Sringeri Sharada Peetham
Manusmriti Iv Part I
Front matter
भारतीयविद्या-श्रेणी-ग्रन्थः ३८ मनुस्मृति मेधातिथि-सर्वज्ञनारायण-कुल्लूक-राघवानन्द-नन्दन- रामचन्द्र-मणिराम-गोविन्दराज-भारुचि इति व्याख्यानवकेन समलङ्कृता विभाग: (भागः १-७ अध्यायात्मकः) चतुर्थों सम्पादकः जयन्तकृष्ण हरिकृष्ण दवे महामहोपाध्याय, विद्यावाचस्पति एम.ए., एलएल.बी., अॅडव्होकेट (सु. को.) इत्यनेन भारतीयविद्याभवनस्य संमान्यनियामकेन परिष्कृता O भारतशासनस्य शिक्षणविभागस्यार्थसाहाय्येन प्रकाशिता १९८५ मारतीय विद्या भवनम् कुलपति के. एम्. मुनशीपथः, चौपाटी मुम्बई ४०० ००७
0 सर्वाधिकाराः स्वायत्ताः
प्रथमावृत्ति : १९८५
.
भारत मुद्रिता
वी. वरदराजन. असोसिएटेड अॅडव्हर्टाइझर्स अॅण्ड प्रिन्टर्स
५०५ सानेगुरुजी मार्ग, मुंबई ४०० ०३४
Bharatiya Vidyā Series Vol. No. 38
MANU-SMRTI
With Nine Commentaries by Medhātithi, Sarvajñanārāyaṇa, Kullūka,
Rāghavānanda, Nandana, Rāmacandra, Maņirāma, Govindarāja and
Bharuci
VOLUME IV (Part-I : Adhyāya-7).
Edited by
JAYANTAKRISHNA HARIKRISHNA DAVE
Mahāmahopādhyāya, Vidyāvācaspati
M.A., LL.B., ADVOCATE (SUPREME COURT)
Hon. Director, Bharatiya Vidya Bhavan
Published with the financial assistance of the Ministry of
Education, Government of India
HUTE
65
1985
BHARATIYA VIDYA BHAVAN
Kulapati K. M. Munshi Marg, Chowpatty, Bombay-400 007
© All Rights Reserved
First Edition, 1985
PRINTED IN INDIA
By V. Varadarajan at Associated Advertisers & Printers, 505, Tardeo,
Arthur Road, Bombay-400 034,
INTRODUCTION Manusmriti, with nine Commentaries by Medhātithi, Sarvajñanārāyaņa, Kullūka, Rāghavånanda, Nandana, Rāmacandra, Maņirāma, Govindarāja and Bhāruci, is intended to be published in 6 volumes – each volume covering two Adhyāyas. Volumes 1, 2, 3, 5 and 6 have already been published earlier. This is the fourth volume Part I covering the seventh Adhyāya and Part II covering eighth Adhyâya is expected to be out shortly. This project with these nine commentaries has been undertaken by the Bharatiya Vidya Bhavan with the financial assistance of the Ministry of Education, Government of India. The Editor expresses warm thanks to the Government of India for the kind and continued financial assistance. Publication of this and remaining volume has been delayed for various reasons, including press and paper problems. However, the second part of this volume is expected to come out soon. Bharatiya Vidya Bhavan, Kulapati K. M. Munshi Marg. Bombay-400 007. 30-3-1985 Jayantakrishna Harikrishna Dave मनुस्मृतिः सप्तमाध्याय-विषयानुक्रमकोशः श्लो. १ .. ७-१२ .. .. १३ १४-१५ १६-१७ . १८-१९ .. . विषयः राजधर्मकथनम् कृतसंस्कारस्य राज्ञः प्रजारक्षणम् रक्षार्थमिन्द्राद्यशादुत्पन्नस्य राज्ञः प्रशंसनम् राजद्वेषनिन्दनम् राजस्थापितं धर्म न' चा लयेत् दण्डोत्पत्तिशंसनम् दण्डप्रणयनपूर्वकं तस्य प्रशंसनम् अनर्थकदण्डनिषेधकथनम् दण्डयेषु दण्डा विधाने निन्दनम् पुनर्दण्डप्रशंसनम् दण्डप्रणेता कीदृस्तस्य कथनम् अधर्मदण्डे राजादीनां दोषनिरूपणम् मूर्खादीनां न दण्डप्रणयनम् सत्यसंधादिना दण्ड विधानम् शत्रुमित्रविप्रादिषु दण्डाविधिशंसनम् न्यायशीलस्य राज्ञः प्रशंसनम् दुर्वृत्तस्य राज्ञः निन्दनम् राजकृत्यकथनम् विनयग्रहणम् सदृष्टान्तमविनयनिन्दनम् विनयाद्राज्यादिप्राप्तिदृष्टान्तः .. •. .. ३४ ८०-८१ ७ विद्याग्रहणम् .. vii श्लो. विषयः ४४ 6 6 ४५-४६ ७ ४८ ७ .. ५० ५१-५३ ५४ ५५-५६ ७ .. ७ इन्द्रियजयः कामक्रोधव्यसनत्यागः कामजदशव्यसनकथनम् क्रोधजाप्टव्यसननिरूपणम् सर्वमूललोभत्यागः अतिदुःखदव्यसनानि व्यसनानिन्दनम् अथसचिवाः मन्धिविग्रहादिचिन्तनम् मन्त्रिभिविचार्य हितं कार्यम् ब्राह्मणमन्त्रि गः अमात्यान् अन्यानपि कुर्यात् आकरान्तः पुराध्यक्षाः दूतादिलक्षणकथनम् मेनापत्यादिकार्यम् दूतप्रशंसनम् प्रतिराजेप्सितं तेन जानीयात् जाङ्गलदेशाश्रयणे दुर्गप्रकारानाह अस्त्रान्नादिपूरितं दुर्गं कुर्यात् मुन्दरी भार्यामुद्वहेत् पुरोहितादयः .. ५९-६० ६१-६२ .. .. ७ ६३ .. ७ ६४-६५ (० ७. ६७ .. ६८-६९ ७० ७१-७५ ७६-७७ ७ ७८ यज्ञादिकरणम् ७ ८० ८१ ७ ८२ करग्रहणशंसनम् अध्यक्षान् आह ब्राह्मणानां वृत्तिदानम् ब्राह्मणवृत्तिदानप्रशंसनम् पात्रदानफलकथनम् संग्रामे आहतो न निवर्तत ८४-८५ ८६-८७ viii श्लो. ८८-८९ .. विषयः संमुखमरणे सति सवगप्राप्तिः कुटास्त्रादिनिपंधकथनम् संग्रामेऽवध्यानाह भीतादिहनने दोषशंसनम् संग्रामे पराङमुखहतस्य दोपः येन वज्जितं तद्धनं तस्यैव राज्ञः श्रेष्टवस्तुदानम् हस्त्यश्वा दिवर्धनम् अलब्धं लब्धुमिच्छेत् नित्यमश्वपदात्या दिशिक्षणम् नित्यमुद्यतदण्ड: स्यात् अमात्यादिषु माया न कर्तव्या प्रकृतिभेदादिगोपनीयम् अर्थादिचिन्तनम् विजयविरोधिनो वशीकरणम् सामदण्डप्रशंसनम् गजरक्षणम प्रजापीडने दोषः १००-१०१ .. ७ •• १०८ .. .. १०६ .. १०८-१०९. .. .. ११० प्रजारक्षणे सुखम् १११ ११०-११ ११४-११५ ११६ .. .. ११७-११८ १२१ ग्रामाधिपत्यादयः ग्रामदोष निवेदनम् ग्रामा धिकृतस्य वृत्तिमाह ग्रामकाण्यन्येन' कर्तव्यानि अर्थचिन्तक: तच्चरितं स्वयंजानीयात् उत्कोचा दिग्राहकशासनम् प्रेप्यादिवृत्तिकल्पनम् वणिक्करग्रहणस्य कथनम् अल्पाल्पकारग्रहणशंसनम् .. १२४-१२५ .. १२६-१२७ .. ix श्लो. १३० १३१-१३३ ७ १३४ १३५-१३७ ७ ७ १३८ १३९ .. .. ७ १४० ७ १४१ १४२-१४३ १४४ ७ ७ ७ .. ७ विषयः धान्यादीनां करग्रहणम् घोवियाकरं न गृह्णीयात् श्रोत्रियवृत्तिकल्पनम् जाका दिव्यवहारिणः स्वल्पकरः मिप्यादिकं कर्म कारयेत् स्वल्यादिकरप्रचुरग्रहणनिषेधकथनम् तीक्ष्णमृदुताचरणम् अमात्येन सह कार्यचिन्तनम् दस्युनिग्रहणस्य शंसनम् प्रजापालनस्य श्रेष्ठत्वम् सभाप्रवेशनम् एकान्ते गोप्यमन्त्रणम् मन्त्रणकाले स्त्याद्यपसारणम् धर्मकामादिचिन्तनम् दूतसंप्रेषणा दिकथनम् अयप्रकृतिप्रकाराः अरिप्रकृतयः अथ षड्गुणाः संध्यादिप्रकार: संधिविग्रहादिकाला: वलिनृपसंश्रयणे आत्मानमधिकं कुर्यात् आगामिगुणदोषचिन्तनम् राजरक्षाकथनम् अरिराज्ययानविधिशंसनम् शत्रुसेविमित्रादौ सावधानत्वम् व्यूहकरणे जलादौयुद्धप्रकारशंसनम् अग्रानीकयोग्यानाह .. ७ १४५ १४६-१४७ १४८-१४९ १५०-१५१ १५२-१५३ १५४-१५६ १५७-१५८ १५९-१६० १६१-१६२ १६३-१६९ ७ ७ ७ ७ १७०-१७५ १७६-१७७ ७ १७८ 4. (० १७९-१८० १८१ .. ७ १८२-१८६ ७ .. १८७ ७ १८८-१९२ १९३ श्लो. १९४ १९५ १९६-१९७ १९८-२०० ७ .. ७ २०१ २०२ २०३-२०५ ७ २०६ ७ विषयः सैन्यपरीक्षणम् परराष्ट्रपीडनम् परप्रकृतिभेदादिकथनम् उपायाभावे युध्येत् जित्वा ब्राह्मणा दिपूजनमभयदानञ्च तद्वंश्या य तद्राज्यदाने दैवमानुषकर्मे क रग्रहणादिकथनम् मित्रप्रशंसनम् शत्रुगुणाः उदासीनगुणाः आत्मार्थं भूभ्या दित्यागकथनम् आपदि उपायचिन्तनम् अथ राज्ञो भोजने अन्नादिपरीक्षणम् विहारादिशंसनम् आयुधादिदर्शनम् संध्यामुपास्यप्रणिधिचेष्टितादिशंसनम् ततो रात्रिभोजनादिकथनम् अस्वस्थ. श्रेष्ठामात्येषु निःक्षिपेत् ७ ७ ७ २०८-२१० २११ २१२ २१३-२१४ २१५-२१६ २१७ २१८-२२१ ७ २२२ .. २२४ २२५-२२६ मनु स्मृतिः व्याख्यानवकोपेता सप्तमोऽध्यायः ७ तथा च कात्यायन: राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः । संभवश्च यथा तस्य सिद्धिश्च परमा यथा ॥१॥ (१) मेधातिथिः । धर्मशब्दः कर्तव्यतावचन' इत्युक्तम् । यद्राज्ञः कर्तव्यं तदिदानीमुच्यत इति प्रतिज्ञा। कर्तव्यं च दृष्टार्थं षाड्गुण्यादि, अदृष्टार्थमग्निहोत्रादि। तत्रेह प्राधान्येन दृष्टार्थमुपदिश्यते। तत्रैव च राजधर्मप्रसिद्धिः । राजशब्दस्तु नेह क्षत्रियजातिवचनः। किं तहि ? अभिषेकाधिपत्यादिगुणयोगिनि पुरुषे वर्तते । अत एवाह यथावृत्तो भवेन्नृपः । नृप 'ग्रहणेन जनपदैश्वर्यवतोऽधिकारमाह । प्रमाणान्तरमूला ह्यत्र धर्मा उच्यन्ते, न सर्वे वेदमूलाः। अन्यमूलत्वे च यदत्र धर्मशास्त्राविरुद्धं तदुच्यते । अर्थशास्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्तमाव्रजेदिति”। यथावृत्तः यद्वृत्तं यत्प्रकारं वाऽस्येति च बहुव्रीहिः। अन्यपदार्थो राजा । यथार्थप्राधान्येऽव्ययीभावः स्यात् । वृत्तं परिपालनार्थो व्यापारोऽदृष्टार्थश्च । संभवश्चोत्पत्तिः । स उक्तो “ राजानमसृजत्प्रभुः” (७/३) इत्यादिना । परमा प्रकृष्टा सिद्धिविजिगीषोरैकाधिपत्यम् । राजवृत्तस्य फलप्रतिज्ञेयम् ॥ १॥ (२) सर्वज्ञनारायणः । एवं तावत्पञ्चभिरध्यायैाह्मणस्यासाधारणधर्माः कथिताः, अधुना द्वितीयवर्णस्य क्षत्रियस्यासाधारणधर्मानाह राजधर्मानिति । धर्मो धर्मसाधनं । यथावृत्तो यदाचारः । संभवः सृष्ट्यादौ । सिद्धिदृष्टार्थसिद्धिः ॥ १॥ (३) कुल्लूकः। धर्मशब्दोऽत्र दृष्टादृष्टार्थानुष्ठेयपरः, षाड्गुण्यादेरपि वक्ष्यमाणत्वात्। 'राज'शब्दोऽपि नात्र क्षत्रियजातिवचनः किंत्वभिषिक्तजनपदपुरपालयितृपुरुषवचनः। अत एवाह यथावृत्तो भवेन्नृप इति । यथावदाचारो नृपतिर्भवेत्तथा तस्यानुष्ठेयानि कथयिष्यामि यथा येन प्रकारेण वा 'राजानमसृजत्प्रभु' (७/३) रित्यादिना तस्योत्पत्तिः, यथा च दृष्टादृष्ट- फलसंपत्तिस्तदपि वक्ष्यामि ॥ १॥ (४) राघवानन्दः । — राजा धर्मस्य कारण' मित्यनुशासनानृपतिधर्मयोः कार्यकारण- संगतिरध्यायद्वये। राजधर्मानिति । राजपदमत्रावेष्टयधिकरणन्यायेनान्ध्रप्रसिद्धिमाश्रित्य राजन्यपरं प्रजापालनकण्टकोद्धरणादिना राज्यस्य कर्तरि वर्णान्तरे च लाक्षणिकमिति उत्तरे च ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेणेति, अन्ते च 'क्षत्रियस्यापराधेन ब्राह्मणः सीदति क्षुधा। वेदाभ्यासो हि विप्रस्य क्षत्रियस्याभिरक्षणम्'। नाक्षत्रं ब्रह्म वर्धते क्षत्रियाय ददौ राज्यं संध्यां " २ मनुस्मृतिः ७.२] चोपास्य शृणुयादित्यादिस्वरसात् । नतु ब्राह्मणादौ राजधर्माप्राप्तिरिति । 'अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन तेजसा। जीवेत्क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तर' (१०/८१) इत्यापदि मनुवचनादेव धर्माः कर्तव्याः । तत्रादृष्टमग्निहोत्रादि तदर्थं ऋत्विगादि दृष्टं प्रजापालनादि तदर्थं षाड्गुण्यादि तयोः प्राप्तिः। यथावृत्तो यथाचारो भवेत् । संभवश्वेन्द्रादिभ्य उत्पत्तिः सिध्दी रणे नैव ॥१॥ (५) नन्दनः । एवं प्रतिपादितस्याश्रमधर्मस्य रक्षाधिकारिणं राजानं प्रति धर्मा- न्प्रस्तौति राजेति । यथावृत्तो यत्प्रकारवृत्तो नृपो भवेत् नृन् पातुं शक्नुयात् तथा च वक्ष्यामि । सिद्धिरैहिकामुष्मिकफलम् ॥ १ ॥ (६) रामचन्द्र :। राजधर्मानाह राजधर्मानिति । यथावृत्तःयथाचारः नृपो भवेत् तस्य राज्ञः यथासंभवः सृष्टयादौ जन्म तस्य यथा सिद्धिः कार्यसिद्धिः एतादृशान्वक्ष्यमाणलक्षणान्राज- धर्मान्प्रवक्ष्यामि ॥ १ ॥ (८) गोविन्दराजः । राजधर्मानिति । नृपतिना यथाचारेण भवितव्यं, वीक्ष्य दृष्टादृष्टार्थान् कर्तव्यान् कथयिष्यामि । तथा येन प्रकारेण राज्ञ उत्पत्तिर्यथा च प्रकृष्टा दृष्टादृष्टार्थफलसंपत्तिस्तद्वक्ष्यामि ॥ १ ॥ (९) भारुचिः । एवमेकाश्रम्यं चातुराश्रम्यं च सविक (? रूपं) सिद्धिस्तु परमा राज्ञः स्वीकृता । सर्वराजमण्डलस्यानन्तरं सकलमहीमण्डलाधिपत्ये सति निरतिशया, धर्मार्थं सुखत्रिवर्गाभ्युदयप्राप्तिरप (रमात्या) दिप्रकृतिसम्पत् ॥ १ ॥ ब्रामं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ २ ॥ (१) मेधातिथिः। ‘ब्रह्म' वेदः । तत्र श्रुतः संस्कारो ‘ब्राह्मः' । स वेदाध्ययनजन्यो ग्रहणवतोऽर्थलक्षणो वेदस्य; स्वाध्यायविधिनिवर्त्य इत्यर्थ: । उपनयनं तु ब्रह्मग्रहणार्थत्वाद् ब्राह्ममिति युक्तम् । तथा च वक्ष्यति (७/४३) " त्रैविद्येभ्यस्त्रयों विद्याम् "इति । इतरथा विदितवेदितोपदेशः स्यात् । गर्भाधानादिस्मृतिशास्त्रदृष्टचत्वारिंशसंस्कारम् । क्षत्रियेणेति। एतेन क्षत्रिय एव राज्याधिकारीति सूचितम् । क्षत्रियाभावे तदतिदेशोऽपि ग्राह्यः। अन्यथा प्रजालोपः स्यादिति भावः । सर्वस्य करदस्य दीनानाथादेश्च। अस्येति स्वविषयवासिनां यथास्वं जनपदपुरनिर्देशः। यथान्यायम् । न्यायः शास्त्र धर्मशास्त्ररूपम्, नार्थशास्त्रमौशनसादिप्रणीतम्, नतिक्रम्य । परिरक्षणं परिपालनम्। अपायपरिहारः, दुर्बलानां बलवद्भिरनभिभव:, शास्त्र- मर्यादानतिक्रमश्च। दुःखत्राणं परिरक्षा। शास्त्रातिक्रमे चादृष्टं दुःखम् । अतस्तदनतिक्रमे राजभयेन रक्षिता भवन्ति । राजदण्डे दुःखमिति चेन्महतो नरकादिदुःखाद्राज- दण्डनमल्पीयः । कर्तव्यमिति विधिः । अधिकारश्चाष्टमे निरूपितः ॥२॥ (२) सर्वज्ञनारायणः। ब्राह्मं तूपनयनादिस्नानान्तम् ॥२॥ (३) कुल्लूकः। ब्रह्म वेदस्तत्प्राप्त्यर्थतयोपनयनसंस्कारस्तं यथाशास्त्रं प्राप्नुवता क्षत्रियेगास्य सर्वस्व स्वविषयावस्थितस्य शास्त्रानुसारेण नियमतो रक्षणं कर्तव्यम् । तम- ७.३] व्याख्यानवकोप्ता ३ , एतेन क्षत्रिय एव नान्यो राज्याधिकारीति दर्शितम् । अत एव शास्त्रार्थतत्त्वं क्षत्रियस्य जीवनार्थं, तथा क्षत्रियस्य तु रक्षणं स्वकर्मसु श्रेष्ठं च वक्ष्यति, ब्राह्मणस्य ह्यापदि ‘जीवेत्क्षत्रिय- धर्मेणे' (१०/८१) त्यभिधास्यति । वैश्यस्यापि क्षत्रियधर्म शूद्रस्य च क्षत्रियवैश्यकर्मणी जीवनार्थमापदि जगाद नारद: 'न कथंचन कुर्वीत ब्राह्मणः कर्म वार्षलम् । वृषल: कर्म च ब्राह्म पतनीये हि ते तयोः ।। उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते। मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ रक्षणं वेदधर्मार्थं तपः क्षत्रस्य रक्षण'मिति ‘सर्वतो धर्मषड्भागो राज्ञो भवति रक्षत' (८/३०४) इति च वक्ष्यमाणत्वात् रक्षितुर्बलिषड्भागग्रहणात् 'दृष्टार्थमपि योऽरक्षन्बलिमादत्त' (८/३०७) इति नरकपातं वक्ष्यति ॥२॥ (४) राघवानन्दः। ब्रह्म वेदस्तत्कृतं संस्कारमुपनयनवेदाध्ययनादिप्राप्तेन क्षत्रि- येण ।।२।। (५) नन्दनः । अभिषेकादिसंस्कारयुक्तस्य क्षत्रियस्य रक्षायामधिकारो नान्यस्ये- त्याह ब्राह्ममिति । ब्राह्मं संस्कारं वैदिकमुपनयनाभिषेकादिकं संस्कार प्राप्तो यस्तस्यैव रक्षायामधिकारो नान्यस्येति ॥२॥ (६) रामचन्द्रः । ब्राह्म संस्कार उपनयनादिसंस्कारान् प्राप्तेन क्षत्रियेण यथा- विधि अस्य सर्वस्य जगतः परिरक्षणं कर्तव्यम् ।।२।। (८) गोविन्दराजः । ब्राह्ममिति । वेदाधिगमार्थमुपनयनार्थं स्नानपर्यन्तं यथाशास्त्रं संस्कार प्राप्तवता क्षत्रियेण सर्वस्यास्य जगतः शास्त्रमर्यादानतिक्रमेण नियमतो रक्षणं कर्तव्यम् , वृत्त्यर्थत्वेऽपि 'तपः क्षत्रस्य रक्षणम्' इति अदृष्टार्थत्वेनापि रक्षणोपदेशात् ॥२॥ (९) भारुचिः । तत्र सिद्धिमवेक्ष्येदमुच्यते 'ब्राह्म प्राप्तेन संस्कारं क्षत्रियेण यथा- विधि । सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम्' । ब्रह्मणे ब्रह्मणो वा संस्कारः ब्राह्म उपनयनादिः । स्नानान्तस्तं प्राप्तेन क्षत्रियेण, नान्यवर्णेन । यथाविधि यथाशास्त्रं । सर्वस्यास्यत्यतेनाभिनयेन वश्रिमौ निर्दिशति । यथान्यायं यथोपदेशं कर्तव्यं । परि- रक्षणमिति । अन्य वृत्तिपरिसंख्येयं नियमो वा । एके तु दृष्टार्थत्वादुपदेशं वृत्त्यर्थं मन्यन्ते । तथा च सति पित्र्ये धने निध्यधिगमेऽन्यथा प्राप्तौ न नियोगतः क्षत्रियो राजन्यमाति- प्टेंदिति । तदयुक्तम् – 'वेदाभ्यासों ब्राह्मणस्य क्षत्रियस्य तु रक्षणम् । वार्ताकर्म च वैश्यस्य विणिष्टानि स्वकर्मसु ।। (१०/८०) इत्युक्तत्वाद्विशिष्टत्वं चैषां दृष्टादृष्टसम्बन्धेन युक्तम् । नियमाश्रयश्चादृष्टसंबंधः आवृत्तिश्च राज्ञा रक्ष्यन्ते । यतो दृष्टार्थमेव रक्षणम् , अराज्ञाऽपि च क्षत्रियस्य ग्रामादिसंरक्षणेऽप्येतदर्थवत् नियमशास्त्र...॥२॥ अराजके हि लोकेऽस्मिन्सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः ॥३॥ (१) मेधातिथिः। विद्रुते पीडितेऽप्रतिष्ठिते वा। प्रभुः प्रजापतिः। स्तुतिरियम् ॥३॥ (२) सर्वज्ञनारायणः। विद्रुते कल्पादौ ॥३॥ (३) कुल्लूकः । यस्मादराजके जगति बलवद्भयात्सर्वतः प्रचलिते सर्वस्यास्य चरा- चरस्य रक्षायै राजानं सृष्टवांस्तस्मात्तेन रक्षणं कार्यम् ॥३॥ .
मनुस्मृतिः [७.५ (४) राघवानन्दः। तत्र पुरावृत्तमाह अराजक इति। विद्रुते पीडिते। प्रभुः प्रजा- पतिः ॥३॥ (५) नन्दनः । तत्र हेतु: तामधिकृत्य तस्य सृष्टत्वमित्याह अराजके होति । सर्वतो भयाइविकान्मानुषाच्च प्रभुः प्रजापतिः ॥३॥ (६) रामचन्द्रः। अराजकेऽस्मॅिल्लोके भयात्सर्वतो विद्रुते सति अस्य विश्वस्य रक्षार्थ प्रभू राजानमसृजत् ॥३॥ (८) गोविन्दराजः। अराजक इति। यस्मात्पूर्वमविद्यमानराजके अस्मिन् जगति भयेन समंतात् प्रचलति सति अस्य जगतो रक्षार्थं हिरण्यगर्भो राजानं सृष्टवान्, तस्मात्तेन रक्षणं कर्तव्यम् ॥३॥ (९) भारुचिः । साधारणमधुनोच्यते तन्निवृत्त्यर्थं राजोत्पत्तिरनेन प्रदर्श्यते । पूर्वविधिस्तुतिरियम् ॥३॥ इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च । चन्द्रवित्तेशयोश्चैव मात्रा निर्दृत्य शाश्वतीः ॥४॥ (१) मेधातिथिः। अनिलो वायुः। वित्तेशो धनपतिर्वैश्रवणः। मात्रा अवयवाः । शाश्वतीः सारभूताः । निहत्य निष्कृष्य ॥४॥ (२) सर्वज्ञनारायणः । मात्रा अवयवान् । निहत्याकृष्य ॥४॥ (३) कुल्लूकः । कथं सृष्टवानित्याह इन्द्रेति । इन्द्रवातयमसूर्याग्निवरुणचन्द्र- कुबेराणां मात्रा अंशान्सारभूतानाकृष्य राजानमसृजत् ॥४॥ (४) राघवानन्दः । सर्वनियन्तृत्वविधानार्थमुत्पत्तिस्वरूपकथनेन स्तौति इन्द्रेति द्वाभ्याम् । वित्तेशः कुबेरः। मात्राः सारभूतांशाः दधिमण्डस्य नवनीतवत् । शाश्वती- मन्वन्तरव्यापिनीः । निहत्य निष्कृष्य ॥४॥ (५) नन्दनः। किमुपादायासृजदित्यपेक्षायामाह इन्द्रेति। शाश्वतीर्मात्राः स्वाभाविका- नंशान् इन्द्रस्यैश्वर्यम्, अनिलस्य बलं इत्यादिकाः शक्तीरित्यर्थः । निर्ह त्यासृजदित्यनुषङ्गः ॥४॥ (८) गोविन्दराजः। कथमसृजदित्याह इन्द्रानिलयमार्काणामिति। इन्द्रवायुयमा- दित्याग्निवरुणचन्द्रवैश्रवणानां संबन्धिनोंऽशान् सारभूतान्निष्कृष्य राजानमसृजत् ॥४॥ (९) भारुचिः। ‘बालोऽपि नावमन्तव्य' (७/८) इत्यस्य विधेर्वक्ष्यमाणस्येमे दश श्लोकाः शेषतया विज्ञेयाः। एवमिन्द्रादीनां स्वविषये येन चेष्टां करोति तेन तेषां मात्राभ्यो निर्मित इत्युच्यते ॥४॥ यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः। तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥५॥ (१) मेधातिथिः। एषामिन्द्रादीनां सुरश्रेष्ठानां मात्राभिस्तेजोशैनिर्मितस्तस्माद्धेतो- रभिभवति दुनिरीक्ष्यमुखो भवति। तेजसा हेतुना। निष्कृष्य निर्मित उत्पादितः यतः 'कृषि'रुत्पादने धातुर्वर्तते । तेनापायावधित्वा- न्मात्राभ्य इति पञ्चमी तृतीया वा पठितव्या ॥५॥ ।
७.७]
व्याख्यानवकोपेता
(२) सर्वज्ञनारायणः । तेजसा वीर्येण ।।५।।
(३) कुल्लूकः। यस्मादिन्द्रादीनां देवश्रेष्ठानामंशेभ्यो नृपतिः सृष्टस्तस्मादेप
सर्वप्राणिनो वीर्येणातिते ।।५।।
(४) राघवानन्दः । तदेवाह यस्मादिन्द्रादीनां मात्राभिनिमितो नृपस्तस्मात्म्व-
तेजसा सर्वभूतान्यभिभवत्येष इति ।।५।।
(५) नन्दनः। उक्तस्य प्रत्यक्षत्वं लोकत्रयेणोपपादयति यस्मादिति ।।५।।
(६) रामचन्द्रः । यस्मात्कारणादेषां सुरेंद्राणामिन्द्रादिलोकपालानां मात्राभ्योs-
शेभ्यो निमितो नृपस्तस्मात्कारणात्तेजसा सर्वभूतान्यभिभवति ।।५।।
(८) गोविन्दराजः। यस्मादिति । तेपामिन्द्रादीनां देवेश्वराणां संबन्धिभ्यः अंशेभ्यो
यस्मान्नृपतिः कृतः, तस्मादेष प्राणिनो बीर्येणाधरीकरोति ॥५॥
(९) भारुचिः । कार्येणैतदर्थ दर्शयति – यस्मादाधिपत्यश्वर्यात् सर्वभूतान्यभि-
भवति स्वेन तेजसा, अत इन्द्रादिदेवतामात्राभ्यो निर्मित इति स्तुयते ।। ५ ।।
तपत्यादित्यवच्चैष चझूपि च मनांसि च ।
न चैनं भुवि शनोति कश्चिदप्यभिवीक्षितुम् ॥६॥
(१) मेधातिथिः। तपति तपतीव संमुखोऽशक्यदर्शनत्वादेवमुच्यते। तदाह न
चैनं भुवि शक्नोति। ब्राह्मणजात्युत्कृष्टा ब्रह्मवर्चस्विनोऽपि नैनमभिमुखं वोक्षितुं शक्नु-
वन्ति। तदुक्तं “तमुपर्यासीनमधस्तादुपासीरन्" ।।६।।
(२) सर्वज्ञनारायणः। तपत्यादित्यवदित्यं शोपपादनमितरेवायेवं स्वयमुह्यम् ।।६।।
(३) कुल्लूकः । अयं च राजा स्वतेजसा मूर्य इब पश्यतां चढूंषि मनांसि च
संतापयति । न चैनं राजानं पृथिव्यां कश्चिदप्याभिमुख्येन द्रष्टुं क्षमते ॥६॥
(४) राघवानन्दः । कार्येणापि तदंशोऽनुमेय इत्याह तपतीति द्वाभ्याम् । दृष्टानां
चक्षुर्मनसो: संतापजननात्तद्दर्शनानिष्ठाक्षमत्वं मूचितं । माधूनां न तपति विमलं प्रमाध-
यति ॥६॥
(६) रामचन्द्रः। सर्वेषां चक्षूपि मनांसि चार्कवन्नृपस्तपति संतापयतीत्यर्थः ।।६।।
(८) गोविन्दराजः । तपतीति । एष च राजा पश्यतां स्ववीर्येण चक्षुषि मनांसि च
आदित्यवत्संतापयति, नचैनं राजानं वीर्येणातिशययोगात्कश्चिदपि पृथिव्यामाभिमुख्येन
वीक्षितुं शक्नोति । एवं चन्द्रांशांशोद्भवत्वादिति कथनार्थम् ॥६॥
(९) भारुचिः । महाराजलिङगेन चामरछत्रभृङगादिना युक्तो दीप्तिमत्त्वा-
च्चक्षूध्यादित्यवत् तापयति । मनांसि दण्डपातनाद् यस्मादती न कश्चिदेनं शक्नाभि-
वीक्षितुमपि किं पुनः (अ)पाकर्तुम् । पूर्ववदयमपि स्तुत्य । एवं च मति तास्ववस्थासु
कार्यार्थम् ॥६॥
सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् ।
स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥७॥
६ मनुस्मृतिः (१) मेधातिथिः। अग्न्यादिदेवतानां मात्राशयत्वात्तच्छक्तियोगितयैवमुच्यते । प्रभावोऽलौकिकी या शक्तिः ॥७॥ (२) सर्वज्ञनारायणः । प्रभावतः प्रभाववानेवैवं भवतीत्यर्थः ॥७॥ (३) कुल्लूकः। एवं चाग्न्यादीनां पूर्वोक्तांशभवत्वात्तत्कर्मकारित्वाच्च 'प्रताप- युक्तस्तेजस्वी (९/३१०) त्यादिना नवमाध्याये वक्ष्यमाणत्वात्स राजा शक्त्यतिशयेनाग्न्यादिरूपो भवति ॥७॥ (४) राघवानन्दः । स धर्मराट् यमः । प्रभावतः ऐश्वर्येण ॥७।। (५) नन्दनः। प्रभावतः शक्तितः ॥७॥ (८) गोविन्दराजः। स इति । 'प्रतापयुक्तस्तेजस्वी'त्यादिवक्ष्यमाणात् । आदित्यतुल्य- व्यापारकरणादमावलौकिकशक्तियोगेन तासु क्रियासु राजाग्निवाय्वादित्यचन्द्रयमवैश्रवण- वरुणेन्द्रतुल्यो भवति ॥७॥ (९) भारुचिः । एवं चेमे लोकपाला यैरयं राजा तथा तथैव व्यपदिश्यते ।। ७ ।। बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति ॥ ८ ॥ (१) मेधातिथिः। मनुष्योऽयमित्येवं बालोऽपि भूमिपो राजा किं तहि? महती काचिदेषा देवततेन मानुषेण रूपेण स्थितेति । अतो दृष्टेनापि दोषेण राजन्यवज्ञा न युज्यते ।।८।। (२) सर्वज्ञनारायणः । महतो देवता ईश्वरः ।।८।। (३) कुल्लूकः। ततश्च मनुष्य इति बुद्धया बालोऽपि राजा नावमन्तव्यः । यस्मान्महतीयं काचिद्देवता मानुषरूपेणावतिष्ठते । एतेन देवतावज्ञायामधर्मादयोऽदृष्टदोषा नावमन्तव्यः। उक्ताः ॥८॥ (४) राघवानन्दः । किंच बालो पीति । अवमानप्रसक्तिमाह मनुष्य इति ॥८॥ (५) नन्दनः । एवं देवांशप्रभवत्वाद्राजा नावमन्तव्य इत्याह बाल इति । महती देवता अग्निरित्यर्थः । हिशब्दो हेतौ ।।८।। (८) गोविन्दराजः । बालोऽपीति । भूपतिर्बालोऽपि मनुष्यबुद्धया नावज्ञेयो यस्माद्देवांशोद्भवत्वान्महत्येषा देवता मनुष्यरूपेणास्ते ।।८।। (९) भारुचिः । यत चैतदेवमतः शक्नोति ह्ययं बालोऽप्यमात्यादिभिरकार्यकारिणो निवर्तयितुम् । किन्चान्यत् ।।८।। एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् । कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥९॥ (१) मेधातिथिः। अस्य विधेरर्थवादश्लोका एते। राजधर्मोऽपि सन् सर्वपुरुषार्थोऽयम् । योऽग्नि हस्तादिना स्पृशति, समिद्धस्याप्यन्तिकवर्ती भवति, स 'दुरुपसो' नरः ७.१०] व्याख्यानवकोपेता प्रमादस्खलितो दह्यते । राजा तु क्रुद्धः सपुत्रधनदारबान्धवं दहति । कुलं - ये केचिद् ज्ञातयः स्वजनाश्च तानप्यपराधसम्बन्धात्पशुभिर्धनसंचयश्च' सह नाशयति ।।९।। (२) सर्वज्ञनारायणः । दुरुपसपिणं दुष्टेन प्रकारेणोपसर्पन्तमभिभवार्थमग्नेः स्वयमेव तन्मध्ये प्रवेशादिकारिणम् ॥९॥ (३) कुल्लूकः । संप्रति दृष्टदोषमाह एकमित्यादि । योऽग्नेरतिसमीपमावहितः सन्नुपसर्पति दुरुपसपिणमेकमेवाग्निर्दहति न तत्पुत्रादिकं, क्रुद्धो राजाग्निः पुत्रदार- भ्रात्रादिरूपं कुलमेव गवाश्वादिपशुसुवर्णादिधनसंचयसहितं सापराधं निहन्ति ।।९।। (४) राघवानन्दः । महत्त्वमेवाह एकमिति । दुरुपसपिणं दुःखार्थं मरणाद्युद्यतं उपसपिणं समीपगामिनम् । राजा तु देशान्तरस्थमपि कुलादिविशिष्टमपि हन्ति । अग्नि- देवतातोऽप्यधिक इति भावः ॥९॥ (५) नन्दनः । अग्नितोऽपि राजा दाहशक्तौ विशिष्टतर इत्याह एकमिति । दुरुपसर्पिणां उपसर्पणानिपुणानां प्रमादादग्नौ प्रमादादग्नौ पतितमिति यावत् । कुलं दहति यस्मात्तस्मान्नावमन्तव्यः ॥९॥ (६) रामचन्द्रः । एकमेव नरमग्निर्दहति । कीदृशं नरं? दुरुपसपिणं दुष्टेन प्रकर्षण उपसर्पन्तं विलङघयन्तम् ॥९॥ (८) गोविन्दराजः। एकमिति । अग्निरनुपायसेविनं मनुष्यमेकमेव दहति । राजाग्निः पुन: पशुधनसमूहसहितं अपराधिसंबन्धिबन्धुवर्गमपि नाशयति। तस्मादसौ नावमन्तव्यो राजाग्निरिव विनाशकत्वान्न च स्नेहातिशयातिदर्शनेन तं प्रत्याश्वसनीयं यस्मात् ॥९॥ (९) भारुचिः। यस्मादकार्यकारिणां तत्सहायानां तत्सम्बन्धसम्बन्धानां च कुलं दहति । अतोऽप्यसौ नावमन्तव्यः ॥९॥ कार्य सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः। कुरुते धर्मसिद्धयर्थं विश्वरूपं पुनः पुनः ॥१०॥ (१) मेधातिथिः। नैतन्मन्तव्यं बन्धुर्मे राजा सुहृद्वेति । “कस्य राजा भवेन्मित्रं कानि मित्राणि राजनि।" प्रयोजनापेक्षया च शत्रौ मित्रवदाचरन्ति मित्रे शत्रुवत् । तथाऽशक्ताः कंचिदपराध क्षमन्ते, शक्ति प्राप्योन्मूलयन्ति । एवं देशकालावपि । अतो धर्मसिद्धयर्थं, कार्यसिद्धयर्थं 'विश्वरूपं' कुरुते । क्षणान्मित्रं क्षणेन शत्रुः, नैकरूप एव राजा भवति। अतो न विश्वसितव्यं राजनि । मैत्र्याद्वाल्लभ्यात्सौजन्याद्वा तत्तुल्यवयोदृष्ट्या न वर्तितव्यम्, अपि तु सर्वदा नयेन द्रष्टव्यः ॥१०॥ (२) सर्वज्ञनारायणः। कार्य प्रयोजनं। शक्ति स्वस्य। देशकालौ विग्रहादियोग्यौ । विश्वरूपं मित्रेऽपि शत्रुतां शत्रावपि मैत्रीं। अतो मित्रमित्यत्र नाविश्वसनीयमित्यर्थः ॥१०॥ (३) कुल्लूकः । स राजा प्रयोजनापेक्षया स्वशक्ति देशकालौ चावेक्ष्यः कार्य सिद्धयर्थ तत्त्वतो विश्वरूपं बहूनि रूपाणि करोति। जातिविवक्षया बहुष्वेकवचनम् । अशक्तिदशायां क्षमते, शक्ति प्राप्योन्मूलयति। एवमेकस्मिन्नपि देशे काले च प्रयोजनानु- .
मनुस्मृतिः [७.११ रोधेन शत्रुर्वा मित्रं वोदासीनो वा भवति, अतो राजवल्लभोऽहमिति बुद्धया नावज्ञेयः ॥१०॥ (४) राघवानन्दः। किंच कार्यमिति। कार्यमनुग्रहनिग्रहो। शक्ति बाल्ययौवनाद्य- नुरूपाम् । देशो दूरनिकटादिः। कालः सुभिक्षदुभिक्षादिः। अवेक्ष्य निश्चित्यैव विश्वरूपं प्रयोजनानुरूपेण शत्रुमित्रोदासीनतया ॥१०॥ (५) नन्दनः । विश्वरूपं नानादेवतारूपम् ॥१०॥ (६) रामचन्द्रः। देशकालौ विग्रहादियोग्यौ ज्ञात्वा धर्मसिद्धयर्थं पुनः पुनः विश्वरूपं नानारूपं इन्द्रयमादिरूपं मित्रे शत्रुतां शत्रौ मित्रतां वा कुरुते ॥१०॥ (८) गोविन्दराज: । कार्यमिति । स राजा प्रयोजनं पर्यालोच्यात्मशक्ति देशकालौ च स्नेहवैरकरणोचितैः सम्यगवेक्ष्य शास्त्रव्यवस्थासिद्धयर्थं मित्रशत्रुमध्यस्थतया मुहुर्मुहुर्नाना- विश्वरूपं कुरुते ॥१०॥ (९) भारुचिः। अतश्चासौ वाल्लभ्यान्मैत्र्यात्स्वाजन्यद्वारेण वा नावमन्तव्यः । अतश्चास्य सम्यगुपचरितस्य...॥१०॥ यस्य प्रसादे पद्मा श्रीविजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः॥११॥ (१) मेधातिथिः । प्रसन्न आराधनया श्रियं ददाति । क्रुद्धो मृत्युना योजयति। अत: श्रीकामेनाराधनीयः। न केवलं श्रिया योजयति, यावदस्य शत्रवः सन्ति तानपि पराक्रम्य परितोषितो हन्ति । अतः शत्रुवधकामेन यथावत्परिचरणीयः । पद्मा श्रीपर्यायोऽपि पद्माशब्दो महत्त्वप्रतिपादनार्थः प्रयुक्तः, महतीं श्रियं ददातीत्यर्थः । एते चार्था राज्ञः प्राप्यन्ते । यतः सर्वतेजोमयोऽसौ अग्न्यादित्यचन्द्रमसां तेजो बिभर्ति ॥११॥ (२) सर्वज्ञनारायणः । यस्य प्रसाद इत्यादि त्रयं क्रमात्कुबेरशक्रयमानां व्यापार- कथनम् । पमा पद्महस्ता। यतः पद्मादयस्तदुद्भवा अतः सर्वतेजोमयः । एवमन्येष्व- प्युक्तांशेषु व्यापारो ज्ञेय इत्याशयः ॥११।। (३) कुल्लूकः । पद्माशब्द: श्रीपर्यायोऽपि महत्त्वविवक्षयाऽत्र प्रयुक्तः । यस्य प्रसादान्महती श्रीर्भवत्यतः श्रीकामेन सेव्यः । यस्य शत्रवः सन्ति, तानपि संतोषितो हन्ति । तेन च शत्रुवधकामेनाप्याराधनीयः । यस्मै क्रुध्यति तस्य मृत्युं करोति, तस्मा- ज्जीवनार्थिना न क्रोधनीयः । यस्मात्सर्वेषां सूर्याग्निसोमादीनां तेजो बिभर्ति ॥११॥ (४) राघवानन्दः । विश्वरूपत्वं व्यनक्ति यस्येति । प्रसादेऽनुग्रहविषये पद्मा श्रीरिति पर्यायत्वेऽपि महत्त्वानपायत्वख्यापनार्थं पद्मालयत्वसूचनेन वा सुखहेतुत्वं ख्यापितम्। श्रिय: सत्वेऽपि नृणामसंतुष्टे राजनि सुखादर्शनात् । पराक्रमे शत्रु प्रतिगमने विजय- स्तत्संभावना। तदवमानात्तत्क्रोधानन्तरं प्रजामृत्युदर्शनान्मृत्युः । तस्माच्छीप्राप्तिः शत्रु- जयशत्रुवधादिकामैर्नृपः सेव्य इति ध्वनिः ॥११॥ (५) नन्दनः। अत्रोदाहरणमाह तस्येति । तस्य प्रसादे श्रीर्वसति तस्य प्रसादे सति लक्ष्मीर्जायत इत्यर्थः। पद्मा पद्मवती। विजय इंद्रः । सर्वतेजोमयः सर्वदेवता- शक्तिमयः ॥११॥ - ७.१३] व्याख्यानवकोपेता (८) गोविन्दराजः। यस्येति । यस्मादसावग्न्याद्यंशोद्भवत्वादग्न्यादिसर्वतेजोयुक्त- स्तस्मात्तद्गतायां प्रसन्नतायां महती श्रीर्वसति । एवं च श्रीकामेनासौ आराधनीयो वीर्य तदा ॥११॥ (९) भारुचिः । अतो न केवलमसौ भयात् प्रत्यवायपरिहारार्थमाराध्यः । अभ्युदयोऽपि हि तस्मात् सम्यगुपचरितात् विशिष्टो भवति । अतश्चैव च सति ॥११॥ तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम् । तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥१२॥ (१) मेधातिथिः । प्रत्यवायाद्यथा नश्यति जनो नैवमभिप्रेतार्थलोभेनातः पुनःपुनराह। तं राजानं यो द्वेष्टि, प्रातिकूल्येन वर्तते तस्मिन्, स त्वसंशयं नश्यति । तस्य ह्याशु विनाशाय। अन्य: कश्चिदपराधं क्षमते अशक्यराजनिवेदनेन । तत्र व्यवहारभागस्य धनपरिक्षयो भवति । भूतोऽप्यर्थः साक्षिणां चित्तवैचित्र्यादन्यथात्वमायाति - इत्यपेक्षमाणः कश्चित्क्र- मेणापि । राजा तद्विनाशार्थमपराधेन मनसि स्थितेन बाध्यत एवासौ शक्तिमत्त्वाद्राज्ञः प्रयतमानस्य स्वतन्त्रविरोधापत्तेः ॥१२॥ (२) सर्वज्ञनारायणः। तस्मात्तत्र द्वेषोऽपि न कर्तव्य इत्यर्थः ।।१२।। (३) कुल्लूकः । तं राजानमज्ञतया यो द्वेष्टि तस्याप्रीतिमुत्पादयति स निश्चितं राजक्रोधान्नश्यति यस्मात्तस्य विनाशाय शीघ्रं राजा मनो नियुङक्ते॥१२।। (४) राघवानन्दः । नापि राज्ञा द्वेषाद्याचरणीयमित्याह तं यस्त्विति । विनश्यतीत्यत्र हेतुस्तस्येति ॥१२॥ (५) नन्दनः। हिहेतौ। विनाशाय विनाशं कर्तुम् अकुरुतेऽध्यवस्यति ।।१२।। (६) रामचन्द्रः। संमोहाद्यस्तं द्वेष्टि तस्य ह्याशु विनाशाय राजा मनः कुरुते ॥१२॥ (८) गोविन्दराजः । यो मनुष्यस्तद्वीर्यातिशयानभिज्ञतया तस्य प्रतिपक्षी भवति स निःसंशयं विनश्यति । यस्मात्तस्य समनन्तरं विनाशार्थं राजा मनः संकल्पयति ॥१२॥ (९) भारुचिः । यथोक्तमुपदेशमपरिगणय्य पौनःपुन्येन यतस्तन्नं द्विष्यादन्य- थार्थापराधं च येन। अन्यस्तु द्विष्यमाण: कदाचिद्धर्मापेक्षया शक्त्या वा सहेत। राज्ञः पुनः सहमानस्य स्वतन्त्रविरोधः । यतोऽशक्तश्चासौ निग्रहणं कर्तुमिति । सदानुवर्तितव्यः निरुपधैः सद्भिः ॥१२॥ तस्माद्धर्म यमिष्टेषु स व्यवस्येन्नराधिपः । अनिष्टं चाप्यनिष्टेषु तं धर्म न विचालयेत् ॥ १३ ॥ (१) मेधातिथिः। यतः सर्वतेजोमयो राजा तस्माद्धेतोरिष्टेषु वल्लभेषु मन्त्रिपुरो- हितादिषु कार्यगत्या धर्म कार्यव्यवस्थां शास्त्राचाराविरुद्धां व्यवस्येनिश्चित्य स्थापयेन्न विचालयेत्। सा तादृशी राज्ञोऽनुज्ञा नातिक्रमणीया। ‘अद्य पुरे सर्वैरुत्सवः कर्तव्यः। मन्त्रिगेहे विवाहो वर्तते। तत्र सर्वैः संनिधातव्यम्। तथा पशवो नाद्य सैनिकहन्तव्याः। न तमिति । अतः १० मनुस्मृतिः [७.१४ शकुनयो बन्धयितव्याः । नतिका धनिकैराराधनीया एतावन्त्यहानि' । एवमनिष्टष्वपि । 'एतेन संसर्गो न कर्तव्यः । एतस्य गृहे प्रवेशो न देय:'। एवंविधोऽत्र धर्मः पटहघोषादिना राज्ञाऽऽदिष्टो नातिक्रमणीयः । न त्वग्निहोत्रादि- धर्मव्यवस्थाय वर्णाश्रमिणां राजा प्रभवति । स्मृत्यन्तरविरोधप्रसङगात् । अविरोधे चास्मिन्विषये वचनस्यार्थवत्त्वात् ॥१३॥ (२) सर्वज्ञनारायणः । यं धर्मव्यवहारमिष्टेषु क्षुद्रेष्वप्यक्षुद्रयोग्यं नियमयेदेवं महत्स्वप्यनिष्टेषु क्षुद्रयोग्यं नतु दण्डादिनियमोऽपि राज्ञ इच्छया कार्यस्तस्य शास्त्रीयस्यैव राज्ञापि कार्यत्वात् ।।१३॥ (३) कुल्लूकः । यतः सर्वतेजोमयो नृपतिस्तस्मादपेक्षितेषु यमिष्टं शास्त्रानुष्ठेयं शास्त्राविरुद्धं निश्चित्य व्यवस्थापयत्यनपेक्षितेषु चानिष्टं नियमं नातिकामेत् ।।१३॥ (४) राघवानन्दः । प्रकरणमुपसंहरति तस्मादिति । इष्टेषु प्रियेषु धर्म अयमेव- महत्ययमेवं नाहतीति व्यवस्थापयेत् । स्थापयितुस्तं प्रौढयादिना न चालयेत् यतः क्रुद्धो हन्ति प्रसन्नोऽनुगृह्णीयात् ॥१३॥ (५) नन्दनः । इष्टेष्वनिष्टषु च यमर्थं धर्मादनपेतत्वेन निश्चिनोति तमर्थ धर्म मत्वा न विचालयेत् ॥१३॥ (६) रामचन्द्रः। तस्मात्कारणात् इष्टेषु क्षुद्रेषु यं धर्म स नराधिपः व्यवस्येत् निश्चिनोति च पुन: अनिष्टं अयोग्यं अनिष्टेषु अच्छिद्रेषु अनिन्द्येषु तं धर्म न विचार (ल) येत् ।।१३॥ (८) गोविन्दराजः। यत एवं तस्माद्धर्ममिष्टेषु वर्तयेत्तं नराधिप इति । तस्मान्नरेश्वर आत्मवल्लभेषु शास्त्राविरुद्धायां दृष्टार्थायां व्यवस्थामिष्टानामेषां वर्तितव्यं इति निश्चिनुयात् । एवमप्रियेष्वपि यच्छास्त्राविरुद्ध बहिष्करणीयादींचौतां व्यवस्थां नातिक्रमेत् ॥१३॥ (९) भारुचिः। 'तस्मात् सर्वं यमिष्टेषु व्यवस्यति नराधिपः। अनिष्टं चाप्यनिष्टेषु तद्धर्म न विचारयेत् ॥' न हि राजा वर्णाश्रमधर्मप्रवृत्ती हेतुः । शास्त्रलक्षणत्वाद्धर्माधर्म- योर (प्य? ) बस्था चैवं स्यात् । व्यवस्थाकारिणा च शास्त्रेण भवितव्यम् । तथाच बहुकृत्वस्तदुक्तिः । तद्विरोधश्चान्याय्यो यतः प्रकरणाद् राजस्तुतिपरमेतत् प्रत्यवगन्तव्यम् । लौकिकधर्मापेक्षया वेदं विज्ञेयं शास्त्रम् । समाप्ता राजोत्पत्तिः ॥१३॥ तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् । ब्रह्मतेजोमयं दण्डममृजत्पूर्वमीश्वरः॥१४॥ (१) मेधातिथिः। उक्ता राजोत्पत्तिः। दण्डोत्पत्तिरिदानीमुच्यते । तस्मा इदं तदर्थम्। राज्ञः प्रयोजनसिद्धये दण्डमसृजदीश्वरः प्रजापतिः । को राज्ञोऽर्थो दण्डेन? उच्यते । गोप्तारं सर्वभूतानाम् । ‘गोप्ता' रक्षिता दण्ड एव। न दण्डेन विना राजा रक्षितुं शक्नोति। अतो राजत्वसिद्धयर्थ एव दण्ड: सृष्टः। धर्ममात्मजं ब्रह्मतेजो- मयमिति दण्डस्तुतिः। न यागदानादि 'धर्मः', किं तर्हि ? दण्ड एव। न चायं, प्राणधनहारित्वादधर्मो विज्ञेयः, अपि त्वेष एव धर्म आत्मजः शरीरादेव जातः प्रजापतेः ।
