University Library,gurukul Kangri Vishwavidyalaya
साहित्य सुधासंग्रहस्य तृतीय बिन्दु
Front matter
* ओ३म् *
श्रीकांगड़ीगुरुकुलविश्वविद्यालयगीर्वाणणामला
साहित्य सुधासंग्रह:
तृतीय बिन्दुः
am
गुरुकुलाऽऽचार्यमहोदयस्याऽऽदेशात्
बिजनौरमंडलान्तर्गतहल्दौरग्र मवाम्तव्येन
श्रीभवानीप्रसादेन
गुरुकुल साहित्याध्यापकेन
श्रीवागीश्वर विद्यालङ्कारेण च
संगृहीतः
१९८३ श्रीवैक्रमादे
१०२ श्रीमद्वयानन्दादे
मूल्यम्
२) २० मात्रम्
श्री लाला नन्दलालस्य प्रबन्धेन काँगड़ीगुरुकुलमुद्रणालये मुद्रितः प्रकाशितश्च * ओ३म् * * साहित्य सुधा संग्रहस्य तृतीय बिन्दोभूमिका अयिसतत सुरभारतीहितनिहितमतयः सहृदय महोदयाः ! अद्य हि करुणावरुणालयस्य जगदीशितुः परमपितुः निरसग्रहाऽनुग्रहेण श्रीमतां करकमलयो रूपहारी क्रियतेऽयं तृतीयो बिन्दुः । अस्मिन्हि -पौरुषेयरप्य- पौरुषेयैः महतो भूतस्यनिःश्वसितभूतैरपि श्रुतिमयैः देदमन्त्रै रुपक्रम्य गीर्वाण- गिरः प्रथितयशमा कतिपय प्रधानमहाकवीनां दृश्यकाव्येभ्यः प्रकृष्टतमास्ते तेऽशाः संगृहीता यैस्य बिन्दो रुपादेयता मार्मिकाणां मर्वत्रम्मता स्यात् । कालिदास- भवभूती हि संस्कृतसाहित्यनभमः सूर्याचन्द्रमसा विति निर्विवादम् । तल च श्रीकालिदासस्य शाकुन्तनकथानकं प्रायः कधेरक्षरै रेव चम्पूम्यरूपे निधेश्य प्रथमबिन्दौ विन्यस्तम् । अधुना च "उत्तरे रामचरिते भवभूति विशिष्यते" रत्युक्त्यनुमारं संस्कृत माहित्यस्य समुज्मलतमरत्नं भवभूतिप्रणीतं उत्तररामचरितं यह प्रायः साकल्येनेयमंगृहीतम् । यतोहि कस्याप्येकस्याविकलस्यनाटकस्य ०ठन- मन्तरेण नाटकानां सौन्दयं सम्यगनु भवितुं न शक्यते। उत्तररामचरितस्य तृतीया- गताः केचनाऽशाः कवेः सर्वस्व भूता अपि नववयस्कविद्यार्थिनां कृते ऽतिगम्भीर- स्वादनुपयुक्तत्वाञ्च परित्यक्ताः । सर्वत्रैव च प्राकृतभाषामयानंशाम् विहाय तेषां संस्कृता नुवाद एव स्वीकृतः । अस्मिन्दि संगृहीतांडशाः कवीनां कालक्रमेण न निहिताः । अपितु मुद्रणे शीघ्रतायशा द्विशिष्टक्रमस्य भङ्ग एव जातः । भवभूतिकविताविषये किमपि कथनं दीपेन सूर्यस्य प्रकाशनमिवेति कृतं सत्रवचमव्ययेन । अपरेऽपि जयदेव मुरारि शूद्रकादयः कविसूर्धन्या भारतस्य गौरव- हेतव एव । तेषां नाटकेभ्यः प्रसन्नराघव, मुद्राराजसा ऽनर्धराघव भर्तृहरि निर्वेद, प्रबोध चन्द्रोदय, मृच्छकटिक प्रभृतिभ्योऽपि समुपात्ता लघवोऽया पत्कृष्ठकवित्वयोतका मनोरञ्जकाः शिक्षा प्रदाश्च सन्ति । -
(२)
मिर्दिष्टकोना, तत्कवितायाश्च विषये किंचित्प्रतिपादन प्राप्तावसर मपि
विस्ताभिया, अन्यत्र करिष्यमाणत्वाच्च माऽत्रक्रियते । अन्ते च सहजसौजन्यधन्या-
मान्याः समभ्यय॑न्ते यदस्मदीयमति दोषेण, शीघ्रतावशेन, यन्त्रालय प्रमादेन व
जातान्यत्र स्खलितानि, तानि धन्तव्यानि प्रेधावनिः श्रीमद्मिरिति ।
गुरुकुल काँगड़ी
श्रीशिवरात्री चतुर्दश्याम्
संवत् १९८३ वैक०
श्रीमता माधवी
श्री भवानी प्रसादः
श्री वागीश्वरश्व
अनुक्रमणिका पृष्ठतः-पृष्ठ पर्यन्तम् ... १ -१ विषयाः १. ईश्वर-प्रार्थना २. शिव संकल्प प्रार्थना ३. कस्मैदेवाय हविषा विधेम ४. सर्वमेधाध्यायः २- -२ ३- ६ ७. -१० । २७- प्रसन्नराघवतः ५. कुब्जकवामनकसंवादः ६. रामपरशुरामसवादः उत्तररामचरितम् .. प्रथमोऽङ्कः ८. द्वितीयोऽङ्कः १. तृतीयोऽङ्कः १०. चतुर्थोऽङ्कः ११. पञ्चमोऽङ्कः १२. षष्ठोऽङ्कः १३. सप्तमोऽङ्कः ४४---५४ ... ६६ ... ६६ -१०६ ११०- -१२० अनर्थ राघवात् -१२२ १४. प्रभात वर्णनम् १५. अहल्यो धारः : : ...
पृष्ठतः-पृष्ठ पर्यन्तम् ... ( 2 ) विषया: १६. सिद्धाश्रम वर्णनम् १७. ताडकादि वधः १८. चन्द्र वर्णनम् भर्तृहरि निर्वेदम् १६. तृतीयोऽङ्कः १३७-----१४० १४० -१४४ १४५---१५१ १५२ १६० ... १६१. -१७६ मुद्राराक्षसतः २०, राक्षस विषादः प्रबोधचन्द्रोदयतः २१. द्वितीयोऽङ्कः मृच्छकटिका २२. सन्धिच्छेदः अभिज्ञान शाकुन्तलात् २३. प्रातःकालवर्णनम्.. २४. सुभाषितानि १७७-१८३ ... १८३--१८४ १८५---१६२ इति अनुक्रमणिका
* नाटकप्रयोजनम् *
देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुपं
रुद्रेणेदमुमोकन व्यतिकरे स्वाङ्गे विभक्तं द्विधा ।
त्रैगुण्योभवमत्र लोकचरितं नानारसं दृश्यते
नाट्य भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम् ॥
(प्रोकालिदासस्य)
ओ३म्
साहित्य-सुधा-संग्रहः
तृतीयो बिन्दुः
तेजोऽसि तेजो मयि धेहि ।
वीर्यमसि वीयं मयि धेहि ॥
बलमसि बलं मयि धेहि ।
ओजोऽस्योजो मयि धेहि ।
मन्युरसि मन्यु मयि धेहि।
बहोऽनि सहो मयि धेहि ॥
यज०१६
(२) साहित्य-सुधा-संग्रह शिवसङ्कल्प प्रार्थना यजाग्रतो दुरमुदैति दैवं, तदु सुप्तस्य तथैवैति । दूरङ्गमं ज्योतिषां ज्योतिरेक तन्मे मनः शिवसङ्कल्पमस्तु ॥१॥ येन कर्माण्यपसो मनीषिणो- यज्ञ कृण्वन्ति विदथेषु धीराः। यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥२॥ यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतम्प्रजासु। यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसंकल्पमस्तु ॥ ३॥ येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम् । येन यज्ञस्तायते सप्त होता तन्मे मनः शिवसंकल्पमस्तु ॥४॥ यस्मिन्नृवः साम यजूपि यस्मिन् प्रतिष्ठिता रथानाभाविवाराः। यस्मिंश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसंकल्पमस्तु ॥५॥ सुषारथिरश्वानिव यन्मनुष्यान् नेनीयतेऽभीशुभिर्वाजिन इव । हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसंकल्पमस्तु ॥ ६॥ यजु०३६ अध्यायः।
तृतीयो बिन्दु (३) * कस्मै देवाय हविषा विधेम * हिरण्यगर्भः समवर्तताने भूतस्य जातः पतिरेक आसीत् । स दाधार पृथित्री द्यामुतेमा कस्मै देवाय हविषा विधेम ॥ ऋ.१०।१२१ । १॥ य आत्मदा बलदा यस्य विश्व उपासते प्रशिपं यस्य देवाः। यस्य च्छायाऽमृतं यस्य मृत्युः कस्मै देवाय हविपा विधेम ॥ ऋ. १०।१२१ ।२॥ यःप्राणतो निमिपतो महित्वैक इद्राजा जगतो बभूव । य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम || ऋ. १०। १२११३॥ यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाऽऽहुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥ ऋ. १० । १२६ ॥ ४॥ येन धौ रुग्रा पृथिवी च दृढ़ा येन स्थास्तभितं येन नाकः । यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम । ऋ. १०।१२१ । ५।। यं कंदसी अवसा तस्तभाने अभ्यक्षेत्रां मनसा रेजमाने । यत्राऽधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ।। ऋ. १०११२१ ॥६॥ आरोह यद् बृहतीविश्वमायन् गर्भ दधाना जनयन्तीरग्निम् । ततो देवानां समवर्ततासुरेकः कस्मैदेवाय हविषा विधेम ॥ ऋ. १०।१२१ । ७॥ यश्चिदापो महिना पर्यपश्यदक्षं दधाना जनयन्तीर्यशम् । यो देवेष्वधि देव पक आसीत् कस्मै देवाय हविषा विधेम । ऋ. १. । १२११८॥
साहित्य-सुधा-संग्रहः मा मो हिंसीजनिता यः पृथिव्या योषा दिवं सत्यधर्मा जजान । यश्वापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम ॥ ऋ. १०।१२१ । ६॥ प्रजापते ! न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव । पत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ॥ ऋ. १०। १२१ ॥१०॥ यस्य धौरवों पृथिवी च मही यस्याद उर्वन्तरिक्षम् । यस्यासौ सूरो विततो महित्वा कस्मै देवाय हविषा विधेम ॥ अ०४।२।४॥ * सर्वमेधाऽध्यायः * तदेवाऽग्निस्तदाऽऽदित्यस्तद्वायुस्तदु चन्द्रमाः। तदेव शुक्रं तद्ब्रह्म ता आपः स प्रजापतिः॥१॥ सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि । नैनमूर्ध्वं न तिर्यञ्च न मध्ये परिजनभत् ॥२॥ न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः । हिरण्यगर्भ इत्येष,मा मा हि सोदित्येषा, परमानजात इत्येषः ॥ ३ ॥ एषो ह देवः प्रदिशोऽनु सर्वाः पूर्वो ह जातः स उ गर्ने अन्तः। स एव जातः स जनिष्यमाणः प्रत्यङ् जनास्तिष्ठति सर्वतोमुखः॥४॥ यस्माजातं न पुरा,किञ्चनैव । •पनावभूव भुवनानि विश्वा ।
तृतीयो बिन्दु
प्रजापतिः प्रजया संरराण-
स्त्रीणि ज्योतींषि सचते स षोडशी ॥५॥
येन धौ रुग्रा पृथिवी च दृढ़ा
येन स्वःस्तमितं येन नाकः ।
यो अन्तरिक्षे रजसो विमानः
कस्मै देवाय हविषा विधेम ॥६॥
यं कंदसी अवसा तस्तभाने
अभ्यक्षेतां मनसा रेजमाने ।।
यत्राऽधि सूर उदितो विभाति
कस्मै देवाय हविषा विधेम ॥७॥
वेनस्तत्पश्यन्निहितं गुहा सत्.
यत्र विश्वं भवन्येकनीरम् ।
तस्मिन्निदं सश्च वि चैत सर्व
स ओतः प्रोतश्च विभूः प्रजासु॥ ८ ॥
प्रतद्रोचेदमृतं नु विद्वान्
गन्धर्षों धाम विभृतं गुहा सत् ।
त्रीणि पदानि निहिता गुहास्य
यस्तानि वेद स पितुः पितासत् ॥६॥
स नो बन्धुर्जनिता स विधाता
धामानि वेद भुवनानि विश्वा ।
यत्र देवा अमृतमानशाना-
स्तृतीये धामन्नध्यैरयन्त॥१०॥
परीत्य भूतानि परीत्य लोकान्
परीत्य सर्वाः प्रदिशो दिशश्च ।
उपस्थाय प्रथमजामृतस्या-
मनात्मानमभि सं विधेश ॥ ११ ॥
साहित्य-सुधा-संग्रहः परि द्यावापृथिवी सद्य इत्वा परिलोकान् परि दिशः परि खः। ऋतस्य तन्तुं विततं विवृत्य तदपश्यत्तदभवत्तदासीत् ॥ १२ ॥ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनि मेघामयासिषं स्वाहा ॥ १३ ॥ यां मेधां देवगणाः पितरश्चोपासते। तया मामद्य मेधयाऽग्ने ! मेधाविनं कुरु स्वाहा ॥ १४ ॥ मेधां मे वरुणो ददातु मेधामग्निः प्रजापतिः। मेधामिन्द्रश्च वायुश्च मेधां धाता ददातु मे स्वाहा ॥ १५ ॥ इदं मे ब्रह्म च क्षत्रं चोभे श्रियमश्नुताम् । मयि दधतु प्रियमुत्तमां तस्य ते स्वाहा ॥१६॥ यजु०३२ अध्यायः।
प्रसन्नराघवम्। तृतीयोऽङ्कः * कुमक वामनक संवादः * । (ततः प्रविशति वामनकः ) वामनकः-(प्रात्मानं दिलोप्य । सस्मियम् ।) अहो अङ्गानां मे तुङ्ग त्वम् । अगि नामे शैरात्र संगता मया द्वारशिखर भज्यते । तत्कुमो भूत्वा संवरिष्यामि। ( प्रविश्य ) कुब्जका :-वयस्य वामनक ! इदानीं सकलगुगसंगुक्तोऽसि त्वम् । वामनक:- - कथमित्र? कुब्जक:-प्रथममेव वामन इदानीं पुनः कुत्य प्राप्तः । वामनकः-( सक्रोधम् । ) अये मूर्ख ! कथमात्मनः कुठ..त्वं परस्मि. नारोपयसि । ननु त्वमेव कुब्जकः । मया पुनर्वार- शिखरमङ्गशकतेनात्मनि कुजत्वमारोपितम्। कुब्जक:-(विहस्य । ) कथं वितस्तिमात्रे ग तवाऽङ्गेन द्वारशिवरं भक्ष्यते । अरे अलोकवावाल ! केन तव कथितमह कुब्जकइति । वामनकः-नन्वनेनैव दृप्तवृषभककुदसदशेन पृउस्थितेन मांस. स्तबकेनोद्वाहितेन। कुब्जक:-( विहस्य।) अये मतिशून्य ! कथमयं मांसस्तबकोऽपि पुनः सौभाग्यलक्ष्म्या उपधानगेन्दुकः ।
(८) साहित्य-सुधा-संग्रहः वामनकः-(साशङ्कम् । ) अरे, शनैर्जल्प । अस्मादृशानामन्तः पुर- चारिणां सौभाग्यवृत्तान्तमाकर्ण्य भर्ता कोपिष्यति । कुब्जक:-अलं भीरुत्वेन । इदानीं ध्यानगृहे वर्तते भर्ता। चामनक: न खलु न खलु । अद्य किल कस्यापि प्राघूर्णकस्य महर्षे. रागमनं परिपालयन्वाह्यमण्डपे वर्तते। कुब्जकः-हा हताः स्मः। वामनकः-किमिति । कुब्जकः-ननु प्रथममेवैकेन महर्षिणा याज्ञवल्क्येनोपदिष्टोऽयं राजा अक्षिमीलनै रात्रीर्गमयति । इदानी पुनरनेनोपदिष्टोऽन्तः- पुरमेव परिहरिष्यति । ततः किमयमस्माभिः क्षपणक इव कर्पटपेटकैः करिष्यति । वामनकः-सत्यमेत् । यद्ययं महर्षिरलोकं राक्ष उपदेशार्थमागतो. भवेत् । अयं पुनर्हरधनुर्दर्शनार्थम् । कुब्जक:-किमस्य महर्षे)माऽग्निधूमश्यामलितलोचनस्य हर- चापदर्शीन । नत्तयामि क्षात्रयब्राह्मगोऽयमिति । चामन:- विहत्य । ) कथं तनुरिव मतिरपि ते घका यदेवं तर्क- यसि । सत्यं क्षत्रियव्राह्मणोऽयमिति । कुब्जक:-तत्कोऽप्यनर्थः संभाव्यते यत्किल चिरतपस्याकर्षितो. ऽयं तात्र प्रेक्षमाणः क्षत्रियब्रह्माण ऋजुमतेरस्माकं राजर्षे. राज्यं प्रहितुमागत इति । वामनकः-शान्तं पापम्। ईदर्श मा जल्प । अयं हि चिरतपस्या. परितोषितस्य ब्रह्मणो बाचा क्षत्रियत्वं पपित्य ग्रामपत्वं प्राप्तः।
तृतीयो बिन्दु (१) कुब्जक:- कथं तनुरिव मतिरपि तव धामनी यदीदृशाऽलीक- लोकवृत्तान्तेऽपि प्रत्याय्यते । यदि कस्यापि वाचा क्षत्रियो. ब्राह्मणोभवति तर्हि मम वाचा त्वमपि ब्राह्मणोभर्वास । वामनकः-अरे बालिश ! कथं तव गोमुखस्य तत्रभवतश्चतु- मुखस्यापि नास्त्यन्तरम् । कुब्जका यद्ययं शुद्धब्राह्मणस्तत्किमस्य चापचिन्तया ? वामनकः-अस्ति कारणम् । तस्य पार्श्वे तत एव गृहीतचापविद्यौ द्वौ क्षत्रियकुमारौ वर्तेते। ताभ्यां दर्शयिष्यति चापमिति । कुब्जक:- तच्छुद्धाशयोऽयम् ? वामनकः-अथ किम् । कुब्जका-"तत्कथय तावदस्सिनलीकदूषणाऽऽरोपेण ननु मम पाप. मुत्पन्नं न वेति? वामनकः-पापमिति किं भण्यते । ननु महापापमुत्पन्नम्। कुब्जक:-अरे मूर्ख ! न जानासि धर्मस्य तस्वम् | संबन्धिजने परिहासवचनानि न खलु पापकारणानि । वामनक:-कथं पुनरयं तव संबन्धिजनः । कुब्जक:-अरे, न जानासि । अस्यापि द्वौ कुमारी, अस्माकमपि द्वे कुमायौँ । तत्तयामि संबन्धिजनो भविष्यतीति । वामनक:-(विहस्य । ) कथमस्माकमीदृशं पुण्यम् । (नेपथ्ये) ताटङ्किना झटितिताडितताटकेन रामेण पद्मरमणीयविलोचनेन ।
(१७) साहित्य-सुधा-संग्रहः क्रीडाशिखण्डकघरेण सलक्ष्मणेन साकं मुनिः कुशिकसूतुरितोऽयमेति ॥१॥ बामनका-(महर्षविस्मयम् ) अहो, यो खलु सकललोकभीषणा राक्षसी ताटकेति श्रूयते सानेन यदि ताडिता तदस्मिन् हरचापारोपणमपि संभाव्यते। तदेहि । इमं कर्णसुधा- रसं भट्टिनीभ्यः समर्पयामः। ( निष्क्रान्तौ।) इति प्रवेशकः।
प्रसन्नराघवस्य
चतुर्थोऽङ्कः
* रामपरशुरामसंवाद
-
(नेपथ्ये ध्रुवा गीयते)
मणिमयमङ्गलदीपो जनकनरेन्द्रस्य मण्डपे ज्वलति ।
चण्डानिलोऽपि प्राप्तो यस्मिन्विफलागमो भवति ॥१॥
(पुननपध्वे ।)
अरे क्षत्रिया:! अपसरत लोचनपथात। नन्वयं-
कुर्वकोपादुञ्चद्रविकिरणसटापाटलै ईष्टिपातै-
रद्यापि क्षत्रकण्ठच्युतरुधिरसरित्सितधारं कुठारम् ।
तीवैनिःश्वासपातैः पुनरपि भुवनोत्पातमासूचयद्भि-
नर्जन्मौर्वीकचापत्रिभुवनविजयी जामदग्न्यः समेति ॥२॥
(ततः प्रविशति जामदग्न्यः।)
जामदग्न्यः-(साटोपं परिक्रम्य । ) अहो धृष्टता जनकस्य । यदयं
हरचापारोपणेन पणेन कन्यादानं प्रतिजानीते।
(परशुं विलोक्य।)
सकलनृपकठोरकण्ठपीठीबहलगलदुधिरौघधौतधारः।
बदिदमजनकं.जगद्विधत्ते परशुरयं जमदग्निनन्दनस्य ॥३॥
(विमृश्य।)
उदितोऽर्जुनभुजविपिने ज्वलितस्तुङ्गेषु नृपतिवंशेषु ।
निमिकुलकमलकलापं कोपानल ! किं पुनः स्पृशसि ॥४॥
-- (१२) साहित्य-सुधा-संग्रहः (पुनर्विचिन्त्य । ) अलमस्मिन्नुपेक्षया । मनोरथोपनीतजामातृ- भुजबलावलेपदुर्ललितः खल्वयम् । तथा हि । संदिष्टमनेमामत्प- रशो:- "त्वं मित्रं मम, जामदग्न्यपरशो! तेनैतदाभाष्यसे संप्रत्येव यथाप्रतिश्रुतमियं कन्या मया दीयते । तेनेह स्वयमेत्य धूर्जटिधनुधौरेयदोःसंपदो- जामातुः पुरत श्चिराय भवता धाराजलं त्यज्यताम् ॥३॥३६॥ अहो अस्य दुरवलेपः। यस्योद्यद्धोरधाराञ्चलदलितगलद्वाहुशास्त्रासहस्र- प्रोद्गच्छद्रक्तधारानिवहजितनवोन्मीलदकांशुजालः । क्षमापालः कार्तवीर्यः सुरपुरसुद्रशां पुष्पिताऽशोकशाखि. भ्रान्तिदत्वाऽपिचित्ते निजपुरसुदृशां शोकशाखीबभूव ॥५॥ अपिच। येनाऽबध्यत नर्मदाम्बुनिवहः संख्ये च लंकेश्वर- स्तद्यस्मिन्निरमजदर्जुनभुजक्षोणोरुहां मण्डलम् । क्षत्रस्त्रीनयनाऽम्बुपूरमिषतः खेलन्ति यत्केलय. स्तत्तागृक्परशु ममायमधुना धाराजलं मुञ्चति ॥६॥ (विलोक्य ।) कथमयं शतानन्दशिष्यस्ताण्डथायनः । (प्रविश्य ।) ताएड्यायन:- भगवन् ! अभिवादये। जामदग्न्य:- आयुष्मान्भूयोः । कथय तावत् । अपि नाम भवदुपा. ध्याययजमानस्य निवृत्ता हरचापाऽऽरोपणश्रद्धा? ताण्ड्यायन:--निवृत्ता। जामदग्न्य:--- (सहर्षम् । ) निवृत्ता?
तृतीयो बिन्दुः (१३) - ताएड्यायन:--भगवन् ! निवृत्ता सहैव चापेन ! जामदग्न्यः--( ससंभ्रमम् । ) किमात्थ सहैव चापेन निवृत्तेति ? ताएड्यायन:--अथ किम् । जामदग्न्यः- स्फुटं कथय तात्कि वृत्तमिति । ताण्ड्यायनः कस्यचिद्-- अखण्डचण्डिमोदण्डभुजदण्डनिपीडितम् । भगवन्भृगुमार्तण्ड ! भग्न भर्गशरासनम् ॥ ७॥ जामदग्न्यः-(सक्रोधम् । ) कस्य ? ताएड्यायन:- सुबाहुमारीचपुरःसरा अमी निशाचराः कौशिकयज्ञघातिनः । वशे स्थिता यस्य...... जामदग्न्यः-अलम् । अतः परं ज्ञातः खलु खलानामग्रणीनिशाचर- ग्रामणोः । ताण्ड्यायन:--(स्वगतम् ।) कथं दशकण्ठेन धनुर्भग्नमिति प्रतीतं. भगवता? भवतु तावत् । जामदग्न्य:-( सक्रोधम् । ) अयमयमिदानी- नृपशतसुकुमारकण्ठनालौ कदनकलाकुशलः परश्वधो मे। दशवदनकठोरकण्ठपीठीकदनविनोदविदग्धतां दधातु ॥६॥ (विमृश्य । ) अथवा। यः कर्ताऽर्जुनभूरुहाऽद्भुतभुजाशाखासहस्रच्छिदां, दम्भोलेर्गिरिकूटपाटनपटोः शौण्डीर्यतो लजते ।
(१४) साहित्य-सुधा-संग्रहः तस्यैतस्य परतराजसदनद्वारः, कुठारस्य मे का श्लाघा दशकण्ठकण्ठकदलीकाण्डावलीखएडने ॥१०॥ (पुनर्विचिन्त्य ।) तथाप्यनुचितमुदासितुमेतस्मिन्कृतागसि. रक्षसि.। तदिदानी- दक्षिणस्याऽम्वुधे मध्ये कृत्वा कोकणमष्टमम् । अदाणजन्मा दहनो लङ्काऽऽतङ्काय जायताम् ॥ ११ ॥ (इति साटोपं परिक्रामति ।) ताएड्यायन:- स्वगतम् । ) दिष्टया स्वस्ति क्षत्रियकुलायः। (नेपथ्ये।) "अहो नियोगिनः, कृतविवाहमङ्गलयोः सीतारामचन्द्रयोः खस्तिवाचनिका द्विजा आहूयन्ताम् । जामदग्न्य:-(परिवृत्य । सक्रोधम् । ) आः ब्रह्मबन्धो! कथमलीक- दशकण्ठकीर्तिदानेन प्रतारितोऽस्मि । नन्वयमन्यः कोऽपि.जनक- जामाता। ताण्ड्यायन:-भगवन् ! मम को वाऽपराधः। अर्धोक्त एष भगवता भ्रान्तम् । मयापि संभ्रान्तम् । जामदग्न्यः-तनिःशेष तावत्कथय । ....... ताएड्यायन:- शराऽग्रवर्तिनः प्रतापलेशस्य गताः.पराभवम् ॥ ८॥ तस्यैव प्रखण्डचरिडमा' ७ इत्यादि पठति । जामदग्न्य:-कः पुनरयं मारीचदमनः?
तृतीयो बिन्दु (१५) ताएड्यायन:- ये ऋष्यशृङ्गचरुभागभुवः कुमारा: संजज्ञिरे दशरथस्य वधूजनेन । तेषामयं निरुपमः प्रथमः कुमारो. रामाऽभिधः कुशिकराजतनूजशिष्यः॥१२॥ जामदग्न्य:-(चणं विभाव्य । सामर्षम् ।) - दुर्धर्षाः सुरसिद्धकिनरनरै, स्त्यक्तकम वक्रता प्राप्ते यत्र विधातरीव तरसा तिस्रोऽपि दग्धाः पुरः। तद्भग्नं यदि राघवेण शिशुना चण्डीपतेः कार्मुकं ताएड्यायन:-(स्वगतम् । ) किमधुना वक्ष्यति ? जामदग्न्य:- तन्मग्नं कुलमेव तर्फय रघोर्मच्छरधाराऽम्भसि ॥१३॥ तारख्यायन:--संरब्धोऽयं भगवान् । तदिदं वृत्तान्तमुपाध्यायस्य कथयामि ।(इति निष्क्रान्तः।) जामदग्न्यः--( विलोक्य । ) अभिनवविवाहमङ्गलतया तर्कयामि- स एष रामः साऽनुज इति । (सहर्षम् निवर्य) अर्धमुग्धः खल्वयं जनो यदेनं काम इति वक्तव्ये राम इति जल्पति। (पुनर्निपर्य) सौन्दर्य मदनादपि प्रथयति प्रौढिप्रकर्ष, पुरां- भेत्तारं मदनाऽरिमप्यधरयत्युद्दामदो:क्रीडितम् । मुग्धत्वं मदनारिमौलिशशिनोऽप्युत्कर्षमालम्बते, मूर्तेस्तत्किमसौ रसैर्षिरचितः शृङ्गारवीराऽगुतैः ॥१२॥ - (१६) साहित्य-सुधा-संग्रहः (ततः प्रविशतो रामलक्ष्मणौ।) लक्ष्मण:---( सकौतुकम् । ) मौर्वी धनु, स्तनुरियं च विभर्ति मौजी, बाणाः कुशाश्च विलसन्ति करेऽसिताऽऽभाः। धारोजवलः परशुरेष कमण्डलुश्च, तद्वीरशान्तरसयोः किमयं विकारः ॥१५॥ आर्य ! कि पुनरिदं ब्रह्मक्षत्रवर्णात्मकं चित्रमिव स्फुरति ? रामः--वत्स! न विदितं ते । नन्वयं स भगवान्भार्गवः- वेध्यं क्रौञ्चमहीधरस्य शिखरं, देयं धरित्रीतलं, प्रत्यनक्षितिखण्डदण्डनविधिक्रीडाविधेयोऽम्बुधिः। जेयस्तारकसूदनो, युधि करक्रीडाकुठारस्य च च्छेद्यं यस्य बभूव हैहयपतेरुद्दामदोःकाननम् ॥ १६ ॥ लक्ष्मणः--तर्हि विस्मयनीयशीलोऽयं भगवान् । रामः- विस्मयनीयशीलानां शिखामणिरिति वक्तव्यम् । अयं हि- एकः स्वर्णमहीधरां क्षितिमिमां स्वर्णेकशृङ्गी यथा गामेकां प्रतिपाद्य कश्यपमुनौ न स्वात्मने श्लाघते । किंच क्रौञ्चगिरि गिरीशतनयस्याविद्धशक्तिक्षत विद्ध्वा बाणगणैरुदारहृदयो वैलक्ष्यमालम्बते ॥ १७ ॥ (उभौ परिक्रामतः।) रामः-(अञ्जलि बद्ध्वा ।) भगवन् ! भृगुकुलशिरःशेखरशिखएडक ! एष सानुजस्य मे परमोन्नतिरमणीयपरिणामःप्रणामः ।
तृतीयो बिन्तुः (१७) जामदग्न्य:-समरविजयी भूयाः। राम:- भगवन् ! भृगुकुलमौलिमाणिक्य ! अनुगृहीतोऽस्मि । जामदग्न्यः-(स्वगतम् । सकरुणम् ।) रामे चन्द्राभिरामे विनयवति शिशौ किं प्रकुप्याऽतिमात्र, (विमस्य । सक्रोधम् ।) हुँ चापं चन्द्रमौलेश्चपलमतिरसाविक्षुदण्डं बभा । (पुनः सानुक्रोशम् ।) बाला वैधव्यदीक्षां जनकनृपसुता नाऽर्हतीयं मदनात्, (पुनर्विचिन्त्य । सामर्षम् ।) आः शान्तो मे कुठारः कथमयमधुना रेणुकाकण्ठशत्रुः ॥१८॥ (प्रकाशम् । ) दाशरथे! इयमसौ मे त्वयि समुदाचारानुसारिणी वाग्वृत्तिरेष। रामः-(विहस्य ।) मनोवृत्तिस्तु कीदृशी? जामदग्न्य:- चण्डीशकार्मुकविमर्दविवर्धमान- दवलेपसविशेषविकाशभाजोः । बाहोस्तवाऽहमधुना मधुना समाने. राराधयामि रुधिरैः कठिनं कुठारम् ॥ १६ ॥ रामः-भगवन् ! निग्रहानुग्रहयोःस्वाधीनोऽयं जनः परंते कोपबीज ज्ञातुमिच्छामि। जामदग्न्यः-अहो दान्धता, यदात्मना कृतमस्माभिरुक्तमपिनाव.
(१८) साहित्य-सुधा-संग्रहः धारयति निजदुर्विनयम् । ननु रे, येनोपदिष्टमद्यापि पुरस्त्रीविरहवतम् । न भुग्नं, तत्त्वया भग्नं जगद्गुरुशरासनम् ॥२०॥ रामः-भगवन् ! अलीकलोकवार्तया निरपराधे मयि मुधा कोप- कलङ्कितोऽसि । जामदग्न्यः-तत्कि स्वस्ति हरकार्मुकाय ? रामः-नहि नहि। जामदग्न्य:-तत्कथं निरपराधोऽसि ? मया स्पृष्टं न वा स्पृष्ट कार्मुकं पुरवैरिणः । भगवन्नात्मनैवेदमभज्यत करोमि किम् ॥ २१ ॥ जामदग्न्यः-आः, कथं रे चन्दनदिग्धं नाराचं निधाय हृदयं में शीतलयसि। तदलमनेन । (कुठारमुद्यम्य ।) हे राम! कामरिपुकार्मुककर्मघात- संजातपातक! तवैष कठोरधारः। सीताकरव्यतिकरप्रतिकूलबन्धुः कएट पुरा विशतु निष्करुणः कुठारः ॥ २२॥ तत्प्रवीरो भव। रामा- हारः कण्ठं विशतु यदि या तीक्ष्णधारः कुठारः स्त्रीणां नेत्राण्यधिवसतु नः कजलं वा जलं पा । संपश्यामो ध्रुवमिह सुखं प्रेतभर्तुर्मुखं पा यद्वा तद्वा भवतु न वयं ब्राह्मणेषु प्रवीराः ॥२३॥ जामदग्न्या-आः, कथं मामपि प्रणतिपात्रं ब्राह्मणमात्रमिव मन्यसे ।
तृतीयो बिन्दुः (पुनः सामर्षम् ) जानीषे नहि जामदग्न्यमपि रे यदीर्घदोःकन्दल- द्वन्द्वाऽऽस्कन्दितबाहुना रणभुवि स्कन्देन मन्दीजसा । नास्राक्षीगुजसंपदं मम कथं वक्तानुसारादिति क्रुद्धेनोद्धतमैक्षि शंकरकरन्यस्तं विधातुः शिरः ॥ २४॥ [ पुनः सामर्षम् । ] किमात्थ रे, किमात्य । 'न वयं ब्राह्मणेषु प्रवीरा" इति । कथं क्षत्रियजातिगर्वितो ब्राह्मणजाति तृणाय मन्यले । तदि. दानीमावयोः का गरीयसीति सङ्ग्रामतुलैव निर्णेष्यते । राम:- - - भो ब्रह्मन् ! भवता समं न घटते संग्रामवार्तापि नः सर्वे हीनबला वयं, बलवतां यूयं स्थिता मूर्धनि । लक्ष्मण:-जामदग्न्य ! एवमेतत्- यस्मादेकगुणं शरासनमिदं सुव्यक्तमुर्वीभुजा- मस्माकं, भवतां पुनर्नवगुणं यज्ञोपवीतं बलम् ॥ २५ ॥ रामः वत्स ! अलमिह माननीये मुनौ दुर्विनयवैदग्ध्येन । जामदग्न्य:-अस्य को दोषः- दारैर्मुक्तकुचांऽशुकैः परिवृतं प्राचीनमेषां नृपं नाऽहिंसीधदसौ कुठारहतकस्तस्यैतदुज्जृम्भितम् । यनारीकवचाऽन्वयप्रणयिनां क्षत्ताऽधमानामिमा- + दुर्वाचः प्रविशन्ति मे श्रवणयोर्धिक्क्षत्रगोत्रे कृपाम् ॥ २६ ॥ रामः-अलमिह क्षीरकण्ठे कठोरकोपतया। तत्क्षम्यताम् । जामदग्न्यः-आः किमुच्यते, क्षीरकण्ठ इति । विपकण्ठःखल्वसौ। लक्ष्मणः-भगवन् ! शितिकण्ठशिष्येण विशेषतः क्षन्तव्यम् ।
- (२०) साहित्य-सुधा-संग्रहः जामदग्न्यः-आः, कथं विषकएठनामसाम्येन त्वमपि में गुरुः। लक्ष्मणः-[विहस्य । ] भगवन् ! अन्याभिसंधानेन मयेदमुकंयत्किल- किरीटमधिरूढेऽपि बाले प्रालेयरोचिषि । शितिकण्ठस्य किं चित्ते धत्ते कोपाङ्कुरः पदम् ॥ २७ ॥ तद्भवांस्तदन्तेवासीति विशेषतः क्षन्तुमर्हति । जामदग्न्य:- (स्वगतम्।) अहो, अन्य क्षत्रियवटोर्वाक्परिपाटी- पाटवम् । भवतु । (प्रकाशम् । ) तदिदं क्षान्तमेव मया । अयं तु न क्षमते प्रकृतिकठोरः कुठारः। शीलं न वेत्सि कथमस्य- क्रीडाविनिर्मितसुदुर्मददोर्विलास- निःशेषराजकवधस्य परश्वधस्य । कीलालकीकसकचैः परितो विचित्य येन त्रिधाऽपि विदधे पृथिवी त्रिवर्णा ॥ २८ ॥ (पुनः सामर्षम् )। कथमस्य हरप्रसादपरशोः शीलमपरिशीलितं ते- यत्र कामति संगराङ्गणभुवं दुर्वारधाराञ्चल- क्षुण्णक्षत्रकिशोरकण्ठरुधिरै नीरेणुका भूरभूत् । तादृग्वीरवरखयंवरपरवर्लोककन्याकर- क्रीडापुरकरदामरेणुभिरभूयोरेव रेणूत्कटा ॥ २६ ॥ लक्ष्मण:- भगवन् ! एतत्सत्यम् । यत्किल भवत्कुठारधारा. ञ्चलविलसितेन नीरेणुका भूरभूदिति। जामदग्न्यः- (स्वगतम् । ) आः, कथं रेणुकावृत्तान्तेन मर्मविध्यति। भवतु । (प्रकाथम् । ) अये क्षत्रियपोत ! अलमिह निरपराधे भवति मुधा परश्वधपातेन । तदयं में प्रकृतिकठोरभाषिणं भवत्कण्ठमेव शातयति कुठारः।
तृतीयो बिन्दुः (२१) (नेपथ्ये ।) अये जामदग्न्य ! कथमतिप्रगल्भसे । तदिदमिदानी भवच्छा- सनाय शरासनमानीयते। जामदग्न्यः--(विहस्य।) कथमयं जनकः । (उच्चैः) अये याश- वल्क्यशिष्य ! किं भवतः शरासनेन । पद्मासनमेवावलम्बख । (पुनः सोत्यासम् ।) युष्माकं भोः सुघटितबहुन्यस्तपद्माक्षकण्ठाः ! मिथ्योत्कण्ठा किमिति समिति क्षत्रियश्रोत्रियाणाम् । तेऽन्ये चञ्चत्करतलचलचएडनिख्रिशधारा. धौताऽरातिद्विपमदमषीपङ्कपूराः प्रवीराः ॥३०॥ तदलं भवता । एतावेष तावत्क्षत्रियस्फुलिङ्गौ निर्वापयामि । (नेपथ्ये।) अये जामदग्न्य ! कथं तथा शमधनसमृद्धस्य जमदग्नेस्तनयो. ऽपि शमदुर्गतोऽसि संवृत्तः। जामदग्न्यः कथमयमाङ्गिरसः । ( उच्चैः ।) अये शतानन्द ! कथय तावत् । इदमेवंविधं शमाऽभिधानं कस्मादुपात्तम् । भगवतो गौतमाद्वा गोत्रभिदो वा। (नेपथ्ये।) आः क्षत्रियापुत्र!निजजननीकण्ठताण्डवितकुठार! कुलाङ्गार! कथं तपस्तुङ्गमाङ्गिरसमपि कुलं कलयसि ? जामदग्न्यः :- आः पाप ! कुलपांसन ! पांसुलापुत्र, ! कथं भृगूणा- मने तपस्ताण्डवं मण्डयसि ?
(२२) साहित्य-सुधा-संग्रहः रामः-भगवन् ! सकललोकविख्यातमिदं भृगूणामाङ्गिरसां च कुलम् । तपोविशेषतस्तु भर्गशिष्यस्य । अत एव विज्ञापयामि- तपः शान्तं चेतः, स्फटिकमणिमाला परिकरः कुशाः कुण्डी दण्डः सततमुटजावासनिरतिः। मुनीनामेतद्वः समुचितमुदग्रं न वचनं न वक्रभू भङ्गो न शरधनुषी नापि परशुः ॥ ३१ ॥ (पुनः सविस्मयम् । ) भवानेव तावद्विचारयतु। क्क परशुरशुभस्ते कुत्र गोत्रं पवित्र क नु धनुरिदमुग्रं निर्मलं कुत्र शीलम्। घनसमरकराला कुत्र नराचहेला कुशकिसलयलीला कुत्र वा पर्णशाला॥३२॥ जामदग्न्यः-कथमन्यमिव मां प्रणतिपात्र मुनिमात्रं मन्यसे। स एप जामदग्न्यःखल्वहं- क्षुण्णक्षत्रकठोरकण्ठविगलत्कोलालधारासरि- निर्वृत्ताभिषवस्य कृत्तशिरसां केशान्कुशान्कुर्वतः । गृह्णन्रक्तजलाञ्जलीन्पितृगणो यस्य क्षणं विस्मितः संतोषेण जुगुप्सया करुणया त्रासेन हासेन च ॥ ३३ ॥ तदलम् । इदानीमपि- कृत्वा त्रिःसप्तकृत्वः समिति विशसनं पूर्वमुर्वीपतीनां कृत्वान्यत्सप्तकृत्वः पुनरपि कदनं दुर्मदानां नृपाणाम् । निर्माय मापतीनां प्रतिसमरहृतैरुत्तमैरुत्तमाङ्गः कापालोमक्षमालां झटिति भगवतो भैरवस्यार्पयामि ॥३४॥ - - राम:- - प्रसीद त्वं, रोषाद्विरम, कुरुामे चेतसि गिरं, चिरं यश्चाऽऽयासैर्बहुभिरिह वारैर्जितमभूत्।
--
तृतीयो बिन्दुः
(२३)
यशोवित्तं वृत्तं कितव इव विक्षोभतरलं
तदेतस्मिन्वारे भृगुतिलक !मा हारय मुधा ॥ ३५॥
जामदग्न्य:-कथं रेहारयिष्यामि । (विमृश्य ।) अथवा-
किं नाम वाग्डम्बरपण्डितेषु युष्मासु
घाणीः
प्रचुराः प्रयुञ्ज।
बाणारिपुप्राणहरान्मदीयान्सर्वेऽपि यूयं सहिताः सहध्वम् ॥३६॥
राम:--किमन्यैर्नन्वहमेव हरशरासनारोपणोपनीतजानकीकरकिस-
लयलीलानिहितकमलमालिकामिलदलिपटलकोलाहलसंगीतयशःपरि-
मलेन वक्षःस्थलेन सहिष्ये।
जामदग्न्यः--
ईशत्यक्तपुराणचापदलनप्रोद्भूतगर्वोद्धति-
व्यग्रस्त्वं कतरः स मे तव गुरुः सोढुं न शक्तः शरान् ।
तुष्टादिष्टवरप्रदाद्भगवतः पद्मासनात्सादरं
मन्नाराचभयादयाचत किल ब्राह्मीं तनूं कौशिकः ॥ ३७ ॥
राम: (स्वगतम् ) कथं भगवन्तं विश्वामित्रमधिक्षिपति ? तदत:-
परं न सहिष्य । (प्रकाशम् ।)
ईशत्यक्तपुराणचापदलनप्रोद्भूनगर्वोद्धति-
व्यग्रोऽहं कतरः स ते मम गुरुः सोढुं न शक्तः शरान् ।
तुष्टादिष्टवरप्रदाद्भगवतः पद्मासनात्सादरं
त्वन्नाराचभयादयाचत किल ब्राह्मीं तनूं कौशिकः ॥ ३८ ॥
(इति पदव्यत्यासेन पुनः लोकं पठति । पुनः साटोपम् । ) अये जामदग्न्य !
