Scl

Gangavaratana

Pandit_kedaranatha_sastri

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

KAVYAMÂLÂ. 76.
THE
GANGAVATARANA
OF
NÎLAKANTHA DÎKSHIT,
EDITED BY
PANDIT KEDARANATHA S'ASTRI,
SOX OF
MAHÂMAHOPADHYAYA PANDIT DURGÂPRASADA
OF
JAIPUR
AND
VÂSUDEVA LAXMAN SASTRI PANAS'IKAR.
PUBLISHED BY
TUKÂRÂM JÂVAJÍ,
PROPRIETOR OF THE "NIRNAYA-SAGAR” PRESS.
Bombay:
1916,
Price:8-Aunas.

( All rights reserved by the publisher.)
Published by Tasaram Javaji and Printed by Ramchandra Yesu Shedge,
at the Nirnaya-sagar Press, 23, Kolbhat Lane,
BOMBAY.

काव्यमाला. ७६. श्रीनीलकण्ठदीक्षितविरचितं गङ्गावतरणम् । जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसादतनयपण्डित- केदारनाथशास्त्रिणा, मुम्बापुरवासिपणशीकरोपाह्वविद्वद्वरलक्ष्मण शर्मात्मजवासुदेवशर्मणा च संशोधितः। द्वितीय संस्करणम् । तच्च मुम्बय्यां तुकाराम जावजी श्रेष्ठिभिः तीये निर्णयसागराख्यमुद्रणयन्त्रालये स्वायसाक्षरैर्मुद्रयित्वा प्रकाशितः। शाकः १८३७, खिस्ताब्दः १९१६. (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरनुद्रायन्त्रालयाधिपते- रेवाधिकारः।) मूल्य र अशकाः।

No text on this page.

श्रीनीलकण्ठदीक्षितः। तत्समकालिका द्रविडदेशीया अन्यकवयश्च । जानन्ति खलु सर्वेऽपि पण्डिता दक्षिणदेशेषु श्रीमति भरद्वाजान्वये कृतावताराः श्रीम- दप्रयदीक्षितेन्द्रा इति । तेपानेव दीक्षितमणीनां 'अप्पयदीक्षिताः', 'अप्पश्यदीक्षिताः', 'अप्पदीक्षिताः', इत्यपि नामान्तरद्वयं संश्यते ग्रन्थेषु । श्रीकण्ठमतप्रतिष्ठापनाचार्य-ब- तुरधिकशतप्रवन्धनिर्वाहक-महाव्रतयाजिन इति तेपां विरुदावलिः । ते हि गतेषु ४६५४ कल्यब्दघु, नथातियु १.४ निस्ताब्देषु, काञ्चीपुरपरिसरवर्तिनि अयप्पलनाम्न्यमहारे भरद्वाजकुलोन्यन्नन्य छन्दोगन्य श्रीमदाचार्यदीक्षितस्य सूनोः श्रीविश्वजिद्याजिरझराजम- खिनो लब्धजन्मानो द्वासप्ततिं संवत्सरान्प्राप्य परःशनान्ग्रन्थानिर्मनुः । सर्वतन्त्रखतन्त्राः श्रीमन्तो दीक्षितेन्द्राः । तत्रापि तेषामनितरसाधारणी नैपुणी पूर्वोत्तरयोमीमांसयोः । भक्तिश्च भगवति चन्द्रचूडे । द्राविडी (Tamil) तेषां जन्मभाषा । तेषां जन्मवन्मरा- दिकं सर्वमपि वृत्तान्तं विशदं व्याहरति दीक्षितचरिते शिवानन्दयोगीन्द्रः 'वीणातत्त्व(४६.४)ज्ञसंख्यालतितकलिसमाभाक्प्रमातीचवर्षे कन्यामासे तु कृष्णप्रथमतिथियुतेऽप्युत्तरप्रोष्टपाते। कन्यालग्नेऽद्रिकन्यापतिरमितदयाशेवधिवैदिकेषु श्रीगायें प्राग्यथाह न समजनि विरिबीशपुर्या कलेशः ॥' इति । एकादश रुद्रा इव तेषां समजनिषत तावन्तः पुत्राः । सर्वेऽपि कृतविद्या विनयोब्बला- धानिपत ननप एव तेषां निर्याणसमये । निर्याणं च धीमति चिदम्बरक्षेत्रे समभूत् । इयं हि तेषां चरमा सूक्तिरिति भोकमर्नु परन्ति विद्वांसः-- 'चिदम्बरमिदं पुरं प्रथितनेव पुण्यस्थलं मुताश्च विनयोज्यलाः सुकृतयश्च काश्चित्कृताः । - १. 'मुनिरस्ति भरद्वाजः ख्यातस्त्रिभुवनेष्वपि । अनयस्य जहो रामोऽप्यरण्यभ्रमणश्रमम् ॥ तस्यान्वये महत्यासीत्क्षीरोद इव चन्द्रमाः। श्रीकण्ठवरणासकः श्रीमानप्पथदीक्षितः ॥ इति गडावतरणकाव्ये प्रथम सर्गे । 'अप्पय्यदीक्षितेन्द्रानशेपविद्यागुरूनहं वन्दे । यत्कृतिवोधाबोधौ विद्वदविद्विभाजकोपाधी ॥' इति तन्त्रसिद्धान्तदीपिकायाम् । 'विद्वद्दुरोविहितविश्वजिदध्वरस्य श्रीसर्वतोमुखमहात्रतया जिसूनोः । श्रीरङ्गराजमखिनः श्रितचन्द्रमौलिरस्लप्पदीक्षित इति प्रथितस्तनूजः ॥' इति सिद्धान्तलेशसंग्रहे।

वयांनि मम सप्ततेस्परि नैव भोगे स्पृहा न किंचिदहमर्थ। शिवपदं दिदृक्षे परम् ॥' इति । उच्यते च शिवलीलार्णवमहाकाव्ये नीलकण्ठमखीन्द्रेण- 'कालेन शंभुः किल तावनापि कलाश्चतुःपष्टिमिताः प्रगिन्ये । द्वासप्ततिं प्राप्य ममाः प्रवन्धाञ्छनं व्यधादप्पयदीक्षितेन्द्रः ।।' इति १ सगे लोकः। नैः कृताः कृतयश्चतुरधिकं शामिति परिगण्यन्त विज्ञः । त इने दीक्षितेन्द्रा बन्दर- (Telur)आख्यनगराधीश्वरेग चिनारप्पनायकपुत्रेण लिङ्गमनायकम्य पित्रा चिनबो- न्मभूपालेन सादरं नितरां संभाविताः संमाननामिः । वसन्तस्तस्य सीप एव नत्र नपरे बहुगोऽलवाहयन्खावितकालम् । उच्यते व अन्येषु- 'हेमाभिषेकसमये परितो निपग्णसौवर्णनंहतिमिपाचिनवोन्मभूषः । अपव्यदीक्षितमोरनवद्यविद्य कयदुनन्य कुरुते कनकालवालम् ॥ कर्णधीचिनवोन्मक्षितिपतिरभितो लम्भयजातकुम्भ- तोमं हेमामिषेकप्रणयनसमये यस्य मूर्ति प्रशस्याम् । रेजे श्रीरङ्गराजाध्वरिवरकलशाम्भोधिलब्धप्रमूते- विद्याकल्पद्रुमन्य खवानिव कलपत्रात पालवालन् ।' इति समरपुंगवदीक्षितकृत-यात्राप्रबंधचम्पूकाव्ये 'नानादेशनरेन्द्रमण्डलमहायनातिदूरीभव- कादाचित्कपदारविन्दविनतेरप्पश्ययज्वप्रभोः । शेवोत्कर्षपरिष्कृतैरहरः सूक्तः सुधालालितः फुरत्कर्णपुटस्य वोन्मनुपतेः पुष्यानि गण्यानि किम् ॥ इत्यन्यत्र च। अनन्तरं चाराधिता दीक्षितन्द्राः पेनुगोण्डाधीशेन श्रीरङ्गरायसोदरेण तिरुमलरायतनू- १. असौ चिन्नवोम्मभूपालो विजयनगराधीशस्य नरसिंहवंशीयस्य सदाशिवमहारायस्य, पेन्नुगोण्डाधीशस्य कर्णाटराजस्य श्रीरङ्गमहारायस्य च, सामन्तोऽभून् । चिन्नवोम्मभूपा- लस्यास्य प्रार्थनया सदाशिवमहारायेण श्रीरङ्गमहारायेण च दत्तानि सप्त दानशासनपत्रागि वेलर(Velur)ज्वरखण्डेश्वरदेवायतने शिलायामुत्कीर्णानि सन्ति । तानि च १४८८ (A. D. 1566) शकाब्दे, १४९७ (A. D. 1575) शकाढ़े च उत्कीर्णानि । (Fide pp. 69-75, Vol. I., South Indian Inscriptions, by Dr. E. Hultzsch.)

AN जेन वेङ्कटदेवेन । नियोगेन चास्याकुर्वन्कुवलयानन्दं नानार्थालंकारप्रवन्धम्- 'अमुं कुवलयानन्दमकरोदप्पदीक्षितः । नियोगाद्वेवटपतेनिवाधिकृपानिधेः ॥' इति कुवलयानन्दे। अनन्तरं च दीक्षितेन्द्रा अतीतेषु १५.४८ शालिवाहनशकाव्देषु, यातेषु व १६२६ निस्ताव्देषु, 'अक्षय'नानि संवत्सरे शैववैष्णवान विवादं कमपि निणर्नु पारड्यदेशा- धेपतिना तिमलैनायकमहाराजेन वहु प्रार्थितास्तत्रागमन् । प्रायते चायमंशः 'ओरिएण्टल हिस्टॉरिकल म्यान्युस्क्रिप्टम् आख्यग्रन्थतोऽपि । अथ खदेशमागल कियता १. वेङ्कटदेवराज्यतमयश्च १५०८ (A. D. 1586) शकान्द्रादारभ्य १५३५. (A. D. 1613) TETAIÊ COTGE I (Vice p. xii, Second Report on Sanskrit Januscripts, by Dr. E. Hultzsch.) 2. "Oriental Historical Manuscripts' translated by W. Taylor, Vol. II, p. 149:- "In the year S. S 1544, in Dundubhi year, the 17th of Jasi month, luthu-Tirumalai Naicker came to Madura in order to be anointed (or installed) to receive the sceptre and other ensigns of royal authority. "Haring thus arranged the plan, the whole was thus begun to be carried into execution at once on the 10th of Vaiyasi month, of Akshaya rear during the increase of the moon. From that time fo rirard as the master came duly to inspect the work, it was carried on with great care. As they were proceeding first in excavating the Teppakkulam they dug up from the middle a Ganapati (or image of Ganesa) and caused the same to condescend to dwell in a temple built for the purpose. As they were placing the sculptured pillar of the Vasanta-mandapam and were about to fix the one which bore the representation of Yekapada-murti they were opposed by the Vaishnavas. Hence a dispute arose between them and the Saivas, which lasted during six months and was carried on in the presence of the Sovereign. Two arbitrators were appointed, Appa Dikshitar on the part of ४ कालेन कालधर्म गता दीक्षिताः । अतः सर्वथा निर्णीयते १६२६ तमादात्पूर्व न तेषां निर्याणसमय इति । शाब्दिकनार्वभौमः श्रीमान्भट्ठोजिदीक्षितोऽपि तानेव गुरून्प्रार्थयमानन्तेभ्य एवाध्यैष्ट श्रीमद्भाचं ब्रह्मसूत्राणां श्रीमच्छंकरभगवत्पादप्रणी- तम् । एवं व्याहगन्न दाक्षिणाला ऐतिहातिकाः-'श्रीमान्भट्टोजिदीक्षितः स्वयं विर- चितान्ग्रन्थान्वहूंटेखकैलेखयिता प्राहिणोहुभ्यः पण्डितेभ्यः। ते च दृष्ट्वा तां सरणि- मतिमबुलां नूनां चापाव्यंन्तामेव शिष्कन् । अथ बहुना कालेन स एव दक्षिण दिशं प्रदे सह शियः । तदा किल दददी क्वचिन्निकटे चिदम्बरस्य वसतः श्रीमदप्पयदी- क्षितेन्द्रन नत्र व मति प्रसझे दानसावधिजग्मिवानखिलशास्त्रवेदनचणानधिगन- वेदान्तहस्यन् । नेपानव मुखवयतः शुश्रात्र कौमारिलं तन्त्रम् , श्रीमद्भगवत्पादशंक- रमुनिप्रणीनं ब्रह्मसूत्रमाध्यं च ततः कुर्वन्गुरवे दक्षिणां ग्रन्थान्ते चोदितः स्वयं गुरुणा पूर्वानीमांसयोः कर्तुमेकैकं ग्रन्थन । प्राणपादनः 'चन्द्रनिद्धन्तदीपिकाम', 'श्रीन- तत्वकै न्नुभं च । तन्त्रनिद्धान्तदीपिकायां श्रीमदनबदक्षितेन्द्रानात्मनो गुरून्याहरति श्रीमाजिदीक्षितः । यथा- 'अन्मय मितेन्द्रनशेपविद्यागुम्नहं वन्दे । वकृतियोधाबोधी विद्वदविद्वद्विभाजकोषाधी ॥' इति । तत्त्वकोस्तुभे च द्वितीयपरिच्छेदोपक्रमे 'प्रायशो विदुषां मुदे' इति चायमंशः सूचित इति । तथा ततः परं श्रीमति व्याकरणेऽपि ग्रन्थकरणं प्रार्थिनीक्षितचरणविरचिना श्रीमनि नक्षत्रवादावली । यत्र च प्रतिवन्द्रितया 'अधुना पाणिनितन्त्र विदुपां प्रीत्यै विर- च्यन्ते' इति स्पष्टं नस्य ग्रन्थस्य विद्वातिहेतुत्वं विशिष्योक्तमिति च । औत्तराहास्तु- गहायात्रार्थमुदीची गतेः श्रीमदप्पयदीक्षितःसह समागमः श्रीभटोजिदीक्षितस्येलामनन्तिा सलं गङ्गायात्रामकुर्वञ्छीमदप्पययज्वानः । उच्यते व 'गङ्गावतरण'काव्ये श्रीलकण्ठ- मखीन्द्रेण-'गङ्गायां यः पुरा नानो देवचन्द्रायशेखरः । गाङ्गेयेन पुनः सन्नौ सोऽवीर्य यदात्मना ॥' इति प्रथमसर्गे श्रीमदमयदीक्षिनप्रशंसायाम् । सर्वथा श्रीमदप्पदीक्षि- तानां न्यूनवयाः समकालिकश्च श्रीमान्भट्टोजिदीक्षित इति सिद्धम् । the Sairas, and Ayya Dikszitar Ayyan on the part of the Vaishnaras: these then consulted Sanskrit authorities and made the Shastras agree; after which the pillar of Yekapada-murti iras fixed in its place". १. लघुसिद्धान्तकौमुद्या मध्यसिद्धान्तकौमुद्याश्च प्रणेता वरदराजोऽस्यैव भट्टोजिदी- क्षितस्य शिष्यः- 'नवा सरस्वती देवीं शुद्धां गुण्यां करोम्यहम् । पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् ॥ - श्रीमदप्पयदीक्षितस्य समानकालिकाः कवयः पण्डिताश्च- (१) सुप्रसिद्धः श्रीमानरत्नखेटदीक्षितः, (२) आलंकारिकचूडामणिमहाकविर्जगन्नाथप- ण्डितः,(३) वैयाकरणसार्वभौमः श्रीमान्भट्टोजिदीक्षितः,(४)अद्वैतविद्याचार्यश्चोलभूवल्लभ- स्थाच्युतनायकस्य तत्तनयस्य रघुनाथभूपालस्य च मन्त्री विश्वविश्रुतौदार्यो गोविन्दाक्षितश्च। रत्नखेटदीक्षितस्य श्रीनिवासदीक्षित इत्येव स्वपित्रा कृतं नाम । तस्य रत्नखेटश्रीनि- वासदीक्षित इत्यपि भूयान्व्यवहारः । तस्य संध्यावर्णनचातुर्यात्प्रमुदितेन राज्ञा कृतं नाम रत्नखेटाध्वरीति । उच्यते चैवं तस्य पुत्रेण राजचूडामणिदीक्षितेन प्रणीतस्य रुक्मिणी- परिणयमहाकाव्यम्य व्याख्यानारम्भे व्याख्यात्रा वालयज्ञवेदेश्वरेण- 'संध्याधुक्षिताम्भोधरनलिकगणादुगतान्सीसखण्डां- स्ताराकारान्निरोढुं शशिरविकपटानितो रत्नखेटौ । अन्योन्यं युध्यमानाबुदयचरमभूभृत्प्रवीराविति द्रा- गुक्त्या ख्यातापराख्यः क्षितिपतिवचसा रत्नखेटाध्वरीति ॥' श्रीमतो रत्नखेटदीक्षितस्य कृतयः-(१) शितिकण्ठविजयकाव्यम् , (२) भावनापुरुषो- त्तमनाटकम् ,(३)अद्वैतात्रवकौस्तुभम् ,(४) वादतारावली,(५) मध्वध्वंसनम् , (६)बौद्धत- ब्रमथनम् , (७)वेदान्तवादावली, (८) मणिदर्पणम् , (९) समयसर्वस्वम् , (१०)विधिनि- र्णयम् , (११) रत्नप्रदीपम् । अन्ये च सन्ति ववत्तत्प्रणीताः प्रवन्धाः । उच्यन्ते च तत्कृतप्रबन्धानां नामानि पूर्वोतव्याख्याने । यथा- 'अद्वैतास्रवकौस्तुभं व्यरचयद्यो वादतारावली मध्वध्वंसनवौद्धतन्त्रमथने वेदान्तवादावलीम् । प्रख्यातं मणिदर्पणं समयसर्वस्वं विधेनिर्णयं तत्त्वानां परिशुद्धिवोधविमलं रत्नप्रदीपं स्मृतेः ॥ १४ ॥ विद्याविशेषमणिजालखनेगुरुश्रीभट्टोजिदीक्षितमुखाम्बुनिहीत्वा । सिद्धान्तमध्यमवनौ प्रकटीकरोति कश्चिद्धनी वरदराज इति प्रसिद्धः ॥' इति तजोर्राजकीयपुस्तकालयस्थ-लघुसिद्धान्तकौमुदीप्रारम्भे । 'नत्वा वरदराजः श्रीगुरून्भट्ठोजिदीक्षितान् । करोति पाणिनीयानां मध्यसिद्धान्तकौमुदीम् ॥' अन्त च- 'एषा वरदराजेन बालानामुपकारिका । अकारि पाणिनीयानां मध्यसिद्धान्तकौमुदी । कृतिर्वरदराजस्य मध्यसिद्धान्तकौमुदी । तस्याः संख्या तु विज्ञेया खवाणकरवह्निमिः ॥ इति श्रीरविटिकंटिकंटिवरदराजभट्टकृत-मध्यसिद्धान्तकौमुदी ॥' इति तोराजकीयपुस्तकालयस्थ-मध्यसिद्धान्तकौमुद्याम् ।

६ यो भावनापुरुषवर्यमुखान्यकापोंदटादशापि च दशाद्भुतरूपकाणि । भावोत्तराणि शतकण्ठजयादिमानि काव्यानि पटिमतनोदमृतायितानि ॥१५॥ वन्य वन्यमनोविनोदनियुगाः साहित्यसंजीविनी- भावोद्भदरसालकादिकृतयः पारेशतं यत्कृताः । अन्ये दिग्नामुन्दरगिरः क्षुद्रप्रवन्धाः शतं छन्दोज्यौतिपनन्ननविपया भाषाप्रबन्धास्तथा ॥ १६ ॥ अन्याश्च यस्य कृतवा निखिलागमालतिद्धान्तितान्तरनिरन्तरसूक्तिगुम्फाः। पदर्शनीमकलमनविवेककमेकनेक्षनाः नुकृतिनां मुदमावहन्ति ॥ १७ ॥ रत्नखेटदीक्षितस्य परन्नरा था- श्रीभवखानी (भाष्यकारः) । श्रीकृष्णार्यः (आहिकप्रणेता) कुमार नवतनः अद्वैतचिन्तामणिकारः) श्रीकृष्णार्यः श्रीभवस्वामिभट्टः श्रीरनखेटश्रीनिवासावरी तथा चोचते रक्मिणीपरिणयकाव्यस्य व्याख्यानारम्मे- 'यः षष्टो भाष्यकर्तुः ऋतुवरमहितश्रीभवस्वामियष्टुः श्रीकृष्णार्यस्य दैनंदिनकृतिकृतिनः सोमपः पञ्चमो यः । नप्ता योऽद्वैतचिन्तामणिविरचयितुः पौण्डरीकादियष्टुः सर्वज्ञातुः कुमारावयमिलितभवखामियज्वानिधम्य ॥ ५ ॥ श्रीकृष्णार्यस्य पौत्रः प्रतिदिवसमविश्रान्तमन्नप्रदातु- ज्योतिष्टोमादियष्टविविधकृतिकृतः सर्वविद्याधिकस्य । यः श्रीवैकुण्ठघण्टामणिरिति महितश्रीभवखामिभट्ट- स्याद्वैतज्ञातधूताखिलकलुपगणस्यात्मजः खात्मवेत्तुः ॥ ६ ॥ यदुच्यते श्रीमदप्पयदीक्षितकृत सिद्धान्तलेशसंग्रह'ग्रन्थस्य प्रारम्भे दीक्षितवृत्तान्तले- खनप्रवृत्तभश्रीनारायणशास्त्रिभिः ‘अस्य (अप्पयदीक्षितस्य) समकालिकाः कवयः पण्डि- ताश्च विलिम्ब्यन्ते' इलारभ्य 'आनन्दरायमखी विद्यापरिणय-जीवानन्दादिप्रणेतास्य मान्यतमो वृद्धः' इति, तत्प्रमादकृतम् । अयमानन्दरायमखी भोसलवंशभूपतिकुलामालस्य 'श्रीमद्भोसलवंशभूपतिकुलामात्येषु विख्यातिमा- न्भारद्वाजकुलार्णवेन्दुरुदभूतावाजिरग्न्याहितः । १.

