Digamber Jain Atishay Kshetra, Jain Vidhya Sansthan Library, Shri Mahaveer Ji, (karauli )

Sarsthanasamuchchaya

Gupta, Hari Dass · 2010/08

PDF Proofread

Front matter

No text on this page.

चौखम्बा-संस्कृत-ग्रन्थमाला ग्रन्थसंख्या २७ नं० ९५. पड्दर्शनसमुच्चयः । अर्थात् बौद्ध-नैयायिक-कापिल-जैन-वैशेषिक-जैमिनीय- दर्शनसंक्षिप्तनिरूपणो निबन्धः । आईतप्रवरश्रीहरिभद्रसूरिरचितः। परमाहतमणिभद्रकृतलघुवृत्तिसमाख्यया व्याख्यया सहितः। कलियुगजनपावनावतारभक्तजीवजीवातुपरपुमर्थप्रेमवितरणपरायणश्री १०८ भगवत्कृष्णतन्यचरणोपदिष्टैकवीथीपथिकेन श्री ६ मध्वसम्प्रदाया- चार्यदार्शनिकसार्वभौमसाहित्यदर्शनाथाचार्यतर्करसन्यायरत्न- गोस्वामिधीदामोदरशास्त्रिणा संशोधितः । .. - प्रकाशक- जयकृष्णदास-हरिदास गुप्त- चौखम्बा संस्कृत सीरिज़ आफिस, विद्याविलासप्रेस, गोपालमन्दिर के उत्तर फाटक, बनारस सिटी।

DEDGE UPS దాం. aaaaaaaaaaaaaaaaa इस कार्यालय द्वारा "काशीसंस्कृतसीरिज" के अलावा और भी ३ सरिज यथा "चौखम्वा संस्कृत सीरिज". "वनारससंस्कृतसीरिज" "हरिदाससंस्कृतसीरिज" प्रत्य मालायें निकलती हैं तथा इन ४ सीरिजों के पश्चात् और भी विविध शास्त्र की पुस्तकें प्रकाशित की गई है तथा अन्य सव स्थानों के छपे हुए संस्कृत तथा भाषा-भाष्य के प्रन्थं विक्रयार्थ प्रस्तुत रहते हैं, सूचीपत्र पृथक् मंगवाकर देखें, इसके अलावा हमारे यहां सर्व प्रकार की संस्कृत, हिन्दी,अङ्ग्रेजी की सुन्दर छपाई होती है, परिक्षा प्रार्थनीय है। पत्रादि प्रेषणास्थानम्- जयकृष्णदास-हरिदास गुप्तः- "चौखम्बा संस्कृतसीरिज़” आफिस, विद्याविलास प्रेस, गोपालमन्दिर के उत्तर फाटक, बनारस सिटी। MOOG-00-00-macoc For veovaoncocono ..

श्रीश्रीगौरकृष्णः शरणम् । प्रथमसंस्करणकस्य षड्दर्शनसमुच्चयस्य भूमिका । अहः संहरदखिलं सकृदुदयादेव सकललोकस्य । तरणिरिव तिमिरजलधि जयति जगन्मङ्गलं हरेर्नाम ॥ अयि पड्दर्शनीवल्लभाः! लभतां ननु भवतामासेचनकतां चिररानाय चिन्वानायास्तन्वानायाश्च हृयायाः किल वोऽस्याः पड्दर्शन्या समुढेलोत्कण्ठोदधेरग्रीविकासहस्त्र प्रदानं श्रीमतामात्मदर्शनाय सौ. खप्रकटनिकता भवत्सु पदम् , न हि खलु सर्वदर्शनसंग्रहादिजातीयनिबन्धैः समं पास्पर्द्धदर्य निबन्धो नामाकर्णन- मात्रजनुर्धर्भवादृशैहेलालवमपि जामितासध्रीचीन नेयस्तत्त्वनिभालनमार्मिकतास्वयं- वृतैः, नयनाञ्जलार्पणायासमात्रेण चेदमीयरहस्यमनुबोभुवतो भवन्तो भविष्यन्ति, कृत- मर्थवादविडम्बनेन, अयञ्च निबन्धः सप्ताशीत्या पधैर्निर्मितो ग्रन्थका पड्दर्शनसमुच्चयनाम्ना प्रसेधि- तः, दर्शनपदार्थश्चैतादृशस्थले दृश्यते ज्ञायत आत्माऽनेनेति ज्ञानसामान्यार्थकात् पश्य- तेः करणल्युटा निष्पन्नदर्शनपदजन्यज्ञानविपयः चेतनवस्तुविचारप्रवणागमात्मकः, दर्श- नगतपटसंख्याविधायां तु तैर्थिकानां भूयांसि मतानि- के चित् खलु पूर्वोत्तरमीमांसाद्वयं निरीश्वरसेवरसांख्यद्वय पोडशसप्तपदार्थाख्यायि- न्यायद्वयं चेति मिलितानि दर्शनपटकं प्राहुः, अन्ये पुनः सौत्रान्तिकवैभापिकयोगाचारमाध्यमिकप्रभेदबौद्धन जैनलौकायतिकाभ्याच पूर्वदर्शनपट्कं द्वादशदर्शनी प्रतिजानते. परे तु मीमांसकसांख्यनैयायिकबौद्धजैनचार्वाकाणां दर्शनानि पड्दर्शनी संगिरन्ते, प्रकृतनिबन्धकारस्तु-- बौद्धं नैयायिकं सांख्यं जैन वैशेषिकं तथा । जैमिनीयञ्च नामानि दर्शनानासमून्यहो- इति तृतीयकारिकायां प्रकारान्तरमेवान्वसरद् , अपराणि चापि दर्शनान्येकेऽमन्यन्त, यानि. सर्वदर्शनसंग्रहसर्वदर्शनशिरोमण्यादिनि- बन्धेषु व्यक्तानिः परन्तु न ज्ञायते दर्शनविभागस्य स्वेच्छयैवेशानेस्तद्विभागकत्तुमहा- भागैः केनागसाऽसौ तपस्विनी दर्शनसंख्यैतागपव्यवस्थाविपदमनायीति, कथं वा दोपैकहरभ्यो रोचतेऽप्ययमवधीरितनिजस्वरूपोऽपरिगणयगयो “रसो वै स" इत्यादिप्रमा- पर्धन्यनेकविधोपपत्तिप्रसाधितरसस्वरूपात्मप्रतिपादनपरभारतीयदर्शनम् , यतः-स्वस; मभिव्याहृतपदार्थताऽवच्छेदकव्याप्यपरस्परासमानाधिकरणयावद्धर्मप्रकारकज्ञानानुकूल- व्यापारात्मकं हि विभागं तज्ज्ञाः समभिप्रयन्ति, न चेत्थंभूततैभिरुक्तचरेष्वेकमपि विभागमाश्रयते, प्रकृतनिबन्धा त्वशेपदर्शनस- मानं वेदान्तमवहेलयन् “दीपाधस्तिमिर" न्यायमेव स्मालम्बते, आस्ता चैपा दुर्व्यव- स्था, कृतमनेनानुपक्रान्तविमर्शन, किन्तु तिष्ठत्येवार्य निबन्ध आपाततः पञ्चपदर्शनीय स्थवीयोऽनेकविपयनिरूपणेन प्रविविक्षुजनानां कतिपयपदार्थावबोधसंपदं वितरीतुं बद्धप- रिकर इति नात्र विशयलेशोऽपि, अस्य च षड्दर्शनसमुच्चयस्य निर्माता परमाईतो हरिभद्रसूरिः, अयं हि हरिभद्रसूरिर्जात्या ब्राह्मणः, चित्रकूटादिनिकटवर्तिचित्तौडाग्यनगरराज्यास- नारूढस्य जितारिनामकभूपस्य पुरोहितः प्रौढाभिरूपः कदा चित् क चनोपजैनोपाय- चक्कीद्वगं हरिपणागं चक्कणकेसवो चक्की ।

भूमिका । केसवचक्की केसव, दुचक्की केसवचक्कीय इति- गायां साकिनीनाम्न्याः कस्याश्चिदाईत्याः साध्व्या मुखान् निशम्योदितविस्मयाति. शयस्तदर्थमवबुभुत्समानो भृशमागृहयालुतां दधदप्यनुपलभमानोऽनुनीयमानयाऽपि नि- जधर्ममर्मरक्षणशिक्षणपरायणया तया गोपितां तद्गाथाप्रतिपत्ति तयैव सूचितं तदर्थावबोध- वितरणपरिपृढं जैनविपश्चिदपश्चिमं जिनमसूरि तदवगतयेऽत्यर्थमन्वरुणत्, तथाऽनुरोरुध्यमानमानसमेनमवेत्य जिनभट्टसूरिणाऽपि "विनाऽहतधर्मोपदेशमेपा- नीपदवगमा गाथेत्युक्तोऽयं तदैव विरज्याशिनियन्जिनोपदिष्टधर्मम्, अनन्तरञ्च क्रमेणा- नेकान्तजयपताका, ललितविस्तर,चैत्यवन्दनवृत्ति,दर्शनसप्ततिका,मुनिपतिचरित्र, वेदवाह्य- तानिराकरण,श्रावकधर्मविधि,समरादित्यचरित्र, योगविन्दुप्रकरणवृत्ति, पड्दर्शनसमुच्चय, प्रभृतिनिबन्धप्रकाण्डग्रेसरां चतुश्चत्वारिंशदुत्तरचतुर्दशशती ग्रन्थानां व्यररचत् , जन्मसम- यश्च हरिभद्रसूरेः प्रायः पञ्चम्या वैक्रमशताब्याः समाप्त्युपकण्ठमनुमीयते, यतः पष्ठ्या- स्तच्छताब्द्याः पञ्चत्रिंशे वर्षेऽयं पञ्चत्वमगमदिति निरदीधरन्नैतिहासिकाः, तत्त्वप्रबोधादिनिर्माता हरिभद्रसूरिस्तु भिन्न एवास्मादत्यर्वाचीनः ख दन्दुमि- तविक्रमादित्याव्देऽविद्यतेति, इदं च सर्वमेतदीयवृत्तं जामनगरवास्तव्यपण्डितश्रावकहीरालालसम्पादित"जैनध. मप्राचीनेतिहास" नामकग्रन्थाश्रयादुधारीत्यैतिह्यविदो विदाकुर्वन्तु, टीकाकृन्मणिभद्रसुरिवृत्तं तु विहितेऽपिभृियसि मार्गणे नाल्पीयोऽप्यध्यगम्यद्यावधि, भविष्यन्त्यां तदधिगतो छ चनावसरेऽवश्यमितिहासरसिकमनोविनोदाय प्रकाशयिष्यत- इत्याशेमहे, अत्युपादेयस्य सटीकस्यास्य ग्रन्थस्याधुनाऽवध्यप्रकाशनमवेक्ष्य दृयमानमानसेनानु: क्षणमप्रकाशितप्राचीनप्रशस्तभूरिदर्शननिबन्धप्रकटीकृतिबद्धपरिकरेण विद्याऽनुरागिणा सौ. जन्यशेवधिनाऽस्मदक्तवरेण श्रेष्टिना श्रीहन्दिासगुप्लेन भृशमेतच्छोधनाय प्रार्थितोऽह व्या- पृताऽप्यन्यात्मीयावश्यकशास्त्रीयकार्यकार्यपूक्तश्रेष्टिभक्तिमात्रवशंवदः समभ्युपागममेनत्, अस्य चैक सटीकं प्रायोऽशुद्धं जयपुरस्थसाहित्याचार्यविहारिलालशास्त्रिण उक्तश्रे- हिनैव तत आनाय्य मदन्ति प्रापितम् , द्वितीयं ३ स्त्रकोयमेव श्रीवृन्दावनस्थश्री१०८भगवन्मदनगोपालपुस्तकालयस्थमह- मानेपम् , एवं पुस्तकद्वयाश्रयतः समुपक्रान्तवान् मुदयित्वा प्रकाशनायाहममुं ग्रन्थम् , अत्यल्पीयसा समयेनैतत्प्रतिपाद्यं जिज्ञासूनाञ्च हिताय कारिकाऽऽत्मक मूलमानं पर्य- शीशिपम्, मध्ये चास्यागतानि प्राकृतवचनानि संस्कृत्य परिशिष्टात्मना समावीविशम् अन्न चात्यवदधतोऽपि शोधने मन्मानुष्यकनान्तरीयकदृष्टिदोपादिजन्मानोऽशुद्धयो मर्प- णीयाः सौजन्यवद्भिर्भवद्भिः, इत्थमदः साङ् ग्रन्यरत्नं स्वकीयविद्याविलासनामके काशीस्थे यन्त्रालये श्रेष्ठिहरि- दासेन स्वायव्ययेनाविभांवितं मनश्च जातसंशोधनमनुसृत्य मरालपद्धति भवाशाश्चेद हकपथपथिकीकुटुंभवेतां किल फलेग्रहिश्रमौ शोधकप्रकाशकावित्यत्र न माम मात्रया- ऽपि सन्देहः, प्रीयताचानेनास्मद्व्यापारेण सर्वान्तर्यामी सच्चिदानन्दविग्रहो भगवान् श्री१०८ राधिकारमण इत्याशास्ते- कलियुगजनपावनावतारभक्तजीवजीवातुपरपुमर्थप्रेमवितरणपरायणश्री१०८ भगवत्व प्णचैतन्यचरणोपदिष्टेकवीधीपथिका श्रीममध्यसम्प्रदाचार्या साहित्यदर्शनाचार्यो- विजयदशाम्याम् सं० १९६२ दामोदरलालगोस्वामी। नाराणस्याम्। , - " श्रीश्रीगौरकृष्णः शरणम् । द्वितीयसंस्करणकस्यः षड्दर्शनसमुच्चयस्य भूमिका। आहेतप्रवरश्रीहरिभद्रसूरिकृतोऽयं सटीकः पड्दर्शनसमुच्चयाख्यो निबन्धः प्रायः पञ्चविंशतिवर्पतः पूर्ने चौखम्भासंस्कृतग्रन्थावलिप्रकाशनकार्यप्रबन्धजन्मदात्रा विनया- दिविविधगुणाकरेणास्मद्विशिष्टस्नेहास्पदेन बाबू श्रीहरिदासगुप्तेन प्रचिकाशयिपितोऽस्मा- भिरेव संशोधनादिपुरःसरं समपादि, समयबहीयस्त्वेन निःशेषतामाप्तेष्विदमीयमुद्रितपुस्तकेपु पुनर्मुद्रणमेतस्योक्तश्रेष्ठि- तनूजैस्तातानुरूपैर्वाश्रीजयकृष्णदासप्रभृतिभिः स्वकीयविद्याविलासयन्त्रालये विधि- त्सुभिरनुरोरुध्यमानोऽहमेनं पूर्वावशिष्टाशुद्धीः परिशोध्या ग्रन्थघटकप्राकृतगाथानां संस्कृ- सच्छायाः परिशिष्टात्मना समाविष्टचरीरिदानी मूलाधस्स्थत्वेन समावीविशम् , निबन्धसंबद्धमपरं च ज्ञातव्यं प्रथमसंस्करणभूमिकायामस्त्येव तदर्थमेवासावधुनाऽपि नौझीति जिज्ञासुभिस्तत एव ज्ञेयम्, एतदनुस्यूतस्य वक्तव्यान्तरस्य संप्रति विरहेण मुधा विस्तराद्विरमति- श्रीमन्माध्वसंप्रदायाचार्यो दार्शनिकसार्वभौमसाहित्यदर्शनाद्याचार्यतर्करनन्यायरत- प्रबोधन्याम्, वै० सं० १९८६ काश्याम् गोस्वामिदामोदरशास्त्री।

विषयानुक्रमः-
पृ० सं०
उपोद्घातः
५-११.
बौद्धमतम्
११-३१.
....
३ न्यायमतम्
३१-३९
४ लांख्यमतम्
३९-६२ :
६ जनमतम्
६२-६६
६ वैशेषिकमतम्
६६-७३
७ जैमिनिमतम्
७३-८०
८ चार्वाकमतम्

॥ श्रीः ॥
षड्दर्शनसमुच्चयः।
श्रहिरिभद्रसूरिविरचितः
मणिभद्रकृतया टीकया समलङ्कृतः ।
सज्ज्ञानदर्पणतले विमलेऽत्र यस्य
ये के चिदर्थनिवहाः प्रकटीवभूवुः ।
तेऽद्यापि भान्ति कलिकालजदोषभस्म-
मोद्दीपिता इव शिवाय स मेऽस्तु वीरः ॥ १ ॥
जैन यदेकमपि बोधविधायिवाक्य.
मेवं श्रुतिः फलवती भुवि येन चक्रे ।
चारित्रमाप्य वचनेन महत्तराया:
श्रीमान्त नन्दतु चिरं हरिभद्रमरिः ॥ २ ॥
संनिधेहि तथा वाणि ! षड्दर्शनाङ्कषड्भुजे ।
यथा पड्दर्शनव्यक्तिस्पष्टने प्रभवाम्यहम् ॥ ३ ॥
व्यासं विहाय संक्षेपरुचिसत्वानुकम्पया ।
टीका विधीयते स्पष्टा पड्दर्शनसमुच्चये ॥ ४ ॥
इह हि श्रीजिनशासनप्रभावनाविभावकामोदयभूरियशश्च-
तुर्दशशतप्रकरणकरणोपकृतजिनधर्मो भगवान श्रीहरिभद्रसूरिः
षड्दर्शनप्रमाणपरिभाषास्वरूपजिज्ञासुशिष्पहितहेतवे प्रकरण-
मारिप्समानो निर्विघ्नशास्त्रपरिसमाप्त्यर्थं स्वपरश्रेयोऽर्थ
सम्मुचित्तेष्टदेवतानमस्कारपूर्वकमभिधेयमाह- .
सद्दर्शनं जिनं नत्वा वीरं स्थावाददेशकम् ।
सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते ॥१॥

सटीके षड्दर्शनसमुच्चये अर्थो निगद्यतेऽभिधीयत इति सम्बन्धः, अर्थशब्दोऽत्राभिः धेयचाचको ग्राह्यः "अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिवि"-- स्थनेकार्थवचनाद्, मयेत्यनुक्तस्यापि गतार्थत्वात् , किंवि- शिष्टोऽर्थः ? सर्वदर्शनवाच्य इति । सर्वाणि च तानि दर्शनानि चौ- द्धनैयायिकजैनवैशेषिकसांख्यजैमिनीयादीनि समस्तमतानि वक्ष्य. माणानि तेषु वाच्यः कथनीयः, किं कृत्वा ? जिनं नत्वा, सामा- न्यमुक्ता विशेषमाह-कं जिनं ? वीरं वर्द्धमानस्वामिनम् , वीरमि. ति साभिप्रायम् प्रमाणवक्तव्यस्य परपक्षोच्छेदादिसुभटवत्तित्वाद् भगवतश्च दुःखसम्पादिविषमोपसर्गसहिष्णुत्वेन सुभटरूपत्वात् तथा चोक्तम्-- विदारणाकमततेचिराजना- तपाश्रिया विक्रमतस्तथाऽद्भुतात् । भवत्प्रमोदः किल नाकिनायक- श्वकार ते वीर इति स्फुटाभिधाम् ।। इति युक्तियुक्तं ग्रन्थारम्भे वीराजिननमस्करणं प्रकरणकृतः, यद्वाऽऽसन्नोपकारित्वेन युक्ततरमेत्र श्रीवर्द्धमानतीर्थकृत्तो नमस्क- रणम् , तमेव विशिनष्टि--किभूतं ? सदर्शनं सत् शोभमानं दर्शन- शासनं सामान्यावबोधलक्षणं ज्ञानं सम्यक्त्वं वा यस्य स तमिति, ननु दर्शनचारित्रयोरपि मुक्सङ्गत्वात् किमर्थं सद्दर्शनमित्ये . कमेव विशेषणमाविष्कृतम् ? न-दर्शनस्यैव प्राधान्याद् यत्सूत्रम्-- "भठेणं चरित्ताउ दंसणमिह दिढयर गहेयन्वं । सिझंति चरणरहिया दसणरहिया न सिझंति" ।। १ भ्रष्टेन चरित्राद् दर्शनमिह दृढतरं ग्रहीतव्यम् । सिध्यन्ति धरणरहिता दर्श- नरहिता न सिध्यन्ति ।

