Canegie Mellon Univeristy
Shabdaar^tha Ratnama~
Front matter
No text on this page.
शब्दार्थरत्नम्। वैयाकरणमतजिज्ञासूनां बोधनार्थम् । संस्कृतविद्यामन्दिराध्यक्षेण श्रौतारानाथ-तकवाचस्पति-भट्टाचार्यण बिरचितम् । mensamasomwatemen- हतीय संस्करणम्। -e-memes-ms- कलिकातानगर्याम् वि, एल, यन्त्रे, श्रौदक्षिणाचरण चक्रवर्तिना मुद्रितम् । ई १९०२
প্রকাশক শ্রীজীবানন্দ বিদ্যাসাগর,
২ নং রমানাথ মজুমদারের স্ত্রীট।
কলিকাতা বি, এল, যন্ত্রে দক্ষিণাচরণ চক্রবর্তী দ্বারা
মুদ্রিত।
मुखबधः।
अभिवन्य जगहन्या देवी वाचामधीखरीम् ।
शब्दार्थरत्न क्रियते श्रौतारानाथशर्मणा ॥
साधुशब्दार्थबोधाय प्रवृत्ता ये महर्षयः ।
तवाक्यमवलम्बधव शब्दार्थोऽत्र निरूप्यते ॥
वैयाकरणसिद्धान्तो दुर्बोधो ग्रन्थगौरवात् ।
अल्पायासेन तद्बोधसाधनाय ममोद्यमः ॥
सुधियो वङ्गदेशीया न्यायादरसमन्विताः ।
तत्प्रदर्शितया रीत्या शब्दार्थज्ञानसाधनाः ॥
तबोधनाय यतते मनषाद्यनुसारतः ।
वात्स्यवंशावतंसश्रीकालिदासविदः सुतः ॥
शब्देन्दुशेखर प्रोक्तं यच्चोक्तं शब्दकौस्तुमे ।
भूषणादौ च यत् प्रोक्तं तन्मलं लिख्यतेऽखिलम् ॥
इदं मदुक्तं शृखन्तु हृदये धारयन्तु च ।
कलयन्तु निजं भावं सन्तः सान्वेन याचिताः ॥
खलाः खेलन्त्यसत्तकः प्रकृत्या निर्मालेष्वपि ।
सरलास्त्वनुकूलाः स्युर्विरलास्ते हि साम्प्रतम् ॥
ग्रन्यारम्भप्रयोजनादि।
सर्वेषां व्यवहाराणां मूलं शब्दार्थनिर्णयः ।
स च व्याकरणादेव मुनिभिस्तन तत् कृतम् ॥
"एकः शब्दः सुप्रयुक्ता" इत्यादि-श्रुतिबोधितम् ।
धमार्थत्वं प्रयोगस्य स च शास्त्रान्न चान्यतः ॥
तहारमपवर्गस्य वामलानां चिकित्सितम् ।
पवित्र सर्व विद्यानाम्” इत्युक्त हरिणापि च ॥
पुरा पुरारीः सम्प्राप्य दाक्षीपुत्रेण सूवितम् ।
[ २ ]
अष्टाध्यायोखरूपं यत् मुख्य व्याकरण हि तत् ॥
उपदेशकमाहात्मादापनानाञ्च पाणिनेः ।
वेदाङ्गत्वेन शिष्टैश्च संग्रहामु ख्यमेव तत् ॥
तत्रावशिष्टशब्दानां साधुत्वज्ञापनाय यत् ।
कात्यायनेन मुनिना निर्मितं वात्तिकं हि तत् ॥
तयोर्थ्याख्यामुखेनैव पतञ्जलिमुनेः कतिः ।
भाष्यं, तेषां त्रयं लोके कालेन विलयं गतम् ॥
एषा जनश्रुतिर्लोक रावणेनोपले पुरा।
चित्रकूटे विलिखितं भाष्यादिकमभूत् किल ॥
विप्ररूपपिशाचेन तत प्रानीय केनचित्।
ददे तहसुराताय सर्व लोकहितैषिणा॥
वसुरातोऽपि हरये वशिष्याय ददौ पुनः ।
तेन लोके प्रचारार्थमादौ टोका कृताऽमला ॥
महाभाष्यार्थतात्ययं ज्ञापिकाः कारिकाः खयम् ।
कत्वा वाक्यपदीयाख्य निबन्ध कृतवान् हरिः ॥
पश्चात् कैयटमुख्य स्तु तच्छास्त्र बहुलौकतम् ।
विख्यातं दाक्षिणात्यादी पुनर्वङ्गवलीयत ॥
बह्वायाससुसाध्येभ्यस्तेभ्यः सारसमाहृतः ।
अल्पायासेन बोधार्थमिदमारचितं मया ॥
वर्णविशेषस्थानादिनिर्णयः । प्राभ्यन्तरप्रयवः वाघप्रयवः वर्ण: स्थानम् अ, आ, अ३ कण्ठः विवृतम् (संवारनादघोषाः, विकृतम् (अल्पप्राणश्च संवारादयः १ " इ, ई, ६३ तालु उ, ऊ, उ३ अोष्ठी ऋ, ऋ, ऋ३ मूर्खा लु, लु ३ दन्तमूलम् ए,-ऐ कण्ठयालु ओ, कण्ठोष्ठम् अं नासिका ७ " स्पष्टम् आश्रयस्थानानि स्पृष्टम् (संवारादयः, (महाप्राणश्च (विवारखासघोषाः (महाप्राणश्च संवारादयः " x क ख जिह्वामूलम् प, फ ोष्ठी कण्ठमलम् क " ख कण्ठमूलम् ग " " (विवारादयः, (अल्पप्राणश्च (विवारादयः (महाप्राणव (संवारादयः, (अल्पप्राणश्च (संवारादयः (महाप्राणश्च (संवारादयः (अल्पप्राणश्च , नासिका च तत् [ ४ ] च, छ, ज, भ तालु स्पृष्टम् . (चछोविवारादयः जभोः संवारादयः चजोरपप्रायः छभोर्महाप्राणः (संवारादयः (अल्पप्राणश्च यथाक्रमम् चवर्गवत् यथाक्रमम् चवर्गवत् ट, ठ, ड, ढ मुर्दा . नासा च १ " १ त, थ, द, ध दन्तमूलम् नासा च " प, फ, ब, म अोष्ठी म नासाच य तालु ईषत्स्य ष्टम् (संवारादयः (अल्पप्रागाव तएव भA मूर्दा दन्तमूलम् दन्तौष्ठम् तालु " विकृतम् (विवारादयः (महाप्राणश्व तएव मूर्द्धा दन्तमूलम् कण्ठः " " " यथाप्राप्त कादियमानाम् (संवारादयः महाप्राणश्च (यथाप्राप्तम् बाह्याः (संवारादयः स्पृष्टम् नासाच ह, न,ह्म,ध . उरः, यथाविवृतम् प्रासश्च यथाप्राप्तञ्च महाप्राणः . यथाप्राप्तञ्च शब्दार्थरत्नम्। ग्रन्थारम्भः। तत्र व्याकरणं नाम शब्दानुशासनं “अथ शब्दानुशासनम्" इति भाथोतोः। शब्दानामनुशासनं शब्दानुशासनं अनुशासन असाधुभ्यो विविध ज्ञापनं अनुशिष्यते असाधुभ्यो विविध ज्ञाप्यते येनेति व्युत्पत्तेः। व्याकरणारम्भे एव भाथे तथोक्तः व्याकरणशब्दस्यापि तादृशार्थकता तथा च व्याक्रियन्ते असा- धुभ्यो विभज्य बोध्यन्ते साधवो येनेति व्युत्पत्तावपि शब्दा- नामेव बोधनकर्मत्वमर्थागतमवधेयम् । शब्दानां साधु त्वञ्च शक्तिवैकल्यप्रयुक्तान्यथोचारितरूपाप- शभिन्नत्वमभियुक्तोपदिष्टत्वरूपानादिवं पुण्यसाधनप्रयोग- विषयत्वं याकरणव्यङ्गयजातिविशेषो वा बोध्यम्। अनपभ्रष्ट- तानादिर्यहाभ्युदययोग्यता। "व्याक्रिया व्यन्जनीया वा जातिः कापोह साधुता” इति शब्दकौस्तुभऽभियुक्तोक्तः । एतेषाश्च म प्रत्येकलक्षणत्वं टिघुप्रकृतिसंज्ञाशब्दानां कृत्रिमत्वेनानादित्वा- भावन धर्मसाधनप्रयोगविषयत्वाभावेन चाव्याप्तेः किन्तु ताव- दन्यतमत्वस्य तबक्षणत्वम् अनपभ्रंशभिवत्वस्य जातिविशेषस्य वा सर्वत्र सत्त्वात् नाव्याप्तिः । अत एव भर्तृहरिणा । यास्वेताः खच्छया संज्ञाः क्रियन्ते टिधुभादयः । कथं नु तासां साधुत्वं नेव ताः साधवी मता इत्याशय। अनपशरूपत्वं नाण्यासा- मपशब्दता। असाधूनां प्रयोगे वा प्रत्यवायोऽपि नो तथेति । अनपद्मशतामात्रणे व संज्ञाशब्दानां साधुत्वं प्रतिपादितम् । अनिदं प्रथमाः शब्दाः साधवः परिकीर्तिताः। त एव शक्ति शब्दार्थरतम् । वैकल्यप्रमादालसतादिभिः । अन्यथोच्चारिता: पुभिरपशब्दा इतीरिता इति हरिणा अपशब्दनिर्वचनात् अनपभ्रष्टत्वमेव साधुत्वं प्रतिपादितमिति यद्यपि प्रतिभाति तथापि जाति- विशेषस्यैव साधुवलक्षणत्वं युक्तमतो धर्मजनकतावच्छेदकतया तज्जातिसिद्धिप्रदर्शनायैव अभ्युदययोम्बतेति प्रथम निर्दिश्य जातिपक्षस्य सर्बोत्तरमभिधानम् । अपभ्रंशस्य अन्यथोच्चारित- सोधुरूपतया तद्भिन्नत्वस्य साधुत्वेऽन्योन्याश्रयायत्तेः। चतुर्दा- प्रदर्शनन्तु विस्तारार्थं पूर्ब पूर्व निरासेनोत्तरोत्तरव्यवस्थापमार्थ- च । साधुत्वस्य जातित्वे बाधकस्य साध्वसाधुवर्तमानकत्वादिभिः साङ्कय॑स्य सत्त्वेऽपि व्याप्यव्यापकजात्योरिव समानाधिकरण- जात्योरपि सङ्करस्यादोषत्वादिति मञ्च षोक्तः उपाधिसङ्कर- वत् जातिसङ्करोऽपि तत्रास्तु दूषकतावीजानिरुक्तरिति शब्द- कौस्तुभोतोश्च न बाधकता। अत एव समानायामवमतौ शब्देवापशब्दैश्च शब्देन धर्मनियम इति भाष्योक्तः एकः शब्दः सुप्रयुक्त इति श्रुतेश्च साधुशब्दानां धर्माजनकत्वप्रतिपादनात् तज्जनकतावच्छेदकतया साधुत्वजातिसिद्धौ फलबलेन साङ्की- स्थादूषकत्वम् । अयमेव पक्षः अभियुक्तोपदिष्टः साधुरिति जैमिनिसूत्रोतसाधुत्वमुदाहृत्य मन षायां चरमे व्यवस्थापितः। शब्दानाञ्च पुखजनकता तत्प्रयोगहारा तज्ज्ञानद्दारा च बोध्या। शब्दो हि नाम पृथिव्यादिभूतचतुष्टयक्रियाजन्योऽवकाश- देशोत्यत्रो द्रव्याश्रितो गुणविशेषः । तस्य च भूतचतुष्टयप्रयोज्य- वेनाकाशस्थत्वेन चान्वयव्यतिरेकाभ्यां पञ्चभूतगुणता। स च विविध: बुदिहेतुरखुहिहेतुश्च । तत्रावुद्धिहेतुर्मेधादिशब्दः बुदिहेतुश्च हिविधः। स्वाभाविकः काल्पनिकच उभयत्रापि बनेरुपकारकत्वात् ध्वन्यात्मकता । सब स्वाभाविको वर्ण विशे- शब्दार्थरबम् । षानभिव्यन्त्रको हसितरुदितादिरूपः प्राणिमावसाधारयः । काल्पनिकोऽपि विविध: वाद्यादिशब्दः मौतिरूपः वर्णात्मकश्च । तत्र भेरीशब्दादिरूपो वाद्यरूपः माधवादिरागाभिव्यचकनिषा- दादिखररूपो गौतिरूपः ध्वनिविशेषसहकतकण्ठतावाद्यभि- घातजन्यश्च वर्णात्मकः। ध्वनिनाम यो दूरादाकणं यतो वर्ण- विशेषमनधिगच्छतः कर्ण पथमवतरति प्रन्यासीदतश्च तारत्वा- दिविशेषमवगमयतीति शारीरकभाष्योतस्तारवादिधौहेतु- निरित्ववसेयम् । जिह्वाया ईषदन्तरपाते वर्णानामनुत्पत्ते- ध्वन्यपलम्भात् हसितरुदितादौ वर्णोत्पत्तिमन्तरेण व तत्- प्रतीतेश्च सर्व शब्दजनकता ध्वनेरवसीयते । अथ वर्णोत्पत्तिप्रकारस्तावदभिधीयते। चेतनेन ज्ञातार्थ- विवक्षया तदबोधकशब्दनिष्पादनाय प्रेरितमन्तःकरण मूला. धारस्थितमनलं चालयति तचालितश्चानलस्तत्स्थलस्थानिल- चालनाय प्रभवति तच्चालितेन चानिलेन तत्रैव सूक्ष्मरूपेणोत्- पादितः शब्दः परा वागित्यभिधीयते। ततो नाभिदेशपर्यन्त- चलितेन तेन तद्देशसंयोगादुत्पादितः शब्दः पश्यन्तीति व्यव- ङ्गियते एतहयस्य सूक्ष्मसूक्ष्मतरतया ईश्वरयोगिमात्रमग्यता मास्मदीयश्रुतिगोचरता। ततस्तेनैव हृदयदेशं परिसरता हृदयसंयोगेन निष्यादितः शब्दो मध्येत्युच्यते सा च स्वकर्ण - पिधानेन ध्वन्यात्मकतया सूक्ष्मरूपेण कदाचिदस्माकमपि सम- धिगम्या। ततो मुखपर्यन्तमाक्रमता तेन कण्ठदेशं प्राप्य आहत्य मूर्धानं तत्प्रतिघातेन परावृत्य च सुखविवर कण्ठादि- तत्तदष्ट स्थानेषु स्वाभिघातेनोत्पादितः शब्दो वैखरीत्युच्यते । तदुक्तं शिक्षायाम् पात्मा बुद्ध्या समेत्वार्थान् मनो युक्त विव- क्षया। मनः कायाम्निमाहन्ति स प्रेरयति मारुतम्। सो- दौर्णे मध्य मिहतो वक्षमापद्य मारुतः। वर्णान् जनयते तेषां शब्दार्थरनम्। विभागः पञ्चधा मतः। खरतः कालतः स्थानात् प्रयत्नानु- प्रदानत इति। संस्काररूपेण स्वगतानर्थान् बुद्ध्या बुद्धिवृत्त्या समेत्य विषयौकत्येत्यर्थः । तथा। प्राणापानान्तर देवौ वाग् कै नित्यं हि तिष्ठति। स्थानेषु विकते वायौ कतवर्णपरिग्रहा। वैखरी वाक् प्रयोक्तृणां प्राणत्तिनिवन्धिनो। केबलं बुदुरपा- दाना क्रमरूपानुपातिनौ। प्राणवृत्तिमनुक्रम्य मध्यमा वाक् प्रवर्तते। अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा। स्वरूप- ज्योतिरेवातः परा वागनपायिनीति भारतेऽप्युताम् । अत्र प्राणापानान्तरे इत्यधिकरणनिर्देशादाकाशस्थायिता नित्यमि- त्यभिधानात् यावत्प्रलयपर्यन्तस्थायिता प्राणापानादेरपि तथैव नित्यत्वाभ्युपगमात्। न तु क्षणिकता मध्ये उत्पत्ति- विनाशकल्पने गौरवात् शब्दार्थयोनित्यसम्बन्धखौकारादनित्येन शब्देन नित्यार्थसम्बन्धखौकारऽयुक्तावापत्तेश्च । नित्यत्वेऽपि तेषां व्यञ्जकसद्भावाभावाभ्यां प्रत्ययाप्रत्ययावित्यन्यत्र विस्तरः। स्थानेषु कण्डतावाद्यष्टस्थानेषु वायौ मूलाधारस्थे विकृते विवक्षाप्रेरित- मनोनियुक्ताग्निसंक्षोभाञ्चलिते इत्यर्थः कतवर्णपरिग्रहा वर्ण- भावापना तच्च स्थानेष्विति व्यवहितेनान्वितम्। प्राणहत्ति- निबन्धिनीत्यनेन प्राणवृत्तेर्वायोस्तत्तद्देशपर्यन्तगमनमभिहितं केवलमित्यनेन कण्ठताखादिस्थानानपेक्षाभिहिता। बुडापा- दानेत्यनेन हृदयस्थानगमनमुक्तं बुद्धेई दयस्थत्वात् । सर्वतः संह- तक्रमेत्यनेन हृदयस्थानगमनानपेक्षामिहिता। अविभागत्यनेन मध्यमाया विभागरूपविशेषस्य कर्णपिधानेनाप्यवगमात् पश्य- न्यास्तु तडादासः। अनपायिनी स्वस्थानादचलिता प्राणापा- नान्तर मूलाधारस्थितेति यावत् । अतो यथाप्रदर्शितं परा- दीनां विभाग प्रतिपादयतीदं महाभारतीयमलं विस्तरेण । पभिघातस्थानानि चाराविधानि सामान्यतो वेदितव्यानि ।
शब्दार्थरनम् । अष्टौ स्थानानि वर्णनासुरः कण्ठः शिरस्तथा। जिह्वामूलञ्च दन्ताच नासिकोष्ठौ च तालु चेति शिक्षाकदुक्त। वर्णाश्च मतभेदेन त्रिषष्टिश्चतुःषष्टिा शिक्षायामभिहिता वेदितव्याः। यथा त्रिषष्टिश्चतुःषष्टि वर्णाः सम्भवतो मताः। खरा विशतिरकच स्पर्थानां पञ्चविंशतिः । यादयश्च स्मता ह्यष्टौ चत्वारश्च यमाः स्मृताः। अनुखारो विसर्गच x क पौ चापि पराश्रितो। दुःस्पृष्टश्चेति विज्ञेयो स्कारः सुत एव वेति। अस्यार्थः अ इ उ ऋ इत्येषां इखदीर्घात- कालकता बादश भेदाः लकारस्य को भेदो दौर्घाभावात् मुत- स्तूत्तरं प्रतिपादितः एचां चतुणी इखाभावात् दीर्घात- भेदेनाष्टौ भेदाः इत्येकविंशतिः खराः। स्पर्शाः कादयो माव- सानाः पञ्चविंशतिः। यादयो हान्ता अष्टौ। यमाः वर्ग- वाद्यानां चतुणी पञ्चमे पर मध्ये पूर्वसदृशाः प्रातिशाख्ये प्रसिद्दाश्चत्वारो वर्णाः। यथा। पलिक्कौं चख्खं तुः । अग्निः। पतिनौं त्यादौ। अनुखारादयश्चत्वारः स्पष्टाः । x कई पौ चापि पराश्रितावित्युक्तिस्तु कखयोः परयोरेक- विधः पफयोः परयोरन्यविधः कण्ठ्योष्ठयत्वमेदादिति ज्ञाप- नाय। दुःस्पृष्टः ईषत्पृष्टः लकारः। अचोऽस्पृष्टा यणस्त्वो- घनेमस्पृष्टाः शलस्तथेत्यनेन प्रतिपादितस्य यण पदाभिधेययलो- धर्मस्य ईषत्पृष्टत्वस्य लकार कथनात् लकारस्य स्वरत्व- यलखोमयधर्मसमावेशात् विविधता इति विषष्टिर्भेदाः । लकारस्थ सूतत्वे चतुःषष्टिर्मेदाः । एवं वर्णानां सामान्यतो भेदे बोधिते एतेषामुत्पत्ति- स्थानानि वाद्याभ्यन्तरप्रयत्नमेदाश्च प्रदर्श्यन्ते। तत्र स्थानानि हकारं पञ्चमैयुतमन्तःस्थाभिश्च संयुतम् । पौरस्यन्त विजा- नौ यात् कण्डपमाहुरसंयुतम्। कण्ठ्या वहाविचुयशास्तालव्या ।
शब्दार्थरबम् । पोष्ठजावुपू। स्युन्या ऋटुरषा दन्या तृतुलसाः स्म ताः । जिह्वामूले तु कुः प्रोक्तः दन्यौष्ठयो वः स्म तो बुधैः । ए ऐ तु कण्ठ्यतालव्यावोपौ कण्योष्ठजो स्मृतौ। ईमात्रा तु कण्ठास्यादेकारैकारयोर्भवेत् । प्रोकारौकारयोस्तहदिति । अनुस्खारयमानाञ्च नासिका स्थानमुच्यते । अयोगवाहा विजेया आश्रयस्थानभागिन इति शिक्षाकदुतानि वेदितव्यानि । यद्यपि सर्वेषां वर्णानामुच्चारणे कण्ठव्यापार प्रावश्यकस्तथापि चका- राधुच्चारणे ताखादिव्यापारोऽप्यपेक्षित इति तभावामाव- कतत्वेन वर्णानां वैलक्षण्यम्। जिह्वामूले तु कुः प्रोक्त इति पाणिनिशिक्षाभिधानात् कवर्गस्य कण्यत्वव्यवहारस्तु कण्ठ- शब्दस्य कण्ठमूलपरतया भाक्त एव तवर्गस्य दन्तमूलीयत्वेऽपि दश्यत्ववत् अन्यथा भग्नदन्तस्य तदनुच्चारापत्तेः। जिरा- मूलौयस्य प्राश्रयस्थानभागित्वेन तदाश्रयस्य कोरपि जिह्वामूल- स्थानत्वौचित्यम् । दन्त्योष्ठयो व इत्यत्रोभयोरेव प्रत्येकं वकार- स्थानत्वं न तु समुदितयोः तथा सति दन्तोष्ठय इत्येव परि- शिक्ष्येत। अतस्तस्य दन्त्यौष्ठयोभयकार्यानिमित्तता एवमग्रेऽपि द्रष्टव्यम् । यमानां प्रातिशाख्यप्रसिद्धानां कादिचतुष्टयानां पूर्बोदितानां यम् संज्ञाबोधितानाञ्च नासिकापि स्थानमधिक- मुपदिश्यते। तत्र च यमेथुपलक्षणम् । अमोनुनासिका नड़ा- वित्युक्त्या हकाररकारभिवानाममानां नासिकास्थानत्व- विधानात् नासामनुगतः स्थानत्वेनेत्यनुनासिकशब्दव्युत्पत्त्या नासिकास्थानत्वप्राप्तेश्च । तत्र नगाविति पुनः हकाररकारयोः पर्युदासः। मुखनासिकावचनोऽनुनासिक इति सूत्रे सुख- पदस्य कण्ठादितत्तत्स्थानपरतया यमानामुभयस्थानत्वम् । अयोगवाहा विसर्गा जिह्वामूलौयोपाधानीययोरपि विसर्ग- विशेषरूपत्वेनाश्रयस्थानभागित्वम् । पाश्रयस्थानभागित्वच उपचामा- शब्दार्थरनम्। यमाश्रित्यैते उच्चार्यन्ते तत्स्थानभागित्वमतः विसर्गस्य कखयोः पस्योर्जिह्वामूलोच्चार्यमाणयोराश्रयत्वेन तत्स्थानभागित्वात् जिह्वामूलीयरूपान्वितनामता समुन्ब्रेया। पफयोः परयो- रोष्ठोच्चार्यमाणयोराश्रयत्वेनोपाधानौयता। येते अनेन स्थानेनेति व्युत्पतेः उपाभानशब्द प्रोष्ठवचनः । तत्स्थानयोग्यत्वादन्वितनामता चावधेया। अत एव कौमुद्यां जिह्वामूलीयस्य जिह्वामूलमुपाभानीयस्योष्ठावित्युक्तम् । यद्यपि सर्वेषां वर्णानामाकाशस्थानत्वं करणत्वञ्च कण्ठादीनां तदु- त्पत्तौ युक्तं तथापि तेषां स्थानत्वव्यवहारो वर्णाभिव्यञ्जक- तावादी वर्णजनकवायुसंयोगाधार वर्णाधारत्वारोपण भाक्त एव। तत्तत्स्थानेषु जिह्वाग्रादिसम्बन्धेन वर्णोत्पत्त्या जिह्वा- ग्रादिस्थिते तत्सम्बन्धजनकप्रयत्नविशेष आभ्यन्तर प्रयत्नवाच्चे स्पृष्टतादावेव करणत्वव्यवहारः समुचितः। वर्णाभिव्यक्त्यनन्तर- भाविनस्तु प्रान्तरतम्यपरोक्षोपयुक्ताः कण्ठविवरविकाशाद- रास्यवहिर्देशावच्छिन्नकार्यस्य जनका वाह्या यत्ना गुणशब्द - मोचन्ते इत्यादिकं शेखरादौ स्पष्टम् । आभ्यन्तरप्रयत्नास्तु वर्णोत्पत्तः प्राग्भाविनो वाह्यास्तु तदुत्पत्तेः पश्चाद्भाविन इति विवेकः । तथा हि नाभिदेशात् प्रयत्नप्रेरित: प्राणवायु- रूद्ध माक्रमब्रुरःप्रभृतोनि स्थानान्याहन्ति उत्पादयति च ततो वर्णान् तदभिव्यञ्जकध्वनींश्च तत्र वर्णोत्पत्तेः प्राक् जिह्वाग्रो- पायमध्यमूलानि तत्तहर्णोत्पत्तिस्थानं ताल्वादिकं यदा सम्यक् स्पृशन्ति यदा स्पृष्टता प्रयत्नो यदा ईषत् स्पृशन्ति तथा ईषत् स्पृष्टता समोषावस्थामे संवतता दूरावस्थाने विवृतता इत्ये - वमाभ्यन्तरप्रयत्नभेदात् वर्णानां भेदाः। अत एव इचवर्गय- शानां तालव्यत्वाविशेषेऽपि चवर्गोच्चारण कर्त्तव्ये तालुस्थानेन सह जिह्वाग्रादीनां सम्यक्स्पर्थः यकारोच्चारणे तु ईषत्- १२ शब्दार्थरबम् । स्पर्शः शकारकारोचारणे दूरासमोपावस्थानमिति। एतेषां चाभ्यन्तरत्वम् ओष्ठप्रभृतिकाकलौजनककाकलस्थानपर्यन्त- रूपास्यान्तर्गततत्तत्स्थानेषु जिह्वाग्रादीनां स्पादिचतुष्टय- रूपाभ्यन्तरकार्यकारित्वात् वर्णोत्पत्त्यव्यवहितप्राग्भावित्वाच्च बोध्यम् । विवारसंवारौ तु गलविलस्य विकाशाविकाशात्मको वायौ प्रयनौ विकृतसंहताभ्यां भिन्नावेव तयोः समोपदूरा- वस्थानात्मकत्वादिति विवक्तव्यम् । ते च आभ्यन्तराः प्रयत्ना केषां वर्णानां के इत्येतत्तावदभि- धीयते । कादिमावसानानां स्पृष्टता अत एव तेषां सम्यक्स्पर्श- वत्त्वेन स्पर्शपदवाच्यता। यलां ईषत्स्पृष्टता। तेषाञ्च सृष्ट- विस्तयोर्मध्यस्थितत्वेन लौकिक व्यवहारष्वपि शसादौनां वा- णाञ्च मध्यस्थितत्वेन चान्तःस्था शब्दवाच्यता। अन्तःस्थाभिश्च संयुतमित्युत्तरन्तस्थाशब्द आदन्तः । शषसहानां अचान विकृतता। शसहानाञ्च उपशब्दाभिधेयवायुप्रधानत्वात् उप- शब्दवाच्यता । अचाञ्च खयं राजमानत्वात् उदात्तादिखर- वत्वाञ्च खराभिधेयता। अचः स्वयं विराजन्ते इत्युक्तो : उदात्त- मनुदात्तच्च स्वरितञ्च खरास्त्रयः। इखो, दीर्घः सतश्चेति कालतो नियमा अचौत्यु तोश्च । इंस्खस्य संवतता। संहृतं वेकमात्र स्यात् विवृतन्तु हिमात्रकमित्यु तो: सखस्यै कमात्र- तया प्रयोगे संवतता प्रक्रियायान्तु विकृततैव। तत्र मूलं अचोऽस्पष्टा यणस्वीषन्नेमस्पष्टाः शलस्तथा। शेषाः स्पष्टा हलः प्रोक्ता इति शिक्षावाक्यमेव बोध्यम् । अत्राचः स्पशी- भावरूपविकृतत्ववन्तः यणः यलस्वीषत्स्मृष्टा इत्यर्थः। नेम इत्यवाची। शलः शसषहा नेमस्पष्टा अईस्पष्टा अर्थादई- विहताः। स्वराणामुष्मणाञ्चैव विकृतं करणं स्म तमित्येक- वाक्यत्वात्। एते च स्थानप्रयत्नाः सवर्णसंज्ञायामुपयुक्ताः शब्दार्थ रत्नम् । वाहप्रयत्नास्तु आन्तरतम्यपरीक्षायामेवोपयोगिन इति तुल्या- स्यप्रयत्न सवर्णमिति सूत्रभाष्थादौ स्पष्टम् । तेन तकारस्थाने विवारश्वासघोषाल्पप्राणरूपवाह्यप्रयत्नसाम्येन चकारटकारा- देश इति स्थानेऽन्तरतम इति सूत्रे स्पष्टम् बहुसमानधर्मत्व- मेवान्तरतम्ये हेतुरिति बोध्यम् । वाह्याः प्रयत्नाचाष्टविधाः काकलकाधास्थलगलविलसङ्कोच- विकाशश्वासोत्यत्तिध्वनिविशेषघोषाल्य घोषप्राणाल्पत्व महत्त्व रूपकार्यकरा यथाक्रमं विवारसंवार खासनादघोषाल्पघोषाल्प- प्राणमहाप्राणनामानो मन्तव्याः। प्रयत्नमेरितो वायुर्वर्णा- नभिव्यज्य यत्नविशेषेण गलविलविकाशादौनपि सम्पादयति अतो गलविलविकाशादिकरत्वादास्यवहिर्दे शकार्यकरत्वात् चैते वाह्या इति। ते च खयां यमाः खयः ४ क पौ विसर्गः शर एव च । “एते श्वासानुप्रदाना अघोषाश्च निवखते । कण्ठ- मन्ये तु घोषाः स्युः संवारा नादभागिनः । अयुग्मा वगंयम- गायणचाल्पासवः स्मृताः” इति सिद्धान्तकौमुद्युक्त दिशावरीयाः । खयां खयां स्थाने जाता ये यमाः पूर्वोक्ता: प्रातिशाख्य- प्रसिद्धाः खयः खपः शरः शसश्च एते खासा अघोषाः कण्ठं विकृण्वते च। अन्ये एतद्भिन्नाः सर्वे वर्णा घोषसंवारनादवाह्य- प्रयत्नवन्तः। वर्गीय प्रथमटतीयपञ्चमवर्णाः प्रथमतीयवर्ग- जातयमाश्च पूर्वोक्ताः यण: यलच एते अल्पप्राणा स्तद्भिन्नाः सर्वे महाप्राणा इतिविवेकः । तथा उदात्तानुदात्तस्त्ररितरूपास्त्रिविधाः खरा खदीर्घ- स्तकालभेदाश्च स्वराणां विशेषाधाने हेतवो वेदितव्याः । तथा हि विभागः पञ्चधा मत इत्युपक्रम्य स्वरत: कालतः स्थानात् प्रयत्नानुप्रदानत इति स्वरकालस्थानप्रयत्नानुप्रदानाभिधेय- वायप्रयत्नान् वर्णविभाजकान् पञ्च सामान्यतो निर्दिश्य शिक्षा- २ १४ शब्दार्थरत्नम्। कता उदात्तश्चानुदात्तश्चेत्यादिना अच्य व स्वरकालयोविभा- जकताभिहिता। तत्र ताल्वादिषु स्थानेषुई भागे निष्पन्नोजुदात्तः नौचैरुच्चार्यमाणोऽनुदात्तः प्रथममईमुदात्ततयोचार्य उत्त- राईमनुदात्ततयोचार्यमाणः स्वरितः इति उच्चैरुदात्तः नौचै- रनुदात्तः समाहारः खरितः तस्य प्रादित उदात्तमईसमिति पाणिनिसूत्रजातभ्यः । तदेवं परस्परविभाजकस्थानवाह्याभ्यन्तरप्रयत्नखरकाल- कृतविशेषात् वर्णानां परस्परविशेषरूपता। सर्वे हि वर्णाः पुरस्कृत्यव किञ्चिविशेष विशेषताभाजो भवन्तीति तविशेषश्च सूचीपत्रे द्रष्टव्यः। एवमुक्तवर्णसमुदायात्मकं सुप्तिङन्तरूपं पदं पदकदम्बात्म- कञ्च परस्परसाका क्रियाप्रधानं वाक्यमिति सिद्धान्ते स्थिते वाक्यादर्थावगतिभवति न वेति तावत् विचिन्त्यते । सर्वो हि प्रतिपादयिता प्रतिपिपादयिषितमर्थं प्रतिपादयितं नियोज्यं प्रति पूर्वोक्तरीत्या वर्णोलादनेन महतायासेन लोके वाक्यं विरचयन्नुपलभ्यते नियोज्यश्च तद्दाक्य श्रवणसमनन्तरमेव तत्तत्कार्य प्रतिपादयति। तत्र यदि वाक्यस्य किञ्चिदर्थ- बोधकता न स्यात् न स्याञ्च तदा विश्वजनौना वाक्यरचनायां तच्छ्रवणाहा किञ्चिकार्यकरणे प्रवृत्तिः प्रवर्तते च तत्र तत्र वक्ता श्रोता च। ततश्च प्रेक्षावत्प्रवृत्तेरन्यथानुपपत्या वाक्यस्यैव कश्चित् धर्मविशेषोऽर्थावगतिहेतुभूतोऽनुमेयः। तथा हि कैन- चित् घटमानयेति नियोज्यपुरुषं प्रत्यु पदिष्ट तत् शृखन् नियोज्यः घटानयने प्रवर्तते इति तहत्तिसूचकतचेष्टादर्शनेन पाखंस्थानामेवमनुमितिरुदेति यथा पुरोवर्तिपुरषस्यागन्तुक- घटानयनप्रवृत्त्यन्यथानुपपत्त्या प्रवृत्ति प्रतीष्टसाधनतादि- धियः कारणत्वस्यान्यन कृप्तत्वेन दर्शनात् तद्दोजननकारण- तत्र शब्दार्थरत्नम्। । मवश्यमनास्तीति। तत्र इतरकारणाननुसन्धानात् उपस्थितत्वाच्च घटमानयेति वाक्यस्यैव कारणत्वमध्यवस्थति। स च बोधः तत्तद्विषयेषु इन्द्रियसन्निकर्षाभावेन व्याप्तिपक्ष- धर्मातादिनानाभावेन च अन्वयबोधपदाभिधेयः प्रत्यक्षादि- भिन्नः शाब्द एवेत्यवसेयः विशिष्टबोधस्य अनुभवसिद्धत्वात् न स्मरणरूपः स्मरणस्य समानविषयानुभवसंस्कारप्रभवत्वेना- ऽभिनवकाव्यप्रबन्धादी वाक्यार्थबोधानुपपत्तेरित्यन्यत्र विस्तरः। अथ तबोधोदयप्रकारः प्रदर्श्यते। तत्र प्रथमं शब्दश्रवणा- दनन्तरं श्रोतुरात्मनि समुपस्थीयते तत्तदर्थैः उदीयते च योग्यतादिवशेन ततस्तेषां परस्परं विशिष्टान्वयबोधेन । उप- स्थितिश्च स्मृतिरेव स्मृतिहि लोके अनुभूतपदार्थस्य उद्दोधक- सहकतसंस्कारेण जायमाना दृश्यते। तत्र उद्दोधकस्यान्यस्यानुप- लम्भात् शब्दश्रवणस्यैव तत्संस्कारोबोधे हेतुता कल्पाते एक- सम्बन्धिज्ञानस्यापरसम्बन्धिस्मारकताया अन्यत्र दर्शनात् शब्दा- र्थयोरपि परस्परं सम्बन्धित्वमवसीयते अवसौयते च तस्यैव संस्कारोबोधकत्वम् । तथा च यदि शब्दानां पदार्थैः सह सम्बन्धो न स्यात् न स्याच्च तदा शब्देभ्योऽर्थानां स्म तिः स्मयन्ते चार्थाः शब्दैरिति। अत एव । "सति प्रत्ययहेतुले सम्बन्ध उपपद्यते । शब्दस्याथैयतोऽतस्तत्सम्बन्धोऽस्तौति गम्यते ॥” इति । वाक्यपदीये प्रत्ययहेतुत्वान्यथानुपपत्त्यैव तयोः सम्बन्ध- सद्भावानुमानम् । स च सम्बन्धो वृत्तिरूपः। वृत्तिश्च दिविधा शक्तिलक्षणा च। तत्र शक्तिर्नाम इतरेतराध्यासमूले अभेदे सति तद्बोधहेतुत्व- मिति मञ्जूषायामुक्तम् । स्थितोऽस्य वाचकस्य वाचन सहाभेदः सम्बन्धः" इति पातञ्जलसूत्रभाष्थे व्यासचरणैरेवमेवाभाणि च ।
शब्दार्थरत्नम्। तथा शब्दार्थप्रत्ययानामितरतराध्यासात् सङ्कर इति तत् सूत्रेऽपि व्यासैरेव स्फोटरूपपदस्य सङ्केतबुद्धितो विभागमभिधाय सतव्युत्पादनाय “सङ्केतस्तु पदपदार्थोरितरतराध्यास- रूपः स्मृत्यात्मकः योऽयं शब्दः सोऽर्थः योऽयमर्थः स शब्द इत्यादिना” शब्दार्थयोरभेदरूपत्वं सङ्केतस्य सौर्तितम् । अत्र स्म त्यात्मकः पाणिन्यादिस्मरणात्मकस्तदनुशासनबोध्य इति यावदिति व्याख्यातञ्च मञ्जूषाकारेण । स च सम्बन्धः नित्य एव। “ोत्पत्तिकस्तु शब्दार्थयोः सम्बन्धः” इति जैमिनिसूत्वात् । "इन्द्रियाणां स्खविषयेष्वनादिर्योग्यता यथा। अनादिरथैः शब्दानां सम्बन्धी योग्यता तथा" ॥ इति । वाक्यपदीयाच्च । युक्तञ्चैतत् शब्दानां ब्रह्माभिन्नतया ब्रह्म- कार्यत्वात् जगतः शब्दाभिन्नता कार्यकारणयोरभेदात् । उत्ताञ्च। "अनादिनिधनं ब्रह्म शब्दतत्त्वं प्रचक्षते। विवर्ततेऽर्थभावेन प्रक्रिया जगतो यत" ॥ इति । वाक्यपदीये। श्रुतिरपि “ओंकार एवेदं सर्वमित्यादिः शब्दविशेषरूपौङ्कारस्य सर्वपदार्थरूपतां प्रतिपादयति। शारी- रकसूत्रे च "शब्द इति चेन्बातः प्रभवात्" इत्यादी भाष्यकारण शब्द प्रभवत्वं देवादीनामपि निरणायि। तथा तत्रत्यभाष्यता स्म,तिरपि। "अनादिनिधना नित्या वागुत्सृष्टा खयम्भवा। आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥ इति। "नाम रूपञ्च भूतानां कर्मणाञ्च प्रवर्तनम् । वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः॥ इति च । मतुरपि।
१७ शब्दार्थरत्नम्। "सर्वेषाञ्च स नामानि कम्माणि च पृथक् पृथक् । वेदशब्देश्य एवादौ पृथक् संस्थाश्च निर्ममे ॥” इति । शब्दविशेषात्मकवेदानां जगत्कारणत्वं बोधयति । शब्दानामर्थहेतुत्वञ्च नोपादानकारणत्वं सर्वेषामेव ब्रह्मो- पादानत्वात्, किन्तु नित्ये शब्दे नित्यार्थसम्बन्धिनि सर्वव्यवहार- योग्यार्थनिष्पत्तिहेतुत्वमेव, सर्वेषां वाचारम्भणश्रुत्या वानात्र- विलसितत्वादित्यपि तद्भाष्ये द्रष्टव्यम्। लोके हि अपूर्वपदार्थ- जातं विरचयन् तदभिवाचकशब्दमेव प्रथमं मनसि अनुध्यायति रचयति च, ततस्तमर्थमिति लोकानुसारिणो शब्दार्थयोः पूर्वापरोभावेनावस्थित्यैव कार्यकारणरूपताव्यवस्था। वेदेऽपि "स भूरिति व्याहरन् भुवमुदसृजत्" इत्यादौ तथैव । तथा "एकस्यैवात्मनो भेदी शब्दार्थावपृथस्थिती। प्रकाशकः प्रकाश्यञ्च कार्यकारणरूपता" ॥ इति । वाक्यपदीय प्रकाश एव कार्ये कार्यकारणरूपता शब्दा- र्थयोईर्शिता। तथा "शब्दोऽवाप्यभिजल्पत्वमागतो याति वाच्यताम्" । इति । वाक्यपदीये अभिजल्पवरूपाध्यासनैव वाचकस्य वाच्य- रूपत्वप्राप्तिमभिधाय। "सोऽयमित्यभिसम्बन्धाद्रूपमेकीकृतं यदा। शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ॥" इत्यभिजल्पशब्दनिर्वचनेन स्पष्टमभेदरूपत्वं प्रतिपादितम् । तथा। "लोकेऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते" ॥ इति । वाक्यपदीये अर्थरूपत्वाप्रात्या शब्दप्रवृत्त्यभावो व्यतिरेकेण प्रदर्शितः। प्रतिपादितच शारीरिकभाष्यकारैरर्थानामादि- मत्त्वेऽपि तदाकतौनामनादितया तत्रैव सम्बन्धखौकारण १८ शब्दार्थरत्नम्। सम्बन्धनित्यत्वम्। परिहतञ्च देवदत्ताद्याधुनिकशब्दानामा- कृतिषु सम्बन्धखौकारण विरोधादिकम्। आकतिश्च जात्यु. पाधिरूपाया ब्रह्मसत्तायाः सम्बन्धविशेष इत्याकरे स्फुटम् । अत एव "व्यवहाराय नियमः संज्ञायाः संजिनि कचित्। अकत्रिमोऽभिसम्बन्धी डिस्थादिषु गवादिवत् ॥” इति । वाक्यपदीये संज्ञाशब्दानामपि आकृतिनित्यत्वाभिप्रायेण सम्ब- न्धस्य अकृत्रिमत्वमभिहितमभिहितच्च जात्यादेब्रह्मरूपत्वम् । तत्रैव । “सम्बन्धमेदात् सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः । तां प्रातिपदिकार्थञ्च धात्वर्थञ्च प्रचक्षते। सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ॥” इति । प्रतिपादिता च तत्रैव अनेकव्यक्तीनामनित्यतया जातेरैक- रूप्यात् स्फोटात्मशब्दवाच्यता। यथा "अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इतिस्मता। कैश्चिद् व्यक्ताय एवास्या ध्वनित्वेन प्रकल्पिता ॥” इति । अत्र च जातिस्फोटयोः सामानाधिकरण्यनिर्देशात् वाच्य- वाचकयोरभेदः सूपपादित इति। तयोरभिन्नत्वेऽपि क्वचिदेव शब्दस्य प्राधान्येनोपस्थितिः क्वचिञ्चार्थानामित्यत्र तात्पर्य्या- दिकमेव नियामकम् । तथा हि विष्णुमुच्चारयेत्यादी घटोऽस्तो- त्यादौ च शब्दार्थयोरभिन्नतयोपस्थित्याऽविशेषण बोधापत्ता- वपि तात्पर्य्यादिवशादेकत्र शब्दस्यान्यनार्थस्य प्राधान्येनैव बोधः । तथैवोक्तं वाक्यपदीये,- "न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविधमिवाभाति सर्व शब्देन भासते।" इति। - शब्दार्थरत्नम्। "ग्राह्यत्वं ग्राहकत्वञ्च हे शनी तेजसो यथा। तथैव सर्वशब्दानामते पृथगवस्थिते ॥” इति च । सर्वशब्दानां प्रदीपादिवत् वयं प्रकाशनमभिधाय । "तयोरपृथगर्थवे रूढेरभ्यभिचारिणि । किञ्चिदेव क्वचिद्रूपं प्राधान्येनावतिष्ठते ॥” इति । शब्दार्थयोर्मध्ये क्वचिदेव किञ्चिद्रूपस्य शब्दस्यार्थस्य वा प्राधान्ये- नोपस्थितिरित्युक्तम् । तयोस्तु आध्यासिकामेदवत्त्वेऽपि तात्त्विक- भेदवत्त्वात्तस्य “वाचकः प्रणवः” इति पातञ्जलसूत्रप्रयोगो द्रष्टव्यः। एवं शक्तिनिरूपिता। लक्षणा तु शक्यसम्बन्धरूपा सा च खप्रतियोगितात्वेन शब्दनिष्ठा तस्याञ्च शक्यार्थान्वयबोधे तात्पर्य्याभावादिकं कारणमिति सिद्धान्तविदः। तथा हि प्रथमं शक्यार्थोपस्थितौ तद्दिषयकविशिष्टान्वयबोधे तात्पर्य- विरहबाधाद्यनुसन्धाने समभिहिते श्रुतशब्दस्यैव तद्बोध्यार्थ- सम्बन्धिनि लक्षणा कल्पाते। यथा “गङ्गायां घोषः” इत्यादी गङ्गापदात् गङ्गाप्रवाहरूपे शक्यार्थे उपस्थिते घोषाद्यधिकरण- तान्वये बाधाद्यनुसन्धानात् तत्पदस्यैव गङ्गाप्रवाहसम्बन्धिनि तौरादौ लक्षणां कल्पाते । “काकेभ्यो दधिरक्ष्यताम्" इत्यादी च शक्यार्थान्वये तात्पर्यविरहाद्यनुसन्धानादेव काकाकाकसाधा- रणरूपे शक्यसम्बन्धिनि क्वचिदर्थे लक्षणेति विवेकः। यद्यपि शतरपि शक्याभेदसम्बन्धरूपतया तत्रातिप्रसङ्गः तथापि तत्सम्बन्धभिन्नसम्बन्धस्यैव लक्षणात्वखौकारात् न दोषः । तादृशसम्बन्धानाञ्च बहुलतया सादृश्यरूपत्वे लक्षणाया गौणी- वेन व्यवहारः इत्यन्यत्र विस्तरः । शक्तिलक्षणयोईयोरपि वृत्त्योर्जापकं व्याकरणमेव । शक्तिग्रहं व्याकरणोपमानादित्यादिवच्चमाणशतिग्राहक- यत्पद- शब्दार्थ रत्नम्। वचनात् । लक्षणाया व्याकरणाद्यधौनज्ञानत्वे अनुपपत्ति- ज्ञानाधीनत्वाभावे च निरूढत्वं तद्भिवत्वे च आधुनिकत्वमिति विवेकः। एवं शक्तिलक्षणान्यतरवृत्तिरूपसम्बन्धज्ञानाधीनायाम- र्थोपस्थितौ सत्यां योग्यतादिवशेन विशिष्टार्थबोध: समुदेति, तत्र च आकाङ्क्षायोग्यतासत्तयो हेतवः। तत्र आकाढा नाम शब्दनिष्ठा पूर्वपूर्वपदविशिष्टोत्तरोत्तरपदत्वरूपा अवणे यत्पदश्रवणं विना न बोधः तत्पदस्य तत्पदेनाकाङ्क्षति फलितम् । यथा घटमिति कारकपदश्रवणे क्रियापदश्रवणेन विना बोधाभावः। अतः क्रियापदश्रवणेच्छारूपा आकाङ्क्षा एवं क्रियापदश्रवणेऽपि कारकपदस्थति तयोः परस्परमाकासा, एतज्ञापकतयैव व्याकरणोपयोगः। तथाहि “कारके इत्यधि- कृत्य हितोयादयो विहिताः कर्तृत्वादिव्यपदेशकारकत्वेन क्रियामधिकृत्यैव “कर्मणि द्वितीया" इत्यादौनां विधानात्। उक्तञ्च वाक्यपदीये,- "गुणभावन साकास्तत्र नाम प्रवर्तते। साध्यत्वेन निमित्तानि क्रियापदमपेक्षते ॥ इति । योग्यता च यत्पदार्थे यत्पदार्थस्य बाधाभावस्तत्यदार्थे तत्पदार्थस्य योग्यता, यथा पर्वते वद्भिरित्यादिवाक्ये पर्वत- पदार्थे वङ्गेर्बाधाभावः इदे च बाधः इति तत्र तत्र योग्यता- योग्यते। आसत्तिश्च यत्पदार्थे यत्पदार्थ स्य योग्यता तत्पदा- र्थोपस्थित्यव्यवधानेन तत्पदार्थोपस्थितिरूपा घटमानयेत्यादौ घटकर्मताया अन्वययोग्यस्य आनयनपदार्थस्य तदव्यवधानेनो- पस्थितिस्तथानुपस्थितिश्च अग्निमान् देवदत्तोगिरिर्यातीत्यादी। अत्र अग्निसम्बन्धस्य गिरविवान्वययोग्यतया यानकट त्वस्य देवदत्तादौ तथावेन च तदुपस्थापकपदयोरव्यवधानाभावन २१ तथाच नाना- ॥ शब्दार्थ रत्नम्। पदार्थयोरपि नाव्यवधानोपस्थितिः। तात्पर्यमपि तद्बोधे हेतुः तच्च तद्बोधेच्छयोच्चरितवरूपं पदनिष्ठम् । सैन्धवमानये- त्यादी भोजनप्रकरणादिजाने लवणबोधेच्छयोच्चरितत्वेन सैन्धवपदज्ञानात् लवणपदार्थोपस्थितिरिति केचित् । प्रक- रणादिज्ञानमेव तद्बोधे हेतुरिति तु नव्याः। र्थानां शब्दानां प्राकरणिकाप्रकरणिकार्थ योरुपस्थापकत्वा- विशेषेऽपि प्रकरणादिज्ञानमेव अप्राकरणिकार्थोपस्थितौ प्रति. बन्धकम् । तथा च वाक्यपदीयम् । "अनेकार्थाभिधाने च संयोगाद्यैनियन्त्रिते । शब्दार्थानामवच्छेदात् विशेषस्म तिहेतवः” ॥ इति । अनेकार्थाभिधाने अनेकार्थोपस्थापने संयोगाद्यैः प्रकरणे- नियन्विते प्रतिरुद्दे सति शब्दार्थानाम् अप्राकरणिकार्थानाम् अवच्छेदात् उपस्थापनप्रतिरोधात् विशेषस्य प्राकरणिका) स्य स्म तावुपस्थितौ हेतवो नानार्था इति शेषः । इति तदर्थः । एवमाकाङ्गादिसचिवाद् वृत्तिरूपसम्बन्धज्ञानसहकताच शब्दादर्थावगतिरित्येवं निरूपिते इदानीं कीदृशस्य शब्द- स्यार्थ सम्बन्धित्वमिति तावदभिधीयते। तत्र वर्णानां प्रत्युच्चा- रणमन्यथाप्रतीयमानतया अनित्यत्वेन आशुविनाशिनाञ्च तेषां मेलनासम्भवेन तत्समुदायस्यापि सम्बन्धित्वाभावेन प्रत्येक वर्णेषु वृत्तौ व्यभिचारेण च पूर्वपूर्ववर्णाहितसंस्कारवौजवति अन्त्यवर्णजनितपरिपाकशालिनि हृदये झटिति समुदीय- मानस्य स्फोटरूपस्यैव शब्दस्य नित्यतया तत्रैव नित्यसम्बन्धस्य योग्यतया वृत्तिमत्त्वमुचितमित्याकरे स्पष्टम् । तथा हि। वर्णा यदि वाचकाः स्युः स्यादेव तेभ्यो व्यस्तेभ्योऽप्यर्थावगतिः। न च तथा । प्रत्येक वृत्तिमत्त्वाभावेन तत्समुदायस्य वृत्तिमत्त्व सुदूर- पराहतम् । प्रत्येकावृत्तेः समुदयावृत्तित्वनियमात् आशु- शब्दार्थ रत्नम्। विनाशिनां वर्णानां मेलनासम्भवेन तत्समुदायत्वज्ञानासिद्धेः पूर्वपूर्ववर्णाहितसंस्कारसहितस्य चरमवर्णानुभवस्य बोधक- त्वन्तु सम्भावितमपि दिनान्तरीयतादृशसंस्कारानादाय वर्तमानचरमवर्णमानानुभवेन अर्थावगत्यापत्त्या निरासि- तम्। अन्त्यवर्णपर्यन्तानामनुभवानन्तरं समुदायानां संस्का- रोदयकल्पनया पुनः समुदितवर्णानां स्मरणात्मकज्ञानतोऽर्था- वगतिरित्यपि न सङ्गतं जाराराजेत्यादावविशेषेण तत्तवर्ण- संस्कारसद्भावादुभयवैलक्षण्यानुपपत्तेः अतोऽवश्य वर्णातिरितो- ऽन्त्यवर्णानुभवश्यङ्गयः स्फोटनामा शब्दः स्वीकार्यः स्फुटति प्रकाशतेऽर्थोऽनेनेति व्युत्पत्त्या च तस्य सार्थ कनामता बोध्या । समर्थितश्चैष एव पक्षः पातञ्जलभाष्ये व्यासचरणैः । “तदेतेषा- मर्थ सङ्केतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको बुद्धि- निर्भासस्तत्पदं वाचकं वाच्यस्य सत्यते तदेकं पदमेकबुद्धि- विषय एकप्रयत्नाक्षिप्तमभागमक्रममवर्ण बौद्धमन्त्यवर्णप्रत्ययोप- स्थापितं प्रतीयते" इत्यन्तेन। अत्र चानेकवर्णानां शतता- वच्छेदकतापेक्षयंकस्यैव जातिरूपस्फोटस्य शतातावच्छेदकत्व- कल्पने लाघवमपि द्रष्टव्यम्। उक्तञ्च शब्दकौस्तुभे वोपदेव- चरणैः । "शक्यत्व इव शक्तत्वे जातेाधवमोक्ष्यताम् । औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत्" ॥ इति । "शृणोति य इमं स्फोटं सुप्ते श्रोत्रे च शून्यदृक् । येन वाक् व्यज्यते यस्य व्यक्तिराकाश आत्मनः" ॥ इति च। मञ्जषाधृतभागवतवचनेऽपि स्फोटात्मकशब्दश्रवणस्यात्मलिङ्ग- तोत्या स्फोटरूपशब्दोऽर्थायात इत्यवगन्तव्यम् । हरिवंशेऽपि "अक्षराणामकारस्त्वं स्फोटस्त्वं वर्ण संश्रयः । इति । स्फोटस्य व्यञ्जकवर्णाश्रयत्वमभिहितम् । एतन्मताभिप्राये- शब्दार्थ रत्नम्। - णैव "स्फोटमित्याहेति" शारीरकसूत्रे तद्भाथे च स्फोटव्युत्पा- दनम् “वर्णा एवेति भगवानुपवर्षः” इति निराकरणन्तूपवर्ष- ग्रहणात् तन्मताभिप्रायेण। “न स्फोटः प्रतीत्यप्रतोतिभ्याम् इति सायसूत्रेऽपि स्फोटखण्डनमुपवर्षमताभिप्रायेणति सर्व सुस्थम् । स च स्फोटो वर्णपदादिभेदेन अनेकविधो बाहुल्य- भयात् न प्रपञ्चितः । तस्य स्फोटस्याभिव्यक्ती प्राकृतस्य ध्वनेः कारणत्वं चिर- चिरतरस्थितौ तु प्राकृतध्वनिजातवैकृतध्वनेरिति विवेकः । तथा च वाक्यपदीये,- "स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते । इति । "स्थितिभेदे निमित्तत्वं वैकृतः प्रतिपद्यते”। इति च । स्थितिभेदे चिरचिरतरकालस्थितौ । ध्वनिस्तु पूर्वलक्षितः । तस्य च स्फोटस्य नित्यतया ध्वनिगतहखदौर्धादिकालस्य तत्रोपचारः । प्रतिपादितञ्च तथैव वाक्यपदीये,- "स्फोटस्याभिन्नकालस्य ध्वनिकालानुपातिनः । स्वभावतस्तु नित्यत्वात् हवदीर्घलतादिषु । प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्यते ॥" शब्दस्य स्फोटस्य नित्यतया अभिन्नकालस्य ह्रखदीर्घादिषु प्राकृतध्वनेः कालः तारत्वादिधौहेतुरित्युपर्यते इति तदर्थः । एवञ्च विलम्बितोच्चारणस्थले तत्तहर्णानां तद्बोधजनित- संस्काराणां वा बहुक्षणपर्यन्तस्थायित्वकल्पनामपेक्ष्य एक- स्यैव शब्दस्याभिव्यक्त्यनन्तरं जायमानेन वैकृतेन ध्वनिना बहुकालस्थितिकल्पने लाघवमित्यपि द्रष्टव्यम् । भरी शब्दादौ च ध्वन्यभिव्यक्त्यनन्तरं जायमानप्राकृतध्वनेवहु- कालस्थायित्वदर्शनेन अत्रापि तथा कल्पनौचित्यात् । अत एव च महाभाथे “एवं तहि स्फोटः शब्दो ध्वनिः शब्दगुण:"
२४ शब्दार्थ रत्नम् । इत्यादिनाऽभिव्यक्तुपकारकत्वेन ध्वनः स्फोटरूपशब्दमुणत्व- मभिहितमभिहितञ्च ध्वनेई स्वदीर्घत्वेनापि भानम्। यथा,- "ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते । हुखो महांश्च केषाञ्चित् स्वयं नैव स्वभावतः ॥” इति । खभावतस्तद्रूपेण स्फोटो न लक्ष्यत इत्यर्थः। ध्वनि- विकारे च वायुसंयोगविशेषस्य हेतुत्वं तस्य बहुकालस्थायित्वे विलम्बितत्वमल्पकालस्थायित्वे द्रुतत्वमिति विवेकः । एवं बहुविधेषु स्फोटेषु वाक्यस्फोटस्यैव सिद्धान्ते निष्कृष्ट- तया तस्यैव बोधकवं तहटकपदानान्तु पदमध्यवर्त्तिवर्णवत् निरर्थकत्व विशिष्टार्थद्योतनायैव तेषां प्रयोगात्। तथा च "ब्राह्मणार्थों यथा नास्ति कश्चित् ब्राह्मणकम्बले। देवदत्तादयो वाक्ये तथे व स्युनिरर्थकाः” ॥ इति । "पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च । वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चन" ॥ इति च । वाक्यपदीये पदाक्षसद्धावं दर्शयति । यथा,- "वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतौति मतस्थितिः ॥ इति । हरिकारिकायां सिद्धान्ते वाक्यस्फोटस्यैव सिद्धिरिति प्रतिपादितम् । एवं स्फोटरूपशब्दस्यैव बोधकवे स्थिते इदमिदानीं निरू- प्यते किं साधूनामेव बोधकत्वमुतासाधूनामपौति। तत्र साधू- नामिवासाधूनामपि बोधकवं सिद्धान्तसिद्धम् । “समानायामवगतौ शब्दैश्चापशब्दैश्च शब्देन धर्मनियमः" इत्युक्तः । तथा हि प्रथमं व्यवहारेणैव शक्तिग्रहस्य जायमान- त्वात् व्यवहारस्य च प्रायेणापशब्दगर्भतया गाव्यादिशब्दादिष्वे- वापर्धशेषु शक्तिग्रहः न साधुषु बालस्याव्युत्पन्नस्य प्रायशः साधु- शब्दव्यवहारानभिजवात्। सर्वे हि लोका बाख्यमारभ्यामर- - शब्दार्थ रत्नम्। -- णान्तं संस्कृतभाषामजानन्तोऽपि देशभाषया वाक्यादिकं विर- चयन्ति जानन्ति च प्रयोजकप्रयुक्तापशब्दार्थम्, इतरथा तच्छ- वणादिष्टानिष्टादौ न स्यातां प्रवृत्तिनिवृत्ती, जायते च ते सर्वे- षामिति, व्यवहारानुरोधिनी तथा कल्पना । न च तेषां तन्मूल- साधुशब्दस्मरणादेवार्थबोधकत्वमिति वाच्यं, स्मरणस्य पूर्वानु भवजन्यतया बालानां तदनुभवाभावात्। नापि पदार्थोप- स्थितिमात्रमसाधुभ्यः कल्पाम् असाधूनां हि साधुमूलकत्वेन शक्तसम्बन्धित्वेन स्मारकत्वौचित्यादिति वाच्य विशिष्टानुभव- स्यानुभवसिद्धत्वात् प्रवृत्त्यादिकार्य प्रति विशिष्टबोधस्यैव हेतुत्वात् व्यवहर्तृणां प्रवृत्त्यादिदर्शनाच्च । अतोऽवश्यमुभय- विधानामपि बोधकत्व स्वीकार्यम् अत एव हरिणा,- "असाधुरनुमानेन वाचकः कैश्चिदिष्यते।" इत्येकीयमतमुपन्यस्य। "वाचकत्वाविशेषे वा नियमः पुण्यपापयोः।" इत्युभयविधानामपि बोधकत्वं व्यवस्थापितम् । एवञ्चान्वयव्यतिरेकाभ्यां श्रुतशब्दस्यैव बोधकत्वे स्थिते प्रयोगमध्यगता एव तिविसर्गादयो वाचका न तु तत्स्मारित- सुलकारादयः तदजानतोऽपि ततो बोधोदयात् व्याकरण- भेदन स्थानिनां विभिन्नतया तेषां बोधकत्वानिहारणात् । एवञ्च "लः कर्मणि" इत्यनुशासनमपि स्थानिनामादेशसमा- नार्थकतया तदभिन्नतया च तिवादिस्थितवाचकताशक्तिं तत्- स्थानित्वेन कल्पिते लकारादावारोप्यैव परं प्रवृत्तमिति द्रष्ट- व्यम्। सिद्धान्ते तु प्रकृतिप्रत्ययादौनां निरर्थकतया परम- तादरणेनाभ्युपगमवादेन वा तथा विचार इति विवेकः। अथ वाक्यस्य वाचकत्वप्रसङ्गात् तच्छतिग्रहोपाया अपि प्रदश्यन्ते। तत्र सर्वेषां शब्दानां प्रथमतो व्यवहारादेव प्रायशः ३ २६ शब्दार्थ रत्नम्। शक्तिग्रहः। तथा हि केनचित् वृद्धेन व्युत्पन्नं पुरुषं प्रति गामानयेत्युपदिष्टे तत् शृण्वन् व्युत्पनो गवानयने प्रवर्तते। तचेष्टादर्शनेन तनवृत्तिमनुमाय व्युत्पित्सुर्बालो व्युत्पन्नपुरु- षस्य प्रवृत्त्यन्यथानुपपत्त्या तहेतुभूतकर्तव्यतादि-ज्ञानादिक तत्रानुमिनुते, अनुमिनुले चापरकारणानुपस्थितेः श्रुतस्य व समु- दितवाक्यस्य तौजनकत्वम् । ततश्च वाक्यस्य तद्दोजनकत्वेन तत् सम्बन्धित्वमवसीयते। इति तत्सम्बन्धविशेषस्य पूर्वोत्ताभेद- रूपस्य शक्तितया व्यवहारस्यैवं शक्तिग्राहकत्वमित्येवमवसीयते शास्त्रकारैः। पश्चाच्च पदानामन्वयव्यतिरेकाभ्यां प्रत्ये कपद- शक्तिग्रहः । तथा हि पुनश्च गां बधान घटमानयेत्यादिपदश्रवणे नियोज्यस्य पूर्वापेक्षया विशेषकार्ये प्रवत्तिदर्शनेन गवादिपद- श्रवणसत्त्वे तत्कायंकरणं तदभावे च तत्काऱ्याकरणमित्यन्वय- व्यतिरेकाभ्यां तत्तत्पदानां विशेषार्थवाचकत्वावधारणमिति द्रष्टव्यम् । ते चोपाया अभियुक्तोपदिष्टा वेदितव्याः । यथा,- शक्तिग्रहं व्याकरणोपमानात् कोषाप्तवाक्याद्दावहारतश्च । 'वाक्यस्य शेषात् विवृतेवंदन्ति सानिध्यत:सिद्धपदस्य बद्धाः'इति। व्याकरणं हि "कर्मणि द्वितीया" इत्यादिना द्वितीयादीनामर्थ- विशेष प्रयोगनियमाय प्रवृत्तं द्वितीयादीनामर्थ मप्यवगम- यति। तथा हि कर्मण्येव द्वितीया शक्ता न करणादौ, कर्मणि द्वितीयैव शता। न तीयेत्येवं विविधनियमपरतया प्रवृत्त शास्त्र नियमतदतिक्रमयोः पुण्यापुण्यफले दर्शयत् तत्तच्छब्दानां तत्तदर्थे ष्वेव साधुतोक्त्या शक्तिमवगमयति । तदुक्तं भाष्यकारैः । "सुपां कम्मादयोऽप्यर्थाः संख्या चैव तथा तिङाम् । प्रसिद्धी नियमस्तत्र नियमः प्रकृतेषु च ॥ इति। उपमानमपि शक्तिग्राहकम् । यथा गोसट्टशो गवय इत्यति- देशवाक्यं श्रुतवतो ग्रामस्थपुरुषस्य वनगमनादनन्तरं गोसदृश- शब्दार्थ रत्नम्। । पिण्डदर्शनेनातिदिष्टं तहाक्वं स्मरतश्च अयं पिण्डो गवयपद- वाच्य इति भवति मतिरित्युपमानरूपातिदेशवाक्यस्य गवय- पदशक्तिग्राहकत्वम्। तत्र च व्याकरणादौनामप्रवृत्त प्रकृति- प्रत्ययाधौनोपस्थितिविषये एव व्याकरणस्य, रूढिविषये च कोषस्योपयोगात्तदभावादेतस्यैव तथात्वौचित्यादिति द्रष्टव्यम् । वक्ष्यमाणलक्षणकोषोऽपि अनपेक्ष्यैव प्रकतिप्रत्ययादिविभागं केषाञ्चित् पदजातानां रूढिज्ञानाय प्रवर्त्तमानो मण्डप- घटादिशब्दानां शक्तिमवगमयति। आप्तवाक्यमपि तथेति व्याकरणादिशक्तिधौहेत्वज्ञानऽपि यथार्थ ज्ञानवतामुपदेशन तत्तच्छब्दानां तत्तदर्थेषु शक्तिग्रहः। व्यवहारतस्तु दर्शितः । वाक्यशेषोऽपि तद्ग्रहे हेतुः यथा “स्वर्गकामो यजेत' इत्यादौ श्रुतखगपदस्य अर्घ दिशेषमजामतामधिकारिणां तच्छक्तिबोध- नाय प्रवृत्तन। "यन्न दुःखेन संभिन्न न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत् सुखं खःपदास्पदम् ॥" इति वाक्यशेषब्राह्मणेन दुःखासंभिन्नत्वादिमति मुखविशेषे एव खर्गपदस्य शक्तिग्रहः। व्याख्यानरूपा टोकादिपदाभिधेया विवतिरपि तत्तच्छब्दानां तत्तदर्थेषु शक्तिं ग्राहयति। यथा पचतिपदस्य पाकं करोतीति व्याख्या पाककर्तय॑व शक्ति- ग्राहिका। प्रसिद्धपदसामानाधिकरण्यमपि तद्ग्रहे हेतुः । पिकादिशब्दार्थमविदुषामुपदेशाय प्रवृत्तेन सहकारतरौ मधुरं रौति पिक इति वाक्येन प्रत्येकशक्त्या ज्ञातशक्तिकपदोपस्थापि- सार्थे मधुरशब्दकारके पिकशब्दस्य शक्तिग्रहः । एवं कोषादावपि,- "सत्वत्यालङ्कतां कन्यां यो ददाति सकूकुदः । इत्यादी प्रसिद्धपदोपस्थापितार्थे सत्कारपूर्वकालतकन्या- दातरि कूकुदपदस्य शक्तिग्रहः। अत्र च प्रसिद्धपदसानिध्य २८ शब्दार्थ रत्नम्। नाम अर्थ विशेषे निश्चितशक्तिकपदसामानाधिकरण्यं सामा नाधिकरण्यञ्च स्वबोध्यार्थे ऽभेदेनान्वयबोधजनकत्वम् । उपपाद- यिष्यते चाख्यातप्रथमान्तार्थयोरप्यभेदेनान्वयः । अतो मधुरं रौति, कन्यां ददातीत्यादावाख्यातान्तस्य प्रथमान्तसामानाधि- करण्यं सुलभमेव । अत एव च भाष्ये “लटः शशानचाव- प्रथमासमानाधिकरणे” इति सूत्रे अप्रथमासमानाधिकरण इति निर्देशादन्यत्र लटः प्रथमान्तसामानाधिकरण्यमुपपादितमुप- पादितञ्च “आदेशे सामानाधिकरण्यं दृष्ट्वाऽनुमानागन्तव्यं प्रकृतेः सामानाधिकरण्यम्" इत्यादिना लटः स्थानिलकारसामा- न्यस्य प्रथमान्तसामानाधिकरण्वम् । एवं सति “ददानः कूकुदः स्म तः” इत्यादिपाठकल्प नमपि परेषामनादेयमेवेति दिक् । व्यवहारादेव प्रथमं शक्तिग्रहे व्याकरणादौनां कथमुप- योगः स्यादित्यत्र तावदभिधीयते । तत्र च वार्तिककारः शास्त्रस्य नियमविधिपरतया सार्थक्यमाह । यथा "सिद्धे शब्दार्थ सम्बन्धे लोकतोऽर्थप्रयुक्त शब्दप्रयोगे शास्त्रेण धर्म- नियमः" इति। यथा लौकिकेषु प्रयोगेषु लोकादेव प्रथमं व्युत्पत्तिः अव्युत्पन्न प्रति व्याकरणादौनाम- प्रकृतेः तथा शास्त्रीयेष्वपि । ततश्च लोकादेव शब्दस्यार्थे तयोः सम्बन्धे च जाते अर्थबोधनाय च शब्दप्रयोगे प्रसक्त गवादय एव साधवस्तत्तदर्थेषु प्रयोक्तव्या न गाव्यादय इति नियमार्थ शास्त्रं नियम फलन्तु धर्मः “एकः शब्दः सुप्र- युक्तः” इत्यादिश्रुतेः । नियमश्चात्र इतरनित्तिफलकः पञ्च- पञ्चनखभक्षणादिवत् परिसंख्यारूपः व्याकरणशास्त्र सर्वत्रैव नियमशब्देन परिसंख्याग्रहणात् ततश्च नियमातिक्रमे परं पुण्यविशेषो नोत्पद्यते समुत्पद्यते चार्थावबोधो नखविदलनेन तुषविमोक्षणवत् प्रसिनियमपरत्वे तु नियमे इतरसह- शब्दार्थ रत्नम्। २८ चारस्य पापाजनकत्वात् साधुशब्दसहकतासाधुशब्दप्रयोगेऽपि पापानुत्पत्तिप्रसङ्गात्। श्रुतिस्तु “नापभाषितवै" इत्यादिना- उपभ्रंशसामान्यप्रयोगं निषेधति नापभाषितव्यमिति तदर्थः। ततश्चावश्य परिसंखयारूप एव नियमोऽत्र ग्राह्यः। एवञ्च लोकात् सर्वप्रयोगाणां दुर्विज्ञेयतया आर्षविज्ञानं विनाऽग्र- युक्तानां दुरवधारणेन च व्याकरणाद्यारम्भः। अत एव भाष्ये सिद्धे इत्यादि वार्त्तिकव्याखाने “महान् हि प्रयोगविषयः" इति प्रतिज्ञाय "सप्तदीपा वसुमतौ त्रयो लोकाश्चत्वारो वेदाः साङ्गाः सरहस्या बहुधा भिन्ना एकशतमवयुशाखा सहस्रवत्मी सामवेद एकविंशतिर्बसचं नवधाथर्वणो वेदः" इत्यादिना प्रयोगविषयाणां बाहुल्यं प्रदर्य आर्षज्ञानमेव तत्प्रयोगज्ञान हेतुरिति प्रतिपादितम् । ततश्च एतावन्त प्रयोगविषयं परिच्छेत्तुमसमर्थै रस्माभिः ऋषिप्रणीतलक्षणान. सारेणानुगतानां प्रयोगोऽस्तीत्यनुमातुं शक्यते। उताक्ष- “यथालक्षणमप्रयुक्त निश्चिताप्रयोगे तु लक्षणं न प्रवर ते इति निष्कर्षः” इति। अप्रयुक्त प्रयुक्ततयाऽनिश्तेि इत्यर्थः निश्चिताप्रयोगे "न हि वचिरन्तिपरः प्रजुज्यत" इत्यादिनाऽप्र- योगावधारणे इत्यर्थः। - - वाक्यस्फोटस्य व बोधकत्वे स्थिते वाक्यमेव तावनिरूप्यते । वाक्यं हि नाम कारकाद्यन्वितक्रियाप्राधान्य कविशेष्यकबोध- साधनपदकदम्बकम् । उक्तञ्च वाक्यपदीये,- "साकाहावयवं भेदे परानाकाङ्गशब्दकम् । क्रियाप्रधानमेकार्थ सगुणं वाक्यमुचाते" ॥ इति । भेदे-अखण्डस्यापि वाक्यस्य प्रकतिप्रत्ययादिविभागोपाधिना पदानां परस्परं भेदे, समुदायात्मकवाक्याच भेदे, च विवक्षित शब्दार्थ रत्नम्। भिवानामेव साकाहत्वोपपत्तः काल्पनिकभेदवत्त्वेन साकाच- वादिति बोध्यम् । वास्तविकभेदस्तु नास्त्येव । "वाक्यात् पदानामत्यन्त प्रविवेको न कश्चन ॥" इति वाक्यपदीये अत्यन्तपदेन वास्तविकभेदराहित्यस्य प्रति- पादनात्। एवञ्चाखण्डवाक्यपक्षे पदान्तःपातिवर्णानां पर- स्परभिन्नत्ववत् तेभ्यः पदभेदवच्च वाक्यान्तःपातिपदानां पर- स्परभेदः, पदेभ्योऽपि भेदो वाक्यस्य, तेषाञ्च विशिष्टार्थ द्योतनाय पदान्तःपातिवर्णानामिवानुपूर्वोघटकत्वेनोपयोग इति द्रष्ट- व्यम् । साकाति निराकाहाणां व्यवच्छेदाय, साकाष्वपि पराकाङ्क्षायां न वाक्यत्वमित्यतोऽभिहितं परानाकाङ्क्षति । तेन पश्य मृगो धावतीत्यादौ मृगो धावतीति पदयोः परस्परं साकासखेऽपि पश्यतिपदाकासितया न वाक्यत्वम् । अत एव च “पदानां समूहो वाक्यमर्थसमाप्तौ” इति भाग्थे इतरा- काङ्गानिवृत्तिरूपायामर्थ समाप्तावेव वाक्यत्वमुक्तम्। “सर्व हि वाक्यं क्रियया परिसमाप्यते” इति न्यायात् इतरशब्दा- नाकाकायामव च समाप्तार्थता वाक्यपदौये उक्ता । यथा । "इति कर्तव्यतार्थस्य सामर्थ्याद्यस्य कायते । अशब्दलक्षणाकाझं समाप्तार्थं तदुच्यते ॥” इति । "वाक्यं तदेव मन्यन्ते यत् पदं चरितक्रियम् । आख्यातशब्दे नियतं साधनं यत्र गम्यते । तदप्येकं समाप्तार्थं वाक्यमित्युच्यते बुधैः" ॥ इति च । चरितक्रियमिति बोधितक्रियमित्यर्थ स्तेन केवलनाम्नां क्रिया- बोधकपदासहचार समाप्तार्थ त्वान्न वाक्यत्वम् । "गुणभावेन साकाझं तब नाम प्रवर्तते।" इति वाक्यपदीये नानो गुणत्वेन साकाइलाभिधानात् । पद- मिति जातावेकवचनात् पदकदम्बकमित्यर्थः। तथा ॥
शब्दार्थरत्नम् । "बहुष्वपि तिङन्तेषु साकाइव कवाक्यता।" इति वाक्यपदोये तिङन्तानामपि साकाश्त्वमुक्त प्रतिपादितञ्च तत्रैव सुबन्तानामिव तिङन्तानां तिङन्तान्तरविशेषणत्वम् । “यथानकं सुबन्तं हि तिङन्तस्य विशेषणम् । तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम् ॥” इति । हेलाराजीये तु यथानकमपि वान्तमिति पठितं भावप्रत्य- येन धात्वर्थक्रियाबोधनात् बान्ततिङन्तार्थ योरविशेषेऽपि बान्तार्थस्य यथा विशेषणत्वमेवमन्यतिङन्तार्थानामपौति- व्याख्यातञ्च । अत्रेदं बोध्यम् । आख्यातान्तार्थस्य तादृशार्थे- ऽन्वयो हि कर्तृत्वकर्मवान्यतरसम्बन्धेनैव न तु कारकान्तर- वेन, न वा प्रकारविधया कारकाणां प्रकारविधयान्वये सुव- र्थोपस्थितेर्हेतुत्वात् आख्यातान्तानां प्रत्ययान्ततया “अर्थवद- धातुरप्रत्ययः प्रातिपदिकमिति" सूत्रेण प्रातिपदिकत्वनिषेधात् तदुत्तरं सुपोऽनुत्पत्तेः। "क्रिया न युज्यते लिङ्गक्रियानाधारकारकैः । असलभूतता तस्या इयमेवावधार्यताम् ॥" इति वाक्यपदीये क्रियानाधारतिविशेषणात् फलव्यापाररूप- क्रियाधारकर्मकर्तृभिन्नकारकलायोगस्य क्रियालक्षणत्वाभिधा- नाच । अत एव मनोरमायां "नामार्थधात्वर्थ योरन्वये सुबर्थो- पस्थित्यपेक्षायामपि तिङन्तार्थ योन तदपेक्षा ततः सुबुत्पत्त्य- ननुशासनात् अतस्तत्र कर्तृत्वकर्मत्वसम्बन्धेनान्वय” इत्युक्तम् । क्रियाप्रधानमिति साध्यरूपक्रियामुख्यविशेष्यकबोधजनकमि- त्ययः तेनान्नस्य पाक इत्यादी सिद्धक्रियाप्राधान्यबोधक वाक्येक- देशे नातिव्याप्तिः तस्यावश्यं भवतीत्यादिक्रियासाकाइवेन तन्मु ख्यविशेष्थकवाभावात्। उक्तञ्च वाक्यपदीये,- - तत्रभाव: ३२ शब्दार्थरत्नम् । "क्रियानुषङ्गेण विना न पदार्थ : प्रतीयते । सत्यो वा विपरोतो वा व्यवहारो न सम्मत ॥” इति । अत्र च प्रमाणम् “भावप्रधानमाख्यातम् इति' निरुतवचनम् "भावकालकारकसंख्याश्चत्वारोऽर्था आख्यातस्य प्रधानम्' इति तद्भाष्यञ्च । भावो भावना धात्वर्थ इत्यर्थः भावा- खनाते तु पाखवातस्यानुवाद्यार्थकत्वान्नातिप्रसङ्गः । क्रियामुखा- विशेष्यकत्वञ्च साध्यक्रियाभिने विशेषणतानापन्नत्वे सति तदि- शेष्यकत्व तेन पश्य मृगो धावतीत्यादौ धावतिपदस्य पश्यपद- विशेषणत्वेऽपि न क्षतिः, न वा "भावप्रधानमाखातं सत्वप्रधा- नानिनामानि" इति क्रियाप्राधान्यबोधकयास्कवचनविरोधः । "श्राख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता।" इति हरिकारिकाव्याख्याने भूषण भागाभ्यां तिङन्ताभ्यामित्युक्तः पूर्वोक्तहय्युक्तेश्च तिङन्तानामपि परस्परं विशेष्यविशेषणभाव- सिद्धिः । एवञ्च पश्य मृगो धावतीत्यादी भाष्योक्तमकवाक्यत्वं सङ्गच्छते बोधस्तु एकमृगाभिन्नाश्रयकधावनकर्मकं संबोध्या- भिन्नाश्रयकमभिमतं दर्शनमिति। अन्यथान्वयबोधस्य प्रथमान्त- मुख्यविशेष्यकत्वे अनयोरेकवाक्यता न स्यादित्यवधेयम् । क्रिया च भावना उत्पादयितुर्व्यापाररूपा साध्यत्वेनाभिधीयमानैति बोध्यम् । "व्यापारो भावना सैवोत् पादना सैव च क्रिया।" इति र्युक्तः। "यावत्सिद्धमसिद्धं वा साध्यले नाभिधीयते। आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते” ॥ इति । साध्यत्वेन क्रिया तत्र तिङ्पदैरभिधीयते” ॥ इति च । वाक्यपदीयाच्च। यावदिति सर्वमित्यर्थः तदेव विकृणोति सिद्धमसिद्धं वेति। सिद्धं वत्तं मानध्वसप्रतियोगि, तद्भिन्नमसिद्ध, 6 शब्दार्थ रत्नम्। m सच्च वर्तमान भविष्यति विविधम् तेनापचत्यक्ष्यति पच- तोत्यादौ सर्वत्र साध्यत्वेन असत्वरूपत्वेनाभिधीयमाना क्रियेति क्रियाशब्दस्य रूढिरनेन दर्शितेति भावः। यौगिकत्वमप्याह आश्रितक्रमरूपत्वादिति। आश्रितक्रमो रूपं यस्यास्तत्त्वात् पूर्वापरीभूतावयवकत्वादित्यर्थः तदीयावयवानामधिश्चयणा- यधाश्रयणपर्यन्तानां क्रमेणोत्पत्तेः क्रियापदेन तत्समुदायो ऽभिधीयते यत्र च न क्रमिको व्यापारोऽस्ति तत्र रूढ़िरादरणी येति पौर्वापयारोपण वा सर्वत्र फलस्य खजनकव्यापारगत- पौर्वापर्य्यारोपवत् यौगिकत्वम्। अत एव फलमात्रबोधक- स्यापि क्वचित् धातुत्वसिद्धिरिति फलितार्थः। इयांस्तु विशेषः पाक इत्यादौ धातुना साध्यत्वे नोपस्थाप्यायाः क्रियायाः सिद्ध- क्रियारूपघजर्थे विशेषणत्व पचतोत्यादौ तु नैवमिति । अत एव "साध्यत्वेन क्रिया तत्र तिङ्पदैरभिधीयते।" इति वाक्यपदीयकारिकाव्याखयायां भूषणसारदर्पणे तिङ्पटै- रित्यतद्गुणसंविज्ञानबहुव्रोहिणा तिङन्तपदैर्धातुभिरित्यभिहि तम् । तेन सर्वत्र धातोः साध्यरूपक्रियाबोधकत्वम् । किञ्च क्रमिकावयवानामकदाऽसत्त्वेऽपि यत्किञ्चिदवयवसत्त्वकाले वर्तमानत्वव्यवहारः अवयवावयविनोरभेदारोपात् भूतभविष्य- त्वव्यवहारस्तु सर्वेषामवयवानां भूतभविष्यत्त्वयोरेव, न तु यत्- किञ्चित् क्रियाभूतत्वादो। उक्तञ्च वाक्यपदीये,- "गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्धया प्रकल्पिताभेदः क्रियेति व्यपदिश्यते" ॥ इति । अस्यार्थः। क्रमिकतत्तयापार प्रति गुणभूतैर्गुणभावेन भासमानैरवयवैरुप- लक्षितः बुद्धया एकत्वबुद्धया प्रकल्पितोऽभेदो यस्मिन् तद्रूपः क्रमजन्मनां व्यापाराणां समूहः क्रियेत्यन्वयः। अत्र क्षण- ३४ शब्दार्थ रत्नम्। अत नखराणां व्यापाराणां मेलनासिया बु।त्युक्ताम् तथा च बुद्धिजन्यसंस्कारद्वारा तेषां मेलनसम्भव इति भावः । एव भाथे "क्रिया हि नामयमत्यन्तापरिदृष्टा पूर्वापरी- भूतावयवा न शक्यते पिण्डीभूता निदर्शयितुम्” इति व्यापार- समुदायात्मिकायाः क्रियाया दर्शनायोग्यत्वोक्त्या तदवयवानां तहिषयत्वं व्यतिरेकमुखेन दर्शितम्। तस्याश्चाभिन्नै कबुद्धि- विषयतया एकत्वव्यवहार इत्यपि बोध्यम्। अथ वाऽनेकव्यापारव्यतित्तिर्जातिरेव क्रियेति सिद्धान्त- कल्प आदरणीयः। तस्याश्च व्यक्तिद्दारैव साध्यत्वम् अस्ति च पचित्वादिकं जातिः पचतीत्याद्यनुगतव्यवहारात् तस्याश्चै क्या- देकत्वव्यवहार इति मन्तव्यम् । तदुक्त वाक्यपदीये,- "जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्तिनीम् । असाध्यां व्यक्तिरूपेण सा साध्ये त्यभिधीयते ॥” इति । युक्तञ्चैतत् सर्वत्रैव लाघवाज्जातिशक्तिखौकारण पयादिधा- तूनामपि तत्र व शक्तिचितेति दिक् । सा च क्रिया धातुवाच्या फलव्यापारोभयरूया तविशिष्ट- रूपा वा “फलव्यापारयोर्धातुः” इत्यग्रिमवचनात् व्यवस्थाप- यिष्यते च मतभेदेन फलव्यापारयोः पृथक्शक्त्या, विशिष्ट- शक्तया वा धातुवाच्यता। अत्र फलांशस्य कत्तुंरुद्दे श्यत्वेन प्राधान्याभावात् व्यापारस्यैव प्राधान्य समुचितं, तस्य च साध्य- तया कम्मातिरिक्तसर्वकारकाणां तत्र व स्वखव्यापारद्वारा साध- कत्वेनान्वयः। कर्मणस्तु फल एव क्रियाजन्यफलाश्रयतयैव तस्योद्देश्यत्वादिति विवेकः । उत्ताञ्च वाक्यपदीये,- "प्राधान्यात्तु क्रिया पूर्वमर्थस्य प्रविभज्यते । साध्यप्रयुक्तान्यङ्गानि फलं तस्याः प्रयोजकम्” ॥ इति । (अर्थ स्य) फलस्य तदपेक्षयेत्यर्थः (प्राधान्यात् ) विशेष्यत्वात् m शब्दार्थरत्नम् । साध्यं प्रयुक्त्वं यैः तानि साध्यसाधकानि(अङ्गानि)कारकाणी- त्ययः। अत्र फलस्य क्रियाप्रयोजकत्वाभिधानं तदुद्देशेनैव क्रियायां प्रवृत्तिरित्येवाभिसन्धाय। तथा च सर्वो लोकः खाभीष्टफलमभिप्रेम स्तत्साधनाय यतते लभते च तत- स्तत्त्तफलमुपायसंसाधनेन । एवं च क्रियाफलं विलित्यादिक- मभीप्सु : पाकाय यतमानो जनः पाकसंसाधनेन फलं लभते । ततश्च फलसाधनतया पाकादेरपौष्टत्वात् साध्यत्वम् । फलविशिष्टक्रियायाधात्वर्थत्वमते तु विशिष्टत्वेनैवेष्टत्वात् विशिष्टस्यैव साध्यत्वमिति विशेषः । कारकान्वयस्त्वेतन्मते पूर्वोक्तदिशावसेयः एकदेशान्वयस्खौकाराच्च न कर्मणोऽनन्वय इति बोध्यम्। तथा चैवं रीत्या साध्यत्वेन क्रियां जानता जनेन तस्याः प्राधान्यबुबोधयिषयैवाख्यातान्ततया धातुः प्रयुज्यते अन्यथा कृदन्ततयेति। एवञ्च भावकदन्तस्थले धातुना साध्यरूप- क्रियावबोधनेऽपि तस्याः प्रत्ययार्थसिद्धक्रियाविशेषणत्वन न प्राधान्यं, प्राधान्यञ्चाखातन्तोपस्थाप्यक्रियायाः, “भाव- प्रधानमाख्यातम्" इत्यादिनिरुतवचनस्य “प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थप्राधान्यम्" इति न्यायस्य च परस्परं विरोध- परिहाराय न्यायस्य आख्यातातिरिक्तविषयत्वेन व्यवस्थाप- नात्। हरिणापि धातुभावकतोः क्रियावाचित्वाविशेषेऽपि धातुना साध्यत्वेन, कता तु सिद्धत्वं न क्रियाया बोधनमिति व्यवस्थापितम् । यथा,- "साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना। सिद्धभावस्तु यस्तस्याः स घजादिनिबन्धनः" ॥ इति "आखातशब्दे भागाभ्यां साध्यसाधनवतिता। प्रकल्पिता यथा शास्त्र स घजादिष्वपि क्रमः ॥ इति च शब्दार्थ रत्नम्। (भागाभ्याम्) पश्य मृगोधावतीत्यादौ तिङन्ताभ्याम् (साध्य- साधनवति तेति) मृगो धावतीत्येतस्य साधनत्वम् अपरस्य साध्यलं, क्रियाकारकभावेन तयोरन्वयात् धार्थक्रियायास्तु इतरक्रियायामेव साधनत्वमिति विवेकः। साध्यत्वञ्च लिङ्ग- संखडानन्वयित्व, तहिपरीतं सिद्धत्व', तथा च घजाद्युपस्थाय्य- क्रियायाः लिङ्गसंखयान्वयित्वेनापरक्रियायां साधनत्वम् । युक्तञ्चै- तत् यत्, घजन्तादौ विविधक्रियाया भानं, कारकाणां साध्य- क्रियायामेवान्वयोपगमात् कृदन्तस्थले कारकविभक्तिप्रयोगरा विश्वजनीनतया साध्यत्वेन तदुपस्थितावेव कारकान्वयोपपत्त: "साध्यस्य साधनाकाशा" इति "नियतं साधने साध्य क्रिया नियतसाधना" इति । "साध्यले न निमित्तानि क्रियापदमपेक्षते" ॥ इति च अभियुक्तोतः । अत एव "स्तोकं पाकः" इत्यादी हितीयान्ततोपपद्यते साध्यक्रियाफलयोर्विशेषणे एव व्यपदेशि- वद्भावपरिभाषया कर्मत्वेन द्वितीयाविधानात् घजाद्युपस्थाप्य- क्रियाविशेषणस्य तु विशिष्थलिङ्गतया 'प्रथमाद्यन्तता "कदभि- हितो भावो द्रव्यवत् प्रकाशते” इति भाष्योक्तः । (कदभिहितः) कृता बोधितः (भावः) भावना धात्वर्थखरूपमिति यावत् द्रव्येण तुल्यं प्रकाशते द्रव्यधर्मान् लिङ्गसंख्याकारकत्वानि भजते इति यावत् । अत्र द्रव्यत्वं लिङ्गसंखयान्वयित्वमेव योग्यत्वात् न तु पृथिव्याद्यात्मकत्वं ज्ञानपाकादौ तदभावात्। नापि “वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः॥" इति पारिभाषिकसर्वनामपरामर्शयोग्यत्वादिरूपं,साध्यक्रियाया अपि तथाले नाविशेषापत्तेः किन्तु "सत्वप्रधानानि नामानि" इति निरत्तोतरेकवाक्यतया सत्वद्र्ययोः पयायत्वस्य बहु- शब्दार्थरत्नम्। स्थलेषु दर्शनात् सत्वभूतत्वमेव द्रव्यत्वमिति फलिताथः । "क्रिया न युज्यते' इत्यादिना लिङ्गाद्ययोगस्यासत्वलक्षणत्वस्याभि- धानात् तदयोगस्यैव सत्वलक्षणत्वौचित्यादिति तु तत्त्वम् । वाक्यलक्षणे (एकार्थम्) इति अविभागविवक्षायामपृथगुप- स्थापकम् उक्तञ्च वाक्यपदीये वाक्यार्थस्याखण्डत्वम् "प्रतिवर्णमसंवेद्यः पदार्थप्रत्ययो यथा। पदेव वमसंवेद्यो वाक्यार्थस्तु निरूपितः” ॥ इति । "यथैवानर्थकैर्वणविशिष्टोऽर्थोऽभिधीयते । पदैरनर्थकैरेवं वाक्यार्थस्य निरूपणम्” ॥ इति । "धात्वादीनां विशुद्धानां लौकिकोऽर्थो न विद्यते । कत्तद्धितानामप्यर्थः केवलानामलौकिकः । प्राविभक्तस्तदन्तस्य तथैवार्थो न विद्यते” ॥ इति । "न हि किञ्चित् पदं नाम रूपेण नियतं कचित् । पदानामर्थरूपञ्च वाक्यार्थादेव जायते" ॥ इति च । (विशुद्धानाम्) प्रत्ययरहितानां (केवलानाम्) प्रशतिरहितानाम् (प्राक् विभक्तो)कदादौनामिति शेषः (तदन्तस्य) प्रत्ययान्तधातोः विभक्त्यन्तकदन्तादेश्चेत्यर्थः । (रूपेण ) समानानुपूर्वोकतया (कचित्) अर्थ (नियतम्) तदर्थबोधनसमर्थमेव (पद) (नहि) अस्ति, रामरामठादौ तुल्यरूपस्यापि रामभागस्य समानार्थक- त्वस्याभावात्। (पदानामर्थरूपम्) अर्थात्मकत्वं वायवाचक- योराध्यासिकाभेदस्य दर्शितत्वात् (वाक्यार्थात्) वाक्यार्थान्वय- घटकत्वात् (जायते) प्रकाशते इत्यर्थः। एवञ्चाखण्डार्थकवाक्यानामानन्थात् वर्षशतेनापि तत्तदर्थ- ज्ञापनस्याशक्यतया प्रकृतिप्रत्ययादिविभागकल्पनेन तत्तदर्थ- निर्वचने लाधवमिति धिया लोकहितकाम्यया च महषिभि- किरणं प्रणीतम् । तदुक्तं वार्तिके,- ४ ३ शब्दार्थ रत्नम्। 