तत्कोदण्डं कुलिशकठिनं भग्नामेतेन भन्न
मग्नं शल्यं तव हृदि महद्भग्नतावता किम् ।
त्रैयक्ष वा भवतु यदि वा नाम नारायणीयं
नैतत्किंचिद्रणयति स मे दुर्मदो दोविलासः॥३६॥
(२४) साहित्य-सुधा-संग्रहा जामदग्न्य:--(महर्षम् । ) साधुरे क्षत्रियपोत ! साधु। यत्किल जामदग्न्यनासश्चण्डधान्नः पुरतः खद्योत इव विद्योतसे। किमात्य रे, किमात्थ ? रामः--- (नदेव पठति।) नन्विदं भूयोऽप्युच्यते । (पुनस्तदेवपठति) जामदग्न्यः-- साधु सारितोऽस्मि । रामः--कि तत्! जामदग्न्य:---- कराघाताद्विष्णोस्तरलवनमालापरिमल. भ्रमभृङ्गध्वानद्विगुणितविकाशः समजनि । स यस्य ज्याघोषः सुररिपुवधूवर्गरुदित. ध्वनिस्वाध्यायानां प्रणव इव तत्कामुकमिदम् ॥ ४० ॥ - फरपङ्करुहकोडे क्रीडितं येन शाङ्गिणः । तदेतत् ? जामदग्न्य:- अथ कि, यदि शक्तोऽसि गृहाण विगृहाण वा॥४१॥ रामः-गृह्णामि। जामदग्न्यः-तदेहि । वाष्पायमाणभवद्वन्धुजनबन्धुरांवसुंधरामति- क्रम्य समरक्षमां क्षमामवतरावः। (इति निष्क्रान्तौ।) लक्ष्मणः-(विलोक्य सहर्ष सकौतुकं ।)
तृतीयो बिन्दुः मा शांभवं धनुरिवेदमपि प्रयातु भङ्गप्रसङ्गमिति मन्दचलगुजेन । आर्येण कार्मुकमपीदमहो ! सहेलं चक्रीकृतं भगवतो गरुडध्वजस्य ॥४२॥ ( नेपथ्ये।) अहो कौतुकम्- उद्भिन्नश्चापचक्रादमरपरिहृतव्योमरन्ध्रावगाही, बाणोऽयं राघवस्य, त्रिदशपुरगतिच्छेदकृद्भार्गवस्य । हंसीभूतः सुरस्त्रीकरकमलगलत्पुष्पसौरभ्यलुभ्य- भृङ्गीसंगीतभङ्गीपरिचलितयशाः स्वर्गपर्यङ्कमेति ॥४३॥ (ततः प्रविशतो रामजामदग्न्यो।) जामदग्न्यः-(रामं विलोक्य निर्वर्य च स्वगतम् । ) त्रिलोकी कोकोयं मुदभुदयताऽनेन लभते. विकाशं वा धत्ते मुनिजनमनःपङ्कजवनम् । अये कोऽयं बालः कुवलयदलश्यामलतनु- जगद्योनियोतिः कथमिदमहो तत्परिणतम् ॥४४॥ (पुनर्विमृश्य।) आपूरणाय पुरवैरिशरासनस्य बाणात्ममा परिणतः किल लीलया यः। आरोपणाय पुनरस्य स एव शङ्के बालात्मना परिणतः पुरुषः पुराणः॥४५॥ (प्रकाशम् ।) वत्स! इतः। ( रामः सलममधोमुखस्तिष्ठति ।) जामदग्न्यः-(उपमृत्य । रामस्य चिबुकमुखमय्य । ) किमति लजाखानम ?
(२६) साहित्य-सुधा-संग्रहः कमलबन्धुविलोचन ! यस्त्वया स्वमहिमोन्नमनैरधरीकृतः। न किमसावधरीकुरुते नरस्त्रिदशकोटिकिरीटमणीनपि ॥ ४६॥ रामः-(अञ्जलिं बद्ध्वा ।) भगवन् ! अलमनेन । दुर्विनयपङ्कम लिनी- कृतमात्मानं तावद्भवचरणनखकिरणतरङ्गिणीजलेन क्षालयामि । चण्डमेव किल तिग्मरोचिषः सौम्यमेव किल शीतरोचिषः। चण्डसौम्यमिति कौतुकावह नौमि तावकमहं महन्महः ॥४७॥ (इति पादयोः पतति ।) जामदग्न्यः-अयि कल्याणनिधे ! आशीरुक्तिरपि त्वयि पुनरुक्तिरेव । तथापीदमाशास्महे- यशःपूर दुरं तनु सुतनुनेत्रोत्पलवनी- तमस्तन्द्राचएडातप! तप सहस्राणि शरदाम् । इयं चास्तां युष्मच्छरशमितलकेश्वरशिरः- श्रितोत्सङ्गा नन्दत्सुरनरभुजङ्गा त्रिजगती॥४८॥ तदनुजानीहि माम्। (इति निष्क्रान्तः ।) रामः-(लक्ष्मणं प्रति । ) ननु कथं नयनपथमतिकान्त एव भग- वान् । तदेहि । भृगुकुलतिलकवियोगखिन्नमात्मानं बन्धुजनविलोक- नेन विनोदयावः। (रति निष्क्रान्ताः सर्वे।) इति चतुर्थोऽङ्कः उत्तररामचरितम् । प्रथमोऽङ्कः इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशामहे । वन्देमहि च तां वाणीममृतामात्मनः कलाम् ॥१॥ (नान्द्यन्ते ।) सूत्रधार:-अलमतिविस्तरेण । अद्य खलु भगवतः कालप्रियामाथस्य यात्रायामार्यमिश्रान्विज्ञापयामि-एवमत्रभवन्तो विदांकुर्वन्तु । अस्ति खलु तत्रभवान्काश्यपः श्रीकण्ठपदलाञ्छनः पदवाक्यप्रमाणशो भव. भूति म जतुकर्णीपुत्रः। यं ब्रह्माणमियं देवी वाग्वश्यवाऽन्यवर्तत । उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥२॥ एषोऽस्मि कविवशादायोध्यकस्तदानोंतनश्च संवृत्तः । ( समन्तादवलोक्य ।) भो भोः, यदा तावदत्रभवतः पौलस्त्यकुलधूमकेतोमहाराजरामस्यायं पट्टाभिषेकसमयो रात्रिंदिवमसंहृतनान्दीकः, तत्किमिदानी विश्रान्त. चारचरणानि चत्वरस्थानानि ? प्रविश्य ।) नटः-भाव ! प्रेषिता हि स्वगृहान्महाराजेन लङ्कासमरसुहृदो महा. स्मानः प्लवङ्गमराक्षसाः सभाजनोपस्थायिनश्च नानादिगन्तपावना- ब्रह्मर्षयोराजर्षयश्च, यत्समाराधनायैतावतो दिवसान प्रमोद आसीत् । सूत्रधारः-आः, अस्त्येतन्निमित्तम् ?
(२८) साहित्य-सुधा-संग्रहः नरः-अन्य वसिष्ठाधिष्ठिता देव्यो गता रामस्य मातरः। अरुन्धती पुरस्कृत्य यज्ञे जामातुराश्रमम् ॥ ३ ॥ सूत्रधारः-वैदेशिकोऽस्मीति पृच्छामि । कः पुनर्जामाता ? नट:- कन्यां दशरथो राजा शान्तां नाम व्यजीजनत् । अपत्यकृतिकां राज्ञ रोमपादाय तां ददी॥४॥ विभण्डकसुनस्तामृष्यशृङ्ग उपयेमे। तेन द्वादशवार्षिकं सत्रमारब्धम् । तदनुरोधात्कठोरगर्भामपि जानकी विमुच्य गुरुजनस्तत्र यातः । सूत्रधारः-तत्किमनेन । एहि । राजद्वारमेव स्वजातिसमयेनो- पतिष्ठावः। नटः-तेन हि निरूपयतु राज्ञः सुपरिशुद्धामुपस्थानस्तोत्रपद्धतिभावः । सूत्रधारः-मारिष! सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता । यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः॥५॥ नटः-अतिदुर्जन इति वक्तव्यम्- देव्या अपि हि वैदेह्याः सापवादो यतो जनः । रक्षागृहस्थितिमूलमग्निशुद्धौ त्वनिश्चयः॥ ६॥ सूत्रधारः-यदिपुनरियं किंवदन्ती महाराज प्रति स्यन्देत, ततः कष्टं स्यात् । नटः- सर्वथा ऋषयोदेवाश्च श्रेयो विधास्यन्ति। ( परिक्रम्य । भो. भोः, केदानी महाराजः। (माकर्य । ] एवं जनाः कथयन्ति- (२६) तृतीयो बिन्दुः स्नेहासभाजयितुमेत्य दिनान्यमूनि नीत्वोत्सवेन जनकोऽद्य गतो विदेहान् । देण्यास्ततो विमनसः परिसान्त्वनाय धर्मासनाद्विशति वासगृहं नरेन्द्रः ॥७॥ [इतिनिष्क्रान्तौ।] इति प्रस्तावना। [ ततः प्रविशत्युपविष्टो रामः सीता च । ] रामः--देवि वैदेहि ! विश्वसिहि । ते हि गुरवो न शक्नुवन्ति विहातुमस्मान् । किं त्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति । संकटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता ॥ ८॥ सीता-जानामि आर्यपुत्र! जानामि। किंतुसंतापकारिणो बन्धुजन- विप्रयोगा भवन्ति। रामः--एवमेतत् । एते हि हृदयमर्मच्छिदःसंसारभागाः । येभ्यो- बीभत्समानाः संत्यज्य सर्वान्कामानरण्ये विश्राम्यन्ति मनीषिणः । [प्रविश्य । ] कञ्चुकी--रामभद्र !-[ इत्यर्थोक्त साशङ्कम् । ] महाराज!- रामः--[ सस्मितम् । ] आर्य ! ननु 'रामभद्र' इत्येव मां प्रत्युपचारः शोभते तातपरिजनस्य । तद्यथाभ्यस्तमभिधीयताम् । कञ्चकी-देव !ऋष्यशृङ्गाश्रमादष्टावक्रः संप्राप्तः । सीता-आर्य! ततः किं विलम्ब्यते ?
(३०) साहित्य-सुधा-संग्रहा रामः-त्वरितं प्रवेशय। [ कञ्चुको निष्क्रान्तः ।। 1 प्रवि] अष्टावक्र:-स्वस्ति वाम् । रामः भगवन् ! अभिवादये। इत आस्यताम् । सीता-भगवन् ! नमस्ते । अपि कुशलं सजामातृकस्य गुरुजनस्या- ऽऽर्यायाः शान्तायाश्च ? रामः-निर्विघ्नः सोमपीथी भावुको मे भगवानृष्यभटङ्गः, आर्या च शान्ता? सीता-अस्मानपि स्मरति ? अष्टावक्र:-[ उपविश्य । ] अथ किम् । देवि ! कुलगुरुभगवान्वसिष्ठ- स्वामिदमाह- "विश्वंभरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते। तेषां वधूस्त्वमसि नन्दिनि !पार्थिवानां येषां कुलेषु सविता च गुरुर्वयं च ॥ ६ ॥ तत्किमन्यदाशास्महे । केवलं वीरप्रसवा भूयाः। रामः-अनुगृहीताः स्मः। लौकिकानां हि साधूनामर्थ वागनुवर्त्तते । ऋषीणां पुनराद्यानां वाचमर्थोऽनुवर्तते ॥१०॥ अष्टावक्र:-इदं च भगवत्याऽरुन्धत्या देवीभिः शान्तया च भूयो भूयः संदिष्टम्-“यः कश्चिद्गर्भदौहृदोदयो भवत्यस्याः सोऽवश्यमचिरा- न्मानयितव्या इति।
तृतीयो बिन्दु (३१) रामः-क्रियते योषा कथयति। -- अष्टावक्र:-ननान्दुः पत्या च देव्याः संदिष्टम्-"वत्से ! कठोरगर्भेति नानीतासि । वत्सोऽपि रामभद्स्त्वद्विनोदार्थमेव स्थापितः । तत्पुत्रपूर्णोत्सङ्गगमायुप्मती द्रक्ष्यामः” इति । रामः-[ सहर्षलज्जास्मितम् ] तस्थास्तु | भगवता वसिष्ठेन न किंचिदा- दिष्टोऽस्मि? अष्टावक्र:-श्रूयताम "जामातृयज्ञेन वयं निरुद्धास्त्वं वाल एवासि नवं च राज्यम् । युक्तः प्रजानामनुरअने स्यास्तस्माद्यशो यत्परमं धनं वः ॥ ११ ॥ रामः-यथा समादिति भगवान्मत्रावरुणिः-- स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥१२॥ सीता--अत एव राघवधुरंधर आर्यपुत्रः । रामः--कः कोऽत्र भोः । विश्राम्यतादष्टावक्रः । अष्टावक्र:----[ उत्थाय परिक्रम्य च । ] अये, कुमारलक्ष्मणः प्राप्तः । [इति निष्क्रान्तः।] [प्रविश्य । ] लक्ष्मणः--जयति जयत्यार्यः।। आर्य ! अर्जुनेन चित्रकरणास्मदुप- दिष्टमार्यस्य चरितमस्यांवीथ्यामभिलिखितम् । तत्पश्यत्वार्यः। रामः---जानासि वत्स ! दुर्मनायमानां देवीं विनोदयितुम् । तत्कि- यानवधिः? लक्ष्मण:--यावदार्याया हुताशनशुद्धिः । रामः--शान्तं पापम्। [ससान्त्ववचनम् ।]
(३२) साहित्य-सुधा-संग्रहः उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः । तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः ॥ १३ ॥ देवि देवयजनसंभवे! प्रसीद । एष ते जीवितावधिः प्रवादः । क्लिष्टो जनः किल जनैरनुरञ्जनीय- स्तन्नो यदुक्तमशुभं च न तत्सम ते । नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि ॥१४॥ सीता-भवत्वार्यपुत्र! भवतु । एहि । प्रेक्षामहे तावत्ते चरितम् | ( इत्युत्थाय परिक्रामति ।) लक्ष्मणः-इदं तदालेख्यम् । सीता-(निर्वर्ण्य। ) क एते उपरिनिरन्तरस्थिता उपस्तुवन्तीवार्यपुत्रम् ? लक्ष्मणः-देवि ! एतानि तानि सरहस्यानि जृम्भकास्त्राणि । यानि भगवतो भृशाश्वात्कौशिकमुपसंक्रान्तानि । तेन च ताटकावधे प्रसादीकृतान्यार्यस्य। रामः-वन्दस्व देवि! दिव्यास्त्राणि- ब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्रं शरदां तपांसि । एतान्यदर्शन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥१५॥ सीता-नम एतेभ्यः। रामः-सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति । सीता-अनुगृहीतास्मि । लक्ष्मणः-एप मिथिलावृत्तान्तः। सीता-अहो,'दलनवनीलोत्पलश्यामलस्निग्धमसृणशोभमानमांसलेन देहसौभाग्येन विस्मयस्तिमिततातदृश्यमानसौम्यसुन्दरश्रीरनादत्रुटित- शंकरशरासनः शिखण्डमुग्धमुखमण्डल आर्यपुत्र आलिखितः।
तृतीयो बिन्दुः (३३) - - लक्ष्मण:-आयें ! पश्य पश्य- संबन्धिनो वसिष्ठादीनेष तातस्तवार्चति । गौतमश्च शतानन्दो जनकानां पुरोहितः ॥ १६ ॥ रामः-सुश्लिष्टमेतत्- जनकानां रघूणां च संबन्धः कस्य न प्रियः। यत्र दाता ग्रहोता च स्वयं कुशिकनन्दनः ।। १७ ॥ सीता-एते खलु तत्कालकृतगोदानमङ्गलाश्चत्वारोभ्रातरः । विवाह- दीक्षिता यूयम् । अहो जानामि तस्मिन्नेव प्रदेशे तस्मिन्नेव च काले वर्ते। रामः समयः स वर्तत इवैष यत्र मां समनन्दयत्सुमुखि ! गोतमार्पितः। अयमागृहीतकमनीयकङ्कण- स्तव मूर्तिमानिव महोत्सवः करः ॥ १८ ॥ लक्ष्मणः--इयमार्या । इयमप्यार्या माण्डवी। इयमपि वधूः श्रुत. - कीर्तिः । सीता-वत्स! इयमप्यपरा का? लक्ष्मणः-( सलज्मास्मितम् । अपवार्य । ) अये, ऊर्मिलां पृच्छत्यार्या । भवतु । अन्यतः संचारयामि । ( प्रकाशम् ) आर्य ! दृश्यतां द्रष्टव्यमेतत् । अयं च भगवान्भार्गवः। सीता-(ससंभ्रमम् । ) कम्पितास्मि । रामः-ऋषे! नमस्ते। लक्ष्मण:-आर्य ! पश्य । अयमार्येण-(पोक्त।)
(३४)
साहित्य-सुधा-संग्रहः
रामः-(भापम् । ) अयि ! बहुतरं द्रष्टव्यम् । अन्यतो दर्शय ।
सीता-(सस्नेहबहुमानं निर्वर्य।) सुष्टु, शोभसे आर्यपुत्र! एतेन
विनयमाहात्म्येन ।
लक्ष्मण:-पते घयमयोध्यां प्राप्ताः।
राम:-(सास्त्रम् । ) स्मरामि हन्त स्मरामि ।
जीवत्सु तातपादेषु नूनने दारसंग्रहे ।
मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥१६॥
लक्ष्मण:-एष मन्थरावृत्तान्तः ।
रोमः--( सत्वरमन्यतो दर्शयन् । ) देवि वैदेहि !
इङ्गुदीपादपः सोऽयं ङ्गिबेरपुरे पुरा ।
नियादपतिना यत्र स्निग्धेनासीत्समागमः ॥२०॥
लक्ष्मणः [विहस्य । स्वगतम् ] अये,
मध्यमाम्बावृत्तान्तमन्तरित.
मार्येण।
सीता-अहो! एप जटासंयमनवृत्तान्तः ।
-
लक्ष्मणः-
पुत्रसंक्रान्तलक्ष्मीकैर्यवृद्धक्ष्वाकुभिधृतम् ।
धृतं बाल्ये तदार्येण पुण्यमारण्यकवतम् ॥ २१ ॥
सीता -एषा प्रसन्नपुण्यसलिला भगवती भागीरथी।
रामः-रघुकुलदेवते! नमस्ते ।
तुरगविचयव्यग्रानु:भिदः सगराध्वरे
कपिलमहसा रोषालुष्टान्पितुश्च पितामहान् ।
अगणिततनूतापस्तप्त्वा तपांसि भगीरथो.
भगवति ! तप स्पृष्टानद्भिश्चिरादुदतीतरत् ॥ २२ ॥
तृयीयो बिन्दुः सा त्वमम्ब ! स्नुषायामरुन्धतीव सीतायां शिवानुध्याना भव । लक्ष्मणः-एष भरद्वाजावेदितश्चित्रकूटयायिनि पद्मनि वनस्पतिः कालिन्दीतटे वटः श्यामो नाम । [रामः सस्पृहमवलोकयति ।] सीता-स्मरति वा तं प्रदेशमार्यपुत्रः ? रामः-अयि, कथं विस्मयते ? लक्ष्मणः--एष विन्ध्याटवीमुखे विराधसंवादः । सीता--भलं तावदेतेन । पश्यामि तावदार्यपुत्रस्वहस्तधृततालवृन्ता- ऽऽनपत्रमात्मनोऽत्याहितं दक्षिणारण्यपथिकत्वम् । रामः- एतानि तानि गिरिनिझरिणीतटेषु वैखानसाश्रिततरूणि तपोवनानि । येष्वातिथेयपरमा यमिनो भजन्ते नीवारमुष्टिपचना गृहिणी गृहाणि ॥ २३ ॥ लक्ष्मण:-अयमविरलानोकहनिवहनिरन्तरस्निग्धनीलपरिमरोग्ण्य- परिणद्धगोदावरीमुखकन्दरः संततमभिष्यन्दमानमेघमेदुरितनीलिमा. जनस्थानमध्यगो गिरिः प्रस्रवणोनाम । रामः- स्मरसि सुतनु ! तस्मिन्पर्वते लक्ष्मणेन प्रतिविहितसपर्यासुस्थयोस्तान्यहानि । स्मरसि सरसनीरां तत्रगोदावरी वा स्मरसि व तदुपान्तेष्वावयोर्वर्तनानि ॥ २४ ॥.
साहित्य-सुधा-संग्रहः लक्ष्मणः एष पञ्चवट्यां शूर्पणखाविवादः । सीता-हा आर्यपुत्र ! एतावत्ते दर्शनम् । रामः-अयि वियोगत्रस्ते ! चित्रमेतत् । सीता-यथा तथा भवतु । दुर्जनोऽसुखमुत्पादयति । रामः- हन्त, वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति । - लक्ष्मणः अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि । जनस्थाने शन्ये विकलकरणैगर्यचरितै- रपि पावा रोदित्यपि दलति वज्रस्य हृदयम् ॥ २५ ॥ सीता--( मात्रमात्मगतम् । ) अहो, दिनकरकुलानन्दन एव मपि मम कारणात् कान्त आसीत् ? लक्ष्मण:-( राम निर्वयं साकूतम् । ) आर्य ! किमेतत् ? अयं तावद्वाष्पस्त्रुटित इव मुक्तामणिसरो- विसर्पन्धाराभिटुंठति धरणी जझरकणः । निरुद्धोऽप्यावेगः स्फुरदद्धरनासापुटतया परेपामुन्नेयो भवति चिरमाध्मातहृदयः ॥ २६ ॥ रामः-वत्स! तत्कालप्रियजनविप्रयोगजन्मा तीव्रोऽपि प्रतिकृतिवाछया विसोढः। दुखाग्निर्मनसि पुनविपच्यमानो. हृन्मर्मवण इव वेदनां तनोति ॥ २७ ॥ सीता-हा धिक् हा धिक् । अहमपि अतिभूमिगतेन रणरणकेन भार्यपुत्रशून्यमिव भात्मानं पश्यामि ।
तृतीयो बिन्दुः (३७) ! ! लक्ष्मणः-(स्वगतम् ) भवतु । आक्षिपामि । (पित्रं विलोक्य प्रकाशम् ) अर्थतन्मन्वन्तरपुराणस्य तत्रभवतस्तातजटायुपश्चरित्रविक्रमोदाहरणम्। सीता -हा तात! नियूंढस्तेऽपत्यस्नेहः । रामः हा तात ! काश्यप ! शकुन्तराज ! क्व नु खलु पुनस्त्वाशस्य महतस्तीर्थभूतस्य साधोः संभवः । लक्ष्मणः-अयमसी जनस्थानस्य पश्चिमतः कुञ्जयान्नाम पर्वतो. दनुकबन्धाधिष्ठितो दण्डकारण्यभागः । तदिदममुष्य परिसरे मतङ्गाश्रमपदम् । तत्र श्रमणी नाम सिद्धा शवरतापसी । नदेनत्पम्पा- भिधानं पद्मसरः । सीता-- - यत्र किलाऽऽर्यपुत्रेण विच्छिन्नामपंधीरत्वं प्रमुक्तकण्ठ प्ररुदितमसीत् । रामः-देवि! परं रमणीयमेतत्सरः। एतस्मिन्मदकलमल्लिकाक्षपक्ष. व्याधूतस्फुरदुरुदण्डपुण्डरीकाः। बाष्पाऽम्भः परिपतनोद्मान्तराले संदृष्टाः कुवलयिनो मया विभागाः ॥ २८ ॥ दिष्ट्या सोऽयं महाबाहुरञ्जनाऽऽनन्दवर्धनः । यस्य वीर्येण कृतिनो वयं च भुवनानि च ॥ २६ ॥ सीता -वत्स ! एप स कुमुमितकदम्बताण्डवितबहिणः किनाम- धेयो गिरिः । यत्रानुभावसौभाग्यमात्रपरिशेषसुन्दरी मस्त्वया प्ररुदितनावलम्यितस्तरुतल आर्यपुत्र आलिखितः ? .
(३८) साहित्य-सुधा-संग्रहः लक्ष्मण: सोऽयं शैलः ककुभसुरभिर्माल्यवानाम यस्मिन् नीलः स्निग्धः श्रयति शिखरं नूतनस्तोयवाहः । आर्यणास्मिन् रामः- ... 'विरम विरमाऽसः परं न क्षमोऽस्मि प्रत्यावृत्तः स पुनरिव मे जानकोविप्रयोगः॥ ३० ॥ लक्ष्मण:-अतः परमार्यस्य तत्रभवतां राक्षसानां चाऽपरिसंख्यान्यु- स्तरोत्तराणि कर्माश्चर्याणि । परिश्रान्ता चेयमार्या । तद्विज्ञापयामि- विश्राम्यतामिति । सीता-आर्यपुत्र ! एतेन चित्रदर्शनेन प्रत्युत्पादोहलाया मम विज्ञापनीयमस्ति। रामः नन्वाज्ञापथ। सीता-जाने, पुनरपि प्रसन्नगम्भीरासु, वनराजिषु घिहत्य पवित्रनिर्मशशिशिरसलिलां भगवती भागीरथी अवगाहिष्य इति । रामः-वत्स लक्ष्मण ! लक्ष्मणः-एपोऽस्मि । रामः-वत्स! 'अचिरादेव संपादनीयो दौहृद" इति संप्रत्येव गुरुभिः संदिष्टम् । तदस्खलितसंपातं रथमुपस्थापय । सीता-आर्यपुत्र ! युष्माभिरप्यागन्तव्यम् । रोम:--अयिकठिनहृदये ! एतदपि वक्तव्यम? सीता--तेन हि प्रियं मे प्रियं मे ।
तृतीयो बिन्दुः (३६) लक्ष्मण:- यदाज्ञापयत्यार्थः। [इति निष्क्रान्तः।) रामः-प्रिये! वातायनोपकण्ठे संविष्टा भव । सीता-एवं भवतु। अपहृतास्मि परिश्रमनिद्रया। रामः-तेन हि निरन्तरमवलम्बस्व मामनुगमनाय । सीता-(निद्रां नाटयन्ती । ) अस्त्येतत् । आर्यपुत्र ! अस्त्येतत् । (इति स्वपिति ।) रामः कथं प्रियवचनैव प्रसुप्ता। (निवर्य ) इयं गेहे लक्ष्मीरियममृतवर्तिनयनयो- रसावस्याः स्पर्शो वपुपि बहुलश्चन्दनरसः। अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रयो यदि परमसहास्तु विरहः॥३१॥ (प्रविश्य ।) प्रतीहारी-देव उपस्थितः। रामः-अयि, कः ? मतिहारी-आसनपरिचारको देवस्य दुर्मुखः । रामः-(स्वगतम् ) शुद्धान्तचारी दुर्मुग्वः स मया पीरजानपदेष्व- पसर्पः प्रहितः । (प्रकाशम् । ) आगच्छतु । [प्रतीहरी निष्क्रान्ता। [ प्रविश्य ।) दुर्मुखः-(स्वगतभ हा कथमिदानी देवीमन्तरणेशमचिन्तनीय जनापवादं देवस्य कथयिष्यामि । अथवा नियोगः खलु मम मन्दभाग- धेयस्यैषः।
(४०)
साहित्य-सुधा-संग्रहः
सीता- ( उत्स्वनायते । ) आर्यपुत्र ! कुत्रासि ।
रामः-सेयमेव रणरणकदायिनी चित्रदर्शनाद्विरहभावना देव्याः
स्वप्नोद्योगं करोति । ( सस्नेहमङ्गमस्याः परामराज् ।)
अद्वैत सुखदुःखयोरनुगतं सर्वाखवस्थासु य.
द्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः ।
कालेनावग्णात्ययात्परिणते यत्प्रेमसारे स्थितं
भद्रं तस्य सुमानुपस्य कथमप्येकं हि तत्प्रार्थ्यते ॥ ३२॥
दुर्मुखः-( उमृत्य। ) जयतु देवः।
रामः-अहि यदुपलब्धम् ।
दुर्मुखः-उपस्तुवन्ति देवं पौरजानपदा यथा विस्मरिता वयं महा.
राज दशरथं रामदेवेनेति ।
रामः-अर्थवाद एवैपः । दोषं तु मे कथंचित्कथय येन प्रतिविधीयते ।
दुर्मुखः -( मास्त्रम् । ) शृणोतु महाराजः । एवमिव ।
रामः-अहह, अतितीवोऽयं वाग्वत्रः। ( इति सूर्च्छति । )
दुर्मुखः---आश्वसितु देवः।
रामः-( आश्वस्य ।)
हा हा धिक्परगृहवासदूपणं य-
द्वैदेह्याः प्रशमितमद्भुतैरुपायैः।
एतत्तत्पुनरपि दैवदुर्विपाका-
दालकं विपमिव सर्वतः प्रसक्तम् ॥ ३३ ॥
तरिकमद्य मन्दभाग्यः करोमि । ( विमृश्य सकरुणम् । ) अथवा किमेतत्-
सतां केनापि कार्येण लोकस्याराधनं परम् ।
तत्प्रतीतं हि तातेन मां च प्राणांश्च मुञ्चता ॥३४॥
तृतीयो बिन्दुः '(४१) संप्रत्येव च भगवता वसिष्ठेन संदिष्टम् । अपि । यत्सावित्रैर्दीपितं भूमिपालै- र्लोकश्रेष्ठैः साधुचित्रं चरित्रम् । मत्संबन्धात्कश्मला किवदन्ती स्याश्चेदस्मिन्हन्त धिङ्मामधन्यम् ॥ ३५॥ हा देवि देवयजनसंभवे ! हा खजन्मानुग्रहपवित्रितवसुंधरे ! हा मुनिजनकनन्दिनि ! हा पावकवसिष्ठारुन्धतीप्रशस्तशीलशालिनि!हा राममयजीविते!हा महारण्यवासप्रियलखि!हा तातप्रिये!हा स्तोक- वादिनि ! कथमेव विधायास्तवायमीद्वशः परिणामः ? त्वया जगन्ति पुण्यानि त्यय्यपुण्या जनोक्तयः। नाथवन्तस्त्वया लोकास्त्वमनाथा विपत्स्यसे ॥ ३५ ॥ (दुर्मुखं प्रति।) दुर्मुख ! ब्रूहि लक्ष्मणम् । एष नृतनो राजा रामः समा. ज्ञापयति । (कर्णे। ) एवमेवम् । इति । दुर्मुखः -हा, कथमग्निपरिशुद्धाया गर्भस्थितपवित्रसंतानाया देव्या. दुर्जनवचनादिदं व्यवसितं देवेन । रामः-शान्तं पापम् , शान्तं पापम्। दुर्जना नाम पौरजानपदाः? इक्ष्वाकुवंशोऽभिमतः प्रजानां जातं च दैवाद्वचनीयबीजम् । यश्चाद्भुतं कर्म विशुद्धिकाले प्रत्येतु कस्तद्यदिदूरवृत्तम् ॥३६ ॥ तद्वच्छ। दुर्मुखः :-हा देवि ! ( रति निष्क्रान्तः।) रामः-हा कष्टम् । भतिबीभत्सकर्मा नृशंसोऽस्मि संवृत्तः ।
(४२) साहित्य-सुंधा-संग्रहः शैशवात्प्रभृति पोषितां प्रियां सौहदादपृथगाश्रयामिमाम् । उमना परिददामि मृत्यवे सौनिके गृहशकुन्तिकामिव ॥ ३७॥ तत्किमस्पृश्यः पातको देवी दुषयामि । ( इति सीतायाः शिरः समुन्नमय बाहुमाकृष्य ।) अपूर्वकर्मचण्डालमयि मुग्धे ! विमुञ्च माम् । श्रितासे चन्दनभ्रान्त्या दुर्विपाक विषद्रुमम् ॥ ३८ ॥ ( उत्थाय ।) हन्त हन्त, संप्रति विपर्यस्तो जीवलोकः। अद्याऽवसित जीवितप्रयोजनं रामस्य । शून्यमधुना जीर्णारण्यं जगत् । असारः संसारः काष्ठप्राय शरीरम् । अशरणोऽस्मि । किं करोमि । कागतिः। अथषा- - दुःखसंवेदनायैव रामे चैतन्यमागतम् । मर्मोपघातिभिः प्राणैर्वजकीलायितं हृदि ॥३६॥ हा अम्ब अरुन्धति! भगवन्तौ वसिष्ठविश्वामित्रौ ! भगवन्पा- पक! हा देवि भूतधात्रि! हा तात जनक!हा मातः ! हा प्रियसख महाराज सुग्रीव ! सौम्य हनूमन् ! लङ्काधिपते विभीषण ! हा सखि त्रिजटे! परिमुषिताः स्थ परिभूताः स्थ रामहतकेन । अथवा को नाम तेषामहमिदानीमाहाने। ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना । मया गृहीतनामानः स्पृश्यन्त इव पाप्मना ॥४॥ जनकानां रघूणां च यत्कृत्स्र गोत्रमङ्गलम् । यो देवयजने ! पुण्य ! पुण्यशीलामजीजनः ॥ ४१ ॥ (इति रुदनिष्क्रान्तः।) सीता-हा सौम्य आर्यपुत्र ! कुत्रासि | हा धिक् । दुःस्वप्नरणरणक. विपलब्धा आर्यपुत्रशून्यमिवात्मानं पश्यामि। हा धिक् हा धिक् । ,
तृतीयो बिन्दु
(४३)
एकाकिनी प्रसुप्तां मामुज्झित्वा कुत्र गतो नाथः। भवतु । अस्मै
कोपिष्यामि यदि तं प्रेक्षमाणा आत्मनः प्रभविष्यामि । को. ऽत्र.
परिजनः ।
[प्रविष्य]
दुर्मुख:-देवि ! कुमारलक्ष्मणो विज्ञापयति-'समोरथः। तदा
रोहतु देवो' इति ।
सीता-यमारूढास्मि । स्फुरति मे गर्भभारः। शनैर्गच्छामः ।
दुर्मुखः-इत इतो देषी।
सीता-नमोरघुकुलदेवताभ्याम्।
[इति निष्क्रान्ताः सर्वे।
इति महाकवि श्रीभवभूतिविरचित उशररामचरिते.
प्रथमोऽङ्कः
द्वितीयोऽङ्कः [ नेपथ्ये । ] स्वागतं तपोधनायाः। [ ततः प्रविशत्यध्धगवेषा तापसी। ] तापसी-अये वनदेवता फलकुसुमगर्भण पलधार्येण दूरान्मामुप- तिष्ठते। [ प्रविश्व ।] बनदेवता-[अध्यं वितीर्य ।] यथेच्छाभोग्य धो वनमिदमयं मे सुदिवसः सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति । तरुच्छाया तोयं यदपि तपसा योग्यमशनं फलं वा मूलं पा तदपि न पराधीनमिह वः॥१॥ तापसी-किमत्रोच्यते ? प्रियप्राया वृशिर्विनयमधुरो वाचिनियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचयः। पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपधि विशुद्ध विजयते ॥२॥ [उपविशतः।] बनदेवता-कां पुनरप्रभवतीमवगच्छामि। तापसी-आत्रेय्यस्मि । धनदेवता-आर्य आत्रेयि ! कुतः पुनरिहागम्यते । किप्रयोजनो- दण्डकारण्योपधनप्रचारः?
पतीयो बिन्दुः मात्रेयो- - अस्मिन्नगस्त्यप्रमुग्वाः प्रदेशे भूयांस उद्गीथविदो वसन्ति । तेभ्योऽधिगन्तुं निगमान्तवियां वाल्मीकिपा दिह पर्यटामि ॥३॥ वनदेवता-यदा तावदन्येऽपि मुनयस्तमेव हि पुराणब्रह्मवादिनं प्राचेतसमृर्षि ब्रह्मपारायणायोपासते । तत्कोऽयमार्यायाः प्रवासः ? श्रात्रेयी-तस्मिन्हि महानध्ययनप्रत्यूह इस्येप दीर्घप्रवासोऽङ्गीकृतः । वनदेवता-कीदृशः ? आत्रेयी-तस्य भगवतः केनापि देवताविशेषेण सर्वप्रकाराद्भुन स्तन्यत्यागमात्रके वयसि वर्तमान दारकद्वयमुपनीतम् । तत्खलु न केवलं तस्य, अपितु तिरश्चामप्यन्तःकरणानि तत्वान्युपस्नेहयति। वनदेवता-अपि तयोर्नामसंज्ञानमस्ति ? पात्रेयी-तयैव किल देवतया तयोः कुशलवाविति नामनी च प्रभावश्चास्यातः । धनदेवता-कीदृशः प्रभावः ? आत्रेयी-तयोः किल सरहस्यानि जृम्भकास्त्राणि जन्मसिद्धानीति । वनदेवता-अहो नु भोश्चिप्रमेतत् । आत्रेयी-तौ च भगवता वाल्मीकिना धात्रीकर्मतः परिगृह्य पोषिती रक्षितौ च । निर्वृत्तचौलकर्मणोस्तयोश्रयीवर्जमितरास्तिस्त्रो विद्याः सावधानेन परिनिष्ठापिताः । तदनन्तरं भगवतैकादशे वर्षे क्षात्रेण (४६) साहित्य-सुधा-संग्रहः कल्पेनोपनीय त्रयीविद्यामध्यापितौ। न त्वेताभ्यामतिदीप्तिप्रक्षा- भ्यामस्महादेः सहाध्ययनयोगोऽस्ति । यतः- वितरति गुरुः प्राशे विद्यां यथैव तथा जड़े न तु खलु तयोर्शाने शक्ति करोत्यपहन्ति वा। भवति हि पुनर्भूयान्भेदः फलं प्रति तधथा प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः॥ ४ ॥ पनदेवता-अयमध्ययनप्रत्यूहः ? प्रात्रयी-अभ्यश्च । वनदेवता-अथापरः कः? मात्रेयी-अथ स ब्रह्मर्पिरेकदा माध्यदिनसघनाय नदीं तमसामनुः प्रपन्नः । तत्र युग्मचारिणोः क्रौञ्चयोरेकं व्याधेन वध्यमानं ददर्श । आकस्मिकप्रत्यवभासां देवों वाचमानुष्टुभेन छन्दसा परिणतामभ्यु- दैरयत्। मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्कौञ्चमिथुनादेकमवधीः काममोहितम् ॥ ५॥ वनदेवता-आम्नायादन्यत्र नूतनच्छन्दसामवतारः ? पात्रेयी-तेन हि पुनः समयेन तं भगवरतमाविर्भूतशब्दप्रकाश- मृषिमुपसंगम्य भगवान्भूतभावनः पायोनिरवोचत्-"ऋषे! प्रबुद्धो. ऽसि वागात्मनि ब्रह्मणि । तद्रूहि रामचरितम्। अव्याहतज्योतिरार्ष ते चक्षुः प्रतिभातु। आधः कविरसि" इत्युक्त्वाऽन्तर्हितः । अथ स भगवान् प्राचेतसः प्रथम मनुष्येषु शब्दब्रह्मणस्तादृशं विवर्तमितिहास रामायणं प्रणिनाय । वनदेवता हन्त, पण्डितः संसारः।
तृतीयो बिन्दुः (४७) मात्रेयी-तस्मादेव हि प्रवीमि तत्र महानध्ययनप्रत्यूह इति । चनदेवता-युज्यते। श्रात्रेयो-विश्रान्तास्मि भने। संप्रत्यगस्त्याश्रमस्थपन्थान ब्रूहि । चनदेवता- इतः पञ्चवटीमनुप्रविश्य गम्यतामनेन गोदावरीतोरेण । श्रात्रेयी- --(भास्त्रम् ।) अप्येतत्तपोवनम् ? अप्पा पञ्चवटी ? अपि सरिदियं गोदावरी ? अप्पयं गिरिः प्रस्त्र प्रणः ? अरि जनस्थानधन- देवता त्वं वासन्ती? चनदेवता-तथैव तत्सर्वम् । श्रात्रेयी -हा वरले जानकि ! स एष ते वल्लभशाखिवर्गः प्रासङ्गिकीनां विषथः कथानाम् । 'त्वां नामशेषामपि दृश्यमानः प्रत्यक्षदृष्टामिव नः करोति ॥६॥ चासन्ती-(सभयम् । स्वगतम् । ) कथं नामशेषेत्याह ? (प्रकाशम् ।) किमत्याहितं सीता देव्याः ? प्रात्रेयी -न केवलमत्याहितम् , सापवादमपि । ( कर्णे ) एवमिति वासन्ती- हा दारुणो दैवनिर्घातः । ( इति मूर्छति।) आत्रेयी-भद्रे ! समाश्वसिहि । वासन्ती -हा प्रियसखि ! ईदृशस्ते निर्माणभागः। हा रामभद्र। अथवा अलं त्वया। आर्ये आलाय! अथ तस्मादरण्यात्तरित्यज्य निवृत्त लक्ष्मणे सीतायाः किं वृत्तमिति काचिदासीत्प्रवृत्तिः ? आत्रेयी-नहि नहि।
(४८) साहित्य-सुधा-संग्रहः वासन्ती--कष्टम् । आर्यारुन्धतीवसिष्ठाधिष्ठितेषुनः कुलेषु, जीवन्तीषु च वृद्धासु राशीषु कथमिदं जातम् ? पात्रेयी -ऋष्यशृङ्गसत्रे गुरुजनस्तदासीत्। संप्रति परिसमाप्त द्वादशवार्षिकं प्लत्रम्। ऋष्यशृङ्गेण च संपूज्य विसर्जिता गुरवः। ततो- भगवत्यरुन्धती-"नाहं वधूविरहितामयोध्यां गच्छामिण इत्याह। तदेव राममातृभिरनुमोदितम् । तदनुरोधाद्भगवतो पसिष्ठस्यापि श्रद्धा- "वाल्मीकिवनं गत्वा तत्र वत्स्यामः" इति । वासन्ती-अथ स रामभद्रः किमाचारः ? प्रात्रेयी-तेन राज्ञा राजक्रतुरश्वमेधः प्रकान्तः । पासन्ती-अहह धिक । परिणीतमपि ? স্বাধী शान्तम् । नहि नहि। वासन्तीका तर्हि यज्ञ सहधर्मचारिणी। आत्रेयी-हिरण्मयी सीताप्रतिकृति गृहिणीकृता। वासन्ती हन्त भोः- वज्रादपि कठोराणि मृदृनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ ७ ॥ आत्रेयी-विसृष्टश्च वामदेवानुमंत्रितो मेध्याश्वः । प्रक्लुप्ताश्च तस्य यथाशास्त्रं रक्षितारः । तेषामधिष्ठाता लक्ष्मणात्मजश्चन्द्रकेतुर्दत्त- दिव्यास्त्रसंप्रदायश्चतुङ्गसाधनान्वितोऽनुप्रहितः। वासन्ती-(सहर्ष कौतुकास्त्रम् । ) कुमारलक्ष्मणस्यापि पुत्र इति मातः! जीवामि। आत्रेयी-अत्रान्तरे ब्राह्मणेन मृतं पुत्रमुरिक्षप्य राजद्वारे सोरस्ताड- मब्रह्मण्यमुद्घोषितम् । ततः- न राजाऽपचारमन्तरेण प्रजानामकाल- - तृतीयो बिन्दुः (४६) मृत्युः संचरतीत्यात्मदोषं निरूपयति करुणामये रामभद्रे सहसैवा- ऽशरीरिणी बागुदचरत्- "शम्बूको नाम वृषलः पृथिव्यां तप्यते तपः । शीर्षच्छेद्यः स ते राम!तं हत्वा जीवय द्विजम् ॥८॥ इत्युपश्रुत्य कृपाणपाणिः पुष्पकमधिरुह्य सर्वा दिशो विदिशश्च शूदतापसान्वेषणाय जगत्पतिः संचारं समारब्धवान् । वासन्ती-शम्बूको नामाधोमुखो धूमपः शूद्रोऽस्मिन्नेव जनस्थाने तपश्चरति | अपि नाम रामभद्रः पुमरिदं धनमलं कुर्यात् ? श्रात्रेयी-भद्रे! गम्यतेऽधुना । वासन्ती-आर्ये आत्रेयि ! एवमस्तु । कठोरश्च दिवसः- कण्डूलद्विपगएडपिण्डकपणाकम्पेन संपातिभिः धर्मस्रंसितबन्धनैश्च कुसुमैरर्चन्ति गोदावरीम् । छायापस्किरमाणविष्किरमुखव्याकृष्टकीटत्वचः कूजत्लान्तकपोतकुक्कुटकुलाः कूले कुलायद्रुमाः॥६॥ (इति परिक्रम्य निष्क्रान्ते।) इति शुद्धविष्कम्भः। [ ततः प्रविशति सदयोद्यतखड्गो रामभद्रः।] रामः हे हस्त ! दक्षिण मृतस्य शिशोईिजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । रामस्य बाहुरसि निर्भरगर्भखिन्न- सीताविवासनपटोः करुणा कुतस्ते ॥१०॥ (कचित्प्रहृत्य।) कृतं रामसदृशं कर्म । अपि जीवेत्स ब्राह्मणपुत्रः ?
