Library
Abhinava Vaasavadatta
Front matter
UNIVERSAL
LIBRARY
OU_184196
LIBRARY
UNIVERSAL
No text on this page.
OSMANIA UNIVERSITY LIBRARY
Call No. S808:1
Accession No,
52554
Author
N 23
Gacho ajia dileziton
zilnay ariagar
Title
This book should be returned on or before the date
last marked below.
No text on this page.
आभा वासवदत्ता
श्री वट्टिपल्लि नरकण्ठीरवशासत्रिणा विरचिता
संपादक :
डा. पुल्लेल श्रीरामचन्द्रः
निदेशक :
संस्कृतपरिषत्, उस्मानियाविश्वविद्यालयः,
हैदराबाद-५०० ००७.
क्री. १९९०
शकान्दा1१९१२
All Rights Reserved
ABHINAVAVASAVADATTA
SMANIA
LIBRARY
ERSITA
HYDERABAD
Ву
Sri Vattipalli Narakanthirava Sastri
First Edition 1990
Copies :
500
ACADEMI
SANSKRIT
PRICE : 10-00
int Price
20 F
HYD.1
Published by the solution Acaderas
Osmania University
Hyderabad - 500 007.
India.
Printed at : R. K Printers, Hyderabad - 500 001.
INTRODUCTION Sri Vattipalli Narakanthirava Sastri was the descendant of a well-known family of great scholars of Vattipalli, a small Village in the Kurnool District of Andhra Pradesh. He was the son of Sri Sambasiva Sastri and Venkatalakshmamma. He was born in 1869 and died in the 41st year of his age, in 1910. Sri Sastri was one of the greatest scholars of his time, in Nyaya, Vedanta and Alankara Sastra and also a great poet of repute. The following are some of his works. 1. काव्यलक्षणवादः 2. अभिनववासवदत्तम् 3. यतिसार्वभौमोपहारः 4. 3truffazifa: 5. विशिष्टाद्वैतमतखण्डनम् 6. कर्मन्दी 7. वेदप्रामाण्यवादः 8. श्रीनिवाससभावर्णनमालिका 9. कपिलेश्वरस्तुतिः In Abhinavavasavadatta" Sri Narakanthirava Sastri has abridged the well-known prose romance, Vasavadatta' of Subandhu in 262 verses (excluding the 34 introductory verses) of Arya metre. Sri Sastri has a powerful style of his own which is marked with elegance and perspecuity which no reader of discerning mind can miss. It is hoped that this work, like the Kadambarisara of Abhinanda, will be welcomed by the Sanskrit scholars. I am thankful to Sri Vattipalli Mallinatha Sarma, grandson of the brother of Sri Narakanthirava Sastri for making the manuscript of this work available with permission to publish. Dated : 15-12-1990. P. Sri Ramachandrudu,
No text on this page.
श्रीरस्तु
श्री गणेशाय नमः
अभिनववासवदत्ता
देवप्रार्थना
१
वन्दामहे महेशं वन्दारुजनाभिलषितमन्दारं ।
बृन्दारकमणिमकुटीसन्दानितसूनसुरभिताङघ्रियुगम् ।।
मदनपरिपन्थिमहिषी मघवप्रमुखैस्सुपर्वभिर्महिता।
मनसि मम सन्निधत्तां मन्दस्मितमुग्धमधुरमुखकमला ।।
निष्प्रत्यूहमुपासे निजि निखिलदेवतोपास्यं ।
भञ्जकमबोधतमसां कुञ्जरवदनं महः किमपि ।।
२
my
३
कलये कामपि देवी कमलासनवल्लभां जगज्जननीम् ।
करकमलकलितवीणां कस्य चित्कवनकौशल्यै ।।
-
वदने वाचां देवी यस्य चतुर्मुखमुखेष्विव क्रीडाम् ।
तनुते नमोऽञ्जलिरयं तस्मै वल्मीकजन्मने मुनये ।।
श्रीव्यासकालिदासी भासश्रीहर्षभा रविमयूरान् ।
बिल्हणमल्हणबाणप्रमुखान् प्राचः कवीनहं स्तोमि ।।
गुरुवन्दनम्
श्री शेषगुरोश्चरणौ प्रणिपत्यालूरुवंशरत्नस्य ।
कृपया साहित्यनिधेष्षोडशवर्षे करोमि कृतिमेताम् ।।
२ अभिनववासवदत्ता कविवंशप्रशस्तिः ८ ९ १० ११ १२ अस्ति प्रशस्तयशसां नृपतीनां माकवंशरत्नानाम् । कार्वेटिपूर्वनगरी गरीयसी हसितदेवरानगरी ।। त्रिभुवनसर्गस्थितिलयलीलालोल: स वेणुगोपाल: । यस्यां वसति सलील रुक्मिण्या सत्यया च सम्मिलितः ।। यस्मिञ्छ तयो विरताः परभावधिमश्नुते परत्वमपि । स किल सदाशिवदेवो दीव्यति सविधे च नैऋते यस्याः । श्रीमान्कुमारवेङ्कटपेरिमाल राजेन्द्र चन्द्रमास्तस्याम् । विदुषां हृदयचकोरान्धिन्वन्जयति स्म कीर्तिन्द्रिकया । यो जननाथोऽगमयद्योजनमेक तुरङगमोत्तंसम् । हूणनृपैः कृतशपथः पूर्णजवाड्मयानतोऽप्यने ।। यस्मिन्शासति पृथिवीं सङख्यावन्तोऽभवन्नसङख्याका: । चित्रं वनीपका अप्यभवन्नवनीपका द्विजास्सकलाः ।। तस्य बभूवुस्तनयास्त्रय इव वेदास्त्रयो महामहसः । हरिहरहिरण्यगर्भाः कृतावतारा इव क्षितौ कुतुकात् ।। अयमखिलराजहंसप्रकरविमानीकृतिक्षमो भविता। इति मत्वेव प्राज्ञश्चक्रे ब्रह्माऽभिधं सुतं प्रथमम् ॥ भवति कवेरानन्दप्रदस्तथा दक्षिणोऽयमवनितले । इति सद्वतीयीकं चक्रे कावेरिराजनामानम् ।। सकलारातिमहीपतिसमदमदावलमृगेन्द्र एष इति । अतनोत्तार्तीयोकं तनयं नृपतिस्ससिङगराजाख्यम् ।। अथ स ब्रह्ममहीपतिरभिषिक्त: पालयन्महीमखिलाम् । राजति तेजश्शाली मणिरिव शाणोपलोल्लिखितः ॥ १३ १४ १५ १७ १८ अभिनववासवदत्ता २० २१ २२ २३ करतलधृतशतकोटिप्रशमितभ मृत्प्रकाण्डपक्षबलः । भुङ्क ते राजबिडोजा राज्यस्वाराज्यमखिलमपि ।। विधिरिव सकलकलानिधिरुदधिरिवोद्वेलवाहिनीशानः । मधुरिव कृतसुवनश्रीजयति श्री ब्रह्मभूपतिर्जति ।। कीतिर्यस्य विधत्ते किरणश्चान्द्रः कचाकचिक्रीडाम् । तेजोऽपि समं तनुते तरणे: किरणस्तलातलिविलासम् ।। तस्यास्थानीमण्डपकमलाकरकेलिलोलकलहंसः । अमलैविद्वद्रत्नरलङकृते काश्यपः कलाकुशलैः ।। श्रीमदहोबलनरहरिकरुणाऽपाङगैस्तरङिगताभ्युदये । श्री वट्टिपल्लिवशे विख्याते क्षितितले महाविमले ।। अजनिष्टवीरराघवभट्टाचार्यस्समस्त शास्त्रज्ञः । वाराणस्यां जीवितमनयच्छास्त्रप्रवचनमातन्यन् ।। नागोजी विठरमहोपाध्यायप्राणिनाथ आचार्यः । हनुमत्त्र्यम्बकमुख्या यस्य च शिष्यप्रशिष्यपदभाजः ।। तत्तनयेषु प्रथमस्सकलदिगन्तप्रसिद्धपृथुकीतिः ।. आसीत्काशीनाथस्तर्कालङ्कारवागीशः ।। दुर्वादमुखरताकिकगर्वोदयपर्वतौघदम्भोलिः । गीर्वहति स्म तदीया गीर्वाणतरङिगणीतरङगतुलाम् ।। तस्याभूदनुजन्मा साम्बशिवस्सकलशास्त्रनिष्णातः । वीरेश्वर इति तनयस्तस्याजनि तादृशः कलानिचये ॥ तस्माज्जातोऽस्ति बुधस्साम्बशिवो विदितसाहितीसारः । सोऽयं वेङ्कटलक्ष्भ्यां नरकण्ठीरवमजीजनत्तनयम् ।। तनुते स एष सुहृदां प्रेरणया न तु कवित्वदर्पण । अभिनववासवदत्तां पद्यमयी सुभगसन्दीम् ॥ २६ २७ २८ २ my अभिनववासवदत्ता ३२ क्व नु वचसामुल्लासः कविकुलचूडामणेस्सुबन्धुसुकवेः । क्वाहं जनोऽनभिज्ञः क्व नु मतिरल्पीयसी च मम ।। यद्वा दयाराः कटाक्षवीक्षाभगिरां देव्याः । समुपेयुषः प्रसादं जगतां त्रितय (ऽस्ति) किन्न्वसाध्यं मे ।। यद्यपि सन्त्यतिकुशलास्सन्त्यपि तेषां निबन्धनानि भृशं । गृह्णन्त्व, प्रबन्धं तथाऽपि सुधयो मयि प्रसन्नदृशः ।। शृण्वन्तु शिशोरपि मे सूक्ति सुभगां सुधामुच सन्तः । अपि जगति रसोल्लसितां शुकस्य वाचं न कः शृणुते ।। ३३ ३४ ३ अथ कथाप्रारम्भः ३ आसीदसीममहिमा महिमानितगुणगणोज्ज्वलश्श्रीमान् । नाम्ना वितरणभूम्ना चिन्तामणिरिति महोपतिः प्रथितः ।। ३५ सकलोर्वीपतिमण्डलचूडामणिशाणकोणकषणेन । विमलीकृता यदीया राजति पदपद्मनखरमणिराजिः ।। ३६ अहितकुलधूमकेतुर्महिततनूकान्तिहसितझषकेतुः । कन्दर्पकेतुरभवत्तनयो विनयोज्ज्वलस्तस्य ।। ३७ अथ जातु चिदस्ताचलमस्तकमवतरति कुमुदिनीकान्ते । मारातपत्त्रकान्ते दूराध्वविलङ्घनादिव श्रान्ते ।। ३८ स्वप्ने स राजपुत्रोऽस्वप्नणाक्षीमिव व्यलोकयत । कन्यां त्रिभुवनमान्यामन्यादृशरूपसम्पदा धन्याम् । सृष्टामिवाङ्गजनुषा दृष्टादृष्टावलग्नलसमानाम् । अष्टापदतुलिताङ्गीमष्टादशवर्षदेशीयाम् ।। जघनमगाङ्गारिधिना रोमालिलतालवालवलयेन । काञ्चनकाञ्चीदाम्ना काञ्चन सुषमां नितान्तमञ्चन्तीम् ॥ ४१ ४० अभिनववासवदत्ता ४२ ४३ अनयोस्तनयोध्नयोरयि मयि पातो भवेदितीव भिया । स्पृशता कृशतां दिशताऽवशतां ललितावलग्नभागेन ।। स्मरलीलासदनाभ्यां स्मरमोहनचूर्णपूर्णकलशाभ्याम् । रुचिरां पयोधराभ्यां हृदयसरःकनककमलमुकुलाभ्याम् ।। अधरेण पल्लवरुचा मधुरेणाधरयता सुधाऽऽस्वादम् । लपमानामसमानामनुरागान्धिप्रवालशकलेन । वरकुन्दकुट्मल त्रीसदनरुज्जृम्भमाणमदमदनैः । रदनैर्भूषितवदनविलसन्तीं मौवितकैश्च कृतकदनैः ।। तरुणजनहृदयकरिणामालानस्तम्भविभ्रमं दधता। नासावंशेन युतां नयनामृतसिन्धुसेतुबन्धेन ।। ४४ ४६ ४७ रतिपञ्चबाणधनुषोरतिवेलविलासवैखरीभाग्भ्याम् । ललिता भ्रूलतिकाभ्यां नयनोत्पललीनमधुपरेखाभ्याम् ॥ परिपूर्गमुखसुधांशोरङकूरयता कलङकविचिकित्साम् । तिलकेनाञ्चितनिटलां मृगमदकर्दमसुसूक्ष्मरचितेन ।। अथ तां तरल दृगन्तां कान्तां दृग्भ्यां पिबन्निवादरतः । जनितेय॑येव सहसा चिरसेवितया स निद्रया मुमुचे ।। तदन स मदनगरालीशरव्यतापनमानसस्तरुणः । विषसरसीव निमग्नं बुद्धो न शशाक धर्तुमात्मानम् ।। स तदालिङगनकुतुकी क्षणमाकाशे प्रसार्यमाणभुजः । सकलासु दिक्षु पश्यन् लिखितामिव तामथाजुहावेत्थम् ।। ४९ ५० एह्येदि चन्द्रवदने मागास्तव चरणदासमवधूय । शीतलय मामपाङगैरङगजसन्तप्तममृतरसभङगैः ।। ५२ ६ अभिनववासवदत्ता अयि मयि दयिते दयते दासजने ननु कथं न हृदयं ते । मा चिरय सदयमधरं मधुरं मे देहि पातुकामोऽस्मि ॥ ३ ५४ कामिनि कामयमानं कामसमानं निकामलसमानम् । मनुजाधिपतनुजातं मामतिसन्धाय किमिति यास्यधुना ।। अङकमलङकुरु बाले ! बङ जनयने समीहितं कुरु मे । किङकरमुज्जीवय ते मकराङकातडकमोचनादेनम् ।। अथ शय्यातलशयितो निवारिताशेषजनप्रसरः । निखिलोपभोगविमुखो निन्ये कृच्छ्ण दिवस रजनी ते ।। तदनु प्राणसमानः प्रियसुहृदस्योपसृत्य मकरन्दः । कन्दर्प केतुमूचे कन्दर्पशरप्रहारपरितप्तम् ।। किमिदमसाम्प्रतमयसेऽसाधुजनाचरितमेनमध्वानम् । सन्तः प्रेक्ष्य भवन्तं निवसन्ति सखे वितर्कडोलासु ।। सम्प्रति लब्धावसरा रचयन्ति सखे खलास्तवानिष्टम् । सततमनिष्टोद्भावननिरतं हृदयं हि भवति पिशुनस्य । कुरु चेतसि मम वचनं चर साधु जनोचिते सखे चरिते । विरम विगीताचरितात् स्थि रमात्मानं विधेहि भज धैर्यम् ।। ५७ ५८ ५९ ६० इति कथयति मकरन्दे मृदुवचनन्यासहसितमकरन्दे । क्न्दर्पकेतुरेनं परिमितवर्णां शनैरुवाच गिरम् ॥ अयमुपदेशावसरो न भवति भवतस्सखे दशां शृणु मे अजगान्यङगजलप्तान्यङगीकुर्वन्ति सपदि भङगुरताम् । । ६२ पच्यन्त इवाङगानि क्वाथ्यन्त इवेन्द्रियाणि सकलानि । भिद्यन्त इव विवेका: कामपि कष्टां दशां प्रपन्नोऽस्मि । ६३
अभिनववासवदत्ता
अलमलमनया कथया यदि सौहृदमीहसे निसर्गेण ।
आगम्यतामिदानीममुना साकं जनेन दौनेन ।।
इत्युक्त्वा तेन समं प्रययौ केनाप्यलक्षितस्सहसा ।
अति वक्राम तदानीमध्वानमने कनल्वशतमात्रम् ॥
तत्र ददर्श मृगेन्द्रप्रस्तकुरङगीकुलाकुलोपान्तम् ।
कलशजवचसा संहृतशिखरसहस्रं स विन्ध्यशैलेन्द्रम् ।।
६५
शिखरच रद्विधाधरगीतश्रवणातिवेलसुखितानाम् ।
चमरीणां हननोत्कश्शबरैरारचितसानुसम्बाधम् ।।
६७
बहुकुममविचित्राभिललिताभिवंशपत्रपतिताभिः ।
परितः प्रहर्षिणीभिः प्रकटितवृत्तक्रमं लताततिभिः ॥
शैवालजालकचया शफराक्ष्या कमलमुकुलधनकुचया ।
आवर्तनाभिबिलया परिरब्धं रेवयोर्मिभुजलतया ।।
६९
अतिलङघय राजसूनुः कतिपयदूरं कथञ्चिदध्वानम् ।
अञ्चितशाखानिचयं कञ्चन जम्बूतरं व्यलोकयत ।।
तदनु स सुमसुकुमारस्तरणिकरस्पर्शविह्वलितगात्रः ।
छायायां तस्य तरोरायासभरालसो विशश्राम ।।
अथ भुवनत्रयदीपे चरमाचलतुङगशृबगमारूढे ।
अम्बुजिनीप्रिय बिम्बे बिम्बफलाडम्बरं विडम्बयति ।।
७२
७३
फलमूलान्यादाय प्रादादस्मै प्रियाय मकरन्दः ।
स्वयमपि जग्राहैष प्रियसुहृदुपभुक्तशेषाणि ॥
प्रतिनवपल्लवतल्पे प्रियसुहृदाकल्पिते स सुष्वाप ।
पश्यन्निव हृत्फलके दयितां सङ्कल्पतूलिकालिखिताम् ।।
७४
८ अभिनववासवदत्ता ७५ अथ जम्बूतरुशिखरे मिथस्स कलहा यमानयोर्भूयः । श्रृत्वा शुकशारिकयोः कलकलमाद्ये विभावरीयामे ॥ श्रुणुवश्शुकशारिकयोरनयोरालापममृतरसमधुरम् । इति मकरन्दमवोचत्सुहृदं कन्दर्पकेतुरतिकुतुकी । अथ कथयामास शुकं प्रकोपतरलाक्षरां गिरं शारी। असि शारिकान्तररतः कथमथवा कितव रात्रिरियती ते ।। ७६ ६ ७७ ७८ तदनु तदाकर्ण्य शुक: प्रियामयं शारिकामुवाचेदम् । भद्रे त्यज मयि रोषं श्रृणु मे कालातिलङघने हेतुम् ।। दयिते कचिदपूर्वा महती प्रत्यक्षलक्षिताद्य कथा । तत इयती मे रात्रिर्जाता नान्यत्र यातोऽस्मि ।। ८९ ८० ८२ अथ जातकुतूहलया प्रणयिन्या भूयसा स निर्बद्धः । मृदुमधुरवचनरचनैस्सपदि कथां कथयितुं समारेभे ॥ अस्ति सुविस्तृतविपणिन्यस्तसमस्तप्रशस्तवस्तुगणम् । दुस्तरनिस्तुलपरिघं कुसुमपुरं खल्वपास्तदेवपुरम् ।। मन्दरगिरिशिख रैरिव मसृणसुधालेपधवलवप्रान्तः । बलिभवनैरिव सुतलोद्भासिभिरुपलक्षितं सदनैः ।। मरुतेव सत्पथजुषा विवस्वतेव प्रकृष्टगोपतिना। अनुगतमविरतधर्मानुष्ठितिशीलेन पौरजालेन ॥ सुरसुन्दरीजनेनेवेन्द्राणीसेवनाकुतूहलिना। वेश्याजनेन रुचिरं पल्लवरुचिना पिकव्रजेनेव ।। सोधेरधिकोत्सेधैर्योधैस्सङग्रामकलितरिपुबाधैः । कान्तं दानसनाथैYथैः करिणामनन्यकृतरोधैः ।। तत्रास्ति नृपतितिलको नाम्ना शृङगारशेखरश्श्रीमान् । सुरत श्रमसुप्तवधूमणिताटङकाइकि.तोरुभुजदण्डः ।। ८३ ८४ ८५ ८६ अभिनववासवदत्ता ९ ८७ ८८ ८९ ९० ९१ ९२ यश्चारिवीरलक्ष्मीकबरीसुमदामगन्धिकरकमल: । धनुषो जीवाकृष्टि कुर्वञ्छत्रु गतासुमारचयत् ।। यस्मिञ्छासति पृथिवीं मलिनाम्बरता निशासु न जनेषु । अधरेषु द्विजघातो रशनाबन्धो विदग्धसुरतेषु ।। तस्य गुणरत्नराशिस्सुकुमारा शैलराजतनुजेव । अभवदन गवतीति प्रथिता कुलशीलसम्पदा तन्बी ।। अनयोरासीत्तनया वासवदत्ता सुरुपमदमत्ता । मनसिजविजयपताका भुवन त्रयलोभनीयलावण्या ।। अथ तस्याः प्रादुरभूत्तारुण्यं जृम्भमाणलावण्यम् । परिणयविमुखी तस्थौ परिणाममुपागतेऽपि तारुण्ये ॥ अथ जातु चिद्वसन्तो नवकुसुमामोदमूछितदिगन्तः । विरहितरुणीकृतान्तः प्रादुरभूदेधमानरतिकान्तः ।। मधुभरितकामिनीमुखगण्डूषासेकविकचवकुलौघः । मञ्जुलमजीराङकितयुवतिपदाघातदलिनकङ्केलिः ।। मदनमदोद्धत तरुणीपरिरम्भोद्भूतकुरवकप्रसवः । कलकोकिलकोलाहलकलितप्रणयप्रकोपसम्भेदः । दलदरविन्दच्योतन्मकरन्दास्वादतुन्दिलमिलिन्दः । पिकचञ्चुदलितपाटलमधुधारासारशीकरप्रकरः ।। वृन्तविनिर्गतविचकिलविबरे कूजन्मधूव्रतो रेजे । कुर्वन्निव कुसुमेषो वनमयविजयशङखरवम् ।। नवयावकपङकाङकिततरुणीचरणप्रहाररागवशात् । नवकिसलयापदेशाद्रागमशोकस्तमेव महति स्म ।। पृथुलस्तबकविनम्राकोमलपल्लवसमुन्मिषद्रागा। सुललितपुष्पोद्भेदा सहकारमुपेत्य मल्लिका शुशुभे । ९३ ३ ९४ ९५ ९७ ९८ १० अभिनववासवदत्ता ९९ १०० १०२ स्मरकेलिलोललाटीललितालककुसुमगन्धमेदुरितः । कर्णाटकामिनीकुचकस्तूरीपङ्कपरिमलोद्वाही ।। चोलीकपोलपालीपत्त्रालीधूलिधूसरितगात्रः। रतिखिन्नान्ध्रपुरन्ध्रीनीरन्ध्रस्तननिदाघजलहारी ।। रतिचतुरमालवीजनपरिणाहिनितम्बबिम्बसंवाही । पाटीराचलशिखरादाटीकत मारुतश्शनकैः ।। मथनाय विरहिणामथ मदनस्सज्जीचकार कोदण्डम् । उदियाय राजदुहितुहृदये कान्तोपभोगचिन्ताऽपि ।। शृङ्गारशेखरोऽथ श्रुत्वा तनयास्वयंवरोत्सुकताम् । निखिलमहीतलवसतीन् नृपतीनेकत्र मेलयाञ्चके ।। अथ दह्यमाननूतनकृष्णागरुधूमपरिमलाकृष्टः । मधुपकुलै बहुलीकृतघुमघुमरवमुखरिताशान्तम् ।। अतिरभसहासलहरी परिमलपरिमिलितगगनभूवलयम् । परिहासकथाव्याहृतिविदग्धशृङ्गारमयजनाकलितम् ।। नानादेशनृपालैः कृतोपवेशं स्वयंवरोद्देशम् । आनिन्युर्नुपतनयां पौरपुरन्ध्रयो निदेशतो राज्ञः ।। समलञ्चकार काञ्चनमञ्चं कञ्चित्प्रपञ्चविस्मयदं । घनवन्दिघोषमुखरितदिगन्तरं विजयसमरमिव तन्वी ।। १०३ १०४ १०५ १०६ १०७ न्यपतत्तदा लदङ्गे नृपतनयानां क्षणादृशां विततिः । विकचारबिन्दगर्भे मधुकरमालेव सौरभाकृष्टा ।। १०८ दृष्ट्वा तानथ मञ्चाविष्टानेकैकशश्शशाङ्कमुखी । रक्ता नासीदेतद्युक्तं सैषा यतः स्वयं श्यामा ॥ १०९ अभिनववासवदत्ता ११० ११२ कर्णीरथावतीर्णा कर्णान्तविशाललोलनयनान्ता। पूर्णेन्दुबिम्बवदना तूर्णं निजमाससाद सा सदनम् ।। तस्यामेव रजन्यां क्षितिपतिकन्या व्यलोकयत्स्वप्ने । अङगजमिवाङगभाजं कञ्चित्तरुणं समुल्लसद्रूपम् ।। कबरिकया मालिन्या नासिकया तुङगभद्रया कीर्त्या । स्बर्वाहिन्या वाचा नर्मदया पुण्यसिन्धुरूपमिव ।। मूलं शृङगारतरोरेकायतनं सरस्वतीलक्ष्म्योः । क्रीडासदनं कांन्तेर्लावण्यधनस्य कोशगृहम् ।। वैदग्ध्वस्यायतनं रोहणशैलं गुणोरुरत्नानाम् । प्रभवमही सुन्दरकन्दर्पकथामहासरिताम् । सौन्दर्यस्यादर्श निरुपमसौशील्यसम्पदा सदनम् विद्यालतावऽऽवलीनामावालं कौतुकालयं कीर्तेः ।। ११३ ११४ ११५ स्वप्नगतव मृगाक्षी विस्मयमाना विलोक्य तद्रूपम् । तं चिन्तामणिनृपतेस्तनयं कन्दपंकेतुमश्रौषीत् ।। ११६ अथ सा व्यपगतनिद्रा तद्राजसुतावलोकदुर्ललिता। शय्यातले शयाना चेतस्येवं चकार भृशदूना ॥ ११७ ११० मदनो नु स चानङगो नासत्यः किं न चाद्वितीयस्सः । अथवाऽन्यजन्मनि कृतं सुकृतं ये मूर्तमुपनतं मन्ये ।। शङ्के पङमाजजनुषा दर्शितमेतस्य रूपनिर्माणे । निजकौशल्यमशेषं कथमथवा कान्तिरीदृगेतस्य । ११९ वैदर्भी नलहेतोय॑थं वैशसमवाप विपिनेषु । सा भोजराजतनुजा महिषीभूताऽप्यजानुरक्ताऽसीत् ।। १२० १२ अभिनववासवदत्ता दुर्वाससाऽभिशप्ता दुष्यन्तकृते शकुन्तला व्यर्थम् । ऊरुश्रीजितरम्भा रम्भा नलकूबरं चकमे ।। १२१ १२२ ऋद्धिस्सहतबुद्धिव्यथं चकमे स्वयंवरे धनदम् । मुग्धा पुलोमतनया वृद्धश्रवसे वृथा स्पृहामकरोत् ।। इति मनसि चिन्तयन्ती दिशि दिशि दीनां दृशं समुझ्झन्ती । मदनव्यथां भजन्ती साऽऽसीद्विरहाम्बुधौ निमज्जन्ती ।। १२३ शयितेव विरहमुर्मुरमध्ये स्मरदवशिखोपगूढेव । अविरलवसन्तकालानलकीलाजालकबलिताङगीव ।। १२४ मलयाचलनिलयानिलरुद्रक्रोधानलावलीढेव । उन्मादभूगृहान्तःपतितेवाजनि विनष्टकरणेव ।। १२५ लिखितमिवोत्कीर्णमिव प्रत्युप्तमिवात्मनि प्रविष्टमिव । मज्जारसशबलितमिव कीलितमिव वज्रसारघटितमिव ।। १२६ रुधिराशये द्रुतमिव प्रचुरतरं पललसंविभक्तमिव । कन्दर्प केतुमात्मनि मेने कन्दर्पपीडिता तरुणी ।। १२७ १२८ १२९ उन्मत्तेवान्धेव च बधिरेव च मूकतां प्रपन्नेव । शून्येव निरस्तेन्द्रियनिकरेव ग्रहगृहीतेव ।। यौवनसागरविचलत्कल्लोलपरम्पारापरीतेव । स्मरविशिखकीलितेव प्रकृष्टतररागरज्जुबद्धेव ।। शृङगारभावनाविषरसनिर्भरघूणिताखिलाङगीव । स्मरतापमसहमाना सरसिजनयना सखीरुवाचैवम् ।। प्रियसख्यनङ्गलेखे हृदये मे वितर पाणिपञ ते । अयि सिञ्च मदनमञ्जरि चन्दनरसकर्दमेन कुचयुगलीम् ।। १३० १३१ अभिनववासवदत्ता १३२ १३३ सरले वसन्तसेने संवृणु कबरीभरं मम स्रस्तम् । तरले तरङ्गवति भो कैतकधूलि ममाङ्गके विकिर ।। अङगानि मदनमालिनि शैवालकलापकेन वीजय मे अयि विलिख चित्रलेखे चित्रपटे चित्तहारिणं तरुणम् । भामिनि विलासवति भो मौक्तिकचूर्णं विनिक्षिपाङगेषु । रागवति रागलेखे कुचयुगलं स्थगय मे सरोजदलैः ।। अयि कान्तिमति सुकान्ते परिमृज मे बाष्पबिन्दुबृन्दानि । ननु यूथिके प्रचारय मृदुपवनान्कदलिकादलव्यजनैः ।। इति बहुविधं वदन्ती मुमूर्छ बाला सखीजनेन समम् । अथ शीतलोपचारैः परिजनविदितैर्गुहीतचैतन्या । क्षणमतिशिशिरमनोहरघनसाररसाकुलापगापुलिने । क्षणमतिशीतलमलयजरसमयतटिनीतटप्रान्ते ।। १३५ १३६ १३७ क्षणमरुणकाञ्चनाम्बुजकान्तसरस्तौरचन्दनच्छाये । क्षणमलसपवनतरलितदलकदलीकाननान्तरालेषु ।। क्षणमभिनवापचितमृदुकिसलयकुसुमोपरचितशय्यासु । क्षणमम्बुजिनीप्रस्तरतुषारसङघातशीतलशिलासु ॥ निन्ये मुहुः परीजन: प्रत्युत सन्दीपितश्च विरहाग्निः । कल्पान्तकाल निर्यद्वादशरविकरकलाप इव तीव्रः ॥ १३९ १४. दुध्धोदवीचिविशदस्मितलसदधरोष्ठहारि तद्वदनम् । द्विजकुलमिव तल्लोचनयुगलं श्रुत्यन्तसङगकमनीयम् ।। १४१ नैसर्गिकमामोदं वदनस्याघ्रातुम भिलषन्तीव । दूरं विनिर्गता तन्नासालक्ष्मीर्जगद्विमोहकरी ।। १४२ १४ अभिनववासवदत्ता अकलङ्कसितांशुकलाकोमलपीयूष फेनपाण्डुश्रीः । तद्दन्तपङक्तिरनुपममनङगमतिसायि तद्रूपम् ।। १४३ धन्यास्ते भुवि विषयास्स्थानानि च तानि सुकृतभरितानि । नामाक्षराणि तान्यतिधन्यानि च यान्यलडकृतान्यमुना ।। १४४ इति मनसि भावयन्ती तस्थौ तमितस्ततश्च पश्यन्ती । लिखितमिव नभसि नयने बिम्वितमिव चित्रदर्शितं चेव ।। १४५ १४६ अत्रान्तरे विदग्धा तमालिका नाम शारिका तस्थाः । कन्दर्पकेतुभावं ज्ञातुं प्रहिता सखीभिरालोच्य ।। अविलम्बितगतिरेषा मामनुयाता विलोक्यतामत्र । तिष्ठति तरोरधस्तादिति कथयित्वा शुकस्स विरराम ।। १४७ १४८ तच्छ वा नृपतनयस्सत्वरमुत्थाय तामथाहूय । निजगाद मिजमुदन्तं निखिलं निर्मुक्तसन्तापः ।। विततार लेखमथ सा विरचितविनतिस्तमालिका तस्मै । आनन्दसिन्धुमग्नो मकरन्दस्स्वममवाचयत्कुतुकात् ।। १४९ प्रत्यक्षदृष्ट मावाऽप्यस्थिरहृदया हि कामिनी भवति । स्वप्नानुभूतभावा द्रढयति न प्रत्ययं युवतिः ॥ १५० १५१ तस्मिन् लिखितामेतामार्यामाकर्ण्य हर्षरसपूर्णः । भमृतार्णवमग्नभिवामन्यत कन्दर्पकेतुरात्मानम् ॥ परिरभ्य निर्भरं तां प्रसारितायामशालिभुजयुगलः । अयि शारिके । प्रिया मे कथमास्ते किं करोति किं वदति ।। १५२ इति वासवदत्ताया वृत्तान्तमशेषमादरात्पृच्छन् । नीत्वा तया सह निशां स सुहृत्कन्दर्पकेतुरुच्चलितः ।। १५३ अभिनववासवदत्ता १५ १५४ १५५ अत्रान्तरे विवस्वान् वृत्तान्तमिमं स्वयं निवेदयितुम् । मथ्यमलोकमवातरदध्यधिकध्वान्तसन्ततिक्षपणः ।। अथ चक्रवाकचेतस्सङक्रामितताप इव रुचामधिपे । उद्बहति मन्दिमानं मन्दारस्तबकसुन्दराकारे ।। दिनताम्रचूडचूडाचक्राकारप्रकामरमणीये । सिन्दूरराजिरञ्जितसुरराजद्विरदकुम्भसच्छाये । नटनचलच्छिवमकुटीदृढबद्धफणीन्द्रकर्णपूरनिभे । सन्ध्यासीमन्तवतीसरसालन्तकृतपत्त्रलेखाऽऽभे । कालकरवालखण्डितदिनमहिषस्कन्धचक्रसङ्काशे । मज्जत्यपरपयोधौ सरोजिनीप्राणवल्लभे भानौ ।। १५६ १५७ १५० १५९ शिखरिषु कलहसमाकुलकलविङ्कारावभरितशिखरेषु । क्षुद्रासु गाढकौतुकविरचितकन्दर्पमुद्रासु ।। कापेयविकलकपिकुलकलितेष्वाश्रमसमीपवृक्षेषु । निजिगमिषति जरत्तरुकोटरवास्तव्यकोशिकवाते ॥ १६० मुखरितधनुषि विवर्षति शरनिकरमशेषधीमुषि मनोजे । कृतयष्टिसमारोहणलीलेष निशान्तबहिंजालेषु ।। १६१ १६२ मञ्जिष्ठारागारुणशिखरपताकेव गगनहर्म्यस्य । सन्ध्या क्षणाददृश्यत कन्दर्परथस्य कनककेतुरिव ।। मांसलितमिव कृशाङगीकुन्तलसंस्कारधूपपटलेन । पेचकिकपोलविगलद्दानधुनीशीकरैर्विवृद्धमिव ।। प्रावरणमिव रजन्याः पलितोषधमिव च वृद्धवेश्यानाम् । तिमिरमराजत परितस्तरुणतमालतरुकानमच्छायम् ।। १६३ १६४ अभिनववासवदत्ता १६५ भुवनत्रयविजिगीषाप्रस्थानायोद्यतस्य कुसुमेषोः । लाजाञ्जलयो रतिकरकीर्णा इव नभसि तारका रेजुः ।। रविविरहातुरनलिनीमन इव भिन्नं द्विधा रथाङगयुगम् । उदजृम्भतान्धकारं शार्वरमीशगलकालिमोदारम् ।। १६६ १६७ १६८ अथ रजनिराजकन्याकन्दुक इव मदनकनकमुकुर इव । उदयमवाप शशाङ्को गगनमहासौधहेमकुम्भ इव ।। भुवनत्रयविजिगीषोरतनोः प्रस्थानपूर्णकुम्भ इव । प्राचीवधूललाटप्रकप्तबन्धूककुसुमतिलक इव ।। उदयगिरिशृङगसङ्गतसुन्दरमन्दारकुसुमगुच्छ इव । आखण्डलदिग्योषाकुङ्कुमपङ्कारुणस्तनाग्रमिव ।। अत्रान्तरे बभूवुस्संवादाः प्रियतमेषु दूतीनाम् । कुलटाभिः प्रहितानामित्थं यर्थास्सविस्तरास्सरसाः ।। आत्मानमवस्त्रीकृतमाकलयसि तत्त्वतो न कान्तत्वं । चिन्तयसि दुर्लभा तां चेतसि कान्तां सखेदमिव कान्त ।। १६९ १७१ वीरस्स सम्प्रहाराद्यः प्रतिपक्षस्य कुञ्जरान्नयति । भुवि राजसेनरहितो नूनं त्वं राजसेन रहितोऽसि ।। १७२ आश्रयति जीवनायकमिव सुभगं जीवनायक न लोके । म्रदिमाकरेण ललिता करेण सम्पूर्णचन्द्रवदना सा । १७३ अथ जगदामुमुदे च श्वेतद्वीपान्तरे निविष्टमिव । दुग्धार्णवमग्नमिव स्फाटिकसदनप्रविष्टमिव ।। १७४ अब विघटमानदलपुटकैरवमधुबिन्दुपानमुदितानाम् । मदमधुकरनिकराणां कलकलनादेन मुखरितदिगन्ते ।।