'रक्षोहागमल सन्देहाः प्रयोजनम्' इति व्याकरणस्य वेदरक्षामन्त्रोहवर्णागमादिज्ञानलाघवासन्देहाः प्रयोजनमित्यर्थः । तत्र लाघवरूपं प्रयोजनं दर्शितं वेदभाष्थे सायनाचार्यैः । "वृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रति- पदोतानां शब्दानां पारायणं प्रोवाच नान्तं जगाम” इति शृङ्गग्राहिकतया प्रतिपदपाठापेक्षया तत्तदर्थज्ञानाय लाघवात् व्याकरणमध्ये यमिति। तथा केषाञ्चित् पदजातानां प्रकृतिप्रत्ययाद्यनपेक्षतया- ऽर्थबोधनाय यास्कादिभिनिरुक्तं प्रणीतम् । निरुक्तं नाम यत्र प्रकृतिप्रत्ययादिकमनपेक्ष्यैव पदानामर्थनिर्वचनं, तदुच्यते । तत्र च काण्डवयम् "आद्यं नैघण्टकं काण्ड द्वितीयं नैगम तथा। तृतीयं दैवतञ्चेति समाम्नायस्त्रिधा मत: ॥" इति निरुक्तभाष्योतः। यत्र चैकार्थवाचिनां पर्यायशब्दानां भमुदायस्य प्रायेणोपदेशः स निघण्टुशब्दवाच्यः । तादृशा एवामरसिंहहलायुधादिप्रणीतकोषा दविधा निघण्टवः । तवाद्ये काण्डे त्रयोऽध्यायास्तत्र प्रथमेऽध्याये पृथिव्यादिलोक- दिक्कालादिद्रव्यविषयाणि नामानि, हितीये मनुष्थतदव- यवादिद्रव्यविषयाणि, ढतीये तदुभयगतहखदीर्घत्वादिधर्म- विषयाणीति। द्वितीये काण्ड निगमशब्दवाच्यवेदवर्तिनामेव शब्दानां निर्वचनम् । ढतीये काण्ड,- "वायादयो भगान्ताः स्युरन्तरिक्षस्थदेवताः । सूर्यादिदेवपर्यन्ता द्युस्थानदेवता अमो” ॥ इति। देवताविशेषनिर्वचनमिति विवेक इत्यलं प्रसङ्गागतविस्तरेण प्रकृतमनुसरामः। श्रुतिरपि वाक्यस्याखण्डत्वं दर्शयन्ती वाक्यार्थस्यापि अखण्डत्वं शब्दाचरत्नम्। ३८ प्रतिपादयति। यथा “वाग्वै परायव्याकताऽवदत्ते देवा इन्द्र- मब्रुवबिमां नो वाचं व्याकुरु" इत्युपक्रम्य “तामिन्द्रो मध्यतो- ऽवक्रम्य व्याकरोत् तस्मादियं व्याकृता वागुद्यता इति व्याख्याता चैषा ऋग्वेदभाष्ये सायनाचार्यैः । “अग्निमौलें" इत्यादिवाक् पूर्वस्मिन् काले (पराचौ) समुद्रादिध्वनिवदेकात्मिका सती (अव्याकता) 'प्रततिः' 'प्रत्ययः' 'पदं वाक्यमित्यादिविभाग- रहितासीत् (ताम्) वाचम्(मध्येऽवक्रम्य)प्रकृत्यादिरूपेण विभज्य (व्याकरोत्) इति। एवञ्चासत्यारुन्धतीदर्शनेन सत्यारुन्धती- दर्शनवत् पञ्चकोषादिव्युत्पादनन्यायेन मिथ्यावस्तुपरिहारेणा- खण्डसच्चिदानन्द प्रतिबोधनवञ्चासत्यभूतप्रकृतिप्रत्ययार्थनिरूप- णेन सत्यभूताखण्डवाक्यार्थबोधनं व्याकरणादिना क्रियते इति बोध्यम् । उक्तञ्च,- "असत्ये वर्त्मनि स्थित्वा सत्यस्य प्रतिपादनम्" ॥ इति । पञ्चकोषादिवदित्यादि। (सगुणम्) । इति कारकादीनां क्रियान्वयिनां ग्रहणाय विशेषणपOयगुणशब्दप्रयोगः। तेन तेषां क्रियाविशेषणतयैव वाक्यघटकत्वं बोध्यम् । “पाख्यातं सकारकविशेषणम्” इति भाष्योतवाक्यलक्षणे विशेषणपदस्य कारकविशेषणक्रियाविशे- षणोभयपरतया कारकविशेषणानां क्रियाविशेषणानां कारक- भिन्नसम्बोधनादौनां च वाक्यघटकत्वम् । तानि च वाक्यपदीय कतिचित् संग्रह्य प्रदर्शितानि । यथा,- “सम्बोधनान्तं कृत्वोऽर्थः कारकं प्रथमो वतिः। धातुसम्बन्धाधिकारनिष्यन्नमसमस्तंनञ् ॥ तथा यस्य च भावेन षष्ठी चेत्युदितं इयम् । सम्बन्धवाष्टकस्यास्य क्रिययैवावधार्यताम्" । अत्र यद्यपि सम्बोधनस्य सर्वत्र प्रवतक्रियान्वयित्वं न सम्भवति - शब्दार्थरत्नम्। तथापि जानीहोत्यध्याहृतक्रियान्वयितया तस्याश्च प्रकृत- क्रियायामन्वयात् परम्परया भवत्येव प्रकृतक्रियान्वयित्वम् । तथा हि,- "सिद्धस्याभिमुखीभावमात्र सम्बोधनं विदुः। प्राप्ताभिमुख्यः सम्बोध्यः क्रियासु विनियुज्यते ॥ इति वाक्यपदीये क्रियासु नियोज्यस्यैव सम्बोध्यतीत्या विन- योगविषयक्रियायामेव तस्य साधुत्वम् । व्रजानि देवदत्तेत्यादौ तु देवदत्तस्य गमनक्रियायां विनियोगाभावेनाध्याहत व्यायां जानीहोत्यादिक्रियायामेवान्वयौचित्यात् तक्रियायाञ्च वजा- नौत्यादिक्रियाया विषयत्वादिसम्बन्धेन विशेषणत्वादेकवाक्य- लम् । अन्यथा बजानि देवदत्तेत्यनयोरुभयवाक्य घटकले तयोश्च परस्परमकवाक्यत्वाभावेन समानवाक्यमाविषयनिघातानुप- पत्तः। तथा हि“पदात्" इत्यधिक्तत्य "सर्वमनुदात्तमपादादी' इति चोपक्रम्य (आमन्त्रितस्य च) इति सूत्रेण अष्टमाध्याये पदादुत्तरवत्ति नोऽपादादिस्थितस्यामन्त्रितस्य षष्ठाध्यायविहि- ताद्युदात्तत्वं निहत्य सर्वानुदात्तत्वं विहितम्, वार्तिककारी च"समानवाक्ये निघातयुष्मदस्मदादेशाः" इत्यनेन प्राद्युदात्तत्व निधातः एकवाक्यएव व्यवस्थापितोऽत: व्रजानि देवदत्तेत्य- नयोरतरीत्यैकवाक्यत्व एव निघातो नान्यथेति । उक्तञ्च वाक्य- पदीये,- "सम्बोधनपदं यञ्च तत् क्रियाया विशेषणम् । वजानि देवदत्तेति निघातोऽत्र तथा सति ॥ इति । भाष्यकारेणापि तत्स्थले एव निघातखौकारादाधुनिकानां खरानभिज्ञानां तादृशसम्बोधनस्य क्रियाविशेषणत्वानभ्युपगमो- ऽकिञ्चित्करः । अत एव च जानीहि देवदत्त ! नो दुःखं वर्त्तते इत्यादी क्रियापदपूर्वकसम्बोधनपदादुत्तरवर्तिनोर्युग्मदस्मदो। - शब्दार्थ रत्नम्। ४१ स्थाने वस्नसादेशः सूपपादः अन्यथा सम्बोधनपदस्य नो दुःखं वर्तत इत्यादिवाक्यघटकत्वानङ्गीकार वाक्यादिस्थितयो- स्तयोस्तदादेशो न स्यात् "न वाक्यादौ” इति निषेधात् इष्यते तु तदादेश: शास्त्रकारैः। एतेन प्रथमान्तमुख्यविशेष्य- कान्वयबोधाभ्युपगन्तारः सुदूरपराहताः। तथात्वे व्रजानी- त्यादावेकवाक्यताभङ्गप्रसङ्गात् तथा हि पश्य मृगो धावतीत्यादी कथञ्चित् भाष्थविरोधन विभिन्नवाक्यत्वस्वीकारेऽपि व्रजानि देवदत्त ! जानौहोत्यादौ प्रयत्नसहस्रेणापि निघातव्यवस्थापनस्य जानीहि देवदत्त ! नो दुःखं वर्तते इत्यादौ नसादेशव्य- वस्थापनस्य च क मशक्यतया तेषु वेषु स्थानेषु म विभिन्न- वाक्यता किन्वे कवाक्यतैवावसया सा क्रियामुख्यविशेष्य- कान्वयएव घटते नान्यथेति दिक् । "क्रियाभ्यावृत्तिगणने कृत्वसुच्” इत्यादिना विहितकवसुजा- दौनामभ्यावृत्तिपदवाच्यतत्पौन:पुन्यबोधकतया तत्रैवान्वयो युक्तः। इयांस्तु विशेषः क्रियाया एव पौन:पुन्यसम्भवेनाभ्या- वृत्तिपदेनैव क्रियाप्राप्तौ पुनः क्रियाग्रहणेन इतरांशे विशेषण- तानापन्नसाध्यक्रियाया एवाभ्यावृत्तौ तेषां साधुत्वज्ञापनात् “पञ्चकत्वः पचति" इत्येव प्रयोगः न तु“पञ्चकत्वःपाकः" इत्यपि। केचित् तु"दिवंचनेऽचि” इति निर्देशात् साध्यरूपक्रियान्वये एव तेषां साधुत्वं तेन भावघजन्तादावपि धात्वंशेन साध्यरूप- क्रियाया अभिधानात् पञ्चकृत्वः पाक इत्यपि भवत्येव । सिद्धरूपक्रियायां तदन्वयविवक्षायां तु नैवं, तेन पञ्च पाका इत्येव स्यादिति प्राहुः। (कारकम्) वक्ष्यमाणलक्षणमपि क्रियान्वयि "कारके" इत्य- धिक्कत्य तेषां विधानात् कारकइत्यस्य कर्तृत्वादिव्यपदेश- कारित्वेन कियायामित्यर्थः। “नियतं साधने साध्यम्" शब्दार्थरत्नम्। इत्यदि प्रागुतवचनजातानि चात्र तसाधकान्यनुसन्धेयानि । (प्रथमो वतिः) "तेन तुल्यं क्रिया चेदतिः" इति विहितवतेरपि क्रियायामन्वयः । तेन तुल्यमित्यर्थे वतिः स्यात् तत्तुल्यं यत् सा यदि क्रिया स्यादिति सूत्रार्थः (तुल्यम्) इति सामान्येन नपुंसकम् । तथा च "देवदत्तवत् पचति" इत्यादी देवदत्ततुल्या एकाभिन्नायिका विलित्यनुकूला भावनेति बोधः । विग्रहस्तु सर्वत्र तेन तुल्यमित्येवं रूपः । "धातुसम्बन्धे प्रत्ययाः” इत्यारभ्य विहितप्रत्ययानां स्वप्र- कृतिभिन्नवात्वरूपक्रियासम्बन्धे एव विधानात् क्रियायाम- वान्वयः । यथा “पिटयघाती पुत्रो जनिता” इत्यादौ णिन्यादेः पुत्नजनने अन्वयः । प्रसज्यप्रतिषेधवाची (असमस्तनञ्) क्रिया- न्वयो। "प्रसज्यप्रतिषेधस्तु क्रियया सह यत्र न । इत्यनेन प्रसज्यप्रतिषेधरूपात्यन्ताभाववाचिनः क्रियान्वयित्वोक्तः घटः पटो नेत्यादिमेदवाचकनञः क्रियान्वयित्वाभावेऽपि न क्षति: । अन च तादृशस्यासमस्तनजः क्रियान्वयित्वमेवोच्यते न तु तभिन्नस्य क्रियान्वयित्वं व्यवच्छिद्यते, असूयं पश्येत्यादौ असमर्थसमासे समस्तस्थापि प्रतिषेधवाचिनः क्रियान्वयित्व- खौकारात् समर्थसमासे च अनुपलम्भइत्यादौ क्रियान्वयित्वा- भ्युपगमाच। “यस्य च भावेन भावलक्षणम्" इति विहितसप्तम्याः क्रियाया- मेवान्वयः । स्वप्रकत्यर्थसम्बन्धिभावहारेणैव इतरभाव विशेषण- तया तत्रैव साधुल्लात् । तथा च गोषु दुह्यमानाखागत इत्यादी गोकर्मकदोहनसमानकालिकागमनकर्तेत्येवं बोधः । “षष्ठी चानादरे" इति विहितषष्ठ्यादेरपि क्रियायामन्वयः। “अना- शब्दार्थ रत्नम्। ४३ दरे” इत्यस्य अनादरपूर्वकार्थकत्वात् कारके इत्यधिकाराच्च अनादरपूर्व क्रियायामिति सूत्रार्थः । उपलक्षणञ्चैतत् बातुमुनादयोऽपि क्रियान्वयिनो बोध्या: । तुमुण्खलौ क्रियायां क्रियार्थायाम्” इति "समानकर्तृकयोः पूर्वकाले" इत्या- दिना तेषामपि क्रियायामेव साधुत्वोक्तेः। व्यक्तीभविष्यति चैतत् तत्तविरूपणावसरे। अत्र च सर्वत्र तत्तच्छब्दानां क्रियान्व- योक्तिस्तु तत्तदर्थबारेणैव, तेन शब्दानां तदन्वयित्वाभावेऽपि न क्षतिः। तथा असमस्तनञः क्रियान्वयोक्तिरपि विशेष्यतया तदत्वयाभिप्रायेण क्रियाप्रधानमित्यत्रापि क्रियापदस्य तदभाव- स्याप्युपलक्षणत्वमेतत्कारिकायामष्टानां मध्ये सप्तानां क्रिया- विशेषणत्वमेकस्य विशेष्यत्वमिति च विवेकः। अत एव "देव- दत्तो न पचति" इत्यादौ देवदत्ताभित्रैकाश्रयकविक्लित्त्यनुकूल- भावनाऽभाव इति बोधः घटो नास्तोत्यादौ च घटाभिन्नैका- श्रयकास्तित्वाभावः न तु घटाभावमात्न, तथा सति नाहमस्मि न त्वमसोत्यादिपुरुषवचनविशेषप्रयोगाद्यनुपपत्तः। “युभदि मध्यमोऽस्मद्युत्तम” इत्यादिसूत्र युभदादिसामानाधिकरखे तिर्थस्य मध्यमादिवचनप्रयोगविधानात् तथात्वाभावात्। अतः शास्त्रकाराणां तादृश्यप्रयोगान्यथानुप. पत्त्या मदाद्याश्रयकधात्वर्थाभाव एव नङ्समभिव्याहार वाक्यार्थ इत्यवसौयते। अथवाऽभावस्य विशेषणतया क्रियायामन्वयानी- कारेऽपि न क्षतिः। तथा च मदाभिन्द्रकाश्रयकाभावप्रति- योगिनी सत्तादिक्रियेति बोधः तिर्थाश्रयस्य युपदादिसामा- नाधिकरण्यान पुरुषव्यवस्थानुपपत्तिः। आख्यातार्थस्याययस्या- भावे विशेषणत्वेऽपि अभावस्य प्रतियोगितया धात्वर्थेऽन्वयात् परम्परया धात्वर्थे विशेषणत्वमव्याहतमेव । एतत् सर्वं मनसि निधायाभिहितमभियुक्तोः। अमावस्य ४४ शब्दार्थरत्नम्। "अभावो वा तदर्थोऽस्तु भाष्यस्य हि तदाशयात् । विशेषणं विशेष्यो वा न्यायतस्त्ववधार्यताम् ॥” इति । (तदर्थः) नजथः (न्यायतः) युक्तित: (विशेषणम्) स्वप्रतियोगिनि (विशेष्यः) तदपेक्षया इति तदर्थः। अत्र च विशेषं नबर्थ- निर्णये वक्ष्यते । एवं वाक्यलक्षणे आख्यातान्तप्रधानमित्यनुत्ता क्रिया- प्रधानमित्युक्तिस्तु आख्यातान्तभिन्नानामपि भावतव्यादि- प्रत्ययान्तानां क्रियाप्राधान्यबोधकतया क्रियान्तरानाकाशि- तया च समाप्तार्थत्वात् वाक्यत्वमस्तौति द्योतनायैव । अत एव एतद्दाक्यलक्षणमूलीभूतस्य । "आख्यातं सविशेषणकारकम्” इति भाष्थव्याख्यायां कैयटे- नोक्तम् आख्यातेन च क्रियाप्रधानं लक्ष्यतेऽतोऽतिङन्तेष्वपि- देवदत्तन शयितव्यमित्यादिषु वाक्यत्वमिति। एवञ्च निरुता- वचनेऽपि आख्यातपदस्य भावतव्यादीनामुपलक्षणपरत्वं बोध्यम्। तथा पचतिकल्पमित्यादीनामपि क्रियाप्राधान्य- बोधकतया वाक्यत्वं तत्र हि ईषदसमाप्तरूपस्य कल्पवाद्यर्थस्य योग्यतया स्वप्रकृतितिङन्तबोध्य तिर्थान्वितधात्वर्थे एवान्वय- खौकारात् क्रियाप्राधान्यबोधकत्वमव्याहतमेव अत एव तत्र प्रातिपदिकार्थे प्रथमैकवचनं नपुंसकलिङ्गता च । तिर्थाश्रय- विशेषणत्व, आश्रयस्य देवदत्तादिभिः सामानाधिकरण्यात् तद- भिवलिङ्गवचनताद्यापत्तिः। नचेष्यते तथा देवदत्ताः पचन्ति- कल्पमित्येकवचनान्ततयैव सर्वत्र प्रयोगात् नापि क्रियाविशे- षणवन तत्र द्वितीयाद्यापत्तिरकपदोपात्तत्वेन तदप्रसक्त: विभिन्न पदोपात्तविशेषणएव तत्साधुत्वोतो रित्यन्यत्र विस्तरः । एवञ्च "काश्यां हस्ताभ्यां पात्रात् विप्राय यज्ञदत्तो धनं शब्दार्थरत्नम्। ४५ माधु ददाति" इत्यादी यज्ञदत्ताभित्रैकाथयिका काश्यधिकर- णिका हस्तकरणिका पानापादानिका विप्रोद्देश्यिका धनाश्रय- कस्खत्वत्यागानुकूला साध्यभिन्ना वर्तमाना भावनेति बोधः । सम्बोधनान्तपदसमभिव्याहारे च सम्बोध्यपुरुषाश्रयकं प्रव- तनाविषयं तादृशभावनाकमकं ज्ञानमिति बोधः सम्बोधन- पदेनैव नियोज्यायाः जानौहोत्यादिकक्रियाया आक्षेपात् तस्याञ्च कर्मत्वसम्बन्धन स्वकारकाद्यन्वितप्रकृतक्रियाया अन्व- यादेकवाक्यत्वम्। तथा च सति तात्पर्य योग्यतादिसमवधाने च कारकविशषणाद्यन्विताया 'एकस्याः क्रियायाः कट कर्मा- त्वान्यतरसम्बन्ध नापरस्यां क्रियायामन्वयो भवत्येव बाधका- भावात् पूर्वोतवचनयुक्तिप्रामाण्याच स्वीकृतञ्च भाष्यकता पचति भवति, पश्य मृगो धावतीत्यादौ क्रिययोरप्यन्वयादेक- वाक्यत्वम्। बोधस्तु विक्लित्त्यनुकूलभावनायिका उत्पत्त्यनु- कूला भावनेति मृगाभिम्बेकाययकधावनकर्मकं त्वदभिबैका- श्रयकं प्रवर्तनाविषयो दर्शनमित्यादिरूपः। तथा च भाव- नाप्रकारकान्वयबोधे भावतव्याद्यन्यवज्जन्योपस्थितेर्हेतुत्ववत् धात्वन्तरार्थभावनोपस्थितेर्हेतुत्वं कल्पाते। अत्र च सर्वेषां कारकाणां खखविशेषणाद्यन्वितानां क्रियायां धर्मिणि एकत्र इयमिति रोल्या बोधः न तु तेषां परस्परं विशिष्टवैशिष्टयमर्यादया, सर्वेषामेव क्रियाकाशितया परस्परान्वयेऽयोग्यत्वात्। "गुणानाञ्च परार्थवादसम्बन्धः समत्वात् स्यात्” इति न्यायाच। (गुणानाम्) (विशेषणानाम्) परार्थत्वात् विशेष्य- मात्राकाशित्वात् (असम्बन्धः) परस्परमनन्वयः (समत्वात्) सर्वेषामेव विशेष्याकाभित्वेन तुल्यत्वादिति तदर्थः । एवञ्च गेहे स्थाल्यामोदनं पचतोत्यादौ गैहस्थाल्योः क्रियान्वयेऽपि ४६ शब्दार्थ रत्नम् । चैत्रौदनापेक्षयाऽधिकरणत्वप्रतीति: मानसी न तु शाब्दीत्यैक- मन्यत्रापि। इति श्रोतारानाथतर्कवाचस्पतिभट्टाचार्य-विरचिते शब्दार्थरत्ने वाक्यकाण्ड समाप्तम् । - पदकाण्डम् । पदकदम्बकं वाक्यमित्यु तव किंखरूपाणि ! पदानि कतिविधानि ? वा तानौत्येतावदभिधीयते । “मुप्तिङन्तं पदम्" इति पारिभाषिकपदलक्षणम् उपसर्गनिपातयोरपि सुबन्त- वखौकारात् पदत्वं, तदस्वीकारपक्षे तु अर्थबोधकः प्रयोगाई- वर्णसमुदायः पदम्, उपसर्गनिपातयोरपि द्योत्यार्थबोधकतया पदवं, प्रकृत्यादौनां केवलानामर्थबोधकानामपि न तादृक्- पदत्वं प्रयोगार्हत्वाभावात्। प्रयोगाईलच पाणिन्याद्यनु- शासनवत्त्वम्, अनुशासनञ्चास्मिन्नर्थे अमु शब्दं प्रयुञ्जोतेत्येवं रूपं, सूत्राक्षरेण तादृशानुशासनालाभऽपि सुनौनां तत्रैव तात्पर्यावधारणात् शब्दानुशासनस्यैव व्याकरणरूपत्वव्यवस्थाप- नाच। एवञ्च यादृशवर्णसमुदायो यदर्थबोधनायानुशिष्टः तादृश एव तस्मिन्नर्थे प्रयोक्तव्य इति प्रयोगाईत्व नैवार्थबोधकत्व- प्राप्तौ पुनस्तद्ग्रहणं भू सत्तायामित्यादौ भूभागस्य पदत्व- वारणाय । उत्ताच,- ४७ व्युत्पत्त्या पदशब्दो- शब्दार्थरत्नम्। *अत एव गवित्याहभू सत्तायामितीदृशम् । न प्रातिपदिकं नापि पदं साधु तु तत् स्मृतम्” ॥ इति अत्र भूभागस्य साधुत्वेन प्रयोगाईवेऽपि अर्थावबोधकत्वाभावा- देव पदत्वनिषेधः। पद्यते ज्ञायतेऽनेनेति ऽर्थावबोधकशब्दमात्रपरोऽपि द्रष्टव्यः । तेन प्रक्त्यादीनां पदत्वसिद्धिः। कथमन्यथा “समर्थः पदविधिः” इति सूत्रे धातुनाममात्रेण समासे पदविधित्वसिद्धिर्यते च धातुना नाना च सुबन्तानां समासः अतः पदशब्दस्य विधैव प्रवृत्तिः योग्यतादिवशात् प्रयोगानुसारेण तत्तदर्थग्रहणमिति बोध्यम् । तानि च पदानि चतुर्विधानि सुबन्ताख्यातान्तनिपातोप- सर्गभेदात्। चत्वारि पदजातानि नामाख्यातनिपातोपसर्गाख्यानौति यास्कोत: अत्र नामपदेन नाममात्रप्रतिकाः सुप एव ग्राह्यन्ते न क्यजादयस्तेषां सुबन्तप्रकतिकत्वात् । ततश्च “प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणम्” इति परिभाषया सुबन्तग्रहणम् एवमाख्यातपदेऽपि एवञ्च सुबन्तमाख्यातान्त- वेत्यर्थः निपातोपसर्गयोः सुबन्तत्वाखौकारणाप्राप्त पृथग्ग्रह- णम्। अत्र च पदजातानौति पदशब्दः अर्थावबोधकप्रयो- गाहरूपपदविषयः सुबन्ताख्यातान्तयोरपि समुदायस्य वाच- कत्वपक्षे अर्थबोधकत्वसत्त्वात् । उक्तञ्च वाक्यपदीये,- “धोतिका वाचिका वा स्युदित्वादीनां विभक्तयः। स्याहा संख्यावतोऽर्थस्य समुदायोऽभिधायकः" ॥ इति । (समुदायः) प्रकृतिप्रत्ययसमुदाय इत्यर्थः । तदस्खौकारपक्षे तु एकशेषेण पारिभाषिकप्रयोगाोभयविध पदे एव पदशब्दो- ऽभिधत्ते, तेनाद्ययोः पारिभाषिकपदत्वमन्त्ययोस्तु प्रयोगाई- घदत्वमिति विवेकः।
४८ शब्दार्थ रत्नम् । - "श्रुतिरप्येतहिभागं रूपकविधया दर्शयति,- “चत्वारि शृङ्गास्त्रयोऽस्य पादा हे शौर्षे सप्त हस्तासो त्रिधा बद्धो वृषभो रोरवीति" इति। (अस्य) व्याकरणरूपहषभस्य (चत्वारि) नामादीनि निहत्तो- तानि (शृङ्गाः) शृङ्गाणि तद्ग्रहणेनैव सर्वप्रत्ययादिकरणात् शृङ्गखमेषाम्। (वयः) कालाः (पादा.) गतिहेतुत्वात् । "न सोऽस्ति प्रत्ययो लोके यत्न कालो न भासते ॥" इत्युक्तः। (हे शौर्षे) फलं व्यापारश्च तत्रैव सर्वेषां कार- काणां विशेषणत्वेन तयोः प्राधान्यात् शौर्षता। (सप्त) प्रथ- माद्या विभक्तयः (हस्तासो हस्ताः) सर्वक्रियासाधककारका- द्यर्थत्वात् हस्तत्वमासाम् । (रोरवीति) साधुत्वेन ज्ञापयती- त्यर्थः । अत्र कालफलव्यापाराणां शब्दार्थ वऽपि शब्दार्थ योर- भेदेनार्थरूपत्वात् शब्दत्वेन रूपणमिति बोध्यम् । तेषाच बोधकताऽन्वयव्यतिरेकाभ्यामवसीयते। तथा हि व्यवहारकाले यत्पदश्रवणे नियतं यदर्थोपलब्धिस्तत्पदमवश्यम् आध्यासिकाभेदेन खसम्बन्धिनमर्थमुपस्थापयति तदुपस्थिती च वाक्यार्थ मर्यादया विशिष्टार्थबोधः । उत्ताञ्च वाक्यपदीये,- “ये शब्दा नित्यसम्बन्धा विवेके ज्ञातशकायः । अन्वयव्यतिरेकाभ्यां तेषामर्थो विभज्यते" ॥ इति । (विवेके) वाक्याद्भिन्नत्वेन कल्पनायामेव पदानामर्थविभागो नान्यथेति। तेषु चतुर्विधेषु पदेषु मध्ये नामाख्यातयोरव वाचकता द्योतकता पुनरुपसर्गाणां केषाञ्चिन्निपातानाञ्च, केषाञ्चिच्च निपातानां वाचकता, केषाञ्चित्रिरर्थकता च। उक्तञ्च,- “चतुर्विध पदे चान विविधस्यार्थनिर्णयः । क्रियते संशयोत्पत्तोंपसर्गनिपातयोः ॥ इति । - शब्दार्थ रत्नम्। ४८ चतुर्विधानां पदानां मध्ये सुबन्ताख्यातान्तयोरेव “प्रत्ययो वाचकः प्रकतिर्वाचिका समुदायो वा वाचक इति" (संशयो- त्पत्त:) तन्निर्णयाय प्रवत्यादेरर्थविभागः । तत्प्रदर्शनञ्च यथा तत्रैव । "द्योतिका वाचिका वा स्युहि त्वादीनां विभक्तयः । स्थाहा संख्यावतोऽर्थस्य समुदायोऽभिधायकः” ॥ इति। एतत् पक्षत्रयमप्याकर सिद्धान्तितम् । तथा,- "प्रादयो द्योतका एव वाचका न तु ते स्म ताः । उपास्येते हरिहरी लकारो जायते यथा" ॥ इति । ॥ अत्र “लः कर्मणि भावे चाकर्मकेभ्यः” इति सूत्रेणाकर्मकेभ्यो विहितभावलकारापत्तिरासधातोरकर्मकत्वादत उपसर्गस्य द्योतकता तादृशधातोरेवाराधनार्थ त्वेन सकर्मकत्वात् कर्मणि लकारोपपत्तिः। तथा,- "निपाता द्योतकाः केचित् पृथगाभिधायकाः । आगमा इव केऽपि स्युनिराः समुदीरिताः ॥ इति च वाक्यपदीये उत्तम् । (केचित्रिपाताः)द्योतकाः। यथा “गुरु नम- स्करोति” इत्यादौ वधातोरेव नमनानुकूलक्रियाबोधनात् तदर्थ- बोधने तात्पर्य ग्राहकमेव नमःपदं तेन न चतुर्थी । वाचकास्तु ब्राह्मणाय नमस्कृत्वेत्यादौ अत्र पृथगाभिधायि- त्वेन तद्योगे चतुर्थी । एवं नजादयोऽपि वाचका एव, (केऽपि तु) आगमा इव । (निरर्थकाः) एव यथा श्लोक पाद- यूरणमात्रार्थकाः। एवञ्च "अर्थवदिति" सूत्रेणैव सर्वेषां द्योतकवाचकानां प्रातिपदिकत्वसिद्धावपि “अनर्थकस्य चाव्य- यस्थ प्रातिपदिकसंज्ञा वक्तव्येति” वार्तिककारेण यदनर्थक- निपातानां प्रातिपदिकत्व विहितं तत् सर्वेषामेव विभक्तिमत्त्वं पू ५० शब्दार्थ रत्नम्। - द्योतयतीति बोध्य तेषां विभक्तिमत्त्वेऽपि न केवलप्रयोगः । उक्तञ्च वाक्यपदीये,- "चादयो न प्रयुज्यन्ले पदत्वे सति केवला: । प्रत्ययो वाचकवेऽपि केवलो न प्रयुज्यते ॥ इति । (केवला:) नामधात्वादिभिरसहिता इत्यर्थः । अधिकमग्रे निरूपयिष्यामः। एवं प्रकृतिप्रत्ययादिसमुदायरूपपदस्वरूपे तहिभागे च दर्शिते इदानीं तदवयवरूपप्रकतिप्रत्ययस्वरूपविभागौ प्रद- श्यते। तत्र प्रकतिर्नाम अर्थावबोधहेतुः प्रत्ययविधानावधि- भूनः शब्दविशेषः सर्वषामेव च प्रत्ययानां प्रकृति निमित्तौकत्यै- वोत्पत्तिविधानात् प्रत्ययानाचात्र प्रत्यायकत्वरूपेणैव निवेश: न तु वक्ष्यमाणप्रत्ययलेन तेन नान्योन्याश्रयः। अवधित्वञ्च पूर्वापरत्वरूपं ग्राह्यं तेन वहुचः निमित्तप्रकृती नाप्रसङ्गः । वस्तुतस्तु सिद्धान्ते वृत्तिशब्दानां समुदायशक्तिखौकारात् तदि- तादीनां निरर्थकत्वाब तत्र प्रकृतिप्रत्ययादिविभागः । अत एव भाष्ये "तावेव सुप्तिडी यौ ततः परौ सैव प्रकतिराद्येति" सुप्तिङ्मानयोरेव प्रत्ययत्वमित्युक्तम् । (ततः) विधानावधेः (यौ परौ तावेव सुप्तिडौ) या च तयोः (आद्या) विधानावधि- भूता (सैव प्रकृतिः) इति तदर्थः। एतदभिप्रायेणैव हरिणा,- “यः शब्दः स्खेतरस्याथै खार्थस्यान्वयबोधने । यदपेक्षस्तयोः पूर्वा प्रकृतिः प्रत्ययः परः" । इति । प्रसत्यादिलक्षणमुक्तम्। अत्र च पूर्वव बोधकशब्दविधाना- वधित्वमेव बोध्य भाष्यैकवाक्यत्वात् न खेतत्कारिकोपात्तपूर्वा- परत्व तथा सति पचतीत्यादौ तिङादेरेव धात्वर्थे खार्थप्रकार- कान्वयबोधजमकत्वस्खौकारात् तत्रातिव्याविः । एवञ्च निरुत- पूर्वत्वरूपलक्षणमेवाप्रसङ्गातिप्रसङ्गादिवारणसम्भवे प्रकृतिप्रत्य- - शब्दार्थ रत्नम् । ययोरर्थबोधकत्वसाकाङ्गत्वद्योतनायैव यः शब्द इत्यादिकथनं बोध्यमेवञ्च यस्यार्थे इत्यत्र विशेष्यतया विशेषणतया वान्वयबोधने इत्यर्थः, तेन सिद्दान्ते तिर्थप्रकारकान्वयबोधेऽपि न क्षतिः । तथा च तदर्थावितखार्थबोधने तदपेक्षत्वे सति तविधानावधि- भूतत्व तप्रकृतित्वमिति फलितम् । एवञ्चावयवशक्तिखीकारे- ऽपि बहुचि अतिप्रसङ्गादिशङ्कापि नोदेति वहुचः प्रकृति- विधानावधित्वाभावात् अवधित्वस्य पूर्वापरत्वरूपस्य निवे- शाच्च अत एतत्पक्षे भाष्थे सुप्तिशब्दौ प्रत्ययान्तरस्याप्युपल- क्षकाविति द्रष्टव्यम् । तथा शेखरकारेणापि प्रत्ययविधावुद्देश्य- तावच्छेदकाक्रान्तत्वमेव प्रकृतित्वमित्यभिदधे पूर्वसिद्धवस्तुन एव उद्देश्यत्वसम्भवात् पूर्वत्वमर्थायातं वहुचोऽपि सुप उद्देश्यत्वान्न किञ्चिषणमावहतौति एवञ्च प्रकरोति प्रत्ययं बोधञ्चेति व्युत्पत्तिसत्त्वात् प्रतिशब्दो योगरूढ़ इति बोध्यम् । प्रत्ययस्तु प्रकृतिमधोकत्य विधीयमानः स्वार्थबोधकः शब्द- विशेषः । प्रागुक्तभाथोक्तो खोयमर्थं प्रत्याययतौति प्रत्ययलक्षणे भाष्योतोश्च तथैवावगम्यते। अवधिश्च पूर्वापररूपो ग्रायः तेन वहुचि नाप्रसङ्गः तस्यापि प्रकृत्यवधिकत्वेन विधीयमामत्वात् सिद्धान्ते तु वृत्तिशब्दानां समुदायशक्तिखोकारण वहुचो निरर्थक- तया मुख्यप्रत्ययत्वाभावादेव पूर्ववरूपावधित्वप्रवेशेऽपि न क्षतिः। अत एव पूर्वोक्तहरिकारिकायां प्रत्ययः पर इत्यनेन परत्वेन विधीयमानत्वं प्रत्ययत्वमुक्तं तस्य च मुख्यत्वद्योतनार्थं स्वार्थ- कत्वसाकाहखकथनाय च इतरविशेषणम् । तथा च तदर्था- वितखार्थबोधने तदपेक्षत्वे सति तदवधिकलेन विधीयमानत्वं तबत्ययत्वमिति फलितोऽर्थः। अन्वितत्वच विशेष्यतया विशेषण- तया वा ग्राह्य, तेन तिङादेर्धात्वर्थ विशेष्यकान्वयबोधकत्वेऽपि न पतिः। यदि चावयवशक्तिखोकारस्तदा परपदेनावधिमात्र ।
५२ शब्दार्थ रत्नम्। - लक्षणीयम् अवधिश्च पूर्वापरान्यतर एव निवेशनीयः । एवञ्च प्रत्ययनिमित्तकप्रकत्यङ्गकार्यविशेषे विकरणागमादीनां प्रत्यय- वस्वीकारण परत्वमात्र प्रत्ययत्वमिति बोध्यम्। अथवा “प्रत्ययः" इत्यधिकृत्यापञ्चमाध्यायसमाप्तविधीयमानत्वं पारिभाषिक- प्रत्ययत्वं तत्रैव अर्थबोधकत्वे सतीति विशेषणे मुख्यप्रत्ययत्व- समान्यलक्षणं पर्यवस्थति तत्तत्प्रत्ययत्वन्तुक्तमेव। स्वार्थिक- प्रत्ययानामपि प्रतत्वानुवादितया स्वार्थ बोधकत्वमत एवाभि- हितं वाक्यपदीये,- "खाथि काः प्रत्ययाः केचित् प्रत्यर्थानुवादिनः" ॥ इति । एतदनुरोधेनैव शेखरादौ स्वस्खप्रवत्यर्थान्यतरप्रत्यायकत्वं प्रत्ययानामुक्तम्। विकरणादयः पुनः सर्वथा निरर्थकाः तेषां द्योतकत्वाद्यनङ्गीकारात् तद्यतिरेकेणापि कदादी धातु- मात्रादेवार्थप्रतीतदर्शनात् । उक्तञ्च वाक्यपदीये,- “यत्र वाऽव्यभिचारेण तयोः शक्तिप्रकल्पनम् । नियमस्तन नियमो नत्वेवं शपश्यनादिषु ॥ इति । (यत्र) ययोः अव्यभिचारण अन्वयव्यतिरेकाभ्याम् (नियमः) अर्थप्रतीतिनियमः (तयोः) प्रकृतिप्रत्यययोः (शक्तिप्रकल्पनम्)। यत्र चैवं(न नियमस्तत्र) शबादिषु नेत्यस्यावृत्त्या शक्तिप्रकल्पानं meani- नेत्यर्थः। एवञ्च प्रकतिप्रत्ययसामान्यलक्षणे स्थितेऽधुना तहिभागी- ऽभिधीयते। सिद्धान्तेऽवयवशक्त्यस्वीकारेण कृत्तहितादौ समु. दायशक्तिस्वीकारात् निपातादीनां निर्विभक्तिकत्वपक्षे विवि- धैव प्रकृतिः नामधातुभेदात् अवयवशक्तिस्वीकारे तु तद्धितेषु नामादौनामिव निपातानामपि प्रकृतित्वमपि द्रष्टव्यम् धातू- नामवान्तरविभागस्य तत्तदवसरे दर्शयिष्यते। एवं प्रत्ययो- ऽपि सिद्दान्ते विविध एव सुतिभेदात् अवयवशक्तिखोकारे शब्दार्थ रनम्। ५३ - तु वत्तद्धितसनादिमैदेन नानाविध इत्यवधेयं तविशेषश्चावसरे दर्शयिष्यते। एवं प्रकृतिप्रत्ययसामान्यविभाग स्थिते पूर्वस्थितत्वेन प्रत्ययनिमित्तलेन चाभ्यहितत्वात् प्रथमं प्रकृतिविशेषे निरूप- णोये सर्वेषां नाम्नां मूलौभूता धातुरूपप्रकृतिरेव प्रथमं निरू- प्यते। धातु म क्रियावाचको गणादिपठिनः शब्दविशेषः क्रिया च पूर्वोक्तफलानुकूलो व्यापार एव सर्वेषाञ्च कारः काणामन्वयोपपत्तये कालान्वयोषपत्तये च धातूनां क्रिया- वाचकत्वाङ्गीकारः । तथा हि,- "क्रियाभदाय कालस्तु संख्या सर्वस्य भेदिका" ॥ इति । वाक्यपदीये कालानां क्रियाभेदकत्वमुक्तमुक्तञ्च तत्रैव "क्रिया नियतसाधना" इत्यादिना साधनानां क्रियाकाशित्वं, तत्र यदि धातुभिः क्रिया न बोध्येत क तदा तेषामन्वयो विशेषण वा भवेत् ? अतोऽवश्यं सर्वेषां क्रियावाचकत्वं खौकार्य, धातूनां फलमानवाचकवे आख्यातानां व्यापा- रार्थकत्वे कदादिस्थले आख्याताभावेन कारकाद्यन्वयानु- पपत्तिः न च धातूनां क्रियामात्रवाचकत्वं त्यजिगम्योः पायतापत्तेः तथा च फलवाचकत्वस्य तेषां प्रायशो गणपाठे एव उक्तत्वात् न तदंशे विवादः। किञ्च फलावच्छिन्न- क्रियायाः पृथक्शक्त्या विशिष्टशक्त्या वा धात्वर्थत्वाभावे सकम्म- काकर्मकविभागोच्छेदः स्यात्, स्याञ्च फलमात्रस्य धात्वर्थवे सर्वेषां कारकाणां तत्रानन्वयः तत्रैव कालान्वयोपगमे च व्यापारविगमकालेऽपि फलसत्त्वे वर्तमानत्वादिप्रयोगापत्तिः । अतोऽवश्यं क्रियावाचकत्व स्वीकार्यमत एव "धातोरय: क्रियो- चते' इत्यनेन धात्वर्थत्वेनैव क्रियात्वस्वीकारः। "भूवादयो धातवः” इति पाणिनौयसूत्रमपि क्रियावाचकवं अत एव च ५४ शब्दार्थरत्नम्। धातुमात्राणां प्रतिपादयति। तथा हि भूश्च वाच भूवी आदिश्चादिश्चादी भूवौ आदी येषां ते धातव इति तथा चात्र प्रथम आदिशब्दो व्यवस्थावाची भुवा सह तदन्वयात् भूप्रभृतय इत्यर्थ लाभः द्वितीय आदिशब्दः सादृश्यवाची वाधातुना तद- वयस्तेन वासदृशा इत्यर्थलाभः तत्सादृश्यञ्च क्रियावाचित्वेन वाधातोगत्यर्थतया क्रियावाचित्वप्रसिद्धेस्तथा च भूप्रभृतयः क्रियावाचित्लेन वासदृशा धातव इति फलितम् । भुवश्चादित्वं गणपाठापेक्षया तस्य च क्रियावाचकत्वं पूर्वोक्तयुक्तोरिति सझेपः। अब क्रियावाचित्वानुनौ गणपठितानां सर्वनामा- व्ययादौनामपि धातुत्वापत्तिः तन्मात्रीतौ च हिरुगाद्यव्ययानां क्रियावाचिन धातुत्वापत्तिः अत उभयमुक्तम् । उनाञ्च,- "किञ्च क्रियावाचकतां विना धातुत्वमेव नो । सर्वनामाव्ययादौनां यावादीनां प्रसङ्गतः । न हि तत् पाठमात्रेण युक्तमित्याकर स्फुटम् ॥ इति। (पाठः) गणे पाठः। विदि अवयवे गडि वदनैकदेशे इत्यादि- व्यवाचिनामपि तत्साधकक्रियावाचित्वमस्त्येव कालकारका- द्यन्वयानुरोधात् । तत्फलस्य द्रव्यरूपत्वेऽपि न क्षतिः। गणा- दौत्यादिपदेन सूत्रसंज्ञासूत्रग्रहणं तेन सौत्राणां स्कन्भुप्रभृ- तौनां “सनादयो धातवः” इत्यादीनाञ्च प्रत्ययान्तानां धातु- त्वमव्याहतमेव दर्शितयुक्तः तत्रापि क्रियावाचित्वादेरवश्यं खौकाराच नाप्रसङ्ग इति दिक् । ते च सर्वेऽपि धातवः सकर्मकाकर्मकभेदेन विविधाः। तत्र व्यापाराधिकरणमात्रावृत्तिफलवाचकः सकर्मकः पच्चादेः व्यापाराधिकरणावृत्तिवितित्तिरूपफलस्य बोधकतया सकर्म- कत्व, कर्तृकर्मीभयनिष्ठफलबोधकस्यापि गम्यादेः व्यापा- राधिकरणमात्रावृत्तिफलबोधकतया सकर्मकत्वम् । भूप्रम- ५५ - शब्दार्थरत्नम्। तौनां तु व्यापाराधिकरणमात्रवृत्तिफलबोधकतया न सकर्म- कत्वं, फलस्य सत्तायास्तत्सम्बन्धरूपव्यापारस्यैकस्मिन्नेव धर्मिणि घटादौ सत्त्वात् । उतञ्च वाक्यपदीये,- “आत्मानमात्मना बिधदस्तीति व्यपदिश्यते । अन्तर्भावाच्च तेनासी कर्मणा न सकर्मकः ॥ इति । अस्थायमर्थः (आत्मानम्) स्वरूपम् (बिभ्रत्) प्रात्मधारणानु- कूलव्यापाराश्रयः (अस्तीति) पदेन ससानाधिकरणतया (व्यप- दिश्यते) तदमेदबोधनाय तिडादिकं प्रयुज्यते इति यावत् (तेन) आत्मनात्मरूपेण (कर्मणा) धारणकर्मणा (धातुः न सकर्मकः) अत्र हेतुः (अन्तर्भावात्) धात्वर्थ एव तस्य कर्मणः प्रवेशात् आत्मधारणानुकूलव्यापाररूपधात्वर्थेनात्मन उपसंग्रहा- दित्यर्थः, अथ वा (अन्तः) व्यापाराधिकरण एव (भावात्)फलस्य सत्त्वात् व्यापारसामानाधिकरण्यादित्यर्थः। तेन भुवादेरुत्पत्त्य- नुकूलव्यापारवाचितया धात्वर्थोपसंग्रहीतकर्मकत्वाभावेऽपि फलसमानाधिकरणव्यापारवाचित्वादकर्मकत्वम् । अत एव,- “फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ इति । फलसामानाधिकरण्यादिकताकर्मकसकर्मक विभागोऽभिहितः (एकनिष्ठतायाम्) एकमात्रवृत्तितायामित्यर्थः, तेन गम्यादे- ापाराधिकरणकृत्तिफलवाचित्वेऽपि नाकर्मकत्वमिति। (धर्मि- भेदे) अधिकरणान्यत्वे इत्यर्थः। एवमेव शब्दकौस्तुभकारा- दयः । एतमते सकर्मकाकर्मकशब्दौ पारिभाषिकाविति द्रष्ट- व्यम् । मञ्जुषाकृतस्तु “कर्मणा सहेति" नास्ति कर्म यस्येति' च व्युत्पत्त्या सकर्मकाकर्मकशब्दो यौगिकी। तत्र साहित्य सदन्वितखार्थबोधकत्वम् अन्वयश्च पृथक्पदोपस्थाप्ययोः सम्बन्धरूपो ग्राह्यस्तेन जीवत्यादौनां प्राणधारणानुकूलव्यापा- ।
