Uttarpara Jaykrishna Public Library, Hooghly

Malatimadhab Ed. 6

Pansikar, Vasudev Laxman Sastri, Rev. · 2007/03/1

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

THE
MÄLATĪMĀDHAVA
OF
BHAVABHŪTI
WITA
The Commentaries of Tripurāri and Jagaddhara.
EDITED BY
MANGESH RAMAKRISNA TELANG.
REVISED BY
VASUDEV LAXMAN S'ĀSTRI PANSĪKAR.
Sixth Edition.
PUBLISHED
BY
PĀNDURANG JAWAJI,
PROPRIETOR OF THE 'NIRNAYA SĀGAR' PRESS,
BOMBAY.
1936.

[All rights reserved by the publisher.]
Publisher:-Pandurang Jawaji, Nirnaya Sagar Press,
Printer:-Ramchandra Yesu Shedge, S26-28, Kolbhat Street, Bombay.

॥ श्री॥
महाकविश्रीभवभूतिप्रणीतं
त्रिपुरारि-जगद्धरकृताभ्यां टीकाभ्यां समेतम् ।
मङ्गेश रामकृष्ण तेलङ्ग
इत्यनेन संशोधितम् ।
पणशीकरोपाह्वविद्वद्वरलक्ष्मणशर्मतनुजनुषा
वासुदेवशर्मणा संस्कृतं च ।
(षष्ठं संस्करणम्।)
मुम्बस्या
पाण्डुरङ्ग जावजी
इत्येतैः खीये निर्णयसागरमुद्रणालयेऽयित्वा प्रकाशितम् ।
शाके १८५८,
सन १९३६.

No text on this page.

विज्ञप्तिः। । अस्य प्रकरणस्य प्रणेतुः श्रीमद्भवभूतिकवेरितिवृत्तं न क्वापि विस्तरेण लभ्यते । अनेन खविरचितमहावीरचरित-मालतीमाधव-उत्तररामचरिताख्यरूपकत्रयस्य प्र- स्तावनासु किंचित्खवंशादिवर्णनं कृतमस्ति । तद्यथा-आसीद्दक्षिणापथे विद- र्भेषु पद्मपुरं नाम नगरम् । तत्र केचित्तैत्तिरीयाः काश्यपा उदुम्बरोपाभिधाना ब्रह्मवादिनो द्विजा वसन्ति स्म । तेषां वंशे महाकवि म कश्चिद्वाजपेययाजी विप्रो बभूव । अस्मात्पञ्चमः पुरुषो भवभूतिः । भवभूतेः पिता नीलकण्ठः, जननी जतुकर्णी, पितामहो भट्टगोपालः, गुरुश्च ज्ञाननिधिः । अधीतवानयं तर्कव्याकरण- पूर्वोत्तरमीमांसादीनि शास्त्राणि । अस्य पितृकृतं नाम श्रीकण्ठ इति । 'तपखी कां गतोऽवस्थामिति स्मेराननाविव । गिरिजायाः स्तनौ वन्दे भवभूतिसिताननौ ॥' इति पद्यकरणोत्तरं तस्यैव भवभूतिरिति नामान्तरं जातम् । अनेनैव च नाम्नायं कविलॊके प्रसिद्धो बभूवेति । कान्यकुब्जाधिपतेर्यशोवर्मणः सभायां भवभूतिरासीदिति राजतरङ्गिणीतो ज्ञायते । यशोवर्मसमयश्च ख्रिस्तवर्षीयसप्तमशतकपूर्वार्धे बभूव । अतो भवभूतेरपि समयो निरुक्तसप्तमशतकमित एवेत्यर्वाचीनपण्डितानामूहः । भवभूतिकृतिषु महावीरचरित-मालतीमाधव-उत्तररामचरिताख्यं रूपकत्रयमप- हाय नान्यः कोऽपि प्रबन्धः प्राप्यते । तथापि शार्ङ्गधरपद्धती- 'निरवद्यानि पद्यानि यदि नाट्यस्य का क्षतिः । भिक्षुकक्षाविनिक्षिप्तः किमिक्षुर्नीरसो भवेत् ॥' इति पद्यम् , गदाधरभट्टसंकलिते रसिकजीवने च- 'अलिपटलरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् । मृगमदपरिमललहरी सनीर किं पामरेषु रे किरसि ॥' र. जी. प्र. ३१२२ १ 'जातूकी' इत्यपि रूपान्तरम् । २ आर्यासप्तशत्या अनन्तपण्डितकृतटीकायां 'भवभूतेः संबन्धात्' इत्याद्यार्या- व्याख्याने द्रष्टव्यम् । वीरराघवविरचितायां महावीरचरितटीकायामप्येवमेवोक्तम् । परंतु तत्र 'साम्बा पुनातु भवभूतिपवित्रमूर्तिः' इत्यादि पद्यं निर्मितमिति प्रोक्तम् । ३ मालतीमाधवावतरणिकायां श्रीमद्भिर्डाक्टरभाण्डारकरैरुक्तम् । एतद्विष- यको राजतरङ्गिणीस्थः श्लोकस्वयम्- 'कविवाक्पतिराजश्रीभवभूत्यादिसेवितः । जितो ययौ यशोवर्मा तद्गुणस्तुतिवन्दिताम् ॥' राज.४।१४५ २ "किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम् । खभाव एवोनतचेतसां सतां परोपकारव्यसनं हि जीवितम् ॥' र. जी. प्र. ३२९५ इति पद्यद्वयं च भवभूतिनाम्ना समुद्धृतं लभ्यते । अतो भवभूतिना विरचितोऽन्यः कोऽपि प्रवन्ध आसीत् , उत तत्कृतानि सुभाषितान्येवैतानि, आहोखिदेतत्पद्यक- तान्यः कोऽपि भवभूतिर्बभूवेति निश्चेतुं नैव शक्यते । अत्र प्रकाशितयोर्मालतीमाधवटीकयोः प्रथमा भावप्रदीपिकाख्या दाक्षिणात्येन पर्वतनाथतनयत्रिपुरारिसूरिणा विरचिता । इयं सप्तमाङ्कपर्यन्तमेव लब्धा । अव- शिष्टाकत्रयस्य टीका विबुधरत्नावल्याख्या नान्यदेवेन पूरिता । द्वितीया श्रीरत्न- धरात्मजजगद्धरपण्डितविरचिता पाठान्तरैः सह पुस्तकान्ते निवेशिता । एवं टीकाद्वयसंवलितमेतन्मालतीमाधवं प्रकरणं प्रकाशितं चेनितरां रसिकजनहृदया- हादकं स्यादिति समालोच्य कृतोऽयं प्रकृतो यत्नः । अत्र च मुद्रणादिष्वनवधा- नतयापतितं दोषजातं क्षन्तव्यं सदयैः सद्भिरिति विज्ञापयति विद्वदनुचरो मङ्गेशशर्मा।

॥ श्रीः॥
मालतीमाधवम् ।
प्रथमोऽङ्कः।.
चूडापीडकपालसंकुलगलन्मन्दाकिनीवारयो
विद्युत्पायललाटलोचनशिखिज्वालाविमिश्रत्विषः ।
भावप्रदीपिका।
ऐन्दव्या कलयावतंसितकचं सौन्दर्यसारास्पदं
कारुण्यामृतपूरपूरितलसल्लीलाकटाक्षाङ्कुरम् ।
उद्यत्कोटिदिनेशमण्डलरुचिन्यकारिभाभासुरं
वन्दे पाशसृणीक्षुचापसुमनोवाणापहं तन्महः ॥
यद्गण्डमण्डलगलन्मदवारिधाराः कर्णद्वयव्यजनवातविधूतिशीर्णाः ।
भक्तान्तरायनिवहा इव सार्यमाणा भान्ति द्विपेन्द्रवदनं तमुपाश्रयामः ॥
एकाम्रमूलनिलयकरिभूधरनायकौ ।
काञ्चीपुरीश्वरौ वन्दे कामितार्थप्रसिद्धये ॥
पदवाक्यप्रमाणज्ञो भवभूतिर्महाकविः ।
मालतीमाधवं नाम यद्रूपकमरीरचत् ॥
क्रियते विवृतिस्तस्य भारद्वाजेन धीमता ।
यज्वनः पर्वतेशस्य सूनुना त्रिपुरारिणा ॥
सन्ति यद्यपि चैतस्य व्याख्याः प्राच्यास्तथापि ताः ।
अवक्तव्योक्तिवक्तव्यत्यागाभ्यां नाहता युधैः ॥
अतो मितेन वचसा लघ्वी भावप्रदीपिका ।
मालतीमाधवस्येयं रच्यते रसिकप्रिया ।।
अदृष्टपूर्वव्याख्यानामस्तु वैतन्मनोहरम् ।
अदृष्टदिव्यकान्तानां मानव्य इव कामिनाम् ।
प्राग्व्याख्याऽसंनिधाने वा भवत्वस्योपयोगिता।
भानोरसंनिधाने किं न ग्राह्या करदीपिका ॥
पुरातननिबन्धेषु येषां धी वगाहते।
तेषामस्मादृशा वैतदुपयोगि भविष्यति ॥

मालतीमाधवे पान्तु त्वामकठोरकेतकशिखासंदिग्धमुग्धेन्दवो भूतेशस्य भुजङ्गवल्लिवलयस्रङ्गद्धजूटा जटाः ॥ १॥ सर्वथा सादरं सन्तः प्रतिगृह्णन्वमत्सराः । को वा प्रणयिनि प्रह्वे कुर्यादेवावधीरणाम् ॥ अथवा नः किमेतेन दैन्येन यदि मत्कृतौ । विशेषं चेद्विशेषज्ञः पश्येद्गृह्णातु तां तदा ॥ साहित्याध्वपरिक्षुण्णधियामस्मादृशां श्रमम् । तादृशा एव जानन्ति विदुरन्ये कथं खलाः ॥ अथ तत्रभवान्भवभूतिः कीर्त्यादिसत्काव्यनिर्माणप्रयोजनप्राप्तये प्रेक्ष्यप्रबन्धमे- दनाट्यप्रधान प्रकरणं साङ्गं मालतीमाधवं नाम रूपकमाततान । तत्र प्रकरणलक्षणं भरते-'तत्र कविराजबुद्ध्या वस्तुशरीरं च नायकं चैव। स्वयमुत्पाद्य विरचयेतज्ज्ञेयं प्रकरणं नाम ॥' इति । दशरूपकेऽपि-अथ प्रकरणे वृत्तमुत्पाद्यं लोकसंश्रयम् । अमात्यविप्रवणिजामेकं कुर्यात्तु नायकम् ॥ धीरप्रशान्तं सोपायं धर्मकामार्थतत्प. रम् । शेषं नाटकवत्संधिप्रवेशकरसादिकम् ॥' इति । तत्र नाट्योपक्रमे विघ्नोपशा- न्तये कुशीलवैः पूर्वरङ्गः क्रियते । तदुक्तम्-'प्रथमं पूर्वरङ्गश्च ततः प्रस्तावनेति च । आरम्भे सर्वनाट्यानामेतत्सामान्य मिष्यते ॥ यन्नाट्यवस्तुनः पूर्व रङ्गविघ्नोप- शान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स कीर्तितः ॥' इति । तत्र चानुष्ठितभ- रतोपदिष्टपूर्वरङ्गाङ्गकलापेन सूत्रधारेण पाठ्याङ्गभूता नान्दी प्रयोक्तव्या । तदु. तम्-'यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटके। तेषामवश्यं कर्तव्या नान्दी नन्दीश्वरप्रिया ॥' इति । नान्दीलक्षणं तु-'आशीर्नमस्क्रियारूपः श्लोकः काव्य- मुखोदितः । नान्दीति कथ्यते तस्यां पदादिनियमोऽपि वा ॥ माङ्गल्या शङ्खचका- ब्जकोककैरवशंसिनी । नान्दी पदैर्द्वादशभिरष्टाभिर्वाप्यलंकृता ॥' इति । 'अपि वा' इति पदानियमपक्षोपक्षेपः । तथाह विद्यानाथः–'कैश्चिन्नान्द्यां पदनियमो नाभ्यु- पगतः' इति । तत्र कविश्चिकीर्षितस्य प्रकरणस्याविनपरिसमाप्तये विशिष्टेटदे. वतानमस्कारलक्षणं मङ्गलमाचरन्पूर्वरङ्गाङ्गभूतामष्टपदात्मिकामाशीरलंकृतां नान्दी सूत्रधारप्रयोज्यां तावदाह-चूडेति । एषा च 'संदिग्धमुग्धेन्दवः' इति चन्द्र. नामाङ्किता नान्दी । तदुक्तम्-'चन्द्रनामाङ्किता कार्या रसानां स यतो निधिः । प्रीते चन्द्रमसि स्फीता रसश्रीरिति वालुकिः ॥' इति । अयमर्थः-भूतेशस्य जटाः पान्विति संबन्धः । ता विशिनष्टि-चूडेति । चूडा शिखा । 'शिखा चूडा केशपाशः' इत्यमरः । तया च खाश्रयभूतं शिरो लक्ष्यते । कपालमालि. कायाः शिरोभूषणखात् । तस्यापीडस्तत्र तिर्यद्धा स्रक् । 'आपीडशेखरोत्तंसा. पतंसाः शिरसि स्रजः' इति हलायुधः । आपीडशब्देनैव शिरःस्रगुकावपि चूडाशब्दस्तत्संनिधानप्रतीत्यर्थः । कर्णावतंसवत् । यथाहुः-'कर्णावतंसादिपदैः कर्णादिधनिनिर्मितः । संनिधानप्रतीत्यर्थम्' इति । तत्र कपालाः । तद्. थितखादापीडस्य । तेषु संकुलं व्याप्तं गलत्तत्पूरणादधःलवच मन्दाकिन्या:

प्रथमोऽ एतच्च। सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारबहि- त्रासान्नासापरन्धं विशति फणिपतौ भोगसंकोचभाजि । गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणे- वैनायक्यश्चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः ।। २. शंभुशिरोगङ्गाया वारिधारा यासु ताः । तडित्तुल्येनालिकनेत्रतेजसा साजात्याद्विशे- षेण मिश्रीभूता दीप्तिर्यासां ताः । कोमलया केतकगर्भद्रोण्या 'सह संदिग्धः समा- नाकृतिवर्णलाक केतकशिखेयमुत शशिरेखेति संदेहगोचरो मुग्धो मनोहर इन्दुर्यासु ताः । जटीकृत्य बद्धासु जूटीकृतासु विप्रकीर्णासु । एकस्याश्चन्द्रकलाया- तिरोधानप्रसङ्गेन केतकशिखासंशयजनकलायोगात् । भुजला एव वल्लयो लतास्ता- भिरेव वलयैर्वलयीकृतैः । लतासदृशैरिति यावत् । निर्मितया स्रजा नद्धा जूटा यास ता इति । अत्र रूपकसंदेहानुविद्धा खभावोक्किरलंकारः । तल्लक्षणानि तु विखरभ- यान लिख्यन्ते। अत्रेश्वरस्य जटाजूटालंकृतस्य प्रशान्ताकारप्रतीते/रशान्तः कथा- नायकः सूचितः । जटा इति कर्तृबहुत्वेन नायकनायिकाबहुलम्, भूतेशस्येत्यौ- पसर्जन्येन जटा इति वातन्त्र्येण नायकस्य खप्रयोजननिर्वाहेऽन्यपारतच्यम्, कामन्दक्यादितपखिनीजनस्यैव तत्कार्यनिर्वहणनिरन्तरोद्योगिवं सूचितमिति मना- काव्यार्थसमुन्मेष ऊह्यः॥ १॥ प्रचितादेव मङ्गलात्ताहगन्तरायनिरासं मलाह- सानन्दमिति । विनायकस्य संबन्धीनि मुखविधूननानि पान्तु । विनायकस्य विघ्नराजलात्तन्मुखविधूननानि प्रत्यूहनिवर्तकानीत्याशयः । तेषु निमित्तमाह- शूलपाणेस्ताण्डवे नन्दिकरवाद्यमानमुरजध्वनिना घनगर्जितसदृशेनाहूतात्स्कन्दवा- हनमयूरात्रासो भयं तस्माद्भोगसंकोचभाजि सूक्ष्मरन्ध्रप्रवेशसिद्ध्यर्थ संकुचितश- रीरे फणिपतावुपवीतीकृते । नासाग्ररन्धं पुष्करविवरं सानन्दं यथा भवति तथा । तदैव संनिहितविवरलाभात् । विशति सति । कीदृश्यः । कपोलतलोत्थि- तमधुकरमालामुखरितदिशः। चीत्कारोऽनुकरणशब्दस्तत्सहिताः । काव्यलिजमलं- कारः ॥ एताभ्यां श्लोकाभ्यां जलधरसमयप्रारम्भः सूच्यते । तस्य निर्वहणसंधौ वक्ष्यमाणखात् । मुखसंधिसूचितस्यैव निर्वोढव्यत्वात् । तत्र कपालेयनेन बला- कावलिः, जलक्षरणेन वृष्टिः, विद्युदित्यनेन च विद्युत्, केतकशिखेत्यनेन केतको- द्गमः, भुजगवलयबद्धजटापटललेन जलदोदयः, मुरजध्वानेन गर्जितशब्दः, कौमारवहींति मयूरहर्षश्च सूच्यत इति केचिद्याचक्षते । तदेतच्छन्दशक्त्या प्रतीय- तेऽर्थशक्त्या वेति त एव जानन्ति । नखेते शब्दाः प्रकृतार्थ नियन्त्रिता अपि शक्त्य- न्तरबलादन्वितमर्थान्तरं प्रत्याययन्तीति कस्यचिद्युत्पन्नस्य प्रतीतिः । अर्थोऽपि प्रकृतो नैतादशस्यार्थान्तरस्य प्रतीतो समर्थोऽनुभूयते सहृदयैः । कथांशानामेव निर्वहणे निरूप्यमाणानां मुखसंधी सूचननिर्बन्धः । न तु तत्र वक्ष्यमाणस्य सर्व- तुवनवर्णनादेरपि । ततो नैषोऽर्थः कवेर्विवक्षागोचरोऽपि । तस्मानायं ध्वनिमार्णविदा २ माल मालतीमाधवे अपि च । दन्तश्रेणिषु संगलत्कलकलव्यावर्तनव्याकुला नासालोचनकर्णकुञ्जकुहरेषगद्गदध्वानिनः । गण्डग्रन्थ्यभिघातशीणकणिकाचूडास्रवन्त्यूर्मयः शंभोब्रह्मकपालकंदरपरिस्पन्दोल्बणाः पान्तु वः ॥ ३ ॥ अन्यच्च। पक्ष्मालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः समूहो यस्मिन्ब्रह्माण्डमीषद्विघटितमुकुले कालयज्वा जुहाव । अर्चिनिष्टप्तचूडाशशिगलितसुधासारशात्कारिकोणं तार्तीयीकं पुरारेस्तदवतु मदनप्लोषणं लोचनं वः ॥ ४ ॥ (नान्द्यन्ते।) सूत्रधारः-अलमलम् । उदितभूयिष्ठ एव भगवानशेषभुवन- द्वीपदीपः । तदुपतिष्ठे । (प्रणम्य ।) पन्थाः ॥ २ ॥ दन्तश्रेणि वित्यादि श्लोकद्वयं प्रक्षिप्तमिति पूर्वैरव्याकृतमपि क्वचि- पुस्तकेषु दृष्टवादस्माभिर्व्याख्यायते-दन्तेति । चूडास्रवन्त्यूर्मयः शिरोनदीतर- झा वः पान्तु । ब्रह्मकपालकंदरपरिस्पन्दोल्बणा विधिशिरःकरोटिपरिस्खलनप्रभूताः दन्तपतिषु संगलन्त्यः क्षरन्त्यः कलकलसहितेन व्यावर्तनेन परिभ्रमणेन व्याकुलाः। नासादिसुषिरप्रदेशेषु बुद्धदशब्दवत्यः । गण्डस्थलाभिघाताद्विशीर्णा अत्युन्नतप्रदेशा- दधो विषमस्थले पतन्यो निर्भरवारिधारा यासां ताः। खभावोक्तिरलंकारः॥३॥ पक्ष्मेति । तृतीयमेव तार्तीयीकम् । 'तीयादीकक् स्वार्थे वाच्यः' इतीकक् । मदनप्लोषणं स्मरदाहि लोचनं वोऽवतु । कीहक् । यत्पक्ष्मपतिपिङ्गलतायाः सर्वोऽपि तडित्संघो लेशः । कालो मृत्युरेव यज्चा । ईषद्विघटितमुकुले किंचिदुन्मीलिते यस्मिनाहवनीयस्थाने जगद्भुतवान् । ज्वालासंतापितशिरश्चन्द्रकलासुधाधारानि- पातेन प्रतप्तायसि जलबिन्दुसेचनेनेव शात्कारिप्रान्तम् । उदात्तालंकारः ॥४॥ अथ प्रस्तावनां विवक्षुखदङ्गयोः प्ररोचनामुखयोः प्रथमं प्ररोचनां प्रस्तौति-नान्द्यन्त इति । कृतपूर्वरङ्गे प्रथमप्रविष्टे सूत्रधारे नान्दी पठित्वावशिष्टं च प्रत्यहारमार्जनाले- पनादिपूर्वरङ्गाङ्गकलापं निष्पाद्य विनिर्गते तत्सदृशोऽन्यः सूत्रधारः प्रविश्य प्रस्ताव- यतीत्यर्थः । तदुकं दशरूपके-'पूर्वरजं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमाख्यापयेनटः ॥' इति । प्ररोचनामुखलक्षणं तु-'निवेदनं प्रयो. ज्यस्य निर्देशो देशकालयोः । काव्यार्थसूचकैः शब्दैः सभायाश्चित्तरञ्जनम् ॥ कवि- काव्यनटादीनां प्रशंसा च प्ररोचना ॥' आदिशब्देन सभावस्तुनायकानां ग्रहणम् । 'सूत्रधारो नटी ब्रूते मारिष वा विदूषकम् । खकार्यप्रस्तुताक्षेपि चित्रोक्त्या यत्तदा- मुखम् ॥' इति । अलमिति । अनेकनान्दीश्लोकपाठकं पूर्वसूत्रिणं प्रति विलम्ब- प्रथमोऽङ्कः । कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते धुर्या लक्ष्मीमिह मयि भृशं धेहि देव प्रसीद । यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे भद्रं भद्रं वितर भगवन्भूयसे मङ्गलाय ॥ ५॥ (नेपथ्याभिमुखमवलोक्य ।) मारिष, सुविहितानि रङ्गमङ्गलानि । संनिपतितश्च भगवतः कालप्रियनाथस्य यात्राप्रसङ्गेन नानादिगन्त- वास्तव्यो जनः । तत्किमित्युदासते भरताः । आदिष्टोऽस्मि विद्वत्प- रिषदा यथा- -अद्य त्वयाऽपूर्ववस्तुप्रयोगेण वयं विनोदयितव्या इति । तत्परिषदं निर्दिष्टगुणप्रबन्धेनोपतिष्ठावः । मसहमानस्योक्तिः। प्रभातकालं निर्दिशति-उदितेति । भूयसा मण्डलेन भागे- नोदितः । उदितकल्प इति भावः । उपतिष्ठे स्तोत्रेणाराधयामि । 'पथ्याराधन- योश्च' इत्यात्मनेपदम् । तथा करोति कल्याणानामिति । विश्वमूर्ते सर्वा- स्मक । 'सूर्य आत्मा जगतस्तस्थुषश्च' इति श्रुतेः । वं कल्याणानां मङ्गलरूपाणां तेजसां स्थानमसि । मयि धुर्या सकलसौख्यसंपादनसमर्था लक्ष्मी धेहि । प्रसन्नो भव । यद्यदिति वीप्सया प्रकारकाय॑मभिप्रैति । येन केनचिद्रूपेण स्थितं सर्वप्र- कारं यत्पापमस्ति नम्रस्य मे तथाभूतं सर्वप्रकारं पापं प्रतिजहि निवर्तय । अत्र यद्यदिति वीप्सया यादृशोऽर्थ उक्तस्तस्यैव प्रकृतपरामर्शिना तच्छब्देनोपादानान्न द्वितीयस्तच्छब्दोऽपेक्षित इत्याहुः । तेन पूर्ववाक्ये यच्छब्दद्वयदर्शनात्तदुत्तरवाक्ये तच्छब्दद्वयं द्रष्टव्यमित्यपव्याख्यानम् । भगवन् , बहुप्रकार मङ्गलं भूयसे मङ्गलाय वितर । मङ्गलानुबन्धीनि मङ्गलानि प्रयच्छेत्यर्थः । इयं काव्यार्थसूचकेन श्लोकेन संस्कृतप्रायवाग्व्यवहाररूपा भारती वृत्तिः। प्ररोचनाङ्गं काव्यार्थसूचनं च । कथा- नायकतन्मित्रादीनामनिष्टपरिहारेष्टप्राप्तिप्रतीतेः । तथापि यद्यदित्यघोरघण्ट- शार्दूलनन्दनादिकृतोपद्रवनिर्देशः । भद्रं भद्रमिति मालतीमदयन्तिकाप्राप्तिरूपं मालद्वयं सूचितम् । भूयसे मङ्गलायेति कपालकुण्डलागृहीतमालतीविपनिस्तारः आरक्षगृहीतमाधवमकरन्दप्राणरक्षादयः सूच्यन्ते ॥५॥ नेपथ्य इति । नेपथ्यो नाम रजस्थलस्य पश्चाद्यवनिकान्तरितो वर्णग्रहणादियोग्यकुशीलवकुटुम्बावस्था- नदेशः । 'कुश्शीलवकुटुम्बस्य स्थली नेपथ्य इष्यते' इति वचनात् । मारिषो नटः ॥ नटः सूत्रधारेण मारिष इति वाच्यः । 'सूत्री नटेन भावेति तेनासौ मारिषेति च' इत्युक्तखात् । सुविहितानि साधु संपादितानि । कालप्रियनाथस्य महाकालास्प- दस्य शंभोः । नानादेशनिवासीत्यनेन सर्वकलावेदिवं परिषदो दर्शयति । विद. ग्धपरिषत्संनिधौ हि प्रयोगकौशलप्रकटनस्योत्साहः । भरतास्तच्छास्त्राध्येतारो नटाः । किं तर्हि तैः प्रयोज्यमित्याह -आदिष्टोऽसीति । निर्दिष्टगुणप्र. बन्धमिति । रञ्जनीयविद्वत्परिषदा निर्दिष्टा ये गुणास्वच्छालिनं प्रबन्धमित्यर्थः ।

मालतीमाधवे नदः-(प्रविश्य ।) भाव, कतमे ते गुणा यानुदाहरन्त्यार्य- मिश्रा भगवन्तो भूमिदेवाः । सूत्रधार:- भूना रसानां गहनाः प्रयोगाः सौहार्दहृयानि विचेष्टितानि । औद्धत्यमायोजितकामसूत्र चित्राः कथा वाचि विदग्धता च ॥६॥ नट:-भाव, कस्मिन्प्रकरणे । आर्या इति सर्वविद्यास्थानवेदिनः । मिश्रा इति पूज्यनिर्देशः । भूमिदेवा इति तत्प्रधानखात्, सभाया गुणदोषविवेचनस्य तदधीनलात्, देवतात्मकत्वेन तेषामाराधनीयवाच्च । अनेन सभाप्रशंसा कृता ॥ एते यानुदाहरन्ति त एते गुणाः क इति नटस्य प्रश्नः । तानेव गुणानाह-भूनेति । भूना प्राचु- येण रसानामहाङ्गिभावेन निविष्यनां शृङ्गारादीनां प्रयोगा अभिनया गहनाः स्थूलदर्शिभिर्भावयितुमशक्याः। रसनां हि व्यअनेन विषयाणामगूढले गुणीभावप्र. सङ्गात्, गूढतयैव कामिनीकुचकलशवदिति भावनाचर्वणादी सूक्ष्ममतय एव सहृदयाः समर्थाः। न तु पदपदार्थज्ञानकृतार्थाः पण्डितंमन्याः।यथाह ध्वनिकृत्- 'शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते। वेद्यते स हि काव्यार्थतत्त्वज्ञैरेव केवलम् ॥' इति । अनेन रसैकप्रवणलं प्रबन्धस्य जीवितभूतो गुणो दर्शितः। तथा सौहार्दैन निरुपाधिकस्नेहेन हृद्यानि मनोहराणि विचेष्टितानि नायकतन्मित्रादीनां व्यापाराः । अनेन धीरप्रशान्तनायकोपेतलं नाम गुणो दर्शितः । तथा औद्धत्यं शृङ्गाररसप्र. धानस्यापि नायकस्य तद्विरोधिबीभत्साद्भुतरौद्ररसालम्बनलम् । तथा आयोजि- तमानुकूल्येन संघटितं कामसूत्रं नायिकानायकयोरन्योन्यानुरागबीजं येन तादृशम्। कामोऽनुरागः । स एव वर्तिष्यमाणसर्वकार्यबीजभूतत्वात्सूत्रमिव सूत्रम् । अयं भावः-महामांसविक्रयाघोरघण्टादौ यद्वीभत्सरौद्रशृङ्गारविरोधिरसोपादानं तदपि प्रधानमालतीलाभलक्षणप्रयोजनानुगुण्येन शृङ्गाराङ्गभावापत्त्या विरोधपरिहारेणी- चित्यमेव संपादयतीति । तदुक्तम्-'विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् । भावानामङ्गभावं वा प्राप्तानामुक्तिरच्छला ॥' इति । अत्र खल्ववधानवता कविना भवितव्यम् । यद्विरोधिरसोपादानेऽप्यनौचित्यलेशोऽपि नास्पदं लभते । यदा- ह-'अनौचित्याहते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्यो- पनिषत्परा ॥' इति । अनेनौचित्यशालिलं नाम गुणो दर्शितः। कथाश्चित्राः । वस्तु पुनराश्चर्यजनकमिति वृत्तवैचित्र्यं गुणः । वाचि विदग्धता उक्तौ चातुर्यम् । निर्दोषगुणालंकारयोगोऽनेन दर्शितः । ईदृशगुणगरिष्ठबन्धप्रयोगार्थमादिष्टोऽस्मीति भावः ॥६॥कस्मिन्निति । नैतादृशः प्रबन्धः प्रायेण लक्ष्यत इत्याशयः ।

प्रथमोऽ सूत्रधारः-(विचिन्त्य ।) स्मृतम् । अस्ति दक्षिणापथे पद्मपुरं नाम नगरम् । तत्र ब्राह्मणाः केचित्तैत्तिरीयाः पतिपावनाः काश्यपाः पञ्चा- मयः सोमपीथिनो धृतव्रता उदुम्बरनामानो ब्रह्मवादिनः प्रतिवसन्ति । ते श्रोत्रियास्तत्त्वविनिश्चयाय भूरिश्रुतं शाश्वतमाद्रियन्ते । इष्टाय पूर्ताय च कर्मणेऽर्था- न्दारानपत्याय तपोर्थमायुः ।। ७॥ तदामुष्यायणस्य तत्रभवतो भट्टगोपालस्य पौत्रः पवित्रकीतेनील- कण्ठस्य पुत्रः श्रीकण्ठपदलाञ्छनः पदवाक्यप्रमाणज्ञो भवभूतिर्नाम कविनिसर्गसौहृदेन भरतेषु वर्तमानः खकृतिमेवंगुणभूयसीमस्माकं हस्ते समर्पितवान् । यत्र खल्वियं वाचोयुक्तिः । ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान्प्रति नैष यत्नः । स्मृतमिति । अस्ति कश्चिदीदृशः प्रबन्धो मयेदानी दिष्ट्या स्मृत इति भावः । तैत्तिरीयाः तित्तिरिप्रोक्तं छन्दस्तैत्तिरीयम् । तदधीयत इति तैत्तिरीयाः। पञ्चा- मयो गाईपत्यादिपञ्चामिपरिचर्यापराः । आहितामय इति यावत् । सोमपीथिनः सोमपानमेषामस्तीति ते तथा । ज्योतिष्टोमादिक्रत्वनुष्ठातार इत्यर्थः । धृतव्रता- स्तपोनियमनिष्ठाः । उदुम्बराख्यं कुलनाम येषां ते। तथा ब्रह्मवादिनोऽध्यात्म. निष्ठाः। त इति । श्रोत्रियाः साङ्गवेदाध्ययनतदर्थज्ञानतदनुष्ठाननिष्ठा विशिष्टकु- लप्रसूता ब्राह्मणाः । 'श्रोत्रियंश्छन्दोऽधीते' इति निपातनात्साधुः । तत्त्वस्य पार- मार्थिकस्य ब्रह्मखरूपस्य परमपुरुषार्थस्य विशेषतः असंभावनाविपरीतभावनानि- रासपूर्वकं निश्चयो निर्विचिकित्सं ज्ञानं तस्मै प्रयोजनाय । भूरिश्रुतं शाश्वतम् । 'ब्राह्मणेन निष्कारणं षडङ्गो वेदोऽध्येयो शेयश्च' इति नित्यवच्छृतिबोधितत्वेन नियं श्रुतं शास्त्रश्रवणमाद्रियन्ते, न तु प्रतिवादिगर्वनिर्वापणेन ख्यातिलाभार्थम् । यागाय- नुष्ठानार्थ तटाकादिनिर्माणार्थ चार्थानाद्रियन्ते, न तु भोगेच्छया। संततिसंपादनाय दारान्, न तु मन्मथं कृतार्थयितुम्।तपःसंवर्धनार्थमायुरपेक्षन्ते, न तु जीवनलोमेन मरणभयेन वेति । परिसंख्यालंकारः॥॥आमुष्यायणस्य अमुष्यकुलप्रसूतस्य पुत्रस्य नडादित्वात्फक् । 'आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति चालुग्वतव्यः' इति षष्ट्या अलुक् । श्रीकण्ठपदं लाञ्छनं यस्य सः। भवभूतिरिति व्यवहारे तस्येदं नामा- न्तरम् । भरतेषु निसर्गसौहृदेन नाव्यवेदपारगखेनाभिनयार्थ नायकादिनिर्माणनिपु- णत्वेन च नटास्वस्मिन्गुरौ यथा भकिं कुर्वन्तीति तेषु तद्वात्सल्याद्वर्तमानः खकृतिमे- वंगुणभूयसी भूत्यत्र निर्दिष्टगुणशालिनी सभासु प्रयोगेण प्रख्यापयन्त्वित्यस्माकम- पितवान् । यत्र कृती खलु प्रसिद्धौ । वाचोयुक्तिर्वचोभङ्गिः । ये नामेत्यादि ।

८ मालतीमाधवे उत्पत्स्यते मम तु कोऽपि समानधर्मा कालो ह्ययं निरवधिविपुला च पृथ्वी ॥८॥ तदुच्यन्तां तत्प्रख्यापनाय सर्वे कुशीलवा यथा-खसंगीतकप्रयोगे वर्णिकापरिग्रहे च त्वर्यतामिति । कविवर्णनां प्रति तेनैवमुक्तम् । गुणैः सतां न मम को गुणः प्रख्यापितो भवेत् । यथार्थनामा भगवान्यस्य ज्ञाननिधिर्गुरुः ॥ ९॥ भपि च। यद्वेदाध्ययनं तथोपनिषदां सांख्यस्य योगस्य च ज्ञानं तत्कथनेन किं नहि ततः कश्चिद्गुणो नाटके । अत्र प्रमुख विनयप्रदर्शनं कवित्वगर्वोद्धत्यप्रकटनं च नामेति प्रसिद्धी । मदपे. क्षयापि प्रसिद्धा ये केचिन्महात्मानो नोऽस्माकमवज्ञा प्रथयन्ति कियदेतदित्यव- जानन्ति, ते हि विवेकसलिलसंक्षालितसंसारवासनापङ्ककलङ्के मनसि प्रत्यगात्म- वस्वेव परिभावयन्तस्तृणमिव जगदशेषमवलोकयन्तः किमपि रहस्यमुपनिषदेक- गम्यं वस्तु जानन्त इति युक्तंव तेषामस्माखविद्यापरतन्त्रेष्ववज्ञा । अत एव तानुद्दिश्य नायं यत्नः । किं तर्खतीतानामनेन प्रयोजनाभावाद्वर्तमानानामप्युत्त- माधमानामत्राप्रवृत्तः सदृशस्य चैवंविधग्रन्थनिर्माणदक्षस्यैतदनुपादानात् । यो मत्सदृश उत्पत्स्यते तं प्रतीति यत्तदोरनुपादानेऽपि सामर्थ्यात्तदुभयलाभः । तादृशस्योत्पत्तिः संभाव्यत इत्यत आह-काल इति । निरवधिरनन्तः। विपुला विस्तीर्णा । अतः कस्मिंश्चिद्देशे कस्मिंश्चित्काले मत्सदृशोऽपि कचिदेतदुपादायी जनिष्यत इति संभाव्यत इत्यर्थः । अथवा नामेति किलार्थे । ये केचिद्याशास्तादृशा नोऽवज्ञां किल प्रथयन्ति स्वमहिना जगत्सर्वमभिभवतामस्माकमपि । उडुभिरिव भानोःक्षुदैः काचिदवज्ञावार्तेति चित्रमिति भावः। ते किं जानन्ति ।न किमपीत्यर्थः । अज्ञत्वान्न तदवज्ञयास्माकं काचित्क्षतिरिति भावः । अपिशब्दो भिषक्रमः । एष यत्नोऽपि तान्प्रति न तेषामलक्ष्यत्वात् । के प्रति तर्हि । अतीतैः प्रयोजनाभा. वाद्वर्तमानस्य च मत्सदृशस्याभावाद्यः कश्चिन्मादृश उत्पत्स्यते तं प्रति । कथ- मिदानीमेतावति प्रपञ्चेऽप्यविद्यमानस्त्वाश इतः परमुत्पत्स्यत इति संभावनेत्यत माह-अनवधौ कालेऽप्यपरिच्छिने देशे यथाहमेक एतावतः कालस्योत्पनस्तद्वदेव को जानीते कदा वा कुत्र वा तादृशः कश्चिदुत्पद्यतापीत्यर्थः । हेजलंकारः ॥८॥ गुणैरित्यादि । सतामस्मद्गुरूणां गुणैः प्रख्याप्यमानैः। तच्छिष्यस्य मम को गुणोन प्रकटीकृतः तादृशैर्गुरुभिःशिक्षितखादेव खस्मिन्सर्वे संभाव्यन्त इत्यर्थः । तमेव गुरुं निदर्शयति-यथार्थेति ॥९॥यद्वेदेति। उपनिषदा वेदशिरसां सांख्यस्य कापि- लस्य योगस्य पातजलस्य च मोक्षशास्त्रस्य।नहीति। तत्परिज्ञानं न काव्यनिर्माणनै- पुण्योपयोग्यमित्यर्थः। किं तर्हि नाटकरचनोपयुक्तमत आह-वचसा यत्प्रौढित्वं विव.

प्रथमोऽङ्कः । यत्प्रौढित्वमुदारता च वचसां यच्चार्थतो गौरवं तच्चेदस्ति ततस्तदेव गमकं पाण्डित्यवैदग्ध्ययोः ॥ १० ॥ नटः–तावद्भूमिकास्तथैव भावेन सर्वे वाः पाठिताः । सौग- तजरत्प्रवाजिकायाः कामन्दक्यास्तु प्रथमां भूमिका भाव एक एवा- धीते । तदन्तेवासिन्यास्त्वहमवलोकितायाः । सूत्रधार:-ततः किम् । नट: -प्रकरणनायकस्य मालतीवल्लभस्य माधवस्य वर्णिकापरि- ग्रहः कथम् । सूत्रधारः-कलहंसमकरन्दयोः प्रवेशावसरे तत्सुविहितम् । नटः-तेन हि तत्प्रबन्धप्रयोगादेवात्रभवतः सामाजिकानु- पास्महे । क्षितार्थसमर्पणप्रावीण्यम् । 'विवक्षितार्थनिर्वाहः काव्ये प्रौढिरिति स्मृता' इति वच- नात् । पदे वाक्यार्थरचना वाक्यार्थे च पदाभिदा।प्रौढिाससमासौच साभिप्राय- समस्य च ॥ इत्येवंरूपं वैचित्र्यं वा । उदारता प्रबन्धसौन्दर्य श्लाघ्यार्थत्वं वा।अर्थतो गौरवमनेकार्थप्रतिपादनसामर्थ्य गाम्भीर्यरूपं तदेतच्चेदस्ति, तदेव पाण्डित्यस्य व्युत्पत्तेर्वैदग्ध्यस्य कविताशकेश्च गमकं ज्ञापकम् । प्रबन्धगुणान्दृष्ट्वा खयमेव वि. द्वांसो मम वैदग्ध्यं ज्ञास्यन्ति । नखेतन्मया खकण्ठेन वक्तव्यमित्यर्थः ॥१०॥ एताव- ता कविकाव्यप्रशंसा कृतेति प्ररोचनां निर्वामुखं प्रस्तौति-तावदित्यादि । वीथ्यङ्गानामामुखे विकल्पितलामात्र तेषामुपादानमिति मन्तव्यम्। तावत्साकल्येन भूमिकास्तत्तदभिनयकार्य प्रति जनोचितवर्णवेषभाषाभिनयादिपरिप्रहान्खवर्गान्त- गताः पठिताः शिक्षिताः। सौगतजरत्प्रवाजिकाया बौद्धवृद्धसंन्यासिन्याः प्रथमामा- दितःप्रवेशनीयाम् ॥ ततः किम् ब्रूहीति शेषः। तत इति । आवाभ्यां तावत्काम- न्दक्या अवलोकितायाश्च भूमिकाद्वयं प्रथममेव गृहीतम् । प्रधाननायकभूमिकापरि- प्रहस्तु कथं केन वा कर्तव्य इत्यर्थः । उत्तरमाह-कलहंसेति। कलहंसोमाधवस्य चेटः, मकरन्दो मित्रम्, तत्प्रवेशावसर एवैतन्माधवभूमिकापरिग्रहणं भविष्यतीति नेदानीं तच्चिन्तनीयम् । तेन सर्वं सुष्टु विहितम्, न किंचिदपि कर्तव्यमवशिष्टमि- त्यर्थः । तदनेन प्रथमं कामन्दक्यवलोकिताप्रवेशः सूचितः । केचित्तु यावन्त्यत्र प्रकरणे पात्राणि तेषां सर्वेषामपि प्रथमतः प्रवेशः सूचित इति व्याचक्षते । तदसं. गतम् । तत्प्रवेशावसर एव प्रवेशस्य सूचनीयवात् । न तु कृत्स्नप्रकरणपात्रप्रवेशः प्रथमतः सूचनीय इति प्रकरणलक्षणत्वे न क्वचिदपि प्रन्थे दृश्यते । तत्तत्पात्रप्रवे- शसमये तत्तत्सूचनं स्फुटमेवाने दृश्यत इत्यलम् ॥ तेनेति । सामाजिकनिर्दिष्ट- गुणयोगित्वेन वगैरधीतत्वेन चेत्यर्थः । समाजे समवेतान्सामाजिकान् । 'पशुना ।

१० मालतीमाधवे सूत्रधारः-बाढम् । एषोऽस्मि कामन्दकी संवृत्तः । नटा-अहमप्यवलोकिता । (इति निष्क्रान्तौ।) प्रस्तावना (परिवृत्य रकपटिकानेपथ्य उभावुपविष्टौ प्रविशतः।) कामन्दकी-वत्से अवलोकिते। अवलोकिता-आणवेदु भअवदी। कामन्दकी-अपि नाम कल्याणिनोरिवसुदेवरातापत्ययो- १. आज्ञापयतु भगवती। समजोन्येषां समाजोऽथ सधर्मिणाम्' इत्यमरः ॥ बाढमिति । तथा कुर्म इत्यर्थः । एष इति । सूत्रधाररूपपरित्यागेन कामन्दकीभूतोऽस्मि ।अहमप्यवलो- किता संवृत्तेत्येतदामुखाचं प्रयोगाविशयः । तदुक्तम्-'एषोऽयमित्युपक्षेपात्सूत्र- धारप्रयोगतः । पात्रप्रवेशो यत्रायं प्रयोगातिशयो मतः॥' इति । अन्यस्य पात्रस्य प्रवेश एषोऽयमित्युपक्षेपः । सूत्रधारस्यैव समनन्तरपात्रख एषोऽहमित्युपक्षेप इति नातीव मेदः ॥ इति प्रस्तावना ॥ परिवृत्य निर्गमनं नाटयित्वा । काषायशाटीविर- चितवेषावुपविष्टौ कामन्दक्यवलोकितावेषधारिणौ प्रविशतः। इत्येवं प्रस्तावनां परि- समाप्य सूचनीयकथांशसूचनार्थ मिश्रविष्कम्भमारभवे-कामन्दकीत्यादि । वदतीति शेषः । विष्कम्भलक्षणं तु-वृत्तवर्तिष्यमाणानां कथांशानां निद- शंकः । संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥' इति । 'शुद्धः संकीर्णो वा द्विविधो विष्कम्भकोऽपि वक्तव्यः । मध्यमपात्रैः शुद्धः संकीर्णो नीचमध्यमकृत् ॥' इति । शेषं नाटकवदित्यतिदेशात्प्रकरणेऽपि विष्कम्भकनिवेशः । तथा चाहुः- 'प्रकरणनाटकविषये प्रवेशको नाम विज्ञेयः। विष्कम्भकस्तु कार्यो नाटकयोगे प्रकरणे च॥ इति ॥ अवलोकितेति । आज्ञापयतु भगवती ॥ अपिनामेति । कल्या- पिनोः कल्याणं मालमन्योन्यानुरूपं वयोपभाग्यसौभाग्यादिकमनयोरस्तीति तौ तथोक्तौ । अनेन चान्योन्यानुगुणयोगान्माललेव माधवस्य योग्या वधूः, स एव तस्याः समुचितो वर इति सूचितम् । भूरिति श्लाघ्यवंशप्रसूतत्वेन कुलतत्संबन्धा- हलं ध्वनितम् । मालतीमाधवयोरितरेतरयोगद्वन्द्वनिर्देशेन साहित्यप्रतीतेः तद्धतु- रन्योन्यानुरागोऽस्तीति द्योत्यते । अभिमतम् । तयोर्बन्धूनामन्येषां च सहृदयानाम- भिलषितमित्यर्थः । तदनेन मालतीमाधवयोरन्योन्यानुरागोऽत्र प्रकरणे बीजभूत: सूचितो भवति । यथा-स्तोकोद्दिष्टः कार्यहेतुर्बीजं विस्तार्यनेकधा' इति । प्रथम खल्पमेवोद्दिष्टः पश्चादनेकधा विस्तारी यः कार्यस प्रयोजनस हेतुः सोऽर्थों बीजमित्युच्यते । अत्र च प्रकरणे मालतीप्राप्तिर्माधवस्य प्रधान कार्यम् । तदेतच प्रथमोऽङ्कः । रनयोर्मालतीमाधवयोरभिमतं पाणिग्रहमङ्गलं स्यात् । (सहर्ष वामाक्षिस्स- न्दनं सूचयिखा।) विवृण्वतेव कल्याणमान्तरज्ञेन चक्षुषा । स्फुरता वामकेनापि दाक्षिण्यमवलम्ब्यते ॥ ११ ॥ अवलोकिता-महन्तो क्खु एसो भअवदीए चित्तावक्खेओ। अच्चरिअं अचरिअम् । जं दाणिं चीरचीवरमेतपरिच्छदं पिण्डपा- अमेत्तपाणउत्तिं वि भअवदी ईरिसेसु आआसेसु अमच्चभूरिवसू णिओएदि । तस्सि उक्खण्डिअसंसारावग्गहो तुम्हेहिं वि अप्पा णिक्खिविअदि। १. महान्खल्वेष भगवत्याश्चित्तावक्षेपः। आश्चर्यमाश्चर्यम् । यदिदानी चीरचीवरमात्रपरिच्छदां पिण्डपातमात्रप्राणवृत्तिमपि भगवतीमीदृशेष्वाया- सेष्वमात्यभूरिवसुनियोजयति । तस्मिन्नुत्खण्डितसंसारावग्रहो युष्माभिर- प्यात्मा निक्षिप्यते। तयोरनुरागो बीजम् । बीजं नाम प्राथमिकी अर्थप्रकृतिः । कार्य पञ्चमी । पाणिग्रहणमङ्गलमपि नाम स्यात् । किं नु खलु भवेत् । अनेन मालतीमाधवसमा- गमरूपफलार्थमौत्सुक्यप्रतीतेरारम्भो नाम प्रथमावस्था दर्शिता । यथा-औ- त्सुक्यमात्रमारम्भः फललाभाय भूयसे' इति । बीजारम्भसमव्ययाच्चायं मुखसंधिः । तदुक्तम्-'बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणाः । आरम्भयत्नप्राप्याशानिय- ताप्तिफलागमाः ॥ अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः। यथासंख्येन जायन्ते मुखाद्याः पञ्च संधयः॥' इति । तत्रार्थहेतुमद्भेदो यत्र बीजस्य तन्मुखम् । तस्य च मुखसंधेरुपक्षेपादीन्यङ्गानि द्वादश बीजारम्भानुगुण्येन प्रयोकव्यानि । तानि च यथा- वसरमप्रत एव निरूपयिष्यन्त इत्यलम् ॥ सहर्षमिति । विचिन्यमानमनोरथसि- द्धिसूचकनिमित्तलाभात् । तदेव दर्शयति-विवृण्वतेति । आन्तरजेनेवास्मि- अर्थे खल्वियं संदिग्धे किमेतत्प्रयोजनं भविष्यति न वेति, तदस्याः संशयमपनया- मीत्येवमस्मदभिप्रायवेदिनेव कल्याणं विवृण्वता भाविमङ्गलं सूचयता स्फुरता वाम- केन सव्येन । अथ च प्रतिकूलेनापि सता चक्षुषा दाक्षिण्यं चिन्त्यमानकार्यसि- द्विशंसिलेनाप्रातिकूल्यम् । अथ च सव्येतरखमनीक्रियते । स्त्रीणां वामाक्षिस्पन्दः शुभशंसीति नैमित्तिकाः। विरोधाभासोऽलंकारः॥ ११॥ अवलोकिता-महा. न्खल्वेष चिन्तारूपो भगवत्याश्चित्तावक्षेपो मनःखेदः। आश्चर्यमाश्चर्यम् । यदिदानी चीरै रथ्यापतितपटचरखण्डैः कृतो यश्चीवरः कन्था तन्मात्रप्रावरणां पिण्डस्य भैक्षकवलस्य प्राणधारणोचितस्य पात उदरकुहरे निक्षेपस्तन्मात्रप्राणवृत्तिः । पात्रे पाणी मुखे वा यैर्यदनं विनिपात्यते तदेवौषधवनिगीर्यते, न तु रसाखादपूर्वक भुज्यत इत्यर्थः । भगवती माहात्म्यवतीमात्मवतीमीदृशेष्वायासेषु दुःखजनकेषु १२ मालतीमाधवे कामन्दकी-वत्से, मा मैवम् । यन्मां विधेयविषये स भवान्नियुके स्नेहस्य तत्फलमसौ प्रणयस्य सारः । प्राणैस्तपोभिरथवाभिमतं मदीयैः कृत्यं घटेत सुहृदो यदि तत्कृतं स्यात् ॥ १२ ॥ किं न वेत्सि । यदैव नो विद्यापरिग्रहाय नानादिगन्तवाससाहच- र्यमासीत्तदैवास्मत्सौदामिनीसमक्षमनयोkरिवसुदेवरातयोः प्रवृत्तेयं प्र- रागिजनोचितदूत्यादिकृत्येष्वमात्यभूरिवसुनियोजयतीति तस्य तावत्कार्यप्रस्तखाद. न्येन चास्य दुष्करत्वादनुचितेऽपि व्यापारे भगवतीं नियोजयतु नाम । तस्मिंश्चायास उत्खण्डित उच्छिन्नः संसार एवावग्रहो निःश्रेयसामृतवर्षप्रतिबन्धः। मोक्षान्तराय इति यावत् । स यस्य आत्मा युष्माभिरपि निक्षिप्यत इति यदेतत्सर्वमाश्चर्यमिति योजना॥कामन्दकी। वत्से इति। नैवं वक्तव्यमित्यर्थः॥ यन्मामिति । स पू. ज्यो भवान्भूरिवसुर्मा विधेयविषये कृत्यविषये नियुक्त इति यत्तस्नेहस्य प्रेम्णः फलम्। असौ विस्रम्भयोग्यं प्रेमैव प्रणय इत्युच्यते । निर्व्याजं सौजन्यमेव प्रणय इति केचित् । तस्य सारः स्थिरांशः । स्नेहातिरेकादनुचितेऽपि कर्मणि नियोगोऽस्माकं च तदङ्गीकरणं युक्तमेवेति भावः। प्राणैरथवा तेभ्योऽपि श्लाध्यैस्तपोभिर्वा सुह. दभिलषितकृत्यं घटेत यदि सिद्ध्येत् , तत्तर्हि निःश्रेयसादप्यधिकं कृत्यमस्म- प्राणैस्तपोभिश्च कृतं निष्पादितं स्यादित्यावृत्त्या योजनीयम् । मित्रकार्यनिष्पादनं मोक्षादपि गरीय इति भावः । अमात्यभूरिवसुः खसुतां मालती खबालमित्रस्य देवरातस्यात्मजाय माधवाय प्रदित्सुर्नरपतेर्नन्दननाम्ने नर्मसचिवाय मालती याच- मानाद्भयेन प्रकाशं दातुमशक्नुवन्गूढविवाहनिर्वर्तनव्यापारे कामन्दकी नियुक्तवानि- ति कथा उपरि स्फुटीभविष्यति ॥ १२ ॥ किमिति भूरिवसोर्माधवायैव मालती दातव्यति निर्बन्धः । भगवत्या वा प्राणव्ययेनाप्येतत्कार्य संपाद्यमिति किमित्य- भिनिवेश इत्यत आह-किं न वेत्सीति । आबाल्यान्मदन्तेवासिनी खमप्ये. तत्सर्व जानास्येवेति भावः॥न इति । भूरिवसुदेवरातयोर्मम चेयर्थः। नानादिग- न्तवासेन बहुदेशवासेन साहचर्य सहचरभावः । एकत्राध्ययननिबन्धना मैत्री यदै- वाभूत्तदैवामदिति पञ्चमीबहुवचनम् । अस्मत्त एव मत्कारितैव ययोरियं प्रतिज्ञा प्रवृत्ता । केत्यत आह-आवाभ्यामिति । अतश्च पूर्वप्रतिज्ञातवाद्भरिवसोर्म- त्पुरःसरत्वान्मम चात्र निर्बन्धो युक्त इति भावः । मत्प्रथमशिष्या सौदामिन्य- प्यत्रार्थे साक्षिणीत्यत आह-सौदामिनीसमक्षमिति । तेन तस्या अप्येत- त्प्रयोजननिर्वाहकान्तःपातित्वप्रतीतेः अन्ते तया करिष्यमाणो मालत्युपद्रवपरि: हारः कथांशः सूचितो भवति। नापि मां भूरिवसुर्दूत्ये नियुङ्क्ते किं त्वहमेव मत्काटि- तप्रतिज्ञानिर्वाहार्य प्रवर्ते । न मे दूत्यलाघवमाशङ्कनीयमित्यपि सूच्यते । मम च सौदामिन्याश्चास्मत्सौदामिनीसमक्षमिति व्याख्यानमनुपपन्नम् । स च देवदत्तश्च प्रथमोऽङ्कः । तिज्ञा अवश्यमावाभ्यामपत्यसंबन्धः कर्तव्य इति । तदिदानी, विद- भराजस्य मन्त्रिणा सता देवरातेन माधवं पुत्रमान्वीक्षिकीश्रवणाय कुण्डिनपुरादिमां पद्मावती प्रहिण्वता सुविहितम् । अपत्यसंबन्धविधिप्रतिज्ञा प्रियस्य नीता सुहृदः स्मृतिं च । अलोकसामान्यगुणस्तनूजः प्ररोचनार्थ प्रकटीकृतश्च ॥ १३ ॥ अवलोकिता-किंति मालदिं अमच्चो माहवस्स अप्पणा ण प्पडिवादेइ । जेण चोरिअमिधाहे भअवदीं तुवरावेदि । कामन्दकी- तां याचते नरपतेर्नर्मसुहन्नन्दनो नृपमुखेन । तत्साक्षात्प्रतिषेधः कोपाय शिवस्त्वयमुपायः ॥ १४ ॥ १. किमिति मालतीममात्यो माधवस्यात्मना न प्रतिपादयति । येन चौर्यविवाहे भगवतीं त्वरयति । तावितिवत् 'त्यदादीनि सर्वैर्नित्यम्' इत्येकशेषप्रसङ्गात् । द्विपर्यन्तादीनामेवत्यदादि- त्वमिति तु त्यदाद्यत्वमात्रनिरासार्थम् । तदिदानीमिति । तत्प्रतिज्ञातम् । मन्त्रि- गेतिपदं बहुप्रयोजनोद्देशेन पुत्रमत्र प्रेषितवानिति तस्य बुद्धिकौशलं प्रकटयितुम् । आन्वीक्षिकी न्यायशास्त्रम् । नीतिशास्त्रस्यापि न्यायमूलकलात्तदन्तर्गतिः । सुविहितं साधु संपादितम् । सुविधाने युक्तिमाह-अपत्येति। पूर्वमेव संबन्धस्य प्रतिज्ञात- खात्खयमेव भूरिवसुः सुतां माधवाय दास्यतीति यदि तमत्र देवरातो न प्रेषयेत्तदा स्मारकाभावात्कालविप्रकर्षाच्च भूरिवसुः प्रतिज्ञा विस्मरेदपि । तदनेन पुत्रप्रेषणेन सुहृदः प्रतिज्ञा स्मृतिविषयं प्रापिता । यदि वा कदाचिददृष्टवशात्स्मरनपि वरगुणा- परिज्ञानादतिलोकलावण्यशालिनी सुतां दातुं संशयीत, तदपि निराकृतम् । यतः प्ररोचनार्थ संबन्धेच्छोत्पादनार्थ यूनोरन्योन्यानुरागजननार्थ चानितरसाधारणगु- णस्तनूजःप्रकटीकृतश्चेति युक्तिद्वयात्प्रतिज्ञातं सुतप्रेषणेन सुविहितमित्यर्थः ॥ १३ ॥ अवलोकिता-किमिति मालतीममात्यो माधवस्यात्मना न प्रतिपादयति । येन चौर्यविवाहे भगवतीं खरयति । माधवस्येति चतुर्थ्यर्थे षष्ठी ॥ खयमप्रदाने निमित्तमाह-कामन्दकी । तामिति । नरपतेर्नर्मसुहृत्क्रीडासचिवो नन्दनस्तां मालतीं नृपमुखेन याचते । नन्दनाय प्रयच्छेति राज्ञा याचयतीत्यर्थः । राज- गुणेन याचते न तु श्लाध्यवरगुणेनेति भावः । तस्या नरपतिप्रार्थनायाः साक्षा- न्मुखतो न प्रयच्छामीत्येव निषेधो राज्ञः कोपाय स्यात् । अयं तु चौर्यविवाहरूप उपायः शिवः शोभनः। अभिमतसुहृत्संबन्धनृपद्वेषलक्षणेष्टानिष्टप्राप्तिपरिहारहेतु- १४ मालतीमाधवे अवलोकिता-अंचरिअं अच्चरिअं । ण क्खु अमच्चो माहवस्स णामं वि जाणादित्ति णिरवेक्खदा लक्खिअदि । कामन्दकी-वत्से, संवरणं तत् । विशेषतस्तु बालत्वात्तयोर्विवृतभावयोः । तेन माधवमालत्योः कार्यः खमतिनिहवः ॥ १५॥ अपि च- अनुरागप्रवादस्तु वत्सयोः सार्वलौकिकः । श्रेयो ह्यस्माकमेवं हि प्रता? राजनन्दनौ ॥ १६ ॥ १. आश्चर्यमाश्चर्यम् । न खल्वमात्यो माधवस्य नामापि जानातीति नि- रपेक्षता लक्ष्यते । खात् ॥१४॥ अवलोकिता-आश्चर्यमाश्चर्यम्।न खल्वमात्यो माधवस्य नामापि जानातीति माधवे निरपेक्षता लक्ष्यते । कथं तस्मै सुतां प्रदित्सुस्तं माधवमप्यजा- नान इव तस्मिन्नैःस्पृह्यमाचरतीत्यर्थः ॥कामन्दकी-संवरणं तत्, राजभयेना- कारगोपनं तत् । अज्ञाननटनमित्यर्थः । इतोऽप्यज्ञानं नटनीयमित्याह-विशेषत- स्त्विति । बाल्यानन्तरभाविलाद्भूयसा तद्धर्मानुवृत्तेश्च । बाल्यमिह प्रथमयौवन. मुच्यते। तेन युक्तायुक्तविचारविधुरे, आकारगोपनानभिज्ञे, मदना कवशंवदे, गुरु- जनमुल्लङ्घयापि मनोरथं संपादयितुमुधुजाने, प्रथमयौवने वर्तमानवाद्विवृतभावयोः प्रकटीभूतान्योन्यानुरागकुण्ठीभावपरिहारार्थ विशेषतः खमतेस्तदन्योन्यानुरागवि- षयाया निहवः कार्यः प्रच्छादनं कर्तव्यम् । मालत्यपि माधवानुरक्तां मां तातो न जानातीति यथा मन्यते, माधवोऽपि खसुतानुरक्तं माममात्यो न वेत्तीति यथा प्रत्येति, तथा तदज्ञानं नाटयितव्यम् । तथा सति, अकुण्ठितोत्साहयोस्तयोः स्वत एवाभिमतसंघटनं सिध्येत् । अन्यथा गुरुजनेन विदितमस्मच्चापलपिति लज्जया तदुद्योगभङ्गादभिलषितः कृतकपरिणयो न निष्पद्यतेति भावः । अत्र नायकयोर- न्योन्यानुरागस्य बीजस्योपन्यासादुपक्षेपो नाम मुखसंधेरङ्गमुकं भवति । यथा- 'बीजन्यास उपक्षेपः' इति ॥१५॥ अनुरागेति । अमात्यो माधवस्य नामापि न जानातीत्येतत्संवरणमात्रमिति किं वक्तव्यम् । यतः वत्सयोरुभयोरपि, कामन्दकी प्रति प्रियसुहृदपत्यवाद्वत्सयोरिति निर्देशः । अनुरागप्रवादः सार्वलौकिकः सर्वलो- कविदितः 'लोकसर्वलोकाभ्याम्-' इति ठक् । अनुशतिकादिवादुभयपदवृद्धिः । पामरा अपि जानन्ति किमुतामात्य इति भावः । अनेन बीजस्य बहुलीकरणात्परि- करो नाम संध्यङ्गमुक्तं भवति । यथा-'तद्वाहुल्यं परिकरः' इति । एवं च सत्य- स्माकं श्रेयो भवति । कुतः। हि यस्माद्राजनन्दनौ प्रतार्यों वश्चयितुं शक्यौ स्याताम् । यदि कृतकपरिणये वृत्ते राजा नन्दनो वा कुप्येत् कथमनया वराक्या भिक्षुकया- स्मद्विरोध आचरित इति, तदा न ममात्र दोषः तावन्योन्यानुरागवशेन खत एव संमिलितो। स चानुरागः सर्वलोकप्रसिद्ध इत्यस्माकं तद्वचनं सुलभमित्यर्थः । - प्रथमोऽङ्कः। १५ पश्य। बहिः सर्वाकारप्रवणरमणीयं व्यवहर- न्पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति । जनं विद्वानेकः सकलमतिसंधाय कपटै- स्तटस्थः खानान्घटयति च मौनं च भजते ॥ १७ ॥ अवलोकिता-मैए वि तुम्ह वअणादो तेण तेणोवण्णासेण भूरिवसुमन्दिरासण्णतरराअमग्गेण माहवो सञ्चारिअदि । कामन्दकी-कथितमेव नो मालतीधात्रेय्या लवङ्गिकया । भूयोभूयः सविधनगरीरथ्यया पर्यटन्तं दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था । १. मयापि युष्मद्वचनात्तेन तेनोपन्यासेन भूरिवसुमन्दिरासन्नतरराजमा- गैण माधवः संचार्यते । ॥ १६ ॥ एवमेव च विदग्धाः खयमुदासीनवद्वर्तमानातद्वार्तामप्यजानाना इव परैःप्रतीयमाना बुद्धिकौशलेनैव कार्याणि निर्वहन्तो दृश्यन्त इत्याह-बहिरिति । विद्वान्कार्यवेधकोऽनेकाप्तवर्गनिक्षिप्तकार्यभरोऽप्यन्यैरेकवत्प्रतीयमानः सन् बहिः खकीयवास्तवव्यापारप्रच्छादनेन लोकं वश्चयितुमेव केवलमारब्धे खाभिलषितरह- स्यकार्यादहिभूतेऽन्यस्मिन्मनःपूर्वकेऽपि व्यापारे सर्वस्याकारस्य वेषभाषाव्यवहर- णादेरनुभावस्य प्रावण्येन । भावप्रधानो निर्देशः । तदेकपरखेन रमणीयं लोकस्य चित्तरञ्जनं यथा भवति तथा व्यवहरन्नयमहर्निशमेतदेकपरो वर्तते । न ह्यसाव- न्यकार्यवार्तामपि जानातीति यथा रन्ध्रान्वेषिणामपि प्रतीतिस्तथा व्यवहरन्नित्यर्थः। परेषां शत्रूणामभ्यूहस्य रहस्योत्प्रेक्षणस्य समुचितानि स्थानानि छिद्राणि तनुतराण्य- प्यतिसूक्ष्माण्यपि स्थगयति पिधत्ते, एवं सकलसूक्ष्मदर्शिनमपि जनं कपटैर्वञ्च- नव्यापारैरविसंधाय विश्वासजननेन वञ्चयिखा खयं तटस्थ उदासीन इव प्रतिभा- समान एव स्वानन्घटयति संपादयति । मौनं च भजते । अभिमतकार्यविषये वाङ्मात्रमपि बहिर्न वदतीत्यर्थः । विदग्धजनखभावोक्तिः ॥ १७ ॥ इदानीमव- लोकिता खानुष्ठितकार्यांशमाह-अवलोकिता । मयेति । स च मयापि युष्माकं वचनातन तेनोपन्यासेन बहुविधानाशङ्कनीयव्याजोकिप्रयोगेण भूरिवसुम- न्दिरस्यासनतरराजमार्गेण माधवः संचार्यते। यथा मालतीनयनगोचरोऽसौ भवति तथा कृतमित्यर्थः । आसनलेन सर्वावयवसौष्ठवस्य सम्यग्विभाव्यता सूचिता । बहुशः संचरणेऽप्यनाशनीयत्वं राजमार्गपदेन सूचितम् ॥ बत्प्रयुक्तोपायस्य फल- मस्माभिरधिगतमित्याह-कामन्दकी। कथितमिति । धात्र्याः सुता धात्रेयी 'बीभ्यो ढक् । तेन तस्याः सह स्तन्यपानसहपांमुक्रीडादिनातिविस्रम्भस्थानखात्स- वमपि तन्मनोगतं वेत्तीति सूचितम् । किमिति कथितमत आह-भूय इति । ३माल.

१६ मालतीमाधवे साक्षात्कामं नवमिव रतिर्मालती माधवं य- वाढोत्कण्ठा लुलितललितैरङ्गकैताम्यतीति.॥ १८ ॥ अवलोकिता-बाढम् । तदो ताए उव्वेअविणोअणं माहवपडि- च्छन्दअं अभिलिहिअं लवनिआए मन्दारिआहत्थे अज णिक्खित्वं दाव। कामन्दकी-(विचिन्त्य ।) सुविहितं लवङ्गिकया । माधवानुचरः कलहंसो नाम विहारदासी मन्दारिकां कामयते । तदनेन तीर्थेन तत्प्रतिच्छन्दकमुपोद्धाताय माधवान्तिकमुपेयादित्यभिप्रायः । १. बाढम् । ततस्तयोद्वेगविनोदनं माधवप्रतिच्छन्दकमभिलिखितं लव- ङ्गिकया मन्दारिकाहस्तेऽद्य निक्षिप्तं तावत् । खमन्दिरासनपुरवीथ्यां बहुशो गतागतानि कुर्वाणं माधवं क्रीडासौधशिखरगोपा. नसीसंनिहिततुङ्गगवाक्षमार्गस्थिता मालती प्रत्यक्षं नूतनं दाहानन्तरोत्पलं कामं रतिरिव नूतनोत्पना सतीलेन तस्मिन्नेव स्वभर्तरि बद्धानुरागा दृष्ट्वा साभिलाषं पुन:- पुनर्विलोक्य गाढोत्कण्ठा तत्तदनुभावव्यज्यमानप्रवृद्धरणरणिकालुलितलुलितैर्मदन. संतापेनात्यन्तकलुषितैः । कामावस्थानिमित्तकमनीयवर्णान्तरशालिभिजकैरिति यावत् । ताम्यति म्लायतीति कथितमियन्वयः । अत्रोत्कण्ठाखरूपं तदनुभावाच भावप्रकाशिकायाम्-'सर्वेन्द्रियसुखाखादो यत्रास्त्रीति मनः स्त्रियः (१) । तत्प्रा. प्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः॥अन्तःसंभोगसंकल्पस्तत्तदाशावलोकनम् । अङ्गग्लानिर्मनोरतिर्मनोरथविचिन्तनम् ॥अधिजानुभुजालम्बिकपोलतलमासनम्। प्रसन्नमुखरागच खेदोष्मा गद्गदा च वाक् ॥ उत्कण्ठानुभवा भावाः कथ्यन्ते भाव- कोविदः ॥' इति । अत्र मालत्या माधवविषयोऽभिलाषः प्रथमावस्थति मन्तव्यम् । यथा-'अभिलाषमनःसङ्गौ संकल्पो गुणनुतिः क्रियाद्वेषः । तापो मानत्यागोन्मादी मूर्छा मृतिर्दशावस्थाः ॥' अत्र च 'अभिलाषस्पृहा रम्ये दृष्टे चालम्बने स्मृते । औत्सुक्यखेदरोमाञ्चहर्ष विस्मयसाध्वसैः॥ चापलस्तम्भलज्जाद्यैरनुभावैश्च भाव्यते ॥' इति ॥१८॥ अवलोकिता-बाढम् । यल्लवङ्गिकया कथितं तदृढमित्यर्थः । दृढले युक्त्यन्तरमाह-ततस्तया मालत्योद्वेगविनोदनं माधवप्रतिच्छन्दकं तत्सदृशी प्रति- मामिलिखितं यत्प्रतिच्छन्दकं लवकिया मन्दारिकाहत्तेऽद्य निक्षिप्तं तावत्।क्रमेण माधवहस्तं प्राप्स्यतीति तावच्छब्दार्थः ॥ कामन्दकी। विचिन्त्येति । मन्दा- रिकाहस्ते चित्रफलकनिधानस्य तात्पर्य विचार्य तद्विवृणोतीति शेषः।सुविहितमि. त्यादि । अनुचरश्चेटः। विहारदासी बौद्धालयपरिचारिकां तां मन्दारिकाम् । तीर्थे- नावतरणमार्गेण । उपोद्घाताय प्रकृतकार्यसिद्धिहेतुभूतायार्थाय । स चार्थों मयीयम- नुरकेति माधवस्य प्रत्ययः। ससेव तस्मिंस्तस्य प्रकृतकार्ये प्रवृत्तिसिद्धरित्यभिप्रायः।

प्रथमोऽङ्कः। १७ अवलोकिता-माहवो वि कोऊहलं उप्पादिअ मए पउत्तम- अणमहसवं मअणुजाणं पहादे अणुप्पेसिदो। तत्थ किल मालदी गमिस्सदि । तदो अण्णोण्णदंसणं होदित्ति । कामन्दकी-साधु वत्से, साधु । अनेन मत्प्रियाभियोगेन स्मारयसि मम पूर्वशिष्यां सौदामिनीम् । अवलोकिता-भअवदि, सा दाणिं सोदामिणी समासादिअ- अचरिअमन्तसिद्धिप्पहावा सिरिपबदे कावालिअबदं धारेदि । कामन्दकी-कुतः पुनरियं वार्ता । अवलोकिता-अस्थि एत्थ णअरीए महामसाणप्पदेसे कराला नाम चामुण्डा। कामन्दकी-अस्ति । या किल विविधजीवोपहारप्रियेति साह- सिकानां प्रवादः। अवलोकिता-तस्सि क्खु सिरिपवदादो आअदस्स इदो १. माधवोऽपि कौतूहलमुत्पाद्य मया प्रवृत्तमदनमहोत्सवं मदनोद्यानं प्रभातेऽनुप्रेषितः । तत्र किल मालती गमिष्यति । ततोऽन्योन्यदर्शनं भवि- ध्यतीति । २. भगवति, सेदानीं सौदामिनी समासादिताश्चर्यमन्त्रसिद्धिप्रभावा श्रीप- र्वते कापालिकव्रतं धारयति । ३. अस्त्यत्र नगर्यो महाश्मशानप्रदेशे कराला नाम चामुण्डा । ४. तसिन्खलु श्रीपर्वतादागतस्येतो नातिदूरश्मशानवासिनः साधकस्य इदं तात्पर्य । मन्दारिकाहस्ते चित्रफलकनिधानस्येत्यर्थः॥ अवलोकिता । खानु- ष्ठितं कार्यान्तरमाह-अत्र माधवोऽपि कौतूहलमुत्पाद्य मया प्रवृत्तमदनमहोत्सवं मदनोद्यानं प्रभातेऽनुप्रेषितः । किमर्थम् । तत्र किल मालती गमिष्यति । ततोऽन्यो- न्यदर्शनं भविष्यतीति हेतोः ॥ कामन्दकी । साध्वित्यादि । मत्प्रिये मद. भिलषितसंपादनेऽभियोगोऽत्यन्ताभिनिवेशतेन ॥ अवलोकिता-भगवति, सेदानी सौदामिनी समासादिताश्चर्यमन्त्रसिद्धिप्रभावा श्रीपर्वते कापालिकव्रतं धार- यति ॥ कामन्दकी। कुत इति । कस्मादुपलब्धेत्यर्थः ॥ अवलोकिता- अस्त्यत्र नगर्या महाश्मशानप्रदेशे कराला नाम चामुण्डा ॥ कामन्दकी । अस्तीति । अस्ति । प्रसिद्धव सा श्रूयत इत्यर्थः । विविधानां मनुष्यपशुप्रभृतीनां जीवानामुपहारे प्रिया । अनेन पश्चमाङ्के मालत्युपहारप्रदर्शनं सूचितम् । साहसि. कानां साहसशीलानाम् ॥ अवलोकिता तस्मिन्खलु श्रीपर्वतादागतस्येतो - ।

१८ मालतीमाधवे णादिदूरमसाणवासिणो साधअस्स मुण्डधारिणो अघोरघण्टणामहेअस्स अन्देवासिणी महाप्पहावा कवालकुण्डला णाम अणुसंझं आअच्छइ । तदो इअं पउत्ति । कामन्दकी-सर्व हि सौदामिन्यां संभाव्यते । अवलोकिता-अलं दाव एदिणा । भअवदि, सो वि पासअरो माहवस्स बालमित्तं मअरन्दो णन्दणस्स भइणि मदअन्तिआं जइ समुबहइ तं वि माहवस्स दुइ पिसं होदि । कामन्दकी-नियुक्तैव तत्र मया प्रियसखी बुद्धरक्षिता । अवलोकिता-सुविहिदं भअवदीए । कामन्दकी-तदुत्तिष्ठ। माधवप्रवृत्तिमुपलभ्य मालतीमेव पश्यावः। (इत्युत्तिष्ठतः।) कामन्दकी-(विचिन्त्य ।) अत्युदारप्रकृतिर्मालती नाम । निपुणं निसृष्टार्थदूतीकल्पस्तन्त्रयितव्यः । सर्वथा मुण्डधारिणोऽघोरघण्टनामधेयस्यान्तेवासिनी महाप्रभावा कपालकुण्डला नामा- नुसंध्यमागच्छति । तत इयं प्रवृत्तिः । १. अलं तावदेतेन । भगवति, सोऽपि पार्श्वचरो माधवस्य बालमित्रं मकरन्दो नन्दनस्य भगिनी मदयन्तिकां यदि समुद्वहति तदपि माधवस्य द्वितीयं प्रियं भवति । २. सुविहितं भगवत्या । नातिदूरश्मशानवासिनः साधकस्य मन्त्रसाधनोद्यतस्य मुण्डधारिणो नरशिरःकपा- लधारिणोऽघोरघण्टनामधेयस्यान्तेवासिनी महाप्रभावा कपालकुण्डला नामानुसं- ध्यमागच्छति । तत इयं प्रवृत्तिर्वार्ता । मया श्रुतेति शेषः ॥कामन्दकी। सर्वमिति । संभाव्यत इति । अनेनोत्तरत्र सौदामिनीसाध्यान्यद्भुतानि सूचि- तानि ॥ अवलोकिता-अलं तावदेतेनालं तावदनुपयुक्तेनाघोरघण्टवृत्तान्त- कथनेनेत्यर्थः । भगवति, सोऽपि पार्श्वचरो माधवस्य बालमित्रं मकरन्दो नन्द. नस्य भगिनी मदयन्तिकां यदि समुद्वहति तदपि माधवस्य द्वितीयं प्रियं भवति । अनेनोपनायकस्य मकरन्दस्य गर्भसंधौ पताकावृत्तान्तः सूचितो भवति ॥ काम- न्दकी। नियुक्तेति । तदपि मया पूर्वमेवानुसंहितमित्यर्थः । अवलोकिता- सुविहितं भगवत्या ॥ कामन्दकी । तदिति । माधवप्रवृत्तिमुपलभ्य किं मद. नोद्याने तयोरन्योन्यदर्शनमभून वेति वार्ता ज्ञाखेत्यर्थः । मालतीमेव पश्यावः । कुलकुमारीजनानुचिते ह्यस्मदुपदिष्टे खयमात्मप्रदानसाहसे यथासौ नाशङ्कते तथा नैवातिपरिचयेन वशीकर्तव्येति भावः ॥ कामन्दकी। विचिन्त्येति । कीदृशं ।

प्रथमोऽङ्कः । १९ शरज्योत्स्ना कान्तं कुमुदमिव तं नन्दयतु सा सुजातं कल्याणी भवतु कृतकृत्यः स च युवा । गरीयानन्योन्यप्रगुणगुणनिर्माणनिपुणो विधातुर्व्यापारः फलतु च मनोज्ञश्च भवतु ॥ १९ ॥ (इति निष्क्रान्ते ।) मिश्रविष्कम्भः। - (ततः प्रविशति गृहीतचित्रफलकोपकरणः कलहंसः।) कलहंस:-कहिं दाणिं तुलिअमअरद्धआवलेवरूवविब्ममा- १. केदानीं तुलितमकरध्वजावलेपरूपविभ्रमाक्षिप्तमालतीहृदयमाहात्म्य दूत्यमाचरणीयमिति । विमृश्य । निश्चिनोतीति शेषः । अत्युदारातिगम्भीरा प्रकृति- यस्याः सा । तथा गाम्भीर्य च-'यस्य प्रभावादाकारा हर्षकोधभयादिषु । भावेषु नोपलक्ष्यन्ते तद्गाम्भीर्य प्रकीर्तितम् ॥' इत्युक्तरूपम् । तेन मालत्यतिगम्भीरप्र- कृतित्वाचरमावस्थायामपि खाभिप्रायं खयं न निवेदयतीति हेतोनिपुणं यथा स्यात्तथा निसृष्टार्थी या दूती तस्याः कल्पो या व्यापारपद्धतितन्त्रयितव्यः प्रधा- नीकर्तव्यः । प्राधान्येनाश्रयणीय इत्यर्थः । निसृष्टो निक्षिप्तः 'त्वमेव वेत्सि सर्व कृत्यम्' इति समर्पितोऽर्थः कार्यभारो यस्यामिति व्युत्पत्त्या खतन्त्रकार्यनिर्वाहि- का दूती कथ्यते । तदुक्तम्-'रूढानुरागयोदूंनोरभिलाषं मनोगतम् । ज्ञाला ताभ्यामनादिष्टा तदपेक्षितसिद्धये ॥ या प्रवर्तेत सा प्रोका निसृष्टार्थेति कोविदैः। निसृष्टः कार्यभारोऽस्यामिति व्युत्पत्तिसंभवात् ॥' इति । अवाच्यकौटिल्यो यत्कृताः संध्यादयः प्रमाणं स निसृष्टार्थो दूतः। यथा भगवान्पाण्डवानामिति । इदानी खव्या. पारसाफल्यमाशास्ते-सर्वथेति । शरज्योत्स्लेति । कल्याणी मनोहराकारानु. गुणशीलसंपन्ना सुजातं सुजन्मानं कान्तं स्वप्राणनायकं शारदचन्द्रिका कुमुदमिव समानुरागसंघटने दृष्टान्तः । नन्दयतु निरतिशयानन्दसमृद्धं करोतु । तेन स च युवा कृतपुण्यश्चरितार्थों भवतु । उभयोः समानुरागवेन स च तां नन्दयतु । सा च कृतकृत्या भवलित्ययमर्थोऽर्थाल्लभ्यते । तं चकारो द्योतयति । एवं च सति गरीयान्गुरुतरोऽन्योन्यस्य परस्परस्य प्रगुणा अनुगुणा ये गुणास्तेषां निर्माणे निपुणो विधातुर्व्यापारः फलतु तत्संघटनलक्षणेनैव फलेन फलवान्भवतु । मनोज्ञः सर्वजनश्लाघ्यो भवतु ताहगन्योन्यानुरूपनिर्माणस्य तयोः संघटनमेव फलम् । अन्यथा व्यर्थमेव स्यात् । यदाह कालिदासः-'परस्परेण स्पृहणीयशोभम्' इत्यादिश्लोकेन । अत्रोपमोपस्तुत्यमन्योन्यमलंकारः । अत्र परस्परानुरागस्य बीज- स्थानुरूपेण खतेर्विलोभनं नामाङ्गम् । यथा-'तद्गुणाख्या विलोभनम् इति ॥१९॥ म्मश्रविष्कम्भोऽयम् । नीचमध्यमपात्रप्रयोजितत्वादिति ॥ 'माधवानुचरः कलहंसो नाम' इति वाक्ये सूचितमुपदर्शयन्नमारभते-तत इत्यादि । अलक्षणं २. मालतीमाथवे क्खित्तमालदीहिअअमाहप्पं णाहं माहवं पेक्खिस्सं । (परिक्रम्य ।) प- रिस्सन्तो म्हि । जाव इव उज्जाणे मुहुत्तं विस्समिअ मअरन्दसहमरं णाहं माहवं पेक्खिस्सं । (प्रविश्य उपविशति ।) (ततः प्रविशति मकरन्दः।) मकरन्दः-कथितमवलोकितया मदनोद्यानं गतो माधव इति । भवतु । गच्छामि । (परिक्रम्यावलोक्य च ।) दिया वयस्य इत एवाभिवर्तते । (निरूप्य ।) अस्य तु गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं श्वसितमधिकं किं न्वेतत्स्याकिमन्यदतोऽथवा । नाथं माधवं पश्यामि । परिश्रान्तोऽस्मि । यावदिहोद्याने मुहूर्ते विश्रम्य मकरन्दसहचरं नाथं माधवं प्रेक्षिष्ये । यथा-'द्वधा वस्तुविभागः स्यात्प्रकाश्यः सूच्य इत्यपि । प्रकाश्यो मधुरोदात्तरस- भावनिरन्तरः ॥ अकैः प्रकाशयेदेनमकलक्ष्म प्रवक्ष्यते । प्रत्यक्षनेतृचरितो बीज- बिन्दुपुरस्कृतः ॥ प्रसतार्थोपसंहारी पताकास्थानकान्वितः । अङ्को नानाप्रकारा- थसंविधानरसाश्रयः ॥ एकाहे वैकरात्रे वा चरितं तत्र वर्णयेत् । प्रयुकः पञ्चषैः पात्रतेषामन्ते च निर्गमः॥' इति । गृहीतं चित्रफलकमेवोपकरणमुपायनलेन मा. धवसंदर्शनसाधनं येन सः । वेदानीं तुलितमकरध्वजावलेपरूपविभ्रमाक्षिप्तमाल- तीहृदयमाहात्म्यं शिथिलीकृतमन्मथगणे यो रूपविभ्रमः सौन्दर्यसंपविलासस्तेना- क्षिप्तं निरस्त्रं मालतीहृदयस्य माहात्म्यं गाम्भीर्य येन तम् । मालतीलिखितमाधव- प्रतिच्छन्दकदर्शनेन मालती मन्मथेन माधवं लक्ष्यीकृत्य सुदूरयाकृष्टा चलितधैर्या जातेत्यनेन ज्ञातेति मन्तव्यम् । नाथं माधवं पश्यामि । खामिनो माधवस्यात्मनि मालत्यनुराग संभावयतस्तत्प्रत्ययहेतुलनात्यन्तोपादेयचित्रफलकानयनान्महत्वा- मिकार्यमनुष्ठितमिति केदानीमियौत्सुक्यगर्भा ससंभ्रमोक्तिः। परिक्रम्येत्यादि । परिश्रान्तोऽस्मि । यावदिहोद्याने वने मुहूर्त विश्रम्य मकरन्दसहचरं नाथं माधवं प्रेक्षिष्ये । 'मकरन्दनन्दनम्' इति पाठे प्राणमित्रतया तस्यानन्दजनकमित्यर्थः । क्लि- टवात्सुतमिति व्याख्यानमुपेक्षितम् । अनेनैव मकरन्दप्रवेशः सूचितः॥ तदाह- तत इत्यादि ॥ मदनोद्यानं कामदेवायतनोपलक्षितमुद्यानमित्यनेन भृक्षारोद्दीप- नविभावत्वमुकम् । दिष्टयेति तृतीयान्तप्रतिरूपकमव्ययं भाग्यवाचि । अभिवर्तते। अभिमुखमागच्छतीत्यर्थः । अन्यमनस्कतया न मां पश्यतीति भावः। निरूप्य निर्व- ये । वदतीति शेषः। अस्य त्विति श्लोकोपस्कारोगमनमित्यादिनान्वीयते।गमन- मिति । गमनमलसं लक्ष्याभावादनिच्छापूर्वकमेव कथंचिदवलम्बितम् । अनेन 'विप्रलम्भस्यालस्याख्यो व्यभिचारी सूचितः । यथा-'क्रियाविद्वेष भालस्यम्' इति । तथा दृष्टिः शून्या चिन्तापहृतेन मनसाधिष्ठिता। तत एव खविषयपरिच्छे.

प्रथमोऽ: २१ अमति भुवने कन्दर्पाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥२०॥ (ततः प्रविशति यथानिर्दिष्टरूपो माधवः ।) माधव: तामिन्दुसुन्दरमुखीं सुचिरं विभाव्य चेतः कथंकथमपि व्यपवर्तते मे । दरूपफलशून्यलेन शून्या च।शून्या यथा-'तारासमपुटा स्निग्धा निष्कम्पा शून्य- दर्शना । बाह्यार्थप्राहिणी श्यामा शून्यदृष्टिस्तु चिन्तनात् ॥' इति । अनेन चिन्ता- ख्यो व्यभिचारी व्यज्यते । 'प्रयत्नपूर्विकार्थेषु स्मृतिश्चिन्तेति कथ्यते' इति । तथा शरीरमसौष्ठवं बलहीनम् । खव्यापारासमर्थकरचरणादिकमित्यर्थः । अनेन ग्लान्या- ख्यो व्यभिचारी व्यज्यते । यथा-वाड्मनःकायकर्माणि ग्लानिर्गमयतीति यत्' इति । श्वसितमधिकं पूर्वापेक्षया प्रबलम् । अनेन श्रमविषादमोहादयो व्यज्यन्ते । निःश्वासस्थानुभावस्यानेकभावसाधारणलात् । एवं चानुस्मृतिरूपा तृतीयावस्था दर्शिता । यथा-'मुहुर्मुहुनिःश्वसिति मनोरथविचिन्तनैः । प्रद्वेषादन्यकार्याणाम- नुस्मृतिरुदाहृता ॥' इति । किं न्वेतत्स्यात् । एषां चिन्तालस्यादीनां निमित्तं किं नु भवेदिति मकरन्दस्य वितर्कः । विमृश्य तनिमित्तं निर्धारयति-किमन्य- दिति । अथवा किमत्र वितण मदनविकारव्यतिरिक्तं किमेतेषां निमित्तं संभा- व्यते । न किंचिदपीत्यर्थः । तदेव निमित्तमाह-भ्रमतीति । भुवने कंदर्पाशा भ्रमति अप्रतिहता विजृम्भते । यौवनं च प्रथमं द्वितीयं वा । इतरयोरत्रायोग्य- खात् । विकारि विकारजननशीलम् । यौवनं यथा-'रतिव्यायामसहनो मत्तेम- स्येव मत्तता । विद्यते युवभावो यस्तद्यौवनमुदाहृतम् ॥' इति । 'यौवनं तु चतुर्धा स्यात्' इत्यादिना भावप्रकाशे यौवनविशेषलक्षणं प्रपञ्चितं तत एव ज्ञातव्यम् । ललिताः सुन्दरा नयनसुखकरा मधुरा मनोहराश्च ते ते भावा इन्दूद्यानादय उद्दी- पनविभावाः खभावधीरस्यापि धीरतां धैर्य क्षिपन्यपसारयन्ति । धैर्य यथा- 'चापलेनानुपहता सर्वार्थेष्वविकत्थना । खाभाविकी चित्तवृत्तिधैर्यमित्यभिधी- यते ॥' इति । नूनमय मदनोद्याने मदनोत्सवदर्शनायागतोऽसौ कस्यांचिदासक- चित्तो मदनावस्थयैवाभिभूतो वर्तत इत्यर्थः । ससंदेहो निश्चयान्तःसमुच्चयालं- कारः ॥२०॥ दिष्टेत्यादिना माधवप्रवेशः सूचितः। तदाह-तत इत्यादिना। यथानिर्दिष्टः गमनमित्यादिना निरूपितावस्थः ॥ तामित्यादि । मे चेतः कर्तृ । इन्दुवन्मनोज्ञमुखीं तो पूर्वक्षणे नयनातिथीकृता सुचिरं बहुकालं विभाव्य ऐकाग्येण विषयान्तरपरित्यागेन भावनाविषयं कृता । ध्यावेत्यर्थः । कथंकथमपि केनकेनापि प्रकारेण कदाचिदप्यननुभूतचरेण । ईगसाविति निरूपयितुमशक्ये- नावस्थामेदेनेत्यर्थः । व्यपवर्तते वैकृतादन्यथैव वर्तते । विकारमुपयातीत्यर्थः । किं कृलेत्यपेक्षायां तामेवापथवृत्तिमाह-अकाण्डेऽनवसरे । प्रथमदर्शनसमय ।

२२ मालतीमाधवे लज्जां विजित्य विनयं विनिवार्य धैर्य- मुन्मथ्य मन्थरविवेकमकाण्ड एव ॥ २१ ॥ आश्चर्यम् । यद्विस्मयस्तिमितमस्तमितान्यभाव- मानन्दमन्दममृतप्लवनादिवासीत् । तत्संनिधौ तदधुना हृदयं मदीय- मनारचुम्बितमिव व्यथमानमास्ते ॥ २२ ॥ मकरन्दः—(उपसृत्य ।) सखे माधव, इत इतः ललाटंतपस्तपति धर्मांशुः । तदस्मिन्नुद्याने मुहूर्तमुपविशावः । (उभौ परिकामतः ।) कलहंसः-कहं मअरन्दसहअरो इमं एव्व बालुजाणं अलं- करेदि माहवो । ता दंसिमि मअणवेअणाक्खिज्जमाणमालदी- १. कथं मकरन्दसहचर इदमेव बालोद्यानमलंकरोति माधवः । तदर्श- यामि मदनवेदनाखिद्यमानमालतीलोचनसुखावहमात्मनोऽस्य प्रतिच्छन्द- कम् । अथवा विश्रामसौख्यं तावदनुभवतु । एव । लज्जाम् । कथमार्यविगर्हिते परोपहसनीये कर्मणि प्रवृत्तोऽहमिति मनःसं- कोचनं लज्जा । यथा-'मनःसंकोचनं लज्जा ह्यनौचित्यप्रवर्तनात्' इति । तां विजित्य निरस्य विनयं विनीततां विनिवार्य । धैर्य धीरतामुन्मथ्य मथिला मन्थरो मन्दीभूतो विवेकः कृत्याकृत्यज्ञानं यथा स्यात्तथेति ॥ अत्र लज्जात्यागो विवेकमान्येन उन्मादश्चेति सप्तमाष्टमावस्थाद्वयमादावेव रागोत्कर्षप्रदर्शनार्थमुक्त- मिति द्रष्टव्यम् । मन्थरविवेकमिति चेतोविशेषणं वा ॥ २१॥ आश्चर्यम् । यद्विस्मयेति । यन्मदीयं मनस्तस्याः संनिधौ विस्मयेनामानुषलोकोचितापूर्वला- वण्यदर्शनजनितेन चित्तविकासेनाद्भुतरसस्थायिना रसतामापनेन स्तिमितं निष्प- न्दमस्तमितान्यभावं विगलितवेद्यान्तरममृतप्लवनादिव सुधार्णवनिमज्जनेनेवानन्देन निरतिशयसुखाविर्भावेन मन्दं तदाखादैकपरतया निरुद्धवृत्त्यन्तरमभूत् । तदेवे. दानीं तदसंनिधावङ्गारचुम्बितं प्रदीप्तेन्धनशकलसंस्पृष्टमिव । दग्धमिति वक्तव्ये मनोगतप्रेयसीदाहभिया चुम्बितमिति कोमलोक्तिः । व्यथमानं संतप्यमानमास्ते। तत्संनिधानासंनिधानयोः क्षणमात्रभेदेनातीव मनोवस्थावैलक्षण्यमाश्चर्यमित्यर्थः ॥ २२ ॥ मकरन्दोऽन्यमनस्कतयात्मानमपश्यन्तमपि खयमेव प्रज्ञापयन्नाकार- यति-मकरन्दः । सखे माधवेति । इत इतः । आगम्यतामिति शेषः । ललाटेत्यादि । ललाटंतपो नभोमध्यवर्तीत्यर्थः । 'असूर्यललाटयोईशितपोः' इति खच् । 'खित्यनव्ययस्य' इति मुमागमः ॥ कलहंसः कथं मकरन्दसह- चर इदमेव बालोद्यानमलंकरोति माधवः । तद्दर्शयाम्यस्य मदनवेदनाखिद्यमान- प्रथमोऽङ्कः । २३ लोअणसुहावहं अत्तणो से पडिच्छन्द। अहवा विस्सामसोक्खं दाव अणुहोदु। मकरन्दः तदस्यैव तावदुच्छ्रुसितकुसुमकेसरकषायशीतलामो- दवासितोद्यानस्य काञ्चनपादस्याधस्तादुपविशावः । (उभौ तथा कुरुतः।) मकरन्द:-वयस्य माधव, सकलनगराङ्गनाप्रवर्तितमहोत्सवा- भिरामकामदेवोद्यानयात्राप्रतिनिवृत्तमन्यादृशमिव भवन्तमवधारयामि । अपि त्वमवतीर्णोऽसि रतिरमणबाणगोचरताम् । (माधवः सलज्जमधोमुखस्तिष्ठति ।) मकरन्दः-(विहस्य ।) किमवनम्रमुग्धमुखपुण्डरीकः स्थितोऽसि । पश्य । अन्येषु जन्तुषु च यस्तमसावृतेषु विश्वस्य धातरि समः परमेश्वरेऽपि । सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा मा लज्जया तव कथंचिदपङतिर्भूत् ॥ २३ ॥ मालतीलोचनसुखावहम् ।चित्रस्य दर्शनमात्रफलकलात् ।आत्मनःप्रतिच्छन्दकम्। अथवा विश्रामसौख्यं तावदनुभवतु । पश्चाद्दर्शयिष्यामीति शेषः ॥ मकरन्दः- तदिति । विकसितकुसुमकिअल्कानां कषायशीतलो य आमोदो दूरविसमरो गन्धः । कषायत्तशिशिरखयो रसधर्मलेऽपि तादृशरसेनैकार्थसमवायादामोदधर्म- खोपचारः तेन सुरभीकृतोद्यानस्य काञ्चनपादपस्य चाम्पेयतरोश्छायायामुपवि. शावः ॥ सकलेत्यादि । अन्यादृशं विलक्षणावस्थम् । अपिःप्रश्न विहस्येति। खमनोगतज्ञानादवनतानने माधवे सत्यं मदनविकार एव मदुनीतो हेतुरेतद्वै- लक्षण्यस्येति खमतिसंवादाद्विहस्य खानुकूल्यप्रदर्शने लज्जा शिथिलयितुमाहेति शेषः । किमिति । मुग्धं सुन्दरम् । वदन्तःकरणनिर्विशेषे मयि किमाशङ्कया लज्जया वा । तावद्विस्रब्धं कथयेत्यर्थः । किं च न खलु बदुपज्ञ एवायं स्मरा- भिषणः सुरासुरनरसाधारणलात् । तेनानन्यकृतपूर्वात्यन्तानुचितवन्तदपह्नवो न्याय्य इत्याह-अन्येष्विति । यो विश्वस्य धातरि जगत्स्रष्टरि सुरज्येष्ठे खदुहि- तृकामुके परमेश्वरे स्मरशासनेऽपि वामदेहार्धनिवेशितप्रेयसीके तमसावृतेष्वज्ञानो. पहतविवेकेष्वन्येषु जन्तुषु । प्राणिमात्र इत्यर्थः । समोऽवैषम्येणाकुण्ठितव्या- पारः। स तादृशोऽयं खन्मनोगतश्चित्तजन्मा प्रसिद्धविभवः प्रथितप्रभावः खलु ब्रह्मादीनपि खवशीकरोति । का कथान्येष्विति भावः । ततो लज्जया तव मनोगतस्य विकारहेतोरपह्नुतिरपह्नवः । चित्ते नियमन मिति यावत् । मा भूत् । - २४ मालतीमाधवे माधव:-वयस्य, किं न कथयामि । श्रूयताम् । गतोऽहमव- लोकिताजनितकौतुकः कामदेवायतनम् । इतस्ततः परिक्रम्य परिश्र- मादुल्लसितमधुरमदिरामोदपरिमलाकृष्टसकलमिलदलिपटलसंकुलाकुलि- तमुकुलावलीमनोहराभरणस्य रमणीयाङ्गणभुवो बालबकुलस्यालवा- लपरिसरे स्थितः । तस्य च यहच्छया निरन्तरनिपतितानि विकसि- तानि कुसुमान्यादाय विदग्धरचनामनोहरां सजमभिनिर्मातुमारब्ध- वान् । अनन्तरं च देवस्य संचारिणी मकरकेतनस्य जगद्विजयवैज- यन्तिका निर्गत्य गर्भभवनादुज्ज्वलविदग्धमुग्धबालनेपथ्यविरचनावि- भावितकुमारीभावा महानुभावप्रकृतिरत्युदारपरिजना कापि तत एवागतवती । लजां विसृज्य कथयेत्यर्थः ॥ २३ ॥ माधवः-वयस्य, किं न कथयामि । सर्व- विसम्भास्पदस्य तवाप्यपहवः किमित्याशयः । यदाहुः–'समानुरागव्यसनो रह- स्याख्यैकभाजनम् । विपत्प्रतिक्रियादक्षो वयस्यः परिकीर्तितः ॥' इति । अवलोकि- तया जनितं कौतुकं 'अव खलु महानुत्सवो मदनोद्याने नागरिकाणाम् , तत्त्वयापि तदर्शनार्थ गन्तव्यम्' इत्येवमुत्पादितो गमनोत्साहो यस्य सोऽहं कामदेवायतनमु. त्सवस्थानं गतोऽभूवम् । तत्र चेतखतः परिक्रम्य रम्यवस्तुविलोकनलोभात्परि- श्रमात्परिक्रमणसंजातादुल्लसितो विसर्पन् मधुरो मनोहरो मदिरामोदसमानो यः परिमलः केसरकुसुमस्येव जातिप्रयुक्तः तेनाकृष्टं यत्सकलानां मिलतामलीनां पटलं तेन संकुला व्याप्ताकुलिता च या मुकुलश्रेणिः सैव मनोहरमाभरणं यस्य सः । तथा च रमणीयेऽङ्गणे कामदेवायतनपुरोभागे भवति तथा । तेन सम्यगुत्सवावलोकनयोग्यदेशवमुक्तम् । बालबकुलस्य । बालवादुपविश्य करा- पचयकुसुमस्येत्यर्थः । आलवालपरिसरे प्रतिदिनजलसेकशीतले स्थिताः । निरन्तरनिपतितानि सान्द्रनिपतितानि । उपवेशनस्थल एव यावदपेक्षं लभ्यानि विकसितानि तस्य कुसुमानि यदृच्छया खेच्छयादाय विदग्धा मनोज्ञा या रचना प्रथना तया मनोहरां स्रजमभिनिर्मातुमारब्धवान् । अनन्तरमिति । संचारिणी संचरणशीला जगद्विजयवैजयन्तिका त्रिभुवन विजयलाञ्छनभूता पुर:- सरी पताका । तामेवानु मन्मथो जगजिगीषया निर्गतः । तस्य चाहमादि- शरव्यतामुपगतोऽस्मीत्याशयः । उज्वलं प्रकाशमानं विदग्धमग्राम्यं मुग्धं सुन्दरं बालोचितनेपथ्यं प्रसाधनं तस्य या विरचना तया विभावितः कुमारीभावः कन्यावं यस्याः । प्रथमयौवने वर्तमानखात् । वयसा पुनर्न ज्ञायते कुमारीय- मियाशयः । महानुभावप्रकृतिरतिगम्भीरखभावा । अत्युदारोऽतिदक्षिणः । 'उदारो दातृमहतोदक्षिणे चाभिधीयते' इति दर्शनात् । परिजनो यस्याः सा। तत एव यत्राहं स्थितस्तत्रैवेति सप्तम्यर्थे तसिः । सार्वविभक्तिकलात् । अथ तत्प्रथमतो प्रथमोऽः २५ सा रामणीयकनिधेरधिदेवता वा सौन्दर्यसारसमुदायनिकेतनं वा । तस्याः सखे नियतमिन्दुकलामृणाल- ज्योत्स्नादि कारणमभून्मदनश्च वेधाः ॥ २४ ॥ अथ प्रणयिनीभिरनुचरीभिः । कुसुमसंचयावचयलीलाभिलाषवती- मिरभ्यर्थ्यमाना तमेव बकुलपादपोद्देशमागतवती । तस्याश्च कस्मिंश्चि- दपि महाभागधेयजन्मनि बहुदिवसोपचीयमानमिव मन्मथव्यथावि- कारमुपलक्षितवानस्मि । यतः- परिमृदितमृणालीम्लानमकं प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु । लोचनपथगोचरं तस्याः खरूपमिदानीमपि प्रत्यक्षमिव विभाव्यमानं निर्वर्णयति- सेति । रमणीयस्य भावो रामणीयकम् । 'योपधाद्गुरूपोत्तमाद्' इति वुश् । आभि- रूप्यमिति यावत् । तस्य निधिनिक्षेपः शङ्खपद्मादिमान् । तस्याधिष्ठातृदेवता वा । सौन्दर्यस्य सर्वावयवसौष्ठवस्य निकेतनं मन्दिरं वा। सखे, तस्या निर्माणे कारणमु. पादानमिन्दादि । न तु भौतिकम् । मन्दश्च वेधाः। न तु साधारणो वेदाभ्यासजतः। यदाह-'अस्याः सर्गविधौ प्रजापतिरभूचन्द्रो नु कान्तिप्रदः' इत्यादि । अनेन नायिकागुणवर्णनेन तद्विषयो महानुरागोऽपि श्रेयानिति बीजगुणप्रशंसनाद्विलोभनं नाम मुखसंधेरङ्गमुक्तम् । यथा-'तद्गुणाख्या विलोभनम्' इति । गुणखरूपनिरूप- णाद्गुणस्तुतिरूपा चतुर्थ्यवस्था माधवस्य प्रदर्शिता । यथा-'रूपौदार्यगुणैलीला- चेष्टाहसितवीक्षितैः । दर्शनालापमाधुर्यैर्नास्त्यतस्तत्समा वधूः ॥' इति । 'यत्रेची शिवा वाणी भवेत्सव गुणस्तुतिः' इति । वितर्कश्च व्यभिचारी व्यज्यते । यथा- 'ऊहो वितर्क इत्युक्तः परार्थेषु यथामति' इति । संशयापहवयोः संसृष्टिः ॥ २४ ॥ अथेति । प्रणयिनीभिः प्रेमविषयाभिरनुचरीभिः परिसरवर्तिनीभिः । कुसुम- संचयस्यावचय एव लीला तस्यामभिलाषवतीभिरभ्यर्थ्यमाना खयमेव गन्तुका- मापि शालीनतया कुण्ठितेच्छा सती तदपनोदनाय मनोविनोदिनीभिः प्रार्थ्य- माना तमेव यत्राहं स्थितः । तस्याश्च कस्मिंश्चिदपि लोकोत्तरे । महाभागधेयाद. श्वमेधायपि तत्कर्मकलापं यदुत्पादने वराकप्रायं तादृशसुचरितविशेषाजन्म यस्य तस्मिन् । अन्यादृशस्य तदभिलाषपात्रतालक्षणत्रिभुवनसाम्राज्यसिंहासनाधिरो- हणसौभाग्यानहलात् । बहुदिवसोपचीयमानमतिचिरकालात्प्रवर्धमानं मन्मथा- जाता या व्यथा तज्जन्यं विकारमुपलक्षितवानस्मि । उन्नयने लिङ्गान्याह- परिमृदितेति । परिमृदितापचयेन म्लायमाना मृणाली बिसतन्तुरिव । 'जावे- रस्त्रीविषयादयोपधात्' इति डीप् । म्लानं ग्लानिमुपगतम् । कार्य नाम मदन- दशा सूचिता । क्रियासु नानपानादिकासु परिवारप्रार्थनाभिः परिजनस्य चाटुवा- - - २६ मालतीमाधवे कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी- मभिनवकरिदन्तच्छेदकान्तः कपोलः ॥ २५ ॥ सा मम दर्शनात्प्रभृत्यमृतवर्तिरिव चक्षुषोर्निरतिशयमानन्दमुत्पाद- यन्त्ययस्कान्तमणिशलाकेव लोहधातुमन्तःकरणमुपसंहृतवती । किं बहुना। संतापसंततिमहाव्यसनाय तस्या- मासक्तमेतदनपेक्षितहेतु चेतः । प्रायः शुभं च विदधात्यशुभं च जन्तोः सर्वकषा भगवती भवितव्यतैव ॥ २६ ॥ क्यपादप्रणामादिभिरनुनयैः कथमपि कृच्छ्रेण प्रवृत्तिः । न तु स्वारस्येन । क्रियाद्वेष. रूपारति म मन्मथावस्था दर्शिता । व्याधिवशादप्येतत्संभवतीत्यन्यदसाधारणं लिङ्गमाह-कलयतीति । अभिनवेति । सद्यःकृतद्विरदरदनच्छेदकमनीयः कपो- लव निष्कलङ्कस्य हिमांशोलक्ष्मी शोभां कलयति च । पाण्डिम्रो निमित्तान्तरात्सं- भवेऽपि निष्कलङ्केन्दुबिम्बसादृश्यमन्यत्र न संभवीति विप्रलम्भैकानुभावलम् । अत्र यद्यपि शरीरग्लान्यादयोऽनुभावाः केवलमुपबद्धास्तथाप्येतदनुभावनियता निर्वेदग्लानिजडताविषादौत्सुक्यचिन्तामोहावेगप्रभृतयो व्यभिचारिणो महाभागधे- यस्य जन्मनीति निर्दिष्टालम्बनविभावो मदनोद्यानादयश्चोद्दीपनविभावाः प्रतीयन्त इति विभावानुभावव्यभिचारिपोषितरत्याख्यस्थायीभावपरिपूर्णोऽभिलाषविप्रलम्भ- शृङ्गाररसो ध्वन्यते ॥२५॥सा ममेत्यादि । अमृतमयतूलिकेव दर्शनेनैव च. क्षुषोर्निरतिशयं निराकृतोऽतिशयः प्रकर्षोऽन्येषामानन्दानां येन तमानन्दमुत्पा- दयन्ती । मम पुनरन्तःकरणमयस्कान्तमणिशलाका लोहकर्षकमणिशलाका खसं. निधानमात्रेण लोहधातुमयो विकारमिवोपसंहृतवती खसमीपं प्रत्याकृष्टवती। किं बहुनेति । तदानीमुत्पन्चेन, भानन्त्यादनुभवैकप्रमाणबाच्च विशेषतो वक्तुमश. क्येन, कथंचिनिरूप्यमाणेन, मनोविकारविशेषेण किं प्रयोजनम् । इदं तावनि- पनमित्याह-संतापेति । एतन्मदीयं चेतोऽनपेक्षितो न विमृष्टो हेतुरासक्ती निमित्तं बाह्योपाधिरूपं येन तादृशं सदासकम् । न चेदं शुभोदकम् । येनेदानीं कथंचिद्विषयत । किंलनकपर्यवसायीत्याह-संतापसंततिः संतप्यमानः संज्वर एव महदुत्कृष्टं व्यसनं मरणकारणं दुःखं तदर्थमेव । तत्प्राप्तिरूपस्य तापनिर्वा- पणौषधस्यातिदुर्लभवात् । इतःपरं मरणमेव शरणमिति भावः । तत्रैवं जानता खया किमिति मनो न निवार्यत इत्याशय पुरातनकर्मवासनावशंवदानामस्माकं न कुत्रापि खातच्यमित्याह-प्राय इति । भगवती माहात्म्यवती । ईश्वरस्यापि तत्सापेक्षखात् । उक्तं हि-'जीवादृष्टसापेक्षो हि भगवाजगन्ति निर्मिमीते' इति । कषा सर्वकार्यनिमित्ततया सर्वार्थव्यापिनी । न हि तया विना किंचिभि:- प्रथमोऽङ्कः । - मकरन्द: -स्नेहश्च निमित्सव्यपेक्षश्चेति विप्रतिषिद्धमेतत् । पश्य। व्यतिषजति पदार्थानान्तरः कोऽपि हेतु- र्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते । विकसति हि पतनस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥ २७ ॥ ततस्ततः । माधव:-ततश्च तत्र सभ्रूविलासमथ सोऽयमितीव नाम सप्रत्यभिज्ञमिव मामवलोक्य तस्याः । श्वासादिकमपि कार्य भवितुं प्रभवति । तादृशी भवितव्यता प्राक्तनादृष्टपरिपक्ति- रेव जन्तोः प्राणिमात्रस्य शुभमशुभं च विदधाति । यद्वदिष्टसंपादने न वयं खत- त्रास्तद्वदनिष्टप्रतीकारेऽपि । कर्मवशाद्यद्यदुपनतं तत्तदवश्यमनुभोक्तव्यमित्यर्थः । अर्थान्तरन्यासोऽलंकारः ॥ २६ ॥ मकरन्दः-स्नेहश्चेति । निमित्तसव्यपेक्षो. बाह्योपाधिसापेक्षः । स्नेहलमोपाधिकवं चेत्येतद्दयमेकत्र धर्मिणि विरुद्धमित्यर्थः । यत्तु भावप्रकाशे नेहवैविध्यमुक्तम् , यथा-'मनसो यद्दयार्द्रलं विषयेषु च तत्त्वतः । भयशङ्कावसानात्मा स एष स्नेह उच्यते ॥ द्विधा द्रवः स्यान्मनसः स्पर्शनादर्शनादपि । जतुवद्वहिसंस्पर्शाद्दर्शनाचन्द्रकान्तवत् ॥ आर्द्रता शिशिरलं यत्सर्वावस्थासु मानसम् । ययोः परस्परस्यास्ते तदपि स्नेह ईरितः ॥ द्विधा भवेत्स च स्नेहः कृत्रिमाकृत्रिमात्मकः । सोपाधिः कृत्रिमः स्नेहो निरुपाधि- रकृत्रिमः ॥ उपाधी विनिवृत्ते तु तज्जन्योऽपि निवर्तते । स्नेहः स्वभावजो याव- व्यभावी भविष्यति ॥' इत्यादिना, तत्सोपाधिके स्नेहे स्नेहलोपचारात्नेहशब्दप्रयोग इति मन्तव्यम् । खाभाविकनेहस्य बाह्योपाधिनैरपेक्ष्यमेवोपपादयति- पश्येत्यादि । दृष्टान्तमुखेनेममर्थमवधारयेत्यर्थः । व्यतिषजतीति । पदा- र्थान्भावानचेतनश्चितनांश्च । आन्तरो गूढः । कार्यकसमधिगम्यः कोऽपीदन्तया निरूपयितुमशक्यो हेतुळतिषजति परस्परं संघटयति । पुनः प्रीतयः स्नेहा बहिरुपाधीन्बाह्यानि निमित्तानि न संश्रयन्ते । दृष्टान्तमाह-पतङ्गस्य रवेरुदये पुण्डरीकं विकसति । हिमरश्मी चन्द्रे चोद्त उदिते चन्द्रकान्तमणिवति । नचात्र परिदृश्यते बायोपाधिः कश्चिदृते खभावसौहार्दात् । तद्वत्कस्यचित्कुत्रचिदवलो- कनमात्रेणान्तःकरणं विकसति द्रवीभवतीति स्वाभाविकस्नेहस्य महिमायमित्यर्थः । दृष्टान्तालंकारः ॥ २७ ॥ ततस्तत इति । अनन्तरवृत्तान्तं ब्रूहीति शेषः ॥ माधवः-ततश्चेति । तदनन्तरं तत्र तस्मिन्नेवावसरे । सभ्रूविलासेति । तस्याश्चतुरेण विदग्धेन सखीजनेन मामवलोक्य । अथ मदवलोकनानन्तरं स्मित- साल.

२८ मालतीमाधवे अन्योन्यमेव चतुरेण सखीजनेन मुक्तास्तदा स्मितसुधामधुराः कटाक्षाः ॥ २८ ॥ मकरन्दः-(खगतम् ।) कथं प्रत्यभिज्ञापि नाम । माधवः-अथ ताः सलीलमुत्तालकरकमलतालिकातरलवलयाव- लीकमुत्रस्तकलहंसविभ्रमाभिरामचरणसंचरणरणरणायमानमञ्जुमञ्जीरर- णितानुविद्धमेखलाकलापकिङ्किणीरणरणत्कारमुखरं प्रतिनिवृत्त्य 'भर्तृ- दारिके, दिल्या वर्धामहे । यदत्रैव कोऽपि कस्या अपि वल्लभस्ति- ष्ठति' इति मामङ्गुलीदलविलासेनाख्यातवत्यः । सुधामधुरा दरहसितामृतसाहचर्यमनोहराः कटाक्षा आकूतयोतका दृष्टिविशेषा अन्योन्यं मुक्ताः प्रहिताः। मां दृष्ट्वा स्मितपूर्वकं परस्परावलोकनं कृतवत्य इत्यर्थः । अथ मामवलोक्येत्यवलोकनक्रियां विशिनष्टि-सप्रत्यभिज्ञमिवेति । प्रत्यभिज्ञा नाम पूर्वानुभूतस्य पुरोवर्सेक्यावगाहिनी धीः । सा च परबुद्धिवान मया प्रत्य- क्षीकृता, किंतूत्प्रेक्षितेति इवशब्देन द्योतयति । कथं बयैतदुत्प्रेक्षितमित्याशय बीजमाह-सोऽयमितीव नामेति । नाम प्रसिद्धौ । यो मालतीजीवितवल्लभो माधवो नाम प्रसिद्धः सखीजनकथासु स एवायमितीव तत्तेदन्तांशावच्छेदः प्रत्यभिज्ञोत्प्रेक्षाबीजम् , तस्यापि तदिदंशब्दाभिलापरूपस्य तदानीमभावात् । ज्ञाना- कारस्य अप्रत्यक्षखात् सोऽप्युत्प्रेक्षित एवेतीवशब्देन सूचयति । तदपि कथ- मुन्नीतमित्याशय स्फुटं तल्लिङ्गमाह-सभ्रूविलासमिति । ध्रुवोर्विलासो विक्षेपः। योऽस्माभिर्भर्तृदारिकाचित्तचोरो माधवो नाम गोष्ठीषु प्रसज्यते स एवायमित्येवं- रूपार्थद्योतिका चेष्टा भ्रूलतोनमनचातुरी तत्सहितं यथा भवति तथा पूर्वानुभू- तत्वपुरोवर्तिवलक्षणतत्तेदन्ताभिव्यक्षिका भ्रूचेष्टा, पदार्थाभिनयरूपत्वाचेष्टायाः । तेन तया तत्तदन्तावच्छेदनेनासाधारणधर्मेण मद्विषया तासां प्रत्यभिज्ञाभ्यूहिते- त्यर्थः।भाविकमलंकारः ॥२८॥ मकरन्दः-खगतम्। कथमिति।नामेति संभावनायाम् । अननुभूतपूर्व कथं तासां प्रत्यभिज्ञासंभव इति वितर्कः । इदं चात्म- गतं वेदितव्यम् । अन्यथा माधवेनोत्तरस्य वक्तव्यतापत्तेः। माधवः-अथेति । अनन्तरं तस्याः पुरत एव मत्समीपमागताः परिचारिका मां दृष्ट्वा प्रतिनित्य पश्चादागच्छन्त्यै तस्यै । अङ्गुल्य एव दलानि । अङ्गुलीनां दलवरूपणं करस्य कमलवं द्योतयति । तेषां विलासोऽप्राम्यललितक्रिया तेन मां कथितवत्यः । कथं प्रतिनिवृत्त्येत्यपेक्षायां त्रीणि क्रियाविशेषणानि । तत्र सलीलं लीलया सहितं यथा भवति तथा । लीला नामापाअव्यापारेणाभीष्टार्थानुकरणम् । यथा-'मनो- मधुरवागणचेष्टितैः प्रीतिचोदितैः । प्रियानुकरणं लीला सा स्यात्स्त्रीपुंसयोरपि ।' उत्ताला उन्नताः करकमलयोस्खालिका ऊर्ध्वप्रसारिताङ्गुलीककरतलद्वयपरस्परा- स्फालनं तेन तरला वलयावली कङ्कणश्रेणियथा स्यात्तथा । उन्त्रता उद्विमा मत्ताथ ये कलहंसास्ते विभ्रमो विशिष्टभ्रमणं मनोज्ञा गतिस्त्रद्वदभिरामं चरणसंचरणं प्रथमोऽङ्कः। २९ मकरन्दः-हन्त, महतः प्रथमानुरागस्योद्भेदः। कलहंस: -ऐदाणं सरसरमणिज्जाणुबन्धिणी क्खु इत्थिा- कहा। मकरन्द: -ततस्ततः। माधव:- अत्रान्तरे किमपि वाग्विभवातिवृत्त- वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः तद्भरिसात्त्विकविकारमपास्तधैर्य- माचार्यकं विजयि मान्मथमाविरासीत् ॥ २९ ॥ १. अनयोः सरसरमणीयानुबन्धिनी खलु स्त्रीकथा । तेन रणरणायमानं मनोज्ञं यन्मजीरं नूपुरं तस्य रणितेन शिजितेनानुविद्धः संभिन्नो यः काञ्चीदामनिविष्टक्षुद्रघण्टिकारणरणत्कारस्तेन मुखरं यथा स्यात्तथेति । किमि- त्याख्यातवत्य इत्यपेक्षायां भर्तृदारिके दिष्ट्या भाग्येन वर्धामहे । यस्मादत्रैव प्रदेशे 'या लतान्विष्यते सैव लग्नासंप्रति पादयोः' इति रीत्या पुरत एव कोऽप्ययम्। असा- विति साक्षानिर्देष्टुमनुचितलात्तत्प्रच्छादनाय सामान्योक्तिः । कस्या अपीत्यत्रापि तवेत्यनौचित्याढूढोक्तिः । वल्लभो दयितस्तिष्ठतीति । केचित्तु स्त्रीलिङ्गमप्ययुक्तं मन्यमानाः 'कस्यापि' इति पठिला जनस्येति व्याचक्षते ॥ मकरन्दः । हन्तेति हर्षे । महतोऽतिप्ररूढस्य पूर्वानुरागस्योद्भेदः प्रकाशः । प्रतिभातीति शेषः । उद्भेदो नाम मुखसंध्यङ्गम् । यथा-'उद्भेदो गूढमेदनम्' इति ॥कलहंसः। अनयोः सरसरमणीयानुबन्धिन्यविच्छिन्ना स्त्रीकथा । वर्तत इति शेषः । मकरन्दः- ततस्तत इति ॥ माधवः-अत्रान्तर इति । अस्मिन्नवसर आयताक्ष्या- स्तस्या मान्मथमाचार्यकम् । मन्मथ एव हि कुमारीजनस्यात्यन्तापरिचिततादा- त्मिको दीयमान विविधविलासशिक्षायामाचार्यः । तस्याचार्यकमाचार्यभावः । 'योपधाद्गुरूपोत्तमादुञ्' । विविधशृङ्गारचेष्टाशिक्षाप्रावीण्यमाविरासीत्प्रादुरभूत् । कीदृशम् । वाग्विभवातिवृत्तवैचित्र्यमुक्तिप्रकारसर्वखोल्लङ्घिविचित्रभावम् । अत एव किमपि विशेषतो निर्देष्टुमशक्यम् । उल्लसितो विभ्रमो यत्र । विभ्रमः शृङ्गारचेष्टा- विशेषः । यथा-'वागङ्गसत्त्वाभिनयभूषास्थानविपर्ययः । खरया कल्पितोऽभीष्टद- र्शने यः स विभ्रमः ॥' इति । तन्मनसैव केवलमनुसंधीयमानं भूरिसात्त्विकवि- कारं प्रचुरतरस्तम्भादिसात्त्विकभावम् । सात्त्विकभावादियदुक्तम्-'तद्भावभावनं येन भवेत्तदनुकूलतः । तत्सत्त्वं तेन निर्वृत्ताः सात्त्विका इत्युदीरिताः ॥' यथा- 'स्तम्भः खेदोऽथ रोमाञ्चः खरमेदश्च वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः ॥' इति । अपास्तधैर्यमन्योन्यदर्शनादुभयोरप्यपाकृतचित्तस्थैर्यम् । विजयि जयशीलम् । कुत्राप्यकुण्ठितप्रसरमिति । अत्र परिपूर्णशक्षारानुभवनिबन्धना.

मालतीमाधवे । ततश्च। स्तिमितविकसितानामुल्लसलतानां मसृणमुकुलिताना प्रान्तविस्तारभाजाम् । प्रतिनयनविपाते किंचिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम् ॥ ३० ॥ त्तदुचितमोहावेगादिव्यभिचारिप्रतीतेरालम्बनोद्दीपनविभावसंनिधानपूर्णः शृङ्गार• रसध्वनिः। परिकरश्चालंकारः ॥ २९॥ अतश्च चिरकालप्रवृत्तस्य गरीयसः पूर्वानु- रागस्य शब्दविकल्पस्मरणसंतानोपचितस्य जीवितसर्वखायमानस्य तस्यैव साल. म्बनविभावस्य सांमुख्यादन्योन्यकटाक्षमिश्रीभावादुत्पूरस्य सुधाकरकरस्पर्शादिव क्षीरसागरस्यापूरितान्तरतया परिपूर्णकुम्भोचलनन्यायेन मुहुर्बहिरुचलतो निरति- शयपरिपोषात्मिकां रसतामापनस्य तरङ्गच्छटा इव प्रथमानुभावभूताः शृङ्गारदृष्टयो मदालम्बनाः प्रादुरासन्नित्याह-ततश्च । स्तिमितेति । अहमालोकितानां शृक्षा. रदृष्टिविशेषाणां विविधं पात्रमभूवम् । 'प्रसादललिता कान्ता शालिनी मन्मथा- शया। विचलद्भूकटाक्षा च शृङ्गारे दृष्टिरिष्यते ॥' इति । तद्विशेष दर्शयितुं विशिनष्टि-स्तिमितानामुन्मीलनानन्तरमेव पुरोवर्तिनि मयि निपत्य दर्शनलोमेन तत्रैव विषये निश्चलानाम् । स्तिमितं नाम शृङ्गारदृष्टिविकारः । यथा-'खगोच. रान चाल्येत यत्तस्तिमितमुच्यते ॥' इति । ततो विकसितानां विषयगताशेषविशे- षप्राहिणाम् । विकसितदृष्टिविकारो यथा-'विकासितं यद्विषये विशेषमवगाहते' इति । अतो विषयास्वादजन्मानन्दभावनयोल्लसन्ती किंचिदुच्छ्वसन्ती चतुराख्यभ्रू- कर्मसहिता भ्रूलता येषाम् । चतुरं नाम भ्रूकर्म । यथा-'चतुरं किंचिदुच्छ्वासा- न्मधुरा रचना भ्रुवोः' इति । प्रसन्नाख्यश्चानेन दृग्विकार उक्तः । यथा- 'प्रसन्नं तद्भवेत्सभ्रूविलासं सस्मितं च यत् ॥' इति । अतो मसृणानामनुरागपेशला- नाम् । मसृणदृग्विकारो यथा-'मसृणं तत्तु विज्ञेयमनुरागकषायितम्' इति । ततः सुखपारवश्यान्मुकुलितानामनुन्मीलितानाम् । मुकुलिता दृष्टिरनेनोका। मुकुलि- ताख्यश्च दृग्विकारो यथा-'स्फुरिताश्लिष्टपक्ष्माया मुकुलोर्ध्वपुटोच्छ्रिता। सुखो- न्मीलिततारा च मुकुला दृष्टिरिष्यते । दृष्टिर्मुकुलिता स्वप्नसुखनिद्रासु वर्तते ॥' इति । अनेन विकूणिताख्यदृग्विकार उक्तः॥ विकूणितं यथा-'भागत्रयस्य संकोचो विकासस्वपरस्य च । यस्या दृष्टेविलक्षण तद्विकूणितमुच्यते॥' इति । ततः पुनर्दर्श- नस्पृहया प्रान्तेऽपाङ्गदेशे विस्तारभाजां विसृत्वराणाम् । सम्यगाश्लिष्टविषयाणामि- ति यावत् । अपाङ्गदृष्टिहिं तत्रैव निपतन्ती सम्यग्विषयं परिच्छिनत्ति । अनेन विस्तारी सस्पृहश्चेति दृग्विकारद्वयमुक्तम् । यथा-'येनाटिष्टो हि विषयस्तद्वि- तारीति कथ्यते । भूयो भूयः स्पृहा यत्र दृष्टखत्सस्पृहं भवेत् ॥' इति । ततः प्रतिनयनस्य तदवलोकनाय प्रहितस्य मनेत्रस्य निपात आभिमुख्येन युगपदुपस्थाने लज्जया किंचिदाकुञ्चितानामीषत्संकुचितानाम् । संकुचितं नाम दृग्विकारो यथा- 'अपाङ्गभागसंकोचो यत्र तत्कुश्चितं भवेत्' इति । बहुवचनेन धारावाहिन्यायेन । - प्रथमोऽङ्कः ततश्च। अलसवलितमुग्धस्निग्धनिष्पन्दमन्दै- रधिकविकसदन्तर्विस्मयस्सेरतारैः । हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्ष- रपहृतमपविद्धं पीतमुन्मूलितं च ।। ३१ ।। प्रवृत्तिप्रतीतेलॊलाख्यो दृष्टिविकार उक्तः । यथा-'धारावाहिकसंचारो यस्य तल्लोलमुच्यते' इति । विविधपदेनान्यानपि मधुरसाभिलाषसोत्कण्ठितसोत्सुकसम- न्मथप्रणयिप्रेमगर्भविकोचललितकोमलमुखाञ्शृङ्गारदृष्टिविकारविशेषान्संगृह्णाति । तल्लक्षणानि विस्तारभयान लिखितानि । परिकर एवालंकारः ॥ ३० ॥ इदानीं तादृगवलोकनपात्रमभूवम् । तस्मात्पुनस्तादात्मिकीमवस्थामाह-ततश्च अलसेति । पक्ष्मले अतिसान्द्रपक्ष्ममाले अक्षिणी यस्यास्तस्याः कटाक्षः 'अपाङ्गे तार आक्षेपः कटाक्ष इति कथ्यते' इत्युक्तलक्षणैर्दृष्टिविशेषैः पूर्वोक्तैर्मे हृदयमशरणं सत्तदा मम पारवश्येनाकिंचित्करखादन्येन च रक्षणस्याशक्यखात्तद- भावाच्च रक्षितारमलभमानं सत् । अपहृतं बलादाच्छिद्य गृहीतम् । कटाक्षाणां मनो- हरलात्तदा मनःशून्य इवाभवम् । प्रमुषितमतिलात्ततस्तैरपहृत्य तदपविद्धमतिती- क्ष्णलात्तेषां नाराचैरिव विक्षतम् । निशितशलाकाप्रकृतरन्ध्रमिव व्यथामन्वभूदि- त्यर्थः । ततश्च सतप्तमदनाराचकल्पत्वात्तेषां तदपवेधेन द्रवीभूय तत्रैव धाराजलन्या- येन विलीनखात्तैः पीतमिव । यथा पीतं सलिलादिकं पातुरन्तर्विलीयते, एवं कटा- क्षेषु मन्मनो विलीनमित्यर्थः । ततश्च तैर्मदीयहृदयालवाले लीनस्यापि मनसःपुनर- कुरोदयशङ्कया तदुन्मूलितमुत्खातमूलं कृतम् । अपुनरुद्भवयोग्यं कृतमित्यर्थः । मनःपारवश्यातिशयोक्तिः। कविना प्रौढयुत्कर्षादेवं निरूपितम्। केचित्तु-विदग्धो यथा कश्चिन्नालिकेरतरोस्तत्फलमपहृत्यायःशूलेनापविध्य सरन्ध्र कृखा तदन्तःस- लिलं निपीय तदन्तःसारमुन्मूल्य भक्षयति, एवं कटाक्षा अपि माधवादेव तरो- मनःफलमपहृत्य गाम्भीर्यधैर्यादिना दृढवात्प्रथममपविध्य सक्षतं कृत्वा तदन्तर्गतं लज्जाविनयविवेकादिकं क्षतविवरनिर्गतं निपीय तावताप्यतृप्तलाचैतन्यलक्षणं मूल- मुन्मूल्याप्रसनियेवं नालिकेरफलसमाधिरुति व्याचक्षते। कीदृशैः कटाक्षरि- त्यत आह-अलसेति । अलसाः प्रथमपातिताः । पुरतः प्रसारिताः पुरो- वर्तिनि मय्येव निपातिताः । पश्चाद्विभाव्य वीडयेव प्रतिनिवृत्ताः । अलसा- दयः भारदृष्टिविकाराः । तत्रालसं यथा-'अलसं तदभीष्टार्थाद्रीडाद्यैर्यनि- वर्तते' इति । ततो वलिताः पुनदर्शनोत्कण्ठया तिर्यगुदश्चिताः । वलितं यथा-'वलितं तनिवृत्तस्य भूयस्यस्रावलोकनम्' । 'यत्रं तिर्यगुदश्चितम्' इति त्र्यसलक्षणम् । ततो मुग्धाः सव्याजभावगर्भखभावाः । मुग्धं यथा-'खभा- बालोकितं मुग्धं भावगर्भमपि च्छलात्' इति । ततः स्निग्धाः स्नेहपर्यायरतिभावा- नुविद्धाः । निग्धा दृष्टिर्यथा-'स्निग्धं यद्रतिभावेन स्नेहप्रायेण संयुतम्' इति । ।

३२ मालतीमाधवे अहं तु तस्याः सर्वाकारहृदयंगमायाः संभाव्यमानसेहरसेन संनि, धिना विधेयीकृतोऽपि पारिप्लवत्वमात्मनो निहोतुकामः प्राक्प्रस्तुतस्य बकुलपुष्पदानो यथाकथंचिदवशेष अथितवानेव । ततो मिलितवे- त्रपाणिवर्षवरप्रायपुरुषपरिवारा गजवधूमारुह्य नगरगामिनं मार्गमि- न्दुवदनालंकृतवती । यान्त्या मुहुर्वलितकंधरमाननं त- दावृत्तवृन्तशतपत्रनिभं वहन्त्या । ततो निष्पन्दा विषयादन्यत्र क्वापि न चलन्तः । निष्पन्दं यथा-'निष्पन्दं तद्य- दन्यत्र दृष्टान्ते स्पन्दते क्वचित्' इति । ततो मन्दा विषयान्तरगमनानुयुक्ताः । मन्थरदृष्टिरनेनोक्ता । यथा-'मन्थरा मन्दसंचारा' इति । अधिकं विकसन्ना- श्चर्यकारिवस्तुदर्शनलक्षणादुद्दीपनाद्विस्तारं रसभावोन्मुखत्वमुपनयन् । अन्तःकर- गगतो विस्मयोऽद्भुतरसस्थायी । तेन स्मेराः स्फुरत्पक्ष्मपतिभिरुत्फुल्लतारा येषां ते तथोक्ताः । स्मरं यथा-'प्रस्फुरत्पक्ष्मतारं यत्तत्स्मरमिति कथ्यते' इति । इयमेव विस्मयरसव्यजिका विस्मिताख्या दृष्टिः। यथा-'विस्मयोत्फुल्लतारा च हृष्टोभयपुटाञ्चिता । समा विकसिता दृष्टिविस्मिता विस्मये स्मृता ॥' इति । अत्र कटाक्षरुक्करूपैरनुभावस्तत्कारणस्य काष्टां प्राप्तस्य माधवविषयस्य रतिभावस्य तत्समुचितव्यभिचारिणां प्रतीतेः, माधवस्याप्यपहृतमित्यादिना मालत्यनुरागगोचर- गाढानुरागतन्नियतव्यभिचारितत्तदुचितानुभावप्रतीवेः, युगपदन्योन्यालम्बनशृङ्गा- ररसध्वनिः । अत एव बीजस्य परस्परानुरागस्य परिनिष्पत्तः परिन्यासो नाम मुख- संध्यङ्गमुक्तं भवति; यथा-'तनिष्पत्तिः परिन्यासः' इति ॥ ३१॥ अहंत्विति। सर्वैराकरैरवयवसंस्थानदृग्विलासागवलनादिभिर्मनोहरायास्तस्याः संभावितः पूर्वो- कमद्गोचरदृष्टिविशेषैः संभाव्यमानः स्नेह एव रसो रसनीयवायत्र तेन संनिधिना मत्समीपावस्थानेन विधेयीकृतो वशीकृतोऽपि । अन्यत्रोपरतेन्द्रियव्यापारोऽपि । आत्मनः पारिप्लवलं धैर्यभ्रंशं परेभ्यो निहोतुं कामो यस्य सः। पूर्वोपक्रान्तस्य केसर- दाम्नः शेषं कथंचिदन्यमनस्कतयातिनिर्बन्धेन प्रथितवानेव । ततो मिलितवेत्रेत्यादि वाक्यार्थः स्पष्टः । मदनोद्यानं तु चिरादपक्रान्तपूर्णचन्द्रमण्डलमिवाम्बरमन्धतम- सावृतमिव किमप्यवलोकनयोग्यं नाभूदिति भावः । गमनसमये च तया कृतमात्मना प्राणधारणं प्रत्याशानिबन्धनमाह-यान्त्येति । यान्या गच्छन्त्या गमनसमये. ऽपि मद्दर्शनौत्सुक्येन वलितकंधरं परिवर्तितप्रीवम् । अत एवावृत्तवृन्तशतपत्रनिभं कुसुमबन्धनापवृत्तविकचपुण्डरीकसदृशमाननं वहन्त्या तया पक्ष्मलाक्ष्या क्षिप्ते- ध्वपि बहुषु कटाक्षेषु नीरन्ध्रतरुशाखानिरुद्धतयोपरुद्धेषु कश्चिदेकः कटाक्षो देवा- न्मम हृदये गाढं दृढं निखातो विदार्य हृदयमन्तःप्रवेशित इव । गाढमित्यनेन पुनरु- द्धरणाशक्यत्वं सूचयति । दृढसंलमतयेदानीमपि तथैव वर्तमानोऽन्तःशल्यमिव व्यथयतीति भावः । मन्मथो धन्वी तामेव धनुलतामादाय तत्कटाक्षमेव नाराचं प्रथमोऽ दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥ ३२ ॥ ततःप्रभृति परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकपध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च तनुते ॥३३॥ मन्मनसि लक्ष्ये कदाचिदप्यनुद्धरणीयं निखातवानिति समाधिः। कीदृशः कटाक्षः। अमृतेन विषेण च दिग्धः। पतनसमये निरतिशयानन्दजनकलादिदानीमपि जीवनहेतुखाचामृतेन दिग्धः। दुर्विषहविप्रयोगवेदनाहेतुखाद्विषेण दिग्ध इति द्रष्ट- व्यम् । अनेन विधानं नामाङ्गमुक्तम् । यथा-'विधानं सुखदुःखकृत्' इति । निखात इवेति तीक्ष्णतया कटाक्षस्य नाराचलसंभावनात् उत्प्रेक्षालंकारः ॥३२॥ तत इति । परिच्छेदेति । तत्कटाक्षनिखातमारभ्य कोऽपि विकारो वैकृतः । अन्तरमन्तःकरणं जडयति प्रतिपत्तिशून्यं करोति । तत्रैव तापं च कुरुते संताप- यति । जाड्यसंज्वरयोर्मदनावस्थयोरियमुक्तिः । तत्र जाज्यं यथा-'जाज्यमप्रति- पत्तिः स्यात्सर्वकार्येषु सर्वदा । इष्टानिष्टं न जानाति सुखदुःखं न वेत्ति च ॥ प्रश्न न किंचित्प्रब्रूते न शृणोति न पश्यति । हाहेति भाषणाकाण्डहुंकारशिथिलाङ्गता ॥ कार्यवैवर्ण्यनिःश्वासस्तम्भस्पर्शानभिज्ञता । एते जाज्यभवा भावा मीनकेतनमा- निताः॥' इति । संज्वरो यथा-'अविषह्यो मनस्तापः संज्वरः परिकीर्तितः । येनाङ्गारनदीमध्ये विलुठनिव भाव्यते ॥' इति । किं च जाड्यमतिशीतलद्रव्यसं. श्लेषात्स्तब्धत्वम् । तेन जडयति । अतिशैत्यात्स्तब्धयति । तापं च तनुत इत्युके विरोधप्रतीतिः । शैत्यस्खभावस्य तापहेतुताविरोधात् । परिहारस्तु वलितप्रीवा- वलोकनस्य स्नेहसूचकखात् । गाढानुरागामृतानुलिप्ततयेदानीमनुसंधीयमानोऽपि । अमृतनिमममिव कटाक्षः करोति । पुनस्तत्प्राप्तिनैराश्यप्रतिपादनेन विचिन्त्यमानो विषमिव व्यथयतीति । तेन विरोधाभासोऽलंकारः । कीदृशो विकार इत्यत आह-परिच्छेदेति । इयानेतावानित्यवधारणात्मकं ज्ञानं परिच्छेदः । तदतीत- स्तदविषयः । तथा सकलवचनानामभिधालक्षणादिसर्वप्रकारशब्दव्यापाराणाम- विषयोऽगोचरः । अनेन विशेषणद्वयेन वाङ्मनसयोरगम्यत्वमुक्तम् । न चासौ पूर्वा- नुभूतेन केनचिदपि विकारेण तादृगयमित्युपमातुं शक्य इत्याह-पुनरिति । जन्मान्तरे किमनुभूतमिति न ज्ञायते । प्राग्जन्मवृत्तस्याजाविस्मरैरस्मरणात् । अस्मिंस्तु जन्मनि पुनर्नेतः पूर्वमीदृशो विकारोऽनुभवपथमवतीरें येनायमुपमीये- तेति भावः। तथा विवेकस्याज्ञानविरोधिनः शास्त्रश्रवणादिजन्मनो विज्ञानस्य प्रकर्षण ध्वंसादत्यन्तसमुच्छेदादुपचितः प्रवृद्धो यो महामोहो दृढो भ्रमोऽविद्या तेन गहनो विषम इत्यर्थः । अनेन चोन्मादो नाम मदनावस्था सूचिता । यथा- यथा- ।

३४ मालतीमाधवे अपि च। । परिच्छेदव्यक्तिर्न भवति पुरःस्थेऽपि विषये भवत्यभ्यस्तेऽपि स्मरणमतथाभावविरसम् । न संतापच्छेदो हिमसरसि वा चन्द्रमसि वा मनो निष्ठाशून्यं प्रमति च किमप्यालिखति च ॥ ३४ ॥ कलहंस:-'दिदं क्खु एसो कए वि अज अवहरिदो । अवि णाम मालदी एव सा हवे। १. दृढं खल्वेष कयाप्यद्यापहृतः । अपि नाम मालत्येव सा भवेत् । 'उन्मादो विरहोत्यो य अतस्मिंस्तगहाप्रहः । सर्वावस्थासु सर्वत्र सर्वथा सर्वदा मनः ॥ तद्गतं तत्कथालादि प्रद्वेष्टीष्टानपीतरान् । दीर्घ मुहुनिःश्वसिति तिष्ठत्यनि- मिषेक्षणः ॥ विहारकाले रुदति क्रन्दति ध्यायति क्षणम् । ग्लायति स्पन्दते खस्मि- न्हसति खौति मुह्यति ॥ इत्थमुन्मादजा भावाः कथिता नाट्यकोविदैः ॥' इति । एतैरेव विशेषणैः कोऽपीति व्याख्यातम् ॥ ३३ ॥ इदानीमस्य विकारस्य कार्याण्यनु- भवाश्चापरिच्छेद्या इत्याह-परिच्छेदव्यक्तिरिति । पुरःस्थेऽपीन्द्रियसंनिकृष्टे प्रहणयोग्ये विषये परिच्छेदेन घटोऽयं पटोऽयमित्यवधारणात्मकेन सम्यगनुभवेन कृता व्यकिरभिव्यक्तिस्तत्र स्फुरणं तजन्यं प्राकट्यं वा न भवति । अनेन मनसो विकारोपहतत्वाच्चक्षुरायनवस्थानेन बाह्यार्थप्रमायामव्यापार उक्तः । स्मरणेऽपि न सम्यग्व्याप्रियत इत्याह-भवतीति । अनभ्यस्ते सकृदापाततो गृहीते कदाचिदनु- भवो न संस्कारमादध्यात् । आहितो वा संस्कारो दााभावात्कदाचिन्न स्मृति जनयेदपि । पुनर्ग्रहीते वस्तुनि दृढतरं संस्काराधानायथानुभवं स्मृत्या भाव्यम् । इह पुनरभ्यतेऽपि विषये न यथानुभवं स्मृतिरुत्पद्यते विद्यमानेष्वपि सदृशवस्तु- दर्शनादिषु संस्कारोद्बोधकारणेषु । प्रत्युत दोषवशादतथाभावेनातथालेन विरसं विपर्यस्खं स्मरणं भवति । क्वचिदपि पूर्वानुभूते स्मरणं नोत्पद्यते । अपि तु स्मृति- विपर्यय एवेत्यर्थः । हिमसरसि तुषारवाप्यां वा चन्द्रमसि वामृतमयशरीरे संता- पच्छेदो न भवति । केनापि शिशिरद्रव्येणानिर्वापणात्संतापो न निवर्तत इत्यर्थः । तेन खया न कस्मिंश्चिदपि शैत्योपचारे प्रयतितव्यमिति भावः । तथापि मनो निष्ठया निर्वहणेन शून्यम् । कंचिदर्थमनुसंधातुमुपक्रम्य मध्य एव तस्यात्यन्तविस्म- रणात्प्रक्रान्तनिर्वहणासमर्थमित्यर्थः । तत्र हेतुमाह-भ्रमति चेति । क्वचिदप्यर्थे न क्षणं तिष्ठतीत्यर्थः । 'जडयति च तापं च तनुते' इत्युक्तयोरेव जाज्यसंतापयोरे- तद्विवचनमिति मन्तव्यम् । विरोधाभास एवालंकारः अतिशयोक्तिर्वा ॥ ३४ ॥ कलहंसः-दृढं खत्वेष कयाप्यद्यापहृतः । अपि नाम मालत्येव सा भवेत् । दृढं यथा वनितान्तरवार्तामपि न सहते तथा । कयाप्यद्य यात्रासमये नयनपथप- वितया । यात्रा हि यूनोः प्रथमावलोकने प्राथमिकोपायः । यथा-'यात्रा पुर- ।

प्रथमोऽङ्कः। ३५ । मकरन्द:-(खगतम् ।) अहो अभिषङ्गः । तत्कि निषेधयामि प्रियसुहृदम् । अथवा । मा मूमुहत्खलु भवन्तमनन्यजन्मा मा ते मलीमसविकारघना मतिर्भूत् । इत्यादि नन्विह निरर्थकमेव यस्मि- कामश्च जृम्भितगुणो नवयौवनं च ॥ ३५ ॥ (प्रकाशम् ।) वयस्य, अपि विदिते तदन्वयनामनी । स्कन्दनमुत्सवो वा खप्नोऽथ चित्रं रतिसंकथा वा । भवन्त्युपायाः प्रथमावलोकने यूनोर्यतो वृद्धिमुपैति रागः ॥' इति । अपहृतः स्वायत्तचित्तः कृतः । सा एत- चित्ताकर्षिणी । अपिनामेति संभावनायाम् । मालत्येव संभाविता। तस्या एवैतद. भिलाषगोचरतायोग्यलावण्यशालिवादिति भावः॥मकरन्दः-खगतमिति। अश्राव्यार्थप्रयोगे खगतमिति प्रयुज्यते । तदुक्तम्-'अश्राव्यश्राव्यभेदेन द्विधा वस्तु प्रकीर्तितम् । सर्वत्र नियतस्येति श्राव्यं च द्विविधं स्मृतम् ॥ अश्राव्यं खगतं तत्र प्रयोज्यं खगतं लिति । सर्वश्राव्यं प्रकाशं स्यात्प्रकाशमिति तद्वदेत् ॥ श्राव्यं तु नियतस्यैव नाट्यधर्ममपेक्ष्य च । द्विधा विभज्यते तत्र जनान्तमपवारि- तम् । त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् । अन्योन्यामन्त्रणं यत्स्यात्तज्जना. न्तिकमुच्यते ॥ रहस्यं कथ्यतेऽन्यत्र परावृत्त्यापवारितम् । वस्तुनिर्वाहकलेन नाट्य. धर्मप्रसङ्गतः ॥' इति । अभिषङ्गोऽभिनिवेशः । अपूर्वोऽयमेकपदे चित्तासङ्गप्रकर्ष इत्यद्भुतावेशात्परिभावनं नाम संध्यगमुक्तं भवति । 'परिभावोऽद्भुतावेशः' इति । तत्किमिति । इत्थमिदानीमस्योन्माददशा वर्तते । तेन समनन्तरदशोपनिपाता- त्पूर्वमेव किमेनमस्मादभिषगानिवारयामीति खात्मन्येव वितर्कः । एवं वितळ निवारणमशक्यमिति निर्धारयति-अथवा । मा मूमुहदिति । अनन्यजन्मा खचित्तैकयोनिः कामो भवन्तं मा मूमुहन्न मोहं प्रापयतु । आशिषि लुङ् । तव मतिर्मलीमसो मलिनस्त्रिवर्गप्रत्यनीकवानिन्दितो यो विकारो मन्मथाभिषास्तेन घना सान्द्रतरा छन्ना मा भूदित्याद्युपदेशजातमिहैवमवस्थेऽस्मिन्निरर्थकमकार्यका- रिवान्निष्फलम् । नन्वित्यात्मन एवावधारणे । नैरर्थक्ये हेतुमाह-यस्मिन्माधवे कामश्च जृम्भिताः संजातजृम्भाः प्रत्यग्रव्यक्तनिद्रा विजृम्भमाणगुणा विरहिजन- प्राणहारिणो व्यापारा यस्य तथाभूतो वर्तते। यौवनं च प्रवृद्धविवेकप्रमोषणा- दिधर्मकं वर्तते । तस्मान्नेदानीमस्य किंचिदप्युपदेष्टव्यमस्ति । पाटचरलुण्ठितसर्वखं पथिकं प्रति 'चोरभूयिष्ठोऽयं मार्गः, तभानेन पथा गन्तव्यम्' इत्युपदेशवथैव बलवन्मन्मथाकृष्टमानसं प्रति मदनवशगोमा भूरित्युपदेशोऽतीतकालखाव्यर्थ एव । यदाह-'यो हि ब्रूयाद्भुक्तवन्तं मा भुक्था इति किं तेन कृतं स्यात्' इति ॥३५॥ एवमात्मन्येव निषेधाशक्यता निर्धार्य तदभिलषितसंपादनेनैव तदुपद्रवं परिजिहीर्घरानुकूल्यमवलम्ब्य पृच्छति-प्रकाशमिति । वयस्य, सा तावरवदु. - ।

मालतीमाधवे माधव:-श्रूयताम् । अथ तस्याः करेणुकाधिरोहणसमय एव ततः सखीकदम्बकादन्यतमा वारयोषिद्विलम्ब्य कुसुमापच- यक्रमेण नेदीयसी भूत्वा प्रणम्य कुसुमापीडव्याजेन मामेवमुक्त- वती-'महाभाग, सुश्लिष्टगुणतया रमणीय एष संनिवेशः । कुतूह- लिनी च नो भर्तृदारिकास्मिन्वर्तते । तस्यामभिनवो विचित्रः कुसु- मेषुव्यापारः । तद्भवतु कृतार्थता वैदग्ध्यस्य । फलतु निर्माणरम- णीयता । समासादयतु सरस एष भर्तृदारिकायाः कण्ठावलम्बनम- हार्यताम्' इति । पर्यनुरक्तति बदुक्के तच्चेष्टाविशेषेण ज्ञातम् । कस्मिन्कुले जाता संबन्धयोग्या वा किनामधेया वेत्येतदितः परं ज्ञातव्यम् । तत्साधनाय बया यत्किंचिद्विदितमिति प्रश्नः ॥ माधवः-श्रूयतामित्यादि । विलम्ब्य कुसुमापचयव्याजेन विलम्ब कृला । कुसुमापचयक्रमेण तान्युपचिनोमि । तानि तानीत्येवंरूपेण नेदीयसी भूयः संनिहिता भूखा कुसुमापीडव्याजेन प्रणम्य शिरसि स्रग्बन्धनव्याजेन लला- टतटघटितकरकमलसंपुटा नमस्कृत्य । नमस्कारेण खभर्तृदारिकायास्त्वमेव भर्तेति तया सूचितम् । मामेवं वक्ष्यमाणमुक्तवती । सा तावत्पूर्वमेवावलोकितादिमुखा- न्माधवस्य सर्वकलाकौशलं ज्ञातवती सती निपुणं वक्तुमुपक्रमते-महाभागे- त्यादि । महान्भागो भागधेयं यस्य । रूपनामभागभ्यो धेयः' इति खार्थे धेयप्र- त्ययविधानाद्भाग एव भागधेयम् । आकृतिविशेषेणैवोपलक्ष्यमाणमहाभाग्याति- शयेत्यर्थः । एष संनिवेशः कुसुमसंनिवेशनप्रकारः स्रग्विरचनावैदग्ध्यं सुश्लिष्टगुण- तया सुसंघटितप्रन्थिमत्सूत्रत्वेन रमणीयो मनोहरः। कुतूहालिनी चास्मिन्विदग्धा- विशये कुसुमदामविरचनाविशेषे चास्माकं भर्तृदारिका । भूरिवसोरमात्यस्य राज- तुल्यत्वात्तत्सुतापि भर्तृदारिकेत्युच्यते बहुमानसूचनाय । तस्यामधिकरणभूतायाम- भिनवोऽन्यत्रादृष्टपूर्वो विचित्रश्चमत्कारकारी कुसुमेषुविषये व्यापारो माल्यप्रथ- नरूपोऽस्ति । स्वयमस्यां कुसुमरचनायामतिशयेनासाधारणी प्रसिद्धिमुपगता खवै- दग्ध्यसदृशं भवतो माल्यग्रथनकौशलमुपलभ्येदानी कौतुकाक्रान्तमानसा वर्तत इत्यर्थः । तत्तस्मात्त्वदीयस्य वैदग्ध्यस्य कुसुमदामरचनाप्रावीण्यस्य कृतार्थताविद- ग्धया तयोपलालनाच्चरितार्थता भवतु । यथाह-'आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्' इति । अस्या अपि स्रजो निर्माणस्य रमणीयताभिज्ञजनमनो- रजनेनैव फलेन फलतु । अपचितकुसुमानां खखफलाजनकत्वेऽप्येतदेव फलम- स्त्वित्यर्थः । तदेष ते सरसोऽम्लानः, तथा सारस्येन चातुर्येणान्वितः, तया त्वयानु- रागेण समर्पितः, कुसुमव्यापारो भर्तृदारिकायाः कण्ठावलम्बनेन ग्रीवालंकारतायां धारणे महार्घता महामूल्यतामासादयतु प्राप्नोतु । यथा किंचिदुत्तमं रत्नमुत्तमक- नकभूषणस्थापितं महामूल्यं भवति, तथेदमपि बकुलदामरत्नभूतं भर्तृदारिकाक- ण्ठाभरणत्वेन महामूल्यं भवलिति प्रकृतोऽर्थः । अन्यस्तु-एषोऽस्मादृशस्य प्रथमोऽङ्कः । मकरन्दः-अहो वैदग्ध्यम् । माधव:-तया मद्नुयुक्तयाख्यातम् "इयममात्यभूरिवसोः प्रसूतिर्मालती नाम । अहं च भर्तृदारिकायाः प्रसादभूमिर्धात्रेयिका लवङ्गिका नाम' इति । कलहंस:-(सहर्षम् ।) किं णाम मालदित्ति । दिद्विआ विल- सिदं भअवदा देवेण कुसुमाउहेण । जिदं अम्हहिं । १. किं नाम मालतीति । दिष्टया विलसितं भगवता देवेन कुसुमायुधेन । जितमस्माभिः । सखीजनस्य तटस्थसहृदयलोकस्य चाशास्यलेन बुद्धौ विपरिवर्तमानः संनिवेशो भवतोः संबन्धोऽभिलाषमात्रम् । तस्यां विषयेऽभिनवः केनापि विरहिणाननुभूत- पूर्वः, अतएव विचित्रो विस्मयकारी कुसुमेषोापारः । खामुद्दिश्य स्मरेण बल- वदभिभूयत इत्यर्थः । तत्तस्मादन्योन्यसमागमेनोभयो_दग्ध्यस्य सकलकलापरिज्ञा- नस्य कृतार्थता भवतु । बदीयवैदग्ध्यसारं सैव लोके वेदितुमहीं तस्याश्च खमेवे- त्यन्योन्यसदृशाभिज्ञविषयलाभादुभयोवॆदग्ध्यं चरितार्थमस्वित्यर्थः । वैदग्ध्यलक्षणं च-'लौकिके वैदिके वार्थे तथा सामयिकेऽपि च । सम्यक्परिचयप्रौढिवैदग्ध्य- मिति गीयते ॥' इति । निर्माणस्य भवदुभयसृष्टिलक्षणस्य विधातृव्यापारस्य रमणी- यता सर्वलोकातिशायिसौन्दर्यसंपादकलेन मनोहरता भवदुभयसमागमेनैव फलेन फलतु । अन्यथेक्सृष्टिश्रमगुणोज्वलस्त्रीपुंसनिर्माणप्रयासो विधेय॑र्थ एव भवेदिति भावः । तदेष त्रिभुवनरत्नभूतः सरसः सानुरागो रसिकाग्रणीश्च भवांस्तस्याः कण्ठावलम्बनेन कण्ठालिङ्गनेन महार्घतां प्राप्नोतु । सा ह्यमूल्यरत्नभूतं भवन्तं खक. ण्ठालिङ्गनसौख्येन रतिरमणपरीक्षके कल्पितेन महताधिकेन लावण्यद्रविणेन दरि- द्रखेतरयुवतिजनासंपायेन मूल्यन केतुमही नान्या काचिदिति भावः । अत्र कुसु. मदामप्रार्थनाव्याजेन पूर्व निष्पन्नार्थस्य मालतीविरहरूपस्य भाविनश्च निर्वहणपर्य- न्तानुवर्तमानबकुलदामसाक्षिकसर्वव्यापारसूचनात्पताकास्थानकमिदम् । यथा- 'अतीतानागते कार्ये कथ्येते यत्र वस्तुनः । अन्यापदेशव्याजेन पताकास्थानक हि तत् ॥' इति । अत एव चिरकालावस्थायिनी म्लानापि सौरभ्यमयी बकुल- माला सैव कविना निर्दिष्ट न वितरकुसुममालेति ॥ मकरन्दः । वैदग्ध्यं तत्प- रिचारिकाया एवेशं वचनकौशलं चित्रमित्यर्थः ॥ माधवः । अनुयुक्तया केयं कस्य सुता वेति पृष्टया । कथितं तया-इयमित्यादि । प्रसूतिरपत्यम् । न तु दत्ता संकरजाता वा । तेन विवाहयोग्यता सूचिता । प्रसादभूमिर्विसम्भभाजनम् । तेन मयि शङ्का न कार्येत्युक्तम् । धात्रेयीयनुल्लङ्घयवचनवं सकलतन्मर्मज्ञानं चात्मनः सूचितम् ॥ कलहंसा-सहर्षमिति । यया लिखितमस्य प्रतिच्छन्दकमानीतं मया तस्यामेव मालसामासकोऽयमिति सफल इदानीं मम व्यापार इति हर्षहेतुः ३८ मालतीमाधवे मकरन्दा—(खगतम् ।) अमात्यभूरिवसोरात्मजेत्यपर्याप्तिबहुमा- नस्य । अपि च । मालती मालतीति मोदते भगवती कामन्दकी। तां च राजा नन्दनाय याचत इति किंवदन्ती श्रूयते । (प्रकाशम् ।) ततः । माधव:-तया चानुबध्यमानस्तां बकुलमालामात्मनः कण्ठा- दवतार्य दत्तवान् । असौ पुनरमिनिविष्टया दृशा मालतीमुखावलो- कनविहस्ततया विषमरचितैकभागामपि तामेव मुहुर्मुहुर्बहुमन्यमाना महानयं प्रसाद इति प्रतिगृहीतवती । अनन्तरं च यात्राभङ्गप्रचलि- तस्य महतः पौरनैगमजनस्य संकुलेन विघटितायां तस्यामागतोऽस्मि । किं नाम मालतीति । अनेनास्यानुरागविषयभूता मालतीत्युच्यते । किं नामेति हर्षा- तिशयसूचका काकुः । तर्हि दिष्ट्या विलसितं विजृम्भितं भगवता देवेन कुसुमायुधेन। जितमस्माभिः । तदूत्यव्यापृतैः सर्वैरेव कार्यतत्पररित्यर्थः। खामिनः प्राणसंक- टसमये तदुजीवनौषधप्रतिच्छन्दकानयनेन तत्प्राणत्राणादात्मनि गौरवमारोप्या- स्माभिरिति बहुवचननिर्देशः ॥ मकरन्दः-खगतम् । अमात्येति । अमात्यात्मजेत्येतावन्मात्रगौरवं तस्या अपर्याप्तमित्यर्थः । नामात्यदुहितेत्येव सा बहुमानास्पदम् । किंतु लोकातिशायिलावण्यप्रभृतिगुणयोगेनापि । तेन दैवादुप- नतोऽप्यस्य कामविकारः समुचित विषयबाच्छाघनीय एवेति भावः । गौरवाप- प्तिमेवोपपादयति-अपि चेति । अत्यादरसूचनार्थ वीप्सा । खयं सदैव एनां श्लाघत इत्यर्थः । तां चेति । राजापि नर्मसुहृदे कन्यासहस्र कचित्संपाद्य प्रदातुं शतोऽपि तदभिलाषास्पदमालतीसदृशयुवतिसंपादनाशक्तवानीचदूत्यम- गीकृतवान् किमु वक्तव्यं तस्याः श्लाघनीयत्वमिति भावः ॥ माधवः- तयेत्यादि । अनुबध्यमानः प्रियवचनैः पुनःपुनरभ्यर्थ्यमानः । प्रियोपभुक्त- मुक्ततया मालती प्रति श्लाघ्यतां स्रजो दर्शयितुमात्मनः कण्ठादित्युक्तम् । असावित्यादि । अभिनिविष्टया दुष्प्रापवस्तुप्राप्तेस्तदेकसंलगया दृशा तामेव स्रजं बहुमन्यमानेति संबन्धः। मालतीदर्शनेन मनसोऽन्यत्रासङ्गात्प्रस्तुतक्रिया- विकलहस्ततया विषमं प्राग्ग्रथितभागापेक्षया विरूपमशोभनं यथा तथा रचितै- कभागो मालतीदर्शनानन्तरप्रथितो भागो यस्यास्तामपि वजम् । सौन्दर्यात्तत्र तस्या न बहुमानः किं तु मथितलेनेति भावः । अत एव वक्ष्यति-प्रेम्णा मद्रथितेति वा प्रियसखीहस्तोपनीतेति वा' इति । अनन्तरं चेत्यादि । पौरस्य नैगमस्य च जनस्य । पुरनिगमभेदः कथ्यते–'अद्रौ वनेऽथवा राष्ट्र(8)सर्व- जनावाससंकीर्णम् । क्रयविक्रयकैयुकं पुरमुदितं यत्तदेव नगरमिति ॥ चातुर्वर्ण्यस- मेतं सर्वजनावाससंकीर्णम् । बहुकर्मकारयुक्तं यत्तनिगमं समुद्दिष्टम् ॥' इति । संकु- लेन संमर्दैन विघटितायां नयनविघटितायाम् । नयनसंनिकर्षाद्विभ्रष्टायां तिरोहि- तायामित्यर्थः ॥मकरन्दः इदानीं माधवेनापि सामान्यतो ज्ञातं मालत्याः खस्मिनन- प्रथमोऽङ्कः । मकरन्द:--वयस्य, मालत्या अपि खेहदर्शनात्सुश्लिष्टमेतत् । यो हि कपोलपाण्डुतादिचिह्नः सूचितः प्रागनुरागस्तस्याः कामामि- पक्रः सोऽपि त्वनिवन्धन इति व्यक्तमेतत् । एतत्तु न ज्ञायते क दृष्टपूर्वस्तया वयस्य इति । न खलु तादृश्यो महाभागधेयजम्मा- नोऽन्यत्रासक्तचेतसो भूत्वा परत्र चक्षुरागिण्यो भवन्ति । अपि च । अन्योन्यसंभिन्नदृशां सखीनां तस्यास्त्वयि प्रागनुरागचिहम् । कस्यापि कोऽपीति निवेदितं च माधव:-किं चान्यत् । मकरन्द:- धात्रेयिकायाश्चतुरं वचश्च ॥ ३६ ॥ रागमात्मन्यप्रत्ययादाशयमानं लि दृढं कृत्वा तन्मनोऽवस्थापयितुमाह-मक- रन्दः-वयस्येति । तस्या अपि त्वद्वचनात्त्वय्यनुरागप्रतीतेरेतस्कार्य साधु संघट्टितमित्यर्थः । न च मम दर्शनात्पूर्वमेव सा कपोलपाण्डिमाधुपेता वर्तते, तेन मदन्यस्मिन्नेव क्वापि यूनि प्रागवलोकिते बद्धभावेयं न तु मयीत्याशङ्कनीयम् । यतस्त्वमेव कुत्रचित्पूर्व दृष्टस्तस्याश्चिरादनुबध्यमानस्य मन्मथविकाराभिनिवेशस्य हेतुः । किं तु क वा तया प्रागवलोकितोऽभूरियेतावदेव ज्ञातव्यमित्याह-यो हीत्यादिना । अहमेव तत्र हेतुरिति कुतोऽवधारणमित्यत आह-न ख- ल्विति । तादृश्यः प्रशस्तकुलशीलगुणगणोज्वला महाभागधेयजन्मानः प्रकृष्टम- चरितपरिपाकलब्धजनुषः । चक्षुरागश्चक्षुःप्रीतिरासामस्तीति तथा । 'कुलीना गुणवत्यश्च कुमार्यों भाग्यभूषणाः। ईदृशास्त्वयशोदोषभाजनं नैव जातु- चित् ॥ यदन्यासक्तचित्ता सा न चक्षुस्त्वयि पातयेत् । मनोऽन्यत्र हगन्यत्र चेटीना नोत्तमस्त्रियाः ॥' इति भावः । अन्यदपि त्वयि पूर्वानुरागे लिङ्गमस्ती- त्याह-अपि चेति । अन्योन्येति । अन्योन्यसंभिवशां सप्रत्यभिज्ञं स एवायमिति निर्धारयितुं परस्परमुखावलोकनेन संमिश्रदृष्टीनां तस्याः सखीनां कस्यापि जनस्य कोऽपि दयित इहैव वर्तत इत्येवंरूपं निवेदितम् । खसख्यै प्रज्ञापनं चैकं तस्यास्त्वय्येवासौ पाण्डिमादिसूचितः प्रागनुराग इत्यस्मिन्नर्थे चिह लिङ्गमित्यर्थः ॥ अथ माधवः खनिर्धारितं लिशान्तरं लवक्षिकाश्लिष्टवचनरूपमसा- वुद्भावयिष्यति वा न वेत्यौत्सुक्यात्तद्वचनावसरप्रतीक्षणमसहमानः कस्यापि कोऽपीति निवेदितं चेति चशब्देन किमन्यत्समुचिनोषीति पृच्छति-माधव:- किं चेति । चकारः किमन्यत्प्रागनुरागलिझं द्योतयतीत्यर्थः ॥ मकरन्द:- धायिकाया इति । चतुर विष्टम् । प्रागनुरागचिहमिति शेषः ॥ ३६॥ ५माल. यथा ४० मालतीमाधवे कलहंस:-(उपसृत्य ।) एवं अ । (चित्रं दर्शयति ।) (उभौ पश्यतः।) मकरन्द:-कलहंसक, केनेदं माधवस्य रूपमभिलिखितम् । कलहंस:-जेणे एव से हिअ अवहरिदं । मकरन्द:-अपि नाम मालत्या। कलहंस:-अह इं। माधव:-वयस्य मकरन्द, प्रसन्नप्रायस्ते तर्कः । मकरन्द:-कुतोऽस्याधिगमस्ते । कलहंस:-मैह दाव मन्दारिआहत्थादो । तए वि लवनि- आसआसादो। मकरन्द:-कथय किमाह मन्दारिका माधवालेख्यप्रयोजनं मालत्याः। कलहंसः-उक्कण्ठाविणोअणं ति । मकरन्द: वयस्य, समाश्वसिहि । या कौमुदी नयनयोर्भवतः सुजन्मा तस्या भवानपि मनोरथबन्धबन्धुः । १. एतच्च । २. येनैवास्य हृदयमपहृतम् । ३. अथ किम् । ४. मम तावन्मन्दारिकाहस्तात् । तया अपि लवङ्गिकासकाशात् । ५. उत्कण्ठाविनोदनमिति । कलहंसः। एतच्च । इदमपि प्रागनुरागचिह्नमिति प्राप्तावसरश्चित्रमर्पयतीत्यर्थः ॥ चित्रलेखनपर्यन्तस्य मालतीव्यापारस्य मकरन्दनापाततोऽधिगमात्केनेति सामा- न्यतो निर्देशः ॥ कलहंसः । पुनर्विमर्शपूर्वकं तेनैव वाचयितुमाह-येनैवास्य हृदयमपहृतमिति ॥ मकरन्दः । अपि नामेति प्रश्ने । लिखितमिति शेषः॥कल- हंसः । अथ किमित्यङ्गीकारे । बाढं मालत्यैवेत्यर्थः ॥ माधव:-वयस्येति । प्रसन्नप्रायः संदेहलक्षणकालुष्यापगमानिर्मलीभूतस्तर्कस्त्वय्येव सानुरकेत्यूहः । अत्र चित्रदर्शनात्खस्मिन्मालत्यनुरागनिश्चयेन सुखागमप्रतीतेः प्राप्ति म संध्या- मुक्तं भवति । यथा-'प्राप्तिः कोऽपि सुखागमः' इति ॥ मकरन्दः । कलहं. सक, कस्मादेतत्त्वया प्राप्तमित्यर्थः ॥ कलहंसः। मम तावन्मन्दारिकाहखात् । तया अपि लवनिकासकाशात् ॥ कलहंसः। उत्कण्ठाविनोदनमिति ॥ या कौमुदीति । या त्वनेत्रचकोरयोश्चन्द्रिकेव निरतिशयसौहित्यकारिणी तस्याः प्रथमोऽङ्कः ४ तत्संगम प्रति सखे न हि संशयोऽस्ति यस्मिन्विषिश्च मदनश्च कृताभियोगः ॥ ३७॥ द्रष्टव्यरूपा च भवतो विकारहेतुस्तदत्रैवालिख्यताम् । माधव:-यदभिरुचितं वयस्याय । (लिखन् ।) सखे मकरन्द, वारंवारं तिरयति दृशावुद्गतो बाष्पपूर- स्तत्संकल्पोपहितजडिमस्तम्भमभ्येलि गात्रम् । सद्यःखिद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणिलेखाविधिषु नितरां वर्तते किं करोमि ।। ३८ ॥ तथाप्यवहितोऽस्मि । (चिरादभिलिख्य दर्शयति ।) मकरन्द:-(चित्रं निर्वर्ण्य ।) उपपन्नस्तावदत्रभवतोऽभिषङ्गः । (सकौतुकम् ।) कथमचिरेणैव निर्माय लिखितः श्लोकः । (वाचयति ।) - सुजन्मा खमपि मनोरथबन्धस्य दृढानुरागस्य बन्धुः । आश्रय इत्यर्थः । ततस्तस्याः संगम प्रति संदेहो नास्ति । यतो यस्मिन्संगमे विधिरन्योन्यानुरूपनिर्माणेनोद्भूत- प्रयासो मदनचाकरमादेवोत्पादितगाढानुरागः कृताभियोगः एतत्कार्यसंगमे रचिताभिनिवेशो बद्धकच्छः । ततो न तदर्थ खया चिन्तनीयमित्यर्थः ॥ ३७॥ द्रष्टव्येति । अतिधीरस्यापि ते या मनोविकारमुत्पादयित्री सा मया द्रष्टव्यरूपा दर्शनीयाकृतिः। अनेन माधवस्य संशयं निरस्य परस्परानुरागस्य बीजस्य स्थापनात्समाधानं नाम संध्यमुक्तम् । यथा-'बीजागमः समाधा- नम्' इति ॥ द्रष्टव्यरूपा दर्शनीयाकृतिः । केयं कलासु प्रागल्भ्यं प्रकाशितवती, तद्भवानपि तद्विलेखनेन व्याजेन तस्यै खवैदग्ध्यं प्रकटीकरोलिति प्रतीतिः ॥ माधवः। वयस्यायेति । 'रुच्यर्थानाम्' इति संप्रदानलम् । तस्करोमीति शेषः । अथ तत्तदवयवसादृश्यलेखनाथ मनसैव मालल्याः सर्वावयवसम्यर्णिनेन समुपजातबाष्पादिसात्त्विकभावो माधवश्चित्रक्रियायां खस्य दृक्करादिसामग्या अन- नुकूलतामुपपादयनाह-वारंवारमिति । लिखामि प्रियामिति संकल्प्य यत्किं- चिनेत्रायवयवस्य मरणं तत्समयसमुद्तो बाष्पपूरो वारंवारं क्षणे क्षणे । 'वार- श्वावसरः क्षणः' इति वचनात् । पुनःपुनरुन्मृज्यमानोऽपि दृशौ तिरयत्यावृणोति । अनेनाश्रुनामकः सात्त्विकभाव उकः । यथा-'अश्रु नेत्रोद्भवं वारि दुःखक्रोध- प्रहर्षजम्' इति । तस्याः संकल्पेन चिन्तयोपहितः प्राप्तो जडिमा येन तद्गात्रं खम्भमभ्येति । जाव्यखम्भी यथा-"क्रियाखपाटवं जाज्यं चिन्तोत्कण्ठाभया- दिमिः । स्तम्भश्वेयाप्रतीघातो भयरागामयादिभिः ॥' इति । तथा समस्तदुपस्मृ. विक्षण एव खियन्खेदजलार्दो भवनयं मे पाणिर्लेखाविधिषु लेखनक्रियाखविरतो.