--
(५०)
साहित्य-सुधा-संग्रहा
(प्रविश्य।)
दिव्यपुरुषः-जयतु देवः-
दत्ताभये त्वयि यमादपि दण्डधारे
संजीवितः शिशुरसौ मम चेयमृद्धिः ।
शम्बूक एष शिरसा चरणो मतस्ते
सत्सङ्गजानि निधनान्यपि तारयन्ति॥ ११ ॥
रामः-द्वयमपि प्रियं नः। तदनुभूयतामुग्रस्य तपसः परिपाक:--
यत्राऽऽनन्दाश्च मोदाश्च यत्र पुण्याश्च संपदः ।
वैराजा नाम ते लोकास्तैजसाः सन्तु ते शिवाः ॥ १२॥
शम्बूकः-स्वामिन् ! युष्मत्प्रसादादेवैप महिमा । किमत्र तपसा?
अथवा महदुपकृतं तपसा---
अन्वेष्टव्यो यदसि भुवने लोकनाथः शरण्यो-
मामन्विष्यनिह वृषलकं योजनानां शतानि ।
कान्त्वा प्राप्तः स इह तपसां संप्रसादोऽन्यथा तु
कायोध्यायाः पुनरुपगमो दण्डकायां वने वः ॥१३॥
-
-
रामः-किं नाम दण्डकेयम् ? (सर्वतोऽवलोक्य । ) हा, कथम्-
निग्धश्यामाः कचिदपरतो भीषणाभोगरूक्षा:
स्थाने स्थाने मुखरककुभो झांकतैनिझराणाम् ।
एते तीर्थाश्रमगिरिसरिद्वर्तकान्तारमिश्राः
संदृश्यन्ते परिचितभुवो दण्डकारण्यभागाः ॥१४॥
शम्बूकः-दण्डकैवैषा। अत्र किल पूर्व निवसता देवेन-
चतुर्दश सहस्राणि चतुर्दश च राक्षसाः ।
अयश्च दूपणखरत्रिमूर्धानो रणे हताः ॥ १५ ॥
. - तृतीयो बिन्दुः (५५) येन सिद्धक्षेत्रेऽस्मिन्मादृशामपि जानपदानामकुतोभयः संचारः संवृत्तः। रामः-न केवलं दण्डकैत्र, जनस्थानमपि ? शम्बूक-बाढम् । एतानि खलु सर्वभूतरोमहर्षणान्युन्मत्तचण्ड. भ्वापदकुलाऽऽक्रान्तविकटगिरिगह्वराणि अनस्थानपर्यन्तदीर्धारण्यानि दक्षिणां दिशमभिवर्तन्ते । तथाहि- निष्कूजस्तिमिताः क्वचित्क्वचिदपि प्रोधण्डसवस्वनाः स्वेच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्ताग्नयः । सीमानः प्रदरोदरेषु विरलवल्पाम्भसो यास्वयं तृष्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते ॥ १६ ॥ रामः- पश्यामि च जनस्थानं भूतपूर्वखरालयम् । प्रत्यक्षानिव वृत्तान्तान्पूर्वाननुभवामि च ॥ १७ ॥ ( सर्वतोऽवलोक्य । ) प्रियाऽऽरामा हि वैदेह्यासीत् । एतानि नाम कान्ताराणि । किमतः परं भयानकं स्यात् । (सास्त्रम् ।) त्वया सह निवत्स्यामि वनेषु मधुगन्धिषु । इतीचाऽरमतेहाऽसौ स्नेहस्तस्याः स तादृशः॥ १८॥ न किंचिदपि कुर्वाणः सौख्यदुःखान्यपोहति । तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥ १६ ॥ शम्बूकः तदलमेभिर्दुरासदैः। अथैतानि मदकलमयूरकण्ठकोमल. च्छविभिरवकोर्णानि पर्यन्तैः, अविरलनिषिष्टनीलबहुलच्छायातरुषएड. मण्डितानि, असंभ्रान्तविविधमृगयूथानि पश्यतु महाभागः प्रशान्त: गम्भीराणि श्वापदकुलशरण्यानि महाऽरण्यानि- -
(५२)
साहित्य-सुधा-संग्रहः
इह समदशकुन्ताऽऽक्रान्तवानीरमुक्त-
प्रसवसुरभिशीतखच्छतोया वहन्ति ।
फलभरपरिणामश्यामजम्बूनिकुञ्ज-
स्खलनमुखरभूरिस्रोतसो निझरिएयः ॥२०॥
अपिब-
धति कुहरभाजामत्र भल्लूकयूना.
मनुरसितगुरूणि स्त्यानमम्बूकृतानि ।
शिशिरकटुकषायः स्त्यायते सल्लकीना.
मिभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ॥२१॥
रामः- ( सवाष्पस्तम्भम् । ) भद्र ! शिवास्ते पन्थानो देवयानाः ।
प्रलीयख पुण्येभ्यो लोकेभ्यः ।
शम्बूकः-यावत्पुराणब्रह्मर्षिमगस्त्यमभिवाद्य शाश्वत
पदमनु.
प्रविशामि। (इति निष्क्रान्तः।)
रामः-
-
एतत्पुनर्वनमहो कथमद्य दृष्टं
यस्मिन्नभूम चिरमेव पुरा वसन्तः ।
आरण्यकाश्च गृहिणश्च रताः स्वधर्म
सांसारिकेषु च सुखेषु वयं रसज्ञाः ॥ २२ ॥
एते त एव गिरयो विरुवन्मयूरा-
स्तान्य व मत्तहरिणानि वनस्थलानि ।
आम बञ्जु लरुतानि च तान्यमूनि
नीरन्ध्रनीपनिचुलानि सरित्तटानि ॥२३॥
मेघामालेव यश्चायमारादिव विभाव्यते ।
गिरिः प्रस्रवणः सोऽयमत्र गोदावरी नदी ॥ २४ ॥
तृतीयो बिन्दुः
(५३)
अस्यैवासीन्महति शिवरे गृध्रराजस्य वास-
स्तस्याधस्ताद्वयमपि रतास्तेषु पोटजेषु ।
गोदावर्याः पयसि विततानोकहश्यामलश्री.
रन्तः कूजन्मुखरशकुनो यत्र रम्यो।वानान्तः ॥ २५ ॥
अत्रैव सा पञ्चवटी यत्र निवासेन विविधविनम्भाऽतिप्रसङ्गमाक्षिणः
प्रदेशाः प्रियायाः प्रियसखी च वासन्ती नाम वनदेवता। किमिद-
मात मद्य रामस्य ? संप्रति हि-
चिराद्वेगारम्भी प्रसृत इव तीवो विपरसः
कुत.श्चत्संवेगात्प्रचल इव शल्यस्य शकलः ।
व्रगो रूहन्थिः स्फुटित इव हृन्मर्मणि पुनः
पुराभूतः शोको विकलयति मां नूतन इव ॥ २६ ॥
तथा वेधानपि तावत्पूर्वसुहृदो भूमिभागान्पश्यामि ।
(निरूप्य)
भनव स्थितो भूतसंनिवेशः। तथाहि-
पुरा यत्र स्रातः पुलिनमधुना तत्र सरितां
विपर्यासं यातो घनधिरलभावःक्षितिरुहाम् ।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं
निवेशःशैलानां तदिदमिति बुद्धिं द्रढयति ॥ २७ ॥
हन्त हन्त । परिहरन्तमपि मां पञ्चवटी स्नेहाद्वलादाकर्षतीव ।
(सकरुणम् ।)
यस्यां ते दिवसास्तया सह मया नीता यथा स्वे गृहे
यत्संबन्धकथा भिरेव सततं दीर्धाभिरास्थोयत ।
एकः संप्रति नाशितप्रियतमस्तामेव रामः कथं
पापः पञ्चवटीं विलोकयतु वा गच्छत्वसंभाव्य वा ॥ २८ ॥
(५४) साहित्य-सुधा-संग्रहः (प्रविश्य ।) . शम्बूक:-जयतु देवः । भगवानगस्त्यो मत्तः श्रुतसंनिधानस्त्वामाह- "परिकल्पितावरणमङ्गला प्रतीक्षते वत्सला लोपामुद्रा, सर्वे च मह- र्षयः । तदहि । संभावयास्मान् । अथ प्रजविना पुष्पकेण स्वदेशमुप. गत्याश्वमेघसजो भव" इति । रामः-यथाज्ञापयति भगवान् । शम्बूकः-इत इतो देवः। रामः-( पुष्पकं प्रवर्तयन् । ) भगवति पञ्चपटि! गुरुजनादेशोपरोधात् क्षणं क्षम्यतामतिक्रमोरामस्य। शम्बूक:-देव ! पश्य- गुञ्जत्कुअकुटीरकौशिकघटाघुक्काग्वत्की वक- स्तम्बाडम्बरमूकमौकलिकुलः क्रौञ्चाऽभिधाऽयं गिरिः । एतस्मिन्प्रचलाकिनां प्रबलतामुढेजिताः कृजिते. रुहेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः ॥ २६ ॥ अविच- एते ते कुहरेषु गद्दनदगोदावरीवारयो- मेघाऽऽलम्बितमौलिनीलाशखराः क्षोणीभृतो दाक्षिणाः । अन्योन्यप्रतिघातसंकुलचलत्कल्लोलकोलाहलै- रुत्तालास्त इमे गभीरपयसः पुण्याः सरित्संगमाः ॥३०॥ ( रति निष्क्रान्ताः मवें।) इति द्वितीयोऽङ्कः।
तृतीयोऽङ्कः। (ततः प्रविशति नदीद्वयम् ।) - 'एका-सखि मुरले किमसि संभ्रान्तेव ? मुरला-सखि तमसे ! प्रेषितास्मि भगवतोऽगस्त्य पत्न्या लोपा- मुद्रया सरिद्वरां गोदावरीमभिधातुम्-"जानास्येव यथा वधूपरि- त्यागात्प्रभृति- अनिर्भिन्नो गभीरत्वादन्तर्गुढघनव्यधः। पुटपाकप्रतीकाशो रामस्य करुणो रसः॥ १ ॥ तेन च तथाविधेष्टजनकष्टविनिपातजन्मना प्रष्टगद्गदेन दीर्घशोक- संतानेन संप्रति परिक्षीणो रामभद्रः। तमवलोक्य कम्पितमिव कुसुम. समबन्धनं मे हृदयम् । अधुना च रामभद्रेण प्रतिनिवर्तमानेन नियतमेव पञ्चवटीवने वधूसहनिवासविस्रम्भसाक्षिणः प्रदेशा द्रष्टय्याः । तत्र च निसर्गधीपस्याऽप्येवंविधाया मवस्थाया मतिगम्भीराभोगशोकक्षोभ- संवेगात् पदे पदे महाप्रमादानि शोकस्थानानि शङ्कनीयानि । तद्भगवति गोदावरि ! त्वया तत्रभवत्या सावधानया भवितव्यम् - वोचीवातैः शीकरक्षोदशीतै- राकर्षद्भिः पद्मकिञ्जल्कगन्धान् । मोहे मोहे रामभद्रस्य जीवं स्वैरं स्वैरं प्रेरितैस्तर्पयेति ॥२॥ तमसा-उचितमेव दाक्षिण्यं स्नेहस्य । संजीवनोपायस्तु मूलत एव रामभद्रस्य संनिहितः। मुरली-कथमिव ? - (५६) साहित्य-सुधा-संग्रहः तमसा-तत्सर्व श्रूयताम्। अस्ति खलु वाल्मीकितपोवनोपकण्ठात् परित्यज्य निवृत्ते सति लक्ष्मणे सीता देवी प्राप्तप्रसववेदनमतिदुःख- संवेगादात्मानं गङ्गाप्रवाहे निक्षिप्तवती । तदैव तत्र दारकद्वयं च प्रसूता भगवतीभ्यां पृथ्वीभागीरथीभ्यामप्युभाभ्यामभ्युपपन्ना रसातलं च नीता । स्तन्यत्यागात्परेण दारकद्वयं च तस्य प्राचेतसस्य महगङ्गा- देव्या समर्पितं स्वयम् । मुरला-(मविस्मयम् । ) ईशानां विपाकोऽपि जायते परमाऽद्भुतः। यत्रोपकरणीभावमायात्येवंविधो जनः ॥३॥ तमसा इदानों तु शम्बूमवृत्तान्तेनाऽनेन संभावितजनस्थानं रामभद्रं सग्यूमुत्रादुपश्रुत्य भगवती भागीरथी यदेव लोपामुद्रया स्नेहादभि- शङ्कितं तदेवाभिशङ्कय सीतासमेता केनचिदिव गृहाचारव्यपदेशेन गोदावरीमुपागता। मुरला-सुष्टु चिन्तितं भगवत्या भागीरथ्या । राजनीतिस्थित- स्पास्य ग्बलु तैश्च तैश्च जगतामाभ्युदयिकैः कार्यापृतस्य राम. भद्रस्य नियताश्चित्तविक्षेपाः । अव्यप्रस्य पुनरस्य शोकमात्रद्वितीयस्य पञ्चवटीप्रवेशो महाननर्थ इति । कथं सीतया रामभद्रोऽयमाश्वास- नीयः स्यात्। तमसा-भगवत्या भागीरथ्या 'वत्से देवयजनसंभवे सीते, अद्य खल्वायुप्मतोः कुशलवयो दशस्य जन्मवत्सरस्य संख्यामङ्गलग्रन्थि- रभिवर्तते । तदात्मनः पुराणश्वशुरमेतावतो मानवस्य राजर्षि- वंशस्य प्रसवितारं सवितारमपहतपाप्मानं देवं स्वहस्तापचितैः पुष्पै- रुपतिष्ठस्व । न त्वामवनिपृष्ठवर्तिनीमस्मत्प्रभावाद्वनदेवताअपि द्रक्ष्यन्ति किमुत माः' इति । अहमप्याशापिता 'तमसे! त्वयि प्रकृष्टप्रेमैव तृतीयो बिन्दुः (५७) धूर्जानकी । अतस्त्वमेवास्याः प्रस्थानन्तरीभव' इति । साहमधुना यथादिष्टमनुतिष्ठामि। मुरला- अहमप्येत वृत्तान्त भगवत्यै लोपामुद्रायै निवेदयामि। रामभद्रोऽप्यागत एवेति तर्कयामि । तमसा-तदियं गोदावरीहदानिर्गत्य- परिपाण्डुदुर्बलकपोलसुन्दरं दधती विलोलकबरीकमाननम् । करुणस्य मूर्तिरथवा शरीरिणी विरहव्यथेव वनमेति जानकी॥४॥ मुरला-इयं हि सा- किसलयमिव मुग्धं बन्धमाद्विप्रलून हृदयकमलशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव धर्मः केतकोगर्भपत्रम् ॥५॥ (इति परिव्राम्य निष्क्रान्ते।) इति शुद्धविष्कम्भः। (नेपथ्ये।) जात!जात! (ततः प्रविशति पुष्पाऽपचयव्यग्रा सकरणौत्सुन्धमाकर्णयन्ती सीता।) सीता-अही, जानामि प्रियसखी वासन्ती व्याहरतीति । (पुनर्नेपथ्ये।) सीतादेव्या स्वकरकलितैः सल्लकीपलवा. रप्रेलोलः करिकलभको यः पुरा वर्धितोऽभूत् । सीता-कि तस्य'
(५८)
साहित्य-सुधा-संग्रहः
(पुनर्नेपथ्ये ।)
वध्वा साधं पयसि विहरन् सोऽयमन्येन दर्यात्
उद्दामेन द्विरदपतिना सन्निपात्याऽभियुक्तः ॥६॥
सीता--( ससंभ्रमम् । कतिचित्पदानि गत्वा । ) आर्यपुत्र ! परित्रायस्व
मम पुत्रकम् । ( विचिन्त्य ) हा धिक्, हा धिक्, तान्येव चिरपरिचिता.
न्यक्षराणि पञ्चवटीदर्शनेन मां मन्दभागिनी मनुबध्नन्ति । हा आर्यपुत्र !
(प्रविश्य ।)
तमसा-वत्से ! अलं विषादेन ।
( नेपथ्ये।)
विमानराज ! अव स्थीयताम् ।
सीता-अहो, जलभरभरितमेघमन्थरस्तनितगंभीरमांसलः कुतो नु
भारतीनि?पो म्रियमाणकर्णविवरां मामपि मन्दभागिनी झटित्यु-
त्सुकापयति । स्वरसंयोगेन प्रत्यभिजानामि नन्वार्यपुत्रेणैवैतद्
व्याहृत मिति ।
तमसा-श्रूयते किल तपस्यतः शूद्रस्य दण्डधारणार्थ मैदवाको.
राजा दण्डकारण्यमागत इति ।
सीता-दिष्ट्या अपरिहीनधर्मः स राजा ।
(नेपथ्ये ।)
यत्र त्रुमा
अपि
मृगा अपि बन्धवो मे
यानि प्रिया सहचरश्चिरमध्यवात्सम् ।
एतानि तानि बहुकन्दरनिर्भराणि
गोदावरीपरिसरस्य गिरे स्तटानि ॥ ७॥
. तृतीयो बिन्दुः (५६) अनेन पञ्चवटी दर्शनेन- अन्तर्लीनस्य दुःखाग्ने रद्योदामं ज्वलिष्यतः। उत्पीड इव धूमस्य मोहः प्रागावृणोति माम् ॥ ८ ॥ हा प्रिये जानाकि!(इति मूर्च्छति ।) सीता-भगवति तमसे ! परित्रायस्व परित्रायख । जीवयाऽऽर्य- पुत्रम् । तमसा- त्वमेव ननु कल्याणि! संजीवय जगत्पतिम् । सीता-यद् भवतु, तद्भवतु, यथा भगवत्याज्ञापयति। ( इति स संभ्रम निष्क्रान्ता ।) (ततः प्रविशति भूमौनिपतितः सास्त्रया सीतया परिचर्यमाणो रामः ।) सीता-भगवति तमसे ! अपसराव तावत् । मां प्रेक्ष्याऽनभ्यनु- ज्ञातेन सन्निधानेन राजाधिकं कोपिष्यति । तमसा-अयि वत्से ! भागीरथीवरप्रसादाद् वनदेवताना मप्य- दृश्यासि । सीता-भगवति ! निष्कारणपरित्यागिनोऽप्येतस्य दर्शनेनैवंविधेन कोदशी मे हृदयाऽवस्था ? तमसा-जानामि वत्से जानामि- तटस्थं नैराश्यादपि च कलुपं विप्रियवशाद् वियोगे दोघेऽस्मिन् झटिति घटनात्स्तम्भितमिव । प्रसन्नं सौजन्याद्दयितकरुणैर्गाढकरुणं द्रवीभूतं प्रेम्णा तव हृदयमस्मिन् क्षण इव ॥६॥ ( नेपथ्ये ।) अहो महान् प्रमादः, प्रमादः-( “सीतादेव्या स्वकरकलितैः” इत्यधं पठ्यते ।) राम:-(सकरुपौत्सुक्यम् ।)किं तस्य ?।
(६०)
साहित्य-सुधा-संग्रहः
(पुनर्नेपथ्ये ।)
( "वश्वा साधं पयसि" इत्युत्तरार्धपठ्यते ।)
सीता-(सनिदम् । ) का इदानी मभियुज्यते ?
राम:-काऽसौ दुरात्मा यः प्रियायाः पुत्रं वधूद्वितीय मभिभवति ।
(रत्युत्तिष्ठति।)
(प्रविश्य ।)
पासन्ती-(संभान्ता ।) देव ! त्वर्यताम् त्वर्यताम् ।
सीता -हा कथं मे प्रियसखी घासन्ती?
राम:-कथं देव्याः प्रियसखी वासन्ती ?
वासन्ती-देव! त्वर्यताम् त्वर्यताम् । इतो जटायुशिखरस्य दक्षिणेन
सीतातीर्थन गोदावरी मवतीर्य संभावयतु देव्याः पुत्रकं देवः।
सीता-हा तात जटायो ! शून्य त्वया विनेदं जनस्थानम् ।
वासन्ती -इत इतो देवः।
सीता-भगवति ! सत्यमेव वनदेवताऽपि मां न पश्यति ?
तमसा-अयिवत्से! सर्वदेवताभ्यः प्रकृष्टतममैश्वर्यं मन्दाकिन्याः।
तस्किमिति विशङ्कसे ?
सीता-ततोऽनुसरावः । (इति परिक्रामति ।)
भगवति गोदावरि ! नमस्ते ।
वासन्ती (निप्य । ) देव ! मोदख विजयिना वधूद्वितीयेन
देण्याः पुत्रकेण ।
रामः-विजयता मायुष्मान् ।
-
तृतीयो बिन्दु (६१) सीता- अहो, ईदशो मे पुत्रकः संवृत्तः। अवियुक्त इदानीं दीर्घायु- रनया सौम्यदर्शनया भवतु । तमसे ! अयं तावदीदशोजातः तौ पुन न जानाम्येतावता कालेन कुशलवी कीदशौ संवृत्ताविति । तमसा-यादशोऽयं तादशौ तावपि । सीता-दृश्यलि मन्दामागिनी यस्या न केवलं आर्यपुत्रविरहः, पुत्रविरहोऽपि । तमसा- भवितव्यतेयमीद्वशी। सीता- किंवा मया प्रसूतया, येनैतादृशं मम पुत्रकयोरीषद्विरल. धवलदशनकुड्मलोज्ज्वलम् , अनुबद्धमुग्धकाकलीविहसितम् , निस्योज्वलं मुखपुण्डरीकयुगलं न परिचुम्बितमार्यपुत्रेण । तमसा- अस्तु देवताप्रसादात् । सीता-भगवति तमसे ! एतेनाऽपत्यसंस्मरणेनोच्छ्वसितप्रस्नुत- स्तनी इदानी घस्सयोः पितुः सन्निधानेन भणमानं संसारिणी संवृत्ताऽस्मि। तमसा- किमत्रोच्यते ? प्रसषः खलु प्रकृष्टपर्यन्तः स्नेहस्य, पर चेदमन्योन्यसंश्लेषणं पित्रो:- अन्तःकरणतरवस्य दम्पत्योः स्नेहसंश्रयात् । आमन्दप्रन्थि रेकोऽयमपत्यमिति पठ्यते ॥१०॥ वासन्ती-अत्र तापदासनपरिग्रहं करोतु देवः । एतत्तुदेवस्याश्रम- पदम् । (राम उपविशति ।) वासन्ती-नीरन्ध्रवालकदलीवनमध्यवर्ती कान्तासखस्य शयनीयशिलातलते।
(६२) साहित्य-सुधा-संग्रहः अत्र स्थिता तृणमदानगोचरेभ्यः सोता ततो हरिणकैर्न विमुच्यतेस्म ॥ ११ ॥ रामः इद मशक्यं द्रष्टुम् । सीता-सखि वासन्ति ! कित्वया कृतमार्यपुत्रस्य मम चैतद्- दर्शयन्त्या। हाधिक्, स एवार्यपुत्रः । तदेव पंचवटीवनम् । सैव प्रिय. सखी वासन्ती । त एव विविधविनम्भसाक्षिणोगोदावरी काननो- देशाः । त एव जातनिर्विशेषा मृगपक्षिणः पादपाश्च । मम पुनर्मन्द- भाग्याया दृश्यमानमपि सर्वमेवैतन्नास्ति । ईदृशोजीवलोकस्य परि- णामः संवृत्तः। वासन्ती-सखि सीते ! कथं न पश्यसि रामभद्रस्याऽवस्थाम्- नव कुवलयस्निग्धै रङ्गर्ददन्नयनोत्सवं सततमपि नः स्वेच्छादृश्यो नवो नव एव सः। विकलकरणः पाण्डुच्छायः शुचा पारदुर्बलः कथमपि स इत्युन्नेतव्यस्तथापि दृशोः प्रियः ॥१२॥ सीता-सखि ! पश्यामि । वासन्ती दक्तु तरवः पुष्पैरयं फलैश्च मधुश्च्युतः स्फुटितकमलाऽऽमोदप्रायाः प्रवान्तु वनाऽनिलाः। कल मविरलं रज्यत्कण्ठाः क्वणन्तु शकुन्तयः पुनरिदमयं देवो रामः स्वयं वनमागतः ॥ १३ ॥ रामः एहि सखि वासन्ति ! नन्वितः स्थीयताम् । पासन्ती-( उपविश्य सास्त्रम् । )महाराज! अपिकुशलं कुमारलक्ष्मणस्य ? रामः-(प्रात्मगतम् ।) अये, “महाराज!"इतिनिष्प्रणय मामन्त्रणपदम्। सौमित्रिमात्रके वापस्खलिताक्षरः कुशल प्रश्नः । तथामन्ये विदित- सीतावृत्तान्तेयमिति । (प्रकाशम् ) आः कुशलं कुमारलक्ष्मणस्य ।
तृतीयो बिन्दुः (६३) वासन्ती- (रुदती ) अयिदेव ! किं परं दारुणः खल्वसि ? सीता- सखि वासन्ति ! कित्वमेवंवादिनी भवसि । पूजार्हः सर्व स्यार्यपुत्रो विशेषतो मम प्रियसख्याः । वासन्ती-त्वंजीवितं, त्वमसि मे हृदयं द्वितीयं, त्वंकौमुदी नयनयो रमृतं त्वमङ्गे। इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव-शान्त मथवा, किमतः परेण ?॥१४॥ (इतिमुह्यति ।) तमसा-स्थाने वाश्यनिवृत्ति मोहश्च । - सखि ! समाश्वसिहि समाश्वसिहि । वासन्ती- (समाश्वस्थ ) तत्किमिदमकार्यमनुष्ठितं देवेन ? रामः--लोको न मृष्यतीति । वासन्तो--कस्य हेतोः? राम:- स एव जानाति किमपि । तमसा--चिरादुपालम्भः । वासन्ती--अयि कठोर ! यशः किल ते प्रियं किमयशो ननु घोर मतः परम् । किमभवद्विपिने हरिणीदृशः कथय नाथ! कथं बत मन्यसे ॥१५॥ सीता-सखि वासन्ति ! त्वमेव दारुणा कठोरा च ।या एवं प्रलपन्तं प्रलापयसि।
(६४)
साहित्य-सुधा-संग्रहा
तमसा -प्रणय एवं व्याहरति शोकश्च ।
रामः-सखि ! किमत्र मन्तव्यम्-
प्रस्तैकहायनकुरंगविलोलदृष्ट.
स्तस्याः परिस्फुरितगर्भमराललायाः।
ज्योत्स्नामयीव मृदुबालमृणालकल्पा
क्रव्याद्भिरङ्गलतिका नियत बिलुप्ता ॥ १६ ॥
(पति रोदिति।)
सीता-आर्यपुत्र ! धरामि एपा धरामि । अये, अन्य इव आर्य-
पुत्रः प्रमुक्तकण्ठं प्ररुदितो भवति ।
तमसा धत्से ! सांप्रतिकमेवैतत् । कर्त्तव्यानि खलु दुःखिते-
दुख निर्धारणानि।
पूरोत्पोडे तटाकस्य परीवाहः प्रतिक्रिया ।
शोकक्षोभे च हृदयं प्रलापैरेव धार्यते ॥१७॥
विशेषतो रामभद्रस्य बहुप्रकारकष्टो जीवलोकः-
इदं विश्व पाल्यं विधिवदभियुक्तेन मनसा
प्रियांशोको जीवं कुसुममिव धर्मो ग्लपयति ।
खयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ-
स्तदद्याप्युच्छ्वासो भवति ननु लाभो हि रुदितम् ॥१८॥
-
-
कई भोः कष्टम्-
-
दलति हृदयं शोकोद्वगाद् द्विधातु न भिद्यते
वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।
ज्वलयति तनूमन्तहः करोति न भस्मसात्
प्रहरति विधि मर्मच्छेदी न कन्तति जीवितम् ॥ १६ ॥
- - तृतीयो बिन्दुः (६५) हे भगवन्तः पौरजानपदाः! न किल भवतां देव्याः स्थाने गृहेऽभिमतं तत. स्तृण मिष वने शून्ये त्यक्ता न वाप्यनुशोचिता। चिरपरिचिता स्तेते भावा स्तथा व्यथयन्ति मा. मिदमशरणैरद्याऽस्माभिः प्रसीदत रुद्यते ॥ २० ॥ वासन्ती-(स्वगतम्। ) अतिगम्भीरमापूरणं मन्युभारस्य । (प्रकाशम् । ) देव ! अतिकान्ते धैर्यमवलम्ब्यताम् । रामः किमुच्यते धैर्यमिति? देव्या शून्यस्य जगतो द्वादशः परिवत्सरः। प्रणष्टमिव नामापि न च रामोन जीवति ॥ २१ ॥ अयि वासन्ति !मया खलु- यथा तिरश्चीनमलातशल्यं प्रत्युप्तमन्तः सविषश्च दन्तः। तथैव तीव्रो हृदि शोकशङ्कु- मर्माणि कृन्तन्नपि कि न सोढः ॥ २२॥ सीता-एवमपिमन्दभागिम्यहं या पुनरायासकारिणी आर्यपुत्रस्य । एवमतिगूढस्तम्भिताऽन्तःकरणस्याऽपि मम संस्तुतवस्तु- दर्शनादद्यायमावेगः । तथाहि- वेलोल्लोलक्षुभितकरुणोजृम्भणस्तम्भनार्थ यो यो यत्नः कथमपि समाधीयते तं तमन्तः । हित्वा भित्वा प्रसरति बलात्कोपि चेतोविकार- स्तोयस्येवा प्रतिहतरयः सैकतं सेतुमोघः ॥ २३ ॥ वासन्ती-(स्वगतम् । ) कष्टमत्यासक्तो देवः। तदाक्षिपामि तावत्- (प्रकाशम् ।) देव! पश्य पश्य- - - (६६) साहित्य-सुधा-संग्रहः पौलस्त्यस्य जटायुषा विघटितः कार्णायसोऽयं रथ- स्ते चैते पुरतः पिशाचवदनाः कङ्कालशेषाः खराः। खगच्छिन्नजटायुपक्षतिरितः सीतां चलन्तीं पह- अन्तापृतविधुदम्बुद इव धामभ्युदस्थादरिः ॥ २४ ॥ सीता--(अभयम् । ) भार्यपुत्र ! तातो व्यापाद्यते । तस्मात्परित्रायस्व, अहमयपहिये। रामः-(सवेगमुत्थाय ।) आः पाप! तातप्राणसीतापहारिन लङ्कापते! कथास्यसि वासन्ती-अयि देव ! राक्षसकुलप्रलयधूमकेतो ! किमद्यापि ते मन्युविषयः? सीता- अहो, उद्भ्रान्तास्मि । राम:- अन्य एषायमधुना विपर्ययो धर्तते । उपयानां भावादविरलविनोदव्यतिकरै- विमर्दैवीराणां जनितजगदत्यद्भुतरसः। वियोगो मुग्धाक्ष्याः स खलु रिपुधातावधिरभूत् कटुस्तूष्णीं सद्यो निरवधिरयं तु प्रविलयः ॥ २५ ॥ सीता-बहुमानितास्मि पूर्वविरहे । निरवधिरिति हा हतास्मि । राम:-कष्ट भो। . व्यथं यत्र कपीन्द्रसख्यमपि मे वीर्य हरीणां वृथा प्रक्षा जाम्बवतो न यत्र न गतिः पुत्रस्य पायोरपि । मार्ग यत्र न विश्वकर्मतनयः कतुं नलोऽपि क्षमा सौमित्रपि पत्रिणामविषये तत्र प्रिये!कासि मे ॥२६॥ सीता-बहुमानितास्मि पूर्वविरहे।
- तृतीयो बिन्दुः (६७) रामः सखि वासन्ति ! दुःखायैव सुहृदामिदानी रामदर्शनम् । कियधिरं त्वां रोदयिष्यामि। तदनुजानीहि मां गमनाय । सीता-(सोद्वेगमोहं तमसामामिप्य । ) हा भगवति तमसे! गच्छती- दानीमार्यपुत्रः। किं करोमि । (इति सूर्च्छति । ) तमसा--वत्से जानकि !समाश्वसिहि समाश्वसिहि । विधिस्तवानु- कूलो भविष्यति । तदायुष्मतोः कुशलषयोर्वर्षद्धिमङ्गलानि संपादयितुं भागीरथीपदान्तिकमेव गच्छाधः । राम:- अस्ति चेदानीमश्वमेधसहधर्मचारिणी मे। सीता-(साधेपम् ) आर्यपुत्र!का ? वासन्ती-परिणीतमपि किम् ? राम:- नहि नहि। हिरवमयी सीताप्रतिकृतिः। सीता-(सोच्छवासास्त्रम् । ) आर्यपुत्र ! इदानीमसि त्वम् । महो, उत्खातितमिदानों में परित्यागशल्यमार्यपुत्रेण । रामः-तथास्तु । सीता--प्रतिकूलेदानी मे वासन्ती संवृत्ता। तमसा-घत्से! एहि गच्छावः। सीता-- एवं करिष्यावः । नमः सुकृतपुण्यजनदर्शनीयाभ्यामार्य- पुत्रचरणकमलाभ्याम् । (इति मूर्छति।) तमसा--वत्से! समाश्वसिहि । सीता-(पाश्वस्य ) कियधिरं वा मेघान्तरेण पूर्णचन्द्रदर्शनम् । तमसा--अहो संविधानकम ।
(६८) साहित्य-सुधा-संग्रहः एको रसः करुण एव निमित्तभेदा- द्भिन्नः पृथक्पृथगिव श्रयते विवर्तान् । आवर्जबुबुदतरङ्गमयान्विकारा- नम्भी यथा सलिलमेव हि तत्समस्तम् ॥२७॥ रामः-विमानराज !इत इतः। (सबै उत्तिष्ठन्ति।) तमसावासन्त्यौ-(सीतारामौ प्रति ।) अवनिरमरसिन्धुः सार्धमस्मद्विधाभिः स च कुलपतिराद्यश्छन्दसां यः प्रयोक्ता। स च मुनिरनुयातारुन्धतीको वसिष्ठ- स्तव वितरतु भद्रं भूयसे मंगलाय ॥२८॥ (इति निष्क्रान्ताः सर्वे।) तृतीयोऽङ्कः।
चतुर्थोऽङ्कः । (ततः प्रविशतस्तापसौ।) एकः-सौधातके! दृश्यतामद्य भूयिष्ठसनिधापिताऽतिथिजनस्य सम. धिकाऽऽरम्भरमणीयता भगवतो वाल्मीकेराश्रमपदस्य । तथाहि- नीवारोदनमण्डमुष्णमधुरं सद्यःप्रसूतप्रिया. पीतादभ्यधिकं तपोवनमृगः पर्याप्तमाचामति । गन्धेन स्फुरता मनागनुसृतो भक्तस्य सर्पिष्मतः कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते ॥१॥ सौघातकि:- खागतमनेकप्रकाराणां जीर्णकूर्चानामनध्ययनकार- णानां तपोधनानाम् । प्रथमः- (विहस्य । ) अपूर्वः खलु बहुमानहेतुर्गुरुषु सौधातके ? सौधातकि: भो दण्डायन ! किनामधेय इदानीमेप महतः स्त्री- सार्थस्य धुरंधरोऽधातिथिरागतः। दण्डायन:-धिक्प्रहसनम् । नन्वयमृष्यश्टङ्गाऽऽश्रमादरुन्धती पुर- स्कृत्य महाराजदशरथस्य दारानधिष्ठाय भगवान्वसिष्ठः प्राप्तः । तत्किमेवं प्रलपसि? सौधातकिः-हुँ वसिष्ठः? दएडायन: अथ किम् । सौधातकि मया पुनति कोऽपि व्याघ्र इव एष इति । - दण्डायन:- आः, किमुक्तं भवति ?
(७०) साहित्य-सुधा-संग्रहः सौधातकि:-येन परापतितेनैव सा पराकी कपिला कल्याणी बला- कृत्य मडमडायिता। दण्डायन:- “समासो मधुपर्क: इत्याम्नायं बहुमन्यमानाः श्रोत्रियायाऽभ्यागताय वत्सतरों महोतं पा पन्ति गृहमेधिनः । तं हि धर्म धर्मसूत्रकाराः समामनन्ति । सौधातकिः-भोः, निगृहीतोऽसि । दएडायन:-कथमिव ! सौधातकि:-येनाऽऽगतेषु वसिष्ठमिश्रेषु वत्सतरी विशसिता। अद्यैव प्रत्यागतस्य राजर्जनकस्य भगवता वाल्मीकिना द्धिमधुभ्यामेष निर्वर्तितो मधुपर्कः। यत्सतरी पुनर्विसर्जिता। दण्डायन:---अनिवृत्तमांसाना मेवं कल्पं व्याहरन्ति केचित् । निवृत्त. मांसस्तु तत्रभवान् जनकः । सौधातकि: किनिमित्तम् ? दण्डायन:--यद्देव्याः सीतायास्तादृशं दैवदुर्विपाकमुपश्रुत्य वैखानसः संवृत्तः, तदस्य कतिपयसंवत्सरश्चन्द्रद्वीपतपोवने तपस्तप्यमानस्य । सौधातकि:- ततः किमित्यागतः ? दण्डायन:-संप्रति च प्रियसुहृदं भगवन्तं प्राचेतसं द्रष्टुम् । सौधातकि:- अप्यद्य संबन्धिनीभिः समं निवृत्तं दर्शनमस्य नवेति? दण्डायन:- संप्रत्येव भगवता वसिष्ठेन देव्याः कौसल्यायाः सकाशं भगवत्यरुन्धती प्रहिता । यथा खयमुपेत्य मेहादयं द्रष्टव्य- इति ।
तृतीयो बिन्दुः (७१) सौधातकिः-यथैते स्थविराः परस्परमेव मिलिताः, तथाऽऽवामपि बटुभिः सह मिलित्वा ऽनध्यायमहोत्सवं खेलन्तो मानयावः। अथ कुत्र स जनकः? - दण्डायन:-तथायं प्राचेतसवसिष्ठावुपाल्य संप्रत्याश्रमस्य बहि- वृक्षमूलमधितिष्ठति । य एषः- हदि नित्यानुषक्तेन सीताशोकेन तप्यते । अन्तःप्रवृतदहनो जरनिव धनस्पतिः ॥२॥ (इति निष्क्रान्तो।) इति मिश्रविष्कम्भः। ततः प्रविशति जनकः।) जनकः अपत्ये यत्तादग्दुरितमभवत्तेन महता विषक्तस्तोत्रेण प्रणितहृदयेन व्यथयता। पटुर्धारावाही नष इव चिरेणापि हि न मे निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति ॥ ३॥ कष्ट, एवं नाम जरया दुःखेन च दुरासदेन भूयः पराकसांतपनप्रभृतिभि. स्तपोभिः शोषिताऽन्तःशरीरधातोरषष्टम्भ एव महानद्यापि मम दग्धदेहो न पतति । अन्धतामिस्रा ह्यसूर्या नाम ते लोका प्रेत्य तेभ्यः प्रतिविधीयन्ते य आत्मघातिन इत्येवमृषयो मन्यन्ते । अनेकसंवत्सरा. ऽतिक्रमेऽपि प्रतिक्षणपरिभाषनास्पष्टनिर्भासःप्रत्यग्र इव न मे दारुणो. दुःखसंगः प्रशाम्यति । अयि मातः देवयजनसंभवे! ईदृशस्ते निर्माण- ।
(७२) साहित्य-सुधा-संग्रहा भागः परिणतः, येन लजया स्वच्छन्दमप्याक्रन्दितुं न शष्यते । हा पुत्रि! अनियतरुदित स्मित विराज- कतिपयकोमलदन्तकुड्मलाऽग्रम् । वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमञ्जु जल्पितं ते ॥४॥ भगगति वसुंधरे ! सत्यमतिदृढासि- त्वं वह्निमुनयो वसिष्ठगृहिणी गङ्गा च यस्या विदु. माहात्म्यं यदि वा रघोः कुलगुरुर्देवः स्वयं भास्करः। विद्यां वागिव यामसूत भवती शुद्धिं गतायाः पुन- स्तस्यास्त्वद्दुहितुस्तथाविशसनं किं दारुणे! मृष्यथाः ॥५॥ - ( नेपथ्ये ।) इत इतो भगवतीमहादेव्यो। जनकः-अये! गृटिनोपदिश्यमानमार्गा भगवत्यरुन्धती। ( उत्थाय ।) कां पुनर्महादेवीस्याह ? (निरूप्य । ) हा हा ! कथमयं महाराजस्य दशरथस्य धर्मदाराः प्रियसखो मे कौसल्या। क एतां प्रत्येति यमिति नाम। आसीदियं दशरथस्य गृहे यथा श्रीः श्रीरेव वा किमुपमानपदेन सैपा। कष्टं बतान्यदिव दैववशेन जाता दुःखात्मकं किमपि भूतमहो विकारः ॥६॥ य एव मे जनः पूर्वमासीन्मूर्ती महोत्सवः । क्षते क्षारमिवाऽसह्यं जातं तस्यैव दर्शनम् ॥ ७॥ (ततः प्रविशत्यसन्धती कौसल्या कन्युकी च ) : तृतीयो बिन्दुः (७३) अरुन्धती-मनु ब्रवीमि द्रष्टव्यः स्वयमुपेत्यैव वैदेह इत्येवं वः कुलगुरोरादेशः। अत एव चाहं प्रेषिता। तत्कोऽयं पदे पदे महान- नध्यवसायः? कञ्चुकी- देवि ! संस्तभ्याऽऽत्मानमनुरुध्यख भगवती वसिष्ठस्या- देशमिति विज्ञापयामि। कौसल्या-ईदृशे काले मिथिलाधिपो मया द्रष्टव्य इति सममेव सर्वदुःखान्यवतरन्ति । तस्मान्न शक्नोम्युद्वर्तमानमूलबन्धनं हृदयं पर्यव. स्थापयितुम् । अरुन्धती - अत्र कः संदेहः। संतानवाहीन्यपि मानुषाणां दुःखानि संबन्धिवियोगजानि । दृष्टे जने प्रेयसि दुःसहानि स्रोतःसहौरिव संप्लवन्ते ॥ ८॥ कौसल्या-कथं नु खलु घत्साया मे वध्वा वनगतायास्तस्या:- पितू राजर्षेर्मुखं दर्शयामः ? अरुन्धती- एप वः श्लाघ्यसंबन्धी जनकानां कुलोद्वहः । याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारायणं जगौ॥६॥ कौसल्या-एष स महाराजस्य हृदयनिर्विशेषो वत्साया मे वध्वाः पिता विदेहराजो सीरध्वजः। स्मारितास्मि अनिदरमणीयान्दिवसान् । हा देव ! सर्वं तत्रास्ति। जनक:- (उपमृत्य।) भगवत्यरुन्धति ! वैदेहः सीरध्वजोऽभि- वादयते । - (७४) साहित्य-सुधा-संग्रहः यया पूर्तमन्यो निधिरपि पवित्रस्य महसः पतिस्ते पूर्वेषामपि खलु गुरूणां गुरुतमः। त्रिलोकोमाइल्यामवनितललीनेन शिरसा जगद्वन्द्यां देवीमुषसमिव बन्दे भगवतीम् ॥ १० ॥ अरुन्धती- अक्षरं ते ज्योतिः प्रकाश्यताम् । स त्वां पुनातु देवः परोरजसांय एष तपति । जनक:- आर्य गृष्टे ! अप्यनामयमस्याः प्रजापालकस्य मातुः ? कञ्चुकी-(स्वगतम् ) निरवशेषमतिनिष्ठुरमुपालब्धाः स्मः । (प्रकाशम्) राजर्षे ! अनेनेव मन्युना चिरपरित्यक्तरामभद्रदर्शनां नार्हसि दुःखयितु. मतिदुःखितां देवीम् । रामभद्रस्यापि दैवदुर्योगः कोऽपि । यत्किल समन्ततः प्रवृत्तबीभत्सकिंवदन्तीका: पौराः। न चाऽग्निशुद्धिमनल्पका: प्रतियन्तीति दारुणमनुष्ठितं देवेन । - जनक: ( सरोषम् ) आः! कोऽयमग्निर्नामाऽस्मत्प्रसूतिपरिशोधने ? कष्टमेवंवादिना जनेन रामभद्रपरिभूता अपि पुनः परिभूयामहे । अरुन्धती- (निखस्य ) एवमेतत् । अग्निरिति वत्सां प्रति लघूयक्षराणि। सीतेत्येव पर्याप्तम् । हा घत्से ! शिशुर्वा शिष्या वा यदसि मम तत्तिष्ठतु तथा विशुद्ध रुत्कर्षस्त्वयि तु मम भक्तिं द्रढयति । शिशुत्वं स्त्रैणं धा भवतु ननु वधासि जगतां गुणाः पूजासानं गुणिषु न च लिजन च वयः॥१५॥ कौसल्या- अहो ! समुन्मूलयन्तीव घेदनाः । (इति मूर्छति ।) जनकः- हन्त ! किमेतत् ?