शब्दार्थ रनम् । रार्थकतया तत्कर्मणः प्राणादेर्धात्वर्थमध्यपातात् न सकर्म- कत्व धात्वर्थोपराहोतकर्मकत्वेनाकर्मकत्वात् । कर्म च व्याक- रणशास्त्रीयपारिभाषिककर्मसंज्ञाविशिष्टमुच्यते तेनाधिशय्यते प्रासाद इत्यादौ कर्मणि लकारोपपत्तिः अधिशेते: कर्म- संज्ञाविशिष्टान्वितखार्थबोधकत्वात् अन्यथा पूर्वमते तस्य फल- समानाधिकरणव्यापारबोधकतयाऽकर्मकत्वेन "भावे चाकर्म- केभ्यः" इति भाव एव लकारापत्तिः। भवति च ग्रामं गच्छती- त्यादौ गम्यादिः ईप्सिततमत्वेन कर्मसंज्ञाविशिष्टेन पृथग- भूतेन ग्रामणान्वितं खार्थे बोधयन् सकर्मकः, अधिवसतिस्तु अधिकरणलेन कर्मसंज्ञाविशिष्टेनेति विवेक इति प्राहुः । युक्तञ्चतत् धात्वर्थोपग्रहोतकर्मकाणां व्यापारव्यधिकरणफल- वाचितया पूर्वकल्प सकर्मकत्वापत्तिः तत्तद्भिवलेन निवेशे च गौरवं तथा कर्मणोऽविवक्षायां गम्यादेरपि अकर्मकत्वखौका. रेण अविवक्षाविशिष्टलेन निवेशे गौरवञ्च, एतन्मते तु कमाभावादेव तदन्वितखार्थबोधकत्वाभावानाकर्मकवहानि- रिति। अत्र पक्षे अकर्मकस्तु तदनन्वितखार्थबोधक इति बोध्यम् । सकर्मकाच द्विविधाः एककम्मका हिकर्मकाच । एक- कम्मान्वितखार्थबोधकाः गम्यादयः एककर्मकाः। दिकर्मका अपि द्विविधाः हिकमान्वितैकव्यापारार्थकाः हिकमान्वित- हिव्यापारार्थकाश्च। तत्राद्या दुह्यादयः । न च ते सिद्धान्त हिव्यापारार्थकाः तथाले ईप्सिततमाभ्यामेव दाभ्यां कर्मभ्यां व्यापारहयेऽन्वयसम्भवेन द्वितीयाद्युत्पत्तौ “अकथितञ्च” इति सूत्रण दुह्यादीनां कारकान्तरसंज्ञानापनस्याकथितस्य कर्मसंन्नाविधानानौचित्यम्। दयिष्यते च दुह्यादीनामेक- व्यापारार्थकता यदा पुनस्तेषां दिव्यापारार्थकता विवक्षिता ५७ शब्दार्थरबम् । सदा ईमिततमसूत्रेणैव कर्मसंज्ञायां जातायां दिकम्मान्वित- हिव्यापारार्थका एव ते णिजन्तादिवदिति बोध्यम् । हिकमा- वितद्विव्यापारार्थका णिजन्ताः तव च धातुना एकव्यापारोऽ- भिधीयते हितोयस्तु णिचा तद्यापारहये च ईप्सितकर्मणः प्रयो- ज्यकर्ट रूपकर्मणश्च यथाक्रममन्वयः । तथात्वञ्च गम्यादौना- मिति बोध्यम्। पाच्यादीनां तु नैवं तद्योगे प्रयोज्यकर्तः कर्मसंज्ञाभावेन व्यापारहये कर्मयान्वयाभावात् न पाच्यादेः क्रियाफलाश्रयत्वेनोद्दे श्यतया प्रयोज्यकत्तुः कर्मसंज्ञा भवितुमर्हति पत्यादिधातुयोगे एव तबियमात् । उक्तञ्च हरिणा,- “गुणक्रियायां स्वातन्त्य प्रधाने कर्मतां गतम् । नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते" ॥ इति। (नियमात्) गतिबुद्धयादिसूत्रेण तदितरेषां निषेधात् (खात- वाम् ) कट त्वमेव (स्वधर्मेण) तौययाऽभिधीयते इति तदर्थः । वस्तुतस्तु प्रयोज्यकर्तुरोप्सिततमत्वेऽपि परत्वात् कर्ट- संजया तस्य बाधात् कर्मत्वाप्रसतो गत्यादिसूत्रेण अप्राप्त- प्रापकत्वरूपविधित्वाश्रयेण गम्यादेः कर्मत्वं विहितं न पायादेरिति द्रष्टव्यम् । उक्तञ्च हरिणा,- “परत्वादन्तरङ्गत्वादुपजीव्यतयाऽपि च । प्रयोज्यस्यास्तु कर्तृत्व गत्यादेविधितोचिता" ॥ इति । (परत्वात्) “विप्रतिषेधे परं कार्यम्" इत्युक्तोः “अपादानसम्प्रदानकरणाधारकर्मणाम् । कर्तुश्चोभयसम्प्राप्ती परमेव प्रवर्तते ॥" इतिचोक्तः (अन्तरङ्गत्वात्) पयादिरूपप्रवत्याकाङ्गितकट. संज्ञारूपकार्यत्वात् (अन्तरङ्गं बलौयः) इति न्यायात् पाया- याकाचितकर्मसंज्ञायाः प्रत्ययाश्रितत्वेन दुर्बलत्वादिति भावः। - ॥
- शब्दार्थ रत्नम् । (उपजीव्यतया) उपजीव्यजातीयतया सर्वेषामेव कारकाणां कर्तृप्रयोज्यत्वे न कर्तुंरुपजीव्यजातीयत्वादिति फलितोऽर्थः । तेन पाच्याद्यपेक्षया तस्योपजीव्यत्वाभावेऽपि न क्षतिः। एवं पाचादियोगे प्रयोज्यस्य कर्मसंज्ञाया एवाप्रवे न हिकर्मा- कत्वं तेषामित्यन्यत्र विस्तरः । अम्मका अपि धातवः हेतुचतुष्टयाधौनाकर्मकक्रियार्थ- त्वात् चतुर्विधाः। अकर्मकक्रियात्वे हेतवश्च चत्वारो, हरिणा प्रदर्शिता यथा,- "धातोरर्थान्तर वृत्तेर्धात्वर्थेनोपसंग्रहात्। प्रसिद्धरविवक्षातः कर्मणोऽकनिका क्रिया' ॥ इति । (धातोः) स्वबोधकधातोः (अर्थान्तर) खसजातीयमित्रे (वृत्तः) सामर्थ्यात् खविजातीयार्थबोधकवादित्येकः। यथा जानातिः ज्ञानं वदन् सकर्मकः प्रवृत्त्यादिकं बोधयन्नकर्मकः न तु गतिवाची गम्यादिः ज्ञानाद्यर्थेऽप्यकर्मकः तयोईयोरप्य- थयोः सकर्मकत्वेन खसजातीयत्वात् । (धात्वर्थेनोपसंग्रहादिति) द्वितीयः। कर्मणो धात्वर्थेन उपसंग्रहात् खशरीरे प्रवेशनात्। यथा जीवत्यादीनां प्राणधारणानुकूलव्यापाररूपक्रियार्थतया तत्कर्मणः प्राणादेर्धात्वर्थे एव प्रवेशः । (प्रसिद्धेः) सत्ता- लज्जादिरूपाणामकर्मकलेन प्रसिद्धः। यथा,- “सत्तालज्जास्थितिजागरणं वृद्धिक्षयभयजीवितमरणम् । शयनकौड़ारुचिदौत्यर्थं धातुगणन्तमकर्मकमाहुः ॥ इति । परिमणितदिशा फलसमानाधिकरणव्यापारबोधकानामित्यर्थः । इति द्वतीयो हेतुः । (कर्मणोऽविवक्षातः) इति चतुर्थः । यथा मम्यादिरेव कर्माविवक्षातः अकर्मकः । अत्र च कर्मपदं व्यपदेशिवद्भावेन फलस्याप्युपलक्षणं, तेन फलस्याविवक्षायामेव शब्दार्थ रत्नम् । गम्यादरकर्मकत्वमिति कौस्तुभानुसारिणः तेषाञ्च व्यापार- मात्रबोधकलेन फलावाचित्वान्न सकर्मकत्वमिति द्रष्टव्यम् । अत्र चाविवक्षा नाम येन रूपेणान्वयविवक्षया यस्य कर्मसंज्ञा तेन रूपेणान्वयविवक्षाभावः। अत्र क्वचित् कर्म- णोऽविवक्षया, यथा पयते इत्यादौ, क्वचिच्च कर्मत्वाविवक्षया, यथा मातुः स्मर्यते इत्यादौ। अत्र मातुः कर्मत्वे नैव स्मर- णान्वये कर्मसंज्ञा न पुनः सम्बन्धत्वन तदन्वयेऽपि, सम्बन्धत्व न विवक्षायामेव कर्मणि षष्ठीविधानात् स्मरणादेः कर्ममा- न्वयसत्त्वेऽपि कर्मत्वेन तदन्वयाभावादकर्मकत्वं तेन भावे लकारादय इति बोध्यम्। क्वचित् तु कार्यप्रवृत्तिवेलायाम- विवक्षा पश्चाविवक्षा। यथा कृतपूर्ती कटम् भुक्तपूर्वी ओदन- मित्यादौ। तथा हि, कृतं पूर्वमनेनेति विग्रहे “पूर्वादिनिः" इति अनेनेत्यर्थे पूर्वशब्दादिनिमनुवर्त्य “सपूर्वाञ्चेति” सूत्रण विद्यमानपूर्वात् पूर्वशब्दादपि इनिर्विहितः तत्र यदि कत- मिति कर्मणि क्तः स्यात् तदा तस्य कटादिरूपकर्मविशेषणतया सापेक्षवन समासादित्तिनं स्यात्, एकत्र विशेषणत्वे नोप- स्थितस्यान्यत्र विशेषणतयान्वयायोगात्। वृत्तिश्चात्र जायते भाष्यादिषु तथा प्रयोगादतोऽवश्यं प्रथमं कमाविवक्ष्याऽकर्म- कत्वेन भावे क्तप्रत्यये विहिते तदन्तेन पूर्वादिभिः “सुप्सु- पेति” समासे च कृते तत्पूर्वकात् पूर्वशब्दात् कर्तरि इनि- प्रत्ययो भवति । पश्चाच्च कर्तृकतक्रियायाः कर्मविशेषाकाङ्क्षायां कटादिकर्मणोऽन्वयः। उक्तञ्च हरिणा,- "अकर्मकत्वे सत्येव तान्त भावाभिधायिनि । प्रश्चात् क्रियावता का योगो भवति कर्मणाम् । अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः । क्रिया सम्बध्यते तहत् छतपूर्वादिषु स्थिता ॥ इति । - है. शब्दार्थ रत्नम्। क्रियावतेत्यनेन क्रियाहारैव कर्मणोऽन्वय इति द्योतितम् । क्रियायाश्च वृत्तिशब्दैकदेशतयाऽनन्वयशङ्कायामाहाविग्रहेति । नास्ति विशेषण ग्रहो जानं यस्याः सा पृथगुपस्थित्यभावेन ज्ञातुमशक्येत्यर्थः । (गतादिस्था) कत्तूंबोधकनिष्ठान्तगतपदोप- स्थाप्य गमनकर्तृरूपार्थप्रविष्टापि यथा “ग्रामं गतः” इत्यादी विभिन्नपदोपात्तैरपि (ग्रामादिकर्मभिः क्रिया सम्बध्यते) तथे- त्यर्थः समुदायशक्तिस्वीकारे एकदेशान्वयाव्यु पगमादवयवशक्ति- खौकारे तु तदनुपगमे क्षत्वभावादिति भावः। कृतपूवादि- वित्यादिपदेनीध्वरेष्वित्यादयो गृह्यन्ते तत्रापि “इष्टादिभ्यश्च" इत्यनेन कर्तरि इनिविधानात् । तत्रदं बोध्यम्,- "निष्पत्तिमात्रे कर्तृत्वं सर्वत्र वास्ति कारके ।” इत्युक्तः कर्मणोऽपि स्वव्यापारद्वारा क्रियानिष्पत्तिहेतुत्वेन कर्तृवे स्थिते तद्यापारस्य धात्वर्थत्वविवक्षायां धात्वर्थक्रियाश्रय- लेन, तस्य कत्तल, समानानुपूर्वोकमुख्यार्थबोधकधातूपात्त- फलाश्रयत्वेन च कर्मत्वमित्येकस्यैव कर्मकर्तृता, एवञ्च तत्र धातोरर्थान्तर वृत्त रेवाकर्मकत्वम् । तथा हि अन्नं पच्यते स्वयमेवेत्यादी विक्लित्तिस्तदनुकूलोऽवस्थाल्यादिसंयोगरूपो व्यापारश्च तदिशिष्टो वा पच्यर्थः तयोः फलव्यापारयोरेक- नियतया तहोधकधातोरकर्मकत्व', तेन अन्नेन पच्यते खय- मेवेत्यादौ भावे लकारोपपत्तिः। द्विकर्मकाणान्तु एककर्मण: कर्तृत्वविवक्षयाऽपरस्याविवक्षयैवाकर्मकत्वं पचिदुह्योस्तु कर्मा- न्तरसत्त्वेऽपि कर्मवद्भावविधानात् सकर्मकत्व सेन तयोर्न भावे लकारादयः, किन्तु कर्मण्येव, तेन दुह्यते गवा दुग्ध स्वयमेवेत्यादि। एवञ्च सर्वेषामेव धातूनां कर्मणः कत्तत्व- विवक्षायां कर्मवद्भावे प्राप्ते धातुविशेषयोग एव कर्मवत्- कार्यातिदेशः न सर्वधातुयोगे तेन गम्यादियोगे कर्त्तरि- ॥ शब्दार्थ रत्नम् । वाच्चे न कर्मवद्भावः किन्तु कटवत्कायं भावे तु इष्यते एव कर्मवत् कार्यम्, पयादियोगे तु कर्तरि भावे च वाच्य कर्म- बद्भाव इति विवेकः। उक्तञ्च,- "कर्मस्थेऽपि च धात्वर्थे कर्मकर्ता च कर्मवत् । कट स्थेऽपि च धात्वर्थे कर्मकर्ता च कर्ट वत्" ॥ इति । "कर्मवत्" कर्मवत्कार्यवानित्यर्थः ; अत एव “कर्मवत् कर्मणा. तुल्यक्रिये” इति सूत्रे कर्मपदेन कर्मस्थक्रिया लक्षिता शास्त्र- कारैस्त न कमस्थक्रियातुल्यक्रियावति कर्तरि कमवत् कार्य- मित्यर्थः । क्रिययोस्तुल्यत्वञ्च एकाधिकरणमात्रवृत्तिवेन तथा च कर्मस्थक्रियया फलेन व्यापारस्य सामानाधिकरण्य एव कर्म- वद्भावविधानात् पच्चादेस्तथाभूतार्थकतया तत्कर्तरि कर्म- वत्काय गम्यादेस्तु व्यापारस्योक्तफलसामानाधिकरण्याभावात् कर्तृस्थभावकत्वमिति कर्तृवत्कार्यमिति विवेकः । तथा तुल्य- क्रिये कर्तरीत्यभिधानेन अम्यादीनामपि भावे कर्मवत्कार्य यगादि भवत्येव। यद्यपि सर्वेषामेवाकर्मकाणां फलव्यापा- रयोः सामानाधिकरण्यबोधकतया कर्मवद्भावापत्तिस्तथापि सूत्र कर्मणा तुल्येति निर्देशात् येषां धातूनां मुख्यार्थवाचिनां सकर्मकत्वं तेषामेव कर्मवद्भाव इति गम्यते अस्त्यादेश्च सत्तादि- रूपमुख्यार्थे सकर्मकत्वाभावात् न तत्प्रसङ्गः भवतेस्तु लाक्षणिकानुभवार्थे वर्तमानस्य सकर्मकल्वेऽपि सत्तारूप- मुख्यार्थे तथात्वाभावान प्रसङ्गः । एवञ्च सर्वेषामेव सकर्म- काणां कट कर्मोभयस्थभावकत्वेनाव्यवस्थायां हरिणा क्रिया- कृतविशेषेण व्यवस्था दर्शिता। यथा,- “विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता। शब्दप्रवृत्तिरन्येषां शब्दैरेव प्रकल्पिता" ॥ इति । (यत्र) कर्मणि कर्तरि वा (विशेषः) क्रियाकृतोऽसाधारणधर्मो शब्दार्थ रत्नम्। दृश्यते (तत्रैव) क्रिया व्यवस्थितेत्यर्थः धात्वर्थयोः फलव्यापार- रूपयोः क्रिययोरुभयनिष्ठत्वेऽपि तत्कृतविशेषादेव तनिष्ठत्व- व्यवहार इति भावः । विशेषश्च विविधः धातूपस्थाप्यः तदनु- पस्थाप्यश्च तत्राभ्यहिंतत्वेन उपस्थितत्वेन च धातूपातविशेषस्यैव प्रथमं ग्रहणं तदप्राप्तौ तु अपरस्येति विवेकः । तेन पच्चादयः खोपस्थाप्यस्य कर्चपेक्षयाऽसाधारणधर्मस्य व्यापाररूपक्रिया- कृतस्य विक्लित्तिरूपफलस्य बोधकाः कर्मस्थभावका एव गम्या- दयस्तु नैवं, तदुपस्थाप्यफलस्य संयोगादेरुभयनिष्ठतया साधा- रण्यात् धातूपस्थाप्यविशेषासत्त्वे एव धात्वनुपस्थाप्यस्य क्रिया- कृतस्य श्रमादिरूपासाधारणधर्मस्य ग्रहणं तस्य च कर्तरि दर्श- नात् कर्ट स्थत्वम् । एवञ्च कर्ट स्थादिविभाम एजन्मते न्यायमूल एव। (अन्येषाम्) मते पुनः (शब्दप्रवृत्तिः) कर्मवत् कार्यप्रवृत्तिः (शब्दरेव) नियामकशास्त्र रेव (प्रकल्पितेति) द्रष्टव्यम् । तच्च शास्त्र यथा- "कर्मस्थः पचतेर्भावः कर्मस्थाच भिदादयः । कर्तृ स्थो बुद्धातर्भावः कत्तुं स्थाश्च गमादयः ॥ इति । (कर्मस्थाः) कर्मस्थक्रियार्थका इत्यर्थः एवमग्रेऽपि। सम्प्रदाय- विदस्तु एतच्छास्त्रमपि न्यायमूलकं पूर्वोक्तरीत्या एतेषां कर्मस्थत्वादिव्यवस्थापनात् अन्यथा प्रातिखिकरूपेण तहण- नस्य कत्तुमशक्यतयाऽव्यवस्थापत्तेरित्याहुः । एवञ्च क्रिया- कृतविशेषेणैव क्रियाव्यवस्थेति पक्षमवलम्बा,- "निर्वत्यै च विकार्ये च कर्मवद्भाव इष्यते । न तु प्राप्य कर्मणि तु सिद्धान्तोऽयं व्यवस्थितः" ॥ इत्यभियुक्त व्यवस्था भङ्ग्यन्तरेण दर्शिता। तथा च निवर्त्य- विकार्ययोरव क्रियाकृतस्य उत्पत्त्यादिरूपस्य विशेषस्य सत्त्वात्, प्राप्य तदसत्त्वाच्च तत्र वत्र कर्मवद्भावाभावी बोध्यो,- शब्दार्थरत्नम्। व्यवस्था रूपव्यापारः। "क्रियाकृतविशेषाणां सिद्धियंत्र न तिष्ठति" इत्यग्रिमप्राप्य- कर्मलक्षणे प्राप्यस्य क्रियाकृतविशेषाभावकथनात् व्यतिरेकेण निवर्त्यविकार्ययोस्तत्सत्त्वमर्थायातमित्यलं विस्तरेण। इदन्तु बोध्यम्, सनन्तधातूनां धात्वर्थेच्छार्थकत्वेन कर्तृस्थभावकत्वेऽपि तब्प्रकृतीभूतधातोरेव कर्मस्थकर्तृस्थभावकत तप्रकृतेरात्मनेपदादिना तदन्तस्यात्मनेपदादिवदिति द्रष्टव्यम् । बोधस्तु कर्मकर्तरि कतरीव यथा ओदनः पच्यते स्वयमेवे- त्यादौ ओदनाभिन्नैकाश्रयकविक्लित्त्यनुकूलस्थास्यादिसंयोग- अपरे तु कत्तुराश्रयांशे विशेषणत्ववत् व्युत्पत्तिवैचित्रण फलेऽपि विशेषणत्वमङ्गौचक्रुरङ्गौचक्रुश्चात्र नामार्थधात्वर्थयोरपि साक्षादन्वयम्। वस्तुतस्तु तिर्थाश्रय- स्यैव व्युत्पत्तिवैचित्राणोभयत्रान्वय इति द्रष्टव्यम् । एवं धातुसामान्यलक्षणे तहिभागे च दर्शिते इदानीं तदर्थो निरूप्यते। सर्वेषां धातूनां फलं तदनुकूलो व्यापार- चार्थ इति सिद्धान्तः “यर्थः पचिः” इति भाष्योतः। "फलव्यापारयोर्धातुराश्रये तु तिङः स्म ताः । फले प्रधानं व्यापारस्तिङथस्तु विशेषणम् ॥" इत्युक्तेश्च न तु फलमान धात्वर्थः, व्यापारस्त्वाख्यातार्थ इति कल्पनीयं, तथात्वे कदादौ व्यापारबोधानुपपत्त्या तत्साकाङ्क्ष- कारकप्रयोगानुपपत्तेः प्रयुज्यते च कारकं सर्वैः, तथा ग्रामो गमनवानिति प्रयोगापत्तिः। प्रत्ययमावस्यापि न व्यापार- वाचिवमनेकेषां प्रत्ययानां तहाचकत्वकल्पनापेक्षया सर्वत्र व धातोरेवान्वयव्यतिरेकाभ्यामेकरूपत्वात् लाघवाच्च वाचकलौचित्यात्। नापि व्यापारमात्र धात्वर्थः फलं कर्म- प्रत्ययार्थ इति कल्पनीयं, त्यजिगम्योः पर्यायतापत्तः त्यज्यादौ संयोगस्य, गम्यादौ च विभागस्य कर्मप्रत्ययेन बोधनापत्त:
तथा “फले शब्दार्थ रत्नम्। गत्यादौ संयोगादिबोधने च गम्यादिसमभिव्याहारस्य हैतुत्व- कल्पनापेक्षया गम्यादेरेव तदर्थत्वौचित्यात् । द्वितीयाषष्ठी- चतुर्थीलकारादीनामनेकेषां फलवाचकत्वकल्पबापेक्षया धातो रेव तथालौचित्याच्च। तयोश्च पृथगेव शक्तिः किन्तु एकपदोप- स्थितयोः परस्परं विशेष्यविशेषणभावेन विशिष्टबुधिरुदेति तेन कम्मादेराश्यतया फलान्वयोपगमेन नैकर्दशान्वयः विशिष्टशक्तिखौकारे तु तस्येकदेशान्वयापत्तिः । प्रधानं व्यापारः” इत्युक्तः सर्वत्र व व्यापारस्य विशेष्यत्वं विशेषणत्वमितरस्य तयोश्च संसर्ग: जन्यजनकत्वादिरूपः ; अत एव “क्रियाप्रधानम्" इत्याद्युक्तिरपि साधु सङ्गच्छते। तथा तिर्थस्य आश्रयादेः सर्वथैव विशेषणत्वं तत्राप्ययं विवेकः तिर्थाः खलु कालसंख्याकादिरूपाश्रयास्तेषां कालस्य व्यापार एव विशेषणत्वम्। “क्रियाभदाय कालस्तु” इत्युक्तोः मंख्या पुनराश्रयांशे विशेषणम् “संख्या सर्वस्य भेदिका' इति प्रागुत: सर्वस्य त्यनेनाश्रयस्य नानात्वसूचनात् आश्रयरूपा- ख्यातार्थस्य कलकार व्यापारी, कर्मलकार च फले विशे- घणवेनान्वयस्वीकारेण तदंशे एव संख्यायाः विशेषणतो- चित्यात् एकपदोपात्तयोरपि विशेष्यविशेषणभावान्वयाभ्युप- गमात् । आश्रयरूपोऽर्थ स्तु फलव्यापारयोर्विशेषणम्। “कर्तरि कत्” इति “ल: कर्मणि" इत्यादिसूत्राभ्यां लकारस्य व्यापा- राश्रयरूपकर्तरि फलाशयरूपकर्मणि च शक्तिप्रतिपादनेऽपि फलव्यापारयोर्धातुलभ्यत्वात् अन्यलभ्यत्वेन तदंशे शक्त्यनभ्यु- पगमात् आश्रयमाने एव तच्छक्तिखीकारः। एवं “कर्मणि हितोया” “कत करणयोस्त तोया" इत्यादावपि कत्र्तकर्मणो- हि तौयादेराश्रयमानोऽर्थः। एवञ्च तिर्थाश्रयान्वितार्थक- प्रातिपदिकात् प्रत्ययेनोक्तार्थत्वात् प्रथमा ततश्च यथा तिर्था- शब्दार्थरत्नम्। श्रयेण सह कर्नादेरभेदान्वय एवं बतीयाद्याश्रयेणापि देव- तादिप्रत्ययार्थ इव प्रवत्यर्थ स्थाभेदेनान्वयाभ्यु पगमात् “युभदि मध्यमः" इत्यादिसूत्र युष्मदर्थ समानाधिकरण एव मध्यमादि- पुरुषवचनलडादविधानात् “लटः शशानजावप्रथमासमा- नाधिकरणः” इति सूत्र चादेशस्याप्रथमासामानाधिकरण्य- निर्देशात् स्थानिनस्तथात्वावगमाञ्च। एवञ्च तिर्थाश्रयस्य फलव्यापारयोरन्वये तपरस्म पदादयो द्योतकाः। उक्तञ्च हरिणा,- “फलव्यापारयोस्तत्र फले तड्यक्चिणादयः । व्यापार शम्शबाद्यास्तु द्योतयन्याश्रयान्वयम् ॥ उत्सर्गोऽयं कर्मक विषयादौ विपर्ययात् । तस्माद् यथोचितं ज्ञेयं द्योतकत्वं यथागमम् ॥ इति । कर्मकर्तरि विहितयगादेः कर्तरि विहितस्य बुद्दात्यादि- भ्यश्चिणादेश्च फलान्वयद्योतकत्वापत्तया यथागममित्युक्त तथा च कर्मकर्च विहितभावसाधारणविधिविहिततङादयः फलान्वयद्योतकाः सद्भिवाः व्यापारान्वयद्योतका इति फलि. तम्। तेन कर्तरि विहिततङादेन फलान्वयद्योतकत्वप्रसङ्गः इति शब्दकौस्तुभानुसारिणः। मञ्जूषाकृतस्तु फलव्यापारयोः पृथक्शक्तिपक्षेऽपि कर्मप्रत्यये फलं, कर्ट प्रत्यये च व्यापारी विशेष्यतया भासते तथैवानुभवादेवञ्च विशिष्टशक्तिखौकारा- पेक्षया पृथक्शक्तिकल्पने लाघवमपि भवति तथा हि आनुभवि- कतया बोधस्योपपत्तये विशिष्टशक्तिवादिनां शक्तियकल्पना- पत्तिः पृथक्शक्तिपक्षे तु व्युत्पत्तिवैचित्रे प्रण फलानुसारात् विशे- थविशेषणभाववैपरोल्लमात्र कल्पात इति बोध्यम् । एवञ्च "क्रियाप्रधानम्” इत्युक्तिलक्षणया धात्वर्थप्रधानमित्यर्थपरा तथा च योरपि धात्वर्थतया प्रयोगानुसारेण तयोः प्राधान्या- आश्रयस्य any ay शब्दार्थरत्नम्। प्राधान्य तत्र च नियामकाः पाश्रयस्य फलाद्यन्वयद्योतका एवेति प्राहुः । नव्यास्तु पृथक्शतिकल्पने तयोरुद्देश्यविधेय- भावेनान्वयापत्तिः पृथगुपस्थितयोस्तथान्वयस्यौत्सर्गिकृत्वात् नानुभूयते च तयोस्तथान्वय इति विशिष्टशक्ति खौकत्य व्यापारविशिष्टफलफलविशिष्टव्यापारयोर्वोधने कर्मकत प्रत्य- ययोश्च द्योतकतामभ्यु पेत्य विधैव धातोः शक्तिः “यर्थः पचिः” इति भाष्यस्यापि विविधार्थवत्ताप्रतिपादनपरत्वादित्याहुः । तत्र फलतीति व्युत्पत्तया फलं नाम तद्धात्वर्थजन्यम्, गम्यादौ विभागस्य फलत्ववारणाय धातूपस्थाम्यत्वेन विशेषणेऽपि विभागजन्यसंयोगस्य पतनफलत्वमते विभागस्य तद्धात्वर्थ- जन्यत्वात् तद्धातूपस्थाप्यत्वादतिव्याप्तेस्तदात्वर्थे विशेषणतया भासमानत्वेनैव विशेषणीयं, गम्यादौ च विभागस्य तदात्वर्थे विशेषणतया भासमानत्वाभावात् न फलत्वप्रसङ्गः। मच षा- कन्मते तु कर्तप्रत्ययस्थले तथा भासमानत्वमिति विवेकः । क्रियाविशेषणादेर्धात्वर्थे विशेषणत्वेऽपि तज्जन्यत्वाभावान्न फलत्वप्रसङ्गः,विशेषणत्वञ्च साक्षादेव विवक्षितं तेन"घटं करोति" इत्यादी घटादेः धात्वर्थक्रियाजन्यस्य विभक्त्यर्थ हारा तहिशेषण- त्वेऽपि न फलत्वापत्तिः । व्यापारस्तु पूर्वोक्ता क्रियासमुदायात्मिका भावना तस्य च तत्तक्रियात्वरूपेण, फुल्कारत्वादिनैव बोधः । न तु व्यापा- रत्वरूपेण, यत्नसाधारणस्य तस्यैकस्यानुगतरूपस्यासत्वात् तत्तत् क्रियावादीनां नानात्वेऽपि एकबुद्धिविषयतया तेषामैक्या- रोपादेकत्वव्यवहारः। “यावत् सिद्धमसिद्धं वा” इति “गुणभूतैरवयवैः” इति च वाक्यपदीयोक्तः एकैकावयवेऽपि समूहारोपादधिश्रयणकाले- ऽपि पचतीति व्यवहारः। यहा यावक्रियाव्यक्तित्तिर्जाति शब्दार्थ रत्नम् । ६० रेव व्यापार इति बोध्य प्रतिपादितञ्च तस्याः क्रियावं साध्य- त्वञ्च प्रागिति दिक् । इदन्तु बोध्यं सर्वेषां कारकाणां क्रियायां विशेषणत्व- खौकारऽपि हिरगाद्यव्ययार्थ क्रियायां न तेषामन्वयः तद्बोध्य- क्रियायाः साध्यरूपत्वाभावात् साध्ये वेव साधनान्वयनियमात् तेषां क्रियाप्रधानत्वव्यवहारस्तु, क्रियामात्रविशेषणार्थकत्वात् स्वरादीनां तु खःपतिरित्यादौ नामार्थे ऽप्यन्वितार्थकतया तथात्वाभावादतो हिरुगादीनां सिद्धरूपक्रियाबोधकत्वमित्यव- गन्तव्यम् । एवं सामान्यतो धात्वर्थे निरूपिते इदानीं केषाञ्चिद्धातु- विशेषाणामर्थः प्रदीते, केषाञ्चिच्च कारकादिनिरूपणावसरे वक्ष्यते । तत्र भवत्यत्यादौनां सत्ता, आत्मधारणञ्चार्थस्तञ्चाने- ककालस्थायि कालगतपौर्वापर्येण क्रमवच्चेति तस्य क्रिया- त्वम्। आत्मधारणञ्च खरूपधारणं तत्र आत्मा खरूपं च सत्तेव। एवञ्च फलव्यापारयोरेकनिष्ठत्वादकर्मकत्वं व्यतिषे इत्याद्यात्मनेपददर्शनात् तेषां क्रियावाचकत्वमवगम्यते कर्म- व्यतीहारे आत्मनेपदविधानात् कर्मपदेन च तत्र सूत्र क्रियाया एव ग्रहणात्, न च फलस्य व्यतिहारः सम्भवतीति भाष्यादौ स्पष्टम् । , घटोभवतीत्यादौ उत्पत्त्यनुकूलो व्यापारो भवतेरर्थः, स च व्यापारः साध्यत्वेनाभिधीयमानाश्रयता। पचेविलित्य- नुकूलव्यापारः स चानेकविध इत्युक्तम्। नश्यतेरदर्शनानुकूलों व्यापारः स च ध्वंससामग्रीसम्बन्धः व्यवधानसामग्रीसम्बन्धश्च । एवञ्च व्यापार कालान्वयोपगमात् नाशस्यातीवाभावेऽपि नष्ट- इत्यादिप्रयोगोपपत्तिः । ध्वंसश्च कारण तिरोभावावस्था, कारणशक्तिखरूपेणावस्थानन्तु प्रागभावः ततः प्रच्यु ताऽभि- व्यक्तिलक्षणधर्ममापन्ना व्यक्तिरित्युच्यते इति सिद्धान्तः ।
शब्दार्थरत्नम्। जानातेविषयतया ज्ञानं फलमात्ममनःसंयोगो व्यापारोऽर्थः । अतो मनो जानातीत्याद्युपपत्तिः आत्मानं जानातौत्यादौ तु शरीरावच्छिन्त्रात्मनः कर्मत्वम्,अन्तःकरणावच्छिन्नस्य तु कर्तृत्व- मिति “कर्मवदिति” सूत्रे भाथे स्पष्टम् । इदमेव ज्ञानरूपं फलं चक्षुरादिकरणकत्वेन विवक्षितं दृश्यादेरर्थः। बथा हि चक्षु- जन्यं जानं दृशेरर्थः, श्रोत्रजन्यं शृणोतः, घ्राणजन्यं जिप्रतः, रसनाजन्य रसते, त्वम्जन्यं स्मृशवः, मनोमात्रजन्य मन्यते:, लिङ्गादिज्ञानजन्यमनुमिनोवः, शब्दजन्य शृणोतेः, भावना- ख्यसंस्कारजन्य स्मरतः, संस्कारन्द्रियसनिकर्षजन्य प्रत्यभिजा- नाते:, एवं तत्तत्समानार्थकधातोश्वार्थः, व्यापारस्तु सर्व करूपः पूर्वोक्त एव। तथा ज्ञानस्य वेद्यविशेषगोचरत्वे हेतुविशेष- जन्यत्वे च संशेत्यादेः बिभत्यादेश्वार्थत्वम् । यथा विरुद्धहय- प्रकारकैकविशेष्यकं ज्ञानं संशेतः, संशयान्यज्ञानं निश्चिनोतः, अबाधितविषयकं प्रमिणोतेः, बाधितविषयकं ज्ञानं भ्राम्यतेः, गौरवहेतुकं ज्ञानं संमन्यतेः, अपकर्षहेतुकं ज्ञानमवजानातः, मोहभयादेरपि ज्ञानेऽन्तर्भावः, दर्शयिष्यते च बिभत्यादीनामर्थः कारके इत्यलम् । इच्छतेविषयतया इच्छा फलं व्यापारस्तु तदनुकूलज्ञानमिष्टसाधनत्वादिविषयकम्। इयञ्जेच्छा नाना- भोज्यविषयिणी सचिरूपा, योषिदादिविषयिणी कामानुरागादिरूपा, सामान्यभोग्यविषयिणी अभिलाषरूपा, औत्सुक्यहेतुका भोज्यादिविषयिणौ लालसारूपा, तत्तहाच- कधाववस्तु रोचत्यादय एवमन्यऽपि विशेषेच्छार्थका अवसरे दर्शयिष्यन्ते । यततेः समवायेन यत्नः फलम्, आत्ममन:संयोगस्तु व्यापारस्तेन फलव्यापारयोरेकनिष्ठबादकर्मकः विषयतया फलबोधने अस्य निराकासखात् न सकर्मकत्वम् । एवं प्रक्तते- निवर्ततेश्च बोध्यम् । करोतेस्तु उत्पत्त्यनुकूलव्यापारार्थकत्वात् विधा।
शब्दार्थरत्नम् । उक्ताच,- न सकर्मकवहानिः, यत्नार्थकलेऽकर्मकत्वापत्तिः । "जोऽकर्मकतापत्तन हि यत्नोऽर्थ ईष्यते”। युक्तञ्चैतत्। कत्रो यत्नमात्रार्थंकले कर्ट स्वभावकतया ततः कर्मकर्तरि कर्मवत् कार्यानुपपत्तिः भवति च क्रियते घटः स्वयमेवेति प्रयोगः शास्त्रसम्मतोऽतोऽवश्यम् उत्पत्तानुकूलो- व्यापारः करोत्यर्थः स्वीकार्यः उत्पत्तिरूपफलस्य कर्मस्थतया कमवद्भाव उपपद्यते इति । विषयतया द्वेषः फलं, व्यापारश्चात्म- मनःसंयोगादिरूपो विषेरर्थः। देषस्तु दुःखसाधनताधौजन्यो- ऽप्रौतिजनकश्चित्तवृत्तिविशेषः । संयोगस्तदनुकूलव्यापारश्च, तहिशिष्टो वा गम्यादेरर्थः । संयोगश्च नानाहेतुकत्वेन नानाधि- करणकत्वेन च नानाविधः । ततश्च तत्तत्संयोगफलबोधकानां सर्वेषामेव'धातूनां गत्यर्थतावसेया। तथा हि पूर्वदेशसंयोम- नाशानन्तरोत्तरदेशसंयोगो गमः फलं, वहिविभागजन्याभ्यन्तर- संयोगः प्रविशेः। द्रवद्रव्यकरणकसंयोगः सिचेः । जलं सित्र- तौत्यादौ तु विजातीयसंयोगावच्छिन्ने लक्षणा। एवं सुर- भ्यादिद्रव्यकरणकसंयोगो लिपेः । स्नेहद्रव्यकरणकसंयोगो मह. यतेः। सर्वशरीरसंयोगो मज्जतेः। ऊ देशसंयोग उत्क्षि- पतेः, अधःसंयोगोऽवक्षिपतेः, फलं बोध्यमेवमन्येषामपि भ्रम्या- दीनां गत्यर्थत्वमवसेयम् । विभागजन्यसंयोगः क्रिया च पतरर्थः क्रियामानन्त्वपर तदर्थमाहुः । विभागजनकक्रिया त्यज्यादेरर्थः । अवयवविभागावच्छिन्ना तु भिद्यादेरर्थः । द्दिकर्मकाणान्तु कारकेऽर्था निरूपयिष्यन्ते इति दिङ्मात्रम् प्रदर्शितमाकर तु विस्तरः । प्रातिस्थिकरूपेण सर्वेषां धातूनामर्थनिरूपणस्य बाहुल्यात् कर्तु मशक्यतयाऽधुना कतिचिदर्था एव निरूप्यन्ते। पराभि भवेच्छा स्पर्धाऽकर्मिका, अभिभवेच्छामावविवक्षायांसकर्मिका, शब्दार्थरत्नम्। परदुःखप्रहरणेच्छा दयाऽकर्मिका। निर्दोषत्वेनाभिमानी विखासः, स्वावधिकोत्कर्षज्ञापनं नमनं सकर्मक, स्वाव- धिकोत्कर्षस्य ज्ञाने विषयबया सामानाधिकरण्येन चोभयसम्ब- ग्वेन विशेषणत्वं तेन नोदासीनस्य तत्कर्मत्वज्ञापनव्यापारश्च करशिरःसंयोगादिरूपो नानाविधः । मेध्यानाडोसंयोगः शाय्यासंयोगश्च स्वापः। निद्रा शयनमपि तथा, स्वापाभावो जागरणम् । मुखविकाशो हासः । क्रियामात्र स्पन्दनं, चलनं, कम्पनञ्च । यत्नजन्यक्रिया चेष्टा एतेऽकर्मकाः । आखा- दनं रसानुभवो रुचिश्च यथाक्रम सकर्मकोऽकर्मकश्च । जिह्वाकरणको रसानुभवो लेहनम्, आकर्षणपूर्वकः स एव चोषणं, दन्तकरणकः स एव चर्वणमिति विवेकः । मोदादयः आनन्द विशेषाश्चित्तस्य परिणामाः अकर्मकाः । काठिन्य- शैथिल्ये प्रारम्भकसंयोगवृत्ती धर्मविशेषौ मृदुत्वतीक्ष्णत्वादयः स्पर्शवृत्तयः धर्मविशेषाः। एते च तन्मात्रार्थकत्वेऽकर्मकास्तत्- करणार्थकत्वे सकर्मकाः। अविद्यमानात्मगुणज्ञापनं श्लाघा । अभिमानहेतुकं शब्दद्वारा तज्ज्ञापनं विकस्थनम् ।भेदनानुकूल- व्यापारो लेखन, संस्थानविशेषरचनमपि। हिंसाहतुको दन्त- करणकः संयोगानुकूलो व्यापारो दंशनम्, रागहेतुकोऽधर- स एव चुम्बनम् । गलविलाधः संयोगानुकूलो- व्यापारी भोजनं, द्रवद्रव्यकर्मकं तदेव पानम्। गलविलाव- धिकोड़संयोगजनको व्यापारो वमनमुगिरणञ्च, दोषाविष्क- रणं निन्दा, गुणाविष्करणं प्रशंसनम् । एतौ व्यापारी प्रायशः शब्दरूपौ कथनेनैव हि सर्वे दोषादिकं प्रकटी- कुर्वन्ति । एते च सर्वे सकर्मकाः । दोषत्यागः शुद्धिः उभयो- रेकाश्चयत्वादकर्मिका तत्करणविवक्षायां सकर्मिका। शोभा- विशेषोत्पत्तिर्मण्डनम् अकर्मक, तत्करणविवक्षायां सक- करणका शब्दार्थरत्नम्। मेकम्, गर्वहेतुकाभिमानोऽहङ्कारश्चित्तत्तिविशेषः अकर्मकः । इतरमेदज्ञापनं विशेषणं लक्षणञ्च । याथातथं न ज्ञापनं निरूपणं, साकल्येनाभिसम्बन्धः व्याप्तिः, साध्यविशिष्टतया धर्मिनिर्देशः प्रतिज्ञा, एते सकर्मकाः। त्यागकरणको व्यापारी यागः, त्यागश्च खत्वध्वंसानुकूलो व्यापारः, तत्रैव च सर्वेषां कारकाणामन्वयाभ्यु पगमात् तस्यापि व्यापाररूपत्वसत्त्वातू देवादेश्च तत्र त्यागे विवक्ष्या कर्मत्वं द्रव्यादीनां च कर- णत्व बोध्यम्। त्यागस्य करणत्वञ्च वर्गादिफलानुकूलव्यापार इति विवेकः । त्यागस्य च व्यापार करणत्वात् तदिशे- षणस्याऽश्वमेधादेरपि करणत्वं तेनाखमेधेन यजेतत्यादी अश्वमेधपदात् टतोयाऽखमेधपदेन च तत्तदितिकर्तव्यता विशिष्टोऽभिधीयते। खत्वध्वंसानुकूलो व्यापारस्त्यागस्तत्र द्रव्यादीनां कर्मत्वं देवादेश्वोद्देश्यत्वात् सम्प्रदानत्वम् । ट्रवद्रव्यकरणकारम्भकसंयोगशैथिल्यापादनं विक्लेदनम्। द्रव- द्रव्यनिःसारणपूर्वकतत्काठिन्यापादनं शोषणम् । रज्वादि- करणकगत्यादिरोधहेतुसंयोगानुकूलव्यापारो बन्धनं, विषय- विशेष व्यवस्थापनं नियमनम्। प्रौत्यनुकूलोव्यापारो भजनम् । प्राणवियोगानुकूलव्यापारो हननं, विभागजनक- व्यापारो मोचनं विभजनञ्च, एतानि सकर्मकाणि । अत्यन्ता- नलस योगजन्यनाशो दाहोऽकर्मक स्वत्करणविवक्षायां सक- मर्मकः । मादकद्रव्यादिहेतुकश्चित्तविक्षेपभेदा मादोन्मादप्रभू- तयः। गतिनिवृत्तिः स्थितिः वृद्विरुपचयः, हानिरपचयः, आत्मनि निन्दितत्वज्ञानाधीनश्चित्तहत्तिविशेषो लज्जा। हर्ष- जनकहस्तादिविक्षेपः क्रौड़ा। विषयत्वापत्तिः प्रकाशः, विष- याभिलाषो रागस्तदनभिलाषो विरागो विरतिश्च, द्रव- हेतुकक्रियाविशेषः स्यन्दनमतान्यकमेकाणि । एवञ्च गण- ७२ शब्दार्थ रत्नम्। । निहिटधातूनां तत्तदर्थेषु शक्तिर्लक्षणा पुनरर्थान्तरेषु अत एव “अनेकार्था हि धातवः” इत्यभियुक्तोतिरपि लक्ष्यार्थ- विषयेत्याकरे स्पष्टम् । इदानीं प्रत्ययान्तधातूनामा निरूप्यन्ते तत्र स्वार्थिक- प्रत्ययानां गुपादिभ्यो विहितानां सन्प्रभृतौनां धात्वर्थखरूप- सेवार्थस्तत्र च प्रकल्यर्थस्याभेदेनान्वयः । उक्तञ्च हरिणा,- "स्वार्थिकाः प्रत्ययाः केचित् प्रकृत्यर्थानुवादिनः" । इति । प्रकृत्यानुवादकत्वञ्च तत्तत्वरूपाभिधायकत्वं नातो घटो घट इतिवत् प्रकृतिप्रत्ययार्थयोस्तयोरयोग्यतापत्तिरिति द्रष्टव्यम् । “धातोः कर्मणः समानकर्त्त कादिच्छायां वा” इति सूत्रण इषिकर्मण एषिटकर्तीकात् धातोरिच्छाथ सन् वा स्यादित्यर्थ- केन विहितसन इच्छार्थस्तत्र च धात्वर्थस्य कर्मतया सामानाधिकरण्य न चोभयसम्बन्धेनान्वयः तेन पाकेन भोजने- च्छायां परकत कपाकेच्छायाञ्च पिपक्षतीति न प्रयोगः । एवञ्च सनन्तस्य स्वप्रकत्यर्थकर्मकत्वेन धात्वर्थोपटहीतकर्मकतयाऽकर्म- कलेऽपि सनन्तस्य स्वप्रकतिधातोस्तडादिना तडादिमत्त्ववत् तत्सकर्मकत्वाकर्मकत्वाभ्यां सकर्मकत्वाकर्मकवे बोध्ये तेन चैत्रेणौदनो बुभुक्ष्यते, मैत्रेण सुषुपस्यते इत्यादौ कर्मणि भावे च लकारोपपत्तिः। तथा हि सनर्थविशेषण धात्वर्थे कर्मणो- न्वयेऽपि तत्पारतन्य णेच्छायामप्यन्वयात् कर्मान्वितस्वार्थ- बोधकत्वरूपसकर्मकत्त्वाक्षतेराये कर्मणि सकारः, हितीये तु कर्माभावेन सन्प्रकृतिधात्वर्थेऽपि कर्मानन्वयात अकर्मकतया भावे इति विवेकः। वस्तुतस्तु पारतन्त्रण धात्वर्थकर्मणः सनर्थेच्छान्वयेऽपि न तस्य सनन्तोत्तरलकारादिनिमित्तकार्य- प्रसङ्गः तत्प्रवतिनिमित्तककार्यस्य द्वितीयादेरन्तरङ्गकार्यत्वेन बलवत्त्वात् तेन समं लकारयोगाभावेन च न द्वितीयाया शब्दार्थरत्नम्। बाधः एवञ्च तत्प्रयोगोपपत्तये फलव्यापारयोर्विशेष्यविशेषण- भाववैपरीत्यवत् सनन्तेऽपि तथा स्वीकारेण कर्मप्रत्यये इच्छा- विषयधात्वर्थ एव सनन्तार्थः, ततश्च तादृशधावान्वितकर्म- लकाराद्यर्थान्वितार्थकलेनौदनादेः प्रथमोपपत्तिः। कालादि- रूपाख्यातार्थस्तु इच्छायामवान्वेतौति विशेषः। बोधस्तु ओदनाभित्रैकाश्रयक चैत्रायकवर्तमानच्छाकर्मभोजन- मित्येवं रूपः। "आशङ्कायामचेतनेषूपसंख्यानम्” इति विहितसन पाश- कार्थः, तत्र च धात्वर्थस्य कर्मतामात्रसम्बन्धनान्वयः, आख्या- सार्थस्त्वाश्रयोऽत्र विशेष्यतासम्बन्धेन ग्राह्यस्तन “कूलं पिपति- षति" इत्यादी कूलाभिन्नैकविशेष्यकवर्तमानपतनसन्देह इत्येवं रूपो बोधः। सन्देहस्त्वत्र