बौद्धमतम् । - इति तद्विशेषणमेव युक्तम् , पुनः किंभूतं ? स्यावाददेशकम् स्याद्विकल्पितो बादः स्याद्वादः सदसन्नित्यानिसाभिलाप्यानभि लाप्यसामान्यविशेषात्मकस्तं दिशति भावकेभ्य उपदिशति यस्तम् , अत्रादिमाः भगवत्तोऽतिशयचतुष्टयमाक्षिप्तम् , सद्दर्शन. मिति दर्शनज्ञानयोः सहचारित्वाज्ञानातिशयः, जिनं वीरमिति रागादिजेतृत्वादष्टकर्माद्यपायनिराकर्तृत्वाचापायापगमातिशयः, स्थाद्वाददेशकमिति वचनातिशयः, ईग्विधस्य निरन्तरभक्तिभर. निर्भरनुरासुरनिकायनिषेव्यत्वमानुषङ्गिकमिति पूजाऽतिशयः॥१॥ कानि तानि दर्शनानीति ? व्यक्तितस्तत्सङ्ख्यामाह- दर्शनानि षडेवान मूलभेदव्यपेक्षया । देवतातत्त्वभेदेन ज्ञातव्यानि मनीषिभिः ॥२॥ अत्र जगति प्रसिद्धानि षडेव दर्शनानि, एक्शब्दोऽवधा. रणे, यद्यपि भेदमभेदतथा बहूनि दर्शनानि प्रसिद्धानि यदुक्तं सूत्रे- "अप्सियसयं किरियाणं अकिरियवाईण हुंति चुलसीई । अन्नणियं सत्तही वेणइआणं च वत्तीसं"। इति त्रिषष्टयधिका त्रिशती पापण्डिकानाम् : बौद्धानां चाष्टा- दश निकायभेदाः, वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकादयो. भेदाः, जैमिनेश्च शिष्यकृता बहवों भेदाः- "उत्पलः कारिकां वेत्ति तन्त्रं वेत्ति प्रभाकरः । वामनस्तुभयं वेत्ति न किंचिदपि रेवणः" । अपरेऽपि वहूदककुटीचरईसपरमहंसभामाभाकरादयो वह- वोऽन्तर्भेदाः, अपरेषामपि दर्शनानां तत्त्वदेवताममाणादिभिन्नतया बहु- भेदाः प्रादुर्भवन्ति; तथाऽपि परमार्थतस्तेषामेष्वेवान्तावात्प डेवेति सावधारणं पदम् , .. - ४ सटीके षड्दर्शसनमुच्चये - ननु संघटमानानियतो भेदानुपेक्ष्य किमर्थं पडेव ? इत्याह- मूलभेदव्यपेक्षया, मूलभेदास्तावत्पडेव पटसंख्यास्तेषां व्यपे- क्षया तानाश्रित्येत्यर्थः, तानि दर्शनानि मनीपिभिः पण्डितैज्ञा- तव्यानि वोद्धव्यानि, केन प्रकारेणेति ? देवतातत्वभेदेन देवता दर्शनाधिष्ठायिकाः, तत्त्वानि च मोक्षसाधकानि रहस्यानि, तेपां. भेदस्तेन पृथक् पृथग् दर्शनदेवतादर्शनतत्त्वानि च ज्ञेयानीत्यर्थः।।२।। तेषामेव दर्शनानां नामान्याह-- बौद्ध नैयायिकं सांख्यं जैनं वैशेषिकं तथा । जैमिनीयं च नामानि दर्शनानाममून्यहो ॥३॥ अहो इति इष्टामन्त्रणे, दर्शनानां मतानाममूनि नामानी- ति संग्रहः, ज्ञेयानीति क्रिया,ऽस्तिभवत्यादिवदनुक्ताऽप्यवग- न्तव्या, तत्र वौद्धमिति बुद्धो देवताऽस्येति चौद्धं सौगतदर्श- नम् , नैयायिक पाशुपतदर्शनम् तत्र न्यायः प्रमाणमार्गस्त- स्मादनपेतं नैयायिकमिति व्युत्पत्तिः, सांख्यमिति कापि लदर्शनम् आदिपुरुपनिमित्तेयं संज्ञा, जैनमिति जिनो देव. ताऽस्येति जैनमाईतम् , वैशेषिकं काणाददर्शनम् दर्शनदेवता. ऽऽदिसाम्येऽपि नैयायिकेभ्यो द्रव्यगुणादिसामग्रया विशिष्टैमि. ति वैशेपिकम् , जैमिनीयं जैमनिऋषिमतं भादर्शनम् , चः स. -- - १ असमञ्जसेयमुक्तिः-न्यायदर्शनस्य पाशुपतत्त्वेनाप्रसिद्धेः, पाशुपतदर्शनस्य न्यायप्रस्थानारूढत्वं प्रायेणेत्यन्यदेतद् । २ इदं चिन्त्यम्, इत्थं हि न्याय्यमिति स्याद् , 'नयायिकेतिपदं तूक्थादिग- णघटकन्यायशद्वादध्वेतृवेदिनन्यतरार्थकटका निष्पद्यते । ३ आपातरुचिरेयमुक्तिः, वस्तुतस्तु परानुपज्ञस्य विशेपात्मकस्य पञ्चमपदार्थस्य वेत्तृत्वादित्यं ख्यातिः । अशीतिशतं क्रियाणामक्रियावादिनी भवन्ति चतुरशीतिः । आत्मवादिनः सप्तपप्टिविनययादिनां च द्वात्रिंशदू , बौद्धमतम् । -- सुच्चयस्य दर्शकः, एवं तावत् पड्दर्शननामानि ज्ञेयानि शिष्ये- णेत्यवसेयम् ॥ ३ ॥ अथ द्वारश्लोके प्रथममुपन्यस्तत्वाद्वौद्धमतमेवादाचाचष्टे-- तत्र बौद्धमते तावदेवता सुगतः किल । चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपका ॥४॥ तत्र तस्मिन् चौद्धमते सौगतशासने, तावदिति प्रक्रमे सु गतो देवता बुद्धो देवता बुद्धभट्टारको दर्शनादिकरः किलेया- समवादे तमेव विशिनष्टि---कयं भूत्तस्तत्वनिरूपकत्वेन प्ररू- पको दर्शकः कथयितेति यावद , केषामित्याह -आर्यसत्या- नाम् , आर्यसत्यनामधेयानां तत्त्वानाम् , कतिसंख्यानामिति ? चतुर्णी चतूरूपाणाम्, किंरूपाणाम् ? इत्याह--दुःखादीनां दुःख- समुदयमार्गनिरोधलक्षणानाम् , आदिशब्दोऽवयवार्थोऽत्र, यदुक्तम्- "सामर्थेऽथ व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्वर्थेषु मेधावी ह्यादिशब्दं तु लक्षयेद्" । इति, एवंविधः सुगतो वौद्धमते देवता ज्ञेय इत्यर्थः ॥४॥ आदिममेव तत्वं विवृण्वन्नाह दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः। विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ।। ५ ।। दुःखं किमुच्यते ? इत्याशङ्कायां संसारिणः स्कन्धाः, संस. रन्तीति संसारिणो विस्तरणशीलाः स्कन्धाः प्रचयविशेषाः, संसारेऽमी चयापचरूपा भवन्तीत्यर्थः, ते च स्कन्धाः पञ्च प्रकीर्तिताः पञ्चसंख्याः कथिताः, के ते ? इत्याह- विज्ञानं वेदना संज्ञा संस्कारो रूपमेव चेत्ति, तत्र विज्ञानमिति-विशिष्टं ज्ञानं सर्वक्षणिकत्वम् , , सटीके षड्दर्शनसमुच्चये -- यदुक्तम्--- "यत् सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा इमे सत्ताशक्तिरिहार्थकमणि मितेः सिद्धेषु सिद्धा च सा । नाप्येकैव विधाऽन्यदाऽपि परकृन्नैव क्रिया वा भवेद् द्वेषाऽपि क्षणभङ्गसंगतिरतः साध्ये च विश्राम्यति" ।। इति विज्ञानम् , वेदनेति । वेद्यत इति वेदना पूर्वभवपुण्यपापप- रिणामवद्धाः सुखदुःखानुभवरूपाः; भिक्षुर्भिक्षामटेश्वरणकण्टके लग्ने प्राह-- इत एकनवतेः कल्पे शत्या में पुरुषो हतः। तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ! ।। इत्यादि, संज्ञेति-संज्ञानामकोऽर्थः सर्वमिदं सांसारिक- सचेतेनाचेतनस्वरूपव्यवहरणं संज्ञामात्रं नाममात्रम् , नात्र कल. त्रपुत्रमित्रभ्रात्रादिसंवन्धो घटपटादिपदार्थसार्थो वा पारमार्थिकः, तथा च तत्सूत्रम्--- "तानीमानि भिक्षवः संज्ञामात्र व्यवहारमात्रं कल्पनामात्रं- संशतिमात्रमतीतोऽध्याऽनागतोऽध्वा सहेतुको विनाश आकाशं- पुद्गला" इति, संस्कार इति । इह परभवविषयसंतानपदार्थनिरी- क्षणप्रबुद्धपूर्वभावानुरूपसंस्कारस्य प्रमातुः स एवायं देवदत्तः सैवैयं दीपकलिकेत्याद्याकारण ज्ञानोत्पत्तिः संस्कारः, यदाह-- "यस्मिन्नेव हि सन्तान आहिता कर्मवासना । फलं तत्रैव सन्धत्ते कापसे रक्तता यथा", इति । रूपमिति । रगरगायमाणपरमाणुप्रचयः, वौद्धमते हि स्थूलरूपस्य जगति विवर्तमानपदार्थजातस्य तदर्शनोपपत्तिभि- निराक्रियमाणत्वात् परमाणव एव तात्त्विकाः, चः पुनरर्थः एवेति पुरणार्थः ॥ ५ ॥ -- चौसमत्तम् । . दुःखनामधेयमार्यसत्यं पञ्चभेदतया निरूप्यार्थसमुदायत. स्वरूपमाह- ससुदेति यतो लोके रागादीनां गणोऽखिलः । आत्मात्मीयस्वभावाख्यः समुदयः स संमतः ॥६॥ यतो यस्माल्लोके रागादीनां रागद्वेषमोहानामखिलः सम- स्तो गणः समुदेत्युद्भवति, कीडर ? इत्याह-आत्मात्मीयस्वभा- वाख्या, अयमात्माऽयश्चात्मीयः, पदसमुदायोपचारादयं परोऽ. यञ्च परकीय इत्यादिभावो रागद्वेनिवन्धनं, तदाख्यस्तन्मूलो- रागादीनां गणः आत्मात्मीयरूपेण रागरूपः परकीयपरिणा- मेन द्वेषरूपो यतः समुदेति स समुदयः समुदयो नाम तत्त्वं. सम्मतो बौद्धदर्शनेऽभिमत इति ।। ६ ॥ अथ तृतीयचतुर्थतन्ने प्रपञ्चयन्नाह-, क्षणिकाः सर्वसंस्कारा इत्येवं वासना तु या । स मार्ग इति विज्ञेयों निरोधो मोक्ष उच्यते ॥७॥ सर्वसंस्काराः क्षणिकाः, सर्वेषां विग्वत्रयविवरविवर्तमा- नानां घटपटस्तम्भाम्भोरुहादीनां द्वितीयादिक्षणेषु स एवायं स. एवायमिसाल्लेखेन ये संस्कारा ज्ञानसन्ताना उत्पद्यन्ते ते विचारगोचरगताः क्षणिकाः; यत्पमाणयन्ति सर्वं सत् क्षणिक- मक्षणिक क्रमयोगपद्याभ्यामर्थक्रियाविरोधादिति वादस्थलमभ्यू- ह्यं क्षणिकत्वाविशेषकम् , विशेषोपपचिश्च समग्रं ताबदौत्पत्ति के पदार्थकदम्बकं घटपटादिकं मुद्गरादिसामग्रीसाकल्पे विनश्व- रमाकलय्यते, तत्र योऽस्य मान्तावस्थायां विनाशस्वभावः स- पदार्थोत्पत्तिसमये विद्यते न वा ? अथ विद्यते चेदापतितं. तदुत्पत्तिसमयानन्तरमेव विनश्वरत्वम् , अदृश एव स्वभावो. यत्कियन्तमपि कालं स्थित्वा विनष्टव्यम् , एवञ्चेन्मुद्रादिसंनि- ८ सटीके षड्दर्शनसमुच्चये धानेऽप्येष एव तस्य स्वभाव इति भूयोऽपि तावत्कालं स्थेयम् , एवं मुद्गरादिघातशतपातेऽपि न विनाशो जातं कल्पान्त- स्थायित्वं घटस्य, तथा च जगद्यवहारपवस्थालोपपातकपाङ्कि- लतेत्यभ्युपेयमनिच्छताऽपि क्षणक्षयित्वं पदार्थानाम् , प्रयोगस्त्वेवम्-वस्तु उत्पत्तिसमयेऽपि विनश्वररूप, विनश्वर- स्वभावत्वाद्, यद्विनश्वरं तदुत्पत्तिसमयेऽपि तत्स्वरूपं यथाऽन्त्यक्ष- णवर्तिघटस्य स्वरूपं, विनश्वरस्वभावं च रूपरसादिकमुदयत. एवारभ्येति स्वभावहेतुः, ननु यदि क्षणक्षयिणो भावाः कथं तर्हि स एवायमिति वासनाज्ञानम् ? उच्यते--निरन्तरसदृशापरापरक्षणनिरीक्षणचै- तन्योदयाद्, विद्याऽनुबन्धाञ्च पूर्वक्षणप्रलयकाल एव दपिक- लिकायामिच सैवेयं दीपकालिकेति संस्कारमुत्पाद्य तत्सदृशम- परक्षणान्तरमुदयते, तेन समानाकारज्ञानपरम्परापरिचयचि. रतरपरिणामान्निरन्तरोदयाच्च पूर्वक्षणानामत्यन्तोच्छेदेऽपि स. एवायमित्यध्यवसायः प्रसभं प्रादुर्भवति, दृश्यते चावलुनपुन. रुत्पन्नेषु नखकेशकलापादिषु स एवायमिति प्रतीतिः, तथेहापि किं न सम्भाव्यते सुजनेन, तस्मात्सिद्धं साधनमिदं “यत्स. त्तत् क्षणिकमि"ति युक्तियुक्तश्च "क्षणिकाः सर्वसंस्कारा. इसेवं वासने"ति, प्रस्तुतार्थमाह--एवं या वासना स मार्गों नामार्य- सत्यम् इह वौद्धमते विज्ञेयोऽवगन्तव्यः, तुशब्दः पाश्चा- त्यार्थसंग्रहः पूर्वसमुच्चयार्थे, चतुर्थमार्यसत्यमाह--निरोधः किम् ? इत्याशङ्कायां मोक्ष उच्यते, मोक्षोऽपवर्गः, सर्वक्षणि- कत्वसर्वनैरात्म्यवासनारूपो निरोधो नामार्यसत्यमभिधीयत- इत्यर्थः ॥ ७॥ - बौद्धमतम् । -- - - अथ तत्वानि व्याख्याय तत्संलग्नान्येवायतनान्याह- पञ्चेन्द्रियाणि शब्दाचा विषयाः पञ्च मानसम् । धर्मायतनमेतानि.द्वादशायतनानि च ॥ ८ ॥ पञ्चसंख्यानीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि, शब्दाद्या विषयाः पञ्च शब्दरूपरसस्पर्शगन्धरूपाः पञ्च विषया. इन्दियव्यापारा इत्यर्थः, मानसं चित्तं, धर्मायतनमिति धर्मप्रघा. नमायतनं चैत्यस्थानमिति, एतानि द्वादशसंख्यानि ज्ञातव्यानि न केवलमेतानि द्वादशायतनानि जातिजरामरणभवोपादानत- ष्णावेदनास्पर्शनामरूपविज्ञानसंस्कारा अविद्यारूपाणि द्वादशा- यतनानि, चः समुच्चये, अमी सर्वेऽपि संस्काराः क्षणिकाः, शेष. तदेवेति ॥ ८ ॥ तत्वानि व्याख्यायाधुना प्रमाणमाह- प्रमाणे द्वे च विज्ञेये तथा सौगतदर्शने । प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः ॥९॥ तथेति प्रस्तुतानुसन्धाने, सौगतदर्शने बौद्धमते, द्वे प्रमाणे विज्ञेये, चशब्दः पुनरर्थे, तदेवाह-प्रत्यक्षमनुमानं च, अक्ष- मक्ष प्रति गतं प्रत्यक्षमैन्द्रियिकमित्यर्थः, अनुमीयत इत्यनुमान- लैङ्गिकमित्यर्थः, यतः सम्यग् ज्ञानं निश्चितावबोधो द्विधा द्विम- कारः, सम्यग्ग्रहणं मिथ्याज्ञाननिराकरणार्थम् , प्रत्यक्षानुमा. नाभ्यामेवेत्यर्थः ॥९॥ पृथक्पृथग्दर्शनापेक्षलक्षणसांकर्यभीरु कीहक् प्रत्यक्षमत्र- ग्राह्यमित्याशङ्कायामाह- प्रत्यक्षं कल्पनाऽपोढमश्रान्तं तत्र वुध्यताम् । त्रिरूपाल्लिङ्गतो लिङ्गिज्ञानं त्वनुमानसंज्ञितम्॥१०॥ १ पडायतनेति पदमधिकं व चित्पुस्तके । - - २५०० १० सटीके षड्दर्शनसमुचये तत्र प्रमाणोभय्यां प्रत्यक्ष वुद्ध्यतां ज्ञायतां शिष्येणेति, कि- भूतं ? कल्पनाऽपोटं, शब्दसंसर्गवती प्रतीतिः कल्पना तयाऽपोर्ट- रहितं निर्विकल्पकामित्यर्थः, अन्यच्चाभ्रान्तं भ्रान्तिरहितं रंग- रगायमाणपरमाणुलक्षणं स्वलक्षणं हि प्रत्यक्ष निर्विकल्पकमभ्रान्त. व तद्, घटपटादिवाह्यस्थूलपदार्थप्रतिवद्धं च ज्ञानं सविकल्पक म् , तच्च वाह्यस्थूलार्थानां तत्तन्मतानुमानोपपत्तिमिनिराकरि- ध्यमाणत्वाद् ., नीलाकारपरमाणुस्वरूपस्यैव तात्विकत्वात् , ननु यदि वाह्यार्था न सन्ति, किंविषयस्तयिं घटपटशक- टादिवाास्थूलपतिभास इति चेद् ? : निरालम्बन एवायमनादिवितथवासनाप्रवर्तितो व्यवहारा- भासो निर्विषयत्वादाकाशकेशवत्स्वप्नज्ञानवद्वेति, यदुक्तं- "नान्योऽनुभाव्यो बुद्ध्याऽस्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते" इति, "वाह्यो न विद्यते हों यथा वालैर्विकल्प्यते । वासनोल्लुठित चित्तमर्थाभासे प्रवर्तते" इति, तदुक्तं "निर्विकल्पकमभ्रान्तं च प्रत्यक्षमि"ति, अनुमानलक्षणमाह-तु पुनः त्रिरूपात्पक्षधर्मस्वसपक्षसत्व- विपक्षव्यावृत्तिरूपाल्लिङ्गतो धूमादेरुपलक्षणाद्यल्लिङ्गिनो वैश्वान- रादेर्शानं तदनुमानसंज्ञितमनुमानप्रमाणमित्यर्थः, सूत्रे लक्षणं ना. न्वेषणीयमिति चरमपदस्य नवाक्षरत्वेऽपि न दोष इति ॥१०॥ रूपत्रयमेवाह- रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता। विपक्षे नास्तिता हेतोरेवं त्रीणि विभाव्यन्ताम् ॥११॥ हेतोरनुमानस्य त्रीणि रूपाणि विभाव्यतामिति संबन्धा, तत्र पक्षधर्मत्त्वमिति साध्यधर्मविशिष्टोधर्मी पक्षः, यथा पर्वतोऽयं- बौद्धमतम् । ११ , " . - . वहिमान् धूमवत्वादत्र पर्वतः पक्षः, तत्र धर्मो धूमवर्च- वन्हिमत्वेन व्याप्तं धूमोऽग्निं न व्यभिचरतीयर्थः, सपक्षे सत्त्वं यो. यो धूमवान स स वह्निमान् यथा महानसप्रदेशः, अत्र धूमवत्वेन हेतुना सपक्षे महानसे सत्त्वं वहिमत्त्वमस्तीत्यर्थः, विपक्षे नास्ति- तेति यत्र वहिनास्ति तत्र धृमोऽपि नास्ति यथा जलाशये, जलाशये हि वह्निमत्वं व्यावर्तमानं व्याप्यं धूमवत्वमादाय व्यावर्तते, एवं- प्रकारेण हेतोस्त्रीणि रूपाणि ज्ञायन्तामित्यर्थः ॥ ११ ॥ उपसंहरनाह- बौद्धराद्धान्तवाच्यस्य संक्षेपोऽयं निवेदितः, । नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ॥१२॥ अयं संक्षेपो निवेदितः कथितः निष्ठां नीतः, कस्य वौद्ध- राद्धान्तवाच्यस्य बौद्धानां राद्धान्तः सिद्धान्तस्तत्र वाच्योऽभि- धातव्योऽर्थस्तस्य, इतोऽनन्तरं नैयायिकमतस्य शिवशासनस्य "कथ्यमानो. निशन्यता" संक्षेपः कथ्यमानः श्रूयतामित्यर्थः ॥ १२ ॥ तदेवाह- आक्षपादमते देवः सृष्टिसंहारकृच्छिवः । विभुनित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः ॥ १३ ॥ आक्षपादा नैयायिकास्तेषां मते शासने देवो दर्शनाधिष्ठा- यकः शिवो महेश्वरः स कथंभूतः १ सृष्टिसंहारकत् सृष्टिः प्राणि- नामुत्पत्तिः, संहारस्तावनाशः, सृष्टिश्च संहारश्चेति द्वन्द्व तौ करो- तीति किपि तोऽन्ता, तथा हि-अस्य प्रत्यक्षोपलक्ष्यमाणच. राचरस्वरूपस्य जगतः कश्चिदनिर्वचनीयमाहात्म्यः पुरुषः स्रष्टा ज्ञेयः, केवलसृष्टौ च निरन्तरोत्पद्यमानापारमाणिगणस्य भुवन- प्रयेऽप्यमातृत्वमिति संहारकर्ताऽपि कश्चिदभ्युपगन्तव्यः, यत्म- .१२ सटीके षड्दर्शनसमुच्चये माणं-सर्व घरणिधरणीधरतरुपुरमाकारादिकं, बुद्धिमत्पूर्वकं का. यत्वात् , यद्यत् कार्य तत्तद् बुद्धिमत्पूर्वके, यथा घटः कार्य चेदं, तस्माद् बुद्धिमत्पूर्वकमिति प्रयोगः, स भगवानीश्वर एवेत्यर्थः, व्यतिरेके गगनं, न चायमसिद्धो हेतुः ? भूभृघरादीनां स्वका. रणकलापजन्यत्वेनावयवितया . वा कार्यत्वस्य जगत्प्रसिद्ध स्वाद्, नापि विरुद्धानेकान्तिकदोपौ विपक्षादत्यन्तव्यात्तत्वाद् नापि कालात्ययापदिष्टः प्रत्यक्षानुमानोपमानागमावाध्यमान. धर्मधर्मित्वाद्, नापि प्रकरणसमः, तत्परिपन्धिपदार्थस्वरूपस. मर्थनप्रथितप्रत्यनुमानोदयाभावाद, अथ निर्वृतात्मवदशरीरत्वादेव न संभवति सृष्टिसंहारकर्ते. श्वर इति प्रत्यनुमानोदयात्कथं प्रकरणसमदूपणाभाव इति चेद् ? उच्यते-अत्र साध्यमान ईश्वररूपो धर्मी प्रतीतोऽप्रतीतो. वाऽनुमन्यते सुहृदा ? अप्रतीतश्चेद्भवत्परिकल्पितहेतोरेवाश्रया- सिद्धिदोषप्रसङ्गः, प्रतीतश्चत्तर्हि येनैव प्रमाणेन प्रतीतस्तेनैव स्वयमुद्भावितस्वतनुरपि किमर्थं नाभ्युपगम्यत इति कथमशरीर. स्वमतो न दुष्टो हेतुरिति माधुक्तं सृष्टिसंहारकृच्छिवः, तथा विभुः सर्वव्यापकः, एकनियतस्थानवृत्तित्वे ह्यनियतप्रदेशनिष्ठितानां- पदार्थानां प्रतिनियतयथावनिर्माणानुपपत्तेः, न टेकस्थानस्थितः कुम्भकारोऽपि दूरदरतरघटघटनायां व्याप्रियते, तस्माद्विभुभंग वान् , तथा नित्यकः, नित्यश्वासावेकश्चेति, यतो नित्योऽत एवं. कोऽप्रच्युतानुत्पन्नस्थिरैकरूपं नित्यम् , भगरतो. ह्यनित्यत्वे पराधीनोत्पत्तिसव्यपेक्षतया कृतकस्वप्राप्तिः, स्वोत्पत्तावपेक्षितप. रव्यापारो हि भावः कृतक इष्यत इति, अथ चेकश्चिज्जगत्कारमपरमभिदधाति स एवानुयुज्यते, सोऽपि नियोऽनिस्रो वा?. नियश्चेदधिकृतेश्वरेण फिमपराद्धम् , ?

बौद्धमतम् । १३ अनियश्चेत्तस्याप्यन्ये नोत्पादकान्तरेण भाव्यमनियत्वादेव तस्या- प्यन्येनेति निसानियवादविकल्पशिल्पशतस्वीकारे कल्पान्तेऽपि न जल्पसमाप्तिः, तस्मानित्य एव भगवान् , अन्यच्चैकोऽद्वितीयो,- वहूनां हि जगत्कर्तृत्वस्वीकारे परस्परं पृथक् पृथगन्योन्यमसदृ. शमतिव्यापारतयकैकपदार्थस्य विसशनिर्माणे सर्वमसमञ्जस- मापद्यतेति भगवानेक एवेति युक्तियुक्तं नित्यकेति विशेषणम् , तथा सर्वज्ञ इति सर्वपदार्थानां सर्वविशेषज्ञाता, सर्वज्ञत्वाभावे हि विधित्सितपदार्थोपयोगयोग्यजगत्मसमरविप्रकीर्णपरमाणुकणा- चयसम्यक्सामग्रीमेलनाक्षमतया याथातथ्येन पदार्थनिर्माणरच. ना दुर्घटा, सर्वज्ञश्च सन् सकलपाणिनां संमिलितसमुचितकार- णकलापानुरूपपारिमाण्डल्यानुसारेण कार्यवस्तु निर्मिमाणः स्वा. जितपुण्यपापानुमानेन च स्वर्गनरकयोः सुखदुःखोपभोगं ददानः केपा नाभिमतः, तथा चोक्तम्- "ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा । अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः" इति, भूयोऽपि विशेषयन्नाह "नित्यबुद्धिसमाश्रय" इति शाश्वतबु- द्विस्थानं, क्षणिकबुद्धिमतो हि पराधीन कार्यापेक्षितया मुख्यक- तत्वाभावादनीश्वरत्वासंक्तिरिति, ईदृग्गुणविशिष्टः शिवो नैया- यिकमतेऽभ्युपगन्तव्यः ॥ १३ ॥ अंथ तत्त्वानि प्ररूपयन्नाह तत्त्वानि षोडशामुत्र प्रमाणादीनि तद्यथा । प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥ १४ ।। दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तनिर्णयौ । वादो जल्यो वितण्डा च हेत्वाभासाश्छलानि च १५ - १४ सटीके षड्दर्शनसमुच्चये जातयो निग्रहस्थानान्येषामेवं प्ररूपणा । अर्थोपलब्धिहेतुः स्यात्प्रमाणं तच्चतुर्विधम् ॥ १६ ॥ विभिर्विशेषकम् अमुत्रास्मिन् प्रस्तुते नैयायिकमते पोडश तत्वानि प्रमाणा- दीनि प्रमाणप्रभृतीनि, तद्यथेति । वालानवोधाय नामान्यप्याह. प्रमाणप्रमेयसंशययोजनदृष्टान्तसिद्धान्तावयवतर्फ निर्णयवादज- पवितण्डाहत्वाभासच्छैलजातिनिहस्थानानां तत्वज्ञानान्निश्रे- यससिद्धिरिति. पोडश, एपामेवं प्ररूपणेति, तत्वानाममुना प्रकारेण प्ररूपणा नाममात्रप्रकटनमित्यर्थः, अथैकैकस्वरूपमाह.- तत्रादौ प्रमाणस्वरूपं प्रकटयन्नाह-अर्थोपलब्धिहेतुः प्रमाणं. स्याद्. अर्थस्य पदार्थस्योपलब्धिर्ज्ञानं तस्य हेतु: कारणं प्रमा. णं स्यादिति, परापरदर्शनापेक्षया प्रमाणानामनियतत्वात्संदिहा. नस्य सङ्ख्यामुपदिशन्नाह-तच्चतुर्विधमिति । तत्प्रमाणं चतुर्विध- ज्ञेयमिति ॥ १४ ॥ १५ ॥ १० ॥ प्रत्यक्षमनुमान चोपमानं शाद्विकं तथा । तत्रेन्द्रियार्थसन्निकर्षात्पन्नमव्यभिचारिकम् ॥ १७॥ व्यवसायात्मकं ज्ञानं व्यपदेशविजितम् । प्रत्यक्षमितरन्मानन्तत्पूर्व त्रिविधं भवेत् ।। १.८ ॥ अन प्रमाणचातुर्विध्ये प्रत्यक्ष कीदृगिति सम्बन्धः, विशे. पणान्याह-इन्द्रियार्थसन्निकर्पोत्पन्नमिति । इन्द्रियं चार्थश्चेति इन्द्रः, तयोः सन्निकर्पासंयोगादुत्पन्नं जातम् , इन्द्रियं हि नैक- व्यापदायें संयुज्यते, इन्द्रियार्थसंयोगाज् ज्ञानमुत्पद्यते, यदुक्तम्- "आत्मा संहति मनसा, मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एप शीघ्रम् । . -- चौद्धमतम् । १५ . - योगोऽयमेव मनसः किमगम्यमस्ति यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा ॥ तत्राव्यभिचारिक ज्ञानान्तरेण नान्यथाभावि, शुक्तिश. कले कलधौतबोधो हीन्द्रियार्थसन्निकर्पोत्पन्नोऽपि व्यभिचारी दृष्टोऽतोऽव्यभिचारिकं ग्राह्यम् , तथा व्यवसायात्मकं व्यवहार साधकम् , सजलधराणितले हि वहलशालवृक्षावल्यामिन्द्रिया- थसान्निध्योद्गतमपि जलज्ञानं तत्पदेशसंगमेऽपि स्नानपानादिव्य. वहारासाधकत्वादप्रमाणम् , अतः सफलं व्यवसायात्मकमिति विशेषणम् , तथा व्यपदेशविवर्जितमिति । व्यपदेशो विपर्ययस्तेन रहितं, तथा ह्याजन्मकाचकामलादिदोषदृषितचक्षुषः पुरुषस्य धवलशाङ्के पीतज्ञानमुदेति तद्यद्यपि सकलकालं तन्नेत्रदोषाविरामादिन्द्रिया- थेसंनिकर्पोत्पन्नमस्ति तथाऽप्यन्यवस्तुनोऽन्यथावोधान्न तद्यथो- क्तलक्षणं प्रत्यक्षमिति प्रत्यक्षसाधकं विशेषणचतुष्टयमुक्तम् , साम्मतमनुमानमाह-इतरदन्यन्मानमनुमानमुपदिशति तदनुमान- पूर्व प्रथमं त्रिविधं त्रिप्रकारकं भवेजायेत, पूर्वमितिपदेनानुमाना- न्तरभेदानन्त्यमाह-तत्पूर्वं प्रत्यक्षपूर्वं चेति श्लोकद्वयार्थः १७-१८ अनुपानत्रैविध्यमाह- पूर्ववच्छेषवचैव दृष्टं सामान्यतस्तथा । तत्राचं कारणात्कार्यमनुमानमिह गीयते ॥१९॥ पूर्ववत , शेषवत् , सामान्यतो दृष्टं, चेत्यनुमानत्रयम् , चः समुच्चये; एवेति पूरणार्थे, तथेति उपदर्शने, तत्र त्रिषु मध्ये, आद्यमनुमानमिह शास्त्रे कारणात्कार्यमनुमानमुदितं कारणान्मेघा. कार्य वृष्टिलक्षणं यतो ज्ञायते तत्कारणकार्यनामानुमानं कथि- तमित्यर्थः ॥ १९ ॥ . .

सटीके षड्दर्शनसमुचये निदर्शनेन तमेवार्थ द्रढयन्नाह- रोलम्बगवलव्यालतमालमलिनस्विषः । वृष्टिं व्यभिचरन्तीह नैवंप्राया पयोमुचः॥ २० ॥ : यथेति दृष्टान्तकथनारम्भे, रोलम्बा: भ्रमराः, गवलं माहिपं. शृङ्गम् , व्याला गजाः सर्पा वा तमाला-वृक्षविशेषाः, सर्वे ऽप्यमी कृष्णाः पदार्थाः स्वभावतो ज्ञेयाः, द्वन्द्वसमासो बहुत्री- हिश्च, एवंप्राया-एवंविधाः पयोमुचो मेघा वृष्टिं न व्यभिचर- तीति, एवंमाया इत्युपलक्षणेन परेऽपि दृष्टिहेतवोऽभ्युन्नत्यादि- विशेषा ज्ञेयाः, यदुक्तम्- "गम्भीरगर्जितारम्भनिभिन्नगिरिगहराः । तुङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः" इत्यादयोऽपि वृष्टिं न व्यभिचरन्ति ॥ २० ॥ . शेषवन्नामधेयं द्वितीयमनुमानभेदमाह- कार्याकारणानुमानं यच्च तच्छेषवन्मतम् । तथाविधनदीपूरान्मेघो घृष्टो यथोपरि ॥ २१ ॥ यत्कार्यात्फलात्कारणानुमानं फलोत्पत्तिहतुपदार्थावगमनं. तच्छेषवदनुमानं मतं कथितं नैयायिकशासने, यथा तथाविध- नदीपुरादुपरि मेघो वृष्टस्तथाविधप्रवहत्सलिलसम्भारभरितो यो- नदीपुरः सरित्मवाहस्तस्मादुपरि शिखरिशिखरोपरि जलध- राभिवर्षणज्ञानं तच्छेपवत् , अंत्र कार्य नदीपूरः कारणं च पर्व. तोपरि मेघो वृष्ट इति, उक्तं च नैयायिकैः- "आवर्तवर्तनाशालिविशालकलुपोदकः । कल्लोलविकटास्फालस्फुटफेनच्छटाऽङ्कितः ।। वहदहुलशेवालफलशाद्धलसंकुलः । .