- " " बावाजिनाम्नो नप्ता, तञ्जनगराधीशस्यैकोजिमहाराजस्य मन्त्रिणो गङ्गाधराध्वरिणःपौत्रः, तस्यैव राज्ञो मन्त्रिणस्त्रिपुरविजयचम्पूप्रवन्धम्य निर्मातुसिंहरायनखिनस्तनूजः, वीधर्ना- दिग्रन्थकृतज्यम्वकरायमखिनस्तद्वैमात्रेयस्य मुकुन्दविलासकाव्य-राघवाभ्युदयनाटकादीनां प्रणेतुर्भगवन्तरायस्य च भ्रातृव्यः, शहजि-शरभोजि-तुक्कोजिमहीपालानां मन्त्री च । स्वयं विद्यापरिणय-जीवानन्दादिनाटकप्रणेता, आश्रलायनगृह्यसूत्रव्याख्याता च । तेषां राज्ञा राज्यारम्भकालोऽवस्तात्संदर्यते- एकोजिराजन्य १६७६ निस्ताव्दाः। हजिराजम्य १६८४ शरमोजिराजस्य १७११ नुकोजिराजस्य १७२९ नुकोजिमहाराजः १७३६ वत्सरावधि सप्तसंवत्सरानराज्यमकरोत् । अमावानन्दरायनली खपित्यकृतमखानुटानसमये धातृवर्षे (१६९८ निस्ताब्दे) अनतीतकौमारोऽभूत्- पुत्रस्य किलकभूपतिमणेमन्त्री सदैवाहत- स्तेनासीगुरुवत्प्रगल्भधिषणो गङ्गाधराख्योऽध्वरी ॥ वस्य द्वौ तनयादारचरितौ कृष्णाम्बिकागजा- वकल्मापतिलालितो गुरुपदे चारोप्य संमानितों नत्पुत्रेण च शाहजिक्षितिभृता ज्येष्ठानुवृत्त्याहतो दत्तादृग्विविधाग्रहारकरणाद्विद्वत्प्रतिष्ठापकौ ॥ ज्येष्ठन्तत्र सदावदातचरितः श्रीमान्नुनिहाध्वरी गायत्रीसमुपासनादिभिरपि श्रीतश्च सत्कर्मभिः। आत्मानं परिपूर्य तं सुचरितैः पुत्रैः प्रतिष्ठाप्य च त्रेधा ब्रह्महिताय सल्कृतिचितान्म ब्रह्मलोकानगात् ॥ तस्यात्मत्रितयेऽग्रजस्तु धृतिमानानन्दरायावरी कौमारात्प्रमृति प्रगल्भधिषणः श्रीशाहराजाहतः । इष्टापूर्तसदन्नदानमुहितविद्यवृद्धः सह श्रुत्युक्तार्थपरिकियापटुमतिः सत्कर्मनिष्णातधीः ॥ ज्येष्ठे तत्र नृसिंहयज्वनि दिवं यातेऽनुजस्तत्सुता- न्पश्यन्पुत्रवदग्रजापचितिमप्यानन्दराये दवत् । बैतानानि च कारयन्सुचरितान्येतैः स्वपुत्रेण च श्रीमानत्र महाग्निचिद्विजयते श्रीञ्चम्वकार्योऽध्वरी ॥' इति ढुण्डिव्यासराययज्वकृते मुद्राराक्षसव्याख्याने ।

८ 'धातृवर्षे यदा यज्ञनेवार्थमहमागतः । श्रीमहाराजराजम्य मन्त्रिणस्थ्यम्बकप्रभोः महाराजलु नां प्रीला खसभायामवासयत् । भारतश्रवणार्थाय रात्रिंदिवनुदारधीः ॥ यदा मासत्रयादूर्व प्राप्यनुज्ञां महीपतेः । गन्तुमिच्छामि च तदा धर्मशास्त्रनिवन्धने ॥ महाराजन चाज्ञातो गौरीनायूरमागतः । तन्निन्वर्षे वृश्चिकाके धर्मशास्त्रमुधानिधेः ।। एकेनैव मया पुत्रयुजेन शनकैः कृते । बुद्धिदण्डेन मथने रात्रिंदिवमनेकधा ।। अष्टनिलब्धवानस्मि वत्सरेस्तत्फलं महत् । आचारनवनीतं तन्मृदु सर्वमनोहरम् ॥ महार जन्य दयया नन्तंप्रायमभूद्भुवि । सनातं पञ्चदशानिः महत्वग्रन्थसंख्यया ॥ प्रचारोऽस्य महाराजाधीन एव हि सर्वथा । अहमप्पाध्वरी नाना महाराजेन सादरम् ।। दत्तां महीं समादाय.........दिनभृतः । धान्यः परम्परानि पाने कृप्या समाजितः ॥ कुर्वन्कुटुम्वभरणं पुत्रपौत्रः समावृतः । श्रेयः प्रार्थयमानः सन्महाराजस्य संततम् ।। आयुःशेषं सुखं वस्तुमिच्छाम्यग्निक्रियान्तिके । मनोरथो महानेप महाराजेन पूर्यताम् ।। एकदमापतिपूर्वपुण्यसुकृतोत्कर्षण लब्धोदयो दीपाम्बोदरवासभाग्यमहिमप्रख्यातपुण्योच्चयः । श्रीशाहक्षितिराट् प्रशान्तु वसुधामाचन्द्रमप्पाध्वरी यद्दत्तानवलेन धर्मविषयं शास्त्रं समग्रन्थयत् ॥' इत्यप्पादीक्षितविरचित आचारनवनीते । सूत्रधारः-अद्य भारद्वाजकुलजलधिकौस्तुभेन त्र्यम्बकरायमखिना समारब्धस्य क्रतोर्दिदृक्षयागतेन नानादिगन्तवासिना विद्वज्जनसभाजनेन सबहुमानमाहूय समादि- टोऽस्मि । पारिपार्श्विकः-वैदेशिकोऽस्मीति पृच्छामि कः पुनरयं त्र्यम्बकमखी नाम । सूत्रधारः-किं न जानासि निजगुणगणकुसुमसुरभीकृतदिगन्तमेतमपि । तथा हि ।

कुर्वाणः सकलान्यदीयधिषणामालम्ब्य राज्चक्रमा- नालोक्यानुदिनं निजामुपचितामामोदमानः श्रियम् । नित्यं भोसलवंशवारिधिविधुः शाहावनीवासवो यस्मिन्नेव गुणोवले कलयते वाचस्पतेर्गौरवम् ॥ अपि च । यस्यैवाचारगाम्भीर्यशीयौदार्यादिभिर्गुणः । वसिष्टवार्षिविजयकर्णाद्याः पुनरुतयः॥ अन्यच्च । नियन्त्रितामा निगमान्तविद्यामधीय धीमानमलप्रसूतिः । ध्यायन्नसौ ब्रह्म निजात्मरूपं तदात्मना भावयति प्रपञ्चम् ॥ पारिपार्श्विक:-(सप्रत्यमिज्ञम् ।) एकमाधिपतेरिदंविधगुणः साचिव्यधुर्यः श्रुतः प्राज्ञः कश्चिदजातशत्रुसदृशो गङ्गाधरार्यामिधः । नैतर्येन निजैरनन्यसुलभैरावय॑मानो गुणै- राचार्यप्रतिपत्तिमेव कलयन्नासीदमुष्मिन्नृपः ॥ सूत्रधारः-दिष्ट्या जानासि तं नहाभागन् । तर्हि तस्यात्मसंभवं नृसिंहरायमखीति सुगृहीतनामधेयं महानुभावमपि भवान्जानीयात् । पारिपाश्चिक:-बाढं जाने । यस्य किल कृतः पित्रा बाल्ये निरुपमगुणाढ्यो निजपदे निजरेकक्षोणीपतिहृदयमाराध्य चरितैः । तदेवायं भूत्वा चरति नियतं मूर्तिनदिति प्रपञ्चे विख्यातिस्तदितरदुरापा विजयते ॥ सूत्रधारः-तस्यैवायमनुजन्मा। पारिपार्श्विकः-ननु तदनुजखमेव पर्याप्तं प्रख्यात्यै । सूत्रधारः-सत्यमुक्तं भवता । पारिपार्श्विकः-संप्रति यज्ञवाट प्रविष्टोऽहं शालान्तरप्रविष्टमंनतीतकौमारमन्यं कमपि यजमानमद्राक्षम् । तं पुनर्न जानामि । सूत्रधारः कथं न जानासि । साचिव्यधुर्यो विहितः पितृव्येणादृत्य शाहक्षितिपालमौलेः। आनन्दनामा विमलप्रसूतिः पुत्रो नृसिंहावरिणः स एषः ॥ पारिपाश्चिकः-भाव, कीदृशः परिषदादेशः। सूत्रधारः-तस्यैव त्र्यम्बकरायमखिनः समनन्तरानुजेन भगवन्तरायनामधेयेन सत्कविसार्वभौमेन संप्रति प्रणीतं राघवाभ्युदयं नाम नाटकममिनेतव्यमिति ।' इति राघवाभ्युदयनाटके। २ १० , अतोऽयमानन्दरायमखी श्रीमदप्ययदीक्षितानां खर्गारोहणकाले १६२६ निस्ताव्दे जातमात्रोऽपि नाभूदिति स्पटम् । एवं स्थिते कथमम्य संभाव्यते दीक्षितः सह समकालि- कता, कथमस्य प्रसज्येत दीक्षितैरपि माननीयता वा । अपरं च । तस्मिन्नेव दीक्षितवृत्तान्तप्रकरणे 'दीक्षितानां समानकालिको न्यूनवया राजचूडामणिदीक्षितो भावनापुरुषोत्तमनाटककृत्' इति भवीनारायणशास्त्रिणो वदन्ति । प्रसञ्चेत दीक्षितैः सह समकालिकत्वं तदपेक्षया न्यूनवयस्त्वं च श्रीमतो राजचूडामणि- दीक्षितस्य । परं तु न्यूनवयसा राजचूडामगिदीक्षितेन कृतं भावनापुरुषोत्तमं स्वमते दीक्षितानामपि मान्यतमो वृद्ध आनन्दरायनखी विद्यापरिणयनाटके कथं चिरादेव निर्वर्तितं व्याहरतीति शास्त्रियां चिन्तालवोऽपि चेतःपदवी नारूढ इव । एवमस्ति किल प्रस्तावनायां विद्यापरिणयनाटकस्य- 'पारिपाश्चिकः-भाव, कृष्णमिश्रप्रतिमिरत्र प्रबोधचन्द्रोदय इति, संकल्पसूचों- दय इति, भावनापुरुषोत्तम इति च न्यबन्धि नाम वहुधा प्राचीनः । किननेनाभिनवसंर- न्मेण।' इति । अनोपरितनवाक्यादानन्दावनखिनः प्राचीनो भावनापुरुषोत्तमदिति सिद्धम् । वतुतो भावनापुरुषोत्तमनाटकस्य प्रवन्दा न राजचूडामणिदीक्षितः, किंतु तस्य पिता तोण्डीरमण्डलान्ततिशूरसमुद्राग्रहारवास्तव्यः कृष्णभट्टारकपौत्रः, भवखामिनो लम्याच रत्नखेटश्रीनिवासदीक्षित इति सुप्रसिद्धः कविरिति तस्मादेव ग्रन्थतः स्पष्टी- भवति । तथा च भावनापुरुषोत्तननाटके- 'नटी-ईरिसमवन्धविवाहइतओ को वा कई भवे । सूत्रधारः-अये, किमेतमपि न जानाति । अस्ति खलु कश्चित्तोण्डीरेषुश्रीशूरसमुद्रा- भिधानो महानग्रहारः। तत्राति कश्चित्तरुणाग्निहोत्री षड्दर्शनीसागरपारदृश्वा । शतावधानीलपराभिधानः श्रीधीनिवासावरिसार्वभौमः ॥ नटी-केण वा ण जाणीअदि सो। सूत्रधारः स एव विश्वामित्रवंशमुक्तामणिः श्रीकृष्णभट्टारकपौत्रः श्रीभवस्वामिभट्ट- सूनुर्लकनीगर्भसंभवः श्रीकविवादिगजकेसरी भट्टाचार्यः प्रतिदिनप्रबन्धकी तत्तादृशसक- लविद्याचमत्कृतवादव्याख्यानोपन्यासकौशलेन चोलभूवल्लमेनास्थानीरचितपत्रावलम्वः पइभाषासार्वभौमः सर्वतन्त्रखतन्त्रः श्रीमदमिनवभवभूतिः श्रीरत्नखेटश्रीनिवासाध्वरी- न्द्रोऽत्र प्रबन्धा। इति । एवं यदुच्यते भट्टश्रीनारायणशास्त्रिमिश्चिन्नबोम्मनायको विजयनगराधीश इति, तस्य पिता कृष्णराज इति, ज्येष्ठो भ्राता नरसिंह इति. तत्सर्व भ्रमप्रयुक्तमश्रद्धेयमविचारर- मणीयं च। तत्ताशनिरतिशयमहिन्नां श्रीमदप्पयदीक्षितानां यवीयसो भ्रातुराचादीक्षितस्य पौत्रः पुत्रः, सुप्रसिद्धः श्रीमानीलकण्ठमखीन्द्रः । अस्य नारायणाध्वरी पिता । माता चास्य भूमिदेवी। अयं तयोद्वितीयो नन्दनः । भ्रातरश्चास्य चत्वारः समभूवन् । सर्वेऽपि ते सुशिक्षिताः साखपि विद्यासु कवयश्च । परमेक एव तेषु नान्ना ज्ञायते कुशकुमुद्बतीयनाटकस्य प्रबन्धा अतिरात्रयज्वा । श्रीनीलकण्ठमीन्द्रस्य जीवनकालः सप्तदशशतकपूर्वभाग इति सष्टमुपलभ्यते तदीयनीलकण्ठविजयचम्यूकाव्यतः । यतः प्रावनात्कविस्तं प्रवन्ध- मतीतेषु ४७३८ कल्यब्देषु । उच्यते च कविना स्वेनैव तत्र ग्रन्थे- 'अष्टत्रिंशदुपस्कृतसप्तशताधिकचतुःसहस्रेषु । कलिवर्षेषु गतेषु प्रथितः किल नीलकण्ठविजयोऽयम् ॥' इति । शिवलीलार्णवमहाकाव्यस्य नवमसगै गङ्गारोधति हिमवत्प्रान्ते देव्यास्तटातकायाः सेनानिवेशमुक्त्वा तत्प्रदेशवर्णनप्रवृत्तस्यास्य मुखात् 'अत्मादृशाः क्षितिनुराः पुनराहरन्न भागीरथीतटल्हाणि कुशाङ्कुराणि ।' इत्ययत्नपूर्वकं निःसरन्या वाण्या प्रथमवर्णजत्वं शिष्टा- चारसंपन्नत्वं चास्य सम्यनिरूप्यते। श्रीकण्ठमतसर्वस्ववेदी चायम् । अस्य दृढोऽमिनिवेशः श्रीमति शैवसिद्धान्त इति प्रतिभासते । खयमाह च-शैवा वयमा चतुर्वदनात्'इति वैरा- ग्यशतके, 'आ गदा कुलपरिवृद्धादा चतुर्वक्रतोऽपि त्वत्पादाब्जप्रपदनपरान्वेत्ति नश्च- न्द्रनोले' इससीवशान्तिविलाते च । एवनन्यत्रापि । यथा नीलकण्ठदीक्षितस्य महती प्रथा, न तथा श्रीमदम्पयदीक्षितेन्द्रतनुभुवामपि । नान्यः कोऽपि तदानींतनेषु तदधिक- स्तत्सदृशो वा दर्शनेषु साहित्ये वा । अयमेव श्रेष्टः कवीनामस्य समकालिकानाम् । मङ्घलपदसंनिवेशा विचित्रोल्लेखा रसनिर्भरा विशङ्कटप्रवाहा चास्य साहित्यसरणिः । नैव क्लिन्नाति वचेतः परचेतांति वा केवलशब्दचित्रेषु यमकेषु वा । 'नीलकण्ठमखिनां सदति सकृत्प्रविष्टस्यापि समुजृम्भते सरसपदसंदर्भवैदग्धी' इत्युद्धोपयति 'प्रलप्रपत- ञ्जलिरभिनवप्राचेतसः' श्रीरामभद्रमखीन्द्रः शृङ्गारतिलकभाणे । अस्य साहित्यवैदग्धी सर्वत्र प्रद्योततेऽस्य लघुकाव्येषु महाकाव्येषु च । अस्य लघुकाव्यानि--(१) कलिविडम्ब- नम् , (२) सभारञ्जनम् , (३) अन्यापदेशशतकम् , (४) शान्तिविलासः, (५) वैराग्यशत- कम् , (६)आनन्दसागरस्तवः । एते नीलकण्ठदीक्षितस्य षड् ग्रन्था इति व्यपदिश्यन्ते । अस्य महाकाव्येषु श्रेष्ठं शिवालार्णवमहाकाव्यं द्वाविंशतिसर्गपरिमितम् । द्वितीयं च गङ्गा- वतरणकाव्यमष्टसर्गपरिमितम् । श्रीमदप्पयदीक्षितानां वर्गारोहणतः परं द्वादशसंवत्सरे- खूनवाधिकेषु गतेषु श्रीनीलकण्ठविजयामिषश्चम्पूप्रवन्धो निरमायि । नीलकण्ठविजय इव नान्यत्र तस्य ग्रन्थेषु ग्रन्थनिर्माणकालः प्रोच्यते । ग्रन्थानां पौर्वापर्य केनापि प्रकारेण स्फुटं न परिस्फुरति । परंतु सुगमं श्रीमदप्पयदीक्षितानां स्वर्गारोहणानन्तरमेव सर्वेषा- मपि करणमिति । केचिद्वादशहायनेन कविना नीलकण्ठविजयो निर्वर्तित इत्याचक्षते। तन्न श्रद्धेयं प्रमाणाभावात् । श्रूयते अन्या अपि सन्ति बढयस्तदीयाः कृतयः काव्येषु दर्शनेष्वपीति । तासु च (१) नलचरितनाटकम् , (२) कैय्यटव्याख्यानम् , (३)शिवतत्त्व- रहस्यम् , इत्येता एवाद्य नामतो ज्ञायन्ते । गृह्यन्ते च तासां नामानि कुशकुमुद्वतीयनाटके, -- १२ तस्य तृतीयनन्दनेन गीवाणेन्द्रेण कृते शृङ्गारकोशभाणे च । यथा-'एष खलु द्वितीय- शंकररूपागाममयदीक्षितानां नप्ता नलचरित्रनाटकावन्द्धा' इति कुशकुमुद्बतीयनाटके, 'केय्यटव्याख्यानशिवतत्त्वरहस्यायनकप्रबन्धनिर्मातुः * * पवित्रकीर्तेर्नीलकण्ठमखिनः' इति पूर्वोके च भागे समुपलभ्यते । श्रीनीलकण्ठमखीन्द्रो मधुरानगर्या तिरुमलैनायक- महाराजस्य सदति पण्डिनसार्वभौमोऽमालप्रवरचाभूत् । तत्पुत्रा अपि तामेव पश्चादध्य- वात्सुरिलयमंशः सूचते गीवाणेन्द्रेणापि 'शृङ्गारकोशो नाम भाण इत्यधुनैव खलु निवेदितं मधुरापुरादागतेन रङ्गकेतुना' इति वाक्येन । श्रीनीलकण्ठदीक्षितस्य अय्यादीक्षित इति चाभूनामान्तरम् । तथा च नमद्यापि व्यवहरन्ति विज्ञाः । अत्र व तञ्जनगरे वेदमूर्ति- जम्बुनाथभट्टानां सरस्वतीकाण्डागारे समधिगम्यते नीलकण्टविजयचम्पूप्रबन्धस्य प्राचीनं कोशद्वयम् । तत्र कोशद्वयेऽप्यवसानयोलिखितं संदृश्यते-'समाप्तं वेदमय्यादीक्षितवि- रचितं चम्पूकाव्यम् ॥' इति नीलकण्ठमखीन्द्रस्य तथा नामान्तरेणायाकारणं न विना- कारणम् । विदितमेव हि सर्वेषामस्माकमत्सद्देशीयाः प्रायशो बिज्रति पितामहानां नाम । तच्च किंचिद्विकृतमेव कीर्तयन्ति मातरः श्वशुराणां साक्षानामग्रहणमनुचितमिति । अत एवं नामपरम्परा आसन् श्रीनदप्पयातितानां वंशे ।चथा-आचार्यदीक्षितः,आचार्य- दीक्षितपौत्र आचार्दाक्षितः (आचार्यदीक्षितः), तत्पौत्र अय्यादीक्षितः (आचादीक्षितः), इति । श्रीनीलकण्ठमीन्द्रस्याशयमनुरुन्धान एव सर्वमपि हालास्यनाथस्योत्सवं निरवत- यत्तिरुमलनायकमहाराजः । नीलकण्ठमखीन्द्रोऽपि निर्लोज्य शास्त्राणि यथादृष्टं तेषु कारया- मास सर्वमप्युत्सवादिकम् । ततः सर्वा अपि लीला भगवतो हालास्यनाथस्य काव्या- त्मना निर्ममे कविः । तदेव प्रथते शिवलीलार्णवमहाकाव्यनान्ना- 'यः संरम्भः कृतिविरचने दुष्कवीनाममेद्यो यच्चैकाय्यं तदुचितपदान्वेषणे चित्तवृत्तेः । लभ्यं तचेदपि कवयतामन्ततस्त्रीव्यहानि स्यादेवं किं सरसकविताराज्यदुर्भिक्षयोगः ॥' - १. W. Taylor's Oriental Historical Manuscripts, Vol. II., p. 153:- "In Tai Month of Srimuga year (i. e. S. S. 1548) a mandapam in the Teppa-Kulam * * was completed. Besides agreeably to the declaration of Ayyâ Dikshitar, a brahmin versed in ancient language the King commanded that the celebration of all the sacred amusements of the God should be conductd by the temple attendants according to the ordinances of the ancient books."

१३ १ अनेन नीलकण्ठविजयस्थेन श्लोकेन स्वस्य सदापि कार्यवाहुल्यमासचितमिति व्यज. अति कविः । तच्च कार्य राज्यनिर्वाहरूपमित्यनुमीयते । श्रीनीलकण्ठमखीन्द्र आत्मानं वार्तिकाभरणस्य प्रणेतुर्वेङ्कटेश्वरमखिनः शिष्यं व्याहरति गङ्गावतरणकाव्ये कथावतारस । यथा---'वार्तिकाभरणग्रन्थनिमीणव्यक्तनैपुणः।श्रीवेक- टेश्वरमखी शिष्ये मय्यनुकम्पते ॥' इति । अयं साग्निचिलाप्तवाजपेययाजी वासिष्ठवं- शोद्भवः श्रीवेङ्कटेश्वरमखी। श्रीवेङ्कटेश्वरमखिनः पिता श्रीमानद्वैतविद्याचार्यः साग्नि- चित्खसर्वतोमुखातिरात्रसाग्निचित्याप्तवाजपेययाजी गोविन्ददीक्षितः । यः कौमारिलदर्श- नत्य विश्रुतां व्याख्यां रचयामास । यं तञ्जपुराधिनाथो रधुनायः खार्धासनदानेन सभा- जयति स्म । येन स्वतसर्वतोमुखमहासत्रे निखानिताश्चिरावस्थितेर्युक्तरूपाः शिला- यूपाः कावेरीतीरेषु । यस्य वाजपेयेन यजतः लचं जग्राह श्वेतच्छत्रं खपित्रा नियुक्तो युवराजो रघुनाथभूपालः । प्रतीयतेऽमुना गोविन्दमखीन्द्रेण कृतमातीत्यदर्शनीसारभून प्रशयं किमपि ग्रन्थान्तरमिति वक्ष्यमाणपद्याभ्याम्- 'अद्वैतविद्याविभवावलम्बान्गोविन्दयज्वेन्द्रगुख्नुपासे । निर्मथ्य पड्दर्शननीरधीन्ये धियैव सारं ददते वुषेभ्यः ॥' इति यज्ञनारायणदीक्षितविरचिते साहित्यरत्नाकरे । १. (१) राघवानन्द-नीलापरिणय-सभापतिविलासादिनाटकानां प्रवन्दा वेङ्कटेश्व- रोऽन्य एव । स निद्रुवकाश्यपान्ववायजो धर्मराजमनीषिणस्तनूजो वैद्यनाथमूरिणः पैत्रः, 'मणलर पुरवान्तव्यश्च । (२) चित्रवन्धरामायणाख्यकाव्यस्य की वेङ्कटेश्वरस्वपरस्तृतीयः । तस्य परम्परा यथा- तिम्मयसोमयाजी (कृष्णातीरवासी बढ्चकाश्यपः) यज्ञेश्वरः (तस्य पुत्रचतुष्कात् प्रथमः) चरकूरिकोण्डभट्टः (द्वितीयः) लक्ष्मीधरः (अयमेव रामानन्दाश्रमी; षड्भापाचन्द्रिकायाः, अनघराघवव्याख्याया इटार्थ- कल्पवलाश्च कर्ता) तिरुमलयज्वा यज्ञेश्वरदीक्षितः (अलंकारराघव-अलंकारसूर्योदय-चित्रबन्ध. रामायणव्याख्यानादीनां कर्ता) वेङ्कटेश्वरः (चित्रवन्धरामायणकाव्यस्य कविः) १४ 'पड्दर्शनामिनवदुग्वसरित्यूारण्यो निर्मच यत्नरहितं निजया घियैव । विश्राणवन्ननुदिनं विबुधावलीनामेतसं मुररिपुं भुवि योऽतिशेते ॥' इति रघुनाथविलासनाटके। उच्चते च-अनौगोविन्दमन्द्रो रघुनाथभूमियालस्य पित्राच्युतभूपालेनापि नितरां मानितस्तम्य मन्त्री च बभूवति । तत्र पुरातनं शोकममुं पठन्ति पुराविदः पण्डितजनाः- 'बिनामाद्यन्तनामानौ महीक्षिद्दीक्षितावुभौ । शन्ने शास्त्रे च निपुणावाहवेषु हवेषु च ॥' लोकस्यास्य पूर्वार्धनाच्युनभूमिपालगोविन्ददीक्षितावुच्यते। अच्युतानन्तगोविन्देति त्रिनामाने । अच्युतानन्तगोविन्देति नानसनुदायस्यैव त्रिनामसंज्ञा सुप्रसिद्धा । अयं गोविन्ददीक्षितो महाराजतः स्वयं प्रतिगृह्य वहूनग्रहारान्ब्राह्मणेभ्यो ददौ । मध्वार्जुने मायूरे कुम्भघोणे पञ्चनदेऽन्यत्र च स्थलेषु कार्याः पारेयु नानघटान्युष्यमण्डपानि च रयामास यान्यद्यापि संदृश्यन्ते मुदृढानि किं नु चिवचिजीर्णानि, न पुनरिदानीतनेन केनापि धर्मबुद्धिना समुद्धृतानि । कदाचिदयं गोविन्ददीक्षितः शिष्यान्कल्पतरुमचाय- अन्मच्यार्जुनक्षेत्र उवास, दी तत्र गताश्रीमतोऽप्पय्यदीक्षितेन्द्रान् । इयेष च तान्का- निचित्स्वसंशयस्थानानि कल्पतरौ विवरीतुम् । विवरणे तदीयां पटुतां संवीक्ष्य प्रार्थया- नास तान्कल्पतरोाख्यानं कर्तुम् । श्लोकोऽयं गोविन्ददीक्षितस्येत्युदाहरन्ति जनाः- 'अप्पदीक्षित किमिलतिस्तुतिं वर्णयामि भवतो वदान्यताम् । सोऽपि कल्पतरुथसिद्धये वदिरामबसरं प्रतीक्षते ॥' इति । लोकममुं बालकविनोक्तं व्याहरन्यन्ये । सर्वथा संभाव्यते श्रीमतो गोविन्ददीक्षितस्य समकालिकत्वं श्रीमदप्पय्यदीक्षितेन्द्रः । यदुच्यते 'तजोर् म्यान्युअल्'(Tanjore Manual) आख्यग्रन्थे विजयराघवभूपालस्य मन्त्री गोविन्ददीक्षित इति, तत्प्रमाणान्तर- सापेक्ष खतो न प्रमाणम् , असंभावितं च । अस्ति हरिवंशसारचरितं नाम त्रयोविंशतिस- गपरिमितं महाकाव्यं गोविन्दमन्त्रिकृतम् । अस्ति च तस्य व्याख्या श्रीमदप्पश्यदीक्षित- कृता । परमिदमद्य न निश्चिनुमः स एवायं गोविन्दमत्री योऽध्यातितार्धासनः समं रघु- नाथभूपेन इति । यतो हरिवंशसारचरितस्य प्रबन्धा गोविन्दमन्त्री शाण्डिल्यवंशोत्पन्नः कोण्डमनायकमन्त्री च इत्येवं तद्न्थव्याख्यानतः प्रतीयते । यतो हरिवंशसारचरितस्य मूलकोशस्वद्य मया नोपलभ्यते। अतः श्लोकोऽयमुद्धृतो व्याख्यानतः- 'शाण्डिल्यान्वयहारमौक्तिकमणिः श्रीधल्लिमन्त्री पिता माता यस्य पतिव्रतैकमहिमाकल्पा च कुप्पाम्विका । तस्य श्रीहरिवंशसारचरिते गोविन्दमत्रिप्रभोः सर्गः पूर्तिमगानिसर्गलसितः काव्ये महत्लादिमः ॥' इति । श्रीवेङ्कटेश्वरमखिनो ज्येष्ठसोदरो विद्यागुरुः साग्निचिलसर्वप्रष्टाप्तोर्यामयाजी श्रीयज्ञना- रायणदीक्षितः । अखण्डितमस्य पाण्डित्यं सर्वेष्वपि व्याहारेषु । सुशिक्षितोऽयं काव्य - १५ णयः रीतौ।अयं रघुनाथभूषालाल्लब्धजीवनो रघुनाथभूपविजय-रघुनाथविलासनाटक-साहित्य- रत्नाकरकाव्यादिकांस्तमेव राजानमधिकृत्य निर्ममे ग्रन्थान् । ददावस्मै ज्ञनारायणदीक्षि- ताय कर्णाभरणं निजं पतकं पादाङ्गद कङ्कणं च रघुनाथभूपालः । अचं वरमाध्वर्य चकार खपितृकृते आप्तवाजपेयनान्नि सप्ततन्तुवरे । अन्य सनकालिकाः पण्डितम- (१) विधुतालंकारिकविबुधाहंकारः कृष्णयज्वा, (२) डिग्डिमकुलमण्डनः पण्डितशिखामणिः सोमनाथः, (३) पारिजातनाटकस्य प्रवन्धा रखुनाथभूषालाश्रितः कुमारताताचार्यश्च । श्रीवेङ्कटेश्वरमखिनः कृतिषु-(१) टुप्टीकाव्याख्यानं वार्तिकाभरणम् , (२) कमीन्न- नानांसाया व्याख्या कर्मान्तनिवन्धदीपिका इत्युमे एव केवलमिदानीं नानतः परि- ज्ञायते । चोदितोऽनेनैव रचयामास तन्त्रशिखामणिं श्रीमान्ाजचूडामणिदीक्षितः प्रख्यातः कर्ता काव्यदर्पणस्य । श्रीनीलकण्ठमखीन्द्रस्य समकालिका विद्वन्मणयः- (१) श्रौतधर्म इव मूर्तिमान् मान्यश्चोकनाथमखीन्द्रः। अयं कौशिकगोत्रोद्भवः । द्वाद- शहादियज्वनो नारायणदीक्षितस्य गणपत्यभिधायां सहधर्मिण्यां समुत्पन्नः। प्रख्यातनान्नो रननद्रमखीन्द्रस्य वशुरः पदविद्यागुरुश्च । अद्याप्यस्य वंशीयेषु तत्संवन्धिनां च संह- इयते कन्यकास्त्रपि गणपतीति नामकरणम् । शब्दकौमुदी-धातुरत्नावली-भाध्यरत्नावल्य इदानीमस्य समुपलभ्यमानाः कृतयः। त्रिशिरःपुरस्य प्रान्ते नुत्तशनगल्यग्रामे पुदुक्को- राज्ये पिन्नङ्गुडिनानि च ग्रामेऽन्यत्र व नदीतीरेषु वृत्त्यर्थमस्य कल्पयामामुरुनमझे- त्राणि तत्र तत्र तदानींतना राजान इति पुराविदः पण्डिताः। भाष्यरत्नावल्वाम्- 'धातारं सूत्रकारं शिवनुतिसहितं पाणिनि वाक्यकारं विष्णुं कात्यायनं तं गिरिशमहिवराधीश्वरं भाष्यकारम् । तातं नारायणं श्रीगणपतिमपि तां मातरं सादरं ता- नाचार्यान्सर्वतन्त्रप्रणयननिपुणानानमेः कर्म कुर्मः ॥ * धीमद्वाक्यपदप्रमाणगहनप्रच्छादितोच्चावच- स्फीतार्थप्रतिपादनातिनिपुणः श्रीनीलकण्ठाध्वरी । यं भाष्यप्रकटीकृतौ पटयते द्वेधार्थदानात्कृती तस्यान्ये मुधियः कथं न विमलाः पुष्णीयुरर्थप्रदाः ॥' इति । (२) श्रीरामचन्द्रोदयमहाकाव्यस्य कर्ता स्वयमेव तद्व्याख्याता च महाकविः श्रीवैष्णवः श्रीवेङ्कटेश्वरः । अयं गतेषु १५१८ संख्याकेषु शालिवाहनशकाब्देषु, तथा १५९५-९६ त्रिन्ताब्देषु काञ्चीनगरसमीपे श्रीनिवासार्यतो जनिमुपगतः। अयमतीतेषु४७३३कल्यव्देषु तथा गतेषु १५५७ शालिवाहनशकाव्देषु स्वस्य चत्वारिंशे वयति काशी गला तत्रैव काव्यमिदं समग्रन्थयत् । तथा च रामचन्द्रोदयमहाकाव्ये- ।

