चक्षुरादिविशे- पपरिहारेण यथा वा बीजाद्यनुभवात्कारणसामान्यमनुभूतमेवोक्तम्, तथा शरीरागृहाद्रामादेवा बाह्यस्यानुभवाद्वाह्यत्वमपि सामान्येनानुभूतमेव, ज्ञानविशेषेण बाह्यत्वाननुभवोत्तौ वा चक्षुरादेरपि कारणविशेषस्याननु- भूतपूर्वत्वान्न स्यादनुमानं तत्कथं नानुमानस्य व्यापार इत्युक्तिः । २४९ नेदं बाह्यत्वं घटस्य प्रामाञ्च संवेदनाच्चैकं, संवेदनाहाह्यं हि असंवेदनरूपं न गृहाबाह्यमगृहरूपमिति भावः । २५० वाट इति - तदेकदेशे, अनूप इति - तदन्तर्वर्ति इत्यन्वेयम् । २५१ अनायं भाव: -गृहसंनिकृष्टं यद्धाह्यं ग्रामात्, न तद्वदेव संवे- दनात् - तस्य अमूर्तस्य संनिकर्षादिदेशव्यवहार्यत्वाभावात् । २५२ वस्तुसाम्यम्-अभिप्रायः । २५३ ये-सौगताः।
१९१ ९का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। तेषामपि तावत् अनुमानविकल्पो न बाह्ये उपपन्नः। अस्माभिस्तु उपपादितम् - अध्यव- सायस्यापि आभासमानविषयत्वम् 'ध्रौन्तित्वे चावसायस्य' इति सूत्रे । तेन अनुमानवि- कल्पात्मनापि प्रकाशेन यदि अनाविष्टो नीलादिः अर्थः तत् न अनुमित एव स्यात् । अथ आविष्ट एव, तर्हि 'प्रागिवार्थोऽप्रकाशः स्यात्' इति न्यायेन प्रकाशमात्रखभाव एव, न बाह्यः । तेन बाह्ये साध्ये यत् किंचित् प्रमा- णम् आनीयते, तदबाह्यतामेव प्रत्युत प्रसा- धयति इति विरुद्धमेव, अत एव आह 'कथंचन' इति, केनापि प्रकारेण प्रत्यक्षात्मना अनुमेयात्मना वा आभासनम् आभासो बा- ह्यस्य अनाभासस्य न कदाचित् अभूत् इति, तस्मात् सिद्ध 'चिदात्मैव हि देव' इति ॥९॥ . २५४ भ्रान्तित्वे इति चोपलक्षणं, तेन 'भासयेच स्वकालेऽर्थात्' इत्याधुक्तम् , 'केवलं भिन्नसंवेद्य' इत्यादिषु वक्ष्यते च । २५५ विशेषान्तरतिरस्कारेणापि । २५६ बाह्यर्थे संवेदनान्तःप्रतिनिम्बरूपाभासोत्थापके यतः प्रमाणं न किंचिदस्ति तस्मादेतसिद्धम् । पं० १३ क० ख० पु० आभासबाह्यस्येति पाठः ।
१९२ ईश्वरप्रत्यभिज्ञा। [१अ०५आ० ननु अन्तःस्थितं बहिः प्रकाशयेदित्युक्तं तत् अन्तःस्थितत्वम् उपपोनीयम् इति आ- शक्य आह स्वामिनश्वात्मसंस्थस्य भावजातस्य भासैनम्। अस्त्येव न विना तस्मा- दिच्छामर्शः प्रवर्तते ॥ १०॥ बहीरूपतयापि आभासने अन्तारूपता न त्रुट्यति 'प्रमात्रैकात्म्यमान्तर्यम्' इति हि वक्ष्यते, तेच सदैव प्रकाशस्य प्रमातृत्वात्, तदात्मतया च विना प्रकाशमानस्य अवस्तु- त्वात् , किं तु तत्र अहम् इति उचित परामर्श २५७ यद्यन्तःस्थित एव चिदात्मनोऽर्थराशिः तस्कथमसौ न भासते इति, तदेव युक्त्या साधयतीत्यर्थः । २५४ चोऽनाप्यर्थे भिन्नक्रमः, न केवलमिदमित्यनेन वपुषा निर्भास. मानस्य बाह्यभावजातस्य भासनं सकललोकसिद्धं भवति यावद्भगवतः प्रकाशैकरूपस्यान्तःस्थिततयापि भासनमस्त्येव, केवलं बहिर्भावलक्ष- णेदन्तानुल्लासादहन्तौचित्येनास्त्यवभासनं न तु नास्त्येव । २५९ भासनं-स्वामिकर्तृकम् । २६० अनेदं तात्पर्यम्-चिदात्मनश्चेश्वरस्यात्मनीवाभेदेनार्थेष्वपि प्रका- शोऽस्ति, अन्यथा प्रतिभासमानार्थकविषयो निर्मातृतामयो विमर्श इच्छा- रूपो न स्यादिति । २६१ तच्च - आन्तरम् । सदैव- बहीरूपतायामपि ।
१०का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। १९३ योऽयम् इदन्तापरामर्शः सैव बाह्यता, तच्च इह अन्तःस्थितत्वम् अहमित्येतावता चित्स- मुचितेनैव वपुषा परामर्शनम्, तच्च इह नीलादीनामस्त्येव, न तु नास्ति इति, यदि हि न स्यात् कुम्भकृतो 'घटं करवाणि' इति य उत्तरक्रियापेक्षया इच्छाशब्दवाच्यः पैरी- मर्शः एषणीयात्मना, स परामेश्येन अनिय- त्रितः चेत् ततः पटेच्छापि सा न कस्मात् इति संकीर्येरन् व्यवहाराः। अथ तत्रापि च एषणीयः तदानीमेव निर्मितः सन् तथा जातः, तर्हि तन्निर्माणं चिदात्मनि विनेच्छया नोपपन्नम् इति । 'तिष्ठासोरेवमिच्छेव हेतुता।' इत्यत्र वर्णयिष्यते । ततश्च इच्छान्तरमपि २६२ प्रथम इति बोध्यम् । २६३ परामृश्येन-घटेन । २६४ ततश्च अन्तःस्थितमेवेत्यर्थः। २६५ निर्मित इति यदेवान्तःपरामर्शनं तदेव निर्माणम् इति केयमन्तास्थितत्ववाचोयुक्तिः। २६६ अनायं भावः - तदानीमेव हि यन्निर्माणं तद्बुद्धिभूमौ अशुद्ध- विद्याभूमावपि वा, तत्रस्थतया तु निर्माणं संविदवस्थितस्यैवेष्यमाणस्य युक्तम् इति । २५ १९४ ईश्वरप्रत्यभिज्ञा । [१अ०५आ० विषय नियत्रितं? न वा? इति विकल्पेऽन- वस्था। विषयनियत्रितं चेत् स्यात् आत्मतैव जाता, न चेत् घटे पटेच्छा स्यात् । अथ तत्रापि तदानीमेव इति कृत्वा अनवस्था, तस्मात् सर्वोऽयं भावराशिः चिदात्मनि अहम् इत्येव वपुषा सततावभासुरवपुः ऐश्वर्यरू- पाच खातत्र्यलक्षणात् खामिभावात् विचि- त्रेण वपुषा क्रमाक्रमादिना संवित् एनं बहि- करोति प्रमातृभेदप्रथनपूर्वकम् , तत्रापि क्वचित् आभासे प्रमातॄन् एकीकरोति नित- २६७ विषयेण-परामृश्येन, नियन्त्रितं-संबद्धम् । २६८ तन्नापि-द्वितीयेच्छायाम् । २६९ कार्यकारणभावे क्रमः, अन्यन्नाक्रमः । २७० एनं-भावराशिम् । २७१ प्रमातृभेदश्च समनाशिवमयोन्मुख्यरूपकारणात्मकः, तस्य च व्यापिनीशक्तिरूपं कार्यमिति । २७२ अयं भावः-विभागेऽपि सर्वशक्तिसुनिर्भरशिवत्वसंभवोऽस्त्येव कचित्, उक्तं च तत् श्रीमत्सोमानन्दपादैः । 'एवं न जातुचित्तस्य वियोगस्त्रितयात्मना । शत्त्या निर्वृतचित्त्वस्य तदभागविभागयोः ॥' इति । तथा च स्फुटमेव तेनैव प्रत्यभिज्ञापितम् , यथा 'यदा तु तस्य चिद्धर्मप्रभवामोदजृम्भया । विचित्ररचना नानाकार्यसृष्टिप्रवर्तने । भवत्युन्मुखिता चित्ता सेच्छायाः प्रथमा तुटिः ॥' . .
०का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । १९५ म्बिनीनृत्त इव प्रेक्षकान् । तावति हि तेषाम् आभासे ऐक्यम् । शरीरेप्राणबुद्धिसुखाद्याभा- सांशेषु तु भेदस्य अविगलनात् न सर्वथा ऐ- क्यम् । अत एव प्रतिक्षणं प्रेमातृसंयोजना- वियोजनावैचित्र्येण परमेश्वरो विश्वं सृष्टिसं- हारादिना प्रपञ्चयति । तदुक्तमाचार्येण 'सदा सृष्टिविनोदाय सदा स्थितिसुखासिने । सदा त्रिभुवनाहारतृप्ताय भवते नमः॥ इत्यादि । श्रीभट्टनारायणेनापि 'मुहुर्मुहुरविश्रान्तस्त्रैलोक्यं कल्पनाशतैः । कल्पयनपि कोऽप्यको निर्विकल्पो जयत्यजः॥ इत्यस्य प्रस्तावे 'सा च दृश्या हृदुद्देशे कार्यसरणकालतः । प्रहर्षावेगसमये दरसंदर्शनक्षणे ॥ अनालोचनतो दृष्टे निसर्गप्रसरास्पदे। विसर्गोक्तिप्रसङ्गे च वाचने धावने तथा ॥ एतेष्वेव प्रसङ्गेषु सर्वशक्तिविलोलता।' इति । तथा स्पन्दसूत्रेष्वपि 'अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् । धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः॥' इति। २७३ ननु तदियमेव स्पन्दनामिका परमार्थसती शिवदशा अलं प्रमानेकीकरोति इति वादे ? न, इत्यत आह शरीरेत्यादि । २७४ संयोजना-मल्लप्रेक्षादौ, वियोजना-अन्यन्न । २७५ भवते इति, प्रत्यक्षेण निर्देशः स्वस्वरूपताप्रतिपादनार्थः ।
ईश्वरप्रत्यभिज्ञा । [१अ०५आ। इति । तस्मात् स्थितम् अन्तःस्थितं भाव- जातं-तेन विना तद्विषयस्य परामर्शस्य अयो- गात् इति ॥१०॥ ननु परामर्शो नाम विकल्पः, स च अवि- कल्पशुद्धसंविदपुषि भगवति कथं स्यात् इत्याशङ्याह खंभावमवभासस्य विमर्श विदुरन्यथा। प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः॥११॥ २७६ परामर्शस्य-इच्छारूपस्य । २७७ विकल्प इति-इच्छालक्षणो हि परामर्शः, इच्छा च वेद्यसापेक्षा तथा तदपेक्षया परामर्शस्यापि समयबलायत्तता, तथा च विकल्प्यत्व. नान्तरीयकत्वशब्दयोजनावकाशः, तदेव हि विकल्पतायां निबन्धनम् , वेद्योपरते तु प्रकाशे विकल्पता वेद्यांश विश्रान्ताभिलापयोजनया, वेद्या- पेक्षायास्तु कदाचित्स्वयमविकल्पत्वेऽपि, न च शुद्धा संविद्विकल्परूपा संवेद्यत्वानुपलब्धेः इति हि अनावकाशः । २७८ तेनात्र न समयाय पायत्तशब्दयोजनावकाशशङ्कापीत्यर्थः २७९ अवालतत्स्वरूपपरामर्शा एतजानन्ति इत्यर्थः, विमर्श, च अह- मिति अकृत्रिममसांकेतिक स्वातत्रयरूपमात्मविश्रान्तिस्वभावं लक्षणं विदुः तत्त्वविदः ये मनशरीरं श्रीमातृकाश्रीमालिन्यादितत्त्वं मन्यन्ते । २८० अत्रेदं तात्पर्यम्-प्रकाशस्य मुख्य आत्मा प्रत्यवमर्शः, तं विना अर्थभेदिताकारस्यास्य खच्छतामानं न तु अजाड्यं चमत्कृतेरभावात् ।
११क०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपता । ततो न जडः, इह अवभासस्य प्रकाशस्य, अनवभासस्य च अप्रकाशस्य घटादेः परस्परपरिहारेण द्वयोः खात्मनि चेत् व्यवस्थानं, तत् घटपटयोः इव इदमजडम् इदं जडम् इति दुरुपपादं वैल- क्षयम् । अथ अवभासो यतोऽर्थस्य संबन्धी, तर्हि संबन्धमात्रेण मृत् अपि घटस्य इति अजडा स्यात् । अथ न वसंब- न्धमात्रम् अपि तु अवभासोऽर्थस्य प्रकाशः, तर्हि अर्थात्मना स प्रकाश इति समापतितम् । न च अन्यात्मना अन्यस्य प्रकाश उपपन्नः। अथ अन्यखभावोऽपि घटोऽवभासस्य कार- णम् , तर्हि अवभासोऽपि घटस्य कारणम् इति घटोऽपि अजडः स्यात् । अथ अन्येनापि सता घटेन यतोऽवभासस्य प्रतिबिम्बरूपा च्छाया दत्ता, ताम् असौ अवभासो बिभ्रत् धैटस्य २८१ द्वयोः-प्रकाशघटयोः । २८२ व्यवस्थान-स्वात्ममात्रनिष्ठम् । २८३ वैलक्षण्यं-भेदः चेतनजडयोः अजडजडभावलक्षणो न भवेद्वि- षय इति भावः । , २८४ घटस्यात्मना। २८५ प्रकाश इति योज्यम् । २८६ प्रकाशात् । २८७ प्रकाश इति शेषः ।
ईश्वरप्रत्यभिज्ञा । [१अ०५आ० इति उच्यते, ततश्च अजेंड, तर्हि स्फटिकस- लिलमकुरादिः अपि एवंभूत एव, इति अजड एवं स्यात् । अथ तथाभूतमपि आत्मानं तं च घटादिकं स्फटिकादिः न पराम्रष्टुं समर्थ इति जडः, तथा परामर्शनमेव अजाड्यजीवितम् अन्तर्बहिष्करणखातयखरूपं खाभाविकम् अवभासस्य स्वात्मविश्रान्तिलक्षणम् अनन्य- मुखप्रेक्षित्वं नाम । 'अहमेवं प्रकाशात्मा प्रकाशे' इति हि विमर्शोदये खसंविदेव प्रमा- तृप्रमेयप्रमाणादि चरितार्थम् अभिमन्यते न तु अतिरिक्त काङ्गति, स्फटिकादि हि गृहीत- प्रतिबिम्बमपि तथाभावेन सिद्धौ प्रमात्रन्त- २९२ २८८ ततश्च - संबन्धात् । २८९ अजडः-घट इति बोध्यम् । २९० गृहीतप्रतिबिम्बम् । २९१ अन सूत्रे अपि-शब्दोऽत्यन्तरक्षयं द्योतयति इत्याह अहमेव- मिति, यस्मादेवं तस्माद्बोधस्य इयमेव बोधरूपता यदसौ घटादिवत्प्र- काशे 'नान्यापेक्षः प्रकाशते' अनन्यापेक्षता च एषैव यत्स्वात्मीयविमर्शोऽह- मिति भोक्तृतामयेऽविच्छिन्ने भुजानतात्मनि चमत्कारे रूढिः, नीलं हि तथा-प्रकाशात् , सोऽपि तथा ज्ञानोदयात् , सोऽपि अहमेवं-प्रकाश इति पार्यन्तिकादनन्याकाङ्क्षात् विमर्शात् ततः परमाकाङ्क्षाविरहात् । २९२ अतिरिक्तं-भिन्नं प्रमातारम् । २९३ तथा भावेन - गृहीतप्रतिबिम्बत्वेन । .
१२का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। रम् अपेक्षते, इति निर्विमर्शत्वात् जडम् । सर्व तु वस्तुतो विमर्शात्मकप्रमातृखभावतादा- त्म्याहंपरामर्शविश्रान्तेः अजडमेव पूर्वापर- कोट्योः । यदुक्तम् 'इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता । या स्वखरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ॥' इति । मध्यावस्थैव तु इदन्ताविमृश्यमानपू- वापरकोटिः, विमूढानां मायापदं संसारः, इति विमर्श एव प्रधानं भगवत इति स्थि- तम्॥११॥ न केवलं संवित्तत्त्वस्य अस्माभिः एव विम- " २९४ तथा चानपूर्वावस्था,- सर्वविकल्पादिज्ञानानामग्रत उत्पित्सा. वस्था, तस्यां हि ज्ञानज्ञेयानाबिलज्ञातृस्वरूपसंस्पर्शोऽवश्यंभावी, तथा अपरकोटिः,-मया एतत् ज्ञातम् इति प्रमाणफलभूतज्ञानान्तरोदये तदा हि ज्ञानमात्रे निवृतिमतिविश्रान्तिः । तथा अन्यथापि पूर्वापरकोटिनिभा- लनं सूत्रकारेणोक्तं यथा सर्वज्ञानानामारम्भे तथा फले परिसमाप्तौ तत्रैव विश्रान्त्या, तद्विश्रान्ति विना अर्थों ज्ञात एव न भवति समग्रत्वमनेक- प्रकारत्वेन ज्ञानानां मध्यदशायामेव प्रत्यगात्मत्वेन, पूर्वापरकोव्योस्तु एकत्रिशुद्धशिवतैव सर्वेषामिति । तदेतत् श्रीसोमानन्दप्रभुपादैरप्युक्तम् । 'न परं तदवस्थायां व्यवस्थैषा व्यवस्थिता। यावत्समग्रज्ञानाप्रज्ञातुस्पर्शदशास्वपि ॥ स्थितैव लक्ष्यते सा च तद्विश्रान्त्या तथा फले ॥' इति ।
२०० ईश्वरप्रत्यभिज्ञा । [१अ०५आ० शप्राधान्यम् उक्तम् यावत् आगमोन्तरैरपि इति दर्शयति आत्मात एव चैतन्यं चिक्रिया चितिकर्तृता। तात्पर्येणोदितस्तेन जडात्स हि विलक्षणः ॥१२॥ यतो विमर्श एव प्रधानम् आत्मनो रूपम् अमुमेव हेतुं प्रयोजनरूपम् उद्दिश्य आत्मा धर्मिस्वभावो द्रव्यभूतोऽपि, चैतन्यम् इति धर्मिवाचिना शब्देन सामानाधिकरण्यम् आश्रित्य उदितः कथितः, भगवता शिवसूत्रेषु 'चैतन्यमात्मा' १-१ इति पठितम्, चैतन्यम् इति हि धर्मवाच- कोपलक्षणम्, 'चितिशक्तिरपरिणामिनी' '... तदृशेः कैवल्यम् । (यो० सू०२-२५) 'द्रष्टा दृशिमात्रः (यो० ० सू०२-२०) २९५ स्वकपोलकल्पितत्वमत्र निरस्थति उक्तमित्यनेन । २९६ आगमान्तरैः-पातालन्यायादिभिः । २९७ अत्रायं भावः- आत्मद्रव्यस्य भावात्मकमप्येतत् जडानेदकतया विमर्शाख्यं मुख्य रूपमुक्तं चैतन्यं, चितिशक्ति शिरिति सा चेतनक्रिया चितिकर्तृतैवेति ।
१२का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २०१ इत्यादौ अपि हि धर्मशब्देन सामानाधिकर- ण्यम् आत्मनो दर्शितं गुरुणा अनन्तेन । द्रव्यं हि तत् उच्यते- यद्विश्रान्तः पदार्थवर्गः सर्वो भाति च अर्थ्यते च अर्थक्रियायै, तत् यदि न कु- प्यते तत् सकलोऽयं तत्वभूतभावभुवनसंभारः संविदि विश्रान्तः तथा भवेति इति । स ऐवं गुणकर्मादिधर्माश्रयभूतपदार्थान्तरस्वभावः ती- मेव मुख्यद्रव्यरूपाम् आश्रयते इति सैव द्रव्यम्, तत् अनन्तधर्मराशिविश्रमभित्तिभू- तायाः तस्योः स एव धर्मः चैतन्यम् इति कर्तृकृदन्तात् उत्पन्नेन भावप्रत्ययेन संबंन्धा- भिधायिनापि प्राधान्येन दर्शितः, तथाहि संबन्धस्य संबन्धिविश्रान्तस्य प्रतीतेः, द्रव्य- २९८ गुरुणा-पतञ्जलिना। २९९ तत्त्वादित्वेन । ३०० स:-तत्त्वादिः। ३०१ गुणानामाश्रयो द्रव्यम् । ३०२ तां-संविदम्। ३०३ सैव-संचित् । ३०४ तस्याः-संविदः । ३०५ भावप्रत्ययेन-व्यना। ३०६ कृत्तद्धितसमासेषु संबन्धाभिधानमित्युक्त्या । ३०७ चिरिक्रया चेतनस्येति । २६ २०२ ईश्वरप्रत्यभिज्ञा । [१अ०५आ० रूपस्य च संबन्धिनः प्रकृत्या उक्तत्वात् चि- तिक्रियारूपं धर्म संबद्धम् अवगमयता ष्यत्रा निष्लष्ट एव अंशः प्रत्यायितो भवति। चि- तिक्रिया च चितौ कर्तृता, स्वातध्यं संयोज- नवियोजनानुसंधानादिरूपम् आत्ममात्रताया- मेव जैडवत् अविश्रान्तत्वम् अपरिच्छिन्नप्रका- शसारत्वम् अनन्यमुखप्रेक्षित्वम् इति, तदेव अनात्मरूपात् जडात् संयोजनवियोजनादि- खातव्यविकलात् वैलक्षण्यादायि इति, तदेव परत्वेन प्रधानतया अभिसंधाय, आरमा चेतन इति वक्तव्ये धर्मान्तराधरीकरणाय विमर्शधर्मोद्धरीकरणाय च 'आत्मा चैतन्यम्' ३०८ संबन्धिनः-द्रव्यरूपस्य चेतनस्य । ३०९ निष्कृष्ट एव-भिन्न एव । ३१० आत्ममात्रतायां-चिताचेव । ३११ यथा जडः स्वात्ममाननिष्ठः संयोजनावियोजनादिस्वातन्त्र्यर- हितः नवमात्मा इत्यर्थः। ३१२ तात्पर्येण इति व्याचष्टे । ३१३ तात्पर्येण इति व्याचष्टे । ३१४ धर्मान्तरं-नित्यत्वादि । ३१५ विमर्शधर्म एवाधरधर्मान्तर्भावात् । यथोक्तम् 'तेन स्वातन्यशक्त्यैव युक्त इत्याञ्जसो विधिः । बहुशक्तित्वमप्यस्य तच्छत्त्येवावियुक्तता ॥' इति।
२०३ , १३का०] श्रीमदभिनवगुप्ताचार्यकृतविमशिन्युपेता। इत्युक्तम् । चिक्रिया चितिकर्तृता तात्पर्येण इति समासः अर्धयुक् पादविश्रान्तिः इति हि काव्ये समयः, न शास्त्रे । यदि वा चित् क्रिया आत्मा उदितः, चितिकर्तृता च, इति पृथगेव । एवं तु न कचित् पठितम् ॥ १२ ॥ ननु यथा प्रकाशोऽप्रकाशश्च इति उभय- मपि स्वात्मनि, ततश्च प्रकाश इति उक्ते जडात् न वैलक्षण्यम् उदितं स्यात्, तद्वत् विमर्शोऽपि अविमर्शोऽपि च खात्मनि, इति तेनापि कथं वैलक्षण्यं जडाजडयोः इत्याश- ३२१ चितिः प्रत्यवमर्शात्मा परा वाक्स्वरसोदिता। ३१६ ऐकपद्यमत्र बोध्यम् । ३१७ अन्न भावे इक् प्रत्ययः कृषिरित्यादिवत् । ३१८ चित्क्रिया आत्मा इति न कुत्रापि पठितम् । ३१९ ततश्च - स्वात्मस्थितत्वात् । ३२० तेनापि - खात्मस्थितविमर्शनापि । ३२१ तदेवमियता यदि हि स्वातच्यरूपमस्य रूपं न भवेत्तत्प्रकाशः स्वात्मनि प्रकाशः, घटोऽपि स्वात्मनि घट इत्युपपादितम्, तत्र यथा द्वयमपि एतत्स्वात्मनि, तथा तत्परामर्शोऽपि स्वात्मनि, केयं स्वातच्या रूपेण विमर्शेन परस्परमुभयोरपि चाजडचेतनभावविलक्षणो विमर्श इति सूत्रं चितिरिति ।
२०४ ईश्वरप्रत्यभिज्ञा। [१अ०५आ० स्वातन्त्र्यमेतन्मुख्यं त- दैश्वर्य परमात्मनः ॥ १३॥ चेतयति इत्यत्र या चितिः चितिक्रिया तस्याःप्रेत्यवमर्शः खात्मचमत्कारलक्षण आत्मा खभावः, तथाहि-घटेन खात्मनि न चमक्रि- यते खात्मा न परामृश्यते न स्वात्मनि तेन प्रकाश्यते न अपरिच्छिन्नतया भास्यते ततो न चेत्यत इति उच्यते । चैत्रेण तु खात्मनि अहमिति संरम्भोद्योगोल्लासविभूतियोगात् चमक्रियते, खात्मा परामृश्यते खात्मन्येव प्रकाश्यते इमिति यः परिच्छेद एतावद्रू- पतया तद्विलक्षणीभावेन नील-पीत-सुख- दुःख-तच्छून्यताद्यसंख्यावभासयोगेन आभा- स्यते, ततः चैत्रेण चेत्यते इति उच्यते । एवं च विमर्शः स्वात्मनि अविमर्शोऽपि स्वात्मनि ३२२ अन्नेदं तात्पर्यम्-अभिन्नवाच्या आद्या वागेषा नित्यचित्स्वरूप- स्वेनानायन्ता परतत्रभावान्तरानपेक्षं शुद्धमेतत्स्वातन्यमैश्वर्यसंज्ञमिति । ३२३ जानातिक्रियावत् । ३२४ प्रत्यवमर्श:-स्मात्मा। ३२५ तद्विलक्षणीभावेन -अन्तःकृतविश्वत्वात्। ३२६ एवं च-इदन्ताभासविमर्शे ।
, १३का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । २०५ इत्यसिद्धमेतत् । विमर्शो हि सर्वसहः परमपि आत्मीकरोति, आत्मानं च परीकरोति, उभ- ये एकीकरोति, एकीकृतं द्वयमपि न्यग्भा- वयति इत्येवं-स्वभावः। प्रत्यवमर्शश्च अन्तरभि- लापात्मकशब्दनखभावः, तच्च शब्दनं संकेत- निरपेक्षमेव अविच्छिन्नचमत्कारात्मकम् अन्त- मुखशिरोनिर्देशप्रख्यमें अकारादिमायीयसांके- तिकशब्दजीवितभूतं, नीलम् इदं, चैत्रोऽहम् इत्यादिप्रत्यवमर्शान्तरभित्तिभूतत्वात्, पूर्ण- त्वात् पेरी, वक्ति विश्वम् अपलपति प्रत्यवम- शेन इति च वाक्, अत एव सा खरसेन ३२७ परम्-इदन्तापदम् । ३२८ देहादिरूपतया, यदा हि परात्मीकरणं तदा अवश्यमेवात्मनः परीकरणम् । ३२९ अहमिदमिति सदाशिवभूमौ । ३३० बोधाख्यायां शून्यावस्थायाम् । ३३१ अत्र अक्षरनिर्णयः कैश्चिदुक्तो दयते - चमतो भुजानस्य करणं संरम्भः, अहमसौ नीलादेर्भोक्ता इति चमत्कारः । यद्वा- अनुपचरितस्य संवेदनरूपतानान्तरीयकत्वेनावस्थितस्य स्वतन्त्र- स्यैव रसनैकघनतया परामर्शः परमानन्दो निर्वृतिश्चमत्कार उच्यते । ३३२ यथा कश्चित् स्वकृतं शिरःकम्पेन निर्दिशति । ३३३ पृ-पालनपूरणयोः इति धातोयुत्पन्नोऽयं शब्दः । ३३४ अहमिति यन्नित्यं चित्स्वरूपं तद्देशकालाकारकृताभ्यामाद्य. न्ताभ्यां शून्यं, नित्योदितं तदेव परमित्युच्यते ।
ईश्वरप्रत्यभिज्ञा। [१अ०५आ० चिद्रूपतया स्वात्मविश्रान्तिवपुषा उदिता सत- तम् अनस्तमिता नित्या अहमित्येव, एतदेव परमात्मनो मुख्य खातत्र्यम् ऐश्वर्यम् ईशि- तृत्वम् अनन्यापेक्षित्वम् उच्यते । परापरं तु इदंभावरूपस्य प्रत्यवमर्शस्य अख्यातिप्राण- . ३३५ अनस्तमिता - सदोदिता। ३३६ अहमित्येवेति, अनाहुरेके पश्यन्तीदशैव मुख्या आनन्दरूपा न परा, तस्याः परत्वादेव, तदेव एवकारेण दलयति, यथोक्तं सोमान- न्दपादैः। 'विमर्शानुभवेनैषा यथा वाक्प्रथमं श्रिता।' इत्युपक्रम्य 'इति चेञ्चर्यतां तावत्पश्यन्ती युज्यते यथा।' इत्यादि। 'यो हि पश्यति पश्यन्तीं स देवः परमः शिवः।' इत्यादिना शब्दनरूपत्वं भगवत उक्तम् । तत एव तत्रभवता भहना- रायणेनाप्युक्तम् 'सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया । जयत्युल्लासितानन्दमहिमा परमेश्वरः ॥' इति । अन्न हि यया परममहापश्यन्या आनन्दमहिमा परस्वातन्त्र्यात्मा उल्लासनीयः सा भगवतः परा वागिति दर्शितम् । परस्परप्रेमदर्शनं रते- रानन्दात्मिकाया उल्लासनं करोति इति लौकिकनिदर्शनेनानन्द एव स्फुटीकृत इति । ३३७ यदाह मुनिः 'सर्व परवशं दुःखं सर्वमात्मवशं सुखम् ।' इति । ३३८ आख्यातिप्राणस्य-स्वरूपापोहनजीवितस्य ।
१४का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २०७ स्य-उद्दोधमात्रेऽपि अहंभाव एव विश्रान्तेः श्रीसदाशिवादिभूमौ पश्यन्तीदशायाम् । अ- परं तु इदंभावस्यैव निरूढौ मायागर्भाधि- कतानामेव विष्णुविरिश्चन्द्रादीनाम्, तत्तु एषां परमेश्वरप्रसादेजमेव इति । अन्यनि- रपेक्षतैव परमार्थत आनन्दः, ऐश्वर्य, खातव्यं, चैतन्यं च । तस्मात् युक्तमुक्तम् ........"तेन जडात्स हि विलक्षणः।' इति ॥ १३ ॥ प्रधानीगमेष्वपि ऐतत् प्रदर्शितमेव इति निरूपयति सौ स्फुरत्ता महासत्ता देशकालाविशेषिणी। ३३९ मष्टव्ये स्थातव्ये संहर्तव्ये च व्यतिरिक्त अधिष्ठातारो मायाग- भौधिकारिणो ब्रह्माद्याः । इन्द्रग्रहणेनान तदिच्छानुवर्तिनः सर्वे लोक- पाला उपलक्षिता मन्तव्याः । ३४० मायागर्भाधिकारित्वात् न एषां स्वसामर्थ्य किंचित् इति योतितम् । ३४१ रहस्यागमेषु, परमेश्वरभाषितेषु वेदान्तादौ मुनिप्रोक्तेषु सिद्धा- न्तमोक्तेषु गुरुनिरूपितेषु च शास्त्रेषु यदस्या रूपं नामधेय निर्वचनवै- चित्र्यभिन्नं तदेव सूत्रेण ध्वन्यते सामानाधिकरण्यार्थम् । ३४२ एतत्-प्रकाशस्य विमर्शप्राधान्यम् । ३४३ तन किंबहुना यावत्तत्र-भवता शंकरानन्देनापि-साक्षादेव २०८ ईश्वरप्रत्यभिज्ञा । [१अ०५आ० सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ॥ १४॥ इह घटः कस्मात् अस्ति, खपुष्पं च कस्मात् नास्ति, इति उक्ते वक्तारो भवन्ति, घटो हि स्फुरति मम, न तु इतरत् इति, तत् एतत् घटत्वमेव यदि स्फुरत्त्वं स्फुरणसंबन्धः, तत् सर्वस्य स्फुरेत् न कस्यचिद्वा, तस्मात् मम स्फुरति इति कोऽर्थः, मदीयं स्फुरणं स्पन्द- नम् आविष्ट इति । स्पन्दनं च किश्चित् चल- नम्, एषैव च किञ्चिद्रूपता - यत् अचलमपि चलम् आभासते इति, प्रकाशैखरूपं हि स्फुरत्ता साक्षात्कारः स्वतःसिद्धतमा स्फुरद्रूपता अस्य हि इति वदता निरूपिता । अन्नायं भावः-स्फुरत्ता स्फुरणकर्तृता अभावाप्रतियोगिनी, अभावव्यापिनी सत्ता, सत्ता भवनकर्तृता नित्या देशकालास्पर्शात्मैव प्रत्यवमात्मा चितिक्रिया शक्तिः, सा विश्वात्मनः परमेश्वरस्य स्वात्म- प्रतिष्ठारूपा हृदयम् इति तत्र तत्रागमे निगद्यते इति । ३४४ इतरत्-खपुष्पम् । ३४५ सर्वसर्वज्ञताप्रसङ्गः, सर्वाज्ञताप्रसङ्गो वा इति ज्ञेयम् । ३४६ स्पदि-किंचिञ्चलने इति धात्वनुसारात् । ३४७ किंचिञ्चलनं च यदि स्वरूपाद्वस्त्वन्तराक्रमणं तञ्च चलनमेव न किंचिव, नो चेञ्चलनं तर्हि न किंचित्तस्मात्स्वरूप एव क्रमादिपरिहारेण । ३४८ प्रकाशस्वरूपं हि इति-मम स्फुरति घट इति अहमंशलना स्फुरत्ता संक्रम्यते भावे घटः स्फुरति इति कोऽर्थः अहं तावत् प्रका- शात्मा घटरूपेण स्फुरामि इति तदेतदुक्तं मनागिति ।
............
१४का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २०९
मनागपि नातिरिच्यते, अतिरिच्यते इव इति
अचलमेव आभासभेदयुक्तमेव च भाति
इति । तत उक्तम्
'आत्मैव सर्वभावेषु स्फुरनिवृतचिद्वपुः ।
अनिरुद्धेच्छाप्रसरः प्रसरइक्कियः शिवः॥'
इति । तथा
'अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् ।
धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः। (स्प०२२)
इति ।
'स्पन्दतत्त्वविविक्तये। (स्प० २१)
इति ।
'गुणादिस्पन्दनिःप्यन्दा ।'(स्प०१९)
इति च । लोकेऽपि विविधवैचित्र्ययोगेऽपि
खरूपात् अचलन् जनो गम्भीरः स्पन्दवान्
इति उच्यते । सत्ता च भवनकर्तृता सर्वक्रि-
३४९ अतिरिच्यते इत्यत्र, स्वत इति शेषः ।
३५० सर्वभावेषु स्वात्मैव शिव इति संबन्धः ।
३५१ स्फुरनिति हेत्वर्थकः, निर्वृता-वेधनिराकाङ्क्षा पूर्णा चित् तया
विभुः-आत्मसास्कृतसमस्तवेद्यार्थ इत्यर्थः ।
३५२ एतेषु प्रतिष्ठितस्पन्दोपलब्धिरित्यर्थः ।
३५३ यथोपरचितं श्रीमहेश्वरानन्देन ।
'सन्नेव हृदयप्रकाशो भवनक्रियाया भवति कर्ता ।
सैव क्रियाविमर्शः स्वस्था क्षुभिता च विश्वविस्तारः ॥'
इति
..
..