प्रयोक्तुरेवातो धात्वर्थस्य तत्मामा- नाधिकरण्याभावात् कर्मतामात्रेणान्वयः कल्पाते इत्यवधेयम् । "सुप आत्ममः क्यच्” इति विहितक्यच् इच्छार्थः तत्र च प्रक- त्यर्थस्य कर्मता-सामानाधिकरण्याभ्यामन्वयः, कर्माण इत्यस्या- नुवृत्त्या तस्य सुबन्तेन सहाभेदेनान्वयात् आत्मन इत्यस्य सम्बन्धि- तया सुबन्त एवान्वयाच्च आत्मसम्बन्धि मुबन्तात् कर्मरूपादि- च्छार्थे क्यजिति मूत्रार्थलाभेन तथान्वयौचित्यात् सामानाधि- करण्यञ्चात्र स्वसम्बन्धिवत्तित्वं ग्राह्यमेवञ्च देवदत्तःपुत्रमिच्छति खपुत्रेण च सुखमिच्छतीत्यादिविग्रह पुत्रीयतीत्यादिन प्रयोगः इच्छायां देवदत्तपुत्रसामानाधिकरण्याभावात् पूर्वत्र, उन- रत्र च स्वपुत्रस्य कर्मवाभावात् । गुरुमुवमिच्छतौतिविग्रह तु नामार्थंकदेशस्यैषिसम्बन्धितया क्यजथं तदन्वयसम्भवात् क्यजादय उत्यद्यन्ते गुरोः पुत्रमिच्छतौत्यादौ तु नैवं. क्यच- प्रवतिनामार्थस्यैकदेशस्यापि एषिसम्बन्धित्वाभाविन निरकासम्बन्धेनान्वयेऽयोग्यत्वात् । यद्यपि क्यजाद्यन्तस्य शब्दार्थरत्नम् । ग्रहीतकर्मकत्वेनाकर्मकत्वेऽपि सनन्तस्येव स्वप्रकृतेः सकर्मक- त्वेन सकर्मकत्वापत्तिस्तथा च ओदनस्य पाकमात्मनइच्छतौति विग्रहे ओदनस्य पाकोयतीति वृत्तौ ओदनादेहितीयापत्तिः ओदनादेः पाकादावन्वयेऽपि पारतन्त्रण क्यजर्थेऽन्वयात्, तथापि अद्योगषष्ट्या अन्तरङ्गकार्यत्वेन बलवत्वात् तया हितीयाया बाध इत्यवधेयम्। अत्र च सनन्तवत् प्रकृति- प्रत्ययार्थयोविशेष्यविशेषणभाववैपरौत्यमपि न सम्भवति धाती- रेव पृथक्शक्तिकल्पनेन तथात्वस्खौकारात् क्यजन्तस्य धातुले - ऽपि तत्प्रकृतेर्नामत्वात् नामार्थत्य तथालाकल्पनादितिदिक् । "अशनायोदन्य” इत्यादिना, निपातितक्यजन्तस्थले ; अशनस्य सद्योभोजने, उदकस्योदकपाने, धनस्य धनग्रहणे लक्षणा, तेषाञ्चैषिसम्बन्धितया क्यजर्थेऽन्वयसम्भवः । एतेषाञ्चाकर्मकत्वे ऽपि जीवितु किमु धनं धनायितुम् इति भारविप्रयोगे धनाया- शब्दस्य इच्छामाचे लक्षणया सकर्मकत्वमिति बोध्यम् । कोषादौ च “उदन्या तु पिपासा ट्" इत्यादौ पानेच्छामात्ने उदन्या- शब्दस्य लक्षणेति बोध्यम् । तथा वृषाखाद्युत्तरसुबन्तक्यजर्थ इच्छेव वृषादेः तन्मैथुने लवणक्षौरादेश्च लालसा विषयभोजने लक्षणा, तेनात्मसम्बन्धितया तेषां कर्मतादिसम्बन्धेन क्यजथे- ऽन्वयसम्भव इति विवेचनीयम्। अत्रापि वृषाखादिपदार्था- विवक्षया समुदायेन रिरंसा लक्ष्यते, तेन ततो रामो वृषस्यन्ती- मित्यादि रामायणम्""वृषस्यन्तौ तु कामुको"इति कोषश्च सङ्ग- छते । एवं “काम्यञ्च” इति विहित काम्यच् इच्छार्थः, अन्वया- दिकं तु क्यजन्तवद् बोध्यम्। बोधस्तूभयत्र खसम्बन्धिपुत्वादि कर्मकवर्तमानेच्छेत्येवं रूपः । “उपमानादाचार" इति विहितक्यच आचारसदृशाचारोऽर्थः तत्र प्रथमाचार प्रकृत्यर्थस्य कर्मतयान्वयः, कर्मण इत्यस्यानु- शब्दार्थ रत्नम्। इत्या उपमानेऽभेदेनान्वयन सूत्रार्थतस्तथान्वयलाभात्। आचारश्च प्रतिपाल्यवादिना जानरूपोऽनपानौयादिना सम्ब- ईनतोषणादिलक्षणो वा ग्राह्यः। तेनायं धातुः सकर्मकः; द्वितीयाचारस्य कर्मान्वितार्थकत्वात् तेन “पुत्रमिवाचरति भृत्यम्" इति विग्रह पुत्रीयति भृत्यमिति प्रयोगः। बोधस्तु भृत्यकर्मकः पुत्रकर्मकाचारसदृशाचारइत्येवं विधः । एवम् "अधिकरणाच'इति विहिताधिकरणोपमानोत्तरक्यचः आचार- सदृशाचार एवार्थः । प्रथमाचार च प्रकत्यर्थस्याधिकरणतयान्वय- स्तन प्रासादौयति कुव्यामित्यादौ प्रासादाधिकरणकवासादि- रूपाचारसदृशकुय्यधिकरणकाचार इति बोधः। अयं पुनः वासरूपस्तेनाकर्मक इति विशेषः । “कत्तुंः क्यङ्” इति विहितक्यडोऽपि सएवार्थस्तत्र च प्रथ- माचार नामार्थस्योपमानस्य कर्तृतयान्वयः, द्वितीये तु उप- मेयस्याख्यातार्थद्वारान्वयः । अयमप्यकर्मकः । बोधस्तु काका- यते श्येन इत्यादी काककर्तृकवञ्चनादिकाचारसदृशश्य न- कत कवञ्चनाद्याचार इति । एवमाचारविहितक्विपोऽप्यान्व- यादिरनयैव दिशावसेयः । भृशादिभ्योविहितक्यडोऽभूततद्भावोऽर्थः अभूतस्य पूर्व तथावे नानुत्पन्नस्य तद्भावस्तद्रूपेणोत्पत्तिरभूततद्भावः । यद्यप्युत्पत्रस्य पुनरुद्भवाभावनोत्पत्तिमात्रार्थकत्वेऽपि क्यडी न किञ्चिद्दूषणमावहति तथापि प्रत्ययस्य तावदर्थकत्व- कथनात् तद्रूपेणैव भानं तव तवे त्यवगम्यते इति बोध्यम् । तथाचाभृशो भृशो भवतीति विग्रहे भावपूर्वकभावो भवत्यर्थ - स्तत्राद्य भावे अभृशस्य हितोये च भृशस्याख्यातार्थद्वारान्वयः, भावश्चाबासाधारणधर्मविशेषस्ते नाभृशाश्रयकाभशत्वरूपभाव- पूर्वकमुशायकभृशत्वरूपभावानुकूलभावनेति बोधः भृशायते शब्दार्थ रत्नम् । । इत्यादिवत्तावपि तथाबोधस्येवोचितत्वेन भावपूर्वकभाव एव क्यर्थ इति कल्पाते, तत्र च प्रथमे भाव प्रकृत्यर्चस्व स्वभिन्न वृत्तित्वसम्बन्धन हितोये चाशयतयाऽन्वयात् भृशाश्रयकाभृश- वृत्तिभावपूर्वकभृशभावानुकूलभावनति बोधः । यद्यप्यस्तिकरो- त्योरपि उत्पत्तिबोधकत्वेन तद्बोध्याभूततद्भावे चिप्रत्ययादिवत् क्यङः साधुत्वमापद्यते तथापि सूत्रे भुवोति निर्देशात् भवति- बोध्यतादृशार्थ एव साधुत्वमिति कल्पाते तेनायमकर्माकः । एवं लोहितादिभ्यो विहितक्यकोऽपि अर्थात्वयादिरनयैव दिशा बोध्यः । अत्रेदं बोध्यम्। कत्तुंरुपमानात् क्यडो विधानात् उप- मानरूपकत्तु ः प्रकृत्यर्थस्य प्रत्ययार्थे विशेषणतवान्वयस्खौकारी- चित्येन एतत्समानार्थकविग्रहवाक्येऽयि उपमानरूपकत्त: तत्तक्रियादिरूपाचारे विशेषणत्वौचित्यमेवञ्च यस्योपमानं यद्रूपेण यत्रान्वेति स उपमेयस्वद्रूपेण तत्सदृश एवान्वेतीति नियमेन उपमेयस्यापि वृत्तिविग्रहयोः क्रियायां विशेषणले- नान्वयो युक्तस्तथा च देव इवाचरति राजेति विग्रहे देवकत्त- काचारसदृशो राजकर्तृकाचार इति बोधः । इवशब्दस्य तात्- पर्यग्राहकत्वमात्रकल्प नयाचरेरेवाचारसदृशाचारबोधकत्वाभ्य - पगमेन प्रथमाचार प्राख्याताशयहारा देवादेहितीया- चार च तथैव राजादेरन्वयखीकारात् तत्रोभयवाचकपदाभ्यां प्रथमोपपत्तिः। देवादिशब्दस्य देवादिसहशे लक्षणाखौका- रेण तस्य च राजादावभेदान्वयोपगमस्तु न युक्तः, येन केन- चिद्धर्मेण देवसदृशे राजनि तथा प्रयोगापत्तः, तथा विग्रहे यथाकथञ्चिद्रूपेणातिप्रसङ्गादिवारणसम्भवेऽपि वृत्तौ देवा- देराचार एव विशेषणलोपगमेन विग्रहेपि तथालौचित्यात् वृत्तिविग्रहयोस्तुल्यार्थकत्वात् अन्यथा देवादः राजविशेषणत्वे- शब्दार्थ रत्नम्। नोपस्थितस्याचारादावन्वयासम्भवेनासामर्थन वृत्त्यनुत्पत्तेः। एवञ्चतत् सूत्र क्रियामुख्यविशेष्यकान्वयबोधाभ्युपगममनु- ग्गृह्णातौति गम्यते। तथा भृशादिभ्यो भवत्यर्थकाभूततद्भाव विहितस्य क्यडोऽर्थे प्रत्यर्थस्य विशेषणलौचित्येन वृत्ती तदर्थभावविशेष्यकबोधदर्शनात् विग्रहेऽपि तथा कल्पनया क्रियामुख्यविशेष्यकबोध एवाङ्गीक्रियते। तथा हि अभृशो भृशो भवतीति विग्रहे सुशाभृशयोरुभयोरपि भवत्यर्थान्वित- कर्तृरूपाख्यातार्थाश्रययोरभेदेनान्वयात् कर्तृतया लकार- णोतार्थत्वात् तद्बोधकपदाभ्यां प्रथमा न तु भृशाभृशयो- रेवाभेदान्वयः कल्पयोऽयोग्यत्वात्, कथञ्चित् लक्षणया तहाव- स्थापनेऽपि भृशादिविशेषणत्वेन प्रथमोपपत्तिकल्पने च वृत्ती भृशाभृशयोरुभयोरपि क्यर्थ एव विशेषणत्वदर्शनेन विग्रह- ऽपि तथा कल्पनौचित्यात् । नापि विग्रहे तयोरेकस्य कर्ण त्वमपरस्य धात्वर्थे साक्षादाश्रयत्वादिसम्बन्धेनान्वयः कल्पाः, नामार्थधात्वर्थयोः साक्षादवयस्य क्वचिदप्यदर्शनात् अत्र अन्यतरस्य लिङ्गार्थमात्रप्रथमान्ततायाः स्वीकारेण निस्तारै- ऽपि अभृशेन भृशेन भूयते इत्यादी ढतीयोपपत्तेविना तयोः कर्तृत्वस्वीकारं दुष्करत्वाच्च । इयाँस्त्वत्र विशेषः वृत्तिविग्रहयोस्तुल्यविषयत्वमात्र कल्पाते तेन विग्रहे धात्वर्था- विताख्याताश्रये भृशोपमानादेरन्वयो वृत्तौ त्वाश्रयतया क्यर्थ एवान्वय इति। एवं भवत्यस्त्यर्थकचिप्रत्ययादावपि क्रिया- विशेष्यकबोधस्वीकार विना न गत्यन्तरमेवञ्च प्रथमान्तमुख्य- विशेष्यकबोधाङ्गोकर्तृणां न किञ्चिदनुगुणं सूत्रादिकं दृश्यते येन तथा कल्पनं क्रियतेति जितं क्रियाप्राधान्यबोधवादि- भिरिति दिक् । रोमन्यशब्दादिहितक्यडो वर्तनमर्थः वर्तनञ्चासकदेक- ७६ शब्दार्थ रत्नम् । इत्यादिवृत्तावपि तथाबोधस्येवोचितत्वेन भावपूर्वकभाव एव क्यर्थ इति कल्पाते, तत्र च प्रथमे भावे प्रकृत्यर्वस्य स्वभिन्न- वृत्तित्वसम्बन्धन हितोये चाश्रयतयाऽन्वयात् भृशाश्रयकाभृश- वृत्तिभावपूर्वकभृशभावानुकूलभावनेति बोधः । यद्यप्यस्तिकरो- त्योरपि उत्पत्तिबोधकत्वेन तद्बोध्याभूततद्भादे चिप्रत्ययादिवत् क्यङः साधुवमापद्यते तथापि सूत्रे भुवोति निर्देशात् भवति- बोध्यतादृशार्थ एव साधुत्वमिति कल्पाते तेनायम कर्मकः । एवं लोहितादिभ्यो विहितक्यङोऽपि अर्थान्वयादिरनयैव दिशा बोध्यः । अवेदं बोध्यम्। कत्तुंरुपमानात् क्वङो विधानात् उप- मानरूपकत्तः प्रकृत्यर्थ स्य प्रत्ययार्थे विशेषणतयान्वयखौकारी- चित्येन एतत्समानार्थकविग्रहवाक्येऽपि उपमानरूपकत्त: तत्तक्रियादिरूपाचार विशेषणलौचित्यमेवञ्च यस्योपमानं यद्रूपेण यत्रान्वेति स उपमेयस्वद्रूपेण तत्सदृश एवान्वेतौति नियमन उपमेयस्यापि वृत्तिविग्रहयोः क्रियायां विशेषणले नान्वयो युक्तस्तथा च देव इवाचरति राजेति विग्रहे देवकत्त- काचारसदृशो राजकर्तृकाचार इति बोधः । इवशब्दस्य तात्- पर्यग्राहकत्वमात्रकल्प नयाचरेरेवाचारसदृशाचारबोधकत्वाभ्य - पगमेन प्रथमाचार आख्याताथाश्यहारा देवादेहितीया- चार च तथैव राजादेरन्वयखौकारात् ततोभयवाचकपदाभ्यां प्रथमोपपत्तिः। देवादिशब्दस्य देवादिसदृशे लक्षणाखौका- रेण तस्य च राजादावभेदान्वयोपगमस्तु न युक्तः, येन केन- चिद्धर्मेण देवसदृशे राजनि तथा प्रयोयापत्तः, तथा विग्रहे यथाकथञ्चिद्रूपेणातिप्रसङ्गादिवारणसम्भवेऽपि वृत्तौ देवा- देराचारे एव विशेषणत्वोपगमेन विग्रहेऽपि तथात्वौचित्यात् वृत्तिविग्रहयोस्तुल्यार्थकत्वात् अन्यथा देवादः राजविशेषणत्वे- शब्दार्थ रत्वम् ७८ तरवत्त्वस्यैव विकार्यत्वादेवञ्च मुण्डयति माणवकमिति वृत्तावपि णिचः करणार्थकत्वेन कर्मयसाकाइत्वात् उत्- पाद्यकर्मणो धात्वर्थेनोपराहीतत्वेऽपि इतरस्याग्रहणात् तत्- साकाङ्गत्वाक्षते: सकर्मकत्वमित्यवधयमेवं “वेदंप्रमाणीकरोति" इत्यादावपि सकर्मकत्वमनुसन्धेयम् । एतेन प्रकृतिविकृतिभाव- स्थले प्रकृतेर्यथाकथञ्चिलक्षमाया विकृतिकर्मण्यभेदान्वयकल्पनं परास्त, प्रकृतिकर्मणः विकृतिकर्मणि समानाधिकरणविशेषण- त्वकल्पने, तत्सापेक्षस्य विकृतिकर्मणः णिजादिप्रत्ययार्था- वयासम्भवनासामर्थ्यात् महान्तं पुत्वीयतीत्यादिवत् काष्ठ भस्मौकरोति मुण्डयति माणवकमित्यादिवृत्त्यनुत्पत्त्यापत्ते रिति दिक। "धातोरकाचोहलादेः क्रियासमभिव्याहार यङ, इति विहितयङः क्रियापौनःपुन्यं तदतिशयश्चार्थः। पौनःपुन्य' नामासकदेकजातीयकरणम्। अतिशयश्च व्यापारगतः फलगतश्च, तत्र व्यापारगतः शौघ्रत्वादिरूपधर्मविशेषः, फलगतः पुनः दृढ़वादिरूपधर्मविशेष इति बोध्यम् । यर्थस्य सर्वस्यैव धात्वर्थे विशेषणतयैवान्वयो योग्यत्वात् “प्रधानप्रत्ययार्थ वचन- मर्थस्यान्यप्रमाणत्वात्” इति नेत्तनुत्तिमता सूत्रेण प्रत्ययार्थ- प्राधान्यनियमनिरसनात् । गत्यर्थ धातुप्रकृतिकस्य तु कौटिल्य- मर्थः कौटिल्यञ्च कुटिलरेखावच्छिन्नप्रदेशत्तित्वम् लुपादि- प्रकृतिकस्य पुनर्विषयतयान्वयिनी निन्दार्थः । बोधस्तु यथायथ पौन:पुन्यविशिष्टा क्रिया अतिशयादिविशिष्टा वेत्येवंरूपः । चुरादिभ्यो विहितणिचः प्रकृत्यर्थ खरूपमर्थः स्वार्थिक- प्रत्ययार्थ वदन्वयादिः। "हेतुमति चेति विहितणिचः प्रयोजकव्यापारः प्रेरणादि- रूपोऽर्थस्तत्र च प्रकत्यर्थस्य प्रयोजकतासम्बन्धनान्वयः । सूत्र शब्दार्थ रत्नम्। हेतुमत्पदस्य हेतुवृत्तिधर्मपरत्वात् खनिष्ठाधारतानिरूपिता- धेयतासम्बन्धन हेतुरस्यास्तौति व्युत्पत्तेः हेतुशब्दः पुनः "तप्रयोजको हेतुश्च” इति पारिभाषिकखतन्त्रक प्रयोजकपर एव, न तु सामान्यहेतुपरः, “कत्रिमालत्रिमयोः कृत्रिमे कार्य- सम्प्रत्ययः” इत्युक्तः । एवञ्च प्रयोजकहत्तिरसाधारणधर्मश्च प्रयोज्यप्रवृत्त्यनुकूलव्यापार एवेति स एव णिजर्थः। हेतुश्च द्विविधश्चेतनोऽचेतनश्च तत्राचेतनस्यानुग्राहकतयैव प्रयोजकत्वं चेतनस्य पुनरशेषतः प्रयोजकत्वम् । प्रयोजकव्यापारश्च प्रेरणा, सा च नानाविधा, निकष्टस्य भृत्यादेः प्रेरणा प्रैषाज्ञादिरूपा, आराध्यस्य प्रेरणाध्येषणप्रार्थनादिरूपा, अनु- मतिमात्रेण प्रेरणाऽनुमतिरूपा, अनुग्रहेण प्रेरणानुग्रहादि- रूपेत्येवं विषयभेदात् । तत्र "भृत्यं गमयति" इत्यादौ प्रेषणा, "प्राचार्य गां ग्राहयति" इत्यादी प्रार्थना, “राजा प्रजया याज- यति” इत्यादौ अनुमतिः, “वैद्यो ज्वरितमौषधं भोजयति" इत्यादौ उपदेशमात्रेण, अत्र अनुग्रहश्चेतनधर्मः ; "भिक्षा दरिद्र वासयति" इत्यादौ, तु अनुग्रहोऽचेतनधर्म इति विवेकः । एवञ्च चतुर्णामपि प्रवृत्तानुकूलव्यापारत्वेनानुगमात्तद्रूपेणैव शक्तिरिति बोध्यम् । इदन्तु बोध्य लोटोऽपि प्रैषाद्यर्थकतया त्वं पचेत्यादि- तोऽपि तथा बोधेन तत्प्रयोगकर्तुः पाचकत्वापत्तिवारणाय लोटोव्यापारानाविष्टप्रयोज्यप्रेरणार्थ :, णिचस्तुतदाविष्टप्रयोज्य- प्रेरणार्थ इति विशेषः कल्पाते। उक्तञ्च हरिणा,- "द्रव्यमावस्य तु प्रषे प्रच्च्यादेर्लोड् विधीयते । सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः” ॥ इति । अस्यायमर्थः। (द्रव्यमात्रस्य) व्यापारानाविष्टस्य प्रवृत्त्यनुप- हितस्येति यावत्, प्रयोज्यस्येति शेषः। (प्रेषे) प्रेरणेऽर्थे (लोट विधीयते) तबोधनाय लोट् प्रयुज्यत इत्यर्थः। (सक्रियस्य) शब्दार्थ रत्नम्। ८१ व्यापाराविष्टस्य प्रवृत्तुपहितस्येति यावत् (प्रयोगः ) प्रेरणा यदा स णिचो विषयः णिचप्रयोगस्थलमुदाहरणमिति यावत् । किञ्च प्रयोक्तधर्मः प्रयुक्तिः, सा च लोटप्रयोगस्थले वक्तृकर्तृकैव णिच्प्रयोगस्थले तु अनियतकर्तृका, तथा च वं पचेत्यादौ वक्तव परं पाकप्रयोजकः पाचयतोत्यादौ तु वक्तृभिन्नोऽपीति विशेषः। बोधस्तु मैत्रश्चैत्र ग्रामं गमयतोत्यादौ मैत्राभि- बककर्तृकचेत्रकर्मकग्रामहत्तिस्योगानुकूलव्यापारानुकूलवत- मानोव्यापार इत्येवंरूपः। "तत् करोति तदाचष्टे" इत्यनेन विहितणिचः करण- माख्यानञ्चार्थः यथायथमूह्यः तत्र च प्रकृत्यर्थस्य कर्मतया- न्वयेऽपि करणार्थस्थापरकर्मसाकाइत्वात् सकर्मकत्वम्, आख्या- नाथ कणिजन्तस्य त्वकर्मकत्वमिति विशेषः । अत्राप्ययं विशेषः । आख्यानार्थकणिचः कृदन्तप्रकृतिकवे णिचि परे कृतो लुकि धातोः पूर्वपापत्तिस्तविबन्धनं पूर्ववत्कारकादिसज्ञा नत्- कार्यञ्च ष्यते । “आख्यानात् कृतस्तदाचष्ट कृतो लुक् प्रकृति- प्रत्यापत्तिः प्रकृतिवच्च कारकम् इति वार्ति कोत: । तेन कंस- बधमाचष्टे इति विग्रहे कसं घातयतौति प्रयोगस्तत्र कंस- बधशब्दस्य वदन्तत्वेन तदुत्तरविहिताख्यानार्थ णिचि पर कतो लुकि कृदन्तत्वनिमित्तनामसंज्ञायानिवृत्ती समासनि- वृत्तिः । सुबन्तकंसपदेन च धातुमात्रस्य समासविधायकसूत्रा- भावान समासान्तरम्। तथा कृत्प्रत्ययनिहत्ता च वयोगनि- मित्तक षष्ट्या अपि नित्तिः कल्पाते ; एवञ्च कंसपदे विभक्ति- विशेषाकाङ्क्षायां प्रकृतिवञ्च कारकमित्युक्त : वत्प्रकृतेईनादेरर्थे कर्मत्वेन कंसादेरन्वयात् कर्मसंज्ञा, तबिमित्तकहितौयादि- कार्यति बोध्यम् । एवञ्च राजगमनमाचष्टे इत्यादावुक्तरीत्या राजादेः कृत्प्रकृतिगम्यार्थे कर्तृतयान्वयात् कर्तसंचया ८२ शब्दार्थ रत्नम् । तनिमित्तकटतीयाप्राप्तावपि गतिबुद्धि" इत्यादिसूत्रेण गत्यर्थ - धातोः कत्तुर्णिजन्ते कर्मसंज्ञाविधानात् हितोया, तत्र सूत्रे आख्यानादिसाधारणसकलणिजन्तग्रहणात्। एवञ्च राजहरण- माचष्टे इत्यादौ राज्ञा राजानं वा हारयतीति प्रयोगः । एवम् कृदन्त प्रकृतिकाख्यानणिचोऽपि सनन्तवत् खप्रकृति- सत्प्रकृतेः सकर्मकत्वाकर्मकत्वाभ्यां सकर्मवाकर्मकत्वे खोक्रियेते खौक्रियते च, सनन्तवत् विशेष्थविशेषणभाववैप- रोत्यं तदर्थयोः । तेन “कंसो घात्यते"राजा गम्यते" इत्यादि- प्रयोगः साधुः। बोधस्तु कर्तृलकार चैत्राभिन्नै काश्रयक वर्तमानं कंसकर्मकहननकर्मकाख्यानं कर्मणि तु कंसा- भिन्न काश्रयकर्माकं चैत्राश्रयकवत्तं मानाख्यानकर्महननमि- त्येवं विधः। "कण्डादिभ्यो यक्” इति विहितस्य यकः क्रिया खरूपं चार्थः, कण्डादौनां नामरूपत्वे क्रियार्थः धातुरूपत्वे खरूप- मर्थः तत्रान्वयश्च यथायथं कर्मतयाऽभेदेन वा बोध्यः । सिद्धान्ति- तञ्चाकरे कण्डादौनामुभयरूपत्वं यथोक्तमभियुक्ती :, “धातुप्रकरणाडातुः कस्य चासञ्जनादपि । आह चायमिम दौफैं मन्ये धातुर्विभाषितः ॥ इति । धातोरेव किति पर गुणनिषेधात् यगिति च कित्करणात् प्रकरणाच तेषां धातुत्व गम्यते, अजन्तस्य धातोर्यकारे पर दीर्घसम्भवेऽपि दौर्घवेन कण्डादौनां पठनात् नामवमित्यु- भयेषां ग्रहणमिति सिद्धान्तः । सत्यादिप्रकतिकणिजास्तु विस्तरभयान दर्शिताः । “प्राति- पदिकासात्वर्थे बहुलमिष्ठवच्च" इत्यनेन विहितणिचस्तत्तत् क्रियार्थः अन्वयस्तु कर्मतयैव। सनन्तादौनां सिद्धान्ते .
शब्दार्थरत्नम्। ८३ हत्तिशब्दतया समुदायशक्तिखोकारऽपि लाघवार्थ मवयवशक्ति- प्रदर्शन मिति स्मर्त्तव्यम् । एवं धात्वर्थ निरूपिते इदानीं तत्प्रकृतिकाः प्रत्यया निरूप्यन्ते । अत्र धातुप्रकृतिकत्व नाम तदुत्तरविधीयमानत्वे सति अर्थ बोधकत्वम् । ते च विविधाः, सनादयो धात्वशा लकाराः कृतश्चेति । वान्तत्वेन धातुसंज्ञानिमित्ता धात्वं- शास्तऽपि हिविधा, नामप्रकृतिकाः क्यजादयः सनादयः पुनर्धातुप्रकृतिका इति भेदात् तेषामर्थान्वयाद्यनुपदमेवा- भ्यधायि । लकाराः पुनरत्र निरूप्यन्ते कृतस्तु पश्चात् वक्ष्यन्ते । संख्यावाचकले सति धातुप्रकृतिकत्व लकारलक्षणं कृतां तथा- त्ववारणाय सत्यन्त सुपां तथात्ववारणाय च विशेष्यम् । आदेशतिबादीनामेव च संख्यावाचकत्वमादाय लकारसामान्य संख्यावाचकत्वम्,- "सुपां कर्मादयोऽप्यर्थाः संख्या चैव तथा तिङाम्" । इति भाष्योत रेवञ्च लकाराणां संख्यायामेव शक्तिर्लाघवात् । कर्तृकर्मभाववाचकत्वन्तु यथायथ “सर्वलकारीयपरस्मैपदादेः संख्या चैव” इत्यनुतसमुच्चायकचकारेण कादीनां भाथे तदर्थत्वप्रतिपादनात्। तथा च कर्मकविहितभावसाधारण- विधिविहितं सकर्मकधातुसमभिव्याहृतं सर्वलकाराणामात्म- नेपदं, कर्मबोधकमकर्मकधातुसहकतं तदेव भावबोधक तदुभयभिन्नमात्मनेपदं परस्मैपदञ्च कर्तृबोधकम् “लः कर्मणि च भावे चाकमकेभ्यः" इति तङधिकार “भावकणोः इति" "स्वरितजित" इत्यादि “शेषात् कर्तरि परस्म पदम्" इत्यादि सूत्रजातानामेकवाक्यतया तथा व्यवस्थायाः शास्त्रसिद्धेः “ल:- कर्मणि च” इत्यादिसूत्र चकारण "कर्तरि कृत्" इत्यतः कर्नरौत्यस्यानुहत्तेश्च। सकर्मकधातुप्रकतिलकाराणां कर्त- . शब्दार्थ रत्नम् । कर्मवाचकता। “भावे च” इति चकारण कत्तुरेवानुवृत्तेश्चा- कर्मकधातुप्रकृतिकानां भावकर्चर्थकता इति सामान्यतोऽव- गमेऽपि अन्यान्यसूत्रजातैकवाक्यत्वात्तथा कल्पनाच । अत्रे दं बोध्यम्, स्वरितजिद्धातूत्तरतङः कर्तृगामिन्येव सति क्रियाफले कर्तवाचकत्वं नान्यथा, तत्र फलञ्च न धातूपस्थाप्यं, जानात्या- दीनां ज्ञानरूपफलस्य समवायन कर्तुनिष्ठतया सर्वदैव जानौते इत्येवप्रयोगापत्ते-जानातीत्यादेरपलापापत्तश्च नेष्यते तु तथा शास्त्रकारैः। नापि क्रियाजन्यवेतनदक्षिणादिरूपलाभादि- गौणं फलमिह विवक्षितं, तथा सति सूदादेस्तादृशफलवत्त्वेन सूदः पचते, ऋत्विजो, यजन्ते, इत्यादिप्रयोगापत्तः, किन्तु फल- तोति व्यत्पत्त्या प्रयोजनापरनाम क्रियाजन्य ढप्तिस्वर्गादि- रूपमेव मुख्यं फलं प्रायम् यथोक्तं हरिणा,- “यस्यार्थ स्य प्रसिद्धार्थ मारभ्यन्ते पचादयः । तत् प्रधानं फलं तासां न लाभादि प्रयोजनम् ॥ इति । (प्रसिद्धार्थ म्) निष्यत्त्यर्थम् (पचादयः) पाकादयः (तासाम्) पचादोनाम् (प्रधानं फलम्) तदित्यर्थः फलस्य प्राधान्यञ्चेतरा- पेक्षया बोध्य तेन इतरेच्छानधौनेच्छाविषयत्वस्य तस्य सुखादि- व्वव सत्त्वेऽपि क्वचित्साक्षात्सुखादिरूपप्रयोजनालाभे तत्सा- धनरूपतरफलस्यापि ग्रहणमिति द्रष्टव्यम् । तेन "अपाहद" इत्यादिसूत्रविहिततङः सुखादिरूपमुख्यप्रयोजनाभावेऽपि कर्तृवाचकत्वम् । अत्र “कर्ता धातूपात्तव्यापाराश्रयः, कर्म तु तदुपात्त- फलाश्रयस्तत्र फलव्यापारयोर्धातुनैव लाभादाश्रयमावं लका- रार्थः” इति कौस्तुभानुसारिणः । “कर्ट कर्मशक्तिमानेव लका- रार्थः” इति तु मज्जूषाकृतः । “भावः पुनर्धात्वर्थ : असत्वभूत एव न तु घजादिवत् सिद्धभूतः ।
शब्दार्थरत्नम्। "असत्वीभूतो भावश्च तिङ्पदैरभिधीयते । तिङ्पदैरित्यत्रातद्गुणसंविज्ञानाश्रयणमते तिडां तथा भावा- वगमहेतुत्वावगमात्। एवञ्च धातुनैव तदुपस्थितावपि एको- हावित्यादौ सुवर्थहित्वादेर्नामार्थांशेऽनुवादवत् धात्वर्थभाव लकारार्थयोरनुवाद्यानुवादकता तथा च उभाभ्यां मिलित्वा विशिष्टेकार्थबोधस्तेन “सम्भेदे नान्यतरवैयर्थ्यम्” इति न्याया; नान्यतरवैयर्थम् । अनुवाद्यतत्तद्धात्वर्थखरूप भावलकाराणां लक्षणा वा तयोश्चाभेदेनान्वय इति मतान्तरम् । इदन्तु बोध्यम्। संख्याया द्रव्यधर्मतया धातूपात्तायाः क्रियायाश्चासत्वत्वेन तत्र संख्यान्वयस्य साक्षादसम्भवेन क्रियान्वयिन्याख्यातार्था- श्रये एव तदन्वयो युक्तः एकपदोपात्तत्वात्, तत्पारतन्त्रणेव संख्यायाः क्रियान्वयाभ्युपगमादेकवचनादिव्यवस्था। तथा हि कर्तृकर्मलकारस्थले लकारणाश्रयोपस्थितस्तत्र च संख्याविशे- षान्वयसम्भावादेकदिवचनादि, भावे तु तौययैवाश्रयोपस्थिते- रेकपदोपात्तत्वाभावेन तत्र लकारार्थसंख्याया अन्वयासम्भवा- दुसर्गतः प्रथमोपस्थितत्वाच्चैकवचनमेव उत्तञ्च हरिणा,- "एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया। भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रयः ॥ इति । उत्सर्गत: (एकत्वे) सत्यपि साधनाश्रयसंख्यया (आख्यात क्रिया भिद्यते)इत्यर्थः । अत्राख्यात इत्युपादानात् पाख्यातार्था- श्रयसंख्ययैव क्रियाभेदो न तु ढतीयाद्युपस्थाप्याश्रयसंख्य- यापि तेन चैत्राभ्यां सुप्यते इत्यादौ न द्विवचनादि ; न च नामार्थलिङ्गेन क्रियाभेदो, लिङ्गस्येतरपदोपात्तत्वात्। एवञ्च लिङ्गसंख्यानन्वयित्वरूपासत्वलक्षणे संख्याविशेषस्य साक्षादन- न्वयित्वविवक्षणालिङ्गमावस्य वा तथात्वविवक्षणात् न दोष इत्यनुसन्धेयम् । उष्ट्रासिका आस्यन्ते, हतशायिकाः शय्यन्त - शब्दार्थरत्नम्। - इत्यादिभाष्योदाहणे च उपमानोष्ट्रासनादिबाहुल्येनोपमेया- सनादेर्बाहुल्यस्य विवक्षणाद्भावेऽपि बहुवचनादौत्याकरे स्पष्टम् । उष्ट्रासिकापदञ्च द्वितीयाबहुवचनान्त क्रियाविशेषणतया वि- तौयोत्यत्तेर्वाहुल्य नैवोपमानविवक्षणात् बहुवचनम्, “स्त्रिया- मित्याद्यधिकार खुलोधात्वर्थनिर्देशे विधानान लौवत्वमिति च बोध्यम्। हरिणाऽपि,- “कालभिन्नाश्च ये भिन्ना ये चाप्युट्रासिकादिषु । इत्यनेन पचति पपाचेत्यादौ कालकतपाकभेदवत् उष्ट्रा- सिकादिषु उपमानभेदाभेद इति प्रतिपादितम् । तत्राप्ययं विशेषः साधनाश्रयसंख्यया क्रियाभेदोपगमेऽपि शब्दशक्तिखा- भाव्यादेव क्वचिद्भदः क्वचिन्नेति। तथा हि, ब्राह्मणाः भोज्य- न्ताम् इत्यादौ ब्राह्मणरूपकर्मभेदात् भोजनक्रियाभेदः; ब्राह्मणाः दृश्यन्ताम् इत्यादौ पुनरेकैव क्रिया समूहालम्बना- मिका सर्वकमान्वयिनौति । हरिणाऽपि, “सङ्घकशेषहन्देषु केचित् सामर्थ्यलक्षणम् । प्रत्याश्रयमवस्थानं क्रियाणां प्रतिजानते ॥” इति । क्रियाविशेषाणामाश्रयभेदादवस्थानं सामान्यतोऽभिधाय,- “भोजनं फलरूपाभ्यामकैकस्मिन् व्यवस्थितम् । अन्यथा हि व्यवस्थाने न तदर्थाय कल्पते ॥ अन्नादनादिरूपाञ्च सर्वे टप्तिफलां भुजिम् । प्रत्येकं प्रतिपद्यन्ते न तु नाट्यक्रियामिव ॥ दृश्यादिस्तु क्रियैकाऽपि तथाभूतेषु कर्मसु । आवृत्तिमन्तरेणाऽपि समुदायाश्रया भवेत् ॥ इति । नाच्यक्रियायाः समुदायाचयत्ववदृश्यादेविशेषोऽभिहितः । पूर्वोक्तव्यवस्थयैव लकाराणां कर्तृकमादिवाचकवे स्थिते भावलकारस्थले तोयैव आश्रयबोधिका नवेकलकारस्यो- शब्दार्थ रत्नम्। भयार्थकत्वं, तेन तत्कास्तृतीयोपपत्तिरन्यथा लकारसामा- नाधिकरण्यात् प्रथमापत्तः, “तिङ्समानाधिकरणे प्रथमा" इति वात्र्ति कोक्तः। अब “तिङ्समानाधिकरणे” इति निर्देशात् "युष्मद्युपपदे समानाधिकरणे” इत्यादिना युभसामानाधि- करण्ये मध्यमपुरुषविधानाच्च प्रथमान्तार्थाख्यातार्थयोरभेदान्वयः इत्युपैयते । परैरपि लादेशशत्रादेरर्थस्य नामार्थेऽभेदायान्वयाभ्यः पगमेन तत्स्थानिलकारार्थस्यापि तथान्वयौचित्यात् । अत एव लकारादीनां लाघवेनाऽपि कत्तं त्वादी न शक्तिः कल्पाते; तथा सति कत्तुं त्वादेराश्रयतयैव नामार्थेऽन्वयस्य वक्तव्यतया तदन्व- यिवाचकपदात् प्रथमानुपपत्तेः तिङ्समानाधिकरणे एव प्रथ- माया विधानात् लकारणानभिधानात् तौयापत्तश्च कृत्तद्धि- तानां संख्यावाचकत्वानियमेन संख्याभिधानानभिधानाभ्यां प्रथ- मालतोयादिव्यवस्थायाः कत्तु मशक्यत्वाञ्चेत्याकरे स्पष्टम् । ते च लकाराः लट् लिट् लुट् लट् लेट् लोट् चेति टकारत: षट्, लङ् लिङ् लुङ् लुङ्चेति ङितश्चत्वार इति दशविधाः । तत्र लेटो वैदिकप्रयोगमात्रविषयता इतरेषान्तु सर्वप्रयोगविष- यता। तेषाञ्च प्रत्येक लक्षणन्तु वक्ष्यमाणतत्तदर्थविशेषवाचित्वे सति लकारादेशत्वम् । अर्थविशेषाश्च सूत्रविशेषादवगन्तव्याः । हरिणाऽपि सङ्खपण तेषां कतिचिदर्थाः संग्रहीताः । यथा,- “वर्तमाने परोक्षे खो भाविन्यर्थे भविष्यति । विध्यादी प्रार्थनादौ च क्रमाउञया लड़ादयः ॥ यो भूत प्रेरणादौ च भूतमात्रे लङादयः । सत्यां क्रियातिपत्तौ च भूते भाविनि लुङ स्मृतः ॥ इति । एतेषाञ्चादित्वमुद्देशक्रमेण बोध्यम् ; अन ख इत्यस्य परोक्षे भूते भाविनि चान्वयः । तथा च लटो वर्तमानोऽर्थः "वर्तमाने लट्" इति सूत्रात् वर्तमानत्वञ्चारब्धापरिसमाप्तत्वं प्रयोगसमान- - शब्दार्थरत्नम् - कालौनत्वं वा बोध्यमधिश्रयणाधःश्रयणपर्यन्तकाले लट्प्रयो- गात्। तच्च क्रियान्वयि "क्रिया भेदाय कालस्तु” इत्युक्तोः आत्मा- स्ति पर्वतास्तिष्ठन्तोत्यादी तु तत्तत्कालिकक्रियाणामनित्यतया तद्दिशिष्टे सत्तादौ वर्तमानादिकालान्वयः । उक्तञ्च भाष्थे,-"इह भूतभविष्यवर्तमानानां राज्ञां क्रियास्तिष्ठतेरधिकरणम्” इति । (क्रियाः) तत्तत्कालसम्बन्धरूपाः तिष्ठतेः फलरूपसत्ताया अधिकरणमित्यर्थः । हरिणाप्युल्लम- “परतोभिद्यते सर्वमात्मा तु न विकल्पाते। पर्वतादिस्थितिस्तस्मात् पररूपेण भिद्यते ॥ इति । (आत्मा) वरूपम् (न विकल्पाते) इदमेतदात्मकं न वेति न सन्दिह्यते सन्देहाभावादेव भेदस्य सुदूरपराहतत्वात् खरूपात न भिद्यते इति फलिताथस्तस्मात् स्वरूपतो भेदाभावादेव (पर- रूपेण) कालक्रियाखरूपेण (पर्वतादिस्थितिः) भिद्यतइत्यर्थः। लिटोऽनद्यतनभूतत्वं पारोक्ष्यञ्चार्थः तच्च क्रियान्वयि। अन- द्यतनभूताधिकार “परोक्षे लिट्” इति सूत्रात् अनद्यतनत्वञ्च प्रयोगाधिकरणदिनावृत्तित्वं भूतत्वञ्च वर्तमानध्वंसप्रति योगित्वं, पारोक्ष्यन्तु साक्षात्करोमोत्यादिज्ञानाविषयत्वं ; यद्यपि पपाचेत्यादौ शाब्दबोधे नैतस्य भानमानुभविकं तथापि तदयो- ग्यक्रियादविव लिटः सामर्थ्य, तेन साक्षात्कृतव्यापार न लिट- प्रयोगः । उत्तमपुरुषे लिट्प्रयोगस्तु चित्तव्यासादिनेत्याकर स्पष्टम्। लुटोऽनद्यतनभावित्वमर्थ: “भविष्यदृधिकार अनद्यतने लुटू' इति सूत्रात् भावित्वञ्च वर्तमानप्रागभावप्रतियोगित्वं, तेन मध्याह्नादौ भाविनि भवितेति न प्रातः प्रयोगः । लूटो भविष्यत्वमात्रमर्थः “सृट् शेषे च” इति सूत्रात् नेन भविष्यतीत्यादौ भविष्यत्सामान्यार्थावगमः ।