न्यायमतम् । १७ . नदीपूरविशेषोऽपि शक्यते न निवेदितुम्" ॥ इति ॥२१॥ तृतीयानुमानमाह- यच्च सामान्यतो दृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्ये ऽपि सा तथा ॥२३॥ चः पुनरथे, यत् सामान्यतो दृष्टमनुमानं तदेवममुना प्र- कारण, यथा पुंसि पुरुषे देवदत्तादौ देशान्तरमाप्तिर्गतिपूर्विका, एकस्माद्देशाद्देशान्तरगमनं गमनपूर्वक मित्यर्थः, यथोजयिन्याः प्र- स्थितो देवदत्तो माहिष्मती पुरीं प्राप्तः; सूर्येऽपि सा तथेति, यथा पुंसि तथा सूर्येऽपि सा गतिरभ्युपगम्यते, यद्यपि गगने संचरतः सूर्यस्य नेत्रावलोकप्रसरणाभावेन गतिर्नोपलभ्यते, तथाऽप्युदयाचलात्सायमस्ताचलचूलिकाऽवलम्बनं गति सूचयति, एवं सामान्यतो दृष्टमनुमानं ज्ञेयमित्यर्थः ॥ २२ ॥ अथ क्रमायातमपि शब्दप्रमाणं स्वल्पव्यक्तत्वादुपेक्ष्यादा- वुपमानलक्षणशाह- प्रसिद्धवस्तुसाधादप्रसिद्धस्थ साधनम् । उपमानं समाख्यातं यथा गौर्गवयस्तथा ॥ २३ ॥ तदुच्यमानमुपमानमाख्यातं कथितं, यत्तदोर्नित्यसम्बन्धात् , यत्किम् ? अप्रसिद्धस्य साधनम् अज्ञायमानस्यार्थस्य ज्ञापनं क्रियते, प्रसिद्धधर्मसाधादिति। आवालगोपालाङ्गनाविदितो योऽसौ ध- मोऽसाधारणलक्षणं तस्य साधयं समानधर्मत्वं तस्मादित्युपमान. माख्यातम् , दृष्टान्तमाह-यथा गौर्गवयस्तथेति । यथा कश्चिदरण्य- वाप्ती नागरिकेण कहिग्गवयः ? इति पृष्टः स च परिचितगोगवयल. क्षणो नागरिक माह-यथा गौस्तथा गवयः,खुरककुदलाङ्क्षसासा. sऽदिमान् यादृशो गौस्तथा जन्मसिद्धो गवयोऽपि ज्ञेय इत्यर्थः,अत्र प्रसिद्धो गौस्तत्साधादप्रसिद्धस्य गवयस्य साधनमिति ॥२३॥ ३ प० द०

-
१८ सटीके षड्दर्शनसमुच्चये
उपमानं व्यावर्ण्य शब्दप्रमाणमाद-
शाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम् , ।
प्रमेयं चात्मदेहार्थबुद्धीन्द्रियसुखादि च ॥ २४ ॥
तु पुनराप्तोपदेशः शान्दम्, अवितथवादी हितश्चाप्तः प्रत्य-
यितजनस्तस्य य उपदेश आदेशावाक्यं तच्छाब्दम् आगमप्रमाणं.
ज्ञेयमिति, एवमुक्तभङ्गया मानं प्रमाणं चतुर्विधं चतुष्प्रकारं नि.
ठितमित्यर्थः,
अथ प्रमेयलक्षणमाह-"प्रमेयं त्वात्मदेहाथबुद्धीन्द्रियमुखादि
चेति" प्रमाणग्राह्योऽर्थः प्रमेयं, तु पुनरर्थे, आत्मा च देहश्चेति
द्वन्द्वः, आदिशब्देन शेषाणामपि षष्णां प्रमेयार्थानां संग्रहः, तच्च
नैयायिकसूत्र आत्मशरीरेन्द्रियार्थबुद्धिमनामवृत्तिदोपप्रेत्यभावफ-
लदुःखापवर्गभेदेन द्वादशविधं, तत्र सचेतनत्वकर्तृत्वसर्वगतत्त्वादि.
धरात्मा ममीयते, एवं देहादयोऽपि प्रमेयतया ज्ञेयाः, अत्र तु ग्रन्थ
विस्तारभयान प्रपञ्चिता इतरग्रन्थेभ्योऽपि सुज्ञेयत्वाच्चेति ॥२४॥
संशयादिस्वरूपमाह-
किमेतदिति सन्दिग्धः प्रत्ययः संशयो मतः ।
प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजनम् ॥ २५ ॥
दुरावलोकनेन पदार्थपरिच्छेदकधर्मेषु संशयानः प्राह-कि-
मेतदिति । एतत्किं स्थाणुर्वा पुरुषो देति ? यः संदिग्धः प्रत्ययः
स संशयो नाम तत्त्वविशेषो मतः संमतः तच्छासन इति,
प्रयोजनमाह-तत्तु यत्पुनः प्रयोजनं नाम तत्वं यत्किमि
त्याह-अर्थित्वात्माणी साध्यं कार्य प्रति प्रवर्तते, प्रतीत्यध्या-
हार्यम् , न हि निष्फलकार्यारम्भ इत्यर्थित्वादुक्तम् , एवं यत्पव-
तनं तत्प्रयोजनमित्यर्थः ॥ २५ ॥
दृष्टान्तस्तु भवेदेष विवादविषयो न यः, ।
सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥ २६ ॥

न्यायमतम् । . , . , तु पुनरेष दृष्टान्तो नाम तत्त्वं भवेत् , यत्किमिति विवाद- विषयो न, यस्मिन्नुपन्यस्ते वचने वादगोचरो न भवति, इद- मित्थं भवति न वेति विवादो न भवतीत्यर्थः, तापञ्चान्वयव्यति. रेकयुक्तोऽर्थः स्खलति यावन स्पष्ट दृष्टान्तोषष्टम्भः, उक्तं च- तावदेव चलत्यों मन्तुर्गोचरमागतः। यावन्नोत्तम्भनेनैव दृष्टान्तेनावलम्ब्यत्ते ।। एष दृष्टान्तो ज्ञेयः, सिद्धान्तः पुनश्चतुर्भेदो भवेत् , कथमित्याह-सर्वतन्त्रा. दिभेदत इति । सर्वतन्त्रसिद्धान्त इति प्रथमो भेदः, आदिश. ब्दाभेदत्रयमिदं ज्ञेयम् , यथा प्रतितन्त्रसिद्धान्तोऽधिकरणसि- द्धान्तोऽभ्युपगमसिद्धान्तश्चेति, अमी चत्वारः सिद्धान्तभेदाः, नाममात्रकथनमिदं, विस्तृतग्रन्थेभ्यस्तु विशेषो ज्ञेयः ॥ २६ ॥ अवयवादितचत्रयस्वरूपमाह- प्रतिज्ञाहेतुदृष्टान्तोपनया निगमस्तथा। अवयवाः पञ्च ती संशयोपरमो भवेत् ॥ २७ ॥ यथा काकादिसंपातात् स्थाणुना भाव्यप्पन हि । ऊर्व सन्देहतीभ्यां प्रत्ययो निर्णयो मतः॥२८॥ अवयवाः पञ्चेति सम्बन्धः, पूर्वार्द्धमाह-प्रतिज्ञाहेतुदृष्टा- न्तोपनया निगमनं चेति पश्चावयवाः, तत्र प्रतिज्ञा-साध्य. विशिष्टः पक्षः सानुमानयं कृशानुमानित्यादि, हेतुर्लिङ्गवचनम् , धूमवत्वादित्यादि, दृष्टान्त उदाहरणवचनं, यो यो धूमवान् स. स वद्विमान् यथा महानसप्रदेश इत्यादि, उपनयो हेतोरुपसं. हारकं वचनं धूमवांश्चायमित्यादि, निगमनं हेत्वपदेशेन पुनः साध्यधर्मोपसंहरणं, तस्माद्वहिमानित्यादि, इति पञ्चावयवस्वरूप. निरूपणम् अवयवतत्वं ज्ञेयमिति, - .

सटीके षड्दर्शनसमुच्चये तर्कः संशयोपरमो भवेद् , यथा काकेत्यादि, दृराद् दृग्गो. चरे स्पष्टप्रतिभासाभावात् किमयं स्थाणुर्वा पुरुषो वेति ? संशय- स्तस्योपरमेऽभावे सति तकों भवेत् तर्को नाम तत्त्वं स्यात् , कथ. मिसाह-यथेति । दूरादूर्ध्वस्थं पदार्थ विलोक्य स्थाणुपुरुषयोः संदिहानोऽवहितीभूय विमृशति, काकादिसंपातादादिशब्दावल्यु- सर्पणादयः स्थाणुधर्मा ग्राह्याः, वायसमभृतिसंवन्धादत्र स्थाणुना भाव्य, कीलकेन भवितव्यम् , पुरुषे हि शिराकम्पनहस्तचाल- नादिभिः काकपातानुपपत्तेः, एवं संशयाभावे तर्कतत्त्वं ज्ञेयमिति, ऊर्ध्वमित्यादि पूत्रोक्तलक्षणाभ्यां संदेहताभ्यामूर्ध्वमुत्तर- यः प्रत्ययः स्थाणुरेवायं पुरुष एवायमिति प्रतीतिविषयः, स निर्णयः निर्णयनामा तत्वविशेपो ज्ञेयः, यत्तदावर्थसम्बन्धादनु- क्तावपि ज्ञेयौ ॥ २८॥ वादतत्त्वमाह- आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् । यः कथाऽभ्यासहेतुः स्यादसौ वाद उदाहृतः ॥२९॥ असौ वाद उदाहृतः कथितस्तज्ज्ञैरियर्थः, यः कः ? इत्याह- कथाऽभ्यासहेतुः, कथा प्रामाणिकी तस्या अभ्यासः कारणम् , कयोराचार्यशिष्ययोः, आचार्यो गुरुरध्यापकः, शिष्यश्चाध्येता विज्ञेय इति, कस्मात् पक्षप्रतिपक्षपरिग्रहात् , पक्षः पूर्वपक्षः प्रति. ज्ञाऽऽदिपरिग्रहः, प्रतिपक्ष उत्तरपक्षः पूर्वपक्षवादिप्रयुक्तप्रतिज्ञा- sऽदिप्रतिपञ्चकोपन्यासपौढिः तयोः परिग्रहात्संग्रहादित्यर्थः, आचार्यः पूर्वपक्षमङ्गीकृत्याचष्टे, शिवश्चोत्तरपक्षमुररीकृय पूर्व पक्षं खण्डयति, एवं निग्राहकजयपराजयच्छलजात्यादिनिरपेक्ष- तयाऽभ्यासनिमित्तम् , पक्षप्रतिपक्षपरिग्रहेण यत्र गुरुशिष्यो गोष्ठी कुरुतः स वादो ज्ञेयः॥ २९ ।। - ? .

न्यायमतम् । , अथ तद्विशेषमाह- विजिगीषुकथा या तुच्छलजात्यादिदूषणम् । स जल्पः, सा वितण्डा तु या प्रतिपक्षवर्जिता॥३०॥ स जल्प इति सम्बन्धः, यद् विजिगीषुकथायां विजया. भिलाषिवादिप्रतिवादिप्रारब्धप्रमाणोपन्यासगोष्ठयां सत्यां छल. जात्यादिदूषणम् , छलं निप्रकारम्-वाक्छलं, सामान्यच्छलम् , उपचारच्छलं चेति, जातयश्चतुर्विंशतिभेदाः, आदिशब्दान्निन- हस्थानादिपरिग्रहः, एतैः कृत्वा दृषणं परोपन्यस्तपक्षादेषण. जालमुत्पाद्य निराकरणम् , आभिमतं च स्वपक्षस्थापनेन सन्मा. प्रतिपत्तिनिमित्ततया छलजात्याधुपन्यासः परपयोगस्य दुष- णोत्पादनम् , तथा चोक्तम्- "दुःशिक्षितकुतर्काशलेशवाचालिताननाः । शक्याः किमन्यथा जेतुं वितण्डादोषमण्डिताः ॥ गतानुगतिको लोकः कुमार्ग तत्मतारितः । मा गादिति च्छलादीनि माह कारुणिको मुनिः" ।। इति । संकटे प्रस्तावे च सति च्छलादिभिरपि वपक्षस्थापनमनु. मतम् , परविजये हि धर्मध्वंसादिदोषसंभवस्तस्माद्वरं छलादिभि- . रपि जयः, प्रतिपक्षस्तेन विवर्जिता रहितेति प्रतिपक्षसाधनविहीनो. वितण्डावादः, वैतण्डिको हि स्वाभ्युपगतपक्षमस्थापयन् यत्कि: चिद्वादेन परोक्तं दुपयतीत्यर्थः ॥ ३० ॥ हेत्वाभासा असिद्धाद्या,श्छलं कूपो नवोदका । जातयो दृषणाभासाः पक्षादिर्दृष्यते न यैः ॥३१॥ हेत्वाभासा ज्ञेया इति । के ते ? इत्याह-असिद्धाद्या, असि. विरुद्धानकान्तिककालात्ययापदिष्टप्रकरणसमाः पञ्च हेत्वा.

. २२ सटीके षड्दर्शनसमुच्चये भासा ज्ञेयाः, तत्र पक्षे धर्मत्वं यस्य नास्ति सोऽसिद्धः, विपक्ष सन् सपक्षे चासन् विरुद्धः, पक्षत्रयत्तिरनैकान्तिकः, प्रत्यक्षा. नुपानागमविरुद्धपक्षतिः कालात्ययापदिष्टा, विशेषाग्रहणे हेतु- त्वेन प्रयुज्यमानः प्रकरणसमः, उदाहरणानि स्वयमभ्यूह्यानि, छलं कूपो नवोदक इति परोपन्यस्तवादे स्वाभिमतार्थान्त. रकल्पनया वचनविघातश्छलम् . कथमित्याह-वादिना कूपो. नवोदक इति कथायां प्रत्यग्रार्थवाचकतया नवशब्दप्रयोगे छल. वादी नवसंख्यामारोप्प दुपयति, कुत एक एव कूपो नवसंख्यो. दक इति वाक्छलम् , प्रस्तावागतत्वेन शेषच्छलद्वयमप्याह-सं- भावनयाऽतिप्रसङ्गिनोऽपि सामान्यस्य हेतुत्वारोपणेन तनिषेधः सामान्यच्छ लम् , यथा अहो नु खल्वसौ ब्राह्मणो विद्याचरणसं. पन्न इति ब्राह्मणम्तुतिप्रसङ्गे कश्चिद्वदति संभवति ब्राह्मणे विद्या. चरणसंपदिति, तच्छलवादी ब्राह्मणत्वस्य हेतुत्वमारोप्य निरा. कुर्वन्नभियुङ्क्ते, यदि ब्राह्मणे विद्याचरणसंपद्भवति वासेऽपि सा भवेद्वात्योऽपि ब्राह्मण एवेति, औपचारिक प्रयोगे मुख्यातिपे- धेन प्रत्यवस्थानम् उपचारच्छलं, यथा मञ्चाः क्रोशन्तीत्युक्ते परः प्रत्यवतिष्ठते कथमचेतना मञ्चाः क्रोशन्तीति छल त्रयस्वरूपं. ज्ञेषमिति, जातय इत्यादि । दूपणाभासा जातयः, अदुषणान्यपि दृष. णवदाभासन्त इति दूपणाभासाः, यैः पक्षादिर्न दष्यते, आभा- समात्रत्वान पक्षदोपः समुद्भावयितुं शक्यते केवलं सम्यग्हेतौ हेत्वाभासे वा वादिना प्रयुक्ते झटिति तदोपत्वाप्रतिभासे हेतु- प्रतिविम्वनमायं प्रत्यवस्थानं जातिः, सा चतुर्विंशतिभेदा साध. यादिप्रत्यवस्थानभेदेन, तत्र साधम्र्येण प्रत्यवस्थानं साधर्म्यसमा जातिः, न्यायमतम् । अनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे कृते साध- म्र्येण प्रत्यवस्थान-यद्यनित्यघटसाधात्कृतकत्वादनिय शब्द: तहि नित्याकाशसाधादमृतत्वान्नित्यः स्यादिति, वैधपेण प्रत्यवस्थान वैधर्म्यसमा जातिः, पूर्वस्मिन्नेव प्रयोगे वैधयेणैवोक्ते वैधर्येण प्रत्यवस्थान- नित्यः शब्दोऽमूर्तत्वाद्, अनित्यं हि मृत यथा घटादि, यदि हि नित्याकाशवैधात्कृतकच्चादनित्यः शब्दस्तहि घटाद्यनित्यवैधादमूर्तत्वान्नित्यः स्याद् विशेषाभावादिति, उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती भवतः, तत्रैव प्रयोगे दृष्टान्तधर्म के चित्साध्यधर्मिण्या- पादयन्नुत्कर्षसमां जाति प्रयुङ्क्ते, यदि घटवत्कृतकत्वादनित्यः शब्दो घटवदेव मृतॊऽपि भवेद्, न चेन्मूर्तो. घटवदनित्योऽपि मा भूदिति शब्दो धर्मान्तरोत्कर्षमापादयति, अपकर्षस्तु घटः कृतकः सन्नश्रावणो दृष्ट एवं शब्दोऽपि भवेद्, नो चेद घटवद- नियोऽपि मा भूदिति शब्दे श्रावणस्वधर्ममपकर्षति, वयोवण्याभ्यां प्रयवस्थानं वावर्ण्यसमे जाती भवतः, ख्यापनीयो वर्यस्तविपरीतोऽवयंस्तावेतौ वर्ष्यावण्यौँ साध्यह- प्रान्तधर्मों विपर्यस्यन् वावर्णसमे जाती प्रयुङ्क्ते, यथाविधः शब्दधर्मः कृतकत्वादिर्न तादृग् घटधर्मो, यादृक् च घटधर्मों- न तादृक् शब्दधर्म इति साध्यधर्मदृष्टान्तधर्मों हि तुल्यौ कर्तव्यो, अत्र तु विपर्यासः यतो यादृग् घटधर्मः कृतकत्वादिर्न तादृक् शब्द- धर्मः, घटस्य ह्यन्यादृशं कुम्भकारादिजन्यं कृतकत्वम् , शब्दस्य हि ताल्बोष्ठादिव्यापारजमिति, धर्मान्तरविकल्पेन प्रयवस्थानं विकल्पसमा जातिः, यथा कृतकं किंचिन्मृदु दृष्टं रावशय्याऽऽदि, किश्चित्कठोरं. ..

सटीके षड्दर्शनसमुच्चये कुठारादि, एवं कृतकं किञ्चिदनित्यं भविष्यति घटादिकं, कि. श्चिन्नित्यं शब्दादीति, साध्यसाम्यापादनेन प्रत्यवस्थानं साध्यसमा जातिः, यथा घटः तथा शब्दः प्राप्तस्तहि यथा शब्दस्तथा घट इति, शब्दश्च साध्य इति घटोऽपि साध्यो भवेत्, ततश्च न साध्यः साध्यस्य दृष्टान्तो, विरुद्धलक्षणत्वान्न दृष्टान्तः स्यात् , न चेदेवं तथाऽपि वैलक्षण्यात्सुतरामदृष्टान्त इति, प्राप्यमाप्तिविकल्पाभ्यां प्रत्यवस्थान प्राप्त्यप्राप्तिसमे जाती, यथा यदेतत्कृतकत्वं त्वया साधनमुपन्यस्तं तत्फि प्राप्य साध्यं. साधयत्यप्राप्य वा, प्राप्य चेद् तर्हि द्वयोर्विद्यमानयोरेव प्राप्ति वति न सदसतोरिति, द्वयोश्च सत्याकिं कस्य साध्यं साधनं. वा, अप्राप्य तु साधनमयुक्तमतिप्रसङ्गादिति, प्रसङ्गापादनेन प्रत्यवस्थानं गसङ्गसमा जातिः, यथा- नित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते जातिवाद्या. ह-यद्यनियत्वे कृतकत्वं साधनं, कृतकत्वमिदानी किंसाधनं. तत्साधने र्कि साधनम् ? इति, प्रतिदृष्टान्तेन प्रसवस्यानं प्रतिदृष्टान्तसमा जातिः, यथाऽ. नित्यः शब्दः प्रयत्नानन्तरीयकत्वाद घटवदित्युक्ते जातिवाद्या. ह-यथा घटः प्रयनानन्तरीयकोऽनित्यो दृष्ट एवं प्रतिदृष्टान्त आ. काशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टं कूपखननप्रयत्नानन्तरमु. पलम्भादिति, न चेदमनैकान्तिकत्वोद्भावनं, भङ्गयन्तरेण प्रत्य. वस्थानात्, अनुत्यच्या प्रसवस्थानम् अनुत्पत्तिसमा जातिः, यथाऽनु. त्पन्ने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क वर्तते, तदेव हेत्वभा. वादसिद्धिरनित्यस्येति, न्यायमतम् । .२५ , - : - साधर्म्यसमा वैधर्म्यसमा बा या जातियथा पूर्वमुदाहृता सैव संशयेनोपहियमाणा संशयसमा जातिर्भवति, यथा कि- घटसाधम्यात्कृतकत्वादनिसः : शब्दः, किं वा तद्वैधयेणाकाश- साम्यानिरवयवत्वान्नित्य इति, .. द्वितीयपक्षोत्थापनबुद्ध्या प्रयुज्यमाना सैव साधर्म्यसमा वैध. म्यसमा वा जातिः प्रकरणसमा भवति, तत्रैवानित्यः शब्दः कृतकत्वाद घटवदिति प्रयोगे, नित्यः शब्दः श्रावणत्वात् शब्द. स्ववदिति, उद्भावनप्रकारभेदमात्रे सति नानात्वं द्रष्टव्यम्, .....काल्यानुपपच्या हेतोः प्रत्यवस्थापनमहेतुसमा जाति:, यथा हेतुः साधनं तत्साध्यात्पूर्व पश्चाद्वा सह वा भवेद् , यदि पूर्वमसति साध्यं तत्कस्य साधनम् , अथ पश्चात्साधनं पूर्वं तर्हि साध्यं तस्मिंश्च पूर्वसिद्धे कि साधनेन, अथ युगपत्साध्यसाधने तर्हि तयोः सव्येतरगोविपाणयोरिव साध्यसाधनभाव एव न भवेदिति, अर्थापत्या प्रत्यवस्थानम् अर्थापतिसमा जातिः, यद्यनित्यः सोधयात्कृतकत्वादनित्यः शब्दोऽर्थादापद्यते, नियसाधा. नित्य इति, अस्ति चास्य नित्येनाकाशेन साधयं निरवयव. स्वमित्युदावनपकारभेद एवायमिति, अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः,यथा यदि शब्दघटयोरेको धर्मः कृतकत्वमिष्यते. तहि समानधर्मयोगात्त. योरविशेषः, तद्वदेय सर्वपदार्थानामविशेषः प्रसज्यत इति, उपपल्या प्रत्यवस्थानमुपपत्तिसमा जातिः, यथा यदि कृत- कत्वोपपत्या शब्दस्यानित्यत्वं, निरवयवत्वोपपत्त्या नित्यत्व. मपि कस्मान्न भवति पक्षद्वयोपपच्याऽनध्यवसायपर्यवसानत्वं. विवक्षितमित्युदावनप्रकारभेद एवायम् , - , ४५०० सटीके षड्दर्शनसमुच्चये ::; उपलव्धेन प्रत्यवस्थानमुपलब्धिसमा जातिः, यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वादिति प्रयुक्त प्रत्यवतिष्ठते न खलु प्रयत्नानन्तरीयकत्वमनित्यत्वे साधनं, साधनं तदुच्यते येन विना न साध्यमुपलभ्यते, उपलभ्यते च प्रयत्नानन्तरीयकत्वेन वि. नाऽपि विद्युदादावनित्यत्वं, शन्देऽपि, क चिद्वायुवेगभज्यामान- बनस्पत्यादिजन्ये तथेति, अनुपलब्धिप्रत्यवस्थानादनुपलब्धिसमा जातिः, यथा तत्रैव प्रयत्नानन्तरीयकत्वहेतावुपन्यस्ते, स प्राह जातिवादी न प्रयत्न- कार्यः : शब्दः प्रागुच्चारणादस्त्येवासावावरणयोगातु नोपल- भ्यते, आवरणानुपलम्भेऽप्यनुपलम्मानास्त्येव शब्द इति चेद् ? -आवरणानुपलम्भेऽप्यनुपलम्भसद्धावादावरणानुपल- धेश्वानुपलम्भादभावः, तदभावे चावरणोपलब्धे वो भवति, तत्तश्च तदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृतमेव श. ब्दस्य मागुच्चारणादग्रहणमिति प्रयत्नकार्याभावान्नित्यः श. ब्द इति, साध्यधर्मनित्यानित्यत्वविकल्पेन शब्दनित्यताऽऽपादनं नि त्यसमा जातिः, यथाऽनित्यः शब्द इति प्रतिज्ञाते; जातिवादी विकल्पयति येयमानियता शब्दस्योच्यते सा किमनिया नित्या वेति, यद्यनित्या तदियमवश्यमपायिनीत्यनित्यताया अभावा- नित्यः शब्दः, अथ नित्यैवेति तथाऽपि धर्मस्य नित्यत्वा- चस्य च निराश्रितस्यानुपपत्तेः तदाश्रयभूतः शब्दोऽपि निस. एव स इति चेद् ? न-तदनित्यत्वे तद्धर्मनित्यत्वायोगादित्युभयथा नित्यः शब्द इति, एवं सर्वभाषानित्यत्वोपपादनेन . प्रसवस्थानमनित्यसमा न्यायमतम् ।... २७ .. जातिः, यथा घटसाधर्म्यमनित्यत्वेन शब्दस्यास्तीति, तस्यानि- स्यत्वं यदि प्रतिपाद्यते तद्घटेन सर्वपदार्थानामस्त्येव किमपि साधर्म्यमिति तेषामप्यनित्यत्वं स्याद् , अथ पदार्थान्तराणां तथा भावेऽपि नानित्यत्वं तर्हि शब्दस्यापि तन्मा भूदित्यनित्य- त्वमात्रापादनपूर्वकविशेषोद्भावनाचाविशेषसपातों भिन्नेयं जाति, प्रयत्न कार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यप्तमा जातिः, यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते जातिवाद्याह- प्रयत्नस्य द्वैलप्यं दृष्टं किं चिदसदेव तेन जन्यते यथा घटादिकं,- किं चित्सदेवावरणव्युदासादिना व्यज्यते यथा- मृदन्तारतमू.. लकीलादि, एवं प्रयत्नकार्यनानात्वादेषु प्रयत्नेन शब्दो व्यज्यते. जन्यते वेति संशय इति संशयापादानमकारभेदाच संशयसमातः कार्य- समा जातिभिद्यते, तदेवमुद्भावनाविषयविकल्पभेदेन जातीनामानन्त्ये संकीणों- दाहरणविवक्षया चतुर्विंशतिजातिभेदा एते दर्शिता इति ॥३१॥ दूषणाभासानुका निग्रहस्थानमाह- निग्रहस्थानमाख्यातं परो येन निगृह्यते । प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवत् ॥ ३२ ।। येन केन चिद् रूपेण परो विपक्षो निगृह्यते परवादी वचन. निग्रहे पात्यते तन्निग्रहस्थानमाख्यातं कथितमिति, कति चिने- दान् नामतो निर्दिशन्नाह-प्रतिज्ञाहानिसंन्यासविरोधादिविभेद- वद्, हानिसंन्यासविरोधाः प्रतिज्ञाशब्देन · संवध्यन्ते, आदिश. न्देन शेषानपि भेदान् परामशति, एतदुषणजालमुत्पाद्यते येन तन्निग्रहस्थानम्, यदुक्तं-"विप्रतिपत्तिरपतिपत्तिश्च निग्रहस्थानम्!' तत्र वि- - .