तृतीयो बिन्दुः
(७५)
अरुन्धती-राजर्षे ! किमन्यत् ?
स राजा तत्सौख्यं स च शिशुजनस्ते च दिवसाः
स्मृतावाविर्भूतं त्वयि सुहृदि इष्टे तदखिलम् ।
विपाके घोरेऽस्मिन्न खलु न विमूढा तव सखी
पुरंध्रीणां चित्तं कुसुमसुकुमार हि भवति ॥ १२ ॥
जनक:- हन्तः सर्वथा नृशंसोऽस्मि। यश्चिरस्य इष्टाप्रियमुहदो-
प्रियदारानस्निग्ध इव पश्यामि ।
स संबन्धी श्लाघ्यः प्रियसुहदसौ तच हृदयं
स चानन्दः साक्षादपि च निखिलं जीवितफलम् ।
शरीरं जीवो वा यदधिकमतोऽन्यत्प्रियतरं
महाराजः श्रीमान्किमिव मम नाऽऽसीदशरथः ॥ १३ ॥
कष्टमियमेव सा कौसल्या-
यदस्याः पत्यु रहसि परमंत्रायितमभू-
दभूवं दम्पत्योः पृथगहमुपालम्भविषयः।
प्रसादे कोपे वा तदनु मदधीनो विधिरभूः
दलं वा तत्स्मृत्वा दहति यदवस्कन्ध हृदयम् ॥१४॥
अरुन्धती-हा कष्टम् । अतिचिरनिरुद्धनिःश्वासनिष्पन्दहृदयमस्याः।
जनकः-हा प्रियसखि! (इति कमण्डलूदकेन सिञ्चति ।)
कचुकी-
सुहदिव प्रकटय्य सुखप्रदा
प्रथममेकरसामनुकूलताम् ।
पुनरकाण्डविवर्तनदारुणः
परिशिनष्टि विधिर्मनसो रुजम् ॥ १५ ॥
(७६) साहित्य-सुधा-संग्रहः कौसल्या-(आश्वस्य ) हा वत्से जानकि ! कुत्रासि । स्मरामि ते नवविवाहलक्ष्मीपरिग्रहैकमङ्गलं संफुल्लमुग्धमुखपुण्डरीकमारुहत्कौमुदी चन्द्रसुन्दरम् । एहि मे पुनरपि जाते ! उद्योतय उत्सङ्गम् । सर्वदा महाराज एवं भणति-"एषा रघुकुलमहत्तराणां वधूरस्माकं तु जनकसुता दुहितैवा कचकी- यथाह देवी- पञ्चप्रसूतेरपि तस्य राज्ञः प्रियो विशेषेण सुबाहुशत्रुः। वधूचतुष्केऽपि तथैव नान्या प्रिया तनूजाऽस्य यथैव सीता॥१६॥ - जनकः-हा प्रियसख महाराज दशरथ ! एवमपि सर्वप्रकार- हृदयंगमः कथं विस्मयते? कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जन संबन्धे विपरीतमेव तदभूदाराधनं ते मयि । त्वं कालेन तथाविधोऽप्यपहृतः संबन्धबीजं च तद् घोरेऽस्मिन्मम जीवलोकनरके पापस्य धिग्जीवितम् ॥ १७॥ कौसल्या-जाते जानकि ! किं करोमि । हृढवज्रलेपप्रतिबन्ध- निश्चलं हतजीवितं मां मन्दागिनी न परित्यजति । अरुन्धती-- आश्वसिहि राशि ! बाष्पविश्रामोऽप्यन्तरेषु कर्तव्य. एव । अन्यश्च किं न स्मरसि । यदवोचदृष्यशृङ्गाश्रमे युष्माकं कुलगुरुः । भवितव्यं तथेत्युपजातमेव । किंतु कल्याणोदकं भविष्य- तीति । कौसल्या-कुतोऽतिक्रान्तमनोरथाया ममैतत् ?
तृतीयो बिन्दुः (७७) अरुन्धती-तत्कि मन्यसे राजपत्ति ! मृषोद्यं तदिति । न हीदं क्षत्रिये ! मन्तव्यम्। आविर्भूतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयोऽभूत् । भद्रा होषां वाचि लक्ष्मीनिषता नैते वाचं विप्लुतार्था वदन्ति ॥ १८ ॥ ( नेपथ्ये कलकलः । सर्वे अाकर्णयन्ति।). जनक:- अये ! शिष्टानध्ययन इत्यस्खलितं खेलतां बटूनां कोलाहलः। कौसल्या-सुलभसौख्यमिदानी बालत्वं भवति । अहो, एतेषां मध्ये क एष रामभद्रस्य कौमारलक्ष्मीसावष्टम्भैर्मुग्धललितैरङ्गैर्दारको- ऽस्माकं लोचने शीतलयति अरुन्धती- (स्वगतम् । सहर्षोत्कण्ठम् ) इदं नाम भागीरथीनिवेदितं रहस्यकर्णामृतम् । नत्वेवं विमः कतरोऽयमायुष्मतोः कुशलवयोरिति । (प्रकाशम् ) कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो- बटुपरिषदं पुण्यश्रीकः श्रियैव सभाजयन् । पुनरपि शिशुभूत्वा वत्सः स मे रघुनन्दनो. झटिति कुरुते दृष्टः कोऽयं दृशोरमृताऽञ्जनम् ॥ १६ ॥ कञ्चुकी- नूनं क्षत्रियब्रह्मचारी दारकोऽयमिति मन्ये ? जनकः- एवमेतत् । अस्य हि- चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो. भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं गैरवीम् ।
(७८) साहित्य-सुधा-संग्रहः मौा मेखलया नियन्त्रितमधो वासश्च मानिष्टक पाणौ कार्मुकमक्षसूत्रवलयं दण्डोऽपरः पैप्पलः ॥ २० ॥ भगवत्यरुन्धति ! किमित्युत्प्रेक्षसे कुतस्त्योऽयमिति ? अरुन्धती- अधैव षयमागताः । जनक:- आर्य गृष्ट ! अतिकौतुकं वर्तते । तद्भगवन्तं वाल्मीकि- मेवगत्वा पृच्छ । इमं च दारकं धूहि-"वत्स ! केऽप्येते प्रवयसस्त्वां दिदक्षवः" इति। कञ्चुकी- यदाज्ञापयति देवः। (इति निष्क्रान्तः ।) कौसल्या-किमन्यध्वे । एवं भणित आगमिष्यति वा न वेति ? जनकः- भिद्यते वा सद्वृत्तमीदशस्य निर्माणस्य ? कौसल्या- (निरूप्य।) कथ' सविनयनिमितगृष्टिवचनो विसर्जिता. ऽशेषसदृशदारक इतोमुखमपसरित एव स वत्सः। जनक: (चिरं निर्वर्य ) भोः! किमप्येतत्- - महिन्नामेतस्मिन्धिनय शिशिरो मौग्ध्यमसृणो- विदग्धैनियो न पुनरविदग्धैरतिशयः । मनो मे संमोहस्थिरमपि हरत्येष बलवा. नयोधातुं यद्वत्परिलघुरयस्कान्तशकलः ॥ २१ ॥ लवः-(प्रविश्य । ) अविज्ञातवयःक्रमौचित्यात्पूज्यानपि सतः कथ- मभिवादयिष्ये ? (विचिन्त्य । ) अयं पुनरविरुद्धप्रकार इति वृद्ध भ्यः श्रूयते । ( सविनयमुपसृत्य । ) एष वो लवस्य शिरसा प्रणामपर्यायः। अरुन्धतीजनको-कल्याणिन् ! आयुष्मान्भूयाः । कौसल्या जात! चिरंजीव ।
तृतीयो बिन्दुः (७६) अरुन्धती-एहि घत्स ! (लवमुत्सङ्ग गृहोत्या। प्रात्मगतम् । ) दिष्ट्या न केवलमुत्सङ्गश्चिरान्मनोरथोऽपि मे पूरितः । कौसल्या-जात इतोऽपि तावदेहि । ( उत्संगे गृहीत्वा । ) अहो न केवलं दरविस्पष्टकुवलयमांसलोज्ज्वलेन देहबन्धनेन कवलिताऽरविन्द. केसरकषायकएठकलहंसघोषघर्घरानुनादिना खरेण च रामभद्र- मनुसरति । ननु कठोरकमलगर्भपक्ष्मलशरीरस्पर्शोऽपि तादृश एषा जात ! पश्यामि ते मुखपुण्डरीकम् । राजर्षे ! किं न पश्यसि । निपुर्ण निरूप्यमाणो वत्साया मे बध्वा मुखचन्द्रेणापि संवदत्येव । जनकः-पश्यामि सखि ! पश्यामि । कौसल्या-अहो, उन्मत्तीभूतमिव मे हृदयं कुतोमुख विलपति ? - जनक: वत्सायाश्च रघूद्वहस्य च शिशावस्मिन्नभिव्यज्यते संवृत्तिः प्रतिविम्बितेव निखिला सैवाकृतिः सा द्युतिः । सा वाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ हा हा देवि ! किमुत्पथैर्मम मनः पारिप्लवं धावति ॥ २२ ॥ कौसल्या जात ! अस्ति ते माता, स्मरसि वा तातम् ? लवः-नहि। कौसल्या-ततः कस्य त्वम् ? लवः-भगवतः सुगृहीतनामधेयस्य वाल्मीकः । कौसल्या-अयि जात ! कथितव्यं कथय । लव-एतावदेव जानामि ।
(८०)
साहित्य-सुधा-संग्रहः
.
( नेपथ्ये ।)
भो भोः सैनिकाः, एष खलु कुमारश्चन्द्रकेतुराज्ञापयति-
"नकेनचिदाश्रमाभ्यर्णभूमय आक्रमितव्या इति ।"
अरुन्धतीजनको-अये, मेध्याश्वरक्षाप्रसङ्गादुपागतोवत्सश्चन्द्रकेतु-
द्रव्य इत्यसौ सुदिवसः।
कौसल्या
-वत्सलक्ष्मणस्य पुत्रकः आज्ञापयतीत्यमृतबिन्दुसुन्दराणि
अक्षराणि श्रूयन्ते।
लव:-आर्य! क एप चन्द्र केतुर्नाम ?
जनकः-जानासि रामलक्ष्मणौ दाशरथी ?
लव:-एतावेव रामायणकथापुरुपौ ?
जनकः -अथ किम् ?
लवः--तत्कथं न जानामि ?
जनक:-~-तस्य लक्ष्मणस्याऽयमात्मजश्चन्द्रकेतुः।
लवः-ऊर्मिलायोः पुत्रस्तर्हि मैथिलस्य राजदौहित्रः।
अरुन्धती-आविष्कृतं कथाप्रावीण्यं वत्सेन ।
जनकः-(विचिन्त्य । ) यदि त्वमीदृशः कथायामभिशस्तब्रूहि ताव.
त्पश्यामस्तेषां दशरथस्य पुत्राणां कियन्ति किनामधेयान्यपत्यानि केषु
दारेषु प्रसूतानि ?
लवः-नायं कथाविभागोऽस्माभिरन्येन वा श्रुतपूर्वः।
जनकः-किन प्रणीतः कविना ?
लव:--प्रणीतो न प्रकाशितः । तस्यैव कोऽप्येकदेशः प्रबन्धान्तरण
रसवानभिनेयार्थः कृतः। तं च स्वहस्तलिखितं मुनिर्भगवानुव्यस्जत्
तृतीयो बिन्दुः (१ भगवती भरतस्य तौर्यत्रिकसूत्रधारस्य । जनक:--किमर्थम्? लवः स किल भगवान्भरतस्तमप्सरोभिः प्रयोजयिष्यतीति । जनक:--सर्वमिदमाकूततरमलाकम् । लव:--महती पुनस्तस्मिन्भगवतो वाल्मीकेरास्था । यतः केषां चिदन्तेवासिनो हस्तेन तत्पुस्तकं भरताश्रमं प्रति प्रेषितम् । तेषामनु- यात्रिकश्चापपाणिः प्रमादच्छेदनार्थमस्मभ्राता प्रेषितः । कौसल्या--भ्रातापि तेऽस्ति ? -- लवः--अस्त्यायः कुशो नाम । कौसल्या--ज्येष्ठ इति भणितं भवति ? लवः एवमेतत् । प्रसवाऽनुक्रमेण स किल ज्यायान् । जनक:-किं यमावायुप्मन्तौ ? लवः - अथ किम्। जनक:-वत्स! कथय कथाप्रपञ्चस्य कियान्पर्यन्तः? लव:- अलीकपौरापवादोद्विग्नेन राशा निर्वासितां देवी देवयजन- संभवां सीतामासनप्रसववेदनामेकाकिनीमरण्ये लक्ष्मणः परित्यज्य प्रतिनिवृत्त इति । कौसल्या-हा वत्से ! मुग्धमुखि ! क इदानी ते शरीरकुसुमस्य झटिति दैवदुर्विलासपरिणाम एकाकिन्या निपतितः? जनक:- - हा वत्से! नूनं त्वया परिभवं च धनं च घोर तांचव्यथां प्रसवकालकृतामवाप्या (२) साहित्य-सुधा-संग्रहा क्रव्यादणेषु परितः परिवारयत्सु संत्रस्तया शरणमित्यसकृत्स्मृतोऽहम् ॥२३॥ । । लव:-आर्य! कावेतौ? अरुन्धती-इयं कौसल्या। अयं जनकः। ( लषः सबहुमानखेदकौतुर्क पश्यति ।) जनक:-- अहो, निर्दयता दुरात्मनां पौराणाम् | अहो रामभद्रस्य क्षिप्रकारिता। एतद्वैशसवज्रघोरपतनं शश्वन्ममोत्पश्यतः क्रोधस्य ज्वलितुं झटित्यवसरश्वापेन शापेन वा। कौसल्या-- ( सभयकम्पम् ।) भगवति ! परित्रायताम् । प्रसादय कुपितं राजर्षिम्। लवः- एतद्धि परिभूतानां प्रायश्चित्तं मनस्विनाम् । अरुन्धती- राजन्नपत्यं रामस्ते पाल्याश्च कृपणा जनाः ॥२४॥ जनकः- शान्तं वा रघुनन्दने तदुभयं यत्पुत्रभाण्डं हि मे भूयिष्ठद्विजबालवृद्धविकलौणश्च पौरो जनः ॥२५॥ (प्रविश्य संभ्रान्ता बटवः।) कुमार ! कुमार ! अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते। सोऽयमधुनास्माभिः स्वयं प्रत्यक्षीकृतः। लवा--अश्वोऽश्व इति नाम पशुसमानाये सांग्रामिके च पठ्यते । सद्भूत कीदृशः। - तृतीयो बिन्दुः (८३) बटव:-- अये,श्रूयताम्--- पश्चात्पुच्छं वहति विपुलं तश्च धूनोत्यजस्रं दीर्घग्रीवः प्त भवति खुरास्तस्य चत्वार एव । शष्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाम्रमात्रा- कि व्याख्यानैर्वजति स पुन(रमेोहि यामः ॥२६॥ (इत्यजिने हस्तयोश्वाकर्षन्ति ।) लक:--- ( सकौतुकोपरोधविनयम् । ) आर्याः ! पश्यत । एभिनीतोऽस्मि । (इति त्वरितं परिक्रामति।) अरुन्धतीजनकौ-महत्कौतुकं वत्सस्य । कौसल्या--अरण्यगर्भरूपालापै!यं तोषिता वयं च । भगवति ! जानामि तं प्रेक्षमाणा वञ्चितेव । तस्मादितोऽन्यतो भूत्वा प्रेक्षामहे तावत्पलायमानं दीर्घायुषम् । अरुन्धती-- अतिजवेन दूरमतिकान्तः स चपलः कथं दृश्यते ? कञ्चुकी-- (प्रविश्य । ) भगवान्वाल्मीकिराह-"ज्ञातव्यमेतदवसरे भवद्भिरिति । जनक:--- अतिगम्भीरमेतत्किमपि । भगवत्यरुन्धति ! सखि कौसल्ये ! आर्यगृष्टे ! स्वयमेव गत्वा भगवन्तं प्राचेतसं पश्यामः । (इति निष्क्रान्तो वृद्धवर्गः।) (प्रविश्य बटवः ।) पश्यतु कुमारस्तावदाश्चर्यम् । लव:--दृष्टमवगतं च । नूनमाश्वमेधिकोऽयमश्वः । . बटव:--कथं ज्ञायते ?
(४) साहित्य-सुधा-संग्रहः लव:- ननु मूर्खाः ! पठितमेव हि युष्माभिरपि तत्काण्डम् । किन पश्यथ प्रत्येकं शतसंख्याः कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः। तत्प्रायमेवान्यदपि दृश्यते । यदि च विप्रत्ययस्तत्पृच्छथ । बटवः-भो भोः, किप्रयोजनोऽयमश्वः परिवृतः पर्यटति ? लव:-( सस्पृहमात्मगतम् । ) अश्वमेध इति नाम विश्वजयिनांक्षत्रियाणा- र्जस्वलः सर्वक्षत्रपरिभावी महानुत्कर्षनिकषः। (नेपथ्ये।) योऽयमश्वः पताकेयमथवा वीरघोषणा। सप्तलोकैकवीरस्य दशकण्ठकुलद्विपः॥ २७ ॥ लकः-(सगर्वमिव । ) अहो, संदीपनान्यक्षराणि । बटव:--किमुध्यते । प्राक्षः खलुकुमारः। लवः-भो भोः ! तत्किमक्षत्रिया पृथिवी यदेवमुद्धोष्यते ? (नेपथ्ये।) रेरे! महाराज प्रति कुतः क्षत्रियाः ? लव:--धिग्जाल्मान् । यदि नो सन्ति सन्त्येव केयमद्य विभीषिका। किमुक्तैरेभिरधुना तां पताकां हरामि वः ॥२८॥ हे बटवः ! परिवृत्य लोष्ठेरभिघ्नन्त उपनयतैनमश्वम् । एष रोहितानां मध्येचरो भवतु। (प्रविश्य सक्रोधः।) पुरुषः-धिक्चपल ! किमुक्तवानसि । तीक्ष्णतरा द्यायुधश्रेणयः शिशो- रपि गुप्तां घाचं न सहन्ते । राजपुत्रश्चन्द्रकेतुर्दुर्दान्तः सोऽप्यपूर्ण- तृतीयो बिन्दुः (८५) ऽरण्यदर्शनाक्षिप्तहृदयो न यावदायाति तावत्वरितमनेन तरुगहनेना- उपसर्पत बटवा--कुमार ! कृतं कृतमश्वेन । तर्जयन्ति विस्फारितशरासनाः कुमारमायुधीयश्रेणयः । दूरे चाऽऽश्रमपदम् । इतस्तदेहि । हरिणप्लुतैः पलायामहे। लकः-किं नाम विस्फुरन्ति शस्त्राणि १ ( इति धनुरारोपयत् ।) ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र- मुद्भरिघोरघनघर्घरघोषमेतत् । ग्रासप्रसक्तहसदन्तकवकत्रयन्त्र. जम्भाविडम्बि विकटोदरमस्तु चापम् ॥ २६ ॥ (इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे ।) इति चतुर्थोऽङ्कः।
पञ्चमोऽङ्कः। (नेपथ्ये।) भो भोः सैनिकाः ! जातं जातमवलम्बनमस्माकम् । - नन्वेप त्वरितसुमन्त्रनुद्यमान. प्रोद्वलगत्प्रजवितवाजिना रथेन । उत्खातप्रचलितकोविदारकेतुः श्रुत्वा वः प्रधनमुपैति चन्द्रकेतुः ॥१॥ (ततः प्रविशति सुमन्त्रसारथिना रथेन धनुष्पाणिः साद्भुतहर्षसंभ्रमश्चन्द्रकेतुः।) चन्द्रकेतुः--आर्य सुमन्त्र पश्य पश्य- किरति कलितकिंचित्कोपरज्यन्मुखश्री- रविरतगुणगुञ्जकोटिना कार्मुकेन । समरशिरसि चञ्चत्पञ्चचूडश्चमूना- मुपरि शरतुपारं कोऽप्ययं वीरपोतः॥२॥ आश्चर्यम् । मुनिजनशिशुरेकः सर्वतः संप्रकोपा. नव इव रघुवंशस्याप्रसिद्धिप्ररोहः । दलितकरिकपोलग्रन्थिटंकारघोर- ज्वलितशरसहस्रः कौतुकं मे करोति ॥३॥ सुमन्त्रः- आयुष्मन् ! अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तथैव तुल्यरूपम् ।
तृतीयो बिन्दुः (८७) कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥४॥ चन्द्रकेतुः-मम त्वेकमुद्दिश्य भूयसाऽऽरम्भ इति हृदयमपत्रपते । अयं हि शिशुरेकको मदभरेण भूरिस्फुर. करालकरकन्दलीजटिलशस्त्रजालैबलैः। कणत्कनककिङ्किणीझणझणायितस्यन्दनै- रमन्दमददुर्दिनद्विरदडामरैरावृतः॥५॥ - सुमन्त्रः--वत्स! एभिः समस्तैरपि नाऽलमस्य ! किं पुनर्व्यस्तैः? चन्द्रकेतुः--आर्य! त्वर्यतां स्वर्यताम् । अनेन हि महानाधितजन- प्रमारोऽस्माकमारब्धः। तथा हि- आगर्जद्विरिकुञ्जकुञ्जरघटानिस्तीर्णकर्णज्वर- ज्यानि?पममन्ददुन्दुभिरवैराधमातमुज्जम्भयन् । बेल्लद्भरवरुण्डखण्डनिकरैर्वीरो विधत्ते भुवं तृष्यत्कालकरालवक्त विघसव्याकीर्यमाणामिव ॥६॥ सुमन्त्र:- (स्वगतम् ) कथमीदृशेन सह वत्सस्य चन्द्रकेतोईन्द्व- संप्रहारमनुजानीमः ? (विचिन्त्य )अथवा इक्ष्वाकुकुलवृद्धाः खलु वयम्। प्रत्युपस्थिते रणे का गतिः ? चन्द्रकेतुः-- ( सविस्मयलमासंभ्रमम् ) हन्त धिक । अपावृत्तान्यैव सर्वतः सैन्यानि मम। सुमन्त्र:- ( रथवेगं निरूप्य ) आयुष्मन् ! एष ते वाग्विषयीभूतः स वीरः। चन्द्रकेतुः-(विस्मृतिमभिनीय ) आर्य! किंनामधेयमाख्यातमाहायकैः?
(८८) साहित्य-सुधा-संग्रहा सुमन्त्र:- लव इति। चन्द्रकेतुः- भो भो लव! महाबाहो ! किमेभिस्तथ सैनिकैः। एपोऽहमेहि मामेव तेजस्तेजसि शाम्यतु ॥७॥ - सुमन्त्रः- कुमार ! पश्य पश्य- विनिवर्तित एप वीरपोतः पृतनानिर्मथनात्वयोपहूतः। स्तनयित्नरवादिभावलीना. मवमर्दादिव इतसिंहशावः॥ ८॥ (ततः प्रविशति धीरोद्भुतपराक्रमो लवः।) लवः साधु राजपुत्र! साधु । सत्यमैक्ष्वाकः खल्वसि । तदहं परागत एवास्मि। ( नेपथ्ये महान्कलकला।) लव: ---- ( सावष्टम्भं परावृत्य ।) कथमिदानी भग्नाअपि पुनः प्रतिनिवृत्ताः पृष्ठानुसारिणः पर्यवष्टम्भयन्ति मां चमूपतयः। धिग्जाल्मान् । अयं शैलाघातक्षुभितवडवावाहुतभु- क्प्रचण्डक्रोधार्चिर्निचयकवलत्वं व्रजतु मे। समन्तादुत्सर्पद्धनतुमुलहेलाकलकलः पयोराशेरोघः प्रलयपवनास्फालित इव ।। 8॥ (सवेगं परिक्रामति ।) चन्द्रकंतुः- भो भोः कुमार!
तृतीयो बिन्दुः
(८)
अत्यद्भुतादपि गुणाऽतिशयात्प्रियो मे
तस्मात्सखा त्वमसि यन्मम तत्तवैव ।
ततिक निजे परिजने कदनं करोषि
नम्वेष दर्पनिकषस्तव चन्द्रकेतुः ॥१०॥
लवः-(सहर्षसंभ्रम परावृत्य।) अहो, महानुभाषस्य प्रसन्नकर्कशा
वीरवचनप्रयुक्तिर्विकर्तनकुलकुमारस्य । तत्किमेभिरेनमेव तावत्संभा.
थयामि।
(पुनर्ने पथ्ये कलकलः ।)
लव:-- ( सक्रोधनिर्वेदम् ।) आः ! कदर्थीकृतोऽहमेभिवर्षीरसंवादविन-
कारिभिः पापैः। (इति तदभिमुखं परिक्रामति ।)
चन्द्रकेतु:-- आर्य ! दृश्यतां द्रष्टव्यमेतत् ।
दर्पण कौतुकवता मयि बद्धलक्ष्यः
पश्चाबलैरनुसृतोऽयमुदीर्णधन्वा।
द्वेधा समुद्धतमरुत्तरलस्य धत्ते
मेघस्य माधवतचापधरस्य लक्ष्मीम् ॥ ११ ॥
सुमन्त्रः-कुमार एवैनं द्रष्टुमपि जानाति । वयं तु केवलं पर-
चन्तो विस्मयेन।
चन्द्रकेतुः-भो भो राजनः!
संख्यातीतैर्द्विरदतुरगस्यन्दनस्थैः पदाता.
वकस्मिन्कवचनिचितैर्नद्धचर्मोत्तरीये।
कालज्येष्ठरपरवयसि ख्यातिकामैर्भवद्भि-
र्योऽयं बद्धोयुधि समभरस्तेन घिग्यो धिगस्माम् ॥ १२॥
(६०)
साहित्य-सुधा-संग्रहः
लवः-(सोन्माथम् । ) आः, कथमनुकम्पते नाम । (ससंभ्रमं विचित्य ।)
भवतु । कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भ-
यामि । (इति ध्यानं नाटयति ।)
सुमन्त्र:-तत्किमकरसादुल्लोलाः सैन्यघोषाः प्रशाम्यन्ति ।
लवः-पश्याम्येनमधुना प्रगल्भम् ।
सुमन्त्र:-( ससंभ्रमम् । ) वत्स ! मन्ये कुमारकेणाऽनेन
जुम्भकास्त्रम्
आमन्त्रितमिति।
चन्द्रकेतुः-अत्र कः संदेहः।
व्यतिकर इव भीमस्तामसी वैद्युतश्च
प्रणिहितमपि चक्षुर्घस्तमुक्तं हिनस्ति ।
अथ लिखितमिवैतत्सैन्यमस्पन्दमास्ते
नियतमजितवीर्य जृम्भते ज़म्भकास्त्रम् ॥१३॥
आश्चर्यमाश्चर्यम्-
पातालोदरकुञ्जपुञ्जिततमःश्यामैनंभो जृम्भकै.
रुत्तप्तस्फुरदारकूटकपिलज्योतिर्ध्वलद्दीप्तिभिः ।
कल्पाऽऽक्षेपकठोरभैरवमरुद्व्यस्तैरभिस्तीर्यते
लीनाऽम्भोदतडित्कडारकुहरैर्विन्ध्याद्रिकूटैरिध ॥१४॥
सुमन्त्रः-कुतः पुनरस्य जृम्भकाणामागम: स्यात् ?
चन्द्रकेतुः-भगवतः प्राचेतसादिति मन्यामहे ।
सुमन्त्र:-वत्स ! नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु । यतः-
भृशाश्वतनया होते भृशाश्वात्कौशिकं गताः ।
अथ तत्संप्रदायेन रामभद्रे सिता इति ॥१५॥
.
तृतीयो बिन्दु
(६१)
चन्द्रकेतुः-अपरेऽपि प्रचीयमानसत्वप्रकाशाः स्वयं सर्व मन्त्रशा
पश्यन्ति।
सुमन्त्र:-वत्स ! सावधानो भव । परागतस्ते प्रतिवीरः।
कुमारी-(अन्योन्यं प्रति।) अहो प्रियदर्शनः कुमारः। ( सस्नेहानुराग
निर्वर्ण्य ।)
.
यदृच्छासंवादः किमु गुणगणानामतिशयः
पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः।
निजो वा संबन्धः किमु विधिवशात्कोऽप्यविदितो.
ममैतस्मिन्दष्टे हृदयमवधानं रचयति ॥ १६ ॥
सुमन्त्रः-भूयसां जीविनामेव धर्म एष यत्र स्वरसमयी कस्यचित्
क्वचित्प्रीतिः, यत्र लौकिकानामुपचारस्तारामैत्रकं चक्षुराग इति। तद्-
प्रतिसंख्येयनिबन्धनं प्रमाणमामनन्ति ।
अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया।
स हि स्नेहात्मकस्तन्तुरन्तभूतानि सीव्यति ॥ १७ ॥
कुमारी-(अन्योन्यमुद्दिश्य । )
एतस्मिन्मसृणितराजपट्टकान्ते
मोक्तव्याः कथमिव सायकाः शरीरे।
यत्प्राप्तौ मम परिरम्भणाभिलापा-
दुन्मीलत्पुलककदम्बमङ्गमास्ते ॥ १ ॥
किं चाऽऽकान्तकठोरतेजसि गतिः का नाम शस्त्र विना
शस्त्रेणापि हि तेन किन विषयो जायेत यस्यद्वशः ।
किं वक्ष्यत्ययमेव युद्धविमुखं मामुद्यतेऽप्यायुधे
बोराणां समयो हि दारुणरसः नेहकर्म बाधते ॥ १६॥
(१२) साहित्य-सुधा-संग्रहः सुमन्त्रः-(स निरर्य सात्रमात्मगतम् । )हृदय ! किमन्यथा परिप्लवसे । मनोरथस्य यद्वीजं तदैवेनाऽऽदितो हृतम् । लतायां पूर्वलूनायां प्रसवस्योद्भवः कुतः ॥ २० ॥ चन्द्रकेतु:--अवतराम्यायसुमन्त्र ! स्यन्दनात् । सुमन्त्र:-कस्य हेतोः? चन्द्रकेतुः-एकस्तावदयं वीरपुरुषः पूजितो भवति । अपि च खल्वार्य ! क्षत्रधर्मः परिपालितो भवति । न रथिनः पादचारमभि- युञ्जन्तीति शास्त्रविदः परिभाषन्ते । सुमन्त्र:-(स्वगतम् । ) आः, कष्टां दशामनुप्रपन्नोऽसि । कथं हीदमनुष्ठानं मादृशः प्रतिषेधतु । कथं वाऽभ्यनुजानातु साहसैकरसां क्रियाम् ॥ २१ ॥ चन्द्रकेतुः- यदा तातमिश्रा अपि पितुः प्रियसखं त्वामर्थसंशयेषु पृच्छन्ति तत्किमार्यो विमृशति ? सुमन्त्रः- आयुष्मन् ! एवं यथाधर्ममभिमन्यसे । एष सांप्रामिको न्याय एष धर्मः सनातनः । इयं हि रघुसिंहानां वीरचारित्रपद्धतिः ॥ २२ ॥ चन्द्रकेतुः- अप्रतिरूपं वचनमार्यस्य । इतिहासं पुराणं च धर्मप्रवचनानि च । भवन्त एव जानन्तिरघूणां च कुलस्थितिम् ॥ २३ ॥ सुमन्त्र:-(सस्नेहाश्त्र परिवज्य।)
(६३) तृतीयो बिन्दुः जातस्य ते पितुरपीन्द्रजितोनिहन्तु- र्घत्सस्य वत्स! कति नाम दिनान्यमूनि । तस्याप्यपत्यमनुतिष्ठति वीरधर्म दिष्ट्यागतं दशरथस्य कुलं प्रतिष्ठाम् ॥ २४ ॥ चन्द्रकेतु:- [ सकष्टम् ।] अप्रतिष्ठे कुलज्येष्ठे का प्रतिष्ठा कुलस्य नः । इति दुःखेन तप्यन्ते त्रयो नः पितरोऽपरे ॥ २५ ॥ सुमन्त्र:-हृदयमर्मदारणान्येव चन्द्रकेतोर्वचनानि । लव:- हन्त, मिश्रीकृतक्रमो रसो वर्तते । यथेन्दावानन्द ब्रजति समुपोढे कुमुदिनी तथैवास्मिन्दृष्टिर्मम कलहकामः पुनरयम् । रणत्कारप्रूरक्कणितगुणगुञ्जनुरुधनु- धृतप्रेमा बाहुर्विकचविकरालघणमुखः ॥ २६ ॥ चन्द्रकेतुः-- [अवतरणं निरूपयन् । ] आर्य ! अयमसावैश्वाकश्चन्द्रकेतु- रभिवादयते। सुमन्त्र:- अहितस्यैव पुनः पराभवाय महानादिवराहः कल्पताम् । अपिच- देवस्त्वां सविता धिनोतु समरे गोत्रस्य यस्ते पति- स्त्वां मैत्रावरुणोऽभिनन्दतु गुरुय॑स्ते गुरूणामपि । ऐन्द्रावैष्णवमाग्निमारुतमथो सौपर्णमोजोऽस्तु ते देयादेव च रामलक्ष्मणधनुर्व्याघोषमन्त्री जयम् ॥ २७ ॥ लवः- अतीव हि नाम शोभसे रथस्थ एव । कृतं कृतमत्यादरेण ।
(६४) साहित्य-सुधा-संग्रहः चन्द्रकेतुः- तर्हि महाभागोऽप्यन्यं रथमलंकरोतु । लवः-आर्य ! प्रत्यारोपय रथोपरि राजपुत्रम् । सुमन्त्रः- त्वमप्यनुरुद्धयस्व वत्सस्य चन्द्रकेतोर्वचनम् । लव:- को विचारः स्वेषूपकरणेषु । किं त्वरण्यसदो वयमनभ्यस्त- रथचर्याः। सुमन्त्र:- जानासि वत्स ! दर्पसौजन्ययोर्यदाचरितम् । यदि पुन- स्त्वामीदशमैश्वाको राजा रामभद्रः पश्येत्तदायमस्य स्नेहेन हृदय. मभिष्यन्दयेत् । लवः- अन्यश्च चन्द्रकेतो! मुजनः स राजर्षिः श्रूयते। [सलन्नमिव ।] यदि च वयमप्येवंप्रायाः क्रतुद्विषतामरी क इव न गुणैस्तं राजानं जनो बहु मन्यते । तदपि खलु मे स व्याहारस्तुरङ्गमरक्षिणां विकृतिमखिलक्षत्राऽऽक्षेपप्रचण्डतयाऽकरोत् ॥ २८ ॥ चन्द्रकेतुः-- किं नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्षः ? लव:- अस्त्विहामर्षो माभूद्वा । अन्यदेतत्पृच्छामि-दान्तं हि राजानं राघवमनुशुश्रुमः । स किल नाऽऽत्मना द्रुप्यति नाप्यस्य प्रजा वा हप्ता जायन्ते । तत्किं मनुष्यास्तस्य राक्षसों वाचमुदीरयन्ति ? ऋषयो राक्षसीमाहुचिमुन्मत्तप्तयोः। सा योनिः सर्ववैराणां सा हि लोकस्य निष्कृतिः ॥२६॥ इति ह स तां निन्दन्ति । इतरामभिष्टुवन्ति- कामं दुग्धे विप्रकर्षयलक्ष्मी कीर्ति सूते दुई दो निष्पलान्ति ।
तृतीयो बिन्दुः (५) शुद्धां शान्तां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥ ३० ॥ सुमन्त्रः- परिभूनोऽयं बत कुमारः प्राचेतसान्तेवासी । वदत्यय. मभ्युपपन्नाऽमर्पण संस्कारेण । लव:- यत्पुनश्चन्द्र केतो! वदसि-"किं नु भवतस्तातप्रतापोत्कर्षेऽप्य. मर्ष इति तत्पृच्छामि-किं व्यवस्थितविषयः क्षत्रधर्म इति ? सुमन्त्रः- नैव खलु जानासि देवमैक्ष्वाकम् । तद्विरमातिप्रसङ्गात् । सैनिकानां प्रमाथेन सत्यमोजायितं त्वया । जामदग्न्यस्य दमने न हि निर्बन्धमर्हसि ॥३१॥ लव:- (सहासम् ) आर्य! जामदग्न्यस्य दमनः स राजेति कोऽय. मुश्चर्यादा- सिद्ध होतद्वाचि वीर्य द्विजानां बाह्रोवीर्यं यत्तु तत्क्षत्रियाणाम्। शस्त्रग्राही ब्राह्मणो जामदग्न्य. स्तस्मिन्दान्त का स्तुतिस्तस्य राशः ॥ ३२ ॥ चन्द्रकेत:- (सोन्माथमिव ) आर्य सुमन्त्र ! कृतमुत्तरोत्तरेण । कोऽप्येष संप्रति नवः पुरुषावतारो. धीरो न यस्य भगवान्भृगुनन्दनोऽपि । पर्याप्तसप्तभुवनाभयदक्षिणानि पुण्यानि तातचरितान्यपि यो न वेद ॥ ३३ ॥ लव:- को हि रघुपतेश्वरितं महिमानं च न जानाति । यदि नाम किचिदस्ति वक्तव्यम् । अथवा शान्तम्- (१६) साहित्य-सुधा-संग्रहः वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु ढुवर्तते सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते । यानि त्रीण्यकुतोमुखान्यपि पदान्यासम्खरायोधने यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिशो अनः ॥ ३४ ॥ चन्द्रकेतुः- आः तातापवादिन् , भिन्नमर्याद, अति हि नाम प्रगल्भसे। लक:- अये! मय्येव भृकुटीमुखः संवृत्तः । सुमन्त्र:-स्फुरितमनयोः क्रोधेन । तथा हि- क्रोधेनोद्धतधूतकुन्तलभरः सर्वाङ्गजो वेपथुः किंचित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः। धत्ते कान्तिमिदं च वक्तमनयोभङ्गेन भिन्नभ्रुवो. चन्द्रस्योद्भटलाञ्छनस्य कमलस्योद्घान्तभृङ्गस्य च ॥३५॥ लवः- कुमार! कुमार! एढेहि विमर्दक्षमा भूमिमवतरावः। (इति निष्क्रान्ताः सर्वे।) इति पञ्चमोऽङ्कः । - षष्ठोऽङ्कः। (ततः प्रविति विमानेनोवलं विद्याधरमिथुनम् ।) विद्याधरः- अहो, नु खल्वनयोः, विकर्तनकुलकुमारयोः, अकाण्ड. कलहप्रचण्डयोः,उद्योतितक्षत्रलक्ष्मीकयोः,अत्यद्भुतोद्धान्तदेवासुराणि विक्रान्तविलसितानि । तथाहि प्रिये ! पश्य- रणकरणझञ्झणक्कणितकिङ्किणीकं धनु- वनद्गुरुगुणाटनीकृतकरालकोलाहलम् । वितत्य किरतोः शरानविरतं पुनः शूरयो. विचित्रमभिवर्तते भुवनभीममायोधनम् ॥१॥ जृम्भितं च विचित्राय मङ्गलाय द्वयोरपि । स्तनयित्नोरिवाऽमन्ददुन्दुभेदुन्दुमायितम् ॥२॥ तत्प्रवर्त्यतामनयोः प्रवीरयोरनवरतमविरलमिलितविकचकनककमल. कमनीयसंहतिः, अमरतरुतरुणमणिमुकुलनिकरमकरन्दसुन्दरः पुष्प- निपातः। विद्याधरी- तकिमिति पुर आकाशं दुर्दर्शतरलतडिच्छटाकडार- मपरमिव झटिति संवृत्तम् ? विद्याधर-तत्किं नु खल्वद्य- त्वष्टयन्त्रभ्रमिभ्रान्तमार्तण्डज्योतिरुजवलम् । पुटभेदो ललाटस्पनीललोहितचक्षुषः ॥ ३॥ आं ज्ञातम् । जातक्षोभेन चन्द्रकेतुना प्रयुक्तमप्रतिरूपमाग्नेयमलम् , यस्यायमग्निवच्छरसंपातः संप्रति हि- (E) साहित्य-सुधा-संग्रहः अवदग्धवर्वरितकेतुचामरैः रपयातमेव हि विमानमण्डलैः। दहलि ध्वजांशुकपटावलीमिमां नवकिंशुकद्युतिसविभ्रमः शिखी ॥४॥ आश्चर्यम् । प्रवृत्त एवाऽयमुच्चएडवज्रखण्डाऽवस्फोटपटुरटस्फुलिङ्ग- गुरु उत्तालतुमुललेलिहानोज्ज्वलज्ज्वालासंभारभैरवो भगवानुपर्बुधः। प्रचण्डश्चाऽस्य सर्वतः संपातः । तत् सुदूरमपसरामि। (तथा करोति ।) विद्याधरी- कथमविरलविलोलघूर्णमानविद्युल्लताविलासमांसलै- मंत्तमयूरकर उश्यामलैरवस्तीर्यते नमोऽङ्गणं जलधरैः ? विद्याधरः- कुमारलवप्रयुक्तवारुणाऽस्त्रप्रभाषः खल्वेषः । कथम- विरलप्रवृत्तवारिधारासंपातैः प्रशान्तमेव पावकास्त्रम् । विद्याधरी- प्रियं मे प्रियं मे । विद्याधर:- हन्त भोः! सर्वमतिमात्र दोषाय । यत्प्रलयवातोत्क्षाभ- गम्भीरगुलगुलायमानमेघमेदुरितान्धकारनीरन्ध्रनद्धमिव एकवार- विश्वग्रसनविकरधिकरालकालमुखकन्दरविवर्तमानमिष युगान्तयोग- निद्रानिरुद्धसर्वद्वार नारायणोदरनिविष्टमिव भूतं विपद्यते । साधु चन्द्रकेतो!साधु, स्थाने वायव्यमत्रमीरितम् । यतः, विद्याकल्पेन मरुता मेघानां भूयसामपि। ब्रह्मणीव विवर्तानां वापि प्रविलयः कृतः॥५॥ विद्याधरी नाथ! क इदानीमेष ससंभ्रमोत्क्षिप्तकरभ्रमदुत्तरीया. ऽञ्चलो दूरत एव मधुरस्निग्धवचनप्रतिषिद्धयुद्धव्यापार एतयोरन्तरे विमानवरमवतारयति ? विद्याधर:-( दृष्ट्वा । ) एष शम्बूकषधात्प्रतिनिवृत्तो रघुपतिः ।
(8) तृतीयो बिन्दुः शान्तं महापुरुषसंगदितं निशम्य तद्गौरवात्समुपसंहृतसंप्रहारः । शान्तो लवः प्रणत एव च चन्द्रकेतुः कल्याणमस्तु सुतसंगमनेन राशः ॥६॥ तदितस्तावदेहि । (इति निष्क्रान्तौ।) इतिविष्कम्भः। (ततः प्रविशति रामो लवः प्रणतचन्द्रकेतुश्च ।) रामः-(पुष्पकादवतरन् । ) दिनकरकुलचन्द्र चन्द्रकेतो! सरभसमेहि दृढं परिष्वजख । तुहिनशकलशोतलैस्तवाऽङ्गैः शममुपयातु ममाऽपि चित्तदाहः॥७॥ (उत्थाप्य सस्नेहाऽत्रं परिष्वज्या) अप्यनामयं नूतनदिव्याऽस्त्राऽऽयोधनस्य तव? चन्द्रकेतुः-कुशलमत्यद्भुतप्रियवयस्यलाभाभ्युदयेन । तद्विज्ञापयामि-- मामिव विशेषेण स्निग्धेन चक्षुषा पश्यत्वमुं वीरमनरालसाहसं तात। रामः- ( लवं निरूप्य । ) दिष्टया अतिगम्भीरमधुरकल्याणाऽऽकृतिरयं वयस्यो वत्सस्य। त्रातुं लोकानिव परिणतः कायवानस्त्रवेदः क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुप्त्यै । सामर्थ्यानामिव समुदयः संचयो वा गुणाना. माविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः ॥ ८॥ - (१००) साहित्य-सुधा-संग्रहा लवः-(स्वगतम् । ) अहो पुण्यानुभावदर्शनोऽयं महापुरुषः । आश्वास इव भक्तीनामेकमायतनं महत् । प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥६॥ आश्चर्यम्! विरोधो विश्रान्तः, प्रसरति रसो निर्वृतिघनः, तदौद्धत्यं कापि व्रजति, विनयः प्रहृयति माम् । झटित्यस्मिन्द्रष्टे किमिति परवानस्मि, यदि वा महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥१०॥ रामः-तत्किमयमेकपद एव मे दुःखविश्राम ददात्युपस्नेहयति चकुतोऽपि निमित्तादन्तराऽऽत्मानम् ? अथवा,स्नेहश्च निमित्तसव्यपेक्ष- इति विप्रतिषिद्धमेतत् । व्यतिषजति पदार्थानान्तरः कोऽपि हेतु- न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते । विकसति हि पतङ्गस्योदये पुण्डरीक द्रवति च हिमरश्मावुगते चन्द्रकान्तः ॥११॥ लव:-चन्द्रकेतो!क एते ? चन्द्रकेतुः-प्रियवयस्य ! ननु तातपादाः। लव:- ममापि धर्मतस्तथैव । यतः प्रियवयस्येति भवतोक्तम् । किंतु, चत्वारः किल भवन्त्येवंव्यपदेशभागिनस्तत्रभवन्तो रामायणकथा. पुरुषाः । तद्विशेषं ब्रूहि । चन्द्रकेतुः-ज्येष्ठतात इत्यवेहि । लषः-(सोझासम् । ) कथं रघुनाथ एव । दिष्टया सुप्रभातमद्य तृतीयो बिन्दुः (११) यदयं देवो दृष्टः (सविनयं निर्वर्ण्य ) तात!प्राचेतसाऽन्तेवासी लवोऽभि. वादयते। रामः-आयुष्मन् ! एहोहि । ( सस्नेहमालिङ्ग्य । ) अयि वत्स ! कृत- मत्यन्तविनयेन । अङ्गेन मामपरिश्लथं परिरम्भख । परिणतकठोरपुष्करगर्भच्छदपीनमसूणसुकुमारः। नन्दयति चन्द्रचन्दननिष्यन्दजडस्तव स्पर्शः॥१२॥ लव:-(स्वगतम् । ) ईदृशो मां प्रत्यमीषामकारणस्नेहः । मया पुनरेभ्य एवाऽभिद्रोग्धुमक्षेनाऽऽयुधपरिग्रहः कृतः । (प्रकाशम् ।) मृष्यन्तां त्विदानी लवस्य बालिशतां तातपादाः । रामः-किमपराद्धं वत्सेन ? चन्द्रकेतुः- अश्वाऽऽनुयात्रिकेभ्यस्तातप्रतापाऽऽविष्करणमुपश्रुत्य वीरायितमनेन । राम:-नन्वयमलंकारः क्षत्रियस्य । न तेजस्तेजस्वी प्रसूतमपरेषां विषहते स तस्य स्खो भावः प्रकृतिनियतत्वादकृतकः । मयूखैरश्रान्तं तपति यदि देवो दिनकरः किमाग्नेयो ग्रावा निकृत इव तेजांसि वमति ॥१३॥ चन्द्रकेतुः-अमर्पोऽप्यस्यैव शोभते महावीरस्य । पश्यन्तु हि तातपादाः प्रियवयस्यनियुक्तेन जृम्भकास्त्रेण विक्रम्य स्तम्भितानि सर्वसैन्यानि। रामः-(सविस्मयखेदं निवर्य । स्वगतम् । ) अहो, वत्सस्य ईदृशः प्र. भावः । (प्रकाशम् । ) वत्स! संहियतामस्त्रम् । त्वमपि चन्द्रकेतो! निर्व्यापारतया विलक्षणानि सान्त्वय बलानि ।
(१०२)
साहित्य-सुधा-संग्रहः
(लवः प्रणिधानं नाटयति ।)
चन्द्रकेतुः-यथा निर्दिष्टम् । ( इति निष्क्रान्तः।)
लवः तात! प्रशान्तमनम् ।
रामः-सरहस्यप्रयोगसंहारजृम्भकास्त्राणि दिष्ट्या वत्सस्यापि सं-
पद्यन्ते।
ब्रह्मादयो ब्रह्महिताय तप्त्वा
परःसहस्रं शरदस्तपांसि ।
एतान्यदर्शन्गुरवः पुगणाः
खान्येव तेजांसि तपोमयानि ॥ १४ ॥
अथैतामस्त्रमन्त्रोपनिपदं भगवान्कृशाश्वः परःसहस्त्राधिकसंवत्सर-
परिचर्यानिरतायाऽन्तेवासिने कौशिकाय प्रोवाच । स भगवान्ममिति
गुरुपूर्वानुक्रमः । कुमारस्य कुतः संप्रदाय इति पृच्छामि ?