अभिनववासवदत्ता १७ १७६ १७७ १७८ ज्योत्स्नापानम गलसचकोरमिथुनाभिनन्दितागमने । रतिवन्न पुलिन्द धूम्वेदाम्बुकणापहारनिष्णाते ।। मलयाचलमम्भूते मदुनाते वाति सहतमालिकया। वासवदत्तानगरं यपतु कन्दर्पकेतुमकरन्दी ।। तदनुप्रविश्य नगरौं त्रिभुवनरमणीयमेकदेशगतम् । ऐशत वासवदत्ता भवन भवनन्दनप्रभावस्स: ।। मृदुलपवमानकम्पितगगनद्रुमपुष्पमञ्जरीभिरिव । कलित पताकिकाभिर्गगनपुरश्रीप्रतजिनीभिरिव ।। शिखर तमौक्ति कौघच्छलेन पुरयुवतिदर्शनोपगतम् । उडुगणमिवोद्वद्भिः प्रासादैश्शोभमानमसमानैः ।। बहुकृष्णागरुधूपैः प्रदर्शिताकालजलदसन्नाहम् । गम्भीरमुरजनादैराहूतप्रमदबहिणव्यूहम् ।। निधिमिव कौतुकराशे. कुल गृहमिव सकलविभ्रामौघस्य । आस्थानमिव सुमेषोरुत्पत्तिस्थानमिव च मजिम्नः ।। १७९ १८० १८१ १८२ "द्रसि द्रसिद्धेरिह चपला चपलायते किमित्येषा । अनभिहिताऽप्ययि मुम्धे र तबकम्तव कर्णत: पतितः ।। १८३ त्वमप्ति सुकपोलरेखे सुरया सुरयाचिता सुरेखे श्रीः । मते स्परमायसे कलहे कलम हाञ्चिावणितैः ।। १८४ सखि मलय मलयप्सित पधुनाऽधिगतासि कुरु दृशेव त्वम् । त्रपतेऽत्र पतेयमिति स्खलितवती नागकुसुमहरणेषु ।। १८५ अङगमनङगशराणां वहतीव हतीरनङगलेखे ते । मौक्तिकहारलतेयं विहिताविहितायते च परम् ।। १८६ १८ अभिनववासवदत्ता १८७ उत्कलिके सोत्कलिके वदने वद नेत्रपङ्कजोल्लसिले । उपयाति किमुपमानं सम्पूर्णः पार्वणेन्दुरपि । मन्ये सखि कोऽपि पुमान्वसतीव सतीव्रते तव स्वान्ते । वाच: किलानुभूताश्शतधा शतधारसारास्ते ।। के रलि कलिरते तव करकाकरकालमेघखण्डतुलाम् । उपयाति कचकलापो विकसितमल्लीस्रगाकलितः ।। १८८ १८९ कुटिलासितकुन्तलिके कुन्तलिके कर्णमधुरगम्भीराः । न च सङगीतध्वनयः पुरगोपुरगोचरा निशम्यन्ते ।। सुरते सुरते स्तनताम्तनताडनजं सुखं यदनुभूतम् । स्मरता स्मरतापहरं तत्केन तदा वियुक्ताऽसि ।। १९१ स्मरजन्या स्मरजन्यां नखराणां नवनिशातनखराणाम् । कुरुते कुरुते न रुजं धन्यतमा युवतिमण्डले त्वमसि ।। १९२ कल्पय कुरङगिके त्वं दूर्वाङ्करं कुरङगशाबेभ्यः । कारय किशोरिके त्वं किशोरकं प्रत्यवेक्षणं सहसा ।। १९४ तरलय परं तरलिके कृष्णागुरुधूपपटलमुद्दामम् । कर्पूरिके विलेपय कर्पूररजोव्रजेन कुचभारम् ।। मानय मातङगशिशोर्गमनं मातङिगकेऽतिकमनीयम् । अयि सखि लिख शशिलेखे शशिलेखां मम ललाटपट्टे त्वम् ।। केतकिके सङ्केतय दोहलमिह केतकीनिकुञ्ज त्वम् । क्रीडाशकुनिशिशूनामाहार शकुनिके द्रुतं वितर ।। मञ्जरय कुञ्जमेतं मञ्जुलमयि मदनमञ्जरि क्षिप्रम् । श्रृङगारमञ्जरि त्वं विरचय शृङगारकल्पना सहसा॥ १९७ अभिनववासवदत्ता १९ ननु सञ्जीवि निके दिश जीवजीवकुलाय मरिचदलम् । अयि विलिख मदनलेखे मलयसमीरस्य मदनलेखं त्वम् ।। १९८ मकराङ्कशोभिते दिश विसाङकुरं मकरिके मरालशिशोः । सपदि विलासर्वात त्वं विलासयामु मयूरशिशुम् ।। ११९ लेपय तमालिके त्वं मलयजपङ्केन भवनवाटममुम् । काञ्चनमण्टपिकायां काञ्चनिके विकिर मृगमदोदकणान् ।” २०० २०१ इत्थं सखोजनानामन्योन्यं प्रणयपेशला वाचः । शृण्वन्विवेश भवन स मुक दर्प केतुरथ तस्याः ।। स ददर्श राजकन्यां त्रिभुवनकमनीय रूपलावण्याम् । हृद्यामनवद्याङगी विद्या मिव मन्मथस्य मोहकरीम् ।। अथ तां राजकुमारी पिवतो विस्फारितेन नयनेन । चिन्तामणिनृपसूनो वेगो जहार चैत यम् ।। २०२ २०३ २०४ २०५ साऽपि मुमूर्छ मनोज्ञं दृष्ट्वा दयितम्य तादृशं रूपम् । आस्तां गृहीतसंज्ञो मकरन्दसखीजनोपचारैग्तौ ।। एकासनमधिवसतोरनयोरतिमदनयोरिवोल्लसतोः । काचित्सखी कलावत्याख्या कन्दर्पकेतुमाचख्यौ ।। अयमार्यपुत्र समयो विस्रम्भकथाविनोदगोष्ठोनाम् । न च समुचितो यदधुना लघुतरमभिधीयते तस्मात् ।। या यातनाऽनुभूता त्वदर्थमनया नयाम्बुधे सैषा ।। शेषो यदि कथकस्स्यात्तदपि सशेषा भवेदहं कियती ।। २०६ २०७ स्वाराज्यतुल्यमपि बत राज्यं प्राज्यं समुज्झितं भवता । किं बहुनाऽऽत्मा तस्या विशङ्कटे सङ्कटे समाविष्ट: ।।----- २०८ २० अभिनववासवदत्ता २०९ अस्ति खलु विजयकेतोविद्याधरनेतुरात्तजयकेतोः । अपहसितमकरकेतुस्तनयस्सनयोऽस्ति पुष्पकेतुरिति ।। तस्मै प्रदातुमेषा कन्या निरणायि सम्प्रति हठेन । श्वः प्रातस्तातेन तु तारुण्यातिकमातिचकितेन ।। २०१ यद्रोचतेऽत्र भवते भवते भव तेजसांनिधे तत्र । सम्प्रति सत्वर” इति सा कथयित्वा सपदि विरराम ।। २११ शृङगारशेखरभुवा शृङगारभुवाऽथ सुभ्रुवा साकम् । सम्मन्त्र्य तां गृहीत्वा स जगाम रयात्तुरङ्गरत्नेन ।। २१२ २१३ मरुतेव सदागतिना मानसगतिना मरालपतिनेव । हसि तमनोजवभूम्ना मनोजनाम्ना शशाङ्कसमधाम्ना ।। वार्ताऽन्वेषणहेत स्तस्थौ नगरे स तत्र मकर-दः । तदनुक्रमेण सोऽयं गत्वा गव्यूतिमात्रमध्वानम् ।। २१४ २१. नरमांसग्रसनाकुलकङक कुलात्यन्तसङ्क ला ग्रेण । विकटकटकवलनोद्भटकटुम्बकटपूतनाऽऽर्भटीभाजा । उल्कामखमखविस रज्ज्वलनज्वाला जटालान कटेन । भागोत्थक.