१६ 'अन्नपूर्णगुणपावनपद्यं व्योमवाहिसमसर्गमुदारम् । काव्यमझगुणशैलयुगाब्दे वेङ्कटोऽकृत कलौ कविवर्यः ॥' व्याख्या-अन्नपूर्णगुणपावनपा आकाशवत् पूर्णगुणानि पावनानि पद्यानि यस्य । त्रिंशताधिकत्रिसहस्रपद्यमित्यर्थः । ३०३० ।व्योमवह्निसनसर्ग व्योमवत् निर्मला: वहिव- दुञ्चलाः सर्गाः यन्मिन् तत् । त्रिंशत्सर्गमिलः। तत् काव्यम् । कली अङ्गगुणशैलयुगाब्दे मति षट्त्रिंशदधिकसमशताधिकचतुःसहत्रवर्षे सति। वेङ्कटः कविः। अकृत प्रणीतवान्। 'पत्रिंशत्र वृत्तानि छन्दांनि तु चतुर्दश । खाकंत्राणा इह श्लोका अनुष्टुप्संख्यया मताः ॥ आत्रेयत्रीनिवासाहयगुरुतनयः काव्यरतं व्यतानी- सीतानाथप्रसादप्रकटितधिषणो रामचन्द्रोदयाख्यम् । आ सीतेशाभिषेकाबुदितशुभकथं त्रिंशता यत्तु सगै- स्तस्मिन्नामाभिषेकान्युदयशुभकथास्त्रिंश आभाति सर्गः ।। तितिधि(१.१८)मिते शकाब्दे संजातेनोपकाञ्चि मयकेन । कशी गन क्लमं क.व्यं मुनेिवागतिथि(१५५.७)मिते हि शके ।' अन्धस्यास्य व्याख्याने च- 'नृसिंहार्यपौत्रस्य पौत्रः कवीन्द्रस्तथा वेङ्कटेशार्यपौत्रः प्रसिद्धः। खयं श्रीनिवासार्यसूनुः खकाव्यं लघु व्याख्यदाप्त वेङ्कटेशः॥ बृतितिथिमिते शकाब्दे जानिमानुनकाश्चि वेङ्कटेशकविः । काचमिदं व्याचट खयमेव सतां नियोगमासाद्य ॥' ग्रन्थान्ते च- 'यतीन्द्रकरुणापात्रं तन्महानसकिंकरम् आत्रेयप्रवरं नौमि प्रणतातिहरं गुरुम् ॥ १॥ १. रामचन्द्रोदयकाव्यस्य कर्नुर्वेङ्कटेशस्य परम्परा- यतिराजः २. (तत्सुतः) पद्मनाभः ३. (तत्सुतः) रामानुजार्यः ४. (तत्सुतः) पद्मनाभः ५. (तत्सुतः) पुरुषोत्तमः ६. (तत्सुतः) नरसिंहार्यः ७. (तत्सुतः) शठकोपः ८. (तत्सुतः) नृसिंहः ९. (तत्सुतः) पुरुषोत्तमः तातकारुण्यसंप्राप्तज्ञानभक्तिरसामृतम् । यतिराजाह्वयं वन्दे देशिकं दिव्यदर्शनम् ॥ २ ॥ यतिराजगुरोः सूनुं पाषण्डमतखण्डनम् । आचार्यपद्मनाभाख्यं भवसंतारकं भजे ॥३॥ नमो रामानुजार्याय वेदान्तार्थप्रदायिने । आत्रेयपद्मनाभार्यसुताय गुणशालिने ॥ ४ ॥ रामानुजार्यसंप्राप्तसर्वविद्यासमृद्धये । पद्मनाभाय महत तत्सुताय नमो नमः ॥ ५ ॥ पद्मनाभगुरोः सूनुं तत्कृपावाप्तवैभवम् । पुरुषोत्तममाचार्य गुणसिन्धुमुपास्महे ॥ ६ ॥ तातपाददयापात्रं मायावादतमोरविम् । व्याख्यातन्यायकुलिशं नरसिंहार्यमाश्रये ॥ ७ ॥ नृसिंहदेशिकावाप्तज्ञानविज्ञानसंपदे । आत्रेयशठकोपाय नमो वैराग्यसिन्धवे ॥ ८ ॥ श्रीशठकोपपदाम्बुजनझं तत्करुणेक्षणलम्भितवोधम् । देशिकमत्रिकुलाम्बुधिचन्द्रं नौनि नृसिंहमनन्तगुणाधिम् ॥ ९ ॥ श्रीमदृसिंहार्यसुतं महान्तं वेदान्तयुग्मव्यवहारशीलम् । आचारहेतुं करुणापयोधि वन्दे वदान्यं पुरुषोत्तमार्यम् ॥ १० ॥ पुरुषोत्तनपादाजसेवासंप्राप्तसंपदे। नमः श्रीवेङ्कटेशाय गुरवे भत्तिसिन्धवे ॥११॥ पराङ्कुशशठारातिकृपासंप्राप्तसंपदम् । श्रीवेङ्कटेशतनयं श्रीनिवासार्यमाश्रये ॥ १२ ॥' इति । (३) कवेरस्य नीलकण्ठमखीन्द्रस्यानुजन्मा कुशकुमुद्वतीयनाटकस्य प्रवन्दा प्रतिरखु- वंशादिकती अतिरानयज्वा । कुशकुमुद्वतीयनाटके- 'विद्वद्वादविवादकालयुगपद्विस्फूर्त्यहपूर्विका- निर्यद्युक्तिसहस्रदर्शितनिजाहीन्द्रावताराकृतिः । कर्तुं कारयितुं तथा रसयितुं काव्यानि नव्यान्यलं भूष्णुभांति सभासभाजितमतिः श्रीनीलकण्ठावरी ।। - १०. (तत्सुतः) वेङ्कटेशः ११. (तत्सुतः) श्रीनिवासः १२. (तत्सुतो रामचन्द्रोदयकाव्यस्य कविः) वेङ्कटेशः ।

अयं किल भरद्वाजकुलपारावारपारिजातः सकलसाम्राज्यसिंहासनाधिपतित्तत्रभवत्तः श्रीमतो नारायणाचरिणन्तपःपरिपाकः कती काव्यानां व्याकर्ता तत्राणां आहती ऋतूनां व्याहती सकलनृपसनेषु दिगन्तरविश्रान्तकीतिरपारनहिमा मानवाकृतिः साक्षादेव दाक्षा- यीवल्लभः श्रीकण्ठमतसर्वखवेदी श्रीनीलकण्ठावरी । * एप खलु द्वितीयशं- कररूपाणामप्पयदीक्षितानां नप्ता नलचरितनाटकप्रवन्द्धा । नटी-कोणु किंणानहेओ एअ णाडअप्पणेदा । सूत्रधारः नन्वस्यैव सभानेनुरनुजन्मा विदितवेदितव्यः कविलोकमित्रमतिरा- त्रयाजी स क्रिल प्रतिरघुवंशादिकर्तेति रसिकगोष्ठीषु जोघुध्यते ।' (४) शब्दचित्रखरूपमेदप्रतिपादक चित्ररत्नाकर ग्रन्थस्य रुक्मिणीपरिणय-जानकीप- रिणय-गौरीपरिणय-द्रौपदीपरिणयादीनां नाटकानां च कर्ता श्रीचक्रकविः । चित्ररत्नाकरे- 'श्रीलोकनाथं जनक रामचन्द्रं पतञ्जलिम् । नत्वाग्रज च क्रियते चित्ररत्नाकरो भया । रुक्मिणीजानकीगौरीद्रोपदीपरिणीतयः । कृतयो यस्य तस्यैषा कृतिश्चक्रकवः शुभा ॥' तस्यैव ग्रन्थस्यावसाने- 'पुत्रं चक्रकवि गुणकवसतिः श्रीलोकनाथः सुधी- रम्मा चाजनयत्सतीजननुता यं मानितं सज्जनः । षष्ठस्तस्य कृतावजायत परिच्छेदो नुते पाण्ड्यराटू- बोलोर्वीपतिनीलकण्ठमखिमिः श्रीचित्ररत्नाकरे ॥' इति ।। टी. एस्. कुप्पुस्वामिशास्त्री। तजोर् ।

काव्यमाला। श्रीनीलकण्ठदीक्षितप्रणीतं गङ्गावतरणम् । प्रथमः सर्गः । अद्भुतं किमपि द्वन्द्वमस्तु तन्मम शर्मणे । स्वस्तिकस्तनुते यस्य सुदृढाश्लेषनिवृतिम् ॥ १ ॥ व्यासमेव स्तुमो यस्य वाचं गणयितुं विधिः । विषीदति वृषाङ्केण विलूने पञ्चमानने ॥ २ ॥ कान्तः सहृदयो वाचः कविरेवं चिरंतनः । जडे जगति येनैव च्छन्दः प्रागन्वरुध्यत ॥३॥ कवितामफलद्वीटी कालिदासमुखेऽर्पिता । पर्मुखे तु सा गौर्याः परुषं निगमाक्षरम् ॥ ४ ॥ नारायणाध्वरीन्द्राय नमोऽस्तु ज्ञानसिन्धवे । शारदा यत्कटाक्षाणां साप्यवेतनकिंकरा ॥ ५॥ कल्पनेत्यस्ति तत्किंचित्कविलोकस्य जीवितम् । प्रविश्येव गृहीतं यद्भारत्याः कोशमन्दिरात् ॥ ६॥ स संदर्भः कवीन्द्राणां शारदा यं पदे पदे। श्लाघते विस्मयावेशस्मेरमन्थरया दृशा ॥ ७ ॥ शीलिते कविलोकेन सिद्धे ब्रह्मणि वाङ्मये । पामराः कलहायन्ते पश्यास्मिन्नन्यथान्यथा ॥८॥ अस्ति सारखतं चक्षुरज्ञातखापजागरम् । गोचरो यस्य सर्वोऽपि यत्स्वयं कर्णगोचरः॥९॥ १. आदिकविः वाल्मीकिः २. नारायणावरीन्द्रः कवेः पिता.

२०
काव्यमाला।
सत्यर्थे सत्सु शन्देषु सति चाक्षरडम्बरे ।
शोभते यं विना नोक्तिः स पन्था इति घुप्यते ॥ १० ॥
शृण्वन्तोऽपि न शृण्वन्ति जानन्तोऽपि न जानते ।
साहितीमितरे तम्या ज्ञाता श्रोता च यः कविः ॥ ११ ॥
न लक्षणेषु निष्कर्षो न वा काव्येषु कौशलम् ।
संदर्भनिर्णयायालं स ह्यदृष्टैकमूलकः ॥ १२ ॥
भारतीषु कवीन्द्राणां यावती सुकुमारता ।
तावती काव्यमर्मज्ञसंमर्दैकसहिष्णुता ॥ १३ ॥
अचमत्कृतसंदर्भमर्थ नैवाद्रियामहे ।
अत्यन्तभोगौपयिकमैश्वयमिव देहिनाम् ॥ १४ ॥
स्वर्गः कस्यान्तु सुधियः श्लाघन्ते चेन्निजं पदम् ।
ततोऽन्यः कोऽस्ति निरयस्तत्र ते यधुदासते ॥ १५ ॥
हतः श्लोको हतं काव्यं हता बुद्धिर्हतं यशः।
सद्भिरुद्भावितो दोषो यदि नाभ्युपगम्यते ॥ १६ ॥
अन्धास्ते कवयो येषां पन्थाः क्षुण्णः परैर्भवेत् ।
परेषां तु यदाक्रान्तः पन्थास्ते कविकुञ्जराः ॥ १७ ॥
विदुषां मत्सरग्रन्धिविभेद्यो वचसां गुणैः ।
नैव केनापि दुर्मेधश्चोद्यमर्कटमुष्टयः ॥ १८ ॥
आजन्मनः प्रवन्द्धृणां पद्यवन्धेषु यः श्रमः ।
सोऽपि सामाजिकायत्तः कष्टं धिक्कविजीवितम् ॥ १९ ॥
नार्थमुल्लिखितुं यत्नो नापि ग्रन्थयितुं गिरः।
श्रवणात्यागनाक्षेपः श्रोतुरभ्यर्थ्यते परम् ॥ २० ॥
दूषणाय न काव्यानां दुर्जनाक्षेपसंप्लवः ।
शफरीपरिवर्तेः किं सरसी न प्रसीदति ॥ २१ ॥
सव्यङ्गापि कवेर्वाणी सापदंशा न शोभते ।
लम्बस्तनी को वीक्षेत रम्भामप्युर्वशीमपि ॥ २२ ॥

१ सर्गः ] गङ्गावतरणम् । २१ क नु नाम सभा राज्ञां दुराक्षेपैकशिक्षिता । क्व नु वाचः सुधीलोकलालनैकरसाः कवेः ॥ २३ ॥ व्यङ्गुमस्फुरतो दोषान्मङ्क्तुनुत्स्फुरतो गुणान् । ईप्ये भगवति ब्रूहि का त्वदन्यां प्रगल्भताम् ॥ २४ ॥ किं मदक्ष्णोरयं दोषः किं तद्वस्त्वेव तादृशम् । कामं यन्मौलिरज्ञानां कम्पते कविसूक्तिषु ॥ २५ ॥ पुष्णन्तु स्वेति मधुरां परस्यापि कृतिं जनाः । खोक्तिभिर्यत्वचित्कौँ दहन्ति तदरंतुदम् ॥ २६ ॥ स्तुत्यं न स्तुवते मूढाः पद्यं यत्तन्न दारुणन् । अपदे यत्प्रशंसन्ति तन्मे मर्माणि कृन्तति ॥ २७ ॥ जानीमो ज्यायसीं लक्ष्म्या जातु ते न तु शारदे । आः स्मृतं ननु सा वक्रेप्वास्ते दुप्कविसंसदाम् ॥ २८ ॥ न यदाह मनुर्वध्यान्न च नासृजदजभूः । न वान्तकः कविमन्यान्नयते तन्मदंहसा ॥ २९ ॥ आमये यमके जाग्रत्यपमृत्यौ च दुप्कवौ । वाणि प्राणिषि तन्मन्ये वनेणैवासि निर्मिता ॥ ३० ॥ नाहमासं नृपः स्यां चेन्ननु कुर्या तथा महीम् । विचिन्वतापि नेक्ष्यन्ते यथा दुप्कविताकुराः ॥ ३१ ॥ पातिव्रत्यक्रमः कोऽयं प्राणभङ्गावधिस्तव । सर्गतः कविपाशानां शारदे वारय प्रियम् ॥ ३२ ॥ दूयामहे दुप्कविभिर्दत्तकर्णज्वरा वयम् । न वा बदामो वाग्देवि ननु त्वमपि तैर्हता ३३ ॥ विज्ञप्तिः श्रूयतामेका विधातः करुणा यदि । मूकान्सृज कविंमन्यान्वधिरान्विदुषोऽथवा ॥ ३४ ॥ जना नीराजनीयास्ते जानन्ति स्वयमेव ये। कथंचिदपि वा सगैः काव्यमकैश्च नाटकम् ॥ ३५ ॥ गशा० ३ २२ काव्यमाला। प्राचेतसेन यानीता पालिता भवभूतिना । सर्वतश्चय॑ते वाणी सेवाद्य कविमानिभिः ॥ ३६ ॥ निःशकं न प्रवृत्तोऽस्मि निन्दितुं कविमानिनः । निन्दामपि विगायन्ति यतः श्लाघामिवात्मनः ॥ ३७॥ नुनिम्ति भरद्वाजः ख्यातत्रिभुवनेष्वपि । अन्नयन्य जहाँ रामोऽप्यरण्यभ्रमणश्रमम् ॥ ३८ ॥ तन्यान्वये नहत्यासील्क्षीरोद इव चन्द्रमाः । श्रीकण्ठचरणासक्तः श्रीमानप्पयदीक्षितः ॥ ३९ ॥ विधित्रयी यदाक्षिप्ता नान्यत्र लभते गतिम् । जयन्त इव दुर्दान्तजानकीशशरादितः ॥ ४० ॥ आगमैरप्यसंवेद्यनाद्यं यत्तत्त्वमैश्वरम् । आकुमारं परिज्ञातं तदेवासीद्यदुक्तिभिः ॥ ४१ ॥ श्रीकण्ठदेशिकग्रन्थसिद्धान्तद्योतचन्द्रिका । श्रीमती निर्मिता येन शिवार्कमणिदीपिका ॥ ४२ ॥ गङ्गया यः पुरा खातो देवश्चन्द्रार्धशेखरः। गाङ्गेयेन पुनः सत्रौ सोऽवतीर्य यदात्मना ॥ ४३ ॥ अमोषणीयैरक्रय्यैरमूल्यैरमलीमसैः । यत्प्रवन्धैः शतेनैव भारती परिकर्मिता ॥ ४४ ॥ यं विद्म इति यद्न्थानभ्यास्यामोऽखिलानिति । यस्य शिप्याः म इति च श्लाघन्ते खं विपश्चितः ॥ १५ ॥ नाकेऽपि सति देवानां माहात्म्यकलहे मिथः । वादः शाम्यति यद्वाचि विन्यस्य निखिलंभरम् ॥ ४६ ॥ आमोदिभिर्वचःपुप्पैरर्चितो येन शंकरः। तत्याज काशधत्तूरधारणोपहितां रुजम् ।। ४७ ॥ तत्समानप्रभावस्य तदनन्तरजन्मनः । आसीदाचादीक्षितस्य पुत्रो नाणयणाध्वरी ॥४८॥ १. अप्पयदीक्षितः कवेः पितामहस्य ज्यायान्नाता.