२७
३१० ईश्वरप्रत्यभिज्ञा। [१अ०५० यासु खातत्र्यम् । सा च खपुष्पादिकमपि व्याप्नोति इति महती, देशकालौ नीलादि- वत् सैव सृजति इति ताभ्यां विशेषणीया भवति, यत् किल येन तुल्यकक्ष्यतया भाति तत् तस्य विशेषणं- कटक इव चैत्रस्य । न च देशकालौ विमर्शेन तुल्यकक्ष्यौ भातः- तयोः इदन्तया तस्य व अहन्तया प्रकाशे तुल्यकक्ष्यत्वानुपपत्तेः । एवं देशकालास्पर्शात् विभुत्वं नित्यत्वं च-सकलदेशकालस्पर्शोऽपि ३५४ देशकालावित्यत्रायं भावः -- यत् खण्डितप्रथाकं तदेव कचित्क- दाचिच्च भवद्देशकालाभ्यां कारणभूताभ्यामाविश्येत इति कृतकस्यैव तौ विशेषणं नाकृतकस्य संवेदनस्य प्रमेयकक्ष्यापतितस्यैव च प्रमातृसंयो- ज्यमानाभासान्तराभिधानधर्मयोजनसहिष्णोस्ती विशेषणं न प्रमेयतो- त्तीर्णस्य प्रमात्रेकरूपस्य संवेदनस्य इति । ३५५ यो हि येन जीवति स तस्य व्यवच्छेदकः स्यात् । ३५६ कटकवान् चैत्र इत्यत्र। ३५७ ननु च अत्यल्पेयं वाचोयुक्तिः - यद्देशकालास्पद्विभुत्वम् अर्थात्तस्य परिमितत्वमशङ्कितमनेनायाति इत्याशङ्का गर्भीकृत्याह सक- लेत्यादि, अयं पुनरत्राशयः -- सर्वथा यथा यथा अस्याः प्रमेयन्यकार: स्यात् तथा तथा यतनीयम् तत्स्वरूपस्त्रातध्यशालिनाम् तच देशकाल. विशेषणतापरिहारेण अस्याः सिध्यति पुनस्तसिद्धौ सत्यां देशकालाव- च्छेदोऽपि तदनन्य एव इति पूर्णव्यापकत्वम् , अत एव यदन्न तत्रभवता व्यापकत्वमस्योक्तं दिकालाधनवच्छिन्नेत्यादि तत्सोमानन्दपादैनिर्दलितम् "दिक्कालादिलक्षणेन व्यापकत्वं विहन्यते । अवश्यं व्यापको यो हि सर्वदिक्षु स वर्तते ॥' इति शिवदृष्टौ।
१४का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २११ तन्निर्माणयोगात् इति, ततोऽपि व्यापकत्वनि- त्यत्वे । तदुक्तम् 'महासत्ता महादेवी विश्वजीवनमुच्यते । इति। सारम् इति यत् अतुच्छं रूपं तत् इयमेव विमर्शशक्तिः, ग्राह्यग्राहकाणां यत् प्रकाशात्मकं रूपं तस्यापि अप्रकाशवलक्ष- ण्याक्षेपिका इयमेव इति, श्रीसारशास्त्रेऽपि निरूपितम् 'यत्सारमस्य जगतः सा शक्तिर्मालिनी परा।' इति । सैषां, इति शक्तिप्रत्यभिज्ञानं दर्शि- तम् । हृदयं च नाम प्रतिष्ठास्थानमुच्यते, तच उक्तनीत्या जडानां चेतनं, तस्यापि प्रका- शात्मत्वं, तस्यापि विमर्शशक्तिः इति विश्वस्य ३५८ जडचेतनयुगलकमेव यद्विश्वं तस्वयं सारभूतेति । ३५९ यदुक्तमनेनैव तन्नसारे 'अन्तर्विभाति सकलं जगदात्मनीह यद्वद्विचित्ररचना मकुरान्तराले । बोधः परं निजविमर्शनसारयुक्त्या विश्वं परामृशति नो मकुरस्तथा तु ॥' इति । ३६० सैषा इति-तदेतच्छब्दौ हि परोक्षप्रत्यक्षवाचकौ प्रत्यभिज्ञान- मेव सूचयतः। ३६१ 'तथाहि जडभूतानाम्' इति पूर्वोक्तया ।
...... । २१२ ईश्वरप्रत्यभिज्ञा । [१अ०५आ० परमे पदे तिष्ठतो विश्रान्तस्य इदमेव हृदयं विमर्शरूपं परमन्त्रात्मकं तत्र तत्र अभिधी- यते । सर्वस्य हि मन्त्र एव हृदयम्, मनश्च विमर्शनात्मा, विमर्शनं च परावाक्छक्तिम- यम् । तत एवोक्तम् 'न तैर्विनों भवेच्छब्दो नार्थो नापि चितेर्गतिः।' इति। 'तत्र तावत्समापन्ना मातृभावम्' इत्यादि च, इत्यागमेषु । तत्रभवद्भर्तृहरिणापि 'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन गम्यते ॥ वाग्रूपता चेदुत्कामेदवबोधस्य शाश्वती। न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥' इति । 'सैषा संसारिणां संज्ञा बहिरन्तश्च वर्तते । यदुत्क्रान्तौ विसंज्ञोऽयं दृश्यते काष्ठकुड्यवत् ।।' १६२ यथोक्तं श्रीभगवता गीतासु । 'ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥' इति । अनेन हि सद्रूपस्य ब्रह्मणः परमानन्दस्य विश्रान्तिस्थानम् अह- मिति विमर्शात्मकमुक्तम् । ३६३ तैरिति-मन्त्रैः। ३६४ विसंज्ञः- चेतनारहितः । ६४ ।
१६का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २१३ इत्यादि च । तत् एतेन विदुः इत्येतत् निर्वा- हितम् । बौद्धैरपि अध्यवसायापेक्ष प्रकाशस्य प्रामाण्यं वदद्भिः उपगतप्राय एव अयम् अर्थः- अभिलापात्मकत्वात् अध्यवसायस्य इति ॥१४॥ ननु असंख्यशक्तिश्रेणीशोभितवपुषि परम- शिवे विमर्शशक्तिरेव इयम् इत्थंकारम् अभि- षिच्यते कस्मात् ?, इत्याशङ्कयाह आत्मानमत एवायं ज्ञेयीकुर्यात्पृथक्स्थिति। ज्ञेयं न तु तदौन्मुख्या- त्खण्ड्येतास्य स्वतन्त्रता॥१५॥ स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादयात्मनः। प्रभुरीशादिसंकल्पै- निर्माय व्यवहारयेत् ॥१६॥ ३६५ 'स्वभावमवभासस्य विमर्श विदुः' इत्येतदेव सिद्धान्तितम् । ३६६ अध्यवसायविश्रान्तिरेव प्रकाशस्याङ्गीकृता इति विमर्शशरीर एव प्रकाशो युक्तः। ६७ अत्र श्लोकद्वये इदं तात्पर्यम्-एतादृगशुद्धस्त्रातच्यवशात् नैष ईश्वरप्रत्यभिज्ञा । [१अ०५आ० सर्वाः शक्तीः कर्तृत्वशक्तिः ऐश्वर्यात्मा समाक्षिपति । सा च विमर्शरूपा इति युक्तम् अस्या एव प्राधान्यम् इति तात्पर्येण उ- त्तरमुक्तम् । शब्दार्थस्तु अयं-प्रकाशात्मा परमेश्वरः खात्मानं ज्ञात्रेकरूपत्वात् अज्ञेय- मपि ज्ञेयीकरोति इति यत् संभाव्यते - कार- णान्तरस्य अनुपपत्तेः दर्शितत्वात् दृढेन संभा- वनानुमानेन, तत एव विमर्शशक्तिलक्षणात् कर्तृत्वात् हेतोः भवति, यतो हि अयम् आत्मानं परामृशति ततो विश्वनिर्भरत्वात् तथा नीलादित्वेन चकास्ति । ननु एषैव कुतः संभावना आत्मानं ज्ञेयीकरोति ?, इति आह पृथक् प्रकाशात् बहिर्भूता स्थितिः यस्य ता- हक् ज्ञेयं नैव भवति । तुः अवधारणे । तत्र तदा पृथगेव लब्धप्रतिष्ठं वस्तु अवैति अपि तु अज्ञेयमात्मानमनिय. त्रितप्रभावतया ज्ञेयीकरोति, भिन्नज्ञेयसापेक्षत्वे ज्ञानकर्तृता म्लायेत् । अत एव वेचैकीभावलक्षणपूर्णतामयात्स्वातन्त्र्यात्तदानीतनमेव वेदक- मात्मानमीश्वरः शिवो वेदिता इत्येवमादि विकल्पैराभासयति भावना- दिव्यवहारार्थम् इति । ३६८ संभाव्यते-संभावनया व्यवस्थाप्यते । ३६९ अनुमानेन-स्यादेतदित्यादिना।
१६का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । २१५ च उक्ता युक्तयः। अभ्युच्चैययुक्तिमपि आह- यदि व्यतिरिक्तं ज्ञेयं स्यात् तत् ज्ञातृरूपस्य आत्मनो यत् एतत् ज्ञेयविषयम् औन्मुख्यं स्वसंवेदनसिद्धं दृश्यते तत् न अस्य स्यात् , तेन व्यतिरिक्तविषयौन्मुख्यन अन्याधीनत्वं नाम पारतत्र्यम् अस्य आनीयते। पारतत्र्यं च स्वातव्यस्य विरुद्धम् । खातध्यमेव च अ- नन्यमुखप्रेक्षित्वलक्षणम् आत्मनः खरूपम् , इति व्यतिरिक्तोन्मुख आत्मा अनात्मैव स्यात् । अनात्मा च जडो ज्ञेयं प्रति न उन्मु- खीभवति इति प्रसङ्गः । ततः प्रसङ्गविपर्ययात् इदमौयातम् – अव्यतिरिक्तोन्मुखः खतन्त्रः सन् आत्मानमेव ज्ञेयीकरोति इति । न च केवलं नीलादिरूपमेव ज्ञेयं, यावत् अत्यक्त- कर्तृवभावं स्वातध्येण अपरित्यक्तमेव सन्तम् आत्मानं निर्माय व्यवहारेण ध्यानोपास- ३७० अभ्युच्चययुक्तिम्-अधिकां युक्तिम् । ३७१ तत्-औन्मुख्यम् । ३७२ अनभिमताप्तिः । ३७३ अर्थादेव। ३७४ द्वितीयं श्लोकं व्याचष्टे न चेत्यादिना ।
२१६ ईश्वरप्रत्यभिज्ञा । [१अ०५आ० नार्चनोपदेशादिना योजयति इति यत् संभा- व्यते तदपि अत एव इति संबन्धः । ननु खातव्ययुक्तं च निर्मीयते च इति विरुद्धम् इदम् ?, तत्राह-अद्वयात्मनः संविदेकरूपस्य खातयात् हेतोः इदं न न युज्यते, यत् किल मायापदे अतिदुर्घटं प्रतिभाति, तत्संपादने यत् अप्रतिहतं खातव्यं तदेव पुनः खातय- शब्देन दर्शितम् । अत एव इत्यनेन तु वि- मर्शशक्तिरूपम् इति अपुनरुक्तम् । अथ वा अत एव स्वातत्र्यात् इति सामानाधिकरण्येन श्लोकद्वयेन संबन्धनीयम् । उदाहरणम् अत्र अर्थे दर्शयति-नीलादिनिर्माणवत् अस्य स्वत- वरूपनिर्माणस्य अप्रसिद्धत्वात् ईश्वरो-भग- ३७५ यथोक्तं सूत्रकारेणैवान्यत्र 'अतिदुर्घटकारित्वमस्यानुत्तरमेव यत् । एतदेव स्वतन्त्रत्वमैश्वर्य बोधरूपता॥' इति । ३७६ दर्शितम् । ३७७ अथ चेति- अन्न पक्षे शिवादिसृष्टिरेव प्राधान्येनाभिधेयस्या- र्थस्याप्रसिद्धत्वात् तत्र तु पूर्वश्लोकोक्तं नीलादिनिर्माणं दृष्टान्तः, दृष्टान्त- तायोजनयैव न च केवलमित्यादि योजनीयम् । ३७८ उदाहरणम्-ईशादिसंकल्पैरित्यादि।
१६का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २१७ वान्-आत्मा-नित्यो-विभुः- खतन्त्रः इत्येवमादौ हि प्रमातुः, पूजयितुः, ध्यातुः वा पृथग्भूतं तत् प्रमेयं, पूज्यं, ध्येयं च भाति इति तत् तावत् निर्मितम्, न च अनीश्वररूपम् । एवं हि ईश्वर इति, अनीश्वर इति संकल्प- ध्यानादेः तुल्यत्वं स्यात्, न च एवम् - फल- भेदस्य उपलब्धेः इति, तस्मात् खातयशू- भ्यताभासनेन खातत्र्ययुक्तताभासनेन च यत् इदम् उभयं ज्ञेयम् आत्मरूपमेव परमे- श्वरो भासयति तत् विमर्शशक्तिबलात् एव, इति सैव प्रधानम् इति ॥ १५॥ १६ ॥ ननु प्रकाशबलात् भावव्यवस्था, सच प्रकाशो विमर्शसार इति विमर्शाभेदे तदेव ३७९ यद्येवं न स्यात् तर्हि अखण्डितस्वातन्त्र्यस्य ईश्वर इत्यनीश्वर इति भावनादेरविशेषः स्यात्, एष च ईश्वरो मया पूज्यते ध्यायते उपदि- श्यते इत्यादौ निर्मितः तावदसौ पृथक्प्रमातुरवभासात्, न च अत्यन्तमेव पृथक्त्वात्मन्येव तथावभासादिति । ३८० शून्यता-नीलादौ। ३८१ युक्तता-ईशादी। ३८२ तदिति-भासनम् । ३८३. तदेव तदिति-प्रथा हि श्रीमस्सोमानन्दपादेविवृतम् ।
२१८ [१अ०५आ० ईश्वरप्रत्यभिज्ञा । तत् इति वक्तुं युक्तम् , ईश्वर आत्मा इत्यादि- संकल्पेषु च निर्मितस्य इदन्तया परामर्शः, खातयं तु अहंपरामर्शरूपम् , इति निर्मितस्य तद्रूपत्वाभावे कथं स्वातत्र्यामुक्तत्वम् इति ?, तत् एतत् परिहर्तुमाह नाहन्तादिपरामर्श- भेदादस्यान्यतात्मनः। अहंमृश्यतयैवास्य सृष्टेस्तिवाच्यकर्मवेत् ॥१७॥ गच्छतो निस्तरङ्गस्य जलस्यातितरङ्गिताम् । आरम्भे दृष्टिमापात्य तदौन्मुख्यं हि गम्यते ॥' इति । तथा 'बोधस्य स्वात्मनिष्टस्य रचनां प्रति निर्वृतिः। तदास्थाप्रविकासो यस्तदौन्मुख्यं प्रचक्षते ॥' इति । तथा लोकव्यवहारोऽपि । गोस्तनात्पाततः क्षीरे विकासस्तत एव हि । न च न क्षीरमित्येष व्यपदेशोऽस्ति तत्क्षणम् ॥' इति । अत्र च निर्मितस्य इदमिति रूपत्वान्निर्मातुश्च अहमिति रूपत्वात् नैताको व्यवहार इति कथमभेदहेतुः 'स्वातन्त्रयामुक्तम्' इत्यतः सूत्रम् । ३८४ तद्रूपत्वाभावे - अहंपरामर्शरूपत्वाभावे । ३८५ अस्येदं तात्पर्यम् -- वर्तमानप्रमातृभावेन आहितप्रत्यवमृश्यस्य प्रमेयत्वेन, इदंता-विमर्शभेदे च आभासभेदे च प्रमातैव ईश्वरशब्देन सृष्टः अहंपरामर्शो व्यवधानेन केवलं, यथा क्रियादिशब्देन क्रियादय १७का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २१९ खरूपे भाँवप्रत्ययः, आदिग्रहणात् आ- मेश्वरादिपरामर्शः, तिग्रहणं प्रत्ययोपलक्ष- णम्, कर्मग्रहणं क्रियावाचिसदसत्त्वभूतश- क्तिरूपोपलक्षणम् । तत् अयम् अर्थः- अहम् इत्येवंरूपो यः परामों, यश्च ईश्वरः प्रमाता आत्मा शिव इत्यादिः अनन्तप्रकारः परामर्शः, तस्य यद्यपि भेदोऽन्यान्यरूपता, तथापि तद्भेदात् हेतोः अस्य आत्मनो नि- मातृरूपस्य अहंपरामर्शमयस्य निर्भयेरूपस्य च ईश्वरादिपरामर्शास्पदस्य यो भेदः शङ्कितः, स न युक्तः, यत ईश्वर इत्यपि यः परामर्शः, स ईशनशीले ज्ञातृत्वकर्तृत्वतत्त्वे विश्राम्यति, ज्ञातृत्वादि च ज्ञानादौ, खातभ्यम् अनन्यमुख- उच्यन्ते पचत्यादिवत् पचत्यादिमुखेन इत्यभिधानात् ईश्वरशब्दादात्म- शब्दात् अहमिति परामृशनात्मानमवैति न साक्षात्प्रतीतिस्तु अस्त्येव अनुभवमुखेनानुभूतस्येति । ३०६ अहमित्यव्ययम् अव्यतिरिक्त प्रकाशे वर्तते तस्य भावः अहमिति स्वरूपविमर्शलक्षणोऽहन्ता सैव प्रकाशस्य निजं लक्षणम् । ३८७ भावप्रत्ययः-तलूप्रत्यया। ३८८ तस्य-अनन्तपरामर्शस्य । ३८९ निर्मात्रपेक्षया।
२२० ईश्वरप्रत्यभिज्ञा। [१अ०५आ० प्रेक्षित्वम् अविच्छिन्नज्ञानादिशक्तियोगः, अ- विच्छेदश्च जानामि करोमि इति अस्मदर्थवि- श्रान्तिः इति । अस्य ईश्वरस्य आत्मनः सृष्टेः सृज्यमानस्य अहंविमर्शनीयत्वमेव । सृष्टेः इति वा हेतौ पञ्चमी । अस्य ईश्वरस्य यतः ईश्वरादिसंकल्पेषु अपि अहंपरामर्शनयोग्यस्यैव सृष्टिः । अहे कृत्यः। यथा क्रियाकारकसमुच्च- यविकल्पादिशक्तयो यथाखं तिङ् तृतीयादि च वादिप्रयोगावसेयपरामर्शपरमार्थाः पोकैः कर्ता समुच्चयो विकल्पः इत्यादिशब्दैः अभि- धीयमानाः सत्त्वभावम् आपादिता अपि, पैति चैत्रेण च वा इत्येवंभूते मूलपरामर्श ३९० अविच्छेद इति - संविद्विमर्शः परमार्थः प्रमेयरूपं परतन्त्रमर्थ नैवोल्लासयति अत एव एवंविधः शब्दः अव्ययमित्युच्यते, बहिःसृष्टस्य हि लिङ्गसंख्यादिशक्त्यन्तरयुक्तता स्यात् नान्तररूपस्य संविद्रूपस्य तद्धर्मस्य वा। अत एव समुच्चयविकल्पनादिकं बाह्यवस्तुनिष्ठत्वाभावात्संवेदनस्वात- ज्योहासनलक्षणं धर्ममभिद्योतयन्तः चादयोऽपि असत्वभूतार्थनिष्टा इत्युच्यन्ते, समुच्चय इत्यादौ तु तदेव रूपं सृष्टं भाति इति । ३९१ अहे कृत्यः मृश्यतया इत्पन्न । ३९२ यथास्त्रं-क्रमेण । ३९३ पाक:-सत्वभूतः । ३९४ पचति इति-अन हि धात्वर्थावगमाविशेषेऽपि क्रियान्तराका- झानाकाङ्क्षतैव मानं तथा च क्रियान्तराकाङ्क्षवासत्वरूपत्वं । तथा चोक्तं तत्रभवता पं० ३ ख० मु० अस्येश्वरात्मनः सृष्टेरिति पाठः । Steen १७का०]: श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २२१ विश्राम्यन्ति । अन्यथा तु ताः प्रतीता नैव भवेयुः। तद्वत् अत्रापि । एतदुक्तं भवति-परा- मर्शो नाम विश्रान्तिस्थानम् , तच्च पार्यन्तिक- मेव पारमार्थिकम् , तच्च अहमित्येवंरूपमेव । मध्यविश्रान्तिपदं तु यत् वृक्षमूलस्थानीयं ग्राम- गमने तदपेक्षया सृष्टत्वम् उच्यते,-इति को विरोधः। अनेन नीलादेः अपि, इदं नीलम् इति मध्यपरामर्शेऽपि मूलपरामर्श अहमित्येव विश्रान्तेः आत्ममयत्वम् उपपादितम् एव । नीलम् इदम् अहं वेद्मि इति, अहं प्रकाशे इति हि इयत्तत्त्वम् । यथोक्तम् 'इदमित्यस्य' 'असत्त्वभूतो भावश्च तिपदैरभिधीयते।' इति । क्रिया च स्फुटमवे असत्त्वभूता । उक्तं च तेनैव 'यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते ॥' इति । च-वादीनां च निपातत्वादत्यन्तमेव असत्वरूपत्वं तेनायमा- शय:- यथा एतेषां सत्त्वाभाव एव सृष्टे रूपे क्रियाकारकसमुच्चयविक- ल्पादिमये लिङ्गसंख्यादियोगादिकालादियोगः न शक्तिरूपतायां, तथा ईशादीनामपि सृष्ट एव रूपे भेदो नान्तारूपतायामित्यर्थः । ३९५ ता:-शक्तयः। ३९६ ननु एवं नीलमित्यपि परामर्श अहन्तैव मूलविश्रान्तिहेतुः तथा च सति नीलादिसृष्टेरपि कथं परिहतं वेदकत्वं येन सूत्रे आत्मा- दिसृष्टेरेव स्वातच्यामुक्तत्वमुक्तम् इत्याशङ्का गर्भीकृत्याह अनेन नीला- देरपि इति । ।
२२२ ईश्वरप्रत्यभिज्ञा। [१अ०५आ० इत्यादि । मूढस्तु नीलादिविमर्शात् एव अर्थ- क्रियादिपरितोषाभिमानी, इति नीलादेः खा- तव्यनिर्मुक्तत्वम् उक्तम् । आत्मादौ तु तन्मू- लपरामर्शविश्रान्तिमन्तरेण प्रतीतिपरिसमा- तिम् अर्थक्रियां च मूढोऽपि न अभिमन्यत इति तस्य निर्मितौ अपि अनुज्झितखातच्यम् उक्तम् ॥ १७॥ नैर्नु एवं विश्वपरामर्शानाम् अहम् इत्येव विशुद्धैकपरामर्शविश्रान्तिरेव तत्वम् तत् कथम् इदम् उच्यते-ज्ञानस्मृत्यादिका अस्य शक्तय इति, ज्ञानस्य च निर्णयसंशयभेदा नीला- दीनां च वैचित्र्यम् ? इति आशङ्कायां परि- हारमाह मायाशक्त्या विभोः सैवैः भिन्नसंवेद्यगोचरा। ३९७ अयं भावः - यदि विश्वमह मिति परामर्शमयमेव कुत्रैषां ज्ञान- स्मृत्यादीनामुपयोगः, यदि च आत्मनो ग्राहकरूपस्य ज्ञानाध्यवसायस्स- रणसंकल्पादिव्यवहारः तत्कस्य विमर्शशक्त्या उपयोगः,-परमेश्वरस्य इति चेत् तर्हि आत्मैव परमेश्वर इत्युक्तिः विरुद्धा आपतेत् इति अभि- प्रायः अस्या आशङ्कायाः। सैव-विमर्शशक्तिः।
१८का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । २२३ कथिता ज्ञानसंकल्पा- ध्यवसायादिनामभिः ॥१८॥ अनुपपन्नम् अवभासनं माया इति उ- च्यते, ततश्च भिन्न प्रकाशात् सर्वम् अवभा- सजातं माया, तत्र च चित्तत्त्वस्यैव स्वातंत्र्यं मायाशक्तिः, तया भिन्नं यत् संवेद्यं प्रमो- तुश्च अन्योन्यतश्च, मायाशक्त्या भिन्नेन प्रमातुः अन्योन्यतो वेद्याच्च करणवर्गेण यत् संवेद्यं स एव गोचरो-विश्रान्तिपदं यस्याः तादृशी सती सैव प्रत्यवमर्शात्मा चितिः परावायूपा, ज्ञानम् इति, संकल्प इति, अध्यवसाय इति च उच्यते,आदिग्रहणात् संशयः स्मृतिः इत्यादि। तथाहि-यत् इन्द्रियेण स्फुटग्राहिणा बाह्येन ३९९ इदमस्य सूत्रस्य तात्पर्यम् - प्रकाशात्मनः परमेश्वरस्य माया- शत्या स्वात्मरूपं विश्वं भेदेन आभास्यते ततः सैव चितिर्ज्ञानमध्यक्ष तस्यैव भिन्नस्य आभातस्य स्मृतिः संकल्पोऽध्यवसायो मनोबुद्धिवृत्तिरू- पत्वेनापि चितिरेवेति । ४०० अनेन मायायां स्वातन्त्र्यम्-इति विग्रहो दर्शितः । ४०१ प्रमातुरिति-विभुरेवात्मा परमेश्वरः स तु मायाशक्त्या संकोचा- ड्राहको यथा तथा विमर्शशक्तिरपि मायाशक्तिसंकोचितवेद्योपरागसंकु- चिता सती ज्ञानसरणादिरूपा इत्युच्यते परंतु नाममात्रेण विमर्शशक्त्य- तिरिक्तं न किमपि ज्ञानादि तत्वान्तरमिति तात्पर्यम् । ४०२ अनेनावृत्तिपक्षमाश्रिय मित्रसंवेधेति व्याख्यातमिति बोध्यम् ।
२२४ ईश्वरप्रत्यभिज्ञा। [१अ०५आ० विषयेण स्फुटेन च नियन्त्रितं संवित्तत्वं तत् ज्ञानम् । मनसा विषयेण च अस्फुटेन सं. कल्पः । बुद्ध्या विषयेण च विषयत्वपर्यन्त- भाजा अध्यवसायो निश्चयः । विषयस्य च यत् भिन्नत्वं बहिरन्तःकरणानां च तत्प्रकाशा- भेदात् अनुपपन्नं चित्तत्वेन आभास्यते, इति भेदे यतो विश्रान्तिः, न तु भेदस्य अभेदे ईश्वरसदाशिवादिवत् , ततो ज्ञानसंकल्पादयो भिन्नाः तस्य अध्वस्तखस्वभावाभेदस्य संवि- त्तत्त्वस्य अनुसंधातुः शक्तय इति उक्ताः, सं- शयादयश्च भिन्ना नीलादिवैचित्र्यं च इति सर्वम् अखण्डितम् ॥ १८ ॥ ननु प्रत्यवमर्शात्मत्वं चितिशतः संकल्प- स्मरणादिशक्तिषु सविकल्पात्मिकासु भवतु । या त निर्विकल्परूपा साक्षात्करणलक्षणा अ- नुभवशक्तिः, तत्र कथम् । प्रत्यवमर्शो हि ४०३ चित्तत्त्वेन-अशुद्धप्रमात्रा। ४०४ यद्यपि अर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता इति नित्या । ४०५ अखण्डितम्-अभिन्नम् । ४.६ प्रत्यवमर्शात्मत्वम् । , १९का०] श्रीमदमिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २२५ अभिलापभेदयोजनामयः, अभिलापविशेषयो- जना च संकेतस्मरणम् अपेक्षते । तच्च संस्कारप्रबोधम् । सोऽपि तादृशदृशम् , इति एवं प्रथमसमये कथम् अभिलापयोगः?, इति परस्य व्यामोहम् अपोहयितुमाह साक्षात्कारक्षणेऽप्यस्ति विमर्शः कथमन्यथा। धावनाद्युपपद्येत प्रतिसंधानवर्जितम् ॥ १९॥ इँह तावत् चैतन्यस्य आत्मभूतोऽङ्गुलिनिर्दे- शादिप्रख्योऽभिलापयोगः, अन्यथा बालस्य प्रथमं व्यवहारे दृश्यमाने व्युत्पत्तिरेव न स्यात् । निर्विकल्पविज्ञानपरंपरया हितं शब्द ४०७ साक्षात्कारलक्षणे। ४०८ अन्नायं भावः-साक्षात्कारक्षणे ज्ञानेऽपि चितोऽर्थप्रत्यवमर्शो. ऽस्ति सूक्ष्मः, वाचनधावनादौ शीघ्रक्रियया तत्तदृश्यमानदेशाधुपादित्सा जिहासानुसंधानेन हि भवेदिति । ४०९ अप्रतिनियते मायीये विमर्श ४१० दत्तलक्षणः।
२२६ ईश्वरप्रत्यभिज्ञा। [१अ०५आ० ४१२ a शृणोति, तमर्थं पुरः पश्यति, पुनः तद्विविक्तं भूतलं पश्यति इति, घटम् आनय - नय-इति व्यवहारात् कथम् अस्य अयम् अर्थो हृदि परिस्फुरेत् , घट इति, इदमानय इति, इदं नय इति, इदमिति योजनाप्राणो हि अय- मर्थः, योजना च विकल्पव्यापारः । अथ बालस्य प्राग्जन्मानुभूतसंकेतस्मृतेः एवम्, तथापि संकेतकाले स शब्दो विषयत्वेन इदं भावेन अप्रत्यवमृश्यमानत्वात् भेदात् प्रच्युत्य निर्भासमानो विज्ञानशरीरविश्रान्तीकृतो वा- चक इति भवति, तत् विज्ञानस्य स्वरूपं चेत् भाति, तत् अभिलापमयमेव इति, यथा विष- यस्य सुखरूपत्वाभावेऽपि ज्ञानं सुखात्मकं ४१२ अर्थशून्यम् । ४१३ तथा चात्मभूत एवाभिलापश्चैतन्यस्येति सिद्धस् । ४१४ संकेतस्य स्मरणं संस्कारादानसंस्कारप्रबोधयोरायत्तं, तौ च निर्विकल्पकेन कर्तुमशक्यौ। उक्तं हि 'अनुभवः पटीयान् स्मृतिबीजमाधत्ते तादृशदर्शनादर्थस्य प्रबोधः' इति पटीयस्तां चानुभवस्य नापरी कांचन मन्महे ऋते विमर्शविश्रान्तेरिति । ४१५ तथा च नात्मभूत इति पूर्वपक्षाशयः । ४१६ यथा स्त्रक्चन्दनवनितादेविषयस्य सुखसाधनस्यापि सुखरूपत्वा- भावेपि ज्ञानं सुखरूपं भाति तथा अभिलापात्मा रूपादिविषयो मा भूत् ज्ञानं तद्रूपमेव भासिष्यत इत्यर्थः । म १९का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २२७ भाति तथा मा भूत् अभिलापात्मा रूपादिः विषयः, तथापि विज्ञानं तदात्मकं अवभासि- ष्यते । अत्र तु दर्शने विषयस्यापि विमर्शम- यत्वात् अभिलापमयत्वमेव वस्तुतः, स्तैमि- त्याद्यवस्थापि यदि न परामर्शमयी तर्हि अस्यां विकल्पात्मकप्रमातृव्यापारानुल्लासात् संभवः शेपथपरमार्थ एव, स्मरणं च न स्यात्, रूप- विषयाध्यवसायी हि यदि विकल्प उदियात् ४१७ तदात्मकम्-अभिलापात्मकम् । ४१८ अन दर्शने - स्वतन्त्रशिवाद्वयदर्शने । ४१९ सकलविकल्पक्षोभरहितः स्तिमितः, बहिरन्तःकरणप्रसराभाव: स्तैमित्यम् । ४२० ननूक्तं प्रत्यक्षसाधन एव इन्द्रियधियः कल्पनाचिरहः 'संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षेत साक्षजा मतिः॥ पुनर्विकल्पयन्किचिदासीन्मे कल्पनेशी। इति वेत्ति न पूर्वोक्तावस्थायामिन्द्रियाद्सौ ।' इति सत्यमुक्तं, तत्तु न परामर्शाभावसाधनायालम्, तथा हि सर्व- चिन्तासंहारे तत्समनन्तरं तावद्ध्यवसायेन नोत्पत्तव्यं तदुत्पत्तौ स्तिमिते- तरयोरविशेषप्रसङ्गात् अध्यवसायानुत्पत्तौ सा च दशा अस्ति इति कथम् अव्यवहरणीयत्वात् , सरणेन व्यवहरिष्यते इति चेत् न यत्किल दर्शनस स्मरणस्य च यद्येकमन्तर्मुखं परामर्शमयं चित्तत्त्वं तदा भवति अभिन्नवि- षयत्वं नान्यथा, द्रष्टश्च संविद्रूपस्येयमेव द्रष्टुता यदिदन्ताविमर्श भित्ति- स्थानतया प्रतिष्ठापदत्वेन अहं विमर्शमयत्वमिति स्तिमिततापि अहं विमर्शमयी एवेति। ४२१ स्तिमितोऽहमासमिति । ..
२२८ ईश्वरप्रत्यभिज्ञा। [१अ०५आ० किमन्यत्, सर्वचिन्तासंहरणेन स्तमित्यं नाम न स्यात् इति, तत्रापि अस्ति अन्तः परामर्शः सकलेन च शब्दग्रामेण, शब्दनं हि सहन्ते वस्तूनि । तत्र च नियतशब्दयोजनं क्रियते, तथाहि- बालस्य पुरतः पिण्डे सहजो यः परामर्शः, अहम् इत्यविच्छेदेन इदम् इति विच्छेदेन वा तत्पृष्ठे एवं गौर इति गौः इति वा शब्द आरोप्यते, सोऽपि अभ्यासात् प्रमातृमयीभवति, तत्पृष्ठे च अन्यः शुक्ल इति वलीवर्द इति, एवमन्यत् इति संकेत- तत्त्वम् । तस्मात् अस्ति साक्षात्कारे प्रत्यव- मर्शः। अपिशब्दस्य अयमाशयः-इह सोक्षा- कारो वस्तुतः 'पश्यामि' इत्येवंभूतविकल्प- नव्यापारपर्यन्त एव । विकल्पो हि प्रत्यक्षस्य व्यापार, इति परोऽपि मन्यते । न च व्यापारः तद्वतो भिन्नो युक्तः, तत्स्वरूपभूतो हि सः । ४२२ शब्दनं-विमर्शनम् । ४२६ ४२३ अहमिति । ४२४ इदमिति। ४२५ साक्षात्कार:-प्रत्यक्षनिर्विकल्परूपः। ४२६ परः-सौगतादिः। ४२७ तद्वतः-व्यापारवतः।
१९का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २२९ भवतु वा क्षणमात्रखभाव: साक्षात्कारः तत्रापि अस्ति विमर्शः, अवश्यं चैतत्- अन्यथा इति यदि स न स्यात्, तत् एका- भिसंधानेन जवात् गच्छन् , त्वरितं च वर्णान् पठन्, द्रुतं च मन्त्रपुस्तकं वाचयन् , न अभिमतमेव गच्छेत् , उच्चारयेत् , वाचयेत् वा । तथाहि-तस्मिन् देशे ज्ञानम् आचिक्र- मिषा-आक्रमणम्-आक्रान्तता-ज्ञान-प्रयोजनों- न्तरानुसंधानम् -तित्यक्षा- देशान्तरानुसंधिः, तत्रापि आचिक्रमिषा इत्यादिना संयोजन- वियोजनरूपेण परामर्शेन विना अभिमतदे- शावाप्तिः कथं भवेत् । एवं त्वरितोद्हणवा- चनादौ मन्तव्यम् । तत्र विशेषतः स्था- नकरणाक्रमणादियोगः । अत्रे च यतः पश्चा- ४२८ अभिमतदेशप्राप्तिरूपम् । ४२९ स्थानं- मूर्धताल्वादि, करणं-जिह्वाग्रादि, तयोः परस्पर संस्पर्शे सति वर्णनिष्पत्तिः । ४३० ननु च इदमिति सर्वत्र नीलादिबोधे शब्दनं चेत् तर्हि न किंचिनिर्विकल्पकम् , तथा च कथमवतरणिकायां या तु निर्विकल्पक- रूपा' इत्यादि उक्तमित्यत आह, अन्न च यत इत्यादि, अयं भावः-या तु निर्विकल्परूपा इत्याधुच्यते तत्परदृशैव, तदकथनेऽपि नामाकं किंचि- द्विघटितं भवेत् । तथाहि इदमेव अधुनैव रक्तः संजानामि करोमि संकुचितरूप इत्येवं नियतिकालरागाशुद्धविधाकलामायारूपकचुकषक- .