८८ तथा शब्दार्थरत्नम्। लेटो विध्यादयोऽर्थाः “लिङथै लेट्" इति सूत्रात् जोषिष- दित्यादिप्रयोगे हि विध्यर्थावगमः। लोटः प्रार्थनादयोऽर्थाः लिङर्थान् विध्यादौनभिधाय "लोट च" इति सूत्रेण विध्याद्यर्थेष्वेव तस्य विधानात्, "आशिषि लिङ्लोटौं' “प्रार्थनातिसर्गप्राप्तकालेषु कल्याच” इति सूत्राभ्याम् आशीरादयोऽपि लोडा वेदितव्याः । सुखं ते भवत्वित्यादौ च अप्राप्तप्राप्तीच्छारूपाशीर्वादो धात्वय विषयतयान्वेतीति बोध्यम् । लडोऽनद्यतनभूतत्वमर्थः, भूताधिकार “अनद्यतने ल” इति सूत्रात् तेन प्रातर्भूतवस्तुनि मध्याह्नादावभवदि- त्यादिन प्रयोगः । लिडो विध्यादयोऽर्थाः । “विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्न- प्रार्थनेषु लिङ्” इति सूत्रात् तत्र प्रवृत्त्यनुकूलव्यापारो विधिः अनुकूलत्वञ्चात्र प्रवृत्तिजनकतावच्छेदककोटिप्रविष्टत्वेनैव ग्राहं, तेनेष्टसाधनत्वमेव विधिरिति फलितम् । प्रवृत्तिं प्रतीष्टसाधनता- ज्ञानस्यैव हेतुत्वेन तत्कोटिप्रविष्टतया इष्टसाधनत्वस्यापि तऽतु- त्वोपगमात् प्रवर्तकत्वम्। विधिवाक्यस्य प्रवत्तं कत्वन्तु तद्बोध- जनकत्वादिति विवेकः। कृतिसाध्यताज्ञानस्य प्रवर्तकतया कतिमाध्यताया लिङर्थत्वापत्तावपि कृतिसाध्यतायाः प्रमाणा- न्तरगम्यतया वैदिकलिङा बोधयितुमशक्यत्वात् न तदर्थत्वम् । द्दिष्टासाधनत्वज्ञानन्तु देषाभावेनान्यथासिद्धतया न प्रवर्तक- मिति द्दिष्टासाधनत्वस्य न तथात्वम् । उक्तञ्च मण्डनमित्रैः, “पुंसां नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्तकः । प्रवृत्तिहेतु धर्मच प्रवदन्ति प्रवर्तनाम् ॥ इति । तेन “समुद्रन तरेत्” इत्यादी लक्षणयैव कृतिसाध्यत्वं “परदा- रान्न गच्छेत्” इत्यादौ च लक्षणयैव विष्टासाधनत्वं लिडोपस्थाप्य - शब्दार्थरत्नम् । नजा निषेध्यते इत्यवधेयम् । यजेतत्यादौ च इष्टसाधनताश्रयो याग इति बोधः, इष्टञ्चात्र तत्तत्कामादिपदसहमभिव्याहारे कामनाविषय एव ग्राह्यस्तदसमभिव्याहारे तु विश्वजिन्यायेन स्वर्गादिफलं वेदे, लोके तु यथायथमिष्टं फलं ग्राह्यमितिबोध्यम् । निमन्त्रणमावश्यकक्रियासु प्रवर्तनम्, आमन्त्रणं पुनः कामचा- रानुज्ञा, सा चान्यत्र प्रवृत्तस्य तत्प्रवृत्तिप्रतिबन्धेन स्वाभिलषित- विषये प्रवर्तना। अधीष्टं सत्कारप्रयोज्यप्रवृत्त्यनुकूलो व्यापारः । अत्र च लिङः प्रवत्तनात्वेनैव सर्वत्र शक्तिस्तेन तथैव बोधः, न तु शाब्दबोधे निमन्त्रणवादिरूपेण भानं मानाभावादनुभवाभा- वाच, सूत्रे तु तेषां पृथग्ग्रहणं प्रवर्त्तनाया एव विषयभेदेन तथाव्यवहतं व्यताया उपदेशार्थमिति बोध्यम्। यथोक्तं हरिणा,- "अस्ति प्रवर्तनारूपमनुस्यूतं (रूप) चतुर्व पि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ॥ न्यायव्युत्पादनार्थं वा प्रपञ्झर्थमथापि वा। विध्यादौनामुपादानं चतुर्णामादितः कृतम् ॥ इति । एवञ्च भुञ्जीत भवानित्यादौ इष्टसाधनं भवत्कत के भोजन- मित्यादिरीत्या निमन्त्रणामन्त्रणादौ बोधः। संप्रश्नः ज्ञाप- नेच्छा ज्ञानञ्च प्रयोक्त, निष्ठं तस्याश्च विषयतया धात्वर्थेऽन्वयः ; किं भोस्तर्कमधीयौथा इत्यादौ त्वत्कत्र्तकतर्काध्ययनं मज्ज्ञा- नानुकूलव्यापारेच्छाविषय इति बोधः ; किंशब्दस्तु जिज्ञासा- द्योतकः । प्रार्थनं स्वाभिलषितविषये प्रवर्तनं तच्च देहि याहोत्याद्यभिलापादिरूपं विषयतया च तस्य धात्वर्थेऽन्वयः ; अभिलायादेरपि अभिलप्यमानविषयत्वस्वीकाराबायोग्यता। "हेतुहेतुमतोर्लिङ् इति सूत्रविहितलिडो हेतुत्वं जन्यत्वञ्चार्थ:- तचोभयमपि क्रियान्वयि, तेनोभयक्रियापदसमभिव्याहार एव शब्दार्थरत्नम्। 22 तत्प्रयोगः ज्ञानं चेद्भवेत् सुखं भवेदित्यादी ज्ञानभवनं सुख- भवनजनकं ज्ञानभवनजन्यं वा सुखभवनमित्याकारकबोधः । आशीलिङः पुनराशौरथः, आशीश्चोता तस्याश्च विषयतया धात्वर्थे ऽन्वयः, आशीच प्रयोक्त निष्ठा बोध्या। तेन सुखं ते भूयादित्यादौ भवत्सम्बन्धिमुखकर्त्त कभवनं मदिच्छा- विशेषविषयः। "भूताधिकार लुङ्” इति सूत्राच लुङो भूतसामान्यमर्थः स्तेन प्रातर्भूते पूर्वदिनभूते च मध्याह्नादौ अभूदित्यादिप्रयोगः । लुडो भूतत्वं भविष्यत्त्वं जन्यजनकत्वञ्चार्थः। “लिङ्- निमित्त लक्रियातिपत्तौ" इति सूत्रात् लिनिमित्त हेतुहेतुमद्भावः, सच्च सृङा द्योत्यायां धात्वनिष्पत्तावेवा- वेति, एवञ्च लिङ्वत् लुडपि क्रियाहयप्रयोगे एव प्रयुज्यते, अन्यथा तयोः हेतुतादिबोधनासम्भवात्। तथा च वह्निश्चेत् प्राज्वलिष्यदोदनमपक्ष्यदित्यादौ वयाश्रयकप्रज्वलनानिष्पत्ति- प्रयोज्या ओदनकर्मकपाकानिष्पत्तिरिति बोधः। अत्र धातू- नामेव तदनिष्पत्तौ लक्षणा; लुङस्तु तत्तात्पर्य्यग्राहकत्वं तेन न क्रियामुख्यविषेष्थकत्वहानिरित्यवधेयम् । लड़ादीना- मेष्वर्थे षु शक्तिलक्षणा पुनस्तत्तदर्थे षु सूत्रवार्तिकाद्युक्त - विति बोध्यम् । तथा हि "लट् स्म" इत्यादिना शब्दविशेष- योगेन लड़ादीनां भूतत्ववाचकता क्वचिच्च प्रकरणादिवशात् लड़ादीनां वर्तमानसामीप्यादिवाचकता, यथा कदागतो. ऽसौति प्रश्ने अयमागच्छामोत्यादौ। क्वचिच्च आशंसाविषय- त्वेन लड़ादीनामपि वर्तमानभविष्यत्त्वादिवाचकत्वं, यथा "मामुपायंस्त रामः” इत्यादौ भवत्कर्तृकमाविमदुपयमनं मदि- च्छाविषय इत्येवं बोधः। एवं स्मरणविषये लुटोऽतीतत्व- मर्थः। अश्रद्धामर्षविषये च लडादेः कालसामान्यवाचकवं ४२ एव- शब्दार्थरत्नम्। बोध्यम्। तथा तात्पर्यवशात् लिङा सामर्थ्य हेतुकक्रिया- योग्यताध्यवसायोऽर्थों बोध्यते ; तस्यापि विषयतयैव क्रियाया- मन्वयः, यथा “समुद्रमपि तरेत्” इत्यादी समुद्रकर्मकतरणं सामर्थ्य वत्तया सम्भावनाविषय इत्येवं बोधः। “लोडर्थ लक्षणे च" इत्यादिना विहितलटः प्रषादिविषयलक्षणमर्थः, लक्षणञ्च ज्ञापनं, प्रेरणाविषयक्रियायान्तु ज्ञाप्यत्व वाक्याथ मर्यादया भासते, यथा गुरुश्चेदायाति भवानधीयोत इत्यादौ भवत्कर्तृक- मिष्टसाधनाध्ययनं भाविगुर्बागमनज्ञाप्यमिति बोधः । मिच्छार्थकधातूपपदेऽपि लिङो विषयत्वमर्थ : ; इच्छामि त्वं गच्छेरित्यादौ त्वत्कत कगमनं मदिच्छाविषयः इति बोधः । "कामप्रवेदन” इति विहितलिङस्तु इच्छाविषयत्वेन वाक्यप्रति- पाद्यत्वमर्थ स्तेन कामो मे त्वं हरिं नमरित्यादी हरिकर्मक- त्वत्कर्त कनमनं मदिच्छाविषयत्वेन “कामो मे इति" वाक्य- प्रतिपाद्य इति बोधः। एवमन्येषामपि लकारविशेषार्था- नामन्वयस्वरूपादिकञ्च तत्तत्सूत्रव्याख्यानादौ द्रष्टव्यम् । विस्तरभयान्नेह प्रपञ्चितम् । इदानीं कृतो निरूप्यन्ते। कतो हि नामस्वान्तत्वेन नाम- संज्ञानिमित्तीभूता धातुप्रकृतिकाः प्रत्ययाः "कृत्तद्धितसमा- साच" इति सूत्रेण कदन्तानां नामसंज्ञाविधानात् “धातोः" इत्यधिकार विहितानां “कदति”इति सूत्रेण तिभिन्न प्रत्य- यानां कृत्वावगतेश्च । अत्र प्रत्ययपदञ्च प्रकृत्यु त्तरविधीय- मानपरं न तु अर्थबोधकपरं, तेनोणाद्यन्तानां रूढत्व- पक्षेऽपि न तेषां कत्त्वहानिः, कदधिकार एव तेषां विधानेन कत्त्वाभ्यु पगमात् । परन्तु उणादीनामवयवशक्त्याऽर्थ बोधकत्व सर्वत्र सर्बेर्नाङ्गोकतमित्येव विशेषः। तथा हि शकटाचार्येण 'नाम च धातुजमाह निरुतो" इत्युक्तो नाममात्रस्य धातु- शब्दार्थ रनम्। २३ %3B - जन्यत्वादरेण कदन्तानामिव उणाद्यन्तानामपि प्रकृतिप्रत्यय- विभागेन व्युत्पत्तिपक्षोऽवलम्बितः ; पाणिनिनापि तत्साधु- त्वाभ्यनुज्ञानार्थं स्वशास्त्र “उणादयो बहुलम्" इति सूत्रण सामान्य नैषामधिकारात् वर्तमानार्थकता प्रदर्श्य “भूतेऽपि दृश्यन्ते" इत्यनेन क्वचिद्भ तभविष्यदर्थकता दर्शिता, दर्शिता च "ताभ्यामन्यत्रोणादयः” इत्यनेनापादानसम्प्रदानातिरिक्तकार- कसामान्यार्थकता। तत्र यदि उणाद्यन्त ष्ववयवशक्तिर्नाङ्गी- कता स्यात् स्यादेव तदा कालकारकरूपतदर्थानामनन्वयः, धातूपात्तव्यापार एव तेषामन्वयाभ्युपगमात् ; अन्यथा तद्धिता- न्तोपस्थाप्यक्रियायामिव नामोपस्थाप्यायां तस्यां तदन्वयासम्भ- वात् तेषां तत्तदर्थकताकथनमनर्थ कं स्यात् । अत एव च तद्- योग कारकादिप्रयोगो दृश्यते यथा,- "राघवस्य ततः कार्य कारुर्वानरपुङ्गवः । इत्यादि। एवं उणादयोऽव्युत्पन्नानि प्रातिपदिकानौत्युक्त स्तदन्तानां रूढ़त्वमपि तथा च तेषां रूढत्व यौगिकत्वञ्च स्वीकार्यमर्थ- विशेषेण व्यवस्थासम्भवेनोभयसामञ्जस्यसम्भवात्। तथा च कारुप्रभृतयः कारकाद्यर्थे यौगिकाः, रूढाः, पुनः शिल्पि- न्यर्थे इति व्यवस्था, अत एव धरख्यादिकोषे तेषामुभयार्थ- कताङ्गोकता “कारः कारकशिल्पिनोः" इत्युक्तः । तुमुन्नादौनामपि नामत्वमिष्टमेव ; परन्तु “कन्भेजन्त” इति सूत्रेण मान्त जन्तकदन्तानामव्ययसंज्ञाविधानादव्ययत्वं, तथा सत्ववाचित्वाभावादपि तेषां तथावं लिङ्गकारकत्वायोगेन सत्त्ववाचित्वाभावाभ्यु पगमात्। अत एव हिरुगाद्यर्थानामिव तदन्तार्थस्य धात्वर्थे साक्षादन्वयेऽपि न क्षतिः, अव्ययाति- रिक्तनामार्थ स्वैव धात्वर्थे साक्षादन्वयानभ्यु पगमात् । एवञ्च शब्दार्थ रत्नम्। तुमुनन्तादीनां वदन्तत्वात् नामसंजया सुबुत्पत्तौ “अव्यया- दामुपः” इत्यनेन सुपो लुगिति बोध्यम् । एवं कलक्षणे स्थितेऽधुना तदर्था निरूप्यन्ते। तत्र "कर्तरि कत्" इत्युक्त : असति विशेषविधाने निर्दिष्टार्थानां सर्वेषां कृतां कर्तवार्थ : ; तत च धात्वर्थ स्व विशेषणतयैवा- न्वयः, “सत्वप्रधानानि नामानि इत्युक्तो रसति बाधके प्रत्ययार्थ- प्रधानत्वाभ्युपगमाच्च। तत्र कर्ता आश्रयः, कर्तृशक्तिमान् वा बोध्यस्तदेकदेशे च आश्रयतायां कत्तुं शक्नौ वा निरूपितत्वसंस- र्गेण धात्वर्थस्यान्वय इत्युपेयम्। एवं कमार्थककदन्तेऽपि एक- देशान्वयः । सति तु विशेषविधाने कृतां तत्तदर्था एवावसेया, यथा “तयोरव कृत्यक्तखला" इत्यनेन कृत्यादीनां कर्मभावा- र्थकता। "भावे इत्यधिकारविहितानां घजादौनां भावार्थकता" इत्येवं जातीयकविधिविशेषबलादर्थविशेषावधारणम्। अवेदं बोध्यं,-प्रत्ययार्थानामन्येषां प्राधान्येऽपि कालसंख्येष्टसाधनवा- दौनां तदर्थानां सर्वैर्वादिभिर्विशेषणतयान्वयाभ्युपगमेन वदर्थ- कालेष्टसाधनवादीनांधात्वर्थे विशेषणत्वमेवोपेयते,“क्रियाभदाय कालस्तु” इत्युक्तः । ततश्च कालकारकाद्यन्वयानुरोधेनात्रापि धातुना साध्वरूपैव क्रियोपस्थाप्यते इत्युक्तम् प्राक् स्मर्त्तव्यम् । एवञ्च धातुना साध्यरूपक्रियोपस्थितावपि तदुत्तरविहितभावा- थेकघजादिभिः सिद्धरूपैव क्रियोपस्थाप्यते न तु भावलकार- वत् प्रवत्यर्थानुवादेन साध्यरूपक्रियोपस्थिति:, “दभिहितो भावो द्रव्यवत्पकाशते” इति भाथोक्तः । "सिद्धभावश्च यस्तस्याः स धजादिनिबन्धनः । इति । हयुक्तोश्च भावतव्यादिभिस्तु प्रवत्यर्थानुवादेन साध्यक्रियेवोपस्था- प्यते तेनाख्यात इव तत्रापि “क्रियायाः प्राधान्य नैव बोधः" इति कैयटोत प्रागुक्तमनुसन्ध यम् । “अव्ययकतो भावे इत्या- - शब्दार्थरबम्। दावपि साध्यरूपक्रियानुवादेन प्रत्यर्थबोधकत्वं तुमुनादीनां बोध्यम्,- "अव्यय कृतः इत्युक्तः प्रकृत्यर्थे तुमादयः । समानकत्त कत्वादि द्योत्यमेषामिति स्थितिः ॥” इति हर्युक्तः । न तु सिद्धरूपक्रियाबोधकत्वं पाकादौनामिव तद- न्तानां लिङ्गकारकत्वायोगेन सत्वभूतत्वासिद्धेः, अत एव च तेषां "सर्वस्य ।" इत्यधिकारे "नित्यवीप्सयोः" इत्यनेन हित्वं व्यव- स्थापितम्, आभोक्षणारूपनित्यत्वस्य साध्यक्रियाया एवौचित्येन घजन्तानां तदर्थवोधकत्वाभावात् पाकः पाक इत्यादिर्न प्रयोगः, प्रयोगश्च भोक्तुं भोक्तुं भुत्वा भुक्त्यादि । एतदभिसन्धायैव च हेलाराजीये “यथानकमपि वान्तम्" इति पठित्वा साध्यकि- ययोविशेष्य विशेषणभावसम्भवे बान्तार्थस्य तिङन्तार्थसाध्य- क्रियायां विशेषणत्वं दृष्टान्तितमित्यवधेयम् ; अन्यथा दृष्टान्त- दार्शन्तिकयोवैरूप्यापत्तेरिति दिक् । एवं वसामान्यार्थे प्रदर्शितेऽधुना केषाञ्चित् कविशेषाणा- मर्था निरूप्यन्ते। तत्र कृत्याः इत्यधिकृत्य खुलवचावित्यतः प्राक् विहितानां तत्र्यादीनां भावः, कर्म, प्रेषणादयो, योग्य- तादयश्चार्थाः ; “तयोरेव कृत्या" इत्याद्युक्तो: “प्रैषातिसर्गप्राप्त- कालेषु कल्याश्च” इति सूत्रात् अर्हे कृत्यचञ्च” इति सूत्रात् शकि लिङ् च इति सूत्राच्च । तत्र च कर्मरूपार्थे धात्वर्थो विशेषणं प्रैषादयः पुनर्धात्वर्थे एव विशेषणानोति विशेषः । तत्र प्रेष- प्रेरणा, प्रवृत्त्यनुकूलव्यापारः, स च इष्टसाधनत्वमेवेत्युक्तं प्राक् । अतिसर्ग: कामचारानुज्ञा सापि व्याख्याता प्राप्तकाल: विलम्बा- क्षमत्वं, तेनापि नियोगो द्योत्यते इति तदुत्तरं क्रियायां नियोग- प्रतीतिर्मानसौत्यवधेयम् । अर्हत्वं योग्यत्वं तदपि क्रियान्वयि । (शकि) शतावित्यर्थः । तेन तस्या अपि प्रयोज्यतया धात्वर्थेऽन्व- N + -- शब्दार्थरत्नम्। यात् तहिशेषणत्वम् । बोधस्तु गन्तव्यो ग्राम इत्यादौ प्रवर्तना- विषयगमनकम्माभिन्नो ग्रामइति, शयितव्यमित्यादौ इष्टसाधन- शयनानुकूला भावनेति बोधः। स्तुत्योदेव इत्यादौ च योग्य- स्तुतिकमाभिन्नो देव इति बोधः, बोदव्यो रथ इत्यादी शक्ति- प्रयोज्यवहनकम्माभिन्नोरथ इत्यादिरीत्या बोधः । अपर तु अह- शक्यादीनां कर्मादावभेदेनान्वयमिच्छन्ति ; तेषां मते पुनर्भावे अहर्थिककत्यानुत्पत्ताविष्टापत्तिरेव शरणमित्याकरे स्पष्टम् । एते पुन: सकर्मकाकर्मकधातुमेदेन कम्मभावार्थका इत्यवधेय- मेवमन्येऽपि कृतो भावकर्थिकाः व्यवस्थापनौया इति दिक् । "ख लटचौ” इत्यधिकारविहित लादीनां कर्तवार्थः, तदेकदेशे च धात्वर्थस्यान्वयः । तेन पचतौति पाचकः पत्तोत्यादौ पाककत्येवं बोधः। पचतीति विग्रह भावनाप्राधान्येऽपि नामार्थयोरभेदान्वयोपपत्तये कदन्ते तदैपरीत्यस्य अगत्याखौका- रेण वृत्तिविग्रहयोर्मिनाकारकत्वकल्पनात् । उत्ताञ्च हरिणा, "आख्यातं तद्वितकतोर्यत् किञ्चिदुपदर्शकम् । गुणप्रधानभावे च तव दृष्टो विपर्ययः ॥ इति । "कर्मण्यम्” इत्यादिना कर्मोपपदकधातूत्तरविहिताणादौमां कतैवार्थस्तन च उपपदमति इति वचनात् निर्विभक्तिककार- पदेन कट्योगविहितषष्ठयन्तपदस्य समास इत्यवधेयम् । पूर्वपदे हितोयोत्पत्तः प्राक् धातुमात्रेण समासे कांद्युपपदला- भावात् प्रत्ययानुत्पत्तः चर्मकारइत्यादौ चर्मणोऽपदवेन नलो- पानुपपत्तश्च उपपदसमासस्थले उत्तरपदे एव सुबुत्यत्तः प्रागेव समासखौकारात् “गतिकारकोपपदानां कृभिः समासवचनं प्राक् सबुत्पत्तः" इति वार्तिककता तथैवोक्तः अन्यथा कुम्भ- कार इतिवत् कुम्भस्य कार इत्यपि प्रयोगापत्त: अत एव चर्म- क्रौतोत्यादौ सर्वैरेव निबन्धृभिः क्रौतादिनाममात्रेणैव सुबन्त- - - शब्दार्थरत्नम्। चर्मपदस्य समासस्य स्वीकारेण ईबादिकमुपपादितम् । हरि- णाऽपि षड्विषसमासगणनायां सुबन्तस्य नाममात्रेण समासो- ऽप्य कविध इत्युक्तम् । यथा,- "सुपा सुपा, तिडा, नाना, धातुनाथ तिडां तिङा। सुबन्तेनेति च प्रोक्तः समासः षड्विधो बुधैः ॥ इति । “करणे यज” इत्यादिविहितणिन्यादीनां भूतकालः कर्ता चार्थः, तेन राजसूययाजोत्यादौ राजसूयकरणकातीतयाग- करणकव्यापाराश्रय इति बोधः, यागकरणकव्यापारस्य यज्यर्थ- तया यागे च राजसूयादेरभेदविशेषणतया यागकरणक- व्यापारऽपि राजसूयादिकरणकत्वौचित्यात् अरुणया पिङ्गाक्ष्य - त्यादाविव करणाभित्रविशेषणस्यापि करणत्वस्वीकारात् तेनाव करणोपपदत्वसम्भवात् णिनिप्रत्यय इति बोध्यम् । कर्मोपपदादिधातूत्तरक्किवादेर्भूतकालः कर्ता चर्थस्तेन पारदृश्वाऽग्निचिदित्यादौ तत्तत्कर्मकातीतदर्शनादिकतैति बोधः। एवमनुपपदधातूत्तरक्विबादेरपि भूतः कर्ता चार्थस्तेन यज्वेत्यादौ अतौतयागकर्नेत्यादिबोधः । निष्ठासामान्यस्य भूतोऽर्थः, तत्रापि तस्य सकर्मकाकर्मकधातु- भेदेन कर्म भावश्चार्थः तयोरेवेति प्रागुक्तसूत्रात् क्तवतोस्तु सर्व- त्रैव कत्र्तवार्थः कर्तरि कदित्युक्तः । तेन पक्कमन्त्रमित्यादौ अतो- तपाककमाभित्रमन्नं, देवदत्तेन भूतमित्यादौ च देवदत्तकर्तृ- कातौतभवनं, गतवान् भूतवानित्यादौ च अतीतगमनादि- कर्तेति बोधः, आदिकर्मणि विहितक्तस्यापि अतीतकालोऽर्थः क्रियाकूटात्मकक्रियायाः प्राधेषु क्रियाक्षणेषु भूतत्वसत्वात् तई तत्वमादाय समुदाये भूतत्वव्यवहारो विधानसामर्थ्यादेव भवति। एतज्ञापकाच्चान्यत्र तत्तदतीतक्षणमादाय क्रियाया- मतौतत्वव्यवहारो न भवतीत्यवधेयं, तथा तादृशतस्य कर्त्ताप्यर्थः 1 शब्दार्थरत्नम्। “आदिकर्मणि कः कर्तरि च” इति सूत्रात्। जीतस्तु धाती- रुत्तरवर्तितस्य वर्तमानोऽप्यर्थो विवक्षावशाच्च व्यवस्थया तत्तत्- कालान्वयः क्रियायामित्यवधेयम् । एवं “मतिबुद्धिपूजार्थेभ्यश्च" इति सूत्रेण विहितक्तस्य चकारणानुतासमुच्चायकेन सूचितस्य । "शौलितो रक्षितः क्षोत आक्रुष्टो जुष्ट इत्यपि। रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि । हृष्टतुष्टौ तथा क्रान्तस्तथोभी संयतोद्यतौ। कष्ट भविष्यतीत्याहुरमृताः पूर्ववत् स्म ताः ॥ इति । शौलितादिपदघटकतस्य च वर्तमानोऽप्यर्थ इति। गत्यर्था- कम्र्पकनिषाद्युत्तरक्तस्य कर्ताप्यर्थस्तेन गतोभूत इत्यादी अतीत- गमनादिकर्तेत्यादिरीत्या बोधः, अनाकर्मकपदमत्यन्तासम्भा- वितकर्मकपरं, न त्वविवक्षितकर्मकपरं, तेन दत्तः भुक्ता इत्यादी न कर्तृबोधः ; अत एव भाथे “भुक्ता ब्राह्मणा" इत्यादी भाव- कान्तादर्शादित्वादच्प्रत्यय इत्यभिहितम्। तथा गत्यर्थ- भित्रसर्वसकर्मकधातुभ्यः कर्मसत्त्वे घबादिप्रत्ययवत् भावे न तप्रत्ययः गत्यर्थेभ्यस्तु कर्मसत्त्वेऽपि भावे क्तस्तेन “भ्रान्तं देश- मनेकधा" इति सिद्धम्। कतपूर्यादौ तु पूर्वम् कमावि- वक्षयैव भावे तप्रत्यये पश्चात् वृत्त्युत्पत्त्यनन्तरम् कर्मयोग- इत्युक्तम्। तथा गत्यर्थादिधातूत्तरक्तस्य सकर्मकाकर्मकभे- देन कर्मभावावस्यौँ। “तोऽधिकरणे च ध्रौव्यगत्यर्थप्रत्य- वसानार्थेभ्यः” इति विहितक्तस्याधारोऽर्थश्चकाराद् यथाप्राप्त "कर्मकर्तृभावा अर्था बोध्याः” सेन भोजनार्थकादिधानाभाव- नाप्राप्तत्वात् न कर्तरि क इत्यवधेयम् । लकारादेशानां कसुकानजादौनां स्थानिसमानार्थकता अन्वयस्तत्र धात्वांशे कालस्य विशेषणतया कादश्च विशेष- तयेति विशेषः। तथा शशानचोरप्रथमासामानाधिकरखे.
शब्दार्थ रत्नम् । साधुत्वमिथते, इथते च कचित् तत्सामानाधिकरखेऽपि साधु- त्वम् इतरक्रियायां स्वप्रकृत्यर्थक्रियाया लक्षणत्वहेतुत्वद्योतने सत्येव “लक्षणहेत्वोः क्रिययोः” इति सूत्रात् । तत्र लक्षणत्वं ज्ञापकत्वमितरव्यावर्तकत्वमिति यावत् हेतुत्वमुद्देश्यलं कार- णत्वञ्च। एते उभे अपि शनादिद्योत्ये संसर्गमर्यादया इतर- क्रियायामन्वयिनी। तथाःच “यवनाः शयाना भुञ्जते इत्यादी शयनकट यवनकार्नुकं भोजनं शयनलक्ष्यमिति, अजयन् वसती- त्यादौ अज्जनकट कर्ट कोऽज्जनोद्देश्यको वास इति, हरिं स्तुवन् मुच्यते इत्यादी हरिकर्मकस्तवनकर्तृकर्तृ को हरिस्तुतिहेतुको मोक्ष इत्येवं रोत्या बोधः ; अत्र च सर्वत्रैव वर्तमानः कालः क्रियान्वयौ । वसन् दद”त्यादौ पुनर्न शत्रर्थ कालान्वयः तदन्व- यिवासस्य प्रधानौभूतदर्शनक्रियायां लिडादिना विरुद्धकालबो- धनेन प्रधानानुरोधेन गुणभूतस्य कालबोधनौचित्यात् ; अत एव "धातुसम्बन्धे प्रत्ययाः" इत्यधिकार धात्वर्थ सम्बन्धे सर्वेषां प्रत्य- यानां विरुद्धकालवाचिनामपि स्वार्थ कालबोधकतामन्तरेणैव साधुत्वाभिधानं सङ्गच्छते इत्याकरे स्पष्टम् । "तुमुणवु लौ क्रियायां क्रियार्थायाम्” इति विहिततुमुण्- बुलोर्मध्ये तुमुनोऽव्ययतया स्वप्रकृत्यर्थसाध्यक्रियैवार्थः; "प्रक- त्यर्थे तुमादयः” इत्युक्तोः खुलस्तु कत्र्तवार्थ : “कर्तरि कद इत्युक्तः । ताभ्याञ्च द्योतितमुद्दे श्यत्वमितरोपपदरूपक्रियायाम- वेति । तथा च "कृष्णं द्रष्टुं याति” इत्यादौ कृष्णकर्मकभावि- दर्शनोद्देश्यकतत्समानकर्तृकं यानमिति बोधः । "समानकर्ट कवादि द्योत्यमेषामिति स्थितिः" । इति हयुक्तोः “भविष्यति गम्यादयः” इत्यधिकारेण तुमुन्ना वित्व- बोधकतासिद्धेश्च। कृष्ण दर्शको याति इत्यादौ तु कृष्णदर्शन- १०२ शब्दार्थरतम्। कलं तु खण्ड शक्त्या उपस्थापितार्थ योर्योगनार्थ बोधकत्वं', यथा पाचकादेः, तब प्रकृतिप्रत्ययाभ्यां खावयवाभ्यामुपस्थापितयोः पाकतत्क:ोंगेन पाककर्तृरूपार्थबोधनात् । एवं राजपुरुषा- देरपि, तत्रापि स्वावयवाभ्यां राजपुरुषशब्दाभ्यामुपस्थापितयोः राजसम्बन्धिपुरुषयोर्योगेन राजसम्बन्धिपुरुषबोधनात् । योग- रूढ़त्वं तु तथाभूतयोगनार्थबोधकत्वे सति समुदायशक्त्या विशिष्टार्थबोधकत्वं, यथा पङ्कजादेः। तत्र हि पशजनिकरूप- यौगिकार्थस्य अवयवैरुपस्थापनात् समुदायेन च पद्मत्वाव- च्छिन्नस्योपस्थापनात् विशिष्टार्थबोधनमिति विवेकः तत्र रूढ्यादीनामवान्तरभेदा विस्तरभवान लिखिताः। सिद्धान्ते कत्तद्धितसमासादिवृत्तौ समुदायशक्तिस्वीकारेण रूढत्वं योग- रूढ़वं वेत्याकरे द्रष्टव्यम् । एवञ्च रूढ़लक्षकयोगरूढ़भेदात् वैविध्यमेव नानामिति बोध्यम् । तत्र नाम्नां जात्यादयो वक्ष्यमाणा एकेकाः समुदिता वा सामान्यतोऽर्था वेदितव्याः। उक्तञ्च हरिणा, “एक दिकं त्रिकञ्चैव चतुष्कं पञ्चकं तथा। नामार्था इति सर्वेऽमी पक्षाः शास्त्र व्यवस्थिताः" ॥ इति । अत्र एकादिपञ्चकपर्यन्ताः नामार्थाः मतभेदेन, शास्त्रादौ व्यवस्थापिता इत्युक्तम्। तत्र अन्वयव्यतिरेकाभ्यां जातेः सर्वत्र सत्त्वात् तया च व्यक्त्याक्षेपेण तद्बोधसम्भवात् जातिरेवैका नामार्थ इत्येकनामार्थवादिपक्षः । जातिश्च सर्वसाधारणी वक्ष्य- माणलक्षणा बोध्या, तेन न गमनादिशब्दानां तथालव्याघातः । अथ वा व्यक्तीनामानन्त्यात् व्यभिचाराच्च तत्र शक्तिग्रहस्य दुःश- क्यत्वेऽपि जातरुपलक्षणतया तदनुगमसम्भवन तत्र शक्ति- अहस्य सुशक्यत्वात् ज्ञात्युपलक्षितव्यक्तिरेव नामार्थइत्यप्येक- नामार्थवादिपक्ष.। उक्तन:- - शब्दार्थ रत्नम् । १०३ "आमन्त्येऽपि हि भावानामेकं कृत्वोपलक्षणम् । शब्दः सुकरसम्बन्धो न च व्यभिचरिष्यति" ॥ इति । (एकम्) अनुगतं जात्यादिकम् (सुकरसम्बन्धः) सुशक्यशक्तिग्रहः, सन हेतुः (न च व्यभिचरिष्यतीति) व्यभिचाराभावादित्यर्थः । जातिविशिष्टा व्यक्तिरेव वा नामार्थः। अत्र पक्षे शक्यताया एकधर्मावच्छिन्नत्वाद क्यमिति बोध्यम् । इत्येवं विधा भेद एकनामार्थवादिपक्षस्य । दिकम् । जातिय॑क्तिश्च पृथक् नामार्थः, तत्रापि मतदयम् । जातिव्यक्त्योः पर्यायेणैव नामार्थता, तेन विकल्पेन कदाचित् जातेरेव कदाचिच्च व्यक्तीर्बोध इत्येकं मतम् । तयोः समुच्चयेन बोधेऽपि तात्पर्यवशात् कदाचित् जातेः कदाचिच्च व्यनोविशेष्य- वमेकपदोपात्तत्वेन तथालौचित्यात् । तेन गौर्नित्या गौश्चलती- त्यादी विनैव लक्षणां नित्यत्वान्वये जातः, चलनान्वये च व्यक्तविशेष्यत्वमुपपद्यते इत्यपरम्मतम् । उक्तञ्च भाट्टैः- "नियोगेन विकल्पेन हे वा सह समुच्चिते । सम्बन्धः समुदायो वा विशिष्टा वैकयेतरा" ॥ इति । अस्थायमर्थः (नियोगेन) जातिरेव तदुपलक्षितव्यक्तिरेवेति नियमनकैव नामार्थः। (विकल्पेन हे वा) पयायेण जाति- यतिर्वा हे एव नामार्थो । (सह समुच्चिते) मिलिते ते हे एव पृथक् शक्ये। (सम्बन्धः) जातिव्यक्त्योविशिष्टबोधहेतुः संसर्ग- स्तयोः (समुदायो वा) नामार्थस्ते च त्रय एव पृथक् शक्याः । (एकया) जात्या (विशिष्टा) (इतरा) व्यक्तिरेव नामार्थः । अयञ्च पक्षः एकनामार्थतापक्षेऽभिहितः, अत्र च हे वा विकल्पनेति पक्षस्यैव व्याकरणे ग्राह्यता शब्दकौस्तुभादौ दर्शिता, तेन सरू- पैकशेषे व्यक्तिमानपक्षालम्बनं जातावेकवचनमित्यादौ जाति- मात्रार्थस्य ग्रहणमिति बोध्यम् । - १०४ शब्दार्थ रत्नम्। त्रिकन् । लिङ्गसहितं प्रागुताहयमित्यर्थः लिङ्गखञ्च प्राकृतगु- णगतावस्थात्मको धर्म एव तविशेषश्च पुं नपुंसकत्वादिः । तथा हि सर्वेषां त्रिगुणप्रकृतिकार्यतया शब्दानामपि तथात्वेन गुण- गतविशेषाच्छब्देषु लिङ्गविशेष इति कल्पाते, स च विशेषः शास्त्र इस्थमभ्यधायि । विकृतसत्वादीनां तुल्यरूपेणावस्थानात् नपुंसकत्वं सत्वस्याधिक्ये पुंस्त्वम् रजआधिक्ये स्त्रौत्वमिति । एवञ्च लिङ्गस्य शब्दधर्मवेऽपि शब्देन सहाभेदारोपात् असति बाधके अर्थेऽपि साक्षात् तत्पारतन्त्राण वा सर्वत्र तस्य विशे- षणत्वं', शाब्दबोधे शब्दभानस्येष्टत्वेन शब्दस्य नामार्थतावत् तद्गतलिङ्गस्यापि नामार्थ तौचित्यात् । "न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते” इति प्रागुक्त "शब्दोऽपि यदि मैदेन विवक्षा स्यात् तदा तथा । नो चेत् श्रोत्रादिभिः सिद्धोऽप्यसावर्थे ऽवभामते” ॥ इति हयुक्तोश्च शब्दानां नामार्थतावगतः । (तथा) प्रातिपदिकार्थः । अभेदविवक्षायां तु (श्रोत्रादिभिरेव सिद्धः) ज्ञातः सन् (अर्थ) प्रकारतया भासते इति तदर्थः । युक्ताञ्चैतत्, पुंलिङ्गः शब्द इति व्यवहारात् । “खमोनपुंसकात्" इति सूत्रे शब्दस्यैव नपुंसक- त्वव्यपदेशात् दारानित्यादौ पुंस्वान्वयबाधाच लिङ्गस्य शब्द- धर्मत्वम्, अन्यथै तेषु लिङ्गाद्यनन्वयापत्तेर्व्यवहारसूत्रनिर्देशास- त्यापत्तेश्च। तथा अर्थभेदाच्छब्दभेदवत् लिङ्गभेदादपि शब्द- भेद इति कल्पाते, प्रागुक्तधर्मविशेषरूपभेदकसद्भावात् । उक्तञ्च भाष्ये,- “एकार्थे शब्दान्यत्वाद् दृष्टं लिङ्गान्यत्वम्" ॥ इति । एवञ्च तटादिशब्दानामनेकलिङ्गत्वव्यवहारः समानानुपूर्वीक- खेनैव वस्तुतस्तेषां भिन्नानामिव भिन्नलिङ्गवमिति दिक् । एकादि- : - - शब्दार्थरत्नम्। १०५ विकपर्यन्तनामार्थ खौकत्तुंमते संख्याकारकाणां विभक्त्यैवोप- स्थितिरिति द्रष्टव्यम् । चतुष्कम् । संख्यासहितं जात्यादित्रिकमित्यर्थः। तत्र च नामार्थ संख्यानुवादेनैव विभक्त्यर्थ संख्याबोधानान्यतरवैयर्थं “सम्भेदे नान्यतरवैयर्थ म्" इत्युक्त: । यत्र च वृत्तिशब्देषु विभ- तिविशेषो नास्ति तत्र यौगिकत्वयोगरूढ़त्वखौकोंमतेऽपि संख्याविशेषानवगमात् संख्यात्वेनैवैकत्वसंख्याया नामार्थ तया तथैव तत्र बोधः, न तु हिवादेरिति बोध्यम् । यथोक्त हरिणा, "अभेदैकत्वसंख्याया वृत्तौ भानमिति स्थितिः । कपिञ्जलालम्भवाक्ये त्रिवं न्यायाद् यथोच्यते” ॥ इति । "कपिचलानालभेते" इति वाक्ये बहुत्वसंख्यायां प्रथमोपस्थित- त्वात् वित्वस्यैव यथा ग्रहणं, तथा संख्यायां प्रथमोपस्थितत्वादे- कत्वग्रहणमिति फलितार्थः; वृत्तौ नामार्थ संख्यैवाभेदसंख्येति व्यपदिश्यते, नास्ति भेदो विशेषग्रहो यस्या इति व्युत्पत्तेः । उताञ्च वाक्यपदीये,- “भेदानां वा परित्यागात् संख्यात्मा स तथाविधः । व्यापाराज्जातिभागस्य भेदापोहेन वर्तते। अग्रहोतविशेषेण यथा रूपेण रूपवान् । प्रख्यायते न शुक्लाति भेदापोहस्तु गम्यते” ॥ इति अस्यायमर्थः। (भेदानाम्) विशेषाणामेकत्ववादौनाम् (परि- त्यागात्) अग्रहात् तद्रूपात् व्यापारात् (संख्यात्मा) संख्या- स्वरूपः (सः एकत्वादिः) (तथाविधः) अभेदैकत्वपदव्यपदेश्य इत्यर्थः । सः कः ? इत्यपेक्षायामाह (जातिभागस्य) एकत्वत्वादेः (भेदापोहेन) विशेषाग्रहेण वर्तते य इति शेषः। तत्र दृष्टान्तः यथा-"रूपवान् घटः” इत्यादौ रूपत्वादिनैव रूप- बोधः न शुक्लत्वादिना तथा संख्यालेनैव एकत्वबोध इति : १०६ शब्दाथ रत्नम्। समुदितार्थ: । तथा च विशेषधाप्रकारकप्रतीतिविषयसंख्यैव वृत्तौ नामार्थ: असति बाधके तु प्रथमोपस्थितत्वादेकवरूपैव तत्र सा गृह्यते इयमेव संख्यानुद्भूतावयवत्वेन मञ्जूषादी व्यव- हृता। अलुक्समासादौ च विभक्त्या विशेषरूपेण तदुप- स्थापनात् तथैव बोधः। पञ्चकम्। कारकसहितं चतुष्कमित्यर्थः । तदेतत् स्पष्टतया- ऽन्यत्रोक्तम्। "खार्थो द्रव्यञ्च लिङ्गच्च संख्या कमादिरेव च । अमौ पञ्चैव लिङ्गास्त्रियः केषाञ्चिदग्रिमाः ॥ इति चतुष्कादिमतहये विभक्तो निरर्थकत्वं द्योतकत्वं वेति बोध्यम् । "द्योतिका वाचिका वा स्युहि त्वादीनां विभकायः । स्यादा संख्यावतोऽर्थस्य समुदायोऽभिधायकः" । इत्युक्त्या विभक्त ोतकताया एव स्वीकारादिति । अत्र च जातिद्रव्ये न वैशेषिकमतसिद्दे जातिसामान्यादि वाचकनाम्नां वाच्यस्य द्रव्यानात्मकतया तत्र च जात्यभावनार्थ बोधानुपपत्तेः किन्तु पारिभाषिके एव। तत्र जाति म त्वत- लादिबोध्या ब्रह्मसत्तादिरूपा उपाधिसामान्यविशेषणधम्मादि- पदवाच्या व्यक्तित्तिधर्मविशेषः अनुगतैकाकारप्रतीतिजनकतया च तस्या एकत्वम्। “सम्बन्धभेदात् सत्तेव भिद्यमाना गवादिषु"। जातिरित्युच्यते इत्यादिप्रागुतवाक्यपदीयात् (सत्ता) ब्रह्मसत्त त्यर्थः । "सामान्यमेकत्वकरं विशेषश्च पृथक्त्ववत् । इति । "तुल्यार्थता हि सामान्यं विशेषश्च विपर्ययः” । इति चोक्त:। एकत्वकरमेकाकारप्रतीतिजनकमेवं तुल्यार्थता ऽपौति मञ्जूषा। एवञ्चाकाशादिपदानामपि सामान्यार्थ- शब्दार्थ रत्नम्। - कता तत्तदुपाधिभेदेन भिवासु आकाशव्यक्तिष्वनुगताकार- बद्धिजनकतयाऽऽकाशत्वजातिसिद्धेः । यथोक्ता हरिणा,- “संयोगिद्रव्यभेदेन कल्पितेषु पृथस्थितेः । तेषु देशेषु सामान्यमाकाशस्थापि विद्यते" ॥ इति द्रयन्तु व्यक्तिविशेषः लिङ्गसंख्याद्यन्वयि सत्त्वादिपदाभिधेयम् “वस्तू पलक्षणं यत्र" इत्यादिप्रागुक्तः। इत्येवं समान्यतो- नामार्था निरूपिताः, विशेषतस्तु कोषादौ द्रष्टव्याः । अथ नामनिरूपणानन्तरं नामादिघटितहत्तिनिरूप्यते । वृत्तिर्नाम अवयवशक्तिसहकतसमुदायसत्याऽर्थ विशेषबोधकः शब्दविशेषः “परर्थाभिधानं वृत्तिः” इति प्राचामुक्त:, परस्यावयवातिरिक्तस्यार्थस्य बोधसाधनं वृत्तिरिति तदर्थात् । शब्दार्थसम्बन्धरूपवृत्तिमत्त्वाच्च समुदायस्य वृत्तिशब्दवाच्यता। राजपुरुषादिवृत्तौ हि राजपुरुषादिपदं राजसम्बन्धिपुरुषे शक्तमित्याकारिका शक्तिधीरुपयते। तत्रावयवशक्तिलौकिकी समुदायशक्तिस्तु शास्त्रिकोति विवेकः। एवञ्चासति बाधक एवावयवशक्तिराद्रियते सति तु बाधके सा परित्यज्यते, अतः कृष्णसर्पादौ विनवावयवार्थबोधं विशिष्टजात्यादिबोधइत्य- वधेयम्। यथोक्तं वाक्यपदीये,- “पदवाच्यो यथा नाथः कश्चित् गौरखरादिषु। सत्यपि प्रत्यये ह्येवं समुदायेन गम्यते" ॥ इति । तथा जहत्वार्था तु तत्र व रूढ़ियंत्र विरोधिनी इत्युक्त : रूढ़ाववावयवार्थ त्याग इत्यवगम्यते । वृत्तौ च शास्त्रोतिरिक्त व शक्तिराहता । यथोक्त हरिणा,- "समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् । बहनां वृत्तिधमाणां वचनैरेव साधने ॥ स्थान्महगौरवं तस्मादेकार्थीभाव आश्रितः" ॥ इति । - १०८ शब्दार्थ रत्नम्। समास इति वृत्तिमात्रीपलक्षणं हेतोरविशेषात् ( भिन्ना) अतिरिक्ता पसजशब्ददृष्टान्तेन योगरूढ़त्वपक्षादरणमित्याकरे स्पष्टम् । बहनामित्यादेरयमर्थः वाक्ये राजापुरुषइत्यादी सुन्द- रादिविशेषणयोगः विभक्त्योपस्थापितखतन्त्रसंख्याविशेषावगमञ्च विशेष्यविशेषणपदवपरीत्यं पुरुषोराज्ञइत्यादि, इतरसम्बन्धि- योगश्च राज्ञः पुरुषोदेवदत्तस्य चेत्येवं रूपनानाविधविशेषाः वृत्तौ तु पुनस्तेषामभावेन तद्वारणाय तेषां वाचनिकत्वकल्पने गौरवं स्यात्, तस्मात्र(एकार्थोभावः)विशेष्यविशेषणावगा कोप- स्थितिजनकत्वम्, (आश्रितः) इष्यते इति। तदाश्रयणे च . राजादेः पदार्थं कदेशतया विशेषणान्वये एकदेशान्वयापत्ते रेव न तदन्वयः, एवञ्च “सविशेषणानां न वृत्तिः” इत्यादिवार्तिक न्यायमूलकम् । स्वातन्त्रणोपस्थितसंख्याविशेषस्यैवान्वयत्रीका- राच वृत्तौ तथात्वाभावेनाभेदकत्वसंख्यैव भासते नान्यसंख्ये- त्युक्तम्। एवमितरसम्बन्धियोगोऽपि स्वातन्त्रणोपस्थितिविर- हादेव निरसनीयः। अत एव देवदत्तस्य गुरुकुलमित्यादि- सिद्धये “अगुरुकुलादीनाम्” इति वाति कान्तरं द्रष्टव्यम् । हरिणा तु तत्रापि समुदायेनैव सम्बन्धस्वीकारेण तदपि वार्तिक न्यायमूलकमिति प्रतिपादितम् । यथा,- "समुदायन सम्बन्धो येषां गुरुकुलादिषु । संस्पृश्यावयवांस्तषु युज्यन्ते तहता सह ॥ इति अवयवसम्बन्धित्वादेवावयविसम्बन्धित्वमिति तत्तात्पर्य्यम्। खो- कृतञ्च तेनैव नित्यसापेक्षाणामेकदेशेऽप्यन्वयः, "अविग्रहा गतादिस्था यथा प्रामादिकर्मभिः" । इति प्रागुक्त वदता। अतएव वाक्यपदीये- "सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः प्रवर्तते। वाक्यवत् सा व्यपेक्षापि वृत्तावपि न होयते ॥ इति । - १०४ शब्दार्थरत्नम्। सामान्यतः सापेक्षाणामेकटेशान्वयेऽगत्या वाचनिकत्वमङ्गी- कृतम्। इन्हें तु वाक्ये चकारश्रवणं उद्भतावयवसंख्यावगमञ्च वृत्तौ तु न तथेति शक्त्यन्तरखीकारः समाहारहन्देषु समा- हारार्थरूपातिरिक्तबोधनात् शतान्तरमिति बोध्यम् । "चकारादिनिषेधोऽत्र बहुव्युत्पत्तिभन्नमम्" इति हय्यक्तः। अत्र च "समर्थः पदविधिः” इति सूत्रमप्यनुगुणसू पदनिमित्तकः विभक्तयादिरूपपदकार्योद्देश्यकश्च यो विधि- विहितः स सर्वोऽपि समर्थ इति सूत्रार्थः । तत्र समर्थः संसृष्टार्थ एकार्थ इति भाष्योतोत्तौ एकार्थबोधकत्वमित्यवगम्यते । समर्थाधिकार एव वृत्तीनां विधानात् सर्वेषामेव वृत्तित्वमित्य- वधेयम् । सा च वृत्तिश्चतुर्विधा, सनादिकृत्तद्वितसमासभेदात्। तत्र सनादयोधातवोऽतस्ते तिङादिरूपपदकार्योद्देश्यकाः । इतरे नामानः पदनिमित्तकाच तत्राप्ययं विशेषः कत्सामान्ये पद- निमित्तकत्वाभावेऽपि उपपदविहितकता तबिमित्तकतया तज्जातीयत्वात् कृतां पदनिमित्तकत्वमिति। अत्र च कृत् कदन्तः तहितस्तद्धितघटितसमुदायस्तन बढ़कधटिते बहु- गुडोभयकादौ नाप्रसङ्गः । समासश्च समस्यमानपदसमुदाय- विशेषः संपूर्बादस्यतेः संश्लेषार्थकात् कर्मार्थकघजा समास- पदस्य साधनादित्यवधेयम्। तत्र सनादिक्कती निरूपितौ तद्धिता वक्ष्यन्ते इदानीं समासोनिरूप्यते। तत्र समासत्वं नाम शक्तिसम्बन्धेन समास- पदवत्त्वम् एकार्थीभावापनपदसमुदायत्वं वा समस्यते संश्लिष्यते एकार्थीक्रियतेऽसाविति व्युत्पत्तेः। तत्र च पदं प्रत्ययमात्र- भिन्न ग्राह्यं, न तु विभक्तिमत्, तेन कत्तद्धितादौ न प्रसङ्गः । न वा कुम्भकारीत्याद्युपपदसमासे नाममात्रघटितोत्तरपदेव्या- शब्दार्यरत्नम् । सिरित्यवधेयम् । मात्रग्रहणाञ्च अन्नपाचकेत्यादौ कहटितीत्तर- पढे नाप्रसङ्गः समुदायत्वञ्च कभिन्नत्वमिति बोध्यम् । ममासः षड्विधः, सुबन्तपूर्वपदकश्चतुर्विधः, तिङन्तपूर्वपदको हिविध इत्यवान्तरभेदात् । यथोक्तं हरिणा,- सुपा सुपा, तिडा, नाम्ना, धातुनाऽथ तिङां तिङा। सबन्ते नेति च प्रोक्तः समासः षड्विधो बुधैः ॥ इति । यथा भूतपूर्वेत्यादौ सुबन्तस्य सुबन्तेन सह समास: “सह मुपा” इति सूत्रात् । अत्रैव सूत्रे योगं विभज्य भाष्यकारीण षड्- विधा. समासा दर्शितास्तन्म लकमेव हरिवचनमित्यवधयम् । अनुव्यचलत् पर्यभूषयदित्यादौ सुबन्तस्य तिङन्तेन समासः “गतिमतोदात्तवता च तिङापि समासः” इति वार्त्तिकात् । अत्रापिबिक्रमे गतिमतापीत्यर्थस्तन पर्यभूषयदित्यादाव- मतिमतापि तिडा समासोदाहरणं सङ्गच्छते। गतिसंज्ञकाच प्रादय उपसर्गाः उयादिनिपाताश्चेत्याकरे स्थितम् । अत्र च योगविभागस्येष्टप्रयोगसिद्दार्थकतया छन्दस्य वायं तिङन्त- समासः न लोके इति कैयटमनोरमादयः। तेन लौकिक- प्रयोग प्रभवतीत्यादी हे एव पदे नैकपदीभावस्तथावे सस्य समासत्वेन प्रातिपदिकतया ततः सुबुत्पत्त्यापत्तिः सामा- न्यतो नपुंसकतया सुपोलोपखौकार तुं प्रकुरुते इत्यादी इस्खा- पत्तिः । प्रकुर्वीरबित्यादौ नलोपापत्तिश्च छन्दसि तूदात्तादि- खरसियर्थं तस्य समासत्वस्वीकारेण तदुत्तरं सुबुत्पत्त्या तल्लो- पाङ्गीकारः । अत एव अनुव्यचलदिति भाष्योदाहरणमधि- कल्य कैयटेनोक्तम् ;-"समासस्य प्रातिपदिकत्वेन प्रकृतिवात् केवलायाश्च प्रकृतेरप्रयोगात् भवितव्यमन प्रथमैकवचनेन, तस्या- स्तु हलादिलोपः क्रियते" इति। अत एव च “कर्मणा यमभि- प्रैति" इति सूत्र अभिप्रेतीति बौणि पदानि नल के पदमिति . शब्दार्यरत्नम्। १११ हरदत्तादयः । एवञ्च धातूपसर्गयोः समासत्वव्यवहारः मंहितानित्यत्वरूपगुण्योगाद्भातएवातएव भाथे,- “संहितैकपदे नित्या नित्या धातूपसर्गयोः । इति एकपदवत् धातूपसर्गयोरपि संहितानित्यत्वं पृथगेवाभिहित- मन्यथा पृथक् तदुपादानवेयर्थ्यादिति दिक् । कुम्भकारत्यादौ “गतिकारकोपपदानां द्भिः समासवचतं प्राक सुबुत्पत्तेः" इति परिभाषया नाममात्रेण सुबन्तस्य समासः । अत्रोपपदं नाम उपसमौपे उच्चारितं पदं सामीप्यञ्च सप्तम्यन्त- पदघटितसूत्रविधेयप्रत्ययप्रकृत्यर्थान्वयित्वं तेनोपसर्गव्यवधान- ऽपि समासः । अत्र पदं विभक्त्यन्तं, तेन राजदर्शीत्यादौनलोपः। कटप्र रायतस्तूरित्यादौ सुबन्तस्य धातुना समासः किब- न्तस्य धातुत्वस्वीकारात् कृतोऽश्रवणेन गतिकारकेत्यादिना ममासासम्भवाच। अनीत पिबति सततमुच्यते यस्यां क्रियायां साऽश्नोतपिबतत्यादौ तिङन्तस्य तिङन्तन समासः अन्यपदार्थाधिकार “आख्यातमाख्यातेन क्रियासातत्ये" इति सूत्रात् समुदायेन स्त्रोत्वविशिष्टक्रियाबोधनात् ततष्टाबिति बोध्यम् । जहिजोड़ः जहिस्तम्ब इत्यादौ तिङन्तस्य सुबन्ते न समासः "जहिकम्मणा-” इत्यादिसूत्रात् । जोडं मौनं नहोत्याख्यान- कर्ता समासार्थः। प्राचोनेस्तु समासचातुर्विध्यमेवाभ्युपगतम् । तथाहि समा- साधिकारी अव्ययीभावतत्पुरुषबहुव्रीहिहन्हानामेव नामविशे- घेणोत्कीर्तनेन तएव समासभेदाः। तत्राव्ययीभावत्वं नाम- प्राधान्येन पूर्वपदार्थबोधकत्वम्। उपकुम्भादौ कुम्भसामीप्य- स्येव प्राधान्य न बोधात् अयञ्च समासः प्रायशो नित्यएव । तथाचात्र स्वार्थबोधकवाक्यानडौकारण खघटकयावत्पदा- ११२ - शब्दार्थरत्नम्। घटितविग्रहेणैव तदर्थबोधनमित्युपेयते। तिष्ठद्गुप्रभृतौनान्तु तत्प्रकरणविहितत्वेनैवाऽव्ययीभावत्वं सर्वेषामेव समासलक्ष- णानां प्रायिकत्वस्य शास्त्रादौ स्वीकारात् यथोनमभियुक्तोः, "समासस्तु चतु.ति प्रायोवादस्तथाऽपरः। योऽयं पूर्वपदार्थादिप्राधान्यविषयः स च” ॥ इति । प्राधान्य न पूर्वपदार्थादिबोधकत्वलक्षणविभागोऽपि प्रायिक इति भावः। प्राधान्य नोत्तरपदार्थबोधकत्वं तत्पुरुषत्वं, राजपुरुषो नौलोत्पलं त्रिलोकोत्यादौ उत्तरपदार्थस्यैव प्राधान्ये नावग- मादड़कायादेस्तथावाभावेऽपि अई नपुंसकम्" इत्यादिविशेष- विधानेन तबकरणविहितत्वादेव तत्प रुषत्वम्। तन्मध्य एव हिगुकर्मधारयौ प्रविष्टौ। तत्र संज्ञानवबोधकसंख्यापूर्वकसमा- नाधिकरणपदघटितस्तत्पुरुषो हिगुः । “दिक् संख्ये संज्ञायाम्" इति सूत्रण विहितपञ्चामादिकर्मधारयादिष्वतिप्रसङ्गवार- णाय संज्ञानवबोधकेति “संख्यापूर्वोहिगुः" इति सूत्राच संख्या- पूर्वकेति। हिमूहद्यन्यपदार्थे तथात्ववारणाय तत्पुरुषेति। दिगुश्च "तद्धितार्थोत्तरपदसमाहार च” इति सूत्रात् विविधः तव तद्धितार्थे विषये संख्यावाचकपूर्वकः समासो निन्यएव पाण्मातुरइत्यादौ केवलहिगुभागस्याप्रयोगात्। अतः षसां मातृणामपत्यमित्येव तत्र विग्रहः। एवमुत्तरपदेऽपि पञ्चगव- धनादौ केवलहिगोरप्रयोगात्। उत्तरपदमपि तत्पु षान्तर- घटकं बहुव्रोहिघटकञ्च तेन त्रयाणां लोकानां नाथइतिवाक्ये विलोकनाथेति सिद्धम् । समाहारे तु हित्वबहुत्वाद्याश्रयस्य प्रातिपदिकार्थस्य तगतहित्वादिरूपसमाहार विशेषणत्वेऽपि संख्यारूपनामार्थप्राधान्यादुत्तरपदार्थप्राधान्यमस्त्येव समाहार इत्यनेनैव संख्यायाविशेष्यतया बोधप्रतिपादनादतएव हित्व- शब्दार्थरत्नम्। बहुत्वादौ हित्वादिसंख्यान्वयाभावनोत्सर्गत एकवचनमेवं समा- हारइन्हे पौति दिक् । हिगुविषयपरिहारेण समानाधिकरणपदघटिततत्यु रुषः कर्मधारयः। “तत्पुरुषः समानाधिकरणः कर्मधारयः” इति सूत्रात् । तत्रापुरत्सर्गतः “विशेषणं विशेष्येण" इति सूत्रात् विशेषणविशेष्यभाव एव विशेषणविशेष्ययोः समासः । तद्भावश्च विषयताविशेषः विशिष्टबुद्धौ प्रकारत्वं, विशेष्यत्वं चेत्येवं रूपः न तु व्यावस्य॑ यावर्तकभावः नौलोत्पलादी उभयोरपि परस्पर यावर्तकतयोभयविशेष्यतापत्तेः । विषयताविशेषनियामक प्राचोनादिव्यवहारएव । यथोक्तं शेखरादौ,- *जातिसंज्ञयोगुणक्रियापेक्षया विशेष्यत्वमेव, गुणयोः, क्रिय- योः, गुणक्रिययोश्च परस्परं विशेष्यत्वम्, एकदेशसमुदाययो- रभेदविवक्षायाम् एकदेशस्य विशेषणत्वं, व्याप्यव्यापकजात्योव्या- प्यस्य विशेषणत्वम्” इति । उदाहरणं विस्तरभयान लिखितम् । तथोपमानपदस्य तत्सदृशलक्षणया उपमेयपदविशेषणत्वं तत्रापि सामान्यधर्मवाचकपदसमभिव्याहाराभावे उपमेय- स्यापि समासे पूर्वनिपातः । “उपमितं व्याघ्रादिभिः सामान्या- प्रयोगे” इति सूत्रात् बोधस्तु उपमेयविशेष्यकएव प्राधान्ये- नोत्तरपदबोधकत्वं प्रायिकमित्युक्तम् प्राक् । समस्यमानपदातिरिक्त पदार्थबोधकत्वं बहुव्रीहित्वं, पीता- म्बरादौ पौताम्बरातिरिक्ततत्स्वामिनो बोधात् तथात्वम् । स च समासो हिविधः, तद्गुणसंविज्ञानातदुगुणसंविज्ञानभेदात्। तत्र समुदायोपस्थाप्ये गुणीभूतस्यापि पदार्थस्य समुदायार्थान्वित- न्वयबोधक आयो यथा लम्बकर्णमानयेत्यादौ कर्णस्याप्यानयन- ऽन्वयस्तदिना धर्मियोऽप्यानयनासम्भवात् सम्भवे वा तवैशिष्टा- नैवानयनान्वयात् तस्यानयनेऽप्यन्वय इति । तद्भिवो द्वितीयः ११४ शब्दार्थरत्नम् । यथा दृष्ट समुद्रमानयेत्यादौ समुद्रादेरानयनानन्वयात् तथा. त्वम् । प्रकारान्तरेण स हिविधः। समानाधिकरणपदघटितः व्यधिकरणपदघटितच। तत्राद्यो नौलाम्बरो हितोयो दण्ड- पाणिस्तवान्त्यस्य न सर्वत्र साधुत्व “प्रहरणार्थेभ्यो निष्ठा- सप्तम्यौं' इत्यादिविधाने सत्येव साधुत्वमित्याकरे स्पष्टम्। प्राधान्येन सर्वपदार्थबोधकत्वं इन्हत्व, प्राधान्यञ्चान खघ- टकपदार्थाशे विशेषणतानापवत्व', तेन परस्पर विशेष्यत्वाभा वैऽपि नासम्भवः । स च विविधः, इतरेतरसमाहारभेदात् । तवाद्योऽग्यहोत-विशेषदित्वादि-संख्या-विशिष्ट-नामार्थ-बोधकः, हितौयस्तु नामार्थवृत्तितादृशसंख्याबोधक इति। संख्याया अपि नामार्थतया सर्वपदार्थप्राधान्यसम्भवादित्युक्तं प्राक् । अत्रेदं बोध्यम् । सर्वत्र समासे हिपदघटितत्वहन्दबहुव्रौद्यो- स्तु बहुपदघटितत्वमपि । “अनेकमन्यपदार्थ” इतिसूत्रभाष्यादौ स्पष्टम्। तथाऽसति बाधके विशेषणानां पूर्वनिपातः सर्व- समासे, इन्हे चाल्पाजादेरित्यग्याकरे स्पष्टमित्यलं विस्तरेण । अथ वृत्तिषु तद्धिता निरूप्यन्ते। तत्र तद्धितत्व नाम पद- निमित्तकत्वे सति खान्तत्वेन नामसंज्ञानिमित्तप्रत्ययत्व कत्सु तहारणाय सत्यन्तं क्यजादिषु तद्दारणाय नामसंज्ञेति समास- वारणाय प्रत्ययेति। "प्रागदिशो विभक्तिः” इत्यधिकारीय- तसिलादेरपि नामसंज्ञानिमित्तत्वमस्त्येव तदुत्तरत्र तद्धितान्त- रोत्पत्त्या कुतस्त्यमित्यादिप्रयोगात् परन्तु "तद्धितश्चासर्ववि- भक्तिः" इत्यनेन तस्याव्ययत्वमिति विशेषः । तद्धिताश्च तत्तदर्थ- भेदन स्वरूपभेदेन च बहुविधाः। तेषाञ्चार्थास्तचत्सूत्रोपात्ताः विशेषतो वेदितव्यास्तेषु च सङ्घपात् केषाञ्चिदर्थाः प्रदश्यन्ते। "शिवादिभ्योऽ" इत्यादिसूनजातेन विहिताणादौनामपत्य- मर्थस्तत्र च प्रत्यर्थस्य सम्बन्धितयान्वयस्तेन शैव इत्यादी शब्दाथरत्नम्। - शिवसम्बन्ध्यपत्यमिति बोधः। “सास्य देवता" इत्यादौ देवता- मम्बन्धी, देवता सम्बन्धी च खण्डशी वा तत्तत्प्रत्ययार्थस्तव प्रत्यर्थस्य देवतायाममैदेनान्वयस्तेनाम्नेयमित्यादावग्यभिन्न- देवतासम्बन्धि द्रव्यमिति बोधः । तदुक्तमभियुक्तः, “प्रत्ययाथस्यैकदेशे प्रकृत्योंविशेषणम् । अमेदश्चात्र संसर्ग आग्नेयादाविति स्थितिः । देवतायां प्रदेये च खण्डशः शक्तिरस्तु वा” ॥ इति । एवं सोऽस्य निवासस्तदस्य प्रहरणमित्यादावपि द्रष्टव्यम् । तस्य विकार इत्यादी विकारः प्रत्ययार्थः तत्त्वञ्च खारम्भकावय- वारब्धवं तदेकदेशे च प्रवत्यर्थस्य सम्बन्धितयान्वयस्त न हैम इत्यादौ हेमारम्भकावयवारब्ध इति बोधः । तदस्यास्तोत्यादिना विहितमतुबादेवर्तमानसम्बन्धवानर्थः सम्बन्धे च प्रकृत्यर्थस्य निरूपितत्वादिसम्बन्धेनान्वयस्त न गोमा. नित्यादौ गोनिरूपितवर्तमानसम्बन्धवानिति बोधः सम्बन्ध- चाभेदातिरिक्तो ग्राह्यस्त न तादात्मेपन घटवान् घट इत्यादि न प्रयोगः । गोमानासोदित्यादौ तु प्रधानोभूतक्रियाकालानुरोधेन सम्बन्धमात्रबोध इत्याकरे स्पष्टम् । तथा सम्बन्धे बहुनिरूपितत्व- निन्दितनिरूपितत्वादयो मतुपां द्योत्या अर्था बोध्याः । “भूमनिन्दाप्रशंसासु नित्ययोगऽतिशायने । सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः" ॥ इति । वृद्धोक्तः। सरूपमतुबन्तप्रकृतेश्च सरूपास्तादृशाः नोत्पद्यन्ते । उक्तञ्च भाष्ये,- “सरूपात् मतुबर्थीयात् सरूपो मतुबर्थकः । शैषिकाच्छैषिको नेष्टो न सनन्तात् सविथते" ॥ इति सरूपादित्यस्य सर्वत्रावृत्त्यान्वयः । तदधीते तत्र भव इत्यादिविहितप्रत्ययजातानां तत्तत्सूत्रोपात्त- शब्दार्थरत्नम्। क्रियाकर्तवार्थः प्रकृतेश्च तत्तत्कम्भकादौ लक्षणा तस्य च तदेक- देशक्रियायामभेदेनान्वयस्तन पदकइत्यादी पदकर्मकाभिन्ना- ध्ययनकर्ता, ग्राम्यइत्यादी ग्रामाधिकरणकाभिन्नभवनकर्तेत्येवं रीत्या बोधः । " तेन रक्तं रागात्” इत्यादिविहितानान्तु तत्तत्- क्रियाकर्मैवार्थः प्रकृतिलक्षणादिकं पूर्ववत्। “तेन तुल्यं क्रिया चेहतिः' इति विहितवतेस्तुख्यएवार्थ स्तस्य च क्रिया चेत्युक्तः समभिव्याहृतक्रियायामेवान्वयः तदेकदेशे तुल्यत्वे च प्रकृतेः स्वार्थकत्तुंकादितत्तक्रियाणां लक्षणया बोधनात् प्रतियोगितासम्बन्धेन तदर्थस्यान्वयस्तेन विप्रवदधीते इत्यादी विप्रकर्तृकाध्ययनसदृशाध्ययनमिति बोधः ।, अन क्रिया चेदि- त्युक्त: क्रियातुल्यत्वएवास्य वतेः साधुत्वम् । “तब तस्येवेति" विहितस्य तु गुणजात्यादिनापि तुल्यत्वे .साधुत्वमिति विवेकः । "तस्य भावः" इत्यादिविहितत्वतलादेः प्रकृत्यर्थे प्रकारतया भासमानधर्म एवार्थः "प्रयोगोपाधिमाश्रित्य प्रकृत्यर्थे प्रकारताम् । धर्ममात्रं वाच्यम्-" इत्युक्तः (प्रयोगोपाधिम्) (शब्दप्रवत्तिनिमित्तम्) (प्रकारताम्) प्रकार- तया भासमानम् (वायम्) त्वतलादेरित्यनुषङ्गः। “यस्य गुणस्य भावात् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलाविति" वार्तिक- मप्यत्रानुगुणं(गुणस्य)विशेषणतया भासमानस्य(भावात्)सत्त्वात् (द्रव्ये) मले सर्वनामपरामर्शयोग्यादिरूपे (शब्दनिवेश:) शब्द- शक्तियधर्मविशिष्ट शक्तिरिति यावत् त्वतलावित्युपलक्षणम् । तथा च द्रव्यगुणादिशब्देभ्यो जातेः, शुल्लमहदणुइस्त्रादिभ्यो- गुणस्य, पाचकादिभ्यः क्रियायाः, पीताम्बरादिभ्यः सम्बन्धस्य, त्वतलादिना बोध इत्यवधेयम् ।
शब्दार्थरत्नम् ! ११० प्रातिशायनिकप्रत्ययानां तरबादीनां प्रकृतेरतिशयकर्तृ- त्वविशिष्टलक्षणाया द्योतकतया स्वार्थिकप्रत्ययत्व तेन “खा- र्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते” इति वार्ति- कोक्तः प्रकृतिलिङ्गवचनानुगमस्तदन्तस्य। अतिशयचाचाभि- भवस्त नाभिभवस्य सकर्मकत्वेन द्वित्वबहुत्वाद्याश्रयसजातीय- कर्मकामिभव एव तरप्तमबादिना व्यवस्थया द्योत्यते। अभि- भवकट रूपातिशायनत्वस्य च गुणक्रिययोरेव सम्भवात् तहा- चकपदादेव तरबादयः तेन द्रव्यस्य स्वतस्तदभावन खगतगुण- क्रियागतातिशयेन तद्दत्ताभ्युपगम्यतेऽतो गुणक्रियाविशिष्टद्रव्य- वाचकादेव तत्साधुत्वं न केवलद्रव्यवाचिनो डिस्थादः, जातस्तु खतस्तदभावेऽपि तदाश्चयव्यक्तिनिष्ठगुणादिगतातिशयेन तह- तामादाय तहाचकात्तत्साधुत्वमिति द्रष्टव्यम् । अवेदं बोध्य तिङन्तप्रकतिकतरबादौनां व्यवस्थयैव हित्वाद्याश्रयातिशय- विवक्षया प्रयोगः तिडोपस्थाप्याश्रयादेहि त्वाद्यन्वयसम्भवन सजातीयाभिभवकर्मलाभात् भव्ययार्थानान्त्वसत्वतया सदस्य संख्याश्रयत्वाभावात् सजातीयाभिभवकमाभावाच सर्वत्र व पर्यायेण तरबादिप्रत्यय इति । “प्रशंसायां रूपौ" इति रूपपः प्रकृतेः प्रशंसाविषयत्वविशि- ष्टवाथलक्षणाद्योतकत्वं प्रशंसा च परिपूर्णता, तेन चौररूप इति सिहं "क्रियाप्रधानमाख्यातम्" इत्युक्त : पतिरूपमित्यादौ प्रक्वतेरसत्वंतया लिङ्कसंख्याऽनन्वयेन प्रकृतिलिङ्गसंख्याऽसम्भ- वात् सामान्यतो नपुंसकत्वं, नामार्थे प्रथमा, उत्सर्गत एक- वचनञ्चेति मनोरमा। एवं पचतिकल्पमित्यादापि। तेन पचतोरूपं पचन्तिरूपमित्येव साधुरिति बोध्यम् । ईषदसमाप्तार्थककल्पबादौनां प्रकृतेरोषदसमाप्तसत्तधर्म- प्रयोज्यसादृश्यवति लक्षणाद्योतकत्वं तेन गुड़कल्या द्राक्षेत्यादी शब्दार्थरत्नम्। - लक्षणया कर्मलकारव्यवस्थापनम् । विशिष्टस्य वाचकत्वे विशि. शानामेव अड़ादिकार्यस्यापत्तिः । अत एव भाष्थे तत्तत्कार्य- रूपसाधनानन्तरमेव तद्योगोऽभिहितः। यथा-"साधनं हि क्रियां निष्पादयति तामुपसर्गो विशिनष्टि" इति। वाक्य- पदीयेऽपि प्रयोगाईक्रियायामेवोपसर्गयोगोऽभिहितः । यथा,- "प्रयोगाईषु सिद्धः सन् भत्तव्योऽर्थो विशेषणैः । प्राक् च साधनसम्बन्धात् क्रिया नैवोपजायते ॥ इति । तथाऽडादिन्यवस्थार्थं धातोरेव विशिष्टार्थबोधकत्व', तत्र वा- भिहितं यथा,- "अडादौनां व्यवस्था) पृथक्त्वेन प्रकल्पनम् । धातूपसर्गयोः शास्त्र धातुरेव तु तादृशः ॥ इति । (तादृशः) विशिष्टार्थबोधक इत्यर्थः । सिसंग्रामयिषतीत्यादौ तु सोपसर्गस्यैव हित्वादिकार्यम् । "संग्रामयतिधातोस्तु सोपसर्गाविधिः स्मृतः। इति हर्युक्त:। वस्तुतस्तु तव संशब्दस्य नोपसर्गवं किन्तु अव- धौरादिधातोरिव तत्प्रतिरूपकशब्दान्तरत्वमित्याकरे स्पष्टम् । उपसर्गाणां द्योत्यार्थविशेषा अपि भाथे दर्शिता यथा,- “धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्तते। तमेव विशिनधान्य उपसर्गगतिस्त्रिधा" ॥ इति । प्रतिष्ठत इत्यादावाद्यं स्थाधात्वर्थबाधेन गतिबोधनात् । प्रकरो- तोत्यादौ द्वितीयं क्रियाप्रकर्षस्यैव बोधनात् । अनुमिनोती- त्यादौ हतीयं विशिष्टज्ञानबोधनादिति विवेकः। एवञ्चाडादि- व्यवस्थादर्शनादुर्यादिनिपातानामपि तथात्वम्। तथा तेषां पृथक्प्रयोगाभावेनापि न वाचकत्वं, तथा हि यदि पदान्यपि चादीनि स्वातन्त्रण कचिदर्थमवबोधयेयुस्तदा प्रयोज्येरबपि तानि केवलान्य व न च तथा प्रयुज्यन्ते। - शब्दार्थरत्नम्। - "चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः ।" इति हयुक्तः । स्वातन्तेवणार्थबोधकत्वाभावादेिव न तदर्थे विशे- षणयोगः तदुक्तमभियुक्तौः,- “विशेषणाद्ययोगोऽपि प्रादिवच्चादिके सम" इति । ततेश्च पटोघटश्चेत्यादौ घटपदमेव तत्समुचिते, चन्द्र इव मुख- मित्यादौ च चन्द्रपदं तत्सदृशे, लाक्षणिकं बोध्यम् । एकदेशा- न्वयखोकाराच सामान्यधर्मस्य प्रयोज्यतया सादृश्येऽन्वयात् मौन्दर्येण चन्द्र इत्यादी नासङ्गतिः । अत एव “शरैरु- रिवोदीचान्” इत्यादौ विशेषणोस्रादिपदोत्तरं हतौयाद्युप- पत्तिरन्यथा नामार्थे प्रथमापत्तेः। निपातनामार्थयोर्भेदेनैवा- न्वयस्य स्खौकर्तव्यतया नामार्थयोरभेदान्वयनियमे निपाते- तरसङ्कोचापत्तेश्च। तदुक्तमभियुक्तोः "पदार्थः सदृशान्वेति विभागेन कदापि न । निपातेतरसङ्कोचे प्रमाणं किं विभावय" ॥ इति । (सदृशा) समानाधिकरणपदोपस्थाप्येन (अन्वेति) अभेदेनेति शेषः (विभागन) तद्भिनेनेत्यर्थः । अत एव नञ्तत्पुरुषादौ उत्तरपदे एव विशिष्टतत्तदर्थलक्षणा तेन तस्यैव प्राधान्यात् सर्वनामकायपुरुषवचनादिव्यवस्था सिद्धयति। तथा च अत्वं प्रचसि अनहं पचामौति युभदादिसामानाधिकरण्यात् पुरुष- व्यवस्था अनेकमित्यादौ वचनव्यवस्था अस इत्यादी सर्व- नामकार्यञ्च नओ वाचकत्व नैतदुपपद्यते तदेतदुतम् । "नसंमासे चापरस्य प्राधान्यात् सर्वनामता। आरोपितत्वं नज्योत्यं न ह्यसोऽप्यतिसर्ववत् ॥ इति । (अतिसव्ववत्) (असः)इत्यादौ मर्वनामकार्याभावो नहीत्यर्थः । अनारोपितत्वपटं सादृश्यादेरप्युपलक्षकम् । तथा च,- ११ १२२ शब्दार्थरत्नम्। तव "तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नअर्थाः षट् प्रकोर्तिताः ॥ इत्युक्तनअर्थषाड़िध्यमपि द्योत्यार्थापेक्षयैवेत्यवधेयम् । अब्राह्मण इत्यादौ ब्राह्मणसादृश्यम् अपापमित्यादी अभावः, अघट इत्यादौ भेदः, अनुदरेत्यादी अल्पत्वम्, अपशुरित्यना- प्राशस्त्यम्, असुर इत्यत्र विरोधो, नज्योत्य इत्युदाहरणानि । एवं विग्रहवाक्येऽपि बोध्यम्। तथा च प्रसज्यप्रतिषेधार्थकनार्थस्य क्रियायामेवान्वयनियमेन नसमभिव्याहतक्रियापदमेव तत्त- दभावे लाक्षणिकमिति बोध्यम् । नव्यास्तु “निवृत्तपदार्थ इति" भाष्योतो: "प्रभावो वा तदर्थोऽस्तु भाष्यस्य हि तदाशयात्" । इत्युक्तः "निपाता द्योतकाः केचित् पृथगाभिधायिनः" । इति सामान्यतः केषाञ्चित्रिपातानां वाचकत्वोतच नव- कारादीनां वाचकत्वपक्षमवलम्बागत्या प्रागुतदोषजालं यथा- कथञ्चित् निराचक्रुरित्यन्यत्र विस्तरः । अत्र पक्षे च नजोऽभाव- वन मेदेऽत्यन्ताभावे च शक्तिरन्यत्र लक्षणा। तत्रापि निय- मविशेषाश्रयणाबातिप्रसङ्गः। तथा हि-अनुयोगिप्रतियोगिः बोधकपदयोः सामानाधिकरण्ये भेदबोधकता,वैयधिकरयोऽत्य- न्ताभावबोधकता,यथा घटः पटो नेति, भूतले घटो नास्तीति । एवकारस्य तु अन्ययोगायोगात्यन्तायोगव्यवच्छेदा अर्थास्त- विशेषकच समभिव्यहारविशेषः । तथा च समानाधिकरण- विशेष्यपदसङ्गतस्य व्यधिकरणविशेषणसङ्गतस्य च एवकारस्यान्च- योगव्यवच्छेदार्थकता यथा पार्थ एव धनुईर इत्यादी विशेष्य- मङ्गतस्य । बोधस्तु पार्थान्यतादात्माभाववत्मशस्तधनुराभित्रः पार्थ इति धनुर्धारपदस्य तत्प्राशस्त्ये लक्षणाखौकाराच सथा शब्दार्थरत्नम्। १२३ समा- बोधः। एवं पृथियामिव गन्ध इत्यादौ विशेषणसङ्गतस्य बोधस्तु पृथिव्यन्यसमवेतत्वाभाववान् गन्धः पृथिवीहत्तिरिति । नाधिकरणविशेषणसङ्गन्तस्य तु प्रयोगव्यवच्छेदार्थकता यथा शः पाण्डर एवेत्यादौ। अत्र च व्युत्पत्तिवैचित्रमात् प्रव- च्छेदावच्छेदेनैवान्वयः, तेन शखखावच्छेदेन पाण्डरतादात्मया- भ वस्य व्यवच्छेदः। बोधस्तु शङ्खत्वव्यापकस्वरूपसम्बझन पाण्डरतादात्मयाभावाभाववान् शङ्खः पाण्डराभिन्न इति । क्रियामङ्गतस्य तस्य तु अत्यन्तायोगव्यवच्छे दार्थकता पत्र च मामानाधिकरण्यं नैवान्वयः, यथा नौलं सरोजं भवत्येवेत्याटो बोधस्तु सरोजकर्तृकं भवनं नीलकत्तुंकत्वात्यन्ताभावाभाव- वदिति। सर्वेषाञ्च निपातानामव्ययत्वमस्त्येवं "खराटि- निपातमव्ययम्" इति सूत्रात् अव्ययत्वं तु लिङ्गत्रयवचनत्रया- धौनविशेषकार्यरहितनामत्वं तदुक्तम्,- “सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्त्र व्येति तदव्ययम्" ॥ इति । “स्त्रियाम्" इत्यधिकारविहितटाबाद्यन्तानामपि नामत्वं खोक्रियते "प्रातिपदिकग्रहण लिङ्गविशिष्टस्यापि ग्रहणम्” । इति परिभाषया तेषां नामवसिद्धेः । तथानुकरणशब्दानामपि तथात्वम् तदुक्तमभियुक्तः। "उणाद्यन्तं कदन्तञ्च तहितान्तं समासजम् । शब्दानुकरणं चैव पञ्चकं नामसंज्ञितम् ॥ इति। तेन चोऽवधारण तुरप्यर्थ इत्यादौ प्रथमादिस्थिति: अनु- का-भेदविविक्षायान्तु न तेषां नामत्वम् । “अत एव गवित्या- हेत्वाद्यतोः” तच्च प्राक् प्रपञ्चितम् । इदानीं नामप्रकृतिका: सुपो निरूप्यन्ते। तत्र सुप्त्व नामतिभित्रले सति संख्यावाचकप्रत्ययत्वम्, - १२४ शब्दार्थरनम् । "सुपा कर्मादयोऽप्यर्थाः संख्या चैव तथा तिडाम्” । इति भाष्येऽपिना संख्यासमुञ्चायनात् “घकयोस्विचनैकवचने" इत्यादिसूत्रात्, "द्योतिका वाचिका वा स्युत्विादौना विभक्तयः । इति हर्युक्त श्च सुपां च लाघवात् संख्यायामेव शक्तिः, कर्मादिषु तु निरूढ़लक्षणेत्यवधेयम्। सुपश्च प्रथमादिभेदात् सप्तविधास्ता अपि वचनभेदात् प्रत्येक विविधा इत्येकविंशतिविधाः । तत्र प्रथमाया नामार्थादिद्योतकता “प्रातिपदिकार्थलिङ्ग- परिमाणवचनमात्रे प्रथमा” इति सूत्रात् तथा चएको हावित्यादी नामार्थसंख्यानुवादेन विभक्तपथसंख्याबोधनप्रकारवत् नामा- नुवादेन प्रथमार्थनामार्थबोधनमिति द्रष्टव्यम् । अत्र प्राति- पदिकार्थो जात्यादि द्रव्यञ्च ग्राह्यः, लिङ्गवचनयोः पृथक्- कीर्तनात् । आढ़को व्रीहिरित्यादौ परिमाणं प्रथमार्थस्तत्रा- भेदेनाढ़कादेरन्वयस्तस्य च परिच्छेद्यतासम्बन्धेन जौह्यादावन्व- यस्तेनाढ़काभिन्त्रपरिमाणपरिच्छेद्यो ब्रोहिरिति बोधः। अत्र मात्रग्रहणात् कर्माद्याधिक्ये हितोयादिसमावेश इति सूचि- तम्। तत्राप्ययं विशेषः कर्मादिशक्तिषु लकारादिनोक्तेषु तत्समानाधिकरणेषु च प्रथमैव “तिङ्समानाधिकरणे प्रथमा" इति वार्त्तिकात्। एवञ्च तत्र प्रथमापि कारकविभक्ति- रिति भाष्यसम्मतम् । प्रकृतिविकृतिस्थले तु उभयोरपि तिडोक्तत्वात् प्रथमा, परन्तु तत्र तिडा प्रकृतेरेव संख्यानु- वादेन संख्या बोध्यते न तु विकृतेः, तेन एकहक्षः पञ्च नौका भवतीत्येव प्रयोगः। यथोक्तमभियुक्तः, "प्रकृतेविकृतेर्वापि यत्रोक्तत्व इयोरपि। वाचकः प्रकृतेः संख्या ग्रहाति विकतेनं तु" ॥ इति । अत्र यत्रत्युक्तो: कचिदुक्तत्वाभावे नामार्थे प्रथमेति सूचितं, तेन - . शब्दार्थरनम्। १२५ मृगो भूत्वा मारीचो जगामेत्यादौ मृगस्योतावाभावात् नामार्थे एव प्रथमा, तत्र चागत्वा नामार्थस्यापि पररौत्या कर्तत्वेन धात्वर्थ भवने साक्षादन्वयखीकारः। प्रकृतेविकृतरित्युक्तो श्च उद्देश्यविधेयभावस्खले नायं संख्याग्रहणनियम इति द्रष्टव्यम् । "सम्बोधने च" इति विहितप्रथमायाः सम्बोधनमर्थः । सम्बोधनच्च प्रवर्तनाविषयबोधनादिफलकाभिमुख्यम् । तदुक्त हरिणा,- "सिद्धस्याभिमुखोभावमात्रं सम्बोधनं विदुः । प्राप्ताभिमुख्यः पुरुषः क्रियासु विनियुज्यते ॥ इति । अत्र क्रियासु विनियुज्यते इत्युक्तो : व्रजानि देवदत्तेत्यादावपि जानौहीति विनियोगक्रियाध्याहारः अधिकमुक्त प्राक् । सिद्धस्य त्युक्त च सम्बोधनस्यानुवाद्यविषयता तेन, राजा भव युध्यस्व, इन्द्रशत्रुवर्षखेत्यादी राजादेविधेयत्वान्न सम्वोध्यत्व- मिति बोध्यम् । हितीयादयो विभक्तयो द्विविधाः, कारकार्था इतरार्थाश्च । तत्र अपादानादिकारकविशेषरंजकार्थत्वमाद्यानां,किञ्चिच्छब्द- योगनिमित्तकारकत्वभित्रसम्बन्धार्थकत्वमन्त्यानाम् । तत्र कार- कल्व नाम क्रियाजनकशक्तिमत्त्वं "करोति क्रियां निवर्तयति" इति भाष्ये कारकशब्दव्युत्पादनात् “साधक क्रियानिष्पादक कारकर्मन भवति" इति वातिं कोतोच, ट्रव्यस्य स्वतस्तथात्वा- भावेऽपि शक्त्याविष्टस्यैव तधात्वम् । क्रियायाञ्च शक्तेरैवान्वय- व्यतिरेकसत्त्वात् कारकत्वमिति मतान्तरम् । तदुक्त हरिणा.- "स्वाश्रये समवतानां तहदेवाश्रयान्तरे। क्रियाणामभिनिष्यत्तौं सामर्थं साधनं विदुः" ॥ इति । शक्तिशक्तिमतोरभेदाच द्रव्यं कारकमिति व्यवहार इत्यवर्धयम्। एवञ्च क्रियाजनकत्वेन सर्वेषां कट त्वेऽपि स्वस्खावान्तरव्यापार विवक्षयैव करणत्वादिकम् । यथोक्त हरिणा, - : १२६ शब्दार्थरत्नम्। "निष्पत्तिमात्र कर्ट व सर्वत्रैवास्ति कारके । व्यापारभेदापेक्षायां करणत्वादिसम्भवः” ॥ इति । तद्भेदश्च मञ्जूषायां दर्शितो यथा-"कर्तुः कारकान्तरप्रवर्तन- व्यापारः। करणस्य क्रियाजनकाव्यवहितव्यापारः। क्रिया- फलेनोद्देश्यत्वव्यापारश्च कर्मणः। कर्ट कमव्यवहितक्रिया- धारणव्यापारोऽधिकरणस्य। प्रेरणानुमत्यादिव्यापारः सम्प- दानस्य। अवधिभावोपगमव्यापारोऽपादानस्य" इति। तत्र कत करणाधाराणां क्रियाजनकत्वं सुव्यक्त', ते विना क्रियानुत्- पत्ते: फलरूपक्रियाजनकत्वेन विशिष्टक्रियाजनकत्वाच्च कर्मण- स्तथात्वम् । घटं स्मरति कटं करोतोत्यादौ च बुद्धिस्थघटादेरपि पूर्वकालत्वेन स्मरणादिहेतुत्वात्तथात्वम् । अत एव तेषु कर्ट त्व- विवक्षया काष्ठ पचति स्थालौ पचति ओदनः पच्यते इत्यादि प्रयोगः। अपादानस्य अवधिभावोपगमन हेतुवात् सम्प्र- दानस्य च दाबुद्धिस्थतया पूर्वकालत्वेन हेतुत्वात् क्रिया- निर्वाहकत्वेऽपि न कट त्वविवक्षा अनभिधानात् । तदुक्त भाष्थे- "पर्याप्तं करणाधिकरणकर्मणामेव कटवं निदर्शितमपा- दानादौनां कटं वानिदर्शनाय" इति। तच्च कारकं षड्विधम्, अपादानराम्प्रदानकरणाधिकरणकम- कर्ट भेदात् । एतेषाञ्च एकस्यां क्रियायामुभयप्राप्ती “विप्रतिषेध परं कार्यम्" इत्युक्त रुत्तरोत्तरप्राबल्यम् । तदुक्त हरिणा,- “अपादानसम्प्रदानकरणाधारकर्मणाम् । कत्तुश्चोभयसम्प्राप्तौ परमेव प्रवर्तते ॥ इति । गुणप्रधानक्रिययोरकस्मिन् द्रव्ये उभयशक्तिप्रसङ्गे तु “प्रधानेन व्यपदेशा भवन्ति" इति न्यायात् कार्यस्य प्रधानानुरोधित्वात् प्रधानशक्तिबोधिकैव विभक्तिः प्रयुज्यते, गुणक्रियाशक्तिस्तु तात्- पर्यवशादेव तत्र प्रतीयते । तदुक्त हरिणा,- - शब्दार्थरत्नम्। "प्रधानतरयोयंत्र ट्रव्यस्य क्रिययोः पृथक् । शक्तिगणाश्रया तत्र प्रधानमनुरुध्यते । प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यथा गुखे तथा तहदनुतापि प्रतीयते" ॥ इति । अत: स्थित्वाखेन गच्छति, प्रविश्य ग्रहानिःसरतीत्येव प्रयोगः । तत्रापादानत्वं नाम विभागजनकतक्रियानाश्रयत्वे सति तक्रियाजन्यविभागाश्रयत्व "ध्रुवमपायेऽपादानम्" इति सूत्रात् (अपाये) विभागजनकक्रियायां (यत् ध्रुवम्) उदासीनं तदनाश्रय इति यावत् तदपादानमिति तदर्थः व्यक्तमुक्त हरिणा,- “अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवातदावेशात्तदपादानमुच्यते” ॥ इति । स्वयम् (चलमचलम् वा) (अतदावेशात्) विभागजनकतत्- क्रियानाश्रयत्वादेव ध्रुवमित्यर्थः। अत्र च तक्रियानाश्रय- त्वादित्युक्तरुभयकर्मजविभागस्थले न कर्तुरपादानत्वम् । तद- - प्युक्तं तेनैव,- - "मेषयोः स्वक्रियापेक्षं कर्तृत्वञ्च पृथक् पृथक् । मेषान्तरक्रियापेक्षमवधित्व पृथक् तयोः ॥ इति । अपादानसंज्ञावत्त्वं तत्त्वमिति तु तत्त्वम् एवं सम्प्रदानादित्वमपि। तेन “अपादाने पञ्चमौ” इति सूत्रादपादानसंज्ञकेभ्यः सर्वभ्यएव पञ्चमौल्यवधेयम्। तच्च त्रिविधम्.- "निहिष्टविषयं किञ्चिदुपात्तविषयं तथा । अपेक्षितक्रियञ्चेति त्रिधापादानमिष्यते ॥ इति हर्युक्तविविधभेदात्। तत्र निर्दिष्टोविषयः स्वशक्तिनिरू- पिका क्रिया यस्येत्याद्य, यथा वृक्षात् पततीति । क्रियान्तरेण ग्टहीतो विषयस्तथारूयो यस्येति द्वितीयं, यथा उपात्तः १२८ शब्दार्थरव्यम्। तच्च "मेघात् विद्योतते विद्युत्" इत्यादी अन द्युतिक्रिययैव निःसरण- रूपखविषयस्य ग्रहणात् । अपेक्षिता क्रिया खविषयभूता येनेति द्वतीयं, यथा कुतोभवानित्यादौ अत्रागमनक्रियाया अपेक्षा। सम्पदानत्वं नाम क्रियाजन्यफलभागिमत्त्वे नोद्देश्यत्वं "कर्मणा यमभिप्रेति स सम्प्रदानम्" इति सूत्रात् । त्रिविधम्,- “अनिराकरणात् कत्तस्त्यागाङ्गकर्मणेपितम् । प्रेरणानुमतिभ्याञ्च लभते सम्प्रदानताम् ॥ इति हर्युक्तदानप्रयोजकव्यापारत्रयभेदात्। तत्र त्यागाङ्गेति लक्षणपरमिति बोध्यम्। तत्राद्यं देवतादि, यथा शिवाय वस्त्रं ददाति, तस्य कर्तुरनिराकरणेन प्रवृत्त्यप्रतिबन्धात्। द्वितीयं याचकादि, यथा विप्राय गां ददाति, तस्य देहोत्याद्यभिलापा- टिना कर्तुः प्रेरणात् । हतौयं गुह्यदि, यथा गुरवे गां ददाति, तस्य प्रार्थनाव्यतिरेकेणानुमतिमात्रेणैव प्रेरणादिति दिक् । करणत्वं नाम अव्यवहितक्रियाजनकविवक्षितव्यापारवत्त्वं “साधकतमं करणम्" इति सूत्रात् तत्र च तमप्प्रत्ययेनाव्य- वहितयापारवत्त्वरूपप्रकर्षावबोधनात् । यथोक्त हरिणा,- "क्रियायाः परिनिष्पत्तिर्यव्यापादनन्तरम् । विवक्ष्यते यदा यत्न करणं तत्तदा स्म तम् ॥ इति । अत्र विवक्ष्यते इत्युक्त : कारकान्तराणामपि तथात्वमिति सूचितम्। तदप्यक्तं तेनैव, “वस्तुतस्तदनिद्देश्य न हि वस्तु व्यवस्थितम् । स्थाल्या पचत इत्येष प्रयोगो दृश्यते यतः" ॥ इति । (वस्तु) करणपदार्थः। अत्र अधिकरणस्य स्थाल्यादेः करण- त्वविवक्षणात् करणत्वम्।