लकलध्वनिना ।। f आर्द्रपिरामय कौतूकभूतयुगावेष्ट्य मानचितिशिखिना । कटदहनदह्यमानस्फुटितरटनरकटिकीर्णेन ।। २१७ २१८ निर्गत्य निमिष मात्राद्विशङ्कटेन श्मशानवाटेन । विन्ध्याटवीं सुमहती विवेश वेशन्तदन्तुरप्रान्ताम् ।। प्रल्योदयवेला मिव भृशप्रवृद्धार्कसमुदयाकलिताम् । स्वच्छन्दस्थितकौशिककौतुकसीमां सभामिव धुसदाम् ।। २१९ अभिनववासवदत्ता २१ २२० सत्पुरुषसेवनामिव निरन्तरश्रीफलोदयोल्लसिताम् । सद्धामिकसम्पदमिव निर्णिद्राशोकसरलपुन्नागाम् । अत्रान्तरे तयोरिह निद्रामादाय निर्जगाम निशा । कुसुमसुकुमारवपुषोरतिदूराध्वगतिकृतबहुश्रयोः ।। २२१ अथ समयधीवरेण प्रक्षिप्य निशातरि नभस्सरसि । मीनवज इव परितो ह्रियमाणे तारकानिकरे ।। २२२ २२३ स्फुरदरुणकिरणचूडाचक्रमनोज्ञेऽथ दिवस कवाको । तारातण्डुलभरितं नभोऽङगणं चरितुमवतरति ।। मत्सङगमात्प्रवृद्धो द्विजपतिरयमद्य वारुणीसङगात् । पततीति हसन्त्यामिव पौरन्दर्यां दिशि प्रसन्नायाम् ।। अरुणहरिनख रविदलिततिमिरकरिप्रचुररुधिरसरितेव । त्वङगतरङगखुरपुटिदलितोदयपद्मराजरजसेव ।। २२४ २२५ २२६ २२७ पूर्व गिरिशृङगसङगतविकचजपाकुसुमगुच्छकान्त्येव । उदयरिशिखरगैरिकनिर्जरपयसेव रक्तबिम्बजुषि ।। पूर्वो:धरशेखरदर्वी करवरफणाग्ररत्नाभे । गगनेन्द्रनीलपादपकोमलपल्लवसमुद्रसद्रागे ।। प्राचीललाटघटितस्फुटकुङ्कुमपङ्कतिलकसच्छाये । घनगगननगररत्नप्राग्द्वारसुवर्णपूर्णकुम्भनिभे । सन्ध्याल तककुसुमे मञ्जिष्ठापट्टसूत्रपिण्डनिभे । सन्ध्यारुणसूत्रांञ्चत्प्रचीकाञ्चीसुवर्णदीनारे । उदयगिरिधातुरागारुणदिग्गजराजचरणसङ्काशे अपहृततिमिरकदम्बे समुदयमीयुषि सरोजिनीबन्धौ ।। २२८ २२९ २३० २२ अभिनववासवदत्ता तदनु नभस्सौधाङगणविरचितकुङ्कुमरसानुलेप इव । भिन्नप्रवालशोणे प्रसरति बालातपे परितः ।। २३१ उज्ज्वलदिनकान्तोपलसङ्गादिव भगवतस्त्रयीमूर्तेः । आश्रयति चोष्णरश्मेर्मयूख जाले तदाष्णिमारिशयम ।। २३२ कन्दपंकेतुरासोद्विवशात्मा सर्वरात्रजागरणात् । आहारव्यतिरेकादनेक शतयोजनाध्वखेदाच्च ।। २३३ ३४ अथ सुष्वाप स कुञ्ज तत्र क्वचिदधिकगुजदलिपुजे। निभन्देन्द्रियवृन्दस्सुप्त्या तत्कालसुलभयाक्रान्तः ।। वासवदत्ताऽपि ततस्तत्रैव सह त्रिवेण मध्वाप । तरणिकरत यमाना वल्ली व म्लानिमानमुपयान्ती ।। अय कल्पमहीरुह इव सकलाशासप्रसाधन कान्ते । भगवति महसां पत्यो सवितरि गगनस्य मध्यमारुढे । २३६ २३७ २३८ बुध्वोन्मीलितनयनो निध्याय लतागृह प्रियाशून्यम् । काष्ठां परां प्रपेदे चिन्ताया हन्त दुर्विभाव्यां सः ।। क्षणमथ विटपितटेषु क्षणमविरलपल्लवासु वल्लीषु क्षणमपि दिक्षु विदिक्षु क्षणमन्विष्यन्निकुञ्जपुजेषु ।। क्षणमथ त्यरस्तटीषु क्षणमपि चलशुष्कपर्णनिचयेषु । विरहाग्नितप्यमानो विललाप परिभ्रमन्नदभ्रं सः ।। हा ! सखि वासवदत्ते हा सुदतीलोकभूषणप्राये । हा भुवनसारभूते हा दयिते क्वनु गताऽसि मां त्यक्त्वा ॥ एहि प्रसीद ! दयिते ! देहि दयाद्री सुशीतलां दृष्टिम् । पाहि त्वदेकशरणं ब्रूहि कमपराधमीक्षसेऽत्र जने ।। २३९ २४० २४१ -- अभिनववासवदत्ता २३ २४२ कृतमुपहासेन सखि क्वान्तर्धानं गताऽसि लतिकायाम् । कुप्यसि किमित्यकाण्डे दर्शय सुखचन्द्रबिम्बमद्य मम ।। यान्यनुभूतानि मया व्यसनानि त्वत्कृते च भूयांसि । दयिते ! त्वमेव तेषां प्रमाणमधिकेन किं वचसा ।। २४३ २४४ हा! मकरन्दप्रियसख! हा प्राणपद प्रसीद वा त्वमपि । दैवस्य दुर्विलसितं पश्येदं हन्त निरपराधिजने ॥ नियतेरहो विपाको दुलंङध्योऽहो गतिश्च कालस्य । अतिकटुरहह कटाक्षः प्रसारितो ग्रहगणेनापि ॥ २४५ दुस्वप्नफलं किमिदं विसदृशतागुरुजनाशिषामथ वा। न भवति भवितव्यानामगोचरस्सर्वथा जनः कोऽपि ।। २४६ २४७ किमसेव्यन्त न गुरवः किं वा न कृतप्रदक्षिणा गावः । नोपासिता: किमनला न कृतं न्वभय मिह किं शरण्येषु ।। इति बहुविधं स विलपन् प्राणान्मोक्तुं विनिश्चयं कृत्वा । अगमत्सागरकच्छोपान्ते नात्यन्तदूरमध्वानम् ।। २४८ २४९ २५० नव्यनलनलदनलिनीवकुलादिमबहुलविटपिसान्द्रेण । चपलकपिचलितविगलन्मधुशीकरसिक्तभूमिभागेन ।। शीतल नल यानिलसुखसंवाहितपनसशाखिशाखेन । दात्यूहकुहाहारवभरितसरित्तटनिकुञ्जपुजेन ॥ कुक्कुटकुटुम्बवासितसमुत्कटानेकविटपिफ्टलेन । कङ्केलिनव्यपल्लवशोभाभृशलिप्यमानदिक्ततिना ।। शैलेय सुरभिलशिलातलसुखनिद्राणशशकशाबेन । सहकारकाननान्तररोमन्थव्यग्रचमरयूथेन । २५१ २५२ २४ अभिनववासवदत्ता आसन्नकिन्नरीगलगीत श्रवणोत्कहरिणबृन्देन । दंशकुलदष्टमर्कटचपेटसम्पातनिहतकीटेन ।। २५३ स ददर्श तत्र जलधि पुरतः परितो विभासितं फैनैः । मलयजरसबहुचर्चितजलमानुषिकापयोधराकारैः ।। २५४ शकुनिकुलकबलनाकुलसमुत्पतन्नकचक्रचङक्रमणम् । जलकरिमकरिसमेतं स्तिमिततिमिङिगलगिलवातम् ।। २५५ अमिमरुन्मर्मरितप्रचुरतरोत्तालतालवनचरितैः । जलमानुष थुनै रुपमृदितलसत्पुलिनबालशैवालम् ।। २५६ २५७ चिन्तयति स्म तदाऽसौ यदयं मम दृष्टिगोचरो जलधिः । उपकृतिरेव कृता मे कृतापकृतिनाऽपि हन्त तद्विधिना ।। सक्ष्येऽहमत्र देहं नेक्षे चानातुरात्महतिदोषं सर्व-सर्व कार्य