७.१५] व्याख्यानवकोपेता ११ न च पाञ्चभौतिकः, किं तहि ? ब्रह्मणो यत्केवलं तेजस्तेन निर्मितः। 'पूर्व' राजसृष्टेः ॥१४॥ (२) सर्वज्ञनारायणः। तस्यार्थे राजार्थं । धर्म धर्मांशोद्भवं विधिं । स्वस्य सुतं अत एव ब्रह्मतेजोमयं ब्रह्मणस्तेजसा सृष्टम् । दण्डं दमकम् । ईश्वरो ब्रह्मा ॥१४॥ (३) कुल्लूकः । तस्य राज्ञः प्रयोजनसिद्धये सर्वप्राणिनां रक्षितारं धर्मस्वरूपं पुत्रं ब्रह्मणो यत्केवलं तेजस्तेन निर्मितं न पाञ्चभौतिक देहं ब्रह्मा पूर्व सृष्टवान् ॥१४॥ (४) राघवानन्दः । तस्य राज्ञोऽर्थे रक्षणादिप्रयोजनार्थं सर्वभूतानामनुशासनरूपं धनप्राणधिक्शब्दहस्ताद्याहरणात्मकं धर्मं तद्धेतुत्वात् । आत्मजं ब्रह्मणस्तेजसा निर्मितं ब्रह्मतेजोमयं पूर्व च राजसृष्टेः। दण्डमिति कर्तृकरणव्युत्पत्त्या क्वचिद्राजा क्वचिदनु- शासनम् ॥१४॥ (५) नन्दनः। अथ राज्ञ: सहायं दण्डं प्रस्तौति तस्येति । तस्यार्थे तस्य राज्ञः कार्ये निमित्ते गोप्तारं गुप्ति करिष्यन्तं सर्वभूतधर्मगुप्त्यर्थमिति यावत्, ब्रह्मतेजोमयं परमात्मशक्तिमयं परमात्मशक्तिमुपादायेति यावत्, धर्मात्मकं दण्डमसृजत् धर्म स्वस्माद्दण्ड- रूपेण ससर्ज। पूर्व युगारम्भे। ईश्वरः प्रजापतिः । एतदुक्तं भवति-दण्डस्यात्मा धर्मशरीरं ब्रह्मतेजोमयमीश्वरो जनयितेति ॥१४॥ (६) रामचन्द्रः। तस्यार्थे राज्ञोऽर्थे ईश्वरः ब्रह्मा पूर्वं दण्डरूपात्मजं पुत्रमसृजत् ॥१४॥ (८) गोविन्दराजः। तदर्थमिति । राज्ञः प्रजापालनस्य प्रयोजनसिद्धयर्थं सर्वप्राणिनां च रक्षितारं चौराद्युपद्रवसंरक्षणेन च सम्यक्कवर्मघटनाद्धर्म स्वशरीराच्चोद्भूतं ब्राह्मणस्य यत्तेजस्तेन निमितं दमनाद्दण्डं पूर्व प्रजापतिः सृष्टवांस्तं विना राजत्वानुपपत्तेः ॥१४॥ (९) भारुचिः। अधुना तत्सहकारी दण्डो ब्याक्रियते इतआरभ्य द्वादश श्लोकाः दण्डोत्पत्त्यर्थाः । दण्डनामानं तेजोमयं सर्वभूतगोप्तारं धर्ममात्मजमसृजत् पूर्व राजोत्पत्तेः । एतदुक्तं भवति - दण्डादृते राजत्वं नास्ति . . .सृजनेन राजा प्रजा रक्षिष्यतीति । .॥१४॥ तस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ॥ १५ ॥ (१) मेधातिथिः। तस्य दण्डस्य भयात् । सम्बन्धिमात्रविवक्षायां भयहेतुत्वं नास्तीति पष्ठी। दण्डभयात्स्थावराणि भूतानि भोगाय फलकुसुमच्छायादिभिर्भोगार्थं कल्पन्ते, तत्समर्था भवन्ति। यो हि स्थावर: फलं न ददाति स परिशोष्यते। न चेत्परि- शुष्यति, सर्वतो व्याप्तदेशत्वाच्छित्त्वांऽगारीक्रियते । एतया वृक्षोपमया दण्ड्यस्य राजापथ्यकारिण: पुरुषस्यैवं कर्तव्यम्, छेदनमूलो- त्पाटनादिना दण्ड: प्रणेयः। स्थावरग्रहणं स्तुत्या दृष्टान्तार्थमीदृशोऽयं दण्डो यत्स्थावरा अपि दण्डयन्ते, किं पुनश्चराः। न तु स्थावराणां दण्डोऽयमित्येषा बुद्धिरस्ति । स्वधर्मान्न चलन्ति अकाले न पुष्प्यन्ति न प्रसुवते ।।१५।। (२) सर्वज्ञनारायणः । भोगाय कल्पन्ते अन्येषां । 'स्थावराणी'त्युक्तं स्थावराणामपि पृथिव्यादीनां पृथ्वादिभिर्दण्डस्य धृतत्वात् ॥१५॥ यतश्च. . + १२ मनुस्मृतिः [७.१६ (३) कुल्लूकः । तस्य दण्डस्य भयेन चराचराः सर्वे प्राणिनो भोगं कर्तुं समर्था भवन्ति। अन्यथा बलवता दुर्बलस्य धनदारादिग्रहणे तस्यापि तदपेक्ष्य बलिनेति कस्यापि भोगो न सिध्येत्, वृक्षादीनां स्थावरादीनां छेदने भोगासिद्धिः । तथा सतामपि नित्य- नैमित्तिकस्वधर्मानुष्ठानमकरणे याम्ययातनाभयादेव ॥१५॥ (४) राघवानन्दः। किंच तस्येति । भयाइण्डस्येत्यन्वयः । भोगाय कल्पन्ते समर्थाः चोराद्युपद्रवराहित्यात् । भृशदण्डस्य देशेऽधर्माभावाद्यथाकालं स्थावराणि द्रुमादयः फल- शालिनीति भावः। तस्य राज्ञो भोगाय फलदानि भवन्ति, दण्डाद्यभावे छिद्यन्ते तानि । साधवः पाल्यन्ते दस्यवश्छिद्यन्त इति मेधातिथि: ॥१५॥ (५) नन्दनः। दण्डं प्रशंसति तस्येति । तस्य दण्डस्य भयात् । स्थावराणामपि दण्डो धारितो महात्मभिरितिहासेषु श्रूयते । यथागस्त्येन विन्ध्यस्य यथा वासुना शाल्म- लीतरोहमवतस्य ॥१५॥ (६) रामचन्द्रः । तस्य राज्ञो भयात्स्वधर्माद्भूतानि न चलन्ति ॥१५॥ (८) गोविन्दराजः। तस्येति । 'अन्तःसंज्ञा भवन्त्येते' इति स्थावराणामपि चैतन्य- स्योक्तत्वात् छेदनादिदण्डभयेन वृक्षादिस्थावराण्यपि फलपुष्पादिद्वारेणोपभोगार्थं सम्पद्यन्ते नियतकालं पुष्पादिदानव्यवस्थां नातिकामन्ति किं पुनर्जङगमानि ॥१५॥ (९) भारुचिः। अतश्चासौ युक्तो राजसाहाय्ये यस्य...दिभिर्भोगाय कल्पन्ते किं पुनरन्ये । यो हि स्थावरो वृक्षो न भोगाय कल्पते नियतमसौ तस्य परिशोधनाद्यारभते यतश्च न परिशुद्धयते। हित्वासावङगा. . . यश्च प्रतिकूलं वर्तते तस्य छेदन- मूलोत्पाटनादिभिः दण्ड: प्रणीयत एव ।।१५॥ तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः। यथार्हतः सम्प्रणयेन्नरेष्वन्यायवर्तिषु ॥१६॥ (१) मेधातिथिः। अन्यायवर्तिनो ये राजापथ्यकारिणो महामात्यादयस्तेषामर्थं दण्ड उच्यते। अन्येषां तु परस्परव्यवहारिणाम् 'अनुबन्धं परिज्ञाये' (८/१२६) त्यत्रोच्यते । तत्रैव चायं श्लोको व्याख्यातः । विद्याऽत्राधिका, सा च वेदार्थविषया। यथार्हतः यथार्ह यो यस्य योग्य इत्यर्थः । सम्प्रणयेत् प्रवर्तयेत्कुर्यादिति यावत् । एतत्सर्वमवेक्ष्य निरूप्य तत्तदपेक्षो दण्ड: कर्तव्यः । अन्यथाप्रणीतो राज्ञो दृष्ट- मनर्थमावहेत् । दृष्टादृष्टभेदेन स्वप्रकृतिजनपदभेदेन सप्तमाष्टमयोर्दण्डमातृकाश्लोकयोर्भेदः ॥१६॥ (२) सर्वज्ञनारायणः। देशकालादि त्वरण्यरात्र्यादिकृतत्वेन दण्डाधिक्यात् । शक्ति धनदाने। विद्यामिति वेदादिपाठशीलतया दण्डाल्पतार्थम् ॥१६॥ (३) कुल्लूकः। तमित्यादि। तं दण्डं देशकालौ दण्डयस्य च शक्ति विद्यादिकं यस्मिन्नपराधे यो दण्डोर्हतीत्यादिकं शास्त्रानुसारेण तत्त्वतो निरूप्यापराधिषु प्रवर्त- येत् ॥१६॥ (४) राघवानन्दः। कष्टं तत्प्रणयनमित्याह तमिति। दण्डस्य देशकालौ शास्त्रानु- सारेणावेक्ष्य यथार्हतः यस्मिन्नपराधे यो यं दण्डमर्हति तदनतिक्रमेण संप्रणयेत् देशं ७.१७] व्याख्यानवकोपेता १३ दूरनिकटादि । कालं दुर्भिक्षादि । विद्यामस्त्रशिक्षादिकां वेदविद्यां च । अन्यायवतिष्व- न्यथागामिषु ॥१६॥ (५) नन्दनः । तस्य दण्डस्य प्रणयनप्रकारमाह तमिति । शक्तिः बालो वृद्धो दरिद्रो धनवानित्यादिरूपा। विद्या वेदवित्त्वमित्यादिरूपा ॥१६॥ (६) रामचन्द्रः । दण्डमन्यायवर्तिषु देशकालादिकमवेक्ष्य यथार्हतः संप्रणयेत् ॥१६॥ (८) गोविन्दराजः। तस्मात् तमिति । तं दण्डं ग्राम्यारण्यादिदिवानक्ताद्य- पराधकत्वाद्रजकत्वस्य गतदेशकालौ विचार्य अपराधिसम्बन्धि च शरीरधनसामर्थ्य वेदाध्य- यनादि सम्यगवेक्ष्य अन्यायकारिषु नरेषु अपराधानुरूपं कुर्वीत इत्यमात्यादिविषयमिदं व्यवहारिणा प्रभवन्तं अनुबन्धं परिज्ञाये' (८/१२६)ति वक्ष्यमाणत्वात् ॥१६॥ (९) भारुचिः। ग्रामारण्यबाह्याभ्यन्तररथ्यादिर्देशः, दिवा नक्तं बालो युवा स्थविर इति काल: । (शक्तिः) शरीरगतार्थगता च, विद्या त्रयी साङगोपाङगा। एतदक्षया दण्डः प्रणेयः । अन्यथा प्रणीतोऽनर्थमुत्पादयति, अर्थं च न करोतीति दण्ड- स्तुत्यर्थोऽयमनुवादः । दण्डपातनविधि तूपरिष्टाद्वक्ष्यति 'अपराधं प्रतिज्ञायेति ॥१६।। स राजा पुरुषो दण्डः स नेता शासिता च सः। चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥१७॥ (१) मेधातिथिः। स एव वस्तुतो राजा । तस्मिन्सति राजशक्तिः। स एव पुरुषः । येन बलीयसोऽपि पुरुषान् स्त्रीवन्न्यक्कृत्य वशीकरोति । स नेता । कार्याणि तेन नीयन्ते । शासिता। शासनं राजाज्ञा, तस्याः शासनीभावः दण्डे सति । धर्मतः कर्तृत्व- मौपचारिकम् । चतुर्णामाश्रमाणां यो धर्मस्तत्र प्रतिभूरिव । यथा प्रतिभूश्चलितं न ददाति, तद्व- इण्डोऽपि ॥१७॥ (२) सर्वज्ञनारायणः। स दण्ड एव राजा, जनस्य तदधीनत्वात्। पुरुषः पुरुषात्मा। नेता नायक: प्रवर्तकः । शासिता एवं कुर्वित्युपदेष्टा । धर्मस्य धर्माचरणं कारयितुं प्रतिभूरिव ॥१७॥ (३) कुल्लूकः। स एव दण्डो वस्तुतो राजा। तस्मिन्सति राजशक्तियोगात्, स एव पुरुषस्ततोऽन्ये स्त्रिय इव तद्विधेयत्वात्। स एव नेता तेन कार्याणि नीयन्ते प्राप्यन्ते । स एव शासिता शासनमाज्ञा तद्दातृत्वात् । स एव चतुर्णामप्याश्रमाणां यो धर्मस्तस्य संपादने प्रतिभूरिव प्रतिभूर्मुनिभिः स्मृतः ॥१७॥ (४) राघवानन्दः। दण्ड विना राजाऽकिंचित्कर इति दण्डं स्तौति स इति त्रिभिः। तस्मिन्सति राजशक्तिः । पुरुषः सर्वान् राजप्रभृतीन् स्त्रिय इव न्यक्कृत्य स्वधर्मे स्थापयतीति पुरून् बहून् धनाद्यादानेन स्यति तनूकरोतीति वा राज्ञोऽपि दण्डश्रुतेः । नयति प्रापयति स्वस्वधर्म राजानेति नेता एधांसि पचन्तीतिवद्वा कर्तृत्वोपचारः । प्रमादात्प्रच्याव्य सर्वान् शास्त्रानुसारेण शास्तीति शासिता। संन्यासिनामपि पातित्ये 'दास आमरणान्तिक' इति राजभृत्यतास्मृतेराश्रमचतुष्टयग्रहः। धर्मस्य प्रतिभूः तत्संपादने प्रभुद्वितीयः ।।१७।। -- १४ मनुस्मृतिः [७.१८ (५) नन्दनः । पुनरपि श्लोकद्वयेन दण्डस्तुतिमाह स इति । स दण्ड एव राजपुरुषः राजनियोगकरः । नेता तत्तत्कामानुष्ठापकः । शासिता आज्ञापकः । तेजो विना सकलकार्या सिद्धेः ॥१७॥ (८) गोविन्दराजः । स इति । दण्डहेतुत' (स्त) त्र द्रोहत्वस्य स दण्ड एव राजा स एवमनेनैव न्यायेन स एव पुरुषोऽपराध्यानेता स एव च नेता दण्डनायक: सेनापत्यादि: स एव चानुशासिता धर्माधिकृतो राजस्थानीयः स एव चतुर्णामपि ब्रह्मचर्या (द्या)- श्रमाणां धर्मानुष्ठाने प्रतिभूरिवानु स्थापकत्वात् स्मृतः ॥१७॥ (९) भारुचिः। दण्ड एव राजा तन्निमित्तत्वाद्राजत्वस्य, स एव पुरुषः। (यो) न बलीयसोऽपि पुरुषान् स्त्रीवश्यं कृत्वा वशमानयति स नेता। यस्मात्तद्भयादेव कार्याणि सम्यङनीयन्ते स एव शासिता। येन तदपेक्षयैव चासनं शासनीभवति स एव च प्रतिभू- वर्णाश्रमव्यतिक्रमे प्रतिभूरिव प्रतिभूः ॥१७॥ दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्ति दण्डं धर्म विदुर्बुधाः ॥१८॥ (१) मेधातिथिः । न राजा शास्त्रं शास्ति कर्तव्याकर्तव्ययोविधिनिषेधयोः । कि तहि? दण्ड एव । दण्ड एवाभिरक्षति बलवद्भ्यो दुर्बलान् । सुप्तेषु राजपुरुषेषु दण्डभयादेव न यथाकामं लोको व्यवहरति । द्विविधो दण्डो राजदण्डो यमदण्डश्च ।।१८॥ (२) सर्वज्ञनारायणः । यत: शास्तारो रक्षन्ति । तथाऽन्येषु रक्षितृषु सुप्तेष्वप्ये- तद्भयादेव न पापं क्रियते ॥१८॥ (३) कुल्लूकः। यस्माद्दण्डः सर्वाः प्रजा आज्ञां करोति तस्मात्साधूक्तं शासितेति ज्ञेयम्। यस्मात् स एव प्रजा रक्षति ततो युक्तमुक्तं राजेति । निद्राणेष्वपि रक्षितृषु दण्ड एव जागति; तद्भयेनैव चौरादीनामप्रवृत्तेः । दण्डमेब धर्महेतुत्वाद्धर्मं जानन्ति। कारणे कार्योपचारः, ऐहिकपारत्रिकदण्डभयादेव धर्मानुष्ठानात् ॥१८॥ (४) राघवानन्दः । किंच शास्तीति । अभिरक्षति प्रमादादधर्मेभ्यः । सुप्तेषु प्रमत्तेषु ॥१८॥ (६) रामचन्द्रः। दण्ड: सुप्तेषु जागति दण्डभयात्केऽपि न लुम्पन्ति ॥१८॥ (८) गोविन्दराजः । यत एवं तस्माद्दण्ड इति । दण्डभयादेव राजादिशासनं प्रजानां निवर्तते । अतो दण्ड एव सर्वाः प्रजाः कर्तव्या (दिषु) इति तु स्थापयति न राजा शास्त्रं वा दण्ड एव चासाधुभ्यः साधून् रक्षति सुप्तेषु चापि रक्षयितृषु दण्ड एव जागति तद्भयादेव चौरादीनां अप्रवृत्तेर्दण्ड (मे) एव धर्म विद्वांसो मन्यन्ते ऐहिकामुत्रिकदण्डभयाद्धर्मप्रवृत्तेः ॥१८॥ (९) भारुचिः। यतश्चैवमतः न शास्त्रं राजा वा शास्ति । सत्यपि च शास्त्रे राजनि च दण्डभयादेव शासनमनुवर्तन्ते वर्णाश्रमिणः । एवं च स एवाभिरक्षति। अकार्यकारिभ्य इतरान्, सुप्तेष्वपि च राजपुरुषेष्वैहिकभयात् परलोकभयाद्वा न यथाकामं प्रवर्तते लोकः॥१८॥ । ।
७.२०] व्याख्यानवकोपेता १५ समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः। असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः॥१९॥ (१) मेधातिथिः। धृतः प्रणीतः प्रवर्तितः । समीक्ष्य पूर्वोक्तदेशकालाद्यपेक्ष्य समीक्ष्य । रञ्जयत्यनुरागं प्रजासु जनयति । विपरीतं प्रणीयमानो न केवलं स्वकार्य न करोति यावह रुपयुक्तो विषवद्विनाशयत्यर्थं जनस्य ॥१९॥ (२) सर्वज्ञनारायणः । समीक्ष्य शास्त्रतो निरूप्य ॥१९॥ (३) कुल्लूकः। स दण्ड: शास्त्रत: सम्यनिरूप्यापराधानुरूपेण देहधनादिषु धृतः सर्वाः प्रजाः सानुरागा: करोति । अविचार्य तु लोभादिना प्रयुक्त : सर्वाणि बाह्यार्थ- पुत्रादीनि नाशयति । सर्वत इति द्वितीयार्थे तसिः ।।१९।। (४) राघवानन्दः । समीक्ष्य यथाशास्त्रं अनुरञ्जयति राजानं प्रत्यावर्जयति । सर्वतः सराष्ट्रसपशुद्रव्यसंचयं राजानं नाशयतीति भावः ॥१९॥ (५) नन्दनः । धृतः धारितः स दण्डः ॥१९॥ (६) रामचन्द्रः । सम्यक् समीक्ष्य धृतः स दण्डः सर्वाः प्रजा रञ्जयति असमीक्ष्या- विचार्य प्रणीतः सर्वशो विनाशयति ॥१९।। (८) गोविन्दराजः। समीक्ष्येति । दण्डो देशकालादि विचार्य सम्यक् लोभादिपरित्यागेन कृतः सर्वाः प्रजाः सानुरागाः करोति । अविचार्य पुनः कृतो दृष्टादृष्टेभ्यः कर्तारं नाशयति ॥१९॥ (९) भारुचिः। नैतावता मुच्यावहे असम्यग्धृतः कार्यं न करोतीति । यथैव सम्यग्धृतो रञ्जयति प्रजाः, एवं न सम्यग्धृतः सर्वमेव विनाशयति ॥१९॥ यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः । शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ॥ २० ॥ (१) मेधातिथिः। अप्रणयनाद्दण्डस्य ये बलवत्तरा बलीयांसो बलेनाधिका महाप्राणतया शस्त्रहस्तमनुष्या भूयस्त्वेन वा, ते दुर्बलानपक्ष्यन् शूले मत्स्यानिव। यथा मत्स्या शूलाक्रियन्ते भोजनार्थमेवमशक्तो जनोऽधिकशक्तिभिरुपहीयेत, धनशरीरदारहरणादिना । तस्माद्दण्डानितन्द्रितोऽनलसो दण्डयेत् । 'कुतो मया समीक्षा शक्या कर्तुं, नैव दण्डं करोमीति' नैवं बुद्धिः कर्तव्या ॥२०॥ (२) सर्वज्ञनारायणः। शूले मत्स्यानिव अपक्ष्यन् पचेयुः । अविध्यन्निति क्वचित्पाठः ॥२०॥ (३) कुल्लूकः । यदि राजाऽनलसो भूत्वा दण्डप्रणयनं न कुर्यात्तदा शूले कृत्वा मत्स्यानिव बलवन्तो दुर्बलानपक्ष्यन् लुङन्तस्य पचिधातो रूपमिदम् , बलिनोऽल्पबलानां हिंसामकरिष्यन्नित्यर्थः । शूले मत्स्यानिवापक्ष्यन्नित्येष मेधातिथिगोविन्दराजलिखितः पाठः । ‘जले मत्स्यानिवाहिंस्युरिति च पाठान्तरम् । अत्र बलवन्तो दुर्बलान्हिस्युरिति स्यन्याय एव स्यादित्युक्तम् ॥२०॥ ,
१६
मनुस्मृतिः
[७.२१
(४) राघवानन्दः। दण्डाकरणे दोषमाह यदीति त्रिभिः। शूले मत्स्यान् शूल-
मारोप्यापक्ष्यन्निति क्रियातिपत्तिः । तेन यदि दण्डयिता राजा नाभविष्यत्सर्वाः प्रजाः
बलिभिर्दस्युभिरक्ष्यन्निति ॥२०॥
(५) नन्दनः। अप्रणयने दोषं श्लोकद्वयेनाह यदीति ॥२०॥
(६) रामचन्द्रः। त्रिभिराह यदीति। द्वितीयेनान्वयः। राजा अतन्द्रितः दण्डयेषु
दण्डं यदि न प्रणयेत् न प्रयोजयेत् तर्हि बलवत्तरः पुरुषो दुर्बलान्पुरुषान् अद्यात् लुम्पेत् ।
कानिव? अपश्यन् शूल आरोपितान्मत्स्यानिव ॥२०॥
(८) गोविन्दराजः। यदीति। यदि राजाऽनलसो भूत्वा दण्डाहेषु दण्डं न कुर्यात् यथा
शूल्या मत्स्या निषादादिभिनिर्भयैः शूले पच्यन्ते एवं बलाऽतिशययुक्ता दुर्बलान्पचेयुः ॥२०॥
(९) भारुचिः।
न केवलं दण्डप्रणीतौ गुणावाप्तिरप्रणीतौ मत्स्यस्य न्यायः
प्रवर्तते ॥२०॥
अद्यात्काकः पुरोडाशं श्वाऽवलिह्याद्धविस्तथा ।
स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम् ॥२१॥
(१) मेधातिथिः। श्वकाकादयोऽप्यत्यन्ताधमा देवैः सह संस्पर्धेरन्। देवेभ्यो
दातव्यं हविश्चरुपुरोडाशादि तत्ते अधुर्यदि दण्डेन न निवार्येरन् ।
अन्यदपि यत्स्वाम्यं स्वस्वामिभावः स न स्यात् । जायापत्योः, पितापुत्रयोः ।
जायायाः पतिर्न स्यात्स्वातन्त्र्येण स्त्रियः प्रवर्तेरन् ।
अधरोत्तरम् । यत् 'अधरं' वृषलादि तत् 'उत्तरं' प्रधानं स्यात् । यदुत्तरं ब्राह्मणादि
तदवरतां निकृष्टतामियात् । शूद्रा धर्ममुपदिशेयुः, वैदिको धर्मो नानुष्ठीयेत ॥२१॥
(२) सर्वज्ञनारायणः। अद्यात्काकः श्वाऽवलिह्यादिति दृष्टान्तायोक्तम् । तेन
श्वाऽवलिह्यादित्याद्यर्थेषु पूरणीयम्। अधरोत्तरमधराणामुत्कृष्टत्वम् ॥२१॥
(३) कुल्लूकः । यदि राजा दण्डं नाचरिष्यत्तदा यज्ञेषु सर्वथा हविरनर्हः काकः
पुरोडाशमखादिष्यत्तथा कुक्कुरः पायसादिहविरलेक्ष्यन्न कस्यचित्कुत्रचित्स्वाम्यमभविष्यत्त-
तो बलिना तद्ग्रहणाद्ब्राह्मणादिवर्णानां च मध्ये यदवरं शूद्रादि तदेवोत्तरं प्रधानं प्रावति-
ष्यत ॥२१॥
(४) राघवानन्दः । किंच काकश्वानी दण्डेनानिवारितौ देवभोग्यौ पुरोडाशाव-
नीतो यथा तद्वत्स्यात् । तथा कस्मिन् न्यायोपात्तेऽपि वित्ते, कस्यापीति शेषः, दण्डा-
दृते दस्यूनां प्राबल्यात् । अधरोत्तरं ब्राह्मणादिवर्णानां च मध्ये ये अधराः शूद्रादयः ते
उत्तरं प्राधान्यं प्रावय॑न्निति ॥२१॥
(६) रामचन्द्रः । राज्ञा अप्रयुक्ते दण्डे कस्मिन्नपि वस्तुनि स्वाम्यं प्रभुत्वं न स्यात्,
अधरोत्तरं अधरं प्रतिलोमजं उत्तरं अनुलोमजं एवमधरोत्तरं प्रवर्तत ॥२१॥
(८) गोविन्दराजः। अद्यादिति । यदि दण्डो नाऽभविष्यत्तदा देवेभ्यः दत्तं अत्यन्तापसदः
काकोऽपि पुरोडाशाख्यं हविरात्स्यत् तथाऽत्यन्ताऽधम (मः) श्वापि यवाग्वादि हविरलेक्ष्यत्, न च
कस्यचित्कस्मिश्चित्स्वामित्वं भवेत् । ब्राह्मणक्षत्रियादीनाञ्चोत्कर्षापकर्षवपरीत्यं प्रवर्तेत ॥२१॥
७.२३] व्याख्यानवकोपेता १७ (९) भारुचिः। सर्वे धर्माः । काकश्वादयः ऋद्धिमद्भिः सर्वोत्तमैरपि देवैर्दण्डादृते न शक्यन्ते प्रतिवारयितुम्, किं पुनरन्यः? सुहृन्मित्रस्वजनवचनादिति । एवं च सति दण्डस्य हि भयात् सर्वं जगद् भोगाय कल्पते । प्रायेण सर्वो दण्डजित एव लोकः । येन दुर्लभः स्वभावशुद्धः शासनानुवर्ती)। तदेतद्दण्डपातनं सद्यः यद्यपि दुःखोत्पा (दकं)तनं तथापि प्रकल्प्यते शास्त्रेण ॥२१॥ सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि मयात्सर्वं जगद्भोगाय कल्पते ॥२२॥ (१) मेधातिथिः। स्वभावेनैव प्रकृत्यैव शुचिः शुद्धो धर्मार्थकामेषु स तादृशो नरो दुर्लभः, दुःखैलब्धुं शक्यः । किन्तु दण्डजितो दण्डेन' जीयते, पथि स्थाप्यते । तद्भयान्न यथाकामं प्रवर्तते। जगद्भोगायेति प्रागुक्तमेव ॥२२॥ (२) सर्वज्ञनारायणः। शुचिः शुद्धमनाः। भोगाय भोगिनाम् ॥२२॥ (३) कुल्लूकः । सर्वोऽयं लोको दण्डेनैव नियमितः सन्मार्गेऽवतिष्ठते । स्वभाव- विशुद्धो हि मानुष: कष्टेन लभ्यते। तथा सर्वमिदं जगद्दण्डस्यैव भयादावश्यकभोजनादि- रूपेऽपि भोगे समर्थं भवति ॥२२॥ (४) राघवानन्दः। किंच दण्डभयादेव शुचिर्नरो न स्वतो रागादित्याह दण्डस्येत्यादि पूर्वोक्तस्य निगमनम् ॥२२॥ (५) नन्दनः। दण्डप्रणयने हेतुमाह सर्व इति ॥२२॥ (८) गोविन्दराजः। सर्व इति । सर्वः कश्चिल्लोको दण्डेन सन्मार्गे स्थाप्यते तस्मान्निसर्गशुद्धो नरः कृच्छ्रेण लभ्यते। तथा सर्वमिदं जगद्दण्डभयादवश्यकर्तव्योपकाराय प्रवर्तते ॥२२॥ (९) भारुचिः। एतद्रूपं मनुष्याणां प्रशस्तमभीष्टं च । अतस्तेनासता रूपं कृत्वा स्तौति । अथवा द्विरूपो दण्ड: सुखदो भयदश्चेति । यतस्तं द्वाभ्यां रूपाभ्यां ते... तत्वं च लोकहितार्थत्वेनेति देवतारूपम् । वेदं शास्त्रप्रत्यक्षं, यथाभूतमतोऽनू द्यते । समाप्ता दण्डस्तुतिः ॥२२॥ देवदानवगन्धर्वा रक्षांसि पतगोरगाः । तेऽपि भोगाय कल्पन्तें दण्डेनैव निपीडिताः॥२३॥ (१) मेधातिथिः । ये देवाः पर्जन्यो वायुरादित्य इत्यादयः । भोगाय कल्पन्ते शीतोष्णवर्षेनियतैरोषधी: पाचयन्ति तद्दण्डभयाशङकिन: । अन्यथा किमिति सूर्या- चन्द्रमसौ धातृपर्जन्यौ वा स्वस्मात्कार्यकालान्नियतान्न विचलेताम्? । कदाचिद् द्वे अहनी त्रीणि वा नोदियात्सूर्यः, सति स्वातन्त्र्ये । दण्डात्तु बिभ्यन्नातिकामति मर्यादाम् । च श्रुतिः भयात्सूर्यः प्रतपति भयात्तपति चन्द्रमाः । भयादग्निश्च वायुश्चेति" (कठ. ६/३)। दानवादयश्च यदिदमखिलमनिशं च जगदुपघ्नन्ति, दण्डमाहात्म्यमेतत् । पतङग- वयांसि गृहमण्डनाः शुकसारिकादयो यद्बालानामक्षिणी नोत्पाटयन्ति श्येनकाककङक- तथा -
मनुस्मृतिः
१८
[७.२४
दृष्ट्वा तु
--
गृध्रादयो यज्जीवतो नादन्ति तदप्येवमेव । उरगाः सर्पाः केवलं क्रोधविषात्मकाः
संभूय सर्वे न दशन्ति सर्वं प्राणिजातं तद्दण्डसामर्थ्यम् ।
अतः स्तुतिरेषोच्यते। यद्देवादयो महधिका अचेतना वा स्वमर्यादातो न विचलन्ति
भयात्,
किं पुनर्मनुष्याः।
अत्र श्लोकः पूर्वैः पठितः।
दैन्यं वनपाटलानां, पुष्पप्रगल्भं कुटजप्रहासम् ।
सम्बन्धदानेन तदा जहास, नीचोऽपि रन्ध्र प्रहरत्यवश्यम्” इति ॥२३॥
(२) सर्वज्ञनारायणः। दण्डेनैव परमेश्वरस्य । यदुक्तं 'भीषाऽस्माद्वातः पवत
इति ॥२३॥
(३) कुल्लूकः। उक्तमपि दण्डस्य भोगसंपादकत्वं दाढार्थं पुनरुच्यते। इन्द्राग्नि-
सूर्यवाय्वादयो देवास्तथा दानवगन्धर्वराक्षसपक्षिसर्पा अपि जगदीश्वरपरमार्थभयपीडिता
एव वर्षादानाद्युपकाराय प्रवर्तन्ते । तथा च श्रुतिः (कठ. ६/३) 'भयाद (त्त) स्याग्निस्तपति
भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चम' इति ॥२३॥
(४) राघवानन्दः । देवदानवेति दृष्टान्तार्थम् । 'भीषाऽस्माद्वातः पवते भीषोदेति
सूर्य' (तैत्ति. २/८) इति श्रुतेर्यथेश्वरभयात्पवनादेः प्रवृत्तिरेवं राजप्रभृतेर्भयाद्देवादयोऽपि
स्वकार्याय नीयन्ते। यद्वा दण्डपीडिताः दण्डेन या यस्य या पीडा या तया आवजिता
निष्पापानां तेऽबाधकाः ॥२३॥
(५) नन्दनः। देवयोनयोऽपि दण्डसाध्याः किं पुनर्मनुष्ययोनय इत्यत्राह
देवेति ॥२३॥
(६) रामचन्द्रः । दण्डेन ईश्वराज्ञारूपेण ॥२३॥
(८) गोविन्दराजः। देवदानवरक्षांसि गन्धर्वा इति । देवादयः प्रथमाध्यायोक्तभेदा
पतङ्गा पक्षिण उरगाः सर्पा ये तेऽपि सकलजगदुत्पत्त्यनुशासनकारणरूपेश्वरसम्बंधिभयपीडिताः
सन्तो वर्षादानाद्युपकारञ्च दानवादयो न कुर्वन्ति । तथा चाध्वर्यवश्रुति:-" भयादस्याग्निस्तपति
भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः
(९) भारुचिः । एवमीश्वरा अपि सन्तो देवादयोऽनुग्रहोपधाताभ्यां दण्डभयादेवानु-
ग्राह्याननुगृह्णन्ति, उपधात्यांश्चोपघ्नन्ति । यदि च दण्डान्न विभ्युरैश्वर्याद्यथाकाम-
मभिप्रवर्तेरन् । न च प्रवर्तन्तेऽतो मन्यामहे, देवादयोऽपि दण्डभयादेव सत्यप्यैश्वर्ये यथाकर्मानु-
ग्रहोपघाताभ्यां वर्तन्ते न यथाकाममिति । अतिशयवचनैषा दण्डस्तुतिः ॥२३॥
दुष्येयुः सर्ववर्णाश्च भिघेरन्सर्वसेतवः।
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥२४ ।।
(१) मेधातिथिः । तथा च दण्डस्य विभ्रमोऽकरणमन्यायेन वा
करणम् ।
तस्मिन्सति सर्ववर्णा दुष्येयुः । इतरेतरस्त्रीगमनेन संकरप्रवृत्तेः। सेतवो मर्यादाः । ताः सर्वा
भिद्येरन्। सर्वमर्यादापरिलोपः स्यादित्यर्थः । ब्राह्मणाश्च शूद्रवद्वर्तेरञ्छूद्राश्च ब्राह्मणवत् ।
अतश्च सर्वलोकप्रकोपः स्यात् । त्रयोऽपि लोका इतरेतरं वृष्टयातपादिना नोपकुर्युः ॥२४॥
" इति ॥२३॥
७.२५] व्याख्यानवकोपेता १९ (२) सर्वज्ञनारायणः । दुष्येयु: संकरादिवैकृत्यकरणेन हेतुना । सेतवो मर्यादाः । प्रकोपोऽन्योन्यवरम् । विभ्रमान्मोहात् ॥२४॥ (३) कुल्लूकः । दण्डस्यानाचरणादनुचितेन वा प्रवर्तनात्सर्वे ब्राह्मणादिवर्णा इतरेतरस्त्रीगमनेन संकीर्येरन्, सर्वशास्त्रीयनियमाश्चतुर्वर्गफला उत्सीदेयुः, चौर्यसाहसादिना च परस्यापकारात्सर्वलोकसंक्षोभश्च जायेत ॥२४॥ (४) राघवानन्दः । किंच सर्वसेतवो वर्णानामाश्रमाणां च । अनेन वर्णेनेदं कर्तव्यमनेना- श्रमेणेदं कर्तव्यमिति धर्ममर्यादाः । प्रकोपः संक्षोभः। विभ्रमादकरणाद्विपरीतकरणाच्च ।।२४।। (५) नन्दनः। सेतवः मर्यादाः । विभ्रमादसम्यक्प्रणयादप्रणयाच्च ॥२४॥ (६) रामचन्द्रः । दण्डस्य विभ्रमाद्विस्मरणादन्यथाप्रयोगात्सर्वे वर्णाः दुष्येयुः संकीर्णा भवेयुः । च पुनः सर्वसेतवो मर्यादा भिोरन् ॥२४॥ (८) गोविन्दराजः । दुष्येयुरिति । दण्डस्याकरणादन्यायेन च करणात् सर्वे ब्राह्मणादयो वर्णा इतरेतरस्त्रीगमनेन संकीर्येरन् सर्वा() च धर्मार्थकाममोक्षार्थाः शास्त्रमर्यादा उत्सीदेयुः । एवं 'चाग्नौ प्रास्ते'त्यादि परस्परोपकाराय प्रवर्तते ॥२४॥ (९) भारुचिः। तथा च अधार्यमाणे न्याय्येन दण्डे वर्णनिमित्ता धर्मा दुष्येयुः । ये च धर्मार्थकामसेतवः ते च भिघेरन् । किं बहुना- कः शक्नोति भगवन्तं दण्डनामानं व्यवस्थाकारिणं बहुगुणत्वात् स्तोतुम् ॥२४।। यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥२५॥ (१) मेधातिथिः। एतद्द्वयं मनुष्याणां प्रशस्ततमम् । अतस्तेनासता रूपकभंग्या स्तौति। द्विरूपो दण्डः, दुःखदो भयदश्च । भयहेतुत्वं श्यामतया, दुःखहेतुत्वं लोहिताक्षत्वेन । परिसमाप्ता दण्डस्तुतिः । दण्डोऽवश्यं कर्तव्यः। स च देशाद्यपेक्षयेति । अन्यः सर्वोऽर्थवादः । नेता चेत्। 'नेता' दण्डस्य नायकः। स चेत्साधु पश्यति। सुनिरूपितं देशकालादिकं कृत्वा पालयति । तत्र प्रजा न मुह्यन्ति न केनचिद्दोषेण युज्यन्ते ॥२५॥ (२) सर्वज्ञनारायणः। यत्र श्याम इति प्रागुक्तपुरुषरूपताकथनम् । श्यामः कृष्णः तामसत्वात् । लोहिताक्षः रजोधिकत्वेन कोपनत्वात् । साधु युक्तं पश्यति ॥२५॥ (३) कुल्लूकः । यत्र देशे शास्त्रप्रमाणावगतः श्यामवर्णः लोहितनयनोऽधिष्ठातृ- देवताको दण्डो विचरति तत्र प्रजा व्याकुला न भवन्ति । दण्डप्रणेता यदि विषयानुरूपं सम्यग्जानाति ॥२५॥ (४) राघवानन्दः । किंच श्याम इत्यादि तदधिष्ठातृदेवतारूपम् । नेता राजा शास्त्रानुरूपं साधु चेत्पश्यति न तदा प्रजा मुह्यन्तीत्यन्वयः ॥२५।। (५) नन्दनः। सम्यक्प्रणयने गुणमाह यत्रेति । दण्डाभिमानिनी देवतां प्रकृत्या- धिष्ठेयाधिष्ठात्रोरभेदोपचारादुक्तं श्यामो लोहिताक्ष इति । दण्डदेवतायाः श्यामत्वं लोहिता- क्षत्वं च महाभारतेऽपि स्मर्यते 'नीलोत्पलदलश्यामश्चतुर्दष्ट्रश्चतुर्भुजः। अष्टपाद्रक्तनयनः - . २० मनुस्मृतिः [७.२६ शकुन्तर्गोवरोमवान् ॥ जटी द्विजिह वस्ताम्रास्यो भृङगराजतनुच्छदः । एतद्रूपं बिभ- युग्रं तेन दण्डो दुरावर' इति ॥२५॥ (६) रामचन्द्रः। दण्डस्य स्वरूपमाह यत्रेति । यत्र देशे श्यामो दण्डश्चरति, श्याम इत्यनेन मनुष्यरूपता, श्यामः कृष्णः । लोहिताक्षः रजोऽधिकत्वेन कोपनत्वात् । यदि नेता साधु युक्तं यथा स्यात्तथा पश्यति तत्र प्रजा न मुह्यन्ति ॥२५॥ (८) गोविन्दराजः। यत्रेति । यत्र राष्ट्रे श्यामवर्णो लोहितनेत्रः इत्थंभूतः शास्त्रप्रमाणकाधिष्ठातृदेवतारूपो दण्ड: पापकृन्नाशयिता विचरति तत्र प्रजा न व्याकुली- भवन्ति । यदि दण्डप्रणयनकर्ता राजादिः सम्यग्विचारयति ॥२५॥ तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् । समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥२६॥ (१) मेधातिथिः। इदं संप्रणेतुः साधुदर्शनं सत्यवादिता समीक्ष्यकारिता प्राज्ञता त्रिवर्गे कौशलं च। सत्यवादी, यः शास्त्रानुसारितया दण्डं कृत्वा कुतश्चिन्महाधनत्वं विज्ञाय न तं वर्धयति, न च वल्लभस्य रागादवनं करोति । प्राजो देशादीनां बाध्यबाधकभावार्थमवस्थाविशेषज्ञः। कदाचिद्देशेन कालो बाध्यते कालेन वा देशः। उभौ वा तौ विद्याशक्ती तयोश्च परस्परमुत्सर्गापवादभावज्ञः। कार्य- वशादर्थश्च बाधक एव । बाध्यतामित्यत: प्राज्ञत्वमुपयुज्यते। धर्मादीनां च गुरुलघुता- भावः। स्वल्पो यत्र धर्मस्तस्मिन्साध्यमाने महाननर्थो भवति, तत्र धर्मस्त्यज्यते । प्राय- श्चित्तेन समाधास्यत इत्येवमादि बोद्धव्यम् ॥२६॥ (२) सर्वज्ञनारायणः । समीक्ष्यकारिणं समीक्ष्य शास्त्रेण विचार्य कुर्वाणम् ॥२६।। ३) कुल्लूकः । तस्य दण्डस्य प्रवर्तयितारमभिषेकादिगुणयुक्तं नृपतिमवितथ- वादिनं समीक्ष्यकारिणं तत्त्वातत्त्वविचारोचितं प्रज्ञाशालिनं धर्मार्थकामानां ज्ञातारं मन्वादयोऽप्याहुः ॥२६॥ (४) राघवानन्दः। तदनुरूपं राजलक्षणमाह तस्याहुरिति सार्धेन। तस्य दण्ड- स्योक्तविशेषणविशिष्टं राजानं प्रणेतारं मन्वादय आहुरित्यन्वयः । सत्यवादिनं लोभा- दिना समयभेदरहितम् । समीक्ष्य पूर्वापरमालोच्य कर्तुं शीलम् । प्राज्ञमूहापोहसमर्थम् । धर्मार्थकोविदं स्मृतिवात्स्यायननीतिशास्त्राणां वेत्तारं तत्र वेदस्मृतिभ्यां धर्मस्य वात्स्यायना- दिना कामस्य नीतिशास्त्रेणार्थस्य वेत्तारम् ॥२६।। (५) नन्दनः । दण्डप्रणयनाधिकारमाह तस्येति ॥२६॥ (६) रामचन्द्रः। तस्य दण्डस्य संप्रणेतारं प्रयोक्तारं समीक्ष्य शास्त्रं धर्मानालोच्य कारिणं कुर्वाणं राजानमाहुः ॥२६॥ (८) गोविन्दराजः । तस्याहुरिति । तस्य दण्डस्य कर्तारं क्षत्रियमभिषेकादियुक्तं यथोपलब्धाभिधायिनं विमृश्यकारिणमूहापोहसमर्थं प्राज्ञोपेतं धर्मार्थकामानामितरेतराऽनुष्ठान- कुशलं मन्वादय आहुः ॥२६॥ -
७.२८]
व्याख्यानवकोपेता
२१
(९) भारुचिः। तस्य दण्डस्य प्रणेता जात्या क्षत्रियोऽभिषेकादाधिपत्यप्रभाव-
गुणयुक्तः सत्यवादी। नावस्थितं दण्डं प्रीत्या प्रापयति, द्वेषेण वा वर्धयति । समीक्ष्यकारी
दण्डा (व)धारणे देशाद्यपेक्षया प्राज्ञ: देशादीनामुत्सर्गापवाददर्शने धर्मकामार्थेषु च पण्डितः
तेषामवस्थाविशेषज्ञः समचित्तस्तमेवं दण्डस्य प्रणेतारमाहुः ॥२६॥
तं राजा प्रणयन्सम्यक् त्रिवर्गेणाभिवर्धते ।
कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते ॥ २७॥
(१) मेधातिथिः। कामान्धः रागप्रधानः । विषमः क्रोधनः । समत्वेन दण्डपातनेन
शत्रौ मित्रे च वर्धते । क्षुद्रः छलान्वेषाद्दण्डेनैव निहन्यते । प्रकृतिकोपेनादृष्टेन वा दोषेण ॥२७॥
(२) सर्वज्ञनारायणः। विषमो विषमदण्डप्रणेता। क्षुद्रो लुब्धः ॥२७॥
(३) कुल्लूकः । तं दण्डं राजा सम्यक्प्रवर्तयन्धर्मार्थकामैर्वृद्धि गच्छति। यः पुनर्वि-
षयाभिलाषी विषमः कोपनः क्षुद्रश्छलान्वेषी नृपः स प्रकृतेनैव दण्डेनामात्यादिना
कोपादधर्माद्वा विनाश्यते ॥२७॥
(४) राघवानन्दः। अत आह त्रिवर्गेणेति। धर्मार्थकामैस्तपोवनानाश्रितस्य तन्मा-
श्रेण मोक्षासिद्धिरिति भावः । उक्तविशेषणहीनो नाधिकारीत्याह कामेति । कामात्मा
विषयाभिलाषी। विषमः कोपनः । क्षुद्रः छलान्वेषी । निहन्यते प्रकृतिकोपादृष्टद्वारा
दण्डेनैव। तादृशो राजेति शेषः । कामान्ध इति पाठो मेधातिथेः ॥२७॥
(५) नन्दनः। सम्यग्यथाशास्त्रम् ॥२७॥
(६) रामचन्द्रः। तं दण्डं सम्यक्प्रणयन् राजा त्रिवर्गेण धर्मार्थकामैरभिवर्धते ।
कामात्मा पुरुष: विषमप्रणेता क्षुद्रो लुब्धः एतादृशो दण्डेनैव निपात्यते ॥२७॥
(८) गोविन्दराजः। तमिति । तं दण्डं राजा सम्यक्कुर्वन् धर्मार्थकामैर्वृद्धिमेति । यः
पुनः रागप्रधानः क्रोधनः छली द्वेषी राजा न सम्यक्कृतेन दण्डेनैवात्यन्तकोपादधर्माद्वा
विनश्यति ॥२७॥
(९) भारुचिः। एवंविधश्च अदृष्टमुत्सृज्य दृष्टेन चैनं प्रगुणीकरोति । येन सम्यक्
प्रणीत एषः त्रिवर्गेण प्रणेतारं वर्धयति । कामादिदोषश्च दण्डेनैव निहन्यते यस्मात् ॥२७॥
दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः ।
धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् ॥२८॥
(१) मेधातिथिः। सुमहद्यत्तेजः स दण्डः। अकृतात्मभिः शास्त्रेण गुरूपासनया
सहजेन वा विनयेन येऽनभिविनीतास्तैर्दुर्धरः न शक्यते सम्यक् प्रणेतुम् ।
नैवं मन्तव्यमाज्ञामात्रेण दण्ड: प्रणीयते, का तस्य दुर्धरता? यतो यस्तत्र न
जागति प्रयत्नवान्न भवति तं प्रमादिनं सबान्धवं दण्डो हन्ति । न शरीरेण केवलेन
राजा नश्यति, यावत्पुत्रपौत्राद्यन्वयेन सह ॥२८॥
(२) सर्वज्ञनारायणः। दुर्धरोऽदण्डयेषु धारयितुमशक्यः ॥२८॥
(३) कुल्लूकः । यतो दण्ड: प्रकृष्टतेजःस्वरूपः स्वशास्त्रैरसंस्कृतात्मभिर्दुःखेन
ध्रियतेऽतो राजधर्मरहितं नृपमेव पुत्रबन्धु सहितं नाशयति ॥२८॥
२२ मनुस्मृतिः [७.२९ ४) राघवानन्दः । अकृतात्मभिरजितेन्द्रियः शास्त्रासंस्कृतबुद्धिभिर्वा । तत्रापि सबान्धवं हन्ति अधर्मोत्पादनेनेति शेषः ॥२८॥ (५) नन्दनः। यथाग्निरन्यत्र प्रणीयमानोऽपि प्रमत्तं प्रणेतारमेव दह्यत्येवं दण्डोऽपी- त्यभिप्रायेणाह दण्डो होति । हिहेतौ। सुमहत्तेजः सुमहानग्निः । चलितं स्खलितम् ॥२८॥ (६) रामचन्द्रः । दुर्धरः धर्तुमशक्यः ॥२८॥ (८) गोविन्दराजः । दण्ड इति । यतो यत्तत्सुमहत्तेजः स दण्ड: सहजादेव विनय- शून्यात्मभिश्च दुःखेन कर्तुं शक्यते (अ) न्यायवर्तिनं राजानमेव पुत्रादिबान्धवसहितं विनाशयति ॥२८॥ (९) भारुचिः। येषां स्वाभाविको विद्योपनीतश्च विनयस्ते कृतात्मानः । तरयं शक्यो धारयितुम्, विपरितं तस्माच्चलितं । दण्ड एव सबान्धवं हन्ति ॥२८॥ ततो दुर्ग च राष्ट्रं च लोकं च सचराचरम् । अन्तरिक्षगतांश्चैव मुनीन्देवांश्च पीडयेत् ॥२९॥ (१) मेधातिथिः । देशाद्यनपेक्षया यत्र दण्ड: प्रणीयते तत्र सराजकस्य जनपदस्य तिर्यक्स्थावरसहितस्य नाशः । ततो मन्त्रिभिर्जनपदैश्च राजा विज्ञापनीयः । त्यक्तव्यो वा तादृशो देशः । देवमुनयः पीड्यन्ते । इतः प्रदानजीवना देवाः । अस्मिश्चानुष्ठानाधुच्छेदान्नष्टा एव देवमुनयः । तथा च पुराणकारैः- वर्णाश्रमेभ्यः स्थित्वा तु लोकेऽस्मिन्यः प्रवर्तते । स्वर्गादौ देवयोनीनां स्थितिहेतुः स वै स्मृतः ॥" -- इति । प्रथमात् श्लोकादारभ्य यावदयं श्लोकस्तत्रायमर्थसंग्रहः । समवृत्तेन क्षत्रियेण जन- पदपरिपालनं कर्तव्यम्। तच्च दण्डेन विना न भवतीति स देशाद्यपेक्षयाऽवश्यं निपुणतो निरूप्य स्वराष्ट्र परराष्ट्रे वा यथाशास्त्र प्रणेयः । अन्यथा तु प्रवृत्तावुभयलोकनाशः । अन्यः सर्वोऽर्थवादः ॥२९।। (२) सर्वज्ञनारायणः। ततो राज्ञि विनष्टे रक्षकाभावात् दुर्गं राज्यं तदीयलोकमिमं सचराचरं स्थावरजङ्गमसहितं देवांश्च हविर्दानाद्यभावेन पीडयेत् किं पुनरन्यान् ॥२९॥ (३) कुल्लूकः । दोषाद्यनपेक्षया यो दण्डः क्रियते बन्धुनृपनाशानन्तरं धन्वादिदुर्गराष्ट्रं देशं पृथिवीलोकं जङ्गमस्थावरसहितं हविःप्रदानजीवना देवा' इति श्रुत्या हविःप्रदानाभावेऽन्तरिक्षगतानृषीन्देवांश्च पीडयेदिति ॥ २९ ॥ (४) राघवानन्दः । दुर्ग षड्विधं वक्ष्यमाणम् । अन्तरिक्षगतान् मर्त्यलोकादुत्पय- गामिनः । यज्ञाद्यकरणान्मुन्यादोनां पोडैव । तदुक्तं 'वर्णाश्रमेभ्यः स्थित्या तु लोकऽस्मिन्यः प्रवर्तते । स्वर्गादौ देवयोनीनां स्थितिहेतुः स वै स्मृत'इति । स यज्ञादिः ॥ २९ ॥ (५) नन्दनः। नैतावता विरमतीत्याह तत इति । लोकं भूलोकं । देवान् स्वर्गगतान् । इज्याविच्छेदादन्तरिक्षगतादीनां पीडाः ॥२९॥ (६) रामचन्द्रः। ततः देवान् हविनाद्यसंभवेन दण्ड: पीडयेत् ॥ २९ ॥ “ स
७.३०]
व्याख्यानवकोपेता
२३
इति ॥
--
(८) गोविन्दराजः। तत इति। सबन्धुनृपतिनाशाऽनन्तरं स दण्डो वक्ष्यमाणं
धन (न्व)दुर्गादि दुर्ग राष्ट्रं च देशं पृथिवीलोकं जङ्गमस्थावरसहितमितः प्रदानजीविनो
देवा इत्यतस्तदभावादन्तरिक्षगतान् ऋषींश्च देवांश्च पीडयेत् ॥२९॥
(९) भारुचिः। यदि नृपं सबान्धवं हत्वावतिष्ठेत् दण्ड: किं न लब्धं भवेत्
येन तु नैतावतावतिष्ठते दुर्गादीनपि हन्ति अन्तरिक्षगतान् धुलोकगतांश्च देवादीनपि
हन्ति। यस्मादितः प्रदानजीवना देवा मुनय (श्च) तस्मादसम्यक्प्रणयनाद् देशादि विप्लवेत।
इज्याविच्छेदेन हता एव देवादयो भवन्ति । येभ्यो न प्रदीयते । तथा च पौराणिका :-
" वर्णाश्रमेभ्यस्त्विज्या तु लोकेऽस्मिन् या प्रवर्तते ।
सर्वासां देवयोनीनां स्थितिहेतुः स वै स्मृतः ॥
सोऽसहायेन मूढेन लुब्धनाकृतबुद्धिना ।
न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥३०॥
(१) मेधातिथिः । सहायसंग्रहार्थं प्रकरणमिदानीमारभ्यते ।
यस्य च निरूपणा वक्ष्यमाणा तत्सहायादिगुणयोगिनश्चार्यसभ्यसेनापतिदण्डाधि-
कारिणो न सन्ति, तेन स्वयमेव निःशङकं नयकालगुणसम्पन्नेनापि न्यायतो न प्रणेतुं
न्यायः' शास्त्रानुसारिणी देशाद्यपेक्षया च व्यवस्था । अतः सहायाः शोभनाः
कर्तव्याः। यथा स्वयं मूढो विचित्तोऽसंस्कृतबुद्धिरस्ति सक्तो विषयेषु लुब्धो धनविनियोगं
यथावन्न करोति तेन तादृशेनैतर्दोषयुक्तेन न सम्यक् ध्रियते, एवमसहायेनापीति तात्पर्यम्।
यस्तु विपरीतस्तेन शक्यते ॥३०॥
(२) सर्वज्ञनारायणः । मूढेन प्रमादहेतुमोहवता । अकृतबुद्धिना शास्त्रासंस्कृत-
मतिना ॥३०॥
(३) कुल्लूकः। स दण्डो मन्त्रिसेनापतिपुरोहितादिसहायरहितेन मूर्खेण लोभवता
शास्त्रासंस्कृतबुद्धिपरेण नृपतिना शास्त्रतो न प्रणेतुं शक्यते ॥३०॥
(४) राघवानन्दः । स दण्डः। असहायेनाविद्वद्ब्राह्मणप्राड्विवाकादिरहितेन। मूढेन
मुग्धेन । अकृतबुद्धिना शास्त्रानभिज्ञेन । तदभिज्ञत्वेऽपि विषयेषु सक्तेन न्यायतोऽन्यो-
पदिष्टशास्त्रानुष्ठानरहितेनापि । न्यायः शास्त्रानुसारिणी देशाद्यपेक्षया व्यवस्था तया
नेतुं न शक्यः ॥३०॥
(५) नन्दनः । सम्यक्प्रणयनोपायं श्लोकाभ्यामाह स इति ॥३०॥
(६) रामचन्द्रः। स दण्ड: मूढेन प्रमादमोहवता अकृतबुद्धिना अकृतधर्मशास्त्राभ्या-
सेन एतादृशेन राज्ञा न्यायतो नेतुं प्रवर्तयितुं न शक्यः ॥३०॥
(८) गोविन्दराजः। सोऽसहायेन मूर्खणेति । स दण्डोऽविद्यमानमन्त्र्यादिसहायेन मूर्खण
लोभवता शास्त्रसंस्कार (रहितेना)श्चाकृतबुद्धिना द्यूतादिविषयसक्तेन राज्ञा शास्त्रमर्यादया
कर्तुमशक्यः ॥३०॥
(९) भारुचिः। यस्माद्दण्डो दुष्प्रणीतः दृष्टमदृष्टं च हन्ति, अतोऽसहायेन मूढेन
लब्धेनाकृतबुद्धिना विषयातिसेवितेनेति पञ्चभिरेतैर्दोषैर्युक्तेनाशक्यो नेतुं एतद्विपरीतैश्च
पञ्चभिर्गुणैर्युक्तेनासौ शक्यो नेतुम् ॥३०॥
२४ मनुस्मृतिः [७.३२ शुचिना सत्यसन्धेन यथाशास्त्रानुसारिणा । प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥३१॥ (१) मेधातिथिः । एष एवार्थो वैपरीत्येन चोच्यते । शुचिरलुब्धः। सत्यसन्धः सत्यप्रधानः । सत्यमेव पुरोधाय सर्वक्रियासु प्रवर्तते स विजितेन्द्रियः । अजितेन्द्रियस्य कुतः सत्यम् । यथाशास्त्रमनुसरति वर्तते । सुसहायः शोभनाः सहाया अस्येति । अमूखैर्भक्त्यनु- रक्तैः सहायैर्युक्तः । धीमता प्राज्ञेन । योऽसौ मूढः प्रागुक्तस्तस्यायं प्रतिपक्षतयोक्तः । अतः पञ्चभिर्दोषैर्हीनस्तावद्भिरेव गुणैर्युक्तो दण्डप्रणयनेऽधिकृतो दृष्टादृष्टफला- तिशयभाग्भवतीति श्लोकद्वयस्यार्थः ॥३१॥ (२) सर्वज्ञनारायणः । शुचिना अलुब्धेन । धीमता ऊहापोहवता ॥३१॥ (३) कुल्लूकः। अर्थादिशौचयुक्तेन सत्यप्रतिज्ञेन यथाशास्त्रव्यवहारिणा शोभन- सहायेन तत्त्वज्ञेन कर्तुं शक्यते इति पूर्वोक्तदोषप्रतिपक्षे गुणा अनेन श्लोकेनोक्ताः ॥३१॥ (४) राघवानन्दः । अनधिकारिणमुक्त्वाऽधिकारिणमाह शुचिनेति। शुचिना अलुब्धेन सत्यसन्धेन स्वोक्तरक्षणशीलेन धीमता पूर्वापरालोचनयुक्तेन सुसहायेन वक्ष्यमाणसहायवता दण्डयेषु दण्डो नेतुं शक्यः ॥३१॥ (६) रामचन्द्रः । शुचिना अलुब्धेन ॥३१॥ (८) गोविन्दराजः । शुचिनेति । अर्थादिशौचयुक्तेन जितेन्द्रियत्वात्सत्यप्रतिज्ञेन शास्त्रानतिक्रमवर्तिना सहायेन प्रज्ञावतेत्येवं पूर्वोक्तदोषप्रतिपक्षभूतगुणयुक्तेन राज्ञा सम्यक् दण्ड: कर्तुं शक्यते ॥३१॥ (९) भारुचिः । यतस्तत्प्रदर्शनायेदमुच्यते शुचिना जितेन्द्रियेण सत्यसन्धेन प्रकरणादलुब्धेन, यथाशास्त्रानुसारिणा अमूढेन सुसहायेन नासहायेन मूर्खसहायेन वा धीमता कृतशास्त्रप्रज्ञेन स्मृतिमता वा ॥३१॥ स्वराष्ट्रे न्यायवृत्तः स्याभृशदण्डश्च शत्रुषु । सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥३२॥ (१) मेधातिथिः। पितृपितामहादिक्रमागतो देशो व्यपदेशहेतुः । काश्मीरकस्य काश्मीरः, पाञ्चालस्य पाञ्चाला: स्वराष्ट्रम् । तत्र न्यायप्रवृत्तो न्यायेन वर्तेत, न्याययोगाद्वृत्तन्यायः । अतो बहुव्रीहिः । न्यायवृत्तिरिति वा पाठः । एतत्पूर्वसिद्धमनूद्य शत्रुषु भृशदण्डता विधीयते । परराष्ट्राणि पुनः पीडयेन्न तत्र विघ्नाद्यपेक्षणीयम्, राष्ट्रीयोपरोधो वा। तथा कुर्वतः प्रताप उपजायते। प्रतापधनस्य शत्रवो नमन्ति। ब्राह्मणेषु सर्वत्र क्षमान्वितः । अपराधेष्वपि साम्रा प्रयोज्यः, क्रोधेन । परराष्ट्रवासिनोऽपि राष्ट्रघातकाले यदि शक्यन्ते रक्षितुं तदा न हन्यन्ते । स्निग्धेषु सुहृत्सु अजिह्मोऽकुटिलबुद्धिः। कार्यसिद्धिकृत्तत्कार्यप्रधानः स्यात् । समाना- भ्युदयप्रत्यवायाः सुहृदः 'स्निग्धाः ॥३२॥ " दण्डः
---
७. ३३]
व्याख्यानवकोपेता
२५
(२) सर्वज्ञनारायणः। भृशदण्डस्तीक्ष्णदंड: । सुहृत्सु बन्धुषु स्निग्धेषु च मित्रेषु
अजिह्मोऽवक्रमतिः । इति राजदण्डयोः प्रशंसा ॥३२॥
(३) कुल्लूकः । आत्मदेशे यथाशास्त्रव्यवहारी स्याच्छत्रुविषयेषु तीक्ष्णदण्डो
भवेनिसर्गस्नेहविषयेषु मित्रेष्वकुटिल: स्यान्न कार्यमित्रेषु ब्राह्मणेषु च कृताल्पापराधेषु च
क्षमावान्भवेत् ॥३२॥
(४) राघवानन्दः। किंच स्वेति । न्यायवृत्तः शास्त्रानुसारव्यवहारी। भृशमत्यर्थं
दण्डोऽस्यास्तीति भृशदण्डः शत्रुषु तद्राष्ट्रेषु अजिह्मोऽकुटिल: । क्षमान्वितः विप्रादि-
क्रोशसहिष्णुः॥३२॥
(६) रामचन्द्रः । सुहृत्संबंधिषु राजा अजिह्मः स्यात् । स्निग्धेषु मित्रेषु
क्षमान्वितः स्यात् ॥३२॥
(८) गोविन्दराजः । स्वराष्ट्र न्यायवृत्तिरिति । आत्मराष्ट्र शास्त्रमर्यादया वर्तेत ।
शत्रुविषये पुनस्तीक्ष्णदण्डो भवेत् । स्निग्धेषु च मित्रेषु कार्यमित्रेषु अकुटिल: स्यात् ।
ब्राह्मणेषु बुद्धिपूर्वं चाल्पं तदपराधं कृतवत्सु क्षमायुक्तः स्यात् ॥३२॥
एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।
विस्तीर्यते यशो लोके तैलबिन्दुरिवांभसि ॥ ३३॥
(१) मेधातिथिः । प्रक्रान्तवृत्तेः स्तुतिरियम् । शिलोञ्छेनापि जीवतोऽत्यन्तक्षीणकोस्य
विस्तीर्यते यशः प्रथते। ततश्च परराष्ट्राणि स्वयं नमन्ते स्वराष्ट्रिकश्चानुरागादविचलितो
भवति ॥३३॥
(२) सर्वज्ञनारायणः । एवंवृत्तस्येति । यथोक्तदण्डप्रणेतु: । शिलोञ्छेनापीति
भोगदानाभ्यां रहितस्यापीत्यर्थः ॥३३॥
(३) कुल्लूकः । शिलोञ्छेनेति क्षीणकोशत्वं विवक्षितं । क्षीणकोशस्यापि नृपते-
रुक्ताचारवतो जले तैलबिन्दुरिव कीतिर्लोके विस्तारयति ॥३३॥
(४) राघवानन्दः । किंच एवमिति । शिलोछेनापीति क्षीणकोशत्वं
विवक्षितम् ॥३३॥
(५) नन्दनः । सम्यक्प्रणयनस्य फलमाह एवमिति । भूतलविप्रकीर्णं धान्यं
शिलम् तस्योद्धार उञ्छः । शिलान्यप्युञ्छत इति लिङ्गात् । अथवा शिलं चोञ्छश्च
शिलोञ्छम् ‘वर्तयंस्तु शिलोञ्छाभ्या मिति लिङ्गात् । 'उञ्छ: कणश आदानं' 'कणि-
शाद्यर्जनं शिल'मिति यादवः ॥३३॥
(६) रामचन्द्रः। एवंवृत्तस्य नृपतेः शिलोञ्छनापि जीवतः भोगदानाभ्यां रहित-
स्यापि यशः लोके विस्तीर्यते। अम्भसि तैलबिन्दुरिव ॥३३॥
(८) गोविन्दराजः। एवमिति । एवमाचारस्य राज्ञोऽयं तत्क्षीणकोशस्यापि जले
तैलबिन्दुसेकाद्वा लोके ख्यातिः विस्तरमेति ॥३३॥
(९) भारुचिः। एवंविधश्च सन् राजा स्वराष्ट्र न्यायवृत्तः स्याद् भृशदण्डश्च
शत्रुषु । एवंवृत्तस्य राज्ञोऽन्तरेणापि कोशं केवलेनैव सम्यग्दण्डप्रणयनेन विस्तीर्यते राजयशः,
येन शक्नोति परराष्ट्राण्यप्यात्मीकर्तुं परिपालयितुं च ॥३३॥
२६
मनुस्मृतिः
[७.३५
अतस्तु विपरीतस्य नृपतेरजितात्मनः।
संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥ ३४ ॥
(१) मेधातिथिः । अतो वृत्ताद्विपरीतस्य चलितस्य । अत्र हेतुरजितात्मता ।
यथाशास्त्रमनियतात्मा यः ॥३४।।
(२) सर्वज्ञनारायणः । अजितात्मनो धनलोभवश्यात्मनः ॥३४॥
(३) कुल्लूकः । उक्ताचाराद्विपरीताचारवतो नृपतेरजितेन्द्रियस्य जले घृतबिन्दुरिव
कीतिः लोके संकोचयति ॥३४॥
(४) राघवानन्दः । उक्तवपरीत्ये दोषमाह अतस्त्विति । अत उक्तेभ्यो विपरीतस्य
संक्षिप्यते अभिषेककाले विस्तीर्णयशा अपि तदुत्तरभजितेन्द्रियत्वादिना संकुचितयशा भवे-