४२ मालतीमाधवे जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥ ३९ ॥ (प्रविश्य ।) मन्दारिका-कलहंस कलहंस, चोर चोर, पआणुसारेण ल- १. कलहंस कलहंस, चोर चोर, पदानुसारेण लब्धोऽसि । कथं तावपि महानुभावावव । प्रणमामि । । । कम्पेनानवरतवेपथुना लोलाश्चला अङ्गुलयो यस्य स तादृशो वर्तते । तत्किं करोमि । इदानी चित्रकर्मवैदग्ध्यप्रकटनं दुर्घटमित्यर्थः । खेदवेपथूयथा-'वपुर्ज- लोद्गमखेदो रतिधर्मश्रमादिभिः । रागरोगभयादिभ्यः कम्पो गात्रस्य वेपथुः ॥' इति ॥ ३८ ॥ तथापीत्यादि स्पष्टम् ॥ जगतीति । जगति भुवने ते ते नवेन्दुक- लादयो भावाः पदार्था जयिनो मन्मथसाहाय्याचरणेन विरहिजनवशीकरणशीलाः। प्रकृतिमधुराः खभावेनैव मनोहराः । इह वटे यक्षः' इति न्यायेन न केवलमन्धपर- म्परया प्रसिद्धाः । अन्ये मालतीव्यतिरिकाः सन्येव येऽन्येषामदृष्टमालतीमुखा- म्बुजानामविवेकिनां वा मनो मदयन्त्युत्सुकयन्ति । नैतदपूर्वम् । सन्तु नाम । तैः किमिदानीं तदपेक्षया वराकप्रायैरिति भावः । 'भिन्नरुचिर्हि लोकः' इति न्या. येनान्येषां यथा तथा वास्तु नाम । मम पुनर्विलोचनचन्द्रिका नेत्राहादकारिणी। लोके लोकप्रसिद्ध्या केवलमिदमुच्यते, न तु खापेक्षया । माधवस्य मालत्यपेक्षया चन्द्रिकादेरतितुच्छतेन मालत्यामुत्कर्षप्रतिपादनार्थ चन्द्रिकालारोपस्य खवचो- व्याहतत्वात् । तेन यथा लोकस्य चन्द्रिका नेत्रयोराह्वादकारिणी एवं मम मालती- सतावता चन्द्रिकाबारोपो न तूत्कर्षप्रतिपादनायोते व्याख्येयम् । एवं च व्याह- तार्थदोष इति तु परिहृतम् । इयं मालती नयनविषयम् । भावप्राधान्येन निर्देशः। नेत्रगोचरतामापनेति यत्स एवास्मिजन्मनि लोके कृत्नेऽपि प्रपञ्च एकोऽद्वि- तीयो महानुत्सवः सौख्यहेतुः । नान्ये चन्द्रकलादय इत्यर्थः । अतिशयोकिरलं- कारः ॥ ३९ ॥ प्रविश्य । मन्दारिकेति । माधवाय प्रदर्य शीघ्रं प्रत्यानयेति कलहंसस्य हस्ते चित्रमर्पितवती मदनोद्यानात्प्रतिनिवृत्त्य क्रीडासौधवर्तिन्यां माल- त्यामय विशेषदर्शनप्रबलतरोत्कण्ठाविनोदनाय क चित्रफलकमिति विमृशन्यां तदसंनिधानादुपजातसंभ्रमा मन्दारिका जनसंकुले कलहंसमन्विष्य तत्रादृष्टवती प्रविश्य वदतीति भावः । द्विरुक्तिः संभ्रमसूचनार्था । तश्च 'निगृह्यानुयोगे च' इति विहितो देशभाषाखपि व्यवहियते । चोरेत्यामन्त्रणं मद्हाचित्रफलकं बया चोरे- णानीतमित्युपहासपरम् । अत एवाह-पदानुसारेण लब्धोऽसीति । ।

प्रथमोऽ ४३ द्धोसि । (सलज्जम् ।) कहं दे वि महाणुहावा एत्य एव्व । (उपसृत्य ।) पणमामि। उभौ-मन्दारिके, इत आगम्यताम् । मन्दारिका-कलहंसक, उवणेहि चित्तफल। कलहंसा-गिह इमं । मन्दारिका-केन किंणिमित्तं वा एत्थ मालदी अहिलिहिदा । कलहंसः-जो एव्व जंणिमित्तं मालदीए । मन्दारिका-(सहर्षम् ।) दिडिआ उवदंसिदफलं विण्णाणं पआवइणो। मकरन्दः-सखि मन्दारिके, यदत्र वस्तुन्येष ते वल्लभः कथयति, अपि तत्तथा । मन्दारिका-महाभाअ, तत्तहा । मकरन्दः-क पुनर्मालती माधवं प्राग्दृष्टवती । १. कलहंसक, उपनय चित्रफलकम् । २. गृहाणेदम् । ३. केन किंनिमित्तं वाऽत्र मालत्यभिलिखिता। ४. य एव यन्निमित्तं मालत्या । ५. दिष्टया उपदर्शितफलं विज्ञानं प्रजापतेः । ६. महाभाग, तत्तथा । चोरो हि पदन्यासलिङ्गानुसरणेनैव गृह्यते ॥ सलजमिति । तत्खामिसं- निधौ तेन सहोपहसनानौचित्यात् । कथं तावपि महानुभावावत्रैव ॥ इत आ- गम्यतामित्यादरोक्तिः तस्याः समनन्तरकार्योपयोगात्तदनुनयार्थम् ॥ मन्दा- रिका । कलहंसक, उपनय चित्रफलकम् ॥ कलहंसः । गृहाणेदम् ॥ मन्दा- रिका । कलहंसकं प्रति । केन किंनिमित्तं वाऽत्र मालत्यभिलिखिता ॥ कलहंसः। य एव यनिमित्तं च मालत्या लिखितो माधवत्तेनैव तद- र्थमेवोत्कण्ठाविनोदार्थमेव मालती लिखितेत्यर्थः ॥ मन्दारिका-सहर्ष- मिति । कामन्दकीपरिजनस्यास्मदादेर्दूत्यव्यापारः फलोन्मुख इति हर्षहेतुः । दिष्ट्या उपदर्शितफलं विज्ञानं प्रजापतेः । ईदृशयुवद्वयनिर्माणं विधातुः शिल्पकौ- शलमनयोरन्योन्यानुरागप्रकर्षेण दर्शितफलं जातम् । परिणयरूपा परिणतिरेवेतः परमवशिष्टेति भावः ॥ मकरन्दः । अत्र प्रतिच्छन्दकरूपे वस्तुनि यदेष ते पतिः कथयति मालत्या लिखितमुत्कण्ठाविनोदनायेति । अपिः प्रश्ने । किं तत्तथा सत्य- म्मत्यर्थः ॥ मन्दारिका । महाभाग, तत्तथा ॥ मकरन्दः-केति । येन मालतीमाधने .- . । 'मन्दारिका-लेवनिआ भणादि वादाअणगदेति । मकरन्दः-नन्वमात्यभवनासन्नरथ्यैव बहुशः संचरावहे . । तदुपपन्नमेतत् । मन्दारिका-अणुमण्णादु महाभाओ । जाव एवं भअवदो दे- वस्स मअणस्स सुचरिअं पिअसहीए लवनिआए णिवेदिस्सामि । मकरन्द:-प्राप्तावसरमेतद्भवत्याः । (उत्थाय परिकामतः।) मकरन्द:-वयस्य, मध्याहोऽतिवर्तते । तदेहि । संस्त्यानमेव प्रविशावः । (उत्थाय परिकामतः।) माधव:-एवं हि मन्ये । धर्माम्भोविसरविवर्तनैरिदानी मुग्धाक्ष्याः परिजनवारसुन्दरीणाम् । तत्प्रातर्विहितविचित्रपत्ररेखा- वैदग्ध्यं जहति कपोलकुङ्कुमानि ॥ १० ॥ १. लवङ्गिका भणति वातायनगतेति । २. अनुमन्यतां महाभागः । यावदिदं भगवतो देवस्य मदनस्य सुचरितं प्रियसख्यै लवङ्गिकायै निवेदयिष्यामि । उत्कण्ठाविनोदनाय तद्रूपमलिखदिति भावः ॥ मन्दारिका । लवङ्गिका भणति वातायनगतेति । एतद्गवाक्षमार्गेण दर्शन मित्यर्थः ॥ मन्दारिका । अनुमन्यता महाभागः यावदिदं भगवतोऽप्रतिहतभावस्य देवस्याशक्यसंघटनेशमिथुनसंघ. टनानुगुणव्यापारात्मकक्रीडावतो मदनस्य सुचरितमन्योन्याकृति निर्माणहेतुपरस्प. रानुरागलक्षणं लवनिकायै निवेदयिष्यामि । तयैवाहमत्र नियुक्का, तमिमं वृत्तान्तं तस्यै निवेदयामि । सा पुनर्यथोचितमाचरिष्यतीति भावः ॥ मकरन्दः-प्रा. तेति । भवत्या एतन्माधवालोकितस्य दृढीकृततदनुरागस्य तदभिलिखितमा- लतीरूपसंपादयिष्यमाणमालतीमनःप्रत्ययस्यास्य प्रतिच्छन्दकस्य लवत्रिकायै नि- वेदन प्राप्तोऽवसरो यस्य तत् । अवसरोचितमित्यर्थः । संस्त्यानं सदनम् ॥धर्माम्भ इत्यादि । मुग्धे सुन्दरे अक्षिणी यस्यास्तस्याः परिचारिकाणां वारविलासिनीनां कपोलकुङ्कुमानि कर्तृणि कपोलयोरनुलिप्तानि कुङ्कुमानि । अनेनानुलेपनविशेष उक्तः । यथा-'वैदग्ध्येनोपरचितं स्तनयोर्वा कपोलयोः । उन्मादनं नयनयोर्य- तत्स्वादनुलेपनम् ॥' इति । धर्माम्भसः खेदजलस्य विसरो बिन्दुसमूहखस्य प्रथमोऽङ्कः । अपि च । उन्मीलन्मुकुलकरालकुन्दकोश- प्रच्योतद्धनमकरन्दगन्धबन्धो । तामीपत्प्रचलविलोचनां नताङ्गी- मालिङ्गन्पवन मम स्पृशाङ्गमङ्गम् ॥ ४१ ॥ मकरन्द:-(खगतम् ।) अभिहन्ति हन्त कथमेष माधवं सुकुमारकायमनवग्रहः स्मरः । विवर्तनैः प्रसरणैः । तत्तदा मया दृष्टं प्रातःकाले विहिता या विचित्रा चमत्का- रकारिणी पत्रलेखा पत्ररचना सैव वैदग्ध्यं तत्कर्मभूतं जहति यजतीति मन्ये । तर्कयामीत्यर्थः । खेदवशात्प्रमृष्टरचनानि विच्छिन्नचातुर्याणि कपोलकुङ्कुमानि मध्याह्ने स्युरिति भावः ॥ ४० ॥ अथोन्मादविजृम्भणमहिना वायोरचेतनादपि तत्संगमं प्रार्थयन्नाह-उन्मीलदित्यादि । हे पवन, तामालिङ्गनेव, न तु तदनन्तरं किंचिद्विलम्ब्य, ममाङ्गमङ्गं प्रत्यवयवं स्पृश । प्रियतमामाश्लिष्यतस्तवा- संस्पर्शोऽपि प्रियतमाङ्गसंस्पर्शकल्प एवेति भावः । यथाह-वाहि वात यतः कान्तां तां स्पृष्ट्वा मामपि स्पृश । बयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥' इति । तामिति । याहशी पूर्व दृष्टा तामेव स्मरति । ईषत्प्रचले विलासवशास्किंचिश्चञ्चले। अथवानिमिषदर्शनेन सख्यो ज्ञास्यन्तीति तत्प्रच्छादनाय किंचिच्चञ्चले लोचने यस्या- स्ताम् । पीवरकुचभरेण विरहग्लान्या वा नतमवनतमङ्गं यस्यास्ताम् । पवनं विशि- नष्टि-उन्मीलदिति । उन्मीलद्भिर्विकासोन्मुखैर्मुकुलैः कोरकैः करालो दन्तुरः । 'करालो दन्तुरे तुङ्गे विशाले विकृतेऽपि च' इति दर्शनात् । यः कुन्दकोशः कुन्द- लताप्रतानं ततः प्रच्योतन्तो घना निबिडा ये मकरन्दाः पुष्परसास्तेषां गन्धस्य बन्धो तस्य सहचरेत्यनेन विलापाख्या मदनावस्था दर्शिता । यथा-'इह दृष्टमिह श्लिष्टमिहागतमिह स्थितम् । इह निवृतमत्रैव शयितं चाप्यलंकृतम् ॥ एवमादीनि वा- क्यानि विलाप इति कथ्यते ॥ अन्तर्बहिः पुरः पश्चादूरादारात्समीपतः॥ क्वचित्प- श्यति यात्येव क्वचित्क्वाप्यवतिष्ठते। आस्ते कचित्कचिच्छेते क्वचिनिन्दति नन्दति ॥ इतश्चेतश्च रथ्यायां रौति भ्राम्यति धावति । एवं विलापजा भावा मनोभववशा- नुगाः ॥ इति ॥४१॥ मकरन्दः-खगतम् । अभिहन्तीति । हन्तेति विषादे । 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः' इति दर्शनात् । अभिह- न्यामीक्ष्ण्येन प्रहरति । अनवग्रहोऽप्रतिवन्धः । दुर्निवार इति यावत् । कथमिद- मत्सन्तानुचितमारब्धमतिनृशंसेन मन्मथहतकेनेत्यर्थः । अचिरेणोत्पत्तिसमय एव यथा चिकित्सानवसरपरो हतः स्यात् , तथा प्रवृद्ध इत्यर्थः । विकृतं दोषत्रयम् । विकृतसंबन्धिविवर्ती वैकृतविवर्त उद्रिक्तदोषत्रयपरिणतिरूपः सांनिपातिको 40 मालतीमाधवे अचिरेण वैकृतविवर्तदारुणः कलभं कठोर इव कूटपाकलः ॥ १२ ॥ तदत्रभवती कामन्दकी नः शरणम् । माधव:-(खगतम् ।) पश्यामि तामित इतः पुरतश्च पश्चा- दन्तर्बहिः परित एव विवर्तमानाम् । उद्बुद्धमुग्धकनकाजनिभं वहन्ती- मासङ्गतिर्यगपवर्तितदृष्टिवक्रम् ॥ १३ ॥ (प्रकाशम् ।) वयस्य, मम हि संप्रति । ज्वरः । स चासौ दारुणश्चेति विग्रहः । कठोरोऽतितीवः । कूटपाकलो गजरोग- विशेषः । कूटेन कपटेनाकस्मादागत्य तस्मिन्नेव निपातयतीति कूटपाकलः । यथा-'यथाभिहन्यात्कूटेन मृगयूथं वनेचरः । तथा पातात्मको नागं हन्ति वै कूटपाकलः ॥ मृगः कूटेन शबरैर्हन्यते दारुणं यथा । तथा तेन द्विपः सीदत्यतः स्यात्कूटपाकलः ॥' इति । केचित्कूटीभूय संधीभूय दोषत्रयेण जनितो गजज्व- रविशेषः कूटपाकल इति व्याचक्षते । अनेनोन्मादावस्था सूचिता । उपमालंकारः ॥ ४२ ॥ तदत्रेति । नान्या गतिरस्तीत्यर्थः । इयमर्थसंप्रसारणरूपा युक्तिर्मुखसं- धेरजम् । यथा-'संप्रसारणमर्थानां युक्तिरित्यभिधीयते' इति । माधवस्तु तामेव गमनसमये दृष्टामिदानीं सर्वत्रापि विलोकयन्नात्मन्येव खकीयमुन्मादातिशयं विमृ- शन्नाह-पश्यामीति । तामेव गमनसमये दृष्टामिदानी बहुधा विवर्तमानाम् । प्रातिभासिकाकारो विवर्तः । प्रतिभासमात्रशरीरतया स्फुरन्तीम् । बाहुविध्यं व्य- नक्ति-इत इत इति । कदाचित्कर्णान्तिकमागत्य रहस्याख्यानसस्पृहामिव पर्यायेण पार्श्वद्वये मदीयबाहुसंस्पर्शरोमाञ्चकञ्चुकितैकपयोधरं निषेदुषीम्, अन्यदा पुरतोऽ- भिमुखमुपविश्य 'किमित्येवमतिविषण्णः खिद्यसे । सर्वथा खदायत्तजीविताहम्' इति प्रौढवनितावन्मामनुनयन्तीम् , क्षणान्तरे पुनः पश्चान्मां मन्दसंचारमागत्य मनयने पिधाय कराभ्यां 'काहं कथय' इति मां विनोदयन्तीम् , कदाचिदसौ किमन्यां वा निरन्तर निध्यायति मामेवेति विचारयितुमिवान्तः प्रविशन्तीम्, तत्र च खात्मान- मेवोपास्यामिव परदेवतामाकारान्तरेण मदिच्छापरिकल्पितेन भासमानामवलोक्य वनितान्तरशङ्कया 'नूनं शठोऽसि । नाहं वत्संनिधौ वर्तितुमुत्सहे' इत्यसूययेव बहि- निर्गत्य चेलाञ्चले गृह्यमाणामपि बलादपसरन्तीम्, कदाचिद्योगिनीमिव परिगृय बहूनि शरीराणि परितः परिवृत्य मामनेकप्रकारैर्विलासैरानन्दयन्तीमिति खमनोरथ- विजृम्भणप्रपञ्चनप्रकारः। पुनः कीदृशीम् । विकसन्मनोहरकनककमलसदृशम् ।आ- सन मय्यासकतया तिर्यगपवर्तिता तिर्यग्वलिता दृष्टिर्यस्य तत्तादृशं वकं वहन्ती- प्रथमोऽङ्कः। प्रसरति परिमाथी कोऽप्ययं देहदाह- स्तिरयति करणानां ग्राहकत्वं प्रमोहः । रणरणकविवृद्धि बिभ्रदावर्तमान ज्वलति हृदयमन्तस्तन्मयत्वं चं धत्ते ॥ १४ ॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे प्रथमोऽङ्कः । मिति ॥ ४३ ॥ एवं खात्मनि विमृष्टमेवार्थ वयस्याय मकरन्दाय निवेदयन्नाह- प्रसरतीति । कोऽप्यनिर्वाच्यः केनाप्यविदितनिदानः परिमाथी परिमथनशील: सद्य एव विपत्तिशङ्काकार्ययं देहदाहो मदनज्वरः प्रसरति सर्वावयवव्याप्तो वर्तते । ज्वराज्यस्य दशाविशेषस्य लक्षणमुक्तम् । प्रमोहः । 'सुखदुःखादिजनितो मोहश्चित्तस्य मूढता' इत्युक्तरूपः करणानामिन्द्रियाणां ग्राहकलं खखविषयप्र- हणशकिं तिरयति नाशयति । रणरणकस्योत्कण्ठाया विवृद्धिं बिभ्रत् । आवर्तमानं मदनानलेन क्वाथ्यमानम् 'आवर्तनं क्वाथनं स्यात्' इति वचनात्। हृदयमन्तवलति। यथा तैलादिकमतिकाथेन प्रज्वलति तद्वदिति । कथं तहीदानी प्राणधारणमित्यत माह-तन्मयलं मालतीतादात्म्यमेवामृतनिषेकप्रायम् । संजीवनौषधमित्यर्थः ४४ चापलं यदकारीदं बालेनापि सता मया । गुणैकप्राहिणामेतत्प्रीतयेऽस्तु महात्मनाम् ॥ इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रिपुरा- रिसूरिविरचितायां मालतीमाधवभावप्रदीपिकायां प्रथमाङ्कविवरणम् ॥

-- द्वितीयोऽङ्कः। (ततः प्रविशतश्चेव्यो।) एका हेला, संगीतसालापरिसरे अवलोइआदुईआ भअवदी कामन्दई किं वि मन्तअन्ती आसी । . द्वितीया सहि, तेण किल माहवप्पिअवअस्सेण मअरन्देण सअलो मअणुजाणउत्तम्तो भअवदिए णिवेदिदो । तदो भट्टिदारि दुटुकामाए पउत्तिणिमित्र अवलोइदा अनुप्पेसिदा । मए वि ताए कहिदं जह लवङ्गिआदुईआ विवित्ते भट्टिदारिआ वट्टदित्ति । १. सखि, संगीतशालापरिसरेऽवलोकिताद्वितीया भगवती कामन्दकी किमपि मन्त्रयन्त्यासीत् । २. सखि, तेन किल माधवप्रियवयसेन मकरन्देन सकलो मदनोद्यान- वृत्तान्तो भगवत्यै निवेदितः । ततो भर्तृदारिकां द्रष्टुकामया प्रवृत्तिनिमित्त- मवलोकितानुप्रेषिता । मयाऽपि तसै कथितं यथा लवङ्गिकाद्वितीया विविक्ते भर्तृदारिका वर्तत इति । जयत्यपूर्व पाण्डित्यमहो कुसुमधन्वनः । मा विरचप्रपञ्चैकसंप्रदायप्रवर्तकम् । केनाप्यनुपदिष्टेषु प्रगल्भा येन बालिका ॥ कविरिदानीमङ्कान्तरमारभमाणो लवङ्गिकागमनानन्तरभाविवृत्तान्तसूचनाया- र्थोपक्षेपकं प्रवेशकं तावत्प्रस्तौति-तत इत्यादि । प्रवेशकस्तु-'वृत्तवर्तिष्यमा- णानां कथांशानां निदर्शकः । प्रवेशकस्तु नाव्यादौ नीचपात्रप्रयोजितः ॥' इति । चेट्यौ दास्यौ । एतादृशानामेव प्रवेशकाईलात् । यदाह-'परिजनकथानुबन्धः प्रवेशको नाम विज्ञेयः' इति ॥ एका। हलेति सख्या आमन्त्रणम् । संगीतशालाप- रिसरेऽवलोकिताद्वितीया भगवती कामन्दकी किमपि मन्त्रयन्यासीत् । प्राकृते बहुलग्रहणादद्यतनभूतेऽपि लप्रयोगः । अवलोकितया तदा वं किमभाषिष्ठा इत्यर्थः ॥ द्वितीया । सखि, तेन किल माधवप्रियवयस्येन मकरन्देन सकलो मदनोद्यानवृत्तान्तो भगवत्यै निवेदितः।मकरन्देन निश्चितं खलु कामन्दकी नःशर- णमिति। ततः सुहृद्विपत्प्रतीकारार्थ तत्समर्थाय कामन्दक्यै तत्सर्व निवेदितवानित्य- वलोकितामुखाच्छ्रुतमित्यर्थः । ततो भर्तृदारिका द्रष्टुकामया भगवत्या प्रवृत्तिनिमित्तं क वा कथं वा वर्तत इति भर्तृदारिकायाः समवस्थापरिज्ञानार्थमवलोकितानुप्रेषिता । मयाऽपि तस्यै अवलोकिताये कथितं यथा लवक्षिकाद्वितीया विविके भर्तृदारिका द्वितीयोऽङ्कः। ४९ प्रथमा सहि, लवनिआ क्खु केसरकुसुमाइं अवइणुम्मि ति गआ मअणुजाणं किं संपदं णिउत्ता। द्वितीया-अह ई । तं क्खु आपतन्ती एव हत्थे घेचूण अप- रिअणा भट्टिदारिआ उपरिअलिन्दं समारूढा । प्रथमा-प्रूणं तस्स महाणुहावस्स संकहाए अत्ताणं विणोदेह । द्वितीया-(निःश्वस्य ।) कुंदो क्खु से आस्सासो । एदिणा अज सविसेसदसणेण अदिभूमि क्खु ताए अहिणिवेसो गमिस्सदि । अण्णं अ। कले एव्व णन्दणस्स कारणादो महाराओ भट्टिदारि पत्थअन्तो अमच्चेण विण्णत्तो। प्रथमा-कि ति। १. सखि, लवङ्गिका खलु केसरकुसुमान्यवचिनोमीति गता मदनोद्यानं किं सांप्रतं निवृत्ता। २. अथ किम् । तां खल्वापतन्तीमेव हस्ते गृहीत्वाऽपरिजना भर्तृदारि- कोपर्यलिन्दं समारूढा। ३. नूनं तस्य महानुभावस्य संकथयात्मानं विनोदयति । ४. कुतः खल्वस्या आश्वासः। एतेनाद्य सविशेषदर्शनेनातिभूमि खलु तस्या अभिनिवेशो गमिष्यति । अन्यच्च । कल्य एव नन्दनस्य कारणान्म- हाराजो भर्तृदारिकां प्रार्थयमानोऽमात्येन विज्ञप्तः । ५. किमिति । वर्तत इति ॥ प्रथमा-सखि, लवङ्गिका खलु केसरकुसुमान्यवचिनोमीति तत्रैव " विलम्बितवती नास्माभिरागच्छन्तीभिः सह मदनोद्यानादेवागता किं सांप्रतं संप्राप्ता ॥ द्वितीया । अथ किम् । बाढं संप्राप्तेत्यर्थः । तां खल्वापतन्तीमेव हस्ते गृहीत्वाऽपरिजना प्रतिषिद्धसकलपरिचारिका भर्तृदारिकोपर्यलिन्दं क्रीडागृहबहिा- रप्रान्तवर्तिन्या वेदिकाया ऊर्ध्वभागं समारूढा ॥ प्रथमा । नूनं तस्य महानु- भावस्य संकथयात्मानं विनोदयति । खया किमुक्तं तेन च किमुक्तमिति तत्प्रसङ्गे- नैवोत्कण्ठाविनोदकं करोतीत्यर्थः ॥ द्वितीया-निःश्वस्येति । मालतीमनोर- थान्तरायाधिगमानिःश्वासः। कुतः खल्वस्या आश्वासः। एतेनाद्य सविशेषदर्शनेना- तिभूमि परां काष्ठां खलु तस्या अभिनिवेशोऽनुरागप्रकर्षों गमिष्यति । अन्यदप्य- भिनिवेशविवृद्धौ निमित्तं सूचयति-कल्ये च प्रभातसमय एव नन्दनस्य कारणा- न्महाराजो भर्तृदारिका प्रार्थयमानोऽमायेन विज्ञप्तः॥प्रथमा । किमिति विज्ञतम् । M ५० मालतीमाधवे द्वितीया-पहवह णिअस्स कण्णाजणस्स महाराओ ति । अदो आमरणं क्खु मालदीए हिअअसल्लं माहवाणुराओ ति तोमि । प्रथमा-अवि णाम भअवदी एत्थ किं वि भअवदिचणं दंसहस्सदि। द्वितीया-अइ असंबद्धमणोरहे, एहि । (इति निष्क्रान्ते ।) प्रवेशकः। (ततः प्रविशत्युपविष्टा सोत्कण्ठा मालती लवङ्गिका च ।) १. प्रभवति निजस्य कन्यकाजनस्य महाराज इति । अत आमरणं खलु मालत्या हृदयशल्यं माधवानुराग इति तर्कयामि । २. अपि नाम भगवत्यत्र किमपि भगवतीत्वं दर्शयिष्यति । ३. अयि असंबद्धमनोरथे, एहि । कथयेति शेषः ॥ द्वितीया । प्रभवति निजस्य कन्यकाजनस्य महाराज इति । विज्ञप्त इति शेषः । अत आमरणं खलु तस्या मालत्या माधवानुरागः शल्यमनभि- लषितवरप्रदानशवाविषाकं मन्मथनाराचफलतुल्यमिति तर्कयामि ॥ प्रथमा । अपि नाम भगवती किमप्यत्र भगवतीलं दर्शयिष्यति । मालत्यामतिवत्सला काम. न्दकी तन्मनोरथसंपादने खकीयज्ञानवैराग्यैश्वर्यादिसंपत्तिरूपं माहात्म्यं प्रकट- यिष्यतीति संभाव्यत इत्यर्थः ॥ द्वितीया । अयि असंबद्धमनोरथे, एहि । प्रकृ. तकृत्यानुसरणायेति शेषः ॥ एवं मकरन्देन कामन्दक्यै माधवावस्थानिवेदनम्, लवङ्गिकाप्राप्तिम् , मालतीलवङ्गिकयोः प्रवेशम् , तदनन्तरं मालत्यवस्थापरिज्ञानार्थ कामन्दक्यागमनम् , तया च प्रसज्यमानं नन्दनवृत्तान्तं सूचयिखा चेट्यौ निष्क्रान्ते॥ प्रवेशकः ॥ तत इति । लव निकाद्वितीया विविक्के वर्तत इति सूचितप्रवेशे मालतीलवङ्गिके प्रविशत इत्यर्थः । नन्वत्र नायकप्रवेशाभावात्प्रत्यक्षनायक- चरितवर्णनाख्याङ्कलक्षणाभावात्कथमस्याङ्कलम् । नेतृप्रहणेन नायिकाया अप्येक- शेषेण ग्रहणाददोषः । किं चाङ्कद्वयस्याप्येकदिनव्यापारखात्, एकसंध्यात्मकखाच पूर्वाङ्कशेष एवायं पात्रप्रवेशनिर्गमसौकर्यार्थ नायकव्यापारानुसंधानं परिसमाप्य नायिकाव्यापारानुसंधानात्मकसौकर्यार्थ चाहान्तरं कृतमिति मन्तव्यम् । कथमङ्क- द्वयस्यैकसंधित्वमिति चेदुच्यते-'अन्वितानां कथांशानां परमेते प्रयोजने । संबन्धः संधिरित्युक्तोऽत्रान्तरैकप्रयोजने ॥' इत्येवंरूपम् । तदत्र मालतीमाधव- योर्विवाहलक्षणपरमप्रयोजनसमन्वितानामवान्तरैकप्रयोजने तदन्योन्यानुरागस्य बीजस्य दृढ़ीकरणलक्षणे प्रवृत्तानामद्यतनकामन्दक्यवलोकितादिप्रयत्नो मदनो- द्यानचित्रफलकवृत्तान्तो नन्दनप्रससोद्भावनेन मालतीमनोदृढीकरणं माधवस्य कुलशीलवयोरूपादिप्रख्यापनं चेत्येतेषां कथांशानां संबन्धः सानो मुखसंधिः ।

द्वितीयोऽङ्कः । ५१ मालती-संहि, तदो तदो । लवङ्गिका-तंदो तेण महाणुहावेण उवणीदा इअं उवल- माला । ( इत्यर्पयति ।) मालती-(मालां गृहीला सहर्ष निर्वर्ण्य ।) सँहि, एकपासविसम- पडिबा इअं विरअणा । लवङ्गिका-एत्थ अरमणिज्जत्तणे तुमं एवं अवरद्धासि । मालती-कहं विअ । लवङ्गिका-जेणं सो दुव्वासामलङ्गो तहा विहत्यीकिदो । मालती-सहि लवङ्गिए, सव्वहा आसासणसीलासि । लवङ्गिका-संहि, एत्थ का आसासणसीलदा । णं भणामि । १. सखि, ततस्ततः । २. ततस्तेन महानुभावेनोपनीतेयं बकुलमाला । ३. सखि, एकपार्थविषमप्रतिबद्धेयं विरचना । ४. अत्रारमणीयत्वे त्वमेवापराद्धासि । ५. कथमिव । ६. येन स दूर्वाश्यामलाङ्गस्तथा विहस्तीकृतः । ७. सखि लवङ्गिके, सर्वथाश्वासनशीलासि । ८. सखि, अत्र काश्वासनशीलता । ननु भणामि । सोऽपि प्रिय- 'मुखं बीजसमुत्पत्तिर्नानार्थरससंभवा' इत्युक्तलक्षणात् इत्यलं प्रपञ्चेन ॥ मा- लती । सखि, ततस्ततः । मदनोद्याने स्खविलम्बं माधवसमीपगमनं चतुरैर्वचन- बकुलदामप्रार्थनं चेत्येतावदुक्तवती लवङ्गिकां प्रत्युपरितनवृत्तान्तश्रवणकौतुको- त्कर्षात्संभ्रमप्रश्नः । आदरसूचनार्था वीप्सा । अनन्तरवृत्तान्तं कथयेति शेषः ॥ लवङ्गिका। ततस्तेन महानुभावेनोपनीतेयं बकुलमाला ॥ मालती। निर्वर्ण्य सादर विलोक्य । सखि, एकपार्श्वविषमप्रतिबद्धयं विरचना ॥ लवङ्गिका । अत्रारमणीयले खमेवापराद्धासि ॥ मालती । कथमिव । माधवकर्तृकायाःस्रग्वि- रचनाया एकपार्श्ववैषम्ये कथमहं निमित्तं भवामीत्यर्थः ॥ लवङ्गिका । येन स दूर्वाश्यामलाङ्गस्तथा विहस्तीकृतः । वस्तुतो ग्रथन क्रियाया विकलहस्तः कृतः । खमेव खसौन्दर्यसंपदा गम्भीरमपि तन्मनः समाकर्षन्ती प्रस्तुतक्रियाविकलंहस्तं कृतवती । तत इदं विरचनावैषम्यं जातमिति भावः ॥ मालती । सखि लव- शिके, सर्वथाश्वासनशीलासि । मत्समाश्वासनाय केवलमिदं खयोच्यते । तस्य मय्यनुरागोऽसंभावित इति भावः ॥ लवङ्गिका । सखि, कात्रावासन- ६माल.

१२ मालतीमायदे सो वि पिअसहीए मन्दमारुअप्पअलिअप्पफुल्लपुण्डरीअविब्भमेहि पढ़मारद्धवउलावलीविरअणावदेससंअमणबलामोडिअवित्थरन्तेहिं लो. अणेहिं विअम्भमाणविम्हअस्थिमिददीहपरेन्तपरिअन्तणाविलासुल्लसि. अभूलदाविहाविदाणङ्गसरसंरम्भविब्भमविअड्डे ओलोअन्तो पच्चक्खी- किदो एव्व । मालती-(लवनिका परिष्वज्य ।) आम पिअसहि, किं दाव तस्स साहाविआ एव्व ते मुहुत्तसंणिहाइणो जणस्स विप्पलम्भइ- तआ विलासा, आदु पिअसही जहा संभावेदि । सख्या मन्दमारुतप्रचलितप्रफुल्लपुण्डरीकविभ्रमाभ्यां प्रथमारब्धबकुलावलीवि- रचनापदेशसंयमनबलात्कारविस्तृताभ्यां लोचनाभ्यां विजृम्भमाणविस्मयस्ति- मितदीर्घपर्यन्तपरियन्त्रणाविलासोल्लसितभ्रूलताविभावितानङ्गशरसंरम्भविभ्रम- विदग्धमवलोकयन्प्रत्यक्षीकृत एव । १. आम प्रियसखि, किं तावत्तस्य स्वाभाविका एव ते मुहूर्तसंनिधायिनो जनस्य विप्रलम्भयितृका विलासाः, आहोस्वित्प्रियसखी यथा संभावयति । शीलता। प्रत्यक्षसिद्धेऽर्थे किं मय्य विश्वासेनेत्यर्थः । ननु भणामि । सोऽपि प्रियसख्या प्रत्यक्षीकृत एवेत्यन्तेन संबन्धः । न मयैवेति भावः। मन्दमारुतप्रचलितप्रफुल्ल- पुण्डरीकविभ्रमाभ्यां प्रथमारब्धबकुलावलीविरचनापदेशेन यत्संयमनं वदवलोक- नजनिताकारविक्रियासंवरणं तन्मूलो यो बलात्कारस्तेन विस्तृताभ्याम् । बला- मोडिएति बलात्कारे देशीपदम् । लोचनाभ्यां विजृम्भमाणविस्मयस्तिमितदी- पर्यन्तपरियन्त्रणाविलासोल्लसितबेलताविभावितानङ्गशरसंरम्भविभ्रम विदग्धम् । विजृम्भमाणोऽद्भुतरसतामापाद्यमानो यो विस्मयस्तेन स्तिमिती निष्पन्वीकृती दीर्घावायतौ च यौ लोचनप्रान्तौ तयोः परियन्त्रणा नियमनं सैव विलासतेनो- लसिताभ्यां भूलताभ्यां विभावितो योऽनङ्गशरसंरम्भः स एव विभ्रमस्तेन विदग्धं यथा स्यात्तथेति विग्रहः । अवलोकयन्प्रत्यक्षीकृत एव । तस्य साभिलाषष्टिमि- रेव खय्यनुरागो विभाव्यत इति भावः ॥मालती। परिष्वज्य । खमनोभववृत्ता- न्तप्रत्यक्षसंवादप्रदर्शनजनितो हर्षः परिष्वङ्गे निमित्तम् । आमेति संवादे । अनीकार इति केचित् । मम मनसि वर्तमानमेव वयाप्युक्तं तदेवमेव खल्वित्यर्थः । प्रिय- सखि, किं तावत्तस्य खाभाविका एव ते मुहूर्तसंनिधायिनो जनस तत्क्षणमात्र- संनिहितस्य पांसुरपादस्य । खभावविशेषानभिज्ञस्येति यावत् । विप्रलम्भपितृका वञ्चयितारो विलासाः, आहोखिद्यथा प्रियसखी संभावयति । किं तस्य सहजेरोष विलासरपरिचयाद्वयं विप्रलब्धाः, किं वा खदुकरीत्यानुरागसूचका एवेति मानः॥

द्वितीयोऽङ्कः। लवङ्गिका-(विहस्य सासूयमिव ।) तुमं वि सहावेण एव तस्सि अवसरे असंगीदअं णत्तिदासि । मालती-(सलज्ज विहस्य ।) हुँ, तदो तदो। लवङ्गिका-तेंदो पडिणिउत्तमाणजत्ताजणसंकुलेण अन्तरिदे तस्सि मन्दारिआघरं उवगदम्हि । ताए चित्रफलअं पहादे हत्थी- किदं आसी। मालती-*किंणिमित्तं । लवङ्गिका-तं क्खु माहवाणुअरो कलहंसओ कामेदि । सा तस्स दंसइस्सदित्ति । तदो पिअणिवेदिआ मन्दारिआ संवुत्ता । मालती-(खगतम् । सानन्दम् ।) पॅणं देण वि कलहंसएण १. त्वमपि स्वभावेनैव तस्मिन्नवसरेऽसंगीतकं नर्तितासि । २. हुं, ततस्ततः। ३. ततः प्रतिनिवर्तमानयात्राजनसंकुलेनान्तरिते तस्मिन्मन्दारिकागृह- मुपगतासि । तस्याश्चित्रफलकं प्रभाते हस्तीकृतमासीत् । ४. किंनिमित्तम् । ५. तां खलु माधवानुचरः कलहंसकः कामयते । सा तस्स दर्शयिष्य- तीति । ततः प्रियनिवेदिका मन्दारिका संवृत्ता । ६. नूनं तेनापि कलहंसकेनैतत्प्रतिच्छन्दकमात्मनः प्रभोदर्शितं भवि- ष्यति । सखि, किमिदानीं ते प्रियम् । लवलिका । निश्चित्यापि भावगुप्तये केवलमियं संदिग्ध इति विहस्य निश्चितेऽप्यर्थे ममापि किमाच्छाद्यत इति सासूयम् । आहेति शेषः। सावज्ञ(2)मित्यव्ययं प्रणयक्रोधे। बमपि खभावेनैव तस्मिन्नवसरेऽसंगीतकं स्त्रीगानशून्यम् । 'स्त्रीणां रजोपविष्टाना गानं संगीतकं मतम्' इति वचनात् । नर्तितासि । यदि तस्य सहजविलासैस्वं वञ्चितासि तर्हि बदीया अपि विलासाः स्वाभाविकातद्वचिका एव । न खनुराग- प्रभवा इति । प्रतिवन्दितः प्रकृतार्थनिर्धारणमेतत् ॥ मालती । इतःपर गो- पनाशके सलजम् । हुमिति प्रश्न । ततस्ततः वक्तव्यशेषं ब्रूहीत्यर्थः ॥ लव. निका । ततः प्रतिनिवर्तमानयात्राजनसंकुलेनान्तरिते तस्मिन्माधवे मन्दारि- कागृहमुपगतास्मि । तस्याश्चित्रफलकं प्रभाते हस्तीकृतं न्यासीकृतमासीत् ॥ मालती। किंनिमित्तम् ॥ लवङ्गिका । तां खलु माधवानुचरः कलहंसकः कामयते । सा तस्य दर्शयिष्यतीति हेतोस्तस्या हस्ते दत्तमासीदित्यर्थः । सतो मन्दारिका प्रियनिवेदिका संवत्ता ॥ मालती। खगतम् । नूनं वेनापि कलहंस- ५४ मालतीमाधवे एवं पडिच्छन्दअं अत्तणो पहुणो दंसिदं हविस्सदि । (प्रकाशम् ।) सहि, किं दाणी दे पिअं। लवङ्गिका-एदं क्खु संदाविदस्स तुह संदावआरिणो दुल्ल- हमणोरहावेसदूसहाआसदज्झन्तचित्तस्स खणमेत्तणिव्वावइत्तरं तुह पडिच्छन्दअं। (इति चित्रं दर्शयति ।) मालती—(सहर्षोच्छ्वासं चिरं निर्वर्ण्य ।) अम्हो, दाणी विहिअ- अस्स मे अणासासो। जेण एवं वि आसासणं विप्पलम्भो त्ति संभावीअदि कहं अक्खराइं पि । ('जगति जयिनः' इत्यादि पठति । सानन्दम् ।) महाभाअ, सरिसं क्खु दे णिम्माणस्स वअणमहुरदाए । दसणं उण तकालमणोहारि परिणामदीहसंदावदारुणं अ। धण्णाओ १. एतत्खलु संतापितस्य तव संतापकारिणो दुर्लभमनोरथावेशदुःसहा- यासदह्यमानचित्तस्य क्षणमात्रनिर्वापयितृकं तव प्रतिच्छन्दकम् । २. अहो, इदानीमपि हृदयस्य मेऽनाश्वासः। येनेदमप्याश्वासनं विप्रलम्भ इति संभाव्यते कथमक्षराण्यपि । महाभाग, सदृशं खलु ते निर्माणस्य वच- नमधुरतया । दर्शनं पुनस्तत्कालमनोहरं परिणामदीर्घसंतापदारुणं च । धन्याः केनैतत्प्रतिच्छन्दकमात्मनः प्रभोर्दर्शितं भविष्यतीति । कथमन्यथा मन्दारिका- प्रियनिवेदिका स्यादिति भावः । प्रकाशम् । सखि, किमिदानी ते प्रियम् । यन्म- न्दारिकाया निवेदितमित्यर्थः ॥ लवङ्गिका । एतत्खलु संतापितस्य वदप्राप्त्या संतप्यमानस्य तव संतापकारिणो दुर्लभे बय्येव विषये यो मनोरथावेशस्तेन यो दुःसहायासस्तेन दह्यमानस्य चित्तस्य क्षणमात्र निर्वापयितृकं तव प्रतिच्छ- न्दकम् । ममेदानीं प्रियमिति शेषः । बया तथा तद्दर्शनमन्तरेण जीवितुमपारयन्त्या चित्रदर्शनेनापि प्राणान्धारयितुं प्रतिच्छन्दकं लिखितं तेनाप्येवमेव वत्प्रतिकृति- लिखितेत्येतदेव मे प्रियम् । अन्योन्यानुरागप्रकर्षस्य प्राप्तिबीजस्य निश्चयादिति भावः ॥ मालती । सहर्षोच्छ्वासम् । समाश्वासः प्रियस्य खस्यामत्यन्तानुरागः निश्चयहेतोः । तलिखितात्मप्रतिरूपस्य दर्शनात् । हर्षोच्छवासी 'मनःप्रसादो हर्षः स्थादिष्टप्राप्तिस्तवादिभिः' इति लक्षणात् । कचित् 'सहर्ष साध्वसम्' इति पाठः । तत्र कुमारीजनानुचितपरपुरुषानुरागप्रत्यायकमेतत्कस्य वा बन्धुजनस्य दक्पथं गच्छेदिति साध्वसहेतुः । अहो इदानीमपि हृदयस्य मेऽनाश्वासः । येनेदमप्याश्वा- सनं विप्रलम्भ इति संभाव्यते । कथमक्षराण्यपि । दृश्यन्त इति शेषः । जगतीति विवृतं प्राक् । सानन्दमिति । श्लोकार्थानुसंधानमानन्दहेतुः। महाभाग, सदृशं खलु ते निर्माणस वचनमधुरतया । निर्माणे वचने च तुल्यैव मधुरतेत्यर्थः । दर्शनं ।

द्वितीयोऽदः । क्खु ताओ इत्थिआओ जाओ तुम ण पेक्खन्दि । पेक्खिा. अत्तणो हिअअस्स वा पहवन्दि । लवङ्गिका-सहि, एवं वि णत्थि दे आसासो। मालती के वि। लवङ्गिका-जैस्स कारणादो तुम उक्खण्डिअबन्धणं कहेलि- पल्लवं विअ हिअअंधारेन्दी किलन्दणोमालिआकुसुमणीसहा कुसु- माउहेण पडिहिज्जसि, सो वि जाणाविदो भअवदा मम्महेण संदावस्स दूसहत्तणम् । मालती-संहि, कुसलं दाणी तस्स महापहावस्स होदु । मह उण सुदुल्लहो आसासो। (सास्रम् । संस्कृतमाश्रित्य ।) खलु ताः स्त्रियो यास्त्वां न प्रेक्षन्ते । प्रेक्ष्यात्मनो हृदयस्य वा प्रभवन्ति । १. सखि, एवमपि नास्ति ते आश्वासः । २. कथमिव । ३. यस्य कारणात्त्वमुत्खण्डितबन्धनं कङ्केल्लिपल्लवमिव हृदयं धारयन्ती क्लाम्यन्नवमालिकाकुसुमनिःसहा कुसुमायुधेन परिहीयसे, सोऽपि ज्ञापितो भगवता भन्मथेन संतापस्य दुःसहत्वम् । ४. सखि, कुशलमिदानीं तस्य महाप्रभावस्य भवतु । मम पुनः सुदु- लभ आश्वासः । पुनस्तत्कालमनोहर परिणामेऽसंदर्शनसमये दीर्घसंतापदारुणं च । धन्याः खलु ताः स्त्रियो यास्वां न प्रेक्षन्ते । पुण्यवशात्कथंचित्पश्यन्त्योऽप्यात्मनो वा हृदयस्य प्रभवन्ति । यास्वां न पश्यन्ति ताः खजन्मनैष्फल्यादृष्ट्वापि यास्वन्यमनस्काः पशुकल्पतयानादरणीयत्वादुमयेऽप्यधन्या इति व्यतिरेको ध्वन्यते ॥ लवङ्गिका। सखि, एवमप्याश्वासितेऽपि नास्ति त आश्वासः ॥ मालती । कथमिव । किमि- दानीमनन्यथासिद्धमाश्वासननिमित्तं दृष्टमिति तयैव वाचयितुमवगतेऽपि प्रश्नः ॥ लवङ्गिका । यस्य कारणात्त्वमुत्खण्डितबन्धनमुच्छिन्नमूलं कडूलिपल्लवमशोक- पल्लवमिव हृदयं धारयन्ती क्लाम्यन्नवमालिकाकुसुमनिःसहातिसुकुमारा कुसुमायु- धेन परिहीयसे परिहानि तनुतां प्राप्यसे, सोऽपि ज्ञापितो भगवता मन्मथेन संतापस्य दुःसहत्वम् । तल्लिखितश्लोकवाद्भवत्या इव तस्यापि गाढानुरागप्रती- तिरेवाश्वासननिमित्तमिति भावः ॥मालती । सखि, कुशलमिदानीं तस्य महा. प्रभावस्य भवतु । मम पुनः सुदुर्लभ आश्वासः । मम पुनरिदानीमेव चरमावस्था भवतु । मदवस्थासदृशावस्थलं तस्य मा भवतु । तादृशस्य त्रिभुवनालंकारस्य दुर्लभजन्मलादिति भावः । सास्रम् । वेदनाया अतिदुःसहवात्सयो विपत्तिशझ्या सानलम् । संस्कृतमाश्रित्येति । यदाहुः-'वेश्यानामप्सरसामन्तःपुरिकासु ।

मालतीमाप : मनोरोगतीम्रो विषमिव विसर्पनविरतं प्रमाथी निघूमं ज्वलति विधुतः पावक इन। हिनस्ति प्रत्यक्षं ज्वर इव गरीयानित इतो न मांत्रातुं तातः प्रभवति न चाम्बा न भवती ॥१॥ लवङ्गिका-एव्वं एदं । पञ्चक्खसोक्खदाइणो परोक्खदुक्ख- दूसहा सज्जणसमाअमा होन्दि । अवि अ पिअसहि, जस्स वादा- अणन्दरमुहुत्तदंसणेण वि सुसमिद्धहुदवहाअन्तपुण्णचन्दोदया णिक- रुणकामव्वावारसंसइदजीविदा दे सरीरावत्था, तस्स एव्व संपदं सविसेसदसणादो अज्ज संतप्पसि ति किं एत्थ भणिदव्वम् । ता १. एवमेतत् । प्रत्यक्षसौख्यदायिनः परोक्षदुःखदुःसहाः सजनस- मागमा भवन्ति । अपि च प्रियसखि, यस्य वातायनान्तरमुहूर्तदर्शनेनापि सुसमिद्धहुतवहायमानपूर्णचन्द्रोदया निष्करुणकामव्यापारसंशयितजीविता ते शरीरावस्था, तस्यैव सांप्रतं सविशेषदर्शनादद्य संतप्यस इति किमत्र भणि- चाग्यमहिषीणाम् । संस्कृतमपि योग्यं स्यात्प्रस्तावेनागतं किंचित् ॥' इति ॥ माल- त्याश्चान्तःपुरिकाखन्तःपातः । अत एव भर्तृदारिकाव्यवहारोऽपि ॥ मनोरोग इति । विषमिवाविरतमनवरतं विसर्पन्सर्वधातुषु व्याप्नुवन् । प्रमाथी तीव्रः सद्यो विपत्तिकृत् । अयं मान्मयो मनोरोगो मन्मथव्यथालक्षणो व्याधिः । निर्धूमं धूमरहितं यथा विधुतः संधुक्षितः पावक इव ज्वलति । तथा गरीयान्सानिपातिको ज्वर इव प्रत्यङ्गं सर्वेष्वप्यवयवेष्वित इतोऽन्तर्बहिश्व हिनस्ति पीडयति । ततो मां दुस्तरादस्माद्यसनात्रातुं तातोऽपत्यम्नेहपरवशोऽपि तावतरपतिमनोरजनप्रषण- खान प्रभवति । पुमपत्येष्वधिकलाद्वात्सल्यस्य पितुः कन्यकाजने माता निरति- शयप्रेम निघ्नहृदया यद्यपि भवति तथाप्यम्बा भर्तृपराधीना न मां रक्षितुं समर्था । जनन्यपेक्षयापि सहपांसुक्रीडनादिभिः समदुःखसुखाः खमनोनिर्विशेषाः सख्य. तथापि भवती मद्विषयेऽखतरखान रक्षणक्षमा । किं तु यदि रक्षणे समर्थः स्यात्स एवैकोऽमृतसंजीवनौषधिरिव माधवः । स च मम दुर्लभ एवेति मरणमे- वेदानीं शरणम् , नान्यत्किंचिदित्यर्थः । विषज्वलनज्वराख्योपमानत्रयोपादान नेके- नायमुपमातुं शक्यत इत्यतिशयसूचनार्थम् । संज्वरोन्मादौ चानेनोको । तलक्षणं प्रागेवोकम् ॥ १॥ लवङ्गिका । एवमेतत् । प्रत्यक्षसौख्यदायिनः परोक्षदुःख- दु:सहाः सजनसमागमा भवन्ति । नेदमाचर्य यदत्र संतापः । कुत इत्यत्र हेतु. माह-अपि चेति ॥ प्रियसखीति । यस वातायनान्तरमुहूर्तदर्शनेनापि सुसमिबहुतवहायमानपूर्णचन्द्रोदया निष्करुणकामव्यापारसंशयितजीविता ते शरीरावस्था । भवतीति शेषः । तस्यैव सांप्रतं सविशेषदर्शनेमार संतप्पस इति किमत्र भणितव्यम् । तदत्र प्रियसखि, श्लाघनीयं दुर्लभविषये यो मनोरषखस द्वितीयोऽ एत्थ पिअसहि, सलाहणिजं दुल्लहमणोरहफलं जीअलोअस्स जं गुरु आणुराअसरिसो महाभाअवल्लहसमाअमो ति एत्ति जाणीमो । मालती-सहि, दइदमालदीजीविदे, साहसोवण्णासिणि, अवे- हि । (सास्रम् ।) अहवा । अहं एव्व वारंवारं विलोमअन्ती पलाअंतपडि- हाविदधीरत्थणावट्ठम्मेण अत्तणो हिअएण दूरं विलीअन्तलज्जतेण दुविणअलहुआ एत्थ अवरद्धम्मि ।तहावि पिअसहि । (संस्कृतमाश्रित्य ।) तव्यम् । तदत्र प्रियसखि, श्लाघनीयं दुर्लभमनोरथफलं जीवलोकस्य यद्गुरु- कानुरागसदृशो महाभागवल्लभसमागम इत्येतावजानीमः । १. सखि, दयितमालतीजीविते, साहसोपन्यासिनि, अपेहि । अथवा । अहमेव वारंवारं विलोकयन्ती पलायमानप्रतिष्ठापितधीरत्वावष्टम्भेनात्मनोहृद- येन दूरं विलीयमानलज्जात्वेन दुर्विनयलव्यत्रापराध्यामि । तथापि प्रियसखि । फलं तत्सिद्धिरूपं जीवलोकस्य प्राणिवर्गस्यैतदेव यद्गुरुकानुरागस्य गरीयसः पर- स्परप्रेमबन्धनस्य सदृशोऽनुरूपो महाभागवल्लभसमागम इत्येतावज्जानीमो वयम् । शरीरवियोगानन्तरं कस्य किं वा फलमिति केवलं शिवो वेद । जीवतां पुनः खजन्मसाफल्यमभिलषता प्राम्भवीयसुचरितातिरेकात्तुल्यानुरागो महाभागच प्रण- यिजनो यदि लभ्यते, तर्हि यथाकथंचिदपि तत्समागम एव श्लाघ्यं मनोरथफल- मित्येष सकलजनसंमतो राद्धान्त इत्यर्थः ॥ मालती । सखि, दयितमालती. जीविते, साहसोपन्यासिनि, अपेहि । तव तावन्मदीयं जीवितमेव दयितं प्रियतमम्। तेन मज्जीवलोमेन कन्यकाजन विरुद्धमत्यन्तगुरुबन्धुवर्गानङ्गीकृताशयं कुलकलाई खयमेव खप्रदानसाहस उपन्यस्यसि । नैवमुपदेष्टव्यम् । ततः साहसोपदे. शादपसरेति निषेधो वाच्यः । तवैव मे जीवतं दयितम्, न तु गुरूणामन्येषाम् । तस्मात्त्वयैव प्राणसख्या मम मनो यथा शङ्काशूकविहीनं भवति तथोपदेष्टव्यमिति विधिर्व्यङ्ग्यः ॥ सानमिति । स्नेहात्केवलं बया यद्यपि साहसोपदेशः क्रियते तथाप्युपदेशमात्रेण न तत्फलिष्यति । केवलं गुरुजनाज्ञातिक्रमणसाहसाध्यवसायः कृतो भवेत् । ततो मम विनयस्य फलं मयैवानुभोक्तव्यम् । किमत्र बया कर्त. व्यमिति रुदन्त्याहेत्यर्थः । अथवा । अहमेव वारंवार बहुकृतो विलोकयन्ती। तमि. सध्याहारः । पलायमानं सत्प्रतिष्ठापितं पुनर्निरुध्य स्थापितं यद्धीरलं तस्यावष्टम्भो- ऽवलम्बनं यस्य तादृशेनात्मनो हृदयेन दूरं विलीयमानलज्जात्वेन दुर्विनयलन्य- त्रापराध्यामि । कुलकुमारीजनमर्यादामविलक्ष्य बहुशस्त्रमवलोकयन्या मम नैतव्यसनं गरीय इति भावः । विलोकयन्तीति चक्षुःप्रीतिः, पलायमानेति चित्तासङ्गः, दूरं विलीयमानेति पानाशश्च कथित इति द्रष्टव्यम् । तथापि प्रिय- मालतीमाधवे .. ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यतः । मम तु दयितः श्लाध्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ॥ २ ॥ लवङ्गिका—(खगतम् ।) एत्थ दाणी को उवाओ। (नेपथ्यार्धप्रविष्टा ।) प्रतिहारी-ऐसा भअवदी कामन्दई । उमे-किं भअवई। प्रतिहारी-मैट्टिदारिअं ददुआमा आअदा । उमे-तेदो किं विलम्बीअदि । १. अत्रेदानी क उपायः। २. एषा भगवती कामन्दकी। ३. किं भगवती। ४. भर्तृदारिकां द्रष्टुकामागता । ५. ततः किं विलम्ब्यते । सखि ॥ ज्वलत्वित्यादि । रात्रौ रात्रौ सर्वासु शुक्लकृष्णपक्षरात्रिषु मद्वैरात्प- रित्यकखीयकालनियमोऽत एव सर्वदाखण्डकलो विरहिजनजीवितेन्धननिचय- जाज्वल्यमानसंपूर्णकलाच्छलज्वालाजालजटिलः शशी विप्रयुक्काबलाजनवधपात- केनैव शशाख्येन धूमेनाङ्कितो विपरीतलक्षणया शिशिरकरादिव्यपदेश्यो दहनो ज्वलतु । यथेच्छं मामेवेन्धनं दहतु । तमेव दहनमादाय मदन एव दहतु । उभौ चैतौ मृत्योः परेण मरणादधिकं किं वा विधास्यतः करिष्यतः । स च मृत्युर्मयै- बाङ्गीकृत इत्यङ्गीकृता ग्लानिर्दोषायेति भावः । मम पुनः श्लाघ्यो निखिलजन- श्लाघनीयगुणस्तातो दयितः । निर्मलकुलप्रसूता जननी दयिता । अमलिनमियन्तं कालं कलङ्कलेशेनापि विवर्जितं कुलं दयितम् । न पुनरयं हृदयवर्तिजीवितादपि स्पृहणीयत्वात्ततोऽपि प्रथमपरिगणनीयो माधवाख्यो जनो दयितः । तथा तं विना वराकप्रायं तत्परित्यागसाहसव्यवसायेऽप्यविलीयमानतयातिकृतघ्नम् । अत एव पश्चादुपात्तं जीवितमपि न दयितमिति वाच्योऽर्थः । भावस्तु बहुधा परि- स्फुरमपि विस्तरभयान लिखितः स सहृदयैरूहनीयश्च ॥२॥ लवङ्गिका । खग- तम् । अत्रेदानी क उपायः । मया सूचितं साहसोपदेशं न गृहीतवती, संनि- हिता चान्तिमा दशा। किमत्र विधेयमित्यर्थः ॥ अत्रेदानी क उपाय इति विचार- यन्या लवनिकाया उपश्रुतिव्याजेनोपायमिवोपदिशन्ती नेपथ्याप्रविष्टा प्रतिहारी वदति-एषा भगवती कामन्दकीति ॥ अत्रेदानी क उपाय इति संबन्धप्रतीत्या- द्वितीयोऽङ्कः। ५९ (निष्कान्ता प्रतिहारी । मालती चित्रं छादयति ।) लवङ्गिका—(खगतम् ।) सुसमाहिदं क्खु जादम् । (ततः प्रविशति कामन्दक्यवलोकिता च ।) कामन्दकी-साधु सखे भूरिवसो, साधु । प्रभवति निजस्य कन्यकाजनस्य देव इत्युभयलोकाविरुद्धमुत्तरमुपन्यस्तम् । अपि च । अद्य मन्मथोद्यानवृत्तान्तेन भगवतो विधेरप्यनुकूलतामवगच्छामि । बकुलावलीचित्रफलकव्यतिकरस्तु कमप्यद्भुततमं प्रमोदमुल्लासयति । इतरेतरानुरागो हि विवाहकर्मणि पराय मङ्गलम् । गीतश्चा- यमर्थोऽङ्गिरसा यस्यां मनश्चक्षुषोर्निर्बन्धस्तस्यामृद्धिरिति । अवलोकिता-ऐसा मालदी । १. सुसमाहितं खलु जातम् । २. एषा मालती। वगत इति नोक्तम् । अत एव मालतीलवङ्गिके पृच्छतः-कि भगवती संदि- शति । आगच्छतीत्यर्थः ॥ प्रतिहारी। भर्तृदारिकां द्रष्टुकामागता-उभे । किं ततो विलम्ब्यते । बहिरेव । भवत्येति शेषः॥ लवङ्गिका । खगतम् । सुस- माहितं खलु जातम् । भद्रं संपन्नं, यत इदानीमेव भगवती समागतेत्यर्थः ॥ कामन्दकी-साध्वित्यादि । उभयलोकाविरुद्धमुभयोर्लोकयोरिहलोकपरलो. कयोर्विरुद्धं छलोक्तिरूपतया सत्यानृतात्मकम् । तथा हि । सर्वो ह्यस्मत्कुटुम्बो महाराजस्य परिकरः । तेन निजस्य खकीयस्य यथेष्टविनियोगार्हस्य कन्यकाज. नस्य देवः प्रभवतीति राजचित्तानुरजनेनैहिकसुखहेतुलादिहलोकाविरुद्धवम् । निजस्यैव कन्यकाजनस्य प्रभवति देवः । न तु मदीयस्येति सत्यस्यैवोक्तखात्पूर्व- प्रवृत्तसुहृत्संबन्धप्रतिज्ञाभङ्गप्रत्यवायपरिहाराच्च परलोकाविरुद्धत्वम् । अयं भावः- यदि राज्ञा याचितो न दास्यामीति मुखतो निषेधादृष्टेन राजाज्ञोलङ्घनदोषेण दण्डनीयो भवेत् । अथ यदि राजदाक्षिण्येन ददामीति निश्चित्य वदेत्सुहृत्संबन्धप्र- तिज्ञानिर्वाहाय परमुखप्रवृत्त्या कृतविवाहोद्योगः सन्नन्यथाभाषणदोषेण प्रत्यवायः स्यात् । एवं तु च्छलेन वदनुभयलोकाविरुद्धमुक्तवानिति । यद्वा उभयोर्लोकयो- यवहारयोः कृत्रिमविवाहनन्दनानुसरणरूपयोरविरुद्धम् । यद्वा उभयोलोंकयो- जनयोर्माधवनन्दनवर्ययोरविरुद्धमिति । दृष्टसामग्रीमुक्ला दैवानुकूल्यमप्यस्ती- त्याह-अपि चेति । व्यतिकरो विनिमयः । मालतीलिखितचित्रफलकस्य माध- वेन दर्शनं माधवप्रथितबकुलदानो मालतीकण्ठाभरणवमित्येवं व्यतिकरः परि- वृत्तिः । प्रमोद प्रकृष्टं हर्षमुल्लासयति । इतरेतरानुरागप्रकर्षहेतुखात्स एव चेह बीजमित्याह-इतरेति । पराय श्रेष्ठम् । निर्बन्ध आसकिः । ऋद्धिमलोद्मः। ।

मालतीमाधवें कामन्दकी-(निर्वर्ण्य ।) निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी । अवस्थामापन्ना मदनदहनोद्दाहविधुरा- मियं नः कल्याणी रमयति मनः कम्पयति च ॥ ३ ॥ अपि च । परिपाण्डपांसुलकपोलमाननं दधती मनोहरतरत्वमागता । रमणीयजन्मनि जने परिभ्रम- ल्लालितो विधिर्विजयते हि मान्मथः ॥ ४ ॥ नियतमनया संकल्पनिर्मितः प्रियसमागमोऽनुभूयते । तथा ह्यस्याः नीवीबन्धोच्छुसनमधरस्पन्दनं दोर्विषादः खेदश्चक्षुर्मसृणमुकुलाकेकरस्निग्धमुग्धम् । अवलोकिता । एषा मालती ॥ कामन्दकी-निकाममित्यादि । अमर्थ कृशाली । कार्य नाम मदनावस्था दर्शिता। सरसकदलीगर्भवत्सुभगेति मार्दवं सौकुमार्य पाण्डता कार्य च प्रकाश्यते । एवमतिकृशलेऽपि कृष्णचतुर्दश्यां कलामात्रशेषा शशिनो मूर्तिरिव नयनानन्दकारिणी । मदनदहनेन यदुद्भूतो दाहतेन विधुरां विह्वलामवस्थामापन्ना प्राप्ता। कल्याणी मङ्गललक्षणोपेता । इयं नोऽस्माकं मनो रमयत्यस्मद्यापारानुकूलमाधवानुरागप्रकर्षसूचकावस्थाशालिखादा- हादयति कम्पयति च । दुःसहमन्मथव्यथादूयमानतया सुकुमारतया च कदाचि- दनिष्टाशयोद्वैजयति चेत्यर्थः ॥ ३ ॥ परीति । पाण्डुपांसुली क्रियाद्वेषेण कुङ्कु. मानुलेपनादिसंस्कारशून्यतया धूसरौ कपोलो यस्य तादृशमाननं दधत्यपि कथ- मियमतिशयेन मनोहरलं प्राप्ता । चित्रमिदम् । अथवा नेदमाश्चर्य यतो रमणीय- जन्मनि सहचरसौन्दर्यशालिनि जने परिभ्रमंस्तत्र व्याप्रियमाणो ललितः सुकुमारो मान्मथो विधिरवस्थाविशेषो विजयते सर्वोत्कर्षेण प्रकाशते । सहजसौन्दर्य- शालिना मन्मथविकारोऽपि शोभातिशयं पुष्णातीत्यर्थः ॥४॥ नियतं निश्चितम् । यतः संभोगानुभावा दृश्यन्त इति भावः । तानेवाह-तथा ह्यस्या इत्युपस्कारः॥ मीवीत्यादि । नीवी नामान्तरीयनिवसनप्रन्थिरुचयाख्यः । तत्संबन्धस्यो- सनं श्लथलम् । उपलभ्यत इत्यध्याहार्य क्रियासंबन्धः सर्वत्र द्रष्टव्यः । बाह्य- संभोगानन्तरं रतारम्भसमये क्रमेण कुचकलशदोर्मूलनाभिप्रदेशसंचारिणः काची दामाकर्षणव्यप्रस प्रियतमकरस्य भावनया तत्स्पर्शमुखनिर्भरोद्भिननितम्बनिम्ब- विसंचमाननीवीयमुपलक्ष्यत इति भावः । रतारम्भविधानं रतिरहस्यं यथा- द्वितीयो। गात्रस्तम्भः स्तनमुकुलयोरुत्प्रबन्धः प्रकम्पो गण्डाभोगे पुलकपटलं मूर्छना चेतना च ॥ ५॥ . (उपसर्पति ।) (लवङ्गिका मालती चालयति । उमे उत्तिष्ठतः ।) मालती-भअवदि, वन्दामि । कामन्दकी-महाभागधेयजन्मतायाः फलस्य भाजनं भूयाः । लवङ्गिका-भैअवदि, एवं पवितं आसणम् । १. भगवति, वन्दे। २. भगवति, एतत्पवित्रमासनम् । 'अलिकचिबुकगण्डं नासिकाग्रं च चुम्बन्पुनरुपहितसीत्कं तालु जिहां च भूयः । कलितललितनामीकक्षवक्षोरुहोरुः श्लथयति दृढधैर्यःक्षोभयिवाऽथ नीवीम् ॥ इति । अधरस्पन्दनमित्यनेन त्रितयमपि तदेतत्कन्यकायां प्रयोज्यमिति कन्यकाजनविहि- तस्य विकुञ्चितस्फुरितघटिताख्यचुम्बनत्रयस्य मध्ये स्फुरितं नाम चुम्बनमुक्तम् । तल्लक्षणं रतिरहस्ये-'स्फुरितमधिमुखान्तर्यस्तमोष्ठं जिघृक्षुः स्फुरदधरपुटाभ्यां यत्र गृहाति भर्ता' इति । दोर्विषादो भुजलताशैथिल्यम् । अनेन नायकस्य रतित- बचतुरतया पूर्वमेव नायिकाया रतिभावप्राप्तिरुता । यदाह-'स्निग्धता वपुषि मीलनं दृशोमूर्च्छना च रतिलाभलक्षणम् । इति । खेदः सात्त्विकभावविशेषो रतिजन्यः।यदाह-वपुर्जलोद्गमखेदो रतिधर्मश्रमादिभिः' इति ॥चक्षुश्वास्या मसृणं मुकुलमाकेकर स्निग्धमुग्धं च । 'मसृणमधुरम्' इति क्वचित्पाठः । सुखपारवश्या- दुपजायमानदृष्टिविकारविशेषा मसृणादयः। तत्राकेकरदृष्टिर्यथा-'आकुश्चितपुटा- पाङ्गसंगतार्थनिमेषिणी । मुहुावृत्ततारा च दृष्टिराकेकरा स्मृता ॥' मधुरं यथा- 'शीतलीक्रियते तापो येन तन्मधुरं स्मृतम्' इति । मसृणमुकुलस्निग्धमुग्धानां लक्षणं स्तिमितालसेति श्लोकद्वयव्याख्यानावसरे प्रागेवोकम् । गात्रस्य खम्भो राग- वशान्निश्चेष्टवं सात्त्विकभावः । यथा-'स्तम्भश्चष्टाप्रतीघातो भयरागमदादिभिः इति । स्तनमुकुलयोरुल्लङ्कितः प्रबन्धः प्रकृष्टो बन्धः प्रबन्धः स्थैर्य तेन तादृशः । प्रकम्पो वेपथुः सात्त्विकभावः । यथा-'रागरोगभयादिभ्यः कम्पो गात्रस्य वेपथुः' इति । गण्डाभोगे विस्तारिणि कपोलतले पुलकपटलं रोमाञ्चः सात्त्विकभावः । यथा-'रागरोगागरांगायै रोमाञ्चो रोमविक्रिया' इति । मूर्च्छना संज्ञास्तमित्यम् । प्रलयो नाम सात्त्विकभावः । यथा-'अस्तेन्द्रियलं प्रलयः सुखदुःखभयादिभिः' इति । अस्तेन्द्रिय समिन्द्रियव्यापारोपरमश्चेतना च वर्तते । तेन नात्यन्तिकः प्रलस इति भावः । एवमनुभावनिबन्धपरिपोषात्समुचितव्यभिचार्यालम्बनप्रतीतेश्च संभो- गश्यारो व्यापारः॥५॥ लवङ्गिका । चालयति । प्रियसंभोगानुभवनिमीलितनेत्रा बोधयतीत्यर्थः ॥मालती। भगवति, वन्दे ॥ कामन्दकी। फलस्य तादृशवरस- मागमलक्षणस्य लवसिका। भगवति, एतत्पवित्रमासनम् । 'विविकम्' इति पाठे मालतीमाधवें (सर्वा उपविशन्ति ।) मालती-कुसलं भअवदीए । कामन्दकी-(निःश्वस्य ।) कुशलमिव । लवङ्गिका—(खगतम् ।) पावणा क्खु एसा कवडणाड- अस्स । (प्रकाशम् ।) गुरुअबाहभरत्थम्भमन्थरिदकण्ठप्पडिलग्गणिग्गमं अण्णारिसं विअ अज्ज भअवदीए वअणम् । ता किं दाणी उवेअ- कारणं हविस्सदि। कामन्दकी-नन्वयमेव चीरचीवरविरुद्धः परिचयः । लवङ्गिका केहं विभ। कामन्दकी-अयि, त्वमपि किं न जानीषे । इदमिह मदनस्य जैत्रमस्त्रं सहजविलासनिबन्धनं शरीरम् । १. कुशलं भगवत्याः । २. प्रस्तावना खल्वेषा कपटनाटकस्य । गुरुकबाष्पभरस्तम्भमन्थरितक- ण्ठप्रतिलग्ननिर्गममन्यादृशमिवाद्य भगवत्या वचनम् । तत्किमिदानीमुद्वेगका- रणं भविष्यति । ३. कथमिव । शुद्धमित्यर्थः ॥ मालती। कुशलं भगवत्याः ॥ कामन्दकी। निःश्वस्य । कुशल- मिव ॥ लवङ्गिका । खगतम् । प्रस्तावना खल्वेषा कपटनाटकस्य । कपटमसदृश- वरप्रदाने वार्तोपन्यासच्छलेनोद्वेगमुत्पाद्य मालतीमनसि कृत्रिमपरिणयाध्यवसा- यदृढीकरणं तदेव नाटकम् । तस्यैषा निःश्वाससहकृता कुशलमिवेति वास्तवकुशला- भावोक्तिः प्रस्तावना । आमुखमित्यर्थः । निःश्वासेवशब्दद्योतितां तस्या वैयाकुलीमेव स्फोरयितुं तां पृच्छति । प्रकाशम् । गुरुकबाष्पभरस्तम्भमन्थरितकण्ठप्रतिलमनिर्ग- ममन्यादृशमिवाद्य भगवत्या वचनम्। तत्किमिदानीमुद्वेगकारणं भविष्यति ॥काम- न्दकी। चीरैर्जीर्णवस्त्रखण्डैनिर्मितस्य चीवरस्य कन्थायाः तत्परिप्रहोपलक्षितस्य । परिव्राजकस्येति यावत् । विरुद्धो भवादशेन संसारिजनेन सहायं परिचय एव । उद्वे- गनिमित्तमित्यर्थः ॥ लवङ्गिका । कथमिव । अस्मत्परिचयः कथमुद्वेगहेतुस्तद्वक्त- व्यमित्यर्थः ॥ कामन्दकी। अयीति संबोधने । लमपि खया खलु प्राणसख्या सर्व मालल्या इष्टमनिष्टं च विचारणीयम् । तत् ईशमनिष्टमिदानीमपि कथं बया व ज्ञातमित्यर्थः ॥ इदमिति । मदनस्य जयश्चीलमायुधमकृत्रिमविलासास्पदमिदं मालत्याः शरीरम् । अनुचिताय येन केनचिदपि कुलशीलरूपयौवनादिना घरगुणेन संबन्धायोग्याय वराय यत्संप्रदानं राजदाक्षिण्याद्भरिवमुना चिकीर्षितं तेन शोच्यं ।

द्वितीयोऽकः | ६३ अनुचितवरसंप्रदानशोच्यं विफलगुणातिशयं भविष्यतीति ॥ ६॥ (मालती वैचित्र्यं नाटयति ।) लवङ्गिका-अत्थि एवं जं गरेन्दवअणाणुरोहेण णन्दणस्स पडिवण्णा मालदित्ति सअलो जणो अमचं जुउच्छइ । मालती-(खगतम् ।) केहं उवहारी किदम्हि राइणो तादेण । कामन्दकी-आश्चर्यम् । गुणापेक्षाशून्यं कथमिदमुपक्रान्तमथवा कुतोऽपत्यस्नेहः कुटिलनयनिष्णातमनसाम् । इदं त्वैदंपर्य यदुत नृपतेर्नर्मसचिवः सुतादानान्मित्रं भवतु स भवान्नन्दन इति ॥ ७ ॥ मालती-(खगतम् ।) राआराहणं क्खु तादस्स गुरु, ण उण मालदी। १. अस्त्येतद्यन्नरेन्द्रवचनानुरोधेन नन्दनस्य प्रतिपन्ना मालतीति सकलो जनोऽमात्यं जुगुप्सते । २. कथमुपहारीकृतास्मि राज्ञस्तातेन । ३. राजाराधनं खलु तातस्स गुरुकम् , न पुनर्मालती। दुःखजनकम् । अत एव समानुरागसदृशवरसंप्रयोगाभावाच्च विफलगुणातिशयं भविष्यतीति हेतोर्खाल्यादेतस्यां दुहितृनिर्विशेषं कृतवात्सल्यायां महानुद्वेग इत्यर्थः ॥६॥ मालती। वैचित्र्यं वैलक्षण्यम् ॥ लवङ्गिका। अस्त्येतद्यन्नरेन्द्रवचनानुरो. धेन नन्दनस्य प्रतिपन्ना मालतीति सकलो जनोऽमात्यं जुगुप्सत इति । सर्वलोक- जुगुप्सितत्वेन पिता भूरिवसुः परित्याज्य इति भावः ॥ मालती । खगतम् । कथमुपहारीकृतास्मि राजस्तातेन । यथा दुर्गायै पशूपहारं दत्त्वा कश्चित्वाभिलषितं साधयति, तथा खकार्यमात्रपरेणापत्यस्नेहविहीनेन तातेन कथं मरणायैव राजाधी- नाहं कृतेत्यर्थः । यद्वा संनिहितविदूषकमायं फलादिकमिवोपायनं कथं कृतास्मी- त्यर्थः ॥ कामन्दकी-गुणापेक्षेति । कुलरूपवयोविद्याप्रमृतिवरगुणापेक्षया शून्यमिदं नन्दनाय सुताप्रदानरूपं वैशसनं कथमुपक्रान्तममायेन । अथवा कुटि- लनयः खजनव्ययेनापि वकृत्यनिर्वाहोपायस्तत्र निष्णातं कुशलं 'निनदीभ्यां मातेः कौशले' इति मूर्धन्यादेशः, मनो येषां तेषामपत्यनेहः कुतः । ततो नेद- माश्चर्यमित्यर्थः । अपत्यव्ययेनापि कार्य साधयतस्तस्य कोऽभिप्राय इत्यत आह- इदं खिति । नृपतेर्नर्मसचिवः स भवान्पूज्यो नन्दनः सुतादानान्मित्रं भवलिति यदिदं दंपर्य तात्पर्यम् ॥ ७॥ मालती । राजाराधनं खलु तातस्य गुरुकम्, ६४ मालतीमाधवे , लवङ्गिका-जंहा भअवदी आणवेदि तं तह जेव । अण्णहा तस्सि वरे दुइंसणे अदिकन्दजोवणे किं ति ण विआरिदं अमच्चेण । मालती-(स्वगतम् ।) हो, हदम्हि समुपस्थिदाणत्थवज्जपडणा मन्दभाइणी। लवङ्गिका-तों पसीद । भअवदि, परित्ताहि एत्तो जीवन्दमर- णादो पिअसहिं । तुह वि एसा दुहिदा जेव । कामन्दकी-अथि सरले, किमत्र भगवत्या शक्यम् । प्रभ- वति प्रायः कुमारीणां जनयिता दैवं च । यच्च किल । यच्च किल कौशिकी शकुन्तला दुष्यन्तमप्सराः पुरूरवसं चकम उर्वशीत्याख्यानविद आचक्षते, वासवदत्ता च पित्रा संजयाय राज्ञे दत्तमात्मानमुदय- नाय प्रायच्छदित्यादि, तदपि साहसकल्पमित्यनुपदेष्टव्यमेव । सर्वथा राज्ञः प्रियाय सुहृदे सचिवाय कार्या- हत्त्वात्मजां भवतु निर्वृतिमानमात्यः । १. यथा भगवत्याज्ञापयति तत्तथैव । अन्यथा तस्मिन्वरे दुर्दर्शनेऽति- कान्तयौवने किमिति न विचारितममात्येन । २. हा, हतास्मि समुपस्थितानर्थवज्रपतना मन्दभाग्या । ३. तत्प्रसीद । भगवति, परित्रायस्वास्माज्जीवन्मरणात्प्रियसखीम् । त- वाऽप्येषा दुहितैव । न पुनर्मालती ॥ लवनिका । यथा भगवत्याज्ञापयति । कुतोऽपत्यस्नेह इत्यादि यदुक्तं तत्तथैव । अन्यथा तस्मिन्वरे दुर्दर्शने कुरूपेऽतिक्रान्तयौवने किमिति न विचारितममायेन ॥ मालती । खगतम् । हा, हतास्मि, समु- पस्थितानर्थवज्रपतना मन्दभाग्या ॥ लवङ्गिका । तत्प्रसीद । भगवति, परि- त्रायस्खास्माजीवन्मरणाप्रियसखीम् । तवाऽप्येषा दुहितैव । बमप्यस्या मातृ- खादभिमताय वराय दातुमीशिष इति भावः ॥ कामन्दकी। अयि सरले, ऋजु. प्रकृतिके । दैवं चेति । जनकमप्युल्लङ्घय यदि करोति दैवमेव करोति नान्य इत्यर्थः । दैवानुकूल्यमस्ति चेन्मया नोपेक्ष्यत इति भावः ॥ यच्चेति । यच्छकुन्त- लादिभिः कृतं तत्साहसमिति कृला नोपदेष्टुं योग्यम् । शास्त्रलोकप्रसिद्ध्यादिभि- यनिवेदितं तत्र यदि खयमेव खात्महितं विचार्य प्रवर्तते तदा साहाय्यमात्रम- स्माभिः कर्तुं शक्यम् । न तु कर्तव्यमित्युपदेष्टुं शक्यमित्यर्थः । अथ च साहसमि- येवं नोपदेष्टव्यम् । किं तु खजीवितव्यये प्राप्त इदमेव युक्तमित्येवोपदेष्टव्यमित्यपि प्रतीतिः। अनेन माधवस्य समागमानुगुणप्रोत्साहनं मेदयति । सर्वथेत्युपस्कारः॥ राक्ष इति । राज्ञः प्रियाय प्रेमभाजनाय सुहृदे सौहार्दशालिने । प्रियसुहृदोः किं- चिद्भेदाद्भेदेनोपादानम्। तद्यथा भावप्रकाशे-'सत्यवागार्जवरतिरुपकुर्वन्प्रियं वदन् । - द्वितीयोऽङ्कः। दुर्दर्शनेन घटतामियमप्यनेन धूमग्रहेण विमला शशिनः कलेव ॥ ८ ॥ मालती-(खगतम् ।) हा ताद, तुमं वि मम णाम एव्वं त्ति जिदं भोगतिण्हाए। अवलोकिता-चिरोइदं भअवदीए । णं भणामि अस्सत्थचित्तो महाभाओ माहवो ति। कामन्दकी-इदं गम्यते । वत्से, अनुजानीहि माम् । लवङ्गिका-(जनान्तिकम् ।) सैहि मालदि, संपदं भअवदीए सआसादो तस्स महाणुहावस्स उग्गमं जाणीमो । १. हा तात, त्वमपि मम नामैवमिति जितं भोगतृष्णया । २. चिरायितं भगवत्या । ननु भणाम्यस्वस्थचित्तो महाभागो माधव इति । ३. सखि मालति, सांप्रतं भगवत्याः सकाशात्तस्य महानुभावस्योगमं जानीमः । - भजते यः खयं प्रीतिं प्रियः स परिकीर्तितः॥ दुःखे विपदि संमोहे कार्यकालात्यये- ऽपि च । हितान्वेषी च हितकृद्यः सुहृत्सोऽभिधीयते॥' इति। तेनातीव विस्रम्भस्था- नत्वं सूचितं न केवलं मित्रमात्रम् । अपि तु सचिवाय खतुल्याय नन्दनायात्मजा कार्यादेतोर्दत्त्वामात्यो निर्वृतिमान्भवतु । संप्रधारणे लोट् । दुर्दर्शनादेवानर्थहेतुनानेन नन्दनेन सह धूमप्रहेण। धूमकेतुरपि दर्शनादेवानर्थ सूचयति। विमला चन्द्रकलेव। इयमपि घटतां नियते१र्लङ्यवादिति भावः । इदं च संप्रधारणं मालत्या उद्वेगाति- शयजननेन खविधेयतानयनार्थम् ॥ ८॥ मालती। खगतम् । हा तात, खमपि मम नामैवमिति जितं भोगतृष्णया। वमप्यपत्यवत्सलो विवेकी च मम नाम नान्यदी- यस्य जनस्य मेहै कालम्बनाया दुहितुरपि। एवं जीवितनिरपेक्षः। भोगतृष्णयेत्युक्ते । केनान्येन भोगतृष्णा जेतव्या। तस्मात्तया जितम्। अकुण्ठितप्रसरत्वं प्राप्तमित्यर्थः । एवं नन्दनस्य दुष्टताममात्यस्य च खकार्यकपरतामुक्वानन्तरं माधवस्य कुलरूपवैद- ग्ध्यप्रकाशनेनानुकूल्यं विवक्षन्या कामन्दक्या अभिप्रायज्ञावलोकिता गमनकाल- निवेदनव्याजेन प्रसङ्ग संपादयति ॥ अवलोकिता। चिरायितं भगवत्या चिरं विलम्बः कृतः। ननु भणाम्यवस्थचित्तो महाभागो माधव इति । सरितं गन्तव्य- मिति शेषः॥ कामन्दकी। इदं गम्यते। इदमिति गमनक्रियाविशेषणम्। प्रत्यक्षत- कथनेन संनिधानसूचनार्थमिदम् ॥लवङ्गिका । जनान्तिकलक्षणं तूक्तम् । उभयो. रभिप्रायज्ञा लवङ्गिका कामन्दक्या विवक्षा मालत्याः शुश्रूषां शाखा शनैर्मालत्याः कर्णे वदतीत्यर्थः । सखि मालति, सांप्रतं भगवत्याः सकाशात्तस्य महानुभावस्योद्गममूत्प- मालतीमाधवें मालती-(जनान्तिकम् ।) अस्थि मे कोदूहलम् । लवङ्गिका-(प्रकाशम् ।) को एसो माहवो णाम, जस्सि भअ- वंदी एवं सिणेहगुरु अत्ताणं धारेदि । कामन्दकी-अप्रस्ताविनी महत्येषा कथा । लवङ्गिका-तैह वि आअक्खिअ भअवदी पसादं करेदु । कामन्दकी-श्रूयताम् । अस्ति विदर्भराजस्यामात्यः समग्रपु- रुषप्रकाण्डचक्रचूडामणिर्देवरातो नाम । यमशेषभुवनमहनीयपुण्यम- हिमानमात्मनः सातीर्थ्यात्पितैव ते जानाति योऽसौ यादृशश्चेति । अपि च । व्यतिकरितदिगन्ताः श्वेतमानैर्यशोभिः सुकृतविलसितानां स्थानमूर्जखलानाम् । अगणितमहिमानः केतनं मङ्गलानां कथमिव भुवनेऽस्मिंस्तादृशाः संभवन्ति ॥ ९॥ १. अस्ति मे कौतूहलम् । २. क एष माधवो नाम, यस्मिन्भगवत्येवं स्नेहगुरुकमात्मानं धारयति । ३. तथाप्याख्याय भगवती प्रसादं करोतु । त्तिस्थानं कुलं विशुद्धमिति यावज्जानीमः ॥ मालती। जनान्तिकमेव । अस्ति मे कौतूहलम् । अस्मिनर्थे तत्पृच्छेत्यर्थः ॥ लवङ्गिका। प्रकाशम् । क एष माधवो नाम, यस्मिन्भगवत्येवं नेहगुरुकमात्मानं धारयति ॥ कामन्दकी । अप्रस्ताविनी प्रस्तावनानुपयुक्ता । महती बहुवक्तव्यसद्भावाद्विस्तृता । शीघ्रं मया गन्तव्यम् । सदिदानीमवसराभावादप्रस्तुतत्वाच्च किमनया । शुश्रूषातिशयोत्पादनार्थमनादरो. किलवङ्गिका। तथाप्याख्याय भगवती प्रसादं करोतु ॥ कामन्दकी-श्रूय- तामिति।समप्रस्य कृत्स्नस्य पुरुषप्रकाण्डचक्रस्य पुरुषश्रेष्ठसमूहस्य चूडामणिचूडा- रत्नम् । श्रेष्ठ इत्यर्थः । सातीर्थ्य सहाध्ययिनम् । 'सतीर्थ्यास्त्वेकगुरवः' इत्यमरः ॥ व्यतिकरितेति । श्वेतमानैर्धवलीभवद्भिर्यशोभिर्व्यतिकरिता जातव्यतिकरा दिग- न्ता येषां ते । व्यतिकरो मिधीभावः । ऊर्जखलानां प्रबलानाम् । राशीभूतानामिति यावत् । सुकृतविलसितानां भागधेयविजृम्भणानाम् । 'प्रकृतविलसितानाम्' इति पाठे खभावोत्कर्षाणां स्थानमास्पदम् । अगणितमहिमानोऽपरिच्छेद्यानुभावा मङ्गलानाम- भ्युदयानां केतनं चिहभूता वा यत्र ते तत्र मालमिति। तादृशा अस्मिन्भुवने कथ- मिव संभवन्ति । न कथंचिदित्यर्थः ॥ व्यतिकरितेति । व्यतिकरो व्याप्तिमसणं वास्य संजातो येभ्यो येषु दिगन्तेषु । चेतयन्ति चेतयमानानि । केतनं चिहं महला. नामभ्युदयानां यत्र तादृशाः पुरुषास्तत्र मालमित्याशयः। ऊर्जखलानां तेजखिना शूराणां स्थानमुत्पत्तिः। एतेन सहजशूरो माधव इति भावः । अत एव श्मशाने द्वितीयोऽङ्कः । ६७ मालती-(सहर्षम् ।) सहि, तं खु भअवदीए गहीदणामहेअं सबहा तादो सुमरेदि। लवनिका-सेहि, समं किल भअवदीए गुरुसमासादो विज्जा- हिगमो किदो त्ति तकालवेदिणो मन्तअन्दि । कामन्दकी- तत उदयगिरेरिवैक एष स्फुरितगुणधुतिसुन्दरः कलावान् । इह जगति महोत्सवस्य हेतु- नयनवतामुदियाय बालचन्द्रः ॥ १० ॥ लवङ्गिका—(अपवार्य ।) अवि णाम माहवो हवे । कामन्दकी असौ विद्याशाली शिशुरपि विनिर्गत्य भवना- दिहायातः संप्रत्यविकलशरच्चन्द्रवदनः । १. सखि, तं खलु भगवत्या गृहीतनामधेयं सर्वथा तातः स्मरति । २. सखि, समं किल भगवत्या गुरुसकाशाद्विद्याधिगमः कृत इति त- कालवेदिनो मन्त्रयन्ते । ३. अपि नाम माधवो भवेत् । मालतीविपन्निस्तारे कृतनिबन्धनो भविता।शूरानुरागिण्यो हि युवतयो भवन्तीत्यपि दर्शितं भवतीति व्याख्यानान्तरम् ॥ ९ ॥ मालती। सखि, तं खलु भगवत्या गृहीतनामधेयं सर्वथा तातः स्मरति । खयं देवरातनामाग्रहणे मालत्या भाविश्वशुर- खव्यवसायो बीजम् ॥ लवङ्गिका । समं किल तयोर्भगवत्या गुरुसकाशाद्विद्या- धिगमः कृत इति तत्कालवेदिनो मन्त्रयन्ते ॥ कामन्दकी-तत इत्यादि। ततोऽस्माद्देवरातादुदयगिरेरिवेक एषः । पित्रोरेकपुत्रतयातीव प्रेमपदखमुलम् । स्फुरिताः प्रकाशा गुणा गाम्भीर्यादय एव द्युतयस्तामिः सुन्दरः। कलावाश्चतुःषष्टिक लाभिज्ञः। इह जगति नयनवतां चक्षुष्मन्मात्रस्य सर्वस्यापि प्राणिजातस्य महोत्सवस्य हेतुरालादकारी । लावण्यसंपदनेनोका । बालश्चन्द्र इव बालचन्द्रः। प्रथमयौवनमने- नोकम् । उदियायोद्भूतः । श्लेषोपमागर्भो रूपकालंकारः ॥ १० ॥ लवङ्गिका। अपि नाम माधवो भवेत् । यत्र तवानुरागः स एव माधव एवंगुण विशिष्टः संभाव्बत इत्यर्थः ॥कामन्दकी-असाविति । असौ देवरातनन्दनो विद्याभिः शालत इति विद्याशाली शिशुः सन्नपि भवनाद्विनिर्गत्य संप्रतीहायातः संपूर्णशरचन्द्रवदनः। यसावलोकनप्रदेशे। यत्र स्थिया सोऽवलोक्यते तत्रेत्यर्थः । नारीणां पौरयोषिवाह ६८ मालतीमाधवे यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षारीणां कुवलयितवातायनमिव ॥ ११ ॥ तदत्र च बालसुहृदा मकरन्देन सह विद्यामान्वीक्षिकीमधीते । स एष माधवो नाम । मालती-(सानन्दं जनान्तिकम् ।) सहि लवङ्गिए, सुदं महाउल- प्पसूदो महाभाओ ति। लवङ्गिका—(जनान्तिकम् ।) सहि, कुदो वा महोदहिं वजिअ 'पारिजाअस्स उम्गमो। (नेपथ्ये शङ्खध्वनिः) कामन्दकी-अहो कालातिपातः । संप्रति हि क्षिपन्निद्रामुद्रां मदनकलहच्छेदसुभगा- मुपात्तोत्कम्पानां विहगमिथुनानां प्रथमतः । १. सखि लवङ्गिके, श्रुतं महाकुलप्रसूतो महाभाग इति । २. सखि, कुतो वा महोदधि वर्जयित्वा पारिजातस्योद्गमः । न्मादतरलैरकुण्ठितप्रसरैर्लोलैश्च कटाक्षः पुरमिदं कुवलयितवातायनं संजातकुव- लयगवाक्षमिव भवति । पूर्णचन्द्रदर्शनेन कुवलयोल्लासो हि युक्तः । सकलवनि- तालोचनीयलावण्यस्य तस्याभिलाषवती भवतीत्यहो ते सौभाग्यमिति भावः ॥ ११॥ तदत्रेति । खदनुरागाविष्ट एव विद्याभ्यासव्याजेनेहागत्य वर्तत इति भावः ॥ स इति । य एष कथितो देवरातात्मजः स एव माधव इत्यस्मा- भिनिर्दिष्ट इत्यर्थः ॥ मालती। सखि लवशिके, श्रुतं महाकुलप्रसूतो माधव इति ॥ लवङ्गिका । सखि, कुतो वा महोदधि वर्जयिखा पारिजातस्योद्गमः । पारिजातकल्पस्तादृशादेव महोदधिकल्पादुत्पत्तुमर्हति, न तु क्षुदपल्वलकल्पानी- चादित्यर्थः । तदनेन 'निःश्वस्य । कुशलमिव' इत्यादिना ‘स एष माधवो नाम' इत्यन्तेन संदर्भेण प्रासङ्गिकनन्दनवृत्तान्तसूचनम् , तद्गुणहीनत्वम्,पितुःखकार्यपर- तयापत्यनेहराहित्यम् , शकुन्तलावृत्तान्तस्य निषेधमुखेन सूचनम् , तुल्यसंविधानेन माधवसमागमोपायनिवेदनम् , तदुणप्रख्यापनेन तत्रानुरागदृढीकरणं चेत्येतावतो. ऽर्थस्य कामन्दक्या तटस्थयैव संविधानचातुर्येण कृतखात्पताकास्थानमिदम् । यथा- 'भागन्तुकेन भावेन यदभिव्यक्तिकारकम् । वस्तुनो भाव्यवस्थस्य पताकास्थानक तु तत् ॥ अतीतानागते कार्ये कथ्येते यत्र वस्तुनः । अन्यापदेशव्याजेन पता. कास्थानकं तु तत् ॥' इति । अत एव कामन्दकी वक्ष्यति- अवलोकिते, साधु संप्रति मया तटस्थयैव मालती प्रति निसृष्टार्थदूत्यस्य लघुकृतो भारः' इति ॥कामन्दकी। अहो कालातिपातः । प्रस्तुतकथाव्यासावशादतिक्रान्तः कालोऽपि न विचारित इत्यर्थः ॥ कालातिपातमेवाह-संप्रति हि । क्षिपन्निति । विहगमिथुनानां द्वितीयोऽतः । ६९ दधानः सौधानामलघुषु निकुञ्जेषु धनता- मसौ संध्याशङ्खध्वनिरनिभृतः खे विचरति ॥ १२ ॥. वत्से, सुखं स्थीयताम् । (इत्युत्तिष्ठति ।) मालती-(अपवार्य ।) कहं उवहारीकिदम्हि राइणो तादेण । राआराहणं क्खु तादस्स गुरुअं, ण उण मालदी। (सास्रम्।) हा ताद, तुमं वि मह णाम एव्वं ति सव्वहा जिदं भोअतिण्हाए । (सानन्दम् ।) कहं महाउलप्पसूदो सो महाभाओ । सुदु भणिदं पिअ- असहोए कुदो वा महोअहिं वजिअ पारिजादस्स उग्गमो ति । अवि णाम तं उणो वि पेक्खिस्सं । लवङ्गिका-अवलोइदे, इदो एदिणा संजवणेण ओदरम्ह । कामन्दकी-(अपवार्य ।) अवलोकिते, साधु संप्रति मया तट- स्थयैव मालती प्रति निसृष्टार्थदूत्यस्य लघूकृतो भारः । कुतः १. कथमुपहारीकृतास्मि राज्ञस्तातेन । राजाराधनं खलु तातस गुरुकम् , न पुनर्मालती । हा तात, त्वमपि मम नामैत्रमिति सर्वथा जितं भोगतृष्णया। कथं महाकुलप्रसूतः स महाभागः । सुष्छु भणितं प्रियसख्या कुतो वा महो- दधिं वर्जयित्वा पारिजातस्योद्गम इति । अपि नाम तं पुनरपि प्रेक्षिष्ये । २. अवलोकिते, इत एतेन संजवनेनावतरावः । चक्रवाकद्वन्द्वानां मदनकलहच्छेदेन मन्मथसंगरपर्यवसानेन सुभगां श्रान्त्यतिश- यविनोदकतया मनोहरां निद्रामुद्रां खापावस्थां प्रथमतः प्रमुख एव क्षिपनपसार- यन् । संध्याशङ्खध्वनिना हि कोकद्वन्द्वानां निशासंनिधानप्रतीते विविरहदुःसह- खानुसंधानादुत्पन्नवेपथूनामिति विशेषणम् । तथा गुरुतरेषु हऱ्यामध्यदेशेषु प्रति- ध्वानेन घनतां बहुलतां दधानोऽसौ राज्ञा भवनेषु संध्यासमयनिवेदनार्थ क्रिय. माणः शङ्खध्वनिरनिमृतोऽमन्दः खे विचरति । प्रसरतीत्यर्थः ॥ १२ ॥ मालती। अपवार्य वलीतग्रीवं परावृत्य । महाकुलप्रसूतः स महाभागः । तन्महाकुलीनले सानन्दलेन सर्वथा स एव मे पतिर्नान्य इत्यध्यवसायः सूचितः । सुष्टु भणितं प्रियसख्या कुतो वा महोदधिं वर्जयित्वा पारिजातस्योद्गम इति । अपि नाम तं पुनरपि प्रेक्षिष्ये । इतः परमेकवारं तद्दर्शनं वा लभ्यते चेत्तावतापि कृतार्था- हमित्युत्कण्ठातिशयो दर्शितः ॥ लवङ्गिका । इत एतेन संजवनेनावतरावः । संजवनं चतुः शालम् । 'संजवनं त्विदम् । चतुःशालम्' इत्यमरः । कामन्दकी। अपवार्य । 'निसृष्टार्थदूतिकल्पस्तत्रयितव्यः' इति यदुक्तं प्राक्, तदिदानी निर्म्य- ढमित्यवलोकितया सहापवाहेत्यर्थः । लघूकृतो भूयान्कर्तव्यांशः साधितः। इतः मालतीमाधवे. वरेऽन्यस्मिन्दोषः पितरि विचिकित्सा च जनिता पुरावृत्तोद्दारैरपि च कथिता कार्यपदवी । स्तुतं माहाभाग्यं यदभिजनतो यच्च गुणतः प्रसङ्गाद्वत्सस्येत्यथ खलु विधेयः परिचयः ॥ १३ ॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे द्वितीयोऽङ्कः । परमल्पमेवावशिष्टमित्यर्थः । कृताशकं कर्तव्यांशं च विशेषतो निरूपयति-वर इति । अन्यस्मिन्वरे नन्दने दोषः । पितरि विचिकित्साऽऽतत्वसंदेहमूलं वैमुख्यं च जनितं यद्वात्स्यायनसूत्रं कन्यासंप्रयुक्तकाधिकरणे निसृष्टार्थदूतीकृत्यनिरूपणप्रक- रणेऽन्यवरपितॄणां च दोषानभिप्रायविरुद्धान्प्रतिपादयेदिति मातापित्रोच गुणान- भिज्ञतामनपेक्षतां लुब्धतां शठता चपलता बान्धवानां प्रतिपादयेदिति पूर्वसूत्रा- दनुषज्यते । शकुन्तलावृत्तान्तादीतिहासोद्धाटनैः कार्यपदवी कर्तव्यसरणिश्च कथिता । यश्च सूत्रम्-'याश्चान्या अपि समानजातीयाः कन्याः शकुन्तलाद्याः खरुच्या भर्तारं प्राप्य मोदन्ते स्म, ताश्चास्याः प्रदर्शयेत्' इति, तथा वत्सस्य माधवस्याभिजनत आभिजात्याद्धेतोर्यन्माहाभाग्यं महाभागधेयत्वं गुणतश्च रूप- विद्यागुणेभ्यो यन्माहात्म्यं तत्प्रसङ्गत एव, अन्यथा पक्षपातप्रतीतेः । स्तुतम् । यद्यपि सूत्रं तस्याः 'खरुच्या नायकगुणान्भूयिष्ठान्परिवर्णयेत्' इति । एवं तावन्मा- धवानुरागो दृढीकृतः । इतः परं परिचयो विस्रम्भयोगसमनुचितेऽपि व्यापारे विनियुज्यमाना झटित्यविशङ्कं येन करोति तादृशः प्रणयो विधेयश्चेत्येतावन्मा. त्रमवशिष्टमित्यर्थः । अनेन करणं नाम मुखसंधेरामुक्तं भवति । यथा---'करणं प्रकृतारम्भः' इति ॥ १३ ॥ जयन्त्यमृतनिष्यन्दिरसोत्कर्षानुरञ्जिताः । मधुरोदात्तगम्मीरा भवभूतिकवेगिरः ॥ इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रिपुरा- रिसूरिविरचितायां मालतीमाधवभावप्रदीपिकायां द्वितीयाङ्क. विवरणम् ॥

तृतीयोऽङ्कः। (ततः प्रविशति बुद्धरक्षिता ।) बुद्धरक्षिता (परिक्रम्य आकाशे ।) अवलोइदे, अवि जाणासि कहिं भअवदी। अवलोकिता-(प्रविश्य ।) बुद्धरक्खिदे, किं पमुद्धासि । जो कोवि कालो भअवदीए पिण्डपारणवेलं विसजिअ मालदीं अणुवट्ट- माणाए। बुद्धरक्षिता–हुँ । तुम उण कहिं पत्थिदासि । अवलोकिता-अहं क्खु भअवदीए माहवसआसं अणुप्पे- सिदा । संदिटुं अ तस्स संकरउरसंबन्धि कुसुमाअरुज्जाणं गदुअ कुञ्जणिउञ्जपेरन्तरत्तासोअगहणे चिटेत्ति । गदो अ तत्थ माहवो । १. अवलोकिते, अपि जानासि क भगवती । २. बुद्धरक्षिते, किं प्रमुग्धासि । यः कोऽपि कालो भगवत्याः पिण्डपा- रणवेलां विसृज्य मालतीमनुवर्तमानायाः । ३. हुं, त्वं पुनः क प्रस्थितासि । ४. अहं खलु भगवत्या माधवसकाशमनुप्रेषिता । संदिष्टं च तस्य शंकर- पुरसंबन्धि कुसुमाकरोद्यानं गत्वा कुञ्जनिकुञ्जपर्यन्तरक्ताशोकगहने तिष्ठेति । गतश्च तत्र माधवः । अनाशासनवधूमनोज्जीवनौषधीम् । अभङ्गुरकृपारज्यदपाङ्गामाश्रये शिवाम् ॥ कविरिदानीमङ्कान्तरमारभमाणस्तदर्थसूचनार्थं प्रवेशकं प्रस्तौति-तत इत्या. दिना । असंनिहितामप्यवलोकितामाकाशभाषितेन संबोधयन्ती बुद्धरक्षिता बदति । आकाशभाषितं यथा-'अप्रविष्टः सहालापो भवेदाकाशभाषितम्' इति । अवलोकिते, अपि जानासि क भगवती । वर्तत इति शेषः ॥ अवलो. किता । बुद्धरक्षिते, किं प्रमुग्धासि मोहं प्राप्तवत्यसि । “विस्मृतासि' इति पाठे कर्तरि निष्ठा । विस्मृतवतीत्यर्थः । यः कोऽपि कालो भगवत्याः पिण्ड- पारणवेलां विसृज्य मालतीमनुवर्तमानायाः । भैक्ष्याभ्यवहारकालमप्युठच्चय मालत्यनुवर्तनाथं गताया भगवत्या महान्कालो जात इत्यर्थः ॥ बुद्धरक्षिता । हुमिति स्मरणे । ख पुनः क प्रस्थितासि ॥ अवलोकिता । अहं खलु भग- वत्या माधवसकाशमनुप्रेषिता । संदिष्टं च तस्य शंकरपुरसंबन्धि कुसुमाकरोद्यानं कामोद्यानं गवा कुजनिकुञ्जपर्यन्तरताशोकगहने तिष्ठेति । कुजं मालाकुसुमम् ।

७२ मालतीमाधवे बुद्धरक्षिता-अवलोइदे, किं ति. माहवो तत्थ अणुप्पेसिदो । अवलोकिता-अज किसणचउद्दसित्ति जणणीए समं मा- लदी संकरउरं गमिस्सदि । तदो एवं किल सोहग्गं वड्ढदि त्ति दे- वदाराहणणिमित्तं सहत्थकुसुमावअअं उदिसिअ लवङ्गिआदुदीअं मालदीं तं एव कुसुमाअरुज्जाणं आणइस्सदि । तदो अण्णोण्णदंसणं हविस्सदि ति । तुम उण कहिं पत्थिदा सि । बुद्धरक्षिता-अहं क्खु संकरउरं जेव्व पत्थिदाए पिअसहीए मदअन्तिआए आमन्तिदा । अदो भअवदीए पादवन्दणं कदुअ तहिं जेव्व गच्छामि। अवलोकिता-तुमं क्खु भअवदीए जस्सि पओअणे णिउत्ता तत्थ को वुत्तन्तो। बुद्धरक्षिता-मैए क्खु भअवदीए समादेसेण तासु तासु विस्स- १. अवलोकिते, किमिति माधवस्तत्रानुप्रेषितः । २. अद्य कृष्णचतुर्दशीति जनन्या समं मालती शंकरपुरं गमिष्यति । तत एवं किल सौभाग्यं वर्धत इति देवताऽऽराधननिमित्तं स्वहस्तकुसुमावच- यमुद्दिश्य लवङ्गिकाद्वितीयां मालतीं तदेव कुसुमाकरोद्यानमानेष्यति । ततो- ऽन्योन्यदर्शनं भविष्यतीति । त्वं पुनः क प्रस्थितासि । ३. अहं खलु शंकरपुरमेव प्रस्थितया प्रियसख्या मदयन्तिकया आमन्त्रिता । अतो भगवत्याः पादवन्दनं कृत्वा तत्रैव गच्छामि । ४. त्वं खलु भगवत्या यस्मिन्प्रयोजने नियुक्ता तत्र को वृत्तान्तः । ५. मया खलु भगवत्याः समादेशेन तासु तासु विस्रम्भकथास्वीदृशस्ता- गतश्च तत्र माधवः । बुद्धरक्षिता । अवलोकिते, किमिति माधवस्तत्रानुप्रे- षितः । अवलोकिता । अब कृष्णचतुर्दशीति जनन्या समं मालती शंकरपुर गमिष्यति । तत एवं किल सौभाग्यं वर्धत इति देवताराधननिमित्तं खहस्तकुसु- मावचयमुद्दिश्य लवङ्गिका द्वितीयां मालतीं तदेव कुसुमाकरोद्यानमानेष्यति । भगवत्येवेति शेषः । ततोऽन्योन्यदर्शनं भविष्यतीति । लं पुनः क्व प्रस्थितासि ॥ बुद्धरक्षिता । अहं खलु शंकरपुरमेव प्रस्थितया प्रियसख्या मदयन्तिकया- मन्त्रिताहूता । अतो भगवत्याः पादवन्दनं कृत्वा तत्रैव गच्छामि ॥ अवलो- किता। खं खलु भगवत्या यस्मिन्प्रयोजने मदयन्तिकामकरन्दसंघटनरूपे नि. युका तत्र को वृत्तान्तः । वर्तत इति शेषः । बुद्धरक्षिता। मया खलु भगवत्याः समादेशेन तासु तासु विसम्भकथाखीहशस्तादृश इति मकरन्दस्योपरि प्रियसख्या तृतीयोऽङ्कः। म्भकहासु ईरिसो तारिसो ति मअरन्दस्स उवरि पिअसहीए मद- अन्तिआए परोक्खाणुराओ तहा दूरं आरोविदो जहा से मणोरहो अवि णाम तं पेक्खामि ति । अवलोकिता-साहु बुद्धरक्खिदे, साहु । एहि गच्छम्ह । (इति निष्कान्ते ।) प्रवेशकः। (प्रविश्य ।) कामन्दकी- तथा विनयनम्रापि मया मालत्युपायतः । नीता कतिपयाहोभिः सखीवितम्भसेव्यताम् ॥ १ ॥ संप्रति हि व्रजति विरहे वैचित्र्यं नः प्रसीदति संनिधौ रहसि रमते प्रीत्या वाचं ददात्यनुवर्तते । दृश इति मकरन्दस्योपरि प्रियसख्या मदयन्तिकायाः परोक्षानुरागस्तथा दूरमारोपितो यथैवमस्या मनोरथोऽपि नाम तं पश्यामीति । १. साधु बुद्धरक्षिते साधु । एहि गच्छावः । मदयन्तिकायाः परोक्षानुरागस्तथा दूरमारोपितो यथैवमस्या मनोरथोऽपि नाम तं पश्यामीति ॥ अवलोकिता । साधु बुद्धरक्षिते, साधु । एहि गच्छावः । इति निष्क्रान्ते ॥ प्रवेशकः ॥ अथावलोकितासूचितप्रवेशा प्रविशति कामन्दकी । कामन्दकी-तथेति । तथा तेन प्रकारेण गुरुजनोचितभतिश्रद्धयोपलक्षि- तेन विनयेन कुलकन्यकाजनोचितखभावेन नम्रा प्रापि मालती मयोपायतः । सतततत्समीपावस्थानम् , विदग्धभझ्या कुन्तलविरचनम् , स्तनमुकुलगण्डफलकेषु चित्रपत्रलेखनम् , सहाक्षक्रीडानर्मालापैविनोदनम् , अपूर्ववस्तूपहरणमित्येवमादि- बहुप्रकारेणोपायेन कतिपयैरल्पैरेवाहोभिः सखीषु लवनिकादिषु यो विस्रम्भः साध्वसलज्जाशङ्कापरित्यागेन खमनोगतसर्वखनिवेदनं मदुक्तस्य जीवितव्ययस्या- प्यङ्गीकरणं क्षणमपि मद्विरहासहिष्णुलमित्यादिरूपस्नेहोत्कर्षस्तेन सेव्यतामनुरञ्ज. नीयताम् । तत्र भजनमनुरजनरूपमेव नीता। प्रापिवेत्यर्थः ॥ १ ॥ विस्रम्भमेव दर्शयति-व्रजतीति । नोऽस्माकं विरहे वैचित्र्यं चित्तवैकल्यम्, मनःखेद- मिति यावत् । व्रजति गच्छति । संनिधौ पुनः प्रसीदति निर्वृत्तान्तःकरणा भवति । रहस्येकान्ते रमते चिरकालं सखीभ्योऽपि यन कथितं तादृशनमरहस्यनिवेदनैः क्रीडति । प्रीत्या वाचं ददाति प्रियमेव सर्वदा भाषते, न तु कदाचिप्यन्यथा ।

मालतीमाधवे गमनसमये कण्ठे लमा निरुध्य निरुध्य मां सपदि शपथैः प्रत्यावृत्तिं प्रणम्य च याचते ॥ २ ॥ इदं च तत्र साधीयः प्रत्याशानिबन्धनम् । शाकुन्तलादीनितिहासवादा- प्रस्तावितानन्यपरैर्वचोभिः । श्रुत्वा मदुत्सङ्गनिवेशितानी चिराय चिन्तास्तिमितत्वमेति ॥ ३ ॥ तदद्य माधवसमक्षमुत्तरमुपक्रमिष्यामः । (नेपथ्याभिमुखमवलोक्य ।) वत्से, इत इतः। (ततः प्रविशति मालती लवङ्गिका च।) मालती—(खगतम् ।) कहं उवहारी किदम्हि राइणो तादेण । राआराहणं क्खु तादस्स गुरुअं, ण उण मालदी । (सास्रम् ।) हा १. कथमुपहारीकृतास्मि राज्ञस्तातेन । राजाराधनं खलु तातस्य गुरुकम् , 'देयं ददाति' इति पाठे देयं कर्पूरादिकं प्रीतिदानं ददातीत्यर्थः । तथानु- वर्तत आनुकूल्येनाभ्युत्थानासनप्रदानादिनोपचरति तथा खसमीपान्मठं प्रति गमनावसरे मदीयकण्ठासङ्गिवलयीकृतबाहुपाशा मां बहुशो निरुध्य सर्वथा न गन्तव्यमिति मया निर्बध्यमाना सपदि प्रत्यावृत्तिं तस्मिन्नेव च क्षणे पुनरागमनं शपथैरिदानीमेव यदि नागच्छसि तर्हि गुरुं ते वहस्तेन मारि- तवत्यसि ममान्यथाभावमाचरितवत्यसीयेवमादिभिरनेकैरनतिक्रमणीयैः प्रमाण- वचनैः प्रणम्य मामेवं याचते । प्रार्थयत इत्यर्थः ॥ २॥ इदं चेति वक्ष्य. माणं च साधीयो दृढतरं प्रत्याशायाः सर्वथा मदुक्तमसौ करिष्यत्येवंरूपाया निबन्धनं निमित्तम् । किं तदित्यत आह-शाकुन्तलादीनिति । अन्य- परैरन्यः खव्यतिरिक्तो जनः परस्तात्पर्यगोचरो येषां तैर्मुखतोऽन्योद्देशेन प्रवृत्त- वदवभासमानैर्वस्तुतस्तु खोपदेशायैव प्रवृत्तैर्वचोभिः प्रस्तावितान्मया मत्प्रेरितेन वा सखीजनेन प्रसजिताशकुन्तलावृत्तान्तप्रमुखानितिहासवादाश्रुखा मदुत्स- शनिवेशिताङ्गी यथेष्टविनियोगार्हसवैष जनस्तदस्य मरणं जीवितं वा बदेकाय- तमित्यात्मानं निवेदयन्तीव मदकविनिपातितशरीरा चिरकालं चिन्तया कथं मया शकुन्तलादिवत्कर्तव्यं को वात्राभ्युपाय इति विचारेण खिमितत्वं निश्चेष्टतामेति प्राप्नोति । इत्येतत्साधीयः प्रत्याशानिबन्धनमित्यर्थः । स एष श्लोकद्वयार्थो रति- रहस्ये दूतीवशीभूतनायिकारूपवर्णनसमये कथितः । यथा-'एवं प्रयुज्यमाने लक्षयितव्यस्खदीय आकारः । दृष्ट्वा ब्रवीति समितमन्तिक एवोपविशतीति । पृच्छति भोजनशयने चाख्यानं दिशति रहसि वा मिलति । निःश्वसति जृम्भयति च खवित्तमस्यै ददाति किंचिद्वा ॥ यान्तीमेष्यसि पुनरिति वदति तथा साम- वादिनी भवति ॥' इत्यादि ॥ ३ ॥ तदिति । माधवस्य समीप एवोत्तरमुपरितनं तृतीयोऽ ताद, तुमं वि मह णाम एवं ति सबहा जिदं भोअतिण्हाए । (सानन्दम् ।) कहं महाउलप्पसूदो सो महाभाओ । सुङ भणिदं पिअ- सहीए कुदो वा महोअहिं वजिअ पारिजादस्स उग्गमो ति । अवि णाम तं उणो वि पेक्खिस्सं । लवङ्गिका सहि, एसो क्खु महुरमहुरसाइमञ्जरिकवल- णकेलिकलकोइलउलकोलाहलाउलिदसहआरसिहरुड्डीणचडुलचञ्चरी- अणिअरवइअरुद्दलिददलकरालचम्पआहिवासमणोहरो मरालजहणप- रिणाहुबहणमन्थरोरुभरविसंटुलक्खलिदचलणसंचलणोवणीदसेअसी- अरसुहाबिन्दुज्जलमुद्धमुहचन्दचन्दणाअमाणसीअलफंसो तुमं परिस्स- अदि कुसुमाअरुज्जाणमारुदो । ता पिअसहि, इदो परिकमावो । (परिक्रम्य प्रविशतः।) न पुनर्मालती। हा तात, त्वमपि मम नामैवमिति सर्वथा जितं भोगतृष्णया । कथं महाकुलप्रसूतः स महाभागः । सुष्टु भणितं प्रियसख्या कुतो वा महो- दधिं वर्जयित्वा पारिजातस्योद्गम इति । अपि नाम तं पुनरपि प्रेक्षिष्ये । १. सखि, एष खलु मधुरमधुरसामञ्जरीकवलनकेलिकलकोकिलकुलकोला- हलाकुलितसहकारशिखरोड्डीनचटुलचश्चरीकनिकरव्यतिकरोदलितदलकराल चम्पकाधिवासमनोहरो मरालजघनपरिणाहोद्वहनमन्थरोरुभरविसंस्थुलस्खलि- तचरणसंचरणोपनीतखेदशीकरसुधाबिन्दूज्वलमुग्धमुखचन्द्रचन्दनायमानशी- तलस्पर्शस्त्वां परिष्वजति कुसुमाकरोद्यानमारुतः । तत्प्रियसखि, इतः परिक्रमावः । कार्यजातमद्योपक्रमिष्यामः ॥ 'नेपथ्य-' इत्यादि 'पुनः प्रेक्षिष्ये' इत्यन्तं गतार्थः ॥ लवङ्गिका । सखि, एष खलु मधुरेण मधुरसेनाणां भृशं क्लिन्नानां मञ्जरीणां कवलनमेव केलिस्तया कलोऽत्यन्तमधुरो यः कोकिल- कुलकोलाहलस्तेनाकुलितात्सहकारशिखरात्रासेनोडीनानां चटुलानां चचरीक- निकराणां व्यतिकरेण विमर्दैनोद्दलितदलानामूलं विकसितपत्राणां करालाना दन्तुराणाम् । 'करालो दन्तुरे तुझे विशाले विकचेऽपि च' इति वचनात् । चम्पकानां चाम्पेयकुसुमानामधिवासेन मनोहरः। मरालस्य समवृत्तस्य । 'भराल समवृत्तं स्यात्' इति वचनात् । जघनपरिणाहस्य नितम्बप्राग्भागविस्तारस्योद्ध- हनभारेण मन्थर मन्दं तथोरुभरेण विसंस्थुलं विषमं स्खलितं यच्चरणसंचरण पादगमनं तेनोपनीतैः खेदशीकरैरेव सुधाबिन्दुभिरुज्वलस्य मुग्धमुखचन्द्रस खदीयस्य चन्दनायमानः शीतलस्पर्शो यस्य स खां परिष्वजति कुसुमा- करोद्यानमारुतः । तदितः परिक्रमावः ॥ 'गतश्च तत्र माधवः' इति सचितो मालतीमाधवे (ततः प्रविशति माधवः ।) माधव:-हन्त, परागता भगवती । इयं हि मम आविर्भवन्ती प्रथमं प्रियायाः सोवासमन्तःकरणं करोति । निदाघसंतप्तशिखण्डियूनो वृष्टः पुरस्तादचिरप्रमेव ॥ ४ ॥ दिध्या लवनिकाद्वितीया मालत्यपि । आश्चर्यमुत्पलदृशो बदनामलेन्दु- सांनिध्यतो मम मुहुर्जडिमानमेत्य । जात्येन चन्द्रमणिनेव महीधरस्य संधार्यते द्रवमयो मनसा विकारः ॥ ५॥ माधवः प्रविशति ॥ माधवः । हन्तेति हर्षे । परागताभिमुखमागता । परेत्यु- पसर्गोऽत्राभिमुख्यद्योतकः ॥ आविर्भवन्तीति । प्रियायाः प्रथममाविर्भवन्ती प्रकटीभवन्ती भगवती प्रियतमायाः पुनर्दर्शननैराश्यात्स्मृतप्रायं ममान्तःकरणं दयितागमनसूचकतया सोच्छ्वासं सजीवं करोति । कथमिव निदाघसंतप्तस्य मयूरस्थ वृष्टेः पुरस्तादाविर्भवन्ती संनिहितां वृष्टिं सूचयन्ती। अचिरप्रभा विद्यु. दिवेत्युपमा । तत्र माधवस्य मालतीदर्शनाभिलाषो द्वितीयाङ्कगतमालतीवृत्तान्त- नन्दनवृत्तान्तविच्छेदे प्राप्त पुनदर्शनहेतुलेनाच्छेदकारणखाद्विन्दुः । यथा- 'अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम्' इति । अत्र च तृतीयचतुर्थाङ्काभ्यां पुनरन्योन्यसंदर्शानात्मकावान्तरप्रयोजनसंघटितैकभाविकथाशनिरूपकाभ्यां नि- र्दिष्टस्य बिन्दोश्चतुर्थाके 'तत्सर्वथा संगमनाय यत्नः प्राणव्ययेनापि मया विधेयः' इति वक्ष्यमाणस्य यत्नस्य समन्वयादुपजातम् 'तदास्यताम् । किंचिदाख्येयमा. ख्यातुकामास्मि' इत्यारभ्य 'यदि तद्विषयोऽनुरागबन्धः' इत्यन्तेन कामन्दकीलव- निकाभ्यां माधवमालत्योर्मदनव्यथातिशयवर्णनेन लक्ष्यस्य, तत उपरि शार्दूल- त्तान्तनन्दन विवाहनिश्चयप्रसङ्गाभ्यामन्तरायभूताभ्यामन्तरिततयालक्ष्यस्य च पर- स्परानुरागस्य बीजस्योद्भावनात्मकस्तत्रोद्भावयिष्यमाणविलासाद्यङ्गसमन्वितः प्रति- मुखसंधिनिरूप्यते । तल्लक्षणं च-'लक्ष्यालक्ष्यतया बीजव्यक्तिः प्रतिमुखं भवेत्। बिन्दुः प्रयत्नादुदयादशान्यत्र त्रयोदश ॥' इति ॥ ४॥ दिष्ट्या लवनिकाद्वितीया मालत्यपि । आगच्छतीति शेषः ॥ आश्चर्यमिति । इन्दीवराक्ष्या वदनमेवामल: कलङ्कशून्य इन्दुस्तस्य सांनिध्यतः सांनिध्याद्धेतोर्मम मनसा खाभाविकनैमित्तिक- द्रवत्वविरहितेनापि पर्वतसंबन्धिना जात्येन विशुद्धजातिप्रभवेण चन्द्रकान्तमणि- नेत महर्जडिमानं जाज्यं 'क्रियाखपाटवं जाज्यम्' इत्युक्तरूपं भावं जलप्रकृतिकलं तृतीयोऽ। ७७. संप्रति रमणीयतरा मालती। ज्वलयति मनोभवामि मदयति हृदयं कृतार्थयति चक्षुः । परिमृदितचम्पकावलिविलासलुलितालसैरझैः ॥ ६ ॥ मालती-सहि, इमस्सि कुञ्जणिउले कुसुमाइं अवचिणुम्ह । माधव:- प्रथमप्रियावचनसंश्रवस्फुर- पुलकेन संप्रति मयावलम्ब्यते । घनराजिनूतनपयःसमुक्षण- क्षणबद्धकुमलकदम्बडम्बरः ॥ ७ ॥ लवङ्गिका-सैहि, एवं करेम्ह । (पुष्पावचयं नाटयतः।) माधव:-अपरिमेयाश्चर्यमाचार्यकं भगवत्याः । १. सखि, अमुष्मिन्कुञ्जनिकुञ्ज कुसुमान्यवचिनुवः २. सखि, एवं कुर्वः । चैत्य प्राप्य द्रवमयो विकारो द्रवीभावः संधार्यते । तदेतन्मनसो द्रवीभवनमाश्चर्य- मित्यर्थः । महीधरस्य चन्द्रमणिनेत्यनेन खस्य महीधरसाम्यप्रतीतेरचलवद्धीरस्यापि मम मनो द्रवीभवतीत्याश्चर्यहेतुः ॥ ५॥ संप्रतीति । पूर्वदृष्टावस्थापेक्षया विर- हविनानां स्फुटीभावात्तेषामात्मविषयवस्य निश्चितलाच मालत्यतीव रमणीया च वर्तत इत्यर्थः । यत इत्यध्याहार्यम् ॥ ज्वलयतीति । परिमृदिता म्लानिमुप- गता या चम्पकावलिश्चाम्पेयकुसुममाला तस्या विलास इव विलासो विलसनं कान्तिप्रकर्षस्तेन लुलितैराविलैः । अभिव्याप्तैरिति यावत् । अलसैः क्रियाखनुन्मु- खैर मनोभवाग्निं ज्वलयति दीपयति । हृदयं मदयति हर्षपरवशं करोति । चक्षुः कृतार्थयति द्रष्टव्यावधिदर्शनेन सफलं करोतीति मनिमित्ततया निश्चितां विरहावस्थामनुभवन्तीयमानन्दमदनवेदनाभ्यां ममान्तःकरणमाकुलयतीत्यर्थः । कारकदीपकालंकारः ॥६॥ मालती । सखि, अमुष्मिन्कुञ्जनिकुञ्ज वामनतया खहस्तापचेयकुसुमे लतागुल्मे कुसुमान्यवचिनुवः ॥ माधवः-प्रथमेति । अश्रुतपूर्वप्रियावचनश्रवणेन स्फुरन्पुलको रोमोद्गमो यस्य तेन मया संप्रति मेघ- पकिनवजलबिन्दुसंसेचनेन य उत्पन्नः क्षणो हर्षस्तेन बद्धानि कुखलानि येन तस्य कदम्बतरोर्डम्बरोऽवस्थाविशेषोऽवलम्ब्यते । अनुक्रियत इत्यर्थः । अत्र प्रवी- यमानसंभोगाभिलाषानुगुण्यात्तद्वचनश्रवणकौतुकेन च तदन्तोपसर्पणादिचेष्टाया गम्यमानखाद्विलासो नाम प्रतिमुखसंधेरणम् । यथा-'समीहा रतिभोगार्थ विलासः परिकीर्तितः' इति ॥ ७॥ लवङ्गिका । सखि, एवं कुर्वः॥माधवः।

मालतीमाधवे मालती-सहि, देण इदो वि अवरस्सि अवचिणुम्ह । कामन्दकी-(मालती परिष्वज्य ।) अयि, विरम विरम निःसहा जातासि । स्खलयति वचनं ते संश्रयत्यङ्गमङ्गं जनयति मुखचन्द्रोद्भासिनः खेदबिन्दून् । १. सखि तेनेतोऽप्यपरमिन्नवचिनुवः । अपरिमेयान्यपरिच्छेद्यान्याश्चर्याणि यत्र तदाचार्यकं कामतत्रोपदेशकौशलं भग- वत्याः । यत्प्रसादादिदानीमिहैकाकिनी कुसुमावचयसंभ्रमसंसमानांशुकतया स्फुट विभाव्यमानसर्वावयवसौन्दर्यशालिनी प्रियतमां योऽहमन्तर्हित एव निःशङ्कम- वलोकयन्नमृतसरसि निमम इव भवामीत्यर्थः । अनेन पूर्व दृष्टायाः पश्चादन्तरित- दर्शनाया मालत्याः पुनरनुसरणात्परिसर्पो नामाङ्गमुक्तम् । यथा -'परिसर्पस्तु बीजस्य दृष्टनष्टानुसर्पणम्' इति ॥ मालती । सखि, तेनेतोऽप्यपरस्मिन्नवचिनुवः । अन्यस्मिन्प्रदेशे ॥ अथ कामन्दकी प्रच्छन्नस्थापितमाधवसमीपं मालतीमुपायेना. नीय ततोऽन्यत्र जिगमिषन्ती तां निरुध्य तत्रैव स्थापयितुमाह-कामन्दकी- अयोति । निःसहा पर्यटनासमर्था जाता । कुत इत्यत आह-स्खलय- तीति । हे सुभ्र । सुभ्रशब्दस्योवस्थानलेन नदीसंज्ञाप्रतिषेधादपि 'अम्बार्थन- योर्हखः' इति ह्रखाप्राप्तावपि 'विमानना सुच कुतः पितुहे' इत्यादि महाकवि- प्रयोगदर्शनात्साधुलं सुभ्रशब्दस्य ज्ञेयम् । खेदः पुष्पावचयजनितश्रमः । 'मनः- शरीरयोः खेदः क्रियातिशयतः श्रमः' इति वचनात् । खयि वल्लभालोक- नेन वल्लभकर्मकेण गाढाभिलाषायाः कामिन्या अवलोकनेन सर्वथा सर्वेणापि प्रकारेण तुल्यं यथा स्यात्तथा विलसति । वल्लभमवलोकयन्या येऽनुभावास्ते श्रम- वशात्त्वय्यपि दृश्यन्त इति नर्मगर्भोक्तिः । अथ च लतान्तरितवल्लभकर्तृकालो. कनेन सद्गोचरेण तुल्यमेककालतयैकालम्बनतया च सह वर्तत इत्यपि प्रतीतिः । किंच वल्लभकर्तृकावलोकजनिता एवैतेऽनुभावा न श्रमप्रभावाः, तेन विलोक- यन्तं वल्लभमजानानाया अपि ते तत्कटाक्षसंस्पर्शमात्रेण चन्द्रकान्तस्येव चन्द्रक- रसंपर्कमात्रेणैवंविधो विकार इत्यहो ते गाढानुरागिसमिति प्रतिपाद्यां मालती प्रत्यपहवातिशयोक्तिध्वनिः । एवमियं रक्षिजनसहस्ररक्षिताप्युपायेन मयैव पुनर्व- लभालोकनगोचरतां नीता, न तु भवत्येति लवङ्गिका प्रति ध्वनिः । खदालो. कनमार्गमियमानीता । तद्विस्रम्भमवलोकयेति तटस्थं माधवं प्रत्यस्यास्वनुरागेण खया विलोक्यमानायास्वामत्र संनिहितमजानानाया अप्येते विकारा इत्यहो ते युवतिजनहृदयाकर्षणप्रावीण्यमिति तमेव प्रतिव्यज्यत इति बहुधा व्यङ्ग्यस्योद्भा- वयितुं प्रतिश्लोकं प्रतिपदं च शक्यखेऽपि विस्तरभयादस्माभिरुपेक्षितम् । कथं तुल्यवेत्यपेक्षायां श्रमप्रियदर्शनयोः कार्यसाहाय्यमाह-ते वचनं स्खलयति गद्गदं तृतीयोऽङ्कः । मुकुलयति च नेत्रे सर्वथा सुभ्र खेद- स्त्वयि विलसति तुल्यं वल्लभालोकनेन ॥ ८॥ (मालती लजां नाटयति।)) लवङ्गिका-सोहणं भअवदीए आणतं । माधव: हृदयंगमः परिहासः । कामन्दकी-तदास्यताम् । किंचिदाख्येयमाख्यातुकामास्मि । (सर्वा उपविशन्ति ।) कामन्दकी-(मालत्याश्चुबुकमुन्नमय्य ।) शृणु चित्रमिदं सुभगे। १. शोभनं भगवत्याज्ञप्तम् । करोति । श्रमादपि स्खलितवाग्भवति । प्रियतमदर्शनादपि गद्गदाख्यः सात्त्विक- भावो भवति । यथा-'मदप्रमोदव्रीडादेर्वाक्स्तम्भो गद्दं विदुः' इति ॥ भामचं प्रत्यवयवं संश्रयति । सर्वेष्ववयवेवभिव्याप्तो वर्तत इत्यर्थः । वल्लभालोकनपक्षे तु अझं कर्तृ । अङ्गमवयवान्तरं कर्मभूतं श्रमशात्संश्रयतीति श्रमाख्यः सात्त्वि- कभाव उक्तः । तल्लक्षणं तूतम् । अस्मिन्पाठे वल्लभालोकनेन तुल्यमिति सहो- क्तिनिर्वाहकं वल्लभालोकनस्य कर्तृलेन प्रक्रान्तस्य परित्यागेन कर्जन्तरखीकारात् । न च व्यङ्ग्यवादस्यार्थस्यायमदोष इति वाच्यम् । तुल्यमिति सहार्थतुल्यशब्दबला- दुभयोरपि वाच्यखेन व्यङ्ग्यत्वाभावात् । वल्लभालोकनजनितानुभावाभिव्यको हि शृङ्गारो व्यङ्ग्यः । न तु वल्लभालोकनव्यापारः । तस्मात् 'संसयति' इति पाठः श्रेयान् । अङ्गमङ्गं संसयति सस्तं करोति । अङ्गसादोऽनेनोक्तः । स चोभयत्र साधारण एव । मुखचन्द्र उद्भासनशीलान्खेदकणाञ्जनयति । अनेन खेदो द्वयो- रपि साधारणो दर्शितः । यथाह-वपुर्जलोद्मः खेदो रतिधर्मश्रमादिभिः' इति । नेत्रे च मुकुलयति । यदाह-'निःश्वासखेदसीत्काराः संकोचो मुखनेत्रयोः । एते श्रमस्यानुभावाः' इति । पक्षान्तरे च सुखपारवश्यानेत्रसंमीलनं स्तम्भाख्यं सात्त्वि. कभावं व्यनक्ति । सहोक्तिदीपकयोः संकरः ॥ ८ ॥ लवङ्गिका । शोभनं भगव- त्याज्ञप्तम् ॥माधवः। परिहासो नर्मवचनम् । अनेन नर्माख्यमनमुक्तम् । यथा- 'परिहासवचो नर्म' इति ॥ कामन्दकी-तदास्यतामित्यादि । किंचिदाख्येय- मल्पमेव वक्तव्यम् ॥ चुबुकं वदनाधोभागं लज्जावनतमुन्नमय्य । आहेति शेषः ॥ शुण्वित्यादि । रतिरहस्यवचनप्रतीकोपादानं कामन्दक्या वक्ष्यमाणस्य नायक- विरहातिशयस्य दूतीव्यापारतया शास्त्रसिद्धता सूचयितुम् । यदाह-'उत्पाद्य सौम- नस्यं ब्रूयात्सुभगे शृणुष्व यचित्रम् । चित्रं किमयं व्यतिकरमसौ युवा कुसुमसुकु- मारः ॥ दृष्टिभुजङ्गीदष्टस्तव सखि संदेहमारूढः । श्वसिति खिद्यति मुह्यति संतापोऽप्यस्य कोऽपि दुर्वारः ॥ बन्मुखचन्द्रसुधारसमप्राप्य प्राणिता नासी । खप्नेऽपि तस्य नेहकदापि सुभगे विकारोऽभूत् ॥' इति । सुभगे इति संबोधन खरीयसौभाग्यमीदृशं येनैकाकी पित्रोरेकपुत्रो माधवः कुलालम्बनं श्रवण- ८० मालतीमाधवे मालती-अवहिदम्हि । कामन्दकी-अस्ति तावदेकदा प्रसङ्गतः कथित एव मया माध- वाभिधानः कुमारः, यस्त्वमिव मामकीनस्य मनसो द्वितीयं बन्धनम् । लवङ्गिका सुमरामो। कामन्दकी—स खलु मदनोद्यानयात्रादिवसात्प्रभृति दुर्मनायमानः परवानिव शरीरोपतापेन । तथाहि- यदिन्दावानन्दं प्रणयिनि जने वा न भजते व्यनक्त्यन्तस्तापं तदयमतिघीरोऽपि विषमम् । प्रियङ्गुश्यामाङ्गप्रकृतिरपि चापाण्डु मधुरं वपुः क्षामं क्षामं वहति रमणीयश्च भवति ॥९॥ लवङ्गिका-ऐदं वि तस्सि अवसरे भअवदिं तुवराअन्तीए अवलोइदाए उदीरिदं आसि । जह अस्सद्धसरीरो माहवो ति । १. अवहितास्मि । २. रसरामः॥ ३. एतदपि तस्मिन्नवसरे भगवतीं त्वरयन्त्यावलोकितयोदीरितमासीत् । यथाऽस्वस्थशरीरो माधव इति । मात्रादेवात्रागत्य वर्तत इत्यादि स्फुटम् ॥ मालती । अवहितास्मि ॥ कामन्दकी । प्रसङ्गतोऽस्वस्थशरीरो माधव इत्यवलोकितोफिप्रसङ्गात् । मनसो बन्धनम् । बध्नात्यन्यत्र गमनं निरुध खैकायत्तं करोतीति ॥ बन्धनं विश्रान्तिस्थानम् । प्रेमभाजनमित्यर्थः ॥ लवङ्गिका । स्मरामः ॥ कामन्दकी-स इति । दुर्मनायमानो दुःखितमनस्क इवाचरन् । परवा- निति परवशः । मदनोद्यानयात्रेत्यनेन प्राथमिकान्योन्यदर्शनप्रतीतेश्चक्षुःप्रीति- रुका । दुर्मनायमान इति चित्तासाः। त्वामुद्दिश्यासौ मदनेन ताखा दशाः प्रापित इति निवेदयितुमवस्थान्तराण्यप्याह-यदिन्दाविति । इन्दावमृतमय- शरीरे सकललोकाहादके प्रणयिनि निरतिशयप्रेमभाजने जने वा यदयमानन्दं निर्वृतिविशेषं न भजते ततोऽयमतिधीरोऽपि धैर्यवानपि विषममतिदुःसहमन्त- खापं व्यनक्ति द्योतयति । अरतिसंतापाख्यमवस्थाद्वयमनेनोकम् । तथा प्रियः फलिनीलता तद्वच्छयामाजप्रकृतिः खाभाविकी देहकान्तिर्यस्य स तादृशोऽपि चापाण्डु विरहजनितपाण्डिमवत्तथापि मधुरं माधुर्यगुणवत् । 'सर्वावस्थासु चेष्टानां माधुर्य मृदुकारिता' इति माधुर्यलक्षणम् । क्षामं याममत्यन्तकृशीभूतं वपुर्वहति । न चायं व्याधिनिमित्तः कार्यपाण्डुतादिरित्याह-रमणीयः कान्ति- मात्रावशेषेण मनोहराकारश्च भवति । कार्य नामावस्थोका । अनुमानविरोधयोः संसृष्टिः ॥९॥ लवङ्गिका । एतदपि तस्मिन्नवसरे भगवतीं त्वरयन्त्यावलोकि- तृतीयोऽः | कामन्दकी-यावदहमशृणवं मालत्येवास्य मन्मथोन्मादहेतु- रिति । ममापि स एव निश्चयः । कुतः । अनुभवं वदनेन्दुरुपागम- नियतमेष यदस्य महात्मनः । क्षुभितमुत्कलिकातरलं मनः पय इव स्तिमितस्य महोदधेः ॥ १० ॥ माधवः-अहो उपन्यासशुद्धिः । अहो मम च महत्त्वारोपणे यतः । अथवा। शास्त्रे प्रतिष्ठा सहजश्व बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी । कालानुरोधः प्रतिभानवत्त्व- मेते गुणाः कामदुधाः क्रियासु ॥ ११ ॥ तया निवेदितमासीत् । यथाऽवस्थशरीरो माधव इति ॥कामन्दकी-याव- दिति । मन्मथकृतोन्माद उन्मथनं कर्णाकर्णिकया श्रुखाहमप्येतदेवं निर- चैषम् । अन्यथा तद्धैर्यचलनायोगादिति भावः ॥ अनुभवमिति । एष इति मालतीमुखं चुबुकदेशे गृहीखा निर्दिशति । वदनेन्दुरस्य प्रकृतलेन बुद्धि- स्थस्य लतान्तरिततया च पुरोवर्तिनो माधवस्यानुभवं समुपागमद्दर्शनविषयतां प्राप्तः । नियतं निश्चितं सर्वथास्यैवंविधविषमदशाविपाकहेतुभूतं त्वदाननेन्दुदर्शनं जातमिति साध्यते । यतो महात्मनोऽतिगम्भीराशयस्य स्तिमितस्य निस्तरजस्य महोदधेः पय इवोत्कलिकातरलमुत्कण्ठया कल्लोलैश्च तरलं सक्षुभितमपहृतधैर्य- मुद्वेलंच संजातम् । यथा पयोनिधेः पूर इन्दुदर्शनादेव क्षुभ्यति न तूष्णीमेवं माध- वमनःक्षोमेऽपि त्वन्मुखेन्दुदर्शनमेव निमित्तमिति कार्यात्कारणमनुमीयत इत्यर्थः । रूपकोपमाभ्यामजाङ्गिभावेन संकीर्ण मनुमानमलंकारः॥१०॥माधव:-अहो इति । उपन्यासस्य प्रतिपादनप्रकारस्य शुद्धिः पूर्वापरविरोधादिदोषरहित्यम् । महत्त्वस्यारोपणे मय्यविद्यमानस्यापि समुद्रसाम्यसंपादनाध्यारोपे यनो निबन्धनम् । अथवा नैतादृशानामिदमाश्चर्यम् । कुत इत्यत आह-शास्त्र इति । शास्ने प्रतिष्ठा शङ्काशूकरहितसम्यग्ज्ञानरूपा परिनिष्ठितिः । सहजः खाभाविको बोधोऽनभ्यस्खे- ध्वपि सूक्ष्मप्रमेयरहस्येषु खारसिकप्रसरणशालिनी प्रज्ञा। प्रागल्भ्यं प्रौढोकिवचक्ष- ग्यम् । “निःसाध्वसवं प्रागल्भ्यं प्रयोगेष्वपि सर्वतः' इत्युक्तरूपं वा । तथाभ्यस्ताः प्रयत्नसंपाया गुणाः प्रसादमाधुर्यादयो यस्याः सा वाणी । कालानुरोधो वचनावसर- निरीक्षणम् । प्रतिभानवत्त्वं तादात्मिकनवनवोल्लेखशालिप्रतिभानवत्वमित्येते गुणाः क्रियासु साधयितुमिष्टासु कामदुधा मनोरथपूरकाः । तेनैतद्गुणगरिष्ठाया भगवत्या ८२ मालतीमाधवे कामन्दकी-यतस्तेन जीवितादुद्विजमानेन दुष्करमपि न किं- चिन्न क्रियते । तथा हि- धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते मार्गे गात्रं क्षिपति बकुलामोदगर्भस्य वायोः । दावप्रेम्णा सरसबिसिनीपत्रमात्रोत्तरीय- स्ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान् ।।१२।। मालती-(खगतम् ।) एवं दुक्करं करेदि सो । कामन्दकी-तदेवं प्रकृत्या सुकुमारः कुमारः कदाचिदप्य- न्यत्रापरिक्लिष्टपूर्वस्तपस्वी । यतः शक्यमनेन मरणमप्यनुभवितम् । १. एवं दुष्करं करोति सः उपन्यासशुद्ध्यादिकं किमाश्चर्यमित्यर्थः ॥ ११ ॥ कामन्दकी-यत इति । जीवितादुद्विजमानेन लया विना जीवनमशक्यमिति तत्रोद्वेगवता विरहिजनस्य दुष्करमपि न किंचिन्न क्रियत इति । किंतु सर्वमपि जीवितद्वेषिणा तेन क्रियत एवेत्यर्थः । तदेवाह-तथा हि । धत्त इति । मुकुलिनी कोर किते कोरकाणा- मेव तीक्ष्णाप्रस्मरसायकलेन मन्मथशरधीभूते । रणकोकिल इत्यनेन कंदर्पसैन्य. कलकलायमानपिककुलालापवाचालतया यावच्छब्दः श्रूयते तावत्संनिहितप्रदेश- गमनमप्यशक्यं किमुत दर्शनमित्युक्तम् । तस्मिन्बालतया मनोहरे सहकारे वृक्ष- विशेषे दृष्टिविषसर्प इव चक्षुर्धत्ते । भवितव्यं भवलिति दृष्टिं निपातयतीत्यर्थः । किं च केसरकुसुमपरिमलमिलितस्य वायोश्चन्दनाचलमन्दसमीरणस्य मार्गे समरसमय- समापतनाराचधारासंपातसंनिहितशात्रवावस्थितप्रदेश इव गात्रं क्षिपति । किम- नेन दुःखानुभवनिर्दयशरीरेणेति सकृत्संपरामृश्यत इति । तथा तापप्रशमनार्थ परिजनस्थापिताकमलिनीपत्रमात्रप्रावरणः । ताम्यन्ती ग्लानिमुपयान्ती मूर्तिर्य- स्थासौ । केनापि शिशिरोपचारेणानिर्वापणीयोऽयं तापस्तदद्य दवदहनज्वालासं- क्लेश एव निर्वापणौषधम् 'उष्णमुष्णेन शाम्यति' इति न्यायादित्येवं झटिति शरीर- त्यागसाधकतमलेन तत्कालापेक्षिते दावे प्रेम्णा पक्षपातेन विरहिजनदावानल- ज्वालायमानांश्चन्द्रपादान्मृत्यवे तत्क्षणप्राणनिर्गमनाय श्रयति । तदेवमनपेक्षितजी- वनोऽयमतिदुष्करं कुर्वनपि साहसं खामेव सकलविषानलादिसंस्तम्भनौषधीमन- वरतमन्तःकरणे धारयनमङ्गलशङ्काभाजनं भवतीत्यर्थः । अत्रैकस्मिन्मृत्युलक्षणे कार्ये कुसुमितबालसहकारदर्शनादिक्रियाणां बह्वीनां साधनत्वेन समुचितत्वा- त्समुच्चयालंकारः। यदाह-'गुणक्रियायोगपद्यं समुच्चयः' इति ॥ १२॥मालती। एवं दुष्करं करोति सः ॥ कामन्दकी । तदेवमुक्तप्रकारेण मरणमप्येनेन शक्यमनुभवितुं यतोऽयं प्रकृत्या सुकुमार उत्तमसौकुमार्यशाली । तद्यथा-'सौकु- मार्य त्रिधा भिन्न श्रेष्ठमध्याधमक्रमात् । प्रसूनपल्लवस्पर्शासहं यत्स्यात्तदुत्तमम् ॥ ।

तृतीयोऽङ्कः। मालती-सहि, अतणो कालणादो मञ्चलोआलंकारभूदस्स तस्स किं वि आसंकमाणा भूदाविट्ठा विअ ण आणामि किं पडि- वज्जदि ति । माधव:-दिष्ट्या, अनुकम्पितोऽस्मि भगवत्या । लवङ्गिका–भैअवदी एवंवादिणि ति आचक्खिअदि । अ- म्हाणं वि भट्टिदारिआ भवणासण्णरज्झामुहमुहुत्तमण्डणस्स तस्स जेब बहुसो अणुहूददसणा भविअ रविअरासिलिट्ठमुद्धकमलिनीकन्दसु- न्दरावअवसोहाविहाविदाणङ्गवेअणावइअररमणिज्जा वि परिजणं दूणेदि । णाहिणन्दइ कलाकीलाओ । केवलं मिलाअन्तकन्तहत्थप- लत्थगण्डमण्डला दिअहो गमेदि । अवि अ विअसिदारविन्दमअरन्द- १. सखि, आत्मनः कारणान्मर्त्यलोकालंकारभूतस्य तस्य किमप्याशङ्क. माना भूताविष्टेव न जानामि किं प्रतिपत्स्यत इति । २. भगवत्येवंवादिनीत्याख्यायते । अस्माकमपि भर्तृदारिका भवनास- नरथ्यामुखमुहूर्तमण्डनस्य तस्यैव बहुशोऽनुभूतदर्शना भूत्वा रविकराश्लि- ष्टमुग्धकमलिनीकन्दसुन्दरावयवशोभाविभावितानङ्गवेदनाव्यतिकररमणीयापि परिजनं दूनयति । नाभिनन्दति कलाक्रीडाः । केवलं म्लायमानकान्तहस्तपर्य- खगण्डमण्डला दिवसान्गमयति । अपि च विकसितारविन्दमकरन्दविष्यन्द- इति । अनुभूतपूर्वखाद्विकारस्य दुःसहत्वमुक्तं कदाचिदिति । तपस्व्यनुकम्पनीयः। यद्वा त्वत्समागमायैव महते पुरुषार्थाय बद्विरहव्यथानुभवलक्षणं सुदुष्करं तपश्चर- तीति तपस्थी । कुमार इति प्रागकृतदारपरिग्रहवं पित्रोः कुशलिलं च व्यज्यते ॥ मालती। सखि, आत्मनः कारणान्मर्त्यलोकालंकारभूतस्य तस्य किमप्याशङ्कमाना भूताविष्टेव न जानामि किं प्रतिपत्स्यत इति । किमपीति मरणं निर्दिशति । भगवतीव- चनस्य किमुत्तरं देयमित्यहं न जानामि । लमेव यथोचितं मदवस्थानिवेदनादिकमु. त्तरं देहीत्याशयः॥ माधवः-दिष्टयेति । भाग्यवशादेव मदवस्थां प्रकटयन्या भगवत्यानुकम्पितोऽस्मि । यद्वा जनान्तिकमपि लतामात्रान्तरितखादन्तिकस्थेन माधवेन श्रुतं वाक्यमिति तद्वचनाकर्णनहर्षवशादियमुक्तिः ॥ लवङ्गिका । भग- वत्येवंवादिनीत्याख्यायते । अस्माकमपि भर्तृदारिका भवनासमरथ्यामुखमुहूर्तम- ण्डनस्य तस्यैव बहुशोऽनुभूतदर्शना भूला । चक्षुःप्रीतिरनेनोक्ता। रविकराश्लिष्ट- मुग्धकमलिनीकन्दसुन्दरावयवशोभाविभावितानगवेदनाव्यतिकररमणीयाऽपि प. रिजनं दूनयति । अङ्गग्लानिः पाण्डिमा च कथितः । नाभिनन्दति कलाक्रीडाः नृत्यगीतादयः कलाः । अरतिरुका । केवलं म्लायमानकान्तहस्तपर्यस्तगण्डम- ण्डला दिवसान्गमयति । चिन्ता सूचिता । अपि च विकसितारविन्दमकरन्दविष्य.

८४ मालतीमाधवे विस्सन्दसुन्दरेण दरदलिदकुन्दमाअन्दमहुबिन्दुसंदोहवाहिणा भ- वणुज्जाणपेरन्तमारुदेण उत्तम्मिअदि । अण्णं अ जदो प्पहुदि तस्सि दिअहे णिमहसवब्भुदअदंसणथं पडिवण्णरूवस्स कामकाणणालं. कारिणो भअवदो मम्महस्स विअ तस्स माहवस्स विविहविब्भमाणु- राआणुबन्धमहग्धीकिदजोवणारम्भं अण्णोण्णदिट्ठिविणिवाअवञ्चणा- वसरजुवरिदचिचतुवरन्तकोदूहलुल्लसिदसद्धसत्थम्भमन्थरावअवपडि- लग्गसेदपुलअकम्पाणन्दिअसहीजणं परस्परावलोअणसुहं समासादि- दं । तदो प्पहुदि सविसेसदूसहाआसविअम्भणुद्दामदारुणं दसापरि- णामं अणुहोन्ती मुहुत्तसंपत्तपुण्णचन्दोदआ विअ बालकमलिणी परिमिलाअदि । तह वि मुहुत्तमेत्तहिअअविणिहिदणिम्माअन्तव- लहसमाअमा णिब्भरसलिलासारसिच्चमाणा विअ मेदिणी सीअलाअ- सुन्दरेण दरदलितकुन्दमाकन्दमधुबिन्दुसंदोहवाहिना भवनोद्यानपर्यन्तमा- रुतेनोत्ताम्यति । अन्यच्च यतः प्रभृति तस्मिन्दिवसे निजमहोत्सवाम्युदयद- शनार्थे प्रतिपन्नरूपस्य कामकाननालंकारिणो भगवतो मन्मथस्येव तस्य माधवस्य विविधविभ्रमानुरागानुबन्धमहर्षीकृतयौवनारम्भमन्योन्यदृष्टिविनि- पातवश्वनावसरज्वरितचित्तत्वरत्कौतूहलोल्लसितसाध्वसस्तम्भमन्थरावयवप्रति- लमखेदपुलककम्पानन्दितसखीजनं परस्परावलोकनसुखं समासादितम् । ततः प्रभृति सविशेषदुःसहायासविजृम्भणोद्दामदारुणं दशापरिणाममनुभवन्ती मुहूर्तसंप्राप्तपूर्णचन्द्रोदयेव बालकमलिनी परिम्लायति । तथापि मुहूर्तमात्र- हृदयविनिहितनिर्मीयमाणवल्लभसमागमा निर्भरसलिलासारसिच्यमानेव मे- न्दसुन्दरेण दरदलितकुन्दमाकन्दमधुबिन्दुसंदोहवाहिना भवनोद्यानपर्यन्तमा- रुतेनोत्ताम्यति । उद्दीपनविभावनाजनितवेदनातिशयोक्तिः । अन्यच्च यतःप्रमृति तस्मिन्दिवसे निजमहोत्सवाभ्युदयदर्शनार्थ प्रतिपन्नरूपस्य खीकृतशरीरस्य भग- वतो मदनस्येव कामकाननालंकारिणस्तस्य माधवस्य विविधैर्विभ्रमैर्विलासैर- नुरागानुबन्धेन समुचितप्रियजनगोचराभिलाषप्रकर्षेण च महर्षीकृतोऽतिश्लाघ- नीयः। संपादनीय इति यावत् । यौवनारम्भो यस्य तत्तथा।अन्योन्यदृष्टिविनिपात- वचनावसरे ज्वरितं खेदितं यश्चित्तं तमिस्वरमाणेन कौतूहलेनोल्लसितेषु साध्वसज- नितात्स्तम्भान्मन्थरेषु चेष्टाविहीनेष्ववयवेषु प्रतिलग्नाः खेदपुलककम्पाः सात्त्वि- कभावास्सैरानन्दितसखीजनं परस्परावलोकनमुखं समासादितं मालत्या । ततः प्रमृति सविशेषदुःसहायासविजृम्भणोद्दामदारुणं दशापरिणाममनुभवन्ती मुहूर्तसं- प्राप्तपूर्णचन्द्रोदयेव बालकमलिनी परिम्लायति । तथापि मुहूर्तमात्रहृदयविनिहित- निर्मीयमाणवल्लभसमागमा निर्भरसलिलासारसिच्यमानेव मेदिनी शीतलायत इति तृतीयोऽ। दि त्ति जाणामि । जेण पप्फुरिदरदणच्छदुज्जलन्तदन्तमोतिअपन्ति- कन्तिसविसेससोहिदं णिरन्तरुल्लसिदपुलअपझलकवोलघोलन्तसं- ददाणन्दबाहत्थव ईसविसमणिप्पन्दमन्थरतारुत्ताणमसिणमुउला- अन्तणेत्तणीलुप्पलं अविरलुब्मिण्णसेअजलबिन्दुसुन्दरणिडलचन्दले- हामणोहरं मुद्धमुहपुण्डरीअं उन्वहन्ती विअडसहअरीचित्तसंसइदको- मारभावा होइ । किं अ, उद्दामससिमऊहणिउरुम्बचुम्बिअपउत्त- णिस्सन्दचन्दमणिहारधारिणी पउरकप्पूरसविसेससिसिरचन्दणरस- च्छडासारणिअरदन्तुरिदबालकदलीपत्तसअणा पादसंवाहणादिवावा- रतुवरन्तसहअरीसत्थविरइदोवणीदकमलिणीदलजलद्दतालउन्ता ण्णिद्दा एव रअणीओ गमेइ । कहं वि उवलद्धणिद्दासुहा पक्खालिद- दिनी शीतलायत इति जानामि । येन प्रस्फुरितरदनच्छदोज्वलद्दन्तमौक्तिक- पतिकान्तिसविशेषशोभितं निरन्तरोल्लसितपुलकपक्ष्मलकपोलघूर्णमानसंतता- नन्दबाष्पस्तबकमीषद्विषमनिष्पन्दमन्थरतारोत्तानमसृणमुकुलायमाननेत्रनीलो- त्पलमविरलोद्भिन्नखेदजलबिन्दुसुन्दरनिटिलचन्द्रलेखामनोहरं मुग्धमुखपुण्ड- रीकमुद्वहन्ती विदग्धसहचरीचित्तसंशयितकौमारभावा भवति । किं च उद्दा- मशशिमयूख निकुरुम्बचुम्बितप्रवृत्तनिष्यन्दचन्द्रमणिहारधारिणी प्रचुरकर्पू. रसविशेषशिशिरचन्दनरसच्छटासारनिकरदन्तुरितबालकदलीपत्रशयना पाद- संवाहनादिव्यापारत्वरमाणसहचरीसार्थविरचितोपनीतकमलिनीदलजलार्द्रता- लवृन्तोन्निद्रव रजनीगमयति । कथमप्युपलब्धनिद्रासुखा प्रक्षालितपादपल्लवोद्व- जानामि । येन प्रस्फुरितरदनच्छदोज्ज्वलद्दन्तमौक्तिकपतिकान्तिसविशेषशोभित निरन्तरोल्लसितपुलकपक्ष्मलकपोलघूर्णमानसंततानन्दबाष्पस्तबकम् । 'बाहधेवम्' इति पाठे धेवो (2) बिन्दुः। ईषद्विषमनिष्पन्दमन्थरतारोत्तानमसृणमुकुलायमान- नेत्रनीलोत्पलमविरलोद्भिन्नखेदजलबिन्दुसुन्दरनिटिलचन्द्रलेखामनोहरम् । नि- टिलो ललाटः । मुग्धमुखपुण्डरीकमुद्वहन्ती विदग्धसहचरीचित्तसंशयितकौमार- भावा भवति । येन कारणेन दन्तच्छदस्फुरणरोमाश्चानन्दबाष्पदृग्विकारविशेषखे- दप्रभृतिभिः संभोगचिहैर्विदग्धसखीनां चित्त संशयविषयीकृतः कुमारीभावो यस्याः सा। कथमियं कुमार्यपि विदग्धनायकोपभुक्तेव संभोगचिहालंकृतेत्येवं संदिया माना भवति, तेन कारणेन हृदयनिहितवल्लभनिर्माणसंभोगसौहित्यनिर्वापितेयमिति जानामीति योज्यम् । एतत्सर्वमस्माभिः 'नीवीबन्ध-' इत्यादावेवव्याख्यातमिति नेह प्रतन्यते। किं च, उद्दामशशिमयूखनिकुरुम्बचुम्बितप्रवृत्तनिष्यन्दचन्द्रमणिहा- रधारिणी प्रचुरकर्पूरसविशेषशिविरचन्दनरसच्छटासारनिकरदन्तुरितबालकदली- पादसंवाहनादिव्यापारखरमाणसहचरीसार्थविरचितोपनीतकमलिनी- पत्रशयना मालतीमाधवे पादपल्लवबुव्वमन्तपिण्डालत्तअरसा थरथराअन्तपीवरोरुमूलपासवि- संवादिअणीविबन्धणा उक्खुब्भन्तहिअअन्तरुत्तरङ्गाणिस्सासविसम- ऊस्ससन्तपुलकपम्हलपओहरोवरिविक्खित्तवेवन्तमुअलदावे?णबन्धणा झत्ति पडिबोधवेलाविसज्जिदापङ्गदिडिविणिवादविण्णाणसुण्णसअ- णिजसंजादमोहमीलन्तलोअणा ससंभमसहीअणपअत्तपडिवण्णमुच्छा- विच्छेअसमअसंगलिददीहणीसासजणिदजीविदासा किंकादव्वदामूढ़ पढमं पत्थिअणिअजीविदावसाणं दुबारदेवदुबिलसिदोवालम्भमेत्त- वावारं सहीजणं करेदि । ता पेक्खदु भअवदी । इमेसु दाव लाव- पणभूइट्टणिम्भाणपरिपेसलेसु अङ्गेसु दारुणविअम्भिअस्स किअचिरं मत्पिण्डालक्तकरसा थरथरायमानपीवरोरुमूलपार्थविसंवादितनीवीबन्धनोत्क्षु- भ्यमानहृदयान्तरोत्तरङ्गनिःश्वासविषमोच्छुसत्पुलकपक्ष्मलपयोधरोपरि विक्षिप्त- वेपमानभुजलतावेष्टनबन्धना झटिति प्रतिबोधवेलाविसर्जितापाङ्गदृष्टिवि. निपातविज्ञानशून्यशयनीयसंजातमोहमीलल्लोचना ससंभ्रमसखीजनप्रयत्न- प्रतिपन्नमूर्छाविच्छेदसमयसंगलितदीर्घनिःश्वासजनितजीविताशा किंकर्तव्य- तामूढं प्रथमं प्रार्थितनिजजीवितावसानं दुरिदैवदुर्विलसितोपालम्भमात्र- व्यापार सखीजनं करोति । तत्पश्यतु भगवती । एषु तावल्लावण्यभूयिष्ठ- निर्माणपरिपेशलेष्वङ्गेषु दारुण विजृम्भितस्य कियच्चिरं कुशलावसानता मन्म- दलजलाई तालवृन्तं यस्याः सा । उनिदेव रजनीर्गमयति । जागरावस्था दर्शिता। कथमप्युपलब्धनिद्रा च निद्रैव सुखं खप्ने प्रियंतमसमागमौपधायकत्वात्तदे- चाह । प्रक्षालिताभ्यामविरलखेदजलक्षालिताभ्यां पादपल्लवाभ्यामुद्वमनुदमन्तः पिण्डालतकरसो यया सा। थरथरायन्तेति देशीयपदं कम्पवाचकम् । कम्पमान- पीवरोरुमूलपार्थाद्विसंवादितं विगलितं नीवीबन्धनं यस्याः सा । उत्क्षुभ्यमानहृद- यान्तरोत्तरङ्गनिःश्वासैर्विषममनेकप्रकारमुच्छ्वसन्ती पुलकपक्षमलौ सरोमाञ्चौ पयो- धरौ तयोरुपरि विक्षिप्तवेपमानभुजलनावेष्टनबन्धना । खेदवेपथुनीवीस्रंसननिःश्वा- सरोमाञ्चभुजलतावलयवेष्टनैः खनसमागमे प्रियतमगाढालिङ्गनसौख्यमनयानुभूत- मित्यर्थः । झटिति प्रतिबोधवेलाविसर्जितापाजदृष्टिविनिपातेन विज्ञानशून्यं तादृश- बाहुपाशान्तर्गतकण्ठावलम्बितनायकविरहितं यच्छयनीयं तेन संजातो यो मोह- तेन मीललोचनं यस्याः सा । संभ्रमः सोद्वेगो यः सखीजनस्तस्य प्रयत्नैर्व्यज- नवीजनहिमवालुकासेकादिरूपैः प्रतिपनो यो मूछ विच्छेदस्तत्समये संगलितः संभूय विनिर्गतश्चिरकालनिरोधाद्यो दीर्घनिःश्वासस्तेन जनिता जीविताशा यस्याः सा । किंकर्तव्यतामूढं प्रथमं प्रार्थितनिजजीवितावसानं दुरिदैवदुर्विलसितोपा. सम्भपात्रव्यापार सखीजनं करोति । तत्पश्यतु भगवती । एषु तावल्लावण्यभूयिष्ठं यनिर्माणं तेन परिपेशलेषु सुकुमारेवनेषु विजृम्भितस्य मन्मथस्य कियश्चिरं कि- तृतीयोऽङ्कः। ८७ कुसलावसाणदा मम्महस्स । कहं अ इमाइं रमणकेलिकलहकोवरा- अपल्लविदकेरलीकपोलकोमलुबेल्लविमलचन्दिओद्दामदलिदतिमिराव- रणाई विभावरीमुहाइं । इमे अ उल्लसिददुद्धधारापूरधवलुजलजोण्हा- पक्खालिदनहोङ्गणा परिमलिअपाडलीमुउलणिम्महणबहुलपरिमलु- प्पीडसंकलणमसिणमंसलमलअमारुदुद्भूमायिददहदिसामुहा अणत्या- रिणो होन्ति रअणीपरिणामा अपिअसहीए । कामन्दकी- यदि तद्विषयोऽनुरागबन्धः स्फुटमेतद्धि फलं गुणज्ञतायाः । इति नन्दितमप्यवस्थयास्या हृदयं दारुणया विदीर्यते मे ॥ १३ ॥ थस्य । कथं चेमानि रमणकेलिकलहोपरागपल्लवितकेरलीकपोलकोमलोद्वे- लविमलचन्द्रिकोद्दामदलिततिमिरावरणानि विभावरीमुखानि । इमे चोल्लसित- दुग्धधारापूरधवलोज्वलज्योत्स्नाप्रक्षालितनभोङ्गणाः परिमलितपाटलीमुकुल- निर्मथनबहुलपरिमलोत्पीडसंकलनमसृणमांसलमलयमारुतोद्भूमायितदशदिश्च- खा अनर्थकारिणो भवन्ति रजनीपरिणामाश्च प्रियसख्याः। यतः कालस्य कुशलावसानता क्षेमपर्यवसायित्वम् । भविष्यतीति शेषः । इदानीं मालत्यनेषु दारुणकर्मणः स्मरस्येतः परं कदा वा प्रियतमसंघटनेन कुशल- कारिलं भविष्यतीत्यर्थः । कथं चेमानि रमणेन सह यः केलिकलहः कोपते. नोपनीतो यो रागः कोपरागस्तेन पल्लवितौ संजातपल्लवी यौ केरलीकपोली तद्वत्कोमला उद्वेला विमला च या चन्द्रिका तयोद्दामं प्रगल्भं दलितानि तिमि. रावरणानि येषु तानि विभावरीमुखानि । इमे चोल्लसितदुग्धधारापूरधवलोजव- लज्योत्स्नाप्रक्षालितनभोङ्गणाः । परिमलितं संजातपरिमलं यत्पाटलीमुकुलं तस्य यन्निमर्थनं तेन यो बहुलपरिमलस्योत्पीड उद्गारस्तेन यत्संकलनं मिश्रीभावस्तेन मसृणः स्निग्धो मांसलः पुष्टो यो मलयमारुतस्तेनोभूमायिता दशदिङ्मुखा अनर्थ- कारिणो भवन्ति रजनीपरिणामाः प्रियसख्याः । ईदृशानि रजनीमुखानि ई- शाश्व रजनीपरिणामाः प्रियसख्याः । कथं केन वा प्रकारेणानर्थकारिणो भवन्ती- त्येतदपि भगवती पश्यलिति संबन्धः । 'न भवन्ति' इति पाटे कथमनर्थकारिणो न भवन्ति । भवन्त्येवेत्यर्थः । रजनीमुखपरिणामयोरनर्थहेतुत्वेनैव कृतस्य रात्रिंदि- वस्य ताहशत्वं दर्शितम् ॥कामन्दकी-यदीति । यद्ययमनुरागबन्धो गाढा- नुरागस्तद्विषयो माधवालम्बनतर्हि स्फुटं व्यकमेतदेव । हिशब्द एवकारायें। गुणशतायाः फलमित्येवमनेनानुरागस्थैर्येणानन्दितं प्रारब्धकार्यानुकूल्येन जाता- .८८ मालतीमाधवे माधव:-अहो, स्थान एवाभ्युल्लासो भगवत्याः । कामन्दकी-अहो, प्रमादः । प्रकृतिललितमेतत्सौकुमार्यैकसारं वपुरयमपि सत्यं दारुणः पञ्चबाणः । चलितमलयवातोद्भूतचूतप्रसूनः कथमयमपि कालश्चारुचन्द्रावतंसः ॥ १४ ॥ लवङ्गिका-अण्णं अ जाणिदं होदु भअवदीए । एदं अ माहवप्पडिच्छन्दअसणाहं चित्तफल। (मालत्याः स्तनांशुकमपनीय।) एसा वि तस्स जेव्व सहत्थविरइदेत्ति कण्ठावलम्बिदा बउलमाला संजीवणं पिअसहीए। (इति बकुलमालां दर्शयति ।) १. अन्यच्च ज्ञातं भवतु भगवत्या । एतच्च माधवप्रतिच्छन्दकसनाथं चित्र- फलकम् । एषापि तस्यैव स्वहस्तविरचितेति कण्ठावलम्बिता बकुलमाला संजीवनं प्रियसख्याः। नन्दमपि मे हृदयमस्या दारुणया बदुक्तयावस्थया विदीर्यते । सुकुमारतया झटित्यनिष्टोपनिपातमाशय विदीर्ण मिव भवतीत्यर्थः ॥ १३ ॥ माधवः। अभ्यु. लासोऽनिष्टाशङ्कया हृदयस्योद्वेगः । स्थाने युक्त इत्यर्थः ॥ कामन्दकी। प्रमादो. ऽस्मदीयानवधानता । अहो आश्चर्यम् । यदिदानीमपि खया संदिहानेनैव प्राणव्य येनापि मालतीसमागमं प्रति विलम्ब्यत इत्यर्थः । विलम्बनानौचित्यमेवाह- प्रकृतीति । प्रकृत्यैव ललितम् । ललितं नाम यौवनारम्भसंभवशारानुगुणं गात्रारम्भः । यथा-'सुकुमारोऽङ्गविन्यासः सभ्रूनेत्राधरक्रियः । अनुल्बणय मसृणः स्त्रीणां ललितमीरितम् ॥' इति । तद्योगाललितमेतस्या वपुः सौकुमार्यैकसा सौकुमार्यमात्रस्थिरांशम्। सौकुमार्यमेवास्य वपुषोऽवलम्बनं नान्यः सत्त्वयोग इत्यर्थः 'प्रसूनपल्लवस्पर्शासहं यत्स्यात्तदुत्तमम्' इत्युक्तमुत्तमसौकुमार्यमत्र विवक्षितम् अयं पुनः पञ्चबाणो दारुणो घोरतरव्यापारः । अस्तु नामैतत् । कथमयं कालोsi मन्दमन्दसंचारिचन्दनाचलगन्धवहकम्पितसहकारकुसुमनिकरस्तुषारवारिदायव- ग्रहाभावाचारुचन्द्र एवावतंसो यस्य स तादृश इदानीमेवोपस्थितः । कष्टमनर्थपर •म्परा संमिलितेत्याशयः । अनेन विधूतं नामाङ्गमुक्तम् । यथा-'विधूतमरतियून सुरताप्राप्तिसंभवा' इति ॥ १४ ॥ लवङ्गिका । अन्यच्च ज्ञातं भवतु भगवत्या एतच्च माधवप्रतिच्छन्दकसनाथं चित्रफलकम् । माधवानुरागप्रकर्षद्योतकमिदा प्येकं भगवत्या ज्ञातव्यमित्यर्थः । स्तनांशुकमिति कण्ठावलम्बितस्रगवलोकनार्थम एषापि तस्यैव खहस्तविरचितेति कण्ठावलम्बिता बकुलमाला संजीवनं प्रियसख्या -- मंायितव्यम । यथ - तृतीयोऽङ्कः। ८९. माधव:- जितमिह भुवने त्वया यदस्याः सखि बकुलावलि वल्लभासि जाता । परिणतबिसदण्डकाण्डपाण्डु- स्तनपरिणाहविलासवैजयन्ती ॥ १५॥ (नेपथ्ये कलकलः । सर्व आकर्णयन्ति ।) रेरे संकरउरवासिजाणपदा, एसो क्खु जोवणारम्भभरिददुवि- सहामरिसरोसवइअरबलामोडीअविघडिदुग्घडिअलोहपञ्जरपडिलग्गसं- गलिअणिअलो णिअलीलाविलासुब्वेलिअवल्लहतुङ्गललविअडवैजअ- न्तिआविसमडामरुद्दामसरीरसंणिवेसो मठादो अवक्कमिअ तक्खणस- तिण्णकवलिआणेअदेहिदेहावअवमज्झणिकुरत्थिखण्डखण्डणटंकारक- १. रे रे शंकरपुरवासिजानपदाः, एष खलु यौवनारम्भभरितदुर्विषहामर्ष- रोषव्यतिकरबलात्कारविघटितोद्घाटितलोहपञ्जरप्रतिलग्नसंकलितनिगलो निज- लीलाविलासोद्वेल्लवल्लभतुङ्गलाङ्गुलविकटवैजयन्तिकाविषमडामरोदामशरीरसं- निवेशो मठादपक्रम्य तत्क्षणसतृष्णकवलितानेकदेहिदेहावयवमध्यनिष्ठुरास्थि- कथंचित्संघटनोपाय एव झटिति प्रयोज्य इत्याशयः॥माधव:-जितमिति। सखि, पूर्व मत्कण्ठावलम्बिनी भूलेदानी मत्प्रियतमाकण्ठप्रणयिनीलेन मत्प्रयोजन- संपादनैकप्रवणतया मम वयस्यभूते बकुलावलि, इह भुवने सर्वस्मिनपि प्रपञ्चे वयैव जितं सर्वातिशाय्युत्कर्षों लब्धः । यतोऽस्याः प्रियाया वल्लभा जातासि । मया हि कथमहमस्या मदनुरागसूचकसस्पृहावलोकनगोचरो भवेयम्, कथमेतदीयशरीरसं- स्पर्शसंजातसौहित्यनिर्वृतो भूयासम् , कथं क्षणमप्येतत्कण्ठालिङ्गनमहोत्सवचरिता- पंजीवनः स्यामिति संततं यदाशास्यते तदेतत्त्वया निरन्तरतत्कुचमण्डलीमण्डनाय- मानया संततं सस्पृहावलोकननिर्वर्ण्यमानया ममेयं जीवितालम्बनभूता प्रियसखी- अनवरतमभिनन्यमानया सहस्रगुणमधिगतमित्यहो ते सौभाग्यातिशय इति भावः । इदमेव विशेषणेन दर्शयति-परिणतो यो बिसदण्डस्तस्य काण्डः पर्व- देशस्तद्वत्पाण्डुर्यः स्तनपरिणाहः कुचाभोगस्तस्य यो विलास उजृम्भणं तस्य जयन्ती पताका उत्कर्षद्योतिका । अनेन माधवस्य खहस्तनिर्मितबकुलमालि- कायाः प्रियतमाकण्ठाभरणखज्ञानेन हर्षप्रतीतेरत्युपशमाच्छमो नामाजमुक्तम् । यथा-'अरत्युपशमः शमः' इति । काव्यलिङ्गमलंकारः ॥ १५ ॥ एवमन्यो- गनुरागव्यजकेन परस्परावस्थानिवेदनेन शृङ्गार परिपोष्य रसान्तरेण तं विरो- तुं चूलिकाख्यमर्थोपक्षेपमाह-नेपथ्य इति । 'अन्तर्यवनिकासंस्थैथूलिका- सूचना' इति चूलिकालक्षणम् । रे रे शंकरपुरवासिजानपदाः, एष खलुः ।

९० मालतीमाधवे डकडाअन्तकरवत्तकठिणदाढाकरालमुहकन्दरो विअडविइंब्भणुद्दाम- दारुणचपेडामोडिअपरिमिलिअणरतुरङ्गजङ्गलुग्गालभरिअगलगुहागब्भ- गम्मीरघग्घरो रल्लिग्गल्लूरणसहसंदब्भपरिपूरिअणहोअलो णिहदणिप्पे- सिदणट्ठणिहाविदासेसजणणिवहो कठोरणहरकप्परदलिआकट्ठजन्तुग- चावअवपउत्तरत्तकद्दमिअगइवहो दुट्ठसङ्कलो कअन्तलीलाइदं करेदि । वा पडिरक्खद जहासत्ति अत्तणो जीविदं ति । खण्डखण्डनटंकारकटकटायमानकरपत्रकठिनदंष्ट्राकरालमुखकन्दरो विकटवि- जृम्भणोद्दामदारुणचपेटामोटितपरिमिलितनरतुरङ्गजाङ्गलोद्गारभरितगलगुहा- गर्मगम्भीरघर्घरो रल्लिगल्लूरणशब्दसंदर्भपरिपूरितनभस्तलो निहतनिष्पेषितन- टनिष्ठापिताशेषजननिवहः कठोरनखरकर्परदलिताकृष्टजन्तुगात्रावयवप्रवृत्तर- तकर्दमितगतिपथो दुष्टशार्दूलः कृतान्तलीलायितं करोति । तत्परिरक्षत यथा- शक्त्यात्मनो जीवितमिति । यौवनारम्मेण भरितो पूर्णौ दुर्विषही यावमर्षरोषावक्षमाक्रोधौ । यद्वा स्थिरकोधता- त्कालिककोपौ । यथाहुः- 'क्रोधः कृतापराधेषु स्थिरोऽमर्षवमश्नुते। रोषतात्का- लिकः कोपः' इति । तयोर्व्यतिकरेण संमेलनेन यो बलात्कारस्तेन पूर्व विघटितं भजितं पश्चादुद्घाटितमपसारितद्वारबन्धनं यलोहपञ्जरं तत्रैव प्रतिलग्नः संसक्तः संगलितः खचरणाद्विगलितो निगलः शङ्खला यस्य सः । निजः खकीयः पञ्जरनिग. लबन्धापगमाञ्चिरस्य लब्धो यो लीलया खाच्छन्येन विलासश्चक्रमणरूपो विहार- खेनोद्वेल्ल ऊर्ध्वप्रसारितो वल्लभः प्रियतमस्तुङ्ग उन्नतो यो लागलो वालदण्डः स एक विकटवैजयन्तिका विकृताकारपताका तया विषमो दुर्दर्शो डामरो भीषण उद्दामः प्राचण्ड्यमण्डितः शरीरसंनिवेशो यस्य सः । मठादपक्रम्य तत्क्षणेऽपक्रमण एव सतृष्णं यथा स्यात्तथा कवलितानामनेकदेहिदेहानामवयवास्तेषां मध्ये ये निष्ठुराः पुरुषा अस्थिखण्डास्तेषां खण्डनेन दन्तैर्निष्पीडनेन जनितो यष्टंकारस्तेन कटकटाय- माना कटकटाशब्दं कुर्वाणा करपत्रवत्ककचवत्कठिना या दंष्ट्रा तया करालो दन्तुरो मुखकन्दरो वदनकुहरं यस्य सः । तथा विकटं यद्विजृम्भणं विहरणं तेनोद्दामदा- रुणः प्रचण्डभीषणो यश्चपेटो विस्तृताङ्गुलिः करः। 'पाणौ चपेटप्रतलप्रहस्ता विस्तृता- हुली' इत्यमरः । तेनामोटितं मर्दितम् । 'मुट प्रमर्दने' इति धातोरेतद्रूपम् । परितो मिलितं यनरतुरजस्य जाङ्गलं सरकं मांसं तस्य य उद्गार आधिक्याद्वमनं तेन भरिता परिपूर्णा गलगुहा तस्या गर्भे गम्भीरो घर्घरो यस्य ।रलीविदेशी पदं दीर्धम. धुरध्वनिवाचि । दीर्घमधुरो गल्लूरणशब्दो मांसभक्षणसमयकुपितशार्दूलजातिप्रयुक्तं कण्ठगर्जितं तस्य संदर्भो विपुलवं तेन परिपूरितं नमस्खलं येन सः। तथा केचि. बिहताः, केचिनिष्पेषिताचूर्णीकृताः, केचित्रष्टा अदर्शनं गमिताः, केचिनिष्ठा- पिता निष्ठां निर्भयस्थानपर्यन्तं गमिता येऽशेषजनास्तेषां निवहो यस्य सः । कचित् तृतीयोऽङ्कः। ९१ (प्रविश्य संभ्रान्ता ।) बुद्धरक्षिता-परित्ताअध । एसा णो पिअसही अमञ्चणन्द- णस्स भइणी मदअन्तिआ एदिणा दुट्ठसहूलेण हदविहाविदपरि- अणा अभिभवीअदि। मालती-सहि लवङ्गिए, अहो महन्तो पमादो । माधव:-बुद्धरक्षिते, कासौ । मालती--(सहर्षसाध्वसम् । स्वगतम् ।) अम्हहे, एसो वि एत्थ एव । माधवः (खगतम् ।) हन्त, पुण्यवानस्मि यदहमतर्कितोपनत- दर्शनोल्लसितयानया । अविरलमिव दाम्ना पौण्डरीकेण नद्धः खपित इव च दुग्धस्रोतसा निर्भरेण । १. परित्रायध्वम् । एषा नः प्रियसख्यमात्यनन्दनस्य भगिनी मदयन्ति- कैतेन दुष्टशार्दूलेन हतविद्रावितपरिजनाभिभूयते । २. सखि लवङ्गिके, अहो महान्प्रमादः । ३. अहो, एषोऽप्यत्रैव । भीषितनष्टनिष्टापिता' इति पाठः । तत्र पूर्व भीषिताः, पश्चान्नष्टा दृग्विषयमतीताः, पश्चानिष्ठापिता निर्भयस्थान प्रापिता इति व्याख्येयम् । तथा कठोरनखरकर्परद- लिताकृष्टजन्तुगात्रावयवप्रवृत्तरक्तकर्दमितगतिपथो दुष्टशार्दूलः कृतान्तलीलायितं करोति । तत्परिरक्षत यथाशक्त्यात्मनो जीवितमिति ॥ बुद्धरक्षिता । परित्रा- यध्वम् । एषा नः प्रियसख्यमात्यनन्दनस्य भगिनी मदयन्तिकैतेन दुष्टशार्दूलेन हतविद्रावितपरिजनाभिभूयते । मालती। सखि लवङ्गिके, अहो महान्प्रमादः । चिरमत्र विजने वनेऽस्माभिरेकाकिनीभिः स्थितमनुचितं कृतम् । इदानीं का परित्रातेति भावः ॥ माधवः । असौ कुत्र वर्तते । इदानीमेव निहत्य भवत्सखी मोचयिष्यामीत्यर्थः ॥ मालती । सहर्षसाध्वसमिति । लवङ्गिकानिवेदितखकीय- विरहवेदना चित्रफलकबकुलावलीवृत्तान्तः सर्वोऽप्यत्रैव वर्तमानेनाधिगत इति हर्षः, विविक्ते मामेनं च दृष्ट्वा कश्चित्ताताय निवेदयिष्यतीति साध्वसं च अम्हहे अहो प्रमादः । 'चिन्तायां सप्रमादायामम्हहे इति कल्पितम् । शब्दरूपं विशे- षेण प्रयोक्तव्यं प्रयोक्तृभिः ॥' इति वचनात् । एषोऽप्यत्रैव । माधवः। यदित्यादि श्लोकोपस्कारः । अविरलेति । अतर्कितोपनतमशङ्कितमेव हठादुपागतं यद्दर्शनं मद्विषयं तेनोल्लसितयाश्चर्यहर्षपरवशतयानया का स्फारितेन विस्तारितेन। 'भायतं विस्फुरत्तारं विस्फारितमुदाहृतम्' इति लक्षणात् । चक्षुषाकरणेन पौण्डरीकेण सिताम्भोजनिर्मितेन दानाविरल नद्धो बद्ध इव । अहमिति शेषः । दामत्वं च कटा- ९२ मालतीमाधवे कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतमेघेनैव सान्द्रेण सिक्तः ॥ १६ ॥ बुद्धरक्षिता-महाभाअ, एसो क्खु उज्जाणबाहिअरत्थामुहे । माधवः-(साटोपम् ।) अप्रमत्तोऽस्मि । मालती-लेवङ्गिए, संसओ क्खु जादो । माधव:-(सबीभत्सम् ।) अहह । संसक्तत्रुटितविवर्तितान्त्रजाल- व्याकीर्णस्फुरदपवृत्तरुण्डखण्डः । कीकालव्यतिकरगुल्फदनपङ्कः प्राचण्ड्यं वहति नखायुधस्य मार्गः ॥ १७ ।। अहो प्रमादः। वयं बत विदूरतः क्रमगता पशोः कन्यका १. • महाभाग, एष खलूद्यानबाह्यरथ्यामुखे । २. लवङ्गिके, संशयः खलु जातः । क्षाणां पङ्खीभूयाविरलनिपातनात् । नद्धत्वेन निष्क्रयखमात्मनो दर्शयन्स्तम्भाख्यं सात्त्विकभावमभिव्यनक्ति । तथा निर्भरेण संपूर्णेन दुग्धस्रोतसा पयःप्रवाहेण नापित इव । क्षीरपूरनपनेनात्मनः सौहित्यप्रकर्ष व्यनक्ति । कृत्स्नः समस्त एवाई कवलितो निगीर्णो विषयमाधुर्योत्कर्षाच्चक्षुषा वान्तःप्रवेशित इव । तस्याश्चिर- कालदर्शनेनाप्यतृप्तिमनेन सूचयति । अमृतवर्षिणा मेघेन सान्द्रेण सिक इव । अनेन धारासारन्यायेन कटाक्षप्रवृत्तेर्लोलाख्यो दृष्टिव्यापार उक्तः । यथा-'धारा- वाहिकसंचारो यस्य तल्लोलमुच्यते' इति मालोपमालंकारः ॥ १६ ॥ बुद्धर- क्षिता । महाभाग, एष खलूद्यानबाह्यरथ्यामुखे ॥ माधवः । साटोपं ससं. भ्रमम् । अप्रमत्तः सावधानः ॥ मालती । लवङ्गिके, संशयः खलु जातः शार्दू. लमृत्युवक्रानिर्गमिष्यत्यसौ न वेति संदेहो जातः । कष्टं धिगित्यर्थः ॥ माधवः। सबीभत्सं सजुगुप्सम् । हेति शेषः । अहहेत्सद्भुते । संसक्तेति । नखायुधस्य व्याघ्रस्य मार्गःप्राचण्ड्यमतिभयंकरतां वहति धत्ते।कीहक् । संसकानि कचिल्लतादौ प्रथमं लग्नानि ततस्त्रुटितानि छिन्नानि ततश्च विवर्तितानि भूमौ तत्र विक्षिप्तानि यान्यन्त्रजालानि तैाकीर्णः संकुलस्तथा स्फुरन्तः प्रकाशमाना अपवृत्ता विप. यस्ता रुण्डखण्डाः शिरःकपालच्छेदा यत्र सः। तथा कीलालस्य रकस्य व्यति- करेणामिश्रीभावेन गुल्फदनः पको यत्र स इति ॥ १७ ॥ अहो प्रमादः । मदयन्तिकापरिजनस्यानवधानसमाश्चर्य यदियमशक्यप्रतीकारे संकटे निपतिते- त्यर्थः । अशक्यप्रतिकारतामेवाह-वयमिति । वयं तावडूरे वर्तामहे । कन्यका तृतीयोऽङ्कः। ९३ सर्वाः-हा मदअन्तिए । कामन्दकीमाधवौ-(सहषाकूतम् ।) कथं तदवपातितादधिगतायुधः संभ्रमात् । कुतोऽपि मकरन्द एत्य सहसैव मध्ये स्थितः इतराः साहु, महाभाअ, साहु । कामन्दकीमाधवी- दृढं च पशुना हतो व्यसुरसौ कृतश्चामुना ।। १८ ।। इतरा:-अच्चाहिदं । कामन्दकी-(साकूतम् ।) कथं व्यालनखरप्रहारनिःसृतरक्तनि- वहः क्षितितलविषक्तखड्गलतावष्टम्भनिश्चलः संभ्रान्तमदयन्तिकावल- म्बितस्ताम्यति वत्सो मकरन्दः । इतरा:-हँद्धि, गाढप्पहारदाए, किलम्मदि महाभाओ। १. हा मदयन्तिके। २. साधु, महाभाग, साधु । ३. अत्याहितम् । ४. हा धिक् , गाढप्रहारतया क्लाम्यति महाभागः । तु पशोः क्रमगता । एके नैवपदविन्यासेन लभ्यदेशे वर्तत इत्यर्थः । हाशब्द इष्टजनविपत्तियोतकः । माधवस्य सहर्षवं व्याघ्रहननाद्वनिताजीवनाञ्च । कामन्द- क्याः साकूतवं मकरन्देन मदयन्तिकाप्राणरक्षणोपकारस्य तदुभयसंघटनोपयो- गिलादिति । कथं मकरन्दः सहसैव संभ्रमादेत्य तदवपातितात्तन शार्दूलेनावपा- तितान्निहतात् । कस्माचिदायुधहस्तात्पुरुषादित्यध्याहारः । अधिगतं प्राप्तमायुधं येन सः । तनिहतभटहस्तगतमाहृत्येत्यर्थः । मध्ये व्याघ्रमदयन्तिकयोरन्तरे स्थितोऽतर्कितोपनतोऽसावस्या आलम्बनं जात इत्यर्थः ॥ इतराः । साधु । पौरुषं महत्कृतमिति शेषः । दृढमिति । दृढं यथा स्यात्तथा मकरन्दः पशुना हतोऽभिहतः। अमुना मकरन्देन चासौ पशुच॑सुर्विंगतप्राणः कृतश्च । प्रमथितश्च। 'दंष्ट्रायुधः' इति क्वचित्पाठः । खण्डितः । व्याघ्र इत्यर्थः ॥ १८॥ इतराः। अत्या- हितं महाभीतिः । उपस्थितमिति शेषः ॥ कामन्दकी । साकूतले हेतुरुक्तः । व्यालः क्रूरजन्तुः । क्षितितले विषक्तालम्बनयष्टिरिव संलमैककोटिर्या खड्गलता तदवष्टम्मेन तदवलम्बनेन निश्चलो महाशूरतया बलवत्प्रहृतोऽपि खायुधमेवाव- लम्ब्य स्थितः, न तु पतित इत्यर्थः । संभ्रान्तयोद्विग्नया मदयन्तिकयावलम्बितो दत्तहस्वावलम्बः ॥ इतराः। हा धिक्, गाढप्रहारतया क्लाम्यति महाभागः ॥