सटीके षड्दर्शनसमुच्चये प्रतिपत्तिः साधनाभासे साधनबुद्धिः, दृषणाभासे च. दूषणयुद्धि- रिति, अप्रतिपत्तिः साधनस्यादृषणं, दुपणस्य चानुद्धरणंम्, तद्धि निग्रहस्थान द्वाविंशतिभेदम् , तद्यथा-प्रतिज्ञाहानिः, प्रतिज्ञा- ऽन्तरं, प्रतिज्ञाविरोधः प्रतिज्ञोसंन्यासः, हेत्वन्तरम्, अर्थान्तरं, निरर्थकम् , अविज्ञातार्थम् , अार्थकम् , अप्तिकालं, न्यूनम् अधिक, पुनरुक्तम् , अन भाषणम् , अज्ञानम् , अप्रतिभा, विक्षेपो. मानुज्ञा, पर्यनुयोज्योपेक्षणं, निरयोज्यानुयोगः, अपसि- . द्धान्तः, हेत्वाभासः, . तत्र हेतावनैकान्तिकीकृते प्रतिष्टान्तधर्म स्वदृष्टान्तेऽभ्युप. गतवतः प्रतिज्ञाहानि म निग्रहस्थानं भवति, यथा अनित्यः शब्द, ऐन्द्रियिकत्वाद् घटवदिति प्रतिज्ञासाधनाय वादी वदन् परेण सामान्यपेन्द्रियिकमपि नित्यं दृष्टमिति हेतावनैकान्तिकी. कृते, यद्येवं ब्रूयात् सामान्यवद्धटोऽपि नित्यो भवति स एवं. ब्रुवाणः शब्दनित्यत्वप्रतिज्ञा जह्यात् , प्रतिज्ञातार्थमतिपेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरसा- धनमभिदधत्तः प्रतिज्ञाऽन्तरनाम निग्रहस्थानं भवति, अनित्यः शशब्द, ऐन्द्रियिकत्वादित्युक्ते तथैव सामान्येनैव व्यभिचारेणो. दिते यदि ब्रूयाद् युक्तं सामान्यमैन्द्रियिकं नित्यं तद्धि सर्वगत. मसर्वगतस्तु शब्द इति, सोऽयमनित्यः शब्द इति पूर्वप्रतिज्ञातः प्रतिज्ञाऽन्तरमसर्वगतः शब्द इति प्रतिज्ञाऽन्तरेण निगृहीतो भवति, प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधनाम निग्रहस्थानं भवति, गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति, सोऽयं- प्रतिज्ञाहेत्वोर्विरोधो यदि गुणव्यतिरिक्तं य क रूपादिभ्यो. ऽर्थान्तरस्यानुपलब्धिः, अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः न्यायमतम् । २९ कथं गुणव्यतिरिक्तं द्रव्यमिति तदर्य प्रतिज्ञाहेत्वोर्विरुद्धाभिधा. नात्पराजीयते, पक्षसाधने परेण दुषिते तदुद्धरणासक्त्या प्रतिज्ञामेव निद- वानस्य प्रतिसंन्यासनाम निग्रहस्थानं भवति, यथा-अनित्यः शब्द ऐन्द्रियिकत्वादित्युक्ते तथैव सामान्येनानैकान्तिकतायामु. द्भावितायां यदि ब्रूयात् क एवमाह नित्यः शब्द इति प्रतिज्ञासं. न्यासात् पराजितो भवतीति, अविशेषाभिहिते हेतौ प्रतिषिद्ध तद्विशेषणमभिदधतो हेत्व- न्तरनाम निग्रहस्थानं भवति, तस्मिन्नेव प्रयोगे तथैव सामान्ये. ऽस्य व्यभिचारेण दृषित जातिमच्चे सतीत्यादिविशेषणमुपाद: दानो हेत्वन्तरेण निगृहीतो भवति, प्रकृतादर्थान्तरं तदोपयिकमभिदधतोऽर्थान्तरनाम निग्रह- स्थानं भवति, नित्यः शब्दः कृतकत्वादिति हेतुः, हेतुहिनोते. र्धातोस्तुपत्यये कृदन्तं पदम् , पदं च नाम तद्धितनिपातोपसर्गा- इति प्रस्तुय नामादीनि व्याचक्षाणोऽर्थान्तरेण निगृह्यत इति, . अभिधेयरहितवर्णानुपूर्वीप्रयोगमात्रं निरर्थकनाम निग्रह- स्थानं भवति, यथा नियः शब्दः कचतटपानां गज़डदववाद घझदधभवदित्येतदपि सर्वथाऽर्थशून्यत्वानिग्रहणाय कल्पेत सा- ध्यानुपयोगाद्वा, यत्साधनवाक्यं दृषणवाक्यं वा त्रिवारमभिहितमपि पर्पः मतिवादिभ्यां बोद्धं न शक्यते तदाऽविज्ञातार्थनाम निग्रहस्थान- भवति, पूर्वापरासंगतपदसमूहप्रयोगादतिष्ठितवाक्यार्थमपार्थकनाम निग्रहस्थानं भवंति, दश दाडिमानि षडंपूपा इति, . प्रतिज्ञाहेतदाहरणोपनयनिगमनवचनक्रममुल्लङ्घ्यावयववि- पर्यासेन प्रयुज्यमानमनुमानवाक्यमप्राप्तकाळनाम निग्रहस्थान- - ३० सटीके षड्दर्शनसमुच्चये भवति, स्वप्रतिपत्तिवत् परमतिपत्तेजेनने परार्थानुमानक्रमस्या- पगमात्, पञ्चावयवे वाक्ये प्रयोक्तव्ये तदेकतमेनानुमानावयवेन हीनं न्यूननाम निग्रहस्थानं भवति, साधनाभावे सांध्यसिद्धेर. भावात् प्रतिज्ञाऽऽदीनां पञ्चानामपि साधनत्वात् , एकेनैव हेतुनोदाहरणेन वा प्रतिपादितेऽर्थे हेत्वन्तरमुदाइ रणान्तरं वा वंदतोऽधिकनाम निग्रहस्थानं भवति, शब्दार्थयोः पुनर्वचनं पुनरुक्तनाम निग्रहस्थानं भवति, अन्यत्रानुवादात् शब्दपुनरुक्तं नाम यत्र स एव शब्दः पुनरु. चार्यते यथा नियः शब्दो निसः शन्द इति, अर्थपुनरुक्तं तु यत्र सोऽयः प्रथममन्येन शब्देनोच्चार्यते पुनः . पर्यायान्तरेणोच्यते यथा अनित्यः शब्दो, विनाशी ध्वनिरिति, अनुवादे तु पौनरु. क्समदोषः यथा हेतूपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमिति, पर्पदावदितस्य वादिभिरभिहितस्यापि यदप्रत्युच्चारणं तद- ननुभाषणनाम निग्रहस्थानं भवति पर्षदा विज्ञातस्यापि वादिवाक्यार्थस्य प्रतिवादिनो यदज्ञानं तदज्ञाननाम निग्रहस्थानं भवति, अविदितोत्तरविषयो हि किमु- त्तरं याद, न चाननुभाषणमेवेदं, ज्ञातेऽपि वस्तुन्यनुभापणा- सामर्थ्यदर्शनात, परपक्षे गृहीतेऽप्यनुभाषितेऽपि तस्मिन्नुत्तरापतिपत्तिरपति- भानाम निग्रहस्थानं भवति, कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपनाम निग्रहस्थानं भवति सिपाधयिषितस्यार्थस्याशक्यसाधनतामवसाय कथां विच्छिनत्तीदं. मम करणीयं परिहीयते, पीनसेनं कण्ठ उपरुद्ध इत्यादभिधाय कथां विच्छिन्दन् विक्षेपेण पराजीयते, स्वपक्षे परापादितदोपमनुघृत्य तमेव परपक्षे प्रतीतिमापा. दयतो मतानुज्ञानाम निग्रहस्थानं . भवति, चोरो भवान् पुरुप

न्यायमतम् ।
३१
,
.
त्वात् मसिद्धचोरवदित्युक्ते, भवानपि चोरः पुरुषत्वादिति ब्रुब.
मात्मनः परापादितचोरत्वदोषमभ्युपगतवान् भवतीति मतानु-
ज्ञया निगृह्यते,
निग्रहमाप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणनाम निग्रहस्थानं.
भवति, पर्यनुयोज्यो नाम निग्रहोपपत्याऽवश्यं नोदनीयः, "इदन्ते
निग्रहस्थानमुपनतमतो निगृहीतोऽसि" इसेवं वचनीयस्तमुपेक्ष्य
न निगृह्णाति यः स पर्यनुयोज्योपेक्षणेन निगृह्यते,
अनिग्रहस्थाने निग्रहस्थानानुयोगानिरनुयोज्यानुयोगनाम
निग्रहस्थानं भवति, उपपन्नवादिनमप्रमादिनमनिग्रहाईमपि "नि-
गृहीतोऽसीति यो गात्स एवाभूतदोषोद्भावनान्निगृह्यत इति,
सिद्धान्तमभ्युपेत्य नियमात्कथामसङ्गोऽपसिद्धान्तनाम निन-
हस्थानम् , यः प्रथमं कञ्चित्सिद्धान्तमभ्युपगम्य कथामुपाक्रमत,
तत्र च सिषाधयिषितार्थमाधनाय परोपालम्भो यथा सिद्धान्त.
विरुद्धमभिधत्ते सोऽपसिद्धान्तेन निगृह्यते,
हेत्वाभासाश्च यथोक्ता असिद्धविरुद्धादयो निग्रहस्थानम्
इति, भेदान्तरानन्त्येऽपि निग्रहस्थानानां द्वाविंशतिमूलभेदा नि-
वेदिता इति ॥ ३२॥
अथोपसंहरन्नाह-
नैयायिकमतस्यैवं समासः कधितोऽधुना।
सांख्याभिमतभावानामिदानीमयमुच्यते ॥३३॥
एवम् इत्थंप्रकारतया नैयायिकमतस्य शिवशासनस्य समासः
संक्षेपोऽधुना कथितो निवेदितः साम्पतमेव निष्ठित इत्यर्थः ।
इदानीं पुनरयं समासः सांख्याभिमतभावानाम् उच्यते,
सांख्याः कापिला इत्यर्थः, तदभिमता तदभीष्टा ये भावाः पञ्च-
विंशतितत्त्वादयस्तेषां संक्षेपोऽतः परं कथ्यत इत्यर्थः ॥ ३३ ॥

३२ सटाक षड्दशनसमुच्चय . तदेवाह एतेषां यो समावस्था सा प्रकृतिः किलोच्यते । प्रधानाध्यक्तशब्दाभ्यांवाच्यानित्यस्वरूपिका॥३४॥ एतेषां सांख्यानां प्रकृतिः प्रीत्यप्रीतिविषादात्मकानां ला. धचोपदृम्भगारधर्माणी सत्वरजस्तमसा त्रयाणामपि गुणानां. यो साम्यावस्था समतयाऽवस्थितिः - सा किल प्रकृतिरुच्यते, किलेत्याप्तप्रवादे, सा प्रकृतिः कथ्यते, अन्यच्च ‘सा प्रधानाव्य- शब्दाभ्यां वाच्या प्रधानाध्यक्तशब्देन च । प्रकृतिराख्यायते, शास्त्रे प्रकृतिः प्रधानमव्यक्तं चेति पर्याया न तवान्तरमित्यर्यः, तथा नित्यस्वरूपिका शाश्वतभावतया प्रसिद्धत्यर्थः, उच्यते च नित्या नानापुरुषाश्रया च तदर्शनेन प्रकृतिर्यदाह- तस्मान्न वध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् । संसरति वध्यते मुच्यते च नानाऽऽश्रया प्रकृतिरिति ॥३४॥ दर्शनस्वरूपपाह- सांख्या निरीश्वराः के चित्के चिदीश्वरदेवताः। सर्वेषामपि तेषां स्यात्तत्वानां पञ्चविंशतिः॥३५॥ के चित्सांख्या निरीश्वरा ईश्वरं देवतया न’ मन्यन्ते केव- लाध्यात्मवेदिनः, के चित्पुनरीश्वरदेवता महेश्वर स्वशासनाधि- टातारमाहुः, सर्वेपामिति । तेपां. केवलनित्यात्मवादिनामीश्वर- देवतानां च सर्वेषां सांख्यमतानुसारिणां शासने तत्त्वानां पञ्च विंशतिः स्यात्, तर ह्यपवर्गसाधक वीजमिति सर्ववादिसंवादः, यदुक्तम्, पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः । तन्मते पञ्चविंशतिस्तवानीत्यर्थः ।। ३५ ॥ .

सांख्यमतम् । गुणत्रयमाह- सत्त्वं रजस्तमश्वेति ज्ञेयं तावद् गुणत्रयम् । प्रसादतोषदैन्यादिकार्यलिङ्गं क्रमेण तत् ।। ३६ ॥ तावदिति प्रक्रमे, सत्वरजस्तमश्चेति गुणत्रयं ज्ञेयम्, तद गुणत्रयं, क्रमेण परिपाट्या, प्रसादतोषदैन्यादिकार्यालङ्ग गुण- त्रयेणेदं लिङ्गत्रयं क्रमेण जन्यते, सत्वगुणेन प्रसाद कार्यलिङ्ग, वदननयनादिप्रसन्नता सत्त्वगुणेन. स्यादित्यर्थः, रजोगुणेन तोषः स चानन्दपर्यायः, तलिङ्गानि स्फूर्त्यादीनि रजोगुणेना- भिव्यज्यन्त इत्यर्थः, तमोगुणेन च दैन्यं जन्यते हा दैव ! नष्टो- ऽस्मि वञ्चितोऽस्मीत्यादिवदनविच्छायतानेत्रसंकोचादिव्यङ्गयं. दैन्यं , तमोगुणलिङ्गमिति, दैन्यादीत्यादिशब्देन दुःखत्रय- माक्षिप्यते, तद्यथाऽऽध्यात्मिकम् , आधिभौतिकम्, आधिदै- विकं चेति, तत्राध्यात्मिकं द्विविधं-शारीरं मानसं च, शारीरं वात. पिचश्लेष्मणां वैषम्यनिमित्तम् , मानसं कामक्रोधलोभमोहेा- विषयादर्शननिवन्धन, सबै चैतदान्तरोपायसाध्यत्वादाध्या. त्मिकं दुःखम् , बाह्योपायसाध्यं दुःखं द्वेधा-आधिभौतिकम् आधिदैविक- चेति, तत्राधिभौतिक मानुषपशुमृगपक्षिमरीसृपस्थावरनिमि. तम् , आधिदैविक यक्षराक्षसग्रहाचावेशहेतुकमिति ॥ ३६ ॥ अनेन दुःखत्रयेणाभिहतस्य माणिनस्तत्वजिज्ञासोत्पद्यते- ऽतस्तान्येव तत्वान्याह- ततः संजायते बुद्धिर्महानिति यकोच्यते अहंकारस्ततोऽपि स्यात्तस्मात्षोडशको गणः ॥३७॥ ततो गुणत्रयाद बुद्धिः संजायते यका बुद्धिमहानित्यु- - ५५०० सटीके षड्दर्शनसमुच्चये च्यते महानितिशब्देन कार्यत इत्यर्थः, एवमेतन्नान्यथा, गौरयं. नाश्वः, स्थाणुरेष नायं पुरुष इत्येवं निश्चयस्तेन पदार्थ प्रतिपत्तिहेतुर्योऽध्यवसायः सा बुद्धिरिति, तस्यास्त्वष्टौ रूपा- णि तदर्शनविश्रुतानि यदाह-धर्मज्ञानवैराग्यश्वर्यरूपाणि च- त्वारि साधिकानि, अधर्मादीनि तु तत्पतिपक्षभूतानि चत्वारि तामसानीत्यष्टौ, ततो बुद्धेरहंकारः स चाभिमानात्मको यथा अई- घाब्दे, अहं रूपे, अहं रसे, अहं स्पर्श, अहं गन्धे, अहं स्वामी; अहम् ईश्वरः, अप्ती मया हतः, अहं त्वां हनिष्यामीत्यादिप्रत्य- यरूपस्तस्मादहंकारात्पोडशको गणो “जायत" इत्यध्याहारो- ऽस्तिभवतीत्यादिवत्, पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्दियाणि, एकादशं मनः, पञ्च भूतानि, पोडशको गणः, तथाऽऽह-ईश्व- रकृष्ण:- "मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । पोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुष" इति ३७ पोडशकगणमेवाह- स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पञ्चमम् । पञ्च बुद्धीन्द्रियाण्याहुस्तथा फर्मेन्द्रियाणि च ॥३८॥ पायूपस्थवचःपाणिपादाख्यानि मनस्तथा । अन्यानि पञ्चरूपाणि तन्मात्राणीति षोडश ॥३९॥ युग्मम्, पञ्च बुद्धीन्द्रियाणीति सम्बन्धः, स्पर्शनं त्वगिन्द्रियं, रसनं- १ अन्न क्रमेण प्रतीतिपञ्चकाकारस्थाने; अहं शृणोमि, अहं रूपयामि, अहं- रसयामि, महं स्पृशामि, अहं जियामि, इत्येवाकारपञ्चकं ज्याय इति भाति, मूले निहिष्टाकारकप्रतीतीनामनानुभविकलादू , ग्रन्थोक्तलेखानुपूर्वीभङ्गभिया तु मूलस्थ- पाठो न परावति ।

साख्यमतम् ।
३५
.
निहा, घ्राणं नासिका, चक्षुर्नेत्रं, पञ्चमं श्रोत्रं कर्ण इति, एतानि
पञ्चबुद्धिमधानानि बुद्धिसहचराण्येव क्षानं जनयन्तीति कृत्वा
बुद्धीन्द्रियाण्याहुः कथयन्ति तन्मतीया इति, तथा कर्मेन्द्रि-
याणि चेति । तथा पूर्वोद्दिष्टंपञ्चसंख्यामात्रमपि परामशति,
तान्येवाह-पायूपस्थवचःपाणिपादाख्यानीति । पायुरपानम् ,
उपस्थः प्रजननं, वचो वाक्यं, पाणिहस्तः पादश्चरणः, तदाख्या-
नि पञ्च कर्मेन्द्रियाणि, कर्म कार्यव्यापारस्तस्य साधनानीन्द्रिया-
णीति कर्मेन्द्रियाणि, तथा मन एकादशमिन्द्रियमित्यर्थः, अ.
न्यानि पञ्चरूपाणि तन्मात्राणि चेति, शब्दस्पर्शरूपरसगन्धा-
ख्यानि तन्मात्राणीति षोडश ज्ञेयाः ॥ ३८-३९ ॥
पञ्चतन्मात्रेभ्यः पश्चभूतोत्पत्तिमाह-
रूपात्तेजो रसादापो गन्धाद् भूमिः स्वरान्नभः ।
स्पर्शादायुस्तथैवं च पश्चभ्यो भूतपश्चकम् ॥ ४० ॥
पञ्चभ्य इति । पञ्चतन्मात्रेभ्यः पञ्चभूतकमिति सम्बन्धः,
रूपतन्मात्रात्तेजः, रसतन्मात्रादापः, गन्धतन्मात्राद् भूमिः, स्व.
रतन्मात्रादाकाशं, स्पर्शतन्मात्राद्वायुः, एवं पञ्चतन्मात्रेभ्यः पञ्च
भुतान्युत्पद्यन्ते, असाधारणैकैकगुणकथनमिदम् , उत्पत्तिश्च
शब्दतन्मात्रादाकाशं शब्दगुणं शब्दो घम्बरगुण इति, शब्दत
मात्रसहितात्पर्शतन्मात्राद्वायुः शब्दस्पर्शगुण इति, शब्दस्पर्श-
तन्मात्रसहिताद् रूपतन्मात्रात्तेजः 'शब्दस्पर्शरूपगुणमिति, श-
व्दस्पर्शरूपतन्मात्रसहिताद्रसतन्मात्रादापः शब्दस्पर्शरूपरसगुणा-
इति, शब्हस्पर्शरूपरसतन्मात्रसहिताद् गन्धतन्मात्रात् शब्दस्प-
शरूपरसगन्धगुणा पृथिवी जायत इति, पञ्चभ्यः पञ्चभूतक-
मित्यर्थः ॥ ४० ॥

३६ सटीके षड्दर्शनसमुच्चये , -- प्रकृतिविस्तरमेनोपमंहरबाह- एवं चतुर्विंशतितत्त्वरूपं. निवेदितं सांख्यमते प्रधानम् । अन्यस्त्वकर्ता विगुणस्तु भोक्ता । तत्त्वं पुमान्नित्यचिदभ्युपेतः ।। ४१ ।। : एवं पूर्वोक्तप्रकारेण सांख्यमते चतुर्विंशतितत्त्वरूपं प्रधानं- निदेदितम् , प्रकृतिर्महानहङ्कारश्चेति त्रयम् , पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनस्त्वेकं, पञ्च तन्मात्राणि, पञ्च भूतानि रूपं यस्येवंविधा प्रकृतिः कथितेसर्थः, पञ्चविंशतितम त- स्वमाह-अन्यस्त्विति । अन्योऽकर्ता पुरुषः, प्रकृतेरेव संसर- णादिधर्मत्वाद् , यदुक्तं-प्रकृतिः करोति प्रकृतिबध्यते, प्रकृति- र्मुच्यते, पुरुषोऽवद्धः पुरुषो मुक्तः, पुरुषस्तु-- अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्मः आत्मा कापिलदर्शने । पुरुषगुणानाह-विगुण इति । सत्त्वरजस्तमोरूपगुणत्रय- विकलः, तथा भोक्ता भोगी, एवंप्रकारः पुमान तत्त्वं पञ्च- विंशतितमं तत्त्वमित्यर्थः, तथा नित्यचिदभ्युपेराः, नित्या चा- सो चिच्चैतन्यशक्तिस्तयाऽभ्युपेतः सहितः, आत्मा हि स्वं बुद्धे- व्यतिरिक्तमभिमन्यते, मुखदुःखादयश्च विषया इन्द्रियद्वारेण युद्धौ संक्रामन्ति, बुद्धिश्चोभयमुखदर्पणाकारा, ततस्तस्यां च. तन्यशक्तिः प्रतिविम्बते, ततः सुख्यई दुःख्यमित्युपचर्यते, आह च पातञ्जले-"शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यतिः तमनुपश्यन्नतदात्माऽपि तदात्मक इच प्रतिभासत" इति, मु- ख्यतस्तु चिच्छक्तिर्विषयपरिच्छेदशून्या, बुद्धेरेव विषयपरिच्छे. दस्वभावत्वात् चिच्छक्तिसन्निधानाचाचेतनाऽपि बुद्धिश्वेतनाव- .

सांख्यमतम् । ३७ तीवावभासते, वादमहार्णवोऽप्याह- बुद्धिदर्पणसंक्रान्तमर्थविमतिविम्बकम् । द्वितीयदर्पणकल्पं. पुरुषे धधिरोहति ।। तदेव भोक्तृत्वमस्य न तु विकारोत्पत्तिरिति, तथा चासुरिः- विविक्त दृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदय: स्वच्छो यथा चन्द्रमसोऽम्भसि ।। बिन्ध्यवासी त्वेवं भोगमाचष्टे- पुरुषोऽविकृतात्मैव स्वनिर्भासपचेतनम् । मनः करोति सान्निध्यादुपाधेः स्फटिको यथेति ॥ नित्यचिज्ज्ञानयुक्तः, बन्धमोक्षसंसाराश्च निवेऽप्यात्मनि भृत्यगतयो पराजययो- रिव तत्फलकोशलाभादिसम्बन्धेन स्वामिन्युपचारवदत्राप्युप- चर्यन्त इत्यदोषः ॥ ४१॥ तत्वोपसंहारमाह- पञ्चविंशतितत्त्वानि सांख्यस्यैवं भवन्ति च । प्रधाननरयोश्चात्र वृत्तिः पञ्वन्धयोरिव ॥ ४२ ।। पूर्वार्धे निगदसिद्धम् , अत्र सांख्पमते प्रधाननरयोः प्रक- तिपुरुषयोवृत्तिर्वर्तनं पवन्धयोरिव पॉश्चरणविकलः, अन्धश्च नेत्रविकलः, यथा पङ्ग्वन्धौ संयुक्तावेव कार्यसाधनाय प्रभ- वतो न पृथग्भूतौ प्रकृतिपुरुषयोरपि तथैव कार्यकर्तृत्वम् , भकृत्युपात्तं पुरुषो भुत इत्यर्थः ॥ ४२.॥ मोक्षप्रमाणं चाह-- प्रकृतिवियोगो मोक्षः पुरुषस्यैवान्तरज्ञानात् । मानत्रितयं च भवेत् प्रत्यक्षं लैंगिक शाब्दम् ॥४३॥ मोक्षः किमुच्यतः इत्याह-पुरुषस्यात्मन . आन्तरज्ञाना- . * :

सटीके षड्दर्शनसमुचपे द्विविधबन्धविच्छेदात्मकृतिवियोगो यः स मोक्षः प्रकृत्या सह वियोगे विरहे सति पुरुषस्यापवर्ग इति, आन्तरज्ञानं च बन्ध. विच्छेदाद्भवति, वन्धश्च प्राकृतिफवैकृतिकदाक्षिणभेदात्रिविधा, तद्यथा-प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते सेपां प्राकृतिको. वन्धः, ये विकारानेव भूतेन्द्रियाहङ्कारवुद्धीः पुरुषवुद्ध्योपासते तेषां वैकारिकः, इष्टापूते दाक्षिणः, इष्टापूर्त जनभोजनदाना- दिकं तस्मिन् पुरुषतत्त्वानभिज्ञो हीष्टकारी कामोपहतमना वध्यते. इति, इष्टापूर्त मन्यमाना वरिष्ठं- नान्यत् श्रेयो येऽभिनन्दन्ति मूढाः । नाकस्य पृष्ठे ते सुकृतेन भूत्वा इमं लोकं हीनतरं वा विशन्ति ।। इति वचनाद, इति त्रिविधवन्धविच्छेदात्पुरुषानुभवस्ततः प्रकृतिवियोगः पुरुपस्य, प्रकृतिपुरुषविवेकदर्शनाच निवृत्तायां प्रकृतौ पुरु- पस्य. स्वरूपावस्थानं मोक्ष इति श्लोक पूर्वार्द्धम् , मानत्रितयं- च भवेत् स्यात् प्रत्यक्षं लैङ्गिक शाब्दं चकारः सर्वत्र सम्ब- ध्यते, प्रत्यक्षमिन्द्रियोपलभ्यं, लैङ्गिकमनुमानगम्यं, शान्द- चागमस्वरूपमिति प्रमाणत्रयम् ॥ १३ ॥ अथोपसंहरन्नाह- एवं सांख्यमतस्यापि समासः कथितोऽधुना । जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ॥ ४४ ॥ पूर्वोक्तमकारेण सांख्यमतस्यापि समासः संक्षेपः कथितः, अपि समुच्चयार्थे न केवलं वौद्धनैयायिकयोः संक्षेप उक्तः, सांख्यमतस्याप्यधुना कथित इति, सांख्य इति पुरुपनिमित्तेयं- .

१ जैनमतम् । सज्ञा संख्यस्य इमे सांख्याः, तालव्यो वा साकारः, शङ्खनामाऽऽदिपुरुषः। अथ क्रमायातं जैनमतोदेशमाह-अधुनेत्युत्तरार्द्धन सम्ब- ध्यते, अधुना इदानीं जैनदर्शनसंक्षेपः कथयते-कथंभूत इति ? सुविचारवान , सुष्टु शोभनो विचारोऽर्थोऽस्यास्तीत्यर्थे मतुप्, सुविचारवानिति साभिमायं पदम् , अपरदर्शनानि हि- पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिरि- त्यायुक्त्या न विचारपदवीमाद्रियन्ते, जैनस्त्वाह- आस्त वक्तव्यता का चित्तेनेदं न विचार्यते । निर्दोषं काञ्चनं चेत्स्यात्परीक्षाया बिभेति किम् ॥ इति युक्तियुक्तविचारपरम्परापरिचयपथपथिकत्वेन जैनो- युक्तिमार्गमेवावगाहते, न च पारम्पर्यादिपक्षपातेन युक्तिमुल्ल. पति परमाहतः, उक्तश्च- पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्ववचनं यस्य तस्य कार्यः परिग्रहः ॥ इत्यादिहेतुहेतिशतनिरस्तविपक्षमसरत्वेन "सुविचारवान्" इत्यसाधारणविशेषणप्रसरणं ज्ञेयमिति ॥ ४४ ॥ १ आप्रामाणिकोऽयं कल्पः । प्रथमकल्पस्तु कथमपि सङ्गमनीयः । वस्तुतस्तु, "शुद्धात्मतत्त्वविज्ञानं सांख्यमित्यभिधीयत" इति व्यासस्मृत्या भावार्थकाङ्प्रत्य- यनिष्पन्नज्ञानवाचकसमयाशब्दात्सम्बन्धिबोधकशैपिकाणा "सांख्य"शब्दः सिद्धः, यद्वा "संख्यां प्रकुर्वते चैव प्रकृति व प्रचक्षते । चतुर्विशतितत्त्वानि तेन सांख्याः प्रकीर्तिता" इति भारतात् , संख्याशब्दावेदार्थकाणा निष्पन्नः "सांख्य शब्द:, उभयथापि योगरूढः ।।