शब्दार्थरबम्। १२८ आधारत्वं नाम कर्तृकर्मव्यवहितक्रियाश्रयत्वम् । "कत्र्तृकर्मव्यवहितामसाक्षात् धारयत् क्रियाम् ॥ उपकुर्वत् क्रियासिद्दौ शास्त्रे ऽधिकरणं स्म तम्” ॥ इति हय्यक्तः। अधृते कर्तृकम्मणी न क्रियां अनयत इत्यधि- करणं तदुपकारि । तत्र गृहे शेते इत्यादौ कर्तृहारा, स्थाख्या- मोदनं पचतोत्यादौ कम्महारा, सहादि तदुपकारक क्रियाश्रय- स्वेति विशेषः। तच्च चतुविधम्,- "सामोप्याश्लेषविषयेात्याधारश्चतुर्विधः ॥ इति भेदकासम्बन्धचातुर्विध्यात्। तत्र सामीप्यसम्बन्धेनाधिकरण- माद्यं यथा वने नदी आस्ते इत्यादौ वनादि। एकदेश- सम्बन्धेन द्वितीयं यथा कटे आस्ते इत्यादी कटादि। विषयता- सम्बन्धन हतौयं यथा मोक्षे इच्छास्तोत्यादौ मोक्षादि। व्याप्तिसम्बन्धेन चतुर्थे यथा तिलेषु तैलमस्तोत्यादौ तिलादि। कर्मत्वं नाम क्रियाजन्यतव्यधिकरणफलवत्व कर्मसंज्ञा- वत्त्व वा। तच्च कर्म सप्तविध, विविधमौप्सिततमं, कल्पितं चतुर्विधञ्च त्यवान्तरभेदात् । यथोक्ता हरिणा,- “निर्वत्यञ्च विकार्यञ्च प्राप्यञ्चेति विधा मतम् । तञ्चेप्सिततमं कर्म, चतुर्दान्यत्तु कल्पितम् । औदासौन्य न यत् प्राप्यं यच्च कत्तुरनोसितम्। संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्” ॥ इति । तत्र निर्वादित्रयाणां लक्षणादिकमपि तेनैवोक्त यथा,- यदसज्जायते सहा जन्मना यत् प्रकाशते । प्रक्वतेस्तु विवक्षायां विकाये कैश्चिदन्यथा । तन्निववं विकायच्च कम देधा व्यवस्थितम् । प्रकृत्युच्छेदसम्भूतं किञ्चित् काष्ठादिभस्मवत् ॥ किञ्चित् गुणान्तराधानात् सुवर्णादिविकारवत्" । इति - १३० शब्दार्थरत्नम्। "क्रियाकृतविशेषाणां सिद्धिर्यत्र न तिष्ठति। दर्शनादनुमानाहा तत् प्राप्यमिह कथ्यते” ॥ इति च । तदयं लक्षणनिष्कर्षः । प्रकृतिवाचकपदासमभिव्याहतपदो- पस्याप्यत्वे सतिक्रियाजन्योत्पत्तिरूपफलवत्त्व निर्वय॑त्वम् उत्प- त्तिवाद्यक्षणसम्बन्धरूपा प्रथमप्रकाशरूपा च यदसदित्याद्युत । "सतो वाऽविद्यमाना वा प्रतिः परिणामिनी। यस्य नाथोयते तस्य निर्वय॑त्व प्रचक्षते ॥ इत्युक्तोस्तु प्रकृतिवाचकपदासमभिव्याहृतत्यादि । यथा घटं करोतीत्यादौ घटादि, पुच प्रसूत इत्यादौ च पुचादिः । प्रतोयमानप्रकृतिविकृतिभावत्वे सति क्रियानिधिविशिष्टा- सत्त्वोत्पत्तिरूपान्यतरफलवत्त्वम् विकार्यत्वं, यथा सुवर्ण कुण्डलं करोतोत्यादौ सुवर्णकुण्डलादि ; तब सुवर्णस्य पूर्व- रूपासवरूपफलवत्त्वात् कुण्डलस्योत्पत्तिरूपफलवत्वाच तथा- त्वम् । एवं काष्ठं मान करोतौल्यादावपि काष्ठभमादेः, तत्र च काष्ठस्य क्रियाजन्यविशिष्टासत्त्वप्रयोजकनाशवत्त्वात् तथात्वमिति विवेकः। क्रियाकतासाधारणधर्मप्रकारकप्रतीतिविषयताना- श्रयत्वं सति क्रियाजन्यफलवत्वेनोद्देश्यले प्राप्यत्वं, यथा ग्राम गच्छतोत्यादी ग्रामादिः, संयोगरूपफलस्य क्रियाधिकरणकर्तृ- वृत्तिवन साधारण्यात् असाधारणोत्पत्त्यादिरूपफलस्य तु तत्रा- सत्त्वात् तथात्वमिति । एतचितयमपौप्सिततम कर्तुः क्रिया- फलेनेष्टतमत्वात् । एतद्भिन्न (चतुर्दा कल्पितम्) पारिभाषिक- मित्यर्थः । तानि च उदासीनहेथाकथितान्यपूर्व कसंज्ञकानि तत्र कर्तुरनुद्दे श्यत्वे सति क्रियाजन्यफलवत्त्वमुदासीनत्व, यथा ग्रामं गच्छन् तृण सशतोत्यादौ णादेरहश्यत्वाभावेऽपि क्रियाजन्यसंयोगवत्वात् तथात्वम् । हिष्टसाधनले संति क्रिया- जन्यफलवत्त्वं इथत्वं, यथा पत्र बुभुक्षमाणी विषं भुतो शब्दार्थ रत्नम्। इत्यादी विषादेः। कारकविशेषसंज्ञान्तरणाविवक्षितत्वे सति कर्मोपकारकत्वमकथितत्वं यथा गां दुग्धं दोग्धोत्यादौ गवा- देदुग्धोपयोगितयाऽविवक्षितकारकान्तरसंजकत्वं न च तथा- त्वम्। अब चाविवक्षितत्व नाम प्रसतावप्रसक्ती वा तत्त्वेन विवक्षाविषयत्वाभावस्त न केषाञ्चिद्धातूनां संज्ञान्तराप्रसतावपि नथात्वम्। एतत्संज्ञानियामकोधातुविशेषयोग एव। तदुक्त- मभियुक्त :- “दुधाच्पज्दण्ड सधिच्छिचिबूशासिजिमन्थमजाम्। कर्मयुक् स्यादकथितं तथा स्थानौहवष्वहाम्” ॥ इति। (कर्मयुक्) कर्मोपकारकम्। हैराश्येन पाठः गौणमुख्यकर्मणो- लादिविशेषकार्यार्थ इत्याकरे स्पष्टम् । एतेषाञ्च षोड़शानां मध्ये केषाञ्चिद्धातूनां कांकाविहिव्यापारार्थकतया तदद्योग ईप्सिततमत्वेनैव कर्मसंज्ञाप्राप्तौ प्रत्याख्यानेन एकव्यापारार्थका एव धातवो भाये संग्रहीता यथा- "दुहियाचिरुधिप्रछिभिक्षिचित्रामुपयोगनिमित्तमपूर्वविधौ । बुविशासिगुणेन च यत् सचते तदकोर्तितमाचरितं कविना इति अत्र चापूर्वविधावित्युक्त र्दुहादीनां न तथाभूतहिव्या- पारार्थकतत्यवसौयतेऽन्यथाप्राप्तत्वादपूर्व विधानानुपपत्तेः । एव- ञ्च तेषां धातूनां कर्मसंज्ञाप्रास्यप्राप्तिव्यवस्थार्थ दिव्यापारक- व्यापारार्थकता सिद्धान्ते खौकता। तथाच षोड़शानां मध्ये- ऽशानामेव भाष्योक्तानामकव्यापारार्थकता तथाहि । स्थितद्रवद्रव्यविभागानुकूलोव्यापारोदुहेरर्थ स्तव विभागे गोर- पादानत्वाविवक्षायां दुग्धोपयोगित्वात् कर्मत्वम् । खत्वनाश- खत्वोत्यत्त्यनुकूलोव्यापारीदहोत्याद्यभिलापरूपोयाचेरर्थ स्तव कस्यापि कारकस्याप्रसती धनादिसम्बन्धितया तदुपयोगिमः कर्मत्वम्। निर्गमप्रतिबन्धपूर्वकान्तःखित्व नुकूलव्यापारोरुधे- - १३२ शब्दार्थरत्नम् । रथस्तत्र स्थित्याधारस्य तत्त्वाविवक्षायां धात्वर्थजन्यस्थितिरूप- फलोपकारकत्वात् कर्मत्वम्, फलस्यापि व्यपदेशिवद्भावपरि- भाषया कर्मत्वस्वीकारात् फलवत्त्व नैव कर्मणः कर्मसंज्ञा भागित्वेन फलस्यापितथात्वौचित्यादित्याकरे स्पष्टम्। जिज्ञामा- विषयार्थ ज्ञानानुकूलोव्यापारः प्रच्छ रथं स्तत्र कस्याप्यप्राप्ती ज्ञानरूपफलोपयोगित्वात् कर्मत्वम् । ज्ञानस्य च विषयतयैव फलत्वस्वीकारात् न प्राप्तिसम्भवः । एतच्च ज्ञानं प्रष्टुरेव न प्रष्ट- व्यस्य नातोऽपि प्राप्तिसम्मवः प्रकिरित्यत्राहित्वाभावः । छका- रस्य याचेरर्थपरनिर्देशद्योतनार्थं तत्समानार्थकभिक्षिग्रहणम्। विभागपूर्वकादानं चित्रोऽर्थस्तत्र विभागेऽपादानत्वाविवक्षायां पुष्पादिकम्र्मोपकारकस्य कर्मत्वम्। ज्ञानानुकूलशब्दप्रयोगो ब्रुवोऽर्थः। प्रवृत्तिजनकः स एव शासेरर्थ स्तत्र ज्ञानस्य विषय- तयैव फलत्वात् समवायेन तहतो वक्तव्यस्य न प्राप्तिसम्भव- स्तथा च तदर्थ गुणीभूतज्ञानवत्त्वे नोद्देश्यस्य सम्प्रदानस्य नत्त्वा- विवक्षायां तत्सम्बन्धिनः कर्मत्वम् “ब्रुविशासिगुणेन च यत् सचते” इत्युक्तः। (सचते ) सम्बनातीत्यर्थः। एवञ्च सम्प- दानवविवक्षयेव शशंस तस्मै इत्यादिप्रयोगः, एवं दुहादीनामपि प्राप्ततत्तत्संज्ञाविवक्षया गोर्दुग्धं दोग्धोत्यादिकः प्रयोगः । पच्चादयस्तु कर्मसाकाइदिव्यापारार्थकास्तथाहि। विक्लित्त्यनु- कूलव्यापारपूर्वकोत्पत्त्यनुकूलव्यापारः पचेरर्थ: भाष्थे “तण्डु लं विक्लेदयन्त्रोदनं निवर्तयति" इतिपच्यर्थ विवरणदर्शनात् । शास- नानुकूलखसम्प्रदानकदानानुकूलव्यापारोदण्डयतेः । अभिभव- पूर्वक ग्रहणं जयतेः । विलोड़नपूर्वकोत्थापनं मन्यतः । वञ्चना- पूर्वकग्रहणं मुषेः। संयोगानुकूलव्यापारानुकूलव्यापारो नयतेः । स्कन्धादिकरणकः सएव वहतेः। गत्यनुकूलव्यापारविशेषः करतेः । बलाद्ग्रहणपूर्वकस्थानान्तरप्रापणं हरतेः । एक- १३३ - - शब्दार्थरत्नम् । ज्वेषां दुहादिषु पाठः गोणमुख्यकम्र्मणो दिव्यवस्थापनायैव बोध्यः। अन्यथा,- *प्रधानकर्मण्याख्येये लादौनाइद्दिकर्मणाम् । इत्युक्तोः अविशेषात् ण्यन्तवत् प्रधानकर्मण्येव लकाराद्यापत्तेः इष्यते च गौणे कर्मणि, “गर्गाः शतं दण्डान्ताम्" इति भाष्यप्रयोगात् “देवासुरैरमृतमम्बुनिधिर्ममन्य” इति भारवि- प्रयोगाच्च । एवञ्च,- "गौणे कम्मणि दुह्यादेः प्रधाने नौहवष्वहाम् । बुद्विभक्षार्थयोः शब्दकर्मणाञ्च निजेच्छया। प्रयोज्यकर्मण्यन्येषां यन्तानां लादयो मताः ॥ इति । नियामकशास्त्र गौणपदं मुख्यभिन्नपरं तत्व गुणीभूतव्या- पारान्वितत्वमुख्यकर्मोपयोगित्वान्यतरत्वरूपं तेन यथासम्भवं दुह्याद; पयादेच योगे गौणकर्मतत्ववसेयम् । सिद्धान्त पचेः फलहयानुकूलव्यापारार्थकतया सजव न हिकम्मकतेति विशेषः । प्राप्तिविषयकांन्यसंजकत्वमन्यपूर्वकत्वं यथा जलधि- मधिशेते इत्यादी जलधिरूपाधारस्य “अधिशोङ्स्थासां कर्म" इति” सूत्रात् कर्मसंज्ञा। “कत त्वं नाम धातूपात्तव्यापाराश्रयत्वम् । धातुभोक्ता क्रिये नित्य कारके कर्त तेष्यते” ॥ इति हर्युक्तः। स च विविधः स्वतन्त्रः तअयोजकति भेदात्। तत्र स्वातन्त्रा नामेतरव्यापारानधौनव्यापारवत्त्व कारकान्तर- प्रयोजकव्यापारवत्त्वम् वा यथोक्ता हरिणा,- "प्राधान्यतः शक्तिलाभाब् प्रग्भावापादनादपि । तदधौनप्रवृत्तित्वात् प्रवृत्तानां निवर्त्तनात् ॥ अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात् । पारादप्यु पकारित्वात् स्वातन्त्रा कर्तुं रिष्यते ॥ इति । १२ १३४ शब्दार्थ रत्नम् । अयमर्थः । इतरव्यापारात् प्रागपि स्वव्यापारसत्त्वात्, कार- कान्तराणां स्वाधौनप्रवृत्तिनिवृत्योर्दर्शनात्, दानादः कुठा- रादिवत् खस्य प्रतिनिध्यसम्भवात्, कारकान्तराप्रयोगपि स्ववाचकपदप्रयोगात, साक्षादातूपात्तफलजनकव्यापारवत्त्वाञ्च कत्तः स्वातन्वामिति। पाचयतोत्यादावपि प्रयोज्यस्य पाके खातन्त्रामस्त्य व वेतनादिलाभरूपखार्थसिद्धय एव तस्य प्रवृत्त: "निमित्त भ्यः प्रवर्तन्ते सर्व एव-स्वभूतये। अभिप्रायानुरोधोऽपि स्वार्थस्यैव प्रसिद्धये ॥ इति हरिणा स्वार्थसिद्धार्थप्रवृत्त्य व स्वातन्त्राव्यवस्थापनादित्यलम् विस्तरेण । अथ द्वितीयादीनामर्थाः प्रदर्श्यन्ते। तत्र कारकहिती- यायाः कर्थिः “कर्मणि हितोया” इति सूत्रात् । तस्य च कर्म- शक्तिमत्वेनाश्रयत्वेन. वा वाच्यत्वमन्वयश्च धात्वर्थफले खनिष्ठ- शक्तिनिरूपकतया निरूपकतया वा मतभेदेन। तेन जलधि- मधिशेते इत्यादावपि तच्छक्तिमत्त्वे नैवाधारादीनां बोधः । अकर्मकधातूनां तु सकर्मकक्रियान्तर्भावणैव तद्योगे कालादौनां कर्मत्वं यथोक्तहरिणा,- “कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः । सर्वैरकर्मकोगे कर्मत्वमुपजायते ॥ इति । एतच्च मासमास्ते इत्यादी धातोरव सम्बन्धपूर्वकासनादी, आसनादिकरणकसम्बन्धे वा लक्षणाया निरूढ़त्वज्ञापकम् । ततश्च सम्बन्धस्य कर्माकातिया कालादेस्तत्रान्वयात् कर्मत्वम् । अवार्य विशेषः धातोराद्यार्थलक्षणायां प्रधानक्रियाया अकर्मकत्वात् दुहादिपाठाभावाच्च गौणकर्मणि लकारासम्भवेन भाव एव लकारस्तन मासमास्यत इत्येव प्रयोगः । द्वितीयार्थलक्षणायान्तु - - ।
- शब्दाथरत्नम् । प्रधानक्रियायाः सकर्मकातया कालादेश तत्कर्मत्वेन मुख्य- कातया कर्मण्येव लकारस्तेन मास श्रास्यते इति प्रयोगः यथोता हरिणा,- “अतस्तैः कर्मभियतो धातुर्दैव्येरकर्मकः । लस्य कर्मणि भावे च निमित्तत्वाय कल्पते ॥ इति । अत्र लस्येत्युक्तोः कद्द्योगे न तेभ्यः षष्ठीति मनोरमायां स्वष्टम् । तथा कालादिकर्मका अकर्मका भवन्ति” इति भाथो- तश्च गतिबुद्दीत्यादिसूत्रेऽकर्मतया तेषां प्रयोज्यस्य कर्मत्व- मेवमन्यदपि कार्यमित्याकरे स्पष्टम् । “कालाध्वनोरत्यन्तसंयोगे” इति, विहितहितीयाया व्याप्तिरर्थः सा च प्रत्यासत्या कालादिनिरूपिता द्रव्यगुण- क्रियादिनिष्ठा । तेन क्रोशं कुटिला नदी, मासमधीते इत्यादी गुणक्रियादिषु व्याप्तिबोधः । “कर्मप्रवचनीययुक्त” इति विहितायास्तु सम्बन्धसामान्य- मर्थः शेषषष्ठयपवादत्वे न तस्यास्तत्तुल्यार्थकतौचित्यात् एवञ्चान्वा- दौनां ज्ञाप्यत्वादिविशेषसम्बन्धकथनाय "अतुर्लक्षणे इत्यादि- सूत्रजातमारब्धम् विशेषानभिधाने सामान्यसम्बन्धस्थापि तात्- पर्यवशात् विशेषे पर्यवसानम्। कर्मप्रवचनौयानान्तु हितो. याद्यर्थसम्बन्धद्योतकतामात्रम्। यथोक्तं हरिणा,- “क्रियाया द्योतको नायं सम्बन्धस्य न वाचकः । नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः ॥ इति । द्वितीयादिनैवोत्तत्वात् न सम्बन्धस्य वाचक इत्यर्थः (भेदकः) द्योतकः । अत्र सम्बन्धस्येति सामान्यतो निर्देशात् क्रियासम्बन्ध- वव्यादिसम्बन्धस्यापि तेषां द्योतकता अतएव कर्मप्रवच- नौयेत्यन्वर्थसंज्ञा कर्म क्रियां तत्सम्बन्ध वा प्रोतवानिति भूते कतरि चानीयप्रत्ययाश्रयणात्। अन्वादयो हि प्रायशः शब्दार्थरत्नम् । - क्रियासम्बन्धद्योतका अपि क्वचिद्रव्यादिसम्बन्धद्योतका अपि भवन्ति यथा वनमनु नदीत्यादौ। तेषाञ्च द्योत्याः सम्बन्ध- विशेषाः सूत्रानुसारेण कतिचित् प्राचीनैर्दर्शिता यथा,- "वोप्स स्यम्भावचिऽभिस्तेषु भागे परिपती। अनुस्तषु सहार्थे च होनेऽनूपौ मताविह” ॥ इति । तत्र कोसा व्याप्तिः यथा वृक्ष वृक्षमभि सिञ्चतीत्यादौ तत्रापि "नित्यवौप्सयोरिति विभंतप्रकृत्या व्याप्यत्व द्योत्यते तच्चाभि- द्योत्ये हितोयार्थव्यापकत्वेऽन्वतीति न तययं मतएव तस्य न संसर्गविधयान्वय इति विवेकः । वृक्षादेच सेकादिकम्मत्वेऽपि विवक्षयैव व्यापकत्वेन्वय इत्याकरे स्पष्टम् । तेन वृक्षत्ति- व्याप्यतानिरूपकव्यापकतावान् सेक इति बोधः । इत्यम् अनिर्धारितकिञ्चिद्धर्मस्य भावः प्राप्तिः वैशिष्टयमिति यावत् तदीयसम्बन्धः द्वितीयार्थोऽभिना द्योत्यते यथा विभुमभि भक्त इत्यादी विभुसम्बन्धिक्तिमानिति बोधः। चिई लक्षणं ज्ञाम्य- लमिति यावत् यथा कारिरीमनु वर्षतोत्यादी बोधस्तु कारि- रोज्ञाप्य वर्षणमिति। एवमन्येषामप्यर्थान्वयादिकमूह्यम् । केषाञ्चिहाचकधिगाद्यव्ययानां योगेऽपि द्वितीयानुशिष्यते यथा- “उभसवंतसोः कार्या धिक्युपर्यादिषु त्रिषु । हितीयानेड़ितान्तेषु तथान्यत्रापि दृश्यते ॥ इति । तत्र हितौयार्थः सम्बन्धः धिमाद्यर्थनिन्दादावन्वयी, तेन नास्तिकं धिगित्यादौ नास्तिकसम्बन्धिनी निन्देति बोधः। (आमेड़ितान्तेषु) हिरुक्तोष्वित्यर्थः अनान्यत्रापौत्युक्तः याव- च्छंब्दयोगेऽपि द्वितीयेति वृद्धास्तेन “पारस्य तस्यां दशमोच्च यावत् प्रपूजयेत्” इति नदों यावदिदं वनमित्यादि च सिद्धम्। तत्र यावच्छब्दार्थो व्याप्तिः द्वितीयार्थः सम्बन्धः -- शब्दार्थरनम् । तत्प्रकृतेश्च तत्प्रागभावसमौपादौ लक्षणा तेन दशमीप्रागभाव- व्यापकं पूजनमिति नदौसमीपव्यापकं वनमिति च बोधः । एवमन्तरादीनां योग विहिताया अर्थान्वयादिकमूचं विस्तरभयाहिरतमस्माभिः । कारकटतोयायाः कर्ता करणञ्चार्थः “कत्तुकरणयो स्त तीया” इति सूत्रात् तयोर्वाच्यतान्वयादिकमुक्तवत्। एत च व्यापारान्वयिनी। एतयोश्चान्यतरबोधनियामिका विवव एकस्योभयशक्तिमत्त्वे पर्यायेणौभयबोधः यथोक्ता हरिणा,- "एकस्य बुद्धयवस्थाभिर्भेदेन परिकल्पने। कर्मत्वं करणत्वच्च कर्तृत्वञ्चोपजायते” ॥ इति बुद्धावस्थाभिरित्यनेन विवक्षा द्योत्यते। गम्यमानापि क्रिया विभक्तिप्रयोजिकेत्युक्त: श्रमेणालमित्यादौ तौया, माध्यादिपदाध्याहाराञ्च श्रमसाध्वं नास्तीति बोधः । “हेतौ” इति विहितायास्तु हेतुरथः। हेतुत्वञ्चात्र क्रिया- जनकव्यापारवद्भिनले सति प्रयोजकत्वं यथोक्तं हरिणा,- "अनाविते तु व्यापार कारणं हेतुरिष्यते । ट्रव्यादिविषयो हेतुः करणं नियतक्रियम्” ॥ इति । यथा पुण्येन मुखम्, धर्मेण धनं प्राप्नोतीति वा। व्यापारश्च साक्षात् क्रियाजनको ग्राह्यस्त न हस्त न दात्रेण लुनातीत्यादी व्यवहितव्यापारवति हस्तादौ हेतुत्वमव्याहतमेव तस्य च द्रव्यत्वान्न तहाचकपदात् पच्चमी "विभाषा गुणहतास्त्रिया- मिति” सूत्रेण गुणहेतावेव पञ्चमौविधानात् हिमान् धृमा- दित्यादीष्टप्रयोगसिद्धार्थ तत्र योगविभागाश्रयणेऽपि अत्रा- नभिधानान्न तदादरणेन पञ्चमी। धूमपदस्य धूमज्ञानादी लक्षणायान्तु न तत्रापि योग- विभागाश्रयणमिव्याकरे स्पष्टम् । प्रयोजकत्वमित्युक्तेश्चाध्ययनेन - शब्दार्थरत्नम्। . वसतौति सिमध्ययनरूपप्रयोजनस्यापि वासेच्छाप्रयोजक- च्छाविषयतया प्रयोजकत्वस्वीकारात् । “सहयुक्त प्रधाने" इति विहितायाः सहार्थतत्तक्रिया- कर्तृत्वादिकमर्थः सहार्थस्तु समभिव्याहृततत्तक्रियासमान- कालौनत्व तत्र च क्रियायां बतौयार्थान्वयः सहार्थस्य च धातूपात्तक्रियायामन्वयस्त न पुत्रेण सहागतः पितेत्यादौ पुत्र- कर्तृकागमनसमानकालौनागमनकर्चभिन्नः पितेति बोधः सहाथगम्यतायां तु सहपदाध्याहारात् धातोर्वा तत्तक्रिया- कालोनक्रियायां लक्षणयान्वयबोधादिः । अवाप्रधानपदम- प्रधानक्रियान्वयिपरं तेन धातूपात्तप्रधानक्रियान्वयिपदात् न टतीयाप्रसङ्गः। "येनाङ्गविकारः” इति विहितायास्तु प्रयोज्यत्वमर्थः । अन्वयश्च तस्य समभिव्याहतपदार्थैकदेशे तेन अक्षणा काण इत्यादौ अक्षिप्रयुक्त काणत्ववानिति बोधः । "इत्थम्भूतलक्षणे” इति विहितायास्तु ज्ञाप्यत्वमर्थोऽन्वयस्तु पूर्ववत्तेन जटाभिस्तापस इत्यादी जटाज्ञाप्यतापसत्ववानिति बोधः "प्रकृत्यादिभ्य उपसंख्यानम्” इति विहितायाः सम्बन्ध- सामान्यमर्थस्तात्पर्यवशात् विशेषावधतिरन्वयश्च। प्रकृतिश्च यावदानयभावी धर्मविशेषः। आदिपदमातिगणसूचनार्थ तेन प्रकत्या चाररित्यादौ प्रकृत्यभिन्नचारुत्ववानिति बोधः । प्रायेण यान्त्रिक इत्यादी सम्भावनाविषययाज्ञिकत्ववानिति बोधः । प्रायार्थः सम्भावना। नाम्ना सुतीक्ष्ण इत्यादौ नामा- भेदवान् सुतीक्ष्ण इति बोधः शब्दार्थयोरारोपिताभेदसत्त्वा- बायोग्यता। सुरथो नाम राजत्यादौ तु अभेदसम्बन्धन नानः सुरथादावन्वयात् न बतौया। अभेदप्रकारकबोध- शब्दार्थरत्नम् । १३८ विवक्षायामेव तीयेति विवेकः । घटत्वेन जन्यत्वमि- त्यादौ घटत्वावच्छेद्यं जन्यत्वमिति बोधः। एवमन्ये ऽपि प्रयो- गास्तत्तत्सम्बन्धरूपतौयार्थताविवक्षायामेवोत्रेया इति दिक्। कारकचतुर्थ्याः सम्पदानमर्थः “चतुर्थी सम्प्रदाने” इति सूत्रात् वाच्यतादि पूर्ववत् । विप्राय गांददाति इत्यादौ विप्रसम्प्रदानक- गोकर्मकदानमिति बोधः मूल्याग्रहणपूर्वकखत्वनाशपूर्वक खत्वोत्यत्त्यनुकूलव्यापारो ददातेमुख्यार्थः तदुद्दे श्यस्य मुख्यसम्म दानत्वम् । शिष्याय चपेटं ददातीत्यादौ तु संयोगानुकूलव्यापा- रानुकूलव्यापारार्थकतया ददातेर्गौणत्वात् तदुद्देश्यस्य गौण- मम्प्रदानत्वमतएव वार्तिके "क्रियया यमभिप्रेतीति" क्रियो- हेश्यस्यैव सम्प्रदानत्वमुक्तम् । एवञ्च रजकाय वस्त्र ददाती- त्यपि साधु। आयत्तीकरणरूपददात्यर्थोद्देश्यत्वविवक्षायां तु षष्ठीप्रयोग इति भाष्यसम्मतम् । एतेन पिटभ्योऽन्न दद्यादि- त्यादौ पित्रादेरवादिमत्त्वे नोद्देश्यत्वाभावेऽपि दानक्रियोहे. श्यत्वात् सस्पदानत्वम् । एवं पत्ये शेते इत्यादावपि। बोधस्तु सर्वत्र तत्तत्सम्पदानिका क्रियेति तेन न तादर्थचतुर्थ्या अस्यागतार्थत्वमिति बोध्यम् । हरये रोचते भक्तिरित्यादी विषयतया प्रीत्यनुकूलस्तत्- समानाधिकरणव्यापारो रुच्यर्थः समवायेन तत्फलाश्रयः सम्पदानं “रुच्यर्थानां प्रौयमाणः” इति सूत्रात् । बोधस्तु भक्ति- कर्तृको हरिसम्पदानकस्तादृशव्यापार इति। अभिलष्यतेस्तु विषयतया प्रतिव्यधिकरणव्यापारबोधकतया सकर्मकत्वेन न रुच्यर्थत्वमतस्तत्र भक्तिमभिलष्थति हरिरित्येव प्रयोगः । बोधविषयगुणवत्वप्रतिपादकशब्दप्रयोगः नाघतेरर्थः । बोधविषय इतरादर्शनयोग्यदेशस्थापन हुतेः। तिष्ठतेः स्वाभि- प्रायबोधनानुकूलखितिः। शपतेः स्वाभिप्रायबोधनानुकूल- १४० " शब्दार्थरत्नम्। शपथकरणमर्थः । तत्र बोधयितुमिष्टः सम्पदानं "श्लाघइड्स्था- शपां जोसामान" इति सूत्रात् । अवस्थित्यनुकूलव्यापारोधारे- रर्थः। स्थित्याश्रयसम्बन्धी सम्पदानं "धाररुत्तमर्णः” इति सूत्रात्। अवश्यदेयमृणमुत्तममुद्देश्यत्वेन देयं तदयस्येति व्युत्पत्त्या स्थितवस्त्ववश्यदानोहेश्य उत्तमर्ण इति फलितार्थः । इच्छामात्र स्प हयतेरथस्तहिषयः सम्प दानं “सृहेरौप्सितः इति सूत्रात्। इच्छानुकूलमन:संयोगादिव्यापागर्थकत्वे तु सकर्मकतया तदद्योग दितीयैव तेन पुष्पाणि स्पृहयतीत्येव साधु । बधाद्यनुकूलव्यापारजनकश्चित्तहत्तिविशेषः क्रू धेरर्थः । दुःखजनक क्रियारूपापकारजन्यश्चित्तत्तिविशेषः द्रुहः। उत्- कर्षविरोधिकारोपानुकूलः स एव इर्थतेः। आचारादि- गुणविशेषे दम्भकतत्वाद्यारोपानुकूलः स एव असूयतेरर्थः । धावयतम्म लोभूतकोपविषयः सम्प दानम् “क्रुधदुहेर्थासूया- र्थानां यं प्रति कोपः” इति सूत्रात् । तत्र द्रोहादौनां कोपमूल- कत्वात् तद्विषयस्य सम्प दानत्वमिति बोध्यम् । प्रश्नविषयशुभाशुभपालोचनं राधौक्ष्योरर्थः शुभाशुभसम्बन्धी सम्पदानम् । “राधीच्योर्यस्य विप्रश्नः” इति सूत्रात्। प्रवर्तनाजन्योऽभ्यु पगमः प्रतिश्रुव पाश्रुवश्चार्य: प्रवर्त्त नाकर्ता सम्य दानं “प्रत्याभ्यां अवः पूर्वस्य कर्ता” इति सूत्रात् । (पूर्वस्य) धात्वर्थघटकविशेषणव्यापारस्य। शंसनवि- घयहर्षानुकूलव्यापाररूपप्रोत्साहन प्रतियणातेरनुग्रणातेश्वार्थ: अत्रापि पूर्वव्यापारस्थ शंसनस्य कर्ता सम्य दानम् “अनुप्रति- एणश्च” इति सूत्रात्। सर्वत्र च यथायथं हेतुत्वकर्मवादिना तत्तत्संज्ञाप्राप्तौ सम्य दानसंज्ञा विहिता यथोक्तं हरिणा,- "हेतुत्वे कम्मसंज्ञायां शेषले चापि कारके । रुचर्यादिषु शास्त्रण सम्य दानवमुच्यते ॥ इति । तादृश- - शब्दार्थरत्नम्। बोधस्तु तत्र तत्र तत्तसम्पदानिका क्रियेत्येवं शब्दः, अर्थस्तु यथायथं बोधादौ विषयतात्तित्वादिनान्वयाद यथाप्राप्तमित्य- न्यत्र विस्तरः। "तुमर्थाच्च भाववचनात् इति विहितायाः तुमर्थद्यो- तकत्व यथा पाकाय यातीत्यादी बोधस्तु पक्तुं यातौतिवत् भाविपाकोद्देश्यकतत्समानकर्त कयानमित्येवंविधः । "क्रियार्थोपपदस्य कम्मणि स्थानिनः" इति विहितायाः कमार्थ : एतत्समभिव्याहार च धातोः चतुर्थीप्रकृत्यर्थ कर्म- कक्रियोद्देश्यकतत्समानाधिकरणक्रियायां लक्षणा तेन काष्ठाय व्रजतीत्यादौ काठमाहत्तुं व्रजतीतिवत् बोधः । तादर्थं चतुर्थ्यास्तादथ्य मर्थः तच्चोपकार्योपकारकभावसम्ब- स्वरूपं, तत्रापि सोऽर्थो यस्येति व्युत्पत्त्या उपकार्यवाचकादेव चतुर्थों। यथा विप्राय दधीत्यादी विप्रोपकारकं दधीति बोध;। उपपदचतुर्थ्याः सम्बन्धसामान्यमर्थ स्तात्पर्यवशा- विशेषावधारणम्। यथा हितादि योगे चतुर्थी विहिता तत्र सम्बन्धोऽर्थ स्तेन विप्राय हितमित्यादी विप्रसम्बन्धि हिमिति- अत्र शेषषष्ठी विभाषया भवतीति वृद्धाः। नमःख- स्यादियोगेऽपि चतुर्थी विहिता। तत्र वाहादिसाहचर्यात् खरादिपठितएव नमःशब्दोग्राह्यते न निपातः। तथाच नमः- शब्दार्थ: अपकर्षबोधनानुकूलव्यापारः खत्वनिहत्त्यनुकूलव्यापा- रश्च शब्दशक्तिखाभाव्यात् तत्पदप्रयोक्तुरेवापकर्षरूत्वयोः प्रतोति स्तेनान्योच्चारितनमःपदावान्यस्य तबतौतिः । ऋत्विजा तु यजमानद्रव्ये खत्वारोपणैव तथा प्रयुज्यते। तत्राद्यार्थकत्वे सम्बन्धित्वमपकर्षबोधान्वितं, द्वितीयार्थकत्वे च त्यागान्वितम्, उद्देश्यत्वं च चतुथ्यं य॑स्तेन ब्राह्मणेभ्योनम इत्यादौ ब्राह्मण- सम्बन्धिखापकर्षबोधानुकूलव्यापार इति अय हरये नमः बोधः।
१४२ शब्दार्थरत्नम् । इत्यादौ हयुद्देश्यकत्यागविषयोऽयं मिति च बोधः। एवं खाहादौनामर्थान्वयादिकमूद्धम् नमः शब्दस्य निपातत्वेन तद्योगे चतुर्थी तेन देवान् नमस्करोतीत्यादिसिद्धिः ब्राह्मणेभ्यो नमस्कृत्येत्यादौ तु क्रियोद्देश्यत्यात् चतुर्थी न नम:शब्द- योगे इत्याकरे स्पष्टम् । कारकपञ्चम्या अपादानमर्थः “अपादाने पञ्चमौ” इति सूत्रात् वाच्यता तु तच्छक्तिमत्त्व नान्वयञ्चोक्तवत् । इयच्च पञ्चमी विभा. गार्थकधातुयोगे एव साधुः। विभागश्च वास्तवो बुद्धिकल्पितो वा बोध्यस्तन घटाहिशिष्यते पट इत्यादी घटावृत्तिधर्मरूप- विशेषस्य कल्पितविभागतया तदर्थकधातुयोगेऽपि घटादेव- धित्वात् पञ्चमौति बोध्यम् । एवञ्च वृक्षात् स्पन्दते इत्यादिन प्रयोगः। आसनाञ्चलितइत्यादौ तु विभागपूर्वकस्पन्दनमेव चलेरर्थ इति न काचिहानिः। खार्थाद्धीयते चेत्र इत्यादी कत्तुंरपादानत्वम् “अपादाने चाहीयरहोः" इति सूत्रे ज्ञापकमाश्रित्य शेखरादी व्यवस्थापितम् । तेन च खार्थेन हीयते चैत्र इतिवत् बोधः । “जुगुप्साविरामप्रमादार्था- नामुपसंख्यानम्" इति वार्त्तिके अनिष्टसाधनताज्ञानाधौन- निन्दा जुगुप्सा। कृत्यभावानुकूलव्यापारी विरामः। इष्टा- निष्टसाधनयो स्तविपरीतत्वज्ञानाधौननिहनिप्रवृत्ती प्रमादः । सर्वत्र च ज्ञानवत्यादी विषयतया अपादानस्यान्वयः विषय- ताविशिष्टञ्चापादानं बोधस्तु पापाज्जुगुप्सते इत्यादौ पापापा- दानकजुगुप्सेति शाब्दः प्रार्थस्तु पापविषयजुगुप्से ति। मन्यत्रापि । “भोत्रार्थानां भयहेतुः" इति सूत्राञ्च चौरात् विभे- ति त्रायते वेत्यादौ अनिष्टहेतुरपादानम् । तत्रानिष्टसाधनज्ञान- भयम्, अनिष्टवारणच्च वाणं, सूत्रे भयपदेन भयैकदेशस्याप्युप- लक्षणादनिष्टहेतोरपादानत्वम् । अध्ययनात् पराजयते इत्यादी एव.
शब्दार्थरत्नम् । कत्यसाध्यधौहेतुकतद्विषयकोत्साहाभावः पराजेरर्थस्तत्रोत्- साहकर्मभित्रमपादानं "पराजरसोढ़" इति सूत्रात् सोढुम- शक्योऽसोढ़ इति तदर्थः शत्रून् पराजयत इत्यादौ तु अभि- भवार्थकत्वात् तद्योगे नापादानसंज्ञा। यवेभ्यो गां वारयती- त्यादौ भक्षणादिजनकव्यापाराभावानुकूलव्यापारी वारयतेरर्थ- स्तत्राभावप्रतियोगिव्यापारजन्यभक्षणाद्याश्रयोऽपादानं “वार- रणार्थानामौप्सितः” इति सूत्रात् यवादिभक्षणस्येप्सितत्वेन यवादे- रपि तथात्वमिति बोध्यम्। मातुलॊयतेऽन्तई ने इत्यादी ख- कर्मकदर्शनाभावप्रयोजकदेशविशेषांतरन्तनं तच च यत्- कर्तृकदर्शनाभाव इच्छाविषयस्तदपादानम् “अन्तौं येनादर्श- नमिच्छति" इति सूत्रात्। अत्रेच्छतौत्युक्त वात्तत्कर्तृकदर्शने जनिष्यमाणेऽपि न तस्यापादानवहानिः । उपाध्यायादधीते इत्यादी उच्चारणोत्तरकालौनग्रन्थखीकारोऽध्ययनं तत्रोच्चारण- कर्ताऽपादानम् “आख्यातोपयोगे” इति सूत्रात्। मृदो घटो जायते इत्यादौ आद्यक्षासम्बन्धी जननं तत्कघंटादरुपादान- कारणमपादानम् “जनिकत्त : प्रकृतिः' इति सूत्रात् । ज्ञानात् अमोदो जायते इत्यादौ तु हेतुपञ्चमी तेन ज्ञाननित्यपि प्रयोगः । हिमवतो गङ्गा प्रभवतीत्यादी आद्यप्रकाशो भवन तदधिकरणमपादानम् “भुवः प्रभवः” इति सूत्रेण भवनाधिकरण- स्थापादानत्वविधानात्। (भुवः) भवनस्य कत्तु रित्यनुषङ्गः । "त्यब्लोपे कर्मण्यधिकरणे च इति विहितायास्तु कर्माधिकरण- वार्थ स्तसमभिव्याहृतधातुना ल्यबन्तक्रियाक्षेपणात् अध्यात- तत्तक्रियायां तयोरन्वयस्वेन आनन्दादीक्षते प्रासादादौक्षते शादौ आनन्दकर्मकप्राप्त्युत्तरकालीनतत्समानकर्तकमीक्षण सादाधिकरणकं तथक्षणञ्चेति बोधः। धातोरव तादृश- विशिष्टार्थे लक्षणेत्यन्ये । उपपदपञ्चम्याः सम्बन्धोऽर्थः स च १४४ शब्दार्थरत्नम् । “अन्यारात्” इत्यादिसूत्रजातोपात्तशब्दार्थान्वययोग्यस्तात्पर्य- वशादवसेयः । हेतुपञ्चम्या हेतुरर्थोऽधिकमुक्त प्राक् । षष्ठयाः सम्बन्धसामान्यमर्थ : “शेषे षष्ठी” इति सूत्रात् शेषश्च क्रियाकारकभावात् अभेदसम्बन्धाच्चान्यो नातस्तत्रापि षष्ठी- प्रसङ्गः। सम्बन्धश्च क्रियामूलकएव भवति सिद्धस्वभावयोः व्य- यो व्यगुणयोर्वा सोपादानवत् क्रियामन्तरेण सम्बन्धानुपपत्तः। यथोक्तं हरिणा ;- "मम्बन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः । अश्रुतायां श्रुतायां वा क्रियायामभिधीयते" ॥ इति । तत्र राज्ञः पुरुष इत्यादौ अश्रुताया अपि दानप्रति ग्रहादि- क्रियायाः कत्त त्वेनोपकार्योपकारकभावोऽवगम्यते मातुःस्मर्यते इत्यादौ पुनः श्रुतायाः स्मरणादिक्रियायाः कम्मत्वेन तथाभाव इति विशेषः । सामौप्यसम्बन्धेऽपि समोपदेशस्थित्यादिकत्तं खे- नैव तथाभाव इत्याकर स्पष्टम्। तत्राप्ययं विशेषः सम्बन्धस्य हिष्ठलेऽपि गुणीभूतसम्बन्धिनएव षष्ठी। यथोक्त हरिणा "हिष्ठोऽप्यसौ परार्थत्वात् गुणेषु व्यतिरिच्यते । तत्राभिधीयमानश्च प्रधानेऽप्युपर्यते ॥ इति । अयमप्यपरो विशेषः। सर्वेषां धातूनां योगे शेषत्वेन विव- क्षायां कमादौ षष्ठीप्राप्तावपि “ज्ञोऽविदर्थस्य करणे” इति अधोगथं दयेशां कर्मणीत्यादिसप्तसूत्रां शेषे इत्यनुवृत्त्या शेषत्वेन विवक्षिते एव कर्मकरणादौ ज्ञादिविशेषयोगे षष्ठीविधानं समामनिषेधार्थे तेन सर्पिषो ज्ञानं मातुः स्मरणमित्येव प्रयोगः। यथोक्त वार्ति के "प्रतिपदविहिता षष्ठी न सम- स्यते” इति। हरिणाप्युक्तम्- "कारकव्यपदिष्टे च श्रूयमाणक्रिये पुनः । प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ॥ इति । - शब्दार्थ रत्नम्। १४५ - - अत्र कारकव्यपदिष्ट इत्युक्तिः सम्बन्धे क्रियाकारकभावमूल- कत्वद्योतनार्थम् । प्रतिपदं सकलप्रत्ययप्रयोगे, न तु वदिशेष- योगएवेत्यर्थः । हरिस्म तिरित्यादौ च हरेः शेषत्वेनाविवक्षायां कम्मतया विवक्षायां च वयोगे कर्मार्थषष्ठया समासः खरे वैलक्षण्याच्च न नियमवेयर्थ्य मिति दिक् । "कर्तृकर्मणोः कति” इति विहितायाः कर्ता कर्म चार्थः । एकत्रोभयप्राप्तौ षष्याः साधुत्वे नियमोऽप्युक्तः । यथा “षष्ठी सम्भाविता यत्र युगपत् कत्तुंकर्मणोः । अस्त्रीविहितकद्योग कर्मणि स्यान्न कर्तरि ॥ तव्यादीनां प्रयोगे च योरव हि नेष्यते । कत्तुर्विभाषया कैश्चित् कर्मणोऽपि तथेथने ॥ इति तथा गुणमुख्यकर्मणोरपि विशेष उक्तः,- "प्रधान नियता षष्ठी गुणे तूभयथा भवेत् । प्रधाने प्रत्ययाश्चेत् स्युः षष्ठी कुर्यात्तदा गुणे” ॥ इति अत्राप्ययं विशेषः। नलोकेत्यादिना द्योग षष्ठीनिषेधात् शेषषष्ट्यापि न तत्र समासस्तेन ग्रामस्य गतवानिति विग्रहेऽपि ग्रामगतवान् इति न प्रयोगः । यथोक्तं हरिणा- “निष्ठायां कर्मविषया षष्ठी च प्रतिषिध्यते । शेषलक्षणया षष्ट्या समास स्तव नेथवे" ॥ इति अत्र निष्ठायामित्युपलक्षणमित्याकरे स्पष्टम् । सप्तम्या अधिकरणमर्थः “सप्तम्यधिकरणे” इति सूत्रात् । वाचता तु तच्छक्तिमत्त्वेन तस्य च वाश्रितकर्तृकर्मान्यतर- निष्ठाधारतानिरूपकतया फलव्यापारान्यतरयोरन्वयः । “यस्य च भावेन भावलक्षण"मिति विहितसप्तम्याः सम देशकालत्वाभ्यां परिच्छेदकत्वरूपलक्षणमर्थः तत्र द्रव्यस्य १३ १४६ शब्दार्थरत्नम्। कालादिपरिच्छेदकत्वाभावेन तहतक्रियाया एव परिच्छेदकत्व- कथनाय यस्य च भावनेत्युक्त भावस्यापि स्वतस्तथात्वाभावेन तद्देशकालयोस्तथात्वेनैव च परिच्छेदकत्वम् । तेन गोषु दुह्य- मानाखागत इत्यादौ गवादिदोहक्रियाकालेनागमनकालपरि- छेदात् गवादेः सप्तमी बोधस्तु दोहनकम्माभिन्नगव्यादिसम्बन्धि- दोहनक्रियाकालौनागमनकर्तेति। तत्र यस्य चेति चकारात् तविशेषणवाचकादपि सप्तमौ। यस्येत्युक्त्या कर्तृकर्मणोरेव फलव्यापाररूपक्रियाश्रयतया तद्भावेन क्रियान्तरकालपरिच्छेद- कलविवक्षायां ताभ्यामव सप्तमी न कारकान्तरेभ्य इत्याकर स्पष्टम् । गुणे सति द्रव्यत्वमस्तोत्यादौ गुणसत्तायाः द्रव्यत्वसत्त्वा- धिकरणदेशपरिच्छेदकत्वात् गुणवाचकात् सप्तमौति बोध्यम् । बोधस्तु सत्तावदभिन्नगुणसम्बन्धिसत्तासमानदेशिकं द्रव्यत्वकर्तृ कमस्तित्वमिति। प्रसिद्धञ्च निर्घातदेशकालक्रियाया अनि- तिदेशकालयोः परिच्छेदकत्वं, तस्याश्च कदाचित् वसमान- कालेन कदाचिच्च स्खपूर्वोत्तरकालाभ्यां तथात्वं तेन दुग्धासु धोक्ष्यमाणासु वा गोष्वागतइत्यादिसिद्धिः। “तथा यस्य च भावेनेति” प्रागुतरेतत्सप्तम्याः क्रियायामेव साधुत्वाट्यत्र तहाचकं पदं नास्ति तनाध्याहृतक्रियायामन्वयस्तेन गुणकर्मा- न्यत्वे सति सत्त्वादित्याद्युपपत्तिरिति दिक्। निमित्तात् कर्मयोग इति विहितसप्तम्याः निमित्तत्वमर्थः निमित्तत्वमुद्देश्यत्वं फलत्वमिति यावत् चर्मणि हौपिनं हन्ती- त्यादौ चर्मोद्देश्यक हौपिहननमिति बोधः। योगह संयोग- समवायाभ्यामेव इत्याकरे स्पष्टम् । “षष्ठो चानादरे” इति विहितषष्ठीसप्तम्योः कर्मार्थः, तत्- समभिहारे च अनादरपूर्वकतत्तक्रियायां धातोर्लक्षणा तत्रानादर च कर्मान्वयस्त न रुदति अपत्ये रुदतो वा जगाम- शब्दार्थरत्नम्। त्यादौ रोदनक-पत्यकर्मकानादरपूर्वकं गमनमिति बोधः । साधुनिपुणादियोगे विहितयोस्तयोः सम्बन्धसामान्यमर्थः । “यतश्च निर्धारणम्” इति विहितयोस्तयोर्निर्धार्यधर्मतदव- ध्योावाख्यः सम्बन्धोऽर्थः सजातीयसमुदायाद् यत एकदेशस्य जात्यादिरूपव्यावर्त्यधर्मद्वारा (निरिणं) तदर्मप्रकारकज्ञान- विषयौकरणं ततः षष्ठोसप्तम्यौ स्तइति सूत्रार्थः । तेन नराणां नृषु वा विप्रः श्रेष्ठ इत्यादौ नरपदं विप्रादौतरनरबोधक बोवस्तु विप्रादोतरनरावधिकव्यावय॑श्रेष्ठत्वगुणवदभिन्नो विप्र- इति। निद्वारणापेक्षयाऽवधित्वविवक्षायां पञ्चम्यपि साधुः “पञ्चमो विभक्त" इति सूत्रात् निर्धार्यनिरिणयोरत्यन्तभेद- एव अस्याः साधुत्वम् । भवति च माथुराः पाटलिपुत्वेभ्य आब्य- तरा इत्यादी माथुरपाटलिपुत्रवासिनोरत्यन्तभेद इति । स्तत्र तत्तत्पदार्थभेदघटितनिर्यसम्बन्धएव तयोरथं इति दिक् । शुभम्। इति शब्दार्थरत्ने पदकाण्ड समाप्तम् । अत- इति श्रोतारानाथतकवाचस्पतिभट्टाचार्येण विरचितं शब्दार्थरत्नं समाप्तम् ।
No text on this page.
No text on this page.