मालतीमाधवे माधव:-कथं प्रमुग्ध एव । भगवति, परित्रायख माम् । कामन्दकी-वत्स, अतिकातरोऽसि । नन्वेहि, पश्यावस्तावत् । (इति निष्कान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे तृतीयोऽङ्कः । माधवः । कथं मकरन्दः प्रमुग्धो मोहं प्राप्त इव । भगवति, परित्रायख मामिति । मित्रव्यसनात्खयमपि प्रमुग्ध इव भवन्नेवं वदतीति ज्ञेयम् ॥ कामन्दकी । अतिकातरोऽसि । किमर्थमेतावतैव बिभेषि । नन्वित्यामन्त्रणम् । एहि मकरन्दं पश्यावः । कथं वर्तत इति द्रक्ष्याव इत्यर्थः । इदं चाङ्कावतरणमुत्तराङ्कार्थस्य पूर्वाङ्कान्ते निपातनात् । अङ्कद्वयस्य संगतार्थत्वात् । यथा-'अङ्कावतारस्वकान्ते पातोऽङ्कस्याविभागतः । पूर्वाकस्यावसानोक्तकथाविच्छेदपूर्वकम् । प्रवेशो भावि. नोऽङ्कस्य सोऽङ्कावतार इष्यते ॥ इति ॥ भवभूतिवचोगुम्फरसाखादनचातुरी । यदि विद्येत केषांचिद्विरलानां विपश्चिताम् ॥ इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रिपुरारि- सूरिविरचितायां मालतीमाधवभावप्रदीपिकायां तृतीयाङ्कविवरणम् ॥

- चतुर्थोऽङ्कः । (ततः प्रविशतो मदयन्तिकामालतीभ्यामवलम्ब्यमानौ मुग्धौ मकरन्दमाधवौ संभ्रान्ता कामन्दकी बुद्धरक्षिता लवङ्गिका च ।) मदयन्तिका-पंसीद भअवदी, परित्ताहि मदअन्तिआणि- मित्र संसइदजीविदं विवण्णाणुकम्पिणं महाभा। इतराः-हेद्धि । किं दाणिं एत्थ पेक्खिदवं अम्हेहिं । कामन्दकी—(उभौ कमण्डलूदकेन सिक्ला ।) ननु भवत्यः पटाञ्च- लैवींजयध्वम् । (मालत्यादयस्तथा कुर्वन्ति ।) मकरन्दः-(समाश्वस्यावलोक्य च ।) वयस्य, अतिकातरोऽसि । किमेतत् । ननु खस्थ एवास्मि । मदयन्तिका-अम्हहे, दाणिं पडिबुद्धं मअरन्दपुण्णचन्देण । १. प्रसीद भगवति, परित्रायव मदयन्तिकानिमित्तं संशयितजीवितं विपन्नानुकम्पिनं महाभागम् । २. हा धिक् । किमिदानीमत्र प्रेक्षितव्यमस्माभिः । ३. अहो, इदानी प्रतिबुद्धं मकरन्दपूर्णचन्द्रेण । नमामि मदनानन्दविधानविहितादराम् । शंभुवामानवामाक्षी कामाक्षी कामिताप्तये ॥ कविरिदानीमकावतारेणैव पूर्वमङ्कान्ते निवेशितानामङ्कपात्रप्रवेशकतवृत्तान्तस्य सूचितवादकमेवारभते-तत इत्यादि । माधवस्यापि मित्रव्यसनेन प्रमुग्ध- खान्मालत्या संनिहितयावलम्बनं द्रष्टव्यम् ॥ मदयन्तिका । प्रसीद भगवति, परित्रायख मदयन्तिकानिमित्तं संशयितजीवितं विपनानुकम्पिनं महाभागम् । मदयन्तिकानिमित्तमित्यर्थान्तरसंक्रमितवाच्यो ध्वनिः । लोकोत्तरपुरुषधौरेयजी- वितापहारलक्षणावयवशोभाजनकवं द्योत्यते ॥ इतराः। हा धिक् । किमिदानी- मत्र प्रेक्षितव्यमस्माभिः॥मकरन्दः । वयस्य, अतिकातरोऽसि । किमेतत् । धीर- स्थापि तेऽयुक्तमित्यर्थः । नन्वित्यामन्त्रणे । खस्थ एवाहमस्मि न प्रमुग्धः ॥ मद- यन्तिका । अहो, इदानी प्रतिबुद्धं मकरन्दपूर्णचन्द्रेण । पूर्णचन्द्रवारोपणेन ।

मालतीमाधवे मालती-(माधवस्य ललाटे हस्तं दत्त्वा ।) महाभाअ, दिट्ठिआ व- हृसि । णं भणामि पडिवण्णचेदणो महाभाओ ति । माधव:-(समाश्वस्य ।) वयस्य, साहसिक एह्येहि । (इत्यालिङ्गति ।) कामन्दकी-(उभौ शिरस्याघ्राय ।) दिष्ट्या जीवद्वत्सास्मि । इतरा:-पिणो संउत्तं । (सर्वा हर्ष नाटयन्ति ।) बुद्धरक्षिता (जनान्तिकम् ।) सहि मदअन्तिए, एसो जेव्व सो। मदयन्तिका-सहि जाणीदं जेव्व मए जह एसो माहवो अअं वि सो जणो ति । बुद्धरक्षिता-अवि सच्चवादिणी अहं । मदयन्तिका–णं क्खु अम्हारिसेसु तुम्हारिसीओ पक्खवा- दिणीओ होन्ति । (माधवमवलोक्य ।) सहि, मालदीए वि रमणिजो १. महाभाग, दिष्ट्या वर्धसे । ननु भणामि प्रतिपन्नचेतनो महाभाग इति । २. प्रियं नः संवृत्तम् । ३. सखि मदयन्तिके, एष एव सः । ४. सखि, ज्ञातमेव मया यथैष माधवोऽयमपि स जन इति । ५. अपि सत्यवादिन्यहम् । ६. न खल्वस्मादृशीषु युष्मादृश्यः पक्षपातिन्यो भवन्ति । सखि, मालत्या अपि रमणीयोऽस्मिन्महानुभवेऽनुरागप्रवादः । खचित्ताहादकलादनुरागप्रकर्ष सूचयति ॥ मालती। माधवस्य ललाटे हस्तं दत्त्वे. त्यासंस्पर्शनामृतासेचनकल्पेन झटिति प्रमोहमपसारयितुं ललाटे हस्तनिक्षेपः । न चैतावता मालत्या धार्थ्यमाशङ्कनीयम् । ईदृशे विपत्समये सर्वत्र सर्वेषामुचितो. पचारकरणस्य लोके धार्यरूपतयानुद्भावनात् ॥ कामन्दकी । शिरस्याघ्राणं गुरुजनस्यापत्येषु वात्सल्यद्योतकम् । जीवन्तौ वत्सौ वात्सल्यविषयावपत्यकल्पौ यस्याः सा ॥ इतराः। प्रियं नः संवृत्तम् ॥ बुद्धरक्षिता । सखि मदयन्तिके, एष एव सः। यो मया पूर्व निवेदितस्वयि निरतिशयानुरागो मकरन्दः स एष एवे- त्यर्थः ॥ मदयन्तिका । सखि, ज्ञातमेव मया एष एव माधवोऽयमपि स जन इति । भर्तृलाध्यवसायानामानुपादानम् । बदुताकृतिविशेषसंवादेन खजीवितनि- रपेक्षतया मत्प्राणत्राणप्रवणतया कामन्दक्यादिव्यवहारेण च मदनुरक्तोऽयं मक- रन्द इति ज्ञात एवेत्यर्थः॥ बुद्धरक्षिता । अपि सत्यवादिन्यहम् । किं मदुक्तमस्य सौन्दर्यादिगुणोज्वलवं प्रत्यक्षतो दृश्यते न वेत्यर्थः । मदयन्तिका । न खल्वस्मा- चतुर्थोऽङ्कः । इमस्सि महाणुहावे अणुराअप्पवादो । (इति मकरन्दमेव सस्पृहमवलो- कयति ।) कामन्दकी-(स्वगतम् ।) रमणीयोर्जितं हि मदयन्तिकामक- रन्दयोर्दैवादद्य दर्शनम् । (प्रकाशम् ।) वत्स मकरन्द, कथं पुनरायु- मानस्मिन्नवसरे मदयन्तिकाजीवितपरित्राणहेतोभगवता देवेन संनिधापितः । मकरन्दः-अद्याहमन्तनगरमेव कांचिद्वार्तामुपश्रुत्य माधवचि- चोद्वेगमधिकमाशङ्कमानस्त्वरितमवलोकितानिवेदितकुसुमाकरोद्यानवृ- तवृत्तान्तः परापतन्नेव शार्दूलावस्कन्दगोचरामिमामभिजातकन्यकाम- भ्युपपन्नवानस्मि । (मालतीमाधवौ विमृशतः।) कामन्दकी-(खगतम् ।) वृत्तान्तेन खलु मालतीप्रदानेन भवि- तव्यम् । (प्रकाशम् ।) वत्स माधव, दिष्टया वर्धितोऽसि मालत्या । सोऽयमवसरः प्रीतिदानस्य । माधवः-भगवति, इयं मालती यद्यालब्रणितसुहृत्प्रमोहमुग्धं कारुण्याद्विहितवती गतव्यथं माम् । दृशीषु युष्मादृश्यःपक्षपातिन्यो भवन्ति । सखि, मालत्या अपि रमणीयोऽस्मिन्महा- नुभावेऽनुरागप्रवादः। तन्मदीयभ्रातृमनोरथसंपत्तिर्दुर्लभेति हृदयम्॥कामन्दकी। रमणीयं संभ्रमस्रस्तांशुकं सम्यग्विभाव्य परस्परावयवसौष्ठवग्राहिलेन साध्वसव्या- जादृढालिङ्गनमहोत्सवानुबन्धिवेन च मनोहरम् । तथोर्जितं बलवद्दुस्तरविपनिस्तर णोपकारमूलवेन देवेन, नत्वस्मदादिप्रयत्नात् , ईदृसंपादनस्य दुःसाधकलात् । संनिधापितः संनिहितीकृतः ॥ मकरन्दः । परापतव सरितमागच्छनेव । अवस्कन्दोऽभिभवः । अभिजातकन्यकामाकृति विशेषाद्यनुमितमहाकुलप्रभवकुमा. रीभावामभ्युपपन्नवानभ्युपगतवानस्मि ॥ मालतीमाधवौ विमृशतः । चित्तोद्वेगहेतु- मुभयोः साधारणवात्सुखदुःखयोरुभावपि विमृशत इत्यर्थः ॥ कामन्दकी माधव- चित्तोद्वेगातिशयकरी वार्ता निरूपयति-कामन्दकी॥ वृत्तान्तेनेति । राज्ञा- नन्दनाय मालतीप्रदानं निष्पनप्रायं भवितुमर्हतीत्यर्थः । अथ निश्चित्य वार्ता शीघ्र- मन्तःपुरमाकारयितुमत्रागमिष्यन्ति, ततः प्रागेव मालतीमनःप्रत्ययजननार्य माष- वेन वाभिप्रायं खत एव वाचयिष्यामीत्यभिप्रायेणाह-वत्स माधव, मालत्या वर्धितोऽसि प्रत्याहृतचैतन्योऽसि । सोऽयमवसरः प्रीतिदानस्य पारितोषिकस्य । तबीयतामित्यर्थः । माधवः । यदिति । इयं मालती यतो व्यालेन क्रूरसत्त्वेन ९८ मालतीमाधवे तत्कामं प्रभवति पूर्णपात्रवृत्त्या खीकर्तु मम हृदयं च जीवितं च ॥१॥ लवङ्गिका-पडिच्छिदो क्खु णो पिअसहीए अअं पसादो। मदयन्तिका—(खगतम् ।) जाणादि महाणुहावो अअं जणो रमणिजं मन्तेढुं। मालती-(खगतम् ।) किं णाम मअरन्देण उव्वेअकालणं सुदं हविस्सदि। (प्रविश्य ।) पुरुषः-वत्से मदयन्तिके, आता ते ज्यायानमात्यनन्दनः समादिशति । अद्य परमेश्वरेणास्मद्भवनमागत्य भूरिवसोरुपरि पर विश्वासमस्मासु च प्रसादमाविष्कुर्वता खयमेव मालती प्रतिपादिता तदेहि संभावयावः प्रसादमिति । मकरन्द:-वयस्य, इयं सा वार्ता । १. प्रतीच्छितः खलु नः प्रियसख्यायं प्रसादः। २. जानाति महानुभावोऽयं जनो रमणीयं मन्त्रयितुम् । ३. किं नाम मकरन्देनोद्वेगकारणं श्रुतं भविष्यति । व्रणितस्य विक्षतगात्रस्य सुहृदः प्रमोहेन मूर्च्छया प्रमुग्धं मां कारुण्याद्तव्यथं कृत- वती । तस्मात्कामं खेच्छया विनैव ममानुमति पूर्णपात्रवृत्त्या पूर्णपात्रप्रकारेण मम हृदयं च जीवितं च खीकर्तुं प्रभवति यथेष्टविनियोगार्ह कर्तुमीष्टे । पूर्णपात्रं नाम प्रियनिवेदकेन बलादाकृष्य गृह्यमाणमलंकारवस्त्रादिकं कथ्यते। प्रागेव हृदयं जीवितं च तदधीनमेव वर्तत इति तन्मया देयम् । ततोऽधिकं नास्ति किमिदानीं दातव्यमित्याशयः । एतद्युक्तोत्तरप्रदानात्प्रगमनं नामाङ्गमुक्तम् । यथा-'युक्तोत्तर प्रगमनम्' इति ॥ १॥ लवङ्गिका ।प्रतीच्छितः खलु नः प्रियसख्यायं प्रसादः। अयमेव महान्प्रसादो यत्प्रियसख्यधीने खन्मनोजीविते इति किमतः परं श्लाघनीय- मित्यर्थः ॥ मदयन्तिका । जानाति महानुभावोऽयं जनो रमणीयं मन्त्रयितुम् । रमणीयं मनोगताभिप्रायप्रकटनं बाह्योपचारनैपुण्यप्रदर्शनं यथा भवति तथा मनो- हरम् ॥ मालती । किं नाम मकरन्देनोद्वेगकारणं श्रुतं भविष्यति । माधवस्येति शेषः ॥ प्रविश्येत्यादि । ज्यायाध्येष्ठः । परमेश्वरेणानतिक्रमणीयशासनेन राज्ञा पर विश्वासमस्मदीयं सर्वसम् । तस्य यथेष्टविनियोगाई तदीयमस्माकमित्यन्योन्यस्य निरतिशयं मनःसंमेलनं प्रकटयवेत्यर्थः। प्रतिपादिता दत्ता। संभावयावः। प्रमोदेन बहुमन्यावह इत्यर्थः । इदं च प्रस्तुत प्राप्तिनिरोधानिरोधो नामाङ्गम् । यथा- 'हितरोधो निरोधः स्यात्' इति ॥ मकरन्दः । इयं सेति । या खयोद्वेगका. ।

चतुर्थोऽनः । ९९ (मालतीमाधवी वैवर्ण्य नाटयतः ।) मदयन्तिका-(सहर्ष मालतीमाश्लिष्य ।) सहि मालदि, तुमं क्खु एक्कणअरणिवासेण पंसुकीलणादो पहुदि पिअसही भइणी अ संपदं उण अम्हाणं घरस्स मण्डणं जादासि । कामन्दकी-वत्से मदयन्तिके, वर्षसे प्रातुर्मालतीलामेन । मदयन्तिका-तुम्हाणं आसिसाणं पसादेण । सहि लवङ्गिए, भरिआ णो मणोरहा तुम्हाणं लाहेण । लवङ्गिका-सहि, अम्हाणं वि एवं मन्तिदवम् । मदयन्तिका-सहि बुद्धरक्खिदे, एहि दाव । महोसवं संभा- वेम्ह । (इत्युत्तिष्ठतः।) लवङ्गिका-(जनान्तिकम् ।) भैअवदि, जह हिअअभरिउव- १. सखि मालति, त्वं खल्वेकनगरनिवासेन पांसुक्रीडनात्प्रभृति प्रियसखी भगिनी च सांप्रतं पुनरस्माकं गृहस मण्डनं जातासि । २. युष्माकमाशिषां प्रसादेन । सखि लवङ्गिके, भरिता नो मनोरथा युष्माकं लाभेन । ३. सखि, अस्माकमप्येतन्मन्त्रयितव्यम् । ४. सखि बुद्धरक्षिते, एहि तावत् । महोत्सवं संभावयावः । ५. भगवति, यथा हृदयभरितोद्वमद्विस्मयानन्दसुन्दरघूर्णितधीरपर्यन्त- रिणी वार्ता श्रुता सैवेयमित्यर्थः । वैवर्ण्य विवर्णभावमप्रतिसमाधेय विपत्प्राप्ति- जनिततापहेतुकं सात्त्विकभावरूपम् । यदाह-वैवर्ण्य वर्णमेदः स्यात्तापशहाभया. दिभिः' इति ॥ मदयन्तिका । सखि मालति, त्वं खल्वेकनगरनिवासेन पांसु- कीडनात्प्रमृति प्रियसखी भगिनी च सांप्रतं पुनर्धातृभार्यालेनास्माकं गृहस्य मण्डनं जातासि ॥कामन्दकी। वर्धस इति सोपहासेयमुक्तिः॥मदयन्तिका। युष्माकमाशिषां प्रसादेन । केवलं भवदाशीर्वादान्मालतीलाभो न तु दंपत्योरन्यो- न्यानुरागातिशयादित्याशयः । सखि लवहिके, भरिताः संपूर्णा नो मनोरथाः । युष्माकं लामेन सपरिजनाया एव मालत्या लाभाशुष्माकमिति बहुखम् ॥ लव- निका । सखि, अस्माकमप्येतन्मन्त्रयितव्यम् । पूर्णा नो मनोरथा युष्माकं सदृश- श्लाघ्यसंबन्धानां लामेनैवेत्यस्माभिरपि वक्तव्यमित्यर्थः । अथ च युष्माकं सपरि- जनाया भवत्या मकरन्दप्राप्तिरूपेण भाविना लामेनास्माकं पूर्णा मनोरथा भवितार इत्यस्माभिरेवेतन्मन्त्रयितव्यम्, न तु लया सपरिजनमालतीलाभस्य, भवत्संक- त्पमात्रस्य निश्चितलादित्यपि प्रतीतिः॥ मदयन्तिका । सखि बुद्धरक्षिते, एहि तावत् । महोत्सवं संभावयावः ॥ लवक्रिका । यथा हृदये भरितो पूर्णावत १०० मालतीमाधवे मन्तविम्हआणन्दसुन्दरघोलाविदधीरपेरन्तमणोहरा पल्लत्थन्ति मदअ- न्तिआमअरन्दाणं दलिदनीलुप्पलमंसलच्छविआ दिद्विसंभेआ, तह मण्णे मणोरहणिज्बुत्तसमाअमा एदे त्ति । कामन्दकी-(विहस्य ।) नन्विमौ परस्परं मानसं मोहनमनुभ- वतः । तथा हि, ईषत्तिर्यग्वलनविषमं कूणितप्रान्तमेत- रेमोद्भेदस्तिमितललितं किंचिदाकुश्चितच । अन्तर्मोदानुभवमसृणं सस्तनिष्कम्पपक्ष्म व्यक्तं शंसत्यचिरमनयोदृष्टमाकेकराक्षम् ॥ २॥ मनोहराः पर्यस्यन्ते मदयन्तिकामकरन्दयोर्दलितनीलोत्पलमांसलच्छवयो दृष्टि- संभेदाः, तथा मन्ये मनोरथनिवृत्तसमागमावताविति । एवोद्वमन्तौ यो विस्मयानन्दौ ताभ्यां सुन्दरं यथा स्यात्तथा चूर्णिता भ्रामिता धीरा आकारगोपनार्थमवलम्बितधैर्याः पर्यन्तेऽपाङ्गदेशे मनोहराश्च पर्यस्यन्ते परितः क्षिप्यन्तेऽलसवलितादिप्रकारवैचित्र्येण प्रवर्तन्ते।मदयन्तिकामकरन्दयोर्दलितनी- लोत्पलमांसलच्छवयो दृष्टिसंभेदाः संमुखप्रवृत्त्या मिश्रीभूताः कटाक्षविक्षेपाः, तथा मन्ये मनोरथनिवृत्तसमागमाताविति । दृष्टिविक्षेपा यथा येन प्रकारेण प्रवर्तन्ते तथा तेन प्रकारेणैवमुन्नीयत इत्यर्थः ॥ कामन्दकी । नन्वित्यादि । मानसं मोहनं संकल्पनिर्मितसंभोगम् । तद्व्याकं लिङ्गमाह तथा हीति । ईषदिति । अनयोष्टं दर्शनं व्यकं यथा स्यात्तथा शंसति । संकल्पनिर्मित संभोग कथयतीत्यर्थः। कीदृशं दृष्टम् । ईषत्तिर्यग्वलनेन मनाक् तिर्यगुदश्चनेन विषमं वक्रम् । वक्राख्योऽयं शृङ्गारदग्विकारः। यथा-'चलितोपाङ्गसंचारो यत्र तद्वक्रमुच्यते' इति । कूणितं प्रान्ते कूणितप्रान्तम् । अपाङ्गदेशे भागत्रयेण संकुचितमित्यर्थः । कूणितं यथा- भागत्रयस्य संकोचो विकासस्वपरस्य च । यस्या दृष्टेविलक्षेण तद्विकूणितमुच्यते ॥' इति । 'पुरस्त्रिभागसंकोचे प्रेम्णा तत्कूणितं भवेत् ।' इति । एतदिति पुरोवर्तितेन निर्दिशति। प्रेम्णोऽनुरागस्योद्रेदेन प्रकटीभावेन स्तिमितं निष्पन्दं ललितं प्रेमाई च । निष्प- न्दललिते यथा-'निष्पन्दं तद्यदन्यत्र दृष्टान्न स्पन्दते क्वचित् । प्रेमाईमन्तर्विक- सत्तारै ललितमीरितम् ॥' इति । किंचिदाकुञ्चितेषदुच्छ्वसन्ती भूर्यत्र तच्चतुराख्यो भ्रूविकारः प्रसन्नदृष्टिविकारश्चोक्तः । तल्लक्षणं तूक्तं प्राक् । अन्तरुन्मादस्यान्त- रानन्दस्यानुभवेन मसृणं प्रेम्णानुरञ्जितम्। 'मसणं तत्तु विज्ञेयमनुरागकषायितम्' इत्येतदप्युकं प्राक् । स्रस्तान्यवसमानि निष्कम्पाणि निश्चलानि पक्ष्माणि यत्र तत् । आकेकरे भक्षिणी । 'आकुश्चितपुटा याप्रसंगतार्थनिमीलिता । मुहावर्ततारा च दृष्टिराकेकरा मता ॥' इत्याकेकरदृष्टिरका । केचित्तु 'दृष्टमाकेकराक्षमित्याकेकर- लिन माटेनोक्ता.। आकेकरप्रिस्वरूपमेवेषत्तिर्य गित्यादिविशेषणैर्निरूपितम्' - चतुर्थोऽङ्कः । १०१ पुरुषः-वत्से मदयन्तिके, इत इतः । मदयन्तिका-(अपवार्य ।) सहि बुद्धरक्खिदे, अवि पुणो दीसइ एसो जीविदप्पदाई पुण्डरीअलोअणो । बुद्धरक्षिता-जंइ देवं अणुऊलइस्सदि । (इति निष्क्रान्ता ।) माधव:-(अपवार्य ।) चिरादाशातन्दुस्नुटतु बिसिनीसूत्रभिदुरो महानाधिर्व्याधिर्निरवधिरिदानी प्रसरतु । प्रतिष्ठामव्याजं व्रजतु मयि पारिप्लवधुरा विधिः स्थैर्य धत्तां भवतु कृतकृत्यश्च मदनः ॥ ३॥ अथवा समानप्रेमाणं जनमसुलभं प्रार्थितवतो विधौ वामारम्भे मम समुचितैषा परिणतिः । १. सखि बुद्धरक्षिते, अपि पुनर्द्रक्ष्यत एष जीवितप्रदायी पुण्डरीक- लोचनः। २. यदि दैवमनुकूलयिष्यति । इति व्याचक्षते । अचिरमिति दर्शनक्रियाविशेषणम् ॥ मदयन्तिका । सखि बुद्धरक्षिते, अपि पुनर्द्रक्ष्यत एष जीवितप्रदायी पुण्डरीकलोचनः । अपि पुनरित्यौ- सुक्यातिशयो द्योत्यते ॥ बुद्धरक्षिता । यदि दैवमनुकूलयिष्यति । अथ माधवः समधिगतमालतीप्रदाननिश्चयो नैराश्यसंजातमुद्वेगातिशयं विवृण्वनाह-चिरा- दिति । चिरादनुवृत्तो बिसिनीसूत्रवन्मृणालतन्तुवद्भिदुरः खयमेव विद्यमान भाशातन्तुस्तत्प्राप्याशैव तन्तुरिदानी त्रुटतु छिन्नो भवतु । प्रियतमासमागमाशा दुर्बलैवेयन्तं कालमनुवृत्ता सेदानी छिन्नेत्यर्थः । तथेदानी महानाधिर्मानसी व्यथा स एव व्याधिर्निरवधिर्निरवसरः प्रसरतु । मालतीप्राप्तिलक्षणमवधि प्रतीक्ष्य कथं- चिदाधिः सोढ इदानीं तस्यावधेरभावनिश्चयान्निमर्यादो विजृम्भतामित्यर्थः । तथा पारिप्लवस्य चित्तचाश्चल्यस्यारतिरूपस्य धुरोत्कर्षों मय्यव्याज निष्कपटम् । विसम्मे- णेति यावत् । प्रतिष्ठां स्थितिं व्रजतु । मालतीप्राप्याशया आलम्बनभूताया अप- गमाद्वात्याक्षिप्ततूलवदप्रतिष्ठा प्राप्नोलित्यर्थः । तथा विधिः स्थैर्य धत्ताम् । मदनश्च कृतकृत्यो भवतु । उभाभ्यामपि कर्तव्यस्य महतः प्रयोजनस्य महता प्रयत्नेन निर्वर्तितत्वादित्यर्थः । जीवनमितःपरं क्षणमात्रमपि दुर्लभमिति भावः । एकस्मि- कार्येऽनेककारणसमुच्चयात्समुच्चयालंकारः ॥ ३ ॥ अथवेति । खयमेव खात्मानं 'समाश्वासयति-समानेति । समानप्रेमाणं तुल्यानुरागमसुलभं पराधीन- खेन दुष्प्रापं जनं प्रार्थितवतो मम विधी वामारम्मे वक्रोद्योग एषा परिणतिरिक । । ."

१०२ मालतीमाधदे तथाप्यमिन्दानश्रवणसमयेऽस्याः प्रविगल- प्रमं प्रातश्चन्द्रद्युति वदनमन्तर्दहति माम् ॥ ४ ॥ कामन्दकी-(खगतम् ।) एवं दुर्मनायमानः पीडयति मां वत्सो माधवो वत्सा मालती च दुष्करं निराशा प्राणितीति । (प्रकाशम् ।) वत्स माधव, पृच्छामि तावदायुष्मन् , त्वाम् । अथ किं भवानमंस्त यथा भूरिवसुरेव मालतीमस्मभ्यं दास्यतीति । माधव:- -(सलज्जम् ।) नहि नहि । कामन्दकी-न तर्हि प्रागवस्थाया भूरिवसुः परिहीयते । मकरन्दः-दत्तपूर्वेत्याशयते । विपत्तिरूपा दशा समुचितैव । ततो न मया वैक्लव्यमङ्गीकार्यमित्येव यद्यपि हृदयं व्यवस्थापयामि तथाप्यस्मिन्दानश्रवणसमये नन्दनाय राज्ञा मालती दत्तेत्येतद्वार्ता- कर्णनसमये प्रविगलत्प्रभं तत्क्षणप्रक्षरितकान्ति अत एव प्रातश्चन्द्रद्युति अस्या वदनं मामन्तर्दहति । वार्ताश्रवणमात्रेणैवास्या ईदृश्यवस्था। निष्पने तु तत्प्रयोजने किमस्या भविष्यतीत्येष एव मम व्यथाहेतुर्नास्मद्विपत्तिनिश्चय इत्यर्थः ॥४॥काम- न्दकी। दुर्मनायमानो दुर्मनस्को भवान् वत्सा मालती च निराशा प्राणितीति यत्तदेव दुष्करम्। तादृशी काप्यवस्था वर्तते यज्जीवनमेव मरणापेक्षया कुत्सनीयम् । अशक्यप्रतीकारश्वासावनर्थः कपटसंविधानमन्तरेण । तच दुष्करमिति ममैक चित्तव्याक्षेपो बलवानित्यर्थः । भवतु तावत् । धाटावलम्बनेन समाश्वासयामीति प्रकाशमाह-पृच्छामीति । आयुष्मनिति संबोधनेन मयि वर्तमानायां जीवन- संदेहो न कर्तव्य इति सूचयति । पूर्वापेक्षयेदानीमुद्वेगातिशयस्य किं वा कारणमिति पृच्छामि । एतावन्तं कालं भूरिवसुरेव मयं सुतां दास्यतीति निश्चित्य किमेवं प्राणधारणं कृतं तदेतत्पृच्छामि कथय । तथा चेदिदानी युक्तः परितापातिशयः । तेनैवान्यस्मै तस्याः प्रदानादिति भावः ॥ माधवः-सलजमिति । बाल- चापलेन केवलं भवानस्यामनुरक्तः, नहि भूरिवसुना खसुतां दास्यामीत्याहूतो भवानत्रागत इति कामन्दकीवचनाभिप्रायमवगम्य सलजमाहेत्यर्थः। नहि नहीति कुतस्तस्य दास्यामीति वचनम् । स तावदस्मन्नामापि न जानातीयाशयः॥काम- न्दकी । तर्हि पूर्वावस्थाया भूरिवसुर्न परिहीयते नान्यथा भवति । पूर्वमपि भूरि- वसुर्दास्यतीति न तव प्रत्याशा, इदानीमपि सा नास्तीति किमिदानीमुद्वेगाधिक्ये कारणम् । भवतोरन्योन्यानुरागोऽपि पूर्वावस्थातो न परिहीयते। यदशादुभयोर्जीवित- धारणमियन्तं कालं ततो नेदानी किंचिदपि नूतनमस्ति किमिति संताप इति भावः॥ मकरन्दः। यद्यपि भूरिवसुना माधवाय सुता दास्यामीति नोकं, न तद्वचनाशया चानेन स्थितं, तथापि मालस्याः पूर्व पित्रा कस्मैचिदप्यप्रतिपादनादात्मनश्च योग्य. तासंभावनादाशामात्रं स्थितम् । इदानीं तु पूर्व राज्ञा याचितो नन्दनाय दत्तवानिति वार्ता श्रुला भमाशलादनिष्टमाशात इत्यस्ति पूर्वोत्तरयोः कालयोवैषम्य.

चतुर्थोऽ १०३ कामन्दकी-जानामि तां वार्ताम् । इदं तावत्प्रसिद्धमेव यथा नन्दनाय मालती प्रार्थयमानं भूरिवसुर्नुपतिमुक्तवान् 'प्रभवति निज- कन्यकाजनस्य महाराजः' इति । मकरन्द:-अस्त्येतत् । कामन्दकी-अद्य च राज्ञा खयमेव मालती दत्तेति संप्रत्येव पुरुषेणावेदितम् । तद्वत्स, वाक्प्रतिष्ठानि देहिनां व्यवहारतत्राणि वाचि पुण्यापुण्यहेतवो व्यवस्थाः सर्वथा जनानामायतन्ते । सा च भूरिवसोर्वागनृतात्मिकैव । न खलु महाराजस्य निजकन्यका मा- लती । कन्यकाप्रदाने च नृपतयः प्रमाणमिति नैवंविधो धर्माचारस- मयः । तस्मादवस्थितमेवैतत् । कथं च मामनवधानां मन्यसे । पश्य । मित्यर्थः ॥ कामन्दकी-जानामीति । अस्त्येवैषा वार्ता । तथापि मालती दत्तवतो राज्ञः परखप्रतिपादनेऽधिकाराभावादधिकारवता च पित्रा मनःपूर्वक मदत्तवादिदानीमपि पूर्ववदाशास्त्येवेति नैतावता मेतव्यमित्यर्थः । कथं पित्रा निश्चितं न दत्तत्याशङ्का तद्वचनपर्यालोचनयापि वरीतुं तावदस्त्येषा प्रसिद्धिरि- त्याह-इदं तावदिति ॥ मकरन्दः । अस्त्यैतत् । मयापि श्रुतमित्यर्थः । अद्यतनोऽपि वृत्तान्तो राज्ञा खयमेव मालती दत्ता न तु पित्रा तत्प्रदानाधि- कारिणेत्येवंरूपः श्रुत एवेत्साह ॥ कामन्दकी-अद्य चेति । ननु ययपि स्वयमेवाय राज्ञा दत्ता न भूरिवसुना तथापि पूर्वमेव प्रभवतीत्यादिवाक्येन तस्या- प्यनुमतिः प्रतीयत इत्याशय तद्वचनस्य छलात्मकतया वचनार्थ प्रयुक्तवान तेन व्यवहारशुद्धिरिति वक्तुं प्रथमं लोकव्यवहारस्य प्रमाणत्वं दर्शयति-तद्व- सेति । देहिनां व्यवहाररूपाणि तत्राणि कुटुम्बकृत्यानि । 'तत्रं कुटुम्बकृय सात्' इति हलायुधः । वाचि प्रतिष्ठा स्थितिर्येषां तानि । वचनमात्रनिबन्धना- नीत्यर्थः । पुण्यापुण्यहेतवो व्यवस्थाः 'सत्यं वदेन्नानृतं वदेत्' इत्यादयः शास्त्रीया मर्यादा वाच्यवायतन्ते वागायता एव भवन्ति । वाङ्मूल एव सर्वोऽपि शुभाशुभहे- पुर्व्यवहार इत्यर्थः । इयं तु भूरिवसोर्वाक्छलात्मिका न तु शुद्धत्याह-सा चेति । मनुतात्मिकैवोपचारोकिचातुर्येणापाततः सत्यवत्प्रतिभासेऽपि विचार्यमाणे पर. मार्थदृष्ट्या मिथ्याभूतैव । कुत इत्यत आह-न खल्विति । ईश्वरवात्तस्य परकीय. कन्यकाखपि खातळ्यमस्तीत्यत आह-कन्यकेति । नृपतनयः प्रमाणं परिच्छे- सारः । खतन्त्रकर्तार इति यावत् । इत्येवंविधो धर्माचारो धार्मिकाणामाचारस्तस्य समयतत्प्रवर्तकं शास्त्रम् । क्वचिदपि न दृष्टमिति शेषः । तस्मात्पित्रा चाप्रदानादा. जधानधिकाराद्राजकर्तृकप्रदानं लोकशास्त्रविरुद्धमित्येतदवस्थितमित्याह-तस्मा- दिति । तदस्या वार्तायाः पस्पशप्रायकत्वेन नैतावता नैराश्यं भावनीयमित्या- शयः । किंच मयि जीवन्यामपि कथं भवद्यतिरिकगामिनी स्यादिति विश्वा- मजननार्थ साहंकारमाह-कथं चेति । अप्रमत्तवाहं भवत्संघटने वर्ते ।

मालतीमाधवे. मा वां सपनेष्वपि नाम. तद्रू- पापं यदस्यां त्वयि वा विशक्यम् । तत्सर्वथा संगमनाय यत्नः प्राणव्ययेनापि मया विधेयः ।।५।। मकरन्द:- -सर्व सुष्ठु युज्यमानमादिश्यते युष्माभिः । अपि च । दया वा स्नेहो वा भगवति निजेऽमिशिशुजने भवत्याः संसाराद्विरतमपि चित्तं द्रवयति । ततश्च प्रव्रज्यासमयसुलभाचारविमुखः प्रसक्तस्ते यत्नः प्रभवति पुनर्दैवमपरम् ॥ ६ ॥ (नेपथ्ये ।) भअवइ कामन्दइ, एसा भट्टिणी विण्णावेदि जहा मालदिं घेत्तूण तुरिदं आअच्छेत्ति । कामन्दकी-वत्से, उत्तिष्ठोत्तिष्ठ । (सर्वा उत्थाय परिकामन्ति ।) १. भगवति कामन्दकि, एषा भी विज्ञापयति यथा मालती गृहीत्वा त्वरितमागच्छेति । तन्नानिष्टमाशङ्कनीयमित्यर्थः । तदेवाह-मा वामिति । अस्या बयि च यत्पाप- मनिष्टं विशङ्कयं युवाभ्यामन्योन्यमस्मदादिभिश्च 'प्रेम पश्यति भयान्यपदेऽपि' इति नीत्या प्रेमवशादस्थानेऽप्यनिष्टशङ्किभिराशङ्कनीयं तद्वां युवयोः सपत्नेष्वपि मा भूत् । अनिष्टं हि शत्रुगामित्वेनेष्यते । इदं तु तेष्वपि नापेक्षितुं युक्तमित्यवस्था- दौस्थ्यातिशयोकिः । तस्मात्सर्वथान्ततो गत्रा प्राणव्ययेनापि भवत्संगमनाय यत्नो मया विधेयः। कार्य इत्यर्थः । इयं च यत्नाख्या द्वितीयावस्था । यथा- 'अपश्यता फलप्राप्तिं यो व्यापारः फलं प्रति । परं त्वौत्सुक्यगमनं स यत्न इति थ्यते ॥' इति ॥ ५॥ मकरन्दः । अपि चेत्यादि । संसाराद्विरतं राग- द्वेषवासनाविवर्जितमपि चित्तं द्रवयति कृपा करोति । दयेति । दयानुकम्पा, नेहः प्रेमाख्यो भावः । अतो दयास्नेहपरवशवात्त्वदन्तःकरणस्य प्रव्रज्यासमये संन्याससंप्रदाये सुलभो योऽष्टाङ्गयोगाभ्यासादिराचारस्तस्य विमुखो विरोधी। अयं यनः प्रसको बलादापतितः। अपरं पुनरितःपरं तु दैवमनयोर्भागधेयं प्रभ- वति । बया तु यावत्कर्तव्यं तावक्रियत इत्यर्थः । इदं चानुनयरूपं पर्युपासनं नामाङ्गम् । यथा-'अनुनीतिः पर्युपातिः' इति ॥ ६ ॥ नेपथ्ये । भगवति कामन्दकि, एषा देवी विज्ञापयति यथा मालती गृहीखा खरितमागच्छेति ॥

चतुर्थोऽङ्कः। (मालतीमाधवौ सकरुणानुरागमन्योन्यमवलोकयतः।) माधव:-कष्टम्, एतावती हि माधवस्य मालत्या समं लोक- यात्रा । अहो नु खलु भोः, सुहृदिव प्रकटय्य सुखप्रदा प्रथममेकरसामनुकूलताम् । पुनरकाण्डविवर्तनदारुणः प्रविशिनष्टि विधिर्मनसो रुजम् ॥ ७ ॥ मालती-(अपवार्य ।) महाणुहाअ लोअणाणन्दअर, एत्तिअं दिद्योसि । लवङ्गिका हैद्धि । सरीरसंसअं जेब णो पिअसही आरो- विदा अमच्चेण । मालती-परिणदं दाणिं जीविदतिहाए फलम् । णिव्यूढं अ णिकरुणदाए तादस्स कावालिअत्तणं । परिणिविदो देवहदअस्स १. महानुभाव लोचनानन्दकर, एतावदृष्टोऽसि । २. हा धिक् । शरीरसंशयमेव नः प्रियसख्यारोपितामात्येन । ३. परिणतमिदानीं जीविततृष्णायाः फलम् । नियूदं च निष्करुणतया मालतीमाधवी सकरुणं परस्परानिष्टशङ्कया सानुरागमन्योन्यभावाधिगमेना- वलोकयतः ॥ माधवः । माधवस्य दुःखैकभाजनस्य ममेत्यान्तरसंक्रमित- वाच्यता। मालत्या समं लोकयात्रा दर्शनसंलापादिरूपोऽनुरक्तजनव्यवहार एता- वतीयत्येव परिसमाप्ता । तदेतत्कष्टमित्यर्थः । अहो आश्चर्ये । नु वितर्के । खलु प्रसिद्धौ । भोः संबोधने । हे हृदय, आश्चर्य खलु विधेर्दुर्विलसितमिति वितर्क- यामीत्यर्थः । तदेव दुर्विलसितमाह-सुहदिवेति । असौ विधिः प्रथमं सुहृ- न्मित्रमिवैकरसां तदेकखभावां प्रकारान्तरशून्यामनुकूलतां प्रस्तुतकार्यानुगुण्यं प्रकटीकृत्य पुनः स एवाकाण्डेऽनवसर यद्विवर्तनं विरुद्धावृत्तिः प्रातिकूल्येन व्यवहरणं तेन दारुणो विधिः । मनोरुज चित्तरोग प्रविशिन ष्टि । प्रयोजनं विघ- दय्याधिमात्रमवशेषयतीत्यर्थः । विधिनिन्दया विषादो व्यज्यते ॥ ७ ॥मालती। महानुभाव लोचनानन्दकर, एतावदृष्टोऽसि ।न पुनदृश्यसे मम जीवनाभावा- दित्याशयः । लोचनयोरेवानन्दकरस्वया कृतः । मनसस्तु महती व्यथैव संपादिते- त्यस्य ध्वनिः । इदं च प्रत्यनिष्ठुरखाद्वकं नामाङ्गम् । यथा-'प्रत्यक्षनिष्ठुर वज्रम्' इति । लवङ्गिका । हा धिक् । शरीरसंशयमेव नः प्रियसखी समारोपि- तामायेन । तदिदानी भगवति, खमेव गुरुजनस्पृहां विहाय मालतीप्राणत्राणे खरितं ।

दालणसमारम्भपरिणामों। ता कं वा उवालभामि मन्दभाइणी । कं वा असरणां सरणं पडिवजामि । लवङ्गिका—सहि, इदो इदो । (परिक्रामति ।) माधव:-(खगतम् ।) नूनमाश्वासनमात्रमेतन्माधवस्य सहजस्ले- हमात्रकातरा भगवती करोति । (सोद्वेगम् ।) हन्त, सर्वथा संशयित- जन्मसाफल्यः संवृत्तोऽस्मि । तत्किं कर्तव्यम् । (विचिन्त्य ।) न खलु महामांसविक्रयादन्यमुपायं पश्यामि । (प्रकाशम् ।) वयस्य मकरन्द, अपि भवानुत्कण्ठते मदयन्तिकायाम् । मकरन्द:-अथ किम् । तन्मे मनः क्षिपति यत्सरसप्रहार- मालोक्य मामगणितस्खलदुत्तरीया । तातस्स कापालिकत्वम् । परिनिष्ठितो दैवहतकस्य दारुणसमारम्भपरिणामः । तत्कं वोपालमे मन्दभागिनी । कं वाशरणा शरणं प्रतिपद्ये । १. सखि, इत इतः। यतखेत्याशयः ॥ मालती। परिणतमिदानी जीविततृष्णायाः फलम् । नियूढं च निष्करुणतया तातस्य कापालिकलम् । कापालिक एव परं स्त्रीबालादिवघे निष्क- रुणः । तेन पञ्चमाङ्ककृत्यं च किंचित्सूचितम् । परिनिष्ठितः परिसमाप्तिं गमितो दैवहतकस्य दारुणसमारम्भपरिणामः । कमुपालमे मन्दभाग्या । कं वाशरणा शरणं प्रतिपद्ये । अनेन माधवं कामन्दकी प्रति च कथं युवयोः सतोरप्यहमीदृशीं दशामनुभवामीति तदुपक्रम्यतां यथोचितं प्रयत्न इति सूच्यते । एतत्सूचनार्थ- मेवाधीरयापि मालत्या माधवसंनिधानेऽपि निस्पीभूयाकन्दितमिति मन्तव्यम् ॥ लवङ्गिका । सखि, इत इतः। आगम्यतामिति शेषः ॥ माधवः । नून- मिति । कथं वा राजनि प्रतिपक्षे तद्विरोधेन भगवती कार्य निष्पादयेत् । तदस्या वचनमाश्वासनार्थमेवेत्यर्थः । संशयितं जन्मसाफल्यं मालतीप्राप्तिलक्षणं यस्य तादृशः संवृत्तोऽस्मि । अत्र मालतीप्राप्तिरेव जीवितसाफल्यमित्यनेन तदनु- रागतद्गुणातिशयप्रख्यापनात्सातिशयवचनरूपं पुष्पं नामाजमुकम् । यथा-'पुष्पं सातिशयं वचः' इति । इदानी जात्यनुचितेनापि क्षिप्रफलप्रदेन बाह्यागमप्रसिद्धन साहसिकजनकृत्येन महामांसविक्रयेणापि प्रयोजनं साधनीयमिति विचिन्य निर्धारयति-न खल्विति । महामांसं पुरुषमांसम् । इयमपि द्वितीयावस्था द्रष्टव्या ॥ वयस्येति । अपि प्रश्ने । उत्कण्ठत उत्सुको भवति ॥ मकरन्दः । अथ किम् । बाढमुत्कण्ठितोऽहमित्यर्थः । तदेवाह-तदिति । सरसप्रहारं सशो- णितशार्दूलकरजक्षतं मामालोक्याविचारितविगलस्कुचावरणांशुका । अनेन तात्का. ।

चतुर्थाशकः । त्रस्तैकहायनकुरङ्गविलोलदृष्टि- राश्लिष्टवत्यमृतसंवलितैरिवाः॥८॥ माधवः-न दुर्लभा बुद्धरक्षितायाः प्रियसखी । अपि के प्रमथ्य क्रव्यादं मरणसमये रक्षितवतः परिष्वङ्गं लब्ध्वा तव कथमिवान्यत्र रमताम् । तथा च व्यापारः कमलनयनाया नयनयो- स्त्वयि व्यक्तस्नेहः स्तिमितरमणीयश्चिरमभूत् ॥९॥ तदुत्तिष्ठ । वरदासिन्धुसंभेदमवगाह्य नगरीमेव प्रविशावः । (उत्थाय परिकामतः।) मकरन्दः-अयमसौ महानद्योर्व्यतिकरः । य एषः जलनिबिडितवस्त्रव्यक्तनिम्नोन्नताभिः परिगततटभूमिः स्नानमात्रोत्थिताभिः । लिकी तस्याः कान्तिरुता । त्रस्तो य एकहायनकुरङ्गस्तस्येव विलोला दृष्र्यिस्याः सा। अनेन तस्या अप्युद्वेगप्रतीतेरनुरागातिशयः प्रख्याप्यते । अमृतसंवलितैः सुधारसा. तैरिवाः । अनेन तदङ्गस्पर्शस्य परमसौहित्यहेतुकलमुक्तम् । आश्लिष्टवत्या. लिङ्गनं कृतवतीति यत्तदालिङ्गनं कर्तृ मे मनः क्षिपति । व्यथयतीत्यर्थः ॥ ८॥ माधवः। नेति । बुद्धरक्षितायाः प्रियसखी बया न दुर्लमेति मकरन्दमाश्वास- यति । अदुर्लभखमेवोपपत्त्या निर्धारयति-अपि चेति । प्रमथ्येति । मरण- समये तस्याः प्राणविपत्तिकाले क्रव्यादं मांसाशनं व्याघ्र प्रमथ्य निहत्य रक्षितवत- स्तादृशव्यसने प्राणत्राणलक्षणमुपकारं कृतवतस्तव परिष्वङ्गं खयंग्रहाश्लेषं लब्ध्वा कथमिवान्यत्र खट्यतिरिक्ते रमतामनुरक्तचिता भवेत् । तथा हि तदानीमेव खजीवितप्रदायिनस्तव मदीयं जीवितं शरीरं च समर्पितमिति खयंप्रहालिङ्गनेन कथितम् । अतस्वदर्पितजीवितेयं नान्यत्रानुरज्यत इति भावः । यथा मया निश्चितं तथा च तदनुरूप एव तस्या नयनयोक्पारो व्यक्तनेहः प्रकटीकृतप्रेमातिशय- तथा स्तिमिततया विषयान्तरासंस्पर्शेन तत्रैव निममतया रमणीयो मनोहरस्वयि विषये चिरमभूत् । सस्नेहावलोकनादेव निश्चीयते तस्यास्खय्येवासक्तिरित्यर्थः । इदं चोपपत्त्या निर्णयरूपमुपन्यासो नामाङ्गम् । यथा 'उपपत्तिकृतो योऽर्थः स उप- न्यास इष्यते' इति ॥ ९ ॥ वरदेति । वरदा सिन्धुश्चेति नद्यौ तयोः संमेदः संगमः ॥ मकरन्दः । व्यतिकरोऽपि स एव । य एष इति । योऽयं नद्योः संमेदः। जलेति । पुण्यतीर्थवादवगाहनार्थमागताभिर्वधूभिः सकलपौराज- नाभिः परिगततटभूमिाप्ततीरप्रदेशः । दृश्यत इति शेषः । वधूर्विधिनष्टि- मानमात्रोत्थिताभिः स्नानसमनन्तरमेव निर्गसाभिः अत एव जलेन निबिडि.

१०८ मालतीमाधवे रुचिरकनककुम्भश्रीमदाभोगतुङ्ग- स्तनविनिहितहस्तस्वस्तिकाभिर्वधूमिः ॥१०॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे चतुर्थोऽङ्कः । तमत्यन्तसंश्लिष्टं यद्वस्त्रं तेन व्यक्ताः सम्यग्विभाव्यमाना निनोन्नतप्रदेशा नाभि- मध्यकुचमण्डलनितम्बजघनाद्यवयवसंनिवेशा यास ताः तथा रमणीयकाञ्चन- कलशकान्तिमन्त आभोगेन परिपूर्णतया तुझाश्च ये खनास्तत्र विनिहितानि न्यस्तानि हस्तखस्तिकानि व्यत्यस्तसंकुचितखस्तिकाकारहस्तयुगलानि यासां ताभिरिति तत्क्षणस्नातोत्थितवधूखभावोक्तिः । अथ च नानार्थमागताभिर्वधूभि- रित्यनेन नानाजातिनगराङ्गनाप्रतीतेर्वर्णसंहारो नाम प्रतिमुखसंधेरगामिति द्रष्ट- व्यम् । यथा 'वर्णसंहार इत्युक्तो नानाजातिसमागमः' इति ॥ १० ॥ विचित्रव्यजनाप्राणा श्लाघ्यशब्दार्थबन्धुराः। जयन्यभिनवोल्लासा भवभूतिकवेगिरः ।। इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रि- पुरारिसूरिविरचितायां मालतीमाधवभावप्रदीपिकायां चतुर्थाकविवरणम् ॥

पञ्चमोऽङ्कः । (ततः प्रविशत्याकाशयानेन भीषणोज्वलवेषा कपालकुण्डला ।) कपालकुण्डला- षडधिकदशनाडीचक्रमध्यस्थितात्मा हृदि विनिहितरूपः सिद्धिदस्तद्विदां यः । अविचलितमनोभिः साधकैर्मृग्यमाणः स जयति परिणद्धः शक्तिभिः शक्तिनाथः ॥१॥ . पञ्चबाणसुहृद्वैरिवामवामेतरामकम् । वीरशृङ्गारयोरैक्यं हृदि स्फुरतु तन्महः ॥ अथ पूर्वाङ्कसूचितमहामांसविक्रयोपयोगिवृत्तान्तं सूचियितुमेकपात्रप्रयोज्यं शुद्धविष्कम्भमारभते-तत इति । एकेनापि मध्यपात्रेण शुद्धविष्कम्भो भवत्येव । यथाह -'शुद्धोऽनेकेन वैकेन मध्यपात्रेण योजितः' इति । आकाशयानेनेति योगि- नीत्वेन खेचरगमनादिसिद्धिसंपत्तेः। भीषणो भयंकरो उज्वलो दीप्तव वेषो यस्याः सा। कपालकुण्डलेत्यन्वर्थ नाम ॥षडधिकेति । शकीनां ज्ञानेच्छाक्रियोपलक्षि- तखभावपरिस्पन्दरूपाणां नाथःप्रयोका। अत एव ताभिः परिणद्धो व्याप्तः। विचित्र- विश्वपरिस्पन्दखतन्त्रनिर्मातेति यावत् । यद्वा शकीनां ब्राहयादीनां नाथः । अत एव ताभिः परिणद्धः खप्राणेश्वरबुद्ध्या प्रणयाद्वेष्टितः कापालिकादर्शनप्रतिपाद्यभूतः शक्तिनाथो जयति सर्वोत्कर्षेण प्रकाशते। तादृशस्यैव नमस्कार्यवात्। कीदृशोऽसावि- त्यत आह-षडधिकेति । षडधिका दश षोडश या नात्यस्तासां यच्चक्र मण्डलं पिण्डरूपं तस्य मध्यं हृदयं तत्र स्थित आत्मा खरूपं यस्य सः । नाडीनामनन्त- वेऽपि प्रधाननाडीनामिडादीनां षोडशसंख्यालात्षडधिकदशेत्युक्तम् । इडादयो नाड्यश्च । 'इडा च पिङ्गला चैव सुषुम्णा चापरा स्मृता। गान्धारी हस्तिजिह्वा च पूषा वसुवशा तथा ॥ अलम्बुषा कुहूश्चैव शङ्गिनी दशमी स्मृता । तालुजिहे. भजिह्वा च विजया कामदा परा ॥ अमृता बहुला नाम नाड्यो वायुसमीरिताः॥' इति । अपरिमितसूक्ष्मनाडीसहितप्रधानषोडशनाडीसमूह एव रुधिरवसामांसादि- धातुपरिपूरितं बगाच्छन्नं पिण्डशब्दवाच्यं शरीरमिति योगमार्गः । यद्वा । षड्- भ्यश्चक्रेभ्योऽधिकस्य । सप्तमस्येत्यर्थः । दशनाडीचक्रं दशनाख्यात्मकं चक्रं नाभि- कमलरूपम् । यद्वा षडधिकदशनाडीनां षोडशनाडीनां चक्रं षोडशनाख्यात्मकं चक्रं कण्ठबिलवर्सनाहताख्यम् । तत्र स्थित उपासनाविशेषार्थ संनिधापित आत्मा स्वरूपं यस्येत्यर्थः । तद्यथा चक्राणि योगशास्ने-'चतुर्दलं स्यादाधारे खाधिष्ठाने च षड्दलम् । नाभौ दशदलोपेतं सूर्यसंख्यदलं हृदि ॥ कण्ठे स्मात्योड. शदलं भ्रूमध्येऽशीविसंमितम् ॥ सहस्रदलमाख्यातं ब्रह्मरन्धे तु पहजम् .एवानि

११०
मालतीमाधवे
इयमिदानीमहम्
नित्यं न्यस्तषडङ्गचक्रनिहितं हृत्पद्ममध्योदितं
पश्यन्ती शिवरूपिणं लयवशादात्मानमभ्यागता ।
नाडीनामुदयक्रमेण जगतः पञ्चामृताकर्षणा-
दप्राप्तोत्पतनश्रमा विघटयन्त्यग्रेनमोऽम्भोमुचः ॥ २ ॥
उद्वृत्तस्खलितकपालकण्ठमाला-
संघट्टकणितकरालकिंकिणीकः ।
पर्याप्तं मयि रमणीयडामरत्वं
संधत्ते गगनतलप्रयाणवेगः ॥३॥
सप्त पानि चक्रस्थानि प्रचक्षते ॥' इति । नाटीचक्रात्मककमलानां नाड्य एव
दलानि । अनेन चाणुरङ्गुष्ठपरिमाणो वा जीव इति तन्मतम् । तद्विदा तागात्म-
खरूपदर्शिनां योगिनां हृदि विनिहितं रूपं यस्य सः । तथाविधः सन्सिद्धिदो
भुक्तिमुक्तिप्रदः । अविचलितमनोभिर्विषयान्तरपरित्यागेन खैकतानमनस्कैः
साधकैः खोपासकोगिभिर्मग्यमाणोऽन्विष्यमाण इति अत्र नाडीचक्रादिपदानां
केवलयोगशास्त्रप्रसिद्धवादप्रतीतत्वमपि खात्मविमर्शने न दुष्टवं किंतु गुणखमेवे-
त्याहुः ॥ १॥ इयमित्यादि । नित्यमिति । नित्यं प्रतिदिनं जपोपक्रमसमये-
अनुष्ठेयमन्त्राखेन यश्यस्तं तत्तत्स्थानेषु 'हृदयाय नमः, शिरसे स्वाहा' इत्यादि
षडान्यासप्रकारेण विन्यस्त्रं षडङ्गानां हृदयशिरःशिखाकवचनेत्रास्त्राणां चक्र सङ्घ-
खत्र निहितस्तन्मध्यगतत्वेन ध्यातः । 'मां कोऽपि मन्त्राधिदेवतात्मकत्वेनात्मानं
ध्याखा मन्त्रमनुतिष्ठेत्' इत्यागमः। अत एव हृत्पद्मस्य हृदयकमलस्य मध्य उदितं
प्रकाशमानं शिवरूपिणमात्मानं पश्यन्ती इयमहं लयवशादूर्ध्वमाकृष्टस्य वायो-
तेषु तेषु नाडीनिवेशेषु वृत्तिनिरोधो गगनगमनहेतुभूतो योगशास्त्रप्रसिद्धो लयः।
तद्वशाखेतोर्नाडीनां पार्थिवाप्यामेयवायव्यनाभसाख्यानां पञ्चभूतप्रकृतिकानां नाडी.
विशेषाणामुदयसाम्यावस्थातिरोधानक्रमेण तत्तद्भूतांशाकर्षणसाधनेन जगतो जङ्ग-
मस्य जन्तुवर्गस्य यान्यारम्भकाणि पञ्चामृतानि न म्रियन्ते नात्यन्तं विनश्यन्ति
कार्यकारणरूपेण सर्वदावस्थानादित्यमृतानि पञ्चमहाभूतानि तेषामाकर्षणात् ।
यहा-'विद च मूत्रमसृमज्जा शुक्रं पञ्चामृतं स्मृतम्' इति । तेषामाकर्ष-
णादप्राप्तोत्पतनश्रमानुत्पन्नाकाशोद्रमनप्रयासा सत्यत एवाग्रेनभो नमसोऽप्रे-
उम्भोमुचो मेघान्विघटयन्त्यपसारयन्तीदानीमभ्यागता । उद्देश्यं करालायतन-
प्राप्तित्यर्थः ॥ २॥ उदृत्तेति । उत्तोल विक्षिप्ता ततः स्खलिता च या
कपालैरेव प्रथिता कण्ठमाला प्रीवालंकारस्वत्र संघः कपालानां परस्पराभिघात.
खेन कणिताः संजातकणाः । शब्दायमाना इति यावत् । कराला दन्तुराः
किंकिण्यः कण्ठमालास्थापिताः क्षुद्रयाण्टिका यत्र सः । मंगनतलप्रयाणवेगो मयि
पर्यासं परिपूर्ण रमणीयं मनोहर डामरलमीदव्यं संघते । संपादमतीसवः॥३॥

पसमोर तथा हि। विष्वग्वृत्तिर्जटानां प्रचलति निबिडग्रन्थिबन्धोऽपि भारः संस्कारकाणदीर्घ पटु रटति कृतावृत्ति खवाङ्गघण्टा । ऊर्ध्व धूनोति वायुर्विवृतशवशिरःश्रेणिकुञ्जषु गुञ्ज- त्रुत्तालः किंकिणीनामनवरतरणत्कारहेतुः पताकाम् ॥ ४ ॥ (परिक्रम्यावलोक्य च ।) इदं च पुराणनिम्बतैलाक्तपरिभृज्यमानरसो- नकरसगन्धिभिश्चिताधूमैरधस्ताद्विभावितस्य श्मशानवाटस्य नेदीयः करालायतनम् । यत्र पर्यवसितमन्त्रसाधनस्यास्मद्गुरोरघोरघण्टस्याज्ञया सविशेषमद्य मया पूजासंभारः संनिधापनीयः । कथितं हि मे गुरुणा-'वत्से कपालकुण्डले, भगवत्याः करालया यन्मया प्रागुपया- चितं स्त्रीरत्नमुपहर्तव्यम् , तदत्रैव नगरे विदितमास्ते' इति । (सकौतुक- तदेव रमणीयडामरख प्रकटयति-विष्वगिति । विष्वक्सर्वतो वृत्तिरवस्थान यस्य स तादृशो जटानां भारो दृढतरप्रन्थिबन्धोऽपि वेगवशात्प्रचलति । तथा खट्वाङ्गे नद्धा घण्टा संस्कारेण शब्दजनकाभिघातादिजन्येनाभिहन्यमानगतेनातिश- येन कार्यकपरिकल्प्येन जनितो यः क्वाणो रणरणध्वनिस्तेन दीर्घ यथा तथा। पटु कृता आवृत्तिः पुनःपुनरभ्यासो यथा स्यात्तथेति क्रियाविशेषणत्रयम् । रटति ध्वनति । तथा विवृतानि यानि शवशिरसि तेषां या श्रेणी तस्याः कुञ्जषु सरन्ध्र- कुहरेषु गुञ्जशब्दायमान उत्ताल उद्भटः किंकिणीनामनवरतरणत्कारस्याविच्छिन- निकाणस्य हेतुर्वायुर्वेगोत्पन्नोऽनिलः पताको खट्वांगावबद्धामूर्ध्व यथा स्यादेवं धूनोति कम्पयति ॥ ४ ॥ परिक्रम्येत्यादि । इदं च तत्करालायतनम् । कीह- शम्। श्मशानवाटस्य पितृवनप्रदेशस्य नेदीयोऽतिसंनिहितम् । श्मशानवाट विशिनाष्टि-पुराणेन निम्बतैलेनाक्तस्य परिभृज्यमानस्य रसोनकस्य लशुनस्य । 'लशुनं गृजनारिष्टमहाकन्दरसोनकाः' इत्यमरः । यो रसो निर्यासस्वस्य गन्ध इव गन्धो येषां तैश्चिताधूमैर्गगनंकषैरधस्ताद्भूतले विभावितस्यानुमितस्य महतो विस्तीर्णस्येति । यत्र करालायतने पर्यवसितमन्त्रसाधनस्य परिसमापितपुरश्चरणस्य सविशेषं पूर्वापेक्षया विशेषसहकृतं यथा स्यात्तथा पूजासंभारः पूजोपकरणकलापः संनिधापनीय उपस्थापनीयः । विशेषः को वेत्यपेक्षायामाह-कथितमिति । प्रागुपयाचितं पूर्व प्रार्थितं सिद्धेऽस्मिन्मन्त्रे भगवत्यै स्त्रीरत्नमुपहारीकरिष्यामीति संकल्पितम् । उपहर्तव्यमानेतव्यम् । तत्स्त्रीरत्नं चात्रैव संनिहिते नगरे विदितं सर्वजनप्रसिद्धमास्त इति ॥ सकौतुकमिति । एतादृशमुकुमारमधुराकारस्य कथं निशायामत्र निनिमित्तं संचरणमिति सकौतुकम् । अविगम्भीरमधुराकृविर्गा- म्भीर्यमाधुर्यगुणशालिन्याकृतिर्यस्य सः। 'भीशोकक्रोधहर्षेषु गाम्भीर्य निर्विका- रता । सर्वावस्थासु माधुर्य प्रियाणां मृदुकारिता ॥' उत्तम्भितो जूटीकृत्य बरः ११माल.

११२ मालतीमाधबे मवलोक्य ।) तत्कोऽयमतिगम्मीरमधुराकृतिरुत्तम्भितकुटिलकुन्तलमार- 'कृपाणपाणिः श्मशानमवतरति । य एषः । कुवलयदलश्यामोऽप्यनं दधत्परिधूसर ललितविकटन्यासः श्रीमान्मृगाकनिभाननः । हरति विनयं वामो यस्य प्रकाशितसाहसः प्रविगलदसृक्पङ्कः पाणिर्ललन्नरजाङ्गलः ॥ ५॥ (निरूप्य ।) स एष कामन्दकीसुहृत्पुत्रो महामांसस्य पणयिता माधवः । तत्किमनेन । यथासमीहितं संपादयामि । विगलितप्रायश्च पश्चिमसंध्यासमयः । तथा हि । व्योम्नस्तापिच्छगुच्छावलिभिरिव तमोवल्लरी भित्रियन्ते पर्यन्ताः प्रान्तवृत्त्या पयसि वसुमतीनूतने मज्जतीव । कुटिलः करालः कुन्तलभारः केशकलापो यस्य सः । कृपाणपाणिः खङ्गहस्तः श्मशानमवतरति । तत्कोऽप्ययं मृदुप्रकृतिरपि कुतश्चिद्धेतोरचिरपरिगृहीतसाहस. व्यापारः तदेष विचारणीय इत्याशयः । तमेव निर्वर्णयति य एषः । कुव- लयेति । खभावत इन्दीवरदलनीलोऽपि विरहादिनिमित्तसंस्कारराहित्यात्परिधू- सरं विवर्णमङ्गं दधद्विभ्राणः तथा महानायकतया विनयगाम्भीर्यधैर्यशालिले. नात्रापि श्मशानप्रदेशे ललितो गाम्भीर्यमनोहरो निःशङ्कश्चरणविन्यासो यस्य सः । श्रीमान्महाभाग्यद्योतककान्तिविशेषयुक्तो मृगाङ्कनिभाननः पूर्णचन्द्र- मण्डलसंनिभवदनो य एष परिदृश्यतेऽतो नेदमस्य समुचितं कर्म । किंतु 'न साहसमनारुह्य नरो भद्राणि पश्यति' इति न्यायेन जीवितव्ययेनापि साधनीयं किंचिदभिलषितं साधयितुमेवं साहसमवलम्बितमिति भावः । यस्यास्यप्रक्षर- द्रुधिरकर्दमो ललनरजाङ्गलो विलसन्नरमांसखण्डः प्रकटीकृतसाहसो वामः पाणिरेव केवलं विनयं हरत्यविनयं द्योतयति । समांसखण्डवामकरदर्शनादे- वास्य साहसं प्रतीयते। तदतिरिक्तावयवदर्शने तु प्रशान्तो विनीताकार एव प्रतीयते । न साहसमित्यर्थः ॥५॥ निरूप्य निश्चित्य । स एष इति । यः कामन्दकीसुहृदो देवरातस्य कुण्डिनेश्वरसचिवस्य पुत्रो बाल एवास्माभिदृष्टः स एवासौ कार्यवशादिहागतः किंचिदतिदुःसाधकं कार्य साधयितुमवलम्बितसाहसो महामासस्य विक्रेता भूलेह संचरति । युज्यते चास्यैतन्मनुष्यदुष्करं कर्म । यदसौ महायोगिन्याः कामन्दक्याः सुहृत्पुत्र इति भावः । पणयिता व्यवहर्ता । विक्रेतेति यावत् । 'पण व्यवहारे स्तुतौ च' इति धातोस्तृचि रूपं पणयितेति । तत्किमनेन । अयमपि खकृत्यं निर्वर्तयतु । अहमपि मदिष्टं संपादयामीत्यर्थः । गुर्वाज्ञानुष्ठानस्य कालोऽप्यनुगुणोऽयं प्राप्त इत्याह-विगलितप्राय इति । निर्वत्तकल्प इत्यर्थः। व्योन इति । व्योम्नः पर्यन्ता अवनीतलप्रान्तेष्ववनतातिरस्करिणीवत्प्रतिमा.

पञ्चमोऽ। वात्यासंवेगविष्वग्विततवलयितस्फीतधूम्याप्रकाशं प्रारम्भेऽपि त्रियामा तरुणयति निजं नीलिमानं वनेषु ॥६॥ (इति निष्कान्ता ।) इति शुद्धविष्कम्भः। (ततः प्रविशति यथानिर्दिष्टो माधवः ।) माधव:-(साशंसम् ।) प्रेमाः प्रणयस्पृशः परिचयादुद्गाढरागोदया- स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि । समाना वियत्तटाः । तमोवल्लरीभिरन्धकारलताभिस्तापिच्छगुच्छावलिभिरिव तमालस्तबकपतिभिरिव ब्रियन्त आच्छाद्यन्ते । तथा पृथिवीप्रान्तवृत्त्या परितः पर्यन्तदेश निमज्जनक्रमेण नूतने प्रत्यप्रतया कलुषे पयसि मज्जतीव । अन्धकारा. वृता पयोराशिनिममेवेत्युत्प्रेक्षिते । तथा त्रियामा रात्रिः प्रारम्मे खप्रवेशसमयेऽपि वात्यानां मण्डलाकारवातानां सम्यग्वेगेन विष्वक्सर्वतो वितता विस्तारिता ततो वलयिता संजातवलयाकारास्फीता प्रचुरा या धूम्या धूममण्डली तस्याःप्रकाशो यत्र तं निजं खकीयं नीलिमानं तरुणयति । प्रमुख एव संतमसनैल्यं यौवनदशा प्राप- यतीत्यर्थः ॥६॥ एवं महामांसविक्रयार्थ माधवप्रवेशं, करालायतने पूजार्थमघोर- घण्टस्य संनिधानम्, तत्र मालत्यानयनं च सूचयिता कपालकुण्डला निष्क्रान्ता॥ इति शुद्धविष्कम्भः ॥ तत इत्यादि । यथानिर्दिष्टः कपालकुण्डलया निरू- पितरूपः ॥ माधवः-साशंसमिति । यदुद्देशेन महामांसविक्रयाख्यं कर्म चिकीर्षितं तत्प्रयोजनाशंसापूर्वकमाहेत्यर्थः ॥ प्रेमेति । शृङ्गारस्य स्थायीभावस्य रतिरूपस्य प्रकर्षलक्षणावस्थाविशेषः प्रेमेत्युच्यते । प्रेममानप्रणयस्नेहानुरागा रते. रेवावस्थामेदाः । यदुक्तम्-'इयमङ्कुरिता प्रेम्णा मानात्पल्लविता भवेत् । सकोरका प्रणयतः स्नेहात्कुसुमिता भवेत् ॥ रागात्फलवती सेयमनुरागेण भुज्यते ॥' इति ॥ 'परस्पराश्रयघनं निरूढं भावबन्धनम् । यदेकायत्ततोपाधि तत्प्रेमेति निगयते ॥' इति । तेनाः सरसाः । आनुकूल्यशालिन्य इति यावत् । उक्तं च-'यद्यदस्याः प्रियो वक्ति तस्य तस्याशुकारिताम् । योग्यतामार्द्रतामाहुर्मनःकालुष्यनाशिनीम् ॥' इति । तथा प्रणयं स्पृशन्ति तेनानुरज्यन्त इति प्रणयस्पृशः । प्रणयो यथा- 'उपचारैमिथो यूनोर्यद्वाह्याभ्यन्तराभिधैः । प्रेम नीतं प्रकर्ष चेत्स एव प्रणयः स्मृतः॥' इति । तथा परिचयात्तस्यैव प्रणयस्य पुनःपुनरवलोकनसंभाषणस्पर्शादिभिः परिपोषात् । 'विदेशस्थे मृते वापि दुर्बले प्रतियोगिनि । धर्मिणि क्लेशकारी यः स प्रौढनेह उच्यते ॥' इत्येवंरूपप्रौढहात्मकतापत्तौ सत्यां तत उद्गाढः प्रौढः कदाचिदप्यनुपरमो माजिष्ठाख्यो रागश्चित्तानुरजकस्नेहप्रकर्षों यस्तस्य उदय उद्रेको यासु ताः । रागो यथा-'स एष चेद्गुणद्रव्यदेशकालादिभिर्हदि । रज्यते दीप्यते चित्ते स राग इति कथ्यते ॥' मजिष्ठो रागो यथा-'अतीव शोभते यस्तु ११४ मालतीमाधवे यावन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा- दाशंसापरिकल्पिताखपि भवत्यानन्दसान्द्रो लयः ॥ ७ ॥ अपि च । नापति क्षालितोऽपि सन् । स एव कविमिः सर्वैर्माजिष्ठो राग उच्यते॥' अयमेव च श्रेष्ठो रागः । यथाह-'श्रेष्ठो माजिष्ठरागः स्थानीलीरागस्तु मध्यमः । कुसु- म्भरागः कविभिरधमः परिकीर्तितः ॥' इति । स्थिरोऽप्यशोभनो नीलीरागः । आपातरमणीयः कुसुम्भरागः क्षणिकः । निसर्गमधुराः खभावरमणीया मुग्धह- शस्तस्यास्वास्खास्तथानुभूताः केवलमनुभवैकसाराश्चेष्टाः कटाक्षविक्षेपभ्रूकर्मगा- त्रवलनप्रभृतयः शृङ्गारानुगुणा गात्रारम्भाः। यथा-'लीला विलासो विच्छित्तिर्वि- भ्रमः किलकिञ्चितम् । मोडायितं कुट्टमितं विबोकललिते तथा ॥ विहृतं चेति विज्ञेया योषितां दश गात्रजाः ॥' इत्येवं सूक्ष्मदृष्ट्या परिगणिता मयि भवेयुरि. त्याशंसायां लिङ् । यासु चेष्टाखाशंसामात्रेण परिकल्पिताखपि कथमेतदीयप्रेमा- ईकटाक्षगोचरो भवेयम्, कथममृतरसमधुरमाकूतगर्भमस्याः प्रणयवचनमाकर्ण- येयम् , कथमेतदीयगाढालिङ्गनसौहित्यसुधारससरस्यात्मानं निमजयेयमित्यादिप्र. कारेण मनोरथमात्रोपस्थापिताखपि न तु परमार्थतोऽनुभूयमानासु, अन्तःकरणस्य लयो विलीनता तदेकनिममखम् । तप्तायःपिण्डपाथोन्यायेन तन्मयीभाव इति यावत् । स भवति । किमु वक्तव्यं वस्तुतोऽनुभूयमानाखिति भावः । कीदृशो लयः । बाह्यकरणानां चक्षुरादीनां यो व्यापारः खखविषयग्रहणहेतुशक्तिरूपत्र रोर्बु शीलमस्यास्तीति तथा अन्तःकरणस्य चेष्टाखेव विलीनखात्तदधिष्ठानाभा- वादुपरतव्यापाराणीन्द्रियाणि भवन्त्येव । मूर्छादिलयाद्वैषम्यमाह-आनन्दसान्द्र मानन्दैकप्रचुरः प्रत्यगात्मन इव ब्रह्मण्यानन्दात्मके विलयो मोक्षदशायां तद्वदि- त्यर्थः। अत्र चाभिलाषविप्रलम्भशृङ्गारः प्राधान्येन व्यज्यत इत्यभिधामूलसंलक्ष्य. क्रमव्यङ्गयो रसध्वनिः ॥७॥ अत्र च पूर्व शंकरपुरोयानवृत्तान्तेन दृष्टस्य समनन्तरं नन्दनप्रदाननिश्चयेन नष्टस्य बीजस्य 'प्रेमाः' इत्यारभ्य 'लीनेव प्रतिबिम्बितेव' इत्यन्तेन ततः 'उपपनस्तावत्' इत्यादिना तत्रतत्राङ्कपरिसमाप्तिपर्यन्तं मुहुर्मुहुरन्वे. षणादनुसंधानरूपायाः षष्ठाङ्के मालत्याः प्रथमावलोकसमदायारभ्य 'विस्तारिणः' इत्यादिनाङ्कसमाप्तिपर्यन्तं निरूप्यमाणायाः प्राप्याशायाः 'वत्स मकरन्द, मालतीने- पथ्येन परिवृतः प्रवर्तखात्मनः परिणयाय' इत्यादिना सप्तमाङ्कपरिसमाप्तिपर्यन्तं निरूप्यमाणाया मालतीरूपधारिणो मकरन्दस्योपनायकस्य तस्याधिकारिकवृत्तान्तो- पयोगिव्यापाररूपायाः पताकायाश्च समन्वयात्कृत्रिमपरिणयलक्षणावान्तरकार्यस- मन्वितानामकत्रयप्रतिपाद्यानां महामांसविक्रयमालतीप्राणत्राणाघोरघण्टसंहरणन- गरदेवतागर्भगृहवृत्तान्तकृतकमालतीरूपमकरन्दव्यापाररूपाणां कथांशानां संबन्ध. रूपतत्रतत्रोद्भावयिष्यमाणभूताहरणायेकादशाशसमन्वितो गर्भसंधिनिरूपितः कविनेति द्रष्टव्यम् । तलक्षणानि-'गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः । सम. न्वयादवेदेष प्राप्त्याशया (3) पताकया ॥ अमान्येकादशैतस्य गर्भसंधेर्यथाक्रमम् ॥'

.. पञ्चमोऽङ्कः। अतिमुक्तकमथितकेसरावली- सतताधिवाससुभगार्पितस्तनम् । अपि कण्ठजाहविनिवेशिताननः प्रियया तदङ्गपरिवृत्तिमामुयाम् ॥ ८॥ अथवा दूरे तावदेतत् । इदमेव तावत्प्रार्थये । संभूयेव सुखानि चेतसि परं भूमानमातन्वते यत्रालोकपथावतारिणि रति प्रस्तौति नेत्रोत्सवः । इति । 'उपायापायचिन्ताभ्यां प्राप्त्याशा प्राप्तिसंभवा । नायकस्य कथामध्ये तत्समानस्य या कथा । अफलोदयसंबन्धा सा पताकेति कीर्तिता' इति संक्षेपः । इदानीं सर्वास्खपि चेष्टासु श्रेष्ठामाश्लेषरूपामेव चेष्टां प्रार्थयते-अतिमुक्तकेति । अतिमुक्तकैर्वासन्तिकाकुसुमैः । 'अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवीलता' इत्यमरः । अन्तरान्तरा निवेशितैग्रथिता या केसरावली बकुलकुसुमप्रचुरा माला तस्याः सतताधिवासेन सुभगावर्पितौ स्तनौ मदीयोरसि निवेशितौ खनौ यस्मि- न्कर्मणि तदिति क्रियाविशेषणम् । प्रियया कण्ठजाहे मदीयप्रीवामूले । 'तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ' इति कर्णादिलात्कण्ठशब्दान्मूले जाहच्प्रत्ययः । तत्र विनिवेशितं खकीयमाननं यस्य सोऽहम् । आलिङ्गनसमये स्त्रीणां मुग्धानां खभावोऽयं यत्प्रियकण्ठमूले खपिरो भुमं निदधत इति तदशेन मदनस्य परिवृत्तिं विनिमयं प्राप्नुयाम् । आलिङ्गनवशात्तदर्श मदधीनं मदङ्गं च तदधीनं भवेदित्यर्थः । परिवृत्तिरेवालंकारः । केचित् 'अविमुक्तक-' इति पठिला 'अविमुक्तका अनुज्झिता कदाचिदपि मया प्रथितलेनादराया केसरावली'ति व्याचक्षते ॥८॥ अथवेति । 'मनोरथानामगतिर्न विद्यते' इति नीत्या केवलं प्रार्थ्यते । अतिदुर्लभखान संभाव्यते । इदं तु संभाव्यत इति प्रथमं तदेव प्रार्थये। किं तदित्यत आह-संभूयेति । यत्र प्रियतमामुख आलोकपथावतारिणि दृङमार्गे निपतिते सति सुखानि लोके यावन्ति सुखसाधनानि सन्ति तत्सर्वानुभवजन्मा- नन्दविशेषाः संभूयेव राशीभूयेव चेतसि परं निरतिशयं भूमानमन्योन्यमेलनज- नितमतिबहुखमातन्वते विस्तारयन्ति । नेत्रयोर्द्रष्टुश्चक्षुषोरुत्सवो हर्षहेतुर्यद्विषयो व्यापारः । 'उत्सूते हर्षमित्येष उत्सवः परिकीर्तितः' इत्युक्तलात् । रतिमिच्छा- विशेषात्मिको शृङ्गारस्थायिनी चित्तवृत्तिं प्रस्तोत्युत्पादयति । रितिरिच्छा भवेद्यू- नोरुभयप्रार्थनात्मिका' इत्युक्त्वात् । दर्शनमात्रेणैव निरतिशयानन्दो रविश्व नायिकाभिलाषरूपा भवतीत्यर्थः । किंच यन्मुखं बालेन्दोः कलङ्कराहित्यसौकुमार्य- मनोहरस्य कलाः प्रतिमासमेकैकक्रमेणोत्पाद्यमानास्तासामुच्चयो राशिस्तस्मादुप- चितैः संगृहीतैः सारैः श्रेष्ठांशैरुत्पादितमिवेत्युत्प्रेक्षा । निरतिशयाहादहेतुलेन नैर्मल्यप्रासादादिगुणयोगात्तदनगस्य मालगृहं तदधिष्ठानेनानङ्गस्य त्रिभुवनविजय- लक्षणमालप्राप्तः । तदेतत्तस्याः प्रियाया मुखं भूयोऽपि पश्येयम् । पुण्यपरिपा- । ।

११६ मालतीमाधवे यहालेन्दुकलोचयादुपचितैः सारैरिवोत्पादित तत्पश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम् ॥९॥ यत्सत्यमधुना संदर्शनं नेति खल्पोऽपि विशेषः । मम हि संपति सातिशयप्राक्तनोपलम्भसंभावितात्मनः संस्कारस्यानवरतप्रबोधात्मता- यमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रियतमास्मृतिप्रत्ययो- कवशादिदं तावदस्तु तावतापि चरितार्थ एवाहमित्याशयः। अतिशयोक्त्युत्प्रेक्षा- रूपकाणि वाच्यालंकाराः । प्रसिद्धसुखसाधनाभावेऽपि कारणान्तरादेव तत्स- मस्तसुखोत्पत्तविभावना संभूयेवेत्यत्र व्यज्यते । नेदं मुखमितरशरीरवद्भौतिको. पादानकं किं वन्यदेव लोकोत्तरमस्योपादानमित्यपहवः । कलङ्कशून्यसारांशनि- मितलादस्य चन्द्रमण्डलाधिक्यप्रतीतेर्व्यतिरेकः । चन्द्रादेरप्युपमानवायोग्यता- दन्यस्य चाभावादस्येदमेवोपमानमित्यनन्वयश्च यद्बालेन्दुकलेल्यत्र व्यज्यत इत्यादि निरूपणीयं सहृदयैः । रसध्वनिस्तूक्त एवेत्यलं प्रपश्चेन ॥ ९ ॥ ननु भाव- नावशादनवरतमध्यक्षमीक्षमाणायां प्रियतमायां किमिति पुनः संदर्शनं खया प्रार्थ्यत इत्याशक्य भावनाप्रसूतात्संदर्शनात्प्रार्थनीयसंदर्शनस्य विशेषमाह- यदिति । यद्यपि यादृशी प्रेयसी पूर्वमनुभूता तादृश्येवान्यूनातिरेकेणेदानीमपि दृश्यते । तत्र कश्चिद्विशेषस्तथाप्यधुना संदर्शनमिदानींतनं भावनाप्रसूतं दर्शनं सत्यं पारमार्थिकं न भवति । प्रार्थनीयं तु सत्यमित्येतावान्खल्पोऽपि विशेषः प्रार्थनीयसंदर्शनस्यैदानींतनसंदर्शनाद्भेदोऽस्तीति यतः । तस्मात्तत्प्रार्थ्यत इत्यर्थः । ननु कथमेतावानेव विशेषो दर्शनस्यैवेदानीमभावादिति शङ्का खसंवेदनसिद्धतन्म- यीभावोपन्यासेन शमयति-मम हि संप्रतीति । सातिशयो दृढतरसंस्काराधा- नसामर्थ्यलक्षणातिशयसहितो यः प्राक्कन उपलम्भः पूर्वानुभवः । आपातदर्शनं हि कदाचिन संस्कारमादध्यात् । माहितो वा संस्कारो दाळभावान स्मृति जनयेत् । बुभुत्सापूर्वकं तु संपादितः साधीयाननुभवः संस्कारोत्पादनाव्यभिचारी तदुत्पा- दितश्च संस्कारो दृढवादवश्यं स्मृति जनयतीति साविशयेत्युक्तम् । तेन संभा- वितः संजनित आत्मा खरूपं यस्य तादृशस्य संस्कारस्य भावनाख्यस्थानवरत- मबोधादुद्बोधहेतोश्चिन्ताया निरन्तरानुवृत्तिनिमित्तको योऽनवरतप्रबोध उद्बोधा खकार्यजननोन्मुख्यं तस्मात्प्रतायमानो धारावाहिकरीत्या विस्तारमधिरोहन् । अत्र तादृश एव संस्कारः पूर्वानुभवेन सातिशयोत्पादितः । यो नैको स्मृति जनयिखा खयं नश्यति किं तु घण्टाधनुरणनशब्दनिमित्तवत्प्रवाहरूपेण कार्य- मुत्पादयति । यथा लीलावतीकारपक्षे सातिशयः प्राथमिककर्मजन्यः प्राथमिक एव शरादिगतो वेगः समनन्तरभाविनीमापतनात्कर्मसंततिं जनयति तद्वदिति वा । संस्कारस्येति जात्यभिप्रायमेकवचनम् । तेन धारावाहिकस्मृतिजननसमर्थः कर्मभावी संस्कारराविरुत्पन्नः क्रमिककार्यदर्शनादेव क्रमेणैवोद्धोधोऽदृष्टवशा- परिकल्पनीय इति व्याख्येयम् । पुनः किंभूतः । तद्विसहशैर्मालतीस्मृतिविजाती- पञ्चमोऽ। ११७ त्पतिसंतानस्तन्मयमिव करोति वृचिसारूप्यतश्चैतन्यम् । तथा हि । लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितवान्तर्निखातेव च यैर्विषयान्तरावगाहिभिः प्रत्ययान्तरैरन्यैर्ज्ञानैः । विभिन्न विषयावगाहिखमेव ज्ञाना- नामन्योन्यं वैसादृश्यम् । अतिरस्कृतोऽनन्तरितः प्रवाहो यस्य । विजातीयप्रत्यया- संवलित इत्यर्थः । प्रियतमाविषयाः स्मृतय एव प्रत्ययास्तेषामुत्पत्तिसंतानैः संत- न्यमानलेनोत्पद्यमानाः स्मृतिप्रत्यया इति यावत् । मम चैतन्यं चिद्रूपमात्मानं तन्मयं मालतीमयमिव तत्तादात्म्यापनमिव करोति । कुतः। वृत्तिसारूप्यतः । वृत्तेर्मालतीगोचरायाः स्मृतिरूपाया अन्तःकरणवृत्तः सारूप्यं मालत्याकारका- रितवं तस्मादयमर्थः । वेदान्तिनः खल्वेवमाहुः-इन्द्रियार्थसंनिकर्षे सत्यन्तः- करणं परिणामिखभावं वृत्त्याकारेण परिणमते । अन्तःकरणावच्छिन्नं च प्रमा- तृचैतन्यं वृत्तावपि प्रतिफलति । तदेव वृत्तिप्रतिफलितं चैतन्यं प्रमाण मि- त्युच्यते । सा च वृत्तिर्विषयदेशं गला विषयाकारकारिता भवन्ती विषया- धिष्ठानचैतन्यावरणकमज्ञानं विरोधिवात्प्रदीपतमोन्यायेन निवर्तयति । ततश्च विषयाधिष्ठानचैतन्यं वृत्तिप्रतिफलितप्रमातृचैतन्याभेदेन कूपकुल्यालवालसलिलन्या- येनैक्यमापन्नं स्फुरति । अधिष्ठानचैतन्यस्य चान्तःकरणतादात्म्याध्यासाभावाद- हमिति न प्रतीतिः । किं लिदमर्थन तादात्म्याध्यासाद्विषयाकारणेदमित्येवेति । तथा च प्रकृतेऽपि स्मृतेर्मालयाकारकारितात्तत्प्रतिफलितचैतन्यं विषयचैतन्ये. नैक्यमापनं विषयाकारेण स्फुरतीति । नन्वेवं तर्हि सा मालतीत्येवं प्रतीतिः स्थान तु तन्मयत्वम् । सत्यम् । किंतु संतानपदं पर्यालोचितं बया नैरन्तर्येण स्मर्य- माणतत्ताशविगलनेनेयमिति पुरोवर्तिलप्रत्यक्षे प्रतिभाति । ततोऽपि चिरकालं तथैव भावनयेदंतयापि प्रविलयात्प्रमातृचैतन्यतादात्म्यापजैव प्रतीयत इति भाव- नाया माहात्म्यमेतदेव । एवं हि कामातुरकामिनीसाक्षात्कारःप्रसिद्धः शास्नेविति। अत एवेवशब्दप्रयोगः सर्वत्र तन्मयमिव लीनेवेत्यादावपारमार्थिकखद्योतनाय । तेन सत्यप्येवं विधे दर्शने पारमार्थिकदर्शनप्रार्थनं युक्तमेवेति भावः। तन्मयमेवेति यदुक्तं तदेव विशदयति-लीनेवेत्यादि । या मदनोद्याने मद्विषयप्रागनुराग- द्योतकाननुभवान्प्रकाशितवती सा प्रिया नोऽस्माकं तादृशे स्त्रीरने मत्तोऽपि प्रागेव मय्यनुरक्त आसक्तचित्त इत्यहो मे सौभाग्यमित्यात्मनि गौरवमारोप्य बहु- वचनम् । चेतसि लमा । कथं लमेति जिज्ञासायां लमलप्रकारविशेषानुत्प्रेक्षते- लीनेवेति । लयं गवेव । पासुराधिपतितपयःकणवञ्चित्तेऽन्तर्हितेवेत्यर्थः । ननु तर्हि तत्स्फुरणमेव न स्यादित्याशमाह-प्रतिबिम्बितेवेति । विमलसलिलाशये चन्द्रमण्डलमिव मन्चेतसि प्रतिबिम्बितेव । अन्तःस्फुरणमुपपनमित्यर्थः । ननु तर्हि बिम्बासंनिधौ कथं प्रतिबिम्ब इत्यत आह-लिखितेवेति ।मश्चित्तमित्तौ मन्मथेनैव चित्रकारेण चिन्तातूलिकयानुरागवर्णकेन लिखितेव । अतः साक्षात्स्फुरतीत्यर्थः ।

११८ मालतीमाधवे सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि- श्चिन्तासंततितन्तुजालनिबिडस्यूतेव लमा प्रिया ॥ १० ॥ (नेपथ्ये कलकलः ।) माधवा-(आकर्ण्य ।) अहो, संप्रतीतस्ततः प्रवर्तमानकौणपनि- करस्य महती श्मशानवाटस्य रौद्रता । अत्र हि, पर्यन्तप्रतिरोधिमेदुरघनस्त्यानं चिताज्योतिषा- मौज्ज्वल्यं परभागतः प्रकटयत्याभोगमीमं तमः । ननु तर्हि चित्रस्य रेखोपरेखासंस्थानविशेषात्मकलेन तद्रूपत्वाभावान्मालतीचित्र- मेव लमं न तु मालती स्यादत आह-उत्कीर्णरूपेवेति । यथा चिलायामेव शिला- पुत्रिका शिल्पिना टङ्केनोत्कीर्यते, एवं मम चित्ते मदनशिल्पिना शरैरेव टकैरुत्कीर्ण- रुपमच्चित्तमेव प्रियाकारणोत्कीर्णमित्यर्थः । नन्वणीयसो मनसो निरवयवलात्कथं प्रिया तत्रोत्कीर्णेत्यत आह-प्रत्युप्तेवेति । यथा कनकविकारेषु वज्रादिकं घटितं भवति, एवं मन्मनसि विरहानलसंदीपितलादुज्वलसुवर्णपिण्डसंनिभेऽत एव द्रवी- भूते स्त्रीरनं मदनसुवर्णकारेण स्थापितमित्यर्थः । ननु प्रतिवापस्य संयोगविशेषला- द्विभागोऽपि स्यादित्यतः संयोगदाार्थ प्रकारविशेषमाह-वज्रेति । गुडमाषरसा- दिद्रव्यभावितः सुधालेपो वज्रलेपः। तद्धटितं वस्तु यथा दृढतरं भवति तद्वत्प्रियापी- त्यर्थः । ननु तर्हि मनसः प्रियायाश्च संस्पर्शी न स्यात् मनस उपरि वज्रलेपस्तदु- परि तस्या घटितखादित्यत आह-अन्तर्निखातेवेति । भूतले निधानवन्मनोगर्ते यथा यत्किचिनिखात्यते तद्वत्प्रियापि निखातेत्यर्थः । तर्हि तद्वदेव प्रतीतिर्न स्खादित्यत आह-कीलितेवेति । यथा दारुद्वयमयःशलाकाविद्धं कीलितं भवति तद्वत्प- श्वभिरपि पञ्चबाणैरवितीक्ष्णैरुभयत्रानुवृत्ततया प्रोतैर्मम मनसि प्रियतमा कीलितेवे. त्यर्थः । अत्र खचित्तस्य कठिनखादयःशलाकावेधव्यथासहिष्णुलेऽपि प्रियायाः सौकुमार्यातिशयशालिन्याः कुसुमसंस्पर्शनापि खिद्यदहं कथं शलाकावेधव्यथां सोढ- महतीत्यरुच्या प्रकारान्तरमाह-चिन्तेति । चिन्तासंततिः कथं तत्प्राप्तिः स्यादित्येवंरू- पैव तन्तुजालं तेन निबिडं स्यूता बद्धवालग्नेति सर्वत्रान्वयः। अत्र लीनेत्यत्रात्यन्तामे- दस्योपक्रमात्तस्य चोत्तरोत्तर मेदप्रतीतेः पतत्प्रकर्षलादर्थस्य पतत्प्रकर्षाविशयस्यैत- दुदाहरणं स्यादिति मीत्या पाठक्रमादर्थक्रमो बलीयान्' इति न्यायेन सोपानावरोहण- रीत्या चिन्तासंततीसारभ्य लीनेवेतिपर्यन्तं चोत्तरोत्तरसंश्लेषोत्कर्षप्रतीतेः पतत्प्रक- पलंन भवतीति केचिद्विदग्धा व्याचक्षते। अत्र लग्नतया निर्दिष्टाया:प्रकृतायाः प्रिया- या लयादिक्रियानिमित्तकालीनाथप्रकृतवस्खास्मकखाध्यवसायप्रधानक्रियानिमित्त- कद्रव्यखरूपभावोत्प्रेक्षेति निष्कर्षः। यत्सूत्रम्-'अप्रकृतगुणक्रियासंबन्धादप्रकृतलेन प्रकृतस्य संभावनमुत्प्रेक्षा' इति । एकस्यानेकपाध्यवसायाचेयं मालोत्प्रेक्षा ॥ १०॥ नेपथ्ये कलकलः।पिशाचानामुत्पन इति शेषः। कौणपा राक्षसाःरौद्रता भीषणता। भत्र हि श्मशानप्रदेशे ॥पर्यन्तेति । तमः कर्तृ चिताज्योतिषामौज्वल्यं परमा- पञ्चमोऽ। - संसक्ताकुलकेलयः किलकिलाकोलाहलैः संमदा- दुत्तालाः कटपूतनाप्रभृतयः सांराविणं कुर्वते ॥ ११ ॥ तदुचैराघोषयामि । भो भोः श्मशाननिकेतनाः कटपूतनाः, अशस्त्रपूतमव्याजं पुरुषाङ्गोपकल्पितम् । विक्रीयते महामांसं गृह्यतां गृह्यतामिति ॥ १२ ॥ (नेपथ्ये पुनः कलकलः।) माधव-कथमाघोषाणानन्तरमेव सर्वतः समुच्चलदुत्तालतुमुल- व्यक्तकलकलाकुलः प्रचलित इवाविर्भवद्भूतसंकटः श्मशानवाटः । आश्चर्यम् । कर्णाभ्यर्णविदीर्णहक्कविकटव्यादानदीप्तामिमि- दंष्ट्राकोटिविशङ्कटैरित इतो धावद्भिराकीर्यते । गतो वर्णोत्कर्षात्प्रकटयति । तमोरूपसंनिधौ हि तेजोरूपमुज्वलं प्रकाशते । कीदृशं तमः । पर्यन्ते ज्योतिषां प्रान्तप्रदेशे प्रतिरोर्बु शीलमस्य तत्तथा । ज्योतिःसमीपप- येन्तमावृत्त्य वर्तमानमित्यर्थः। तया मेदुरं मांसलंघनं निबिडं स्त्यानं पिण्डीभूतम् । सूचीभेद्यमित्यर्थः। तथा भोगेन विस्तारेण बहुदेशव्यापिलेन भीमं भीषणम्। किंचैते संसकाविच्छिन्नाकुला केलिर्येषां ते । उत्ताला उद्भटाः । कटपूतना नाम पिशा- चविशेषास्तत्प्रभृतयः पिशाचाः संमदाकिलकिलारूपैः कोलाहलैः साराविणं सर्व- तोऽपि विसृखरमाकोशं कुर्वते।संपूर्वात् 'रु शब्दे' इत्यस्माद्धातोः 'अभिविधौ भाव इनुण्' इतीनुण्प्रत्ययः। तदन्तादण्' इति तद्धितोऽण्प्रत्ययः खार्थिकः ॥ ११॥ आघोषयामि । उच्चैर्विक्रयार्थ विक्रेयवस्तु निवेदयामीत्यर्थः।भो भोः संभ्रमादामन्त्र- णे। अशस्त्रेति । शस्त्रेणास्पृष्टम् । अशस्त्रक्षतमित्यर्थः । शस्त्रस्पृष्टं हि पवित्रतात्पि- शाचैः स्प्रष्टुमशक्यमिति तदभावस्तेषां तस्य सुग्रहत्वप्रतिपादनायोक्तः । अव्या- जमकपटं वस्तुतो विक्रयार्थमेवानीतं न तु मांसविक्रयव्याजेन विश्वासमुत्पाय प्रहर्तुमानीतमित्यर्थः । यद्वा व्याजः कृत्रिमो गड्ढादिर्मासदूषको रोगविशेषस्त- द्रहितं यत्पुरुषस्याचं तेनोपकल्पितम् । गवादिकृत्रिमदोषदूषितं हि मांसं रसही- नखादनाखायं स्यात् । स्त्रीमांसापेक्षया पुरुषमांसस्य प्रशस्तबद्योतनाय पुरुष. ग्रहणम् । उक्तं हि कापालिकागमे-'अशस्त्रसंछिन्नमयोषिदीयं नृमांसमाई गल- दस्रबिन्दु यत्' । अन्ये तु-'आत्मसिद्धिं पणीकृत्य साहसायदुपार्जितम् । अश- खपूतमव्याज नृमांसं परिकीर्तितम् ॥' इत्याहुः । एतदेव महामासशब्देनोच्यते । गृह्यता गृह्यतामिति वीप्सा दुर्लभखादेताहशस्य प्रथममागतस्येवास्ति न पश्चादाग- तस्येत्यादरातिशयसूचनार्था ॥ १२ ॥ सर्वतः समुचलनुत्तालो भीषणतुमुल: संकीर्णो व्यक्तः स्फुर्ट विभाव्यमानश्च यः कलकलतेनाकुल आविर्भवद्भिखदेव प्रकटीभवद्भिर्भूतैः संकटः संकीर्णः श्मशानप्रदेशः प्रचलित इव । पिशाचगतसंचर णक्रियायास्तद्गततया प्रतीतेः कम्पमान इव वर्तत इत्यर्थः। कर्णाभ्यणेति । लक्ष्य १२० मालतीमाधवे विद्युत्युञ्जनिकाशकेशनयनभ्रूश्मशुजालैर्नभो लक्ष्यालक्ष्यविशुष्कदीर्घवपुषामुल्कामुखानां मुखैः ॥ १३ ॥ अपि च। एतत्पूतनचक्रमक्रमकृतप्रासार्धमुक्तैर्वृका- नुत्पुष्णत्परितो नृमांसविघसैरादर्दरं क्रन्दतः । खर्जूरदुमदनजङ्घमसितत्वङ्नद्धविष्वक्तत- सायुग्रन्थिघनास्थिपञ्जरजरत्ककालमालोक्यते ॥ १४ ॥ (समन्तादवलोक्य विहस्य च ।) अहो प्रकारः पिशाचानाम् । ततः । पृथुचलरसनोसमास्यगत दधति विदार्य विशीर्णशुष्कदेहाः । मुखगतोल्कादीप्तिवशादीषलक्ष्यमन्धकारवशात्स्फुटमल्लक्ष्यं च विशेषतः शुष्कं कृशं दीर्घमत्युनतं च वपुर्येषामुल्कामुखानामन्वर्थानां पिशाचविशेषाणां मुखैर्नभ आकी- यंत आकीर्ण भवतीति । कीदृशैः । कर्णयोरभ्यर्णमन्तिकं यावद्विदीर्णे विपाटिते ते सुकणी ओष्ठप्रान्तौ ताभ्यां विकटं यद्यादानं वदनकुहरविवरणं तेन दीप्तः प्रका- शमानोऽमिर्येषु तैः । दंष्ट्राणां कोटिभिरगैर्विशङ्कटैराकुलैः । इतश्चेतश्च धावद्भिः। प्रदीप्तोल्कासंबन्धेन मुखमात्रदर्शनातेषामपसरणमुक्तम् । तडित्समूहसंनिभकेशा- दिभिराननैः ॥ १३ ॥ एतदिति । एतत्पूतनानां पिशाचविशेषाणां चक्रमालो- क्यते दृश्यते । कीदृशम् । परितः सर्वत आदर्दरमीषद्धर्धरै यथा तथा । 'आध- धरम्' इति क्वचित्पाठः । क्रन्दत आक्रन्दनं कुर्वाणान्वृकान्मांसाहारान्मृगविशेषा- नक्रमेणावितृष्णया यौगपद्येनैकीकृत्य गृहीतो यो प्रासः कवलपिण्डस्तस्मादर्धमु. राधिक्याद्वदनविवरेऽद्यमानाद्भूमौ पवितैर्नृमांसस्य विधसैर्भुकशेषैः । उच्छिष्टै- रिति यावत्। उत्पुष्णपोषणं कुर्वाणम् ।खर्जूरनुमदना तत्प्रमाणा जङ्घा यस्य तत्तथा। असितया बचा नद्धाः परीताः विष्वक्सर्वतस्तता व्याप्ताः स्नायुप्रन्थयः सिराप्र- न्थयस्ताभिर्घनं निबिडमस्थिपञ्जर रकमांसमज्जादिभिर्विहीनतया केवलं पञ्जरीभू- तान्यस्थीनि यस्य ताहच जरतोऽतिचिकालजीवनाजराजीः कङ्कालाः शरीरा- स्थीनि यस्य तत्ताहक्चेति विशेषणसमासः । 'कङ्कालः पुंसि कायास्थि' इति विश्वः ॥ १४ ॥ समन्तादवलोक्य विहस्य च । माहेति शेषः । विहसनेन च ताह- शभयंकरदर्शनेऽपि वीतशङ्कतासूचनानायकस्यातिमनखिता कथिता । पृथुच. लेति । विशीर्ण विशेषेण शीर्णा व्रणकिणगण्डादिबहूपद्रवववाद्विशकलिताः शुष्का मांसरुधिरादिशून्यतया नीरसा देहा येषां ते पिशाचाः पृथु विशालं चलया कम्प- मानया रसनयोप्रम् 'पृथुतररसनोप्रम्' इति पाठेऽतिस्थूलतया रसनयोप्रमागर्त गर्तमिवासम् । उपमितसमासः । अत एव समाससाम्यात्तद्वाचिलोपे लप्तोपमा ।

पञ्चमोऽ: १२१ चलदजगरपोरकोटराणां द्युतिमिह दग्धपुराणरोहिणानाम् ॥ १५ ॥ (परिक्रम्यावलोक्य च ।) हन्त, अतिबीभत्समग्रतो वर्तते । उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसा- न्यसस्फिक्पृष्ठपीठाद्यवयवसुलभान्युप्रपूतीनि जग्ध्वा । आत्तखाय्वात्रनेत्रः प्रकटितदशनः प्रेतरङ्कः करका- दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ १६ ॥ अपि च । निष्टापखिद्यदस्नः कथनपरिगलन्मेदसः प्रेतकाया- न्कृष्ट्वा संसक्तधूमानपि कुणपभुजो भूयसीभ्यश्चिताभ्यः । तद्विदार्य विपाव्य स्थिताः सन्तः । चलद्भिश्चञ्चलैः 'गलत्' इति पाठे कोटरा. निर्गच्छद्भिरजगरैर्महास?राणि भीषणानि कोटराणि येषां तेषां तादृशानां पुराणानां चिरंतनानाम् । जीर्णखशुष्कखसुषिरोपेतत्वादिसूचनाय पुराणलोक्तिः । रोहिणानां चन्दनानाम् । 'रोहिणश्चन्दनद्रुमः' इति विश्वः । द्युतिं शोभां दधति । चन्दनग्रहणं तेषां खभावतः पुष्पादिशुन्यत्वानीरसलादजगरादिसमाश्रयत्वाचा- स्यगर्तस्य कोटरेण चलन्या रसनाया अजगरेण साधयं विवक्षितम् । तेन निदर्श- नमलंकारः । न ह्यन्यगता द्युतिमन्यो दधातीति चन्दनतरुगतद्युतेः पिशाचेष्वसं- भवानिबन्धतयार्थाद्विम्बप्रतिबिम्बभावेनोपमेयखायाक्षेपात् । यदुक्तम्-'असं- भवद्धर्मयोगादुपमानोपमेययोः। प्रतिबिम्बक्रिया गम्या यत्र सा स्यानिदर्शना॥' इति ॥१५॥ अतिबीभत्सम् । अतिजुगुप्सालम्बनमित्यर्थः । उत्कृत्येति । प्रेतरकोऽत्य- न्तदीनः पिशाचविशेषः । प्रथमं कृत्तिं वचमुत्कृत्त्योत्कृत्य छित्त्वाथानन्तरं पृथुनो. त्सेधेन वपुरुभत्या भूयांसि प्रचुरतराणि । अंसयोर्भुजशिखरयोः स्फिजोर्जधनामो- गयोः पृष्ठपीठादिषु च मांसलेष्ववयवेषु सुलभान्यनायासप्राप्याण्युप्रपूतीनि दुःसह- दुर्गन्धीनि मांसानि जग्ध्वा भक्षयिला समनन्तरमात्तानि नावात्रनेत्राणि येन स तादृक् ।नायुर्वसा, आन्त्रं पुरीतत् । स्नाय्वादीनामादानं तदन्तर्गतमासग्रहणार्थम् । तदनन्तरं चास्थात्समीपे वर्तमानात्करङ्का निर्मासास्थिपञ्जराच्छवशरीरादस्थिसं- स्थमस्थामन्तर्गतं स्थपुटगतं निम्नोलतविषमप्रदेशस्थितमपि व्यं मांसम्।प्रकटिता विषमकठिनस्थानस्थितं मांसं संनिष्क्रष्टुं प्रकाशिता दशना येन स तादृशः सन् । अव्यग्रं खरारहितं यथा तथात्तीति । अत्र जुगुप्सायाः परिपोषाद्वीभत्सरसो ध्वन्यते ॥ १६॥ इममेव रसं प्रकारान्तरेण निर्णयति-अपि च । निष्टापेति । कुण- पभुजः शवशरीराभ्यवहारिणः पिशाचाः । निष्टापेन निःशेषेण तापो निष्टापतेन सम्यक्तापेन खिद्यन्ति क्षरन्मज्जान्यस्थीनि येषां तान् । तथा कथनेनावनेन परि- ।

१२२ मालतीमाधवे उत्पकसंसि मांसं प्रचलदुभयतः संधिनिर्मुक्तमारा- देते निष्कृष्य जवानलकमुदयिनीर्मजधाराः पिबन्ति ॥१७॥ (विहस्य ।) अहो, प्रादोषिकः प्रमोदः पिशाचानाम् । आत्रैः कल्पितमङ्गलपतिसराः स्त्रीहस्तरक्तोत्पल- व्यक्तोसमृतः पिनह्य सहसा हृत्पुण्डरीकस्रजः । एताः शोणितपसकुड्डमजुषः संभूय कान्तैः पिब- त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ १८ ॥ तो गलसंसमान मेदो येषां तानेवंविधान्संसक्तधूमांश्चितासु दह्यमानान्प्रेतका. यान्भूयसीभ्यश्चिताभ्यो मृतशरीरदहनेन्धनराशिभ्यः कृष्ट्वाकृष्य । उत्पकमुत्क- बैण पक्कमत एव संसि विगलन्मांसं यस्य तत् । प्रचलत्कायात्पृथक्लेन स्वतन्त्र- क्रियम् । उभयतो मूलाप्रभागयो? संधी ताभ्यां तयोर्वा निर्मुक्तं जवानलकं जङ्घाकाण्डमारात्समीपे निष्कृष्य शरीरात्पृथकृत्य । 'नियूष्य' इति पाठे प्रथम द्रवीभूतगलन्मांसवान्मेमेदादिवचूषणं कृत्वा पश्चात्तत उदयिनीनिष्प्रतिबन्धं निःस- रन्तीमजधारा अस्थिसुषिरपूरकधातुविशेषधाराः पिबन्ति । निःशब्दपानासे- चनमित्यत्रासेचनमीषत्सेचनं तद्यतिरिकेनासेचनेनेषत्त्वविधानानिष्टापन इति षलम् । 'निष्टतं रक्षः' इत्यादौ निःशेषतापस्यैव विवक्षितवात् । पूर्वश्लोके मांसभक्षणस्योक्तवादत्र पानक्रियावर्णनेन बीभत्सरसरपरिपोषः ॥ १७ ॥ प्रादो- षिक इति । रजनीमुखसमुद्भूतः प्रमोदः प्रकृष्टो हर्षः। तेषां रात्रिंचरत्वात्प्र- दोषसमये प्राप्ते युक्तः प्रमोद इति भावः । आन्त्रैरिति । पूर्व पिशाचवृत्तान्त इदानीं समृद्धवधूकानां तेषां विजृम्भणमुच्यते । आन्त्रैः कल्पिता मङ्गलार्थ प्रतिसरा रक्तसूत्रादिनिर्मितवलया यासां ताः । स्त्रीणां भूतानां हस्ता एव रतो- त्पलानि तान्येव व्यकानुत्तंसान्बिभ्रतीति तथोकाः । शोणितपङ्क एव रुधिर- कर्दम एव कुङ्कुम तजुषन्ति सेवन्त इति तथाभूताः पिशाचाङ्गनाः सहसा हृद्भिरेव पुण्डरीकैः कृतस्रजः । 'पिनह्य शिरसा' इति पाठे खकीलेन रिसा धृता । एवमलंकृताः कान्तः समं कपालैः शवशिरःकरोटिभिरेव चषकैः पान- पात्रैरस्थिस्नेहमज्जान्येव सुरां प्रीताः सत्यः पिबन्तीत्येकदेशवर्ति सावयवं रूपकम- त्रालंकारः । पिशाचानां संभोगनायकलस्य तदङ्गनानां तन्नायिकालस्य च श्रुत्या- रोपणाभावादर्थात्प्रतीतेः । यदाह-'तद्रूपकममेदो य उपमानोपमेययोः' इति । 'श्रीता आर्थाश्च ते यस्मिनकदेशविवर्ति तत्' इति च 'आन्त्रैः कल्पितमङ्गलप्रतिसरः' इत्यत्र तु परिणामः । आन्त्रप्रतिसरबस्य प्रकृतोपयोगिलेनारोपणात् । यथाह- 'भारोप्यमाणस्य प्रकृतस्योपयोगिले परिणामः' इति । 'भारोप्यमाणमारोपविषयात्म- तया स्थितम् । प्रकृतस्योपयोगिलात्परिणाम उदाहृतः ॥' इति । प्रकृतोपयोगित्वा- दित्यनेन रूपकाद्भेद उक्तः । तत्र प्रकृतेनोपरजकमारोप्यमाणस्य । अत्र तु तदुप- योगिनमात्रमिति । अत्र प्रियतमैः सह मधुपानप्रवृत्तसक्वन्दनायलकृतना- पञ्चमोऽ १२३ (परिक्रम्य । पुनः 'अशस्त्रपूतम्-' इत्यादि पठिला ।) कथं नामातिमीषण- विमीषिकाविकारैटित्यपक्रान्तं पिशाचैः । अहो निःसत्त्वाः सर्वे । (सनिर्वेदम् ।) विचितश्चैष सर्वः श्मशानवाटः । तथा खल्वियं पुरत एव, गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारसंवेल्लित- क्रन्दत्फेरवचण्डधात्कृतिभृतप्राग्भारभीमैतटैः । यिकाप्रतीतेः संभोगशृङ्गाररसः प्रतीयमानः प्रधानस्य चार्थभूतस्य बीभत्सरसस्या- शामिति रसवदलंकारश्च । अङ्गाङ्गिभावापत्तश्च शृङ्गारबीभत्सयोर्विरोधपरिहारः । 'अयं स रशनोत्की' इत्येवमादौ करुणाशवात्करुणभृक्षारयोरिव । यदाह ध्वनि- कृत्-'विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् । बाध्यानामनभावं वा प्राप्ताना. मुक्तिरच्छला ॥' इति । अत्र 'प्रेमाः' इत्यारभ्य'लीनेव' इत्यन्तं परिपोषितस्य शृङ्गारस्य 'आत्रैः' इत्यनेन बीभत्सेन सह विरोध इति नाशकुनीयम् ।मध्ये 'इतस्ततः परिवर्तमान-'इत्यादिनाश्चर्यस्य, 'कर्णाभ्यर्ण-' इत्यादिना चाद्भुतरसस्य नैरन्तर्यकृत- विरोधपरिहारायैव निवेशनात् । 'रसान्तरान्तरितयोरेकवाक्यस्थयोरपि । निवर्तते हि रसयोः समावेशे विरोधिता ॥ इति एकवाक्यस्थयोरपि रसान्तरव्यवधाने विरोधो निवर्तते किल । किमुत भिन्नवाक्यस्थयोरित्यपिशब्दार्थः । न चात्रैकाश्र- यखकृतो विरोधः शङ्कनीयः । शृङ्गारिणो माधवस्य बीभत्सरसालम्बनबानुपपत्तेने- विरोधशङ्कापीति प्रागेव निरूपितम् । न च यावत्प्रधानरसपरिपोषः कृतस्तावानत्र परिपोषस्तेनापि विरोधाभावः । यदाह-अविरोधी विरोधी वा रसोऽङ्गिनि रसान्तरे । परिपोषं न नेतव्यस्तथा स्यादविरोधिता ॥' इति । परिपोषाभावे कथं रसख मिति वाच्यम् । यतो यावानगिनो रसस्य परिपोषः कृतस्तावानत्र न कर्तव्य इत्यस्या ध्वनिकारिकायास्तात्पर्यमित्यलं प्रपञ्चेन ॥ १८ ॥ 'पुनरशस्त्र-' इत्यादिपाठः पश्चादागतानामपि प्रज्ञापनार्थम् । अविभीषणा विभीषिकाः परस्य भयमुत्पादयितुं ये विकारा विकृतवेषभाषादयो येषां तैः पिशाचैटित्यपक्रान्तं सखरं पलायितम्। निःसत्त्वा निर्याः । सनिवेदमिति । पिशाचैः सर्वैरपि भीतभीतै- रपसृतं न तु धार्यमवलम्ब्य मदन्तिकमागत्य मांस विक्रीतम् , अक्रीते चास्मिन मे कार्यसिद्धिरिति निर्वेदहेतुः । सर्वोऽपि श्मशानवाटः श्मशानप्रदेशो विचितो- ऽन्विष्टः । नेतः परं पितृवनभागभूमिरस्ति यत्र क्रेतारो लभ्यन्ते । तदनुचितेऽपि साहसे प्रवृत्तस्य मे न कार्यसिद्धिरित्यहो देवस्य मयि प्रातिकूल्यमिति भावः । ततः पर श्मशानप्रदेशस्याभावमेवाह-इह खलु पुरत एव पारेश्मशानं सरिद्वर्तत इत्य- नेनान्वयः । गुअदिति । पारेश्मशानं श्मशानस्य पारे पर्यन्ते । 'पारे मध्ये षष्ठ्या वा' इत्यव्ययीभावः । सीमभूता सरित्पर्यन्त एव वर्तते । अतो नेतः पर श्मशानभूमिरस्तीति भावः । कीदृशी सरित् । गुजता कूजता कुजकुटीरेषु लता- दिपिहितोदरप्रदेशेषु स्थितानां कौशिकानामुलकाना या घटास्तासां घूत्कारैः संवे. लितः संवर्धितो यः क्रन्दता फेरवाणां जम्बुकानां चण्डो भीषणो पात्कृतिरनक- १२माल १२४ मालतीमाधवे अन्तःकीर्णकरककर्परतरत्सरोधिकूलंकष- स्रोतोनिर्गमघोरघर्घररवा पारेश्मशानं सरित् ॥ १९ ॥ (नेपथ्ये।) हो ताद णिकरुण, एसो दाणिं दे णरेन्दचित्ताराहणोवअरणं जणो विपज्जइ । माधव:-(साकूतमाकर्ण्य ।) नादस्तावद्विकलकुररीकूजितस्निग्धतार- श्चित्ताकर्षी परिचित इव श्रोत्रसंवादमेति । अन्तर्भिन्नं भ्रमति हृदयं विह्वलत्यङ्गमङ्गं गात्रस्तम्भः स्खलयति गतिं कः प्रकारः किमेतत् ॥२०॥ १. हा तात निष्करुण, एष इदानीं ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । रणशब्दस्तेन भृतो भरणशीलः प्राग्भारस्तेन भीमैर्भीषणैस्वटैरुपलक्षिता । तथा- न्तःकीर्णानां करङ्काणां निर्मासास्थिपञ्जरशवशरीराणां यानि कर्पराणि कपालानि तेषु तरदत एव संरोधोऽस्यास्तीति संरोधि तत एवैकदेशे सङ्घीभूय वेगातिशयेन प्रवहणात्कूलंकषं तटभेदकम् । 'सर्वकूलाभ्रकरीषेषु कषः' इति खच्मुमागमश्च । तादृशं यत्स्रोतस्तस्य निर्गमस्तेन घोरो भीषणस्तथाविधो घर्घरः श्रवणकटू रवो यस्याः सा तादृशीति । अत्रोलूकादिभी रसाभावेऽपि वाच्यायाः सरितो भीषण- लात्तदनुगुणा परुषवृत्तिरिति द्रष्टव्यम् ॥ १९ ॥ नेपथ्ये इति । इत्थं वाणी समुत्थितेति शेषः । हा तात निष्करुण, एष इदानीं ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । तात, जनक एवासि केवलम् , न तु जनकानुरूपव्यापारोऽसीति भावः । अतो निष्करुणो मयि कृपारहितो माधवाय मामदत्त्वा नन्दनाय प्रयच्छता वयवाहं निष्करुणेन मारिता । श्रमस्तु मरणस्य केवलं व्यपदेशभाकू । अन्यथा मरणस्य निश्चितखादिति भावः । एष इत्यात्मनिर्देशः । जनो यः कश्चिजन्तुरियेव मयि बुद्धिः नलपत्यमिति स्नेहलेशोऽपीति भावः । नरेन्द्रस्य चित्तानुरजनोपकरण- द्रव्यतयैवाहं तवोपयुक्ता मणिसुवर्णादिवत् । न तु पुनरात्मजेत्याद्यत्र द्रष्टव्यम् ॥ माधवः । साकूतं साभिप्रायम् । नाद इति । विकला भयोद्विमा या कुररी कौश्चवधूतस्याः कूजितवस्निग्धो मसणस्तारश्च मालतीध्वनिरिव चित्ताकर्षी मनो. हार्ययं नादस्तावत्प्रथमं परिचित इव पूर्वमनुभूत इव श्रोत्रसंवादं पूर्व व्याघ्राव- स्कन्दनसमये मकरन्दविपत्तिविह्वलाया मालत्या यो ध्वनिमयानुभूतः स एवाय- मिति प्रत्यभिज्ञागोचरखमेति गच्छति किंच नादश्रवणानन्तरं मदीयं हृदयमन्त- मध्ये भिन्नं विदीर्ण सद्धमत्यनवस्थितं वर्तते । तथाजमङ्गं सर्वमप्यवयवजात पाणि- पादादिकं विह्वलति विषण्णं भवति । तथा गात्रस्य महावयविनः शरीरस्य खम्भो पञ्चमोऽङ्कः। १२५ करालायतनाच्चायमुच्चरन्करुणध्वनिः । विभाव्यते ननु स्थानमनिष्टानां तदीदृशाम् ॥ २१ ॥ भवतु । पश्यामि । (इति परिक्रामति ।) (ततः प्रविशतो देवतार्चनाव्यग्रो कपालकुण्डलाघोरघण्टौ कृतवध्यचिंता मालती च ।) मालती-ही ताद णिक्करुण, एसो दाणिं दे णरेन्दचित्तारा- हणोवअरणं जणो विपज्जइ । हा अम्ब, हिअए हदासि दुबारदेव. दुखिलसिदेण । हा मालदीमअजीविदे, मह कल्लाणसाहणेकसुहसअल- १. हा तात निष्करुण, एष इदानीं ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । हा अम्ब, हृदये हतासि दुर्वारदैवदुर्विलसितेन । हा मालतीमय- जीविते, मम कल्याणसाधनैकसुखसकलव्यापारे भगवति कामन्दकि, चिरस्य निश्चेष्टत्वं गतिं गमनं स्खलयति । ततश्चायमत्रार्तनादसमुद्भवप्रकारः को वा भवेत् । किमेतत् । किं मालत्येव केनचिद्दुर्लभसिद्धिसाधकेन मायाविना विविध. जीवोपहारप्रियत्वप्रसिद्धायाः सकलसाधकाभिमतसिद्धिप्रदानदक्षायाः संनिहिताय. तनवर्तिन्याः करालाख्याया महाकाल्या उपहारीकर्तुं मायाबलादानीता संनिहित. पथा करुणं क्रन्दति, उत तभादसदृशो वान्यदीयो वायं ध्वनिरिति प्रकारे वितर्कः। यद्यन्यदीयोऽयं ध्वनिस्तर्हि ममोत्पन्नं मनोविदलनभ्रमणपाण्याद्यवयव विषादगात्र- स्तम्भादिकं किंनिमित्तकं स्यात् । न ह्यन्यदीयव्यसनान्ममैषा दुःसहवेदना भवि- तुमर्हति । तेन 'प्रमाणमन्तःकरणप्रवृत्तयः' इति न्यायेन प्रियाया एवैष आर्तव. निरिति मन्ये । सा हि मम बहिश्वराः प्राणा इति तद्विपत्तिसंभावनयैव ममैषा दशेति निश्चयगर्भो माधवस्य वितर्को युज्यत एवैषः ॥ २० ॥ प्रियाया एव केन- चित्काल्या उपहारीकृताया एष ध्वनिरिति कुत इत्यत आह-करालेति । करालाख्यायाः काल्याः स्थानादुच्चरबुद्च्छन्करुणधनिरिव विभाव्यते । तत्खल्वी. दृशानां जीवोपहारादीनामनिष्टानां स्थानम् । तस्मात्संभावितमेवैतदित्यर्थः ॥ २१ ॥ एवं विमृश्य कर्तव्यं निश्चिनोति-भवतु मया यथाभ्यूहितं तथैव भवतु । तथापि पश्यामि कालीस्थानं करुणध्वनिमूलं च प्रत्यक्षीकरोमि । यदि वस्तुतः प्रियैव तन्मूलम्, तदा मत्प्राणव्ययेनापि यदि सा विपदो निस्तारयितुं शक्यते,., तर्हि तत्प्राणत्राणेन संपूर्णसंप्राप्तजीवितफलो भवेयम् । यदि न शक्यते, तदापि तत्रैव विसृज्य प्राणान्प्रियतमां लोकान्तरे वा समासादयेयमित्यभिप्रायः । मालती। हा तात निष्करुण, एष इदानीं ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । हा अम्ब, हृदये हतासि दुरिदैवदुर्विलसितेन । 'मत्स्नेहमये' इति हृदयविशेषणं क्वचित्पव्यते । तत्र तात, वं निष्करुणः किंतु (अम्बा) मद्वत्सलेति मद्वियोग- शोकज्वलनान जीविष्यतीत्येतदेव मे दुःखनिमित्तम्, न तु मत्प्राणवियोगः।

१२६ मालतीमाधवे बावारे भअवदि कामन्दइ, चिरस्स जाणाविदासि दुक्खं सिणेहेण । हा पिअसहि लवङ्गिए, सिविणअवसरमेचदंसणा अहं दे संवुत्ता । माधव:-हन्त, संप्रति निरस्त एव मे संदेहः । तदपि नाम जीवन्तीमेनां संभावयेयमिति । (झटिति परिक्रामति ।) कापालिकौ देवि चामुण्डे भगवति, नमस्ते । सावष्टम्भनिशुम्भसंभ्रमनमद्भगोलनिष्पीडन- न्यञ्चत्कर्परकूर्मकम्पविगलद्ब्रह्माण्डखण्डस्थिति । पातालपतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं वन्दे नन्दितनीलकण्ठपरिषद्यक्तं तव क्रीडितम् ॥ २२ ।। ज्ञापितासि दुःखं मेहेन । हा प्रियस खि लवङ्गिके, स्वभावसरमात्रदर्शनाई ते संवृत्ता। तस्य माधवमलभमानाया मम संमतलादिति भावः । हा मालतीमयजीविते मम कल्याणसाधनकसुखसकलव्यापारे । मत्परिणयनिष्पादनमेवैकं सुखं साध्यलेन फलं यस्य स तादृशः सकलो व्यापारो यस्या इति विग्रहः । भगवति कामन्दकि, चिरस्य ज्ञापितासि दुःखं स्नेहेन । मयि स्नेह एव तव दुःखहेतुर्जात इत्यर्थः । हा प्रियसखि लवहिके, खप्नदर्शनमात्राहं ते संवृत्ता । माधवः । हन्तेति खेदे । सत्यं प्रियतमैव वधार्थमानीता केनचिदिति मजीविततरोर्मूले कुठारोऽन. र्थाय व्यापारित इति भावः। 'हन्तेति हर्षे इति व्याख्यानमसंगतम् । जीवित. सर्वखभूतायास्तस्या वध्यशूलारोपणसमये कोऽत्र हर्षस्थावकाशः । न च प्रिया मया मोचयिष्यत इति निश्चयस्तु तदानीमस्ति जीवनस्यैव संदिग्धलादत एवाह-अपि नाम जीवन्ती संभावयेयमिति सर्वथा तन्मरणेन ममापि प्राणत्यागो निश्चितः । तथापि जीवन्तीमेव तां संदर्शनसंभाषणरक्षणप्रयत्नव्या- पारैर्यदि संभावयामि तदा जीवितसाफल्यं स्यादित्याशंसा । अपि नामेति निपा- ताभ्यामपि संभावनौत्सुक्यं द्योत्यते । यश्चात्र निपातसमुदायस्यावधारणपरख- मुक्त्वा जीवन्तीमेवैनो संभावयेयमिति जीवन्त्येव वर्तत इति व्याख्यानम्, तदपि प्रकृताननुगुणवाध्येयम् । नहीदानीमपि तस्या जीवनं निश्चितं तनिश्चये वा संभावयेयमित्याशंसायां लिनशब्दः कथं घटत इत्यलम् ॥ कापालिकौ । कपालकुण्डलाघोरघण्टौ । 'पुमान्स्त्रिया' इत्येकशेषः । देवीत्यादि । रकोपहार पुरतः संनिधाप्य स्तुविनमस्कारपूर्वकं निवेदयेदिति देव्याः स्तुतिः क्रियते- सावष्टम्मेति । सावष्टम्भः सावलेपो यो निशुम्भः पादघातलक्षणपरिभवस्त. संभ्रमेण । 'निशुम्भनिर्भर-' इति पाठे निशुम्मेन निर्भरमतिमात्रं नमद्यद्भूगोलं भुवः संस्थानं तेन यनिष्पीडनमतिमारखेन दुर्वहतया वहनशक्त्यवसादनं तेन न्यश्च. अवनमन्कर्परः पृष्ठास्थिकटाहो यस्य तादृशस्य कूर्मस्य पृष्ठाद्विगलन्ती तत्कम्पन संसमाना ब्रह्माण्डखण्डस्य स्थितियस्मिन्क्रीडिते तत्तथा । पातलस प्रतिमल्लयो पञ्चमोऽ १५७ अपि च। प्रचलितकरिकृत्तिपर्यन्तचञ्चन्नखाघातमिन्नेन्दुनिष्यन्दमानामृत- श्योतजीवत्कपालावलीमुक्तचण्डाहासत्रसद्भरिभूतप्रवृत्तस्तुति । श्वसदसितभुजङ्गभोगागदप्रन्थिनिष्पीडनोत्कुल्लफुल्लत्फणापीठनि- यद्विषज्योतिरुजुम्मणोड्डामरव्यस्तविस्तारिदोःखण्डपर्यासितक्ष्मा- धरम् ॥ ज्वलदनलपिशङ्गनेत्रच्छटाभारभीमोत्तमानश्रमिप्रस्तुतालातचक्र- क्रियास्यूतदिग्भागमुत्तुङ्गखट्वाङ्गशृङ्गध्वजोतिविक्षिप्ततारागणम् । प्रमुदितकटपूतनोचालवेतालतालस्फुटत्कर्णसंभ्रान्तगौरीघना- श्लेषहृष्यन्मनस्यम्बकानन्दि वस्ताण्डवं देवि भूयादरिष्यै च हृष्ट्यै च नः ॥ २३ ॥ (इत्यभिनयतः।) प्रतिभटयोः । अधोभुवनकुहरसदृशयोरित्यर्थः । गल्लविवरयोः कपोलसुषिरयोः प्रक्षिप्ताः सप्तार्णवा यत्र तत्तादृशम् । नन्दितस्य संतोषितस्य नीलकण्ठस्य भूत.. नाथस्य परिषदि व्यक्तं प्रसिद्धं तव क्रीडितं लास्यात्मक विलासं वन्दे । अत्रापि विकटबन्धोचितरसाभावेऽपि वाच्यार्थोचित्यानुगुणा परुषवृत्तिरिति न प्रतिकूल- वर्णखाख्यो दोषः शङ्कनीयः । एवमुत्तरत्रापि द्रष्टव्यम् । यद्यपि गलपदं केवलं लौकिकसंकेतसिद्धबादाम्यमित्युकं तथापि पाषण्डोक्तौ गुणवमेव प्राम्यस्य न दोषत्वम् । यदाह-'अधमप्रकृत्युक्तिषु प्राम्यवं गुणः' इति ॥ २२ ॥ प्रचलि- तेति । भो देवि, व इति पूजायां बहुवचनम् । ताण्डवं नोऽस्माकमरिथ्या अशुभाभावाय हृष्ट्य हर्षाय च भूयादित्याशीर्वचनम् । कीदृक्ताण्डवम् । प्रचलि- ताङ्गविक्षेपसंभ्रमवशाद्विक्षिप्ता योत्तरीयभूता करिकृत्तिर्गजचर्म तत्पर्यन्तेषु चश्च- न्तश्चश्वला ये नखास्तेषामाघातेन भिन्नाद्विदीर्णादिन्दोनिष्यन्दमानस्य स्रवतोऽमृ. तस्य श्योतेन क्षरणेन जीवा लब्धजीवानां कपालानां मौलिमाल्यप्रथितानामा- वल्या पङ्कया मुक्कैश्चण्डाहासनसन्यो बिभ्ययो भूरिभ्यो भूतेभ्य प्रवृत्ता स्तुति- र्यस्य तत्तादृशम् । तथा श्वसतामतिखेदात्फूत्कुर्वतामसितभुजङ्गानां कृष्णसर्पाणां भोगा एवागदप्रन्थयः केयूरप्रन्थयः केयूरबन्धनानि तेषां निष्पीडनेनोत्फुल्ला विशलाः फुल्लन्यो विकसन्यो याः फणास्तासां पीठात् । कण्ठादिति यावत् । निर्यतो निर्गच्छतो विषज्योतिष उज्जृम्भणोडामराणां भयंकराणां व्यस्वानां विक्षि- साना विस्तारिणां प्रसारितानां दोष्णां खण्डेन सङ्घन पर्यासिताः परितो विक्षिप्ताः क्ष्माधरा यस्मिखत् । तथा ज्वलतानलेन पिशज्ञानां नेत्रच्छटानां नयनरश्मि- प्रवाहाणां भारेण भीमं भीषणं यदुत्तमा शिरस्तस्य भ्रमिभ्रमणं तेन प्रस्तुता प्रवृत्तां यालातचक्रस्य क्रिया । प्रदीप्तं काष्ठं वेगेन भ्राम्यमाणं चक्रवदाभावि तदलातचक्रमित्युच्यते । तस्यां स्यूत इव स्यूतो. दिग्भागो दिक्चक्रं यत्र तत् ।

१९८० मालतीमांधवे माधव:-(विलोक्य ।) हा धिक् प्रमादम् । न्यस्तालक्तकरक्तमाल्यवसना पाषण्डचण्डालयोः पापारम्भवतोमुंगीव वृकयो रुन्ता गोचरम् । सेयं भूरिसोर्वसोरिव सुता मृत्योर्मुखे वर्तते हा धिक्कष्टमनिष्टमस्तकरुणः कोऽयं विधेः प्रक्रमः ॥ २४ ॥ कपालकुण्डला- तं भद्रे स्मर दयितोऽत्र यस्तवाभू- दद्य त्वां त्वरयति दारुणः कृतान्तः । मालती-हाँ देव माहव, परलोअगदो वि तुम्हेहिं सुमरि- दवो अअं जणो । ण हु सो उवरदो जस्स वल्लहो सुमरेदि । १. हा देव माधव, परलोकगतोऽपि युष्माभिः स्मर्तव्योऽयं जनः । न खलु स उपरतो यस्य वल्लभः सरति । तथोत्तुङ्गस्य खट्वाङ्गस्य शिखरमेव ध्वजस्तयोद्भूतिभिरुभूननैनिक्षिप्ता विशीर्णा- खारागणा यत्र तत् । तथा प्रमुदितानां कटपूतनानां पिशाचविशेषाणामुत्तालानां प्रचण्डानां वेतालानां मेतालानां च तालैः करतलद्वयास्फालनैः स्फुटत्कर्णा विदलच्छ्रवणकुहरा अत एव संभ्रन्ता या गौरी तस्या धनाश्लेषेण गाढालिङ्गनेन हृष्यन्मनसख्यम्बकस्यानन्दोऽत्रास्तीति तत्तादृशमिति दण्डकः । 'दण्डको नौ र' इति वचनात् ॥ २३ ॥ माधवः। मालतीमेव वधार्थमानीतां दृष्ट्वा हा धिगिति । प्रमादं पित्रोः कामन्दक्यादीनां चानवधानतां धिक् । यदियमनेन नृशंसेन कैरप्यनालक्षता वधार्थमानीता वध्यवेषभूषिता चेति भावः । तदेवाह-न्य. स्तेति । न्यस्तमनुलिप्तमलक्तकं यस्याः सा चासौ रक्तमाल्यवसना च पापानां पापकारिणामारम्भी मारणं कर्मानयोरस्तीति तद्वतोः । पाषण्डौ बौद्धावेव चण्डालकर्मकारितात्तत्सहकारिखाच । तयोः । 'पुमान्त्रिया' इत्येकशेषः । वृकयोाघ्रादिक्रूरसत्त्वयोम॑गी हरिणीव गोचरं विषयं गता। भीरुः खभावेनैव । वसोरिवाष्टवसुष्वन्यतमसदृशस्य । यद्वा वसोरमेरिव पराक्रमसंपन्नस्य देवतुल्य- स्यापि भूरिवसोरमात्यस्य सुता मृत्योर्मुखे वर्तते । हा खेदे । धिगिति । ममेतः पर जीविताशामिति शेषः । कष्टमिदमापतितम् । अस्तकरुणः कृपाहीनो विधेः प्रक्रम आरम्भः कोऽयम् । कथमत्यन्तानुचितमेवारब्धं दैवहतकेनेत्यर्थः । हा धिकष्टमनिष्टमिति पदानामतीवार्थमेदाभावेऽप्यनुकम्पातिशयद्योतनार्थवान पौनरुक्त्यशङ्केति ध्येयम् । यदाह-'अनुकम्पायविशये यदि कश्चिनिषध्यते । न दोषः पुनरुक्त्यादौ प्रत्युतेयमलंक्रिया ॥' इति ॥ २४ ॥ कपालकुण्डला- तं भद्र इति । अत्र मरणसमये यस्तव दयितोऽभीष्टो देवोऽभूत्तं मर । मरणदशायामिष्टदेवतास्मरणममुत्राभ्युदयायेत्यागमः । अयेति । मुत्युः संनि- हित इत्यर्थः ॥ मालती । हा देव माधव. परलोकगतोऽपि सर्तव्योऽयं पञ्चमोऽ कपालकुण्डला-हन्त, माधवानुरक्तेयं तपखिनी । अघोरघण्ट:-(शस्त्रमुद्यम्य ।) चामुण्डे भगवति मन्त्रसाधनादा- वुद्दिष्टामुपनिहितां भजख पूजाम् ॥ २५ ॥ माधव:-(सहसोपसृत्य खङ्गं प्रकोष्ठेन निक्षिप्य ।) आः कापालि- कापसद दुरात्मन्, अपेहि । प्रतिहतोऽसि । मालती-( सहसावलोक्य ।) परित्ताअदु महाभाओ । (इति माधवमालिङ्गति ।) माधव:--महाभागे, न भेतव्यम् । मरणसमये त्यक्ताशकं प्रलापनिरर्गल- प्रकटितनिजस्लेहः सोऽयं सखा पुर एव ते । सुतनु विसृजोत्कम्पं संप्रत्यसाविह पाप्मनः फलमनुभवत्युग्रं पापः प्रतीपविपाकिनः ॥ २६ ॥ १. परित्रायतां महाभागः । जनो युष्माभिः देवेयनेन खमेव ममेष्टदेवताखरूपः । तन्मरणदशायामपि खामेव स्मरिष्यामि।जन्मान्तरे वा तत्समागमो मे भूयादिति भावः। न खलु स उप- रतो यस्य वल्लभो जनः स्मरति । यस्येतीयं कर्मणि षष्ठी। प्रियतमस्मृतिगोचरस्य जनस्य निरन्तरं तन्मनसि स्थित्या नोपरतिरित्यर्थः । हन्तेति विषादे । तपखिन्य- नुकम्पाहीं । इयं माधवेऽनुरक्ता सती । तदिदानीं सोऽत्रैव महामासस्य विक्रयार्थ पर्यटति । देवादागत्य मोचयेद्वा तदा कष्टं मन्त्रसाधनप्रत्यूहः संभावित इति विषादः ॥ तं भद्रे' इति श्लोकस्योत्तरार्धम्-चामुण्डे भगवतीति । मन्त्रसाधन- स्यादावुपक्रमसमय उद्दिष्ट संकल्पितामिदानीं तत्पर्यवसान उपनिहितां समर्पित- पूजा स्त्रीरत्नोपहारं भजखेति ॥ २५ ॥ माधवः । खहू कापालिकस्योयतं प्रको- टेन मणिबन्धेन विक्षिप्यापसार्य । अपेह्यपसर । प्रतिहतोऽसि वैपरीयेन खमेव हतोऽसि । मालती। परित्रायतां महाभागः ॥ माधवः । मरणसमय इति । त्यकाऽऽशङ्का यस्मिन्कर्मणि तत्तथा प्रलापेऽनर्थकवचोजल्पने इदानीमेवैनं संहरिष्यामीत्येवंरूपे निरर्गलो निष्प्रतिरोधः । महानुभावाः खलपकार कुर्वन्त्येव न तु वचनपूर्वकं कुर्वन्तीति वचनस्यानर्थक्यम् । यद्यप्येवं करिष्यामीति न वक्तव्यं केवलं कर्तव्यमेव, तथापीदृश्यां दुर्दशायां प्रियायाः प्राणत्राणेन मजन्मनोऽतीव साफल्यमासादितमिति हर्षभरवशेन मनस्यवधारितलालाघवशङ्कामपि विसृज्यान- र्थकमेव किंचित्प्रलपितमिति भावः। तथा प्रकटितो निजः सहजा नेहो येन सोऽयं ते सखा पुरत एव वर्तते । अतः मुतनु उत्कम्पं भयनिमित्तं वेपथु विसज मालतीमायके अघोरघण्टा आः, क एष पापोऽस्माकमन्तरायः संवृत्तः । कपालकुण्डला-भगवन् , स एवास्याः स्नेहभूमिः कामन्दकी- सुहृत्पुत्रो महामांसस्य पणयिता माधवः । माधव:-(सासम् ।) महाभागे किमेतत् । मालती-(चिरादावस्य ।) महाभाअ, अहं वि ण जाणामि एत्ति जाणामि । उवरिअलिन्दं जेब पसुत्ता इह पडिबुद्धम्हि । तुम्हे उण कहिं । माधव:-(सलज्वम् ।) त्वत्पाणिपङ्कजपरिग्रहधन्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः । प्राभ्यन्नृमांसपणनाय परेतभूमा- वाकये मीरु रुदितानि तवागतोऽस्मि ।। २७ ।। १. महाभाग, अहमपि न जानामि । एतावजानामि । उपर्यलिन्दमेव प्रसुप्तेह प्रतिबुद्धास्मि । यूयं पुनः क । संप्रत्येवासौ पापः पापकारीहैव तवैव पुरतः प्रतीपं विपरीतं यथा तथा विपाकः फलारम्भो यस्य तादृशस्य पाप्मनः फलमनुभवति । बद्धोद्यमेनायं खयमेव हत इत्यर्थः ॥ २६ ॥ अघोरघण्टः । अन्तरायः प्रत्यूहः । कपालकुण्डला । अस्याः नेहस्य भूमिरेकालम्बनमित्यनेनावश्यं रक्षणीयेयमिति सूचितम् । कामन्दकीसुहृत्पुत्र इत्यनेन महायोगिन्यास्तस्याः प्रसादादमिनास्माकं मणिमन्त्र- मायादिकं प्रभवतीति सूचितम् । महामासस्य पणयिवेयनेनातिशूरखान पौरुषे. गाप्यसौ साध्य इति दर्शयति । माधवः-सात्रमिति । आनन्दविषादाभ्यां सानलम् । किमेतत् । तत्कथमसावनोंपनिपात इत्यर्थः ॥ मालती। महाभाग, अहमपि न जानामि एतावजानामि उपर्यलिन्दमेव प्रसुप्तेह प्रतिबुद्धास्मि । यूयं पुनः क । समागता इति शेषः ॥ माधवः-सलजमिति । खस्यानुचित खेनाचरितं कर्म नृमांसविक्रयरूपं निवेदनीयं जातमिति लज्जाहेतुः। खत्प्राप्तिप्र.. त्याशयानुचितमपि कृतमिति धार्यमवलम्ब्याह-त्वदिति । वत्पाणिपालपरि- प्रहेण धन्यजन्मा भूयासमित्यनेनाभिनिवेशेनाभिषोण कदय॑मानो धैर्यमपसार्य चापलापादनेन वितथीक्रियमाणोऽहं नृमांसपणनाय विक्रयाय परेतभूमौ श्मशाने भ्राम्यन् , हे भीरु, तव रुदितान्याकये समागतोऽस्मीति । बिमेतेखाच्छील्ये 'मियः कुकुकनौ' इति कुङ् । 'उकुतः' इत्युकारान्तान्मनुष्यजातिवाचिन जङ् । ततः 'नम्बार्यनयोहखः' इति हखः । भीरशब्दस्य नियमेन बीवाचिसादल्या पञ्चमोऽ: १३१ मालती-(अपवार्य ।) कहं मम कालणादो एवं एद. अप्पणि- रपेक्खं परिब्भमन्दि। माधव:-अहो नु खलु भोः, तदेतत्काकतालीयं नाम । संप्रति हि राहोश्चन्द्रकलामिवाननचरी दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम् । १. कथं मम कारणादेवैत आत्मनिरपेक्षं परिभ्रमन्ति । मनुष्यजातिवाचिलम् । संज्ञायामिति वा अप्रत्ययः ॥ २७ ॥ मालती- अपवार्येति । 'अपवारितकं कार्य त्रिपताकेन पाणिना' इत्युकव्रीडाहर्षातिशय. गोपनात्मकस्य व्यभिचारिणोऽनुभावोऽपवारणम् । कथं मम कारणादेवैत भात्मनि- रपेक्ष परिकामन्ति । मम स्त्रीमात्रस्यैव कृते महत्कार्यमुद्दिश्य कर्तुमात्मनिरपेक्ष. मेतत्कर्म कथमनेनारब्धम् । तदत्राहमेवापराधिनी या साहसेनापि नैनं समागते. यहो मे दारुणं चित्तमिति भावः ॥माधवः। अहो नु खलु भोः। एतद्याख्यातं प्राक् । तदेतदिति । तदेतत्प्रियाया दर्शनं काकतालीयं नाम । देवात्काकगमन समये तालफलपतनसदृशमित्यर्थः । खरूपसिद्धिस्तु 'इवे प्रतिकृतौ' इतीवार्थप्रकरणे 'कुशापाच्छः' इत्यतश्छ इत्यनुवर्तमाने 'समासाच तद्विषयात्' इति तच्छब्देने- वार्थः परामृश्यते । इवार्थविषयात्समासादिवाथै छो भवतीति सूत्रार्थः । ननु समासेनैव तद्विषयेणेवार्थाभिधानाकिं प्रत्ययेनेति चेन्मैवम् । समासविषयादिवार्था- दन्यस्मिन्निवार्थे प्रत्ययोत्पत्तिः । तथा हि यादृच्छिकं काकगमनं तालपतनं च । तेन पतता तालेन काकवधः कृतः । माधवस्य यदृच्छया तत्रागमनम्, मालत्या अपि तत्र तथैवागमनं च काकागमनतालपतनमिवेति विगृह्मास्मादेव वचना ज्ज्ञापकात्समासः । वृत्तिविषये च काकतालशब्दावागमनपतनक्रियावाचिनौ भवतः । ततः काकतालशब्दात्पतता तालफलेन काकवधसदृशं यदृच्छागतेन माधवेन कापालिक हला प्रियारक्षणमस्मिनिवार्थे च्छः । काकतालीयमिवातर्कि- तोपनतं चित्रकरणमिति शब्दार्थः । सुप्सुपेति समासः । अन्यस्य विशेषवि- धानस्य चाभावात्तस्य चैवंविधा गतिरनेकविषयलादित्यलम् । संप्रतीत्युपस्कारः । राहोरिति । राहोरानने चरतीत्याननचरी । ताम् । तन्मुखागतामित्यर्थः । 'चरेष्टः' इत्यधिकरण उपपदे घटप्रत्ययः । टित्त्वान्टीप् । तादृशी चन्दकलामिव प्रेयसीम् । प्रियशब्दात् 'द्विवचनविभज्योपपदे तरबीयसुनौ' इतीयसुन् । तसि. परतः 'प्रियस्थिर-' इत्यादिना प्रियशब्दस्य प्रेयादेशः। 'उगितच' इति की । दैवायदृच्छया समासाद्य प्राप्य दस्योश्चोरस्यास्य कापालिकापसदस्य कृपाणपात. विषयात्तत्खजपतनगोचरादाच्छिन्दतः प्रसत्यापहरतो मे मम चेत आतात्कथ. मियं राहोरिवातिरस्य दास्योः कृपाणपातविषयमिन्दुकलेव सौकुमार्यातिशय.

१३२ मालतीमाधवे आतङ्काद्विकलं द्रुतं करुणया विक्षोमितं विस्मया- क्रोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तते ॥ २८ ॥ शालिनी प्रियतमा प्राप्ता । यदि मम क्षणमात्रमितः परं विलम्बोऽभविष्यत् , महाननर्थ आपत्स्यत इत्येवंरूपाद्भयानकरसस्थायीभावात् । 'भयं चित्तस्य वैक्लव्यं रौद्रसंजनितं विदुः' इत्युक्तलक्षणाद्भयाद्विकलमितिकर्तव्यतामूढम् । तथा करु. णया क्षणव्यवधानेऽपि परासुरेवेयं तन्मृतैव पुनरुत्पनेत्येवं प्रियायास्ताहगवस्था. विभावनाजनितया करुणया शोकरसस्थायीभूतया द्रुतं विलीनम् । तथा विस्म. यादहो दैवविलसितस्याचिन्त्यमहिमवं यदद्यैव महामांसविक्रयार्थमागमनं तत्रैव काकतालीयन्यायेनेहागमनं प्रियासंप्राप्तिरिति महदिदं चित्रमित्येवंरूपादद्भुत. रसस्थायिनः ‘विस्मयश्चित्तविस्तारः पदार्थातिशयादिभिः' इत्युक्तलक्षणाद्विक्षोभितं जनिताद्भुतरसम् । तथा क्रोधेन कथमयं पापकारी निरपराधिनी त्रिभुवनरत्न भूतामिमामपीदानी हन्तुं समुद्यतः, तस्मादवश्यमेष हन्तव्य इत्येवंरूपाद्री- दरसस्थायिना 'प्रतिकूलेषु तैक्ष्ण्यस्य प्रकर्षः क्रोध इष्यते' इत्येवलक्षणेन चलितं रौदरसेनोद्दीपितम् । तथा मुदा मत्प्राणेभ्योऽपि गरीयसीं प्रियां परिरक्ष्य कृतार्थो भवामीत्यादिबहुप्रकारया रत्या मनःप्रसादरूपया प्रधानशृङ्गाररसस्थायिन्या विकसितं रसाखादेन विस्तारमुपगतम् । कथं केन प्रकारेण वर्तते । कथंचिदे- तादृशी दशास्येति निरूपयितुं न शक्यत इति भावः । अत्र च प्रबन्धप्रवृत्ता माधवस्य मालतीगोचरा रतिः प्रेयसीमिति निर्दिष्टेनालम्बनविभावेन विभाव्यमाना तदवलोकनादिभिरुद्दीपिता मनोविकासप्रियवचनतद्रक्षणव्यापारादिभिरनुभावैर्वा- मनःशरीरारम्भरूपैरनुभाव्यमाना तद्दर्शनजनितैर्मदश्रमहर्षचिन्तास्मृत्यादिभिर्व्य- भिचारिभिरुपचिता रसतामापना प्राधान्येन ध्वन्यते । तदङ्गतया तु राहोराननचरी चन्द्रकलामिवेत्युपमासूचितभीषणाकारकापालिकालम्बनस्तत्वरूपविभावनोद्दीपित आतङ्कपदनिर्दिष्टभयस्थायी विकलपदसूचितमनोवैक्लव्यतदनुगुणशरीरवागारम्भा- नुभावस्तन्नियतकम्पशङ्कानिर्वेदग्लानिजाज्यदीनतावेगविषादोन्मादचिन्तामोहादि. भिर्व्यभिचारिभिः प्रतीयमानैरुपचितो भयानकरसः । तथा दस्योः कृपाणपा- तविषयादिति सूचितमृतप्रायप्रियतमालम्बनस्तदुर्दशापरिभावनोद्दीपितः करुणयेति निर्दिष्टः शोकस्थायीभावो द्रुतमिति निर्दिष्टचित्तद्रवीभावतदुचितशरीरवागारम्भा- नुभवतनियताश्रुवैवर्ण्यवैखर्यजाड्यावेगमोहोन्मादविषादादिभिर्व्यभिचारिभिः प्रती- यमानैः परिपोषं गतः करुणरसश्च । तथा देवादासायेति सूचितयादृच्छिकसमा. गमालम्बनतद्धेतुविधिवैचित्र्यपरिशीलनोद्दीपितो विस्मयादिति निर्दिष्टाद्भुतस्थायी. भावो विक्षोभितमिति मनोविक्षोभतदुचितशरीरवागारम्भानुभावस्तनियतस्तम्भ. प्रलयखेदहर्षगर्वस्मृतिवितर्कविबोधचिन्तादिभिर्व्यभिचारिभिरुपचितोऽदुतरसश्च । तथाच्छिन्दत इति सूचितः प्रियावधोद्यतो हन्तव्य इत्यालम्बनस्तदौरात्म्यविम. र्शनोद्दीपितो ज्वलितमिति मनोज्वलनतदुचितवागारम्भानुभावतनियतस्वम्भरो. माश्चखेदहर्षावेगभ्रमोन्मादमदहर्षचापलासूयाश्रमामर्षादिभिर्व्यभिचारिभिः सर्वत्र कथं वर्तत इत्यनेन सूचितैरुपचितो रौद्ररसश्चैयेते रसा भाभावापत्यैव दूरतो पञ्चमोऽङ्कः। १३३ अघोरघण्ट:-अरे ब्रामणडिम्भ, व्याघ्राघातमृगीकृपाकुलमृगन्यायेन हिंसारुचेः पाप प्राण्युपहारकेतनजुषः प्राप्तोऽसि मे गोचरम् । सोऽहं प्राग्भवतैव भूतजननीमृघ्नोमि खड्गाहति- व्यस्तस्कन्धकबन्धरन्ध्ररुधिरप्राग्भारनिष्यन्दिना ॥ २९ ॥ माधव:- -आः दुरात्मन्पाखण्डचण्डाल, असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् । निरस्तपरस्परविरोधाः प्रधानरसापेक्षयाऽविरोधाः । प्रधानरसपरिपोषापेक्षयान्यू. नरसपरिपोषकलेन श्लाघनीयौचित्यनिबन्धना व्यतिकराख्यया शोभनाख्यया च मेलनगत्या शृङ्गारेण सह संकीर्त्यन्ते । यथाह-'समकालसमुत्पनै खिभिभ्या- मथापि वा । रसश्चेद्यतिकीर्यंत समव्यतिकरः स्मृतः॥ विरोधे मित्रशत्रूणां रसानां संकरेऽपि च । महिना शोभते खेन यः स शोभन ईरितः ॥' इत्यलमतिकथ- नेन ॥ २८ ॥ अघोरघण्टः। ब्राह्मण डिम्भ । विप्रसाच्छिशुखाच्च भीरुख- भावतया पौरुषशून्येत्यर्थः । व्याघ्राघ्रातेत्यादि । व्याघेणाघ्रातायां गृहीतायां मृग्यां हरिण्यां कृपाकुलः कृपालुर्यो मृगो हरिणस्तच्यायेन हिंसारुचेरनवरतहिंसा- परस्य प्राणिनामुपहारस्य साधकैः क्रियमाणस्य केतनमास्थानं करालास्थानं तजुषः सेवमानस्य मे गोचरं विषयं प्राप्तोऽसि गतोऽसि । यथा मृग्यां दयालु. मंगो व्याघ्रण हन्यते तथा खमप्यस्यां मयोपहारार्थमानीतायां दयालुर्मया वध्यस इति भावः । पापेति प्रारब्धकर्मप्रत्यूहकारिखान्माधवस्य संबोधनम् । सोऽहं पूर्व खगाहत्या व्यस्तस्कन्धं विक्षिप्तस्कन्धं यत्कबन्धं विगतशिरस्कं तस्य रन्ध्रेभ्यो रुधिरप्राग्भार रक्तप्रवाह निष्यन्दते वर्षतीति तथोक्तेन भवतैव भूतानां जननी मातरं भद्रकालीमृध्रोमि प्रीणयामि । पश्चादनयेति शेषः ॥ २९ ॥ माधवः । असारमिति । अये दुरात्मन्पाखण्डचण्डाल, कथमेवं विधातुं व्यवसितोऽस्युद्यु- कोऽसि । किं विधातुमित्यपेक्षायामाह-संसारमाकीटमाविरचं देवतिर्यमनुष्या- दिविविधविचित्रप्राणिवर्गस्य जननजीवनमरणतत्तद्देशकालोचितशरीरपरिग्रहतत्त- च्छरीरानुरूपसुखदुःखाद्यनुभवादिव्यापारप्रवाहाद्यविच्छेदेन संतन्यमानं प्रपञ्च- मसार परार्ध्यवस्तुशून्यं कर्तुं कथं व्यवसितवानसीति सर्वत्र संबध्यते । अयं हि संसारः सत्खपि चन्दनचामीकरादिषु पदार्थेषु तैर्न सारवान्, किंखनयैव सारभू. तया, अस्यां च बया निहतायां केवलमृजीषकल्पोऽयं निःसार एवं स्यात् । तदिमां हन्तुमुद्यतस्त्वं संसारमेवासारं कर्तुमुद्यतोऽसीत्यर्थः । 'अत्र विषयनिगर- णेन मालत्यां सकलसंसारैकसारवस्तुलसाध्यवसितखात् 'निगीर्याध्यवसानं तत्प्र. कृतस्य परेण यत्' इत्युक्तलक्षणाध्यवसितप्रयत्नातिशयोक्तिः, सिद्धवनिर्दिष्टया मलतीमांधवे । । अदर्प कंदर्प जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ ३० ॥ व्यवसायक्रियायाः सर्वत्रान्वयात्कियाहीपकं च वाच्यालंकारी है. चन्दनचामीक. रादीनां न वस्तुतः सारत्वम् , किंतु पामरंजनप्रसिध्यैव । इयमेव सारभूतेत्यपहवा, सर्वसारवस्तूपमानानि यानि तेभ्योऽपि सारभूतेयमेवेति व्यतिरेकश्च व्यायाविति सर्वत्र द्रष्टव्यम् । तथा त्रिभुवनं त्रयाणां भुवनानां समाहारत्रिभुवनम् । 'पात्रा- दिभ्यः प्रतिषेधो वक्तव्यः' इति वचनात् 'द्विगोः' इति डीन भवति । परिमुषितं लुण्ठितं रनं यस्य तत्कर्तुम् । सत्खपि कौस्तुभकनकादिषु न ते रत्नवत्रिभुवनम् । न च तानि वस्तुतो रत्नानि । अविवेकिनां तु तत्र रत्नलव्यपदेशः समीचीनव. स्तूपमानत्वप्रसिद्धिश्च । इयमेव त्रिभुवनस्य सकलरत्नातिशायिगुणशालिन्येक रत्नमिति निगीर्याध्यवसानम् । तां हन्तुं प्रवृत्तः रत्नशून्यमेव जगत्कर्तुं प्रवृत्तोऽसी. त्यर्थः । अलंकारयोगः पूर्ववत् । तथा लोकं प्रमाणषदकपथपथिकं प्रपञ्चं निरालोकं प्रकाशशून्यं केवलमन्धकाराकान्तं कर्तुम् । न खलु सौरादिभिरालोकैः सालोकोयं लोकः । तेषां जडरूपाणां प्रकाशान्तरप्रकाश्यलेनाभासत्वात् । अनयैव पुनरानन्दै. करससंविन्मयप्रकाशात्मिकया त्रिभुवनभवनलोकोत्तररत्नप्रदीपकलिकया समुद्भा. सितोऽयं ससूर्यचन्द्रादितेजस्को लोकः । तदिमा निर्वापयितुकामः जगदन्धं कर्तु- कामोऽसीत्यर्थः । तथा बान्धवजनं सकलमपि बन्धुवर्गमेतदेकजीवितं मरणमेव शरणमेतद्विपत्तिजनितशोकनिराकरणसमर्थ यस्य तत्तादृशं कर्तुम् । इदं चावान्तर- वाक्यं सहचरभिन्नम् । इह हि महावाक्यरूपे श्लोकोऽसार संसारमित्यादिभिर- वान्तरवाक्यैर्मालत्याः सकललोकातिशायिलावण्यादिगुणशालिखेन सर्वपदार्थों- स्कर्षवं तदन्वयव्यतिरेकाभ्यामेव लोकस्योपादेयत्वान्वयव्यतिरेको चेलेतावद्भङ्गि- वैचित्र्येण प्रौढोक्तियुक्त्या च निरूप्यते । तत्र चानेन वाक्येन मालत्या उत्कर्षों न प्रतिपाद्यते । बान्धवा हि काणकुब्जदुःशीलापत्यनाशेऽपि मरणशरणा भवन्ति न च तदन्वयालोकस्योपादेयता कदाचित् । नापि तव्यतिरेकादनुपादयेत्वम् । बहुतरश्रेष्टवस्तुप्रचुरखादेव तदुपादानसिद्धेः । ततश्चात्युत्कर्षप्रतिपादकवाक्य- मध्ये तद्विजातीयतया सहचरैर्भिन्नं तनिकृष्टवाद्विरुद्धमिदं वाक्यं पाण्मासि- कमुक्ताफलप्रथितहारलतामध्ये वराटिकेव नायकलेन निवेशनं नार्हति प्रक्र- मभङ्गश्च स्यात् । प्रक्रान्तातिशयोक्त्यालंकाराणामुपर्युपरि निबद्धानामकाण्डे विच्छेदात् । केचित्तु जनमित्युदासीनवाचिना जनशब्देन माधवः प्रेयसीवि- नाशदुःखोत्तरणोपायान्तरमपश्यन्तं मरणमेव तदुपायलेनाधिगच्छन्तमात्मानं निर्दिशति । तेन तमाशे खस्य मरणमेवेति तलावण्याविशयप्रकाशनानोकदोष इति व्याचक्षते । तदसत् । बान्धवजनमित्युके खनिर्देशस्य कथंचिदप्यप्रतीते: प्रतीतौ वा नैतावता तस्या उत्कर्षः । सर्वो रागान्धः खहृदयामिमतमेव वस्त्र- धमभूतमपि सर्वलोकोत्तरमित्यभिमन्यते । तथा हि-'या यस्याभिमता लोके सा तस्याधिकरूपिणी' इति । अत एव चक्रवाकोऽपि खप्रियाविरहे जगदेव शु- पञ्चमोऽङ्कः । १३५ अपि च रे रे पाप, प्रणयसखीसलीलपरिहासरसाधिगतै- ललितशिरीषपुष्पहननैरपि ताम्यति यत् । वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥ ३१ ॥ न्यमाकलयंस्तानेव लोकोत्तरसौन्दर्यशालिनी मन्यत इति तिर्यक्ष्वपि प्रसिद्धम् । न चात्रापि माधवाभिमानमात्रसिद्धमेव तस्या लोकोत्तरसमिति वाच्यम् । मा भूत् प्रबन्धरसाखादयितृणां सहृदयानामन्यथाभावप्रतीत्यानौचित्यस्फुरणाद्रसास्वाद- भङ्गः । न च स्वाभिमानेन तस्याः श्लाघ्यलेऽपि न तावता तत्सत्त्वासत्त्वाभ्यां जगतोऽस्ति कश्चिद्विशेष इत्युपेक्षणीयमेवैतत् । अतो 'विधिविलसितं सर्वम- फलम्' इति पठनीयमिति कुन्तकप्रभृतयः काव्यतत्त्वज्ञाः सहृदयाः। एवं हि नावद्यलेशोऽपि । अनादौ ह्यसारे मनोहरतरवस्तुसृष्टौ प्रवृत्तस्य विधेर्यो विलासो व्यापारो न तस्य चन्द्रादिनिर्माणं फलम् । तेषां तुच्छतया तादृश विधिप्रयासफल- बायोगात् । अपि वियमेव तस्य हि फलमिति निगीर्याध्यवसानम् । तदेतत्फ- लमकाण्डे हन्तुमुद्युक्तस्वम् । विधातृव्यापारमेव निष्फलं कर्तुमुद्यत इत्यर्थः । तथा कन्दर्पमदर्प दर्पशून्यं कर्तुम् । तस्य हि सत्स्वपि मन्दानिलचन्दनचन्द्रिकादि- भावेषु न तानवलम्ब्य त्रिलोचनावधिका त्रिलोकीमहं जेष्यामीति दर्पस्तेषां तत्सहकारशक्त्यभावात् , किंलिमामेवाप्रतिहितां निजां शक्तिमवलम्ब्य न मे कश्चित्रिलोक्यां प्रतिभटोऽस्ति, अहमेक एव वीर इति तस्य दर्पः । तामिमां हन्तुकामः कन्दर्पमेव दर्पशून्यं निरुत्साहं कतुकामोऽसीत्यर्थः । तथा जनानां नयन निर्माणफलं फलहीनं कर्तुम् । निरतिशयसौन्दर्यशालिवस्तुदर्शनमेव हि नय- ननिर्माणस्य फलम् । न च वस्वन्तरदर्शनं फलं तस्य । एतादृशसौन्दर्यशालि- नोऽन्यस्याभावात् । इयमेव लावण्यासारसीमा तस्य फलमिति तद्विनाशे नेत्र- निर्माणमेव वन्ध्यं स्यादित्यर्थः । तथा जगजीणं जरच्छुष्ककण्टककोटरादिदुष्प्रेक्ष- वृक्षमरण्यं क्रूरसत्त्वराक्षसपुलिन्दादिभीषणं कान्तारं कर्तुम् । इदं हि जगद्वनमन- यैव हि प्रमदवनवसन्तश्रियातिसुकुमारविविधतरुलताकुसुमवासनासुरभीकृतं सकलसंतापनिवारकमानन्दानुभवैकभूमिः प्रमदोद्यानमभूत् । न तु भावैरन्यैरनी- दृशगुणगणोज्वलैः । तदिमां कथावशेषितां कर्तुमिच्छता जगदिदमत्युद्वेगदायि भयंकरमरण्यमेव केवलं चिकीर्षितमित्यर्थः । अत्र चैकेन वाक्येनोत्कर्षप्रतिपाद- नात्तस्यैव वाक्यान्तरैरपि प्रतिपादनार्थ पौनरुक्त्यमाशय रसाक्षिप्तवक्त्रा तस्यै- वार्थस्य प्रौढोक्तिवैचित्र्येण गम्भीरविशेषणोपादानान पौनरुक्तयमिति भोजराजः परिजहार । यथाह-'विशेषणं तु पूर्वोकं यदि भूयोऽपि कीर्त्यते । तदेकार्थ रसाक्षिप्तं तत्तस्मात्तु न दूष्यते ॥' इति । छेकानुप्रासोऽत्र शब्दालंकारः । इत्य- लमलंकारप्रन्थगौरवेण ॥ ३०॥ प्रणयेति । प्रणयसखीनां प्रेमासदानामा- लीना सलीलो यः परिहासः क्रीडाविशेषः कुसुमस्तबकप्रहारादिस्वत्र रसेन रागे. १३ माल. .

१३६ मालतीमाधवे अघोरघण्ट:-आः दुरात्मन् , प्रहर प्रहर । नन्वयं न भवसि । मालती-पसीद णाह साहसिअ, दारुणो क्खु अअं हदासो । ता परित्ताअसु मं । णिवत्तअदु इमादो अणत्थसंकटादो। कपालकुण्डला-भगवन् , अप्रमत्तो भूत्वा दुरात्मानं व्यापादय । माधवाघोरघण्टौ—(मालतीकपालकुण्डले प्रति ।) अयि भीरु, धैर्य निधेहि हृदये हत एष पापः किं वा कदाचिदपि केनचिदन्वभावि । सारङ्गसंहृतिविधाविभकुम्भकूट- कुट्टाकपाणिकुलिशस्य हरेः प्रमादः ॥ ३२ ॥ १. प्रसीद नाथ साहसिक, दारुणः खल्वयं हताशः । तत्परित्रायस्व माम् । निवर्ततामस्मादनर्थसंकटात् । णाधिगतः खेच्छयैव लब्धर्ललितरतिसुकुमारः शिरीषकुसुमैहननैरपि किं पुनर- न्यन कठिनद्रव्येण । यद्वपुस्ताम्यति सद्य एव म्लायते तत्र वषुषि वधाय शस्त्र. मुपक्षिपतः पातयतस्तव शिरस्यकस्मादेव निपाती यमदण्डः कालदण्ड इवैष भुजो वामबाहुः पतलिति समुद्दीपितक्रोधस्य माधवस्य रौद्ररसोचितो वागारम्भः ॥ ३१ ॥ अघोरघण्टः । प्रहर प्रहरेति । पश्यामि तव पौरुषमित्युपहास- गर्भोक्तिः । अयं न भवसीति माधवस्यैव संनिहितत्वेनोपचारात्पुरोवर्तित्वधर्मि. प्राधान्येनेदंशब्देनोच्यते । अन्योन्यमन्योन्यवधस्य निष्पन्नप्रायतया निश्चितला- द्वर्तमानसामीप्येन लडुभयत्रापि ॥ मालती। प्रसीद नाथ साहसिक, दारुणः खल्वयं हताशः । तत्सरित्रायख माम् । निवर्ततामस्मादनर्थसंकटात् । न मम स्त्रीमात्रस्य कृते सकललोकमौलिना बया साहसमाचरणीयम् । यतोऽयं दारुणः किं कुर्याद्वा । तन्निवर्तखेति भावः ॥ कपालकुण्डला । अप्रमत्तः सावधानः ॥ माधवो मालतीमघोरघण्टश्च कपालकुण्डलामेकेनोभाभ्यां पाठ्येनोभयत्रापि तुल्या- थेन श्लोकेन समाश्वासयन्तौ युगपदेवाहतुः-माघवाघोरघण्टौ । अयि भीरु, इति संवोधनमिदमुभयोरुमे प्रति ॥ धैर्यमिति । हे भीरु स्त्रीखभावसुल. भसाध्वसे, हृदये धैर्य निधेहि, मा कातयं गमः । हत एष पाप इत्युभाभ्यामु. भयोनिर्देशः । हत एव । कथमत्रापि मम प्रमादमाशङ्कसे । पश्य कदाचित्केन- चिद्वा सारङ्गसंहृतिविधौ हरिणसंहरणकृत्य इभकुम्भानां कूटस्य सङ्घस्य कुटाकः कुटनशीलः । 'जल्पभिक्षकुलुण्टवृङः षाकन्' इति ताच्छील्ये षाकन्प्रत्ययः । पाणिकुलिशस्य पाणिरेव कुलिशं कुलिशमिव पाणिर्यस्य तादृशस्य हरेः प्रमादः किमन्वभावि । न केनचिदनुभूतमित्यर्थः । अत्र क्षुद्रविपक्षपथे मम प्रमादो न संभवतीति तदसंभवलक्षणे वाक्यार्थे हरिणपतेहरेः प्रमादासंभवलक्षणो वाक्या- र्थोऽध्यारोप्यमाणः सारावधे सिंहस्य प्रमादसंभवेन ममाप्येतद्वधे प्रमादसंभाव- नेप्युपमानोपमेयभावं परिकल्पयतीति 'असंभवधर्मसंबन्ध उपमा परिकल्पिता' ।

पञ्चमोऽङ्कः । १३७ (नेपथ्ये कलकलः । सर्व आकर्णयन्ति ।) भो भो मालत्यन्वेषिणः, इयममात्यभूरिवसुमाश्चासयन्त्यपति- हतप्रज्ञाचक्षुर्भगवती कामन्दकी समादिशति, पर्यवष्टभ्यतामेतत्क- रालायतनम्। नाघोरघण्टादन्यस्मात्कर्फतदारुणादभूत् । न करालोपहाराच्च फलमन्यद्विभाव्यते ॥ ३३ ॥ कपालकुण्डला-भगवन् , पर्यवष्टब्धाः स्मः । अघोरघण्टः-संप्रति विशेषतः पौरुषस्यावसरः । मालती-हा ताद, हा भअवदि। माधव:-भवतु बान्धवसमाजसुस्थितामेनां विधाय तत्समक्षमेनं व्यापादयामि । (मालतीमन्यतः प्रेषयन्परिकामति ।) (माधवाघोरघण्टावन्योन्यमुद्दिश्य ।) आः, रे रे पाप, कठोरास्थिग्रन्थिव्यतिकरघणात्कारमुखरः खरसायुच्छेदक्षणविहितवेगव्युपरमः । १. हा तात, हा भगवति । इत्युक्तलक्षणो निदर्शनालंकारः । न चात्र श्लेषभ्रान्तिः कर्तव्या । वाक्यद्वयस्यैव युगपदुभाभ्यां पाठादिति ॥ ३२ ॥ कलकलः कोलाहलः । आश्वासयन्ती सुश- कुनादिना दुःखं श्लथयन्ती । अप्रतिहताकुण्ठिता प्रज्ञैव चक्षुर्यस्याः सा भगवती कामन्दकी समादिशति समाज्ञापयति । किमिति । पर्यवष्टभ्यतां परिवेष्ट्यतामेत. त्करालायनम् । किमर्थमित्यत आह-नेति । दारुणाद्भीषणादघोरघण्टादन्य- स्मात्तद्यतिरिक्तादेतन्मालत्यपहरणरूपं कर्म नाभूत् । नापि तदीयस्य कर्मणो मन्त्रसाधनाथं करालोपहारीकरणादन्यचापि फलं विभाव्यते । तस्मात्तेनैव कपा- लकुण्डलयोपहारिता देवी बल्यर्थमिति तदेव स्थानं विमृश्यतामित्याज्ञापयति भगवतीत्यर्थः ॥ ३३ ॥ कपालकुण्डला । भगवन् , पर्यवष्टब्धाः परिवृता भटैः । किमतःपरं कर्तव्यमिति कातयोक्तिः ॥ अघोरघण्ट:-संप्रतीति । रक्षणार्थमागतानामेवाग्रत एनं व्यापादयिष्यामि । तन भेतव्यं वयेत्याश्वास- नोतिः ॥ मालती। हा तात, हा भगवति ॥ माधवः। बान्धवानां रक्षणा- र्थमागतानां समाजे समूहे सुखेन स्थितामेनो विधाय पश्चान्नैश्चिन्येन यत्नात्तेषा- मेवाप्रतो हनिष्यामि । यथा एक एव मालतीप्राणत्राणनिमित्तमस्मत्पुरत एवा- सावेतं दुरात्मानं हवा महान्तमुपकारं कृतवानियमात्याय निवेद्य तस्य मदर्थ मालतीप्रदाने रुचिमुत्पादयेयुरिति भावः । एकमेव वाक्यमुभावुभयोद्देशेन प्रयु- १३८ मालतीमाधवे निरातङ्कः पङ्केष्विव पिशितखण्डेषु निपत- नसिर्गात्रंगात्रं सपदि लवशस्ते विकिरतु ॥ ३४ ॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे पञ्चमोऽङ्कः । जाते-रेरे इति । कठोरेति । कठोराः कठिना येऽस्थिग्रन्थयः कीकसकूटानि तेः सह व्यतिरेकेण तदभिघातेन जनितो यो घणात्कारोऽनुकरणशब्दस्तेन मुखरः तथा खराणां स्नायूनां छेदेन क्षणमात्रं जनितो वेगस्य व्युपरमो विश्रा- न्तिर्यस्य सः । तथा पिशितखण्डेष्वस्थिस्नायुरहितेषु मांसखण्डेषु पङ्केष्विव निरा. तङ्को निष्प्रतिरोधो निपतन्नेवंविधोऽसिः सपदि ते गात्रंगात्रं प्रत्यङ्गं लवशः खण्डशः कृखा विकिरतु दिक्षु विक्षिपतु । बीभत्सोपस्कृतो रौद्ररसो व्यज्यते ॥ ३४ ॥ प्रत्यक्षयुद्धवर्णनस्य निषिद्धत्वानोक्तम् । तत्फलमग्रे सूचयिष्यते । यदुक्तम्-'दूरावानं वधं युद्धं राज्यदेशादिविप्लवम् । संरोधं भोजनं स्नानं सुरतं चानुलेपनम् ॥ अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ॥' इति ॥ ३४ ॥ युद्धार्थ निष्क्रान्ताः॥ यथामति मयाख्यातो भवभूतेरिहाशयः । तत्सर्वार्थपरिज्ञाने समर्थास्तु सचेतसः ॥ इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रि- पुरारिसूरिविरचितायां मालतीमाधवभावप्रदीपिकायां पश्चमाङ्कविवरणम् ॥

षष्ठोऽङ्कः । (ततः प्रविशति कपालकुण्डला ।) कपालकुण्डला-आः पाप दुरात्मन्, मालतीनिमित्तं विनि- पातितास्मद्गुरो माधवहतक, अहं त्वया तस्मिन्नवसरे निर्दयं निन- त्यपि स्त्रीत्यवज्ञाता । (सक्रोधम् ।) तदवश्यमनुभविष्यसि कपालकु- ण्डलाकोपस्य फलम् । शान्तिः कुतस्तस्य भुजङ्गशत्रो- यस्मिन्निबद्धानुशया सदैव । जागर्ति दंशाय निशातदंष्ट्रा- कोटिर्विषोद्गारगुरुर्भुजङ्गी ॥१॥ (नेपथ्ये ।) भो राजानश्चरमवयसामाज्ञया संचरध्वं कर्तव्येषु श्रवणसुभगं भूमिदेवाः पठन्तु । अनाहार्यगुणोदारामनागन्तुकभूषणाम् । अयत्नसिद्धसारस्यामाश्रये सहजां गिरम् ॥ कविरिदानीमकान्तरमारभमाणो वृत्तवर्तिष्यमाणार्थसूचनायैकपात्रप्रयोज्यं शुद्धविष्कम्भाख्यमर्थोपक्षेपकं प्रस्तौति-तत इत्यादि । कपालकुण्डला । मालतीनिमित्तं विनिपातितोऽस्मद्गुरुर्येन तादृशेति । तादृशेन संबोधनेन युद्धे माधवेनाघोरघण्टवधो, मालत्यर्थ हि बयास्मद्गुरुनिहतस्तन्मालत्यपहरणेनैव प्रत्य- पकरिष्यामीति कपालकुण्डलाभिप्रायश्च सूच्यते । तस्मिन्नवसरे युद्धसमये निर्दयं निघ्नती स्त्रीजातिप्रयुक्तं भीरुवं परित्यज्य गुरुवधकोपानिष्करुणं प्रहरन्यहं खया स्त्रीत्यवज्ञातावधीरिता । तस्मादवश्यं मदवज्ञायाः फलमनुभविष्यसीति । अस्मद्गु- रुवधपातकस्य मयि बद्धवैरायां जागत्यां कुतः सुखमित्येव वाक्याथै तदवश्यमि- त्यादिवाक्योक्तेर्वाक्यार्थान्तरमसंभवद्वस्तुसंबन्धात्मकमुपमानोपमेयपरिकल्पितं नि- दर्शनालंकारच्छाययाध्यारोपयन्नाह-शान्तिरिति । तस्य भुजङ्गशत्रोराशी- विषस्य हन्तुः शान्तिः सौख्यं कुतः । यत्र यस्मिन्निबद्धानुशया दृढतरबद्धवैराति. तीक्ष्णदंष्ट्राग्रा विषोद्वमनभीषणा भुजङ्गी देशार्थ जागर्ति सावधाना वर्तते । तस्याः सौख्यासंभवात्तवापि सौख्यं न संभवतीति भावः ॥ १ ॥ वर्तिष्यमाणं सूच- यति-भो राजान इति । हे राजानः सकलदिगन्तविश्रान्तशासनस्य महारा- जस्य पादमूलसेवार्थमङ्गीकृतकिंकरभावाः सामन्तमहीपतयः, चरमवयसां दृष्ट. परापरव्यवहाराणां वृद्धानामाज्ञया कर्तव्यविदामाज्ञया कर्तव्येषु प्रयोजनेषु संचर.