सटीके षड्दर्शनसमुच्चये -- तदेवाह- जिनेन्द्रो देवत्ता तत्र रागद्वेषविवर्जितः। हतमोहमहामल्लः केवलज्ञानदर्शनः ॥ ४५ ॥ सुरासुरेन्द्रसंपूज्यः सद्भतार्थोपदेशकः । कृत्लकर्मक्षयं कृत्वा संप्राप्तः परमं पदम् ॥४६॥ तत्र तस्मिन् जैनमते जिनेन्द्रो देवता कृत्स्नकर्मक्षयं कृत्वा परमं पदं सम्माप्त इति सम्बन्धः, जैनेन्द्र इति जयन्ति रागा. दीनिति जिनाः सामान्यकेवलिनस्तेषामिन्द्रः स्वामी तादृशास. दृशचतुस्त्रिंशदतिशयसम्पत्सहितो जिनेन्द्रो देवता दर्शनप्रवर्तक आदिपुरुष, एप की शिवं संप्राप्त इति परासाधाणानि विशे- पणान्याह-रागद्वेषविवर्जित इति । रागः सांसारिकस्नेहोऽनुग्र- हलक्षणः, द्वेषो वैराग्याउनुबन्धान्निग्रहलक्षणः, ताभ्यां विवर्जितो- रहितः, एतावेच दुर्जयो दुरन्तभवसम्पातहेतुतया च मुक्ति- प्रतिरोधको समये प्रसिद्धौ, यदाह- को दुःखं पाविज्जा कस्स न सुखेहिं विम्हहो हुन्जा । को अ न लभेज मुखं रागदोसा जइ न हुज्जा ॥ तथा हतमहामोइमल्लः मोहनीयकर्मोदयाच हिंसाऽऽत्मक- शाखेभ्योऽपि मुक्तिकालणादिव्यामोद्दो मोहः स एव दुर्जेयत्वा- न्महामल्ल इव महामल्ला, हतो मोहो महामल्लो येनेति स तथा, रागद्वेषमोहसद्भावादेव न चान्यतीर्थाधिष्ठातारो मुक्त्यङ्गतया.. प्रतिभासन्ते, तत्सद्भावश्च तेषु सुज्ञेय एव, यदुक्तम्- रागोऽऽङ्गनासङ्गपनानुमेयो द्वेपो द्विषां दारणहेतिगम्यः । मोहः कुचागमदोपसाध्यो नो यस्य देवस्य स चैवमईन् । १ को दुःखं प्राप्नुयात् कस्य न सौख्यविस्मयो भवेत् । कश्च न लभेत मोक्षं रागद्वेपो यदि न भवेताम् ॥ , जैनमतम् । - .. इति रागद्वेषमोहरहितो भगवान् , तथा केवलज्ञानदर्शन:, धवखदिरपलाशादिव्यक्तिविशेषाववोधो ज्ञानम् , वनमिति सामा- न्यावबोधो दर्शनम् , केवल शब्दश्चोभयत्र सम्बध्यते, केवलमि- न्द्रियादिज्ञानानपेक्षं ज्ञानं दर्शनश्च यस्येति, केवलज्ञानकेवलद- र्शनात्मको हि भगवान करतलकलितविमलमुक्ताफलवद् द्रव्य- पर्यायविशुद्धमखिलमिदमनवरतं जगत्स्वरूपं पश्यतीति केवल. ज्ञानदर्शन इति. पदं साभिमायम् , अन्यस्य हि प्रथम दर्शनमु- त्पद्यते, ततो ज्ञान, केवलिनस्त्वादी ज्ञानं ततो दर्शनमिति, सुरासुरेन्द्रसम्पूज्या-सेवाविधानसावधाननिरन्तरदौकमा. नदासायमानदेवदानवबन्दनीय; तादृशैरपि पूज्यस्य मानवतिर्य- खेचरकिंनरनिकरसंसेव्यत्वमानुपङ्गिकपिति, तथा सद्भूतार्थोपदेशकः सद्भूनार्थान् द्रव्यपर्यायरूपा- न् नित्यानित्यमामान्यविशेषसदसदभिलाप्याघनन्तधर्मात्मकान् पदार्थानुपदिशति, तथा हि-वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणं, सच्च नित्यैकान्ते न घटने, अपच्युतानुत्पन्नस्थिरैकरूपो हि नित्यः स च क्रमेणार्थक्रियां कुर्वीताक्रमेण वा, अन्योन्यव्यतिरिक्तधर्मा- णामर्थानां प्रकारान्तरेणोत्पादाभावाद , तत्र न क्रमेण स हि का- लान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् स. मर्थस्य कालक्षेपायोगात , कालोपिणो वा सामर्थ्यापाः, सम- र्थो हि तत्सहकारिसमवधानेन तमर्थ करोतीति चेद् ? : न तस्य सामर्थ्यमपरसहकारिसापेक्षवृत्तित्वात् "सापेक्षम- समर्थमि"ति न्यायात् , न तेन सहकारिणोऽपेक्ष्यन्ते,ऽपि तु कार्यमेव सहकारिष्वसत्स्वभवत्तमपेक्षत इति चेत् ? तत्किं स भावोऽसमर्थः समर्थो वा, समर्थ श्चेत्कि सहका- रिप्रेक्षणादीनि तान्यपेक्षते न पुनर्झटिति घटयति, . . ६५०० है सटीके षड्दर्शनसमुचये - - ननु समर्थमपि वीजमिलाजलानिलादिसहकारिसहितमै- वाङ्कुरं करोति नान्यथा, तम्कि वीजस्य सहकारिभिः किं चि. दुपक्रियते न वा, यदि नोपक्रियते तदा सहकारिसन्निधानात्मा- गिव किं न सोऽर्थक्रियायामुदास्ते, उपक्रियते चेत्स, तर्हि तैरु- कारो भिन्नोऽभिन्नो वा क्रियत इति वाच्यम् , अमेदे म एव क्रियत इति लाभमिच्छतो मूलक्षतिरायाता, कृतकत्वेन तस्या. नियत्वापत्तेः, भेदे सति कथं तस्योपकारः किं न सह्यावि- ध्यादेरपि, तत्सम्बन्धात्तस्यायमिति चेद् ? उपकार्योपकारकयोः कः सम्बन्धः, न तावत्संयोगो द्रव्ययोरेव तस्य भावात् , अत्र तूप. कार्य द्रव्यमुपकारश्च क्रियेति न संयोगो, नापि समवायः, त: स्यैकत्वाध्यापकत्वाच्च प्रत्यासतिविप्रकर्षाभावेन सर्वत्र तुल्य- त्वाद् न नियतैः सम्बन्धिभिः सम्बन्धो युक्तः, नियतसम्ब. न्धिसम्बन्धे चाङ्गीक्रियमाणे तत्कृतोपकारोऽस्य समवायस्या. भ्युपगन्तव्यः, तथा च सत्युपकारस्य भेदाभेदकल्पना तदवस्थैव, उपकारस्प समवायादभेदे समवाय एव कृतः स्यात् . मेदे पुनरपि समवायस्य न नियतसम्बन्धे सम्बन्धत्वं, तन्नैकान्तनि- यो भावः क्रमेणार्थक्रियां कुरुते नाप्यक्रमेण, न को भाव: सकलकालभाविनीयुगपत्सर्वाः क्रियाः फरोतीति प्रातीतिक, कुरुतां वा तथाऽपि स द्वितीयक्षणे किं कुर्यात् , करणे वा क्रम- पक्षभावी दोपः; अकरणे त्वर्थक्रियाकारित्वाभावावस्तुत्वप्रसङ्ग- इत्येकान्तनित्या क्रमाक्रमाभ्यां व्याप्ताऽर्थक्रिया व्यापकानुपल. ब्धिबळाव्यापकनिवृत्ती निवर्तमाना व्याप्यमर्थक्रियाकारित्वं. निवर्तयति, अर्थक्रियाकारित्वञ्च निवर्तमानं स्वच्याप्यसत्वं नि- वर्तयतीति नकान्तनित्यपक्षो युक्तिक्षमा, जैनमतम् । ४३ ... एकान्तानित्यपक्षोऽपि न कक्षीकरणाहः, अनित्यो हि प्र. तिक्षणविनाशी, स च न क्रमेणार्थक्रियासमर्थो देशकृतस्य का. लकृतस्य च क्रमस्यैवाभावाइ , क्रमो हि पौर्वापर्य, तत्क्षणिक- स्थासम्भवि, अवस्थितस्यैव हि नानादेशकालव्याप्तिर्देशकमा कालक्रमश्चाभिधीयत्ते, न चैतस्मिन् विनाशिनि साऽस्ति, यदाहुः- यो यत्रैव स तत्रैव यो यदैव तदैव सः। न देशकालयोतिर्भावानामिह विद्यते ॥ न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति, सन्तानस्यावस्तुत्वात् , वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं न तर्हि क्षणभ्यः कश्चिद्विशेषः, अथाक्षणिकत्वं तर्हि समाप्तः क्षणभङ्गवादः, नाप्यक्रमेणार्थक्रिया क्षणिक सम्भवति, सोको वीजपूरादिरू- पादिक्षणो युगपदनेकान् रसादिक्षणान् जनयन्नेकेन स्वभावेन जनयेदु नानास्वभावैर्वा, यधेकेन तदा ते रसादिक्षणानामे कत्वं स्वादैकस्वभावानन्यवाद, अंथ नानास्वभावर्जनयति किं चिदूपादिकमुपादानभावन किं चिद्रसादिकं सहकारित्वेनेति, से तर्हि स्वभावास्तस्यात्मभूता- अनात्मभूता वा, अनात्मभूताश्चेत्स्वभावत्वहानिः, यद्यात्मभूता- स्तर्हि तस्यानेकत्वमनेकस्वभावत्वात् , स्वभावानां वैकत्वं प्रस. ज्येत , तदव्यतिरिक्तत्वात्तेषां तस्य चैकत्वाद् , अथ य एवैकत्रोपादानभावः स . एवान्यत्र सहकारिभाव. इति न स्वभावभेद इष्यते ? तर्हि नित्यस्यैकरूपस्य क्रमेण नाना- कार्यकारिणः स्वभावभेदः कार्यसांकर्य च कथमिप्यते क्षणि. कवादिना, अथ नित्यमेकस्वरूपत्वादक्रमम् , अक्रमाच्च क्रमिणां ना- .

.४४ सटीके षड्दर्शनसमुच्चये . नाकार्याणां कथमुत्पत्तिरिति चेद् ? अहो स्वपक्षपाती देवानांप्रियः, यः खलु स्वयमेकस्पानिरंशाद्रूपादिक्षणलक्षणात्कारणायुगपदने. ककारणसाध्यान्यनेककार्याण्यङ्गीकुर्वाणोऽपि, परपक्ष नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुद्भावयति तस्मारक्ष- मिकस्यापि भावस्याक्रमेणार्थक्रिया दुर्घटा इत्यनित्यैकान्तादपि क्रमाक्रमयोनित्यैव व्याप्याऽर्थक्रिया व्यावर्तते, तद्यावृत्तौ च सत्वमपि व्यापाकानुपलम्भवलेनैव निवर्तत इत्येकान्तानित्यवादो- न रमणीयः, स्याद्वादे तु पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरि. णामन भावानामर्थक्रियोपपत्तिरविरुद्धा, न चैकत्र वस्तुनि परस्परविरुद्धधर्माध्यासयोगादसन् स्या- द्वाद इति वाच्यम् ? नित्यपक्षानित्यपक्षविलक्षणस्य कथं चित्सदसदात्मकस्य पक्षान्तरस्याङ्गीक्रियमाणत्वात् तथैव च सर्वैरनुभवादिति, तथा च पठन्ति-- भागे सिंहो नरो भागे योऽर्थो भागद्वयात्मकः । तममागं विभागेन नरसिंह प्रचक्षत इति ।। तथा सामान्यैकान्तं, विशेषकान्तं, भिन्नी सामान्यविशेपौ; चेत्थं निराचष्टे, तथा हि-विशेषाः सामान्याद्भिन्ना अभिन्ना- वा, भिन्नाश्चेन्मण्डूकजटाभारानुकाराः, अभिन्नाश्चेत्तदेव तत्स्व- रूपवदिति सामान्यैकान्तः, सामान्यैकान्तवादिनस्तु द्रव्यास्तिकनयानुपातिनो मीमां: सकभेदा अद्वैतवादिनः सांख्याथ, पर्यायनयान्वयिनो भापन्ते विविक्ताः क्षणक्षयिणो विशेषा- एव परमार्थस्ततो विष्वग्भूतस्य सामान्यस्याप्रतीयमानत्वाद्, जैनमतम् । ४५ न हि गवादिव्यत्यतुगमकाले वर्णस्थानात्मक व्यक्तिरूपम- वहायान्यत्किं चिदेकमनुयायि प्रत्यक्ष प्रतिभासते ताशस्या- तुभवाभावात् , तथा च पठन्ति-- एतासु पश्चस्ववभासिनीषु प्रत्यक्षबोधे स्फुटमगुलीषु । साधारणं रूपमवेक्षते यः शृङ्गं शिरस्यात्मन ईक्षते सः ॥ एकाकारपरामर्शप्रत्ययस्तु स्वहेतुदत्तशक्तिभ्यो व्यक्तिभ्य- एवोत्पद्यत इति न तेन सामान्यसाधनं न्याय्यम् , किं च यदिदं सामान्यं परिकल्पते-तदेकमने वा, एक- मपि सर्वगतमसर्वगतं च, सर्वगतं चेतिक न व्यत्यन्तरालेष्वपि लभ्यते, सर्वगत्तैकत्वाभ्युपगमे वा. तस्य यथा गोत्वसामान्य- गोव्यक्तीः क्रोडीकरोति, एवं किं न घटपटादिव्यक्तीरप्यविशे- पाद्, असर्वगतं चेद्विशेषरूपापत्तिरभ्युपगमवाधश्च, अथाने गोत्वाश्वत्वघटत्वादिभेदभिन्नत्वात् , तर्हि विशेषा- एव स्वीकृता अन्योन्यव्यावृत्तिहेतुत्वाद्, न हि यगोत्वं तद- श्वत्वात्मकमिति, अर्थक्रियाकारित्वं च वस्तुनो लक्षणं तच्च विशे- पेष्वेव स्फुट लक्ष्यते, न हि सामान्येन का चिदर्थक्रिया क्रियते तस्य निष्क्रियत्वाद , वाहदोहादिष्वर्थक्रियासु विशेषाणामेवोप- योगाद , तदिदं सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा, भिन्न चेद- वस्तु, विशेषविश्लेषार्थक्रियाकारित्वाभावाद् ; अभिन्नं चद्विशेपा. एव तत्स्वरूपवदिति विशेषकान्तवादा, नैगमनयानुगामिनस्त्वाहुः-स्वतन्त्रौ सामान्पविशेषौ, तथैव प्रमाणेन प्रतीतत्वात् , तथा हि-सामान्पविशेपारत्यन्तं भिन्नौ, .

सटीके षड्दर्शनसमुच्चये विरुद्धधर्माध्यासितत्वाद् , यावेव तावेवं यथा पाथापावकौ, तथा चैतो, तस्मानथा, सामान्यं हि गोत्वादि सर्वगतं, तद्विपरीताश्च शवलशावलेयादयो विशेषाः, ततः कथमेषामैक्यं युक्तं, न सामा- न्याद पृथग् विशेषस्योपलम्भ इति चेत् ? कथं तर्हि तस्योपलम्भ- इति वाच्यम् ? सामान्यव्याप्तस्येति चेद् ? न तर्हि स विशेषोपलम्भः, सामा- न्यस्यापि तेन ग्रहणात् ततश्च तेन वोधेन विविक्तविशेपग्रहणा- भावात् तद्वाचकं ध्वनि तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता, न चैतदस्ति विशेषाभिधानन्यवहारयोः प्रवृत्तिदर्शनात् , तस्मा. द्विशेषमभिलपता तत्र व्यवहारं प्रवर्तयता तद्ग्राहको वोधोऽभ्यु. पगन्तव्यः, एवं सामान्यस्थाने विशेषशब्दं विशेषस्थाने च सामान्य- शब्दं प्रयुञानेन सामान्येऽपि तद्ग्राहको बोधो विविक्तोऽङ्गी- कर्तव्यः, तस्मात्स्वस्त्रग्राहिणि ज्ञाने पृथक् प्रतिभासमानत्वाद् द्वाव. पीतरेतरविशकलितो, ततो न सामान्यविशेषात्मकत्वं वस्तुनो- घटत इति स्वतन्त्रः सासान्यविशेषवादः, स्वतन्त्रसामान्यविशेष. देशका नैगमनयानुरोधिनः काणादा आक्षपादाश्च, तदेतत्पक्षत्रयमपि क्षोदं न क्षमते, · प्रमाणवाधितत्वात् सामान्यविशेषोभयात्मकस्यैव वस्तुनो निर्विगानमनुभूयमानत्वाद् वस्तुनो हि लक्षणमर्थक्रियाकारित्वं, तच्चानेकान्तवाद एवाविकलं. कलयन्ति परीक्षकाः, तथा हि-गौरित्युक्ते खुरककुदलाङ्घलसा- नाविषाणायवयवसंपन्नं वस्तुरूपं सर्वव्यक्तयनुयायि प्रतीयते तदा महिप्यादिव्यात्तिरपि प्रतीयते, यत्रापि च शवला गौ. रित्युच्यते, तत्रापि च यथा विशेषप्रतिभासस्तथा गोत्वप्रतिभा- .

जैनमतम् । सोऽपि स्फुट एन, शबलेति केवल विशेपोचारणेऽप्यर्थात्मकरणाद्वा गोलमनुवर्तते; अपि च शवलत्वमपि नानारूपं तथा दर्शनाद ततो वक्ता शवलेन्युक्त क्रोडीकृतशवलसामान्यं विवक्षितगोव्य. क्तिगतमेव शवलत्वं व्यवस्थाप्यते; सदेवमावालगोपालं प्रतीतप्र- सिद्धेऽपि वस्तुनः सामान्यविशेषात्मकत्वे तदुभयैकान्तवादः प्रलापमात्रं, न हि क चित्कदा चिकेन चित् किं चित्सामान्यं. विशेषविनाकृतमनुभूयते, विशेषा वा तद्विनाकृताः, यदाहु:- द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा दृष्टा मानेन केन चेति ॥ : केवलं दुर्णयबलप्रभावितप्रवळमतिव्यामोहादेकमपळप्यान्य- द् व्यवस्थापयन्ति कुमतयः सोऽयमन्धगजन्यायः, येऽपि च तदेकान्तपक्षोपनिपातिनः भागुक्तदोपास्तेऽप्यने- कान्तवादप्रचण्डमुद्गरमहारजस्तित्वान्नोच्छ्वसितुमपि क्षमा, स्वतन्त्रसामान्यविशेषवादिनस्त्वेवं प्रतिक्षेप्या:-सामान्यं- प्रतिव्यक्ति कथं चिद्विभिन्नं, कथं चित्तदात्मकत्वाद्विसदृशपरि- णामवद्, यथैव हि का चिद्वयक्तिरुपलभ्यमाना व्यक्त्यन्तराद्वि. शिष्टा विसदृशपरिणामदर्शनादवतिष्ठते, तथा सदृशपरिणामा- त्मकसामान्यदर्शनात्समानेति, तेन समानो गौरयं, सोऽनेन स- मान इति प्रतीतेः, चास्य व्यक्तिस्वरूपादभिन्नत्वात्सामान्यरूपताव्या- घातः, यतो रूपादीनामपि व्यक्तिस्वरूपादभिन्नत्वमस्ति, न च तेषां गुणरूपताव्याघातः, कथं चिद्व्यतिरेकस्तु रूपादीना- मिव सदृशपरिणामस्पाप्यस्त्येव पृथगव्यपदेशादिभाक्त्वाद् वि. शेपा अपि नैकान्तेन सामान्मात्पृथग्. भवितुमर्हन्ति यतो यदि न ४८ सटीके षड्दर्शनसमुच्चये सामान्यं सर्वगत सिद्धं भवेत्तदा तपामसर्वगतत्वं, ततो विरुद्ध धर्माध्यासः स्याद् , न च तस्य तत्सिद्धं, प्रागुक्तयुक्तथा निराकृतत्वात सामा. न्यस्य विशेषाणाञ्च परस्परं कथं चिदव्यतिरेकेणैकानेकरूपत. या व्यवस्थितत्वाद् विशेपेभ्योऽव्यतिरिक्तवाद्धि सामान्यमप्य. नेकमिष्यते सामान्यात्तु विशेषाणामन्यतिरेकात तेऽप्येकरूपा- इत्येकत्वं च सामान्यस्य संग्रहनयार्पणात्सर्वत्र विज्ञेयम् , अने- कत्वं च प्रमाणार्पणात् तस्य सदृशपरिणामरूपस्य विसदृशपरि- णामवत् प्रतिव्यक्तिभेदाद, एवं चामिद्धं सामान्यविशेषयोः सर्वथा विरुद्धधर्माध्या- सितत्त्वं कथं चिद्विरुद्धर्माध्यासितत्वं चेद् विवक्षितं तदाऽस्म. पक्षप्रवेशः, कथं चिद्विरुद्धधर्मांध्याप्तस्य कथं चिद्भेदावि नाभूतत्वात् पाथ पावकदृष्टान्तोऽपि साध्यसाधनविकलः, तयो. रपि कथं चिद्विरुद्धधर्माध्यासितत्वेन भिन्नत्वेन च स्वीकाराव , पयस्त्वपावकत्वादिना हि तयोविरुद्धपाध्यासो भेदश्च, द्रव्यत्वा. दिना पुनस्तद्वैपरीत्यमिति तथा च कथं न सामान्यविशेषात्म- फत्वं वस्तुनो घटत इति, उक्तं च- दोहिं विण एहिं पणीयं सत्थमुलूगेण तहवि मिच्छत्वं । जं सविसयपहाणतणेण अण्णोणणिरवेखं ॥ . - तथा- निर्विशेष हि सामान्यं भवेत्खरविपाणवत् । सामान्यरहितत्वेन विशेषास्तद्वदेव हि ॥ १.द्वाभ्यामपि नयाभ्यां प्रणीतं शास्रमुलकेन तथाऽपि मिथ्यात्वम् । यत्सविषयप्रधानत्वनान्योन्यनिरपेक्षम् ॥, जैनमतम् । ४९ तथैकान्तसचमेकान्तासत्वं च वार्तमेव, तथा हि-सर्वभा. वानां हि सदसदात्मकत्वमेव स्वरूपम् , एकान्तसत्वे वस्तुनो वै- स्वरूप्यं स्याद् एकान्तासचे च निःस्वभावता भावानां स्यात् तस्मात्स्वरूपेण सत्त्वात् पररूपेण चासत्त्वात् सदसदात्मकं वस्तु सिद्धम् , यदाहु- "सर्दमस्ति स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसम्भव" इति ॥ ततश्चैकस्मिन् घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभाव- रूपेण वृत्तेरनेकान्तात्मकत्वं घटस्य सूपपादम् , एवं चैकस्मिन्नर्थे ज्ञाते सर्वेषामर्थानां ज्ञानं सर्वपदार्थपरिच्छेदमन्तरेण तन्निषेधा- मन एकस्य वस्तुनो विविक्ततया परिच्छेदासम्भवाद्, आगमोऽप्येवमेव व्यवस्थित:- "ज एग जाणइ सो सव्वं जाणइ । जो सव्वं जाणइ सो एगं जाणइ" ।। तथा-- एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः। सर्वे भावाः सर्वथा येन दृष्टा- एको भावः सर्वथा तेन दृष्ट इति- मुघर्ट सदसदनेकान्तात्मकं वस्तु, अनयैव भङ्गया स्याद- स्तिस्यान्नास्तिस्यादवक्तव्यादिसप्तभङ्गीविस्तरस्य जगत्पदार्थसा. र्थव्यापकत्वाद् अभिलाप्यानभिलाप्यात्मकमप्यूह्यमिति, १. य एक जानाति स सर्व जानाति । यः सर्व जानाति स एक जानाति ॥ ७५०६० - सटीके षड्दर्शनसमुच्चये सद्भतार्थोपदेशकः कृत्स्नकर्मक्षयं कृत्वेति । कृत्स्नानि सर्वा- णि घात्यघातीनि यानि कर्माणि जीवभोग्यवेद्यपुद्गलास्तेपा- क्षयं निर्जरणं विधाय; परमं पदं सम्माप्तः, अपरे हि सौगतादयो मोक्षमवाप्यापि तीर्थानिकारादिसम्भ- वे भूयो भूयो भवमवतरन्ति, यदाहु:- ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वा गच्छन्ति भूयोऽपि भवं तीर्थनिकारत इति- न से परमार्थतो मोक्षगतिभाजः कर्मक्षयाभावाद्, न हि त. स्वतः कर्मक्षये पुर्नभवावतारः, यदुक्तम्- दग्धे वीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्कुरः । कर्मवीजे तथा दग्धे न रोहति भवाङ्कुर इति ॥ अईश्च भगवान् कर्मक्षयपूर्वमेव शिवपदं प्राप्त इति ॥४६॥ तत्वान्याह-- जीवाजीवौ तथा पुण्यं पापमाश्रवसंवरौ । चन्धश्च निर्जरामोक्षौ नव तत्वानि तन्मते ॥४७॥ तन्मते जैनमंते, नव तत्त्वानि सम्भवन्तीति ज्ञेयम्, नामा- नि निगदसिद्धान्येव ॥ ४७ ।। जीवाजीवपुण्यतत्त्वमेवाह- तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान् । कर्ता शुभाशुभं कर्म भोक्ता कर्मफलस्य च ॥४८॥ चैतन्यलक्षणो जीवो यश्चैतद्वैपरीत्यवान् । अजीवः स समाख्यातः पुण्यं सत्कर्मपुद्गलाः ॥४९॥ युग्मम् , जैनमतम् । ६६ तत्र जैनमते, चैतन्यलक्षणो जीव इति सम्बन्धः, विशेषणा- न्याह-ज्ञानादिधर्मेभ्यो भिन्नाभिन्न इति । ज्ञानमादिर्येषां ध- माणामिति ज्ञानदर्शनचारित्ररूपा धर्मगुणास्तेभ्योऽयं जीवश्चतु- देशभेदोऽपि कथश्चिद्भिन्नः कथञ्चिदभिन्न इत्यर्थः, एकेन्द्रियादि. पञ्चेन्द्रियपर्यन्तेषु स्वापेक्षया ज्ञानवत्वमस्त्येवेत्पभिन्नत्वं ज्ञाना- दिभ्यः, परापेक्षया पुनरज्ञानवत्वमिति भिन्नत्वं, लेशतश्चेत्सर्द. जीवेषु न ज्ञानववं तदा जीवोऽजीवत्वं प्राप्नुयात्, तथा च सिद्धान्तः- "सव्वजीवाणं पियणं अक्खरस्स, अणन्तओ भागो निच्चुग्धाडिओ । जइ सो वि आवरेज्झा ता जीवो अजीवत्तं पाविज्झा । सुद्धा वि मेहसमुदये होइ पहा चन्दसूराणम्" || तथा वित्तिमानिति । वित्तिः परिणामः साऽस्यास्तीति मतुप्, सुरनरनारकातर्यवेकेन्द्रियादिपञ्चेन्द्रियपर्यन्तजातिपु. विविधोत्पत्तिरूपान् परिणामाननुभवति जीव इयर्थः, अन्य- च्च शुभाशुभं कर्म कर्ता, शुभं सातवेद्यम् , अशुभम सातवेधं, शुभञ्चाशुभश्चेति द्वन्द्वः, एवंविधं कर्म भोक्तव्यफलकर्तृभूतं- की स्वात्मसाद्विधाता-उपार्जयितेति यावद्, न च साङ्ख्य- चदकर्ताऽऽत्मा शुभाशुभावन्धकश्चेति तथा कर्मफलम्भोक्ता न च केवलः कर्ता, किंतु भोक्ताऽपि स्वोपार्जितपुण्यपापकर्मफ- लस्य वेदयिता न चान्यकृतस्यान्यो भोक्ता, सर्वजीवानां प्राणानाम् अक्षरस्य अनन्तको भागो नित्योद्घाटितः । यदि सोऽप्यानियेत तदा जीयोऽजीवलं प्राप्नुयात् । शुद्धाऽपि मेघसमुदये भवति प्रभा चन्द्रसूर्याणाम् ॥ १

सटीके षड्दर्शनसमुचये
तथा चागमः
"जीवाणं भन्त ! किं अत्तकडे दुक्खे
परकडे दुक्खे तदुभयकडे दुक्खे ?
गोयम ! अत्तकडे दुक्खे
नो परकडे दुक्ख नो तदुभयकडे दुक्खे" इति ॥
कव भोक्ता तथा चैतन्यलक्षण इति । चैतन्यं चेतनास्व.
भावत्वं, तदेव लक्षणं मूलगुणो यस्येति सूक्ष्मवादरभेदा एके.
न्द्रियास्तथा विकलेन्द्रियास्त्रयः, संज्ञासंक्षिभेदाश्च पञ्चेन्द्रियाः,
सर्वेऽपि पर्याप्ता अपर्याप्ताश्चेति चतुर्दशापि जीवभेदाश्चैतन्यं न
व्यभिचरन्तीति,
अथाजीवमाह-"यश्चैतद्वैपरीत्यवानजीवः स समाख्यात".
इति । यः पुनस्तस्माज्जीवलक्षणाद्वैपरीयमन्यथात्वमस्यास्तीति त.
द्वैपरीत्यवान् विपरीतस्वभावोऽचेतनः सोऽजीवः समाख्यातः
कथितः पूर्वसूरिभिरिति, भेदाश्च धर्माधर्माकाशपुङ्गलाः स्कन्धदे-
शप्रदेशगुणा अद्धाकेवलपरमाणुश्चेति चतुर्दश जीवभेदाः,
पुण्यं सत्कर्मपुद्गला इति । पुण्य नाम तत्त्वं कीहगित्या-
ह-सत्कर्मपुद्गला इति । सच्छोभनं सातवेद्यं कर्म, तस्य पुद्-
गला दलपाटकानि पुण्यप्रकृतय इत्यर्थः, ताश्च द्वाचत्वारिंशत्तद्यथा-
नरतिरिसुराउउच्चं सायं परघायआयबुज्जोयं ।
तित्थुस्सास्मुनिमाणं पणिदिव इरुस्सभचउरसं ॥
.
१ जीवानां भदन्त ! किमात्मकृतं दुःखं परकृतं दुःखं तदुभयकृतं दुःखम् ?
गोतम ! आत्मकृतं दुःखं नो परकृतं दुःखं नो तदुभयकृत दुःखम् ॥
२ नरतियंक्सरायुरुज्ई सातं परघातातबोद्योतम् ।
तीर्थाच्छासनिर्माणं पञ्चेन्द्रियवज्रर्पभचतुरस्त्रम् ॥
सदशकं वर्णचतुष्कं सुरमनुजद्विकं तनुपञ्चकमुपाङ्गनिकम् ।
गुरुलघुप्रथमखातिबांचत्वारिंशत् शुभप्रकृतयः ।।