करोत्यसारे परं न संसारे ।। २५८ २५९ २६० को नाम किं न चक्रे द्विजराजोऽप्यपजहार गुरुदारान् । प्राप्तस्तथा विनाशो ब्राह्मणवधतृष्णया पुरूरवसा ।। विहितपुरोहिततनयापाणिग्रहण पपात स ययातिः । नहुषश्शककलत्रस्या लेभे भुजङगतामेब ।। कलिनानलोऽभिभूतः पुरुकुत्सः कुत्सितो बभूव परम् दशरथनृपतिरपि प्रियरामोन्मादेन मृत्युमापेदे ।। लोके न कोऽपि च जनो निरधो विद्यते न चाद्यापि । तदहं देहमिदानीं मुञ्चामीति स्वयं स निश्चित्य ।। कुररकुल नखरशिखरोत्खण्डितपृथुरोमशकलसङ्कीर्णम् । कोष्टुकुलोत्सृष्टमहाकर्कटकपरनिरन्तरप्रान्तम् ।। २६१ २६२ २६३ अभिनववासवदत्ता २५ दर्पणमिव वसुधायास्स्फाटिकट्टिममिवाम्भसा पत्युः । पुलिनतलमेत्य जलधिं प्रवेष्टुमुपचक्रमे स मरणेच्छुः ।। २६४ सानुग्रहेष्वथ महाग्राहेष्वभयङ्करेषु मकरेषु । नकेष्वक्रूरेषु प्रादुरभूत्काऽपि भारती नभसः ।। २६५ “विरमार्य! मरणयत्नाद्भविता भवतः पुनः प्रियासङगः । अचिरेणे" ति गिरं स श्रुत्वा विरराम मरणसाहसतः ।। २५६ अथ तत इतः परिभ्रमलोलः फलमूलकलिततनुयात्रः । दयितासमागमेच्छु: कियन्त्यनेहांसि तत्र स निनाय ।। २६७ २६८ अत्रान्तरे समुदभूद्वर्षाकालो वियोगिजनकाल: । प्रशमितरजःप्रसारस्तापस इव विधृतजलदकरकश्च ।। अथ रतिनखमार्जनकृतरत्नशलाकेव रत्नशुक्तिरिव । नभसीन्द्रधनुर्वल्ली मदनस्य विलासपष्टिरिव भेजे । २६९ २७० २७१ अतितृष्णावेगवशात्पीतं सलिलैस्सहाब्धिशङ्खगणम् । नभसि बलाकाव्याजात्समुद्वमन्निव रराज जलदोघः ।। घननिकषोपलमध्ये जलदागमहेमकारसअघृष्टा । काञ्चनरेखेव तटिल्लेखा शुशुभे नभाऽङगणे सद्यः ।। जलदघटासङघट्टनरय पातिततारकानिकाय इव । रुरुचे करकानिकरो लाजाञ्जलिरिव मनोजविजिगीषोः । प्रचुरेन्द्रगोपभरितं नवशाद्वलमुल्ललास सर्वत्र । लाक्षारसाङ्ककलितं स्तनोत्तरीयमिव भूविलासिन्याः ।। घनकलशजले प्रावृट्चेट्यां सिक्त्वा भुवं गतायां च । समुपाजगाम सहसा मन्दरमाबिभ्रती शरच्चेटी ॥ २७२ २७३ २७४ २६ अभिनववासवदत्ता २७५ २७६ २७७ २७८ तदनु भरद्वाजद्विजवाचाटविशालविटपिविटपौधे । उद्भ्रान्तशुककुलाकुलकलमक्षेत्रप्रविष्टकलहंसे ।। तटनिकटस्थलविचरत्सारसकुलरसितरम्यकासारे । परितश्शरदारम्भे विजृम्भमाणे परिभ्रमन्विपिने ।। दृष्ट्वा विस्मितचित्तस्सुदृढं परिरभ्य तामथाप्राक्षीत् । "दयिते वासवदत्ते जीवितभूते किमेतदाश्चर्यम्"। सा प्रत्युवाच चैवं नृपतनयाचान्तमोचया वाचा। कन्दर्पकेतुमुत्कट वर्षातपशीतवातसङक्लिष्टम् ।। "नवार्यपुत्र ! भवता मदर्थमत्यन्तदुःखमनुभूतम् । उत्सृज्य हन्त ! राज्यं परिभ्रमस्येक एव विपिनेषु ।। उपवासखिन्नचेतसि निद्राशान्ते तृषातुरे भवति । बुद्ध्वा प्रथममहं ते फलमूलादिकमगामुपाहर्तुम् ।। गत्वा फलमूलादिकमन्विष्यन्ती च तत इतो विपिने। तरुगुल्मान्तरितमहं पुरतस्सेनानिवेशमद्राक्षम् ।। किमयं तातव्यूहो मामन्वेष्टुं समागतः प्रहितः । आहोस्विदार्यपुत्रव्यूह इति स्वयमतर्कयं मनसि ॥ अत्रान्तरे कुतश्चिकिरातसेनापतिर्बलोपेतः । चारैः कथितोदन्तो दूरादभिधावति स्म वेगेन ।। तदनु तदन्यः कश्चिकिरातसेनापतिस्तथाभूतः । मृगयारसानुविद्धस्तच्छ् त्वा धावति स्म वेगेन । अथ गृध्रयोरिव तयोरेकामिषलुब्धयोरभूधुरा । रविकरततिस्तदाभूनिबिडशरासारदुर्दिनच्छन्ना ॥ २८० २८१ २८२ २८३ २८४ २८५ अभिनववासवदत्ता २७ २८६ २८७ २८८ २८९ २९० रणकर्मविशारदकरदूरोत्क्षिप्तेन मण्डलाडग्रेण समरोद्भटाः प्रतिभटदलिता: परिषस्वजुस्सुपर्ववधूः ॥ समरावलोकनागतनभश्चरानेक चारणौघस्य । विरराज चरणराजिस्तोरणमालेव युद्धरङगस्य ।। विध्वस्तध्वजपटलं पतत्पताकं विशीर्णकरवालम् । अन्योन्यं निहतमभूत्सैन्यं दैन्यं परं गतास्मि तदा । अथ यस्याश्रमभूमिस्समुनिस्समिदादिकं समादाय | आगत्य योगदृष्टया विदितोदन्तो विलोक्य मां निकटे ।। आ: पापे! दुर्ललिते त्वदर्थमयमाश्रमो मम ध्वस्तः । इत्युक्त्वा कुपितो मां शिलामयी पुत्रिकाभवेत्यशपत् ।। तदनु बराकी सेयं भूयो व्यसनानि भजत इति मत्वा । अभ्यथितस्स भवतो हस्तस्पर्शावधि व्यधाच्छापम् ॥ इत्थं वासवदत्ताचरितं कन्दर्प केतुराकर्ण्य । विस्मितहृदयो मुमुदे नल इव भैम्याः पुनः प्राप्त्या । अत्रान्तरे समागाद्वृत्तान्तमिमं निशम्य मकरन्दः । ताभ्यां सह सहसाऽगात्स्वपुरं कुतुकी स पाटलीपुत्रम् ।। तत्रान्वभूत्सभूपस्सुरलोकसुदुर्लभान्यथ सुखानि । आनन्दसिन्धुलहरी डोलालौलानुबन्धिचेतस्कः । श्रीकाश्यपकुलजनुषा विदुषामेषा कृतिविधेयेन । नरकण्ठीरवकृतिना बाल्ये कौतूहलेन सङग्रथिता ।। प्रायस्सुबन्धुवचनान्यादाय मया मुदे रसज्ञानाम् । आर्याभिग्रंथितोऽयं वासवदत्ताकथासारः ।। ॥ इति अभिनववासवदत्ता ॥ २९१ २९२ २९३ २९४ २९५ २९६
No text on this page.
No text on this page.
No text on this page.
No text on this page.