लव:- स्वतःप्रकाशान्यावयोरखाणि ।
रामः-(विचिन्त्य।) किं न संभाव्यते । प्रकृष्टपुण्योपादानका
कोऽपि महिमा स्यात् । द्विवचनं तु कथम् ?
लव-भ्रातरावा यमौ ?
रामः-स तर्हि द्वितीयः क्व ?
(नेपथ्ये । )
आयुष्मतः किल लवस्य नरेन्द्रसैन्यैः
रायोधन ननु, किमात्थ ?- सखे ! तथेति ।
अद्यास्तमेतु भुवनेषु च राजशब्दः
क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु ॥ १५ ॥
तृतीयो बिन्दुः (१०३) राम: अथ कोऽयमिन्द्रमणिमेचकच्छवि. @निनैव बद्धपुलकं करोति माम् । नवनीलनीरधरधीरगर्जित- क्षणबद्धकुड्नलकदम्बडम्बरम् ? ॥ १६ ॥ लवः अयमसौ मम ज्यायानाऽऽर्यः कुशो नाम भरताऽऽश्रमात्प्रति- निवृत्तः । ( सकौतुकम् । ) तर्हि वत्स ! इत एवैतमाह्वयाऽऽयुष्मन्तम् । लवः यदज्ञापयति । ( इति निष्क्रान्तः।) ततः प्रविशति कुशः।) कुश:-(सक्रोधं कृतधैर्य धनुरास्फाल्य।) दत्तेन्द्राऽभयदक्षिणैर्भगवतो वैवस्वतादा मनो- दृप्तानां दमनाय दीपितनिजक्षत्रप्रतापाऽग्निभिः। आदित्यैर्यदि विग्रहो नृातिभिर्धन्य ममैतत्ततो- दीप्ताऽस्त्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः ॥ १७॥ ( विकट परिक्रामति।) रामः-कोऽप्यस्मिन्क्षत्रियपोतके पौरुषातिरेकः । तथाहि-- दृष्टिस्तृणीकृतजगत्तयसत्त्वसारा धोरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारकेऽपि गिरिवद्रुतां दधानो- पीरोरसः किमयमेत्युत दर्प एव ?॥१८॥ लक:-( उपसृत्य । ) जयत्वार्यः । - (१०४) साहित्य-सुधा-संग्रहः कुश:-नन्वायुष्मन् ! किमियं वार्ता युद्ध युद्धमिति ? लवः-यत्किचिदेतत् । आर्यस्तु दप्तं भावमुत्सृज्य विनयेन वर्त- ताम्। कुशः-किमर्थम् ? लकः-यदत्र देवो रघुनन्दनः स्थितः । स रामायणकथानायको- ब्रह्मकोशस्य गोप्ता। कुशः-आशंसनीयपुण्यदर्शनः स महात्मा। किंतु स कथमस्मा. भिरुपगन्तव्य इति संप्रधारयामि ? लवः यथैव गुरुस्तथोपसदनेन । कुश:-कथं हि नामैतम् ? लवः 'अत्युदात्तः सुजनश्चन्द्रकेतुरौर्मिलेयः 'प्रियवयस्येति' सख्येन मामुपतिष्ठते । तेन संबन्धेन धर्मतस्तात एवायं रोजर्षिः। कुश:-संप्रत्यवचनीयो राजन्येऽपि प्रश्रयः। (उभौ परिकामतः।) लक:-पश्यत्वेनमार्यों महापुरुषमाकारानुभाव गाम्भीर्यसंभाव्यमान. विविधलोकोत्तरसुचरिताऽतिशयम् । कुश:-(निर्वय।) अहो प्रासादिक रूपमनुभावश्च पावनः । स्थाने रामायणकविदेवीं वाचमवीवृधत् ॥१६॥ तात! प्राचेतसान्तवासी कुशोऽभिवादयते ।
तृतीयो बिन्दुः (१०५) रामः-"एहोद्याऽऽयुष्मन् ! अमृताऽऽध्मातजीमूतस्निग्धसंहननस्य ते । परिष्वङ्गाय वात्सल्यादयमुत्कण्ठते जनः ॥२०॥ (परिष्वज्य । स्वगतम् । ) तत्किमित्ययं च दारकः ? अङ्गादङ्गात्सृत इव निजस्लेहजो देहसारः प्रादुर्भूय स्थित इव बहिश्चेतनाधातुरेकः । सान्द्राऽऽनन्दाभितहृदयप्रस्रवेणाऽवसिक्तो- गाढाऽऽश्लपः स हि भम हिमच्योतमाशंसतीव ॥ २१ ।। लव:--ललाटंतपस्तपति धांशुः । तत्र सालवृक्षच्छायायां मुहूर्तमासनपरिग्रह करोतु तातः। रामः- भरुचितं वत्सस्य । (परितम्य यथोचितमुपविशन्ति ।) राम:-( स्वगतम् ।) अहो प्रश्रययोगेऽपि गतिस्थित्याऽऽसनादयः। साम्राज्यशंसिनो भावाः कुशस्य च लवस्य च ॥ २२॥ वपुरवियुतसिद्धा एव लक्ष्मीविलासाः प्रतिकलकमनीयां कान्तिमुद्भेदयन्ति । अमलिनमिव चन्द्र रश्मयः स्वे यथा वा विकसितमरविन्दं बिन्दवा माकरन्दाः॥२३॥ भूयिष्ठं च रघुकुलकौमारमनयोः पश्यामि ।
(१०६)
साहित्य-सुधा-संग्रहः
कठोरपाराबतकण्ठमेचक
धपुर्वपस्कन्धसुबन्धुरांसयोः।
प्रसन्नसिंहस्तिमितं च वीक्षित
ध्वनिश्च माङ्गल्यमृदङ्गमांसलः ॥ २४ ॥
(निपुणं निरूपयन् ।) अये, न केवलममवंशसंवादिन्यारुतिः-
अपि जनकसुतायास्तच्च तचाऽनुरूप
स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति ।
ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो .
रभिनवशतपत्रश्रीमदाऽऽस्यं प्रियायाः॥२५॥
शुक्लाच्छदन्तच्छविसुन्दरेयं
सैवोष्ठमुद्रास च कर्णपाशः ।
नेत्रे पुनर्यद्यपि रक्तनीले
तथापि सौभाग्यगुणः स एव ॥ २६ ॥
(विचिन्त्य। ) तदेतत्प्राचेतसाध्युषितमरण्यं यत्र किल देवी परि-
त्यक्ता । इयं चानयोराकृतिर्वयोऽनुभावश्च । यत्वतःप्रकाशान्यस्त्राणीति
च, तत्राऽपि स्मरामि खलु तदपि चित्रदर्शनप्रासङ्गिकं शस्त्राऽभ्यनुज्ञानं
प्रबुद्धं स्यात् । न ह्यसंप्रदायिकान्यस्त्राणि पूर्वेषामपि शुश्रुमः । अयं
विस्मयसंप्लवमानसुखदुःखातिशयो हृदयस्य मे विप्रलम्भः । यमाविति
च भूयिष्ठमात्मसंवादः । जीवद्वयाऽपत्यचिह्नो हि देव्या गर्भिणीभाव-
आसीत्। ( सास्त्रम् ।)
परां कोटि स्नेहे परिचयविकासादधिगते
रहो विस्रब्चाया अपि सहजलज्जाजडदशः ।
मयैवादी ज्ञातः करतलपरामर्शकलया
द्विधा गर्भग्रन्थिस्तदनु दिवसैः कैरपि तया ॥२७॥
(१०७)
तृतीयो बिन्दुः
(रूदित्वा ।) तत्किमेतौ पृच्छामि केनचिदुपायेन ?
लव:---तात! किमेतत?
वाष्पवर्षेण नीतं वो जगन्मङ्गलमाननम् ।
अवश्यायाऽवसिक्तस्य पुण्डरीकस्य चारुताम् ॥ २८ ॥
कुशः-अयि वत्स!
विना सीतादेव्या किमिव हि न दुःखं रघुपतेः
प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति ।
स च स्नेहस्तावानयमपि वियोगो निरवधिः
किमेवं त्वं पृच्छस्यनधिगतरामायण इव ॥ २६ ॥
राम:-(स्वगतम् ।) अये, तटस्थ आलापः । कृतं प्रश्नन । मुग्धहृदय !
कोऽयमाकस्मिकस्ते संल्पवाधिकारः ? एवं निर्भिनदयावेगः शिशु-
जनेनाप्यनुकम्पितोऽस्मि। भवतु, तावदन्तरयामि । (प्रकाशम् ।) वत्सौ!
रामायणं रामायणमिति श्रूयते भगवतो वाल्मीके सरस्वतीनिष्यन्दः
प्रशस्तिरादित्यवंशस्य । तत्कौतूहलेन यत्किचिच्छोतुमिच्छामि ।
कुशः कृत्स्न एव संदर्भोऽस्माभिरावृत्तः । स्मृतिप्रत्युपस्थितौ ताव-
दिमौ बालचरितस्यान्ते द्वौ श्लोको।
रामः-उदीरयतं वत्सौ।
-
कुश:-
प्रिया तु सीता रामस्य दाराः पितृकृता इति ।
गुणै रूपगुणैश्चापि प्रोतिर्भूयोऽप्यवर्धत ॥ ३० ॥
तथैव रामः सीतायाःप्राणेभ्योऽपि प्रियोऽभवत् ।
हृदयं त्वेव जानाति प्रीतियोगं परस्परम् ॥ ३१॥
(१०८)
साहित्य-सुधा-संग्रहः
राम:-कष्टमतिदारुणो हृदयमर्मोद्धातः । हा देवि ! एवं किलै-
तदासीत् । अहो निरन्वयविपर्यासविप्रलम्भस्मृतिपर्यवसायिन-
स्तावकाःसंसारवृत्तान्ताः।
क तावानाऽऽनन्दो निरतिशयविनम्भबहुल:
क वान्योन्यप्रेम क च नु गहनाः कौतुकरसाः।
सुखे वा दुःखे पा क नु खलु तदैक्यं हृदययो-
स्तथाप्येष प्राणः स्फुरति न तु पापो विरमति ॥ ३२ ॥
भोः, कष्टम् ।
प्रियागुणसहस्राणां क्रमोन्मीलनतत्परः ।
य एव दुःसहः कालस्तमेव स्मारिता वयम् ॥ ३३ ॥
लवः-अयं तु चित्रकूटवर्त्मनि मन्दाकिनीविहारे सीतादेवीमुद्दिश्य
रघुपतेः श्लोकः-
त्वदर्थमिव विन्यस्तः शिलापट्टोऽयमायतः।
यस्याऽयमभितः पुष्पैः प्रवृष्ट इव केसरः ॥ ३४ ॥
रामः-( सलज्जास्मितस्नेहकरुणम् । ) अति हि नाम मुग्धः शिशुजनः ।
विशेषतस्त्वरण्यचरः। हा देवि ! स्मरसि वा तस्य तत्समयविसम्भा-
ऽतिप्रसङ्गस्य ?
(स्तम्भित इव स्थित्वा । सकरुणम् । ) अहो नु खलु भोः,
चिरं ध्यात्वा ध्यात्वा निहित इव निर्माय
पुरतः
प्रवासे चाश्वासं न खलु न करोति प्रियजनः।
जगजीर्णाऽरण्यं भवति च कलत्रेऽप्युपरते
कुफूलानां राशौ तदनु हदयं पच्यत इव ॥ ३५ ॥
तृतीयो बिन्दुः (१०६) ( नेपथ्ये ।) वसिष्ठो वाल्मीकिर्दशरथमहिष्योऽथ जनकः सहैवाऽरुन्धत्या शिशुकलहमाकर्ण्य सभयाः। जराग्रस्तैर्गात्ररथ खलु सुदूराऽऽश्रमतया चिरेणाऽऽगच्छन्ति त्वरितमनसो विश्लथजटाः॥३६॥ रामः-कथं भगवत्यरुन्धती वसिष्ठोऽम्बाश्च जनकश्चात्रैव ? कर्थ खलु ते द्रष्टव्याः ? (सकरुणं विलोक्य । ) तातजनकोऽप्यत्रैवाऽऽयात. इति वज्रेणेव ताडितोऽस्मि मन्दभाग्यः। संबन्धस्पृहणीयताप्रमुदितैये प्ठेर्वसिष्ठादिभि- दृष्ट्वापत्यविवाहमङ्गलविधौ तत्तातयोः संगमम् । पश्यन्नीदृशमीदृशः पितृसखं वृत्ते महावैशसे दीये किं न सहस्रधाहमथवा रामेण कि दुष्करम् ॥ ३७ ॥ (नेपथ्ये।) भोः भोः, कष्टम्। अनुभावमात्रसमवस्थितश्रियं सहसैव वीक्ष्य रघुनाथमीदृशम् । प्रथमप्रबुद्धजनकप्रबोधिता. विधुराः प्रमोहमुपयान्ति मातरः ॥ ३ ॥ - जनकानां रघूणां च यत्कृत्स्न गोत्रमङ्गलम् । तत्राऽप्यकरुणे पापे वृथा वः करुणा मयि ॥ ३ ॥ यावत्संभावयामि । ( इत्युत्तिष्ठति ।) कुशलवी-इत इतस्तातः। ( सकरुणं परिक्रम्य निष्क्रान्ताः सर्षे ) इति षष्ठोऽङ्कः।
सप्तमोऽङ्कः। (ततः प्रविशति लक्ष्मणः) - लक्ष्मण:-भोः ! किं नु खलु भगवता वाल्मीकिना सब्रह्मक्षत्रपौर- जानपदाः प्रजाः सहाऽस्माभिराहूय कृस्त्र एव सदेवाऽसुरतिर्यनिकायः सचराचरोभूतग्रामः स्वप्रभावेन संनिधापितः। जादिष्टश्चाहमायण- 'वत्स लक्ष्मण ! भगवता वाल्मीकिना स्वकृतिमप्यराभिः प्रयुज्यमानां द्रष्टुमुपनिमन्त्रिताः स्मः । गङ्गातोरमातोद्यस्थानमुपगम्य क्रियतांसमाज- सौनवेशः इति । कृतश्च मा मर्त्यस्य भूतग्रामस्य समुचितस्थान- संनिवेशा मया। अयं तु- - राज्याऽऽश्रमनिवालोऽपि प्राप्तकटमु नव्रतः। वाल्माकिंगोरवादार्य इन एवाऽभिवती ॥१॥ (नतः प्रविशति रामः।) रामः - वत्स लक्ष्मण ! अपि स्थिता रङ्गप्रानिकाः ? - लक्ष्मणः- अथ किम् । राम: इमौ पुनर्वत्सौ कुमारचन्द्रकेतुसमां प्रतिपत्ति लम्भयितव्यौ। लक्ष्मण:-प्रभुस्नेहप्रत्ययात्तथैव कृतम् । इदं चास्तीर्ण राजासनम् । तदुपविशत्वार्यः। - राम: (उपविश्य ।) प्रस्तूयतां भोः। सूत्रधारः- (प्रविश्य ।) भगवान्भूताऽर्थवादी प्राचेतसः स्थावरजङ्गमं जगदाशापयति-“यदिदमस्माभिरार्पण चक्षुषा समुद्रीक्ष्य पावन तृतीयो बिन्दुः (१९१) वचनामृतं करुणाद्भुतरसं च किंचिदुपनिबद्धम् । तत्र काव्यगौरवादव- धातव्यमिति। रामः-एतदुक्तं भवति। साक्षात्कृतधर्माणो महर्षयः। तेषाममृतंभराणि भगवतां परारजांसि प्रज्ञानानि न करियाहन्यन्त इति नहि शङ्कनीयानि । (नेपथ्ये।) हा आर्यपुत्र ! कुमार लक्ष्मण ! एकाकिनीमशरणामासन्नप्रसव- वेदनामरण्ये हताशां श्वापदा अभिलपन्ति । हा इदानी मन्दभाग्या भागीरथ्यामात्मानं निक्षिपामि । लक्ष्मण:- कष्ट बतान्यदेव किमपि । सूत्रधारः- विश्वंभरात्मजा देवी राज्ञा त्यक्ता महावने । प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति ॥२॥ (इति निष्कान्तः।) इति प्रस्तावना। रामः- (सावेगम् ) देवि ! देवि! लक्ष्मणमवेक्षस्व । लक्ष्मण:- आर्य ! नाटकमिदम् । रामः-हा देवि! दण्डकाऽरण्यवासप्रियसखि!एष ते रामाद्विपाकः । लक्ष्मणः-आर्थ! आर्थ ! आश्वस्य दृश्यताम् । प्रबन्धस्त्वार्षः। रामः-एप सजोऽस्मि वज्रमयः ।
- -( (११२) साहित्य-सुधा-संग्रहः (समः प्रविशति उत्सङ्गितकैकदारकाभ्यां पृथिवीगङ्गाभ्यामवलम्बिता प्रमुग्धा सीता।) रामः-- वत्स! असं विशातपदनिबन्धने तमसीवाऽहमद्य प्रविशामि। धारय माम् । देव्यो- समाश्वसिहि कल्याणि दिल्या वैदेहि ! वर्धसे । अन्तर्जले प्रसूताऽसि रघुवंशधरौ सुतौ ॥ ३॥ सीता-(प्राश्वस्य ) दिष्ट्या दारको प्रसूतास्मि । हा आर्यपुत्र ! लक्ष्मणः योर्निपत्य ) आर्य दिष्ट्या वर्धामहे । कल्याणप्ररोहो. रघुवंशः । ( विलोक्या) हा कथं क्षुभितवाष्पोत्पीडनिर्भरःप्रमुग्ध एवार्यः (वीजयति) देव्यौ- वत्से ! समाश्वसिहि । सीता- (समाश्वस्य ) भगवत्यौ ! के युवाम् ? मुञ्चतम् । पृथिवी- इयं ते श्वशुरकुलदेवता भागीरथी। सीता-नमस्ते भगवति! भागीरथी-चारित्रोचितां कल्याणसंपदमधिगच्छ । लक्ष्मण:- अनुगृहीताः स्मः। भागीरथी-इयं ते जननी विश्वंभरा। सीता-- हा अम्ब ! ईदृश्यहं त्वया दृष्टा । पृथिवी-एहि पुत्रि! वत्से सीते ! (उभौ प्रालिङ्गय मूर्छतः) लक्ष्मणः ( सहर्षम् ) कथमा गङ्गापृथिवीभ्यामभ्युपपन्ना ? रामः-दिश्या खल्वेतत् । करुणान्तरं तु वर्तते।
दतीयो बिन्दुः (१९३) भागीरथी--अनमवती विश्वभरा व्यथते-ति जितमपत्यस्नेहेन । यहा सर्वसाधारणो ोष मनसो मूढग्रन्थिरान्तरश्चेतनावताभुपलषा संसारतन्तुः । सखि भूतधात्रि! वत्से वैदेहि ! समाश्वसिहि । पृथिवी-(प्राश्वस्य । ) देवि! सीतां प्रसूय कथमाश्वसिमि? सोढश्चिरं राक्षसमध्यवास. स्त्यागो द्वितीयस्तु सुदुःसहोऽस्याः। गता को नाम पाकाभिमुखस्य जन्तु राणि दैवस्य पिधातुमीष्टे ॥४॥ पृथिवी-भगवति भागीरथि ! युकमेतत्सर्व वो रामभद्रस्य ? म प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः। नाऽहं न जनको नाग्निर्न तु वृत्तिर्न संततिः ॥५॥ सीता-हा आर्यपुत्र ! सरसि ? पृथिवी- आः, कस्तवार्यपुत्रः ? सीता-(सलनालम् । ) यथाऽम्बा भणति । राम:- अम्ब पृथिवि ! ईदशोऽस्मि । गा- भगवति वसुंधरे ! शरीरमसि संसारस्य । तरिकमसकि. दानेव जामात्रे कुप्यसि ? घोरं लोके विततमयशो या च वहौ विशुद्धि लङ्कादीपे कथमिव जनस्तामिह श्रदधातु ।
(१९४) साहित्य-सुधा-संग्रहः इक्ष्वाकूणां कुलधनमिदं यत्समाराधनीयः कत्लो लोकस्तदिह विषमे किस वत्सः करोतु ॥६॥ लक्ष्मपा: - अव्याहताऽन्तःप्रकाशा हि देवताः सरवेषु । गङ्गा-तथाप्येषतेऽञ्जलिः। रामः- अम्ब! अनुवृत्तस्थया भगीरथकुले प्रसादः। पृथिवी-नित्यं प्रसन्नास्मि तव । कि वसाऽऽवापातदुःसहा नेह- संवेगः । न पुनर्न जानामि सीतास्नेहं रामभद्रस्य । दह्यमानेन मनसा देवात्सां विहाय सः। लोकोत्तरेण सरवेन प्रजापुण्यैश्च जीवति ॥७॥ - सकरुणा हि गुरखो गर्भरूपेषु । सीता--(ब्दती कृताञ्जलिः ।) नयतु मामात्मनोऽङ्गेषु विलयमम्बा। गङ्गा-किं ब्रवीषि । भविलीनी वत्से ! संवत्सरसहस्राणि भूयाः। पृथिवी-वत्से ! अवेक्षणीयौते पुत्रौ । सीता-किमेताभ्यामनाथाभ्याम् ? राम: हृदय ! धनमसि। गा-कथं वत्सौ सनाथावप्यनाथौ? सीता-कीदर्श मे ममाग्यायाः सनाथत्वम् ? देव्यो- जगन्मङ्गलमात्मानं कय स्वमवमन्यसे। बाययोरपि यत्सङ्गात्पवित्रत्वं प्रकृप्यते ॥८॥ लक्ष्मणः 'आर्य! भ्रूयताम्।
तृतीयो बिन्दु (११५) राम:-लोकः शृणोतु। ( नेपथ्ये बालकालः।) रामः- अद्भुतसरं किमपि। सीता--किमित्याबद्धकलकल प्रश्वलितमन्तरिक्षम् । देव्यो-शातम्। भृशाऽभ्यः कौशिको राम इति येषां गुरुकमः। प्रादुर्भवन्ति ताम्येष शस्त्राणि सह जृम्भकैः ॥ ६ ॥ (नेपथ्ये।) देवि सोते ! नमस्तेऽस्तु गतिर्नः पुत्रको हि ते । मालेख्यदर्शनादेव ययोर्दाता रघुबहः ॥ १९ ॥ सीता-दिल्या अस्त्रदेवता एताः । आर्यपुत्र ! अद्यापि ते प्रसादा: परिस्फुरन्ति । लक्ष्मण:-उकमासीदायेंण- सर्वथैतानि त्वत्प्रसवमुपस्वास्सन्तीति देव्यौ-- नमो वः परमाऽत्रेभ्यो धन्याः स्मो वः परिग्रहात्। काले ध्यातैरुपलेयं वत्सयोर्भमस्तु वः ॥ ११ ॥ - क्षमिता कामपि दशां कुर्वन्ति मम संप्रति। विस्मयाऽऽनन्दसंदर्भ जर्जरा करुणोर्मयः॥१२॥ देव्यो- मोदस्व. वत्से ! मोदस्ख. । रामभवतुल्यौ ते पुत्रकाश्रिदानी . संवृत्ती।
(११५) साहित्य-सुधा-संग्रहः सीता-भगवत्यौ ! एतयोः क्षत्रियोचितविधि कारयिष्यति ? - एषा वसिष्ठशिष्याणां रघूणां घंशनन्दिनी । कष्टं सीतापि सुतयोः संस्कर्तारं न विन्दति ॥ १३ ॥ गहा-भरे! कितवाऽनया चिन्तया । एतौ हि वत्सौ स्तन्यत्यागा. परेण भगवतो वाल्मीकेरर्पयिष्यामि । वसिष्ठ एव याचार्यों रघुवंशस्य संप्रति । स एव बानयोर्ब्रह्मक्षत्रकृत्यं करिष्यति ॥१६॥ यथा वसिष्ठाङ्गिरसौ ऋषिः प्राचेतसस्तथा। जनकानां रघूणां च वंशयोरुभयोर्गुरुः ॥ १५॥ राम:-सुविचिन्तितं भगवत्या । लक्ष्मणः-आर्य! सत्यं विज्ञापयामि । वैस्तैरुपायैरिमौ वत्सौ कुशलवावुत्प्रेक्षे। एतौ हि जन्मसिद्धास्त्री प्राप्तप्राचेतसावुभौ। आर्यतुल्याकृती वीरौ वयसा द्वादशाब्दको ॥ १६ ॥ रापः वत्सावित्येवाहं परिप्लवमानहृदयः प्रमुग्धोऽसि । पृथिवी-पहि पत्से ! पवित्रीकुरु रसातलम् । रामः-प्रिये! लोकान्तरं गतासि ? सीता- नयतु मामात्मनोऽङ्गेषु पिलयमस्वा । न सहिध्ये दर्श जीवलोकस्य परिभवमनुमषितुम् । लक्ष्मणः किमुत्तरं स्यात् । .
एतीयो बिन्दु (११७) पृथिवी-मभियोगतः स्तन्यत्यागं यावत् पुत्रयोरवेक्षस्व । परेण तु यथा रोचिष्यते तथा करिष्यामि । गङ्गा-एवं तावत्। (ति निष्क्रान्ते देव्यौ सीता च ।) राम:-कथं प्रतिपन्न एव तावत् । हा चारित्रदेवते ! लोकान्तरे पर्यवसितासि। (इति मछति।) लक्ष्मण:-भगवन्वाल्मीके! परित्रायस्व परित्रायस्व । एष ते काव्यार्थः। (नेपथ्ये।) अपनीयतामातोद्यम् । भो जङ्गमस्थायराः प्राणभृतो मामाः, पश्यन्विदानी वाल्मीकिनाभ्यनुज्ञात पवित्रमाश्चर्यम् । लक्ष्मण:- (विलोका।) मन्थादिव क्षुभ्यति गाङ्गमम्भो. व्याप्तं च देवर्षिभिरन्तरिक्षम् । भाश्चर्यमार्या सह देवताभ्यां गङ्गामहीभ्यां सलिलादुपैति ॥ १७ ॥ (नेपथ्ये ।) अरुन्धति ! जगन्धे गङ्गापृथ्व्यौ जुषस्व नौ । अर्पितेयं तवाऽऽवाभ्यां सीता पुण्यवता वधूः॥१८॥ लक्ष्मण:- अहो आश्चर्यमाधयम् । आर्य ! पश्य पश्य । कष्टमद्यापि नोच्छ्वसित्यार्यः।
(११) साहित्य-सुधा-संग्रहा (ततः प्रविशत्यसम्पती सीता ।) अरुन्धती त्वरस्व वत्से वैदेहि !मुच शालीनशीलताम् । एहि जीषय मे वत्सं सौम्यस्पर्शन पाणिना ॥१६॥ सीता-- ( ससंघम स्पृशति । ) समाश्वसितु समाश्वसित्वार्यपुत्रः । रामः-- ( समारणस्य सानन्दम् । भोः, किमेतत् १ (दृष्ट्वा सहद्भुितम् ।) कथं देवी जानकी ? (सललम् । ) अये, कथमम्बाऽरुन्धती ? कथं सर्वे ऋष्यशृङ्गादयोऽस्मद्गुरवः ? अरुन्धती - वत्स! एषा भागीरथी रघुकुलदेवता देवी गङ्गा सुप्रसन्ना। (नेपथ्ये।) जगत्पते रामभद्र! स्मर्थतामालेख्यदर्शने मां प्रत्याऽऽत्मवचनम्-“सा त्वमम्ब ! स्नुषायामरुन्धतीष सीतायां शिवानुध्यानपरा भव" इति । तदनृणाऽस्मि। अरुन्धती इयं ते श्वश्र भगवती वसुंधरा । (नेपथ्ये।) उक्तमासीदायुष्मता बत्सायाः परित्यागे-'भगवति वसुंधरे!श्लाघ्यां दुहितरमवेक्षस्व जानकीम्' इति । तदधुना कृतवचनालि । रामः-कृतापराधोऽपि भगवति ! त्वयानुकम्पयितव्यो रामः प्रणमति। अरुन्धती-भो भोः पौरजानपदाः! इयमधुना वसुंधराजाहषीभ्या- मेवं प्रशस्यमाना मया चाऽरुन्धत्या समर्पिता पूर्व भगवता वैश्वान- तृतीयो बिन्दु (१९९) रेण निर्णीतपुण्यचारित्रा सब्रह्मकैश्चदेवैः स्तुता सावित्रकुलवधू. देवयजनसंभवा जानकी परिगृश्यताम् । कमिह भवन्तो मन्यन्ते ? लक्ष्मण:- आई! एवमम्बयारुन्धत्या निर्भसिताः पौरजानपदाः कृतमश्च भूतग्राम आर्या नमस्कुर्वन्ति।लोकपालाः सप्तर्षयश्च पुष्प- वृष्टिभिरुपतिष्ठन्ते। अरुन्धती-- जगत्पते रामभद्र ! नियोजय यथाधर्म प्रियां त्वं धर्मचारिणीम् । हिरएमय्याः प्रतिकृतेः पुण्यां प्रकृतिमध्वरे ॥२०॥ सीता--(स्वगतम् ।) अपि जानात्यार्यपुत्रः सीताया दुःख परिमाष्टुम् ? रामः-यथा भगवत्यादिशति । लक्ष्मण:-कृतार्थोऽसि । सीता-प्रत्युजीवितासि । लक्ष्मण:-आयें! अयं लक्ष्मणः प्रणमति । सीता-वत्स! ईदृशस्त्वं चिर जीव । अरुन्धती-भगवन्वाल्मीके ! उपनयेदानी सीतागर्भसंभवौ राम- भद्रस्य कुशलवी । (इति निष्क्रान्ता ।) रामलक्ष्मणौ-दिष्टया तथैवैतत् । सीता-कतौ पुत्रको ? (मतः प्रविशति वाल्मीकि कुशलवी च।) वाग्मीकिः-वत्सौ ! एष वां रघुपतिः पिता । एष लक्ष्मणःकनिष्ठ. तातः । एषा सीता जननी । एष राजर्षिजनको मातामहः । सीता-(सहर्षकरुणा तं विलोक्य ।) कथं तातः कथं जाती?
'(१२०) साहित्य-सुधा-संग्रहा घसौ हा तात ! हा अम्ब ! हा मातामह ! रामलक्ष्मणौ--(सहर्षमालिङ्गय ।) ननु परसौ ! युवां प्राप्ती खः ? सीता- एहि जात कुश ! एहि जात लव ! चिरस्य मां परिष्वजेथां लोकान्तरादागतां जननीम्। कुशलवी-(तथा कृत्वा ।) धन्यौ स्वः । सीता--भगवन् ! एषाऽहं प्रणमामि । वाल्मीकिः-वत्से ! एवमेव चिरं भूयाः । ( नेपथ्ये।) "उत्खातलवणो मधुरेश्वरः प्राप्ता।" लक्ष्मणः-सानुषङ्गाणि कल्याणानि । रामः सर्वमिदमनुभवन्नपि न प्रत्येमि।यद्वा प्रकृतिरियमभ्युदयानाम्। वाल्मीकिः--रामभद्र ! उच्यतां किं ते भूयः प्रियमुपहरामि ? रामः--अतः परमपि प्रियमस्ति ? किं त्विदं भरतवाक्यमस्तु- पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि सेयं कथा माङ्गल्या च मनोहरा च जगतो मातेव गङ्गव च । तामेनां परिभावयन्त्वभिनयैर्विन्यस्तरूपां बुधाः शब्दब्रह्मविदः कः परिणतां प्राशस्य पाणीमिमाम् ॥ २१ ॥ (निक्रान्ताः सवें।) इति सप्तमोऽङ्कः। इति महाकवि श्री भवभूति प्रणीत उत्तररामचरितं समाप्तम् - अनर्घराघवम द्वितीयोऽङ्कः * प्रभातवर्णनम् - (ततः प्रविशति यजमानशियः ।) 1:-अये, प्रभातप्रायेव रजनी । तथा हि- तमोभिः पीयन्ते गतवयसि पीयूषवपुषि ज्वलिप्यन्मार्तण्डोपलपटलधूमैरिवा दिशः। सरोजानां कर्षनलिमयमयस्कान्तमणिवत् क्षणादन्तःशल्यं तपति पतिरद्यापि न रुचाम् ॥१॥ भपिच। जाताः पक्कपलाएडुपाण्डुमधुरच्छायाकिरस्तारका प्राचीमंकुरयन्ति किंचन रुचो राजीवजीवातवः । लूतातन्तुवितानवर्तुलमितो बिम्ब द्धथुम्बति प्रातः प्रोषितरोचिरम्बरतलादस्ताचलं चन्द्रमाः ॥२॥ (सर्वतोऽवलोक्य च।) दिङ्मएडलीमुकुटमण्डनपाराग- रत्नांकुरे किरणमालिनि गर्भितेऽपि । सौखप्रसुप्तिकमधुवतचक्रवाल. धाचालपङ्कजवनीसरसाः सरस्यः ॥३॥ भपिचा प्राचीविभ्रमकर्णिकाकमलिनीसंवर्तिकाः संप्रति देतिनो रमणीयमम्मरमणेमुधरन्ते रुचः।
(१२२) साहित्य-सुधा-संग्रहः सूक्ष्मोच्छ्वासमपीदमुत्सुकतया संभूय कोषादहि- निष्क्रामभ्रमरौघसंभ्रमभरादम्भोजमुज्जृम्भते ॥४॥ अपि च। एकद्विप्रभृतिक्रमेण गणनामेषामिवास्तं यतां कुर्वाणा समकोचयइशशतान्यम्भोजसंवर्तिकाः। भूयोऽपि क्रमशः प्रसारयति ताः संप्रत्यमूनुद्यतः संख्यातुं सकुतूहलेव नलिनी भानोः सहस्र करान् ॥ ५ ॥ अपि च। प्रत्यासन्नसुरेन्द्रसिन्धुरशिरःसिन्दूरसान्द्रारुणा यत्तेजनसरेणवो धियदितः प्राचीनमातन्वते । शङ्क संप्रति यावदभ्युदयते तत्तकैटङ्कोन्मजा- रज्यद्विम्बरजश्छटावलयितो देवस्त्विषामीश्वरः ॥६॥ ( पुरोऽवलोक्य ।) कथमिदमुदयाचलमौलिमाणिक्यमर्कमण्डलमद्यापि न विहायस्तलमलंकरोति । तदस्मद्रोवितायमानयज्ञस्य कुलपतेः कौशि- कस्यादेशात्समिदाहरणाय प्रस्थितोऽस्मि । तस्वरित गच्छामि । (इति परिक्रामति ।) * अहल्योद्धार * (प्रविश्य संभ्रान्तो वदुः ।) बटुः- आर्य शुनःशेफ ! किमप्याश्चयं भीषणं च धर्तते । शुनशेफ:- (सचमत्कारं परिवृत्य ।) सखे पशुमेढ़ ! किमाश्चर्य भीषण च वर्तते? पशुमेढ़ः-- अद्य, राम इति कोऽपि क्षत्रियकुमारआगत इति श्रुत्वा कुतूहलेन धावतस्तपोवनपर्यन्तपरिस्थिता प्रस्तरपुत्रिका सत्य.
तृतीयो बिन्दु (१२३) मानुषीभूय ममैव संमुखं परापतिता। तां प्रेक्ष्य उत्तरासङ्गवल्कल- मप्युज्झित्वा पलायितोऽस्मि। शुनःशेफ:-- (विहस्य ।) सखे !साधु कृतम् । दिष्ट्या हि जीवतः पुनरावृत्तिः। पशुमेदः- तद्रक्षतु मामार्य एतस्या दुष्टराक्षस्या मुखात् । शुनःशेफ:- (सस्मित मुत्थाप्याऽऽलिंग्य च । ) वयस्य! शृणोषि भगवतो. गौतमस्य महर्षे रहल्यां नाम धर्मदारान् ? पशुमेढ़ः-- या जनकवंशपुरोहितस्य तत्रभवतः शतानन्दस्य जननी ? ततस्तत:- शुनशेफ:- सेयं पुग पुरुहूतखण्डितचरित्रा तस्य दीर्घतपसो. मुनेर्मन्युना निजमेव तदिन्द्रियदौर्बल्यमेवं विवर्तमानमनुभवन्ती संप्र. रघुराजपुत्रस्य तेजसा तस्मादन्धकारानिरमुच्यत । तदलमा. त्यस्य वेगेन । पशुमेदः - ( उम्मील्य चक्षुषी सर्वतोऽवलोक्य । ) अहो आश्चर्यम् ! आर्यस्य प्रसादेन पुनरपि जीवलोके प्रविष्टोऽस्मि । तथापि शङ्काज्वरोऽद्यापि न मां परित्यजति । तदार्य शुनःशेफ ! मुहतं विश्र- म्यताम्। शुनःशेफ:-सखे ! भयमिति किमेतद्वाह्मणस्य ? तत्पर्यवस्थापय आत्मानम्। (इत्युपविशतः।) पशुमेदः- (चिरं विमृश्य निःश्वस्य च सविस्मयम् ।) कथं विषयमृग- तृष्णासलज्जलया भगवतो हरेरपि हरिणता विटप्यते ?
(१२४)
साहित्य-सुधा-संग्रह
शुनःशेफ:- (विहस्य । ) साधु प्रवीपि । अल्पीयान्सल्वयं लोकः ।
कथमैहिकसुखाध्यवसायाद्वै अमूर्भूयस्यो रात्रयः पराहण्यन्ते। कि तुमनो.
हारिभिराहार्यराह्रियमाणलोचनद्वितयस्यापि न जनो विवेकमडशयितु-
मधीष्टे । किं पुनर्नयनसहस्रतयस्य तादशि विभवे मरुतां पतिः चक्षुः-
प्रीतिमुद्भवन्तीमनूद्भवन्ति चाऽपराणि कुसुमचापचापलानि ।
पशुमेदः- ( विहस्या) मन्ये एतस्या एव मुनिगृहिण्याः पुण्यपरिणामो.
ऽत्र रामभद्रस्य प्रवासे कारणम् ?
शुनःशेफ:- इदं तावत्प्रथमम् ।
पशुमेढ़ः- (साभ्यर्थनम् ) आर्य ! द्वितीय मपि श्रोतु मनेन तप
घचनेन पर्युत्सुकोऽस्मि ।
शुनाशेफ:- सखे ! स्वयि किमकथनीयं नाम । अस्ति किष्किन्धार्या
पुरंदरस्य नन्दनो बालि म प्लवगराजः । तं च रजनीचरचक्रवर्तिना
दशकंधरेण सह प्रवृत्तमैत्रीकमधलोय वानराच्छभल्लगोलाङ्गुलप्रभृती.