दित्यर्थः ॥३४॥
(६) रामचन्द्रः। अजितात्मनः लोभाद्यासक्तचित्तस्य ॥३४॥
(८) गोविन्दराजः। अत इति । एतस्मादाचाराद्विपरीतादाचारतो राज्ञो जितेन्द्रियस्य
घृतबिन्दुरिवोदके ख्यातिः संकोचमुपयाति ॥३४।।
(९) भारुचिः। अतो विपरीतस्य स्वराष्ट्रमपि संकुचति, निर्गुणत्वात् कुतोऽन्यद्-
भविष्यतीति । सैषा दण्डप्रणयनस्तुतिः समाप्ता ॥३४॥
स्वे स्वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः ।
वर्णानामाश्रमाणां च राजा सृष्टोऽभिरक्षिता ॥ ३५॥
(१) मेधातिथिः । स्वधर्माणां च राजा सृष्टोऽभिरक्षिता। स्वधर्मनिष्ठानामपालने
राज्ञ: प्रत्यवायः, धर्मच्युतास्तु यदि केनचिदुपहन्येरन् न तत्र राज्ञोऽतीव दोष इति स्वे स्वे धर्म
इत्यनेन दर्शयति।
अथवा 'न' श्लिष्यते-'अनिविष्टानामिति' । ये तु शास्त्रान्मित्राद्युपदेशाद्वा
स्वधर्मायत्ता न तेषां राजा द्वैधेन वर्तेत । वर्णग्रहणं स्त्रीबालवृद्धानां रक्षार्थम् । न हि ते
आश्रमस्थाः। आश्रमग्रहणं तर्हि किमर्थम् ? । प्राधान्यार्थम् । ब्राह्मणवसिष्ठवत् ।
प्रयोजननिर्देशो वाऽयम् । आश्रमसन्ध्योपासनादिधर्माच्चलितुमेषां न देयः । न चैवं
दण्डाद्यपघातः कर्तुमेतेषां देयः। इतरथा बाधापरिहारः । एवं 'रक्षा' विज्ञेया। सन्ध्यो-
पासनाधकरणेषु नामान्यस्य कस्यचिद्भवति (?) । द्विरूपा राज्ञः कर्तव्यतेति वर्णाश्रम-
ग्रहणम् । एतदेवोक्तं “वर्णानाश्रमांश्च न्यायतोऽभिरक्षेदिति" ॥३५॥
(२) सर्वज्ञनारायणः । स्वे स्व इति प्रकारान्तरारम्भार्थः प्रागुक्तानुवादः ॥३५॥
(३) कुल्लूकः। क्रमेण स्वधर्मानुष्ठातॄणां ब्राह्मणादिवर्णानां ब्रह्मचार्याद्याश्रमाणां
च विश्वसृजा राजा रक्षिता सृष्टः । तस्मात्तेषां रक्षणमकुर्वतो राज्ञः प्रत्यवायः स्वधर्म-
विरहिणां त्वरक्षणेऽपि न प्रत्यवाय इत्यस्य तात्पर्यार्थः ॥३५॥
(४) राघवानन्दः। उक्तविधं राजानं महीकरोति स्व इति । रक्षितेति कृत्वा सृष्ट:
ब्रह्मणेति शेषः ॥३५॥
।
७.३७]
व्याख्यानवकोपेता
(५) नन्दनः। अर्थान्तरविवक्षार्थमुपसंहरति स्व इति । वर्णानामित्यधर्माधिकारिणां
निर्देशः । आश्रमाणमिति धर्माधिकारिणामिति । अभिरक्षिता सृष्टो रक्षितृत्वेन सृष्ट
इत्यस्माभिरुक्तं हीति भावः ॥३५॥
(८) गोविन्दराजः। स्वे स्व इति । क्रमेण स्वधर्मरतानां सर्वेषां ब्राह्मणादीनां वर्णानां
ब्रह्मचर्यादीनाञ्चाश्रमाणां ब्रह्मणा राजा रक्षिता सृष्टः । उत्तरविवक्षार्थमुक्तवान् ॥३५॥
(९) भारुचिः। कस्मात् पुनरेतदेवं यस्मादेवंगुणं एव स्वे इति ।
तेन यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः।
तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः ॥३६ ॥
(१) मेधातिथिः। वक्ष्यमाणावबोधनार्थः श्लोकः । तेन राज्ञा सभृत्येन तदीयैः
सहायर्यत्कर्तव्यं प्रजारक्षणार्थं तदिदानीमुच्यते ॥३६।।
(२) सर्वज्ञनारायणः । यथावत् यस्य यदर्हम् । अनुपूर्वशः प्रातरारभ्य कार्यम् ॥३६।।
(३) कुल्लूकः। वक्ष्यमाणावतारार्थोऽयं श्लोकः । तेन राज्ञा प्रजारक्षणं कुर्वता
सामात्येन यद्यत्कर्तव्यं तत्तत्समग्रं युष्माकमभिधास्यामि ॥३६॥
(४) राघवानन्दः । किंच तेनेति । सभृत्येन सामात्येन प्रजा रक्षता यद्यत्कर्तव्यमित्य-
न्वयः ॥३६॥
(५) नन्दनः । अर्थान्तरमेव प्रस्तौति तेनेति । रक्षता कर्तव्यं, रक्षार्थ कर्तव्य-
मिति यावत् ॥३६॥
(६) रामचन्द्रः। तेन राज्ञा यद्यत्कर्तव्यं तत्तद्युष्माकमहं प्रवक्ष्यामि ॥३६॥
(८) गोविन्दराजः । तेनेति । तेन राज्ञा प्रजां पालयता अमात्यसहितेन यत्कर्तव्यं
तत्कृत्स्नं क्रमेण युष्माकमहं कथयिष्यामि ॥३६॥
(९) भारुचिः। . . . उत्तरविवक्षार्थं चेदमुक्तमपि सदुच्यते तेनेति । श्रोतॄणां
चत्त...धानार्थ: श्लोकः ॥३६॥
ब्राह्मणान्पर्युपासीत प्रातरुत्थाय पार्थिवः ।
विद्यवृद्धान्विदुषस्तिष्ठेत्तेषां च शासने ॥ ३७॥
(१) मेधातिथिः । प्रातरुत्थाय शयनं त्यक्त्वा यथाविधानं कृतसन्ध्योपासनः, प्रथम
ब्राह्मणानां दर्शनं दद्यात् । उपासनमन्तिकोपवेशनकुशलप्रश्नादिकरणम् । परिः पादपूरणः ।
तिष्ठेत्तेषां च शासने । आज्ञाकरणं तेषां 'शासनम्' । यदि कस्यचिदुपकाराया-
विशेयुस्तद्विरुद्धं न शक्यम्, नाप्यनर्थकमनुतिष्ठेत् ।
त्रैविद्यवृद्धान् । तिसृणां विद्यानां समाहार: त्रैविद्यम्, तदधीतिनः त्रैविद्या रूढ्या
ऋग्वेदादिवेदत्रयाध्यायिन उच्यन्ते । विदुषस्तदर्थवेदिनश्च । एवंविधा ये ब्राह्मणास्ता-
नुपासीत तदीयामाज्ञां कुर्यात् । वृद्धास्त्रविद्यानां श्रेष्ठाः प्रकर्षवन्तोऽध्ययनविज्ञानयोः ॥३७॥
(२) सर्वज्ञनारायणः । त्रैविद्येन वेदविद्यया वृद्धान् । श्रेष्ठान् तथा विदुषः स
शास्त्रसंस्कृतमतीन् ॥३७॥
२८
मनुस्मृतिः
[७.३८
(३) कुल्लूकः । प्रत्यहं प्रातरुत्थाय ब्राह्मणानृग्यजुःसामाख्य विद्यात्रयग्रन्थार्था-
भिज्ञान्विदुष इति नीतिशास्त्राभिज्ञान्सेवेत तदाज्ञां कुर्यात् ॥३७॥
(४) राघवानन्दः। तदेवाह ब्राह्मणानिति । विद्यवृद्धान् ऋग्यजुःसामाख्या
विद्यास्तत्राभिज्ञान् । विदुषः नीतिशास्त्रज्ञान् । अनुशासने आज्ञायाम् ॥३७।।
(५) नन्दनः । त्रयी दण्डनीतिरात्मविद्या चेति तिस्रो विद्यास्त्रयी विद्या तामधीयत
इति विद्याः । विद्वांसस्तत्तत्त्ववेदिनः । उपासीत तदहःकृत्यसाधनार्थमिति भावः ॥३७।।
(६) रामचन्द्रः। राजा ब्राह्मणान्पर्युपासीत। तेषां ब्राह्मणानां शासने तिष्ठेत् ।
कीदृशान्ब्राह्मणान् ? विद्यवृद्धान् वेदवयस्तपःसंपन्नान् ॥३७।।
(८) गोविन्दराजः । ब्राह्मणानिति । अहरहः प्रातरुत्थाय ब्राह्मणानृग्यजु:-
सामाख्यविद्यात्रयग्रन्थार्थपारगान्विदुषो वक्ष्यमाणान्वीक्षिकीदण्डनीत्यभिज्ञान् सेवेत तदाज्ञां
चानुतिष्ठेत् ॥३७॥
(९) भारुचिः। त्रयोऽवयवा यस्येति त्रयी। तस्य ये ग्रन्थार्थयोवृद्धास्ते विद्य-
वृद्धास्तान् । अथवा त्रैविद्याध्यायिनः (वयःस्थप्रज्ञया) च विद्यवृद्धा: ये आन्वीक्षिक्यां
दण्डनीत्यां च स्वभिविनीतास्ते विद्वांसस्तान् विदुषः ॥३७॥
वृद्धाश्च नित्यं सेवेत विप्रान्वेदविदः शुचीन् ।
वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते ॥ ३८॥
(१) मेधातिथिः । वृद्धान्वयस्थब्राह्मणान् । एतदपूर्वं अन्यत्पूर्वसिद्धं विप्रानित्यादि ।
शुचीन् निरुपाधीन् । एतदप्यपूर्वम् । यथैवाध्ययनविज्ञाने उपास्यत्वकारणमेवं शुचित्वमपि ।
द्वितीयश्लोकार्थार्थवादः । रक्षोभिः । रक्षांसि निर्दयानि महाबलानि सर्वधर्मशून्यानि ।
तान्यपि वृद्धसेविनं पूजयन्ति ॥३८।।
(२) सर्वज्ञनारायणः । वृद्धान् वयोवृद्धान् तेषां पुरावृत्तज्ञतयोहापोहशक्तत्वात् ।
तानपि वेदार्थज्ञान् शुचीन् शौचयुक्तानेव नान्यानित्येदर्थ विशेषणद्वयम् ॥३८॥
(३) कुल्लूकः । तांश्च ब्राह्मणान्वयस्तपस्यादिवृद्धानर्थतो ग्रन्थतश्च वेदज्ञान्ब-
हिरन्तश्चार्थदानादिना शुचीग्नित्यं सेवेत यस्मावृद्धसेवी सततं हिंस्र राक्षसैरपि पूज्यते
तैरपि तस्य हितं क्रियते, सुतरां मनुष्यैः ॥३८॥
(४) राघवानन्दः । वृध्दसेविनां गुणमाह वृद्धाश्चेति । वृद्धान् पित्रादीन् । वेदविदो
वेदाध्ययनमात्रशालिनः । तावन्मात्रत्वेऽपि न तपस्वित्वं महत्त्वे कारणमित्याह शुचीनिति ।
वृद्धसेवीति कृत्वा रक्षोभिः राक्षसाद्यैः ॥३८॥
(५) नन्दनः । उक्तमेवार्थमादरार्थमाह वृद्धानिति । वृद्धाञ्छीलेन वयसा च ।
रक्षोभिरपि दुर्जनैरपि ॥३८।।
(६) रामचन्द्रः । एतादृशो राजा रक्षोभिः राक्षसैरपि पूज्यते ॥३८॥
(८) गोविन्दराजः । वृद्धानिति । ताँश्च विप्रान् वयोवृद्धान् वेदज्ञानार्थादिशुद्धान्
विश्वसनीयत्वोत्पादनार्थमपि नित्यं सेवेत । यस्माद्वृद्धसेवी यः सोऽत्यन्ताविश्वासिभी
राक्षसैरपि पूज्यते, तेषामपि विश्वसनीयो भवति, किं पुनर्मनुष्याणाम् ॥३८॥
७.४०] व्याख्यानवकोपेता २९ (९) भारुचिः। इमानपरान् विद्यावृद्धान् ब्राह्मणान् धर्मायेव केवलाय सेवेत । येन वृद्धसेवी न केवलं धर्मेण युज्यते लोकेऽपि च विश्वसनीयतमो भवति । अतश्च रक्षोभिरपि पूज्यते इत्युच्यते ॥३८॥ तेभ्योऽधिगच्छेद्विनयं विनीतात्माऽपि नित्यशः। विनीतात्मा हि नृपतिर्न विनश्यति कर्हिचित् ॥ ३९ ॥ (१) मेधातिथिः। वृद्धसेवायाः प्रयोजनमाह। तेभ्यो विद्वद्ब्राह्मणेभ्यो वृद्धेभ्यः विनयं राजवत्तमधिगच्छेच्छिक्षेत । विनीतात्मा। यद्यपि स्वयं बुद्धयाऽपि विनीतोऽर्थशास्त्रैर्वा, तथापि वृद्धोपदेशे यत्न- वान् स्यात् । दृष्टकर्माणः शास्त्रज्ञेभ्यो निपुणतराः। अथवा पाटवातिशयजननार्थ विनीते- नापि स्वभावतो वृद्धेभ्य आर्येभ्य आत्मा विनेयः। स्वभावशुद्धस्य सुवर्णस्य तेजः- संयोगादिनाऽऽधीयमानसंस्कारो विशुद्धतररूपवानसौ दृश्यते। अस्य विनयाधानस्य फलं न विनश्यतीति ॥३९॥ (२) सर्वज्ञनारायणः । विनयमिन्द्रियजयोपायम् । विनीतात्माप्यविनयादधिकं शिक्षेदित्यर्थः ॥३९॥ (३) कुल्लूकः। सहजप्रज्ञयार्थशास्त्रादिज्ञानेन च विनीतोऽप्यतिशयार्थ तेभ्यो विनयमभ्यसेत्, यस्माद्विनीतात्मा राजा न कदाचिन्नश्यति ॥३९॥ (४) राघवानन्दः । वृद्धसेवाप्रयोजनमाह तेभ्य इति । विनीतात्मापि स्वयमिति शेषः। कहिचित् शत्रुतः पराजयदशायामपि विनयेन ततोऽपि राज्यमाप्नुयात् ॥३९।। (५) नन्दनः । सेवितेभ्यो वृद्धेभ्यः प्राप्यमाह तेभ्य इति ॥३९॥ (६) रामचन्द्रः । तेभ्यः वृद्धेभ्यः विनयं इन्द्रियजयोपायम् ॥३९॥ (८) गोविन्दराजः। तेभ्य इति । यद्यप्यशक्यशास्त्राभिज्ञतया सहजप्रज्ञया वाऽतिविनीतो भवति, तथाप्यतिशयार्थं तेभ्यो ब्राह्मणेभ्यो नीतिमार्ग नित्यं शिक्षेत, यस्मान्नीतिप्रधानो राजा न कदाचिदपि नश्येत् ॥३९।। (९) भारुचिः। गुणयुक्तं च विद्या विनयति, अतो यद्यपि स्वभावतो विनीतात्मा भवेत् तथाप्यभ्यासेन पाठक जनयेत् । कस्मात्पुनरियान् विनयाधाने आस्थीयते । येन- ॥३९॥ बहवोऽविनयानष्टा राजानः सपरिच्छदाः । वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे ॥४०॥ (१) मेधातिथिः । पूर्वोक्त एवार्थः श्लोकत्रयेण दृढीक्रियते । अविनीताः सपरिग्रहा नष्टाः । पुत्रदारहस्त्यश्वादिसंपत्परिग्रहः । ये तु विनयिनः, न ते राष्ट्र प्राप्य हारयन्ति । यावत्ते दूरस्था वनस्था अपि, कोशहीना अपि, राज्यं प्रतिपेदिरे लब्धवन्तः ॥४०॥ (२) सर्वज्ञनारायणः । बह्वोऽविनयात् वेनो विनष्टः, पृथुस्तु विनयादिति श्लोक- त्रयमस्यैव प्रपञ्चः । अत्राविनयः कामक्रोधलोभमदमानहर्षरूपारिषड्वर्गापारवश्यं विनय- स्तदपारवश्यम् ॥४०॥ यत्न . मनुस्मृतिः [७.४२ (३) कुल्लूकः। करितुरगकोशादिपरिच्छदयुक्ता अपि राजानो विनयरहिता नष्टाः बहवश्च वनस्था निष्परिच्छदा अपि विनयेन राज्यं प्राप्नुवन् ॥४०॥ (४) राघवानन्दः । अत्रैव गुणदोषावाचष्टे बहव इति । अविनयादिति छेदः । परिच्छदः चतुरङ्गसेनाः । अहो विनयस्य माहात्म्यं यत्तावन्मात्रेणापरिच्छदा अपि राज्यान्यापुरित्याह वनस्थाश्चेति ॥४०॥ (५) नन्दनः। विनयस्यावश्याधिगम्यतां व्यक्तिरेकान्वयाभ्यामाह बह्व इति ॥४०॥ (६) रामचन्द्रः। बहवो राजानः । अविनयात्कामक्रोधलोभमदमानहर्षरूपषड्वर्गात् सपरिच्छदा नष्टाः ॥४०॥ (८) गोविन्दराजः । बहव इति । बहवो राजानो हस्त्यश्वकोशादिप्रच्छदयुक्ता अपि अविनीततया नष्टाः, अन्ये पुनर्वनवासिनोऽपरिच्छदा अपि विनयत्वेन राज्यानि प्राप्तवन्तः ॥४०॥ (९) भारुचिः । उभयथोपदेशो हि विनयाधानादरार्थस्तामिदानीं दर्शयति त्रिभिः श्लोकः विनयस्य प्रत्यक्षफलतां वेनादिदृष्टान्तैर्दर्शयति विनयाधानप्ररोचनाय ॥४१॥ वेनो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः । सुदाः पैजवनश्चैव सुमुखो निमिरेव च ॥ ४१ ॥ (१) मेधातिथिः । उभयत्राप्युदाहरणानि लोकसिद्धानि वर्णयन्ति । एतानि महाभारता- दावाख्यातानि ज्ञेयानि ॥४१॥ (२) सर्वज्ञनारायणः । वेन: पृथोः पिता मानमदाभ्याम् । नहुषो मदक्रोधाभ्याम् । सुदानामा पिजवनापत्यं मदात्क्रोधाच्च । सुमुखो लोभात् । निमिहर्षात् । हर्ष आत्मन्य- कस्मात्प्रीत्युद्रेक: ॥४१॥ (३) कुल्लूकः । उभयत्रैव श्लोकद्वयेन दृष्टान्तमाह वेन इत्यादि । वेनो नहुषश्च राजा पिजवनस्य च पुत्रः सुदानामा सुमुखो निमिश्चाविनयादनश्यन् ॥४१॥ (४) राघवानन्दः। अत्रेतिहासमाह वेन इति । सुदाः पैजवनः, पिजवनस्य पुत्र: सुदानामा । एते षडविनयान्नष्टाः ॥४१।। (५) नन्दनः। अविनयान्नष्टानुदाहरति वेन इति ॥४१॥ (८) गोविन्दराजः। तथा च वेन इति । वेनो नहुषश्चापि पिजवनस्य च पुत्र: सुदानाममुखौ निमिश्चाविनयान्नष्टाः ॥४१॥ पृथुस्तु विनयाद्राज्यं प्राप्तवान्मनुरेव च । कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः॥४२॥ (१) मेधातिथिः । “ननु च राज्याधिकारे को ब्राह्मण्यप्राप्त्युपन्यासा वसरः? राष्ट्रप्राप्तिरेव यथापूर्वं वर्णयितव्या"। उच्यते । धनश्वर्यादपि जात्युत्कर्षों दुष्प्रापः, सर्वाधिकारहेतुत्वात् । "ननु च कथं तस्य विनयो हेतुः? षाड्गुण्यप्रयोगः अप्रमाद: अतिव्ययवर्जनं अलोभः, ।
७.४३] व्याख्यानवकोपेता ३१ , व्यसनासेवनं एवमादीनि 'विनयः' । तदेतद्ब्राह्मण्यस्यैकमपि न कारणम् । तपो हि तत्र कारणत्वेन श्रुत ‘विश्वामित्रस्तपस्तेपे नानृषेः पुत्रः स्यामि'त्येवमादि" । उच्यते । नार्थशास्त्रोक्तैव नीतिर्नयः । किं तहि? शास्त्रीयो विधिर्लोकाचारश्च । शास्त्रे च तपसा जात्युत्कर्षों जन्मान्तरे प्राप्यते इति विहितमेव । विश्वामित्रस्य ब्राह्मण्यं तु तस्मिन्नेव जन्मनि क्षत्रियस्य सत इत्याख्यातमेव ॥४२॥ (२) सर्वज्ञनारायणः । पृथ्वादिकथाश्च प्रसिद्धा एव । गाधिजो विश्वामित्रः ॥४२॥ (३) कुल्लूकः । पृथुर्मनुश्च विनयाद्राज्यं प्रापतुः, कुबेरश्च विनयाद्धनाधिपत्यं लेभे, गाधिपुत्रो विश्वामित्रश्च क्षत्रियः संस्तेनैव देहेन ब्राह्मण्यं प्राप्तवान् । राज्यलाभा- वसरे ब्राह्मण्यप्राप्तिरप्रस्तुताऽपि विनयोत्कर्षार्थमुक्ता । ईदृशोऽयं शास्त्रानुष्ठाननिषिद्ध- वर्जनरूपो विनयो यदनेन क्षत्रियोऽपि दुर्लभं ब्राह्मण्यं लेभे ॥४२॥ (४) राघवानन्दः । विनयात्प्राप्तराज्यानाह पृथुरिति । गाधिजो विश्वामित्रः विनयात् ब्राह्मण्यं प्राप, किमुतान्यत् । एभिस्त्विति क्वचित्पाठः, तदा इत्यादिभी राज्यं प्राप्तमित्यध्याहार्यम् ॥४२॥ (५) नन्दनः । विनयाल्लब्धमनोरथानुदाहरति पृथुरिति । मनुर्वैवस्वतः । गाधिजो विश्वामित्रः ॥४२॥ (८) गोविन्दराजः। पृथुरिति। पृथुमनू विनीततया राज्यं प्राप्तवन्तौ। वैश्रवणश्च विनये सति धनैश्वर्य प्राप्तवान्। गाधिपुत्रश्च विश्वामित्रः क्षत्रियः सन् तेनैव शरीरेणात्यन्तदुष्प्रापं ब्राह्मण्यं विनययोगात्प्राप्तवान् । तस्मात् वृध्देभ्यो विनय- मधिगच्छेत् ॥४२॥ विद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकी चात्मविद्यां वारिम्भांश्च लोकतः ॥४३॥ (१) मेधातिथिः । विद्यामिति द्वितीयान्तपाठेऽधिगच्छेदित्यनुषञ्जनीयम् । समाप्त- ब्रह्मचर्यस्य राज्योपदेशात् त्रय्यर्थाधिगमेन तन्निष्पत्तेरभ्यासार्थोऽयमुपदेशः । त्र्यवयवा विद्या त्रिविद्या, तामधीयते त्रैविद्यास्तेभ्यस्त्रयीमृग्वेदादिवेदत्रयं विद्यात् । सन्दिग्धेषु पदार्थेषु वेदेभ्यो निर्णयं कुर्यात् । तैः सह वेदार्थं चिन्तयेदिति यावत् । न राजत्वाभिमानान्मदावलेपेन सर्वज्ञोऽहमिति बुद्धया संदिह्यमानानानुपेक्षेत । दण्डनीति च । दण्डविषया नीतिः । “दण्डो दमनमित्याहुः" येन शत्रवः स्वप्रकृतयो विषयवासिनश्चान्यायकारिणो दम्यन्ते स दण्डोऽमात्यादिसंपत्। नीतिस्तस्य प्रयोजनं तत्र विधिस्तं शिक्षेत । तद्विद्भ्यश्चाणक्यादिग्रन्थविद्भयः । शाश्वतीमिति स्तुतिः । यद्यपि दण्डनीत्याऽप्यस्य सर्वलोक: अन्वयव्यतिरेकमूलत्वादस्यार्थस्य, तथाऽप्यबुधबोधनार्थानि तानि शास्त्राणि, बुधानां च संवादार्थानीति, युक्तो दण्डनीतिशास्त्राधिगमः । एवं आन्वीक्षिक्यपि तर्कविद्यार्थशास्त्रादिका । आत्मविद्याऽध्यात्मविद्या। विशेषण- विशेष्ये वा पदे। आत्मने या हिताऽऽन्वीक्षिकी सा तश्रिया। तां शिक्षेत । सा हथुप- युज्यते व्यसनाभ्युदयोपरमचित्तसंक्षोभोपशमाय । या तु बौद्धचार्वाकादितर्कविद्या सा शक्यते ज्ञातुम्, ३२ मनुस्मृतिः [७.४३ नातीव कृत्वा क्वचिदुपयुज्यते । प्रत्युतास्तिक्यमुपहन्ति, यो नातिनिपुणमतिः । यदा तु स्वतन्त्रामान्वीक्षिकी वेद, तदा तस्य दूतसंवादादिषु वाक्यवैशद्यानामुपयोगो नोपहास्यो भवति। वारिम्भाश्च पण्यानामर्थपरिज्ञानं वाणिज्यकौशलम् , समयेन बार्हस्पत्येन तत्र परिज्ञानं वार्ता । तन्निमित्ता आरम्भा 'वार्तारम्भाः'। वार्तास्वरूपं ज्ञात्वा तद्विषयकार्या प्रवृत्ति: 'आरंभः' । एतल्लोकतो विद्यात् । वणिज्याजीवनोऽत्र ‘लोको'ऽभिप्रेतः । ते हि तत्र कुशला भवन्ति । लोकत इति च पूर्वयोरनुषङ्गः कर्तव्यस्तेन सर्वत्र तद्विद्भय इति लभ्यते ॥४३॥ (२) सर्वज्ञनारायणः । विद्येभ्य एव दण्डनीतिमभ्यसेदान्वीक्षिकी चात्मविद्यां न्यायसांख्यादिकामपवर्गोपयोगिनी, वार्तारंभास्तु कृष्यादीन्धनार्जनोपायान् लोकत एवान्वय- व्यतिरेकाभ्याम् ॥४३॥ (३) कुल्लूकः । त्रिवेदीरूपविद्याविद्भ्यस्त्रिवेदीमर्थतो ग्रन्थतश्चाभ्यसेत् ब्रह्मचर्य- दशायामेव वेदग्रहणात्समावृत्तस्य च राज्याधिकारात् अभ्यासार्थोऽयमुपदेशः । दण्डनीति चार्थशास्त्ररूपामर्थयोगक्षेमोपदेशिनी पारंपर्यागतत्वेन नित्यां तद्विद्भयोऽधिगच्छेत् । तथा- न्वीक्षिकी तर्कविद्यां भूतप्रवृत्तिप्रयुक्त्युपयोगिनी ब्रह्मविद्यां चाभ्युदयव्यसनयोर्हर्षविषाद- प्रशमनहेतुं शिक्षेत । कृषिवाणिज्यपशुपालनादिवातिदारम्भान्धनोपायार्थांस्तदभिज्ञकर्ष- कादिभ्यः शिक्षेत ।।४३॥ (४) राघवानन्दः । किंच यस्य वेदाक्षरकलापग्रहणोत्तरकालमेवाभिषेकैस्तदवसरेऽ- विचारितं वेदार्थं विचारतो जानीयादित्याह विद्येभ्य इति । धर्मार्थ त्रयों द्रव्यार्थ दण्डनीतिमर्थोपायशास्त्रं शाश्वती कुलपरंपरागतां आन्वीक्षिकों तर्कविद्यां ऊहापोहाथ आत्मविद्यां आत्मा नित्यः न जायत इत्यादिरूपां शोकापनोदार्थम् । वार्तारम्भान् कृषिपाशुपाल्यवाणिज्यादिवार्ताः तदारम्भान् धनोपायान् लोकतः कृषीवलेभ्यः कृषिः पराशरादिस्मृतिभ्यो वा ॥४३॥ (५) नन्दनः । एवं विद्यवृध्देभ्यो विनयस्याधिगम उक्तः ; इदानीं तेभ्य एव विद्यास्तिस्रोऽधिगन्तव्या इत्याह त्रैविद्येभ्य इति । वार्ता कृषिगोरक्षवाणिज्यादीनि तस्या आरम्भान् क्रियाः ॥४३॥ (६) रामचन्द्रः। त्रैविद्येभ्यः त्रिवेदिभ्यः त्रयों विद्यां वेदत्रयीं शिक्षेत । दण्डविद्यां आन्वीक्षिकों तर्कविद्यां आत्मविद्यां आत्मज्ञानहेतुभूतां शिक्षेत । वार्ताया आरम्भा वार्तारम्भाः, जीविकोपायास्तान्कृप्यादीन् लोकतः शिक्षेत ॥४३।। (८) गोविन्दराजः। विद्यभ्य इति । ऋग्यजुःसामाख्यविद्यायाध्यायिभ्य ऋग्यजु:- सामाख्यां त्रयीविद्यां अभ्यसेत्, न तु शिक्षयेत् । समावृत्तस्य राज्याधिकारात् तुर्यावस्थायामे- वाधिगच्छेत् । दण्डनीति चार्थशास्त्रमयोगक्षेमोपयोगिनी शाश्वतीमनादिपारंपर्यागतां तेभ्य एव शिक्षेत । तथा तर्कविद्यां चाध्यात्मिकां सांख्यादिविद्यां परमण्डलदूतोक्ति- पंक्त्या धुपयोगिनी अभ्युदयव्यसनकालेषु च हर्षविषादानुत्पादकारिणी शिक्षेत तथा क्षत्रियः ऋ (कृ) षिवाणिज्यादिपशुपालनादिवार्ता तन्निमित्तारम्भान् प्रवृत्ती: धनोपचयहेतून् लोकतस्तद्विधेभ्यः कर्षकादिभ्यः शिक्षेत् ॥४३।। (९) भारुचिः। अधिगच्छेदिति वर्तते। त्रविद्येभ्यो वेदाधिगमस्योक्तत्वाद् ब्रह्मचार्य- .४५] व्याख्यानवकोपेता السلع स्थायामेव तदर्थाधिगमार्थोऽयं पुनरारम्भः सामर्थ्याद्वेदितव्यः । अनधिगताधिगमा- रौं वा । व्रतस्नातकपक्षे दण्डनीत्युपदिदिक्षया वा पुनरस्योपदेशो दृष्टान्तार्थवादार्थः । एवं दण्डनीतिविद्भ्यो दण्डनीतिमधिगच्छेत् । शाश्वतीमिति । स्तुतिपरमेतत् । दण्डनीते- दिवद्यद्यपि च दण्डनीत्याश्रयं सर्वं शक्यते लोकतो ग्रहीतुम् । दृष्टोपायसाध्यत्वात्तस्य थाप्यबुद्धा न प्रतिपद्येरन् । बुधाश्च दण्डपातनेऽनियमेन वर्तेरन् । लोभात् परित्यज्या- प्टमस्याङकनमस्य निवासनम् । इयांश्च पुनरयमस्य दण्ड इतीष्यते च नियमो दृष्टप्रयोज- त्विात् नियमस्मृतेरतो राज्ञा दण्डनीतिरवश्यमध्येतव्या । आन्वीक्षिकी चात्मविद्यां द्विद्भ्य: । एवं च सत्ययं तया हि ततत्त्वाविज्ञानोऽभ्युदयोपनिपातापक्रमकालेषु हर्षविषाद- वकारोपशमप्रयोजनमध्यात्मप्रसंख्यानमवाप्य न राज्यतन्त्र परिहापयिष्यति । प्रज्ञा- वाक्यक्रियावैशारद्यं चास्या जायते। आन्वीक्षिक्यधिगमे तच्चास्यागमिके विधौ सामन्त- इतसंवादादिपु सप्रयोजनं भवति । वारिम्भाश्च कोशोपचयहेतून् लोकतोऽधिगच्छेदिति वर्तते । आहितविद्याविनयचायं राजा प्रयत्नतः ॥४३।। इन्द्रियाणां जये योगं समातिष्ठेदिवानिशम् । जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥४४॥ (१) मेधातिथिः । इन्द्रियजयस्य ब्रह्मचारिधर्मेषु सर्वपुरुषार्थतयोपदिष्टस्य पुनरिहोपदेशो राजधर्मेषु मुख्योऽयं विनय इति ज्ञापयितुम्। तदिदमाह जितेन्द्रिय इत्यादि। सर्वस्यैतत्प्रसिद्ध अजितेन्द्रियस्य न प्रजा वशे तिष्ठन्ति। योगस्तात्पर्यम् । देवानिशमहोरात्रम् ॥४४॥ (२) सर्वज्ञनारायणः । इन्द्रियाणां जये आयत्तत्वे ॥४४॥ (३) कुल्लूकः । चक्षुरादीनामिन्द्रियाणां विषयासक्तिवारणे सर्वकालं यत्नं कुर्यात्, स्माज्जितेन्द्रियः प्रजा नियंतुं शक्नोति न तु विषयोपभोगव्यग्रः। ब्रह्मचारिधर्मेषु सर्व- पुरुपोपादेयतयाऽभिहितोऽपीन्द्रियजयो राजधर्मेषु मुख्यत्वज्ञानार्थमनन्तरवक्ष्यमाणव्यसन- नेवृत्तिहेतुत्वाच्च पुनरुक्तः ॥४४॥ (४) राघवानन्दः। जितेन्द्रिय एव यस्मात्प्रजा नियन्तुं शक्नोति तस्मात्तज्जये यत्न आस्थेय इत्याह इन्द्रियाणामिति ॥४४।। (५) नन्दनः। एवं विनीतेन विदुषा सततमिन्द्रियजयः कर्तव्य इत्याह इन्द्रियाणा- मिति । योगभियोगम् ॥४४॥ (६) रामचन्द्रः। इन्द्रियाणां जये दिवानिशं योगं समातिष्ठेदित्यर्थः ॥४४॥ (८) गोविन्दराजः । इन्द्रियाणामिति । चक्षुरादीनामिन्द्रियाणां विषयशक्तिपरिहारे । नेत्यकालमभियोगं कुर्यात् । स जितेन्द्रियः प्रजाः वशीकर्तुं शक्नोति ॥४४॥ (९) भारुचिः । श्रोत्रादीनां शब्दादिषु यथाशास्त्रं प्रवृत्तिरिन्द्रियजयः । स च वर्णधर्मेषूक्तो.. .कथं नामायं जितेन्द्रियः ॥४४॥ दश कामसमुत्थानि तथाष्टौ क्रोधजानि च । व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ ४५ ॥ न. स्मृ.४/३ ३४ मनुस्मृतिः [७.४६ (१) मेधातिथिः । इदमपरमिन्द्रियजयोपदेशस्य प्रयोजनम् । अजितेन्द्रियस्य दुष्परिहराणि व्यसनानि दुरन्तानि। दुःखकरोऽन्तोऽवसानं येषाम् । प्रथम प्राप्तिकाले सुखयन्ति व्यसनानि, पश्चात्तु वैरस्यं जनयन्ति । ततो 'दुरन्तानि' उच्यन्ते । अथवा दुष्प्रापोऽन्त एषाम् । न हि व्यसनिनस्ततो निवतितुं शक्नुवन्ति। कामाद्धेतो: समुत्थानं जन्म येषाम् ॥४५॥ (२) सर्वज्ञनारायणः। दुरन्तानि दुःखोदानि ॥४५।। (३) कुल्लूकः । दश कामसंभवान्यष्टौ क्रोधजानि वक्ष्यमाणव्यसनानि यल- तस्त्यजेत् । दुरन्तानि दुःखावसानान्यादौ सुखयंत्यन्ते दुःखानि कुर्वति। यद्वा दुर्लभोऽन्तो येषां तानिः दुरन्तानि । नहि व्यसनिनस्ततो निवर्तयितुं शक्यन्ते ॥४५।। (४) राघवानन्दः। अजितेन्द्रियता हि विषयाधीनेत्याह दशेति । वक्ष्यमाणानि व्यसनानि विविधदुःखहेतुनरकेषु व्यस्यते पुमान्यस्तानि दुःखहेतव इति यावत् । दुरन्तानि दुःखमेवान्तो येषां तानि ॥४५॥ (५) नन्दनः। कामक्रोधजानि व्यसनानि वर्ण्यत्वेनाह दर्शति ॥४५॥ (६) रामचन्द्रः। कामसमुत्थानि दश व्यसनानि, अष्टौ क्रोधजानि व्यसनानि दुरन्तानि दुःखोदर्कानि प्रयत्नेन वर्जयेत् ।।४५।। (८) गोविन्दराजः। दर्शति। दश कामोद्भवानि वक्ष्यमाणानि नित्यव्यसनानि, क्रोधजानि चाष्टौ दुःखावसानानि यत्नतः परिहरेत् ॥४५।। (९) भारुचिः। कामक्रोधसमुत्थयोः . . . त्यागार्थः । कामक्रोधपरित्यागेन तत्त्यागचे- न्द्रियजयेनेत्युक्तम् । बलाबलमधुना व्यसनवर्गस्योच्यते, आदरार्थम् । कथं नामायं गुरुतरं व्यसनवर्गमादरेण जह्यात् ॥४५॥ कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥४६॥ (१) मेवातिथिः। एषां वर्जने प्रयोजनमाह गुरुलघुभावं च। अर्थधर्मवियोगेन व्यवहित आत्मवियोगः । क्रोधजेषु सर्वैवियुज्यत इति विशेषः ॥४६॥ (२) सर्वज्ञनारायणः। आत्मनंद देहेन वियुज्यत इत्यन्वयः। यद्यपि कामजेऽपि मृत्यु: संभवति तथापि कामजैः स्वप्रयोजनमल्पं सुखं सिद्धयति, न क्रोधज इत्यत्रैवात्म- वियोगोक्तिः ॥४६॥ (३) कुल्लूकः। वर्जनप्रयोजनमाह कामजेष्विति । यस्मात्कामजनितेषु व्यसनेषु । प्रसक्तो राजा धर्मार्थाभ्यां हीयते क्रोधजेषु प्रसक्तः प्रकृतिकोपादेहनाशं प्राप्नोति ॥४६।। (४) राघवानन्दः। कस्मिन्गणे को दोषस्तत्राह कामश्विति । आत्मनैव तु सहदेहेन वियुज्यतेऽतस्तद्रहितः स्यात् राजा। कामजेष्वर्थधर्मवियोगेन व्यवहितोऽप्यात्म- वियोगः कामजः सन्निकृष्ट: ॥४६॥ (५) नन्दनः। तेषूभयेषु व्यसनेषु प्रसक्तस्यानान्विविच्याह कामेति । आत्मना शरीरेण वियुज्यते म्रियत इति यावत् । अनेन क्रोधजानां गुरुतरत्वमुक्तम् ॥४६॥ , ७.४७] व्याख्यानवकोपेता ३५ (६) रामचन्द्रः। कामजेषु व्यसनेषु प्रसक्तो महिपतिरर्थधर्माभ्यां वियुज्यते । क्रोधजेषु व्यसनेषु प्रसक्तो महिपतिरात्मनैव वियुज्यते ॥४६।। (८) गोविन्दराज :। कामजेष्विति। यस्मात् कामोद्भवेषु व्यसनेषु राजा प्रसक्तो धर्मार्थहानि प्राप्नोति। क्रोधजेषु च सक्तः सर्वद्वेप्यत्वात्प्रकृतिकोपे सति प्राणै- वियुज्यते ॥४६॥ (९) भारुचिः। अनयोस्तु वर्गयोः कामजेषु प्रसक्तः पानद्यूतगीतनृत्तवादित्रादिषु अर्थधर्माभ्यां वियुज्यते। येनार्थधर्माभ्यां विरोधेन' नैषा प्रवृत्तिः सम्भवति । क्रोधजेषु तु पैशुनसाहसादौ वर्तमानो द्वेषभावमुपगतो नियतमुच्छिद्यते ॥४६॥ मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥४७॥ (१) मेधातिथिः। तानीदानी व्यसनानि स्वनामतो दर्शयति-आखेटकार्थो मृगवधो मृगया। अक्षस्तद्विषयक्रीडा । एतयोस्त्वनर्थत्वं प्रसिद्धम् । दिवास्वप्नः कर्मानुष्ठानकाले कर्मस्वव्यापारः । न दिवाशब्देनाहरेव विवक्षितम् । तदुक्तं “जागर्तव्ये प्रसुप्तकेति”। अथवा मुख्य एव 'दिवास्वप्नः' । स हि प्रतिषिद्धः सर्वकार्यविघाती। स च दर्शनाथिनामन्येषां तदसंपत्तेढेष्यताजनक: प्रजासु । परिवादः रहसि परदोषावर्जनम् । तेन सर्वाः प्रकृतयो विरज्यन्ति । अपरिवाद्यानां च परिवादेऽधर्मः स्थित एव । स्त्रियो मद इत्येतयोरनर्थरूपता सुप्रतीता । तौर्यत्रिकं नृत्यगीतवादित्राणि । वृथाटया अप्रयोजनमीषत्प्रयोजनं वा इतस्ततश्च परिभ्रमणम् । दश परिमाणो दशकः । कामजः काम इच्छा, ततो जायते । विशिष्टसुखो- पभोगार्थो वा अनुभूतविशेषाद्वा जायमानः ‘कामजः' ॥४७॥ (२) सर्वज्ञनारायणः। परिवादः स्वप्रशंसार्थमद्वेष्याणामपि निन्दा । मदः पान- मत्तता। तौर्यत्रिकं नृत्यगीतवाद्यानि। वृथाटया विना प्रयोजनं यात्रा । कामजो विना क्रोधं रागमात्राजातः (३) कुल्लूकः । तानि व्यसनानि नामतो दर्शयति मृगयेत्यादि । आखेटकाख्यो मृगवधो मृगया, अक्षो द्यूतक्रीडा, सकलकार्यविघातिनी दिवानिद्रा, परदोषकथनं, स्त्रीसंभोगः, मद्यपानजनितो मदः, तौर्यत्रिकं नृत्यगीतवादित्राणि, वृथा भ्रमणं; एष दशपरिमाणो दशक: सुखेच्छाप्रभवो गणः ॥४७॥ (४) राघवानन्दः । दश कामसमुत्थान्याह मृगयेति । मृगया वृथा मृगवधः श्राद्धा- द्यर्थम् । युधिष्ठिराद्यनुष्ठितोऽक्षो छूतक्रिया । परिवाद इति स्वयं नोत्पादयेत्कार्यमित्य- स्यानुवादः । स्त्रियः स्त्रीसेवनं तच्च दिवाधिकरणं निषिद्धं, राजकार्यविघातित्वात् ; प्रजो- द्वेगहेतुः बहुस्त्रीसेवनं वा । मदः स्त्रीभोगाय पानजः । तौर्यत्रिकं नृत्यगीतवादित्राणि श्रीणि ॥४७॥ ४७॥
मनुस्मृतिः [७.४८ । (५) नन्दनः। कामजान्याह मृगयेति । मदः पानम् । तौर्यत्रिकं नृत्यगीतवादि- त्राणि । वृथाटया निष्प्रयोजनं पर्यटनम् । दशकः दशावयवः ॥४७।। (६) रामचन्द्रः । तान्यष्टादश व्यसनान्याह मृगयेति द्वाभ्याम् । मृगया अक्षः दिवास्वप्नः परिवादः स्वप्रशंसार्थमद्वेष्याणामपि निन्दा। स्त्रियः स्त्रीणामासक्तिः, मदः पानमत्तता, तौर्यत्रिकं नृत्यगीतवाद्यं वृथोद्या वृथालाप: वृथाट्येति पाठे वृथाटनं एष दशको गणः कामजः रागमात्रजातः ।।४७।। (८) गोविन्दराजः। मृगयेति । आखेटकार्थं मृगवधाक्षादिक्रीडासकलमपि विघ्नहेतुभूतो दिवास्वप्नः परदोषवचनं स्त्रियो मदो मद्यपानकृतः तूर्यत्रिको नृत्यगीतवादित्राणि, अनिमित्ततश्चानुगमनमित्येष दशपरिमाणो व्यसनवर्गोऽभिलाष विशेषाज्जायते ॥४७॥ (९) भारुचिः । इति । कामादिच्छा यतो जा (ता?) विशिष्ट- कामार्था वा । स च यः सुखोपभोगार्थो जायते । पूर्वानुभूतविषयानुचिन्तनसुखाद्वा कामपराणां जायते येनातः कामज इत्युच्यते दशको गणः । कामजव्यसनवर्गस्वरूप- निर्देशो मृगयार्थम् । यानं मृगया दिवास्वप्नः कर्मानुष्ठानकाले कर्मस्वव्यापारः । परि- वादस्त्वमात्यादीनां क्रियमाणः स्वतन्त्रविरोधी सम्पद्यते । सर्वो हि पृष्ठमांसभक्षणे क्रियमाणे राजकार्येषु न सम्यग्वर्तते । प्रशिथिलमानतया अपरिवाद्यानां च परिवादे प्रसिद्धो धर्मविरोधः । स्त्रियो मद इत्येतद्द्वयं प्रतीतम् । तौर्यत्रिको नृत्तगीतवादित्राणि । वृथाट्याऽप्रयोजनमटनम् । धर्मार्थसुखरहितमीपत्प्रयोजनं वा । एवं च सति सर्वमेतद्राज्ञोऽ- र्थविरोधे येन वर्तते अतोऽस्य कामजव्यसनवर्गद्वयस्य परिहर्तव्यतयोपदेशो युक्ततरः ॥४७।। पैशुन्यं साहसं द्रोह ईष्यांसूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥४८॥ (१) मेधातिथिः । अमात्यादयो ये सुकृतबान्धवास्तत्र यन्निगोपनीयं तस्य प्रकाशनं पैशुन्यम् । साहसं ज्यायसो नीचकर्मणि विनियोगः । स्वल्पेनैवापराधेन कराधानं करावरोधो वा। द्रोह उपांशुवधः । तत्रोपघातो वा जीवत एवेर्ध्या । सर्वसाधारणस्य विषयस्य साधारण्यव्यावृत्तिः असहनं वा गुणिनाम्', गुणेषु दोषाविष्करणं असूया। अर्थदूषणं अर्थानामदानं हरणं वा । वाग्दण्डपारुष्ये प्रसिध्दे। क्रोधो द्वेषः । तत्प्रधाना एतत्कुर्वन्ति ।।४८। (२) सर्वज्ञनारायणः । पैशुन्यमसद्दोषाविष्कारः । साहसं अल्पेऽपि कारणे स्वयं मानुषवधादि । द्रोहः परजिघांसा। ईर्ष्या परस्यानभिसन्धिकृतस्वस्त्रीदर्शनादावपचिकीर्षा । असूया परस्तवासहिष्णुता । अर्थदूषणमर्थानां परकीयानां स्वयमग्रणेऽपि विनाशनम् । वाक्पा- रुष्यं आक्रोशादिना वाङ्मात्रेण परद्वेषोत्पादनम् । दण्डपारुष्यमयुक्तदण्डप्रणयनम् ॥४८।। (३) कुल्लूकः। पैशुन्यमविज्ञातदोषाविष्करणं, साहसं साधोबंधनादिनिग्रहः, द्रोह छ- अवधः ईर्ष्याऽन्यगुणासहिष्णुता, परगुणेषु दोषाविष्करणमसूया, अर्थदूषणमर्थानामपहरणं देयानामदानं च, वाक्पारुष्यमाक्रोशादि, दंडपारुष्यं ताडनादि; एषोऽष्टपरिमाणो व्यसन- गणः क्रोधाद्भवति ।।४८।। (४) राघवानन्दः । क्रोधजानष्टानहि पैशुन्यमिति । अविज्ञातं दोषाविष्करणं पैशुन्यम् । साहसं साधोर्बन्धनादिना निग्रहः । द्रोहः छद्मना वधः । ईर्ष्या . परगुणा- ७.४९] व्याख्यानवकोपेता ३७ , " सहिष्णुता । परगुणेषु दोषाविष्करणमसूया । अर्थदूषणं परस्वापहारः, न त्वर्थार्थं दूषणं; परिवादेन गतार्थत्वात् । पारुष्यविशेषणं वाग्दण्डजं । तत्र वावपारुष्यमाक्रोशादि अनपराधे दण्डपारुष्यं ताडनादि तेन द्वयम् ॥४८।। (५) नन्दनः। क्रोधजान्याह पैशुन्यमिति । अर्थदूषणं नाम परदूषणार्थं महतोऽ- थस्य परित्यागः । तथा कामन्दकेनोक्तम् – 'दूष्यस्य दूषणार्थं हि परित्यागो महीयसः । अर्थस्य नीतिशास्त्रज्ञैरर्थदूषणमुच्यते' इति ॥४८॥ (६) रामचन्द्रः। पैशुन्यं असद्दोषाविष्कारः । साहसं अल्पेऽपि कारणे स्वयं मानुष- वधादिकम् । द्रोहः अपकारः । परजिघांसा ईर्ष्या । असूया परस्तवासहिष्णुता । अर्थदूषणं अर्थानां परकीयानां स्वचमग्रहणेऽपि विनाशनम् ॥४८॥ (८) गोविन्दराजः । पैशुन्टमिति । पैशुन्यं अविज्ञातदोषाविष्करणम् । साहसं साधोनिकृष्टकर्मविनियोगो बन्धनं वा । द्रोहश्छद्मना वधः । ईर्ष्या परस्यात्मना' सह गुणसामान्याक्षमणम् । असूया परगुणस्तवामर्षणम् । अर्थदूषणं प्राप्तानां अर्थानामदानं, अपहारो वा । वाक्पारुष्यमाक्रोशादि, दण्डपारुष्यं ताडनादि । इत्यष्टपरिमाणो व्यसनसंघः क्रोधाज्जायते ॥४८॥ ९) भारुचिः । पैशुन्यं नेलकत्वं (?) । तच्च क्रोधात् क्रियते । एवं साहसं च । तच्च साधोर्नीचे कर्मणि नियोग: कर्मोपरोधो वा। निष्कारणद्रोह उपांशुवधः, तन्त्रोपरोधो वा। जीवत एव ईर्ष्या, विषयसाधारणत्वव्यावृत्तीच्छा असूया । परगुणोपघातार्था वाक्प्रवृत्तिश्चेष्टा बा । जिबिकाधरविक्षेपहस्ताभिनयैः । अर्थदूषणमदानमपहरणं वा। वाग्दण्डजपारुष्यं प्रसिद्धार्थम् । एवं क्रोधजोऽपि गणोऽष्टकः ॥४८।। द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः । तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ ॥४९॥ (१) मेधातिथिः। “उक्तं तावत्कामस्य व्यसनवर्गस्य लोभो मूलम्। विषयोपभोगस्पृहा कामः, इच्छा अभिलाषो लोभः इत्यनान्तरं यतः। क्रोधजस्य कथं लोभो मूलं, येनोच्यते तज्जावेतावुभौ गणाविति । उच्यते। नात्र लोभकारणता तयोर्वर्गयोरभिप्रेता। किं तर्हि ? वर्गद्वयतुल्यता लोभस्य। यमेतानि सर्वाणि व्यसनान्यनर्थमुपजनयन्ति तमेवैको लोभो व्यसनहीनस्यापि । तदुक्तं "लोभः सर्वगुणानिव” इति । अत उपचारत एतदुक्तं तज्जावेताविति । यदि लोभो न जायेत कथं समानफलानि स्युः ? कारणदोषो हि कार्यदोषं भासयति । अतस्तत्कार्य- त्वाद्वयसनेषु चेद्दोषः, ध्रुवं कारणस्याप्यसौ दोष उक्तो भवति । अथवा लुब्ध एव पैशुनादिबहिष्कार्येष्वभिष्वङ्ग गच्छति । इतरस्तु स्वल्पके विषये अनुनयेन वोपशाम्यति । सेयमुपचाराल्लोभमूलता व्यसनवर्गद्वयस्योच्यते ॥४९।। (२) सर्वज्ञनारायणः । लोभः प्राप्तस्य विषयस्यानपव्ययेच्छा, तज्जौ त्वेताविति क्रोधजेऽपि लोभप्रवृत्तस्य कामप्रतिहतावेव कोपोदयात् ॥४९॥ ३) कुल्लूकः । एतयोर्द्वयोरपि कामक्रोधजव्यसनसङ्घयोः कारणं स्मृतिकारा .
३८ मनुस्मृतिः [७.५० जानन्ति तं यत्नतो लोभं त्यजेत् । यस्मादेतद्गणद्वयं लोभाज्जायते क्वचिद्धनलोभतः क्वचित्प्र- कारान्तरलोभेन प्रवृत्तेः ॥४९।। (४) राघवानन्दः । मूलोच्छेदे पुरुषव्यापारादिति न्यायाश्रयेणाह द्वयोरिति । तयोर्गणयोः । अत एवोक्तं गुणानुपक्रम्य । 'लोभः सर्वगुणान्हन्ति श्वित्रो रूपमिवेप्सितं' इति श्वित्ररोग ईप्सितं रूपं हन्तीत्यन्वयः ॥४९।। (५) नन्दनः। द्वयोरपि गणयोर्जयोपायमाह द्वयोरिति । विषयाभिध्यानज आसङ्गो लोभः। तज्जौ लोभजौ। लोभात्कामः, कामाप्रतिहतात्क्रोधः, तेन तज्जावित्युक्तम् । तथा भगवानुवाच। (भ. गी. २/६२) ध्यायतो विषयान्पुंस: सङ्गस्तेषूपजायते । सङ्गात् संजायते कामः कामात्क्रोधोऽभिजायत इति ।।४९।। (६) रामचन्द्रः । एतयोईयोरपि पूर्वोक्तयोर्मूलं लोभं सर्वे कवयो विदुः । तं लोभं यत्नेन वर्जयेत्। उभौ तौ गणौ तस्माल्लोभाज्जातौ ज्ञेयौ ॥४९।। (८) गोविन्दराजः । द्वयोरिति । द्वयोरप्येतयोः कामक्रोधव्यसनवर्गयोः स्वयं कारणभूतं सर्वे स्मृत्युपनिबन्धग्रन्थकारा मन्यन्ते । तं लोभं यत्नतः परिहरेत् । यस्मादेतत्समुद्भव- मेतद्गणद्वयं सर्वेषां लोभो मूलं, क्वचिद्धनलिप्सया क्वचिच्छरीरसुखलोभेन प्रवृत्तेः ॥४९॥ (९) भारुचिः । स्व्यादिषु लुब्धः कामजं गणं सेवते । प्रतिहतस्य च तत्र क्रोध इति । स एवमयं लोभ: कामक्रोधयोः व्यसनवर्गयोः मूलमुच्यते । उपदेशप्रयोजनं तु तत्त्यागे व्यसनवर्गद्वयाभाव: प्रदर्शितो यथा स्यात् । कारणाभावादथवा अन्यायेन परद्र (व्या) दानं लोभात् क्रियते । मृगन्या (या) यां च वर्तमानः स्वतन्त्रावसादादवश्यमन्यायेन परद्रव्याण्यादत्ते । यश्च मृगयात्यागे अवश्यमसौ स्वतन्त्रसिद्धयर्थं कोशोपचयहेत्वनुष्ठाने यतेत । तत्र च व्यापृतस्य मृगयायामप्रवृत्तिः । एवं दिवास्वप्नादिष्वपि व्याख्येयम् । अक्षेषु तु प्रसिद्धव लोभात् प्रवृत्तिः । एवं क्रोधजेष्वपि पैशुनादिषु वर्तमानो लुब्ध एवान्तं गच्छति, केवलेन तु क्रोधेन प्रवर्तमानः स्वल्पके वा विनाशेऽवतिष्ठते । उपशमं वा गच्छति । व्यसनवर्गद्वयासेवि न कार्या (?) । सामान्याद्वा लोभ्यस्याद्वयोरप्येतयोर्व्यसनवर्गयोः मूलं लोभ उच्यते । यथा श्रुतार्थसम्भवादितरत्र सामर्थ्यात् सोऽयमत्र निन्दातिशयः । परित्यागादरार्थो राज्यतन्त्रसिद्धय इति ।।४९।। पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥ ५० ॥ (१) मेधातिथिः। दिवास्वप्नादिभ्योऽस्य चतुष्कस्य बहुदोषतरत्वं प्रसिद्धमेव ॥५०॥ (२) सर्वशनारायणः। कामजे चतुष्कं कष्टतममतिशयेन दुःखहेतुः ॥५०॥ (३) कुल्लूकः। मद्यपानमः: क्रीडा स्त्रीसंभोगो मृगया चेति क्रमपठितमेत- च्चतुष्कं कामजव्यसनमध्ये बहुदोषत्वादतिशयेन दुःखहेतुं जानीयात् ॥५०॥ (४) राघवानन्दः। किंचावश्यं त्याज्यं सार्थवादं संकलयति पानमिति । मृगयायां व्यायामेनारोग्यगुणोत्पत्तेः । अतः स्त्रीसेवनं कष्टं तत्रापत्योत्पत्तावपि मैथुननिमित्तरेतः- , गणस्य ७.५२] व्याख्यानवकोपेता ३९ क्षरणवेगधारणाद्व्याध्युत्पत्त्या मरणोत्पत्तिः संभावितेति । ततोऽपि कष्टतरं द्यूतं, तत्र पाक्षिकधनाप्तावपि वैराद्युत्पत्तिरिति । ततोऽपि पानं कष्टतमं, मत्तस्य संज्ञारहिततया विषपानादिना मरणाद्यापत्तेर्बहुकालीननरकापत्तिश्चेति । एतच्चतुष्कं दिवास्वप्नादिभ्य उत्तरोत्तरं कष्टं विद्यादित्यन्वयः ॥५०॥ (६) रामचन्द्रः । कामजे गणे रागजे गणे एतच्चतुष्कं कष्टतमं दुःखदं विद्यात् ॥५०॥ (८) गोविन्दराजः। पानमिति । मदपर्यन्तं पानमक्षक्रीडा स्त्रीसंप्रयोगो मृगया चेत्येतत्क्रमपठितं कामजगणं मध्वाधीनेषु व्यसनेषु चतुष्कमतिशयेन दुःखहेतुं बहुतरदुःखहेतुत्वाज्जानीयात् ॥५०॥ (९) भारुचिः। दिवास्वप्नादिभ्योऽयं चतुष्को. . . व्याख्येयम् ॥५०॥ दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात्कष्टमेतस्त्रिकं सदा ॥५१॥ (१) मेधातिथिः। अयमपि त्रिक: पैशुनादिभ्यः पापीयानिति सुप्रतीतम् ॥५१॥ (२) सर्वज्ञनारायणः। क्रोधजे च त्रिकं सदा सर्वदा दुःखहेतुः ॥५१॥ (३) कुल्लूकः । दण्डपातनं वाक्पारुष्यमर्थदूषणं चेति क्रोधजेऽपि व्यसनगणे दोषबहुलत्वादतिशयितदुःखसाधनं मन्यते ॥५१॥ (४) राघवानन्दः। क्रोधजेऽप्याह – एवमर्थापहरणात्कष्टतरं वाक्पारुष्यं तावन्मात्रेण मरणोद्यमदर्शनात्त्यक्तधनस्य यतेरपि । तदुक्तं 'दुरुक्तैभिन्नमात्मानं कः समाधातुमीश्वर' इति । ततोऽपि कष्टतमो दण्डपातः, तत्र बहुकल्पनरकजनकविप्रवधादिदर्शनात् द्रुततर- मरणदर्शनाच्चेति ॥५१॥ (६) रामचन्द्रः । क्रोधजेऽपि गणे दण्डाद्येतत्त्रिक कष्टं विद्यात् ॥५१॥ (८) गोविन्दराजः। दण्डस्येति । वाक्पारुष्यदण्डपारुष्यार्थदूषणात्मकं त्रिक क्रोधजव्यसनगणमध्यादोषभूयस्त्वे सति सर्वदा दोषहेतुं बुध्येत ॥५१॥ (९) भारुचिः । अयमपि त्रिको गणः पैशुन. . . ॥५१॥ सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषंगिणः । पूर्व पूर्व गुरुतरं विद्याद्व्यसनमात्मवान् ॥५२॥ (१) मेधातिथिः । पानद्यूतयोः पानं गरीयः। तत्र हि संज्ञाप्रणाशः, अनुन्मत्तस्योन्मत्तत्वम् , अप्रेतस्य प्रेतत्वम्, कौपीनप्रकाशनम्, श्रुतप्रज्ञाप्रहाणम्, मित्रहानिः, सद्भिर्वियोगः असद्भिश्च संप्रयोगः, गीतादिष्वर्थप्नेषु प्रसङ्गः, रतमन्त्रप्रकाशनं च, मानिनोऽप्युपहास्यता, गम्भीर- प्रकृतेरपि यत्किञ्चनवादितः मदवेगेनेति, पानदोषाः । द्यूते तु जितमेवाक्षविदुषा, अनक्षज्ञस्यापि पाक्षिकः पराजयः । स्त्रीब्तव्यसनयो तव्यसनं गरीयः । येन तदेव जितं द्रव्यं तस्यापि विषं भवति । तथा च तन्निमित्तो वैरानुबन्धो जयः, साधारण: केवलं पराजयः, भुक्तनाशः। मूत्रपुरीष- वेगधारणाच शरीरे शैथिल्यं व्याधिनिदानमेव । तेन क्षुद्रादिभिः स्वपीडातिशयात् । " . । ,
४०
"
.