ईश्वरप्रत्यभिज्ञा । [१अ०५आ० गाविस्थूलविकल्पकल्पना न संवेद्यते, तत एव त्वरितत्वम् इति सूक्ष्मेण प्रत्यवम- शेन संवर्तितशब्दभावनामयेन भाव्यमेव । संवर्तिता हि शब्दभावना प्रसारणेन विवर्त्य- माना- स्थूलो विकल्पः, यथा इदमित्यस्य प्रसारणा घटः शुक्ल इत्यादिः, तस्यापि पृथु- बुनोदराकारः शुक्लत्वजातियुक्तगुणसमवायी इ- . परिवृतप्रकाशस्वभावो यः पुरुषो नाम मायाप्रमाता तस्य 'समस्तं पश्यामि इति प्रभृति बुद्धीन्द्रियविशेषवृत्तिवर्गे यदनुयायि' वेनीति वृत्तिरूपं तत्र यस्करणं सामान्यरूपमशुद्धविद्यातत्वं तच्च न खतनं किंचित् अपि तु परमेश्वरस्यैव शक्तिः, ततस्तस्य यानि विशेषरूपाणि चक्षुरादीनि रूपं वेनि स्पर्श वेद्मि इत्यादि विशेषवृत्तिभाजि तैरभि- व्यक्तो मायाशक्तिसंकोचापसारितोऽपि ईषत्पुन"..""काशो यसिन्नी- लादौ वेद्ये तादृशे झटिति दृश्यमाने प्रकाशस्य स्वाभाविकात्परामर्शमय- स्वात् यत् अहमिति विमर्शनं तद्गोचरीभावं पाते इदन्तया प्रमातृप्रमे- यान्तरभावापोहनप्राणया निर्देश्यत्वं विकल्प्यमानत्वं नास्ति, तावति यतो मनसः संबन्धे प्रमातृप्रमेयभेदोत्थापकोऽनुव्यवसायात्मा विकल्पन- व्यापारो नोदितः, तत्र च इदन्तानिर्देश्यत्वाभावे नीलादिमानविषया भेदप्रथनमात्ररूपा माया संस्कारस्य तत्रापि भावात् न तु सर्वथा पूर्णा ईश्वरता प्रमाणता च प्रमाणलक्षणे 'इदमेताहकू' इत्यादौ तदा च मायाप्रमातृभावस्य संवृतस्यैवावस्थानम्, उदिते तु विकल्पनच्यापारे सोऽपावृतो वर्तते इति तस्कृतातारम्भात्प्रमातृप्रमेययोर्भेदकः प्रमेयनि- श्रान्त इदमिति निर्देशो भवन् पूर्वापेक्षया प्रसारितरूपः स्वयं विकल्प- नात्मा स्वापेक्षया पूर्वत्र निर्विकल्पकतां व्यवहारयति संवृता हि शब्द- भावना प्रसारितां शब्दभावनां विविधकल्पनारूपामुपेक्ष्य तथाभूतवैवि- ध्यकल्पनवकल्यानिर्विकल्पा इत्युच्यते इति । , १९का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २३१ त्यादिः। धावु गतिशुद्धौ इति पाठात् धावि- स्त्वरितगतौ खशक्तिवशात् वर्तत इति ॥१९॥ भवतु एवं सूक्ष्मो विमर्शः प्रकाशशरीरा- वेशी, यत्र तु स्थूलत्वेन विकल्परूपता स्फुटा, तत्र शब्दो नीलादिवत् एव पृथक् प्रतिभा- सते-नीलम् इदम् इति, स कथं प्रकाशस्त्र- रूपात् अपृथग्भूतः स्यात्, शब्दात्मा च विमर्शः, स च अत्र मायात्मके भेदपदेऽपि प्रकाशापृथग्भूतो भवद्भिः इष्टः, तत् एतत् कथं प्रतिपत्तव्यम् ?, इत्याशङ्कयाह ४३१ धावु इति संकेतेनैव त्वरितगतौ वर्तते, आर्यसंकेतो हि शक्तिः। ४३२ स्थूलत्वेन- अध्यवसायरूपत्वेन । ४३३ त्रिधा हि अत्र श्लोके पूर्वपक्षव्यवस्था तथाहि एका तावत्,-- यदिदं शब्दनं स्थूलं शब्दात्म नीलमिति तदिति वा स मायापदोचितो विमर्शो मायाप्रमातृप्रकाशस्य कथं जीवितमिति । तथा द्वितीया यत् सांख्यदर्शनकृताश्रमैः- 'बुद्धिं विना कथं बोधः सा बुद्धिः प्रकृतेः प्रजा। न च तस्यास्तया योगः इति नीत्या विमर्शोऽध्यवसायरूपोऽभ्युपगतः स बुद्धर्धर्मो न चितः प्रकाशरूपायाः अध्यवसायो बुद्धिः' इति च ईश्वरकृष्णवचनात् । तृतीया पुनः शब्दार्थव्यतिरेकेण तावन्न परं संवेद्यते तत् किं विमर्शस्य वपुः इति। तन आये तात्पर्याभिधायि सूत्रम्, द्वितीये विपर्यस्तताशमकम् , तृतीये अज्ञानस्य संबोधकतापादकम् इति । , ...............
२३२ [१अ०५आ० ईश्वरप्रत्यभिज्ञा। घटोऽयमित्यध्यवसा नामरूपातिरेकिणी। परेशशक्तिरात्मेव भासते न त्विदन्तया॥२०॥ केन एतत् उक्तम्,- घट इति यः स्थूलः शब्दः स प्रकाशजीवितस्वभावो विमर्श इति । सोऽपि हि स्थूलः शब्दोऽर्थवत् पृथग्भूत एव भाति । तौ नामरूपलक्षणौ शब्दार्थो एक- रूपतया 'सोऽयम्' इत्येवंरूपत्वेन परामृशन्ती अध्यवसायशक्तिः या, सा परमेश्वरशक्तिः वि- ४३६ ५३४ नाम-घट इति, रूपं- पृथुबुनोदराकारः, तथानामायमिति रूपं कठिनम् इति विशेष-सामान्यविभागेन योज्यामिति । अस्याः कारिकाया इदं तात्पर्यम् - अयमिति घट इति वा अध्यव- सायो भिन्नप्रकाशमान-नाम-रूपातिरिक्त-चितिशक्तिमय एव आत्मैवा- भेदेनाभासते इति । ४३५ सोऽयमित्येवंरूपत्वेन परामृशन्ती इति-ताभ्यामतिरेकी यो न कदाचिदिदन्ताविषयः अपि तु आत्मवत् अहमित्येव भासते योऽध्य- वसायो मायाममातृप्रकाशस्य जीवितम् इत्येवासन्मतम् न तु शब्द एवाध्यवसाय-इति प्रथमप्रश्नपरिहारः । ४३६ परमेश्वरस्यैव प्रकाशवपुषः परमार्थतः सा शक्तिः, स एवं पशुपमातृरूपतया अध्यवस्थति सरति जानाति न तु जडस्य बुद्धित- स्वस्य एतत् प्रातिस्त्रिकं किंचन वपुः-इति द्वितीयप्रश्नपरिहारः। .
विमर्शः प्रकाशात् . २०का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २३३ मर्शरूपा आँत्मवत् एव अहमित्यनवच्छिन्नत्वेन भाति, न तु कदाचित् इदन्तया-विच्छि. नत्वेन भाति, विच्छिन्नत्वेन अवभासे पर- प्रतिष्ठत्वात् पुनर्विमर्शान्तरेण भाव्यम्, तत्रापि एवम् इति अनवस्था, अतो नीलस्य प्रका- शनमेव न स्यात्-प्रतिष्ठालाभाभावात् । त- स्मात् 'सर्व एव अविच्छिन्न एवं' इति । अध्यवसा इति, 'आतश्चोपसर्गे' (पा. व्या. ३-३-१६) इत्यङन्तः स्त्रियाम् ॥२०॥ ननु एवं सर्वस्यैव ज्ञानकलापस्य अहमित्येव प्रतिष्ठाने वेद्यभूमिस्पर्शो नास्ति वेद्यभुवि च देशकालयोगः न तु वेदकांशे देशकालयो- गाभावे च यत् इदं ज्ञानानां खांशापेक्षया ज्ञा- नान्तरापेक्षया च सक्रमत्वं लक्ष्यते तत् कथं स्यात् , क्रमाभावे च एकत्वमेव वस्तुतो भवेत् , ४३७ नामरूपातिरेकी चाध्यवसायः प्रकाशते अहमिति आत्मेव, ततश्च निर्देश्यत्वाभावेऽपि अनपह्नवनीया एवासौ विमर्शशक्तिः-इति तृतीयप्रश्नपरिक्षेपः। ४३८ एवम्-अन्येन । ४३९ प्रतिष्ठाने --सर्वेषां संवेदनानां परामर्श एव जीवितमिति स्थिते। पं० १ ख० पु. अहमित्यविच्छन्नत्वेनेति पाठः ।
ईश्वरप्रत्यभिज्ञा। [अ०५आ० ततश्च 'ज्ञानस्मृत्यादिशक्तिभिस्तद्वान् परमे. श्वरः' इति यत् उक्तं तत् कथं निर्वहेत् ? इत्या- शङ्कां शमयन् पूर्वोक्तमुपसंहरति केवलं भिन्नसंवेद्य- देशकालानुरोधतः। ज्ञानस्मृत्यवसायादि सक्रमं प्रति सते॥२१॥ सत्यम् एवम् - अक्रममेव संवित्तत्वम् , किन्तु वशक्तिवशात् भिन्नत्वेन भासितानि ४४० तथा चात्र नामरूपतावभासनमध्यवसायस्योपपद्यते इति नि. कृष्टोऽर्थ इति । ४४१ पूर्वसूत्रोक्त एवार्थः सूत्रान्तरेणाभिव्यज्यत इति भावः । ५४२ केवलमित्येतद्वाक्यार्थविशेषणं भवत् अहमिति विश्रान्तिः पारमार्थिकी तावदखण्डितैव तत्पृष्ठ एव तु सक्रमत्वं निर्भासत इति प्रक- टयति । संवेद्यशब्दः परामृश्यताविश्रान्तः संवेदनस्य परामर्शसारत्वा- भिधानाय व्याख्यातः। ४४३ इदमत्र तात्पर्यम्-चित्तत्त्वस्य मायाशक्त्या भिन्नं घटादि सं. वेद्यं तत्तद्देशकालभिन्न प्रकाश्यते, यस्याभेदेनावष्टम्भाद्विभिन्नदेशकाला- दिना ज्ञानस्मृत्यादि अवभासते इति । ४४४ ननु भिन्नसंवेद्येत्यादि अयुक्तम् यतो बोधस्योन्मन्नतायां प्रका- शनमेवास्य न युक्तम् इत्यत आह स्वशक्तिवशादिति । अभिमानबलेनेद- मुन्मन्नत्वं प्रकाशेत न वस्तुत इति भावः ।
२१का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २३५ यानि वेद्यानि तेषां मूर्तिभेदकृतो यो दूरादूर- वैतत्यावैतत्यादिः देशः, क्रियाभेदकृतश्च चिर- शीघ्रक्रमादिरूपः कालः, तौ अनुरुध्य-च्छाया- मात्रेण अवलम्ब्य, ज्ञान-स्मरणाध्यवसायानां खांशा इव भान्ति, निरंशानामपि तद्भास- मानांशकृतश्च सक्रमत्वावभासः परस्परापेक्षया खांशापेक्षया च, यद्यपि कालक्रम एव स्फुटो विज्ञानेषु भाति न देशक्रमः, तथापि वि- मूढस्य पर्वतसंवेदनं विततमिव बदरसंवेदनं च सूक्ष्ममिव भाति-इति देशकमोऽपि दर्शितः, तेन वेद्यगतक्रमस्वीकाराभासात् सक्रमत्वम् आभासमानमपि न अपारमार्थिकम्-आभा- समानस्य परमार्थत्वात् , ततश्च युक्तमुक्तम् 'ज्ञानादयोऽस्य भगवतः शक्तय' इति 'मायाशक्त्या विभो। " ४४५ उपलक्षणपरत्वं चान देशकालपदस्य बोध्यम् । तेन संवेद्यस्य स्फुटास्फुटत्वादिरूपतया ज्ञानसंकरपसरणादिभेदस्तावदन्तरङ्गः, प्रत्येक मपि तत्र नीलज्ञानं पीतज्ञानमित्यन्तरङ्गतरः, नीलेऽपि सुखं दुःखं संवे- दनमित्यन्तरङ्गतमः । चिरमिदं ज्ञानं शीघ्रमिति बहिरङ्गः, पूर्वमिदमपर- मिदमिति बहिरङ्गतरः, सूक्ष्ममषकज्ञानं स्थूलं हस्तिज्ञानमिति बहिरङ्ग- तमः - इति प्रधानभूतसंवेद्योपरागकृतः संवेदनस्य भेद इति सूत्रार्थः ।
२३६ ईश्वरप्रत्यभिज्ञा । [१अ०५आ० ४४६ इति श्लोकेन स्वरूपवैचित्र्यं ज्ञानानां दर्शितम्। अनेन तु देशकालवैचित्र्यम्-इति विशेषः । इति शिवम् ॥ २१ ॥ इति श्रीमदाचार्याभिनवगुप्तविरचितायामीश्वरप्रत्यभिज्ञा- सूत्रविमर्शिन्यां प्रथमे ज्ञानाधिकारे ज्ञानशक्तिनिरूपणं नाम पञ्चममाह्निकम् ॥ ४४६ यस्तु ज्ञानस्मृतिसंकल्पाद्यवान्तरजातिकारी भेदः स 'माया- शक्त्या विभोः' इत्यनेन दर्शितः, अनेन तु ज्ञानाचेकजातीयत्वेपि यो भेदो नीलज्ञानं पीतज्ञानं नीलस्मरणं पीतसरणमित्यादिः यश्च देशकाल क्रमोपरागाद्वितताविततत्वशीघ्रचिरादिश्च संवेदनगतः स निरूपितः ।
अथ पष्ठमाह्निकम् खात्माभेदधनान्भावांस्तदपोहनटङ्कतः । छिन्दन्यः स्वेच्छया चित्ररूपकृत्तं स्तुमः शिवम् ।। एवं स्मृतिशक्तिानशक्तिश्च निरूपिता। अथ तदुभयानुग्राहिणी अपोहनशक्तिर्वितत्य श्लोकैकादशकेन 'अहं प्रत्यवमर्शों यः प्रका- शात्मा' इत्यादिना 'सिद्धे सर्वस्य जीवतः' इत्यन्तेन निर्णीयते । तत्र श्लोकेन 'प्रत्यवमर्श अविकल्पो विशेष' इति सूच्यते । ततः श्लो- केन 'शुद्धेऽहंप्रत्यवमर्शेऽपोहनव्यापारासंभव' उच्यते । ततः 'खंदृष्टावेव तदुपपत्तिः' इति श्लोकेन । ततोऽपि द्वयेन 'अशुद्धस्याहमित्यव- मर्शस्य विकल्परूपता'। ततः श्लोकेन 'अनु- १ 'सामानाधिकरण्यं च सद्विद्याहमिदंधियोः।' इति न्यायात् विमर्शरूपता यद्यपि सामान्यरूपा तथापि विकल्पतानि- बन्धनभूतरूपान्तरशून्यो यो विमर्शव्यक्तिविशेषः स विकल्पव्यतिरिक्त इति भावः, तेन यदन्नानवबोधात् प्रत्यवमर्शों न विकल्प इति तथावि- कल्पो विशेष इति च पाठान्तरं कल्पयन्ति तेस्याचार्यस्याशयं न विदुः सूच्यते इत्यनेन विरोधात् । २ असद्दर्शन एवापोहनच्यापारसंभवः । ३ स्वदर्शनमेव सिद्धान्तीकरोति ।
। २३८ ईश्वरप्रत्यभिज्ञा । [१अ०६आ० संधानस्यापि विकल्परूपता' । एवं 'भूतानुसं- धानादिरूपमेव परमेश्वरस्य स्रष्टुत्वम्' इति श्लोकेन । ततः 'प्रकृते चिदात्मन्यर्थावभा- सस्य सत्तोपसंहियते' श्लोकेन । ततो द्वयेन 'तस्यैवार्थावभासस्यानुभवस्मरणादौ वैचित्र्यमु- च्यते, तदुक्तिश्च प्रकृतायामीश्वररूपस्वात्मप्रत्य- भिज्ञायामुपयुज्यते' इति श्लोकेन । इत्याति- कस्य तात्पर्यार्थः । अथ ग्रन्थार्थों व्याख्यायते। उक्तमिदं 'स्वभावमवभासस्य विमर्श........।' इति, तत्र विमर्शोऽभिलापात्मना शब्देन यो- जित एव, तद्योजनाकृतं च विकल्परूपत्वं शुद्धेऽपि परमेश्वरे प्राप्तं, न चैतदिष्टं-तस्य संसारपदे मायात्मन्युपपत्तेः- इत्याशङ्क्याह अहं प्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः। नासौ विकल्पः स ह्युक्तो द्वयाक्षेपी विनिश्चयः ॥१॥ ४ देहादिसंकोचशून्यस्य प्रकाशस्य य आत्मा सारस्वभावो निर्विच्छे- दोऽन्तरभ्युपगमस्वभावोऽनन्यवदनालोकितखातज्यविश्रान्तिमयः परः १का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २३९ प्रकाशस्य विशुद्धसंविद्रूपस्य देहादिसंस्पर्शेर- नाबिलीभूतस्य यः आत्मा जीवितभूतः सारख- भावो विच्छेदशून्योऽन्तरभ्युपगमकल्पोऽनन्य- मुखप्रेक्षित्वस्वातच्यविश्रान्तिरूपः 'अहमिति' प्रत्यवमर्शः असौ विकल्पोन भवति, विकल्पत्वा- शङ्कायां बीजं दर्शयति-वाग्वपुरपीति । विष- यरूपात् श्रोत्रग्राह्यात् शब्दादन्य एव अन्तरव- प्रतिष्टात्मा अहमिति प्रत्यवमर्शः असौ विकल्पो न भवति कुतः पुनरियं विकल्पत्वाशंका? आह-वाग्वपुरपीति । श्रोत्रग्राह्यरूपातिरिक्तान्तरवभा- समानसंविद्रूपावेशिवाच्याध्याससतत्वशब्दनात्मकशब्दशरीरोऽपीत्यर्थः, कस्मादसौ न विकल्पः? आह - स हीति । विविधकल्पनाभिन्नस्यापि गुडदधिमरिचादेरिव योजना एकस्यापि वैविध्येन कल्पना, विविधस्य च शंकितस्य रूपान्तरस्य कल्पना, विच्छेदनं निर्भज्य अन्यतच्यवनं प्रमातृबुद्धिकोशे प्रवेशनेन दाापादनपर्यन्तं परिपालनं विकल्प उच्यते, निश्चयश्च । अत्र च सर्वत्रावश्यं तदतद्रूपद्वयेन भवितव्यं अन्यथा किं योज्येत किं च विभज्येत किं शंक्येत-इति सूत्रार्थः। प्रत्यवमर्श इति प्रत्यवमर्श एव हि शब्दात्मा परभूमौ प्रमातुः सूक्ष्मभुवि वागिन्द्रियं करणं स्थूलदशायां प्रमेयरूपः शब्द इति । ५ चितिशक्तरिति योज्यं शेषितया । ६ आत्मनि यः प्रत्यवमर्शो विकल्पस्य न नीलादेरिव वेद्यस्येदमिति नापि शरीरादेरिव कल्पितप्रमातृभावस्याहमिति परप्रमातरि स एवमु. व्यतेऽहमिति। ननु विशुद्ध प्रकाशे वाचः करणरूपायाः कथं संभवो येनोक्तं वाग्वपुः? इत्यत आह - विषयरूपादित्यादि। श्रोतृग्राह्याच्छब्दादन्य एवेति वागिन्द्रियजन्यशब्दस्वरूपोऽयं वेत्यर्थः ।
२४० ईश्वरप्रत्यभिज्ञा । [१अ०६आ० भासमानः संविद्रूपावेशी शब्दनात्माभिलापो वागित्यनेनोक्तः-वक्ति अर्थ स्वाध्यासेन सोऽय- मित्यभिसंबन्धेन, यदि वाग्वपुः-कस्मान्न विक- ल्पः? आहे - नास्य विकल्पलक्षणमस्ति, तथा- हि-विविधी कल्पना विविधत्वेन च शङ्कितस्य कल्पोऽन्यव्यवच्छेदनं विकल्पः, विविधत्वं च व- हावनग्निसंभावनासमारोपनिरासे सति भवत्, द्वयं वयवहिरूपमाक्षिपति, तेन विकल्पेऽवश्यं , ८ संविद्रूपावेशीति श्रुतिगोचरीकार्या या शब्दक्रिया शब्दोत्थापिका क्रिया ब्रूते जल्पति वक्तीत्येवं तस्याजन्यत्वेन विषयतां यतो न प्राप्ता सा वाक्शक्तिः स्थूलशक्तिभूमिका यतो न स्वीकृतवती ततस्तजननकारण- तारूपः सूक्ष्मशब्दात्मा नासौ भवति । ९ प्रमातृप्रमाणप्रमेयसामग्रीरूपम् । १० अयमेव विशेषविकल्पः। ११ चोद्यम् । १२ उत्तरम् । १३ भिन्नस्यापि दधिगुडमरिचादेरिव योजना विविधा कल्पना तथ एकस्यापि वैविध्येन कल्पना १४ व्यवच्छेदनं निर्भज्यान्यतः च्यवनं प्रमातृबुद्धिकोशे प्रवेशनेन दा- ढ्यांपादनपर्यन्तं परिपालनं विकल्प इति निश्चय इति चोच्यते अत एव विनिश्चयः इति साकूतम् । १५ प्रमाणप्रमेयादिरूपा। १६ हेतुना।
२का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २४१ तच निश्चेतव्यम् -अतश्च व्यपोहितव्यं भ- वति । तथा चे भिन्नयोरवभासो हि स्याहटाघटयोईयो। प्रकाशस्येव नान्यस्य भेदिनस्त्ववभासनमें ॥२॥ घटे हि दृष्टे घटस्थान एवाघटोऽपि योग्य- देशाभिमतस्थानाक्रमणशीलो विज्ञानजनकः खकोरेणोपनीतः संभाव्यते पटादिखभावः, १७ द्वयरूपत्वम्। १८ अन्यथा कि योज्येत किं च विभज्येत किं च शक्यतेत्यर्थः । १९ द्वयरूपतामेव विकल्पे समर्थयति । २० ननु यथा वह्निरयमित्यत्र अनग्निसंभावनानिरासेन तद्विनिश्चयात. ध्यपोहलक्षणद्वयाक्षेपो नजालिङ्गितो भाति तथा प्रकाशेऽपि परसंभावना- निरासेन भवत्येव प्रकाशाप्रकाशद्वयाक्षेप उभयत्र विशेषाभावात् संभाव- नाया इत्याशङ्काशान्तये सूत्रम् । २१ ननु घटे प्रतियोगी संभवति न प्रकाशे इति कुतो नजालि- ङ्गितो ह्यघट इव घटे प्रकाशेऽपि अप्रकाशो भवेदेव इत्याशंक्य सूत्रं भि- नयोरिति । मायापदे हि घटाघटौ भिन्नौ प्रकाशेते, ततश्चात्र प्रतियोगि- संभवः, शंक्यते हि घटाक्रान्ते योग्यदेशे तद्देशाक्रमणशीलो विज्ञानज- नकः स्वकारणोपनतः पटादिरघटः, देहादिसंकोचकालाविकले, सत्यप्रकाशे तु योऽप्रकाशः शंक्यते तस्य प्रकाशवदवभासनमनुचितं, अवभासने हि अप्रकाशत्वहानिः, हिरिति हेतौ यत एवं ततो युक्तं नासौ विकल्प इति सूत्रार्थः । २२ आलोकादि।
, २४२ ईश्वरप्रत्यभिज्ञा । [१अ०६आ० अतो घटाघटयोईयोरवभासस्य संभावनौत् समारोपः सावकाशीभवति, अघटस्य सत्या- रोपे निषेधलक्षणोपोहनव्यापारः- इति तदनु- प्राणिता विकल्परूपता घट इत्येतस्य निश्च- यस्य, 'लिङ् संभावनायाम्' । यस्त्वयं प्रकाशो नाम तस्य स्थाने यः संभाव्यते स तावदप्र- काशरूपो न भवति-तुल्यकक्ष्यस्य हि संभावनं भवति, न च यत्प्रकाशेन कर्तव्यं तदप्रकाशस्य कदाचित् दृष्टं-संभावनारोपणादिबलादेव च अस्याप्रकाशरूपत्वं विघटेत, अतः प्रकाशतु- ल्यस्यान्यस्याप्रकाशरूपस्य भेदिनस्तत्तुल्यकक्ष्य- स्यापोहनात्मकभेदनव्यापारासहिष्णोरवभास- नमेव नास्ति, तदभावे कस्यापोहनम् ? अवभा- ससंभवेऽपि प्रकाशरूपत्वमेव । न च प्रकाशस्य खरूपदेशकालभेदो-येन द्वितीयः प्रकाश एकस्मादपोह्येतेति, हीति – यस्मात् एवं, ततो द्वयाभावादपोहासंभवे विकल्परूपत्वाभावात् २३ घटेऽघटसमारोपः। २४ अपोहनव्यापारानुप्राणिता । २५ स्वरूपेण क्रियया च । २६ केयं संभावनायामपि कर्तव्यतादिशक्रेत्याह न चेति ।
२७ ३का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २४३ चिन्मात्रे परामर्शात्मनि अहमिति प्रत्यवमर्श एव, न तु विकल्पः॥२॥ ननु घटे परिनिष्ठितरूपे दृष्टे तदर्शनमुप- जीवता विकल्पेन कथमघटस्य निषेधनं कि- यते, न ह्यघटस्य केनचिन्नामापि गृहीतम् , अघेटवासनापि घटे दृष्ट कथंकारं प्रबुध्य- ताम् ,? सत्यम् - एवं शाक्यः पर्ययोज्यो, न तु वयम्, यतः तदतत्प्रतिभाभाजा मात्रैवातद्यपोहनात् । तन्निश्चयनमुक्तो हि विकल्पो घट इत्ययम् ॥३॥ इह प्रमाता नाम प्रमाणादतिरिक्तः प्रमासु खतन्त्रः संयोजनवियोजनाद्याधारवशात् कर्ता दर्शितः, तस्य च प्रमातुरन्तः सर्वार्थावभासः, २७ संकुचितरूपे निर्विकल्पदशायाम् । २८ सहशायेव हि वासनाकारणम् । २९ अर्धानुमतौ। ३० बौद्धः। ३१ प्रष्टव्यः।
२४४ ईश्वरप्रत्यभिज्ञा । [१अ०६आ० चिन्मात्रशरीरोऽपि तत्सामानाधिकरण्यवृत्ति- रपि दर्पणनगरन्यायेनास्ति- इत्यपि उक्तम् । ऐवं च तत्प्रतिभा घटाभासम्, अतत्प्रतिभा च अघटाभासं प्रमाता भजते-सेवते तावत्, तेदविकल्पदशायां चित्खभावोऽसौ घटः चिद- देव विश्वशरीरः पूर्णः, न च तेनै केचिढ्य- वहाराः, तेत् मायाव्यापारमुल्लासयन्पूर्णमपि खैण्डयति भविं, तेनाघटस्यात्मनः पटादेश्वा- पोहनं क्रियते निषेधनरूपं, तदेव व्यपोहनमा- श्रित्य तस्य घटस्य निश्चयनमुच्यते 'घट एव' इति- एवार्थस्य संभाव्यमानापरवस्तुनिषेध- ३२ स्थिते सति । ३३ तदविकल्पदशायामित्युपलक्षणं तेन सदाशिवादौ सत्यपीदंताभा- सेऽहमिति सामानाधिकरण्येन भासमानत्वात् तत्राहंतैव सर्वसहेति न तत्र प्रमेयाभासः संवेदनात् प्रमेयान्तराच भिन्नो भासते अङ्गभूतश्चावयव- तुल्यो भासते इति चेदंतोन्मेषेऽपि अचिरद्युतिवदप्ररोहान्नापोहनव्यापारसं- भवः । निर्विकल्पे तु पशोरपि सार्वात्म्यमिति सूचयति चित्स्वभावोऽसौ घट इति । तेन स्थितमेतत् मायादशायामशुद्धप्रमातरि विकल्पेनापोहन- व्यवहृतिरिति द्योतयति तन्मायेति । ३४ तेषां विकल्परूपत्वात् । ३५ हेतोः। ३६ विश्वशरीरमपि। ३७ प्रमाता। ३८ पदार्थम् । ।
२४५ , ४का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। रूपत्वात्, एष एव परितश्छेदात्तक्षणकल्पात् परिच्छेदः, हीति-यत एवं, तस्मात् युक्तं 'याक्षेपी विकल्प' इति पूर्वश्लोकोक्ते वस्तुद्वये श्लोकद्वयेन हेतू क्रमेणोक्तौ, यस्मादेवं विकल्पः ततोऽहमिति शुद्धो विमर्शः न विकल्पः- इति श्लोकत्रयेण महावाक्यार्थः । शाक्यैरपि प्रमा- तुरेवायं व्यापार उक्तः 'एकप्रत्यवमर्शाख्य' इत्यत्र 'प्रपत्तेति स्वयमिति' च वदद्भिः, स त्वेतैः कथं समर्थ्यः-इत्यास्तोमेतत् ॥ ३॥ नन्वेवमहमित्यपि प्रत्यवमर्शेऽनहरूपस्य घ- टादेः प्रतियोगिनोऽपोहनीयस्यापोहे विकल्प- रूपता कथं न स्यात् ? इत्याशयेनाह चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः। ३९ प्रत्यवमर्शविकल्परूपे । ४० 'एकप्रत्यवमर्शाख्ये ज्ञाने एकत्र हि स्थितः । प्रपत्ता तदतद्धेतून भावान् विभजते स्वयम् ॥' इत्याचार्यधर्मकीर्तिः। ४१ व्यापार एकप्रमाता वा। १२ अप्रकृतत्वातू।
२४६ ईश्वरप्रत्यभिज्ञा । [१अ०६आ० देहे बुद्धावथ प्राणे कल्पिते नभसीव वा ॥४॥ ............... ४३ नन्वह मिति प्रत्यवमर्शो न विकल्प इत्युक्तं, ततश्च शरीरे गौरोऽह- मिति, धियि सुख्यहमिति, प्राणे क्षुधितोऽहं तृषितोऽहमिति, शून्ये वी- तसमस्तबाह्याभ्यन्तररूपोऽहमिति यो विमर्शः तत्रापि निकल्पत्वाभा- वेऽन्यो नापोह्यते इति तेषां परस्परेण प्रमात्रन्तरैः प्रमेयैश्च बहुशाखासं- करः प्रसज्यत इति स्वपरप्रविभागभङ्ग आपद्यते अनाह श्लोकद्वयेन उत्त- रम् 'चित्तत्त्वमित्यादिना' अहमिति विमर्शश्चित्तत्वमेव । 'कल्पिते नभ- सीति' सर्वो य एवं संवेद्यः अन्तःकरणबहिष्करणगम्यत्वेन प्रसिद्धः बुद्धिदेहप्राणलक्षणोऽर्थः तस्य यो निषेधः । 'तथाहि वेद्यते यद्यत्तन्मध्येऽहं न कश्चन । अपि त्वेतद्विविक्तोस्मि' इति नयेन तदभावमात्रं नान्तःकरणस्य सुखादिवत् न बहिष्करणस्य नीलाद्यर्थवद्विषयः विषयत्वादेव च कल्पितः विकल्पनमात्रपरमार्थः, त- थैव वस्तुभूतः तत्र योगिनोऽहमिति विमर्शः शून्ये च वेद्यीकृते शून्यान्त- रमेव योगिनः प्रमातु, तत्राप्यन्यदिति यावदयं भेदग्रहः तावत्कल्पना न विरमति, न चानिष्टा, शुद्धप्रकाशस्यैव हि वस्तुतः प्रमातृता, देहादौ तु तथाभिमानमात्रं, पर्यन्ते च संकोचमानमेव चिद्रूपं शून्यं शून्यत्वं च न तुच्छं रूपं-सर्वात्मना आभासमानत्वात् आभासस्यैव च वस्तुत्वात् 'सर्वालम्बनधर्मश्च सर्वतत्वैरशेषतः। सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः ॥' 'यत्स्फुरणानुप्राणो लोकः स्फुरणं च सर्वसामान्यम् ।' इत्यादिन्यायात् ईदृशस्य शून्यस्य व्यापित्वं च, शून्यस्य व्यापित्वं नास्ति अद्व्यत्वात् इति चेत् न, महाविषयतात्वाच्छून्यस्य, सापि कथं ? उच्य- ते- सर्वोऽर्थों यतो चेद्यरूपः तत्र निषेध्यः ततो निषेधस्य महान विषयः न तागस्ति यत्तेन महानिषेधेन न स्पृष्टं । यथोक्तं 'यद्यत्संवेद्यते किंचिन्न तत्तद्रूपमिष्यते' इति । वीप्सया हि सर्वमन्न निषेध्यम् इति दर्शितमहाविषयता एव च ।
५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २४७ प्रमातृत्वेनाहमिति विमर्शोऽन्यव्यपोहनात् । विकल्प एव स पर- प्रतियोग्यवभासजः ॥५॥ अहमित्यवमर्शो द्विधा- शुद्धो मायीयश्च, तत्र शुद्धो यः संविन्मात्रे विश्वाभिन्ने विश्व- च्छायाच्छुरितखच्छात्मनि वा । अशुद्धस्तु प्रातीतिक व्यापकत्वं नेति नेति सर्व निषेधस्वभावत्वादेव बृहत्त्वेना- भावमेव ब्रह्म मन्यन्ते केचन 'शनैः शनैरुपरमेद्बुद्ध्या इतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥' इति यत्र सकलचिन्त्यविविक्तत्वेन तावदात्मतत्त्वम् इत्युपपादितम्, अ. धरभूमिकापरित्यागं तावदाद्रियन्तामित्याशयेन न तु तदेव परं तत्वम् इदमेव दर्शयितुं श्रीस्पन्दशास्त्रे नाभावो भाव्यतामेति. । इत्यादिना। 'अभावं भावयेत्तावद्यावत्तन्मयतां ब्रजेत् ।' इत्यभावब्रह्मवादिमतं दूषितं । 'यत्किल मर्यते तत्कालालिङ्गितं वेधं च शून्यं च एवंभूतोऽहमकिं चिद्रूप आसम्' इति देहादिप्रमातृतावतरणे मर्यमाणत्वेन, तथेति वेद्यमेव तद्वेदकीकृतं देहादिवदेव, अहंप्रकाशस्तु सततानस्तमितः, स्वतो निर्विच्छेदत्वान्न सरणार्ह इत्युपपादितमादिसिद्धसूत्रे प्रमातृशून्यता न कदाचिदुचिता इत्युपपादयता शास्त्रकारेण । ४४ परमशिवदशायामिव । ४५ सदाशिवादिदशायाम् । ..........