१४० मालतीमाधवे चित्रं नानावचननिवहे श्चेष्ट्यतां मङ्गलेभ्यः प्रत्यासन्नस्त्वरयतितरां जन्ययात्राप्रवेशः ॥ २॥ यावच्च संबन्धिनो न परापतन्ति तावद्वत्सया मालत्या नगरदेवता- गृहमविघ्नमङ्गलाय गम्यतामित्यादिशति भगवती कामन्दकी । अन्यच्च गृहीतविशेषमण्डनः प्रतीक्ष्यतामानुयात्रिको जन इति । कपालकुण्डला--भवतु । इतो मालती विवाहपरिकर्मसत्वर- प्रतिहारजनसहस्रसंकुलाप्रदेशादपक्रम्य माधवापकारं प्रत्यभिनिविष्टा भवामि । (इति निष्क्रान्ता ।) इति शुद्धविष्कम्भः । कलहंसः-(प्रविश्य ।) आणत्तोम्हि णअरदेवदागब्भघरवट्टिणा मअरन्दसणाहेण माहवेण जाणीहि दाव इदोमुहं प्पउत्ता मालदी ण वेत्ति । ता जाव णं आणन्दइस्सं । १. आज्ञप्तोऽस्मि नगरदेवतागर्भगृहवर्तिना मकरन्दसनाथेन माधवेन जानीहि तावदितोमुखं प्रवृत्ता मालती न वेति । तद्यावदेनमानन्दयिष्यामि । ध्वम् । विप्राश्च श्रुतेः श्रवणस्य सुभगं यथा स्यात्तथा पठन्तु । आशीर्वादमन्त्रा- निति शेषः । नानावचन निवहैः संस्कृतप्राकृतादिनानाभाषाविशेषैः सहितं चित्र- माश्चर्यकारि गीतवाद्यनृत्तादिकं मङ्गलेभ्यो मालार्थम् । तादर्थं चतुर्थी । चेष्टयतां व्याप्रियताम् । ततो जन्यानां वरसंबन्धिनां जनानाम् । 'जन्याः स्निग्धा वरस्य ये' इत्यमरः । यात्राया वरगृहाद्वधूगृहगमनक्रियायाः प्रवेशः प्राप्तिस्वरयति । खरां जनयतीत्यर्थः ॥२॥ न परापतन्ति न समागच्छन्ति । गृहीतं सविशे- षमण्डनं येन । सम्यगलंकृत इत्यर्थः । आनुयात्रिको मालत्या अनुचरो जनः प्रतीक्ष्यतां परिपाल्यताम् । शीघ्रमाहूयतामित्यर्थः । यद्वानुयात्रिको वरानुगामी तत्सुहृजनः । गृहीतं विशेषमण्डनमाभरणवस्त्रादिकं यस्मात्स तादृशः प्रतीक्ष्य. तामभ्युद्गमनादिना संभाव्यतामिति ॥ कपालकुण्डला-भवत्वित्यादि । तेन नेदानी मालत्यपहरणं शक्यमिति भावः । आकुलाजनसंमर्दान्माधवस्याप- कारो मालत्यपहरणरूपस्तं प्रत्यभिनिविष्टा दृढतरप्रयत्ना भवामि । इति निष्का- न्ता । इति शुद्धविष्कम्भः ॥ कलहंसः । आज्ञप्तोऽस्मि नगरदेवताया गर्भ- गृहवर्तिना मकरन्दसनाथेन माधवेन जानीहि तावदितोमुखं प्रवृत्ता मालती न वेति । तद्यावदेनमानन्दयिष्यामि । इतोमुखं प्रवृत्ता मालतीति प्रियनिवेदने- नेति शेषः । अनेन वाक्येन माधवमकरन्दयोः कृत्रिमपरिणयार्थ छद्मना नगर- देवतागर्भगृहे पूर्वमेव प्रविश्य निलीयावस्थानसूचनादभूताहरणं नाम गर्भ- षष्ठोऽङ्कः । १४१ (ततः प्रविशतो माधवमकरन्दौ ।) माधव: मालत्याः प्रथमावलोकनदिनादारभ्य विस्तारिणो भूयः स्नेहविचेष्टितैमूंगदृशो नीतस्य कोटिं पराम् । अद्यान्तः खलु सर्वथास्य मदनायासप्रबन्धस्य मे कल्याणं विदधातु वा भगवतीनीतिविपर्येतु वा ।। ३ ।। मकरन्दः-कथं भगवत्याः सा मेधाशक्तिर्विपर्येष्यति । कलहंस:-(उपसृत्य ।) णाह, दिट्ठिआ वड्डसि । पउत्ता क्खु इदोमुहं मालदी। माधव:-अपि सत्यम् । मकरन्दः-किमश्रद्दधानः पृच्छसि । न केवलं प्रवृत्ता प्रत्या- सन्ना च वर्तते । तथा हि । अस्माकमेकपद एव मरुद्विकीर्ण- जीमूतजालरसितानुकृतिनिनादः । १. नाथ, दिष्टया वर्धसे । प्रवृत्ता खल्वितोमुखं मालती । संध्यङ्गमुक्तम् । यथा-'अभूताहरणं तत्स्याद्वाक्यं यत्कपटाश्रयम्' इति । इद. मेव तयोः प्रवेशकं च ॥ माधवः-मालत्या इति । मदनायासप्रबन्धस्य स्मरव्यथानुबन्धस्य सर्वथाद्य खल्वितो मालतीलाभान्यतरकोटिपरिच्छेदेन पर्यव- सानं भविष्यतीत्येष तत्त्वार्थकीर्तनान्मार्गो नाम गर्भसंधेरङ्गमुक्तम् । यथा-- 'तत्त्वार्थकीर्तनं मार्गः' इति । कथमत्रान्यतरकोटिपरिच्छेद इत्यपेक्षायां भग- वतीप्रत्युत्तोपायसिध्यसिद्धिभ्यामित्याह-भगवत्याः कामन्दक्या नीतिः कृत्रिम- विवाहरूप उपाये कल्याणं मालतीपाणिग्रहणरूपं वा विदधातु । तथा सति तत्प्रायैव मदनायासस्यान्तो भविष्यति । अथवा मद्भाग्यवैकल्याद्विपर्येतु विप. रीता भवतु । तथापि प्रत्युक्तोपायभङ्गादुपायान्तराभावाच तदलाभनिश्चये ध्रुवं मम विपत्तिरित्याश्रयान्तराभावादेव मदनायासस्यान्तो भविष्यतीत्यर्थः । कीर- शस्य मदनायासस्येत्यपेक्षायां तावदाह-मालसाः प्रथमदर्शनक्षणादारभ्य विखारिणः प्रवर्धमानस्य । तथा मृगदृशस्तस्याः स्नेहसूचकैर्विचेष्टितैः साभिप्राया- वलोकनादिभिः परा निरतिशयां कोटिं प्रकृष्टतां नीतस्येति योज्यम् । एषा प्राध्याशा नाम तृतीया कार्यावस्था । यथा-'उपायापायचिन्ताभ्यां प्राप्याशा प्राप्तिसंभवः' इति ॥ ३ ॥ मकरन्दः । विपर्येष्यति विपरीता भविष्यति । कलहंसः । नाथ, दिष्ट्या वर्धसे । प्रवृत्ता खल्वितोमुखं मालती ॥ माधवः । अपि सत्यं किं सत्यमितोमुखं प्रवृत्तेत्यसंभावयतः प्रश्नः ॥ मकरन्दः । अश्रद्दधानो विश्वासरहितः ॥ अस्माकमिति । मरुता प्रबलपवनेन विकीर्ण विशकलितं १४२ मालतीमाधवे गम्भीरमङ्गलमृदङ्गसहस्रजन्मा शब्दान्तरश्रवणशक्तिमपाकरोति ॥ ४ ॥ तदेहि । जालमार्गेण पश्यामः । (तथा कुर्वन्ति।) कलहंस:-णाह, पेक्ख । इमे दाव उप्पडिअराअहंसविन्भ- माहिरामचामरसमीरणुबेलिअकदलिआवलीतरङ्गिदुत्ताणगअणङ्गणस- रोणिरन्तरुद्दण्डपुण्डरीअविब्भमं वहन्दो मङ्गलधवलातपत्तणिवहा दीसन्ति । इमाओ सविलासकवलिदतम्बूलाहिपूरिदकवोलमण्डला- भोअबइअरक्खलिदमहुरमङ्गलुग्गीअबद्धकोलाहलेहिं विविहरअणा- लंकारकिरणावलीविडम्बिदमहिन्दचावविच्छेअविच्छुरिदणहत्थलेहिं वारसुन्दरीकदम्बेहिं अज्झासिआओ कणन्तकणअकिंकिणीरणिअ- झणझणकारिणीओ करिणीओ। १. नाथ, पश्य । इमे तावदुत्पतितराजहंस विभ्रमाभिरामचामरसमीरणो- द्वेलकदलिकावलीतरङ्गितोत्तानगगनाङ्गणसरोनिरन्तरोद्दण्डपुण्डरीकविभ्रमं व- हन्तो मङ्गलधवलातपत्रनिवहा दृश्यन्ते । इमाः सविलासकवलितताम्बूलाभिपू- रितकपोलमण्डलाभोगव्यतिकरस्खलितमधुरमङ्गलोद्गीतबद्धकोलाहलैर्विविधर- नालंकारकिरणावलीविडम्बितमहेन्द्रचापविच्छेदविच्छुरितनभःस्थलैवारसुन्द- रीकदम्बरध्यासिताः कणकनककिंकिणीरणितझणझणत्कारिग्यः करिण्यः । यजीमूतजालं तद्रसितानुकारी गम्भीरो यो मङ्गलार्थ मृदङ्गसहस्रजन्मा निनादः सोऽस्माकमेकपद एव खव्यतिरिक्तशब्दश्रवणसामर्थ्य निरस्यति । मत्समीपमाग. त्याहेत्यर्थः ॥ ४ ॥ कलहंसः। नाथ, पश्य । इमे तावन्मङ्गलधवलातपत्रनिवहा दृश्यन्त इत्यन्वयः। कीदृशाः । उत्पतितानां राजहंसानां विभ्रमेणेव विभ्रमेणाभि- रामाणां चामराणां समीरणेनोद्वेलो चरन्ती या कदलिकावली पताकापतिस्तया तरङ्गितं संजाततरङ्गं यदुत्तानं गगनाङ्गणं नभोभाग एव सरस्वत्र निरन्तराणां सान्द्राणामुद्दण्डपुण्डरीकाणां यो विभ्रमस्तं वहन्तो बिभ्राणाः । अत्र गगनाङ्गण- स्योत्तानलं गाम्भीर्यद्योतनार्थम् । गम्भीरे सरसि पुण्डरीकाणामुद्दण्डकाण्डा भवन्ति नान्यत्र ॥ सविलासेति । सविलासं कवलितेन ताम्बूलेनाभिपूरितस्य कपोल- मण्डलस्याभोगेन विस्तारेण यो व्यतिकरः संपर्को गीताक्षराणां तेन स्खलितं यन्मधुरं मालार्थमुद्रीतं गौरिकल्याणादि गानं तेन बद्धः कोलाहलो येन तैः । विविधानां रत्नालंकाराणां किरणावलीभिर्विडम्बिता अनुकृता ये महेन्द्रचापविच्छे- दास्तैर्विच्छुरितं व्याप्त नभःस्थलं गगनस्थलं येषां तैर्वारसुन्दरीकदम्बकैरध्यासिताः षष्ठोऽङ्कः । १४३ (माधवमकरन्दौ सकौतुकं पश्यतः।) मकरन्दः-स्पृहणीयाः खल्वमात्यभूरिवसोर्विभूतयः । तथा हि प्रेसद्भरिमयूरमेचकचयैरुन्मेषिचाषच्छद- च्छायासंवलितैर्विवर्तिभिरिव प्रान्तेषु पर्यावृताः । व्यक्ताखण्डलकार्मुका इव भवन्त्युच्चित्रचीनांशुक- प्रस्तारस्थगिता इवोन्मुखमणिज्योतिर्वितानैर्दिशः ॥५॥ कलहंस:-केह ससंभमाणेअपडिहारमण्डलावज्जिदुज्जलकण- अकलधौअपङ्कलित्तचित्तवेत्तलदापरिक्खित्तरेहारइदमण्डलो दूरसंठिदो परिअणो । एसा अ बहुलसिन्दूरणिअरसंज्झाराओवरत्तमुहमहुरघो- लन्तणक्खत्तमालाभरणधारिणिं करेणुरअणिं अलंकरन्ती इदो जेब १. कथं ससंभ्रमानेकप्रतीहारमण्डलावर्जितोज्वलकनककलधौतपङ्कलिप्त- चित्रवेत्रलतापरिक्षिप्तरेखारचितमण्डलो दूरसंस्थितः परिजनः । एषा च बहुलसिन्दूरनिकरसंध्यारागोपरक्तमुखमधुरघूर्णमाननक्षत्रमालाभरणधारिणी करेणुरजनीमलंकुर्वतीत एव कौतूहलोत्फुल्लमुखसमस्तलोकदृश्यमानमनोहरा- कणकनककिंकिणीरणितझणझणत्कारिण्यः करिण्यः । दृश्यन्त इति शेषः॥ मक- रन्दः। प्रेडदिति । दिश उन्मुखानामूवं प्रसूतानां मणिज्योतिषामनेकवर्णानां वितानैर्विस्तारैरेवंविधा भवन्ति । किंविधाः । उन्मेषिणां प्रसरणशीलानां चाषाणां कुलिङ्गानां मरुता आकुला ये छदाः पक्षास्तेषां छायाभिः संवलितैर्मिश्रीभूत. विवर्तिभिर्विसृमरैः प्रेङ्खता प्रचलतां भूरीणां बहूनां मयूराणां मेचकचयैश्चन्द्रकर- समूहैः प्रान्तेषु पर्यन्तप्रदेशेषु परितः समन्तादाता इव भवन्ति । तथा व्यक्ता- खण्डलकार्मुका इव भवन्ति । तथा लिखितचित्राणां चीनदेशोद्भवानामंशुकानां प्रस्तारेण संस्तरेण स्थगिता आच्छादिता इव भवन्तीति रत्नालंकारबाहुल्यं सूचि- तम् । तस्मादतिपुरंदरवैभवममात्यभूरिवसोरैश्वर्यमिति भावः ॥ ५॥ कल- हंसः। कथं ससंभ्रममागतानामनेकेषां प्रतीहाराणां वेत्रहस्तानां मण्डलेनावर्जि- ताभिरवनमिताभिरुजवलेन कनकेन कलधौतेन रूप्येण चान्तरान्तरा घटितेन चित्राभिर्वत्रलताभिः परिक्षिप्ता भूमौ लिखिता या रेखा सा न लङ्घनीयेति सीमा- खेन परिकल्पिता । तया रचितमण्डलः पृथगवस्थितः स तादृशो जनो दूरत एव स्थितः । एषा च बहुलसिन्दूरनिकरेण संध्यारागेणेवोपरक्कमुखे वदने प्रादुर्भावे च मधुरं मनोहरं यथा स्यात्तथा घूर्णमाना प्रकाशमाना नक्षत्रमाला हारविशेषो- ऽश्विन्यादितारापतिश्च तदेवाभरणं धारयतीति धारिणी तां करेणुरजनीम् । रज- नीमिव करेणुमित्युपमितसमासेनोपमा वाच्या । अलंकुर्वतीत एव कौतूहलो. स्फुल्लमुखसमस्तलोकदृश्यमानमनोहरापाण्डुरपरिक्षामदेहशोभाविभावितानङ्गवेदनां १४४ मालतीमाधवे कोदूहलुप्फुल्लमुहसमत्थलोअदिस्सन्तमणहरप्पण्डुरपरिक्खामदेहसो- हाविभाविआणङ्गवेअणा पढमच्चन्दलेहाविब्भमं वहन्दी किंचिअन्दरं पसरिदा मालदी। मकरन्द:-वयस्य, पश्य । इयमवयवैः पाण्डुक्षामैरलंकृतमण्डना कलितकुसुमा बालेवान्तर्लता परिशोषिणी । वहति च वरारोहा रम्यां विवाहमहोत्सव- श्रियमुदयिनीमुद्भूतां च व्यनक्ति मनोरुजम् ॥ ६॥ कथं निषादिता गजवधूः । माधव:-(सानन्दम् ।) कथमवतीर्य भगवतीलवङ्गिकाभ्यां प्रवृत्तैव । (ततः प्रविशति कामन्दकी मालती लवङ्गिका च ।) कामन्दकी-(सहर्षमपवार्य ।) पाण्डुरपरिक्षामदेहशोभाविभावितानङ्गवेदना प्रथमचन्द्रलेखाविभ्रमं वहन्ती किंचिदन्तरं प्रसूता मालती। अत एव विशेषणद्वयस्य सामर्थ्यात्प्रथमचन्द्रलेखायाः प्रतिपच्चन्द्रकलाया विभ्रमं वहन्ती किंचिदन्तरं परिजनमण्डलादपसृत्यान्यदेशं प्रसृता मालती। कथमन्य- विभ्रममन्या वहेदित्यसंभवधर्मयोगात्संध्यारागोपरततारावलीविभूषितरजनीप्रार- म्भोदिता खभावादप्रौढलाच पाण्डुक्षामकौतूहलोन्मुखसमस्तलोकदृश्यमाना प्रति- पचन्द्रलेखेव सिन्दूरोपरक्तहारालंकृतकरेणुमलंकुर्वती विरहभावनात्पाण्डुशामा सर्वलोकप्रेक्षणीया मालतीति बिम्बप्रतिबिम्बभावेनार्थान्तराध्यारोपान्मुखनक्ष- त्रमालाशब्दोपात्तश्लेषोपस्कृतसिन्दूरसंध्यारागकरेणुरजनीशब्दोपात्तोपमानुगृहीतो निदर्शनालंकारः ॥ मकरन्दः-इयमिति । इयं वरारोहोत्तमा नायिका । अवयवैः सहजलावण्यमयैर्विरहवशात्पाण्डुक्षामैरेव प्रत्युतालंकृतानि मण्डनानि भूषणानि यस्याः सा । अलंकरणैर्न कश्चिदतिशयस्तदवयवानाम् । किंतु तद्गतलेन तेषामेव शोभातिशयो दृश्यत इत्यर्थः तादृशी सती माङ्गल्यमण्डनसनाथतया रम्यां विवाहमहोत्सवश्रियमोपयिकी गुरुनिर्बन्धादाहृतां बहिः केवलं वहति । तथात्यर्थमुदयिनीमिदानी प्रतिक्षणमुपचीयमानां मनोरुज मन्मथवेदनामवयवगत- पाण्डिमकृशिमादिभिरेव व्यनक्ति । अन्तर्गतमनुपाधिकं दुःसहमन्मथव्यथावि- कारं द्योतयतीत्यर्थः । कथमिव । बहिःकलितकुसुमान्तःकीटादिदोषवशात्परिशो- षिणी बाललतेवेत्युपमालंकारः । धीरा चेयं नायिका ॥ ६ ॥ निषादितोपवे. शिता ॥ ततः प्रविशतीति । पूर्ववाक्येनैव सूचितखादत्र माधवमकर- दयोः कथानुबन्धेन कामन्दक्यादिप्रवेशसूचनात्तयोश्च कामन्दकी प्रति शिष्य- पष्ठोऽङ्कः। १४५ विधाता भद्रं नो वितरतु मनोज्ञाय विधये विधेयासुर्देवाः परमरमणीयां परिणतिम् । कृतार्था भूयासं प्रियसुहृदपत्योपनयतः प्रयत्नः कृत्स्नोऽयं फलतु शिवतातिश्च भवतु ॥ ७ ॥ मालती-(स्वगतम् ।) केण उण उवाएण संपदं मरणणिवा- णस्स अन्दरं संभावइस्सं । मरणं वि मे मन्दभाअहेआए अहिमदं अदिदुलह १. केन पुनरुपायेन सांप्रतं मरणनिर्वाणस्यान्तरं संभावयिष्यामि । मरण- मपि मे मन्दभागधेयाया अभिमतमतिदुर्लभं भवति । तया परिजनखात् । 'परिजनकथानुबन्धः प्रवेशको नाम विज्ञेयः' इत्युक्तलक्षण- प्रवेशकोऽयं ग्रन्थभाग इति कश्चियाचष्टे । स वक्तव्यः । कथं प्रत्यक्षाभिनयरू- पाकमध्ये केवलाभिनयसूचनैकपात्रसूच्यार्थसूचकस्य प्रवेशकस्य निवेशः । कथं वा प्रधाननायकस्य वस्तुतः शिष्यस्यापि प्रवेशकपात्रखपरिजनखादिपरिकल्पन- मनौचित्यापादकमिति । कथं च खपठितस्योत्तरश्लोको न दृष्टः । 'अङ्कच्छेद कृखा मासकृतं वर्षसंचितं वापि । तत्तत्र सूचनीयं वर्षादूचं तु न कदाचित् ॥' इति । तथा 'दिवसावसानकार्य यद्यङ्केनोपपद्यते सर्वम् । अङ्कच्छेदं कृत्वा प्रवेश- कैस्तद्विधातव्यम् ॥' इत्यादि भरतग्रन्थेषु तदनन्तरश्लोकेषु बहुप्रवेशकानमिधे. यार्थसूचकलेन पृथगेव निवेशाभिधानात् । 'एतेष्वङ्कबहिर्भावः स्याद्विष्कम्भप्र. वेशयोः । चूलिकायाः क्वचिद्वाह्ये कचिन्मध्ये निवेशनम् ॥' इति भावप्रकाशे- ऽभिहितलाच तस्याङ्कमध्ये निवेशनं प्रधाननायकस्य नैच्याङ्गीकरणं च लोकशा- नविरुद्धम् । अथ प्रवेशयतीति व्युत्पत्त्या प्रवेशकलसूचकमात्रेण प्रवेशकलवा- चोयुक्तिस्तर्हि न तस्य परिजनेत्यादिकं लक्षणम् , किंतु विष्कम्भकादिपश्चकान्त. र्गतस्येति तदुदाहरणमनुगतम् । चूलिकादीनां तु त्रयाणां पात्रप्रवेशसूचनार्थमेव खीकारात्तथैव लक्षितत्वाच्च युज्यते क्वचित्तेषामङ्कमध्ये पात इत्यास्ताम् ॥ काम- न्दकी-सहर्षमिति । खप्रयुक्तोपायस्य सिद्ध्योन्मुख्यं हर्षहेतुः । श्रेयांसि बहुविघ्नानि' इति संभावित विघ्नविघातायेष्टदेवतां प्रार्थयते-विधातेति । विधाता ब्रह्मा । अन्योन्यानुगुणयोगान्मनोहराय विधये मालतीमाधवविवाहरू- पाय प्रयोजनाय नोऽस्माकं भद्रं वितरतु । अत्र सर्वज्ञाया अपि भगवत्या अका- रप्रश्लेषणादभद्रमिति नो इति च निषेधवाचिना निपातेन चामङ्गलार्थद्योतक वाक्यं कार्यव्यग्रताहठानिर्गतं भाव्यनिष्टमुत्तराकस्थं द्योतयतीति केचित् । देवाः परमामुत्कृष्टां रमणीयां परिणतिं समुचितवधूवरसमागमरूपां विधेयासुः । 'एलिङि' इत्येवम् । प्रियसुहृदपत्ययोरुपनयतः संघटनादहं कृतार्था भूयासम् । उक्तं हि प्राक्-'प्राणैस्तपोभिः' इत्यादि । अयं च सर्वः सुहृदपत्यप्रतिज्ञामार- भ्यैतदन्तः प्रयत्नोऽद्य मालतीमाधवविवाहरूपेण फलेन फलतु । शिवतातिः मालतीमाधवे लवङ्गिका-अदिकीलालिदा क्खु पिअसही एदिणी अणु- विप्पलम्भेण । (प्रविश्य भूषणपटलकहस्ता ।) प्रतीहारी-भैअवदी अमचो भणादि । एदिणा णरिन्दाणुप्पे- दविवाहणेवत्थेण देवदाए पुरदो अलंकरिदवा मालदि ति । कामन्दकी-युक्तमाङ्गलिकं हि तत्स्थानम् । इतो दर्शय । प्रतीहारी-ऐदं दाव धवलपढेंसुअजुअलं । एदं अ उत्तरी- वण्णंसुअं। इमे अ सबङ्गिआ आहरणसंजोआ । इमे अ मोत्ति- हारा । एवं चन्दणं । एसो सिदकुसुमापीडो ति । कामन्दकी-(अपवार्य ।) रमणीयं वत्सं मकरन्दमवलोकयि- ति जनः । (प्रकाशम् । गृहीला ।) भवतु । एवमुच्यताममात्यः । (प्रतिहारी निष्क्रान्ता ।) १. अतिक्लेशिता खलु प्रियसख्येतेनानुलविप्रलम्भेन । २. भगवतीममात्यो भणति । एतेन नरेन्द्रानुप्रेषितविवाहनेपथ्येन देव- याः पुरतोऽलंकर्तव्या मालतीति । ३ एतत्तावद्धवलपट्टांशुकयुगलम् । एतच्चोत्तरीयवणीशुकम् । इमे च बाङ्गिका आभरणसंयोगाः । इमे च मौक्तिकहाराः । एतचन्दनम् । एष तकुसुमापीड इति । वंकरश्च भवतु । शिवशब्दात् 'शिवशमरिष्टस्य करे' इति तातिल्प्रत्ययः । मंकरोऽरिष्टतातिः शिवतातिः शिवंकरः' इत्यमरः ॥ ७ ॥ अथ मालती मुहू- नन्तरं नन्दनपाणिग्रहणं वज्रनिपातसममुत्प्रेक्षमाणा दुर्विषहतत्पाणिग्रहणल- णदुःखात्यन्तोच्छेदकलेन मरणमेव शरणं निःश्रेयसं मन्यमाना तमुपायमपि लभं मला वितर्कयति-केन पुनः सांप्रतमुपायेन मरणनिर्वाणस्यान्तरमवसर भावयिष्यामि । एतद्वितर्कप्रतिपादनाद्रूपं नामाङ्गम् । यथा-'वितर्को रूप- च्यते' इति । मरणमपि मन्दभागधेयाया मेऽभिमतमतिदुर्लभं भवति ॥ वङ्गिका । अतिक्लेशिता खलु प्रियसख्येतेनानुकूलस्य प्रियस्य विप्रलम्भेन ॥ विश्य । आहेति शेषः । पटलकमाभरणधारणपात्रम् ॥ प्रतीहारी। अमात्यो गवती भणति । एतेन नरेन्द्रानुप्रेषितविवाहनेपथ्येन देवतायाः पुरतोऽलंक- व्या मालतीति ॥ कामन्दकी । माङ्गलिकं मङ्गलप्रयोजनमिति ठक् ॥ प्रती- हारी । एतत्तावद्धवलपट्टांशुकयुगलम् । एतच्चोत्तरीयवर्णाशुकम् । इमे च सर्वा- का आभरणसंयोगा आभरणान्येव संयोज्यन्ते स्थाप्यन्ते येष्ववयवेष्विति योगाः । कर्मणि घञ् । सर्वाङ्गिकाः सर्वाङ्गस्थाप्याः । इमे च मौक्तिकहाराः । इतनन्दनम् । एष सितकुसुमशेखरः इति ॥ कामन्दकी । रमणीयमिति ।

षष्ठोऽङ्कः । कामन्दकी-लवनिके, प्रविश त्वमभ्यन्तरं वत्सया मालत्या सह। लवङ्गिका -भअवदी उण। कामन्दकी-अहमपि विविक्ते तावदलंकरणरत्नानां प्राशस्त्यं शास्त्रतः परीक्ष्ये । (इति निष्क्रान्ता।) मालती—(आत्मगतम् ।) लेवनिकामेत्तपरिवारा दाव संउत्ता । (प्रकाशम् ।) एदं देवदामन्दिरदुवारं । ता पविसदु पिअसही । (प्रविशतः।) मकरन्द:-इतः स्तम्भान्तरितौ पश्यावः । (तथा कुरुतः ।) लवङ्गिका—सहि, अअं अङ्गराओ । इमाओ कुसुममालाओ । मालती-तेंदो किं। लवङ्गिका–सेहि, इमस्सि पाणिग्गहणमङ्गलारम्भे कल्लाणसं. वत्तिणिमित्तं देवदां पूजेहि त्ति अम्बाए अणुप्पेसिदासि । मालती-(खगतम् ।) कुंदो दाणिं दारुणसमारम्भदेबदुन्वि- १. भगवती पुनः। २. लवङ्गिकामात्रपरिवारा तावत्संवृत्ता । इदं देवतामन्दिरद्वारम् । तत्प्र- विशतु प्रियसखी। ३. सखि, अयमङ्गरागः । इमाः कुसुममालाः । ४. ततः किम् । ५. सखि, अस्मिन्पाणिग्रहणमङ्गलारम्भे कल्याणसंपत्तिनिमित्तं देवतां पूजयेत्यम्बयानुप्रेषितासि । ६. करमादिदानी दारुणसमारम्भदैवदुर्विलासपरिणामदुःखनिर्दलितमा- नसां पुनरपि मर्मच्छेददुःसहां मन्दभागिनीमुपतापयसि । अनेन प्रसाधनेन प्रसाधितं मालतीरूपधारिणं रमणीयं मकरन्दं जनो विप्रलब्धं मालतीबुद्ध्या क्षणान्तरमवेक्ष्यतीत्यर्थः ॥ लवङ्गिका । भगवती पुनः । क्व यास्य- तीति शेषः॥ मालती। लवङ्गिकामात्रपरिवारा तावत्संवृत्ता । तदिदानी यथाकथं चिदेना लवङ्गिकामुपनीय शक्यं प्राणांस्त्यक्तुमिति भावः । इदं देवतामन्दिरद्वारम् । तत्प्रविशतु प्रियसखी ॥ स्तम्भान्तरितो स्तम्भापवारितौ ॥ लवङ्गिका । सखि, अयमगरागः । इमाः कुसुममालाः॥मालती। ततः किम् । मर्तुकामाया मम किमे- भिरित्याशयः॥ लवङ्गिका। सखि, अस्मिन्पाणिप्रहणमालस्यारम्भ उपक्रमसमये कल्याणस्य विवाहमङ्गलस्य संपत्तिरविन्नेन निष्पत्तिस्त्रनिमित्तं तदर्थ देवतां पूजये. सम्बयानुप्रेषितासि । तदेतैर्देवतामर्चयेति शेषः ॥ मालती। करमादिदानी दारु- १४ माल.

१४८ मालतीमाधवे लासपरिणामदुक्खणिद्दलिअमाणसं पुणो वि मम्मच्छेददूसहं मन्दमा- इणी दूमिज्जसि । लवङ्गिका-अइ, किं वत्तुकामासि । मालती-किं' दाणिं दुल्लहाभिणिवेसमणोरहविसंवदन्तभाअ- हेओ जणो मन्तेदि। मकरन्दः-सखे, श्रुतम् । माधव:-असंतोषस्तु हृदयस्य । मालती-(लवङ्गिकां परिष्वज्य ।) परमत्थभइणि पिअसहि लव- निए, एसा दाणिं दे पिअसही अणाहा मरणे वट्टमाणा आग- ब्मणिग्गमणिरन्तरोवारूढविस्सम्भसरिसं परिस्सजिअ अब्भत्थेदि । जइ दे अहं अणुवट्टणीआ तदो मं हिअएण धारयन्ती समग्गसो- हग्गलच्छीपरिग्गहेक्कमङ्गलं माहवस्स सिरिमुहारविन्दं आणन्दम- सिणं पलोएहि । (इति रोदिति।) १. अयि, किं वक्तुकामासि । २. किमिदानी दुर्लभाभिनिवेशमनोरथविसंवदद्भागधेयो जनो मन्त्रयते । ३. परमार्थभगिनि प्रियसखि लवङ्गिके, एषेदानीं ते प्रियसख्यनाथा मरणे वर्तमानाऽऽगर्भनिर्गमनिरन्तरोपारूढविसम्भसदृशं परिष्वज्याभ्यर्थयते । यदि तेऽहमनुवर्तनीया ततो मां हृदयेन धारयन्ती समग्रसौभाग्यलक्ष्मीपरि- ग्रहैकमङ्गलं माधवस्य श्रीमुखारविन्दमानन्दमसृणं प्रलोकय । णसमारम्भस्य दैवस्य यो दुर्विलासो दुर्व्यापारस्वत्परिणामरूपेण दुःखेन निर्दलितं खेदितं मानसं यस्यास्तां पुनरपि मर्मच्छेददुःसहां मन्दभागिनीमुपतापयसि । इदं चात्मगतमेव लवङ्गिका संबोध्योपालम्भ इति द्रष्टव्यम् ॥ लवङ्गिका। अयि किं वक्तुकामासि । तद्वदेति शेषः ॥ मालती । किमिदानी दुर्लभविषयो योऽभिनि- वेशः प्रयत्नविशेषस्तत्र यो मनोरथस्तत्र विसंवदद्विपरीतीभवद्भागधेयं यस्य तादृशो जनो मन्त्रयते । प्रियतमसमागमरूपमनोरथविसंवादे मरणं मयापेक्षितं तदपीदानी भाग्यवैकल्यान्मम दुर्लभं जातमिति किमिदानीं मया वक्तव्यमित्याशयः । एतच प्रस्तुतमरणोत्कर्षद्योतकवादुदाहरणं नामाङ्गम् । यथा-'यत्तु सातिशयं वाक्यं तदुदाहरणं भवेत्' इति ॥ मकरन्दः । सखे, श्रुतमित्यत्र काकुः ॥ माधवः । असंतोषस्विति खनिमित्तखस्यास्फुटखात् ॥ मालती । परमार्थभगिनि प्रियसखि लवङ्गिके, एषेदानीं ते प्रियसख्यनाथा मरणे वर्तमाना आगर्भनिर्गमनिरन्तरोपारूढ. विसम्भसदृशं परिष्वज्याभ्यर्थयते । तत्र प्रस्तुतोपयोगिसामवचनखात्संग्रहो नामा- ङ्गम् । यथा-'संग्रहः सामदानोक्तिः' इति । यदि तेऽहमनुवर्तनीया ततो मां हृद- षष्ठोऽङ्कः। १४९ माधव:-वयस्य मकरन्द, म्लानस्य जीवकुसुमस्य विकासनानि संतर्पणानि सकलेन्द्रियमोहनानि । आनन्दनानि हृदयैकरसायनानि दिष्ट्या मयाप्यधिगतानि वचोमृतानि ॥ ८॥ मालती-जह तस्स जीविदप्पदाइणो अवसिदां मं सुणिम संदप्पमाणस्स तहाविहं सरीररअणं ण परिहीअदि, जह अ लोअ- न्दरगअं वि में उदूसिअ सो जणो सुमरणकहामेत्तपरिसेसं काल- न्दरेण वि लोअजतं ण सिढिलेदि तह करेसु । एव्वं दे पिअ- सही मालदी सकामा होइ । १. यथा तस जीवितप्रदायिनोऽवसितां मां श्रुत्वा संतप्यमानस्य तथाविधं शरीररत्नं न परिहीयते, यथा च लोकान्तरगतामपि मामुद्दिश्य स जनः स्मर- णकथामात्रपरिशेषां कालान्तरेणापि लोकयात्रां न शिथिलीकरोति, तथा कुरु । एवं ते प्रियसखी मालती सकामा भवति । येन धारयन्ती समग्रसौभाग्यलक्ष्मीपरिग्रहैकमङ्गलं माधवस्य श्रीमुखारविन्दमान- न्दममृणं यथा स्यादेवं प्रलोकय । अनेन मनिर्विशेषया वया मां स्मरन्या प्रिय. तमो दृष्टश्चन्मयैव दृष्ट इति प्रतीतेर्माधवविषयः प्रेमेव परां कोटिमारूढः । सर्वथा तदलाभनिश्चयान्मरणं निश्चितमिति व्यज्यते । आनन्दमसृणमित्यनेन च येन प्रका- रेणाहं तमवलोकयामि तेनैवावलोकय, न तु खोचितेन ताटस्थ्येनेत्युक्तम् । माधवः । स्वविषयतां प्रेमबन्धस्य निरतिशयतां च ज्ञालाह-मलानस्येति । दिष्ट्या भाग्येन मया तादृशसौभाग्यानर्हेणापि वचोमृतान्यधिगतानि प्राप्तानि । कीदृशानि । प्रियाप्राप्त्यसंभावनया ग्लानिमुपगतस्य जीवस्यैव सौकुमार्यात्कुसुमस्य विकासनानि । तथा संतर्पणानि सम्यक्तृप्तिजनकानि । तेन हि मालत्याः शतशो दर्शनेऽपीशवचनश्रवणाद्यादृशी तृप्तिस्तादृशी न भवतीतिवचनानां संतर्पकत्वम् । तथा सकलेन्द्रियाणां मोहनानि । प्रलयाख्यसात्त्विकभावहेतुखात् । इन्द्रियास्तमयो हि प्रलयः। तथानन्दनानि निरतिशयानन्दस्यात्मसंवेद्यलादानन्दजनकानि । तथा हृदयस्य विरहदुःखशोषितसर्वरसादिधातुकस्य रसायनानि रसादिधातुसंपाद- कलेन रसजनकानि । 'नीरसानां हि धातूनां लाभोपायो रसायनम्' इति रसा- यनम् ॥ ८॥ मालती । यथा तस्य जीवितप्रदायिनोऽहमवसिता मृतेति मां श्रुखा संतप्यमानस्य तत्तथाविधं शरीररत्नं न परिहीयते, यथा च लोकान्तरगता- मपि मामुद्दिश्य स जनः स्मरणकथामात्रपरिशेषां कालान्तरेणापि लोकयात्रां न शिथिलीकरोति तथा कुरु । अत्र माधवमरणशङ्काबीजं खात्मनि माधवा. नुरागोत्कर्षः । यथाहं तदलाभात्तदनुरागे जीवितं त्यक्ष्यामि तथाऽसावपि मदनु- ।

१५० मालतीमाधवे - मकरन्दः-हन्त, अतिकरुणं प्रस्तुतम् । माधव:- नैराश्यकातरधियो हरिणेक्षणायाः श्रुत्वा निकामकरुणं च मनोहरं च । वात्सल्यमोहपरिदेवितमुद्वहामि चिन्ताविषादविपदं च महोत्सवं च ॥ ९॥ लवङ्गिका-अइ, पडिहदं दे अमङ्गलं । इदो वि अवरं ण सुणिस्सं । १. अयि, प्रतिहतं तेऽमङ्गलम् । इतोऽप्यपरं न श्रोष्यामि । रागोत्कर्षाच्छ्रशानप्रदेशवृत्तान्तावगमाच मय्यवसितायामसौ खजीवितनिरपेक्ष. स्त्यजेदपि शरीरम् । यथा तु जीवति तथा कुर्विति । बत्प्रयत्नवशात्कथंचिदपरित्य- कजीवितोऽसौ कालक्रमेण यथा मां न विस्मरति तदपि वयैव कर्तव्यमिति भावः । एवं ते प्रियसखी मालती सकामा भवति ॥ मकरन्दः। हन्तेति प्रेमातिशयमरणो- योगप्रतीतेर्हषविषादद्योतकः॥माधवः-नैराश्येति। नैराश्येन मत्पाणिग्रहण. प्रत्याशाभावे तद्धेतुकखजीवितप्रत्याशाभावेन कातरा चकिता धीर्यस्यास्तस्या हरि- णेक्षणाया निकामं भृशं करुणं मरणोद्योगसूचनाच्छोकातिशयजनकम् । अथ खवि- षयानुरागप्रकर्षप्रतीतेर्मनोहरं च वात्सल्येन रतिभावेन । यद्यपि वात्सल्यशब्दो- उपत्यविषयां रतिमाचष्टे, तथाप्यत्र लक्षणया रतिसामान्यमात्रमाह, न तु वात्सल्यं नाम दशमं रसान्तरम् । प्रसिद्धालंकारप्रस्थानेष्वव्युत्पादनात् । प्रत्युत निषेधादेव गुरुनृपपुत्रादिविषयाया रतेर्भावत्वमेव हि व्यवस्थापितम् । 'रतिर्देवादिविषया व्यभिचारी तथा जिता'। तस्मात् 'तमङ्कमारोप्य शरीरयोगजैः' इत्यादौ पुत्रगोचराया रतेः परिपोषादसंलक्ष्यक्रमव्यङ्ग्यमेदो भावध्वनिरेव रसान्तरम् । न च भरतेनात्र पृथक्स्थायी प्रदर्शितः । नापि रतिरेवास्य स्थायी । तस्याः शृङ्गारकस्थायिखात्, अस्य रसान्तरखाभावप्रसङ्गाच । नापि शृङ्गारमेद एवायम् । तद्भदेषु संभोगादिष्व- परिगणनात् । मात्रादीनां पुत्रादौ शृङ्गारस्यात्यन्तानौचित्याच्च । अस्तु वात्सल्यं रसान्तरम् । तथापि प्रकृते तन्न संभवति । तस्यापत्यमात्रालम्बनखात् । नहि मालत्या माधवे वात्सल्यं युक्तमित्यर्थः । अलं कुत्सितेन विचारणेन । तस्मादत्र रति- सामान्य लक्ष्यते । तेन मोहेन 'मोहश्चित्तस्य शून्यता' इत्युक्तेन व्यभिचारिणा च यत्परिदेवितं विलापवचनं तत्र तद्तचिन्तया मदलाभादियं प्राणानपि त्यक्तुमुद्यता। अनया किमिदानी कर्तव्यमित्येवंरूपया यो विषादो विषण्णवमेव विपत् । तां च महोत्सवं च । अहो मे सौभाग्यं यदेतादृशस्य स्त्रीरत्नस्य मय्येवंविधानुरागबन्धस्त- देतलाभाभावेऽप्येतावतैव लब्धजन्मसाफल्योऽहमित्येवमात्मनो हर्षोत्कर्षः । तं च वहामि । उकंच-'परस्परप्राप्तिनिराशयोर्वरं शरीरनाशोऽपि समानरागयोः' इति । शोकहर्षाभ्यां करुणझारसंकीर्ण मनो वर्तत इति भावः ॥९॥ लवङ्गिका । अयि, । ।

षष्ठोऽङ्कः। मालती-सहि, पिसं क्खु तुम्हाणं मालदीजीविदं ण उण मालदी। लवङ्गिका सहि, किं ति भणिदं होदि । मालती-जेण पञ्चासाणिबन्धणेहिं वअणसंविहाणेहिं जीआ- विअ इमं महाबीभच्छारम्भं अनुभाविदम्हि । संपदं उण मे मणो- रहो एतिअं जेव्व । जं तस्स देवस्स परकेरअत्तणेण अवरद्धं अत्ताणं परिचइअ णिव्वुदा हुविसं । अस्सि पओअणे पिअसही मे अपरिपन्थिणी होदु । (इति पादयोः पतति ।) मकरन्द:--सैषा परमा सीमा स्नेहस्य । (लवनिका माधवं संज्ञयाऽऽहयति ।) मकरन्दः-वयस्य, लवनिकास्थाने तिष्ठ । १. सखि, प्रियं खलु युष्माकं मालतीजीवितं न पुनर्मालती। २. सखि, किमिति भणितं भवति । ३. येन प्रत्याशानिबन्धनैर्वचनसंविधानैर्जीवयित्वेमं महाबीभत्सारम्भमनु- भावितास्मि । सांप्रतं पुनर्मे मनोरथ एतावानेव । यत्तस्य देवस्य परकी- यत्वेनापराद्धमात्मानं पारित्यज्य निर्वृता भविष्यामि । अस्मिन्प्रयोजने प्रियसखी मेऽपरिपन्थिनी भवतु । प्रतिहतं तेऽमङ्गलम् । इतोऽप्यपरं न श्रोष्यामि ॥ मालती । सखि, प्रियं खलु युष्माकं मालतीजीवितं न पुनर्मालती ॥ लवङ्गिका । सखि, किमिति भणितं भवति । मालतीजीवितं प्रियं न तु मालतीति वचनस्य व्याहतवादिति भावः ॥ मालती। येन प्रत्याशानिबन्धनैर्वचनसंविधानर्जीवयिलेममेतावन्तं कालमीदृशं महाबीभत्सारम्भमनुभवितास्मि। तदनेनातिजुगुप्सितमपि मम जीवितमेव युष्माकं प्रियं यथा तथा वा जीवति चेदलमिति न तु दुःखविवर्जिता मालती कथं सुखेन तिष्ठतीति युष्माकं विचार इत्यस्य खवाक्यस्याभिप्रायो वर्णितो भवति । महा- बीभत्सारम्भमतिजुगुप्सितं नन्दनपाणिग्रहणोद्योगमित्यर्थः । सांप्रतं पुनर्मम मनो- रथ एतावानेव । यत्तस्य देवस्य । जीवितप्रदायिनो माधवस्येति यावत् । परकीयलेन पराधीनखेनापराद्धमात्मानं परित्यज्य निर्वृता भविष्यामीति जीवितपरित्राणाजी- वितस्य स एव खामीति तदीयस्यास्य जीवितस्य गुरुपारतच्यादन्यायत्तीकरणो- द्योगोऽपराधः । तस्य च तदीयजीवितपरित्याग एव प्रायश्चित्तमन्याधीनतासंपा- दनकलङ्कापाकरणादिति भावः । अस्मिन्प्रयोजने प्रियसखी मेऽपरिपन्थिन्यप्रति- कूला भवतु ॥ मकरन्दः । परमा सीमा परा काष्ठा । नेतःपर स्नेहस्यातिशय इति भावः । अथ पूर्वमेव विहितसंकेता लवनिका स्तम्भान्तरितं माधवं प्रत्यवसः १५२ मालतीमाधवे .माधव:-परवानसि साध्वसेन । मकरन्दः-इयमेव नेदीयसां प्रकृतिरभ्युदयानाम् । (माधवः खैरं लवमिकास्थाने तिष्ठति ।) मालती-सहि, अणुऊलदाए पसादं करेहि । माधव:- सरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भम् । विरसं विरहायासं सोढुं तव चित्तमसहं मे ॥ १० ॥ मालती-सेहि, अलङ्घणिज्जो दे मालदीप्पणामो। १. सखि, अनुकूलतया प्रसादं कुरु । २. सखि, अलङ्घनीयस्ते मालतीप्रणामः । रोऽयं वदागमनस्येति हस्तसंज्ञया बोधयतीति ॥ माधवः परवानस्मि पराधीनः कृतोऽस्मि साध्वसेन वेपथुस्तम्भादिना सात्त्विकेन, न तु भयेन । तस्यैदानीमनुचि- तखात्तेन शङ्कामानं साध्वसशब्देन विवक्षितम् । शङ्ख्या च स्तम्भादयो लक्ष्यन्त इति ग्राह्यम् । मालतीसमीपे लवङ्गिकाधिष्ठिते प्रदेशे स्थातुं परवानधीनोऽस्मीति ।। मकरन्दः-इयमिति । नेदीयसामतिसंनिहिताना चिराभिलषितानाम- भ्युदयानां प्रियाप्राप्तिप्रमृतीनामभीष्टानामियमेव प्रकृतिः खभावः । यत्त. म्भप्रलयवेपथुप्रभृतिसात्त्विकाविर्भावकृतं पारवश्यमित्यर्थः । एतच्च प्रकृतोपयो. गित्वेन वञ्चनादधिबलं नामाङ्गम् । यथा-'चेष्टया सातिसंधानं वदन्यधिबलं हि तत्' ॥ मालती। सखि, अनुकूलतया प्रसादं कुरु । मरणमभिजानीहीत्यर्थः । अथ माधवो लवनिकालमिवापन्नस्तस्याश्च खस्य च साधारणं प्राकृतसंस्कृतयोः समानरूपं वाक्यं प्रयुके-सरल इति । सरले ऋजुबुद्धे । रम्भोरु । 'ऊरूत्त- रपदादौपम्ये' इत्यूङ । साहसे मरणोद्योगे रागमिच्छां परिहर परित्यज । संरम्भ मुश्च । यतस्तव विरहायासं वियोगदुःखं विरसमत्यन्तविनाशरूपं मम हृदयं सोढुमसहमक्षममिति तत्समलादेतेषां शब्दानां प्राकृतसंस्कृतयोः समान रूपम् । यथाह-'तत्सम तद्भवं देशीत्यनेकः प्राकृतक्रमः' इति । न चात्र भाषाश्लेष- भ्रान्तिः कार्या । वाच्यमेदाभावाच्लेषलानुपपत्तेः । न च लवङ्गिकामाधवयोर्व. कोर्भेदाद्वाच्यमेदोऽप्यस्त्येवेति वाच्यम् । माधवस्यात्र वक्तृखात्किंतु हठादेव लवङ्गिकाबुद्धितिरोधानेन खप्रज्ञापनेन वैलक्षण्यानिःशवं खमनोगतसर्वखनिवे. दनं न कुर्यादिति लवङ्गिकावाच्यमेवार्थ तदुचितैरेव शब्दमाधवः प्रतिपादितवानि- येकमेव वाक्यमेक एवार्थ इति न श्लेषावकाशः इति ॥ १०॥ मालती। अल- छनीयस्ते मालत्याः प्रणामः ॥ पूर्ववदेव माधवस्तत्समैरेव शन्दैलेवझिकेवाह- षष्ठोऽ। १५३ माधव:- किं वा भणामि विच्छेददारुणायासकारिणि । कामं कुरु वरारोहे देहि मे परिरम्भणम् ॥ ११ ॥ मालती-(सहर्षम् ।) कहं अणुगहीदम्हि । (उत्थाय ।) इ आ- लिङ्गामि । दंसणं उण बाफप्पीडणेण पिअसहिआए पच्चक्खं ण लभिअदि । (आलिङ्ग्य सानन्दम् ।) सहि, कठोरकमलगब्भपम्हलो अण्णारिसो जेव दे अज णिवावेदि मं सरीरप्फंसो । (साप्तम् ।) किंअ मौलिविनिवेसिदअञ्जली मह वअणेण विण्णवेहि तं जणम् । जह ण मए मन्दभाआए विकसन्तसदपत्तलच्छीविलासहारिणो मुह- चन्दमण्डलस्स सच्छन्ददंसणेण संभाविदो चिरं लोअणमहोसवो। १. कथमनुगृहीतास्मि । इयमालिङ्गामि । दर्शनं पुनर्बाष्पोत्पीडनेन प्रिय- सख्याः प्रत्यक्षं न लभ्यते । सखि, कठोरकमलगर्भपक्षमलोऽन्यादृश एव तेऽद्य निर्वापयति मां शरीरस्पर्शः। किंच मौलिविनिवेशिताञ्जलिर्मम वचनेन विज्ञापय तं जनम् । यथा न मया मन्दभाग्यया विकसच्छतपत्रलक्ष्मी- विलासहारिणो मुखचन्द्रमण्डलस्य स्वच्छन्ददर्शनेन संभावितश्चिरं लोचन. किं वेति । विच्छेदेनात्यन्तविप्रयोगेण दारुणो य आयासो मरणोद्योगात्मक दुष्कर कर्म तत्कारिणीति संबोधनम् । ईदृशी खां किं वाभणामि कथं म्रियखेत्यनुज्ञा दद्याम् । न कथंचिन्मरणानुज्ञां कर्तुं शक्नोमीत्यर्थः । तस्मात्त्वमेव 'ईप्सितार्थ- स्थिरनिश्चयं मनः' इति नीया कामं खाभिलषितं कुरु । हे वरारोहे, मम परि. रम्भणं देहि । मामालिङ्गयेत्यर्थः । अथ च माधवौचित्येन कामं मनोरथं कुरु निष्पादय । वरारोहे चिरस्य प्रार्थितं परिरम्भणं देहीत्यपि प्रतीयते । लवङ्गिकया प्रशंसार्थ वरारोहे, इति सखीसंबोधनं युक्तमेवेति ॥ ११॥ अथ मालती कामं कुर्विति सख्या अनुमतिं मलाह-मालती। कथमनुगृहीतास्मीति । सख्येति शेषः । इयमालिङ्गामि । दर्शनं बाष्पोत्पीडनेनागमेन प्रियसख्याः प्रत्यक्षं न लभ्यते । एवं लवङ्गिकाभ्रमेण माधवमालिङ्गयामृतसरसीव निमना निरतिशयं निवृतिविशेषमनुभवन्याह-सखि, कठोरकमलागर्भपक्षमलोऽन्यादृश एव तेऽद्य निर्वापयति मां शरीरस्पर्शः । कठोरकमलगर्भवत्परिणतपङ्कजबीजकोशवत्प- मलो रोमाञ्चकन्चुकितः । इदानीं कृतमरणनिश्चया सख्या चानुमतिं कृतां मन्य- माना प्रियतमं प्रतिवक्तव्यं वाचिकं संदिशति-किंच । मौलिविनिवेशिताज. लिमम वचनेन विज्ञापय तं जनम् । तं जनमित्यनेन तस्य पतिवं निश्चित्य साक्षा. नामग्रहणानौचित्यं सूचयति । तेन च नाहं कन्यैव संस्थिता मन्मथेनैव माधवाय दत्तां तत्पन्येव केवलम् , तादृशेन पत्या सह संसारसौख्यान्यनुभवितुं मालतीमाधवे मुहा मणोरहेहिं अविरअविअम्भमाणदुव्वारदुक्खावेजवइअरुव्वतमा- णबन्धणं धारिअं हिअ । गमिआ अ वारंवार सविसेससहाआस- दूमाविदसहीअणा सरीरसंदावा । कहं वि अदिवाहिदा चन्दादप- मलममारुमप्पमुहा अणत्थपरम्पराओ । संपदं उण णिरासम्हि संत- नेति । तुए वि पिअसहि, सबदा सुमरिदवम्हि । एसा अ माह- वसिरीहत्थणिम्माणमणोहरा बउलमाला मालदीणिविसेसं पिअस- झए हुव्वा सबदा हिअएण धारणिज्जा अत्ति । (इति खकण्ठादुन्मुच्य माधवस्य हृदि बकुलमालां विन्यस्यन्ती सहसापसृत्य साध्वसोत्कम्पं नाटयति ।) माधव:-हन्त । (अपवार्य ।) एकीकृतस्त्वचि निषिक्त इवावपीब्य निर्मुमपीनकुचकुमलयानया मे । महोत्सवः । मुधा मनोरथैरविरतविजृम्भमाणदुर्वारदुःखावेगव्यतिकरोद- तमानबन्धनं धारितं हृदयम् । गमिताश्च वारंवारं सविशेषदुःसहायासधूपा- यितसखीजनाः शरीरसंतापाः । कथमप्यतिवाहिताश्चन्द्रातपमलयमारुत- प्रमुखा अनर्थपरम्पराः । सांप्रतं पुनर्निराशास्मि संवृत्तेति । त्वयापि प्रिय- सखि, सर्वदा सर्तव्यामि । एषा च माधवश्रीहस्तनिर्माणमनोहरा बकुल- माला मालतीनिर्विशेष प्रियसख्या द्रष्टव्या सर्वदा हृदयेन धारणीया चेति । नास्ति मे भाग्यमिति, अत एव शरीरं त्यजामीति व्यज्यते । विज्ञापनाप्रकारमे. वाह-यथा न मया मन्दभाग्यया विकसच्छतपत्रलक्ष्मीविलासहारिणो मुखचन्द्रम- ण्डलस्य ते खच्छन्ददर्शनेन संभावितश्चिरं लोचनमहोत्सवः । मुधामनोरथैरविरतं विजृम्भमाणदुर्वारदुःखावेगव्यतिकरोद्वर्तमानबन्धनं धारितं हृदयम् । गमिताश्च वारंवार सविशेषदुःसहायासधूपायितसखीजनाः शरीरसंतापाः । कथमप्यतिवाहि- ताश्चन्द्रातपमलयमारुतप्रमुखा अनर्थपरम्पराः । सांप्रतं पुनर्निराशा संवृत्तास्मीति विज्ञापयेत्यन्वयः। उद्वर्तमानबन्धनमुन्मूलितमूलमतिवाहिता दुःखेन गमिताः । एषा च माधवश्रीहस्तनिर्माणमनोहरा बकुलमाला मालतीनिर्विशेष प्रियसख्या द्रष्टव्या सर्वदा हृदयेन धारणीया चेति वदन्ती खकण्ठादुन्मुच्य माधवहृदि विन्यस्यन्ती खनशून्यखव्यूढोरस्कलादिना पुरुषमधिगम्य पुरुषस्य चान्यस्य तत्रात्यन्तमशकि- तखान्माधवस्यैव कामन्दकीप्रयत्नेन संनिधानसंभवात्तदितरशरीरस्पर्श तादृशपर. मनितिसात्त्विकलज्जाशवात्रासादिव्यभिचारिसंवलनोन्मेषाभावात्तदौचित्येन सह- सापसत्य साध्वसेनोत्कम्पं वेपथुमनुभावं च नाटयतीत्यर्थः । साध्वर्स त्रासः । तलक्षणं च-'त्रासश्चित्तचमत्कार आकस्मिकभयादिभिः' इति । अनेन संभ्रमो नामाइमुकम् । यथा-'शहानासौ च संभ्रमः' इति ॥ माधवः । एकीकृत षष्ठोऽङ्कः । १५५ कर्पूरहारहरिचन्दनचन्द्रकान्त- निष्यन्दशैवलमृणालहिमादिवर्गः ॥ १२ ॥ मालती-अम्हहे, लवनिआए मालदी विप्पलद्धा । माधव:-अयि खचित्तवेदनामात्रवेदिनि परव्यसनानभिज्ञे, इय- मुपालभसे। उद्दामदेहपरिदाहमहाज्वराणि संकल्पसंगमविनोदितवेदनानि । त्वत्लेहसंविदवलम्बितजीवितानि किं वा मयापि न दिनान्यतिवाहितानि ॥ १३ ॥ लवङ्गिका सहि, उवालम्भणिज्जं उवालद्धासि । १. अहो, लवङ्गिकया मालती विप्रलब्धा २. सखि, उपालम्भनीयमुपालब्धासि । इति । गाढालिङ्गनवशानिर्भुमपीनकुचकुङ्मलयानयावपीज्य गाढमालिङ्गय मे खचि कर्पूरादिसंतापनिर्वापकशीतलद्रव्यवर्ग एकीकृत एकरसता प्राप्तो निषिक्त इव । आलिङ्गनं कृतवत्या कर्पूरादिरसनिषेकः कृत इवेत्यालिङ्गनक्रियायां निषेकक्रि- याध्यवसायात्प्रतीयमानसंतापनिर्वापणनिमित्तक्रियया स्वभावोत्प्रेक्षालंकारः । एष संचिन्त्यमानार्थप्राप्तिरूपः क्रमः । यथा-'क्रमस्तु चिन्तितावाप्तिः' इति ॥ १२ ॥ मालती। अहो, लवङ्गिकया मालती विप्रलब्धा वञ्चिता । स्वाभिलषितसंपादने- ऽप्याकारगोपनार्थ वश्चनमित्युक्तम् । अनेनावहित्थाख्यो व्यभिचारी सूचितः । यथा--'अवहित्था तु लज्जादेहर्षाद्याकारगोपनम्' इति ॥ माधवः । अयीति संबोधने । खमनोव्यथामेव वं प्रकटयसि न तु परजनमनोरुजं जानासि । यतो मदालिङ्गनेन वञ्चितमात्मानं मन्यसे । न पुनर्यथा मे तथैवास्यापि समः सुदुःसहः संतापः तन्मदालिङ्गनेनास्य भवतु संतापनिर्वाप इत्यनुकम्पा बयि दृश्यते । तस्मात्त्वं पुरत एवोपालभस इत्यर्थः । स्वव्यथामेवाह-उद्दामेति । उद्दामः प्रौढो देहपरिदाह एव महाज्वरो येषु तानि। तथा मनोरथमात्रकल्पितेनापि त्वत्समागमेन विनोदितापनोदिता वेदना वद्विरहजन्या व्यथा येषु तानि । तथा 'अस्ति मालत्या मयि स्नेहः' इति संवेदनमात्रेणावलम्बितं कथंचित्त्वलेहः कदाचित्फलिष्यतीत्याशया विधृतं जीवितं येषु तादृशानि दिनानि मयापि खयेव न किमतिवाहितानि दुःखेन गमि- तानि । यादृशी तव विरहव्यथा तादृश्येव ममापि । तत्तु केवलं खया विदितमेतन विदितमित्यर्थः। एतत्तु परस्परानुरागबीजसमुत्क्षेपादाक्षेपो नामाङ्गम्। यथा-'गर्भ- बीजसमुत्क्षेपादाक्षेपः परिकीर्तितः' इति ॥१३॥लवनिका। सखि,उपालम्भनीय- १५६ मालतीमाधवे कलहंस:-अहो सरसरमणिजदा संविहाणस्स । मकरन्द: महाभागे, एवमेतत् । त्वं वत्सलेति कथमप्यवलम्बितात्मा सत्यं जनोऽयमियतो दिवसाननैषीत् । आबद्धकंकणकरप्रणयप्रसाद- मासाद्य नन्दतु चिराय फलन्तु कामाः ॥ १४ ॥ लवनिका-महाणुहाव, हिअए वि अप्पडिहदसअंगाहसा- हसो अअं जणो किं दाणि करग्गहणे विआरेदि । मालती-हद्धि, कण्णआजणविरुद्धं किं वि उवण्णस्सदि । कामन्दकी-(प्रविश्य ।) पुत्रि कातरे, किमेतत् । (मालती कम्पमाना कामन्दकीमालिङ्गति ।) कामन्दकी-(तस्याश्चिबुकमुन्नमय्य ।) वत्से, १. अहो सरसरमणीयता संविधानस्य । २. महानुभाव, हृदयेऽप्यप्रतिहतस्वयंग्राहसाहसोऽयं जनः किमिदानी करग्रहणे विचारयति । ३. हा धिक्, कन्यकाजन विरुद्धं किमप्युपन्यस्यति । मुपालब्धासि।युक्तमेवानेन बदुपालम्भनमित्यर्थः॥ कलहंसः अहो सरसरमणी- यता संविधानस्य ॥मकरन्दः। एतन्माधवेनोक्तमेवं सत्यमेव । तदेवाह-त्वं वत्स- लेति। वत्सला प्रेमवती स्वस्मिनित्येतावतैव कथमप्यतिक्लेशेनावलम्बितात्मा विधृत- जीवितोऽयं जन इयतो दिवसाननैषीदतिवाहितवानिति सत्यमेव खस्नेहादन्यो नास्य प्राणधारणे कश्चिद्धेतुः । अतस्वयैवास्य जीवितरक्षणे निःशङ्कं प्रवर्तितव्यम्, न काम- न्दक्यादिषु भारो निक्षेप्तव्य इति भावः। एतदेवाह-आबद्धकंकणस्य करस्य यःप्रणयः परिप्रहः स एव प्रसादोऽनुग्रहस्तमासाद्य प्राप्यासौ नन्दतु । तथा चिराय चिरेण कामा मे मनोरथाश्चिरकालकासिता युवयोः फलन्विति॥१४॥लवङ्गिका।महानु- भाव, हृदयेऽप्यप्रतिहतखयंग्राहसाहसोऽयं जनः किमिदानीं करप्रहणे विचारयति । येन माधवेन हृदये खयमेव गृह्यमाणे न निवारितवती केवलमयं महान्पुरुषार्थ इत्य- ङ्गीकृतवती सा करेण करे खयं गृह्यमाणेऽपि न विचारयेत् , तस्मानिःशकं खय- मेवास्याः करं गृह्णालित्याशयः ॥ मालती । हा धिक् , कन्यकाजनविरुद्धं किम. प्युपन्यस्यति । किमपीति गुरुजनाननुमतं खकरग्रहणं व्यज्यते ॥ कामन्दकी । प्रविश्य । वदतीति शेषः । पुत्रीति खत्परिणयने मातृवादस्त्येव ममाधिकार इति व्यायम् । कातरे कुलकन्यकाजनविरुद्धं कथं कुर्यामिति दुःशङ्कोदिनमानसे कथं- चिदेवानुमहादुपनतेऽवसरे शीघ्र विधेये कृत्य एतद्विलम्बनं किंनिमित्तम् । अवि. ।

षष्ठोऽङ्कः । १५७ , पुरश्चरागस्तदनु मनसोऽनन्यपरता तनुग्लानिर्यस्य त्वयि समभवद्यत्र च तव । युवा सोऽयं प्रेयानिह सुवदने मुञ्च जडतां विधातुर्वैदग्ध्यं विलसतु सकामोऽस्तु मदनः ॥ १५ ॥ लवणिका-भअवदि, किसणचउद्दसीरअणिमसाणसंचारणिन्बू- ढविसमववसाअणिहाविदपचण्डपाखण्डदोद्दण्डसाहसो साहसिओ क्खु एसो । अदो पिअसही उक्कम्बिदा। कामन्दकी-लवङ्गिके, स्थाने खल्वनुरागोपकारयोर्गरीयसो- रुपन्यासः । मालती-हा ताद, हा अम्ब । १. भगवति, कृष्णचतुर्दशीरजनीश्मशानसंचारनियूँढविषमव्यवसाय- निष्ठापितप्रचण्डपाषण्डदोर्दण्डसाहसः साहसिकः खल्वेषः । अतः प्रियसख्यु- कम्पिता। २. हा तात, हा अम्ब। चार्यैव शीघ्रमस्य पाणिं गृहाणेति भावः ॥ पुर इति । यस्य खयि विषये यत्र यस्मिन्विषये च तव पूर्व चक्षुःप्रीतिस्तदनु चित्तासङ्गस्तदनु संकल्पादिक्रमेण तनुग्लानिश्चेत्याया मदनावस्थाः प्रादुरासन् । अत्र मनःसङ्गकायोनि वाच्यानि मनसोऽनन्यपरखेन तच्चिन्तैकव्यापृतलेन संकल्पजागरकार्यतनुग्लान्यरतयो व्यज्यन्ते, स एवायं युवा प्रेयानिति वयसा प्रेम्णा चानुरूपलं ध्वन्यते । तस्मादिहास्मिन्सुवदने सर्वदा सुवदने जडतामप्रतिपत्तिं मुश्च । विधातुर्वेद- ग्ध्यं भवदुभयनिर्माणनैपुण्यं भवदुभयसमागमेनैव विलसतु सफलं भवतु । मदनश्च सकामो भवतु । जाड्यं विहाय यावदुन्मादाद्यवस्थान्तराणि नोल्लसन्ति तावदेव प्रेयांसं वृणीष्वेति भावः । जाड्यं च व्यभिचारिभावः। यथा-'क्रियाखपाटवं जाड्यं चिन्तोत्कण्ठाभयादिभिः' इति ॥ १५॥ लवङ्गिका। भगवति, कृष्णचतुर्दशीर- जन्याम् । तस्यामेव साहसकर्मप्रसिद्धरागमोक्तवात् । श्मशानसंचारेण नियूंढो निर्व- तितो महामांसविक्रयरूपो विषम आर्यजनानुचितो व्यवसायो येन । अनेन माल- त्यां माधवस्य प्रकृष्टोऽनुरागवन्ध उक्तः स चासौ निष्ठापितं निराघाटितं प्रचण्ड. पाषण्डदोर्दण्डसाहसं मालतीवधरूपं कर्म येन स इत्यनेन जीवितत्राणेनोपकारातिश- य उक्तः । साहसिकः खल्वेषः । अतः प्रियसख्युत्कम्पिता। अत्र लवङ्गिका तस्यां निशीथिन्यामेकाकी भूखात्यन्तजुगुप्सितनृमांसविक्रयसाहसरसिको भीषणपाखण्ड- वधाद्रौद्रप्रकृतिरविमृश्यकारी चासौ खयमेवानया दृष्टः, तदस्मिन्बालाया युक्कैव जड- ता कम्पमानता चेति माधवमुद्दिश्य नर्मोक्तिव्याजेन निरतिशयप्रेम्णा परमोपका- रिणि चास्मिन्नुचितमेवास्मिन्नवसरे जाज्यादिकमस्या इति वैपरीत्येनोपालभत इति वोद्धव्यम् ॥ मालती-हातातेति । एवंविधानुचितकारिण्यहं कथं पुनरपि खन्मु- १५८ मालतीमाधवे कामन्दकी-वत्स माधव । माधव: -आज्ञापय । कामन्दकी-इयमशेषसामन्तमस्तकोत्तंसपरागरञ्जितचरणाङ्गुले- रमात्यभूरिवसोरेकापत्यरत्नं मालती भगवता सदृशसंयोगरसिकेन वेधसा मन्मथेन मया च तुभ्यं दीयते (इति बाष्पं विसृजति ।) मकरन्दः-फलितं हि तर्हि भगवतीपादप्रसादेन । माधव:-तत्किमित्यतिबाष्पायितमाननं भगवत्याः । कामन्दकी-(चीराञ्चलेन नेत्रे परिमृज्य ।) वत्स, किमपि कल्याणं वक्तुकामामि । माधव:-तत्किम् । कामन्दकी-विज्ञापयामि । माधव:-आज्ञापय । कामन्दकी- परिणतिरमणीयाः प्रीतयस्त्वद्विधाना- महमपि तव मान्या हेतुभिस्तैश्च तैश्च । खं विलोकयेयमिति शेषः ॥ कामन्दकी-इयमिति । अशेषेत्यनेन निरति- शयैश्वर्यसंपनस्यापत्यं न दरिद्रस्येति, तस्याप्येकलेनातीव प्रेमभाजनं तदपि रत्नमिव रत्नं सौन्दर्यायनेकगुणशाल्यपत्यमियं मालतीत्यनेनास्यामनादरस्वया न कथंचिदपि कर्तव्य इति सूचयति । सेयं प्रथमं सदृशयोरन्योन्यानुरूपयोयुवयोः संयोगरसि- केन वेधसास खलुत्पादयन्नवेयमस्मा अयं चास्या इति निर्णयं भालतले लिखितवान् तदनन्तरं मन्मथेनाकस्मादेव द्वयोर्मनोघटकेन मया च तदुचितमानुषप्रयत्नविधा- यिन्या तुभ्यं दीयते ॥ रोदनं च कन्याप्रदानानन्तरं मातृयाद्वात्सल्याच ॥ बाष्पायितं बाष्पोद्वमनं कृतम् । 'बाष्पोष्मभ्यामुद्वमने' इति णिजन्ताद्भावे क्तः ॥ विज्ञापया- मीत्युक्तिः कामन्दक्याः कन्याप्रदानमेव तत्कैर्य मिति नीत्या विनयद्योतनार्थम् ॥ माधवस्तु गुरुजनौचित्येनाह-आज्ञापयेति ॥ कामन्दकी-परिणतीति । खद्विधानां महाकुलीनत्वादिगुणशालिनां महानायकानां प्रीतयः स्नेहाः परिणतिरम- णीयाः परिपाकेन मनोहराः न तु क्षुद्रजननेहवत्परिणतिविरसाः । अतो न मया किंचिदपि वक्तव्यम् । तथाहमपि तैस्तैहेतुभिर्निमित्तैः पितृस्नेहवात्सल्यादिमिर्मान्या- नुलझ्यवचना । तत्तस्मादिहास्यां सुवदनायाम् । हे तात। वात्सल्याविशयादपत्येऽपि तातशब्दः प्रयोज्यः । स तादृशः परिचयो गाढनेह एव करुणा कृपा तस्याः सकाशान्मा विरंसीविरतो मा भूः । अस्यां स्नेहानुबन्धेनैव मयि लया कृपा कृते- षष्ठोऽङ्कः । १५९ -- , भगवति, तदिह सुवदनायां तात मत्तः परस्मा- परिचयकरुणायाः सर्वथा मा विरंसीः ॥ १६ ॥ (इति पादयोः पतितुमिच्छति ।) माधवः अहो, वात्सल्यादतिकामति प्रसङ्गः । मकरन्द:- श्लाघ्यान्वयेति नयनोत्सवकारिणीति नियूंढसौहदरसेति गुणोज्वलेति । एकैकमेव हि वशीकरणं गरीयो युष्माकमेवमियमित्यथ किं ब्रवीमि ॥ १७ ॥ कामन्दकी-वत्स माधव । माधव:-आज्ञापय । कामन्दकी-खीक्रियतामियम् । माधव:-खीकरोमि । कामन्दकी-वत्स माधव, वत्से मालति । माधव: -आज्ञापय। मालती-आणवेदु भअवदी । १. आज्ञापयतु भगवती - त्यर्थः । विरंसीरिति 'व्यापरिभ्यो रमः' इति परस्मैपदम् । रश्मिश्च श्यनि पठ्यते मनिरित्यनिज् कम् (१)। मायोगादडागमप्रतिषेधः । विनाव्यवधानादडागमप्रति- षेधो नास्तीत्यशाब्दिकोकं हेयम् । 'मा तात साहसं कार्षीमम पूर्वपरिग्रहः । प्रश्ना- जुक्त्वा तु कौन्तेय पिवख च हरख च ॥' इत्यादौ बहुव्यवधानेऽपि प्रतिषेधदर्शनात् ॥१६॥इति पादयोः पतितुमिच्छति॥माधवः। वात्सल्यादपत्यप्रेम्णः प्रसङ्गःप्रस्ता- वोऽतिक्रामत्यौचित्यमुल्लङ्घयते। यत्सकललोकवन्द्या भगवती खयं मत्प्रणामं कर्तुमि- च्छति । अनुचितकर्मणि प्रवर्तत इति भावः ॥ मकरन्दः-भगवतीति । स्लाध्येति । श्लाध्यान्वया महाकुलप्रसूतेति हेतोः। तथा नयनोत्सवकारिणीति निर- तिशयसौन्दर्यशालिनीति । तथा नियूंढो निर्वाहं गमितः सौहृदरसः सौहार्दसारभूता रतिर्यया सा तादृशीति । तथा गुणैरन्यैः सौशील्यादिभिरपरिगणनीयैरुज्वला निर्म- लेति । एतेष्वेकैकमेवान्यनिरपेक्षं गरीयोऽनतिक्रमणीयं वशीकरणमेतदायत्तीभावसा- धनम् । तदुपरि युष्माकं निरुपाधिकहिताचरणप्रवृत्तानां सर्वलोकमान्यानामपीयमे- वंविधा दृश्यते । वात्सल्यातिशयाच्छिशोर्माधवस्य प्रणामश्चिकीर्षित इत्युक्तेऽथ किमहं ब्रवीमि । इतः परमस्यामादरातिशायानुबन्धने किं वक्तव्यमित्यर्थः ॥ १७ ॥ १५माल.

१६० मालतीमाधवे कामन्दकी- प्रेयो मित्रं बन्धुता वा समग्रा सर्वे कामाः शेवधिर्जीवितं वा । स्त्रीणां भर्ता धर्मदाराश्च पुंसा- मित्यन्योन्यं वत्सयोञ्जतमस्तु ॥ १८॥ मकरन्द: -अथ किम् । लवङ्गिका-जह तुम्हे आणवेत्थ । कामन्दकी-वत्स मकरन्द, अनेनैव वैवाहिकेन मालतीनेपथ्ये- नापवारितः प्रवर्तख परिणयायात्मनः । (इति पटलकमर्पयति ।) मकरन्दः यदाज्ञापयसि,यावदितश्चित्रजवनिकामन्तर्धाय नेपथ्यं धारयामि । (तथा करोति ।) माधव:-भगवति, सुलभमपि बबनर्थकमतिसंकटमेतद्वयस्यस्य । कामन्दकी-कस्त्वमस्यां चिन्तायाम् । माधवः-एवं भगवत्येव जानाति । १. यथा यूयमाज्ञापयथ अथोभयोः साधारणं धर्म्यमुपदेशमाह-प्रेय इति । प्रेयः प्रियतमः । मित्रं सखा। तथा समप्रा सकला बन्धुता बन्धुसमूहः सर्वेऽखिलाः काम्यन्त इति कामा विष- यास्तथा । शेवधिनिधिः । किं बहुना जीवितं वा स्त्रीणां भतेव, पुंसां च धर्म- दाराः । एवं स्निग्धमित्राणीयेतद्धर्मरहस्यं लोकशास्त्रसिद्धं वत्सयोतिं मनोगतं सर्वथास्तु । एतावत्सर्वदानुसंधेयमित्यर्थः । वत्सयोरित्यत्र 'पुमान्स्त्रिया' इत्येकशेषः। उभयोर्वात्सल्यस्य तुल्यवाद्वत्सशब्दप्रयोगः॥१८॥मकरन्दः अथ किम् । एवमे- वैतदित्यर्थः ॥लवङ्गिका । यथा यूयमाज्ञापयथ ॥ कामन्दकी। एवमत्र विवाह- मङ्गलं निर्वयतः परं नन्दनवञ्चनार्थ कृतकमालतीवेषं मकरन्दं मदयन्तिकालाभलो. भादभ्युपगतस्त्रीभावं सज्जीकुर्वन्त्याह-वत्सेति । इत आरभ्य मकरन्दवृत्तान्तः पताकेति पूर्वमेवोक्तम् । मालत्यर्थ राज्ञा प्रेषितेन नेपथ्येन मङ्गलालंकारेण । परि- णयाय नन्दनपरिणयाय मदयन्तिकापरिणयाय चेत्यर्थः। चित्रजवनिका चित्रपट- निर्मितां तिरस्करिणीम् । अन्तर्धानं स्त्रीसंनिधौ वस्त्रादिपरिधाने स्त्रीजनोचितेऽपाट- वात्परिधानचलनशङ्कया॥माधवः।सुलभमपि बबनर्थकमनेकप्रत्यवायमतिसंकटं सुदुष्कर कर्म नन्दनवश्चनात्मकं वयस्यस्य । 'शुभमपि' इत्यपि पाठः ॥कामन्दकी कस्त्वमिति । अस्यां चिन्तायाम् । प्रभूतानर्थकं सुदुष्कर चेदं कर्म, कथमस्थ रक्षिसहस्राकुले नंदनभवने प्रवेशनिर्गमी, यदि राजा देवाद्विजानीयात्तदानर्थः, किं षष्ठोऽङ्कः। १६१ मकरन्द:-(प्रविश्य विहसन् ।) (सर्वे सविस्मयं सकौतुकं पश्यन्ति ।) माधव:-(गाढं मकरन्दं परिष्वज्य ।) भगवति, कृतपुण्य एव नन्दनः । यतः प्रियवयस्यमीदृशं मनसा मुहूर्तमपि कामयिष्यति । कामन्दकी-वत्सौ मालतीमाधवौ, इतो निर्गत्य वृक्षगहनेन गम्यतामुद्वाहमङ्गलार्थम् । अस्ति तत्र दीर्घिकायाः पश्चादुद्यानवाटः । सुविहितं तत्रैव वैवाहिकद्रव्यजातमवलोकितया भूयश्च । गाढोत्कण्ठकठोरकेरलवधूगण्डाच्छपाण्डुच्छदै- स्ताम्बूलीपटलैः पिनद्धफलितव्यानम्रपूगद्रुमाः । कक्कोलीफलजग्धमुग्धविकिरव्याहारिणस्तद्भुवो भागाः प्रेजितमातुलुङ्गवृतयः प्रेयो विधास्यन्ति वाम् ॥१९॥ अतस्तत्रैव मदयन्तिकामकरन्दयोर्यावदागमनं स्थातव्यम् । माधव:-(सहर्षम् ।) कल्याणान्तरावतंसा कल्याणसंपदुपरिष्टा- द्भवतु। कलहंस:-दिट्टिआ इदं वि पि णो हविस्सदि । १. दिष्ट्या इदमपि प्रियं नो भविष्यति । वा तव भवेदित्येवंरूपायाम् । कस्लं को वा तव भारो मयि वर्तमानायामिति भावः ।। गाढोत्कण्ठेति । गाढया प्रवृद्धयोत्कण्ठया प्रियानवाप्तिजनितेन स्मरदशानि- मित्तनौत्सुक्येन व्यभिचारिणा कठोरः प्रौढो यः केरलवधूनां कपोलस्तद्वदच्छाः पाण्डुवर्णाश्छदाः पर्णानि येषां तैस्ताम्बूलीनां नागवल्लीनां पटलैः समूहैः पिनद्धाः संबद्धाः फलिता अत एव व्यानम्राः फलभारावनताः पूगगुमाः क्रमुकवृक्षा येषु तथा । ककोलीफालानां जग्धेन भक्षणेन । भावे क्तः । मुग्धा मनोहरा ये विकि- राणां पक्षिणां व्याहारा रुतानि तद्वन्तस्तथा । प्रेसिताश्चलिताः फलापादनार्थ मातुलुङ्गवृतयो वीजपूरसमूहा येषु तादृशास्तद्धवोऽस्मद्विहारिकाया भुवो भागा अवकाशा वां युवयोः प्रेयः प्रीतिं विधास्यन्तीति । अत्र नागवल्लीलतापूगद्रुम- संश्लेषणं मिथुनान्तरदर्शनमुद्दीपनं चायनसिद्धसंभोगसाधनताम्बूललाभश्च पक्षिणां कोलाहलेन नान्यैर्भवद्वचनाकर्णनं बीजपूरकुञ्जसंकटखादन्येषामप्रवेशयोग्यत्वम- दृश्यलेन तेनावस्थानं च भवतीत्यादि व्यज्यते ॥ १९ ॥ मदयन्तिकागमनं याव- दिति । तत्र युवयोर्मदयन्तिकामकरन्दयोश्च युगपदेव विवाहो निर्वर्तयिष्यत इत्याशयः॥ माधवः । कल्याणान्तरावतंसा कल्याणान्तरालंकारा कल्याणसंप- न्मालतीप्राप्तिलक्षणमङ्गलसमृद्धिः ॥ कलहंसः । दिष्ट्या इदमपि प्रियं नो भवि- १६२ मालतीमाधवे कामन्दकी-कथं संदेहो भवतः । लवङ्गिका-सुंदं पिअसहीए । कामन्दकी-वत्स मकरन्द, भद्रे लवङ्गिके, इतः प्रतिष्ठामहे । मालती-सहि, तुए वि गन्दव्वं । लवङ्गिका-(विहस्य ।) संपैदं क्खु अम्हे एत्थ ओसरम्ह । (इति निष्कान्ताः कामन्दकीलवङ्गिकामकरन्दाः ।) माधव:-अयमिदानीमहम् । आमूलकण्टकितकोमलबाहुनाल- माङ्गुलीदलमनङ्गनिदाघतप्तः । अस्याः करेण करमाकलयामि कान्त- मारक्तपङ्कजमिव द्विरदः सरस्याः ॥ २० ॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे षष्ठोऽङ्कः । १. श्रुतं प्रियसख्या । २. सखि, त्वयापि गन्तव्यम् । ३. सांप्रतं खलु वयमत्रापसरामः । ष्यति। यन्निस्तीर्ण विपन्मदयन्तिकासहितो मकरन्दोऽस्माभिर्द्रष्टव्यः॥लवङ्गिका। श्रुतं प्रियसख्या । भगवत्या विहारिकागमनाय मकरन्दागमनप्रतीक्षणाय च यदुक्तं तच्छ्रुतं किम् । तदेतत्कुरुष्वेत्यर्थः ॥ मालती । सखि, बयापि गन्तव्यम् । मां विसृज्येति शेषः ॥ लवङ्गिका । सांप्रतं खलु वयमेव शिष्टा बाह्याः । वं भर्ना सह सुखमास्खेति भावः ॥ माधवः । आमूलेति । अनङ्ग एव निदाघो धर्मस- मयः संतापकारिखात् । तेन तप्तोऽयमहमिदानी निदाघतप्तो द्विरद इवामूलं कण्ट- कितो रोमाञ्चकञ्चुकितः संजातकण्टकश्च कोमलो बाहुनालो नालसदृशो बाहुर्यस्य तम् । तथा ः खेदाख्यसात्त्विकभाववशात्सलिलसंबन्धवशाच्चाङ्गुल्यो दलानीव दलसदृशोऽङ्गुल्यो यस्य तम् । अस्या मालत्याः सारस्या इव कान्तं करमारक्तप- ङ्कजं कोकनदमिव करेण हस्तेन शुण्डादण्डेन चाकलयामि गृह्णामीति । उप- मालंकारः ॥ २०॥ भवभूतिकवेर्वाचः स्वदन्ते रसरञ्जिताः । सुमनोभ्यः सुधास्यन्दबन्धमाधुर्यबन्धुराः ॥ इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रि- पुरारिसूरिविरचितायां मालतीमाधवभावप्रदीपिकायां षष्ठाङ्कविवरणम् ॥

सप्तमोऽङ्कः। (ततः प्रविशति बुद्धरक्षिता।) बुद्धरक्षिता-अम्हहे, सुसिलिट्ठमालदीणेवच्छलच्छीविप्पलद्ध- णन्दणकरग्गहो अमच्चभूरिवसुमन्दिरे भअवदीए संविहाणेण क्खेमेण गोवाइदो अज मअरन्दो । अज अम्हे णन्दणावासं उगवदा अदो भअवदी नन्दणं आपुच्छिअ णिआवसहं गआ । अअं अ णव- वहूघरप्पवेसविरइदाकालकोमुदीमहूसवप्पमत्तपज्जाउलासेसपरिअणो पदोसो अणुऊलइस्सदि अज्ज णो व्ववसिदं । संपदं अ तुवरन्तकामो १. अहो, सुश्लिष्टमालतीनेपथ्यलक्ष्मीविप्रलब्धनन्दनकरग्रहोऽमात्यभूरिव- सुमन्दिरे भगवत्याः संविधानेन क्षेमेण गोपायितोऽद्य मकरन्दः । अद्य वयं नन्दनावासमुपगताः अतो भगवती नन्दनमापृच्छय निजावसथं गता । अयं च नववधूगृहप्रवेशविरचिताकालकौमुदीमहोत्सवप्रमत्तपर्याकुलाशेषपरि- जनः प्रदोषोऽनुकूलयिष्यत्यद्य नो व्यवसितम् । सांप्रतं च त्वरमाणकामः पार्वतीचुम्बितं शंभोर्जयत्यलिकलोचनम् । जिष्णोर्मनसिजायेन लज्जयेव निमीलितम् ॥ कविरिदानीमकान्तरमारभते-तत इत्यादिना। कामन्दक्या हि निसृष्टार्थ- दूतीव्यापार मालतीमाधवकृतकपरिणयलक्षणफलपर्यवसितं संपाद्य कामन्दकीनियु. ताया बुद्धरक्षिताया अपि तद्व्यापारे 'नियुक्तैव हि मया तत्र प्रियसखि बुद्धरक्षिता' इति प्राक्सूचितं मदयन्तिकामकरन्दसंघटनेन सफलयितुं कवेरकावतार इति द्रष्ट- व्यम् ॥ बुद्धरक्षिता । सुश्लिष्टाकृतिमत्त्वेनानाशङ्कनीया मालतीनेपथ्यलक्ष्मी- स्तया विप्रलब्धेन नन्दनेन कृतः करग्रहो यस्य सः। अमात्यभूरिवसुमन्दिरे भग- वतीवचनसंविधानः 'समागतेयं मालती समभ्यर्च्य नगरदेवताम्' इत्यादिवचनै. मालतीसमुचिततत्तदुपचारसंपादनादिव्यापारैश्च क्षेमेण केनचिदप्यलक्षितवादनु- पद्रवेण गोपायितो रक्षितो राज्ञस्तनुचरेभ्यः परित्रातो मकरन्दः । यथा विज्ञाय तैर्न प्रहियते तथा कृत इत्यर्थः । अनेन च कृतकमालतीनन्दनपरिणयनिष्पत्तिः सूचिता । अद्य वयं नन्दनावासमुपगताः । मदयन्तिकासखींखेन खस्य वरसंबन्धा- द्विद्वद्वरवर्गाणां च बहुलाद्वयमिति बहुवचनम् । विवाहार्थ वरमनुसृत्य वयं जन्याश्च विवाहं निवर्त्य वरगृहमेव प्रत्यागता इत्यर्थः । अतो भगवती नन्दनमापृच्छया- मध्य गता निजावसथं खावासम् । अयं नववधूगृहप्रवेशार्थ विरचितो योऽकाल आश्वयुजपौर्णमासीव्यतिरिक्तकाले कौमुद्या अभावात्पौर्णमास्यां कर्तव्यो यो महो. त्सवतेन प्रमत्तोऽनवहितस्तथा पर्याकुलः कार्यान्तरव्यासङ्गाद्विक्षिप्तचेतस्कोऽशेष- परिजनो यस्मिन्स तादृशः प्रदोषो रजनीमुखमनुकूलयिष्यत्यभिमतसिद्धिसाहा.

१६४ मालतीमाथवे कामेदं सपादपडणं अब्भत्थिा पुणो बलामोडिअ अभिवन्तो मअरन्देण णिडुरं पडिहदो जामादा । सो अ वेल्लक्खरोसावेसखलन्त- अक्खरो ओरुइदणअणपप्फुरन्तवअणो ण मे संपदं इमाए कौमार- वड्डईए पओअणं ति ससवहं पइण्णं कादूण वासभवणादो णिग्गदो। ता एदेण पसङ्गेण मदअन्तिअं आणीअ मअरन्देण संओजइस्सं । (इति निष्कान्ता।) इति प्रवेशकः। (ततः प्रविशति शय्यागतो मकरन्दो लवङ्गिका च ।) मकरन्द: -लवनिके, अपिनाम बुद्धरक्षितासंक्रान्ता भगव- तीनीतिर्विजेष्यते । कामयितुं सपादपतनमभ्यर्थ्य पुनर्बलात्कारेणाभिद्रवन्मकरन्देन निष्ठुरं प्रति- हतो जामाता । स च वैलक्ष्यरोषावेशस्खलदक्षरोऽवरुदितनयनप्रस्फुरद- दनो न मे सांप्रतमनया कौमारवर्धक्या प्रयोजन मिति सशपथं प्रतिज्ञा कृत्वा वासभवनानिर्गतः । तस्मादनेन प्रसङ्गेन मदयन्तिकामानीय मकर- न्देन संयोजयिष्यामि । य्यकानुकूल्येन सिद्धयुन्मुखं करिष्यति । अद्य नोऽस्माकं व्यवसितं मदय- न्तिकामकरन्दसंघटनविषयदूत्यव्यापार मालतीवेषधारिणो मकरन्दस्य कृत्रिम- निर्वतितमदयन्तिकापरिणयस्य मदयन्तिकां गृहीला निर्गन्तुं कालोऽप्येष एवानुकूलो वर्तते । यतो मदीयाः सर्वेऽप्यप्रमत्ता रक्षिणः सर्वे प्रमत्ताः पर्याकुलाश्च । तन्निर्गमप्रज्ञानतनिवारणादावसमर्था वर्तन्त इत्यर्थः । अनेन च वर्तमानोऽर्थः सूचितः । सांप्रतं च खरमाणकामो नववधूसंभोगोत्कण्ठास- मुन्मीलितमन्मथावेगः कामयितुं मां कामयलियेवमेव बहुशः सपादपतनमभ्यर्थ्य पुनर्बलात्कारेणाभिद्रवन्प्रसह्य स्वयंग्राहसाहसप्रवृत्तः सन्निष्ठुरं परुषं यथा स्यान्म- करन्देन कपटमालत्या प्रतिहतो निराकृतो जामाता वरो नन्दनः । स च वैल. श्यरोषावेशस्खलदक्षरो मन्थरवचनः । तथावरुदितनयनं प्रस्फुरच वदनं यस्य सः। न मे सांप्रतमनया कौमारवर्धक्या कौमारे कुमारीभावे कन्याव एव वर्धकी चलि- तचारित्रया। माधवैकानुरतयं मालतीति पूर्वमेव नन्दनोऽपि श्रुतवानित्येवमुपा- लम्भः । प्रयोजनमिति सशपथं प्रतिज्ञां कृत्वा वासभवनानिर्गतः। तस्मादनेन प्रस. न भ्रातृकार्यानुकूल्यार्थमनुनयव्याजप्रस्तावेन मदयन्ति कामानीय मकरन्देन सह संयोजयिष्यामि । इति वृत्तं वर्तिष्यमाणं च संसूच्य निष्कान्ता बुद्धरक्षिता । अयं च प्रन्थकाण्डः प्रवेशको वृत्तवर्तिष्यमाणोदितलक्षणयोगात्। न चैकपात्रप्रयोगानुपपत्तिः तल्लक्षणेऽनेकपात्रत्वनियमाप्रतीतेः। अस्य विष्कम्भवदेकेनाप्युपपत्तेश्चेति ॥ तत इत्यादि । शय्यागत इति वासभवने नववधूवरसंभोगार्थ रचिते तल्पे शयितः प्रार्थ- नाभातिरस्कारनिष्कासितनन्दनः । मालतीरूपधारीत्यर्थः ॥ मकरन्दः । अपि.

सप्तमोऽङ्कः। १६५ लवङ्गिका-को संदेहो महाभाअस्स । किं बहुणा । जह एसो मञ्जीरसहो तह जाणामि देण ववदेसेण आणीदा बुद्धरक्खि- दाए मदअन्तिएत्ति । ता उत्तरीआववारिदो सुत्तलक्खणो चिट्ठ । (मकरन्दस्तथा करोति ।) (ततः प्रविशति मदयन्तिका बुद्धरक्षिता च ।) मदयन्तिका-सहि, सच्चं जेब परिकोविदो मे भादा मालदीए । बुद्धरक्षिता-अह इं। मदयन्तिका-अहो अच्चाहिदं । ता एहि, वामसीलं मालदीं णिब्भच्छेम्ह । (इति परिक्रामतः।) बुद्धरक्षिता-इदं वासभवणं । १. कः संदेहो महाभागस्य । किं बहुना । यथैष मञ्जीरशब्दस्तथा जानामि तेन व्यपदेशेनानीता बुद्धरक्षितया मदयन्तिकेति । तदुत्तरीया- पवारितः सुप्तलक्षणस्तिष्ठ । २. सखि, सत्यमेव परिकोपितो मम भ्राता मालत्या ! ३. अथ किम् । ४. अहो अत्याहितम् । तदेहि वामशीलां मालती निर्भर्त्सयावः । ५. इदं वासभवनम् । नामेति संभावनायाम् । वुद्धरक्षितासंक्रान्ता भगवत्यैव निवेशिता भगवतीनीतिः कृत्यं मदयन्तिकां प्रति न बुद्धरक्षिताबुद्धिदोषेण प्रतिहता फलतीति संभाव्यते।'न विपर्येष्यति' इति पाठे बुद्धरक्षितया खप्रज्ञावलेनाप्रमत्तेन दोषेण वैपरील्यं न संभा- व्यते। अपितु भगवत्यैव प्रवर्तितवात्फलपर्यवसायिनी नीतिर्भविष्यतीत्यर्थः ॥लव- निका । कः संदेहो महाभागस्य । संभावनाया उल्बणैककोटिसंदेहरूपवादपिनाम शब्दसूचिता संभावनैव संदेहशब्देनोक्ता । कथं तर्हि संदेहलेशस्याप्यवकाश इत्यर्थः। किंबहुना। यथेष मजीरशब्दःश्रूयते,तथा तेनैव नूपुरध्वनिश्रवणप्रकारेण हेतुना तर्क- यामि तेन व्यपदेशेनालीकभ्रातृभायास्तवानुनयव्याजेनानीता बुद्धरक्षितया मद- यन्तिकेति। तदुत्तरीयापवारितःसुप्तलक्षणः सुप्त इव लक्ष्यमाणखिष्ठ ॥ मदयन्ति- का । सखि, सत्यमेव परिकोपितः, परिकुपितः कृतो मे भ्राता मालत्या ॥बुद्धरक्षि- ता। अथ किम् । सत्यमेवेत्यर्थः ॥ मदयन्तिका । अहो, अत्याहितं महाभीतिः। कुपिता भ्रातुर्मालती समीपमुपनीतैवेत्यर्थः। तदेहि। वामशीला वक्रखभावां मालती १६६ मालतीमांधवे (उमे प्रविशतः।) मदयन्तिका-सहि लवङ्गिए, जाणीअदि पसुत्ता दे पिअसही ति। लवङ्गिका—सहि, मा णं पडिबोधेहि । एसा चिरं दुम्मणा- अन्दी दाणिं जेब ईस मण्णे पसुत्तेत्ति । अदो सणि इध जेब सअ- णद्धम्मि उवविस । मदयन्तिका—(तथा कृत्वा ।) दुम्मणाअदि कहं इअं वामसीला । लवङ्गिका-कहं णाम णववहूविस्सम्भणोवाअजाणुअं लडहं विअद्धं महुरभासिणं अरोसणं दे भादरं भत्तारं आसादिअ ण दुम्म- णाइस्सदि मे पिअसही। १. सखि लवङ्गिके, ज्ञायते प्रसुप्ता ते प्रियसखीति । २. सखि, मैनां प्रतिबोधय । एषा चिरं दुर्मनायमानेदानीमेवेपन्मन्ये प्रसुप्तेति । अतः शनैरिहैव शयनार्ध उपविश । ३. दुर्मनायते कथमियं वामशीला । ४. कथं नाम नववधूविसम्भणोपायाभिज्ञं लडहं विदग्धं मधुरभाषिणम- रोषणं ते भ्रातरं भर्तारमासाद्य न दुर्मनायिष्यते मे प्रियसखी । निर्भर्सयावः॥ बुद्धरक्षिता। इदं वासभवनम् ॥मदयन्तिका । सखि लवनिके, ज्ञायते प्रसुप्ता ते प्रियसखीति ॥ लवनिका । सखि, मैनां प्रतिबोधय । एषा चिरं दुर्मनायमाना दुःखितमनस्का भवन्ती। 'भृशादिभ्यो भुवि-'इत्यादिना क्यङ् । इदा- नीमेवेषन्मन्ये प्रसुप्तेति। अतः शनैरिहैव शयनार्ध उपविश॥मदयन्तिका। दुर्म- नायते कथमियं वामशीला । खयमेव भर्तुः प्रतिकूलकारिखेनापराधं कृला कथ- मात्मनैव दुर्मनस्का भवतीत्यर्थः । लवङ्गिका । कथं नाम नववध्वा विस्रम्भणे विस्रम्भजनने य उपायाः कामतत्रोकास्तच्चित्तवृत्त्यनुरोधस्तन्मनोरञ्जनं तदनिवारि- तार्धाङ्गीकृतानां लजया केवलं बहिरलीकमेव किंचिनिषिद्धानामप्यन्तरनुमोदिताना. मवयवस्पर्शादिसंभोगव्यापाराणां मन्दमन्दमुपक्रमानातिप्रसह्य किंचिदाचरणमि- त्यादयस्तेषामभिज्ञमिति विपरीतलक्षणयोक्तिः । यतोऽसौ ब्रह्मचर्यार्थ शयनादिनि- यमबाह्ये वैवाहिक एव त्रिरात्रे खचित्तवृत्त्यनभिज्ञां किंचिदप्यशिथिलीकृतबाहुभरा- मत्यन्तापरिचयादहेरिवोद्विजमानां बलादेना बालां मुखत एव पामरबालिशजनरी- त्या निर्दयं निष्पीडयितुमारब्धवान् । अतो न कामतरवार्तामप्यसौ जानातीत्यर्थः। लडहो विदग्धो मधुरभाषी । लडहः सुन्दरः। विदग्धः सुरतकलानिपुणः । अत्रापि सौन्दर्यगन्धविहीनं मुरतकलावार्तानभिज्ञमविपरुषभाषिणमिति वैपरीयेनोक्तिः । अरोषणमकोपनमतिमुर्खमित्यन्यथोक्तिः भ्रातरं ते भर्तारमासाद्य प्रियसखी न सप्तमोऽङ्कः । १६७ मदयन्तिका–पेक्ख बुद्धरक्खिदे, विप्पदीवं उवालद्धा म्ह । बुद्धरक्षिता-विप्पंदीवं ण वा विप्पदीवं । मदयन्तिका-कहं विअ । बुद्धरक्षिता-जं दाव चलणपडिदो भत्ता ण बहुमाणिदो। एत्थ लज्जादोसेण एसो जणो ण उवालम्भणिज्जो । जं वि पिअसहि, अहिणववहूविरुद्धरहसोपक्कमक्खलणवेल्लक्खविच्छडिदमहाणुहावत्त- णस्स भादुणो दे वाआगरं किं अप्पडिट्ठाणं । तेण जाणीअदि किआवराहा उवालम्भणिज्जा अह्मेत्ति (संस्कृतमाश्रित्य ।) किंच । १. पश्य बुद्धरक्षिते, विप्रतीपमुपालब्धाः स्मः । २. विप्रतीपं न वा विप्रतीपम् । ३. कथमिव । ४. यत्तावच्चरणपतितो भर्ता न बहुमानितः । अत्र लज्जादोषेणैष जनो नोपालम्भनीयः। यद्यपि प्रियसखि, अभिनववधूविरुद्धरभसोमपक्रमस्खलनवैल- क्ष्यविच्छर्दितमहानुभावत्वस्य भ्रातुस्ते वाचागतं किमप्रतिष्ठानम् । तेन ज्ञायते दुर्मनायते । युक्तमेवैवंविधभर्तृसमागमे क्लेशेनास्या दुर्मनस्कलमित्यर्थः ॥ मदय- न्तिका । पश्य बुद्धरक्षिते, विप्रतीपमुपालब्धाः स्मः । अस्माभिरुपालब्धव्ये प्रत्युतास्मानेवोपालभत इत्यर्थः ॥ बुद्धरक्षिता । विप्रतीपं न वा विप्रतीपम् । आपाततो विप्रतीपमिव प्रतिभासमानमपि तत्त्वनिरूपणेनैव विप्रतीपं वयमेवोपा- लब्धा इत्यर्थः । मदयन्तिका । कथमिव तत्कथमिति प्रश्नः ॥ बुद्धरक्षिता। यत्तावच्चरणपतितो भर्ता न बहुमानितोऽनुल्लचितप्रणामोऽयमतिगौरव विषयो भर्तेति न विज्ञातः । अत्र न किंचिदस्या दूषणं प्रतिभाति । किंतु कुलकन्यकाज- नोचिता नवपरिणयसमयसुलभा लजैव परमार्थतः श्लाघनीयगुणभूतापि कामा- न्धस्याविवेकिनोऽस्मद्भातुर्दोषलेन स्फुरिता । तेन लज्जादोषेणैवैष जनो नोपाल- म्भनीयः । यद्यप्यभिनववधूविरुद्धं लोकसिद्धनवोढासंभोगक्रमविपरीतं रभसोपक्र- मस्खलनं प्रसह्यानुचितप्रक्रमरूपं स्खलनं तेन यद्वैलक्ष्यं तेन विच्छदितं महानु- भावलं यस्येति । विच्छर्दितं विवर्जितम् । प्रकटितमौर्यस्येति यावत् । भ्रातुस्ते किमपि श्रोतुमप्यनह वाचागतमप्रतिष्ठानं न मे खया कौमारवर्धक्या प्रयोजनमिति गर्हितवचनचापलम् । तेन वयमेवोपालम्भनीया इति प्रतिभाति । शास्त्रविरुद्धं चैतदित्याह-किंचेति । योषिच्छब्दोऽत्र नववधूपरः । यथा कुसुमं न म्लायते तथा मृदुरीत्या सुकुमारकमेणोपक्रम्यमाणं सौरभमशेषमुद्रिति, न तु प्रसभमेव निष्पीड्यमानम् । एवं तत्समानधर्माणो नवोढा अपि सुकुमारेणैव संभोगक्रमेणोपक- म्यमाणा अनुरक्ताः सुखहेतवो भवन्ति । तास्वनधिगतो विश्वासो नवोढाभिप्रायो - १६८ मालतीमाधवे 'कुसुमसधर्माणो हि योषितः सुकुमारोपक्रमाः। तास्त्वनधिगतविश्वा- सैः प्रसभमुपक्रम्यमाणाः संप्रयोगविद्वेषिण्यो भवन्ति ।' एवं किल कामसुत्तआरा मन्तेन्ति । लवङ्गिका-घरे घरे पुरिसा कुलकण्णकाओ उन्वहन्दि । ण अ को वि लज्जापसाहणं अणवरद्धमुद्धसहावं कुलकुमारीजणं पहवामि त्ति वाआणलेण पज्जालेदि । एदे क्खु दे आमलणसंभरिज्जन्तदूसह- परघरणिवासवेरग्गकारिणो हिअअसल्णिक्खेवा महापरिहवा । जाणं किदे इत्थिआजम्मलाहं जुउच्छन्दि बान्धवा । मदयन्तिका-बुद्धरक्खिदे, अदिदूम्मिदा पिअसही लवङ्गि- आ । अतिमहान्तो को वि मे भादुणा वाअवराहो किदो । कृतापराधा उपालम्भनीया वयमिति । एवं किल कामसूत्रकारा मन्त्रयते । १. गृहे गृहे पुरुषाः कुलकन्यका उद्वहन्ति । न च कोऽपि लज्जाप्रसाधन- मनपराधमुग्धस्वभाव कुलकुमारीजनं प्रभवामीति वागनलेन प्रज्वलयति । एते खलु ते आमरणसंश्रियमाणदुःसहपरगृह निवासवैराग्यकारिणो हृदयशल्य- निक्षेपा महापरिभवाः । येषां कृते स्त्रीजन्मलाभं जुगुप्सन्ते बान्धवाः । २. बुद्धरक्षिते, अतिम्लाना प्रियसखी लवङ्गिका । अतिमहान्कोऽपि मे भ्रात्रा वागपराधः कृतः। येते तथा । यद्वानधिगतो नवोढया परिचयाभावादप्राप्तो विश्वासो विस्तम्भो येषु ते तथोक्ताः। तैरप्येतन्मनोऽवेदिभिरपरिचितैश्च प्रसभं बलादेवात्युद्वेगकारिभिर्व्यापार- रुपकम्यमाणाः प्रयोगस्य संप्रयोगस्यैव विद्वेषिण्यो भवन्ति । न केवलं तादृशपुरुषे- णानुरज्यन्ते । अपि तु रिपुसमागमवद्विषीदन्तीत्यर्थः । एवं किल कामसूत्रकारा मन्त्रयन्ते । यदाहुः-रभसेन ह्युपक्रान्ता कन्याभावमविन्दता। भयं चिन्तासमु. द्वेगं सद्यो द्वेषं च गच्छति ॥' इति ॥ लवङ्गिका । गृहे गृहे पुरुषाः कुलकन्यका उद्वहन्ति । न च कोऽपि लज्जाप्रसाधनमनपराधमुग्धखभावं कुलकुमारीजनं प्रभ- वामीति समर्थोऽहमित्येतावता वागनलेनावाच्यवचनरूपेणानलेन प्रज्वलयति । एते खलु ते हृदयशल्यनिक्षेपा आमरणं संघ्रियमाणा विस्मर्तुमशक्यतेन मनसि संततं धार्यमाणा अत एव दुःसहाः परगृहनिवासवैराग्यकारिणो महापरिभवाः । येषां कृते स्त्रीजन्मलाभं जुगुप्सन्ते बान्धवाः॥मदयन्तिका । बुद्धरक्षिते, अति- म्लाना प्रियसखी लवनिका । अतिमहान्कोऽपि मे भ्रात्रा वागपराधः कृतः॥

सप्तमोऽङ्कः । १६९ बुद्धरक्षिता-अंह इं। सुदं जेव्व अम्हेहिं ण मे संपदं इमाए कोमारवड्ढईए पओअणं ति ससपहं पइणं काऊण वासभवणादो णिग्गदो। मदयन्तिका—(कर्णी पिधाय ।) अम्हहे अदिकमो । अहो पमादो । सहि लवङ्गिए, असमत्थम्हि दे मुहं संपदं दटुं । तह वि पहवामि ति किं वि मन्तइस्सं । लवङ्गिका-साँहीणो दे अअंजणो । मदयन्तिका-चिट्ठदु दाव मह भादुणो दुःसीलदा अप्प- डिट्ठाणं अ । तुम्हेहिं वि ईदिसो वि एसो संपदं जहचित्तं अणुव- टुणीओ जेण भत्ता एसो त्ति । तुम्हे इमस्स अणहिआअअक्खराहि- क्खेवोवालम्भस्स जं मूलं तं ण जाणह । १. अथ किम् । श्रुतमेवास्माभिर्न मे सांप्रतमनया कौभारवर्धक्या प्रयो- जनमिति सशपथं कृत्वा वासभवनान्निर्गतः । २. अहो अतिक्रमः । अहो प्रमादः । सखि लवङ्गिके, असमास्मि ते मुखं सांप्रतं द्रष्टुम् । तथापि प्रभवामीति किंचिन्मन्त्रयिष्ये । ३. स्वाधीनस्तेऽयं जनः। ४. तिष्ठतु तावन्मम भ्रातुर्दुःशीलताप्रतिष्ठानं च । युष्माभिरपीदृशोऽप्येष सांप्रतं यथाचित्तमनुवर्तनीयो येन भतॆष इति । यूयमस्यानभिजाताक्षराधि- क्षेपोपालम्भस्य यन्मूलं तन्न जानीथ । बुद्धरक्षिता । अथ किम् । कृत एवेत्यर्थः । तदेवाह-श्रुतमेवास्माभिर्यथा न मे सांप्रतमनया कौमारवर्धक्या प्रयोजनमिति सशपथं प्रतिज्ञां कृत्वा वासभवना- निर्गतः ॥ मदयन्तिका । अहो अतिक्रमो मर्यादोल्लङ्घनम् । अहो प्रमादोऽनव- धानता । सखि लवङ्गिके, असमास्मि ते मुखं सांप्रतं द्रष्टुम् । तथापि प्रभवामीति मय्यतिस्निग्धायां वयि प्रभुत्लमस्तीति किमपि सखिलमेवावलम्ब्य तदनुरूपं किंचिन्मन्त्रयिष्ये ॥ लवङ्गिका । स्वाधीनस्तेऽयं जनः । तद्विस्रब्ध मन्त्रयखति भावः ॥ मदयन्तिका । विष्टतु तावन्मम भ्रातुर्दुःशीलताप्रतिष्ठानं च युष्मा- भिर्मालत्याप्तकोटिभिरपीदृशोऽप्येष सांप्रतं यथाचित्तमनुवर्तनीयः । चित्तशब्देनात्र तत्साधारणो व्यापारः संकल्पाख्यो लक्ष्यते । तेन तदिच्छाप्रतिकूलं नाचरणीयमि- त्याशयः । येन भतष इति । निर्गुणो दोषवानपि भर्ता भर्तृलेन स्त्रीभिरनुवर्तनीयः। न तु तस्य प्रातिकूल्यं कुलवधूनामुचितमिति भावः । न च यूयमस्याभिजाताक्ष- राधिक्षेपोपालम्भस्यानभिजातानि कितवजनयोग्यान्यक्षराणि यत्र स ताशो- मालतीमाधवे लवङ्गिका-कहं अम्हे असन्तं जाणीमो । मदयन्तिका-'जं दाणिं तस्सि महाणुहावे माहवे किं वि किल मालदीए वाआमेतं आसी सो एसो सव्वलोअस्स अदि- भूमि गदो पवादो। तं क्खु एवं विअम्भदि । ता पिअसहि, जह एसो भत्तुणो उवेक्खाहिणिवेसो णिरवसेसो हिअआदो उद्धरिअदि तह करेहि । अण्णहा महान्तो पमादो ति जाणीदं होदु । णिक्कम्पदा- रुणासु कुलकण्णकासु दूमावेदि हिअअं माणुसाणं ईरिसादो दुरहि- संगादो ति जाणह । मा भण मदअन्तिआए कहिदं त्ति । लवङ्गिका-अइ असंबद्धलोअप्पवादमोहिदे, अवेहि । ण तुए सह मन्तइस्सं। १. कथं वयमसन्तं जानीमः । २. यदिदानी तस्मिन्महानुभावे माधवे किमपि किल मालत्या वाङ्मात्र- मासीत्स एष सर्वलोकस्यातिभूमिं गतः प्रवादः । तत्खल्वेतद्विज़- म्भते । तत्प्रियसखि, यथेष भर्तुरुपेक्षाभिनिवेशो निरवशेषो हृदयादुद्रि- यते तथा कुरु । अन्यथा महान्प्रमाद इति ज्ञातं भवतु । निष्कम्पदारुणासु कुलकन्यकासु दूनयति हृदयं मनुष्याणामीदृशादुरभिषङ्गादिति जानथ । मा भण मदयन्तिकया कथितमिति । ३. अयि असंबद्धलोकप्रवादमोहिते, अपेहि । न त्वया सह मन्त्रयिष्ये । ऽधिक्षेपो धर्षणं छिद्रोपालम्भस्य यन्मूलं तन्न जानीथ ॥ लवङ्गिका । कथं वय- मसन्तं जानीमः । एतदुपालम्भस्य बीजं मालतीगतं किंचिदनुचितमस्ति चेत्कथं वयं न जानीमः । नास्त्येवैतत् । अन्यत्तु कारणमसंभावितमेवेत्याशयः । अन्यदेव तन्मूलमाह-मदयन्तिका । यदिदानी तस्मिन्महानुभावे माधवे किमपि किल मालत्या वाड्यानं माधवानुरक्तेयं मालतीति प्रवादमात्रमासीत्स एष सर्वलोकस्याति. भूमिगतः परा कोटिमारूढःप्रवादः। 'तारामैत्रमासीत्' इति पाठे तारामैत्रं दर्शनमा. त्रस्नेहः। तस्मिन्सर्वलोकस्येति पाठः। तत्खल्वेतद्विजृम्भते। उपालम्भमूलखेनेतिशेषः। तत्प्रियसखि, यथेष भर्तुरुपेक्षाभिनिवेशो मालत्या भर्तृविषयौदासीन्याग्रहो निरव. शेषो हृदयादुद्भियते तथा कुरु। अन्यथा महान्प्रमाद इति ज्ञातं भवतु । निष्कम्पदारु- णाखनानुकूल्यं प्रतिपद्य केवलं निश्चेष्टीभूताखत एव दारुणासुकुलकन्यकासु विषय. भूतासुदूनयति हृदयंमनुष्याणामीदृशादुरभिषङ्गादिति । दुरभिषहो दुष्टानुरागबन्धः। तन्मा भण मदयन्तिकया कथितमिति मालत्युपालम्भबीजमेतदस्मद्भातुमनोगतं भवतीषु नेहान्मया गूढमपि कथितम् ,तदेतन्मयोकमिति न क्वचिदपि प्रकटनीयमि. त्यभिप्रायः॥ लवङ्गिका। अयि असंबद्धलोकप्रवादमोहिते, अपेहि । न बया सह सप्तमोऽङ्कः। मदयन्तिका-संहि, पसीद । अहवा ण तुम्हे फुडं भणिदावो चिट्ठह । किंअ अम्हे सच्चं जेब माहवेक्कमअजीविदं मालदि जा- णीमो । केण वा कठोरकेअईगब्भविन्भमावअवदोब्बल्लणिवहिद- सुन्दरत्तणविसेसं माहवसहत्थणिम्माविदबउलावलीविरइदकण्ठावल- म्बणमेत्तसंजीवणं मालदीए माहवस्स अ पहादचन्दमण्डलापाण्डुर- परिक्खामरमणिज्जदसणं ण विभाविदं सरीरं । किंअ तस्सि दिअ- से कुसुमाउरुज्जाणपेरन्तरच्छामुहसमाअमे सविब्भमुल्लसिदकोदूहलु- प्फुल्लपरिसरुवेल्लमाणसविलासमसिणसिणिद्धसंचरणचारुतारआविअम्भ- माणाणनासङ्गाराआरिअसबाअमोपदेसणिम्माविदविअद्धमुद्धमणहारा मए ण णिरूविदा इमाणं दिद्विसंभेदा । किंअ मह भादुणो दाण- वुत्तन्दं सुणिअ तक्खणुवत्तगम्भीरुबेअश्वइअरन्धआरिअमिलाअन्तदेह- १. सखि, प्रसीद । अथवा न यूयं स्फुटं भणितास्तिष्ठथ । किंच वयं सत्यमेव माधवैकमयजीवितां मालती जानीमः । केन वा कठोरकेतकीग- भविभ्रमावयवदौर्बल्यनिर्वर्तितसुन्दरत्वविशेष माधवस्वहस्तनिर्मितबकुलाव- लीविरचितकण्ठावलम्बनमात्रसंजीवनं मालत्या माधवस च प्रभातचन्द्रम- ण्डलापाण्डुरपरिक्षामरमणीयदर्शनं न विभावितं शरीरम् । किंच तसिन्दि- वसे कुसुमाकरोधानपर्यन्तरथ्यामुखसमागमे सविभ्रमोल्लसितकौतूहलोत्फुल्ल- परिसरोद्वेल्लमानसविलासमसृणस्निग्धसंचरणचारुतारकाविजृम्भमाणानङ्गशृङ्गा- राचार्यसर्वागमोपदेशनिर्मितवैदग्ध्यमुग्धमनोहरा मया न निरूपिता एतयोर्ट- ष्टिसंभेदाः । किंच मम भ्रातुर्दानवृत्तान्तं श्रुत्वा तत्क्षणोद्वृत्तगम्भीरोद्वेगव्यतिक- रान्धकारितम्लायमानदेहशोभयोरुद्वर्तमानमूलबन्धनमिव न लक्षितं हृदयम् । किंच मयैतदपरं विस्मृतम् । मन्त्रयिष्ये ॥ मदयन्तिका । सखि, प्रसीद । अथवा न यूयं स्फुटं भणितास्ति. टथ । किंच वयं सत्यमेव माधवैकमयजीवितां मालती जानीमः । केन वा कठो. रकेतकीगर्भविभ्रमावयवदौर्बल्यनिर्वर्तितसुन्दरत्नविशेषं माधवखहस्तनिर्मितबकु. लावलीविरचितकण्ठावलम्बनमात्रसंजीवनं मालत्या माधवस्य च प्रभातचन्द्रमण्ड. लापाण्डुरपरिक्षामरमणीयदर्शनं न विभावितं शरीरम् । किंच तस्मिन्दिवसे कुसुमा. करोद्यानपर्यन्तरथ्यामुखसमागमे सविभ्रमोल्लसितकौतूहलोत्फुल्लपरिसरोवेल्लमानस- विलासममृणस्निग्धसंचरणचारुतारकाविजृम्भमाणानगशृङ्गाराचार्यसर्वागमोपदेश- निर्मितवैदग्ध्यमुग्धमनोहरा मया न निरूपिता एतयोईष्टिसंमेदाः । किंच मम भ्रातुर्दानवृत्तान्तं श्रुखा तत्क्षणोद्वृत्तगम्भीरोद्वेगव्यतिकरान्धकारितम्लायमानदेह- शोभयोरुद्वर्तमानमूलबन्धनमिव न लक्षितं हृदयम् । किंच मयैतदपरं विस्मृतम् ॥

मालतीमाधवे सोहाणं उक्खण्डिअमाणमूलबन्धणं विअ ण लक्खि हिअ। किं अ मए एदं अवरं विसुमरिदं । लवङ्गिका-'किं दाणिं अवरं । मदयन्तिका- क्खु मह जीविदप्पदाइणो महाणुहावस्स चेदणापडिलम्भपिअणिवेदिआए मालदीए भअवदीविअद्धवअणोव- ण्णासचोदिदेण हिअ जीविदं अ माहवेण पारिदोसिअतणेण स- अंगाहे णिउत्तं । अह लवनिए, तुए क्खु एवं भणिदं पडिच्छिदो क्खु णो पिअसहीए अअं पसादो ति । लवङ्गिका-सहि, कदमो उण सो महाणुहावो चि विसुमरिद विअ मए। मदयन्तिका-संहि, सुमर । जेण तस्सि दिअसे विअडदुट्ठ- सावदविणिवादगोअरं गदा असरणा सुलग्गसण्णिहिदेण पीअरभु- १. किमिदानीमपरम् । २. यत्खलु मम जीवितप्रदायिनो महानुभावस्य चेतनाप्रतिलम्भप्रियनिवे- दिकाया मालत्या भगवती विदग्धवचनोपन्यासचोदितेन हृदयं जीवितं च माधवेन पारितोषिकत्वेन स्वयंग्राहे नियुक्तम् । अथ लवङ्गिके, त्वया खल्वेवं भणितं 'प्रतीष्टः खलु नः प्रियसख्या अयं प्रसाद' इति । ३. सखि, कतमः पुनः स महानुभाव इति विस्मृतमिव मया । ४. सखि, सर । येन तस्मिन्दिवसे विकटदुष्टश्वापदविनिपातगोचरं गता- ऽशरणा सुलग्नसंनिहितेन पीवरभुजस्तम्भेन संभाविता निष्कारणबान्धवेन सक- लवङ्गिका । किमिदानीमपरम् ॥ मदयन्तिका । यत्खलु मम जीवितप्रदायिनो महानुभावस्य चेतनाप्रतिलम्भप्रियनिवेदिकाया मालत्या भगवतीविदग्धवचनोप- न्यासचोदितेन हृदयं जीवितं च माधवेन पारितोषिकलेन खयंग्राहे नियुक्तम् । अथ लवङ्गिके, बया खल्वेवं भणितं प्रतीष्टः खलु नः प्रियसख्या अयं प्रसाद इति । अत्र महानुभावस्येति मकरन्दस्याभिधानं तस्य भर्तृवैन मदयन्तिकया खमनसैव निश्चितखाद्भर्तुर्नामग्रहणस्य कुलस्त्रीणामनुचितवादिति ग्राह्यम् । अथ लवङ्गिका प्रच्छन्नो मकरन्दः खस्यानुरागस्य व्यजकानि खप्रियतमावचनानि खयमेव शृणो. खिति जानानाप्यजानानेव पृच्छति ॥ लवङ्गिका । सखि, कतमः पुनः स महा- नुभाव इति विस्मृतमिव मया ॥ मदयन्तिका । सखि, स्मर। येन तस्मिन्दिवसे विकटदुष्टश्वापदविनिपातगोचरं गताऽशरणा मुलमसनिहितेन पीवरभुजखम्मेन संभाविता निष्कारणबान्धवेन सकलभुवनैकसारनिजदेहोपहारसाहसं इजा परि- सप्तमोऽङ्कः। १७३ अत्थम्मेण संभाविदा णिकारणबन्धवेण सअलभुवणेक्कसारणिअदेहो- वहारसाहसं कदुअ परिरक्खिदम्हि । जेण अ दिढविअडमंसुलुत्ता- णपरिणाहिवच्छत्थललञ्छणजज्झरिदजवापीडधारिणा करुणाधणेण मम किदे वि णिमज्जन्तसअलणहणिआअवज्जपञ्जरप्पहारो मारिदो अ सो दुट्ठसावदमहारक्खसो ति । लवङ्गिका-हुँ, मअरन्दो । मदयन्तिका-(सानन्दम् ।) सहि, किं भणासि । लवङ्गिका–णं भणामि मअरन्दो ति । (सस्मितं शरीरमस्याः स्पृशन्ती संस्कृतमाश्रित्य ।) वयं तथा नाम यदात्थ किं वदा- म्ययं तु कस्माद्विकलः कथान्तरे । लभुवनैकसारनिजदेहोपहारसाहसं कृत्वा परिरक्षितास्मि । येन च दृढ- विकटमांसलोत्तानपरिणाहिवक्षःस्थललाञ्छनजर्जरितजपापीडधारिणा करुणा- धनेन मत्कृतेऽपि निमजत्सकलनखनिकायवज्रपञ्जरप्रहारो मारितश्च स दुष्ट- श्वापदमहाराक्षस इति । १. हुं, मकरन्दः । २. सखि, किं भणसि । ३. ननु भणामि मकरन्द इति । रक्षितास्मि । येन च दृढविकटमांसलोत्तानपरिणाहिवक्षःस्थललाञ्छनजर्जरित- जपापीडधारिणा । रुधिरार्द्रतया वक्षःस्थलनिहितहारलतैव जपाकुसुमवर्णखाज- पापीडलेनोक्ता । तद्धारिणा करुणाधनेन मत्कृतेऽपि निमज्जत्सकलनखनिका- यवज्रपञ्जरप्रहारो मारितश्च स दुष्टश्वापदमहाराक्षस इति ॥ लवङ्गिका । हुं मकरन्दः । हुमित्यङ्गीकारद्योतकमव्ययं मालतीमदयन्तिकयोः समानाधिकार- विषयानुरागं व्यनक्ति । यथा किल वं श्वापदापस्कन्दिता विनिहतशार्दूले प्राण- दायिनि तस्मिन्गाढमनुरक्ता, एवं मालत्यपि खलाभनिमित्तमेव जीवितस्पृहानिर. पेक्षं नियूंढमहामांसविक्रयसाहसे कापालिकमारितकल्पात्मप्राणरक्षके माधवे निरुपाधिकशब्दगाढानुरागेति कथं तां बमुपालभस इति भावः॥ मदयन्तिका। सानन्दं । सखि, किं भणसि । प्रियतमनामधेयशुश्रूषातिशयादत्यादरेण प्रश्नः ॥ लवङ्गिका । ननु भणामि मकरन्द इति । एवं मकरन्दनामग्रहणादेवाविर्भूतरो- माश्चखेदादिसात्त्विकभावां मदयन्तिकां दृष्ट्वा सस्मितमस्याः शरीरं स्पृशन्ती संस्कृतमाश्रित्य । वदतीति शेषः॥ वयमिति । कुमार्यैव सती मालती माधवे- १७४ मालतीमाधवे कदम्बगोलाकृतिमाश्रितः कथं विशुद्धमुग्धः कुलकन्यकाजनः ॥ १ ॥ मदयन्तिका-(सलज्जम् ।) सहि, किं मं उवहससि । णं भ- णामि । णिवावेदि तारिसस्स अप्पणिरवेक्खबवसाइणो किदन्तकव- लिज्जन्तजीविदबलामोडिअपञ्चाणअणगुरुओवआरिणो जणस्स संक- हामेत्तस्स णामग्गहणं सुमरणं अ । तह अ तुए वि गाढगुरुणहप्पहा- रवेअणारम्भविझलाविअसरीरसंगलिदसेअसलिलुग्गमो मोहमउलाअ- न्तणेत्तकन्दोट्टजुअलो भूमिविगलिदासिअट्टिविट्ठम्भधीरपडिधारिअस- रीरभारो पच्चक्खीकिदो जेब मदअन्तिआमेत्तविच्छद्दिअमहग्धजीविदो महाणुहावो ति । (खेदादीन्विकारान्नाटयति ।) १. सखि, किं मामुपहससि । ननु भणामि । निर्वापयति तादृशस्यात्म- निरपेक्षव्यवसायिनः कृतान्तकवलीक्रियमाणजीवितबलात्कारप्रत्यानयनगुरू- पकारिणो जनस्य संकथामात्रस्य नामग्रहणं सारणं च । तथा च त्वयापि गाढगुरुनखप्रहारवेदनारम्भविहलितशरीरसंगलितखेदसलिलोद्गमो मोहमुकु- लीक्रियमाणनेत्रनीलोत्पलयुगलो भूमिविगलितासियष्टिविष्टम्भधैर्यप्रतिधारित- शरीरमारः प्रत्यक्षीकृत एव मदयन्तिकामात्रविच्छर्दितमहाघजीवितो महानु- भाव इति । ऽनुरक्तति यत्त्वमात्थ तत्तथा नाम तादृश्य एव वयं भवामः । वयमिति कुलशी. लादिसूचनया मालत्या सममात्मनोऽभिन्नाया बहुवचननिर्देशः। अत्र किं भणामि खामात्मपरदोषानभिज्ञा वाम् । एकाकिनीमिति शेषः । अयं लिति मदयन्तिकां स्पृशन्ती तामेव निर्दिशति । विशुद्धः परपुरुषानुरागकलङ्करहितो मुग्धो मदन- व्यापारवार्तानभिज्ञः कुलकन्यकाजनः । साभिप्रायैर्वचनैर्वैपरीत्यं द्योत्यते । कथा- न्तरे गोष्टीमध्य एव, न तु तद्दर्शनादौ । विकलः खव्यापाराक्षमः सन्कदम्बगोलकस्य नीपतरुसंस्थानस्याकृतिमुद्यन्मुकुलालंकृतमाकारं कथमाश्रितः । रोमाञ्चकचुकं कथं जातमित्यर्थः । त्वमेव तमामग्रहणमात्राविर्भूतमन्मथविकारा प्रसिद्धकौमारवर्धकी भूला कथमितरोपालम्मे प्रवर्तस इति भावः ॥ १॥ मदयन्तिका । सलज्जम् । सखि, किं मामुपहससि । ननु भणामि । निर्वापयति । 'सुखयति' इति पाठः । तादृशस्यात्मनिरपेक्षव्यवसायिनः कृतान्तकवलीक्रियमाणजीवितबलात्कारप्रत्यान- यनगुरूपकारिणो जनस्य संकथामात्रस्य नामग्रहणं स्मरणं च । तथा च खयापि गाढगुरुनखप्रहारवेदनारम्भविह्वलितशरीरसंगलितखेदसलिलोद्गमो मोहमुकुलीकि- यमाणनेत्रनीलोत्पलयुगलो भूमिविगलितासियष्टिविष्टम्भधैर्यप्रतिधारितशरीरभारः प्रत्यक्षीकृत एव मदयन्तिकामात्रविच्छदितमहार्घजीवितो महानुभाव इति ।

सप्तमोऽङ्कः बुद्धरक्षिता—(शरीरमस्याः स्पृशन्ती।) अस्सत्यसरीरे, कि वाआ। दंसिदं सरीरेण मअरन्दसमाअमोच्छुकं । मदयन्तिका-(सलज्जम् ।) सैहि, अवेहि अवेहि । उब्भिण्णम्हि सहवासिणीए मालदीए । लवङ्गिका-सहि मदअन्तिए, अम्हे वि जाणिदवं जाणीमो । ता पसीद । विरम बवदेसादो । एहि । विस्सम्भगब्भकहाप्पबन्ध- सरसं सुहं चिट्ठम्ह । बुद्धरक्षिता-सहि, सोहणं लवनिआए भणिदं । मदयन्तिका-विधेअम्हि संपदं सहीणं । १. अखस्थशरीरे, किं वाचा। दर्शितं शरीरेण मकरन्दसमागमौत्सुक्यम्। २. सखि, अपेह्यपेहि । उद्भिन्नास्मि सहवासिन्या मालत्या । ३. सखि मदयन्तिके, वयमपि ज्ञातव्यं जानीमः । तत्प्रसीद । विरम व्यपदेशात् । एहि । विस्रम्भगर्भकथाप्रबन्धसरसं सुखं तिष्ठामः । ४. सखि, शोभनं लवङ्गिकया भणितम् । ५. विधेयास्मि सांप्रतं सखीनाम् । बुद्धरक्षिता । अस्वस्थशरीरे, किं वाचा। दर्शितं शरीरेण मकरन्दसमागमौत्सु- क्यम् । खेदादिभिर्व्यभिचारिभिरिति शेषः ॥ मदयन्तिका। सलजम् । कन्यका- जनानुचितखमनोवृत्तिव्यक्तीभावोऽत्र लजाहेतुः । सखि, अपेह्यपेहीति चावहित्था- ख्यव्यभिचारिव्याकं वचनम् । यथाह-'अवहित्था तु लजादेहर्षायाकारगोपनम्' इति । उद्भिनास्मि सहवासिन्या मालत्या । बाल्यात्प्रभृति सहपांसुक्रीडादिभिर्वि- श्वासस्थानभूतया मालत्यैव स्वयं निरुपाधिकजीवितदायिनि महानुभावे कुमारीत्वे- ऽपि प्रवृत्तप्रकृष्टानुरागयाहमप्युद्भिन्नास्मि तादृशोपकारिनायकसमागमं प्रति दर्शि- तखप्रसरास्मि । तां दृष्ट्वाहमपि तथैव प्रवृत्ता, न तु खातव्येणेति भावः ॥ लव. निका । सखि मदयन्तिके, वयमपि ज्ञातव्यं जानीमः । किमतः परं तदाच्छादने- नेति भावः । तत्प्रसीद प्रसन्नान्तःकरणा भव । न पुनरमत्तः शङ्कितव्यमिति भावः । विरम व्यपदेशात् । कपटवचनैराकृतिगोपनं न शक्यमिति भावः । एहि । विसम्भगर्भकथाप्रबन्धसरसं सुखं तिष्ठामः । अस्मासु विस्रधा भूखा निःशई खहृदयं निवेदय । तत्सियुपायमुपदेश्याम इति भावः ॥ बुद्धरक्षिता । सखि, शोभनं लवङ्गिकया भणितम् । विदितखाभिप्राये जने न वश्चनं युकम् । किंतु तनिवेदनेन तदुपायोऽन्वेष्टव्य इति भावः ॥ मदयन्तिका। विधेयामि सांप्रतं मालतीमाधवे लवङ्गिका-जइ एवं ता कहेहि कहं णु दे कालो ग- च्छदि ति। मदयन्तिका-णिसामेहि पिअसहि, मम बुद्धरक्खिदापक्खवा- दप्पच्चएण पढमं जेव तस्सिं जणे अविरलकोदूहलुक्कण्ठामणोहरं हिअअं आसी। तदो विहिणिओइअचिरणिउत्तदंसणा भविअ दुबारदारुणाआ- सदुक्खसंदावडज्झन्तचित्तविहडन्तजीविदासा दूरविअम्भिआपुवसब- गप्पज्जलणमअणहुदवहुद्दामदाहदूसहाआसदुम्मणाअन्तपरिअणा पच्चा- साविमोक्खमेचसुलहमित्तुणिबाणपडिऊलबुद्धरक्खिदावअणविवड्डिआवे- अवइअरविसंठुला इमं जीवलोअपरिवत्तं अणुहोमि । संकप्पचिन्ताए सिविणन्तरेसु अ मणोरहुम्मादमोहिदा पेक्खामि तं जणं । तह १. यद्येवं तत्कथय कथं नु ते कालो गच्छतीति । २. निशामय प्रियसखि, मम बुद्धरक्षितापक्षपातप्रत्ययेन प्रथममेव तसिञ्ज- नेऽविरलकौतूहलोत्कण्ठामनोहरं हृदयमासीत् । ततो विधिनियोजितचिरनिर्व- चदर्शना भूत्वा दुर्वारदारुणायासदुःखसंतापदह्यमानचित्तविघटमानजीविताशा दूरविजृम्भितापूर्वसर्वाङ्गप्रज्वलनमदनहुतवहोद्दामदाहदुःसहायासदुर्मनायमा- नपरिजना प्रत्याशाविमोक्षमात्रसुलभमृत्युनिर्वाणप्रतिकूलबुद्धरक्षितावचनविव- धितावेगव्यतिकरविसंस्थुलेमं जीवलोकपरिवर्तमनुभवामि । संकल्पचिन्तायां खमान्तरेषु च मनोरथोन्मादमोहिता पश्यामि तं जनम् । तथा च प्रियसखि, मुहूर्तमुदूढविस्मयविसंस्थुलोद्वेल्लविस्तारिप्रान्तनालरक्तनेत्रपुण्डरीकताण्डवोगट- सखीनाम् ॥ लवङ्गिका । यद्येवमस्मद्विधेयासि तत्कथय कथं नु ते कालो गच्छ- तीति । तादृशकाष्ठाप्राप्तानुरागविषयं दयितमलभमाना कथं दिवसानतिवाहयसीति भावः ॥ मदयन्तिका । निशामय शृणु प्रियसखि, मम बुद्धरक्षितापक्षपात- प्रत्ययेन प्रथममेव तस्मिञ्जनेऽविरलकौतूहलोत्कण्ठामनोहरं हृदयमासीत् । नास्थाने बुद्धरक्षितापक्षपातं । करोतीति तत्स्नेहादेव संभावितसकलनायकगणगरीयानिति प्रत्ययो विश्वासोऽस्त्येवेति भावः । ततो विधिनियोजितचिरनिर्वृत्तदर्शना भूला दुर्वा- रदारुणायासदुःखसंतापदह्यमानचित्तविघटमानजीविताशा दूरविजृम्भितापूर्वसर्वा- अप्रज्वलनमदनहुतवहोदामदाहदुःसहायासदुर्मनायमानपरिजना प्रत्याशाविमो. क्षमात्रसुलभमृत्युनिर्वाणप्रतिकूलबुद्धरक्षितावचनविवर्धितावेगव्यतिकरविसंस्थुलेम जीवलोकपरिवर्तमनुभवामि । मकरन्दप्रत्याशानिवृत्तमात्रेण सुलभो मृत्युरेव निर्वा- गं निर्वृतिस्तत्प्रतिकूलं बुद्धरक्षितावचनं संनिहितमकरन्दप्राप्तिप्रतिपादकं तेन संव- घितो य भावेग उद्वेगस्तेन विडलेयर्थः । संकल्पचिन्तायां खपान्तरेख च मनोर- सप्तमोऽङ्कः १७७ अ पिअसहि, मुहुत्तं उदूढविझअविसंठुलुव्वेल्लवित्यारिपेरन्तणालरत्त- णेत्तपुण्डरीअताण्डवउब्भटपरूढमैरेअमदघुम्मन्तसीलं णिव्वण्णेदि । किं अ कवलिआरविन्दकेसरकसाअकण्ठकलहंसघोसघग्घरक्खलिअ- गम्भीरभारदीभरिदकण्णविवरं पिए मदअन्तिए ति मं वाहरदि। अह- पहावन्तो विअ उत्तरीअञ्चलावलम्बणपराहवेण ससंभमुत्तरङ्गधमधमा- अन्तहिअअं समुत्तासेदि । सहसा विसजिअओसरिअतक्खणकठोरक- मलदण्डाअन्तबाहुबन्धणाववारिदपओहरुम्गम विहडन्तविझलमेह- लावलअसंधाणिज्जन्तपीवरोरुप्पडिसिद्धविप्पडीवगमणं पडिऊलवादि- प्ररूढमैरेयमदघूर्णनशीलं निर्वर्णयति । किंच कवलितारविन्दकेसरकषायक- ण्ठकलहंसघोषघर्घरस्खलितगम्भीरभारतीभरितकर्णविवरं प्रिये मदयन्तिके, इति मां व्याहरति । अथ प्रभवन्निवोत्तरीयाश्चलावलम्बनपराभवेन ससंभ्रमो- त्तरङ्गधमधमायमानहृदयां समुत्रासयति । सहसा विसर्जितापसृततत्क्षणकठो- रकमलदण्डायमानबाहुबन्धनापवारितपयोधरोद्गमं विघटमानविह्वलमेखला- वलयसंधार्यमाणपीवरोरुप्रतिषिद्धविप्रतीपगमनां प्रतिकूलवादिनीमपि सर्वादर- प्रयत्ननिर्वर्तितमुहूर्तकोपोपरागदुःखपरुषीकृतहृदयां स्निग्धपुनरुक्तपर्यस्त्रलोच- थोन्मादमोहिता पश्यामि तं जनम् । तथा च प्रियसखि, मुहूर्तमुदूढविस्मयविसंस्थु. लोद्वेल्लविस्तारिप्रान्तनालरक्तनेत्रपुण्डरीकताण्डवोद्भटप्ररूढमैरेयमदघूर्णनशीलं यथा स्यात्तथा निर्वर्णयति साभिलाषं मामेव पश्यति । संकल्पाद्युपनतोऽसाविति शेषः । निर्वापयति मां सुखयतीति वा । मैरेयो मद्यविशेषः । विस्तारिणः प्रान्तस्य नेत्रवि- भागस्य दीर्घाभूयमाना मालाकारेण प्रसरणानालखनिरूपणं खभावत एव नेत्रपु- ण्डरीकस्य मधुमदघूर्णमानवमिव यथा स्यादित्युक्तम् । किंच कवलितारविन्दकेसर. कषायकण्ठकलहंसघोषघर्घरस्खलितगम्भीरभारतीभरितकर्णविवर प्रिये मदय- न्तिके, इति मां व्याहरति । खप्नादाविति यावत् । अथ प्रभवन्निव खामीवोत्त- रीयाञ्चलावलम्बनपराभवेन ससंभ्रमोत्तरङ्गधमधमायमानहृदयां समुत्रासयति । मामिति शेषः । संभ्रम आवेगः । 'आदरातिशयाच्चेतस्यावेगः संभ्रमो मतः' इति लक्षणात् । धमधमायमानमुत्कम्पमानं कुमारीभावसुलभशालीनखेन खवचनमन- गीकृत्यान्यतो व्रजन्ती मामुत्तरीयाञ्चले गृहीला किं वान्यत्र व्रजसीति शिक्षक इव त्रासयतीत्यर्थः । सहसा विसर्जितापसृततत्क्षणकठोरकमलदण्डायमानबाहुबन्धना- पवारितपयोधरोद्गमम् । आलिङ्गनानन्तरं तत्प्रथमालिङ्गनजनितत्रासवैलक्ष्यशहावि- भ्रमाभिरामनायिकाङ्गदर्शनकुतूहलेन सहसा विसर्जितमनन्तरं चापमृतं यदुद्धि- रोमाञ्चतया कोमलकमलनालसदृशाभ्यां बाहुभ्यां बन्धनमालिङ्गनं तेनापवारितः पयोधरोद्गमो यथा स्यादेवमित्यर्थः । विघटमानविह्वलमेखलावलयसंधार्यमाणपीव- ।

मालतीमाधवे पणीं वि सव्वादरपणत्तणिन्वचिदमुहुत्तकोवोवराअदुक्खपरुसीकिद- हिअमं सिणिद्धपुणरुतपल्हत्थलोअणविहाविदासेसचित्तसारं उव- हसिम दुउणबाहुदण्डावे?णणिच्चेट्टणिअमिश्र पिअसहि, प्परूढस- इलकठोरकररुहप्पहारविअडपत्तावलीपसाहणुनाणवच्छत्थलणिमुरणिवे- सणणीस कदुअ सावेअविहूअमत्थआवविद्धकबरीणिहिदकरपरि- गहपुञ्जीकिदुग्णमिअणिच्छलमुहावअवसच्छन्दविलसिदविअड्डवअ- णकमलो वामगण्डमूलचिरविणिहिदप्पप्फुरन्तपुझिआहरसमुग्गममण- हरसहअसारस्सदमणहरुकस्सिदसरीरसोहं उल्लसिदसद्धसाणन्दविस- मसंभममणहरसंवलणमन्धरभमन्तचेअणं किं वि किं वि दुन्विणअसा- नविभाविताशेषचित्तसारामुपहस द्विगुणबाहुदण्डावेष्टननिश्चेष्टनियमितां प्रिय- सखि, प्ररूढशार्दूलकठोरकररुहप्रहारविकटपत्रावलीप्रसाधनोत्तानवक्षःस्थलनि- ष्ठुरनिवेशननिःसहां कृत्वा सावेगविधूतमस्तकापविद्धकबरीनिहितकरपरिग्रहपु- जीकृतोन्नमितनिश्चलमुखावयवखच्छन्दविलसितविदग्धवदनकमलो वामगण्ड- मूलचिरविनिहितप्रस्फुरत्पुञ्जिताधरसमुद्गममनोहरसहजसारस्वतमनोहरोत्कर्षि- तशरीरशोभामुल्लसितसाध्वसानन्दविषमसंभ्रममनोहरसंवलनमन्थरभ्रमचेतना रोरुप्रतिषिद्ध्यमानविप्रतीपगमनाम् । गाढालिङ्गनसौख्यातिशयतत्क्षणप्रवृद्धान्नित- म्बाद्विघटमानं विश्लिष्यद्विह्वलं वितस्तं च यन्मेखलावलयं तेन संधार्यमाणाभ्यां पीवरोरुभ्यामेव प्रतिषिध्यमानप्रतिकूलगमनामित्यर्थः । तथा प्रतिकूलवादिनीमपि सर्वादरप्रयननिर्वर्तितमुहूर्तकोपोपरागदुःखपरुषीकृतहृदयाम् । मामित्यर्थः । तथा स्निग्धपुनरुकपर्यस्खलोचनविभाविताशेषचित्तसारां प्रेमाईविलोचनेनैव मिथ्यैव कुपि- तेयं न तु वस्तुतोऽस्याः कोपः। प्रत्युत सर्वमेतन्मश्चेष्टितमनुमतमेवेति निर्णीताकूतस- र्वखार्थामुपहस्य वदीयं कोपमहं जानाम्येव, खयि प्रतिकूलगमनायामपि मेखलैव मत्सखी सामन्यत्र गन्तुं न प्रयच्छतीत्यादिनर्मवचनैः परिहास्येत्यर्थः । द्विगुणबाहुद- ण्डावेष्टननिश्चेष्टनियमितां प्रियसखि, प्ररूढशार्दूलकठोरकररुहप्रहारविकटपत्रावली- प्रसाधनमुत्तानं च यद्वक्षःस्थलं तत्र यनिष्ठुरनिवेशनं तेन निःसहां कृखा सावेगवि. विलसितविदग्धवदनकमलः । शार्दूलनखप्रहारा एव विकटपत्रावली सैव प्रसाधनं यस्येति पूर्वोपकारस्मरणम् । सावेगं साटोपं यद्विधूननं तेनापविद्धबन्धाविसस्त- बन्धना या कबरी तस्यां निहितेन करेण यः परिग्रहस्तेन पुजीकृतैः । कचैरिति यावत् । उनमिता निश्चलाः स्पष्टं विभाव्यमाना ये मन्मुखाद्यवयवातेषु खच्छन्द- विलसितं खेच्छया विलसनं कुर्वद्विदग्धं वदनकमलं यस्य स इत्यर्थः । वामगण्डमूः लविरविनिहितप्रस्फुरत्पुजिताधरसमुद्रममनोहरसहजसारखतमनोहरोत्कर्षितश- सप्तमोऽः । हसाणुरूवव्ववसाओ में अब्भत्थेदि । एवं णाम पिअसहि, समक्खं सवं अणुभविअ तदो झत्ति पडिबुद्धा सुण्णारण्णसंणिभं पुणो वि मन्दभाइणी विभावेमि जीवलोअंति । लवङ्गिका-सहि मदअन्तिए, फुडं आचक्खेहि । अवि तस्सि अवसरे सिणेहविन्भमुज्जिअहासविअसन्तबुद्धरक्खिदालोअणणिरूवि- दं आसणमऊरअं परिअणादो गोवणिज होदि वा किं ण वेति । मदयन्तिका-अइ असंबद्धपरिहाससीले, अवेहि । बुद्धरक्षिता—सहि मदअन्तिए, मालदीपिअसहि जेव इअं ईरिसाइं जाणादि । किमपि किमपि दुर्विनयसाहसानुरूपव्यवसायो मामभ्यर्थयते । एवं नाम प्रियसखि, समक्षं सर्वमनुभूय ततो झटिति प्रतिबुद्धा शून्यारण्यसंनिभं पुनरपि मन्दभागिनी विभावयामि जीवलोकमिति । १. सखि मदयन्तिके, स्फुटमाख्याहि । अपि तस्मिन्नवसरे स्नेहविभ्रमो- र्जितहासविकसदुद्धरक्षितालोचननिरूपितमासनमयूरकं परिजनाद्वोपनीयं भवति वा किं न वेति । २. अयि असंबद्धपरिहासशीले, अपेहि । ३. सखि मदयन्तिके, मालतीप्रियसख्येवेयमीदृशानि जानाति । रीरशोभामुल्लसितसाध्वसानन्दविषमसंभ्रममनोहरसंवलनमन्थरभ्रमचेतना किमपि किमपि दुर्विनयसाहसानुरूपव्यवसायो मामभ्यर्थयते एवं नाम प्रियसखि, समक्षं प्रत्यक्ष सर्वमनुभूय ततो झटिति प्रतिबुद्धा शुन्यारण्यसंनिभं पुनरपि मन्दभाग्या विभावयामि जीवलोकमिति ॥ लवङ्गिका । सखि मदयन्तिके, स्फुटमाख्याहि । अपि तस्मिन्नवसरे स्नेहविभ्रमोर्जितहासविकसदुद्धरक्षितालोचननिरूपितमासनमयू. रकं परिजनाद्गोपनीयं भवति वा किं न वेति । आसनार्थ निर्मितं वस्तु तूलपूरितमिति तन्मयूराकारमासनं मयूरकम् । त्वदीयमासनं मयूरक खप्नसमागमनिमित्तचरमधा- तुक्षरणार्टीकृतं सद्विदग्धबुद्धरक्षितया सस्नेहं सपरिहासं च खानिकोऽपि ते प्रियसं- भोगः पारमार्थिक एव ते जात इति दृष्टयैव सूच्यमानं परिजनात्परिहासशङ्कया गोपनीयं च भवति वा न वेत्यर्थः । मालत्यपेक्षया मदयन्तिकाया निकृष्टवद्योतनाय चेटीजनोचितजुगुप्सितनर्मवचनप्रवृत्तिरिति ग्राह्यम् ॥मदयन्तिका । अयि असं- बद्धपरिहासशीले, अपेहि ॥ बुद्धरक्षिता । सखि मदयन्तिके, मालत्याः प्रियस- ख्येवेयमीदृशानि जानाति । ईदृशानि मन्त्रयितुं न खलु माहशी त्वत्सखीति भावः। मालत्यामेवं दृष्टवतीति कृत्वा तत्सखीलेनैवमेषा वदतीति मदयन्तिकायां हाति.

१८० मालतीमाधवे मदयन्तिका-मां क्खु एवं मालदि उवहस । बुद्धरक्षिता-सैहि मदअन्तिए, पुच्छिस्सं दाणिं किं वि । जइ ण मे विस्सासभङ्गं करेसि । मदयन्तिका—किं' पुणो वि पणअभङ्गेण किआवराहो असं जणो जेण एवं मन्तेसि । पिअसहि, तुमं लवनिआ अ संपदं मे हिअअं। बुद्धरक्षिता-जंह दे कहं वि मअरन्दो पुणो वि दंसणपहं ओदरदि तदो किं तुए कादव्वं । मदयन्तिका-ऐक्केकावअवनिसग्गलग्गणिच्चले चिरं लोअणे णिवावइस्सं । बुद्धरक्षिता-अह सो मम्महबलक्कारिओ जइ कंदप्पज- णणिं तुम रुकिणिं विअ पुरुसोत्तमो सअंगाहसाहसेण सहधम्मआ- रिणिं करेदि तदो कीरिसी पडिवत्ती । १. मा खल्वेवं मालतीमुपहस । २. सखि मदयन्तिके, पृच्छामीदानीं किमपि । यदि न मे विश्वासभङ्गं करोषि । ३. किं पुनरपि प्रणयभङ्गेन कृतापराधोऽयं जनो येनैवं मन्त्रयसे । प्रिय- सखि, त्वं लवङ्गिका च सांप्रतं मे हृदयम् । ४. यदि ते कथमपि मकरन्दः पुनरपि दर्शनपथमवतरति रति तदा किं त्वया कर्तव्यम् । ५. एकैकावयवनिसर्गलग्ननिश्चले चिरं लोचने निर्वापयिष्ये । ६. अथ स मन्मथबलात्कारितो यदि कंदर्पजननीं त्वां रुक्मिणी मिव पुरु- षोत्तमः स्वयंग्राहसाहसेन सहधर्मचारिणी करोति तदा कीदृशी प्रतिपत्तिः । शयो बुद्धरक्षिताया दर्शितः॥मदयन्तिका।मा खल्वेवं मालतीमुपहस ॥बुद्धर- क्षिता। सखि मदयन्तिके,पृच्छामीदानी किमपि । यदि मे विश्वासभङ्ग न करोषि । मदयन्तिका । किं पुनरपि प्रणयभङ्गेन कृतापराधोऽयं जनो येनैवं मत्रयसे । प्रियसखि, त्वं लवङ्गिका च सांप्रतं मे हृदयम् ॥ बुद्धरक्षिता । यदि ते कथमपि मकरन्दः पुनरपि दर्शनपथमवतरवि तदा किं त्वया कर्तव्यम् ॥ मदयन्तिका । एकैकावयवनिसर्गलमनिश्चले चिरे लोचने निर्वापयिष्ये ॥ बुद्धरक्षिता । अथ समन्मथबलात्कारितो यदि कंदर्पजननीं त्वा रुक्मिणीमिव पुरुषोत्तमः खयंग्रा- सप्तमोऽङ्कः। १८१ मदयन्तिका-(निःश्वस्य ।) किं' एत्तिअं आसासिदम्हि । बुद्धरक्षिता-सेहि, कहेहि । लवनिका-सैहि, कहिदं जेब हिअआवेअसूअएहिं दीह- णीसासेहिं । मदयन्तिका-सहि, काहं इमस्स देण जेब अत्ताणं पणीक- दुअ मिचुकवलणादो आकड्डिअस्स तस्स जेव्व परईअस्स किचकि- करस्स अत्तणो सरीरस्स । लवङ्गिका सरिसं क्खु महाणुभावदाए । बुद्धरक्षिता-सुमरेसि एदं वअणं । मदयन्तिका-कहं दुदिअआमविच्छेदपडहो ताडिअदि । ता जाव णन्दणं णिब्भच्छिअ सापादपडणं वा अब्भत्थिअ मालदीए उ- वरि अणुऊलइस्सं । (इत्युत्थातुमिच्छति ।) १. कस्मादेतावदाश्वासितास्मि । २. सखि, कथय । ३. सखि, कथितमेव हृदयावेगसूचकैर्दीर्घनिःश्वासैः । ४. सखि, काहमेतस्स तेनैवात्मानं पणीकृत्य मृत्युकवलनादाकृष्टस्य तसैव परकीयस्य कृत्य किंकरस्यात्मनः शरीरस्य । ५. सदृशं खलु महानुभावतायाः । ६. मरिष्यस्येतद्वचनम् । ७. कथं द्वितीययामविच्छेदपटहस्ताड्यते । तद्यावन्नन्दनं निर्भर्त्य सपाद- पतनं वाभ्यर्थ्य मालत्या उपर्यनुकूलयिष्यामि । हसाहसेन सहधर्मचारिणीं करोति तदा कीदृशी प्रतिपत्तिः किं प्रतिपत्तव्यम् । मन्म- थबलात्कारः संजातो यस्मिंस्तादृशः। कंदर्पजननी प्रद्युम्नमातरं मन्मथविकारहेतुं च । पुरुषोत्तमो हरिः पुरुषश्रेष्ठश्च ॥ मदयन्तिका । कस्मादेतावदाश्वासितास्मि । मनोरथमात्रमिदं न संभाव्यत इति भावः ॥ बुद्धरक्षिता। सखि, कथय । व्यक्ती. कृत्येति शेषः ॥ लवङ्गिका । सखि, कथितमेव हृदयावेगसूचकैदीर्घनिःश्वासैः । इष्टमेवैतद्यदि सिद्ध्येदिति कथितमेवेत्यर्थः । तस्मान्मकरन्दानयनोपायश्चिन्त्यता. मिति भावः ॥ मदयन्तिका । सखि, काहमेतस्य तेनैवात्मानं पणीकृत्य मृत्यु- कवलनादाकृष्टस तस्यैव परकीयस्य कृत्यकिंकरस्यात्मनः शरीरस्य ॥ लवङ्गिका। सदृशं खलु महानुभावतायाः। तदुक्तमिति शेषः ॥ बुद्धरक्षिता । स्मरिष्यस्येत- द्वचनम् ॥ मदयन्तिका । कथं द्वितीययामविच्छेदपटहस्वाध्यते । तयावनन्दनं १८२ मालतीमाधवे (मकरन्दो मुखमुद्धाव्य तां हस्ते गृह्णाति ।). मदयन्तिका-सहि मालदि, पडिबुद्धासि । (विलोक्य सहर्ष ससाध्वसं च ।) अम्हहे एवं अण्णं जेब वट्टदि । मकरन्द:- रम्भोरु संहर भयं क्षमते विकार- मुत्कम्पिनः स्तनतटस्य न मध्यभागः । इत्थं त्वयैव कथितप्रणयप्रसादः संकल्पनिर्वृतिषु संस्तुत एष दासः॥ २ ॥ बुद्धरक्षिता-(मदयन्तिकामुखमुन्नमय्य संस्कृतमाश्रित्य ।) प्रेयान्मनोरथसहस्रवृतः स एष सुप्तप्रमत्तजनमतदमात्यवश्म । तमः कुरु कृतज्ञतयैव भद्र- मुत्क्षिप्तमूकमणिनूपुरमेहि यामः ॥ ३ ॥ १. सखि मालति, प्रतिबुद्धासि । अहो, इदमन्यदेव वर्तते निर्भर्त्य सपादपतनं वाभ्यर्थ्य मालत्या उपर्यनुकूलमिष्यामि ॥ मदयन्तिका। सखि मालति, प्रतिबुद्धासि । प्रियतमदर्शनं हर्षहेतुः, कुलकन्यकाजनानुचितव्यापा- रासक्तिश्च साध्वसहेतुः । अहो इत्याश्चर्यम् । इदमन्यदेव वर्तते। प्रस्तुतमालतीनन्द- नसंघटनादन्यदेव मकरन्दमदयन्तिकासंघटनसंधानं वर्तत इत्यर्थः । अथ मक- रन्दो लज्जावैलक्ष्यशङ्कानिरासेनोन्मुखीकर्तुं प्रियतमा चाटूक्त्या प्रसादयति- रम्भोर्विति । हे रम्भोरु कदलीस्तम्भवत्पीवरोरु, अकाण्डे भयं कोऽसावपरिचित इति मत्साध्वसं त्यज । उत्कम्पिनः साध्वसजनितोत्कम्पतरलस्य स्तनयुगलस्य विकारं विक्षोभमतिकनीयान्मध्यभागो न सहते । यतोऽपरिचिताद्धि भीतिर्भवति । एष इति खात्मानं निर्दिशति । अयं जनस्तु नासंस्तुतः किंलित्थं पूर्व बदुक्तेन प्रकारेण वयैव कथितप्रणय एव प्रसादो यस्य स तादृशः संकल्पसमागमेघु परि- चितो दास एव । तत्र कथं ते साध्वसवैलक्ष्यमित्यर्थः ॥ २ ॥ अथ बुद्धरक्षिता कुमारीजनसुलभलज्जावशादितिकर्तव्यतामूढां मदयन्तिको प्रतिबोधयन्ती तस्या मुखमुलमय्यायमेव त्रपां शिथिलीकृत्य मकरन्दवरणसमय इत्यत्र हेतुमुपन्यस्यति- प्रेयानिति । यः पूर्व त्वयैव मनोरथसहस्रैर्वृतः। स एष प्रेयानिरतिशयप्रेमास्पदं जनः संनिहितो वर्तते। एतच्चामात्यगृहं सुप्तानवहितरक्षितृजनम् । तेनात्र कश्चित्पश्ये- दिति शङ्कापि नास्ति । प्रौढं तमः । तेन नगरपालकेभ्योऽपि शक्का निरस्ता । तस्मात्कृ- तज्ञतयैव भद्रं मकरन्दपाणिग्रहणमजलं कुरु । अनन्तरमूर्ध्वमुत्क्षिप्तमणिनूपुरं यथा- सप्तमोज १८३ . मदयन्तिका-सहि बुद्धरक्खिदे, कहिं पुणो दाणिं अम्हेहि गन्दवं। बुद्धरक्षिता-जेहिं जेब मालदी गा । मदयन्तिका-किं णिव्वुत्तसाहसा मालदी। बुद्धरक्षिता-अह इं। अण्णं अ तुम भणासि । ('का हं इमस्स' इत्यादि पठति ।) (मदयन्तिकाश्रूणि पातयति ।) बुद्धरक्षिता-महाभाअ, दिण्णो क्खु समं अप्पा पिअसहीए । मकरन्द:- अद्योर्जितं विजितमेव मया किमन्य- दद्योत्सवः फलवतो मम यौवनस्य । यन्मे प्रसादसुमुखेन समुद्यतेयं देवेन बान्धवधुरा मकरध्वजेन ॥ ४ ॥ १. सखि बुद्धरक्षिते, क पुनरिदानीममामिर्गन्तव्यम् । २. यत्रैव मालती गता। ३. किं निर्वृत्तसाहसा मालती। ४. अथ किम् । अन्यच्च त्वं भणसि । ५. महाभाग, दत्तः खलु स्वयमात्मा प्रियसख्या। स्यादेवं यामः। एहि । नूपुरध्वनिरन्यैर्यथा न श्रूयते, तयोर्ध्वमुक्षिप्य कैश्चिदप्यल- क्षिता यत्र मालतीमाधवौ तत्रैव यामस्त्वरितं मा लज्जखेत्यर्थः ॥ ३ ॥ मदय. न्तिका । सखि बुद्धरक्षिते, क पुनरिदानीमस्माभिर्गन्तव्यम् ॥ बुद्धरक्षिता। यत्रैव मालती गता ॥ मदयन्तिका । किं निवृत्तसाहसा मालती । साहसं खय- मेवात्मप्रदानम् ॥ बुद्धरक्षिता । अथ किम् । निर्वृत्तसाहसैवेत्यर्थः । अन्यच लं भणसि । 'काहमेतस्य' इत्यादि पठति । खया यदुकं तदनुरूपं विधेहीत्यर्थः॥ मदयन्तिका गुरुजन विधीयमानसंप्रदान इव स्वयमभूणि पातयति ॥ बुद्धरक्षिता आनन्दाश्रुविमोचनेनैव तस्याः खात्मप्रदानमधिगम्याह-महाभाग, दत्तः खलु खयमात्मा प्रियसख्या । आनन्दाश्रुपूर्वकमिति भावः॥ मकरन्दः-अद्यति । अद्य प्रियतमालाभान्मयोर्जितं बलं यथा स्यादेवं विजितमेव सर्वोत्तरलं संपादित. मेव । किमन्यदितः परमाशास्यमवशिष्टम् । न किंचिदित्यर्थः । तथा फलवतो दयिताप्राप्त्यैव सफलस्य मे नवयौवनस्याद्योत्सवो मङ्गलदिनम् । यन्मे प्रसादसुमुखेन मकरध्वजेन माधवाभिलषितं संपाय मदभिलषितमपि संपादयता बान्धवपुरा १७ माल.

मालतीमाधवे तदनेन पक्षद्वारेण साधयामः । (निमृतं परिकामन्ति ।) मकरन्द:-अहो । निशीथनिःसंचाररमणीयता राजमार्गस्य संप्रति हि। प्रासादानामुपरि वलमीतुङ्गवातायनेषु प्राप्तामोदः परिणतसुरागन्धसंस्कारगर्भः । माल्यामोदी मुहुरुपचितस्फीतकर्पूरवासो वातो यूनामभिमतवधूसंनिधानं व्यनक्ति ॥ ५॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे सप्तमोऽङ्कः । बन्धुकृत्यमुद्यतोचितपदं प्रापिता ॥ ४ ॥ पक्षद्वारेण पार्श्वद्वारेण । साधयामो गच्छामः॥समीहित(8) निशीथे निःसंचारेण राजमार्गस्य रमणीयतास्मत्प्रयाणानु. गुण्यं वर्तते॥प्रासादानामिति । सौधानामुपरिभागेषु वलभीजालगवाक्षमार्गेषु प्रविश्य प्राप्तामोदः । 'भ्रान्त्यावृत्तः' इति पाठे गवाक्षमार्गेण हर्म्यतलेषु परिभ्रम्य पुनरावृत्तः । अत एव परिणतमयगन्धजनितवासनानुविद्धः । माल्यामोडी पुन:- पुनरनुषक्तस्फुरद्धनसारगन्धी वातो यूनामभिलषितं युवतीसंनिधानं व्यन कीति मद्यपानमाल्यादिभिः सुरतादिभोगो व्यज्यते ॥५॥ मळ्याख्यामन्थमथिताद्भवभूतिवचोम्बुधेः । रसामृतमभिव्यकं खादयन्तु बुधाश्चिरम् ॥ इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनशि- पुरारिसूरिविरचितायां मालतीमाधवभावप्रदीपिकायां सप्तमाङ्कविवरणम् ॥

अष्टमोऽङ्कः। (ततः प्रविशत्सवलोकिता।) अवलोकिता-वैन्दिदा मए णन्दणावसथपडिणिउता भ- अवदी । ता जाव मालदीमाहवसआसं गच्छम्हि । (परिक्रम्य ।) एदे दे परिणिव्वुत्तिदगिमदिअहावसाणमज्जणा दीहिआतीरसिलातलं अ. लंकरन्ति । ता उपसप्पामि । (इति निष्क्रान्ता ।) प्रवेशकः । (ततः प्रविशतो मालतीमाधवौ उपविष्टावलोकिता च ।) माधवः-(सानन्दम् ।) वर्धते हि मन्मथप्रौढसुहृदो निशीथस्य यौवनश्रीः । तथा हि । दलयति परिशुष्यत्रौढतालीविपाण्डु- स्तिमिरनिकरमुद्यन्नैन्दवः प्राक्प्रकाशः। वियति पवनवेगादुन्मुखः केतकीनां प्रचलित इव सान्द्रः स्फारस्फारं परागः ॥ १॥ १. वन्दिता मया नन्दनावसथप्रतिनिवृत्ता भगवती । तद्यावन्मालती- माधवसकाशं गच्छामि । एतौ तौ परिनिर्वर्तितग्रीष्मदिवसावसानमजनौ कातीरशिलातलमलंकुरुतः । तदुपसर्पामि । विबुधरत्नावली। अथ मालतीमाधवयोः कामन्दक्यावसथस्थितयोः कृत्यवेशसंपादनानुगुणव्या- पारार्थमवलोकिताप्रवेशः॥अवलोकिता। वन्दिता मया नन्दनावसथप्रतिनिवृत्ता भगवती। तद्यावन्मालतीमाधवयोः सकाशं गच्छामि । परिक्रम्य पश्यतीति शेषः। एतौ तौ परिनिर्वर्तितग्रीष्मदिवसावसानमन्जनौ दीर्घिकातीरशिलातलमलंकुरुतः। तदुपसर्पामि ॥माधवः । निशीथस्य वक्ष्यमाणचन्द्रोदयत्वेन मन्मथप्रौढसुहृदः । मन्मथसुहृत्ता च मन्मथसाध्यानुकूलकरणात् । तत्र समये। 'सानन्दसाध्वसाः सुरत- व्यवसायिन्यो भवन्ति' इति वात्स्यायनः। तथा हीति कृखा तस्या एव निशीथयौ- वनश्रिय उत्कर्षनिमित्तं व्यनकि-दलयतीति । उद्गच्छन्नैन्दवः प्रकाशस्तद्वच्छु. व्यत्तालीपत्रपाण्डुवर्णस्तिमिरस्तोमं भिनत्ति । मरुद्वेगोद्भेदकेतकीपराग इव स्फार- स्फारमुन्मुखीभूय प्रचलित इव प्रकाशोपमा ॥१॥ कुलकुमारीलेन तथा प्रत्यवसित. १. अष्टम-नवम-दशमाङ्काना त्रिपुरारिकृता ब्याख्या नोपलम्धेत्यतः परं नान्य. देवविरचिता टीका मुद्रिता.

१८६ मालतीमाधवे (खगतम् ।) तत्कथं वामशीलां मालतीमुपावर्तये । भवत्वेवं तावत् । (प्रकाशम्)प्रिये मालति,प्रत्यासायंतनखानसविशेषशीतलांभवती निदा- घसंतापशान्तये किंचिद्विज्ञापयामि । तत्किमित्यन्यथैव मां संभावयसि निश्श्योतन्ते सुतनु कबरीबिन्दवो यावदेते यावन्मध्यः स्तनमुकुलयो भावं जहाति । यावत्सान्द्रपतनुपुलकोझेदवत्यङ्ग्यष्टि- स्तावदाढं वितर सकृदप्यङ्कपाली प्रसीद ॥२॥ अयि मालति निरनुक्रोशे, चारित्रलेन च तदभिप्रायानुकूलं गम्यमित्याचरन्तीं वामशीलामिव वामशीलामुपा- वर्तये स्वाभिमतसिद्धिप्रगुणचित्तां करोमि । भवत्वित्युपायस्मरणे । एवं तावत्काम- सूत्रोकेन कन्याविनम्भणोपायेनोपावर्तनार्थ यतिष्य इत्यभिप्रायेण मतिं व्यवस्थाप्य प्रकाशमाह-प्रिय इति । अत्र निदाघसंतापशान्तय इत्युक्त्या संतापप्रतीकारधिया न रागितयैव वदासङ्गप्रार्थनार्थ विज्ञापयामीति प्रेमगर्भ विनयप्रदर्शनम् ॥ निश्चयो. सन्त इति । सुतन्विति संबोधनेनालिजनाद्यत्यन्तोपयुक्तस्य नायिकाशरीरस्याति- रामणीयकप्रदर्शन किमितीदृश्यां दशायां दर्शनार्ह मां न संभावयसि । मया वं यसिमवसरे श्मशानभुवि संभावितासि तत्सदृश एवायं समय इत्याशयः। निश्चयो- 'तन्त इत्यात्मनेपदं चिन्यम् । अद्य स्नानविमुक्तबन्धकबरीसझिनो जलबिन्दवो यावदेव पतन्ति, यावद्वा स्तनद्वन्द्वान्तर्भागः नानजलाद्रों वर्तते, यावच स्नानशैत्या- त्सान्द्रपुलकलमजयष्टिर्गता तावदेवाश्लेषं देहि, प्रसन्ना भव । एतेन मालत्येवं जानातु यत्किल मदावर्तिमजनजनितशैत्यमेवास्य स्पर्शसंतापशान्तये सत्यममीष्टम् , न पुनः कामन्दकीलवनिकायभिप्रायानपेक्षमेव परिणयविधानमनाहत्य किंचिचिकीर्षु- रिति विमृश्य मालती मह्यं कापालिकवधोपकारबुद्ध्या वितरलिति माधवस्याशयः । वस्तुतस्तु जलमज्जनजन्यां तात्कालिकी कान्ति शोभामिति स तत्र कान्तिगतालंकार- त्वेन भरतमुनिसंमतामवलोक्यातिरागादेवाश्लेषप्रार्थनायां प्रवृत्तः । 'रूपयौवनला- वण्यादुपभोगोपहितः । अलंकरणमङ्गानां शोमेति परिकीर्तिता । कान्तिरित्यु. च्यते सापि शोभैवापूर्णमन्मथा ॥' तथा 'उत्तिष्ठन्या रतान्ते भरमुरगपतो पाणि- नैकेन कृखा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः । भूयस्तत्काल. कान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिनय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥ इति ॥२॥ अथ कामसूत्र विमाधवस्तद्वचस्यपि 'अनुत्तरी चोप. लक्ष्या (१)इत्यादि को द्वितीयभूमिकामधिरोपयलाह-अयोति । निरनुक्रोशे इति रोषोद्भावनेन मालत्या विभीषिका दर्शिता । यथाह वात्स्यायन:-‘एवं चित्तानुगो बालामुपायेन प्रसादयेत् । तथा चेत्सानुरागा च विस्रब्धाचापि जायते ॥ नात्यन्त- मानुलोम्येन न चातिप्रातिकूल्यतः । सिद्धिं गच्छति कन्यासु तस्मान्मध्येन साध.