१ सर्गः]
गङ्गावतरणम् ।
२३
जयन्ति तनयास्तस्य पञ्च सौभ्रात्रशालिनः ।
गर्भदासा महेशस्य कवयश्च विपश्चितः ॥ ४९ ॥
तेषामहं द्वितीयोऽस्मि भूमिदेवीतनूभुवाम् ।
नीलकण्ठ इति ख्यातिं नीतः शंभोः प्रसादतः ॥ ५० ॥
वार्तिकाभरणग्रन्थनिर्माणव्यक्तनैपुणः ।
श्रीवेङ्कटेश्वरमखी शिप्ये मय्यनुकम्पते ॥ ५१ ।।
कुर्वती श्रवणे वाणी कोमलां यस्य साहितीम् ।
कर्णपूरशिरीषेऽपि काठिन्यमिव पश्यति ॥ ५२ ॥
भान्ति शिप्याः पुरो यस्य पाणिविन्यस्तपुस्तकाः ।
तत्सूक्तिजाह्नवीपूरत्रासेनेव धृतप्लवाः ॥ ५३ ॥
सति सह्यसुतातीरे सति त्रय्यन्तशीलने ।
गन्तुं निश्चितवानस्सि गङ्गां केनापि हेतुना ॥ ५४ ॥
तपसा लभ्यतां तस्यास्तपसश्च कठोरताम् ।
पश्यन्वाचा तपस्यामि काव्यसंदर्भरूपया ॥ ५५ ॥
मूकोऽपि मुखरायेत यत्र स्मृतिपथं गते ।
उपेक्षितव्यं तद्वस्तु कथं कवयता मया ॥ ५६ ॥
भगीरथमुखाद्वाचः स्तुवन्ति मम जाह्नवीम् ।
प्रभावे चन्द्रचूडस्य पर्यवस्यन्ति तत्त्वतः ॥ ५७ ॥
चन्द्रशेखरसव्याङ्गचरणोन्मार्जनाम्भसाम् ।
विवर्ता जगदुत्सङ्गे विहरन्ति मदुक्तयः ॥ ५८ ॥
भत्तया कृतेति जाहव्याः प्रभावं वदतीति वा।
सन्तः समनुगृह्णन्तु निर्गुणामपि मदिरम् ।। ५९ ॥
आसीद्भगीरथो नाम राजा रविरिवापरः ।
येन साक्षात्कृतः शंभुर्येन गङ्गावतारिता ॥ ६० ॥
सदयं सानुरागं च भुञ्जानं तं वसुंधराम् ।
ऐच्छदिन्द्रवशापि द्यौरन्तः कुलवधूरिव ॥ ६१ ॥

२४
काव्यमाला।
गोवर्धनधरम्यापि यदि तावद्यशो हरेः ।
कियन्न वर्ण्यः स भुवं विभ्रन्सगिरिकाननाम् ॥ ६२ ।।
स पौगन्पादमूलस्थानरादिति नाद्भुतम् ।
यदिगन्ते यशोऽरक्षत्प्रतापं शारिवेश्मम् ॥ ६३ ॥
दयालुपथ भूतेषु दण्ड्ये वासीन्स निर्दयः ।
संजीवनोऽपि लोकानां चन्द्रमाः पथिकान्तकः ॥ ६४ ॥
न दण्ड्यं मुनुचे कंचिन्न वा कंचिददण्डयत् ।
तथापि युक्तदण्डः स दयालुरिति पप्रथे ॥ ६५॥
उचितेप्वदिशदृष्टिनुदासीनः परेषु च ।
शुश्राव च न शुश्राव स वाचननुजीविनाम् ॥ ६६ ॥
उचिततया तन्निन्नन्वरज्यन्यथा प्रजाः ।
न तथा तस्य दानेन न तथा चोपलालनैः ॥ ६७ ।।
तस्मिन्दुर्जनदुर्धर्षे समं पश्यति च प्रजाः।
सर्वोऽप्यासीदपिशुनः सर्वोऽपि गतमत्सरः ॥ ६८ ॥
स यावल्लालयामास कीडन्निव हसन्निव ।
उपासांचक्रिरे तावद्भूतास्तमनुजीविनः ॥ ६९ ॥
जातः कोपो न भृत्येषु जातोऽपि न निगूहितः ।
निगहितोऽपि न चिरमाम्त चित्तेऽस्य कोमले ॥ ७० ॥
वैरायतां विरिञ्चोऽपि विप्रकर्तु क्षमेत सः
अज्ञातविमतोत्पादामभुत तदपि क्षितिम् ॥ ७१ ॥
प्रणाममात्रसंप्रीतस्तेजस्वी चोदयस्थितः।
कूटस्थं रविमैश्वाको गुणैरनुययाविव ॥ ७२ ॥
तस्यासन्प्राक्तना एव सेनामन्यनुजीविनः ।
नवं यशो नवः कोशो नवं राज्यं च केवलम् ॥ ७३ ॥
षष्ठांशं जगृहे नेति तुष्टुवुस्तं तपखिनः ।
न त्वबुध्यन्त गृहन्तमुपायेनाखिलं तपः ॥ ७४ ॥

सर्गः]
गङ्गावतरणम् ।
२५
स्रस्तमंसतलात्पान्थैः संव्यानमपि वर्मसु ।
सातङ्कमाददे भूयस्तरद्भिस्तस्य शासनम् ॥ ७५ ॥
अख्यातपूर्वविजयानतृणीकृतजीवितान् ।
अक्षत्रियानयूनश्च न स संजगृहे भटान् ॥ ७६ ॥
अवितीर्णमहाग्रामैरकृतस्वर्णवृष्टिभिः ।
कटाक्षैर्न बभूवेऽस्य कविवक्रनिपातिभिः ॥ ७७ ॥
संग्रामाङ्गणमारूढः स समक्षं विरोधिनाम् ।
तिरस्कारमिवामस्त चापन्यापि शिरोनतिम् ॥ ७८ ।।
प्रददावेव सोऽर्थिभ्यः प्रतिजग्राह न कचित् ।
वासवादसकृद्दृष्टिं लिप्समानस्त्वलज्जत ॥ ७९ ॥
सायाहापचयेनापि मर्यादां लङ्घतेऽर्णवः ।
स तु तावत्प्रवृद्धोऽपि मर्यादा नात्यलङ्घत ॥ ८० ॥
दातुं प्रवृद्धश्चन्द्रोऽपि पक्षे पक्षेऽयचीयते
स तु भूयोऽप्यवर्धिष्ट संततं वितरन्नृपः ॥ ८१ ॥
पदं किमेतावदुदारतोचितं प्रयुज्य शंसेयममुप्य दातृताम् ।
पदेषु यत्प्रत्यय एव नाशितः प्रयोगशूरैः कविभिः समन्ततः ।। ८२ ।।
यदस्य युद्धेषु महत्कुतूहलं य उद्यमो यत्प्रतिपालनं च वा ।
इदं किमङ्ग श्रुतमीक्षितं नु वा महीभुजोऽन्यस्य महोत्सवेप्वपि ॥ ८३ ॥
एकैकां क्रमभाविनीमपि कलामिन्दोः समाखाद्य यैः
कण्ठोदीवितजीवितैर्निरवधिः कालः कथंचिज्जितः ।
तैरेवोदरपूरमध्वरहविः म्फारं तदावर्जितं
भुञ्जानैस्त्रिदशैरधारि जठरप्रायं तदानीं वपुः ॥ ८४ ॥
परिज्ञातं तत्त्वं निखिलमपि विद्यासु विदुषां
परिज्ञातं भूयः परिषदि सतां श्लाषितमपि ।
फलैर्योक्तुं तत्तत्क्रमसमुचितैः श्लाघितमपि
प्रगल्भः कोऽन्यः स्यात्रिभुवनवदान्यो यदि न सः ॥८५ ॥

काव्यमाला।
साम्राज्यं यदि सप्तमार्णवतटीविश्राम्यदाज्ञाक्षरं
सौन्दर्य यदि मुद्रिताः सरगिरः सा चेन्मतिः को गुरुः ।
शौर्य चेत्युनरन्यदेव तदिति स्तोत्रं विचित्रं सतां
शृण्वन्नेव भगीरथक्षितिपतिनित्ये सहस्रं समाः ।। ८६ ॥
इति श्रीमद्भद जकुलजलविकोतुनश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रवन्ध-
विक्रमहत्याजिश्रीनप्पथदीक्षितसोदश्रीमदाबादीक्षितपात्रेण
नरायणदीक्षिता मजेन श्रीनीलकण्ठदीक्षितन विरचिते
गावतरणे कथावतारो नाम प्रथमः सर्गः ।
द्वितीयः सर्गः।
पौरजानपदपार्थिवलोकप्रस्तुतम्नुतिवचोमुखरायान् ।
जातु संसदि निषद्य नुहृद्भिः संलपन्नतिनिनाय स कालम् ॥ १ ॥
न प्रसङ्गकृतसंगति वक्तुं प्रतुतं किमपि वान्धववृद्धैः ।
सावधानमशृणोदपदानं सर्वमेव सगरात्मभवानाम् ॥ २ ॥
अश्वमेधमकरोत्सगरो यद्यच्च तत्र तनया विनियुक्ताः ।
अन्वयुर्यदपि ते तुरगं तं यच्च तं शतमखोपजहार ॥ ३ ॥
यत्ततः सगिरिकेतुबनान्ता तैर्व्यचीयत मही निखिलेयम् ।
यच्च तैः पितृवचोऽनुसरद्भिः सिन्धुरेव समखन्यत भूयः ॥ ४ ॥
मन्दिरं फणभृतामवतेरुः सागरोदरपथेन च ते यत् ।
पादकर्णसमवायत एव प्राकृतैः फणिभिरद्भुतदृष्टाः ॥ ५ ॥
तं तुरंगमपि यद्ददृशुस्ते तापसस्य कपिलस्य समीपे ।
चोर इत्यमुमभिवतां यद्भस्मतामदित हुंकृतिरस्य ॥ ६ ॥
अंशुमानपि समेत्य हयं तं यच्चकार सगराध्वरपूर्तिम् ।
सर्वमेतदवकर्ण्य स वीरो विस्मितोऽजनि विषण्णमुखश्च ॥ ७॥
दातुमम्बुपरिपारणमेषां कोऽभ्युपाय इति पृच्छति तस्मिन् ।
संनिकर्षमुपसृत्य वसिष्ठः शंसति स्म जगतः सुकृतेन ॥ ८ ॥
कन्यकास्ति कुटिलेति हिमाद्रेायसी स्मरणतोऽप्यघहन्त्री ।
शंकराय वितरीतुममाः सत्यलोकमनयन्त शिशुं ताम् ॥ ९ ॥

२ सर्गः]
गङ्गावतरणम् ।
२७.
आकलय्य विवुधोपहृतां तामष्टभिश्च नयनद्रुहिणः प्राक् ।
नाहतीश्वरमियं तु वराकी मुच्यतामिति गिरा निरतक्षत् ॥ १० ॥
उद्यतां किमपि वक्तुमथैनां गर्वितां कमलभूरुपलभ्य ।
शापमित्थमसृजजलरूपा सद्य एव भवती भवितेति ॥ ११ ॥
सा ततो गिरिसुताकलयन्ती तं च निग्रहमनुग्रहमेव ।
ऊर्मिभिः प्रलयसागरघोरैरुत्पपात कवलीकरणाय ॥ १२ ॥
अप्रतर्कितविधेयमपोढस्थैर्यमर्षविरतश्रुतिपाठम् ।
शुष्कतालु वदनं च तदानीं पद्मभूरपि परिभ्रमति स्म ॥ १३ ॥
सावलेपनिपतत्पुरसिन्धुखैरचंक्रमतिरस्करणाय ।
सर्वतः स निगमान्किल सेतूनावबन्ध चतुरश्चतुरोऽपि ॥ १४ ॥
सा च वामनपुराणवचोभिः स्पष्टमेव विवृता विदिता ते ।
नागलोकमवतार्य नहीं तां देयमन्बु सगरात्मभवेभ्यः ॥ १५ ॥
आशरीरपतनं व्रतचर्यामाचरन्नपि सुपर्णवचोभिः ।
अभ्रसिन्धुमवतारयितुं तामंशुमानपि शशाक न धीरः ॥ १६ ॥
तल्लुतोऽपि न ददर्श दिलीपस्तत्समानयनकर्मणि योगम् ।
दृष्टिमत्र निवासि यदि त्वं सिद्धिमेति नियमादयमर्थः ॥ १७ ॥
इत्थमूचिषि मुनौ करणीयं निश्चिकाय न तु तं निजगाद ।
सिद्धमप्यभिलपन्ति न सन्तः का प्रसक्तिरपि साधयितव्ये ॥१८॥
मेल्यतीति यदवादि भवद्भिः सिद्धमेव तु ततोऽभिमतं नः ।
इत्युदीर्य स विसृष्टसमाजः पार्थिवः प्रतिययाववरोधम् ॥ १९ ॥
सोऽथ जातु नृपतिः परितुष्टादाशिषं समधिगम्य वसिष्ठात् ।
निर्ययौ सुरनदीमुपनेतुं न्यस्य राज्यमखिलं सचिवेषु ॥ २० ॥
तीरसीमनि स दक्षिणसिन्धोराश्रमं कमपि संपरिकल्प्य ।
आरराध नियमैरतिमात्रैर्देवमम्बुजभवं नरदेवः ॥ २१ ॥
हेमकुम्भसलिलैरभिषिक्तो मौलिरस्य मुनिवेषधरस्य ।
वीचिकासु लवणासु पयोधेर्वांतशङ्कमहनि त्रिरमजत् ॥ २२ ॥

२८
काव्यमाला ।
आश्रमं नगरमासनदर्भान्भद्रपीठमुटजं मणिवेश्म ।
संभ्रमाव्यवहरन्क्षितिपालोऽलज्जत त्रिचतुराणि दिनानि ॥ २३ ॥
स क्षणादजयदासनभेदाशिक्षणाचिरतरं खुरलीषु ।
जानता निखिलमभ्यसितव्यं कस्य कुत्र न भवेदुपयोगः ॥ २४ ॥
अत्यशेत स नुनीनपि दिव्यान्वासरैः कतिपयैर्वसुधेशः ।
संस्तवे भवतु नाम विलन्वः संस्तुतं मतिमतां किमसाध्यम् ॥२५॥
किं स पूर्वमपि नाजयदक्षानिक तु वा न ववृते शुचिरेवम् ।
तस्य केव तपसा परिहानिः प्रत्युतैष न ररक्ष तदोवीम् ॥ २६ ॥
खं च राज्यमपहाय सतोऽस्य स्वर्गराज्यमिति तत्कियदास्ते ।
तद्विदञ्छतमखो न शशङ्के तत्तपश्चरणतः कणशोऽपि ॥ २७ ॥
बाहुजोऽयमथ भानुकुलीनस्तत्र चाप्रतिभटः खमहिन्ना ।
तावतापि तपसा यदि युक्तस्तत्समीक्षितुमपि क्षमते कः ॥ २८ ॥
यद्गजेषु तुरगेषु भटेषु क्षोणिपु क्षितिपतिप्वपि सक्तम् ।
तन्मनस्तत इतोऽपि विकृप्य स्थापितं तपसि तेन कठोरे ॥ २९ ॥
नान्नमाद्रियत नाम्बु न मूलं का भविप्यति कथापि फलानाम् ।
मारुतं परमभुत निदाघस्तं च हर्तुमिव तस्य तदाभूत् ॥ ३० ॥
चण्डमारुतचलन्मृदुघासग्रासलालसतया गतिमान्धम् ।
प्रस्तुवत्यहिमभानुतुरङ्गे द्राघिमाणमलभन्त दिनानि ॥ ३१ ॥
तापमातपतरङ्गितमुच्चैः क्षन्तुमक्षमतया दिनलक्ष्मीः ।
किं चिरायति निशेति वितीर्णोद्राहिकेव वपुरायतमूहे ।। ३२ ॥
वक्रचंक्रमणवल्गनधाटीमण्डलभ्रमणमन्दगतानि ।
सादिनः खयमशिक्ष्यत धर्मात्तुन्दिलो मदनजैत्रतुरंगः ॥ ३३ ॥
आरुरोह गिरिमाप वनान्तानम्रमीदनुदिशं परिधाव्य ।
अग्रहीदपि तृणानि समीरो निग्रहैकरतिभाजि निदाघे ॥ ३४ ॥
भानुभिः प्रलयपावकतीरापिवत्युदकमम्बुजबन्धौ ।
दूरदूरमपदिश्य मरीचीद्रुवुर्दिशि दिशीव सरस्यः ॥ ३५ ॥

२ सर्गः]
गङ्गावतरणम्।
२९
शक्यमञ्जलिपुटैः सलिला: सान्द्रमातपभरं प्रविकीर्य ।
जीर्णपर्णजटिलानि तदानीं विप्वगुज्ज्वलयितुं विपिनानि ॥ ३६॥
अङ्किताः किमपि शैवलखण्डैरातपाच्छकलितैरसिनीलाः ।
कोण एव सरितामवहन्त प्रान्तलीनपथिका जलवेण्यः ॥ ३७॥
कामिनः पथि तलेषु तरूणां गाढनम्रविटपेषु निवेश्य ।
अध्वखेदमहरन्त वधूनामम्बुभिः कमलिनीदलनीतैः ॥ ३८ ॥
उत्तरीयमहरकुचकुम्भादुन्ममा मुखधर्मपयांसि ।
अङ्गमङ्गमपि पान्यवधूनामालिलिङ्ग मुकृती बनवातः ॥ ३९ ॥
आगतैरपि पथातिविदूरादध्वगैस्तरुतलेषु निषध ।
स्पन्दितुं च पटुभिर्न वभूवे संनिकृष्टसलिलग्रहणाय ॥ ४० ॥
किं प्रपामु कुहचित्तरुणीनामास्पदं कुचतटेप्वधिगम्य ।
विध्यति ल विजने पथि पान्थान्कुण्ठविक्रमतया कुसुमास्त्रः॥४१॥
सत्यपि श्रमविनोदिनि कामं तालवृन्तपवने तरुणानाम् ।
प्रेमभाजनमभूत्परमेकः प्रेयसीकुचदुकूलसमीरः ॥ ४२ ॥
फूत्कृतैरजहदूप्मतरङ्गभूयसा मसृणितोष्ठदलानि ।
अवदन्त सुदृशामभिकेभ्यो मुग्धधर्मकणितानि मुखानि ॥ ४३ ॥
न प्रणामरचनैर्न चक्त्या न व्यनीयत सखीवचनैर्यत् ।
कञ्चुकं तदपनिन्युरुरोजात्कामिलोकसुकृतेन नवोढाः ॥ ४४ ॥
मारुतो न मधुरप्युपरेमे किं पिकैरमुखरैरिति खिन्नः ।
संदधे धनुषि नैव मनोजः सायकं त्रिचतुराणि दिनानि ॥ ४५ ॥
हारदाम्नि हरिचन्दनपङ्के शीतरोचिषि शिरीषदलेषु ।
कामिनीकुचतटेषु च लिल्ये पञ्चभिः किमसुभिः कुसुमेषोः ॥ ४६॥
सर्वरात्रमपि संलपनायैर्विभ्रमैः समपनीय विभाते ।
अप्रमर्दितकुचं युवतीनामङ्कपालिमलभन्त युवानः ॥ ४७ ॥
नास्ति मन्दपवनो न वसन्तः कूणितं च चरितं कुसुमेषोः ।
तावता विरहिणां किमिवासीत्तेषु मन्मथकणोऽपि कृतान्तः ॥४८॥

काव्यमाला। अन्नमन्यदवमन्य यमेकं सेवते सुलभ इत्यहिलोकः । सोऽपि नैव मुलभो मरुदासीदुर्जयो जगति देवनियोगः ॥ १९ ॥ प्राणिमात्रपरिजीवनहेतोः शत्रवस्त्रय इमे पवनस्य । शुष्कतापसनिदाघभुजंगास्ते पतन्ति निरये क न विझः ॥ ५० ॥ उप्णमन्त्रु रविल्यमयूखः सान्द्रमुमुरकिरश्च समीराः । भूः पफाल पुनराः कथमासीत्पान्थपातकिदशापरिपाकः ॥ ५१ ॥ खापकालमनुपाल्य गुरूणां विप्रलभ्य च चिरेण सपत्नीः । प्रस्थितामु कुलटाखपि धर्मेः पातकी किमपि नानुचकम्पे ॥ ५२ ।। वारिविभ्रममहोत्सवदानयं पुरा परिचचार निदाघः । तापमन्य विततार तदासौ किं निदा न धनिनां कृपणेभ्यः ॥५३॥ तो परम्परमहःपरिणामम्पर्धयेव नृपतिः सविता च । गाढयौवनमुपेयुषि धर्म दुनिरीक्ष्यतरतामवहेताम् ॥ ५४ ॥ खातुमम्बु न कुतश्चन लभ्यं पातुमस्ति न कथाप्यनिलस्य । स्थातुमास्त यमिनां तरुमूलं दूषितं तदपि दावशिखाभिः ॥ ५५ ॥ यावदित्थमधिकोजनि धर्मस्तावदस्य तपसा विजम्भे । तद्विपाकचकिता दिवि देवास्तापमापुरवनेरपि तीव्रम् ॥ ५६ ॥ तिष्ठतस्तपसि तस्य कठोरे काश्तश्च सुरसिन्धुनिपातम् । वासरा निमिषवत्समतीयुर्वासरा इव समांश्च सहस्रम् ॥ ५७ ।। तं कदाचिद्रुपमृत्य विरिञ्चस्तस्य दृष्टिपथमप्युपगम्य । अर्थ्यतामभिमतं वितरामीत्याह वाग्भिरमृतस्त्रपिताभिः ॥ ५८ ।। तत्क्षणं प्रमुदितः क्षितिपालस्तन्निशम्य वचनं द्रुहिणस्य । स्तोतुमारभत चारणलोकस्तूयमानचरितः खयमेनम् ।। ५९ ॥ त्वत्प्रसूतमवतो हरतोऽपि स्यादुपासनविधिर्यदि धातः । त्वं क्रियत्कियदिवासि न वन्द्यस्तत्त्वदर्शनपरैर्मतिमद्भिः ॥ ६० ॥ त्वादृशा जनिमता शयितव्यं त्वादृशा च ननु जागरितव्यम् । यत्र हि खपिति नश्यति लोको यत्र जीव्यति पुनः समुदेति।।६१॥

३ सर्गः]
गङ्गावतरणम् ।
३१
भारतीपरिवृढस्य पुरस्ते वागियं न परिहासपदं किम् ।
नृत्यतः पुरहरस्य पुरस्तान्नृत्यतां स्थितिरिव प्रमथानाम् ॥ ६२ ।।
हुंकृतेन कपिलस्य महर्षेभस्मतामुपगताः पितरो मे ।
स्वर्गसिन्धुसलिलेप्विह तेषामस्तु मत्करपुटेन निवापः ॥ ६३ ॥
तम्य प्रतिश्रुत्य तथेति देवः प्रदर्श्व गङ्गामपि पार्श्व एव ।
तिरोभवत्पश्यत एव तस्य वरैः समस्तागमवावदूकैः ॥ ६४ ॥
संव्यानमूर्मिलतिकाव्यतिषङ्गलब्ध-
फेनानुलेपमिव पाण्डरमावहन्तीम् ।
पश्यन्पुरस्तनुमती सुरलोकसिन्धु
सिद्धं मनोरथममस्त दिलीपसूनुः ६५ ॥
इति श्रीनद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रवन्ध.
निर्वाहकमहाव्रतवाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचार्दीक्षितपौत्रेण
नारायगदीक्षितमजन श्रीनीलकण्टदीक्षितेन विरचिते
गडावतरणे भगीरथवरलाभो नाम द्वितीयः सर्गः ।
तृतीयः सर्गः।
ततः प्रगानः नुतिभिश्च पार्थिवं प्रसादयन्तं सुरलोकवाहिनी ।
जगाद सद्यो जगदण्डमण्डलं निमजयन्तीव वचोभिरेव सा ॥ १ ॥
प्रविष्टमात्रावपि मे रसातलं प्रवाहनासीरतरङ्गपतिपु ।
पतेदलाबूफलकपरोपमं विभिद्य विध्यण्डकपालसंपुटः ॥ २ ॥
मदम्वुसंपातविधूतकल्मषैर्महीश पूर्वैस्तव यत्र वत्स्यते ।
स एवं लोको यदि मत्पयोजवात्पथि प्रलीयेत फलेत्तपस्तव ॥ ३ ॥
महर्षिरोपग्लपितान्समुद्धरन्महीभुजः कानपि लिप्ससे यशः ।
अवेक्षसे नैव जगत्रयीजुषामकाण्डसंवर्तविधानपातकम् ॥ ४ ॥
पतत्युदारे पयसांभरे मम प्रसह्य राजन्गिरिराजमौलिषु ।
समुत्पतच्छीकरवर्षदुर्दिनं चतुर्मुखो धाम किमावसेन्निजम् ॥ ५ ॥
ससर्ज कल्पादिषु विष्टपत्रयीं स योगमास्थाय कियन्तमात्मभूः ।
कथावशेषीक्रियतां मया पुनः कथं पतामीति गिरकयैव सा ॥ ६ ॥

३२
काव्यमाला।
अचिन्तयित्वा कृतिगौरवं विधेरपि त्यजन्ती करुणां शरीरिषु ।
पताम्यहं यद्यपि कुत्र वा भवन्भवान्निवापाञ्जलिमाचरिप्यति ॥ ७ ॥
पतेयमप्यर्थितसाधनाय ते निगृह्य वेगं निखिलं वलादहम् ।
परिप्लवाः क्षुद्रतया मदूर्मयः परं तु नेमे वचसि स्थिता मम ॥ ८ ॥
प्रदर्श्यतां कस्य पुरः पयोजवो निवेद्यतां वा नृप केवलं गिरा।
न संनिक वडवामुखानलो न वा स योगी चुलुकीकृतार्णवः ॥ ९ ॥
विषादमभ्येमि भुवं पदे पदे विपद्यमानामनुचिन्त्य यद्यपि ।
तथापि नन्दामि चिरोपसंभृतां तरङ्गकण्डूमपनेप्यता त्वया ॥ १० ॥
प्रवेष्टुमभ्रेण पथा रसातलं हठाद्विशन्त्याममरावतीं मयि ।
पुनः वहस्तार्पितचन्दनाङ्कितं श मुखं द्रक्ष्यति किं पुरंदरः ॥ ११ ॥
अपि प्रकृत्या यदचञ्चलं जलं तदप्यलं यां ग्रसितुं महोदधेः ।
पदं भवेन्नाम समग्ररंहसां मदम्भसां किं न्वियमेव मेदिनी ॥ १२ ॥
इति प्रसन्नं मधुरं च वाङ्मयं प्रवाहमात्मीयमिवोनिरन्त्यसौ ।
क्षणं व्यरंसीदिव यं सुरापगा तमेव लेभे वचनक्षणं नृपः ॥ १३ ॥
ससर्ज यस्त्वां त्रिजगन्नियामकश्चतुर्मुखः सोऽपि यदि त्वमूर्मिभिः ।
अवापितस्तत्क्षणमात्मसंशयं कथैव का स्याजगतो विनश्यतः ॥ १४ ॥
महात्मतां यद्यपि ते महापगे न वेद वेधा न हरिन शंकरः ।
तथापि पौराणिकसंकथामुखात्कियत्कियदेवि गृहीतवानहम् ।। १५ ।।
अतो न किंचित्प्रतिवत्तुमुत्सहे भवत्प्रवाहावतरोपपादकम् ।
परं तु मय्यम्ब दयोर्मिला दृशः पतन्तु ते किंचिदिति प्रसादये ॥१६॥
प्रसाद्यमाना मुहुरित्थमुक्तिभिर्भगीरथाय प्रससाद सा ततः ।
अपि स्वयात्रानुपपत्तिगोचरामनेन च प्रास्तुत संकथां मिथः ॥ १७ ॥
मदुक्तयुक्त्या नृपते मया विना प्रतिप्रयातुं यदि ते न रोचते ।
अनेन रूपेण परं रसातलं प्रवेक्ष्यते तर्हि भवत्कृते मया ॥ १८ ॥
सुरापगास्रोतसि पूर्वभूभुजां कदा प्रदास्यामि जलाञ्जलीनिति ।
तपस्यतो मे फलमस्ति किं त्वया प्रवाहरूपं परिहृत्य नीतया ॥ १९ ॥