जैनमतम् । -- सदसअं वनचउकं सुरमणुअदुगंतणुपंच अं उबंगति । अगुरुलहुपडमखगई वायालीस सुहपयडी ॥ भावार्थस्तु ग्रन्थविस्तरभयानोच्यत इति श्लोकार्थः॥४८-४२॥ शेषतत्वमाह-- पापं तद्विपरीतन्तु मिथ्यात्वाद्याश्च हेतवः । यस्तैर्वन्धः स विज्ञय आश्रवो जिनशासने ॥५०॥ तु पुनस्तद्विपरीतं पुण्यप्रकृतिविसदृशं पापं पापतत्त्वमित्य- र्थः, मिथ्यात्वाद्याश्चेति । मिथ्यादर्शनाविरतिप्रमादकपाययोगा: हेतवः पापस्य कारणानि, तत्मकृतयश्च न्यशीतिस्तद्यथा-- "थांवरदसरं जाईचउअं अपढमसंठाणखगइसंघयणा । तिरिनिरयदुगाउजाईवन्नचऊक नामचउत्तीसा ॥ नरयाउनीयअस्सायघाइपणयालसहिवासीई" इति । पुण्यप्रकृतिव्यतिरिक्ताः पापप्रकृतयो न्यशीतिः । वर्णचतुष्कस्य तु शुभाशुभरूपेणोभयत्रापि सम्बध्यमानत्वा. न दोषः यस्तैमिथ्यादर्शनादिभिर्वन्धः कर्मबन्धः स जिनशासन- आश्रवो विज्ञेयः, आश्रवतत्वं ज्ञेयमित्यर्थः, तत्प्रकृतयश्च द्वाच. त्वारिंशत् , तथा हि-पञ्चेन्द्रियाणि, चत्वारः कषायाः, पञ्च न. तानि, मनोवचनकायाः, पञ्चविंशतिक्रियाश्च कायिक्पादय- इसाश्रवः॥ ५० ॥ संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मणः । १ नसदशकं वर्णचतुष्कं सुरमनुजद्विकं तनृपजानुपाइनिकट । अगुरुलघुप्रथमखगतिज्चत्वारिंशत् शुभप्रकृतयः । २ स्थावरदशकं जातिचतुष्कं । अप्रथमसंस्थानखगतिसंहननानि । २ तिर्यग्निरयविकायुर्जातिवर्गस्तुकं नान वारिंशत् । नरकायुनींचालाघातिपञ्जवत्वातिलहनोतिः । - सटीक षड्दर्शनसमुच्चये अन्योन्यानुगमात्कर्मसम्बन्धो यो व्योरपि ॥५१॥ तु पुनस्तनिरोध आश्रवद्वारमतिरोधः संवरतत्वं संवर- मकृतयस्तु सहपश्चाशत्तद्यथा- समिइगुत्तिपरीसहजइधम्मभावणाचरित्ताणि । पणतिगदुधीसदसबारहपश्चभेएहिं सगवणा ।। पश्च समितयस्तिस्रो गुप्तयो, द्वाविंशतिः परीपहा, दश. विधो यतिधर्मः, द्वादश भावनाः, पञ्च चारित्राणीति प्रकृतयः, बन्धो नाम जीवस्य प्राणिनः कर्मणो वेद्यस्यान्योन्यानुगमात् परस्परक्षीरनारन्यायेन लोलीभावाद् यो द्वयोरपि जीवकर्मणोः सम्बन्धः संयोगः स बन्धनाम तत्त्वमित्यर्थः; स चतुर्विधः प्रक- तिस्थित्यनुभागप्रदेश भेदात्- "स्वभावः प्रकृतिः प्रोक्तः स्थितिः कालावधारणम् । अनुभागो रसो ज्ञेयः प्रदेशो दलसञ्चयः" ॥ इत्यादिः सम्बन्धो ज्ञेयः ॥ ५१ ।। निर्जरामोक्षौ चाह- बद्धस्य कर्मणः शाटो यस्तु सा निर्जरा मता। आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥५२॥ यः पुनर्वद्धस्य सृष्टवद्धनिधत्तनिकाचितादिरूपेणार्जितस्य कर्मणस्तपश्चरणध्यानजपादिभिः शाटः कर्मक्षपणं सा निर्जरा मता पूर्वमूरिभिरिति, सा पुनर्द्विविधा सफामाकामभेदेन, तु पुनर्देहादेरात्यन्तिको वियोगो मोक्ष उच्यते, स च नवविधो यथा- "संतपयवरुवणया दव्यमाणं च खित्तपसणा य । १ समितिगुप्तिपरीपहयतिधर्मभावनाचरित्राणि । पञ्चत्रिद्वाविंशतिदशद्वादशपञ्चभेदैः पन्नाशत् ॥ २ सत्पदप्ररूपणता द्रव्यप्रमाणं च क्षेत्रस्पर्शना य । कालश्चान्तरं भागो भावोऽल्ययहुत्वं च ॥

जैनमतम् ।
५५
कालो य अन्तरं भागो भावो अप्पा बहुं चेत्र" इति ॥
नवप्रकारो हि करणीयः बाह्यमाणानामात्यन्तिकापुनर्भावि-
स्वेनाभावः शिव इत्यर्थः,
ननु सर्वथा प्राणाभावादजीवत्वप्रसङ्गः, तथा च द्वितीयतत्त्वा-
न्तर्भूतत्वान् मोक्षतत्वाभाव इति चेद् ?
न-मोक्षे हि द्रव्यप्राणानामेवाभावः भावप्राणास्तु नैष्कामि-
कावस्थायामपि सन्त्येव-
यदुक्तम्-
"यस्मात्क्षायिकसम्यक्त्वं वीर्यसिद्धत्वदर्शनज्ञानैः ।
आत्यन्तिकः संयुक्तो निर्द्वन्द्वेनापि च सुखेन ।।
ज्ञानादयस्तु भावमाणा मुक्तोऽपि जीवति स तईि।
तस्माजीवत्वं हि नित्यं सर्वस्य जीवस्य" इति ।।
सङ्गतदेहवियोगान्मोक्ष, आदिशब्दादेहेन्द्रियधर्मविरहोऽपीलि
पद्यार्थः ॥५२॥
एवं नामोद्देशेन तत्वानि सङ्कीर्त्य फलपूर्वकमुपसंहारमाह-
एतानि तत्र तत्त्वानि यः श्रद्धत्ते स्थिराशयः ।
सम्यक्त्वज्ञानयोगेन तस्य चारित्र योग्यता ॥५३॥
एतानि पूर्वोक्तानि, तत्र जिनमते, तत्वानि यः कश्चित
स्थिराशयो दृढचित्तः सन् श्रद्धत्ते, अवैपरीत्येन मनुते, एतावता
जानन्नप्यश्रधानो मिथ्यागेव,
यथोक्तं-श्रीगन्धिहस्तिमहात: । "द्वादशाङ्गमपि श्रुतं विद-
शनस्य मिथ्ये" ति तस्य दृढमानसस्य सम्यक्त्वयोगेन चा-
स्त्रियोग्यता चारित्राईना सम्यक्त्वज्ञानयोगेनेत्ति, सम्यक्त्वं.
च ज्ञानं च सम्यक्त्वज्ञाने तयोर्योगस्तेन ज्ञानदर्शनविनाकृतस्य
हि चारित्रस्य सम्यक्चारित्रस्य व्यवच्छेदार्थं सम्यक्त्वज्ञान-
ग्रहणमिति ॥ ५३ ॥

५६ सटीके षड्दर्शनसमुचये फलमाह- तथा भव्यत्वपाकेन यस्यैततत्रितयं भवेत् । सम्यग्ज्ञानक्रियायोगाजायते.मोक्षभाजनम् ॥५.४॥ तथेत्युपदर्शने, . भव्यत्वपाकेन परिपक्व भव्यत्वेन तद्भव एवावश्यं मोक्ष गन्तव्यमिति भव्यत्वस्य परिपाकेन यस्य पुस- एतत् त्रितयं दर्शनज्ञानचारित्ररूपं भवेत्, यत्तदोर्नित्याभिसम्ब- न्धान सोऽनुक्तोऽपि सन्बध्यत इति स पुमान्मोक्षभाजनं जायते निर्वाणश्रियं भुङ्क्त इत्यर्थः, कस्मात् सम्यग्ज्ञानक्रियायोगात् सम्यगिति । सम्यक्त्रं दर्शने, ज्ञानमागमाववोधः, क्रिया च चरण. करणामिकास्तासां योगः सम्बन्धस्तस्माद्, न च केवलं दर्शन- ज्ञानं चारित्रं वा मोक्षकारणम्- यदाहुर्भद्रबाहुस्वामिपादा:- मुंबहुं पि सुयमहीयं किं काही चरणविष्पमुक्वस्स । अन्धस्स जह पलिता दीवस्यसहस्सकोडी वि ।। . तथा नाणं चरितहीणं लिंगरगहणं च दंसणविहीणं । संजमहीणं च तवं जो चरइ निरत्ययं तस्स ।। दर्शनज्ञानचारित्राणि हि समुदितान्येव मोक्षकारणानि यदु- वाच, चाचकमुख्यः-"दर्शनज्ञानचारित्राणि मोक्षमार्ग" इति ॥५४॥ प्रमाणे आह- प्रत्यक्षं च परोक्षं च हे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु प्रमाणविषयास्त्वह ॥ ५५ ॥ १ सुबह्वपि श्रुतमधीतं किं करिष्यति चरणविप्रयुक्तस्य । अन्धस्य यथा प्रदीपा दीपरातसहस्रकोटिरपि । ज्ञानं चरित्रहीन लिङ्गग्रहणं च दर्शनविहीनम् । संयमहीनं च तपः यचरति निरर्थक तस्य ।।

जैनमतम् । ५७ - तथेति प्रस्तुतमतानुसन्धाने, द्वे प्रमाणे मते अभिमते, के ते इत्याह-प्रत्यक्षं च परोक्षं चेति । अश्नुतेऽक्ष्णोति वा व्याप्नोति सकलद्रव्यक्षेत्रकालभावानित्यक्षो जीवोऽश्नुते विषयमित्यक्षमिः न्द्रियं च, अक्षमक्ष प्रतिगतं प्रत्यक्षपिन्द्रियाण्याश्रित्य व्यवहारसा- धकं यज्ज्ञानमुत्पद्यते तत् प्रत्यक्षमित्यर्थः, अवधिमनःपर्याय केवल- ज्ञानानि तद्भदाश्च प्रत्यक्षमेव, अल एव सांव्यवहारिकपारमार्थिः कैन्द्रियिकातीन्द्रियिकादयो : भेदा अनुमानादधिकज्ञानविशेषम- काशकत्वादत्रैवान्तर्भवन्ति, परोक्षं चेति । अक्षाणां परं परोक्षम् अक्षेभ्यः परतो वर्तत. इति वा, परेणेन्द्रियादिना वोक्ष्यते परोक्षं स्मरणप्रत्यभिज्ञानतो. नुमानागमभेदम् , अमुयैव भङ्गया मतिश्रुतज्ञानं अपि परोक्ष- येवेति हे प्रमाणे, प्रमाणमुक्त्वा तद्गोचरमाह-तु पुनः, इह जिनमते, प्रमाणविषयः प्रमाणयोः प्रत्यक्षपरोक्षयोपियो गोचरो. ज्ञेय. इत्यध्याहार,. किं तदित्याशङ्कायामनन्तधर्मकं वस्त्विति । वस्तु- तवं पदार्थस्वरूपं, किंविशिष्टम् ? अनन्तधर्मकम् अनन्ता- खिकालविषयत्वादपरिमिता ये धर्माः सहभाविनः । क्रम- भाविनश्च पर्याया यत्रेति, अनेन साधनमपि दर्शितं. तथा हि-सत्त्वमिति धर्मि; अनन्तधर्मात्मकत्वं साध्यो धर्मः, स. वान्यथाऽनुपपत्तेरिति हेतुः, अन्यथाऽनुपपत्येकलक्षणत्वाद्धेतोर- ताप्त्यैव साध्यस्य मिद्धत्वाद् दृष्टान्तादिभिर्न प्रयोजनं, यदन- न्तधर्म न भवति तत् सदपि न भवति यथा वियदिन्दीवरमिति केवलव्यतिरेकी हेतुः, साधम्र्पदृष्टान्तानां . पक्षकुक्षिनिक्षिप्तत्वेना- न्वयायोगाद्, . ८ष० ० सटीके षड्दर्शनसमुच्चये अनन्तधर्मात्मकत्वं चात्मनि तावत्साकारानाका. रोपयोगिता कर्तृत्वं भोक्तृत्वं प्रदेशाष्टकनिश्चलताऽमूर्तत्वमस- वयातप्रदेशात्मकता जीवत्वमित्यादयः सहभाविनो धर्माः, हर्ष. विषादशोकमुखदाखदेवनारकतिर्यङ्नरत्वादयस्तु क्रमभाविना, धर्मास्तिकायादिण्वप्यसङ्खधेयप्रदेशात्मकत्वं गयाापग्रहकारित्वं- मत्यादिज्ञानविषयत्वं तत्तदवच्छेदकावच्छेद्यत्वमवस्थितत्वमरूपि- त्वमेकद्रव्यत्वं निष्क्रियत्वमित्यादयः, घटे पुनरामत्वं पाक- जरूपादिमर्च पृथुतुनोदरकम्युग्रीवत्वं जलादिधारणहरणसा- मर्थ्य मत्यादिज्ञानविषयत्वं नवत्वं पुराणत्वमित्यादयः, एवं सर्वपदार्थेषु नानानयमताभिज्ञेन शाब्दानार्थीश्च पर्या- यान् प्रतीत्य वाच्यशब्देष्वप्युदात्तानुदात्तस्वरितविवृतसंवृतघो. पनादाघोपाल्पमाणमहाप्राणताऽऽदयः तत्तदर्थप्रसायनशक्त्याद- यश्वावसेया:, अस्य हेतोरनेकान्तप्रचण्डमुद्गराघातदलितशक्तित्वेनासि- द्धविरुद्धानकान्तिकत्वादीनां कण्टकानामनवकाश एवेयेवंविधः पर्यायात्यन्तसुभगं वस्तु जिनशासने प्रमाणविषय इत्यर्थः॥५५॥ लक्ष्यनिर्देशं कृत्वा लक्षणमाह- अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्ष,मितरज् ज्ञेयं परोक्षं ग्रहणेक्षया ॥ १६ ॥ तत्र प्रत्यक्षपिाते लक्ष्यनिर्देशः, अपरोक्षतयाऽर्थस्य ग्राहक ज्ञानमीदृशमिति लक्षणनिर्देशः, परोक्षोऽक्षगोचरातीतः, ततो- ऽन्योऽपरोक्षस्तद्भावस्तत्ता तया साक्षात्कृततयेति यावद् , अर्थत- इत्यर्थो गम्यत इति हृदयम् , अर्यत इति चाऽर्थो दाहपाकाद्य. र्थक्रियाऽर्थिभिरभिलष्यत इति, तस्य ग्राहकं व्यवसायात्मक- तया परिच्छेदकं यज् ज्ञानं तदीशमिति; ईडगेव प्रत्यक्षमिति

जैनमतम् ।
संटङ्कः, अपरोक्षतयेत्यनेन परोक्षलक्षणसङ्कीर्णतामध्यक्षस्य परि-
हरति, तस्यासाक्षात्कारितयाऽर्थग्रहणरूपत्वादिति, ईशामिति ।
अमुना तु पूर्वोक्तन्यायात्सावधारणत्वेन विशेषणकदम्बसचिव-
लक्षणज्ञानोपदर्शनात्परपरिकल्पितस्य युक्तरयं प्रत्यक्षतां पति-
क्षिपति,
एवं च यदाहुः-"इन्द्रियार्थसन्निकर्पोत्पन्नं ज्ञानमव्यपदेश्य-
मव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्," तथा "सत्संप्रयोगे पुरु.
पस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमि"त्यादि, तदयुक्तमित्युक्तं-
भवति, अपूर्वप्रादुर्भावस्य प्रमाणवाधितत्वादत्यन्तासतां शशवि-
पाणादीनामप्युत्पत्तिप्रसङ्गाव, तस्मादिदमात्मरूपतया विद्यमान
मेव विशेषकृद्धतुकलापसन्निधानात्साक्षादर्थप्रहणपरिणामरूपतया
निर्वर्तते; तथा चोत्पन्नजन्मरूपादिविशेषणं न संभवेद् , अथैवंवि-
घार्थसूचकमेवैतदित्याचक्षीथास्तथा'सत्यविगानमेवेत्यास्तां तावद्,
अधुना परोक्षलक्षणं दर्शयति-इतरदित्यादि, अपरोक्षत-
याऽर्थस्य ग्राहकं ज्ञानं प्रत्यक्षमुक्तम्, तम्मादितरदसाक्षादर्थ-
ग्राहकं ज्ञानं परोक्षमिति ज्ञेयमवगन्तव्यम् , तदपि स्वसंवेदनापे.
क्षतया प्रत्यक्षमेव, बहिरापेक्षया तु परोक्षव्यपदेशमश्नुन इति
दर्शयन्नाह-ग्रहणेक्षयेति । इह ग्रहणं प्रक्रमाद्वहिः प्रवर्तनमुच्यते,
अन्यथा . विशेषणवैयत्तिस्येक्षाऽक्षा तया वहिःप्रवृत्तिपर्या-
लोचनयेति यावत् , तदयमर्थो यद्यपि स्वयं प्रत्यक्षं तथाऽपि
लिङ्गशब्दादिद्वारेण बहिर्विषयग्रहणेऽसाक्षात्कारितया व्याप्रियत-
इति परोक्षमित्युच्यत इत्यर्थः ॥ ५६ ।।
पूर्वोक्तमेव वस्तुतत्वमनन्तधर्मात्मकतया द्रवयन्नाह-
येनोत्पादध्ययध्रौव्ययुक्तं यत्सत्तदिष्यते ।
अनन्तधर्मकं वस्तु तेनोक्तं मानगोचरः ॥ ५७ ॥

६० सटीके षड्दर्शनसमुच्चये येन कारणेन यदुत्पादव्ययध्रौव्ययुक्तं तत्सत्सत्त्वरूपमि. ज्यते तेन कारणेनानन्तधर्मकं वस्तु मानगोचरः, प्रसक्षपरोक्षप- माणविषयः, उक्तं कथितमिति सम्बन्धः, उत्पादश्च व्ययश्च धौ. व्यश्च, उत्पादव्ययध्रौव्याणि तेषां मेलस्तदेव सत्त्वमिति ज्ञानम्, इष्यते केवलज्ञानिभिरभिलण्यत इति, वस्तुतत्वं चोत्पादव्ययधौ- व्यात्मकम् , तथा हि-उर्वीपर्वततर्वादिकं सर्व वस्तु द्रव्यात्मना नोत्पद्यते विपद्यते चा परिस्फुटमन्वयादर्शनात, लूनपुनर्जात- नखादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम् , प्रमाणेन वाध्यमानस्यान्वयस्यापरिस्फुटत्वाद, न च प्रस्तुतोऽन्वयः प्र. माणविरुद्धः, सत्यमत्यभिज्ञानमिद्धत्वात् , सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानादिति- वचनात्ततो द्रव्यात्मता स्थितिरेव सर्वस्य वस्तुनः, पर्या. यात्पना तु सर्व वस्तूत्पद्यते विपद्यते चास्खलितपर्यायानुभव. सद्भावाद्, न चैवं शुक्लशङ्केपीतादिपर्यायानुभवेन व्यभिचारः १ तस्य स्खलद्रूपत्वाद् , न खलु सोऽस्खलद्रूपो येन पूर्वाकारविनाशोऽज. हवृत्तत्तिगकारोत्पादाविनाभावी भवेद् , न च जीवादी वस्तु. नि हामदासीन्यादिपर्यायपरंपराऽनुभवः स्खलद्रूपः, कस्य चिहाधकस्याभावाद्, ननृत्पादादयः परम्परं भिद्यन्ते न वा ? यदि भिद्यन्ते कथ. मेकं वस्तु व्यात्मकं ? न भिद्यन्ते चेत्तथाऽपि कथमेकं वस्तु व्या- स्मकं ? तथा च. यद्युत्पादादयो भिन्नाः कथमेकं ध्यात्मकम् ? अधोत्पत्यादयोऽभिन्नाः कथपेकं यात्मकमिति चेत् ? तदयुक्तं-कथञ्चिद्भिन्नलक्षणत्वेन तेषां कथं चिद्भेदाभ्युप.

जैनमतम् । ११ . . - गमाव , तथा हि उत्पादविनाशध्रौव्याणि स्याद्भिन्नानि भिन्न- लक्षणत्वाद् रूपादिवद्, न च भिन्नलक्षणत्वमासिद्धम् , असत- आत्मलाभः, सतः सत्वाविप्रयोगो, द्रव्यरूपयाऽनुवर्त्तनं, च खलुत्पादादीनां परस्परमसङ्कीर्णानि लक्षणानि सकललोकसा. क्षिकाण्येव, न चामी भिन्नलक्षणा अपि परस्परानपेक्षाः, खपुष्प. वदसत्त्वापत्तेः, तथा ड्युत्पादः केवलो नास्ति स्थितिविग- मरहितत्वात् कूर्मरोमवत् , तथा विनाशः केवलो नास्तीत्युत्प- तिरहितत्वात्तद्वदेव, स्थितिः केवला नास्ति विनाशोत्पाद- शुन्यत्वात तद्रदेवेत्यन्योन्यापेक्षाणामुत्पादीदानां वस्तुनि सत्त्वं- प्रतिपत्तव्यम्, तथा चोक्तं- "घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वलम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्माद्वस्तु त्रयात्मकम्" ।। इति, व्यतिरेकश्च यदुत्पादब्धयध्रौव्यात्मकं न भवति तदस्त्वेव न; यथा खरविषाणं, यथेदं तथेदमिति, अन एवानन्तधर्मक- वस्तु मानगोचरः प्रोक्तम् , अनन्ता धर्माः पर्यायाः सामान्यवि- शेषलक्षणा यत्रेत्यनन्तधर्मकं चस्त्विति, उत्पादच्ययधोव्यात्मक- स्यैवानेकधर्मकत्वं युक्तियुक्ततामनुभवत्तीति ज्ञापनायैव भूयोऽन- न्तधर्मकपदप्रयोगो, न पुनः पाश्चात्यपद्योक्तानन्तधर्मकपदेन पौन- रुत्त्यमांशङ्कनीयमिति पद्यार्थः ।। ५७ ।। ग्रन्थस्य बालाववोधार्थफलकत्वादथोपसंहरन्नाह- जैनदर्शनसंक्षेप इत्येष कथितोऽनघः। पूर्वापरविघातस्तु यत्र क्वापि न विद्यते ॥ ५८ ॥ इति-पूर्वोक्ताकारण, एषाम्प्रत्यक्षलक्ष्यो, जैनदर्शनसंक्षेपः . सटीके षड्दर्शनसमुच्चये कथितः, विस्तरस्यागाधत्वेन वक्तुमगोचरत्वाद्, उपयोगसारः संक्षेपो निवेदितः, किंभूतोऽनघो निर्दषणः सर्ववक्तव्यस्य सर्वज्ञ- मूलत्वेन दोषकालुष्यानवकाशात , तु समुच्चयार्थे, तत्र पुनः पूर्वापरविघातः कापि न विद्यते, पूर्वस्मिन्नादावपरस्मिन् प्रान्ते न विधानो विरुद्धार्थता यत्र दर्शने कापि पर्यन्तग्रन्थेऽपि परस्प- विसंवादो नास्ति, आस्तां तावत्केवलभाषितेषु द्वादशाङ्गेषु पारं- पर्यग्रन्थेष्वपि सुसम्बद्धार्थवाद विरुद्धार्थदोर्गन्ध्याभावः. अयं भावो-यत् परतैथिकानां मूलशास्त्रेष्वपि न युक्तियु. क्ततां पश्यामः, किं पुनः पाश्चात्यविप्रलम्भग्रथितग्रन्थकथासु, यञ्च कापि कापि कारुण्यादिपुण्यकर्मपुण्यानि च वचांसि कानि चिदाकर्णयामस्तान्यपि त्वदुक्तमूक्तसुधापयोधिमन्थोद्गतान्येव र- नानीव सङ्गृह्य स्वात्मानं रत्नपतय इव बहु मन्वाना मुधा भग. ल्भन्ते, यदाहुः-श्रीसिद्धमेनदिवाकरपादा:- "मुनिश्चितं नः परतन्त्रयुक्तिपु स्फुरन्ति याः काश्चन सूक्तिसम्पदः । तथैव ताः पूर्णपहाणवोत्थिता- जगत्प्रमाणं जिनवाक्यविग्रुप" इति परमार्थः ।। ५८ ॥ अथ वैशेपिकमतस्य देवताऽऽदिसाम्येन नैयायिकेभ्यो ये विशेष न मन्यन्ते तान् बोधयन्नाह- देवताविषये भेदो नास्ति नैयायिकैः ममम् । वैशेषिकाणां तत्त्वेषु विद्यतेऽसौ निर्दिश्यते ॥ ५९ ॥ शिवदेवतासाम्येऽपि, तत्त्वादिविशेषविशिष्टत्वाद् वैशेषिका. स्तेषां वैशेपिकाणां काणादादीनां नैयायिकैराक्षपादैः समं सार्द्ध- देवताविषये शिवदेवताऽभ्युपगमे भेदो विशेपो नास्ति, तत्त्वेषु शा. सनरहस्येषु भेदो विद्यते, तुशब्दोऽध्याहार्यः, अंसौ.विशेषो.

. वैशेषिकमतम् । नैयायिकेभ्यः पृथग्भावो, निर्दिश्यते प्रकाश्यत इत्यर्थः ॥५९ ॥ तान्येव तत्त्वान्याह- द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् । विशेषसमवायौ च तत्त्वषट्क हि तन्मते ॥ ६० ॥ तन्मते वैशेषिकमते, हि निश्चयेन, तत्वषट्कं ज्ञेयामिति स- म्बन्धः, कथमित्याह-द्रव्यं गुण इत्यादि, आदिमतत्वं द्रव्यनाम, भेदवाहुल्येऽपि सामान्यादेकम् , द्वितीयतत्वं गुणनाम, तथेति भेदान्तरसूचने, तृतीयं तवं कर्मसज्ञम् , चतुर्थकं च तत्वं सामान्यम् , चतुर्थमेव चतुर्थक स्वार्थे कः प्रत्ययः, चः समु. बये, अन्यच्च विशेषसमवायौ, विशेषश्च समवायश्चेति द्वन्द्व इति तदर्शने तत्त्वानि पड़ ज्ञेयानि ॥ ६० ॥ भेदानाह- तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसि च, गुणाः पुनश्चतुर्विशतिधा६१ स्पर्शरसरूपगन्धाः शब्दः सङ्ख्या विभागमयोगी परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ॥६२।। बुद्धिः सुखदुःखच्छा धर्माधौं प्रयत्नसंस्कारौ । द्वेषः स्नेहगुरुत्वे द्रवत्ववेगौ गुणा एते ॥६३ ॥ नवद्रव्याणि चतुर्विशतिगुणाश्च निगदसिद्धान्येव, संस्का- रस्य वेगभावनास्थितिस्थापकभेदात्रिविधवेऽपि संस्कारस्वजास. पेक्षयैकत्वम् , शौय्यौदार्यादीनां च गुणानामेष्वेव चतुर्विंशतिगु- णेष्वन्तभावान्नाधिक्यम् ।। ६१-६३ ।। कर्मसामान्यभेदानाह- उत्क्षेपावक्षेपावाकुश्चनकं प्रसारणं गमनम् । पञ्चविधं कमैतत्परापरे द्वे तु सामान्ये ॥ ६४ ॥ , - - .