अष्टमोऽ: जीवयन्निव समूढसाध्वस- खेदबिन्दुरधिकण्ठमर्प्यताम् । बाहुरैन्दवमयूखचुम्बित- स्यन्दिचन्द्रमणिहारविभ्रमः ॥ ३ ॥ अथवा दूरे तावदेतत् । कथमालापसंविभागस्याप्यभाजनमयं जनो भवत्याः। दग्धं चिराय मलयानिलचन्द्रपादै- निर्वापितं तु परिरभ्य वपुर्न नाम । आमत्तकोकिलरुतव्यथिता तु हृद्या- मद्य श्रुतिः पिबतु किंनरकण्ठि वाचम् ।। ४ ।। अवलोकिता-अई अणिबहणसीले, जं दाणिं मुहुत्तमेचन्दरि- दमाहवा दुम्मणाअन्ती मह पुरदो भणासि । चिराअदि अज्जउत्तो । अवि णाम किअच्चिरेण पेक्खिस्सं, जेण पुणो विवडिआसेससज्झसा १. अयि अनिर्वहणशीले, यदिदानी मुहूर्तमात्रान्तरितमाधवा दुर्मनाय- माना मम पुरतो भणसि । चिरायत आर्यपुत्रः । अपि नाम कियधिरेण येत् ॥ आत्मनः प्रीतिजननं योषितां मानवर्धनम् । कन्याविनम्भणं वेत्ति यश्च तासां प्रियो भवेत् ॥ अतिलज्जान्वितेत्येवं यस्तु कन्यामुपेक्षते । सोऽनभिप्रायवेदीति पशुवत्परिभूयते ॥ इत्यादि ॥ जीवयन्निति । मां गतजीवितप्रायं जीवयन्निव धृत- साध्वसखेदरूपसात्त्विकभावो बाहुरधिकण्ठं कण्ठे मदीये खयमेवार्प्यताम् । यथा- प्रार्थितं एव भवदुपरि प्रकोष्ठो मया कापालिकापसरणायाप्तिस्तथेत्याशयः । ऐन्दव. मयूखचुम्बनेन यः स्रवणशीलश्चन्द्रकान्तमणिहारस्वद्विलासस्तत्सदृशः । सोऽपि संतापशान्य कण्ठे समर्प्यते। अत्र चाङ्कपाली देहि तथाधिकण्ठं बाहुरर्प्यतामिति च प्रार्थनाद्वयेन कन्यानुद्वेगकरमुपक्रम कामसूत्रोकं मारयति । 'पूर्वकायेन चोपक्रमो विषयखात्' ॥३॥अथवा कण्ठबार्पणानुरूपं दूरे तावदत्यन्तदुर्लभखात् । मन्द- पुण्यः कथं केन हेतुनालापसंविभागस्यानुरागव्याकवाक्यामृतस्याप्यभाजनमस्था- नम् ॥ दग्धमिति । मम वपुस्तावचिरं मलयानिलादिभिः स्मरोद्दीपनविभावस्व- प्राप्त्यर्थमेव यतमानस्य दग्धमिव । दग्धं यदस्ति तत्परिरभ्य न निर्वापितं न निर्वृत्तिं नीतमेव । तदेव तावन्मदनौचित्यं तदनुचितं मया न गृहीतं तर्हि श्रुतिर्मदी- यमदान्धकोकिलकुहूकारेणात्यन्तमदनोद्दीपनेन व्यथिता संजातदुःखा । हे किंनर- कण्ठि, ते वाचं हृद्यां हृदयहारिणीं पिबतु । तुशब्दावत्र क्रमेण पुनरौँ । नामशब्द इवार्थः । किंनरमधुरकण्ठलेन कोकिलध्वनिस्वदचनादहय इति चाटुकारितम् ॥४॥अवलोकिता। अयि अनिर्वहणशीले, यदिदानी मुहूर्तमात्रान्तरितमाधा।

१८८ मालतीमाधवे विसुमरिअणिमेसविग्धं ओलोअन्ती एवं भणिसं । दुउणिआवे- तुणपरिरब्मणेण संभावइस्सं चि । स जेब अझं परिणामो । (मालती सासूयमिव तां पश्यति ।) माधव:-(अपवार्य ।) अहो भगवत्याः प्रथमान्तेवासिन्याः सर्व- तोमुख वैदग्ध्यमक्षय्यसुभाषितरत्नसंचारसंस्करणम् । (प्रकाशम् ।) प्रिये, सत्यमवलोकिता वदति । (मालती मूर्धानं चालयति ।) माधवा-शापितासि मम लवनिकावलोकितयोश्च जीवितेन यदि मे न कथयसि । प्रेक्षिष्ये, येन पुनर्विवर्धिताशेषसाध्वसा विस्मृतनिमेषविघ्नमवलोकयन्त्येवं भणि- ष्यामि । द्विगुणितावेष्टनपरिरम्भेण संभावयिष्य इति । स एवायं परिणामः । मुहूर्तमात्रान्तरितश्चासौ माधवश्चेति विग्रहः। दुर्मनायमाना मम पुरतो भणसि॥चि- रायत आर्यपुत्रः। अपि नाम कियता चिरेण प्रेक्षिष्ये। येन पुनर्विवर्धिताशेषसाध्वसा विस्मृतनिमेषविघ्नं यथा स्यादेवं नयननिमीलनमेव विघ्नमवलोकयन्येवं भणिष्यामि । द्विगुणितावेष्टनपरिरम्भेण संभावयिष्य इति ।मदग्रतः प्रागेवमङ्गीकृतस्य स एवाय- माश्लेषावसरस्य परिणामोऽयमधुना संलापितेऽपि वैदग्ध्यमित्याशयः ॥ मालती सासूयमिव पश्यतीत्याशयः। न तु सासूयमेव । असूया च कोपो विज्ञेयः। कोपाविष्क- रणं मद्रहस्यमीदशमनया व्यक्तीकृतमिति हेतोः । वस्तुतस्तु पूर्वानुरागदर्शितमनो. रथोऽनयावसरे प्रकटीकृत इति सानन्दमेव पश्यतीत्याशयः॥माधवः प्रथमान्ते- वासिन्या इत्युक्त्या कामन्दक्या तादृग्दूत्याचार्यकमपि किमस्यै सम्यगुपदिष्टं यतः प्रस्तावे मद्विधेयानुगुणमस्या रहस्योद्भेदनमिति कृतवतीत्याशयः । अक्षय्योऽशोष्यो नवनवस्फूर्तिशोभनभाषितान्येव रत्नानि तेषां संचारोऽन्यत्र मुख्यवृत्तरन्यत्रापि कार्यानुकूलत्वेन निवेशनम् । संस्करणमप्राम्यतापादनम् । प्रकाशम् । पृच्छतीति शेषः। यदवलोकितयोकं तत्सत्यमुतोत्पाद्यं कथयतीति प्रश्नस्यायमभिप्रायः । यदि तावत्पृष्टा नोत्तरं दास्यति तदानुमतिरस्या इत्याकूतोपलब्धिर्भविष्यति । उत्तरप्रदाने चास्या वचनश्रवणलाभो भवितेति वात्स्यायनोकेरालापयोजनेऽन्तर्भावः प्रश्नस्से- याशयः। तदाह-'सखीं चानुकूलामुभयोरपि विस्रब्धामन्तरा कृला कथायोज. नम् । तस्मिनधोमुखी विहसेत् । तां चातिवादिनीमधिक्षिपेद्विवदेव । परिहासार्थमि- दमनयोक्तमिति चानुक्तमपि ब्रूयात् । तत्र तामपनुद्य प्रतिवचनार्थमसंपूर्णवाक्यार्थ तूष्णीमासीत । निर्बध्यमाना तु नाहमेवं ब्रवीमीत्यव्यकाक्षरमनवसितार्थ वचनं ब्रूयात् । नायकं च विहसन्ती कटाक्षः प्रेक्षेत' इत्यादयोऽपीत्यत्रानवसितार्थमसंपूर्णवा- क्यार्थम् । मालती न मयैवमुक्तमिति प्रतिपादनार्थ प्रातिकूल्येन शिरवालयति । नि- बंध्यमाना तु बिरःकम्पेन प्रतिवचनं ददाति' इति वात्स्यायनः ॥माधवः । लवशि- अष्टमोऽवः । मालती-जाहं किं वि जाणामि । (हत्य/क्के ललो नाटयति ।) माधव:-अहो अनवसितार्थरम्यवचसश्चारुता । (सहसा निरूप्य ।) अवलोकिते, किमेतत् । बाष्पाम्भसा मृगशो विमलः कपोल: प्रक्षास्यते सपदि राजत एष यस्मिन् । गण्डूपपेयमिव कान्त्यमृतं पिपासु- रिन्दुर्निवेशितमयूखमृणालदण्डः ॥५॥ अवलोकिता-सैहि, किं दाणिं उच्चलिअबाहुप्पीडं रोदिअदि । मालती-सहि, केचिरं लवनिआए असण्णिहाणदुक्खं अनु- हविस्सं । पउत्तिलाहो वि से दुल्लहो । माधवः-अवलोकिते, किं नामैतत् । १. नाहं किमपि जानामि । २. सखि, किमिदानीमुच्चलितबाष्पोत्पीडं रुद्यते । ३. सखि, कियचिरं लवङ्गिकाया असंनिधानदुःखमनुभविष्यामि । प्रवृ. त्तिलाभोऽपि तस्या दुर्लभः । कावलोकितयोर्जीवितेन शापितासीत्युक्त्या लवङ्गिकावलोकिते तवात्यन्तहितप्रवृत्त अनतिक्रमणीयवचने चेत्याशयः ॥ मालती। नाहं किमपि जानामीत्युक्त्या चा- त्मनः कुमारीभावप्रतिपादनाथ लज्जामिव लज्जां दर्शयति । यथा गुरुजनाननपेक्ष्य साहसानुष्ठानेन सहजलज्जाया असंभवात् ॥ माधवः । अनवसितार्थत्वेन रम्यं यद्वचस्तस्य चारुता । निरूप्य वदतीति शेषः । एतेनानवसितार्थत्वं गम्यते । तेन च 'निर्बध्यमाना तु नाहमेहं ब्रवीमीत्यव्यक्ताक्षरमनवसितार्थ वचनं ब्रूयात्' इति वा- त्स्यायनोकं स्मारयति । अथ मालत्येककराप्तिकपोलमश्रुपातयतीति गम्यते। तेना- श्रुपातनिमित्तं माधवोऽवलोकितां पृच्छति । अवलोकिते, किमेतदनौपयिकमश्रुपातन- मिति । समस्या रहस्यवेदिनीति भावः ॥ बाष्पेति । अस्या मृगाक्ष्याः खभावत एव मलशून्यं किमिति प्रक्षाल्यते । सपदि । आवयोर्वचनान्तरमित्यर्थः । यत्र कपोले खभावनिर्मलखेनाश्रुजलपूतत्वेन चेन्दुः प्रतिफलितमयूखत्वेन राजते । अस्या मुखामृतसरस्यमृतं पातुमिच्छन्विक्षिप्तरश्मिबिसकाण्ड इवैककरसंक्रान्त- स्वेनैककपोलस्याश्रुणा प्रक्षालनं युज्यते ॥ ५॥ अवलोकिता। सखि, किमि- दानीमुञ्चलितबाष्पोत्पीडं यथा स्यादेवं रुद्यते ॥मालती । सखि, कियचिरं लव- काया.. असंनिधानदुःखमनुभविष्यामि । प्रवृत्तिलाभोऽपि तस्या दुर्लभः । इति मालतीमाधवे अवलोकिता-तुह जेब वअणोवण्णासेण एसा लवनि सुमरिअ ताए पउचिलाहणिमित्तं उत्तम्मिदि। माधवा-नन्विदानीमेव हि मया कलहंसः प्रेषितः । गच्छ त्वं प्रच्छन्नमुपगम्य नन्दनावसथप्रवृत्तिमुपलभखेति । (साशकम् ।) अवलोकिते, अपि नाम बुद्धरक्षिताप्रयत्नः फलोदर्क एव मदयन्तिकां प्रति स्यात् । अवलोकिता-मैहाभाअ, पढमं जेव सङ्कलणहरालंकिदस्स मअरन्दस्स मोहविच्छेअंणिवेदअन्तीए भअवदीए णिउत्तेण भवदा मालदीए समं जीविदेण हिअअं पसादीकिदं । को वि संपदं मदअ- न्तिआलहो वड्ढावेदि । तस्स किं दाणिं पारितोसिअं हविस्सदि। माधव:-अनुयोक्तव्यमेवानुयुक्तोऽस्मि । (हृदयमवलोक्य ।) इय- मस्ति मालतीप्रथमदर्शनाभिषङ्गसाक्षिणी कामकाननालंकारस्य लक्ष्मी- वतः केसरतरोः प्रसवमाला । १. तवैव वचनोपन्यासेनैषा लवङ्गिका स्मृत्वा तस्याः प्रवृत्तिलाभनिमित्त- मुत्ताम्यति । २. महाभाग, प्रथममेव शार्दूलनखरालंकृतस्य मकरन्दस्य मोहविच्छेद निवेदयन्त्या भगवत्या नियुक्तेन भवता मालत्या समं जीवितेन हृदयं प्रसा- दीकृतम् । कोऽपि सांप्रतं मदयन्तिकालाभो वर्धयिष्यति । तस्य किमिदानी पारितोषिकं भविष्यति । रुद्यत इति शेषः ॥ अवलोकिता । तवैव वचनोपन्यासेनैषा लवनिका स्मृता तस्याः प्रवृत्तिलाभनिमित्तमुत्ताम्यति ॥माधवः। अपि नामेति संभावनायाम् ।म- दयन्तिकां प्रति दूतीव्यापार उदर्कस्तेनैवोत्तरफले लब्धे पुनः फलपदोपादानं प्रस्तु- तफलप्रतिपादनार्थम् ॥ अवलोकिता । महाभाग, प्रथममेव शार्दूलनखरालंक- तस्य मकरन्दस्य मोह विच्छेदं निवेदयन्या भगवत्या नियुक्तेन भवता मालत्या सम जीवितेन हृदयं प्रसादीकृतम् । कोऽपि सांप्रतं मदयन्तिकालाभो वर्धयिष्यति । तस्य किमिदानी पारितोषिकं भविष्यति ॥ माधवः । प्रष्टव्यमेव पृष्टोऽस्मि । बया विमुकं कर्म तावन्नोपादेयं वस्तु वेति । पृच्छिधातोर्द्विकर्मकलादिति शेषः । मथ माधवो हृदयजीवितयोः प्रागेव पारितोषिकत्वेन दत्तवात्तयोरप्यधिका म- क्षसि केसरस्रगवशिष्यते । पारितोषिकार्थ हृदयमालोक्येयमस्वीति शेषः। मालसा मा मत्प्रथमदर्शनेभिषास्य साक्षिणी तदधोभागावस्थितस्य मम प्रेयसीदर्शनफल- पर्यन्तं गतमिति शकुनत्वेन बहुमन्यमाना। कामकाननालंकारकारिणो लक्ष्मीवत इति अष्टमोर प्रेम्णा महथितेति वा प्रियसखीहस्तोपनीतेति वा विस्तारितनकुम्भकुमलभरोत्सङ्गेन संभाविता । संप्राप्तेऽप्यथ पाणिपीडनविधौ मां प्रत्यपेताशया या मय्येव लवनिकेत्यवगते सर्वखदायः कृता ॥ ६॥ अवलोकिता-संहि मालदि, वल्लहा क्खु दे इमं वउल- माला । एसा दाणि परस्स हत्थं गमिस्सदि। मालती-पि पिअसही उवदिसदि । अवलोइदे, उभअं वि तुमं जेव उवदिस । अवलोकिता-कहं पदसद्दो विअ । माधव:-(नेपथ्याभिमुखमवलोक्य ।) अये, कलहंसः संप्राप्तः । मालती-दिडिआ वड्डसि मदअन्तिआलाहेण । १. सखि मालति, वल्लभा खलु त इयं बकुलमाला । एषेदानी परस्य हस्तं गमिष्यति । २. प्रियं प्रियसख्युपदिशति । अवलोकिते, उभयमपि त्वमेवोपदिश । ३. कथं पदशब्द इव । ४. दिष्टया वर्धसे मदयन्तिकालामेन । विशेषणद्वयम् । तस्यैव केसरतरोः। कुसुमप्रथितेति यावत्। खोत्कण्ठातिशययोतनं णेति श्लोकेन व्यनक्ति-प्रेम्णेति । या प्रसवमालास्याः प्रियसखीहख उप- नीता। या च विस्तारी परिणाही यः स्तनकुम्भकुपलभरन्यस्तोत्सबखनोत्सहारोप- णेन संभाविता वाभिप्रेतार्थसाधकलेनैव गौरवं नीता। अत्र कुम्भशब्देन स्थूलखम्। कुलशब्देन कलिकापर्यायेण वर्धिष्णुता च स्तनस्य सूचिता । अथानन्तरं नन्दनेन सह पाणिग्रहे संप्राप्तकल्पे मां प्रति निराशतया या कुसुमस्रग्लवङ्गिकेयमित्यवगते मयि सर्वखदायः सर्वखदानं कृता । एतेन पूर्वमनुरागस्तवेगासीत् , इदानीं मद. भीष्टार्थसंपादनेन समयोऽतिवाहित इत्याशयः॥६॥अवलोकिता। सखि मालति, वल्लभा खलु त इयं बकुलमाला । एषेदानी परस्य वदन्यस्य प्रियनिवेदकस्य हस्तं गमिष्यति। तदद्य खमेव प्रियनिवेदिका भवेत्याशयः॥मालती। मालत्यास्तु प्रिय. तमकण्ठात्खकण्ठं गतां भूयश्च खकण्ठाप्रियतमकण्ठं गतां विलोक्यापूर्वानुरागेष्ट- संपादकस्येयं तथा तद्वारैषावयोरन्तःकरणसंबन्धदाार्थ स्नेहसूत्रस्थानीयेयमिति संचिन्त्यावेशाप्रियं प्रियसख्युपदिशतीति द्विरुक्तिः। अवलोकिते, उभयमपि त्वमेवो. पदिश । येन परहस्तं व्रजति किं ब्रवीमीत्याशयः॥ अवलोकिता। कथं पदशन्द इव। श्रूयत इति शेषः ॥ माधवः। भयेशन्द आश्चर्ये ॥ मालती । विष्ट्यानन्देन तथा १९२ मालतीमाधवे माधव:-(सहर्ष परिष्वज्य।) प्रियं नः । (इति बकुलमाला कण्ठे ददाति।) अवलोकिता-णिवूढो भअवदीए संभावणाभारो क्खिदाए। मालती-(सहर्षम् ।) अम्हेहिं वि पिअसही लवनिआ दीसइ । (इत्युत्तिष्ठति ।) (ततः प्रविशति संभ्रान्तः कलहंसो बुद्धरक्षिता लवनिका मदयन्तिका च।) सर्वाः-परित्ताअदु महाभाओ । अद्धमग्गे क्खु णअररक्खि- पुरिसामिओओ मअरन्दस्स जादो । तदो तकालमिलिदेण कलहंस- एण समं अम्हे अणुप्पेसिदाओ। कलहंस:-जह इदोमुहागदेहिं अम्हहिं कलअलो सुदो, तह तकेमि अण्णं वि पारकअं बलं उवागदं ति। मालत्यवलोकिते हेद्धि । समं जेब हरिसुव्वेअसंभेदो उवणदो। १. नियूंढो भगवत्याः संभावनाभारो बुद्धरक्षितया । २. अस्माभिरपि प्रियसखी लवङ्गिका दृश्यते । ३. परित्रायतां महाभागः । अर्धमार्गे खलु नगररक्षिपुरुषाभियोगो मक- रन्दस जातः । ततस्तत्कालमिलितेन कलहंसकेन समं वयमनुप्रेषिताः। ४. यथेतोमुखागतैरस्माभिः कलकलः श्रुतः, तथा तर्कयाम्यन्यदपि पारक्यं बलमुपागतमिति । ५. हा धिक् । सममेव हर्षोद्वेगसंभेद उपनतः । वर्धसे मदयन्तिकालामेन ॥ माधवः। परिष्वज्य । प्रथमं मदयन्तिकाभिलाषतः प्रसङ्गादेवालिङ्गनं विधाय पश्चादेवानुरागपाशमिव प्रियं नः संवृत्तं यन्मदयन्तिका- लाभो जात इत्युक्त्वा केसरस्रजं प्रेमसूत्रपाशमिव मालत्याः कण्ठे ददाति ॥अवलो. किता। नियूंढो निर्वाहं नीतो भगवत्याः संभावनाभारो बुद्धरक्षितया । संभावना- भारो मदयन्तिकामकरन्दयोक्त्यव्यापारः ॥ मालती। अस्माभिरपि प्रियसखी कवनिका दृश्यते । अपिः संभावनायाम् । इदमपि संभाव्यत इति शेषः ॥सर्वाः। परित्रायतां महाभागः । अर्धमार्गे खलु नगररक्षिपुरुषाभियोगो मकरन्दस्य जातः। अभियोगः प्रतिरोधः । ततस्तत्कालमिलितेन मकरन्दसंबाधाद्विनिर्गतेन वृत्तावेद. नाय कलहंसकेन समं वयमनुप्रेषिताः ॥ कलहंसः। यथेतोमुखागतैरस्माभिरायो- धनकलकलः श्रुतः, तथा तर्कयाम्यन्यदपि पारक्यं बलमुपागतमिति। पारक्यं परकी- यसैन्यमिति देशी। 'पार' इति लोके ॥मालत्यवलोकिते।सममेव हर्षोद्वेगसंमेद ।

अष्टमोड १९३ माधवः सखि मदयन्तिके, खागतम् । अनुगृहीतमसहं भवत्या । ननु खस्था भवन्तु भवत्यः । एकाकिनोऽपि बहुभिरभि- योग इति यत्किचिदेतद्वयस्यस्य । हरेरतुलविक्रमप्रणयलालसः साहसे स एव भवति क्वणत्कररुहप्रचण्डः सखा । स्फुटत्करटकोटरस्खलितदानसिक्तानन- द्विपेश्वरशिरःस्थिरास्थिदलनैकवीरः करः ॥ ७ ॥ तदहमपि विक्रान्तिपूतं विलसतः प्रियसुहृदः प्रत्यनन्तरीभवामि । (विकटं परिक्रम्य कलहंसकेन सह निष्क्रान्तः।) अवलोकितादय:-अवि णाम अप्पडिहदा पडिणिवट्टि- स्सन्दि महाणुहावा । मालती-सहिओ बुद्धरक्खिदावलोइदाओ, तुरिअं गदुआ भअवदीए उत्तन्दं णिवेदेहो । तुमं वि सहि लवनिए, तुरिअं १. अपि नामाप्रतिहतौ प्रतिनिवर्तिष्येते महानुभावौ । २. सख्यौ बुद्धरक्षितावलोकिते, त्वरितं गत्वा भगवत्या इमं वृत्तान्तं उपनत उपागतः॥ माधवः। अस्मद्गृहमनुगृहीतं भवत्येत्युक्त्या मकरन्दे खात्म- निर्विशेषत्वं मकरन्दखीकारेणास्मद्भवनमेव खयालंकृतमित्याशयः । एकाकिनोऽपि वीरस्य बहुभिरभियोगः। तथाविधशार्दूलव्यतिकरप्रत्यक्षीकृतपौरुषस्य मत्सहचरत- या मत्समानपराक्रमस्य मकरन्दस्य न किंचिदेतद्भवति संत्रासनिमित्तं चित्ते न भवि. तव्यम् । खस्था भवन्वित्यर्थः॥ हरेरिति । सिंहस्सैका किनः साहसे विधेये स एव खकीयः करः सखा भवति । कीदृशः । अतुलेऽसाधारणे विक्रमे यः प्रणयः प्रीति- खत्र लालसा वान्छा यस्य स तथाविधः । तथा वणन्तः शब्दायमाना गजास्थि- प्रन्थ्यादिषु कररुहास्तैः प्रचण्डः । तथा नखोत्पीडेन स्फुटन्विकसन्करटो गण्ड- खस्य कोटरादप्रात्स्खलितं यद्दानं तेन सिकमाननं यस्य द्विपेन्द्रस्य शिरसि स्थिर दृढं यदस्थि तहलन एकवीरः श्रेष्ठवीरोऽसहायवीरो वा । एतेन मकरन्दस्यारिसैन्य- दलने शस्त्रापेक्षापि नास्तीति मदयन्तिकावित्रासनिरासार्थमुक्तिक्रमः ॥ ७ ॥ तद- हमपि विक्रान्या विक्रमेण पवित्रं यथा स्यादेवं विलसत इव विलसतोऽवज्ञयैव तैः सह युध्यतः प्रत्यनन्तरीभवामि द्वितीयो भवामि ॥ अवलोकितादयः। वद. न्तीति शेषः अपि नामाप्रतिहतौ प्रतिनिवर्तिष्येते महानुभावी माधवमकरन्दौ ॥ मालती। सख्यौ बुद्धरक्षितावलोकिते, बरितं गत्वा भगवत्या इमं वृत्तान्तं १९४ मालतीमाधवे -- विष्णावेहि अजउत्तं । जइ दाव तुम्हाणं अम्हे अणुकम्पणीआओ दो अप्पमत्रं परिकमेद्धति। (मालतीमदयन्तिकावर्ज सर्वास्तथेति निष्कान्ताः ।) मालती-हद्धि । ण जाणीअदि कहं इयदी वेला अतिकमेम । होदु । पिअसहीए लवनिआए पडिणिउत्तिमग्गं आलोअन्ती चिहिस्सम् । (परिकामति । साशङ्कम् ।) फुरिदं मे वामं अवामणअणेन । (उपविशति ।) (ततः प्रविशति कपालकुण्डला ।) कपालकुण्डला -आः पापे, तिष्ठ । मालती-(सत्रासम् ।) हो अज्जउत्त । (इति वास्तम्भ नाटयति ।) कपालकुण्डला-(सक्रोधहासम् ।) नन्वाक्रन्द, आक्रन्द । त्वद्वल्लभः क नु तपखिजनस्य हन्ता कन्याविटः पतिरसौ परिरक्षतु त्वाम् । निवेदयतम् । त्वमपि सखि लवङ्गिके, त्वरित विज्ञापयार्यपुत्रम् । यदि ताव- दुष्माकं वयमनुकम्पनीयास्ततोऽप्रमत्तं परिकामतेति । १. हा धिक् । न ज्ञायते कथमियती वेलातिक्रम्यताम् । भवतु । प्रिय. सख्या लवणिकायाः प्रतिनिवृत्तिमार्गमवलोकयन्ती स्थास्यामि । स्फुरितं मे वाममवामनयनेन । २. हा आर्यपुत्र । निवेदयतम् । लमपि सखि लवङ्गिके, बरितं विज्ञापयार्यपुत्रम् । यदि तावद्युष्माकं वयमनुकम्पनीयास्ततोऽप्रमत्तं यथा स्यादेवं परिकामतेति ॥ मालती । हा धिक् । न ज्ञायते कथमियती वेलातिक्रम्यताम् । केन प्रकारेणातिवाद्यतामित्यर्थः । भवतु । प्रियसख्या लवङ्गिकायाः प्रतिनिवृत्तिमार्ग व्यावर्तनमार्गमवलोकयन्ती स्था- स्यामि । सखीप्रत्यावर्तनवावलोकनमेव समयातिवाहनोपाय इत्याशयः। स्फुरितं मे वाममननुकूलं यथा स्यादेवमवामनयनेन दक्षिणचक्षुषा। स्त्रीणां दक्षिणाक्षिस्फुरण- सानिमित्तत्वात् । एतच्चानिमित्तं संनिहितमालतीविपरसूचकमित्याशयः । अथ स. मस्तपरिजनरहिताया मालत्या हरणार्थे बद्धवैरायाः कपालकुण्डलायाः प्रवेशः॥भाः पापे, तिष्ठ इति कपालकुण्डलाया वचो निशम्य सत्रासं मालती रोदिति ॥मालती। हा आर्यपुत्रेति । वास्तम्भो गद्दाख्यः सात्त्विकभावरूपः । स चाकस्मिक- महाभयनिमित्तः । तल्लक्षणं च-'मदप्रमादब्रीडादेक्स्तिम्भो गद्गदं विदुः' इति । मादिशब्दाद्भयादयोऽपि गद्गदनिमित्ता भवन्ति ॥कपालकुण्डला-त्वबल्लभ इति । पातीति पतिः । कन्याविटः कन्यादूषकः । तपखिजनस्यैव हन्ता, न वीर- जनस्य । श्येनस्य मांसादपक्षिविशेषस्य पतनेन चकितानना व्याक्षिप्तानना वर्तिका- अष्टमोSI ११५ श्येनावपातचकिताननवर्तिकेव किं नेक्षसे ननु मया कवलीकृतासि ॥ ८॥ यावच्छ्रीपर्वतमुपनीय प्रतिपर्व तिलश एनां निकृत्य दुःखमारिणी करोमि । (इति मालतीमादाय निष्क्रान्ता ।) मदयन्तिका-अहं वि मालदी जेब अणुवट्टिस् । (परिक्रम्य ।) सहि मालदि। लवङ्गिका-(प्रविश्य ।) सैहि मदअन्तिए, लवनिआ क्खु अहं । मदयन्तिका-अइ, संभाविदो तुए महाणुहाओ। लवङ्गिकाणेहि णहि । सो क्खु उज्जाणवाडणिग्गमादो जेब कलअलं सुणिअ साक्खेवावविद्धविअडणिओरुदण्डणिडुरं पधाविस पराणी पविट्टो । तदो पडिणिउत्तम्हि मन्दभाइणी । सुणोमि अ घरे घरे गुणाणुराअणिब्भरस्स पोरलोअस्स हा माहव महाभाअ १. अहमपि मालतीमेवानुवर्तिष्ये । सखि मालति । २. सखि मदयन्तिके, लवङ्गिका खल्वहम् । ३. अयि, संभावितस्त्वया महानुभावः । ४. नहि नहि । स खलुयानवाटनिर्गमादेव कलकलं श्रुत्वा साक्षेपापविद्ध- विकटनिजोरुदण्डनिष्ठुरं प्रधाव्य परानीकं प्रविष्टः । ततः प्रतिनिवृत्तास्मि मन्दभागिनी । शृणोमि च गृहे गृहे गुणानुरागनिर्भरस पौरलोकस्स हा माधव महाभाग हा मकरन्द साहसिकेति परिदेवनानि । महाराजः किल पक्षिविशेषयुवतिरिव वं मया कवलीकृतासीत्यात्मानं नेक्षसे । यदि शक्तिस्वदा तर्हि परिरक्षतु ॥८॥ यावदित्यवधारणे । श्रीपर्वतं नीखैव । पर्व पर्व प्रति प्रतिपर्व । प्रतिसंधीत्यर्थः । तिलं तिलं तिलशः । विलमात्रान्मांसखण्डान्कृखा चित्रवधेनैनां दुःखमारिणीं करोमि । इति बन्धुवगैरविज्ञातां मालतीमादाय कपालकुण्डला निष्क्रान्ता ॥ मदयन्तिका । अहमपि मालतीमेवानुवर्तिष्ये । अथ मालतीभ्रमेण मदयन्तिका लवङ्गिकामाकारयति । सखि मालतीति । प्रविश्य ॥ लवङ्गिका। बदतीति शेषः । सखि मदयन्तिके, लवमिका खल्वहम् । न मालतीति भावः ।। मदयन्तिका । अयीति सुकुमारसंबोधने । संभावितो दृष्टस्त्रया महानुभावः । माधव इत्यर्थः ॥ लवङ्गिका । नहि नहि । स खलूद्यानवाटनिर्गमादेव कलकलं श्रुखा साक्षेपापविद्धविकट निजोरुदण्डनिष्ठुर प्रधाव्य परानीकं प्रविष्टः । साक्षेप सकोपवचनम् । अपविद्धस्ताडितो निजोरुदण्डो येन स तादृक् । वाटो वृतिः। प्राकार इति यावत् । मार्गों वा । ततः प्रतिनिवृत्तास्मि मन्दभागिनी । शुणोमि च गृहे १८माल.

मालतीमाधवे • . हा मअरन्द साहसिअ ति परिदेवणाओ। महाराओ किल मन्तिधी- आणं विप्पलम्भवुत्तन्दं सुणिअ संजादमच्छरावेओ तक्खणविसजि- दाणेअप्पोढपदाइणिवहो चन्दादवसोहिदसोहसिहरट्टिदो पैक्खदि ति मन्तिअदि। : मदयन्तिका हा, हदम्हि मन्दभाइणी । लवङ्गिका-संहि, मालदी उण कहिं । मदयन्तिका-सहि, सा क्खु पढमं जेब दे मग्गं ओलोइदं पसरिदा । पञ्चादो अहं तं ण पेक्खामि । सा णाम उज्जाणगहणं पविट्टा हवे। लवङ्गिका-सहि, तुरिअं अण्णेसम्ह । अदिकातरा मे पिअ- सही उववणट्ठिदा इमस्सि अवसरे न धारेदि अचाणं । लवङ्गिकामदयन्तिके (चरितं परिक्रामन्यौ ।) सेहि मालदि, णं भणामि सहि मालदि ति । (इतस्ततः परिकामतः।) मत्रिदुहितोर्विप्रलम्भवृत्तान्तं श्रुत्वा संजातमत्सरावेगस्तत्क्षणविसर्जितानेकप्रौढ- पदातिनिवहश्चन्द्रातपशोभितसौधशिखरस्थितः प्रेक्षत इति मन्यते । १. हा, हतास्मि मन्दभागिनी । २. सखि, मालती पुनः क । ३. सखि, सा खलु प्रथममेव ते मार्गमवलोकयितुं प्रसृता । पश्चादहं तां न पश्यामि । सा नामोद्यानगहनं प्रविष्टा भवेत् । ४. सखि, त्वरितमन्विष्यावः । अतिकातरा मे प्रियसख्युपवनस्थिता- स्मिन्नवसरे न धारयत्यात्मानम् । ५. सखि मालति, ननु भणामि सखि मालतीति । गृहे गुणानुरागनिर्भरस्य पौरलोकस्य हा माधव महाभाग हा मकरन्द साहसिकेति परिदेवनानि । महाराजः किल मन्त्रिदुहितोर्विप्रलम्भवृत्तान्तं श्रुला संजातमत्सरा- वेगस्तत्क्षणविसर्जितानेकप्रौढपदातिनिवहश्चन्द्रातपशोभितसौधशिखरस्थितः प्रेक्षत इति मन्यते ॥ मदयन्तिका । हा, हतास्मि मन्दभागिनी ॥ लवङ्गिका। सखि, मालती पुनः क्व वर्तते ॥ मदयन्तिका। सखि, सा खलु प्रथममेव ते मार्गमवलोकयितुं प्रसृता । पश्चादहं तां न पश्यामि । सा नामोद्यानगहनं प्रविष्टा भवेत् । नामेति संभावनायाम् ॥ लवङ्गिका । सखि, सरितमन्विष्यावः । अति- कातरा.मे प्रियसख्युपवनस्थितास्मिन्नवसरे न धारयत्यात्मानम् ॥ लवङ्गिका- अष्टमो. १९५ कलहंस:-(हृष्टः प्रविश्य ।) 'दिद्विआ कुसलेण म्हि णिग्गदो संघट्टमग्गादो । हिमाणहे । पेक्खामि विअ णिम्मलणिरन्तरव्वुत्ततरवा. रिधारापडिफलिदचन्दकिरणुजुलन्तपिञ्जरिअमीसणसणं मदलीला- कलिदकामवालविअडभुभदण्डावविद्धहलहेलावित्थारिदुद्धक्खुमिवक- लिन्दतणआसोतस्संणिहं विसङ्खलुप्पडिदणिद्दआणन्दमअरन्दक्खोभवि. अलपडिरोधपडिणिउत्तणुद्धअसमत्थगअणङ्गणावआसविअसन्दकोलाहलं पारकसमूहं दाणिं वि पेक्खामि विअ । सुमरामि अभीसण- भुअवजखचितपञ्जरपज्जत्थसमरविमुहसुभटहत्थावलुत्तविविहाउहोवरु- द्धअसेसरिपुसेण्णविअडापसारवइरिकमग्गसंचारणिबत्तिदविसमसाहसं णाहं माहवम् । अहो गुणाणुराओ णरिन्दस्स, जं दाणिं सोध. १. दिष्टया कुशलेनामि निर्गतः संघट्टमार्गात् । हिमाणहे । पश्या- मीव निर्मलनिरन्तरोद्वृत्ततरवारिधाराप्रतिफलितचन्द्रकिरणोज्वलपिञ्जरित- भीषणदर्शनं मदलीलाकलितकामपालविकटभुजदण्डापविद्धहलहेलाविस्तारितो- लक्षुभितकलिन्दतनयास्रोतःसंनिभं विशृङ्खलोत्पतितनिर्दयानन्दमकरन्दक्षोम- विकलप्रतिरोधप्रतिनिवर्तनोद्धतसमस्तगगनाङ्गणावकाशविकसत्कोलाहलं पार- क्यसमूहमिदानीमपि पश्यामीव । मरामि च भीषणभुजवज्रखचितपञ्जरपर्य- स्तसमरविमुखसुभटहस्तावलुप्त विविधायुधोपरुद्धाशेषरिपुसैन्यविकटापसारव्य- तिरिक्तमार्गसंचारनिर्वर्तितविषमसाहसं नार्थ माधवम् । अहो गुणानुरागो नरेन्द्रस, यदिदानीं सौधशिखरावतीर्णप्रतिहारविनयोपन्यासप्रशमितविरोधः मदयन्तिके । सखि मालति, ननु भणामि सखि मालतीति ॥ कलहंसः । दिष्ट्या कुशलेनास्मि निर्गतः संघमार्गात् । सहर्ष हिमामहे । 'हिमाणहे भय. हर्षे' इति देशी । पश्यामीव निर्मलनिरन्तरोवृत्ततरवारिधाराप्रतिफलितचन्द्रकि- रणोज्ज्वलत्पिारितभीषणदर्शनं मदलीलाकलितकामपालविकटभुजदण्डापविद्ध- हलहेला विस्तारितोयक्षुभितकलिन्दतनयास्रोतःसंनिभं विशङ्खलोत्पतितनिर्दयान. न्दमकरन्दक्षोभविकलप्रतिरोधप्रतिनिवर्तनोद्धतंसमस्तगगनाङ्गणांवकाशविकसत्को. लाहलं पारक्यसमूहमिदानीमपि पश्यामीव । प्रतिनिवर्तनं पलायनम् । स्मरामि च भीषणभुजवज्रखचितपजरतया पर्यस्ताः प्रसृताः समरविमुखा ये सुभटा. तेषां हस्तेभ्योऽवलप्तान्याच्छेदितानि विविधान्यायुधानि तैरुपरुद्धं पातितमशेषं यद्रिपुसैन्यं तेन दत्तो यो विकटापसारः पलायनं तेन व्यतिरिकः शून्यो यो मार्गस्तत्र संचारेण निर्वतितविषमसाहसं स्मरामि च माधवमिति संबन्धः। अहो गुणानुरागो नरेन्द्रस्य, यदिदानी सौधशिखरावतीर्णप्रतिहारविनयोपन्या- सप्रशमितविरोधः सौम्यैकरसोपनीती यो संकटानिष्कान्तौ .माधवमकरन्दौ १९८ मालतीमाघवे सिंहरावदिण्णपडिहारविणओवण्णासपसमिदविरोहो सोम्मेकरसोव- णीदमाहवमअरन्दमुहचन्दे ओलोइअ वारंवार पसारिदसिणिद्धलो- अणो कलहंसआदो अहिजणं सुणि निवत्तिअमहग्षगुरुबहुमाणों फुरन्तमच्छरेस्सावेल्लक्खमसीमलिणिदमुहे भूरिवसुणन्दणे महुरो- वण्णासेहिं किं दाणिं तुम्हाणं भुवणाभोअभूसणेहिं महाणुहावेहि गंवजोवणगुणाभिरामेहिं जामाउएहिं परितोसे ति पडिबोधिअ गओ अब्भन्दरं राआ । इमे वि माहवमअरन्दा आअच्छन्दि इति अहं वि एवं भअवदीए वुत्तन्दं णिवेदेमि । (इति निष्कान्तः ।) (ततः प्रविशतो माधवमकरन्दौ ।) माधवः-अहो, प्रेयसः सर्वपुरुषातिशायि निर्व्याजमूर्जितं तेजः । तथा हि। दोनिष्पेषविशीर्णसंचयदलत्ककालमुन्मतः प्राग्वीराननुपात्य तत्पहरणान्याच्छिद्य विक्रामतः । सौम्यैकरसोपनीतमाधवमकरन्दमुखचन्द्रायवलोक्य वारंवारं प्रसारितस्नि- ग्धलोचनः कलहंसकादभिजन श्रुत्वा निर्वर्तितमहागुरुबहुमानः स्फुरन्मत्सरेणूंवैलक्ष्यमषीमलिनितमुखौ भूरिवसुनन्दनौ मधुरोपन्यासैः किमि- दानीं युवयोर्भुवनाभोगभूषणाभ्यां महानुभावाभ्यां नवयौवनगुणाभिरामाभ्यां जामातृभ्यां परितोष इति प्रतिबोध्य गतोऽभ्यन्तरं राजा । एतावपि माधवमकरन्दावागच्छत इत्यहमप्येतं भगवत्यै वृत्तान्तं निवेदयामि । तयोर्मुखचन्द्राववलोक्य वारंवार प्रसारितस्निग्धलोचनः कलहंसकादभिजनं श्रुखा निर्वर्तितमहाघगुरुबहुमानः स्फुरन्मत्सरेविलक्ष्यमषीमलिनितमुखी भूरि- वसुनन्दनौ मधुरोपन्यासैः किमिदानीं युवयोर्भुवनाभोगभूषणाभ्यां महानुभा. बाभ्यां नवयौवनगुणाभिरामाभ्यां जामातृभ्यां परितोष इति प्रतिबोध्य ततो गतोऽभ्यन्तरं राजा । अत्र मत्सरः क्रोधः, उद्वेग ईया एतौ द्वौ मषी. स्थानीयौ । आभ्यां मलिनितं मुखं नन्दनस्य । वैलक्ष्यं मषीस्थानीयं भूरिवसो- रिति विवेकः । एतावपि माधवमकरन्दावागच्छत इत्यहमप्येतं भगवत्यै वृत्तान्तं निवेदयामि ॥ माधवः । प्रेयसो मकरन्दस्य । निर्व्याज खाभाविकमूर्जितं बलवत्तेजः ॥ दोनिष्पेषेति । तथा ह्यस्य प्रेयसो मित्रस्य प्राक्प्रथमं वीरानुन्म. प्रतः । कथमुन्मभत इत्यपेक्षायां दोामेव यो निष्पेषः संचूर्णनं तेन विशीर्ण संच्छिमलेन दलककालं यथा स्यादिति क्रियाविशेषणम् । अनुपात्य च तेषां प्रह- रणान्याच्छिद्य विक्रामतो विक्रम कुर्वतः एवंभूतस्य प्रेयसो यः संख्योदधिः संग्राम. समुदस्तस्य पन्थाः पुरोदेशो द्वेधा पाणिद्वये स्तम्भिता निश्चेष्टा या पदातिपति- अष्टमोऽङ्कः । १.९९ - उद्वेलद्धनरुण्डखण्डनिकराकीर्णस्य संख्योदधे- द्वैधास्तम्भितपत्तिपतिविकटः पन्थाः पुरस्तादभूत् ॥९॥ वयस्य, नन्वनुशयस्थानमेतत् । पश्य । अधैवेन्दुमयूखखण्डनिचितं पीतं निशीथोत्सवे यैलीलापरिरम्भदायिदयितागडूषशेषं मधु । संप्रत्येव भवद्भुजार्गलगुरुव्यापारभन्मास्थिमि- र्गात्रैस्ते कथयन्त्यसारभिदुरान्प्रायेण संसारिणः ॥ १० ॥ स्मर्तव्यं तु नरपतेरस्य सौजन्यम् । यदपराद्धयोरप्यनपराद्धयोरिव नौ कृतोपसदनं चेष्टितवान् । तदेहि, मालतीसमक्षमधुना मदयन्ति- काहरणवृत्तान्तं विस्तरतः कथ्यमानमनुभवामः । (पुरोऽवलोक्य ।) कथं शून्या इवामी प्रदेशाः । मकरन्द:-नूनं शङ्क आवयोः समरसंकटोद्वेगेन व्याकुलत्वा- दितस्ततो भ्रमन्त्यस्ता अत्रैवात्मानं विनोदयन्ति । माधव:- कथयति त्वयि सस्मितमालती- वलितलोलकटाक्षपराहतम् । वदनपङ्कजमुल्लसितत्र स्तिमितदृष्टि सखी नमयिष्यति ॥ ११ ॥ अयमसावुद्यानवाटः। स्तया विकटो विपुलः पुरस्तादभूत् । उद्वेलन्त ऊर्ध्व ललन्तो ये रुण्डखण्ड निक- रास्तैः शीर्णस्य व्याप्तस्येति संख्योदधेर्विशेषणम् ॥ ९॥ वयस्य, अहो एतजग- त्समरकर्म वानुशयस्थानं पश्चात्तापस्थानम् ॥ अद्येति । यैः सुभटैश्चन्द्रिकोप- भोगसमये निशीथे लीलालिङ्गनदायिप्रेयसीपानावशिष्टं तथा प्रतिफलितेन्दुकर- करम्बितमिन्दुप्रभाखण्डरुचिरं मधु पीतं संप्रयेव ते गात्रैर्भवदीयव्यापारभन्ना- स्थिभिः संसारिणः पुरुषानसारांस्तुच्छांस्तथा भिदुरान्विकलान्कथयन्ति ॥ १० ॥ तन्मालत्यप्रतो मदयन्तिकायाः कृते कलहंसकेन वितरतो वर्ण्यमानमावयोापा- रमतर्कितोपस्थितमनुभवामः । पुरोऽवलोक्य । कथं शून्या इवं मालत्या विरहिता इवामी प्रदेशाः । दृश्यन्त इति शेषः ॥ मकरन्दः । नूनं शङ्के । आवयोः समरसंकटोद्वेगेनाकुलवादुद्विमवादितखतो भ्रमन्यस्ता मालत्यादयो. अत्रैवोद्यानगम्भीरस्थानं आत्मानं विनोदयन्ति ॥ माधवः-कथयतीति । वयस्य मकरन्द, खयि कथयति सत्यावयोः समरसंकटवृत्तान्तं मालत्याः सखी मदयन्तिका मनिमित्तमनयोः पुरुषप्रकाण्डयोः शरीरसंदेहादयो जायन्त इत्यत्सम्त- २०० मालतीमाधवे : (प्रवेशं नाटयतः।) लवङ्गिकामदयन्तिके-संहि मालदि । (सहसा विलोक्य सहर्षम्) दिद्विआ पुणो वि अ ते महाणुहावा दिस्सन्दि । माधवमकरन्दौ-भवत्यौ, क सा मालती। उमे-कुंदो मालदी । पदसद्देन अम्हे विप्पलद्धाओ मन्द- भाइणीओ। माधव:-भवत्यौ, कथंकथमपि सहस्रधैव ध्वंसते मे हृदयम् । ततः स्फुटमभिधीयताम् । मम हि कुवलयाक्षी प्रत्यनिष्टैकबुद्धे- रविरतमनुबद्धोत्कम्प एवान्तरात्मा । स्फुरति च खलु चक्षुर्वाममेतच्च कष्टं वचनमपि भवत्योः सर्वथा हा हतोऽस्मि ॥ १२ ॥ १. सखि मालति, दिष्ट्या पुनरपि च तौ महानुभावौ दृश्यते । २. कुतो मालती । पदशब्देनावां विप्रलब्धे मन्दभागिन्यौ । श्रान्ततयोलसितवीडं तथा स्तिमितदृष्टि निश्चलनयनं वकं मुखं कर्तव्याभावान. मयिष्यति । पुनः कीदृशम् । सस्मिता या मालती तस्याश्चलन्तो ये कटाक्षास्तैः पराहतमिव पराहतम् । पराहतिर्जुगुप्सा यथा स्यादेवं कटाक्षरवलोकितं ईदृश- निमित्तमत्याहितनिमित्तमिति मालत्याः सस्मितत्वे कटाक्षराहनने च हेतुः ॥ ११॥ अथ माधवमकरन्दयोः पदशब्दं श्रुखा मालतीमधिगता ज्ञाला तद्विरहव्याकुले लवक्षिकामदयन्तिके । वदत इति शेषः । सखि मालति । अनन्तरं माधवमकरन्दावागतौ विलोक्य सहर्ष वदतः । दिष्ट्या पुनरपि च तौ महानुभावी दृश्येते । अथ लवङ्गिकामदयन्तिकयोः सखि मालतीति वचः श्रुखा संप्रत्युत्पन्नदुनिमित्तशकिती माधवमकरन्दौ पृच्छतः क सा मालतीति । उमे। कुतः कुत्र सा मालतीति । कुत इति सप्तम्यर्थे तसिः । एतेन खत्र मालती नास्येवेत्यर्थः । पदशब्देन भवतोरावां मन्दभागिन्यौ विप्रलब्धे । भवत्पदशब्दं मालतीपदशब्दमाकलय्य सखि मालतीत्युक्तमित्यर्थः । माधवः । भवत्याविति संबुद्धौ । कथंकथमपि केनकेनापि प्रकारेण वक्तुमप्यशश्यं सहस्र. धैव ध्वंसते हृदयम् । तत इदमभिधीयताम् ॥ मम हीति । मम त्वेषोऽन्त- रात्मा मम चेतो हि स्फुटं कुवलयाक्षी मालती प्रति प्रेम पश्यति भयान्यपदेऽपि' इत्यनिष्टैकचिन्तनशीलं तैरनुबद्धोत्कम्प एव । यतः अत्र स एव तावदवश्यमनु- भविष्यसि कपालकुण्डलाकोपस्य विजृम्भितमिति वचनस्सरणादपि स तथोत्कम्प इत्याशयः । तथा वामाक्षिस्पन्दनं कष्टहेतुखात्कष्टम्, तथैवेटक्सख्योर्वचनं कष्टम् । ।

अष्टमोऽङ्कः। मदयन्तिका-तह क्खु इदो विणिग्गदे महाणुहावे बुद्धर- क्खिदं अवलोइदं अ भअवदीसआसं विसजिअ अप्पमादणिमित्तं विण्णवेहि अजउत्तं त्ति लवनिआ अणुप्पेसिदा । तदो उत्तम्ममाणा अ एदाए मग्गं ओलोइदं अग्गदो पसरिदा मालदी । पच्चादो अहं । तदो ण पेक्खामि । तदो अम्हेहिं मग्गिदा एत्थ विडवन्दराई जाव तुम्हे दिट्ठत्ति । माधव:-हा प्रिये मालति, किमपि किमपि शङ्के मङ्गलेभ्यो यदन्य- द्विरमतु परिहासश्चण्डि पर्युत्सुकोऽस्मि । कलयसि कलितोऽहं वल्लभे देहि वाचं भ्रमति हृदयमन्तर्विहलं निर्दयासि ॥ १३ ॥ उमे-हो पिअसहि, कहिं गआसि । मकरन्द: -वयस्य, किमित्यविज्ञाय वैक्लव्यमवलम्ब्यते । माधवः-सखे, त्वमपि किं न जानासि मत्स्नेहदुःखिताया- स्तस्याः कातर्यचेष्टितानि । १. तथा खल्वितो विनिर्गते महानुभावे बुद्धरक्षितामवलोकितां च भग- वतीसकाशं विसृज्याप्रमादनिमित्तं विज्ञापयार्यपुत्रमिति लवङ्गिकानुप्रेषिता । तत उत्ताम्यमाना चैतस्या मार्गमवलोकयितुमग्रतः प्रसृता मालती। पश्चादहम् । ततो न पश्यामि । ततोऽस्माभिर्मागितात्र विटपान्तराणि यावधुवां दृष्टाविति । २. हा प्रियसखि, कुत्र गतासि । तद्धतकदैवेन हतोऽस्मि ॥ १२ ॥ मदयन्तिका । तथा खल्वितो विनिर्गते महानुभावे खयि सति बुद्धरक्षितामवलोकितां च भगवतीसकाशं विसृज्याप्रमा. दनिमित्तं विज्ञापयार्यपुत्रमिति लवङ्गिकानुप्रेषिता । तत उत्ताम्यमाना चैतस्या मार्गमवलोकयितुमग्रतः प्रसूता मालती। पवादहं प्रसृतेत्यर्थः । न ततः पश्यामि । ततोऽस्माभिरत्र विचिता यावावां दृष्टाविति ॥ माधव:-किमपीति । हे चण्डि अतिकोपने, अयं परिहासः खात्मप्रच्छादनरूपो विरमतु।परिहासं परित्यज। ततः किमपि किमपीति यद्वक्तुमपि न शक्यते मङ्गलेभ्यो यदन्यदमगलं तदहं खयि शके । अतस्त्वदर्शनार्थ पर्युत्सुकोऽस्मि । अथवा कलयसि ज्ञातुमिच्छसि मामनु- रागवानयं विरागो वेति रूपेण, तर्हि कलितोऽहं त्वयैव महामांसविक्रयप्रकमा- दिषु । तदिदानी वल्लमे, वाचं प्रयच्छ । यतो मदीयं हृदयं विहलं विकलमन्तरे- वावस्थिति न लभते । वं चैवं निर्दयासि ॥ १३ ॥ मकरन्दः । अविज्ञायानि- । तद्विपदमित्याशयः ॥ माधवः। अन्यखावदासीनो न जानाति ।

२०२ मालतीमाधवे मकरन्द:-अस्त्येतत् । किंतु भगवतीपादमूलगमनमप्या- शक्यते । तदेहि । तत्र तावद्गच्छावः । उमे-एदं वि संभावीअदि । माधव:-एवमस्तु नाम । (इति परिकामति ।) मकरन्द:-(खगतम् ।) याता भवेद्भगवतीभवनं सखी सा जीवन्त्यथैष्यति न वेत्यभिशङ्कितोऽस्मि । प्रायेण बान्धवसुहृत्प्रियसंगमादि सौदामिनीस्फुरणचञ्चलमेव सौख्यम् ॥ १४ ॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवेऽष्टमोऽङ्कः। १. एतदपि संभाव्यते । खमपि किं मालतीति न जानासि । मम प्राप्तौ मत्लेहेन दुःखितया कातरया तया यच्चेष्टितमिति चौरिकाविवाहप्रस्तावे मालत्याः खशरीरपरित्यागाध्यवसायं स्मारयति ॥ उमे । एतदपि संभाव्यते । यद्भगवतीपादसेवां कर्तुं गता भवि- व्यतीत्येतत् ॥ माधवः । एवं नामास्तु । नामशब्दः संभावनायाम् ॥ मक- रन्दः-यातेति । सा नोऽस्माकं सर्वेषां माधवप्रेमविषयतया तस्या एव गुण- विशेषैश्च निःसीमस्नेहविषयलात्सखीव सखी मालती याता गता। तद्भगवती. भवनं नगराध्यक्षपुरुषावरोधव्यतिकरसंभ्रमादिभिः सत्यमेव जीवन्ती प्राणान्धा- रयन्ती पुनरप्येष्यति न वेत्याशङ्कितोऽस्मि । अघोरघण्टव्याघ्रवधराजविरुद्धव्या- पाराध मालतीजीवितसंदेहाशङ्कामिज्ञानानि । अथ मालतीविपदमनया निश्चित्य । वैषयिकसुखस्यास्थिरलं श्लोकस्योत्तरार्धेन व्यवस्थापयति-प्रायेणेति । बान्धवा. दिसंगमसौख्यं सौदामिनीस्फुरणवच्चञ्चलम् । भवतीति शेषः । बान्धवादिसङ्ग आदिर्यस्य सौख्यस्य तत्तादृक् । अथ च प्रथमाङ्कमुखसंधिसूचितायाः सौदामिन्याः स्फुरणं स्फूर्तिर्व्यापारविशेषो वा तन्मात्रनिदानं मालतीविपत्प्रतिकरणं माधव- दुःखप्रहाणं च मनसि कृता प्रकरणकृदप्रिमाके सौदामिनीप्रवेशसूचनाय च सौदामिनीपदमङ्कान्तश्लोके निवेशितवान् ॥ १४ ॥ शबरखामिप्रीत्या प्रकरणरत्नाकरेऽत्र भवभूतेः । सारोद्धारे मन्दरमकृत कृती व्याकृति नान्यः ॥ इति श्रीनान्यदेवस्य कृतौ विबुधरनावल्यां मालतीमाधव- टीकायामष्टमाङ्कविवरणम् ॥

नवमोऽङ्कः। (ततः प्रविशति सौदामिनी ।) सौदामिनी-एषास्मि सौदामिनी भगवतः श्रीपर्वतादुपेत्य पद्मावतीं तत्र मालतीविरहिणो माधवस्य संस्तुतप्रदेशदर्शनासहिष्णोः संस्त्याय परित्यज्य सह सुहृद्धगेंण बृहद्रोणीशैलकान्तारप्रदेशमुपश्च- त्याधुना तदन्तिकं प्रयामि । भोः, तथाहमुत्पतिता यथा सकल एव गिरिनगरग्रामसरिदरण्यव्यतिकरश्चक्षुषा परिषिच्यते । (पश्चाद्विलोक्य ।) साधु साधु। पद्मावती विमलवारिविशालसिन्धु- पारासरित्परिकरच्छलतो बिभर्ति । श्रीपर्वते कपालकुण्डलापहृतां मालतीमाच्छिय निष्प्रत्यूहे देशे निधाय माल- तीविनाशशक्किनो माधवस्यावश्यंभाविविनाशमाश जीवत्येव समागमिष्यतीति माधवप्रतीतिहेतोः मालतीकण्ठाद्वकुलावलीमादाय सौदामिनी सखरमुत्पतिता। अस्मिन्नवसरे नवमात्रारम्भः ॥ तत इति । सौदामिनी स्वात्मगतमेव खविधेयं विचारयति-एषास्मीति । एषाहं सैव सौदामिनी नान्या । या भगवत्याः कामन्दक्या योगाभ्यासाद्युपदेशेनानुगृयैतावत्पदं प्रापिता । तदवश्यं मया कामन्दक्या प्राणेनापि रक्षणीययोर्मालतीमाधवयोर्विपत्प्रतीकारः प्राणव्ययेनापि विधेय इत्येषास्मीति पदस्याशयः। भगवतः पूज्याच्छ्रीपर्वतादुपेत्य गला पद्मा. वतीम् । तत्र पद्मावत्यां मालतीविप्रयुक्तस्य माधवस्य बृहहोण्योपलक्षितो यः शैलस्तस्य कान्तारं दुर्गमार्गस्तत्र प्रदेशस्त्र प्रवेशमुपश्रुत्याधुना तदन्तिक- मनुप्रयामि । भवतु तस्य कान्तारप्रवेशः किमेतावता स्यादित्याशयः। किंभूतस्य माधवस्य-मालत्या सह क्रीडायधिकरणलेन संस्तुतः परिचितो देशस्तस्यैदानी मालती विना तदवलोकनासहिष्णोः कथं कान्तारप्रवेशः किंविधो वेत्यपेक्षाद्वये सह सुहृद्वर्गेण संस्त्यायं गृहं परित्यज्येति पदद्वयं योज्यम् । अत्र भगवच्छब्दो- कपूज्यलं च श्रीपर्वतस्यानेकमन्त्रसाधनक्षेत्रलेन ॥ तथाहमिति । तथा तेन वेगातिशयेन तथोच्चदेशगमनमाश्रित्य वोत्पतितेनात्मनः शरीरलघुतोत्कर्षसहित योगपरिपालनलिङ्गभूतं तथा शीघ्रगामिता चाश्चर्यहेतुलनात्मगतमेव चिन्तयति । लघिमा लघुर्भवति येन सूर्यकरानवलम्व्य तद्विम्बं प्रविशतीत्युच्चैर्गगनारोहणं च माधवस्य गिरिद्रोण्या श्रीपर्वतस्यापि स्पष्टदर्शनार्थम् । व्यतिकरो विशेषः समूहों वा । दक्ष रश्मिमण्डलेन परिषिच्यतेऽभिव्याप्य गृह्यते। साधु साधु । पद्मावती शीघ्रं प्राप्तास्मि । भद्रमासनमिति साधुपदाभ्यासहेतुः ॥ पद्मावतीति । पद्मा- वती नगरी अन्तरिक्षं गगनमिव बिभर्ति । कस्मादित्यपेक्षायां विमलवारिभिर्वि- २०४ मालतीमाधवे 1 उत्तुनसौधसुरमन्दिरगोपुराट्ट- संघट्टपाटितविमुक्तमिवान्तरिक्षम् ॥ १॥ अपि च । सैषा विभाति लवणा वलितोर्मिपकि- रभागमे जनपदप्रमदाय यस्याः । गोगर्भिणीप्रियनवोलपमालभारि- सेव्योपकण्ठविपिनावलयो विभान्ति ॥ २॥ (अन्यतो विलोक्य ।) स एष भगवत्याः सिन्धोर्दारितरसातलस्तटप्रपातः । यत्रत्य एष तुमुलध्वनिरम्बुगर्भ- गम्भीरनूतनघनस्तनितप्रचण्डः । पर्यन्तभूधरनिकुञ्जविजृम्भणेन हेरम्बकण्ठरसितप्रतिमानमेति ॥ ३॥ एताश्चन्दनाश्वकर्णसरलपाटलाप्रायतरुगहनाः परिणतमालरसुरभयोऽ- रण्यगिरिभूमयः स्मारयन्ति तरुणकदम्बजम्बूवनावबद्धान्धकारगुरु- शाला विपुला या सिन्धुर्नाम नदी विशेषः । कीदृशमन्तरिक्षम् । उत्तुना ये सौधा- तेषां संघटनेन पूर्व पाटितं पश्चाद्विमुक्तमिवेत्यर्थः । अन्तरिक्षं चात्र यन्नीला- कारेणोर्ध्वदेशे प्रतिभाति तज्ज्ञेयम् । अन्यथा विभुखेनान्तरिक्षस्य पतनादिवा. तानुपपत्तेः ॥ १॥ सेति । सेयं लवणा नाम नदी । जनपदशब्देन जनपद- लोका गृह्यन्ते । तेषां प्रमदाय गोगर्भिणीनां प्रियास्तथा नवतृणराजिधारिण्यो धारणशीला यास्ता एव वनावलयो विभान्तीत्यन्वयः । अत्र मालाशब्दस्य 'इष्टकेषीकामालानां चिततूलभारिषु' इति ह्रखरूपम् । गोगर्भिणीति रूपं च 'चतुष्पादो गर्भिण्या' इति सूत्रेण जातिसमासे गोगर्भिणी, अजागर्भिणीति च । अचतुष्पादेऽपि तु मानुषीगर्भिणीति, अजातावपि कालाक्षिगर्भिणीति रूपं स्यात् ॥ २॥ स एष पूर्वपरिचितः । भगवतीपदेन पूज्यलाभिधायकन तीर्थवं सिन्ध्वभिधानायाः सरितः सूचयति । उच्चैर्देशादधःशिखरेषु प्रपतनं प्रपातः । उच्चैःपतनादारितभूतलः ॥ यत्रत्य इति । यत्र जातोऽयं संकुलो विभा- व्यानेकभङ्गिध्वनिरभिनवधनध्वानवत्प्रचण्डः । अयं च समीपगिरिप्रतिफलितेषु सत्सु गणपतिगलगर्जितसाम्यं गतः । अत्र च नूतनघनध्वनिसाम्येन मनोहरे प्रकृते ध्वनी प्रचण्डलाभिधानं कदाचिदयं मालतीविरहिणो माधवस्य श्रुतिपथ- मवतरभवाम्भोदध्वनिवत्प्रतिभातीति शङ्कामुत्पादयन्ननिष्टकारि स्यादिति हेतोः ॥३॥ एता इति । एताश्चारण्यभूमयश्चन्दनादिप्रचुरवृक्षवनाद्युत्प्रेक्षणाक्षिणा. रण्यगिरीन्द्रान्स्मारयन्ति तत्सादृश्येनेत्यर्थः । कीदृश्योऽरण्यभूमयः पक्कबिल्वफल. सुगन्धाः । किंभूतान्भूधरानित्यपेक्षायां तरुणकदम्बादिवनैरवबद्धो दृढीकृतो .

नवमोला
२०५
• -
गिरिनिकुञ्जगुखद्गम्मीस्गद्गदोद्गारपोरघोषणगोदावरीमुखरितविशालमे-
खलाभुवो दक्षिणारण्यभूधरान् । अयं च मधुमतीसिन्धुसंमेदपावनो भग-
वान्भवानीपतिरपौरुषेयप्रतिष्ठः सुवर्णबिन्दुरित्याख्यायते । (प्रणम्य ।)
जयदेव मुवनभावन जय भगवन्नखिलवरद निगमनिधे ।
जय रुचिरचन्द्रशेखर जय मदनान्तक जयादिगुरो ॥ ४॥
(गमनमभिनीय ।)
अयमभिनवमेघश्यामलोत्तुङ्गसानु-
मैदमुखरमयूरीमुक्तसंसक्तकेकः ।
शकुनिशबलनीडानोकहस्निग्धवा
वितरति बृहदश्मा पर्वतः प्रीतिमक्ष्णोः ॥ ५॥
दधति कुहरभाजामत्र भल्लूकयूना-
मनुरसितगुरूणि स्त्यानमम्बूकृतानि ।
शिशिरकटुकषायः स्त्यायते सल्लकीना-
मिभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ॥ ६॥
(ऊर्ध्वमवलोक्य ।) अये, कथं मध्याहः । तथा हि संप्रति
योऽन्धकारस्तेन गुरवो ये निकुञा लतादिपिहिताः कंदरीविशेषास्तेषु गुञ्जन्ती
शब्दायमाना गद्गदध्वनिप्रधानप्रवाहनिःसरणा या गोदावरी तया मुखरितविपुल-
मेखलाभुव इत्यन्वयः ॥ अयमिति । मधुमती नदी विशेषः । संमेदः संगमस्तस्य
पावनः पवित्रतोत्पादकः । अपौरुषेयप्रतिष्ठः पुरुषप्रयत्नाजन्यस्थापनः श्रुतिप्रति-
पाद्यमाहात्म्यो वा वर्णबिन्दुरिति नाम तस्य भगवतः ॥ जयेति । भुवनभावन
चतुर्दशभुवनोत्पादक, अखिलवरद समस्तानतकामप्रद, निगमनिधे समस्तवाङ्म-
यनिधे । आदिगुरुलं च सर्गादौ ब्रह्मणोऽप्युपदेशकलात् ॥ ४ ॥ अयमिति ।
अयं पर्वतो दृश्यमानो नेत्रयोः सुखं जनयतीत्यन्वयः। तस्य विशेषणानि ।
नवजलदैः श्यामीकृतोचसानुः । अत एव हृष्टमयूरीमुक्ता विच्छिन्नकेकः । तथा
शकुनिभिः पक्षिभिः शबलाः कर्बुरा ये नीडानोकहास्तैः स्निग्धं वपुरस्य स
तादृक् । शकुनयश्च बलाकाः केकिनश्च प्रायाः। तेषामेव तदानीं नीडारम्भः ।
तैरेव श्वेतश्यामैः कर्बुरता नीडानां स्यात् ॥ ५॥ दद्धतीति । अत्र ये तरु-
णाश्च भल्लूकास्तेषामम्बूकृतानि सनिष्ठीवनानि भुक्तानि कुहरभाक्वेन प्रतिशब्द-
गुणोत्कृष्टानि कर्तृणि स्यानं त्यानलं दधति बिभ्रति । यथा सल्लकीनां वृक्षवि-
शेषाणामिमैः पूर्व दलिताः पश्चाद्विकीर्णा विक्षिप्ता ये प्रन्थयस्तेषां यो निष्यन्दो
इवः क्षरणं तद्वन्धः स्यायते सर्वतः संहतो भवति । प्रसरतीत्यर्थः ॥ ६ ॥

२०६ मालतीमायने .. काश्मर्याः कृतमालमुद्तदलं कोयष्टिकष्टीकते तीराश्मन्तकशिम्बिचुम्बितमुखा धावन्त्यपःपूर्णिकाः । दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय सितं वीरुन्नीडकपोतकूजितमनुक्रन्दन्त्यधः कुकुभाः ॥ ७ ॥ तद्भवतु । माधवमकरन्दावन्विष्य यथाप्रस्तुतं साधयामि । (इति निष्कान्तः।) शुद्धविष्कम्भः। (ततः प्रविशति माधवो मकरन्दश्च ।) मकरन्द: (सकरुणं निःश्वस्य ।) न यत्र प्रत्याशामनुपतति नी वा रहयति प्रतिक्षिप्तं चेतः प्रविशति च मोहान्धतमसम् । अकिंचित्कुर्वाणाः पशव इव तस्यां वयमहो विधातुमित्वाद्विपदि परिवर्तामह इमे ॥ ८ ॥ माधव:-हा प्रिये, मालति, कासि । कथमविज्ञाततत्त्वमद्भुत. तमं झटिति पर्यवसितासि । नन्वकरुणे, प्रसीद । संभावय माम् । काश्मर्या इति । काश्मर्याः मधुपर्णीतरोतस्मिन्काले निष्पत्रात् । उद्तदलं तरुणनवपत्रम् । कृतमालच्छायम् । कोयष्टिकः पक्षिविशेषः। तस्य बने संभवात् । टीकते धावति । सरित्तीरे येऽश्मन्तकाख्या अतसीपर्यायास्तच्छिम्बिचुम्बितमु- खास्तदप्रस्पृष्टमात्रमुखाः । न तु पिपासया ते खादितवन्त इति चुम्बितपदस्या- शयः । पूर्णिका अशोकापरनामानः पक्षिविशेषाः । जलं गच्छन्ति । दात्यूहैस्तिनि- शस्य स्यन्दनापरनानो मूले स्कन्धे जातिखभावानिलीय स्थितम् । तथा लतास्थि- तकुलायवर्तिपारावतकूजितमनुकृत्याधोदेशे कुक्कुभाः कूजन्ति । कुक्कुभो प्रामचट- काकृतिः पक्षिविशेषः । यदाह शरच्चन्द्रिकाकार:-'सितपुच्छो नीलगलः स्याद्रा- मचटकाकृतिः । कुकुभः कुक्कुटारावः स्थलजो रक्तवर्णकः ॥' इति ॥ ७॥ इति शुद्धविष्कम्भः ॥ मकरन्दः। सकरुणं निःश्वस्यात्मगतमेव ॥ न यत्रेति । इमे वयं सर्वे बुद्धिपौरुषोत्साहयुक्ता अपि तस्यां विपदि परिवर्तामहे विष्ठामः । यत्र विपदि मनः कर्तृ । तामपि तत्प्राप्तिहेतुं कामन्दक्याश्वासनरूपा प्रत्याशी नानु- पतति नावलम्बते । तदाश्वासनस्याविषयलेनैवाभावात् । न वा प्रतिक्षिप्तं निराश तत्प्राप्तिप्रत्याशा रहयति त्याजयति । बहुशोऽधोरघण्टादिव्यतिकरेऽपि पुनः- पुनस्तल्लाभदर्शनात् । मोहान्धकारमेव केवलं प्रविशति । मोहश्चात्राकर्तव्यतापरि- च्छेदः । अकिंचिस्कुर्वाणा विपत्प्रतीकारानुरूपं किमपि कर्माकुर्वन्त आहारमात्र- व्यापाराः पशव इव । अत्र च प्रतिकूलदेवविलसितमेव हेतु स्माकं पुरुषकार- वैगुण्यमित्याशयः ॥८॥ माधवः । भविज्ञाततत्त्वमविलक्षितविनाशकारणं ।

नवमोऽङ्कः । २०७: प्रियमाधवे किमसि मय्यवत्सला ननु सोऽहमेव यमनन्दयत्पुरा । खयमागृहीतकमनीयकङ्कण- स्तव मूर्तिमानिव महोत्सवः करः ॥९॥ वयस्य मकरन्द, दुर्लभः खलु जगति तावतः स्नेहस्य संभवः । सरसकुसुमक्षामैरङ्गैरनङ्गमहाज्वर- श्चिरमविरतोन्माथी सोढः प्रतिक्षणदारुणः । तृणमिव ततः प्राणान्मोक्तुं मनो विधृतं तया किमपरमतो नियूदं यत्करार्पणसाहसम् ॥ १० ॥ अपि च । मयि विगलितप्रत्याशत्वाद्विवाहविधेः पुरा विकलकरणैर्मर्मच्छेदव्यथाविधुरैरिव । स्मरसि रुदितैः स्नेहाकूतं तथाप्यतनोदसा- वहमपि यथाभूवं पीडातरङ्गितमानसः ॥ ११ ॥ यथा स्यादेवं पर्यवसितासि विनाशं गतासि । अत एवाद्भुतम् । प्रियेति । प्रियो माधवो यस्या इति प्रियमाधवा खभावतो भूत्वा किमस्यनिमित्तमवत्सला । न चाहमन्यः किंतु स एव माधवो यस्त्वदर्थे कृतमहामांसविक्रयप्रस्तावोचित- तादृशव्यापार इत्यात्मानुरागं मालत्यास्तादग्विपत्प्रतीकारकर्तृवं चात्मनो मनसि कृलाह-यमनन्दयदिति । मां तव करो मूर्तिमान्महोत्सव इवानन्दयत् । कीहकर इत्यपेक्षायामागृहीतकमनीयकङ्कण इति । कथमनन्दयदित्यपेक्षायाम्-खयमिति । यतस्वदर्शनजडीभूतस्य मम कण्ठे लवङ्गिकाधिया खकरेण बकुलावलीसमर्पणतया निजदेहदानादपीति योज्यम् ॥ ९॥ वयस्येति । दुर्लभ इति यावत्नेहो मयि तया मदनोद्यानप्रस्तावनादारभ्य दर्शितस्तावतः स्नेहस्य जगत्यन्यत्र मालतीं विहाया- संभवः । अन्यत्र नायक ईदृगनुरागो न दर्शित इत्यर्थः । तमेव स्नेहोत्कर्षमाह- सरसेति । मध्वानवमल्लिकादिकुसुमवरक्षामैः सुकुमारैश्विरमनवरतमुन्म- थनशीलस्तावत्सोढः । क्षामपदस्य सुकुमारार्थतायामभिभवासहिष्णुतायामुभयत्रापि ममैवेति बीजं प्रतिक्षणदारुणमृत्योर्विशेषेण निमित्तमिति ज्वरविशेषणम् । तत- स्तदनन्तरं च मदप्राप्तिशङ्कायां तृणप्रायान्प्राणान्मला तानेव त्यक्तुं चित्तं विधृतं व्यवस्थापितम् । आस्तां सर्वमेतयत्तया कुलकुमार्या गुरुजनमनाहत्य करार्पणसाहस- मनुरागेण पाणिग्रहणसाहसं निर्मूढं निर्वाहं नीतमतः परं किं ब्रूम इत्याशयः॥१०॥ अपि चेति कृत्वा मालतीगुणान्तरकीर्तनेन चतुर्थस्मरावस्थालि.रुन्मादाख्यसप्त- मावस्थाया भूमिकां रचयन्नाह-मयीति । स्मरसि यथा वं नन्दनविवाह- - २०८ मालतीमाधवे (सावेगम् ।) अहो नु खलु भोः, दलति हृदयं गाढोद्वेगं द्विधा तु न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसा- प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ १२ ॥ मकरन्दः-निरवग्रहो दहति दैवमिव दारुणो विवखान् । इयं च ते शरीरावस्था । तदस्य पद्मसरसः परिसरे मुहूर्तमास्यताम् । अत्र हि उन्नालबालकमलाकरमाकरन्द- निष्यन्दसंवलितमांसलगन्धबन्धुः। त्वां प्राणयिष्यति पुरः परिवर्तमान- कल्लोलशीकरतुषारजडः समीरः ॥ १३ ॥ प्रस्तावात्पूर्व मत्प्राप्तौ विगलितप्रत्याशखाद्विकलारुणैस्तथा मर्मच्छेदे या व्यथा तया विधुरैरिवोद्वेगदायिभी रुदितैस्तथापि तस्यामपि दशायां मयि स्नेहाकूतं स्नेहप्रधान- माशयमतनोद्विस्तारितवती । असावहमपि यथाभूवं यागासं पीडातरङ्गितचेता- स्तथा खमेव स्मरसीत्यन्वयः ॥ ११ ॥सावेगं ससंभ्रमम् । अहोशब्द आश्चर्ये । नु वितर्के । भोः संवुद्धौ ॥ दलतीति । कर्मकर्तरि । खयमेव विधाय मदीयं हृदयं दारणप्रयत्नमतिक्रम्यापि गाढोत्कटं यतो विदीर्ण किमिति नोपलभ्यत इत्यत्र द्विधेत्युत्तरम् । अन्तरेव हि दलने यादृशी व्यथा स्यात्तादृशी व्यथा हृदि वर्तत इति मकरन्दे प्रकाशयति । यथा कायः शरीरं हृदयेतरद्विकलो विह्वलो मोहं वैचित्त्यं वहति । यदि मोहः कथमेवं जानासीत्यत्रोत्तरम् । चेतनां मालती- वियोगवेदनाज्ञानं तु न मुञ्चत्येवेत्याशयः । तथान्तर्दाहः स्मरपवनसंधुक्षितशोका- नलरूपस्तनूं दहति । तर्हि 'दह भस्मीकरणे' इति धावत्किमिति भस्मरूपता न दृश्यत इत्यत्र भस्मसान्न करोतीत्युत्तरम् । देहदाहे यादृशी रूक्षा तादृशी वर्तत इति व्यनक्ति । तथा विधिरननुकूलमाचरन्मर्मच्छेदनशीलः प्रहरतीव । तर्हि कथं जीवसीति चेदत्र न कृन्ततीत्युत्तरम् । चिरमयमनुभवतु यातनामिति जीविता- कृन्तने हेतुः॥१२॥ मकरन्दः। निरवग्रहो निरङ्कुशो निर्मोहो वा । निरवग्रहमिति क्रियाविशेषणं वा। दैवं प्राक्तनमस्मत्कमेव रविरपि प्रचण्डकरो मध्याहे खां दहति । इयमीहशी दुरतिक्रमदशान्तरावतरणलिङ्गभूता । पद्मसरः पद्मप्रधानं सरः ॥ उन्ना- लेति । अत्र सरसि लामीडग्दशापन्नं पवनः प्राणयिष्यति । मरुद्विशेषणान्याह- उनालेति । उद्गतनालानि यानि बालकमलानि प्रत्याविकचानि तेषामाकर उत्पत्तिस्थानं तत्र यो माकरन्दो निष्यन्दः सुतिः । क्षरणमिति यावत् । तेन संव- । - नवमोऽङ्कः। २०९. (परिक्रम्योपविशतः।) मकरन्दः-(खगतम् ।) भवतु । एवं तावदाक्षिपामि । (प्रकाशम्।) वयस्य माधव, एतस्मिन्मदकलमल्लिकाक्षपक्ष- व्याधूतस्फुरदुरुदण्डपुण्डरीकाः । बाष्पाम्भःपरिपतनोद्मान्तराले दृश्यन्तामविरहितश्रियो विभागाः ॥ १४ ॥ (माधवः सोद्वेगमुत्तिष्ठति ।) मकरन्दःकथं निष्प्रतिपत्तिशून्यमुत्थायान्यतः प्रवृत्तः । (निःश्वस्योत्थाय ।) सखे, प्रसीद । पश्य । वानीरप्रसवैनिकुञ्जसरितामासक्तवासं पयः पर्यन्तेषु च यूथिकासुमनसामुज्जृम्भितं जालकः । उन्मीलत्कुटजप्रहासिपु गिरेरालम्ब्य सानूनितः प्राग्भागेषु शिखण्डिताण्डवविधौ मेधैर्वितानायते ॥१५॥ अपि च । लितो मिश्रीभूतो यो मांसलः पुष्टो गन्धस्तद्वन्धुस्तत्सहचरः । तथा पुरः परि. वर्तमाना ये कल्लोलास्तेषां शीकरा एव तुषाराडो मन्दगतिः ॥ १३ ॥ अथ मक- रन्दो मित्रस्य दुरन्ताधिदर्शनेन भ्रान्तचित्ततया विरहिविपक्षतामुद्दीपनभावनां विस्मृत्य माधवस्यान्यचित्तताकरणाय तानेवोपन्यस्यति । आक्षिपाम्यन्यमनस्क करोमि ॥ एतस्मिन्निति । एतस्मिन्सरसि भूप्रदेशा दृश्यन्ताम् । प्रदेशानां विशेषणान्याह-सहर्षमन्द्रध्वाना ये मल्लिकाक्षा हंस विशेषास्तेषां पक्षव्याधूताः पूर्व पश्चात्स्फुरन्त उरवो दण्डा येषां पुण्डरीकाणां तानि येपु भूभागेपु ते तादृशाः बाष्पाम्भःपूरितलोचनलात्कथं दृश्यन्तामित्यत आह-एकस्य बाप्पाम्भसः परि- पतनमन्यस्योद्गमनमित्यनयोरन्तराले ॥ १४ ॥माधवस्य मकरन्दोक्तविनोदनोपदेश एवोद्वेगनिमित्तम् ॥ मकरन्दः। निष्प्रतिपत्त्या मम तावद्वाक्यार्थानवबोधेन शून्यं शून्यहृदयता यथा स्यादेवमुत्थाय मकरन्दोपदिष्टात्मविनोदनहेतूविपरीतानाश- यावलोकयितुमसमर्थः । उत्थायान्यतोस्मात्स्थानात्स्थानान्तरं गन्तुं प्रवृत्त इत्यर्थः। अथ मकरन्दो मित्रस्य दुःसहं दशान्तरमापतत्प्रतिकर्तुमसमर्थो निःश्वस्य वदति- प्रसीद चित्तस्याभिलाषितां मुञ्च । अथवा प्रसन्नो भव ॥ वानीरेति । वयस्य, निकुञ्जसहितानां नदीनां वेतसकुसुमैहेतुभूतैः प्राप्तसौरभं पयः पश्य । अत्र मनो विनोदयेत्याशयः। पर्यन्तेषु नदीनां तटेषु ।यूथिकाकुसुमानां जालकैर्मुकुलैरुज्जृम्भितं विकसितं तदपि पश्येत्याशयः । इतश्च सानूनालम्ब्य शृङ्गाण्याधारीकृत्य मेधै- मयूरोद्धतनृत्तनिमित्तं वितानायते पटमयनृत्तमण्डपतयावार्यते । केपु देशेष्विर - २१० मालतीमाधवे जृम्भाजर्जरडिम्बिडम्बरधनश्रीमत्कदम्बद्रुमाः शैलाभोगभुवो भवन्ति ककुभः कादम्बिनीश्यामलाः । उद्यत्कन्दलकान्तकेतकभृतः कच्छाः सरित्स्रोतसा- माविर्गन्धशिलीन्ध्रलोध्रकुसुमस्मेरा वनानां ततिः ॥ १६ ॥ माधवः-सखे, पश्यामि । किंतु दुरालोकरमणीयाः संप्रत्य- रण्यगिरितटभूमयः तत्किमेतत् । (सास्रम् ।) अथवा किमन्यत् । उत्फुल्लार्जुनसर्जवासितवहत्पौरस्त्यझञ्झामरु- प्रेढोलस्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः । धारासिक्तवसुंधरासुरभयः प्राप्तास्त एवाधुना धर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः ॥ १७ ॥ हा प्रिये मालति, आह । प्राग्भागेषु गिरिभागेषु । विकसत्कुटजकुसुमैः प्रकृष्टो हासस्तद्वत्सु ॥ १५ ॥ जृम्भेति । जृम्भा विकासस्तेन जर्जरः शिथिलसंहतिर्यो डिम्बडम्बरः कलिका- समूहस्तेण धनश्रीयुक्तकदम्बद्रुमाः शैलपरिसरभुवो भवन्ति । एतान्मनोविनोदनाथ पश्येत्याशयः । अत्र शैलभुवोऽनुवाद्याः । कदम्बद्रुमाः विधेयाः । एवं दिशो मेघ- मालाश्यामा भवन्ति । तत्रत्यककुभो मनोविनोदनलेनावलोकय । तथानुवाद्यविधेय- भावी च । तथा सरित्प्रवाहाणां कच्छा येऽनूपप्रायदेशा उद्यत्कन्दलाश्च ते कान्तकेतकभृतश्चेति संप्रतिपन्नास्तेष्वपि मनो विनोद्यतामित्याशयः। तथा वनानां ततिराविर्भूतगन्धानि यानि शिलीन्ध्रलोध्रयोः कुसुमानि तैः स्मेरेव स्मेरा । ते मनोविनोदननिमित्तमित्याशयः । अनेन प्रवन्धेन विरहिवर्गात्यन्तानिष्टहेतुरासन्नो वर्षतुः सूच्यते । शिलीन्ध्राः पुन्नागविशेषाः । रम्भेत्यन्ये । 'शिलीन्ध्रः कन्दली पुष्पे करत्रिपुटकाख्ययोः' इति विश्वः । त्रिपुटकेति विचकिलविशेषः ॥ १६ ॥ माधवः । भवद्वचनगौरवेण पश्यामि । दुरालोकलमस्यां दशायां स्मरोद्दीपक- खेन, रमणीयलं तु सुखिनामविरहिणामरण्यगिरिभूमीनामिति विवेकः । तत्किमेत- दिति सामान्योक्ती नपुंसकलिङ्गता। कोऽयं सर्व विदः सुहृदोऽत्यर्थप्रतिकूलानामेव भावानां मम दुःखशान्त्यर्थमुपन्यासक्रम इत्यभिप्रायः । अथवा किमन्यद्भाग्यविप- र्ययानिमित्तान्तरं वयस्यस्योपन्यासोपक्रमे गवेषणीयमिति खात्मगतमेव संवृणोति । यद्वा रमणीयानां दुरालोकले निमित्तं विमृशन् । अथवा किमन्यत्ते दिवसाः प्राप्ता ये दुरालोकले निमित्तानीत्यर्थः । कीदृशा दिवसा इत्यत आह-उत्फु- ल्लेति । विकसितानि यानि ककुभसालकुसुमानि तैर्वासितो वहन्गच्छन्यः प्रचण्डः पुरोवातस्तत्प्रेसोलेनान्दोलनेन स्खलिताः खस्थानाच्चलिता इन्द्रनीलशकलवस्निग्धा मेघपतयो येषु दिवसेषु तादृशाः । तथा नूतनासारसक्तमेदिनीपरिमलसुगन्धाः तथा प्रखेदजलस्यासारपवनशैत्याद्यो विगमो विनाशस्तथा प्रचण्डार्कतापाच जननमाविर्भावस्खयोर्व्यतिकरो व्यामिश्रणं तच्छोभावहनशीलाः ॥ १७ ॥ हा इति नवमोऽङ्कः । २११ तरुणतमालनीलबहुलोन्नमदम्बुधराः शिशिरसमीरणावधुतनूतनवारिकणाः । कथमवलोकयेयमधुना हरिहेतिमती- मदकलनीलकण्ठकलहैमुखराः ककुभः ॥ १८ ॥ (निःश्वस्य शोकार्ति नाटयति ।) मकरन्दः-कोऽप्यतिदारुणो दशाविपाको वयस्यस्य संप्रति वर्तते । (सास्रम् ।) मया पुनरज्ञानेन वज्रमयेन किल विनोदः प्रारब्धः । (निःश्वस्य ।) एवं च पर्यवसितप्रायेव नो माधवप्रत्याशा । (सभयं विलोक्य ।) कथं प्रमुग्ध एव । हा सखि मालति, किमप- रम् । निरनुक्रोशासि । अपहस्तितबान्धवे त्वया विहितं साहसमस्य तृष्णया । विषादद्योतकमव्ययम् ॥ तरुणेति । हा प्रिये, खमपि यदि मद्वियुक्ता जीवन्ती तिष्ठसि तत्कथमधुनेदृशो दिशो द्रष्टुं शक्यास्तत्कथमवलोकयेयम् । कीदृश्यः ककुभ इत्यत आह-प्रौढतापिच्छतरुवन्नीलास्तथा बहुला बहवस्तथोनमन्तो मेघा यासु ताः । तथा शीतमारुतावधूतप्रत्यग्रशीकराः । तथा हरिहेतिमतीरिन्द्रका- मुंकयुक्ताः । तथा मदेन हर्षेण कला ये नीलकण्ठकलहास्तैर्मुखराः। अत्रेन्द्रचाप- व्याप्तास्तथा मदान्धवर्हिकल हैर्दुःशब्दान्विताः कथमवलोक्याः संप्रतीदृश्यां दशा- यामिति दुरालोकले हेतुः । शाब्दो ध्वनिः । अर्थस्तूद्दीपनविभावखेन ॥ १८॥ विरहिजनात्यन्तानभीष्टा उन्नमदम्बुधरादिभिर्व्याप्ताः कथमवलोक्या मादृशैरिति शोकश्चित्तवैधुर्यम् । आर्तिः पीडा नाटयति माधवभूतो नटो न तु माधव एव । यतोऽवस्थानुकृतिर्नाट्यमुच्यते । नच माधवः खस्यावस्थामनुकरोतीति युक्तम् ॥ मकरन्दः । कोऽपि वक्तुमप्यशक्यो दशाविपाको मरणावस्थारूपः । वज्रमयेन ॥ सुहृद्विनाशदर्शनदशायामपि जीवतीति वज्रमयखहेतुः । विनोदो दुःखनिवारणो- पायः। माधवस्य जीवनोपाय इति निःश्वस्य चिन्तयति-एवं चेति । आश्वा- सनोपायाभावादवसितप्रायेव समाप्तेव । सख्युः प्रियालेन सखीति संबोधनम् । किमपरं भवद्बहुदूषणोक्त्या प्रयोजनम् । निरनुक्रोशासि निर्दयासीसतावतैव वया संवृत्तानि खदूषणानि ज्ञेयानि । यथा खयानवलोकितः पतिर्यस्वत्प्राप्तिनिमित्तमा- रब्धमहामांसविक्रयप्रसङ्गेन वजीवितं रक्षितवांस्तथा वमपि कुतोऽप्यतर्किता- गमना माधवजीवितं न रक्षसीति निरनुक्रोशा ॥ अपहस्तितेति । मालतीसंबो- धनमनपेक्षितमातृपित्रादिसंमतिरिति । यया खया तदानीमस्य माधवस्य लोमेन २१२ मालतीमाधवे तदिहानपराधिनि प्रिये सखि कोऽयं करुणोज्झितः क्रमः ॥ १९ ॥ कथमद्यापि नोच्छसिति । हन्त, मुषितोऽस्मि । मातर्मातर्दलति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदविकलज्वालमन्तवलामि । सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वड्मोहः स्थगयति कथं मन्दभाग्यः करोमि ॥ २० ॥ कष्टं भोः, कष्टम् । बन्धुताहृदयकौमुदीमहो मालतीनयनमुग्धचन्द्रमाः । सोऽयमद्य मकरन्दनन्दनो जीवलोकतिलकः प्रलीयते ॥ २१ ॥ हा वयस्य माधव, गात्रेषु चन्दनरसो दृशि शारदेन्दु- रानन्द एव हृदये मम यस्त्वमासीः । तं त्वां निकामकमनीयमकाण्ड एव कालेन जीवितमिवोद्धरता हतोऽस्मि ॥ २२ ॥ (स्पृशन् ।) खकरार्पणसाहसमनुष्ठितं तदेवमनपराधे कोऽयं निष्करुणः क्रमो व्यापारः ॥ १९ ॥ मातरिति । दलति स्फुटति । ध्वंसते त्रुट्यति । देहबन्धः शरीरावयवसंधि- स्थानम् । ईदृशपुरुषप्रकाण्डेन विना जगच्छून्यं जानामि । तथाविच्छिन्नज्वालं यथा स्यादेवमन्तहृदये ज्वलामीव ज्वलामि। तथान्तरात्मा सीदन्नवसन्नीभवन्न- न्धयतीत्यन्धमस्मिस्तमसि भज्जतीव । विष्वक्सर्वतो मोहः स्थगयति सर्वेन्द्रिय- वृत्तीरावृणोति । विधुरो व्याकुलः । कथं मन्दभाग्यः करोमि । अस्य प्राणरक्षामिति शेषः । अथवा कथमिति किमित्यर्थेऽव्ययम् । किमिदानी करोमीत्यर्थः ॥ २० ॥ बन्धुतेति । बन्धुता बन्धुसमूहः तचित्तस्य कृते कौमुदी मह इव कौमुदीमहः । महशब्द उत्सवे । मालतीनयनयोः कृते प्रतिपच्चन्द्रः असंपूर्णदर्शनविषयलेन कदा सम्यङ्नयनविषयतां यास्यतीत्यस्या उत्कण्ठाजनकत्वेन मुग्धचन्द्रत्वोफिः। मकरन्द- नन्दनो मकरन्दानन्दनिमित्तंजीवलोकस्य तिलक इव । तिलको मण्डनविशेषः। प्रली- यते नश्यति ॥ २१॥गात्रेष्विति । आलिङ्ग्यमानो गात्रेषु चन्दनरसः। दृश्यमानो दृशि शरच्चन्द्रः । विभाव्यमानो हृदय आनन्द एव मूर्तः। निकामकमनीयं खभाव. - नवमोऽङ्कः । २१३ अकरुण वितर स्मितोज्ज्वलां दृशमतिदारुण देहि मे गिरम् । सहचरमनुरक्तचेतसं प्रियमकरन्द कथं न मन्यसे ।। २३ ॥ (माधवः संज्ञां लभते।) मकरन्दः-(सोच्छ्वासम् ।) अयमचिरधौतराजपट्टरुचिरमांसल- च्छविनवजलधरस्तोयशीकरासारेण संजीवयति मे प्रियवयस्यम् । दिष्ट्या समुच्छ्रसितस्तावत् । माधव:--तक्किमिवात्र विपिने प्रियावार्ताहरं करोमि । फलभरपरिणामझ्यामजम्बूनिकुञ्ज- स्खलनतनुतरङ्गामुत्तरेण स्रवन्तीम् । उपचितघनमालप्रौढतापिच्छनीलः श्रयति शिखरमद्रेनूतनस्तोयवाहः ॥ २४ ॥ (सरभसमुत्थायोन्मुखः कृताञ्जलिः ।) रम्यं खामुद्धरता लोकान्तरं नयता। जीवितमिवोद्धरता । एतच्च सर्व विलापप्रकार- खान्न तावद्रसविशेषपोषमावहति ॥ २२॥ स्पृशन्माधवशरीरम् ॥ अकरुणेति । स्मितसाहचर्यणोज्वलामकलुषां दृशं वितर । तथातिदारुणगिरं स्मितोज्वलां देहि । प्रियो मकरन्दो यस्य तादृक् तत्संबोधनम् । मां सहचरमनुरक्तचित्तम् , न तु बाह्यानुरागम् । कथं न मन्यसे कथं न जानासि । किमहं कदाप्युपरकचेता इति भावः । अत्र विशिष्टदृग्वचनदानमात्रेणैवेदानीं मम जीवनं स्यात्तन्मात्रेऽपि किं ते वैमुख्यमकरुणेति दारुणोक्तौ निमित्तम् ॥ २३ ॥ मकरन्दः । अचिरधौतः सद्यो निर्मलीकृतो राजपथः श्यामः पाषाणविशेषस्तद्वदेव रुचिरा रम्या तथा मांसला पुष्टा छविर्यस्य तादृगभिनवमेघसमूहः। आसारो धारासंपातः । अत्र वियोगिनो मा- धवस्योच्छासे विरहिवर्गातिदुःसहनवजलधरासारानुकूलले प्रार्थनं मकरन्दस्य प्रिया- विरहितात्मसमानतयान्येष्वपि जलधरादीनां सुखजनकतया भ्रान्तेर्जेयम् । दिष्ट्या भाग्येन ममात्मनश्च । उच्चसितो विमुक्तनिरुद्धोच्छ्वासस्तावदयं वृत्त इत्याशयः ॥ माधव:-तदिति। एति जीवन्तमानन्दः' इत्यस्यापि वाल्मीकिवचसः प्रत्याशा- वलम्बनीयेति भावः । चिरेणामुमुपगम्येति पूरणीयम् । किमिति सामान्यजातो नपुं- सकत्वम् । प्रियायै मत्कुशलवार्तासमर्पकम् ॥ फलभरेति । अद्रेः शृङ्ग नवो मेघः श्रयति । तदेनमेव वार्ताहरं करोमीत्याशयः । क्वेत्यपेक्षायामुत्तरेण स्रवन्तीमिति योज्यम् । स्रवन्त्या उत्तरस्यां दिश्यदूरे फलभरस्य यः परिणामः पाकस्तेन श्यामा या जम्बूलतास्ताभिर्वेष्टितो यो निकुञ्जस्तत्र यत्स्खलनं प्रतिघातस्तेन तनवस्तरङ्गा यस्यास्तथोकाम् । तथोपचितघनमाला निरन्तरपतयो ये तापिच्छास्तद्वन्नील 'इति २१४ मालतीमाधवे कच्चित्सौम्य प्रियसहचरी विद्युदालिङ्गति त्वा- माविर्भूतप्रणयसुमुखाश्चातका वा भजन्ते । पौरस्त्यो वा सुखयति मरुत्साधुसंवाहनाभि- विष्वग्बिभ्रत्सुरपतिधनुर्लक्ष्म लक्ष्मीवदेतत् ॥ २५ ॥ (आकर्ण्य ।) अये, अयं प्रतिरवभरितकन्दरानन्दितोत्कण्ठनीलकण्ठ- कलकेकानुबन्धिनां मन्द्रहुंकृतेन मामनुमन्यते यावदभ्यर्थये । भग- वन् जीमूत, दैवात्पश्येजगति विचरन्मत्प्रियां मालती चे- दाश्वास्यादौ तदनु कथयेर्माधवीयामवस्थाम् । आशातन्तुर्न च कथयतात्यन्तमुच्छेदनीयः प्राणत्राणं कथमपि करोत्यायताक्ष्याः स एकः ॥ २६ ।। (सहर्पम् ।) अये, प्रचलितः । तदन्यतः संभावयामि । (इति परिकामति ।) तोयवाहविशेषणम् ॥ २४ ॥ कञ्चिदिति । कच्चिच्छब्दः कामप्रवेदने । खीयं कामं मनोरथं कथयेत्यर्थः । सौम्येति संबोधनम् । विरहिवर्गविरोधिनोऽपि शीकरासारेण सद्य एव मोहनिरासद्वारा कृतोपकारखात् । प्रियसहचरी विद्युत्त्वामालिङ्गति । मालतीव मां विहाय क्वापि गतेत्याशयः तथाविर्भूतो यः प्रणयः प्रीतिस्तेन सुमुखाः प्रसन्नमुखाश्चातकास्वां भजन्ते । मकरन्दादिवन्मां परित्यक्ता क्वापि गता इत्युन्मादवेगान्मकरन्दं पश्यतोऽप्यपश्यत इवोक्तिः । पुरोवातो वा संवाहकः साधु भद्रं यथा स्यादेवं खां सुखिनं करोति । विष्वक्सर्वतः सुरपतिधनुरेव लक्ष्म चिह्न तद्विभ्रद्विभ्राणेति जलदसंबोधनम् । कीदृग्लक्ष्मेत्यपेक्षायां लक्ष्मीवत्कान्तिमत् ॥२५॥ अयं मेघध्वनिमनुमत्युत्तरमाशङ्कमानो माधवः पुनराह-अयं मेघो माम- नुमन्यते । खाभिलषितं वदेति मय्यनुज्ञां ददातीत्यर्थः । केनानुमन्यत इत्यपेक्षायां मन्द्रहुंकृतेनेति पदम् । प्रतिशब्दभरिता याः कन्दरास्ताखानन्दितास्तथोत्कण्ठा उन्नमत्कण्ठा ये नीलकण्ठास्तेषां कला मन्द्रा या केकातदनुबन्धिना तत्संमितेनेति योजना। दत्तानुमतिस्तावदयम् । तदिदानीं यावदभ्यर्थये। यावदित्यवधारणे।'याव- त्तावच साकल्येऽवधौ मानेऽवधारणे'इत्यमरः। तेनाभ्यर्थय एवैनमित्यर्थः । भगवन्नि- ति। पूज्येत्यर्थः । भगवच्छब्दः पूजायाम् । पूज्योऽपि प्रार्थ्यते। तथोक्तम्-'यात्रा मोघा वरमधिगुणे नाधमे लब्धकामा' इति ॥ देवादिति । जगति यदि खेच्छय- विचरन्दैवात्काकतालीयन्यायेन प्रियां मालती पश्येस्तदा मारुतिः सीतामिवावास्य जीवति खप्रिय इत्यादिवचनैस्तदनन्तरं माधवावस्था कथयः । माधवोऽहमिति प्रसझारखनामापि कथयति । ईदृश्यामवस्थायां किं जीव्यत इत्युचौ तदवस्था कथ- यता खयाशातन्तुर्मत्प्राप्तिप्रत्याशारूपो जीवितालम्बनभूतो नात्यन्तमुच्छेद्यः ।

नवमोऽङ्कः । २१५ - मकरन्दः-(सोद्वैगम् ।) कथमिदानीमुन्मादोपराग. एव माधवे- न्दुमास्कन्दति । हा तात, हा अम्ब, हा भगवति, परित्रायख माम् । पश्य माधवस्यावस्थाम् । माधव: -धिक्प्रमादः। नवेषु लोध्रप्रसवेषु कान्ति- ईशः कुरङ्गेषु गतं गजेषु । लतासु नम्रत्वमिति प्रमथ्य व्यक्तं विभक्ता विपिने प्रिया मे ॥ २७ ॥ हा प्रिये मालति । मकरन्द: सुहृदि गुणनिवासे प्रेयसि प्राणनाथे कथमिव सहपांसुक्रीडनप्रौढसख्ये । प्रियजनविरहाधिव्याधिखेदं दधाने हतहृदय विदीर्य त्वं द्विधा न प्रयासि ॥ २८ ॥ माधव:-सुलभानुकारः खलु जगति वेधसो निर्माणसंनिवेशः । द्वियोगे बद्दयितो न जीविष्यतीत्येवंविधर्वचनैरित्यर्थः । स एवैक आशातन्तु- स्तस्या आयताक्ष्याः प्राणरक्षां करोति यतः । तथोक्तमन्यत्रापि-'आशाबन्धः कुसुमसदृशः प्रायशो ह्यानानाम्' इति ॥ २६ ॥ अये, मद्वचसि कृतावधानो मद्वल्लभान्वेषणार्थ प्रचलित इति सहर्षखे हेतुः, तदन्यतः संभावयामीत्यन्यत्र संचरणमीदृक्तदन्वेषणार्थम् ॥ मकरन्दः । उन्माद एवोपरागो राहुग्रहो माधव एवेन्दुस्तमास्कन्दत्यभिभवति । हा तातेत्यादिपितृमातृनामोच्चारणं मकरन्दस्य बाल्यात्परं प्रथमयौवनं द्योतयति । भगवतीति कामन्दकीनामग्रहणं विपन्निरा- सार्थम् ॥ माधवः । धिक्प्रमादोऽनवधानमस्मदादीनाम् ॥ नवेष्विति । यतो मे प्रिया क्रूरैरेभिर्लोध्रप्रसवादिभिरस्मिन्वने प्रमथ्य भक्ता व्यक्तं स्फुटं विभक्ता । तथा हि तत्कान्तिनूतनलोध्रप्रसवेषु, तथा हरिणेषु दृशः, तथा गजेषु गमनम्, तथा लतासु नम्रत्वम् । दृश्यत इति सर्वत्राध्याहार्यम् । इतीति प्रकारे ॥ २७ ॥ मकरन्दः-सुहृदीति । सुहृदि मित्रे गुणवति प्रोतिविषये प्राणनाथे येन विना प्राणान्धर्तुं न शक्यते । तथा पांसुकीडनादारभ्य प्रौढ- सख्ये । प्रियावियोगजन्यो य आधिर्मनोव्यथा सैव व्याधिस्तद्वेगं बिभ्राणे सति हतहृदय, विशीर्य विशीर्णीभूय कथं द्विधा न भवसीति ॥ २८ ॥ माधवः । किंचित्प्रशान्तोन्मादवेगो लोध्रप्रसवादिषु प्रिया विभकेति सादृश्यनिबन्धना भ्रान्तिरिति जानातीत्यर्थः । भववित्येवं तावद्भवतु । जीवतु जीवन्तीतावत्कापि २१६ मालतीमाधवे भवत्वेवं तावत् । (उच्चैः ।) अयमहं भोः (प्रणिपत्य ।) भूधरारण्यवा- सिनः सत्त्वान्विज्ञापयामि । मुहूर्तमवधानदानेन मामनुगृह्यन्तु भवन्तः । भवद्भिः सर्वाङ्गप्रकृतिरमणीया कुलवधू- रिहस्थैदृष्टा वा विदितमथवास्याः किमभवत् । वयोऽवस्थां तस्याः शृणुत सुहृदो यत्र मदनः प्रगल्भव्यापारश्चरति हृदि मुग्धश्च वपुषि ॥ २९॥ कष्टं भोः। केकामिनीलकण्ठस्तिरयति वचनं ताण्डवादुच्छिखण्डः कान्तामन्तःप्रमोदादभिसरति मदम्रान्ततारश्चकोरः । गोलालः कपोलं छुरयति रजसा कौसुमेन प्रियायाः कं याचे यत्र तत्र ध्रुवमनवसरग्रस्त एवार्थिभावः ॥ ३० ॥ अयं च दन्तच्छदारुणिमरञ्जितदन्तमाल- मुन्नम्य चुम्बति वलीवदनः प्रियायाः। वर्तत इत्यर्थः ॥ उच्चैरिति । वदतीति शेषः । अयमहं प्रथमं प्रणम्य पर्वतं वनचरान्सत्त्वान्सिहादीन्प्राणिनो विज्ञापयामि । ते गला मां मुहूर्तमनुगृह्णन्वव- धानमात्रेण । न बहु किंचित्प्रार्थयामीत्यर्थः ॥ भवद्भिरिति । इहस्थरिह वने स्थितिमद्भिः । कुलवधूः काचिदृष्टा । कुलवधूशब्देन वाराङ्गनाव्यावृत्तं साध्वी- लिङ्गमसाधारणं सूचितम् । सर्वाङ्गप्रकृतिरमणीयेति । सर्वशरीरावयवेषु खभाव- रमणीयत्वं न खलंकारादिकृतं रमणीयत्वमसाधारणम् । तल्लक्षणं कथितम् । अथ न दृष्टा लियं तदा परं प्रामाण्येन विज्ञायते । किं तस्याः समभवदिति । कीदृशी वयोवस्था तस्या इति ज्ञातुमिच्छास्ति चेत्तदा शृणुत । यस्यामवस्थायां हृदि प्रौढव्यापारो मदनश्चरति वपुषि च रमणीयो मुग्ध इति तेन च प्रथमयौवन- दशापि सूचिता । तल्लक्षणं भरते-'पीनोरुगण्डजघनमधरं खनकर्कशं पतिमनो- ज्ञम् । सुरतं प्रति सोत्साहं प्रथमं तद्यौवनं कामः ॥' इत्युक्तम् ॥ २९ ॥ कष्टं भो इति प्रियाप्राप्युपायाभावेन नैराश्याद्दुःसहदुःखद्योतकम् ॥ केकाभिरिति । कं याचे के प्रार्थयामि । प्रियाकल्याणवार्तामिति शेषः । यथा मदीयोऽर्थिभावः प्रार्थकलमेव निश्चितं सत्त्वानां मयूरादीनामनवसरेणानवकाशेन प्रस्तो निरा- कृतः। तथाहि नीलकण्ठस्तावत्ताण्डवादुद्धतनृत्तादुच्छिखण्ड उच्चैः कृतबहभारो मदीयं वचनं तिरयति नाकर्णयति । चकोरश्च वकान्तामन्तःप्रमोदादभिसरति । न मम वचो बहुमन्यते । गोलालश्च कृष्णमुखो वानरविशेषः । परागेण प्रियायाः कपोलं चर्चयति । अतोऽनवसरहेतव उक्ताः ॥ ३० ॥ दन्तेति । लीवदनो लोहितवक्रवानरः प्रियाया वक्रमुन्नमय्य चुम्बति । वदनविशेषण- .

नवमोऽङ्कः। २१७ काम्पिल्यकप्रसवपाटलगण्डपालि- पाकारुणस्फुटितदाडिमकान्ति वक्रम् ॥ ३१ ॥ अयं च रोहिणानोकहस्कन्धविश्रान्तकण्ठः करी । कथमत्राप्य- नवसरः । कण्डूकुडालितेक्षणां सहचरी दन्तस्य कोट्या लिख- पर्यायव्यतिकीर्णकर्णपवनैराह्लादिभिर्वीजयन् । जग्धार्धेनवसल्लकीकिसलयैरस्याः स्थिति कल्पय- नन्यो वन्यमतङ्गजः परिचयप्रागल्भ्यमभ्यस्यति ॥ ३२ ।। (अन्यतो विलोक्य ।) अयं तु नान्तर्वर्धयति ध्वनत्सु जलदेवामन्द्रमुद्गर्जितं नासन्नात्सरसः करोति कवलानावर्जितैः शैवलैः । दानज्यानिविषादमूकमधुपव्यासङ्गदीनाननो नूनं प्राणसमावियोगविधुरः स्तम्बेरमस्ताम्यति ॥ ३३ ॥ अलमनेनाप्यायासितेन । (सानन्दम् ।) एष सानन्दसहचरीसमाक- माह-अधरारुणिम्ना रक्तीकृता कमनीया दन्तपकिर्यत्र वदने तत्तादृक् । तथा रोचनिकाफलवत्पाटला कपोलपालिर्यत्र तत्तथा । पाकेनारुणं बीजोच्छ्वासेन स्फुटितं यद्दाडिमं तस्यैव कान्तियत्र वक्रे तत्तादृगित्यर्थः ॥ ३१ ॥ एष करी तिष्ठतीति शेषः । रोहिणतरुमूले विश्रान्तग्रीवः । रोहिणो वटः । अनवसरो मद्वचनस्य ॥ कण्डूकुडालितेति । अन्यः कोऽप्ययं वनगजः कान्तानुवृत्ति- परिचये प्रौढिमभ्यस्यति । किंकुर्वन्नित्यपेक्षायां कण्ड्यनेन मुकुलितनयनां प्रियां दन्तस्य कोट्या लिखन् । तथा पर्यायेण क्रमेण व्यतिकीर्णौ विक्षिप्तौ कौँ तत्पवन- राहादिभिः सुखजनकैरनुचरों वीजयन् । तथा भुक्तार्धेः प्रत्यग्रसल्लकीपल्लवैः सख्याः करिण्या वृत्तिं समर्पयनिति ॥ ३२ ॥ नान्तरिति । अयमन्यः । नूनं शङ्के । प्राणसमा प्रिया तद्वियोगेन विधुरः स्तम्बेरमो गजस्ताम्यति । यतो गर्जत्सु मेघेषु तद्गर्जितं न वर्धयति नाविष्करोति । तथासन्नान्निकटात्सरोवरादावर्जितैः शैवलैः कवलान करोति । तथा मदस्य या ज्यानिर्हानिस्तया मदपाताभावेन यो विषादस्तेन निःशब्दा ये मधुपास्तेषां यो व्यासङ्गो विशिष्टासक्तिर्मदनस्यानाखा- दनाय निश्चलतया लयरूपस्तेन दीनमप्रहृष्टं वदनं यस्य तादृक् ॥ ३३ ॥ मत्स- मानव्यसनोऽयम्, तदलमनेन संलापद्वारायासितेन । एषोऽपरो यूथनाथः संलाप- योग्य इत्याशयः । अस्य विशेषणम्-सानन्देति । सानन्दा या प्रियतमा तया समाकर्ण्यमानो विशिष्टध्वनिर्यस्य । सरोवरं कर्मतापनमवगाथ विहरतीत्यन्वयः ।

२१८ मालतीमाधवे. य॑मानमधुरगम्भीरकण्ठगर्जितध्वनिरपरोऽपि मत्तमातङ्गवर्गपालकः प्रत्यग्रविकसितकदम्बसंवादिसुरभिशीतलामोदबहुलसंवलितमांसलक- पोलनिष्यन्दकर्दमिततीरं समुद्धृतकमलिनीखण्डप्रकीर्णकेसरमृणालक- न्दाङ्कुरनिकरमनवरतप्रवृत्तकमनीयकर्णतालताण्डवप्रचलकर्णजर्जरित- तरलतरङ्गविततनीहारवित्रस्तकुररसारसं सरोऽवगाह्य क्रीडति । भवतु । एनमाभाषे । महाभाग नागपते, श्लाघ्ययौवनः खल्वसि । कान्तानु- वृत्तिचातुर्यमप्यस्ति भवतः । (सापवादम् ।) लीलोत्खातमृणालकाण्डकवलच्छेदेषु संपादिताः पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः । सेकः शीकरिणा करेण विहितः कामं विरामे पुन- न स्नेहादनरालनालनलिनीपत्रातपत्रं धृतम् ॥ ३४ ॥ कथमवधीरणानीरसं व्रजति । हन्त, मूढ एवास्मि, योऽस्मिन्वनचरेऽपि वयस्यमकरन्दोचितं व्याहरामि । हा प्रियवयस्य मकरन्द, सरोविशेषणान्याह-प्रत्यग्रविकसितेति । प्रत्यग्रविकसितो नूतन विकसितो यः कदम्बकुसुमसमूहस्तत्समानः सुरभिः शीतलो य आमोदस्तेन बहुलः प्रभूत- स्तथा संवलितः पुजीभूय स्थितोऽत एव मांसलः पुष्टो यः कपोलनिष्यन्दस्तेन संजातकर्दमं तटं यस्य सरसस्तादृक् । तथा समुद्धृतानि यानि कमलिनीखण्डानि पद्मिनीकदम्बानि तेभ्यः प्रकीर्णा विक्षिप्ताः केसरादयो यस्य सरसः । अनवरतम- विच्छिन्नं प्रवृत्तं कमनीयं यत्कर्णतालयोस्ताण्डवमुद्धतनृत्तं तेन चण्डी यौ करें ताभ्यां जर्जरिता ये तरङ्गास्तेभ्यो विनिर्गता ये नीहाराः शीकरास्तेभ्यो वित्रस्तो कुररसारसौ पक्षिविशेषौ यत्र तत्ताडक् । भवतु । स्वस्थचित्तोऽयमाभाषणयोग्यः । तदेनमाभाषे । श्लाघ्ययौवनः प्रियावियोगवर्जयौवनः । कान्तानुवृत्तिचातुर्य तव सदूषणम् । तदेव चातुर्य व्यनक्ति-लीलेति । लीलयोद्धता ये बिसकाण्ड- कवलास्तच्छेदेषु समाप्तिषु विकसत्पद्मसुरभितस्य जलस्य गण्डूषसंक्रान्तय उद्गीर्ण- जलचुवुकसंक्रान्तयः संपादिता दत्ताः । अनेन रतारम्भकं नायककृत्यमुकम् । गण्डूषपदेन स्वयं पीला जलदानं ध्वनितम् । तथाम्भःकणवता स्थूलहस्तेन सेकः कृतः । तदिदं द्वयं कामं युक्तमेव । दोषमाह--विरामे रतिविरामे पुनर- कुटिलनालपद्मपत्रच्छत्रं न स्नेहाद्धृतम् । एतदयुक्तमित्यर्थः । अतः कान्तानुवृत्ति न जानासीति भावः ॥ ३४ ॥ अवधीरणा प्रतिवचनादानम् । तेन नीरसं यथा स्यादेवं व्रजतीत्यर्थः । हन्तेति विषादे । वयस्यमकरन्दोचितमित्यनेन प्रस- ।

नवमोऽङ्कः । २१९ धिगुच्छसितवैशसं मम यदित्यमेकाकिनो धिगेव रमणीयवस्त्वनुभवाद्वथाभाविनः । त्वया सह न यस्तया च दिवसः स विध्वंसतां प्रमोदमृगतृष्णिकां धिगपरत्र कामानुषे ॥ ३५ ॥ मकरन्द: -अये, उन्मादमोहान्तरितोऽपि मां प्रति कुतश्चि- व्यञ्जकात्प्रबुद्ध एवास्य सहजस्नेहसंस्कारः । तत्संनिहितमेव मां मन्यते । (पुरतः स्थिखा।) एष पार्श्वचर एव ते स मकरन्दो मन्दभाग्यः । माधव: -हा प्रियवयस्य, संभावय । परिष्वजख माम् । प्रियां मालती प्रति तु निराश एव संवृत्तोऽस्मि । मकरन्द: -एषोऽहं संभावयामि जीवितेश्वरम् । (विलोक्य सकरुणम् ।) कष्टम् । कथमाविर्भूतमत्परिष्वङ्गोत्कण्ठ एव निश्चेतनः संवृत्तः । तत्कृतमिदानी जीविताशान्यसनेन । सर्वथा नास्ति मे प्रियवयस्य इति युक्तः परिच्छेदः । हा वयस्य, यस्नेहसंज्वरवता हृदयेन नित्य- माबद्धवेपथु विनापि निमित्तयोगात् । हैन मकरन्दं स्मृत्वा हा प्रियवयस्येत्युक्तम् । धिगिति । उच्चसितं जीवधारण. मेव वैशसं दुःखं यदुच्छ्रसितं खया विनैकाकिनो मम धिक् । तथा रमणीयवस्तु धिक् । वृथाभाविनो निष्फलोदयादनुभवाद्रमणीयत विषयाणां धिक् । तत्र रमणी- यताविषयानुभवाभावबोधको धिक्शब्दः । बया तया मालत्या सह च यो दिवसो न याति स विध्वंसतां विनश्यतु । तथा प्रमोदो हर्षभारः स एव मृगतृष्णका मालतीमकरन्दाभ्यामन्यस्मिन्कामानुषे या स्यात्तां धिक् ॥ ३५॥ मकरन्दः । अस्य माधवस्य निसर्गस्नेहसंस्कारः स्मृतिज्ञानबीजभूतः कुतश्चित्स्मृतिवीजबोध- कात्सदृशादृष्टचिन्तारूपादुन्मादमोहान्तरितोऽपि प्रबुद्ध एव तिरोहितोऽपि व्या- कादुद्रुद्ध एव माधवो मकरन्दमवलोक्य वदति ॥ माधवः। परिष्वजख माम् । प्रियां प्रति निराशोऽस्मि ॥ मकरन्दः । संभावयामीति परिष्वजनेन । जीवि- तेश्वरं प्राणनायकम् । कथमुद्भूतमदावलिजनोत्कण्ठ एव । निश्चेतनश्चेतनारहितः । अलमनेन विनापि विफलजीविताशाव्यसनेन । दुःखसंवेदनायैव हि जीवितम् । इदानी तजीवितं परित्यजामीत्याशयः । परिच्छेदः सहायाभावे निश्चयः। यत्को- हेति । यद्भवलेहेन संतप्यमानेन हृदयेनावद्धवेपथु यथा स्यात्तथैव यद्यमन्व- भाव्यनुभूतम् । कथमावद्धवेपवित्यत आह-विनापि निमित्तमिति । वेपथुनिमित्त २.माल.

२R. मालतीमांधवे :- त्वय्यापदों गणयता भयमन्वभावि तत्सर्वमेकपद एव मम प्रणष्टम् ॥.३६ ॥ अथवा वरं त एवातिक्रान्ता मुहूर्ताः, येषु तथाविधमपि भवन्तं चेतयमासमनुभूतवानस्मि । इदानीं तुं मम भारः कायो जीवितं वज्रकीलं काष्ठाः शून्या निष्फलानीन्द्रियाणि । कष्टः कालो मां प्रति त्वत्प्रयाणे शान्तालोकः सर्वतो जीवलोकः ॥ ३७॥ (विचिन्त्य ।) तत्कि नु माधवास्तमयसाक्षिणा भवितव्यमित्यतो जी- वामि । तदस्मागिरिशिखरात्पाटलावत्यां निपत्य माधवस्य मरणा- ग्रेसरो भवामि । (सकरुणं परिवृत्त्यावलोक्य च ।) कष्टम् । यदुपस्थितं तद्विनापि । 'प्रेम पश्यति भयान्यपदेऽपि' इति युक्तम् । पुनः कीदृशा हृदयेन । बयीदृशावस्था विचारयता । तद्भयं सर्व बयि निश्चेतने सति एकपदे झटिति विनष्टमिति ॥ ३६ ॥ तेऽतिक्रान्ता मुहूर्ता एव वर्तमानमुहू- तेभ्यो वरम् । भद्रा इत्यर्थः । 'वरशब्दोऽव्ययो भद्रम्' इत्यमरः (१)। 'वर विरोधो- ऽपि समं महात्मभिः' इत्यादिप्रयोगदर्शनात् । तथाविधं तागसासर्वदुःखमनु- भवन्तं येषु तेषु मुहूर्तेषु । चेतयतीत्येवं शानच् । इदानीं वैराग्यप्रभावादावि. भूतशरीरव्यतिरिक्तात्मसाक्षात्कारो मकरन्द आत्मगतमेव विचारयति-भार इति । यथा भाराकान्तोऽपि तत्परित्यागानिर्दुःखः स्यात् , एवं शरीरप्राणपरित्या- गाद्वाधारिहितो भवामीति काये भारखोक्तिः । ईदृक्प्राणनाथविनाशेऽपि यन्न प्रयाति तज्जीवितं वज्रकीलमिव वज्रकीलम् । वज्रकीलवोक्त्या दृढत्वमुक्त्वा दुःसह- दुःखजनकलं च जीवितस्य कथितम् । बद्विरतिज्ञानान्मम सर्वशः प्रतिभाति । तदिदानीं सर्वाः काष्ठाः शून्या इव शून्या असंपूर्णार्थाः निष्फलान्येकादशेन्द्रि- याणि यथायथमिन्द्रियैः खखानि ग्राह्याणि न गृह्यन्ते । सर्वव्यापाराणां निवृत्त- लात्कालस्य कष्टत्वम् । वत्प्रयाणे मरण इति वक्तव्ये मरणशब्दस्याशस्वार्थला- त्तद्वक्तुमशक्तः प्रयाणपदेन कल्याणाभिधायकेनाह यथा 'देवव्रते वाञ्छति दीर्धनिद्रा द्रोणे च कर्णे च यशोऽवशेषे। लक्ष्मीसहायस्य तथैव वत्स वात्सल्य- वान्द्रौणिरयं सहायः ॥' इति । अत्र दीर्घनिद्रादिपदैः शब्दार्थप्रतिपादकाभासैरश- स्तान्येव कविरुक्तवान् । अत्र दीर्घनिद्रापदेन मरणम् । यशोऽवशेष इति मृते । लक्ष्मीसहायस्सैकाकिनः । वात्सल्यवानिति वात्सल्यसहायः । एकाकीत्यर्थः। शान्ता- लोको जीवलोकः । शान्तद्योत इत्यनेन जीवलोकस्य तमोमयतां प्रतिपादयन्मो- हमयतामात्मनः प्रतिपादयति ॥ ३० ॥ माधवोऽस्तमनमेतीति माधवमरणवेदि. त्वमेव मजीवितफलम् । तर्हि जीवितपरित्यागाय प्रयनं करोमीयाशयः। गिरि- . .. नवमोऽr तदेतदसितोत्पलद्युति शरीरमर्सिन्नभू- न्ममापि दृढपीडनैरपि न तृप्तिरालिङ्गनैः । यदुल्सितविभ्रमा बत निपीतवत्यः पुरा नवप्रणयविभ्रमाकुलितमालतीदृष्टयः ॥ ३८॥ हन्त भोः, एकस्यां तनावेतावतो गुणसमाहारस्य संनिवेशः कथ- मिवाभूत् । सखे माधव, आपूर्णश्च कलाभिरिन्दुरमलो यातश्च राहोर्मुख संजातश्च घनाघनो जलधरः शीर्णश्च वायोर्जवात् । निवृत्तश्च फलेग्रहिर्दुमवरो दग्धश्च दावामिना त्वं चूडामणितां गतश्च जगतः प्राप्तश्च मृत्योर्वशम् ॥ ३९ ॥ तत्परिष्वजे तावदेवं गतमपि प्रियवयस्यम् । अर्थितश्चानेन संप्र- त्ययमेवार्थः । (परिष्वज्य ।) हा वयस्य, विमलकलानिधे गुणगुरो, हा मालतीखयंग्राहजीवितेश्वर, हा कामन्दकीमकरन्दानन्दजनक माधव, अयमत्र ते जन्मन्यपश्चिमः पश्चिमावस्थाप्रार्थितो मकरन्द- बाहुपरिष्वङ्गः । सखे, संप्रति मुहूर्तमपि मकरन्दो जीवतीति मैव मंस्थाः । कुतः । शिखरापाटलावत्यभिधानायां नयां निपत्य यावदेव माधवो म्रियते तावदेव मजी- वितं परित्यजामीत्यर्थः॥ तदेतदिति । तदेतन्माधवशरीरं नीलोत्पलपत्रकान्ति । तृप्तिः संतोषो मम दृढपीडनैरप्यालिङ्गनरस्मिन्नाभूत् । यदङ्गं नवस्नेहविलासव्याकु. लमालतीदृष्टय उपचिताद्भुताः पूर्व निपीतवत्यः। नित्यादरेणावलोकितवत्य इत्यर्थः। बवेति खेदे ॥ ३८ ॥ आपूर्ण इति । यथा निर्मलश्चन्द्रः कलाभिरापूर्णोऽकृता- नन्दश्च सैहिकेयेन गृह्यते । यथा संजातमात्र एव घनाघनो वर्षको घनः प्रचण्ड. वायुवेगाद्विशीर्णो भवति । अकृतधराधरादिसंतापप्रशमः प्रचण्डपवनाद्विलीयते । यथा वा फलेग्रहिः फलितसहकारादितरुः खफलैरतर्पितपान्थादिवर्गों दावामिना दह्यते तथा खमप्यसाधारणैर्गुणग्रामैर्जगचूडामणिवं प्राप्तमात्र एवाप्राप्तगुणप्रामो- पयोगो मृत्योर्वशं प्राप्त इत्यर्थः ॥३९॥प्रार्थितो याचितोऽयमेवाश्लेषरूपोऽर्थः संप्र. त्येव 'वयस्य, संभावय । परिष्वजख माम् । प्रियां मालती प्रति तु निराशोऽस्मि' इत्यनेन प्रन्थेन गुणैर्गुरुः, न पुनः शरीरोपचयेन । तथा मालत्या यः खयंप्राहो गुरु- जनानपेक्षो माधवानुरागमात्रनिबन्धनः स्वशरीरसंप्रदानरूपः कर्मविशेषः स एव जीविते निमित्तम् । न हि माधवविपत्ती संप्रति मालतीनिरतिशयनेहादन्यनिमि- तमित्याशयः । कामन्दकीमकरन्दानन्दजनकेत्यनेन कामन्दक्या सह मयापि तर्हि २२२ मालतीमांधवे आ जन्मनः सह निवासितया मयैव मातुः पयोधरपयोऽपि समं निपीय । त्वं पुण्डरीकमुखबन्धुतया निरस्त- मेको निवापसलिलं पिबसीत्ययुक्तम् ॥ ४०॥ (सकरुणं विमुच्य । परिक्रम्य ।) इयमधस्तात्पाटलावती । भगवत्यापगे, प्रियस्य सुहृदो यत्र मम तत्रैव संभवः । भूयादमुष्य भूयोऽपि भूयासमनुसंचरः ॥ ४१ ॥ (इति पतितुमिच्छति।) सौदामिनी-(प्रविश्य सहसा वारयिला ।) वत्स, कृतं साहसेन । मकरन्दः-(विलोक्य ।) अम्ब, कासि । किमर्थ त्वयाह प्रतिषिद्धः । सौदामिनी-आयुष्मन् , किं त्वं मकरन्दः । मकरन्द:-मुश्च । स एवास्मि मन्दभाग्यः । सौदामिनी-वत्स, योगिन्यसि । मालतीप्रत्यभिज्ञानं च धारयामि । (बकुलमालां दर्शयति ।) मकरन्दः- (सोच्छ्वासं सकरुणम् ।) अपि जीवति मालती। सौदामिनी-अथ किम् । वत्स, किमत्याहितं माधवस्य । यदनिष्टं व्यवसितोऽसीत्याकम्पितास्मि । मकरन्दः-आयें, तमहं प्रमुग्धमेव वैराग्यात्परित्यज्यागतः । विपत्प्रतीकारः कृतः क्रियते वेति प्राप्याकिंचित्कारिवाद्विधेय इत्याशयः। अपश्चिम आद्यः । पुनर्ममालिङ्गनाभावादयमेवापश्चिमो दुर्लभः । पश्चिमावस्थान्यावस्था । आ जन्मन इति । जन्मप्रभृति सहचरतयाभिन्नजननीस्तन्यमपि पीला संप्रति बन्धुतया बन्धुसमूहेन निरस्तं दत्तं निवापमेक एव पिबसि मकरन्दं विहायेस- युक्तम् । निवापः पितृतर्पणम् ॥ ४० ॥ प्रियस्येति । यत्र स्थाने प्रियस्य मप्रीतिस्थानस्य सुहृदो यत्र देशे संभवो जन्म स्यात् , तत्रैव ममापि संभवो भूयात् । तथामुत्र परलोके तस्यैवानुचरो भूयासमिति प्रार्थनाद्वयम् ॥४१॥ मक. रन्दः । कामन्दकीसदृशवेषसौहार्दवयोदर्शनादम्बेत्युक्तिः । प्रतिषिद्धो निवारितः। तस्यैवानुसंचरो भूयासमिति प्रार्थनावचो दूरादाकर्ण्य सौदामिनी पृच्छति । कि मक. रन्द इति ॥ सौदामिनी । अथ किम् । जीवतीत्यर्थः । अत्याहितं महामीतिः । किं विनाशो जातो माधवस्येत्याशयः। अनिष्टं खशरीरत्यागरूपं व्यवसितोऽसि ॥मक- नवमोऽङ्कः । २२३ - तदेहि । तूर्ण संभावयावः । (चरितं परिकामतः।) मकरन्दः-(विलोक्य ।) दिष्ट्या प्रत्यापनचेतनो वयस्यः । सौदामिनी-संवदत्युभयोर्मालतीनिवेदितः शरीराकारः । माधव: (आश्वस्य ।) अये, प्रतिबोधितवानमि केनापि । (विचिन्त्य ।) नूनमस्यायं नवजलधरप्रभञ्जनस्यानवेक्षितास्मदवस्थो व्या- पारः । भगवन् पौरस्त्य वायो, भ्रमय जलदानम्भोगर्भान्प्रमोदय चातका- कलय शिखिनः केकोत्कण्ठान्कठोरय केतकान् । विरहिणि जने मूछी लब्ध्वा विनोदयति व्यथा- मकरुण पुनः संज्ञाव्याधि विधाय किमीहसे ।। ४२ ॥ मकरन्दः-सुविहितमनेनाखिलजन्तुजीवनेन मातरिश्वना । अपि च । एते केतकसूनसौरभजुषः पौरप्रगल्भाङ्गना- व्यालोलालकवल्लरीविलुठनव्याजोपभुक्ताननाः । किंचोन्निद्रकदम्बकुचलपुटीधूलीलुठषट्पद- व्यूहव्याहृतिहारिणो विरहिणः कर्षन्ति वर्षानिलाः ॥ ४३ ।। रन्दः । प्रमुग्धं प्रकृष्टमोहप्रस्तम् । प्रलयावस्थागतमिति यावत् ॥ मकरन्दः । प्रत्यापनचेतनः प्रादुर्भूतसंज्ञः ॥ सौदामिनी पूर्वमदृष्टमाधवमकरन्दशरीराकारा संप्रति द्वावपि विलोक्याह-संवदतीति । मालत्या यादृश्याकृतिः कथिता तादृश्येव द्वयोरपीत्यर्थः । माधवः । नूनं शके निश्चितं वा । व्यापारो मन्मोहच्छेदनानुगुणं कर्म।प्रभञ्जनस्य मरुतोऽस्यामवस्थायां मोह एव चरमदशानुभवप्रतिपक्ष इत्याशयः। खमोह विच्छेदनहेतुं प्रभञ्जनमवधार्य तमेवोपालम्भवाचकैर्वाक्यैराह-भ्रमयेति । इतस्ततो मेघान्भ्रमय । जलदानां भ्रमणेन संतापशान्तिर्भविष्यति । अम्भोगर्भ- खेन च संपूर्णकामाजरामरणरहितवारिपिपासार्दितांश्चातकान्प्रमोदय । तथा मयूरा- नेतेनैव हेतुना केका विषये साभिलाषान्कुरु । तथा केतकान्कठोरय जलसेकव्यतिक- रेण प्रौढान्कुरु । मादृशविरहिणि जने पुनर्दैवान्मूच्छा लब्ध्वा तद्वाराप्यात्मव्यथां विनोदयति निराकुर्वाणे संज्ञारूपं चैतन्यरूपं व्याधि दत्त्वाय किमीहसे । खार्थ परार्थ वेत्याशयः ॥ ४२ ॥ मकरन्दः । सुविहितं भद्रीकृतम् । अखिलजन्तु- जीवनलं जगत्प्राणतया ॥ एत इति । एते वर्षमारुता विरहशीलाजनान्कर्षन्ति । ते कीदृशा इत्यपेक्षायां केतकपुष्पपरिमलवाहिनः, तथा चञ्चलकुन्तललताचालन- २२४ मालतीमाधवे माधवः-देव वायो, तथापि भवन्तमेवं प्रार्थये । विकसत्कदम्बनिकुरुम्बपांसुना सह जीवितं घटय मे प्रिया यतः । अथवा तदङ्गपरिवासशीतलं मयि किंचिदर्पय भवांस्तु मे गतिः ॥ ४४ ॥ (कृताञ्जलिः प्रणमति ।) सौदामिनी-सुसमाहितः खल्वभिज्ञार्पणस्यावसरः । (अञ्जली बकुलमालामर्पयति ।) माधव:-(साकूतं सहर्ष सविस्मयं च ।) कथमियमस्मद्विरचिता प्रियास्तनोन्नाहदुर्ललितमूर्तिरनङ्गमन्दिराङ्गणबकुलपादपकुसुममाला (सम्यनिरूप्य ।) कः संदेहः । तथा हि स एवायमस्याः मुग्धेन्दुसुन्दरतदीयमुखावलोक- हेलाविशृङ्खलकुतूहलनिहवाय । दुर्व्यस्तपुष्परचितोऽपि लवङ्गिकाया- स्तोषं ततान विषमग्रथितो विभागः ॥ ४५ ॥ (सहर्षोन्मादमुत्थाय ।) चण्डि मालति, इयं विलोक्यसे । (सकोपमिव ।) अयि मदवस्थानभिज्ञे व्याजेन परिभुक्तप्रगल्भपुरस्त्रीमुखाः तथा विकचकदम्बकोशरजोलनमृगसमूहझङ्का- रमनोहराः ॥ ४३ ॥ माधवः । यद्यपि खया संज्ञारूपव्याधिर्जनितः, तथापि खामेव प्रार्थये देवलादेव ॥ विकसदिति । यत्र मे प्रिया वर्तते तत्र परागैः सह मत्प्राणानय । सप्तम्यर्थे सार्वविभक्तिकस्तसिः। तदङ्गसङ्ग शीतलं वा किंचिद्वस्तु प्रेरय यत्राहं तिष्टामि । वां विना वने क इदानी गतिरित्याशयः ॥ ४४ ॥ सुसमाहितः सुष्ठु भद्रः । य एवाञ्जलिः प्रथमप्रणामाजलिर्माधवेन वद्धस्तत्रैवाभिज्ञानस्रजमर्प. यति ॥ माधवः । उन्नाहेनोपरिवर्तनेन दुर्ललितमूर्तिः । उन्नाह उत्सेध इत्यन्ये । मदनमन्दिराजिरकेसरसक। अनङ्गमन्दिरपदमत्र घृगावदर्थे । कः संदेहः । सैवेय- मित्यर्थः । तथा हि स एवास्याः सजो विभागः । मुग्धेति । दुय॑स्तान्यभद्रीकृत्य निवेशितानि पुष्पाणि तै रचितोऽपि लवङ्गिकायास्तोषं ततान विस्तारयामास । दुर्व्यस्तपुष्परचितलेनैव विषमप्रथितः । दुर्व्यस्तखे हेतुमाह-मुग्धेन्दुवत्सुन्दरं यत्त. दीयं मुखं तदवलोकने हेला शुझारजो भावविशेषस्तेन विशङ्गलमुद्भर्ट माधवे यत्कुतूहलं तस्य निहवाय । मालतीपरिजनेभ्यो गोपनायेत्यर्थः ॥४५॥ अथासाधा- रणाभिज्ञानलाभेन संनिहितप्रच्छन्नां मालती मन्यमानोऽकालव्यसनोन्मादः सको. पमिवाह-खस्थदशायां हि परिहासः क्रियते । त्वं पुनरेतर्हि मम दशानभिज्ञा ।

नवमोऽहा २२५ प्रयान्तीव प्राणाः सुतनु हृदयं ध्वंसत इव ज्वलन्तीवाङ्गानि प्रसरति समन्तादिव तमः । त्वराप्रस्तावोऽयं न खलु परिहासस्य विषय- स्तदक्ष्णोरानन्दं वितर मयि मा भूरकरुणा ।। ४६ ॥ (सर्वतो दृष्ट्वा सनिर्वेदम् ।) कुतोऽत्र मालती । (बकुलमालां प्रति ।) अये प्रियाप्रणयिनि, परमोपकारिण्यसि । निष्प्रत्यूहाः प्रियसखि यदा दुःसहाः संबभूवु- मोहोदामव्यसनगुरवो मन्मथोन्मादवेगाः । तस्मिन्काले कुवलयदृशस्त्वत्समाश्लेषणं वा प्राणत्राणं प्रगुणमभवन्मत्परिष्वङ्गकल्पः ॥ १७ ॥ (सकरुणं निःश्वस्य ।) आनन्दनानि मदनज्वरदीपनानि गाढानुरागरसवन्ति तदा तदा च । स्नेहाकराणि मम मुग्धदृशश्च कण्ठे कष्टं स्मरामि तव तानि गतागतानि ॥ १८ ॥ (हृदये निधाय मूर्च्छति ।) मकरन्दः-(उपसृत्य ।) सखे, समाश्वसिहि । माधव:-(समाश्वस्य ।) मकरन्द, किं न पश्यसि कुतोऽपि स- हसैव मालतीलेहखहस्तस्य लाभः । तत्कथं मन्यसे किमेतदिति । तथा हि । प्रयान्तीति । प्राणा निःसरन्तीव । हृदयं स्फुटतीव । अङ्गानि ज्वल- न्तीव । तमो मोहः प्रसरतीव । तन्मम जीवितरक्षणाय खरया प्रस्तावोऽयम् । न पुनः खशरीरप्रच्छादनरूपस्य परिहासस्य विषयः । तवात्ममूर्तिप्रकटनेन मे नय- नयोरानन्दं देहि । निर्माया भवेत्यर्थः ॥ ४६ ॥ अथ मालतीमपश्यन्केसरजमु. न्मादाचेतनामिव मन्यमानः प्राह-निष्प्रत्यूहा इति । यथा तस्या मन्मथोन्मा- दवेगाः संबभूवुः समुद्भूतास्तस्मिन्काले प्राणत्राणमेव यथा स्यादेवं मत्परिष्वङ्गकल्प- आश्लेष इव समभवत् । कीदृग्भूता मन्मथोन्मादवेगा इत्यपेक्षायां निष्प्रत्यूहा निर्विघ्नाः । अप्रतिहता इत्यर्थः । तथा देहव्यसनेन गुरवः । तदयमाशयः । यत्तदा तत्प्राणहेतुस्तस्यास्वमासीतदिदानी खयापि त्यका न जीवतीति ॥ ४७ ॥ आन- न्दनानीति । हे बकुलमाले, मम कण्ठे तव गतागतानि कष्टं यथा स्यादेवं स्मरामि । गतागतविशेषणान्याह-आनन्दनानि कामज्वरोत्तेजनानि । तथा गाढानुरागो यो रस आसकिस्तद्वन्ति तथा स्नेहनिविडानि ॥ ४८ ॥ खहस्खलाभो मालय- धारणाभिज्ञानलाभः । तत्कथं मन्यस इति पदस्याशयः । तत्किल जीवन्त्यां , २२६ मालतीमाधवे मकरन्दः-इयमार्या योगीश्वर्यस्य मालत्यभिज्ञानस्योपनेत्री । माधव:-(सकरुणं कृताञ्जलिः ।) मार्ये, प्रसीद । कथय, जीवति मे प्रिया सा। सौदामिनी-वत्स, समाश्वसिहि । जीवति सा कल्याणी । माधवमकरन्दौ-(समुच्छास्य ।) आर्ये, यद्येवं कथय क एष वृत्तान्त इति । सौदामिनी-अस्ति पुरा करालायतनेऽघोरघण्टः कृपाणपा- णिर्व्यापादितः । माधव:-(सावेगम् ।) आर्ये, विरम । ज्ञातो वृत्तान्तः । मकरन्द: -सखे, क इव। माधव:-किमन्यत् । सकामा कपालकुण्डला । मकरन्द:-आर्ये, अप्येवम् । सौदामिनी-एवं यथा निवेदितं वत्सेन । मकरन्द: -भोः, कष्टम् । कुमुदाकरेण शरदिन्दुचन्द्रिका यदि रामणीयकगुणाय संगता । तस्यां तत्कथमस्यास्तत्कण्ठाद्विश्लेषः संभाव्यते ॥ मकरन्दः । अथ मकरन्दः कथं मन्यस इति माधवाधिगमतात्पर्यमाह-उपनेत्रीति ॥ सौदामिनी । जीवति नमृता । कापि प्राप्तेत्याशयः॥माधवमकरन्दौ । अथैष वृत्तान्तः। कापि वर्तते । तदीया चेयं स्रगधिगतेसवंरूपः॥ माधवः। अथ पुरा कापालिकोऽघोरघण्टो माधवेन व्यापादित इत्युदन्तदर्शनात्सौदामिनीवाक्यसंपूर्तिमनपेक्ष्य तदवश्यमनु- भवसि कपालकुण्डलाकोपस्य फलमिति विघटितस्मृतकपालकुण्डलाप्रतिज्ञो माधवो वदति-आर्ये, विरमेति । अलं प्रयासेन । ज्ञातो मालतीवृत्तान्तः ॥ मकरन्दः । अथ मकरन्दोऽश्रुतकपालकुण्डलाप्रतिज्ञः पृच्छति-क इवेति ॥ मकरन्दः। सकामा कपालकुण्डलेति वचसो मालतीविनाशप्रतिपादनपरलं निश्चित्य जीवति मालतीति दत्ताश्वासां सौदामिनी पृच्छति-आर्य, अप्येवमिति ॥सौदामिनी। सौदामिनी तु सकामा मालतीहरणेन, न तु व्यापादनेनेत्यभिप्रायेणाह-एवं यथा निवेदितं वत्सेनेति ॥ मकरन्दः। अथ मकरन्दो यथा निवेदितं वत्सेने. त्यस्य वचसो मालती नास्तीति संमतिपरत्वमवधार्थ भोः, कष्टमित्याह ॥ कुमुदेति। यदि चन्द्रिका रामणीयकगुणार्थ कुमुदसमूहेन सह दैवात्संगता मिलिता, तदा तत्सु- नवमोऽह २२७ सुकृतं तदस्तु कतमस्त्वयं विधि- र्यदकालमेघविततिळयूयुजत् ॥ १९ ॥ माधव:-हा प्रिये मालति, कष्टमतिबीभत्समापन्नासि । कथमपि तदाभवस्त्वं कमलमुखि कपालकुण्डलाग्रस्तां । उत्पातधूमरेखाक्रान्तेव कला शशधरस्य ॥ ५० ॥ भगवति कपालकुण्डले, निर्माणमेव हि तदा तव लालनीयं मा पूतनात्वमुपगाः शिवतातिरेव । नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिन मुसलैर्बत कुट्टनानि ॥ ५१ ।। सौदामिनी-वत्स, अलमावेगेन । अकरिष्यदसौ पापमतिदुष्करुणैव सा । नाभविष्यमहं तत्र यदि तत्परिपन्थिनी ॥ ५२ ।। उभौ-(प्रणम्य ।) अतिप्रसन्नमार्यापादैः । तत्कथय का पुनस्त्व- मस्माकमेवंविधो बन्धुः । कृतं भद्रमेव चन्द्रिकया कृतमित्यर्थः । अयं पुनः कतमो विधिरकालजलदवितति. विस्तारः कुमुदाकरेण व्ययूयुजद्वियुक्तं चकार । अत्र चन्द्रिका मालती, कुमुदाकरो माधवः, अकालमेघविततिः कपालकुण्डलेत्याशयः॥४९॥अथ माधवो मालती. व्यापादनावस्था चिन्तयन्नाह-अतिवीभत्समसदृशहिंसनेनातिगर्हितम् ॥ कथ. मपीति । अपिशब्द इवार्थे । कपालकुण्डलया ग्रासीकृता त्वं कीदृश्यसीति भावः । यदि कदाचिदप्युत्पातधूमरेखया चन्द्रकलैका प्रस्यते तदोपमा तव सा स्यादि. त्यर्थः॥५०॥भगवतीति । भगवच्छब्दो ज्ञानातिशयवति । तेन प्रकृष्टज्ञानवतीति। निर्माणमिति । मालतीशरीरस्य महता प्रयत्नेन लालनीयमाधुर्यलमतिङ्करस्य राक्षसादेालनीयमाधुर्यखभावम् । त्वं पूतनात्वं राक्षसीत्वं मोपगाः । अयमर्थः । भत्र रमणीयत्वं लालने हेतुर्दृष्टान्तमाह-नैसर्गिकीति । सुरभिणः कुसुमस्य खाभा- विकी स्थितिः प्रसिद्धा शिरस्येव । ननु बत कष्टं मुसलैर्न तु कुट्टनानि । अत्र तु कपालकुण्डलायाः प्रकृष्टज्ञानत्वेन संबन्धादयमाशयः। यत्किल त्वं ताइप्रकृष्ट- ज्ञानतया विचारयसि न तावन्मालती तव साक्षादपकारिणी । न च ते गुरुर्विद्यते, यदर्थ सा व्यापादिता । निर्वापणीयवैरा स्यात् मालती ते । तदर्थतामधिगम्यायम- तिविकलो वर्तते । तदाश्वासयेत्याशयः ॥५१॥ अकरिष्यदिति । असौ कपा- लकुण्डला मालतीमरणरूपं कर्म पापमकरिष्यदित्यतिनिष्करुणैव सा तत्र स्थाने २२८ मालतीमाधवे सौदामिनी-ज्ञास्यथ खत्वेतत् । (उत्थाय ।) इयमिदानीमहं गुरुचर्यातपस्तनमन्त्रयोगाभियोगजाम् । इमामाकर्षिणी सिद्धिमातनोमि शिवाय वः ॥ ५३॥ (समाधवा निष्क्रान्ता।) मकरन्द:-आश्चर्यम् । व्यतिकर इव भीमस्तामसोवैद्युतश्च क्षणमुपहतचक्षुर्वृत्तिरुय शान्तः । (विलोक्य । सभयम् ।) कथमिव न वयस्यस्तकिमेतकिमन्यत् (विचिन्य।) प्रभवति हि महिना खेन योगीश्वरीयम् ॥ ५४॥ (सवितर्कम् ।) किमयमनर्थ इति संप्रति मूढोऽस्मि । अपि च । अस्तोकविस्मयमविस्मृतपूर्ववृत्त- मुद्भूतनूतनभयज्वरजर्जरं नः । यदि तत्परिपन्थिनी विरोधिनी नाहमभविष्यम् । एतेन हृतवत्येव परं न तु व्यापा- दितवतीत्याश्वासयति ॥५२॥ सौदामिनी । ज्ञास्यथ फलेनैव याहं भवतोरित्या- शयः ॥गुर्विति । गुरुचर्याविशिष्टमनुष्ठानम् , तपश्चान्द्रायणादि, तत्रं मण्डलवर्त- नादि, मन्त्रस्वाराप्रभृतिदेवीनां तन्त्रस्य वागमस्य वा मन्त्रः, योगः समाधिः एष्वभि- योगादभ्यासाज्जातामिमामाकर्षिणी सिद्धिं युष्माकं कल्याणाय विस्तारयामि ॥५३ ॥ मकरन्देनानुपलक्षिता समाधवा ॥ व्यतिकर इति । व्यतिकरो विवर्तः, मिश्री- भावो वा । भीमो भयंकरः । तमोमयो विद्युन्मय इवोपहतचक्षुर्वृत्तिनिरस्वतद्विष- यनिरूपणशक्तिः । क्षणमात्रमुत्पाद्यास्तमितः । विद्याप्रभावादेवं महान्धतमसं महा- प्रकाशश्चासीदित्यर्थः । प्रशान्ते व्यतिकरे माधवमपश्यन्कथमिह न वयस्यः । कपालकुण्डलाप्रेरिता माधवं श्रीपर्वतं नीतवतीति सभयत्वे बीजम् । किमन्यदिति योगीश्वरीत्वेन योगसिद्धिरूपेण माहात्म्येन प्रभवति।माधवमपहर्तुं कृतवतीत्येवमा- शयः॥५४॥ किमयं माधवापहरणरूपो व्यापारी मालतीसमागमरूपत्वेनानुरूपः किमप्यसदृशकर्मप्रतिपादकत्वेनानुक्तपूर्व इत्यर्थः ॥ अस्तोकेति । आनन्दशो. काभ्यां शबलखमसंभिनत्वं च गच्छति । अस्तीवाश्चर्य तावद्व्यतिकरदर्शनेन तथा ताहगार्यप्रभावादविस्मृतमालतीव्यापादादिरूपानुभूतवृत्तम् , तथोत्पन्न प्रत्यप्रमाध. वानिष्टशहाजनितभयसंतापज्वरम्, तथैकस्मिन्नेव क्षणे पूर्व सौदामिन्या वाक्यदाने- नवमोऽ। २२९ एकक्षणत्रुटितसंघटितप्रमोह- मानन्दशोकशबलं समुपैति चेतः ॥ ५५॥ तदत्र कान्तारावसाने सहास्मद्वर्गेण प्रविष्टां भगवतीमनुसृत्य वृत्तान्तमेनं कथयामि। (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे नवमोऽङ्कः । न त्रुटितो मालतीविपजः पश्चान्माधवादर्शनसंघटितो मोहो यत्र मनसि तत्तादृक् ॥ ५५ ॥ कामन्दक्येवातीन्द्रियार्थदर्शिनीहगपूर्वाश्चर्यविचारक्षमेति तस्यै निवेदयामि ॥ शबरखामिप्रीत्या प्रकरणरत्नाकरेऽत्र भवभूतेः । सारोद्धारे मन्दरमकृत कृती व्याकृति नान्यः ॥ इति श्रीनान्यदेवस्य कृती विबुधरत्नावल्यां मालतीमाधव- टीकायां नवमाङ्कविवरणम् ॥

दशमोऽङ्कः। (ततः प्रविशति कामन्दकी मदयन्तिका लवङ्गिका च ।) कामन्दकी-(सकरुणं सास्रम् ।) हा वत्से मालति, मदकालं- कारिणि, कासि । देहि मे प्रतिवचनम् । आ जन्मनः प्रतिमुहूर्तविशेषरम्या- ण्याचेष्टितानि तव संप्रति तानि तानि । चाटूनि चारुमधुराणि च संस्मृतानि देहं दहन्ति हृदयं च विदारयन्ति ॥ १ ॥ अपि च । पुत्रि, अनियतरुदितस्मितं विराज- कतिपयकोमलदन्तकुमलाअम् । वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमुग्धजल्पितं ते ॥ २॥ इतरे-(सास्रम् ।) हो पिअसहि, सुप्पसण्णमुहचन्दसुन्दरि, कहिं गदासि । को दे सरीरस्स देवदुबिलासपरिणामो एका- किणीए उवणदो । हा महाभाअ माहव, उदिअत्थमिदमहूसवो दे जीअलोओ संवुत्तो। १. हा प्रिसिखि, सुप्रसन्नमुखचन्द्रसुन्दरि, क गतासि । कस्ते शरीरस्य दैवदुर्विलासपरिणम एकाकिन्या उपनतः । हा महाभाग माधव, उदितास्त- मितमहोत्सवस्ते अवलोकः संवृत्तः । अथ मालतीणानन्तरं माधवमकरन्दयोरवस्थानुकारार्थ तदनुगुणव्यापार: कथितः । कान्दक्यादीनामाप्तजनानां कृत्यविशेषप्रतिपादनार्थ निर्वर्णसंधिरू- पोऽङ्कः प्राम्यते-ततः प्रविशतीति । सासमिति करुणारसस्यैव लिङ्गम् ॥ जन्मन इति । वत्से, जन्मदशात आरभ्य जातानि तव चेष्टितानि खभा. वाच्छुभान्यगव्यापारादीनि प्रतिमुहूर्त विशेषेण रम्याणि चाटूनि प्रीत्युत्पादकानि । चारूणि नेत्रसुखादिजनकानि मधुराणि तद्वारा मनोनन्दकानि संस्मृतानि देहं दहन्ति हृदयं च विदारयन्ति । अनेन शरीरमनःपीडोक्ता ॥ १ ॥ अनिय- तेति । तव शिशोर्बालायातद्वदनपद्मं स्मरामि । तद्विशेषणानि-अनियतादीनि । भनियतेऽव्यवस्थे रुदितस्मिते विषादहर्षलिङ्गे यत्र तादृक् । तथा विराजत्कतिपयम- नोहरदशनमुकुलाङ्करम् । तथा संपूर्णाकालायोग्यतासत्तिमदर्थप्रतिपादकमनोहरज- ल्पितम् ॥२॥इतरे। लवहिकामदयन्तिके खासमाकाशभाषितलेन वदत इत्यर्थः।

दशमोऽङ्कः । २३१ कामन्दकी-(सविशेषखेदम् ।) हा वत्सौ, अभिनवरागरसोऽयं भवतोः कृतकौतुकः परिष्वङ्गः । लवलीलवङयोरिव नियतिमहावात्ययाभिहतः ॥ ३ ॥ लवङ्गिका-(सोद्वेगम् ।) हैदास, वज्जमअहिअअ, सव्वहा णिसं- सेसि । (इति हृदयमाहत्य पतति ।) मदयन्तिका-सहि लवङ्गिए, णं भणामि क्खणमे वि दाव समस्सस । लवङ्गिका-मैदअन्तिए, किं करेमि । दिढवजलेवपडिवद्धणि- चलं विअ जीविदं मं ण परिचअदि । कामन्दकी-वत्से मालति, जन्मनः प्रभृति वल्लभतरा ते लव- ङ्गिका । तत्किमुज्जिहानजीवितां नानुकम्पसे । इयं हि उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते । मलीमसमुखी वर्तिः प्रदीपशिखया यथा ॥ ४ ॥ १. हताश, वज्रमयहृदय, सर्वथा नृशंसमसि । २. सखि लवङ्गिके, ननु भणामि क्षणमात्रमपि तावत्समाश्वसिहि । ३. मदयन्तिके, किं करोमि । दृढवज्रलेपप्रतिबद्धनिश्चलमिव जीवितं मां न परित्यजति । हा प्रियसखि, सुप्रसनमुखचन्द्रसुन्दरि, क गतासि । कस्ते शरीरस्य दैवदुर्विलास. परिणाम एकाकिन्या उपनतः हा महाभाग माधव, उदितास्तमितमहोत्सवो जीव- लोकः संवृत्तः ॥ कामन्दकी। वत्सा च वत्सश्च वत्सौ। मालतीमाधवावित्यर्थः ॥ अभिनवेति । भवतोराश्लेषो नियतिरूपया देवरूपया वात्यया पवनमण्डलेन निरस्तः । कीदृशः परिष्वजः। नूतनो रागोरसो यत्र । 'रागोद्वेगः समाप्तिः' इति काम- सूत्रदर्शनात् । राग एव रसः। रस्यत इति व्युत्पत्त्या रसः शृङ्गार इत्यन्ये । कृतको तुकः कृतमङ्गलः । उपमानमाह-यथा लवलीलवायोरुद्याने विदग्धनायिकाना- यकाभ्यामुत्पाद्यलेन कल्पितविवाहाभाससमये कृतकौतुकयोः परिष्वको वात्यया- ऽभिहत इत्यर्थः ॥ ३॥ लवङ्गिका। हताश, वज्रमयहृदय, सर्वथा नृशंसमसि । मदयन्तिका । सखि लवनिके, ननु भणामि क्षणमात्रमपि तावत्समाश्वसिहि ॥ लवङ्गिका । मदयन्तिके, किं करोमि । दृढवज्रलेपप्रतिबद्धनिश्चलमिव जीवितं मां न परित्यजति ॥ कामन्दकी। उजिहानजीवितां निःसरत्प्राणाम् ॥ उजव- लेति । इयं लवङ्गिका खयि निग्धा स्नेहवती खद्वियोगदुःखादेव म्लानमुखी योज्यलदर्शनया परित्यका न शोभते । यथोजवलद्योतया दीपशिखया बक्ता २३२ मालतीमाधवे - कथं त्वं कल्याणि, कामन्दकीं त्यजसि । नन्वकरुणे, मदीयचीवरा- ञ्चलोष्मणैव ते प्रगुणितान्यङ्गानि । स्तन्यत्यागात्प्रभृति सुमुखी दन्तपाञ्चालिकेव क्रीडायोगं तदनु विनयं प्रापिता वर्धिता च । लोकश्रेष्ठे गुणवति वरे स्थापिता त्वं मयैव स्नेहो मातुर्मयि समधिकस्तेन युक्तस्तवापि ॥ ५॥ (सवैक्लव्यम् ।) हा चन्द्रमुखि, संप्रति निराशास्मि संवृत्ता । अकारणस्मेरमनोहराननः शिखाललाटार्पितगौरसर्षपः । तवाङ्कशायी परिवृत्तभाग्यया मया न दृष्टस्तनयः स्तनंधयः ॥६॥ लवद्धिका-भअवदि, पसीद । णिस्सहम्मि जीविदुव्वहणे । साह इमादो गिरिप्पपादादो अत्ताणं अवधुणिअ णिव्वुत्ता भविस्सं । तह मे भअवदी आसिसं करेदु, जेण जम्मन्तरे वि दाव पिअसहिं पेक्खिस्सं । १. भगवति, प्रसीद । निःसहामि जीवितोद्वहने । साहमाद्विरिप्रपा- तादात्मानमवधूय निर्वृत्ता भविष्यामि । तथा मे भगवत्याशिषः करोतु, येन जन्मान्तरेऽपि तावप्रियसखी प्रेक्षिष्ये । सूत्रमालावर्तिः स्निग्धा तैलपूर्णापि तथा शिखासंयोगदग्धवान्मलीमसमुखी न राजत इत्यर्थः । 'आलोको दर्शनद्योती' इत्यमरः ॥ ४ ॥ मदुत्सङ्गवासेनैव चिर- प्रवृद्धायास्तवाङ्गानि मदीयवस्वाञ्चलोष्मणा वृद्धि गतानीत्यर्थः ॥ स्तन्येति । मातुः स्तन्यपानत्यागादारभ्य मयैव वं बालक्रीडनकैः क्रीडायोगं तदनन्तर कलाशा स्त्रशिक्षितं प्रापिता तथा वृद्धिं नीता । लोकश्रेष्ठकुलीनखादिगुणवति प्रशस्तवरे, वं मयैव स्थापिता न पितृभ्यामित्याशयः । तेन हेतुसमूहेन मातुः सकाशात्समधिक: स्नेहस्तवापि युक्तो भवेत् । यथा गजदन्तमयी पाश्चालिका पुत्रिकात्वेनाभिमन्य- माना गुणवति प्रशस्तगुणे व्यवस्थापिता बालक्रीडायोगादिकं नीयते तदनन्तरं वरे स्थाप्यत इत्यर्थः । विनयः शास्त्रनिश्चयः ॥ ५॥ अकारणेति । परिभोग- योग्यभाग्यहीनया मया लवङ्गिकाद्यागमनायोग्यस्तनयो नावलोकितः । तनय- विशेषणान्याह-अनुपलक्षितकारणं यस्मितं तेन मनोहराननः । अथ रक्षार्थ शिखाललाटयोर्दत्तं श्वेतसर्षपं यस्य । अकारणपित्रादिविषयलेहेन मनोहरानन इति पाठान्तरम् ॥६॥ लवङ्गिका। भगवति, प्रसीद । निःसहास्मि जीवितोद्वहने। साह मस्माद्विरिप्रपातादात्मानमवधूय निर्धत्ता भविष्यामि । तथा मे भगवत्याशिषः ।

दशमोऽङ्कः । कामन्दकी-ननु लवङ्गिके, कामन्दक्यपि नातः परं वत्सा- वियोगेन जीविष्यति । समश्चायमुत्कण्ठावेग आवयोः । किंच, संगमः कर्मणां भेदाद्यदि न स्यान्न नाम सः । प्राणानां तु परित्यागे संतापोपशमः फलम् ॥ ७ ॥ लवङ्गिका-जह तुम्हे आणवेत्थ । (इत्युत्तिष्ठति ।) कामन्दकी-(सदयं वीक्ष्य ।) वत्से मदयन्तिके । मदयन्तिका--किं आणवेध । अग्गेसरीहोहि ति । अवहिदम्हि। लवङ्गिका—सहि, पसीद । विरम एतो अत्तणो वावादणादो। मा अ एणं जणं विसुमरेसि । मदयन्तिका-(सकोपमिव ।) अपेहि । णम्हि दे वसंवदा । कामन्दकी-हन्त, निश्चितं वराक्या । १. यथा यूयमाज्ञापयथ । २. किमाज्ञापयथ अग्रेसरीभवेति । अवहितास्मि । ३. सखि, प्रसीद । विरमैतस्मादात्मनो व्यापादनात् । मा चैनं जनं विस्मरिष्यसि । ४. अपेहि । नास्मि ते वशंवदा । - - करोतु, येन जन्मान्तरेऽपि तावप्रियसखी प्रेक्षिष्ये ॥ संगम इति । मरणचि- न्तायाः संगमो भविष्यतीत्याशय यद्यपि शुभाशुभकर्मणां भिन्नलोकप्राप्तिहेतूनां मेदात्कदाचित्संगमः स्थान वा स्यानाम । तत्फलं मरणफलं भवतु । मालती. मरणरूपदुःखोपशमरूपं भविष्यतीत्यर्थः ॥ ७॥ लवङ्गिका । यथा यूयमाज्ञाप- यथ । उत्तिष्ठति पतनायेति शेषः ॥ कामन्दकी । सदयं लवङ्गिकां वीक्ष्य । लवङ्गिकां धारयेति वक्तुमक्षमा मदयन्तिकामाकारयति । मदयन्तिका तु मालती- वियोगदुःखमसहमाना लवङ्गिका विनाशमपि द्रष्टुमसमर्थाह-मदयन्तिका। किमाज्ञापयथ । लवनिकायास्वग्रेसरीभवेति । अवहितास्मि सावधानास्मि तथा व्यापारे॥लवङ्गिका। सखि, प्रसीद । विरमैतस्मादात्मनो व्यापादनात्। आत्मान- मुद्दिश्य-मा चैनं जनं विस्मरिष्यसि ॥ मदयन्तिका । शिखरात्पतितुं कृत. निश्चया लवङ्गिका सकोपमिवाह-अपेहि । नास्मि ते वशंवदा । अवश्यं मरिष्या- मीत्याशयः । वशंवदा या भवत्याः सैव स्मरिष्यतीत्याशयः ॥ कामन्दकी । निश्चितं शरीरपातनकर्मानया । वराकीत्य नुकम्पायाम् । मदयन्तिका मकरन्दपरा- क्रमक्रीतमात्मनों जीवितं तदायत्तं त्यक्तुं मनसा मकरन्दं जीवितेश्वरं प्रणमति ॥

२३४ मालतीमाधवे मदयन्तिका-(खगतम् ।) माह मअरन्द, णमो दे। लवङ्गिका–भैअवदि, असं जेव महुमदीसोत्तसंदाणिदपवि. तमेहलो महीहरविटङ्को। कामन्दकी-कृतमिदानी प्रस्तुतान्तरायेण । (सर्वाः पतितुमिच्छन्ति ।) (नेपथ्ये।) आश्चर्यम्, व्यतिकर इव भीमस्तामसो वैद्युतश्च क्षणमुपहतचक्षुर्वृत्तिरुद्भूय शान्तः । कामन्दकी-(विलोक्य साद्भुतहर्षम् ।) कथमिह मम वत्सस्तत्किमेतत् मकरन्द:-(प्रविश्य ।) किमन्य- प्रभवति हि महिना खेन योगीश्वरीयम् ॥ ८॥ १. नाथ मकरन्द, नमस्ते । २. भगवति, अयमेव मधुमतीस्रोतःसंदानितपवित्रमेखलो महीधर- विटङ्कः । मदयन्तिका । नाथ मकरन्द, नमस्त इति ॥ लवङ्गिका । भगवति, अयमेव मधुमतीस्रोतसः संदानितलेन पवित्रमेखलो महीधरविटङ्कः । 'कपोतपालिकायां तु विटई पुनपुंसकम्' इत्यमरः । मधुमती नदी ॥ कामन्दकी । प्रस्तुतमत्र मरणम् । तदन्तरायः कालक्षेपरूपः ॥ व्यतिकर इति श्लोको व्याख्यातपूर्वः॥ कामन्दकी । साश्चर्य सहर्ष च । वदतीति शेषः । अयमीदृशो व्यतिकरः संप्र. दायोपदेशपरस्परपरिपक्कसमाधिप्रभवप्रकृष्टाभ्युदयसूचकः कथमन्यत्र संभाव्यते मदन्तेवासिव्यतिरेकेण । तयतिकरदर्शनमद्भुतहर्षयोनिमित्तमिति भावः । तत्कथं मम वत्सो मकरन्दो दृश्यत इति शेषः । तद्दर्शितफलं तावद्यतिकररूपेण शुभ. निमित्तन व्यतिकरनिदानमप्यस्मादेव ज्ञातव्यमित्याशयः । तत्किमेतदिति काम- न्दकीप्रश्नवाक्यैकदेशं प्रति कथाजिज्ञासापरमधिगम्य मकरन्दः प्रविश्य वदति- किमन्यदिति । इयं कापि योगीश्वरी प्रकृष्टयोगर्द्धिः । तत्प्रभावादयं व्यतिकर इत्यभिप्रायः । कामन्दकीप्रभृतिभिश्च प्रकृष्टहर्षपूर्यमाणमकरन्दनयन. चेष्टभिः कुशलिनी मालती समाधवेति निर्णीतमिति प्रतीयमानोऽर्थः । अत एक दशमोऽ। (नेपथ्ये।) कथमतिदारुणो जनावमर्दः संप्रवर्तते । मालत्यपायमधिगम्य विरक्तचेताः सांसारिकेषु विषयेषु च जीविते च । निश्चित्य वहिपतनाय सुवर्णबिन्दु- मभ्येति भूरिवसुरित्यधुना हताः स्मः ॥ ९॥ मदयन्तिकालवङ्गिके-झत्ति मालदीमाहवाणं दसणब्भुदओ झत्ति अच्चाहिदं अ। कामन्दकीमकरन्दौ-दिष्ट्या । कष्टं भोः आश्चर्यम् । किमयमसिपत्रचन्दनरसाच्छटासारयुगपदवपातः । अनलस्फुलिङ्गकलितः किमयमनभ्रः सुधावर्षः ॥ १० ॥ संजीवनौषधिविषव्यतिकरमालोकतिमिरसंभेदम् । अद्य विधिरशनिशशधरमयूखसंवलनमनुकुरुते ॥ ११ ॥ (नेपथ्ये ।) हो ताद, विरम । ऊसुअम्हि दे वअणकमलदसणस्स । पसीद । १. झटिति मालतीमाधवयोर्दर्शनाभ्युदयो झटित्यत्याहितं च । २. हा तात, विरम । उत्सुकास्मि ते वदनकमलदर्शनस्य । प्रसीद । पतनाद्विरताः सर्वाः ॥ ८॥ नेपथ्य इति । दारुणदुःखजनकखात्तत्पतनस्य द्रष्टुणां संमर्दः ॥ मालतीति । पुनरपि तथैवापहृतेति सामान्यतोऽधिगम्य शाखा सांसा. रिकेषु संसारभूतेषु विषयेषु जीविते चोपरतमनाः पुनश्च तमेवापायं निश्चित्य वहिप्रवेशनाय सुवर्ण बिन्दुसंज्ञकं शिवायतनमभ्येतीति हताः स्म इति परिजनवचः ॥९॥ मदयन्तिकालवङ्गिके । झटिति मालतीमाधवयोर्दर्शनाभ्युदयो जातप्राय इव जाता। झटित्यत्साहितं महाभीतिश्च भूरिवसुविनाशशङ्कया ॥कामन्दकीमक. रन्दौ ।मालतीमाधवयोरभ्युदयेन सहौं, भूरिवसुदहनप्रवेशाच्च सखेदौ ॥ किमय. मिति । किमयं भूरिवसुदहनप्रवेशश्रवणमालतीमाधवप्रत्यासनदर्शनव्यतिकरोऽसि- पत्रचन्दनरसच्छटासारखमुन्नेयम् । एवमुत्तरार्धेऽपि युज्यते । किमयं व्यतिकरो मेघं विना देहदहनकरणामृतवर्षः ॥ १०॥ संजीवनेति । अद्य विधिर्भाग्यम- स्माकं कर्तृ द्वयोरत्यन्तविपरीतक्रिययोर्दुःखसुखनिमित्तयोर्वस्तुनोरुद्वेगानन्दजनक- त्वेन मेलनमनुकुरुते । तद्यथा संजीवनौषधिविषयोर्व्यतिकरो मिश्रण तथा प्रका. शतिमिरयोः संमेदः संगमः । तथा वज्रचन्द्रकरयोः संमेलनमिति ॥ ११ ॥ नेपथ्ये । हा तात, विरम । उत्सुकास्मि ते वदनकमलदर्शनस्य । प्रसीद । संभा- २३.६ मालतीमाधवे संभावेहि मं । कहं मम कारणादो समत्थलोआलोआन्तरालविक्खम्भ- णिम्मलेकमङ्गलप्पदीवभूदं अत्ताणं परिच्चअसि । मए उण अलज्जाए णिरणुकोसाए तुम्हे परिचत्ता । कामन्दकी-हा वत्से, मालति । जन्मान्तरादिव पुनः कथमपि लब्धासि यावदयमपरः । उपराग इव शशिकलां कवलयितुमुपस्थितोऽनर्थः ॥ १२ ॥ इतरे-ही पिअसहि.। (ततः प्रविशति मुग्धां मालतीं धारयन्माधवः ।) माधव:-कष्टं भोः । एषा प्रवासं कथमप्यतीत्य याता पुनः संशयमन्यथैव । को नाम पाकाभिमुखस्य जन्तो- राणि दैवस्य पिधातुमीष्टे ॥ १३ ॥ मकरन्दः-सखे, अथ क सा योगिनी । माधव: श्रीपर्वतादिहाहं सत्वरमपतं तयैव सह सद्यः । करुणवनेचरवचनादन्तरितां तां न पश्यामि ॥ १४ ॥ संभावय माम् । कथं मम कारणात्समस्तलोकालोकान्तरालविष्कम्भनिर्मलैकम- ङ्गलप्रदीपभूतमात्मानं परित्यजसि । मया पुनरलज्जया निरनुक्रोशया यूयं परित्यक्ताः। १. हा प्रियसखि । वय माम् । कथं मम कारणात्समस्तलोकालोकान्तरालविष्कम्भनिर्मलैकमङ्गलप्र. दीपभूतमात्मानं परित्यजसि । मया पुनरलज्जया निरनुक्रोशया यूयं परित्यक्ताः ॥ कामन्दकी-जन्मेति । अपरोऽनर्थो भूरिवसुविनाशहेतुरनलप्रवेशरूपः कपाल- कुण्डलामिव त्वां कवलयितुमुपस्थितः । कापालिकाभिभवक्लेशैः क्षीणत्वेन शशि- कलामात्रसमानामनर्थ उपराग इवेत्यर्थः ॥ १२॥ माधव:-एषेति । जन्तोः प्राणिनो देवस्य भाग्यस्य । पुराकृतस्य कर्मण इति यावत् । पाकाभिमुखस्य संनिहित. सुखदुःखादिरूपफलदानप्रवणस्य द्वाराणीव द्वाराणि दुःखाद्युत्पत्तिनिमित्तान्तराणि पुराकृतकर्माव्यतिरिकानि परिदृश्यमानानि निराकर्तुमीष्टे । प्रभवतीयर्थः ॥१३॥ मकरन्दः । या लामादाय निष्क्रान्ता सा क गता ॥ श्रीपर्वतादिति । श्रीप. वात्तयैव योगिन्या सह सखरं. यथा स्यादेवमत्रापतमागतोऽस्मि । वनेचरस्य दशमोऽ कामन्दकीमकरन्दौ-महाभागे, पुनः परित्रायख नः । किमर्थमन्तर्हितासि । मदयन्तिकालवङ्गिके सहि मालदि, णं भणामि सहि मालदि त्ति । (सोत्कम्पम् ।) भअवदि, परित्ताहि । चिरणिरुद्धणिस्सासणिच्चलं हिअ । हा अमच्च, हा पिअसहि, तुम्हे दुवे वि परप्पराव- साणस्स कारणं जादा। कामन्दकी-हा वत्से मालति । माधव:-हा प्रिये मालति । मकरन्द:-हा प्रियसखि । (सर्व मोहमुपगम्य पुनः संज्ञा लभन्ते ।) कामन्दकी-तत्किमेष झटिति पाट्यमानादिवाम्बुदादम्बुनि- वहः परिस्खलन्नस्मान्प्रीणयति । माधवः--(सोच्छ्वासम् ।) अये, प्रत्यापन्नचेतनेव मालती । तथा- ह्यस्याः भवति विततश्वासोन्नाहप्रणुन्नपयोधरं हृदयमपि च स्निग्धं चक्षुर्निजप्रकृतौ स्थितम् । १. सखि मालति, ननु भणामि सखि मालतीति । भगवति, परित्रा- यस्व । चिरनिरुद्धनिःश्वासनिश्चलमस्या हृदयम् । हा अमात्य, हा प्रिय- सखि, युवां द्वावपि परस्परावसानस्य कारणं जाती। वचनं भूरिवसुर्वहिपतनाय सुवर्णबिन्दुमभ्येतीत्येवंरूपम् । तस्मादनन्तरमन्तर्हिता न पश्यामि ॥ १४ ॥ कामन्दकीमकरन्दौ । किमर्थं विरोहितासि । मालतीविप- निराकरणद्वारेदानीमपि भूरिवसुविनाशरूपमालतीविपन्निरासेन पुनर्नोऽस्मान्परि- त्रायखेत्यर्थः ॥ मदयन्तिकालवङ्गिके । सखि मालति, ननु भणामि सखि मालतीति । विलापोक्तिप्रभेदोऽयम् ।भगवति, परित्रायख । चिरनिरुद्धनिःश्वासनि- श्चलमस्या हृदयम् । हा अमात्य, हा प्रियसखि, युवां द्वावपि परस्परावसानस्य कारणं जाती । द्वयोरपि विनाशहेतुरित्याशयः ॥कामन्दकी। पाव्यमानादिवेति खाभाविकवर्षविलक्षणाकाण्डप्रवृत्ताम्भःपतननिमित्तकोक्तिरियम् । प्रीणयति संतपं. यति । जीवयतीत्यर्थः॥ माधवः। प्रत्यापनचेतनेव प्रत्यापनजीवितेव । तल्लिना- न्याह-भवतीति । प्रथमं निरुद्धः पश्चाद्विततो विस्तारितो यः श्वासोनाहस्तेन प्रणुनौ पयोधरौ यत्र हृदये तत्तादृक् । उन्नाह उच्छ्रायः । चक्षुरपि च यन्मोह- प्रभावादनिग्धमासीत्तत्प्रकृतौ तत्वभावे स्थितं मुग्धमभूदित्यर्थः । अत्र निजेति २३८ मालतीमाधवे तदनु वदनं मूर्छाच्छेदात्प्रसादि विराजते परिगतमिव प्रारम्भेऽहः श्रिया सरसीरुहम् ॥ १५॥ (नेपथ्ये।) अविगणय्य नृपं सहनन्दनं चरणयोनतममिचये पतन् । सपदि भूरिवसुर्विनिवर्तितो मम गिरा गुरुसंमदविस्मयः ॥ १६ ॥ माधवमकरन्दौ-भगवति, दिष्ट्या वर्धसे । सा योगिनीयमतिरयविघटितजलदाभ्युपैति नौ यस्याः । वागमृतजलासारो जलदजलासारमतिशेते ॥ १७ ॥ कामन्दकी-प्रियं नः। मालती-दिट्टिआ चिरस्स पञ्चुज्जीविदम्हि । कामन्दकी-(सहर्षबाष्पम् ।) एथेहि पुत्रि । मालती-हा कहं भअवदी । (इति पादयोर्निपतति ।) कामन्दकी (उत्थाप्यालिङ्गय मूर्युपाघ्राय ।) जीव जीवितसमाय जीवितं देहि जीवतु सुहृज्जनश्च ते । १. दिष्ट्या चिरस्य प्रत्युजीवितासि । २. हा कथं भगवती। पदं गतार्थमेव । तदनन्तरं तस्या वदनं मोहापगमात्प्रसादगुणवत्प्रसन्नं प्रात:काले श्रिया शोभया परिगतं व्याप्तं कमलमिवेति ॥ १५॥ नेपथ्य इति । अथ महा. भागे, पुनः परित्रायखेति कामन्दक्या अतिकरुणरुदितमाकर्ण्य सौदामिनी भूरि- वमुमनलप्रवेशानिवार्य गगनस्था प्राह-अविगणय्येति । नन्दनेन सहितं नृपं दहनप्रवेशनिवारणाय पादयोनतमनादृत्य भूरिवसुः सपदि मम गिरा धुवं जीवति मालतीत्येवंरूपया निवर्तितो गुरुसंमद विस्मयो यस्य ताक् । संमदः प्रकर्षः ॥१६॥ माधवमकरन्दौ । दिष्ट्यानन्देन ॥ सा योगिनीति । यया मालती रक्षिता खवेगप्रभावाभ्यां विदारितमेषगगनादागच्छति । यस्या वागमृतधारासंपातोऽतिशेते जयति । भूरिवसुमालत्यो रक्षणद्वारा समस्तबन्धुजनप्राणरक्षकेत्युनेयम् ॥ १७ ॥ कामन्दकी। प्रियं न इति । इयमभ्युपतीति संभ्रमोक्तिः ॥ मालती । दिष्ट्या चिरस प्रत्युज्जीवितास्मि ॥ मालती। हा कथं भगवती ॥ कामन्दकी- जीवैति । वं जीव । अत एव माधवाय जीवनं देहि। मदयन्तिकादिसखीजनच दशमोऽङ्कः । २३९ - अङ्गकैस्तुहिनसङ्गशीतलैः पुत्रि मां प्रियसखीं च जीवय ॥ १८ ॥ माधव: -वयस्य मकरन्द, संप्रत्युपादेयो माधवस्य जीवलोकः संवृत्तः । मकरन्दः-(सहर्षम् ।) एवमेवैतत् । इतरे-पिसहि, मणोरहातिकान्तदंसणे, संभावेहि अम्हे परि- स्सङ्गेण । मालती-हो पिअसहिओ । (इत्युमे आलिङ्गतः।) कामन्दकी-वत्सौ, किमेतत् । माधवमकरन्दौ-भगवति, कपालकुण्डलाकोपदुर्जातजनितापदः । वयमभ्युद्धृताः कृच्छ्रान्निर्बन्धादार्ययानया ॥ १९ ॥ कामन्दकी-कथमघोरघण्टवधविजृम्भितमेतत् । लवङ्गिकामदयन्तिके अहो अञ्चरिअं । पुणरुतदारुणस्स परिणामरमणिज्जतणं विहिणो । सौदामिनी-(प्रविश्य ।) भगवति, स एष चिरंतनोऽन्तेवासी- जनः प्रणमति । १. प्रियसखि, मनोरथातिक्रान्तदर्शने, संभावयासान्परिष्वङ्गेण । २. हा प्रियसख्यौ। ३. अहो आश्चर्यम् । पुनरुक्तदारुणस्य परिणामरमणीयत्वं विधेः जीवतु । हिमसङ्गशीतलैस्तवावयवैमा प्रियसखीं च जीवयेत्यर्थः । आलिङ्गनदानादिति भावः॥१८॥इतरे। प्रियसखि, मनोरथातिक्रान्तदर्शने,संभावयास्मान्परिष्वोण ॥ मालती । हा प्रियसख्यौ ॥ कामन्दकी। किमेतदिति माधवमकरन्दो प्रति प्रश्नः। अथ तयोरिदमुत्तरम्-भगवति, कपालकुण्डलेति । दुर्जातं मालत्य. पहरणवृत्तान्तरूपं तजनितापदो वयं कृच्छ्रादनपायानिर्बन्धादतिप्रयत्नादुद्धृताः ॥१९॥कामन्दकी। अघोरघण्टे माधवेन निहते सति यत्तदन्तेवासिन्या माषवं प्रत्यपकाररूपो मालतीहरणद्वारा व्यापारस्त तिकलापोरघण्टवधविजृम्भितमिति ॥ लवङ्गिकामदयन्तिके । अहो आश्चर्यम् । पुनरुक्तदारुणस्य परिणामरमणीयलं विधेः । पुनरुक्तमिव पुनरुक्तं पुनःपुनर्मालतीहरणम् । परिणामरमणीयलं चान्ते. ऽक्षतमालतीलामेन ॥ सौदामिनी । अन्तेवासीजन इत्यात्मनः पुंलिङ्गनिर्देशा. ।

२४० मालतीमधिवे .. कामन्दकी-अये, भद्रम् । सौदामिनी । माधवमकरन्दौ-कथमियं सा भगवत्याः पक्षपातस्थानमाद्य- शिष्या सौदामिनी । यतः सर्वमधुना संगच्छते । कामन्दकी- एोहि भूरिवसुजीवितदानपुण्य- संभारधारिणि चिरादसि हन्त दृष्टा । दत्तप्रमोदमभिनन्दय मे शरीर- मालिन्य सौहृदनिधे विरम प्रणामात् ॥ २० ॥ अपि च। वन्द्या त्वमेव जगतः स्पृहणीयसिद्धि- रेवंविधैर्विलसितैरतिबोधिसत्त्वैः । यस्याः पुरा परिचयप्रतिबद्धबीज- मुद्भूतभूरिफलशालि विजृम्भितेन ॥ २१ ॥ मदयन्तिकालवङ्गिके-ई सा अजा सौदामिणी । १. इयं सार्या सौदामिनी । कपालकुण्डलागृहीतमालतीपरित्राणरूपमात्मनः पुरुषार्थसाधकवं सूचयति । चिरंतनः प्रथमाप्तदीक्षः सिद्धमन्त्रेणाचार्येण प्रथमप्रकृष्टमन्त्र प्रकृष्टशिष्यभावादि- त्याशयः ॥ माधवमकरन्दौ । कथंशब्द आश्चर्ये । पक्षपातस्थानं स्मारयति पूर्वविष्या सौदामिनीति । खतन्त्रेषु स्थानेषु सौदामिनीस्मरणाद्यत्सर्वमिदं मालती- विपत्प्रतीकारव्यापाररूपमेतत्सर्व संगच्छते संगतं भवति । युज्यत इत्यर्थः ॥ एोहीति । भूरिवसुजीवितदानेन यः पुण्यसंभारस्तद्वारेण । जीवितदानं च माल- तीभूरिवसुविपन्निवारणद्वारम् । हन्त हर्षे । तदीदृशगत्यन्ताभीष्टद्वयसंपादनेन दत्त. प्रमोदमपि मद्वपुरालिङ्गनेनानन्दय । प्रणामाद्विरम । खमेव जीवितदायिखेनानुगु- णोत्कर्षेण च प्रणम्या मयेत्याशयः । 'गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः' इत्यादिवचनात् ॥ २० ॥ एतदेवोत्तरश्लोकेन व्यक्तीकरोति-वन्येति । एवंविधैः परोपकारफलैर्विलसितैर्व्यापारैरतिबोधिसत्त्वैरतिक्रान्तबोधिसत्त्वैः । मनो. गतागमेषु ब्रह्ममायापीह बोधसद्भन्थेन कथिता(2)जीवितव्ययेनापि परार्थसाधनक- व्यापारस्यैर्विलसितैस्वमेव वन्द्या जगतः। तन्मम वन्दनाद्विरमेत्यर्थः । स्पृहणीयां सिद्धिर्यस्याः सा तादृशी मन्त्रसिद्धिरस्माकमपि स्पृहणीया । यस्यास्तव विजृम्भि- वेनेदशव्यापारेण तद्वीजं मालतीमाधवतरुप्रताननिधानमद्भुतप्रचुरफलशाल्यभूदि- दशमोऽङ्कः । २४१ मालती-बाढम् । इमाए क्खु भअवदीसंबन्धपक्खवादिणीए णि- ब्भच्छिअ कवालकुण्डलं अत्तणो आवसहं उवणीअ आसासिदम्हि । किं अ केसरावलीसाभिण्णाणहत्थाए इह आगत्तूण सवे तुम्हे संधारिदा। इतराः-सुप्पसण्णा णो कणिट्ठा भअवदी। मकरन्दमाधवौ-अहो नु खलु भोः । अपि चिन्तामणिश्चिन्तापरिश्रममपेक्षते । इदं त्वचिन्तितं मन्ये कृतमाश्चर्यमार्यया ॥ २२ ॥ सौदामिनी-(खगतम् ।) हन्त, लज्जयति मामत्यन्तसौजन्यमे- तेषाम् । (प्रकाशम् ।) भगवति, एतत्प्रहृष्टनन्दनाभिनन्दितेन राज्ञा पद्मा- वतीश्वरेण भूरिवसोः प्रत्यक्षमभिलिख्य पत्रमायुष्मतो माधवस्य प्रेषि- तम् । (लेख्यमर्पयति ।) कामन्दकी (गृहीला वाचयति ।) 'खस्त्यस्तु वः । परमेश्वरः समाज्ञापयति यथा, श्लाघ्यानां गुणिनां धुरि स्थितवति श्रेष्ठान्ववाये त्वयि प्रत्यस्तव्यसने महीयसि परं प्रीतोऽस्मि जामातरि । १. बाढम् । अनया खलु भगवतीसंबन्धपक्षपातिन्या निर्भर्त्य कपालकु- ण्डलामात्मन आवसथमुपनीयाश्वासितास्मि । किंच केसरावलीसाभि- ज्ञानहस्तयेहागत्य सर्वे यूयं संधारिताः । २. सुप्रसन्ना नः कनिष्ठा भगवती । त्यर्थः। कीडग्बीजम् । पुरा काले विद्यापरिग्रहसमये प्रीतिबन्धोऽवश्यमावाभ्यामपत्य- संबन्धः कार्य इति प्रतिज्ञारूपो मम समक्षं स संबन्धोऽद्यतनतत्तागृतेन निस्ताररू- पेण स्यादित्याशयः॥२१॥ मालती। बाढम् । सौदामिनीयमेवेत्यर्थः । अनया खलु भगवतीसंबन्धपक्षपातिन्या निर्भय॑ कपालकुण्डलामात्मन आवसथमुपनीयाश्वासि- तास्मि । केसरावलीसाभिज्ञानहस्तयेहागत्य सर्वे यूयं संधारिताः रक्षिता मरणादमी बन्धुजना इत्यर्थः ॥ इतराः। सुप्रसन्ना नः कनिष्ठा भगवती ॥मकरन्दमाधवौ। अहोशब्द आश्चर्य । भोः संबुद्धौ ॥अपीति । चिन्तामणिरपि प्रार्थकस्य चिन्तारूपं परिश्रममपेक्षते। इदं तु मालतीप्राणत्राणरूपम् । तत्कथं मयाऽचिन्तितं तथाप्यार्यया कृतं तदन्येन कल्पद्रुमादिनाप्यकृतम् । अत एवाश्चर्यम् ॥ २२ ॥ सौदामिनी । एतल्लवङ्गिकादीनां संतोषणमित्याशयः। मदयन्तिकायास्तु भर्तृप्राप्तिसंदेशेन हर्ष निमित्तम्॥श्लाघ्येति । जामातरीत्युक्तिबीजम् । 'प्रभवति निजस्य कन्यकाजनस्य महाराजः' इति भूरिवसुवचनसंप्रत्ययेन, मालत्यां निजकन्यकाबुद्धिरेव प्रगुणे २४२ मालतीमाधवे तेनेयं मदयन्तिकापि भवतः प्रीत्यै तव प्रेयसे मित्राय प्रथमानुरागघटिताप्यस्माभिरुत्सृज्यते ॥ २३ ॥ (माधवमुद्दिश्य सहर्षम् ।) वत्स, श्रूयताम् । माधव: श्रुतम् । इदानीं सर्वथा कृतार्थोऽस्मि । मालती-दिडिआ एवं वि दाव अवगदं हिअअस्स सङ्कासल्लं । लवङ्गिका-संपदं णिरवसेसं पूरिआ माहवसिरिणो मणोरहा । मकरन्द:-(पुरोऽवलोक्य ।) कथमवलोकिताबुद्धरक्षिते कलहंसश्च दूरतः समागतानस्सान्वीक्ष्य तत्रैव हर्षनिर्भरं नृत्यन्त इत एवागच्छन्ति । (ततः प्रविशतोऽवलोकिताबुद्धरक्षिते कलहंसश्च ।) ते-(विविधं नृत्यं कृत्वा सर्व उपसृत्य सप्रमाणं कामन्दकी प्रति ।) जअ भअवदि कजणिहाणे । (माधवं प्रति ।) जअ मअरन्दणन्दण माहव पुण्णचन्द, दिहिआ वड्डसि । (सर्वे सस्मितं पश्यन्ति ।) १. दिष्ट्या एतदपि तावदपगतं हृदयस्य शङ्काशल्यम् । २. सांप्रतं निरवशेषं पूरिताः श्रीमाधवस्य मनोरथाः । ३. जय भगवति कार्यनिधाने । जय मकरन्दनन्दन माधव पूर्णचन्द्र, दिष्टया वर्धसे । निरस्तविपदि महाकुले जामातरि बयि प्रीतिरुचितेत्याशयः । तेन हेतुना पूर्वानु- रागेण प्राणानयनरूपेन योजितापि तव प्रीत्यर्थे तव मित्राय मकरन्दायास्माभिर्दीयत इत्यर्थः ॥ २३ ॥ माधवमुद्दिश्य कामन्दकी वदति-श्रूयतामिति ॥ माधवः। निखिलार्थ इति शेषः। नृपतिनन्दनादिना सर्वथा कृतार्थोऽस्मीत्यर्थः ॥मालती। दिष्ट्या, एतदपि तावदपगतं हृदयस्य शङ्काशल्यम् ॥ लवङ्गिका । सांप्रतं निरवशेष पूरिताः श्रीमाधवस्य मनोरथाः। प्राकृते पूर्व निपातस्यानियमतया श्रीश- ब्दस्योत्तरनिपातलक्षणं भवति । कार्यनिधानशब्दादा प्रत्ययेन निधानसंबन्धरूपं सर्व कार्यजातं खयैकया निष्पादितमिति खमेव कार्याणां निधिः । जय मकर- न्दनन्दन माधव पूर्णचन्द्र । मकरन्दस्य मदयन्तिकालाभादपि माधवस्य मालती- लाभ एवातिशयानन्द इति मकरन्दनन्दनले वाचोयुक्तिः । पापवृद्धिपक्षपर्यन्त. खेन पूर्णश्चन्द्रः । संप्राप्ताखण्डमनोरथतयास्य पूर्णचन्द्र खोक्तिः । दिल्या वर्षसे । सस्मितं पश्यति । तेषां प्रमोदनृत्तमिति शेषः। भगवत्यन्वेवासिन्यवलोकिता तुला- ।

दशमोऽङ्कः। २४३ लवङ्गिका-तंदीअकजं वि अ एतस्सि संपूरिदम् । अदो सबप्पआरमहूसवे णच्चइ । कामन्दकी-एवमेतत् । अस्ति वा कुतश्चिदेवंभूतं महाभुतं विचित्ररमणीयोज्ज्वलं प्रकरणम् । सौदामिनी-इदमत्र रामणीयकं यदमात्यभूरिवसुदेवरातयो- श्चिरात्संपूर्णोऽयमितरेतरापत्यसंबन्धरूपो मनोरथः । मालती-(खगतम् ।) तं कहं विअ । मकरन्दमाधवौ-(सकौतुकम् ।) भगवति, अन्यथा वस्तु प्रवृ- तम्, अन्यथा वचनपर्यायः । लवङ्गिका—(जनान्तिकम् ।) भैअवदि, किं पडिवज्जिदवं । कामन्दकी-(खगतम् ।) संप्रति मदयन्तिकासंबन्धेन नन्द- नावग्रहात्प्रत्यस्तशङ्काः खलु वयम् । (प्रकाशम् ।) वत्सौ, न खल्व- १. तदीयकार्यमपि चैतस्मिन्संपूर्णम् । अतः सर्वप्रकारमहोत्सवे नृत्यति । २. तत्कथमिव । ३. भगवति, किं प्रतिपत्तव्यम् । तीति सस्मितले हेतुः । अत एव लवनिकाह-लवङ्गिका । तदीयकार्यमपि चैतस्मिन्संपूर्णम् । अतः सर्वप्रकारमहोत्सवे नृत्यति ॥ कामन्दकी । एवमेत- द्यथा लवङ्गिका वदति । अस्ति वा कुत्रापीदृशं प्रकरणं महोत्सवप्रकरणम् । कवेराशयस्वयम् । अस्ति वा कुत्रचित्केनापि कविना निर्मितमेवंविधं मालती- माधवसदृशं महाद्भुतरसजनकोत्पाद्यार्थ विचित्ररमणीयं विविधसंनिवेशमनोहर- मुज्वलममृतरसवत्सगुणं सालंकारं चेति । अत्रेदानी कविना मुखसंधिसूचित: सर्ववस्तुजातं निर्वहणसंधौ प्रतिसंधत्ते । यथा वास्मत्सौदामिनीसमक्षमनयो. भूरिवसुदेवरातयोः प्रवृत्तेयं प्रतिज्ञावश्यमावाभ्यामपत्यसंबन्धः कर्तव्य इति सूचितं तत्सौदामिनीवचनसंनिवेशेनैव निर्वहणे प्रतिसंहितम् ॥ मालती । तत्क- थमिवात्र रमणीयमिति । कथमिव हि मत्पितृभूरिवसुदेवरातयोरेवं विधपरिणा: मप्रकार इत्याशयः ॥ मकरन्दमाधवौ । यद्वस्तु यत्पाणिग्रहणरूपं तदन्यथा प्रवृत्तं संपनम् । अन्यथा वचनपर्यायो वचनक्रमवाप्रकट इत्यर्थः ॥ लवनिका। भगवति, प्रतिपमामिदानी निगूढं वाक्यतत्त्वं च भवति प्रकटवचनात् । प्रवृत्ति- कृतं तत्किं कर्तव्यमित्याशयः ॥ कामन्दकी । तथैव जनान्तिकमेव वदतीति शेषः । नन्दनस्यानुकूल्यं मदयन्तिकामकरन्दसंबन्ध एव निमित्तमित्याशयः । प्रत्यवश निशाः । अन्यथा वख प्रवृत्तमिवि माधवमकरन्दाभ्यामुळं तदुत्तरं प्रकाशं वदति-पत्साविति । न खस्विति च । श्रावकदृक्षाः २२ माल.