२४८ ईश्वरप्रत्यभिज्ञा । [१अ०६आ० वेद्यरूपे शरीरादौ। तत्र शुद्धेऽहं-प्रत्यवमर्शे प्रति- योगीन कश्चिदपोहितव्यः संभवति-घटादेर- पिप्रकाशसारत्वेनाप्रतियोगित्वेनानपोह्यत्वात् , इत्यपोह्यत्वाभावे कथं तत्र विकल्परूपता। अ- शुद्धस्तु वेद्यरूपे शरीरादौ अन्यस्माद् देहादे- घंटादेश्च व्यवच्छेदेन भवन् विकल्प एव-इति वाक्यार्थः। अक्षरार्थस्तु-चित्तत्त्वं प्रकाशमात्ररूपं हित्वा सदप्यपहस्तनया अप्रधानीकृत्य भिन्ने देहादावहमेव देहादिः नीलादौ प्रमेये प्रमा- ता-इत्यभिमानेन 'योऽहं स्थूल' इत्यादिविमर्शः स विकल्प एव, न तु शुद्धं प्रत्यवमर्शमात्रम् । ४६ सदपीति यतो 'यद्यध्यर्थस्थितिः प्राणपुर्यष्टक... ।' इत्यादि- नाहमिति विमर्शश्चित्तत्त्वमेवावलम्बते इति तथापि तदुलङ्घय । ४७ न चैतद्विमर्शनं संकेतमात्रप्रभावेन, अपि तु नीलादिविषयममातृ- ताभिषेकयोगेनेत्याह नीलादौ प्रमेये प्रमातेति । तेन योऽहमिति विमर्शो. ऽवतीर्णः स निर्विकल्पभुवि या शुद्धा विमर्शरूपता तां तिरस्कारेण विधूय विकल्पावस्थायां विकल्पतामेव स्वीकुरुते । ४८ न तु शुद्धं प्रत्यवमर्शमात्रमिति, न च मन्तव्यं यदि शुद्धो नास्ति तहि समयमानमेवैतदिति किमनेन योऽहं स्थूल इत्यादिविमर्श इति कथि- तेन सत्यं न सामयिकमात्रमहमिति अपि तु शरीरे ज्ञेये कार्ये च ज्ञातृक- र्तृतामयस्वातच्यात्मक परामर्शयोजनमेतदपरथा गच्छामि चलामि तिष्टा- मीति स्वातन्त्र्यामर्शनमविच्छेदप्राणं कथं देहे संक्रामेत् न ह्यन्यस्य स्वात- ज्यमन्यस्य क्रियायै भवेत् विच्छेदविमर्श हि स्यादेतत् अयं चलस्विति अ- विच्छेदेन तु गच्छामीत्यादिपरामर्शः ।
५का०] श्रीमदभिनवगुप्ताचार्यकृत विमर्शिन्युपेता । २४९ अत्र हेतुः-परो द्वितीयो देहादिर्घटादिश्च यः प्रतियोगी तुल्यकक्ष्योऽन्योन्यपरिहाराच विरु- द्धस्तस्य योऽवभासः-समारोपणलक्षणः, त- स्माद्यतोऽसौ तनिषेधानुप्राणितोऽहमित्यवमर्शो जातः 'अहं स्थूलो,न कशो,न घटादिः इति,शु- द्वप्रकाशरूपस्य अपहस्तनमेव देहादेर्भेदे हेतुः, तेंदपहस्तने तु परमेश्वरस्य खात्मप्रच्छादने- च्छारूपाभेदाप्रकाशनं भ्रान्तिरूपं प्रति खात- व्यरूपा मायाशक्तिहेतुः, चिद्रूपस्य चापहस्तनं देहादेरेव अत्यक्तवेद्यभावस्य भिन्नस्यैव उपप- त्तिशून्यतयैव प्रमाताभिमानः। तथा च देहा- ४९ तदिति-घटादि द्वितीयदेहादि । ५० ननु चापहस्तनस्यैव को हेतुः येन त दहेतुरपि समर्थितः स्यादि- त्यत आह तदपहस्तनेति । ५१ किमिदमपहस्तनं नाम येनैतत्सिच्यतीत्याह चिद्रूपखेति । ५२ अनात्मनि वेद्ये यदात्माभिनिवेशस्य प्रमातृत्वगाढाभिमानस्य स्वर- सवाहिनो विवेकमात्रेण अपसारयितुमशक्यस्य अवतरणमवरोहणम् अङ्घ- रूपशुद्धसंवेदनभूमित्यागेन अधरभुवि वेद्यरूपायां निपतनं, तत्रायमेव शून्यप्राणधीदेहाभिधानभूमिकापरिग्रहः पूर्वपूर्वयोगेन इतीश एव क्रमः । तथाहि-वेद्यरूपेऽपि नभसि सर्वावकाशसहिष्णुत्वं व्यापारत्वं च इति नात्यन्तमिव जडता, ततो वैभवरहिते वायो स्पन्दशक्तिसंयोगा- वियोगिनि नीरूपे, ततो रूपवति प्रकाशमये तेजसि, ततः प्रकाशशून्ये परप्रवेशक्षमेऽम्भसि, ततोऽपि परप्रवेशासहिष्णावतिघने स्थूले पार्थिवेs- त्यन्तजडे प्रमातृताभिमानः क्रमेण निकर्षदशामधिशेते । तत्र केवलशून्य- V २५० ईश्वरप्रत्यभिज्ञा। [१अ०६आ० स्यायोगिभिरव्यवहार्यत्वाल्लोकापेक्षया स्पर्शमयस्य प्राणस्यैव परिगृहीत- न्यानुवेद्यस्य तेजःसंबन्धाधिक्योपनतचराचरदग्धृत्वस्य प्राथम्यमुच्यते । तेन संविदः परिणामो हस्तिन इव तटे गाढेन अभिनिवेशेन आत्मनि वेद्यरूपे संक्रमणम् , स देहाथपेक्षया प्राण इत्युच्यते, अन्तःकरणस्य संक- ल्पनाभिमनननिश्चयनवृत्तिमयस्य तत्त्वं, यदनुग्रहादेवंविधवृत्तिलामा त- श्चित्तत्त्वं, तस्य वायुः प्राण आश्रयत्वमधिष्ठेयत्वं गतः, तथाभूतेन संवित्त. स्वाधिष्ठितेन प्राणेन बुद्धिरूपपुर्यष्टकसाहित्यभाजा यतोऽधिष्ठितं शरीरं ततश्चेतनोचितस्वातच्ययोगोऽस्य न तु साक्षात्संवेदनेन अधिष्ठितं तत् । तथाचोक्तं 'प्रकाशरूपो भगवान्प्राणाधिष्ठान उच्यते । प्राण एवाधरो धर्मो हंसश्चेति त्रिवाहनः॥' अत एव 'शरीरं यदवामोति यचाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥' इति श्रीभगवता गीतासु । संविद्रूपस्य ईश्वरस्य प्राणपुर्यष्टकाधिष्ठान- द्वारेण देहाधिष्ठानत्यमुक्तम् श्रीस्पन्दशास्त्रेऽपि गुरुणा 'यतः करणवर्गोऽयं विमूढोऽमूढवत्स्वयम् । .."प्रवृत्तिस्थितिसंहृतीः॥ लभते । इत्यत्रा 'सहान्तरेण चणेति ।' तत एव देहस्य भस्मीभावेऽपि स्वम इव शयनैकनिमनतात्मकव्या- मोहदशायोगेऽपि चेतनाधिष्ठितप्राणकोडीकृतस्य पुर्यष्टकस्य तादवस्थ्या. त्परलोके देहान्तराधिष्ठानद्वारेण भोगो न दुःसमर्थः, दृश्यन्ते च भूयसा योगिन्यः स्वशरीरे स्वगृहावस्थिते एव स्वतन्त्रीकृतप्राणगमागमयोगेन देहान्तरगतेऽपि वस्तुनि ज्ञानक्रियायोगिन्यः, स्वतन्त्रीकरणे च युक्तय उपदिष्टा एव । यत्किल शिवसूत्रम् 'ब्रह्मपदे कमलशरीरस्तदुत्थप्राणिरूपेण सर्वत्र विचारी ।' इत्यादि, तदलमनेन । सर्वथा तावदेहप्राणयोः पृथग्भाव एव । यदाह मुनिः ......... ...........................
५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २५१ भिमानभूमिकायां स्थिताश्चार्वाकाः 'चैतन्यवि- शिष्टः कायः पुरुषः' इति कायमेव प्राधान्येना- हुः-स्त्रीबालमूर्खाणां तथाभिमानात् । ततोऽपि विवेकवन्तः पाकजोत्पत्तिपरिणामादिबलाद- स्थिरं शरीरं मन्वानाः प्राणशक्तिसमधिष्ठानेन च विना विकारशतावेशं शरीरस्य पश्यन्तो बुभुक्षापिपासायोगयोग्यं प्राणमेवात्मानं केचन श्रुत्यन्तविदो मन्यन्ते। ततोऽपि समधिकविवेक- भाजः प्राणस्यापि अनित्यत्वादनुसंधानयोग्य- तामपश्यन्तो ज्ञानसुखाद्याश्रयभूतां बुद्धिमेव ............... 'सहवर्धितयोर्नास्ति संबन्धः प्राणकाययो।' इति । संबन्धः सम्यग्बन्धः अत्यन्तावियोग इति यावत् । तथा च कक्ष्यास्तोत्रम् 'भग्नो भ्रमोऽयं भवता विचित्रां स्वमे विदेहादिगतिं प्रदय । देहे गते भसमये परत्र कीहक्......" इति । ५३ तथा चाभिमानिकं तेषां प्रमातृत्वं न तु वस्तुत इति फलितम् । यथाहि तानि तानि द्रव्याणि पृथकस्थितानि न मदशक्तिमुत्पादयितुमलं मिलितानि पुनः सुरारूपेण परिणतानि तामुत्पादयन्ति, तथा पृथकस्थि- तानि भूतानि चैतन्यरहितानि च मिलितानि चैतन्यवन्तीव भान्तीति चार्वाकाः । तदेतदेतेषां मतं संकलय्याचार्याः परमार्थ विवेक तंत्रापि दर्शयन्ति-देहाभिमानेति।
२५२ ईश्वरप्रत्यभिज्ञा । [१०६आ काणादप्रभृतय आत्मानमाहुः । अपरे तु तस्या अपि योगिदशायां वेद्यभावादपरत्वं म- न्यमानाः असंवेद्यपर्वरूपं यन्न किंचिद्रूपं सक- लवेद्यराशिविनिर्मुक्तं शून्यत्वान्नभस्तुल्यं न तु महाभूताकाशस्वभावं प्रमातृतत्त्वं शून्यब्रह्मवा- दिनः सांख्यप्रभृतय आहुः। तस्मिन्नपि वेद्ये शून्यान्तरं तत्रापि शून्यान्तरम्-इति यावद्भेदः तावत्कल्पना न त्रुट्यति, तदर्थमाह कल्पिते' इति । न चानवस्था परमार्थप्रकाशबलेन यतः सर्वस्य प्रकाशो न तु देहादिवशात्, तथात्वा- भिमानमात्रं-देहादिः प्रमातेति, संकोचमात्र- ............... ५४ अपिशब्देन सर्वेषां पूर्वेषामन्तर्बहिष्करणगम्यत्वं घोतितम् । ५५ वेद्यत्वेन प्रसिद्धो बुद्धिमाणलक्षणो योऽर्थस्तस्य यो निषेधः 'तथा हि वेद्यते यद्यन्तमध्येऽहं न कश्चन । अपि त्वेतद्विविक्तोऽसि. इति नयेन तदभावमानं नान्तःकरणस्य सुखादिवस्तुवन: बहिष्करणस्य नीलाद्यर्थवद्विषयोऽविषयत्वादेव कल्पितो विकल्पनमात्रपरमार्थ इत्यर्थः । ५६ तस्यापि वेधत्वादिति । ५७ ननु च 'शनैः शनैरुपरमेद्बुध्या इतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥' इति । 'अभावं भावयेत्तावद्यावत्तन्मयतां ब्रजेत् ।'
५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २५३ रूपं चित्तत्त्वं शून्यं भूतलं, यथा घटाभावः, सं- कोचः-अपरवेद्यांशच्छायाच्छुरितं तु चित्तत्त्व- मेव बुद्धिप्राणदेहादि इति । अमी एव भूमि- काविशेषा उत्तरोत्तरमारोहतां योगिनां जा- ७ इति च । तथा 'यद्यत्संवेद्यते किंचिन्न च तद्रूपमिष्यते ।' इति सर्व निषेधान्महाविषयतया च कथमन्त्र विकल्पत्वम् ? इत्यत आह- संकोचमात्ररूपमिति । अयं भाव:- यत् किल सर्यते तत्कालालिङ्गित वेधं च शून्यं च एवंभूतोऽहमकिंचिद्रूप आसमिति देहादिप्रमातृतावरणे मार्यमाणत्वेन तथेति वेद्यमेव तद्वेदकीकृतं देहादिवदेव, अहंप्रकाशस्तु सततानस्तमितः स्वतो निर्विच्छेदत्वात् न स्मरणार्ह इति । अत एव स्पन्दे 'नाभावो भाव्यतामेति' इत्युक्तं । न च गीतासु विरुद्धं तत्र सकलचि- त्यविविक्ततैव तावदात्मतत्त्वमित्युपपादितं अधरभूमिकापरित्यागं ताथ- दाद्रियन्तामित्याशयेन न तु तदेव परं तत्त्वमिति । ५८ तथा चागमशास्ने तन्त्रसारे आचार्याभिनवगुप्तकृते जाग्रदायवस्था निरूप्यन्ते । तत्र वेद्यस्य तद्विषयायाश्च संविदो यत्संवेदनं वैचित्र्यमय- मन्योन्यापेक्षं सत् सावस्था न वेद्यस्य केवलस्य नापि केवलायाः संविदः न चापि पृथक् पृथक् दे, तत्र यदधिष्ठेयतया भानं बहीरूपतया तदा जानदवस्था मेये मातरि माने च, तदधिष्ठानतया भानं संकल्पः तदा स्वप्नावस्था, अधिष्ठातृरूपतया बीजात्मतया सुषुप्तावस्था । यदा तु तस्मिन्नेव प्रमातृविश्रान्तिगते प्रमातुः पूर्णतोन्मुख्यात् तद्वारेण पूर्णतो- भमुखतया भानं तदा तुर्यावस्था, एतदेवावस्थाचतुष्टयं पिण्डपदरूपस्थ- रूपातीतशब्दैोगिनो व्यवहरन्ति 'भूततत्त्वाभिधानानां योऽशोऽधिष्ठेय उच्यते पिण्डस्थ इति तं प्राहुः पदस्थमपरं विदुः ॥ मन्त्रास्तत्पतयः सेशा रूपस्थमिति कीर्त्यते । रूपातीता पराशक्तिः सव्यापाराप्यनामया।
ईश्वरप्रत्यभिज्ञा । [१अ०६० दादितया पिण्डस्थादितया चागमेषु भण्यन्ते, अपहस्तनं च व्याख्यास्यते 'कलोलितमेतच्च चित्तत्त्वं कर्तृतामयम् । अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् ॥ इति, तत्स्थितम् -अशुद्धः 'अहम्' इत्यवमर्शों विकल्प एव ॥ ५॥ द्विविधोऽपि चायम् 'अहं-प्रत्ययो' विधा- निष्प्रपञ्चो निराभासः शुद्धः खात्मन्यवस्थितः। सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते ॥' इति । "पिण्डे मुक्काः पदे मुक्का रूपे मुकाः षडानन । रूपातीते तु ये मुक्तास्ते मुक्ता नात्र संशयः ॥' इति तत्वसंग्रहे। 'पिण्डं कुण्डलिनी शक्तिः पदं हंसः प्रकीर्तितः। रूपं चिद्विन्दुरित्युक्तो रूपातीतः परः शिवः ॥' इतीमा एव तिस्त्रः प्रमेयप्रमाणप्रमानवस्थाः प्रत्येकं जामदादिभेदाश्चतुर्विधा उक्ताः, सा च रूपं दशा अहमित्येवंविधमंशत्रयमुत्तीर्य पश्यामीत्यनु- पायिका प्रमातृता स्वातन्त्र्यसारा नैकव्यमध्यत्वदूरस्वैः प्रमातृप्रमाणप्रमेय- ताभिषेकं ददती तदवस्थात्रयानुप्राहकत्वात् त्रिभेदा । यच्च सर्वान्तर्भूतं पूर्णरूपं तत्तुर्यातीतं, किं च यस्य यद्यदा रूपं स्फुटं स्थिरमनुबन्धि तत् जाग्रत्, तस्यैव तद्विपर्ययः स्वमः यो लयाकलस्य भोगः, सर्वावेदनं सुषुप्तं यो विज्ञानाकलस्स भोगः, भोग्याभिनीकरणं तुर्य मन्त्रादीनां स भोगः, भावानां शिवाभेदस्तुर्यातीतम् । ५९ शुद्धाशुद्धभेदात् , अहं प्रत्ययः उभयोऽपि , ६का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २५५ अनुभवमात्ररूपश्चानुसंधानात्मा च, शिवा- स्मनि 'अहमिति' सदाशिवात्मनि 'अहमिद- मिति' शुद्धो द्विधा । अशुद्धोऽपि 'अहं स्थूल' इति, योऽहं स्थूलोऽभवं, सोऽहं कृशो, बालो, युवा, स्थविरः, स एव 'अहम्' इति च अ- शुद्धो द्विविधः। तत्र शुद्ध विकल्परूपत्वमप्रति- ष्ठमेव इत्युक्तम् , अशुद्धे तु अनुभवरूपे विक- ल्पत्वमुपपादितम्, अशुद्धेऽपि तु अनुसंधाना- स्मकतया अभेदस्य प्रस्फुरणात् कश्चिदविक- ल्पकत्वं शङ्केत तस्य व्यामोहं व्यपोहयितुमाह ६० अनुभवस्वभावः। ६१ अनुसंधिरूपम् । ६२ अनुभवस्वभावः। ६३ प्रतियोग्यवच्छेदविश्रमशून्यत्वात् । ६४ अहंप्रत्यवमर्श इत्यत्र । ६५ प्रतियोग्यवच्छेदविश्रान्तशरीरत्वात् । अशुद्ध चानुसंधानात्मा योऽहमित्यादिप्रत्ययः तत्र देहावस्थामां भेदात् नेदं तद्विषयपरामर्शनम् अपि तु संविन्मात्रमस्य विषयः, तद्धि नित्यमेकमिति । यदि वा स्थिरमेव शरीरमनेन साक्षात् क्रियते उभयथा चाविकल्पकत्वमिति भावः। अन्ये तु देहावस्थाविषयो योऽहमिति प्रत्यय. स्तथापि देहावस्थाभेदेकीकरणस्फुरणादभेदसारतां स्पृशन् बिमर्शपात्रता- मालभेतेति बुवन्ति ।
ईश्वरप्रत्यभिज्ञा । [१अ०६आ० कादाचित्कावभासे या पूर्वाभासादियोजना। संस्कारात्कल्पना प्रोक्ता साँपि भिन्नावभासिनि ॥६॥ देह इत्यादि वर्तते, कादाचित्कः कदाचिद्भ- वोऽनियतदेशकालाकारोऽवभासो यस्य देहादेः खलक्षणरूपस्य, तत्र या पूर्वाभासेन बालादि- शरीरावभासेन योजना 'योऽहं बालः स ए- वाद्य 'युवा' इत्यनुसंधानम्, आदिग्रहणादुत्त- रेण भाविना सह योजना 'स्थविरो भवितास्मि' इति सा योजना सर्वा कल्पना- विकल्प एव, न तु शुद्धः प्रत्यवमर्शः । अत्र आभासेन ६७ न केवलं देहाधनुभवमयोऽहमिति विमर्शो विकल्पों यावदनु- संधिमयोऽपीति अपि-शब्दस्यार्थः । ६८ पूर्वसूत्रात् । ६९ एतच्चान कादाचित्कस्योपलक्षणपरत्वे युज्यते तेन कौत्रचित्कः कार्थचित्कश्चेति चोक्तं देशकालाकारेति । ७० योज्यमानयोहि आभासयोः प्रतियोग्यपोहनोहकितभेदयोरेव योजना। योज्यमानोऽपि चासो देहादिः पूर्वावस्थैकीकृतोऽपि अतद्रूपा- पोह एव निर्भाति, योजना च प्रमातुरेव अर्थानपेक्षो व्यापार इति सा कथं न विकल्प: स्यात् ।
६का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २५७ देहादेविशेषणं हेतुत्वाशयेन - यतो भिन्नाव- भासित्वमेव देहादेस्तदोनीमपि अविच्छिन्नं, यदि हि तस्य देहादेः सर्वतः पूर्णत्वम् -अ- वच्छेदहीनत्वं पश्यन् अनुसंधानम् - 'अहमि- दम्' इति विदध्यात् तदियं सदाशिवभूः केन विकल्पास्पदत्वेन भण्यते-यावता विच्छिन्ने एव सोऽसंधिः, भिन्ने हि कथमनुसंधानम् ? इति चेदाह संस्कारात्'-प्राक्तनानुभवकृतवा- सनाप्रबोधजस्मृतिवशात् इति यावत्, प्राणे बलाँबलवशादनुसंधिः, बुद्धौ ज्ञानसुखादिता- रतम्यात्, शून्ये वैतत्यावैतत्ययोगात्, अय- मपि विकल्प एव, एवं स एवायं घट' इति घटाद्यनुसंधानेऽपि विकल्पत्वं मन्तव्यं, किन्तु ७१ भिन्नावभासिनीति । ७२ योजनावसरे अनुसंधावपि । ७३ चिद्विश्रान्तत्वम् । ७४ योऽहं बाल इत्यादि। ७५ क्षुधिततृषिताभासेन च । ७६ मूर्छासमाधानाद्याभासान्तरैश्च सह योजना तावदस्ति । ७७ एवं वेत्यत्रायं भावा-सूत्रे विशेष्यविशेषानुपादानादेतद्विशेषणं देहादि लभ्यत एवानियतं, तथा च न कोऽपि चानुवर्तनादिप्रयासः, न केवलं तदेव यावसामान्योक्तौ घटादावस्येवं बोध्यमित्याह स एवायं घट इति ।
२५८ ईश्वरप्रत्यभिज्ञा । [१अ०६आ० एतासु अनुसंधानभूमिषु विद्याशक्तिराधिक्येन अचिरद्युतिवदुद्दीप्यते इति तासां पर- दपरिशीलनप्रथमकल्पाभ्युपायत्वमभ्युपागमन् गुरवः॥६॥ न च देहादीनां पूर्वपूर्वप्रमातृवेद्यता-येन प्रमातुरप्रकाशे प्रमेयं न भाति तत्प्रकाशश्च न पूर्वप्रकाशं विना, सोऽपि न प्रमात्रन्तरप्रकाश विना- इत्यनवस्था स्यात्, अपि तु विशुद्ध- प्रकाश एव विश्वस्य प्रकाश इति निरूपयन् उक्तयुक्त्या सैंदैव सृष्ट्यादिशक्तिवियोगोऽपि भगवत उक्तो भवति, इति दर्शयति ७८ सौधसमारोपणे सोपानत्वमिव । ७९ कस्यचिद्भेदस्य तिरस्कारात् । ४० वक्ष्यमाणानवस्थया। ८१ प्रमात्रप्रकाशतर्कमेवाह तत्प्रकाश इति- देहादि प्रमातृप्रकाश इत्यर्थः। ८२ प्रमानन्तरम्-पूर्वतरम् । ८३ देहादिप्रमातुः। ८४ देहादिप्रमाता भवन्स्वतन्त्रः । ८५ च्यवहारकालेऽपि ।
७का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । २५९ तदेवं व्यवहारेऽपि प्रभुदेहादिमाविशन् । भान्तमेवान्तरोंघ- मिच्छया (सयेबहिः ॥७॥ यत् पूर्व दर्शितं 'देहे बुद्धौं' इत्यादि तत् एवम् उपपंद्यते, कथम् ? यदि व्यवहारे मा- , ८६ ननु देहादीनां विकल्परूपत्वे घटादिवत् प्रमातृवेद्यत्वमेवायातं तथा च यथा प्रमेयं न स्वतः प्रकाशं तथा देहादिप्रमात्रपि तस्मात् तत्रा. हमिति विमर्शः संकेतरूप एव, तथा च न प्रमेयप्रकाशः कथंचनापि घटते येनोक्तं-नीलादौ प्रमेये प्रमातेति, तेन यदुक्तं ज्ञेयकार्ययोः ज्ञातृतामयक- र्तृतामयस्वातन्नयात्मकं प्रत्यवमर्शमात्रमहमिति गच्छामि चलामि तिष्टा- भीत्यवच्छेदप्राणनादिति तदपि पूर्वपूर्वप्रमातृवेद्यतायां न घटते इत्याश. यान्तर्गर्भीकारेण देहादीनां प्रमातृत्वस्वरूपं समर्थयन् तदनुषङ्गेण चैतदेव तस्यानस्तमितत्वं - यत्सर्वथा संकोचेऽपि स्वातन्यं तत्स्वरूपत्वेनैवाभाति इति सूचयति तदेवमित्यादिना । घटते इति शेषः। अपिना आदिसर्गपरिग्रह इति वृत्तिमतम् । ८७ आविशन-स्वीकुर्वन् । ८८ यदि तदा तद्धटते इति संबन्धः। ८९ प्रमातृत्वेनाहमिति विमर्श इत्यन्तम् । ९० युक्त्या संभवति । ९१ तदेवमन परमेश्वरसृष्टावियान् परमार्थ:- परमेश्वरः प्राणशरीरा- दिकर्तृतयाभिनिविशमानो बहिर्भावेन अर्थानां पराधीनप्रकाशतया जड. तामिव आपादयन् सर्गादि करोति, यदा पुनर्देहप्राणादिना आविशति तदा विश्वात्मना सर्वदैव स्वाधीनप्रकाशः स्वाङ्गभूतोऽर्थराशिः प्रकाशते न तु तन्न देशकालक्रमः कश्चित् इत्येवं व्यवहारे 'मायापदे' इत्युक्तम् ।
[१अ०६आ० aapa ईश्वरप्रत्यभिज्ञा। यापदे देहप्राणादिमपि प्रभुरेव प्रकाशपरमार्थ इच्छया-मायाशक्तिरूपया, ऑविशन्-देह- प्रोणादिप्राधान्येन खरूपं प्रदर्शयन् , अन्तः- संविन्मात्रे, भान्तम् - अहमित्येवंरूपम् अर्थों- घम् इच्छंयैव बहिः इंदमिति भासयति तत एतदुपपद्यते, अन्यों तु अनवस्था स्यात्, हेतौ लिङ्। अपि-शब्द एव-शब्दश्च भिन्नक्रमौ, यत् एतावत् उक्तं, तदिति- तस्मात् हेतोः, एवं जातं वक्ष्यमाणरूपम्, किं ९२ प्रमातृतया स्वीकुर्वन्नित्यर्थः । ९३ परमार्थतो हि सर्वमिदं स्वरूपमेवावेशनस्वरूपत्वं तच्चाभास. भानमेवेति बोध्यम् । तत्रेच्छयेति आवृत्तिपक्षेण योजनीयम् । एकत्रेच्छा मायाख्या स्वातन्त्रयशक्तिः अपरत्र कर्तृशक्तिः । ९४ अत्रायमर्थ:-सर्वथा संविन्मानमेवेदमन्तबहिष्कलनारहितं तदेव स्वेच्छया गृहीतदेहप्राणाद्यहंभावः सर्वथा चिन्मानमयमेवेदं सर्वमन्तभूमौ भासमानं देहायहन्तानयेण नेदमित्याभासवन्तं करोति इति प्राधान्ये नेति पदेन ध्वनितं, तेन नान काचनापि उक्तानवस्था, अत्र वेदान्तप्र- क्रियाया महान् विशेष आयातः । ९५ अन्तःकरणबहिष्करणवेद्यताभूमौ स्फुटमस्फुटं च क्रमेण इद- माभासयति। ९६ अन्यथेति आवेशाभावे प्रमातृवेद्यतायाम् । ९७ भिन्नक्रमतया पदसंबन्धोऽर्थश्लेषेण घटते इति मत्वा अपरथा भासयेदित्यत्र संभावनार्थेनापि व्याचष्टे । ९८ अपोहस्वरूपम् ।
७का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । २६१ तत् ? यत् किल प्रभुः परस्परं व्यवहारकाले केयविक्रेयप्रेक्षाव्याख्यादौ चैत्रमैत्रादिसंब- न्धिनो देहप्राणादीन् एकतया तावति आ- भासे आविशन् अन्तर्भान्तमेव अनुज्झितान्तः- प्रकाशमेव सन्तं बहिः एकाभासतया भास- यति ? इति संभाव्यते-इत्येतज्जातम्, [इति संभावनायां लिङ्], तेन तेन प्रमात्रा सह ऐक्यं ९९ व्यवहारो द्विधा लौकिकालौकिकभेदात्, तत्र लौकिकः क्रय- विक्रयादिरूपः, अलौकिकः शास्त्रीयः, तदाह प्रेक्षाव्याख्यादाविति । स्वय- मूहनं प्रेक्षा, परत्र प्रतिपादनं व्याख्या। १०० एकतयेति देहप्राणादीन् तत्रैवैकतया विशन्नित्यन्त वितण्य- थतया वेशयन्नित्यर्थः। १०१ अत्यन्तप्रकाशमेव । १०२ एकाभासतयेति अन्यापोहरूपतया। यथोक्तं प्राक् यत् किल तदा भास्यते तत् संविदो विच्छिद्यते संविच्च संविदन्तरात् संवेद्यं च संवेद्यान्तरात् न च विच्छेदनं वस्तुतः संभवतीति, विच्छेदनसावभासन मात्रमुच्यते इत्युक्तं भासयतीति, संभाव्यते इति अतश्च व्यवहारः परेशा- पोहनशक्तिमयः प्रमानवस्थाताहक्स्वसूचकः इति सिद्धम् । १०३ तदेवं 'चिन्तामणौ स्वरूपेण न किंचिदुपलभ्यते । अथ चाभिमतं सूते ब्रह्मैवं विश्वशक्तिकम् ॥' इति मनसि निधाय सूत्रस्यास्य चिन्तामणिरूपतां प्रकटयन प्रसङ्गादन्य- थापि सूत्रं व्याकरोति तेन तेन । तन्न चाभासयेदित्येव मूलं तत्राभासनं सृष्टिसंहारस्थितिलयानुग्रहलक्षणं कृत्यपञ्चकं, व्यवहार इति प्रमितिप्रमात. दशाविच्छेदः तेन सततमेवेत्यर्थः इत्यनेन तस्य संकुचितदशायामपि ..
२६२ ईश्वरप्रत्यभिज्ञा । [अ०६आ. सृज्यते, अन्येन प्रमात्रा ऐक्यं संहियते, घटा- दिमात्ररूपे स्थितिः क्रियते, पूर्णखरूपनिमील- नात् तिरोभाव आधीयते, तावति आभासे ऐक्यावभासनपूर्णत्ववितरणात् अनुग्रहः कि- यते, तेन न केवलं महास्सृष्टिषु महास्थितिषु महाप्रलयेषु प्रकोपतिरोधानेषु दीक्षाज्ञानाद्यनु- ग्रहेषु भगवतः कृत्यपश्चकयोगः यावत् सत- तमेव व्यवहारेऽपि । यदुक्तम् 'सदा सृष्टिविनोदाय सदा स्थितिसुखासिने । सदा त्रिभुवनाहारतृप्ताय खामिने नमः॥ इति । 'प्रतिक्षणमविश्रान्तस्त्रैलोक्यं कल्पनाशतैः। कल्पयनपि कोऽप्येको निर्विकल्पो जयत्यजः।। इत्यादि च । तथा परमेश्वरस्वातन्याभिज्ञानं कृत्यपञ्चकं न हीयते- शक्तिदारिपि संपूर्ण- शक्तित्वमस्य सूक्ष्मदृष्ट्या विवेच्यमित्यर्थः । भत्रापि संघद्यार्थः तेन तेन प्रमाना सह स एव प्रभुरैक्यं सृज्यतेऽन्येन संहियते इति कोऽर्थः ततश्च 'नाशक्तो विद्यते कश्चित् शक्तं वस्त्येव तेऽपि नो।' इति महानयदृष्टया शक्तिमत एकत्वसमर्थनात् तत्प्रमातृसमनुरोधेन सृष्टिसंहारकलने परस्याकिंचिद्रूपत्वेनाकिंचित्करत्वात् स एव तत्तच्छक्ति- मच्छक्तिस्वरूपशक्तिमत्तमातृत्वेन सृष्टिस्थितिसंहारतिरोधानानुग्रहास्मक कृत्यपञ्चकं प्रतिक्षणं करोतीति सूक्ष्मविवेकविवेच्योनार्थः १०४ व्यवहारेपीत्यपिशब्दार्थमाह तेनेति । - ८का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २६३ "प्राकाम्यमात्मनि यदा प्रकटीकरोषि । व्यक्ती ॥ १०८ इति च ॥७॥ इह अन्तरर्थावभासः स्थित एवं, तत् किं तत्र कारणान्तरचिन्तया इति प्रकृतं प्रमेयं, तसिद्धये उपपत्तिः उक्ता, तेन विना इच्छा- रूपः प्रत्यवमर्शो न स्यात् इति, तत्प्रसङ्गात् प्रत्यवमर्शविकल्पादिखरूपम् उपपादितम्, इति १०५ तदेवमिति च स्वामिनश्चात्मसंस्थस्येत्यादि यदुक्तं तदेवमिति घटते, सृष्टिकाले व्यवहारकाले चेच्छयैवान्तःस्थितमर्थजातं भासयेदिति 'कुत्सिते कुत्सितस्य स्यात्कथमुन्मुखतेति चेत् । रूपप्रसाररसतो गर्हितत्वमयुक्तिमत् ॥ पञ्चप्रकारकृत्योक्तिशिवत्वानिजकर्मणे । प्रवृत्तस्य निमित्तानामपरेषां क मार्गणम् ॥' इति चार्थोभिप्रेतो नियोगार्थतया लिङ इति । १०६ स्वसंवित्साक्षिकतया सिद्धोऽयमित्येवकारार्थः । १०७ बाह्यार्थवासनादिकारणान्वेषणया । १०८साध्यम्। १०९ युक्तिः । ११० तत्रापि अन्तरर्थावभासोऽस्तीति समर्थनार्थम् । १११ युक्त्यावस्थापितम् ।
११७ २६४ ईश्वरप्रत्यभिज्ञा। [१अ०६आ० शिष्याणां धियं समाधातुं प्रकृतं प्रमेयम् उपपादयन् उपसंहरति एवं स्मृतौ विकल्पे वा- प्यपोहनपरायणे। ज्ञाने वाप्यन्तराभासः स्थित एवेति निश्चितम् ॥८॥ प्रकाशात्मा परमेश्वर एव यतो देहादिप्र- मातृताभिमानदशायामपि वस्तुतः प्रमाता, ११२ अव्यनां कर्तुम् । ११३ अर्थानामन्तरवभासितत्वम् । ११४ निगमप्रकारेण । ११५ तदेवं वर्तमानावभासानाम्' इत्यादि, चिदात्मैव हि देवोऽन्तः स्थितम्' इत्यन्तं वस्तुपिण्डात्मिका प्रतिज्ञा, तत्रापि चावान्तरनयेन नैव हनुभवो भाति स्मृतौ' इति स्मृतिज्ञाने 'या च पश्याम्यहम्' इति विकल्पादौ चान्तरर्थावभासोऽस्त्येव -- इति समर्थितं, ततश्च स्वानुभवादिरक्षिते "किम- न्येनेति तत्तदाकस्सिकाभास इति स्यात्' एतदन्तं विशेषकलापो हेतुत्वेनो. पन्यस्तः 'चिदात्मैव हि देवोऽन्तःस्थितम्' इत्यादि चोदाहरणादिनिरूपणं कृतं, तदेतत्सर्वं परप्रतीत्यै पञ्चावयवात्मकं वाक्यं संपन्नकल्पमिति सूचयं- स्सावनिगमयति-एवमित्यादि। ११६ नैव ह्यनुभवो भातीत्यादिना। ११७ या च पश्याम्यहमित्यादिना। ११८ वर्तमानावभासानामित्यादिना ।
१२२ ८का०] श्रीमदभिनवगुप्ताचार्यकृतविमशिन्युपेता। २६५ एवंम् इति अतो हेतोः इदं सिद्धं भवति- स्मरणे अपोहनजीविते च विकल्पे अनुभव- ज्ञाने च अन्तरोभासः प्रकाशविश्रान्तः स्थित एव, नौत्र संशयः कश्चित्, यदि हि देहा- दिरेव परमार्थप्रमाता स्यात् तत् शरीरस्य प्राणस्य धियः शून्यस्य वा अन्तर्घटादि इति न किंचित् एतत्-घंटादिपरिहारेण देहादेः ११९ एवमिति प्रकाशात्मा परमेश्वर एव यतः सर्वस्य जीवितं तत एतसिद्धम् - सर्वसंवित्स्वन्तःप्रकाशः स्थितः, तथाहि तावत् सदाशिव- संविद्यभेदेन विश्वे भावाः सामान्यरूपतया विमर्शप्राधान्येनास्फुटात्मानो. ऽधभान्ति, ईश्वरसंविदि च तथैव विशेषरूपतया तदाभासप्राधान्येनैव स्फुटात्मान- इति शुद्धाध्वनि, तदधस्तु संसारसर्गोऽपि द्विधा-शुद्धाशुद्ध- भेदेन, एतदपेक्षया पूर्वस्मिन् सुशुद्ध इति केचियपदिशन्ति, तत्र शुद्ध सर्गे पुनस्त एव सर्वे भेदेन बहीरूपतया मन्चेश्वरादिप्रमातॄणां प्रकाशन्ते, अशुद्ध पुनर्व्यवहाररूपे पश्वणूनां क्रमेण प्रथन्ते इति तेषामेव संसारिणां शक्तिविशेषान् लक्ष्यीकृत्यायमाचार्यों विवृणोति 'यतो देहादीति' तथा 'स्मरण' इत्यादि, सूत्रकृता पुनरेताः शक्तय उपलक्षणीभूता अवस्था- पिताः, मतं तु तस्य सर्वत्रेति तात्पर्यम् । १२० प्रमातृसंलीनतयावभासः । १२१ एवकारार्थमाह नाति । १२२ किं केन संगच्छेत् । १२३ उभयोरपि स्वरूपतथात्वात् । अन्तःस्थितत्वं हि सर्वथेह समर्थनीयं-तदन्तरेण बहिरिच्छामर्शासंभवात्, तञ्च केवलं शुद्धस्वप्रका- शप्रमानन्तर्लीनतां विना न कथंचनापि घटते । स्मृत्यादयश्च यद्यपि देहादिप्रमातृविषयास्तथापि तदेकप्रकाशेनैव प्रमातृरूपत्वात् तस्यैवान्त- स्तादात्म्येन स्थितं सर्वमिति भावः। ३४ .