३ सर्गः] गङ्गावतरणम् । ग्रहस्तवायं यदि तात तर्हि तां गृहाण गङ्गाममरावतीं गताम् । भणन्ति लक्ष्मीदयिताङ्ग्रिताडनप्रभिन्नविध्यण्डपरित्रुतेति याम् ॥ २०॥ न पातुमम्भो भवतीमिहार्थये परःसहस्रा भुवि सन्ति सिन्धवः । न चाम्बु दिव्यं ननु सन्ति वृष्टयः परं तु लिप्से तव पावनं पयः ॥२१॥ यदीदमेवेच्छसि याहि भूतलं गृहाण भस्मान्युपयाहि मां पुनः । ममान्वगागच्छ विधातुरालयं मनोरथं साधय मज्जलैस्ततः ॥ २२ ॥ कथंचिदेनः कपिलापराधजं पितामहानामपनेतुमिच्छता । अकर्मभूमावधिगत्ल तावकं पयः किमम्ब प्रतिपद्यतां मया ॥ २३ ॥ सुशिक्षितस्त्वं यदि वृद्धसेवया श्रुतिस्मृतिभ्यामुपदर्शिते पथि । विधिससे किं नु विकृप्य मां बलादकर्मभूमावहिराजवेश्मनि ॥ २४ ॥ न वक्तुमीशे गिरमुत्तरोत्तरं त्वदुक्तिधारासमशीषिकापदम् । गुरोनिदेशो मम दुम्न्यजन्त्वयं कुतस्तमुत्सादयितुं प्रवर्तसे ॥ २५ ॥ यदि वलयं गुल्मासनं त्वया यतख भूमाववतारण मम । स्मृता स्मृता संनिदधामि तावदित्युदीर्य तं दिव्यनदी तिरोदधे ॥२६॥ विचिन्तयन्नम्रनदीगिरं मुहुविनिःश्वसन्नायतमायतं ततः । प्रजेश्वरः प्रस्तुतकार्यसिद्धये जगन्ति सर्वाणि जगाम चेतसा ॥२७॥ मुमूर्षमाणासुरशल्कविक्रमप्रसङ्गसंभावनवापि मूछताम् । अभून्न चित्ते नृपतेदिवौकसामपि प्रसज्य प्रतिषेधपात्रता ॥ २८ ॥ सुराग्रजो यद्यपि यद्यपि स्वयं जगन्ति निर्मात्यसकृयुगात्यये । शशाप तामेव नदी भवेति वा गिरेः सुतां यद्यपि कोपमूच्छितः॥२९॥ तथापि तदुविनयोपमर्दने प्रभुर्जराजरितः कथं विधिः । तया पुराभिद्रुत एव भीषितस्तुता तथासाविति हि प्रगीयते ॥ ३० ॥ सहेत किं नाम वियन्नदी हरिः सहिप्यते किंचिदयं तु साहसी । ससर्ज विध्यण्डपुटेऽपि यः पदं समुत्क्षिपन्नावरणोदकैनंदीन् ॥ ३१ ॥ अयं हि मग्नश्चिरमर्णवोदरे पुरा पुराणीः स्वयमाहरद्विरः । अयं हि निर्मथ्य सुधाब्धिमद्रिणा पुरा सुरानप्यमृतैरतोषयत् ॥ ३२ ॥ १. 'शल्कविक्रम' इति मातृकायाम् अपि स्यात् 'शुष्कविक्रम' ?. गङ्गा०४

काव्यमाला।
अमुं पुमांसं परिहृत्य कोऽपरः प्रवर्ततामणवशोषकर्मणि ।
अमुं विना केन पुनमहोदघाववन्धि सेतुः शतयोजनायतः ॥ ३३ ॥
महीधरैर्मन्दरगन्धमादनत्रिकूटहमाचलरोहणादिभिः ।
अधारि तामप्यवहद्वसुंधरामयं न किं नाम पुरा खदंष्ट्रया ॥ ३४ ॥
विचारयामो यदि कर्म वैष्णवं किमस्त्यसाध्यं त्रिषु विष्टपेप्वपि
विचारयामो यदि वापि तां नदी भरं क विन्यस्य विशङ्कमासहे ॥३५॥
इदं तु सिद्धं हिमशैलनन्दना तथाविधैवान्तु ततोऽधिकापि वा ।
उपायवेदी मधुकैटभाहितस्तथापि किं किं न स साधयिप्यति ॥ ३६॥
न देवताभिर्न मृगैर्न मानुषैर्न वायुधैः संभवि यस्य नाशनम् ।
हिरण्यमीदृक्षमपि प्रतिघ्नतो न वुध्यते कैरपि तस्य मायिता ॥ ३७॥
कथं कथं चिन्धिगिदं स्मृतिं गता कथा ममेयं पुरशासनाश्रया।
पुराणिनी नन्वयमीदृशोऽपि सन्क्षणान्नृसिंहः शरभेण पातितः ॥ ३८ ॥
निवेद्यते यद्यपि तस्य विक्रमो जलंधरान्धत्रिपुरस्मरादिभिः।
तथापि बाणासुरसंगरे जनाः पठन्ति तस्यापि पराक्रमक्षतिन् ॥ ३९ ॥
अतो न किंचियवसातुमीश्महे मतिं स्वकीयां परमास्थिता वयम् ।
के कूपमण्डूकनिमा मतिनृणां क देवतातत्त्वविचारचातुरी ॥ ४० ॥
इति क्षितीशः प्रणिधानमाश्रितः क्षणं यदा यन्न मिमील लोचने ।
तदा विधिस्तस्य दृशोः पुरो भवन्प्रभावमेशं गदितुं प्रचक्रमे ॥ ११ ॥
कियत्यसौ तात वियन्नदी भवेत्कियन्ति सर्वाणि जगन्ति वा पुनः ।
स्वयं यदि प्राक्तनपुण्ययोगतः स एव ते संरभते महीश्वरः ॥ ४२ ॥
यदंशलेशावतरस्य केलयो भवन्ति दक्षाध्वरशिक्षणादयः ।
पठन्ति तस्यैव पराक्रमक्षतिं न चेतना जातु कुतो विवेकिनः ।। ४३ ।।
पुरा मुकुन्दाय तथा तपस्यते पुराहितस्वप्रतिपादितं वरम् ।
न पालयेहाणपुरे यदि स्वयं भजेदमुं पार्थिव देवतेति कः ॥ ४४ ॥
यदस्ति विश्वं क्रियते स्म येन तद्यतः स चाभूत्स च यत्र लीयते ।
स च खयं येन किलानुगृह्यते ततोऽप्यतीतं तदवैहि दैवतम् ॥ ४५ ॥

३ सर्गः]
गङ्गावतरणम्।
प्रसूतिमीशानहरीन्द्रवेधसां प्रचक्षतेऽथर्वशिखागिरो यतः ।
विहाय सर्वानपि यस्य वन्द्यता विधीयतेऽथर्वशिखादिमूक्तिभिः ॥ ४६॥
प्रमाणमूर्धन्यपदाभिषेचिता यतश्चतस्रः श्रुतयोऽपि जज्ञिरे ।
किमुक्तिभिः स प्रणवोऽपि यत्पुरः प्रतीयतेऽथर्वशिरस्यनेकधा ॥ १७ ॥
प्रभु प्रशान्तं परमेश्वरं च यं भणन्ति कैवल्यगिरः परिस्फुटम् ।
यमेव विश्वाधिक इत्यनुश्रवाः प्रचक्षते कण्ठरवेण नापरम् ॥ १८ ॥
यदाप्तिहेतोर्यतते जगत्रयी यदेव चाद्यं फलराजसाधनम् ।
तयैव देव्या स्वयमात्मविद्यया यदीयमधैं वपुषो विभूषितम् ॥ ४९ ॥
सुखावहो यः किल शंभुशंकराद्यभिख्यया यो वपुषातिनिर्मलः ।
य एव सर्वज्ञ इति प्रघुप्यते विशुद्धसत्त्वात्मकतां विभावय ॥ ५० ॥
तपोभिरल्पैर्दयते च देहिनां स देवदेवः शशिखण्डमण्डनः ।
दयापि सा देयमदेयमित्यमुं विभागमेव प्रथमं न बुध्यते ॥ ५१ ।।
इति क्षितीशं प्रतिबोधयन्नसाबदीक्षयच्छान्भवदीक्षया पुनः ।
ददौ च तस्मै विनताय तत्परं परिप्कृतं पञ्चभिरक्षरैमधुम् ।। ५२ !!
प्रविष्टमात्रश्रुतिसंपुटोदरः स मन्त्रराजः शशिखण्डपाण्डरः ।
तमांसि तस्य प्रविभेद तत्क्षणं मनांसि यूनामिव मान्मथः शरः ॥ ५३ ।।
प्रतिप्रयाते जगतां पितामहे भगीरथः पूर्णमनोरथस्ततः ।
तपश्चरिप्यन्नतिदारुणं पुनर्गिरिं जगाम श्वशुरं पिनाकिनः ॥ ५४ ॥
मरुद्भिरेकान्ततुषारवर्षिभिमनोहरन्तीषु यदीयभूमिषु ।
नवाभिसारेऽप्यधरं मृगीदृशां विमुक्तशई व्रणयन्ति कामिनः ॥ ५५ ॥
कठोरसौरातपतापविद्ववत्तुधारवापीसलिलैकजन्मनाम् ।
सरोरुहाणां किमिवोपहन्यते हिमेषु वा यत्र हिमात्ययेषु वा ॥ ५६ ॥
हिमस्पृशां यन्मरुतां प्रसादतो विलासिनां मुग्धवधूरतेप्वपि ।
न शिक्षणीयाजनि जातु सीत्कृतिर्न चार्थनीया परिरम्भसान्द्रता ॥ ५७ ॥
पुराणवेणुव्यतिषङ्गसंभवं दवं यदीयाः शमयन्ति तत्क्षणम् ।
तदर्चिरूप्मम्लपितद्रवीभवतुषारसङ्घातमहाम्वुवृष्टयः ॥ ५८ ॥

काव्यमाला। द्रवीभवद्भिः कचिदातपोप्मणां कचिच्च विद्याधरगानविद्यया । हिमखरूपैरितरैश्च यत्तटैः स्वयं भवेदेव न पञ्चदिनैः ।। ५९ ॥ तपोविशुद्धे हृदये तपखिनामपि क्षणादूर्ध्वमवस्थितो न यः । स एव यत्सानुविहारकौतुकी सदा महेशो यदि किं ततोऽधिकम् ॥६०॥ खतन्त्रखेलगिरिकन्यकाकरस्वयंग्रहावर्जितमुग्धपल्लवाः । मुनीन्द्रबृन्दाढतमूलपांसवो जयन्ति धन्याः किल यत्र वीरुधः ॥ ६१॥ परिभ्रमद्वन्धमृगाधिवासितं प्रकीर्णकल्पद्रुमपुप्पमप्यधः । शिलातलं स्निग्धविशालशीतलं सुखेन यत्राधिवसन्ति किंनराः ॥ ६२ ॥ यदीयनीहारकणानितस्ततः किरन्मृगाङ्कः प्रथते सुधाकरः । यदीयगण्डोपल एवं कश्चन प्रयाति कैलास इति स्थिरं यशः ॥ १३ ॥ स यक्षविद्याधरकिंनराप्सरःफणीन्द्रगन्धर्वनिरन्तरे पथि । वजन्नतिक्रम्य तुषारभूधरं जगाम कैलासगिरि जनेश्वरः ॥ ६४ ॥ महेशभूषाहिकुलानि कन्दरे चिरोपरोधाक्षुधितानि रक्षितुम् । समीरणं सेवितुमागतं बलान्नयन्ति यत्र प्रमथाः कृपालवः ॥ ६५ ॥ विशङ्कलङ्केशभुजोपकम्पिताद्यतो विकीर्णा रजतोपला इव । गणा जयन्ति प्रलयान्तपावकज्वलत्रिलोकीभसितावगुण्ठिताः ॥ ६६ ॥ तटेषु तत्तज्जगदण्डमण्डलीसमाहृतब्रह्मकरोटिकोटिषु । चरन्विधिर्यत्र न जातु शोचति नरन्नपि स्वं किल पञ्चमं शिरः ।। ६७ ॥ प्रवेशिताः स्फाटिककन्दरोदरं नवाङ्गना यत्कटकेषु किंनरैः । अपत्रपन्ते वहिरासिताः सखीरवेक्ष्य नैर्मल्यवशादतिस्फुटम् ॥ ६८ ॥ विभर्ति यः स्फाटिकराजतीस्तटीः कुटुम्बिनो यत्र धनेश्वरादयः । समः समृध्या क इवास्य वर्तते प्रभुन भिक्षामटति स्वयं यदि ॥ ६९॥ शरार्कधुधूरवतीषु यत्तटे महेशपुप्पोपवनीषु रक्षिणः । खतःप्ररूढामपि जातु केतकीं न हि क्षमन्ते विषवल्लरीमिव ॥ ७० ॥ मुरसिद्धतापसगतागतोचितां परिहृत्य तत्र पदवीं भगीरथः ।

४ सर्गः]
गङ्गावतरणम् ।
३७
अधितिष्ठति स्म तटमस्य पावनं
हृदयं च तस्य पुनरिन्दुशेखरः ॥ ७१ ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रवन्ध-
निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदयश्रीमदाचादीक्षितपौत्रण
नारायणदीक्षिनात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते
गङ्गावतरणे गङ्गाहंकारो नाम तृतीयः सर्गः ।
चतुर्थः सर्गः।
स बाह्यकरणग्रामसंविधानानुरोधिनीन् ।
आकृप्य मानसीं वृत्तिमाधत्त मदनान्तके ॥ १ ॥
इयता क्रमितुं शक्या मयेयमिति दर्शयन् ।
स तस्या भुवमाक्रम्य चरणाङ्गुष्ठरेखया ॥ २ ॥
वी तेन सनुन्अिमो वाहुयाघातलाञ्छितः ।
जित्वा तपोभित्रनपीनत्रन्तन्न इबोच्छूितः ॥ ३॥
खात्मानन्दसुधाखादमुखितो वसुधेश्वरः ।
न फलेषु न मूलेषु नाप्सु च प्रीतिमानभूत् ॥ ४ ॥
सला जजाप दव्या च स संध्यावखिलाखपि ।
कथाभिः कालकालस्य जजागर च शरीः ॥ ५ ॥
तप्यमाने तथा तस्मिंस्तत्यजुः क्रमशो भयम् ।
क्षुद्रस्वखपदखामिदुर्विदग्धा दिवौकसः ॥ ६॥
षडङ्गमातृकामूर्तिषडध्वादिविभेदिना ।
न्यासजालेन नृपतिरङ्गभङ्गमशोधयत् ॥ ७ ॥
अनुसंधाय चण्डीशमन्तश्चण्डांशुमण्डले ।
पार्थिवः पञ्चषान्मासानुपासामास वासरे ॥ ८ ॥
अप्राकृतपरंज्योतिरभेदध्यानशालिनः ।
तस्य दृष्टिपथे स्थातुं तत्रास महसां निधिः ॥ ९ ॥
अगृहीतोत्तरासङ्गमासीनं च तमन्तरे ।
परीक्षितुमिवाजम्मुर्दिवसा हिमसान्द्रिताः ॥ १० ॥

काव्यमाला।
विना सशपथैः सान्त्वैर्विना व्याजैश्च कामिनाम् ।
अपि सान्द्रं परिप्वङ्गमन्वजानन्नवाङ्गनाः ॥ ११ ॥
गर्भवाप्रपदीनानामवगुण्ठनवाससाम् ।
अशेत द्वन्द्वमम्पन्दमासक्तोरुभुजं मिथः ॥ १२ ॥
कछुकहरणातङ्ककातराणां मृगीदृशाम् ।
दयालुहेंननो वायुदो रोमाञ्चक कम् ॥ १३ ॥
किं त्यक्तं युवभिधर्म किं लव्धं चाधिकं हिमे ।
आनुकूल्याद्यशो लेभे चतुरस्तु हिमागमः ॥ १४ ॥
प्रकृत्या कुटिलो मारः पवननुहिनाकरः ।
दीपांश्च रात्रयो हन्त जीवन्तु पथिकाः कथम् ।। १५ ॥
संश्रान्तो हिमवर्षण शङ्के मकरकेतनः ।
उपारुरोह नारीणामूप्मलं कुचमण्डलम् ॥ १६॥
फालानलशिखोत्तप्तपाणिपद्मा कपर्दिनः ।
कथमप्यतिचक्राम हिमं हैनवती तदा ॥ १७ ॥
ध्वन्यमानेषु वाणेषु भज्यमाने च कामुके ।
भुवनान्यजयत्रीणि भ्रूक्षेपादेव मन्मथः ॥ १८ ॥
वसन्त इव हेमन्तो वशीचके जगत्रयम् ।
न वसन्तः खतः किंतु यः सरेण कटाक्षितः ॥ १९ ॥
मनुः कुन्देषु ते भृङ्गा याप्तमखिलं वनम् ।
कस्य किं वा न पर्याप्तं कालो यधुपतिष्ठते ॥ २० ॥
द्वौ हि तेजस्विनौ लोके सविता स च पार्थिवः ।
तस्थतुस्तौ विभज्येव दक्षिणोत्तरयोर्दिशोः ॥ २१ ॥
खस्तिकस्थगितोरोजाः सीत्कारतरलाधराः ।
खानान्तेषु स्त्रियो मुग्धा यूनामाचकृषुर्मनः ॥ २२ ॥
पतितव्यं हिमैर्नाम सातव्यं नाम च द्विजैः ।
किं कुर्मः कृतवानेवं स विधिोंपलभ्यते ॥ २३ ॥

३२. ४ सर्गः] गङ्गावतरणम् । धूलिधूसरितादर्शदुर्दशै रविमण्डलम् । प्रत्येतुमक्षमाश्चक्रा न मिथः समगंसत ॥ २४ ॥ निष्प्रभो यद्रविर्जज्ञे यच्च धूसरिता दिशः । उत्पातेनेव तेनासीत्प्रलयः पान्थयोषिताम् ॥ २५॥ निदाघ एव यत्रत्यः परत्र शिशिरायते । तत्रेव यदि हेमन्तः स कथं नास्तु पर्वतः ॥ २६ ॥ प्राक्तनेषु तुषारेषु प्रत्यग्रं पतितं हिमम् । निश्चीयते स्म मृदुतादृश्यैर्विद्याधरीपदैः ॥ २७ ॥ प्रथमा भसितारब्धसर्वाङ्गीणावगुण्ठनाः । पाणिस्थं देवदेवस्य पर्युपासत पावकम् ॥ २८ ॥ अमुक्ताहेमनेपथ्यमङ्गरागं च कौङ्कुमम् । किंचित्तत्रान्वमन्यन्त कुवेरान्तःपुरस्त्रियः ॥ २९ ॥ आकृष्टयोः कुमाराभ्यामभवैयाघ्रचर्मणोः । संभ्रान्ता पतिमावत्रे सव्यानाग्रेण पार्वती ॥ ३० ॥ अवमुच्य वतंसेन्दुमवरोप्याहिभूषणम् । उद्घाट्य चाक्षि तातीयमीशेनापि स्थितं तदा ॥ ३१॥ नृपतिस्त्रिजगद्दाहनिदानेन तपोऽग्निना । हेमन्तं हिमवन्तं वा नाचिन्तयत चेतसा ॥ ३२ ॥ त्रिदशास्तच्छिरोरन्ध्रतपोग्निज्वालतापिताः । सस्मरुश्चाक्षुषं ज्योतिः संवर्तेषु कपर्दिनः ॥ ३३ ॥ परिपाकोन्मुखे तस्य प्रायस्तपसि दारुणे। प्रसन्नानि निमित्तानि प्रादुरासन्पदेपदे ॥ ३४ ॥ विकचाम्भोरुहां वापी विमलं चेन्दुमण्डलम् । खानेषु पश्यन्त्राजर्षिः सिद्धं मन्त्रममन्यत ॥ ३५ ॥ कल्पान्तोद्धान्तजीमूतगर्जितस्निग्धमांसलः । संध्यासु शुश्रुवे तेन शंभोर्डमरुकध्वनिः ॥ ३६ ॥ १. तपो जज्वाल.

४०
काव्यमाला।
चण्डीशताण्डवालोकसंभ्रान्तानमृतान्धसः।
ददर्श दिवि संध्यासु क्षणत्विष इव क्षणम् ॥ ३७॥
प्रत्यहं प्रमथास्तत्र पश्यन्तस्तं तिरोहिताः ।
जातु विज्ञापयमासुश्चरितं तस्य शूलिनः ॥ ३८॥
तावतस्तपसो दातुमपश्यन्नुचितं फलम् ।
हरः प्रतस्थे तं द्रष्टुमधमर्ण इव ह्रिया ॥ ३९ ॥
उपरि न्यस्य संव्यानमुत्सार्य वलयान्पुरः ।
आन्तःपुरगृहद्वारमम्बिकैव करं ददौ ॥ ४० ॥
अचिन्तितोऽपनिष्क्रान्तमालक्ष्य मदनान्तकम् ।
किमेतदिति संभ्रान्ताः परिवत्रुततो गणाः ॥ ४१ ।।
विनयाननजन्भारिविशोधितपुरं पुरः ।
अतिक्रम्यालयद्वारमारुरोह वृषं हरः ॥ ४२ ॥
अम्बापि संभ्रमासन्नसखीदत्तकरा शनैः ।
पादारविन्दविन्यासः पावयामास मेदिनीम् ॥ ४३ ॥
कामं शिक्षितसंचारा कठोरे हृदि मे यतः ।
अतः कथंचिदाक्रामदत्रिभ्यामेव सा भुवम् ॥ ४४ ॥
चन्द्रचूडकरालम्बसंभृतारुण्यसंपदम् ।
अम्बिकायाः करं मन्दमाममर्श सखीजनः ॥ ४५ ॥
देवोऽपि खयमारुह्य वृषभं वृषभध्वजः ।
देव्या विलम्बमानाया दृष्टिमध्वनि संदधे ॥ ४६॥
क्रुध्यन्नन्दिकरोद्धृतवेत्रपातपलायिताः।
विजहुः सरणिं गौर्या विनीतास्तत्र देवताः ॥ ४७ ॥
पद्भयामेवोपसर्पन्त्याः पार्वत्याः पथि शंकरः ।
कटाक्षैविचकारेव कहारेन्दीवरास्तरम् ॥ ४८ ॥
व्यजनैः प्रान्तविन्यस्तकस्तूरीचन्द्रगन्धिभिः ।
मातरं तामसेवन्त कौबेरान्तःपुरस्त्रियः ॥ ४९ ॥

४ सर्गः]
गङ्गावतरणम् ।
सान्द्रस्तनपरीणाहसंभुनाय पदेपदे ।
भद्रान्याशास्त मध्याय पार्वत्याः प्रणयी तदा ॥ ५० ॥
आयतोगीविकाखिन्नानमरान्वेत्रदूरितान् ।
कटाक्षैः सानुजग्राह करुणासारसान्द्रितः ॥ ५१ ॥
अनालम्व्य सखीहस्तमनाक्रम्य च पादुकाम् ।
संनिकर्ष महेशस्य सा जगाम शनैः शनैः ॥ ५२ ।।
कृत्वा सव्यप, लक्ष्म्याः कुञ्चिते जानुमण्डले।
आरुरोह वृषं शंभोर्हन्तमालब्य सा ततः ॥ ५३ ॥
आरोपयन्निव खैरमालिलिङ्ग शिवः शिवान् ।
इति संकथयन्तीषु सखीप्वेक्षिष्ट सान्यतः ॥ ५४ ।।
पाणिभ्रमितमूलाग्रपर्यम्तजलदाः शिवम् ।
शनमन्वगमन्त्रुद्राः शतरुद्रीयसंस्कृताः ॥ ५५ ॥
कुतः प्रतिष्ठते देवः कुत्र चेति गणास्तदा ।
पाणिभिनयनान्तैश्च पप्रच्छुरितरेतरम् ॥ ५६ ॥
भुग्न भारेण भत्त्या च पुण्ये शिरसि नन्दिनः ।
वाममास्थापयवाहुं वाहनन्थो महेश्वरः ।। ५७ ॥
वाहनारोहविनम्तकपर्दान्तविलम्बितम् ।
चन्द्रं गृहीतुमुदाहुः स्कन्दो व्यचरदन्तिके ॥ ५८ ॥
प्रागलब्धं विचित्यापि पादं मौलिं च शूलिनः ।
पश्यन्तौ जग्मतुः पार्थे चक्रायुधचतुर्मुखौ ॥ ५९ ॥
अन्तकान्धककन्दर्पकालकूटादिनिग्रहम् ।
गायन्तो मधुरं नस्य गन्धर्वा ययुरग्रतः ॥ ६० ॥
प्रशान्तं पावनं तत्र प्राप्य राज्ञस्तपोवनम् ।
तस्थौ तपस्यतस्तस्य पुरतः पुरशासनः ।। ६१ ॥
स च तत्रान्तरे प्रातः स्नातो मन्दाकिनीजले।
ध्यौ चिरमुमाकान्तं दहराकाशमण्डले ॥ ६२ ॥