२४४ मालतीमाधवे न्यथा वस्तु प्रवृत्तम्, अन्यथा वचनमस्याः । यतः श्रावकावस्थाया- मस्सत्सौदामिनीसमक्षं तयोः प्रवृत्तेयं प्रतिज्ञावाभ्यामपत्यसंबन्धः कर्तव्य इति । प्रधानप्रकृतिकोपस्त्वेवं परिहृतः । मालती-अहो संवरणम् । मकरन्दमाधवौ-(साश्चर्यम् ।) जयन्ति खलु महतां विसंवा- दिन्यः प्रत्यायिन्यः कल्याणा नीतयः । कामन्दकी-वत्स, यत्प्रागेव मनोरथैर्वृतमभूत्कल्याणमायुष्मतो- स्तत्पुण्यैर्मदुपक्रमैश्च फलितं क्लेशैश्च मच्छिष्ययोः । निष्णातश्च समागमोऽपि विहितस्त्वत्प्रेयसः कान्तया संप्रीतौ नृपनन्दनौ यदपरं प्रेयस्तदप्युच्यताम् ॥ २४ ॥ माधव:-(सहर्षम् ।) अतः परं मम प्रियमस्ति तथापीदमस्तु भरतवाक्यम्- १. अहो संवरणम् । यामुपदेशसमये प्रीत्या परिग्रहाय नानादिगन्तवास्तव्यजनसाहचर्यमासीदिति ॥ सौदामिनीसमक्षमिति । तेन सौदामिन्येवात्र साक्षिणी । यद्यथा वस्तुव्या. पाराभ्यां तस्य संनिधानमेव तत्प्रियकरत्वेन । इयं तु विपत्प्रतीकारं कृतवतीत्या- शयः । अवश्यमावाभ्यामपत्यसंबन्धः कर्तव्य इत्यात्मनः प्रवृत्तिसमयनिश्चित कुटनीभावं समस्तलोकसमक्षपरिमृतं पृच्छति । अनेनैव साक्षात्प्रतिषेधः कोपाय । शिवस्वयमुपाय इति निर्वहणार्थ स्मारयति ॥ मालती। अहो संवरण- मिति । अहो अत्युक्तो । संवरणं हि तद्विशेषतस्तु बालबादित्यादि प्रविसंहि- तम् ॥ मकरन्दमाधवी । विसंवादिन्यो विप्रलम्भकाः । प्रत्यायिन्यः प्रत्यय- युक्ताः । प्रत्ययशब्दस्य प्रभावपर्यायवात्प्रभावश्च दुर्घटोऽपि कार्यस्य झटिति संघटनेनोग्नेयः । कल्याणाः शुभाः । जयन्तीति च स्तुती च कथं भवत्याः सुमे. धसो नीतिविपर्यस्यते । मुखसंधिसूचितमनुसंधेयम् ॥ कामन्दकी-यत्प्रा. गेवेति । कल्याणं करग्रहणरूपं पुण्यैः प्रागाचरितैरारादेवोपकारकैर्मदुपक्रमैः संनिपत्योपकारकैर्मम बुद्धिव्यापारैः करणभूतैस्तकल्याणं फलितम् । तथा मच्छिष्य. यो रिवसुदेवरातयोरभिमतं पाणिग्रहणं स्यादित्येवंरूपचिन्ताजन्यमेदाः फलिताः । तत्त्वत्प्रेयसो मकरन्दस्य कान्तया मदयन्तिकया यह निष्णातो निपुणः समागमो विहितः कृतः । तथा प्रत्येयो राजनन्दनाविति यो प्राक्चिन्ति तो तो दशमोऽङ्कः। २४५ शिवमस्तु सर्वजगतां परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु शान्ति सर्वत्र सुखी भवतु लोकः ।। २५ ।। कामन्दकी-एवमस्तु । (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे दशमोऽ। वः संप्रीती संजातप्रीतिसंयुक्तौ अतः परं प्रियतरं किमस्ति तदप्युच्यताम् । साधयामि इत्यादिपदैः क्रमेण विप्रादिशुदपर्यन्ताश्व चखारो वर्णा आशंसा- विषयाः (१) ॥ २४ ॥ २५ ॥ शबरखामिप्रीत्या प्रकरणरत्नाकरे तु भवभूतेः । सारोद्धारे मन्दरमकृत कृती व्याकृति नान्यः ॥ अतिदुस्तरोऽल्पमतिना पावनकर्मप्रसादनो हि मुदा । हारे हार व्याख्यामाश्रित्य प्रकरणोदधिस्तीर्णः॥ इति श्रीशिलाभट्टीयान्वयश्रीहरिचन्द्रसूनोत्रिपुरारिपदाम्भो- जभृङ्गायमानमानसस्य श्रीनान्यदेवस्य कृतौ मालती- माधवीयटोकायां दशमाङ्कविवरणम् ॥

No text on this page.

मालतीमाधवस्य जगद्धरकृतटीकानुरोधतः पाठान्तराणि । पृष्टानि । १-१० 'सानन्दम्-' इति श्लोकः ॥ १ ॥ 'चूडापीड' इति जगद्धरकृता टीका। चश्च चन्द्रिकचन्द्रचारुकुसुमो माद्यजटापल्लवो दृप्यद्दारुणदन्दशूकमणिमस्तित्पश्चशाखालयः । स्थाणुर्मे फलदो भवलतितरां गौरीमुखेन्दुद्रव- त्पीयूषवदोहदादिव दधद्देवद्रुमलं सदा ॥ नला गुरुन्गुणगुरूनवलोक्य टीका विश्वादिकोषभरतश्रुतिशब्दविद्याम् । छन्दांस्यलंकरणमर्थगतिं विचिन्य श्रीमाजगद्धरकृती वितनोति टीकाम् ॥ श्रीकण्ठकण्ठविलुठत्पटुनाटकेऽस्मि- टीका मयाल्पमतिनापि वितन्यते यत् । हासाय दुर्जनगणस्य भवेन चैत- दुच्चैः पदं यदभिकाहति सर्व एव ॥ इह तावदष्टपदां नान्दी विदधान एव कविरप्रत्यूहमीहितसिद्धिमनुरुध्य प्रच. ण्डचण्डीपतेरकाण्डताण्डवाडम्बरेण लम्बोदरोत्कीर्तनरूपं मङ्गलं प्रकरणादौ निब. नाति-सानन्दमित्यादि । वैनायक्यो वदनविधुतयश्चिरं वः पान्तु । गजान- नाननचालनानि युष्मान्बहुकालं रक्षन्वित्यर्थः । इति श्रोतृन्सामाजिकान्कवि- राशास्ते । वदनविधूनने कारणमाह-फणिपती वासुकिनागे नासापरन्धं नासिका- प्रविवरं सानन्दं विशति सति । नासात्र विनायकस्यैव । त्रस्तस्य झटित्यपरन्ध्र- प्राप्त्या जीवनप्रत्याशयानन्द इति भावः । अत एव प्रवेशानन्तरमानन्द इति कथं क्रियाविशेषणमिति दोषानवकाशः । अपरन्ध्रस्य शीघ्रं प्राप्त्यैवानन्दातिशयात् । यथा भीतस्य शीघ्रं भवनादिप्राप्ती हर्षः । यद्वा सानन्दं यथा तथा पान्विति योज्यम् । यद्वा सानन्दमित्याहतविशेषणम् । सापेक्षखेऽपि गमकखात्समासः । क्रियाविशेषणलादेव सानन्दमित्यत्र कर्मखैकत्वक्लीवलानि । इह नासारन्ध्रमिति वक्तव्येऽप्रग्रहणं त्रस्तस्य झटिति प्राप्त्या हर्षसूचनाय । यद्वा रन्ध्रप्रवेशेऽप्रप्रवेश. स्यार्थसिद्धस्यापि शब्देन कीर्तनादुक्तिपोष एवायमलंकारः । यदाह दण्डी- 'उक्तिपोषः । कचिदाक्षेपलब्धस्य साक्षाच्छन्देन कीर्तनात् ॥' इति । कीडशे फणिपतौ । भोगः फणा कायो वा तस्य संकोचोऽविकासस्तं भजतीति भोगसं. -- २ जगद्धरकृता । । कोचभाक् तस्मिन् । विवरानुसरणे भोगिभोगसंकोच इति जातिनियमः । तद- नेन महाकायस्य नासामप्रवेशयोग्यतोका । प्रवेशे हेतुमाह-शूलपाणेः शिवस्य ताण्डवे नृत्ये सति नन्दी गणभेदस्तस्य हस्तेनाहतस्य ताडितस्य मुरजस्य मर्दलस्य रवेश शब्देनाहूतो यः कौमारवहीं कार्तिकेयमयूरतस्य त्रासाद्यात् । अत्र नन्दिहस्ताहतलेन मुरजस्य गभीरताररवशालिता दर्शिता । मयूरस्य भुजंग• भोजित्वेन त्रासकलम् । विधुतयः किदृश्यः । गण्ड उड्डीनाभिरूवं गताभिरलि- मालाभिधमरपतिभिर्मुखरिताः सशब्दीकृताः ककुभो दिशो याभिस्ताः । तथा चीत्कारो भीतकरिणां त्रासध्वनिस्तत्सहिताः विनायकस्य गजाननखात् । इह साहित्यमानं मवर्थः । तथा च भयान्मुखे विधूननचीत्कारौ युगपवृत्ताविति भावः । जातिरलंकारः। विधुतेरचेतनलेऽपि देवतानुभावादेव रक्षणकर्तृवम् । अत एव त्रस्तस्यापि तत्कर्तृत्वम् । इह गम्भीरमुरजरवश्रुतिकृष्टमयूरभयेन फणिनां 'विवरानुसरणं जलदकालचिह्नम् । अत एव जलदकालमनुभाव्यैवैतत्प्रकरण- त्तान्त इति ध्वनितम् । तथा च वक्ष्यति-धारासिक्तवसुंधरासुरभयः' इत्यादि । मुरजघातेन वाद्यम् , अलिमालया दिशा मुखरीकरणेन गीतम्, वदनविधूननेन नृत्यं च सूचयता तौर्यत्रिकमुक्तम् । चीत्कारेण नृयतः प्रव्यक्तपाठोऽपि सूचितः । 'कुमारः क्रौञ्चदारणः' इत्यमरः । कुमारस्येदं कौमारम् । 'तस्येदम्' इत्यण् । 'मयूरो बर्हिणो बहीं नीलकण्ठो भुजङ्गभुक्' इत्यमरः । 'नासा नाशा तु नासिका' इति शब्दभेदः। 'भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः' इति विश्वः । उड्डीन इति उत्पूर्वाड्डीधातोः कः । 'ओदितश्च' इति चकारानखम् । 'प्रडीनोड्डी- नसंडीनान्येताः खगगतिक्रियाः' इत्यमरः । 'दिशस्तु ककुभः काष्ठाः' इति च । 'ताण्डवं नटनं नाव्यं लास्यं नृत्यं च नर्तने' इति च । 'विनायको विघ्नराजद्वैमा- तुरगणाधिपाः' इति च । विनायकस्येदं वैनायक्यम्। तस्येदम्' इत्यण् । टिड्डाणञ्-' इति लीम् । विधुतिरिति विपूर्वाद्धुत्रः स्त्रियां तिन् ॥१॥ नाटकादौ प्रवृत्तिः प्रेक्षावतां सप्रयोजना । यदाह भरतः-'न तज्ज्ञानं न तच्छिल्पं न सा विद्या न ताः कलाः । नासौ नयो न तत्कर्म नाटके यन दृश्यते ॥' नाटके विघ्नविघाता- यादौ नान्दी कार्या । यदाह भरतः-'यद्यप्यङ्गानि भूयासि पूर्वरङ्गस्य नाटके। तथाप्यवश्यं कर्तव्या नान्दी विघ्नप्रशान्तये ॥' नान्दीलक्षणं च भरते-'देव. द्विजनृपादीनामाशीर्वचनपूर्विका । नान्दी कार्या बुधैर्यनान्नमस्कारेण संयुता ॥ गङ्गा नागपतिः सोमः खधानन्दो जयाशिषः । एभिर्नामपदैः कार्या नान्दी कविभिरङ्किता ॥ प्रशस्तपदविन्यासा चन्द्रसंकीर्तनान्विता । आशीर्वादपरा नान्दी योज्येयं मङ्गलान्विता । काचिद्वादशपदा नान्दी काचिदष्टपदा स्मृता । सूत्रधारः पठेदेना मध्यमं खरमास्थितः ॥ चन्द्रसंकीर्तनं यत्र तदधीनो रसो. तमः । प्रीते चन्द्रमसि स्फीता रसश्रीरिति भालुकिः' ॥ तत्र केचनपदं विभक्त्यन्तमास्थिषत । केचित्त्विदंपदस्य भागमूचिरे । तदिह द्वितीयपक्षनिक्षे. पेण पद्यद्वयेनाष्टपदा नान्दीति । बहुविनशक्या तमाशाय पुनर्मगलमाचरन- पदां नान्दी निर्वाहयति-चूडापीडेत्यादि । भूतेशस्य हरस्य जटास्त्री मालतीमाधवटीका। श्लोकः ॥२॥ (नान्द्यन्ते।) सूत्रधार: अलमतिविस्तरेण। सभाप्रधानं पान्तु । कीदृश्यः। चूडायां शिखायां य आपीडस्तिर्यनद्धमाला तस्याः कपालैः शुष्कशिरोस्थिपिण्डः संकुलं व्याप्तमत एव गलन्मन्दाकिनीवारि गङ्गाजलं यासु ताः । माला चेह कपालानामेव । यद्वा येषां कपालानि तेषाम- न्यैर्जवाजान्वायस्थिभिराभरणार्थ तिर्यमाला । तत्संबद्धानि कपालानीत्यर्थः । तथा विद्युत्प्रायं विद्युनिभं यल्ललाटलोचनपुटं ललाटस्थनेत्रसंपुटं तत्तेजसा विमिश्रा मिलिता खिद् प्रभा यासां ताः । अत्र पुटमध्यस्थस्य समस्तनेत्रभागस्य तेजो. मयता पुटपदेनोक्ता । तथाकठोरया कोमलया संपूर्ण या वा केतकबिखया केत- कीकुसुमाग्रेण संदिग्धः संशयितो मुग्धो रम्यो बालो वेन्दुर्यासु ताः । हरशिरसि कि केतकशिखेयमित्यनौचिती। तदयं संशयोऽप्यनीचित्यमूलक एवेति भावः । तथा भुजङ्गाः सर्पा एव वल्लयो लतास्ता एव वलया मण्डलाकारेण स्थिताः सनः पुष्पमालास्ताभिर्नद्धो बद्धो जूटो जूलको निबद्धस्रज ऊर्श्वभागो यासु ताः । तदनेन जटाजूटस्थानवरतनानकपिशस्यापि भुजङ्गनद्धतया तिरोहितरूपत्वेनाति- श्यामलेन मेघोदयमत एव सर्पविहरणसूचनम् , गङ्गाजलगलनेन वर्षणम् , कपालमालया बलाकावलिम्, ललाटनेत्रलिषा विधुदुद्दयोतम् , शिशुशशिना च केतकशिखावत्त्वं दर्शयता मदनमदोद्दीपनमुदिरमेदुरधनसमयसूचनेन शृङ्गा- ररसशालिताप्यस्य प्रकरणस्य कटाक्षिता । अचेतनाया जटाया रक्षकलं देवता- नुभावादवधेयम् । वल्लिवलयस्रगित्यत्र रूपकनामालंकारः । यत्र मिथोऽपेक्षा तत्र अपि चेति प्रयुज्यत इति व्युत्पत्तिः ॥ २॥ नान्द्यन्त इति । उक्तलक्षणं नाटकाचं पद्यं नान्दी । आशीर्योगादिना नन्दयतीति नन्दः । पचायच् । नन्द- एव नान्दः । प्रज्ञादिखादण्प्रत्ययः । 'टिड्डाणञ्-' इति डीप् । नान्दी । सूत्र- धारलक्षणं च भरते-'नाट्यस्य यदनुष्ठानं तत्सूत्रं स्यात्सबीजकम् । रङ्गदैवत. पूजाकृत्सूत्रधार उदीरितः ॥ इति । ननु नान्द्यन्ते सूत्रधार इत्यसंगतम् । न हि नान्दीपाठानन्तरं सूत्रधारो रङ्गभूमि प्रविशति । किंतु प्रविश्य पठति । न वान्येनैव पठनीया। सूत्रधारपठनीयलेनैव नान्द्या उक्तखात् । 'सूत्रधारः पठेन्नान्दी मध्यम खरमास्थितः' इति वचनात् । उच्यते । नान्दी पठिला सूत्रधारः प्रविशति पठति वा। नान्यन्ते सूत्रधारस्यैव श्रुतलेनेयमपि तेनैव पठनीया। प्रथमं सूत्रधारः प्रवि. शतीति नोक्तम् । मङ्गलार्थ देवतानमस्कारादेरेव विधानात् । यद्वा नान्दी ताव- द्रङ्गप्रवेशानन्तरं सूत्रधारेणैव पठनीया । नान्द्यन्ते सूत्रधार इति सूत्रधारसाम्या- स्थापके प्रयोगः । यदाह भरतः-'नान्दी प्रयुज्य निष्कामेत्सूत्रधारः सहानुगः । स्थापकः प्रविशेत्पश्चात्सूत्रधारगुणाकृतिः ॥ पूर्वरजं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमास्थापयेबटः ॥' अत एव केचिनान्यन्ते स्थापक इत्येवं पठन्ति । ननु प्रस्तावनायाः पूर्व बहूनि नाट्याङ्गानि सन्ति तानि किमिति नोक्तानि । यदाह भरतः-'रङ्गप्रसादमधुरैः श्लोकैः काव्यार्थसूचकैः। ऋतुं कंचिदुपादाय भारती वृत्तिमाश्रयेत् ॥ मेदैः प्ररोचनायुवाविप्रहसनामुखैः । सूत्रधारो नटी ब्रूते मारिष वा विदूषकम् । खकार्यप्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् ॥' अत एवाह- 10 जगद्धरकृता (पुरतोऽवलोक्य ।) अये, उदितभूयिष्ठ एव भगवानशेष- भुवनद्वीपदीपकस्तपनः । तमुपतिष्ठे (प्रणम्य ।) 'कल्या- णानाम्-' इति श्लोकः ॥५॥ (नेपथ्याभिमुखमवलोक्य ।) मारिष, सुविहितानि रङ्गमङ्गलानि, संनिपतितश्च भगवतः अलमिति । अयमाशया-पूर्वोक्तान्यजानि न भवन्ति किंतु परिषदोऽभिमुखी- करणानि । सा चेत्खयमेव कृतावधाना नवनाटकविलोकनोत्का च तदन्यत्प्रयुज्य- मानमपि रसभझाय परं भवतीति कृतं तत्प्रणयनेन । अन्यथा सभाया रसविच्छेदो भवेदिति निष्फलतेति । अये इति निपातो व्यासादिनानाकलितस्याकलनेन संभ्रमवाचकः । अकस्मात्सूर्योदयाकलनात् । 'ततः श्लोकं पठेदेकं गम्भीरखरसं- युतम् । देवस्तोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते ॥' इति भरतमतमनुसृत्य माङ्गलि. कतया रङ्गद्वारपाठ्यं श्लोकमुत्थापयति-उदितेति । उदितं भूयिष्ठं बहु यस्य सः। अस्य बहुतरभाग उदितः । किंचिदेवोदयायावशिष्यत इति भावः । अत्र 'नेक्षेदु. धन्तमादित्यम्' इति निषेधादुदितभूयिष्ठ इत्युक्तम् । भगं ज्ञानादिसंपत्तिस्तद्वान् । भगवानित्यर्थः । उपतिष्ठे । श्लोकेनेति शेषः । तदेवाह-कल्याणानामित्यादि । भो विश्वमूर्ते, सर्वमयदेव । दीव्यतीति देवो द्युतिमांस्तादृश। कल्याणानां महसां मालिकानां तेजसां वं भाजनं पात्रमसि । अतः प्रसीद प्रसन्नो भव । मयि मद्वि- षये धुर्या नृत्यधुरंधरी लक्ष्मी संपत्तिमपि भृशमतिशयेन धेह्यारोपय । अथशब्दः समुच्चयार्थः । धेहीति स्थाने देहीति पाठे ददखेत्यर्थः । तथा हे जगन्नाथ भुवनपते, यद्यत्पापमारब्धविरुद्धं नम्रस्य मेऽस्ति तत्प्रतिजहि नाशय । यद्यदिति वीप्सया कायिकवाचिकमानसिकरूपं पापत्रयमुक्तम् । वीप्सा तु न तच्छन्दे कृता। वीप्सितस्यैव तच्छब्देन परामर्शात्तथैव व्युत्पत्तः । क्वचिद्यत्पद इव तत्पदेऽपि वीप्सा । यथा 'यां यां प्रियां प्रेक्षत' इत्यादौ । भद्रमदोषं भद्रमभीष्टं वितर देहि। यद्वा । भद्रं भद्रमतिशयेनाभीष्टं देहीत्यर्थः । किमर्थम् । मङ्गलायाशंसनीयकर्मा- र्थम् । तादर्थे चतुर्थी । मङ्गलाय मानलं कर्तुमिति वा । कीदृशाय । भूयसे प्रचुराय । तदिह हरिहरादीनपास्य भानोरुपस्थानेन प्रकरणनायकस्य ब्राह्मण्यं सूचितम् । अत एव देहीति ब्राह्मणोचिता प्रार्थना । सर्वक्षुद्रसत्त्वक्षयहेतोः प्रभातस्यादरेण प्रकरणकथाबीजसूचनमपि । तथाहि-यद्यदिति वीप्सया शार्दूला- घोरघण्टविमर्दसूचनम् । पापप्रतिघातानन्तरं च भद्रं भद्रमिति वीप्सया खस्य मालतीलामेन मकरन्दस्य च मदयन्तिकालामेनेष्टसिद्धिः सूचिता । भूयो मज- लपदेन कपालकुण्डलापकृतमालतीलाभो विद्यालाभादिकं च सूचितम् ॥५॥ नेपथ्येति । नेपथ्यं रणभूमिः । 'नेपथ्यं रणभूमौ स्यात्' इति विश्वः । 'मान्यो भावेति वक्तव्यः किंचिनयूनस्तु मारिषः' इत्यमरः । मारिष एव मर्षणान्माषः । सूत्रधारोक्तनिर्वाहसहिष्णुरित्यर्थः । सुविहितानि भक्तिश्रद्धाकृ. १ अस्य श्लोकस्य जगद्धरकृतटीकानुक्रमे तृतीयत्वेऽपि पञ्चमत्वप्रकल्पनं त्रिपुरारिकृतव्याख्यानुक्रमेण लोकसंख्यासंमेलनार्थम् । ।

मालतीमाधवटीका। ५ यात्राप्रसङ्गेन कालप्रियनाथस्य नानादिगन्तवास्तव्यो महाजनसमाजः । आदिष्टश्चास्मि विद्वज्जनपरिषदा यथा केनचिदपूर्वप्रकरणेन वयं विनोदयितव्या इति । तत्कि- मित्युदासते भरताः । पारिपार्श्विक:-(प्रविश्य ।) भाव, परिषन्निर्दिष्टगुणं प्रबन्धं नाधिगच्छामः । सूत्र- धार:-मारिष, कतमे ते गुणास्तत्र यानुदाहर- न्त्यायविदग्धमिश्रा भगवन्तो भूमिदेवाश्च । नट: 'भूना रसानाम्-' इति श्लोकः ॥ ६॥ सूत्रधार:- । -- तानि । रजो नृत्यं तदर्थ मजलानि लोकपालपूजादीनि । 'रजो नृत्ये रणक्षितौ' इति. विश्वः । संनिपतितः सर्वत्र आगत्यैकत्र मिलितः । कालप्रियनाथस्य तद्देशदेवमे- दस्य । यात्राप्रसङ्गेनेति नृत्यकालसूचनम् । 'इदं ध्वजमहः श्रीमन्महेन्द्रस्य प्रवर्तते' इत्यभिधानात् । वास्तव्यो वासी । महाजनसमाजो विद्वद्गोष्ठी। उदासत उदासीना भवन्ति । भरता नटाः ॥ पारिपार्विकलक्षणं भरते-'सूत्रधारस्य पार्श्व यः प्रव. चन्कुरुतेऽर्थनाम् । काव्यार्थसूचनालापं स भवेसारिपार्विकः ॥' इति । भाव मान्यनट, परिषदा प्रेक्षकेण निर्दिष्टो गुणो यत्र तं प्रबन्धं प्रकरणम् । प्रेक्षकस्तु-- 'यस्तुष्टे तुष्टिमायाति शोके शोकमुपैति च । क्रुद्धः क्रुद्ध भये भीतः स नाट्ये प्रेक्षकः स्मृतः॥' इति भरतोकः । पूजावाक्यगर्भ प्रश्नमाह-कतम इति । 'गोत्रं नाम च बनीयात्पूजावाक्यं च सर्वतः' इति भरतः । कतमे । कियन्त इत्यर्थः । आर्याः सुकुलादिसंपनाः । यदाह भरत:-'कुलं शीलं दया दानं धर्मः सत्यं कृतज्ञता । अद्रोह इति येष्वेतत्तानान्सिंप्रचक्षते ॥' विदग्धाश्चतुःषष्टिकला. वेदिनः । मिश्रा वेदान्तवेदिनः । भगवन्तः स्मृतिधराः । यदाह-देवाश्च लिङ्गि नश्चैव नानास्मृतिधराश्च ये। भगवानिति ते वाच्याः पुरुषाः स्त्रिय एव च ॥' इति । यद्वा । आराद्याता दूर गता प्राम्यवादिदोषेभ्य इत्यार्याः । विदग्धाः काव्यरसवशमनसः। मिश्राः पूज्याः। पूज्ये मिश्रपदं नित्यं बहुवचनान्तम् । 'मरी- चिमित्रैर्दक्षेण' इति विष्णुपुराणात् । भगवन्तो ज्ञानादिसंपनाः । भूमिदेवा ब्राह्मणाः । इह तत्रोद्धातकरूया प्रस्तावना । यदाह भरत:--'सुप्रतीतं विस्मृतं वा यत्र कार्य प्रकाश्यते । तदुद्धातकमित्याहुः प्रश्नोत्तरमनोहरम् ॥' इति । प्रबन्धे गुणानाह-भूनेति । यत्र प्रबन्धे रसानां शृङ्गारादीनां भूना प्राचुर्येण गहना गम्भीराः सहृदयमात्रप्रायाः प्रयोगाः सन्ति । एतेनास्य रसमयलमुक्तम् । यत्र प्रबन्धे विचेष्टितानि मालतीमाधवादेः परस्सरव्यापाराः सौहार्दैन प्रेम्णा हृयानि. मनोज्ञानि । यत्रौद्धत्यं नायकनायिकासखीमृत्यादिगुणमाहात्म्यमस्ति । कीदृशम् । आयोजितं विहितं कामसूत्रमनाप्रयोगो यत्र तत् । यद्वा । औद्धत्यं निजोत्कर्षपुरः- सरमन्यावज्ञाविष्करणम् । तत्रायोजितस्य समन्तात्कार्याभिमुखीकृतस्स कामय ६ जगद्धरकृता स्मृतं तर्हि । नट:-भाव, किमिव । सूत्रधारः- अस्ति दक्षिणापथे विदर्भेषु पद्मपुरं नाम नगरम् । तत्र केचितैत्तिरीयिणः काश्यपाश्चरणगुरवः पङ्गिपावनाः प- ञ्चामयो धृतव्रताः सोमपीथिनो डम्बरनामानो ब्रह्मवा- दिनः प्रतिवसन्ति स्म । 'ते श्रोत्रियाः' इति श्लोकः ॥७॥ मन्मयेच्छायाः सूत्रं सूचकम् । सूत्रं संभोगः पटारम्भकस्तन्तुर्वा । अनेनात्र कामोद्दीपकतयौद्धयं गुणाय । खाभाविकस्य तस्य भूषणसमिति दर्शितम् । यत्र चित्राश्चर्यजनिका कथा । कल्पितकथलात् रसमयबाचाश्चर्यम् । वाचि बचने विदग्धता परिपाको निर्दोषलं वक्रता च यत्र । एतेनान्यनाटकादस्याधिकगुणवत्त्व. मुक्तम् । तं प्रबन्ध नर्तितुमादिशन्ति । मिश्रा इति शेषः॥ ६॥ नट:-किमिव । कि स्मृतमित्यर्थः । अधुना 'रुणद्धि रोदसी वास्य यावत्कीर्तिरनश्वरी । तावत्किला. यमध्यास्ते सुकृतं वैबुधं पदम् ॥' इति निजनामादिकथनफलमनुरुध्य तदाचरते- अस्तीत्यादि । दक्षिणदेशस्य शृङ्गाररसवशतया तद्देशलेन खस्य तदुभयरसव नशक्तिरुका । विदर्भनित्यनेन वैदर्भीरीतिपरिचयचातुरी दर्शिता । पद्मनगर पद्मावती । नाम प्रसिद्धौ । न तु नामपदमभिधानार्थम् । तदा प्रकृत्यादिलात्तृतीया स्थादित्यवधेयम् । तैत्तिरीयिणः । तैत्तिरीयकनामशाखाविशेषपाठिन इत्यर्थः । काश्यपाः काश्यपगोत्राः। चरणगुरव इति चरणशब्दः शाखाविशेषाध्ययनपरैकता. पभजनसङ्घवाची । तत्र समूहे ते गुरवः क्रिया कृखा वेदाध्यापयितारः। 'स गुरुर्यः क्रियां कृवा वेदमस्मै प्रयच्छति' इति स्मृतेः । यद्वा चरणैः कलापादिभिर्गुरवो महान्तः । पतिपावनाः पङ्को भोजनादिगोठ्या पावना अप्रभोजिनः पवित्रा वेत्यर्थः । यद्वा यजुषां पारगो यस्तु साम्नां यश्चापि पारगः । अथर्वशिरसोऽध्येता ब्राह्मणः पति- पावनः ॥' इति लक्षिताः । पञ्चामयो दक्षिणाग्निगार्हपत्याहवनीयसभ्यावसथ्यरूपा- मिपञ्चकोपासकाः । धृतव्रताश्चान्द्रायणादिव्रतयोगिनः। सोमपीथिनः सोमो लतावि. शेषो हुतशेषो वा तत्पायिनः । अनेन सोमयागयाजिखमुक्तम् । डम्बरनामानो डम्बरमुत्कर्षसूचकं कुलनाम येषां ते । यद्वा डम्बरं प्रसिद्ध नाम येषां ते । 'प्रसिद्धौ डम्बर विदुः' इति विश्वः । ब्रह्मवादिनः । वेदज्ञा इत्यर्थः ॥ त इत्यादि । कथितरूपाः श्रोत्रियाश्छन्दोध्येतारः जन्मादिसंपन्ना ब्राह्मणा वा । भूरि प्रचुरम् । शाश्वतं सार्वकालिकम् । श्रुतमध्ययनमाद्रियन्ते श्रद्दधति । यद्वा शाश्वतं नित्यागमं वेदाज्यमाद्रियन्ते । कीदृशम् । भूरि श्रुतं बहुभ्यो बहुधा बहुभिः सहाभ्यस्त्रम् । किमर्थम् । धर्मस्य कर्तव्याकर्तव्यरूपस्य विनिश्चयाय निर्णयाय । वैदिककर्मणि निर्णयादेव प्रवृत्तरिति भावः । 'श्रोत्रियंश्छन्दोऽधीते' इति पाणिनिसूत्रम् । 'जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया याति विप्रलं त्रिभिः श्रोत्रिय उच्यते ॥' इति स्मृतिः । शाश्वतमित्यत्र कालादुभं बाधिला 'शाश्वते प्रतिषेध' इति भाग्यवचनादण् । तथा तेऽर्थान्ध- जानिगते बाय कर्मणे यागादिकार्यार्थम । पूर्ताय कर्मणे खातादिका- मालतीमाधवटीका। तदामुष्यायणस्य तत्रभवतः सुगृहीतनानो भट्टगोपालस्य पौत्रः पवित्रकीर्तेर्नीलकण्ठस्यात्मसंभवो भट्टश्रीकण्ठपद- लाञ्छनो भवभूतिनामा जातूकर्णीपुत्रः कविर्निसर्गसौ- हृदेन भरतेषु खकृतिमेवंप्रायगुणभूयसीमस्माकमर्पित- वान् । यत्र खल्वियं वाचोयुक्तिः । 'ये नाम- र्यार्थम् । यागादीनां धनसाध्यतया तेषां तदादरो न तु भोगायेति भावः । दारा- पत्नीराद्रियन्ते । अपत्याय संतत्यर्थं न तु कामायेत्यर्थः । त आयुर्जीवनमाद्रियन्ते। तपोर्थ तपश्चरणार्थ न तु व्यसनार्थम् । क्लेशबहुलं धर्म्य कर्म तपः । तदनेन तेषी सर्वगुणवत्त्वं दर्शितम् । 'भूयिष्ठं स्फार भूयश्च भूरि च' इत्यमरः । 'अथ ऋतुकर्मेष्टं पूत खातादिकर्म यत्' । 'दाराः पुं भूम्नि च' इति च । विनिश्चयायेत्यादौ तादर्थे चतुर्थी ॥ ७ ॥ अत्र कुले जात आमुष्यायणः । तत्रभवतः पूज्यस्य । सुगृहीतं शोभनोच्चारणं बलिकर्णादिवन्मङ्गल्यं नाम यस्य । भश्चतुःशाखाभिज्ञः। पवित्रा पुण्या कीर्तिर्यस्य । तस्यात्मसंभवः पुत्रः । श्रीः सरस्वती कण्ठे यस्य स श्रीकण्ठः। तद्वाचकं पदं लाञ्छनं चिह्न यस्य सः नाना श्रीकण्ठः । प्रसिद्ध्या भवभूतिरित्यर्थः । 'श्रीर्वेशरचनाशोभाभारतीसरलद्रुषु' इति मेदिनीकारः । जतू- कर्णगोत्रप्रसूता जातूकी तस्याः पुत्रः। निसर्गसौहृदेन साहजिकसौहार्दैन । ननु 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयवृद्ध्या सौहार्दमिति स्यात् । उच्यते । हृदित्यादौ प्रतिपदोक्तस्य ग्रहणात् 'हृदयस्य हृलेख-' इति हृदादेशस्यादिवृद्धिः । यद्वा 'संज्ञापूर्वको विधिरनित्यः' इति वचनादुभयपदवृद्धरनित्यत्वम् । यद्वा 'सुहृद्दुहृदो मित्रामित्रयोः' इति निपातस्य सुहृच्छब्दस्यावयवो हृच्छब्दस्तदन्तो. त्तरपदवृद्धिर्भवति । एवंप्रायगुणभूयसीं 'भूनां रसानाम्' इत्यादिप्रायैर्गुणैरुपचि. तामर्पितवान्प्रयोगतोऽर्थतश्च संक्रमितवान् । खलु प्रसिद्धौ वाक्यभूषायां वा । वाचोयुक्तिर्वचनरचनम् । 'वाग्दिक्पश्यन्यो युक्तिदण्डहरेषु' इति षष्ठ्यलक् । संप्रति खकौशलबलेन सगर्वमाह-ये नामेत्यादि । इह तावत्रिविधाः पुरुषाः । केचिदज्ञा एव । केचिदवतमतमममनसः । काव्यरसविरसाः । इतरे सहृद- यहृदयामोदिकाव्यभव्यरसभररसिकाः । तत्राद्यान्प्रत्याह-ये केचिदशा नोऽस्मा. कमिह प्रबन्धेऽवज्ञामवधीरणं प्रथयन्ति ख्यापयन्ति । नाम संभावनायाम् । संभाव्यत इव न तु वास्तवमित्यर्थः । ते किमपि किंचिदल्यं जानन्ति । तान्प्रति तालमीकृत्य मम नैष यनः । न हि बधिरे गीयते । यद्वा किंशब्द आक्षेपे। ते किं जानन्ति । किंतु न जानन्तीत्यर्थः। द्वितीयान्प्रत्याह-ये नाम निश्चये । वैषयिकमुखविमुखा मुमुक्षव इहावधीरणामाचरन्ति ते किमपि वाङ्मनसागोचर परं ब्रह्म जानन्ति ते नमस्यास्तान्प्रति मम नैष यनः । न हि सम्राजमधिकृत्य कौपीनं सूश्यत इति भावः । अन्यान्प्रत्याह-मम समानधर्मा तुल्यगुणः कोऽपि जन उत्पत्स्यते जन्माप्स्यत्यस्ति विद्यते वा तं प्रत्येष यन इति भावः। इहाल्पकलेन साधर्म्यमनौद्धयाय । बहुशलेन साधयं कदर्षदुर्जनविवर्जनायेत्यु- ८ जगद्धरकृता इति श्लोकः ॥ ८ ॥ अपि च । 'यद्वेदाध्ययनम्-' इति श्लोकः ॥ १०॥ अतो यदस्माकमर्पितं प्रियसुहृदात्रभवता भवभूतिनाना प्रकरणं खकृतिर्मालतीमाधवं नाम त- भयत्र विवक्षा । अथेदानीमनुत्पन्नस्य कथमुत्पादोऽत्रानुपलब्धस्य वा कथमुप- लम्भ इत्युभययोग्यतामाह-यतः कालोऽयं निरवधिर्विगतावसानः विपुला महती च पृथ्वी भूमिः । तथा च तस्यैदानीमनुत्पन्नस्य कालान्तर उत्पाद इहा. नुपलब्धस्य देशान्तर उपलम्भश्च स्यादिति भावः । इह प्रथमाधै बहुलेन प्रयोगो द्वितीया एकलेन प्रयोगश्च न दोषः । मिषवाक्यार्थत्वात् । एकवा- क्यार्थले तादृक्प्रयोगस्यायोग्यतया दोषलात् । तथैव व्युत्पत्तरित्यवधेयम् । यद्वा अवज्ञाप्रथावसरेऽहंकारेणात्मनो गौरवाद्बहुखं निजसमतावसरे शान्त्या- त्मन्येकत्वम् । यद्वा जात्यभिप्रायमेकवचनम् ॥ ८॥ अधुना निजगुणगरिमोप. दर्शनेन निजप्रन्थे विदग्धादरमाह-यद्वेदेत्यादि । यत्र खल्वियं वाचोयुक्ति. रित्यत्राप्यनुषज्यते । अद्वैतप्रतिपादको वेदभाग उपनिषत्तज्ज्ञानम् । योगः पात- अलशास्त्रम् । तयोरध्ययनज्ञानयोः कथनेन किम् । अपि तु न किमपीत्यर्थः । यतस्ततो वेदाध्ययनादेर्नाटके कश्चिद्गुणो नास्ति । तेषां नाटकेऽनुपयोगात् । तत इति ल्यब्लोपे पञ्चमी । तान्प्राप्य नाटके न कश्चिद्गुण इत्यर्थः । वयं सर्वमेव विद्मः, अनङ्गतया पुनस्तदत्र न निबद्धमिति भावः । तयंत्र कवेर्वेदादिज्ञानज्ञापन किमर्थमत आह-यदिति । वचसां यत्प्रौढत्वं वाक्याथै पदं पदार्थ वाक्यं तत्कृतिः । यथा न दैवीयं किं तु मानुषीत्यर्थे निमेषवती । चन्द्रवदित्यर्थे 'नयन- समुत्थं ज्योतिरत्रेः' इति । यदाह दण्डी-पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा । प्रौढिाससमासौ च साभिप्रायलमस्य च ॥' इति । यध वचसामु- दारता विकटत्वं यस्मिन्सति पदानि जनो नृत्यन्तीवेति मन्यते । यद्वा, उदार- तालंकारादिदोषशून्यत्वम् । यद्वा, उदारता गुणमेदः । यदाह दण्डी-'उत्कर्ष- वान्गुणः कश्चिदुके यस्मिन्प्रतीयते । तदुदाराश्रयं तेन सनाथा काव्यपद्धतिः ॥' इति । यच्चार्थतो गौरवमनार्थता । यद्वा खल्पं वचनमर्थसार्थप्रसरसमर्थ- मित्यर्थः । तद्यदि नाटकेऽस्ति ततस्तदेव पाण्डित्यवैदग्ध्ययोर्गमकं बोधकम् । पण्डितो वेदाध्ययनादिकुशलस्तस्य भावः पाण्डित्यम् । वैदग्ध्यं रसादियोगि- प्रबन्धबन्धनकौशलम् । अनेन प्रन्थे सर्वगुणवत्त्वमुक्तम् । तत्कर्तृत्वेनात्मनः सर्वपथीनमतिमहत्त्वमप्युक्तम्-नाटक इति । ननु नाटक इत्ययुक्तम् । अस्य प्रकरणखात् । प्रकरणनाटकयोर्भेदात् । मैवम् । नट नृत्तावित्यस्य पनि खार्थे कनि नाटकमिति । तथा च नाटके नाव्य इत्यर्थात् ॥१०॥ भूमिका व्याज- प्रवेशः। यदाह भरतः-'अन्यरूपैर्यदन्यस्य प्रवेशः स तु भूमिका ।' इति । वर्गे भवा वाः । नटमेलकस्था इत्यर्थः । सौगतस्य बौद्धस्य । जरत्परिना. । १ अत्रापि सप्तमत्वे दशमत्वं त्रिपुरारिकतटीकानुक्रमेण संख्यासंमेलनायैन ।

मालतीमाधवटीका । - देव तत्र भवतः कालप्रियनाथस्य पुरतः प्रयोगेण प्रख्या- पयितुमुद्यताः । तत्सर्वे कुशीलवाः संगीतप्रयो- गेण मत्समीहितसंपादनाय प्रवर्तन्ताम् । नट:- (स्मृत्वा ।) एवं क्रियते युष्मदादेशः । किंतु या यस्य युज्यते भूमिका तां खलु तथैव भावेन सर्वे वाः पाठिताः । सौगतजरत्परिव्राजिकायास्तु कामन्दक्याः प्रथमां भूमिकां भाव एवाधीते, तदन्तेवासिन्यास्त्व- हमवलोकितायाः सूत्रधारः -ततः किम् । नट: -ततः प्रकरणनायकस्य मालतीवल्लभस्य माध- वस्य वर्णिकापरिग्रहः कथम् । सूत्रधारः -मकर- न्दकलहंसप्रवेशावसरे तत्सुविहितम् । नट: -तेन जिका वृद्धा भिक्षुकी । एतादृशी दौत्ये प्रशस्ता । यदाह भरत:-'विधवेक्षणिका दासी भिक्षुकी शिल्पकारिका । प्रविश्य चाशु विश्वासं दूतीकार्य च विन्दति ॥' इति । वृद्धवं चास्या रूपशून्यसर्वदृश्यत्वप्रगल्भवसूचकम् । यदाह-'लजितं नार्थवन्तं वा रूपिणं वा तथातुरम् । दूतं वाप्यथ वा दूतीं न तु कुर्यात्कथंचन ॥' अन्तेवासिनी निकटशिष्या । अहं भूमिकामधीय इत्यन्वयः॥ ततः किमिति । एतावदुक्खा किमिति विरतोऽसीत्यर्थः । प्रकरणलक्षणं भरते-'आत्मशक्त्या कवियत्र कथां नायकमेव च । औत्पत्तिकं प्रकुरुते तद्धि प्रकरणं विदुः ॥' इदं च शुद्धम् । यदाह भरतः-'द्विधा प्रकरणं तत्तु शुद्धं संकीर्णमेव च । कुलस्त्रीरचितं शुद्धं संकीर्णं वेश्यया कृतम्' ॥ अत्र नाटके यादृशो नियमस्तादृशः । नाय. कलक्षणं भरते-'नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचि- र्वाग्मी रूढवंशः स्थिरो युवा ॥ धृत्युत्साहस्मृतिप्रज्ञाकलामानसमन्वितः । शूरो दृश्यश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥ विनयः शीलसंपत्तिर्मधुरः प्रियदर्शनः । त्यागः सर्वखदानं स्याद्दक्षः क्षिप्रकरो मतः ॥ प्रियंवदोऽनुत्कटवाक्सस्नेहो लोक- रजकः । मितप्रस्तुतवाग्वारग्मी नित्यकर्मरतः शुचिः ॥ ख्यातवंशो रूढवंशः षोडशात्रिंशको युवा । वाङ्मनःकर्मभिर्यश्च न चलः स स्थिरो मतः ॥ धृतिः सर्वेषु या प्रीतिरुत्साहोऽग्लानिरेव च । स्मृतिः कालान्तरज्ञानं प्रज्ञा तीक्ष्णमांतर्मता ॥ कलाश्चात्र चतुःषष्टिर्मानश्चित्तसमुन्नतिः। शूरः संग्रामनिपुणो रूपवान्दृश्य उच्यते । अतिप्रतापस्तेजखी शास्त्रचक्षुत्रयीपरः । आत्मवत्सर्वभूतानि यः पश्यति स धार्मिकः ॥' इति । ननु मालतीवल्लभलं माधवस्य न योग्यं माधवेन वसन्तेन समं वर्षाकालीनाया मालत्या जातेः संबन्धाभावात् । मैवम् । अपूर्वमेव हि पदार्थ- सार्थ योगिनीप्रभावात्संपन्नमासाद्य सहृदयहृदयचमत्कारकारिणी वैदग्धीमेव १३ माल.

१० जगद्धरकृता हि तत्प्रयोगादेवात्रभवतः . सामाजिकानुपास्महे । सूत्रधारः-बाढम् । एषोऽस्मि कामन्दकी संवृत्तः । कविरयमुत्प्रेक्षितवानित्यदोषः । माधव इति नाना शृङ्गारमयतोका । वसन्तस्य शृङ्गारमयत्वात् । शृङ्गारमयत्वेन विष्णुदैवतवमपि कटाक्षितम् । यदाह भरतः- 'शृङ्गारो विष्णुदैवतः' इति । अत एव श्यामलमपि वक्ष्यति 'कुवलयदलश्यामो- ऽप्यङ्गं इत्यादिना । श्यामो भवेत्तु शृङ्गारः' इत्यपि भरतः । अयममात्यवाद्धीरोदात्तो नायकः । यदाह भरतः-'सेनापतिरमात्यश्च धीरोदात्ती प्रकीर्तितौ' इति । मालती नायिका । तल्लक्षणं भरते-'खान्यसाधारणस्त्रीति तद्गुणा नायिका त्रिधा । खकीया तत्र वक्तव्या मुग्धा मध्या प्रगल्भिका ॥ शीलार्जवादिसंयुक्ता कुटिला च पतिव्रता । लज्जावती चापरुषा निपुणा च प्रियंवदा ॥ साधारणस्नी गणिका कलाप्रागल्भ्यधौलंयुक् । रूपकेषु च रवि कर्तव्या प्रहसं विना ॥ अन्यत्री द्विविधा प्रोका कन्यकोढा तथा परा। रसे प्रधाने कर्तव्या नान्योढा नाट्यवेदिभिः ॥ कन्यानुरागमिच्छातः कुर्यादङ्गाङ्गिसंश्रयम् ॥' इति । अन्य- दपि प्रसङ्गादुच्यते । तथा हि-'नाटके वृत्तयः प्रोक्ताश्चतस्रो नाट्यवेदिभिः । भारती कैशिकी चैव सात्त्वत्यारभटी तथा ॥' तत्र शृङ्गारे कामकलावच्छिन्नो व्यापारः कैशिकी ॥ 'विशोका सात्त्वती सत्त्वशौर्यत्यागार्जवादिभिः । मायेन्द्रजा- लसंग्रामक्रोधोद्धान्तादिचेष्टितैः । भवेदारभटी नाम नाट्ये तिस्रस्तु वृत्तयः ॥ भारती शब्दवृत्तिः स्याद्रसे रौद्रे च युज्यते । शृङ्गारे कैशिकी वीरे सात्त्वत्सारभटी पुनः ॥ एवमङ्गानि कार्याणि प्रधानस्याविरोधतः । आदौ विष्कम्भकं कुर्यादङ्क- वाक्यार्थयुक्तितः ॥ अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् । यदा संदर्शयेच्छेष कुर्याद्विष्कम्भकं तदा ॥ यदा तु सरसं वस्तु मूलादेव प्रवर्तते । आदावेव तदाङ्कः स्थादामुखाक्षेपसंश्रयः ॥ प्रत्यक्षनेतृचरितो बिन्दुव्याप्तिपुरःसरः । अङ्को नानाप्रका- रार्थसंविधानरसाश्रयः ॥ अनुभावविभावाभ्यां स्थायिना व्यभिचारिभिः । गृही- तमुफैः कर्तव्यमणिनः परिपोषणम् ॥ न चातिरसतो वस्तु दूरविच्छिन्नतां नयेत् । रसंवा न तिरोदध्याद्वस्वलंकारलक्षणैः ॥ एको रसोऽजीकर्तव्यो वीरः शृङ्गार एवं वा ॥ अङ्गमन्ये रसाः सर्वे कुर्यान्निर्वहणेऽद्भुतम् । शृङ्गारहास्यकरुणरौद्रवीरभया- नकाः ॥ बीभत्सोद्भुत इत्येवमष्टौ नाट्ये रसाः स्मृताः ॥' यद्यपि 'अविकारस्थितिः शान्तः शान्तस्तु नवमो रसः' इत्यस्ति, तथापि स न सर्वसंमतो न वा नाव्य. विषयश्चति न पृथगुक्तः । स्थायिभावाभावात्तस्य नाट्यविषयता न संभव. तीति दिक् । नायिका च मालत्युदात्तनिभृता । कुलस्त्रीवात् । यदाह भरत:-'उदात्तनिभृता चैव भवेत्तु कुलजाङ्गना' इति । वर्णिका मषी ॥ बाद दृढम् । कामन्दकी संवृत्तः कामन्दकीरूपः । एतेन सूत्रेणैव काव्यार्थसूचनं कार्य- मिति मतमनुमत्य कामन्दकीसूचनमपि सूत्रसूचनमेव वृत्तमिति दर्शितम् । यद्वारे मकरन्देन मालतीरूपं कर्तव्यमिति पुंसः स्त्रीखापत्त्यात्र सूचितम् । कामन्दकी ।

अङ्कः १] मालतीमाधवटीका। नट:-अहमप्यवलोकिता । (इति परिक्रम्य निष्क्रान्तौ।) प्रस्तावना। पृ० प० १० ५ 'नेपथ्ये कामन्दक्यवलोकिते प्र० । १११ भिमतः प्राणिग्रहः स्यात् । ५ चित्तविक्खेवो । ७ ईरिसे आआसे । ११ ८ तहिं अउक्खण्डिद । ९ णिउजिअदि । । नीतिग्रन्थभेदसं वेत्तीति कामन्दकी । 'तदधीते' इत्यण् , डीप् च । अनया नाम- व्युत्पत्त्या नीतिवेदिताबोधनेन प्रकृतसिद्धिहेतुतोक्ता ॥ तदन्तेवासिनी अवलो- किता दृष्टिरिति कार्यसिद्धिदृष्टेरपि कार्यसिद्धिहेतुतोक्ता तदुत्तेजनिकेति । निष्का- न्तौ । सूत्रधारनटाविति शेषः ॥ प्रस्तावनेति । निवृत्तति शेषः । एतल्लक्षणं भरते-'नटी विदूषको वापि पारिपार्श्विक एव वा। सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥ आमुखं नाम तस्यैव सैव प्रस्तावना मता' इति । परिवृत्त्य पुनरागत्य । रकापट्टिका लोहितपट्टिका नेपथ्यमलंकारो ययोस्ते ॥ अधुना कामन्दकी समस्तप्र- करणोपयुक्तमुपक्षेपमाह-अपीत्यादि । यदाह-'काव्यार्थस्य समुत्पत्तिरुपक्षेपः स्मृतो बुधैः' । इह तु मालतीमाधवयोर्विवाहनिर्वाहः काव्यार्थः । अपि नामेति । नाम संभावनायाम् । तेन भवेदपीत्यर्थः । निश्चये वा नाम । तेन निश्चितमेव भवेदित्यर्थः । कल्याणिनोरित्यनेनाशंसनीयकुशलतयानुग्राह्यत्वमुक्तम् । भूरिवसु- र्मालतीपिता। महाधनिककन्याया आवश्यकी वराकाङ्केति नामतात्पर्यम् । देवरातो माधवपिता। देववद्राति दत्ते । 'रा दाने' कर्तरि क्तः । देवरातः । तथा च जनो दातरि विवाह्यत इति महाधनिकवद्वदान्यत्वप्रमुखादियोगिनोऽनुरूप एव प्रायः पुत्र इति वरे कन्याकासासूचनं नामानुनयेन । एवं च योग्ययोर्योग्य एव संबन्ध इति भावः। पाणिग्रहो विवाहः ॥ विवृण्वतेति । अपिरवधारणे। तेन वामकेनैव वामे- नैव चक्षुषा दाक्षिण्यमवलम्ब्यते । कीदृशेन । स्फुरता स्पन्दवताऽत एव कल्याणं विवृण्वता सूचयता । स्त्रीणां वामाङ्गस्फुरणस्य शुभसूचकलात् । आन्तरज्ञेनेव मदी- यचित्तवृत्तिज्ञेनेव । इवोत्प्रेक्षायाम् । 'उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि ताह- शः' इति दण्डी । अथवापिर्विरोधे । वामेनापि प्रतिकूलेनापि दाक्षिण्यमानुकू- ल्यमवलम्ब्यत इति विरुद्धमिदम् । वामक इति खार्थे कन् ॥ ११ ॥ अवलो. किता। अत्र खलु निश्चये। चित्तविक्षेपोऽसद्विषयाभिनिवेशः । चीरेण वस्त्र. खण्डेन चीवरं सौगतपरिव्राजकवासस्तदेव परिच्छदः परिकरो यस्यास्ताम् । पिण्डपातो नाम बौद्धानां भिक्षाभ्रमणेन भोजनम् । तन्मात्रेण प्राणयात्रा जीवनं यस्यास्ताम् । ईदृशे विवाहकार्ये । इह पुरंध्रीणामेवाधिकारो न तु भवाशी- नामिति भावः । उत्खण्डित उन्मूलितः संसाररूपोऽवग्रहो मोक्षप्रतिबन्धो पत्र १२ जगद्धरकृता [अङ्क: १ पृ० प० १२ १ मैवं ब्रूहि । अयि किं० यदेकत्र नो विद्या । गन्त- वासिनां सा० । ७ तदैव चास्म । १३ ६ तदो किंत्ति । १४ २ ०णिरवेक्खदाए ल०। ८ श्रेयोऽप्यस्मा० । सः । यद्वा, उन्मूलितः संसाररूपोऽपकृष्टो ग्रहो यत्र सः ॥ कामन्दकी । मा मेति । वीप्सात्यन्तनिषेधे । यन्मामित्यादि । स भवान्पूज्यो भूरिवसुर्यन्मां विधेयविषये नियोज्यगोचरे नियुङ्क्ते नियोजयति तत्स्नेहस्य प्रीतेः फलम् । स ह्यस्माकं प्रेमपात्रमिति भावः । असौ नियोगः प्रणयस्य प्रश्रयस्य सार उत्कर्षों निर्यासो वा। यदि मदीयैः प्राणैरथवा मदीयैस्तपोभिः सुहृदो मित्रस्याभिमतं वाञ्छितं कृत्यं कार्य घटेत तदा तत्कार्यं कृतं स्यात्। मत्प्राणादिभिरपि भवेदित्यर्थः । यद्वा सुहृदो- ऽभिमतमिदं यदि घटेत निष्पद्यत तदा मदीयैः प्राणैस्तपोभिर्वा तत्कृत्यं कृतं स्यात् । अघटने तु सर्वमिदं व्यर्थमित्यर्थः । एतेनावश्यकर्तव्यतोक्का। 'प्रणयः प्रेमिण विश्वासे याञ्चाप्रश्रययोरपि' इति विश्वः ॥ १२ ॥ भूरिवसोः स्वीकारबी जमेवंविध. प्रश्रयोपपत्ति चाह-किं नेत्यादि । न इति बहुवचनेन स्वभूरिवसुदेवरातानामु- पादानम् । अस्मादिति । अस्माकं सौदामिन्याश्च प्रत्यक्षमित्यर्थः । अपत्यसं. बन्धो विवाहः । सौदामिनीसमक्षमित्यनेन तस्या देवरातबन्धुतया नवमाके माध. वप्राणत्राणकारणसमस्या नाम च सूचितम् । युक्तं चेदम् । 'नासूचितं विशे- त्पात्रम्' इति भरतः । एवमन्यत्रापि सूचितस्यैव प्रवेशः । आन्वीक्षिकी न्याय- शास्त्रम् । तत्र तर्कच्छलादिनिष्टङ्कनेन तदभ्यासान्माधवस्य चोरिकाविवाहे कौश- लमुक्तम् । श्रवणं पाठः । कुण्डिनपुरै विदर्भनृपराजधानी । प्रहिण्वता प्रस्थाप. यता । सुविहितं शोभनं कृतम् । अपत्येत्यादि । देवरातेन पुत्रं प्रहिण्व- तापत्यसंबन्धविधिप्रतिज्ञा विवाहप्रतिज्ञा प्रियस्य सुहृदः प्रीति मित्रस्य भूरिवसोः । सुहृदः शोभनचित्तस्य वा स्मृति स्मरणं नीता प्रापिता । अलोकसामान्यगुणो लोकविलक्षणगुणः पुत्रः प्ररोचनार्थ प्रवृत्तिपाटवार्थ स्कुटीकृतश्च । प्ररोचनस्यैव सर्वकार्यसिद्ध्यङ्गलात्तत्करणम् ॥ १३ ॥ अवलोकिता । अत्रामात्यो भूरिवसुः । माधवस्य कृत इति शेषः । प्रतिपादयति ददाति । चोरिकया विवाहस्य धर्म- शास्त्रे निषेधादिति भावः ॥ तामित्यादि । नन्दननामा राज्ञोऽन्तःपुरसचिवो नृपद्वारा तां याचते । तत्र साक्षान्निषेधः कोपाय राज्ञः । अयं तु मद्वारा संयो- जनात्मक उपायः शिवः। परिणामसुरस इत्यर्थः । आर्या छन्दः । 'स्यान्नमसचिवः सोऽयं कुपितस्त्रीप्रसाधकः' । नन्दयतीति नन्दनः । एतेनानन्दजनकखादन्त:- पुरसचिवता युक्तेति नामतात्पर्यम् ॥ १४ ॥ कामन्दकी । संवरणं संगोपनम् । विशेषत इत्यादि । तेन भूरिवसुना तयोर्वत्सयोर्विशेषेण खमतिनिह्नवः कार्यों निजज्ञानगोपनं कर्तव्यम् । बालबाच्छिशुलेन । प्रकाशिताभिप्राययोः ।

अङ्कः १] मालतीमाधवटीका। पृ० प० १५ २ °कारप्रगुणरम० । ४ मभिसंधाय० । ६ तेण तेण वअणोवण्णासेण । १६ ३ बाढम् । जदो ताए वि अत्तणो विणोदणिमित्तं माहव । ४ अज्ज णिहिदं । ६ व्यतो माधवा । ७ तीर्थेन घटते । ८ उपोद्घातेन । १७ २ महूसवं मअरन्दुज्जाणं अज पभादे अ । यथा तावपि प्रकृतं न जानीतस्तथा कृतं तेनेति भावः । युक्तं चादः । 'नादेशे नाकाले नापरिपक्केन्द्रिये न गुणहीने । कथयति हि कथां स्वगतां न तथास्य कथा भवति वन्ध्या॥' इति नीतेः ॥ १५ ॥ अनुरागेत्यादि । तयोरनुरागप्रवादः सर्वलोकविदितः सन्चस्माकम् 'श्रेयानस्ति' इति वा पाठः। श्रेयोलम्भी। यत एवं सति राजा नन्दनश्चोभी वञ्चनीयौ तयोरन्योन्यानुरागादेव परिणयो वृत्तो न मया कारित इति वक्तव्यमेवेति भावः । सार्वलोकिक इत्यत्र सर्वलोकाट्ठञ् । अन्योन्यानुरागेण गान्धर्व विवाहोऽपि सूचितः ॥ १६ ॥ बहिरित्यादि । विद्वान्सुबुद्धिरेकः श्रेष्ठो- ऽद्वितीयो वा सकलं जनं कपटरभिसंधाय वञ्चयिखा खानान्खप्रयोजनानि संपादयति । मौनमभाषणं भजते च । विधिनिषेधपर वचो न वदतीत्यर्थः । अत एव तटस्थ उदासीन इवानभिव्यक्तव्यापार इत्यर्थः । कथम् । सर्वाकारेणेशितादिना खभावसुन्दरं यथा भवति तथा बहिः प्रकटं व्यवहरन्नति सूक्ष्माण्यपि पराभ्यूहस्था- नानि परस्य तर्कस्थानानि स्थगयति पिदधाति । अपिभिन्नक्रमः । 'अभिसंधिर्वञ्च- नार्थः' इति धातुसंग्रहः । 'केवल श्रेष्ठयोरेकः' इति धरणिः ॥१७॥ अवलोकिता। अत्रोपन्यासो व्याजेन कार्योद्भेदः । राजमार्गेणेत्यनेन सर्वसाधारण्यान्मा- धवस्यानौद्धत्यमद्वितीयवेद्यता च सूचिता । संचारणं च तदर्शनेन मालत्या अनुरागायेति भावः । अत्र कामन्दक्यावलोकितायामेवमनुक्कलात्कथं तव वचना- दिति घटत इति न देश्यम्।प्राणैस्तपोभिरित्यादिना तदभिधानात् ॥ कामन्दकी। धात्रेय्युपमातृसुता । एतेन बाल्यात्प्रभृति सकलचेष्टावेदिलं ध्वनितम् । तथा च लवङ्गिका मालतीगतं यत्कथयति तत्प्रमाणमेवेत्येवकारव्यङ्ग्यम् । अनेनास्याः सखी- खमप्युक्तम् । यदाह भरतः-'कारुर्दासी च धात्रेयी प्रतिवेश्या च शिल्पिका । बाला प्रव्रजिता चेति नायिकानां सखीजनः ॥' इति ॥ न इति बहुवचनेनात्मनि लवनिकाहृदयजागरूकबहुमानेन वञ्चकतानिरासः सूचितः । भूय इत्यादि । मालत्यङ्गकैस्ताम्यति खिद्यत इति कथितमेव लवझिकयेत्यन्वयः । अङ्गकैरित्यत्रा- पार्थे कन् । अल्पता मृदुत्वेन । बहुवचनात्सर्वाङ्गमुक्तम् । तथा च मृदुभिः सर्वा- रित्यर्थः । कीदृशैः । तं माधवं दृष्ट्वा दृष्ट्वा पुनः पुनरवलोक्य । गाढोत्कण्ठया दृढा- काडया लुलितलुलितैरतिम्लानकान्तिभिः । 'ललितलुलितैः' इति पाठे पूर्व ललिते- १४ जगद्धरकृता [अङ्कः १ पृ० प० १८ १ दूरारण्णवासिणो । ७ ०पिअं किदं होदि । , १२ °मालती । तन्नि । १३ कल्पः सूत्रयितव्यः । रम्यरधुना लुलित नरित्यर्थः । कीदृशम् । सविधनगरीरथ्यया मालतीगृहनिकट- राजमार्गेण भूयो भूयः पुनः पुनः पर्यटन्तं गच्छन्तम् । इह राजमार्गोपन्यासेन माधवस्य निःशङ्कः संचारो मालत्याश्च तदर्शनेन परवितर्काभावः सूचितः । गमने पौनःपुन्येन दर्शनं प्रति दाळमुक्तम् । दर्शनेन च पौनःपुन्येन तस्या उत्कण्ठातिशय उक्तः । यद्वा प्रथमवीप्सया दर्शनं दृष्ट्वानुवृत्त्या प्रथमं रम्यवस्तुचमत्कारेण तत उद्भिद्यमानानुरागनवाङ्कुरेण नेत्रप्रीतियुज्यते । द्वितीयवीप्सया सहचरीमिरप्यज्ञाता नयनप्रीतिरुक्का। नगरीपदेन रथ्याया अनेकौतुकाधारतोक्ता । तथा चेतस्ततो- ऽनेककौतुकदर्शनतरलितत्वेन माधवस्य सम्यग्दर्शनसंपादकनिकटार्थकसविधपद- निगर्व उक्तः।क्खाप्रत्ययेन चानन्तरभाविविह्वलताया विषयान्तरसंचारेणापि व्यव- धानस्यापादनादत्यन्तानुरागोद्भेदः सूचितः । कथमन्तःपुरस्था सा ददशेत्यत आह-भवनेति । भवनस्य प्रासादादेर्या वलभ्युपरिकुटी तस्यां तुङ्गमुच्चं यद्वाता- यनं गवाक्षस्तत्रस्था । तुङ्गतया यथाकाङ्क्षदर्शनमुक्तम् । वातायनेत्यनेन वातस्यायनं गमनं यत्रति व्युत्पत्त्या धर्मादितापवती गभीरसमीरपरिशीलनाथ यातीति प्ररो. हेण निरर्गलमस्या गमनं तत्रेति सूचितम् । यद्यपि 'सौधोपरिकुटी वलभी विदुः' इति भवनपदमत्र गतार्थम्, तथाप्युतिपोषालंकारद्योतनार्थ भवनपदम् । यद्वा भवनरूपा वलभी मालतीवसतिः सौधोपरिकुटीत्यर्थः । एतेनास्या निजगृ- हाद्वलभीगमनं किमर्थमित्यन्याशङ्कापरिहारो निरर्गलं च तद्दर्शनं भवतीति ध्वनि- तम् । यथा रतिः कामकान्ता नवं दाहानन्तरमुत्पनं साक्षात्प्रत्यक्षं कामं दृष्ट्वा- अस्ताम्यति तथेत्यर्थः । मालती रतिर्माधवश्च काम इति तयोर्बहललोकसंकुलेऽपि पथि रागसागरोऽन्योन्यं ववृध इति भावः । यद्वा कामोऽनङ्गतयाप्रत्यक्षो वृद्धश्च । अत्रोत्प्रेक्षा विशिष्टस्यैव । साक्षात्प्रत्यक्षं नवं काममिवेत्यर्थः । ताम्यतीत्यनेनोद्वेग उक्तः । यदाहभरतः -'चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च । श्लथाङ्गोपाङ्ग- चेष्टाभिरुद्वेगाभिनयो भवेत् ॥' इति । 'रथ्या प्रतोली विशिखा' इत्यमरः। 'वातायनं गवाक्षोऽथ' इति च । 'साक्षात्प्रत्यक्षतुल्ययोः' इति धरणिः ॥ १८॥ अव- लोकिता । बाढमतितरामनुरका मालतीत्यर्थः । विनोदः क्रीडा हर्षो वा। प्रतिच्छन्दकं प्रतिरूपकम् । तावत्पदेन मन्दारिकाहस्तनिधानस्य प्रकृतकार्योपक्रमः सूचितः । अत एव कामन्दक्या सुविहितमित्युक्तम् ॥ कामन्दकी। विहारः सौगतप्रवाजिकानामालयः । तत्र व्यापृता दासी विहारदासी । एतेन प्रकरण- बाह्यनमुक्तम् । यदाह दण्डी-'शकारः कुहिनी दासी धर्मशास्त्रबहिष्कृताः। विट- चेटादयो नित्यं बाह्याः प्रकरणे मताः ॥' तीर्थेन द्वारा, उपायेन वा । 'तीर्थमुपा- यद्वारमत्रिषु' इति विश्वः । उपोद्धावेन प्रसङ्गेन । अभिप्रायस्तावदिति वादिन्या- अङ्क: १] मालतीमाधवटीका। पृ० प० १९ ३ वरीयानन्यो। खवेति शेषः । अवलोकिता। 'कुतुकं च कुतूलहम्' इत्यमरः। मदनमहोत्सवेन वसन्तकालः सूचितः । तस्य च वैवाहिकलम् । यदाह-'शरत्सङ्ग्रामविषये विवाहे ज्येष्ठमाधवी' इति । किल प्रसिद्धौ । इति हेतौ । अनुप्रेषणे तत्र किलेल्या. देहेतुलम् । अन्योन्यदर्शनेनोभयानुरागे विवाहनिर्वाहः। प्रिये प्रीतिविषये कार्येऽभि- योग आसनः । अत्र कापालिकवतं महाव्रतम् । कुत इत्यादिना श्मशानाङ्कसूचनम् कामन्दकी। किल प्रसिद्धौ । विविधा नानारूपा जीवा मानुषादय उपहारा बलयः प्रिया यस्याः सा। अनेन मालत्युपहारः सूचितः । आत्मनिरपेक्षं कर्म साहसम् , तेन वर्तन्ते ते साहसिकाः। प्रवादः प्रसिद्धिः । इह प्रियेत्यस्यानन्तरमिति पदं देयमन्यथा पूर्वापरानन्वयात् । तथा च प्रियेसनेनाकारेण साहसिकानां प्रवाद इत्यर्थः । अत एव वाक्यार्थकर्मादावितेरध्याहारः ॥ अवलोकिता । इह खलु प्रसिद्धौ। तस्याश्चामुण्डाया नातिदूरेणात्यासने वस्तुं शीलं यस्य । तस्य एतेन देवकु- लस्य लोकसंकुलतया किंचिद्विप्रकृष्टं साधकसंस्थानमुक्तम् । साधकस्य योगिनः मुण्डधारिणः कापालिकस्य । अघोरघण्टेति । 'कापालिकास्तु घण्टान्तनामानः समुदाहृताः ।' इति भरतः । अघोरोऽविमृश्यकारीति नामव्युत्पत्तिः । अनुसंध्यं संध्यायाम् । प्रवृत्तिर्वार्ता । सर्वमघोरघण्टनाशनमाधवरक्षणादिकम् । अत्रैतेन कापालिकादेः कथनेनालं निष्फलमधुनानुपयोगात् ॥ अवलोकिता । बालमिति भावप्रधानम् । तेन बाल्यान्मित्रमित्यर्थः । समुदहति विवहति ॥ कामन्दकी। बुद्धरक्षितेत्यनेन भिक्षुकीवं सूचितम् । अत एव दौत्ये नियुक्ता ॥ कामन्दकी। उत्तिष्ठत्यत्रोर्ध्वकर्मवान तङ् ॥ कामन्दकी । अत्युदात्ता गमीरा प्रतिपनार्था संवादिनी प्रकृतिर्यस्याः सा तथा । निसृष्टार्थेति । नायिकाया नायकस्य वा मनो- रथं ज्ञाता खमत्या कार्य साधयति सा निसृष्टार्थी दूती तस्याः कल्पो व्यापारः । प्रस्तावनीय इत्यर्थः । दूती च विविधा । यदाह–'निसृष्टार्था मितार्था च तथा शासनहारिका । सामोत्पादिता हीना दूती तु विविधा मता ॥' इति । शरदि- त्यादि । सा मालती तं माधवं नन्दयतु प्रीणातु । यथा शरच्चन्द्रिका कुमुदं नन्द- यति । यथा चन्द्रिकाकुमुदयोर्नित्यं प्रीतिस्तथा तयोरप्यस्विति भावः । कीदृशम् । कान्तं रम्यम् । सुजातं शोभनजन्मानम् । शोभनता च गुणवत्त्वेन । यद्वा कान्त- मन्यस्त्रीभोगचिह्नशून्यम् । यदाह भरतः-'अन्यस्त्रीभोगसंभूतं चिहं यस्य न विद्यते । देहे वाप्यधरे वापि स कान्त इति कीर्तितः ॥' सा कीदृशी । कल्याणी निरवद्या । स च युवा कल्याणी विवाहकल्याणयोगी संस्तां प्राप्य कृतकृत्य: कृतार्थो भवतु । युवेत्यनेन कन्यायां मदनमदोद्दीपकतायोगिखमुक्तम् । एवं सति विधातुः प्रयत्नः सफलो भवतु मनोहरश्च भूपनन्दनाविरोधेन सर्वावर्जकोऽस्वित्यर्थः। कीदृशः। अन्योन्यं कामिनोः प्रगुणा अनुरूपा ये गुणास्तेषां निर्माणे कुशलोऽत एव वरीयान्श्रेष्ठो गरीयान्गुरुवा । यद्वा अन्योन्यं प्रगुणा उत्कृष्टा ये गुणास्तेषां निर्माणे जगद्धरकृता [अङ्क १ । पृ० प० २० २ जाव इमस्सि उ० । °मअरन्दणन्दणं । ६ भवतु तत्रैव ग। दिल्यायं वयः । ९ किमन्यदितो । कुशलः ॥ १९ ॥ निष्क्रान्ते कामन्दक्यवलोकिते । विष्कम्भक इति । 'कुतोऽपि खेच्छया प्राप्तः संबन्धेनोभयोरपि । विष्कम्भकः स विज्ञेयो यस्तु काव्या- र्थसूचकः ॥ विष्कम्भको द्विधा सोऽयं शुद्धः संकीर्ण एव च । शुद्धो मध्यमपात्रेण संकीर्णो मध्यमाधमैः ॥' इति भरतः ॥ उपकरणमुपढौकनम् । कलहंसः। अत्र तुलितो मकरध्वजस्य कामस्यावलेपो गर्वो येन रूपविभ्रमेण सौन्दर्यविला- सेन तेनावक्षिप्तं तिरस्कृतं मालतीहृदयस्य माहात्म्यं गाम्भीर्य येन तम् । 'अव- लेपः स्मृतो गर्वः' इति शाश्वतः । मकरन्दस्य नन्दनं हर्षकम् । कलहंसो राजहंसः। स च शरदि विराजमानोऽपि योगिनीप्रभावाद्वसन्ते मिलित इति नामाभिप्रायः । मकरन्दः । दिष्टयेत्यव्ययं हर्षे । माधवस्य वसन्तस्य मकरन्दः पुष्परसः सह- चरो युज्यत एव । इत एवात्रैव । इह शृङ्गारो द्विविधः । यदाह भरतः-'संभोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः' । संभोगोऽपि विप्रलम्भपूर्वक एव खदते । यदाह-'न विना विप्रलम्भेन संभोगः पुष्टिमर्हति । कषायिते हि वस्त्रादौ भूया- रागोऽभिजायते ॥ स च दशारम्भः । यदाह भरतः-'अप्राप्तरतिभोगस्य नव- स्त्रीरागजन्मनः । दश स्थानानि कामस्य काममन्तर्विसर्पतः । अभिलाषोऽत्र प्रथमे द्वितीये चिन्तनं तथा । अनुस्मृतिस्तृतीये च चतुर्थे गुणकीर्तनम् ॥ उद्वेगः पञ्चमे ज्ञेयो विलापः षष्ठ उच्यते । उन्मादः सप्तमे प्रोक्तो भवेद्याधिस्तथाष्टमे ॥ नवमे जडता प्रोता दशमे मरणं भवेत् ॥' इति । तदिहानुस्मृत्यवस्थो माधवो मकरन्देन कथ्यते-गमनमिति । अस्य गमनमलसं मन्दम्, नतु शरीरम् । हस्खादेराकुञ्चनप्रसारणात् । अन्तरान्तरा विलम्बस्यात्यन्तासक्तिवशाजायमान- बाच्च । इदमनुस्मृतिचिह्नम् । यदाह-'मुहुर्मुहुनिःश्वसितैरधोमुखविचिन्तनैः । अन्वेषादन्यकार्याणां कथितानुस्मृतिर्यथा ॥' तथा यातो मामपि न पश्यति ततो- ऽन्तःकरणं कापि लग्नम् । तथा च चिन्तासंततिपरतया ध्यानावधानेन शून्या बाह्यार्थप्राहिणी दृष्टिरस्य । यदाह-'शून्या दृष्टिः स्मृता चिन्तासंमोहप्रणया- दिषु' । शून्यदृष्टिलक्षणमप्याह-'निश्चला समतारा च ध्यानाद्वाह्यमगृह्णती। तथा समपुटोपेता शून्या दृष्टिरुदाहृता ॥' तथा मनस्तापवतो ग्लानिः । सा च क्षीणकपोलतादिनोनीयते । अत उकं शरीरमसौष्ठवं विकलम् । इष्टजनालाभभा- वनाईमाह-श्वसितमधिकम् । एतरिक नु स्यात् । एतदलसगमनत्वादिकं रोगजं कामकृतं वेति वितर्क इत्यर्थः । रोगलिङ्गाभावादनङ्गलिङ्गसङ्गाच्च निश्चयमाह- किमन्यदिति । अथवा पक्षान्तरे। इतः कामाकिमन्यत् । नान्यदित्यर्थः । किंशब्दो निषेधे । अत्र पांशुक्रीडनात्प्रमृत्यनुभूतमाधवशरीरे तत्तद्विकारदर्शनात्तर्कविया- विदो मकरन्दस्य परिच्छेदो युज्यत एवेति । निश्चयलिझमाह-भुवने कंदर्पाज्ञा अमति सर्व जनमास्कन्दति । विकतुं शीलमस्येति विकारि । पूर्वदशात्यागेन अङ्क: १] मालतीमाधवटीका। १७ ला इत्य- पृ० प० २२५ प्लवनादिवाभूत् । । ८ 'इत इतः' इत्यस्याग्रे माधव:-(परिक्रम्य ।) कथं प्रियवयस्यो मम मकरन्दः । मकरन्द: उपसृत्य ।) सखे माधव, धिकम् । ८ °तपति तपनः । त° ९ माधव:- यदभिरुचितं वयस्याय । (इत्युभावुपविशतः।) इत्यधि- कम् । १० °बालवउलुज्जाणं । दशान्तरयोगो विकारस्तद्योगि यौवनम् । अयं तु युवेत्यर्थः । अत्र भ्रमतिपदेनान- वच्छिन्नक्रियता, तद्वारा सर्वकालता, भुवपदेन सर्वदेशता, आज्ञापदेन युफिजि- ज्ञासां विना स्वीकारः, विकारिपदेन माधवाङ्गीकारिता च ध्वनिता । ललिताः सुन्दरा मधुराः परिभाव्यमानास्ते ते प्रसिद्धा भावा रमणीवदनविभ्रमादयो धीरतां धैर्य क्षिपन्त्यपनयन्ति । तदनेन कामकृतमेतदुन्नीयत इति भावः । 'प्रकृ. तिमधुराः' इत्यपि पाठः । तत्र प्रकृत्या स्वभावत एव मधुरा मनोहराः ॥ २० ॥ माधवप्रवेश इह द्विपदिकया । यदाह-'शोकविश्रमयुक्त तु व्याधिचिन्तासमा. श्रिते । श्रुतवार्तादिवैरूप्ये योज्या द्विपदिका बुधैः ॥' इति । स्वगतमिति । 'यत्तु श्राव्यं न सर्वस्य खगतं तदिहोच्यते' इति भरतः ॥ अनुस्मृतिमाह- तामित्यादि । तां नायिकामचिरमधुनैव विचिन्य कथं मम चेतः । कर्तृ । कथं कथमपि महता कष्टेन व्यपवर्तते व्यावर्तते नागच्छति वा । तस्यां लग्नं तामेव धावतीत्यर्थः किं कृता । बालखेन कुलीनत्वेन च या लज्जा तामकाण्ड एवाप्रस्ताव एव विजित्य । रभसकाल एव हि लज्जाद्यभावप्रस्ताव इति भावः। विनयं मनोमलक्षालनोपदेशं दूरीकृय । महानायकतया साहजिकं धीरवमु. न्मूल्य । कीदृशम् । मन्थरो मन्दो विवेक इति कर्तव्यता यत्र तत् । क्रिया- विशेषणं वा । कीदृशम् । इन्दोश्चन्द्रात्सुन्दरं मुखं यस्यास्ताम् । वैयधि- करण्येऽपि गमकत्वात्समासः । इह तामित्यनुस्मृतिः, इन्दुसुन्दरेति गुणकीर्तनम्, विभाव्येति चक्षुःप्रीतिः, कथमपीत्युद्वेगः, लजां विजियेत्युन्मादः, मन्थरविवेक- मिति जडतेत्यनेकावस्थोक्ता ॥ २१ ॥ यदित्यादि । तत्संनिधौ यन्मदीयं हृदयं विस्मयेनाद्भुतरसेन स्तिमितं निश्चलम् । एतेन स्तम्भ उक्तः । अत- एवास्तमितो नाशं प्रापितोऽन्यो भावो विस्मयातिरिक्तो धर्मो यत्र तत् । अनेन जडतोक्ता । यदाह-'इष्टं वानिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् । तूष्णीकः परवशगः स भवति जडसंज्ञकः पुरुषः ॥' आनन्देन निरन्तरसुखेन मन्दं मन्थरं चाभूत् । अमृतप्लवनादिव सुधासेकादिव । अथ च योगाभ्या- सेन कुण्डलिन्याचरणेनामृतसेकादिवेत्यर्थः । तत्रापि परमानन्दसंदोहो भवत्येव । एतेनाद्भुतनायिकादर्शनजातभावभरमन्थरता दर्शिता । तद्धदयमधुना तद्वियोगे- Sजारचुम्बितमिवानारावसृष्टामिव व्यथमानं पीडायुक्तमास्त इत्याश्चर्यम् । नच १८ जगद्धरकृता [अङ्कः १ पृ० प० २३ १ अहवा मुहुत्तं वि० ४ काञ्चनारपा०। ६ माधव, अद्य किल स. । ७ राममदनोद्या० ८ अपि नाम मनागवती । गोचरम् । १० तत्किमवनतमु । १२ जन्तुषु रजस्तम० १३ परमेश्वरे च । २४ २ °यतनम् । तत्र चेतस्त । परिक्रम्यावलोक्य च प० । - प्रियासङ्गे सुखं तद्वियोगे दुःखमिति दृष्टचरमेव तत्कथमाश्चर्यमिति वाच्यम् । अन- नुभूतरसस्य तस्य शिशुत्वेन किमिदं यदकाण्ड एव व्यथेति तत्संभवात् ॥ २२ ॥ मकरन्दः। इत इतः। इहागच्छेत्यर्थः। आधादित्वात्तसिः। एतेन माधवस्य वाह्यार्था- प्रहान्मित्रादर्शनं सूचितम् ॥ मकरन्दः। ललाटं तपति ललाटंतपः । 'असूर्यल- लाटयोः' इति खप्रत्ययः। खिखान्मुम् । माधवीयमन्मथोन्मादमपह्रोतुकामस्येदं वचनम् ॥ माधवः । वयस्यायेति । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानता। कलहंसः । अत्र मकरन्देन पुष्परसेन सहचरो माधवो वसन्तो बालबकुलमलं. करोतीति ध्वनिरप्युन्मिषति । मुहूर्त चेत्यत्र सुस्थिते चित्ते वक्तुं युक्तमिति भावः॥ मकरन्दः । उत्फुल्लपुष्पाणां ये केसराः किञ्जकास्तैः कषायो लोहितः शीत- लश्च य आमोदस्तेन वासितं सुगन्धीकृतमुद्यानं येन तस्य । 'कषायः सुरभौ लोहितेऽन्यवत्' इति मेदिनीकारः । कषायादिसंबन्धेन सौरभस्यातिगभीरतोता । आमुद्यतेऽनेनेत्यामोद इति । कषायादिसंपदे काञ्चनारेत्युक्तम् ॥ प्रवर्तितः कृतः। अमिरामेति यात्रान्वयि । इह मकरन्दवचनेन नमरूपः प्रतिमुखसंधिरुक्तः । यदाह-'शृङ्गारार्थ त्रपाकारि वाक्यं गोष्ठीषु नर्म तत्' इति । अपिः समुच्चये । नाम संभावनायाम् । इदं संभाव्येतापीत्यर्थः । मनागल्पम् । रतिरमणः कामः ॥ मकरन्दः । मुग्धं किंकर्तव्यताशून्यम् । पुण्डरीकं सितपद्मम् । विरहधूसरत्वेन मुखस्य पुण्डरीकसाम्यम् । तस्य लज्जयाकथनमाशझ्याह-अन्येष्वित्यादि । माधव, तवापह्नुतिर्लजया कथंचिदपि मा भूत् । लज्जयापहवं मा कृथाः । एवम- प्रतीकारः स्यादिति भावः । खलु यतः सोऽयं चित्तजन्मा कामः प्रख्यातपौरुषः । चित्तोन्माथविषय इति भावः । कीदृशः । विश्वस्य धातरि जगत्स्रष्टरि परमेश्वरे हरेऽन्येषु जन्तुषु मानुषादिषु च रजस्तमोगुणप्रधानेषु समस्तुल्यव्यापारः । यद्वा अन्येषु मानुषादिषु रजस्तमसावृतेषु च तिर्यग्योनिषु विश्वस्य धातरि ब्रह्मणि पर- मेश्वरे हरे च सम इति भिन्नमेव योज्यम् । अतो लजां त्यक्त्वा कथयेति भावः ॥ २३ ॥माधवः। परिश्रमात्स्थित इत्यन्वयः। परिश्रमात्स्थितोऽहं न तु साका- सत्वादिति भावः । मदिरामोदवन्मनोहरो यः परिमलः शुभगन्धः । 'स्याच्छुभ- गन्धे परिमलः' इति विश्वः । मिलन्मिलितम् । संकुलेन व्याप्ताकुलिता या बकु. लमकलावली विकासाभिमुखकलिकाराजिः सैव मनोहरमाभरणं तेन रमण अङ्कः १] मालतीमाधवटीका। १९ - पृ० प० ४ रमणीयस्याङ्गनभुवो बा । ६ °मारब्धवानस्मि । यद्वा मदिरामोदेन मधुर इति समासः । तेन मदिरामोदस्य बकुलपुष्पोद्गमं प्रति दोहदसमाह । अङ्गनभुवोऽगनस्थस्य । अनेन निकटवर्तिनः सेकादिना मनो- ज्ञता दर्शिता। इहाजनपदेऽनुविधायकाभावाण्णवश्रुतिरयुक्ता। पृषोदरादित्त्वाण्णत्व. मित्यपि वचोऽमूलकमेव । प्रत्युत 'अननं प्राङ्गणे जाले कामिन्यामजना मता' इति विश्वादिकोषात्तवर्गपञ्चमोपात्तमजनं केवलमिति शब्दप्रकाशाच नान्तवमेवेत्यवधे- यम् । आलवालं खल इति ख्यातम् । 'अम्भसां यत्र धारणं । स्यादालवालमावालं' इत्यमरः । विदग्धेति । मालानिर्माणं कामशास्त्रवैदग्ध्यद्योतनाय । उकं च मालाग्रथन विकल्पा इत्यादिनेति भावः । अतिसुकुमारतया कामिनोमनोहरतया सुगन्धितया सुन्दरतया चान्यपुष्पाणि त्यक्त्वा बकुलपुष्पैर्मालाप्रथन मिह । अत एव दमयन्तीखयंवरादावपि बकुलमालासममधूकमालापरिग्रहः। संचारिणी गम- नशीला मकरकेतोः कामस्य वैजयन्तिका पताका । गर्भभवनान्मध्यावासादुज्व- लया निर्मलयाग्राम्यया च शिशुप्रसाधनविरचनयोनीतः कुमारीभावः कुमारीलं यस्याः । कुमारीत्वेनावगुण्ठनपटाद्यभावात्तदुन्नयनमिति भावः । महानुभावप्रकृ. तिरतिप्रभावखभावा । अत्युदारो महान्दक्षिणो वा । 'उदारो महति दक्षिणे' इति शाश्वतः । परिजनदाक्षिण्यं सांनिध्यानयनेन ज्ञेयम् । तत एव तत्रैव ॥ तद्गुण- कीर्तनमाह-सेत्यादि । सा स्त्री रामणीयकस्य मनोहरताया निधेराधारस्या- धिदेवताधिष्ठात्री देवता । यद्वा रामणीयकमेव निधिस्तस्याधिष्ठात्री रक्षिका देवता । सौन्दर्यसारसमुदायस्य कान्तिनिर्यासपूरस्य निकेतनं गृहं वा । निकेतन- स्याजहल्लिङ्गतया सामानाधिकरण्यम् । मनोहरवं कान्तिमत्त्वं च तत्रैव दृष्टमिति- भावः । वा समुच्चये । यद्वा वा विकल्पे । तत्र निर्णेतुं न शक्यत इति विकल्पार्थः । यद्वा वेवार्थे । रामणीयकनिधेर्दैवतेवेत्यर्थः । 'वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये' इति विश्वः । यद्वा । रामणीयकं रूपादिसंपत्तिस्तन्निधेरधिदेवता । अनेन शोभोक्ता। यदाह-रूपयौवनलावण्यैरुपभोगोपबृंहितः। अलंकरणमङ्गानां शोमेति परिकीर्तिता ॥' सौन्दर्येत्यादिना कान्तिरुक्ता । यदाह-शोभैव कुसुमात्रेण पूरिता कान्तिरुच्यते । अतोऽनयोर्भेदः । अत्यन्तविलक्षणां तामालोक्योत्प्रेक्षते । नियतं नूनं तस्याः कारणं समवायिकारणमिन्दुसुधामृणालज्योत्स्नादिकमभूत् । चन्द्रो मुखस्य, सुधाधरस्य, मृणालं भुजयोः, ज्योत्स्ना लावण्यादीनामिति भावः। आदिपदेन पौ पादयोः, किसलयौ हस्तयोरिति ग्राह्यम् । सर्वो: पमाद्रव्यघटितेयमिति भावः । एवं मदन एवास्या वेधाः स्रष्टाभूत् । चकारोऽव- धारणे । वेदजडस्य पुराणस्य ब्रह्मणो नात्र निर्माणकौशलमिति भावः । अत्र कामस्य स्रष्टुत्वेनाश्रुतत्वात्कथमिति न देश्यम् । अस्या मोहिनीत्वेन मोहनपटुकाम: जन्यलोत्प्रेक्षणात् । अदृष्टचरत्वस्योत्प्रेक्षायामनुकूलत्वात् । असदारोपणस्योत्प्रेक्षा- स्वात् । नियतपदमुत्प्रेक्षाव्यजकम् ।. 'नूनमित्येवमादिभिः' इति वचनात् ॥२४॥ ..

२० जगद्धरकृता [अङ्कः १ " पृ० प० २५ ५ अथ सा प्रण । अनुचरिभिरविरलकुसुमसंचयावच- यलीलादोहदिनीभिर । ८ यतोऽस्याः । २६ २ च्छेदपाण्डुः क । ४ अन्तःकरणमाकृष्टवती । किं । २७ १ वयस्य माधव, स्ने । ९ °सोऽयमितीरयित्वा । प्रणयिनी स्निग्धा । अनुचरी दासी । संचयः समूहः । अवचयनोटनम् । दोहदोऽभिलाषः । सहर्षमाह-तमेवेति । खोद्देशेनाह-कस्मिन्नपीति । 'भागधेयं भाग्यम्' इत्यमरः । इहानुमानरूपो गर्भसंधिः कस्मिंश्चिदित्यनेनोक्तः । यदाह-'व्याप्येन व्यापकज्ञानमनुमानमुदीरितम्' इति ॥ विकारचिहमाह- परिमृदितेति । यथास्या अङ्गं परिमृदिता मर्दनविषयीकृता या मृणाली बिसलता तद्वन्म्लानम् । क्रियासु ताम्वूलभक्षणादिषु परिजनयाचनाभिरस्याः कथ- मपि प्रवृत्तिः । इह मृणालीपदेन तनुता, म्लान्या निद्राच्छेदः, कथमपीत्यादिना विष- यनिवृत्तिः कथिता। तनुत्वम्लानत्वमान्द्यैर्ला निरुक्ता । यदाह-'ग्लानौ तनुत्ववैव- य॑मन्दतादिनिदर्शनम्' । ननु तनुत्वादिना व्यभिचारिणा कथं कामविकारोन्नयन- मत आह । कलयतीति । तस्याः कपोलो हिमांशोः शोभां कलयति । अनेन पाण्डुता दर्शिता। कीदृशः। नूतनदन्तिदन्तखण्डगौरः। छिद्यत इति च्छेदः खण्डः। इहाभिनवपदेन सपुलकत्वं ध्वनितम् । तथा च कपोलपाण्डुत्वसपुलकत्वादिना कामविकारव्याप्तेन तदुन्नयनमिति भावः। विरहे पाण्डुतापि । यदाह-'अङ्गस्यासौ- एवं तापः पाण्डुता कृशता रतिः ॥ २५॥ वर्तिनेत्राजनलेखा । अयस्कान्तो लोहाकर्षको मणिः । लोहधातुर्लाहरूपं द्रव्यम् । अन्तःकरणं मनः । ममान्तःक- रणमाकृष्टवतीत्यर्थः । किं बहुनेत्यनेन सखेदनिःश्वाससूचनम् । संतापेत्यादि । ममैतचेतस्तस्यां विषय आसक्तम् , समन्तालनमस्तीत्यर्थः । संतापपरंपरैव महाव्यसनं तदर्थम् । तादर्थं चतुर्थी । संततिपदेन मालतीलाभमन्तरेण याव- जीवमविच्छेदस्तदलामे प्राणहानिश्चोक्का । कीदृशम् । अनपेक्षितनिमित्तम् । एतेन विषयालामेऽप्यस्य खाभाविकी प्रीतिरुक्का । यदाह-'अभ्यासादभिमा- नाच तथा संप्रत्ययादपि । विषयेभ्यश्च तत्त्वज्ञा विदुःप्रीति चतुर्विधाम् ॥' अनेन निजमुच्छृङ्खलत्वमपि निरस्तम् । अत एवाह-प्राय इति । बाहुल्येन भगवती भवितव्यतावश्यंभावि प्राकनकर्म जीवानां शुभमशुभं च विदधाति । अत एव सा सर्वकषा सर्वहरा । तथा च ममावश्यक दुःखम्, वं तु यथोचितं कुर्या इति भावः । आसकेल्यापर्वात् 'षच समवाये' कः । सर्वकषेति खच्प्रत्यये खित्वा- मुम् ॥ २६ ॥ मकरन्दः । माधवोक्तप्रीतेरनिमित्तकत्वमुपपादयति-नेह A. Enी rii anाभ्यन्तरे च। तदिह बायहेत्वपेक्षः मेहोऽस्थिर अङ्क: १] मालतीमाधवटीका। २१ पृ० प० २८ १ अन्योन्यभावच । ५ मञ्जीररसितानु । कलापकलकिङ्किणी । २९ १ मकरन्द: (खगतम् ।)। महतः प्रागनु । ७ विभ्रममुत्पलाक्ष्याः । एव । निमित्तनिवृत्तौ तन्निवृत्तरावश्यकलात् । अत आन्तरनिमित्तापेक्षैव नेह- स्येति भावः । विप्रतिषिद्धं विरुद्धम् । बाह्यनिमित्तापेक्षया विरोध इति भावः । खोक्ते युक्तिमाह-व्यतिषजतीत्यादि । आन्तरो हेतुः कोऽप्यनिर्वचनीयः पदार्थान्नरनारीप्रभृतीव्यतिपजति विशेषतो मेलयति । यतः प्रीतयो बहिरुपाधी- न्बाह्य हेतून्सौन्दर्यादीन संश्रयन्ते प्रकर्षणावलम्बन्ते । अत्र कोऽपीत्यनेन जन्मा. न्तरानुभवजनितसंस्कारताध्वनिः । न खल्वित्यनेन दृष्टश्रुतानुमितसकलैहिकोपा. धिनिषेधात्तथावसायः । अत एव विशेषप्रकर्षद्योतकाभ्यामुपसर्गाभ्यामासङ्गस्य जीवितावधिवमुक्तम् । उक्तं द्रढयति-यतः पतङ्गस्य सूर्यस्योदये पुण्डरीकं विक- सति । चन्द्र उद्गत उदिते सति चन्द्रकान्तो द्रवति क्षरति च । तथा च तीक्ष्णकरो- दये कोमलकमलदलविकासादमृतकरोदये पाषाणक्षरणाच्च सहजसिद्ध एव हेतुः । इह किं बाह्यं कारणं दृश्यते । तद्वत्प्रकृतेऽपि स्वाभाविक एव स्नेह इति भावः । पुण्डरीकपदमिह पद्ममात्रपरम् । अर्थान्तरन्यासोऽयम् ॥ २७ ॥ ततस्तत इति कथोपक्रमरीतिः ॥ माधवः । तत्र स्थाने । सभ्रूविलासमित्यादि । अथ तस्याः सखीजनेन तदा सोऽयमित्युक्खा सप्रत्यभिज्ञमिव पूर्वदृष्टमिति मामवलोक्य सभ्रूविलासं सभ्रूभनं यथा तथा कटाक्षाः क्षिप्ताः । एतेन कटाक्षाणां पूर्वदृष्टप्रत्य- भिज्ञाकारार्पणवमुक्तम् । कीदृशेन । अन्योन्याशयविज्ञेन । अनेन नायिकाव्युत्प. त्यतिशय उक्तः । कीदृशाः । रिमतमीषद्धसितमेवामृतं तेन मनोज्ञाः 'ईषत्प्रफु- ल्लितर्गण्डैः कटाक्षः सौष्ठवान्वितैः । अदृष्टदन्तकुसुमैरुत्तमानां स्मितं मतम् ॥' इति भरतः । वस्यादृष्टचरलेन संभावनायामिहेवशब्दः । अवलोक्येति । ललिता दृष्टिरियम् । यदाह-'मधुराकुञ्चितारा च सभ्रूक्षेपा च सस्मिता । सम- न्मथविकारा च दृष्टिः सा ललिता मता ॥' इह तु हर्षादियमुचिता । यदाह- 'धृती हर्षे च ललिता' । भ्रूविलासेत्यनेन मोडायितमपि कटाक्षितम् ॥ २८ ॥ मकरन्दः। प्रत्यभिज्ञैकस्य तत्तदन्तावैशिष्ट्यम् () । अस्या एवाकारः सोऽयमिति। नाम संभावनायाम् । अदृष्टचरलेन माधवप्रत्यभिज्ञाया असंभवादिति भावः । तामेव स्फोटयति-अथेति । अनन्तरं ताः सख्यो हे भर्तृदारिके खामिपुत्रि, हर्षेण वयं वर्धामहे, यतोऽत्रैव स्थाने कस्यापि कोऽपि तिष्ठतीत्युक्खा मामडली- खण्डलीलया कथितवत्यः । किं कृत्वा । सलीलं सविलासचेष्टितं यथा तथा प्रति निवृत्त्य । 'स्त्रीणां विलासचेष्टितं लीला' इति भरतः । उत्तालमुद्भटम् । विभ्रमो विलासो विशिष्टभ्रमणं वा मञ्जर्मनोज्ञः । मजीरो नूपुरः । रसितानुविद्धः २२ जगद्धरकृता [अङ्क: १ शब्दानुगतः । मेखलायाः कलापो गुच्छः । यद्वा मेखला च कलापश्च तयोः किङ्किणी क्षुद्रघण्टिका । 'मेखला च कलापश्च भवेच्छ्रोणिविभूषणम् । एकयष्टि- भवेत्काञ्ची मेखला खष्टयष्टिका ॥ रशना षोडश क्षेया कलापः पञ्चविंशतिः ॥' इति भरतः । इदं सर्व निवर्तनक्रियाविशेषणम् । गतिरियं विकला । यदाह- "आवेगे चैव हर्षे च कार्ये च बरयान्विते । एतेषु च गतिं प्राज्ञो विकलां संप्र- योजयेत् ॥' इति । 'राजा भट्टारको देवस्तत्सुता भर्तृदारिका' । राजपदमीश्वर- मात्रपरम् । तेनामात्यकन्यापि भर्तृदारिकेत्युच्यत इत्यवधेयम् । कोऽपि कस्या- पीत्यनेनानुद्भटोद्भावनेन तासां चातुर्यमुक्तम् । अत एव कस्यापीति सामान्यनि- देशात्क्लीबलम् । अन्यथा स्त्रीलिङ्गनिर्देशः स्यात् । कोऽपीति पुंलिङ्गनिर्देशस्तु स्पष्टार्थः । अन्यथा किमपीति निर्देशे पुष्पादिप्रतिपत्त्या संशयः स्यादिति भावः । अङ्गुलीदलपदेन सविलासाख्यानमुक्तं संगुप्तमाख्यानं वा ध्वनितम् । इदमा- ख्यानं नर्मवाक्यम् । यदाह-सहास्यवचनप्रायं नर्मेच्छन्ति मनीषिणः' ॥ मकरन्दः । हन्त हर्षे । उद्भेदः प्रकाशः ॥ कलहंसः । अनुबन्धिनी प्रतीय- माना ॥ अत्रान्तर इत्यादि । सखीनां दर्शनावसर एव पद्माक्ष्याः संबन्धि तन्मान्मथं कामजमाचार्यकमुपदेशकमाविरासीत्प्रकटीभूतम् । कीदृशम् । किमप्य- निर्वचनीयमत एव वाग्विभवाद्वचनप्रपश्चादतिवृत्तमतिशयितं वैचित्र्यं यस्य तत् । उल्लसित उत्थितो विभ्रमो भावमेदो यत्र तत् । 'यच्चित्तवृत्तरनवस्थितलं शृङ्गार- जो विभ्रम उच्यतेऽसौ । भेदास्त्रयस्तस्य मदानुबन्धकार्कश्यसंज्ञाः कथिता विदग्धैः ॥' इति भरतः । भूरि प्रचुरः सात्त्विकविकारो यत्र तत् । सत्त्वं मानसं किमपि तेन निवृत्तः सात्त्विको भावः । यदाह-'सत्त्वोत्कटे मनसि ये प्रभवन्ति भावास्ते सात्त्विका निगदिताः कविभिः पुराणैः। ते च-'खेदः स्तम्भोऽथ रोमाञ्चः खरभङ्गोऽथ वेपथुः । वैवर्ण्यमथुप्रलय इत्यष्टौ सात्त्विका मताः ॥' इति । अपास्त्र क्षिप्तं धीरवं येन तत् । महाभिजनवाद्यनपेक्षवादिति भावः । विजयि सर्वत्राप्रति. हतम् । कुमार्या अपि शिशुवाद्विजय इति भावः । उत्पलाक्ष्या इत्यनेन बहुविधे नेत्र- विकारे प्रीतिगो हाव इहोकः। यदाह-'भ्रूनेत्रादिविकारायः शृक्षाराकारसूचकः । स्थायिभावः स्थितो हाव ईर्ष्यातः प्रीतिगोऽपि च ॥' इह श्लोके विलास उक्तः । यदाह-'दयितावलोकनादौ विशेषोऽङ्गक्रियासु यः । शृङ्गारचेष्टासहितो विलासः समुदीरितः' ॥ २९ ॥ संप्रति 'हेला हावात्समुत्थिता' इति भरतानुसारेण हावा. नन्तरं हेलामाह-स्तिमितेत्यादि । 'नारीणां प्रियसंभोगलज्जासाध्वसकौतुकैः । खभावाविष्कृतो वेगो हेलेति परिकीर्तितः ॥' इति भरतः । श्लोकार्थस्तु तस्या भालोकितानां सहसा दर्शनानां पात्रं योग्योऽहमभूवं वृत्तोऽस्मि । 'सहसा दर्शनं यत्स्यात्तदालोकितमुच्यते' इति भरतः । कीदृशानाम् । मदीयरूपनिरूपणाश्चर्येण स्तिमितानि निश्चलानि हर्षेण विकसितानि प्रफुल्लानि च तेषाम् । दृष्टिरियमद्भुता। यदाह-समाकुश्चितपक्ष्माया विस्मयोद्भुततारका । सौम्या विकसितान्ता च दृष्टिः स्यादद्भुताभिधा ॥' यद्वा स्तिमितं मन्दं यथा तथा विकसिताना प्रकाशि- तानां प्रथमं नायकदर्शनेन शनैः शनैः प्रसारणमिति भावः । भनेनोत्तरोत्तरदर्श. :

अङ्क: १] मालतीमाधवटीका। २३ - पृ० प० ३१ १ तैश्च । नाभिलाषः सूचितः। उल्लसन्ती चपला भ्रूलतेव येषु तेषाम् । दीर्घलेन भूलतयो रूप. कम् । अनेन कान्तादृष्टिरुका । यदाह--'हर्षप्रसादजनिता कान्तात्यर्थ समन्मथा। सभ्रूक्षेपकटाक्षा च शृङ्गारे दृष्टिरिष्यते ॥' मसणानि चिक्कणानि लज्जया मुकुलि- तानि च तेषाम् । दृष्टिरियं मुकुलिता-'मुग्धा निमीलितान्ता च मुकुला दृष्टिरि. ष्यते ॥' इति भरतः। यद्वा सुखभावनया मसणं मन्दं यथा भवति तथा मुकुलि. तानाम् । एतेन दर्शनजनितानन्दसंपत्पर्यवसानं सूचितम् । पुनःपुनदर्शनाकाङ्क्षया तिर्यगायतलेन प्रान्ते निकटे च विस्तारवताम् । शङ्किता दृष्टिरियम् । यदाह- 'किंचिचलस्थिरा किंचिन्नमिता तिर्यगायता । गूढा चकिततारा च शङ्किता दृष्टि- रुच्यते ॥' अनेन कटाक्षपर्यवसानमुक्तम् । प्रतीपदिगायतमन्नेत्रपाते सति लज्जया दर्शनोत्सुकतया च किंचिदाकुञ्चितानां मुद्रितानाम् । आकुञ्चितेयं दृष्टिः । यदा- ह-'अनाकुञ्चितपक्षमाप्रा पुटैराकुञ्चितैस्तथा । संनिकुञ्चिततारा च कुच्चिता दृष्टिरु- च्यते ॥' न च 'कुञ्चिता सूचिता नष्टदुष्प्रेक्षाक्षिव्यथासु या' इति भरते नियमा दिह कुञ्चितदृष्टिकथनमयुक्तमिति वाच्यम् । लज्जया माधवे दुष्प्रेक्षखसंभवात् । पात्रं कीदृशम् । विविधं नानाप्रकारम् । स्तिमितदृष्टिप्रयोगेऽपि मयापि तथैव दृष्टि- प्रयोगः कृत इत्यर्थः । 'योग्यभाजनयोः पात्रम्' इत्यमरः । अभूवमिति भुवो लुङि सिचि रूपम् ॥ ३० ॥ अलसेत्यादि । पक्ष्मलाक्ष्याः प्रशस्तपक्ष्मयुक्तायास्तैरव- लौकितैः कटाक्षतापर्मम हृदयमपहृतं खवशीकृतम् । इह रक्षकबाहुल्यन गम. नवरया शङ्कया वावलोकितानामेव कटाक्षवमुक्तम् । कटाक्षस्तिर्यग्विलोकना- त्मकः कर्णाभ्यर्णसंचारितारकः सर्वानहरजाजनक इति भावः । तथा निश्चल- लेनापविद्धं मथितम् । मध्यमानतया द्रवरूपलेन पीतम् । अत एवोन्मूलितम् । तदा किमपि मया न ज्ञातमित्यर्थः । अत एवाशरणं रक्षकशून्यं जातम् । ततो यथाई कुर्विति भावः । कीदृशैः । लज्जयालसैन्दैिः कौतुकेन वलितैश्चलितैः । अथ मुकुलनेन मुग्धै रम्यैः । प्रीत्या स्निग्धै रूपदर्शनाद्भुतचिन्ताभ्यां निष्पन्दैरनि- मेषैः । पुनः कोऽयं द्रष्टव्य इति विषादान्मन्दरित्यर्थः । इयं विषादिनी दृष्टिः । यदाह-'विषादविस्तीर्णपुरा पर्यस्तान्ता निमेषिणी । किंचिनिष्टब्धतारा च नार्या दृष्टिविषादिनी ॥' यद्वा अलसं मन्दं यथा तथा वलितैः । इयं निर्विकारा दृष्टिः । यदाह-ललिताकुञ्चिता या च या च धीरावलोकिनी । निर्विकारा हगिष्टा सा साध्व्येवाकारगुप्तिषु ॥' तथा प्रथमदर्शनापेक्षयाधुना विशेषदर्शनादधिकं विकसता- न्तर्विस्मयेन मेरा मुग्धा तारा येषां तैः । इयं दृष्टिः स्निग्धा । यदाह-'किंचि. त्सहासेव सविस्मयेव सभ्रूसमुत्क्षेपकटाक्षयुक्ता । निधा निकामं प्रमदेव निष्ठा शशारजा दृष्टिरिह प्रदिष्टा ॥' यद्वा कटाक्षर्मम हृदयमपहृतमित्यनेन प्रीतिरुक्का । अन्यस्यापि चक्षुःप्रीतिहेतोर्मनोहरवं भवत्येव । अपविद्धमित्यनेन चित्तासङ्ग उक्ता। अपव्यधेरत्यन्तासावाचिखादिति भावः । पीतमात्मायत्तता नीतम् । अमेन २४ जगद्धरकृता [अङ्क: १ - पृ० ५० ३२ १ सेनाभिसंधिना। २ °मात्मनोऽपनि । ३ वेत्रश- स्त्रपा० । ५ कृतवती । तदाच० । संकल्प उक्तः। मानसव्यापारस्यात्मवशलादिति भावः । उन्मूलितमित्यनेन विषय- निवृत्तिः सूचिता । अशरणमित्यनेन चित्तापहरणादिनिवारकाभाव उक्तः । नायिकाया निरवयरूपता च सूचिता । अलसेत्यनेन निद्रोद्भेदः, वलित इत्यनेन अपानाशः । मुग्धवेन मधुरता, स्निग्धवेन साभिलाषत्वम् , अभिलष- णीयस्य स्नेहविषयत्वानिष्पन्दतया निकोचवैमुख्यम् , मदलेन सहर्षवम् , अधि- केत्यादिनान्तर्विकासिनी स्मेरतारा चेत्युक्तम् । एवं चालसवलितैरपहृतम् । योऽपि हि चोरादिः किंचिदपहरति स मन्दं मन्दं वलत इति भावः । मुग्धैः सहजरूपदर्शनातिमोहवद्भिः स्निग्धैर्मद्विषयस्नेहसूचकचेष्टावद्भिरपविद्धं क्षिप्तम् । पराभूतमिति यावत् । 'विद्धक्षिप्तेरिताः समाः' इत्यमरः । अनेन चेतसोनायत्ति- दर्शिता । ननु चित्तावक्षेपनिवारकं तदनुध्यानादिकं किमिति न कृतमत आह- निष्पन्दैर्विमुखैर्मन्दैर्मदेकविश्रान्तैश्च पीतं तदितरानुसंधानशून्यं कृतम् । तथा च नान्यविषयपरिशीलनकथेति भावः । अधिकेत्यादिनोन्मूलितम् । अनेन मनोनि- ग्रहाभावो मित्रोपदेशानवसरश्च सूचितः । इह पूर्वश्लोकेन नार्थपौनरुक्त्यम् । भालोकितावस्थाकटाक्षावस्थयोर्भदात् । नायकस्य रसाक्षिप्तचित्तवाद्वा ॥ ३१ ॥ तथाविधभावदर्शनेन हृदयंगमवं संभाव्यते । अपदेऽपि प्रेम्णोऽनिष्टाशङ्किवादिति भावः । अभिसंधिरभिप्रायः । यथाकथंचिदिति । चेतसस्तदपहृतवादिति भावः। वर्षवराः क्लीबास्तत्प्रायास्तत्प्रधानाः । यद्वा 'विनीताः सर्वसत्त्वाश्च क्लीबा- श्चैव खभावतः । जात्या न दोषिणश्चैव ते वै वर्षवरा मताः ॥' इति परिभा- पिता वर्षवराः । हस्तिनीसमारोहणादिना महावंशजखेन मालत्या उत्तम. स्त्रीत्वं सूचितम् । यद्वा हस्तिनीसमारोहणेनात्युच्चयानतया दूरदर्शित्वं सूचितम् । तत्रापि मन्थरगतिसूचनाय हस्तिनीग्रहणम् । हस्तिजातावपि स्त्रिया मन्थरगति- मत्त्वात् । एतदुभयं चिरं माधवावलोकनायेति भावः ॥ यान्त्येत्यादि । तया पक्ष्मलाक्ष्या यान्त्या मम हृदये गाढं यथा तथा कटाक्षो निखात इव दत्त इव । तदा तदवलोकनं मम हृदये लममिवेत्यर्थः । निखात इत्यनेन कटाक्षस्य दुःसह- बमुक्तम् । कीदृश्या । तदाननं वहन्या । कीदृशम् । मुहुर्वलिता वक्रिता कंधरा घाटा यत्र तत् । क्षणं क्षणं व्यावर्तमानं पश्यन्येत्यर्थः । आवृत्तवन्तमाव- र्जितनालं यच्छतपत्रं पद्मं ततो निरतिशया भा दीतिर्यस्य तत् । तनिभं तत्तु. त्यमिति वा । वृन्तादारभ्यावर्तनेन पद्मविवर्तनसिद्धिः । कीदृशः । प्रथममान- न्दहेतुतयामृतेन दिग्ध उपचितः पश्चाद्दर्शनानन्दविच्छेदाद्विषेण दिग्धः ॥ ३२ ॥ ततःप्रभृति तस्मादारभ्य ॥ परिच्छेदेत्यादि । विकारः कामजो भावोऽन्त- जेडयति मोहयति, तापं च कुरुते व्यथयति । यदा तत्प्राप्तिचिन्ता तदा जडतेतरका- योप्रतिपत्तिः । यदा च तद्यतिरेकचिन्ता तदा ताप इति कालभेदेन जाज्यताप- योनं विरोधः । तदुभयजनकवस्तुनोऽभावमाशझ्याह -कोऽपि विरिष्यानिर्वच- अंङ्कः १] मालतीमाधवटीका। २५ पृ० प० ३५ १ अहो अभिष्वङ्गः । ५ मेव यस्मात् । ३६ २ °लम्ब्य बालबकुलकुसु०। ४ ०एष वः सुमनसां संनि । ५ दारिका वर्तते । तस्या अमि० । ७ ०णीयता विधातुः स । ३७ २ तया च म । ६ सिदं खु भ० । ता जिदं० । नीयः परिच्छेदमियत्तामतीतोऽतिक्रान्तो निर्वस्तुमशक्यश्च । यः पुनरस्मिन्नन्म- न्यनुभवपथं न गतवानत एव परिच्छेत्तुं निर्वक्तुं चाशक्य इति भावः । सांप्रतं तदनुभवेन तयं किमिति न क्रियत इत्याशङ्याह-विवेकप्रध्वंसात्प्रशस्तज्ञाना- भावादुपचितमहामोहेन गहनः संकटः । तदानीं विवेकाभाव इति भावः । अनेन जडता दर्शिता ॥ ३३ ॥ परिच्छेदव्यक्तिरित्यादि । संनिकृष्टेऽपि घटादौ परिच्छेदव्यक्तिनिर्णयाभिव्यक्तिन भवति । घटादिकमपि निर्णतुं न शक्नो- मीत्यर्थः । अनेन बाह्येन्द्रियाणां विषयव्यावृत्तिरुक्ता । अभ्यस्तेऽपि वारंवारमनु- भूतेऽपि स्मरणमतथाभावेन खण्डस्फुटिततया विरसं वैरस्यवत् । एतेन मन- सोऽपटुवमुक्तम् । इयमनुस्मृत्यवस्था । विषयनिवृत्त्या संतापः शीतलसेवनादपि नापतीत्याह-हिमसरसि शीतलसरोवरे चन्द्रमस्यमृतकरकिरणे वा मनःसंताप- हानिः । चन्द्रमःपदं लक्षणया खकिरणमाह-इयमुद्वेगावस्था । यदाह-'आसने शयने वापि न तिष्ठति न तुष्यति । औत्सुक्यं च भवेनित्यमुद्वेगस्थान एव च ॥' निष्टाशून्यं धैर्यरहितं मनो भ्रमति च खल्पलात् । किमपि मनोरथमालिखत्यालि- गति । अनेनोन्मादावस्थोक्ता ॥ ३४ ॥ कलहंसः। अपहृतो वशीकृतः। अपिः संभावनायाम् । नाम प्रकाशे ॥ स्वगतमिति । 'यत्तु श्राव्यं न सर्वस्य खगतं तदिहोच्यते ॥' इति भरतः। अभिष्वा आसक्तिरूपो मनःपराभवः । 'आक्रोश- शापाभिभवेष्वभिष्वङ्गपदं विदुः' इति शाश्वतः ॥ मा मूमुहदिति । अनन्य. जन्मा कामः खल्वत्यर्थ मा मूमुहत् । न चित्तविप्लवसहितमजीजनत् । एवं च ते मतिर्मलीमसविकारेण कामजेन घना निबिडा मा भूदित्यादिनिषेधवाक्यमि- हानर्थकमेव । ननुपदमनन्वये । यतः कामो जृम्भितो वलयितो गुणो ज्या यस्य सः। जृम्भितगुण उपचितव्यापारो वा कामः । नवयौवनं च जृम्भितगुणम् । प्रकाशितरूपादिकमस्तीत्यर्थः । अतस्तत्पराधीनोऽयं न निषेधुं शक्य इत्यर्थः ॥ ३५ ॥ प्रकाशमिति । 'यत्तु सर्वजनश्राव्यं प्रकाशं तदिहेष्यते' इति भरतः । अन्वयो वंशः ॥ माधवः । करेणुका हस्तिनी । अन्यतमान्या । खार्थे तमप् । यद्वा एकपर्यायोऽयमव्युत्पन्न एवान्यतमशब्दः । वारयोषिद्गणिका । तस्या ईदृक्वादुपादानमिह । विलम्ब्यैकाकिनी भूखा । नेदीयसी निकटस्था च भूला । उभयत्र पुष्पत्रोटनक्रमेणेति योज्यम् । कुसुमापीडव्याजेन पुष्पदामच्छ- लेन । अभ्यर्थनाभङ्गभयेन च्छलेन मामाहेति भावः । अथ च कुसुमेनापीडयति कुसुमापीडः कामः । तम्याजेन मां प्रणम्येत्यर्थः । महाभाग महाभाग्य । 'भागो जगद्धरकता [अङ्कः १ पृ० प० ३८ २ तां च किल राजा । नाय प्रार्थयते इ० । ४ तया चाहमनुरुध्यमा।८ पौरजनस्य । ३९ २ °कामाभिष्वङ्ग । ४ °भागधेयाः कुमार्योऽन्यत्रास । भाग्यायोरपि' इति विश्वः । सुश्लिष्टगुणतया सुलमसूत्रलेन । संनिवेशो रच- नामेदः । कुतूहलिनी पुष्पदानि कौतुकवती । भर्तृदारिकेत्यनेन कन्यावाद्दर्शनौ- त्सुक्यमुक्तम् । यद्वा भरतेन कन्याया विशम्भपात्रखखीकारादिह कन्यालेन तत्सूचनम् । अभिनवो लोकोत्तरो विचित्रो बहुप्रकारः । कुसुमेषु पुष्पेषु व्यापारो रचनाप्रबन्धः । एतेन माल्यप्रथनकुशलाद्भुतकौशलकुतूहलिनी सेत्युक्तम् । वैदग्ध्यस्य प्रथनचातुर्यस्य । कृतार्थता कृतप्रयोजनता । विदग्धप्रेयसीयं प्रशंस- येति भावः । फलतु सफलास्तु । विदग्धजनाय दानात् । सरस एवाम्लान एव सक्संनिवेशः। महार्घतां बहुमूल्यताम् । पक्षे वो युष्माकं संनिवेशः संयोगः । परस्परानुरूपादिना रमणीयः क्रीडा)ऽर्हणीय एव । इह व इति युष्मदो 'गुरा- वेकेषाम्' इति गौरवे बहुवचनम् । कुतूहलिनी दूतसमाजे साकाङ्क्षा । अभिनवो. अभूतपूर्वः । तदेकासकलात् । विचित्रः साधुः । विविधविकारकारित्वेनाश्चर्यज- नको वा कुसुमेषोः कामस्य व्यापारो मोहनम् । वैदग्ध्यस्य सकलकलाभिज्ञतायाः सार्थकलम् । विदग्धप्रीतिजनकलात् । निर्माणरमणीयता घटनसौन्दर्यम् । फल- खमनुरूपजनसंसर्गात् । नो चेदिदं सर्व व्यर्थमिति भावः । सरसः शृङ्गारोऽनु- रागो वा । कण्ठावलम्बनमालिङ्गनम् । महार्यता दुर्लभलम् । तदिह श्लिष्टपदेन नायकव्युत्पत्तिमभिप्रायं च ज्ञाला दूतीव्यापारः प्रसरतीति ध्वनितम् ॥मकरन्दः। वैदग्ध्यं श्लिष्टपदप्रयोगादिति भावः ॥ माधवः । अनुयुक्तया पृष्टया । प्रसूतिरपत्यम् । प्रसादभूमिविश्वासस्थानं तस्याः । तव च प्रसादभूमिरनुकम्पा- पात्रं मालादानात् ॥ कलहंसः। अत्र विलसितं विजृम्भितम् । अनयोरन्यो- न्यानुरागादिति भावः ॥ मकरन्दः । बहुमानस्य गौरवस्यापर्याप्तिरनवधिक- खम् ॥ अनभियोज्यसरक्षणत्वादियोगादिति भावः ॥ माधवः । अनुरुध्यमानो मुहुर्याच्यमानः । असौ लवङ्गिका । अभिनिविष्टयातियत्ननिवेशितया । विहस्त- तया व्याकुलतया ॥ महानयं प्रसाद इति । यतो न वस्तुनि प्रेम किंतु गुणेष्विति भावः ॥ मकरन्दः । सुश्लिष्टं निश्चितम् । दृष्टपूर्वः पूर्व दृष्टः । तादृश्यो महाकुलजाः । चक्षुरागानुरागयोरेकविषयलं भरतमतम् । अन्यदप्यनु. रागचिहमाह-अन्योऽन्येत्यादि । यि तस्याः प्रागनुरागचिहं व्यक्तमेवास्ति । कथम् ? सखीनामन्योन्यसंगतदृशां कस्यापि कोऽपीति निवेदनमेकम् । कथम- न्यथा सखीजनस्वां वीक्ष्य कटाक्षयति तो कथं वा सखीजनोवदत्त्वमिति भावः। अपरं लवझिकाया व्युत्पन्नं वचनम् । कथमन्यथा कुतूहलिनीत्यादि वदतीयमिति भावः । 'संगते दारिते भिन्नः' इति विश्वः ॥ ३६॥ कलहंसः । अत्र येन जनेनोपहृतम् । यनिवन्धनोऽस्य कामविकार इति भावः ॥ मकरन्दः। मालत्या अङ्क: १] मालतीमाधवटीका ७ कामः, पृ० प० १० ३ केनैतन्माधवस्य प्रतिच्छन्दकमभि०। ७ ते वितर्कः ८ °कलहंसक, कु० । १३ विणोदो ति । १४ स्य माधव, सर्वथा समा' । ४१ ३ द्रष्टव्यखरूपा० । लिख्यतां मालती । ४ स्याय तदुपनय चित्रफलकं चित्रवर्तिकाश्च । (मकरन्द उपनयति।) (लि.) । ५ दृशोरुद्गमं बा० १० तथापि व्यवसितो । ११ तोऽभिष्वङ्गः। लिखितमित्यर्थः ॥ कलहंसः। अथ किं खीकारे ॥ माधवः । वितर्क ऊहः ॥ मकरन्दः । अधिगमः प्राप्तिः ॥ कलहंसः। उत्कण्ठाविनोद इति । माधवानुरक्ता मालती तमननुप्राप्तवती चित्रलिखितालोकनेनापि रमत इति भावः ॥ येत्यादि । हे सखे, तत्संगम प्रति नैव संशयोऽस्ति । भवतो नयन- योर्या कौमुदी ज्योत्स्ना आनन्दकारिवात् । तस्या मनोरथबन्धबन्धुरभिलाषनि- बन्धाय प्रियः शोभनजन्मा भवानपि । ननु परस्परानुरागेऽपि विधिकामवै- मुख्यान सिद्धिरत आह-यस्मिन्संगमे विधिमदनौ कृतप्रयत्नौ । चक्षुःप्रीत्या एतद्देशानयनाद्विधिः कृताभियोग इत्यर्थः । अभियोगाच कन्यालाभः । यदाह-'अमियोगाद्धि कन्याया लाभो निश्चित एव च' इति ॥ ३७॥ चित्रण माधवचित्तानुरागमुद्दीपयति-द्रष्टव्येति । माधवः। वयस्यायेत्यत्र 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानता । अधुना मनःसङ्गे हर्षात्सात्त्विकभावमाह-वारं- वारमित्यादि । अयं मम पाणिर्लेखाविधिषु चित्रनिर्माणेषु नितरामत्यर्थ वर्तत एव न तु लिखति । अत्र किं करोमि । यथा तथा लिखामीत्यर्थः । 'न तराम्' इति पाठे नैव वर्तत इत्यर्थः । यतो बाष्पपूरस्तदनुध्यानादानन्दाश्रुप्रवाहो वार- वार दृशोद्गमं प्रचार तिरयति च्छादयति । तस्याः संकल्पेन चिन्तनेनोपहितो जडिमा सर्वकार्याप्रतिपत्तिर्यस्य तद्गात्रं शरीरं स्तम्भ निश्चललमभ्येति। 'हर्षरोगभय. विस्मयविषादमददोषसंभवः स्तम्भः' इति भरतः । कीदृशः । सद्यो लिखनोपक्रम- काल एव खिद्यनार्दीभवन् । अविरतोत्कम्पेनाधिकचलनेन लोलाङ्गुली यत्र सः । अडल्या लिखनहेतुतया तच्चापल्यादलिखनं सूचितम् । तदिहाश्रुस्तम्भखेदकम्पा उक्ताः । रोमाञ्चादिकं च नोकम् । तेषां लिखनाप्रतिकूलखात् । सर्वमिदं सात्त्विकं हर्षात् । यदाह-'क्रोधभयहर्षलज्जादुःखश्रमरोगतापपीडाभ्यः । व्याया- मसाध्वसादेः खेदः स्यात्पीडनेनापि ॥ शीतभयहर्षरोधस्पर्शजरारोगजः कम्पः ॥' इति ॥ ३८ ॥ अधुना मालती चित्रं द्रक्ष्यतीति सानुरागोपालम्भं श्लोकं लिखति- जगतीत्यादि । ते ते नवेन्दुकलादयो भावाः पदार्थी जयिनो मदजनने सर्वत्राप्रविहताः खभावतो मनोज्ञा अन्ये सन्त्येव ये मनो मदयन्ति । मम सुनर्न मदहेतवः प्रत्युत दाहहेतव एवेति भावः । अत्र जयिन इत्यनेन कालविशेष २८ जगद्धरकृता [अङ्कः १ पृ० प० ४२ .५ (प्रविश्य सखरम् ।) । ६ कलहंसअ, पआ० । रेण उवल० । ४३ १ (माधवमकरन्दी विलोक्य सल० ।)। ३ °इत आस्यताम् । ३ (उपविश्य ।) कल० । १२ °भाअ, अह इं। ४४ ८ वयस्य, खरतरकिरणोऽयं खरतरकिरणोऽयं भगवान्सहस्रदीधितिरलंक- रोति मध्यमह्नः । त० । मेव गच्छावः । देशविशेषे च जयशालिन आनन्दसंदोहदा इत्युक्तम् । भाव्यन्ते भावनामर्हन्ति सुन्दरतयेति भावाः । मालतीभिन्नाः सहृदयाह्लादकाः । ते त इति वीप्सया चन्द्रादयो देवादयश्व प्रसिद्धा एवेति दर्शितम् । सर्वनाना च ये यत्र चेतःप्रति. टास्ते तत्र गृह्यन्त इति ध्वनितम् । तुशब्देनान्येषां तथावं तत्संप्रतिपत्तिद्वारे- त्युक्तम् । कतर्हि मदहेतुरत आह-मम पुनरियं चित्रलिखिता मालती नयनयो. ज्योत्स्ना यनेत्रगोचरं प्राप्ता स एवैकोऽत्र जन्मनि महोत्सवः । अत्र किं पुनः संभोगादिकमित्यनुरागः । स एव महोत्सवः । अनुरागो भवतु मा वा भूदित्यु- पालम्भः । एतेनात्यन्तानुरागो मालत्यां दर्शितः । एकपदेनान्येषामाविर्भावेऽपि नानन्दकलम् । अत एव स एवेत्यनेन तत्पोषः । जन्मनीति सामान्यनिर्देशेन समस्त जन्मनि मालतीतुल्या नास्तीति व्यज्यते । वाचिकोऽयं रसः । यदाह- 'रसानुरूपैरालापैः श्लोकैर्वाक्यैः पदैस्तथा । नानालंकारसंयुक्तैर्वाचिको रस उच्यते ॥' इति । इह प्रकृतिमधुरखेऽपि मालत्या एव मदजननाद्यतिरेकालंकारः । प्रियाख्यानात्प्रियोऽलंकारः । विलोचनचन्द्रिकेति रूपकम् । न चात्र नवेन्दुकला प्रतिपच्चन्द्रकला, सा च न मदहेतुरिति वाच्यम् । यतो नूयत इति नवः । प्रश. स्तेन्दुरित्यर्थः । यद्वा नवं नूतनमिन्दुकलादिकं चेति द्वन्द्वः । यद्वा नवः सागरा- दुत्थितमात्रः । पूर्ण एवेत्यर्थः ॥ ३९ ॥ प्रविश्येति । यत्र पटीक्षेपेण प्रवेश. स्तत्र प्रविश्येत्युक्तिः । अनुसारोऽनुसरणम् । एतेऽपि ये चित्रफलके लिखिताः । इह गौरवादेकले बहुवचनम् । द्वित्वे वा बहुवचनम् । मालत्या अभिलिखित इति शेषः । तथा च मालत्या विनोदाय माधवो लिखितस्तेनापि सा तदर्थ लिखिते- त्यर्थः ॥ मन्दारिका । अत्र विज्ञानं शिल्पिकौशलम् । अनुरूपानुरागादनयो. रिति भावः । अवितथं सत्यम् । एवमेतन्मालत्यैव माधवप्रतिच्छन्दकं लिखित- मित्यर्थः। वातायनगता दृष्टवतीत्यर्थः । लवनिकाया द्वारा माधवानुरागोमालत्याम- स्वित्यर्थः ॥ मकरन्दः । संस्त्यायो गृहम् । 'संस्त्यायः संनिवेशे च संघातेऽपि च दृश्यते' इति मेदिनीकारः ॥ धर्मेत्यादि । मालत्याः परिजनवारसुन्दरीणां कपोलकुङ्कुमानि प्रातर्विरचितविचित्रपत्रावलीवैदग्ध्यं यत्तदधुना मध्याहे जहति त्यजन्ति । कैः । धर्माम्भसो विसरस्य समूहस्य विवर्तनैर्विविधजलकणैः करणैः अङ्क१] मालतीमाधवटीका। २९ अनेन नायिकायाः सुकुमारतया निःसहवमुक्तम् । मालत्याः कन्याखेन पत्रा- वल्यभावात्परिजनेत्युक्तम् । माङ्गल्यतया प्रातरेव कुङ्कुमेन पत्रावलीलिखनम् । अत एव वसन्तकालस्य शीतलाकुङ्कुमेन भूषाकरणमिति मतमपास्तम् । 'धारा- सिक्तवसुंधरासुरभयः' इत्यभिधानाद्वर्षाकालप्रस्तावात् । 'समूहो निवहव्यूहसंदोह- विसरबजाः' इत्यमरः । इहोन्मादावस्था । अत एवात्र तत्संबद्धा कथा । यदाह- 'तत्संबद्धा कथां युङ्क्ते सर्वावस्थागतामिह' इति ॥ ४०॥ उन्मीलदिति । हे पवन, उन्मीलन्मुकुलेन विकचकोरकेण करालाद्विषमात्कुन्दगुच्छात्क्षरनिबिडम- करन्दश्च तयोर्बन्धो । मकरन्दस्य यो गन्धस्तद्वन्धो । तत्सहवरेति वा । ईदृ- शोऽपि वं मे न सुखाय किंतु तापाय अतस्तां मालतीमीषदालिङ्गन्ममाङ्गमों प्रत्यङ्गं स्पृश । अमृतमयतदङ्गसङ्गशीतस्त्वं मम तापशान्तये भविष्यसीति भावः । यद्वा तदीयतापशान्तिर्भवलित्यनुरागात्तामालिङ्गनित्युक्तम् । तां की. शीम् । प्रचलनेत्रां विरहे पवनस्य दुःसहत्वेन भयादितस्ततः क्षिप्तनेत्राम् । अत एव नम्रीभवदनां च । इह विषमकुन्दकोशसंचरणेन गतिप्रतिबन्धान्मा. न्यम् , मकरन्दसनाच्छैत्यम् , गन्धबन्धुतया सौगन्ध्यं च वायोरुतम् । ईषद्वा. लिङ्गनित्यनेन सुरभिपदेनाभिघातनिःसहवं मालत्यामुक्तम् । 'करालो दन्तुरे तुङ्गे' इत्यमरः ॥ ४१ ॥ माधवस्यानङ्गदुःसहलमाह-अभिहन्तीत्यादि। एष स्मरोऽनवग्रहः प्रतिरोधशून्यः कोमलकायं माधवं कथमचिरेणैवाभिहन्ति । हन्तानुकम्पायाम् । 'हन्त हर्षेऽनुकम्पायाम्' इत्यमरः । कीदृशः । विकृतस्य भावो वैकृतम्, तस्य विवर्तोऽन्यथावसानं तेन दारुणो दुःखदः । यथा कलभं करिबालकं मृदुकायं कठोरो दुःसहः कूटपाकलो हस्तिवातज्वरोऽचिरेण हन्ति तथेत्यर्थः । सोऽप्यनवग्रहोऽप्रतिकरणीयो विकृतिविवर्तदारुणश्च भवति । 'गज वातज्वरो हन्ति तथा वै कूटपाकलः' इति वैद्यके ॥ ४२ ॥ मकरन्दः । इदं खगतम् । खयमनध्यवसायादाह-तदत्रेति । अत एव भगवती ज्ञानसंपन्नेह शरणं रक्षिका । द्वितीयाङ्कावतारोऽयम् । यदाह-'अङ्कावसाने यत्रैव भावि. नोऽङ्कस्य सूच्यते । वस्तुबीजमुपोद्धातैः सोऽङ्कावतर इभ्यते ॥' इदानीमुन्मादा- वस्थोद्भावनाबलात्तन्मयसमाह-पश्यामीत्यादि । तामेकामेव विवर्तमानां प्रपञ्चरूपां परितः सर्वत्र पश्यामीत्याश्चर्यम् । विवर्तमानत्वमेवाह । इत इत उभ- यपार्श्व । पुरतोऽग्रे । पश्चात्पृष्ठे । अन्तर्मनसि । बहिस्त्वम्भागे। अनेन तदावेशा- त्सर्वत्र तन्मयत्वमुक्तम् । यदाह-'यो येन भावेनाविष्टः सुखदेनेतरेण वा । स तदाहितसंस्कारः सर्व पश्यति तन्मयम् ॥' परित इत्यत्र 'पर्यभिभ्यां च' इति तसिः । कीदृशीम् । वकं वहन्तीम् । उद्बुद्धं विकसितं मुग्धं कान्तं यत्सुवर्णपद्म ततो निरतिशया भा दीप्तिर्यस्य तत् । तनिभं तत्तुल्यमिति वा । एतेन गौरीत्व. मुक्तम् । आसकेन मय्यासक्त्या तिर्यगपवर्तिता दृष्टिर्यस्य तत् । यथा यान्या तयाहं दृष्टस्तथैव तां पश्यामीति भावः ॥४३॥ अधुना सकारेण पीडा. माह-प्रसरतीत्यादि । वयस्य, पश्य । संप्रति मम कोऽप्यनिर्वचनीयखरूपो देहदाहः प्रसरति व्यानोति । अत एव परिमाथी सर्वतो मथनशीलः । करणाना. मिन्द्रियाणामर्थप्राहकवं मे प्रमोहस्तिरयति पिदधाति । सर्वेन्द्रियसंमोहो 'ममे- जगद्धरकृता [अङ्कः १ पृ० १० ४६ ८ मासक्तति। ४७ ६ इति बकुलवीथिनाम प्रथमोऽङ्कः। त्यर्थः । मम गात्रं शरीरम् । कर्तृ । रणरण कस्य वियोगतरोर्वृद्धिमुपचयं बिभ्र- दावर्ति भ्राम्यदस्ति । यद्वा रणरणः कामस्तस्य विवृद्धिमधिकाधिकदशागामित्वम् । 'मारो रणरणः कामो विषयः' इत्युत्पलिनी । तथा मम हृदयम् । कर्तृ । अन्त- दहति । ज्वलतीत्यर्थः । तन्मयलं मालतीमयलं च धत्ते । ईदृशी मम दशा सद्य एव विपत्तिमादधाति । तदत्र यथावत्त्वमाचरेति भावः । अत्रावतीति व्याधिः । ज्वलतीत्युद्वेगः । तन्मयत्वमित्युन्मादः । हृदयस्य तु तन्मयत्वधारणेन दुःसहदशायामपि जीवनाशा दर्शिता । 'करणं साधकतमं क्षेत्रगानेन्द्रियेध्वपि' इत्यमरः ॥ ४४ ॥ निष्क्रान्ता इति । बीजार्थ युकं कृत्वा निष्कमो भवति । यदाह-बीजार्थ युक्तियुक्तं च कृत्वा कार्य यथारसम् । निष्क्रमं तत्र कुर्वीत सर्वेषां रङ्गवर्तिनाम् ॥' इति ॥ बकुलवीथीति । 'नानारससमायुक्ता संधि. द्वयविभूषिता । अर्थप्रकृतिभिः पूर्णा स्यादेकाङ्का तु वीथिका ॥ त्रिभिः पात्रः प्रयोज्येयमुत्तमाधमध्यमैः । कर्तव्या नायिका चात्र शृङ्गारद्वयसंयुता ॥ इति भरतः॥ प्रासूत यं रत्नधरो गुणाढ्यो गुणाढ्यरूपा दमयन्तिका च । जगद्धरं तत्कृतटिप्पणेऽहो गतोऽयमाद्यो रसराजराजी ॥ इति प्रथमोऽङ्कः।

" " । द्वितीयोऽङ्कः। पृ० प० ४८ ३ °दुदीआ तुमं किं मन्तअन्ती । ६ णिवेदिदो । प्रथमा-तदो किं । द्वितीया-तदो भ०॥ ४९ १-२ °त्ति मअणुज्जाणादो जेव्व णागदा ता किं संपदं संपत्ता। ३ खु परावट्ठन्तीं हत्थे गेण्हिअ पडिसिद्धपरि०। ५० २ ता जादो आमरणं । अधुना बकुलमालामादाय लवनिका गता, तां प्रतीक्षमाणा मालती सौधा- रूढा तन्मार्ग पश्यती, मकरन्दश्च 'कामन्दकी नः शरणम्' इत्युक्त्वा तो तत्क- थनाय गतः, इति स्थिते चेव्योः प्रवेशः। चेटीभाषा सौरसेनी । यदाह- 'नायिकायां च चेव्यां च सौरसेनी प्रयुज्यते' । न च 'नाटकप्रकरणयोरङ्काः कार्याः प्रत्यक्षनायकाः' इति भरतादिह माधवप्रवेशाभावात्कथमङ्कावतार इति देश्यम् । मालत्या नायकलेन तत्सत्त्वात् । यदाह-'गुरुः पुरोहितोऽमात्यो नायको नायिकापि च । सार्थवाह इति प्रोक्ताः षडेते नायका बुधैः' इति ॥ प्रथमा । अत्र हला सखि । परिसरे निकटे ॥ द्वितीया । अत्र वृत्तान्तो वार्ता ॥ द्वितीया । भर्तृदारिका मालती। प्रवृत्तिर्वार्ता । विविक्तं विजनम् । इह मकरन्दाज्ज्ञातमाधवावस्थया कामन्दक्या प्रकृतसिद्धयेऽवसरज्ञानार्थ मालती वार्ता ज्ञातुं प्रहितावलोकितेति भावः ॥ प्रथमा । अत्र केसरो बकुलः । अवचिनोमि त्रोटयामि । इति हेतौ ॥ द्वितीया । अत्र परापतन्ती सत्वरमाग. च्छन्ती । कृतकार्यत्वेन सत्वरमागमनं भूतधर्मः । उपर्यलिन्दकम् । बाह्यपदृशा- लाया उपरीत्यर्थः । द्वितीया । अत्रातिभूमिमुत्कर्षम् । अभिनिवेश आ- सक्तिः । कल्यं प्रातः । 'कलि' इति पाठे कल्लिशब्दो देशी पूर्वदिनवाचकः । अत एव 'कलि पल्लीनिवासिनः' इति ॥ प्रथमा । किं विज्ञप्तमित्यर्थः ॥ द्वितीया । इदमभूताहरणं वाक्यम् । यदाह-'अभूताहरणं तत्स्यायद्वाक्यं कपटाश्रयम्' वाक्यतत्त्वमज्ञात्वाह । अत्र दुःखदखेन शल्यमिव शल्यम् । अजहल्लिङ्गम् ॥ प्रथमा । अत्रापि नाम संभावनायाम् । भगवतीलं ज्ञानादिवैभवम् । निष्क्रान्ते चेट्यौ ॥ प्रवेशक इति । वक्तव्यस्य च बहुत्वाद्रसभङ्गप्रसङ्गेनान्योक्त्या प्रवे. शकः । यदाह-'यस्तु प्रयोगबाहुल्यादङ्केऽर्थो न समाप्यते । बहुवृत्तान्तोऽल्प- कथैः स विधेयः प्रवेशकैः ॥ अङ्कानामन्तरालेषु संक्षिप्तार्थप्रयोजनैः । भृत्यवर्ग कथाबद्धो विज्ञेयोऽयं प्रवेशकः ॥' मालती । हुं प्रश्न । लवक्षिकाकथितबकुल- मालाप्रार्थनापर्यन्तश्रुतवार्तया मालत्याप्रिमवार्ताकर्णनोत्कया पृच्छयत इत्यर्थः ।

३२ जगद्धरकृता [अङ्क: २ पृ० प० ५१ २ ०णीदा. मे इअं० । ५२ ३ पेरन्तपरिअत्तणावि० । ५३ २ °दअं णच्चाविदासि । ५ °सओ णाम का। ५४ १ ०अत्तणो पहुस्स दं० । ४ णिवावअंतु । ७ अणा- सङ्गो । जे० । संभावेमि । ९ दाए लक्खिअदि० । विरहोत्कण्ठितेयम् । यदाह-'अनेककार्यसंयुक्तो यस्या नागच्छति प्रियः । तदनागमदुःखार्ता विरहोत्कण्ठिता तु सा'॥ प्रियकथापरखे मोहायितभावोऽयम् । यदाह-'श्रुत्वा कथां प्रियजनस्य सखीमुखेभ्यः कर्णोदरस्थितचलत्तनुतर्जनी- कम् । यत्साङ्गभङ्गमिह जृम्भितमानानां मोट्टायितं तदुदितं कविभिः पुराणैः ॥' मालती। प्रतिबद्धा घटिता ॥ मालती । मालती माधवचेष्टाकर्णनाकाङ्क्ष- याजानतीवाह-कथमिव । कथं ममापराध इत्यर्थः ॥ लवङ्गिका । अत्र दूर्वेत्यादिना शृङ्गारित्वे तात्पर्यमुक्तम् । तथानिर्वचनीयप्रकारेण । विहस्तो व्याकुलः ॥ लवङ्गिका । सोऽपीति । अत्र स खयापि विलोचनाभ्यां पश्यन् प्रत्यक्षीकृतो दृष्ट एवेत्यन्वयः । अपिभिन्नक्रमः । उद्वेलकम्पमानम् । विभ्रमो विशिष्टा भ्रान्तिः सेऽयमित्याकारा । सादृश्यं वा विभ्रमः । माधवस्य पुण्डरी- काक्षत्वात् । विरचनापदेशेन घटनाव्याजेन यः संयमोऽन्यादर्शनं तं प्रापिताभ्यां बलामोड्या बलात्कारेण विस्तरं गच्छद्भ्याम् । बलामोडिर्बलात्कारे देशी । यद्यप्यवलोकयन्नित्यनेन लोचनाभ्यामिति प्राप्तं तथापि विशिष्टलोचनप्रतिपाद- नाथं तदुक्तम् । विजृम्भमाणो वर्धमानः । स्तिमितः स्निग्धः । दीर्घपर्यन्तमति- दीर्घम् । परिवर्तना पुनःपुनर्गमनम्, तत्र विलासो विशिष्टदृष्टिव्यापारस्तेन ताण्डवितया नर्तितया भ्रूलतया विडम्बितः समीकृतोऽनङ्गशारङ्गविभ्रमः काम- धनुर्विलासस्ततो विदग्धमिति क्रियाविशेषणम् । 'गमनासनपाणिपादचेष्टा सवि- शेषं नयनभ्रुवां च कर्म । दयितोपगमे यदप्रयत्नास्क्रियते नूनमयं विलास उक्तः ॥' इति भरतः । शारगरगत इति प्रयोगाच्छारनेति भिन्नो रेफः ॥ 'शारङ्गं धनुषि स्मृतम्' इति शाश्वतः । ततस्त्वदवलोकनविकलता मालारम्यत्वे हेतुरिति तात्पर्यमिह-मालती । आमिति तदुक्तखोकारे । 'अम्मो' इति पाठे अम्मो हर्षे वितर्क वा । विप्रलम्भितो विप्रलम्भं प्रापितः । तारकादिखा- दितच् । ततः स्वार्थ कः । आदुशब्दोऽत्राहोखिद्वाचकः । शीलस्य बहुकालपरि- चेयतया मुहूर्तमान संनिधाने विप्रलम्भचिन्ता । किमिदं नयनविकारादिखाभा- विकमानुरागिकं वेति ज्ञातुं न शक्यत इति भावः । 'विप्रलम्भइत्तकाः' इति पाठे विप्रलम्भचिन्तका इति ज्ञेयम् ॥ लवनिका । अत्र मन्मथेनेति शेषः । असंगीतकं निभृतनृत्यं यथा तथा नृत्यं कारितासीत्यर्थः । सासूयं परद्वेषसहि- तम् ॥ मालती। हुमिति प्रणयकोपे ॥ लवङ्गिका । अत्र तस्मिन्माधवे । खलु हेतौ । हस्तीकृतं न्यासीकृतम् ॥ लवङ्गिका । अत्र कामयत - अङ्क: २] मालतीमाधवटीका। पृ० प० ५५ १ ताओ अम्मकाओ जाओ० । पहवन्दि । (इति रोदिति ।) (सास्रम् ।) १० विसेसदो अज्ज पिअसहि, (संस्कृतमाश्रित्य ।) ५६ १ रागस्तीनं वि० । विसर्पत्यविरतं । २ निधूमो ज्व। ५ एव्वं जेव्व पच्च० । ७ ०णेण सविसेससमि० । ८ सं- पत्त । ९०दंसणा भविअ अज्ज । इच्छति ॥लवङ्गिका । अत्र दुर्लभायां खयि मनोरथाभिनिवेशतेन यो दुःसहाया- सस्तेन दह्यमाने चित्ते क्षणमात्रनिर्वापकमिति ॥मालती। अत्रनासङ्गोऽनाश्वासः। लवङ्गिका खयं लिखित्वा माधवलिखितलेन बोधयतीति भावः ॥ सदृशमिति । मधुरतया निर्माणस्य सदृशं वचनमित्यर्थः ॥ तवाकृतिमधुरा यथा तथा वचोऽपि मधुरमित्यर्थः । यस्येदृशं वचस्तस्य कथमेवं दर्शनमित्युपालम्भपूर्विका पृच्छा । यदाह-'यत्र भावनयोपेतमात्मानमथवा परम् । पृच्छन्निवाभिधत्तेऽर्थ सा पृच्छे- त्यभिधीयते ॥' नाट्यधर्मलेन परोक्षस्यापि प्रत्यक्षीकरणम् । यदाह-'परोक्षेऽपि च वक्तव्यो नार्या प्रत्यक्षवप्रियः' ॥ अम्मकाशब्दः स्त्रियां कन्यायां वा देशी ॥ लवङ्गिका । अत्रोत्खण्डितं छिन्नम् । बन्धनं वृन्तशाखासंयोगः । कङ्केल्लिरशोकः। निःसहाऽक्षमा। परिखिद्यसे परिहीयसे। एतेन कामावस्था तनुतोका मालती। असं नेत्रजलम् ॥ संस्कृतमिति । आसन्नमरणतया प्रकृतिविपर्ययद्योतनाय स्त्रियाः संस्कृताश्रयणम् । यद्वा मरणसमये प्राकृतस्मरणस्य हीनयोनिजन्मफलक- खेन बोधनात्तत्काले स्त्रियाः संस्कृताश्रयणम् । यद्वा वैदग्ध्यद्योतनाय तत् । यदाह-संस्कृतभाषावाचः प्रायो नाट्ये खलु स्त्रियाः श्लाघ्याः । क्वचिदपि विदग्ध. तायाः प्रबोधनार्थ प्रशस्यन्ते ॥' मनोराग इत्यादि । प्रियसखि, मामद्य त्रातुं न तातः प्रभवति न वा माता न वा खम् । कुतः । मनोराग आधिरविरतं प्रमाथी क्षोभकारी यथा तीव्र विषं तथा विसर्पति व्यानोति । यथा धातुत्वगादिषु विषं व्याप्नोति तथानानि म उद्वेग इत्यर्थः । यद्वा सविशेषदर्शनाच्चित्तानुराग इच्छा- मेदस्तीवं यथा तथा मनो विसर्पति व्याप्नोति दाहकारित्वाद्विषमिव । तथा विधुतः संधुक्षितोऽमिर्यथाज्वलति विधूननानिधूमं यथा तथा स एव रागो ज्वलति ज्वाला- मालाकुलीभवति । इत इतः सर्वत्र प्रत्यङ्ग हिनस्ति पीडयति गरीयावर इव । तं सक्त्वा ममाधिस्त्वया समाधातुं न शक्यत इति भावः । यद्वा तातस्त्रातुं न शक्नोति। नन्दननिरासेन माधवाय मददानात् । अम्बापि न तथा । तथानुवर्तमानस्य तातस्यानिषेधात् । लवनिकायाश्च तयोः समशीर्षिकया गणनं खाच्छन्द्येन खम- तप्रकाशनाय ॥१॥ लवङ्गिका । अत्र भणितव्यं युज्यत एवेत्यर्थः । यस्या व्यक दर्शनं चन्द्रस्यामित्वं जीवितसंशयं च कुरुते तस्य व्यकं दर्शनं त्वदुपन्यस्वप्रकार तापं कुरुत इति किमत्र चित्रम् । चन्द्रेऽमित्वेन ज्ञानानिद्राच्छेद उकः । सुकु. २५माल.