मनुस्मृतिः
[७.५२
मातर्यपि च मृतायां दीव्यत्येव । कृतकृत्येषु च न सुहृद्भिरपि कृष्यते । तप्तायसपिण्डवत्
परद्रव्याणि परिहरतो न प्रत्ययते च। क्षुधिते दुर्गतेऽन्नाद्युपपत्त्युपेक्षा विषयता सर्वगुणसंपन्नस्यापि
तृणवदवज्ञायेत । इति द्यूतदोषाः । स्त्रीव्यसने त्वपत्योत्पत्तिः प्रतिकर्मभोजनभूयिष्ठानुभवनं
धर्मार्थपरिग्रहः । शक्या च स्त्री राजहिते नियोक्तुमपवाहयितुं वा ।
स्त्रीमृगयाव्यसनयोः स्त्रीव्यसनं गरीयः। अदर्शनं कार्याणाम्, स्त्रीव्यसनसंगेन
राजकार्येषु च निर्वेदः कालातिपातनम्, धर्मलोपः, पानदोषानुबन्धः, अर्थप्नेषु चानृतादिषु
प्रसंग इति । मृगयायां तु व्यायामः पित्तश्लेष्मबन्धः, मेदादिनाशः, चले स्थिरे वा काये
लक्ष्यपरिचयः, प्रहरणे वैशारद्योपजननं ग्राम्यजनपरिजयश्चेति ।
एवं कामजस्य चतुष्कस्य वर्गस्य स्ववर्गे पूर्वं पूर्व पापीयः। क्रोधजस्यापि च दण्डपात-
दोषानुबन्धः अर्थघ्नेष्वेवानृतादिषु संगः ।
दण्डपातवाक्पारुष्ययोर्दण्डपातनं गरीयः । दण्डपातने हि शरीरविनाशादशक्यं प्रति-
संधानम् । वाक्पारुष्ये त्वमर्षजः शक्यते क्रोधाग्निः दानमानाम्भोभिः शमयितुम् ।
वाक्पारुष्यार्थदूषणयोक्पिारुष्यं गरीयः । तेजस्विनो हि पारुष्यवचनचित्तसंक्षोभे भयं
नासादयन्ति । तथा च प्रवादः
"स्थिरं साध्वसितं काण्ड भित्त्वा वाऽस्थिप्रवेशितम् ।
विशल्यमङ्गं कुर्वन्ति न वाचो हृदयादपि ॥"
"रोहते सायकैविद्धं वनं परशुना हतम् ।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ।।"
भाग्यायत्तत्वादर्थस्येति न तेजस्विनोऽर्थदूषणं गणयन्ति । एवमेतयोर्वर्गयोः पूर्वस्य पूर्वस्य
गरीयस्त्वं निदर्शितम् ॥५२॥
(२) सर्वज्ञनारायणः । एतस्मिन्सप्तके यथायथं सर्वं गणद्वयमन्तर्भवति तौर्य-
त्रिकादेः स्त्रीरागादिकृतत्वात् अर्थदूषणादेश्च पैशुन्यादावप्यनुषङ्गादित्यर्थः । पूर्व पूर्वमिति ।
द्यूतं हि स्त्रीभ्य: कष्टं; द्यूते धननाशनियमात् भोगसुखस्य चाभावात् स्त्रीणां सुखहेतु-
त्वादित्यादि। एवं क्रोधजगणे विज्ञेयम् ॥५२॥
(३) कुल्लूकः । अस्य पानादेः कामक्रोधसंभवस्य सप्तपरिमाणस्य व्यसनवर्गस्य
सर्वस्मिन्नेव राजमण्डले प्रायेणावस्थितस्य' पूर्वपूर्वव्यसनमुत्तरोत्तरात्कष्टतरं प्रशस्तात्मा
राजा जानीयात् । तथा हि-छूतात्मानं कष्टतरं, मद्यपानेन मत्तस्य संज्ञाप्रणाशाद्यथेष्टचेष्टया
देहधनादिविरोध इत्यादयो दोषाः। द्यूते तु पाक्षिकी धनावाप्तिरप्यस्ति । स्त्रीव्यसनात् द्यूतं
दुष्टं, द्यूते हि बैरोद्भवादयो नीतिशास्त्रोक्ता दोषाः । मूत्रपुरीषवेगधारणाच्च व्याध्युत्पत्तिः ।
स्त्रीव्यसने पुनरपत्योत्पत्त्यादिगुणयोगोऽप्यस्ति । मृगयास्त्रीव्यसनयोः स्त्रीव्यसनं दुष्टं,
तत्रादर्शनकार्याणां कालातिपातेन धर्मलोपादयो दोषाः । मृगयायां तु व्यायामेनारोग्या-
दिगुणयोगोऽप्यस्तीत्येवं कामजचतुष्कस्य पूर्वं पूर्वं गुरुदोषम् । क्रोधजेष्वपि त्रिषु वाक्पारुष्या-
दण्डपारुष्यं दुष्टम् ; अङ्गच्छेदादेरशक्यसमाधानत्वात् । वाक्पारुष्ये तु कोपानलो दानमान-
पानीयसेकैः शक्यः शमयितुम्, अर्थदूषणाद्वाक्पारुष्यं दोषवन्मर्मपीडाकरं; वाक्प्रहारस्य दुश्चि-
कित्स्यत्वात् । तदुक्तं 'न संरोहयति वाकृतम्'। अर्थदूषणं तु प्रचुरतरार्थदानाच्छक्यसमाधानम् ।
एवं क्रोधजत्रिकस्यापि पूर्वं पूर्वं दुष्टतरं यत्नतस्त्यजेत् ॥५२॥
७.५२] व्याख्यानवकोपेता ४१ " (४) राघवानन्दः । सप्तकस्य पानाद्यर्थदूषणान्तस्य सर्वत्रानुषङ्गिणः इहामुत्र दुःख- हेतुत्वाद्व्यसनस्य । व्यसनमिति परिभाषितस्य गुरुतरत्वं प्रपञ्चितम् ॥५२॥ (५) नन्दनः। अत्रोभये तारतम्यमाह सप्तकस्येति । वर्गद्वयान्तर्गतबहुत्वापेक्षया वर्गस्येति निर्धारणे षष्ठी। सर्वत्र प्राज्ञेषु मूढेषु चाविशेषेणानुषङ्गिणः । सजातीयापेक्षोऽयं पूर्वशब्दः न सर्वापेक्षः । कुतः ? कामजेभ्यः क्रोधजानां गौरवस्य प्रतिपादितत्वात् ॥५२॥ (६) रामचन्द्रः । आत्मवानस्य सप्तकस्य पानादिवर्गस्य आत्मनः पूर्वं पूर्वं व्यसनं गुरुतरं दुःखदं विद्यात् । कीदृशस्य सप्तकस्य ? सर्वत्र प्रसरणशीलस्य ॥५२॥ (८) गोविन्दराजः । सप्तकस्यास्येति । अस्य पानदण्डपातनादेः कामक्रोधोद्भवस्य सप्तपरिमाणगतस्य व्यसनगणस्य सर्वस्मिन्नेव राजमण्डले प्रायेणावस्थितस्य यद्यत्पूर्व पठितं व्यसनं तत्तत्परस्माद्दुष्टतरं प्रशस्तात्मा जानीयात् । द्यूतात्पानं दुष्टतरं, तत्र हि संज्ञाप्रणाशादयो नीतिशास्त्रोक्ता दोषाः, द्यूतेषु पाक्षिकी धनप्राप्तिरपि भवति । स्त्रीव्यसनात् द्यूतं दुष्टतरं, तत्र हि वैरोद्भवादयो नीतिशास्त्रोक्ता दोषाः, स्त्रीव्यसने पुनरपत्योत्पादि- गुणयोगोत्पत्तिः । मृगयायाश्च स्त्रीव्यसनं दोषवत्, तत्र हि कार्यान्तरादर्शनादयो नीति- शास्त्रोक्ता दोपाः, मृगयायां पुनर्व्यायामादिना गुणयोगोऽपि भवति । एवं कामजचतुष्कस्य पूर्वं पूर्व पापीय: । क्रोधजानामपि वाक्पारुष्याद्दण्डपारुष्यं दुष्टं, अङगच्छेदादिना अशक्यप्रतिकारत्वात् । वाक्पारुप्ये पुननिसन्मानादिना अति (स्ति) प्रतिसन्धानम् । अर्थदूषणाद्वाक्पारुष्यं दुष्टतरम् ; अरुन्तुदाक्रोशसन्तापोपशमनस्य दुःसहत्वात् । अर्थदूषणं पुनः प्रचुरतरार्थदानेन परिहर्तुं पार्यते। एवं क्रोधजत्रिकस्यापि पूर्वं पूर्व पापीयः; अतश्च यद्यदुष्टतरं तत्तदुर्व्यसनं परिहरेत् ॥५२॥ (९) भारुचिः । पानबूतयोः पानं गरीयः । तत्र हि संज्ञाप्रणाशः । अनुत्तमस्योन्मत्तत्वं... अप्रेतस्य प्रेतत्वं श्रुतप्रज्ञाप्रहाणं मिनहानि: सद्भिवियोग: असद्भिश्च प्रयोगः, (हि)तादिषु चार्थस्वप्नेषु प्रसङ्गः । रहस्यमन्त्रप्रकाशं मदवेगेनेति पानदोषः । द्यूते जितमेवाक्षविदुषा अनक्षस्यापि पाक्षिकः पराजयः । द्यूतस्त्रीव्यसनयोश्च द्यूतं गरीयः। येन तदैव जितद्रव्यः तस्यापि भवति । तथा तन्निमित्तो वैरानुबन्धः । जयस्साधारणः केवल: पराजयः । अनु- भक्तनाशः मूत्रपु (री) षवेगधारणाच्च शरीरतन्त्रशैथिल्यम् । व्याधिनिदानमासेवनेन क्षु (धा) दिभिश्च पीडातिशयेन मातर्यपि च मृतायां दीप्यत्येव कितवः कृच्छ्रेषु च पृच्छयमानः सुहृद्भिरपि कुप्यतीति द्यूतदोषः । स्त्रीव्यसनेऽर्थापत्त्योत्पत्तिः । प्रतिकर्म भोजनभूयिष्ठमनुसेवनं धर्मार्थपरिग्रहः । शक्ता च स्त्री राजहिते नियोक्तुमपवाहयितुं वा । स्त्रीमृगव्यसनयोः स्त्रीव्यसनं गरीयः । अदर्शनं कार्याणां स्त्रीव्यसनासङ्गेषु च राजकार्येषु निर्वेदः । कालातिपातनं धर्मलोपः पानदोषानुबन्धः । अर्थघ्नेषु च नृत्तादिषु प्रसङ्ग इति । मृगयायां तु व्यायामपित्तश्लेष्मवधः स्वेदादिनाशः । चले स्थिरे च काये लक्ष (क्ष्य) परिचयः । प्रहरणवैशारद्योपजननेन आसनपरिजयश्चेति (?) । एवं का मजस्य चतुष्कस्य स्ववर्गे पूर्वं पूर्व पापीयः, ततस्तेषां पूर्वं पूर्वं यत्नतः परिहरेत् । क्रोधजस्य तत्त्रिकस्य दण्डपातनवाक्पारुष्ययोर्दण्ड- पातनं गरीयः । दण्डपातने हि स शरीरविनाशादशक्यं प्रतिसन्धानम् । वाक्पारुष्ये त्वमर्षजः क्रोधाग्निः शक्यते दानमानाम्भोभिः शमयितुम् । वाक्पारुष्यार्थं भूषणयोर्वाक्पारुष्यं गरीयः ।
४२
मनुस्मृतिः
[७.५४
तेजस्विनो हि परुषवचनं चित्तसंक्षोभे भेषजानासाद्यते । तथा च प्रवादं स्थिरं साध्यमितं गाढं
भित्त्वा स्त्रीसंप्रवेशितं निःशल्यमङ्गेन कृन्तन्ति । न वाचो हृदयादधिसंरोहन्ति । शरैविद्धं वरं
परशुना हतं वाचा दुरुक्तं बीभत्सं न रोहति (वा) क्क्षतम् । भागायत्तत्वादर्थस्य च तेजस्विनोऽ-
र्थदूषणं न गणयन्ति । एवमेवास्यापि क्रोधजस्य त्रिकस्य पूर्वं पूर्वं गरीय इति व्याख्यातम् ॥५२।
व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते ।
व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः ॥५३॥
(१) मेधातिथिः । यद्यपि मृत्युव्यसने सर्वं हरेताम् तथाप्येवं विशेषः । मृत्यु-
रस्मिल्लोके सर्वहरः। व्यसनं पुनरिह चामुत्र च । तदिदमाह - व्यसन्यधोऽधो व्रजति, नरकं
गच्छतीत्यर्थः । 'व्यसनि'शब्देन अत्यन्तोऽभ्यास एतद्वर्गविषय उच्यते । अतश्चाभ्यास:
प्रतिषिध्यते । न त्वीषदासेवनम् । व्यसनभूता ह्येते धर्मार्थकामप्राणहरा भवन्त्यस्यापि पुरुषस्य
किं पुना राज्ञः। किंच असेवनमप्ययुक्तं पानादीनामशक्यं बेति । यतोऽभ्यासप्रतिषेधः ॥५३॥
(२) सर्वज्ञनारायणः। अधोऽध इहलोके परलोके च व्रजति ॥५३।।
(३) कुल्लूकः । यद्यपि मृत्युव्यसने द्वे अपीहलोके संज्ञाप्रणाशादिदुःखहेतुतया
शास्त्रानुष्ठानविरोधितया च तुल्ये तथापि व्यसनं कष्टतरं, परत्रापि नरकपातहेतुत्वात्
तदाह व्यसन्यधोऽधो व्रजति, बहून्नरकान्गच्छतीत्यर्थः । अव्यसनी तु मृतः शास्त्रानुष्ठान-
प्रतिपक्षव्यसनाभावात्स्वर्ग गच्छति । एतेनातिप्रसक्तिर्व्यसनेषु निषिध्यते नतु तस्य सेवन-
मपि ॥५३॥
(४) राघवानन्दः । व्यसनस्योभयत्रानर्थहेतुतामाह व्यसनस्येति । उक्तव्यसनज:
पापी अधो नरकं व्रजति । मृतस्तु मृतिमात्रेण तस्यैतत्पापाद्यसंभवात्स्वर्गम् ॥५३॥
(५) नन्दनः । एतत्सप्तकमवश्यं परिहरणीयमित्याह व्यसनस्येति ॥५३।।
(६) रामचन्द्रः । चत्वारि कामजानि, क्रोधजानि त्रीणि, एवं सप्तव्यसनस्य च
पुनः मृत्योः द्वयोर्मध्ये सप्तव्यसनं कष्टमुच्यते ॥५३॥
(८) गोविन्दराजः । व्यसनस्यति । मृत्युव्यसनयोर्मध्ये व्यसनं दुष्टतरं यस्माद् व्यसनी
यावदीर्वकालं जीवति तावत्तावच्छास्त्रार्थाऽतिकमाऽधिक्यादधिकतरं नरकं गच्छति । अव्यसनी
पुनर्मृतः शास्त्रानुष्ठानात् स्वर्गं व्रजति ॥५३॥
(९) भारुचिः । व्यसननिन्देयम् । सामान्यतस्तत्परिहारार्थं यद्यपि मृत्युव्यसने सर्वहरे
तथाप्ययमनयोविशेषः । मृत्युरस्मिन्नेव लोके सर्वहरः, व्यसनं पुनरुभयोरपि लोकयोरिति ।
अथवा यथाश्रुत एवास्य श्लोकस्यार्थो वचनीयः । एवं च ब्रुवता कामक्रोधजानां पुरुषधर्माणां
व्यसनीभूतानां प्रतिषेध उक्तो भवति । न त्वीषदासेवनेन येनाभ्यस्यमाना ह्येते व्यसनीभूता
धर्मार्थप्राणहरा भवन्ति । राज्यतन्त्रशैथिल्येन । अपि चात्यन्तसेवनमप्ययुक्तं राज्ञ अशक्यं
चेति । यतो व्यसनाख्यानामेषां प्रतिषेधः ॥५३॥
मौलाञ्च्छास्त्रविदः शूराँलब्धलक्षान्कुलोद्गतान् ।
सचिवान्सप्त चाष्टौ वा कुर्वीत सुपरीक्षितान् ॥ ५४॥
राज्ञा ७.५४] व्याख्यानवकोपेता ४३ (१) मेधातिथिः । पितृपितामहान्वयागता बहुसुतधनबान्धवाः प्रकटगोभूमिधनास्त- द्देशवासिनो मौलाः । 'मूलं' प्रतिष्ठा, तत्र भवा 'मौलाः' । शास्त्रविदः । 'शास्त्रं शासनं भृत्यविज्ञानम् । तेनान्येऽपि गुणा गृह्यन्ते । तद्यथा- प्राज्ञ: दृढकारी धारयिष्णुर्दक्षो वाग्मी प्रबल: प्रतिपत्तिमानुत्साहप्रभावयुक्तः क्लेशसहः शुचिर्दानशील: योग्यसत्त्वयुक्तः स्तंभचापलहीनः प्रियो वैरिणामकर्तेति । शूरशब्देन राजकार्ये शरीरकलत्रापत्यधनादिष्वपि निरपेक्ष उच्यते । तथा मरणेऽभीरुः, युद्धोत्साही, एक एव परिभवभयाबहुभिविरुध्यते । दृढप्रहारी बलवान् । लब्धलक्षाः। परिदृष्टकर्मतामनेनाह । दृष्ट खगव्यापाराः कृतार्थाधिकाराः अनुभूतमन्त्रिभूमयः । कुलोद्गतान् कुलांकुशनिगृहीता ह्यकार्ये न वर्तन्ते । सचिवान सहायान् । नित्यमेते राज्ञः पार्श्ववर्तिनो भवेयुः । सप्त वाऽष्टौ वा । नियमोऽयं येन चाल्प एकचित्ता भवन्ति । ततश्च राजमन्त्र उद्घाटितः स्यात् । बहूनामपि मन्त्रभेदः। तस्मादेतावन्त एव कर्तव्याः । सुपरीक्षितान् धर्मार्थकामभयोपधाभिः । सेयं परीक्षोच्यते । पुरोहितः - स्व (ल्प) काय व्याजेनाधिक्षिप्त: बहुनाऽर्थसंप्रदानेनाप्तपुरुषैरेकैकममात्यमुपजपेत् राजविनाशाय- 'एतच्च सर्वमन्त्रिभ्यो रोचते, अथ कथं भवते' इति प्रत्याख्याने 'धर्मोपधाशुध्दः' सेनापतिः केनचिदपदेशेन पूर्ववदधिक्षिप्तः बहुना च' संप्रदानेनाप्तपुरुषैरेकैकममात्य- मुपजपेत् राजविनाशाय - ‘एतच्च सर्वमन्त्रिभ्यो रोचते, अथ कथं भवते' इति प्रत्या- ख्याने 'धर्मोपधाशुद्धः' । सेनापतिः केनचिदपदेशेन पूर्ववदधिक्षिप्तः बहुना च संप्रदानेनाप्त- पुरुषैरेकैकममात्यमुपजपेत् राजविनाशाय 'एतच्च सर्वमंत्रिभ्यो रोचते, अथ कथं भवते' इति प्रत्याख्याने 'अर्थोपधाशुद्धः' । परिव्राजिका अन्तःपुरे लब्धविश्वासा एकैकम- मात्यमुपजपेत् -- 'सा राजमहिषी भवन्तं कामयते कृतसमागमोपायेति' प्रत्याख्याने 'कामोपधाशुद्धः' । राजप्रयुक्ता एव केचित्पुरुषाः प्रवादमाविष्कुयुः, 'कृतसमयैरमात्यै राजा हन्यत' इति । उपलब्धप्रवादः पुरोहितस्याप्तः कश्चिदमात्येषु मन्त्रं श्रावयेत् -- 'इमं प्रवादमुपश्रुत्य भवतां निग्रहो राज्ञा क्रियत' इति । तेषामेव चान्यतमः पूर्वमेव कृतसंवित्क: प्रत्येक राजामात्येषूत्साहयेत् । तत्र ये प्रत्याचक्षते ते 'भयोपधाशुद्धाः' । अथवा मौलांस्तावत्कुर्यादर्थप्रमादकर्तृसंनिधातॄन् । ये अर्थ ग्रामेभ्यः समाहरन्ति समाहृतं च रक्षन्ति विनियुञ्जते च। सर्वथाऽर्थव्यवहारिणो 'मौलाः' कर्तव्या इत्युक्तं भवति । शास्त्रविदो बुद्धिसचिवा मन्त्रिणः । शूरान् बलाध्यक्षान् । लब्धलक्षानित्यादि सर्वेषां विशेषणमेकैकस्य । समुदितपरीक्षा च योक्ता राजविषया राजामात्येषत्साहनमिति, सा न युक्तेति मन्यन्ते। एष एव हि शुद्धिभेदो भवेदमात्यानाम् । तस्मादन्या काचित्स्त्री साध्वी प्रयोज्या, अन्यश्च विनाशविषय उदाहार्यः ॥५४।। (२) सर्वज्ञनारायणः । मौलान् परंपरायातान् । लब्धलक्षान् युद्धादिप्रवेशेन दृष्टशस्त्रशास्त्रज्ञानशक्तितया गृहीतसंवादान् । सुपरीक्षितान् अर्थशुचित्वादिना ॥५४॥ (३) कुल्लूकः। मौलान् पितृपितामहक्रमेण सेवकांस्तेषामपि द्रोहादिना व्यभि- चारादृष्टादृष्टार्थशास्त्रज्ञान्विक्रान्ताँल्लब्धलक्षाल्लक्षादप्रच्युतशरीरशल्यादीनायुधविद इत्यर्थः। विशुद्धकुलभवान्देवतास्पर्शादिनियतानमात्यान्सप्ताष्टौ वा मन्त्रादौ कुर्वीत ॥५४॥ m- -- : ४४ मनुस्मृतिः [७.५४ (४) राघवानन्दः। सुसहायेनेत्युक्तं, तत्र विशेषणविशिष्टान्सहायानाह मौलानिति। पितृ पितामहक्रमेण सेवका मौला विख्यातपितृपितामहा वा। शास्त्रविदः नीतिशास्त्रविदः । शूरानिति । शूरहीनं राज्यं परैराक्रम्यते यतः । भीरूणां सहाय्यानुपपत्तेश्च । लब्धलक्षान् लक्ष्यादप्रच्युतशरादीन् युध्दे कुशलान् । कुलोद्गतान् सत्कुलजान्, मौलत्वेऽपि संकरजार- जादिव्यावृत्त्यर्थम् । सुपरीक्षितान् देवतादिस्पर्शकृतशपथान् स्त्रीधनादिलोभोत्तीर्णान्वा । सचिवान् सहायान् साचिव्यं यत्कृतं स्मृतं तत् । सप्त चाष्टौ वेति विकल्पो बहुविषयाद्यपेक्षया ।।५४॥ (५) नन्दनः । अथामात्यलक्षणमाह मौलानिलि । मौलान् कुलक्रमागतान् । लब्धलक्षान्सर्वकालेषु सिद्धफलान् ॥५४॥ (६) रामचन्द्रः । मौलान् पितृपितामहादिक्रमागतान् कुलोद्भवान् विशुद्धकुल- संभूतान् एतादृशान्सचिवान्कुर्वीत ॥५४॥ (८) गोविन्दराजः । मौलानिति । पित्राद्यन्वयायातान् स्नेहातिशयेनाव्यभिचारार्थं दृष्टादृष्टार्थशास्त्रज्ञान् दृष्टादृष्टमर्यादानुल्लङ्घनार्थं विक्रान्तान् शरीरानपेक्षं प्रभुवृत्त्यर्थं पुनः कृतराजकार्यानसंमोहेन कर्मसंपत्त्यर्थम् । कुलीनान् कुलाभिमानेनाव्यभिचारार्थम् । धर्मार्थ- कामभयविषये चारप्रयोगादिद्वारेण कृतपरीक्षान् शुद्धान् सप्त चाष्टौ वाऽमात्यान् सहाय- भूतान् मंत्रादौ कुर्वीत ॥५४॥ (९) भारुचिः । एवमव्यसनस्य राज्ञो गुणवत्सहायसम्पदर्थममात्यलक्षणमिदमधु- नोच्यते-अन्वयमन्वयागता जानपदाश्च मौलाः । शास्त्रविद्ग्रहणेन तु सर्वेऽमात्यगुणा गृह्यन्ते, सामर्थ्यात् । तद्यथा-प्राज्ञः सुविग्रहः धारयिष्णुः दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमानुत्साहप्रभाव- गुणयुक्तः क्लेशसहः शुचिर्मैत्र: शीलबलारोग्ययुक्तस्तम्भचापलहीन: वैरा. . . . . कार्येषु शरीरकलत्रापत्यधनादिष्वपि निरपेक्षो अथवा प्रसिद्धय पेक्ष एवास्यार्थः । लब्धलक्षग्रहणेन च परिदृष्टाभ्यस्ततत्तत्कर्मा गृह्यते। . . . कार्येषु न प्रवर्तन्ते । सचिवशब्द: सहायपर्यायः । सप्ताष्टग्रहणं नियमार्थम् । येनाल्पानामेकचित्ततादोषः । बहूनां मन्त्रभेद: पक्षवि . . .परीक्षोच्यते । पुरोहितः स्वल्पे कार्ये राज्ञा व्याजेनाक्षिप्तः अमृष्यमाणः सशपथमेकैकममात्यमुपजपेत् । अधार्मिकोऽयं राजा. . राजा. . . साधु धार्मिकमेक कुलीनमवरुद्धमेकप्रग्रहमसामन्तमाटविकं वा प्रतिपादयामः । अन्येभ्यश्च मन्त्रिभ्य एतद्रोचते भवतस्तु कथमिति प्रत्याख्याते धर्मोपधाशुद्धः । सेनापतिरसत्प्रतिग्रहेणावक्षिप्तो राज्ञा सर्वप्रत्यक्षं बहुनार्थसम्प्रदानेनाप्तपुरुषैरेकैकममात्यमुपजपेद्राजविनाशाय । एतच्च सर्वमन्त्रिभ्यो रोचते कथं भवत इति प्रत्याख्यातेऽर्थोपधाशुध्दः । परिवाजिकान्तःपुरे लब्धाविश्वासा (ए) कैकममात्यमुपजपेद्राजमहिषी भवन्तं कामयते। तत्कृतसमागमोपाया प्रत्यवाप्तपुरुषः कश्चिदमात्येषु मन्त्रमवस्रावयेदिदं प्रवादमुपश्रुत्य भवतां निग्रहो राज्ञावधृत इति । तेषामेव चान्यतमः कृतसंवित्कः प्रत्येक तान् राजापत्येषूत्साहयेत् । तत्र ये प्रत्याचक्षते त... भयोपधाशुद्धाः । अथवा मौलांस्तावत् कुर्यादर्थसमाहर्तृन् सन्निधातॄनर्थव्यवहारिणः शास्त्रविदः कुर्यात् प्रज्ञासचिवम् । शूरांस्तु दण्डातिशयव्यवहारिणः कुर्यात् । सर्वांश्चैतान् लब्धलक्षान् दष्टशौचानुरागसामर्थ्यानित्यर्थः । कुलोद्गतानिति चैतत् सर्वेषां पूर्ववद्विशेषणम् । सचिवान् गम्यते ।
- । ७.५६] व्याख्यानवकोपेता सप्त वाष्टौ वेति यथासम्भवं राजकार्येषु प्रसमीक्ष्य कुर्यात् । सुपरीक्षितानिति चैतत् सर्वामात्यविशेषणम् । कथं प्रणिधिभिः सर्वोपधाशुद्धानित्यर्थः । इयं परीक्षा राजविषयादन्यत्र । न पूर्ववदितरथा ह्येतदेव बुद्धिभेदेन हेतु: स्यात् । अमात्यानां व्युत्पत्तौ अमात्यसंपरिग्रहप्रयोजन- मधुना बैकस्य पुनर्हेतोरिमे अमात्या नानाकर्मप्रयोजना राज्ञा परिगृह्यन्ते ।।५४।। अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् । विशेषतोऽसहायेन किं नु राज्यं महोदयम् ॥ ५५ ॥ (१) मेधातिथिः । यत् सामान्यं गृहस्थस्य गृहकृत्यं गोऽश्वादिपालनं सुकरमिति स्थितम् । स एव गां पालयति स एव दोन्धि । न शक्यमेतदेकेन कर्तुम् । तदप्येकेन दुष्करं विशेषतोऽसहायेन दुष्करमशक्तेन न शक्यं कर्तुम् । कथं ह्येको गां चारयति, कथं च भार्यां रक्षतु । राज्यं तु प्रतिमहारंभमुदय कर्म, तद्योगः फलवांश्च । अपेक्षमाणस्य महत्फलमुदेति। न चैकेन पाड्गुण्यं वेदितुं शक्यम् । तस्मादात्मसमा: परीक्षिताः सहायास्तेषु तेषु कार्येषु कर्तव्याः ॥५५॥ (२) सर्वज्ञनारायणः । विशेषतो राज्यं महोदयमसहान दुष्करमिति किमु किमाश्चर्यमित्यर्थः ॥५५।। (३) कुल्लूकः । यस्मात् अपीत्यादि । सुखेनापि यत्क्रियते कर्म तदप्येकेन दुष्कर भवति, विशेषतो यन्महाफलं तत्कथमसहायेन क्रियते ? ॥५५॥ (४) राघवानन्दः। एकाकिना किमिति न क्रियेत तत्राह अपोति । अपि: संभाव- नायाम्। सुकरं गोदोहनशिबिकोद्वहनादि। महोदयं महत्कार्यं महत् ऐश्वर्यादेः शत्रुजयादेर्वा उदयो यस्मात्तत् ॥५५॥ (५) नन्दनः । अत्र हेतुमाह अपीति । यत एवमतः ॥५५॥ (६) रामचन्द्रः। अपि निश्चयेन यत्कर्म सुकरं स्यात्तत्कर्मासहायेन विशेषतः कर्तुं दुष्करम् एवंविधं महोदयं राज्यं कि किमपीत्यर्थः ॥५५।। (८) गोविन्दराजः। यस्मादपोति। विशेषतोऽसहायेन किमु राज्यं महोदयम्। यदपि कर्म कर्तुं शक्यते, तदप्येकस्य दुःसाध्यं भवति; विशेषेण राज्यं यन्महाफलं तत्कथमसहायेन कर्तुं शक्यते ॥५५॥ (९) भारुचिः। एवं च सति मन्त्रिणामविधानादन्यत्रैत एव यथासम्भवं राज्ञो मन्त्रिण: स्युः। तथा च कृत्वोक्तमेवे (के)ति । तत्र ये तेषां मन्त्रसचिवाः ॥५५।। तैः सार्धं चिंतयेन्नित्यं सामान्यं संधिविग्रहम् । स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥५६॥ (१) मेधातिथिः । तैर्बुद्धिसचिवमख्यैश्चार्थाधिकारिभिः सह सामान्यं, यन्नातिरहस्यं तच्चिन्तयेत्सन्धिविग्रहम् । 'किं सन्धिः संप्रति युक्तोऽथ विग्रहः'-उभयत्र गुणदोषान्विचारयेत् । इदं कर्तव्यावधारणं तु स्वबुद्धया कुर्याद्यथाऽस्य परप्रयोज्यता न भवति । ....... इदं : चापरं चिन्तयेत्-स्थानम् च तच्चतुर्विधम्, दण्डकोशपुरराष्ट्राणिः। तत्र दण्डो - . मनुस्मृतिः [७.५६ हस्त्यश्वरथपदातयः। तेषां प्रतिकर्म पोषणरक्षणादि चिन्त्यम् । न ह्यसमाधानं प्रधानम् । तथा कोशस्य हेमरूप्यबाहुल्यं प्रचुररूप्यताआयव्ययलक्षणं च । कोशस्य यानि न्याय- स्थानानि तानि न व्ययितव्यानि, न विलम्बनीयानि भृत्यानाम् । तथा राष्ट्रस्य देश- पर्यायस्य स्वाजीव आत्मसंधारणं परसंधारणेन नदीवृक्षाः पशवः शत्रुद्वेषाक्रान्तप्रायः गुप्तिगोचरः पशुमान् अदेवमातृक: आपदि च दण्डकरग्रह इत्येवमादि । पुरस्य वक्ष्यति "तत्स्यादायुधसंपन्नमिति” (७/७५) । अथवा स्थानं स्वदेशाच्चाप्रच्यवनम् । एवं समुदयोऽपि चिन्त्यः । तत्र कृषिजगुल्मस्थानानि वाणिज्यशुल्कदण्ड इत्ये- वमादि। गुप्ति स्वराष्ट्रगता वक्ष्यति । लब्धप्रशमनं च देवताश्रमविद्यावतां धार्मिकाणां च मानदानत्यागायोगः उदितानां चाभ्यनुज्ञानं सर्वबन्धनमोक्षः। अनुग्रहो दीनव्याधितानाम् । उत्सवानां चापूर्वाणां प्रवर्तनम्। प्रवृत्तानामनुवृत्तिः । यच्च कोशदण्डोपाधिकमधार्मिकचरित्रं तदपनीय धर्मव्यवहारान् स्थापयेत् । अधर्म- चारित्रमकृतमन्यस्य कृतं वाऽन्यैः प्रवर्तयेत् । न वा धर्मकृतं चान्यनिवर्तयेदिति । एवं स्थानादीनि चिन्त्यानि ॥५६।। (२) सर्वज्ञनारायणः। सामान्यं सर्वमेव क्वचिद्विकारे पुनरविश्वासात् । संधि- विग्रहाभ्यां षाड्गुण्योपलक्षणम् । स्थानं दण्डकोशपुरराष्ट्र, तत्र हि राजा स्थितः । समुदयं वार्तोपायं ततो धनस्योदयः । गुप्ति लब्धस्य रक्षोपायम् । सर्वप्रशमनं जित्वा ब्राह्मण- पूजनमित्यादि । 'जित्वा संपूजयेद्देवानिति'च वक्ष्यति ॥५६॥ (३) कुल्लूकः । सचिवैः सह सामान्यं मन्त्रेष्वगोपनीयं संधिविग्रहादि तन्निरूप- येत्तथा तिष्ठत्यनेनेति स्थानं दण्डकोशपुरराष्ट्रात्मकं चतुर्विधं चिन्तयेत् । दण्डयतेऽनेनेति दण्डो हस्त्यश्वरथपदातयः; तेषां पोषणं रक्षणादि तच्चिन्त्यं, कोशोऽर्थनिचयः तस्यायव्य- यादि पुरस्य रक्षणादि राष्ट्र देशः तद्वासिमनुष्यपश्वादिधारणक्षमत्वादि चिन्तयेत्तथा समुदयंत्युत्पद्यन्ते 'अस्मादर्था इति समुदयो धान्यहिरण्याद्युत्पत्तिस्थानं तन्निरूपयेत्तथा गुप्ति- रक्षामात्मगतां राष्ट्रगतां च स्वपरीक्षितमन्नाद्यमद्यात्परीक्षिताः स्त्रियश्चैवमित्या दिनात्मरक्षणं 'राष्ट्रस्य संग्रहे नित्यमि' (७/११२)त्यादिना राष्ट्ररक्षां च वक्ष्यति। लब्धस्य च धनस्य प्रशमनानि सत्पात्रे प्रतिपादनादीनि चिन्तयेत्तथा च वक्ष्यति (७/२०१) 'जित्वा संपूजयेद्देवानि'त्यादि ॥५६॥ (४) राघवानन्दः । किंच तैरिति । सामान्यं यदपि गोप्य सन्धिविग्रहं तत षट्कम् । स्थानं अवस्थीयतेऽनेनेति राजदण्डकोशपुरराष्ट्रात्मकं । तत्र दण्ड: पणादिरूपो हस्त्यश्वरथपदातयो वा । समुदयं धान्यहिरण्याद्युत्पत्तिस्थानम् । गुप्तिमात्मनो राष्ट्रस्य रक्षाम् । लब्धस्य धनस्य प्रशमनानि सत्पात्रप्रतिपादनानि च । तैः सह चिन्तयेदित्य- नुषज्यते ॥५६॥ (५) नन्दनः । सामान्यं समानत्वम् । द्वैधीभाव इत्युभयोद्विषतोः समानो हि द्वैधीभावः। यथोक्तं कामन्दकेन 'बलिनोद्विषतोर्मध्ये वाचात्मानं समर्पयन् । द्वैधीभावेन वर्तेत काका- क्षिवदलक्षितः' इति । स्थानमासनम्। समुदयं यानम् । गुप्तिमात्मगुप्ति संश्रयमिति यावत्। आत्मगुप्तिलक्षणो हि संश्रयः । तथोक्तं कामन्दकेन 'उच्छिद्यमानो बलिना निरुपाय- प्रतिक्रियः । कुलोद्गतं सत्यमार्य संश्रयेत बलोत्कट'मिति ॥ षाड्गुण्यात्स्वोपलब्धस्य --------- ७.५७]] व्याख्यानवकोपेता ४७ परराष्ट्रस्य रञ्जनम् । अनुरागप्रतापाभ्यां लब्धप्रशमनं स्मृत'मिति च तेनैवोक्तम् ॥५६॥ (६) रामचन्द्रः। तैः सचिवैः सार्धं विग्रहादिकं चिन्तयेत्। सन्धिः व्यवस्थाकरणं विग्रहोऽपकारः। स्थानं आसनं उपेक्ष्य संशयः गुप्तिः रक्षा लब्धस्य धनस्य प्रशमनानि पात्रेषु प्रतिपादनानि ॥५६॥ (८) गोविन्दराजः। तैरिति । तैः सचिवैः सह सर्वदा यच्चातिरहस्यं संधिविग्रहादि वक्ष्यमाणं तद्विचारयेत् । तथा तिष्ठत्यनेनेति स्थानं दण्डकोशपुरराष्ट्राख्यं चिन्तयेत् । तत्र दण्डो हस्त्यश्वरथपदात्यात्मकस्तस्य पोषणादि चिन्त्यम् । कोशोऽर्थनिचयस्तस्य व्ययादि चिन्त्यम् । पुरस्य तस्यायुधसम्पन्नमिति वक्ष्यति । राष्ट्र देशस्तस्य च राष्ट्रिय- जनपश्वादिरणाक्षमत्वादि चिन्त्यम् । तथा समुद्यन्त्युत्पद्यन्तेऽस्मादा इति समुदयः, कृष्यादिधान्यहिरण्यादि स्थानं ( = उत्पत्तिस्थानं) तच्चिन्तयेत् । गुप्ति रक्षामात्मगतां, सुपरीक्षितमन्नाद्यमद्यात् । 'परीक्षिताः स्त्रियश्चैन'मित्यादिना (७/२१९) वक्ष्यति राष्ट्रगतां च 'राष्ट्रस्य संग्रहे नित्य'मित्यादिना (७/२१२)अभिधास्यति, लब्धप्रशमनानि च 'जित्वा संपूजयेद्देवा नि'ति (७/२०१) वक्ष्यति ॥५६॥ (९) भारुचिः। तैः सह सन्धिविग्रहादौ षाड्गुण्ये सामान्यं गुणदोषबलाबलं विचारयेत् । स नातिरहस्यम् । यत्त्विदं कर्तव्यावधारणं परमरहस्यं तत्स्वचित्तेनैव व्यवस्येत् । एवमस्य राज्ञः परप्रणेयता न भवति । किञ्चान्यत् स्थानं तैस्सार्धं चिन्तयेदिति वर्तते । तत् पुनश्चतुर्विधम् । दण्डकोशपुरराष्ट्राणि । तत्र दण्डो हस्त्यश्वरथपदातयः। तेषां प्रतिकर्म पोषणरक्षणादि चिन्त्यम् । तथा कोशस्य हेमरूप्यबाहुल्यम् आयव्ययरक्षणानि च चिन्त्यानि । तथा राष्ट्रस्य देशपर्यायस्य स्वाजीव्य आत्मसाधारण: परस्यासाधारणो न च दुरारक्ष्यः । परशल्यः शत्रुवेषी सीताप्रायो गुप्तगोचरः । पशुमा (न्) देवमातृकः । आपदि पद्दण्डकर- सह (? ) इत्येवमादि चिन्त्यम् । पुरस्य वक्ष्यति । तत्स्यादायुधसम्पन्न' (७/७५) इत्येवमादि अथवा स्थानं स्वदेशादप्रच्यवनम् । एवं समुदयाश्चिन्त्याः । ते च कृषिागुल्मस्थानं वणिक्पथः शुल्कमण्ड इत्येवमादयः। गुप्ति स्वराष्ट्रगतां वक्ष्यति । लब्धप्रशमनानि देवाश्रमपूज.. विद्यावतां धार्मिकाणां च शूराणां च दानमाना (भ्यां) योगः उचितानां चाभ्यनुज्ञानं सर्वबन्धनमोक्षः अनुग्रहो दीनाना (थ) व्याधितादीना (मनु)त्साहानां चापूर्वाणां . . दण्डोपघातकर्माधार्मिकं वा । चारित्रं तदपनीय धर्मव्यवहारार्थं स्थापयेत् । आह च- चारित्रमकृ . . .। एवं स्थानादीनि चिन्त्यानि ॥५७।। तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक् पृथक् । समस्तानां च कार्येषु विदध्याद्धितमात्मनः ॥ ५७॥ (१) मेधातिथिः । तेषां पृथक् पृथगेकैकस्य रहस्यभिप्राय हृदयनिहितं भावमुपलभ्य । समस्तानां संहतानाम् । यत्कारणं कश्चित्पुरुषः परिषदि अप्रतिभानवान्भवति, रहसि प्रगल्भः, कश्चित्परिषद्यासादितप्रज्ञः । ततश्च तान्समस्तान्पृच्छेत् । ततः स्वयं यद्युक्ततरं हितमात्मने तद्व्यवस्येद्विवध्यात् । तत्प्रामाण्यं तेषामेवा- न्यतमेनोपदिष्टं वा यदप्रत्यनीक 'निर्दोषं च ॥५७॥ . . . चान्यैः प्र .
४८
मनुस्मृतिः
[७.५९
(२) सर्वज्ञनारायणः । पृथक् प्रत्येकम् । समस्तानां संभूयालोच्य वदताम् ॥५७॥
(३) कुल्लूकः । तेषां सचिवानां रहसि निष्प्रतिपक्षतया हृदयगतभावज्ञानसंभ-
वात्प्रत्येकमभिप्रायं समस्तानामपि । युगपदभिप्रायं बुद्ध्वा कार्ये यदात्मनो हितं तत्कुर्यात् ॥५७॥
(४) राघवानन्दः । तथापि पृथक्पृथगिति रहसि पूर्वं प्रत्येकं भावं ज्ञात्वा
पश्चात्समस्तानां तेषां कार्येषु युगपद्भावं बुद्ध्वाऽऽत्महितं विदध्यादिति भावः ॥५७॥
(५) नन्दनः। समस्तानां संगतानाम् ॥५७॥
(६) रामचन्द्रः । तेषां समस्तानां स्वं स्वमभिप्रायमुपलभ्यात्मनो हितं हितकार्य
विदध्यात् कुर्यात्, कर्तव्यमित्यर्थः ॥५७।।
(८) गोविन्दराजः। तेषामिति । तेषां सचिवानां रहः प्रगल्भतरसंभवात् पृथक्पृथक्
स्वं स्वं मतं कार्येषु विज्ञाय पर्षत्प्रगल्भसंभवाच्च समस्तानामपि युगपदभिप्रायं बुद्ध्वा
यदात्मने हितं तत् कुर्यात् ॥५७।।
सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता ।
मंत्रयेत्परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥५८॥
(१) मेधातिथिः। विपश्चिता विदुषा अर्थशास्त्रज्ञेन । परं मंत्रमत्यन्तं गोपनीयं
मन्त्रयेत् । षाड्गुण्ययुक्तम् । अधिकतरप्रज्ञो हि ब्राह्मणः, धार्मिकत्वाच्च विश्वसनीयः ॥५८॥
(२) सर्वज्ञनारायणः। सर्वेषां सर्वेभ्यः ॥५८॥
(३) कुल्लूकः । एषामेव सर्वेषां सचिवानां मध्यादन्यतमेन धार्मिकत्वादिना
विशिष्टेन विदुषा ब्राह्मणेन सह संधिविग्रहादिवक्ष्यमाणगुणषट्कोपेतं प्रकृष्टं मंत्र
निरूपयेत् ॥५८॥
(४) राघवानन्दः । किंच सर्वेषां त्विति । सर्वेषां मध्ये विशिष्टेन स्वभावतोऽ-
कुटिलादिगुणवता कार्याणां च षाड्गुण्यं वक्ष्यमाणम् । 'आत्मबुद्धिः सुखकरी गुरुबुद्धि-
विशेषत' इति न्यायात् ॥५८॥
(५) नन्दनः । परमं कार्यनिर्णयकरम् । षाड्गुण्यसंयुतं षाड्गुण्यविषयम् ।
षड्गुणा एव षाड्गुण्यम् ॥५८।।
(६) रामचन्द्रः। सर्वेषां मन्त्रिणां मध्ये विशिष्टेन ब्राह्मणन राजा परं मन्त्रं
मंत्रयेत् । कीदृशं मन्त्रं ? षाड्गुण्यसहितम् । षाड्गुण्यमाह–सन्धिर्ना विग्रहो यानमासनं
द्वैधमाश्रय' इत्यमरः ॥५८॥
(८) गोविन्दराजः । सर्वेषामिति । एषामेव सर्वेषां मध्यादन्यतमेन गुणाऽतिशयवता
अत्यन्तविदुषा ब्राह्मणेन सह सन्धिविग्रहादि वक्ष्यमाणगुणषट्कयुक्तं प्रकृष्टमन्त्रं राजा
विचारयेत् ॥५८॥
(९) भारुचिः। अधिकतरप्रज्ञो हि ब्राह्मणो धार्मिकत्वाच्च निर्दोषतया विश्वस-
नीयः । एवं च सति ॥५८॥
नित्यं तस्मिन्समाश्वस्तः सर्वकार्याणि निक्षिपेत् ।
तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥ ५९॥
४९ ७.६०] व्याख्यानबकोपेता (१) मेधातिथिः । तादृशि ब्राह्मणे सर्वराष्ट्रमंडलं निक्षिप्य विश्वस्तो राज्यसुखं भुजीत च । तेन सह विनिश्चित्य यानासनादि कर्म व्यवहारसंग्रहादि समाचरेत् ॥५९॥ (२) सर्वज्ञनारायणः । निक्षिपेत् समर्पयेत् ॥५९॥ (३) कुल्लूकः। सर्वदा तस्मिन् ब्राह्मणे संजातविश्वासो भूत्वा यानि' कुर्यात्तानि सर्वकार्याणि समर्पयेत् तेन सह निश्चित्य सर्वं करिभेत् ॥५९।। (४) राघवानन्दः । तत्रापि ब्राह्मणमेव महीकरोति नित्यमिति । तेन विपश्चिता ब्राह्मणेनाण्वपि कार्यमविचारितं न कुर्यादित्यर्थः ॥५९॥ (५) नन्दनः । तस्मिन् ब्राह्मणे । समाश्वस्तो विश्वस्तः ॥५९॥ (६) रामचन्द्रः। अस्मिन् ब्राह्मणे समाश्वस्तः कृतविश्वासः सर्वकर्माणि निक्षिपेत् । तेन ब्राह्मणेन सार्धम् ॥५९॥ (८) गोविन्दराजः । नित्यमिति। तस्मिन्ब्राह्मणे सम्यक् निर्विशङ्कः संजातविश्वासो भूत्वा सर्वदा सर्वकार्याणि समर्थ (प? ) येत् । यद्यपि चात्मना कुर्यात्तदपि तेन सह निश्चयीकृत्य ततोऽनुतिष्ठेत् ॥५९।। (९) भारुचिः। परतः प्रज्ञामुपादित्समानस्तान्मन्त्रि...ञ्च पृच्छेत् । समस्ताश्च यत्कारणं कश्चिद्धि पुरुषः परिषद्यप्रतिभानवान् भवति रहसि च प्रगल्भः परिषदि च मदितप्रज्ञो भवति। यतस्तानपेक्ष्योभयथा पृच्छेत् . . .ते यदुक्तवन्तस्तद्वयवस्येत् । तदन्य- तमोपदिष्टं यावत् प्रत्यनीकं निर्दोषं च ॥५९॥ अन्यानपि प्रकुर्वीत शुचीन्प्राज्ञानवस्थितान् । सम्यगर्थसमाहर्तनमात्यान्सुपरीक्षितान् ॥६० ॥ (१) मेधातिथिः। यदुक्तं 'सप्त चाष्टौ वेति' (५४) तस्यायमपवादः। अर्थसमाहर्तृन् संनिधातॄन्सुपरीक्षितानुपधाभिः कुर्यात् ॥६०॥ (२) सर्वज्ञनारायणः । शुचीनलोलुपान् । अवस्थितान् स्थिरस्वभावान् । 'कुलोद्ग- तानि'ति क्वचित्पाठः । अर्यसमाहर्तृन् राष्ट्रेष्वर्थोत्पादनरक्षादिकर्तृन् । प्रागुक्तेभ्योऽष्टभ्योऽ- मात्यानन्यानपि कुर्वीत ॥६०॥ (३) कुल्लूकः । अन्यानित्यादि । अन्यानपि' अर्थदानादिना शुचीन प्रज्ञाशालिनः सम्यग्धनार्जनशीलान्धर्मादिना परीक्षितान् कर्मसचिवान् कुर्यात् ॥६०॥ (४) राघवानन्दः । किंच' अष्टातिरिक्तानपि कुर्यादित्याह अन्यानिति द्वाभ्याम् । अवस्थितान् अभीरून् । सम्यगर्थसमाहर्तृन् अव्याजेनार्थहारकान् । अमात्यान् यरमा सह दुष्कराण्यापि कार्याण्यत्यति तान् ॥६॥ (५) नन्दनः । एवं मन्त्रसहाया उक्ताः, अधुना कार्यसहायानाह अन्यानिति । अवस्थितान्व्यवस्थितान् अर्थसमाहर्तृन्कार्यकरान् प्रकुर्वीताधिकुर्वीत ॥६०॥ (६) रामचन्द्रः। सम्यक् अर्थस्य द्रव्यस्य समाहर्तृन् आनयितॄन् अनवस्थितान् (?) चञ्चलान् ॥६०॥ म. स्मृ. ४/४
५०
मनुस्मृतिः
[७.६२
(८) गोविन्दराजः। अन्यानिति । अन्यानपि भृत्यानर्थादिशुद्धान् प्रज्ञावतः स्थिरान्
चारादिद्वारेण कृतार्थादिशुद्धिपरीक्षानाकरस्थानेभ्यः सम्यगर्थोत्पादनशीलानर्थाधिगतान्
कुर्यात् ॥६०॥
(९) भारुचिः। मन्त्रिगुणयुक्तानेतानपि' कुर्यात् । सर्वोपधाभिर्दृष्टतया च सुपरी-
क्षितानर्थसमाहर्तृन् सन्निधातॄन् ...थया संख्यानियमापवादोऽयं राजसहायानामुच्यते ॥६०॥
निवर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः ।
तावतोऽतन्द्रितान्दक्षान्प्रकुर्वीत विचक्षणान् ॥ ६१ ॥
(१) मेधातिथिः। सर्व एते मन्त्रज्ञा विचक्षणा: विद्वांसश्चाधिकारिका: कर्तव्याः ।
दक्षान् भयसंनिधानेऽप्यवसायहेतावत्युत्साहवन्तः ।
अतन्द्रितान् अनलसान्। उक्तं चाध्यक्षप्रचारे "बुद्धिमाननुरक्तश्च युक्तोधर्मार्थकोविदः।
शुचिर्दक्षः कुलीनश्च मन्त्री यस्य स राज्यभाक् ॥ तस्मिन्निक्षिप्य कार्याणि भोगसंगी ना
नश्यति । राजवश्यविधिस्तेन दानानुग्रहणैरिति” ॥६१॥
(२) सर्वज्ञनारायणः। अतन्द्रितान् प्रमादशून्यान् । इतिकर्तव्यता कार्यम् ॥६१।।
(३) कुल्लूकः । अस्य राज्ञो यत्संख्याकैर्मनुष्यैः कर्मजातं संपद्यते तत्संख्याका-
न्मनुष्यानालस्यशून्यान् क्रियासु सोत्साहान् तत्कर्मज्ञान् तत्र कुर्यात् ॥६१॥
(४) राघवानन्दः। किंच निवर्तेतेति । अस्य राज्ञ इतिकर्तव्यता इतीदं प्रकर्तव्य-
मस्तीति तत्समाप्यते यावद्भिस्तावतः कुर्यादित्यन्वयः । अतन्द्रितान् निरलसान् । दक्षानु-
पस्थितेऽपि भये उत्साहिनः ॥६१॥
(५) नन्दनः। अनिन्दितान्प्रशस्तान्। दक्षांश्चतुरान् । विचक्षणान्पण्डितान् ॥६१॥
(६) रामचन्द्रः। अस्य राज्ञः इतिकर्तव्यता यावद्भिनभिनिवर्तेत तावतोऽधि-
कारिणः कुर्वीत ॥६१॥
(८) गोविन्दराजः। निवर्तेतेति । अस्य राज्ञः कर्मजातं यत्कर्तव्यं तद्यत्संख्याकैर्मनुष्यैः
सम्पद्यते तत्संख्याननलसांश्चतुरांस्तत्कर्मज्ञान् कुर्वीत ॥६१॥
(९) भारुचिः। कार्यपरिमाणेनैषां राज्ञः सचिवानां संग्रहः स्यात् । यत्कारणं
कायसमावेशादन्यावा(दन्यथोप)पयोगेन हि कश्चिद्विषादं च गच्छेत् । समर्थोऽपि च
प्रमाद्यति ॥६१॥
तेषामर्थे नियुञ्जीत शूरान्दक्षान्कुलोद्गतान् ।
शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने ॥६२॥
(१) मेधातिथिः। अर्थे आयव्ययव्यवहारे। शुचीनर्थेष्वस्पृहान्नियुञ्जीत । तान्यर्थ-
स्थानान्युदाहरणेन' दर्शयति आकरकर्मान्त इति । 'आकराः' सुवर्णरूप्याद्युत्पत्तिसंस्कार-
स्थानानि, 'कर्मान्ता' भक्ष्यकासावापादयः । अंतनिवेशने-अन्तःपुरभोजनशय्यास्त्रीगृहाणि ।
भीरबस्तत्र नियोज्याः। शूरा हि राजानमेकाकिनमुपजप्ता हन्युः । दक्षाः सर्वेऽपि
व्युत्थानशीलतया द्वन्द्वोपरिपातमपरिगणय्य स्वामिनः कार्यं काले नातिपातयन्ति ॥६२॥
७.६३]
व्याख्यानवकोपेता
५१
(२) सर्वज्ञनारायणः। तेषां मध्येऽर्थेऽर्थोत्पादने। शुचीन्भीरूनित्युभयमुभयतोऽन्वितम् ।
आकरे रत्नायुद्धारस्थाने कर्मान्ते भूषणशस्त्रादिनिष्पादने । भीरून मारणादिभीतान् ।
अन्तनिवेशनेऽन्तःपुरे ॥६२॥
(३) कुल्लूकः । तेषां सचिवानां मध्ये विक्रांतांश्चतुरान् कुलाङकुशनियमितान्
शुचीन् अर्थनिःस्पृहान् धनोत्पत्तिस्थाने नियुञ्जीत । अस्यैवोदाहरणं आकरकर्मात इति ।
आकरेषु सुवर्णाद्युत्पत्तिस्थानेषु कर्मातेषु च इक्षुधान्यादिसंग्रहस्थानेषु अंतनिवेशने भोजन-
शयनगृहांतःपुरादौ भीरून्नियुञ्जीत । शूरा हि तत्र राजानं प्रायेणकाकिनं स्त्रीवृतं वा
कदाचित् शत्रूपजापदूषिता हन्युरपि ॥६२॥
(४) राघवानन्दः । तत्र व्यवस्थितिमाह तेषामिति । तेषां कर्मसचिवानां मध्ये ये
शूरास्तानर्थेऽर्जनवत्परतोऽर्थाहरणे । आकरकर्मान्ते शुचीन् । 'योऽर्थे शुचिहि स शुचिर्न मृद्वारि-
शुचिः शुचि'रित्युक्तेस्तेषामेव शुचित्वाभिधानात् । आकरकर्मान्ते आकरः सुवर्णाद्युत्पत्तिस्थानं,
तदेव कर्मणोऽप्यन्तं ऐहिकचेष्टामात्रस्य धनार्थत्वात् । अन्तनिवेशने भोजनशयनस्त्रीपुरादौ
भीरोहिं राजदारदूषणविषदानादौ स्वातन्त्र्यादर्शनात् ॥६२॥
(५) नन्दनः । तेषां मध्ये शूरानर्थे कोशे आकरकर्मान्त आकरकर्मणि शुचीनर्थशुद्धान्नि-
युञ्जीत आकरद्रव्यस्याकृतपरिमाणत्वात् ॥६२॥
(६) रामचन्द्रः। तेषामधिकारिणां अर्थे कार्ये कुलोद्भवान्नियुजीत । तथा आकर-
कर्मान्ते रत्नाद्युत्पत्तिस्थाने । अन्तनिवेशनेऽन्तःपुरे शुचीन् भोरून् एतादृशान्भृत्यान्नियुञ्जीत ।
इति मन्त्रिस्वरूपम् ॥६२॥
(८) गोविन्दराजः। तेषामिति । तेषां मध्ये शूरान् चतुरान् कोशे विनियुञ्जीत
स्वाकरेषु सुवर्णाद्युत्पत्तिस्थानेषु इक्षुधान्यादिपीडनादिस्थानेषु अर्थशौचोपेतान् कुर्वीत ।
अन्तनिवेशने च भोजनान्तःपुरादौ भीरून् विनियोजयेत् ॥६२।।
९) भारुचिः। तेषामर्थे शुचयः अर्थस्यायव्यययोः स्थाप्याः । दृष्टकर्मतया अविषादिनः
शूरा बलाध्यक्षा भीरवस्तु भोजनादौ नियोक्तव्याः । सर्वे चैते दक्षाः कार्याः । ते हि द्वन्द्वोपनि-
पातानपरिगणय्य उत्थानशीलतया स्वामिनः कार्य (य) कालं (ले) नातिपातयन्ति ॥६२॥
दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् ।
इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ॥ ६३॥
(१) मेधातिथिः । दूतस्यायमधिको गुणः इङ्गिताकारचेष्टज्ञता । परविषये
राज्ञो मन्त्रिणां च संधित्सतामिङ्गितानि । दूतस्यादरेण संपरिग्रहः, विश्वसनम्, मुहुर्मुहुः
संपूर्णतद्वाक्यस्य तस्य चाभिनंदनम् । एतानि विपर्यस्तान्युपेक्षेत । आकारः शरीरवैकृत्य-
म्लानिर्मुखस्य वर्णवैकृत्यम् । तूष्णींभावो दीर्घोष्णनिःश्वासता । एवमादिविकारैर्दैन्यं
सूचयति —'अस्ति काचिदापदस्य तेनायं विवर्ण' इति । वाक्यवैशारद्यम्, शारीरसंस्कारः,
प्रसन्नमुखता एवमादि हर्ष सूचयति। शुचिः स्त्रीगतेऽर्थे । गमनविशेषैर्यतः स्त्रीसम्बन्ध
मन्त्रभेदः परिभवश्च ॥६३॥
(२) सर्वज्ञनारायणः । इङ्गितं भावसूचकम् । चेष्टितमक्षिनिकोचादि। आकरस्त-
तोऽन्यो भावसूचको वस्त्रारुण्यादिः ॥६३॥
५२
मनुस्मृतिः
[७.६४
(३) कुल्लूकः । दूतं च दृष्टादृष्टार्थशास्त्रज्ञं इंगितज्ञमभिप्रायसूचकं वचनस्वरादि
आकारो देहधर्मादिमुखप्रसादवैवादिरूपः प्रीत्यप्रीतिसूचकः चेष्टा करास्फालनादिक्रिया
कोपादिसूचिका तदीयतत्त्वज्ञ अर्थदानस्त्रीव्यसनाद्यभावात्मकं शौचयुक्तं चतुरं कुलीनं
कुर्यात् ॥६३॥
(४) राघवानन्दः । 'दूतस्तत्कुरुत' (६६) इति वक्ष्यमाणदूतस्य लक्षणमाह दूतमिति
द्वाभ्यां । अधिकगुणाय सर्वविशारदं भावाभिज्ञम् । शास्त्रविशारदं शास्त्रं प्रतिपत्तिहेतु
संस्कृतप्राकृतदेशभाषाधर्मशास्त्रकरपल्लवादि, तत्र विशारदं निपुणम् ; 'द्वन्द्वात्पर'मिति
स्मरणात् । इङ्गिताकारचेष्टज्ञं इङ्गिताकाराभ्यामेव चेष्टाशं परचिकीर्षितज्ञम् । कुलोद्गतं
कुलीनं दूतवंश्यं वा ॥६३॥
(६) रामचन्द्रः । अथ दूतलक्षणमाह दूतमिति । शुचि अलोलुपम् ॥६३।।
(८) गोविन्दराजः। दूतमिति । दूतं च दृष्टाऽदृष्टार्थशास्त्रार्थपारगमिति तस्याभिप्राय-
सूचकस्य वाक्कायव्यापारविशेषस्याकारस्य चाभिप्रायसूचकस्य शरीरविकारस्य चेष्टायाश्च
कवचायुधभोजनात्मिकाया विज्ञाता रमर्थस्त्रीशौचादियुक्तं कुलीनं कुर्वीत ॥६३॥
(९) भारुचिः । दूतोऽमात्यसम्पदुपेतः कार्यः । सर्वशास्त्रविशारदोपदेशात् इमाश्चे-
गिताकारचेष्टाः दूतेनावश्यं वेदितव्याः। परविषये राज्ञः। तत्र सन्धित्सत इमानीङ्गि-
तानि, दूतस्यादरेण सम्परिग्रहः । निःश्वसनं मुहुः सम्पूजनम्, तद्वाक्यस्य चानसूयाभिनन्दने।
एतान्येव विपर्यस्तानि विजिघृक्षतः आकारः खलु शरीरगतः, म्लानमुखता, वर्णविपर्ययः,
तूष्णींभावो, दीर्घोष्णनिःश्वासादिः, शरीरविकारो दैन्यं सूचयति । प्रसन्नमुखता, वाक्य-
वैशारा शरीरसंस्कारं इत्येवमादिविकारो हर्ष सूचयति । चेष्टासु कर्मस्वनभ्युत्थानं
दैन्यमाविष्करोति । कर्तव्यापद्विषादाननुगतमभ्युत्थानं पुनह (र्ष) विपर्ययोऽशुचित्वमस्य दूतस्य
स्त्रीगतेऽर्थगते । स च विशेषेणोपदिश्यते । स्त्रीसम्बन्धे मन्त्रभेदः परिभवश्चार्थग्रहणे
कार्यहानिः । कुलोद्गतप्रयोजनत्वमुक्तम् । कस्य पुनर्हेतोरादरेण दूतलक्षणमिदं कथ्यते ॥६३॥
अनुरक्तः शुचिर्दक्षः स्मृतिमान्देशकालवित् ।
वपुष्मान्वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥६४॥
[सन्धिविग्रहकालज्ञान् समर्थानायतिक्षमान्। परैरहार्यान् शुद्धांश्च धर्मतः कामतोऽर्थतः ॥१॥
समाहर्तु प्रकुर्वीत सर्वशास्त्रविपश्चितः। कुलीनान् वृत्तिसंपन्नान् निपुणान् कोशवृद्धये ॥२॥
आयव्ययस्य कुशलान् गणितज्ञानलोलुपान् । नियोजयेद्धर्मनिष्ठान् सम्यक्कार्यार्थचिन्तकान् ॥३॥
कर्मणि चातिकुशलान् लिपिज्ञानायतिक्षमान्।सर्वविश्वासिनः सत्यान् सर्वकार्येषु निश्चितान्॥४॥
अकृताशांस्तथा भर्तुः कालज्ञांश्च प्रसंगिनः । कार्यकामोपधाशुद्धा बाह्याभ्यन्तरचारिणः ॥५॥
कुर्यादासन्नकार्येषु गृहसंरक्षणेषु च ।
(१) मेधातिथिः। अनुरक्तः अहार्यो भवति । दक्षः देशकालौ नातिक्रमति । स्मृतिमान्
अमुषितस्मृतिप्रसङ्गेन' स्वामिसंदेशं कथयति । देशकालवित् देशकालौ ज्ञात्वाऽन्यदप्यसंदिष्टं
तत्कालयोग्यं कथयति । वपुष्मान्स्वाकृति: प्रियदर्शनत्वान्निपुणमुचितं वक्ति । वीतभीः
अनेन निपुणमुच्यते । वाग्मी संदेशस्योत्तरे प्रतिवचनसमर्थो भवति ॥६४॥
७.६५] व्याख्यानवकोपेता ५३ . (२) सर्वज्ञनारायणः । सामान्यतो दूतलक्षणमुक्त्वा प्रशस्तदूतलक्षणगाह अनुरक्त इति । वपुष्मान् धृष्यशक्तिः ॥६४॥ (३) कुल्लूकः । यस्मात् अनुरक्त इति । जनेषु अनुरागवान्, तेन प्रतिराजादेरपि अद्वेषविषयः, अर्थस्त्रीशौचयुक्तः, तेन धनस्त्रीदानादिनाऽभेद्यः, दक्षश्चतुरः, तेन कार्यकालं नातिकामति, स्मृतिमान् तेन' संदेशं न विस्मरति, देशकालज्ञः तेन देशकालौ ज्ञात्वा अन्यदपि संदिष्टदेशकालोचितम् अन्यथा कथयति । सुरूप: तेनादेयवचनः, विगतभयः, तेनाप्रियसंदेशस्यापि वक्ता वाग्मी, तेन संस्कृताधुक्तिक्षमः, एवंविधो दूतो राज्ञः प्रशस्यो भवति ॥६४॥ (४) राघवानन्दः । अनुरक्तः स्वराजनि । स्मृतिमानुक्तानुसंधाता । वपुष्मान् सुन्दरो बली वा। वीतभीः वधोद्यमेऽपि ॥६४।। (५) नन्दनः। दूतगुणानाह अनुरक्त इति। शौचदाक्ष्ययोरादरार्थं पुनर्वचनम् ॥६४॥ (८) गोविन्दराजः। यस्मात् अनुरक्त इति। अनुरागवानर्थस्त्रीशौचयुक्तभेद्यर्थपरि- हारार्थ चतुरः कालानतिक्रमार्थं स्मरणवान्, समग्रसन्देशार्थं देशकालज्ञः, तदनुरूपे व्यवहारार्थं स्वाकृतिप्रियदर्शनेनादेयवाक्यतत्त्वार्थ चतुरो यो वाग्मी पुरुषसन्देशकथनार्थं संस्कृतविचित्रा- भिधायी उक्तिप्रत्युक्तिसामर्थ्यार्थ इत्येवंविधो दूतो राज्ञः प्रकणेष्यते ॥६४॥ (९) भारुचिः । यस्मात् अनुरक्तः अहार्यो भवति, शुचिरर्थे स्त्रीषु च अभेद्यो भवति । दक्षो देशकालो नातिका. स्वामिसंदेश अपरिमुषितस्मृतिरसङ्गेन' कथयति । देशकालवित् सर्वत्र कार्यसाधकः । वपुमाननाधृष्यो भवति । प्रियदर्शनत्वाच्च ग्राह्यवा. वीतभीः स्वामिसंदेशं परुषमप्यवितथमाचष्टे पौनःपुन्येन । वाग्मी सन्देशस्योत्तरप्रतिवचन- समर्थो भवति । किमर्थमयं दूतलक्षणादरोपदेश एवं क्रियते ॥६॥ अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया। नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ ॥६५॥ (१) मेधातिथिः । अमात्ये सेनापतौ दण्डो हस्त्यादिबलमायत्तम्, तदिच्छया कार्येषु प्रवृत्तेः । दण्डे वैनयिकी । यो विनेयः स्वपरराष्ट्रगतः स दण्ड्यो यतः। विनयाश्रिता 'वैनयिकी' । “क्रिया' कार्यम् । नृपतौ कोशराष्ट्र आयत्ते । सञ्चयस्थानं 'कोशः' । 'राष्ट्र' जनपदः । द्वे च ते पराधीने न कर्तव्ये । स्वयमेव विलम्भनीयफलग्रासाच्च (?) । दूते सन्धिविपर्ययौ । प्रियवचनेन स्वामिकार्यप्रदर्शनेन 'सन्धिः' तद्वैपरीत्येन 'विग्रहः' । एतदुभयं दूतायत्तम् ॥६५॥ (२) सर्वज्ञनारायणः । अमात्ये दण्ड आयत्तो विना तद्रुचि दूरे दण्डसिद्धेः । दण्डे वैनयिको लोकविनयहेतुक्रिया। नृपतौ कोशराष्ट्रे तदुद्यमादेव तवयवृद्धेः । विपर्ययो विग्रहादिपञ्चकम् ॥६५॥ (३) कुल्लूकः । अमात्ये सेनापतौ हस्त्यश्वरथपादाताद्यात्मको दण्ड आयत्तः तदिच्छया तस्य कार्येषु प्रवृत्तेः विनययोगात् वैनयिकी । यो विनयः स दण्ड आयत्तः ५४ अमात्यः मनुस्मृतिः [७.६६ नृपतावर्थसंचयस्थानदेशावायत्तौ राज्ञा पराधीनौ न कर्तव्यौ ; स्वयमेव चिंतनीयं धनं ग्रामश्च दूते संधिविग्रहावायत्तौ तदिच्छया तत्प्रवृत्तेः ॥६५॥ (४) राघवानन्दः । दूतप्रसंगेन तस्य कार्यव्यवस्थितिमाह अमात्येति । अमात्य- भूपतेर्हस्त्यश्वरथपदात्यात्मको दण्डः आयत्तः अधीनः सपणादिदण्डो वा अमात्येन नियमितः तदीक्षया पणादिदण्डो दण्डयेषु प्रवृत्तः साधुः । दण्डे चतुर्विधे तस्मिन् वैनयिकी विनयायार्हति दण्डे हि विनयी' स्यादन्यथोत्पथगामी जन': । नृपतौ कोशराष्ट्र द्वे तेन' कोशः संचीयते राष्ट्रं च परिपाल्यते । दूते सन्धिभेदावायत्तौ तन्निमित्तत्वात्तयोः। विपर्ययो भेदः ॥६५।। (५) नन्दनः । दूतगुणबाहुल्यवचने कारणमाह अमात्या इति । सर्वकार्यनिर्वाहकः। अविनीतदमनं दण्डः । विपर्ययो विग्रहः । अमात्यानामुपन्यासो दृष्टांतार्थः ॥६५॥ ६) रामचन्द्रः। अमात्ये मन्त्रिणि दण्डः आयत्तः अधीनः । 'अधीनो निघ्न आयत्त' इत्यमरः। दण्डे वैनयिकी क्रिया विनयकारिणी क्रिया। दूते सन्धिविपर्ययौ दौत्येन कर्मणा तत्सिद्धेः । विपर्ययो विग्रहः ॥६५॥ (८) गोविन्दराजः। अमात्य इति । सेनापतौ हस्त्यश्वरथपदात्यात्मके दण्ड आयत्तः, तदिच्छया तस्योपचयः दण्डे च हस्त्यादिके नीत्यर्थो व्यापार आयत्तः, तदभावे नीत्यभावात् राजनि चार्थागारदेशावायत्तौ, तदिच्छया वृद्धिक्षयोत्पत्तेः, दूते च सन्धिविग्रहावायत्तौ तदिच्छया तत्प्रवृत्तेः ॥६५॥ (९) भारुचिः। यथा बलाधिकृते हस्त्यश्वादिबलमा. . . राजत... तदभिप्रायेण वर्धते । तदुपदेक्षया च क्षीयते । एवं दूते सन्धिविग्रहावायत्ताविति भूतार्थसम्बन्धे नैषा दूतस्तुतिः। एवं दूतार्थानुवादः । एष एवार्थः पुनरुच्यते ॥६५॥ दूत एव हि संधत्ते भिनत्त्येव च संहतान् । दूतस्तत्कुरुते कर्म भिद्यन्ते येन मानवाः ॥६६॥ (१) मेधातिथिः। दूतः संधत्ते । यथोक्तम् संहतानेकीभूतान्स एव भिनत्ति । यथोक्तम् अनुक्तमपि प्रियं संदिशति-प्रतिकूलमनाचरितमित्यादि । सुवर्णादिद्रव्यमप्रतिश्रुतमित्याह, एवं भिनत्ति दूतः । तदेतत्कर्मान्तरमुपदिष्टम्, येन' राजानो भिद्यन्ते । वाक्पारुष्यापन्ना एवं सम्भवन्ति ॥६६॥ (२) सर्वज्ञनारायणः । दूत एव'हीत्येतदुपपादनं दूतस्तदिति । न वा भिद्येत संदध्यात् ॥६६॥ (३) कुल्लूकः । यस्माद् दूत एव हि भिन्नानां संधिसंपादने क्षमः, संहतानां च भेदने, तथा. परदेशे दूतः तत्कर्म करोति येन संहता भियंते, तस्माद् दूते संधिविग्रही विपर्ययावायत्ताविति यदुक्तं तस्यैवायं प्रपंचः ॥६६।। (४) राघवानन्दः । एतौ व्यनक्ति दूत इति । स्वदेशे स्वामात्यादीन्भिन्नान् सन्धत्ते मिश्रयति, भिनत्ति च संहतान् स्वराज्यनाशाय' कृतोद्यमांश्छन॒स्तत्पक्षगांश्च द्रव्यादि- दानेन मिथ्याभयप्रदर्शनेन च । न चान्यथा संधिमायान्तीत्यर्थः ॥६६॥ -
७.६८]
व्याख्यानवकोपेता
(५) नन्दनः । दार्टान्तिकं प्रपञ्चयति दूत इति । न केवलं राज्ञामेवेदं किंतु सर्वे-
षामपीत्यभिप्रायेणोक्तं मानवा इति । यत एवं तस्माद्यथोक्तलक्षणो दूतः कार्य इति ॥६६॥
(६) रामचन्द्रः । संहतान् बन्धून् भिनत्ति भेदयति ॥६६॥
(८) गोविन्दराजः। दूत इति । 'दूतस्तत्कुरुते कर्म भिद्यन्ते येन' बान्धवाः' । यस्माद्भुत
एव भिन्नानां सन्ध्युत्पादने समर्थः, संहतानां च भेदने तथा परराष्ट्र व्यवहरति येन संहता
भिद्यन्ते तस्मात् दूते सन्धिविपर्ययावायत्तौ चेत्येतन्निगमार्थमाह ॥६६॥
स विद्यादस्य कृत्येषु निगूढेङ्गितचेष्टितैः ।
आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ॥६७॥
(१) मेधातिथिः। अन्यदपि दूतकार्यं दर्शयति । स दूतो यातव्यस्य राज्ञः कृत्येषु
कार्येषु ॥६७॥
(२) सर्वज्ञनारायणः । स दूतो विद्यात् अस्य राज्ञः कृत्येषु क्रियाविषयेषु न लुब्ध-
भीतावमानिषु शत्रुषु य आकारादिस्तं स्वयं निगूढरिङ्गितचेष्टितैरुपलक्षितः । इङ्गित-
पदेनात्राकारेङ्गितयोर्ग्रहणम् । चेष्टितं चेष्टा । यथा युद्धार्थिनः शस्त्रनिर्माणादि । नेह्ये (?)