काव्यमाला।
उन्मीलयन्दृशौ किंचित्तेन कोलाहलेन सः ।
अप्राकृतं महः किंचिदद्राक्षीदग्रतो दृशोः ॥ ६३ ॥
तस्यान्तः पुरुषं कंचित्तरुणेन्दुशिखामणिम् ।
सान्द्रीभूतशरच्चन्द्रचन्द्रिकाभं ददर्श सः ॥ ६४ ॥
निर्वन्धक्लान्तभूषाहिनिर्दयाघ्रातमृछितम् ।
वोधयन्तं पुनः स्कन्दं चूडाचन्द्रसुधाकणैः ॥ ६५ ।।
हृदयं वीतमालिन्यं वाचमप्यमृतोर्मिलाम् ।
अधिष्ठातुमशक्तेन क्ष्वेलेनाक्रान्तकंधरम् ॥ ६६ ।।
दुर्दान्तत्रिपुरप्लोषवृत्तान्तज्ञैः मुघाशनः ।
सातकं दृष्टवदनं बहुमानस्मितेवपि ॥ ६७ ॥
कपालानि शिरःस्थानि स्कन्धे प्रत्येकशो विधेः ।
दत्त्वा तदीयजिज्ञासौं गणेशे कुपितं मृषा ।। ६८ ॥
हेरम्बकंधरालम्बिदूर्वाग्रयासकौतुकात् ।
गन्तुमुन्नमितग्रीवं गृह्णन्तमसकृन्मृगम् ॥ ६९ ॥
अस्मिन्दवस्त्र रक्षेमममुं पश्येति नाकिनाम् ।
आवेदयन्त्या कार्याणि हैमवत्याप्यनूषितम् ॥ ७० ॥
अथ दृष्ट्वा स देवेशमदृष्टं निगमैरपि ।
साध्वसाद्भुतसंभ्रान्तो न किंचित्प्रत्यपद्यत ॥ ७१ ॥
ततः प्रदक्षिणीकृत्य तन्मयं सपरिच्छदम् ।
मुहुः पम्पर्श धन्येन मूर्धा तस्यानिपङ्कजम् ॥ ७२ ।।
आत्माहैः फलपुप्पाबैरानर्च स महेश्वरम् ।
तदर्यदि यष्टव्यं कस्तमाराधयिष्यति ॥ ७३ ॥
कायं क शंभुस्तदपि स्तोतुं समुपचक्रमे ।
न हि वस्तुकृता प्रीतिः खशक्तिमनुरुध्यते ।। ७४ ॥
त्वं गतिस्त्वन्मयं विश्वमिति साधारणी स्तुतिः ।
अस्तुतिस्त्वयि युक्ता तदवाङ्मनसगोचरे ॥ ७५ ॥

४ सर्गः]
गङ्गावतरणम् ।
४
गुणं सन्तमसन्तं वा कीर्तयेद्यदि सा स्तुतिः।
गृह्णन्गुणैकदेशं ते क इव स्तावको जनः ॥ ७६ ॥
सर्वज्ञ शंकराभिख्यासमावेदितवैभवात् ।
त्वदृते किं परब्रह्म सच्चिदानन्दलक्षणम् ॥ ७७॥
त्वत्प्रसूतो हरिवित्रय्यन्तैरुपवर्ण्यते ।
तावत्प्रभावं भवतस्तर्कयन्ति मनीषिणः ॥ ७८ ॥
त्रिमूर्तिजननी तुर्या या मूर्तिर्विदितास्ति सा ।
यदि ते यदि वान्यस्य तन्मे ब्रह्मास्ति किं क्षतम् ।। ७९ ॥
धर्मर्मिभिदापन्नं चैतन्यं यदि मायया ।
जातो तदेव हि युवां जगदादिमदंपती ॥ ८० ॥
कैवल्योपनिषद्धष्टं यदिदं रूपमीश ते ।
संनिधत्तां तदा देव संस्मरामि यदा यदा ॥ ८१ ॥
इति तुर्वन्तसिद्धान्तनिकषांमृतवर्षिणा ।
वामुखेन स्तुतस्तेन व्याजहारेदमीश्वरः ॥ ८२ ॥
यत्तप्तवानसि तपो यच्चैवं भक्तिमानसि ।
ततः प्रीतिजुषो नत्तम्तात काङ्तिमर्थ्यताम् ।। ८३ ॥
इत्याज्ञापयति खामिन्येतबाह भगीरथः ।
संभ्रमामोदसंबाधस्तव्धगद्गदया गिरा ॥ ८४ ॥
आगतोऽसि मदर्थं यदागसोऽस्यैव शान्तये ।
नालं मम तपः सर्व नाथ केनार्थये वरम् ॥ ८५ ॥
तथाप्यद्य त्वदीयाभिसाक्षात्कारोपसंभृतैः ।
तपोभिरर्थये तात काङ्कितं मे त्वदाज्ञया ॥ ८६ ॥
तपसाराधिता गङ्गा याचितावतरा मया ।
खाम्बुवेगसहं कंचित्प्रत्ययाचत मां पुनः ॥ ८७ ॥
अस्मिन्ननन्यसाध्येऽर्थे व्यापर्तुमुचितं तव ।
अत्रोदाहरणं मुख्यं हालाहलविनिग्रहः ॥ ८८ ॥

काव्यमाला।
आयासमीदृशं यत्त्वमार्थतोऽसि जगद्गुरो ।
तन्मम क्षम्यतां बाल्यचापल्यमिति चानमत् ॥ ८९ ।।
अभिषकप्रियाणां नः प्रियनेतत्कृतं त्वया ।
नापराद्धं पुनः किंचिदिन्युवाच तमीश्वरः ॥ ९० ॥
अभिवाय वृषात्तूर्णमवरुह्य महेश्वरः ।
निषसाद पुरस्तन्य निर्नले म्फाटिके तले ॥ ९१ ॥
आवध्य चन वैयाघ्रनपसार्य च वालको ।
सावष्टम्भः क्षितावास्त सजीभूतो वृषध्वजः ॥ ९२ ॥
सावलेपनभःसिन्धुसंनिपातोचितं प्रभोः ।
नन्दी विसंसयामास नागेन्द्रप्रथिता जटाः ॥ ९३ ॥
भगिनीसमागनननुल्लुका शिवा
प्रमथान्तदद्भुतदिझयाकुलाः ।
खमनोरथोपगमसान्द्रकोतुको
नृपतिश्च तं निभृतमक्षिभिः पयुः ॥ ९४ ॥
बद्धनस्तकपर्दकन्दरपतद्भोगन्द्रचन्द्राकुर-
क्षेपव्यापृतनन्दिदृष्टिवलनव्याधूतदिग्भित्तयः ।
सावष्टम्भमहेशसंभ्रमपरित्रस्यत्रिलोकस्तुताः
पारे मद्वचसाममर्त्यतटिनीसंपातपूर्वक्षणाः ॥ ९५ ।।
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रवन्ध-
निर्वाहकमहात्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदावादीक्षितपौत्रेण
नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते
गङ्गावतरणे शंकरसाक्षात्कारो नाम चतुर्थः सर्ग:
पञ्चमः सर्गः।
प्रान्तसंक्रमिततारया दृशा पश्यति त्रिपुरशासने ततः ।
अस्सरत्सुरनदीमहंकृतां ध्यानयोगविधिना भगीरथः ॥ १ ॥
संभृता मनसि सा ततः क्षणात्संभ्रमेण महताकुलीकृता ।
सर्वतश्विरनिरोधलजितं सज्जतामनयर्मिमण्डलम् ॥ २ ॥

१ सर्गः गङ्गावतरणम् । सा निवेदयितुमात्मनिर्गमं सन्निकर्षमुपजग्मुषी विधेः । व्याजहार विनयावधीरणव्यक्तगर्वगरिमोप्मला गिरः ॥३॥ अस्ति नन्वयमयुग्मलोचनः स्फाटिकाचलचरो वनेचरः । धर्तुमिच्छति स नाम मामकं त्वत्परीक्षितमहारयं पयः ॥ ४ ॥ स प्रकामजरठो गुरुः पिता सा च मुग्धहृदया यवीयसी । व्याहतो यदि न मे समुद्यमः कः शिवः क इव राजतो गिरिः ॥५॥ त्वद्हे स्थितवती चिरादहं त्वामनेन परितोषये ततः । वच्छिरोलवनकर्म दुर्मदं संनिपात्य गिरिशं रसातले ॥ ६ ॥ सावलेपनिपतन्मदूर्मितासंप्लवैककवलीकृतो हरः । संगतः पयसि शङ्खशुक्तिभिनन्दिना ननु गवेषयिष्यते ॥ ७ ॥ कालकूटमिव मन्यते शिवो मामकं प्रकृतिदुर्मदं पयः । बेहि तावदधुनापि मेति तं मा विपीदतु यवीयसी पुनः ॥ ८ ॥ शङ्कितो जगदकाण्डविप्लवाद्याचते यदि भवानथापि माम् । तं मदम्बुवहनातिमानिनं कंचिदेव शमयामि नापरन् ॥ ९ ॥ कर्णयोर्यदि पतेयुरन्ततो गर्जितानि चलतां मदम्भसाम् । तत्त्वतः कथय किं भवेच्छिवस्त्वं हि तन्महिमलेशवेदिता ॥ १० ॥ इत्यमुद्धतमुदीर्य सा विधि संगतानपि सुरानभाषत । ना परित्रसत मामकं पयो लज्जते वलपराक्रमाय वः ॥ ११ ॥ यात यूयमपयात च क्षणं देवता निजनिजालयांस्ततः । कौतुकं तु यदि वोऽस्ति वीक्षितुं कोणमावसत निर्भया दिशाम् ॥१२॥ त्रासिताः किल तयैवमुक्तिभिः पार्श्वमापुरमराः पिनाकिनः । कस्य नाम न तथाविधा गिरः क्षोभयेयुरपि चाश्मनं मनः ॥ १३ ॥ उद्यतान्गदितुमापगागिरः स्तम्भितानथ निजेन तेजसा । आकलय्य नयनाञ्चलैः सुरानन्तरलयत चन्द्रशेखरः ॥ १४ ॥ संनिवृत्य सदसस्ततो बहिः क्रोधमन्थरविसंम्फुटैः पदैः आविवेश सरसी ततो नु तामापगापि जगदाक्रमोद्यता ॥ १५ ॥ गङ्गा० ५

काव्यमाला।
स्थापिताः कमलजन्मना पुरा सेतवः श्रुतिमयाः समन्ततः ।
संनिपत्य सकृदेव सप्लुतरूमिभिस्त्वरितमुल्ललविरे ॥ १६ ॥
प्राणिनां प्रतियुगान्तमर्णवैर्यामकल्पयत पद्मभूर्दशाम् ।
सैव तस्य फलिता तदा तया कर्मणः क इव नाश्नुते फलम् ॥ १७ ॥
प्राप्य जानुमतिलय नाभिमप्यम्भसि क्षणमथास्य संमिते ।
क्रन्दतामशरणं तपस्विनां शुश्रुवे कलकलान्वितं वचः ॥ १८ ॥
सर्वतः सुरतरङ्गिणीजलेः संप्लते सदसि तत्र वेधसः ।
प्राणसंयमनशिक्षया परं मन्जिता न कतिचिन्महर्षयः ॥ १९ ॥
वक्रसौषवलभीगता विधेः शारदापि सहसोत्थिता सती ।
उद्धृहीतकरपुन्तका भयादक्षिपधुगमिव क्षणं क्षणम् ॥ २० ॥
विश्वसर्गचतुरोऽपि पद्मभून प्रतिव्यधित तत्र किंचन ।
खैरमस्तु कुशलः परापदि खापदि त्वकुशलोऽखिलो जनः ॥ २१ ॥
सत्यलोककुहरक्षणासिकासंकटा क्षमतयेव तत्क्षणम् ।
निर्जगाम परितस्ततो बहिस्तन्निसर्गनिरवग्रहं पयः ॥ २२ ॥
गाधभाजि गतविक्रियं जले सस्मितं तदनु नाभिमात्रके ।
सोक्तिगुम्फमपि दर्शितस्थले वत्रमण्डलमघाचतुर्मुखः ॥ २३ ॥
तारिता ववमिमां महापदं तावकादिह तपोबलादिति ।
स स्तुतः परिजनेन लज्जितः कः तुतेरपि वधोऽभिषङ्गिणः ॥ २४
फेनिलाः सलिलशोषरेखकाः सर्वतः सदनभित्तिपर्वसु ।
आयतश्वसितमानमन्मुखं पश्यति स स दृशातिदीनया ॥ २५ ॥
नाजपं किमिति मन्त्रमानलं नासृजं किमिति चाभितस्तटीः ।
इत्यखिद्यत विधिर्गते जले सा किल प्रकृतिरग्रजन्मनाम् ॥ २६ ॥
आननैर्हसितवाप्पकर्बुरैरद्य जीवितमिवेति वादिभिः ।
दोर्भिरप्यधिकदूरचालितैरालिलिङ्ग मुनिमण्डलं मिथः ॥ २७ ॥
सत्यलोकमपहाय निश्चिते गन्तुमिन्द्रपुरमभ्रगङ्गया।
धावयन्पथि जनान्पुरो ययौ वेत्रपाणिरिव वीचिमारुतः ॥ २८ ॥

२ सर्गः]
गङ्गावतरणम् ।
पाकशासनपुराभ्रये पदे स्वेच्छया विहरतां सुधान्धमान् ।
आगतं प्रलयमाचचक्षिरे जाह्नवीजलझलझला रवाः ॥ २९ ॥
संभ्रमोपगतचारशंसितस्वर्गसिन्धुपतनं पदे पदे ।
सौधशृङ्गवलभीनिवेशितस्वस्वमूलधनमप्सरोजनैः ॥ ३० ॥
मन्दुरोदरविमुक्तविद्वत्सैन्धवानुचरसादिमण्डलन् ।
दिक्तटोच्चलितजाचिकामरस्वीकृताम्रककुलं गृहे गृहे ॥ ३१ ॥
निर्गतत्रिदशनाथदर्शनम्तब्धविद्रवदनीकिनीभटम् ।
इत्थमाकुलमतर्कितागता सा चकार नगरं शचीपतेः ॥ ३२ ॥
(त्रिभिस्तिलकम्)
संपपात हरिनीलदन्तुरे वैजयन्तशिखरे समन्ततः ।
सा ततो विदधतीव संस्तवं मस्तके निपतितुं महेशितुः ॥ ३३ ॥
सर्वतः प्रचलितैः कणात्मना सौधशृङ्गपतितैस्तदम्बुभिः ।
संगतो न समलक्ष्यत क्षणं निर्मलः सुरपतेमंदावलः ॥ ३४ ॥
वैजयन्तविनिपातवेगतो दूरमुत्पतति तत्पयोभरे ।
छत्रगर्भनिहितेव सा पुरी नाजनि क्वचिदपि क्षतोदरा ॥ ३५ ॥
प्राप्य सानुपदमेव मेदिनीं यं यनम्भसि निमज्जयिष्यति ।
तं तमत्र विनिधातुमेव किं त्रायते ल निपुणं त्रिविष्टपम् ॥ ३६ ।।
सा ततः प्रचलिता समन्ततो व्यानशे निरवशेषमम्वरम् ।
संविभक्तपरभागसुन्दरीचन्द्रिकेव शरदागमोज्ज्वला ॥ ३७॥
सा दिवि प्रमथनाथकुन्तले संभ्रमद्विमलवीचिमण्डला ।
तय॑ते स चतुरैः सुधाशनैर्मालिकेव नवमल्लिकामयी ॥ ३८ ॥
व्योम्नि तल्लहरिवल्लरीहृता ये सुराः सुरगजाश्च केचन ।
ते तदीयजलजन्तवो न चेत्को नरः पयसि कश्च सिन्धुरः ॥ ३९ ॥
तज्जलभ्रमिभिराहितभ्रमा नन्दनोपवनपादपास्तदा ।
संग्रहर्तुमसमेक्षणं तया भ्रामिता इव गदा विरेजिरे ॥ ४० ॥
निम्नभागविनिपातसंभृता निस्तला रुरुचिरे जलभ्रमाः ।
गङ्गया निगमसेतुसंस्तवादार्जिताः प्रणवमण्डला इव ॥ ४१॥

४८
काव्यमाला।
आदिभिक्षुगृहिणी यवीयसी सा सभाजयितुमुद्यता दिवः ।
आजहार विविधानि भूषणान्यम्बराणि च महेन्द्रमन्दिरात् ॥ ४२ ॥
मुक्तदिव्यतरुपुप्पवृष्टयः श्लाघनोक्तिमुखराश्च सर्वतः ।
आहृता लहरिमारुतैस्तथा सिद्धचारणगणाः सहाययुः ॥ ४३ ॥
उक्ताभिरितरेतराहतादूमिभिः सुरगणः समुच्छ्रितः ।
आसदत्सदनमेव वेधसः को न तच्छ्यति तजलाप्लुतः ॥ ४४ ।।
वीचिवेगपरितुष्टसंपतत्पाकशासनपताकिनीसखी ।
यो मुद्यतवतीव वाहिनी सा जगाम सविधं महेशितुः ॥ ४५ ॥
आ विरिञ्चिगृहमा हिमाचलं निर्मला रुरुचिरे तदूर्मयः ।
खर्वधूभिरभितो दिदृक्षया पातिता इव कटाक्षरेखिकाः ॥ ४६ ॥
प्राप्य शंकरकपर्दकन्दरं संभ्रमन्निह तदूर्मिमारुतः ।
क्रोशति स्म सुरसिन्धुमुद्यतां मा पतेति विनिवारयन्निव ॥ ४७ ॥
सानुरागबहुमानमानतां सा शिवामभिकपार्श्ववर्तिनीम् ।
एकया किल तरङ्गरेखया पाणिनेव मृदुलं परामृशत् ॥ १८ ॥
तत्प्रवाहमुखवल्गदूमिकाशीर्णशीकरसमुत्थितास्तदा ।
ताडिता इव महोपलैस्ततो दूरदूरममरा विदुद्रुवुः ॥ ४९॥
कोपलेशपरुपैरवज्ञया कूणितैरपि विलोचनाञ्चलैः ।
पश्यति स्म पतनोन्मुखीं नमीनीषदुन्नमितकन्धरो हरः ॥ ५० ॥
यावदानमयते यथापुरं द्रष्टुमुन्नमितमीश्वरः शिरः ।
तावदेव निपपात तत्र सा विस्मयाय मिपतां दिवौकसाम् ॥ ५१ ।।
शापकोपकलुषेव सा विधि संनिमज्य सुचिरं विनिर्गता।
तत्कपालमपि शांभवे शिरल्याजधान परुषाभिरूमिभिः ॥ ५२ ॥
तस्य पञ्चमशिरोनिपातनादर्धदुर्मरणमापपात यत् ।
पातकं परिजहार तद्भवं पावनेन पयसा वियन्नदी ।। ५३ ॥
तज्जवादुपहृतं दिवौकसां तस्य मूर्धनि विमानमण्डलम् ।
वेत्रदण्डवलनेन नन्दिनो दिङ्मुखेषु निपपात दूरतः ॥ ५४॥

.
५ सर्गः]
गङ्गावतरणम् ।
केयमाईयति मस्तकं गुरोस्तद्रसेय निखिलाममूमिति ।
किंचिदुच्छ्रितकरे गजानने हुंकृतान्यकृत सत्रपं शिवः ॥ ५५ ॥
वीचिमारुतवितीर्णपारणामांसलाः शिवकपर्दपन्नगाः ।
संप्रसार्य फणमापदस्ततः संररक्षुरमृतांशुरेखिकाम् ॥ ५६ ॥
अप्रतय॑मसमीक्षितावधि तं कपर्दवलयं पिनाकिनः ।
आपगा दिविषदामवाङ्मुखी पन्नगीव कलशं समाविशत् ।। ५७ ।।
तज्जटानु विशती वियन्नड़ी सा कियत्पथमदृश्यतामरैः ।
शुश्रुवे तदनु तजलारवो यस्य किंचिदपलभ्यते ततः ॥ ५८ ॥
तज्जटापटलकन्दरोदरखीकृताः सुरनदीमहोर्मयः ।
लेशतोऽपि किल नाललक्षिरे सक्रिया इव कृतघ्नगोचराः॥ ५९ ॥
नि तन्य मुहुराहितभ्रमा प्राप सा न पदवीं निवर्तितुम् ।
दुर्लभं ननु जगलु देहिनां तं प्रविश्य विनिवर्तनं पुनः ।। ६० ।।
अभ्यषिञ्चदमरापगा शिवं यच्छ्रुतिव्यतिकरानजलेः ।
तेन किं नु सुकृतेन भूयसा तत्क्षणाल्लयमवाप तत्र सा ॥ ६१ ।।
तापितानु नयनाग्निहेतिभिस्तजटासु पतितास्तदूर्मयः ।
अम्भसां पुनरतिप्रवन्धतः क्लेदमात्रमदिशन्कथंचन ।। ६२ ।।
जातमित्यथ समीपवर्तिना नन्दिना सविनयं निवेदिते ।
सव्यपाणिविधुता जटाः पुनः शंकरः परिवबन्ध पन्नगैः ।। ६३ ।।
कपर्दममरापगासलिलसेकसान्द्रीकृतं
विधुन्वति सविभ्रमं पशुपतौ विकीर्णास्ततः ।
कचिल्सुरपुरंध्रयः वचन यक्षविद्याधराः
कचिच्च परमर्षयः समवलन्त संमूछिताः ॥ ६ ॥
यावयोमविटकसंकुलचलत्कल्लोलकोलाहलै-
रायाभीमवधारयन्दुहितरं प्राप्तस्तुषाराचलः ।
तावत्पीतसुरापगोदकपुनर्व्याघूतसंदानिताः
संमृष्टाश्च पटाञ्चलेन शिवया शंभोरपश्यज्जटाः ॥ ६५ ॥

५० काव्यमाला। अक्लिष्टपन्नगमजर्जरितेन्दुरेख- मव्यस्तकाशकितवस्तवकावतंसन् । शंभोरदृश्यत शिरः सुरसिन्धुमुक्त- दिव्यद्रुमप्रसवसौरभसारसान्द्रम् ।। ६६ ॥ प्रपन्दमरग्रामप्रस्तूयमानमहान्तव- स्तवकितगृहामूलाः कैलासशैलतटास्तदा । प्रशमितवियद्गङ्गाहंकारसंकथनात- प्रमथपरिषच्छन्नाः किं नाम नादधतेऽद्भुतम् ॥ ६७ ॥ इति श्रीमद्भरद्वाजकुलजलधिकौतुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रवन्ध- निर्वाहकमहावतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकदीक्षितेन विरचिते गङ्गावतरणे गङ्गावतारो नाम पञ्चमः सर्गः। षष्टः सर्गः। ततो जटाभिगिरिशस्य पीते तावत्यपि स्रोतसि देवसिन्धोः । भगीरथोऽपि प्रमथैः सहैव विसिस्मिये प्रागथ विव्यथे च ॥ १ ॥ तुष्टो विरिञ्चः प्रससाद शंभुर्लब्धा च गङ्गा फलितं किमेतैः । आराधनीयं वलयं जटानामज्ञासिषं येन न लेशतोऽपि ॥२॥ संध्यासु दिष्ट्या यदि नृत्यतोऽस्य संशीर्य या कापि जटापतिप्यत् । कल्पान्तसंभेददुरुत्तरापि सप्तार्णवी केव तदाभविप्यत् ॥ ३ ॥ आभाप्य गङ्गामवतार्य तामप्यासादिता येन न कार्यसिद्धिः । सोऽहं विलजः पुनरद्य तस्याः संजीवनायैव कथं यतिप्ये ॥ ४ ॥ निर्विद्य किंचिन्नृपतिस्तदैवं धैर्य परं धारयति स भूयः । नायं गुणोऽस्य प्रकृतिर्यदेषा चुक्षोभ किंचिद्यदसौ स दोषः ॥ ५ ॥ समानयेयं पुनरभ्रगङ्गां संपादयेयं यदिवापरां ताम् । तदस्ति किं यत्तपसामसाध्यमिति प्रपेदे पुनरिन्दुमौलिम् ॥ ६ ॥ प्रसादयामास भगीरथस्तं वाग्भिः पुरेवात्वरितो महेशम् । १. 'वाक् पुरेवावरितो महेशम्' इति मातृकायाम्.