ईश्वरप्रत्यभिज्ञा । [१अ०६आ० स्थितत्वात् । परमार्थप्रकाशस्तु सर्वसहः इति तत्रान्तर्विश्वम्, इति अनायाससिद्धमेतत् ॥८॥ ननु अन्तराभासवर्गस्य बहिराभासनं यदि सर्वत्रास्ति कस्तर्हि स्मरणादौ आभासभेदः, न च असौ न संवेद्यते- स्फुटास्फुटतादिप्र- स्फुरणस्य अनपहवनीयत्वात् ? इत्याशङ्याह किन्तु नैसर्गिको ज्ञाने बहिराभासनात्मनि। १२४ ननु च यदि घटादिपरिहारेण देहादेः स्थितत्वात् न तत्र तस्स- द्भावः, परमार्थप्रकाशे तु कीदृशस्तस्यावभास? इत्यत आह - परमार्थ इति तदन्तरिति । तथा चायमर्थः- पूर्व सत्यममातृरूपचित्तत्वे चिदात्मतया संनिविष्टा एव तथा स्फुरन्ति, न हि तथान्तःसत्तां विना सूक्ष्मेच्छामर्शः प्रवर्तते, न चान्तश्चित्तत्त्वात्मतया सद्भावे भावानां घटादित्वविमर्शयोग्य- सत्ताप्रसङ्गः, तथाहि सति चिदात्मतैव न स्यात् तेषां, ततोऽहंपरामर्शो- चिता एव ते तत्र तदा भान्तीत्युपगम्यम् । १२५ ज्ञानस्मृति विकल्पेषु । १२६ अन्तराभासस्य सर्वसाधारण्यात् । १२७ भेदः। १२८ आदिना स्फुटत्वपरिग्रहः, तथा च ज्ञाने स्फुटता स्मृत्यादाव- स्फुटता। १२९ गनु चासति बाधक तदेवं स्मृतावित्यादि सर्व संभवति, জমক चान ज्ञानस्मृत्यादीनामन्योन्यं विशेषः, यदि चान्तरवभास एव सर्वत्र बहिरवभासस्तत्किमिति तेषां भेदः, यदि चाभेदस्तहि कृतं ज्ञानस्मृ. त्यादिविशेषव्यपदेशेनेत्येषां स्वरूपं व्यवस्थापयितुं सर्वेषामन्तरवभासेऽपि विशेषमाह किंस्विति।
९का०]. श्रीमदभिनवगुप्ताचार्यकृतनिमर्शिन्युपेता। २६७ पूर्वानुभवरूपस्तु स्थितः स स्मरणादिषु ॥९॥ अनुभवज्ञानस्य 'इदं नीलम्' इति अन्त- राभासं बहिराभासयतः सोऽन्तर्भावाभासो नैसर्गिको-निसृष्टेः खांतत्र्यात् आयातो न तु स्मरणादेवि अन्यज्ञानकृतवासनादिबलात् , स्मरणे उत्प्रेक्षणे प्रत्यक्षपृष्ठभाविनि अध्यव- साये च योऽन्तीलाद्यवभासो बाह्यतया अव- भासयितव्यः नासौ खात्मीयः अपि तु पूर्वा- नु वसंस्कारजोऽसौ, तत्र संस्कारो नाम अ- १३० सत्यं विशेषाभाव एवान्तर्भावाभासतया सर्वत्र तथापि अन्यो- न्यविशेषोऽस्त्येवैषां विशेषहेतोः सद्भावात् इति किंस्विति सूच्यते । तथा चात्र सूत्रार्थः- सोऽन्तर्भावावभासो बहिराभासात्मनि ज्ञाने नैसर्गिक परमेश्वरस्येव बहीरूपतया स्वातन्त्र्यायातः सहज एव तत्र च ज्ञाने पर- मेश्वरस्येव मायापदे प्रमातुः सहज एव ज्ञानशक्तौ स्मरणादिषु तु क्षेत्र. ज्ञानां सोऽन्तरवभासः पूर्वानुभवरूप इति । १३३ निर्विकल्पस्य । १३२ अनन्यशरणतयैव । १३३ अनन्तरभाविनि। १३४ स्मरणकालीनः। १३५ स्मृतौ हि दूरसंनिकृष्टप्रत्यक्षसंस्कारजायामुभय्यामपि पूर्वानु- भूतमेवार्थमन्तःस्थितं संस्कारशब्दाभिधेयं क्षेत्रज्ञ एव स्वेच्छया पूर्व- कालावच्छेदेनैव मनोगोचरीकरोति न त्वपूर्व सृजतीति भावः । १३६ अनुभूतपूर्वार्थाभासपृथक्करणमपि नाभिनवोऽयं व्यापारोऽस्याः, , २६८ ईश्वरप्रत्यभिज्ञा । [१अ०६० नुभवस्य कालान्तरेऽपि अनुवर्तमानता, अतो- ऽसावनुवर्तमानोऽनुभवो यतो नीलाद्याभाससं- भिन्नः ततः तत्तादात्म्यापन्नं स्मरणाद्यपि तथा निर्भासते, तत एव स्मरणकालासंभवी ऑ- भासः तदनुभवपूर्वकालकलितएव, इति स्वयं स्मरणादेनिर्विषयत्वं गृहीतग्राहित्वं च उद्घो- ष्यते । एतदेव अस्फुटत्वम् , इति सिद्धोऽनुभ- वस्मरणादौ आभासभेदः, अन्तराभासवर्गस्य बहिराभासनम् अव्यवधानेन स्फुटता, व्यव- धानेन तु तात्कालिकत्वाभावात् अस्फुटता इति ॥ ९॥ ननु अनुभवज्ञानात् ऐन्द्रियकात् अन्यत् सर्वं ज्ञानं व्यवधानेन बहिराभासनरूपं प्रा- सम् ? इत्याशङ्कय प्रविभागमाह किन्तु पृथक् कृत एव तमसा स आवृत इव संस्काररूपतयावस्थितः तदानी प्रतिबोधकसंनिधाने पुनरावरणविगमात् स एव प्रकाशीभवति इत्यप्रमुषित उच्यते, अत एव अनुभूतविषयासंप्रमोषः स्मृतिर्न त्वपूर्व- सृष्टिरेषा। १३७ तेन नीलादिना तादात्म्यापन्नम् । १३८ सर्यमाणः संस्कारजः । १३९ उच्चैर्भाष्यते। १४० अन्यत्-स्मरणादि स्वैरचारिविकल्पादि च । १४१ ननु च यद्यव्यवधानेन स्फुटता व्यवधानेन पुनरस्फुटता, तथा .
१०का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २६९ १४२ स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि। यथाभिमतसंस्थाना- भासनाद्बुद्धिगोचरे ॥ १०॥ च अनुभवव्यतिरिक्तं सर्वमेव ज्ञानं विकल्पादिरूपमस्फुटत्वेनैवायातं? सत्यं, तच्च 'किं तु नैसर्गिको ज्ञाने बहिराभासनात्मनि ।' इत्यनेनैव सिद्ध, पुनरुत्तरार्ध 'पूर्वानुभवरूपस्तु स्थितः स सरणादिषु ।' इति कथयताचार्येण मरणादावेव संस्काररूपो न स्वैरचारिविकल्पादौ- इत्यन्याभिप्रायावकाशो दत्तः, तदेवाह-स नैसर्गिक इत्यादि। १४२ सः-अन्तराभासः । तदेवमनुभवस्मृतिज्ञानयोः परस्परविशेषे. णाभासभेदो दर्शितः, अपूर्व निर्माणपूर्वनिर्माणत्वेन तत्रानुभवस्तावदेक- प्रकारत्वेन संवृत्तचर एव, स्मृत्यादीति इत्यादिशब्देनोत्प्रेक्षाप्रत्यक्षपृष्ठ- भाविविकल्पादिपरिग्रहः, तत्र विकल्पस्य द्वैविध्यं-प्रत्यक्षपृष्टभाव्येकः खैरचारी च, मनोराज्यादिरूपो द्वितीयः । तत्र प्रथम पूर्वानुभवसंस्का- रायपेक्षमस्फुटस्वपक्षे निक्षिप्त, द्वितीये तु मनोराज्यादौ स्वैरचारिणि तथोत्प्रेक्षादिषु क्षेत्रज्ञस्यैव स्वतन्त्रता, इति विषयविभागं विकल्पस्याह- स नैसर्गिक इति । ननु बहिराभासात्मनि ज्ञाने नैसर्गिकत्वेन अन्तरा- भासस्य अव्यवधानेन बहिराभासनम् - इत्याभासगतं स्फुटत्वमित्युक्तम् , तदन्यत्र स्मरणादावन्यव्यवधिना बहिरामासनात् तात्कालिकत्वाभावात् अस्फुटत्वमाभासस्येति लभ्यते, तकिमर्थं द्वितीयम, 'पूर्वानुभवेति'? सत्यम्-एवं त्वनुभववर्ज सर्वसंविदामेक एव वृत्तान्तः स्यात् , न चैव- मिति दर्शयति सूत्रेण-स नैसर्गिक एवेत्यनेनैव । १४३ नैसर्गिकः-अन्योपायानपेक्षः स्वभावसिद्ध इत्यर्थः । १४४ नन्वस्तु तस्यान्तः प्रमातृभूमौ स्वैरचारितया सत्त्वं-बहिस्तस्य . २७० ईश्वरप्रत्यभिज्ञा। [१अ०६आ० यः प्रत्यक्षव्यापारम् अनुपँजीवन व्याक्षेप- सारतया मनोराज्यसंकल्पादिविकल्पः स खैरं कृत्वा-खप्रेरणेन परप्रेरणनैरपेक्ष्येण खातयेण चरति उदेति व्ययते च, तत्र यो बहिरवभासो नीलादेः अन्तराभासमयस्य स नैसर्गिक एव, तथाहि अपरिदृष्टपूर्वमपि श्वेतं दशनशतक- लितकरयुगलयुक्तं दन्तिनम् अन्तः प्रमात- भूमौ स्थितं बहिः अन्तःकरणभूमौ खच्छ- सत्ताभावात् अलं प्रयत्नेनेत्यत आह-यथेति, तेन तस्य बुद्धिदर्पणास्फा- लनेनाभासवत्वमेव बहिष्ट्वम् । १४५ अनपेक्षकः। १४६ मनसः। १४७ ननु च यदि स स्वैरं, यदि स्वातन्त्र्येणान्यप्रेरणनैरपेक्ष्यतयैव स्वतन्त्रविकल्पं रचयति तर्हि बहिष्ट्वं तस्य केन वार्यते, ततश्च न खैरम् ? इति चेत्, अत्रोक्तं-सत्यमत्येव स्वातनयं परं पारमेश्वरशक्यप्रत्यभि- ज्ञानान वा तथाभासनिर्माणेऽपि सर्वप्रमातृसाधारणस्फुटाभासमर्थ- निर्माणासामर्थ्यमेवास्येत्यत उक्तं बुद्धिगोचर इति । १४८ खैरचारिणि च विकल्पे यथेच्छं कल्पना इत्याह-तथाहि अपरि- दृष्टमिति, अनाक्षिपन्ति-नेदं स्वतन्त्रं स्वैरचारि विकल्पज्ञानमिति। तथाहि विकल्पस्यावभातपूर्वार्थमाननिर्माणसामर्थ्यमेव बुद्धिगोचरे न त्वदृष्टपूर्वेऽथै अभिनवत्वेन यथेच्छ निर्माणसामर्थ्यम् दृष्टपूर्व एव हस्तिनि एतादृश- निर्माणं न त्वदृष्टे निर्माणं चापूर्वताभासनम् , अन्न परिहारः सूत्रकारेणा- भिहितः-संस्थानभासनादिति, तदयमर्थः- दृष्टमपि यावन्न दृष्टतयाव- भास्यते अपि त्वपूर्वत्वेन तावदपूर्वमेव ततोऽदृष्टमिति कलप्यते । , - ११का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २७१ धीदर्पणात्मिकायां स विकल्पः तात्कालिक- मेव आभासयति ॥१०॥ अस्माच्च अन्तरीभाससंभवसमर्थन]सङ्गा- गतात् आभासभेदविचारात् शास्त्रे यत् प्रयो- जनं मुख्यतया अभिसंहितं स्वात्मनि ईश्व- रप्रत्यभिज्ञानरूपं तदधिकरणसिद्धान्तनीत्या अनायाससिद्धम्, इति दर्शयति अत एवं यथाभीष्ट- समुल्लेखावभासनात् । १४९ स्वामिनश्चेत्यनेन । १५० यथाहि आदिसर्गे तत्प्रथममेव तथावभासनमर्थानां ज्ञानमुच्यते तथा सांसारिकक्षेत्रज्ञव्यवहारेऽपि देवदत्तादिप्रमातॄणां क्रमेण घटादि- प्रतिभासनं ज्ञानमेव, तत्रोभयत्रापि चिन्मय एव भावावभासस्तथा बहिः प्रथते, इत्येवमभिप्रायेणाह-प्रसङ्गागतादाभासभेदविचारादिति, सभेदविचारेण ज्ञानस्थानुभविकस्यापूर्वतानिर्माणमेव प्रकृतार्थसमर्थक- येन तस्य स्वातन्त्रयमुन्मीलतीति बोध्यम् । १५१ स्वैरचारि विकल्परूपात् इति प्रकृतोपयोगेन । १५२ अभिप्रेतम् आख्यातुमिष्टम् । १५३ ईश्वरप्रत्यभिज्ञा च शक्त्याविष्करणद्वारेण, सा च शक्तिज्ञानक्रि. यारूपा इति ज्ञानक्रियारूपशक्त्याविष्कारे स्वरूपप्रत्यभिज्ञा सिद्धा इत्यर्थः । यस्मिन्नर्थे सियति तदनुयायीन्यर्थान्तराण्यपि सिध्यन्ति सो- ऽधिकरणसिद्धान्तः, यथा तर्के लक्षितम्-इन्द्रियव्यतिरिक्त आत्मा दर्श- नस्पर्शनाभ्यामेकार्थीग्रहणादित्यस्मिन्नथै सिद्ध्यति गुणव्यतिरिक्तो गुणी नियतविषयाणीन्द्रियाणीत्याद्यपि सिद्धं भवति । १५४ यतोऽस्त्येव स्वतन्त्रो विकल्प: अतश्च नैसर्गिक एवान्तराभास . तन्त्राभा- २७२ ईश्वरप्रत्यभिज्ञा । [१अ०६आ० ज्ञानक्रिये स्फुटे एव सिद्धे सर्वस्य जीवतः॥११॥ यत् इदं यथाभीष्टस्य बहिरसत्त्वात् अन- नुभूतस्यापि सम्यक् उल्लेखनम् , अवभासनं च विकल्पस्य प्रसङ्गात् दर्शितम् अस्मादेव हेतोः इदमपि सिद्ध्यति- यः कश्चित् कीटो वा ब्रह्मा वा जीवनक्रियाविष्टः तस्य अवभा- सनरूपा ज्ञानशक्तिः उल्लेखनरूपा च क्रिया- शक्तिः नैसर्गिकी, ततः तस्यां भूमौ व्यतिरि- ईश्वरेणेव क्षेत्रज्ञेनापि बहिराभासीक्रियते अन्तःस्थितसहजाभासबहि- करणात् बुद्धिपथे यथा क्षेत्रज्ञानां स्मृत्यतिरिक्तो विकल्पात्मा स्वतन्त्र- व्यापारोऽस्ति ततो यदन ग्रन्थे प्रतिपिपादयिषितं तसिद्ध मिति सूत्रार्थः, अतःशब्दसहायेनैवकारेण सिद्धिसमुच्चयः सूचितः । समुल्लेखावभास- नादिति द्वन्द्वैकत्वम् । १५५ ननु च सर्वनैव ज्ञानपूर्विका क्रियाशक्तिरुद्दिष्टा, अनुभवश्चैवमे- वेति किमत्र समुल्लेखावभासनादिति क्रियानिरूपणमादावन कृतम् ? इति चेदनाहुः- कर्तरि ज्ञातरीत्यत्र यथादौ क्रियाशक्तिनिरूपणं पूर्णस्वातन्यरूपां क्रियाशक्ति निरूपयितुं, ज्ञानसमनन्तरभाविनी च क्रियाशक्तिः तस्प- ल्लवभूतत्वात् ज्ञानशक्त्यैवाक्षिप्ता, तथेहापि समुल्लेख इत्यान्तरस्पन्दरूपा शक्तिः पूर्वमुपात्ता, अवभासनशक्त्यैव क्रियाशक्त्याक्षेप इत्याशयशेषेण ज्ञानक्रिये स्फुटे एवेत्यत्र ज्ञानशक्तिरेव पूर्वमुपात्तेति बोध्यम् । १५६ भूमौ-मनोराज्यसंकल्पादौ । पं० ७ ग० पु० क्रियाविशिष्ट इति पाठः।
११का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २७३ तेश्वरोपकल्पितपूर्वसिद्धसृष्टयुपजीवनसंभाव- नापि नास्ति, इति स्वमेव ऐश्वर्य स्फुटं प्रत्य- भिज्ञेयं जानाति करोति च-इति ज्ञानक्रि- याखातत्र्यलक्षणम् एकवचनेन सर्वस्य जी- वजातस्य वस्तुत एकेश्वररूपतां सूचयति । इति शिवम् ॥ ११॥ आदितः ॥ ६३ ॥ इति श्रीमदाचार्याभिनवगुप्तविरचितायामीश्वरप्रत्यभिज्ञा- सूत्रविमर्शिन्यां प्रथमे ज्ञानाधिकारे ज्ञानशक्तिनिरूपणं नाम षष्ठमाह्निकम् ॥ ६॥ १५७ तिरश्चादीनामपि चोत्प्रेक्षादयः प्रवृत्तिविशेषैरनुमीयन्त एवे- त्यर्थः अथ ज्ञानाधिकारे एकाश्रयनिरूपणाख्यं सप्तममाह्निकमारभ्यते । अनन्तशक्तिरत्नानां यदेकाश्रयसंश्रयात् । विचित्रचन्द्रिकोल्लाससंसिद्धिस्तं स्तुमः शिवम् ।। एवं स्मृत्यादिशक्तीनां वितत्य खरूपमि- यता दर्शितम् , यत्तु अत्र प्रमातुरपि खरूपम् उन्मीलितम् तत्तासामेव शक्तित्वं समर्थयि- १ तदेवं ज्ञानादिशक्तिभिः स्वतन्त्रः प्रमाता आक्षिप्तः, तत्र किं शत्य- भेदमयत्वं विश्वस्य उत शक्तिमदभेदान्वयत्वमिति विचारार्थमुत्तरग्रन्था- रम्भः । तत्र शक्तिवादिन आहुः-शक्तिमत्स्फारमयत्वात् विश्वस्य शक्ति. भयमेव विश्वमिति, उक्तं च 'शक्तयोऽस्य जगत् कृत्स्नमिति तदुपशिक्षणार्थ शक्तिमदभेदसमर्थनमेवाचार्यों विदधाति, 'या चैषेत्यादिना' तत्राह्निकार्थ- पीठिकारूपसंग्रहश्लोकेन तावत् सूत्रविमर्शिनीकारस्तदेव सूचयति अन- न्तशक्तीत्यादिना' अयं भावः-सत्यमस्त्येव शक्तिमयत्वं विश्वस्य, तथापि 'न हिमस्य पृथक्छैत्यं ना रोष्ण्यं पृथग्भवेत् ।' इति नीत्या शक्तेः शक्तस्य शक्तत्वरूपधर्मभूतत्वात् न धर्मिणो धर्मेण व्यपदेशः । यथोक्तम् 'शिवः शक्तस्तथा भावानिच्छया कर्तुमीहते।' इति व्यावहारिकी परमार्थतः 'शक्तयोऽस्य जगत् कृत्स्नम्' इत्येषोक्तिः, वस्तुतस्तु भगवच्छिवात्मकमेव सर्वमित्युक्तं यदेकाश्रयेत्यादिना' अत एवोक्तं नहि स्वतत्रं शक्तिस्वरूपं भवितुमर्हतीति । २ तं--शक्तिमत्स्वरूपमित्यर्थः। ३ इयता-प्राधान्येन । -शक्तिनिरूपणे ५ समर्थयितुमित्पन्न खयं तासां खातच्यापसारणेनेति शेषः ।
१का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । २७५ तुम् 'न हि स्वतत्रं शक्तिखरूपं भवितुम- हति' इति, अधुना तु तासां शक्तीनाम् एक आश्रयः, स च तच्छक्तिसंयोजनवियोजनादि- खाच्छन्द्ययोगात् महेश्वरः न तु जडखरूपव- हयादिवत् दाहकपाचकादिशक्याश्रयमात्रम्- इति यत् उभयम् उपक्षिप्तम् 'न चेत् अन्त कृतानन्तविश्वरूप...।' इत्यत्र सूत्रे, तत् वितत्य निर्णेतव्यम् । तत्र एकमाश्रयं निर्णेतुम् 'या चैषा प्रतिभा ... इत्यादि "व्यवहारोऽनुभूयते ॥ इत्यन्तं चतुर्दशभिः श्लोकैः आह्निकं प्रस्तू- यते । तत्र श्लोकेन एक आश्रयः खरूंपत ........................... ... ६ इति निर्णतव्यमिति ज्ञेयम् । ७ उभयं-शक्तिः शक्तिमांश्च । ८ आश्रयमानं तावदस्तीति निर्णयायेत्यभिप्रायः। ९ स्वरूपत इति-स्मृत्यादीनां शक्तीनामन्य आश्रयोऽस्तीति कथमैक्यं स्मृत्यादयोऽन्यस्वरूपाः स्युः आश्रयस्तु स एवास्त्विति स्वरूपत इति स एव तत्तत्स्मृत्यादिस्वरूपेण भासमान एक आश्रयश्च स एव तेषामिति परमार्थोऽस्याश्रयत्वेऽपि तस्यैव ताइक्क्रमावभासरूपत्वात् तासां न तस्याधेयत्वं येन लौकिकवदाधाराधेयभावोऽत्र संभवेदिति सिद्धमेतत्- यत् किंचिद्वाह्याभ्यन्तरभावेन भासते क्रमनिर्मितं तत्सर्वमन्तर्मुखतया २७६ ईश्वरप्रत्यभिज्ञा। [१अ०७आ० उपक्षिप्यते । ततोऽपि द्वयेन-व्यवहारः सर्वः संति एकस्मिन् आश्रये युज्यते न असति, इति अन्वयव्यतिरेकात्मा युक्तिः उच्यते । ततो व्यवहारस्वरूपं कार्यकारणभावतः, स्मर- णतः, सत्यासत्यप्रविभागतश्च इति संक्षिप्य श्लोकेन श्लोकाष्टकेन च प्रतिपाद्यते । ततः श्लोकेन सर्वोऽर्थों निगम्यते, इति-आह्नि- कार्थसंक्षेपः । अथ श्लोकार्थो व्याख्यायते यदुक्तम् - 'सर्वस्य सिद्ध ज्ञानक्रिये जीवत' इति तत् कथम् ? यावता ज्ञानादिव्यतिरिक्तः को- ऽसौ अन्यो? यस्य ते स्याताम् , काणाददिशा हि दूषितः तदाश्रयः 'ततो भिनेषु धर्मेषु इत्यादिना ? तत् एतत् आशय खदर्शनदिशा तमेकं स्वरूपत उपक्षिपति सर्वदेशकालसह स्वतो देशकालावच्छेदमवभासनमाभासमानमात्मा खरूपं सर्वस्येति । उपक्षिप्यते - उपदिश्यते । १० अन्वयात्मयुस्था। ११ व्यतिरेकारमयुक्त्या। १२ निगमविधया व्यवस्थाप्यते इत्यर्थः । तदन परावबोधमात्रफल- स्वात् अस्याह्निकस्य पञ्चावयववाक्यं सिद्धं भवतीति सूच्यते-निगम्यते इति । १३ स्वदर्शनादिशा-विधिमुखेन, तम्-आश्रयम्, उपक्षिपति-- उप. दिशति । 10 १का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २७७ या चैषा प्रतिभा तत्त- त्पदार्थक्रमरूषिता। अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ॥१॥ 'प्रतिभाति घट' इति यद्यपि विषयोपश्लि- ष्टमेव प्रतिभानं भाति तथापि न तद्विषयस्य वकं वपुः, अपि तु संवेदनमेव तत् तथा चकास्ति 'मां प्रति भाति' इति प्रमातलग्न- त्वात् । तथा च वेदः 'न तंत्र सूर्यो भाति न चन्द्रतारक नेमा विद्युतो भान्ति कुतोऽयमग्निः। १४ तदेवं स्मृत्यादिशक्तिस्वरूपसमर्थनेन परोफ़ेदनीयदूषणशङ्काश- निनिर्दलने सिद्धमपि स्वमताभीष्टं तत्स्वरूपं परनिराकरणद्वारा निषेध- मुखेनैव समर्थितम् , अथेदानी स्वरससिद्धं यथा विधिमुखेन सेत्स्यतीति कथनावसर इति मुख्यत आह या चैपेत्यादि, तदन सूत्रविमर्शिनीकार आक्षेपपूर्वकमत्र नियोजयति यदुक्तं सर्वस्येति, न चाक्षेप एवान मुख्य कथनीयमिति वाच्यमनेन स्वदर्शनदिशेति कथनादस्त्येव विधिस्वरूप- कथनमावश्यकमिति । १५ यथा माध्यमिकः 'प्रकटताख्या संविद्विषयधर्म' इतीत्थं न स्वक- मत्र अपितु शक्तिमबहुत्वनिरासनमत्रेति बोध्यम् । १६ प्रमातृनिष्ठतयैव स्फुरणात् । १७ तत्र-स्वप्रकाशे परब्रह्मणि । १८ अन समाहारे द्वन्द्वः। .
२७८ ईश्वरप्रत्यभिज्ञा । [१अ०७आ० तमेव भान्तमनु भाति सर्व तस्य भासा सर्वमिदं विभाति ॥' इति। शैत्रा अविरतस्फुरणत्वं, कर्मप्रवचनीयेन तदीयवातश्योपकल्पितनिर्माणक्रियाजनितो वेद्यवेदकभावरूपो लक्षणात्मा संवन्धो द्यो- तितः, केवलं विषयोल्लेखनबलात् बहिः क्रमा- वभासः समर्थितः, स-सैक्रमयोगपद्यादिवि- चित्ररूपो, यः-पदार्थानां वक्ष्यमाणेश्वरखात- १९ भान्तमित्यत्र अविरतस्फुरणत्वादिति शेषः । २० तस्यैव भासेति सावधारणं ज्ञेयं, सूर्यादीनां प्रकाशामासानां महाप्रकाशविग्रहचैतन्याधीना स्वरूपसिद्धिरित्यत्र स्वानुभव एवान प्रमा- णम् । अयं भावः- यदि च सूर्यादयोऽन्याभासका इति प्रसिद्धास्तथापि तत्र स्वप्रकाशेनतेन स्त्रीयप्रकाशवपुषा भान्ति-घटो भातीतिवत् , तेन यथा घटो भातीत्पन्न प्रमातृनिष्ठया भानं, न खतः, तथा चैतेऽपि प्रमात्र- धीनभाना एवेति सर्वस्य च स्वयंभानस्वरूपस्खवपुनिराकरणेऽपि अत्र तेजस्वितयैते निषिद्धाः का अन्येष्वाशेत्याशयविवक्षया । ननु च यदि न भान्ति कथं तर्हि तत्प्रकाश इत्यत आह - तमेवेति, तत्संवेदनात्मकमेव सर्वमेतद्भाति न स्वसत्तयेति हि अक्रमिकमेव भानं, यदि च क्रमेणापि भानं तथापि तस्यैव पूर्णस्य शक्तिमतस्तथावस्थानस्वरूपत्वात् तन्मयमे- तदानमित्याह - तस्य भासेति, क्रमेऽपि संवेदनमेव तस्य वपुरिति न स्वीयमिति वेदने परमार्थतोऽक्रमस्वरूपः शक्तिमान्समर्थित इति । २१ भान्तमित्यत्र। २२ अनुना । अनुलक्षण इति अनुशब्दस्य कर्मप्रवचनीयत्वं लक्षणे, तच्चेह प्रकृतोपयोगिवेगवेदकभावलक्षणम् । २३ कार्यकारणभावादौ क्रमो, यथा-बीजादङ्कुरः, इतरत्र यौगपद्यं, यथा-घटपटादौ, अक्रमश्वेमा गाव इत्यादौ । .
प्रतिभा उक्ता १का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । २७९ ध्यरूपदेशकालशक्त्युपकल्पितः, ऊमः-देश- कालपरिपाटी, तेन रूषिता-प्रतिबिम्बकल्प- तया उपरक्ता, या 'केवलं भिन्नसंवेद्य इत्यादिना । एषा इति च-सर्वस्य स्वप्रकाश- रूपा, परमार्थतश्च अन्तर्मुखत्वेन प्रकाशमात्र- परमार्थतया भेदोभावात् अक्रमा, सैव महे- श्वरः, अविद्यमानोऽन्तः- परिच्छेदो देशतः कालतः स्वरूपतश्च यस्याः चितः संविदः तदेव रूपं यस्य इति, अँत एव बहिर्मुखे- २४ अत्र च बहीरूपत्वादेवाभासतागुणीकारेण विच्छिन्नावभासेषु अर्थतैव प्राधान्यमुपयातीति मत्वा पदार्थकमेति सूत्रकारोक्तिः न तु पदा- भासक्रमेति। २५ देशकालकलनावैकल्यात् । २६ कल्पितेश्वराणां ब्रह्मादीनां खांशाभिषकोपकल्पितैश्वर्यो महेश्वरः प्रमाता। 'सर्वाणि सर्वनामानि तुल्याधिकरणान्यपि । स्वेच्छया गृह्णते लिङ्गमनुवाद्यविधेययोः । इति विधेयलिङ्गतैव तच्छब्दस्य । २८ पदार्थ व्याख्याय तात्पर्थिं विवेचयति-अत एवेति । २९ पदार्थक्रमोऽपि द्विविधः-बाह्यान्तरतया, तदाह बहिर्मुखप्रका- शेति, योऽन्त इत्यादि च, तन्न बहिर्मुखप्रकाशः प्रमाणवर्गः इदमिदमिति चान्तर्विमात्मा प्रमासमूहश्च क्रमिक एव, तत्र संयोजनवियोजनादि- स्वतन्त्रोऽक्रमः ऋमिकबाह्यपदार्थमयः प्रमाता।
२८० ईश्वरप्रत्यभिज्ञा । [१अ०७आ० प्रकाशात्मकविज्ञानखभावस्य प्रमाणवर्गस्य योऽन्तः प्रत्याभासम् 'इदम् इदम्' इति अ- नन्तो विकल्पमयो विमर्शात्मा प्रमासमूहः, तत्र संयोजनवियोजनविश्रमणायनेकप्रकार- खातध्यपरिपूर्णः शुद्धः 'अहंप्रत्यवमर्शमयः प्र- माता' स भण्यते, अतेश्च बहिर्घटप्रकाशः 'अयं घट' इति अन्तर्विकल्पः स्वीकृतपूर्वरूपः 'अहमिति' तर्दुभयविश्रान्तिस्थानम्, इति- इयत् पूर्ण प्रकाशस्य खरूपम् ॥ १॥ अत्रैव उपपत्तिं प्रदर्शयितुमन्वयं तावदाह ३० अन्त:-प्रमातरि। ३१ पूर्वोक्तमेव द्विविधक्रमावभासनमान्तराक्रमावभासतवं च संक्षे. पेणाहातश्चेति । ३२ ऋमिक एव। ३३ क्रमिक एव। ३४ बाह्याभ्यन्तररूपस्य तदुभयस्थ, अन यत्तच्छब्दाभ्यां विध्यनुवादौ सूच्येते, तत्र चानुवादस्य स्वयमेव सिद्धत्वात् अन्तःस्थिताक्रमावभास एव यः स एव बहिःक्रमावभासरूप इत्यर्थः। ३५ अत्र-शक्तिमत्वरूपे, यदेतदुक्तम् 'अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः।' इति तत्र बौद्धा विप्रतिपन्ना:- सर्वे पदार्थाः क्षणिका एवेत्यलं प्रमान- क्रममहेश्वरत्वकल्पनेनेत्यत आह अनैवेति । अन्वयव्यतिरेक्यनुमानेन हि सर्वथा साध्यसिद्धिरिति तावदन्वयमुखेन यावत्सर्वसंचित्कालव्यापी यद्यस्ति चिन्मयः प्रमाता तावद्भिन्नपदार्थसमन्वयः संभवति नान्यथेति तावदन्वयमाहेति। - २का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २८१ तत्तद्विभिन्नसंवित्ति- मुखैरेकप्रमातरि। प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते॥२॥ 'संविनिष्ठा हि विषयव्यवस्थितयः' इति यत् उच्यते तत् न भिन्नरूपप्रमात्मकसंवि- न्मात्रविश्रान्त्या सिद्ध्यति, अपि तु तास्ता वि- भिन्नाः संविदो निश्चयरूपाः प्रमात्मानो याः तानि एव मुखानि द्वाराणि उपाया मार्गाः तैः मुखैः नंदीस्रोतःस्थानीयैः यदि अमी भावा नीलसुखादय उह्यमाना एकस्मिन् 'अहमिति' प्रमातृरूपे महासविसमुद्रे प्रति- ३६ एवं प्रतिज्ञातं शक्तिमत्स्वरूपमुपपत्त्या उपपादयितुमन्वयं ताव- दाह सूत्रेण तत्तदिति, संविनिष्ठा विषयाणां व्यवस्थितय इति यद्रोष्यते तद्भिन्नासु संविद्रूपासु प्रमासु विश्रमणमात्रं मन्तव्यम् तावता हि न सिद्ध्यति व्यवहारः अपि तु तास्ता नीलसुखादिविषयेषु विभिन्ना याः संविदः निश्चयान्ताः तान्येव मुखानि उपायाः तैनंदीस्रोतःस्थानीयरित्यर्थः। ३७ स्रोतःसिन्धुनिरूपणयानुभवानामनुभवितुश्च बोधैकरूपतया समा- नजातीयत्वात् एकतापत्तिरेवोचिता इति नदीस्रोतःस्थानीयरित्युक्तम् । ३८ भिन्नजातीयानां हि क्षीरोदकादीनां मेलनेऽपि विभागानवभास: केवलं न त्वेकतापत्तिः, ऐक्यापत्तिरेव च भिन्नानां समन्वयः तं विना चान्योन्यमेलनात्मको व्यवहारो न सिोदिति समुद्रौपम्यम् । ७ २८२ ईश्वरप्रत्यभिज्ञा। [१अ०७आ० तिष्ठन्ति-आभिमुख्येन विश्वान्ति भजन्ते, तत ऐषु परस्परं समन्वयरूपं यत् ज्ञातेयं तत् उपपत्त्या घटते, ज्ञातीनां भावः तच्छब्दप्र- वृत्तिनिमित्तं परस्परं जानीयुः इति, कर्म च अन्योन्ययोगक्षेमोबहनात्मकं ज्ञातेयम् , तच्च समन्वयाभिप्रायेण इह दर्शितम् - न जडानां स्वतः समन्वयः कदाचिदपि, इति प्रतिपाद- यितुम् ॥ २॥ तथा च व्यतिरेकमुखेन एतदेवाह देशकालक्रमजुषा- मर्थानां स्वसमापिनाम् । सकृदा ससाध्योऽसा- वन्यथा कः समन्वयः॥३॥ ३९ नीलसुखादिभावेषु। ४० भावकर्मणोः 'ज्ञातेढंक' इति ढक्प्रत्ययः । ४१ उभयमपि। ४२ परमार्थतश्चिद्रूपताप्राण एवायं युक्त इति भावः । ४३ ननु च सर्व एव समन्वयः कार्यकारणभावे विश्रान्तः स च भिन्नानामेव बीजाक्कुराग्निधूमादीनामस्तीति शङ्किस्वा पौर्वापयर्यादिना सम्बन्धो युगपद्विमिश्रितावभासरूपः कथमपि देशकालक्रमवतामन्योन्य- मननुस्यूतरूपाणां च स्यात् यदि सकृतिमिश्रितावभास एव तेषामेक- प्रमातृरूपः तदा स्वरूपं न स्यादित्याह तथा चेत्यादि, देशकालेति च । ४४ देशकालादिसंमिश्रीभावात्मनैकाभासेन । ५५ यद्येकप्रमातृविश्रान्तिन स्यात् ।
३का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । २८३ अर्थानां जडानां, तज्ज्ञानानां तद्विकल्पानां तन्निश्चयानां च देशकमं कालक्रमं च अत्य- जतां, खसमापिनां-खरूपमात्रप्रतिष्ठानां, कः समन्वयः-न कश्चित् इत्यर्थः, यतो हि असौ समन्वयः सकृदाभासेन देशकालाका- रमिश्रीकरणात्मना योजनाभासेन साधयितुं शक्यः नान्यथा, न हि पृथक्पृथक् परिक्षीणेषु स्रोतःसु तदुह्यमानाः तृणोलपादयः समन्वयं कंचित् यान्ति इति । अनेकत्वेन देशादिभेद इत्याशयेन सकृच्छब्दः तनिषेधतात्पर्येण प्र- युक्तः॥३॥ ४६ नीलसुखादीनाम् । ४.७ अयं भाव:- 'क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः।' इति वक्ष्यमाणनीत्या देशकालस्वरूपभिन्नानामर्थानां पौर्वापर्यादिसंब- न्धोऽन्योन्यमननुस्यूतरूपत्वात् कथं? यदि पुनरेकप्रमातृरूपत्वेन तदा कथं स्वरूपत्वम्। इति हि तदा देशकालक्रमखरूपमात्रादौ न समन्वयः। ४८ एकामासमिश्रीकरणात्मक विना । ४९ ननु च पदार्थक्रम एव भेदत्वेनोपदिष्टः तत्तत्पदार्थक्रमरूपिते- त्याधुत्त्या न स्वाभासः, आभासो हि सर्वत्र सम एवेति केवलमेवाभा- ससाध्योऽसाविति ह्येव वाच्यं, कृतं सकृच्छब्दप्रयोगेण? इत्यत आह- अनेकत्वेनेत्यादि, अनेकत्वमेव पदार्थक्रमरूपो देशादिभेदः, तदभावं वदता सकृच्छब्देनाभासस्य सर्वत्र समत्वमेव ध्वनितं, पदार्थक्रम एव न त्वाभासक्रम इति ।
२८१ ईश्वरप्रत्यभिज्ञा । [१अ०७० तत्र कोऽसौ समन्वयः? इत्याशङ्कय, बहु- तरव्यापकं कार्यकारणभावं तावत् दर्शयति प्रत्यक्षानुपलम्भानां तत्तद्भिन्नांशपातिनाम् । कार्यकारणतासिद्धि- हेतुतैकप्रमातृजा ॥ ४॥ इह अग्नौ प्रत्यक्षे धूमं न उपलभते, ततो ५० तत्र यदुक्तम् ‘अन्यथा का समन्वय' इति तत्र तावन्समन्वयस्य बहुप्रकारत्वेऽपि सर्वसाधारणं कार्यकारणलक्षणं समन्वयमेकप्रमातृवि- श्रान्ति विनापि तावत् सिध्धतीति वदन्ति, ततश्वालमेकप्रमातृकल्पनया, तत्समर्थनस्य प्रत्यक्षानुपलम्भैरेव कल्पितत्वादिति पूर्वार्धेन तदसिद्धता वक्षुत्तरार्धेन स्वमतेन तसिद्धतां च साधयति-प्रत्यक्षानुपलम्भेति, कार्यकारणतेत्यादि च । कार्यकारणभावो हि एकपदार्थरूपः स च प्रत्यक्षानुपलम्भलक्षणभिन्नप्रमाणप्रमेयतयैकतां जह्यात् तस्य साधनप्र- त्यक्षादेरेकप्रमातृमयस्वं विनेति कारिकार्थः । ५१ अप्रत्यक्षतयोपलम्भेऽपि तत्काल एवानुपलब्धस्य धूमयानन्तर- क्षणे प्रत्यक्षीभावादुपलम्भः, इत्येवं प्रत्यक्षद्वयमनुपलम्भनयं चेति प्रत्य- क्षानुपलम्भपञ्चकप्रसाध्यान्वयव्यतिरेकसिद्धिपरमार्था कार्यकारणभावस्य प्रसिद्धिमभिमन्यन्ते तच्चैषां मनोरथमात्रम् , तथा च अग्निप्रत्यक्षेण अग्निरस्ति इति निश्चीयतां धूमप्रत्यक्षेणापि धूमः अनुपलम्भैरपि द्वयाभावो धूमाभावश्चेति व्यवहियते तदेते प्रत्यक्षानुपलम्भा-वह्निः, धूमाभावो धूमो, वहयभावो, धूमाभावः इत्येवं प्रातिपदिकार्थमाननिश्चयनिष्ठाः घटः पट इति यथा, तदेते तमिस्तसिन्भिन्ने अंशे भागे निपतनशीला:-सत्यनौ धूमो वयभावे धूमाभाव इत्येवंभूतसप्तम्यर्थस्वभावमपेक्षालक्षणं कार्य- कारणभावमन्वयव्यतिरेकसतवं कथं निश्चिनुयुः, अस्मदर्शने तु उक्तप्रत्य- . ..