जगद्धरकृता [अङ्क: २ पृ० प० ५७ १ लोअस्स गुरु। २ सरिसं म । ४ वारं पलोअअन्ती दुक्खव्ववत्थाविदधी०। ५ °दूरविजम्भमाणदुन्विणअल- हुएण एत्थ० । ५८ २रेण विधास्यति । ५९ २ सुसमीहिदं० । ७ व्यतिकरसंविधानकौतुकमद्भुतं प्रमो०। ८ हि दारकर्मणि प० । मारायामस्यामतिपीडाकारित्वेन निष्करुणत्वम् । व्यापारो दशावस्थः । किमत्र कर्तव्यमित्यत आह-तदिति । तथा च गुरुतरानुरागस्यैतत्फलं यत्सखीद्वारा वल्लभसमागमः कारयितव्य इति भावः ॥ मालती। अत्र दयितं प्रियम् । महाकु- लकलङ्कशङ्कया साहसम् । अत एव रोदनम् । तथा च त्वमपेयपगच्छ । प्रियभा- षिणी त्वां किमधिक्षिपामि यदहमेवात्र वाच्येत्याह-अथवेति । अत्र क्षणं क्षण- मालोकनाकुलत्वाद्दुःखव्यवस्थापितं यद्धीरत्वं तस्यावष्टम्भोऽविद्यमानमेवैतदारोपस्ते- नेत्यर्थः । लध्वी लघुतां गता। अहमत्रापराध्यामीति येन तवैतादृशसाहसोपन्यास इति भावः। तथापि प्रियसखि । अधुना साहसाकरणं हृदि निधाय सनिर्वेदमाह- ज्वलत्वित्यादि । प्रतिरात्रं पूर्वश्चन्द्रो ज्वलतु तापयतु । तथापि न साहस करोमीति भावः । गगन इत्यनेनाप्राप्यत्वादनुपागमनीयतोक्का । तर्हि कामस्त्वा पीडयिष्यतीत्यत आह । मदनो दहतु । मृत्योर्मरणात्परं स किं करिष्यति । मरणे सति दुःखस्यापि त्यागादिष्टमेव तदिति भावः। परेणेति । 'प्रकृत्यादिभ्य उपसंख्या- नम्' इति तृतीया । इदं नायिकायाः सत्त्वजधैर्यम् । यदाह-'चापलेनानुपहतं चित्तं धैर्यमुदीरितम्' । ननु दुःखहानाय माधवानुसरणमेव वरमत आह-मम पुनस्वातः पिता दयित इष्टः । कीदृशः। श्लाघ्यः सर्वश्लाघाविषयः । अमलवंशा मातेष्टा निर्मलं कुलं चेष्टम् । अयं हृदिस्थो जनो माधवो नैवेष्टः । साहसक्रिययेति शेषः। तर्हि कथं जीवनमत आह-न च जीवितमिष्टम् । अत्र जीवितद्वेषादुद्वेगावस्था । यदाह-'प्रद्वेषः प्राणितव्ये यः स उद्वेगः स्मृतो बुधैः' ॥ २॥ लवङ्गिका। एषा भगवती कामन्दकी । मालतीजीवनोपाय इति भावः। प्रतीहारीत्यनेन संब- न्धघटनं सूचितम् । यदाह संधिविग्रहसंबन्धनानाचारसमन्वितम् । निवेदयन्ति याः कार्य प्रतीहार्यस्तु ता मताः॥' प्रतीहारीत्यत्र बहुलवचनान्मनुष्येऽपि दीर्घः ॥ उभयोर्वाक्ये । किमर्थमागतेत्यर्थः । अत एवाग्रिमवाक्ये तयापारकथनम् ॥ लवङ्गिका । सुसमीहितं खलु जातम् । इदानीं यत्कामन्दक्यागमनमिति भावः॥ कामन्दकी। उभयेति । इहलोकाविरुद्ध साक्षादप्रतिषेधेन राजकोपाजननात् । परलोकाविरोधस्त्वात्मीयस्य कुमारीजनस्य प्रभुर्न परस्येति साधारणोक्त्या सत्यानु- अङ्क: २] मालतीमाधवटीका। ३५ पृ० प० ६० ११ अथवा । नियत । १३ मसृणमधुराकेक । ६१ ६ °महाभागे, समीहितफलभाजनं। ७ लवङ्गिका- सुविहिदं आसणं । एत्थ उवविसदु भअवदी । दीरणादित्यर्थः । व्यतिकरो मिलनं तद्रूपं संविधानम् । दारकर्मणि परिणये । पराध्य श्रेष्ठम् । अनुबन्धो रतिः । ऋद्धिरुपचयः ॥ निकाममित्यादि । इयं कल्या- ण्यस्माकं मनो रमयति । कुतः । अत्यर्थ क्षीणाङ्गी । सरस आर्द्रः । अपर्युषित इति यावत् । कदल्या गर्भो मजा तद्वदम्या क्षीणखपाण्डुवाभ्याम् । इह गर्भपदेनाति- गण्डुखं चोक्तम् । कलाशेषा शशिनो मूर्तिरिव द्वितीयाचन्द्रलेखेव । अत एव प्रस्तुतकार्यसंपादकलेन रमयति । उद्दाहेनोत्कटदाहेन विह्वलां दशामापन्ना सती मनः कम्पयति । अतिपीडनादनिष्टशङ्किवादिति भावः । इह तनुताख्या काम. दशा सूचिता ॥ ३ ॥ परीत्यादि । पांसुलं रूक्षम् । पाण्डुरूक्षकपोलवदनापीयं रम्या। यतो मनोज्ञजन्मनि जने वलन्कामस्य विकारो यादृशस्तादृश ईप्सितः सन्विजयी भवति ॥ ४ ॥ संकल्पो मनोव्यापारः ॥ नीवीत्यादि । जघनवस्त्रब- न्धनं नीवी । तस्या बन्धस्य ग्रन्थेरुच्छ्वसनं शिथिलता। वासःश्लथतानुरागादपि । यदाह-'खेदोरुवेपथुस्तम्भाः श्लथता जघनच्छदे। आविर्भवति नारीणामनुरागव. शात्मनाम् ॥' अधरस्पन्दनमधरकम्पनम् । एतत्तु स्फुरितचुम्बने। यदाह-'रदने विशन्तमोष्ठं ग्रहीतुं या समिच्छति । निजोष्ठः कम्पते यच्च स्फुरितं चुम्बनं मतम् ॥' दोर्विषादो बाहोनिःसहखमालिङ्गनसौख्यात् । खेद आयासात् । मसृणं कोम- लम्, मधुरं ललितम्, संकल्पलब्धस्य दुरालोकलादाकेकरम् , शृङ्गारास्त्रि- ग्धम् , सुखभावनया मुग्धं, चक्षुः । संकल्पमात्रलब्धतया प्रियेऽसूयायोगाजिह्मा दृष्टिः । जिह्मा दृष्टिरसूयायाम् । यदाह-'ललिताकुञ्चितपुटा शनैतिर्यग्विसर्पिणी। निगूढा गूढतारा च जिह्मा दृष्टिरुदाहृता ॥' लब्धे सति धृतिहर्षाभ्यां ललितम् । तल्लक्षणं तूतमेव । 'आकेकरा घनालोके विच्छेदे प्रोषितेषु च । आकुञ्चितपुटापाङ्ग- संगतार्धनिमेषिणी ॥ मुहुर्तावृत्ततारा च दृष्टिराकेकरा मता ॥' 'दोर्दोषा भुजा भुजः' इति शब्दभेदः । गात्रस्तम्भः शरीरनिश्चलता। अतिहर्षात् । यदाह- 'अतिहर्षभयरोषरागेभ्यः स्तम्भसंभवः ।' मुकुलाकारखात्स्तनावेव मुकुलो। तयो- रुत्प्रबन्धो विच्छेदरहितः कम्पः। प्रियस्य गाढालिङ्गनात् । गण्डाभोगे गण्डमण्डले पुलकपटलं रोमाञ्चसङ्घः । प्रियचुम्बनसंकल्पात् । आत्यन्तिकत्वार्थ पटलग्रहणम् । मूर्च्छना मोहः । निरतिशयानन्दयोगात् । यदाह-'सस्तता वपुषि मीलनं दृशो- मूर्च्छना च रतिलाभलक्षणम् ॥ रतिविलाससंकल्पनान्तरा चेतना च ॥५॥ मालती । बौद्धानां प्रव्रजितं प्रति वन्दामीति नतिसंप्रदायः । यद्वा वन्दामि वन्द इति सामान्यत एव ॥ कामन्दकी । मालतीचित्तविनोदाय खस्य च तद्विषया. वष्टम्भदर्शनायाह-भाजनमिति । लवङ्गिका । कपटमेव नाटकम् । अत्र जगद्धरकृता [अङ्क: २ पृ० प० ६२ ५ °लग्गणीसासं०।६ रिसं जेव्व भअ० । ६३ ३ ती वैचित्यं ना । ६४ ७ °मत्र मया भ० । ११ °साहसाभासमि । बाष्पं नेत्रजलम् । स्तम्भः । प्रतिबन्धः । मन्थरितो मन्दीकृतः । तादृशकण्ठे प्रतिलग्नो निःश्वासो यत्र तत् ॥ कामन्दकी। परिचयो मालत्यभिष्वङ्गः । उद्वेग- कारणमिति शेषः ॥ इदमित्यादि । मालत्या इदं शरीरं विफलगुणातिशयं भवि. ष्यतीति वं किं न वेत्सि । अनुचितजामातृसंबन्धशोचनावहम् । यतः । इह जगति यत्कामस्य जैत्रं जयनशीलमत्रं सहजविलासस्य निबन्धनं कारणं च । एतेनैव सहजविलासा जायन्त इत्यर्थः । 'वरो जामातरि श्रेष्ठे' इति विश्वः ॥६॥ वैचित्यं विमनस्कत्वम् । नाटयति करोति ॥ लवङ्गिका । पितृनिन्दैव पूर्वश्लो- कार्थ इति द्योतयति लवङ्गिका । अत्र जुगुप्सते निन्दति ॥ मालती। अत्रानु- पहरणीयाप्युपहारीकृतेत्यनेन च्व्यर्थेन पितुर्गुणानभिज्ञवं सूचितम्। उपहारश्च मरण. शरणश्छागादिः क्रियत इति मरणतुल्यतास्य दर्शिता । इह पश्चात्तापनामा नाव्यालं. कारः । यदाह-'अनुतापातिरेकस्तु पश्चात्ताप उदाहृतः ॥ इति । बालखाले. हाच तातस्य गुणानभिज्ञवं मालती न जानातीत्याशयेनाह-गुणेत्यादि । इदं कार्य गुणनिरपेक्षममात्सेन कथमारब्धम् । रूपादिमति पुरजने सति तद्रहितनन्द- नाय मालतीदानं कथमुपक्रान्तमिति भावः । अत एवाश्चर्यम् । अथवा पक्षान्तरे। कुटिलनये परवश्चननीतौ कुशलचित्तानां कुतोऽपत्यस्नेहः । नैवेत्यर्थः । स्नेहस्य निरु- पाध्युपकारेच्छारूपस्य नृपानुरजनादावुपाधावभावादित्यर्थः । इदं यदुपक्रान्तं तदैदं- पर्यमिदंपरम् । एतदभिप्रायकमिति यावत् । चतुर्वर्णादिवादिदंपरशब्दे व्यञ् । उत निश्चये वितर्के वा । यन्नृपतेर्नर्मसचिवो नन्दनः कन्यादानादस्माकं मित्रमनपकारी भवलियेवमुपक्रान्तम् । निष्णात इत्यत्र 'निनदीभ्यां स्नातेः कौशले' इति षलम् । 'उत निश्चयवितर्कयोः' इति धरणिः । कामोपचरणं नर्म । यदाह-'उपचारः स्त्रीपुंसयोर्मनोजन्मनिबन्धनः । स एवात्र परिज्ञेयो नर्मसंज्ञः प्रयोक्तृभिः' ॥ इति भरतः ॥७॥ लवङ्गिका । इतीति दुर्दर्शनादिकम् ॥ लवङ्गिका । अत्र जी. वितमपि निष्फलखदुःखबहुलवाभ्यां मरणकल्पं जीवितमरणम् ॥ कामन्दकी। उक्तप्रबन्धेन मालतीनैराश्यं विधायाह-अयीति । भगवत्येति । 'कृयानां कर्तरि वाइति तृतीया न तु षष्ठी । अशक्यमित्यकारप्रश्लेषसंभवात् । गान्धर्व विवाहे क- न्यावरौ प्रभवत इति प्रायःपदतात्पर्यम् । जनयितेति । राजेति भावः । माधव. विवाहे भूरिवसुरेव सानुग्रहः । अत एव सरल इत्युक्तम् । किल प्रसिद्धौ । कौशिकी कुकिवंशजा। चकमे कामयते स्म । आख्यानं पुरावृत्तम् । इहाख्याननामानाव्या- लंकारः । यदाह-आख्यानं तु तदुद्दिष्टं यत्पुरावृत्तकीर्तनम् ॥ इति । निदर्शन- नामा नाट्यालंकारोऽपि। यदाह-कथनादन्यचेष्टानां साध्यसिद्धिर्निदर्शनम् ॥इति अङ्क: २] मालतीमाधवटीका। ३७ पृ० प० ६५ ५ ०अस्सत्थसरीरो महा। ६६ ४ अप्रस्ताविकी म। ८ त्मनः सतीर्थ्य पि० । १२ अकलितमहि । १३ कथमपि भु। । कल्पपदेनोपदेष्टव्यवसूचनम् ॥अधुना साहसेऽपि प्रवृत्त्यर्थं मालत्यनुशयाय पितुर्व- रस्य च दोषमाह-राज्ञा इति । कार्यादाराधनादेन त्वदृष्टार्थमित्यर्थः । अनेन सचिवेन । वार्धक्यात्कौरूप्याच दुर्दर्शनेन । धूमग्रहेण राहुणोत्पातधूमग्रहेण वा । पीडाकारित्वाद्दुर्दर्शनेन । ग्रहणं ग्रहः ॥ ८ ॥ मालती । मालती जातानुशयाह एवं निःस्पृह इत्यर्थः। भोगेति।खभोगाय त्वमेवं करोषीत्यर्थः। अवलोकिता। अत्र चिरायितं बहुकालमागतम् । इतीति । अतः शीघ्रं गम्यतामिति भावः ॥ लवङ्गिका । जनान्तिकमिति । 'उक्तस्याश्रवणं कार्यात्पार्श्वस्थैः स्याजना- न्तिकं' इति भरतः । लवङ्गिका मालती साकाङ्क्षयति । उद्गममुत्पत्तिम् ॥ मालती। अस्ति मे कुतूहलम् । तत्पृच्छेत्यर्थः ॥ लवङ्गिका । अत्र यस्य कृत इति शेषः ॥ कामन्दकी । सकृत्रिमावहित्थमाह-अप्रस्ताविकीति । अयमाशयः । माधवगुणस्तुतावुपाधिमाशय मालत्या अनादरे मम तटस्थता न घटेत ॥ लवङ्गिका । अतः सानुबन्धं पृच्छलिति सानुबन्धमियमप्याहेति ॥ कामन्दकी। समग्रः संपूर्णः। धुरि कार्यभारे साधुधुर्यो मन्त्री । प्रकाण्डं प्रशस्तम्। चूडामणिरिव चूडामणिः । श्लाघ्यः । सर्वमन्त्रिप्रधानमित्यर्थः । महनीयं पूज्यम् । पुण्यं प्रशस्तम् । यद्वा महनीयौ पुण्यमहिमानौ यस्य तम् । सतीर्थ्य एकगुरुः। समानं तीर्थमुपाध्यायो यस्य । 'समानतीर्थे वासी' इति यत्प्रत्ययः। व्यतिकरितेत्यादि। इह जगति कथमपि शापादिना तादृशाः खर्गिणः संभवन्ति । कीदृशाः। यशो- भिर्व्याप्तदिक्वरूपाः । श्वेतमानैरिति वर्तमाननिर्देशेन तेषामभिनवयशोयोगित- मुक्तम् । बलवतां पुण्यविपाकानां त एव स्थानम् । त एव महासुकृतिन इत्यर्थः । यद्वा पुण्यविलासानां बलवतां च त एव स्थानम् । तथा च पुण्यवन्तो बलवन्तश्च त एवेत्यर्थः । अत एवाधिकमहत्त्वाः । मङ्गलानामर्थसिद्धानां केतनं निवासः । 'केतनं तु ध्वजे कार्ये निमन्त्रणनिवासयोः' इति विश्वः ॥ ९॥ मालती । अत्र नामाग्रहणं श्वशुरत्वेनाङ्गीकारात् । 'गुरोर्नाम न गृह्णीयात्' इति स्मृतेः। तं देव- रातम् ॥ लवङ्गिका । अत्र समं तुल्यं यथा तथा पाठः कृतो देवरातभूरिवसु- भ्याम् । मन्त्रयन्ते कर्णाकर्णिकया वदन्ति ॥ कामन्दकी । प्रकृतसिद्ध्यर्थ पितृगुणानुक्ला नायकगुणानाह-तत इत्यादि । ततो देवरातादेक एव बालश्चन्द्र उदियाय । एको बालो जात इत्यर्थः । यद्वा बालश्चन्द्र इव बालचन्द्रः । एकापत्यतया स्नेहाधिक्यसूचनार्थमेकग्रहणम् । धरायामेकाधिपत्य- कथनाय वा । कीदृशः । स्फुरिता व्यक्तीकृता गुणानां शीलादीनां या द्युतिरौज्वल्यं तया सुन्दरः । यद्वा स्फुरितगुणधुविश्वासौ सुन्दरश्चेति । कलावांश्चतुःषष्टिक- जगद्धरकृता [अङ्क: २ पृ० प० ६७ ६ वैक एव । १२ विद्याधारः शि।१३ चन्द्रमधुरः। ६८ ८ °उग्गमो । (नेपथ्ये शङ्खध्वनिः।)।११°मवाप्तोत्कण्ठानां । ६९ १० दिणा सोवाणेण ओ० । १३ °ष्टार्थदूतीवृत्तस्य ल० । लायुक्तः । 'नायके वर्णयेहूती कलावत्त्वं च रम्यताम्' इति भरतः । नयवां चक्षुष्मता महोत्सवस्य कारणम् । नेत्रप्रीतिजनकलात् । यथोदयगिरेरेको बालच- न्द्रोऽभिनवशश्युदेति सोऽपि स्फुरितगुणोन्मीलनमल्यादिका या द्युतिः प्रभा तया सुन्दरः कान्तः कलावान्नेत्रानन्दहेतुश्च भवति ॥ १० ॥ बालवादितस्तदनागम- नमाशझ्याह-असावित्यादि । असौ शिशुरपि बालोऽपि संप्रतीहागतः । अस्तीति शेषः । कीदृशः । विद्याधारः त्रयीतदङ्गविद्यावित् । बालः पञ्चदशवर्ष- वयस्कः । 'बालो वाप्यूनषोडशः' इति वचनात् । भवनाद्विनिर्गत्य बहिर्भूय । अनेन पथिकलमपास्तम् । यौवनमाह-अविकलः पूरें यः शारदशशी तस्मान्मनोज्ञ- स्तद्वद्वा मनोज्ञः । यदृष्टिविषये पुरं नारीणां कटाक्षः संजातनीलनलिनगवाक्षमिव भवति । कुवलयितमित्यत्र तारकादिवादितच् । कीदृशैः। उन्मादतरलैः कामा- वेशचपलैः । यदायं रथ्यया याति तदोन्मादान्विता युवत्यो वातायनेनैनं पश्यन्ति । तत्र तन्मयनैः संजातकुवलयमिव लक्ष्यत इत्याशयः। अनेन विद्यावत्त्वनूतनत्वरम्य- त्वादिकमुक्तम् ॥ ११॥ विद्यामित्यनेन विद्यावशेनायात इत्यनौद्धत्यं संबन्धार्थदेवरा- तप्रस्थापनगोपनं च कृतम् ॥ मालती। सखि । श्रुतं त्वया । एतेनाभिलाषं दर्श- यति ॥ लवङ्गिका । लवजिकैतद्ढयति । अनेन महाकुलीनलं न तु कामन्दक्याः कल्पनेति दर्शितम् । कामन्दकी । कालातिपातः कालक्षेपः ॥ क्षिपन्नि- त्यादि । संप्रति गगनेऽयं संध्याशङ्खध्वनिः संध्याकालसूचकः शङ्खशब्दो विच- रति श्रूयते । किं कुर्वन् , विहगमिथुनानां चक्रद्वन्द्वानां प्रत्यासन्नविरहात्सोत्कण्ठा- नाम् । निद्रैव मुद्रा । संभाषणप्रतिरोधात् । तां प्रथमतः क्षिपन्हरन् । कीड- शीम् । मदनकलहः सुरतं तस्य छेदोऽवसानं तेन सुलभाम् । यद्वा मदनकलह- श्छिद्यतेऽनेनेति घञ् । 'पुंसि संज्ञायाम्' इति वा घः । मदनकलहच्छेदो रतं ततः सुलभाम् । सुरतश्रमजनितामित्यर्थः । संप्रति धवलगृहाणां महत्सु गह्वरप्रदेशेषु प्रतिध्वनितो घनतां दधानः । अत एवानिभृतः प्रौढः सन्विचरति । यद्वा प्रथ- मतः खे विचरति तदनु दिवा केलिकलहच्छेदात्सौधसमीपतरुनिवासकलविङ्क- मिथुनानां निद्रामुद्रां क्षिपन्विचरति । ते हि प्रबलशङ्खध्वनिनिबोधिताः कलकलं कुर्वन्तीति भावः ॥ १२ ॥ मालती। अपवार्य निभृतम् । 'निगूढभावसंयु- कमपवारितकं भवेत्' इति भरतः । अधुना मनःप्रविष्टसाहसवाञ्छया ब्रूते- लवङ्गिका। 'संजनन' इति पाठे संजननं सोपानमेव ॥कामन्दकी । तटस्थतया घटितकत्वेन साधुत्वम् । निसृष्टार्थेति । 'स्त्रीपुंसयोराशयमादधाना स्वयं च कार्य प्रतिपादयन्ती । सृष्टार्थिका सा परदारयोगे दूती नियोज्या बहुधा सुधीभिः ॥' इति भरतः । मालती प्रतीत्यनेन मदयन्तिकां प्रति विद्यत एवेति भावः ॥ -

अङ्क: २]
मालतीमाधवटीका।
३९
पृ० प०
७० ३ स्तुतं तन्माहात्म्यं । ४ त्यथ विधिविधे० ।
इति धवलगृहो नाम द्वितीयोऽङ्कः ।
प्रकृते निष्पन्नं खव्यापारमाह-वर इत्यादि । अन्यस्मिन्वरे नन्दने द्वेषः
कारितः । पितरि निन्दा जनिता । पुरावृत्तोद्गारैः शकुन्तलादीनां पितृनिरपे.
क्षात्मदानकथनैः कार्यपरिपाटी कथिता । माहात्म्यं महत्त्वं तस्य स्तुतं यत्कुला-
यच्च गुणात्तदपि । इति हेतोः । अनन्तरं वत्सस्य परिचयः समागमो विधातुः
कर्तव्यः । एतेनाकावतारोऽपि सूचितः । प्रसङ्गायाजादन्यापदेशादिति सर्वत्र
योज्यम् ॥ १३ ॥ धवलगृह इति । धवलगृहोपलक्षित इत्यर्थः ।
असूत यं रत्नधरोऽनवद्योऽनवद्यरूपा दमयन्तिका च ।
जगद्धरं तत्कृतटिप्पणेऽकोऽगमद्वितीयो रसराशिवासः ॥
इति द्वितीयोऽङ्कः।

तृतीयोऽङ्कः। पृ० प० ७१४-५द्धासि । को वि अकालो भ०१८ संकरघरसंबद्ध । ७२ ३ संकरघरं ग । ६ भोदु ति । तु० । ७३ २ आए दूरं आरोविदो परोक्खाणुराओ । एसो अ से मणो । ७ (ततः प्रविशति कामन्दकी।)। १० कति- पयाहेन स० । १३ प्रीत्या दायं द० परिचयस्यान्योन्यदर्शनालापादिरूपसमागमात्मकतया तदारम्भस्य प्रतिज्ञात- खेन तनिर्वाहिकाया मदयन्तिकायाः सूचनाय तत्संबन्धाद्बुद्धरक्षिताप्रवेशः । यद्वा नियुक्तैव मया बुद्धरक्षितेत्यनेन प्रथमाके द्वितीये च मालती प्रति लघूकृतो भार इत्यनेन सूचितो बुद्धरक्षितायाः प्रवेशः॥ अवलोकिता। अत्र प्रमुग्धा प्रस्मृता। पिण्डपातः सौगतानम् । कोऽप्यकालो निषिद्धकालः । तथा च सदैव मालतीस- मीपे भगवती वर्तत इत्यर्थः ॥ बुद्धरक्षिता । हुमनुमतौ स्मरणे वा ॥ अवलो. किता ॥ अत्र कुब्जकं 'कूआ' इति ख्यातस्तरुविटपः । कुब्जकव्याप्तरकाशोक- वनस्य दुःसंचारवाद्विजनवं सूचितम् । पर्यन्तो मध्यम् । 'गहनं काननं वनम्' इत्य- मरः ॥ अवलोकिता । अत्र किलालीके । सौभाग्यवृद्धिप्रयोजनस्य व्याजलात्। एवमिति । खहस्तत्रोटितपुष्पैर्देवताः पूजयेत्यर्थः । आनेष्यतीति । मालती- माधवयोरततिदर्शनेन विजने तयोरनुरागो वर्धतामिति भगवत्या आशय इति भावः ॥ बुद्धरक्षिता । अत्रामन्त्रिताहूता गच्छामि । मदयन्तिकास्थानमिति शेषः ॥ अवलोकिता । मकरन्दमदयन्तिकापरिणये किं वृत्तमिति भावः । बुद्धरक्षिता । अत्र विस्रम्भो विश्वासः । ईदृशस्तादृश इति मकरन्दगुणप्रकाश- नमित्यर्थः । तस्या मदयन्तिकायाः । तं मकरन्दम् ॥ अवलोकिता । खया भगवतीभारो लघूकृत इति भावः ॥ तथेत्यादि । तथा तेन प्रकारेण विनयन- म्रानुद्धताकारतया नम्रा मालती कतिपयदिनैरुपायाच्छकुन्तलादिकथया मया सख्यामिव विश्वासबुद्धिप्रवर्तनेन सेव्यतां शालीनखादिपरिहारं नीता। अत्रापिशब्द एवार्थे । यद्वा अविनयनम्रापीत्यकारप्रश्लेषः। कतिपयाहोभिरित्यत्रालो जातिपरतया न समासान्तविधिः ॥१॥ सखीचिह्न दर्शयति-व्रजतीत्यादि । संप्रति यतोऽस्माकं विरहे दौमनस्यं गच्छति नः संनिधौ प्रसन्ना भवति । विजने रमते मया सहेति शेषः । प्रीत्या दायं सोल्लुण्ठनमुत्तरं ददाति । यद्वा दायं कर्पूरादिदेयं ददाति । गमनसमये मामनुवर्ततेऽनुगच्छति । ततः कण्ठे लमा सती पुनःपुनर्नि- रुध्य मां शपथैः प्रणम्य तत्क्षणमेव प्रत्यावृत्तिं पुनरागमनं याचते च।सख्योऽप्येवं कुर्वन्ति । अतः सखीत्वं गता सा मे मनोगतं करिष्यतीति भावः । 'देये दाने अङ्क ३] मालतीमाधवटीका। ४ पृ० प० ७५ ७ मरालमंसलजह० ८ °चलणसंचारमसिणगमणोवणी- दसे । ९ बिन्दुजन्तमु । १० ०इदो पविसम्ह । ७६ २ (सहर्षम् ।) हन्त । ५ संतापदग्धस्य शिख० । च दायः स्याद्दायः सोल्लुण्ठभाषणे' इति मेदिनीकारः ॥२॥ साधीयः साधुः । नि- बन्धनं कारणम् ॥ शकुन्तलादीनित्यादि । इयं शकुन्तलादीनितिहासवादा- न्पुरावृत्तान्यन्यपरैर्वचोभिरन्यकथाप्रसङ्गेन प्रस्तावयति । शकुन्तलादिभिःपितृनि- रपेक्षमेवात्मा दत्त इति भगवति किं सत्यमिति मां पृच्छतीति भावः । अत्रान्यप- देनाखेटकाश्रमवर्णनशुश्रूषादेः साक्षादुद्देश्यलं साहसकरणं चाशयस्थमिति सूचि- तम् । एवमिति श्रुखा चेतोधृतनायकानुस्मरणान्मदीयकोडे निवेशितशरीरा भवति । ततः किमेवं करोमीति चिन्तास्तिमितवं निश्चललं चिरकालमेति । चिन्तेत्युपल- क्षणम् । निःश्वासादिनापि लक्षिता भवतीत्यर्थः। यद्वा मदिति पञ्चमी । मत्सकाशा- च्छ्रुत्वैवं करोतीत्यर्थः ॥ ३॥ समक्षं प्रत्यक्षम् । उत्तरमनन्तरकृत्यम् । इत आगच्छे- ति शेषः ॥ लवङ्गिका । अत्रेष खलु कुसुमाकरोद्यानमारुतस्त्वां परिष्वजतीति सं. बन्धः। कीदृशः। अतिमधुरमधुरसेनात्याद्रीया मर्याः कवलने भक्षणे केलिः क्रीडा तया कलमव्यक्तध्वानं यत्कोकिलकुलं तस्य कोलाहलेनाकुलितादतिसुरभिचूतशिख. रादुड्डीनश्चटुलो मनोज्ञो यो भ्रमरसमूहस्तस्य संपर्केण विकसितपुटस्यात एव करालस्य दन्तुरस्य चम्पकस्याधिवासेन गन्धेन मनोहराः। एतेन शैत्यसौगन्ध्ये दर्शिते। सह- कारमजरीणां कोकिलाकुलत्वं भ्रमरस्य तत्त्यागे हेतुः । मरालो हस्ती हंसो वा । तस्य मांसलजघनपरिणाहोद्वहनेन मन्थरावलसौ यावूरू । खदीयाविति भावः। तयोर्गौरवेण विसंष्टुलं विषमं यथा तथा स्खलितस्य चरणस्य संचारेण मसृणं मन्दं यद्गमनं तेनोपनीतेन खेदशीकरणामृतबिन्दुसदृशे मुग्धमुखचन्द्रे । अर्थात्तव । चन्दनायमानः शीतलः स्पर्शो यस्य सः । अनेन मान्यं शैत्यमपि ध्वनितम् । 'सह- कारोऽतिसौरभः' इत्यमरः । 'चञ्चरीकोऽलिगीतयोः' इति धरणिः । 'करालो दन्तुरः' इत्यमरः । 'मरालो हंसगजयोर्मरालो विस्तृते शुभे' इति विश्वः । तेन मरालस्य विस्तृतस्य शुभस्येति वा योज्यम् । 'मसृणं चिक्कणं समम्' इत्यमरः ॥ माधवः । हन्त हर्षे । परागता याता ॥ आविरित्यादि । इयं भगवती प्रि- यायाः पुरस्तादाविर्भवन्ती प्रथमं मम चित्तं सविकासं करोति । कीदृशस्य । संता- पदग्धस्य कामाग्निदग्धस्य । यथा विद्युद्दष्टेः । पुरस्तादाविर्भवन्ती मयूरतरुणस्य चित्तं सोच्छ्वासं करोति निदाघतप्तस्य । युवग्रहणमुन्मादहेतुद्योतनाय । प्रियाया इत्यत्र 'षष्ठ्यतसर्थप्रत्ययेन' इति षष्ठी । अत एव प्रियायाः प्रथममिति न योजना। प्रथमपदयोगे षष्ठ्यभावात् । अनेन प्रियाप्यागमिष्यतीति सूचितम् ॥ ४ ॥ माल. तीत्यत्रापिशब्दो गौरवे । निपातानामनेकार्थत्वात् ॥ आश्चर्यमित्यादि । अस्याः पद्माक्ष्या मुखनिर्मलचन्द्रसंनिधौ वारंवार जडिमानं सर्वकार्याप्रतिपत्तिरूपं प्राप्य । ।

४२ जगद्धरकृता [अङ्क ३ पृ० प० ७६ ७ दृष्ट्वा लव । १० जाड्येन च० ७८१ वि अण्णास्सि अ०। ८ जातासि । तथाहि । ८० ३ मामकीनस्य । व्यं निब० । । जाज्येन जडिम्ना करणेन मम मनसा विकारः खरूपान्यथाभावः संधार्यते । कीदृशः। द्रवमय इव द्रवमयः। हृदयद्रवीकरणाखेदादिमत्त्वाच्च । अन्यस्याः समाग- मावमयोविकारोऽस्यास्तु सानिध्यादेवेति कर्मातिशयदर्शनादाश्चर्यम् । यदाह भरतः-'कर्मातिशयनिवृत्तो भवेद्विस्मयसंभवः। सिद्धिस्थानेष्वसौ साध्यःप्रहर्षपुल- कादिभिः॥ यथामलेन्दुसंनिधौ जडिमानं शैत्यमासाद्य शैयेनैव चन्द्रकान्तेन शैलस्य द्रवमयो विकारो द्रवलं संधार्यते । अत्र महीधरसादृश्येन माधवस्य धीरखादिगुणा- वष्टम्भसंभार उक्तः । 'जात्येन' इति पाठे जायेन जातिमता । उत्कृष्टेनेति यावत् । चन्द्रकान्तेनेत्यस्य परं विशेषणं द्रष्टव्यम् । यद्वा मनोविशेषणमपि । जात्येनाभिज- नवतापि । अत्रापिरध्याहार्यः । अत एवाश्चर्यम् ॥५॥ संप्रतीति । पुरा काम- वेगस्याङ्कुरावस्थया रमणीया। अधुना तु तस्य पल्लवितलेन रमणीयतरा ॥ इदमेव स्फोटयति-ज्वलयतीत्यादि । संप्रति मालत्यज्ञैः कामानिमुद्दीपयति । चित्तं सोन्मादं करोति । नेत्रं कृतप्रयोजनं विधत्ते । ममेति शेषः । कीदृशैः । परिमृ- दितचम्पकमालावद्विलासैललितैश्च । अलसैर्मन्दैर्लज्जया निभृतलेनेति भावः । 'यान- स्थानासनादीनां नेत्रवादिकर्मणाम् । उपयातविशेषो यः स विलासो मतो बुधैः॥' इति भरतः । 'हस्तपादाङ्गविन्यासधूनेत्रोष्ठप्रयोजितम् । सुकुमारविधानेन ललितं तनिगयते ॥' इति भरतः । यद्वा परिमृदितचम्पकमालाविलासानि म्लानानि । ललितानीतस्ततः क्षिप्तानि । अलसानि मन्दानि । ततत्रिपदकर्मधारयः। ललधा- तुश्चाश्चल्यार्थेऽपि । धातोरनेकार्थत्वात् । 'लुलितालसैः' इति पाठे लुलितानीतस्ततः क्षिप्तानीत्यर्थः ॥ ६ ॥ प्रथमेत्यादि । संप्रति मया मेघमालानवजलसेचनेन क्षणबद्धकलिकनीपस्य डम्बरः साम्यं प्रपञ्चो वावलम्ब्यते । कीदृशेन । प्रथमप्रियाव- चनसंश्रवणायकरोमाञ्चेन । संस्तवेति पाठे संस्तवः परिचयः । तदनेन दृष्टान्तेन सर्वाङ्गीणं पुलकं तस्य च स्थैर्यमुक्तम् । 'घनजीमूतमुदिर' इत्यमरः ॥७॥ माधवः। अपरिमेयेत्यादि । पुष्पत्रोटनकाले मालतीस्तनमुकुलादिदर्शनादानन्दसंदोहेन माधवस्य संतोषप्रकाश इति भावः ॥ अज्ञातमाधवसंनिधानां मालती श्रमोपन्या- सव्याजेन कामन्दकी टिष्टनर्मवचनमाह-अयीत्यादि । निःसहा परिश्रान्तासि समतो विरम त्यज । खेदमिति शेषः। यद्वा विरम पुष्पावचयात् । उपविशेति भावः। पक्षे निःसहा कामाद्ग्लाना त्वं जातासि ततो विशेषेण रमख । आशंसयां लोट् ॥ स्खलयतीत्यादि । हे सुभ्र शोभनभ्रूयुते, वल्लभालोकनेन समं यथा तथा खयि खेदो विलसति खव्यापारं कुरुते । यथा वल्लभालोकनं तथा खेद इति भावः । पक्षे वल्लभेनावलोकनं खेदश्च । अत एव सर्वथेति तुल्यलम् । तदेवाह- अङ्क: ३] मालतीमाधवटीका। पृ० प० ८१ १ खलु मन्मथोद्यान । ९ शास्त्रेषु निष्ठा स० । ८२ १ अतस्ते जी० । ५ दाहप्रेम्णा० । पत्रमात्रान्तरायः । खेदो वचनं तव स्खलयति । प्रत्यहं संश्रयत्याश्रयति । 'संसयति' इति पाठे शिथि- लयति । आस्यशशिनो निःसरत्खेदकणाअनयति । नयनद्वयं मुकुलयति च । 'रतान्ते च श्रमे चैव सुखसंभोगभावने । गन्धे स्पर्श च हर्षे च मुकुला दृष्टिरि- ध्यते ॥' इति भरतः । वल्लभालोकनेऽप्येवं भवति । इह वल्लभालोकनं त्वयि वर्तत इति भावः ॥ ८॥ लवङ्गिका । विरम्यतामित्याशयः ॥कामन्दकी । चिबु. कमधरतलावयवमुन्नमय्योत्तोल्य। सुभग इत्यनेन माधवचित्ताकर्षणेन खमेव सौभा- ग्यवतीति ध्वनितम् ॥ कामन्दकी । कुमार इत्यनेन विस्मय उक्तः । निब- न्धनमालम्बनम् ॥कामन्दकी । परवानखतन्त्रतः ॥ यदित्यादि । शरीरोप- तापेनायं परवानिव । यद्यस्माच्चन्द्र प्रणयिनि जने वानन्दं प्रीतिं न भजते न लभते । तत्तथार्थे । तथातिधैर्ययुक्तोऽप्ययं दुःसहमन्तस्तापं प्रकाशयति । फलिनी- श्यामशरीरखभावोऽप्यापाण्डुमधुरमीषत्पाण्डु मनोहरमतिक्षीणं वपुर्वहति च यथा यथा तथा तथा रम्यश्च भवति । अपिर्विस्मये । चकारः समुच्चये । अपिचेति समस्त एव समुच्चये वा । तदिह रागावस्थायां यथोचितं विधेहीत्याशयः । 'प्रियङ्गुः फलिनी' इत्यमरः ॥ ९॥ कामन्दकी । यावदवधारणे । मालत्येव हेतुरियेवा. शृणवमित्यर्थः । अशृणवमौषम् ॥ अनुभवमित्यादि । अयं वदनेन्दुरस्य महात्मनो निश्चितमेवानुभवमुपागमदुपागतः । यत्कारणादस्य स्तिमितस्य स्थिरस्य मनो विचलितम् । तदेवं ममापि स एव निश्चयः। किंभूतम् । उत्कण्ठाचपलम् । यथा स्तिमितस्य निश्चलस्य महात्मनोऽगाधस्य समुद्रस्य चन्द्रानुभवात्कल्लोलचपलं जलं क्षुभ्यति । 'कथितोत्कलिकोत्कण्ठाहेलासलिलवीचिषु' इति मेदिनीकारः ॥ १० ॥ माधवः । शुद्धिरक्लिष्टता ॥ दूतीगुणानाह-शास्त्रेष्वित्यादि । निष्ठेदमित्थ- मेवेति निर्णयः । तत्र सहजो बोधो नैसर्गिकं ज्ञानम् । ज्ञाने सति प्रागल्भ्यं वाव- दूकता । अभ्यस्ता गुणाः श्लेषादयो यत्र तादृशी वाणी । यद्वा अभ्यस्तमभ्यासस्त- दनुगुणा वाणी च । कालावबोधः समयज्ञानम् । प्रतिभानमनुरूपं तात्कालिकस्म- रणं तद्योगित्वम् । एते गुणाः सर्वकर्मसु प्रकरणातीकृत्येषु वा कामदुहोऽभि- लषितप्रदाः तत्र शास्त्रनिष्ठया पटुवं प्रागल्भ्येन धार्थ्य प्रतिभानवत्त्वेनेजितज्ञवं दूतीगुण उक्तम् । यदाह-'पटुता धृष्टता चेतीङ्गितज्ञत्वं प्रतारणम् । देशकालज्ञता चैव दूतीकृत्ये गुणा मताः ॥' कामदुह इत्यत्र सखित्यादिना विप् ॥ ११ ॥ कामन्दकी। जीवितादुद्विजमानेनेति 'प्रद्वेषः प्राणितव्येषु' इति भरतानुसरणम् । 'न क्रियते' इति पाठे नः शिरश्चालने ॥ दुष्करमेवाह-धत्त इत्यादि । तेन दुष्करं क्रियते । यस्मादयं नवाने कलिकायुक्ते ध्वनत्कोकिले मृत्यवे मरणाय नेत्रं धत्ते । बकुलगन्धबन्धोर्वातस्य वर्त्मनि शरीरं क्षिपति स्थापयति । अत्र मार्गपदेनानागतेन, वायुना येन पथा समागन्तव्यं तत्सूचितम् । बकुलामोदपदेन - जगद्धरकृता [अङ्कः ३ पृ० ५० ८२ ६ माधव:-अन्य एवाक्षुण्णः कथाप्रकारो भगवत्याः । ७ अदिदु । ९ खी । यतोऽधुना श° । ८३ १ मालती-(जनान्तिकम् ।) स० । २-३ °आसन्तीए भअवदीए भीदाविदम्हि । ता किं दाणिं एत्थ पडिव- जिस्सं । ८ ॰वेअणाधिअदरम् । ९ °णन्दइ केलिक- लाओ। केवलं कमलाअन्तकन्त । खकार्यक्षमता, गर्भपदेन बाह्यान्तरभावनादृढतोका । दावप्रेम्णा वनवह्निप्रीत्या चन्द्रकिरणान् वारंवार श्रयति । एवेन चन्द्ररश्मीनां दाहकत्वमुक्तम् । अत्र प्रेमपदेन नायिकानुरागस्य च विरोधिविमर्शशून्यत्वं तृतीयया चाङ्गसङ्गहेतुत्वं च ध्वनितम् । कीदृशः । सरसपद्मिनीपत्रमात्रान्तरितो ग्लायमानकायः । सर्वत्र मृत्यव इति योज्यम् । तथा च मरणाय कृतोद्यम इति भावः । यद्वा अन्तरायो मरणे विघ्नः । तत्र पद्मिनीपत्रहेतुखम् । तदिह चन्द्रपादादीनां कामोद्दीपकत- यानर्थहेतुत्वेन विप्रलम्भस्योत्कर्षः सूचितः । किं च मनोविकार इन्द्रियजन्य इत्यनेनेन्द्रियाणां शान्तिः कृता । नवचूतदर्शनेन नेत्रस्य चूतैरानद्धत्वमुकुलितत्वा- भ्यामतिदुःखदत्वम् । कोकिलरवाकर्णनेन श्रोत्रस्य । बकुलगन्धसंबन्धेन घ्राणस्य । वायुचन्द्रकरयोः स्पर्शेन त्वच इति ॥ १२ ॥ माधवः । अक्षुण्णोऽन्याननुभूतः कथाप्रकारः कथनक्रमः ॥ मालती । बालचूतदर्शनादेरतिपीडाकरत्वेन माल- त्यापि ज्ञानादेवमुक्तमिति भावः ॥ कामन्दकी। अन्यत्रेत्यादिना त्वय्येव प्रथम. मनुरकोऽयमिति दर्शितम् । तपस्व्यनुकम्प्यः । 'तपस्वी तापसे चानुकम्प्ये च' इति विश्वः । अनेन वैदेशिकोऽयं वराक इति मयैतदुच्यते न कारणादित्युक्तम् । शक्यमिति । तथा च त्वमनुरागिणी भवेत्यर्थः ॥ मालती। अत्रात्मनो मम । किमपीत्यमङ्गलतयावचनीयं मरणमित्यर्थः । भीतायितेत्यत्राचारे क्यङ् । किमिति । तज्जीवनाय ममापि तत्रानुराग इति वक्तुमुचितमपि कुमारीत्वेनानुक्क- मतस्त्रं वदेति भावः । कामन्दकी प्रति जनान्तिकमिदम् । माधवश्च गुप्तः ॥ माधवः । स श्रुवाह-दिष्टयेत्यादि ॥ लवङ्गिका । अत्र एवंवादिनीत्यत्र कामावस्था गुरुजने लज्जया वक्तुमनोपि मालतीनिमित्तमाधवावस्थाश्रवणात्सापि तनिमित्ता कथ्यत इति भावः । अस्माकं भर्तृदारिका परिजनं दुनोतीत्यन्वयः। आश्लिष्टं स्पृष्टम् । मुग्धो बालः । कन्दं बिसम् । बालकमलिनीमूलं मृदुतरं रवि- करस्पर्शान्म्लानं च भवति । तदनेन दृष्टान्तेन निःसहलतनुत्वे अवयवानामुक्त । तदशायामपि सौन्दर्यद्योतनाय सुन्दरपदम् । अधिकतररमणीयापीत्यनेन कामा- लिङ्गितकायस्य कान्तिप्रकर्ष उक्तः । अत एवापिर्विस्मये । अविकान्तस्य सुख- जनकखनैयत्येन दुःखजनकत्वे चित्रात् । दुःखप्रकारमाह-नाभीत्यादि । भत्र यत इत्यध्याहार्यम् । केलिः क्रीडा । कलाश्चतुःषष्टिः । यद्वा केलीनां कलां- शमात्रम् । कथं तर्हि दिनानि गमयतीत्याह-केवलमित्यादि । कमलायमानं अङ्क ३] मालतीमाधवटीका। पृ० प० ८४ २ तम्मिअदि । जं अ तस्सि जचादिअसे णिम । ३ °दसणपडि । ४ भअवदो कामस्स विअ काम- काणणालंकारआरितस्सणो विवि० । विब्भमाहिराम अणुरूआणुराआणुबन्धः । ६ कोदूहलं समुल्लसिदस। ७ पुलअउक्कम्पसुन्दरं आण° । ८ ०विअम्भमाणुद्दाम- देहदाहदारुणं द। प्रसारितम् । इदं भरतानुमतम् । यदाह-'अप्राप्ते च प्रिये कार्यः स्त्रीभिर्गण्डा. न्वितः करः' । पर्यस्तं क्षिप्तम् । निःस्यन्दः क्षरणम् । 'ईषदर्थे दराव्ययम्' इत्य- मरः । दलितं विकसितम् । माकन्दश्रूतः । पुष्पपरमत्र । 'माकन्दः सहकारे. ऽस्त्री' इति मेदिनी । एतेन वायोस्त्रैगुण्यमुक्तम् । यच्च प्रियसख्या यात्रादिने तस्य दर्शनसुखं समासादितं तत आरभ्य सा कमलिनीव प्रम्लायतीत्यन्वयः। प्रतिपन्नरूपस्य कृतदेहपरिग्रहस्य । कामस्यान खात्पुरातनवाच । महोत्सवदर्श. नार्थमिदमुक्तमिति भावः । अद्भुतप्रतिपन्नरूपस्येत्या हिताम्यादिः। विविधविलासै- रभिरामम् । यद्वा विविधभ्रमणमभिरामोऽभिरतियत्र तत् । वश्चना दर्शनाभावः। खरमाणं शीघ्रमुपजायमानम् । कथं पश्यामीति कुतुकं तयोश्चित्तेऽभवदित्याशयः। आनन्दितसखीजनं कामसंपत्त्येति भावः । विजृम्भमाणो वर्धमानः । उद्दामो महान् । दारुणो भयंकरः । मरणशङ्कयेति भावः । दशा कामावस्था । यथा क्षण- मात्रप्राप्तचन्द्रोदया कमलिनी म्लायति तथेयमपि प्राप्तपूर्णचन्द्रोदया म्लायति । चन्द्रकरमपि सोढुमक्षमेति भावः । यद्वा यथा प्राप्तचन्द्रोदया पद्मिनी म्लायति तथा प्राप्तदर्शनमुखेयं म्लायतीत्यर्थः । ननु चन्द्रेण विरोधात्पग्रिन्या म्लानिर्युका। अस्यास्तु माधवानुरागात्तद्दर्शने कथं म्लानिरिति । मैवम् । यथा शीतस्पर्शलेन चन्द्रः क्षणं पद्मिनी सुखयति तथा माधवो मालतीमिति विवक्षितखात् । यद्वा मुहूर्तपदेनेह प्रथमचन्द्रोदय उक्तः । एवं चाभिनवोदितं चन्द्रं रकतया सूर्याभं दृष्ट्वा भ्रान्त्या मुहूर्त पद्मिनी तिष्ठत्यथ प्रम्लायति तथेयमपीत्यर्थः । तथापि चेत्यत्रापि चेति भिन्नक्रमः । तथा शीतलायत इत्यपि जानामि चेति संबन्धः । निर्मायं मायारहितं सत्यमित्यर्थः । समागमेति भावनाबलादिति भावः । मेदिनी ग्रीष्मावसानकालीनेत्यर्थः । समागममेव द्रढयति-येनेति । येन हृदिस्थकान्त- संगमेनैवं सा भवति तेन विदग्धसहचरीचित्तसंशयितकौमारभावा भवति । वैद- ग्ध्यप्रयुक्ततया सहचरीसङ्घनैवं संशय्यते यन्मत्परोक्षेऽपि प्रियसंगतेयम् । कथमन्य- थैताहक्संस्थानमस्या इति भावः । दशनच्छदमधरम् । उच्छलन् प्रकाशमानः। अध- रस्फुरणं भावनार्पितप्रियतमचुम्बनात् । 'मुक्तिका मौक्तिकं मुक्का' इति शब्दमेदः । निरन्तरेति । संकल्पकृतवल्लभसमागमोद्भूतसात्त्विकभावेनेसाशयः। घूर्णमानं समानम् । यद्यपि रोमाञ्चः सर्वाङ्गीण एव भवति तथापि रागाविशयद्योतनाय २६माल.

४६ जगद्धरकृता [अङ्क: ३ पृ० प० ८५१ पप्फुरन्तकन्तदसणच्छदुच्छलन्तद। मोतिआवलिक। २ पम्हलकन्तकवोल । ईसविअसिअणि । न्दम- न्दता । ४ सुन्दरललाटपट्टणवचन्द । ८ कदली- वत्तसंवाहणादिव्वा । ९ जलद्दासअणीए उ० १० सुहा सेहपज्झरिदपाद । ८६ १ मूलविसं। २ ०णीसासवसवि० । ३ वरिणिहिदवे ४ विसज्जिदविण्णदि। कपोलपुलक एव वर्ण्यते कविसंप्रदायेनेत्यवधेयम् । मन्दतारं किञ्चिच्चलत्तारकम् । उत्तानमूर्ध्व विस्तृतम् । भावनोपनीतप्रिये लज्जादिदृक्षाभ्यामीषद्विकसितलम् । निष्पन्दता मोरध्यात् । मन्दतारता नखदशनक्षतभावनया प्रियंप्रति सासूयत्वात्। उत्तानलं मुखदिदृक्षया । मसृणवं नेहभावनया । मुकुलत्वं रतावसानभावनया । यदाह-'निश्चललं तदा यातो मुकुलवं च लोचने' । उद्भिनमुद्भूतम् । खेदेति। रतिश्रमादयं खेदः । तदनेन प्रबन्धेन तृप्तिरुता । यदाह-रोमाञ्चो वेपथुः खेदो लुलिते च विलोचने । मजन्या इव देहेषु आश्लेषस्तृप्तिलक्षणम् ॥' तदिह यदीयं वल्लभसमागमं न जानाति तदा कथमधरस्पन्दादिमती स्यात् । कुमा- रस्य भावः कौमारं शैशवं तस्य भावोऽभिप्रायः कटाक्षविक्षेपादिः संशयितो यस्याः सा। निशाचेष्टामाह-किंचेति । निकुरुम्बः समूहः। चुम्बितेन चुम्बनेन प्रवृ- त्तनिःस्यन्दः संजातक्षरणः छटा ‘च्छट' इति यस्याः प्रसिद्धिः । दन्तरितं विषमी. कृतम् । संवाहनमर्पणम् । विरचितोपनीतं विरचनेनाङ्गदत्तम् । अस्मिन् पदे पूरः समूहः पूरणं वा। सविशेषपदेन शीतलकर्पूरसंस्पर्शादतिशीतलवमुक्तम् । कदली- पत्रस्य बालत्वेन शैत्यसौकुमार्ये उक्त । कमलिनीदलमेव जलार्द्रवस्त्रं तच्छय्या- याम् । 'आईवस्त्रं जलार्दा स्यात्' इति हारावली । औनियेणोनिद्रतया । आत्मनः सखीनां चेति शेषः। एतेन निद्राच्छेदोद्वेगावुक्तौ । निद्रैव सुखं निद्रासु- खम् । उद्वेगादिदुःखमयजागरविपर्ययरूपलादिदम्। निद्रेयं चिन्तावशात् । यदाह- 'दौर्बल्यालस्यचिन्तायैर्निद्रा स्यात्कथयापि च' इति । वल्लभसमागमसंकल्पजखे- देन प्रसृतश्वरणपल्लवेनोद्वान्तः पिण्डीभूतालककरसो यस्याः सा । अलक्तकच्छ- लेनानुरागमिवोद्वमतीति भावः । अतिघनलार्थ पिण्डपदम् । थरथरायमानं कम्प- मानम् । पीवरं महत् । वशं संसकम् । विसंवदितं स्खलितम् । प्रियस्योर्वाक्रमण- भावनया प्रकम्पः । तदाकर्षणभावनया नीवीस्खलनम् । उत्खण्ड्यमानमुच्छलत् । उत्तरङ्गो यातायातवान् । विषमं यथा तथोच्छसन् । पक्ष्मलः सरोमाञ्चः । वेष्टनं वेष्टः । इह हृदयोत्खण्डनादिकं प्रियसंभोगव्यायामभावनया । उपरिवर्तिप्रियस्य भुजलताबन्धनमालिङ्गनभावनया प्रियप्राप्या प्रबुद्धा। प्रबोधश्च स्पर्शादिना भवति । मोहेति । शून्यशय्यादिदर्शनान्मूञ्छितेत्यर्थः । ससंभ्रमः सादरः सावेगो वा अङ्क: ३] मालतीमाधवटीका पृ० प० ८६६ ०णीसाससेसजीविदा किं । दामूढदाए पढमप्प० । ८ वावारं अम्हारिसं जणं क० । ९ परिपेलवेसुअङ्गे । ८७ १ हस्स भविस्सदि । क० । २ कोवोराअप० ।। परिमलुग्गारसंवलणम । ५-६ मुहा वसन्तरअणी- परिणाहा अण° । ७ कामन्दकी-लवङ्गिके, यदि । ८८१ ०एव हृदयोद्वेगो भ० । संगलितो निःसृतः । अनेन युगपन्नासापुटनिःसरणमाह । मूर्छाविच्छेदे तथैव श्वासप्रवृत्तः । जीवितेति । मोहे सखीजनसेकादिना मूपिगमे दीर्घनिःश्वासेन जीवतीत्यवधार्यत इत्यर्थः । किंकर्तव्येति । जीविता सती किं करोमीति न वेत्तीत्यर्थः। प्रथमेति । वयमेव प्रथमं म्रियामह इत्यर्थः। खयमनध्यवसायाल. वङ्गिका कामन्दकी पृच्छति-तस्मात्प्रेक्षतां भवतीति । पेलवं कोमलम् । दारुणवं देहदाहादिकारितात् । इमानि विभावरीमुखानि प्रियसख्याः कथ- मेवं भविष्यन्तीत्यन्वयः । उपरागो लौहित्यम् । पल्लवितः पल्लवाकारीकृतः । केरली केरलदेशस्त्री । तस्या अतिगौरत्वेन लौहित्यार्थ ग्रहणम् । उद्वेल्लन्पतन् । उद्दामदलितमतिदारितम् । इह रुष्टकेरलीकपोलसाम्येनोदितचन्द्रेण तिमिरावरण- नाशे रात्ररुपक्रमः कथितस्ततश्चन्द्रस्य दुःसहता मालत्या ध्वनिता । परिमलितं कृतम् । निर्मन्थनं मर्दनम् । उद्गार उद्गमः । संवलनं मिश्रीभावः । मसृणं मन्दम् । मांसलः पुष्टः । धूमायितं धूमेनेवाकुलीकृतम् । परिणाह आभोगः ॥ काम- न्दकी । एवं श्रुखा कामन्दकी तटस्थेदाह-यदीत्यादि । यदि तद्विषयोऽनु- रागस्तदा गुणज्ञतायाः प्रव्यक्तमेतद्विशिष्टं फलम् । तदा सैव गुणं जानातीत्यर्थः । एतद्धीवि पाठ एतद्गुणज्ञतायाः फलमेवेत्यर्थः । हिरवधारणे । इति नन्दितमानन्द प्रापितमपि मे हृदयमस्या अवस्थया विदार्यते । एतदवस्थतया मरणमप्यस्याः संभाव्यत इति भावः ॥ १३॥ माधवः । स्थाने युक्तम् । स्थानेशब्दोऽत्र योग्य- वाची । हृल्लासो हृदयशोषः । कामन्दकी । प्रकृतीत्यादि । अस्या वपुरिदं खभावसुन्दरं सौकुमार्यमेवैकः सारः स्थिरांशो यत्र तत् । एतत्सत्यं निश्चितम् । अयमेव कामचरितानुभावात्कामोऽप्ययं निर्दयः । अदोऽपि सत्यम् । पञ्चबाण इत्यनेनैकबाणापेक्षया दुःसहवमुक्तम् । अयमपि कालश्चलन्मलयानिलकम्पि- तचूतपुष्पश्चारुचन्द्रभूषणश्च । कथमिति शिरश्चालने । हिमादेरपगमाच्चारु- चन्द्रखम् । तदीडशेऽनर्थहेतौ कथमियं जीविष्यतीत्यही प्रमादः नाथपदेन चित्रगतस्यापि माधवस्य मालतीनाथवं ध्वनितम् ॥ लवनिका । विरचितेति हेतोः । जीवितफलकलाजीवितम् । कार्यकारणयो- अत्र १४ ॥

अगदरकता [अङ्क: ३ . पृ० प० ८९१ माधव:-(सस्पृहम् ।) । ७ संकरघराधिवासिणो जणवदा । शम्भगवसंभरि०। ८ पञ्जरणिबद्धशिङ्क- लाणिरोहपडिभसंकलिदणिअलीला । ९ सुबेल्लन्त- बहलुत्तुङ्ग । १० °न्तिआडम्बरुद्दा । ९० १-२ कन्दरो पअण्डवजणिग्वाददारुणचवेडामोडणपा- डिदाणेअणरतु । ३ °दब्भपडिरवाभोअमीसाविदणट्ठ- विद्दाविदा । ४ °कप्परक्कमणणिद्दअदारिदज० ।५ ०दूलो रमेदात् । माधवः । स्तनांशुकापनयनेन व्यक्तस्तनदर्शनात्सस्पृहम् । जितमि- त्यादि । सखि बकुलमाले, लयेह भुवने जितम् । यतः प्रौढमृणालदण्डपा- ण्डरमनोहरस्तनविस्तारविलासपताकेवास्या मालत्या वल्लभा जातासि । मालती- वल्लभवात्सखीत्युक्तम् । हृदयधारणेन वल्लमेत्युक्तम् । तथा च मालत्यालिङ्गनं तव संपन्नं न ममेति भावः ॥ १५ ॥ कलकलः कोलाहलः । पुनर्नेपथ्य इति । अत्रैष व्याघ्रः क्रुद्धयमविलासं कुरुते। सर्व भक्षयतीत्यर्थः । मठाच्छात्रादिगृहानि- र्गत्य । कीदृशः । यौवनारम्मेण प्रवृद्धौ यो दुःसहावक्षान्तिकोधौ तयोमिलनेन यो बलात्कारस्तेन विघटितं त्यक्तबन्धीकृतमुद्घाटितं मोटितं च यल्लोहपारं तत्र प्रतिबद्धशृङ्खलानिरोधप्रतिभङ्गो विपरीतभङ्गस्तेन संकलिता मिलिता या निजलीला तद्विलासपर्यन्त उद्वेल्लन्कम्पमानोऽत एवोच्छलनूर्व गच्छन्यो बहल- तुङ्गलाशूलः स्थूलोच्छ्रितलालस्तस्य विस्तीर्णवैजयन्तिकासदृशप्रपञ्चेनोड्डामर उत्कटकठोरक्रियः शरीरसंनिवेशो यस्य सः। परगुणासहिष्णुतामर्षः । रोषः क्रोध एव । यद्वा । स्थिरः क्रोध एवामर्षः । यदाह-'क्रोधः कृतापराधेषु स्थिरोऽमर्ष इति स्थितः । प्रतिकूलेषु तैक्ष्ण्यस्य प्रबोधः क्रोध उच्यते ॥' यद्वा अमर्षोऽक्षान्तिः। तत्क्षणं सतृष्णं कवलिता येऽनेकप्राणिशरीरावयवास्तेषां मध्ये कठोराणि यान्य- स्थीनि तेषां खण्डे खण्डने यष्टङ्कारो ध्वनिभेदस्तेन कटकटायमानाः करपत्रवत्क- ठिना या दंष्ट्रास्ताभिः करालो भीषणो मुखकन्दर आस्यकुहरं यस्य सः। टङ्कारेण दुभंगलमुक्तम् । दुर्भेयप्रवृत्तौ दन्तानां कटकटाशब्दकरणं खभावः । विस्तीर्णखा- स्कन्दर इव कन्दरः। प्रचण्डवज्रप्रहारदारुणो यश्चपेटः पाणितलप्रहारतेन यदामो- टनं चूर्णनं तेन कवलिता आखादिता येऽनेकनरास्तुरङ्गाश्च तेषां जाङ्गलं मांसं तस्यो- द्वारेण प्रपूरणेन भरितो यो गलगुहागर्भस्तत्र गम्भीरो घर्घरो दीर्घमधुरो य उरल्लिर्ग- लगर्जितं तेन यो गल्लपूरणशब्दस्तस्य संदर्भेण समूहेन प्रतिरवाभोगः प्रतिशब्दवि- स्वारस्तेन भीषितो भयं नीतो नष्टो विद्राणो निष्ठापितो निष्ठापर्यन्तं लम्भितोऽशेषज- ननिवहो येन सः । कठोरनखकर्पराक्रमणेन निर्दयं दारितं यजन्तुशरीरं ततःप्रवृत्त. रकन संजातरुधिरेण कर्दमीकृतोगतिपथो गमनवाटो येन सः। कर्पर इव कर्परः।

अ ३] मालतीमाधवटीका। ४९ पृ० ५० कुविअक । ६ °ता रक्खध जधासति पिअसहीए मदअन्तिआए जीवि० । ९१६ माधव:-(ससंभ्रममुत्थाय ।) बुद्ध । ९२ ४ माधव:-(साटोपं परिकामति ।) काम- न्दकी-अप्रमत्तो भूत्वा विक्रमख । क्खु जादो । (सर्वास्त्वरितं परिकामन्ति ।) ९३ ३ तदभिपाति° । युधः पूरुषात् । ६ ७ ८ काम- न्दकीमाधवौ-(सभयम् ।) दृढं च पशुना हतः । इतरा:-अच्चाहिदं अच्चाहिदं । कामन्दकीमा- निम्नखात् । 'उरल्लिर्गलगर्जितम्' इति रत्नकोशः । माधवः । मदयन्तिका- परिरक्षणलरयाह-कासाविति । मालती। अम्महे सभयहर्ष आश्चर्य वा। एषोऽपीहस्थ एव । अत्रापिर्विस्मये । यस्यावस्था भगवत्योक्ता, यन्निमित्ता वा ममेयमवस्था स एष इति भावः । खच्छन्दप्रियालोकनतुष्टस्य माधवस्योक्तिः- हन्तेत्यादि । अविरलेत्यादि । अयं श्लोको गद्यादिः । हन्त हर्षे । अचि- तितोपस्थितदर्शनानन्दितलोचनयानया चक्षुषा पौण्डरीकेणेव दाना स्रजाविरलं धनं यथा तथा नद्धो बद्धः । आकृत इति यावत् । कान्तालोकनेन सात्त्विकभावा- विर्भावात्वीयस्तम्भं ज्ञाला नद्ध इत्युत्प्रेक्षितम् । अत्राविरलपदेन पौनःपुन्यं पुण्डरी- कपदेन श्वेतभागविभावनं च ध्वनितम् । दुग्धस्रोतसा दुग्धाम्भःप्रवाहेण निर्भरेण निरतिशयेन संसक्तेन वा नपित इवाप्नुत इवाहम् । तथाविधावलोकनजातरोमाञ्च- तया नपितत्वेनोत्प्रेक्षितम् । अत्र निर्भरपदेन परिचयपर्यवसानतोका । एवं च द्वाभ्यां नेत्रनमल्यमुक्तम् । कृत्स्नो निःशेषोऽहं स्फारितेन विस्तारितेन चक्षुषा कव- लित इव पीत इव । स्फारितलेन कवलनयोग्यतोता । कवलनेन बाह्यसंवेदना- भावात्प्रणय उत्प्रेक्षितः । सान्द्रेण निबिडेन सुधामयजलधरेण प्रसभं बलासित इवाहम् । आनन्दातिशयशालितयामृतसिक्कलेनोत्प्रेक्षा । तदिह माधवस्य परम- निर्वतिसौख्यमुक्तम् । तत्र च प्रथमपदेन तारकातरलता, द्वितीयेन गोलकचाच. त्यम्, तृतीयेन पुटविस्तारो विलासश्च, चतुर्थेन चैतत्रयसंपत्तौ पुण्यवत्तोपपादनम्, तत्रापि मेघपदेन संतापशान्तिः, अमृतपदेन खम्भसंभावना, प्रसभपदेन तत्सं. गतिरेव विपत्प्रतीकार इति सूचितम् । सेचनपदेन तस्मिन्दरालोकनेऽसंपूर्णता सान्द्रपदेन तात्कालिकसकलक्लेशविलयः सूचितः । स्रोतसां निर्झरेणेति पाठे निर्झ- रेण प्रवाहेणेत्यर्थः ॥ १६ ॥ बुद्धरक्षिता । कासाविति प्रश्नस्योत्तरमिदम् ॥ माधवः। साटोपं सावेगम् ॥ कामन्दकी। अप्रमत्तं सावधानम् । क्रियावि- शेषणमिदम् ॥ माधवः । रुधिरादिकं वीक्ष्य सबीभत्सं सघृणम् । अहह विलये जगद्धरकृता [अङ्क: ३ पृ. ५० धवौ—(सहर्षम् ।) प्रमथितश्च दंष्ट्रायुधः । इतरा:- (सानन्दम् ।) दिट्टिआ पडिहदं दुज्जादं ॥ १० °त- लनिषतेन। ९४२ रोसि । तदेहि तावत्पश्यामः । इति शार्दूलविद्रावणो नाम तृतीयोऽङ्कः । खेदे घृणायां च ॥ संसक्तेत्यादि । नखायुधस्य व्याघ्रस्य मार्गः प्राचण्ड्यं रौद्रवं वहति । कीदृशः । संसक्तः संलग्नस्त्रुटितश्छिन्नो विवर्तितः खण्डखण्डीकृ- तोऽन्त्रजालमन्त्रसमूहस्तेन व्याकीर्णं व्याप्तं सद्यो हतवात्स्फुरत्किञ्चिचलदप्रवृत्तम- धोमुखं रुण्डखण्डं कबन्धरूपं शकलं यत्र सः । उरुबुकेति पाठ उरु महद् बुक्कमग्र- मांसम् । कीलालव्यतिकरेण रक्तसङ्घन गुल्फदनो गुल्फपरिमाणः पङ्कः कर्दमो यत्र । अत एव बीभत्सयोगिखम् । 'कबन्धे रुण्डमस्त्रियाम्' इत्यमरः । 'कीलालं रुधिरे तोयम्' इति मेदिनीकारः। प्रमाणे दनच् । 'पङ्कः पापे च कर्दमे' इति विश्वः ॥ १७ ॥ वयमिति । वयमित्यादिना दंष्ट्रायुधपर्यन्तेन पृथ्वीछन्दसा श्लोकः स वाचनिकः । वयं तस्य व्याघ्रस्यातिदूरतः । पशोः क्रमगता आक्रमणं प्राप्ता। क- न्यका मदयन्तिका । कथं मकरन्दः कुतोऽपि स्थानादेत्यागत्य शीघ्रं मध्ये व्याघ्र- मदयन्तिकयोः स्थितः । तेन व्याघ्रणावपातिताद्गृहीतात्पुरुषाद्गृहीतखड्गः सन् । अत आकासितलाभः । अत एव सहर्षाकूतमित्युक्तम् । 'पुरुषाः पूरुषा नरः' इत्यमरः । पूरुषशब्दश्छन्दस्यैव युज्यत इत्यदेश्यम् । 'पूर्वपूरुषतपांसि जयन्ति' इत्यादिनैषधदर्शनाद्भाषायामपि तत्प्रयोगात् । मकरन्दः पशुना दृढं निहतो दृढ- माहतस्ताडितो वा । रकदर्शनेन सभयम् । इतराः । अत्याहितं महाभयम् । 'अत्याहितं महाभीतिः' इत्यमरः । कामन्दकीमाधवौ । व्याघ्रभयत्राणोप- कारितया व्यवस्थितमदयन्तिकासंबन्धात्सहर्पलम् । दंष्ट्रायुधो व्याघ्रः । प्रमथितो निहतः । अमुनेत्यर्थात् ॥ १८ ॥ इतराः। दुष्टमुपक्रान्तं दुर्जातम् ॥ काम- न्दकी । 'व्याघ्र चौरे च व्यालः' इति शाश्वतः । स मकरन्दः क्षितितलनिष- क्तखगलतावष्टम्मेन निश्चलः । इह मकरन्दक्षतेन रुजारूपः संधिप्रवेश उक्तः । यदाह-रुजा प्रोक्ता प्रहारव्यथा' इति । अवष्टम्भनमवष्टम्भः । संभ्रान्ता वि- मुग्धा । प्रमुग्धो मोहं गतः ॥ कामन्दकी । पश्याम इति दर्शनात्समाश्वास इति भावः॥ प्रासूत यं रत्नधरोऽतिमान्योऽतिमान्यरूपा दमयन्तिकापि । जगद्धरं तत्कृतटिप्पणेऽङ्कोऽगमत्तृतीयो रसराजिरम्यः ॥ इति तृतीयोऽङ्कः।

चतुर्थोऽङ्कः। पृ० प० ९५ ६ °पटाञ्चलेन वत्सौ वीजयन्तु । ९६ १ सहि लवङ्गिए, दि० । भणामि पडिबुद्धो जेब ते पिअवअस्सो पडि० । भाओ मअरन्दो ति । ४ जीवितवत्सा । ११ खु अण्णाणसेसु। ९७ ७ नगर एव । १३ दिष्ट्या सुहृड्ड्या वर्धे । १४ सरः प्रीतिदायस्य । १७ सौजन्याद्विहित। ९८ ८ जाणादि महाभाअधेओ जणो अवसरे गुरुअरमणिजं मन्तिदूं । ७ हविस्सदि । माधव: का पुनर्ममाधिकोद्वेगहेतुर्वार्ता । १२ ल्यावः प्रमोदमि । -वयस्य, तत इति । संभ्रान्ता व्याकुला ॥ मदयन्तिका । अत्रापन्नामापद्गताम् ॥ मदयन्तिका । अम्महे हर्षे आश्चर्य वा ॥ मालती। वर्धस इत्यनेन वर्धापनं याचनोक्तिप्रकारः । कामन्दकी । शिरस्याघ्राणमायुर्वर्धनायेति वृद्धाः । बुद्धर- क्षिता । हलेति सखीसंबोधनम् । मकरन्दनामाग्रहणेन खामित्वमभिप्रैति । मदयन्तिका। संभावनायामपिशब्दः । मदयन्तिका । न हि पक्षपाति- न्यस्वादृश्यो मन्दं भद्रं वदन्तीति भावः । कामन्दकी । अक्लेशोपनतलेन रम- णीयम् । शार्दूलनाशेनोपकारपूर्वकमुत्पन्नवादूर्जितं सातिशयम् । 'आयुष्मानिति वृद्धेन वाच्यो वालः शुभाशयः' इति भरतः ॥ मकरन्दः । उद्यानवृत्तान्तो मालतीप्रत्यक्षमुत्तरोपक्रमः । परापतन्नागच्छन् । अवस्कन्दोऽतिक्रमः। गोचरमि- त्यजहल्लिङ्गतयान्वयः । अभिजाता कुलीना । तथा चाभिजायेन मदुपकारं ज्ञास्य- तीति भावः । आभिजात्येन ज्ञानं च तथाविधाकारादिना । कन्यकेत्यत्रानुकम्पायां कन् । अभ्युपपत्तिः प्राप्तिः । विमृशतः । परस्सरक्लेशकारिण्या शङ्कयेति भावः ।। कामन्दकी। प्रीतिदायस्य वर्धापकदानस्य ॥ यदित्यादि । व्याघ्रखण्डि- तसुहृत्प्रमोहेन संतप्तं मां सौजन्येन विगतक्लेशं कृतवती । ततोऽत्यर्थ मम हृदयं जीवितं च पूर्णपात्रवृत्त्या वर्धापकेन स्वीकर्तुमियं प्रभवति । वं च प्रभव- सीत्यर्थः । तदायत्ते मे हृदयजीविते इति भावः । यद्वा चोरिकाविवाहसंपादनेन हृदयहारिता नोचेजीवितहारितेत्यर्थः । 'वर्धापकं यदानन्दादलंकारादिकं पुनः । आकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ॥' इति हारावली । 'पूर्णपात्रं वर्धाप- केऽपि च' इति मेदिनीकारोऽपि ॥१॥ मदयन्तिका । गुरुकरमणीयं श्रोत्रसुखदम् । माधवः मकरन्देन कांचिद्वार्तामुपश्रुति यदुक्तमेतच्छङ्कमानः पृच्छति-वयस्येति । पुरुषः । ज्यायाध्येष्ठः । परमेश्वरो राजा । विश्वासम- ૧૨ जगद्धरकृता [अङ्क: ४ । पृ० ५० ९९ ६ शिषां पहावेण । स०। ७ फलिदा णो । ९ क्खिदे दाणी विवाहमहसवं० । १० बुद्धरक्षिता-सहि, एहि गच्छम्ह । (इत्युत्तिष्ठतः।)०।११-१२ जहा एदे हिअअभरिदुविचविम्हआणन्दसुन्दरं आन्दोलाअन्तधी- रपेरन्तमणो। १००२ °कन्दोट्टदामसरिच्छा कडक्खविक्खेवा तहा तकेमि मणो । ३ णिव्वुत्तसंबन्धा एव । ४ नन्विमौ विलो- कनेन मानसं मुहुर्मुहुर्मोहनमनु । ७ स्तिमितलुलितं । ८ सृणं स्तम्भनि। भेदम् । संभावयामः कारयामः । उत्सवपूर्वको हर्षः प्रमोदः । मदयन्तिका । मद्भातृवधूभविष्यसीति भावः । कामन्दकी । नोशब्दोऽस्माकमित्यर्थे निषेधे च तुल्यरूप इति निषेधोऽप्यत्र स्फुरति । अत एव सोत्कण्ठमाह-भ्रातुरि- त्यादि । मदयन्तिका । उभयतोत्तरमाह । भरिआ इति पाठे भृताः पूर्णा इत्यर्थः । अयमभिसंधिः । यूयं राज्ञः प्रणयिनो वयं सेवकाः । अतो युष्मत्संब- न्धेन वयं पूर्णमनोरथा इति वचनमात्रम् । वस्तुतस्तु सत्संबन्ध एवास्माकं न भवितेति । माधवविवाहस्यावश्यकखात् । लवङ्गिका । यद्वा यदेतत्त्वया मन्त्रि- तमस्माकं मनोरथाः पूर्णा युष्माकं लामेनेति वयमेव तद्वदामः । तेन वं मकर- न्देन परिणेतव्येति मनोरथा अस्माकमेव पूर्णा भविष्यन्तीति गूढमुक्तम् । व्यकं तु युष्माकं राजमित्राणां लामेन राजसेवका वयमेव पूर्णमनोरथा इति भावः । यद्वा एतत्कामन्दक्याख्यं मन्त्ररूपं द्रव्यमस्माकमप्यत्र विषये वर्तते तेन प्रति- हतमेतत् । लवनिका । अत्र भरमितो भरितः । शकन्ध्वादिखात्पररूपम् । यद्वा । भरणं भरः संजातोऽस्य तारकादिवादितच् । व्यवस्थितविभाषया वेद प्राप्तः । अत एव वासवदत्तादौ भरितेति प्रयोगः । हृदये भरिती पूर्णावुत्ता- वमान्तौ विस्मयानन्दो ताभ्यां सुन्दराः । व्याघ्रनिपाताद्धृदयनिहितो विस्मयः। इष्टदर्शनादानन्दः । आन्दोलितं परित्यकं यद्धीरवं तेन मनोहराः । दलितं विक- सितम् । कन्दो नीलोत्पलम् । सदृक्षास्तुल्याः । कान्ता दृष्टिरियम् । काम- न्दकी । मोहनं सुरतम् । अत एव कामशास्त्रम्-'मोहनं नारमेत्तावद्याव- मोत्कण्ठिता प्रिया' इति । ईषदित्यादि । एतदनयोर्दष्टं दर्शनं व्यक्तं शंसति यदेतो मानसं मोहनमनुभवत इत्यन्वयः । दृष्टं कीदृशम् । ईषन्मनाकिर्यग्वलितेन विषमं मन्दम् । अनेन संकल्पसंगतानन्दस्य पराभ्यूहशहितेयं दृगित्युकम् । य- दाह-शायां शङ्किता झेया' इति । कुञ्चितप्रान्तमाकुचितापाङ्गम् । मदयन्ति- काया जडखान्मकरन्दस्यान्यदर्शनं सासूयसाबिझा दृष्टिः । यदाह-जिया अहः ४] मालतीमाधवटीका। पृ० १० १०११ वत्स इत इतः । ४ अणुऊलं भविस्सदि ति । ८तिष्ठामव्याज ब्रज । विधिः खास्थ्यं ध । १०२५ (प्रकाशम् ।) पृच्छामि तावदायुष्मन्तम् । अपि भवा- नमस्त यथा भूरि० । ८ स्थायाः परिहीयसे । दृष्टिरसूयायां जडतालस्ययोस्तथा' इति । दृष्टिद्वयेन सुरतप्रागवस्थोक्ता । प्रेम्णा उढ्दादतिपरिपाकारितमितं स्थिर लुलितमर्धमुकुलितं च । अर्धमुकुलितेयं हक् । यदाह--'अङ्गादिष्वर्धमुकुला गन्धस्पर्शसुखादिषु । अर्धव्याकोपपक्ष्माप्रप्रस्वार्ध- मुकुलैः पुटैः ॥ स्मृतार्धमुकुला दृष्टिः किश्चित्कीलिततारका' । अनेन रताभोग उक्तः । नखदशनक्षतादिशङ्कया मानं सूचयति । किच्चिदाकुञ्चिते आनमिते अवौ यत्र तत् । एकस्या एव ध्रुव उत्क्षेपणं कुञ्चनमिह । यदाह-'एकस्या एव उत्क्षेपो भ्रवः कुञ्चनमुच्यते' । कोपे चास्य प्रयोगः । यदाह-कोपे वितर्के हेलायां लीलादौ सहजे तथा । दर्शन ग्रहणे चैव ध्रुवमेकां समुत्क्षिपेत् ॥' मानस्याल्पल- सूचनार्थमाझयोगः । रतावसानमाह-हृदये हर्षानुभवेन मसृणं स्निग्धं मन्दं वा । रतान्ते लजामाह-स्तम्भं लज्जान्विततया परितोऽधपुटखात् । कथ पुनः संभोगो भावीति चिन्तया निष्कम्पम् । शून्यतया निष्कम्पं वा । तादृशं पक्ष्म यत्र तद्विच्छेदमाह-आकेकरमक्षि यत्र तत् । 'आकेकरा खरालोके विच्छेदे प्रोषितेषु च' इत्याद्युक्तम् । तदिहाकेकरलक्षण आकुञ्चितेत्यादि प्रथमपदेनोक्तम् । द्वितीयेन मुहुर्त्यांवृत्तातारेत्युक्तम् । तृतीयेन हर्षितार्धेत्याधुक्तम् ॥ २ ॥ मद. यन्तिका । अपिनाम संभावनायाम् । अव्ययसमुदायखात् । माधवः । करु. णावस्थामाह-चिरादित्यादि । चिराशङ्कित आशातन्तुर्मालतीप्राध्याशारूप- हृदयावलम्बनं संप्रति भिद्यताम् । बिसिनीसूत्रवद्भिदुरो भेदनखभावो यतः । भिदेः कर्मकर्तरीति कुरच् । संभूय त्रुटितलेन मृणालतन्तुसाम्यम् । नैराश्यान्म- रणमाह-आधिर्मनोव्यथा तद्रूपो व्याधिरनवच्छिन्नोऽत एव महान् । व्याप्नोतु । इह महत्त्वनिरवधिलाभ्यां मरणमाह । आशाच्छेदानन्तरं च मरणमुचितमेव । यदाह-'सर्वैः कृतैः प्रतीकारैर्यदा नास्ति समागमः । कामानिना समाप्तस्य जायते मरणं ततः ॥' स्त्रीहेतुमरणादधीरखमाशयानुज्ञोत्तरमाह । पारिप्लवधुरा चपलकक्षा सत्यं स्थिति मयि बनातु । अभीष्टलाभेन विधिनिराकुलो भवतु । मालती विना दुःसहवेदनादायी मनोभूः कृतकृत्यो भवतु । मरणादधिकं किं कर्तव्यमस्येत्यर्थः । एतदुपालम्भगर्भ वच उद्वेगात् । यदाह-'हृद्दाहचिन्तानिःश्वा- सग्लानिखेदप्रजागरैः । रोदनैर्मन्दभणितैर्देवोपालम्भनेन च ॥' इति ॥३॥ समा- नेत्यादि । वामारम्मे प्रतिकूले विधौ ममैषा परिणतिः पूर्वोका युक्कैव । कीदृशस्य । तुल्यप्रीतिं दुष्प्रापं जनं याचितवतः । वामे हि विधौ मुलभमपि न लभ्यते किं पुनरसुलभमिति भावः । दृष्टकारणस्थानुपलम्भाद्विघामलम् . ।

जगद्धरकृता [अङ्कः ४ १०४ । पृ० प० १०३ २ वति निजस्य क । तिष्ठानिबन्धानि दे। १० तस्मादविमर्शितव्यमेत । °च वत्स मा । १ मा वा सप० । ८ अतश्च प्रवज्यासुलभसमयाचा० । १०५ ४ सुखप्रदः । १२ मालती-(खगतम् ।) प० । १३ द्विदो दुट्ठदेवस्सदा । असुलभलं परतन्त्रत्वात् । यद्यपि युक्तेऽर्थे खेदो नास्ति तथाप्यस्या मालत्यास्ता- दृशं सुखं ममान्तर्दहति । एतन्मुखं वीक्ष्य मनस्तापो मे भवतीति भावः । अस्मिन्दानश्रवणसमये नन्दनाय मालती दातव्येति श्रुखा खेदात्कान्तिशु- न्यत्वम् । अत एव प्रातश्चन्द्र कान्ति कापि विगतकान्ति भवति । अथ च प्रातश्चन्द्रोपमया रागध्वनेविधि प्रति मालतीकोपोऽपि सूचितः ॥४॥ काम- न्दकी । दुष्करं यथा तथा प्राणिति जीवति । अमंस्त मन्यते स्म । काम- न्दकी । प्रागवस्था मालतीप्राप्तिलक्षणा । तदा तस्याज्ञानमिति भावः । मक- रन्दः। दत्तपूर्वा पूर्व दत्ता । सुप्सुपेति समासः । इदं च तापहेतुः । काम- न्दकी । वागिति वाचि सर्व प्रतिष्ठितमिति भावः । अनृतात्मिकासत्या। धर्मा- चारसमयो धार्मिकसिद्धान्तः । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इति विश्वः । निजावधानमाह-मा चेति । अस्यां मालत्यां वयि च यत्पापं विवाहानिर्वाहे मरणरूपं शङ्कनीयं विप्रयोगजन्यदुःखादि वा तच्छत्रुष्वपि । नाम प्राकाश्ये । मा वाभून्मैव भविष्यति । वाशब्द एवार्थे । खकर्तव्यमाह-तदिति । तस्माधुवयोः संबन्धाय सर्वप्रकारेण जीवत्यागेनापि मया प्रयत्नः कार्यः । यदि बुद्धिकौशलेन न सिद्धिस्तदा प्राणव्ययेनापि साध्यमित्यपेः खरसः। मरणादेरमङ्ग- लतया पापपदेनोपन्यासः । शत्रुष्वपि मा भूदिति लोकोक्तिच्छायालंकारः ॥ ५ ॥ दयेत्यादि । हे भगवति, अस्मिन् शिशुजने बालजने माधवे मालत्यां च दया करुणा स्नेहो ममता च संसाराद्विरक्कमपि भगवत्याश्चित्तं द्रवयत्यार्दीकरोति । भवत्या इति दयाद्यन्वयि चित्तान्वयि च काकाक्षिगोलकवत् । वाशब्दश्चार्थे । अत एव चित्तद्रवणात् । व्रतग्रहणपूर्वकसषणानिवृत्तिः प्रव्रज्या । तस्यां सुलभोऽव- श्यंभावी समयाचारोऽनुष्ठानविशेषो ध्यानादिविषयखत्र विमुखो निरुद्धो यत्नते प्रसक्तोऽविच्छिन्नः सन् प्रभवति । च एवार्थे । कार्यासिद्धिरदृष्टविलम्बात् तत्र न भवत्या दोष इत्याह । अपर पुनदैवं प्रभवति । ईश्वरस्त्रीषु राज्ञीपदोपचारेण भट्टिनीत्यु- कम् । भरतोऽप्याह-'राजस्त्रियस्तु संभाष्याः सर्वाः परिजनेन तु । भट्टिनी स्वामि- नीत्येवं नाट्ये प्राहुर्विचक्षणाः ॥ ६॥ माधवः । लोकयात्रा दर्शनादिकम् । अहो नु खलु भो इत्यव्ययसमुदायो निर्वेदे । सुहृदित्यादि । एकत्रैव रसो रतिर्य- स्वाखाम् । यद्वा । एक एव रसः शृङ्गारो यस्यां ताम् । निरन्तरां वानुकूलता- मानुकूल्यं प्रथम प्रकाश्य सुखप्रदो विधिः पुनर्मनसो रुजं पीडां प्रविशिनष्टयति- अङ्कः ४] मालतीमाधवटीका। पृ० प० १०६ १ °समारम्भसरिसो परिणा" । ३ इदो । (इति कामन्दक्या सह निष्क्रान्ते ।)७ विक्रयादन्यमुपा०1८°मदयन्तिकायाः। १०७ ३ माधव:-सुलभैव बुद्धरक्षिताप्रियसखी भवतः । - शयितां करोति । कीदृशः । अकाण्डादकस्माद्विवर्तनेनान्यथाभावेन विरुद्धवर्तनेन वा । दारुणो दुःखदायी सुहृदिव । यथा मित्रमानुकूल्यमुत्पाद्य सुखप्रदं सदकाण्ड एव विरुद्धाचरणान्मनःपीडां करोति तथेत्यर्थः ॥ ७ ॥ मालती । पुनदर्शनं न भवितेति भावः । अत एवैतावदित्यनेन करुणा । नयनानन्देत्यनेनानुरागः । मालती। अत्र पुरा विरहदशायां माधवप्रतिच्छन्दकादिदर्शनाद्धारितस्य जीवि- तस्य पर्यवसानं वृत्तमिति परिणतपदस्यार्थः । कापालिकवं नृशंसता । अघोरघ- ण्टस्य सूचनमप्येतत् । माधवः । जन्मसाफल्यं मालतीप्राध्या । महामांसेति भाव्यङ्कसूचनम् । वीरहस्तान्मांसं गृहीला वीरायाभिमतवरदानमिति श्मशानसि- द्धयोगिनीमतम् । यद्वा उभयथा मरणमुपस्थितम् । महामांसविक्रये मालतीला- भोऽपि शयत इति तत्करणम् । मांस विक्रयस्य मकरन्दसंनिधावशक्यत्वान्म- करन्दं मदयन्तिको प्रत्युत्कण्ठयति-चयस्येति । मदयन्तिकायाः कृत इति शेषः । यद्वा 'अधीगर्थे ति कर्मणि षष्टी । मकरन्दः। अथ किं खीकारे । तन्म इत्यादि । तन्मम चित्तं हरति यदेतादृशैरङ्गैर्मामालिङ्गितवती । सरसः सरक्तः प्रहारो यत्र तादृशं मामवलोक्य । अत एव बरयागणितं स्खलत् प्रभ्रश्यदुत्तरीयं खनावरणवासो यस्याः सा । एतेन निरन्तरस्तनस्पर्शः सूचितः । अत एवान- न्दसंदोहदायिवादमृतसिक्तैरिव । भयवत्त्वेन त्रस्तैकवर्षीयहरिणस्येव चञ्चला दृष्टियस्याः सा । 'वर्षोऽब्दो हायनोऽस्त्री स्यात्' इत्यमरः ॥८॥ माधवः । त्रासेन बदालिङ्गनं न तु स्नेहादिति शङ्कापनोदाय दूतीसुलभतयानुरागमेवाह- सुलभेति । प्रमथ्येत्यादि । सा तवालिङ्गनं प्राप्यान्यत्र कथं रमताम् । अपि तु नैव । इवशब्दोऽनवक्लप्तौ । कुलीनैकमालिङ्ग्य नान्यत्र रमत इति भावः । कीदृशस्य । क्रव्यमाममांसमत्तीति क्रव्याद्याघ्रः । तं विनाश्य मरणकाले तां रक्षितवतः । एतेन कृतोपकारितोक्का । अतोऽपि नान्यत्र रमते पद्माक्ष्याश्चक्षुषो- स्तथा तेन प्रकारेण खयि व्यापारश्च व्यक्तः स्नेहात्स्तिमितो मन्दोऽत एव रमणी- यश्चिरमभूत् । रागेण तया साभिलाषमालोकितोऽसीति भावः । एतेनानुराग उकः । यदाहानुरागप्रकरणे, 'तुष्यत्यस्य कथाभिस्तु सस्नेहं च निरीक्षते ॥' 'क्रव्यमामिषमुद्रासम्' इति हारावली ॥ ९॥ मकरन्दः । पारा च सिन्धुश्च ते नद्यो तयोः संमेदः संगमः । अवगाह्य विलोज्य । स्नालेति यावत् । क्लमशान्ति- हेतुतया महामांसादानहेतुतया च नानम् । माधवः । व्यतिकरः संगमः । जलेत्यादि । वधूभिर्नारीभिः सेविततटदेशः । कीदृशीभिः । जलेन निबिडित- मङ्गलमं यद्वासस्तेन व्यको निनोचतो जघनादिखनाद्यौ यासाम् । अत एवं .

५६ जगइरहवा [महा४ पृ० ५० म० । १० मकरन्दः तदुत्तिष्ठ । पारासिन्धु । माधव:-अय । नद्योः संभेदः । १०८ ४ इति शार्दूलविभ्रमो नाम चतुर्थोकः। मानमात्रोत्थिताभिः। मात्रपदेन नानावस्त्रापरित्यागः सूचितः । अत एव चाहादहेतुतया मानमपि । तौ दृष्ट्वा तासां लज्जामाह-मनोशखणघटशोभावना- भोगः परिपूर्णता ययोरुचकुचयोस्तयोविनिहिती दत्तो हस्तावेव खस्तिकी याभि. स्वाभिः । हस्ताभ्यां खस्तिकोऽन्योन्यवामदक्षिणविन्यासः। यदाह-मणिबन्ध. विन्यस्तावरालो स्त्रीप्रयोजिती । उत्तानो वामपार्श्वस्थौ खस्तिकः परिकीर्तितः ॥' अरालश्चैवम्-'आया धनुर्लताकारा कुञ्चितोऽङ्गुष्ठकस्तथा । शेषा भिन्नोवंव- लिता अरालेऽङ्गुलयः करे ॥' कनकेत्यादिना तासां गौरीलमुक्तम् । मङ्गलकल- शानामिवासां दर्शनेनेष्टसिद्धिरपि सूचिता ॥ १० ॥ असूत यं रत्नघरो द्विजेशो द्विजेशकन्या दमयन्तिकापि । जगद्धरं तत्कृतटिप्पणेऽङ्कोऽगमच्चतुर्थो रसराशिवासः॥ इति चतुर्थोऽङ्कः।

पञ्चमोऽङ्कः। तत इति । संप्रति प्रमध्य कन्यादमित्यनेनाघोरघण्टकपालकुण्डलाप्रवेशे सू- चिते महामांसविक्रयप्रतिज्ञया च माधवस्य श्मशानप्रवेशे सत्यकावतारः । आका- शयानेन प्रवेशो योगसिद्धिसूचनाय । भीषणा भयंकरी । उज्वलवेषा विशुद्धश. रीरा । एतदपि योगिनीलादेव । षडधिकेत्यादि । स शक्तिनाथः शिवो ज. यति जययुक्तो भवति । कालसामान्ये भवविति वक्तव्ये भाष्यकारवचनात्काल. त्रितयेऽपि वा लट् । श्मशाननाथस्य जयेन श्मशानसाधनसिद्धिः सूचिता । की- दृशः । अविचलितं निस्पन्दीभूतम् । विषयान्तरव्यावृत्तमिति यावत् । मनो येषां तैः साधकैर्मग्यमाणोऽन्विष्यमाणः । अनेन ध्यानानुष्ठानमुकम् । यदाह -रूप- वर्णप्रमाणायं परिकल्प्य सुबुद्धिना। तथा ध्यायेत देवेशं यथा चित्तं स्थिरं भवेत् ॥' चित्तस्थैर्य तु निर्विषयतयैव । यदाह-'मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धस्य विषयासङ्गि मुक्तनिर्विषयं मनः ॥' तथाच निराकारोऽप्ययं सहसैव न साक्षात्कारविषयो भवतीति न योग्यानुपलम्भमात्रेण निरस्य इत्यपि कटा- क्षितम् । शक्तिभिर्ब्राह्मीमाहेश्वरीकौमारीवैष्णवीवाराहीमाहेन्द्रीचामुण्डाचण्डिका- ख्याभिरष्टाभिः परितो नद्धो वेष्टितो भैरवमूर्तिवात् । यद्वा शक्तिभिानेच्छाप्रय. नात्मिकाभिः परिणद्ध उपचितः । अत एव शक्तीनामणिमादीनां नाथः प्रभुः । अत एव जयति सर्वोत्कृष्टो वर्तते । कीदृशः। षट्सु कर्णनाभिहृत्कण्ठतालभूम- ध्यवर्तिषु शिवशक्तिसंघटस्थानेषु नाडीसंघटेषु हृदायधिष्ठितप्राणविशेषचलनयोगा- चक्रेष्विव मध्येऽधिकं प्रधानं यद्दशनाडीचक्रमिडापिङ्गलासुषुम्णागान्धारीहस्तिजि. ह्वापूषारुणालम्बुषाकुहूशजिन्याख्या दशनाड्यो हृद्गतकोत्तरशतसंख्यासु तिर्यगू/- धोगतनाडीषु प्रधानतमास्तासां चक्रं तस्य मध्ये पद्ममध्यवर्तिसूक्ष्माकाशदेशे प्रा. णाद्याधारे स्थित आत्मा कूटस्थो नित्यो यस्य स तथा । तत्र प्रमाणम्-'आशि- रसश्रवणं देहं यद्यपि व्याप्य तिष्ठति । तथाप्यस्य परं स्थानं हृत्पङ्कजसमुद्कम् ॥" इति । स्थितिरपि तस्य तत्र परमात्मतत्त्वाविर्भाव एव । यद्वा । षट्भिरधिका दशनाख्यः षोडशसंख्यास्तासां चक्र तत्र मध्ये स्थितश्चासावात्मा चात्मखरूपः । तदुक्तम्-'सर्व शिवमयं मतम्' इति । यद्वा षडधिकं यद्दशनाडीचक्रम् । मतमेदे- नैते पक्षाः । हृदि हृत्पद्म विनिहितरूपो ध्यानमूर्तिः सन्यस्तद्विदां शिवसाक्षात्का- रवता सिद्धिदोऽणिमाद्यैश्वर्यप्रदः । अत्र मानम् -'ईश्वरः सर्वभूतानां हृद्देशे- ऽर्जुन तिष्ठति' । 'सकलं चिन्तयेत्तस्मात्सिद्ध्यर्थ सततं शिवम् । ध्यानेन तत्पर गच्छेत्सर्वैश्वर्यगुणाष्टकम् ॥ महिमा लघिमाणुत्वं प्राकाम्यं वशिवेशिता । प्राप्तिः कामावसायित्वं शम्भोरैश्वर्यमष्टधा' । मृग्यमाणोऽप्ययं केनापि ज्ञायते न तु सर्वे- ण। यदाह-'यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वतः' इति । यद्वा तद्विदा ता: सिद्धीरुपायदेशकालप्रमाणेतिकर्तव्यताभिर्ये विदन्ति तेषां सिद्धिदोऽभिलषित- सिद्धिद इत्यर्थः ॥ १॥ आत्मनि योगसिद्धिमाह-नित्यमित्यादि । इयमह- २७ माल.

५८ जगद्धरकृता [अङ्क: ५ पृ० प० ११० ५-६ अपि च । उल्लोलस्खलि। मिदानीमभ्यागताभीष्टस्थानाभिमुखमागता श्रीपर्वतादित्याक्षेपात् । कीदृशी । शिवखरूपमात्मानं पश्यन्ती । लयवशाञ्चित्तैकाप्रतया । अनेन सर्वेषां तत्प्रकाशो- पास्तः । कीदृशम् । नियमविनाशिनम् । न्यस्तानि देहे मन्त्रन्यासेनार्पितानि यानि षडङ्गानि हृदयशिरःशिखानेत्रकवचास्त्राणि तेषां चके समूहे निहितमारोपितं मन्त्रन्यासेन । यदाह-'षडङ्गमेतत्कथितं सर्वसिद्धिप्रदायकम् । न्यसे? भक्तियु- कात्मा साधको ज्ञानचिन्तकः ॥ त्रिकालमेककालं वा शरीरे विन्यसेद्बुधः' । अनेनाजावरणमुक्तम् । नित्यन्यस्तेति पाठे नित्यं प्रत्यहं न्यस्तानीत्यर्थः । इत्पद्म- मध्ये हृत्कमलकर्णिकायां ध्यानाभ्यासात्सूर्यवदुदितम् । यदाह-'पद्मसंकाशसंस्था- नं हृदयं तत्र दृश्यते । सूक्ष्मो हि पुरुषो ज्ञेयः परमात्मा हृदि स्थितः ॥ अभ्यासा- त्पश्यते सूर्य परमात्मानमात्मना' । नाडीनां पूर्वोक्तानामिडापिङ्गलादीनामुदयक्रमेण वायुपूरणपरिपाट्या जगतः शरीरस्य पञ्चभूतात्मकस्य पञ्चामृतानां पृथिव्यप्तेजोवा. वाकाशानां योगड़िबलाद्य आकर्षस्तस्मादप्राप्तोऽलब्ध उत्पतनेनाकाशयानेन श्रमो यया सा। यद्वा अमृतमिवामृतं देहस्थितिहेतुखात् । तत्पुनर्विन्दुस्थानात्कुण्डलि. नीसावणेन स्रवद्रसविशेषो रसनाधःस्थितरन्ध्रस्रवद्रसविशेषो वा । हि व्यापकत्वेन पञ्चशब्दवाच्यः । तदाकर्षणात् । यद्वा जगतः शरीरस्य पञ्च यान्यमृतानि शिव- शक्त्यात्मकानि रूपरसगन्धस्पर्शशब्दलक्षणानि नित्यानि स्थूलमहाभूतमात्रापरिपो. षकाणि । योगिनीनां तेषामुपयोगात् । तदाकर्षणेन सामादिकं योगिनीनामिति भावः । न च लयवशत्वेन निष्क्रियतयोत्पतनं न संभवतीति वाच्यम् । लयस्या- न्यत्रापि सामर्थ्यात् । यदाह-'मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् । त- थापि योगिनां योगो ह्यविच्छिन्नः प्रकीर्तितः ॥' उत्पतनादिमाहात्म्यादेवाग्रेभुवः पुरोवर्तिनो मेघान् विघयन्ती द्विधा कुर्वन्ती । अग्रे नम इति पाठ आकाश- मेघानग्रे विघयन्तीत्यर्थः । न च नभःपदवैयर्थ्यम् । वनपर्वतादावपि मेघसद्भा- वेन तद्विघटन आकाशगामित्वोत्कर्षाप्रतिपादनात् । यद्वा अग्रेनभो नभसि मेघान् विघयन्ती। अग्रेशब्दो विभक्तिप्रतिरूपको निपातः। तस्य विभक्त्यर्थेऽव्ययीभावः। अनेन श्लोकद्वयेन शान्तो रस उक्तः । अत्र भरतोऽपि 'शान्तस्तु नवमो रसः' इत्याह । न स विषयवरस्यादुपजायते । यदाह 'शान्तो विषयवैरस्याद्रसः संजायते पुनः' इति ॥२॥ कपालकुण्डलायाः पूर्वोत्कमीषणोजवललमुपपादयति-उ- ल्लोलेति । गगनतलगमनवेगो मयि सकलं रमणीयडामरत्वं रमणीयत्वं मनोहरत्वं डामरत्वं भीषणसमुद्भटलं वा केलिसंरम्भनिर्भरत्वं वा संधत्ते समर्थ कुरुते। 'डाम- रोडामरौ भीमे केलिसंरम्भनिर्भरे' इति रत्नकोशः । वेगवलादुल्लोलेन यातायातेन स्खलिता या कपालानां कण्ठवर्तिनी माला तस्याः संघहक्कणितेनान्यकपालसं. ष्टिध्वनिना कराला मूका क्षुद्रघण्टिका यत्र सः। कपालमालोचध्वनिना तङ्कनेरश्रवणा. न्मूकलमिव मूकलम् । यद्वा तथाविधक्कणिवेन कराला दन्तुरा । विषमेति यावत् ।

अङ्क ५] मालतीमाधवटीका। ५९ पृ० प० १११ २ अन्थिबद्धोऽपि । ३ वृत्तिख । ५ पताकाः । ६ (गन्धमाघ्राय ।) । °मानरसोनगन्धि । ७ धूमैः पुरस्ता- द्विभावितस्य महतः श्म० । ११ इति तद्विचिनोमि । ११२ ३ °दधत्परिपाण्डुरं । ८ °नेन । भवतु समी। ९ तथा- हि । संप्रति। किङ्किणी यत्र सः । कुलयोगिनीनां किङ्किण्यादिध्वनिना सानन्दलम् । यदाह- 'समुद्घोषसंभारकिङ्किणीघण्टिकाखनैः । सदानन्दो भवेद्योगी न निद्रा न क्षुधा तृषा ॥' इति ॥ ३ ॥ तदेवाह-विष्वगिति । जटानां भारः समूहो निबिडं दृढं यथा तथा प्रन्धिबद्धोऽपि विष्वग्वृत्तिः सर्वतोव्यापी सन् प्रचलति । गगनग. मनवेगादित्यर्थात् । विष्वक्शन्दो नानार्थः सुषामादिषु पठ्यते तेन षत्वम् । कृता- वृत्तिः कृतगतागता कृतमण्डलभ्रमणा खट्वाङ्गसहिता घण्टा संस्कारेण संतानेन यः काणो ध्वननं तेन दीर्घ पटु रमणीयं च यथा तथा रटति शब्दायते । एतेन डामरत्वमुक्तम् । खट्दाचं वाद्यमेदः । वायुरूवं पताका धूनोति कम्पयति । धू कम्पने । दीर्घान्तः खरतीत्यादिसूत्रे न्यासकारेणोक्तः । कीदृशः । विवृतानि यानि निर्मासतया शवशिरांसि तेषां श्रेणयः पतयस्तासां यानि कुञानि गहनाः प्रदेशा- खेषु गुजन्वनन् । अत एवोत्ताल उटध्वानः क्षुद्रघण्टिकानामजनरणत्कृति- हेतुश्च । अनेन रमणीयत्वमुक्तम् । 'निक्काणो निक्कणः काणः क्वणः कणनमित्यपि' इत्यमरः । यद्वा पटुरटनेन रमणीयलं पताकाकम्पनेन डामरखमत्रोकम् ॥ ४ इदं तावदिति । पुराणेत्यादिना चिताधूमानां खभावाख्यानम् । अतं म्रक्षितम् । परिभर्जनं वहिमध्यनिक्षेपपाकः । अम्लरसेनकेनोनं पञ्च रसं रसोनम् । लसून इति ख्यातम् । वट्यते वेष्ट्यतेऽनेनेति वाटः । हलश्चेति घञ् । 'पन्था वाटः पथो माथः' इति भागुरिः । नेदीयो निकटम् । पर्यवसितं समाप्तं विनष्टं च । मन्त्रसाधनं पुरश्चरणजपादि । संभारः समूहः । उपयाचितं मनीषितार्थ स्वीकृतम्। 'यद्दीयते तु देवेभ्यो मनोराज्यस्य सिद्धये । उपयाचितकं तत्तु दोहदं संप्रचक्षते ॥' इति हारावली । स्त्रीरत्नमिति । 'जातौ जातौ यदुत्कृष्टं तद्धि रत्नं प्रचक्षते' इति विश्वः । विदितमुपलब्धम् । विचितमिति पाठेऽन्विष्टम् । गम्भीरेत्यादि । "विकाराः सहजा यस्य हर्षकोधभयादिषु । भावेषु नोपलभ्यन्ते तगाम्भीर्यमुदाह- तम् ॥' इति । 'अभ्यासात्करणानां तु श्लिष्टलमुपजायते । महत्खपि विकारेषु तन्माधुर्यमुदाहृतम् ॥' इति भरतः । उत्तम्भितो जूटाकारेण बद्धः कुटिलो वक्रः कुन्तलः केशो यस्य सः। एतेन रौद्ररसवत्तोका ॥ कुवलयेत्यादि । य एष खभावानीलनलिनपत्रवच्छयामोऽपि विप्रलम्भात्सर्वतः पाण्डुरमहं दधत् । ललितो रमणीयो विकटो भीषणो न्यासो देहन्यासो यस्य सः । ललितलं खभावात् । वि. कटवं रौद्रात् । यद्वा न्यासः करचरणादिचालनम् । श्रीमानतिरम्यः । मृगाहानि.

जगद्धरकृता [अङ्क: ५ पृ० ५० ११५ १ अतिमुक्तमहथि । ३ अपि कर्णजाह° । ४ तदक- परिवर्तमा। रतिशया भा यत्र तादृशमाननं यस्य । अत एव हेयलार्थ मृगाङ्कपदेनोपन्यासः। यस्य वामः पाणिविनयं हरत्यपनयति । तत्र हेतुमाह-प्रविगलदसपङ्कः स्रवद्रु- धिरकर्दमः । ललच्चञ्चलं नरजाङ्गलं महामांसं यत्र सः। न हि विनीतो रकं महा- मांसं च धारयति । अत्र पूर्वार्धेन ललितलमुत्तरार्धन विकटवमुक्तम् । अत एव व्यक्तसाहसः । महामांसधारिलेन वीरबीभत्सरसावुक्तौ । यदाह-'उत्साहाध्यव. सायाद्विस्मयहर्षाच मोहाच । विविधाद्गन्धविशेषाद्वीररसो नाम संभवति ॥ अन. भिमतदर्शनेन च गन्धरसस्पर्शशब्ददोषैश्च । उत्तेजनैश्च बहुभिर्वीभत्सरसः समुद्भ- वति ॥' दधदित्यत्र 'नाभ्यस्ताच्छतुः' इति नुमो निषेधः । 'जङ्गलं निर्जनस्थाने त्रिलिङ्गयां पित्रितेऽस्त्रियाम्' इति मेदिनीकारः ॥ ५॥ पणायिता विक्रेता। विगलितप्रायो भ्रष्टप्रायः ॥ व्योन इत्यादि । गगनस्योपान्ता ध्वान्तलताभिर्व्या. प्यन्ते । तमालपुष्पस्तबकपतिभिरिव । एवं च पृथिव्युपान्तभागेन नूतने जले मजतीव । उत्प्रेक्षेयम् । त्रियामा रात्रिः । प्रारम्भे प्रदोषमात्रेऽपि नीलवं निजं वनेषु तरुणयति । कीदृशम् । वातानां समूहो वाल्या तस्याः संवेगेन निवर्तनेन विष्वक् चतुर्दिशं वितता विस्तारिता वलयिता वलयाकारा स्फीता गभीरा या धूम्या धूमसमूहो नीहारो वा तत्सदृशम् । एवं चान्धकारोपमाद्तप्राया संध्ये. त्यर्थः । 'धूम्या धूमसमूहेऽपि नीहारेऽपि निगद्यते' इति धरणिः ॥ ६॥ साशंसं सप्रार्थनम् । प्रेमेत्यादि । मुग्धदृशो मालत्यास्तास्ता अनुभूताश्चेष्टाः संभोगे चुम्ब. नादयो मयि पुनर्भूयासुः । 'चेष्टाविशेषाः संभोगे चुम्बनालिङ्गनादयः' इति कण्ठाभरणम् । कीदृश्यः। प्रथमं प्रेम्णा संभोगप्रीत्या इव तापशान्तिहेतुरोमाञ्चा- दिजनकत्वात् । ततो विश्वासमुपेत्य चित्तप्रसादस्पृशः । ततः परिचयात्सुखाखा- दमेदादुद्भटरागोद्रेकाः । निसर्गमधुराः सहजमनोज्ञाः । याखाशंसोपनीताखपि क्षणानिरतिशयमुखघनो लयो लीनता भवति तासु चेष्टासु मनो लीयत इत्यर्थः । कीरशः। अन्तःकरणस्य मनसो बाह्येन्द्रियव्यापारावरोधनशीलः । मालतीमय. खेन तन्मनो बाह्यविषये न व्याप्रियत इत्यर्थः । अत एवानेकशङ्कातङ्कसंकुलेऽपि तत्र स्थाने माधवस्य न साध्वसादिकमपीति भावः । यद्वा । ताताश्चेष्टा बकुलवीथ्यादिषु यातया कृतास्तास्ता मयि भवेयुः । तासामेव दुर्लभखादाशंसनीयता ॥ प्रथम- प्रीतिहेतुलादालिङ्गनमाशास्ते-अतिमुक्केत्यादि । प्रियया सह तदङ्कपरिवृत्ति- मप्यहमाप्नुयाम् । तत्तस्या अङ्के कोडे सर्वतोभावेन वर्तनम् । हृदयालिङ्गनमित्यर्थः। अपिभिभक्रमः । यद्वा तदके परिवर्तनमूर्ध्वाधःक्रमेण पुरुषायितमामुयाम्। कीदृशः। प्रियया कर्णजाहे कर्णमूले विनिवेशितमाननं यत्र । ममापि सः। प्रथमपक्षे कर्ण- मूलेर्पितमाननं येन सः। 'तस्स पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहची' इति मूले जाहच्प्रत्ययः । अविकान्ता मुक्ता यया सातिमुक्ता । मुक्का मुक्काहा- अङ्कः ५] मालतीमाधवटीका। पृ० प० ११६ ३ °धुना तत्संदर्शनेनातिखल्पोऽपि न विशे०। ४ सं- भावितात्मजन्मनः संस्का० । ११७ १ करोत्यन्तर्वृत्ति । रमपास्य तदर्पणातिक्रमः । यद्वा अतिमुक्तातिविरला मालत्यवलोकनव्यासङ्गात् । एतादृशी या मथिता केसरावली तस्याः सतताधिवासेन सुभगः सुरभिरर्पित- खनौ यत्रेति क्रियाविशेषणम् । अविमुक्तेति पाठो न मनोहरः । अविमुक्तलादेव सतताधिवासस्य लब्धलात्सततग्रहणस्य व्यर्थखात् ॥८॥ संभूयेत्यादि । तस्या- स्तन्मुखं पुनरपि पश्येयमित्येतदेव प्रार्थये । अङ्कप्राप्तेर्दुर्लभखादिति भावः । कीह- शम् । कामस्य मङ्गलार्थं गृहम् । तत्र कामो हृष्टो वसतीत्यर्थः । यद्वा कामस्य मङ्गल. घटितं हिरण्यघटितं गृहम् । 'कल्याणं मङ्गलं विद्यात्काञ्चनं च तदशमम्' इति विश्वः। यद्वा अनङ्गस्य मङ्गलानामुपचयहेतूनां सौकुमार्यादीनां गृहम् । अत एवोत्प्रेक्षते । वालचन्द्रकलोदयात्साहीतैरुत्पादितमिति । अत्रोदयादिति भावेन द्रव्याभिधाना- नवेन्दुकलाया अवचिताः सारास्तैरुत्पादितमिवेत्यर्थः । सकलजनानन्दिनवेन्दु- कलातोऽप्यधिकमनोहरमिति भावः । यद्वा ल्यब्लोपे पञ्चमी । तेन बालेन्दुकलोदयं प्राप्यावचितैरित्यर्थः । यद्वा बालेन्दुकलोदयात्प्रतिपच्चन्द्रकलोदयादारभ्यावचितैः पूर्णिमापर्यन्तमित्यर्थात् आरभ्येत्यस्य लाभः पञ्चमीत एव । तथा च पूर्णेन्दुना मुखसाम्यं लभ्यते । क्वचित्कलोच्चयादिति पाठः । तत्रोच्चयात्समूहादित्यर्थः । यत्र मुखे संमुखीभूते सुखानि । कर्तृणि । मिलित्वेव परं भूमानं बाहुल्यं विस्तारयन्ति चित्ते । अनेनान्तःप्रीतिरुक्ता । इवशब्द उत्प्रेक्षायाम् । एवपाठे विस्मय एवशब्दः । बहिःप्रीतिमाह-नेत्रोत्सवोऽलब्धलाभाभिमानोऽनुरागं प्रस्तौति स्रवति । रतेव- मयीवात् । समाधिरलंकारः ॥९॥ मानसमौत्सुक्यातिशयमाह-मम हीति । मामकीनः प्रियास्मरणरूपज्ञानोत्पत्तेः संतानः परिणतिसमूहः मृतिरूप एव मम चैतन्यमात्मतत्त्वं तन्मयमिव करोति । मालतीमयं करोतीत्यर्थः । कीदृशः । प्रताय- मानो दीर्धीभवन् । अत्र हेतुः। संस्कारस्य भावनाया अतिशयितप्रबोधादुद्रेकात् । कीदृशस्य संस्कारस्य । सातिशयात्सादरात्स्फुटाकाराद्वा बकुलवीथ्यां पूर्वकालानुभ- वाल्लब्धजन्मनः । प्रतायमानखमेवोपपादयति-तद्विसदृशैर्मालती विलक्षणविषयै- ज्ञानान्तरैरतिरस्कृतप्रवृत्तिः । तथा चान्तरा विषयान्तरास्फुरणान प्रवाहतिरस्कार इति भावः । नन्वात्मतत्त्वस्य पुष्करपलाशवनिर्लेपतया कथं मालतीमयसमत आह-अन्तरिति । अन्तःपदमिह वुद्धितत्त्वपरम् । तथा च बुद्धितत्वस्य या प्रवृत्तिः सहजसिद्धो व्यापारः सा यत आत्मतत्त्वे मेदामहात्प्रतिभासते तस्मात् । सांख्यदर्शने बुद्धर्भोक्तृवात् । यद्वा अन्तत्तिरिति भावप्रधानम् । तथा चान्त- वृत्तिखादन्तरवस्थानरूपं सादृश्यमात्मवुद्ध्योस्तस्मात् । खोकमेव दर्शयति- लीनेवेत्यादि । सा प्रियास्माकं चेतसि लमा संबद्धा । संबद्धत्वे यथासंभव ६२ जगद्धरकृता [अङ्कः ५ । पृ० प० ११८ ४ संप्रति प्रगल्भमानकौणपनिकरस्य म० । ५ °द्रता । अस्मिन्हि । ६ मेदुरचयस्त्या । प्रकारानाह-लीनेव निढुव । यत्र यस्य संबद्धस्य न प्रत्यक्षोपलम्भस्तत्र तल्लीनमित्युच्यते । यथा पयसि लीनं लवणम् । सर्वत्रात्र लमखस्य प्रकारभेदे- नोपमामेदाः । पूर्वपूर्वापरितोषाद्वा । तथा हि । लीनवस्याप्रतिभासात्स्पष्टप्रतिभा- सार्थमाह-प्रतिबिम्बितेव । यत्र खच्छद्रव्याभिहतं चक्षुः परिवृत्त्य द्रव्यान्तर गृह्णाति तत्तत्र प्रतिबिम्बितमित्युच्यते । यथा स्फटिके रक्तपुष्पम् । प्रतिच्छायया वस्त्वन्तरसंसर्गाधीनत्वेनासाहजिकत्वात्साहजिकत्वोपवर्णनायाह-लिखितेव । य- प्रशिथिलावयवसंयोगाश्रयेण द्रव्येण धनद्रव्योपरि संस्थान विशेषवनिर्मीयते तत्तत्र लिखितमित्युच्यते । यथा पत्रे लिपिः । लिखितस्य जलाद्युपनिपातविना- शितया न चिरस्थायित्वमतस्तदर्थमाह-उत्कीर्णरूपेव । यद्यत्र निबिडद्रव्ये तादृशेन किंचिदवयव विभागः क्रियते तत्तत्रोत्कीर्णम् । यथा टङ्कादिना शि. लादि । अस्याप्येकभागवृत्तितया सर्ववृत्तित्वार्थमाह-प्रत्युप्तेव । प्रत्युप्तमधरोपि- तम् । यद्यत्र द्रव्यान्तरसंसर्गि तत्तत्र प्रत्युप्तम् । यथाङ्गुलीयके मण्यादि । अस्यापि शक्योद्धारत्वानिबिडसंबन्धायाह-वज्रलेपघटितेव । यद्यत्र किंचिद्ध- नद्रव्याभिघातजन्यकर्मजन्यसंयोगविभागानाश्रयस्तत्तत्र वज्रलेपघटितम् । यथा हीरकादि । तथापि लेपस्य बहित्तित्वादन्तःसंसर्गार्थमाह-अन्तर्निखातेव । यद्यत्र संबद्धमूर्ध्वाधःसंयोगादिना धृतं नोपलभ्यते तत्तत्र निखातमित्युच्यते । यथा भूमौ मूलकादि । निखातत्वं सर्वरोपणमुप्तत्वमर्धरोपणमित्यनयोर्भेदः । निखात- स्यापि निबन्धातिशयेन शक्योद्धारतया विवेकादिदुःशक्यत्वार्थमाह-कामस्य पञ्चभिः शरैः कीलितेव । कीलितस्य प्रतिकीलनोद्धार्यतयाशक्योन्मूलनायाह- चिन्तापरम्परासूत्रसमूहेन गाढं यथा स्यात्तथा स्यूतेव सीवनं प्रापितेव । जाल- निबिडसीवनेनानुच्छेदनीयत्वमुक्तम् । इहोपाधेयामेदेऽप्युपाधिमेदादपौनरुक्त्यमि- सवधेयम् । एकमेव हि वस्तु तत्तदुपाधिवैशिष्ट्याद्भिनबुद्धिविषयो यथा दण्डिकुण्ड- लित्वादिः । यद्वा नोऽस्माकं चेतसि सा लग्ना दृढं संबद्धा । दृढसंबद्ध एव लम- पदार्थः । 'शरो लनः' इत्यादी तथा दर्शनात् । दृढसंबद्ध एव नानाप्रकारेण स्थिरीक्रियते । कामबाणपञ्चकेन कीलितेव । चिन्ताप्रवाहरूपतन्तुसंतत्या स्यूतेव। ननु द्वयमप्यदो न युक्तम् । तया सहान्तरस्य चैतन्यस्य संबन्धाभावात् । अतो विषयविषयिभावप्रकारान्मतभेदेनाह-लीनेवेति । लीनत्वं तदात्मतया संबद्धत्वम् । विषयविषयिणोखदात्मरूप एव संबन्ध इति योगाचारमतमनेनोकम् । प्रतिबि. म्बितेवेति सांख्यमतोपदर्शनम् । लिखितेवेति सौत्रान्तिकमतोपदर्शनम् । तत्र हि ज्ञानेन खीयाकारार्पणं विषये क्रियत इति तत्तदाकारस्याभिव्यक्तिः । शिलादी तुरगादिवदिति लिखनसाम्यम् । उत्कीर्णरूपेति विषयाकारेण चैतन्यपरिणाम इहो- स्कीर्णरूपता। अतखिदण्डिमतम् । प्रत्युत्तेवेति पूर्वरूपतिरोधानादन्यरूपाविर्भावेन अङ्कः ५] मालतीमाधवटीका। १२० पृ० प० ११९ ३ भवत्वापोषयामि तावत् (उच्चैः । ) भो । ४ पूतं नि- ाजं । ७ °दुत्तालवेतालमुक्ततमु । ५ विघसैराघर्घरं क्र। ८ ०शाचानाम् । एते हि । ९ ततपृथुरस० । १० °दार्य विवर्णदी। मुवर्णरचितभाजनादाविव तत्तद्विषयाकारतया ज्ञान विपरिणाम इति पातालमतम् । वज्रलेपघटितेवेति नैयायिकमतम् । तदीयतामात्ररूपो हि स्वभावभेदः प्रकाशस्य विषयविषयिभावः । अयं च तावद्वस्तुस्थिरतया वज्रलेपघटनातो न भिद्यते । अन्तर्निखातेवेति विज्ञानवादिमतोपदर्शनम् । अत्र हि विज्ञानस्यान्तर्निखननान बाह्यवस्तुस्थितिरिति । इहापि तथा । एते च विषयविषयिभावविकल्पास्तचिन्ता- प्रकारखान्माधवस्य चित्ते विपरिवर्तन्ते । एवं च चेतसा सह संबन्धः । पश्चा- कीलनेन वा सीवनेन वा गाढसंबद्धतां गता भवति लमा । ततश्च तद्दर्शनं महा- पुरुषानुभूतं तस्येति किमत्र चित्रमिति भावः । अत्र पञ्चभिरित्यनेन युगपत्काम- बाणविषयत्वमात्मनो निवेदयता दुःसहदशाशालिख सूचितम् । चेतोभुव इत्यनेन तत्प्रभवस्य तस्य मर्मज्ञता ध्वनिता । 'यथाशक्ति यथायुक्ति यथागति यथामति । यथाधीति यथानीति विवेचितमिदं मया ॥ १० ॥ माधवः । कौणपनिकायो राक्षससमूहः । रौद्रता भीषणखम् ॥ पर्यन्तेत्यादि । तमः कर्तृ । चिताज्यो- तिषामौज्वल्यं परभागतो गुणोत्कर्षाधानात्प्रकटयति व्यक्तीकरोति । तमसि संनिहिते सति तेजसां कान्त्युत्कर्षः स्फुर एवेति भावः । कीदृशं तमः । आभो- गात्परिपूर्णतया भीमम् । चितालोकमण्डलस्य पर्यन्ते निकटदेशे प्रतिरोधन- शीलं मेदुर स्निग्धं चयेन सङ्घन स्त्यानं धनम् । यद्वा । पर्यन्ते यः प्रतिरोधोऽन्ध. कारस्य प्रसरणनिवारणं तेन मेदुरो मांसलो यश्चयस्तेन घनमित्यर्थः । कटाः शवा: पूतनाः श्मशानवासिनो राक्षसातत्प्रभृतयोऽन्येऽपि तत्रत्याः शृगालादयः किलकि. लाकोलाहलैः किलकिलारूपारावैः सांराविणं परस्पराह्वानं कुर्वते । संमदाद्धर्षात् । उत्ताला उद्भटाश्चञ्चला वा । तालादुद्गता उत्तालाः । सुप्सुपेति समासः। तेनान्यो- न्यहस्ततालवन्त इति वा । संसका मिलिता भाकुलास्वरायुक्काः केलयः क्रीडा येषां ते । यद्वा संसकत्वेनाकुला केलियेषां ते । संसक इति भावप्रधानम् । यद्वा संसक्का कुलेन खयूथेन केलियेषां ते। त्रिपदबहुव्रीहावुत्तरपदखाभावान पुंवद्भावः। 'सान्द्रे स्निग्धे च मेदुरः' इत्यमरः। किलकिलेत्यव्यक्तशब्दः । अविभावितविशेषः श. ब्दसमूहः कोलाहलः। संपूर्वाद्रौतेरभिविधौ भाव इनुण् । तदन्तारखार्थेऽण् । मादि- द्धिः । शवानां शब्दकरणं वेतालाधिष्ठानात् । रौद्ररस इह । तल्लक्षणं भरते-'इति रौद्रो रसो दृष्टो रौद्ररेवागचेष्टितैः । शस्त्रप्रहारभूयिष्ठभयकम्पक्रियात्मकः ॥' इति ॥११॥ भो भो इत्यभिमुखीकरणरूपे संबोधने । निकेतनं गृहम् ॥ अशोत्यादि। सशस्त्रपूतं संमुखपवितस्य स्वर्गिणो मांसं शस्त्रपूतमतस्तेषामग्राह्यम् । इदमिति न ६४ जगद्धरकृता [अङ्कः ५ - पृ० प० १२१ १ ललदजगर० । ३ हन्त, बीभत्समेवाग्रेव । निर्भिद्यो- त्कृत्य कृ० । पृथूच्छोफभू । ५ °ष्ठ पिण्डाद्य । ६ आर्तः पर्यस्तनेत्रः । ९ कथनपरिणमन्मेद० । १२२ ३ °पिशाचाङ्गनानाम् । तथा हि । ४ अत्रै । ७ लेह- सुराः कपा०॥ तादृशमिदम् । यद्वा अशस्त्रपूतं शस्त्रेणाच्छिन्नम्। धातूनामनेकार्थत्वात् । शस्त्रहतमां- सस्य रणे सुलभतया तेषामस्पृहात इदमतादृशमितिभावः। अव्याज निष्कपटम् । यद्वा 'इष्टसिद्धि पणीकृत्य साहसाबदुपार्जितम् । अशस्त्रपूतं निर्व्याजमेतन्मांसं विदुर्बुधाः॥' इति परिभाषितमेव । 'स्त्रियश्चतुष्पदे श्रेष्ठाः पुरुषा द्विपदे तथा' इति वचनात्प्राश. स्त्यार्थमाह-पुरुषस्याङ्गादानीयोपकल्पितम् । विक्रीयत इष्टसिद्धिमूल्येनेत्यर्थात् । विक्रयस्य मूल्यसापेक्षवात् । यद्वा विक्रीयते दीयते । धातोरनेकार्थत्वात् ॥ १२ ॥ 'उच्चैर्युठं तु घोषणा' इत्यमरः । वेतालः श्मशानदेवताकिङ्करः । 'तुमलं रणसं. कुले' इत्यमरः । तेषामन्योन्यस्पर्धया रणे संकुलखम् । अविभावितार्थलेनाव्य. कलम् । प्रचलित उच्चावचः । संकटो व्याप्तः॥ कर्णेत्यादि । उल्का ज्वाला मुखे येषां ते उल्कामुखाः शृगालमेदाः तेषां मुखैनभः आकीर्यते व्याप्यते । यद्वा उल्कामुखा एतनामप्रसिद्धा एव रणवासिनो जन्तुभेदाः । कीदृशैः । कर्णसमीप- विदीर्णसृकाभ्यां विकटं करालं ययादानमास्यविकासस्तेन दीप्तोऽनिर्येषु । ऊ;- धःस्थितदंष्ट्राणां कोटिभिरणैर्विशङ्कटैः संकुलैर्विकरालैर्वा सर्वतो धावद्भिः । विद्युत्पुजतुल्यानि केशनयनभ्रूश्मश्रुजालानि यत्र तैः । पिङ्गलवारकेशादीनां विद्युत्तुल्यता । अत एवोल्कामुखः शृगालान्यो जन्तुभेद इति पक्षः साधीयान् । उल्काप्रकाशालक्ष्याण्यन्यदालक्ष्याणि विशुष्काणि दुर्बलानि दीर्घाणि वपूंषि येषां तेषाम् । एतेन दुर्बलखमुक्तम् । 'प्रान्तावोष्ठस्य सकिणी' इत्यमरः । केशेत्यादी पूर्वनिपातविधेरनित्यवाद्भूशब्दमपहाय केशशब्दस्य पूर्वनिपातः । लक्ष्यशब्दो ग्यति यकारवान् । कर्मणि पनि तद्रहित इत्यवधेयम् । अद्भुतरसोऽयम् ॥ १३ ॥ अपि चेति । अपिर्जुगुप्सायाम् । चः समुच्चये । गहामाह-पत- दित्यादि । एतत्पूतनचक्रं श्मशानप्रेतसमूह आलोक्यते । किं कुर्वत् । अत्या- कुलतयाक्रमेण युगपत्कृतो यो प्रासस्ततोऽध भूमौ पवितमध चर्वणेन मुख एव स्थितम् । तत्र भूमिपतितैरर्धभुक्कैर्मनुष्यमांसविघसैरुच्छिष्टैः सर्वत्र वृकान्कोका- नारण्यकुक्कुरादीनुत्पुष्णत्पुष्टान्कुर्वत् । अक्रमलं प्रतिपक्षशङ्कया । अभिला. पातिशयादा । कीदृशान् । अहमहमिकया मांसग्रहणादीषद्धर्धरमव्यक्तशब्द यथा स्यादेवं रुदतः । एतत्तु कुक्कुरेषु स्फुटमेव । कीदृशं पूतनाचक्रम् । खजूर- हमदना तत्प्रमाणा जङ्घा यस्य तत् । एतेन जवानां प्रन्थियोगिखकर्कशख. नीरसखलोमशखानि दर्शितानि । असिता श्यामा या वक् चर्म तया नद्धाः सर्वतो विस्तीर्णा याः नायवो 'नहरु' इति ख्यातास्ताभिर्ग्रन्थिष संधिभारोध भः ५] मालतीमाधवटीका। ६५ पृ० प० १२३ १ कथं द्रागतिप्रशान्तभी । २ षिकाप्रकारैः । निः- सत्त्वता पिशाचानाम् । ४ घूत्कारसंवलिगत । ५ चण्डडात्कृति। १२४ १ अन्तःशीर्णकरङ्ककर्कतर० । १० देहोत्कम्पः स्ख० । घनानि दृढान्यस्त्रां पजराणि येषां तादृशा जरन्तो जीर्णाः कङ्काला मांसादिशुन्या- स्थिभागा यस्य तत् । वृकपदं शृगालाद्युपलक्षणपरम् । 'कोकस्वीहामृगो वृकः' इत्यमरः । यद्वा 'शालाकाः कपिकोष्ठश्वानः' इति नानार्थेऽमरदर्शनादेतस्यै- वैकदेशो वृकशब्दः । तेन भीमभीमसेनादिवदस्यापि तावदर्थप्रतिपादकतेत्यव- धेयम् । यद्वा वृको 'घोष' इति ख्यातः। 'विघसो यज्ञशेषभोजनशेषयोः' इत्यमरः । 'स्याच्छरीरास्नि कङ्कालः' इत्यमरः ॥ १४ ॥ विहस्येति । अतिसात्त्विकेऽपि मयि भीषणबममी पूतनाः कुर्वन्तीत्यसंबद्धक्रियया हासः। यदाह-'असंबद्धैतु हासः स्याद्वामेपथ्यक्रियादिभिः' इति । प्रकारो वैलक्षण्यम् । ततेत्यादि । एते पूर्वोक्तादन्ये पिशाचा विस्तृतदीर्घजिह्वाभीषणमुखविवरं विदार्य व्यादाय दग्धपुराणरोहिणानामिव द्युतिं दधति धारयन्ति । दग्धत्वेन श्यामत्वं पुराण. त्वेन जीर्णत्वं दर्शितम् । रोहणो 'रोहिण' इति ख्यातस्तरुः । 'घोघरात्ति' इति ख्यातो वा । रोहितोऽपि स एव । अत एव 'रोहितः प्लीहनाशकः' इत्यमरोऽपि । रोहणानामिति पाठे रोहन्तीति रोहणास्तरवस्तेषामित्यर्थः । ललता चलताज- गरेण सर्पण भीषणच्छिद्राणाम् । 'निष्कुहः कोटरं वा ना' इत्यमरः । तदिह कोटरेणास्यमजगरेण रसना रोहिणेन पिशाच उपमीयन्ते । भयानको रसः । य- दाह-'विकृतरवसत्त्वदर्शनसंत्रासारण्यशून्यगृहगमनात् । गुरुनृपयोरपराधात्कृत- श्व(१)भयानको ज्ञेयः॥ १५॥ वीभत्सं घृणाकरम् । निर्मिवेत्यादि । अयं प्रेतरङ्कः प्रेतरूपो रङ्कः क्षुधाभिशुष्यच्छरीरोऽव्यप्रमनाकुलं यथा तथा व्यं मांसमत्ति खा- दति । किं कृखा। प्रथममादौ कृत्तिं चर्म निर्भिद्य निर्मिनीकृत्य पश्चादुत्कृय छित्त्वा उत्कृत्येति पाठे चर्मकोषाकर्षणमुत्कर्तनं तत्पुनः पुनः कृत्वेत्यर्थः । अथानन्तरं पृथुना महतोच्छोफेन भूयांसि बहूनि मांसानि जग्ध्वा भक्षयिला । कीदृशानि । अंसयोः स्कन्धयोः स्फिचोः कटिमांसपिण्डयोः पृष्ठे कायपश्चाद्भागे पिण्डयो. जवापाश्चात्यभागयोरादिपदात्कक्षामूलाद्यवयवेषु सुलभानि । उच्छूनखात्तेषाम् । उप्रपूतीन्युत्कटगन्धीनि । पृथूत्सेधेति पाठे पृथुनोत्सेधेन कायेन बहुतां गतानी- त्यर्थः । यद्वा उत्सेधेनोनत्या भूयासीत्यर्थः । 'उत्सेधः काय उन्नतिः' इत्यमरः । कीदृशो रकः । आर्तस्वरावान् । पर्यस्तमितस्ततः क्षिप्तं नेत्रं येन सः । एतदुभयं रद्धेषु प्रसिद्धमेव । 'अन्तःपर्यस्खनेत्रः' इति पाठेऽन्तर्मध्ये स्थितनेत्रः । रकत्वेन कोटराक्षलादित्यर्थः । 'आत्तमाय्वत्रनेत्र' इति पाठ आत्तानि गृहीतानि मायवत्र- नेत्राणि येन सः । अत एवात्राद्युत्पाटनाय प्रकटितदन्तः । दौर्बल्यप्रकर्षणा- ६६ जगद्धरकृता [अङ्क ५ पृ० प० १२५ ७ ०अम्ब सिणेहमअहिअए हदा। प्रकटितदशनखम् । अङ्कस्थाकोडीकृतात्करकात् कपालादाकृष्येत्याक्षेपात् । अन्यथापादानानुपपत्तिः । कीदृशं क्रव्यम् । अस्थिषु यत्संतिष्ठति तत् । स्थपुट- गतमपि निम्नोगतविषमस्थानगतमपीत्यर्थः । अत एव रकः । 'स्त्रियां स्फिचौ कटिपोथी' इत्यमरः । 'पिण्डः खण्डेजभेदे स्यात्' इति मेदिनीकारः । 'करको मस्तकेऽपि स्यात्' इति धरणिः । अयं बीभत्सो रसः ॥ १६ ॥ निष्टापेत्यादि । एतेऽपि कुणपभुजः शवभक्षकाः पिशाचा बह्वीभ्यश्चिताभ्यः प्रेतकायानाकृष्य तेषामेव जङ्घानलकं जहाप्रधानमस्थि निष्कुष्य विगतमांसावरणं कृत्वा मब- धाराः पिबन्ति । मज्जास्थिमध्यस्थितस्नेहः । कीदृशीः । आराडूरत एवोद- यिनीलम्बमानाः । द्रवमयत्वात् । यद्वा आरात्समीपे पिबन्तीति योजना। 'आराहूरसमीपयोः' इति विश्वः । चिताभूयस्त्वेनाविभीषणतोता । कीदृशान् । निष्टापेनेषत्तापेन खिद्यन्यसृञ्जि येषाम् । 'पद्दनो-' इत्यादिसूत्रेणासक्श- ब्दस्यासनादेशेऽलोपे रूपम् । अस्न इति पाठो न युक्तः । तृतीयादावस्थीत्यादि- नानविधानात् । यद्वा प्रेतकायादिति पञ्चम्यन्तः पाठः । अतोऽस्म इति पञ्च- म्यामनडि रूपम् । चिताभ्य इति ल्यब्लोपे पञ्चमी । 'निसस्तपतौ' इत्यनभ्यावृत्ती षत्वम् । क्वथनेन पाकक्रमेणाङ्गेषु परिणमनीर्यन्मेदो येषां तान्संसृष्टधूमानपि । कीदृशं जवानलकम् । उत्पकमुच्छूनं कृत्वा पक्कमत एव संसनशीलं मांसं य- मात् । यद्वा उत्पक्केनोद्गतपाकेन संसि मांसं यस्मात् । उत्पक इति भावे क्तः । प्रचलन्तः शिथिलीभवन्त उभयतो जानूरुपर्वणो गुल्फाच ये सन्धयोऽस्त्रां पर. स्परमिलनस्थानानि तैर्निर्मुक्तम् । प्रचलमिति पाठ उभयतः पार्श्वभ्यां प्रचलम् । अत एव सन्धिपरिमुक्तमित्यर्थः । 'कुणपः शवमस्त्रियाम्' इत्यमरः । नलकं 'नरहड' इति ख्यातम् । 'सरी' इति ख्यातं वा । बीभत्स एवात्र रसः॥ १७ ॥ अहो इति बीभत्सरशारदर्शनेनाश्चर्यम् । प्रादोषिको रात्रिप्रारम्भजः । शृङ्गारबीभत्सयोः परस्परविरोधेऽपि संस्थानसाम्यात्संमेदाभास इह प्रसाधनाचात्र शृङ्गारः । यदाह-'ऋतुमाल्यालंकारैः प्रियजनगान्धर्वकाव्यसेवाभिः । उपवनगमनविहारैः शृङ्गाररसोऽपि संभवति ॥' अत एवायं श्लोकः कण्ठाभरणेऽपि रससंकराभास उदाहृत इति । अन्त्ररित्यादि । एताः पिशाचस्त्रियः कान्तः संभूय मिलिला कपालचषकैरस्थिस्नेहसुरामजमद्यानि पिबन्ति । कीदृश्यः । अन्त्रै रचितो मङ्ग- लार्थ प्रतिसरो हस्तसूत्रमूर्णामयं याभिवाः । अवैधव्यचिहं मङ्गलप्रतिसरो भवति । यद्वा प्रतिसरः कङ्कणम् । तदप्यवैधव्यचिह्नतया मङ्गलम् । 'कङ्कणे करसूत्रे च भवेत्प्रतिसरोऽस्त्रियाम्' इति मेदनीकारः । स्त्रीहस्त एव रक्तपनं तेन व्यक्तमुत्तंसं कर्णभूषणं बिभ्रति याः। सहसा शीघ्रं हृत्पद्ममालाः पिनह्य परिधाय । हृत्पद्मस्य श्वेततया पुण्डरीकपदेनोपन्यासः । यदाह-'द्वादशाकुलसंपूर्णे श्वेते हृदयपङ्कजे' इति मालाया मनोहरतयान्या मा गृहात्विति परिधाने शीघ्रता।

अङ्कः ५] मालतीमाधवटीका। ६७ - - पृ० प० १२६ ६ निशुम्भनिर्भरन। ९ रिषध्यक्तर्द्धि वः क्रीडि० । अत एव प्रीताः रक्तकर्दमकुङ्कुमवत्यः । अत्र पिबन्यस्थीत्यादौ यतिभाशका न कार्या । संधिकृतपदविच्छेदे तस्यादोषत्वात् । 'रेवा द्रक्ष्यस्युपलविषमाम्' इत्यादी तथा दर्शनात् । 'चषकं पानपात्रं स्यात्' इति हारावली । इह बीभत्समिश्रः शृङ्गा- ररसः ॥ १८ ॥ झटिति शीघ्रम् । विभीषिका परभयदायिनी रौद्रता । तस्याः प्रकारा मेदाः । अपक्रान्तं प्रपलाय्य गतम् । निःसत्त्वा इत्यनेनात्मप्रौढिर्दर्शिता । महामांसविक्रयादपि नेष्टलाभ इति निर्वेदः । विचितो व्याप्तः । तमोव्या- सत्वेन कथं विचितत्वज्ञानमित्यत आह–इयमिति । गुअदित्यादि । इयं सरित्पुरत एवास्ति । पारेश्मशानं श्मशानपारदेशे । 'पारे मध्ये षष्ठ्या वा' इति समासः । कुज एव कुटीरोऽल्पा कुटी तत्र या कौशिकघटा पेचकसमूहः । गुज- न्तीनां कुञ्जकुटीरकौशिकघटानां धूत्काररूपं संवलितं धनितम् । क्रन्दच्छृगालानां डात्कृति त्कारः शब्दविशेषः । अनयोर्द्वन्द्वः । ताभ्यां भृतः पूरितो यः प्राग्भा- रोऽप्रतटं तेन भीषणैस्तटैलक्षिता । लक्षणे तृतीया । अन्तरभ्यन्तरे शीर्णास्त्रुटिता ये कराः कपालानि तेषां कर्करो भन्मावयवः 'काकर' इति प्रसिद्धो वा कर्करो यत्र । अत एव तरतां संतरणशीलानां संरोध्यवरोधकः कूलङ्कषः कूलविदारको यः स्रोतोनिर्गमस्तेन घोरो घर्घरोऽव्यकरूपो रवः शब्दो यत्र सा । तरःसंरोधीति पाठे तरसा वेगेन संरोधि गमनविरोधि । कर्करेण दृढेन तरसा संरोधीत्यर्थः । 'अल्पा कुटी कुटीरः स्यात्' इत्यमरः । घटाशब्दः समूहमात्रवचनोऽपि करिष- टादौ खात्यन्तिकस्तस्य प्रयोग इत्यवधेयम् । घूत्कारडात्कृती अनुकरणशब्दी । क्वचित् फात्कृतीति पाठः । तत्रापि फात्कृतिरनुकरणशब्द एव । 'फेरुफेर- वजम्बुकाः' इत्यमरः । 'तटः प्राग्भार इत्यपि' इत्यमरः । 'कर्करो भमभागेऽपि दृढेऽपि खण्डितेऽपि च' इति धरणिः । तदिह करङ्ककर्करसंकुलनदीप्रवाहस्तीरं पातयति घर्घररवं च कुरुत इति स्फुटमेव ॥ १९ ॥ नेपथ्ये । हा तात इत्यत्र हायोगेऽपि न द्वितीया । हाशब्दस्य शोकवाचिन उपमहात् । तस्य च संबोधने प्रथमाप्रयोगात् । तदन्यार्थस्य योगे द्वितीयेति न्यासः । अङ्कमुखे स्त्रीरत्नापहा- रस्य सूचितखानेपथ्ये भणनमिदम् । नाद इत्यादि । अयं तावन्नादः श्रोत्रयोः संवादं पूर्वोपलम्भाकारतामेति । कीदृशः । विकला प्रस्ता या कुररी 'हापूती' इति प्रसिद्धा पक्षिवधूस्तस्याः कूजितवस्निग्धः स्नेहलतार उच्चश्व । त्रासान्मा- लत्यास्तारो नादः । अत एव चित्ताकर्षी प्रियलाञ्चित्तानुकर्षक: । परिचित इव पूर्वमुपलब्ध इव । अत एव श्रोत्रसंवादितास्य । परिचयश्च शंकरगृहे वृत्तः । यदि श्रोत्रसंवादमेति कथं तहीवकार (8) इत्यत आह । अन्तर्भिन्नं द्विधाभूतं संशयाकान्तं हृदयं भ्रमति दोलायते । उभयत आकर्षात् । अत्र मालतीगमनासंभवात्संवादस्य च स्फुटखात् । यद्वा अन्तर्भिनं विद्धमसंभवेनेत्यर्थात् । तथा बन्धुगतानिष्टशा- कलवात्प्रत्यहं विह्वलति । करादीनि कम्पन्त इत्यर्थः । तस्याः कथमिहावस्थान- ।

जगद्धरकृता। [अङ्कः ५ पृ० प० १२७ ४ निष्पीडनस्फारफुल्लत्फणा । ७ °च्छटाछन्नमी । मिति भयादेहस्तम्भः । यदाह-'हर्षव्याधित्रासरोषायैः स्तम्भः संभवति । चिन्ता- स्तिमितखाद्गतिश्च स्खलति' । कथमकस्मादेव ममेदं वृत्तमिति विमर्शयबाह- कोऽयं प्रकारः किंनिमित्तं स्नेहमाविष्करोति । किमेतत् । सैवेयं किमन्यद्वा तत्तु- ल्यमित्यर्थः । संमुग्धमिति पाठे कर्णपीडां करोतीत्यर्थः । नादश्रुत्या मोहात्॥२०॥ करालेत्यादि । अयमुत्थितकरुणरसो ध्वनिः कथं वा संभाव्यत इत्यन्वयः । उच्चरनुत्तिष्ठन् । वितर्कसंप्रधारणमाह-नन्विति । ननु संभावनायाम् । ईदृशा- संभाव्यमानजातीयानामनिष्टानां जनवधानामिदं करालायतनं स्थानमिति संभाव्यते ॥२१॥ वध्यचिह्नं न्यस्खालक्तकेत्यादि । मालती । अत्र भगवति कामन्दकि इति शेषः । चिरस्य बहुकालम् । एकशुभस्थाने । एकमुखमिति पाठ एकमुखमेकवाक्य- तापनम् ।माधवः। हन्तेति निश्चयलामे । कापालिकौ। सावष्टम्मेत्यादि। देवि, युष्माकं क्रीडितं नृत्यं वन्दे । कीदृशम् । साटोपो यो निशुम्भो निर्दययन्त्रणं करणमेदस्ततः संभ्रमादानमतो भूगोलस्यावनिचक्रस्य निष्पीडनेन न्यश्चदधोगच्छत् कर्पर पृष्ठास्थि यस्य कूर्मस्य तस्य कम्पेनाङ्गचालनेन विगलन्ती भ्रश्यन्ती ब्रह्माण्ड- खण्डस्य स्थितियत्र तत्तथा । अनेन भूकम्प उक्तः । तथा च नम्रीभूतभूगोले त्व. र्णवानामुत्सेकात्पातालतुल्यगल्लविवरे प्रक्षिप्ताः सप्तार्णवा यत्र तत् । नन्दितभैरव. सभं च प्रकटविभवम् । 'उत्क्षिप्ता तु भवेत्पाणिनिशुम्भोऽयं निगद्यते । अङ्गुल्योऽप्रा- चिताः सर्वाः पादाप्रतलसंचरे ॥' इति भरतः। 'कटाहे च कपालेऽपि पृष्ठास्थनि च कर्परः' इति शाश्वतः । नाव्येश्वरीवर्णनमिदम् ॥ २२ ॥ दण्डकमाह-प्रच- लितेत्यादि । देवि, युष्माकं ताण्डवमुद्धतं नृत्यमस्माकमभीष्ट्या अशुभनाशाय तुष्ट्या आनन्दाय च भूयात् । अरिष्ट्या इति पाठे रिष्टिरशुभं तदभावोऽरिष्टिस्तस्यै । अनेन भाव्यनिष्टार्थसूचकदण्डोऽप्युक्तः । यदाह-'आकस्मिकमसंबद्धं समर्थमिव यद्भवेत् । वाचामन्ते स दण्डः स्याद्भाव्यनिष्टार्थसूचकः' ॥ 'रिष्टिः खड़े नाशुमे स्त्री' इति मेदिनीकारः । 'अरिष्टे तु शुभाशुभे' इत्यमरः । यद्वा 'ऋकारो देवमाता स्यात्' इति कोशाशब्दात्संबुद्धौ गुणे च हे अः देवमातः, इष्टया अभीष्ट्यै भूया- दित्यर्थः । कीदृशम् । प्रचलितगजासुरचर्मपर्यन्तेषूनमतां नखानामाघातैर्मिनात्स्फु- टिताद्देवीमस्तकस्थचन्द्राक्षरदमृतस्य श्चयोतेनाप्लवेन जीवन्तीभिः कपालावलिभिर्मु- ण्डमालाभिर्मुक्तैश्चण्डाहासैरत्युच्चहसनैनसतां बहुभूतगणानां प्रवृत्ता स्तुतिर्यत्र । यद्वा भूतगुणैः प्रवृत्ता प्रवर्तिता स्तुतिर्यत्र तत् । अन्तर्भावितण्यर्थः । यद्वा प्रचलित- करिचर्मरूपोऽवधिर्यत्र तत् । पश्चात्कर्मधारयः । तथा ताण्डवाडम्बरायासेन श्वसता श्यामसर्पाणां कायैथै केयूराकारप्रन्थयस्तेषु निष्पीडनेनोत्फाल उद्गतमुख- विकासस्वरलो वा फुल्लन्विस्तारितानचयः फणापीठः । विस्तारितया पीठेन रूप- कम् । ततो निर्गतविषामेरुज्जृम्भणेनाधिक्येनोड्डामरः केलिसमस्तु रसातिशयो भ. यंकरो वा विषमो वा व्यस्त इतस्ततोगामी विस्तारो दीघों यो दोःखण्डः समूहस्तेन अङ्क ५] मालतीमाधवटीका। ६९ पृ०प० १२८ १ प्रमादः । ३ शम्भकयो । ९ हा दइस माह । १२९ २ (शस्नमुद्यम्य ।) यदस्तु तदस्तु व्यापादयामि । चा। १० त्यक्त्वा शङ्कां प्रलापनिरर्गलं । । पर्यासितः क्षिप्तः पर्वतो यत्र तत् । देव्या अनेकबाहुशालितया दोःखण्ड इत्यु. कम् । 'अब्जादिकदम्बे खण्डमस्त्रियाम्' इत्यमरः । तथा ज्वलतानलेन पिाल यत्रं ललाटलोचनं तस्य छटा ज्वालानिर्गमप्रसरतस्य साटेन विस्तारेण भीमं यदुत्तमा शिरस्तस्य भ्रमिमण्डलाकारेण भ्रमणं तया प्रस्तुता प्रारब्धालातचक्र- क्रिया वहिप्रज्वलितार्धकाष्ठविशेषकर्म तया स्यूता इवैकत्र प्रतिबद्धा इव दिग्भागा यत्र तत् । तथातिमहत्खदाङ्गाप्रध्वजोत्कम्पाद्विक्षिप्त इतस्ततस्तारागणो यत्र तत् । तथा हृष्टकटपूतनोद्भटवेतालानां तालेन कलकलेन स्फुटत्कर्णात एव संभ्रान्ता वसन्ती सखरा वा गौरी तस्या निबिडालिङ्गनेन हृष्यश्चित्तं त्र्यम्बकं शिवमत्यर्थ. मानन्दयति । आभीक्ष्ण्ये णिनिः । 'साटो निकुञ्ज विस्तारे' इति विश्वः । 'शुझम- ग्रेऽपि कीर्तितम्' इति शाश्वतः ॥ २३ ॥ माधवः । धिक् प्रमाद इत्यत्र वर्तत इति क्रियाध्याहारः। तत् 'उपपदविभक्तः कारकविभक्तिर्बलीयसी' इति धिग्योगे द्वितीयां बाधिता प्रथमेत्यवधेयम् । न्यस्तेत्यादि । सेयं भूरिवसोः सुता यस्याः कृते मयैवं दुःखमनुभूयते पाखण्डचण्डालयोर्गोचरं संमुखं गता । पाखण्डेषु चण्डालोऽसौ। तद्दर्शनविरुद्धक्रियाकारिखात्। यदाह-'न भुजीतार्कपत्रेषु स्त्रीवालं नैव घातयेत्' । यद्वा । पाखण्डौ च ती चण्डालौ च । निषिद्धक्रियतात् । यदाह--'अवध्यास्तु समाख्याताः सर्वयोनिगताः स्त्रियः'। चण्डाललादेव पापा. रम्भवतोारणप्रवृत्तयोः । न्यस्ते अलक्तकरते माल्यवसने यस्यां सा । एतद्ध्य- चिह्नम् । यथा मृगी वृकयोः संमुखं गता तथेयं भीरुः। मृगीत्यनेन भयचलनेत्र. तोता । वसोवतामेदस्य । एतेनास्य सुखित्वमुक्तम् । मृत्योर्यमस्य मुखे वर्तते । अत एव हाशब्दः परिदेविते स्त्रीरत्नमपि वध्यत इति । निन्दायां घिगिति । विषादे कष्टम् । कोपेऽनिष्टम् । अस्ता नष्टा करुणा दया यत्र एतादृशो विधेरा- रम्भः कोऽयम् । निन्दितोऽयम् । कीदृग्वा । 'कि वितर्के परिप्रश्न क्षेपे निन्दा- प्रकारयोः' इति विश्वः । करुणोऽयं रसः । 'इष्टवधदर्शनाद्वा करुणरसो नाम संभवति' इति भरतः । 'चण्डालोऽपि च चाण्डालः' इति शब्दमेदः । 'पुण्य- पुष्पस्रजी माल्यम्' इत्यमरः ॥ २४ ॥ त्वं भद्रेत्यादि । प्रहर्षिणीच्छन्दसा श्लोकार्धम् । चामुण्डे भगवतीत्यायनिमाम् । हे भद्रे, यस्तव दयितो वल्लभलेने- टतं मर । गुरुवात्स्मरणमस्य । यदाह-'पतिरेको गुरुः स्त्रीणाम्' इति । यदा मदुपहरणीयलेन स इह जन्मनि ते वल्लभो न भूत एव । अतो जन्मान्तरेऽपि तलाभाय तं सर । यदाह-'यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥' इति । कृतान्तो यमः । मालती। २८माल.

जगद्धरकृता [अङ्क: ५ पृ० प० १३२ २ कथं वर्तताम् । स्मरणफलमाह-यस्येत्यत्र 'अधीगर्थ' इति कर्मणि षष्ठी। यस्य गुणमिति वा । अन्त- काले माधवस्मरणं मुक्तिहेतुरिति कटाक्षितम् । कपालकुण्डला । हन्त खेदे । कामन्दकीमित्रपुत्रखान्ममापि माधवस्तादृश एव । तदनुरका चेयं कथं वध्येति खेद इति भावः । अत एव तपखिन्यनुकम्प्या । अघोरघण्टः । उद्दिष्टा वाचा प्रति- ज्ञाताम् । उपनिहितामुपढौकिताम् ॥ २५ ॥ माधवः । कफोरधोभागो मणि- बन्धपर्यन्तः प्रकोष्ठः । विक्षिप्यापसार्य । खङ्गहस्तलेन बाहुमध्येऽपसारणं जातिः । प्रतिहतो निराकृतः । अपसद निन्दित । मरणेत्यादि । सोऽयं तव मित्रं पुरत एव वर्तत इत्याक्षेपात् । यो बकुलवीथ्यादिषु सानुरागदर्शनप्रसन्नया खया खीकृतः । मरणसमय इत्यनेनानुराग उक्तः । यदाह-'साहसानुरकं हि स्त्रियो भजन्ते' इति । तत्र मुक्ताशङ्को निर्भयः । पाखण्डादिति भावः । अत एव प्रतापेन निरर्गलोऽनभिभाव्यः । प्रलापेति पाठे हा नाथ, माधवेत्यादिमालतीप्रला. पेन निरर्गल उच्छृङ्खल इत्यर्थः । त्यक्त्वा शङ्कामिति पाठे शङ्का भयं लजादिकं वा त्यक्षा।प्रतापनिराकुलो वा । प्रतापनिरङ्कुशो वेत्यर्थः । यद्वा शङ्को त्यक्ला यं प्रति खया प्रकटितो निजस्नेहः सोऽयमित्यर्थः । यद्वा अयं कीदृशः। प्रकाशितात्मस्लेहः । मरणसमये रक्षणादिति भावः । हे सुतनु, अत उद्गतं कम्पं त्यज । असौ पापः संप्रत्येव पाप्मनो निषिद्धाचरणस्य फलं मरणरूपमुग्रं तीव्रमनुभविष्यति । संप्रती- त्यनेन प्रकृतोपयुक्तं निजाप्तवं पौरुषं च ध्वनितम् । कीदृशस्य । प्रतीपो विपरीतो विपाको विरुद्धपरिणतिर्यत्र तस्य । अनुभवतीत्यत्र 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यति लट् । शृङ्गारवीरसंमेदोऽत्र ॥ २६ ॥ अघोरघण्टः । अन्तरायो विनः । कपालकुण्डला । भूमिः स्थानम् । मालती। त्रासातिशयाचिरानिः. श्वासः । अत्रोपरि सौधोपरि । अलिन्दे 'ओ' इति प्रसिद्धे । यूयमिति । अहमबला सुप्ता चान्येनानीता, यूयं धीरा विबुद्धा अपीदानीमिह किमर्थमागता इत्यर्थः । त्वदित्यादि । हे भीरु, महामांसविक्रयाय श्मशाने भ्रमंस्तव ऋन्दि- तान्याकागतोऽस्मि। महामांसविक्रयफलमाह-वदिति । बद्विवाहेन धन्यजन्मा पुण्यजन्माहं भवामीत्यभिनिवेशेनातियत्नेनावेशेन वा कदर्थ्यमानः पीज्यमानः । भतस्वां विना न मे जीवनमिति संभाव्यमानफलतया मांसविक्रये प्रवृत्तोऽस्मीति भावः । लत्पादपङ्कजेति पाठे प्रेयसीचरणग्रहणस्य मान एव कर्तव्यतया मानप्र- सादनमेवोत्तरोत्तरं चरितेत्याशंसितवान् । अत एव सलज्ज मित्युक्तमिति भावः । 'धन्यः पुण्यवति स्मृतः' इति विश्वः । कुत्सितोऽर्थः कदर्थः । भीरु इत्यनेन रोद- नोपपत्तिरुका । तदिह खन्निमित्तमहं साहसी वं पुनः कीदृशीति न जान इति तात्पर्यम् ॥ २७ ॥ मालती । अत एव हर्षविस्मयवशादाह मालती- कथमित्यादि । परिभ्रमणमितस्ततो गमनम् । आत्मनिरपेक्षः श्मशानभ्रमणेन । माधवः । विस्मयेऽहो नु खलु भोः काकतालीयमचिन्तितोपनतम् । यथा अङ्क ५] मालतीमाधवटीका। पृ० प० १३३ ५ छिन्नस्कन्ध। काकागमनतालपतनयोरेकदा संभवो दैवाधीनस्तथेदमपीत्यर्थः।राहोरित्यादि । देवाद्विधिवशादासाद्य प्राप्य । अर्थीप्रियाम् । अस्स दस्योश्चौरस्य खड्गपातविषया- प्रेयसीमाकर्षतो मम चेतः कथं वर्तताम् । नवनवरसोदयात्तन जान इत्यर्थः । कामिव । राहोराननचरीमिन्दुकलामिव । कृपाणपातविषयामिति पाठे खड्ग- पतनस्य विषय आश्रयो यत्र तामेतादृशी प्रेयसी प्राप्य कथं मम चेतो वर्ततामिति योजना । यद्वा अस्य कीदृशस्य । आच्छिन्दतो द्विधाकर्तुमुद्यतस्य । प्रियामि- सर्थात् । ततो जीवनाभाव एवास्या इति भावः । चौरिकयापहरणेन दस्युखम् । तदिह प्रथमार्धन हेतुरुक्तः। द्वितीयेन फलमाह-आतङ्काचित्तचमत्काराद्विकलं नलस्य निसर्गसात्त्विकस्य भयमिति यद्यपि तथापि प्रियप्राध्या जीवनसव्यपेक्षतया भयमुचितमेव । पूर्वं तु जीवननिरपेक्षतया निर्भयत्वमित्यातको भयमेव । राहो- रित्युपमानं भयहेतुः । चन्द्रकलोपमया जगन्नेत्रोत्सवकरीयं व्यसनमुपगतेति करु- या द्रवीभूतम् । दैवादासाद्येति विस्मयाद्विचलितम् । दस्योरित्यनेन मालतीमयं हन्तुमुद्यतश्चौर इति कोपेन दीप्तम् । आच्छिन्दतः प्रेयसीमिति प्रियाजीवन- निर्वाहेण हर्षेण प्रसन्नम् ॥२८॥ अघोरघण्टः । ब्राह्मणेति सिद्ध्यनुगुणशुचिलार्थ यज्ञोपवीतधारणात् । डिम्भो बालकः । ब्राह्मणकपालभोजिनो मम ब्राह्मणवधेऽपि न दोष इत्युक्तमनेनेत्यपि भावः ॥ व्याघ्रत्यादि । हे पाप, मालत्युपहारकृत्य- परस्य मे गोचरं समीपं यत्प्राप्तोऽसि । अत एव विघ्नकारितया पापेति। कीदृशस्य मे । व्याघ्रग्रहीतहरिणीकृपयाकुलो यो मृगस्तच्यायेन मृगीमनुसरन्व्याघ्रसंनिधौ पतन्मृगस्तस्य वध्यो भवत्येवं हिंसारुचेः एनां न रक्षसि वं तु म्रियस इति भाव- माश्रित्य पाठान्तरं हिंसारुचे इति संबोधनं वा। सोऽहं भवतैव प्रागने भूत- जननी जगन्मातरं चण्डिकामृध्रोमि प्रीणयामि । 'ऋधु वृद्धौ' इति खादिरपीति धातुप्रदीपः । कीदृशेन खड्गहत्या व्यस्तस्कन्धश्छिन्नग्रीवः अत एव कबन्धस्तस्य रन्ध्राधिरप्राग्भारे योतनं समूह वा निःस्थन्दितुं शीलं यस्य देन । रुचेरिति पञ्चम्यन्तपाठे रुचेहेतोर्मे गोचरं प्राप्तोऽसीत्यर्थः । पापस्थाने प्रायःपाठे समस्खमेव पदम् । 'केतनं कृये केतावुपनिमन्त्रणे' इत्यमरः । 'गोचरस्तु समीपे स्यात्' इति धरणिः । यत एव च्छिन्नग्रीवोऽत एव कबन्ध इति हेतुहेतुमद्भावेनोक्तिपोष एव । वीररसोऽयम् ॥ २९ ॥ मारणेऽपराधमाह-असारमित्यादि । हे पाखण्ड, जगदसारं सारशून्यं विधातुं कर्तुं कथं व्यवसितः कृतप्रारम्भोऽसि । 'अशक्यानि दुरन्तानि समव्ययफलानि च । असत्यानि च कार्याणि नारमेत विचक्षणः ॥' इति । न श्रुतं खया। तथा च संसारसारभूतेयमेव । अनया विनासार एव स इति । यदाह-'सारं तु महिलारत्नं संसार इति निश्चयः।' इति । 'जाती जाती यदु- स्कृष्टं तद्धि रत्नं प्रचक्षते।' इति । तत्सर्वमाकृष्येयं निर्मिता । अतो रत्नमि. यम् । मनोहरखदीप्तिमत्त्वतरललादिनेयं वा रत्नम् । अत एव तदभावात्प्रमु.

७२. जगद्धरकृता. [अ५ पृ० प. १३६ १ नन्वयं भवसि । ३ °अणथ्थसंसआदो। बितरनं त्रिभुवनं कर्तुं व्यवसितोऽसि । तदेतत्सर्व विषयं चौंर्य दुरन्तमिति भावः । इयमतिकान्या जगदुद्दयोतयतीत्यालोकभूता । एतदभावाभिरालोकं तमः प्रविर्ट लोकं जनं कर्तुं व्यवसितोऽसि । अत एवोत्कृष्टं प्रति लोकोक्तिस्तेन विनान्धका. रतत्सत्त्व उद्योत इति । बान्धवजनानामेतत्सखीनामियं जीवनहेतुः । अत एतना- शान्मरणशरणं सखीजनं विधातुं व्यवसितोऽसि । अन्यत्रीनाशे तत्सख्यो दुःखिताः। एताचाशे तु म्रियन्त एवेति भावः । अत्रासार संसारमित्यादिना नायि- कागतरामणीयकातिशयवर्णनमुपक्रम्य मरणशरणमित्यादिनेहविषयताप्रतिपादना- देकवाक्यतयैकरसनिर्वाह इत्यदेश्यम् । मात्रादिबन्धुव्यतिरिक्तोदासीनबान्धवसंग्र- हपदाजनशब्दात्वस्यैव माधवस्खथा विपत्ति सूचयतीयदोषात्, तदीयनानागुण- चिन्तनादेव मरणशरणता ममत्यारधनिर्वाहाच । कन्दर्पश्चैतया मोहनास्त्रेण दर्प करोति । एतदभावाददर्प कन्दर्पम् । जननयनस्यैतद्दर्शनमेव फलम् । अत एत- माशात्तदफलं जगदनयालंकृतमेव । एतदभावाजीर्णारण्यतुल्यं तदिति । अत्र प्रियाप्रशंसया शृङ्गारो बन्धुमरणात्करुणः पाखण्डाक्षेपाद्वीरः कथमित्यद्भुतमिति नाना रसाः ॥ ३० ॥ पुनरपि दोषमुद्भाव्य दण्डं चिकीर्षुराह-प्रणयीत्यादि । हे पाप, तव शिरस्येष भुज आकस्मिकयमदण्ड इव पततु । आकस्मिकत्वेनाप्र- तिक्रियलमुक्तम् । कीदृशस्य । तत्र वपुषि वधाय शस्त्रमुत्तोलयतः । अत्र भुजप- देन बाहुव्यापारमात्रेणैव हन्तव्योऽसीति शौर्यातिशय उक्तः । यद्वपुः सुकुमारशि- रीषपुष्पाघातैरपि ताम्यति खिद्यति । कीदृशैः । सप्रश्रयसखीसविलासपरिहासरस- प्राप्तः । अत्रापि शृङ्गारवीरकारुण्यसंमेदः ॥ ३१॥ मालती। अत्र खज्जीवने मम जीवनमपि सफलम् । अन्यथा तु मरणमेव वरमिति भावः । कपालकु. ण्डला | मालतीव कपालकुण्डलापि खनाथमाह-भगवन्निति । अवष्टम्भा- र्थमप्रमत्त इति । द्वयोर्भयं ज्ञाखोभावाहतुः -धैर्यमित्यादि । हे भीरु, त्वं हृदये धैर्य कुरु । एष पापो हतः । अस्य वधे कुतः संशय इति वृथा भयं त इति भावः । अत्र युक्तिमाह-सारङ्गेण मृगेण सह युद्धविधाने हरेः सिंहस्य प्रमादोऽनवधानता किं वा केनचित्कदाप्यनुभूतः । कीदृशस्य । इभकुम्भरूपं यत्कूटमुच्चप्रदेशस्तत्कुटनशीलं हस्त एव वज्रं यस्य । यद्वा हरेरिन्द्रस्य हस्तिना सह युद्धे नाति प्रमादः । कीदृशस्य । हस्तिकुम्भवत्पीवरशृङ्गकुट्टाकं पाणिस्थकुलिशं यस्य । कुम्भकूटपाणिकुलिशपदे शाकपार्थिवादिः । 'सारङ्गः पुंसि हरिणे चातके च मतङ्गजे' इति मेदिनीकारः । वीरो रस इह ॥ ३२ ॥ मालतीगृहकथाकथ- नायाह-भो भो इति । अप्रतिहतेति सत्यवचनेत्यर्थः । एतेनाघोरघण्टकतो मालत्यपहार इति कामन्दकीवचनं सत्यम् । मालतीमाधवयोश्च विवाहः सत्य इति षष्टाकावतार इति सूचितम् । पर्यवष्टम्भनं सर्वतो वेष्टनम् । नेत्यादि । एतत्कर्म मालत्यपहरणात्मकं भीषणं सिंहकौशलहरणात् । अद्भुतं बहुरक्षकरक्षिताया अपि अङ्क ५] मालतीमाधवटीका। ७३ पृ० प० १३७ २ ०षिणः सैनिकाः इय० । ३ प्रज्ञागतिभंग । °म- न्दकी वः समा । ५ घण्टादन्यस्य कर्मैतद्भीषणानु- तम् । १० बान्धवसमाजसुस्थितां मालतीं विधाय० । १४ व्यतिकररणत्कार । १५ वेगव्युपशमः । १३८ १०पिशितपिण्डेषु विलस। इति श्मशानवर्णनं नाम पञ्चमोऽङ्कः। हरणात् ॥ ३३ ॥ कपालकुण्डला । स्त्रीवाद्भयेन पलायनेच्छुराह-भगव- निति । अघोरघण्टः। संग्रामादपसरणस्याधर्महेतुतया सात्त्विकतया चाह- संप्रतीति । पौरुषं पुरुषस्य व्यापारस्तेजो वा । 'पौरुषं पुरुषस्योकं भावे कर्मणि तेजसि' इति विश्वः। मालती । मालती तत्रावेगातिशयादाह-हा तात, हा भगवति, इति । माधवः । मालतीरक्षार्थ कापालिको मया हत इत्यमायो जानालित्याशयेन मालती च कातरां वीक्ष्याह-भवत्विति । बान्धवेत्यादिना भाविकार्योपयोग उक्तः । अन्यतः कापालिकादन्यदेशं खसंमुखमिति यावत् । माधवाघोरघण्टौ द्वावप्येकश्लोकेन प्रहारव्यापारमाहतुः-कठोरेत्यादि । हे पाप, ममासिः खड्गस्तव प्रत्यङ्गं लवशः खण्डं खण्ड सपदीदानीमेव विक्षिपतु । कर्दमेष्विव मांसपिण्डेषु निरातको यथारुचि विचरन्सन् । कीदृशः । कठिना- स्थिप्रन्थिघटनेन यो रणत्कारो व्यक्तध्वनिस्तेन मुखरः सशब्दः । कठिननायु. च्छेदेषु मुहूर्त कृतवेगोपरमश्च ॥ ३४ ॥ कतीह पञ्चमाङ्कके स्फुरन्ति नोद्भटा रसाः । मदीयबुद्धिरल्पिका क वेद तानशेषतः ॥ प्रासोष्ट यं रत्नधरोऽतिभव्योऽतिभव्यरूपा दमयन्तिकापि । जगद्धरं तत्कृतटिप्पणेऽकोऽगमन्मनोहारिणि पञ्चमोऽयम् ॥ इति पञ्चमोऽङ्कः।

षष्ठोऽङ्कः। पृ० प० १३९२ निमित्तं व्यापादितास्म । ५ °कोपस्य विजृम्भितम् । १४० ४ मङ्गलाय गन्तव्यमित्यादिशन्ति भगवतीनिदेशवर्ति- नोऽमात्यदाराः । अन्य० । १० घरढिदेण समअरन्देण णाहमाहवेण । जहा जाणीहि दाव जत्ताहिमुहं प्पउत्ता मालती ण वेत्ति । ता जाव । संप्रति पूर्वावृत्तगुरुवधवर्तमानाङ्कभाविमालतीविवाहभविष्यदङ्कमालतीहरणा- न्याह-तत इत्यादि । आः पीडायां कोपे च । 'आस्तु स्यात्कोपपीडयोः' इत्यमरः । स्त्रीनिमित्तं कापालिकवधेन पापेति । इहानुभविष्यसीत्यनेन क्रमरूपो गर्भसंधिरुक्तः । यदाह-'भाविनोऽर्थस्य यज्ज्ञानं क्रमः स परिकीर्तितः' दुरात्मन् कामोपहतात्मन् । विजृम्भितं मालत्यपहरणेनेति भावः । तदेवाह-शान्तिरि- त्यादि । तस्य भुजङ्गशत्रोः सर्पहिंसकस्य गरुडस्य वा कुतः शान्तिर्नितिरुपशमो वा । अपि तु नैव । यस्मिन्नत्यककोपा तिग्मदन्तामा विषोद्गारेण दुःसहा सर्पिणी सदैव दंशाय जागर्ति । एवकारेण मुहूर्तमात्रमपि न खस्थेत्याशयः । अनुशयो गाढरोषः । गरुडपक्षे तादृशी दंशार्थ जागर्ति । तस्यातिबललान तत्करोतीति युक्त. मेव ॥ १॥ नेपथ्ये । अधुना विवाहमालकृसं दर्शयति-भो राजान इत्यादि । जन्या वरस्य स्निग्धास्तेषां यात्रायाः प्रवेशो वधूगृहप्राप्तिः प्रत्यासनः समीपवर्त्यत एवात्यर्थं वरयति । ततो भो राजानः, क्षत्रियाः, विवाहकृत्येषु चर- मवयसां वृद्धानामाज्ञया संचरध्वं प्रवर्तध्वम् । विवाहारम्मे वृद्धोपदिष्टमेव कर्मकारः क्रियते। इह तु प्रभुतातिशयानृपा एव कर्मकारा इति दर्शितम् । भूमिदेवाः ब्राह्मणाः कर्णमनोहरं यथा तथा पठन्तु । वैवाहिकमङ्गलवेदानित्यर्थात् । यद्वा यदिखरूपं श्रवणसुभगं मङ्गलखात्तत्पठन्वित्यर्थः। पुरन्ध्रीलक्ष्यीकृयाह-नानारचनानां मा. लादीनां समूहैः करणैश्चित्रमद्भुतं यथा तथा चेष्ट्यताम् । भावे तड् । यद्वा चित्रं नानाकर्म । केचिन्मालगीत केचिद्वाद्यं केचिन्नृत्यं कुर्वन्त्वित्यर्थः । मङ्गलेभ्यो मजलं कर्तुम् । 'क्रियार्थोपपदस्य' इति चतुर्थी। तादर्थं वा । संवरध्वमिति समस्तु. तीयायुक्तात्' इति तङ् । 'वरः स्निग्धेऽपि जन्ये स्यात्' इति मेदिनीकारः। एतेन चौरिकाविवाहमङ्गलमपि ध्वनिनोक्तम् ॥ २॥ संबन्धिनो वरस्य भ्रात्रादयः । भ्रात्रादीनां नन्दने वृद्धेऽसंभवादिति । परापतन्यायान्ति । अविघ्नति माधवविवा. हायेति भावः । नन्दनविवाहस्य विघ्नवत्त्वात् । निदेश आज्ञा । अमात्यो भूरिवसुः । दाराः स्त्रियः । अनुगमनं तत्र नियुक्त आनुयात्रिको मालत्यनुगामी। कपालकु ण्डला । कामन्दकीनामश्रवणमीता निष्क्रमणार्थमाह-भवत्विति । परिक. मैतिकर्तव्यता। अपक्रम्येति । मङ्गलवेशतयान्येनापि संभावितनिःसारणा यत इति भावः । माधवापकारमित्यनेनाष्टमाझं सूचयन्ती विघ्नमुद्योतयति । अमि.

अङ्क: ६] मालतीमाधवटीका पृ० प० १४१ ३ प्रथमावलोकदिवसादार । ७ °वत्याः सुमेधसो नी- तिवि०। ८°क्खु जत्ताहिमुहं मा०।१०पि नाम स। २ अन्तरग्रहणश० । १४२ निविष्टा बद्धकक्षा ॥ 'भो राजानः' इत्यादौ श्लेषेण चौरिकाविवाहस्याप्यभिधानाज- न्यपदेन माधवपरिजनतया कलहंसस्यापि वचनात्तत्प्रवेशमाह-प्रविश्येति । गर्भगृहवर्तित्वेन माधवस्य गुप्तवम् । माधवः । राजविरुद्धचौरिका विवाहस्य दुष्क- रतया कामन्दकीप्रतिज्ञासत्यखेन च संदेहवानाह-मालत्या इत्यादि । ममास्य विप्रलम्भजक्लेशस्य सर्वथोभयप्रकारेण निश्चितमद्यान्तः समाप्तिः । कीदृशस्य मृग- दृशो मालत्याः प्रचुरप्रेम्णा यानि विचेष्टितानि तैः परां कोटिं प्रकर्ष काष्ठा प्रापितस्य । आद्यदर्शनदिनादारभ्य विस्तारं गतः । तत्र प्रथमे बकुलवीथिचेष्टाभिर्द्वितीये माधवचित्रावलोकनादिना तृतीये खप्नोपभोगवर्णनादिना चतुर्थ मोहनाशककर- स्पर्शादिना पञ्चमे भयकम्पिताङ्गालिङ्गनादिना विस्तार इति भावः। पर्यवसानमाह- भगवतीनीतिः कामन्दकीनिसृष्टार्थदूतीकल्पः कल्याणं शुभं मालती विवाहलक्षणं वा करोतु विपर्येतु विफला वा भवतु । तथाच विवाहे सति शृङ्गारसंभोगलामेन कामायासशान्तिः । विपर्यये मरणादिति भावः ॥ ३ ॥ मकरन्दः । सुमेधसः सुबुद्धः । विपर्येष्यति विपर्ययमेष्यति ॥ कलहंसः । अत्र यात्रा गमनम् । तस्य मुखमारम्भम् ॥ माधवः । तद्वाक्यस्याश्वासपरत्वं तर्कयन्नाह- अपीति । अपि नामेति संभावनायाम् ॥ अस्माकमित्यादि । वात- विस्तारिमेघसमूहशब्दिततुल्यो गम्भीरमङ्गलार्थमुरजसहस्रजन्मा शब्द एकपद एकस्मिन्क्षणेऽस्माकं शब्दान्तरग्रहणसामर्थ्य निराकरोति । वायरवेणान्यशब्दो न श्रूयत इत्यर्थः । सहस्रग्रहणमने कोपलक्षणम् । सहस्रपत्रवत् ॥ ४॥ कल- हंसः । माधवोत्साहार्थमाह-नाथेति । अत्र उत्पतित उड्डीनः । विभ्रमो विलासो विशिष्टभ्रमणं वा । अभिरामस्तुल्यः । उद्वेलन्कम्पमानः । कदलिका पताका । तरहितं तरङ्गयुक्तम् । उतानमगमीरम् । गगनमेव सरः । उद्दण्डमुद्र- तदण्डम् । आतपत्रं छत्रम् । मङ्गलातपत्रमिति पाठे विवाहे शुक्लच्छत्रस्य प्रशस्त- तया मङ्गलपदेन श्वेतवमुक्तम् । एताः करिण्यश्च दृश्यन्त इत्यन्वयः । चकारो- ऽत्राध्याहर्तव्यः । चर्वितं भक्षितम् । व्यतिकरः संघः । स्खलितं भङ्गिमत् । मङ्गलोद्गीतं मगलरूपमुच्चैर्गानम् । विडम्बितं सदृशीकृतम् । विच्छेदः खण्डः । विच्छुरितं व्याप्तम् । झणझणारूपो झङ्कारशब्दः॥प्रेडदित्यादि । तरणिकिरण. संपर्कादूर्ध्वमुखैमणिदीप्तिसङ्घर्विवर्तिभिरितस्ततो गतैः प्रान्तेषु निकटेषु पर्यावृत्ता व्याप्ता इव दिशो व्यक्तेन्द्रचापा इव भवन्ति । कीदृशैः। प्रेशन्त इतस्ततश्वलन्तो भूरिणां सुवर्णानां मयूखाः किरणा यत्र तादृशो मेचकः स्निग्धश्चयो येषु तैः । मयूरमेचकनिभैरिति पाठे प्रेक्षनृत्यन्यो बहुमयूरस्तस्य मेचकाचन्द्रकाचिरतिशया । ।

जगद्धरकृता [अङ्क ६ पृ० प० १४२ १० चापखण्डवि० । ११ किणीजालरणि । १४३ ३ रिमयूखमे । ८ कलहौ अवत्तविचित्त । १४४ १ °मणहरा प्पण्डुर । द्वेहसोहा पढमुग्गअचन्दे० १४५ ३ °दपत्योपयमने । ४ शिवदायी च भ० । भा येषां तैः । 'मेचकश्चन्द्रके स्निग्धे श्यामलेऽपि च दृश्यते' इति विश्वः । 'भूरि क्लीबं सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकम्' इति मेदिनीकारः । उन्मेष्युड्डीनो यश्चाषः पक्षिभेदस्तस्य च्छदच्छायया पक्षकान्या संवलितैरिव मिलितैः । कीदृश्यः। उद्गत. चित्रस्य चीनदेशभववस्त्रस्य प्रस्तारेण शय्यया प्रसारेण वा च्छन्ना इव । 'प्रस्तार- खानितं शय्या' इति हारावली । मणय इवाभरणस्थरत्नानि ॥५॥कलहंसः। अत्रावर्जिता तिर्यक्त्यक्ता । कनकं हिरण्यम् । कलधौतं रजतम् । 'कलधौत हेमरौप्ययोः' इति विश्वः । पङ्केन लेपेन । वेत्रलता वेत्रदण्डिका । परिक्षिप्ता रचिता । मण्डल इति । अस्मान्मण्डलात्केनापि न बहिर्गन्तव्यमिति भावः । दूरत एव मालत्या इत्यर्थात् । पृथुसिन्दूरपूर एव सन्ध्यारागस्तेनोपरका किंचिदा- रका चटुला चपला घूर्णती लम्बमाना या नक्षत्रमाला सप्तविंशतिमौक्तिकमाला हस्तिप्रसाधनमेदो वा सेवाभरणं तद्धारिणीयम् । रात्रिपक्षे नक्षत्रमाला तारका- माला । करेणुहस्तिनी सैव रात्रिस्ताम् । दृश्यमाना चासौ मनोहरा चेति समासः । पाण्डुरा धूसरा परिक्षामातिकृशाङ्गदीप्तिर्यस्याः सा । एतेन चन्द्रकलासाम्यमु- कम् । दृश्यमानत्यनेनान्येषां दर्शनमात्रं तव परमुपभोगो मालत्या इति सूचि. तम् । पाण्डुरेत्यादिना मालत्यामान्तर उद्वेग उक्तः । किंचिदन्तरं कियङ्करम् । प्रसूता गता। कलधौतटङ्कपत्रेति पाठे टङ्कपत्रं पट्टिकेत्यर्थः । इयमित्यादि । इयं वरारोहा प्रशस्तश्रोणिका विवाहमहोत्सवसंपत्ति प्रकृष्टां रम्यां च वहति । सहजरमणीयखात् । उद्गाढा प्रबलां चित्तपीडां च प्रकाशयति । कीदृशी । पाण्डु- क्षामैरजैरलंकृतभूषणा । अतिरम्यतयामीभिरेव भूषणान्यलंक्रियन्त इति भावः । अन्तरभ्यन्तरे परिशोषिणी । अत एवाङ्गानां पाण्डुशामलम् । कलितं परिहितं कुसुमं यया सा। बालां षोडशवर्षवयस्कां । अवयवैरित्यनेन सर्वाङ्गीणं पाण्डुत्वा. धुकम् । लतेव । यथा लता नवा वसन्तादिप्रभावात्सपुष्पापि कुतश्चिद्वैकृतादन्तः परिशोषं वहति तथेयमपीत्यर्थः । निषादिता उपवेशिता । अवतारणार्थमिदम् ॥६॥कामन्दकी । सहर्षमित्यभीष्टसंपादनादिति भावः। विधातेत्यादि। नोऽस्माकं मनोज्ञाय हृदिस्थाय विधये व्यापाराय प्रकृतविवाहाय भद्रं कुशलम- विघ्नं विधाता ददातु । विधय इत्यत्र तादर्णं चतुर्थी । क्रियार्थोपपदस्येति वा । वृत्तेऽपि कार्ये राजविरोधादनिष्टमाशाह-परमरमणीयामविरोधिनी परिणति- मुत्तरविशुद्धिं देवाः कुर्वन्तु । खस्यापि फलमाह-अहं कृतकृत्या भूयासम् ।

मालतीमाधवदीका। पृ० प० ३ (प्रविश्य पेटकहस्ता)। ६ युक्तमाहामात्यः। मांगलिक हि तत्स्थानमतो दर्शय । ११. ष्यति मदयन्तिका । (प्र.)० । भवत्वोमित्युच्य । ८ इतस्तावत्स्तम्भापवारितौ तिष्ठावः । १४७ , यतो मालतीमाधवयोर्विवाहे समस्तोऽयं प्रयत्नः फलतु । उत्तरकालशुद्ध्या फलदायी भवलित्यर्थः । परिणतिशुद्ध्या शिवदायी भवतु । कल्याणकरोऽस्वित्यर्थः। शिवतातिश्च भवलिति पाठे शिवतातिः शिवकरः । 'सर्वदेवात्तातिल्' इत्यनुवर्तमाने 'शिवशमरिष्टस्य करे' इति तातिल । अत्र मरणमेव सर्वदुःखनाशकतया निर्वाणं मोक्षस्तस्यान्तरमवसरः । यद्वा मरणमेव निर्वाणं निर्वृतिः सुखम् । 'निर्वाणं निर्वती मोक्षे इति विश्वः । 'अन्तरमवसराध्यात्मसदृशेषु' इति मेदिनीकारः ॥७॥ मालती। संभावयिष्ये सम्यक् प्राप्स्यामि । भूप्राप्तावित्यस्यात्मनेपदिनो रूपम् । सांप्रतमित्यनेन माधवालाभानन्दनलाभानिलम्बनाचेति दर्शितम् । मन्दभाग्यतया माधवप्राप्तिवन्मरणमपि न स्यादिति भावः । लवङ्गिका । अत्र क्लामिता क्लमं श्रमं प्रापिता । अनुकूलेन माधवेन सह विप्रलम्भो विरहस्तेन । यद्वा अनुकूलो नन्दनस्तस्य विप्रलम्भन वञ्चनया । प्रतीहारी । पेटकं मञ्जूषा । 'पेटकं पुस्त- कादीनां मञ्जूषायां कदम्बके' इति मेदिनीकारः । पेटकप्रहणं तु नन्दनप्रसाधना- र्थम् । अत्र नेपथ्यं प्रसाधनम् । कामन्दकी। युक्तमिति । एतत्प्रसाधना- न्मकरन्दमलंकृत्य मदयन्तिकां विवाहयिष्यामीति भावः । माङ्गलिकं मङ्गलहेतुः । प्रतीहारी । अत्र धवलं यत्पदं सूत्रमयमंशुकं तेन निमितश्चोलकः कूर्पासकः । 'चोल: कूर्पासकोऽस्त्रियाम्' इत्यमरः । उत्तरीयरूपं रक्तांशुकं सिन्दूरीवस्त्रम् । 'आपीडः शेखरोऽस्त्रियाम्' इति मेदिनीकारः । भवतीति संबोधनम् ॥ काम- न्दकी । गुरुसमक्षं मालत्यनुरागानुभवो माधवस्य न स्यादत उक्तम्- प्रविश खमिति । कामन्दकी । विविक्के विजने ॥ मालती । हृद्तमरणा- वकाशप्राप्त्या सानन्दोकिरियम् । बाह्यसंवेदनाभावान्मालती न पश्यतीति भावः ।। मकरन्दः । अपवारितं व्यवहितम् ॥ लवङ्गिका । अत्रागरागः कुछ- मादिः । मालती। तत्प्रयोजनमपश्यन्तीवाह-ततः किं मयानेन कर्तव्य- मित्यर्थः । लवङ्गिका । अत्र पाणिग्रहणेति सामान्योक्त्या माधवनन्दनयोर्विवा- हषेण नर्मस्फोटोऽयमिति भावः । यदाह-श्लेषेणोकिस्तु भावानां नर्मस्फोट इतीरितः।' मालती। अत्र दुर्विलासपरिणामः प्रिययागाप्रियप्राप्तिलक्षणः । दुःसहमिति क्रियाविशेषणम् । अनया टिष्टं मदचो न ज्ञातमत इयमेव वदलियत आह-मालती । अत्राभिनिवेशिनो मनोरथेन विसंवादं प्रतिकूलं भारयं जगद्धरकृता [अक: ६ पृ० प० १४८ १ °णिद्दद्धमाणसं पु०। ४ जं दाणि०।६ श्रुतमसंतोषश्च हृदयस्य । १२ °माहवसिरिणो मुहा०। १३ सिणं अवलोअइस्ससि । १४९ ६ °दाइणो जणस्स अव० । १० °सहीए प्पसादादो मालदी किदथ्था भोदि। १५० १ करुणं वर्तते। यस्य सः । मकरन्दः । माधवे दुर्लभां वाञ्छां मलाह-सखे श्रुत- मिति । माधवः । श्लिष्टे वचनस्यानिष्टाशङ्कितमाह-असन्तोष इति । मालती। अत्र परमार्थत्यादिना विश्वासपात्रलमुकम् । विरूढ उपचितः। सदृशं यथा तथा परिष्वज्येत्यन्वयः । अनुवर्तनीयोपकर्तव्या । समग्रसौ- भाग्यपदेनारविन्दस्पर्धिनी शोभोक्ता । यदाह-'उत्तमैर्गुणिभिः स्पर्धा या सा शोभा प्रकीर्तिता' । मां हृदये धारयन्तीत्यनेन परंपरया ममापि दर्शनं स्यादित्युक्तम् । माधवश्रिय इत्यत्र प्राकृते पूर्वनिपातानियमाच्छ्रीमाधवस्येत्यर्थः । मानन्दमसृणवेन स्निग्धा दृष्टिरुका । म्लानस्येत्यादि । वास्येवामृतानि मयापि दिष्ट्या निर्णीतानि । खया श्रुतमित्यादिना निर्णातानि मया बधुनेत्यपि पदार्थः। अमृततुल्यसमाह-म्लानस्य प्रत्याशाभङ्गज्ञानेन संकोचितस्य जीवपुष्पस्य प्रकाशनानि । अमृतेऽपि सर्वप्रकाशकतया म्लानपुष्पप्रकाशकलम् । संतर्पणानि तृप्तिकरणानि । अमृतेऽप्येवम् । संतर्पणे सति बाह्येन्द्रियतर्पकाणि । अमृतेऽप्ये- वम् । आनन्दनान्यन्तर्मोदकानि । आय्यत आनीयतेऽनेनेत्यायनम् । रसस्यायनं रसायनम् । वचसां चित्तोल्लासकलेन नवखजननादिवामृतस्य जरादिनाशकलेन नवलजननादिदमिति भावः । यद्वा अमृतपदेन जलमोक्षपीयूषाण्युच्यन्ते । तत्राद्यपदेन जलसाम्यम् । मोक्षसाम्यार्थमितरपदत्रयम् । मोक्षे हि सम्यक्त. प्तिविषये निराकासव । इन्द्रियमोहोऽपि विषयग्रहाभावात् । 'आनन्दं ब्रह्मणो रूपं तच मोक्षे प्रतिष्ठितम्' इति श्रुतेरानन्दमयता मोक्षे । यद्वा आयपदाभ्यां जलसाम्यमितरपदाभ्यां मोक्षसाम्यम् । पीयूषसाम्याथ शेषपदम् । 'अमृतं मोक्षपीयूषसलिलेषु घृतेऽपि च' इति धरणिः ॥ ८॥ मालती । अत्रावसिता मृता। तथाविधमनिर्वचनीयम् । न परिहीयते न नश्यति तथा करिष्यसीत्य- न्वयः । लोकयात्रा गार्हस्थ्यम् । अपत्नीकत्वं वा । माधवाप्तिप्रत्याशानाशादेवमे- वेत्सवधारणम् । मकरन्दः । हन्तानुकम्पायाम् । करुणमिति । आलस्या- दिसमुत्थो निरपेक्षभावः करुणः, औत्सुक्यचिन्तासमुत्थः सापेक्षभावो विप्रलम्भ इत्यनयो दः । अत एव निरपेक्षपदोपलक्षितनैराश्यमाह माधव:-नैराश्ये. त्यादि । नैराश्येन प्रत्याशानाशेन कातरा विसंष्ठुला धीर्यस्या हरिणनेत्रायाः । वात्सल्यं प्रियविश्लेषे प्राणत्यागेच्छा।मोहो भ्रमः सप्रत्याशलेऽपि नैराश्याभिमानः। ताभ्यां यत्परिदेवितं विलपनं वृत्तवर्तमानभाव्यर्थचिन्तनमतिकरुणं मनोज्ञं च श्रुखा ।

भकः ६] मालतीमाधवटीका। प० पृ० १५३ १० चिरं महूसवो लोअणाणं । १५४ २ दूसहारम्भदूमा । ६ सिरिसह । चिन्तया यो विषादस्तेन विपत्तिमुद्वहामि । चिन्ताविषादरूपां वा विपत्ति महो- त्सवं चोद्वहामि । चकारो मिथो विरुद्धरसयोजने । इह हेतुफलभावेनान्वयः । तथा हि नैराश्यकातरबुद्धिवाद्वात्सल्यम् । ततः परिदेवनम् । तच्छ्रुला मनोवि- बादः । तथा हरिणेक्षणलेनापहृतचित्तस्य ममालाभान्मनोज्ञपरिदेवितं श्रुला महो- स्सवः । 'स पुनः क्रन्दनर्मोहै: प्रलापैः परिदेवनैः । देहायासाभिघातैश्च करुणा- भिनयो भवेत् ॥' इति भरतः ॥ ९ ॥ लवङ्गिका । अत्रामङ्गलप्रतिघातो विवाहादिति बाह्यम् । माधवसनिधानादित्यान्तरम् । मालती । बाह्यार्थमाकल- य्याह-अत्र तच्छरीरावच्छिन्नात्मा मालती । जीवनं बदृष्टविशेषकारितदेहात्म- संयोग इति जीवनमालत्योभैदः । जीवनस्य सुखहेतुतया प्रियलं, तच्चेह दुःख- संततिजनकमतस्याज्यमेव भवतीति भावः । मालती । अत्रान्यजनेत्यत्रान्यपदेन माधवाभिधानम् । नन्दनापेक्षयान्यखात् । दुर्लभलेन परकीयत्वारोपाद्वा । बीभ- त्समिह नन्दन विवाहार्थमङ्गलस्यानिष्टस्य दर्शनात् । अनपराद्धमितीषदर्थे नज़ । आनन्दनविवाहपर्यन्तस्थायिले महापराधो यतः। अन्यस्य संभोगादेरभावादेष एवेत्युक्तम् । अपरिपन्थिन्यविरोधिनी । एतदात्मत्यागरूपम् ॥ संज्ञया संकेतेन ॥ माधवः । परवाननायत्तः । साध्वसेन जडतया। मकरन्दः। अत्यभीष्टलाभादि- यम् । नेदीयसां निकटानाम्। खैरं शनैः । मालती। अत्र मर्तु खीकुर्वित्यर्थः ।। माधवस्य संस्कृतभाषया लवङ्गिकाभ्रमो न स्यादिति भाषासमावेशेनाह-सरल इत्यादि । साहस आत्मनिरपेक्षकार्ये रागमनुरागं परिहर । हे रम्भोरु, कदली- समोरुदेशे, संरम्भ मरणे खरां त्यज । जीवन्त्यां प्रत्याशापि स्यादिति भावः । विरसं रसशून्यं तव विश्लेषदुःखं सोढुं मे चित्तमक्षमं यतः। अतोऽयं वल्लभस्त्वयि .दत्तोऽतस्त्यज मरणाभिनिवेशमिति लव निकाभिप्रायः। अत एव सरले अज्ञे, ऋजु- प्रकृतिके वा । माधवपक्षे सरले हे अजानति, तव विरहायासं सोढुं मे चित्तम- सहमतस्तव समीपमागतोऽस्मि तन्मरणं त्यज । इतरत्सममेव तदिह संस्कृतप्रा- कृतयोः साम्यात्प्राकृतसमकम् ॥ १० ॥ किं वेत्यादि । किं वा भणामि । त्वदा- रम्भनिषेधं न करोमीत्यर्थः । हे विरहदुःसहकष्टकारिणि सुश्रोणि, कामममीष्टं कुरु। ययेवं तदा ममालिङ्गनं देहीति लवङ्गिकापक्षे । माधवपक्षे तु किंवा भणामि किं वक्तव्येन कामं कामव्यापार कुरु । अतः परिरम्भणं देहि । 'आरोहः श्रोणिकाययोः' इति धरणिः । श्लोकद्वयमिदं सौरसेन्या । यदाह-'स्पष्टार्थ लक्षणं प्रोक्तं सौर- सेन्याः प्रपञ्चतः । लक्षणं त्वेकमेवास्याः संस्कृताधदनूनता' ॥ ११॥मालती। अत्र उत्पीडः प्रबलीभूय निर्गमः । उत्पीडः समूहो वा । अपश्चिमं चरमम् । प्रियस्पर्शादाहादात्सहर्षम् । कठोरमरालगर्भो बीजकोशः । पक्षमलो रोमाञ्च- - ८० जगद्धरकृता [ अङ्क ६ : - पृ० प० १५५ २ निःस्यन्दशैव । ४ मात्र निवेदि। परव्यथानमिः ।। १५६ ८ दाणिं करणाभरणं करं विआ० । १५७ ८ मकरन्दः-साधु लवनिके, साधु । अवसरे खलु रागो। योगात् । समाधिना. सुकुमारः । अन्यादृश इवानुभूतसखीस्पर्शविधर्मा श्मशानानु- भूतस्पर्शतुल्यः । निर्वापयति तापं शमयति । तथा तादृशः स्पर्शः शङ्काविषयो- ऽप्यत्र नेति निर्वेदात्साश्रुता । अत्र विकसन्ति शतं पत्राणि यस्य तत् । अन्य- थेदं व्यर्थ स्यात् । मण्डलपदं संपूर्णवार्थम् । चिरमित्यनेन खाधीनभर्तृका- बमुकम् । 'सुरतादिरसैर्यस्या बद्धः पार्श्वगतः प्रियः। सामोदगुणसंप्राप्ता भवेत्वा. धीनभर्तृका ॥' निवेद्य दुःखं सुखी भवेदिति । पूर्वानुभूतदुःखं निवेदयति- अविरतेत्यादि । उद्वर्तमानमुन्मूलितं बन्धनं स्थैर्य यस्य तत् । बन्धनं स्वस्थाना• वस्थानं तस्योद्वर्तनमुन्मूलनारम्भ इति पाठान्तरव्याख्या । गमिताश्चेत्यादिना व्याध्यवस्थोका । अविवाहितातिक्रान्ता । चन्द्रातप इति तापकारिखादातपः । एतेषामनर्थलमाह भरतः-'संभोगे ये सुखं कुर्युते दुःखं विरहे भृशम्' इति । स्मर्तव्येत्यनेन करुणव्यभिचारिभावं स्मरणमाह । यदाह-व्यभिचारिणोऽस्य निर्वेदो ग्लानिमरणव्याधिदैन्यभ्रमादयः' । नैराश्याच मरणोदयः । यदाह- 'सर्वरेतैः प्रतीकारैर्यदि नास्ति समागमः । कामाग्निना प्रदीप्ताया जायते मरणं ततः' ॥ विप्रलम्भकरुणानन्तरं स्थायिनः शृङ्गारस्योपक्रममाह-एषा चेति । साध्वसं भयम् । माधवः। हन्त हर्षे ॥ एकीत्यादि । अनया मालत्या कर्पूरादिवर्ग एकीकृतः सन्नालिङ्गय मे खचि निषिक्त इव । स्पर्शस्य खगिन्द्रिय. ग्राह्यतया खचीत्युक्तम् । निर्भिनौ निरन्तरावलमो पीनी खनकुमलौ यस्यास्तया। हरिचन्दनं चन्दनविशेषः । निःस्यन्देन द्रव्याभिधानम् । 'कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति न्यायात् । निःस्यन्दीति पाठे निस्यन्दिनः सरसाः शैवालादय इत्यर्थः । अनेन प्रशान्तो मे कामजस्ताप इत्युकम् । बहूपमेयम् ॥ १२ ॥ आत्मा- नुरागप्रकाशनायानुभूतवेदनामाह-अयोति । उहामेत्यादि । एतादृशानि दिनानि मयापि किं वा नातिक्रान्तानि । अपि खतिक्रान्तान्येव । किं वेति संभा- वनायाम् । यद्वा किं निषेधे वैवार्थे । कीदृशानि । उद्दाम उद्भटो देहदाह एव महा- ज्वरो येषु । एतेनोद्वेग उकः । संकल्पसंगमेनापनीता व्यथा येषु । अनेनोन्माद उकः । यदाह-'बाहू प्रसार्य गमनं संकल्पाकल्पिते प्रिये । निवृत्तिः सहसान्य- स्मिनुन्मादे हि प्रजायते ॥ यद्वा । संकल्पसंगमेनान्यत्रीद्वेषः सूचितखेन च निःसपत्नीकलं कन्याहरणवीजमाह । यदाह-'असक्किं वा दर्शयेत्सुखमनुपहतमेक- पत्नीकले वा वर्णयेत्' इति । वदीयनेहज्ञानेनावलम्बितं जीवितं येषु । बत्नेहाज्ञाने मम मरणमेव स्यादित्याशयः। 'उपलब्धिश्चित्संवित्' इत्यमरः॥१३॥ लवङ्गिका। ।

अङ्क: ६] मालतीमाधवटीका। प० १५८ ४ रेकमप० । ६ लितं नस्तर्हि । ७ तत्किमिति बाष्पा- यितं भगवत्या । ८ ८ कामन्दकी-विज्ञापयामि कल्याणिनम् । आहेऽनीयर् । कलहंसः। अत्र सरसलेन शारादिलेन रम्यता । यदाह-'शृङ्गा- रकरुणावेव रसेवादी प्रकीर्तितौ' । संविधानं नायिकासंघनप्रकारः। त्वमित्या- दि । वं वत्सला सस्नेहेति हेतोरयं जनो माधवो विधृतजीवितः सन्सत्यमियहि- नानि कथमप्यनैषीनीतवान् । अत आबद्धकङ्कणो धृतविवाहसूत्रो धृतविभूषणो वा यः करस्तस्य प्रणयो विवाहकाले ग्रहणं तद्रूपं प्रसादं प्राप्य नन्दतु । बहुकालम- भीष्टाः संभोगादयः फलन्तु । 'कङ्कणं भूषणे सूत्रे' इति विश्वः ॥ १४ ॥ लवङ्गि- का । अत्राप्रतिहतः परिगृहीतः । अयं जनो मालती । खयमेवास्याः करें गृहा. त्याशयः । मालती। अत्र अम्मका कुलकन्यका । विरुद्धमिति । कुल- कन्यकाविवाहा देवार्षब्राह्मा एव शुभा दृश्यन्त इति भावः । कामन्दकी। खयंप्राहविवाहं कर्तुमनहमिति मन्यमानां मालतीमाह-पुत्रीति । अत्र गौरा- दिलान्डीषियवधेयम् । कातरे विह्वले ॥मालती। करग्रहभयेन तदङ्गस्पर्शेन माध- वस्य दर्शनहर्षेण च मालत्याः कम्पः । यदाह-' 'शीतभयहर्षरोषस्पर्शजरासंभवः कम्पः' । नर्मस्फोटोऽयम् । यदाह-'नर्मस्फोटस्तु भावानां देहस्थानां प्रकाशनम्। कामन्दकी। चिबुकमुन्नमय्योष्ठाधःप्रदेशमुत्तोल्य। 'अधस्ताच्चिबुकम्' इत्यमरः॥ पुरावृत्तं संकलय्याह-पुर इत्यादि । प्रथमं नेत्रप्रीतिरथ मनसस्तद्गतवं शरीर- ग्लानिश्च वद्विषये यस्याभूयद्विषये तवाप्येतादृशा अभूवन् । हे सुमुखि, सोऽयं युवा प्रेयान् प्रियतमः । अतो जडता कार्याप्रतिपत्तिं त्यज गान्धर्व विवाहपरा भवेत्या- शयः । तेन धातुः प्रयत्नो विलसतु । कामः पूर्णेच्छो भवतु । आत्मव्यापार- स्वनौद्धत्याय नोक्तः । इह चक्षुरागादिकं कामावस्था । यदाह-'चक्षुःप्रीति- मैनःसङ्गः संकल्पोत्पतिरेव च । निद्राच्छेदस्तनुखं च व्यावृत्तिर्विषयान्तरात् ॥ लज्जाप्रणाश उन्मादो मूछी मरणमेव च ॥' इति । मनसोऽनन्यपरतया मनःसङ्ग- संकल्पोत्पत्ती उके । ग्लानिरित्यनेन निद्राच्छेदादयो मूर्ध्वान्ता उक्ताः । तेषां ग्लानिहेतुत्वात् । अत्र च पुरस्तदन्वित्यादिना हेतुफलभावः सूचितः । युवख- प्रियत्वे प्रवृत्तिहेतू उक्त । प्रियश्च 'यो विप्रियं न कुरुते न चायुक्तं प्रभाषते । तथार्जवसमाचारः स प्रियः परिकीर्तितः ॥' इति भरतोकः । तत्रापि प्रकर्ष ईयसुन् । जडता प्रियदर्शनात् ॥ १५ ॥ लवङ्गिका । अत्र कृष्णरजनी कृष्ण- पक्षचतुर्दशीरात्रिः । विषमव्यवसायो महामांसविक्रयः । निष्ठापितो निहतः । पाखण्डोऽघोरघण्टः । साहसं स्त्रीवधरूपम् । साहसिकाद्धि भयं भवत्येव । तथा च प्राणदानेन माधवक्रीतमात्मानं कथं न समर्पयसीति भावः । मालती । साह- सविवाहारम्भादुर्जनभयात्पित्रादिवियोगशङ्कनाथ खेदे हाशब्दः । कामन्दकी। २९ माल.