६ सर्गः]
गङ्गावतरणम्।
आद्यं विदुः साधनमर्थसिद्धरसंभ्रमं कार्यविपर्ययेऽपि ॥ ७ ॥
कल्पावसानेषु चतुर्दशापि जगन्ति यत्र त्वयि संविशन्ति ।
तत्रैकवेधोगृहदीर्घिकेयं लीना वराकी यदि का स्तुतिस्ते ॥ ८ ॥
कियन्ति पीतानि विधेः कपालैः क्रियन्ति वेगाइवनौ निपेतुः ।
कियन्ति केशेप्वपि लिल्यिरे ते गङ्गोदकानीति कुतः लयस्ते ॥ ९ ॥
दिष्टया निपीता भवता नदीयं शक्त्या न तस्यास्त्वयि कः प्रसङ्गः ।
शङ्खाम्बु दत्तं कियदेव भक्तः सहस्रधारं ननु मन्यसे त्वम् ॥ १० ॥
सह्यानि चूडोरगफूत्कृतानि सह्याश्च गौरीचरणप्रहाराः ।
तज्जानती नाथ जटापदे ते तस्यों न गङ्गा स्वयमेव नृनन् ॥ ११ ॥
आम्तां हिमाद्रौ श्वशुरेऽनुवृत्तिरास्तां च भक्ते मवि तेऽनुकम्पा ।
चण्डी न दृश्या भगिनीवियोगशङ्काकुला किं असताभ्रगङ्गान् ॥ १२ ॥
अस्त्वेवमासीद्यदि ते कपर्दिन्गों जगद्भिस्त्रिभिरप्यपूर्णः ।
मृध्नापि किं ते भवितव्यमेव गङ्गापि यन्य रूपनाय नालन् ॥ १३ ॥
अभ्यर्थये त्वामथवा न गङ्गां कस्त्वं गृहीतुं पुनरग्झितुं वा ।
स्तोप्यामि ता एव जटाम्त्वदीया याभिनिपीता कणवन्नदी सा ॥१४॥
जटा नमो वश्विरसंप्रढां रुवा पिपासामियती स्थिताभिः ।
युप्माभिरालिबत नान्तिकेऽपि दिश्वा पयोमण्डनिमोऽयमिन्दुः ॥ १५ ॥
जटा ललाटानलतापितानां पानोदकं किं नु वियन्नदी वः ।
यच्च न्यगीर्यन्त पदेपदेऽपि पयांसि तस्याः स किमुपदंशः ॥ १६ ।।
पीतं पयो वहिति मा विभीत भविष्यथ स्वस्थतराः पुरेव ।
चण्डीशमत्तभ्रमणेन यूयं सद्यः सनुद्वान्तजला दिनान्ते ॥ १७ ॥
भक्तापिताभिः क्रियतीभिरद्भिः कालो महान्येन कपर्द नीतः।
स त्वं समासाद्य च तावदम्बु भूयोऽपि किं प्रागिव भिक्षुकोऽभूः ॥१८॥
इत्थं चमत्कारतरङ्गिताभिस्तुतोष तस्य स्तुतिभिर्महेशः ।
साहित्यमर्मावगमे क्षमेत सर्वज्ञमीशं तमृते परः कः ॥ १९ ॥
मोक्तुं नदीमानमनानभिज्ञं मूर्धानमीशो नमयांवभूव ।
भक्तकरक्षाव्रतदीक्षितानां दूरे खमानगढिमाभिमानः ॥ २० ॥

५२ काव्यमाला। ये शुश्रुवुर्गकिरो गिरः खाम्तेप्वेव पश्यत्यु सुधाशनेषु । होणेब निर्गन्तुमवाङ्मुखी सा ततोऽपतद्विन्दुसरम्युदारे ॥ २१ ॥ तान्येव यादांसि महाद्भुतानि ता एव पर्याप्तदिशो लहयः । पेतुः कपात्पुनरिन्दुमौलेर्गक्तियन्ताः क गता न विद्मः ॥ २२ ।। तामापतन्तीमवनौ कपर्दादाकुञ्चितादीपदिवेन्दुमोलेः । दूरादमन्यन्त विलम्वमानां मालामिव द्रोणनयीममाः ॥ २३ ॥ सा तत्र सिन्धुः सरसि क्षरन्ती स्रोतांसि सप्त खयमावभार । त्रिभिः प्रतीचीदिशमाववार त्रिभिश्च सा तैर्दिशमिन्द्रगुप्ताम् ।। २४ ।। आमव्य मूर्ना प्रणतेन शंभुमारुह्य च स्यन्दनमग्रतस्तम् । संप्रस्थितं पार्थिवमन्वयासीलोतः परं कीतिरिवास्य मूर्ता ॥ २५ ॥ गङ्गोमिभिर्मन्दमनुप्रवृत्तैर्गच्छन्पुरस्तादथ तच्छताङ्गः । आकृप्यमाणामलशृङ्खलस्य गन्धद्विपस्यापजहार शोभाम् ॥ २६ ॥ कचित्पतन्ती कचिदुत्पतन्ती कचिच्च यान्ती चिरमुत्पथेन । सा तत्र चण्डीशजटावनान्ते संभ्रम्य दिमोहवतीव रेजे ॥ २७ ॥ पादे पतन्ती परितः स्पृशन्ती गात्राणि पर्यङ्कतले लुठन्ती । कालाद्वहोरुकलिकावतीव कामं गुरोः सा विजहार पार्थे ॥ २८ ॥ दृष्टानि कौमारविहारकाले दृश्यानि नीहारगिरेस्तटानि । द्रष्टुं चिरात्कौतुकशालिनीव सा सर्वतस्तत्र समारुरोह ॥ २९ ॥ अस्तोदकायां मयि शंकरेण किं नाम मह्यं कृतवानसि त्वम् । नाहं सुता ते न गुरुर्मम त्वमिति क्रुधवाथ जहाँ हिमाद्रिम् ॥ ३० ॥ अथाद्रिशृङ्गादवतीर्य भूमौ सा तत्र मन्दं सरिदुच्चलन्ती । आरब्धयज्ञस्य जगाम जहोरभ्यर्णमालोकितुमादृतेव ॥ ३१ ॥ मौलौ निवासादमृतांशुमौलेर्दक्षाध्वरध्वंसदृढव्रतस्य । संक्रान्ततद्रीतिरिवाभ्रगङ्गा जहोरवध्वंसयति स्म यज्ञम् ॥ ३२ ॥ मदुर्मिवेगापहृताः सुराश्च कियत्कियद्यत्र हविर्लभन्ते । किं तत्र नाई असितुं ममेति जग्राह सर्व हविरभ्रगङ्गा ।। ३३ ॥

६ सर्गः] गङ्गावतरणम् । ५३ एतावदायस्यसि किं वृथैव जह्नो सकृन्मज जले मदीये । स्वर्ग च याहीत्यनुगृह्णतीव तं मजयामास तरंगिणी सा ॥ ३४ ॥ सुराः पुरोडाशचरुध्रुवाज्यस्वीकारसातत्यगतक्षुधोऽपि । उदन्यया केवलमर्दिताः किमाकर्णमम्भः पंपुरभ्रसिन्धोः ॥ ३५ ॥ पुरा पतन्ती मुकुटे पुरारेलेंभे फलं या किल दुर्विनीतेः। भूयोऽपि सैवापचकार जहोः कुतः प्रकृत्या कुटिलोपशाम्येत् ॥ ३६ ॥ यामापतन्ती नहता रयेण संरभ्य तावजगृहे महेशः । तां लीलयैवापिवति स्म जगुस्ततोऽप्युदना ननु तं प्रपन्नाः ॥ ३७॥ क्वायं मुनिः क्षत्रकुलप्रसूतः क सा नी शंभुजटैकधार्या । ग्रन्तामुना सैव यदि क्षणेन केनाधिगम्यस्तपसां प्रभावः ॥ ३८ ॥ राजर्षिरेको विचकर्ष गङ्गामन्यः पुनस्तां कवलीचकार । ब्रह्मर्षिभिर्धिन्धिगितः परं वा संन्यस्यतां किं नु तपोभिमानः ।। ३९ ॥ जातैव नीता विबुधैरियं द्यां शप्ता निरुद्धापि च वेधसा स्याम् (2)। ग्रस्ता शिवेनाप्यथ जलुना च कस्मिन्क्षणेऽजायत न प्रतीमः ॥ ४० ॥ कन्या तवेयं भवितेति देवैयांचे मुने त्वामिति तेन चोक्तम् । जबुर्जही कर्णपुटेन गङ्गां कर्णादृते यच्छतु काङ्कितं कः ॥ ४१ ॥ रुद्धा चिरं यच्छ्रुतिसेतुमध्ये बद्धा चिरं यच्च जटामु शंभोः । सा निर्ययो वासनया तयैव विशृङ्खलं कर्णपुटान्महर्षेः ॥ ४२ ॥ तां जह्वकोपायसनं प्रपन्नां कालाबहोः क्षोणितलेऽवतीर्णाम् । नद्योऽनुरक्ता इव तत्र तत्र तरङ्गहस्तैदृढमालिलिङ्गुः ॥ ४३ ।। गच्छन्पुरस्तस्य रथो यथेच्छं गङ्गा च पश्चात्तमनुव्रजन्ती । प्रायेण धाटीग्रहणप्रसक्तौ वालावुभौ केलिपराविवास्ताम् ॥ १४ ॥ प्रवर्तते पावयितुं प्रदेशं यं यं नदी सा पुर एव तस्याः । तं तं पुनन्तः खयमूर्भिवातास्तस्यै ददुर्नावसरं कदाचित् ॥ ४५ ॥ १. स्वीचिशीकरासारचारसमीरकिशोरसंस्पर्शनेन निजदर्शनेन चाशेष किल्विषविशो- षणात्केवलं सकलजनदेहनिर्णेजनमात्रलम्भितफलसलिलाम्' इति धर्मविजये दृश्यते.

काव्यमाला। भिन्दन्तमद्रीन्सरसीविशन्तं व्यापाटयन्नं च वनान्तराणि । प्रवाहमन्या नयति स यत्नाद्भगीरथी मत्तमिव द्विपेन्द्रम् ॥ ४६॥ अन्योन्यसंभेदसमुच्छ्रितासु कल्लोलरेखानु कदाचिदन्याः । भूयः स्वलोकाक्रमसाध्वसेन दूरे युग़ दुद्रुवुरन्तरिक्षे ॥ ४७ ।। वर्गादमानवरोपयन्ती खच्छन्दतादुर्ललितन्तरङ्गैः । मानपि खाम्भसि मग्नमात्रान्दिवं नयन्ती विजहार गङ्गा ॥ १८ ॥ विन्ध्यो गिरिः कुन्भजकोपभीतो गङ्गा च जगुम्लपितावलेपा। शङ्के समानव्यसनाविवेमौ समीयतुह्रौं सविधेऽथ काश्याः ॥ ४९ ॥ भक्त्या परित्यज्य गतिं सगर्वा भक्तं पुरस्कृत्य भगीरथं च । विवेश विश्वेशितुरन्तिकं सा जानाति येनान्य जटाप्रभावम् ॥ ५० ॥ त्यक्तावशिष्टं कियदम्बु गाझं सारूप्यभाजां कतमेन लभ्यम् । इत्थं सचिन्ते सति विश्वनाथे काशीमयासीदियमिङ्गितज्ञा ॥ ५१ ॥ त्रय्यन्तसिद्धाञ्जननिर्मलाक्षैस्तपोधनैरप्यनवेक्षितं यत् । आलक्ष्यते धाम तदेव यम्यामात्यन्तिकेनाक्षिनिमीलनेन ॥ ५२ ॥ यामभ्युपेताः परया समृद्ध्या भिक्षाशिनो दिम्बसना भवन्ति । यामावसन्तो भवबन्धमुक्त्यै देहाध एवाकलयन्ति दारान् ॥ ५३ ॥ भस्माङ्गरागाः शिरसः कपालं पात्राय माल्याय च जालमनाम् । जना यदीयाः पुनरावदानास्तनुं त्यजन्तीव न तु त्यजन्ति ॥ ५४ ।। आतन्वतीमुज्झिततारतम्यमाब्रह्मकीटं जगदेकरूपम् । यामप्रवुद्धा इव पण्डिताश्च श्रेयः किमासादयितुं श्रयन्ते ॥ ५५ ॥ सारूप्यभाजो बहवोऽत्र शंभोश्चत्वारि वक्राणि पुनर्विधातुः । एकेन चैक लवितव्यमित्थं प्राप्ते गतिः केति भणन्ति यस्याम् ॥ ५६ ॥ . प्राङ्मजयन्ती सलिलावलेपात्प्राप्तं पुरो यं कमपि द्युसिन्धुः । तस्मिन्महेशे पुनरन्वगेव यस्यां परित्रस्यति तज्जटाभ्यः ॥ ५७ ॥ पठन्ति यस्यामथ पाठयन्ति प्राज्ञाः शतं निर्मिमिते कृतीश्च । अस्थीन्यपूतान्यहयो न धार्या भोज्यं विषं नेति तु नावयन्ति ॥ ५८ ॥ आसाद्य यत्राक्षरमेकमीशात्प्राणैर्विमुच्यापथं प्रपन्नैः ।

६ सर्गः] गङ्गावतरणम् । सहे नराश्चेत्पशुपक्षिणोऽपि .."सर्वभूता म इति लयन्ते ॥ ५९ ॥ सा तत्र सिन्धुर्विशी प्रसन्ना सेव प्रसन्नाश्च गिरः कवीनाम् । गभीरतास्वादिमवेगमूलां स्पर्धामवघ्नन्नितरेतरेण ॥ ६० ॥ मच्यागतायामपि मुक्तिदायां तीर्थः किमेभिः किमथापि लिङ्गः । इतीव काश्यामुभयानि तानि सा मजयन्ती शतशो व्यचारीत् ॥११॥ अन्भोभरेराश्रममण्डलानि संप्लावयन्ती शतशो मुनीनाम् । प्रायेण तत्यापजिहासयेव ममज गङ्गा मणिकर्णिकायम् ॥ ६२ ॥ आपाततः खाद्विव तत्त्वतस्तु क्रूरादपि क्रूरतरं यदम्भः । पीते कणेऽप्यस्य शरीरिणो यत्पिवन्ति हालाहलनप्ययनम् ॥ ६३ ॥ ऐश्वर्यलोभात्स्वमुपागतानां कर्णे जपन्किचन देहभाजाम् । यः कोऽपि यस्यां कितवावतंसो भिक्षाकपालानि करेषु दत्ते ॥ १४ ॥ भर्तु खनेकं वपुरप्यशक्त्या प्रायः खतीराश्रयिणां जनानाम् । शिष्येषु विन्यस्यति या त्रिलोकनृष्टिस्थितिध्वंसमहाधिकारम् ॥ ६५ ॥ एकैकमस्याश्चुलुकं वहेयुरेते यदि केव भवेढ्युसिन्धुः । इति क्षितीशे विभयांबभूव पश्यन्प्रजास्तत्र महेशरूपाः ॥ ६६ ॥ अन्ता जटाभिः प्रथमं पुरारेर्ग्रस्ता ततो या चुलुकेन जहोः । ब्रह्मर्षिभिः सात्र पपे दृशेव भग्नः सकृद्भज्यत एवं नूयः ॥ ६७ ॥ सा वेगादथ मणिकर्णिकाजलान्तःसंपातप्रतिहतिसंभवैद्युसिन्धुः । व्याकीर्णैर्नवकुसुमेरिवाम्बुले विश्वेशं विनयपरिप्कृता ववन्दे ॥ ६८ ॥ खच्छन्दप्रचरद्भगीरथरथर्केकारधाराश्रव- प्रत्युद्यन्मुनिलोकलोचनपुटीनिर्वेदसर्वकषैः । लोतोभिर्घनसारसान्द्रशिशिरैः खर्लोककल्लोलिनी तामालिम्पदिवेन्दुचूडनयनज्वालाजटालां पुरीम् ॥ ६९ ॥ . इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचनुरधिकशतप्रबन्ध- निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितन विरचिते गङ्गावतरणे काशीप्रवेशो नाम षष्ठः सर्गः। ..

काव्यमाला।
सप्तमः सर्गः।
अथ संनिहितं भगीरथं सरितं तामपि तथानुगाम् ।
अवलोकितुमिच्छतां नृणामतुलस्तत्र बभूव संभ्रमः ॥ १ ॥
अगृहीतविवेकमापणानुपसंहृत्य सवेगमेकतः ।
पथिकान्वणिजोऽन्वयुञ्जत व नु सा सिन्धुरिति प्रतिक्षणम् ॥ २ ॥
स्थविरेषु गतेषु जाह्नवीसलिलोत्पीडभिया ततस्ततः ।
क्षणमध्ययनोपघाततः परितुष्टा वटवो विजहिरे ॥३॥
प्रलयेप्वपि ये न शिक्षिताश्चिरमानन्दवनीनिवासतः ।
मुनयः किल ते चिरायुषः सुरसिन्धूर्मिषु विस्मयं दधुः ॥ ४ ॥
चरमं ववृषे भगीरथः शिशिरैरत्र नदीपयः कणैः ।
पुरतस्तु तदा पदे पदे पुरयोषित्करलाजमुष्टिभिः ॥ ५ ॥
पथि दिव्यनदीभगीरथौ प्रचलन्तौ शनकैः सविभ्रमम् ।
अवलोक्य शिरोगृहस्थिता हरिणाक्ष्यो विदधुर्मिथः कथाः ॥ ६ ॥
स्खलनात्वचिदुन्नते पथि स्तिमितं पश्य रथं क्षिपन्त्यमी ।
रभसाहतचक्रमण्डला रथदण्डा इव जङजोमयः ॥ ७ ॥
पतितामिह कर्णिकां चिरात्प्रतिलप्यार्पयितुं महेशितुः ।
किमियं मणिकर्णिकासरस्यवगाढा सरिदारसातलम् ॥ ८॥
सखि कर्षसि किं भगीरथं नयनैः प्रान्तनिविष्टतारकैः ।
अदसीयस्थानुपातिनी ननु मुग्धे सुरसिन्धुरेप्यति ॥ ९ ॥
तमनुप्रहिणोषि किं दृशौ सखि नेमे पुनरागमिप्यतः ।
ननु चोपदिशाम एव ते प्रथमं तेन वयं प्रतारिताः ॥ १० ॥
इयदुच्चलितापि जाह्नवी न किमप्याहरतिस्म वस्तु नः।
अनुमातु मृषातपस्विना हृदयस्थैव हृता गभीरता ॥ ११ ॥
इयमप्यपरा वराकिका दृगिवास्माकममर्त्यवाहिनी ।
अनुगच्छति तत्र तत्र तं पुरतो गच्छति यत्र यत्र सः ॥ १२ ॥
अवसन्तममन्दमारुतं जगदेनज्जयतो नृपादितः ।
खयमेव सखि स्मरः स्वयं शरचापावपि नाम संन्यसेत् ॥ १३ ॥

७ सर्गः] गङ्गावतरणम्। ननु दृष्टिपथेऽवतिष्ठसे नरनेतुः सखि दूरतो ब्रज । प्रतिपश्यति सोऽपि चेदितः प्रलयोऽयं ननु पौरयोषिताम् ॥ १४ ॥ अलमेनमुदीक्ष्य निर्दयं सखि सौधादवरुह्यते [मया] । त्वमिहाख मनो वहिर्गतं मम चेदेति निरुध्य शंस मे ॥ १५ ॥ सरिदन्तरसंगमागसा स्वयमागन्तुमनिच्छतीमयम् । महिषीमुदधेरसंशयं मदनोऽयं नयते तदन्तिकम् ॥ १६ ॥ तरुणे शरदिन्दुसुन्दरे तरलापाङ्गवशंवदस्मरे । कृतमानपरिग्रहाः क्षणं किममुप्मिन्नपि सन्ति योषितः ॥ १७ ॥ अधिगोपय मैनमाशये सहसैवोत्सृज यात्वयं क्वचित् । ननु चायतपातिभिः शरैर्मदनो मर्मसु ताडयिप्यति ॥ १८ ॥ हिमशैलनिषण्णकिंनरीनयनोपान्तनिपीतशेषितम् । पिवतां नृपमेनमायतं नयनानां न किमस्ति नस्त्रपा ॥ १९ ॥ अपचित्य रसालपल्लवान्यधिरुह्य स्फटिकस्थलीमपि । अवलोकयितव्यमेवमप्ययि मुग्धे किमवेक्षसे हठात् ॥ २० ॥ त्वरयन्नुषिताः सुखेन नः स्वयमेवैनमवेक्षितुं नृपम् । प्रहरन्पुनरित्थमाशुगैः प्रसवास्त्रः कथमद्य जीयताम् ॥ २१ ॥ दहतीव विधौ वनप्रिये परुषं जल्पति कुप्यति सरे । खमनस्यपि खेदतापि ते किमयं निष्फलमीक्ष्यते चिरम् ॥ २२ ॥ इति कर्णपुटेन पार्थिवः कलयन्पौरविलासिनीगिरः। प्रचचाल तदा शनैः शनैः परिपश्यन्पुररामणीयकम् ।। २३ ।। तनया इव मातरं चिरादुपयातामुपगम्य जाहवीम् । प्रमदाद्भुतभक्तिशालिनो मुनयो वाग्भिरथोपतस्थिरे ॥ २४ ॥ अपहर्तुमुपायतो विधेर्जननिर्माणमहाधिकारिताम् । वितनोषि जनानजन्मनो यदसि प्रागमुनैव यन्त्रिता ॥ २५ ॥ वितरिष्यसि काहितानिति त्वयि विश्वासमवानुमः कथम् । अपसृत्य वपुर्वपुष्मतां ननु तेभ्यो न ददासि तत्पुनः ॥ २६ ।। गडा०६

काव्यमाला।
दिश देवि सुतान्दिश स्त्रियो दिश भोगानिति नार्थयामहे ।
जहिमो वपुरेव गृह्यतां तदिदानीमिति नो मनोरथः ॥ २७ ॥
दिश नः प्रणतैव वाञ्छितं सुरसिन्धो यदि लिप्ससे यशः ।
वपुरन्तमपि प्रतीक्षसे यदि काश्यां पुनरुक्तिरेव ते ॥ २८ ॥
अमृतं हृतवत्यसि ध्रुवं हरकोटीरमृगाङ्कसंगता ।
वयमप्यमृतार्थिनम्ततो भवतीमम्ब चिरादुपास्महे ॥ २९ ॥
वसवो बहवो विनाशिता न च गर्ने विधृतोऽपि षण्मुखः ।
भवती सुतनिर्वृणामतो वदितुं मातरिति त्रपामहे ॥ ३० ॥
निगमैस्तव संस्तवो महानपि सर्वज्ञशिरस्यवस्थितिः ।
परिहर्तुमतस्तवौचिती भवमूलं ननु चक्रकाश्रयम् ॥ ३१ ॥
मुखमास्त्र पुरीह याहि वा न पुनर्जातु यतख मत्कृते ।
भवितव्यपरिक्रमैः कचित्सकृदस्सानपि सिञ्च शीकरैः ॥ ३२ ॥
खतनूविषयामहंक्रियामपहातुं त्वयि मजतां सताम् ।
भुवनत्रयगोचरैव सा पुनरुन्मीलति हा किमद्भुतम् ॥ ३३ ॥
न विमुञ्चसि सावलेपतां ननु मुग्धे शमितापि शंभुना ।
किमपि प्रणतैव देहिनां किमुपारोहसि मस्तकस्थलम् ॥ ३४ ॥
इति जह्वसुतास्तवोक्तिभिर्मुखरे तत्र मुनीन्द्रमण्डले ।
अवरुह्य भगीरथो रथादगमद्विश्वपतेरुपान्तिकम् ॥ ३५ ॥
शतशः परितोप्य शंकरं प्रणिपातैर्मुदितो भगीरथः ।
सुकुमारतरैः सुगन्धिभिः कुसुमैरर्चयति स्म वाङ्मयैः ॥ ३६ ॥
भव भूतपते विषाशनो भव भिक्षुर्भव भोगिभूषणः ।
तदपि प्रतिपत्तुमर्थये तव सारूप्यविडम्बनामहम् ॥ ३७ ॥
अयि लुब्धकताधिरोप्यतामपि वा भिक्षुकताभिनीयताम् ।
इयतैव किमर्थिनो नरा जहति त्वां कपटैकशिक्षिताः ॥ ३८ ॥
मदनान्तकविष्टपत्रयक्षुधिताहादनकङ्कणाकया ।
अपि नोदंरमन्नपूर्णया तव पूर्येत विनैव भिक्षया ॥ ३९ ॥

७ सर्गः] गङ्गावतरणम् । जटिलोऽसि दिगम्बरोऽसि यजितकामन्य तदर्हमेव ते। गुणगृह्य इतींदमुच्यसे किमपि च्छादय सव्यमङ्गकन् ॥ ४० ॥ स्वयमेव दिशन्मदीप्सितं वह निःश्रेयसदानशौण्डताम् । परथापि तदर्पयिप्यते ननु गङ्गामणिकर्णिकादिभिः ॥ ४१ ॥ भुवनत्रयभारवाहिना भवता मे भवितुं न कौतुकम् । भवदमिसरोजसेविषु प्रमथेप्वेकतरत्वमस्तु मे ॥ ४२ ॥ भवबन्धहरोऽसि देहिनामिति विश्राम्यतु वीरघोषणा । चतुरो यदि पूर्वमात्मनः श्लथय त्वं त्रिजगत्कुटुम्विताम् ॥ ४३ ॥ सति हेमगिरौ शरासने सति वेश्मन्यपि राजते गिरौ । भवता शिव भैक्षवृत्तिना क्रमितव्यः समयः कियानयम् ॥ ४४ ॥ वहसीन्दुमनेन किं भवेद्भवतो वस्तुषु सारवेदिता । भवदादरणाकपालवद्भवति प्रत्युत तस्य हेयता ॥ ४५ ॥ त्रिपुरेषु परीक्षितं स्मितं मदनो वेद कटाक्षमीश ते । ननु नाम जनो जिजीविषुर्वहुमानं भवतोऽर्थयेत कः ॥ ४६॥ सकृदन समेयुषां नृणां शिरसि स्थापयसे सुरापगाम् । अमुमर्थमजानता मया कियदस्यै सरिते कृतं तपः ॥ ४७ ॥ इति स्तुवन्मुकुटनिवेशिताञ्जलिभगीरथः प्रणतशिवंकरं हरम् । न्यवर्तत क्षणगमनोपरोधतः क जाहवी प्रतिचलिता तटादिति ॥ ४८ ॥ अथ नृपमधिरूढस्यन्दनं यान्तमग्रे सुरसरिदनुयान्ती वीचिभिर्मन्थराभिः । विहितजनकुटुम्बा संनिधौ बलवदनुगमेऽपि प्राप्तशङ्केच रेजे ॥ ४९ ॥ आचान्तो नयनरपक्ष्मवलनैरायम्य पारैर्जन- र्धावं धावमुपावरुन्ध्य सरणिं सङ्घीभवद्भिः पुरः । दण्डपाणे- ६० काव्यमाला। स्पृष्टः साधय साधयेति लहरीहस्तैरिवान्वक्तया त्रस्यन्त्या पुरशासनादतिययौ देवः स वाराणसीम् ॥ ५० ॥ श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध- निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते गङ्गावतरणे विश्वेश्वरन्तवो नाम सप्तमः सर्गः -- अष्टमः सर्गः। समतिलङ्घय पुरीमथ काशिकां स पुरतः प्रचचाल भगीरथः । मुरसरिजलसंप्लवसंभ्रमक्षुभितजानपदेन पथा शनैः ॥ १ ॥ नरपतेर्दधतीव सहायतां नगरपार्श्वचरी सरयूस्तदा । पथि पुनः खयमेव समागता परिचकर्ष नभःसरितं क्षणात् ॥ २ ॥ अनुसृतः सरितैष पलायते ननु बलादनया ह्रियते हठात् । इति नृपः पशुभिः स निसर्गतो निजगदे पथि जानपदैर्जनैः ॥ ३ ॥ पथि चचाल भगीरथदर्शिते सुरनदी' 'नेदमहं स्तुवे । पथि तदाचरिते ननु त वा प्रकृतिमण्डलमेव नियम्यते ॥ ४ ॥ कियदितश्चलितव्यमिति श्रमव्यतिकरादनुयोक्तुमिवोद्यता । असकृदस्पृशर्मिकराग्रतः प्रचलितं पथि तं पुरतो नदी ॥ ५ ॥ चिरनिरूढमनोरथमालिका सुरनदी दयिताननचुम्बने । कलयति स्म मुखानि सहस्रधा सति समीपगते मकरालये ॥ ६॥ पथि विलम्व्य विलम्व्य पदे पदे गिरिगुहासु निलीय निलीय च । उपजगाम कथंचिदुपान्तिकं नववधूरिव नर्मसखस्य सा ॥ ७ ॥ अनशनव्रतकर्शितकुम्भभूसलिलपारणसंशयिताम्भसः । अवततार बिले किल केवले जलनिधेरथ भूमिपते रथः ॥ ८॥ तमसि तत्कुहरोपहिते महत्यनुचिता तपनातपसंकथा । तपन एव यदि खयमापतेद्भवति कज्जलपिण्ड इव क्षणात् ॥ ९ ॥ १. मातृकायां 'न न बलादनया' इत्येव वर्तते.