तदिङ्गितमाकारो वेति स्वकृत्येषु च शत्रोश्चिकीर्षितम् ॥६७॥
(३) कुल्लूकः । दूतस्य कार्यांतरमाह स विद्यादिति । स दूतोऽस्य प्रतिराजस्य कर्तव्ये
आकारेङ्गितचेष्टां जानीयात् । निगूढा अनुचराः प्रतिपक्षनृपस्यैव परिजनाः तस्मिन् युक्ताः
तत्सन्निधावपि तेषामिगितचेष्टितैः भृत्येषु च क्षुब्धलुब्धापमानितेषु प्रतिराजस्य कर्तुमीप्सितं
जानीयात् ॥६७॥
(४) राघवानन्दः । किंच' स इति । स दूतः अस्य प्रतिराजस्य निगूढा अनुचरा ये
शत्रोनियुक्तास्तेषां सन्निधिमवलम्ब्येजितचेष्टितैराकारादित्रयं भृत्येषु क्षुभितावमानि-
तेषु चिकीर्षितं प्रतिराजस्य कर्तुमिष्टं च विद्यात् जानीयादित्यर्थः ॥६७॥
(५) नन्दनः । इदानी दूतस्य परं प्रति प्रेषितस्य कर्तव्यं प्रसङ्गादाह स इति । स दूतः
अस्य कृत्येषु स्वराज्ञा भेद्येषु परपक्षस्थेषु पुरुषेषु विद्यमानमाकारमिङ्गितञ्चेष्टितं च निगूढेगित-
चेष्टितैः पुरुर्विद्यात् । किंच कृत्येषु भेद्येषु चिकीर्षितमभिलषितं च तैविद्यात् ॥६७।।
(६) रामचन्द्रः। स राजा अस्य दूतस्य निगूढेङ्गितचेष्टितैः कृत्यं कायआकारा-
दिकं कृत्येषु कार्येषु चिकीर्षितं च विद्यात् ॥६७॥
(८) गोविन्दराजः । स विद्यादिति । स दूतोऽप्रकाशाभिराकारचेष्टाभिरात्मीयाभिः
परस्य राज्ञो मुखविकाशवैवाद्याकारं हर्षविषादसूचितं इङ्गितस्वेदवेपथुरोमाञ्चाद्यात्मकं
पञ्चसन्धिविग्रहाऽभिप्रायसूचकं चेष्टां च वाहनायुधसंस्कारोदासीनामिकामुत्साहसूचनी
जानीयात्। अभिलषितं तु नोपेक्षितमिति जानीयात्, कृत्येषु च क्रुद्धलुब्धभीताऽपमानितेषु
तभृत्येषु कर्तुमिष्टसंग्रहणम् ॥६७॥
बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम् ।
तथा प्रयत्नमातिष्ठेद्यथाऽऽत्मानं न पीडयेत् ॥६८॥
:
मनुस्मृतिः
[७.६९
(२) सर्वज्ञनारायणः। बुद्ध्वा राजा स्वदूतद्वारा। न पीडयेच्छत्रुः ॥६८॥
(३) कुल्लूकः । उक्तलक्षणदूतद्वारेण प्रतिपक्षराजस्य कर्तुमिष्टं सर्वं तत्त्वतो ज्ञात्वा
तथा प्रयत्नं कुर्यात् यथात्मनः पीडा न भवति ॥६८॥
(४) राघवानन्दः। ततोभृत्येषु परराजचिकीर्षितं बुद्ध्वा मद्राजा' यद्यत्रागन्तुं शक्नोति
तदा भवादृशानां क्षोभादि नंक्ष्यतीति विश्वास संपादयेदिति भावः । आत्मानं स्वराजानं दूतं
वा यथा न पीडयेत्तथा यत्नमातिष्ठेत् ॥६८॥
(५) नन्दनः। आतिष्ठेत्कुर्यात् । स दूत इत्यनुवर्तते । स्वार्थमस्य' राज्ञः कार्य यथा
स्वयं न पीडयेत् ॥६८॥
(६) रामचन्द्रः। राजा परराजचिकीर्षितं स्वशत्रुराजचिकीर्षितं तत्त्वेन' स्वदूत-
द्वारा सर्वं बुद्ध्वा ज्ञात्वा यथा आत्मानं न पीडयेत्तथा प्रयत्नं कुर्यात् ॥६८॥
(८) गोविन्दराजः। बुद्ध्वेति । परराजसम्बन्धि कर्तुमिष्टमशेष परमार्थतो ज्ञात्वा
तथा दूतो यतेत यथा स्वामिनाशद्वारेण तस्यात्मनाशो न भवति ॥६८॥
जाङ्गलं सत्यसंपन्नमार्यप्रायमनाविलम् ।
रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥६९॥
(२) सर्वज्ञनारायणः । अल्पोदको देशो जाङ्गलः । आर्यप्रायं धार्मिकबहुलम् ।
अनाविलं संकराद्युपहतिरहितम् । रम्यमनुद्वेगकरम् । आनताः सामन्ताः दुर्गाटवीपर्वतादि-
वासिनो विषयाऽभिधेया' यत्र । सुखेनाल्पायासेन यत्र जीव्यते तत्स्वाजीव्यम् ॥६९।।
(३) कुल्लूकः। 'अल्पोदकतृणो यस्तु प्रवातः प्रचुरातपः। स ज्ञेयो जांगलो देशो
बहुधान्यादिसंयुतः ॥' प्रचुरधार्मिकजनं रोगोपसर्गाद्यैरनाकुलं फलपुष्पतरुलतादिमनोहरं
प्रणतसमीपवास्तव्याटविकादिजनं सुलभकृषिवाणिज्याद्याजीवनमाश्रित्यावासं कुर्यात् ॥६९।।
(४) राघवानन्दः। 'स्थानभ्रष्टा न शोभन्त' इति न्यायमाश्रित्य राज्ञो वसतियोग्य
देशं सहेतुं सार्थवादं चाह जाङ्गलमित्यष्टभिः । 'अल्पोदकतृणो यस्तु प्रवातः प्रचुरातपः। स
ज्ञेयो जाङ्गलो देश' इत्युक्तलक्षणं जाङ्गलम्। सस्यसंपन्नं सार्वकालिकसस्यैर्युतम् । आर्यप्राय
आर्याः प्रायो वसन्ति यस्मिन् तेनाम्लेच्छदेशम् । अनाविलं रोगाद्युपसर्गानाक्रान्तम् । आनत-
सामन्तं आनता वशीकृताः सामन्ताः चतुर्दिक्षु वर्तमाना गिरिवनवासिनो दस्युप्राया जना यत्र
तत् । स्वाजीव्यं सुलभं कृषिवाणिज्यादि यत्र तत् ॥६९।।
(५) नन्दनः। अथ राज्ञो निवासयोग्यजनपदमाह जाङ्गलमिति । पथ्यस्वाद्वन्न-
जलादिरकर्दमो देशो जाङ्गलः । अनाविलमसङ्कीर्णमनुष्यम् । आनतो विनीतः सामन्तः समं-
ताद्भवो' जनो यस्मिस्तम् । स्वाजीव्यं विशिष्टभृत्यगुणयुक्तम् । आवसेदावासं कुर्यात् ।
राजेति सामर्थ्याद्गम्यते ॥६९॥
(६) रामचन्द्रः। राज्ञो निवासस्थानमाह जाङ्गलमिति । जाङ्गल: स्वल्पोदकतरुपर्वतो
देशः, तथाप्यत्र समजलतरुपर्वतो देशो जाङ्गलशब्देन' विधीयते। आर्यप्रायं धार्मिकबहुलं ।
अनाविलं संकराद्युपद्रवरहितं शोकरोगाद्युपहतिरहितं वा । आजीव्यं कन्दमूलादिभी रम्यं ।
आनतसामन्तं वशीकृतमाण्डलिक आनता नम्राः सामन्ता यस्मिन्सः । 'सामन्तः स्यादधीश्वर'
इत्यमरः । एतादृशं देशमावसेत् ॥६९॥
७.७०] व्याख्यानवकोपेता (८) गोविन्दराजः। जाङ्गलं सस्यसंपन्नमार्यप्रायमनाकुलमिति। 'अल्पोदकतृणो यस्तु प्रवातः प्रचुरातपः । ज्ञेयः स जाङ्गलो देश' इति तथाविधं देशं प्रचुरधान्यादिकं बहुधार्मिकजन रोगमशकाद्युपद्रवानाकुलं फलकुसुमोद्यानादियुतं न चाटविकादिसामन्तनिवासिनं कर्षकादीनां सुखोपजीव्यं आश्रित्य राजा निवासं कुर्यात् ॥६९।। धन्वदुर्ग महीदुर्गमब्दुर्ग वार्क्षमेव वा । नृदुर्ग गिरिदुर्ग वा समाश्रित्य वसेत्पुरम् ॥७०॥ (१) मेधातिथिः । उक्तप्रकारेण द्विगुणोत्सेधेनैष्टकेन शैलेन द्वादशहस्तादूर्ध्वमुद्धतेन तालमूलेन' कपिशीर्पचिताग्रेण दृढप्रणाल्या परिकृतं धनुर्दुर्गम्। महीदुर्गमगाधेनाश्रयणीयेन चोदकेन' परिवेष्टितं दुर्गम् । समंततोऽर्धयोजनमात्रं घनमहावृक्षान्वितं वाक्षम् । चतुरङ्गबलाधिष्ठितं प्रवरायुधवीरपुरुषप्रायं नृदुर्गम् । गिरिपृष्ठे दुरारोहमेवैकमार्गानुगतम- न्तर्नदीप्रस्रवणोदकं गिरिदुर्गम् ॥७॥ (२) सर्वज्ञनारायणः । धन्वदुर्गं मरुदुर्ग यत्रातिनिर्जलतया तद्देशवासिभिरेव कथं- चिज्जलं लभ्यते । महीदुर्ग पृथिव्येव यत्र समविषमतया प्राकारादिभिश्चात्यन्तदुर्गा । अब्दुर्गमतिप्रचुरोदकतया दुर्गम् । वार्तं वनवेष्टितत्वेन । नृदुर्गं मानुषबहुलतयाऽगम्यम् । गिरिदुर्ग गिरिवेष्टिततया ॥७०॥ ३) कुल्लूकः । धन्वदुर्गं मरुवेष्टितं चतुर्दिशं पंचयोजनमनुदकम् । महीदुर्ग पाषाणेन' इष्टकेन' वा विस्ताराद्वैगुण्योच्छ्रायेण द्वादशहस्तादुच्छ्रितेन युद्धार्थमुपरिभ्रमण- योग्येन' सावरणगवाक्षादियुक्तेन' प्राकारेण वेष्टितम् । जलदुर्ग अगाधोदकेन सर्वतः परिवृतम् । वार्तदुर्ग बहिः सर्वतो योजनमात्रं व्याप्य तिष्ठन्महावृक्षकंटकिगुल्मलताद्याचितम् । नृदुर्ग चतुर्दिगवस्थायिहस्त्यश्वरथयुक्तबहुपादातरक्षितम्। गिरिदुर्ग पर्वतपृष्ठमतिदुरारोहं संकोचैक- मार्गोपेतम् । अंतर्नदीप्रस्रवणाधुदकयुक्तं बहुसस्योत्पन्नक्षेत्रवृक्षान्वितम् । एतेषु दुर्गेषु मध्याद- न्यतमं दुर्गमाश्रित्य पुरं विरचयेत् ॥७०॥ (४) राघवानन्दः। राष्ट्रं लक्षयित्वा तन्मध्ये राजधानी निर्दिशति धन्वदुर्गमिति । धन्वदुर्गं निरुदकपञ्चयोजनदेशेन समन्ततो व्याप्तेन दिवसद्वयपानार्थं जलाभावात्ससैन्य- शत्रुभिर्नाक्रम्यते। महीदुर्ग पाषाणेष्टका कृतेन द्वादशहस्ताधुच्छ्रितेन' बहुविस्तृतेन युद्धार्थमुपरि परिभ्रमणयोग्येन' साधारणगवाक्षादियुक्तेन प्राकारेण समन्ताद्वेष्टितं सद्वारं च। अब्दुर्ग- मगाधोदकेन नक्रादियुतेन नद्यादिना परितो वेष्टितम् । वार्तं न्यग्रोधादिमहावृक्षकण्टक- लताद्यैरभितोयोजनाद्यावरकेन वेष्टितं तेन तच्छेदनोद्यता ये शत्रवस्ते तत्रस्थैर्धानुष्क- हन्यन्ते । नृदुर्ग हस्त्यश्वरथपदातिभिश्चतुर्दिक्षु वेष्टितं बहुमनुष्यं वा शतमध्यमवध्यं सहस्रमध्यमवध्यमिति न्यायात् । गिरिदुर्ग गिरिणाभिवेष्टितं दुरारोहं गिरिपृष्ठं संकटक- मार्गोपेतमन्तर्नदीप्रस्रवणबहुसस्योत्पत्तिक्षेत्रवृक्षान्वितमित्यायूहनीयम् । एतैः कृत्रिमैरकृत्रिमै दुर्गं पुरमधितिष्ठेदिति तात्पर्यम् ॥७०॥ (५) नन्दनः। अथ दुर्गं सप्तभिः श्लोकैराह धन्वदुर्गमिति । निरुदको देशो धन्वा, तेन दुर्गं धन्वदुर्गम् । प्राकारक्षेत्रसीमादियुक्तया मह्या दुर्गं महीदुर्गम् । नदीपरिखादिभि- मनुस्मृतिः [७.७२ दुर्गमब्दुर्गम् । वृक्षाणां समूहो वार्तं तेन दुर्गं वाति॑दुर्गम् । शूरैर्मनुष्यैर्दुर्गं नृदुर्गम् ॥७०॥ (६) रामचन्द्रः । षड्विधदुर्गस्वरूपमाह धन्वदुर्गमिति । धन्वदुर्ग मरुस्थलं यत्रा- तिनिर्जलतया तद्देशवासिभिरपि कथंचिज्जलं लभ्यते । 'समानौ मरुधन्वाना वित्यमरः । परिखादिभिर्जलदुर्गम् । वार्तं वृक्षैर्दुर्ग एतादृशं दुर्गमाश्रित्य निवसेत् ॥७०॥ (८) गोविन्दराजः। धन्वदुर्गमिति । धन्वदुर्गमन्तरुदकं बाह्यतः समन्तात्पञ्चयोजन- मात्रमरुभूम्युपेतम् । महीदुर्ग दृढं वप्रोपनिहितं विस्ताराद्विगुणोच्छायद्वादशहस्ताधि- कोच्छ्रितोपरि युद्धार्थगवाक्षादिप्राकारोपेतम् । अम्बुदुर्गं बाह्यतोऽगाधानाश्रावकोदक- परिवृतम् । वृक्षदुर्ग बहिःसमन्तात् ततो योजनमात्र व्याप्यास्ति संहतमहावृक्षोपेतम् । मनुष्यदुर्ग समन्ततोऽवस्थापितहस्त्यश्वपदात्युपेतं, आयुधाविक्रान्तपुरुषम् । गिरिदुर्ग पर्वतपृष्ठमतिदुरारोहं अतिसंकटैर्वा मार्गानुगतम् । अन्तर्नदीप्रस्रवणादि उदकयुक्तमित्येवमेतेषु दुर्गेषु मध्यादन्यतमं दुर्गमाश्रित्य पुरं कुर्यात् ॥७०॥ (९) भारुचिः। प्रकारेण वेष्टितं विष्कम्भादिगुणोत्सेधेनैष्टकेन शैलेन वा द्वादशहस्तोच्छ्रितेन तालमूलेन कविशीर्षतापिताग्रेण दृढवप्रेण परिष्कृतं महीदुर्ग अगाधेना- नास्रावणीयेन चोदकेन परिवेष्टितं अब्दुर्गम्। समन्ततोऽर्धयोजनमानं घनमहावृक्षान्वितं वाद॑दुर्ग, चतुरङ्गबलाधिष्ठितं प्रविरायुधीयपुरुषप्रायं नृदुर्ग, गिरिपृष्ठं दुरारोहं एकमार्गानुगतं नदीप्रस्रवणोदकं गिरिदुर्गम् ॥७॥ सर्वेण तु प्रयत्नेन गिरिदुर्ग समाश्रयेत् । एषां हि बाहुगुण्येन गिरिदुर्ग विशिष्यते ॥७१॥ (२) सर्वज्ञनारायणः। बाहुगुण्येन' बहुगुणत्वेन ॥७१॥ (३) कुल्लूकः । यस्मादेषां दुर्गाणां मध्यात् दुर्गगुणबहुत्वेन गिरिदुर्गमतिरिच्यते । तस्मात्सर्वप्रयन्तेन तदाश्रयेत् । गिरिदुर्गे शत्रुदुरारोहत्वं महत्प्रदेशादल्पप्रयत्नप्रेरितशिलादिना बहुविपक्षसैन्यव्यापादनमित्यादयो बहवो गुणाः ॥७१।। (४) राघवानन्दः। गिरे१र्गत्वं दुरारोहत्वं चाह सर्वेणेति । तेषां धन्वदुर्गाणां मध्ये बाहुगुण्येन बहुगुणत्वेन प्रशस्तम् ॥७१॥ (५) नन्दनः । एषां दुर्गाणां मध्ये बाहुगुण्येन' बहुगुणत्वात् ॥७१।। (६) रामचन्द्रः । एषां मध्ये बहुगुणस्य भावो बाहुगुण्यं तेन गिरिदुर्गं विशिष्यते ॥७१॥ (८) गोविन्दराजः। सर्वेण तु प्रकारेणेति। यत एषां दुर्गाणां मध्यात् गुणभूयस्त्वेन गिरिदुर्गः प्रशस्यते इति गिरिदुर्ग सर्वप्रयत्नेन समाश्रयेत् ॥७१।। (९) भारुचिः । एषां दुर्गाणामनाधृष्यतमत्वाद् गिरिदुर्ग श्रेष्ठम् ॥७१॥ त्रीण्याद्यान्याश्रितास्त्वेषां मृगगाश्रयाप्सरः। त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः॥७२॥ (१) मेधातिथिः। आद्यानि त्रीणि धनुर्दुर्गादीनि । आश्रिताः आश्रयं कृतवन्तः । मृगाः । गर्ताश्रया गर्गरनकुलादयः । अप्सरा ग्राहकूर्मादयः । एषां दुर्गाणां तदाश्रितानां च
७.७३]
व्याख्यानवकोपेता
यादृशा गुणदोषास्तादृशा एव राज्ञामपि भवन्तीति प्रदर्शनार्थम् । त्रीण्युत्तराणि
प्लवङगमाः कपयः॥७२।।
(२) सर्वज्ञनारायणः। त्रीण्याद्यानि धन्वमहीजलदुर्गाणि क्रमात् । मृगा हरिणादयः,
ते हि जलाभावादत्र मृगया न संभवतीति मरुषु तिष्ठन्तीति । गर्ताश्रया मूषकाद्याः ।
अप्सरा मत्स्याद्याः। प्लवङ्गमा वानराः । नरा ग्रामादिनृदुर्गवासिनः। अमरा मेरुगिरि-
प्रभृतिवासिन एवासुरभयात् ॥७२॥
(३) कुल्लूकः । एषां दुर्गाणां मध्यात्प्रथमोक्तानि त्रीणि दुर्गाणि मृगादय आश्रिताः ।
तत्र धनुर्दुर्ग मृगैराश्रितं, महीदुर्ग गर्ताश्रितैर्मूषिकादिभिः, अब्दुर्ग जलचरैर्नक्रादिभिः, इतराणि
त्रीणि वृक्षदुर्गादीनि वानरादय आश्रिताः, तत्र वृक्षदुर्गं वानरैराश्रितं, नृदुर्ग मानुषः,
गिरिदुर्ग देवैः ॥७२॥
(४) राघवानन्दः । दुर्गाश्रयो दुर्जय इत्यत्र दृष्टफलमाह त्रीणीति । एषां धन्वादि-
दुर्गाणां मध्ये धन्वमहीजलदुर्गत्रयं मृगमूषिकनराश्रितम् । अतस्तेषां दुर्जयत्वं लोकतः
प्रसिद्धम् । तथा वृक्षमनुष्यगिरिदुर्गत्रयं वानरनरामरैराश्रितत्वाद् दुर्जयम् । अतः प्रसिद्ध-
मेतद् दुर्गाश्रितस्यापराजय इति ॥७२॥
(५) नन्दनः । लोकसिद्धनिदर्शनोपन्यासेन दुर्गाश्रयणफलं श्लोकाभ्यामाह त्रीणीति ।
तेषां दुर्गाणां मध्य आद्यानि त्रीणि धन्वमहीजलदुर्गाणि क्रमशो मृगगर्ताश्रया बिलाश्रया
मूषिकादयः अप्सराः मीनग्राहादयः उत्तराणि वार्क्षनृगिरिदुर्गाणि मेरुमन्दरगिरिदुर्गाश्रिता ह्य-
मरा असुरादिभिर्न पराजीयन्ते ॥७२॥
(६) रामचन्द्रः। एषां षण्णां मध्ये आद्यानि त्रीणि-धन्वदुर्गं मृगाणामाश्रयः, महीदुर्ग
गर्ताश्रयाणां मूषकादीनाम् । तथा जलदुर्ग झषादीनामाश्रयः । उत्तराणि क्रमशः वृक्षदुर्ग
प्लवङ्गानां वानरादीनाम् । नृदुर्ग सेनादुर्गं नृणामाश्रयः । गिरिदुर्गममराणामाश्रयः, यथा
कालजरे नीलकण्ठादयो वसन्ति ॥७२।।
(८) गोविन्दराजः । त्रीण्याद्यान्याश्रितास्त्वेषां मृगगश्रियाः पुरेति । एषां दुर्गाणां
मध्याद्यानि त्रीणि धन्वमह्यब्दुर्गाणि मृगादय' आश्रिताः। तत्र धन्वदुर्ग मृगैराश्रितम् ।
महीदुर्ग बिलासादैर्नकुलादिभिः । अम्बुदुर्गमुदकचारिभिः कूर्मादिभिः । उत्तराणि त्रीणि
वृक्षनृगिरिदुर्गाणि क्रमेण प्लवङ्गमादय आश्रिताः । तत्र वृक्षदुर्ग वानरैराश्रितम् । नृदुर्ग
मनुष्यैः । गिरिदुर्गं देवैः ॥७२॥
यथा दुर्गाश्रितानतान्नोपहिंसन्ति शत्रवः ।
तथाऽरयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥७३॥
(१) मेधातिथिः । दुर्गविधानप्रयोजनश्लोकोऽयम् । अत्यल्पबला अपि दुर्गाश्रिता
महाबलैररिभिर्न सहसा शक्यन्तेऽभिभवितुमतो दुर्गाश्रयो युक्तः ॥७३॥
(२) सर्वज्ञनारायणः । शत्रव एषां व्याधाद्याः ।।७३॥
(३) कुल्लूकः । यथैतान्दुर्गवासिनो मृगादीन् व्याधादयः शत्रवो न हिंसंति एवं दुर्गा-
श्रितं राजानं न शत्रवः ॥७३॥
६० मनुस्मृतिः [७.७५ (४) राघवानन्दः। एते यथा अबाध्यास्तथा नृपोऽप्यबाध्य इत्याह यथेति। शत्रवो व्याधमार्जारश्येनादयः दुर्गाश्रितान् दुर्गनिविष्टान् एतान्नोपहिंसन्त्येवमरयः प्रतिराजानो दुर्गं निविष्टं न हिंसन्तीत्यर्थः ॥७३॥ (५) नन्दनः। एतान्मृगादीनमरपर्यन्तान् ।।७३।। (६) रामचन्द्रः । यथा दुर्गाश्रितानेतान्मृगादीन् शत्रवः सिंहादयो न हिंसन्ति तथाऽरयो दुर्गसमाश्रितं राजानं न हिंसन्ति ॥७३॥ (८) गोविन्दराजः। यथेति । यथैतान्मृगादीन् दुर्गवर्तिनो व्याधादयः शत्रवः न हिंसन्ति अशक्तत्वात्, एवं दुर्गाश्रितं राजानं न शत्रव इति ॥७३॥ (९) भारुचिः। दृष्टान्तश्लोकावादरप्रतिपत्त्यर्थो . . . ॥७३॥ एकः शतं योधयति प्राकारस्थो धनुर्धरः। शतं दशसहस्राणि तस्मादर्ग विधीयते ॥७४॥ (मंदरस्यापि शिखरं निर्मानुष्यं न शिष्यते । मनुष्यदुर्गदुर्गाणां मनुः स्वायंभुवोऽब्रवीत् ॥१॥) (१) मेधातिथिः । सुप्रसिद्धमेतदुर्गप्रयोजनम् । प्राकारदृष्टान्तेन गिरिदुर्गबल- मेतदिति । तदयुक्तम्, महीदुर्गेऽपि प्राकारसम्भवात् । तस्मात्सर्वेषां दुर्गाणां तत्प्रयोजनं स्वबुद्धया रूप्यते ॥७४॥ (२) सर्वज्ञनारायणः । शतं पदातीन् ॥७४॥ (३) कुल्लूकः । यस्मादेको धानुष्क: प्राकारस्थः शत्रूणां शतं योधयति प्राकारस्थं धानुष्कशतं च शत्रूणां दशसहस्राणि तस्माद् दुर्ग कर्तुमुपदिश्यते ॥७४॥ (४) राधवानन्दः । गिरिदुर्गे कैमुतिकन्यायमाह एक इति । कृत्रिमप्राकारस्थो- ऽप्येको धनुर्धरः प्रतिराज्ञः शतं योधयति युद्धेन निग्रहीतुं शक्नोति । यस्माच्छतं प्रतिपक्षदश- सहस्राणि तथा कर्तुमीष्टे तस्मात्कि वक्तव्यं गिरिस्थानां सामर्थ्यम् । य ईषत्क्षिप्तोऽपि शिलादिर्वा बहून्व्यापादयति ॥७४।। (५) नन्दनः । शतमायुधिनां बहिःस्थानामेको योधयति जयतीति यावत् । शतं प्राकारस्थानां धनुर्धराणां दशसहस्राणि बहिःस्थानामायुधिनाम् ॥७४।। (८) गोविन्दराजः। एक इति । यस्मादेको धानुष्क: प्राकारस्थः परकीयानां शतं योद्धं शक्नोति तस्माद् दुर्ग कर्तव्यतयोपदिश्यते ॥७४॥ (९) भारचिः। प्रत्यक्षफलत्वं महीदुर्गस्य दर्शयति-एवं च तस्मिन्दुर्गे गुणों वेदितव्यः ॥७४॥ तत्स्यादायुधसंपन्नं धनधान्येन वाहनैः । ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनौदकेन च ॥७५॥ (१) मेधातिथिः। आयुधैः खङ्गप्रासादिभिः संपन्नमुपेतम् । आयुधग्रहणं वर्मशिर- स्त्राणोपस्कारादेरन्यस्यापि युद्धोपकरणस्य प्रदर्शनार्थम् । धनं रूप्यसुवर्णादीनि । वाहनानि रथाश्वादयः। शिल्पिभिर्यन्त्रावाहतक्षप्रभृतिभिः । यवसेन । ब्राह्मणैमन्त्रिपुरोहितैरन्यैर्वा ।
७.७६] व्याख्यानवकोपेता ६१ दण्डिकापोतेन (?) ध्वजशङ्कया कदाचिन्नृपधर्मसाहाय्येन प्रवर्तन्ते । प्रदर्शनार्थत्वाच्च भिषगौषधाद्यपेक्षेत । संरोहणाधुपयोगि संनिधापयितव्यम् ॥७५॥ (२) सर्वज्ञनारायणः । यन्त्रैः क्षेप्यादिभिः ॥७५।। (३) कुल्लूकः । तद् दुर्गं खड्गाद्यायुधसुवर्णादिधनधान्यकरितुरगादिवाहनब्राह्मण- भक्ष्यादिशिल्पियंत्रघासोदकसमृद्धं कुर्यात् ॥७५।। (४) राधवानन्दः। किंचान्यदित्याह तदिति । तत्पुरं आयुधसंपन्नं आयुधानि धनुरादीनि तैः संपत्तिमत् । ब्राह्मणैः शत्रुधातने वाग्वज्रैः । यन्त्रैर्लोहादिनिर्मितदिव्यास्त्रैः । यवसेन हस्त्याहारा दितृणेन' ॥७५॥ (५) नन्दनः । तत्र दुर्गे सञ्चेतव्यान्याह तदिति ॥७५॥ (६) रामचन्द्रः । तद् दुर्गमायुधसंपन्नं स्यात् । यवसेन तृणादिना धान्यादिभिः :न्त्रैः क्षेपणादिभिः संपन्नं कार्यम् ॥७५॥ (७) मणिरामः। तत् दुर्गं यवसेन घासेन ॥७५॥ (८) गोविन्दराजः। तस्मादिति । तद् दुर्गं खड्गाद्यायुधधनधान्याश्वादिवाहन- ब्राह्मणतक्षादिशिल्पयन्त्रघासोदकसमृद्धं कार्यम् ॥७५।। (९) भारुचिः । दुर्गोपरोधकालप्रयोजनवतां प्रदर्शनार्थः श्लोकः । एवं च सत्यन्यदपि यत् कालप्रयोजनं वधशल्यविषवैद्यमौहूर्तिकादि तदपि ग्राह्यम् ॥७५॥ तस्य मध्ये सुपर्याप्तं कारयेद्गृहमात्मनः । गुप्तं सर्वर्तुकं शुभ्रं जलवृक्षसमन्वितम् ॥७६॥ (१) मेधातिथिः । सुपर्याप्तम् । यावदात्मनो राज्ञो राजपुत्रकोशायुधाश्वागारादिषू- पयुज्यते । गुप्तं बहुकक्षाकम् । गृहं कारयेत् । सर्वर्तुकं सर्वर्तुमाल्यफलैः शोभितम् । सर्वे ऋतवो यत्रेति । ऋतुशब्देन' तत्कार्याणि पुष्पफलादीनि' लक्ष्यन्ते। 'सर्वर्तुगमिति' पाठे सर्वानृतून्गच्छति प्राप्नोतीति व्युत्पत्तिः । अर्थस्तु स एव । यो यत्र भवति स तेन' व्याप्त इत्युच्यते। शुभ्रं सुधाधवलितम् । जलवृक्षसमन्वितं धारागृहोद्यानवनसंपन्नम् ॥७६॥ (२) सर्वज्ञनारायणः। सुपर्याप्तं सर्वेषां वसतां संकीर्णम्। सर्वर्तुकं सर्वर्तुरम्यम् । शुभ्र प्रसाद्यम् ॥७६॥ (३) कुल्लूकः । तस्येत्यादि । तस्य दुर्गस्य मध्ये पर्याप्तं पृथक् पृथक् स्त्रीगृहदेवागारा- युधागाराग्निशालादियुक्तं परिखाप्राकाराद्यैः गुप्तं सर्वर्तुकं फलपुष्पादियोगेन सर्वर्तुकं सुधाधवलितं वाप्यादि जलयुक्तं वृक्षान्वितमात्मनो गृहं कारयेत् ॥७६॥ (४) राघवानन्दः । ततः किं तत्राह तस्येति । सुपर्याप्तं सुष्टु हस्त्यश्वरथपदाति- भी राज्ञीनां राज्ञः पुत्राणां च वसतये पर्याप्तं समर्थम् । गुप्तं प्राकाराद्यैः । सर्वर्तुकं सर्वेषामृतूनां योग्यानि पुष्पादीनि यत्र । शुभ्रं सौधादिभिः ॥७६॥ (५) नन्दनः । तस्य दुर्गस्य । सुपर्याप्तं महावकाशम् । सर्वर्तुगं सर्वेष्वृतुषु गम्यं सर्व- कालानुगुणमिति यावत्। कारयेद्राजा। जलवृक्षसमन्वितं दीधिकोद्यानसम्पन्नमित्यर्थः ॥७६।। FAN ६२ मनुस्मृतिः [७.७८ (६) रामचन्द्रः। तस्य दुर्गस्य मध्ये सुपर्याप्तं विस्तीर्णं गृहमात्मनः कारयेत् । जलवृक्षसमुद्भवं जलवृक्षयोर्मध्ये समुद्भवो यस्य तत् । सर्वर्तुकं षडार्तवोत्पन्नं रक्षितम् ॥७६॥ (७) मणिरामः । स्वपर्याप्तं पृथक् पृथक् राज्यादिवासयोग्यं । गुप्तं परिखादिभिः । सर्वर्तुकं फलपुष्पादियोगेन। शुभं सुधाधवलितं ॥६॥ (८) गोविन्दराजः। तस्येति । तस्य दुर्गस्य मध्ये सुष्ठु पर्याप्तं पृथगायुधानां शालाद्युपेतं प्राकारपरिखादिरक्षितं, सर्वर्तुकं फलपुष्पादियोगेन सर्वे ऋतवो यत्र सुधाधवलितं दीर्घिकादिजलयुक्तं वृक्षाश्रितं गृहमात्मनः कारयेत् ॥७६॥ (९) भारुचिः । आत्मतन्त्रानुरूपमसम्बाधः यथर्तुस्नानं सुरुङ्गा दियुक्तं च गृहं कारयेत् ॥७६॥ तदध्यास्योद्वहेभार्यां सवर्णी लक्षणान्विताम् । कुले महति संभूतां हृद्यां रूपगुणान्विताम् ॥७७॥ (१) मेधातिथिः। तद् गृहमाश्रित्य भार्या तत्र सहायार्थं महतः कुलादुद्वोढव्या । एतत्संबन्धेन संरक्षणार्थम् । सवर्णामित्यादावुच्यते तत्प्राक् प्रदर्शितम् । हृद्यां मनोरमां कान्तिलावण्ययुक्ताम् । रूपं संस्थानम् । गुणा वचनाचरणादयः । तैरन्वितां युक्ताम् ॥७७।। (२) सर्वज्ञनारायणः । हृद्यां मनस्यदुष्टाम् ॥७७॥ (३) कुल्लूकः। तद् गृहमाश्रित्य समानव) शुभसूचकलक्षणोपेतां महाकुलप्रसूतां मनोहारिणी सुरूपां गुणवती भार्यामुद्हेत् ॥७७॥ (४) राघवानन्दः । तदध्यास्येति । 'अधिशीङस्थासां कर्मेति कर्मत्वं अधिकरणस्य। तत्पुरं अध्यास्य अधिष्ठाय भार्यामुद्वहेत् । तां विशिनष्टि-लक्षणान्वितां भ्रातृमत्त्वश्रीसौख्य- सूचकत्वश्यामाङ्गित्वादिदेहगुणयुक्ताम्। तदुक्तम्-'कूपोदकं तरुच्छाया श्यामाजी इष्टकागृहम् । शीतकाले भवेदुष्णं ग्रीष्मकाले च शीतल'मिति। हृद्यां कामकलादिनिपुणतया हृदे मनसे अर्हति या ताम् । रूपगुणान्वितां रूपं चम्पकगौरादिगुणा' अङ्गसौष्ठवपातिव्रत्यादयः तैर्युक्तां च ॥७७॥ (६) रामचन्द्रः । तद् गृहं अध्यास्य उषित्वा हृद्यां मनोहराम भार्या मुद्वहेत् ॥७७।। (८) गोविन्दराजः। तदिति । तद् गृहमधिष्ठाय समानवाँ प्रशस्तलेखातिलकादि- लक्षणोपेतां महाकुलीनां मनोरमां स्वाकृतिमाचारादिसम्पन्नां भार्यामुपयच्छेत् ॥७७।। (९) भारुचिः। राज्यतन्त्रसहायार्थं महतः कुलादित्येतत्सम्बन्धेन' सवर्णादीनामुक्ताना- मनुवादः ॥७७॥ पुरोहितं च कुर्वीत वृणुयादेव चत्विजः। तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च ॥७८॥ (१) मेधातिथिः । सत्यपि द्वितीयानिर्देशेन प्राधान्यावगमे विवक्षितमेवैकत्वम्, अन्यत्राप्युपादानात् । यूपं छिनत्ति भार्यां विन्देतेतिवत् । ऋत्विजो वृणुयात् । तेषां च सङ्ख्या श्रुतित एवावगन्तव्या । गुणाश्च "नातिस्थूलो नातिकृशः नातिदी? नाति-हस्व: नातिवृद्धो नातिबाल:--सप्तपुरुषान् विद्यातपोभ्यां पुण्यैश्च कर्मभिः समनुष्ठितोभयभावान् ।
७.७९] व्याख्यानवकोपेता । तान् प्रति नाब्राह्मण्यमाशङ्कयते-विद्वान्याजयति" इत्यादि । गृह्याणि कर्माणि शान्तिस्वस्त्ययना- दीनि । वैतानिकानि वैहारिकाणि त्रेताग्निविषयाणि ॥७८॥ (२) सर्वज्ञनारायणः। गृह्याणि स्मृत्याचारतो ग्राह्याणि । वैतानिकानि श्रौतानि ॥७८॥ (३) कुल्लूकः । पुरोहितं चाप्याथर्वणविधिना कुर्वीत, ऋत्विजश्च कर्माणि कर्तुं वृणुयात् । ते चास्य राज्ञो गृह्योक्ता नि त्रेतासंपाद्यानि कर्माणि कुर्युः ॥७८॥ (४) राघवानन्दः। पुरोहितं अथर्ववेदिनं पुरोहितं वृणीते'ति श्रुतेः । स वैदिको विप्रश्च ऋत्विजः वृणुयात्। ऋत्विजः अस्य राज्ञः गृह्याणि गृह्योक्तानि वेत्थदेवादीनि वैतानिकानि- श्रौताग्निहोत्रादीनि च ते वृताः कुर्युरित्यन्वयः ॥७८।। (५) नन्दनः । गृहस्थस्य राज्ञः श्रौतस्मातकर्मस्वधिकृतानाह पुरोहितमिति । गृह्याणि औपासनादीनि । वैतानिकान्यग्निहोत्रादीनि ॥७८॥ (६) रामचन्द्रः। स तस्य राज्ञः गृह्याणि स्मार्तानि स्वशाखोक्तानि कर्माणि वैतानि- कानि श्रौतानि कुर्यात् ॥७८।। (७) मणिरामः। गृह्याणि आवसथ्याग्निसाध्यानि । वैतानिकानि गार्हपत्यादि- साध्यानि ॥७८॥ (८) गोविन्दराजः। पुरोहितमिति । पुरोहितं चाथर्वणविधिज्ञं कुर्वीत । ऋत्विजश्च सूत्रकारोक्तप्रक्रियया वृणुयात् । ते चास्य राज्ञो गृह्योक्तानि श्रौतानि कर्माणि कुर्युः ॥७८॥ (९) भारुचिः । अमात्यगुणैर्ब्राह्मणगुणैश्च यु (क्तः? ) पुरोहितः कुर्यात् । ऋत्विजस्तु ब्राह्मणगुणयुक्ता एव ॥७८॥ यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः । धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगान्धनानि च ॥७९॥ (१) मेधातिथिः । आप्तदक्षिणैर्भूरिदक्षिणैः पौण्डरिकादिभिः। भोगान् धनानि च । वस्त्रगन्धविलेपनादयो भोजनविशेषाश्च भोगाः', 'धनानि' सुवर्णादीनि । नित्यमेव तद्दानमिच्छन्ति। धर्मार्थं तस्योत्पत्त्यर्थमेव ॥७९॥ (२) सर्वज्ञनारायणः । भोगान् भोगहेतून् स्त्रीवस्त्रगृहादीन् । धनानि सुवर्णानि ॥७९॥ (३) कुल्लूकः। राजा नानाप्रकारान् बहुदक्षिणान् अश्वमेधादियज्ञान् कुर्यात्, ब्राह्मणेभ्यश्च स्त्रीगृहशय्यादीन् भोगान् सुवर्णवस्त्रादीनि धनानि दद्यात् ॥७९॥ (४) राघवानन्दः। आप्तदक्षिणैः। एतेन 'सहस्रदक्षिणेन यजेते'त्यादिविधिना प्राक्प्रोक्ता या दक्षिणा तद्दक्षिणैः। भोगान् भोग्यान् स्त्रीगृहशय्यादीन्। धनानि सुवर्णरजतादीनि च दद्यादित्यन्वयः ॥७९॥ (५) नन्दनः। याजकवरणप्रसङ्गाद्यजमानमप्याह यजेतेति। आप्तदक्षिणैः पर्याप्त- दक्षिणैः। भोगान्भोग्यान् गोमहिषादीन् ॥७९॥ (७) मणिरामः । आप्तदक्षिणैः बहुदक्षिणैः ॥७९॥ (८) गोविन्दराजः। यजतेति । राजाऽश्वमेधपुण्डरीकादीन् नानाप्रकारान् पर्याप्तदक्षिणान् यज्ञान्कुर्यात् । ब्राह्मणेभ्य: स्वीयान् गृहशय्यादीन् भोगान् धनानि च सुवर्णादीनि धर्मार्थं दद्यादितीदमधिकं राज्ञो दानयागमवश्यकर्तव्यमुच्यते ॥७९।।
६४
मनुस्मृतिः
[७.८१
(९) भारुचिः । इमे अधिके राजदाने राज्ञो विधीयेते, नित्यवदेवानयोरप्यकरणे
प्रत्यवाय एव ॥७९॥
सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्वलिम् ।
स्याचाम्नायपरो लोके वर्तेत पितृवन्नृषु ।।८०॥
(१) मेधातिथिः । बलि कर धान्यादीनां षष्ठाष्टमादिभागमाप्तैरर्थादुपधाशुद्धैः ।
यथोक्तमाम्नायपरश्च स्यात् । आगमप्रधानतर्कशास्त्राण्याश्रयेत् । अथवा पारंपर्यागतमेव
भागं गृहणीयान्नाधिकम् । वर्तेत पितृवन्नृषु। करदेष्वन्येषु च स्नेहबुद्धया वर्तेत ॥८०॥
(२) सर्वज्ञनारायणः । सांवत्सरिकं वत्सरलभ्यं बलि करं भूमिजलशुष्कादि-
निमित्तम् । आम्नायपरोऽअभ्यासपरः । सर्वस्याकरादेः स्मरणे यत्नं कुर्यादित्यर्थः ॥८०॥
(३) कुल्लूकः। राजा सक्तैरमात्यैर्वर्षग्राह्य धान्यादिभागमानाययेत् । लोके च
करादिग्रहणे शास्त्रनिष्ठ: स्यात् स्वदेशवासिषु नरेषु पितृवत् स्नेहा दिना वर्तेत ।।८०॥
(४) राघवानन्दः। आप्तैर्युक्तकारिभिः । संवत्सरोत्तीर्णं बलि करं धान्यादीन् धनं च
गृहणीयादिति तात्पर्यम्। आम्नायपरः करादिग्रहणशास्त्रनिविष्टः। पिता यथा पुत्रपालना-
न्वेषी तद्वन्नृपः स्यात् नृषु स्वप्रजासु ॥८०।।
(५) नन्दनः। कुतश्च राज्ञो धनागमो धनेन यजेत दद्याच्चेदपेक्षायामाह सांवत्सरिक-
मिति । संवत्सरे भवं सांवत्सरिकं, संवत्सरस्य सकृदिति यावत् । बलि करम् ।
पूर्वं मर्यादानुरूपेण करादानमाम्नायः । नृषु दीनादिष्वनुकम्पया वर्तनं पितृवद्वर्तनम् ॥८०॥
(६) रामचन्द्रः। सांवत्सरिकबलि उपहारान् । च पुनः आम्नायपरः अभ्यासपरः
स्यात् सर्वस्य करादेः स्मरणे यत्नं कुर्यादित्यर्थः ।।८०॥
(७) मणिरामः । सांवत्सरिकं वर्षग्राह्यं बलि धान्यादिभागं। आप्तैः शक्तैरमात्यैः।
लोके च करादिग्रहणे । आम्नायपरः शास्त्रोक्तरीत्या करग्रहणपरः । नृषु स्वदेशवासिषु ॥८०॥
(८) गोविन्दराजः। सांवत्सरिकमिति । आप्तैहितकारिभिरुक्तगुणैः अमात्यैर्वार्षिकं
वक्ष्यमाणं धान्यादिकं राष्ट्रादानाययेत् । शास्त्रप्रधानश्च लोके करशुल्कादिषु स्यात्
राष्ट्रीयेषु पितृवत्स्नेहादिना वर्तेत ॥८०॥
(९) भारुचिः । यथोक्तेभ्यः आयस्थानेभ्यः आम्नायप्रामाण्येन षष्ठाष्टमभागग्रहणा-
दिना बलिमाहारयेत् । राजा च समः स्यात् ॥८०॥
अध्यक्षान्विविधान्कुर्यात्तत्र तत्र विपश्चितः ।
तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम् ।।८१॥
(१) मेधातिथिः। अध्यक्षा अधिकृताः प्रत्यवेक्षितारस्तान्कुर्यात् । विविधान्
बहुप्रकारान् मृदूनुग्रान् धार्मिकान् अर्थार्जनपरांश्च । तत्र तत्र सुवर्णकोष्ठागारे पण्यकुप्यकर्म-
स्वधिकृताः प्रत्यवेक्षितारस्तान् शुल्कनौहस्त्यश्वरथपदात्यादीन् विपश्चितः स्थापयेत्। सर्व
एते अमात्यगुणसंपद्युक्ता विज्ञेयाः। यथोक्तमध्यक्षप्रचारे "तेऽध्यक्षाः सर्वाणि कार्याण्यवे-
क्षेरन्नन्येषां नृणां तत्स्थानोपयोगिनां कार्याणि कुर्वताम्, हस्त्यध्यक्षेण हस्तिपकाः, अश्वाध्यक्षेण
तुरङ्गमाद्याः, गवाध्यक्षेण कर्षणादयः" ॥८१॥
७.८२] व्याख्यानवकोपेता (२) सर्वज्ञनारायणः। अध्यक्षानीक्षणेनाधिष्ठातॄन् । कार्याणि अर्थानयनादीनि । कुर्वतां कार्याण्यवेक्षेरन् ॥८१॥ (३) कुल्लूकः । तत्र तत्र हस्त्यश्वरथपदाताद्यर्थादिस्थानेष्वध्यक्षानवेक्षितॄन् । विविधान् पृथक् पृथक् वियश्चितः कर्मकुशलान् कुर्यात् । ते अस्य राज्ञः तेषु हस्त्यश्वादिस्थानेषु मनुष्याणां कुर्वतां सर्वाणि कार्याणि सम्यक् कार्यार्थमवेक्षेरन् ॥८॥ (४) राघवानन्दः । किंचान्यत्, तत्र तत्र हस्त्यश्वरथपदातिव्यवहारार्थस्थानेषु । अध्यक्षानुक्ताविषयानधिलक्षीकृतान्यक्षानीन्द्रियाणि येषां तान् अवेक्षितॄन् । विपश्चितः तत्तत्कर्मशास्त्रज्ञान् । ते अस्य रक्षकाः कार्याणि कर्माणि कुर्वतां नृणां यथा तानि सम्यग- वितथं तथाऽवेक्षेरन्नित्यन्वयः ।।८१॥ (५) नन्दनः। करहारिणामनुसंधायकानाह अध्यक्षानिति । तत्र तत्र करविशेषे । कार्याणि कराहरणकार्याणि ॥८१॥ (६) रामचन्द्रः । ईक्षणे तत्र तत्र विविधानधिष्ठातन्कुर्यात् ॥८॥ (७) मणिरामः । तत्र तत्र हस्त्याद्यर्थस्थानेषु। विपश्चितः कर्मकुशलान् । ते हस्त्यादिस्थानेषु स्थापिताः अस्य राज्ञः हस्त्यादिस्थानेषु नृणां कुर्वतां सर्वाणि कार्याणि अवेक्षेरन् ॥८१॥ (८) गोविन्दराजः । अध्यक्षानिति । तस्य' कार्याण्यवेक्षेरन् नृणां कार्याणि कुर्वताम् । तत्र तत्र हस्त्यश्वायुधार्थादिस्थानेषु अधिकृतान् विपश्चितः तत्र तत्कर्मकुशलान् विविधान् पृथक् पृथक् कुर्यात् । न चास्याक्षतेषु तेषु हस्त्यश्वादिस्थानेषु तदोपयिकानि कार्याणि कुर्वतां मनुष्याणां सर्वाणि कार्याणि सम्यक्करणार्थमवेक्षेरन् ॥८१॥ (९) भारुचिः । सुवर्णकोष्ठागारपण्यकुप्यायुधतुलाशुल्कनौहस्त्यश्वरथपत्त्यध्यक्षादीन विविधान् विपश्चितः स्थापयेत् । सर्वं एते अमात्यगुणसंयुक्ता विज्ञेयाः ॥८१॥ आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत् । नृपाणामक्षयो ह्येष निधिामोऽभिधीयते ॥८२॥ (१) मेधातिथिः। गुरुकुलाधीतावगतवेदार्था गार्हस्थ्यं प्रतिपित्सवो धनेन पूजयितव्याः । इदमपि नैय्यमिकदानम् । अत एवाह नृपाणामक्षय इति । नित्यत्वादक्षयो यावज्जीविकः । काम्यत्वे चाफलभावि निवर्तते । यदुक्तं 'सांतानिकं यक्ष्यमाणमिति' (११/१), तदेवेदम् । अन्ये त्वाहुः-तत्राणिभ्यो दानं विहितम् । इह त्वनथिनामधिकारात् विधानमात्रया वस्त्रयुगादिदानेन च नराणां पूजा कर्तव्या। तथा चाह विप्राणां पूजको भवेदिति । निधिरिव निधिः, उत्तमफलत्वात् । ब्रह्मसंनिहितो ब्राह्मः ॥८२।। (२) सर्वज्ञनारायणः। आवृत्तानां समावृत्तानां गुरुदक्षिणार्थं विवाहार्थं कर्तु- मिच्छतां वा । ब्राह्मो ब्राह्मणेषु निक्षिप्तः ॥८२।। (३) कुल्लूकः । गुरुकुलान्निवृत्तानां अधीतवेदानां ब्राह्मणानां गार्हस्थ्यार्थिनां नियमतो धनधान्येन पूजां कुर्यात्, यस्माद्योऽयं ब्राह्मो ब्राह्मणेषु स्थापितवन धान्यादिनिधिरिव निधिः अक्षयो ब्रह्मफलत्वात् अविनाशी राज्ञां शास्त्रणोपदिश्यते ॥८२॥ म. स्मृ. ४/५ मनुस्मृतिः [७.८३ (४) राघवानन्दः। किंच, आवृत्तानामागतानां गुरुकुलात् पूजको गृहादिदाता स्यात् । तेन किं तत्राह-एष निधिः एवंविशिष्टब्राह्मणेषु वस्त्रौदनादिनिधिनिक्षेपतुल्यः । स हि यथा कालान्तरे प्राप्यते एषोऽपि तथा । ब्राह्मः परंपरया ब्रह्मणि मोक्षरूपे पर्यवसितः। 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन' दानने' (बृहदा. ४।४।२२) त्यादिश्रुतेः । ब्रह्म ब्राह्मणजातिः, तदुद्देश्यकत्वाद्वा ब्राह्मः ॥८२।। (५) नन्दनः। एवं धनागमद्वारमुक्तम्, इदानी प्रस्तुतं दानमेवाह आवृत्तानामिति । पूजको भवेदिष्टार्थदो भवेत् । 'एष ब्राह्मो निधिर्नृपाणामक्षयोऽभिधीयते एतत्सृष्ट्वा ब्राह्मणनिहितं द्रव्यं' राज्ञामक्षय्यफलमिति शास्त्रविधीयते । हिशब्दो हेतौ ॥८२॥ (६) रामचन्द्रः । गुरुकुलादावृत्तानामागतानां स्नातकानां विप्राणां विशेषतः पूजको भवेत् । एष ब्राह्मणो (ह्मो? )निधिः ब्राह्मणेषु दत्तमक्षयमित्यर्थः ॥८२॥ (७) मणिरामः। आवृत्तानां प्रधीतवेदानां । विप्राणां गार्हस्थ्यार्थिनां। पूजक: धनधान्येन पूजां कुर्यात् । तत्र हेतुमाह नृपाणामिति । हि यस्मात् ब्राह्मः ब्राह्मणे स्थापितो धनधान्यादिनिधिः निधिरिव निधिः अक्षयः ब्रह्मफलत्वादविनाशी। विधीयते राज्ञां शास्त्रणोपदिश्यते ॥८२।। (८) गोविन्दराजः । आवृत्तानामिति । नृपाणामक्षयो ह्येष निधिर्नामो विधीयते । यतो गुरुकुलनिवृत्तानां ब्राह्मणानां नियमतो धनदानेन पूजां च कुर्यात् ; यस्मात्सोऽयं निधिरिव निधिः ब्राह्मणेषु निहितो धनादिषु विनश्वरो राज्ञां शास्त्रेणोपदिश्यते। ब्राह्माख्यो जन्मान्तरेऽपि सुनिहितो भवति ॥८२॥ (९) भारुचिः। इदमपि स्नातकेभ्यो नियमदानं राज्ञो विधीयते । एतेभ्योऽपि ह्यददतः प्रत्यवायस्तथा चोक्तं-अदित्संस्त्यागमहतीति ॥८२॥ न तं स्तेना न चामित्रा हरन्ति न च नश्यति । तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥८३॥ (१) मेधातिथिः। ब्राह्मणेभ्यो योऽर्थों दत्तः, न तं स्तेना आटविकादयोऽमित्राश्च शत्रवो हरन्ति । न भूमिष्ठमिव विस्मृत्य प्रातिभाव्येन वा नश्यति ॥८३॥ (२) सर्वज्ञनारायणः। न नश्यति स्वयमदर्शनं न याति ॥८३॥ (३) कुल्लूकः । अत एव न तमिति । तं ब्राह्मणस्थापितनिधि न चौरा नापि शत्रवो हरंति, अन्यनिधिवत् भूम्यादिस्थापितः कालवशान्न नश्यति, स्थानभ्रांत्या वाऽदर्शनमुपैति, तस्माद्योऽयमक्षयोऽनंतफलो निधिरिव निधिः धनौधः स राज्ञा ब्राह्मगेषु निधातव्यः, तेभ्यो देय इत्यर्थः ॥८३॥ (४) राघवानन्दः। अक्षयत्वमाह नेति । स्तेनाः छिद्रं कृत्वा ये हरन्ति प्रसभं वा । अमित्राः शत्रवः । न नश्यति भूमिष्ठनिधिरिव ॥८३॥ (५) नन्दनः। न चास्य निधेरुपसर्गा निधित्वप्रयुक्ताः सन्तीत्याह न तमिति। तं निधिम् । नश्यति विस्मरणादिना ॥८३॥ (६) रामचन्द्रः। तं निधिं स्तेनाः चोराः शत्रवो वा न हरन्ति ॥८३॥ --
RAMATIMINS
७.८४]
व्याख्यानवकोपेता
६७
(८) गोविन्दराजः। नेति । तं ब्राह्म निधिं न चौरा नापि शत्रवो हरन्ति ।
अन्यनिधिवन्नापि मृत्संयोगादिना नश्यति । तस्माद्योऽयमक्षयो निधिर्ब्राह्मणाख्य निधिर्जन्मान्तरे
उत्तमान्तफलावाप्तये राज्ञा धनादिर्जाह्मणेषु निधातव्यः ।।८३॥
(९) भारुचिः। यथा स्तेना आटविका: अमित्राः नृपद्रव्यापहारिण: न' तथा
ब्राह्मणादिभ्यो हिरण्यादिदानेन निधेः कुतश्चिद्विनाश इत्यर्थः । इत्यर्थवादोऽयं नियत-
दानस्तुत्यर्थः ॥८३॥
न स्कन्दते न च्यवते न विनश्यति कर्हिचित् ।
वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ।।८४॥
(१) मेधातिथिः। एष एवार्थोऽवश्यानुष्ठेयः प्रकारान्तरेण पुनरुच्यते । अग्नी
यद्भूयते तत्कदाचित् स्कन्दत्यधः पतति हूयमानम्, तथा व्ययते पुगंडाणादि क्षामतया ।
ततश्च कर्मवैगुण्याद्विनश्यति शिष्टानाम् । इदं तु यद् ब्राह्मणेभ्या दान न तस्यने
दोषाः सन्ति । अत एवाह वरिष्ठा(ष्ठम) ग्निहोत्रेभ्यः अग्नौ होमे भ्य इत्यर्थः । मुख्यार्थवृत्त्या
कर्मनामधेयमेवाग्निहोत्रशब्दस्तदा' चादिग्रहणं व्याख्येयम् । मुखे हुतमिति। पाणिरेख
ब्राह्मणस्य' मुखं “पाण्यास्यो हि द्विजः स्मृत" इति वचनात् । वरिष्ठं श्रेष्ठम् ।
अर्थवादश्चायं न पुन:मनिन्दैव ॥८४।।
(२) सर्वज्ञनारायणः। न स्कन्दते न स्रवति। न च्यवते ना पनति। कठिन
न व्यथत इति पाठेऽप्ययमर्थः। न विनश्यति श्वावलेहादिना ।।८।।
(३) कुल्लूकः । अग्नौ यत् हविर्हयते तत् कदाचित् स्कंदते सबन्यधः पतति,
कदाचिद्व्यथते शुष्यति, कदाचिद्दाहादिना नश्यति, ब्राह्मणस्य मुखे यत् हुतं पाण्यास्यो हि
द्विजः स्मृत' इति ब्राह्मणहस्तदत्तमित्यर्थः । तस्य नोक्ता दोधाः, तस्मादग्निही वादिभ्यः श्रेष्ठं
ब्राह्मणाय दानमित्यर्थः ।।८४।।
(४) राघवानन्दः । किंच न स्कन्दते नाधः पतति न व्यथते न नश्यतीति कृत्वा
व्यथा दुःखं नोत्पादयति पुत्रादिवत्प्रत्यक्षं न नश्यतीति वरिष्ठमिति । अग्नी हविः क्षिप्तं
देवतृप्तौ संदिग्धं ब्राह्मणमुखे तु न तथा साक्षात्प्रीत्युक्तेः, 'ब्राह्मणो मनुष्या' (बृह. १।४।१५)
इति श्रुतेः । 'नाहं तथामि यजमानहविर्वितानश्चोध्दृतप्लुतमदन्हुतभुङमुखेन । यद्ब्राह्मणस्य
मुखतश्चरतो नु घास'मिति भागवतोक्तेश्च ॥८४॥
(५) नन्दनः। यजेत दद्याच्चेत्युक्तम्, यजनादानं विशिष्टमित्याह नेति । स्कन्दनं
परिस्रवणम् । केशकीटापत्तिय॑थनम् । अदर्शनं नाशः । अग्निहावेभ्योऽग्निहीबहुतेभ्यो
द्रव्येभ्यः ॥८४॥
(६) रामचन्द्रः। यद् ब्राह्मणस्य मुखे हुतं तन्न स्कन्दते न क्षरते। 'स्कन्दि गति-
शोषणयो रित्यस्य धातो रूपं ज्ञेयम् ॥८४॥
(७) मणिरामः । तेन अधः पतति । न व्यथते न’ शुष्यति। न विनश्यति दाहा दिना।
मुखे हस्ते । हुतं दत्तं । 'पाण्यास्यो हि द्विजः स्मृतः' इत्युक्तत्वात् । तस्मादग्निहोत्रादिभ्यः
श्रेष्ठं ब्राह्मणाय दानमित्यर्थः ॥८४॥
६८ तथा मनुस्मृतिः [७.८५ (८) गोविन्दराजः। न स्कन्दत इति। अग्निहोत्राद्याहुतेः किल' स्त्रवणं चलम् नाशाख्या दोषा भवन्ति । अतश्च कर्मवैगुण्यं यत्पुनरेतद् ब्राह्मणमुखाग्नौ हुतं, ब्राह्मणस्य दत्तं तन्न स्रवति न चलति नापि दाहादिना कदाचिद् विनश्यति। तस्मादेतदोषाऽसंभवा- दग्निहोत्रादिभ्यः श्रेष्ठमिति प्रकृतदानस्तुतिपरमेतत् ॥८४॥ (९) भारुचिः अयं चान्य :-यथा स्कन्ना आहुतिर्दोषाय पात्रभेदाच्च व्यथिताः अविज्ञातदेवता च यथाहुतिर्नश्यति । तथा च ब्राह्मणं 'अर्धा हवा एषाहुतिर्या देवताम् अविज्ञाप्य हुता' एवं च सति या आहुतेर्दोषत्रयेण निन्दा सा प्रकृतब्राह्मणदानस्तुत्यर्था । चोक्तम् वरिष्ठमग्निहोत्रेभ्यः' इति । अग्निहोत्रेभ्योऽग्निहोत्रादिभ्य' इत्यर्थः । सर्वनित्यकर्मोपसंग्रहार्थमेतदेवं विज्ञेयम् । मुखग्रहणाच्चान्नदानमिति केचिदाहुः। तदयुक्तं; 'पाण्यास्यो हि द्विजः स्मृतः' इति वचनात् । सर्वं प्रतिग्रहविषयमेतद्विज्ञेयम् ॥८४॥ सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । आचार्य शतसाहस्रमनन्तं वेदपारगे ॥८५॥ (१) मेधातिथिः। “विप्रेभ्य" इति च प्रकृतम् । तथा च प्रागप्युक्तम् (३ । ९६) "वेदतत्त्वार्थविदुषे ब्राह्मणायेति । न च यथाश्रुतदानफलोपपत्तिः। कीदृशं हि तत्साम्यं- जातितः परिमाणत उपकारतो वा? यदि तावज्जातितस्तदिति, औषधपानोद्देशेन देवलेभ्यो दत्तं खाद्यदानं दुःखायैव स्यात् । तिक्तकटुकषायानि प्रायश औषधानि विरेचनीयानि, न प्रीतिजननानि । अथ परिमाणतः, तत्रापि यदि द्रव्यमनपेक्ष्य' केवलपरिमाणसाम्यम्, सुवर्ण दत्तं तत्परिमाणं तानं लभ्येत, अन्यद्वा मृत्काष्ठादि। अथ जातितः परिमाणतश्च, प्रागुक्ता एव दोषाः। अथोपकारतः, तत्रापि हि यदि तज्जातीय एवोपकारः व्याधिनिवृत्ति- रौषधोपकारः । असति च व्याधौ फलस्य विनिवृत्तिरतो व्याधिनिवृत्तिफलकेनौषधदानेन व्याधिराक्षेप्तव्यः । सुसमं वा अन्यदुःखं इति प्राप्तम् । तस्मात् यथा निवीतं मनुष्याणां उपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुत इत्युपव्यानविशेषान्निवीतादयो न पृथ- ग्वाक्यानि तथेदमपि द्रष्टव्यम्।” अत्रोच्यते। नानाख्यातश्रवणमस्ति, सर्वेषां समत्वात् । तत्र यद्यर्थवादः 'सहस्र वेदपारग' इति तदर्थवादोऽस्तु। अथायं विधिः विध्यन्तरशेष- भावात्सर्वत्र विधिरभ्युपेतव्यो विशेषाभावात् । निवीतादिषु तूपव्ययत इत्यत्राख्यातदर्शनात् तदस्य विधिविषयत्वयोग्यत्वाभावादेकत्वावगमाच्च युक्तार्थवदेव तह्यनुक्तिविशेषः। यत्तु नाब्राह्मणेभ्यो दानमस्तीति तद्विस्मृतं भवेत्। दीनानाथादिभ्यः सर्ववर्णेभ्यो दानस्य विहितत्वात् । एतान्येव च विधायकानि वाक्यानि ब्राह्मणेभ्यो राज्ञां दानस्य । यत्तूक्तं "यथाश्रुतफलानुपपत्तिः सर्वप्रकारेणायाभ्युपगम्यमानत्वादिति”। अत्रोच्यते। लौकिकीयं वाचोयुक्तिः। सममिति। यल्लोके नात्युत्कृष्टं तदेवमुच्यते। समलवणाः सक्तव' इति । उपकारापेक्षा च 'द्विगुणमिति' संख्याश्रुतिवित्तस्योपकारस्तावद्विगुणो भवति। न तद्रव्यप्राप्तिापि तज्जातीय एवोपकारः, किंतु प्रीत्यतिशयोत्पत्तिः। न चेह फलविशेष- श्रुतिर्येनेयमाशङ्काऽपि स्यात्कि तदेव द्रव्यं प्राप्येत उत स एवोपकार इति। अश्रुतफल- विशेषेषु स्वर्गः फलम् । किंच' तिलादिदाने प्रजाप्तिः फलं श्रूयते। तत्र का द्रव्य- तत्र ७.८५] व्याख्यानवकोपेता १ इति । साम्याशङ्का? तस्माच्चायमप्यर्थ उत्तरोत्तरोऽत्र च पात्रातिशयदानात्फलातिशयसिद्धिः । तथा चाह “पात्रस्य हि विशेषेणेति' (८६)। ब्राह्मणब्रुवे ब्रुवशब्द: कुत्सायाम् । जातिमात्रब्राह्मणोऽध्ययनादिगुणहीन' इत्यर्थः । आचार्य उपनेता । वेदपारगोऽध्ययनश्रवणाभ्यां वेदस्यान्तं गतः ॥८५।। (२) सर्वज्ञनारायणः । दानमवैधमपि अब्राह्मणे क्षत्रियादौ दीयमानमानृशं- स्यात्तत्समं यावन्मानं दानस्यानृशंस्यं कृतं फलं तत्र तावन्मात्रम् । द्विगुणं ब्राह्मणब्रुवे जाति- मानोपजीविनि प्रतिग्रहरूपेण दत्ते आनृशंस्यं दानफलं च प्रतिग्रहदानफलं च । आचार्ये अध्यापयितरि वेदैकदेशस्य द्विगुणीभूतमेव सहस्त्रगुणम्। वेदपारगे वेदस्यैकस्यार्थतो ग्रन्थतश्च पारंगते ।।८।। (३) कुल्लूकः। ब्राह्मणेतरक्षत्रादिविषये यद्दानं तत्समफलं यस्य देयद्रव्यस्य यत्फलं श्रुतं ततो नाधिकं न च न्यूनं भवति । यो ब्राह्मणः क्रियारहित आत्मानं ब्राह्मणं ब्रवीति स ब्राह्मणब्रुवः तद्विषयदानं पूर्वापेक्षया द्विगुणफलं । एवं प्राधीते प्रक्रांताध्ययने ब्राह्मणे लक्षगुणं फलं । समस्त- शाखाध्यायिन्यनंतफलं । 'सहस्रगुणमाचार्ये' इति वा तृतीयपदस्य पाठः ॥८५॥ (४) राधवानन्दः। विप्राणामिति प्रकृतं, तत्र प्रासंगिकान्पात्रगुणानाह समेति । क्षत्रिय- ब्राह्मणपदवाच्याध्ययनप्रवृत्तब्रह्मचारिकृतवेदाध्ययनाश्चत्वारोऽब्राह्मण इत्यादिपदचतुष्टयवाच्य ब्राह्मणब्रुवः ब्राह्मणोऽहं ब्रवीति न तु कर्मणा ब्राह्मण इति। गर्भाधानादिसंस्कारैर्युक्तः स नियमव्रती। नाध्यापयति नाधीते स ज्ञेयो ब्राह्मणब्रुव इति पारिभाषिको वा । ब्राह्मणभ्रमात्पात्रं क्षत्रियः तस्मात्सर्वेभ्यो देयमेतेभ्यः परंतु यस्य श्रुतं फलमिति ॥८५॥ (५) नन्दनः । पात्रविशेषात्फलविशेषमाह सममिति । समं तावन्मात्रम्। अब्राह्मणे क्षत्रियादौ दानमदानफलम् ॥८५।। (६) रामचन्द्रः। न ब्रह्म वेदो यस्यास्तीति स: अब्राह्मणस्तस्मिन्दत्तं दानं समं ज्ञेयम् । ब्राह्मणब्रुवे वेदाध्यायिनि' किंचिन्मात्रे एवंविधे द्विजे दत्तं द्विगुणं भवेत् । वेदपारगे एक- शाखाध्यायिनि ॥८५॥ (७) मणिरामः । अब्राह्मणे क्षत्रियादौ। समं कथितफलतुल्यं । ब्राह्मणब्रुवे ब्राह्मण- क्रियारहितः आत्मानं ब्राह्मणं ब्रवीति स ब्राह्मणब्रुवः तस्मिन् द्विगुणं उक्तफलद्विगुणं । प्राधीते प्रक्रांताध्ययने । शतसाहस्रं लक्षगुणं ॥८५।। (८) गोविन्दराजः। सममिति। सहस्रगुणमाचार्य, अनन्तं वेदपारगे। ब्राह्मणव्यति- रिक्तविषये उपकारकरणरूपेण यद्दानं न दानप्रतिग्रहरूपेण तत्र तदभावात्तत्समं यस्य देयद्रव्यस्य यत्फलं श्रुतं तत्ततो नात्युत्कृष्टं इति प्राप्यते । एवं जातिमानोपजीविनि ब्राह्मणे पूर्वापेक्षया द्विगुणं फलमेवं प्रक्रान्ताध्ययने लक्षगुणं फलं, समस्तशाखाध्यायिनि अनन्तफलम् ।।८५॥ (९) भारुचिः। इतश्चैतेभ्यो देयं गुणवत्स्नातकब्राह्मणनियमदानस्तुतिप्रकरणाद् ब्राह्मणादिग्रहणमिदं विद्वद्दानप्रशंसाएं वेदितव्यम् । कथं कृत्वा अब्राह्मणब्रुवयो!पपद्यते । उक्तं च “वेदविद्याव्रतस्नाताञ्छ्रोत्रियान् गृहमागतान् । पूजयेद्धव्यकव्याभ्यां विपरीतांस्तु ७० मनुस्मृतिः [७.८६ वर्जयेत्” इति । न चायं फलविधिः। फलविधौ हि काम्यदानस्य' स्यादेवं च यथोक्तार्थ- सामर्थ्यान्नायं फलविधिकल्पोपदेशार्थः श्लोकः । अन्यथा हि प्रकरणमुपरुध्येतेति । अथवा यथोक्ते (दी)नानाथनिमित्त अब्राह्मणादिदाने पात्रविशेषात् फलविशेषप्रदर्शनार्थः स्यादयं राज्ञां विशेषधर्मः। यत्कारणं न शकस्मात् प्रशंसा स्यादिति । तथा चोत्तरश्लोकः -- दाने समानेभ्योऽपि ब्राह्मणेभ्य इति पात्रविशेषापवादोऽयं विज्ञेयः। पूर्वश्लोकार्थस्य तु द्वितीयस्येदमधुना विवरणं क्रियते। न च देयद्रव्यस्य फलेन जातितः साम्यम् । न च परिमाणतो युज्यते शास्त्रविरोधान्न्यायविरोधाच्च । कथं तीदं समं व्याकरणीयं लोकप्रसिद्धया नोत्कृष्टं न च निकृष्टम् ? यत्तत्समं तथा च लोकप्रसिद्धिमेवावधि कृत्वा द्वैगुण्यादयो वक्तव्याः । अन्ये तु मन्यन्ते न देयद्रव्यसमं फलं घटते तस्माद्दातृगतं साम्यं प्रत्येतव्यम् । अब्राह्मणाय दत्वा भिक्षाद्यपि मानुषशरीरेणैव तद्दानोपफलोपभोगं प्राप्नोति; नोत्कृष्टपात्रदानात् । तदेतद्विचारणीयम् । अब्राह्मणौ च क्षत्रियवैश्यौ। तथा च गौतमीये भिक्षादानप्रकरणे चैतदुक्तम् 'ब्राह्मणवर्णादनन्तरौ च तौ प्रयोगश्चाब्राह्मणा- द्विद्योपयोग' इति । न च शूद्रादब्राह्मणाद्विद्योपयोगः । अर्थलोभाच्छास्त्रप्रतिषेधाच्च । ब्राह्मणजाते . . .नितेनेति । क्षत्रियवैश्ययोस्तु ब्रह्मचारिणोरिष्यत एव । भैक्षादिप्रति- ग्रहोपदेशसामर्थ्यादेवं च। अब्राह्मणशब्देन तावपि युक्त...॥८५।। पात्रस्य हि विशेषण श्रद्दधानतयैव च । अल्पं वा बहु वा प्रेत्य दानस्य फलमश्नुते ॥८६॥ (१) मेधातिथिः। पातयतोऽधर्मकर्मणः, पात्यामानं वा त्रायत इति पात्रं संप्रदानम् । अथवा घृततैलाद्याधार: पात्रमुपाचारादिदमपि पात्रम्। अत्रापि हि द्रव्यं निधीयते। आह च (७/८२) "नृपाणामक्षयो ह्येष निधिामोऽभिधीयत" इति। तस्य विशेषो भेदः सगुणनिर्गुणत्वादिः। तेन हेतुना दानस्थ फलमवाप्यते। अन्यं वा । गुणवते वृत्तस्वाध्याय- संपन्नाय दत्तं बहु, निर्गुणाय त्वल्पम् । प्रेत्येति। क्रियासमनन्तरं फलोत्पत्तेरनियममाह, न पुनर्जन्मान्तरफलतामेव वैदिकानां कर्मणां फल एव कामस्य नियमावगमात् ॥८६॥ [देशकालविधानेन द्रव्यं श्रद्धासमन्वितम् । पात्रे प्रदीयते यत्तु तद्धर्मस्य प्रसाधनम् ॥१॥] [एष एव परो धर्मः कृत्स्नो राज्ञ उदाहतः। जित्वा धनानि संग्रामाद् द्विजेभ्यः प्रतिपाद- येत् ॥२॥] [(१) मेधातिथिः। तत्र देशः स्वनिवासदेशादन्यो जानपदः। दूरदेशप्रोषितायां संनिहितत्वा- हत्तमस्य हेतुरुपघातः । यज्ञप्रवृत्तस्य केनचिदंगेन न्यूनता ग्रहोपराग इत्येवमादिः । विधानम्। उदकपूर्वकस्वस्तिवाचनसंस्कारातिशयो भावप्रसाद इत्यादि। द्रव्यं गोभूहिरण्यादि। श्रद्धा प्राप्त्यभिलाषातिशयः, 'कथमिदं मे निवर्तेतेति बुद्धिसंतानः ।'] (२) सर्वज्ञनारायणः । विशेषेण दोषेण . गुणेन वा । श्रद्दधानतया श्रद्धानिकर्ष- प्रकर्षाभ्याम् ॥८६॥ (३) कुल्लूकः । विद्यातपोवृत्तियुक्ततया पात्रस्य तारतम्यमपेक्ष्य शास्त्रे तथेति प्रत्यय- रूपायाः श्रद्धायास्तारतम्यपात्रमासाद्य दानस्याल्पं महद्वा फलं परलोके लभ्यते ॥८६॥ . -- ७.८७] व्याख्यानवकोपेता ७१ (४) राघवानन्दः । किंच पात्रस्येति । प्रेत्य मृत्वा । स्थितस्य फलावश्यंभाव- नियमादित्याह अवाप्यत इति ॥८६।। [राघवानन्दः । किंच देशेति । देशः कुरुक्षेत्रादिः । काल उपरागादिः । विधानमुदक- पूर्वकस्वस्त्युक्तिः । श्रद्धयाल्पं दीयमानं पात्रविशेषे च बहव स्यादिति वाक्यार्थः ॥१॥] (५) नन्दनः। श्रद्धातश्च फलविशेषमाह पात्रस्येति ॥८६।। (७) मणिरामः । पात्रस्य हि विशेषेण विद्यातपोवृत्तितया पात्रस्य तारतम्यमवेक्ष्य । प्रेत्य परलोके ॥८६॥ (८) गोविन्दराजः । पात्रस्य हि विशेषेण श्रद्दधानस्तथैव च । अल्पं वा बहु वा प्रेत्य दानस्यावाप्यते फलम् । अध्ययनं विज्ञानतपोयुक्ततथा पात्रतारतम्यमपेक्ष्य श्रद्धातारतम्यं चान्यं वा बहु चापरलोके वा दानस्य फलं प्राप्यते ॥८६।। (९) भारुचिः। एवं च सति यथा पात्रविशेषात् फलविशेष एवं श्रद्धया ॥८६॥ समोत्तमाधमै राजा त्वाहूतः पालयन्प्रजाः । न निवर्तेत संग्रामात्क्षात्रं धर्ममनुस्मरन् ॥८७॥ (१) मेधातिथिः। सर्वोपायपरिक्षये राज्ञो विहितं युद्धम् । तत्र संग्रामभूमिगतस्याहतस्य समन्यूना आधिकबलेनोपेक्षाप्रतिषेधार्थमिदं पदम् । न मन्तव्यं निकृष्टबलं न हन्मीति । अथवा ये शत्रव आटविकादयः प्राक्स्थितां मर्यादामतिलंघ्य देशमुत्क्रामन्ति शत्रुभिर्वा राज्ञः संदधते, न चेत्ते युद्धेन विना नियन्तुं शक्यन्ते,--तदा निकृष्टवलैरपि तैर्योद्धव्यमेव । यद्यपि तैरसौ शब्देन नाहूतो वस्तुतस्त्वाहूत एव भवति । एष हि क्षत्रियाणां धर्मः यदाहूतः प्रकृतस्तैर्युद्धे सर्वेण सह योद्धव्यमेव । जातिवयःशिक्षापुरुषकारादि नापेक्षितव्यम् । एष धर्मः स्मर्तव्यः ।।८७।। (२) सर्वज्ञनारायणः । अधमः शूद्रः । आहूतो युद्धार्थम् । न निवर्तेत न प्रवर्तेत ॥८७॥ (३) कुल्लूकः । समबलेनाधिकबलेन हीनबलेन च राज्ञा युद्धार्थमाहूतो राजा प्रजारक्षणं कुर्वन् युद्धान्न निवर्तेत क्षत्रियेण युद्धार्थमाहूतेनावश्यं योद्धव्यमिति क्षात्र धर्म स्मरन् ॥८७॥ (४) राघवानन्दः । प्रासंगिक मुक्त्वा प्रकृतमाह सम इति । धनविद्याशूरत्वादिना समोत्तमाधमैः युद्धायाहूतो न निवर्तेतेत्यन्वयः ।।८७॥ (५) नन्दनः। राष्ट्रात्करमादाय यष्टव्यञ्च दातव्यं चेत्युक्तम्, इदानीं राष्ट्र- प्रत्यर्थिभिराहूतेन योद्धव्यमित्याह समेति । प्रजाः पालयन्प्रजापालनहेतोः ॥८७।। (६) रामचन्द्रः । समश्चोत्तमश्चाधमश्च' ते राजा आहूतः संग्रामान निवर्तेत ॥८७॥ (७) मणिरामः । समोत्तमधिनैः आत्मनः समबलेनाऽधिकबलेन न्यूनबलेन वा । क्षात्रं धर्मं युद्धार्थमाहूतेनावश्यं योद्धव्यमित्युक्तं ॥८७॥ (८) गोविन्दराजः। समोत्तमाधमैरिति । समाधिकहीनबलै: राजभियुद्धार्थमाहूतः प्रजारक्षणोद्यतः क्षत्रियेणाहूतेनावश्यं योध्दव्यमित्येवं क्षात्रधर्म संभावयन् संग्रामान्न निवर्तेत ।।८७॥ .