मामावार्यः सर्वामात्यानुमत्तो जाम्बवानवादीत्-
पशुमेढ़ः- ( सकौतुकम् ) ततस्तत:-
शुनःशेफ:- ततश्च, "राजन् ! मायाविनी खल्वियं राक्षसजातिः ।
विशेषेण महेन्द्रावस्कन्दकन्दलितविक्रमः पितृवैरी तवायं रावणः।
अपि च त्वदीयदोर्मूलसंपीडनगलितपौरुषो न विश्वविजयीति खय-
माशङ्कनीयः । नापि सामन्ताऽन्तरजिघृक्षायामन्तरावर्तिनि समुद्र
लघुसमुत्थः । तदनेम घिराद्धमण्डलेन सहासुरविजयिना मैत्रमनर्था-
मुबन्धि । किं च सर्वथेयमनुपकारिणी पुलस्त्यापत्येषु प्रीतिरिति
भगवानिहोदाहरणं हरिणाडुशेखरः । तथा हि-
उक्षा रथो भूषणमखिमाला भस्माङ्गरागो गजचर्म वासः।
एकालयऽपि धनाधिनाथे सख्यौ दशेयं त्रिपुरान्तकस्य ॥ ७ ॥
तृतीयो बिन्दु (१२५) पशुमेढ़ः- (सहासम् ) अहो स्थविरभल्लूकस्य मन्त्रोपन्यासः परिहास- कुशलता च । ततस्ततः शुनाशेफ:-- ततश्च तद्वचनं "जराप्रलपितम्॥ इत्युपहसति हरीश्वरे उपांशु तदनुमत्या महामात्यस्य केसरिणः पुत्रो हनुमान्कुमारं सुप्रीव. मादाय ऋष्यमूकं नाम पर्वतदुर्गमनुप्रविष्टः । पशुमेढ़ः-- (साकूतम्।) आर्य ! योऽसौ मारुति प्रेतामलः' इतिश्रूयते? शुनःशेफ:- अथ किम् । पशुमेटूः- (सविचिकित्सम् ) आर्य ! यथा तथा भवतु । खामी स्वाम्येष। तं परित्यज्य नसदृशस्तादशस्य महानुभावस्य प्रतिकूल. परिग्रहः । शुनःशेफ:-- (विहस्य ।) पुरैव किलाऽयमाञ्जनेयो भगवतः सहस्र- किरणाव्याकरणविद्यामधीयानस्तदात्मजन्मनो वानरयोनेः सुग्रीवस्य साहायकमभिप्रायशो गुरुदक्षिणीचकार । पशुमेदूः ( सानन्दम् ) हुं । तदुचितमेव गुरुपुत्रः सब्रह्मचारी वाऽनु- घयते। ततस्तत:- शुनःविफ:-- ततश्चाऽहिमयोपजापजर्जरं सुहृद्गृहमुपश्रुत्य राक्षस राजः खरदूषणत्रिशिरोभिर्महामात्यैरधिष्ठितमात्मबलैकदेश सिन्धो- दीचि कूले बालिप्रतिग्रहाय प्राहिणोत् । पशुमेदः- कथमपरिहीनमित्रधर्मोऽपि स राक्षसः ? शुनःशेफ:- सखे ! किमुच्यते । रावणः खल्क्सौ. प्रियाकत स्वस्मै नवनिजशिरकतनरस- प्रहष्यद्रोमा यः स परमिह लङ्कापरिवृद्धः । - - - (१२६) साहित्य-सुधा-संग्रहः विलक्षव्यापार किमपि ददशुर्यस्य दशमं शिरस्ते मूर्धानः क्षणधृतपुनर्जन्मसुभगाः॥ ८॥ पशुमेदः- (सकौतुकम् ) ततस्ततः- शुनःशेफ: ततः सुकेतुसुना नागसहस्रबलधारिणी ताडका नाम राक्षली तस्मादनीकादागत्य मनुष्यमण्डलविहारकौतुकात् इमामस्मदीयां भूमिमधिवसति । पशुमेदः-- ( सकौतुकम् ।) नागसहस्रबला स्त्री अस्तीत्यश्रुतपूर्व खल्वे तत्। ततस्ततः-- शुन शेफ:--- ततश्च'श्रौतस्य विधेः प्रत्यूहमस्याः शङ्कमानः कुलपति- रिमौ दाशरथी रामलक्ष्मणावानीतवान् । पशुमेढ़:- जाने रामभद्र इति कोऽपि राक्षसानामुपर्यवतीर्णः खल्वसौ? शुनःशेफ:- सखे ! एवमेतत् , रामभद्र इति कोऽप्ययं चतुरक्षरो- राक्षसरक्षासिद्धमन्त्रः । विशेषेण पुनरिदानी भगवता कौशिकेन ब्रह्म ज्योतिषस्तादृशं विवर्तमाश्चयं दिव्यास्त्रमन्त्रपारायणमध्यापितः । पशुमेदः- मन्ये मन्त्रमयीभिरस्त्रदेवताभिः समं बलातिबले शक्ती अपि रामे संक्रमिष्यतः ? शुनाशेफ:- अथ किम् । तदपि वृत्तमेव । पशुमेढ़ः- आर्य ! ननु भणामि यदि निजा एव शक्तयो निजा- एवास्त्रविद्याः। तत्किमित्यात्मनो विघ्नोपशमे राघवस्य गौरवमुत्पा- दयति तत्रभवान्कौशिकः ? शुनाशेफ:- सखे ! अनभिज्ञोऽसि । स्वयं प्रयोगादन्तेवासिभि- विहितः प्रयोगो महिमानमाचार्यागामुपचिनोति । पश्य-
तृतीयो बिन्दुः
(१२७)
स्थानेषु शिष्यनिय हैर्विनियुज्यमाना
विद्या गुरुं हि गुणवत्तरमातनोति ।
आदाय शुक्तिषु बलाहकविप्रकीर्णे-
रत्नाकरो भवति वारिभिरम्बुराशिः ॥६॥
किं च दीक्षिष्यमाणा न क्रुध्यन्तीति रक्षितार क्षत्रियमुपाददते ।
पशुमेहः-- आर्य!शोभन मन्त्रयसे । भन्यदपि किमपि प्रष्टुकामोऽस्मिा
शुनशेफः-किं तत् ?
पशुमेदः- सर्वथा निगूढमपि वानराणां पाड्गुण्यं कथमार्येण
प्रतिपन्नम्?
शुनःशेफ:-सखे ! सर्वमेतदयोध्यायात्रायां समाधिमयेन चक्षुषा
साक्षात्कृतत्रिभुवनवृत्तान्तस्य तातविश्वामित्रस्य मुखादश्रौषम् ।
(सर्वतोऽवलोक्य ।) अये, प्रभातिकी भुवनस्य लक्ष्मीः । तथा हि--
प्रत्यग्रज्वलितैः पतङ्गमणिभिर्नीराजिता भानवः
सावित्राः कुरुविन्दकन्दलरुचः प्राचीमलं कुर्वते ।
प्रौढध्वान्तकरालितस्य
दप्रक्षालितनिर्मलं जगदहो निर्मोकमुन्मुञ्चति ॥१०॥
वपुषश्छायाछलेन
क्षणा-
अपि च।
पीत्वा भृशं कमलकुड्मलशुक्तिकोषा.
दोषातनी तिमिरवृष्टिमथ स्फुटन्तः।
निर्यन्मधुव्रतकदम्बमिषाद्वमन्ति
बिभ्रन्ति कारणगुणानिव मौक्तिकानि ॥ ११ ॥
अपि च।
विकसितसंकुचितपुनर्विकखरेवम्बुजेषु दुर्लक्ष्याः।
कलिकाः कथयति नूतनविकासिनीमधुलिहामः ॥१२॥
(१२)
साहित्य-सुधा-संग्रहा
(प्रादित्यमण्डलं निवर्य।)
कटुभिरपि कठोरचक्रवाकोत्करविरहज्वरशान्तिशीतवीर्यः ।
तिमिरहतमयं महोभिरजअयति जगन्नयनौघमुष्णभानुः ॥१३॥
तदनुजानीहि मां समिदाहरणाय ।
पशुमेद:--'अहमपि क्षत्रियकुमारयोर्दर्शने उत्कण्ठितोऽस्मि । तत्
कथय कुत्र प्रेक्ष?
शुनःशेफ:--(विहस्य ।) नन्वतावेत्र यशपाटमुत्तरेण विहारभूमिषु
क्रीड़तः। तदुपेत्य निःशङ्कमवलोकय ।
(ति निष्क्रान्ती)
इति विष्कम्भका।
* सिद्धाश्रमवर्णनम् .
(ततः प्रविशतो रामलक्ष्मणौ।)
रामः-- अहो विचित्रमिदमायतनं सिद्धाश्रमपदं नाम भगवतो.
गाधिनन्दनस्य।
तत्ताद्गुक्तृणपूलकोपनयनक्लेशाधिरद्वेषिभि-
मेंध्या वत्सतरी विहस्य बटुभिः सोलु ण्ठमालभ्यते ।
अप्येष प्रतनूभवत्यतिथिभिः सोच्छ्वासनासापुटै-
रापीतो मधुपर्कपाकसुरभिः प्राग्वंशजन्माऽनिलः॥१४॥
लक्ष्मण:-आर्य! किलाऽव-
देवः कौस्तुभकिंजल्कनीलोत्पलमसौ हरिः।
स्वयं किमपि तपे तपः कपटवामनः ॥१५॥
सृतीयो बिन्दुः (१२) इत्यमेतन्महातीर्थमध्यासीना द्विजातयः । अकुतोभयसंचाराः षट्कर्माणि प्रयुञ्जते ॥ १६ ॥ ( अन्यतम दृष्ट्वा ।) आर्य! पश्यैते पशुबन्धवेदिवलयैरौदुम्बरीदन्तुरै. नित्यव्यञ्जितगृह्यतन्त्रविधयो रम्या गृहस्थाश्रमाः। यत्रामी गृहमेधिनः प्रचलितस्वाराज्यसिंहासना- वैतानेषु कृपीटयोनिषु पुरोडाशं वषकुर्वते ॥ १७ ॥ राम:-( सहर्षस्मितम् ) वत्स! इतोऽपि तावत्कृतार्थयावश्चक्षुषी। प्रसन्नपावनोऽयमृषीणां समवायः । इदममीषाम्- पूरयित्वेव सर्वाङ्गमतिरिक्ताः शिराततीः । जटारूपेण बिभ्राणैः शिरोभिर्गहनं संदः ॥१८॥ तपाकृशतरैरङ्गः स्रष्टुमाकारितैरिष । सायं प्रातरमी पुण्यमग्निहोत्र प्रयुञ्जते ॥ १६ ॥ ( इति परिक्रामतः।) लक्ष्मण:--(सहासम् । ) आर्य! रमणीयमितोवर्तते। बालेयतण्डुलविलोपकदर्थिताभि. रेताभिरग्निशरणेषु सधर्मिणीभिः । तत्तासहेतुमपि दण्ड मुदस्यमान- माघ्रातुमिच्छति मृगे मुनयो हसन्ति ॥२०॥ रामः--(परिक्रामन्सकौतुकानुरागम् ।)वत्स! इतस्तावत्- भाईप्रसूतिरियमङ्गनयमवैदि- नेदिष्टमेव हरिणी तृणुते सूर्ण च।
(१३.) साहित्य-सुधा-संग्रहः वत्सीयतापसकुमारकरोपनीत. नीवारनिर्वृतमपत्यमवेक्षते च ॥ २१ ॥ भपिच। विष्वक्तपोधनकुमारसमय॑माण- श्यामाकतण्डुलहतां च पिपीलिकानाम् । श्रेणीभिराश्रमपथाः प्रथमानचित्र- पत्रावलीवलयिनो मुदमुवहन्ति ॥ २२॥ लक्ष्मण:--अहो पशूनामप्यपत्यवात्सल्यम्! अहो शिशूनामपि सत्कर्म- ताच्छील्यम् ! राम:--(अन्यलोऽवलोक्य । ) मुनिविनियोगविलूनप्ररूढमृदुशावलानि वहींषि । गोकर्णतर्णकोऽयं तर्णोत्युपकण्ठकच्छेषु ॥ २३ ॥ (इति परिक्रामतः।) लक्ष्मण:--आर्य! इयमेभिरालवालैः पदे पदे प्रन्थिलासु कुल्यासु । तीव्रतमा जलवेणिः प्रवहति विश्रम्य विश्रम्य ॥२४॥ रामः- वत्स! साधु दृष्टम् । आलवालवलयेषु भूरुहां मांसलस्तिमितमन्तरान्तरा। केरलीचिकुरभङ्गिभङ्गुरं सारणीषु पुनरम्बु दृश्यते ॥ २५ ॥ तदेहि । भगवती कौशिकीमालोकयन्तौ मुहूर्तमात्रमात्मानं पुनीमहे । (परिक्रम्यावलोक्य च ।)कचित्सांक्रामिकोऽपि विशेषो नैसर्गिकमतिशेते। तथा हि- तृतीयो विन्दुः (११) जडस्वच्छखादुप्रकृतिरुपहूतेन्द्रियगणो- गुणो यद्यप्यासामयमयुतसिद्धो विजयते । सथाप्युत्कर्षाय स्फुरति सरितामाश्रमसदा- मिदानी वानीरदुमकुसुमजन्मा परिमलः ॥ २६ ॥ लक्ष्मणः--आर्य ! पुरस्तादनुकौशिकीतीरमालोकय । तैमेधाजननवतपणयिभिषूहैर्बटूनामियं सिक्ता नित्यवसन्तविभ्रमवती रम्या. पलाशावली। एतस्यां हरिणारिपाणिजमणिश्रेणिश्रियः कोरका- गोपायन्ति तपोवनं वनकरिक्रोडाकराकर्षणात् ॥ २७॥ (नेपथ्ये।) "रामभद्र ! कियधिरमवलोकनेन कृतार्थीक्रियन्ते तपोवनविहार. भूमयः। संप्रति हि- परिणमयति ज्योतिवृत्या यजूंषि रुचां पतिः किमपि शमिनः सावित्राख्यं रहस्यमुपासते। गुरुरयमनुष्ठास्यन्माध्यदिनी सवनक्रिया. मिह मखविधौ नेदीयांसं भवन्तमपेक्षते ॥ २८ ॥ रामः--(अश्रुतमभिनीय सानुरागम् ।) चारांखीनभिषुण्वते विदधते वन्यैः शरीरस्थिती रैय्यां त्वचि संविशन्ति वसते चापि त्वचस्तारवीः । तत्पश्यन्ति च धाम नाभिपततो यश्चार्मणे चक्षुषी धन्यानां विरजस्तमा भगवती चर्येयमाहादते ॥ २६ ॥ (नेपथ्ये पुनस्तदेव पाते।) राम:--(भुत्वा ससंभ्रमपूर्ध्वमवलोक्स ।) कथं गगनमध्यमध्यारुढी- दृष्ट्वा ।) आर्य! (१३२) साहित्य-सुधा-संग्रहः निदाघदीधितिः! वत्स!तदेहि । यसवाटमधिष्ठाय क्रमेण कृताहिकस्य भगवतः कौशिकस्य प्रत्यनन्सरीभवावः । ( इति परिकामतः।) लक्ष्मण:--( सर्वतो ज्दामधुमणिधुतिव्यतिकरप्रक्रीडदोपल- ज्वालाजालजटालजाङ्गलतटीनिष्कूजकोयष्टयः । भौमोष्मप्लषमानसूर्यकिरणक्रूरप्रकाशा दृशो- रायुष्कर्म समापयन्ति धिगमूर्मध्याहशून्या दिशः ॥३०॥ अन्तिकतमा चेयं यशपाटभूमिः। तदेतदेव न्यग्रोधच्छायामण्डपम- ध्यासीना ऋत्विजः प्रत्यवेक्षामहै। गलितयौवने पुनरहनि भगवन्तं द्रक्ष्याधः। राम:--एवमस्तु। (इति परिक्रम्य नाव्य नोपविशतः ।) लक्ष्मण:--(पारवतोऽवलोक्य ।) आर्य! मध्य व्योम क्रीडयित्वा मयूखान्भानोर्बिम्बे लम्बमाने क्रमेण । स्वैरं स्वैरं मूलतः पादपानां पश्य च्छायाः कश्चिदाकर्षतीव ॥३१॥ रामः :-( समन्तादवलोय।) वत्स! मध्य दिनमतिकान्तमिति दिनम्- प्यतिक्रान्तमेव । पश्य- गगनशिखरमुदयाद्ररधिरूढाः कष्टमर्करथहरयः । अस्तमहीधरमधुना झटिति सुखेनाधरोहन्ति ॥३२॥ लक्ष्मण:- आर्य! नूनमध रक्षांसि परापतिप्यन्ति। यदयमध्धर- घेदिकासनिधानं ते शुनःशेफमुखेन भगवानुपाध्यायः प्रशास्ति । राम:--(सरोषाहंकारम् ।) वत्स! ययेवं ज्याद-
सृतीयो बिन्दुः
(१३३)
कल्पान्तकर्कशकृतान्तभयंकर में
निष्प्रनतः क्रतुविघातकृताममीषाम् ।
नीराक्षसां वसुमतीमपि कर्तुमद्य
पुण्याहमङ्गलमिदं धनुराधातु ॥ ३३ ॥
लक्ष्मण:---(विहस्य ।) कथं रजनीचरचक्रविनाशोत्कएठविसंस्थुल-
मार्थहदयमदीर्घदर्शिन भगवन्तं कौशिकमपि संभावयति ।
अविद्याबीजविध्वंसादयमार्षेण चक्षुपा ।
कालौ भूतभविष्यन्तौ धर्तमानमवीविशत् ॥ ३४ ॥
रामः-किमुच्यते ? तत्रभवान्विश्वामित्रः-
प्रज्ञातब्रह्मतत्वोऽपि स्वर्गीयैरेष खेलति ।
गृहस्थसमयाचारप्रक्रांतैः सप्ततन्तुभिः ॥ ३५॥
भपिच।
आकृतो विनयनम्रमहेन्द्रमौलि.
मन्दारदाममकरन्दरसैरिवायम् ।
प्रक्रान्तकुण्डलितनूतनभूतसर्ग-
स्त्रैशङ्कवं चरितमद्भुतमाततान ॥ ३६॥
लक्ष्मण:-(पुरोऽवलोक्य सहर्षम् ।)
आभिरध्वरचर्याभिः श्रौतमर्थ कृतार्थयन् ।
अये कुलपतिः सोऽयमित एवाभिवर्तते ॥३७॥
(ततः प्रविशति दीधितवेषो विश्वामित्रः।)
।
राम:--(निवर्य । सबहुमासम् ।) वत्स लक्ष्मण! पश्य ।
कर्मणः श्रूयमाणस्य व्यञ्जनैरधिकोज्ज्वलाम् ।
तपस्तेजोमयीं लक्ष्मीमघ पुष्णाति मे गुरुः ॥ ३८॥
(१३४) साहित्य-सुधा-संग्रहः विश्वामित्र:-(परिक्रामम्सहर्षम् ।) हन्त । कृतकृत्यप्रायमात्मानं पश्यामः । यतः। निवृत्तो बहु तापदध्वरभुजामातर्पणोऽयं विधि- यादेन समं सुकेतुदुहिता चाचैव घानिष्यते । पाणौकृत्य पुनर्वृषध्वजधनुर्भङ्ग कशुल्कां वधू. मैश्वाके सुरकार्यदिक्षु चलति स्वास्थ्य विधातास्महे ॥ ३९ ॥ (रामलक्ष्मणावुत्थायोपसर्पतः) विश्वामित्र:-(राममतिचिरं निवर्य सस्नेहकौतुकम् ।) एष वैहारिक वेषमादधानो धनुर्धरः । तत्त्वमान्तरमस्माकममृतैरिव लिम्पति॥४०॥ उभौ--(उपसृत्य । ) भगवन् ! दाशरथी रामलक्ष्मणावभिवादयेते। विश्वामित्र:-(प्रालिङ्गय ।) वत्सौ ! किमन्यदाशास्महे । युवाभ्यामभिनिवृत्तयोगक्षेमस्य वत्रिणः । ऐश्वर्यप्रक्रियामात्रकृतार्थाः सन्तु हेतयः ॥ ४१ ॥ ( उभौ तूष्णीमधोमुखौ स्तः ।) विश्वामित्रः-(विहस्य ।) वत्सौ ! समन्तादुपशीलितोऽयं संनिवेशः । कश्चिदमदीयास्तपोवनभूमयो रमयन्ति वामुपस्नेहयति वा गार्हस्थ्य. मृषीणाम् ? उभौ-(सप्रश्वयम् ।) भगवन् ! रम्यमेतदरम्य वा कः परिच्छेत्तुमर्हति । किंतु यातिगं चित्तमय नौ पश्यतोरभूत् ॥ ४२ ॥ (इति सर्वे यथोचितमुपविशन्ति ।
तृतीयो बिन्दु (१५) । विश्वामित्रः-- (साकूसस्मितम् । ) वत्सौ ! इह वनेषु स कौतुकवामनो मुनिरतप्त तपांसि पुरातनः। तमिव पामलोक्य तपखिनो नयनमद्य मनागुदमीमिलन् ॥४३॥ ( उभौ मुहूर्तमुन्मनीभवतः।) * दिवसावसानवर्णनम् * विश्वामित्र:-(स्वगतम् ) अये, किमप्युत्साहवर्धनाय प्राग्भवीयमनु. स्मारितमन्तःकरणनयोः। तदेतावदस्तु । अन्यतःप्रक्षिपामि । (प्रत्यगव- लोक्य प्रकाशं ससंभ्रमम् ।) कथमुदयगिरिकाश्मीरकुङ्कुमकेदारस्य प्रभात. संध्यालतायाः प्रथमस्तबको गभस्तिमाली हस्ताहस्तिकया कुतूहलिनी- भिर्दिगङ्गनाभिर्वारुणी यावदुपनीतः। (सनिर्वेदं च ।) यातोऽस्तमेष चरमाचलचूडचुम्बी पङ्केरुहप्रकरजागरणप्रदीपः । आः सर्वतः स्फुरतु, कैरवमाः पिबन्तु ज्योत्नाकरम्भमुदरंभरयश्चकोराः॥४४॥ (सर्वतोऽवलोक्य । अयमपि खरयोपित्कर्णकापायमीष. द्विसमरतिमिरोर्णाजर्जरोपान्तमर्चिः । मदकलकलविङ्कीकाकुनान्दीकरेभ्यः क्षितिरुहशिखरेभ्यो भानुमानुश्चिनोति ॥४५॥ अपिच। मन्त्रसंस्कारसंपन्नास्तन्वदौदन्वतीरपः। एतत्तयीमयं ज्योतिरादित्याख्यं निमज्जति ॥४६॥ राम:-( सर्वतो निरूप्य ।) वत्स लक्ष्मण ! तापनैरेव तेजोभिः प्लुष्टनिर्वाणमेचकाः। दिशो जाताः प्रतीची तु समुदाचरति क्रमात् ॥४७॥ किच।
(१३६) साहित्य-सुधा-संग्रहः कांचिद्विभ्रति भूतिमाश्रमभुवो वैतानवैश्वानर- ज्यालोपल्लवमानधूमवलभीविभ्रान्तदिग्भित्तयः । श्रूयन्तै बटवस्तृतीयसवनस्वाध्यायदीर्घानपि स्पर्धाबन्धमनोहर प्रति मुहुः स्वान्द्राधयन्तः स्वरान् ॥४॥ विश्वामित्रः-वत्स राघव! उन्मुक्ताभिर्दिवसमधुना सर्वतस्ताभिरेव स्वच्छायाभिर्निचुलितमिव प्रेक्ष्यते विश्वमेतत् । पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्राङ्गीयं रमयति तमःस्तोमलीला धरित्री ॥ ४६॥ लक्ष्मण:-(समियेदम्।) तेजोमयं तमोमयमन्यतरस्यां तदेव दिक्चक्रम् । किमपि विचित्रा धात्रा सृष्टिरियं भुवनकोषस्य॥५०॥ (सर्वतोऽवलोक्य ।) चूडारत्नैः स्फुरद्भिविषधरविवराण्युज्यलान्युज्वलानि प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात्कृशानुः। किं चामी शल्ययन्तस्तिमिरमुभयतो निर्भराहस्तमिस्रा- संघट्टोपिष्टसंध्याकणनिकरपरिस्पर्धिनो भान्ति दीपाः ॥५१॥ राम:-( विलोक्य ।) विश्व चाक्षुषमस्तमस्ति हि तमाकैवल्यमौपाधिक- प्राच्यादिव्यवहारबीजविरहादिङ्मात्रमेव स्थितम् । गृह्यन्ते भयहेतवः पटुभिरप्यक्षान्तरै ति च ध्वान्तेनातिघनेन वस्तु वचसा हातः स्वरेणामुकः॥५२॥ किच।
तृतीयो बिन्दु धनतरतिमिरघुणोत्करजग्धानामिव पतन्ति काष्ठानाम् । छिट्टैरमीभिरुडुभिः किरणव्याजेन चूर्णानि ॥ ५३ ॥ * ताडकादिवधः (नेपथ्ये कलकला।) (पर्ये ससंभ्रममाकर्णयन्ति ।) (पुनस्तत्रैव।) निर्मज्जचक्षुरन्तर्भमदतिकपिशङ्करतारा नरास्थि- प्रन्थि दन्तान्तरालप्रथितमविरतं जिह्वया घट्टयन्ती । ध्वान्तेऽपि व्यात्तवक्तज्वलदनलशिखाजर्जरे व्यक्तकर्मा निर्मान्ती गृध्ररौद्री दिवमुपरि परिक्रीडते ताडकेयम् ॥५४॥ भपिचा प्रेताग्निकुण्डपूर च वर्षन्तो रुधिरच्छटाः। हिंस्राः सुबाहुमारीचमिश्रा नः परिवृण्वते ॥ ५५ ॥ विश्वामित्रः- (साकूतम् । ) कथं ताडका ? वत्स रामभद्र ! विधानमानुश्रविकं गृहेषु नः प्रतिस्किरन्ती किमियं प्रतीक्ष्यते। सुबाहुमुख्यः सममाततायिभिहाण चापं निगृहाण ताडकाम्॥ ५६ ॥ रामः-(सघृणातिरेकम् ।) भगवन् ! नियमिमाम् ? (पुनर्ने पथ्ये ।) "अब्रह्मण्यम् । भोस्तात विश्वामित्र ! परिभ्यामहे । प्रहीयता. मधिज्यधन्वा दाशरथिः। राम:-(विहस्य । नेपथ्यावलोकितकेन ।) बालर्षे शुनःशेफ ! मुहूर्त धीरोभव।
साहित्य-मा-संग्रहः बल क्लिशिल्या मुरुमल्पकोऽयं विधिस्त्वनाव-गरीयसीनः । न कौशिकस्य त्वयि धर्मपुझे पुने मधुच्छन्दसि पा विशेषः ॥७॥ विश्वामित्र-वत्स! कृतमुत्तरोत्तरेण । नन्वयं नेदीयानाश्रमोपघातः। लक्ष्मणः- (सव्यथमिव । स्वगतम् ।) मीमांसते किमार्योऽयं कौशिकेऽप्यनुशासति । वाचमेषामृषीणां हि शास्त्रमेवानुवर्तते ॥५८॥ राम:-(स्वगतम् ।) गुर्वादेशादेव निर्मीयमाणो नाधर्माय स्त्रीवघोऽपिस्थितोऽयम् । अथ स्थित्या श्वो गमिष्यद्भिाल्पैर्लजास्माभिर्नालिसाक्षर्जितैव ॥५६॥ कितु- दीधं प्रजाभिरतिकौतुकिनीभिरामि. रस्मिन्नकीर्तिपटहे मम ताड्यमाने । ज्योतिर्मयेन वपुषा जगदन्तसाक्षी लज्जिष्यते कुलगुरुभगवान्वसिष्ठः ॥ ६ ॥ (नेपथ्ये।) "मलमिष्ट्वा ममान्मूर्खाः ! खगधारेयमस्ति नः । अवीयानयं पन्थाः खोकमुपतिष्ठते” ॥ ६१ ॥ रामः- (श्रुत्वा सरोषं ससंभ्रम चोत्याय प्रविनयमञ्जलि बया।) भगवन् ! जगत्तयगुरो गाधिन्दन ! दशरथगृहे संभूत मामधाप्य धनुर्धर दिनकरकुलास्कन्दी कोऽयं कलङ्कनवाङ्कुरः ।
(१३६)
सृतीयो बिन्दु
इति न वनितामेतां हन्तुं मनो विचिकित्सते
यदधिकरणं धर्मस्थीयं तवैव वचांसि नः ॥६२ ।।
(प्रणिपत्य नेपथ्याभिमुखम् । ) भोस्तपोधनाः! मा भैष्ट ।
रजनिचरचमूरमूरपास्यन्नयमहमागत एव रामचन्द्रः ।
कुशिकसुतकुशाग्रतोयबिन्दोरिद्मनुकल्पमवेत कार्मुकं मे ॥ ६३ ॥
(इति धनुरारोपयनिष्क्रान्तः ।)
लक्ष्मण:-
-(साशङ्कमात्मगतम् । ) दिष्टया क्षात्रेण धर्मेण कौमारमप्य.
शून्यमार्यस्यासीत् । ( नेपथ्याभिमुखमवलोक्य हर्ष नाटयन्प्रकाशम् । ) भगवन्
कौशिक ? पश्य पुरस्तादायें धृतधनुपि-
वायव्यास्त्रव्यतिकरनिरालम्बनस्ताडकेयः
प्राप्तो जीवन्मरणमसुभिर्विप्रमुक्तः सुबाहुः ।
कृत्तोन्मुक्ता भुवि च करुणाश्चर्यबीभत्सहास-
प्रासक्रोधोत्तरलमृषिभिर्दृश्यते ताडकेयम् ॥ ६४ ॥
विश्वामित्र:-(विलोक्य । ) वत्स ! लक्ष्मण विस्मयेन प्रमोदेन च
परवन्तो धयं न वाचामधीश्महें। वक्तव्यमेव वा किमस्ति । न खल्वि-
यमद्यतनी प्रतिष्ठा।
दिलकपकीर्तिधौतवियतो निर्याजवीर्योद्धता.
स्ते यूयं रघवः प्रसिद्धमहसो यः सोऽपि देवाधिपः ।
बिभ्राणैरसुराधिराजविजयक्रोडानिदानं धनुः
पौलोमीकुचपत्रभङ्गरचनाचातुर्यमध्यापितः॥ ६५ ।।
लक्ष्मण:-भगवन् ! पश्य-
अद्य नैशाचरौं सेनामनामुन्मूलयत्रयम् ।
भाधान वीरधर्मस्य निर्माय त्वामुपखितः॥६६॥
(१४.)
साहित्य-सुधा-संग्रहः
(प्रविश्य।)
राम:-(सवैलक्यस्मितम् ।)
पूषा पसिष्ठः कुशिकात्मजोऽयं प्रयस्त पते गुरवो रघूणाम् ।
महामुनेरस्य गिरा कृतोऽपि स्वैणो वधो मां न सुखाकरोति ॥ ६७ ॥
(भासममवलोक्य ।)
प्रत्यासनतुषारदीधितिकरक्लिश्यत्तमोवल्लरी-
बल्याभिर्मखधूमवल्लिभिरमी संमीलितव्यञ्जनाः ।
श्वः संचीवरयिष्यमाणबटुकव्याधूतशुष्यत्वचो-
निद्राणातिथयस्तपोधनगृहाः कुर्वन्ति नः कौतुकम् ॥ ६ ॥
(पुरतोऽवलोक्य ।)
* चन्द्रवर्णनम् *
स्फुरति पुरतो माद्यन्माद्यञ्चकोरविलोचन-
प्रकरकिरणश्रेणीदत्तस्वहस्तधनं महः ।
हृदय ! लघु मा भूः प्रेयोदर्शनप्रतिभूरयं
कुवलयद्शामिन्दुर्नेले सुधाभिरनक्ति नः ॥६६॥
अपि च।
उन्मोलन्ति मृणालकोमलरुबो राजीवसंवर्तिका-
संवर्तव्रतवृत्तयः कतिपये पीयूषभानोः कराः।
अप्युबैर्धवलीभवत्सु गिरिषु क्षुब्धोऽयमुन्मजता
विश्वेनेव तमोमयो निधिरपासहाय फेनायते ॥७॥
(सनिदम् ।)
इन्दुर्यधुदयाद्रिमूर्तीि न भवत्यचापि तन्मा सभः
भासीऽपि तमासमुख्यममूरुन्मूलयन्ति त्विषः ।
अप्यक्ष्णोर्मुरमुहिरन्ति कुमुदैरामोदयन्ते दिशः
संप्रत्यूर्ध्वमसी तु लाग्छनमभिष्यकुं प्रकाशिष्यते ॥ ७१ ॥
दतीयो बिन्दुः (१४१) (पहर्षम् ।) काश्मीरेण दिहानमम्बरतलं वामभ्रुवामानन- द्वैराज्यं विदधानमिन्दुगुषदां भिन्दानमम्मःशिराः । प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्धदर्भाङ्कर- क्षीबोत्सङ्गकुरङ्गमैन्दवमिदं बिम्ब समुजृम्भते ॥ ७२ ॥ एताच- पौलोमीकुचकुम्भङ्ककुमरजःस्खाजन्यजन्मोद्धताः शीतांशोधतयः पुरंदरपुरीसीमामुपस्कुर्वते । एताभिलिहतीभिरन्धतमसान्युमथ्नतीभिर्दिशः क्षोणीमास्तृणतीभिरन्तरतमं व्योमेदमोजायते ॥७३॥ अपि च। नैवायं भगवानुवञ्चति शशी गव्यूतिमात्रीमपि घामद्याऽपि तमस्तु कैरवकुलश्रीचाटुकाराः कराः । मथ्नन्ति स्थलसीनि शैलगहनोत्सङ्गेषु संरुन्धते जीवग्राहमिव क्वचित्वचिदपि च्छायासु गृहन्ति च ॥७४॥ (ज्योत्स्नातिशयं विभाष्य ।) किं नु ध्वान्तपयोधिरेष कतकक्षोदैरिवेन्दोः करै- रत्यच्छोऽयमधश्च पङ्कमखिलं छायापदेशादभूत् । किंवा तत्करकर्तरीभिरभितो निस्तक्षणादुज्ज्वल व्योमैवेदमितस्ततश्च पतिताश्छायाछलेन त्वचः॥७५ ॥ (परिक्रम्य पार्वतोऽवलोक्य च । ) दलविततिभृतां तले तरूणामिह तिलतण्डुलितं मृगाङ्करोचिः । मदचपलचकोरचञ्चकोटीकवलनतुच्छमियान्तरान्तराभूत् ॥ ७६ ॥ (विभाव्य च।) त्रिभुवनतमोलुएटाकीनामहो मिहिरत्विषा. मभिषिधिरसौ कोकश्रेणीमनस्यवशिष्यते।
(१४२) साहित्य-सुधा-संग्रहः क्षुधमपि तमः कोपादन्तः प्रविश्य विनिघ्रतः शशधरकरानच्छिन्नाग्रांश्चरन्ति चकोरकाः ॥७॥ अपि चेदानी- तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका- कपाटनोमिन्दुः किरणलहरीमुल्ललथति । समन्तादुन्मीलदहलजलबिन्दुस्तबकिनो- यथा पुजायन्ते प्रतिगुडकमेणाङ्कमणयः ॥ ७८ ॥ ( অবিঙ্গামলী।) तरुणतमालकोमलमलीमसमेतदयं कलयति चन्द्रमाः किल कलङ्कमिति ब्रुवते । तदनृतमेव निर्दयविधुतुददन्तपद- व्रणविवरोपदर्शितमिदं हि विभाति नभः ॥ ७ ॥ किच। रुचिभिरभितष्टोत्कीर्णरिव त्रसरेणुभि- र्यदुडुभिरपि च्छेदैः स्थूलैरिव भ्रियते नमः । प्रकृतिमलिनो भास्वद्धिम्बोन्मजाकृतकर्मण. स्तदयमपि हि त्वष्टुः कुन्दे भविष्यति चन्द्रमाः॥८॥ लक्ष्मणः-( सर्वतोऽवलोक्य ।) भूयस्तराणि यदमूनि तमखिनीषु जौस्त्रीषु च प्रविरलानि ततः प्रतीमः । संध्याऽनलेन भृशमम्बरमूषिकाया. मावर्तितैरुडुभिरेव भृतोऽयमिन्दुः ॥ ८१ ॥ (विहस्य च ।) हन्त, यथाधर्ममेतत् । यत्पीयूषमयूखमालिनि तमःस्तोमावलीढायुषां नेत्राणामपमृत्युहारिणि पुरः सूर्योढ एवातिथौ। अम्भोजानि पराश्चि तभिजमघं दत्वेष तेभ्यस्ततो- गौराङ्गोवदनोपमासुकृतमादत्ते पतिर्यज्वनाम् ।। २ ।।
कृतीयो बिन्दु (१४३) विश्वामित्र:-( सर्वतोऽवलोक्य । सस्मितम् ।) अहह नामधेयमात्रमाधुर्यात् अपरमार्थ श्वानो विप्रलभ्यन्ते । तथा हि- स्मेरा दिशः, कुमुदमुद्भिदुर्ग, पिबन्ति ज्योत्स्नाकरम्भमुदरंभरयश्चकोराः। आः कीद्वगत्रिमुनिलोचनदूषिकायां पीयूषदीधितिरिति प्रथितोऽनुरागः ॥ ८३ ॥ ( रामं च दृष्ट्वा । सहर्षस्मितम् । ) कथमयं कुमाराऽङ्कविजयप्रत्यागतोऽपि ताडकानिग्रहेण हिणीयमानः सहसा नोपतिष्ठते वत्सः। (लक्ष्मण प्रति।) वत्स सौमित्र ! अस्माकमनेन वृत्तान्तेन प्रदोषलक्ष्मीरियमनूद्यते। पश्य- निशाचराणां तमसा निहन्ता पुरोऽयमुद्गच्छति रामचन्द्रः। अथोल्लसद्भिर्नयनैर्मुनीनामयं कुमुद्रानजनि प्रदेशः ॥ ८४ ॥ राम: (विभाव्य।) मदयति थदुत्पन्नो दुग्धाम्बुधेरयमम्बुधीन् , नयति नयनादत्रांतो मुदं नयनानि च । तदखिलसुरश्रेणीसाधारणप्रणया शची- सहचरचरुस्थाली सोमः समजलमीहते ॥ ८५ ॥ (सलन्नमुपसृत्य ।) भगवन् ! अभिवादये। विश्वामित्रः- ( सस्मेहबहुमानमालिङ्गय । ) वत्स रघुनन्दन इत्थमेव- प्रकृपकर्षभिप्रायक्रियाफलवतो विधीन् । प्रयुञ्जानास्त्वया वीर! परिपाल्यामहे वयम् ॥ ८६॥ राम: (स्वगतम् । ) शिरसा गृहीतमाचार्यवचनम् । विश्वामित्र: ( समरधूलिधूमरं रामस्य कपोलमुन्मार्जयन् । ) यत्सत्यम- मुना नक्तंचरव्यतिकरण प्रियसुहदा सीरध्वजेन वितन्यमाने वैताने कर्मणि कम्पितमिव मे हृदयम् । रामः- (सगौरवम् । ) भगवन् ! क एष सीरध्वजो नाम यमद्य ते त्रिभुवनदुर्लभोऽयं प्रियसुहृच्छन्दप्रयोगः कमपि महिमानमारोपयति ?
(१४४) साहित्य-सुधा-संग्रह विश्वामित्र:- परत ! शृणोषि विदेहेषु मिथिलां नाम नगरीम् ! रामः- यत्र पवित्रमाश्चर्यद्वयं जनाः कथयन्ति । सकलदुराकर्ष. मैन्दुशेखरं धनुः, लाङ्गलमुखोल्लिखितविश्वम्भराप्रसूतिरगर्भसंभवा मानुषी च। विश्वामित्र:-(विहस्य । ) अथ किम् ? राम:- (सकौतुकम् । ) ततः किं तस्याम् विश्वामित्र:- असौ सीरध्वजो राजा यो देवाद् धुमणेरपि । अध्यष्ट याज्ञवल्क्यस्य मुखेन ब्रह्मसंहिताम् ॥ ८७ ॥ तस्य संन्यस्तशस्त्रस्य पुराणराजर्षेर्जनकवंशजन्मनो दीक्षाविलोप. शङ्का पर्याकुलयति माम् । तदेतमायुष्मन्ती, विधिशेषमस्मदीयं समाप्य सहैव मिथिलामुपतिष्ठामहे । रामः- (सहर्षमपवार्य । ) घत्स लक्ष्मण ! ममापि तस्मिन्नतरुणरोहिणी- रमणचूडामणिपाणिप्रणयिनि शरासने चिरस्य कौतुकमस्ति । लक्ष्मण: (सहपरिहासम् ।) आर्यायामयोनिजन्मनि राजकन्यका- यामपि? रामः- (सरोषस्मितम् । ) कथमन्यदेव किमपि प्रहसन सूत्रयति भवान् । ( मुनि प्रति । ) भगवन् इक्ष्वाकुवंशगुरो ! यदभिरुचितं भवते । (इति परिक्रम्य निष्क्रान्ताः सर्वे ।) इति कौमारविक्रमो नाम द्वितीयोग्यः । (श्रीमुरारे रनर्घराघवात्) श्री भर्तृहरि निर्वेदम राजाभर्तृहरिः कदाचित्स्वमहिष्या भानुमत्याः प्रेमस्थेमानं परी. क्षितुकामो मृगरमणाऽपदेशाद्वनप्रदेश मुपगतो दूतमुखेन श्वापदसंपा. दितखप्राणान्तोदन्तं नितान्त मलीक मपि तस्या अन्तिकं प्राहिणोत् । अनभ्रवज्रपातमिव कुलाऽचलक्षोभकर, अनिमित्तोत्पातमिव सर्वा- ऽऽशोपघातकं, म्लेच्छवातमिव श्रुतिदाहक, खपतिघात समाकर्ण्य पतिव्रताततिपताकायमाना सा मानिनी क्षणादेव क्षीणचेतना क्षिति- तलं जगाम । अथ मृगयाप्रतिनिवृत्तो नरपतिस्तस्यास्तादृशंलीला. संवरणं निशम्य तन्मरणकारणमात्मान मेघावधार्य मोहमुपेयिवान् । प्राप्तचेतनश्वनितरां चुक्रोश । तामङ्के निवेश्य अनुमर्तु मेव मतिमक. रोत् । अमात्यादिभिः पुनः पुनः प्रबोध्यमानोऽपि न स्थिरचित्तोऽभूत् । एतद्विज्ञाय प्रसिद्धसिद्धः श्रीगुरुगोरक्षनाथ स्तन्महामोहनिशानाशाय योगिरूपेण तत्राऽऽजगाम । नृपतिर्महिष्या यान यान् गुणान् स्मारं स्मारं यथा यथा विललाप थोगी अपि भग्नां स्थाली पुरतो निधाय तस्यामपि तान् तानेष गुणानाऽऽरोप्य तैस्तै रेवशब्दै रोदितु मारेभे। तच्छोकापनोदाय समागतो राजा वैराग्यचर्चामाचरत् । तत्राऽन्तरे एव योगी "परोपदेशेपाण्डित्यं” इत्याद्युक्त्वा तं लजितमकरोत् । राजा च प्राप्तवैराग्यो भवत् । तृतीयोऽङ्कः । (ततः प्रविशति सोन्मादो राजा।) राजा-अयि कान्ते काशिराजनन्दिनि ! स्वया त्यक्ताः प्राणाः प्रणयिमरणाऽऽकर्णनवशात् यशः खीणां त्रीनप्युपरि बत लोकानिदमभूत् ।
(१४६) साहित्य-सुधा-संग्रहः अतो देहः शोच्यो बत बत नामोच्यो यदि मया कथं वार्यों यूनां गुरुरपयशोदुन्दुभिरयम् ॥१॥ इयं च मे साधीयसी प्रत्याशा यदेनामङ्के निधाय मृतस्य, एतदनु ध्यानवशाजन्मान्तरेऽप्यनया सनाथत्वं भविष्यतीति । (नेपथ्ये ।) हा डिडिबके कुत्रा सि गता। हा दैव ! अति प्रतिकूलतया मां परि. हृत्य नाशिता मे डियिका। (इति विकलं रोदिति ।) (परिजना अनुसरन्ति।) राजा-(विलोक्य ।) कथमयं योगी भग्नां स्थालीमनुशोचमानो निप. तति । तद्भवतु एनमाश्वासयामि । (ततः प्रविशति ययानिर्दिष्टो योगी।) योगी -हा डिडिबके ! (इत्यादि पूर्वोक्तं पठित्वा रोदिति ।) राजा-योगिन् ! समाश्वसिहि । योगी- -(( निःश्वस्य ।) हन्त, कीदृश आश्वासो यस्य मम दुरदेश- परिभ्रमणसहचरी अनेकगुणप्रणयिनी डिब्बिका भग्ना? राजा-(सकरुणम् श्रात्मगतम् ।) अल्पस्यापि व्यपायेन प्रेयसो विषयस्यकः। न शोचते पुनः किं स्यान्मादृशामीदृशापदि ॥२॥ तथापि बोधयामि योगिनम् । (प्रकाशम् ) योगिन् ! किमनया नष्टया एवं परितप्यसे? योगी-(सातम् । ) के यूयं निष्ठरा एवं भणथ १ अथवा अनभिका- गुणनाम्।
तृतीयो विन्दुः (१४७) राजा-के नामाऽस्या गुणाः ? योगी- हन्त ! कियन्तो गण्यन्ताम् ? तथाऽपि केऽपि गएयन्ते । करीपानुच्चेतुं दहनमुपनेतुं मुहुरपः समाहत्तुं भिक्षामटितुमथ तां रक्षितुमपि । पिधातुं पक्तुं चाऽशितुमथ च पातुं क्वचिदथो- पधातुं नः पात्री चिरमहह चिन्तामणिरभूत् ॥३॥ राजा-एवमेतत् । प्रियस्य वस्तुनो नाम गुणान्को गणयिष्यति । मेहेनोपहृताः सव तत्रैव सुखहेतवः ॥४॥ तथाप्यशक्यप्रतीकारे विनष्टे वस्तुन्यलमनुतापेन। योगी- - मया एव एतस्या दृढत्वं परीक्षितुं प्रवृत्तेन पातिता भन्ना, इति महान् संतापः। राजा- (सखेदम् ।) स्वयं नाशिते प्रिये वस्तुन्यविश्रान्तिः संतापस्य । कथमपि यत्र क्लिष्टे वस्तुनि दृष्ट प्रमोहमेति मनः । खयमेव नाशितेऽस्मिन्क्षणमपि कः प्राणिति हताशः ॥५॥ (इत्यभूणि विमुच्य सधैर्यम् । ) तथापि योगिन् ! भवितव्यता भगवती वस्तु प्रियमप्रियं वापि । घटयितुमथ विघटयितुं प्रभवति पुरुषस्य को दोषः॥ ६॥ (योगी अनाकर्णयंस्तत्कर्षरोत्करं हृदये निधाय रोदिति।) राजा-योगिन् ! अलं रुदितेन । दीयते मया इतोऽप्यधिकतरा मृण्मयी रजतयी सुवर्णमयी वा स्थाली ।
(१४)
साहित्य-सुधा-संग्रह
योगी- (कर्णी पिधाय ) शान्तं पापम् । अल सुवर्णादिमय्या डिब्बि-
कया । यतो मृत्तिकामय्या एव डिठिबकया एतादृशोऽनर्थः परिणता.