८ सर्गः] गङ्गावतरणम्। उपनिपत्य पुरेव पिपासया जिगमिषन्ति न यावदितोऽन्यतः । जलधरा इति तावदबिन्धनो हुतवहः किल तानपि जनसे ॥ १० ॥ प्रतिनवाम्बुदशीकरसेचनप्रकटितोप्मणि तत्र हि यादसाम् । ज्वरमधत्त यथा जलदागमो न तु तथा मधुमासविपर्ययः ॥ ११ ॥ प्रतिनिदाघविरामसमाहितैर्जलधराम्बुभिराहितवृत्तयः । कतिचिदासत कण्ठगतासवो जलपतेः पुरि तोरणवालकाः ॥ १२ ॥ पतिभिया निपतेयुरितोऽद्रयः क्षितितले जगदण्डमितः स्फुटेत् । तदनु चावरणोदकमुत्पतेदिति मनोरथमूहुरिह स्थिताः ॥ १३ ॥ प्रियतमाभिगमाय सुदूरतोऽप्युपगताः सरितो जलदागमे । नमनवेक्ष्य शुचेव तदास्पदे प्रथम एव पदे विलयं गताः ॥ १४ ॥ क्षितिभृतः कुलिशाहतिकातराः शरणमित्यभजन्त यमर्णवम् । स च बभूव कथा परिशेषितो विधि""रां मुखता ननु तादृशी ॥१५॥ कवलितास्तिमिभिः शफरार्मकाः सुखममंसत जीवनतो मृतिम् । सलिलशालिषु तद्वदनाध्वसु क्षणपरिक्रमणोत्सवलिप्सया ॥ १६ ॥ वचन भानुमुतादिमहानदीपतनतः शिशिराखिव भूमिषु । परिमितानभितस्तनुशोषणाजलधरानवलोक्य शुशोच सः ।। १७ ॥ रविकरोपनिपातविशोषितस्फुटितकर्दमरन्धनिरन्तरम् । विलमवेक्ष्य विभाय स वारिधेः सुरनदी सलिलव्ययशङ्कया ॥ १८ ॥ चिरमनेन पथा परुषोप्मणा प्रतिनिशं प्रचरन्नपि चन्द्रमाः। कथमहो न कदापि विलीन इत्यसकृदाकलयन्स विसिस्मिये ॥ १९ ॥ अथ भगीरथदेवपथानुगा सुरनदी तदवाय बिलं भुवः । प्रथममावसथादिव वेधसः प्रमथनाथजटागहनोदरम् ॥ २० ॥ सति संरखति सन्ति पयोधराः सति तदम्भसि सन्ति च सिन्धवः । तदिह काम्बुकथेति विषीदतामभयदेयमजायत यादसाम् ॥ २१ ॥ १. 'कथापशेषितो' इति मातृकायाम्. २. सरखति-समुद्रे. 'सरखान् सागरोऽर्णवः' इत्यमरः.

६२ काव्यमाला। कियदिदं परिपूरयितुं भवेत्सगरसूनुनखाग्रकृतं विलम् । इति पतद्भिरपि स्मयमन्धरं सिमसिमायितमेव तदूर्मिभिः ॥ २२ ॥ समदवल्गदमयंतरङ्गिणीशफरवर्गनिरीक्षणलज्जिताः । अनुवभूवुरहो नु महोत्सवं तमपि सिन्धुशया जलजन्तवः ॥ २३ ॥ मधुरिमैकरसापि सुरापगा लवणतामगमत्पतितार्णवे । भुवनमूल्यरसापि हि साहिती कुकविवऋगता कुरुते व्यथाम् ॥ २४ ॥ सुरनदीसलिलानिलताडितः परिजहौ भसितावरणं पुनः । अधित धूममथाग्निरबिन्धनः सति समीपतले पुनरार्द्रिते ॥ २५ ॥ पयसि संमृत एव यथापुरं जलनिधौ मिलिता जलजन्तवः । यदि भवन्ति कथंचन संपदो भवति का स्वजनेषु दरिद्रता ॥ २६ ॥ सगरनन्दनरन्ध्रसमुत्पतद्भुजगराजपुरीतिमिरावृते । जलनिधेः कुहरे लुठनादभूत्सुरनदीसलिलेप्वपि नीलता ॥ २७ ॥ समुपलभ्य पयांसि यथापुरं मुमुदिरे न तथा जलमानवाः । सलिलशोषदशासु लयं गतान्समनुचिन्त्य शिशूनरुदन्यथा ॥ २८ ॥ समधिकोप्मणि तत्र विलिलियरे निपतिताः प्रथमे सरिदूर्मयः । सपदि पूरितसागरवीचिकाप्रतिहताश्वरमे तु निवर्तिताः ॥ २९ ॥ चुलकितो मुनिनापि गतत्रपः परिजुघोष पुरेव तदार्णवः । मतिमता ध्वनितव्यमदोषवत्क इव वेद गतं सदसच्च वा ॥ ३० ॥ अयमगाहत शोषमिह स्थिता जलचरा वह्वः प्रलयं गताः। इति तदम्बुनरा मुदिताः क्षणादकथयन्गतकल्पकथामिव ॥ ३१ ॥ अथ पतन्तममुं नृपते रथं तमपि सागरपूरणनिखनम् । युगपदेव पपुः सुखमीक्षणैरनिमिरैरहिलोकपुरंध्रयः ॥ ३२ ॥ फणधरालयमूलनिवासिनं प्रमथनाथमवेक्ष्य भयेन चा । क्षणनिरुद्धतरङ्गरया पुनः परिपपात भगीरथबोधिता ॥ ३३ ॥ कनकभूधरमूलमणित्विषा गलितसंतमसेऽथ रसातले । भुजगराजभुजार्गलपालितां धुरि ददर्श स भोगवतीं पुरीम् ॥ ३४ ॥ १. 'निवासिनप्रमथनाथ' इति मातृकायाम्.

८ सर्गः] गङ्गावतरणम् । ६३ प्रवसतो विनिवर्तयितुं पतीकृतधियः किल यत्कणिकन्यकाः । पथि कुहापि तदीक्षणगोचरे परिनिपत्य भवन्ति गतज्वराः ॥ ३५ ।। खयमुपेतसमीरकृताशनैः स्फुटितभूविवरोदरशायिभिः । फणधरैरनपेक्षितवेतनैः प्रभुरवर्तत यत्र स वासुकिः ॥ ३६ ॥ सदनमेत्य स जग्धिकृते सखीन्समुपहूय निवेश्य च पतिशः । विदधति व्यजनैरुपवीजनं किमपि यत्र मुखेप्वनिलाशनाः ॥ ३७ ॥ सति फणावलयातपवारणे सति च तन्मणिदीपशिखाङ्कुरे । घनतटिजटिलेषु घनागमेवभिसरन्ति न यत्र फणिस्त्रियः ३८ ॥ न विधुरम्ति न दक्षिणमारुतः क इव तद्विधुरः कुसुमायुधः । तदपि शासनमस्य दुरुत्तरं शिरसि विभ्रति यत्र फणिस्त्रियः ॥ ३९ ॥ कतिचिदच्युतमञ्चकुलोद्भवाः कतिपये हरकुण्डलवंशजाः । रविरथाश्वगुणान्वयजाः परे तदिह तार्श्वभयं न यदोकसाम् ॥ ४० ॥ अधुतसिद्धशिरोमणिभूषणो ग्रथनविश्लथनासहकञ्चकः । अधृतकुण्डलमुग्धमुखाम्बुजो जयति यत्र भुजङ्गवधूजनः ॥ ४१ ॥ सति महावरणेऽपि हि यज्जना न दधते परिखाखनने त्वराम् । तनुतराजभवाण्डकरण्डकाधरकपालपरिक्षतिशङ्कया ॥ ४२ ॥. परिपतत्सु ततः स समन्ततः स्वमवलोकयितुं पुरवासिषु । बहिरभीतवदास्त हृदा पुनः परिजजाप पतङ्गपतेर्मनुम् ।। ४३ ॥ पतति तत्र सुधाशनदीजले फणधराः कतिचित्पथि पातिनः । प्रविशिशुर्भयसंकुचिताङ्गका रथविटङ्कपदेषु महीपतेः ॥ ४४ ॥ प्रमथनाथजटापटलापतत्फणधरेन्द्रमुखादखिलां कथाम् । श्रुतवतां किल तन्नगरौकसां सुरनदी न बभूव भयावहा ॥ ४५ ॥ प्रविशतीषु रसातलमण्डलं त्रिदशसिन्धुजलोरगपङ्कियु । अजनि बन्धुसमागमसंभवः फणभृतां प्रतिमन्दिरमुत्सवः ॥ ४६॥ अथ परीत्य स भोगवतीं पुरीममरसिन्धुसखो वसुधेश्वरः । शुचि विविक्तमनोरममासदद्भगवतः कपिलस्य तपोवनम् ॥ ४७ ॥ 5. 'सदनमेय स' इत्येव मातृकायाम् (सदनमेत्य च ?).

६४ काव्यमाला। ..." कपिलकोपहुताशनसंभृतं स पुरतः पितृभस्म निरीक्ष्य तत् । प्रमदशोकसमागममूर्च्छितो द्विविधमश्रु दधौ युगपदृशोः ॥ ४८ ॥ अथ रथादवतीर्य भगीरथे सगरजानुपसर्पति वीक्षितुम् । भसितराशिममजयदम्भसा भगवती सुरलोकतरङ्गिणी ॥ १९ ॥ सुरसरित्कवलीकृतशेषितं दिवि यदास्त पदं त्रिदिवौकसाम् । तदपि तत्क्षणनिहतकल्मषैरपहृतं बलिभिः सगरात्मजैः ॥ ५० ॥ प्रथमलव्धसुरालयसंभृतप्रतिनवामृतपानगलत्तृषः । तदपवर्जितमञ्जलिमम्भसामपि पपुः पितरः सुतवत्सलाः ॥ ५१ ॥ अथ नदीमवगाह्य विनिर्गतः क्षितिपतिः परिपूर्णमनोरथः । मृदुगभीरपदामशृणोद्दिवि स्तुति" चतुराननगुम्फिताम् ॥ ५१ ।। न सगरोऽयमविन्दत नांशुमान्न च भवज्जनकस्तपसि स्थितः । तमपि लव्धवतोऽद्य मनोरथं तव यशो न गिरां पथि वर्तते ॥ ५३ ॥ श्रुतिगिरोऽपि विचित्य विचित्य यं विफलयन्ति परिश्रममात्मनः । समुपलभ्य तमेव महेश्वरं क इव नाम नियोजयितुं प्रभुः ॥ ५४ ॥ दशमुखोऽपि यदञ्जिनियन्त्रितान्परिचकर्ष पुरा न भुजान्निजान् । क इव तस्य कपर्दपथंगतां सुरनदीमपि कर्षतु साहसी ॥ ५५ ॥ यदभजन्त दिवं सगरात्मजा यदपि सिन्धुरपूर्यत शोषितः । यदुपयन्ति नराश्च परं पदं तदखिलं तव तात तपोबलात् ॥ ५३॥ तव भगीरथ वत्स सुतार्थिनस्तनुभवा सरिदस्त्वियमादिमा । इति निशम्य गिरं परमेष्ठिन, परिजहौ स तपोजनितां व्यथाम् ॥ ५७ ॥ ततः समामध्य वियन्नदीं तां तदम्बुसंपातपथेन देवः । अपाङ्गपातैः फणिसुन्दरीणाममुद्रुतः प्राप तटं पयोधेः ।। ५८ ॥ ततश्विरादेत्य तटं पयोधेः प्रतीक्षमाणा नृपतेर्निवृत्तिम् । चमूसमेताः सचिवास्तदीयास्तमुत्पतन्तं सलिलादपश्यन् ।। ५९ ॥ समुद्यतस्तस्य जलान्नृपस्य मुखेन मुग्धस्मितसुन्दरेण । उल्लासमासादयति स्म सेना वेलेव सिन्धोः शशलाञ्छनेन ॥ ६० ॥ १. 'समुद्यतः' इति षष्ठयेकवचनम्,

८ सर्गः]
गङ्गावतरणम् ।
६५
तपोविपाकेन निसर्गतोऽपि तमप्रधृप्यं च शनैरुपेत्य ।
पौरहपूर्विकया प्रणेमे तदनविन्यस्तमहोपहारैः ॥ ६१ ॥
दृष्टयानुकम्प्यानथ संबभाषे संभाषितव्यान्पुनरालिलिङ्ग ।
आलिङ्गितव्यान्प्रणनाम वीरः पैरैश्विरादुत्सुकतां प्रपन्नः ॥ १२ ॥
प्रख्यापितं प्राक्सुरलोकसिन्धुतरङ्गरेखाजयडिण्डिमेन ।
पृष्टं प्रधानैः सचिवैरुदन्तं संगृह्य वीरः खमुदाजहार ।। ६३ ॥
अलङ्घयवाक्यैरथ बन्धुवगैराप्तैरमात्यैरनुजीविभिश्च ।
संप्रार्थ्यमानः सममस्त वीरः स राजनेपथ्यविधिं तदानीम् ॥ ६४ ॥
मन्दाकिनीमज्जनपूतमेको विख्सयन्नस्य जटाकलापम् ।
उन्नम्य मौलिं प्रथयांबभूव मुक्तामयैर्दामभिरेव सान्द्रम् ।। ६५ ॥
स दुग्धसिन्धूदरजन्मनेव शुद्धेन रेजे श्रुतिमौक्तिकेन ।
कीयैव कर्णंगतया दिगन्तसमाक्रमोदन्तनिवेदनाय ॥ ६६ ।।
आपाण्डरे चन्दनचर्चिकाभिरामुक्तमुक्तासरलोभनीये ।
वक्षःपदे तस्य चिरेण लक्ष्मीभस्माङ्गरागव्यसनं मुमोच ॥ ६७ ॥
चचार कर्णद्वयसानुरागे चित्ते यदन्तःपुरसुन्दरीणाम् ।
स तेन संरक्त इवाबभासे परिष्कृतः काञ्चनकञ्चकेन ॥ ६८ ॥
स पादमूलग्रथितासिधेनुराबद्धतूणः समुपात्तचापः ।
मुखेन रक्तान्तविलोचनेन मूर्ती रसो वीर इवाबभासे ॥ ६९ ॥
हृष्टेन गङ्गानयानान्नदीनां पत्या धुरि न्यस्तमिवोपहारम् ।
सखायमुच्चैःश्रवसस्तुरङ्गं स पाण्डरं कंचिदुपारुरोह ॥ ७० ॥
पदेन किंचिच्चलितेन सैन्धवं ध्रुवा च पर्यन्तविलोल्या चमूम् ।
प्रचालयामास समं भगीरथः शनैस्ततः सागरतीरवर्त्मना ।। ७१ ॥
दृगन्तरान्धंकरणं फणाभृतां दिगन्तगन्धद्विपकर्णदारुणम् ।
मुकुन्दनिद्रारसमोषभीषणं बबन्ध भेरी पुरतोऽस्य मौखरीम् ॥ ७२ ॥
तदानकध्वानतरङ्गसंप्लवैर्वबन्ध शय्या बलिहन्तुरन्धताम् ।
समीपमासेदुषि सा किमन्यथा विशङ्कमासीत विहंगपुंगवे ॥ ७२ ॥

६६
काव्यमाला।
दिवौकसः पाणिविहारमात्रतो दृशोर्निकोचेन परं फणाभृतः ।
अनेन तेनापि नरा व्यवाहरन्नथ क्षणं गर्जति तस्य दुन्दुभौ ॥ ७४ ॥
कठोरधाराङ्कुशपातसंकुचत्सबंहितोदस्तमुखा विषाणिनः ।
चमूचराः कोशवितीर्णसंभ्रमनिषादिभिर्दूरत एव निन्यिरे ॥ ७५॥
तनुच्छदासञ्जितचर्मपट्टिकानिबद्धकौक्षेयनिषङ्गकार्मुकाः।
खलीनरज्जुग्रहणोच्छ्रिताननाः प्रचेलुरश्वाः पुरतोऽस्य सङ्घशः ॥ ७६ ॥
पताकिनीमूलचरो भगीरथः समन्त्रिवगैश्चतुररैतय॑त ।
अनुद्रुतः प्राक्चिरमभ्रगङ्गया स्वयं च तां किंचिदनुद्रवन्निव ॥ ७ ॥
योधैस्तरङ्गाननु निप्पतद्भिर्भङ्गैश्च योधाननु धावमानैः ।
मिथो मृषा युद्धमिवाततान महार्णवस्तस्य बलार्णवेन ॥ ७८ ॥
प्राप्तोपगृहा इव वारिराशेः पर्यन्ततालीवनमर्मरेण ।
तरङ्गरेखाविलयान्तरेषु सेनारवाः शुश्रुविरे नृपेण ॥ ७९ ॥
दिव्यं पयः क्षोणितलेऽवतार्य संपन्नकीर्ति तमिवानुकर्तुम् ।
भौमं रजो वाजिखुरप्रसूतं पताकिनी तस्य दिवं निनाय ॥ ८० ॥
सैनिकावतरदीर्घतरङ्गा संददर्श सरयूमविदूरे।
सानुरागमुपगृहितुमने संप्रसारितकरामिव देवः ॥ ८१ ।।
ततो विलम्व्य क्षणमागमय्य पताकिनीमप्यनुसंपतन्तीम् ।
स राजचिह्नरुपसेव्यमानः शनैरयोध्याभिमुखं प्रतस्थे ॥ ८२ ॥
तृष्णाकदुप्णं पततामभीक्ष्णं पौराङ्गनालोचनमण्डलानाम् ।
उत्सारणायेव स चामराभ्यां संवीज्यमानः शनकैरयासीत् ।। ८३ ।।
तस्याग्रतो निर्मलमावभासे साम्राज्यचिहं नवमातपत्रम् ।
पुरौकसां दर्शयितुं नृपेण नीतः कियानंश इवाभ्रसिन्धोः ॥ ८४ ॥
आलिप्तहाग्रपदं सुधाभिराबद्धहेमध्वजलोभनीयम् ।
संमृष्टरथ्यं च समन्ततोऽपि भगीरथस्तन्नगरं विवेश ॥ ८५ ॥
पताकिनीभिः प्रविशन्तमन्ताजैरवर्षन्पुरयोषितस्तम् ।
गङ्गावतारावसरे पुरेव दिव्यैः प्रसूनर्दिवि देवकन्याः ॥ ८६ ॥
आहादिभिर्मङ्गलतूर्यघोषैराशीवचोभिश्च समं जनानाम् ।
सौधाधिरूढैः शतशोऽवरोधैः संदृश्यमानः सदनं विवेश ॥ ८७ ॥

८ सर्गः गङ्गावतरणम् । ६७ संभाव्य देवः क्रमशो द्विजातीम्बन्धूनमात्याननुजीविनश्च । द्वारान्तिकस्तब्धवधूसमाजसंवाधमन्तःपुरमाविवेश ॥ ८८ ॥ वियोगखिन्नास्तपसा विषण्णं खग्नेक्षिताः स्वप्नदशानुभूतम् । म्मेराननाः स्मेरमुखारविन्दं तमभ्युपेयुस्तरुणं तरुण्यः ॥ ८९ ।। पादे निपेतुः परिरभ्य दीर्घ तस्थुर्मुखैस्तस्य मुखं चुचुम्बुः । मंकल्पयोगाच्चिरविप्रलब्धास्तथापि तं नैव विशश्वसुस्ताः ॥ ९० ॥ संरक्षन्ननुजीविनो वितरणैः संप्रीणयन्नर्थिनः पौराञ्जानपदानपि प्रतिदिनं पश्यन्दयादृष्टिमिः । आ वेधोगृहमा रसातलमपि खं नाम विश्रावय- न्दीनत्राणकृता भुजेन बुभुजे देवः समस्तां भुवम् ॥ ९१ ॥ बाचं व्याकुरुते चिरंतनगिरं मीमांसते चोभयीं पान्थः काव्यपथेषु पादकमले सक्तः पुरारेरिति । मामेतत्कथयिप्यतीति रचितं काव्यं मया तत्पुन- स्तावद्वक्ष्यति वा न वा तदुपरि न्यस्तः समस्तो भरः॥ ९२ ॥ साहित्यं न हि जानते कतिपये शास्त्रैकनिष्ठा यदि क्षन्तव्यं विदुषामिदं व नु पुनः सर्वत्र सर्वज्ञता । उत्पन्नाः किल धूमकेतव इव क्लिश्नन्ति यत्साहिती दुवैदग्ध्यलवेन केचिदिह तद्दुःखाय विद्यावताम् ॥ ९३ ॥ अस्पृष्टाः कलयापि दुष्कविकुलैरज्ञैरनाकर्णिता ज्ञानाज्ञानवतां कदाप्यपतिता दूरे दुरूहाध्वनि । खेलन्तु श्रुतिसंपुटीचुलकिताः स्वैरं रसज्ञैर्जनैः प्रत्युक्तिच्यवमाननूतनसुधासाराः कवीनां गिरः ॥ ९४ ॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रवन्ध- निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते गङ्गावतरणे भगीरथनगरप्रवेशो नामाष्टमः सर्गः । समाप्तोऽयं ग्रन्थः।

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Gangavaratana

Author
Pandit_kedaranatha_sastri
Other authors
Ccl
Title
Gangavaratana
File name
Gangavaratana
Text
OCR done
Citation
1916
Publisher
Tukaram_javaji
Language
Sanskrit
Pages
79
Library
Scl
DLI number
326962
Barcode
2020010005137.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
PAR Informatics, Hyderabad
VMLT id
3BHJPlcaCKS
Download PDF

Gangavaratana