૮૨ जगद्धरकृता। [अङ्क: ६ पृ० प० १५९ १ परस्तात् । ३ (इति गन्तुमिच्छति ।) ७ सौहृदभरेति। १६०. ८ ०थ्येन प्रसाधितः परिणाययात्मानम् । (इति पेट्टालक० ।) १० यथाज्ञापयति भगवती । १२ सुलभबह । १६१ ४ °न्दनः । यः प्रियामीहशी काम । ६ लार्थममद्वि- 'उत्तंसः कर्णपूरे च शेखरे च प्रकीर्तितः' इति विश्वः । अङ्गुलिपदेन चरणाने प्रणामादधृष्यतोका । अन्योन्यदर्शनेन धात्रा। प्रीतिजननाकामेन । चोरिकावि. बाहान्मयेत्याशयः । माधवः । बाष्पायितमुद्गतबाष्पं वृत्तम् । मातृवत्स्नेहेनेदमु- पपनम् । परिणतीत्यादि । त्वद्विधानां कुलादिमतां प्रीतयः परिपाकरम्या भवन्ति । अधुनावश्यत्वेन परिणतिपदम् । तैस्तैहेतुभिः पितृबन्धुत्वोपदेशकत्वादि. भिरहं तव मान्या । हेतूनां बहुत्वेन वीप्सा । तत इह मालत्यां मत्तः परस्तान्म- त्परोक्षे परिचयरूपकरुणायां मा विरंसीर्मा विरतो भविष्यसि । करुणाया इति पाठे 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' इति पञ्चमी । तातेति सर्व ततं व्याप्तमनेनेति हे तात व्यापक । यद्वा ततो विधेयः । 'तातो विधेये जनके' इति विश्वः । विरंसीरित्यत्र 'माछि लुङ्' इति भविष्यति लुङ् । वात्सल्यात्प्रपन्नानुकम्पातः। अतिक्रमोऽन्यथात्वम् । अत्र माला नाम नाट्यालंकारकथनम् । यदाह-'माला बहूनां हेतूनां निर्देशः साध्यसिद्धये' इति ॥ १६ ॥ श्लाघ्यान्वयेत्यादि । उज्वलकुला । चक्षुःप्रीतिजननी रूपवती । उपचितसौहार्दातिशयानुरक्ता । गुणो- ज्जवला शीलादिमती । एतत्सर्वं वशीकरणमस्त्येव गुरुतरम् । एवं सति युष्माक- मियमिति हेतोरनन्तरं किं ब्रवीमि । अतः परं न वाच्यमस्तीत्यर्थः । इतिकारच- तुष्टयं खरूपोपदर्शनाय । तथा च त्वदभ्यर्थना सहजसिद्धैवेति भावः । इह प्रसिद्धि- नामा नाव्यालंकारः । यदाह-'वर्णने वस्तुनो यत्तु गुणस्योत्कीर्तनं भवेत् । प्रसि. द्धिरिह सा ज्ञेया नाटके कथिता बुधैः ॥' इति ॥ १७ ॥ प्रेय इत्यादि । वत्सयोर्मालतीमाधवयोरन्योन्यमेतद्विदितमस्तु यत्स्त्रीणां भर्ता प्रेयः प्रियतमं वस्तु मित्रं सुहृदू बन्धुता बन्धुसमूहः सर्व ईप्सिताः समग्रा मिलिताः शेवधिनिधि वनं च । पुरुषाणां धर्मदाराः पाणिगृहीताः प्रेय इत्यादि । बन्धुतेत्यत्र 'प्रामजनबन्धु- सहायेभ्यस्तल्' इति समूहे तल् । 'निधिर्ना शेवधिः' इत्यमरः । अनेन गान्धर्व- विवाहो दर्शितः । स चानुरागमूलत्वाच्छ्रेष्ठः । यदाह-'अनुरागात्मकत्वेन गान्धर्वः श्रेष्ठतां गतः' इति ॥ १८ ॥ मकरन्दः। जवनिका पिधानपटः। तत्रा- न्तर्धानम् । स्त्रीणामग्रे स्त्रीवेषादिकरणेऽनौचित्यात् । मकरन्दः । मालत्यस्मि संवृत्ता इत्यनेन वैमूढकनामा भाव उक्तः । यदाह-'वैमूढकं तु लास्यं स्यात्पुंसः स्त्रीवेषधारणम्' इति । माधवः। कामयिष्यत इत्यनेन पराशावतारः कृतः । कामन्दकी । अनुपलम्भार्थमाह-वृक्षगहनेनेति । गहनेन वनेन विषमेण वा 'गहन विषमे त्रिषु' इति विश्वः । उद्वाहमाल विवाहार्थ कर्म । गाढे.

मक ६] मालतीमाधवटीका । ८३ -- पृ० १०. हारिकायाः पश्चा०। ८ गण्डावपा। ९ फलि. नव्या । १२ गत्वा च तत्रै १३ °ल्याणावतंसा । १४ द्भवति । १६२ १ संदेह एवात्र भ० । ५ °एत्थ तुवराम । इति मालत्युपहारो नाम षष्ठोऽङ्कः। । त्यादि । तद्भुवो भागा उद्यानवाटिकायाः प्रदेशा वां युवयोः श्रेयः शृङ्गारादिक विधास्यन्ति शृङ्गारस्योपवनविहरणजन्यखात् । यदाह-'उपवनगमनविहारैः शृ. भाररसः समुद्भवति' । कीदृशाः । ताम्बूली पर्णलता तासां समूहैः पिनद्धा वेष्टिताः फलिनः फलयुक्ता अत एवानताः क्रमुकवृक्षा येषु ते । सापेक्षतेऽपि गमकखा. समासः । कीदृशैः । गाढोत्कण्ठा यस्याः सा च कठोरा तृतीययौवनवयाः केरलदे. शवधूस्तस्याः कपोलवदवपाण्डुरीषदूसरश्छदः पत्रं येषां तैः ॥ 'रतिसंभोगे दक्षा प्रतिपक्षासूयिका गुणान्या च । अनिभृतगर्वितचेष्टा सा विज्ञेया तृतीया तु ॥' इति भरतः । अत एवोत्कण्ठाधिक्यम् । केरलदेशजलेन गौरवमुक्तम् । अतः पीतसंब- न्धाच्वेत ईषत्पाण्डुरत्वम् । यदाह-'सितपीतसमायोगादीषत्पाण्डुरिति स्मृतः। पिनद्धति 'वष्टि भागुरिरल्लोपम्' इत्यल्लोपे रूपम् । फलिन इति 'फलबर्हाभ्यामिनन्' इतीनच्मवर्थीयः । तथा ककोलीफलस्य जग्ध्या भक्षणेन मुग्धाः प्रीता ये विकिराः पक्षिविशेषास्तेषां व्याहार उतिर्येषु ते । 'कक्कोली बदरी कोली' इत्यनेकार्थः । भूमि नखैर्विलिख्य ये चरन्ति ते विकिराः । 'नगौकोवाजिविकिरविविष्किरपत. त्रयः' इत्यमरः । 'अदो जग्धिः' । 'व्याहार उतिर्लपितम्' इत्यमरः । तथा प्रेलिता वातेन चलिता मातुलुङ्गवृतिर्वेष्टनं येषु ते । तथा चैवंविधनानागुणवनगमनेन सर्व- मनोरथसिद्धिस्ते भविष्यतीति भावः । मातुलुङ्गश्छोलङ्गवृक्षः। 'रुचको मातुलुङ्गकः' इत्यमरः ॥१९॥ माधवः । कल्याणान्तरावतंसा मकरन्दविवाहकल्याणभूषणा माधवविवाहसंपत्तिः। कलहंसकवाक्ये । मकरन्दविवाहेनाप्यस्माकं प्रमोदः स्यादित्यर्थः। कामन्दकी । संभोगार्थ विजनकरणाय कर्तव्यमकरन्दविप्रलम्भार्थ च सर्वेषां निष्क्रमणमाह-वत्स इत्यादि ।मालती। सखि, खयापि गन्त- व्यम् । एकाकिन्या मयात्र कथं स्थातव्यमिति भावः । लवङ्गिका । सांप्रतं खलु वयमत्रावशिष्यामहे यूयं सर्व एव खार्य चलिता इत्यर्थः ॥ आमूलेत्यादि । अस्या रम्यं हस्तं हस्तेन गृह्णामि । यथा सरस्या ईषद्रक्तपमं मनोज्ञं हस्ती करेण स्थूलहस्तेन गृह्णाति तथेत्यर्थः । कोमलाल्याः कर ईषद्रत एवेति साम्यम् । कीरशम् । मामूलं कक्षादेशपर्यन्तं कण्टकितो रोमाञ्चितः कोमलो बाहुरेव ८४ जगद्धरकृता [अङ्क ६ नालं यस्य तम् । 'कण्टकः क्षुद्रशत्रौ च रोमाश्वेऽपि च दृश्यते' इति विश्वः। भााहुल्य एव दलानि पत्राणि यस तम् । रोमाञ्चितबाले सालिकभावात् । अहं कीदृशः । अनज एव प्रीष्मस्तेन तप्तः । तथा च कामतापप्रशान्त्यर्थ करप्रह- णमित्यर्थः । पद्मस्याप्युद्धततया तस्य कण्टकितकोमलनालखमापत्रलं च भवति । गजोऽपि ग्रीष्मतप्तः । पद्मपक्ष आमूलं कन्दपर्यन्तम् । तदनेनानन्तरकर्तव्यताध्य. वसायस्य धैर्यमुक्तम् ॥२०॥ सूते स्म यं रत्नधरः पवित्रः पवित्ररूपा मदयन्तिकापि । जगद्धरं तत्कृतटिप्पणेऽङ्कः षष्ठोऽगमद्भव्यरसाधिवासः ॥ इति षष्ठोऽङ्कः।

सप्तमोऽङ्कः। अधुना मालतीरूपधारिणा मकरन्देन कथं नन्दनविप्रलम्भो मदयन्तिकाहरणं च कृतं भवेदिति प्रबन्धाभिधानाय नियुक्तैव तत्र मयेत्यादिना प्रयमाङ्कसूचितबु- द्धरक्षिताप्रवेशः॥वुद्धरक्षिता। अत्र माधव विवाहनिर्वाहाद्धर्षाश्चर्येऽम्महेशब्दः । सुश्लिष्टत्वं मकरन्दस्य गौरवाश्मश्रुलखादिना मालतीसाम्यात् । भगवतीति भगवत्यैवालंकृत्य प्रहित इत्यर्थः । क्षेमेण कुशलेन । एतत्तु केनाप्यनुपलम्भाव गोपायितो गुप्तीकृतः आपृच्छय संवादं कृला । तत्र नन्दगृहं गच्छामीति तद्भवाननुमन्यतामिति संवादः । आपूच्छिः संवादार्थ इति शाब्दिकाः । अत एव 'आपृच्छख प्रियसखममुम्' इति मेघदूतादो टीकाकृता तथैव विवृतमित्यवधेयम् । 'आवसथं गृहम्' । कौमुद्याश्विनपूर्णिमाव्रतम् । यद्वा कार्तिक्यां चन्द्रमण्डलपूजा कौमुदीव्रतम् । तदुभयं च ग्रीष्मे प्रवृत्तमित्यकालकौमुदीत्युक्तम् । यद्वा जननय- नानन्दकलेन कौमुदीव कौमुदीति रूपकम् । कौमुदी चन्द्रज्योत्स्ना यथाकालसंभवा संध्याकालीना वर्तुभवा जनानन्दाय तथेयमपीत्यर्थः । अः केशवस्तस्य कालो वर्षाकालः संध्याकालश्च । 'प्रदोपो रजनीमुखम्' इत्यमरः । व्यवसितं मदयन्ति. काविवाहरूपम् । अन्यकार्यव्यावृत्ते जने तदप्रत्यूहं निर्वहेदिति भावः । वरमाणेति विलम्बासहकामावेश इत्यर्थः । तिरस्काराद्वैलक्ष्येण स्खलन्नरः सह स्वरो यस्य सः। रोषेण निर्भर व्याप्तम् । खुलुङ्गितमिति पाठे खुलुङ्गितं मौनम् । 'खुलुशि- तमाहुर्मुखसंकोचं च काव्यविदः' इत्यभिधानात् । कौमारवन्धकी वेश्या माध- वानुरक्तवात् । तदत्र नन्दनस्य विवाहदिन एव बलादभिद्रवणेनाधार्मिकलं काम. शास्त्राविज्ञवं च दर्शितम् । यदाह-'सुकुमाराः पुरुषाणामाराध्या योषितः सदा। अनिच्छया प्रवृत्तश्चच्छृङ्गारं नाशयेद्रसम्' । बन्धकीति परुषवाक्येन दुराचार- बमप्यस्य । यदाह-'ताडनं बन्धनं वा यो न विमृश्य समाचरेत् । ब्रूते परुष- वाक्यं च दुराचारः स उच्यते ॥' प्रसङ्गेन सांविधानकेन । एतेन सूचनात्प्रवेशः । शय्यागत इति । सुप्तस्य प्रवेशो भरतनिषिद्ध इति शय्यागत इत्युक्तम् । मकरन्दः । भगवतीनीतेरव्यभिचारिलेऽप्याश्रयभेदात्तदाशयाह-अपीति संभावनायाम् । अव्यभिचारित्वमेवाह-लवङ्गिकावाक्ये । कः संदेहोऽत्र महानुभावस्य । मदयन्तिकापरिणयोऽवश्यंभावीति भावः । अत्र किंबहुना भणितेनेत्यर्थः । मजीरो नूपुरम् । व्यपदेशेन मालतीप्रबोधच्छलेन उत्तरीयेति उपरिवासःपिहिताङ्ग इत्यर्थः । इह नर्मगर्भा कैशिकीवृत्तिः । यदाह-कार्यकार- णतो यत्र नायको गोपयेत्तनुम् । मर्मगर्भः स कथितो नाट्यवेदिभिरुत्तमः ॥' मदयन्तिका । अत्रात्याहितमतिक्रमः । निर्भसयाम इति । 'त्रिरात्रं नायक ज्ञाला वाचा हीनं तु कन्यका । पश्यन्ती स्तम्भवच्छन्नं निर्विद्येत ततः परम् ॥' इति भरतानुरोधेन कन्याविसम्भपरे मे भ्रातरि व्यर्थमियं रुष्टेति निर्भर्त्सनामस्या इति भावः । बुद्धरक्षितावाक्ये । एतद्वासभवनद्वारम् । तत्प्रविशेति शेषः । लवङ्गिका । अत्र कथमस्मादुराचारात्स्थास्यामीति चिन्तया दौर्मनस्यान्निद्रा ।

जगदुरकता [अङ्क ७ पृ० प० १६३ ४ ०णन्दणकिदकर । भअवदीवअणसविहाणेहिं खेमे । ६ °सवउपत्तिपज्जा । ७ कामो कामिणी कामे । यदाह-आलस्यदौर्मनस्यक्लेशश्रमचिन्तनखभावेभ्यः । रात्री जागरणादपि निद्रा मनुजे दिवापि संभवति ॥' तथा च दुःखहानाय निद्रयापि क्षणं नय. लियमित्याशयः । लवङ्गिका । अत्र विस्रम्भणं विश्वासमुत्पाद्य वशीकरणम् । लडहं मनोहरम् । विदग्धं कलाभिज्ञम् । नववधूविस्रम्भणोपायस्ताम्बूलादिदानम् । यदाह-'बाला ताम्बूलमालाफलरससुरसाहारसंमानहार्या' इत्यादिकः सुप्रसिद्ध एव । प्रकृते तूपालम्भपरवाद्विपरीतार्थकत्वमिति भावः । मदयन्तिका । विप्रतीपं विपरीतम् । पादपतितनन्दनाननुवर्तनान्मालत्येवोपालभ्या तदकरणाद्विपरीतस- मिति भावः । पादपतनेऽनुवृत्तौ भरतः-'ब्रीडायुक्तापि या योषिदतिरुष्टापि या भवेत् । पादे पतन्तं पुरुषमनुवर्तेत सर्वदा ॥' बुद्धरक्षितावाक्ये। विप्रतीपं न वा विप्रतीपम् । तच्चित्तानुवर्तनेन खीकृतयुक्त्या निराकरणेन न वैपरीसमिति भावः । बुद्धरक्षिता । खाभिप्रायं गोपायितुं साधारणोक्त्या खवचोवदति- अत्रेयमिति वक्तव्ये जन इत्यभिधानं मालतीमकरन्दसाधारण्यार्थम् । नववध्वा लजयातिक्रमे न दोषः । यदाह-'नवपरिणीता योषियत्नादपनीय साध्वसं सद्यः। विविधविनोदकथाभिर्विश्वासं नीयते सरसैः ॥' रभसोपक्रमः सहसा प्रवृत्तिः। स च विरुद्धः । यदाह-'सहसा वाप्युपक्रान्ता कन्याचित्तम विन्दता । साध्वस त्रासमुद्वेगं सद्यो द्वेषं च विन्दति ॥ सा प्रीतियोगमप्राप्य तेनोद्वेगेन दुःखिता। पुरुषद्वेषिणी वा स्याद्विद्विष्टा वा ततोऽन्यगा ॥' स्खलनमुपक्रान्तानिर्वाहः । विच्छदितं विशीर्णम् । अपरिस्थानकमपरिस्थितिः । अधैर्यमिति यावत् । यूय- मुपालम्भ्या इति मदयन्तिकां प्रति वचनम् । भ्रातृपक्षप्रवेशात् । अह्मेति पाठे बुद्धरक्षिता मदयन्तिकया सह खामेदं मन्यमाना वयमित्याह । शिल्पकारिखारसं. स्कृताश्रयणम् । यदाह-'दिव्याया गणिकायाश्च शिल्पकार्यास्तथैव च । विदग्धा- याः स्त्रिया भाषां संस्कृतेनापि योजयेत् ॥' यद्वा कामसूत्रानुकरणात्संस्कृतभाषा । सधर्माणस्तुल्याः। उपक्रम आरम्भः । प्रसभं हठात् । संप्रयोगः । सुरतम् । किल प्रसिद्धी कामसूत्रकारा मन्त्रयन्ते । लवङ्गिका । अत्र निक्षेप आरोपणम् । जुगुप्सन्ते निन्दन्ति । दुःशीला कन्या मा जायतामिति भावः । मदयन्तिका। कथमन्यथात्युद्विमेयमिति भावः । मदयन्तिका । अत्र प्रभवामीति वरभगि- न्यपि लयि प्रणयवशादाश्वासवत्यहमिति भावः । लवङ्गिका । अत्र यथेच्छसि तथा ब्रूहीत्यर्थः । मदयन्तिका । अत्रेदशोऽपि दुःशीलोऽपि । यथाचित्तं चित्ता- नतिक्रमेण । भर्तेति । 'कोऽपि देवः कुलस्त्रीणां पविरेव पतनपि' इति वचना बीषु भर्ती प्रभवतीति भावः । न चेति । न च न जानीथ । किंतु जानीय एवेत्यर्थः । मदयन्तिका । अत्र किल प्रसिद्धौ । तारामैत्रकं प्रेम । तत्र माधवे । ।

महर ] मालतीमाषषटीका। ७ पृ० प० १६४ २ जामादा । तदो सो खु अधिअवेलक्ख । ३-४ क्खरो सरोसणिब्भरदुक्खिदो मदप्पप्फुरन्तणअणो ण मे संपदं तुए कौमारबन्धईए पओ० । अतिभूमिमतिदूरम् । तत्खल्विति । माधवानुरक्ता मालतीत्यस्यानुशय इत्या- शयः। विजृम्भते प्रकाशते । अपक्षे मालती माधवपरेयसत्पक्षे । अभिनिवेशो रोषः । निरवशेषमिति क्रियाविशेषणम् । दोष इत्यस्या दौर्भाग्यं त्यागो वा नित्यशङ्काकुलतया स्यादिति भावः । निष्कम्पेति । सततपरपुरुषालो- कनेन लज्जाहीनतया दारुणत्वम् । अत एवेयं कुलटा न वेति परेषां संदेह इति भावः । लवङ्गिका । अत्रापेहि दूरं गच्छ । मदयन्तिका। अत्र न यूय- मिति स्वदस्फुटवादे वा मेऽवसाद इत्यर्थः । न खलु न जानीमः । अपितु जानीम एव । च तथा त्वमपह्नवं किं करोषीत्यर्थः । कठोरः परिणतो जातपाण्डिमे- त्यर्थः । यद्वा अकठोरा बाला केतकीत्यर्थः । तादृशी सातिपाण्डुरेव भवति । न विभावितं न ज्ञातम् । अपितु सर्वैरेव ज्ञातमित्यर्थः । तत्किमपहवं करो- षीति भावः । विभ्रमो विलासः । स च स्त्रियां यथा---'यानस्थानासनादीनां नेत्रवादिकर्मणाम् । उत्पद्यते विशेषो यः स विलास इति स्मृतः ॥' पुरुष यथा-'मन्दसंचारिणी दृष्टिगतिश्च वृषभायिता । स्मितपूर्वस्तथालापो विलासः कथ्यते यथा ॥' किं न त्वया निरूपिता येनापह्नव इत्यर्थः । आवेगो- ऽप्राप्तिदुःखम् । अङ्गारितं सुतप्तम् । उद्वर्तमानमुत्पतत् । आवेगोऽयमिष्टाना- प्तिजः। यदाह-'आवेगश्च भवेत्पुंसामिष्टानवाप्तिसंभवात्' । लवङ्गिका । किमिदानीमपरम् । त्वया स्मृतमिति शेषः । मदयन्तिका । अत्र चेतना. प्राप्तिरूपमेव प्रियम् । पारितोषिकं यद्यालवाणितेत्यादिश्लोके दर्शितम् । नियुक्त दत्तम् । तचित्तानुरागं विना नोपपन्न मिति भावः । अर्थान्तरोक्तिप्रसङ्गेन प्रकृ. तापह्नवार्थमाह-आं सखि इति । आमिति पूर्वस्मरणार्थः । विस्मतमिति । ज्ञात्वापि तत्कथाकथनायायं प्रश्न इति भावः । मदयन्तिका । अत्र मर इति मकरन्दमिति भावः । विक्रुष्टो रुष्टः । श्वापद इति व्याघ्रयाजेन यम इत्यर्थः । अवलमसंनिहितेति पाठेऽवलनं कण्ठः । संभावितः ख्यातः । कर्मधारयोऽत्र विकटं विशालम् । मांसलं स्थूलम् । उत्तानमुच्छ्रितम् । जरठं कठिनं जर्जरितं विध्वंसितं यदोण्डपुष्पमुकुटं तदिव हरति । 'कर्तर्युपमाने' इति णिनिः । हरणमिह समीकरणम् । रकातदेहतया साम्यम् । शिखा- प्रम् । लवङ्गिका । अत्र हुँ वितर्के । 'हुं वितर्के विस्मये' इत्यमरः । मद. यन्तिका। अत्राहादातिशयात्पुनःपुनः प्रश्नः । प्रियनाममधुपानेऽपि न तृप्तातो श्रुत्वेवाहेति भावः । लवङ्गिका । ननुशन्द आशयाविष्कारे । अहमित्यादि । यथा त्वमात्थ तत्तथा । मालती माधवानुरकेति खीकृतमित्यर्थः । अहं कि नाम वदामीत्यभिनिवेशमात्रम् । अयं पुनः कुलकन्यकाजनः कथामध्ये काम- ८८ जगद्धरकृता [अङ्क ७ पृ० प० १६५२ सद्दो सुणीअदि तह । १२ वासभवणदुवारं । १६६ ४ °धेहि जदो ए । ५ ईस मण्णु उज्झिम पसुतेत्ति । तदो० । ६ अणुप्पन्ते उव० । ९ भासिणं ससिणे: हअरो। कस्मात्कदम्बमोलकाकारमाश्रितः । बहलपुलकशालिवात् । विकलो विह्वलः सन् । कीदृशः । विशुद्धो निष्कलङ्कः । कामाभिषगदोषशून्य इति यावत् । मुग्धो रसानभिज्ञः । सर्वमिदं सोत्प्रासम् । अत एव वैदग्ध्यतया शिल्पकारिणीलेन संस्कृताश्रयणम् ॥ १ ॥ मयन्तिका । अत्र उपहससीति नाहं मकरन्दानुरक्त- तया हृष्टा किंतु तद्धीरलमभिनन्दामीति न हासस्थानमिति भावः । अत एव चित्तचोरिकयाह-नन्विति । एवं खहर्षस्यान्यथासिद्धिमुक्खा निजाङ्गसङ्गज खेदादिकं मकरन्देऽन्यथयति-तथा चेति । विस्मारितशरीरेति मूर्छाकथनम् । संगलितो मिलितः । उत्पीडः पूरः । कन्दोहो नीलोत्पलम् । मोहेति मोहेन नेत्र- मीलनं तु मदङ्गसङ्गादिति भावः । यदाह-व्यसनाभिघातभयपूर्ववैरस्मरणजो भवति मोहः' इति प्रहारमूर्च्छने कथमयं भूमौ न पतितोऽत आह-भूमीति । विष्टम्भः संवन्धः । विच्छदितः परित्यक्तः । महामहाघमतिदुर्लभम् । जीवलोको मर्यभुवनम् । प्रियालिङ्गनस्मरणादिना खेदादिकम् । खेदादीनित्यनेन किलकिंचित- भावाविष्करणम् । यदाह-'यदन्तर्निहितस्याङ्गैः सव्यापारर्मनोभुवः। सव्रीडावि. कृतिः स्त्रीणां तदाहुः किलकिंचितम् ॥' अत्र खेदादिमता तव शरीरेण मकर- न्दसंभोगोऽभिलषित इत्यर्थः । लवङ्गिका । अत्र सहवासिन्याः सख्याः । नाहं कामजखेदादिनोद्भिन्ना किंतु खद्विसम्भकथयेति भावः। अभिण्णह्मीति पाठेऽभिज्ञा- तास्मीत्यर्थः । अत्र जानीम एवेति कामन्दक्यादिद्वारा तव मकरन्दस्य च चेशितं ज्ञातमेव । तत्कथमपह्नव इति भावः । व्यपदेशाच्छलात् । सदृशमिति मकरन्दे स्नेहानुबन्धमपि कथयेयाशयः । उभयमपि क्रियाविशेषणम् । बुद्धरक्षिता । अत्र शोभनं कथयितुमर्हसीत्यर्थः । लवङ्गिका । अत्र मकरन्दवियोगेन कथं वर्तस इति भावः । मदयन्तिका । अत्र निशामय शृणु । एकवचनमिह लवङ्गिका- पेक्षया । वुद्धरक्षिताया विदितवृत्तान्तखात् । कथाकथनं तु रागवृद्धये। यदाह- 'यात्रा पुरस्कन्दनमुत्सवो वा स्वप्नोऽथ चित्रं रतिसंकथा च । भवन्त्युपायाः प्रथमा- वलोके यूनोर्यतो वृद्धिमुपैति रागः ॥' पक्षपात इति बुद्धरक्षितापक्षपातो गुणबाहुल्यं विनान भवतीति विश्वास इति भावः । भृतोद्धृत्तमतिरिकीभवत् । कौतूहलमुत्कण्ठा च मनोरथश्चेति विग्रहः । ततो बहुव्रीहिः । यद्वा अतिरिक्तीभवत् कौतूहलमु- त्कण्ठा च यत्र मनोरथे तादृशो मनोरथो यत्र तत्तथा । सर्वाङ्गदाहो व्याध्यवस्था- याम् । यदाह-'मनःसंमोहसर्वाङ्गदाहवृत्त्यादिभिस्तथा । शिरसो वेदनाभिश्च व्याधेरभिनयो यथा ॥' मरणमेव निर्वाणं मोक्षः। सर्वदुःखापहारकत्वात् । मयत्ना.

अङ्क ७] मालतीमाधवटीका। ८९ पृ० प० १६७ १ विप्पदीअं अम्हे वि उवालम्भिआमो। ६ विरुद्ध- साहसो । ७ किं वि अपरिहाणं तेण तुम्हे त्ति । १६८ २ °माणाः सद्यः संप्र। ३ °आरा आमणन्ति । ४ पुरुसा अम्मकाओ समुबहन्ति ण खु कोवि लज्जापराधीणं अ- णवरद्धं मुद्धलडहसहापहः । १० राहो से की। दिष्टसङ्गस्तव स्यादिति बुद्धिरक्षितावचनम् । विसंतुला संशयितचित्ता । जीवलो. कस्य परिवर्तोऽन्यथावं मूछेत्यर्थः । यद्वा मूर्छानन्तरं पुनर्जीवलोकप्रवेशोऽत्र परिवर्तनम् । संकल्पान्तरे भावनावलजज्ञानमध्ये खप्रज्ञानमध्ये चेत्यर्थः । नियूंढ उपचितः । उद्वेल्लत्सभ्रूक्षेपम् । प्ररूढमैरेयं प्रसन्नमद्यम् । तस्य मदो मत्तता । 'भैरेयमासवः सीधुः' इत्यमरः । पूर्णितमिति क्रियाविशेषणम् । निर्ध्या- यति चिन्तयति । कषायः सुरभितः कलहंसो राजहंसः । घोषः शब्दः । घर्घरमस्फुटम् । स्खलितं च्युतम् । एतदुभयं साध्वसवशात् । हर्षसंजातखरमे- दाद्वा । यदाह-स्वरभेदो भयकोधमदहर्षादिभिर्भवेत् । भरितकर्ण विवरमिति क्रियाविशेषणम् । वस्त्राचलप्रहणेन स्त्रीप्रसादनम् । यदाह-रहसि ग्रहणेनापि हस्ते वस्त्रे च मूर्धनि । कार्य प्रसादनं नार्या अपराधं समीक्षता ॥' परिभवेन प्रतिकारबुद्ध्या । सभयं पूर्वाननुभवात् । अत्र किं स्यादित्युत्तरति कम्पवत् । आतङ्काद्धमधमायमानमुष्णमिव चित्तं यस्यास्ताम् । यद्वा उत्तरङ्गयुद्गतकल्लोलम् । धमधमायमानं सकम्पम् । कलोलश्च कम्पस्योत्तरोत्तरप्रकर्षः । उत्रासयति चकितां करोति । शीघ्रं त्यक्तवस्त्रा च सा प्रसूता गमनोधता च । कर्मधारयः । पुलकितखेन दण्डायमानता अपवारितोऽपिहितः । उद्गमो विस्तारः। आलिङ्गा- नविघटनं कृलापसरणे कुचालोकनादिकं नायकस्य जायते । नायिका च तदा संवरणाय न प्रभवतीति भावः । तर्हि पलायते किमिति नेत्यत आह-विघ- टमानेति । विघटमानालिगनजरोमाश्चसंचयात् । विकला खस्थानचलनात् । संदानं बन्धनम् । तत्प्रापिताभ्यामित्यर्थः । प्रतीपं प्रतिकूलम् । गमनाभावे पुनः कान्तावरुद्धतया हूं ह्रमित्यादिनिषेधायाह-प्रतिकूलेति । उपरागः संवन्धः निषिद्धपुनरके पुनःपुनर्निषेधवाक्ये पर्यस्तं निषेधविपरीतं निग्धवादिधर्मलात् । यद्वा पर्यस्खं विभ्रान्तम् । चित्तसारः संभोगेच्छापरता । उपहासः परिहासः । स च हृदि संभोगेच्छा, वाचि परं ते निषेध इत्येवंरूप इत्यर्थः । निग्धपुनरुक्तेतिपाठे स्निग्धपुनरुक्तं पुनःपुनः स्निग्धं पर्यस्तं क्षिप्तं लोचनमित्यर्थः । आवेष्टनमावेष्टः । तेन गाढालिङ्गनमुक्तम् । कररुहो नखः । ओरम्फ आक्रमणम् । प्रौढव्याघ्रनखव- त्कठोरं यत्कररुहमिति भावः । निष्ठुरं निबिडम् । निवेशोऽर्पणम् । निःसहां वचना. यक्षमाम् । अत्र कररुहाक्रमणमेव पत्रावलीति रूपकम् । चुम्बनमाह-सावे.

९० जगद्धरकृता [अङ्क मू०॥ पृ० प० १६९ १ सुदं अम्हेहिं जघा मम ण तुए संपदं कोमारबन्धईए पओअणं ति । मदयन्ति० १ ०एसो ति । अण्णं च तुझे । ११ °वालम्भदूसणस्स जं १७० १ कधं वा आमन्तिदं वि णाम ण जाणीमो। ३ °लदीए तारामेत्तरं आसी तहिं सब । ५ तुणो अवक्खा । ६ °महादोसो ति जा० । ७ रुणा अम्मकाओ दूमावेन्ति हिअ । ८ °त्ति मा णं भ- णिस्सध मद। ९ अइ असावधाणे असंव० । १० सह जम्पिस्सं । गेति । ओवग्गिदं पुजीकृतं लम्बितमित्यर्थः । मुखावयवा ललाटादयः। विकासितं चुम्बनादिनियुक्तम् । वदनस्य वैदग्ध्यं चुम्बनचातुर्यात् । इह कन्यायास्त्रिविधं चुम्बनम् । ललितकच्छुरितकघटितकमेदात् । तत्र ललितकमाह-प्रस्फु- रितेति । घटितकमाह-पुञ्जितं योजितम् । ईषत्परिगृह्य मीलितनेत्रा जिह्वाग्रेण घटयति करेण नेत्रे तस्याच्छादयतीति घटितकम् । छुरितकं तु प्रागेवो. कम् । समुद्गम उद्रेकः । एवं च सर्वाङ्गीणनायकस्पर्शात्प्रमोदमाह-मनो. हरेति । उद्धर्षितमुद्गतरोमाश्चम् । नायिकाया वामाङ्गे सकलोपचारव्यव- स्थापनाद्वामकपोलेत्युक्तम् । वर्धमानां सुरतावस्थामाह-समुल्लसितेति । समुल्लसिताभ्यां साध्वसानन्दाभ्यां विषमो यः संभ्रमः संवेगस्तत्र मोहेन किंकर्त- व्यतामूढतया मन्थरस्त्रमेकतरपक्षाव्यवस्थितिः साध्वसेन प्रवृत्तिरानन्देन च निवृत्तिरित्याशयः। अनभ्यर्थनीयं सुरतादिकम् । ततो झटितीति जागरावस्था- कथनम् । लवङ्गिका । अत्र मचूडकं विथावीति ख्यातम् । निःसहतनुलेनास- नमचूडकेऽपि धातुत्यागप्रश्नवैदग्धीयमिति भावः। पुष्पवतीशकया परिजनहासनि- वारणाय गोपनम् । बुद्धरक्षिता । अत्र पृच्छामि यदि हृद्गतं रहस्यं कथयसीति भावः । मदयन्तिका । अत्र कृतापराध इत्यत्र शिरश्चालनगतिः। बुद्धरक्षिता । अत्रात्मसमर्पणमेव त्वया कार्यमिति भावः । मदयन्तिका। अत्र तद्दर्शनामृतसेक- शीतला भविष्यामीति भावः। निःसनः सर्वाङ्गव्यापी। बुद्धरक्षिता । अत्राथशब्दो यद्यर्थोबलात्कारितो बलात्कारेण प्रवर्तितः।रुक्मिणी काममाता प्रद्युम्नमातृखातापक्षे कामावस्थाकारिणीम् । पुरुषोत्तमः कृष्णः अथ च पुरुषेषूत्तमो मकरन्दः। वयंप्राहेण गान्धर्वेण । खधर्मचारिणी भार्या । प्रवृत्तिर्वार्ता । मदयन्तिका। इह मम भाग्येन किं स्यादिति निःश्वास इति भावः । मदयन्तिका । अत्र काहमात्मशरीरस्य किं तु न कापि । मकरन्दस्यैव मच्छरीरमिति भावः। केरकशब्दः कृत्यकरवाची।

अक: ७] मालतीमाधवटीका। प० १७१ १ तुम्हे अप्फुटं भणि । २ जीवलो माल । ५ म्बमेत्त संघारिदजीवणं मा०। ८-९ फुल्लपस- रन्तणअणुप्पलवहलविलासमसिणसंचारचारुतीरआ- विराअन्तविब्भमाअणट्टाआरिअसबाआरोपदे- स० । १० महुरा तुए वि णं णिरू। ११ °त- क्खणुच्छलिदगम्भीरावेअवइ । १७२ १ °हाणं उबत्तमाणमूलं विअ । ६ ०ण्णासबोधिदेण । ७ अंगाहसाहसे णिउ० । १२ सावदावदेसकाल- गो० । रणा तकालसंणिहिदेण जीविदप्पदायिणा पीअर० । १७३ २ दिढदाढाविदारिअविअ० । ३ स्थलेण जरढज- ज्झ० । करुणेक्कमणेण । ४ किदे विसहिदा अतिदुट्ठासद्लणहसिहावज्जपहारा मारि० । १० अहं तथा० । ११ ०म्ययं त्वकस्मा० । पणीकृत्य मूल्यतया यो व्यवस्थाप्यते स कृत्यकरः।लवङ्गिका । अत्र महानुभावता कृतज्ञता। बुद्धरक्षिता। सांप्रतमेवैतद्वचनस्योपयोगं स्थिरीकृत्याह-मरिष्यसीद वचनम् । मदयन्तिका । अत्र 'नाडी कालेऽपि षदक्षणे' इत्यमरः । षटक्षणाव- च्छिन्नः कालो नाडी। द्वितीया नाडी द्वादशक्षणात्मकः कालः । मदयन्तिकामकर- न्दसंघटनविषस्य समाप्तिपटहोऽयमित्यर्थः । यद्वा द्वितीयनाडी द्वितीयभगिनी मालती तया सह विच्छेदो वियोगो यथोपक्रान्तसंबन्धविघटनमित्यर्थः । मकरन्दः । गृह्णाति मदयन्तिकामित्यर्थः । मदयन्तिका। अत्राम्मो इति खच्छन्दप्रलपितखा- भिप्रायानुतापे । रम्मेत्यादि । हे रम्भोरु, भयं त्यज । यतस्तव स्तनभरस्योत्कम्प सोढुं मध्यभागो न क्षमते समर्थो न भवति । अतिकृशो मध्यदेशः कुचयोर्भयक- म्पस्य भारं न सहत इति भावः । भयमिहापरिचितदर्शनात् । विकारमिति पाठे तव सकम्पस्य स्तनभरस्य विकारं मध्यभागो न क्षमते। संकल्पसुखेष्वनेनोक्तप्रका- रेण खयैव कथितप्रार्थनासंपत्तिरेषोऽहं संस्तुतः परिचितो दासो विधेयः । प्रणयः प्रेम तद्रूपो वा प्रसादः ॥ २ ॥प्रेयानित्यादि । प्रेयान् प्रियतमो मनोरथसहने- वृतः प्रार्थितो यस्तया संकल्पादिष्वनुभूतः स एष सोऽयमित्यर्थ इति प्रागनुरागो- वेदः । अतः कृतज्ञतया पूर्वोपकारस्य सरणेनैव भद्रमभीष्टं विवाहरूपं कुरु । तत्र सामग्रीमाह-एतदमात्यगृहं केचित्सुप्ता केचित्प्रमत्ता जना यत्र तादृशम् । पाद ९२ जगद्धरकृता [अङ्क: ७ प. पृ० १७४ ६ हासु णामग्गहणसुमरणाई । तह असो तुए । ७ सलिलुप्पीडो मोह° । ८ भूमिविलग्गिदासिलदा- विट्ठ । ९ °दअन्तिआणिमित्तमेत्त । जीवलोओ महा। १७५ १ बुद्धर०-ववसिदं पिअसहीए सरीरेण । ४ श्वासिणी वीसम्मेण । ६ °बन्धसरिसं सृ० । ८ लवङ्गिआ भणादि । ९ पदं पिअसहीओ। ४ जणे अदिभूमि गदो अणुराओ । अवि अ तस्सि जणे भरिदुच्चरन्तकोदूह । ५ ओअणिउत्त । °दा- रुणाणङ्गदु० । ६ जीविदा संभाविअलि । विअ- म्भि० । ९-१० संकप्पसिवि० । १० जणं । सोवि०। १७७ १ पिअसहि, मुहुचणिन्नूढवि० । वित्थरन्तललिदणेत्त । २ तण्डऊप्पीलडम्बरपडिरूढमैरेअदप्पं विअ चि- रंणिझ्झाअदि मं किं अ० । ४ ०म्भीरतारधीर- णादभरि० । ४-५ °अह पप्फुरन्तपओहरुच्छलदु- तरीअअञ्चलावलम्बणपरिभवेण । ६ अ म स- मु० । सजिअंसुअं ओ०। ७ °डन्तविअडमेह । तमः । अन्धमिति पाठेऽन्धं करोतीत्यन्धम् । तम इत्यर्थः । उत्क्षिप्तमुत्तोलितमत एव मूकमशब्दं मणिप्रधान नूपुरं यथा तथैहि यामः । विवाहसंपादनायेति भावः। तत्र सुप्तादिना गृहलोकानामदर्शनं प्रौढान्धकारतया बहिर्लोकानामदर्शनम् । नूपुर- स्याप्यशब्दतया परवितर्काभाव इति गमनप्रत्यूह न स्यादिति दर्शितम् । प्रमत्त इति 'रदाभ्यां निष्टातो नः' इति नवं न भवति । 'न ध्याख्यापृमूछिमदाम्' इति निषे- धात् ॥ ३ ॥ मदयन्तिका । अत्रानेन मकरन्दसंमतिमाह-यत्रैव मालती । वर्तत इति शेषः। एतेनागामिनोङ्कस्यावतारः सूचितः । मदयन्तिका । अत्र पितृ. नैरपेक्ष्येण मालत्यात्मनिवेदनं यदि तदा ममापि तत्स्यादित्याशयः। बुद्धरक्षिता। अत्र च तथा प्रागेव मत्समक्ष बया मकरन्दायात्मा दत्तः । इदानीं कुतस्तेऽपास्य- मित्याशयः । खगृहत्यागदुःखादश्रुपातेन सूचितात्मानं मदयन्तिकामाह-अत्र तुभ्यमिति शेषः । अयेत्यादि । अद्योर्जितं सातिशयं कृत्वा मया विजितम् । सर्वकार्यसंपादनात् । सफलस्य यौवनस्याद्योत्सवः । अत एवान्यत्किम् । अपि ।

अङ्क ७] मालतीमाधवटीका ९३ पृ० प० १७८ १७९ १ वि अच्चाअरपअ० । ३ हसदि । दिउणबा । वेढणणिअन्तिदं पि० । ४ रुहोरम्फविअ०। ६ परिग्गहोवग्गिदुण्ण । च्छन्दविआसवि० । ७ मूलोवरिणिहि । अगअमणहरफंसणिभरुभमावि- दुसरीर० । ९ संभवलणमोहमन्थरभमन्तलोअणं किं वि०। १ ०मं अणभत्थणीअं अब्भत्थेदि। पिअ०।२ भविष झत्ति प० । ५ विब्भमुम्मीसहास । ५-६ रूविदं परिअणा०।६ णिज्जं दे णिअम्बस्स मूलं स अणिज- पच्छदवडाववारिदं भोदि किं ण। ८-९ पिअसही क्खु ईरिसाइं जेव्व मन्तिदुं जाणादि । २ मदअन्तिए, भणिस्सं दाणिं० । ६ °दुअ दुट्ठसर्लकवलादो क° । ०एव केरअस्स अत्तणो सरीरस्स। १० °दुदीअपहरणाडिआविच्छे । ११ “च्छिअ से पाद । २ °लदि, विप्पबुद्धा । ३. अम्हो, अण्णं जेब किं- पि एदं व । ५-६ °मते विसोढुमुत्कम्पितं स्तनभ- १८० १८१ १८२ रस्य न०। तु न किमपि साध्यमस्तीति शेषः । यस्य मम बान्धवधुरा मित्रकृत्यं कामदेवेन सम्यग्धृता । प्रसन्नतया सुमुखेन । एवकारोऽप्यत एव । यदि माधवसंगतेयं स्यात्तदा मया सर्वाकार जितं न स्यादिति भावः। कन्यावरणे बान्धवा एव भवन्ति । यदाह-कन्याया वरणे मातापितरौ बान्धवा अपि' ॥४॥ पक्षद्वार खडकिका ॥ 'अर्धरात्रनिशीथौ द्वौ' इत्यमरः ॥ प्रासादानामिति । अयं वायुस्तरुणानां नूतनस्त्रीसमागमं प्रकाशयति । अनेन मदयन्तिकाप्रोत्साहनमुक्तम् । कीदृशः । उक्तस्थानेषु भ्रान्बावृत्तः । आदौ भ्रान्तः पुनरावृत्त आयातः । अनेन मन्दत्वम् । भ्रान्खा भ्रमणेनायात इति वा । परिणतपुष्परसगन्धसमूहबन्धुः । पुष्पसजा हृष्ट- सुरभिर्वा । मुहुरुपचितोऽत्यर्थ प्रवृद्धः । स्फारो दीर्वतया बृहत्तरः । कर्पूरसंपकी ३० माल.

९४ जगद्धरकृता [अङ्क ७ पृ० प० १८३ १२ यस्य प्रसा । °समुद्धृते । १८४ १ द्वारेण निर्गत्य साध । ६ प्रान्त्वा वृत्तः परि । ७ चितस्फारकर्पू । ८ वायुयूनामभिनववधू । इति नन्दनविप्रलम्भो नाम सप्तमोऽङ्कः। च । पश्चात्कर्मधारयः । यद्वा कर्पूरविशेषणमेव द्वयम् । एभिरतिसौगन्ध्ये ध्वनिते । यतोऽतिमनोहरोऽतः नवस्त्रीसांनिध्यकर इति भावः । उपहितम्लानेति पाठेऽपि कर्मधारयः ॥५॥ प्रासोष्ट यं रत्नधरो द्विजेशो द्विजेशवन्या दमयन्तिकापि । जगद्धरं तत्कृतटिप्पणेऽङ्कोऽगमन्मनोहारिणि सप्तमोऽयम् ॥ इति सप्तमोऽ।

अष्टमोऽङ्कः। पृ० १८५ ९ वर्तते हि । १४ °सान्द्रो माकरन्दः परा । १८६ ३ मित्यद्यानिमित्तमन्यथैव सं०। ८ यि निरनुरोधे, तदेवं मदयन्तिकामादाय मकरन्दे माधवान्तिकं चलिते मालतीमादाय निर्ग. तस्य माधवस्य कामन्दकीगृहस्थितस्य वार्ताप्रस्तावनायावलोकिताप्रवेशः । सूचनं च पूर्वाङ्के । जहिं जेव्व मालतीति वचनेन मालतीमाधवयोरेकत्रवासः सूचितः। तत्र च यद्यपि तयोरेव प्रवेशोऽर्हति तथापि कन्याप्रलोभने सख्यानुकूल्ये तत्प्रवेश इति पूर्वाके कृतमेव । अवलोकिता । अत्र 'सरो वापी तु दीर्घिका' इत्यमरः । दलयतीत्यादि । अयं चान्द्र उद्योत उद्गच्छन्नत एव शुष्यत्प्रगल्भतालीपत्रव- त्पाण्डुरस्तिमिरसङ्घ खण्डयति । प्रथमतो व्योनि वायुवेगेनोर्ध्वमुखीभूय प्रचलितः घनः केतकीपराग इव । इन्दोरयमैन्दवः । मन्दमन्दमिति प्रचलनक्रियाविशेषणम् । उपवर्तये संमुखीकरोमि ॥ १॥ निश्चोतन्त इत्यादि । हे सुशरीरे, यावदेते कबरीजलबिन्दवः स्रवन्ति, यावत्कुचकलिकयोर्मध्य आर्द्रता न त्यजति, यावच्च निबिडव्यापि रोमाञ्चं प्रकाशयन्ती काययष्टिस्तावद्गाढं यथा तथा सकृदपि मेऽङ्क- पालि क्रोडप्रदेशं देहि । अतः प्रसीद । तदिह निदाघतापशान्तये जलबिन्दवः । कुचाता पुलकोद्गमश्च सर्वाङ्गशैल्यापत्तये । यावत्तावच्छब्दाववध्यौँ । सान्द्रेत्यादि- पदे कर्मधारयमवर्थीयाद्बहुव्रीहिरेवेष्टो लघुत्वादिति न्यायेन बहुव्रीहिसंभवे कथं मखीय इति न देश्यम् । एतद्वचनस्य प्रायिकखात् । तथैव नानाप्रयोगदर्शना- दिति दिक् । 'पालिः पतिप्रदेशयोः' इति शाश्वतः ॥ २ ॥ जीवयन्नित्यादि । बाहुः कण्ठेऽर्प्यताम् । कीदृशः । समूढं सद्योजातं पुजितं वा यत्साध्वसं भयं तेन खेदबिन्दुर्यत्र सः । अननुभूततया भयम् । चान्द्रकरस्पृष्टोऽत एव स्यन्दी क्षर- न्बालचन्द्रकान्तहारस्तत्तुल्यः । धर्मविघातकलात् । अत एव सौहित्याजीवयन्निव । 'समूढः पुजिते भुमे सद्योजाते सुनिश्चिते' इति विश्वः । ससाध्वसश्रमेति पाठे ससाधसो भयवान्यः श्रम इत्यर्थः । संविभागो मेदः । अभाजनमस्थानम् । अजहल्लिङ्गोऽयम् । अयं जन इत्यनेन दीनतोद्भावनेनानुकूल्यं खीयमाह । भवत्या इत्यनेन नायिकोत्तेजनम् ॥ ३ ॥ दग्धमित्यादि । चिरं दक्षिणवायुचन्द्रकरैस्ता- पितं मे वपुरालिङ्गय न चेन्निर्वापितमतप्तीकृतं तदा समदकोकिलरवपीडिता मे श्रुतिः कर्णोऽयेदानी हृद्यां वाचं पिबतु । सादरं शृणोलियर्थः । अत एव वाड्याधुर्य- द्योतनाय किंनरकण्ठि इति संबोधनम् । हे किंनरस्येव कण्ठः खरो यस्यास्तादृशि । 'खरे कण्ठः प्रकीर्तितः' इति रनकोशः । अङ्गकण्ठगात्रेषूपसंख्यानान्कीए । पूर्वार्धे तुशब्दो यद्यर्थः । द्वितीये पुनरर्थः । यदि नालिङ्गनं देयं तदा मधुरमालपेति भावः । नाम संभावनायाम् । आलिङ्गनादानं संभाव्यते । यतः खयि वदन्या - जगद्धरकृता [अङ्क ८ । पृ० प० १८७ १३ जेण विच्छडिआसे । १८८ ४ भगवतीप्रधानान्ते वा । ५ वैदग्ध्यम् । अक्षय्यश्च सुभाषितरत्नकोषः । १८९ २ तार्थमन्थरस्य वचः । ८ बाहुप्पीलमन्थरं रोदिसि । १० पउत्तिलम्भो वि मे दुल्ल । १९० १ ०एव्व सवधोवण्णा । ४ °मुपगत्य नन्दनावासप्र । ५ यत्नः सफलो। ७ अवलोकिता-कुदो संदेहो महाणुभावस्स । पढम०। ८ मोहविराममहूसवं णिवे । कलकोकिलरवोऽपि कर्णकटुरित्यनुरागाधिष्यमात्मन उक्तम् । इहाद्यपदमिदानी. मर्थे । अन्यथा निशीथवर्णनेऽद्यास्मिनहनीयस्यानर्थक्यापत्तेः। एवं चायास्मिन्नहनीति व्युत्पत्तिः प्रायिका ॥ ४ ॥ अवलोकिता । अत्र यदिदानीमिति वाक्यभूषा- याम् । भणनखरूपमेवाह-चिरयतीतिसंभावयेरितीत्यन्तम् । सांप्रतमिति शिरश्चा- लनकाको । चिरयति विलम्बते । विच्छदितं त्यक्तम् । विघ्नमिति क्रियाविशेषणम् । परिणाम इति । या वं चिरविरहमसहमाना माधवार्थिनी सा कथमधुना तत्र वाग्यमनमालम्बस इति भावः । असूया गुणेषु दोषारोपः। सा चेह रहस्यनिवेदना- दिति भावः । माधवः । सर्वतोमुखं सर्वतोगामि । सुभाषितान्येव रत्नानि तेषां कोषः पात्रम् । 'कोषोऽस्त्री कुमले पात्रे' इति मेदिनीकारः । प्रियेत्यादि प्रश्न. वाक्यम् ॥ मूर्धकम्म उक्तनिषेधाय । माधवः । शापितासि शपथीकृतासि । अनवसितोऽनिश्चितः । किमेतदिति वक्ष्यमाणवाक्यार्थस्य प्रश्नः । बाष्पेत्यादि । हरिणाझ्या एष कपोलो बाष्पजलेन सपदि प्रक्षाल्यते अत एव विमलः । किमे. तत् । यत्र चन्द्रो राजते । कीहक् । गण्डूषेण मुखपूरणेन पातव्यं दीप्त्यमृतं पातुमि- च्छुरिव निहितः किरण एव मृणालदण्डो येन सः । किरणरूपमृणाललतिकया पातुमिच्छतीत्यर्थः । अनेन कपोलस्य चन्द्राधिककान्तिमत्त्वमुक्तम् । 'गण्डूषो मुखपूर्ती स्यात्' इति शाश्वतः ॥५॥ अवलोकिता । अत्रोच्छलितो बहुलीभ- वन् । मन्थरमिति क्रियाविशेषणम् । मालती । अत्रासंनिधानदुःखमसंगमेन जनितक्लेशम् । प्रवृत्तिलम्भो वार्ताप्राप्तिः । 'वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्याद- थाहृयः' इत्यमरः । अवलोकिता । अत्र निवेदयन्त्या मालत्या इत्यन्वयः । मालत्या इति षष्ठ्यन्तम् । मालत्याः कृत इत्यर्थः । माधवः। अनुयुक्तः पृष्टः । खकीयहृदयालोकनमागामिश्लोकस्थरसद्योतनाय । प्रसवः पुष्पम् । प्रेम्णेत्यादि। या माला प्रियसख्या लवङ्गिकया हस्तेनोपनीता मथितेति हेतोः प्रेम्णानया मालत्या पीनकुचघटमुकुलस्य भरो यत्र तेन क्रोडेन सह संभाविता संभावना नीता ततो नन्दनेन सह विवाहे संप्राप्ते मा प्रति निरस्तप्रत्याशया लवङ्गिकेयमित्यधिगते मय्येव यथा सर्वखदानं कृतम् । अनेन पूर्वानुरागकथनेन नायिकाविसम्म उक्तः। ।

अङ्क ८] मालतीमाधवटीका। प० ९ किदं हिअअं। जइ को वि तुमं संप० । १००न्ति आलम्भेण वढावेदि तदा तस्स० । १२ °साक्षिणः काम। १९१ १ मथितेति या प्रियसखीहस्तोपनीतानया० । ३ प्राप्ते त्वथ °पा। ४ °सर्वखदायी कृता । ६ माला । तदो अवहिदा भव । मा दाणिं एसा सहसज्जेव परहत्थगदा भविस्सदि त्ति । १९२ ३ °णिन्बूढो खु भअ० । ५ अम्महे, पिअ० । ११ अम्हेहिं महत्तो कल । १९३ २ ननु स एवासौ किमित्यवस्था भवति । एका । ५ लालसस्याहवे । ६ स्फुरत्कर० । १० °णाम अ- णाहदा पडिणि । १३ उत्तन्तं कहेध । तुमं । विस्तारः परिणाहः । कुम्भपदेनोन्नतता । कुङमलपदेन मृदुता । भरशब्देन प्रौढि- रुका । पाणिपीडनं विवाहः । दीयत इति दायः ॥ ६ ॥ अवलोकिता। अत्र येनैव मकरन्दस्य मदयन्तिकालाभः कथनीयस्तेनैवेयं प्राप्या । अतस्वमेव तं कथयेति गुप्या माधवेन सहात्मानं संभावयेत्याशयः। मालती। तथा चाहमेवं कथयामीति भावः । अवलोकिता। अत्र श्रूयत इति भावः । मालती । अत्र मकरन्दस्य मदयन्तिकाविवाहेनेत्यर्थः । इदं वचनं मालत्या माधवं प्रति । माधवः । प्रियं न इति । आलापलाभेनातिप्रियमित्यर्थः । अवलोकिता। अत्र नियूंढो निर्वाहं नीतः । खलु निश्चये । संभावना प्रतिष्ठा । मालती । अम्महे विस्मये । लवङ्गिका । अत्राभियोगः अवस्कन्दः । कलहंसः। अत्र पारक्यं परकीयम् । माधवः। खागतं कुशलम् । स एव प्रसिद्धपौरुषः । असौ मकरन्दः । यत्किंचिदिति न गणनीयमित्यर्थः । हरेरित्यादि । हरेः सिंहस्य स उकगुणः कर एव सखा द्वितीयो भवति । विक्रमे कर्तव्ये । नान्यमत्रापेक्षत इत्यर्थः । करः कीदृशः। अतिपराक्रमप्रश्रये सतृष्णः । शब्दायमाननखैः प्रचण्डः । स्फुटतः करटस्य गण्डस्थलस्य मध्याच्युतेन मदजलेन सितमुखहस्तिराजमस्तक- स्थितास्थिविदारणे श्रेष्ठवीरः। तथा च सखा मकरन्दः सिंह इव साहसे द्वितीयानपेक्ष इत्यर्थः । 'काकेभगण्डौ करटौ' इत्यमरः । 'निष्कुहः कोटर वा ना' इत्यपि ॥ ७ ॥ विक्रान्तस्य वीरस्य सुतं गतिविशेषं विलसतः कुर्वतः । प्रत्यनन्तरो द्वितीयः । मालती। अत्र वाममनिष्टम् । अवामो दक्षिणः । दक्षिणाक्षिस्पन्दनं ९८ जगद्धरकृता [अङ्कः ८ प. १९४ ४ अप्पमत्ता परि० । कहं वेला गमीअदुत्ति । होदु । ६ मे वामेतरेण लोअणेण।११ त्वद्वत्सलः क स तप। १९५ १ °चकिता वनवर्ति। २०किं चेष्टसे ननु शिरात्कव। ३ तमुत्तीर्य लवशो लवश एनां निकृत्य दुःखमरणां क० । अणुगमिस्सं० । १० °सुणिअ साधिक्खेवं दूरणिक्खेराविद्धविअडोरुदण्ड । १९६ २ मच्छराधिक्खेवो तक्ख० । ३ पोढपाइक्कणिवहो चन्दादवेण सोहसिह । ८ ०पेक्खामि । अवि णाम उज्जा। स्त्रीणामनिष्टसूचकमिति भावः । अनेन कपालकुण्डलाप्रवेशोऽपि सूचितः ॥ त्वदित्यादि । ननु हे, स खप्रियः क वर्तते । तापसजनस्याघोरघण्टस्य घातकः कन्याया विटोऽतिकामुकोऽसौ वां रक्षतु । अत एव पातीति पतिः । यच्चिराय कवलितासि किं चेष्टसे वनवर्तिकेव । श्येनः 'सैवान' इति ख्यातःपक्षी तस्यावपातो. ऽतिवेगस्तेन त्रस्तारण्यवर्तिका यथेत्यर्थः । 'वर्तको वर्तिकादयः' इत्यमरः । अत्र वनग्रहणेन वर्तिकायाः खकुलवेष्टितत्वमुक्तम् । एतस्यास्तद्वैपरीत्यमिति भावः । यद्वा वनेनारक्षितलेन वर्तिकाया अतिभीरुखमुक्तम् । यद्वा वनावस्थानेन वर्ति- काया एकाकिनीवमुक्तम् । अत एव मालत्यपि तथेति साम्यम् । नववर्तिकेयपि ॥ ८ ॥ लवशो लवशोऽनेककणान् कृला । आक्षिप्य गृहीला । मदयन्तिका । अत्रापिः प्रश्ने । संभावितो लब्धः । लवङ्गिका । अत्र उपनि. र्गमः समीपगमनम् । एतेन मार्गस्य शून्यत्वमुक्तम् । अवक्षेपोऽवहेला । अपविद्ध- माकान्तम् । विशालोख्युगलदण्डाभ्यां निर्भर गाढं यथा तथा धाविवेत्यर्थः । अनीकं सैन्यम् । पिआ दुहिता । विप्रलम्भो वचनम् । चन्द्रातपश्चन्द्रप्रकाशः। मालत्या वियोगदशायां तापकलेनानुभवादातप इत्युक्तम् । मच्यते पौरलोकेनैव । मदयन्तिका । अत्र प्रसृता निर्गता । अहं प्रसृतेत्यन्वयः । अपीत्यादि शङ्का- याम् । लवङ्गिका । अत्र नन्वहम् । अव्ययवादनेकार्थत्वम् । तथा च मद्वचन. मपि न शृणोषीत्यर्थः । कलहंसकः । अत्र हीमाणहे इति हे मातरितिवनीचस्य हर्षाश्चर्ये । पश्यामीव परबलमित्यन्वयः । धौतो निशितः। तरवारिः खगः । विडुरिल्लं भीषणम् । कलितः खीकृतः । 'कलिवली कामधेनू' इति शाब्दिकाः । 'कामपालो हलायुधः' इत्यमरः । आविद्धा वक्र प्रेरिता । हेला क्रीडा । कलिन्द- तनया यमुना । संनिभमिति यथा बलेन हलाकृष्टा यमुना प्रतीपमागता तथा पर. बलमपीति भावः । विस्तारेण वा बलस्य ताहग्यमुनासाम्यम् । विकटं विस्तीर्ण यथा तथा । विशालः खच्छन्दः । आपतितः संमुखागतः । निर्दयो निष्करुणः। । पाठः ।

अङ्क ८] मालतीमाधवटीका। ९९ पृ० प० १९७ १ कुसलेन अम्हे णिग्गदा सं० । २ °घट्टदुग्गमादो। २-६ हीमाणहे, पेक्खामि विअ णिम्मलणिरन्तरुद्धू- दधोदतरवारिधारापरिप्फुरिदचन्दकिरणुजलविड्डरिल्ल- दंसणं मदलीलाकलिदकामवालविअडभुअदण्डावि- द्धहलहेलाविक्खुभिदुव्वेल्लिदतरङ्गकलिन्दतणआसोतसं- णिहं विअडविसंखलुप्पडिदणिद्दआमन्दमअरन्दवइअर- क्खोहविअलपडिजोहपरिवत्तणुग्गदसमत्थगअणतणाव- आसओसरन्तकलअलं पाइक्कसमूह । ९-१० °वज्जसज्ज- रिदपञ्जरोवसण्णसुहडहत्था । होवमद्दसमोसारिअसेणि- अणिअरं पाइकरिकमग्गसंचारणिवत्तिदविसमसमरसा- हसं णाहमाहवं । अहो गुणा । १९८ १-२ सिहरं तरिदावदि० । ०ण्णासपडिसामिदविरोहसंकडो उवणीदमाहवमअरन्दमुहचन्दे वारंवारं संचारिअसि- णि । ३ जणं जणिअ णिव्व० । ४ मच्छरवेल । ५ ०ण्णासेण किं० । ६ ष्णवदंसणगुणा । जामादुकेहि अपरितोसोत्ति पडि० १२ । संचयगलत्क० । १३ न- नुपत्य० । अमन्दः सखरः । व्यतिकरेण मिलनेन क्षोभः । परिवर्तनेन पलायनेन । उद्गत उत्थितः । विशङ्कलितो व्याप्तः । 'दोर्दोषा भुजाभुजः' इति शब्दप्रकाशः । जर्ज- रितपजरा अत एवापसृताः पलायिताः । ओअल्लोऽपसृतः । हस्तेभ्योऽवलुप्त आ. च्छेदितः । विकटो विषमः । अपसारः पलायनम् । रिक्तः शुन्यः । सौधेति । प्रतीहारेण सौधानादवतीर्य तयोः स्वरूपं ज्ञाखा तदुपन्यासः कृत इत्यर्थः । अभि- जनो वंशः । बहुमानः संमानः । तावानीय दृष्ट्वा तयोः सापराधयोरपि गुणानुरा- गादतिगौरवमेव राज्ञा कृतमिति भावः । न परितोष इति नः शिरचालने । मकरन्दः । प्रेयसः प्रीतस्य । मकरन्दस्वेत्यर्थः । निर्व्याजं वास्तवम् । ऊर्जितं बलवत् । दोरित्यादि । प्रेयसो युद्धार्णवस्य पन्था अग्र एवमभूत् । द्वेधा पार्श्व- द्वये स्तम्भितया पत्तिपतथा भयंकरः। प्रेयसः कीदृशस्य । बाहुसंचूर्णनत्रुटितसं. घिस्फुटत्कङ्कालं यथा तथा प्रथमं वीरानुन्मनतोऽभिभवतः । इतरत्र तदीयायुधानि गृहीला पराक्रमं कुर्वतः । इदं विशेषणद्वयं योग्यतया प्रेयस्य इत्यस्य । संख्योदधेः कीदृशस्य । स्फुरन्नरमुण्डखण्डसमूहव्याप्तस्य ॥ ९॥ अद्येत्यादि । यै रात्र्युत्सवे । -

जगद्धरकृता
[अङ्क ८
पृ० प०
४ खण्डखचितं० । ७ सारविधुरा । १० कथ्यमानं
श्रोतुमिच्छामि । तथा च, [भत्र 'कथयतीत्यादि' पद्यम् ।]
(इति परिकामतः।)
१९ मुद्यानवाटः कथं शून्य एव दीर्घिकाप्रदेशः । म-
करन्द:-वयस्य, नूनमस्मद्व्यतिकरोद्वेगपर्याकुलत्वादि-
तस्ततः परिभ्रमन्त्य आत्मनोऽत्रैवोद्यानगहने विनोदय-
त्यो भविष्यन्ति ।
२०० १० द्रवति हृदयमन्तभ्रंश्यतीवान्तरात्मा । १२ वचनमिह
भव।
२०१ ४-५ पसरिदा । पच्चादो अम्हे ण तं पेक्खामो ।
तदो अम्हेहिं जाव विडवन्तराई विचिणिदाई ताव
तुम्हेदि । १४ जानासि माधवस्नेह ।
चन्द्रकिरणखण्डखचितं क्रीडालिङ्गनदातृवनितागण्डूषावशिष्टं मधु पीतमयैव ते
संप्रत्येव लोकान्बाहुल्येन तुच्छविकलाञ्शरीरैः कथयन्ति । कीदृशैः । त्वदीयभुजा-
र्गलप्रबलताडनात्रुटितास्थिभिः। तथा च क्षणदृष्टनष्टमुग्धवेष्टिताः प्राक्कनकर्मायजा
जना इति भावः ॥ १० ॥ कथयतीत्यादि । यि कथयति सति वदनपद्म-
सखी मालत्या एव मदयन्तिका नमयिष्यति । कीदृशम् । सहासमालतीचञ्चलप-
श्मकटाक्षैः पराहतम् । उद्गतलज्जानिश्चलदृष्टिं च । मदयन्तिकानिमित्तयुद्धश्रवणेन
मालत्या हासः ॥ ११॥ लवङ्गिकामदयन्तिके। अत्रानेनावाभ्यां समर्थिता
मालती । अधुना तु युवयोरवलोकनेनावां वञ्चिते इत्यर्थः । माधवः । कथामिति
त्रासे । कथमप्यनिर्वचनीयेन रूपेण ध्वंसते स्थिति न बध्नाति । ममेत्यादि ।
यतोऽयं ममान्तरात्मात्यर्थमनुगतोत्कम्प एवास्ति । कीदृशस्य । पद्माक्षी प्रत्यनि-
ढकमतेः । मम वामं चक्षुः स्फुरति च । इह भवत्योर्वचनम् । कष्टमेतदुःखदायि ।
हा कष्टे । सर्वथा हतोऽस्मि । अन्तरात्मनोऽशकुनस्य भवद्वचनस्य चैकमत्यादिति
भावः ॥ १२ ॥ मदयन्तिका । अत्र पश्चादावां प्रसृते इत्यन्वयः। विचितान्य-
न्विष्टानि । किमपीत्यादि । मालेभ्योऽन्यदनिष्टं किमप्यनिर्वचनीयं यद्यस्मा-
त्परिहासादहं शङ्के स परिहासो विरमतु । परिहासेन तव निहवेऽनिष्टं शङ्केऽतखं
मुञ्चेति भावः । हे चण्डि कोपने, समुत्सुकोऽस्मि यतः। तथा च कोपेनापि निहवं
मा कुर्वित्याशयः। अथ मामनेन प्रकारेण कलयसि जिज्ञाससे तर्हि कलितो ज्ञातो.
ऽहम् । हे वल्लमे, वाचं देहि। बमेव मे वल्लभा अतो वदेत्यर्थः । विह्वलमधीर सन्म-
मचित्तमन्तधमति स्थिति न लभते । अत एव सोपालम्भमाह निष्करुणासि ॥१३॥

अङ्कः ८] मालतीमाधवटीका। १०१ पृ० प० २०२ २ तावत्पश्यावः । ६ सखी नो । ७ जीवन्त्युपेष्यति न इति मालत्यपहारो नाम अष्टमोऽङ्कः। मकरन्दः । वैक्लव्यं दुःखितम् । माधवः । कातर्थ कातरलं तेन चेष्टितानि प्राणत्यागादीनि । यातेत्यादि । अस्माकं सखी भगवतीगृहं यदि गता भवेत्तदा जीवन्ती समागमिष्यति । न वा गता तदा नागमिष्यतीत्याशङ्कितोऽस्मि । तत्र हेतुः । बन्धुजनमित्रप्रियाणां संगम आदौ यस्य तत्सौख्यं बाहुल्येन विद्युत्स्फुरण- चश्चलमेव भवति । तदिह भगवतीपादमूलेति साधारणपदोल्लेखेन मालत्या भविष्य- सौदामिनीपार्श्वगमनस्य सूचनेन नवमाङ्कावतारोऽपि सूचितः । अत एवाकावता- रोऽयम् । यदाह-'समाप्यमान एकस्मिन्नङ्केऽन्यस्य च सूचनम् । समासतो हि नाट्यज्ञैरङ्कावतार उच्यते ॥ सुहृन्मित्रम् प्रियं प्रीतिविषयं मनोज्ञं वस्तु ॥ १४ ॥ सूते स्म यं रत्नधरोऽतिमान्यो द्विजेष्टमान्या मदयन्तिकापि । जगद्धरं तत्कृतटिप्पणेऽको गतोऽष्टमोऽयं रसरम्यरूपः ॥ इत्यष्टमोऽङ्कः।

नवमोऽङ्कः। पृ० प० २०३ ३-४ पर्वतादुत्पत्य पद्मावतीमुपाश्रिता । माल । ५-६ प्रदेशमधितिष्ठतो माधवस्याधुनान्तिकं० । ६ °सकल एष । ७ परिषिच्यते । अधुना पूर्वसूचितसौदामिन्या मालतीजीवननिवेदनेन माधवप्रत्युज्जीवनाय प्रवे. शमाह-तत इति । नानासिद्धिस्थानत्वेन देवतात्मकतया भगवत्पदं श्रीपर्वते। संस्तुतः परिचितः। द्रोणी नद्या मध्यम् । तथेत्यनेनोत्पतनस्य दूरत्वमुक्तम् । व्यति- करः समूहः । परिक्षिप्यत इव नेत्रमण्डले प्रविष्टीक्रियत इव । पद्मावतीत्यादि । पद्मावती पुरी गगनमिव धारयति । विमलवारिरच्छजला महती सिन्धुश्व पारा च सरिती तयोः परिकरो वेष्टनं तद्व्याजात् । उच्छ्रितप्रासाददेवकुलपुरद्वाराट्टालिकानां घर्षणेनादौ विदीर्ण ततो विशेषेणोभयतस्त्यक्तम् । उत्तुङ्गसौधादय आकाशं पाट- यिला निर्गताः । अथ नदीच्छलेन तदाकाशं पतितमिवेत्यर्थः ॥ १॥ सैषेत्यादि। सैषा लवणा नदीमेदो विभाति । मनोज्ञकल्लोलावलिः । वर्षासु यस्या गवां गर्भि- णीनां प्रिया नवा योलपमाला तृणविशेषराजितां बिभ्रति । ताच्छील्ये णिनिः। अत एव सेव्याः परिशीलकसुखदाः समीपवनपतयो लोकहर्षाय भवन्तीति । सैषेत्यनेन पूर्वदृष्टवमुक्तम्।अपो बिभर्तीत्यभ्रम् , अभ्रति गच्छति वेत्यभ्रम् । अतो बकारयुक्तं तद् । अयुक्तं चेदं पदमित्यवधेयम् । 'चतुष्पादो गर्भिण्या' इति समासः। 'उलपो ना तृणान्तरे' इति मेदिनीकारः । मालभारीत्यत्र 'इष्टकेषीकामालानां चिततूलभा. रिषु' इति हखः॥२॥ रसातलतटः पृथ्वीतटः । तलशब्दः खरूपे। प्रपातोऽतटम् । यद्वा तटे प्रपातोऽतिशयितं पतनम् ॥ यत्रत्येत्यादि । यदीय एष महाध्वनिः सिन्धोः पर्यन्तगिरिकुजेषु वर्धमानविघ्नेशगलध्वनिसाम्यं गच्छति । तस्य गजास्यखेन गभी- रध्वनिखात् । कीदृशः । जलपूर्णगमीरनवमेघध्वनिवत्प्रचण्डः । 'तुमुलो महति स्मृतः' इति विश्वः ॥३॥ चन्दनं रक्तचन्दनं देवदारुा उपचारात् । अन्य- थास्य मलयजलविरोधात् । अश्वकर्णो वृक्षभेदः । प्रायःशब्दः प्रमृत्यर्थों बाहु- ल्यार्थों वा । परिणतं पक्कम् । मालूरं बिल्वफलम् । तरुणो वृक्षमेदः । अवनद्धो धृतः । उद्गारः प्रतिशब्दः । गोदावरी नदीभेदः । मेखला नितम्बः । भूधरान्मल- यादीन् । सौदामिन्या दक्षिणदेशवासित्वेन स्मरणम् । मधुमतीसिन्ध्वोर्नद्योः संमेदः संगमस्तस्य पावनः पावित्र्यहेतुः । खयंभूसंनिधानस्य महातीर्थहेतुखात् । अपरिमिताज्ञाता पुरुषकृता प्रतिष्ठा स्थितिर्यस्य । एतेन खयंभूवमुक्तम् । आख्यानं प्रसिद्धिः॥अदृष्टार्थ शिवनुतिमाह-जयेति। भुवनानां कार्यजाताना भावन उत्पा- दक, दीव्यतीति देव द्युतियुक्त, भगवन् , भगं तत्त्वज्ञानं तद्युक्त । तथाच रागद्वेषादि- रहित इत्यर्थः । स्तुतिफलमाह-अखिलवरान्भुक्तिमुक्त्यादीन्ददाति तादृशो निगमो अङ्क ९] मालतीमाधवटीका। १०३ पृ० प० २०४ ४ °लवणा ललितो। ९ तुमुलो ध्वनि। ११०विनृ- म्भमाणो । १३ एताश्च चन्दनाश्च कर्णकेसरपाट । १४ स्मारयन्ति खलु तरुण । °वनावबद्धान्धः । वेदस्त निधे तत्कर्तः। यद्वा निगम आविर्भावस्खदाश्रय । तथा च वेदद्वाराविर्भा- वेन जगदुपकारक इत्यर्थः । मनोज्ञचन्द्रभूषण । तथा च वेदकारणाय कृतशरीर- परिग्रह इत्यर्थः । तर्हि पौरुषेयवाद्वेदाप्रामाण्यं स्यादित्यत आह-मदनेति । सर्वदो. षनिधेः कामस्य नाशन निर्दोष । अत एव भगवन् । तथा च नोकदोषः । आदौ सर्गादौ गुरो । ब्रह्मादीनामित्यर्थात् । तथा च वेदस्य भगवत्कर्तृवमायाति ॥४॥ अयमित्यादि । अयं गिरिनॆत्रयोर्हर्ष ददाति । कीदृशः। नवीनमेघश्यामतुङ्ग- सानुः । हर्षप्रीतमयूरस्त्रीकृता संसक्का मिलिता केका मयूरवाणी यत्र सः । शकुनिभिः पक्षिभिः शबला कचरा ये नीडानोकहाः पक्षिवासवृक्षास्तैः स्निग्धं वर्म शरीर यस्य सः। तरूणां पक्षिव्याप्तलेनाशेषपक्षिणो नीड एव वसन्तीति भावः । बृहदश्मा विपुलशिला। केका वाणी मयूरस्य' इत्यमरः। 'शबलैताश्च कर्बुरे' इति च । 'कुलायो नीडमस्त्रियाम्' इति च । 'अनोकहः कुटः शालः' इति च । 'शरीरं वर्म विग्रहः' इति च ॥ ५॥ दधतीत्यादि । अत्र गिरौ गुहावासिना तरुणभल्छुकानामम्बूक- तानि सश्लेष्मकघूत्कारध्वनयोऽनुरसितेन प्रतिरवेण स्थूलानि स्त्यानं घनता दधति । शल्लकीनां वृक्षभेदानां गजखण्डितविस्तीर्णसंधिपर्वनिर्गतगन्धः स्त्यायते निबिडीभ- वति । निष्यन्दः स्पर्शाच्छिशिरः शीतो रसतः कटुः कषायः । स्त्यानमिति भाव. प्रधानो निर्देशः । 'अम्बूकृतं सनिष्ठीवम्' इत्यमरः ॥ ६॥ काश्मा इत्यादि। गम्भार्याः सकाशात्कृतमालमारग्वधवृक्षमुद्भूतपत्रम् । धनच्छायमिति यावत् । कोयष्टिकः 'कोवा' इति ख्यातः पक्षी टीकते गच्छति । गम्भार्या अल्पपत्रलात् । यद्वा कृता संपन्ना माला वृक्षपतिर्यत्र तं प्रदेशं गच्छतीत्यर्थः । तीरस्थोऽश्मन्त. कस्तीराश्मन्तकः । शाकपार्थिवादिः । 'अश्मन्तकोल्लकोला' इति ख्यात आम्रा- तको वा वीरणं वा तस्य शिम्बिः शिखा लतामेदो वा तस्याथुम्बनं चुम्बनक- रणं सुखं यासां तादृशाः पूर्णिकाः पक्षिजातयोऽपः पानीयानि धावन्ति गच्छन्ति । ग्रीष्मतप्तास्ता नीडं विहाय जलमनुगच्छन्तीत्यर्थः । यद्वा तीराश्मन्तकं वीरवर्ति- वीरणमपःपूर्णिकाः कुम्भीरमक्षिका धावन्ति व्रजन्ति । प्रीष्मतप्तजलं त्यक्खा तीर. वीरणादिच्छायामनुसरन्तीत्यर्थः । यद्वा अश्मन्तकं शिशिपावृक्षतस्य शिम्बिरम- मित्यर्थः । तिनिशस्याविमुक्ताख्यवृक्षस्य छिद्रवति स्कन्धे प्रकाण्डे छायासेवनार्थ दात्यूहैः पक्षिभेदैः 'कोण्डाडाडक' इति ख्यातैर्निलीय स्थितम् । वीरुल्लता नीहं वासो यस कपोतस्य पाण्डुनामपक्षिणः शब्दितं लक्षीकृत्य कुकुभा अधस्तरूणां रुदन्ति । ग्रीष्मतापात्कपोता निजनीडवासिनः कुक्कुभाश्च तृषार्ता रुदन्तीत्यर्थः । जातिखभाव एवासौ । यद्वा कुकुभाः क्रन्दन्याहादयन्ति । अहो कपोतरुतमि- १०४ जगद्धरकृता। [अङ्क: ९ ५० २०५ १-२ शुरुनिकुञ्जगम्भीरगहरोद्गारगोदा।२ मुखरित- स्निग्धविशा । ११ अपि च । दध । - त्यभिलषन्तीत्यर्थः । 'गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका' इत्यमरः । 'आर- ग्वधे राजवृक्षशम्याकचतुरङ्गुलाः। आरेवतव्याधिघातकृतमालसुवर्णकाः' इति च । 'कोयष्टिकष्टिभिकः' इत्यपि । 'आम्रातकेऽम्लिकायामश्मन्तको वीरणेऽपि च । शिंशपाश्मन्तकं प्राहुः' इति धरणिः । 'शिम्बिः शिखा लतामेदः' इति विश्वः । 'नासाच्छिन्यां तु पूर्णिका' इति च । पूर्णिका पल्लीति ख्याता पतविजेति ख्याता वा । 'अपःपूर्णिका कुम्भीरमक्षिका' इत्यपि धरणिः । 'दात्यूहः कालकण्टकः' इत्यमरः । 'तिनिशे स्यन्दनो नेमी रथगुरतिमुक्तकः' इति च । 'अस्त्री प्रकाण्डः स्कन्धः स्यात्' इति च । 'तित्तिरिः कुक्कुभो लावः' इति च । मयूरप्रमाणोऽयं पक्षी ॥ ७ ॥ तदित्युपसंहारे । विष्कम्भक इति । शुद्धविष्कम्भकोऽयम् । यदाह-'शुद्धो मध्यमपात्रेण संस्कृतोक्त्या निबध्यते' इति ॥ न यत्रेत्यादि । यैरस्माभिस्तादृशं राजसैन्यं जितमिमे वयं स्रष्टुम्यिाद्विपत्तौ पुनःपुनर्वर्तामहे । यत्र विपत्तौ चित्तम् । कर्तृ । प्रत्याशा नानुगच्छति न वा त्यजति । अन्वयव्यति- रेकानिश्चयात् । तथा च सा जीवति नवेति न ज्ञायत इति भावः । 'रह त्यागे' खार्थे णिच् । प्रतिक्षिप्तं पुनःपुनः प्रेरितं सच्चेतः पुनर्मोहरूपगाढान्धकार प्रवि- शति । किंकर्तव्यमिति न जानीम इति भावः । अत एव कामप्यर्थक्रियामकु- र्वाणाः पशव इव ॥ ८ ॥ माधवः । यत एवाविज्ञातं तत्त्वमत एवाश्चर्यम् । पर्यवसिता समाप्तिं गता। संभावयाश्वासय । प्रियेत्यादि । हे प्रियमाधवे, मयि किमस्निग्धासि । माधवान्यशवामपनयति-ननु हे, अहमेव स यं पूर्व तव करः खयमनन्दयत् । तथा च माधवान्यशङ्कामपि मा कृथा इति भावः । आगृहीत- मीषद्गृहीतं सात्विककम्पादिना चपलतया मनोज्ञसूत्रं येन सः । यद्वा आगृही- तमभिगृहीतं करसमर्पणात् । अत एव मूर्तिमान्कृतदेहपरिग्रहो महोत्सव इव । सोऽपि गृहीतमण्डनो नन्दकश्च भवति । उद्गृहीतमिति पाठ उच्चैयूँहीतमित्यर्थः । 'कङ्कणं मण्डने सूत्रे' इति विश्वः । तादृशस्येत्यनुस्मृतिः करग्रहणमहोत्सवानु- ध्यानखास्थ्यात्तदभ्यासाद्वा । यदाह-वास्थ्याभ्याससमुत्था श्रुतिदर्शनसंभ- वानुस्मृतिः' इति ॥ ९ ॥ सरसेत्यादि । तया काममहाज्वरोऽवस्थादशको बहुकालं सोढः । अना एव महाज्वर इति वा । नवपुष्पमृदुभिः । कीदृशः। संततमर्मव्यथाकारी । अत एव प्रतिमुहूर्तमुन्मूलनोगतः। एतेन दुःसहलमुक्तम् । ततः प्राणांस्त्यक्तुं तया मनो विशेषेण निरपेक्षतया धृतम् । अत एव तृणमिव । सारमाह-इतः करार्पणसाहसादपरं किमस्ति । अपितु न किमपीत्यर्थः । यत्क- रस्यार्पणं खयमेव दानं तदेव साहसं नियूढं निःशेषेण दोषमपहाय वृत्तम् । कुल कन्यकानां तनिषेधात्साहसलम् । तृणमिवेत्यत्र लिङ्गवचनभेदेनोपमादोषो भवति ।

अङ्क: ९] मालतीमाधवटीका। । । पृ० प० २०६ २ चुम्बिनमु। रसान्तर्गतखेन धीमतामनुद्वेगात् । 'यत्रोद्वेगो न धीमताम्' इति दण्डिवचनात् ॥ १० ॥ मयीत्यादि । सखे, असौ प्रिया नेहेजितं रुदितैस्तथा विस्तारयामास यथा पीडाचपलचित्तोऽहमप्यभूवं भूतोऽस्मीति स्मरसि । इतिरध्याहार्यः । अन्यथा कर्माप्राप्तिः । रुदितस्य करुणजन्यत्वात्करुणहेतुमाह-विवाहविधेः पूर्व मयि नैराश्याद्विकलानि स्वविषयव्यावृत्तानि करणानीन्द्रियाणि तैर्लक्षिता । अनेन मोह उक्तः । लक्षणे तृतीया। कीदृशैः। मर्मच्छेदव्यथादीनैरिव । अनेन निःश्वासव. त्त्वमुक्तम् । निःश्वासेन मर्मच्छेदोन्नयनात् । तथा च निःश्वासरुदितमोहैः करुणरस उक्तः । यद्वा विकलकरणैर्व्यतनोद्रुदितैरिव । इतरत्समम् ॥ ११॥ अहो नु खलु भो इत्याश्चर्ये ॥ दलतीत्यादि । मम हृदयं दलति विदीर्यते । सवेदनत्वात् । दृढोद्वेगं नैव द्विधा भिद्यते द्विधा भिन्नं न भवति । स्फुटितेपीडोपशान्ति- रिति भावः । तुशब्द एवार्थे पुनरर्थे वा । पुनर्न भिद्यत इत्यर्थात् । भिद्यत इति कर्मकर्तरि तङ् । अथ च दलति तन्न भिद्यत इति विरोधाभासः। एवमुत्तरत्रापि । विह्वलः कायो मोहं दधाति न तु चेतनां त्यजति । पुनश्चैतन्ययोगात् । स्थिरे मोहे दुःखाज्ञानात्कृतार्थः स्यामिति भावः । तदिहाध्यात्मिकविपद्धयमुक्तम् । अन्त- हः शरीरं दीपयति न भस्मसात्करोति । कायेन भस्मरूपं न करोतीत्यर्थः । सातिः काल] । तथाले दुःखाज्ञानमेव स्यादित्याशयः। अनेनाधिभौतिकी विप- दुक्ता । तदिह व्याधिदशायां मोहादय उक्ताः । यदाह-'मनःसंमोहसर्वाङ्गदाह- वृत्त्यादिभिस्तथा। शिरसो वेदनाभिश्च व्याधेरभिनयो भवेत् ॥ इति । इह कायाव- च्छिन्न आत्मा कायपदेनोक्तः । अन्यथा मोहस्यात्मधर्मतया कायेऽसंभव इत्याव- धेयम् । “स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः ॥ १२ ॥ जडतानिवृत्त्यर्थे माषवमन्य- चित्तं कर्तुमाह-वयस्य इति । निरवग्रहं निष्प्रबन्धं यथा ॥ उपवेशनफल- माह-उन्नालेत्यादि । समीरो वायुरिह खां प्रीणयिष्यति प्रीति करिष्यति । तद्योग्यतामाह-ग्रीष्मान्तेऽल्पोदकतयोद्तनाला बाला ये पद्मसंघास्तेषां पुष्पर- सीयक्षरणेन यन्मिश्रणं तेन मांसलः पुष्टो यो गन्धस्तन्मित्रम् । अग्रे दोलायमा- नकल्लोलशीकरैः शीतलो जडो मन्दः । यद्वा शीकर एव तुषारस्वैर्जडः शीत इत्यर्थात् । 'आकरो निवहोत्पत्तिस्थान श्रेष्ठेषु कथ्यते' इति मेदिनीकारः । मक- रन्दः । तस्येदम्' इत्यण् ॥ १३ ॥ आक्षेपोऽन्यमनस्कता। एतस्मिन्नित्यादि। अत्र सरसि भुवः प्रदेशा दृश्यन्ताम् । अश्रुपूर्णनेत्रतयादर्शनमाशयाह-एकस्य नेत्रजलस्य परिपतनमन्यस्योत्थानं तयोर्मध्ये । कीदृशाः । हर्षाव्यकमधुररवहंस- विशेषपक्षकम्पितचलद्दीर्घनालपद्माः नीलोत्पलयुक्ताश्च । पूर्व विशिष्टपद्ममुक्तमिह तु नीलपद्ममात्रमित्यपौनरुत्यम् । यद्वा पूर्व श्वेतपद्ममुक्तम् । इह तु नीलं तदित्य- दोषः । श्वेतश्यामकमलसंवलनेनातिरम्यतोका। अविरहिश्रिय इति पाठे श्रीः शोभा लक्ष्मीर्वा । सरसि तस्याः सतताधिवासात् । तथा च श्रीयुक्ता इत्यर्थः । ३१ माल.

१०६ जगद्धरकृता [अङ्क ९ प० पृ० २०७ १३ तथा व्यतनो। 'मलिनैमल्लिकाक्षास्ते' इत्यमरः । 'मल्लिको हंसभिद्यपि' इति मेदिनीकारान्मल्लिके- त्याख्या यस्येति ज्ञायते । अनुप्रासश्च नागरागेति समानश्रुत्यापि संभवतीत्सवधे. यम् । सोद्वेगं शीतवातादिदुःसहलादिति भावः ॥ १४ ॥ 'प्रतिवाक्यप्रदानादि- श्रुत्यालोकनवर्जनम् । तूष्णीम्भावो विचेतस्त्वं जडतायां भवन्ति हि ॥' इति । जड- ताचिह्न माधवे सचमत्कारमाह-कथमिति । निरूप्य नेयं जडता किं खनु- स्मृतिरित्याह-शून्यमिति । शून्यं निर्लक्ष्यमन्यतो गमनेनानुस्मृतिः । यद्वा अन्यतः शून्यं मालतीव्यतिरिक्तवस्वज्ञानात् । अत एव प्रद्वेषादन्यकार्याणां कथितानुस्मृतिरिति । अप्रतिपत्तिशून्यमिति पाठेऽनवधानेन चैतन्यविरहो यथा तथोत्थायेत्यर्थः ॥ वानीरेत्यादि । सखे, कुञसंबन्धि नदीनां पयः पश्य । वेतसपुष्पैर्लग्नसौरभम् । तासामेवोपान्तेषु च यूथिकाकुसुमानां जालकैः कोरकै- विकासितम् । यद्वा यूथिकाश्च सुमनसश्च तासां जालकैः । यूथिका जूहीति प्रसिद्धा। सुमनसो जात्यः । 'सुमना मालती जातिः' इत्यमरः । तथा गिरेः सानूने- कदेशानालम्ब्येह प्राग्भारेषु शिखरेषु वर्तमानैमधैर्वितानाय्यते । वितानाचारः क्रियते । मयूरनृत्यविधाननिमित्तम् । निमित्तसप्तमीयम् । कीदृशेषु । विकसत्कुट- जपुष्परूपहासवत्सु । तदिह मयूरनृत्यार्थ मेधैर्वितानं कुटजैर्हास इति यत्तत्पश्ये- त्यर्थः । एवं च कुटजवृक्षा द्रष्टारो मयूरा नर्तका मेघो वितानमिति नृत्यसामग्री । ध्वनिस्तु शिखण्डिपदेन पञ्चचूडोपेतशिरस्कलेन विदूषक उक्तः । प्राग्भारपदेन च प्राञ्चतीति प्राक् प्रकृष्टज्ञानवान्भारो दुःसहो यस्य स मूल् द्रष्टोक्तः तस्य च हास उचित एव । यद्वा शिखण्डिपदेन त्रिशिखण्डयोगितया बाल उकः । तस्य च नृये मूल् हसत्येव । 'बालानामपि कर्तव्यं त्रिशिखण्डविभूषणम्' इति बालानां शिखण्डिले मानम् । 'वानीरवञ्जुलाः' इत्यमरः । 'क्षारको जालकं क्लीबे कलिका कोरकः पुमान्' इति च । वितानमाचरतीत्यर्थे क्यङन्ताद्यकि वितानाय्यत इति रूपम् ॥ १५ ॥ जृम्मेत्यादि । सखे, शैलपर्यन्तभूमयो जृम्भया विकासेन जर्जरः पृथग्भूतो यो डिम्बो गोलकस्तस्य डम्बरेणारम्मेण व्याप्ता अत एव श्रीमन्तो नीपवृक्षा यत्र तादृशो भवन्तीति यत्तत्पश्येत्यर्थः । एवं सर्वत्र दिशो मेघमाला श्यामा भवन्ति । यद्वा कादम्बानां कलहंसानां स्त्रियः कादम्बिन्यस्वाभिः श्यामाः। नदीप्रवाहाणां कच्छाः कूलान्युद्यद्भिर्विकसितैः कन्दलैर्नवाङ्कुरैः कान्ता मनोज्ञा ये केतकवृक्षास्तद्धारका भवन्तिा यद्वा उद्यन्कन्दलः कन्दो यस्य कान्तकेतकस्येत्यर्थः । यद्वा उद्यन्यः कन्दलो मल्लीवृक्षतं कान्तकेतकं च बिभ्रतीत्यर्थः । वनानां माला- विर्गन्धानि व्यक्तीभवत्सौरभाणि यानि शिलीन्ध्रलोध्रकुसुमानि तैः स्मेरा सहासेव । मनोज्ञा वा । 'शिलीन्ध्र कन्दलीपुष्प'मिति विश्वः । शिलीन्ध्र 'सूल' इति ख्यातम् । वनमिह पद्मं जलं विपिनं वा । 'जृम्भा विकासजृम्भयोः' इति विश्वः । 'डिम्बो- ऽण्डेऽपि च गोलके' इति धरणिः । 'डम्बरोऽस्त्री समारम्भ' इति विश्वः । 'काद- अक: ९] मालतीमाधवटीका। १०७ प० पृ० २०८ वयस्य, निरवग्रहं दह° । १० संवलनमांस० । ११ त्वां प्रीणयिष्यति । म्बिनी मेघमाला कादम्बत्री च कथ्यते' इति शाश्वतः । 'कन्दलः कलहे कन्दे मल्लयामकरसंघयोः' इति मेदिनीकारः । 'पुंसि कच्छतथाविधः' इत्यमरः । 'वनं नीरेऽम्बुजे क्लीबं काननेऽप्यालये वनम्' इति मेदिनीकारः ॥ १६ ॥ उत्फुल्ले. त्यादि । अधुना त एते दिवसाः प्राप्ता ये मनोराज्येन मया धृता इत्यर्थः । इह त एत इति सर्वनामभ्यां दिनानामत्युत्कण्ठाहेतुलं ध्वनितम् । कीदृशाः । उत्फु- लाभ्यामर्जुनशालाभ्यां वासितः सुरभीकृतो वहन् पौरस्त्यः प्राच्यो यो झझानिलः प्रचण्डवायुः प्रावृषेण्यवातो वा तस्य प्रेढोल आन्दोलनं तेन स्खलिताः खस्थान- च्युता इन्द्रनीलमणिखण्डा इव श्यामा मेघपतयो येषु ते । अत्रार्जुनग्रहणेऽपि द्वि- तीयतरोः सर्जस्य ग्रहणं कदम्बाद्युपलक्षणार्थम् । तथा प्रीष्मोष्मतप्तमहीसेकसौरभ- वन्तः । ईषदृष्टौ तदुद्गमात् । धर्मस्य ग्रीष्मस्य विगमोपगमोऽम्भस आगम आग- मनं तयोर्व्यतिकरः संबन्धस्तेन श्रियं शोभा वोढुं शीलं येषां ते । यद्वा धर्माम्भसः खेदजलस्य यौ विगमागमौ तयोर्व्यतिकरः संमेदः । वर्षारम्भ इत्यर्थः । तस्य श्रीः सम्पत्तिस्तद्वाहिन इत्यर्थः । पौरस्त्य इति पुरसस्त्यक् । 'झञ्झा ध्वनिविशेषे स्यात्' इति मेदिनीकारः । तदन्वितोऽनिलो झञ्झानिलः । यद्वा 'झञ्झानिलः प्रा. घेण्यः' इति रत्नकोशः । अत्र वास्यमानेति कर्तव्ये संपूर्णक्रियखपरनिष्ठाप्रत्ययान्त- वासितपदोपादानात्समस्तपुष्पसौरभसंक्रान्तिर्वायोर्ध्वनिता । अत एव मलयानि- लाज्झञ्झानिलोत्कर्षः कटाक्षितः । उन्मादावस्थो माधवः । उन्मादश्चेष्टवि. योगात् । यदाह-'इष्टजनस्य वियोगादुन्मादो विभवनाशाच' ॥ १७ ॥ तरुणे- त्यादि । कथमधुना दिशोऽहमवलोकयेयम् । तरुणतमालानीलास्तद्वद्वा नीलाः प्रचुरा उद्गच्छन्तो मेघा यासु ताः । शीतवातक्षिप्तनवजलकणाः । हरेरिन्द्रस्य हेतिरस्त्रं धनुस्तद्वतीः मदकलमयूरकोलाहलैः शब्दवतीः । 'कलं कलकलेऽपि च' इति विश्वः । सरित इति पाठे प्रतिबिम्बेन मेघवत्त्वम् । हरेः कृष्णस्य हेतिश्चक्र तनामकपक्षियुक्ताः । दुःखितेन ज्ञानं दुःखमयत्वेनैव । यदाह 'ऋतून्पश्यति दुःखार्तः सर्वान्दुःखसमाश्रितान् ॥' इति । तदनेन प्रबन्धेन वर्षाकाल उक्तः । यदाह-कदम्बनीपकुटजैः शालैः सेन्द्रगोपकैः । मेघवातैः सुखस्पशैंः प्रावृट- कालं प्रदर्शयेत् ॥ १८ ॥ शोकेति । मूर्छितः पततीति भावः । मकरन्दः । विनोदश्चित्तखास्थ्यम् । प्रमुग्धः संज्ञाशून्यः । अनुक्रोशोऽनुकम्पा तद्विपरीतासि । अपेत्यादि । अगणितमात्रादिके हे सखि, अस्य लोमेन वया साहसं कृतम् । तदिह प्रिये प्रीते निरपराधेऽपि निर्दयः क्रमः कोऽयं केयं परिपाटिस्तवेत्यर्थः । कथमीदृशं पतिं त्यक्ता निर्दयासीति भावः ॥ १९ ॥ उच्छ्वासः संज्ञालाभः । मातरित्यादि । मातर्मातरित्यावेगः । द्विधा भवति हृदयमिति पीडा । अव. यवसंधिः शिथिलीभवतीयखस्थता। विश्वं शुन्यं मन्य इति बाह्यसंवेदना निर्वेदः ।

१०८ जगद्धरकृता [अङ्क: ९ प० । २०९ ९ कथं प्रतिपत्ति । १४ प्राग्भारेषु । तानाय्यते । अविरलज्वालं यथा तथान्तवलामीति चिन्ताजनितो दाहः । अन्तरात्मा निरालम्बः सीदभवसादं गच्छन्गाढान्धकारे मबतीवेति ग्लानिः । विष्वक्सर्वतो मोहश्छादयतीति मोहः । मन्दभाग्योऽहं किं करोमीति दैन्यम् । कथंशब्दः किमित्यर्थे । सर्वनामखानानार्थता। विष्वगित्यत्र सुषामादिखात्षवम् ॥ २०॥ परिदेवितमाह-कष्टमिति बन्धुतेत्यादि । सोऽयं बन्धुसमूहचित्तका- र्तिक्युत्सवो मालतीनेत्रबालचन्द्रो मकरन्दहर्षजनकः सर्वजनतिलकोऽद्य प्रलय- मापद्यत इत्यर्थः । 'मह उद्धव उत्सवः' इत्यमरः ॥ २१ ॥ गात्रेष्वित्यादि । यस्वं मम काये चन्दनरस आसीः । सुखस्पर्शवात् । नेत्रे शरत्कालीनचन्द्रः । आनन्दजनकखात् । चित्त आनन्द एव साक्षाद्धर्ष एवासीः । तं बामतिका- न्तमकस्मादेव मम जीवनमिवोद्धरतोन्मूलयता कालेन समयेन यमेन वा हतोऽस्मि । यथा जीवनोद्धारेऽहं हतस्तथा बदुद्धारेपीति भावः ॥ २२ ॥ सोन्मादो विल- पति-अकरुणेत्यादि । हे निर्दय, हासमनोज्ञां दृशं देहि । हासपूर्व पश्ये- त्यर्थः । यद्वा स्मितेन विकासेनोज्वलां विकसितामित्यर्थः । हे वचनादानादति- दारुण मे वाचं देहि । मित्रमनुरक्तचित्तं हे प्रियमकरन्द, कथं न मन्यसे । कथं नाङ्गीकरोषि । इहावेगादीनां सत्त्वात्करुणो रसः । यदाह-'इष्टनाशधनापाय- बन्धुव्यसनताडनैः । शापक्लेशोपघातैश्च जायते करुणो रसः । अश्रुतिश्वासवैवर्ण्य- सस्तारैश्च स्मृतिक्षयैः । परिदेवितशोकाद्यैरभिनेयः स सूरिभिः' ॥ २३ ॥ मकरन्दः । अचिरधौतलेन राजपट्टस्य नीलवस्निग्धले उक्त । राजपढें खढीति ख्यातम् । रुचिरा दीप्तिमती मांसला घना छविः कान्तिर्यस्य सः । माधवः । वार्ताहरो दूतः । अतिप्रवृद्धकालतया दूतप्रेषणम् । यदाह-'प्रसह्यमानकामार्तो बहुस्थानसमुत्थितः । खावस्थादर्शनार्थ तु प्रेषयेदूतमात्मनः ॥' फलेत्यादि । न- वमेघो गिरेरग्रं श्रयति । फलभारपाकश्यामजम्बूनिकुञात्स्खलनेनाल्पकल्लोलां नदी- मुत्तरेण नद्या उत्तरसमीपे । 'एनपा द्वितीया'। कीदृशः। उपरि विघटमानं ऊर्ध्वस्थान यजन् । विकासितमालपुष्पानीलस्तद्वद्वा नीलः । उपचितघनमालेति पाठ उप- चिता घना च माला येषामित्यर्थः । घने नूतनत्वेनातिश्यामता । यद्वा सव- न्तीमुपरि विघटमानो विविधप्रकारेण श्रयन् । उत्तरेणोत्तरदेशे । उत्तरेणेति विभक्तिप्रतिरूपको निपातः। किञ्चिदेवोत्तरेणेतिवत् । आश्चर्यार्थकतया घटेः सकर्म- कता । 'सवन्ती निम्नगापगा' इत्यमरः । कृताञ्जलिरित्यनेन विनय उक्तः । विनयपूर्वकश्च संदेशः कार्यः । यदाह-संदेशं चैव दूत्यास्तु प्रदद्यान्म- दनाश्रयम् । तस्येयं समयस्येति कथया विनयेन हि ॥ २४ ॥ कश्चि- दित्यादि । प्रार्थनोचितं सुभगप्रश्नमाह-हे सौम्य सुन्दर, प्रिया वल्लभा सहचरी सततानुगता विद्युत्त्वामालिङ्गति कच्चित् । कथयेत्यर्थः ॥ 'कच्चित् काम- वेदने' इत्यमरः। विरहिखेन कान्ताभिलाषात्प्रथमं कान्तासंगमप्रश्नः। 'चारुचन्द्र- । ।

अङ्क: ९] मालतीमाधवटीका। १०९ - । - पृ० प० २१० ४ माविर्भूतशिलीन्ध्र० । ९ प्राप्तास्त एतेऽधुना । १० श्रीवाहिणो वा० । जयोः सौम्यः' इति शाश्वतः । प्रियालिङ्गने सुखं तद्विरहे दुःखमिति त्वमपि जाना- सीति ध्वनितम् । यद्वा कच्चिदेवमभिमतं ममेत्यर्थः । उत्पन्ननेहेन सुभगाः सुमुखा- श्चातकास्त्वां सेवन्ते । वा समुच्चये। अनेनार्थिसंपत्तिरुता । पुरोवातश्च मृदु- प्रेरणाभिस्त्वां सुखयति । अन्योऽपि सहायश्चरणमुष्टिग्रहणादिरूपसंवाहनां कुरुत इति ध्वनिः । अनेन सहायसंपत्तिरुक्ता । विष्वक्सर्वतो लक्ष्मी शोभां बिभ्र- दिन्द्रधनुः । कर्तृ । लक्ष्म चिहं तव तनोति । अनेन प्रसाधनमुक्तम् । विश्वं बिभ्र. दिति पाठे हे विश्वं बिभ्रद्धवनं दधान । वर्षेण सस्यादिसमृद्ध्या जगदुपकारक- त्वमुक्तम् । प्रसाधनमाह । इन्द्रधनूरूपं चिह्न तव शोभा तनोति । बिम्बं बिभ्र- दिति पाठे तु बिम्बं मण्डलं शोभां तनोति । कीदृशम् । इन्द्रधनुश्चिह्न बिभ्रद्द- धानम् । तदिह जगदुपकारकतया ममाप्युपकारं करिष्यसीति भावः ॥ २५ ॥ गर्जितेनानुमतिमाह-अये इति । प्रतिशब्दभरितकन्दरत्वेनानन्दिता समृद्धो. स्कण्ठा यस्य सः । यद्वा आनन्दिता हृष्टा उत्कण्ठा उद्रीवा इत्यर्थः । मन्द्रं गमीरम् । अनुमन्यते स्वीकरोति । आर्तिवशाद्देवत्वारोपणेन भगवन्निति । अवधा- रणे यावत् । जीमूत मेघ ॥ दैवादित्यादि । इच्छया जगति विचरंस्त्वं मत्प्रियां यदि दैववशात्पश्येद्रक्ष्यसि तदा प्रथमं तां प्रबोध्याथ माधवदां कथयि- ध्यसि । अवस्था निवेदनेन तन्मरणमाशझ्याह-कथयता बयाशा पुनःसंगमप्र- त्याशा सैव तन्तुः । जीवनबन्धहेतुखात् । नैवात्यर्थमुच्छेद्यः । च एवार्थे । अत्र हेतुमाह-स आशातन्तुरेकस्तस्याः प्राणत्राणं कष्टाकष्ट्या करोति नाहमित्यर्थः । इह तावत्कालं सा जीवति न वेति संभावना दर्शनस्य दैवादित्यनेनोक्तम् । प्रस- गतो मत्कार्यमिति जगति विचरनित्यनेनोक्तम् । मत्प्रियामित्यनेन सुकुमारत्वा- दिना विरहदुःखासहिष्णुतोक्का । आदावाश्वासनं वार्ताश्रवणपटुत्वार्थम् । अत्यन्त- मित्यनेन मध्यमविधया दशाकथनम् । तेन च तन्नैराश्यनिषेध इत्युक्तम् । कथ- मपीत्यनेनाशातन्तुमात्रं तद्रक्षणाय कल्पत इत्युक्तम् । आयताक्ष्या इत्यनेन कटाक्षा- दिस्मरणेन गुणकीर्तनम् । माधवस्ययं माधवीया। 'वृद्धाच्छः'। उन्मादावस्थेयम् । असंबद्धप्रलापात् ॥ २६ ॥ सहर्ष मद्वचनमङ्गीकृत्य प्रचलित इति । मक. रन्दः । उपरागो राहुप्रासः । शैशवे संकटप्रदेशे पित्रादीनां स्मरणस्य स्वभ्य- स्ततया विरहसंकटेऽपि तदाह-हा तातेति । माधवः । प्रमादोऽनिष्टम् । नवेष्वित्यादि । नूतनलोध्रपुष्पेषु कान्तिः पाण्डिमा गौरवं वा। इह नवप. देन स्निग्धतोक्ता । दृशो विलोकितानि हरिणीषु । गमनं हस्तिषु । नम्रखं लतासु । इतिशब्द आद्यर्थे । 'हेला लीलेल्यमी हावाः' इतिवत् । प्रमथ्य मारयिता मे प्रियाविपिने विभका खण्डखण्डीकृत्य धृता । यद्वा इतिः प्रकारार्थः। तेन लोध्रप्रसवादिभिर्मे प्रिया विभागीकृता । कान्त्यादिविभागद्वारा प्रियाविभाग जगद्धरकृता [अङ्कः ९ पृ० २११ प० ७ मया पुनर्वज्रायमाणेन विनो० । ८ प्रायैवं नो माधवं प्रत्याशा० । एवोनीयत इत्यवधेयम् । विपिन इति प्राणिवधस्थानाभिप्रायम् ॥ २७ ॥ सुह. दीत्यादि । हे हतहृदय, कथमपि विदीर्य द्विधावं न प्रयासि । हतेति निन्दा- याम् । मित्रे गुणनिधानेऽतिप्रेमवति जीवेश्वरे सहधूलिक्रीडागाढमैत्रे कान्ता- वियोगमनोव्यथाव्याधिमन्तर्दधाने सति । सुहृदित्यादौ हेतुहेतुमद्भावः । 'धूलि: स्त्रियां पांसुर्ना' इत्यमरः ॥ २८ ॥ प्रियाविभागाशङ्कां निरस्यति-सुलभेति । संनिवेशः प्रकारः । अनुकारः सादृश्यम् । तथाच लोध्रप्रसवादीनि प्रियाका- न्त्यायनुकारीणि न तु सा विभक्केति भावः । सत्त्वान्प्राणिनो विज्ञापयामीति सानुनयं वचनम् ॥ भवद्भिरित्यादि । भवद्भिरिहस्थैः सर्वाङ्गेषु स्वभावरम्या सा कुलवधूदृष्टा वा । अथवास्या भवद्भिः किं विदितमभवत् । शुभमशुभं वा किं विज्ञातमित्यर्थः । ननु तस्याः किं वय इत्याह-हे सुहृदस्तस्या वयोवस्था शृणुत । यत्र वयोवस्थायां हृदि मदनः प्रगल्भव्यापारो वपुषि मुग्धो बालश्च- रति । एतेन वयःसन्धिरुका । सर्वाङ्गत्यनेनाभिज्ञानप्रकाशनम् । कुलवधूवेन चाञ्चल्याभावः । इहस्थेरित्यनेन परिचयचातुरी। वाकारद्वयेन दर्शनवृत्तान्तयोः सफललं दर्शयति । 'सुरते निःसाध्वसता प्रागल्भ्यं समुदाहृतम् ॥' इति भरतः ॥ २९ ॥केकाभिरिति । किं यत्र तत्र याचे । अपि तु किमपि प्रार्थये । यतोऽप्रस्तावप्रस्तोऽर्थिभावोऽथित्वम् ।अनवसरमाह-नृत्यादुद्गतपिच्छभारो मयूरः केकाभिर्वचनं छादयति । चकोरः पक्षिभेदो भत्ततया भ्रमत्तारकः संश्चित्तहर्षा- प्रियामभिसरति । गोलालः श्याममुखो वानरः पुष्पजधूल्या कान्तायाः कपोलो चित्रयति । अतः सत्त्वानामन्यत्रासक्ततयार्थिवानवसर इति भावः । 'प्लवङ्गकीशप्लव- गगोलालवलीमुखाः' इत्यमरमाला । 'कं याच' इति पाठे के प्राणिनं प्रार्थय इत्यर्थः ॥३०॥दन्तेत्यादि । वलीवदनो वानरोऽयं कान्ताया मुखमुत्क्षिप्य चुम्बति । कीह- शम्। अधररागेण रक्ता मनोज्ञा दशना यत्र यत् । काम्पिल्लो रोचनीवृक्षः।खार्थे कन्। तस्य प्रसवेन पुष्पेण फलेन वा रक्तगण्डप्रदेशः । पाकान्तरमन्तिमपाकस्ततः स्फुटितं विदीर्ण यहाडिमफलं तत्कान्ति । तत्सममित्यर्थः । तदिहाप्यनवसर एव । 'शाखामृगवलीमुखाः' इत्यमरः । 'काम्पिल्लः कर्कशश्चन्द्रो रक्ताको रोचनीयपि' इत्यमरः । रोहिणानोकहो रोहिणवृक्षः ॥ ३१॥ कण्वित्यादि । अयं सुकृती वन्यहस्त्यस्याः प्रियायाः परिचयप्रागल्भ्यं सुरतनिःसाध्वसतामनुतिष्ठति । कीदृशः। कण्डूतिमुद्रितेक्षणां प्रियां दन्ताप्रेणालिखनीषदुल्लिखन् । कण्डूयनित्यर्थः । अत एव कण्ड्काले कुड्मलितेक्षणलं जातिः। पर्यायेण क्रमेण निक्षिप्तौ कौँ तयो- र्वातैः सुखदैवींजयन् । कवलिताधैर्नवशल्लकीपल्लवैरस्याः प्राणधारणं कल्पयन् ॥ २२ ॥ नान्तरित्यादि । अयं स्तम्बेरमो हस्ती ताम्यति ग्लानो भवति ।

अङ्कः ९] मालतीमाधवटीका। पृ० प० २१२ ३ तोऽमि देवेन । २१३ ९ °तत्कमत्र वि । ११ स्खलिततनु । १२ उपरिविघटमानः प्रौढ० । २१४ ८ विचरनिच्छया मत्प्रियां चे० । नूनं निश्चितं प्रेयसीविश्लेषेण विह्वलः । जलदेषु ध्वनत्सु सत्स्वीषद्गम्भीरमुद्गत- कण्ठगर्जनं नान्तर्वर्तयति न करोति । समीपस्थात्सरस आवर्जितमिलितैः शैवलैः कवलान्न करोति । मदहान्या यो विषादस्तेन मूकानां भ्रमराणां व्यासङ्गेनान्य- चित्ततया शोच्यमुखः । यद्वा व्यासको विशेषेणासङ्ग इत्यर्थः । तदिह मदहानिश्चि- न्तया संतापात् । दीनखमधोमुखचिन्तनात् । एतेनानुस्मृतिसंजाता विषयव्यावृ. त्तिरुक्ता ॥ ३३ ॥ अहमिवायमपि कान्तातिरिक्तमन्यन्न वेत्तीत्यत आह-अल- मिति । रतौत्सुक्यान्मधुरकण्ठगर्जितश्रवणाद्वा सानन्देति । मातङ्गो हस्ती। संपातः संपर्कः। संगलितो मिलितः । मांसलः पीनः । निष्यन्दो मदः । कषायः सुगन्धिः । करटो गण्डदेशः । 'सुरभौ च कषायः स्यात्' इति शाश्वतः । समुद्द- लितमुन्मूलितम्। पर्ण पत्रम्। 'तालो गीतक्रियामाने मध्यमाङ्गुलिसंमिते' इत्यमर- माला । 'नीहारस्तु कुहेलिका' इति हारावली । कुररः पक्षिमेदः । अनुवृत्तिः सेवा । सापवादं सदोषम् ॥ लीलेत्यादि । क्रीडोन्मूलितविसदण्डकवलसमाप्तिषु विकसत्पद्मसुरभितस्य जलस्य गण्डूषसंक्रान्तयः संबन्धाः संपादिता दत्ताः। 'पुष्य- दिति पाठे पुष्टीभवदित्यर्थः । अम्भःकणवता स्थूलहस्तेन सेकः कृतः । तदिदं द्वयं कामं युक्तमेव । दोषमाह-विरामे सरोऽवगाह विरतौ गमनकाले पुनरकुटि- लनालपद्मपत्रच्छत्रं न स्नेहाद्धृतम् । एतदयुक्तमित्यर्थः । अतः कान्तानुवृत्तिं न जानासीति भावः । 'पुष्कराम्भोरुहाणि च' इत्यमरः । गण्डूषपदेन खयं पीला जलदानं ध्वनितम् । 'नलिनी पद्मिनी पद्मम्' इत्यमरमाला । 'अरालः कुटिले मतः' इति मेदिनीकारः । आतपात्रायत इत्यातपत्रमित्युचितं पदम् ॥ ३४ ॥ चलचित्तवेन पार्थस्थं मित्रमपश्यन् सखेदमाह-कथमिति । धिगित्यादि। इत्थमेकाकिनो मम यदुच्छेसितवैशसं प्राणधारणदुःखं तद्धिवृथा । एकाकिलमत्र हेतुः धिगेव रमणीयवस्वनुभवान्वृथाभाविन इति मुख्यः पाठः । रम्यपदार्थवि- षयानुभवानिष्फलोत्पादशीलान्धिक् । रमणीयवस्वनुभवादिति पाठे वृथाभाविनो- ऽनुभवाद्रम्यवस्तु धिक् । निष्फलं तज्ज्ञानमित्यर्थः । 'धिगेव रमणीयता बदनुमा. भावाहत' इति पाठे मम सौन्दर्यादिकं धिक् । कुतः तवानुभावः सहभावस्तत्र भवोऽभिप्रायस्तं विना । यद्वा अनुभावे वागङ्गसत्त्वाभिनये भावः सत्त्वं तं विना । 'वाग्लसत्त्वाभिनयेऽनुभावस्तु स्मृतो बुधैः' इति भरतः । भावादित्य॒तेयोगे पञ्चमी वया मकरन्देन तया मालत्या च सह यो दिवसो नास्ति सोऽपि दिवसो विलीयतार । अन्यत्र मालतीमकरन्दाभ्यां या प्रमोदमृगतृष्णा मम जायते तामपि ११२ जगद्धरकृता [अङ्क ९ पृ० प० २१५ १२ कथमपि सह । २१६ १३ रञ्जितकान्तदन्त । २१७ ३ एष प्रियतमास्कन्धविश्रान्तकरः करी। ८ धन्यो। धिक् युवाभ्यां विना दैवान्मे हर्षोऽप्याभासीभूत इति भावः । अत एव प्रमो. दस्य मृगतृष्णाया रूपकेणालीकलमुक्तम् ॥ ३५ ॥ मकरन्दः । उन्माददशाया- मनिश्चयाद्यतः कुतश्चिदित्युक्तम् । व्यजकात्संस्काराभिव्यञ्जकात् । प्रबुद्धः उद्बुद्धः ॥ माधवः। संभावय पालय । श्रमाद्वैराग्याच्च मूर्च्छत्येतदर्थं निराश इत्युक्तम् । मकरन्दः । जीवितेश्वरमित्यनेन तुल्या जीवनसामग्र्युक्ता । निश्चेष्टः प्रलययुक्तजनाकृतिः । परिच्छेदो निश्चयः। यदित्यादि । स्नेहरूपसंतापवता हृदा विनापि भयकारणेन सकम्पं भयं नित्यमन्वभाव्यनुभूतं यत्तत्सर्व मम भयं खदीयविपत्तीर्गणयतः संभावयत एकस्मिन्क्षणे परिसमाप्तम् । कदा ते किं स्यादि- त्यादिभयं प्रकृतदशया प्रशान्तमिति भावः । एतत्पक्षे गणयतेति पाठे विधिने. त्यर्थात् । यद्वा खय्यापदो गणयता हृदा यद्भयमनुभूतं तदधुना गतमित्यर्थः । तथा च बनिमित्तमधुना तु सहेतुकैव विपदिति भावः॥३६ ॥ वरं मनागिष्टे । 'मना. गिष्टे वरं यत्तु कश्चिदाह तदव्ययम्' इति शाश्वतः । अव्ययानामनेकार्थवादु- तोऽर्थः सुलभ एव । चेतयमानं चेतनावन्तम् । भार इत्यादि । कायो भारो धर्तुमशक्यः । धारणाशक्यतया व्याधिः । जीवनं वज्रकीलकमनुच्छेदात् । अनेन मर्मच्छेदः । मर्मच्छेदेन चिन्ता । दिशः शून्या इति जडता । इन्द्रियाणि नेत्रादी- न्यफलानि कार्याक्षमाणि । बाह्यविषयाग्रहादैन्यम् । कालः कष्टो दुःखदः । दैन्येन जीवनाक्षमता । संसारः सर्वत्र प्रशान्तदर्शनः यथा च विना न मजी- वनमिति भावः । खत्प्रयाणे तव गमने विनाश इति यावत् । सतिसप्तमीयम् । मां प्रतीति सर्वत्र योज्यम् । यद्वा पृथिव्यादिद्रव्यनवके प्रधानद्रव्यदूषणेन दोष- माह-तत्र काय इति पृथिव्याः, जीवनमित्यात्मनः, काष्ठा इति दश, इन्द्रियाणी- तीन्द्रियाणां, काल इति कालस्य, लोक इति विषयाणां दोषः उक्तः । शान्तालो- कोऽनुपभोग्य इत्यर्थः ॥ ३७ ॥ अस्तमयो विनाशः । व्याधिदशायामयम् । यदाह-'निर्वेदश्चैव चिन्ता च दैन्यं ग्लानिः श्रमखथा । जडता मरणं चैव व्याधौ तु करुणेऽपि च ॥' पाटलावती नदीमेदः । प्रियदर्शनार्थ निवर्तनम् । मूर्छा दृष्ट्वा सकरुणम् ॥ तादृशं दृष्ट्वा सखेदमाह-तदित्यादि । सखे यत्तवाङ्गं नीलनलिनश्यामं तदेतत् । अस्मिन्नङ्गे गाढासजनैरप्यालिङ्गनर्मम तृप्ति- न भूत् । यदहं नवस्नेहविलासव्याकुलमालतीदृष्टय उपचितामृताः पूर्व नि- तवत्यः । नित्यादरेणावलोकितवत्य इत्यर्थः । बत खेदे ॥ ३८ ॥ अचरमे नाने। समाहारो मेलकः । आपूर्ण इत्यादि । सखे, वं संसारस्य चामणी- भूतश्च मरणं प्राप्तश्च अत्र तुल्ययोगितया दृष्टान्तमाह-निमश्चन्द्रः अङ्कः ९] मालतीमाधवटीका । ११३ पृ० प० २१८ १ परो मत्तमातङ्ग्यूथपालः प्र । ३-४ °कर्दमित- कषायमुद्दलितकमलिनीखण्डविप्रकीर्णपर्णकमलकेसर- मृणालबिसकन्दकोमलाङ्करनिक । ४ प्रचलजर्जरित- जलतर० । ५ गाह्य विहरति । भव । कलाभिः पूर्णश्च राहुप्रस्तश्च । मेघो घनाघनो वर्षुकाब्दश्च वातवेगाद्विशकलितश्च द्वमश्रेष्ठः फलेपहिः फलभारवानिवृत्तो जातश्च वनाग्निना दग्धश्च । यथा तथा खमपी. त्यर्थः । 'घनाघनो मत्तगजे वर्षकाब्दमहेन्द्रयोः' इत्यमरमाला । यद्वा घनाधनोऽति. निबिडः घनशब्दस्यैवावृत्त्या प्रयोगाद्वदावद इतिवत् । फलेपहिर्निपातनात् । फलानि गृह्णाति धारयतीति फलेग्रहिः । 'स्यादवन्ध्यः फलेग्रहिः' इत्यमरः ॥३९॥ एवंगतं मूछितम् । अयमर्थ आलिङ्गनरूपः । मया सहेति शेषः । अपश्चिमो दुर्लभः । पश्चिमावस्था शेषावस्था । आजन्मेत्यादि । हे पद्मास्य, जन्मन आरभ्य मयैव समं तुल्यगृहतया मातुः स्तन्यं पीलाधुना त्वमेको निवापसलिलं प्रेतोदकाञ्जलिं बन्धुसमूहेन दत्तं पिबसीत्येतदयोग्यम् । सहपानार्थमहमप्यागच्छामी- त्यर्थः । 'निवापः पितृदेये स्यात्' इत्यमरः ॥ ४० ॥ आपगा नदी । प्रियस्ये. त्यादि । मित्रस्य संभव उत्पत्तिर्यत्र ममापि तत्रैव भूयात् । अमुत्रापरस्मिलोके पुनरप्यस्यानुचरो भूयासमित्यर्थः । भूयादित्यादौ प्रार्थनाय लिङ् ॥४१॥ सौदामिनी । अत्याहितं प्रमोहोऽभूत् । माधवः । प्रभजनो वायुः । सौदा. मिनी। उभयोर्माधवमकरन्दयोः मूर्च्छयैव तं सोपालम्भमाह-भगवनिति । पौरस्त्येत्यनेन भिनदेशकथनम् । तेन सहजकृत्रिमवैरशङ्का निरस्ता । तव विरहि- दुःखमेव न कृत्यम् । अपि बन्यदपीत्याह-भ्रमयेत्यादि । जलपूर्णान्मेघांश्चा- लय । कोकिलान्हर्षय । केकयोत्कण्ठानूचंगलान्सेच्छान्वा मयूरान्कलय नर्तय कलेरनेकार्थखात् । केतकान्केतकीवृक्षान्कठोरय कोरकितान्कुरु । कोरकि- तखेन निनोन्नततया कठोरत्वम् । 'केतक्यामपि केतकः' इति शब्दभेदः । अत एव 'केतकाधानहेतोः' इति मेघदूते । यद्वा केतकीपुष्पाणि कठोरय विकासय । 'तत्करोति' इति णिच् । अस्मिन्पक्षे 'लिङ्गमशिष्यं लोकाश्रयखालिङ्गस्य' इत्य. वधेयम् । विरहिजने मूछों प्राप्य व्यथा स्फाटयति सति पुनः संज्ञाव्याधि चेतना- रूपं रोगं कृला किं खमिच्छसि । महतादुःखितदुःखशान्तिः क्रियते । वं प्रबोध्य दुःखयसीत्यनहम् । अत एवाकरुणा इत्युक्तम् । प्रमोदय चातकानित्यपि पाठः । प्रथमपाठे तु कोकिलप्रमोदो वर्षास्खपि कविसंप्रदाये वर्ण्यत इत्यवधेयम् ॥ ४२ ॥ मकरन्दः । मातरिश्वा वायुः । वातीति वायुरित्युचितपदन्यासेन जीवनयोग्य- तोका । माधवः । तथाप्यनिष्टकरणादपि । विकसदित्यादि । मम प्रिया यतो यत्र तं देशं मम जीवितं प्रफुल्लकदम्बसमूहधूल्या सह प्रापय । 'घटय मे' इति वा पाठः । सा विरहदीना म्रियेतातखजीवनाय मजीवितं नयेति भावः । पाशुना ११४ जगद्धरकृता [अङ्क ९ - पृ० प० २१९ २ रमणीयतां त्वदनुभावभावाहते। ३ °सह न भाति योऽत्र दिवसोऽपि स ध्वं० । ४ शत्र या जायते । ६ द्यञ्जनात्प्र० । १० निराशः परिश्रान्तोऽस्मि । (इति मूर्छति ।) सहेत्यनेन परमाणुरूपं मे मनोऽपि तत्समूहे गमिष्यतीति न ते प्रयासोऽपि स्यादि- त्युक्तम् । नो वा प्रियाङ्गसदावस्थितिहिमं यत्किञ्चिद्वस्तु मयि तदर्पय देहि । ईर- येति पाठे प्रेरयेत्यर्थः । तदेव मे तापशान्यै स्यादिति भावः। अत्र हेतुमाहयतो मम भवान्गतिराश्रयः । आश्रयस्याश्रितजीवनं युक्तमेवेति भावः । अपि वेति पाठेऽपि संभावनायाम् ॥'४४ ॥ सौदामिनी । समाहितो युक्तः । वायुप्रार्थनाप्रकरणात् । माधवः। प्रियाङ्गसङ्गिमालालोकात्सहर्षवम् । यदाह- 'प्राप्ये वाप्यप्राप्ये लब्धेऽर्थे प्रियसमागमे वापि । हृदयमनोरथलामे हर्षः संजायते पुंसाम् ॥' उन्नाह उत्सेध उपरिवहनं वा । दुर्ललितातिप्रिया । अनङ्ग एव मन्दिरमनङ्गस्य वा मन्दिरम् ॥ मुग्धेत्यादि । अस्या मालायाः स एवायं भागो यो लवङ्गिकाया अपि संतोषमकरोत् । अपिपदान्मालत्या अपीत्यर्थः। विषमं प्रथितं ग्रन्थना यत्र सः । विषमेण प्रथित इति वा । अत्र हेतुमाह-मुग्धं मनोज्ञमिन्दुकान्तं यन्मालतीमुखम् । यद्वा विरहात्क्षामखादिना बालेन्दुवकान्तं यत्तदास्यं तदालोके सति हेलया शृङ्गारचेष्टया विशृङ्खलं सर्वत्र वर्तमानं यत्कौतुकं तद्रोपनाय दुर्व्यस्तैः पूर्वग्रन्थनादन्यथा दत्तैः पुष्पै रचितः । एतत्तु प्रथमाङ्क एव व्यकम् । ननु हेला स्त्रीविषया । यदाह भरतः-'यौवने त्रिदशस्त्रीणां विकारा नेत्रपातजाः । आदौ त्रयोऽङ्गजास्तेषां दश स्वाभाविकास्तथा ॥ तत्राङ्गजेषु हाव- हेलालक्षणम्-'अक्षिभ्रुवोर्विकाराद्याः शृङ्गारस्य च सूचकाः । सग्रीवारेचका भावा हावास्तेभ्यः समुत्थिताः ॥ य एव हावः सैवासौ शृङ्गाररससंभवा । समा- ख्याता बुधैर्हेला ललिताभिनयात्मिका ॥' अतो माधवे हेलेल्ययुक्तम् । मैवम् । स्त्रीणामित्यस्योपलक्षणखात्पुरुषेऽपि कामावस्थासाम्या लावचनात् । यदाह-'हेला हावश्च भावश्च व्याजो विश्रम्भभाषणम् । चाटुः प्रेमाभिसंधानं चकितं च विला- सितम्' ॥ तत्र रागतः सहसा प्रवृत्ती हेतुश्चित्तोल्लासो हेलेति । यद्वा अवलोक्यत इत्यवलोकः । कर्मणि घञ् । इन्दुसुन्दरमालतीमुखेऽवलोक्या दृश्या या हेला तया विशङ्खलं यन्माधवस्य कुतूहलं तद्गोपनायेत्यर्थः ॥ ४५ ॥ संकल्पलिखितप्रि. यादर्शनाद्धर्षः। दर्शनाप्राप्त्यापुनराह-नन्विति । अत्राप्यलाभादुपालभ्यतेऽपीति परिहासाददर्शनमाशङ्कय तदनवसरमाह-प्रयान्तीत्यादि । प्राणाः प्रयान्तीव सर्वतः शून्यत्वात् । हे सुतनु, मनो ध्वंसत इव मोहात् । अङ्गज्वलनमतिदाहात् । १ अस्य त्रिचत्वारिंशत्संख्यामितत्वेऽपि त्रिपुरारिकृतव्याख्याश्लोकानुक्रमसंमे- लनाय चतुश्चत्वारिंशत्प्रकल्पनम् ।

अङ्कः ९] मालतीमाधवटीका। ११५ । पृ० प. २२० १ त्वयापदो गण । २ मम प्रशान्तम् । ९ °नु खलु मा । साक्षिणा मया भवि०। १० भवत्वमु- प्माद्विरि । २२१ ३ °दुल्लसितविस्मया बत° । १२ विमलविद्यानि । १३ °मकरन्दानन्दनमुखचन्द्र मा० । एतेन व्याधिरुतः । सर्वतस्तमः प्रसरतीव । अनेन जडता । सकलेन्द्रियाणामग्र- हात् । जडतानन्तरं मरणशङ्कायामाश्वास एव युक्त इत्याह-वरेति । खलुनिश्चये। यत एवं ततो नेत्रप्रीतिं देहि । खं दर्शयेत्यर्थः । मद्विषये निर्दया मा भविष्यसि । यद्वा अकरुणा मा भून भवसि । 'मालि लुल्' इति कालसामान्ये लुङ् । पूर्वकरुणे- दानीमपि निर्वाह्यतामित्यर्थः । इवशब्द उत्प्रेक्षायाम् ॥ ४६ ॥ निरित्यादि । यदा मालत्याः पद्माक्ष्याः कामोन्मादोद्वैगा निर्विघ्ना अत्यर्थ दुःसहा अगदाहदुःख- महान्तस्तद्दुःखोपदेशकराः संबभूवुः । संभूयोद्गतास्तत्र काले तस्यास्वदालिजन- मेव शीघ्रं प्राणरक्षकमभूत् । अत एव मदालिङ्गनतुल्यः । उन्माथ उन्मथनमुद्वेग इति यावत् । प्रगुणमिति पाठे प्रकृष्टगुणमित्यर्थः । क्रियाविशेषणं वा । कामदुःखो. द्वेगस्य प्रियसङ्गस्यालाभादविघ्नलम् । मालतीप्रणयित्वात्प्रियसखि इति । दुःसह- त्वमधृतिकरणात् । उद्दाह उद्गतदाहः । व्यसनस्थाने 'व्यथन' इति पाठे व्यथनं पीडा । अधुना मालां विनास्याः कथं जीवनं भविष्यतीति भावः ॥ ४७ ॥ निर्वर्ण्य निरूप्य । आनन्देत्यादि । मम मालत्याश्च कण्ठे तव तानि गतागतानि स्मरामि । स्मरणस्यातिदुःखदत्वात्कष्टम् । तदा तदा तस्मिन् तस्मिन्काले । तत्र चोरिकाविवाहात्पूर्व मालतीकण्ठगतेति गतं लवङ्गिकावुद्ध्या माधवकण्ठमागतेत्याग. तमित्येकम् । चोरिकाविवाहे मालत्या माधवकण्ठे नीतातो गतमथ तन्मुखदर्शना. वकण्टेऽर्पितेत्यागतमिति द्वितीयम् । पुनस्तत्र प्रणयवशान्माधवेन मालत्यै दत्तेति मतमिदानीं तु सौदामिन्या मालतीसकाशादानीय दत्तेति त्रीणि गतागतानि । अत एव बहुवचनम् । कीदृशानि। तद्दशायामन्तरान्तरा हर्षलाभादानन्दमिश्रितका. मतापप्रकाशनानि । दृढानुरागरसयोगीनि । स्नेहस्याकरो येषु तानि । स्नेहं प्रीति- माकुर्वन्ति व्याकुर्वन्तीति स्नेहकराणि । 'कृनो हेतु-'इत्यादिना टप्रत्ययः। तदा तदा चेति चकारात्कालान्तरपरिग्रहः ॥ ४८ ॥ मकरन्दः । आर्या मान्या माधवः। सकामा मदपकारेण सिद्धप्रतिज्ञेयर्थः । कुमुदेत्यादि । कुमुदसमूहेन यदि शरच्चन्द्रचन्द्रिका सौन्दर्यगुणार्थ संगता प्राप्ता तत्सत्कृतं शोभनकरणमस्तु । द्वयोरपि रम्यत्वात् । अयं पुनः कः प्रकारः कुत्सितप्रकारो वा यदकालमेघपङ्कि- य॑यूयुजद्वियोजयामास । विच्छेदं कृतवतीत्यर्थः । ध्वनिनात्र कुमुदाकरो माधवश्व. न्द्रिका मालती। मेघसंततिः कपालकुण्डलेत्युक्तम् ॥४९॥ अतिबीभत्समिति। द्वेगहेतु कपालकुण्डलादर्शनाद्वीभत्सः। यदाह-'उद्वेजनैश्च बहुभिर्वीभत्सरसः ।

११६ जगद्धरकृता। [अङ्क ९ पृ० प० २२२ १९ तास्मि । अथ माधवः क । २२५ ६ कारिण्यसि । अतः खागतं भवत्याः । ८ हो- दाहव्य० । माथवेगाः । १२ °आनन्दमिश्रमदन । १९ °मालतीस्नेहं वहतो बकुलदानो लाभः । तत्कथं नु मन्यसे कुत एतदिति । समुद्भवति' । कथमित्यादि । तत्कवलिता हे पद्ममुखि, तदा लमपि कथम- भवः । भयात्कथं खमासीः किं खयोकं कस्ते त्राताभूदित्यादिज्ञापनाय कथ- मिति सामान्यनिर्देशः । केतुकवलिता चन्द्रकलेव । एतदुपमया बीभत्सजविषाद- संभवा ग्लानिरप्युक्ता । यदाह-'अपस्मारस्तथोन्मादो विषादो मद एव च मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंभवाः ॥ ॥ ५० ॥ 'स्त्रीबालं नैव घात- येत्' इति निजधर्म जानत्या लया सा घातितेति सोल्लुण्ठमाह-भगवती इति । निर्माणमित्यादि । तन्निर्माणं मालतीरूपादिकमेव तदादरेण रक्षणीयं भवति । रम्यवादेव । पूतनावं राक्षसीवं तमाशेन मोपगा मा गमिष्यसि । यदा मांस मे ततो भक्षयितव्यं किमिति चिन्तकवं पूतनावम् । 'पूतनत्वम्' इति पाठे राक्षसत्वमित्यर्थः । पूतना राक्षसीमेदे हरीतक्यां च पूतना' इति विश्वः । शिव- तातिः कल्याणकर्येधि भव । 'शिव इत्यबोधीः' इति पाठे तन्निर्माण शिवे कल्याणनि- मित्तमित्यज्ञासीः । 'शिवतामुपैति' इति पाठे तनिर्माणम् । कर्तृ । शिवतां कल्या. णलं गच्छति । अतः पालनमस्य । भद्रवस्तुपुरस्कारः खभावादेवेत्याह-मनोहरस्थ ख्यातस्य सुगन्धस्य वा पुष्पस्य मस्तके धृतिः स्वभावसिद्धा । न पादैः पीड. नानि खभावसिद्धानीत्यर्थः ॥५१॥ अकरिष्यदित्यादि । असौ कपालकुण्डला पापं तद्वधरूपमकरिष्यदेव । अतिनिष्करुणा यतः सा । यदि तत्र स्थाने वधे वा तस्या विरोधिनी नाहमभविष्यम् । क्रियातिपत्तो लङ् । बुद्धिप्रत्यक्षतयासाविति ॥५२॥ उभौ । अतिप्रसनं प्रसादः कृतः । सौदामिनी । ज्ञास्यथः । युवामित्यर्थात् । गुर्वित्यादि । गुरुचर्या गुरुसेवा गुर्वी चर्या विशिष्टमनुष्ठानम् । तपश्चान्द्रायणादि । तत्रं मण्डलवर्तनादि । मन्त्रस्ताराप्रभृतिदेवीनां तन्त्रस्य वाग- मस्य वा मन्त्रः। योगः समाधिः । एष्वभियोगादभ्यासाज्जातामिमामाकर्षणी सिद्धिं युष्माकं कल्याणाय विस्तारयामि ॥ ५३ ॥ व्यतिकर इति । मालतीवार्ताया अप्यज्ञानादयं तामसोऽन्धकारजः अत एव भीमः । उजीवनज्ञानाद्वैद्युतश्चार्य विद्युत्संबन्धी व्यतिकरः संपर्कः अत एवानन्दाश्रुसंभारेणोपहतनेत्रवृत्तिः । कीदृशः क्षणमुद्भूय शान्तः । अत एव विद्युद्विद्योतो वितर्कः । कथमिह स्थाने वयस्यो माधवोऽपि नास्ति । तत्किमिदं व गतः केन वा नीत इति विचि- न्येत्यर्थः । निर्णयमाह-अन्यत्किम् । यत इयं योगीश्वरी निजतपः प्रभावेण प्रभ- वति । अनया नीत इति भावः ॥५४॥संशय्याह-किमयमिति । सौदामिनी- - अङ्कः ९] मालतीमाधवटीका। ११७ प० पृ० २२७ ४ कथमिव तदा० । ८ तातिरेधि । १० मुसलै- रवताडनानि । २२८ ३ इमामाक्षेपिणी सि० । १३ विस्मयमदस्मृतः । २२९ २ ०शबलत्वमुपैति । ३ °कान्तारगहने सहा । भगवतीमन्विष्य तस्या वृ० । इति सौदामिनीदर्शनो नाम नवमोऽङ्कः। । नयनेऽर्थः प्रयोजनं कपालकुण्डलानयनेऽनर्थ इति भावः । अस्तोकेत्यादि । अस्माकं चित्तम् । कर्तृ । हर्षशोकाभ्यां शबलवं मिश्रलं गच्छति । कीदृशम् । अनल्पाश्चर्यम् । एकदैव नानारससंभवात् । अपस्मृतं विस्मृतं पूर्ववृत्तं मालतीहर- णरूपं यत्र अत एवानन्दः । उद्भूतं नवं भयं माधवापकारशङ्काकृतं तेन ज्वरेण जीर्णम् । अत एव शोकः । यद्वा । माधवानवलोकनेनोद्भूतनवशक्काज्वरजर्जरतया शोकः । एकक्षण एव त्रुटितो घटितश्च प्रमोहो यत्र तत्। मालतीलाभसंभावनया त्रुटितो माधवापकारसंभावनया घटित इति भावः । अत एवात्याश्चर्यम् । स्त्रोक- शब्दोऽल्पपर्यायः । अस्मद्वर्गेण मदयन्तिकालवङ्गिकाभ्याम् । 'विप्रनष्टाम्' इति कस्मिंश्चित्पुस्तके पाठो दृश्यते तत्रादृश्यमानामित्यर्थः ॥ ५५ ॥ भगवती कामन्द- कीम् । अनेनाप्रिमाङ्कावतारस्यापि सूचनादकावतारोऽयम् ॥ प्रासूत यं रत्नधरोऽतिविद्यो विद्योति विद्या दमयन्तिकापि । जगद्धरं तत्कृतटिप्पणेऽङ्कोऽगलनवीने नवमोऽनवयः ॥ इति नवमोऽङ्कः। माल० ३२ दशमोऽङ्कः। प० पृ० २३० १५ को वा सिरीसकुसुमसुउमारस्स दे सरी २३२ १२व्हम्हि संपदं जीवि। २३३ १० वसं गदा । । सहास्मद्वर्गेणेत्यव्यवधान एव सूचनात्तत्प्रवेशमाह-तत इति । कामन्दकी। मालती विश्लेषं श्रुखा विलपति-हेत्यादि । आ जन्मन इत्यादि । जन्मन आरभ्य प्रतिक्षणाधिक्यमनोज्ञानि तव तानि तानि पूर्वानुभूतान्याचेष्टितानि विनया- दीनि संस्मृतानि सन्ति मेऽहं दहन्ति चित्तं च दारयन्ति । अनेन बाह्या मानसी च पीडोका । तथा चाटूनि वाकौशलानि स्मृतानि दाहादिकं कुर्वन्ति । विनया- दीनामद्वेषकारितया रम्यखम् । चाटूनि कीदृशानि । चारूणि शोभावन्ति मधुरा. ण्यनुल्बणानि च । यदाह-'सर्वावस्थाविशेषेषु दीप्तेषु ललितेषु च । अनुल्बणलं चेष्टानां माधुर्यमिति संज्ञितम् ॥ १ ॥ अनियतेत्यादि । बालायास्तवास्यपद्म स्मरामि । कीदृशम् । अस्थिरे क्रन्दनहास्ये यत्र तत् । शोभमान किंचिन्मृदुदशन- कलिकाप्रम् । सम्यक्स्थानप्रयत्नाभावात्स्खलत् । तत्त्वहान्यासमञ्जसं संख्याति- क्रमादज्ञानाद्वासमन्जसम् । मुग्धमर्थाभावात् जल्पितं मन्दोक्तिर्यत्र तत् । सर्वत्र शैशवमेव हेतुः। कमलकमित्यत्राल्पार्थे कन् । सम्यगजसा तत्त्वेन वर्तत इति सम- असमिति । 'अञ्जसा तत्त्वपूर्णयोः' इति विश्वः। 'मञ्जु जल्पितम्' इति पाठे मञ्जु मनो- हरम् ॥ २ ॥ इतरे । अत्रैकाकिन्या एकमात्रखरूपायाः। आदावुरस्थितोऽथा- स्वमितो महोत्सवो यत्र सः । अभिनवेत्यादि । अभिनवे रागेऽनुरागे रस इच्छा यत्र । यद्वा । अभिनवरागो नूतनासको रसः शृङ्गारो यत्र । कृतं कौतुकं हर्षों नर्मोत्सवो वा यत्र । सोऽयं भवतोयुवयोः परिष्वङ्ग आलिङ्गनं नियतिर्दैवं सैव महावाल्या तयाभिहतः । लवली लतामेदः लवङ्गो वृक्षभेदः तयोः परि. ध्वङ्गः संपर्क इव । अभिनवौ लौहित्यरसौ यत्र सः । रस आर्द्रता । कृतं कौतुकं कुतूहलं द्रष्टृणां येन सः । 'रागोऽनुरागे लोहिये' इति विश्वः । 'शृङ्गारादौ द्रवे चापीच्छायामप्ययं रसः' इति धरणिः । 'कौतुकं खभिलाषे स्यादुत्सवे नमहर्षयोः । कुतूहलेऽपि तत्प्रोक्तम्' इति मेदिनीकारः । तदिहाचेतनोपमया तयोरपि बालयो- वृक्षविवाह इव मया विवाहोऽप्यकारि । दैवेन स न सोढ इत्युक्तम् । देशान्तरनय. नानियतेर्वात्यया सह रूपकम् ॥ ३ ॥ लवङ्गिका । अत्र नृशंसं नाशकम् । लवङ्गिका । अत्र प्रतिबद्धं घटितमत एव निश्चलम् । कामन्दकी । उजि- हानमूर्ध्व गतम् । कण्ठोपगतमिति यावत् । उज्वलेत्यादि । लव निकामु- द्दिश्य । खया त्यक्तेयं न शोभते प्रदीपशिखया त्यका वर्तिरिव दशेव उज्जवल मालोको दर्शनं यस्यास्तया । शिखापक्ष आलोक उद्योतः। स्निग्धा प्रीता ।

अङ्क: १०] मालतीमाधवटीका। ११९ प० २३५ २ जनसंमर्दो वर्तते । ४ जीवितेषु । ९ दिष्ट्या ।हा धिकष्टम् । आश्च०। २३६ १ अन्तरालविक्खाणिम्मलकुलेकमङ्ग।३०णिरणुक्कोसा तुम्हे ति संभाविदं आसी । १२ °मुखस्य जन्तु । १७ वचनादनन्तरं तां । स्नेहवती तेलादियोगात् । मलीमसं म्लानं मुखमाननं यस्याः सा । मलीमसं दग्ध. तया श्यामं मुखमग्रं यस्याः सा च ॥ ४ ॥ प्रगुणीकृतानि ऋजूकृतानि । उत्पत्त्य- नन्तरं नाडीनां शुद्धद्रव्येणर्जुकरणात् । यद्वा । प्रगुणता पुष्टिः । स्तन्येत्यादि । तेन हेतुना मातुः सकाशादधिकः स्नेहोऽयं मयि तव युक्तः । यद्वा तेन हेतुनायं वियोगस्तव युक्त हति सोल्लुण्ठम् । यतः स्तनपानत्यागादारभ्य क्रीडायोगं खेलम् । यद्वा क्रीडा कला योगो विद्याप्रयोगस्तं प्रापिता । ततः पश्चाद्विनयमनौद्धत्यं प्रापिता वृद्धि प्रापिता च । दन्तपाञ्चालिकेव दन्तमयकृत्रिमपुत्रिकेव । जनेषु श्रेष्ठे शोभादिगुणयुके जामातरि त्वं स्थिरीकृता । परिणयात् । मयैव न तु पित्रादिनेत्यर्थः । बाल्य एवं कान्तिमत्त्वात्सुमुखीत्युक्तम् । 'पाश्चालिका पुत्रिकायाम्' इति विश्वः । पाञ्चालिकापि क्रीडादिकं कार्यत इति प्रसिद्धमेव । विद्याभ्यासो बाल्य एव स्त्रीणाम् । यदाह-'बाल्येऽधीयीत विद्यां स्त्री काम- शास्त्रादिकं पुनः' । पुरुषगुणा अपि भरते-'शोभा विलासो माधुर्य स्थैर्य गाम्भीर्यमेव च । ललितौदार्यतेजांसि पौरुषेया गुणा अपि' ॥५॥ करुणस्नेहाद्विक्ल- वता । अकारणेत्यादि । विगतभाग्यया यया तव पुत्रो न दृष्टः । कीदृशः । अकारणेनालक्षितहेतुतया स्मेरमीषद्धसनं तेन मनोज्ञं मुखं यस्य सः। शिखायां ललाटे च दत्तवेतसर्षपः । एतत्तु रक्षायै । कोडे सुप्तः स्तनपायी च ॥ ६ ॥ लवङ्गिका । अत्र जीवितेति । तां विना जीवनमनहमिति भावः । निर्वृतेति । मरणे तद्वियोगदुःखापनयादिति भावः। कामन्दकी। उत्कण्ठेति । जन्मान्तरे तो द्रक्ष्यामीत्युत्कण्ठा ममापीत्यर्थः । तत्कथं मयापि खतोऽसिद्धतया त्वय्याशी- तव्येति भावः । सङ्गमेत्यादि । कर्मणां वैचित्र्यादस्माकं मालत्या सह संगमो न स्यात् । अनागमो नियुक्तिको यतः सः। मालत्या मम च कर्मणां साम्ये मानाभावाजन्मान्तरे संगमो नियुक्तिक इति भावः। तर्हि प्राणत्यागेनालमत आह-प्राणत्यागः पुनस्तापशान्तिफलः । तथा च तदर्थ स क्रियत इति भावः। सङ्गमाभावे तु मानम्- 'मृतोऽपि मानुषः शक्तो नानुगन्तुं मृतं जनम् । जायावर्य च सर्वस्य याम्यः पन्था विभिद्यते ॥' इति स्मृतिः ॥ ७॥ मदयन्तिका । भाविवाक्यमुन्नीयाह-किमिति । अत्राग्रेसरी मरणे प्रथमा । अवहिता मर्तुम् ॥ लवङ्गिका । अत्राहं म्रिय इत्याशयः । मदयन्तिका । अत्र वशंवदायत्ता । ते वचो न करिष्यामीत्यर्थः । कामन्दकी । निश्चितं निश्चयः कृतः । मदय- १२० जगद्धरकृता [अङ्क १० प० पृ० २३८ २३९ ९ योगिन्यम्बरतो विघ । पैत्ययं यस्याः । ६ मदयन्तिकालवनिके -पिअस० । १२ वयमप्यु- द्धृताः। १ ०अये, भद्रा सौदामिनी । ३ सौदामिनी । तत्सर्व। ५ भूरिजनजीवि० । ७ प्रमोदमपि नन्दय । १३ °शालि विजृम्भितं ते । २४० । न्तिका । खगतं गुरुसमीपे प्रियस्मरणस्यायुक्तत्वात् । अत्र जन्मान्तरेऽप्ययं प्रियः स्यादिति तत्कालेऽस्य स्मरणमिति भावः । लवङ्गिका । अत्र मधुमती नदी । संदानितं बद्धम् । विटको निम्रोन्नतप्रदेशः। 'विटङ्क उन्नते देशे' इति रत्न- कोशः । सकरुणः कश्चिद्वनेचर आह-मालतीत्यादि । भूरिवसुनिश्चित्य निश्चयं कृत्वा वहिपतनायानि प्रवेष्टुं सुवर्ण बिन्दुं शिवं लक्ष्यीकृत्यागच्छति। कीदृशः। मालतीमरणं ज्ञात्वा संसारविषयेष्वैश्वर्यादिषु जीवितेषु प्राणधारणेषु च विवि विवेकशालि निर्विण्णमिति यावत् । चेतो यस्य सः । विरक्तति पाठः सुगम एव । जीवितेविति बहुवचनं प्राणधारणक्रियाणां बहुत्वात् । अधुना भूरिवसुवियोगे सति हताः स्मः ॥ ९॥ मदयन्तिकालवङ्गिके। अत्रात्याहितं महाभीतिः । किमित्यादि । असयः खगाः पत्राणि यस्य वृक्षस्य । दारकलात् । चन्दनरस- छटा आश्चर्यात् । आसारो वृष्टिः । तयोरेकदावपातः पतनं किमयम् । भूरिवसु- गतानर्थश्रवणादसिपत्रपातः । मालतीमाधवयोर्जीवनाचन्दनरसासार इति भावः । किमयं मेघहीनोऽमृतवर्षोऽमिस्फुलिङ्गमिश्रः ॥ १० ॥ समित्यादि । संजीव- नौषधेविषस्य व्यतिकर मेलकं तेजसखिमिरस्य च मेलकं वज्रस्य चन्द्रकरस्य च मिलनं विधाताद्य सदृशीकरोतीत्यर्थः । आर्याच्छन्दः ॥ ११॥ नेपथ्ये । अत्र लोको जगत् । अलोकः स्वर्गः । तयोर्मध्य इत्यर्थः । मङ्गलं श्रेयः अनार्यया बालया। निरनुक्रोशा निर्दयाः । नन्दनाय दानोपक्रमात् । जन्मेत्यादि । उप. रागो राहुप्रहः । यथा कृष्णपक्षाजन्मान्तराञ्चन्द्रस्यैका कलोपलभ्यते तां च कव. लयितुं राहुरुपस्थितस्तथा तावकीनमिदं वृत्तान्तखरूपमिति भावः॥ १२ ॥ प्रमुग्धा पितृशोकजनितमोहात् । माधवः । अनर्थपरंपरायोगादतिकष्टम् । एषे- त्यादि । इयं मालती प्रवासमतीतापि राक्षसीहस्तमतिकान्तापि पुनरन्यथैव कथं संशयं प्राप्ता । पितृशोकात् । अत्रोपपत्तिमाह-फलदानाभिमुखस्य भाग्यस्य द्वाराणि सुखदुःखोपनयनानि निवारयितुं को नाम जन्तुरीष्टे समर्थो भवति । अपि तु न कोऽपीत्यर्थः । 'प्रवासः परहस्ते च परदेशेऽपि कथ्य' इति नानार्थः । नामानवक्लप्तौ । द्वाराणीति बहुत्वेन निवारणेऽशक्यतोक्ता ॥ १३ ॥ श्रीपर्वतादिति । श्रीपर्वतादहमिह सत्वरम तिशीघ्रमपतमागतोऽस्मि । तया अङ्कः ११] मालतीमाधवटीका। १२१ प० २४१ २४२ २ °ऊवणिअ भअवदीसिणेहणिबिसेसं समासासि । ४ मदयन्तिकालवङ्गिके-सुप्प० । १४ श्रेष्ठान्वये च त्वयि । १ °मदयन्तिकाद्य भव । ४ °सर्वतः कृता । ५ दि- ट्ठिआ दाणिं अवहदं हिअअस्स आसङ्कास । ६ ०णिरवसेसं माहवसिरिणो मालदीए अफलिदा मणो। ७-८ कलहंसकेन सह प्रमोदनिर्भरं नृत्यन्त्यावित एवागच्छतः। मालत्या सह । करुणाप्रधानवनेचरवचनादनन्तरं तां मालती न पश्यामि । माल- त्यपायमधिगम्येत्यादि करुणवनेचरवचनम् । आर्याच्छन्दः ॥१४॥ लवङ्गिका. मदयन्तिके । सखि मालति, ननु भणामि सखि मालति, इति । प्रलापक- मोऽयम् । अत्र निःस्फुरं चलनशून्यम् । कामन्दकी । सौदामिनीप्रभावकृत- ष्टयाश्चर्यमाह-किमिति । मेघाभावादृष्टेराश्चर्यहेतुतयेवकारः संगच्छते।माधवः। प्रत्यापन्नं पुनरायातम् । भवतीत्यादि । अस्या नासा दीर्घश्वासा भवति । चलनादेव । प्रसन्नतनं हृदयमपि भवति । चक्षुश्च स्निग्धं सन्निजप्रकृतिस्थिर भवति । तदनु तत्पश्चान्मुखम् । कर्तृ । मूर्छापगमात्प्रसन्नं शोभते शोभया सर्वतो व्याप्तं पद्ममिव । परिणतमिति पाठे विकसितमित्यर्थः । विततश्वासोन्नाहप्र. गुलपयोधरमिति पाठे दीर्घश्वासस्योबाहेनोद्गमेन प्रेरितौ स्तनौ यत्र तदित्यर्थः ॥१५॥ अवीत्यादि । तत्क्षणं मद्वाण्यामात्यो विवर्तते । कीदृशः । नन्दनसहितं नृपं पादनतमपि तिरस्कृत्याग्निसमूहे पतन् । गाढहर्षाश्चर्यश्च । सहभावस्य विकल्पात्स- हनन्दन मिति ॥ १६ ॥ सेत्यादि । सेयं योगिनी भिन्नमेघा संप्रत्यायाति यस्या अयं वागमृतजलासारो वचनामृतजलधारा जलधरजलधारामप्यतिक्रामति । सौहि- त्यादिना ततोऽप्यधिका भवतीत्यर्थः ॥१७॥ मालती। अत्र चिरस्य बहुकालेन । जीवेत्यादि । हे पुत्रि, त्वं जीव । ततो वल्लभाय जीवितं देहि । खजीवना- द्वन्धवोऽपि ते जीवन्तु । प्रशस्ताः । प्रशस्वार्थे कन् । हिमसंबन्धशीतलैर्मा लवङ्गिकां च जीवय ॥१८॥ मदयन्तिकालवङ्गिके। संभावय योजय । कपालेत्यादि । अनया सौदामिन्या कपालकुण्डलारोषाहुर्जातं मालत्यपहरण- रूपं तज्जनितविपत्तेः सकाशात्कृच्छ्रात्संकटानिर्बन्धेनातिप्रयत्नेन वयमुद्धृताः ॥ १९ ॥ मदयन्तिकालवङ्गिके । अत्र पुनःक्लेशकारितया पुनरुतदारुण- खम् । प्रतिकूलस्यैव विधेरधुनानुकूलखमित्याश्चर्यम् । एहीत्यादि । मालतीरक्ष- णेन बहुजनरक्षणजन्यपुण्यनिवहधारिके हे चिरेण वं दृष्टासि । अतो हेतोस्खमे. ह्यागच्छ । हन्त हर्षे । ममाङ्गमालिङ्गय हर्षय । शरीर कीदृशम् । दत्तानन्दमपि ।

१२२ जगद्धरकृता [अङ्कः १० पृ० प० २४३ १ लवङ्गिका-को वा इमस्सि संपूरिदसबप्पआरम- हूसवे ण परिहाससंपुण्णो होइ । ३ °देवं महा। ५ मत्र रमणीयतरं यद। ६०श्चिरात्पूर्णो। संब- न्धात्मा मनो। ८ °वस्तुवृत्त । ९ वचनमार्यायाः। ११ संबन्धानन्द । १२ नोपग्रहा। मालतीदर्शनेनेति भावः । हे सौहृदाश्रये, नतेविरम । बमेव नमस्या यतः ॥२०॥ तदेवाह-वन्द्येत्यादि । खमेव संसारस्य नमस्या । एवंविधैर्विलसितैराकाश- क्रमणरूपैर्वा श्लाघनीयसिद्धिस्त्वं यतः। कीदृशैः । बोधिसत्त्वा जीमूतवाहनादयः । तानप्यतिकामन्ति तैः। तेषामेकैकजीवनात्त्वया बनेकजीवनादतिशय इति भावः । यद्वा बोधिसत्त्वो बुद्ध विशेषः । तदतिक्रमवर्तिभिः । अनेकपुण्यकारिखात् । यस्या- स्तव विजृम्भितं चेष्टितं पूर्वपरिचयेन प्रतिबद्धमङ्कुरितं बीजं कारणं यत्र तत् । तद्भूतप्रचुरफलयुक्तं च भवति । तथा च बदुपकरणेन कृतार्थास्मीति भावः । अन्य- दपि कलमाद्यङ्कुररूपं विजृम्भितं पूर्वप्रतिबद्धबीजमुद्भूतप्रचुरफलशालि भवतीति ध्वनिः ॥ २१ ॥ मालती। अत्र समासादिता प्रापिता । केसरावली बकुल- माला सैवाभिज्ञानं प्रत्ययचिहं हस्ते यस्याः । तथा संधारिता रक्षिता । मज्जीवनेनेति भावः । मदयन्तिकालवङ्गिके । अत्र लज्येष्ठा कामन्दकी यथास्माकं सुप्रसन्ना तथा। यद्वा लमपि भवेत्यर्थः । सौदामिनीज्येष्ठलादपि भगवत्या गुरुवात्तस्यामत्यादरसूचनम् । यद्वा सौदामिन्या एव भगवतीकनिष्ठलेनादर उक्तः । अपीत्यादि । चिन्तामणिरपि चिन्तारूपं परिश्रममपेक्षते । अचिन्ति- तप्रदाने चिन्तामणिलव्याघातादिति भावः । इदं पुनराश्चर्य मन्ये यदार्यया सौदामिन्याचिन्तितं कृतमिति । तथा चात्रानुकारोऽपि नेति भावः । अत एवात्यन्ताश्चर्यम् ॥ २२ ॥ सौदामिनी । नन्दने प्रहर्षों मकरन्दमदयन्तिकानु- रूपघटनात् । वरगुणानाह-लाध्यानामिति । यदिह वयि जामातर्य- त्यर्थ प्रीतोऽस्सि तेनेयं मदयन्तिका तव प्रीत्यै वत्प्रीति कर्तु भवतः प्रेयसे मित्राय सुहृदे मकरन्दायाद्यास्माभिरपि दीयते । पूर्वमनुरागेण दत्ता । प्रीतिहेतुमाह- सच्चरितानां गुणिनां च गणनीये स्थिते प्रशस्तवंशे। पाठान्तरे ख्यातवंशे। प्रशस्त क्षिप्तं व्यसनमशुभं यत्र तत्र । सातिशये प्रत्युत्पनमताविति पाठेऽभिनवोत्पन- बुद्धौ प्रतिभावतीत्यर्थः ॥ २३ ॥ माधवः । कृतार्थता नृपनन्दनाविरोधात् । मालती । आशङ्का विरोधादिविषया । मर्ममेदिखाच्छल्यम् । लवङ्गिका। अत्र श्रीमाधवस्येति प्राकृते पूर्वनिपातानियमवात् । फलिता मनोरथाः । एतयो. रायतिशुद्धविवाहादिति भावः । सर्वे इति । भगवति कार्यनिधाने । अत्र जयेति शेषः । लवङ्गिका । अपि तु सर्वोऽपीत्यर्थः । कामन्दकी । अद्भुत- मित्यादिनोपगूहनमाह । यदाह-'अद्भुतस्य तु संप्राप्तिर्भवतादुपगृहनम् । ।

अङ्क: १०] मालतीमाधवटीका १२३ प० पृ० २४४ १ °वस्तुवृत्तम् । यतः । २ दामिनीप्रत्यक्षमनयोवृत्तेयं प्रतिज्ञावश्यमावा । ५-६ व्यन्ति महतां संस्तु- तापलापिन्यः कल्याणिन्यो नी० । ९ क्लेशो- ऽपि मच्छि० । १२ (सहर्ष प्रणमन् ।) भग- वति, अतः परमपि प्रि० । १३ भगवती- पादप्रसादात्। २४५ १-२ सन्तः सन्तु निरन्तरं सुकृतिनो विध्वस्तपापोदया राजानः परिपालयन्तु वसुधां धर्मे स्थिताः सर्वदा । काले संततवर्षिणो जलमुचः सन्तु स्थिराः पुण्यतो मोदन्तां धनबद्धबान्धवसुहृद्गोष्ठीप्रमोदाः प्रजाः ॥२५॥ इति मालतीमाधवे दशमोऽङ्कः । इति । प्रकरणं मालतीमाधवाख्यम् । कथमिव । अत्र पित्राद्यनुमत्या नाहं दत्ता तत्कथमियमेवमाहेति भावः । अन्यथेति । चोरिकया वृतं वस्तु विवाह कृत्यम् । आर्यायाः सौदामिन्या वचनमन्यथा । अमात्यागोचरेणेत्यर्थः । लवङ्गिका । अत्र सौदामिनीवचनं किंरूपमित्याशयः। कामन्दकी। श्रावकेति पाठकदशायाम् । प्रकृतिः शिष्टः । मालती । अहो संवरणम् । अत्र मन्त्रिणो मत्पितुरिति शेषः । माधवमकरन्दौ । कल्याणिन्यो मम संपन्ना यत इति भावः । यदित्यादि । यदायुष्मतोर्युवयोः । कल्याणमन्योन्यलाभरूपं पूर्व मनोरथैरेव वृत्तमाका सितमभू- त्तत्पुण्यैर्मदुपक्रमैश्च निसृष्टार्थदूनीकल्पकपटैः फलितम् । मच्छिष्ययोरवलोकिता- सौदामिन्योः क्लेशोऽपि फलित इति लिङ्गविपरिणामो योग्यतात् । क्लेशेनेति पाठे ताभ्यामेव फलितमित्यर्थः । तथा सन्मित्रस्य मकरन्दस्य मदयन्तिकया सह संबन्धोऽपि निष्णातो निःश विहितः । नृपनन्दनावतिप्रीती विहितौ । अत एव निःशङ्कता । अपरमतःपरं यत्प्रेयः प्रियं कर्तव्यमस्ति तदप्युच्यताम् । तत्क- रोमीत्यर्थः ॥ २४ ॥ सन्त इत्यादि । सजना निरन्तरं धार्मिकाः सन्तु । अत्र हेतुः । विनष्टपापोद्रेकाः । तथा च सतः पुण्यमुजृम्भतां पापं नश्यतामित्यर्थः । राजधर्म रक्षणादौ सदा स्थिता नृपा भुवं रक्षन्तु । वसु धनं दधातीति वसुधेत्य. नेन विपुलधनवत्त्वं भुव उक्तम् । काले वर्षादौ सस्याविरोधि सम्यक् ततं व्यापक यथा तथा वर्षणशीलाः मेघाः सन्तु । अकालवृष्ट्या सस्यनाशात्काल इत्युक्तम् । अत्र हेतुमाह-प्रजानां लोकानां पुण्यात् प्रजा हृष्यन्ताम् । घनबद्धो निरन्तर- कृतो बान्धवानां संबन्धिनां सुहृदां मित्राणां गोष्ठीषु प्रकृष्टहर्षो याभिवाः । तदनेन १२४ जगद्धरकृता। [अङ्कः १० प्रशस्तिरुता । काव्योपसंहारोऽप्यनेनैव कृतः । यदाह-वरदानस्य उक्तियों सा काव्य उपसंहृतिः ॥ इति ॥ २५॥ लब्धं दुर्लभशासनं सुरगणप्रामश्च कैवर्तिका- द्विद्यावंशविभूषिते अपि शुमे छत्रे उमे धारिते । येनायं समभूद्विजातितिलकश्चण्डेश्वरः पण्डितो मीमांसकरहस्यवश्यहृदयो दातावदाताशयः ॥ १ ॥ देवेशं समसूत सोऽयममलं मीमांसकं सत्कविं सोऽप्युच्चैरजनिष्ट जैमिनिमते रामेश्वरं सद्धम् । सूते स्मायमपि प्रतीपजयिनं मीमांसयालंकृतं शुद्धं धीरगदाधरं कविवरं पुत्रं पवित्राशयम् ॥ २॥ विद्याधर वरमजीजनदेष धीरें हीरे जनेषु जयिनं गुरुणोकशाने । प्रासूत सोऽयममलं गुणिनं सुपुत्रं तं रत्नपूर्वधरमेष जगद्धरं च ॥ ३ ॥ येनापाठि कठोरगौतममणेवैशेषिकं खण्डनं येनाश्रावि सकोषकाव्यनिवहं तत्पाणिनीयं मतम् । छन्दोलंकरणं च भव्यभरतं येनाध्यगामि श्रुति- स्तस्यामुष्य जगद्धरस्य कवितुष्टीकेयमुज्जृम्भताम् ॥ ४ ॥ असूत यं रत्नधरोऽतिभव्योऽतिभव्यरूपा दमयन्तिकापि । जगद्धर तत्कृतटिप्पणेऽङ्कः समाप्तिमापद्दशमोऽनवद्यः ॥५॥ इति श्रीमन्महोपाध्यायपण्डितराजमहाकविराजधर्माधिकारि- श्रीरत्नधरपण्डितात्मजश्रीजगद्धरविरचितायां मालती. माधवटीकायां दशमोऽङ्कः।

अनुक्रमणी। अकरिष्यदसौ ९।५२ आविर्भवन्ती ३४ कुवलयदल ५१५ अकरुण वितर ९४२३ आश्चर्यमुत्पल ३५ केकामिनीलकण्ठ ९.३० अकारणस्नेह १०६ इदमिह २१६ क्षिपन्निद्रा २०१२ अतिमुक्तक ५८ इयमवयवैः ६६ गमनमलसं १२० अत्रान्तरे १।२९ ईषत्तिर्यग्वलन ४२ गाढोत्कण्ठ ६।१९ अद्यैवेन्दुमयूख ८।१० उज्वलालोकया १०४ गात्रेषु चन्दन ९।२२ अद्योर्जितं ७४ उत्कृत्त्योत्कृत्य ५।१६ गुञ्जत्कुञ्ज ५११९ अनियतरुदित १०१२ उत्फुल्लाजुनसर्ज ९।१७ गुणापेक्षा २७ अनुभवं वदने ३।१० उद्दामदेह ६।१३ गुणैः सतां न १९ उदृत्तस्खलित ५।३ गुरुचर्या ९।५३ अनुरागप्रवा १११६ अन्येषु जन्तुषु ११२३ उजालबाल ९.१३ धर्माम्भो १४० अन्योन्यसंमिन्न ११३६ उन्मीलन्मुकुल ११४१ चिरादाशातन्तुः ४३ अपत्यसंबन्ध १११३ एकीकृतस्त्वचि १।१२ चूडापीडकपाल १११ अपहस्तित ९।१९ एतत्पूतनचक्र ५।१४ जगति जयिनस्ते ११३९ अपि चिन्ताम १०।२२ एतस्मिन्मदकल ९।१४ जन्मान्तरादिव १०।१२ अभिनवराग १०॥३ एते केतकसून ९।४३ जयदेव भुवन ९।४ अभिहन्ति हन्त ११४२ एषा प्रवासं १०११३ जलनिबिडित ४।१० अयमभिनव ९५ एयहि भूरि १०।२० जितमिह ३११५ अलसवलित ११३१ कच्चित्सौम्य ९।२५ जीव जीवित १०११८ अविगणय्य नृपं १०१६ कठोरास्थिग्रन्थि ५।३४ जीवयन्निव ८।३ अविरलमिव ३।१६ कण्डूकुइमलिते ९।३२ जृम्भाजर्जर ९।१६ अशस्त्रपूत ५।१२ कथमपि तदा ९.५० ज्वलतु गगने २१२ असारं संसारं ५।३० कथयति खयि ८।११ ज्वलयति मनो ३६ असौ विद्या २।११ कपालकुण्डला १०1१९ तं भद्रे ५।२५ अस्तोकविस्मय ९५५ करालायतना ५।२१ तत उदय २।१० अस्माकमेक ६४ कर्णाभ्यर्ण ५।१३ तथा विनय ३११ आ जन्मनः प्रति १०१ कल्याणानां ११५ तदेतदसितो ९.३० आ जन्मनः सह ९/४० काश्मर्याः कृत ९७ तन्मे मनः ४८ आनन्दनानि ९।४८ किंवा भणामि ६।११ तरुणतमाल ९.१८ आत्रैः कल्पित ५।१० किमपि किमपि ८1१३ तां याचते नर १११४ आपूर्णश्च कला ९।३९ किमयमसि १०० तामिन्दुसुन्दर १२१ आमूलकण्टकित ६॥३९ कुमुदाकरेण ९४९ ते श्रोत्रियास्त १७ .

२ लं वत्सलेति ६।१४ पर्यन्तप्रतिरोधि ५।११ मालत्यपायम १०१९ लत्पाणि ५।२७ पश्यामि तामित ११४३ मालत्याः प्रथमा ६.३ लद्वल्लभः ८1८ पुरश्च५६।१५ मा वां सपन्नेष्व ४॥५ दग्धं चिराय ८४ पृथुचलरसनो ५।१५ मुग्धेन्दुसुन्दर ९।४५ दधति कुहर ९६६ प्रकृति ललित ३।१४ म्लानस्य जीव ६८ दन्तच्छदा ९.३१ प्रचलितकरि ५।२३ यत्प्रागेव १०।२४ दन्तश्रेणिषु १३ प्रणयसखी ५।३१ यत्रत्य एष ९.३ दया वा हो वा ४६ प्रथमप्रिया ३७ यत्नेहसंज्वर ९३६ दलति हृदयं ९/१२ प्रमथ्य कव्यादं ४॥९ यदि तद्विषयो ३।१३ दलयति परि ८१ प्रयान्तीव प्राणाः ९.४६ यदिन्दावानन्दं ३९ दैवात्पश्येर्जगति ९।२६ प्रसरति परि ११४४ यद्विस्मयस्ती १।२२ दोर्निष्पेष,८१९ प्रासादानां ७५ यद्वेदाध्ययनं १११० धत्ते चक्षुर्मु ३।१२ प्रियमाधवे ९९ यद्यालव्रणित ४।१ धिगुच्छसित ९।३५ प्रियस्य सुहृदो ९१४१ यन्मां विधेय ११२ धैर्य निधेहि ५।३२ प्रेतद्भरि ६५ या कौमुदी ११३७ न यत्र प्रत्याशा ९८ प्रेमााः प्रणय ५७ याता भवेद्भ ८।१४ नवेषु लोध्र ९।२७ प्रेम्णा मथि ८६ यान्या मुहुर्व ११३२ नाघोरघण्टा ५१३३ प्रेयान्मनोरथ ७।३ ये नाम केचि १८ नादस्तावद्वि ५।२० प्रेयो मित्रं ६।१० रम्भोरु संहर ७२ नान्तर्वर्धयति ९।३३ फलभरपरिणाम ९।२४ राज्ञः प्रियाय २८ निकामं क्षामाङ्गी २१३ बन्धुताहृदय ९१२१ राहोश्चन्द्रकला ५।२८ नित्यं न्यस्तषडङ्ग ५.२ बहिःसर्वाकार १।१७ लीनेव प्रति ५।१० निर्माणमेव ९५१ बाष्पाम्भसा ८.५ लीलोत्खात ९।३४ निश्चयोतन्ते ८॥२ भवति वितत १०।१५ वन्द्या खमेव १०२१ निष्टापखिद्य ५।१७ भवद्भिः सर्वाङ्ग ९।२९ वयं तथा नाम ७११ निष्प्रत्यूहाः ९४७ भारः कायो ९।३७ वयं बत ३.१० नीवीबन्धो २१५ भूना रसानां १६ वरेऽन्यस्मिन्दोषः २०१३ नैराश्यकातर ६९ भूयो भूयः सविध १११८ वानीरप्रसवैः ९।१५ न्यस्तालक्तक ५।२४ भो राजानश्च ६४२ वारं वारं तिरयति ११३८ पक्षमालीपिङ्ग ११४ भ्रमय जलदा ९.४२ विकसत्कदम्ब ९।४४ पद्मावती विमल ९१ मनोरोगस्तीव्रो २०१ विधाता भद्रं ६१७ परिच्छेदव्यक्तिर्न १।३४ मम हि कुवल ८1१२ विवृण्वतेव ११११ परिच्छेदातीतः ११३३ मयि विगलित ९।११ विशेषतस्तु १।१५ परिणतिरम ६११६ मरणसमये ५।२६ विष्वग्वृत्तिर्जटानां ५।४ परिपाण्डु २१४ मातर्मातर्दलति ९।२० व्यतिकर इव ९.५४ परिमृदित ११२५ मा मूमुहत्खलु ११३५ व्यतिकर इव १०1८ ३ सानन्दं नन्दि १२ सा योगिनी य १०११७ सा रामणीयक १।२४ सावष्टम्भ ५१२२ व्यतिकरित २९ श्लाघ्यान्वयेति ६।१७ व्यतिषजति १२७ षडधिकदश ५।१ संगमः कर्मणां १०७ व्याघ्राघ्रात ५।२९ व्योम्नस्तापिच्छ ५६ संजीवनौषधि १०११ व्रजति विरहे ३३२ संतापसंतति ११२६ शरज्योत्स्ना १।१९ संभूयेव ५।९ शाकुन्तलादी ३।३ संसक्तत्रुटित ३।१७ शान्तिः कुतस्तस्य ६।१ सन्तः सन्तु १०।२५ शास्त्रे प्रतिष्ठा ३।११ सभ्रूविलास १।२८ शिवमस्तु १०।२५ समानप्रेमाणं ४।४ श्रीपर्वतादिहा १०११४ सरले साहस ६।१० यानां गुणि १०।२३ सरसकुसुम ९।१० सुहृदि गुण ९।२८ सुहृदिव प्रकटय्य ४७ सैषा विभाति ९।२ स्खलयति वचनं ३८ स्तन्ययागात्त १०५ स्तिमितविकसि १३३. हरेरतुलवि ८10 समातोऽयमकारादिवर्णक्रमकोशः।

No text on this page.

No text on this page.

Malatimadhab Ed. 6

Author
Pansikar, Vasudev Laxman Sastri, Rev.
Title
The Commentaries Of Tripurari And Jagaddhara
File name
Malatimadhab Ed. 6
Text
OCR done
Citation
1836
Published
2007/03/1
Publisher
Pandurang Jawaji, Bombay
Language
Sanskrit
Pages
384
Library
Uttarpara Jaykrishna Public Library, Hooghly
Classification
Literature
DLI number
292808
Barcode
4990010200585.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
3ZtGbxdX1sT
Download PDF

Malatimadhab Ed. 6