७२ मनुस्मृतिः [७.८९ (९) भारुचिः। आहूतस्य'... केनापि संग्रामादनिवृत्तिः स्याद्यत्कारणमेष हि राज्ञां विशिष्टो धर्मः। यत् ॥८७॥ संग्रामष्वनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥८८॥ (१) मेधातिथिः । त्रयाणां धर्माणां तुल्यफलत्वाय श्लोकोऽयम् ॥८८॥ (३) कुल्लूकः । यस्मात् संग्नामेष्विति । युद्धेष्वपराङमुखत्वं प्रजानां च रक्षणं ब्राह्मणपरिचर्या एतद्राज्ञामतिशयितं स्वर्गादिश्रेयःस्थानम् ॥८८।। (४) राघवानन्दः । प्रासंगिके फलमाह संग्रामेष्विति । प्रजापरिपालनवद्विज- शुश्रूषाया युद्धानिवर्तित्वस्यापि श्रेयस्करत्वमित्यर्थः ॥८८॥ (५) नन्दनः। कोऽयं क्षात्रो धर्मस्तमाह संग्रामेष्विति । पालनशुश्रूषयोरुपन्यासो दृष्टान्तार्थः ॥८८॥ (७) मणिरामः । श्रेयस्करं परं अतिशयितं स्वर्गादि श्रेयःस्थानं ॥८८॥ (८) गोविन्दराजः । संग्रामेष्विति । युद्धेभ्योऽपराङमुखत्वं, प्रजानां पालनं, ब्राह्मणानां परिचर्येत्येतद्राज्ञां प्रकृष्टं स्वर्गादिसाधनम् ॥८८॥ (९) भारुचिः। यथा प्रजापालनब्राह्मणशुश्रूषणे राज्ञां विशिष्टो धर्मः, एवं संग्रामेष्वनिवतित्वस्तुतिः ॥८८॥ आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः। युध्यमानाः परं शक्त्या स्वर्ग यान्त्यपराङ्मुखाः॥८९॥ (१) मेधातिथिः। आहूयन्ते युद्धार्थमितरे यत्र वीराः स आहवः संग्रामः। मिथः स्पर्धमाना अन्योन्यं परस्परं जिवांसन्तो हननेच्छत्रः युद्धयमानाः प्रहरन्तः परं शक्त्या परया शक्त्या यथाबलमित्यर्थः । छांदसत्वात्परेत्यस्य स्थाने परमिति रूपम् । अपराङमुखा युद्धधमाना इति संबन्धः । स्वर्ग यान्ति। “ननु च राज्यलोभात्प्रवृत्तानां दृष्टस्य फलस्य संभवात्कुतः स्वर्ग उच्यते"। वक्ष्यमाण युद्धनियमापेक्षः स्वर्गः । न हि तेषां नियमाना- मन्यत्प्रयोजनमस्ति । 'न कूटैरायुधैरित्यादिना त्यक्तराज्यस्यापि शक्तप्रणिपातेन तदनुजीवन- संभवात् भवेत् । तस्मादहस्तत्फलसंभवः । अथवा निश्चिते पराजये निराशस्य युद्धावतरणम्, तत्स्वर्गायैव । अस्मादेव वचनान्नात्मत्यागनिषेधस्य विषयोऽयम् । महीक्षितो मण्डलेश्वरा न पुनस्तदनुजीविनः। तेषां हि स्वाम्यर्थैव प्रवृत्तिर्न स्वार्था । अतश्च' कुतस्तेषां फलसम्बन्धः, ऋत्विजामिव दक्षिणापणेन परिक्रीतानाम् । एवमेषामपि वृत्तिपरिक्रीतानां कुतः स्वर्गादिफलोत्पत्तिः ? ननु च अविशेषेणैतदुक्तम् । (५/९७) "उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च । सद्यः सन्तिष्ठते यज्ञ" इति । तथा "द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिवाड्योगयुक्तश्च शूरश्चाभिमुखो हतः।” इति । तथा भारते , ७.८९]] व्याख्यानवकोपेता ७३ युद्धप्रैक्षिणामपि स्वर्ग: संदर्शितः। मन्त्रलिङगानि च सन्ति “ये युध्यन्ते प्रधनेषु शूरासो ये तनुत्यजः । ये वा सहस्प्रदक्षिणास्ताँश्च देवापि गच्छतात्॥” सहस्त्रदक्षिणानां यजमानानां शूराणां च रणशिरसि त्यक्तप्राणानां महाफलत्वं च दर्शयन्ति । 'ये युध्यन्ते' न च मरणायैव क्रीयन्ते । नहि संपरिग्रहकालेऽयमुपसंवादोऽस्ति । यथा होत्रोद्गातादीनां स्वप्रवचनसमाख्या- नियतात्विज्यपदार्थानुष्ठानायैव वरणम् । तस्मात्प्रभुकार्योद्देशेन यन्मरणं तदनुक्रान्त- फलायैव । न च परप्रयुक्तात्कर्मणोऽन्यस्य फलं नास्ति । अश्वमेधावभृथे. हि ब्रह्मघ्नस्य स्नानादयजमानस्यैव शुद्धिः । अत्रोच्यते-प्रजार्थे युद्धे प्राणत्यागो धर्मायैव । यदुक्तम् 'उद्यतैराहव' इति, तदा भृतिपरिक्रीतस्यास्वतंत्रस्य यस्य वा 'कुविति' प्रयाणं रण इत्येव परिकरो बद्धस्तदपेक्षमेतत् यज्ञसंस्थावचनम् । एवंभूतश्चाभिमुखो हत इति । अथवा नरकाभाव एव 'सूर्यमंडलभेदनं' युद्धयमानस्य भविष्यति । यत्र विषयान्तरेश्वरेण राज्ञा परस्य राज्ञो विषयो हन्यते भज्यते जनो लुप्येत्तत्र तदर्थं युद्धे प्राणत्यागो धर्मार्थः । अन्धंतमो हि नरके तदभावात्सति प्राकाश्ये सूर्यमंडलभेदनवचनम् । सूर्यमण्डलं भिनत्ति, उपरिष्टाल्लोकानान्पोति, नाधः प्रपततीत्यर्थः । भृतिपरिक्रीतस्य प्रभोः संग्रामे समुपस्थिते, तमेव जहतो नरकनिपतनम्, तदर्थं युध्यमानस्य भर्तृपिण्डानृण्यं गतवतो दुष्कृतेन प्रतिबध्यमानस्य' स्वैः सुकृतैर्युक्त एव स्वर्गादिलाभः । अत उक्तं "सद्यः संतिष्ठते यज्ञ" इति । अव्यवधानेन यज्ञफलमविशेषश्रुतौ स्वर्गमवाप्नोतीत्यर्थः। एवं भारतेऽपि भृतिपरिक्रीतानां स्वर्गफलावाप्तिवचनमुपपद्यते । युद्धप्रैक्षिणां तु स्वर्गावाप्तिरर्थवाद एव । अथवा बहुषु जीवनोपायेषु सत्सु यच्छस्त्रेण जीवनं ततो नियमात्स्वर्गः । यत्तु न मरणाय क्रीयन्त इति, शस्त्रभृतां भृतिदाने नान्यद्युद्धात्प्रयोजनमस्ति, विशेषानुपदेशात्—'सर्वकार्योद्यताः, सर्वप्रकार मदर्थः संपादनीयः' इति परिक्रीयन्ते तत्र यदा युद्धमुपस्थितं भवति, तदा आ शरीरपाता- त्प्रभोरर्थः कर्तव्यः, तथाऽऽनृण्यं भवति । अनुपस्थिते तु युद्ध यदि भृत्यस्य मरणं भवति, तदा सर्वेऽनृणा एव । उद्युक्ते ह्यसौ तत्कार्य तादृश एवास्योपसंवादः । युद्धकाले योद्धव्यं भवतीति लिङ्गदर्शनमपि तूपपद्यत एव । अश्वमेधावभृथे तु स्पष्टं वचनं 'तस्मात्समागमे तेषामिति', इह तु युद्धसाध्यमिति विशेषः ॥८९॥ (२) सर्वज्ञनारायणः । मियो जिघांसन्तोऽन्योन्यं युद्धयमाना इत्यपौन रुक्त्यम् ॥८९॥ (३) कुल्लूकः। अत एव आहवेष्विति । राजानो मिथः स्पर्धमाना युद्धष्वन्योन्यं हंतुमिच्छंतः प्रकृष्टया शक्त्या संमुखीभूय युध्यमानाः स्वर्ग गच्छंति । यद्यपि युद्धस्य शत्रुजय- धनलाभादिरूपं दृष्टमेव फलं न स्वर्गः तथापि युद्धाश्रिता पराङमुखत्वनियमस्य स्वर्गः फलमिति न दोषः ॥८९।। (४) राघवानन्दः। आहवेषु युद्धेषु । महीक्षितो राजानः स्वर्ग यान्तीति फल- संबन्धमात्रमत्र विधेयमन्येषां स्वधर्मत्वेन प्राप्तेः ॥८९।। (५) नन्दनः। अनिवर्तित्वस्य श्रेयस्करं चेत्कारणमाह आहवेष्विति । यद्यस्मात्स्वर्ग यान्ति तस्माच्छ यस्क रत्वमनिवतित्वमिति ॥८९।। (८) गोविन्दराजः । तथा चाहवेष्विति । महीपाला: मिथः स्पर्धमानाः संग्रामे- वितरेतरं हन्तुकामाः प्रकृष्टया शक्त्या सम्मुखं युध्यमानाः स्वर्गं गच्छन्ति ॥८९॥ - ७४ . मनुस्मृतिः [७.९१ भारुचिः । तथा चाह अतश्च संग्रामादनिवर्तित्वं राज्ञां विशेषधर्मः। तस्य च युध्यमानयोः नियमः शिष्यते च ॥८९॥ न कूटैरायुधैर्हन्यायुध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः॥९॥ (१) मेधातिथिः । तानिदानीमदृष्टार्थानियमान्दर्शयति । कूटानि यानि बहिःकाष्ठ- मयान्यन्तनिशितशस्त्राणि। कणिनः शरा ये शल्यस्य मूले मध्ये वा कर्णाकारैः फलकैः क्रियन्ते। ते हि प्रविष्टा दुरुद्ध। भवन्ति । उध्रियमाणा: प्रहारैरभिन्नमपि शरीरैकदेशं भिन्दन्ति । दिग्धा विषोपलिप्ताः। अग्निना ज्वलितमादीपितं तेजोमयफलकं येषाम् । एतैर्न योद्धव्यम् ॥९॥ (२) सर्वज्ञनारायणः। कूट छमनिन्नुतः। कणिभिः कर्णाकारफलकैः। दिग्ध- विषाक्तः । अग्निज्वलिततेजनरग्निधमनोष्णीकृतफलकैः ॥९०।। (३) कुल्लूकः । कूटान्यायुधानि बहिःकाष्ठादिमयान्यन्तर्गुप्तनिशितशस्त्राणि एतैः समरे युध्यमानः शत्रून्न हन्यान्नापि काकारफलकैर्बाणैर्नापि विषाक्तैप्यिग्नि- दीप्तफलकैः ॥९॥ (४) राघवानन्दः । तत्रान्याययुद्धं स्वर्गासाधनमिति निषेधति न कूटैरिति चतुभिः । कूटता हि दृश्यमान काष्ठादिमयत्वेऽप्यन्तनिहित लोहाद्यस्त्रयुक्तता। कणिभिः कर्णिकार- वत्फलकैणिः । दिग्धैः विषाक्तः। ज्वलिततेजनैः प्रदीप्त फलकैः ॥९॥ (५) नन्दनः । सजातीयानि शस्त्राण्याह न कूरैरायुधैरिति । कूटः कृत्रिमैः । कर्ण- युक्तः शरः कर्णो । दिग्धो विषलिप्तः । अग्निज्वलिततेजनैः अग्निदीपितशल्य मुखैः ॥९०॥ (६) रामचन्द्रः । कगिभिः कणिसंज्ञैः चारणैः दिग्धेविषसंयुक्तः अग्निज्वलिततेजनः अग्निधमितोष्णीकृतफलकैः एतादृशैर्वाणैर्न युध्येत ॥९०॥ (७) मणिरामः । कूटान्यायुधानि बहिः काष्ठादिमयानि' अंतर्गुप्तनिशितानि । कणिभिः काकारफल कैगिः। दिग्धः विषाक्तः। नाग्निज्वलिततेजनः अग्निदीप्त- फलकैः ॥९॥ (८) गोविन्दराजः। न कूरिति । न कणि कैपि दिग्धैर्नाग्निज्वलिततेजनैः। संग्रामे युद्धं कुर्वन् कूटशस्त्रादिभिः शत्रून् हन्यमानोऽपि कृतकका रफलकै पि विषलिप्तैर्न चाङ्गज्वलितफलकैः ॥१०॥ न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् । न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥९१॥ (१) मेधातिथिः । रथस्थेन रथारूढ एव हन्तव्यः, स्थलस्थितो न हन्तव्यः । क्लीबो नपुंसकः, पौरुषहीनो वा । अन्यत्र दृढ आसीन उपविष्टो रथपृष्ठे भूमौ वा । तवास्मीति वदति यस्तमपि न हन्यात् । शब्दनियमोऽत्र न विवक्षितः । दीन वदन्नेवंजातीयकैरपि शब्दै स्त्वदीयोऽहं त्वामाश्रितोऽस्मीति'न हन्तव्यः ॥९१।।
७.९३]] व्याख्यानवकोपेता ७५ (२) सर्वज्ञनारायणः । स्थलारूढं युद्धभूमिं त्यक्त्वा स्थलेऽन्यैरप्राप्त्यर्थं स्थितम् ॥९१।। (३) कुल्लूकः । स्वयं रथस्थो रथं त्यक्त्वा स्थलारूढं न हन्यात् । तथा नपुंसक बद्धाञ्जलिं मुक्तकेशमुपविष्टं त्वदीयोऽहमित्येवंवादिनं न हन्यात् ॥९१॥ (४) राघवानन्दः । किंचैतानष्टादश न हन्यात्सतां धर्ममनुस्मरन्नित्याह न चेति त्रिभिः । स्वयं रथारूढः त्यक्तरथमरिं न हन्यात् । एवं क्लीबं क्लैब्यभाषिणं नपुंसकं वा । आसीनं रथमध्ये भूमौ वोपविष्टम् । तवास्मीति वादिनं शरणागतम् ॥९१॥ (५) नन्दनः । अवध्यानाह न च हन्यादिति । स्थलं तुङ्गप्रदेशम् ॥११॥ (७) मणिरामः । स्थलारूढं विगतवाहनं ॥९१॥ (८) गोविन्दराजः । न चेति । युद्धभूमिं त्यक्त्वा स्थलमारूढं नपुंसकं बद्धाञ्जलिं । मुक्तकेशोपविष्ट, त्वदीयोऽहमित्येवं वक्तारं न हन्यात् ॥९१॥ न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् । नायुध्यमानं पश्यन्तं न परेण समागतम् ॥९२॥ (१) मेधातिथिः । न नग्नम् । 'न भग्नमिति' वा पाठः । विसन्नाहस्य प्रतिषेधान्नग्नस्य प्राप्तिरेव नास्ति । तेन शिरस्त्राणाद्यभावनैकदेशेन नग्नतया नग्नो द्रष्टव्यः । भग्नस्यापि परावृत्तप्रतिषेधात्संमुखस्थोऽपि, 'त्वया सह न युद्धेय'मिति वक्ति, स नानुबन्धनीयोऽवश्यं योद्धव्यमिति । नायुध्यमानं पश्यन्तम् । यः प्रेक्षक एवं केवल: स न हन्तव्यः । यस्तु प्रेक्षते युध्यते च, न तत्र प्रतिषेधः । परेण समागतः। अन्येन सह युध्यमानोऽन्येन' न हन्तव्यः ॥९२।। (२) सर्वज्ञनारायणः । अयुध्यमानं पश्यन्तमित्येव समागतं युद्धार्थम् ॥९२॥ (३) कुल्लूकः । सुप्तं मुक्तसन्नाहं विवस्त्रमनायुधम् युध्यमानं प्रेक्षकमन्येन सह युध्यमानं च न हन्यात् ।।९२॥ (४) राघवानन्दः। सुप्तं स्वप्नायितं श्रमवशात् । विसन्नाहं सन्नाहः कवचादिः तच्छून्यम् । पश्यन्तं रणोत्सवम् । परेण समागतं परेण सह युद्धासक्तम् ॥९२।। (५) नन्दनः । विसन्नाहं विकवचम् । पश्यन्तं युद्धदर्शिनम् । न हन्यादित्यनुवर्तते ॥९२।। (६) रामचन्द्रः । विगतः सन्नाहो यस्य स विसंनाहस्तं न हन्यात् ॥९२।। (७) मणिरामः । परेण समागतं अन्येन सह युध्यमानं ॥९२।। (८) गोविन्दराजः । न सुप्तमिति। सुप्त, विगतसमाहं अपरिधानानायुधप्रधन- प्रेक्षकान् अन्यैश्च युध्यमानान् न हन्यात् ॥९२॥ नायुधव्यसनप्राप्तं नातं नातिपरिक्षतम् । न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥९३॥ (१) मेधातिथिः । आयुधव्यसनमायुधकृच्छ्रमायुधभङ्गः, कुण्डलिभावः खड्जस्य, ज्याछेद इत्येवमादिस्तं हतपुत्रभ्रातादिः । भीतं मुखरागादिना विज्ञाय, शस्त्रसंमुखमपि । परावृत्तं प्रत्यावृत्य स्थितम् । एते नियमा: । प्रतिषेधपक्षे प्रत्यवायः प्राप्तम् । आर्तः ७६ मनुस्मृतिः [७.९४ । तदा च स्वर्गप्राप्तिवचनमर्थवादः । किं पुनरत्र युक्तम्? पुरुषार्थः प्रतिषेधः । “न' कलर्ज भक्षयेत्” इतिवत् । तथा हि ननो मुख्यार्थवृत्तिता भवति । सतां धर्ममिति । शिष्टानामेष आचार इत्याह अनुस्मरन्निति ॥९३॥ (२) सर्वज्ञनारायणः । युद्धव्यसनं दैवकृतं रथभङ्गादिना । आयुधव्यसनमिति क्वचित्पाठः तत्रायुधव्यसनं खड्गादिभङ्गः । आतं पुत्रादिशोकार्तम् । अतिपरिक्षतमन्येन सह युध्वा । परावृत्तं युद्धात् ॥१३॥ (३) कुल्लूकः । भग्नखड्गाद्यायुधं पुत्रशोकादिनाऽऽत बहुप्रहाराकुलं भीतं युद्धपराङमुखं च शिष्टक्षत्रियाणां धर्म स्मरन् न हन्यात् ॥९३॥ (४) राघवानन्दः । आयुधव्यसनं प्राप्तं भग्नरथाद्यायुधम्। आर्त पुत्रादिशोकैः । परिक्षतमापादतलमस्तककृतक्षतम् । भीतं वेपमानं भयेन । परावृत्तं युद्धात्पराङमुखम् । सतां भीष्मादीनाम् ॥९३॥ (५) नन्दनः। आयुधव्यसनं आयुधभङ्गादिकम् । आतं पुत्रादि । सतान्धर्म कूटयुद्धादिभिरयोधनं स्थलारूढादिनञ्चानुस्मरन् राजा न हन्यादित्यनुवर्तते ॥९३।। (६) रामचन्द्रः । आयुधव्यसनं प्राप्तं भग्नायुधं आतं पुत्रादिशोकविकलं अति- परिक्षतं शस्त्रादिपरिक्षतं क्षतसंयुक्तम् ॥९३॥ (७) मणिरामः। नायुधव्यसनं प्राप्तं भग्नायुधं । आर्तः पुत्रशोकादिना पीडितं । नाति- परिक्षतं बहुप्रहाराकुलं ॥१३॥ (८) गोविन्दराजः । नायुधव्यसनप्राप्तमिति । भग्नायुधं, हतपुत्रादिकं, प्रहारोपेतं भीतं, संग्रामप्रतिनिवृत्तं शिष्टाचारं स्मरन् न हन्यात् ॥९३॥ (९) भारुचिः । संग्रामनियमविधिरतो. . .यार्थम् ॥९३॥ यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः। भर्तुर्यद्दष्कृतं किञ्चित्तत्सर्वं प्रतिपद्यते ॥९४॥ (१) मेधातिथिः। नैवं मन्तव्यं-परावृत्तो यदि हन्यते तदा, दुष्कृत्यहतस्तु नेति-किं तहि? परावृत्तमात्रनिबन्धनं दोषवचनम् । किंच न परावृत्तहतेनेयं बुद्धिः कर्तव्या- 'अनुभूतखङ्गप्रहारोऽस्म्यनृणः कृतभर्तृकृत्य' इति। तथाविधाः प्रहारा न कस्मैचिदर्थायेति दोषातिशयदर्शनेन दर्शयति भर्तृसंबन्धिदुष्कृतमिति । यच्च वचनमुत्तरत्र तदीयसुकृतग्रहण- मिति, तदर्थवादः । न ह्यन्येन कृतं शुभमशुभं वाऽन्यस्य' संभवति । न च सुकृतस्य नाशः, किन्तु महता दुष्कृतेन प्रतिबन्धे चिरकालभाविता सुकृतस्य फलस्य' उच्यते ॥९४॥ (२) सर्वज्ञनारायणः। भर्तुर्यदुष्कृतमिति बहुतरदुष्कृतोत्पादोपलक्षणं न तु मुख्यार्थं अदुष्कृते भर्तरि तदभावापत्तः ॥१४॥ (३) कुल्लूकः। यस्तु योधो भीतः पराङमुखस्सन् युद्धे शत्रभिर्हन्यते स पोषणकर्तुः प्रभोर्यदुष्कृतं तत्सर्वं प्राप्नोति शास्त्रप्रमाणके च सुकृतदुष्कृते यथा शास्त्रसंक्रमयोग्य एव सिद्धयतः अत एवोपजीव्यशास्त्रेण बाधनान्न प्रतिपक्षानुमानोदयोऽपि । एतच्च षष्ठे 'प्रियेषु (स्वेष) सुकृत' (६/७९)मित्यत्राविष्कृतमस्माभिः । पराङमुखहतस्य स्यात्पापमेतद्विवक्षितम् । .
७७ । ७.९५] व्याख्यानवकोपेता न त्वत्र प्रभुपापं स्यादिति गोविन्दराजः। मेधातिथिस्त्वर्थवादमानमेतन्निरूपयन् मन्ये नैतद् द्वयं व्युक्तं व्यक्तमन्वर्थवर्जनात् । अन्यदीयपुण्यपापेऽन्यत्र संक्रमेत इति शास्त्रप्रामाण्याद्वेदान्तसूत्रकृता बादरायणेन निर्णीतोऽयमर्थ इति यथोक्तमेव रमणीयम् ॥१४॥ (४) राघवानन्दः । संग्रामे पराङमुखादेर्दोषमाह यस्त्विति द्वाभ्याम् । परस्थपापं परत्र फलदमिति च न तस्य नातिभारः। मेधातिथिस्त्वाहार्थवादमात्रम्। भर्तुः शस्त्र- भरणयोग्यस्य वान्यस्य' यत्पापं तत्पराङमुखघातकानां भवेदिति गोविन्दराजः । प्रकरणादिति परैः शत्रुभिः परावृत्तः पराङमुखो यदि घात्यते तदा पोषकस्य भर्तुर्यत्पक्षपातितया बुध्यति तस्य दुष्कृतं सर्वमाप्नोतीति वस्त्वर्थः । तस्मात्पराङमुखेन न' भाव्यमिति भावः ॥९४॥ (५) नन्दनः। अयोध्यस्य परावृत्तस्य दोषमाह यस्तु भीत इति । भर्तुः स्वामिनः ॥९४॥ (७) मणिरामः। भर्तुः पोषणकर्तुः। दुष्कृतं पापं । प्रतिपद्यते प्राप्नोति ॥९४॥ (८) गोविन्दराजः । यस्त्विति । यो भीतः पराङमुखीभूतः संग्रामे शत्रुभिर्हन्यतेऽपि यदि तथापि प्रभोर्यत्किञ्चित्पापं तत्सर्वं प्राप्नोति । पापं तस्य भवति ह्येतावदत्र विवक्षितम् । अन्यं वा कथयति अपापे प्रभौ पापाभावप्रसङगेन च प्रभोरेव तत्प्रायश्चित्तं तेनासौ दुष्कृतात्प्रमुच्यते। भर्तृग्रहणादमात्यस्यापि परावर्तनादिदोष एव, न प्रकृतस्यैव राज्ञः ॥१४॥ (९) भारुचिः। राज्ञोऽन्यस्यापि दण्डपुरुषस्य परावृत्तस्य निन्दा श्लोकद्वयेनोक्ता। युक्ता च तन्निन्दा यदर्थमसौ ह्रियते तदकुर्वन् ॥९४॥ यच्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम् । भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥९५॥ (१) मेधातिथिः । यच्चास्य सुकृतं किंचिद्भर्ता तत्सर्वमादत्त इति । अमुत्रार्थमु- पाजितम् । अर्थोऽस्यास्तीत्यर्थः । अर्शआदित्वादच् । अमुत्रामुष्मिल्लोके यत्प्रयोजन तजितम् । तदप्यस्य निष्फलं भवति । अमुत्रार्थोऽस्येति वा अमुत्रार्थं व्यधिकरणो बहु- व्रीहिगमकत्वात्प्रयोजकत्वाच्च ॥९५।। (२) सर्वज्ञनारायणः । अस्य च परावृत्तहतस्य चकारात्परावृत्तमात्रस्य यदमुत्रार्थं च सुकृतं चकारादिह लोकार्थं च ॥९५।। (३) कुल्लूकः । पराङमुखहतस्य यत्किचित्सुकृतं परलोकार्थमजितमनेनास्ति तत्सर्वं प्रभुर्लभते ॥९५॥ (४) राघवानन्दः। न केवलमेवमपि त्वस्य' पराङ्मुखस्य भर्ता पोष्टा परावृत्तः पराङमुखः स चासौ हतश्चेति तस्य परावृत्तहतस्य परलोकार्थमुपाजितं सुकृतमुपादत्त इत्यन्वयः ॥१५॥ (७) मणिरामः । अस्य पराङमुखहतस्य । अमुत्रार्थ परलोकार्थं ॥९५॥ (८) गोविन्दराजः। यदिति । अस्य च पराङमुखहतस्य यत्किञ्चित्परलोकार्थ सुकृतमर्जितमस्ति तत्सर्वं प्रभोर्भवति ॥९५।।
७८ मनुस्मृतिः [७.९७ रथाश्वं हस्तिनं छत्रं धनं धान्यं पशूस्त्रियः । सर्वद्रव्याणि कुप्यं च यो यजयति तस्य तत् ॥१६॥ (१) मेधातिथिः। कुप्यं शयनासने ताम्रभाजनादि। यो यज्जयति तस्य तत् । राज्ञः स्वामित्वाद्ग्रहणे प्राप्ते तदपवादार्थमेतत्। सुवर्णरूप्यभूम्यावासकादि राज्ञ एव । एवमर्थपरिगणनम् । आयुधसंवाहनादि राज्ञ एव । धान्यादीनां पृथगुपादानाद्धनशब्देन गोमहिष्यादिकमुच्यते। तथा राजधनं चार्धमिति प्रयुञ्जते ॥१६॥ (२) सर्वज्ञनारायणः। धनं रत्नादि। सर्वद्रव्याणि वस्त्रादीनि । कुप्यं हेमरूप्यान्य- धातुद्रव्यम् ॥९६॥ (३) कुल्लूकः । राज्ञः स्वामिनः सर्वधनग्रहणे प्राप्ते तदपवादार्थमाह । रथाश्व- हस्तिछत्रवस्त्रादिधनधान्यगवादिदास्यादिस्त्रियः सर्वाणि द्रव्याणि गुडलवणादीनि । कुप्यं च सुवर्णरजतव्यतिरिक्तं ताम्रादिधनम्' यः पृथग्जित्वा सततं गृहमानयति तस्यैव तद्भवति सुवर्णरजतभूमिरत्नाद्यनपकृष्टधनं तु राज्ञ एव समर्पणीयं, एतदर्थमेवात्र परि- गणनीयम् ॥१६॥ (४) राघवानन्दः। अरिधनस्य ग्रहीतारमाह रथाश्वमिति । दन्तिनं कुप्यं सुवर्णरजतं भूमिरत्नाद्यतिरिक्तं शयनासनादिः ॥९६।। (५) नन्दनः। योजितं द्रव्यं न राज्ञा हार्यमित्यभिप्रायेणाह रथाश्वमिति । स्वर्णरजतव्यतिरिक्तद्रव्यं कुप्यम् ॥९६॥ (६) रामचन्द्रः । रथादिकं यो यज्जयति तस्य तत्सर्वं भवेत् । च पुनः कुप्यं सुवर्णरौप्यव्यतिरिक्तं धातुसंज्ञम् ॥९६।। (७) मणिरामः। सर्वं धनं स्वामिना ग्राह्यमिति प्राप्ते तदपवादमाह रथाश्व- मित्यादि। कुप्यं च सुवर्णरजतधनं तु राज्ञ एवं समर्पणीयं न स्वयं ग्राह्यमित्यर्थः ॥९६॥ (८) गोविन्दराजः। रथाश्वमिति । रथाश्वहस्तिध्वजहिरण्यधान्यपशुदास्यात्मकं सर्वाणि गुडलवणादीनि कुप्यं ताम्रलोहादि यो यत्परानवजित्य हरति तस्यैव तत् भवति न राज्ञः ॥९६॥ (९) भारुचिः। स्वामित्वाद्राजग्रहणनिवृत्त्यर्थों नियमः ॥९६।। राज्ञश्च दधुरुद्धारमित्येषा वैदिकी श्रुतिः । राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ॥९७॥ (१) मेधातिथिः । येन यज्जितं तेन तद्ग्रहीतव्यमित्यस्यायं विशेष उच्यते । स्वयमुद्धारं राज्ञे दारुत्तमद्रव्यमुद्धृत्य दद्युरित्यर्थः । न सर्वं तैर्ग्रहीतव्यमिति । एषा वैदिकी श्रुतिः । “इन्द्रो वै वृत्रं हत्वा” इत्याधुपक्रम्य “स महान् भूत्वा देवता अब्रवीदुद्धारं म उद्धरतेति"। राज्ञा वा पृथग्जये स्वयंजये यत्रायं विभागो नास्त्यनेनायं ग्रामो जितः, एष च परकीयः सामन्तादिः सर्वेण सर्व उत्खातमूलः। तत्र राज्ञा लब्धप्रशमनन्यायेन' भृत्याः संविभजनीयाः ॥९७।।
राज्ञा
७.९८]
व्याख्यानवकोपेता
(२) सर्वज्ञनारायणः । उद्धारं तन्मध्ये यदिष्टं वसु राज्ञस्तदुद्धृत्य दधुः ।
तथाच श्रुतिः ‘इन्द्रो वै वृत्रं हत्वे'त्युपक्रम्य ‘स महान्भूत्वा देवता अब्रवीदुद्धारं म उद्धरते'ति
यथाप्येतीच्छतीति । पृथक् जितं यैर्योधै मिलित्वा जितं तेभ्यो दद्यात् ॥९७॥
(३) कुल्लूकः । अत एवाह राज्ञ इत्यादि। उद्धारं योद्धारो राज्ञे दधुः। उध्रियत
इत्युद्धारः। जितधनादुत्कृष्टधनं सुवर्ण रजतकुप्यादि राज्ञे समर्पणीयं, करितुरगादिवाहनमपि
राज्ञे देयं, 'वाहनं च राज्ञ उद्धारं चेति गौतमवचनात् । उद्धारदाने च श्रुतिः 'इन्द्रो वै वृत्रं
हत्वे'त्युपक्रम्य ‘स महान् भूत्वा देवता अब्रवीत् उद्धारं (मे? ) समुद्धरते'ति ।
चापृथग्जितं सहजितं सर्वयोधेभ्यो यथापौरुषं संविभजनीयम् ॥९७।।
(४) राघवानन्दः। उद्धारं सुवर्णरजतभूम्याद्युत्कृष्टं करितुरगवाहनमिति गौतम-
वचनात् । तच्छृष्ठमपि अपृथग्जितं सहजितं दातव्यं यथापौरुषं विभजनीयम् ॥९७॥
(५) नन्दनः । दधुर्योधाः । उद्धारमुत्कृष्टद्रव्यं उद्धारं वा वैदिकी श्रुतिः शब्दः ।
अपृथक्जितं सर्वयोधैः सह जितम् ॥९७।।
(६) रामचन्द्रः। तन्मध्ये रथाश्वादिमध्ये उद्धारं यदिष्टं वस्तु तदुद्धृतं राज्ञो
दद्युरिति ॥९७॥
(७) मणिरामः । उद्धारं उद्धियत इत्युद्धारः, जितधनादुत्कृष्टं धनं सुवर्णादि।
अपृथग्जितं एकीभूय जितं । योधेभ्यो दातव्यं यथापौरुषं विभज्य दातव्यमित्यर्थः ।।९७॥
(८) गोविन्दराजः । राज्ञे चेति । यद्यपि यो यज्जयति तस्य तद्युक्तं । तथा च यद्यत्तत्र
श्रेयस्तत्तत् राज्ञे भृत्या दधुः। 'माहेन्द्रमुद्धारमुदहरन् वृत्रं हत्वे'त्येवमादिकाऽत्र वैदिको
श्रुतिः। यच्चाविभागेन जितं तद्राज्ञा सर्वयोधेभ्यो दातव्यम् ॥९७॥
(९) भारुचिः। उद्धारो (?वरि)ष्ठद्रव्यं सर्वयोधेभ्यो राज्ञा आदेयम्। वैदिको
श्रुतिर्माहेन्द्रमुद्धारमुदहर (त्? )वृ(?) हत्वेत्यादि. . .हजितं यत्ततः सर्वयोधेभ्यो युद्ध-
व्यायामक्लेशानुरूपं देयम् ॥९७॥
एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः।
अस्माद्धर्मान्न च्यवेत क्षत्रियो नन् रणे रिपून् ॥९८॥
(१) मेधातिथिः । उपसंहारोऽयम् ।
'योधाः' योद्धारस्तेषां धर्मो योधधर्मः ।
अनुपस्कृतः अगहितः। अविकृतो वा। अत एवाह सनातन:--स्वेच्छया प्रवर्तितो विकृतः
स्यात् । न च्यवेत न चलेत । सर्वदाऽनुतिष्ठेत् । क्षत्रियग्रहणं मुख्यस्तस्यात्राधिकार इति
दर्शयितुं न त्वन्यस्य तत्स्थानापन्नस्य नायं धर्म इति ॥९८॥
(२) सर्वज्ञनारायणः । अनुपस्कृतोधुनाऽसंस्कृतः परंपरागतः इदानीमपि तदवस्थ
एव वर्तमानः ॥९८॥
(३) कुल्लूकः। अविहित एषोऽनादिसर्गप्रवाहसंभवतया नित्यो योधधर्म उक्तः ।
युद्धे शत्रून् हिंसन् क्षत्रिय एतं धर्मं न त्यजेत् । युद्धाधिकारित्वात्क्षत्रियग्रहणं। अन्योऽपि
तत्स्थानपतितो न त्यजेत् ॥९८॥
(४) राघवानन्दः । अनुपस्कृतः अविहितः । योधधर्मः कर्तव्याकर्तव्यविचारः ।
तस्मादृष्टलोभादपि न च्यवेत न पराङमुखः स्यात् । घ्नन् रिपून्नाशयन् ॥९८॥
८०
मनुस्मृतिः
[७.१००
(५) नन्दनः । एषोऽनुपस्कृतः अकृतप्रयत्नः स्वभावसिद्ध इत्यर्थः ॥९८॥
(६) गोविन्दराजः। अनुपस्कृतः अधुनाऽसंस्कृतः परंपरागतो धर्मः इदानीमपि तदव-
स्थ एव ॥९८॥
(७) मणिरामः । अनुपस्कृतः अविहितः ॥९८॥
(८) गोविन्दराजः। एष इति । एषोऽविगहितोऽनादिपारम्पर्यायातो योधधर्म
उक्तः । ततः संग्रामे शत्रून् हिंसन् क्षत्रिय एतं धर्मं न परित्यजेत् ॥९८॥
(९) भारुचिः। अनुपस्कृतः. अक... क्त्वगुण इत्यर्थः ॥९८॥
अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः।
रक्षितं वर्धयेचैव वृद्धं पात्रेषु निक्षिपेत् ॥९९॥
(१) मेधातिथिः। न क्षत्रियः संतुष्ट: स्याब्राह्मणवत्किन्त्वलब्धार्जने यत्नं
कुर्यात् । अजितं च धनं रक्षेद्रक्षितं च वर्धयेत्कोशसंचयं कुर्यात् । ततः पात्रेभ्यो दद्यात्
नायथार्थं व्ययं कुर्यात् । तदुक्तं “आयादल्पतरो व्यय" इति ॥९९॥
(२) सर्वज्ञनारायणः। अलब्धं ग्रहणार्थम् ॥९९॥
(३) कुल्लूकः। अजितं भूमिहिरण्यादि जेतुमिच्छेत्, जितं प्रयत्नतो रक्षेत्, रक्षितं
च वाणिज्यादिना वर्धयेत्, वृद्धं च पात्रेभ्यो दद्यात् ॥९९॥
(४) राघवानन्दः । ननु राज्ञः परिपूर्णधनत्वात्किमित्यायो धनोद्धारं गृहणात्यत
आह अलब्धमिति। लिप्सेत जयकरादिना। वर्धयेल्लभ्यादिना । एतदर्थमेव क्षीणवृत्तिर्वणि-
प्रक्षितः। पात्रेषु ब्राह्मणेषु निक्षिपेत् दद्यात् ॥९९॥
(७) मणिरामः। व्यतिरिक्तं । यो यज्जयति' पृथक्जित्वा समानयति । सुवर्ण-
रजतभूमिरत्नाद्युक्तम् ॥१९॥
(८) गोविन्दराजः। अलब्धमिति। अजितं भूहिरण्यसुवर्णादि जेतुं यत्नं कुर्यात् ।
जितं च यत्नतो रक्षेत् । रक्षितञ्च वृद्धि नयेत्। एवमस्य महाधनत्वात्स्वपरपरिभवो न
भवति। वधितञ्च पात्रेभ्यो दद्यात् । तथा सति परलोकाऽभ्युदयोऽप्यस्य भवति ॥९९॥
(९) भारुचिः। लिप्समानः सन्तुष्ट: सन् राजा सपत्नैर्महद्भिः दायादैवर्धमान-
रुच्छिद्यताल्पतन्त्रत्वादजितं चारक्षन् केवलेनाजितक्लेशेन फलरहितेन सं... रक्षितं च
सम्यगवर्धयन् क्षीयते। तदुपयुञ्जानोऽन्यस्याभावात् तजितं रक्षितं वधितं च
यन्महता यत्नतः तदप्रयच्छन् पात्रेभ्य: परलोकाद्धीयेत। निष्फल...त्रयसाध्यं क्लेश-
नयमापद्यते ॥९९॥
एतचतुर्विधं विद्यात्पुरुषार्थप्रयोजनम् ।
अस्य नित्यमनुष्ठानं सम्यक्कुर्यादतन्द्रितः ॥१०॥
(१) मेधातिथिः। पुरुषस्य येऽस्तेिषां प्रयोजनं चतुर्विधम् ॥१००॥
(२) सर्वज्ञनारायणः। चतुर्विधमलब्धलाभादि । पुरुषार्थों धर्मादिः प्रयोजन
यस्य तत्तथा ॥१०॥
७.१०१] व्याख्यानवकोपेता (३) कुल्लूकः । एतच्चतुःप्रकारं पुरुषार्थो यः स्वर्गादिस्तत्प्रयोजनं यस्मादेवंरूपं जानीयादतोऽनलसः सन्सर्वदाऽनुष्ठानं कुर्यात् ।।१००॥ (४) राघवानन्दः । किंच एतदिति । एतदलब्धलिप्सादिचतुष्टयं पुरुषार्थचतुष्टयं प्रयोजनार्थम् । अतस्तत्संपादयेत् ॥१०॥ (५) नन्दनः। अस्य चतुष्टयस्य ॥१००॥ (६) रामचन्द्रः । पुरुषार्थों धर्मादिः प्रयोजनं यस्य तत्पुरुषार्थप्रयोजनं एतदलब्ध- मित्यादि चतुर्विधं विद्यात् । अस्य पुरुषार्थस्य अनुष्ठान विधानं अतन्द्रितः सन् सम्यग्यथा स्यात्तथा कुर्यात् ॥१०॥ (७) मणिरामः । एतच्चतुर्विधं अलब्धादिपूर्वोक्तं ॥१००।। (८) गोविन्दराजः । एतदिति । एतदर्जन-रक्षण-वर्धन-दानात्मकं चतुःप्रकारं पुरुषकारस्य प्रयोजनं जानीयात् । अतोऽस्यानलसः सर्वदाऽनुष्ठाने यत्नं कुर्यात् ॥१०॥ अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया । रक्षितं वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥१०१॥ (१) मेधातिथिः । पुरुषस्य येऽर्थास्तेषां प्रयोजनं चतुर्विधम् । चतस्र एताः क्रियास्तत्र प्रयोज्याः, अर्जन-रक्षण-वर्धन-दानानि । उपकारवचनोऽर्थशब्दः । पुरुषार्थसिद्धयर्थ- मेतत्प्रयोजनम् । तस्य चतुर्विधस्य प्रसक्तस्य । नित्यमनुष्ठानं कुर्यात् ॥१०१॥ (२) सर्वज्ञनारायणः । इच्छेद्दण्डेन ग्रहीतुं शत्रुतः, वैश्यादेस्तु कुटुम्बिनः साम्नव ॥१०१॥ (३) कुल्लूकः । अलब्धं यद्धस्त्यश्वरथपदात्यात्मकेन' दण्डेन जेतुमिच्छेत्, जितं च प्रत्यवेक्षणेन रक्षेत्, रक्षितं च वृद्धयुपायेन' स्थल-जल-पथ-वाणिज्यादिना वर्धयेत्, वृद्धं शास्त्रीयविभागन' पात्रेभ्यो दद्यात् ॥१०१॥ (४) राघवानन्दः। केन किं संपादयामीत्यपेक्षां पूरयति अलब्धमित्यादेः। साधन- चतुष्टयं विधत्ते अलब्धमिच्छेदिति । दण्डनेति शुल्कादेरुपलक्षणम्। वृद्धया वाणिज्यादिना। दद्यानिक्षेपयेदुत्तरकाले प्राप्त्यै ॥१०१॥ (५) नन्दनः। दण्डेन सैन्येन । अवेक्षयाऽनुसन्धानेन ॥१०१॥ (७) मणिरामः। अलब्धं हस्त्यश्वादि । दंडेन जेतुमिच्छेत् । जेतुमिच्छेत् । अवेक्षया प्रत्यवेक्षणेन । वृद्धया वृद्धयुपायेन । दानेन शास्त्रीयविभागेन । निक्षिपेत् पात्रेभ्यो दद्यात् ॥१०१॥ (८) गोविन्दराजः । अलब्धमिति । अनर्जितं हस्त्यश्वरथपदात्यात्मकेन' दण्डेन जेतुमिच्छेत् । जितञ्च शास्त्रदृष्टेन' प्रत्यवेक्षणेन, रक्षेत् । रक्षितञ्च वृद्धयर्थैरुपायैः स्थल- पदादिभिर्वर्धयेत् । वधितञ्च यदधिकं तत्परलोकार्थं पात्रेभ्यो दद्यात् ॥१०१॥ (९) भारुचिः। अत्र वृद्धयर्थमुपायो वृद्धिशब्देनोच्यते। प्रकरणसामर्थ्यावृद्धं दानेन पात्रेषु निक्षिपेत् । उ. . . निर्देशः पुरुषार्थसिद्धये राज्ञः। यत एतदेवमतः ॥१०१॥ म. स्मृ.४/६
૦૨
। मनुस्मृतिः
[७.१०२
नित्यमुद्यतंदण्डः स्यान्नित्यं विवृतपौरुषः ।
नित्यं संवृतसंवार्यों नित्यं छिद्रानुसायरेः ॥१०२॥
(१) मेधातिथिः । उद्यतो दण्डोऽनेनेत्युद्यतदण्डः, उद्यत उद्युक्तः, सव्यापार इति
यावत्। तत्र हस्त्यादिबलं नित्यं योग्याभिरभिविनयेत् । शिक्षा वाहनदमनादिभिर्विधेया ।
करणयोग्या अभ्यासाश्च । तद्वाहनादिषु वस्त्राभरणसंस्कार इत्यादिरुद्यतदण्डता। तथा
कुर्वतोऽस्योत्साहशक्तियोगो मण्डले प्रकाशीभवति । तथा नित्यं विवृतपौरुषः। विवृतं
प्रकाशतामागतं पौरुषं कर्तव्यम् । सन्धिपालाटवीस्थानादिष्वाप्तपुरुषैरधिष्ठिताः सन्निरुद्धाः
कवचिनः सततं जागरणार्थं नियोज्याः। नित्यं संवृतसंवार्यः। संवरणीयं संगोपनीय-
मात्मगतं कृत्वा तत्स्थानं संवृतं कर्तव्यमुपग्रहेण परोपजापरक्षणेन च । नित्यं छिद्रानुसरणेन,
सर्वं शत्रोः कृत्यपक्षं ज्ञात्वा झटिति तदुपजापः ॥१०२॥
(२) सर्वज्ञनारायणः। उद्यतदण्डो विपरीताचारेषु । विवृतमत्यक्तं पौरुषं पुरुष-
कारो येन स तथा । संवृतं निनुतं संचारकार्य यस्य ॥१०२॥
(३) कुल्लूकः । नित्यं हस्त्यश्वादियुद्धादिशिक्षाभ्यासो दण्डो यस्य स तथा स्यात्,
नित्यं च प्रकाशीकृतमस्त्रविद्यादिना पौरुषं यस्य स तथा स्यात्, नित्यं संवृतं संवरणीयं मन्त्रा-
चारचेष्टादिकं यस्य स तथा स्यात्, नित्यं च शत्रोर्व्यसनादिरूपछिद्रानुसंधानतत्परः
स्यात् ॥१०२॥
(४) राघवानन्दः। किंच नित्यमिति । विवृतपौरुषः विवृतं प्रकाशीकृतं योधादि-
ध्वस्त्रविद्यादिप्रकाशरूपं पौरुषं येन सः। संवृतसंवार्यः संवृतः संवरणीयः दूतादिमन्त्रश्च
यस्य सः। न केवलमेवं परच्छिद्रानुसरणमप्यवश्यकर्तव्यमस्तीत्याह नित्यमिति। अरेश्छिद्रा-
नुसारी स्यादिति ॥१०२॥
(५) नन्दनः। धर्मान्तरमाह नित्यमिति । उद्यतदण्ड: स्यात् कृतापराधदमनोद्यतः
स्यात् । संवृतसञ्चारः अच्छिद्रकार्यव्यापारः ॥१०२॥
(६) रामचन्द्रः। नित्यं संवृतसन्धानः अरेः छिद्रानुसारी छिद्रान्वेषी स्यात् ।।१०२॥
(७) मणिरामः। उद्यतदण्डः उद्यतः हस्त्यश्वादियुद्धाभ्यासरूपो दंडो यस्य सः ।
विवृतपौरुषः प्रकटीकृतमस्त्रविद्यादिना पौरुषं यस्य सः । संवृतं संवरणीयं मंत्राचारचेष्टादिक
यस्य सः । छिद्रानुसार्यरेः शत्रोर्व्यसनादिरूपछिद्रानुसंधानतत्परः ॥१०२॥
(८) गोविन्दराजः। नित्यमिति। हस्त्यश्वरथपदात्यात्मको दण्डो नित्यमुद्यतः
कृतयुद्धादिशिष्याभ्यासो यस्य स तथा स्यात् । नित्यञ्च विवृतं प्रकाशीकृतं सीमाटव्या-
दिदेशोद्यतायुधं .सन्नद्धपुरुषमारणेन पौरुष पराक्रमो यस्य स तथा स्यात् । नित्यं
संवृतं गुप्तं संवार्यं गोपनीयमन्त्रकृत्योत्थानानि यस्य स तथा स्यात् । सर्वदा च
शत्रोर्व्यसनापेक्षणकृत्यदूषणादिना छिद्रान्वेषणपर: स्यात् ॥१०२॥
(९) भारुचिः। हस्त्यादिबलयोग्यादिभिनित्यमभिविनयेत् । शस्त्रावरणे च संस्कुर्यात् ।
सततमेवमस्योद्यतदण्डता राजमण्डले प्रकाशीभवति । सन्धिपालाटविकस्थानादिषु
चाप्तपुरुषोपगृहीतैः सन्नद्धैः कवचिभिः सततं जागरितव्यम् । एवमस्य विवृतपौरुषता-
विर्भवति। कृत्यपक्षस्य च रक्षणोपग्रहाभ्यां संवृतसञ्चारो भवेत् । परकृत्यदूषणेन'
चारछिद्रानुसारी स्यात् ॥१०२॥
७.१०४]
व्याख्यानवकोपेता
८३
.
नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् ।
तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ १०३॥
(१) मेधातिथिः। अनन्तरस्य फलम्। सर्वं जगदुद्विजते बिभेति। प्रतापख्याति-
र्भवति चेति । तस्मात्सर्वाणि भूतानि स्वप्रकृतीः परांश्च दण्डेनैव प्रसाधयेत् । एवं यत्नवतो
भीताः शत्रवो नमन्त्ययत्नेनैव ॥१०३॥
(२) सर्वज्ञनारायणः । सर्वाणि भूतानि स्वकर्तव्येऽनवस्थितानि ॥१०३।।
(३) कुल्लूकः । यस्मान्नित्योद्यतदण्डस्य जगदुद्विजेदिति तस्मात्सर्वप्राणिनो दण्डेनैवा-
त्मसात्कुर्यात् ॥१०३॥
(४) राघवानन्दः। समुद्यतदण्डस्य प्रत्यक्षं फलमाह नित्यमिति । उद्विग्नं सज्जगद-
स्वातन्त्र्यान्नानिष्टाय' समर्थमिति नित्यदण्ड: प्रशस्त इति भावः ॥१०३।।
(७) मणिरामः । प्रसाधयेत् आत्मवशं कुर्यात् ।।१०३॥
(८) गोविन्दराजः। नित्यमुद्यतदण्डस्येति । यस्मान्नित्योद्यतदण्डात्सर्वं जगदुद्विजते
तस्मात्सर्वाणि भूतानि दण्डेनैव वशीकुर्यात् ।।१०३॥
(९) भारुचिः । उद्यतदण्डस्यायत्नेनैव शत्रवः ॥१०३॥
अमाययैव वर्तेत न कथंचन मायया ।
बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः॥१०४॥
(१) मेधातिथिः। माया छद्म तेन न वर्तेत । अविश्वसनीयस्तथा स्यात् । न च
परप्रकृतीरज्ञातरूपा उपजपेत् । अरिणा प्रयुक्तां च' मायां यथावबुध्येत । वुद्ध्या ज्ञात्वोप-
जापं कुर्यात् । तत्र कृत्यपक्षश्चतुर्विधः । क्रुद्धलुब्धभीतावमानितैः । तत्र येन' कृतं शिल्प
किंचिदुपकारो वा दशितः, तौ वित्रलभ्येते प्रसादेन' नियोज्येते अवमन्येते वा। तदर्थोऽपि
तत्समान: शिल्पोपकारी क्रुध्यति, नास्यास्मंदीयं शिल्पमुपकारो वोपयुज्यते । तादृशा
उपजापसहा भवन्ति ।
तथा वाल्लभ्येनोपगृहीतः, पश्चान्मानाधिकाराभ्यां भ्रष्ट:,
प्रवासितबन्धुतद्वल्लभः प्रसभमभिपूज्य स्वीकृतः, सकुल्यैरन्तहितः, सर्वस्वमाहारितस्तत्समान-
कर्मविद्योऽन्यः पूज्यते सोऽवधीयते इत्येवमादिः क्रुद्धः । केनचित्कृत पैशुन्यं तत्समानदोषेभ्यो
दण्डितं अंतर्धमदण्डपाताः सर्वाधिकारस्थाः सहसोपचितार्था इत्यादिर्लुब्धवर्गः । परिक्षीणः
कदर्यो व्यसनी बहुऋण इत्यादिर्भीतवर्गः। आत्मसंभावितः शत्रुपूजामर्थितः नीचैरुपहतः
तीक्ष्णः साहसिको भोगेनासंतुष्ट इत्येवमादिरवमानितवर्गः । एतत्परस्योपजपेत् आत्मनश्च
रक्षेत् ॥१०४॥
(२) सर्वज्ञनारायणः । माया वञ्चनेच्छा । सुसंवृतो रक्षितस्वच्छिद्रः ॥१०४॥
(३) कुल्लूकः । मायया छद्मतयाऽमात्यादिषु न वर्तेत तथा सति सर्वेषामविश्वस-
नीयः स्यात् । धर्मरक्षणार्थं यथा तत्त्वेनैव व्यवहरेत् यत्नकृतात्मपक्षरक्षश्च शत्रुकृतां
प्रकृतिभेदरूपां मायां चारद्वारेण जानीयात् ॥१०४॥
(४) राघवानन्दः । किंच स्वप्रजास्वमायां विधत्ते अमाययैवेति । अरिप्रयुक्तां
तत्कृतप्रकृतिभेदादिकाम्। सुसंवृतोऽप्रकटदूतद्वारेणेत्यर्थः ॥१०४॥
८४ मनुस्मृतिः [७.१०५ (५) नन्दनः। कथञ्चन' आपद्यपीत्यर्थः। सुसंवृतः प्रच्छन्नो भूत्वा ॥१०४॥ (६) रामचन्द्रः। सुसंवृतः आच्छादितः अरिप्रयुक्तां मायां बुध्येत ॥१०४॥ (७) मणिरामः। अमायया अकपटेन वर्तेत अमात्यादिषु । सुसंवृतः चारद्वारा ॥१०४॥ (८) गोविन्दराजः । 'बुध्येतारिप्रयुक्तां च नित्यं मायां सुसंवृतः'। यावच्छत्रूणां प्रकृत्युपजापादिछद्मना कृतं तावच्छद्मनैव व्यवहारान्न तु कदाचित्पूर्वं छद्म समाचरेत् । सुव्यक्त- पक्षरक्षश्च भूत्वा शत्रुकृतं प्रकृतिभेदादिछद्म सर्वदा चारादिभिरवेक्षेत ॥१०४॥ (९) भारुचिः। क्रुद्धलुब्धभीतमानिनामन्यराजप्रकृतीनामुपजापं पूर्वं न कुर्यात् । आत्मीयान'. . .वैति हि धर्मस्य धार्मिकत्वात् सर्वं प्रत्यनुरागः सुलभः। तत्र विप्रलब्धा- स्तुल्यकारिणः शिल्पे चोपकारे च विमनिता वल्ल (भा)वरुद्धः प्रवासितबन्धुः मान... प्रसभमभिस्पृष्टः। स्त्रीतः सकुल्यैरन्तर्हितः सर्वस्वहारित इत्येवमादिः क्रुद्धवर्गः पापकर्मा तुल्यदोषः दण्डोद्विग्नः। अनन्तभूमिदण्डोपनतसर्वाधिकरणस्थः सहसोपचितार्थ इत्येवमादिर्भातवर्गः परिक्षीणः तटयोर्व्यसटित्येवमादिर्लुब्धवर्गः। आत्मसंभावितः शत्रुपूजा- मषितो नीचैरुपहतः तीक्ष्णसाहसिको भोगेनासन्तुष्ट इत्येवमादिौनिवर्गः। एतानपर- स्यात्मनश्च बुद्ध्वा संरक्षेत् उपजपेच्च ॥१०४।। नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य च । गृहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥१०५॥ (१) मेधातिथिः । एष एवार्थः पुनरुच्यते। तथा यत्नातिशयं कुर्याद्यथा परस्य छिद्रमन्विच्छेदात्मनश्च रक्षेत्। य एवं क्रुद्धादिः कापटिकादिचारपुरुषैर्जायते स एवात्मीयोऽनुनीयत इति । कूर्मवदङ्ग गूहेद्रक्षेद्विवरमात्मनः । परोपजापात्स्वच्छिद्ररक्षणं महाप्रयोजनमित्येतदननाह ।।१०५॥ (२) सर्वज्ञनारायणः। कूर्मों यथाङ्गानि शिरआदीन्यन्तनिवेश्य रक्षति तथाङ्गानि सप्त स्वाम्यादीनि गुप्तस्थापनेन रक्षेत्। विवरं प्रहारावकाशम् ॥१०५॥ (३) कुल्लूकः । तथा यत्नं कुर्याद्यथास्य' प्रकृतिभेदादिच्छिद्रं शत्रुर्न जानाति, शत्रोस्तु प्रकृतिभेदादिकं चारैर्जानीयात्। कूर्मो यथा मुखचरणादीन्यङ्गान्यात्मदेहे गोपायत्येवं राज्याङ्गा- न्यमात्यादीनि दानसमानादिनाऽऽत्मसात्कुर्यात् दैवाच्च प्रकृतिभेदादिरूपे छिद्रे जाते यत्नतः प्रतीकारं कुर्यात् ॥१०५॥ (४) राघवानन्दः। किंच नेति । परस्यारेः। कूर्म इवेति । अयमर्थः- यथा कूर्मः करचरणादि परेभ्यो रक्षस्तद्विवरमपि गोपायत्येवं राजामात्यादीन्दानमानाभ्यां रक्षन्परेभ्यः स्वच्छिद्रं रक्षेत्। अमात्यादयो हि विक्रियमाणाः स्वच्छिद्रं प्रकटयेयुः परच्छिद्रं च गोपयेयुरिति ॥१०५॥ (५) नन्दनः । अङ्गानि कर्मारम्भोपाय: पुरुषद्रव्यसंपद्विनिपातप्रतीकारदेश- कालविभागकार्यसिद्धिश्चेति । रक्षेत् गृहेत् ॥१०५॥ ६) रामचन्द्रः। आत्मनः छिद्रं हानिवृद्धि पर: शत्रुर्न विद्यात् । विवरं प्रहारा- वकाशं रक्षेत् ॥१०५॥ ।
८५
७.१०६]
व्याख्यानवकोपेता
(७) मणिरामः । गृहेत्कर्म इवांगानि कूर्मों यथा मुखचरणादीन्यात्मदेहे गोपायति
एवं राज्यांगानि अमात्यादीनि दानसन्मानादिना आत्मवशं कुर्यात ॥१०५॥
(८) गोविन्दराजः । नास्येति । तथा यतेत यथाऽस्य च्छिद्रं प्रकृतिभेदादि शत्रुर्न
जानीते, शत्रोः पुनरसौ प्रकृतिभेदादि यत्नतो जानीयात् । तथा कूर्म इवावयवानुप्रवेशेन
प्रकृत्यादीनि राज्याङ्गानि संग्रामादिना रक्षेत् । कथंचिच्च प्रकृतिभेदादि यदात्मनः
छिद्रमुपजातं तत्र यत्नतः समाधानं कुर्यात् ॥१०५।।
(९) भारुचिः। अभियोगातिशयेन स्वच्छिद्रगहनं परछिद्रदर्शनं च शक्यते कर्तुम् ।
तच्च स्वविषये गूढपुरुषाणां कापटिकादीनां सञ्चारेण विजानीयात् परविषये चेति ॥१०५।।
बकवचिन्तयेदान्सिहवच्च पराक्रमेत् ।
वृकवचावलुम्पेत शशवच विनिष्पतेत् ॥१०६॥
(१) मेधातिथिः । यथा अप्सु दुर्गाश्रयमपि मत्स्यबलं स्वभावतस्तद्ग्रहणार्थं बकः
पर्युदासनपरतया तद्ग्रहणोपायं ध्यानादियोगादासादयति एवमर्थचिन्ताभियोगातिशयेन
सुदुष्प्रापा अप्यर्था आसाद्यन्त इति मत्वा न निर्वेदं गच्छेत् । यथा च शशोऽल्पकायत्वाच्छक्नोति
निष्पतितुमुपरि संघादपि, तथा एकोऽप्यसहायः सर्वतःसमुत्थितसामन्तप्रकोपोऽशक्तोऽवस्थातुं
दुर्गेऽरिसंपातं कृत्वा तस्माद्विनिष्पतेद् गुणवति संश्रयार्थम् । यथा च वृकः पशुग्रहणाभियोगाद्
बालप्रमादमासाद्यावलुम्पते, एवं स्वरक्षापर इति मत्वा तद्ग्रहणाभियोगो न मोक्तव्यः,
भविष्यति स कालो यत्रायं वृकवदवलुपिष्यते । यथा सिंहो महाकायानपि हस्त्यादीन्हन्ति
पराक्रमोत्साहशक्तियोगात्, एवं महदरिबलमिति न भेतव्यम्, अल्पप्राणेनापि कदाचिदुत्साहवता
महाप्राणो निहन्यत इति ॥१०६॥
(२) सर्वज्ञनारायणः। बकवद्गुप्तप्रचारः कर्तव्यं चिन्तयेत् यथा स त्यक्तचेष्टो दुर्ग-
स्थानामपि मत्स्यानामन्तरं पश्यति । सिंहवच्छौर्यमात्रेण न मायया, तदसंभवे वृकवत्पर-
स्यान्तरं दृष्ट्वाऽवलुम्पेत गृह्णीयात् व्याधवेष्टितो यथा शश: शैठ्यादलक्षितगत्या बहिर्याति
तथा शत्रुवेष्टितोऽप्यशक्तौ निःसरेत् ॥१०६।।
(३) कुल्लूकः । यथा बको जले मीनमतिचञ्चलस्वभावमपि मत्स्यग्रहणादेक-
तानान्तःकरणश्चिन्तयत्येवं रहसि सुविहितरक्षस्यापि विपक्षस्य देशग्रहणादीनांश्चिन्तयेत् ।
यथा च सिंहः प्रबलमतिस्थूलमपि दन्तीबलं हन्तुमाक्रमत्येवमल्पबलो बलवतोपक्रान्तः संश्रया-
धुपायान्तरासंभवे सर्वशक्त्या शत्रु हन्तुमाक्रमेत् । यथा च वृक: पालकृतरक्षणमपि पशुं दैवा-
त्पालानवधानमासाद्य व्यापादयत्येवं दुर्गाद्यवस्थितमपि रिपुं कथंचित्प्रमादमासाद्य व्यापादयेत् ।
यथा शश: वधोद्धरविविधव्याधमध्यगतोऽपि कुटिलगतिरुत्प्लुत्य पलायत एवं स्वयमबलो बल-
वदरिपरिवृतोऽपि कथंचिदरिव्यामोहमाधाय गुणवत्पार्थिवान्तरं संश्रयितुमुपसर्पेत् ॥१०६॥
(४) राघवानन्दः । राज्ञो वृत्त्यन्तरमाह बकवच्चेति । बकवदेकान्तवासित्वं तेन
स यथा जलान्तर्गतमतिचपलमपि मत्स्यं गृह्णाति तद्वद्विविक्तः परराष्ट्रग्रहणं चिन्तयेत् । सिंहवत्
शूरत्वप्रकटनं स यथाल्पदेहोऽपि. करिणमादत्ते तद्वदल्पसैन्योऽपि सामदानभेदेषूपायेषु क्षीणेषु
विजयाय पराक्रमेत् । वृकवन्नित्यपशुग्रहणाभियोगात्परग्रहणोपायत्वं परतोऽप्रमादित्वं च ।
शशवव्याधमध्यतः कुटिलगतितयाऽरिमध्यतः पलायनं च शिक्षेदित्यनुषज्यते ॥१०६॥
- मनुस्मृतिः [७.१०७ (५) नन्दनः । एकाग्रत्वे बकेन' सादृश्यम् । निर्भयत्वे सिंहेनः । क्रूरत्वे वृकेण । क्षिप्रकारित्वे शशेन ॥१०६॥ (६) रामचन्द्रः । अर्थात् कार्याणि वृकवत्परस्यान्तरं दृष्ट्वा अवलुम्पेत् गृहणीयात् । च पुनः शशवद्विनिष्पतेत् शशो यथा' अलक्षितगत्या बहिर्याति तथा शत्रुवेष्टितोऽलक्षितो निःसरेत् ॥१०६॥ (७) मणिरामः । बकवत् एकाग्रचित्तेन वृकवत् यथा वृको रक्षकाऽनवधान- मासाद्य पशुं मारयति एवं दुर्गाद्यवस्थितं रिघु कथंचित्प्रमादमासाद्य मारयेत् । शशवत् यथा शशः बहुव्याधमध्यगतोऽप्युत्प्लुत्य पलायते एवं स्वयमबलोऽपि कथंचिच्छत्रुव्यामोहमाधाय' बल- वत्पार्थिवांतरं संभ्रमितुमुपसर्पत ॥१०६।। (८) गोविन्दराजः । बकवच्चिन्तयेदर्थान् शशवच्च विनिष्पतेत्। वृकवच्चाव- लुम्पेत सिंहवच्च · पराक्रमेत् । यथा बको दुर्गाश्रयमतिचरन् स्वभावमपि मत्स्यमांस- ग्रहणादनिविण्णकाग्रान्तःकरणतया · चिन्तयत्येवमतिगुप्ते च रिपौ तद्राष्ट्रसम्बन्धादीनान् चिन्तयेत् । यथा शबरगोचरतामुपगतोऽपि शशोऽतिचलकुटिलगतितया देशान्तरमुपसर- त्येवं सकलसामन्तप्रकोपातिचलरिपुमध्यवर्ती वा कथञ्चिदरिसंमोहमाधाय ततः प्रदेशा- द्गुणवद्राजान्तरसंश्रयार्थं उपसर्पेत् । यथा च वृकः कृतरक्षानपि पशूस्तद्ग्रहणाभियोगेन कथञ्चिदनवधाने पाने(प्राप्ते?)हिनस्त्येवं दुर्गाद्यवस्थितमपि परं कथञ्चिदपि, तत्प्रमादमासा- द्यावलुम्पेत । यथा च गिरिवरशिखराकारमपि करिणं उत्साहशक्तियोगात् । सिंहो निहन्तुमाक्रामत्येवमल्पबलोऽपि बलवत्तराभिभूतसंश्रयाद्युपायान्तराभावे सकलबलाऽवष्टम्भेन' परिहन्तुमाक्रमेत् ॥१०६॥ (९) भारुचिः । यथा अदुष्टाश्रयं मत्स्यं चलं च स्वभावतस्तद्ग्रहणार्थं बकः पर्युपासनया तद्ग्रहगोपायध्यानयोगादासादयति एवमर्थचिन्ता (दि) योगातिशयेन दुष्प्रापा 'अप्यर्थी आसाद्यन्त इति मत्वा न निर्वेद गच्छेत् । यथा “शशोऽल्पकायत्वात् शक्नोति विनिष्पतितुमरिध्यानादपि तथैव कोऽप्यसहायः सर्वतः समुत्थितसामन्तप्रकोपोऽशक्तोऽवस्थातुं दुर्गपरिसंग्रहं तस्मान्निष्पतेत्। गुणवति संश्रयार्थी यथा च वृकः पशुग्रहणाभियोगाद् बाल: प्रभां समासाद्यावलुम्पेत एवं स्वरक्षापर इति कृत्वा तद्ग्रहणाभियोगो न मोक्तव्यो भविष्यति। सं काल: यत्रायं वृकवदवलुम्पिष्यते । यथा च सिंहो महाकायानपि हस्त्यादीन पराक्रम्योत्साहशक्त्या योगाद्धन्ति एवं महदरिबलमिति कृत्वा न भेतव्यम् । महदप्यल्पप्रागमल्पेन' महाप्राणेन (प्राणो) हन्यत इति ॥१०६॥ एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः । तानानयेद्वशं सर्वान्सामादिभिरुपक्रमैः ॥१०७॥ (१) मेधातिथिः । ये परिन्थिनः प्रतिपक्षतया वर्तन्ते ते. वशमानतव्याः । न त्वानुकूल्येन ये वर्तन्ते, तेऽपि सामादिभिः पूर्वम्, न प्रथमत एव दण्डेन ॥१०७॥ (२) सर्वज्ञ नारायणः । उपक्रमरुपायैः ॥१०७।।
७.१०८] व्याख्यानवकोपेता ८७ (३) कुल्लूकः । एवमुक्तप्रकारेण विजयप्रवृत्तस्य नृपतेर्ये विजयविरोधिनो भवेयुस्ता- न्सर्वान्सामदानभेददण्डैरुपायैः वशमानयेत् ॥१०७॥ (४) राघवानन्दः । राज्ञः सदैवारातिजयायेतिकर्तव्यतामाह एवमिति चतुभिः । परिपन्थिनः शत्रवः । उपक्रमैः उपासमीपंक्रम्यन्ते शत्रवो यस्ते उपक्रमाः उपायास्तैरिति ॥१०७॥ (५) नन्दनः । उपक्रमैरुपायैः ॥१०७।। (७) मणिरामः । परिपन्थिनः विजयविरोधिनः ॥१०७॥ (८) गोविन्दराजः । एवमिति । एवमुक्तरीत्या जेतुं प्रवृत्तस्य राज्ञो ये विजय- प्रतिकूलाः स्युः तान्सर्वान् सामभेददानदण्डैरुपायैर्वशीकुर्यात् ॥१०७॥ (९) भारूचिः। एवं विजये स्थितस्य राज्ञो ये प्रतापेन नोपरमेरन् तान्' पश्चात् सामादिभिर्वशीकुर्यात् ॥१०७॥ यदि ते तु न तिष्ठेयुरुपायैः प्रथमैत्रिभिः । दण्डेनैव प्रसयैतांश्छनकैर्वशमानयेत् ॥१०८॥ (१) मेधातिथिः । सामादिभिरशक्या दण्डेन वशमानेतव्या इति यदुक्तं तदिदं दण्डेन प्रसह्याभिभूय शनकर्यादृशो दण्डोपक्रमस्तेन, न साहसिकतया ॥१०८॥ (२) सर्वज्ञनारायणः। प्रथमैस्त्रिभिः सामदान भेदैः । प्रसह्याभिभूय शनकैः क्रमेण यदि सामसाध्यता स्यादित्याशया ॥१०८॥ (३) कुल्लूकः। ते च विजयविरोधिनो यद्याद्यैस्त्रिभिरुपायैर्न निवर्तन्ते तदा बलाद्देशोपमर्दादिना युद्धेन शनकर्लघुगुरुदण्डक्रमेण दण्डेन वशीकुर्यात् ॥१०८॥ (४) राघवानन्दः । तत्र चतुर्थदण्डस्य कालमाह यदीति । सामदानभेदैः प्रथम प्राथमिकैः । एतान्दण्डेन वशमानयेदित्यन्वयः । तत्र चतुर्णा दण्डादीनां साम्ना साधून्वशयति दण्डेनोग्रान् दानेन भिन्नान् लुब्धान्वा भेदेन' संहतान् तैरसाध्यत्वे दण्डयेदिति तत्रापि शनैरन्यथा ते प्राणोद्यता न वशमेयुरिति भावः ॥१०८।। (५) नन्दनः । उपक्रमेष क्रममाह यदि ते विति । ते परिपन्थिनस्तिष्ठेयुः । वश- इति विभक्तिविपरिणामः प्रथमैः सामदानप्रभेदैः अपिशब्देन दण्डस्य मुख्यत्वं सूचितम् ॥१०८॥ (६) रामचन्द्रः । ते परिपन्थिनः प्रथमैः त्रिभिरुपायैर्वशे न तिष्ठेयुर्यदि तान्दण्डेनैव वशं प्रसह्यानयेत् ॥१०८॥ (७) मणिरामः । ते विजयविरोधिनः प्रथमैः सामदानभेदैः। प्रसह्य बलात् देशोप- मर्दादिना युद्धेन । शनकैः लघुगुरुदण्डक्रमेण ॥१०८॥ (८) गोविन्दराजः । यदीति। ते च परिपन्थिनो यद्याद्यैः सामदानभेदैरुपायैः वशं नायान्ति' तदा दण्डेनैव देशोपमर्यादादिना हठादेव शनकर्यादृशो दण्डक्रमस्तेन वशं नयेत् ॥१०८॥ (९) भारुचिः। सामाधुपायत्रयपरिक्षये दण्डस्य प्रयोगनियमः ॥१०८।।
८८
मनुस्मृतिः
[७. ११०
सामादीनामुपायानां चतुर्णामपि पण्डिताः।
सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥१०९॥
(१) मेधातिथिः । वक्ष्यमाणानां सामादीनामुपायानां सामदण्डौ निगद्येते प्रश-
स्यतया। सति साम्नि क्षिप्रं कंपो न भवति, दण्डे तु सर्वसिद्धिः ॥१०९॥
(२) सर्वज्ञनारायगः । सामदण्डौ प्रशंसन्ति साम्नि धनादिक्षयाभावात्, दण्डे च
दैवाज्जये कीर्तिम॒त्यौ स्वर्ग इति ॥१०९॥
(३) कुल्लूकः । चतुर्गामपि सामादीनामुपायानां मध्यात्सामदण्डावेव राष्ट्र-
वृद्धयर्थं पण्डिताः प्रशंसन्ति साम्नि प्रयासधनव्ययसैन्यक्षयादिदोषाभावात्, दण्डे तु तत्स-
द्भावेऽपि कार्यसिद्धयतिशयात् ॥१०९॥
(४) राघवानन्दः। तत्र च स्वराष्ट्र सामदण्डौ परराष्ट्रे दानभेदौ तावेव प्रशस्ता-
वित्याह सामादीनामिति ॥१०९॥
(५) नन्दनः। शत्रुष्वेवायं क्रमो न राष्ट्र इत्याह । साधुषु साम प्रयोक्तव्यमसाधुषु
दण्डं तेन राष्ट्राभिवृद्धिरित्यर्थः ॥१०९॥
(७) मणिरामः । साम्नि अव्ययसैन्यक्षयादिदोषाभावो दंडे कार्यसिद्धयतिशयात्
सामदण्डयोः प्राशस्त्यं बोद्धचं ॥१०९॥
(८) गोविन्दराजः । सामादी नामिति । सामादीनां चतुर्णामप्युपायानां मध्यात्साम-
दण्डौ राष्ट्रविवृद्धयर्थं प्रशस्तौ नित्यं विद्वांसो मन्यन्ते । साम्नि क्षयव्ययायासानाम-
भावाद्दण्डे च युद्धाद्यनर्थोत्पादे च सिद्धयतिशयात् ॥१०९॥
(९) भारुचिः। सामप्रयोगे क्षयव्ययायासा न भवन्ति । दण्डे तु सर्वसिद्धिरेव ।
तत्प्रभावादतस्तावत्र प्रशस्तौ ॥१०९॥
यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति ।
तथा रक्षेन्नृपो राष्ट्र हन्याच परिपन्थिनः ॥११॥
(१) मेधातिथिः। ये राजानमभिद्रुह्यन्ति तेषां ये सुहृद्बान्धवाः, सम्बन्धोपसर्पिणो
वा, न ते विनाशयितव्याः, यदि न' तत्कार्याभ्यन्तराः। य एव दुष्टास्त एव निग्राह्याः, न
तत्सम्बन्धिन इत्येतन्नितृदृष्टान्तेन प्रतिपाद्यते । यथा धान्यकक्षयोः सहोत्पन्नयोरत्यन्त-
सहितयोरपि नैपुण्येन धान्यं रक्षति कममुद्धरति । एवं स्वराष्ट्रे यावन्तस्तेषां सुहृदावपि,
तयोर्दोषवान्यः स एव निग्राह्यः, न यः सुसङ्गतोऽपि । अतः साध्वसाधुविवेकेन साधवो
रक्ष्या असाधवो निग्राह्याः ॥११०॥
(२) सर्वज्ञनारायणः । निता तृणच्छेता कक्षं तृणादिधान्यमध्यगतमुद्धरे-
दुत्पाटयेत् । राष्ट्र स्वराष्ट्र। परिपन्थिनश्चौरादीन् ॥११०॥
(३) कुल्लूकः । यथा क्षेत्रे धान्यतृणादिकयोः सहोत्पन्नयोरपि धान्यानि लवनकर्ता
रक्षति तृणादिकं चोद्धरत्येवं नृपती राष्ट्रे दुष्टान्हन्यान्नत्वदुष्टांस्तदीयसहजान्भ्रातृ नपि
निर्दातृदृष्टान्तादवसीयते शिष्टसहितं च राष्ट्र रक्षेत् ॥११०॥
७. १११] व्याख्यानवकोपेता ८९ (४) राघवानन्दः। किंचान्यत् यथेति । निर्दाता धान्यतृणाधुत्पाटनकर्ता स यथा कक्षं तृणाद्युद्धरति धान्यं च रक्षत्येवं राजा दण्डादि कुर्वन्नपि प्रजा रक्षेत् हन्यादेव परिपन्थिनो दस्यून् ।।११०॥ (५) नन्दनः । अत्र दृष्टान्तमाह यथेति । निता भूमेः खण्डयिता कुद्दालादिभिः, कृषीवल इति यावत् । परिपन्थिनः असाधून् ॥११०॥ (६) रामचन्द्रः । यथा निर्दाता क्षेत्रप्ररूढधान्यमध्यस्थिततृणोद्धर्ता तृणमुद्धरति धान्यं रक्षति तथा नृपो राष्ट्र रक्षेत् परिपन्थिनः चौरान् हन्यात् ॥११०॥ (७) मणिरामः। निर्दाता धान्यत्राणकर्ता । कक्षं तृणं। यथा सहोत्पन्नयोस्तृणधान्य- योर्मध्यात् तृणमुद्धरति धान्यं रक्षति तथा दुष्टानेव हन्यानत्वदुष्टान् तद्भात्रादीन् इत्यर्थः ॥११०॥ (८) गोविन्दराजः । यथोद्धरतीति । यथा क्षेत्रस्य कक्षस्योत्पाटयिता कक्षं नाश- यति धान्यञ्च रक्षति, एवं नृपोऽनुकूलान् राष्ट्रियान् रक्षेत् प्रतिकूलाँश्च हन्यात् ॥११०॥ मोहाद्राजा स्वराष्ट्रं यः कर्शयत्यनवेक्षया । सोऽचिराद्धृश्यते राज्याज्जीविताच सबान्धवः ॥१११॥ . (१) मेधातिथिः । यस्तु राजा पूर्वोक्तविवेकमकृत्वा मोहेनानवेक्षया स्वराष्ट्र कर्शयति स दण्डैः सह भ्रश्यत्यचिराद्राज्याज्जनपदाननुरागेण प्रकृतिकोपेन जीविताच्च । साहसिकैरेकाकिभिरपि जीवितनिरपेक्षैर्हन्यते ॥१११॥ २) सर्वज्ञनारायणः । कर्शयति चौराद्युपवातैः क्षीणं करोति ॥१११॥ (३) कुल्लूकः । यो राजाऽनवेक्षया दुष्टशिष्टाज्ञानेन' स्वराष्ट्रियजनान् शास्त्रीय- धनग्रहणमारणादिकष्टेन पीडयति स शीघ्रमेव जनपदवैराख्यप्रकृतिकोपाधEः राजा राज्या- ज्जीविताच्च पुत्रादिसहितो भ्रश्यते ॥१११॥ (४) राघवानन्दः । दण्डे क्रियमाणेऽपि राज्यं यथा न नश्यति तथा वर्तितव्यम्, अन्यथा सदृष्टान्तं दोषमाह मोहादिति द्वाभ्याम्। कर्शयति लोभेनाधिकदण्डादिना पीडयति ततोऽनवेक्षया शास्त्रमर्यादोल्लङ्घनेन न केवलं राज्याद्मश्यते स्वयं भ्रष्टो पितॄजीवितादायुषः नंक्ष्यतीत्यध्याहार्यम् ॥१११॥ (५) नन्दनः। विपर्ययेणार्थश्लोकद्वयेनाह मोहाद्राजेति ॥१११॥ (६) रामचन्द्रः । राजा स्वराष्ट्र स्वराज्यमनवेक्षयाऽविचारेण कर्शयति क्षीणं करोति स राज्याझश्यते सबान्धवो जीविताच्च भ्रश्यते॥१११॥ (७) मणिरामः। कर्शयति अशास्त्रीयकरग्रहणमारणादिकष्टेन पीडयति ॥१११॥ (८) गोविन्दराजः । मोहादिति । यो हिताहिताविवेकेन प्रजाः पीडयति स स क्षिप्रं प्रकृतिलोपादिनाऽधर्मभूयस्त्वेन' राज्याज्जीविताच्च बन्धुसहितो नश्यत्यचिरात् ॥१११॥ (९) भारुचिः । अस्य दृष्टान्त राष्ट्र हि तस्य शरीरमिति । यतश्चैतदेवमतस्तद्दोषपर्युदासाय ॥१११।। राजा मनुस्मृतिः [७.११४ शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा । तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥११२॥ (१) मेधातिथिः। स्वराष्ट्रेऽत्यन्तमवहितेनानुराग उत्पादनीयस्तद्धि शरीरस्थानीयम्। शरीरे कषितेऽपथ्य भोजनरूक्षभोजनादिभिर्यथा प्राणा उत्क्रामन्ति, एवं राष्ट्रकर्षनादपि ॥११२॥ (२) सर्वज्ञनारायणः। राष्ट्रस्य स्वराष्ट्रस्य कर्षणात् ॥११२।। (३) कुल्लूकः । यथा प्राणभृतामाहारनिरोधादिना' शरीरशोषणात्प्राणाः क्षीयन्त एवं राज्ञामपि राष्ट्रपीडनात्प्रकृतिकोपादिना प्राणा विनश्यन्ति तस्मात्स्वशरीरवद्राज्ञा राष्ट्र रक्षणीयमित्युक्तम् ॥११२॥ (४) राघवानन्दः। अन्नाद्यभावेन शरीरकर्षणे सति यथा प्राणाः क्षीयन्ते तथा राष्ट्रकर्षणाद्राजप्राणाः प्रजासंतापकोपाधेः क्षीणतामीयुविनश्यंतीति भावः ॥११२॥ (७) मणिरामः। राज्ञो जीवनाशे दृष्टान्तमाह शरीरकर्षणेति ॥११२॥ (८) गोविन्दराजः। शरीरकर्षणादिति । यथा प्राणभृतां दीर्वाध्वगमनादिना प्राणाः क्षीयन्ते एव तथा राज्ञामपि राष्ट्रोपपीडनात् प्रकृतिकोपे सति प्राणाः विनाशमुपयान्ति ॥११२॥ राष्ट्रस्य संग्रहे नित्यं विधानमिदमाचरेत् । सुसंगृहीतराष्ट्रो हि पार्थिवः सुखमेधते ॥११३॥ (१) मेधातिथिः। 'संग्रहो' रक्षाविधानम् । सुसंगृहीतं रक्षाविधानेन वशीकृतं परिपालितं वा येन स्वराष्ट्र स पार्थिवः सुखमेधते ॥११३॥ (२) सर्वज्ञनारायणः। संग्रह आत्मीयताकरणे ॥११३॥ (३) कुल्लूकः । राष्ट्रस्य रक्षणे च वक्ष्यमाणमिममुपायमनुतिष्ठेत् यस्मात्सं- रक्षित राष्ट्रो राजाऽनायासेन वर्धते ॥११३॥ (४) राघवानन्दः। अतो राज्यरक्षणे यत्न आस्थेय इत्याह राष्ट्रस्येति । स्वराष्ट्रस्य प्रतियोग्यनपेक्षाश्रवणादिदमिति षड्भिर्वक्ष्यमाणम् । सुसंगृहीतः ग्रामाध्यक्षादिना राष्ट्रो यस्य सः ॥११३॥ (५) नन्दनः । यस्मादेवं तस्माद्राष्ट्रस्येति संग्रहे संरक्षणे । इदं वक्ष्यमाणम् ॥११३॥ (६) रामचन्द्रः। राष्ट्रस्य (सं) ग्रहे स्वायत्तीकरणे आत्मवशीकरणे ॥११३॥ (७) मणिरामः। इदं विधानं वक्ष्यमाणोपायं । गृहीतराष्ट्रः संरक्षितराष्ट्र: ॥११३॥ (८) गोविन्दराजः। एवं चैतद्दोषपरिजिहीर्षयाह राष्ट्रस्येति । राष्ट्रसंरक्षणे सर्वदा वक्ष्यमागमुपायं कुर्यात् । यस्मात्सुसंरक्षितराष्ट्रो राजा यत्नेन वर्धते ॥११३॥ द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् । तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम् ॥११४॥ (१) मेधातिथिः । द्वयोमियोर्मध्ये गुल्मं कुर्यात् । गुल्मो रक्षितृपुरुषसमूहस्तेनै- वाधिष्ठितं संग्रहं कुर्यात् । तद्युक्तमधिष्ठातारं पुरुषं कुर्यात् । अधिकारी संग्रह इहोच्यते। एवं त्रयाणां पञ्चानां च । अथवा राजभाव्यार्थग्रहणस्थानं संग्रहः ।।११४॥
७.११५] व्याख्यानवकोपेता ९१ (२) सर्वज्ञनारायणः। द्वयोमियोरेकं अपरं त्रयाणां अन्यत्पञ्चानां ग्रामाणां अन्य- द्ग्रामशतस्येति पूर्वपूर्वमुत्तरोत्तराशक्ये रक्ष्यस्य स्थानस्य रक्षकं गुल्म स्तेनादिरक्षार्थं स्थापितं पदात्याद्यधिष्ठितमिति तदपि केनचिदधिष्ठितं कार्यमित्यर्थः । ग्राम शतानामिति । शतस्य पञ्चशतस्य सहस्रस्य चेति बहुवचनार्थः। एवं राष्ट्रस्य संग्रहं कुर्यादित्युपसंहारः ॥११४॥ (३) कुल्लूकः । द्वयोमियोर्मध्ये त्रयाणां वा ग्रामाणां पञ्चानां वा ग्रामशतानां गुल्मं रक्षितृपुरुषसमूहं सत्यप्रधानपुरुषाधिष्ठितं राष्ट्रस्य संग्रहं रक्षास्थानं कुर्यात् । अस्य' लाघवगौरवापेक्षश्चोक्तविकल्पः ।।११४॥ (४) राघवानन्दः । किंच द्वयोरिति । ग्रामयोमाणां वा मध्ये गुल्मं रक्षितृपुरुष- समूहमध्ये प्रधानपुरुषैरधिष्ठितं च राष्ट्रस्य संग्रहं. रक्षास्थानं कुर्यादित्यन्वयः । द्वयोरित्यादि दस्युलाघवगौरवापेक्षया विकल्पः। तत्फलं दस्युनिग्रहः ॥११४।। (५) नन्दनः । द्वयोमियोस्त्रयाणां पचानां च ग्रामाणां ग्रामशतानां मध्ये राष्ट्र- गुप्तये कुर्यात् । व्यूढं सैन्यं . गुल्मम् ।।११४॥ (६) रामचन्द्रः । द्वयोः त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितं । रक्षकं स्वस्थानानाम् । एवं राष्ट्रस्य' संग्रहं कुर्यात् ॥११४॥ (७) मणिरामः । राष्ट्ररक्षणोपायानाह द्वयोरित्यादिना । गुल्मं रक्षितृपुरुष- समूहं । अधिष्ठितं सत्यप्रधानपुरुषाधिष्ठितं । संग्रहं रक्षास्थानं । बृहद्ग्रामलघुग्रामा- पेक्षो (क्षयो)द्वंयोमियोस्त्रयाणां वा ग्रामाणामित्यादिविकल्पो बोध्यः ॥११४॥ (८) गोविन्दराजः । द्वयोरिति । द्वयोमियोर्मध्ये त्रयाणां पञ्चानां बहूनां वा ग्रामशंतानां देशकालाद्यपेक्षयां, आत्त (?प्त) पुरुषाधिष्ठितं राष्ट्रस्य' संग्रहं रक्षाभूतं स्थानक कुर्यात् ग्रामदोषाधवबोधार्थ करादिग्रहगार्थं च ।।११४॥ (९) भारुचिः । राजभाव्यसंग्रहार्थ रक्षार्थं च ॥११४॥ ग्रामस्याधिपतिं कुर्याद्दशग्रामपति तथा । विंशतीशं शतेशं च सहस्रपतिमेव च ॥११५॥ (१) मेधातिथिः । एकैकस्मिन् ग्रामेऽधिपतिं कुर्यात् । तदुपरि दशग्रामपतिम् । एव सर्वत्र ॥११५॥ (२) सर्वज्ञनारायणः । नामस्याधिपति करग्रहाद्यर्थम् ॥११५॥ (३) कुल्लूकः । एकग्रामदशग्रामाद्यधिपतीन्कुर्यात् ॥११५॥ (४) राघवानन्दः । ग्रामादीनां गुणदोषज्ञानप्रकारमाह ग्रामस्येति त्रिभिः । विशतीशं ग्रामाणां विंशतेरीशमीश्वरम् । एवमुत्तरत्र ॥११५॥ (५) नन्दनः । विशतीशं विंशतिग्रामेशं एवमुत्तरत्रापि ॥११५॥ (६) रामचन्द्रः । ग्रामाध्यक्षानाह' ग्रामस्येति । एकं करार्थं ग्रामाधिपं कुर्यात् । शतेशं शतानां ईशः शतेशः तं शतग्रामाधिपं कुर्यात् । तथा सहस्राधिपतिम् ॥११५॥ (८) गोविन्दराजः। ग्रामस्येति । ग्रामदशग्रामाध्यक्षं कुर्यात् ॥११५।। ।
3 ९२ मनुस्मृतिः [७.११८ ग्रामदोषान्समुत्पन्नान् ग्रामिकः शनकैः स्वयम् । शंसेद्ग्रामदशेशाय दशेशो विंशतीशिने॥११६॥ (२) सर्वज्ञनारायणः । दोषान् तद्ग्रामीयजनविद्रवादीन् । अत्र विंशतीशमित्यादि यावति रक्षिते ग्रामाणां रक्षा भवति तन्मात्रपरम् । विंशतिनामानीशितुं शीलमस्य विशतीशी ॥११६॥ (३) कुल्लूकः । ग्रामाधिपतिश्चौरादिदोषान्ग्रामे संजातानात्मना प्रतिकर्तुम- क्षमोऽनुत्कृष्टतया स्वयं दशग्रामाधिपतये कथयेत्, एवं दशग्रामपतयो विंशतिग्रामस्वाम्यादिभ्यः कथयेयुः तथा च सति सम्यक् चौरादिकण्टकोद्धारो भवति ॥११६-११७॥ (४) राघवानन्दः। शनकरित्यनेन हठात् । तेन स्वस्मिन्नपि दोषाशङ्का वारिता । स्वयमित्यनेनौद्धत्यं भेदकत्वं च निरस्तम् । तेन स्वयं गत्वा शंसेत्कथयेत् ग्रामदेशेशायेत्यन्वयः एवमुत्तरत्र विशतीशिने विंशतिग्रामाधिपतये ॥११६।। (५) नन्दनः। ग्रामिको ग्रामाध्यक्षः । शनकैरत्वरया । याथातथ्यं निरूप्य । स्वयं शंसेन्न परमुखेन । दशेशाय दशग्रामेशाय विंशतिग्रामाणामीशितुं शीलमस्येति विंशतीशः ॥११६॥ (६) रामचन्द्रः। युग्मं ग्रामदोषानिति । ग्रामिकः एकग्रामाधिपः समुत्पन्नान् ग्राम- दोषान् ग्रामदशेशाय शंसेत् । दशेशः दशग्रामाधिपः विंशतीशिने शंसेत् ॥११६॥ (७) मणिरामः। एकग्रामाऽधिकृत्स्वल्पाधिकारी बढ्वधिकार्यधीन इत्याह ग्रामेति ॥११६-११७॥ (८) गोविन्दराजः। ग्रामदोषानिति । विरातोश इति । ग्रामे चौर्यादिदोषानुत्पन्नान् ग्रामाधिपतिराज्ञां प्रतिसन्धानाऽशक्तोऽनाकुलतया स्वयं दशग्रामाऽधिपतये कथयत्। दशाऽ- धिपतिविंशतिस्वामिने, विंशतीशः शतेशाय, शतेशो सहस्रशाय ॥११६-११७॥ विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत् । शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम् ॥११७॥ (१) मेधातिथिः । ये ग्रामदोषा एकग्रामाधिकृतेन न शक्यन्ते समाधातुम्, तान्द- शेशाय निवेदयेत् । एवमशक्तौ यावत्सहस्रपतिविज्ञाप्यः ॥११६-११७।। (२) सर्वज्ञनारायणः। तत्सर्वं दोषजातम् ॥११७॥ (६) रामचन्द्रः। विशतीशः शतेशाय निवेदयेत्। शतेशः सहस्रपतये शंसेत् ॥११७॥ यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः । अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥११८॥ (१) मेधातिथिः । एकग्रामाधिकृतस्य वृत्तिरियम् । ग्रामिको ग्रामाधिकृत- स्तान्यवाप्नुयाद्गृह्णीयात् । वृत्त्यर्थं राज्ञे प्रदातव्यानि ग्रामवासिभिः। अन्नादीनि तु धान्यादेः षष्ठाष्टमभागादिः। यथा वक्ष्यति “धान्येऽष्टमं विशाम्" इत्यादि (अ. १०।१२०) ॥११८॥ (२) सर्वज्ञनारायणः। राजप्रदेयानि एतावदत्र प्रत्यहं राजाधिकृतपुरुषाय भक्तार्थं देयमिति प्रागेव नियमितानि । आदिपदात्तलादीनि । ग्रामिको ग्रामाधिपतिः ।।११८॥ -
७.११९]
व्याख्यानवकोपेता
३) कुल्लूकः । एकनामाधिकृतस्य वृत्तिमाह-यान्यन्नपानन्धनादीनि ग्रामवासिभिः
प्रत्यहं राज्ञे देयानि न त्वब्दकरं 'धान्यानामष्टमो भाग' (७/१३०) इत्यादिकं तानि
ग्रामाधिपतिवृत्त्यर्थं गृहणीयात् ॥११८॥
(४) राघवानन्दः। किंच प्रजाभी राज्ञे देयद्रव्यग्रहीतुनाह यानीति द्वाभ्याम्। इन्धनं
काष्ठं पानं मध्वादि अवाप्नुयात्। ग्रामिक एकग्रामाध्यक्षः। एकग्रामाध्यक्षस्येन्धनादीन्येव
जीविका ॥११८॥
(५) नन्दनः। ग्रामाध्यक्षादीनां वृत्तिनियमं श्लोकद्वयेनाह यानीति । अन्नपानेन्धनादि-
ग्रहणेन पशुधान्यहिरण्यादीनां निषेधः ॥११८॥
(६) रामचन्द्रः। ग्रामिकः एकग्रामिकः । यानि राजप्रदेयानि एतावदन राजपुरुषेण
भोक्तव्यमिति प्रयोजनदर्शितानि ॥११८॥
(८) गोविन्दराजः । यानीति । यानि ग्रामवासिभिरन्नपानादीनि सर्वाणि
स्वामिने दातव्यानि तानि नामाधिपतिर्गृह्णीयात् ॥११८॥
(९) भारुचिः। आसन्नकार्यज्ञापनार्थं ग्रामादिष्वधिपतिक्रियास्त्रिभिः श्लोकै-
राह ॥११८॥
दशी कुलं तु भुञ्जीत विंशी पञ्चकुलानि च ।
ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥११९॥
(१) मेधातिथिः । दशसु ग्रामेष्वधिकृतो दशी । एवं विंशी । छान्दसः शब्द-
संस्कारः। कुलं ग्रामैकदेशः। क्वचिद् हट्ट इति प्रसिद्धः क्वचिदुष्ट इति। एतदेव
पञ्चगुणं विंशतिग्रामेष्वधिकृतः । सर्वं ग्रामशताध्यक्षः । पुरं नगरं सहस्रशः स्थानकर्मा-
नुरूपेण वृत्ति कल्पेतेत्येतत्सत्यम् ॥११९॥
(२) सर्वज्ञनारायणः। एवं ग्रामाध्यक्षस्य भृतिमुक्त्वाऽन्येषामाह दशीति । दशग्रामा-
धिपो दशी। 'हलं तु द्विगुणं कुल मिति वचनावाभ्यां हलाभ्यां या कृष्यते भूस्तां भुजीतेत्यर्थः ।
हलमानं च। 'अष्टागवं धर्महलं षड्गवं जीवितार्थिनाम्। चतुर्गवं गृहस्थानां द्विगवं ब्रह्मघातिना'-
मिति हारीतोक्तम् । धर्महलं ग्राह्यं गृहस्थहलं वा। विशी विंशतिग्रामपः ॥११९॥
(३) कुल्लूकः। अष्टागवं धर्महलं षड्नवं जीवितार्थिनाम् । चतुर्गवं गृहस्थानां त्रिगवं
ब्रह्मघातिना मिति हारीतस्मरणात् । ‘षड्गवं मध्यमं हल'मिति तथाविधहलद्वयेन यावती
भूमिर्वाह्यते तत्कुलमिति वदति तद्दशग्रामाधिपतिवृत्त्यर्थं भुञ्जीत । एवं विंशत्यधिपतिः
पञ्चकुलानि शताधिपतिर्मध्यमं ग्रामं सहस्राधिपतिर्मध्यमं पुरम् ॥११९॥
(४) राघवानन्दः । दशीत्यादेस्तामाह दशीति। 'अष्टागवं धर्महलं षड्गवं जीविकाथि-
नाम् । चतुर्गवं गृहस्थानां द्विगवं तु गवाशिना'मिति लघुहारीतवचनात्षङ्गवं मध्यमहलं तथा-
विधहलद्वयेन' यावती भूः कृष्यते तत्कुलमिति परिभाषितं वृत्त्यर्थं दशग्रामाधिपस्तावती
भूमि गृह्णीयादित्यर्थः। ग्रामं मध्यमं । तत्र ग्रामो भृगुप्रोक्तः ‘विप्राश्च विप्रभृत्याश्च यत्र चैव
वसन्ति ते । स तु ग्राम इति प्रोक्तः शूद्राणां वास एव चेति । पुरं राजधानीयोग्यं प्रकारशिल्प-
वणिग्जनहट्टादियुक्तम् । आकरः सुवर्णाद्युत्पत्तिस्थानम् । व्रजः गवां निवासः। खेट: कर्क-
टिकाद्युत्पत्तिस्थलम्। वाटी पूगनारिकेलाद्युत्पत्तिस्थलम्। इति चतुष्टयं प्रासंगिकं व्याख्यातं
च खेट इत्यत्र श्रीधरस्वामिना ॥११९॥
९४
मनुस्मृतिः
[७.१२१
।
(५) नन्दनः। दशी दशग्रामाधिपतिः । कुलं गृहमेककृषीवलभागमित्यर्थः । ग्राम
कुलशतयुक्तम् । यथाह' कौटिल्यः 'कुलशतावरं पञ्चशतकुलावरं ग्रामं निवेशये'दिति ॥११९॥
(६) रामचन्द्रः। दशी दशनामाधिपतिः कुलं भुंजीत 'हलं तु द्विगुणं कुलं' द्वाभ्यां
हलाभ्यां कृष्यते या भूस्तां । भुञ्जीतेत्यर्थः। विशी पंचकुलानि दशहलकृष्यक्षेत्राणि
भुजीत ॥११९॥
(८) गोविन्दराजः। दशीति । 'अष्टागवं धर्महलं षड्गवं जीविकार्थिनाम् । चतुर्गवं
गृहस्थानां द्विगवं ब्रह्मघातिना मिति हारीतः। षड्गवं मध्यमं हलं, तद्विगुणं कुलं मन्यन्ते ।
तेन मध्यमेन हलद्वयेन यावती भूर्वाह्यते तत्फलं दशाधिपतिः भृत्यर्थं भुजीत । एवं
विंशत्यधिपतिः पञ्चकुलानि, शताधिपतिर्मध्यमं ग्राम, सहस्राधिपतिर्मध्यमं पुरम् ॥११९।।
(९) भारुचिः। अधिपतीनामित्थं वृत्तिकल्पना श्लोकद्वयेनोक्ता ॥११९॥
तेषां ग्राम्याणि कार्याणि पृथक्कार्याणि चैव हि ।
राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः॥१२०॥
(१) मेधातिथिः । तेषां ग्रामकार्येष्वितरेतरं विप्रतिपत्तिः । अन्यः स्वकार्येऽन्यः
सचिवो महत्तमः स्निग्धो रागद्वेपर्वाजतो दर्शनाय नियोक्तव्यः ॥१२०।।
(२) सर्वज्ञनारायणः । ग्राम्याणि ग्रामसंबंधीनि कृत्यानि संस्कारादिविपयाणि ।
पृथक्कार्याण्यन्योन्यकलहादीनि ॥१२०॥
३) कुल्लूकः । तेषां ग्रामनिवासिप्रभृतीनां परस्परविप्रतिपत्तौ यानि ग्रामभवानि
कार्याणि कृताकृतानि च पृथक्कार्याणि तान्यन्यो राज्ञो हितकृत्तनियुक्तोऽनलसः कुर्वीत ॥१२०॥
(४) राघवानन्दः । एषामेकग्रामाधिपप्रभृतीनामन्योन्यविप्रतिपत्तौ ग्राम्याणि ग्राम-
भवानि कार्यकार्याणि पृथक्कार्याणि च कृताकृतादीनि अन्य उक्तेभ्यः स्निग्धः पार्थिव-
इति शेषः । यथा राज्ञः पापं न जायते तथा हितैषी अतन्द्रितः राजभीतेः पश्येदित्यन्वयः ॥१२०॥
(५) नन्दनः । तेषां ग्रामाध्यक्षादीनां । ग्राम्याणि ग्रामसंबंधीनि सेतुबन्ध-
नादीनि ॥१२०॥
(६) रामचन्द्रः । कार्याणि प्रकृतान्य न्योन्यकलहादीनि ।।१२०॥
(८) गोविन्दराजः। तेषामिति । एवं ग्रामा धिपतिप्रभृतीनां यानि ग्रामनिवास-
कार्याणि, तदशक्यप्रतिसन्धानानि यानि' च तेषां सम्बन्धोनि कृताकृतानि वाऽन्यान्यपि
राज्ञा नियुक्तोऽनलसो भूत्वाऽवेक्षेत ।।१२०॥
(९) भारुचिः। अधिपतीनां कर्ता कृतितस्तत्कृताकृतमनुपश्येत् ॥१२०॥
नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम् ।
उच्चैःस्थानं घोररूपं नक्षत्राणामिव ग्रहम् ॥१२१॥
(१) मेधातिथिः। उच्चैःस्थानं प्रधानभूतमित्यर्थः। घोररूपं प्रतापवन्तम् । नक्षत्रा-
गामिव ग्रहं अंगारकम् । हस्त्यश्वादिबलसंपन्नम् ॥१२१॥
(२) सर्वज्ञनारायणः । उच्चैःस्थानं तेभ्योऽधिकं गृहपरिच्छदसंमानादिकम् । घोररूपं
दण्डप्रणयनशक्तवेषधरम् । ग्रहं सोमम् ॥१२१॥
७. १२२]
व्याख्यानवकोपेता
(३) कुल्लूकः । प्रतिनगरमेकैकमुच्चैःस्थानं कुलादिना महान्तं प्रधानरूपं घोररूपं
हस्त्यश्वादिसामग्या भयजनक नक्षत्रादिमध्ये भार्गवादिग्रहमिव तेजस्विनं कार्यद्रष्टारं
नगराधिपतिं कुर्यात् ॥१२१।।
(४) राघवानन्दः । नैतावता राज्ञः कृतकृत्यतेत्याह नगर इति द्वाभ्याम् । सर्वार्थ-
चिन्तकं हस्त्यश्वप्रजानुवृत्तादिचिन्तनानियुक्तम् । उच्चैःस्थानं प्रधानभूतं ग्रहं शुक्राङ्गार-
रूपम् । दण्डादावकृपालुत्वार्थमाह घोररूपम् ॥१२१॥
(५) नन्दनः । सर्वार्थचिन्तकं सर्वकार्यनिर्णायकं । उच्चैःस्थानं महाप्रभावम् ।
घोररूपमैश्वर्यातिशयेन दुर्धर्षम् ॥१२१॥
(६) रामचन्द्रः। नगरे नगरे एक पुरुषं सर्वार्थसाधकं सर्वकार्यकर्तारम् । उच्चैःस्थानं
उच्चस्थानस्थितमित्यर्थः । घोररूपं दण्डप्रणयनयोग्यवेषधरम् । नक्षत्राणां ग्रहमिव प्रकाश-
मानम् ॥१२१॥
(८) गोविन्दराजः। नगर इति। प्रतिनगरमेकैकं उच्चैःस्थानं महाकुलीनं घोर-
रूपं छात्रालङकारहस्त्यश्वादिबलसामग्य भयानकाकारं मध्ये ग्रहमिव भास्कराकारं
नगराधिपतिं कुर्यात् ॥१२१॥
(९) भारुचिः। हस्त्यश्वादिसम्पन्न प्रतिनगरं नागरिकं स्थापयेत् ॥१२१॥
स ताननुपरिकामेत् सर्वानेव सदा स्वयम् ।
तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः ॥१२२॥
(१) मेधातिथिः । स नगराधिकृतस्तान् सर्वानपि पतीननुपरिक्रामेत्स्वबलेन पूरयेत् ।
सति प्रयोजने । तेषां सर्वेषामधिपतीनां तवृत्तं सम्यक् परिणयेत् सम्यग्रूपतया परिजानीयात् ।
कैः ? राजचरैः कापटिकादिभिः ॥१२२॥
(२) सर्वज्ञनारायणः । अनुपरिकामेदनुसंदध्यात् । वृत्ति चेष्टाम् । परिणयेत् प्रापयेत्
राजसमीपं तच्चरैर्नृपचारैः ॥१२२॥
(३) कुल्लूकः । स नगराधिकृतस्तान्सर्वान्प्रामाधिपत्यादीन् सति प्रयोजने सर्वदा
स्वयं सबलेनानुगच्छेत्तेषां च नगराधिकृतपर्यंतानां सर्वेषामेव यद्राष्ट्र स्वचेष्टितं तत्तद्विषय-
नियुक्तैश्चरैः सम्यक् प्रजाः परिणयेदवंगच्छेत् ॥१२२॥
(४) राघवानन्दः । स तादृशः तान् ग्रामेशादिसहस्राध्यक्षान्तान् अनुक्रामेदहनिशं
संचरेत् संचरंस्तेषां वृत्तं चेष्टां परिणयत् जानीयात् । तच्चरः तत्र तत्र नगरेषु बहुकाल-
वासिभिः । तैहि तत्रत्यानां भद्राभद्रं ज्ञायते ॥१२२॥
(५) नन्दनः। नगरे नियुक्तस्तान्ग्रामाध्यक्षादीन् । अनुपरिकामेत् अनुसंदध्यात् ।
तेषां ग्रामाध्यक्षादीनाम् । तच्चरैः तत्रत्यचरैः। परिणयेत् परीक्षेत ॥१२२॥
(६) रामचन्द्रः । सः तान्सर्वान् ग्रामनिवासिनः अनुपरिकामेत् अनुसंदध्यात्
सर्वोपरि तिष्ठेदित्यर्थः । तेषां ग्रामनिवासिनां वृत्तं तच्चेष्टां तच्चरैः ग्रामचरैः
नृपचरैर्वा ॥१२२॥
मनुस्मृतिः
[७.१२४
(८) गोविन्दराजः। स इति । स नागरिक एकग्रामाधिपत्यादीन् बलपूरणाय' सति
प्रयोजने सर्वदा स्वयं पश्चात् यायात् । तेषां नागरिकपर्यन्तानां राष्ट्रेषु यदाचरितं
तद्विषयनियुक्तैः चारैर्यथा तद्राजा आगमयेत् ॥१२२॥
(९) भारुचिः । अयमधिपतीन् सदा परिकामेत् परिरक्षणाय । तेषां च वृत्तं राजा
कापटिकादिभ्य आगमयेत् ॥१२२॥
राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः ।
भृत्या भवंति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः॥१२३॥
(१) मेधातिथिः । परस्वमादातुं शीलं येषां ते परस्वादायिनः शठाः असम्य-
क्कारिणः प्रायेणाधिकृताः सन्तो भवन्ति । प्राक्शुचयोऽपि रक्षन्ति वित्तानि । अतः
प्राक्शुचित्वानुमानेन नोपेक्षणीयाः। यत्नतः प्रतिजागरितव्याः । तेभ्यो रक्षेदिमाः प्रजाः ।
न केवलं राजार्थनाशः अनवेक्षया, यावत्प्रजा अपि निर्धनीकुर्वन्ति ॥१२३॥
(२) सर्वज्ञनारायणः। राज्ञो भृत्या इत्यन्वयः ॥१२३॥
(३) कुल्लूकः। यस्माद्ये राज्ञो रक्षाधिकृतास्ते बाहुल्येन परस्वग्रहणशीला वञ्चकाश्च
भवन्ति तस्मात्तेभ्यः इमा: स्वात्मीयाः प्रजा राजा रक्षेत् ॥१२३॥
(४) राघवानन्दः । तत्किमर्थं तत्राह राज्ञ इति । रक्षाधिकृता रक्षार्थमधिकृताः
ग्रामाध्यक्षादयो
भृत्या
अपि परस्वादायिनः परस्य स्वत्वे विद्यमानेऽप्यादायिनः प्रायेण बाहु-
ल्येन भवन्ति। तत्र हेतु:- शठा वञ्चकाः । अतस्तेभ्यः इमाः बुद्धिस्थीभूताः सर्वनगराध्यक्षा-
दिद्वारा रक्षेद्राजेति भावः ॥१२३॥
५) नन्दनः । अत्र हेतुमाह राज्ञो होति । रक्षेत् संगरे युक्तः । श्लोकाविमौ राज-
विषयौ वा ॥१२३॥
(८) गोविन्दराजः। राज्ञ इति । यस्माद्
राज्ञो
भृत्या रक्षाधिकृतां भृत्यास्ते बाहुल्येन
परस्वग्रहणशीला वञ्चकाश्च भवन्ति, तस्मात्तेभ्य आत्मीयाः प्रजाः राजा रक्षेत् ॥१२३॥
(९) भारुचिः । शुचयोऽपि अधिकृताः भक्षयन्ति चित्तानित्यर्थत्वान्मनुष्याणाम् ।
अतो (ऽनशु)च्यनुमानोपेक्षणीयास्त इति ॥१२३॥
ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः ।
तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम् ॥१२४॥
(१) मेधातिथिः । ये रक्षाधिकृताः कायिकेभ्यो व्यवहर्तृभ्यो व्यापारवद्भ्यो
हललेशोद्देशिकया दण्डयन्ति जनपदांस्तेषां सर्वस्वहरणप्रवासने राजा कुर्यात् ॥१२४॥
(२) सर्वज्ञनारायणः । ये कायिकेभ्योऽर्थमेव गृहणीयुः पापचेतसः इति कार्यार्थिभ्यो
वादिप्रभृतिभ्य' उत्कोचरूपेणार्थमेव गृणीयुर्न राजकार्यं कुर्युः ॥१२४॥
(३) कुल्लूकः। ये रक्षाधिकृताः कार्यार्थिभ्यः एव वाक्छलादिकमुद्भाव्य
लोभादशास्त्रीयधनग्रहणं पापबुद्धयः कुर्वन्ति तेषां सर्वस्वं राजा गृहीत्वा देशानिःसारणं
कुर्यात् ॥१२४॥
७.१२६] व्याख्यानवकोपेता (४) राघवानन्दः। राज्ञः स्वकीयं कृत्यमाह य इति । कायिभ्यः कार्यार्थिभ्यः वादिप्रतिवादिभ्यो व्यवहारिभ्यो वा वाक्छलादिकमुद्भाव्यार्थमुत्कोचरूपं गृहणीयुः । प्रवासनं देशान्निर्याणं कुर्यादित्यर्थः ॥१२४॥ (५) नन्दनः । परस्वादाने तेषां दण्डमाह ये कायिकेभ्य इति। कार्यिकाः कार्य- वन्तः, कार्यार्थिन' इति यावत् ॥१२४॥ (६) रामचन्द्रः । ये भृत्याः कार्यिभ्यः वादिप्रतिवादिभ्यः अर्थमेव प्रतिगृह्णीयुः । कीदृशा भृत्याः? पापचेतसः लोभाक्रान्ताः। राजा तेषां प्रवासनं निष्कासनं कुर्यात् ॥१२४॥ (८) गोविन्दराजः । य इति। ये राजाऽधिकृताः कार्यिकेभ्यः परस्वादायिरूपेण पापबुद्धयोऽथ गृहणीयुः तेषां सर्वस्वमपहृत्य देशा निर्वासनं राजा कुर्यात् ॥१२४।। (९) भारुचिः । ज्ञानव्यतिक्रमाणां राजाधिकृताना सर्वस्वादान-प्रवासने कारयेत् । जनपदरक्षार्थीत्यर्थः॥१२४।। राजकर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च । प्रत्यहं कल्पयेवृत्तिं स्थानकर्मानुरूपतः॥१२५॥ (१) मेधातिथिः। युक्तानां नियुक्तानां स्त्रीणामन्तःपुरदास्यादीनाम् । प्रेष्यजनस्य दोलकवाहादेः । प्रत्यहं वृत्ति कल्पयेन सांवत्सरीयं, सकृद्दद्याद् ग्रामं तदेकदेशं वा । स्थानकर्मा- नुरूपतः। 'स्थान' प्रधानं नियोगः शय्यारक्षादि, 'कर्म' शरीरव्यापारस्तदनुरूपेण वृत्तिर्देया । प्रधाने स्थाने स्वल्पेऽपि कर्मणि महती वृत्तिनिकृष्ट स्थाने महत्यपि कर्मणि स्वल्पेत्येत- दुभयानुरूपम् ॥१२५॥ (२) सर्वज्ञनारायणः । राजकर्मसु राज्ञ उपचारादिषु । स्थानमन्तर्बहिरपि कर्मो- त्तममध्यमाधम तदनुरूपेण ॥१२५॥ (३) कुल्लूकः । राजोपयुक्तकर्म नियुक्तानां स्त्रीणां दास्यादीनां कर्मकरजनस्य चोत्कृष्टमध्यमापकृष्टस्थानयोग्यानुरूपेण प्रत्यहं कर्मानुरूपेण वृत्ति कुर्यात् ॥१२५॥ (४) राघवानन्दः। राज्ञः कृत्यान्तरमाह राजेति । राजकर्मसु युक्तानां नियुक्तानां स्त्रीणां दास्यादीनां प्रेष्यजनस्य सेवकस्य । स्थानं स्वनिकट-दूरादिकर्माऽल्पायास-बड्वायास- साध्यं तदनुरूपतस्तदनुसारेण ॥१२५॥ (५) नन्दनः। अधिकृतानां वृत्तिनियममाह' राजकर्मस्विति । युक्तानामधिकारिणां प्रत्यहं कल्पयन्न प्रतिमासं प्रतिवत्सरं वा ॥१२५।। (६) रामचन्द्रः। स्थानं अन्तर्बहिः अनुरूपतः उत्तमाधममध्यमम् ॥१२५।। (८) गोविन्दराजः। राजकर्मस्विति । राजोपयोगिकर्मसु युक्तानां दास्यादिस्त्रीणां दासवर्गस्य चोत्कृष्टहीनस्थानानुरूपेणैव कर्मानुरूपेण प्रत्यहं वृत्ति दद्यात् ॥१२५॥ (९) भारुचिः। वस्त्रसंस्कारानुपलेपनभोजनादिलक्षणेत्यर्थः ॥१२५॥ पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् । पाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः ॥१२६॥ म. स्मृ. ४/७
मनुस्मृतिः
[७.१२५
(१) मेधातिथिः। अवकृष्ट: संमार्जनशोधनविनियुक्तस्तस्य भक्तार्थं पणो देयः।
उत्कृष्टस्य षट्सु षट्सु मासेषु गतेष्वाच्छादवस्त्रम् । धान्यद्रोणश्च मासिकः। चतुराढको
द्रोणः। पणपरिमाणं वक्ष्यति। वृत्तिकल्पनार्था एते ॥१२६॥
(२) सर्वज्ञनारायणः । अर्थान्मध्यमस्य त्रयः । भक्तकं भृतिः । षट्सु मासेष्वा-
च्छादनं तत्राप्येकं त्रीणि षडिति पणानुसारेण व्यवस्था। एवं द्रोणेऽप्येकस्त्रयः षडिति ।
मासिको मासे मासे देयः ॥१२६।।
(३) कुल्लूकः । तामेव दर्शयति पण इति । अवकृष्टस्य गृहादिसंमार्जकोदकवाहादे
कर्मकरस्य वक्ष्यमाणलक्षणः पणो भृतिरूपः प्रत्यहं दातव्यः। पाण्मासिकश्चाच्छादो वस्त्र-
युगं दातव्यम् । ‘अष्टमुष्टिर्भवेत्कुञ्चिः कुञ्चयोऽष्टौ तु पुष्कलम् । पुष्कलानि तु चत्वारि
आढकः परिकीर्तितः । चतुराढको भवेद्रोण' इति गणनया धान्यद्रोणश्च प्रतिमासं देयः;
उत्कृष्टस्य तु भृतिरूपश्च षट्पणा देयाः। अनयैव कल्पनया पाण्मासिकानि षड्वस्त्रयुगानि
देयानि, प्रतिमासं पाण्मास्या द्रोणा देयाः । अनयैवातिदिशा मध्यमस्य पणत्रयं भृतिरूपं दातव्यं
पाण्मासिकं च वस्त्रयुगत्रयं मासिकं च धान्यं द्रोणत्रयं देयम् ॥१२६।।
(४) राघवानन्दः । स्वकर्मनियुक्तदास्यादीनां देयविभागमाह पण इति । अयमर्थः-
अवकृष्टस्य गृहमार्जनादिकर्तुः प्रत्यहं पणः पाण्मासिकं छादो द्वादशहस्तपरिमितं वस्त्रं प्रति-
मासधान्यं द्रोणः। एवं षड्गुणितं पणवस्त्रधान्यद्रोणादि उत्कृष्ट स्य' साक्षात्कर्मकुशलिनः ।
तथा मध्यमस्यापि त्रिगुणं तत्त्रितयं पणाधिक्यमात्रमन्यत्समानमिति वा । तत्र च
'अष्टमुष्टिर्भवेत्कुञ्चिः कुञ्चयोऽष्टौ तु पुष्कलः । पुष्कलानि च चत्वारि आढकः परिकीर्तितः ।।
'चतुराढको भवेद्रोण' इति द्रोणस्य लक्षणम् ॥१२६।।
(५) नन्दनः । कियती वृत्तिः कल्प्येति चेदाह पणो देय इति । भक्तकं पण इत्यन्वयः
उक्तार्थः पण इत्यर्थः। देयः प्रत्यहं देयः । षट्पणा इति वचनविपरिणामः । पणद्रोणयोः
परिमाणं वक्ष्यति । आच्छादो वस्त्रम् । षण्मासिक: षण्मासे देयः पाण्मासिकः॥१२६।।
(६) रामचन्द्रः। पणः अशीतिवराटकानां पगः, अवकृष्टस्य अर्थान्मध्यमस्य त्रयः
भक्तकं भृतिः, षट्सु मासेषु आच्छादनं तत्राप्येकं त्रीणि षडिति पर्यायानुसारेण व्यवस्था।
एवं द्रोणेऽप्येकः त्रयः षडिति मासि मासि देयम् ॥१२६॥
(८) गोविन्दराजः । तामेव दर्शयति पणो देयोऽ३कृष्टस्य षडुत्कृष्टस्य भक्त-
कमिति । पणो वक्ष्यमाणः, स जघन्यभृतकस्य भक्तार्थं प्रत्यहं दातव्यः । पाण्मासिकश्चा-
च्छादो वस्त्रयुगलं मासि धान्यद्रोणो द्वादशोत्तराणि पञ्चपलशतानि देयः । उत्कृष्टस्य
तु षट्पणा' भक्तार्थं देयाः। अनयैव कल्पनया पाण्मासिकं वस्त्रयुगषट्कं देयम् । अनयैव
च दिशा मध्यमस्य पणत्रयं षाण्मासिकं वस्त्रयुगत्रयं, मासिकञ्च धान्यद्रोणत्रयं
देय मिति ॥१२६॥
(९) भारुचिः। भक्तः प्रक्लूप्तिः। श्लोकद्वयेन पणद्रोणयोः परिमाणं वक्ष्यति ॥१२६॥
क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम् ।
योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत्करान् ॥१२७॥
७.१२८]
व्याख्यानवकोपेता
९९.
.