६४ . सटीके षड्दर्शनसमुच्चये : पञ्चापि कर्ममेदाः स्पष्टा एव, गमनग्रहणाद् :भ्रमणरेचन- स्यन्दनाद्यवरोधः, तु पुनः, सामान्ये द्वे द्विस ङ्खये, के ते ? इसा- इ-परापरे.! परश्वापरं च परापरे, परसामान्यमपरसामान्य- चेत्यर्थः :॥६४ ॥ एतब्यक्ति विशेषव्यक्ति चाह- तत्र परं सत्ताऽऽख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु.। निश्चयतो नित्यद्रव्यवृत्तिरन्त्यो विनिर्दिष्टः ॥६५॥ तत्र तयोर्मध्ये परं सत्ता भावो महासामान्यमिति वोच्यते, द्रव्यत्वाधवान्तरसामान्यापेक्षया महाविषयत्वाद् , अपरसामान्य द्रव्यत्वादि, एतच्च सामान्यविशेष इत्यपि व्यपदिश्यते, तथा हि- द्रव्यत्वं नवमु द्रव्येषु वर्तमानत्वात्सामान्यं, गुणकर्मभ्यो व्यावृत्त स्वाद्विशेषः, ततः कर्मधारये सामान्यविशेष इति, एवं द्रव्यत्वाद्यपेक्षया पृथिवीत्वादिरूपमपरं, तदपेक्षया घट. स्वादिकम् , एवं चतुर्विशती गुणेषु वृत्तेर्गुणत्वं सामान्यं, द्रव्यकर्मभ्यो. व्यावृत्तेश्च विशेषः, एवं गुणत्वापेक्षया रूपत्वादिक, तदपेक्षया नीलत्वादिकम्, एवं पञ्चमु कर्भमु वर्तमानत्वात्कर्मत्वं सामान्यं द्रव्यगुणेभ्यो- व्यावृत्तवाद्विशेषः, एवं कर्मत्वापेक्षयोत्क्षेपणत्वादिकं ज्ञेयम् , तत्र सत्ता द्रव्यगुणकर्मभ्योऽर्यान्तरं; कया युक्त्येति चेद् ? उच्य. ते-न द्रव्यं सत्ता द्रव्यादन्ये सर्थः, एकद्रव्यवाद्,. एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः, द्रव्यत्ववद, यथा द्रव्यत्वं नवसु द्रव्येषु प्रत्येक वर्तमानं द्रव्यं न भवति किं तु सामान्यं विशेषलक्षणं. द्रव्यत्वमेव, एवं सत्ताऽपि वैशेपिकाणां ह्यद्रव्यं वा द्रव्यम् , अनेकद्रव्यं वा द्रव्यं, तत्राद्रव्यं द्रव्यमाकाशं कालो दिगात्मानः वैशेषिकमतम् । ६५ - परमाणवः, अनेकद्रव्यं तु व्यणुकादिम्कन्धाः, एकद्रव्यं तु द्रव्यमेव न । भवति, एकद्रव्यवती सत्तेति द्रव्यलक्षणविलक्षणत्वान्न द्रव्यम्, एवं न गुणः सत्ता गुणेष्वभावाद् गुणत्ववत् , यदि हि सत्ता गुणः स्याद न तर्हि गुणेषु वर्तेत निर्गुणत्वाद् गुणानां वर्तते च गुणेषु सत्ता "सन् गुण" इति प्रतीतेः, तथा न सत्ता कर्म कर्मसु भावात् कर्मस्ववत् :, यदि च सत्ता कर्म स्यान्न तर्हि कर्मसु वःत, निष्कर्मत्वाकर्मणां, वर्तते च कर्ममु भावः, "सत्कर्म"ति प्रतीतेः, तस्मात्पदार्थान्तरं सत्ता, अथ विशेषपदार्थमाहार्याऽर्द्धन--विशेषस्त्विति । निश्च. यतो नित्यद्रव्यत्तिरन्यो विनिर्दिष्टः कथितः, आचा. येणेति ज्ञेयम् , कथमित्याह--अन्त्यो विशेषो नित्यद्रव्य- वृत्तिरिति, तथा हि-नित्यद्रव्यवृत्तयोऽन्त्या विशेषा. अत्यन्त- व्यावृत्तिहेतवस्ते द्रव्यादिवलक्षण्यात् पदार्थान्तरम् , तथा च प्रशस्तकारः-अन्तेषु भवा अन्त्याः, स्वाश्रयविशेषकत्वाद्विशेषाः, विनाशारम्भरहितेषु नित्यद्रव्येवण्वाकाशकालदिगात्मानःसु प्रतिद्रव्यमकैकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः, तथा. ऽस्मदादीनां गवादिष्व श्वादिभ्यस्तुल्याकृतिक्रियाऽवयवोपचया. पचयविशेषसंयोगनिमित्तासम्भवाद् , येभ्यो निमित्तेभ्यः प्रत्या धारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययपात्तिर्देशकालवि- प्रकदृष्टे च परमाणौ स एवायमिति च प्रत्यभिज्ञानं च भवति तेऽन्त्या विशेषा इति, अमी च विशेषा एव, न तु द्रव्यत्वादिव. सामान्यविशपोथयरूपा व्याहत्तेरेव हेतुत्वादित्यर्थः ॥६५॥ सयवायपदार्थव्यक्तिलक्षणमाइ- य इहायुतसिद्धानामाधाराधेयभूतभावानाम् । ९५०० ६६ सटीके षड्दर्शनसमुचये - सम्बन्ध इह प्रत्ययहेतुः प्रोक्तः स समवायः॥६६॥ इह प्रस्तुतमते, अयुनसिद्धानामाधाराधेय भूतानामिह प्रत्य. यहेतुर्यः सम्बन्धः स समवायः, यथेह तन्तुपु पट इत्यादि- प्रत्ययस्यासाधारणं कारणं समवायः, यदशात् स्वकारणसाप. •दुपजायमानं पटाद्याधार्यं तन्त्वाद्याधारे सम्बध्यते, यथा छिदिः क्रिया छेद्यनेति, अयुतमिद्धानामिति । परस्परपरिहारेण पृथगाश्रयानाश्रितानामाश्रयाश्रायि भाव इति, परस्परवैधयं तु विविक्तैरभ्यूज़, पण्णामपि पदार्थानां स्वरूपकथनमात्राधिकृत- त्वाद् ग्रन्थस्य नेह प्रतन्यत इति ॥ ६६ ।। प्रमाणव्यक्तिमाह- प्रमाणं च द्विधाऽमीषां प्रत्यक्ष लैङ्गिक तथा । वैशेषिकमतस्यैवं संक्षेपः परिकीर्तितः ।। ६७ ॥ यद्यप्यौलुक्यशासने व्योमशिवाचार्योक्तानि त्रीणि प्रमाणा- नि तथाऽपि श्रीधरमतापेक्षयाऽत्रोभे एव निगदिते, अमीषां. वैशेपिकाणां, प्रमाणं द्विधा द्विप्रकारम्, चः पुनरर्थे, कथमित्याह- प्रत्यक्षमेकं प्रमाणं, तथेति द्वितीय भेदपरामर्श लैङ्गिकमनुमानम् , उपसंहरन्नाह-एवमिति । एवमिति प्रकारसूचनं, यद्यपि प्रमात फलाद्यपेक्षया बहु वक्तव्यं, तथाऽप्येवममुना प्रकारेण वैशेषि. कमतस्य संक्षेपः कथितः परिकीर्तित इति ॥ ६७ ॥ पष्ठं दर्शनमाह- जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः । देवो न विद्यते कोप यस्य मानं वचो भवेत् ॥६८॥ जैमिनिमुनेरमी इति जैमिनीयाः, पुत्रपौत्राद्यर्थे तद्धित इ. यप्रत्ययः, जैमिनिशिष्याथैक उतरमीमांसावादिनः एके पूर्व- मीमांसावादिनः, तत्रोत्तरमीमांसावादिनो वेदान्तिनस्ते हि केव- जैमिनीयमतम् । ६७ लब्रह्माद्वैतवाहसाधनव्यसनिनः शब्दार्थखण्डनाय युक्तीः खेट- यन्तोऽनिर्वाच्यतत्त्वे व्यवतिष्ठनो, यदाहुः- "अन्त वित्तसत्वं चेत्कारणं तदसत्ततः । नान्तर्भावितसत्त्वं चेत्कारणं तदसत्ततः ॥ यथा यथा विचार्यन्ते विशीयन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥ एकं ब्रह्मास्त्रमादाय नान्यं गणयतः क चित् । आस्ते न वीरधीरस्य भगः सङ्गरकेलिषु ।। एवं वादिप्रतिवादिनोः-- समस्तलोकशास्त्रैकमत्यमाश्रित्य नृत्पतोः । का तदस्तु नतिस्तद्वद्वस्तुधीव्यवहारयोः ।। उपपादपितुं तैस्तैमतैराशङ्कनयियोः । अनिर्वक्तव्यतावादपादसेवा गतिस्तयोः ।। इत्यादिप्रलपकालानिलक्षुभितचरमसलिलराशिकल्लोलमाला. नुकारिणः परब्रह्माद्वैतसाधकदेतू न्यासाः मोच्छ लन्तश्चतुरचमत्का- रंजनयन्तः क पर्यवस्यन्ति, तास्तु युक्तयः सूत्रकृतानुल्लिखितत्वाद ग्रन्थविस्तरभयाच्च नेह प्रपच्यन्तेऽभियुक्तैस्तु खण्डनमहात. कदिवसेयाः, पूर्वमीमांसावादिनश्च द्विधा-प्राभाकरा भाताच, क्रमेण पञ्च. पट्नमाणमरूपकाः, अत्र तु सामान्यन सूत्रकृत् पूर्वमीमांमा- सावादिन एव जैमिमीयानुहिष्टवान्, ते पुनर्जेमिनीयाः, माहुः कथयन्ति, कथमित्याह-सर्वज्ञा. दिविशेषणः कोऽपि देवो न विद्यते यस्य वचो वचनं मानं. प्रमाणं भवेत् , सर्वज्ञादिविशेषण इति । सर्वज्ञादिना गुणेन विशेष्य इति, आदिशब्दाद्विभुत्वनित्यत्वचिदात्मकत्वादिविशिष्टः . ६८ सटीके षड्दर्शनसमुच्चये कोऽपि देवो नास्ति यद्वचनं प्रमाणतापनुभवेद, मानुषतनुत्वावि- शेषेण विमलम्भकत्वाद् दुष्टपुरुषवत् , सर्वज्ञादिगुणविशिष्टपुरु- पाद्यभाव इत्यर्थः, अथ किङ्करायमाणमुरासुरसेव्यमानताऽऽद्युपलक्षणेन त्रैलो- क्यसाम्राज्यसूचकच्छत्रचामरादिविभुत्वान्यथानुपपत्तेश्वास्ति क. श्चिद पुरुषविशेषः सर्वज्ञ इति चेद् ? न-वद्यथोक्तवचनप्रपञ्चोपन्यासैरेव निरस्तत्वाद्, यथा-- "देवागमन भोयानचामरादिविभूतयः । मायाविष्वपि दृध्यन्ते नातस्त्वमसि नो महान्" ।। अथ यथाऽनादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिप्रक्रि- यया शोध्यमानस्य निर्मलत्वम् । एवमात्मनोऽपि निरन्तरज्ञानाद्य- भ्यासेन विगतमलत्वात् किं न सम्भवेदिति मतिः १ तदपि न-न ह्यभ्यासमात्रसाम्ये शुद्धरपि तदेव तादवस्थ्यम् , यदुक्तम्- "गरुत्मच्छाखामृगयोलानाभ्याससम्भवे । समानेऽपि समानत्वं लङ्घनस्य न विद्यते" ॥ न च सुतरां चरणशक्तिमानपि पारखर्चपर्वतशिखामधि- रोदुं क्षमः, उक्तञ्च- "दशहस्तान्तरं व्योन्नो यो नामोत्प्लुत्य गच्छति । न योजनशतं गन्तुं शक्तोऽभ्यासशतैरपि" ॥ अथ मा भवतु मानुषस्य सर्वज्ञत्वं, ब्रह्मविष्णुमहेश्वरादी- नामस्तु ते हि देवाः, सम्भवत्यपि तेष्वतिशायिसम्पद, यदाह कुमारिल: "अथापि वेदहेतुत्वाद् ब्रह्मविष्णुपमहेश्वराः ।.... कामं भक्न्तु सर्वज्ञाः सार्वयं मानुपस्य किम्" ।। एतदपि न रागद्वेषमूलनिग्रहानुग्रहग्रस्तानां सम्भाव्योन्मे

जैमिनीयमतम् ।
-
पमिति, न च प्रत्यक्षं तत्साधक- "संवद्धं वर्तमानं च गृह्यते
चक्षुरादिने"ति वचनाद, न चानुमानं-प्रत्यक्षदृष्ट एवार्थे तत्प
वृत्तेः, न चागमः-सर्वज्ञस्यासिद्धत्वेन तस्य विवादास्पदत्वाद्,
न चोपमान-तदभावादेव, अर्धापत्तिरपि न-सज्ञसाधकस्या-
न्यथाऽनुपपन्नलिङ्गस्यादर्शनाद्, यदि परमभावप्रमाणगोचरः
सर्वज्ञ इति स्थितम्-
प्रयोगश्चात्र-नास्ति सर्वज्ञः, प्रत्यक्षादिगोचरातिक्रान्तत्वात ,
शशशृङ्गवदिति ॥ ६८ ॥
अथ कथं यथाऽवस्थिततत्वनिर्णयः ? इत्याह-
तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टुरभावतः ।
नित्येभ्यो वेदवाक्येभ्यो यथाऽर्थत्वविनिश्चयः ॥६९ ॥
तस्मात्मामाणिकपुरुषाभावादतीन्द्रियार्थानां चक्षुरगोचरप.
दार्थानां साक्षाद् द्रष्टुात्रादेः पुरुषस्याभावाद् निखभ्य : शाश्व .
तेभ्यो वेदवाक्येभ्योऽपौरुपेयवचनेभ्यो यथार्थतत्वविनिर्णयो-
यथाऽवस्थितपदार्थधर्मादिखरूपविवेचनं "भवती"त्पध्याहार:
अपौरुषेत्वं च वेदानाम्-
"अपाणिपादो ह्यमनोगृहीतः
पश्यत्यचक्षुः स शृणोत्यकर्णः ।
स वेत्ति विश्वं न च तस्प घेत्ता
तमाहुरग्यं पुरुषं महान्तम्" ॥
इत्यादिभावनया रागद्वेषादिदोपतिरस्कारपूर्वकं भावनीय.
मिति ॥ ६९॥
अथ यथाऽवस्थितार्थव्यवस्थापकं तत्वोपदेशमाह-
अत एव पुरा कार्यो वेदपाठः प्रयत्नतः ।
ततो धर्मस्य जिज्ञासा कर्तव्या धर्मसाधनी ॥७॥

७० सटीके षड्दर्शनसमुच्चये यतो हेतोःदाभिहितानुष्ठानादेव तत्त्वनिर्णयः, अत एव पुरा पूर्व प्रयत्न तो यन्नाद्वेदपाठः कार्य: 'ऋग्यजुःसामाथर्वाणो वेदा- स्तपा पाठः कण्ठपीठलुठत्पाठप्रतिष्ठा, नानुश्रवणपात्रेण सम्यग. बोधस्थिरता, ततोऽनन्तरं साधनीयपुण्योपचयहेतुर्धर्मस्य हेयो- पादेय स्वरूपस्य वेदाभिहितस्य जिज्ञासा ज्ञातुमिच्छा कर्तव्या विधेया, वेदोक्ताभिधेयविधाने यतितव्यामिसर्थः ॥ ७० ॥ वेदोक्तधर्मोपदेशमेवाहः नोदनालक्षणो धर्मों, नोदना तु क्रियां प्रति । प्रर्वत्तकं बचः प्राहुः स्वाकामोऽग्निं यजेद्यथा ॥७१॥ नोदनैव लक्षणं यस्य स नोदनालक्षणो धर्मः, तत्स्वरूपमेव मूत्रकृदाह-तु पुनर्नोदनां क्रियां प्रवर्तकं वचः माहुः, वेदो. क्तस्वर्गादिसाधकान्नायस्य क्रियाप्रवर्तकं वचनं नोदनामाहुरि- त्यर्थः, शिष्यानुकम्पया तत्सूत्रेणैव दृष्टान्तयन्नाह-स्व:कामोऽग्निं. यजेद्यथा, यथा येन प्रकारेण स्व:कामः स्वर्गाभिलाषी जनोऽग्नि- यजेद् अग्निकार्यं कुर्यात् , यथाऽहुस्तरसूत्रम्-आग्निहोत्रं जुहु- यात्स्वर्गकाम इति ॥ ७१ ॥ प्रमाणान्याह प्रत्यक्षमनुमानं च शब्दश्वोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥७२॥ जैमिनेः पूर्ववेदान्तवादिनः, पद प्रमाणानि ज्ञेयानीति सम्ब- न्धः, यद्यपि प्राभाकराणां मते पञ्च प्रमाणानि, माहानामेव षट् , तथाऽप्यन्त्र ग्रन्धकृत्सामान्यतः पट्सङ्ख्यामाचष्टे, । प्रमाणनामानि निगदसिद्धान्येव ।। ७२ ॥ निरुक्तमाह- तत्र प्रत्यक्षमक्षाणां संप्रयोगे सतां मतिः। - जैमिनीयमतम् । ७१ . . आत्मनो वुद्धिजन्मेत्यनुमानं लैङ्गिक पुनः ॥ ७३ ॥ तत्र प्रमाणपट्के, अक्षाणान्द्रियाणां संप्रयोगे पदार्थैः सह संयोगे; सतामनुपहितेन्द्रियाणां मतिर्बुद्धिरिदमित्यववोधः, तत्म. त्यक्ष प्रमाणं "भवती"त्यध्याहारः, यत्तदावनुक्तावप्यर्थसम्बद्धौ ज्ञेयौ, सतामिति-विदुषामदुष्टेन्द्रियार्थः, एतावता मरुमरीचि. कायां जलभ्रमः शुक्तौ रजतभ्रमश्चन्द्रियार्थसंप्रयोगजोऽपि द्रष्टु- रविकलोन्द्रयत्वाभावान्न प्रत्यक्षं तत्पमाणकोटिमधिशेते, अनुमा- नपाह-"आत्मनो बुद्धिजन्मेत्यनुमान कैङ्गिकं पुनः" आत्मा यद- नुमिमीते स्वयं तदनुमानमित्यर्थः, अनुमानलैङ्गिकयोः शब्दा. भेदेऽप्यनुमीयत इत्यतुमानं, लिङ्गाज्जातं लैङ्गिकमिति व्युत्पत्ति. भेदानेदो ज्ञेयः, उभयशब्दकथनं तु वालावबोधार्थमेवेति ॥७३॥ शान्दं शाश्वतवेदोत्थमुपमानं प्रकीर्तितम् । प्रसिद्धार्थस्य साधादप्रसिद्धस्य भाजनम् ॥७॥ शाब्दमागमप्रमाणं शाश्वतवेदोत्थं, शाश्वतान्नित्यावदाजा- तम् , आगमप्रमाणमित्यर्थः, शाश्वतत्वं च वेदानामपौरुषेयत्वा. देव, उपमानमाह-यत्मसिद्धार्थस्य प्रतीतपदार्थस्य साधाद- प्रसिद्धस्य वस्तुनः साधनं तदुपमानं प्रमाणं प्रकीर्तितं कथितम् , यथा प्रसिद्धगोगवयस्वरूपो वनेचरोऽप्रसिद्धगवयस्वरूपं नाग. रिकं प्राह-"यथा गौस्तथा गवय" इति, भोः ! खुरककुदलाङ्क- लसानाऽऽदिमन्तं पदार्थ गामिति जानासि; गवयोऽपि तथास्व. रूपो ज्ञेय इत्युपमानम् , अत्र सूत्रानुक्तावपि यत्तदावर्थसम्व- धार्थमध्याहायौँ । ७४ ॥ अर्थापत्तिमाह-- दृष्टार्थानुपपत्त्या तु कस्याप्यर्थस्य कल्पना । क्रियते यद्वलेनासावपत्तिरुदाहृतां ॥ ७५ ॥ . - -- सटीके षड्दर्शनसमुच्चये असौ पुनरर्थापत्तिरुदाहृता कथिता, अर्धापत्तिप्रमाण मो- क्तमित्यर्थः, यदलेन कस्याप्यदृष्टस्यार्थस्य कल्पना क्रियते सङ्घटना विधीयते, कया दृष्टार्थानुपपत्या दृष्टः परिचितः प्रत्य. क्षलक्ष्यो. योऽर्थो देवदत्ते पीनस्वादिः तस्यानुपपत्याऽघट- मानतयाऽन्यथाऽनुपपत्तेः, यथा पीनो देवदत्तो दिवा न भुते पीनत्वस्यान्यथाऽनुपपच्या रात्राववश्यं भुत इत्यर्थ इत्यत्र, दृष्टं- विना भोजनं पीनत्वं दुर्घट, दिवा च न भुङ्क्तेऽतो. रात्राववश्य मष्ट भोजनं ज्ञापयतीत्यर्थापत्ति प्रमाणम् ॥ ७५ ॥ अथाभावप्रमाणमाह- प्रमाणपश्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्ताऽच बोधार्थ तनाभावप्रमाणता ॥ ७६ ॥ यत्र वस्तुरूपे ऽभावादौ पदार्थे प्रमाणपञ्चकं पूर्वोक्तं न जायते, तत्राभावप्राणता ज्ञेयेति सम्बन्धः, किमर्थमित्याह- वस्तुसनाऽववोधार्थम् , वस्तुनोऽभावरूपस्य मुण्डभृतलादेः सत्ता घटांद्यभावसद्भावः तस्याववोधः . प्रामाणिकपथावतारणं. तदर्थं तद्धतीरित्यर्थः, ननु कथमभावस्य प्रामाण्य, प्रत्यक्ष-तावद्भूतलमेवेदं घटा- दि न भवतीत्यन्वयव्यतिरेकद्वारेण वस्तुपरिच्छेदः, तदधिक विषयमभावकरूपं निराचष्ट इति, किं विषयमाश्रित्याभावप्रामा ण्यं स्याद् मुण्डभूतले घटाभावमाश्रित्येति चेद् ? मैवम्--- घटाभावप्रतिबद्धभूतलग्रहणासिद्धेः, तदुक्तम्- "न तावदिन्द्रियेणैषां नास्तीत्युत्पद्यते मतिः । भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ।। गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया" इति ।।

जैमिनीयमतम् । ७३ नास्तिताज्ञानग्रहणावसरे प्रामाण्यमेवाभावस्य, केवलं भा- वांश इन्द्रियसन्निकर्षजत्वेन पश्चप्रमाणागोचरसश्चरिष्णुतामनु- भवन्नावालगोपालागनाप्रसिद्धं व्यवहारं प्रवर्तयति, अभाषा- शस्तु प्रमाणपञ्चकविषयवहिर्भूतत्वात्केवलभूतलग्रहणाग्रुपयोगि- स्वादभावप्रमाणव्यपदेशमश्नुत इति सिद्धमभावस्यापि युक्ति. युक्ततया प्रामाण्यामिति ॥ ७६ ॥ उपसंहरन्नाह- जैमिनीयमतस्थापि संक्षेपोऽयं निवेदितः । एवमास्तिकवादानां कृतं संक्षेपकीर्तनम् ।। ७७ ॥ अपिशब्दान केवलमपरदर्शनानां, जैमिनीयमतस्याप्ययं. सझेपो निवेदितः कथितः, वक्तव्यस्य वाहुल्याट्टीकामाने सा- मस्यकथनायोगात् सङ्केप एव प्रोक्तोऽस्ति, अथ सूत्रकृत्सम्मतसङ्केपमुक्त्वा निगमनमाह--एवमिति । एचमित्थस् , आस्तिकवादिनामिह परलोकगतिपुण्यपापास्ति- क्यवादिना बौद्धनैयायिकसायजनवैशेषिकजैमिनीयानां सङ्के. पकीर्तनं कृतं, सङ्केपेण वक्तव्यमभिहितमित्यर्थः ॥ ७७ ॥ विशेषान्तरमाह- नैयायिकमतादन्ये भेदं वैशेषिकैः सह । न मन्यन्ते मते तेषां पञ्चैवशास्तिकवादिनः ॥ ७८ ॥ अन्य आचार्या नैयायिकमताशपिकैः सह भेदं न मन्यन्ते दर्शनाधिष्ठात्रेकदैवतत्वात् पृथग्दर्शनं नाभ्युपगच्छन्ति तेषां मता. पेक्षयाऽऽस्तिकवादिनः पञ्चैव ॥ ७८ ॥ दर्शनानां षट्सङ्ख्या जगति प्रसिद्धा कथं फलतीत्याह- षष्ठदर्शनसलथा तु पूर्यते तन्मते किल । लोकायतमतक्षेपात्कथ्यते तेन तन्मतम् ।। ७९ ॥ . १० ।

• - ... सटीके षड्दर्शनसमुच्चये ये नैयायिकवैशेषिकयोरेकरूपत्वेनामेदं मन्यमाना दर्शन- पञ्चकमेवाचक्षते, तन्मते षष्ठदर्शनसङ्ख्या लोकायतमतक्षेपात्पूर्य- ते, तु.पुनरर्थे, फिलेति परमाप्ताम्नाये, तेन कारणेन तन्मतं- चार्वाकमतं कथ्यते तत्स्वरूपमुच्यत इति ॥ ७९ ॥ तदेवाह- लोकायना वदन्त्येवं नास्ति देवो न निवृतिः । धर्माधौं न विद्यते न फलं पुण्यपापयोः ॥ ८० ।। लोकायता नास्तिकाः, एवममुना प्रकारेण वदन्ति कथमि- याह-सर्वज्ञादिर्नास्ति, निर्वृतिमोक्षो नास्ति, अन्यच्च न वि. येते, फौ ? धर्माधर्मों, धर्मश्चाधर्मश्चेति द्वन्द्वः, पुण्यपापे न स्त- इत्यर्थः, पुण्यपापयोधर्माधर्मयोः फलं स्वर्गनरकादिरूपं नेति नास्ति, तदपि पुण्यपापयोरभावे कौतस्त्यं तत्फलमियादि, तच्छास्त्रोक्तमेव सोल्लुण्ठं दर्शयन्नाह-तथा च तन्मतं-तथा चेत्युपदर्शने, तन्मतं, प्रस्तावान्नास्तिकमतम् ।। ८० ॥ कथमित्याह:- एतावानेव लोकोऽयं यावानिन्द्रियगोचरः। भद्रे ! वृकपदं पश्य यदन्ति बहुश्रुताः ॥ ८१ ॥ अयं लोकः संसार एतावानेव एतावन्मात्र एव यावान् या. चन्मात्रमिन्द्रियगोचरः, इन्द्रियं स्पर्शनरसनघ्राणचक्षुःश्रोत्रभेदा- त्पश्चविधं तस्य गोचरो विषय!, पञ्चेन्द्रियव्यक्तीकृतमेव वस्त्व- स्ति नापरं किं चन, अत्र लोकग्रहणाल्लोकस्थपदार्थसार्थस्य सङ्ग्रहः, तथा परे पुण्यपापसाध्यं स्वर्गनरकाद्याहुः, तदप्रमाणं प्र- सक्षाभावादेव, अप्रत्यक्षमप्यस्तीति चेच्छाशगवन्ध्यास्तनन्ध. पादीनामपि भावोऽस्तु, - लौकायतिकमतम् । ७९ सथा हि-स्पर्शनेन्द्रियेण तावन्मृदुकठोरशीतोष्णस्निग्धा- क्षादिभावा उपलम्यन्ते, रसनेन्द्रियेण कटुकषायाम्लमधुरास्वादलेह्यचूष्यपेयाद- यो वेद्यन्ते, घ्राणेन्द्रियेण मृगमदमलयजघनसारागुरुप्रभृतिसुरभिवस्तु- परमलोद्वारपरम्पराः परिचीयन्ते, चक्षुरिन्द्रियेण भूभूधरपुरपाकारघटपटस्तम्भाम्भोरुहादिम- नुष्यपशुश्वापदादिस्थावरजङ्गमपदार्थसार्था अनुभूयन्ते, श्रोत्रेन्द्रियेण प्रथिष्ठगाथकपथिकप्रथ्यमानतालपानमूर्च्छनामे- बोलनाखेलन्मधुरध्वनय आकर्ण्यन्ते, इति पञ्चप्रकारप्रत्यक्षदृष्टमेव वस्तुतत्त्वं प्रमाणपदवीमवगाहते, शेषप्रमाणानामनुभवाभावादेव निरस्तत्वाद् गगनकुसुमवत् , ये चास्पृष्टमनास्वादितमनाघ्रातमदृष्टमश्रुनमप्याद्रियमाणाः म्वर्गमोक्षादिसुखपिपासाऽनुबन्धचेतोहत्तयो दुश्चरतरतपश्चरणा- दिकष्टापष्टिकया स्वजन्म क्षपयन्ति तन्महासाहसं तेषामिति, किं च-प्रत्यक्षपप्यस्तितयाऽभ्युपगम्यते चेज गदनपन्हुतमेव स्याद् , दरिद्रो हि स्वर्णराशिर्मेऽस्तीत्यनुध्याय हेलयैव दौःस्थ्य- दलयेद् , दासोऽपि स्वचेतसि स्वामितामवलम्ब्य किङ्करतां नि- राकुर्यादिति, न कोऽपि स्वानभिमतमालिन्यमस्तुबीत, एवं न कश्चित्सेव्यसेवकभावो दरिद्रधनिभावो वा स्यात् , तथा च जगद्व्यवस्थाविलोपप्रसङ्ग इति सुस्थितमिन्द्रियगोचर- एव प्रमाणम्, ये चानुमानागमादिप्रामाण्यमनुमन्वानाः पुण्पपापव्यापार- माप्यस्वर्गनरकादिसुखासुखं व्यवस्थापयन्तो वाचाटा न विरभ- न्ति तान् प्रति दृष्टान्तमाह- , - - ७६ सटीके पड्दर्शनसमुच्चये भद्रे वृकपदं पश्येति । यथा हि कश्चित्पुरुषो वृकपददर्शन- समुद्भुतकुतूहलां दयितां मन्थरतरप्रसृमरसमीरणसमीकृतपां. शुप्रकारस्वाङ्गुलिन्यासेन बृकपदाकारतां विधाय प्राह-हे भद्रे ! बृकपदं पश्य, कोऽर्थः ? यथा तस्या अविदितपरमार्थाया मु. ग्धाया विदग्धो. वल्लभो बृकचरणनिरीक्षणाग्रह कराङ्गुलिन्यास- मात्रेण प्रलोभ्य पूरितवान् , एवममी अपि धर्मच्छमधूर्ताः परव- श्चनप्रवणां यत् किं चिदनुमानागमादिदाळमादश्य व्यर्थं मुग्ध- जनानु स्वर्गादिप्राप्तिलभ्यभोगाभोगप्रलोभनया भक्ष्याभक्ष्यगम्या. -गम्यहेयोपादेयादिसङ्कटे पातयन्ति, मुग्धधार्मिकान्ध्यं चोत्पाद- यन्ति एवमेवार्थ प्रमाणकोटिमधिरोपयन्तश्च यद्बहुश्रुताः परमा- र्थवेदिनो वदन्ति, वक्ष्यमाणपद्येनेत्यर्थः ।। ८१ ।। पिघ खाद च जातशोभने ! यदतीतं वरगात्रि! तन्न. ते । न हि भीरु!गतं निवर्तते समुदयमात्रमिदं कलेवरम्।।८२॥ हे जातशोभने ! भावप्रधानत्वानिर्देशानां, जातं शोभनत्वं. पदननयनादिमत्त्वं यस्याः सेति तत्सम्बोधनम् , पिव पेयापेयव्य. वस्थासंष्ठुल्येन मदिरादेः पानं कुरु न केवलं पिव, खाद च भक्ष्याभक्ष्यनिरपेक्षतया मामादिकं भक्षय, यद्वा पिवेत्यधरा- दिपानं कुरु, खादेति भोगानुपभुक्षेति काम्युपदेशः, स्वयौवनं. सफलीकुर्वित्यर्थः, अथ मुलभमेव पुण्यानुभावाद्भवान्तरेऽपि शोभनत्वमिति परोक्तमाशङ्कयाह-वरगात्रि ! प्रधानानि ! यदतीतम् , अतिः क्रान्तं यौवनादि तत्ते तव भूयो नः किं तु जराजीर्णत्वमेव भविष्यतीयर्थः, जातशोभनेवरगाप्रीतिसम्बोधनयोः समानार्थ- योरप्यादरानुरागातिरेकान्न पौनरुक्तयं दोपः, तदुक्तम्- "अनुवादादरवीप्तामृशार्थविनियोगहेत्वसूयासु । .