४का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २८५ धूमं प्रत्यक्षेण पश्यति, अग्निं तु यदि न उपलभते धूममपि न उपलभते- इति प्रत्य- क्षाभ्याम् अनुपलम्भैश्च इति पञ्चकात् कार्य- कारणभावो धूमाग्योः सिद्ध्यति' इति. यत् उक्तं तत् कथम् ? अग्निप्रत्यक्षेण हि धूमेन किंचित् उठ्यूँढम् - अग्मिलक्षणे धूमात् भिन्ने अंशे तस्य अवगमहेतुत्वात्, स्वस्वभावरूपे भिन्ने अंशे विश्रान्तत्वाच्च, परविषयानवगाह- क्षानुलस्भस्रोतोऽनुसारेण तानि तानि प्रमेयाण्येकचिस्सिंधुसन्धुक्षण- सक्षणानि यतस्तत एकीभूतानि प्रमातृस्वातत्र्योत्थापितापेक्षालक्षणस्वरू- पवलक्षण्यानि न तु द्वन्द्वपदार्थासहशि प्रमाना भास्यन्ते, तथा भारत- मानतैव कार्यता कारंणता च, तथाभासनं च कार्यकारणभावावभास- नमिति सूत्रार्थः। ५२ यदि धूमोऽग्निकार्य न स्यात् तदानिं विनाप्युपलभ्येत न तु तथास्ति प्रत्यक्षद्वयेनानुपलम्भत्रयेण चेत्यर्थः । ५३ अत्र च धूमाग्निकार्यकारणभावो दृष्टान्तीकृतो बोद्धव्यः । ततश्च बाये कार्यकारणभावे दृष्टान्तिते प्रकृतमपि दान्तिकं वस्तु स्वयमेव सेत्स्यतीति, तथा चायमर्थः-यथा च जडानां स्वयमुत्पत्तिरुपादानं चाघट- मानं प्रमातृतालक्षणचिदैक्यं विना नास्ति तथा तदुत्पत्युत्पादनमेलनरूपै- ककार्यकारणभावव्यवहारोऽपि प्रत्यक्षानुपलम्भैरेकप्रमातृनिष्ठतामापाद्यो- पपद्यत इति । ५४ भवन्मनोरथप्रायमेतदित्यर्थः। ५५ उयूढम्-उपकृतम्। ५६ तस्य-अग्निप्रत्यक्षस्य ।
२८६ ईश्वरप्रत्यभिज्ञा। [१०७० नात् ज्ञानान्तरखरूपानावेशाच्च इति । पाँतिः ज्ञापनवाची पतिश्च विश्रान्तिवाची प्रयुक्तस्त- त्रेण । एवं धूमानुपलम्भादौ चतुष्टये वा- च्यम् । ततश्च अग्निः, धूमः, अग्यभावो, धूमाभावः इति एतानि वस्तूनि यथा पृथक् प्रमातृसंवेद्यानि धूमाग्योः कार्यकारणतां न गमयन्ति तथा एकप्रमातृवेद्यान्यपि, विक- ल्पोऽपि अनुभवातिरिक्तं ज्ञापयन् न प्र- माणमेव । यदा तु प्रत्यक्षानुपलम्भस्रोतः- पञ्चकेन तानि पञ्च वस्तूनि एकसंवित्समुद्र- विश्रान्तानि कृतानि तदा एकीभूतानि प्रमात्रा खतन्त्रतया अन्योन्यसापेक्षाणि न तु घटपटादिवत् भास्यन्ते, स एव एक आ- ५७ तत्तद्भिन्नांशपातिनामित्यत्र । ५८ सकृत्प्रयुक्तं युगपदेव बह्वर्थोपकारकत्वं तत्रत्वम् । ५९ किं पुनरेतावता सिद्धमित्यत आह ततश्चेति । ६० एते हि सर्वे विकल्पाः प्रातिपदिकार्थमात्रनिश्चयनिष्ठाः घटः पट इति, यथा कार्यकारणभावो हि अपेक्षालक्षणः सप्तम्यर्थखभावोऽन्वय- व्यतिरेकीति कथं समन्वयः। ६१ कार्यकारणभावं कथं गमयन्तीत्यर्थः । ६२ ननु विकल्पेनकीकरिष्यते इत्यत आह विकल्पोऽपीति । ६३ ननु कथं पुनर्भवदर्शने तसिद्धिरित्यत आह यदेति । ६४ ततश्च भास्यमानतैव कार्यता कारणता च, तथा भासनं च कार्य- कारणभावावभासनमिति ।
५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २८७ भासः कार्यकारणभावावभास इति न कि- ञ्चित् अवद्यम् ॥ ४॥ ननु प्रत्यक्षानुपलम्भैः यत् कृतं तत् स्मर- णबलात् एकीकरिष्यति, उक्तं तावत् अत्र- स्मृतिरपि अनुभूतातिरिक्तेऽर्थे न व्याप्रियते, सापि च विज्ञानसमन्वयरूपा एकप्रमातस- द्भावं विना कथं स्यात् ? इति दर्शयति स्मृतौ यैव स्वसंवित्तिः प्रमाणं स्वात्मसंभवे। पूर्वानुभवसद्भावे साधनं सैव नापरम् ॥५॥ ६५ सविरोधम् । ६६ ननु सर्वथा प्रत्यक्षानुपलम्भानां कार्यकारणतानवगमकत्वम् उतां- शांशिकया, यदि सर्वथा तर्हि किमिति तयोः पौर्वांपर्यता दृश्यते, अथां- शांशिकया तदा किं तदेकीकरणमिति ब्रूमः, तथापि किं प्रमानैक्येन स्मरणबलादेव तसिद्ध्यतीति शङ्कापूर्वमाह नन्विति । ६७ परिहारः। ६८ एकीकरणार्थमेव हि प्रमात्रङ्गीकरणं, तच्च यदि प्रकारान्तरेण सिध्यति कृतमायासदायिना प्रमातृकल्पनेनेत्यत आह स्मृतौ यैवेति ६९ अपरमिति स्वसंवेदनव्यतिरिक्तम् । तथा चायमन सूत्रार्थ:- प्रत्यक्षानुपलम्भरूपाणि संवेदनानि, अद्यनिज संवेद्यमगृहृत् तस्य तावत्स्मरणे यत् प्रकाशनं न तत् सरणकालोपनतमपूर्व- गृहीतग्रहण- स्वभावत्वात् , अपि तु पूर्वानुभव एव तत्, स चेदानी पृथग्वेद्यत्वेन न २८८ ईश्वरप्रत्यभिज्ञा । [१अ०७आ० इह अनुभूतो विषयः प्रकाशते स्मृतौ, तत्र विषयस्य सा स्मृतिः न नूतनः प्रकाशः अपि तु अस्य स प्राच्य एवं अनुभवप्रकाशः, स चानुभवो ज्ञानरूपत्वेन ज्ञेयरूपत्वाभावात् न ज्ञानान्तरसंवेद्यः अपि तु खप्रकाशः, स च स्मृतिकाले यदि असन् तत् कथं प्रकाश- ताम्, भवतु वा असौ तथापि स्मृतिप्रकाशो- ऽनुभवप्रकाश इति अन्योन्यभिन्नं युगलॅम् इति न कदाचित् स्मृतिः स्यात्, तस्मात् , निर्भासते अभावात्तस्य, भावेऽपि वेद्यत्वेन भासने ज्ञानज्ञानं स्यात् न स्मरणं, न चापि ज्ञानं ज्ञानान्तरवेद्यमिति दर्शितं बहुशः, तदस्य सतो. पि पृथक् स्वप्रकाशतायामन्योन्याननुषक्तं संवेदनद्वयमेव स्थात् न सर. णम्, तदियदङ्गीकर्तव्यं यत् स्मरणकालेऽपि अनुभवः प्राच्योऽन्तःस्वसं- वेदनात्मा सन्नेव स्मृतिस्वरूपसद्भावावेदकस्वसंवेदनादभिन्नः प्रकाशत इति, न पत्र प्रत्यक्षानुमानादि तत्स्वसंवेदनं, तदेव प्रमातृतत्वमिति सर- णबलादेकीकारः प्रत्यक्षादीनामित्युक्तिः प्रमातृबलादेकीकारमस्मदुपग- तमुपोद्वलयति, स्मरणलक्षणश्चान्तरो व्यवहारः स्मरणादभिलाषेण इति न्यायेन अशेषव्यवहारव्यापको यः सोऽप्येकप्रमातृतत्वविधमाधीन इति। ७० गृहीतग्रहणस्वभावत्वात् । ७१ ननु मास्तु नूतनः प्रकाशस्तथापि प्राच्यमनुभवप्रकाशमेव स्वीक- रोति स्मृतिरित्यत आह स चानुभव इत्यादि । ७२ सच-अनुभवः । ७३ तथापीति- -अस्य सतोऽपि पृथक स्वप्रकाशतायाम् । ७४ युगलमिति-संवेदनद्वयम् ।
५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । २८९ एतत् एवमुपपद्यते, यदेव स्मृतिखसंवेदनम् तदेव अनुभवस्य खसंवेदनम् , न तु अपरं ख- संवेदनव्यतिरिक्तं प्रत्यक्षम् अनुमानादिकं वा तत्र क्रमते, ततश्च तावत्कालव्यापि अवि- च्छिन्नमेकं यत् खसंवेदनं तदेव 'प्रमातृतत्त्वम्' इति सिद्धम् । अन्यत्र अनुभवितरि स्मर्ता अन्यो न उपपद्यते, इति अनया च्छायया स्मृत्या प्रमातृसिद्धिः पूर्वमुक्ता, इदानीं तु खसंवेदनैकीभावेन भङ्गयन्तरेण इति वि- शेषः॥५॥ ननु अनुभँवातिरिक्तेऽपि अर्थे सन्तु वि. कल्पाः प्रमाणम् , अप्रामाण्यं हि बाधबलात् भवति, बाधाभावे तैत् कथं स्यात् ? इति ७५ स्मरणकालेऽपि प्राच्योऽनुभवोऽन्तःस्वसंवेदनामा सन्नेव स्मृति- स्वरूपसद्भावावेदकस्वसंवेदनादभिन्नः प्रकाशत इत्यर्थः ७६ तत्र-पूर्वानुभवसद्भावे । ७७ स हि पूर्वानुभूतार्थोपलब्धेत्यत्र । ७८ कार्यकारणभावादौ । अर्थ - अनुभवमात्रादप्रसिद्धेऽपि । ७९ विकल्पादेवैकीकारसिद्धिरिति भावः । ८० यथाहुः नैयायिकाः-बाधाभावे किं कृतमप्रामाण्यम् । ८१ तदित्यप्रामाण्यम् । ततश्च बाधसत्तासत्तयोरेव अवधासव्यम् भल- मेकं प्रमातृतत्वेन समर्थितेन तत्कृत्यस्य विकल्पबलादेव सिद्धेः । । ।
२९० ईश्वरप्रत्यभिज्ञा । [१अ०७० आशय, सोऽपि अयं बाध्यबाधकभावः सोसत्यप्रविभाजनाय विश्वेषां व्यवहाराणां जीवितभूतो, न एकेन प्रमातृतत्त्वेन विना घटत इति वितत्य दर्शयति बाध्यबाधकभावोऽपि स्वात्मनिष्ठाविरोधिनाम् । ज्ञानानामुदियादेक- प्रमापरिनिष्ठितेः ॥६॥ 'बधाभावे प्रामाण्यम्' इत्येतदर्थम् अव- १२ नात्र विकल्पतत्त्वमनुभवैक्यमयप्रमात्रात्मकं ब्रूमहे इत्याह सत्यासत्येति। ८३ ननु कार्यकारणभावादिव्यावहारिकरूपनिश्चयेऽनुभवमानादप्रसि- द्वेऽपि विकल्पा एव सन्तु प्रमाणं यथा नैयायिकप्रभृतयो मन्यन्ते, बाधाभावे हि किं कृतमप्रामाण्यम् , बाधयोगे तु द्विचन्द्रालातचक्रायनु- भवस्यापि अप्रमाण्यम्, ततश्च बाधसत्तासत्तयोरेवावधातव्यम्, न तु एकप्रमातृतत्त्वेन समर्थितेन किंचित् - तत्कृत्यस्य विकल्पबलादेव सिद्धेः, अस्त्वेवं तावत् न स्वन्न विकल्पतत्त्वमनुभवैक्यमयप्रमात्रात्मकं ब्रूमहे तथापि तु समस्तान्तर्बहिर्व्यवहारव्यापकसत्यासत्यप्रविभागनिश्चयनिब- न्धनभूतोऽप्ययं बाधव्यवहारो न कथंचित्परदर्शने घटते, असद्दर्शने तूपपद्यते एव, तन्न स्वपक्षे तावदुपपद्यमानता दर्शयितुं सूत्रं-बाध्येत्यादि । ८४ यः समस्तव्यवहारसिद्धये सर्वेणाङ्गीकृतः सोऽपि नोपपद्यते, तथाहि नासौ विषयाणाम् असन्निहितस्यापि नतरां तदसौ ज्ञानानामेव वक्तव्यः, तानि च स्वस्मिन्विषये आत्मनि च स्वसंवेदने नियतस्थिति- कानि अत्यन्तसन्तोषभाजि मुनिमनांसीव इतरेतरं न विरुड्यन्ते परस्प. ७ ६का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २९१ श्यसमर्यो यो बाधव्यवहारः सोऽपि कथम् इति अपि-शब्दस्यार्थः, ईंह शुक्त्या तावत् रज- तस्य न काचित् बाधा नाम क्रियमाणा दृश्यते, शुक्तिज्ञानेन रजतज्ञानं बाध्यते इत्यपि न युक्तम्- स्वस्मिन् विषये आत्मनि च स्वरूप द्वयोः ज्ञानयोः परिनिष्ठितयोः विश्रान्तयोः अन्योन्यं विरोधस्य अभावात् । अथ अयमेव रपरिहारेण वा सहेतुकविनाशोपगमे बुद्धिर्बुध्यन्तरविरोधिनीतिनाश्यना. शकभावेन वा स्वसमयेऽन्यावकाशनिरोधेन वा, स्वसमये परकीयप्र- माणभावोपरोधेन वा, विरोधे ज्ञानं न किंचिदविरुद्धमस्तीति ताग्विरो- धोऽप्यविरोध एवं मित्रद्वयस्येव परस्परेण विरोधाभिधाननिबन्धनवन्ध्य- तायां तु बाधस्य नियतविषयत्वं न भवेत् इति विरोधोत्थापननिमित्त. मनयोश्चिन्त्यम् , तञ्चैकं विश्रान्तिस्थानं प्रमातृतत्त्वं नाम, तत्र हि विश्रा- भ्यतां ज्ञानानां न एकरसैव सर्वत्र विश्रान्तिः, तथाहि घट इति पट इति ज्ञाने परस्पराभासानाश्लेषेणैव विश्राम्यतः- नीलमित्युत्पल मिति पर- स्पराभासोपरागप्रावण्येन, अग्नेधूम इति प्रयोज्यप्रयोजकसत्ताकत्वाभास- नपुरःसरीक्रियया, एवमन्यदप्यूह्यम्, तत एव बाह्याभिमतप्रमेयांशा- संभवि तत्स्वातन्त्र्येण उत्थाप्यमानं रूपम् अयं कुर्वन् प्रमायां खतन्त्रः प्रमाता भण्यते-इति । ८५ न केवलमत्र कार्यकारणभाव एव यावत्सर्वत्र व्यवहार इत्यर्थः ८६ ननु शुक्तिरियं न रजतमित्यन्न बाध्यस्य रजतस्य दृष्टत्वात् कथं न बाधः इत्यत आह इहेत्यादि । ८७ असंनिहितस्स रजतस्य काचिदपि न बाधा नाम, संनिहितस्य नतरामित्यर्थः। ८८ स्वरूपे-खसंवेदने । ज्ञानयोरिति - मुनिमनसोरिचात्यन्तसंतोष- भाजोः।
२९२ ईश्वरप्रत्यभिज्ञा। [१अ०७० विरोधः परस्परपरिहाररूपः तर्हि सर्वेषां ज्ञा- नानां विरोधात् बाध्यबाधकभावस्य परिनिष्ठेव न लभ्या-इति सुतरां विघटेत सत्येतरप्रवि- भागः। नपि अत्र तन्त्रेण व्याख्येयः। एत- दुक्तं भवति-यदि ज्ञानं स्वयं नश्यति तदा किं ज्ञानान्तरेण अस्य कृतं, न हि तेने तत्का- लेऽसंभवता तस्य विषयापहारः कर्तुं शक्यः, न रजतम् इत्यपि ज्ञानं खं रजताभावं विष- यीकुर्वत् न विषयम् अपहरेत् रजतज्ञानस्य । अथापि ज्ञानं ज्ञानान्तरेण नाश्यते इत्यपि पक्षः, तत्रापि सर्वेषां ज्ञानानाम् इयमेव सँ- रणिः- इति किंचिदेव बाध्यम् इति कथं ८१ विरोध इति बुद्धिर्बुड्यन्तरविरोधिनीति । ९० सर्वेषां-घटादिज्ञानानाम् । ९१ मिथ्याबुद्धिरेव प्रत्युत सत्यबुद्धिं तिरस्कुर्यादिति । ९२ नभपीति स्वात्मनिष्ठयोरन्योन्यं विरोधाभावादिति पूर्वत्र विरोधि- शब्देन नमः संबन्धः, पुनश्च द्वितीयपक्षे यदि परस्परविरोधिनः तर्हि खात्मनिष्ठेव बाध्यबाधकभावस्य न लभ्येति तेनैव नमोऽन्वयः। ९३ रजतस्य इति शेषः। ९४ ज्ञानान्तरेण- शुक्तिकाज्ञानेन । ९५ तेन-शुक्तिज्ञानेन । तत्काले - रजतज्ञानकाले । ९६ तस्य-रजतज्ञानस्य रजतरूपस्य । ९७ बाध्यबाधकप्रकार इत्यर्थः । ९८ परिनिष्ठैव न लभ्येति यावत् ।
६का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। २९३ स्यात् ? यदा तु रजतज्ञानं शुक्तिज्ञानं च एकत्र खसंवेदने विश्राम्यतः तदा एतत् उ- पपद्यते, तथाहि-एकत्रापि प्रमातृतत्त्वे विश्रा- म्यतां ज्ञानानां नैकप्रकारैव विश्रान्तिः अपि तु विचित्रतयैव सा संवेद्यते, तथाहि-नी- लम् इति उत्पलम् इति ज्ञाने प्रमातरि विश्रा- म्यन्ती परस्परोपरागाभासेन विश्राम्यतः। घट इति पट इति परस्पेरानाश्लेषेण शुक्तिका इति न रजतम् इति वा ज्ञानं रजतम् इति ज्ञानस्य उन्मूलनं तदीयविमर्शात्मकप्रमारूपव्यापारा- नुवर्तनविध्वंसं कुर्वत् प्रमातरि प्रतिष्ठां भेज- ९९ विरोधोत्थापननिमित्तमनयोश्चिन्त्यं, तच्चैकविश्नान्तिस्थानं प्रमा- तृतस्त्वं नाम, तत्रैव स्वसंवेदने । १०० किंचिराध्यमिति । १०१ सर्वत्रैव। १०२ परस्परमनयोर्विशेषणविशेष्यभावात् । १०३ उभयोरपि परस्परपरिहारात् । १०४ शुक्तिकेयं नेदं रजतमिति च ज्ञानं विश्राम्यदेव पूर्वविश्रान्त- रजतज्ञानसर्वस्वभूतानुविवृत्सितं रजतमिदं सत्यमर्थक्रियाक्षमं मे भात. मिति विमर्शात्मकप्रमाणफलानुवृधि विध्वंसयति विध्वंसयच्च विश्राम्यति इत्येवं प्रमातरि या अन्यपरिवर्जनेन ज्ञानान्तरस्य नियता स्थितिः ततो हेतोः बाध्यता परिवर्जनीयस्य परिवर्जकस्य च बाधकता सिध्यति, यद्यस्य फला- नुवृत्तिभङ्गं करोति तत्तस्य बाधकं सार्वभौम इवापरभूभुजा, तथा च नेदं रजतं शुक्तिकेयमिति वा ज्ञानं रजतज्ञानस्य बाधो नियतविषयो .