घुत्पाद्यते किं पुनः सुवर्णादिमय्या ? अपि च-
मदनाहोद्भ्रान्तियमकरकोटिव्यतिकरः
स्फुरद्वेषाऽऽधर्तस्तरलिमतरङ्गोपचयभूः ।
तनीयानप्यर्थो मम यदि दुरर्थोदधिरभूत्
प्रभूतायामापद्यहमिह निमग्नो निपतितः ॥७॥
अपि च ! तोऽप्यधिकतरेत्यलोकमावेदयसि । इयं खलु तथा सुस्पर्शा
सुरमणीयाकृतिः सुगभीरविस्तारा सुगढप्रकृतिः तादृशी तदधिकतरा
वा कुतोऽन्या संभाव्यते ?
राजा-(सनिर्वेदम् ।)
अधिकाधिकानि गुणतो नितरामितराणि सन्तु सुलभानि शतम् ।
प्रणयेन वस्तु मनसस्तु परं परितापकारि किमपि क्रियते ॥ ८॥
योगिन् !
अधिकतरं प्रियमेतन्ममेति बुद्धिर्म वस्तुसौन्दर्यात् ।
नूनमनपेक्षितगुणो मोहधना मेह एवेह ॥६॥
योगी-भो मुग्ध !न खलु केवलं नेह एव । शरीरसंवर्धनमप्यतया
स्थितया भवेत् ।
राजा-अथ कियन्तं कालमिदमिदानीमनष्टमपि पात्रं स्थितं स्यात् ?
चेत्कल्पकोटिमथ कल्पशतानि कल्प
कल्पार्धमप्यथ यदि स्थिरताऽस्य भूयात् ।
युक्ताभवेदिह मनागपि शोचना ते
निर्दिनैर्यदि विनयति कोऽत्र शोकः ॥१०॥
तृतीयो बिन्दुः (१४६) अलं च शरीरसंवर्धकविनाशानुतापेन । यतः- देहस्यास्य हितानि यद्विरहितान्येतानि वस्तूनि वः संतापाय भवन्ति हन्त सकलः सोऽयं मनोविभ्रमः। देहेनैव यदेवमादिविपदा देहेन दुर्जन्मना द्वित्राएयेव पलानि पाणिपयसोराश्लेप एव भ्रमः ॥११॥ - योगी-तथाऽपि विप्रियं परिहत्य किमिति प्रियं अनुवर्तते लोकः? राजा-विभ्रमात् । पश्य- यद्वन्माद्यति सौष्ठवेन विषयस्याऽऽपाततः प्रेयस. स्तद्वत्ताम्यति तत्र तत्र विपदा तस्यैव पर्यन्ततः। व्यत्यासेन च वस्तु विप्रियमपि स्वे संपदापवये तापायाथ मुदे तदेष कुरुते मोहः प्रियं चाप्रियम् ॥ १२ ॥ योगी- सुष्टु एतज्ज्ञायते तथाप्यप्रतीकारं ताम्यति मम हृदयम् । राजा-यदि सन्नपि नालमपि वस्तुविचारस्तदा का प्रतीकारः । योगी-अत्र मरणमेव प्रतीकारः । यतः एतां हृदये कृत्वा म्रियमाणो जन्मान्तरे प्येतया सनाथो भविष्यामि । - राजा-(विहस्य । ) सोऽयं संसारमूलं महामोहः । यस्य नाम ईदशानि दुःखमयानि दुर्विलसितानि । योगी-(सौच्चैर्दासम् । ) परोपदेशे पाण्डित्यमिदं मूढस्य गीयते । तमः समाश्रितस्येव दीपेनाऽन्यप्रकाशनम् ॥ १३ ॥ (राजा सवैलक्यमधोमुखचिन्तयति ।) योगी দি ! कि विचिन्त्यते? - (१५०) साहित्य-सुधा-संग्रहः राजा-भगवन् ! किमपरं मद्वाक्यरेव मामुपदिश्य ममापनीतोऽयं शोकः श्रीपादैः। योगी-एवमेतत् । भगवतीं विन्ध्यवासिनीमवलोक्य परावृत्तेन मया त्वामेवंभूतमवगत्य सरवसुलभेन करुणभावेन तवायमुन्मीलितः प्रबोधः। राजा-तदवधारयामि श्रीगोरक्षनाथपादैर्भवद्भिर्भवितव्यम् ! योगी-एवमेतत् । राजा-भगवन् ! साधु उद्धृतोऽहमस्मादन्धकूपात् । (इति पादयोः पतति) (गोरखनाथ उत्थापयति । ) राजा - ( प्रचलि बद्ध्वा । ) यदतः परं तदुपदिशतु गुरुयेन भूयोऽपि नैतादृशमनर्थमासादये। गोरक्षनाथः-साधु, उत्कटदुःखाऽभिषङ्गलाङ्गलावकृष्टा घस्तु- विवेकरसावसेकवती विज्ञानबीजं वप्तुमस्ति योग्या ते चित्तभूमिः । श्रूयताम्- संकल्पात्सकलापि संसृतिरभुदेषा विशेषान्ध्यभू. रस्याश्चेद्विनिवृत्तिमिच्छसि तदैनन्मूलमुन्मूलय । नाऽवच्छिन्नमनेहसा न च दिशा यद्ब्रह्म सञ्चिन्मयं तत्त्वं तस्वमिदं विचिन्तय परानन्द पदं प्राप्स्यसि ॥१४॥ - राजा-भगवन् ! त्यक्ताः खल्बाशापरपर्याया मया संकल्पाः। साधु साधु। यदामोदो मोहं दिशि दिशि दिशत्याशु मनसः फलानामास्वादो जनयति यदीयो निपतनम् ।
- तृतीयो बिन्दुः (१५१) इहैवासां सद्यो वनविषलतानामिव मया निरासादाशानां जितमहह मोक्षस्तु परतः ॥ १५ ॥ तत्वचिन्तनं चैतत्कथं स्यात् ? गोरखाः- विषयेभ्यः समाहृत्य मनः शून्ये निवेशय । खयमानन्दमात्मानं स्वप्रकाशमुपैयसि ॥१६॥ राजा-तद्भवतु । संनिहिते एव विजनोपवनैकदेशे गत्वा चिन्तया. म्येतत् । ( इति निष्कान्ताः सर्वे ।) रति तृतीयो ऽङ्कः।
मुद्राराक्षसम्
षष्ठोऽङ्कः
राक्षसविषादः
(ततः प्रविशति रज्जुहस्तः पुरुषः।)
पुरुषः--
षड्गुणसंयोगदृढा उपायपरिपाटोघटितपाशमुखी ।
चाणक्यनीतिरजू रिपुसंयमनोद्यता जयति ॥ १ ॥
( परिक्रम्यायलोक्य च । ) एष स प्रदेश आर्यचाणक्यस्य पुरत उदुम्बरकेन
कथितो यत्र मया आर्यचाणक्याऽऽज्ञप्त्या अमात्यराक्षसः प्रेक्षितव्यः ।
कथमेष खल्बमात्यराक्षमः कृतशीर्षावगुण्ठन इत एवागच्छति ।
तद्यावदेभिरुद्यानपादपैरन्तरितशरीरःप्रेक्षे कुत्रासनपरिग्रहं करोतीति।
(ततः प्रविशति यथानिर्दिष्टः सशस्त्रो राचसः ।)
रासस:-(सास्त्रम् ।) कष्टं भोः, कष्टम् ।
उच्छिन्नाश्रयकातरेव कुलटा गोत्रान्तरे श्रीर्गता
तामेवानुगता गतानुगतिकास्त्यक्तानुरागाः प्रजाः ।
आप्तरप्यनवाप्तपौरुषफलैः कार्यस्य धूरुज्झिता
किं कुर्वन्त्वथवोत्तमाङ्गरहितैर्नाङ्गैश्चिरं खीयते ॥२॥
भविचा
पति त्यक्त्वा देवं भुवनपतिमुच्चैरभिजन
गतो छिद्रेण श्रीवृषलमविनीतेव वृषली।
स्थिरीभूता चास्मिन्किमिह करवाम स्थिरमपि
प्रयतं नो येषां विफलयति दैवं द्विषदिव ॥३॥
(१५३) - तृतीयो बिन्दुः मया हि- देवे गते दिवमत द्विधमृत्युयोग्ये शैलेश्वर तमधिकृत्य कृतः प्रयत्नः। तस्मिन्हते तनयमस्थ, तथाप्यसिद्धि- दैवं हि नन्दकुलशत्रुरसौ न विप्रः ॥४॥ अहो विवेकशन्यता म्लेच्छस्य । कुतः- यो नष्टानपि बीजनाशमधुना शुश्रूपते खामिन- स्तेषां वैरिभिरक्षतः कथमसी संधास्यते राक्षसः। एतावद्धि विवेकशून्यमनसा म्लेच्छेन नालोचित दैवेनोपहतस्य बुद्धिरथवा सर्वा विपर्यस्यति ॥५॥ तदिदानीमपि तावदरातिहस्तगतो विनश्येन तु राक्षसश्चन्द्रगुप्तेन सह संदधीत । अथवा मम काममसत्यसंध इति परमयशो न तु शत्रुवश्चनपराभूत इति । ( समन्तादवलोक्य सास्त्रम्।) एतास्ता देवपाद. चंक्रमणपरिचयपवित्रीकृततलाः कुसुमपुरोपकण्ठभूमयः । इह हि- शाकिर्षापमुक्तप्रशिथिलकधिकाप्रग्रहणात्र देशे देवेनाकारि चित्रं प्रजविततुरगं बाणमोक्षचलेषु । अस्यामुद्यानराजौ स्थितमिह कथितं, राजभिस्तैर्विनेत्थं संप्रत्यालोक्यमानाः कुसुमपुरभुवो भूयसा दुःखयन्ति ॥ ६॥ तत्व नु गच्छामि मन्भाग्यः । ( विलोक्य ) भवतु । दृष्टमेतजीर्णो. द्यानम् । अत्र प्रविश्य कुतश्चिच्चन्दनदासप्रवृत्तिमुपलप्स्थे । अलक्षित. निपाताः पुरुषाणां समविषमदशापरिणतयो भवन्ति । कुतः। पौरैरङ्गलिभिर्मवेन्दुवदह निर्दिश्यमानः शनै- यो राजेव पुरा पुरानिरगमं राज्ञां सहस्त्रैर्वृतः ।
(१५४) साहित्य-सुधा-संग्रहः भूयः संप्रति सोऽहमेव नगरे तव वन्ध्यश्रमो- जीर्णोद्यानकमेष तस्कर इव त्रासाद्विशामि द्रुतम् ॥ ७॥ अथवा येषां प्रसादादिदमासीत्त एव न सन्ति । ( नाट्येन प्रविश्या. वलोक्य च ।) अहो जीर्णोद्यानस्यारमणीयता । अत्र हि- विपर्यस्तं सौधं कुलमिव महाऽऽरम्भरचनं सरः शुष्कं साधोह दयमिव नाशेन सुहृदाम् । फलैहींना वृक्षा विगुणनृपयोगादिव नया- स्तृणैश्छन्ना भूमिर्मतिरिव कुनीतैरविदुषः ॥ ॥ अपिच। क्षताङ्गानां तीक्ष्णैः परशुभिरुदप्रैः क्षितिरुहां रुजा कूजन्तीनामविरतकपोतोपरुदितैः। खनिमोकच्छेदैः परिचितपरिक्लेशकृपया श्वसन्तः शाखानां व्रणमिव निबध्नन्ति फणिनः॥६॥ एते च तपस्विनः- अन्तःशरीरपरिशोषमुदप्रयन्तः कीटक्षतिनुतिभिरस्रमिवोद्वमन्तः । छायावियोगमलिना व्यसने निमन्ना वृक्षाः श्मशानमुपगन्तुमिव प्रवृत्ताः १०॥ यावदस्मिन्विषमदशापरिणामसुलभे भिन्नशिलातले मुहूर्तमुप- विशामि। ( उपविश्याकर्य व ) अयें, किमिदमस्मिन्काले पटुपटहशङ्क- ध्वनिमिश्रोनान्दीनादः ? य एषः- प्रमृद्ञ्छोतॄणां श्रुतिपथमसारं गुरुतया बहुत्वात्प्रासादैः सपदि परिपीतोज्झित इव । असौ नान्दीनादः पटुपटहशङ्खध्वनियुतो- दिशां द्रष्टुं दैयं प्रसरति सकौतूहल इव ॥ ११ ॥ . .
तृतीयो बिन्दुः (१५५) (विचिन्त्य । ) आः, ज्ञातम् । एष हि मलयकेतुसंयमनसंजातो राज. कुलस्य ( इत्यो सासूयम् ।) मौर्यकुलस्याधिकपरितोषं पिशुनयति। ( सवाष्पम् ।) कष्ट भोः, कष्टम् । श्रावितोऽस्मि श्रियं शत्रोरुपनीय च दर्शितः । अनुभावयितुं मन्ये यत्नः संप्रति मां विधेः ॥ १२ ॥ पुरुषः-आसीनोऽयम् । यावदार्यचाणक्यादेशं संपादयामि। (राधसमपश्यन्निव तस्याग्रतो रज्जुपाशेन करठमुद्धाति ।) राक्षस:-(विलोक्य । ) अये,कथमात्मानमुन्नात्ययमहमिव दुःखित- स्तपखी ? भवतु । पृच्छाम्येनम् । भद्र ! किमिदमनुष्ठीयते ? पुरुषः-(मवाष्पम् । )आर्य ! यत्प्रियवयस्यविनाशदुःखितोऽस्मादृशो- मन्दभाग्योऽनुतिष्ठति। राक्षसः-(प्रात्मगतम् । ) प्रथममेव मया शातं-नूनमहमिवार्तस्तप- स्वीति । (प्रकाशम् । ) हे व्यसनसब्रह्मचारिन् ! यदि न गुह्यं नाति- भारिकं वा ततः श्रोतुमिच्छामि । पुरुषः-आर्य ! न रहस्यं नातिगुरुकम् । किं तु न शक्नोमि प्रिय. वयस्यविनाशदुःखितहृदयः एतावन्मात्रमपि मरणस्य कालहरणं कर्तुम् राक्षस:-(निःश्वस्यात्मगतम् ।) कष्टम् , पते सुहृदयसनेषु परमुदासीनाः प्रत्यादिश्यामहे वयमनेन। (प्रकाशम् । ) भद्र ! यदि न रहस्यं नातिगुरु तच्छोतुमिच्छामि। पुरुषः- अहो निर्बन्ध आर्यस्य । का गतिः १ निवेदयामि । अस्ति तावदा मगरे मणिकाएभेष्ठी विष्णुदासो नाम ।
(१५६)
साहित्य-सुधा-संग्रहः
राक्षसः- (प्रात्मगतम् ) अस्ति विष्णुदासश्चन्दनदासस्य सुहृत् ।
(प्रकाशम् ) कि तस्य?
पुरुषः- स मम प्रियवयस्यः ।
राक्षस:--- ( सहर्षमात्मगतम् ) अये प्रियवयस्य इत्याह ।
संनिकृष्टः संबन्धः । हन्त ! ज्ञास्यामि चन्दनदासस्य वृत्तान्तम् ।
(प्रकाशस् ) भद्र ! किं तस्य ?
पुरुषः-स संप्रति दत्ताभरणादिविभवो ज्वलनं प्रवेष्टुकामो नगरा.
निष्क्रान्तः। अहमपि यावत्तस्याश्रोतव्यं न शृणोमि तावदात्मान-
मुद्वध्य व्यापादयितुमिदं जीर्णोद्यानमागतः।
राक्षस:-भद्र ! अग्निप्रवेशे सुहृदस्ते को हेतुः ?
किमौषधपथातिगैरुपहतो महाव्याधिभिः ?
पुरुषः- नहि नहि।
-
रात्रस:-
किमग्निविपकल्पया नरपतेर्निरस्तः कुमा?
पुरुषः- आर्य ! शान्तं पापं शान्तं पापम् । चन्द्रगुप्तस्य जनपदे न
नृशंसा प्रतिपत्तिः।
राक्षस:-
अलभ्यमनुरक्तवान्कथय किंनु नारीजन ?
पुरुषः- (कर्णी पिधाय) शान्तं पापम् । अभूमिः खल्वेषोऽबिनयस्य।
-
राक्षस:-
किमस्य भवतो वथा सुहृद एव नाशोऽवशः ॥१३॥
(१५७)
तृतीयो बिन्दुः
पुरुषः- आर्य ! अथ किम् ।
राक्षस:-(सावेगमात्मगतम् ) चन्दनदासस्य प्रियसुहृदिति, तद्विनाशो.
हुतभुजि प्रवेशहेतुरिति, यत्सत्यं चलितमेवास्ते युक्तस्नेहपक्षपातात्
हृदयम् । (प्रकाशम् ) तद्विनाशं च, प्रियसुहृद्वत्सलतया मर्तव्ये व्यवसि.
तस्य सुचरितं च विस्तरेण श्रोतुमिच्छामि ।
पुरुषः- अतोऽपरं न शक्नोमि मन्दभाग्यो मरणस्य विनमुत्पादयितुम् ।
राक्षस: भद्र! श्रवणीयां कथां कथय ।
पुरुषः- का गतिः ? किं कर्तव्यम् ? एप खलु निवेदयामि । शृणो-
-
त्वार्यः।
-
रातसः भद्र! अवहितोऽस्मि ।
पुरुषः- अस्ति इह नगरे मणिकारश्रेष्ठी चन्दनदासो नाम ।
राक्षसः--(सविषादमात्मगतम् ) एतत्तदपावृतमस्मच्छोकदीक्षाद्वार
दैवेन । हृदय ! स्थिरीभव । किमपि ते कष्टतरमाकर्णनीयमस्ति ।
(प्रकाशम् ) भद्र! श्रूयते मित्रवत्सलः साधुः। किं तस्य ?
पुरुषः स एतस्य विष्णुदासस्य प्रियवयस्यो भवति ।
राक्षस:-(खगतम् । ) सोऽयमभ्यर्णः शोकषत्रपातो हृदयस्य ।
पुरुषः-ततो विष्णुदासेन वयस्यस्नेहसदशमद्य विज्ञप्तश्चन्द्रगुप्तः ।
राक्षस:-कथय किमिति?
पुरुषः-देव ! मम गेहे कुटुम्बभरणपर्याप्ताऽर्थवत्तास्ति । तदेतेन
विनिमयेन मुच्यतां प्रियवयस्य श्चन्दनदास इति ।
राक्षसः-(स्वगतम् । ) साधु भो विष्णुदास ! साधु । अहो, दर्शितो.
मित्रस्नेहः। कुतः-
(१५८) साहित्य-सुधा-संग्रहः पितृन्पुत्राः पुत्रान्परवदभिहिंसन्ति पितरो- यदर्थं सौहार्द सुहृदि च विमुञ्चन्तिसुहृदः । प्रियं मोक्तुं तं यो व्यसनमिव सद्यो व्यवसितः कृतार्थोऽयं सोऽर्थस्तव सति वणिक्त्वेऽपि वणिजः॥१४॥ (प्रकाशम् । ) भद्र ! ततस्तथाभिहितेन किं प्रतिपन्न मौर्येण ? पुरुषः-आर्य ! तत एवं भणितेन चन्द्रगुप्तेन प्रतिभणितः श्रेष्ठी विष्णुदासः "न मयाऽर्थस्य कारणेन चन्दनदासः संयमितः, किंतु प्रच्छादितोऽनेनामात्यराक्षसस्य गृहजन इति बहुशो ज्ञातम् । तेनापि बहुशो याचितेनापि न समर्पितः । राक्षस:-भद्र ! न खलु व्यापादितश्चन्दनदासः ? पुरुषः-अधतावयापाद्यते । स खलु सांप्रतं पुनः पुनरमात्य- राक्षसस्य गृहजनं याच्यते । न खलु स मित्रवत्सलतया समर्पयति । तदेतेन कारणेन न करोमि मरणस्य कालहरणम् । राक्षस:-(सहर्षमात्मगतम् । ) साधु वयस्य चन्दनदास ! साधु । शिवेरिव समुद्भूतं शरणागतरक्षया। निचीयते त्वया साधो ! यशोऽपि सुहृदा विना ॥ १५ ॥ (प्रकाशम् । ) भद्र ! गच्छ गच्छेदानीम् । शीघ्र विष्णुदासं ज्वलन- प्रवेशानिवारय । अहमपि चन्दनदासं मरणान्मोचयामि । -अथ पुनः केनोपायेन त्वं चन्दनदासं मरणान्मोचयलि ? राक्षस:-(खड्गमाकृष्य । ) नन्वनेन व्यवसायसुहदा निस्त्रिशेन । पश्य। निस्त्रिंशोऽयं सजलजलदव्योमसंकाशमूर्ति- युद्धश्रद्धापुलकित इव प्राप्तसख्यः करण।
तृतीयो बिन्दुः (१५६) सत्योत्कर्षात्समरनिकषे दृष्टसारः परमें मित्रस्नेहाद्विवशमधुना साहसे मां नियुक्त ॥ १६ ॥ पुरुषः-भार्य! एवं श्रेष्टिचन्दनदासजीवितप्रदानपिशुनितं विषमदशा- विपाकनिपतितं साधु न शक्नोमि त्वां निर्णीय प्रतिपत्तुं । किं सुगृहीत. नामधेया अमात्यराक्षसपादा यूयं दिष्टया दृष्टाः ? राक्षस:-उत्तिष्ठोत्तिष्ठ । अलमिदानी कालहरणेन । निवेद्यतां विष्णुदासाय-एप राक्षसश्चन्दनदासं मरणान्मोवति। ( इति 'निस्त्रिंशो- ऽयम्' ६। १८ इति पठन्नाकृष्य खड्ग परिक्रामति ।) पुरुषः-तत्कुरु मे प्रसादं संदेह निर्णयेन । राक्षसः सोऽहमनुभूतभर्तृविनाशः सुहृद्विपत्तिहेतुरनार्यों दुर्गृहीत. नामधेयो यथार्थो राक्षसः । पुरुषः- (सहर्ष पुनः पादयोः पतित्वा ।) आश्चर्यम् । दिण्या दृष्टोऽसि। प्रसीदन्तु अमात्यपादाः अस्ति तावदत्र प्रथमं चन्द्रगुप्तहतकेनार्यशकट- दासो वध्यस्थानमाञप्तः। स च वध्यस्थानात्केनाप्यपहृत्य देशान्तर नीतः। ततश्चन्द्रगुप्तहतकेन-'कस्मादेष प्रमादः कृतः' इति,आर्यशकटदासे समुज्ज्वलितः कोपवह्निर्घातकजननिधनेन निर्वारितः । ततः प्रभृति घातका यं कमपि गृहीतशस्त्रमपूर्व पुरुषं पृष्ठतो वाग्रतो वा प्रेक्षन्ते तदात्मनो जीवितं परिरक्षन्तोऽप्रमत्ता वध्यस्थाने वध्यं व्यापादयन्ति । एवं च गृहीतशस्त्रैरमात्यपादैर्गच्छद्भिः श्रेष्ठिचन्दनदासस्य वधस्त्वरा- यितो भवति । राक्षसः- (स्वगतम् । ) अहो दुर्बोधश्चाणक्यबटोर्नीतिमार्गः । कुतः- (१६०) साहित्य-सुधा-संग्रहः यदि च शकटो नीतः शत्रोमतेन ममान्तिक किमिति निहतः क्रोधायेशाद्वधाधिकृतो जनः । अथ न, कृतकं तादृकष्ट कथं नु विभावये. दिति मम मतिस्तारूढा न पश्यति निश्चयम् ॥ १७ ॥ (विचिन्त्य ।) नायं निस्त्रिंशकालः प्रथममिह कृते घातकानां विधाते नीतिः कालान्तरेण प्रकटयति फलं किं तया कार्यमत्र । औदासीन्यं न युक्तं प्रियमुहृदि गते मत्कृतामेव घोरां व्यापत्ति, ज्ञातमस्य स्वतनुमहमिमां निष्क्रय कल्पयामि ॥१८॥ (इति निक्रान्ताः सर्वे ।) (पष्ठोऽङ्कः।)
- प्रयोधचन्द्रोदयम् द्वितीयोऽङ्कः । (ततः प्रविशति दम्भः) दम्भः-- आदिष्टोऽस्मि महाराजमहामोहेन । यथा-"वत्स दम्भ ! प्रतिज्ञातं सामात्येन विवेकेन प्रबोधोदयाय । प्रेषिताश्च तेषु तेषु तीर्थेषु शमदमादयः । स चायमस्माकमुपस्थितः कुलक्षयो भवद्भिः अवहितैः प्रतिकर्तव्यः। तत्र पृथिव्यां परमं मुक्तिक्षेत्र वाराणसीनाम नगरी तद्भवांस्तत्र गत्वा चतुर्णा मप्याश्रमाणां निःश्रेयसविघ्नार्थ प्रयततामिति । तदिदानी घशीकृतभूयिष्ठा मया वाराणसी। संपा. दितश्च स्वामिनो यथानिर्दिष्ट आदेशः । ( विलोक्यं ) कोऽप्ययं पायो. भागीरथीमुत्तीर्य सांप्रतमित एवाभिवर्तते। तथा च यथैषः- ज्वलभिवाभिमानेन प्रसन्निव जगत्तयीम् । भर्त्सयनिव वाग्जालैः प्रशयोपहसभिव ॥१॥ तथा तर्कयामि । नूनमयं दक्षिणरादाप्रदेशादागतो भविष्यति । तत् एतस्मादाऽऽर्यस्याहंकारस्य वृत्तान्तज्ञास्यामि । (इति परिक्रामति ) (ततः प्रविशत्यहंकारो यथानिर्दिष्टः) अहंकार:- महो! मूर्खबहुल जगत् । तथाहि- नैवाभावि गुरोर्मतं न विदित कौमारिलं दर्शन तवंशातमहो न शारिकगिरांवाचस्पतेः का कथा। सूक्तं नापि महोदधेरधिगतं माहावती मेक्षिता सूक्ष्मा वस्तुविचारणा, नृपशुभिः स्वस्थः कथं स्वीयते ॥२॥ (विलोक्य ) एते तावदर्थावधारणविधुरा: खाध्यायाध्ययनमात्र- मिरता वेदविलायका एष । (पुनरन्यतो गत्वा ) एते च भिक्षामात्र.
(१६२)
साहित्य-सुधा-संग्रहः
गृहीतयतिव्रता मुण्डितमुण्डाः पण्डितमन्या घेदाम्तशास्त्रं व्याकुल-
यन्ति । (विहस्य)
प्रत्यक्षादिप्रमासिद्धविरुद्धार्थाभिधायिनः।
वेदान्ता यदि शास्त्राणि बौद्धः किमपराध्यते ॥३॥
तदेतद्वानमात्रश्रवणमपि गुरुतरदुरितोदयाय । (पुनरन्यतो गत्वा ) एते
च शैवपाशुपतादयो दुरभ्यस्ताक्षपादमताः
अमीषां संभाषणादपि नरा नरकं यान्ति । तदेते दर्शनपथावरतः
परिहरणीयाः। (पुनरन्यतो गत्वा) एते च-
पशघः
पापण्डाः ।
गङ्गातीरतरङ्गशीतलशिलाविन्यस्तभावढ्सी.
संविष्टाः कुशमुष्टिमण्डितमहादण्डाः करण्डोज्वला ।
पर्यायग्रथिताक्षसूत्रवलयप्रत्येकबीजग्रह-
व्यप्राऽप्राऽङ्गुलयो हरन्ति धनिनां वित्तान्यहो दाम्भिकाः ॥ ४ ॥
(पुनरम्यतो गत्वा) एते त्रिदण्डव्यपदेशजीषिनो द्वैताद्वैतमार्गपरि-
भ्रष्टा एव । ( अन्यतो गत्वा विलोक्य ) अये !कस्यैतद्वारोपान्तनिखातित.
प्रांशुवंशकाण्डताएडवितधौतसितसूक्ष्माम्बरसहस्रम्, इतस्ततो.
विन्यस्तकृष्णाजिनपदुपलसमिञ्चवालोलूबालमुसलम, अनवरतहुना-
ज्यगन्धिधूमश्यामलितगगनमण्डलम्, अमरसरितो नातिदूरे विभा.
त्याश्रममण्डलम् । नूनमिदं कस्यापि गृहमेधिनो गृहं भविष्यति ।
भवतु । युक्तमस्माकमिति । पषित्रमेतद्वित्रिदिवसनिवासस्थानम् ।
(प्रवेशं नाटयति )। (विलोक्य च) अये!
मृद्विन्दुलाञ्छितललाटभुजोदरोर:-
कण्ठोष्ठपृष्ठचुबुकोरुकपोलजानुः ।
चूडाप्रकर्णकटिपाणिविराजमान
दर्भाडरः स्फुरति मूर्त स्वैप दम्भः ॥ ५॥
तृतीयो विन्दु (१६३) भवतु, उपसाम्येनम् । ( उपमृत्य।.) कल्याणं भवतु भवताम् । ( इम्भो. इंकारेण निवारयति ।) (प्रविशति बदुः।) घटुः-(ससंभ्रमम् ।) ब्रह्मन् ! दूरत एव स्थीयताम् । यतः पादौ प्रझाल्य एतदाश्रमपदं प्रवेष्टव्यम् । अहंकार:-(सक्रोधम् । ) आः पाप ! तुरुष्कदेशं प्राप्ताः स्मः। यत्र श्रोत्रियानतिथीनासनपाद्यादिभिरपि गृहिणो नोपतिष्ठन्ति । दम्भः-(हस्तसंज्ञया समाश्वासयति।) बटुः--एवमाराध्य गदा आशापयन्ति “दूरदेशादागतस्यार्यस्थ कुलशीलादिकं न सम्यगस्माकं विदितम् । अहंकार:-आः कथमस्माकमपि कुलशीलादिकमिदानी परीक्षि- तव्यम् । श्रूयताम्-- गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढापुरी भूरिश्रेष्ठकनाम धाम परमं तत्रोत्तमो नः पिता। तत्पुत्राश्च महाकुला न विदिताः कस्यात्र तेषामपि प्रशाशीलविवेकधैर्यविनयाऽऽचारैरहं चोत्तमः॥६॥ (दम्भो बटुं पश्यति ।) बदुः-(तामघटीं गृहीत्वा ) भगवन् ! पादशौचं विधीयताम् । अहंकारः स्वगतम्) भवतु । कोऽत्र विरोधः। एवं क्रियते । (तथा कृत्वोपसर्पति ।) दम्भ:- ( दन्तासंपीन वटुं पश्यति । ) बदुः-- दूरे तोवस्थीयताम् । वाताहताःप्रस्वेदकणिकाः प्रसरन्ति ।
(१६४) साहित्य-सुधा-संग्रह - अहंकार:- अहो ! अपूर्वमिदं ब्राह्मण्यम् । बटुः- ब्रह्मन ! एवमेतत् । तथाहि- मस्पृष्टचरणा ह्यस्य चूडामणिमरीचिभिः । नीराजयन्ति भूपालाः पादपीठान्तभूतलम् ॥ ७॥ अहंकारः- (स्वगतम् ) अये, दम्भग्राह्योऽयं देशः ! ( प्रकाशम् ) भवतु अस्मिन्नासने उपविशामि । ( तथा कर्तुमिच्छति।) बटुः---- मैवम् । नाराध्यपादानामन्यैरासनमाफम्यते । अहंकारः- आः पाप ! अस्माभिरपि दक्षिणराढाप्रदेशप्रसिद्धविशु- द्धिभिर्नाक्रमणीयमिदमासनम् ? शृणु रे मूर्ख ! नास्माकं जननी तथोज्ज्वलकुला सच्छोत्रियाणां पुन. व्यूंढा काचन कन्यका पलु मया तेनास्मि ताताधिकः । अस्मच्छयालकमागिनेयदुहिता मिथ्याभिशप्ता यत. स्तत्संपर्कवशान्मया स्वगृहिणी प्रेयस्याप प्रोज्झिता ॥८॥ दम्भः- ब्रह्मन् ! यद्यप्येवं तथाप्यस्माकमविदितवृत्तान्तो भवान् । तथाहि- सदनमुपगतोऽहं पूर्वमम्भोजयोनेः सपदि मुनिभिरुच्चैरासनेज्झितेषु । सशपथमनुनीय ब्रह्मणा गोमयाम्भ:- परीमृजितनिजोरावाशु संवेशितोऽस्मि ॥ ६ ॥ अहंकार:- (स्वगतम् ) अहो, दाम्भिकस्य ब्राह्मणस्यात्युक्तिः । (बिचिमत्य) अथवा दम्भस्यैव भवत्येवं तावत् । (प्रकाशम् ) मार, किमेवं गर्षायसे? (सम्बोधम् ) - तृतीयो बिन्दुः (१६५) अरे क इव वासवः कथय कोऽत्र पद्मोद्भवो- घद प्रभवभूमयो जगति का मुनीनामपि । अवेहि तपसी बलं मम पुग्न्दराणां शतं शतं च परमेष्ठिनां पततु वा मुनीनां शतम् ॥१०॥ - (विलोक्य । सानन्दम्) अये! आर्यः पितामहोऽस्माकमहंकारः। आर्य! दम्भो लोभात्मजोऽहं भी अभिवादये । अहंकार:- वत्स ! आयुष्मान्भव । बालः खल्बसि मया द्वापरान्ते दृष्टः। संप्रति चिरकालविप्रकर्षाद्वार्धक्यग्रस्ततया च न सम्यक्प्रत्य- भिजानामि । अथ त्वत्कुमारस्यानृतस्य कुशलम् । दम्भः अथ किम्। सोऽप्यत्रैव महामोहस्याऽऽशया वर्तते । नहि तेन विना मुहूर्तमप्यहं प्रभवामि । अहंकार:- अथ तव मातापितरौ तृष्णालोभावपि कुशलिनौ ? । - दम्भ:- तावपि राज्ञो महामोहस्थाशयाऽत्रैव वर्तते । तयोविना क्षणमपि न तिष्ठामि | आर्यमित्रैः पुनः केन प्रयोजनेनात्र प्रसादः कृतः? अहंकारः-वत्स! मया महामोहस्य विवेकसकाशादत्याहितं श्रुतम् । तेन तवृत्तान्तं प्रत्येतुमागतोऽस्मि । दम्भ:-खागतमेवार्यस्य । यतो महाराजस्थापीन्द्रलोकादत्रागमनं श्रूयते । अस्ति च किंवदन्ती यद्देवेन वाराणसी राजधानी वस्तुं निरू- पितेति। अहंकार:- किं पुनः वाराणस्यां सर्वात्मना मोहस्यावस्थान. कारणमिति?
(१६६) साहित्य-सुधा-संग्रहः दम्भः आर्य ! ननु विवेकोपरोध एव । तथाहि- -- विद्याप्रबोयोदयजन्मभूमि,राणसी ब्रह्मपुरी निरत्यया। असौ कुलोच्छेदविधि चिकीर्षुर्निर्वस्तुमत्रेच्छति नित्यमेवम् ॥ ११ ॥ अहंकार:- ( सभयम् ) यद्यप्येवमशक्यप्रतीकार एवायमर्थः । यत:- - परममविदुषां पदं नराणां पुरविजयी करुणाविधेयचेताः। कधर्यात भगवानिहान्तकाले भवभयकातरतारकं प्रबोधम् ॥ १२ ॥ दम्भः सत्यमेतत्तथापि नैनकामक्रोधाभिभूतानां संभाव्यते । तथा युदाहरन्ति तैर्थिका:- यस्य हस्तौ च पादी च मनश्चैव सुसंयनम् । विद्या तपश्च कीर्तिश्च स तीर्थ लमश्नुते ॥ १३ ॥ ( नेपथ्ये ) भो भोः पौराः! एप खलु संप्राप्तो देवो महामोहः। तेन- निष्यन्दैश्चन्दनानां स्फटिकमणि शिलावेदिकाः संस्क्रियन्तां- मुच्यन्तां यन्त्रमार्गाः प्रचरतु परितो धारिधारा गृहेषु । उच्छीयन्तां समन्तात्स्फुरदुरुमणयः श्रेषयस्तोरणानां धूयन्तां सौधमूर्धस्वमरपतिधनुमिचित्राः पताकाः ॥१४॥ दम्भ:-आर्य !प्रत्यासन्नोऽयं महाराजः। तत्प्रत्युद्गमनेन संभाव्य. तामायण अहंकार:-एवं भवतु । ( निष्क्रान्ती) (प्रवेशकः ।)
तृतीयो बिन्दुः (१६७) (ततः प्रविशति महामोहो विभवतच परिवारः । ) महामोहः-अहो, ( विहस्य ) अहो, निरङ्कुशा जडधियः। आत्मास्ति देहव्यतिरिक्तमूर्ति भॊक्ता स लोकान्तरितः फलानाम् । आशेयमाकाशतरोः प्रसूनात्प्रधीयसी स्वादुफलप्रसूतौ ॥ १५ ॥ इदं च स्वकल्पनाविनिर्मितपदार्थाऽवष्टम्भेन जगदेवं दुर्विदग्धै वच्यते । तथाहि- यत्रास्त्येव तदस्ति वस्त्विति मृपा जलपद्भिरेवास्निकै- बालबभिस्तु सत्यवत्री निन्याः कृता नास्तिकाः । हहो पश्यत तत्त्वनो यदि पुनश्छिन्नादितो वह्मणो- दृष्टः किं परिणामरूपिबितेजीवः पृथक्कैति ॥ १६॥ अपि च न केवलं जगदास्मैव तावदमी भईच्यते । नथाहि-- -- तुल्यत्वे वयुषां मुखाद्यवयौवर्णक्रमः कीदृशो- योपेयं वसु चापरस्य तदमुं भेदं नविझो वयम् । हिंसायामथवा यथेष्टगमने स्त्रीणां परस्वग्रह का कार्यविचारणा हि यदमी निःपौरुषाः कुर्वते ॥१७॥ (विचित्य समाधम् । ) सर्वथा लोकायतमेव शास्त्र, यत्र प्रत्यक्षमेव प्रमाणं, पृथिव्यानेजोवायवस्तरवानि, अर्थकामौ पुरुषार्थों, भूतान्येव चेतयन्ते । नास्ति परलोकः । मृत्युरेवापवर्गः । तदेतदस्मदभिप्राया. नुबन्धिना वाचस्पतिना प्रणीय चार्वाकाय समर्पितम् । तेनच शिष्योप- शिष्यद्वारेणास्मिल्लोके बहुलीकृतं तन्त्रम् ।
(१६८) साहित्य-सुधा-संग्रहः (ततः प्रविशति चार्वाका शिष्यव।) चार्वाका -वत्स! जानासि इण्डिनीतिरेव विद्या। अत्रैव वार्तान्त. भवति धूर्तप्रलापत्रयो । वर्गोत्पादकत्वेन विशेषाभावात् । पश्य- - स्वर्गः कर्तृ क्रियाद्रव्यविनाशे यदि यज्वनाम् । ततो दावाग्निदग्धानां फलं स्याद्भरि भूरुहाम् ॥ १८ ॥ अपि च। निहतस्य पशोर्यशे स्वर्गप्राप्तिर्यदीष्यते ॥ स्वपिता यजमानेन किन तस्मानिहन्यते ॥१६॥ अपि च। मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । निर्वाणस्य प्रदीपस्य स्नेहः संवर्धयेच्छिवाम् ॥ २० ॥ शिष्यः-आचार्य योष एव परमार्थः पुरुषस्य यत्खाद्यते पीयते । तर्हि किमित्येतै स्तीथैः संसारसौख्यं परिहत्याऽऽत्मा घोरघोरतः परा- कसान्तपनपष्ठकाऽऽत्माशनप्रभृतिभिर्दु खैः क्षिप्यते ? चार्वाकः-धूर्तप्रणीतागमप्रतारितानामाशामोदकैरियं तृप्तिर्मूर्खा. णाम्। शिष्यः-आचार्य ! एवं खलु तैर्थिका आलपन्ति । यद्दुःखमिश्रित संसारसुखं परिहरणीयमिति । चार्वाक:-(विहस्य ) आः, दुर्बुद्धिविलसितमिदं नरपशूनाम् । त्याज्यं सुखं विषयसंगमजन्म पुंसां दुःस्रोपसष्टमिति मूर्ख विचारणैषा ।
तृतीयो बिन्दुः (१६६) वोहानिहासति सितोत्तमतण्डुलाढ्यान् को नाम भोस्तुपकणोपहितान्हितार्थी ॥ २१ ॥ महामोहः भये, चिरेण खलु प्रमाणपन्ति वचनानि कर्णसुखमुग- जनयन्ति । ( विलोक्य सानन्दम्.) हन्त, प्रिय सुहृन्मे चार्वाकः ! चार्वाकः- ( विलोक्य ) एप महाराजो महामोहः । ( उपसृत्य ) जयतु जयतु महाराजः । एष चार्वाकः प्रणमति । ) महामोहः-चार्वाक ! स्वागत ते । इहोपविश्यताम् । चार्वाक:- ( उपविश्य ) एष कलेः साष्टाङ्गं प्रणामः । महामोहः-- अये, तत्र कलेः भद्रमव्याहतम् ? । चार्वाक:- देवप्रसादात्सर्वत्र भद्रम् । निर्वर्तितकृत्यशेषश्च देवपाद. मूलं द्रष्टुंमाजिगमिषति । यतः- आज्ञामवाप्य महतीं, द्विषतां निपाता. निर्वर्त्य तां, सपदि लब्धसुखप्रसादः । उच्चैः प्रमोदमनुमोदितदर्शनः सन् धन्यो नमस्यति पदाम्बुरुहं प्रभूणाम् ॥ २२ ॥ महामोहः- अथ तस्मिन्कलौ कियत्संवृत्तम् ? चार्वाकः- देव! ( व्यतीतवेदार्थपथः प्रथीयसी यथेष्टचेष्टां गमितो महाजनः। तदत्र हेतुर्न कलिन चाप्यहं प्रभोः प्रभावो हि तनोति पौरुषम् ॥२६॥ तत्रोत्तराः पथिकाः पाश्चात्यान प्रयीमेष त्याजिताः । शमदमा.