लोकायतिकमतम् । ভও ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम्" || ननु स्वेच्छयाऽविच्छिन्नं खादने पाने दुस्तरा परलोककष्ट- परंपरा, सुलभं भवति सुकृतसञ्चये भवान्तरेऽपि यौवनादिक मिति पराशङ्कां दूषयन्नाह-न हि भीरु गतं निवर्तते, हे भीरु ! परोक्तमात्रेण नरकादिप्राप्यदुःखभयाकुले ! गतम् , इहभवाति- क्रान्तं सुखयौवनादि न निवर्तते परलोके नाढौकते परलोकसुखा- काङ्या तपश्चरणादिकष्टक्रियाभिरिहत्य मुखोपेक्षा व्यर्थेत्यर्थः । अथ जन्यजनकसम्बन्धसद्भावादमुना कायेन परलोकेऽपि सहेतुकं सुखदुःखादिकं वेदितव्यमवश्यमेवेति चेद् ? आह-समु. दयमात्रमिदं कलेवरम् , इदं कलेवरं शरीरं समुदयमात्रं समुदयो- मेलः वक्ष्यमाणचतुर्भूतानां संयोगस्तन्मानं मात्रशब्दोऽवधारणे भूतचतुष्टपमम्बन्ध एव कायो, न च पूर्वभवादिशुभाशुभकर्मवि- पाकवेद्यसुखदुःखादिसन्यपेक्ष इत्यर्थः, संयोगाश्च तरुशिखराव. लीलीनवाकुनिगणवत् क्षणतो विनश्वरास्तस्मात् परलोकानपे. क्षया यथेच्छं पिव खाद चेति वृत्वार्थः ॥ ८२ ॥ चैतन्यमाह-- किं च पृथ्वी जलं तेजो वायुभूतचतुष्टयम् । चैतन्यभूमिरेतेषां मानं त्वक्षजमेव हि ॥ ८२ ॥ किं चेत्युपदर्शने, पृथ्वी भूमिः, जलमापः, तेजो वन्हिः, वायुः पवन, इति भूतचतुष्टयं तेषां चार्वाकाणां चैतन्यभूमिः चै- तन्योत्पत्तिकारणं चत्वार्यपि भूतानि संभूय सपिण्डं चैतन्य ज- नयन्तीत्यर्थः, तु पुनः, मानं प्रमाणं हि निश्चितम् अक्षजमेव प्रत्यक्षमेवैकं प्रमाणमित्यर्थः ॥ ८३ ॥ ननु भूतचतुष्टयसंयोगनदेहचैतन्योत्पत्तिः कथं प्रतीयताम् ? इत्याशङ्ख्याह- - सटीके षड्दर्शनसमुच्चये पृथ्व्यांदिभूतसंहत्यां तथा देहादिसम्भवः । मदशक्तिः सुराऽलेभ्यो यद्वत्तत्स्थिताऽऽत्मता ॥८४॥ पृथिव्यादीनि पृथिव्यतेजोवायुरूपाणि यानि भूतानि तेपा. संहत्यां मेले संयोगे सति तथेत्युपदर्शने देहादिसम्भवः, आ. दिशब्दादितरे भूधरादिपदार्था अपि चतुष्टयसंयोगजाता एव ज्ञे- या:, दृष्टान्तमाह-यद् येन प्रकारेण सुराङ्गेभ्यो गुडधातक्या- दिभ्यो मद्यानेभ्यो मदशक्तिरुन्मादकत्वं भवति, तद्वत्तथा भूतच. तुष्टयसम्बन्धात् शरीर आत्मता स्थिता सचेतनत्वं जातमि त्यर्थः ।। ८४ ॥ इति स्थिते तदुपदेशपूर्वकमुपसंहारमाह- तस्माद् दृष्टपरित्यागाददृष्टे च प्रवर्तनम् । लोकस्य तद्विमूढत्वं चार्वाका प्रतिपेदिरे ।। ८५ ।। तस्मादिति पूर्वोक्तानुस्मारणे, पूर्वं तस्मातत्तः कारणाद् दृष्ट परित्यागाद् दृष्टं पेयापेयखाद्याखाद्यगम्यागम्यानुरूपं प्रत्यक्षानु- भाव्यं यत्सुखं; तस्य परित्यागाददृष्टे तपश्चरणादिकष्टक्रियासा. ध्यपरलोकमुखादौ प्रवर्तनं प्रवृत्तिः, चः समुच्चये, यत्तदोनैय- त्यादढे यत्सम्बन्धो ज्ञेयः, तल्लोकस्य विमूढत्वमज्ञानत्वं चार्वा. काः लौकायतिकाः प्रतिपेदिरे प्रतिपन्नाः, मूढलोका हि विप्रता- रकवचनोपन्यासभासितज्ञानाः सांसारिक सुखं परित्यज्य व्य. थै स्वर्ग मोक्षपिपासया तपोजपध्यानहोमादिभिरिहत्यं सुखं हा स्तगतमुपेक्षन्त इति ।। ८५ ॥ साध्यावृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने । निरर्धा सा मते तेषां सा चाकाशात् परा न हि ।।८६॥ साध्यस्य मनीपितस्य कस्य चिद्वस्तुन आवृत्तिः प्राप्तिः, क- स्य चिद्वस्तुनोऽनभीष्टस्य निवृत्तिरभावः, ताभ्यां जने लोके या लौकायतिकमतम् । ७९ प्रीतिर्जायत उत्पद्यते सा तेषां चार्वाकाणां निरार्थिका निराभि- प्राया शून्या मताऽभीष्टा भवार्जितपुण्यपापसाध्यं सुखदुःखादि. कं सर्वथा न विद्यत इत्यर्थः, सा च प्रीतिराकाशाद् गगनात् परा न हि यथाऽऽकाशं शुन्यं तथैषाऽपि प्रीतिरभावरूपैवेत्य- र्थः ॥ ८६॥ उपसंहारमाह- लोकायतेमतऽप्येवं संक्षेपोऽयं निवेदितः। अभिधेयतात्पर्यार्थः पर्यालोच्यः सुवुद्धिभिः ॥ ८७ ।। इति हरिभद्रसूरिकृतः षड्दर्शनसमुच्चयः समाप्तः । एवममुना प्रकारेण लोकायतमतेऽप्ययं संक्षेपो निवेदितः, अपिः समुच्चये न केवलं परमते. संक्षेप उक्तो लोकायतमतेऽपि, अथ सर्वदर्शनसम्मतसङ्ग्रहे परस्परकल्पितानल्पविकल्पज- ल्परूपे निरूपिते किंकर्तव्यमूहानां माणिनां कर्तव्योपदेशमाह- अभिधेयेति । सुबुद्धिभिः पण्डितेरभिधेयतात्पर्यार्थः पर्यालोच्यः, अभिधेयं कथनीयं मुक्त्यङ्गतया प्रतिपाद्यं यदर्शनस्वरूपं तस्य ता. स्पर्थिः सारार्थो विचारणीयः, सुबुद्धिभिरिति । शुद्धा पक्षपा- तरहिता बुद्धिर्येषामिति, न तु कदाग्रहग्रहिलैः, यदुक्तम्- आग्रही बत निनीषति युक्तिं तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य हि तस्य यत्र तत्र मतिरेति निवेशमिति ।। दर्शनानां पर्यन्तैकसारूप्येऽपि पृथक् पृथगुपदेष्टव्याद्विमति- सम्भवे विमूढस्य प्राणिनः सर्वस्पृक्तया दुर्लभं स्वर्गापवर्गसाध- कत्वम् अतो विमर्शनीयस्ताविकोऽर्थः, यथा च विचारित- चिरंतनैः। श्रोतव्यः सौगतो धर्मः कर्तव्यः पुनराहतः । वैदिको व्यवहर्तव्यो ध्यातव्यः परमः शिवः ।।

सटीके षड्दर्शनसमुच्चये इत्यादि विमृश्य श्रेयस्करं रहस्यमभ्युपगन्तव्यं कुशलमति. भिरिति पर्यन्त श्लोकार्थः ॥ ८७ ॥ सप्ताशीतिः श्लोकसूत्रं, टीकामानं विनिश्चितम् । सहस्रमेकं द्विशती द्वापञ्चाशदनुष्टुभाम् ॥ इति श्रीहरिभद्रसूरिकृतषड्दर्शनसमुच्चये मणिभद्रकृता लघुत्तिः समाप्ता। शम् । प्रकाशक- जयकृष्णदास-हरिदासगुप्त:- चौखम्या संस्कृत सीरिज़-आफिस, विद्याविलास प्रेस, गोपालमन्दिर के उत्तर.फाटक, बनारस सिटी ॐ श्रीः * षड्दर्शनसमुच्चयः ग्रन्थारम्भादि- सद्दर्शनं जिनं नत्वा वीरं स्यावाददेशकम् । सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते ॥१॥ दर्शनानि षडेवात्र मूलभेदव्यपेक्षया । देवतातत्वभेदेन ज्ञातव्यानि मनीषिभिः ॥ २ ॥ पदर्शनोदेशः- बौद्ध नैयायिकं सांख्यं जैन वैशेषिक तथा । जैमिनीयं च नामानि दर्शनानाममून्यहो ॥ ३ ॥ वौद्धमतम्- तत्र बौद्धमते ताव देवता सुगतः किल । चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः ॥४॥ दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः । विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥ ५॥ समुदति यतो लोके रागादीनां गणोऽखिलः । आत्मात्मीयस्वभावाख्यः समुदयः स संमतः ॥६॥ क्षणिकाः सर्वसंस्कारा इत्येवं वासना तु या । स मार्ग इति विज्ञेयो, निरोधो मोक्ष उच्यते ॥७॥ पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशायतनानि च ॥ ८ ॥ .

२
षड्दर्शनसमुच्चयः
प्रमाणे द्वे च विज्ञेये तथा सौगतदर्शने ।
प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः ।।९।।
प्रत्यक्ष कल्पनाऽपोढमभ्रान्तं तत्र बुध्यताम् ।
त्रिरूपाल्लिङ्गतो लिङ्गिज्ञानं त्वनुमानसंज्ञितम् ॥१०॥
रूपाणि पक्षधर्मत्वं सपचे विद्यमानता ।
विपक्षे नास्तिता हेतोरेवं त्रीणि विभाव्यन्ताम् ११
वौद्धराद्धान्तवाच्यस्थ संक्षपोऽयं निवेदितः ।
नैयायिकमतम्-
नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ॥१२॥
आक्षपादमते देवः सृष्टिसंहारकृच्छिवः ।
विभुर्नित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः ॥ १३ ॥
तत्त्वानि षोडशामुत्र प्रमाणादीनि तद्यथा ।
प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥ १४ ॥
दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तनिर्णयौ ।
वादो जल्यो वितण्डा च हेत्वाभासाश्छलानि च१५
जातयो निग्रहस्थानान्येषामेवं प्ररूपणा ।
अर्थीपलब्धिहेतुः स्यात्प्रमाणं तचतुर्विधम् ॥१६॥
प्रत्यक्षमनुमानं चोपमानं शाहिकं तथा ।
तत्रेन्द्रियार्थसन्निकर्षीत्पन्नमव्यभिचारिकम् ॥१७॥
व्यवसायात्मकं ज्ञानं व्यपदेशविवर्जितम् ।
प्रत्यक्ष,मितरन्मानन्तत्पूर्व त्रिविधं भवेत् ॥ १८ ॥
पूर्ववच्छेपवचैव दृष्टं सामान्यतस्तथा ।
तत्राचं कारणात्कार्यमनुमानमिह गीयते ॥१९॥
रोलम्बगवलव्यालतमालमलिनत्विषः ।
वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥२०॥

षड्दर्शनसमुच्चयः ao । कार्याकारणानुमानं यच्च तच्छेषवन्मतम् । तथाविधनदीपूरान्मेघो वृष्टो यथोपरि ॥ २१ ॥ यच्च सामान्यतो दृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा ॥२२॥ प्रसिद्धवस्तुसाधादप्रसिद्धस्य साधनम् । उपमानं समाख्यातं यथा गौवयस्तथा ॥ २३ ॥ शाब्दमासोपदेशस्तु मानमेवं चतुर्विधम् । प्रमेयं चात्मदेहार्थवुहीन्द्रियसुखादि च ॥ २४ ॥ किमेतदिति सन्दिग्धः प्रत्ययः संशयो मतः । प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजनम् ।। २५॥ दृष्टान्तस्तु भवेदेष विवादविषयो न यः। सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥२६॥ प्रतिज्ञाहेतुदृष्टान्तोपनपा निगमस्तथा । अवयवाः पञ्च तर्कः संशयोपरमो भवेत् ॥२७॥ यथा काकादिसंपातात् स्थाणुना माव्यमत्र हि । ऊर्ध्व संदेहताभ्यां प्रत्ययो निर्णयो मतः ॥२८॥ आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् । यः कथाऽभ्यासहेतुः स्यादसौ वाद उदाहृतः ॥२९॥ विजिगीपुकथा या तुच्छलजात्यादिदूषणम् । स जल्पः, सा वितण्डा तु या प्रतिपक्षवर्जिता॥३०॥ हेत्वाभासा असिद्धाद्या,श्छल कूपो नवोदकः । जातयो दूषणाभासाः पक्षादिर्दूष्यते न यैः ॥११॥ निग्रहस्थानमाख्यातं परो येन निगृह्यते । प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवत् ॥ ३२ ॥ नैयायिकमतस्यैवं समासः कथितोऽधुना । ।

षड्दर्शनसमुच्चयः सांख्यमतम्- सांख्याभिमतभावानामिदानीमयमुच्यते ॥३३॥ एतेषां या समावस्था सा प्रकृतिः किलोच्यते । प्रधानाध्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका३४ सांख्या निरीश्वराः के चित्के चिदीश्वरदेवताः। सर्वेषामपि तेसां स्यात्तत्वानां पञ्चविंशतिः ॥३५॥ सत्वं रजस्तमश्चेति ज्ञेयं तावद् गुणत्रयम् । प्रसादतोषदै धादिकार्घ लिङ्ग क्रमेण तत् ॥ २६ ॥ ततः संजायते वुद्धिमहानिति यकोच्यते । अहंकारस्ततोऽपि स्यात्तस्मात्योडशको गणः ॥३७॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पञ्चमम् । पञ्च वुद्धीन्द्रियाण्याहुस्तथा कर्मेन्द्रियाणि च ॥३८॥ पायूपस्थवचःपाणिपादाख्यानि मनस्तथा । अन्यानि पञ्चरूपाणि तन्मात्राणीति षोडश ॥३९॥ रूपात्तेजो रसादापो गन्धाद् भूमिः स्वरान्नभः । 'स्पर्शादायुस्तथैवं च पञ्चभ्यो भृतपञ्चकम् ॥४०॥ एवं चतुर्विशतितत्त्वरूपं निवेदितं सांख्यमते प्रधानम् । अन्यस्त्वकर्ता विगुणस्तुभोक्ता तत्पुमान्नित्यचिदभ्युपेत: पञ्चविंशतिस्तत्त्वानि सांख्यस्यैवं भवन्ति च । प्रधाननरयोश्चात्र वृत्तिः पङ्ग्वन्धयोरिव ॥ ४२ ॥ प्रकृतिवियोगो मोक्षः पुरुषस्यैवान्तरज्ञानातं । मानत्रितयं च भवेत् प्रत्यक्षं लैङ्गिक शान्दम् ॥४३॥ एवं सांख्यमतस्यापि समासः कथितोऽधुना । जैनमतम्- जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ।। ४४ ॥

षड्दर्शनसमुच्चयः जिनेन्द्रो देवता तत्र रागद्वेषविवर्जितः । हतमोहमहामल्लः केवलज्ञानदर्शनः ॥ ४५ ॥ सुरासुरेन्द्रसंपूज्य सद्भूतार्थोपदेशकः । कृतलकर्मक्षयं कृत्वा संप्राप्तः यरमं पदम् ॥ ४६ ॥ जीवाजीवौ तथा पुण्यं पापमाश्रवसंवरौ । बन्धश्च निर्जरामोक्षौ नव तत्वानि तन्मते ॥४७॥ तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान् । का शुभाशुभं कर्म भोक्ता कर्मफलस्य च ॥४८॥ चैतन्यलक्षणो जीवो यश्चैतद्वैपरीत्यवान् । अजीवः स समाख्यातः पुण्यं सत्कर्मपुद्गलाः ॥४९॥ पापं तद्विपरीतन्तु मिथ्यात्वाद्यास्तु हेतवः । बस्तैर्बन्धः स विज्ञेय आश्रयो जिनशासने ॥५०॥ संवरस्तनिरोधस्तु बन्धो जीवस्य कर्मणः । अन्योन्यानुगमात्कर्मसम्बन्धो यो योरपि ॥११॥ वद्धस्य कर्मणः शाटो यस्तु सा निर्जरा मता। आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥५२॥ एतानि तत्र तत्त्वानि यः श्रद्धत्ते स्थिराशयः। सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥५३॥ तथा भव्यत्वपाकेन यस्यैतत्रितयं भवेत् । सम्यग्ज्ञानक्रियायोगाजायते मोक्षभाजनम् ॥५४॥ प्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते । अनन्तधर्मक वस्तु प्रमाणविषयस्त्विह ॥ ५५ ॥ अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज ज्ञेयं परोक्षं ग्रहणेक्षया ॥५६ ॥ येनोत्पादव्ययध्रौव्ययुक्तं यत्सत्तदिष्यते ।

षड्दर्शनसमुच्चयः अनन्तधर्मकं वस्तु तेनोक्तं मानगोचरः ॥ ५७ ॥ जैनदर्शनसंक्षेप इत्येष कथितोऽनघः । पूर्वापरविघातस्तु यन्त्र कापि न विद्यते ॥ ५८ ॥ देवताविषये भेदो नास्ति नैयायिकैः समम् । वैशेषिकाणां तत्त्वेषु विद्यतेऽसौ निदिश्यते ॥१९॥ काणादमतम्- द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् । विशेषसमचायौ च तत्त्वषट्कं हि तन्मते ॥६०॥ तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसि गुणाः पुनश्चतुर्विशतिधा ६१ स्पर्शरसरूपगन्धाः शब्दः सङ्ख्या विभागसंयोगौ । परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ॥६॥ बुद्धिः सुखदुःखेच्छा धर्माधमौ प्रयत्नसंस्कारौ । द्वेषः लेहगुरुत्वे द्रवत्ववेगौ गुणा एते ।। ६३.॥ उत्क्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनन् । पञ्चविधं कमैतत्परापरे द्वे तु सामान्ये ॥ ६४ ॥ तत्र परं सत्ताऽऽख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु । निश्चयतो नित्यद्रव्यवृत्तिरन्यो विनिर्दिशेत् ॥१५॥ य इहायुतसिहानामाधाराधेयभूतभावानाम् । : सम्बन्ध इह प्रत्ययहेतुः प्रोक्तः स समवायः ॥६६॥ प्रमाणं च द्विधाऽमीषां प्रत्यक्षं लैङ्गिक तथा । वैशेषिकमतस्यैवं संक्षेपः परिकीर्तितः ॥ १७ ॥ जैमिनिमतम्- जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि यस्य मानं वचो भवेत् ॥६८॥ ":

७
.
:
षड्दर्शनसमुच्चयः
तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टुरभावतः ।
नित्येभ्यो घेदवाक्येभ्यो यथाऽर्थत्वविनिश्चयः ॥६९॥
अत एव पुरा कार्यों वेदपाठः प्रयत्नतः।
ततो धर्मस्य जिज्ञासा कर्तव्या धर्मसाधनी ॥७॥
नोदनालक्षणो धर्मों, नोदना तु क्रियां प्रति ।
प्रवर्तकं वचः प्राहुः स्वःकामोऽग्निं यजेद्यथा ॥७॥
प्रत्यक्षमनुमानं च शब्दश्वोपमया सह ।
अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥७२॥
तत्र प्रत्यक्षमक्षाणां संप्रयोगे सतां मतिः।
आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः ॥७३॥
शाब्दं शाश्वतवेदोत्थ मुपमानं प्रकीर्तितम् ।
प्रसिद्धार्थस्य साधादप्रसिहस्य भाजनम् ॥७४॥
दृष्टार्थानुपपत्त्या तु कस्याप्यर्थस्य कल्पना ।
क्रियते यद्वलेनासावर्धापत्तिरुदाहृता ।। ७५ ।।
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।
वस्तुसत्ताऽवबोधार्थः तत्राभावप्रमाणता ॥७६॥
जैमिनीयमतस्यापि संक्षेपोऽयं निवेदितः।
एवमास्तिकवादानां कृतं संक्षेपकीर्तनम् ॥७७॥
नैयायिकमतादन्ये भेदं वैशेषिकः सह ।
न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥७८॥
षष्टदर्शनसङ्ख्या तु पूर्यते तन्मते किल ।
लोकायतमतक्षेपात्कथ्यते तेन तन्मतम् ॥ ७९ ॥
चाकमतम्-
लोकायता वदन्त्येवं नास्ति देवो न निवृतिः।
धर्माधर्मों न विद्यते न फलं पुण्यपापयोः ॥८॥

. षड्दर्शनसमुच्चयः एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद्वदन्ति बहुश्रुताः॥ ८१ ॥ पिव खाद च जातशोभने ! यदतीतं वरगात्रि तन्नते। न हि भीरु गतं निवर्त्तते समुदयमात्रमिदं कलेचरम ८२ किं च पृथ्वी जलं तेजो वायु तचतुष्टयम् । चैतन्यभूमिरेतेषां मानं त्वक्षजमेव हि ॥ ८३ ॥ पृथ्व्यादिभूतसंहत्यां तथा देहादिसम्भवः । मदशक्तिः सुराऽङ्गेभ्यो यत्तदस्थिताऽऽत्मता८४ तस्माद् दृष्टपरित्यागादृष्टे च प्रवर्तनम् । लोकस्य तद्विमूढत्वं चार्वाकाः प्रतिपेदिरे ॥८॥ साध्यवृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने । निरर्थी सामता तेषां सा चाकाशात परान हि८६ लोकायतमतेऽप्येवं संक्षेपोऽयं निवेदितः । अभिधेयतात्पर्यार्थः पर्यालोच्यः सुवुद्धिभिः ।।८।। इति पदनसमुच्चयः।

- काशीसंस्कृतसारीज़ । ५९ आपस्तम्बगृह्यसूत्रम्।श्रीहरदत्तप्रणीतयाऽनाकुलाख्ययाव्याख्यया, श्रीसुदर्शनाचार्यप्रणीतया तात्पर्यदर्शनाख्यया व्याख्यया च, समलङ्कृतम्, पृथक् सूत्रपाठेन, पाठभेदेन, मीमांसापदार्थवि वरणेन च संयोजितम्। (कर्म वि०.५) रु०४-० ६० नाट्यशास्त्रम् । भरतमुनिप्रणीतम् ( सम्पूर्णम् ) साहित्योपाध्याय एम.ए. इत्यादिपदवीभाजा पण्डित बटुकनाथ शर्मणा तथा साहित्यशास्त्रि एम.ए. पदवीभृता पण्डित बलदेवोपाध्यायेन च सम्पादितम् । (नाट्यशास्त्र वि० १) रु०५-० ६१ काव्यालङ्कारः । श्रीभामहाचार्येण विनिर्मितः । काशीविश्ववि. द्यालयाध्यापकाभ्यां पण्डित बटुकनाथ शर्मा एम० ए० सा. हित्योपाध्यायः तथा 'पण्डित बलदेव उपाध्याय एम० ए० साहित्यशास्त्री इत्येताभ्यां भुमिकादिभिः समलमृत्य सम्पा. दितः, काशी विश्वविद्यालयापकुलपतिपदं विभुषयद्भिः श्री. मदाचार्यप्रवरैः आनन्दशङ्कर ध्रुव महोदयः लिखितेन प्राक्- कथनेन सनाथीकृतः। (अलङ्कार वि० २) रु०२-८ ६२ ब्रह्मवादः । गोस्वामि श्रीहरिरायजी महाराज विरचितः। श्री. गोपालकृष्णभट्ट विरचित विवरणाख्यव्याख्यासमलङ्कतः । तथा गोस्वामी श्रीव्रजनाथविरचितो ब्रह्मवादः । तथा शुद्धा. द्वैतपरिपकारः श्रीमद्रामकृष्णभट्ट विरचितः । श्रीरघुनाथ. शास्त्रि विरचित शुद्धाद्वैतपरिष्कारतात्पर्यम् । श्रीहरि- शङ्कर शास्त्रि-वेदान्तविशारदेन विस्तृत् भूमिकया विवि- धपरिशिष्टर्भाषानुवादेन टिप्पण्यादिना च समलङ्कृतः । (शुद्धाद्वैतसम्प्रदाय वि० १) रु०१-० ६३ प्रेमरसायनम् । श्रीविश्वनाथपण्डितरचितम् ( का०वि०८) रु०१-० ६४ व्याप्तिपञ्चकरहस्यम् सिंहव्याघ्रलक्षणरहस्यं च । श्रीमथुरानाथ- तर्कवागीशकृतम् । न्यायाचार्य पं. शिवदत्तमिश्र विरचित गंगानिर्झरिणीव्याख्यया टिप्पण्यादि विभूपितं च । ( न्या० वि०८) रु० ०-१२ ६९ सिद्धान्तचिन्दुः। श्रीमधुसूदनसरस्वती विरचितः । श्रीभगवान् शङ्कराचार्य विरचित दशश्लोकव्याख्यारूपः श्रीगौड ब्रह्मा- नन्दविरचित न्यायरत्नावली-नारायणतीर्थ विरचित लघु- व्याख्या टिप्पणीसहितः। ( वेदान्त वि०८) रु. ५. ६६ अन्त्यकर्मदीपकः आशौचकालनिर्णयसहितः । प्रेतकर्मब्रह्मीभूतयः तिकर्मनिरूपणात्मकः । महामहोपाध्याय पं० श्री नित्यानन्द. पन्तपर्वतीय विरचितः। (कर्मकाण्ड वि०६) २०१-८ ६७ सांख्यदर्शनम् । श्रीमद्विज्ञानभिक्षुकृत सांख्यप्रवचनभाप्यसमल (सांख्य वि०१) रु. २-० ६८ अनेकार्थसङ्कहो नाम कोशः । आचार्यधीहेमचन्द्रेण विरचितः । (कोश वि०२) । इतम्।

Sarsthanasamuchchaya

Author
Gupta, Hari Dass
Title
Sarsthanasamuchchaya
File name
Sarsthanasamuchchaya
Text
OCR done
Citation
1929
Published
2010/08
Publisher
Gopal Mandir Banares
Language
Sanskrit
Pages
96
Library
Digamber Jain Atishay Kshetra, Jain Vidhya Sansthan Library, Shri Mahaveer Ji, (karauli )
Classification
Literature
DLI number
539607
Barcode
99999990070358.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
Rights
Copyright permitted
VMLT id
3fH9d1TjMgw
Download PDF

Sarsthanasamuchchaya