२९४ ईश्वरप्रत्यभिज्ञा । [१अ०७आ० ते । एवं कार्यकारणभावादौ विश्रान्तिवै- चित्र्यं प्रमेयासंभव प्रमात्रा स्वातंत्र्येण नि- मितं तत एव अस्य प्रमाखतन्त्रतादायि वा- च्यम् । एवमेकत्र प्रमातरि पूर्वज्ञानस्य परि- वर्जनेन यतो निश्चिती स्थितिः, अतो बाध्य- बाधकव्यवहार उपपन्नः, नीलोदिवत् किल भवन्नियतनिमित्ततया व्याप्तः, ततो विपक्षे तयापकाभावात् साध्येन हेतोाप्तिः सिद्धति स्वभावहेतु:- ज्ञानद्वयमेकपदपतितं बाध्यबाधक- भावाद्यन्योन्यापेक्षरूपयोगित्वात् इत्यपि स्वभाव एव एकपदपतितत्वा- भावे नियमाभाव इति व्याप्तिः । १०५ इहोपक्रान्तं चाह एवमिति । १०६ स्वातन्त्र्येण - प्रयोज्यप्रयोजकसत्ताकस्वाभासनपुरःसरीक्रियया। १०७ रजतज्ञानस्य। १०८ शुक्तिज्ञानस्य । १०९ नीलादिवदिति, अयमर्थः- अनेकस्वभावाभिः शक्तिभिर्व्यवहर- अपि तत्तच्छत्यभेदतः शक्तिमत्वलक्षणत्वात् तेन तेन प्रकारेण शिवत्वस्य स्थितस्वादेक एव शिवः - इति मिथ्याज्ञानविकल्पनीयानां रजतसर्पोदीनां व्यवहाराणां नीलादीनामिव चिव्यक्तिशक्तताप्रकाशमानता विद्यते, तदेव तेषां सत्वं परमार्थस्वं यतश्विदभिव्यक्तेः तेन तेन रूपेण शिवस्यैवायं प्रसरः केवलं सम्यमिथ्यास्वभेदो व्यवहारप्रयोजको घटज्ञानरजतज्ञानयोरिष्यते न पुनः परमार्थदृष्टया, न पुनर्व्यवहारसत्यतया परमार्थसत्यता बाध्यते, तथाहि सति सर्वथा सर्वत्र व्यवहारस्तथैव स्यात्, न च दृश्यते प्रत्य- न्तदेशेषु सत्यसुवर्णस्यापि च अयं व्यवहारो दृश्यते तस्मात् परमार्थसत्य- स्वमेव सत्यवं सर्वथा यत्प्रतिभातं तथैव तत् नान्यथा कर्तुं शक्यते इति सत्यमेव न किंचिन्मिथ्यात्वम् तस्मासिद्धमेतत् । 'या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता । अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ॥'
२९५ ទី ៦ ។ ७का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । तीनपि व्यवहारान् स एव परमेश्वरः वात- यात् आभासयति तत् तेऽपि सत्या एवेति॥६॥ अत्रे परकीयं मतम् आशङ्कते-दूषयिष्या- मीति विविक्त भूतलज्ञानं घटाभावमतिर्यथा। इति । उक्तं च पूर्वगुरुभिः । 'तस्मादनेकभावाभिः शक्तिभिस्तदभेदतः। एक एव स्थितः शक्तः शिव एव तथा तथा ॥ तथा यत्र सदित्येवं प्रतीतिस्तदसत्कथम् । यत्सत्तस्परमार्थों हि परमार्थस्ततः शिवः ॥ सर्वभावेषु चिध्यक्तेः स्थितैव परमार्थतः । मिथ्याज्ञानविकल्प्यानां सत्वं चियक्तिव्यक्तिता ॥ विद्यते तत्तदन्नापि शिवत्वं केन वार्यते । इति चेदेषु सत्यत्वं स्थितमेव चिदुद्गमात् । तथा शिवोदयादेव भेदो मिथ्यादिकः कथम् ॥ व्यवहाराय सत्यत्वं न च वा व्यावहारिकम् ।' इत्यादि। ११० रजतद्विचन्द्रादीन् । १११ येऽसत्यत्वेनाभिप्रेता इत्यपि शब्दस्यार्थः । ११२ एवकारोऽन्यव्यवच्छेदार्थः । ११३ अन्न- बाध्यबाधकभावे । परकीयमिति, धर्मोत्तरोपाध्याया- भिमतं बाध्यबाधकलक्षणम् । ११४ शुद्धं भूतलं घटाभावः तन्निबन्धनस्वात् घटाभावव्यवहारस्य, ततः शुद्धभूतलज्ञानमेव यथा घटाभावज्ञानं, तथैव शुक्तिज्ञानगतयथार्थ- प्रकाशनल क्षणप्रामाण्यसंवेदनमेव शुक्तिज्ञानस्वसंवेदनानतिरिक्तं यत् ईश्वरप्रत्यभिज्ञा । [१अ०७आ० तथा चेच्छुक्तिकाज्ञानं रूप्यज्ञानाप्रमात्ववित् ॥ ७॥ इह शुक्तिकाज्ञानं खात्मानं संविदत् खा- स्माभिन्नं प्रमाण बुध्यते, 'तत्परिच्छिनत्ति' इति न्यायात् , तत्परिच्छेदनान्तरीयकश्च अ- न्यव्यवच्छेद इत्यशुक्तिज्ञानरूपस्य रजतज्ञा- नस्य अप्रमाणत्ववेदनं तदेव उच्यते- यत् एतत् शुक्तिकासंवेदनाभिन्नप्रमाणत्ववेदनम् , न च एतत् अपूर्व-यत् वस्त्वन्तरज्ञानमेव वस्त्वन्तराभावज्ञानम् इति, शुद्धभूभागग्रहण- मेव हि घटाभावज्ञानम् इति प्रसिद्धमेतत् । एवम् अप्रमाणतासंवेदनमेव रजतज्ञानस्य बा- ध्यत्वम् उच्यते, अतश्च बाध्यबाधकत्वम् एवं , प्रकाशते तदेवोच्यते, शुक्तिविपरीतरजतज्ञानगतायथार्थत्वस्वभावाप्रामा, ण्यसंवेदनं, स एव च बाध इति, किं तत्र प्रमात्रैक्येनेति परो ब्रूया- दिति सूत्रार्थः । रुग्यज्ञानं - रजतज्ञानं, तस्य अप्रमात्वम् - अप्रामाण्यं. तस्य वित्-वेदनम् , ज्ञानस्याप्रामाण्यवेदनमिति भावः । ११५ ततोऽन्यधवच्छिनत्तीति तद्विदः। ११६ नान्तरीयकः - अभिन्नः, अन्यव्यवच्छेदः- रुपयव्यवच्छेदः ११७ पूर्वतामेवाह शुद्धेति । ११८ अप्रमाणता-अप्रामाण्यमित्यर्थः ।
८का०] श्रीमदभिनवगुप्ताचार्यकृतविमशिन्युपेता। २९७ ११९ सिद्धम्, इति चेत् अस्माभिः उच्यते-तत् किंप्रमात्रैक्येनेति ॥७॥ अत्र प्रसङ्गात् अभावव्यवहारस्य सिद्धौ त- त्वमुपपादयिष्यन् दृष्टान्तमेव तावत् परदर्शने दूषयति नैवं शुद्धस्थलज्ञाना- त्सियेत्तस्याघटात्मता। न तूपलब्धियोग्यस्या- प्यत्राभावो घटात्मनः॥८॥ यो दृष्टान्त उक्तः स एव न, कुतः? इति चेत् उच्यते-ईहे भूतलं न घट इति तादा- त्म्येन अभावो व्यवहर्तव्यः कदाचित् , कदा- चित् व्यतिरेकेण 'इह भूतले घटो न' इति । ११९ यदि परो ब्रूयात् । १२० दृष्टान्त-विविक्तभूतलज्ञानमिति । १२१ भूतलस्याघटस्वभावता। १२२ अभावतत्त्वं प्रसङ्गागतमाह इहेति । १२३ एवं हि पिशाचस्यापि व्यतिरेकेणाभावः सिच्येत् अपिशाचतया भूतलस्य सिद्धिनैवं तदेव तत्रेति व्यवहर्तुमुचितं, सर्वदा वा तथा व्यव- 'हियतां विशेषाभावादिति दृष्टान्त एवायमसङ्गत इति सूत्रार्थः । ३० २९८ ईश्वरप्रत्यभिज्ञा । [१अ०७आ० तत्र शुद्धभूतलज्ञानात् आद्योऽयं व्यवहारः सि- ध्यति, यत्र दृश्यत्वं न उपयोगि, उपलब्धिल- क्षणप्राप्तिरपि हि यस्य नास्ति पिशाचादेः- स्व- भावबलात्, यस्य वा शब्दादेः तद्राहकश्रोत्रा- दिसामग्रीसाकल्यस्य, तेत्र एकज्ञानसंसर्गिव- स्त्वन्तरप्रतिपत्त्यभावेनापि निश्चयात् तस्यापि तादात्म्येन अभावो व्यवहार्यः- भूतलं न पिशाचो न शब्दः इति, यत्र तु दृश्यत्वं वि- शेषणम् अवश्यम् उपयोगि तत्र व्यतिरेकेण अभावे व्यवहर्तव्ये न ऐषोऽभ्युपायः ॥ ८॥ Pree १२४ तादात्म्येनाभावव्यवहारः । १२५ शब्दग्राहक इत्यर्थः। १२६ उपलक्षणप्राप्तिास्ति इत्यन्वीयते, तेनायमर्थः - अभावव्यवहारे तादात्म्येन साध्ये भवत्ययं न्यायः 'भूतलं घटो न पिशाचो न शब्दो नेति' तत्र हि दृश्यत्वे स्वभावविशेषसामग्यभावादिना असंभवत्यपि, संभवत्येवाभावसिद्धिः। १२७ तत्र-शब्दादौ । एकज्ञानं शब्दज्ञानं तत्संसर्गि यद्वस्त्वन्तर काकवाशितादि तस्य प्रतिपत्त्या श्रोत्रादिसामग्रीसाकल्यस्यानिश्चय इत्यर्थः । १२८ तस्यापीति पिशाचशब्दादेरित्यर्थः । १२९ उपलब्धिलक्षणोपलम्भयोग्यताधायि समस्तं कारणं प्राप्तस्य दृश्यस्य यदाभावः साधयितुमिष्ट इह भूतले घटो नेत्येवंरूपे, यत्रेति ध्यतिरेकेण व्यवहारे। १३० तथात्वे हि पिशाचस्यापि व्यतिरेकेणाभावः सियेदिति नोक- न्यायेनाभावसिद्धिः।
९का०] श्रीमदभिनवगुप्ताचार्यकृतविमशिन्युपेता। २९९ कुतः? इति चेत्-अतिप्रसङ्गात् इति ब्रूमः, तमेव दर्शयति विविक्तं भूतलं शश्व- द्धावानां स्वात्मनिष्ठितेः। तत्कथं जातु तज्ज्ञानं भिन्नस्याभावसाधनम् ॥९॥ विद्यमानेऽपि घटे भूतलं शुद्धमेव, नहि भावा मिश्रीभवन्ति ततश्च तदापि शुद्धभू- तलज्ञानम् अस्ति, इति सत्यपि घटे कथम् अभावो व्यतिरेकेण न व्यवहियते-अत्र भू- तले घटो नास्ति इति, तज्ज्ञानमिति' वि- विक्तभूतलभागज्ञानं 'जातु इति' कस्यांचिदेव दशायां घटासंनिधानरूपायां, भिन्नस्य घटस्य अभावं साधयति न तु सर्वदा-इति केन १३१ भूतलस्य स्वभावभूतां यादी विविकोपपन्नतामाश्रित्य यद्य- र्थान्तरस्यापि घटादेरभावः साध्यते तदा घटादिसद्भावेऽपि असौ साध्यः स्थात् तस्यास्तदापि भावादित्याह विविक्तेति । १३२ विविक्तभूतलज्ञानम् । १३३ घटस्य विद्यमानत्वकालेऽपि । १३४ तच्छुद्धभूतलज्ञानं जातुचिदेव कथं भिन्नस्थाभावसाधनमपि तु सदैव स्यात् तादात्म्याभावसाधनवदित्यर्थः ।
३०० ईश्वरप्रत्यभिज्ञा । [१अ०७आक प्रकारेण भवेत्, एतेन अत्र भूतले पिशाचो नास्ति इत्यपि स्यात् - इति आपतितं मन्त- व्यम् ॥९॥ ननु एवं व्यतिरेकाभावनिष्ठो व्यवहारो लोके तावत् अविगीतः कस्यांचित् एव द- तंत्र का गतिः ? इत्याशङ्कय चिर- न्तनैरपरिदृष्टं तत्सिद्धिप्रकारं दर्शयति किंवोलोकचयोऽन्धस्य स्पर्शो वोष्णादिको मृदुः। १३५ व्यतिरेकाभावेन । १३६ व्यतिरेकेणाभावस्तनिष्ठो व्यवहारोऽपीह भूतले बटो नेस्येवं- शायां दृष्टः, १३७ आ बालाङ्गनाविद्वत्पर्यन्तं प्रसिद्ध एवेत्यर्थः । १३८ घटासंनिधानरूपायामेव, न सर्वदेति । १३९ 'विविक्तभूतलज्ञानं घटाभावमितियथा।' इत्यस्याभावे, न केवलप्रदेशज्ञानेन घटाभावसिन्दिरपि तु भूतलग- तालोकादेरेव दर्शनादनालोकस्वरूपघटादिरूपतानिषेध इति प्रकारान्त- रेणेत्यर्थः। १४० अभावव्यवहारसिद्धिप्रकारम् । १४१ ननु यदि शुद्धभूतलज्ञानं न घटाभावं साधयेत् तस्कथमयं व्य- वहारो दृश्यते 'इह भूतले घटो नास्ति' इत्याशझ्यते चेत् मैवं-न केवल- प्रदेशज्ञानेन घटाभावसिद्धिः किं तु प्रकारान्तरेण इति स्वमतेन प्रकारान्तरं दर्शयति किं त्वालोकेति' । ननु व्यतिरिक्ताभावप्रतीतिः सर्वलोकप्रसिद्धा, a १४८ १०का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। ३०१ तत्रास्ति साधयेत्तस्य स्वज्ञानमंघात्मताम् ॥१०॥ इहे भाव एव भावान्तरस्य 'अभाव' इति व्यवहर्तव्यः इति अयं तावत् अपरित्याज्यः प्रीतीतिकः पन्थाः, तत्र भावस्य भावान्तरेण य आधार्याधारभावः स एव भावतदभावयोः, ततश्च भूतले घटव्यतिरिक्तं वस्त्वन्तरं शिली- सा च न सर्वदा, किं तु घटासन्निधिदशायामेव, तकिमत्र शरणम् , इह यद्यतो न भिन्नं तत्ततो व्यतिरेकेण न व्यवहार्य भूतलमिव भूतलात् तथा च घटाभावः, विपक्षे हि निनिमित्तता तथा व्यवहारस प्रसज्येदिति कारणानुपलम्भनं, ततश्च भिन्न एव भूतलाध आलोकः स एव घटाभावो भूतलाधेयतया व्यवहरणीयः इत्येतदेवान शरणम् एतदुच्यतेऽनेन किं स्विति सूत्रेण । १४२ तत्र-भूतले। १४३ तस्य-आलोकादेः। १४४ न तु शुद्धभूतलज्ञानम्, क्वचिद्भूतलं दृष्टपूर्व महाशिलादिकार्था- न्तरावारितमुपलभ्य केवलमदृष्ट्वैव प्रत्यक्षादेव व्यवहरन्त्यपि नान निरन्तरो घट इति, तन यथा महाशिलैवाघटरूपेति तनाव एव घटाभावः तथैव सर्वत्रालोकादिरवश्यंभावी घटविलक्षणो घटाभावतया व्यवह्नियतां किं प्रदेशकेवलतयानुपपद्यमानयेति भावः । १४५ इह प्रस्तुते, भाव: :-शिलादिः। १४६ घटस्य । १४७ अनुभवसिद्धः। १४८ ततोऽपि किं सिद्धमित्यत आह ततश्चेति । १४९ घटरूपस्पर्शविलक्षणम् ।
३०२ ईश्वरप्रत्यभिज्ञा । [१अ०७आ० दिकम् आलोकपुञ्जादिकं वा यत् चाक्षुषे ज्ञाने भाति तदेव व्यवढियते-भूतले घटा- भावो भूतले घटो नास्ति इति वा, यत्रापि नास्ति चक्षुर्व्यापारो नेत्रनिमीलनसंतमसादौ तत्रापि भूतले घटोचितकठिनस्पर्शविविक्तं मृदुम् उष्णं शीतम् अनुष्णाशीतं वा गृह्णन् तमेव अत्र घटाभाव इति व्यवहरति-वायुस्प- शस्य सर्वगस्य अवश्यंभावात्, इति वाक्यार्थः। पदार्थस्तु-'किं तु' इति खमतोपक्षेपाय प्रति- भाप्रश्नपरामर्शः, किं पुनरत्र न्याय्यमिति तत्राह 'तत्र' भूतले 'आलोकचयः' तावत् अस्ति ज्ञेयः “अन्धस्य उष्णादिकः स्पर्शः' अस्ति 'तस्य' आलोकचयस्य स्पर्शस्य वा यत् 'खज्ञानम्' अन्यघटादिविविक्तेन खेन रूपेण ज्ञानं, तत् १५२ : १५० यदा भूतले घटव्यतिरिकं वस्त्वन्तरं शिलादिकं तदा महाशि- लैवाघटरूपेति तद्भाव एव घटाभाव इत्युक्तम् भूतले घटाभावः, तथा यदि सर्वत्रालोकादिरवश्यंभावी घटविलक्षणो घटाभावतया चाक्षुषे ज्ञाने व्यवहियमाणतामेति तदा भूतले घटो नास्तीति । १५१ ततश्व सिद्धमेतत्-भिन्न एव भूतलाय आलोकः स एव घटा. भावो भूतलाधेयतया व्यवहरणीय इति । १५२ भ्रूक्षेपपूर्व मुखचालने इत्यर्थः । १५३ आलोकचय इत्यादि।
१०का०] श्रीमदभिनवगुप्ताचार्यकृतविमशिन्युपेता। ३०३ कर्तृ, 'तस्य' आलोकादेः अघटरूपतां घटाभा- वरूपतां 'तत्र' भूतले साधयति इति शक्योs- यमर्थः । शकि लिङ् च' (पासू०३-३-१७२) इति लिङ् । ऑन्तरप्राणस्पन्दनजनितसूक्ष्म- शब्दाकर्णनाच्च श्रोत्रादिसाकल्यं संभावयमानः तमेव शब्दम् एकज्ञानसंसर्गिणं शृण्वन् श- ब्दान्तरं निषेधयति 'न इह अन्यः शब्द' इति।तत् सूक्ष्मशब्दाभावमपि सूक्ष्मतमान्त- र्नादावहितश्रोत्रो वेदयते, रसगन्धस्पर्शाभा- वोऽपि दन्तोदकरसं त्रिपुटिकागन्धं कायीयं च स्पर्श संवेदयमानेनैव संवेद्यः, नहि एकज्ञा- नसंसर्गयोग्यवस्त्वन्तरोपलम्भेन विना उप- लब्धिकारणसाकल्यनिश्चयोऽस्ति, इति एका- न्त एषः अचिरप्रवृत्तितत्तद्विषयानुभवकल्पि- तस्य तदैव ध्वंसानाशङ्कनात् करणस्य का- रणसाकल्यनिश्चयः किम् एकज्ञानसंसर्गितया? इति चेत् न-तत्तदभावोपलिप्सुः हि प्रय- १५४ ननु च व्यतिरेकेणाभावसाधनेऽस्तु चाक्षुषे विषये आलोकचया- देरेवंरूपता, सन्ति च रसगन्धस्पर्शशब्दास्तद्विषयव्यतिरेकाभावसाधने का गतिरित्याशयेनाह आन्तरेत्यादि ।
३०४ ईश्वरप्रत्यभिज्ञा । [१अ०७आ० नेन तत्तदिन्द्रियाधिष्ठानं व्यापारयन् एव लक्ष्यते ॥१०॥ ननु एवम् अदृश्यस्यापि पिशाचादेः नि- षेधव्यवहारो व्यतिरेकेणापि प्राप्नोति, सहि आलोकपुञ्जो यथा घटात् अन्यः तद्वत् पि- शाचादेरपि? तदेतत् आशयाह पिशाँचः स्यादनालोको- ऽप्यालोकाभ्यन्तरे यथा । अदृश्यो भूतलस्यान्त- न निषेध्यः स सर्वथा ॥ ११॥ आलोकपुञ्जो यद्यपि पिशाचात् व्यति- रिक्तो यद्यपि च आलोकोऽस्ति अपिशाचात्मा १५५ अदृश्यस्येति- इह भूतले पिशाचो नास्तीति, तादात्म्याभावस्तु स्वसिद्ध एवेत्यपिशब्दार्थः । निषेधव्यवहार:-अभावव्यवहारः। १५६ आलोको घटाभाव इति कृत्वा प्रदेशे तनिश्चयाक्षिप्तो यथा घटाभावव्यवहारः तद्वत्पिशाचाभावोऽपि आलोकस्यैव-पिशाचाभावरूप- स्वादित्यर्थः। १५७ अत्रैतत् सिद्धं भवति-कित्वालोकचय इत्यत्र कि तादात्म्याभावः साध्यः अथ व्यतिरेकाभावः, यदि तादात्म्याभावस्तर्हि सिद्धं समीहितं- पिशाचादेरपि तथारूपत्वात् , अथ व्यतिरेकाभावः तदा पिशाचादेरपि अभावव्यवहार:-इह भूतले पिशाचो नास्तीत्येवंरूप आयातीति कान गतिः? इत्याशङ्काशमनार्थ सूत्रं-पिशाच इति । .
११का०] श्रीमदमिनवगुप्ताचार्यकृतविमर्शिन्युपेता। ३०५ इत्येतावत् सिद्ध्यति तथापि अत्र 'पिशाचो नास्ति' इत्येतत् अशक्यम् अध्यवसातुम् , घटो हि आलोकपूरमध्येऽपि असंभाव्यः-अघट- संनिधौ तत्र आलोकपूापसर्पणात् , अतश्च सिद्ध्यतीदम् - अत्र घटो नास्ति इति, पि- शाचस्तु तादृक्खभावो-यो भूतलमध्येऽपि आलोकमध्येऽपि वा भवन् भूतलस्य आलो- कस्य वा तां निविडतां न प्रतिहन्ति , अतश्च आलोकमध्ये तस्य संभावनात् कथं व्यतिरे- केण निषेधव्यवहारः, एवं रूपमध्ये रसादेः संभावनात् तस्यापि अनिषेधः यद्यपि अना- लोकः आलोकात् अन्यः पिशाचः तथापि असौ भूतलस्य अन्तर्मध्येऽदृश्यो भवति इति संभाव्यते यथा, तद्वत् एव आलोक- स्याभ्यन्तरे सोऽस्ति इति संभाव्यत एव, ततश्च यद्यपि आलोकस्ततोऽन्यः इत्यनेन १५८ इति तादात्म्याभावसिद्धिः, तादात्म्याभावसिद्धमर्थ प्रसाध्य व्यतिरेकामावसिद्धिनात्र सिध्यतीत्याह तथापीति । १५९ अन-भूतले। १६० पदार्थमुक्त्वा वाक्याथमाह यद्यपीति ।
३०६ ईश्वरप्रत्यभिज्ञा। [१अ०७आ० पथा निषिद्धः पिशाचः तथापि सर्वप्रका- रेण न निषिद्धः इति तदभावनिबन्धनाः कथं तत्र व्यवहाराः प्रवर्तन्ताम् इति श्लो- कार्थः॥११॥ एवं प्रसङ्गात् अभावव्यवहारस्य तत्त्वम् उपदर्य प्रकृते योजयति एवं रुप्यविदाभाव- रूपा शुक्तिमतिर्भवेत् । न वाद्यरजतज्ञप्तेः स्यादप्रामाण्यवेदिका ॥ १२॥ यथा आलोको घटाभाव इति आलोके १६१ अपिशाचो यद्यप्यालोकोऽस्ति इत्यत आलोको भवन् पिशाचो नास्ति इति व्यवह्नियेत तथापि न सर्वात्मना तदभावसिद्धिः । पिशाचा- भावमानं हि न साध्यम् अपितु नियमेन भूतलान्तरेऽपि च संभाव्य एवासौ तदेवमालोकान्तरवर्ती स स्यादेवेति शङ्कायामर्थनीयो नियमगर्भ- तया विवक्षिते स तादृशो न तदभावनिश्चय इति परदर्शन एवोक्तं, स्वमते पुनर्न कश्चिदोष इति सूक्ष्मविवेकेन विवेच्यम् । १६२ पिशाचाभावकारणकाः । १६३ प्रकृतं चात्र सर्वसत्यत्वं तत्र विविक्तभूतलज्ञानमित्यादिना धर्मो. त्तरोपाध्यायमतस्यासत्यत्वं सम्यक्षिणीय सत्यत्वदायार्थमेवाह एवमिति । १६५ शुक्तिमतिरित्यन्वेतव्यम् ।
१२का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता । ३०७ गृहीते प्राक् गृहीतस्य घटस्य न किंचित् आयातम् तथैव शुक्तिज्ञानं रुप्यज्ञानाभाव इति इयत् संभाव्यते यथा घटज्ञानं घट- ज्ञानप्रामाण्यसंवित् पटज्ञानाभावः पटज्ञा- नाभावप्रामाण्यसंवित् इयता च न पूर्वप्रवृत्तं पटज्ञानम् अप्रमाणीभवति, एषा हि तस्य घटज्ञानस्य स्वरूपचिन्ता सर्वा न ज्ञानान्त- रस्य आँधस्य किमपि अंतो जातम् । एवं शुक्तिरियम् इति, न रजतम् इदम् इति च ज्ञानमेव स्वात्मना प्रकाशताम् , अहं शुक्तौ रजताभावे च प्रमाणं न तु रजते इति, तावता तु प्राक्तनस्य रजतज्ञानस्य न किंचित् १६५ एतदुक्तं भवति- यद्यत्र प्रमाणभूतशुक्तिकारजताभावान्यतर- ज्ञानप्रामाण्यसंवेदनमेव तदन्यरजतज्ञानप्रामाण्याभावज्ञानं सिद्धमेवेति सममेवोभयत्र पक्षे, तथापि शुक्तिकाज्ञानस्य नेदं रजतमिति ज्ञानस्य वा खरूपचिन्ता कृता भवति न तु ततो व्यतिरिक्तस्याद्यरजतज्ञानस्य किंचित् खण्डितं मण्डितं वेति विशेष इत्याह प्राग्गृहीतस्य घटस्येत्यादि । १६६ एवंविधं घटज्ञानमिति घटस्यैव स्वरूपं चिन्त्यते इत्यर्थः । १६७ रजतज्ञानस्य। १६८ शुक्तिकामतेः। १६९ रजताभावज्ञानरूपेण । पं० १० ग० पु० एवं शुक्ताविति पाठः ।
३०८ वृत्तम्, ईश्वरप्रत्यभिज्ञा । [१अ०७आ० इति तद्विषयीकृतं रजतं कथम् असत्यं स्यात् ॥ १२॥ ननु इदमित्यनेन तदेव परामृश्यते - यत्र रजतज्ञानम् अभूत् तत्रैव इदानीं 'न रजतम् इति,शुक्तिः इति' च ज्ञानंप्रमाणभूतं जातं, तत् अतोऽनुमीयते- यत् 'प्राच्यं रजतज्ञानम् अप्र- माणम्' इति, नहि एतत् संभवति-विरुद्ध- विषयावगाहि ज्ञानद्वयं प्रमाणम् एकत्र वि- षयीभवति इति, तत् अयम् आनुमानिको ७ १७० असत्येकप्रमातरीति शेषः । १७१ यदुक्तं शुक्तिरियं नेदं रजतमिति स्वात्मना ज्ञानमेवं प्रकाशताम् अहं शुक्तौ रजताभावे च प्रमाणं न तु रजत इति, तावता तु प्राक्तनस्य रजतज्ञानस्य न किंचिद्वृत्तमित्यन लब्धावसरः पर आक्षिपति नन्विदमि- त्यनेनेति, अयं भावः- यदि चैतावता प्राक्तनस्य रजतज्ञानस्य न किंचि- द्वृत्तं तहीदमिति किमर्थं प्रयुज्यते शुक्तिः रजतं नेत्येव प्रयुज्यतां न च तावतार्थसिद्धिः तत इदमित्यनुप्रयोगात् , यत्र रजतज्ञानमभूत् तदेवेद- मिति निर्दिश्यते इत्यतः शुक्तिरिति न रजतमिति च प्रमाणभूतं ज्ञानं जातम् इदमिति च प्राच्यं रजतज्ञानमप्रमाणभूतं जातमित्यनुमानसिद्धो बाधव्यवहारः॥ १७२ ननु चेदमित्यपि प्रयोगे कथं नेदानीमुदितं प्रमाणभूतमेव ज्ञानं गृह्यते किमिति प्राच्यमपि गृह्यते इत्यत आह नहीत्यादि । असं- भवमेवाह विरुद्ध त्यादिना । विरुद्धविषयत्वं च तदानीन्तनेदानीन्तनगल्या ज्ञानद्वयं प्रमाणाप्रमाणरूपमिति, तदयमर्थः-न चैकमेकदा रूपद्वययोगि इति न ज्ञानद्वयं प्रमाणं भवितुमर्हतीति १३का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। ३०९ बांधव्यवहारो भविष्यति ? इत्याशङ्कयाह धर्म्यसिद्धरपि भवे- द्वाधा नैवानुमानतः। स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा ॥ १३॥ न केवलं स्वसंवेदनात् न सिद्ध्यति बाधा, यावत् अनुमानतोऽपि न सिद्ध्यति-धर्मिणो- ऽसिद्धेः, अपिशब्दात् हेतोः व्याप्तेश्च, अपिः उभयत्र नेयः, इहँ धर्मिणि सिद्धे सिद्धेन हेतुना स्मर्यमाणव्याप्तिकेन साँध्यधर्मायोग- व्यवच्छेदकोऽनुमानव्यापारः इह च प्राच्ये १७३ अलमत एकाश्रयनिरूपणेनेत्यर्थः। १७४ तत्र यदुक्तमिदमित्यनेन तदेत्यनुमानं तन्नोपपद्यते अस्ति च बाधः सोऽस्मन्मत एवोपपन्न इति पूर्वोत्तरार्धाभ्यामाह धय॑सिद्धेरिति स्वसंवेदनेत्यादि च । अन्नापिशब्दः सर्वतोमुखः संबन्धनीयः समुच्चया- र्थोऽपि च तेन हेत्वसिद्धेरपीति बोध्यम् । १७५ विविक्तं भूतलमित्यनेन । १७६ असिद्धः। १७७ अनुमानत इत्यत्रापि संबन्धार्थम् । १७८ धर्मिहेतुव्यात्यसिद्धतयानुमानासिद्धतामाह इहेति । १७९ सति धर्मिणि धर्मचिन्तेति न्यायात् । १८० साध्यधर्मायोगव्यवच्छेदः साध्यधर्म एवेत्यर्थः ।
ईश्वरप्रत्यभिज्ञा। [१अ०७आ० रुप्यज्ञाने धर्मिणि अप्रामाण्यं साध्यो धर्मः तत्र शुक्तिकाज्ञानं वा, न रजतम् इति ज्ञानं वा, तज्ज्ञानविषयीकार्यत्वं वा विष- यगतं हेतूक्रियते, न च एतत् युक्तम् - तत्काले प्राच्यरुप्यवोधस्य धर्मिणोऽभावात् , न चापि तस्य शुक्तिज्ञानादयो धर्माः, न चे अपक्षधर्मात् साध्यसिद्धिः, अतः स्मर्य- माणं तद्धर्मि स्यात् इत्यपि असत्, अथ शुक्तिः न रजतज्ञानस्य विषय इति साध्यते शुक्तिकाज्ञानविषयत्वात् इति, तत् यदि इदी- नीम् तत्सिद्धसाधनम्, अथ पूर्वम् तदा तत्पूर्वखसंवेदनेन बाध्यविषयता केन चैवं १८१ साध्यधर्मिणि। १८२ शुक्तिज्ञानकाले। १८३ अन्यबाधमप्याहन चेति । १८४ संदिग्धसाध्यवान् पक्षः। १८५ अपक्षधर्मत्वात् । १८६ रुप्यज्ञानम्। १८७ अपक्षधर्मत्वात् । १८८ शुक्तिकाज्ञानावसरे। १८९ विफलमित्यर्थः। १९. असति चैकप्रमातरीति शेषः । पं०५ क० ग० पु० बाध्यस्य धर्मिण इति पाठः।
१३का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। ३११ व्याप्तिहीता-यत्र इदानीम् अन्यत् ज्ञानम् तत्र पूर्वम् अन्यत् न भवति इति, अनुमा- नान्तरेण इति चेत् अनवस्था, एतेन एतत् प्रत्युक्तम् - एकस्मिन् विषये कथं ज्ञानद्वयं स्यात् इति, को हि एकविषयता द्वयोः ज्ञानयोः जा- नीयात् , ते हि तावत् स्वात्मनि स्वविषये च वि- श्राम्यत इति उक्तम् , इति अनुमानतोऽपि न बाधा, न च तथाभूतमपि व्यवधानम् अत्र प्रतीतौ संवेद्यते- स्वसंवेदनसिद्धतया झटिति भासनात् , अत एव एतदपि अशक्यं वक्तुम् - माभूत् बाधा नाम इति । एवं परपक्षेऽनुप- पत्तिं प्रदर्य स्वपक्षे एकप्रमातृपरिनिष्ठितेः उदियात् बाध्यबाधकभाव इति वाक्येन प्रति- ज्ञातं निगमयति-युक्ता सा एकस्मात् प्रमातुः यदि जायेत इति, स एव हि तथा निर्माता इति व्याख्यातमेव, स्थिते चैवं यदि व्यवहार- १९१ एकप्रमानभावे। १९२ ज्ञाने। १९३ सुहृत् भूत्वा पुनरपि शिक्षयति न चेति । १९३ साधनेनोपसंहरति ।
ईश्वरप्रत्यभिज्ञा । [१अ०७० सिद्धयेऽन्यथानुपपत्तिरप्युच्यते तत् उच्यतां कामम् 'अधुना सर्व सिद्ध्यति' इति ॥ १३ ॥ न केवलमेते कार्यकारणभावस्मरणबाधा- व्यवहाराः सकललोकयात्रासामान्यव्यवहार- भूता एकप्रमातृप्रतिष्ठा, यावत् अवान्तरव्य- वहारा अपि ये क्रयविक्रयादयः समलाः, उप- देश्योपदेशभावादयश्च निर्मलाः, तेऽपि एक- प्रमातृनिष्ठा एव भवन्ति-व्यवहारो हि सर्वः समन्वयप्राणः इति उपसंहारक्रमेण दर्शयति १९५ अन्यानुपपत्तिांध्यबाधकत्वनिर्माणं करोति द्वयोर्ज्ञानयोः प्रमा. णभूतयोरेकत्र विषयेऽनुपपत्तिः पूर्वज्ञानस्यामामाण्यं विना । १९६ उक्तानुवादपूर्व वर्तिष्यमाणविधेयमभेदप्रतिपत्यै न केवलमि- त्यादिनाह । १९७ व्यवहारो हि द्विधा-समलो मायान्धानां सकलप्रलयाकलवि. ज्ञानाकलानां, यदागमः 'अवस्थात्रितयेऽप्यस्मिस्तिरोभावनलीलया। शिवशक्या समाक्रान्ताः प्रकुर्वन्ति विचेष्टितम् ॥' इति क्रयविक्रयविवादादिः समलः, निर्मलः पुनः प्रत्यभिज्ञातात्मपर- मार्थानां पारमेशरूपावेशलाभाद्विशेषदृशि वीरेशव्यपदेशानां न तु लाकु- लादिपशूनां विद्येश्वरप्रभृतीनां दीक्षितपर्यन्तानामुपदेशदीक्षानित्यनैमित्ति- काद्यनुष्ठानध्यानसमाधानादिव्यवहारः यद्यपि तत्रापि यावन्मल शेषाव- स्थानं मायाव्यापाराविगलनात् अतश्च तथा येन व्यवहाररूपता सा हि भेदाभेदप्राणितसमन्वयात्मा सर्वथा भेदतिरोधौ धीयते एव तथापि प्रत्यभिज्ञातस्वरूपाणां यावत्परमात्मना स व्यवहारः स्वपरमात्मनि मल- शोधनबोधनकधनत्वाद्विमल एव युक्त इति भावः ।
१४का०] श्रीमदमिनवगुप्ताचार्यकृतविमर्शिन्युपेता। ३१३ इत्थमत्यर्थभिन्नार्था- वभासखचिते विभौ। समलो विमलो वापि व्यवहारोऽनुभूयते ॥ १४ ॥ तत्तद्विभिन्नेति' श्लोकबयोक्तेन अनेन उ- पपत्तिप्रकारेण, अन्वयव्यतिरेकात्मना, तथा श्लोकान्तरैरुक्तेन व्यवहारोदाहरणप्रकारेण इ. दमपि मन्तव्यम् - यत् विभौ देशकालानव- च्छिन्ने, अत एव अत्यर्थभिन्नैः-मायाबलात् भेदैकप्राणितैः नीलसुखाद्याभासैः प्रतिबिम्ब- कल्पैः अनंतिरिक्ततया वर्तमानैः, खचिते-ख- रूपानन्यथाभावेन उपरक्ते, विश्रान्तः सर्वो व्यवहारोऽनुभूयते- अनुभव एव अत्र दृढतमं प्रमाणम् इति यावत् , अनुभूयते च सोप- १९८ तत्तद्विभिन्नेति देशकालेति च सूत्रान्तरनिरूपितकार्यकारणभा- वाधुदाहरणप्रकारेण । १९९ मायाशक्त्युपकल्पितचिदभेदाख्यातिसारभेदमात्र परमार्थैः । २०० भेदाभेदाभ्यां 'नाप्रकाशः प्रकाशते' इति न्यायात् । तथाभि- स्वेन अनतिरिक्तैरपि अतिरिक्ताभासैः। : स्वरूपमन्यथा न भवतीत्यर्थः। २०२ मूढानां झटिति तथाभिमानाभावेऽपि उक्तोपदेशपरिशीलन- दिशा प्रकाशत एवार्थ इत्यर्थः । , : विभोः ........ ३१४ ईश्वरप्रत्यभिज्ञा। [१अ०७आ० देशैः अवधानधनैः-येन एषां यैव संसौरसं- मता व्यवहारदशा सैव प्रमातृतत्वप्रख्या- त्मिका शिवभूमिः । यदुक्तम् ......... 'संवन्धे सविधानता २०३ अनवहिताभीष्टा। २०४ शुद्धसर्वज्ञसर्वकर्तृत्वमयात्मकशिवभूमिः। २०५ 'प्राग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् । योगिनां तु विशेषोऽयं संबन्धे सावधानता ॥' इति शिवोपनिषदि, तत्रायं भावः- इह हि नीलं गृह्णतः प्राणस्तु- टिषोडशात्मा वेद्यावेशपर्यन्तमुदेति, तत्राधा तुटिरविभागैकरूपा, द्वितीया ग्राहकोल्लासरूपा, अन्या ग्राह्याभिन्ना, तन्मयी उपान्त्या स्फुटीभूतग्राहक- रूपा, मध्ये यत् त्रुटिद्वादशकं तन्मध्यादाचं षङ्क निर्विकल्पखभावं विकल्पाच्छादकं परं च षष्टुं विकल्पोन्मेषादिरूपकम् । यदा तु विकल्पस्य स्वरूपपक्षे निक्षेपात् न्यूनता तदा तुटेरपि प्रमातृत्वास्था शैथिल्यरूपा न्यूनता यावदविकल्पतैव, लोकाः पुनर्विकल्पविश्रान्त्या तामहन्तामयीम- हन्ताच्छादितेदभावविकल्पप्रसरां निर्विकल्पां विमर्शभुवमप्रकाशितामिव मन्यन्ते दुःखावस्थां सुखविश्रान्ता इव विकल्पनिहाँसेन तु सा प्रकाशत एवेतीयमेवासौ 'संबन्धे सावधानता' इत्याहुगुरवः, ग्राह्यग्राहकयोई- योर्यंत उदयः यन्त्र वा विश्रान्तिस्तत्रावहितत्वमित्यर्थः, एतदेव तुटि- पातसंज्ञया तत्रभवकल्टपादैनिरूपितं 'तुटिपाते सर्वज्ञत्वसर्वकर्तृत्व- लाभः' इति, तत्र यावत् स्फुटेदन्तात्मनो भेदस्य न्यूनता तावत् द्वय- हासे द्वितुटिः शिवावेशो भवति, तत्राद्या तुटिः सर्वतः पूर्णा द्वितीया सर्वज्ञानकरणाविष्टाभ्यस्थमाना सर्वज्ञत्वसर्वकर्तृत्वाय कल्प्यते, सर्वसा- म्याद्धि नाया, तदेवं तुटेराद्यायाः पातोऽपचयो द्वितीया तुटिरित्यर्थः । तदेतदत्रोक्तमनुभूयते चेत्यादि-शिवभूमिरित्यन्तम्, इयमेव च शुद्धवि- मात्मिका भूमिः वसिष्ठेनापि ग्राह्यग्राहकसंबन्धे सामान्ये सर्वदेहिनाम् । योगिनः सावधानत्वं यत्तदर्चनमात्मनः ॥'
१४का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। ३१५ इति । अप्रत्यभिज्ञातात्मपरमार्थानां समलो व्यवहारः, अन्येषां स एव निर्मलः ॥ इति शिवम् ॥ १४ ॥ आदितः॥७७॥ इति श्रीमन्माहेश्वराचार्यवर्योत्पलदेवपादविरचितायामी- श्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तकृतविम- हिन्याख्यव्याख्योपेतायां प्रथमे ज्ञाना- धिकारे एकाश्रयनिरूपणं नाम सप्तममाह्निकम् ॥७॥ इति निर्दिष्टा । तथा 'जडाजडदृशोमध्ये यत्तत्वं पारमार्थिकम् । अनन्ताकाशहृदयं तत्सदाश्रय सर्वदा ॥' इति च।
अथ ज्ञानाधिकारे माहेश्वर्यनिरूपणाख्यं नामाष्टममाह्निकं प्रारभ्यते। ........ ........... खसंवेदनसंसिद्धव्यवहारवशेन यः। नित्यं महेश्वरः सिद्धः सिद्धानां तं स्तुमः शिवम् ।। एवं ज्ञानस्मरणापोहनानि व्युत्पाद्य तेषाम् 'एकमाश्रयं विना व्यवहारो न युक्तः' इति निरूपितम् एतावता, न चेदन्तः कृता इत्यत्र यत् उक्तम् 'एक' इति तत् परिघटि- तम् । अन्तराभाससमर्थनेन 'अन्तःकृतानन्त- विश्वरूप' इत्यपि निरूपितम् । यत् तत्रैव 'महेश्वर' इति उक्तम् तन्माहेश्वर्य खातध्य- १ शक्तिभूतत्वात् शक्तिमन्तं विनानवस्थानात् । 'न चेदन्तः कृतानन्तविश्वरूपो महेश्वरः । स्यादेकश्चिद्वपुर्ज्ञानस्मृत्यपोहनशक्तिमान् ॥' इति प्रतिज्ञातं, तत्र ज्ञानस्मृत्यपोहनशक्तित्रयमालिकनयेण समर्थितम्, अनेन एकाश्रयनिरूपणाहिकेन तत्र यदुक्तम् 'एक' इति तदपि समर्थितं; तृतीयसिद्धान्तनीत्या च तत्रैकस्मिन् 'अन्तः कृतानन्तविश्वरूप' इत्यपि स्वयं सिद्धमेव, यत्पुनस्तन 'महेश्वर' इति पदं तत्समर्थनावसरोऽयं माक्ष इति तदपि समर्थयति। २ १का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। ३१७ रूपम् उपपादयितव्यम्, तच्च ज्ञानविषयं क्रियाविषयं च इति उभयपँकारम्, ततो भगवान् ज्ञाता कर्ता च, यद्यपि च प्रकाश- विमर्शात्मकं चिदेकघनम् एकमेव संविद्रूपम् , तथापि व्युत्पादनाय तत्परिघटित एव अयं विभागः, तेन ज्ञानात्मकक्रियाविषयं खातयं यद्यपि क्रियाशक्तिरूपम् तथापि ज्ञानाधिकार ३ तच्च-स्वातत्रयमित्यर्थः । यदुक्तं पूर्वमेव 'कर्तरि ज्ञातरि वात्मन्यादिसिद्धे महेश्वरे । अजडात्मा निषेधं वा सिद्धि वा विदधीत कः ॥' इति । ४ उभयप्रकारमिति 'शक्त्या गभीन्तर्वर्तिन्या शक्तिगर्भ परं महः ।' इति । 'न शिवः शक्तिरहितो न शक्तिय॑तिरेकिणी। न हिमस्य पृथक् शैत्यं नौष्ण्यं वह्नः पृथग्भवेत् ॥' इति नयेन यद्यपि प्रकाशचिमात्मकमेकमेव संविद्रूपं मुख्यमिति किमिदं ज्ञानक्रियात्मकं द्वित्वं नाम, यतो ज्ञाने कृतौ च स्वातघ्यमेव चिच्वमित्येव परमार्थतः, तथा च ज्ञातृसत्तैव क्रिया क्रियास्वरूपमेव ज्ञानं तथा परप्रतीत्यै तदेव विभज्य विवक्षया ज्ञानक्रियाद्वयप्रतीतिरिति भावः। ५ व्युत्पादनाय-परप्रतिपत्तये इत्यर्थः। ६ विभाग:-ज्ञानक्रियारूप इत्यर्थः । ७ आभासवैचित्र्यं हि क्रियात्मकं तच्च यद्यपि क्रियाधिकार एवं प्रस्तावाई तथापि ज्ञानविषयादिह ज्ञानाधिकारे निर्णीयत इति न किदिवमित्यर्थः।
। ईश्वरप्रत्यभिज्ञा । [१अ०८आ० एव निर्णेतव्यं-तद्विषयत्वात् । एवं च ज्ञातृश- ब्दार्थः प्रकृतितः प्रत्ययतश्च संपूर्णतया नि- णीतो भवति । तंत्र ज्ञानं नाम स्वयं भेदि- ताभासभेदोपाश्रयनियन्त्रणासंकुचितम् 'अह- मिति' संवेदनम् । तत्र आभासेषु यत् खा- तत्र्यं, तदेव ज्ञानशक्तिविषयं खातच्यं संपे- द्यते इति। 'तात्कालिकापसामध्य..........! इत्यादिना .........."शुद्ध ज्ञानक्रिये यतः।' इत्यन्तेन श्लोकैकादशकेन तत् निरूप्यते । तत्र आभौसान्तरापेक्षी च आभासोऽन्यथा वा इति श्लोकेन उक्त्वा, स एव आभास तद्विषयत्वात् - ज्ञानविषयत्वादित्यर्थः । ९ प्रकृत्या ज्ञानविषयत्वात् प्रत्ययेन च क्रियात्मकत्वात् । १० ज्ञानक्रिययोः परस्परं संमेलनभावात् क्षीरजलयोरिव आचार्यों हंसीभूय विषयवैविक्त्येन तावत् ज्ञानस्वरूपं विवेचयति तत्रेति । ११ एवं प्रकृत्यर्थेन भेदिते ज्ञानस्वरूपे प्रत्ययार्थेन सह तत् संगम- यति तनेत्यादिना । १२ संपद्यते- अर्थादायातीत्यर्थः । १३ यथा कश्चिदाभासोऽन्यतमाभासमपेक्षते तथा अपरो नापेक्षत इति । १४ अत्र तथापीति शेषः।
१का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। एक इति श्लोकान्तरेण उच्यते । अर्थक्रिया- भासोऽपि तथैव आभासनियत इति श्लोक- द्वयेन उक्त्वा कस्मिन् आभासे सा अर्थक्रिया इति पुनः श्लोकद्वयेन । आभासान्तरविचित्रस्य भित्तिस्थानीयम् आन्तरत्वम् इति श्लोकेन । ततो बाह्यत्वं स्वरूपतो विभागतश्च श्लोक- युग्मेन । ततः श्लोकेन ज्ञानादिशक्त्याश्रयस्य एकस्य उपसंहारः । श्लोकान्तरेण महेश्वरत्वम् उपसंहरता भाविनः क्रियाधिकारस्य उपक्षेप इति संक्षेपार्थ आह्निकस्य । अथ श्लोकार्थों निरूप्यते। ननु यदि परमेश्वरनिष्टतयैव समस्तोऽयं व्यवहारः तत् अस्य स्फुटत्वास्फुटत्वप्रायत्र- सिद्धवैचित्र्यानुपपत्तिः-येन किल अयम् अनुप्राणितः स एक एव भगवान्, न च तद्ध्यतिरेकेण व्यवहारस्य निजं किंचन तत्त्वम् उत्पश्यामः? इत्याशङ्कयाह १५ मामासान्तरवैचिन्ये भित्तिकल्पमान्तरत्वमिति । १६ अस्य-व्यवहारस्येत्यर्थः । १७ अर्थ-व्यवहार इत्यर्थः ।
३२० ईश्वरप्रत्यभिज्ञा । [१अ०८आ० तात्कालिकाक्षसामक्ष्य- सापेक्षाः केवलं क्वचित् । आभासा अन्यथान्यत्र त्वन्धान्धतमसादिषु ॥१॥ विशेषोऽर्थावभासस्य सत्तायां न पुनः क्वचित् । विकल्पेषु भवेद्भावि- भवद्भूतार्थगामिषु॥२॥ केवलम् एतावता आभासानां भेदो, व पुनरावभासस्य खात्मगतः क्वचिदपि भेदे इति श्लोकद्वयस्य संमेलितस्य संबन्धः, य- स्मिन् एव काले स आभास आभाति त- १८ तत्कालभवं तात्कालिक निकटवर्ति यदक्षसामक्ष्यम् ऐन्द्रियिका- दिप्रत्यक्षं तदपेक्षमाणा इत्यर्थः । व्यवहारो भगवति सर्व इति सत्यमिदं तत्र वक्तव्यान्तरमुच्यत इति केवलपदम् । अन्यत्र तु अन्धादिव्यवहारे । १९ आभासवैचित्र्यमुक्त्वा स्वात्मनि आभासैक्यमाह विशेष इति । २० एतावता- सापेक्षस्वनिरपेक्षत्वादिना । २१ तात्कालिकाक्षेत्यादिना एतदुक्तम् । २२ विशेष इत्यनेन एतदुक्तम् । २३ पदार्थमाह यस्मिन्नित्यादिना ।
ब २का०] श्रीमदभिनवगुप्ताचार्यकृतविमशिन्युपेता । काले एव भवति, यत् अक्षसामक्ष्यं - बाह्ये- न्द्रियप्रत्यक्षत्वं नाम आभासान्तरं पश्यामी- त्येवंरूपम् तसापेक्षाः-तद्व्यामिश्राः क्वचित् आभासा भवन्ति, यत्र स्फुटताव्यवहारः अन्धविषयः-अन्धकारस्थप्रमातृविषयः पुनः योऽन्यो व्यवहारोऽस्फुटतामयः तत्र ते आभासों अन्यथा, तथाहि-जात्यन्धस्य बाह्येन्द्रिय- प्रत्यक्षत्वलक्षणम् आभासान्तरं नैव अस्ति, दृष्टवतस्तु अन्धीभूतस्य संतमसस्थितस्य च तात्कालिकं तत् नास्ति अपि तु प्राक्तन- मेव बाह्येन्द्रियप्रत्यक्षत्वम् अनुसंधत्ते, तस्मात् अर्थावभासस्य केषुचिदपि विकल्पेषु स- २४ तत्सापेक्षा:-आभासान्तरसापेक्षाः । २५ तात्कालिकाक्षसामक्ष्यनिरपेक्षा इत्यर्थः, चिरवृत्तसंस्कारोत्थापि- तास्तदा ते आभासा न तात्कालिकमक्षसामक्ष्यमपेक्षन्त इत्यर्थः- पूर्वानु- भवोत्थितत्वात्। २६ जातिनयनहीनस्यापि रूपमित्याभासो जन्मान्तरप्रत्यक्षसंस्कारज एव, तत्र चिरवृत्तत्वेन तथा स्मरणात् अणूनामुच्यतां नाम स्वतन्त्रता निजाभासबहिष्करणविषया । २७ अनुसंधत्ते-सरतीत्यर्थः । २८ अतश्चेदं जातमित्याह तस्मादिति । २९ केपुचिदपि-पश्यामीत्यादिरूपेषु - अर्थावभासस्य कालत्रयविष. येषु विकल्पेषु चान्तस्तुल्यत्वेनावस्थितत्वात् ।
३२२
ईश्वरप्रत्यभिज्ञा । [१अ०८आ०
त्तायां-स्वरूपे विशेषोऽस्ति इति संभावना न
कर्तव्या, ते हि विकल्पा भाविवस्तुगामिनो
वा भविष्यनिष्ठा भवन्तु वर्तमाननिष्ठा वा
अतीतवस्तुविश्रान्ता वा, एतदुक्तं भवति-
नीलमिदं पश्यामि, संकल्पयामि, उत्प्रेक्षे,
स्मरामि, करोमि, वेद्मि इत्यादौ नीलाभासो-
ऽसौ खरूपतोऽनूनाधिकः एवं पश्यामीत्येवं
यः पीतादिषु ते पुनराभासाः खातत्र्येण यदा
भगवता संयोज्यन्ते वियोज्यन्ते च तदा
अयं स्फुटत्वास्फुटत्वादिव्यवहारः, नीलमि-
त्याभासस्य उत्प्रेक्षे इत्याद्याभासान्तरव्यवच्छे-
देन पश्यामीति आभासव्यामिश्रणायां स्फु-
टताव्यवहारः । एवं त्रैकालिकव्यवहारवैचि-
३० प्रकाशमानतकसारे विद्यमाने ।
३१ संभावनायां भवेदित्यत्र लिङ्- अहमित्यामर्शन सदातनप्रका.