(१७०) साहित्य-सुधा-संग्रह दीनां कैव कथा १ अन्यत्रापि प्रायशो जीविकामात्रफलैव प्रयी । यथाऽऽहाऽऽचार्य:- अग्निहोत्र प्रयो वेदाखिदण्ड भरमगुएठनम् । प्रज्ञापौरुषहीनानां जीविकेति वृहस्पतिः॥२४॥ तेन कुरुक्षेत्रादिषु तावदेवेन सप्नेऽपि विद्याप्रबोधोदयो ना- ऽऽशङ्कनीयः। महामोहः- साधु संपादिकम् । महत्खलु तत्तीर्थं व्यर्थीकृतम् । चार्वाक:- देव ! अन्य विज्ञाप्यमस्ति। महामोहः- किं तत् ? चार्वाक: अस्ति विष्णुभक्तिर्नाम महाप्रभावा योगिनी । सा कलिना यद्यपि विरलप्रचारा कृता तथापि तदनुग्रहीतान्वयमालोक- यितुमपि न प्रभवामः । तदत्र देवेनावधातव्यमिति । महामोहः (समयमात्मगतम् ) आः, प्रसिद्धमहाप्रभावा सा योगिनी स्वभावाद्विवषिणी चास्माकं दुरुच्छेद्या सा।भवतु ( स्वगतम् । कार्यमत्याहितं भविष्यति । (प्रकाशम् ) तब भद्र ? अलमनया शङ्कया। कामक्रोधादिषु प्रतिपक्षेषु कुत्रेयमुदेष्यति ? चार्वाक:-तथापि लघीयस्यपि रिपो नाऽनवहितेन जिगीषुणा भवि- तव्यम्।यतः- - विपाकदारुणी राक्षां रिपुरल्पोऽप्यरुंतुदः। उमेजयति सूक्ष्मोऽपि चरणं कण्टकाङ्करः ॥ २५ ॥ महामोहः-(नेपथ्याभिमुखमवलोक्य ) कः कोऽत्र भोः ? (प्रविश्य दौवारिकः ।)
तृतीयो बिन्दुः (११) दौवारिकः-जयतु जयतु । आशापयतु देवः । महामोहः-भो असत्सङ्ग! आदिश्यन्तां कामक्रोधलोभमदमात्सर्या- ऽऽदयो यथा योगिनी विष्णुभक्तिर्भवद्भिरेवाऽवहितैर्विहन्तव्येति । दौवारिकः यदाज्ञापयति देवः । (इति निष्क्रान्सः।) (ततः प्रविशति पत्रहस्तः पुरुषः ।) पुरुषः- अहमुत्कलदेशादागतोऽस्मि । अस्ति तत्र सागरतीरसंनिवेशे पुरुषो. तमशब्दितं देवतायतनम् । ततो मदमानाभ्यां भट्टारकाभ्यां महा- राजसकाशं प्रेषितोऽस्मि । एषा वाराणसी। इदं राजकुलम् । थाष- त्प्रधिशामि। एष भट्टारकचार्वाकेण साधं किमपि मन्त्रयस्तिष्ठति । तदुपसाम्येनम् । (उपसृत्य ) जयतु जयतु भट्टारकः । इदं पत्रं तावनिरूप्यमाणं प्रेक्षतां भट्टारकः । (इति पत्र मर्पयति ।) महामोहः-( पत्रंगृहीत्वा ) कुतो भवाम् ? पुरुषः-अहं पुरुषोत्तमादागतोऽसि । महामोह:-(स्वगतम् ) कार्यमत्याहितं भविष्यति । (प्रकाशम् । ) चार्वाक ! गच्छ । कर्तव्येववाहितेन भवता भवितव्यम् । चार्वाका-यदाहापयति देवः । (इति निक्रान्तः।)
(१७१)
साहित्य-सुधा-संग्रहः
महामोहः-(पत्रं वाचति ।)
'खस्ति श्रीवाराणस्यां महाराजाधिराजपरमेश्वरमहामोहपादान्पुरुषो.
समायतनात् मदमानौ साष्टाङ्गपातं प्रणम्य विज्ञापयतः- यथा,
भद्रमव्याहतम् । भन्यच्च देवी शान्तिर्मात्रा श्रद्धया सह विवेकस्य
दौत्यमापना विवेकसंगमाय देवीमुपनिषदमहर्निशं प्रबोधयति । अपि
च कामसहचरोऽपि धर्मों वैराग्यादिभिरुपजप्त इव लक्ष्यते । यतः
कामाद्विभिद्य कुतश्चिनिगूढः प्रधरति । तदेतज्ज्ञात्वा तत्र देवः
प्रमाणमिति।
महामोहा-(मनोधम् ) भाः किमेवमतिमुग्धौ शान्तेरपि विभ्यतः ?
कामादिषु प्रतिपक्षेषु कुतोऽस्याः संभवः ?
(पुरुषं प्रति वदति।)
जाल्म ! गच्छ । कामं सत्वरमुपेत्यादेशमस्माकं प्रतिपादय-"तथा
दुराशयो धर्म इत्यस्माभिरवगतम् । तदस्मिन्मुहूर्तमपि न विश्वसि-
तव्यम् । हृढं बध्वा धारयितव्य इति।
पुरुषः-यदेव आशापयति ।
(इति निष्क्रान्तः।)
महामोहः :-(स्वगतं विचिन्त्य ) शान्तेः कोऽभ्युपायः ? अथवा अलम्
उपायान्तरेण । क्रोधलोभावेष तावदा पर्याप्तौ। (प्रकाशम् ) कः कोऽत्र
भोः।
(प्रविश्य दौवारिका।)
दौवारिक -आज्ञापयतु देवः।
महामोहः-तावदाहूयतां क्रोधो लोभध ।
पुरुषः यदाज्ञापयति । देवः।
(रति निष्कासः।)
तृतीयो बिन्दुः (१७३) (ततः प्रविशति क्रोधो लोभश्च ।) क्रोधः-श्रुतं मया, यथा शान्तिश्रद्धाविष्णुभक्तयो महाराजेन प्रति. पक्षमाचरन्तीति । अहो, मयि जीवति कथमासामात्मनि निरपेक्षित चेष्टितम् ? तथाहि- अन्धीकरोमि भुवनं बधिरीकरोमि धीरं सचेतनमचेतनतां न्यामि । कृत्यं न पश्यति, न येन हितं शृणोति, धीमामधीतमपि न प्रतिसंदधाति ॥ २६ ॥ लोभा-अये, मदुपगृहीता मनोरथसरित्परम्परामेव तावन्न तरि. यन्ति किं पुनः शान्त्यादींश्चिन्तयिष्यन्ति ? पश्य पश्य सखे! सन्त्येते मम दन्तिनो मदजलप्रम्लानगण्डस्थला वातव्यायतपातिनश्च तुरगा भूयोऽपि लप्स्येऽपरान् । एतल्लब्धमिदं लभे पुनरिदं लब्धाधिक ध्यायतां चिन्ताजर्जरचेतसां बत नृणां का नाम शान्तः कथा ॥ २७ ॥ क्रोधः-सखे ! विदितस्त्वया मत्प्रभावः ? त्वाष्ट्र वृत्रमघातयत्सुरपति, श्चन्द्रार्धचूड़ोऽच्छिनत् देवो ब्रह्मशिरो, वसिष्ठतनयानाघातयत्कौशिकः । अपि च- विद्यावन्त्यपि कीर्तिमन्त्यपि सदाचारावदातान्यपि प्रौपौरुषभूषणान्यपि कुलान्युद्धर्तुमीशोऽस्म्यहम् ॥ २८ ॥ लोभा-तृष्णे! इतस्तावत् । (प्रविश्य तृष्णा) तृष्णा- किमाशापयत्यार्यपुत्रः ? लोभ:-प्रिये ! श्रूयताम्- (१७४) साहित्य-सुधा-संग्रहः क्षेत्रप्रामवनाद्रिपत्तनपुरद्वीपक्षमामण्डल. प्रत्याशाघनसूत्रबद्धमनसां लब्धाधिकं ध्यायताम् । तृष्णे ! देवि यदिप्रसीदसि तनोप्यङ्गानि तुङ्गानि चेत् तद्भोः प्राणभृतां कुतः शमकथा ब्रह्माण्डल:रपि ॥ २६ ॥ तृष्णा- आर्यपुत्र ! स्वयमेव तावदहमस्मिन्नर्थे नित्यमभियुक्ता। सांप्रतमार्यपुत्रस्याऽऽशया ब्रह्माण्डकोट्योऽपि न मे उदरं पूरयिष्यन्ति। क्रोधः-हिसे! इत आगम्यताम् । (प्रविश्य हिंसा) हिंसा- एपास्मि ! आज्ञापयत्वार्यपुत्रः। - क्रोध:- प्रिये ! सावरखया सहधर्मचारिण्या मातृपितृवधोऽपि ममेषत्कर एव । तथाहि- केयं माता पिशाची, क इव हि जनको, भ्रातरः केऽत्र कीटा, वध्योऽयं बन्धुवर्गः, कुटिलपिटसुहृश्चेष्टिता शातयोऽमी। . (हस्तौ निष्पीम) आगर्भ यावदेषां कुलमिदमधिलं नैव निःशेषयामि स्फूर्जन्तः क्रोधवहेर्न दधति विरतिं तावदङ्गे स्फुलिङ्गाः॥२०॥ ( विलोक्य ) एष स्वामी । तदुपसर्पामः । ( सधै उपसृत्य ) जयतु जयतु देवः। माामोहः- श्रदायास्तनया शान्तिरस्मद्वेषिणी । सा भवद्भिरण- हितैर्निोति। सर्वे- यदादिशति देवः। (इति निष्क्रान्ताः।)
तृतीयो विन्दु
( १७५)
महामोहः श्रद्धायास्तनया इत्युरक्षेपेणोपायान्तरमपि हृदय-
मारूढम् । तथाहि । शान्तेर्माता श्रद्धा । सा च परतन्त्रा । तत्
केनाप्युपायेनोपनिपन्सकाशात्तावच्छुद्धापकर्षणं कर्तव्यम् । ततो.
मातृवियोगदुःखादतिमृदुलतथा शान्तिरूपरता भविष्यति । श्रद्धां
प्याक्रष्टुं मिथ्यावृष्टिरेव विलासिनी परं प्रगल्भेति तदस्मिन्विषये सैव
नियुज्यताम् । (पार्वतो विलोक्य ) विभ्रमावति ! सत्वरमाहूयतां
मिथ्यादृष्टिविलासिनी।
विभ्रमावती-यदेव आशापयति ।
(निष्क्रम्य मिय्यादृष्टया सह प्रविशति ।)
-
मिथ्यादृष्टिः सखि! चिरदृष्टस्य महारोजस्य कथं मुखं प्रेक्षिष्ये ?
न खलु मां महाराज उपालम्भिष्यने?
विभ्रमावती-सखि ! त्वन्मुखदर्शनेनात्मानमेव महाराजो न
वेत्स्यति । कुत उपालम्भिष्यते ?
मिथ्याष्टिः
सखि! किमामलीकसौभाग्यांसंभाव्य विडम्बयसि?
विभ्रमावती-सखि ! सांप्रतमेव प्रेक्षिष्येऽलीकत्वं सौभाग्यस्य ।
एप महाराजः । उपसर्पतु प्रियसखी।
मिथ्याष्टिः- ( उपसत्य ) जयतु जयतु महाराजः ।
आशापयतु महाराजः किंनिमित्तं भट्टारकेण स्मृतास्मि ?
-
प्रिये!
महामोहः-
स्मर्यते सा हि वामोरु ! या भवेद्य दयादहिः ।
मचित्तभित्तौ भवती शोलभजीव राजते ॥ ३१ ॥
(१७६) साहित्य-सुधा-संग्रहः मिथ्याष्टिः - महान्प्रसादः। . महामोहः यथैव प्रकाशितैरङ्गैः सर्वत्र विचरसि तथैव प्रवर्तितव्यम् । अन्यश्च दाश्याः पुत्री श्रद्धा विवेकेन सहोपनिषद संयोजयितुं कुट्टिनीभावं प्रतिपन्ना। अतः- प्रतिकूलामकुलजां पापां पापानुवर्तिनीम् । केशेष्याकृष्य तां रण्डा पापण्डेषु निवेशय ॥ ३२॥ मिथ्यादृष्टिः-एतावन्मात्रेऽपि विषये अलं भर्तुरभिनिवेशेन । वचनमात्रेणैवभर्तुर्दासी श्रद्धा सर्वामाज्ञां करिष्यति । सा खलु मया मिथ्या धर्मों, मिथ्या मोक्षो,मिथ्या वेदमार्गो,मिथ्या सुखविनकराणि, मिथ्या शास्त्रप्रलपितानि, मिथ्या स्वर्गफलमिति भण्यमाना वेदमार्ग. मेव परिहरिष्यति, किं पुनरुपनिषदम् ? अपि च, विषयानन्दविमुक्त मोक्षे दोषान्दर्शयन्त्या उपनिषदोऽपि विरक्ता करिष्यतेऽचिरं मया श्रद्धा। महामोहः- यद्येवं, सुछु , मे प्रियं संपादितं प्रियया। तद्भवतु । स्वागारमेव प्रविशामः । (इति निष्क्रान्ताः सर्वे ।) इतिश्रीकृष्णमिप्रविरचिते प्रबोधचन्द्रोदयनाम्नि नाटके द्वितीयोऽङ्कः ॥ २ ॥ --
* मृच्छकटिकात् *
सम्धिच्छेद
विदूषकः-- अपि निद्राति भवान् ?
चारुदत्तः- अथ किम् ?
इयं हि निद्रा नयनावलम्बिनी
ललाटदेशादुपसर्पतीव माम् ।
अदृश्यरूपा चपला जरेव या
मनुष्यसत्त्वं परिभूय वर्धते ॥१॥
विदूषकः-- तत्स्वपिवः । ( नाट्य ने स्वपिति)
(ततः प्रविशति शर्विलकः ।)
शर्विलक:-
कृत्वा शरीरपरिणाहसुखप्रवेश
शिक्षाबलेन च बलेन च कर्ममार्गम् ।
गच्छामि भूमिपरिसर्पणघृष्टपावो.
निर्मुच्यमान इव जीर्णतनुर्भुजङ्गः ॥२॥
(मभोऽवलोक्य सहर्षम् । ) अये, कथमस्तमुपगच्छति स भगवान्मृगाङ्कः ?
तथा हि-
नृपतिपुरुषङ्कितप्रचार
परगृहदूषणनिश्चितकवीरम्।
घनपटलतमोनिरुद्धतारा
रजनिरियं जननीष संवृणोति ॥३॥
(१७८) साहित्य-सुधा-संग्रहः वृक्षवाटिकापरिसरे संधि कृत्वा प्रविष्टोऽस्मि मध्यमकम् । तद्यावत् इदानी चतुःशालकमपि दूषयामि । भोः, कामं नीमिदं वदन्तु पुरुषाः स्वप्ने च यद्वर्धते विश्वस्तेषु च वञ्चनापरिभवश्वौर्यं न शौर्य हि तत् । स्वाधीना वननीयतापि हि वरं बद्धो न सेवालि. र्मार्गो ोष नरेन्द्रसौप्तिकवधे पूर्व कृतो द्रोणिना ॥४॥ तत्कस्मिन्नुद्देशे संधिमुत्पादयामि ? देशः को नु जलायसेकशिथिलो यस्मिन्न शब्दो भवे. द्भित्तीनां च न दर्शनान्तरगतः संधिः करालो भवेत् । क्षारक्षीणतया च लोष्टककृशं जीर्ण व हयं भवे. स्कस्मिस्त्रोजनदर्शनं च न भवेत्स्यादर्थसिद्धिश्च मे ॥ ५॥ ( भित्ति परामृश्य । ) नित्याऽऽदित्यदर्शनोदकसेचनेन दूषितेयं भूमिः क्षार. क्षीणा 1 मूषिकोत्करचेह । हन्त, सिद्धोऽयमर्थः । प्रथममेतत्स्कन्द- पुत्राणां सिद्धिलक्षणम् । अत्र कर्मप्राग्भे। कीदृशमिदानी संधि. मुत्पादयामि ? इह खलु भगवता कनकशक्तिना चतुर्विधः संध्युपायो- दर्शितः । तद्यथा-पक्केष्टकानामाकर्षणम् , आमेष्टकानां छेदनम्, पिण्डमयानां सेचनम् , काष्ठमयानां पाटनमिति । तदत्र पक्केष्टके इष्टिकाकर्षणम् । तत्र- पप्रयाकोशं भास्करं बालचन्द्र वापी विस्तीर्णं स्वस्तिकं पूर्णकुम्भम् । तत्कस्सिन्देशे दर्शयाम्यात्मशिल्पं दृष्ट्वा श्वो यं यद्विस्मयं यान्ति पौराः ॥६॥ सदन पकेटके पूर्णकुम्भ एव शोभते । तमुत्पादयामि । अन्यासु भित्तिषु मया निशि पाटितासु क्षारक्षतासु विषमासु च कल्पनासु ।
तृतीयो बिन्दुः (१७६) दृष्ट्वा प्रभातसमये प्रतिवेशिवर्गो. दोषांश्च मे वदर्शित कर्मणि कौशलं च ॥ ७॥ नमो वरदाय कुमारकार्तिकेयाय, नमः कनकशक्तये ब्रह्मण्यदेवाय देवव्रताय, नमो भास्करनन्दिने, नमो योगाचार्याय यस्याहं प्रथमः शिष्यः । तेन च परितुष्टेन योगरोचना मे दत्ता। अनया हि समालब्ध न मां द्रक्ष्यन्ति रक्षिणः। शस्त्रं च पतितं गात्रे रुजं नोत्पादयिष्यति ॥ ८॥ (तथा करोति । ) धिक्कएम् । प्रमाणसूत्रं मे विस्मृतम् । ( विचिन्त्य । ) आं, इदं यज्ञोपवीतं प्रमाणसूत्रं भविष्यति । यज्ञोपवीतं हि नाम ब्राह्मणस्य महदुपकरणद्रव्यम्, विशेषतोऽस्मद्विधस्य । कुतः- एतेन मापयति भित्तिषु कर्ममार्ग- मेतेन मोचयति भूषणसंप्रयोगान् । उद्घाटको भवति यन्त्रढे कपाटे दष्टस्य कीटभुजगैः परिवेटनं च ॥ ६ ॥ मापयित्वा कर्म समारभे । ( तथा कृत्वाऽवलोक्य च । ) एकलोष्ठाऽध- शेषोऽयं संधिः। धिक्कटम् । अहिना दष्टोऽस्मि । ( यज्ञोपवीतेनाङ्गुली बध्या विषवेग नाटयति । चिकित्सां कृपया । ) स्वस्थोऽस्मि । ( पुनः कर्म कृत्वा दृष्ट्वा च ।) अये, ज्वलति प्रदीपः । तथा हि- शिवा प्रदीपस्य सुवर्णपिञ्जरा महीतले संधिमुखेन निर्गता। विभाति पर्यन्ततमःसमावृता सुवर्णरेखेव कषे निवेशिता ॥ १० ॥ कर्म कृत्वा । ) समाप्तोऽयं संधिः। भवतु । प्रविशामि । अथवा न तावत्प्रधिशामि । प्रतिपुरुषं निवेशयामि । ( तथा कृत्वा । ) अये, न कश्चित् । नमः कार्तिकेयाय । ( प्रविश्य दृष्ट्वा च । अये, पुरुष- (पुनः (१८०) साहित्य-सुधा-संग्रहः द्वयं सुप्तम्। भवतु । आत्मरक्षार्थ द्वारमुद्धाटयामि । कथं, जीर्ण- त्वाद्गृहस्य विरौति कपाटम् । तद्यावत्सलिलमन्वेषयामि । कनु खलु सलिलं भविष्यति ? ( इतस्ततो दृष्ट्वा सलिल गृहीत्या क्षिपन्सशकम् । ) मा तावद्भूमी पतच्छब्दमुत्पादयेत् । भवतु । एवं तावत् । ( पृष्ठेन प्रतीच्छ्य कपाटमुद्धाय ।) एवं तावत् । इदानों परीक्षे कि लक्ष्यसुप्तम् , परमार्थसुप्तमिदं द्वयम् ! तथा हि- - निःश्वासोऽस्य न शङ्कितः सुविशदस्तुल्यान्तरं वर्तते दृष्टिाहनिमीलिता न विकला नाभ्यन्तरे चञ्चला। गात स्वस्तशरीरसंधिशिथिलं शय्याप्रमाणाधिक दीपं चापि न मर्षयेदभिमुखं स्याल त्यसुप्त यदि ॥११॥ ( ममन्तादवलोक्य । ) अये, कथ मृदङ्गः ? अयं दर्दुगः । अयं पणवः । इयमपि वीणा। एते वंशाः। अमो पुस्तका।। कथं नाट्याचार्यस्य गृहमिदम् ? अथवा भवनप्रत्ययात्प्रविष्टाऽस्मि । तत्कि परमार्थदरिद्रो. ऽयम् , उत गजभयाश्चौग्भयाद्वा भूमिष्ठं द्रव्यं धारर्यात ? तन्ममापि नाम शर्विलकस्य भूमिष्ठं द्रव्यम् ? भवतु बीजप्रक्षिपामि। (तथा कृत्वा।) निक्षिप्त बंजं न कचित्स्फारीभति । अये, परमार्थदरिद्रोऽयम् । भवतु । गच्छामि। विदूपक:-( उत्स्वप्नायते । ) भो वयस्य! संधिरिव दृश्यते । चौरमिव पश्यामि । तद्गृह्णातु भवानिदं सुवर्णभाण्डम् । शर्विलक:-किं नु खल्वयमिह मां प्रविष्ट ज्ञात्वा दरिद्रोऽस्मीत्युप- हसति ? तत्कि व्यापादयामि, उत्त लघुत्वादुत्स्वानायते ? ( दृष्ट्वा ।) अये, जर्जरस्नानशाटीनिबद्ध' दीपप्रभयोद्दीपितं सत्यमेवैतदलंकरण- भाण्डम् । भवतु । गृह्णामि । अथवा न युक्तं तुल्यावस्थ कुलपुत्रजन पोडयितुम् । तद्गच्छामि।
तृतीयो बिन्दुः (११) विदूषकः-भो वयस्य ! शापितोऽसि गोब्राह्मणकाम्यया, यतत् सुवर्णभाण्डं न गृह्णासि। शर्विलकः-अनतिक्रमणीया भगवती गोकाम्या ब्राह्मणकाम्या च । तद्गृह्णामि । अथवा ज्वलति प्रदीपः। अस्ति च मया प्रदीपनिर्वाप- णार्थमाग्नयः कीटो धार्यते। तं तावत्प्रवेशयामि । तस्याय देश- कालः । एष मुक्तो मया कीटो यात्वेवास्य दीपस्योपरि मण्डलै- विचितैर्विचरितुम्। एष पक्षद्वयानिलेन निर्वापिनो भद्रपोठेन । धिकृतम न्धकारम् । अथवा मयाप्यस्मद्राह्मणकुलेना धिकृतमन्धकारम् । अहं हि चतुर्भेदविदोऽप्रतिग्राहतस्य पुत्रः शर्विलको नाम ब्राह्मणो- गणिकामदनिकार्थमकार्यमनुतिष्ठामि । इदानीं करोमि ब्राह्मणस्य प्रणयम् । (इति जिघृक्षति । ) विदूपकः- भो वयस्य ! शीतलस्तेऽग्रहस्तः। शर्विलका- धिक्प्रमादः । सलिलसंपर्काच्छीतलो मेऽग्रहस्तः। भवतु । कक्षयोहस्तं प्रक्षिपामि । (नाट्य न सध्यहस्तमुष्णीकृत्य गृह्णाति ।) विदूषकः- गृहीतम् ? शर्विलकः- अनातक्रमणीयोऽयं ब्राह्मणप्रणयः । तद्गृहीतम् । विदूषकः - इदानी विक्रीतपण्य इव वणिक् अह सुखं स्वप्स्यामि । शर्विलकः ::-महाब्राह्मण ! स्वपिहि वर्षशतम्। कष्टम् । एवं मदनिका. गणिका ब्राह्मणकुलं तमसि पातितम् । अथवा आत्मा पातितः । धिगस्तु खलु दारिद्यमानर्वेदितपौरुषम् । यदेतदहितं कर्म निन्दामि च करोमि च ॥ १२ ॥ तद्यायन्मदनिकाया निष्क्रयणार्थं वसन्तसेनागृहं गच्छामि (परिक्रम्यावलोक्य च।) अये, पदशब्द इव | मा नाम रक्षिणः। भवतु। स्तम्भीभूत्वा तिष्ठामि । अथवा ममापि नाम शर्विलकस्य रक्षिणः? योऽहं- - ( १८२) साहित्य-सुधा-संग्रहः मार्जारः कमणे, मृगः प्रसरणे, श्येनो ग्रहालुश्चने, सुप्तासुप्तमनुष्यवीर्यतुलने श्वा, सपणे पन्नगः । माया रूपशरीरवेशरचने, वाग देशभाषान्तरे, दीपो रात्रिषु, संकटे डुडुमो, वाजी स्थले, नौजले ॥ १३ ॥ - अपि च। भुजग इच गतौ, गिरिः स्थिरत्वे पतगपतेः परिसर्पणे च तुल्यः । शश इव भुवनावलोकनेऽहं वृक इव च ग्रहणे, बले च सिंहः ॥१४॥ ( प्रविश्य ) रदनिका हा धिक् हा धिक् । बहिारशालायां प्रसुप्तोवर्धमानकः । सोऽप्यत्र न दृश्यते । भवतु । आर्यमैत्रयमायामि। ( इतिपलिकामति ) शर्विलकः -- (रदनिकां हन्तुमिच्छति । निरुण्य ।) कथं स्त्री ? भवतु । गच्छामि । ( इति निष्क्रान्तः । ) रदनिका हाधिक हा धिक् । अस्माकं गृहे संधि कर्तयित्वा चौगे. निष्क्रामति । भवतु । मैत्रेयं गत्वा प्रबोधयामि । आर्यमैत्रेय ! उत्तिष्ठ उत्तिष्ठ । अस्माकं गेहे संधि कर्तयित्वा चौरो निष्कान्तः। विदूषकः - आः दास्याः पुत्रिके ! किं भणसि-'चोरं कर्तयित्वा संधिनिष्कान्तः? रदनिका हताश! अलं परिहासेन । किन प्रेक्षसे एतत् ? विदूषकः- आ दास्याः पुत्रिके ! कि भणसि-द्वितीयमिव द्वारमुद्धा- टितम्' इति । भो वयस्य चारुदत्त ! उत्तिष्ठोत्तिष्ठ । अस्माकं गेहे संधि दस्था चौरो निष्कान्तः । चारुदत्तः भवतु । भोः, अल परिहासेन ।
ततीयो बिन्दुः (१८३) विदूषकः-भो, न परिहासः। प्रेक्षतां भवान् । चारुदचः----कस्मिन्नु देशे ? विदूषकः-भोः, एषः। चारुदत्तः ---(विलोक्य । ) महो दर्शनीयोऽयं संधिः। उपरितलनिपातितेष्टकोऽयं शिरसि ननुर्विपुलश्च मध्यदेशे। असदृशजनसंप्रयोगभीरो. ईदयमिव स्फुटितं महागृहस्य ॥ १५ ॥ कथमस्मिन्नपि कर्मणि कुशलता ? (मृच्छकटिकस्य तृतीयाकात ) (१८४) साहित्य-सुधा-संग्रहः - . अभिज्ञान शाकुन्तलात् पातः काल वर्णनम् (ततः प्रविशति सुप्तोत्थितः करवशिष्यः) शिष्य:-वेलोपलक्षणार्थमादिष्टोस्मि तत्र भवता, प्रवासात् प्रति- निवृत्तेन करवेन, ननिर्गत्याऽवलोकयामि, कियदवशिष्टंरजन्याइति । ( परिक्रम्याऽवलोक्य च ) हन्त, प्रभातप्राया रजनी । तथाहि- यात्येकतोऽस्तशिखरं पतिरोषधीनां आविष्कृताऽरुणपुरस्सर एकतोऽर्कः । तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां लोको नियम्यत वैष दशान्तरेषु ॥१॥ अपिच-अन्तहिने शशिनि सैव कुमुद्वतीयं दृष्टिं न नन्दयति संस्मरणीयशोभा। इप्रवासजनितान्यबलाजनेन दुःखानि नूनमतिमात्र सुदुःसहानि ॥२॥ कर्कन्धूनामुपरितुहिन रञ्जयत्यग्रसन्ध्या दाभं मुश्चत्युटजपटलं बोतनिद्रोमयूरः। वेदिप्रान्तात्खुरविलिखितादुत्थितश्चैष सद्यः पश्चादुर्भवति हरिणः खाङ्गमायच्छमानः ॥ ३॥ पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः क्रान्तं येन क्षयिततमसा मध्यम धाम विष्णोः। सोऽयं चन्द्रः पतति गगनादल्पशेषैर्मयूखैः अत्याकढिर्भवति महतामप्यपभ्रंशनिष्ठा ॥४॥ यावदुपस्थिता होमवेलां गुरवे निवेदयामि ॥ (रतिनिक्रान्तः) (अभिज्ञान शाकुन्तलस्यचतुर्थावाद।)
सुभाषितानि
अन्योक्तयः
साधवः
उपरि करवालधाराऽऽकाराः क्रूरा भुजङ्गमपुंगवात् ।
अन्तः साक्षाद् द्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः ॥१॥
अाम्रः
पृष्टाः खलु परपुष्टाः परितो दृष्टाश्च विटपिनः सर्वे ।
माकन्द ! न प्रपेदे मधुपेन तवोपमा जगति ॥२॥
कूपः
नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः
अत्यन्त सरसहृदयो यतः परेषां गुण प्रहीतासि ॥३॥
कोकिला
तावत् कोकिल ! विरसान्यापय दिवसान् वनान्तरे निवसन् ।
यावन् मिलदलिमालः कोऽपि रसालः समुल्लसति ॥ ४ ॥
चन्दनम्
पाटीर ! तव पाटीयान्कः परीपाटी मिमामुरीकर्तुम् ।
यत् पिषतामपि नृणां पिष्टोऽपि तनोषि परिमलैः पुष्टिम् ॥५॥
भ्रमरः
येनाऽमन्दमरन्दे दलदरविन्द दिनान्यनायिषत ।
कुटजे खलु तेनेहा तेने हा मधुकरण कथम् ॥६॥
मेघः
नापेक्षा न च दाक्षिण्यं, न प्रीति न च संगतिः ।
तथापि हरते तापं, लोकाना मुन्नतो धनः ॥ ७ ॥
.
(१६)
साहित्य-सुधा-संग्रहः
मेघः
श्रवन् पुरः
परुषगर्जित मस्य हन्त,
रे पान्थ ! विहलमनान मनागपि स्याः।
विश्वार्तिवारणसमर्पितजीवनोऽयम्,
नाकर्णितः किमु सखे ! भवताम्बुवाहः ॥८॥
आरामाधिपति विवेकविकलो नूनं रसा नीरसा,
वात्याभिः परुपीकृता दशदिश चण्डातपो दुःसहः ।
एवं धन्वनि चम्पकस्य सकले संहारहेता वपि,
त्वं सिञ्चन्नमृतेन तोयद ! कुतोऽ प्याविकृती वेधसा ॥६॥
ग्रीष्मे भीष्मतरी करैर्दिनकृता दग्धोऽपि यश्चातकः
त्वां ध्यायन घन ! वासरान् कथमपि द्राधीयसी नीतवान् ।
दैवाल्लोचनगोचरेण भवता तस्मिन्निदानीं यदि,
स्वीचक्रे करकानिपातनकृपा, तत् के प्रति व्र महे ॥ १० ॥
.
( पंडितराजस्य जगन्नाथस्य)
कमलिनी
कलिनि ! मलिनीकरोषि चेतः,
किमिति बकै रवहेलितानभिः।
परिणतमकरन्दमार्मिकास्ते,
जगति भवन्तु चिरायुषो मिलिन्दाः ॥ ११ ॥
कमलम्
अयि दलदरविन्द ! स्पन्दमानं मरन्दम् ,
तव किमपि लिहन्तो मन्जु गुञ्जन्तु भृङ्गाः।
दिशि दिशि निरपेक्ष स्तावकीनं विवृण्वन् ,
परिमल मयमन्यो बान्धवो गन्धवाहः॥ १२ ॥
तृतीयो बिन्दु
(१८७)
सिंह
न यत्र स्थेमानं वधुरतिभयभ्रान्तनयना-
गलहानोकभ्रमदलिकदम्बा करटिनः ।
लुउन्मुक्ताभारे भवति परलोकं गतवतो-
हरेरद्य द्वारे शिव शिव शिवानां कलकलः ॥ १३ ॥
इंसः
पुरा सरसि मानसे विकचसारसाऽलिस्खल-
त्परागसुरभीकृते पर्यास यस्य यातं वयः।
स पल्वलजलेऽधुना मिलदनेकमेकाकुले,
मरालकुलनायकः कथय रे कथं वर्त्तताम् ॥ १४ ॥
गिरितरुः
मूलं स्थूल मतीवबन्धनदृढ शाखाः शतं मांसला.
वासो दुर्गमहीधरे तरुपते ! कुत्राऽस्ति भीतिस्तव ।
एकः किंतु मनागयं जनयति स्वान्ते ममाधिज्वरम् ,
ज्वालालीवलयीभवनकरुणो दावानलो घस्मरः ॥१५॥
मार्गसरः
यातेमय्यचिरानिदाघमिहिरज्वालाशतैः शुष्कता,
गन्ता के प्रति पन्थिसंततिरसौ संतापमाला ऽऽकुला।
एवं यस्य निरन्तराधिपटलै नित्यं वपुः क्षीयते,
धन्यं जीवनमस्य मार्गसरसो धिग्वारिधीन जनुः ॥ १६ ॥
सज्जन प्रशंसा
विवेकः सह संगत्या विनयो विधया सह।
प्रभुत्वं प्रश्रयोपेतं चिह्न मेतन्महात्मनाम् ॥ १७ ॥
सजन एव हि विद्या शोभायै भवति दुर्जने मोघा ।
न विदूरदर्शनतया कैश्चिदुपादीयते गृध्रः॥१८॥
(१८८)
साहित्य-सुधा-संग्रहः
भवति सुभगत्वमधिकं विस्तारितपरगुणस्य सुजनस्य ।
वहति विकासितकुमुदो द्विगुणरुचि हिमकरोद्योतः॥१६॥
(सुबन्धोः)
अतिकुपिता अपि
सुजना योगेन मृदुभवन्ति न तु
नीचाः।
हेनः कठिनस्यापि, द्रवणोपायोऽस्ति न तृणानाम् ॥ २० ॥
विषमगता अपि न बुधाः परिभवमिश्रां श्रियं हि वाञ्छन्ति ।
न पिति भौममम्भः, सरजसमिति चातका एते ॥ २१॥
साप्तपदीनं सख्य भवेत् प्रकृत्या विशुद्धचित्तानाम् ।
किमुतान्योन्यगुणकथा विस्रम्भनिबद्धभावानाम् ॥ २२ ॥
स्पृहणीयाः कस्य न ते सुमतेः सरलाशया महात्मानः ।
त्रयमपि येषां सदशं हृदयं वचनं तथाचारः॥ २३ ॥
दाता न दापयति दापयिता न दस्ते,
यो दानदापनपरो मधुरं म वक्ति ।
दानं न दापनमथो मधुरा च वाणी,
त्रीण्यप्यमूनि खलु सत्पुरुषे वसन्ति ॥ २४ ॥
प्रियप्रायावृत्ति विनयमधुरो वाचिनियमः ।
प्रकृत्या कल्याणी मति रनवगीतः परिचयः।
पुरो वा पश्चाद् वा तदिदमविपर्यासितरसं
रहस्यं साधूना मनुपधि विशुद्ध विजयते ॥ २५ ॥
(भवभूतेः)
स्वाम्ये। पेशलता, गुणे प्रणयिता, हर्षे निरुत्सेकिता,
पत्रे संवृतता श्रुते सुमतिता वित्तोदये त्यागिता ।
साधौ सादरता खले विमुखता पापे परं भीरुता,
दुःखे क्लेशसहिष्णुता च महतां कल्याणमाकांक्षति ॥ २६ ॥
दान प्रशंसा
मीयतां कथमभीप्सिसमेषां दीयतां दुतमयाचितमेव ।
त' धिगस्तु कलयन्नपि वाञ्छामर्थिवागवसर सहते यः ॥२७॥
तृतीया बिन्दुः (१८६) उदार प्रशंसा नाक्षराणि पठता किमपाठि पाठितोऽपि किमु विस्मृत एव । इत्थमर्थिजनसंशयदोलाखेलगां खलु चकार नकारः ॥ २८ ।। वाग्मि प्रशंसा तद्वक्ता सदसि ब्रवीतु वचनं यच्छृण्वतां चेनसः, प्रोल्लासं रसपूरण श्रवणयो रक्ष्यो विकास श्रियम् । क्षुभिद्राश्रमदुःखकालगतिहत् कार्यान्तरप्रस्मृतिम्, प्रोत्कण्ठामानशं श्रुतौ वितनुने, शोक विरामादपि ॥ २६ ॥ सुकवि प्रशंसा सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे। उत्पादका न बहवः कवयः शरमा इव ॥३०॥ (बागाभट्टस्य) विनय प्रशंसा तिष्ठतां तपलि पुण्यमासजन् संपदोऽनुगुणयन् सुखैषिणाम् । योगिनां परिणमन् विमुक्तये केन मास्तु विनयः सतां प्रियः ॥ ३१ ॥ ( भारत ) धननिन्दा । लभेद्यदयुतं धनं तद्धनं धनं यद्यपि लभेत नियुतं धनं निधनमेव तजायते । तथा धनपरार्धकं तदपि भावहीनात्मक यदक्षर पदद्वयान्तरगतं धनं तद्धनम् ॥ ३२ ॥ अर्जुनीयति यदर्जने जनो मर्जनीयजनतर्जनादिभिः । मस नश्यति चिराय संचिता वञ्चिता जगति के न संपदा॥३३॥ याचकनिन्दा द्वारे द्वारे परेषा मविरलमटति द्वारपालैः करालैः दृष्टो योऽप्याहतः सन् रणति गणयति स्वापमानंतु नैव ।
(१६०)
साहित्य-सुधा-संग्रहः
क्षन्तुं शक्नोति नान्य स्वमदमितराऽऽगार मप्याश्रयन्तं
श्राम्यत्यात्मोदरार्थे कथमहह शुना नो समो याचकः स्यात् ॥ ३४ ॥
कृतघ्ननिन्दा
शोक मा कुरु कुक्कुर ! सत्वेष्वहमधम इति मुधा साधो !
कष्टादपि कष्टतरं दृष्ट्वा श्वानं कृतघ्ननामानम् ॥ ३५ ॥
दुर्जन निन्दा
अकारणाऽऽविष्कृतवैरदारुणात् ,
असजनात् कस्य भयं न जायते ।
विषं महाहेरिव यस्य दुर्वचः,
सुदुःसह संनिहित सदा मुखे ॥ ३६ ॥
(बाणस्य)
उदर पूरण दूषणम्
कंधरां समपहाय कं धरां प्राप्य संयति जहास कस्यचित् ।
मां किलानमयतः स्वपून ये दुर्भरात्कि मुदराद्वियोगतः ॥ ३७ ॥
जरावर्णनम्
यममिव करधृतदण्डं हरिमिव सगदं शशाङ्क मिव चक्रम् ।
शिवमिव च घिरूपाक्षं जरा करोत्यकृतपुण्यपि ॥ ३ ॥
दैवाख्यानम्
आहारे शुचिता ध्वनौ मधुरता वाचालता माधवे,
बन्धी निर्ममता जनेषु निरता नीडे पराधीनता।
ऐतैरेव गुणैर्युनाः परभृतास्त्यत्रका किमेते जनाः,
धन्दन्ते खलु खञ्जनं कृमिभुज चित्रा गतिः कर्मणाम् ॥३६॥
सामान्यनीतिः
परोऽवजानाति यदक्षताजड-
स्तदुभतानां न विहन्ति धीरताम् ।
समान वीर्याऽन्वयपौरुषेषु यः
करोत्यतिक्रान्ति मसौ तिरस्क्रिया ॥४०॥
तृतीयो बिन्दुः
(१६१)
यदाविगृह्णाति हत तदा यशः
करोति मैत्रोमथ दृपिता गुणाः ।
स्थिति समीक्ष्योभयथा परीक्षकः,
करोत्यवशोपहत पृथगजनम् ॥ ४१ ।।
स्तुवंति गुर्वोमभिधेयसंपदं
विशुद्धि मुक्तरपरे विपश्चतः ।
इनिस्थितायां प्रति पूरुषं रुची,
सुदुर्लभाः सर्वमनोरमा गिरः॥ ४२ ॥
कस्यात्यन्तं सुम्वमुपनत दुःश्वमेकान्ततो वा ।
नीचैर्गच्छत्युपार च दशा चक्रनेमिक्रमेण ॥ ४३ ॥
( कालिदासस्य )
आत्मारामा विहितरतयो निर्विकल्पे समाधी,
ज्ञानोत्मेकाद् विघटिततमोग्रन्थयः सत्वनिष्ठाः।
यंवीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात्
तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम् ॥४४॥
( भट्टनारायणस्य)
लघौलघावेव पुरःसरे बुधै-
विधेय मुत्तेजनमात्मतेजसः ।
तृणे तृणेढि ज्वलनः खलुज्वलन्
क्रमात् करीषदुमकाण्डमण्डलम् ॥ ४५ ॥
( श्रीहर्षस्य )
विद्वज्जनसंपर्को नष्ट ष्टज्ञातिदर्शनाभ्युदयः ।
कस्य न सुखाय भवने भवति महानर्थलाभश्च ॥ ४६ ॥
(माणभट्टस्य)
मद्वाणि ! मा कुरु विषाद मनादरेण,
मात्सर्य मग्नमनसां सहसा खलानाम् ।
काव्यारविन्दमकरन्दमधुक्तानाम् ,
आल्येषु धास्यतितमा कियतो विलासान् ॥४७॥
(१९२) साहित्य-सुधा-संग्रहः निर्माणे यदि.मार्मिकोऽसि नितरा मत्यन्तपाकद्रव- मृवीकामधुमाधुरीमदपरीहारो राणां गिराम । काव्य तर्हि सखे ! सुखेन कथय त्वं संमुखमाशाम् , नो चेद्दुष्कृतमात्मना कृतमिव स्वान्ताद् बहिर्मा कृथाः ॥४८॥ तीर्थ कि हरिपादाभजनं कि रत्ल मच्छामतिः, कि शास्त्रं श्रवणेन यस्य गलति द्वैताऽन्धकारोदयः । किं मित्रं सततोपकाररसिक तन्वायबोधः सखे! कः शत्रुर्वद खेददानकुशलो दुर्वासनानां चयः ॥ ४ ॥ आ मूलाद्रत्नसानोर्मलयबलयितादा न कूलात् पयोधेः, यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कवदन्तु । मृद्रीका मध्यनिर्य न्मसृण रसभरी माधुरी भाग्यभाजाम् वाचामाचार्यतायाः पद मनुभवितु' कोऽस्ति धन्योमदन्यः ॥ ५० ॥ वेदस्याऽध्ययनं कृतं, परिचितं शांत्रे, पुराणं स्मृतं सर्व व्यर्थ मिदं, पदं न कमलाकान्तस्य चेत्कीर्त्तितम । उत्खातं, सद्दशीकृतं, विरचितः सेकोऽम्भसा भूयसा सर्व निष्फल मालवालवलये क्षिप्तं न बीजं यदि ॥५१॥ ( पंडित राजस्य) इति सुभाषितानि इति तृतीयो बिन्दुः