शत्वात्।
३२ तात्पर्यार्थमाह एतदुक्तमिति ।
३३ पश्यामीति सापेक्षम्, संकल्पयामीति निरपेक्षम् ।
३४ करोमीति क्रियाप्रधानम्, वेनीति बाह्यनिरपेक्षम् ।
३५ असावपि स्वरूपतोऽनूनाधिक इत्यर्थः।
३६ नीलमुत्प्रेक्षे इत्पन्न ।
.
३२३ ४का० ] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। त्र्योपपत्तिः। परमेश्वरस्वरूपान्तर्भूतत्वे पुनरा- भासानां न कुतश्चित् व्यवच्छेदः-न केनचित् व्यामिश्रणा इति ॥ १ ॥२॥ ननु एतत् नीलादिषु उपपद्यताम् यत्र बाह्येन्द्रियव्यापारोऽस्ति, सुखादौ तु तदभा- वात् कथं वैचित्र्यम् ? इत्याशङ्कयाह सुखादिषु च सौख्यादि- हेतुष्वपि च वस्तुषु । अवभासस्य सद्भावे- ऽप्यतीतत्वात्तथा स्थितिः॥३॥ गौढमुल्लिख्यमाने तु विकल्पेन सुखादिके। ३७ एप च स्फुटास्फुटतादिव्यवहारोऽपि सकलादिप्रमातृविश्रान्त एव न पुनः परमार्थप्रमातरीत्याह परमेश्वरेति ३८ तदभावात्-बाशप्रत्यक्षाभावात् । तदा च सुख-तत्साधनाया- भासे स्थितेऽपि सा निःसमीह एव स्यादिति । ३९ वर्तमानावभासादर्थक्रियेत्याह गाढमित्यादि । १० विकल्पेन-केनचित् प्रयत्नविशेषेण ।
३२४ ईश्वरप्रत्यभिज्ञा । [अ०८आ० तथा स्थितिस्तथैव स्या- स्फुटमस्योपलक्षणात् ॥४॥ सुखे स्रचन्दनादिके च तत्कारणे, दुःखे अहिकण्टकादौ च तद्धेतौ अतीतेऽनागते वा यद्यपि आभासः स एव तथापि अतीतमि- दम् अनागतमिदम् इति आभासान्तरेण यतो व्यामिश्रणा अनुभवामीति आभासाच यतो व्यवच्छेदः तेन विद्यमानेष्वपि तेषु तस्य प्रमातुः तेन प्रकारेण स्थितिः न भ- वति, यथा पूर्वम् अभूत् अहम् अधुना सुखी दुःखीति समर्जिततत्तन्निमित्तसामग्रीको वा इति, यदा तु विकल्पेन तानि वस्तूनि .. ४१ तथैव-सुखादिप्रकारेणैव । ४२ सुखे साध्ये, स्त्रक्चन्दनादिके च तत्कारणे साधने, एवं दुःखे साध्ये, अहिकण्टकादौ च तद्धेतौ साधने । ४३ अहन्ताभुवि हि सुखादिरूपाः सन्ति तदभावे हि आहादाद्ययोग इत्यतीतानागतयोरपि चाभासः सुख्यहमित्यादिरूपः स एव । ४४ तत्र हि अतीतानागतत्वं बहिस्तदानीमभावरूपता, बहि मतदानी- तनता तु वर्तमानतेत्याह अनुभवामीति । ४५ अतीनागतेषु आभासेषु । ४६ अनुभवामीति वर्तमानतायामिव । १७ द्वितीयश्लोकव्याख्या इयम् ।
३२५ ४का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। गाढम् उल्लिखंति तदा पौनःपुन्यविशिष्टसु- खतद्धेतूल्लेखनाभिधानकारणाभासानुप्रवेशात् आभासान्तरव्यामिश्रणात्मना तेनैवे अस्मदु- केन प्रकारेण न पुनरन्येन ती इति सुखी अहमित्यादिकेन स्थितिः भवति इति संभा- व्यम्, उचितमेतत्-यतस्तदानीं स्फुटत्वा- भासमिश्रं सुखाभासम् उपलक्षयति असौ । अतीतग्रहणं भाविनोऽपि उपलक्षणम् ॥३॥४॥ ननु इयता किमुक्तम् भवति-बाह्यरूपाः लगादयः सुखादिहेतवो बाह्यजनिताश्च सु- ४८ उल्लिखति-विमृशतीत्यर्थः । ४९ ततः पौनःपुन्येति निरन्तरोत्प्रेक्ष्यमाणे सुखादावतीतेऽपि वा पर्यन्ते तथा स्थितिरत्यन्ताहादिरूपतया सा तेनैव प्रकारेण भवति नाहि तदासौ मर्यमाणः अपि तु वर्तमान एव सुखाद्याभासः स्मर्यमाणस्य विकल्प्यत्वेनास्फुटाभासत्वं हि उचितम् अयं तु तदा स्फुटाभासरूप एवेति । ५० तथैवेत्यस्यार्थः। ५१ तथा स्थितिरित्यर्थः। ५२ ननु सरणविकल्पेन विषयोऽस्य चेत् दत्तस्ततः कथं नातीतवि- पयता इत्यत आह यत इत्यादि । निरन्तरो हि विकल्पः प्राच्यांस्तु देश- कालप्रमानन्तरसाचिव्यादीन् नाद्भियते ततः पूर्वताप्रमुखीकारेऽपि तद- पहस्तनं जातमेवेत्युक्तं स्फुटत्वाभासमिश्रमिति । तदानीमिति पौनःपुन्ये- त्यादिकाले। ५३ अतीतस्वात्तथा स्थितिरित्यत्र ।
३२६. ईश्वरप्रत्यभिज्ञा । [१अ०८आ० खादयः सुख्यहमिति अभिमानहेतवः इति, ततश्च बाह्यत्वाभावे तजन्यत्वाभावे च न तथा इति उक्तं स्यात् , तंत्र च त एव न केचित्, ततश्च कथमुक्तम् 'अर्थावभासस्य सत्तायां न क्वापि विशेषः' इति-सत्ताया एव अभावात् ? इत्याशङ्कयाह भावाभावावभासाना बाह्यतोपाधिरिष्यते। नामौ सत्ता ततस्तेषा- मान्तराणां सतां सदा ॥५॥ इह सुखमस्ति मम, दुःखं नास्ति ममेति ये भावाभासा अभावाभासाश्च तेषां बाह्यत्वं नाम आत्मा-खरूपं न भवति, नहि सुखमि- त्यस्य स्वरूपं 'बाह्यम्' इति वपुषा भाति, ५४ तजन्यत्वाभावे - स्वगादिजन्यत्वाभावे । ५५ नगादयो न सुखादिहेतवः सुखादयश्च न सुखी अहम् इत्याद्य- भिमानहेतवः। ५६ तत्रेति बाह्यत्वाभावे । ५७ सत्तायां-स्वरूपे। ५८ आस्मा-स्वरूपम् । ५९ भावाभासोऽयम् । ६० अभावाभासोऽयम् ।
५का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। ३२७ सुखस्य हि सुखमेव स्वरूपम् केवलं बाह्यत्वं नाम आभासान्तरम् ईश्वरेण स्वातत्र्यबलादेव यदा तत्र सुखाभासे मिश्रतया भास्यते तदा तत् तस्य उपाधिरूपताम् उपराकतां विशेष- णत्वं गच्छति, ततश्च यथा नीलाभासाभावे उत्पलाभासस्य न किंचित् वृत्तं स्वरूपतो, राजाभासाभावे वा पुरुषाभासस्य, तथा वाह्यत्वाभासाभावेऽपि सुखाभासस्य दुःखाभा- वाभासस्य कान्ताभासस्य च न स्वरूपतः काचन म्लानता इति आन्तराणां सदैव स्थितिः एषाम् ॥ ५॥ इह अन्तःकरणे बुद्धिदर्पणात्मनि नीला- ६१ स्वं रूपं स्वमेव सुखत्वमेव रूपं सुखस्य न तु बाह्यता। ६२ किं पुनर्बाह्यत्वमित्यत आह ततश्चेदं सिद्धमित्याह - केवलमित्यादि। अयं भावः-यद्यपि आभासा एव परमार्थतः सन्ति नार्थी नाम केचनापि तथापि य एवाभासा बाह्यताभूमौ विच्छेदवन्तोऽन्तस्तायां न तथा त ए- वार्थी इति व्यपदिश्यन्ते अनुभवसाक्षिकं चैतत् योधात् हि अभिन्नास्ते यतस्तत एव भेदे न हि प्रकाशेरनिति । ६३ तत् - बाह्यत्वम् , तस्य -सुखादेः। ६४ कान्ताभासस्य -तद्धेतुभूतस्य । ६५ यदन्नोक्तमार्यैः- अर्थक्रियाकारित्वं सत्वमिति तदाचार्येण प्रमा- तृरूपतया सद्भावार्थमर्थानामभ्युपगतमेव, न बाह्यरूपतया एषां काचन स्थितिरिति यत एपामाभासानामान्तरत्वेन सदातनी सत्तेत्यर्थक्रिया- ३२८ ईश्वरप्रत्यभिज्ञा। [१०८आ० दीनामवभासानाम् आन्तरत्वमप्यस्ति-अ- न्तःकरणमध्येभवत्वात् , बाय॑त्वमपि ग्राह्यता- रूपं-प्रमातुः विच्छेदेन अवभासात्, बाह्यत्वं च केवलं बाह्यप्रत्यक्षता, अत्र च अवस्थाद्वये- ऽपि अर्थक्रियाम् अमी कुर्वन्त्येव, अन्ततो ज्ञानं खविषयम् । यत् पुनःप्रमातृतादात्म्यलक्षणम् आन्तरत्वं, तत्र अमी कस्मात् न कांचित् अर्थक्रियां विदधीरन् ? इत्याशङ्कयाह आन्तरत्वात्प्रमात्रैक्ये नैषां भेदनिबन्धना। कारित्वमेव सत्वमिथस्पर्यन्तं सुहृद्भूत्वा आचार्यस्तन्मतमिष्टवान्, अधुना तत्रापि विशेषान्तरं स्वमते निरूपयिष्यन् तान् प्रति आशङ्कापूर्वमाह- इह इत्यादि। ६६ आन्तरत्वमपि-तचावान्तरमिति बोध्यम् । अपिशब्दावाह्यत्वं च। ६७ मध्येभवत्वात्-वर्तमानत्वात् । ६८ इदन्तया विभागात् इति शेषः । ६९ ननु च बाह्यता नाम पूर्व प्रतिषिद्धा अधुना केयं बाह्यता नामे- त्यत आह बाह्यत्वं चेति । ७० अमी-नीलाधाभासाः। ७१ यदन्ततो ज्ञानं स्वविषयं तदेवैषामर्थक्रियाकारित्वमित्यर्थः । ७१ तदभावे च न सत्त्वमित्यर्थादापतितमिति बोध्यम् । ७३ एषां-पदार्थानाम् ।
Somen ६का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। ३२९ अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः ॥६॥ प्रमात्रैक्य इति- तन्निमित्तकं यत् आन्त- रत्वं तस्मात् हेतोः, एषाम् आभासानाम् अर्थ- क्रिया न काचित् अस्ति, सा हि अर्थक्रिया भेदे सति भवति, स हि नीलाभासः पीताभा- सात् यतो भिद्यते यतश्च प्रमातुर्भिद्यते ततः स्वसाध्यां नियतां भिन्नाम् अर्थक्रियां तस्य प्रमातुः कुर्यात् , न च एष तँदा भेदोऽस्ति- प्रमाक्यात्, सा हि अर्थक्रियाभासभेदनि- यता, तथा च कान्ताभासस्य बाह्यत्वेऽपि सति आभासान्तरस्य आलिङ्गनलक्षणस्य व्यप- गमे दूरीभवति, इयम् इति च आभाँसान्त- ७४ भिन्ना इति पृथक्पदम् । ७५ अर्थक्रिया- अर्थः प्रयोजनं तस्य क्रिया निष्पत्तिः। ७६ तेनान सार्थक्रिया अन्योन्यभेदेन ममातृभेदेन च संभवति अत्र तु तदुभयोरपि अभावात् कथमर्थक्रिया। ७७ प्रमातृतादात्म्यलक्षणे भान्तरत्वे । ७८ ततश्च कारणविरुद्ध हि अभेदे कथं स्यात् । ७९ ततश्वेदमत्र सिद्धं भवति -- अर्थक्रिया हि आभासभेदनिमित्तिका म बाहात्वनिबन्धना, तथा हि सति आलिङ्गनलक्षणाभासान्तरापगमेऽपि कान्ताभासस्य बाह्यस्वेन सत्ताकरवादर्थक्रिया स्यात् न चैवं दृश्यते, तत- ४२ ३३० ईश्वरप्रत्यभिज्ञा । [१अ०८आ० रस्य उपगमेऽन्यैव प्राक्तनालादविपरीता दृश्यते अर्थक्रिया, अत आभासभेदाभावः- यतः प्र- मात्रैक्यकृते आन्तरत्वे तस्मात् न अर्थक्रिया इति, अर्थक्रियाभासोऽपि च आभासान्तरमेव इति अर्थक्रियाकारित्वमपि न भावानां स- त्त्वम् , येन तदभावे खरूपत एव अभावः स्यात् ॥६॥ ननु च बाह्याभासव्यतिभेदनकाले आन्त- राभासो विरोधोत् विच्छिन्न इदम् उक्तम् 'आन्तराणां य आभासः स सदी इति ? एतत् परिहरति इति कथम् श्वाभास निष्ठत्वमेवार्थक्रियाया इत्याभास एव वस्तु इति मन्तव्यमर्थक्रिया- वादिनापि, अतश्चाभाससत्वसतस्वात् सत्त्वस्थान्तरत्वे भेदाभावादर्थ- क्रियाव्यपगमेऽपि सत्त्वं न व्यभिचरतीति एतदेवाभाससत्वं समर्थयति- आभासान्तरस्योपगम इत्यादिना, आभासान्तरस्य-भ्रूविक्षेपादेः। ८० ततश्च किमधुना संपन्न मिति सर्वमागूह - अर्थक्रियाभासोऽपि चेति, यथा कान्ताभासस्यालिङ्गनादिलक्षणाभासान्तरापगमेऽपि सत्तार्थ. क्रियाया अभावेऽपि, ततश्च सिद्धमर्थक्रियाभासोऽपि आभासान्तरमेव न वस्तुसत्वमिति, तथाहि सति सदैवान्तरत्वे नैपां स्वरूपतः सत्तास्तीत्याह- न भावानां सत्त्वमित्यादि। ८१ व्यतिभेदनकाले-संभेदनकाले । ८२ विरोधात्- एकस्यैवान्तरत्वबाहत्वलक्षणायोगात् । ८३ १... सत्ता ततस्तेषामान्तराणां सतां सदा' इत्यत्र ।
, ७का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। चिन्मयत्वेऽवभासाना- मन्तरेव स्थितिः सदा। मायया भासमानानां बाय॑त्वादहिरप्यसौ ॥७॥ इह अवभासानां सदैव बाह्यताभासतद- भावयोः अपि अन्तरेव प्रमातृप्रकाश एव स्थितिः, यत एते चिन्मयाः, अन्यथा नैव प्रकाशेरन् इति उक्तं यतः, यदा तु माया- शक्त्या विच्छेदनावभासनखातत्र्यरूपया बा- ह्यत्वम् एषाम् आभास्यते तदा तत् अवलम्ब्य अवभासमानानाम् अँसौ स्थितिः बहिरपि अ- न्तरपि, नायम् अन्तराभासो बाह्यत्वस्य वि- ८४ बाह्यत्वादिति ल्यब्लोपे पञ्चमी तदाश्रित्येत्यर्थः अपिशब्दो बाह्य- स्वशिथिलतापादनार्थ तन्नापि आन्तर्येवावस्थितिराभासमानरूपत्वात् बाह्यस्थितेरित्याशयः। ८५ चिन्मयाः-उभयत्र । अन्यथा-चिन्मयत्वाभावे । नैव प्रकाशेर- शिति । 'नाप्रकाशः प्रकाशते' इत्यतः । ८६ तत्--वाहास्वम् । ८७ असाविति शुद्धप्रकाशस्वरूपावस्थितिरित्यर्थः सैवान्तर्बहियंव- हरणीयतां गच्छतीत्यर्थः, वस्तुतस्तु आन्तरमपि नाम न किश्चित् - बाह्या- भासापेक्षित्वात् तस्य, ततश्चासौ स्थितिरिति प्रक्रान्तापि पुनर्बहिरिति अन्तरिति चानूदिता । स्थिति:-प्रमातृप्रकाश स्थितिः । ८८ इतिशब्दोऽत्राध्याहरणीयः।
३३२ ईश्वरप्रत्यभिज्ञा । [१अ०८आ० रोधी प्रत्युत सर्वाभासभित्तिभूतोऽसौ, तत् कथं विरोधः ? इति युक्तमुक्तम् -'सदैव आ- न्तराणां सत्ता' इति ॥७॥ नेनु बाह्यत्वे सति अर्थक्रिया, तेच बाह्ये- न्द्रियगम्यत्वम् , न च विकल्पोल्लिखितानां तत् संभवति, तत् कथम् अमीषर्षांम् अर्थक्रिया स्यात् , दृश्यते च विकल्पोल्लिखितः पिशाचादिः त्रासादिविधायी ? इत्याशङ्कयाह विकल्पे योऽयमुल्लेखः सोऽपि बाह्यः पृथक्प्रथैः। ७ : ८९ प्रमातृप्रकाशविश्रान्तत्वात् । असौ-अन्तराभासः । ९० ननु किमिदमुच्यते-आन्तरत्वात् प्रमाक्ये नेपा भेदनिबन्धना अर्थक्रियेति, अस्त्येवान्तरत्वेऽपि अर्थक्रिया-पिशाचादौ तथाव्याप्ति. समन्वयात् यदि न स्यात् तर्हि बाह्यप्रत्यक्षत्वमप्राशय पिशाचादेः कथ. मर्थक्रिया स्थात् ततश्चान्तरत्वं नामास्यार्थक्रियाबाधकत्वं न संभवति, यदि च संभवेत् तर्हि पिशाचादेः का सिद्धिरर्थक्रियाकारित्व इत्येतद्वा. क्यार्थसमन्वयेनाह-ननु बाह्यत्व इत्यादि। -बाह्यत्वम् । ९२ विकल्पोल्लिखितानां-पिशाचादीनाम् । ९३ तत्-बाह्येन्द्रियगम्यत्वम् । ९४ अमीषां - विकल्पोल्लिखितानाम् । ९५ प्रथ इति पञ्चमी संपदादित्वात् भावे किए इत्येके ।
८का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। प्रमात्रैकात्म्यमान्तर्य ततो भेदो हि बाह्यता ॥८॥ विमर्शविशेषरूपे विकल्पज्ञाने य उल्लिख्य- मानः कान्ताचौरादिः अर्थः सोपि बाह्यः, न केवलं बहिरवलोक्यमानः, यस्मात् सोऽपि प्र- मातुः सकाशात् पृथगेव प्रथते 'अयमिति' यच्च प्रमातरि अहमित्येव विश्रान्तत्वं, तत् आन्त- रत्वम् , अन्तरिति निकटम्, तच्च किंचित् अपेक्ष्य, अपेक्षणीयश्च सर्वत्र प्रमातैव अपे- क्षणीयान्तराभावे, ततश्च प्रमातरि निकटं तादात्म्यं प्राप्तमेव इति, ततो यत् भिन्नं तत् बाह्यमेव इति युक्ता-उल्लेखस्यापि अर्थ- क्रिया ॥८॥ ९६ स्थूले। ९७ विकल्पज्ञान इति, विकल्पो द्विधा- स्वतन्त्रोऽनुभवोपजीवी च तत्र द्वयमपीह निर्दिष्टं बोध्यम् , उल्लिख्यमान:-उत्प्रेक्षया लिख्यमानः । ९८ अर्थ:-आकारः। ९९ बाहाः इत्यर्थः। १०० ततश्चान्तरस्वनामश्नवणादेव न तत्र भवता अमितव्यमित्याश- येनाह तदान्तरत्वमिति । आन्तरत्वात्प्रमात्रैक्ये इत्यत्र । १०१ सत इति प्रमान्नैक्यात स्थितादपि अनन्तरं यो भेदः, अथवा तत इति प्रमातुरेव सोऽवभासमानो भेद उच्यते, ततश्च बाह्यतेत्यर्थः । १०२ उल्लेखस्य-उल्लिख्यमानस्य आन्तरत्वेन संभावितस्य । , .
१०७ ईश्वरप्रत्यभिज्ञा । [१अ०८० ननु कुम्भकारादिव्यापारेण घटादेः अस्तु बाह्यत्वम् , अन्तःकरणगोचरस्य तु किं कृतं तत् ? इत्याशय आह उल्लेखस्य सुखादेश्च प्रकाशो बहिरात्मना। इच्छीतो भर्तुरध्यक्ष- रूपोऽक्षादिभुवां यथा ॥९॥ अन्तर्विकल्पप्रतिबिम्बितस्य नीलादेः यो बहिरात्मना प्रमातृविच्छिन्नेन स्वभावेन प्र- काशः, स भर्तुः अन्तराभासान् बिभ्रतो बहिः सृष्टिं च पुष्णतः ईश्वरस्यैव इच्छया, यथैव चक्षुरादिविषयभूतानां प्रत्यक्षज्ञानशब्दवाच्यो बाह्यात्मना प्रकाशो नीलादीनाम् । एतदुक्तं भवति-कुम्भकारव्यापारो नाम परमार्थतः १०३ अन्तःकरणगोचरस्य-नीलादेः सुखादेश्च । १०४ केन कृतं भवद्भिर्बाह्यत्वम् । ६०५ इच्छात इति तसिलः सार्वविभक्तिकत्वात् तृतीयाथै तसिः, इच्छये त्यर्थः। १०६ अक्षादिभुवां-विषयाणाम् यथा-प्रकाश इति शेषः । १०७ बुद्धिभूमौ । १०८ भर्तुः-ईश्वरस्य, डुभृन् धारणपोषणयोरिति धातुनिष्पत्तेः, ३३५ ९का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। ईश्वरेच्छैव तदवभासितकायस्पन्दपर्यन्ता, ने पुनरन्यः कश्चन सः, ततश्च यथा ईश्वरेच्छया प्रकाशात् अबहिर्भूता अपि नीलाद्या वाह्यक- रणगोचरीभूताः कल्पितात् प्रमातुः विच्छिन्न- रूपेण बाह्यत्वेन भासन्ते, तथा अन्तःकरण- गोचरीभूता अपि-इति को विशेषः। सुखदुः- खप्रायास्तु भरतायुक्तरूपाः स्थायिव्यभिचा- रिरूपा रतिनिर्वेदादयोऽन्तःकरणैकगोचरा ब- हिरात्मना भान्ति, संकल्पेषु यद्यपि क्षेत्रज्ञ- स्यैव खातव्यम् तथापि चित्परमार्थताया न्य- ग्भावयितुम् अशक्यत्वात् ईश्वरस्यैव तत् व- स्तुतः, यथोक्तं ग्रन्थकृतव १०९ तदिच्छावभासितविशिष्टयुद्धिमाणकायस्पन्दादिप्रमुखमुत्पिण्डद- दुचक्राद्याभासरूपेत्यर्थः ११० वक्ष्यते चैतत् 'तथाहि कुम्भकारोऽसौ' इत्यन्न । सः - १२१ कल्पितात् प्रमातुः-मायीयात् । ११२ तथा चोक्तम् 'तिहासश्च शोकश्च क्रोधोत्साही भयं तथा । जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥' इति।
ईश्वरप्रत्यभिज्ञा। [१अ०८आ० 'यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते। जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता ॥ तदात्मनैव तस्य स्यात्कथं प्राणेन यत्रणा।' इति । यत्र तु अनिच्छोरेव क्षेत्रज्ञस्य खरस- वाहिव्याक्षेपसारा सांकल्पिकी सृष्टिः तत्र स्फुटः ईश्वरस्यैव व्यापारः, तस्मात् सांकल्पि- कानामपि बहिर्भावे परमेश्वरेच्छैव हेतुः-इति सिद्धान्तः॥९॥ अधुना पूर्वोक्तम् ऐक्यं माहेश्वर्यं च नि- गमयति तदैक्येन विना न स्या- संविदां लोकपद्धतिः। प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्थितम् १० ११३ तदात्मनैव-परमात्मस्वरूपेण । ११४ अनिच्छो:- स्थूलेच्छारहितस्य । १५५ बहिर्भावे-प्रमातुः सकाशात् विच्छेदेनाधभासे । ११६ एको महेश्वर इति च एकेन श्लोकेन । ११७ द्वितीयश्लोकेन। ११८ निगमयति-उपसंहरति । ११९ स इति प्रकाशः।
११का०] श्रीमदभिनवगुप्ताचार्यकृतविमर्शिन्युपेता। ३३७ स एव विमृशत्त्वेन नियतेन महेश्वरः। विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः॥११॥ यत् एतत् पूर्वोक्तेन ग्रन्थेन उपादितम् , तत् इति-तस्मात् हेतोः, संविदां-ज्ञानानाम् ऐक्येन विना, लोकपद्धतिः लोकमार्गः- सर्वो व्यवहारो न संभवेत् , संभवति च अयम् , तस्मात् ऐक्यम् आसौम् । न चैतत् दुर्घटम् यतो-विषयप्रकाश एव संवित् उच्यते, केवलं विषयोपरागमहिना बहिर्मुखतया नीलप्रका- शोऽन्यः, पीतप्रकाशश्चान्यः, परमार्थतस्तु प्र- काशस्य देशकालाकारसंकोचवैकल्यात् एक- त्वमेव इति एक एव प्रकाशोऽन्तर्विश्रान्तः, १२० उपपादितं-युक्त्या साधितम् । १२१ अयम्-लोकव्यवहारः। १२२ आसाम्-संविदाम् । १२३ एतत्- ऐक्यम् । १२४ अहमिति ।
३३८ ईश्वरप्रत्यभिज्ञा । [१अ०८आ० से एव च प्रमाता उच्यते इति स्थितम् इदानीम् उपपत्तितः, न च अस्य असो प्रकाशलक्षणः खात्मा नीलाद्युपरागश्च परा- मर्शनशून्य एव आस्ते- स्फटिकणेरिव, अपि तु सदैव विमृश्यमानरूपः, इति विमृ- शद्रूपत्वम् - अनवच्छिन्नविमर्शता अनन्योन्मु- खत्वम् आनन्दैकघनत्वमेव अस्य माहेश्वर्यम् , स एव हि अहंभावात्मा विमों, देवस्य- क्रीडादिमयस्य, शुद्ध-पारमार्थिक्यौ ज्ञान- क्रिये, प्रकाशरूपता ज्ञानं, तत्रैव श्रात्मा विमर्शः क्रिया, विमर्शश्च अन्तः- कृतप्रकाशः इति विमर्श एव परावस्थायां ज्ञानक्रिये, परापरावस्थायां तु भगवत्सदा- शिवभुवि इदन्तासामानाधिकरण्यापन्नाहंता- विमर्शखंभावे, अपरावस्थायां च मायापदे ma स्वात- १२५ स-प्रकाशः। १२६ स्थितम्-निष्कम्पं जातम् । १२७ न चेति द्वितीयश्लोकव्याख्या । अस्य-प्रमातुः । १२८ वैधयेण दृष्टान्तोऽयम् । १२९ परावस्थायां-परमशिवावस्थायाम् । ज्ञानक्रिये COLOGICAL ANVE ११का०] श्रीमदमिनवगुप्ताचार्यकृतविमर्शिन्युपेता। ३३९ इदंभावप्राधान्येन वर्तमाने इति विशेषः । सर्वथा तु विमर्श एव ज्ञानं, तेन विना हि जडभावोऽस्यै स्यात् इति उक्तम् ‘स एव च क्रिया' इति-भाविनः क्रियाधिकारस्य उपक्षेपं करोति इति शिवम् ॥ १०॥ ११ ॥ आदितः ॥ ८९॥ इति श्रीमन्माहेश्वराचार्यवर्योत्पलदेवपादविरचितायामी- श्वरप्रत्यभिज्ञायां, श्रीमदाचार्याभिनवगुप्तकृतविम- शिन्याख्यव्याख्योपेतायां माहेश्वर्यनिरूपणा- ख्यमष्टममाह्निकम् ॥८॥ प्रथमो ज्ञानाधिकारश्च समाप्तः॥ १33 सोऽयं कश्मीरभूपालसंश्रितेन प्रकाशितः । सता मुकुन्दरामेण सन्मुदे स्ताच्छिवेऽर्पितः ॥ १३. तेन-विमर्शन। १३२ अख-प्रकाशस्य। १३३ शक्तिवर्गकाभयकं च तन्माहेश्रयम् । New Delhi GENTRE