(१) मेधातिथिः। करग्रहणविधिः। कियता मूल्येन क्रीतमेतत्कियच्च विक्रीयमाणं लभते,
कियता च कालेन विक्रीयते, कियत्प्रतिभावेन नश्यत्यथ नेत्येवमादिरूपक्रयविक्रयपरीक्षा।
अध्वानं चिराचिरगमनप्राप्यताम् । भक्तं सक्त्वोदनादिमूल्यम् । परिव्ययस्तदुपकरणं सर्पिः-
सूपशाकादि धनादि च । योगक्षेममरण्ये कान्तारे वा गच्छतो राजभयं चोरभयं निश्चौरता
वेत्यादि । एतदपेक्ष्य वणिग्भ्यः करा आदातव्याः। “वणिग्भिर्दापयेत्करान्” इति पाठो
युक्तः । गत्यादिनियमेन' कर्मसंज्ञाया अभावात् । दण्डवचनो वा धातुस्तदा दण्डिवद्विकर्मक-
त्वम् ॥१२७॥
(२) सर्वज्ञनारायणः। क्रयविक्रयमेतावता क्रीत्वेयता विक्रेतुं शक्यमिति । अध्यान-
मिति । एतावान्वयिास इति। भक्तमन्त्रमूल्यम् । परिव्ययं ताम्बूलव्यञ्जनादिपरिकरार्थ
व्ययम् । योगमलब्धलाभं वणिजामायासानुरूपं क्षेमं रक्षणमेतावति देशेऽमीषामस्माभिः
कृतमिति विज्ञायेत्यर्थः । करान् शुल्कम् ॥१२७॥
(३) कुल्लूकः । कि पता मूल्येन क्रीतमिदं वस्त्रं लवणादिद्रव्यं, विक्रीयमाणं चात्र
कियल्लभ्यते, कियद्रादानीतं, किमस्य वणिजो भक्तव्ययेन शाकसूपादिना परिव्ययेण लग्नं,
किमस्यारण्यादौ चौरादिभ्यो रक्षारूपेण क्षेमप्रतिविधानेन गतं, कोऽस्येदानीं लाभयोग
इत्येतदवेक्ष्य वणिजः करान्दापयेत् ॥१२७॥
(४) राघवानन्दः। वणिक्करादानमाह क्रयति। क्रयविक्रय मूल्यं दूरादागतं भक्ष्य-
व्ययचौरादिहृतं योगक्षेमादीनि च ज्ञात्वा तद्विवेतृभ्यः करान् शुल्कानि दापयेत् हट्टादि-
कृते स्वयं गृहणीयाद्वा ॥१२७॥
(५) नन्दनः । अथ करावा न माह पविक्रममिति । अयं मूल्यम् । विक्रयं लाभम् ।
भक्तं वणिग्भिः कर्मकारादिभ्यो देयम् । परितो व्ययः परिव्ययः शुल्कादिकः ॥१२७।।
(६) रामचन्द्रः। युग्मम् । सपरिव्ययं ताम्बूलव्यञ्जनादिपरिव्ययसहितम् ॥१२७॥
(८) गोविन्दराजः । क्रयविक्रयमिति । कियता क्रीतं, कियता च विक्रीयते,
किवदूरादानीतं, किमस्य वणिजो देशान्तरादागच्छतो भक्तसूपाद्यर्थं गतं, किञ्चास्याऽर-
ण्यादौ चौरा देयोगक्षेपार्थं गतमित्येतदपेक्ष्य वणिजः करान् दापयेत् ॥१२७।।
(९) भारुचिः । तस्येदं सामान्येन लक्षणम् ॥१२७॥
यथा फलेन युज्येत राजा कर्ता च कर्मणाम् ।
तथावेक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान् ॥१२८॥
(१) मेधातिथिः। एतदेवाह - कर्मणां कर्ता वाणिजक: राजा च फलेन युज्येत ।
तथा करान्कल्पयेन्न परिमाणनियमकारणमस्ति । यत्र महान् लाभस्तत्राधिकमप्युक्तपरिमा-
णातिक्रमेण ग्रहीतव्यम् ॥१२८॥
(२) सर्वज्ञनारायणः। फलेन फलप्राप्त्या राजा। कर्ता च कर्मणां कृष्यादीनां फलेन
धान्यादीनां युज्येत लाभदर्शनाद्धि पुनः प्रवर्तते ॥१२८॥
(३) कुल्लूकः। यथा राजाऽवेक्षणादिकर्मणः फलेन यथा च वार्षिकवणिगादयः
कृषिवाणिज्यादिकर्मणां फलेन' संबध्यन्ते तथा निरूप्य राजा सर्वदा राष्ट्रे करान्
गृह्णीयात् ॥१२८॥
१००
मनुस्मृतिः
[७.१३०
(४) राघवानन्दः। यथा कर्मणां कृषिवाणिज्यादीनां कर्ता तत्फलेन' संबध्यत एवं
राजापि तत्फलभागीत्याह यथेति । नृप इति नृन् प्रत्यनुकूलः ।।१२८॥
(५) नन्दनः। सामान्यतः करपरिकल्पनस्य लक्षणमाह यथेति ॥१२८॥
(८) गोविन्दराजः। यथेति । यथा राज्ञो वणिक्कर्षणादेश्च कर्मकर्तुः फलसम्बन्धो
भवति तथा पर्यालोच्य राजा सर्वदा राष्ट्र करान्कल्पयेत् ।।१२८॥
(९) भारुचिः । अस्य दृष्टान्तः । करादानविधिस्तुत्यर्थो दृष्टान्तश्लोकः ॥१२८॥
यथाल्पाल्पमदन्त्यायं वार्योकोवत्सषट्पदाः।
तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः॥१२९॥
(१) मेधातिथिः। क्षीणकृषेन्यूनः करो ग्रहीतव्य इत्येवमर्थमेतत् । वार्योकसो
जलौकसः। षट्पदा भ्रमराः। यथा ते स्वल्पमाददानाः परिपुष्टा भवन्ति तथा राज्ञा
मूलाच्छेदो न कर्तव्यः ॥१२९॥
(२) सर्वज्ञनारायणः। वत्सः प्रस्नवे। वार्योकसः जलौकसः रक्ताकर्षे ॥१२९॥
(३) कुल्लूकः । अत्र दृष्टान्तमाह यथेत्यादि। यथा जलौकोवत्सभ्रमराः स्तोक-
स्तोकानि रक्तक्षीरमधून्यदन्ति, एवं राज्ञा मूलधनमनुच्छिन्दताऽल्पोऽल्पो राष्ट्रादब्दिकः करो
ग्राह्यः ॥१२९॥
(४) राघवानन्दः । करमपि देशकालसंपत्त्यनुरूपेणादद्यादिति सदृष्टान्तमाह यथेति ।
वार्योको जलौकाः । अल्पमल्पं क्रियाविशेषणं, स यथा गात्राद्रक्तमल्पमादत्ते, यद्वा मत्स्यः
गन्धवारिचरः अपां बहूनां यथेष्टतत्पाने उपजीव्यजलनाशे स्वनाशशङ्कयाल्पोदकं पिबति ।
वत्सोऽपि सर्वदुग्धपाने गोपस्य क्षतिः स्यादित्याशङ्कयाल्पं चोषति । भ्रमरस्यापि सर्वमधुपाने
फलानुत्पत्तेस्तज्जपुष्पान्तराभावात्स्वनाशशंका । एवं राजन्यप्यूहनीयम् । प्रजानां मूलानुच्छेदा-
दिति भावः । आब्दिक: अब्दसमाप्यः ॥१२९।।
(५) नन्दनः । अन्न दृष्टान्तमाह यथाल्पाल्पमिति । आद्यमदनीयम् । वार्योका
वार्योकसः। ऋषिनिपातनादकारान्तत्वम् ॥१२९॥
(६) रामचन्द्रः । वार्योकसः यथाल्पाल्पं आद्यं भक्ष्यं अदन्ति भक्षयन्ति यथा षट्पदाः
भ्रमराः अल्पमल्पमदन्ति तथा राजा राष्ट्रमवेक्ष्य आब्दिकान् करान्सततं कल्पयेत् ॥१२९॥
(८) गोविन्दराजः। यथाऽल्पाऽल्पमिति । अत्र दृष्टान्तमाह-यथा जलौको-वत्स-
भ्रमराः शनैः शनैः स्तोकं स्तोकमदनीयं असृक्क्षीरमकरन्दमदन्त्येवं मूलमच्छिन्दता राज्ञा
सांवत्सरिको करोऽल्पोऽल्पो ग्रहीतव्यः ।।१२९॥
पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः ।
धान्यानामष्टमो भागः षष्ठो द्वादश एव वा ॥१३०॥
(१) मेधातिथिः। मूल्याधिकयोः पशुहिरण्ययोः पञ्चाशद्भागो ग्राह्यः । धान्यानां
भागविशेषः सुकरदुष्करापेक्षया मन्तव्यः । पंचाशत्पूरणः पञ्चाशः । 'विंशत्यादिभ्य' इति
पक्षे तमट् । 'पञ्चाशद्भाग' इति पाठे द्विभागादिवत्संख्यान्तरम् ॥१३०॥
७.१३१] व्याख्यानवकोपेता १०१ (२) सर्वज्ञनारायणः । पञ्चाशद्भाग इत्यादिना जनपदानां वार्षिककरग्रह उक्तः । हिरण्यपदं रूप्यादेरप्युपलक्षणम् । द्वादशेति फलेऽष्टमो मध्यम उत्तमे षष्ठः ॥१३०॥ (३) कुल्लूकः । तमाह पञ्चाशद्भाग इत्यादि । मूलादधिकयोः पशुहिरण्को: पञ्चाशद्भागो राज्ञा ग्रहीतव्यः, एवं धान्यानां षष्ठोऽष्टमो द्वादशो वा भागो राज्ञा ग्राह्यः । भूम्युत्कर्षापकर्षापेक्षया कर्षणादिक्लेशलाघवगौरवापेक्षश्चायं बह्वल्पग्रहणविकल्पः ॥१३०॥ (४) राघवानन्दः । द्रव्यविशेषे विशेषतः करमल्पमाह पञ्चाशदिति । पशुहिरण्ययो- स्तज्जीविभ्य आदेयः । पञ्चाशद्भाग एकोनपञ्चाशद्भागो द्रव्यस्वामिना ग्राह्यः, राज्ञा त्वेकोऽवशिष्टो भागः । एवं सर्वत्र भूम्युत्कपिकर्षापेक्षया कर्मक्लेशलाघवगौरवापेक्षया वा धान्यानां भागविकल्पः ॥१३०।। (५) नन्दनः । द्रव्यविशेषेष्वादेयभागविशेषं श्लोकत्रयेणाह पञ्चाशद्भाग इति । सर्वत्र व्ययव्यतिरिक्तलाभविषया भागकल्पना भूमेमध्यमोत्तमाधमापेक्षया व्यवस्थित- विषयोऽयमष्टमादिको विकल्पः कल्पनीयः ।।१३०॥ (८) गोविन्दराजः। पञ्चाशद्भाग इति। मूलाधिकयोः पशुहिरण्ययोः पञ्चाशत्तमो भागो राज्ञा ग्राह्यः । एवं धान्यानां षष्ठोऽष्टमो द्वादशो वा कर्षकक्लेशाऽपेक्षया ग्राह्यः ॥१३०॥ (९) भारुचिः। मूलादधिकयोः पशुहिरण्ययोः पञ्चाशद्भागो ग्राह्यः ॥१३०।। आददीताथ षड्भागं द्रमांसमधुसर्पिषाम् । गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥१३१॥ (१) मेधातिथिः। द्रुशब्देन वृक्षा उच्यन्ते । शेषं प्रसिद्धम् । एतेषां षष्ठो भागो लाभाद्ग्रहीतव्य : ॥१३१॥ (२) सर्वज्ञनारायणः । द्रुमाणां स्वयमजितानां वनाहृतानां च । एवं रसानां लवणा- दीनाम् ॥१३१॥ (३) कुल्लूकः । द्रुशब्दोऽत्र वृक्षवाचकः, वृक्षादीनां सप्तदशानां अश्ममयान्तानां षष्ठो भागो लाभाद्ग्रहीतव्यः ।।१३१॥ (४) राघवानन्दः । किंचान्यदाददातेति द्वाभ्याम् । द्रुः काष्ठाद्यर्थो वृक्षः, तदाद्य- श्ममयान्तानां सप्तदशानां तदुत्पादकेभ्यस्तद्विक्रयिभ्यश्च षड्भागमेवाददीतेत्यन्वयः । मांसं मांसमत्स्यौ ॥१३१॥ (६) रामचन्द्रः । द्रुमांसमधुसपिषां राजा षड्भागमाददीत । द्रोवृक्षस्य मांसस्य 'मधुनः सर्पिषः घृतस्य । ‘पलाशी द्रुद्रुमागमा' इत्यमरः। तु पुनः गन्धादीनामिति ॥१३१॥ (८) गोविन्दराजः । आददीतेति । 'तृणानाञ्चैव षड्भागं चर्मणां वैणवस्य चेति । वृक्षमांसमाक्षिकवृतकर्पूरादिगन्धानां गुडूच्याद्यौषधीनां लवणादिरसानां पुष्पमूलफलपत्र- शाकतृणचर्मवेणुमयमृन्मयाश्ममयानां षड्भागं गृह्णीयात् ॥१३१-१३२॥ (९) भारुचिः। धान्यानां भागविशेषः सुकरापेक्षायां भूपाः. . . ॥१३१।।
-2 १०२ मनुस्मृतिः [७.१३४ पत्रशाकतृणानां च चर्मणां वैदलस्य च । मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥१३२॥ (२) सर्वज्ञनारायणः । पत्रं तालीसपत्रादि । वैदलं वंशादिविदलकृतभाण्डादि । मृन्मयानां कुलालादिकृतानाम् ।।१३२।। (४) राघवानन्दः । द्रुमाणामिति पाठो मेधातियः। वैदलस्य शूपादेः ॥१३२॥ (५) नन्दनः। आददीतेत्यत्रानुवर्तते ।।१३२॥ (६) रामचन्द्रः। पत्नशाकतृणादीनां च पड्भागमाददीत स्वीकुर्यात् ॥१३२॥ (९) भारुचिः। यथोक्तानां द्रुमादीनां लाभात् षड्भागादानम् ॥१३२॥ नियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् । न च क्षुधाऽस्य संसौदेच्छ्रोत्रियो विषये वसन् ॥१३३॥ (१) मेधातिथिः। तथा कुर्याद्यथा क्षुधाऽस्य विषये श्रोत्रियो नावसीदति ॥१३३॥ (२) सर्वज्ञनारायणः। श्रोत्रियात्तेनाजितधनाद्भागम् ॥१३३॥ (३) कुल्लूकः । क्षीणधनोऽपि राजा श्रोत्रियब्राह्मणाकरं न गृहणीयात् न च तदीय- देश वसन् श्रोत्रियो बुभुक्षयाऽवसादं गच्छेत् ॥१३३।। (४) राघवानन्दः । पर्युदासाधिकरणन्यायेन श्रोत्रियस्य करादानाभावमाह म्रिय- माण इति द्वाभ्याम् ॥१३३।। (७) मणिरामः । अवसीदेत् न पीडां प्राप्नुयात् ॥१३३-१३४॥ (८) गोविन्दराजः । म्रियमाण इति । न च गच्छेद्विषादं च श्रोत्रियो विषये वसन् । अत्यन्तक्षीणकोशोऽपि राजा वेदाध्यायिनो ब्राह्मणात् करं न गृह्णीयात् । न च तदीये देशे वसन् श्रोत्रियो विषादं गच्छेत् ॥१३३॥ यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा । तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति ॥१३४॥ (१) मेधातिथिः । अनन्तरविधेरतिक्रमफलमेतत् ॥१३४॥ (२) सर्वज्ञनारायणः । तस्माद्देयमस्मै किंचिदित्यर्थः ॥१३४।। (३) कुल्लूकः। यस्य राज्ञो देशे श्रोत्रियः क्षुधावसन्नो भवति तस्य राष्ट्रमपि दुर्भिक्षा- दिभिः क्षुधा शीघ्रमवसादं गच्छति ॥१३४॥ (४) राघवानन्दः। न केवलं कराऽनादानं किंचास्य राज्ञो विषये वसन् श्रोत्रियो नावसीदेदपि । क्षुधा बुभुक्षया क्षुधासक्तौ दृष्टदोषमाह तस्येति । विषये देशे। अतः श्रोत्रियातिरिक्तेभ्यः करं गृहणीयादित्यर्थः ।।१३४।। (८) गोविन्दराजः । यस्मात् यस्येति । यस्य राज्ञो देशे श्रोत्रियः क्षुधावसन्नो भवति, तस्य राष्ट्रमपि अचिरात् क्षुधावसादमेति ॥१३४॥ (९) भारुचिः। अस्य निन्दार्थवादः ॥१३४।।
७.१३७]
व्याख्यानवकोपेता
१०३
श्रुतवृत्ते विदित्वाऽस्य वृत्तिं धर्त्या प्रकल्पयेत् ।
संरक्षेत्सर्वतश्चैनं पिता पुत्रमिवौरसम् ॥१३५॥
(१) मेधातिथिः। धा वृत्तिम् । यया कुटुम्बधर्मस्यावसादनं न भवति । वृत्ति
प्रकल्प्य सर्वतो रक्षेच्चौरादिभ्यः। स्वयमधिकव्ययाच्च ॥१३५।।
(२) सर्वज्ञनारायणः। तदाह श्रुतवृत्ते इति । वृत्तमाचारः । धा स्ववर्णयोग्यां
प्रतिग्रहादिकाम् ॥१३५॥
(३) कुल्लूकः । यत एवमतः श्रुतेति । शास्त्रज्ञानानुष्ठाने ज्ञात्वाऽस्य तदनुरूपां
धर्मादनपेतां जीविकामुपकल्पयेत् चौरादिभ्यश्चैनमौरसपुत्रमिव पिता रक्षेद्यस्मात् ॥१३५॥
(४) राघवानन्दः । न केवलमादानाभावमात्र प्रत्युतास्मै दानं सार्थवादमाह श्रुतवृत्ते
इति द्वाभ्याम् । श्रुतवृत्ते शास्त्रज्ञानानुष्ठाने इति कुल्लूकः । श्रुतं वेदाध्ययनं वृत्तमयाचितत्वादि
ते ज्ञात्वाऽस्य श्रोत्रियस्य धा धर्मादनपेतां तदभिमतां वृत्ति दद्यात् तां लिखितदिव्यादि-
युक्तता म्रपट्टादिना। रक्षेदेनं च श्रोत्रियं यथा तामन्यो न हरेदिति भावः। चोरादिभ्यो
रक्षणं साधारणम् ॥१३५॥
(७) मणिरामः । अस्य श्रोत्रियस्य । श्रुतवृते शास्त्रज्ञानानुष्ठाने एनं
श्रोत्रियं ॥१३५॥
(८) गोविन्दराजः। यत एवमतः श्रुतवृत्ते इति । भयेभ्यश्च तथा रक्षेत् पिता
पुत्रमिवौरसम्। ज्ञानाऽनुष्ठानेऽस्य ज्ञात्वा तदनुरूपां धर्मादनपेतां स जीविकां कल्पयेत्,
चौरपारदारिकादिभ्यो भयेभ्यश्च रक्षणीयस्तथा यथा पिता पुत्रं रक्षति ॥१३५॥
संरक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम् ।
तेनायुर्वधते राज्ञो द्रविणं राष्ट्रमेव च ॥१३६॥
(१) मेधातिथिः। धार्मिकश्रोत्रिय रक्षायाः फलमेतदायुर्द्रविणराष्ट्रवृद्धिः ॥१३६॥
(२) सर्वज्ञनारायणः। संरक्ष्यमाणो दस्युभ्यः ॥१३६॥
(३) कुल्लूकः । स च श्रोत्रियो राज्ञा सम्यग्रक्षमाणो यं धर्म प्रत्यहं करोति तेन राज्ञ
आयुर्धन राष्ट्राणि वर्धन्ते ॥१३६।।
(४) राघवानन्दः। अत आह समिति । तेन धर्मेणायुर्द्रविणं राष्ट्र चास्य राज्ञो वर्धत
इत्यन्वयः ॥१३६।।
(६) रामचन्द्रः । अयं ब्राह्मणः तेन धर्मेण ॥१३६॥
(७) मणिरामः। राज्ञा संरक्ष्यमागः श्रोत्रियः यं धर्ममन्वहं कुरुते तेन धर्मेण राज्ञः
आयुरादिर्वर्धते ॥१३६॥
(८) गोविन्दराजः। संरक्ष्यमाण इति । स च ब्राह्मणो राज्ञा रक्ष्यमाणो
धर्ममन्वहं कुरुते, तेन राज्ञ आयुर्वर्धते, राष्ट्राणि वर्धन्ते ॥१३६।।
यत्किञ्चिदपि वर्षस्य दापयेत्करसंज्ञितम् ।
व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ॥१३७॥
१०४
मनुस्मृतिः
[७.१३८
(१) मेधातिथिः । कृषिधनप्रयोगक्रयविक्रयादिव्यवहारेण जीवन्तं पृथग्जनं ब्राह्मणा-
च्छ्रोत्रियादन्यं करं दापयेत् । करसंज्ञा सञ्जाताऽस्य करसंज्ञितम् ॥१३७।।
(२) सर्वज्ञनारायणः । अन्येनापि कर्मणा वाणिज्यादिव्यवहारेण जीवन्तं पृथग्जनम-
ब्राह्मणं किंचिदण्वपि दापयेत्, न तु किंचिदाददीत ॥१३७॥
(३) कुल्लूकः। राजा स्वदेशे शाकपर्णादिस्वल्पमूल्यवस्तुक्रय विक्रयादिना जीवन्तं
निकृष्टजनं स्वल्पमपि कराख्यं वर्षेण दापयेत् ॥१३७॥
(४) राघवानन्दः । किं च व्यवहारेण शाकादिक्रयविक्रयादिना जीवतो निकृष्ट-
स्याल्पः शुल्को ग्राह्य इत्याह यदिति । पृथग्जनं निकृष्टम् ॥१३७॥
(५) नन्दनः। यत्किञ्चिदिति । वर्षस्य संवत्सरस्य व्यवहारेण वाणिज्येन पृथग्जनं
प्रकृतजनम् ॥१३७॥
(६) रामचन्द्रः। पृथग्जनं सामान्यजनं कारुकादिकं यत्किचिदपि करं दापयेत्॥१३७।।
(७) मणिरामः। राजा राष्ट्रे स्वदेशे व्यवहारेण जीवन्तं। शाकपर्णादिक्रय विक्रया दिना
जीवन्तं। पृथग्जनं निकृष्टजन । यत्किचिदपि स्वल्पकराख्यं । वर्षस्य वर्षेण दापयेत् ।।१३७॥
(८) गोविन्दराजः । यत्किञ्चिदिति । तद्राष्ट्र क्रयविक्रया दिजीविनमापूपिकादिकं
निकृष्टजनं यत्किञ्चित् स्वल्पमपि कराख्यं वर्षे राजा दापयेत् ॥१३७॥
(९) भारुचिः। श्रोत्रिययोः अधिकलेमप्रयोजनार्थस्त्रयः श्लोकाः । ब्राह्मणादन्यः
पृथग्जनं । स्वल्पेनापि व्यवहारेण जीवन् दापयितव्यः करः॥१३७।।
कारुकान् शिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः ।
एकैकं कारयेत्कर्म मासि मासि महीपतिः॥१३८॥
(१) मेधातिथिः । शिल्पमात्रोपजीविनस्तान्मासं मासमेकमहःकर्म कारयेत् । आत्मोप-
जीविनश्च शूद्रा वेशभारवाहादयः ॥१३८॥
(२) सर्वज्ञनारायणः । कारुकान् वर्धक्यादीन् । शिल्पिनो नटादीन् । आत्मोपजीविनो
भक्तार्थं नित्यं परस्य कर्म कृत्वा तल्लब्धभक्तेन जीवन्तः ॥१३८।।
(३) कुल्लूकः । कारुकान्सूपकारादीन् शिल्पिभ्य ईषदुत्कृष्टान् शिल्पिनश्च लोह-
कारादीन् शूद्रांश्च देहक्लेशोपजीविनो भारिकादीन् मासि मास्येकं दिनं कर्म कारयेत् ॥१३८॥
(४) राघवानन्दः। दुःखजीविनो विष्टयादिना नातिपीडनीया इत्याह कारुकानिति ।
कारुकान् शूर्पादिकारिणः शिल्पिनः चित्रलोहकारादीन् आत्मोपजीविनः देहक्लेशोप-
वेतनजीविनः कर्म स्वकं मासि मासि मासं मासं प्रत्येकैकं कारयेदित्यन्वयः ॥१३८।।
(५) नन्दनः। आत्मोपजीविनः शरीरोपजीविनः, कर्मोपजीविन इति यावत् ॥१३८।।
(६) रामचन्द्रः । कारुकादीन् एकैकं विष्टिरूपं कर्म मासि मासि कारयेत् ॥१३८॥
(७) मणिरामः । आत्मोपजीविनः देशक्लेशोपजीविनः भारवाहकादीन् ॥१३८।।
(८) गोविन्दराजः। कारुकानिति । कारून् सूपकारादीन् शिल्पिनश्चर्मकारादीन्
शूद्रांश्च कायक्लेशजीविनो भारिप्रभृतीन् मासि मासि एकैकमहोरात्रं कर्म कारयेत् ॥१३८॥
(९) भारुचिः । ये शिल्पमात्रोपजीविनस्तान् मासानुमासिकमेकैकमहःकर्म
कारयेत् । आत्मोपजीविनश्च ॥१३८॥
७.१४०] व्याख्यानवकोपेता १०५ । नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया । उच्छिन्दन् ह्यात्मनो मूलमात्मानं तांश्च पीडयेत् ॥१३९॥ (१) मेधातिथिः । करशुल्कादेरग्रहणमात्मनो 'मूलच्छेदः', अतिबहुग्रहणं परेषाम् । तच्च तृष्णया भवतीत्यनुवादः । आत्मनो मूलच्छेदेनात्मपीडा भवति, कोशक्षयात् । अतस्तेऽपि पीड्यन्ते । उपस्थिते विग्रहे क्षीणकोशशक्तिररिभिरपरुद्धोद्धरणेऽवश्यं भवेत् । सा च तेषां महती पीडा । यत्तु सार्वकालिकं करग्रहणं तत्सम्पादयतो न खेदिता भवन्ति ॥१३९॥ (२) सर्वज्ञनारायणः। आत्मनो मूलं करग्रहणेन न छिन्द्यात् । अतितृष्णया चाति- करग्रहणेन न परेषां मूलं धनं छिन्द्यात् ॥१३९॥ (३) कुल्लूकः । प्रजास्नेहात्करशुल्कादेरग्रहणमात्मनो मूलच्छेदः, अतिलोभेन प्रचुर- करादिग्रहणं परेषां मूलोच्छेदः; एतदुभयं न कुर्याद्यस्मादात्मनो मूलमुच्छिद्य कोशक्षयादात्मानं पीडयेत् पूर्वार्धात्परेषां चेत्यपि संबध्यते। परेषां मूलमुच्छिद्य तांश्च पीडयेत् ।।१३९॥ (४) राघवानन्दः। किंच प्रजास्वकरादाने नातीव स्नेहो राज्ञो न धर्म इत्याह नेति । आत्मनो मूलं करशुल्कादेर्ग्रहणं स्नेहेन तन्न त्यजेत् । नापि च परेषां प्रजानामतितृष्णया मूलं सर्वस्वादिकं गृहणीयादिति ॥१३९॥ (५) नन्दनः। स्वस्थान्येषाञ्च' मूलं कृषिगोरक्षवाणिज्यादिकं करोत्पत्तिस्थानम् । अतितृष्णया शास्त्रविरुद्धः करैर्नोच्छिन्द्यात् । तत्र कोऽनर्थ इत्यपेक्षायामुक्तमुत्तरार्धे मतम् 'नोच्छिन्द्यादात्मनो मूल'मित्यत्र परेषामित्यनुपादानं कृष्यादिकस्य राजमूलत्वसारज्ञापनार्थं तानन्यांश्च पीडयेत् दरिद्रयेत् ॥१३९।। (६) रामचन्द्रः। आत्मनः मूलं मूलधनं प्रजारूपं करग्रहेण नोच्छिन्द्यात् उच्छिन्न न कुर्यात् । च पुनः परेषां ग्रामनिवासिनां प्रजानां अतितृष्णया अतिकरग्रहणेन । च पुनः आत्मनः मूलमुच्छिन्दन् हि निश्चयेन आत्मानं प्रजाश्च पीडयेत् । . तस्मान्मूलधनं नोच्छिन्द्यात् ॥१३९।। (७) मणिरामः। प्रजोपरि कृपया करशुल्कादेरग्रहणमात्मनो मूलच्छेदः । प्रचुरकरादि- ग्रहणं परेषां मूलच्छेदः । एतदुभयं न कुर्यात् ।।१३९।। (८) गोविन्दराजः। नोच्छिन्द्यादिति । उच्छिन्दन्नामनो मूलमिति । अतिस्नेहेन कराद्यग्रहणे सति आत्मनः कोशक्षयाद्राज्यविनाशाख्यं मूलच्छेदं न कुर्यात् । तथाऽतिलोभवान् आसां प्रजानामपि न च मूलच्छेदं कुर्यात् । तस्मादात्ममूलच्छेदेन राजा कराक्रमणे सति आत्मानं प्रजाश्च पीडयेत् ॥१३९॥ (९) भारुचिः। तदेवं प्रतिषेधादात्मनः परेषां च तन्त्रं नोच्छिन्द्यात् ॥१३९।। तीक्ष्णश्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः । तीक्ष्णश्चैव मृदुश्चैव राजा भवति संमतः॥१४०॥ (१) मेधातिथिः। तीक्ष्णमृदुता नित्यमभ्यसनीया। तादृशो राजा प्रजानां संमतो भवत्यभिप्रेतः ॥१४०॥ राजा १०६ मनुस्मृतिः [७. १४१ यत्तत्र (२) सर्वज्ञनारायणः । कार्य प्रेक्ष्य मार्दवेनैव साध्यं मृदुरन्यत्र तीक्ष्णः ॥१४०॥ (३) कुल्लूकः । कार्यविशेषमवगम्य क्वचित्कार्ये तीक्ष्णः क्वचिन्मृदुश्च भवेत् नत्वेकरूपमालंबेत, यस्मादुक्तरूपो राजा सर्वेषामभिमतो भवति ॥१४०।। (४) राघवानन्दः । अपि च राजानं धर्मविशेषेण शिक्षयति तीक्ष्णश्चेति दण्डये- प्वपराधयुक्तेषु तीक्ष्णो निरुपरुद्धः मृदुश्च साधुषु संमतो मन्वादीनाम् ॥१४०॥ (५) नन्दनः। धर्मातरमाह तीक्ष्णश्चैवेति । तीक्ष्णः अग्न्यर्कादिमात्रानिर्मितत्वात् मृदुश्च सोमवरुणादिमानानिर्मितत्वात् ।।१४०॥ (६) रामचन्द्रः । महीपतिः कार्यं वीक्ष्य तीक्ष्णः सन्मृदुः स्यात् । कदाचित्तीक्ष्ण: कदाचिन्मृदु: राजा' संमतो भवति ॥१४०।। (७) मणिरामः। कार्यं वीक्ष्य उग्रकार्ये तीक्ष्णो मृदुकार्ये मृदुरित्यर्थः ।।१४०॥ (८) गोविन्दराजः । न तीक्ष्णो न मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिरिति । कार्यवशात्तीक्ष्णो मृदुर्वा राजा भवेत् । नैकान्ततः कार्यतः तीक्ष्णमार्दवावलम्बी राजा प्रजानामभिमतो भवति ।।१४०।। (९) भारुचिः। समासत एवं राजवृत्तं नित्यमभ्यसनीयम् ॥१४०।। अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् । स्थापयेदासने तस्मिन्खिन्नः कार्येक्षणे नृणाम् ॥१४१॥ (१) मेधातिथिः । प्रजानां सम्बन्धिनि कार्यदर्शने खिन्नः श्रान्तः । धर्मज्ञादिगुणयुक्तं सर्वसहममात्यं तस्मिन् कार्येक्षणे नियुजीत । न पुनस्तस्मिन्नेव सिंहासने ॥१४१॥ (२) सर्वज्ञनारायणः । आसने तस्मिन्स्वस्थान' इत्यर्थः ।।१४१॥ (३) कुल्लूकः । स्वयं कार्यदर्शने खिन्नः श्रेष्ठामात्यं धर्मविदं प्राज्ञं जितेन्द्रियं कुलीनं तस्मिन्कार्यदर्शनस्थाने नियुञ्जीत ॥१४१॥ (४) राघवानन्दः । यत्र स्वयमसमर्थस्तत्रामात्यं नियोजयेदित्याह अमात्येति । धर्मज्ञमित्यनेन प्रभौ विक्रियाराहित्यं सूचितम् । दान्तं लोभाद्यनभिभूत्वेन प्रजासु। कुलोद्गतं कुलीनम् । आसने स्थित्वा यत्र कार्येक्षणे कार्यदर्शने खिन्नः खेदयुक्तोऽसमर्थस्तत्रैवंविधम- मात्यं प्रयोजयेदित्यन्वयः ॥१४१॥ (५) नन्दनः। खिन्नः बहुकार्यावेक्षणात्परिश्रान्तः । स्वस्मिन्नासने स्वस्मिन्कृत्ये॥१४१॥ (६) रामचन्द्रः । राजा नृणां कार्याणामीक्षणं स्वयं खिन्नः ज्वरादिना युक्तश्चेत्तदा एतादृशममात्यमासने कार्यावेक्षणे स्थापयेदित्यर्थः ॥१४१॥ (७) मणिरामः । अमात्यमुख्यं स्वयं कार्यदर्शने खिन्नः सर्वाधिकममात्यं । आसने कार्यदर्शनस्थाने ॥१४१॥ (८) गोविन्दराजः। अमात्यमुख्यमिति । भृत्यविषये कार्यदर्शने राजा खिन्नः सन् प्रधानामात्यं धर्मज्ञं प्राज्ञं यतेन्द्रियं कुलीनं तस्मिन् कार्यदर्शनस्थाने विनियुञ्जीत ॥१४१।। (९) भारुचिः । कार्यदर्शने खिन्नः सर्वोत्कृष्टममात्यं दर्शनस्थाने स्थापयेत् ॥१४१॥ ।
७.१४३]
व्याख्यानवकोपेता
१०७
एवं सर्वं विधायेदमितिकर्तव्यमात्मनः ।
युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥१४२॥
(१) मेधातिथिः । सहायसंग्रहप्रभृत्युक्तस्यार्थस्यैवमिति परामर्शनम् । विधाय कृत्वा
इतिकर्तव्यमुपकारकभितिकर्तव्यमुच्यते । युक्तस्तत्परः । अत एवाप्रमत्तः। अथवा बुद्धय-
स्खलनमप्रमत्तता सर्वकाले। एवं प्रजाः परिरक्षेत् ॥१४२॥
(२) सर्वज्ञनारायणः । युक्त उद्युक्तः । अप्रमत्तोऽन्यत्रासक्तः ।।१४२।।
(३) कुल्लूकः । एवमुक्तप्रकारेण सर्वमात्मनः कार्यजातं संपाद्योद्युक्तः प्रमादरहित
आत्मीयाः प्रजा रक्षेत् ॥१४२॥
(४) राघवानन्दः। प्रतिज्ञान्तरं ब्रुवन्प्रकृतमुपसंहरति एवमिति । युक्तः उद्युक्तः
इमाः स्वदेशस्था रक्षेदेवेत्यन्वयः ॥१४२॥
(५) नन्दनः। इदमुक्तम् । युक्त उपायवान् ॥१४२॥
(७) मणिरामः। एवं उक्तप्रकारेण। युक्तः उद्यमयुक्तः । अप्रमतः प्रमादरहितः ॥१४२।।
(८) गोविन्दराजः । एवमिति । एवमुक्तरीत्या सर्वमात्मनः कार्यजातं सम्पाद्य
यत्नवान् बुद्धयाऽस्खलनात्मीयाः प्रजाः परिरक्षेत् ॥१४२॥
विक्रोशन्त्यो यस्य राष्ट्राद् ड्रियन्ते दस्युभिः प्रजाः ।
संपश्यतः सभृत्यस्य मृतः स न तु जीवति ॥१४३॥
(१) मेधातिथिः। पूर्वोक्तयोरप्रमादयोरन्यथात्वे दोषमाह - यदि सम्यग्गुल्मस्था-
नानि प्रति न जागति तदा छिद्रान्वेषिभिर्दस्युभिः चौरैः प्रजा ड्रियन्ते । तासु कि
करिष्यति? अतस्तादृशो राजा मृत एव । जीवितं मरणमेव । अतोऽप्रमत्तेन भवितव्यम् ।
विक्रोशन्त्यः आक्रन्दन्त्यः । ह्रियन्ते। संपश्यतः समृत्यस्य निर्दिष्टं द्रक्ष्यते। केवलं च
भृत्यास्तदीयाः पश्यन्ति नानुधावन्ति मोक्षयन्ति । सर्वे ते मृतकल्पाः ॥१४३॥
(२) सर्वज्ञनारायणः । दस्युभिः शत्रुभिः ॥१४३॥
(३) कुल्लूकः । यस्य राज्ञोऽमात्यादिसहितस्य पश्यत एव राष्ट्रादाक्रोशन्त्यः
प्रजास्तस्करादिभिरपि ह्रियन्ते स मृत एव, न तु जीवति ; जीवनकार्याभावाज्जीवनमपि तस्य
मरणमेवेत्यर्थः ।।१४३॥
(४) राघवानन्दः । सार्थवादं तदेवाह विक्रोशन्त्य इति द्वाभ्याम् । विक्रोशन्त्यः 'हा
हतोऽस्मीति वच उगिरन्त्यः अपद्रियन्ते धनाद्यादानेन दस्युभिः साहसिकैः । संपश्यत
इत्यनादरे षष्ठी। मृतः शव इव घृणास्पदीभूतः ॥१४३॥ .
(५) नन्दनः। अरक्षितुनिन्दामाह विक्रोशन्त्य इति । ड्रियन्ते धनमिति शेषः ॥१४३॥
(७) मणिरामः। सभृत्यस्य अमात्यादिसहितस्य ॥१४३॥
(८) गोविन्दराजः । विक्रोशन्त्य इति । यस्य राज्ञः सभृत्यस्य पश्यत एव
राष्ट्रादाक्रन्दन्त्यः प्रजा: शत्रुप्रभृतिभिरपड्रियन्ते स्वजीवितकार्याभावात् मृत एव, न तु
जीवति ॥१४३॥
१०८
मनुस्मृतिः
[७.१४५
-
क्षत्रियस्य परो धर्मः प्रजानामेव पालनम् ।
निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥१४४॥
(१) मेधातिथिः। प्राप्तं फलं भुङक्ते राजा । स धर्मेण युज्यते । अन्यथाऽनुग्राह-
काणामेव पालनं कुर्वन्प्रत्यवैति ॥१४४॥
(२) सर्वज्ञनारायणः। निदिष्टफलं शास्त्रनियमितकरादिग्रहगेन' भोगसिद्धिः ।।१४४॥
(३) कुल्लूकः । तस्मात् ‘अप्रमत्तः प्रजा रक्षेत्' इति पूर्वोक्तशेषं, तदेव द्रढयति
क्षत्रियेति। धर्मान्तरेभ्यः श्रेष्ठं क्षत्रियस्य प्रजा रक्षणमेव प्रकृष्टो धर्मः यस्माद्यथोक्तलक्षण-
फलकरादिभोक्ता राजा धर्मेण संबध्यते ॥१४४।।
(४) राघवानन्दः। किंच क्षत्रियस्येति । निर्दिष्टफलभोक्ता शास्त्रनिर्दिष्टकरादि-
फलभोक्ता ॥१४४॥
(५) नन्दनः । निर्दिष्टफलभोक्ता प्रजापालनार्थं वेतनीकृतस्य' षड्भागादिकस्य
फलस्य भोक्ता ॥१४४॥
(६) रामचन्द्रः। निर्दिष्टफलभोक्ता शास्त्रोक्तफलभोक्ता ॥१४४।।
(७) मणिरामः। परो धर्मः धर्मांतरेभ्यः श्रेष्ठः । निर्दिष्टफलभोक्ता यथोक्त-
करादिभोक्ता ॥१४४॥
(८) गोविन्दराजः। क्षत्रियस्येति । क्षत्रियस्य धर्मान्तरेभ्य: प्रजापालनमेव प्रकृष्टो
धर्मो यस्माद्रक्षणमिति फलभोक्ता राजा धर्मे (ण?) संबध्यते ॥१४४।।
(९) भारुचिः। युक्तश्चैवाप्रमत्तश्च परिपालयन् प्रजा इमा: यस्य प्रजारक्षण-
विधोऽर्थवादास्त्रियः श्लोकाः ॥१४४।।
उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
हुताग्निब्राह्मणांश्चार्य प्रविशेत्स शुभां सभाम् ॥१४५॥
१) मेधातिथिः। 'पश्चिमो यामो' ब्राह्मो मुहूर्तः। अत आह कृतशौचः समाहितः
हुताग्निरिति । न च ब्राह्म मुहूर्ते होमविधानमस्ति। तदा हि चतुर्मुहूर्तशेषा रात्रिर्भवति ।
होमश्च' व्युष्टायां रात्रौ समाप्य' कार्य उषःकल्पत्यागेन। आर्य ब्राह्मणान्पूजयित्वा ।
सभां शुभां मङ्गलवतीं प्रविशेत् ॥१४५।।
(२.) सर्वज्ञनारायणः। आर्य समभ्यर्च्य ॥१४५।।
(३) कुल्लूकः । स भूपो रात्रेः पश्चिमयाम उत्थाय कृतमूत्रपुरीषोत्सर्गादि-
शौचोऽनन्यमनाः कृताग्निहोत्रावसथ्यहोमो ब्राह्मणान्पूजयित्वा वास्तुलक्षणाद्युपेतां सभाम-
मात्यादिदर्शनगृहं प्रविशेत् ॥१४५॥
(४) राघवानन्दः। अधुनाऽस्याहरहःकृत्यमाह उत्थायेति द्वाभ्याम्। पश्चिमे यामे
ब्राह्म मुहूर्ते हुत्वाग्निमावसयाख्यं श्रौतं पुरोहितसाध्यं । आर्य सत्कृत्य । शुभी शुभ-
फलदाम् ॥१४५॥
(५) नन्दनः। राज्ञो नित्यकर्तव्यं कर्म श्लोकद्वयेनाह उत्थाय पश्चिम इति ॥१४५।।
(७) मणिरामः । समाहितः अनन्यमनाः । स राजा। शुभां वास्तुलक्षणादि-
युक्तां ॥१४५॥
N ७.१४७] . व्याख्यानवकोपेता १०९ (८) गोविन्दराजः । उत्थायेति । मुहूर्तमानावशिष्टायां रात्रावुत्थाय कृतावश्यक- शौचः संयतमनाः कृताग्निहोत्रो ब्राह्मणान्पूजयित्वा वास्तुलक्षणोपेतां सभाममात्यादि- दर्शनवेश्म प्रविशेत् ॥१४५॥ तत्र स्थितः प्रजाः सर्वाः प्रतिनन्ध विसर्जयेत् । विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः ॥१४६॥ (१) मेधातिथिः। तत्र तस्यां सभायां स्थितः प्रजा दर्शनार्थमागताः प्रतिनन्द्य यथार्हसंभाषणेक्षणाभ्युत्थानाभिवादनहर्षयित्वा विसर्जयेत् यथागतमनुजानीयात् । ततो विजितेषु तेषु मन्त्रयेत्सह मन्त्रिभिः। किं कर्तव्यमिति स्वपरराष्ट्रगतकर्तव्यतानिरूपणम् । मन्त्रपञ्चाङ्ग दर्शयिष्यते ॥१४६॥ (२) सर्वज्ञनारायणः। प्रतिनन्ध प्रियमुक्त्वा ॥१४६॥ (३) कुल्लूकः । तस्यां सभायां स्थितो दर्शनार्थमागताः प्रजाः सर्वाः संभाषणदर्शना- दिभिः प्रतिनन्ध प्रस्थापयेत् ताश्च प्रस्थाप्य मन्त्रिभिः सह सन्धिविग्रहादि चिन्तयेत् ॥१४६॥ (४) राघवानन्दः। किंच, प्रतिनन्ध वाग्वस्त्रादिना सत्कृत्य ॥१४६।। (५) नन्दनः । तत्र सभायां स्थित उपविष्टः । प्रतिनन्द्य न्याय्यनिर्णयेन प्रीणयित्वा मन्त्रयेत्कर्तव्यकार्यजातमिति शेषः ॥१४६।। (७) मणिरामः। प्रतिनन्ध संभाषणदर्शनादिभिः संतोष्य । मंत्रयेत् संधिविग्रहादि चितयेत् ॥१४६॥ (८) गोविन्दराजः। तत्रेति । तस्यां सभायां स्थितो दर्शनार्थं समायाताः सर्वाः प्रजाः वाक्चक्षुरादिना परितोष्य विसर्जयेत् । ताः विसर्य मन्त्रिभिः सह सन्धिविग्रहादीन् चिन्तयेत् ॥१४६॥ (९) भारुचिः। मन्त्रिभिः सह नित्य . . .त्युक्तं राज्ञः श्लोकद्वयेनोच्यते ॥१४६।। गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः। अरण्ये निःशलाके वा मन्त्रयेदविभावितः॥१४७॥ (१) मेधातिथिः। मन्त्रदेशविधिः। रहोगतः विविक्ते निर्जने देशे स्थितः । अविभावितः अनुमानेनापि यथा न जना जानन्तीदं वस्तु विद्यत इति, तथा कुर्यात् । निःशलाकम् । 'शलाका' इषीकाः । यत्र तृणमपि नास्ति, येन न कश्चित्तिष्ठतीति संभावनाऽस्ति, तन्निःशलाकम् ॥१४७॥ (२) सर्वज्ञनारायणः । निःशलाक एकान्ते यत्र क्वाप्यविभावितः अन्यैरनुपलक्षितः ॥१४७॥ (३) कुल्लूकः । पर्वतपृष्ठमारुह्य निर्जनवनगृहस्थितोऽरण्यदेशे वा विविक्ते मन्त्रभेद- कारिभिरनुपलक्षितः कर्मणामारम्भोपायः पुरुषद्रव्यं संपद्देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिरित्येवं पञ्चाङ्गमन्त्रं चिन्तयेत् ॥१४७॥ ।
११० मनुस्मृतिः [७.१४८ - वा (४) राघवानन्दः। मन्त्रयेदित्युक्तं, तदुचितं स्थलमाह गिरीति । प्रासादं रहोगतं अन्तःपुरगतम् । निःशलाके मन्त्रभेदकाः शलाकाः प्रतिरोधकजन्तवो वक्ष्यमाणा जडादयः तद्रहिते, विविक्त इति यावत् ।अविभावितः मन्त्रभेदकैरनुपलक्षितः ॥१४७।। (५) नन्दनः । मन्त्रणस्य देशमाह गिरिपृष्ठमिति । निःशलाके कुशशलाकादिहीने । अविभावितः अविदितः, अनाप्तैरिति शेषः ।।१४७॥ (६) रामचन्द्रः। अथ मंत्रविधिमाह गिरीति । गिरिपृष्ठं गिरिशृंगं समारुह्य निःशलाके निर्मनुष्ये मन्त्रं कुर्यात् 'निःशलाकास्तथा रह' इत्यमरः। अविभावि तः अज्ञातः ॥१४७॥ (७) मणिरामः । निःशलाके एकांते । अविभावितः मंत्रभेदकैरलक्षितः । मन्त्रये त कर्मणामारंभोपायः। १ पुरुषद्रव्यसंपत्, २ देशकालविभागः, ३ विनिपातप्रतीकार: ४ कार्यसिद्धिः, ५ एवं पंचांगमंत्रं चिंतयेत् ॥१४७-१४८।। (८) गोविन्दराजः । गिरिपृष्ठमिति । पर्वतपृष्ठमारुह्य धवलगृहं विविक्तदेशस्थोऽरण्ये वा तृणादिरहिते मन्त्रभेदकभयादिवजिते पञ्चाङ्गमन्त्रकर्मणामा- रम्भोपाय:- पुरुषद्रव्यसंपत्, देशकालविभागो, विनिपातप्रतीकारः, कार्यसिद्धिश्चेत्येवं विचिन्तयेत् ॥१४७॥ (९) भारुचिः। . . . पञ्चाङ्ग मन्त्रयेत् । तद्यथा-कर्मारम्भोपाय:-पुरुषद्रव्यसम्पद्देश- कालविभागः विनिपातप्रतीकारः कार्यसिद्धिरिति । तानैकैकशः पृच्छेत् समस्तांश्च हेतुभिः सर्वेषां मतिप्रविवेक विद्यादवाप्तार्थः । कालं नातिपातयेन्न च दीर्घमन्त्रः स्यान्न च तेषां प्रत्यक्ष- मन्त्रं मन्त्रयेत् । येषामपकुर्यात् । गुप्तमंत्रश्च स्यात् ॥१४७।। यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः। स कृत्स्नां पृथिवीं भुंक्ते कोशहीनोऽपि पार्थिवः ॥१४८॥ (१) मेधातिथिः । मन्त्रप्रकाशनिवारणार्थः श्लोकः । पृथग्जना अमन्त्रिणो मन्त्रविद्बाह्याः ॥१४८॥ (२) सर्वज्ञनारायणः । पृथग्जना मन्त्रबाह्याः समागम्य तन्मन्त्रज्ञैः सह ॥१४८॥ (३) कुल्लूकः । यस्य राज्ञो मन्त्रिभ्यः पृथगन्ये जना मिलित्वाऽस्य मन्त्रं न जानन्ति स क्षीणकोशोऽपि सर्वां पृथिवीं भुनक्ति ॥१४८।। (४) राघवानन्दः । तत्रैव दृष्टार्थवादफलमाह यस्येति । समागम्य मिलित्वा मन्त्रणं पृथङमन्त्रणं च । जनाः प्राणिनः । स पार्थिवः दरिद्रोऽपि कृत्स्नां समुद्रमेखला पृथ्वी भुङक्ते इत्यन्वयः ॥१४८॥ (६) रामचन्द्रः । यस्य मन्त्रं पृथग्जनाः मन्त्रबाह्या न जानंति, कोशहीनोऽपि स राजा कृत्स्नां पृथिवी भुंक्ते ॥१४८॥ (८) गोविन्दराजः । यस्येति । यस्य राज्ञो मन्त्रिव्यतिरिक्ताः जनाः संमील्याभ्यूह्य मन्त्रं न जानन्ति स क्षीणकोशोऽपि समनां पृथिवीं भुनक्ति ॥१४८॥ (९) भारुचिः । एवं च सति संरक्षणार्थम् ॥१४८॥ -- ७. १५०]] व्याख्यानवकोपेता ૧૧૧ जडमूकान्धबधिरांस्तैर्यग्योनान्वयोतिगान् । स्त्रीम्लेच्छव्याधितव्यङ्गान्मन्त्रकालेऽपसारयेत् ॥१४९॥ (१) मेधातिथिः । यत्किचित्प्राणिजातं तन्मन्त्रयमाणो विशोधयेत् । ततः प्रदेशाद- पशोधयेत् मन्त्रभेदाशङ्कया। . तिर्यग्योनिषु च शुकसारिकादयोऽपि मन्त्रं भिन्दन्ति । गवाश्वादयोऽपि योगारूढाः परिवर्तितनिकायाः सदसद्वार्ताहरा भवन्ति । तथाऽन्तर्धानादयोऽपि नरेन्द्र विद्याः श्रूयन्ते ।" व्यंगत्वादेव ग्रहणे सिद्धे गोबलीवर्दवदितरेषां ग्रहणम् । “व्यंगस्य हस्तपादादिच्छेदने न मन्त्रनियमस्थाः कर्तव्या-नायं कुत्रचित् गन्तुं शक्नोति-इहैवावरुद्ध आस्ते-कथं मन्त्रान् भेत्स्यतीति"। अथवा एवंविधा मन्त्रिणो न कर्तव्या बुद्धिविभ्रमसंभवात्, अतो नाप्त अपि, ततोऽपसर्पः ॥१४९।। (२) सर्वज्ञनारायणः । जडो देहस्पन्दनाशक्तः । तैर्यग्योनाः श्वकाकादयः । एतान्कृत- कमूकान्धजडादिभावाशङ्कया म्लेच्छवङ्गादींश्च सहजदुष्टाश्रयतयाऽपनयेत् ।।१४९।। (३) कुल्लूकः । बुद्धिवाक्चक्षुःश्रोत्रविकलान् तिर्यग्योनिभवांश्च शुकसारिकादीन् अतिवृद्धस्त्रीम्लेच्छरोग्याहीनांश्च मन्त्रसमयेऽपसारयेद्यस्मात् ॥१४९।। (४) राघवानन्दः । किंच मन्त्रणे कर्तव्ये वया॑न् सार्थवादमाह जडेति द्वाभ्याम् । तैर्यग्योनान् तिर्यग्योनौ भवान् शुकसारिकादीन् क्योधिकान् वृद्धान् व्यङ्गान् काणादीन् अपसारयेत् ॥१४९॥ (५) नन्दनः । तैर्यग्योनान् शुकसारिकादीन् । अपसारयेन्निषेधयेत् ॥१४९।। (६) रामचन्द्रः। जडमूकान्धादोन्मन्त्रकाले अपसारयेत् प्रतिषेधयेदित्यर्थः ॥१४९।। (७) मणिरामः । तैर्यग्योनान् तिर्यग्योनिभवान् शुकसारिकादीन् । वयोधिकान अतिवृद्धान् । एतान् अपसारयेत् दूरीकुर्यात् ॥१४९॥ (८) गोविन्दराजः । जडमूकान्धबधिरानिति । बुद्धिवाक्चक्षुःश्रोत्रविकलान् तथा गोमृगशुकान् तथा वृद्धस्त्रीम्लेच्छाऽऽतुरान् अङ्गहीनान् च मन्त्रकाले अपसारयेत् ॥१४९।। भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च । स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् ॥१५०॥ (१) मेधातिथिः। मानादपेता अवमताः।क्षुद्रद्वयोऽपमानासत्त्वे कदाचित्किचिच्छृणुयुः । कदाचिद्वाऽक्षराण्युच्चारयितुं शक्नुयुस्ततो मन्त्रभेदः स्यात् । शक्नुवन्ति निपुणाः किंचिदागमेष्वनुमातुम् ॥१५०॥ (२) सर्वज्ञनारायणः । स्त्रीतैर्यग्योनयोविशेषमाह भिन्दन्तीति । तैर्यग्योन्या एवमेव मन्त्रं भिन्दन्ति स्त्रियस्त्ववमानादिति विवेकः । तत्र तदपसारणे ॥१५०॥ (३) कुल्लूकः। एते जडादयोऽपि प्राचीनदुष्कृतवशेन प्राप्तजडादिभावा अधार्मिक- तयैवावमानिता मन्त्रभेदं कुर्वन्ति, तथा शुकादयोऽतिवृद्धाश्च स्त्रियश्च विशेषेणास्थिरबुद्धितया मन्त्रं भिन्दन्ति तस्मात्तदपसारणे यत्नवान्स्यात् ॥१५०॥ (४) राघवानन्दः। तत्र हेतुः भिन्दन्तीति । नृपेणावमता जडादयो मन्त्रं भिन्दन्तीति कृत्व तानपसारयेदित्यन्वयः । आदृतो यत्नवान् तेषु ॥१५०॥ ।
"-.--.--.- ११२. मनुस्मृतिः [७.१५२ (५) नन्दनः । अत्र हेतुमाह भिन्दन्त्यवमता इति । अवमतशब्देन जडादयो गृह्यन्ते ते मनुष्यैरवमता भवन्ति । अथवावमतग्रहणं तद्वर्जनार्थं, तस्मिन्पक्षे तैर्यग्योनग्रहणं जडान्धादीना- मप्युपलक्षणार्थम् । आदृतो भवेत् वर्जने कृतयत्नो भवेत् ॥१५०।। (६) रामचन्द्रः। अवमताः तिरस्कृताः जडादयः मन्त्रं भिन्दन्ति । तस्मात्कारणात्तत्र जडादित्वादृतः प्रयत्नवान् भवेत् ॥१५०॥ (७) मणिरामः। अपसारणे हेतुमाह एते जडादयः । अवमताः अपमानिता: ॥१५०॥ (८) गोविन्दराजः। भिन्दन्तीति । जडत्वादिदोषयोगेन सावमाना जडादयो मन्त्रभे कुर्वन्ति । तथा क्षितिपरिवर्तादिश्रवणा तिर्यग्योनाअपि मन्त्रं भिन्दन्ति। विशेषतश्च स्त्रियोऽपि चापलातिशयत्वात् तस्मात् तदपासने यत्नवान् स्यात् ॥१५०॥ मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः । चिन्तयेद्धर्मकामार्थान्साधं तैरेक एव वा ॥१५१॥ (१) मेधातिथिः। धर्मादीनां परस्परविरोधं चिन्तयेत्। अन्यतमवृद्धौ सर्वोत्थि- तिर्जयेत् ॥१५१॥ (२) सर्वज्ञनारायणः। विश्रान्तः सुखासीनः । विगतक्लमो देहदौःस्थ्यरहितः ॥१५१॥ (३) कुल्लूकः । दिनमध्ये रात्रिमध्ये वा विगतचित्तखेदः शरीरक्लेशरहितश्च मन्त्रिभिः सहकाकी वा धर्मार्थकामाननुष्ठातुं चिन्तयेत् ॥१५१॥ (४) राघवानन्दः । मन्त्रोचितं कालं कथयन्धर्मादिचिन्तनं ब्रूते मध्यंदिन मिति त्रिभिः। विश्रान्तो युद्धादिकृतश्रमरहितः विगतक्लमो रोगालस्यनिद्राद्युपद्रवशून्यः। तैरमात्यैः। अति- गोप्यत्वे त्वेक एव वा ॥१५१॥ (५) नन्दनः । मन्त्रस्य कालमाह मध्यन्दिन इति । मध्यन्दिने विश्रान्तो विगतक्लमः आधिव्याधिरहितः । तैमन्त्रिभिः ॥१५१॥ (६) रामचन्द्रः। विश्रान्तः सुखासीन: तैः अमात्यैः सार्धं एक एव वा धर्मकामार्थान् चिन्तयेत् ॥१५१॥ (७) मणिरामः । विश्रान्तः विगतचित्तखेदः । विगतक्लमः शरीरक्लेशरहितः । तैः सार्ध मंत्रिभिः सह ॥१५१॥ (८) गोविन्दराजः। मध्यन्दिन इति। विगतचित्तखेदोऽपगतशरीरक्लमश्च मध्याह नेऽ- धर्रात्रे वा मन्त्रिभिः सहेको वा धर्मकामार्थान् ‘कथं मया धर्मः कामो वाऽर्थो वा संसेव्य' इति चिन्तयेत् ।।१५१॥ (९) भारुचिः । धर्मार्थकामानां वृद्धि चिन्तयेत् । परस्परविरोधिनां राज्ञामन्य- तमविवृद्धौ तेषामुच्छित्तिर्जायते ॥१५१॥ परस्परविरुद्धानां तेषां च समुपार्जनम् । कन्यानां संप्रदानं च कुमाराणां च रक्षणम् ॥१५२॥ (१) मेधातिथिः। धर्मार्थकामानां वा मंत्रिणां वा समुपार्जनं संग्रहणम् । कन्यानां संप्रदानं स्वकार्यसिद्धिवशेन चिन्त्यम् । कुमाराणां राजपुत्राणां रक्षणम्। तव वयमित्येव- ७.१५३] व्याख्यानवकोपेता ૧૧૨ मादिभिर्धर्ममर्थं च ते ग्राहयितव्याः। नवं हि द्रव्यं येनार्थजातेनोपदिश्यते तत्तदा दूषयति । एवमसंस्कृतबुद्धयो यद्यदुच्यते तत्प्रथमं गृह्णन्ति । यद्यसद्भिः संसृज्यन्ते तदा तत्स्व- भावस्तेषां प्राप्नोति । ते च दुःसंस्कारोपदिग्धाः न शक्यन्ते व्यसनेभ्यो निवर्तयितुम् । उक्तं च-नीलीरक्ते वाससि कुंकुमांगरागो दुराधेयः' तस्मात्ते नित्यमनुशासनीयाः । तत्रापि ये गुणवन्तस्तान्वर्धयेत् । इतरानीषत्संविभजेत् । ज्येष्ठं महागुणममत्सरं यौवराज्येऽभिषिचेत् । एवं राजपुत्ररक्षणे नित्यं यत्नवता भवितव्यम् ॥१५२॥ (२) सर्वज्ञनारायणः। परस्परविरुद्धानां तेषां धर्मादीनां त्रयाणां समुपार्जनं संभूतानामविरोधेनार्जनम् ॥१५२॥ (३) कुल्लूकः। तेषां च धर्मार्थकामानां प्रायिकविरोधवतां विरोधपरिहारेणार्जनो- पायं चिन्तयेत् । दुहितॄणां च दानं स्वकार्यसिद्धयर्थं निरूपयेत्। कुमाराणां च पुत्राणां विनयाधाननीतिशिक्षार्थ रक्षणं चिन्तयेत् ॥१५२॥ (४) राघवानन्दः । किंच परेति । परस्परविरुद्धानां प्रायेण समानोपायशून्यानां धर्मार्थकामानां समुपार्जनं चिन्तयेदित्यनुषङ्गः । अयमर्थः- अतिदण्डादिना अर्थे जन्ये धर्मो हीयेत, अतिक्लेशेन धर्म जन्ये कामो विषयभोगः कुतस्त्य' इति विरोधपरिहारेणार्जनोपायम- संप्रदानं संप्रदीयते । अस्मै सत्कुलप्रसूतवरादिः । रक्षणं यौवराज्ये स्थापयितुं विनयाधानरीति- शिक्षाद्यम् ।।१५२॥ (५) नन्दनः। तामेव चिन्तां श्लोकत्रयेण प्रपञ्चयति परस्परेति । तेषां धर्मार्थकामानाम् । समुपार्जनमधिगमनोपायम् । संप्रदानं परं चिन्तयेदित्यनुवर्तते ॥१५२।। (६रामचन्द्रः । परस्परविरुद्धानां तेषां धर्मार्थकामानां समुपार्जनं 'चिन्तये'दिति पूर्वेणान्वयः ।।१५२॥ (७) मणिरामः । तेषां धर्मार्थकामानां । समुपार्जनं विरोधपरिहारेणार्जनोपायं चितयेत् ॥१५२॥ (८) गोविन्दराजः। परस्परविरुद्धानामिति। तेषाञ्च धर्मकामार्थानां परस्परविरोधा- विर्भाव सति अविरोधार्जनोपायं चिन्तयेत् । दुहितॄणां दानं स्वकार्यसंसिद्धिफलं विचारयेत् । कुमाराणाञ्च पुत्राणामविनयनिवर्तनं नीचोपसंग्रहफलं चिन्तयेत् ॥१५२॥ (९) भारुचिः । मन्त्रिणां धर्मकामानां वा परस्परविरोधे तेषां बलाबलव्यपेक्षा । कन्यकानां संप्रदानं स्वकार्यसिद्धिवशेन चिन्त्यम् । कुमाराणां रक्षणं तव वयमित्येवंवादिभिः सत्रिभिः धर्ममर्थं च ग्राहयितव्यौ । नवं हि द्रव्यं येन येनार्थजातेनोपदिश्यते तत्तदेवाचूषति । एवमयं न बुद्धिर्यद्यदुच्यते तत्तत्प्रतिपद्यते । व्यसनेभ्यश्चैनमुपायतो निवर्तयेयुरिति नित्यानु- शासनाच्च कालेन गुगसंपन्नं यौवराज्यौ स्थापयेत् । निर्गुणानन्यान् प्रत्यन्तेषु निक्षिपेत् । इत्ये- वमादिनाभियोगातिशयेन राज्ञा पुत्ररक्षणं प्रत्यहं चिन्त्यम् ॥१५२॥ दूतसंप्रेषणं चैव कार्यशेषं तथैव च । अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥१५३॥ (१) मेधातिथिः । येन संधानं विग्रहो काऽपि कार्थस्तेन च दूलसंप्रेषणं चिन्त्यम् । आरब्धकार्यसम्बन्ध चिन्तन, अवस्थामा । कक्षातरेवन्तर्वशिकीन्याधिष्ठितोऽन्तःपुरं
११४
मनुस्मृतिः
[७.१५४
प्रविशेत् । तत्र स्थविरस्त्रीमतिशुद्धां देवीं परिपश्येन्नापरिशुद्धां देवीम् । गृहलीनो हि भ्राता
भद्रसेनो मातुः शयनान्तर्गतः राजानं जवान। कुपुरुषशङ्खविषदिग्धेन नूपुरेणावन्त्यं देवी
जघान' मेखलया । सौवीरं वेण्यां गूढेन शस्त्रेण विदूरथम् । तस्मादेतानि विसंभस्थानानि
यत्नतः परीक्षेत । मुण्डजटिलकुहकप्रतिसंसर्गबाह्यदासीभिरन्तःपुरदासीनां प्रतिषेधयेत् ।
प्रणिधीनां च कार्पटिकादीनां वा परस्पराभिचेष्टितं चिन्तयेत् ॥१५३॥
(२) सर्वज्ञनारायणः। कार्यशेष कृतस्यार्थस्य समाप्तिम् । प्रचार प्रवृत्तिम् ।
प्रणिधीनां चेष्टितं परसंगमादि ॥१५३॥
(३) कुल्लूकः। दूतानां संगुप्तार्थलेखहारित्वादिना परराष्ट्रप्रस्थापनं चिन्तयेत्, तथा
प्रारब्धकार्यशेषं समापयितुं चिन्तयेत्, स्त्रीणां चातिविषमचेष्टितत्वात् । तथाहि 'शस्त्रेण वेणी-
विनिगू हितेन विदूरथं वै महिषी जघान। विषप्रदिग्धेन' च नूपुरेण देवी विरक्ता किल
काशिराजम्' इत्याद्यवगम्यात्मरक्षार्थ वान्तःपुरस्त्रीणां चेष्टितं सखीदास्यादिना निरूपयेत् ।
चाराणां च प्रतिराजादिषु नियुक्तानां चारान्तरैश्चेष्टितमवधारयेत् ॥१५३॥
(४) राघवानन्दः । कार्यशेषम् दण्डशुल्काशेषम् । अन्तःपुरप्रचारस्त्रीणां समविषम-
चेष्टितम् । प्रणिधीनां चराणां चरान्तरवेष्टितमवधारयेत् ॥१५३॥
(५) नन्दनः । अन्तःपुरप्र वारं पुरान्तर्वतिनां प्रवृत्तिम् । प्रणिधीनां गूढ-
पुरुषाणाम् ॥१५३॥
(६) रामचन्द्रः । कार्यशेषं कृतस्यार्थस्य समाप्ति अन्तःपुरप्रचार प्रवृत्ति च
चिन्तयेत् ॥१५३॥
(७) मणिरामः । संप्रेषणं गुप्तार्थलेखहारिवादिना परराष्ट्र प्रस्थानं । कार्यशेषं
आरब्धकार्यसमाप्ति । अन्तःपुरप्रचारं आत्मरक्षणार्थं अंतःपुरस्त्रीणां चेष्टितं सखीदास्यादिना
जानीयात् । प्रणिधीनां चराणां चरांतरैश्चेष्टितं जानीयात् ॥१५३।।
(८) गोविन्दराजः। दूतसंप्रेषणमिति। दूतानाञ्च निसृष्टार्थपरिमितार्थलेखहारित्वा-
दिना परराष्ट्रसंप्रेषणं चिन्तयेत् । तथारब्धकार्यावशेषसम्पादनाय चिन्तयेत्। स्त्रीणां चाति-
चपलविषमाचाराधिष्ठितत्वादात्मना आत्मसंरक्षणार्थं अव्यभिचाराय चान्तःपुरचेष्टितं
चिन्तयेत् । चराणां चरान्तरैश्चेष्टितमागमयेत् ॥१५३।।
(९) भारुचिः । येन सह सन्धानं विग्रहो वा चिकीर्षते तत्र दूरसंप्रेषणं चिन्त्यम् ।
आरब्धकार्यशेषत्वं च चिन्तयेत् । आस्थापनाय कक्ष्यान्तरेष्वन्तर्वशिकसैन्याधिष्ठितोऽन्तःपुरं
प्रविशेत् । तत्रस्थविरस्त्री परिशुद्धां देवीं पश्येन्नाम परिशुद्धां देव्या गृहनि'. . .नो हि भ्राता
चन्द्रसेनं जवान । मातुः शयनान्तर्गतं च पुत्रकारुशंखविषदिग्धेन नूपुरेण वैरं तं जघान । मेखल-
मणिनासौ वेण्यां निगूढेन शस्त्रेण वि (दू) रथं तस्मादेतान्यापदः स्थानानि यत्नतः परीक्षेत् ।
मुण्डं जटिलकुहकप्रतिसंसर्गबाह्याभिश्च दासीभिरन्तःपुरदासीनां प्रतिषेधयेत् । प्रणिधीनां च
कापटिकादीनां चोरपरम्पराभिश्चेष्टितं चिन्तयेत् ॥१५३॥
कृत्स्नं चाष्टविधं कर्म पञ्चवर्ग च तत्त्वतः ।
अनुरागापरागौ च प्रचारं मण्डलस्य च ॥१५४॥
७.१५४] व्याख्यानवकोपेता ११५ [वने वनचराः कार्याः श्रमणाटविकादयः । परप्रवृत्तिज्ञानार्थं शीघ्राचारपरंपराः ॥ परस्य चैते बोद्धव्यास्तादृशैरेव तादृशाः । चारसंचारिणः संस्थाः शठाश्चागूढसंज्ञिताः ॥] (१) मेधातिथिः । अकृतारम्भः, कृतानुष्ठानम्, अनुष्ठितविशेषणम्, कर्मफलसंग्रहः, तथा सामभेददानदण्डमेतदष्टविधं कर्म। अथवा वणिक्पथः उदकसेतुबन्धनं दुर्गकरण कृतस्य वा तत्संस्कारनियमः हस्तिबन्धनं खनिखननं शून्यनिवेशनं दारुवनच्छेदनं चेति । अपरे त्वाहुः- - ["आदाने च विसर्गे च तथा प्रेषनिषेधयोः । पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे॥ दण्डशुद्धयोः सदा युक्तस्तेनाष्टगतिको नृपः । अष्टकर्मा दिवं याति राजा शत्रुभिरचितः॥"] --इत्यौशनसौ श्लोकौ । तत्र स्वीकरणम् ‘आदानम्' बलीनाम् । भृत्येभ्यो धनदानं विसर्गः' । 'प्रेषो' दुष्टत्यागः । अर्थाधिकृतानां मतिप्रवृत्तिनिरोधो 'निषेधः' । असत्प्रवृत्तिनिषेधश्च अनुवचनम्' । वर्णाश्रमाणां स्वकर्मसंशये 'व्यवहारावेक्षणम्' । परस्पराभियोगे दण्डनिपातनं पराजितानां च । प्रमादस्खलिते तु प्रायश्चित्तमित्येतदष्टविधं कर्म । पञ्चवर्गः कापटिकोदास्थितगृहपतिवैदेहिकतापसव्यञ्जनाः । (१) परमधर्मज्ञाः प्रगल्भच्छात्राः ‘कापटिकाः' । तानर्थमानाभ्यामुपसंगृह्य मन्त्री ब्रूयात् । - 'राजानं मां च प्रमाणं कृत्वा यत्र यदकुशलं तत्तदानीमेवाश्राव्यं त्वयेति'। (२) प्रव्रज्याया प्रत्यवसित ‘उदास्थितः' । स च प्रज्ञाशौचयुक्तः सर्वान्नप्रदानसमर्थायां भूमौ प्रभूतहिरण्यायां दासकर्म कारयेत् । कृषिकर्मफलं तच्च सर्वप्रव्रजितानां ग्रासाच्छादनावसथान्प्रति विदध्यात् । तेषां ये वृत्तिकामास्तानुपजपेत् । एवमेतेनैव वृत्तेन राजार्थश्चरितव्यः । भक्तवेतनकाले चोपस्था- तव्यमिति । सर्वप्रव्रजिताः स्वं स्वं कर्मोपजपेयुः। (३) कर्षको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो 'गृहपतिव्यञ्जनः' । स कृषिकर्म कुर्याद्यथोक्तायां भूमाविति । (४) वाणिजिको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो 'वैदेहिकव्यञ्जनः । स वणिक्कर्म कुर्यात्प्रदिष्टायां भूमाविति समानम् । (५) मुण्डो जटिलो वा वृत्तिकामः 'तापसव्यञ्जनः' । स नगराभ्याशे प्रभूतजटिलमुण्डान्ते- वासी स' शाकं यवमुष्टि वा मासान्तरितं प्रकाशमश्नीयाद्धर्मव्याजेन गूढं यथेष्टमाहारम् । तापसव्यञ्जनान्तेवासिनश्चैनं प्रसिद्धयोगैरर्थलाभमने शिष्याश्चादिशेयुः । दाहं चौरभयं दुष्टवधं च विदेशप्रवृत्तमिदमद्य श्वो वा भविष्यतीदं वा राजा करिष्यतीति तस्य गूढमन्त्रिणस्तत्प्रयुक्ताः संपादयेयुः । ये चास्य राज्ञो वंशलक्षणविद्यां संगविद्यां जंभकविद्या मायागतमाश्रमधर्म निमित्तज्ञानं चाधीयाना मन्त्रिणस्तत्र राजा एतत्पञ्चसंस्थायतैमन्त्रिभिः स्वविषयेऽवस्थापयेत् । मन्त्रिपुरोहितसेनापतियुवराजदौवारिकान्तर्वेशिकादिषु सद्व्यपदेश- वेषशिल्पभाषाविदो जनपदापदेशेन मन्त्रिणः संधारयेत् । तथा कुब्जवामनकिरातमूक- जडबधिरान्धनटनर्तकगायनादयः स्त्रियश्चाभ्यन्तरचारिण्योऽटव्यां वनेचराः कार्याः, ग्राम ग्रामीणकादयः, पुरुषव्यापारार्थाः स्वव्यापारपरंपराः । परस्परं चैते बोद्धव्यास्तादृशैरेव तादृशाः, वारिसंचारिणस्था गूढाश्च गूढसंज्ञिताः । एवं पञ्चवर्ग प्रकल्प्य परस्यात्मनश्चा- ।
११६ मनुस्मृतिः [७.१५४ तथा त्मीयादेव पञ्चवर्गान्मन्त्रिपुरोहितादीनामनुरागापरागौ । विद्यात् प्रवर्तेत । राजमण्डलप्रचारको माण्डलिकःसंधिविग्रहादौ कस्मिन्प्रचारे इति ॥१५४।। (२) सर्वज्ञनारायणः । अष्टविधं कर्म चोशनसोक्तम्-'आदाने च विसर्गे च तथा प्रैष- निषेधयोः। पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे । दण्डशुद्धयोः सदा युक्तस्तेनाष्टगुणिको नृपः । अष्टकर्मा दिवं याति राजा शक्राभिपूजित' इति । अत्र च करादीनामादानं । भृत्यादिभ्यो दानं विसर्गः। प्रैषश्चरादेः । निषेधो भृत्यादीनामविनयनिषेधः । अर्थवचनं धर्मसंदेहनिर्णयः । व्यवहारस्य चेक्षणं व्यवहारदर्शनम् । दण्डो दुष्टदण्डनम् । शुद्धिः प्रायश्चित्तनिश्चयः । पञ्चवर्गस्तु कर्मारम्भोपायः पुरुषद्रव्यसंपत् विनिपातप्रतीकारः देशकालविभागः कार्य- सिद्धिरिति । कापटिकोदास्थितवैदेहगृहपतितापसव्यञ्जनपञ्चविधपरकीयवर्ग एवं पंचवर्ग- इत्यन्ये । उदास्थितः प्रवजितः । वैदेहो वणिक् । अनुरागापरागौ परकीयस्वकीयानाम् । मण्डलस्य अरिमित्रारिमितं मित्रमित्रारिमित्रमित्रपाणिग्राहाक्रन्दपाणिग्राहासाराक्रन्दसार- मध्यमोदासीनविजिगीषुरूपद्वादशनृपसमुदायस्य प्रचारं प्रवृत्तिम् ॥१५४॥ (३) कुल्लूकः । अष्टविधं कर्म समग्रं चिन्तयेत्तच्चोशनसोक्तम्-'आदाने च विसर्गे च तथा प्रेषनिषेधयोः । पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे। दण्डशुद्धयोः सदा युक्तस्ते- नाष्टगतिको नृपः । अष्टकर्मा दिवं याति राजा शक्राभिपूजितः॥ तत्रादानं करादीनां, विसर्गो भृत्यादिभ्यो धनदानं प्रेषोमात्यादीनां दृष्टादृष्टानुष्ठानेषु, निषेधो दृष्टादृष्टविरुद्धक्रियासु, अर्थवचनं कार्यसंदेहे राजाज्ञयैव तत्र नियमात् । व्यवहारस्येक्षणं प्रजानामृणादिविप्रतिपत्तौ, दण्डः पराजितानां शास्त्रोक्तधनग्रहणं शुद्धिः पापे कर्मणि जाते। तत्र प्रायश्चित्तसंपादनम् । मेधातिथिस्तु अकृतारम्भकृतानुष्ठानमनुष्ठितविशेषणं कर्मफलसंग्रहः तथा सामदानदण्डभेदा एतदष्टविधं कर्म । अथवा वणिक्पथ; उदकसेतुबन्धनं, दुर्गकरणं, कृतस्य संस्कारनिर्णयः, हस्तिबन्धनं, खनिखननं, शून्यनिवेशनं, दारुवनच्छेदनं चेत्याह । तथा कापटिकोदास्थितगृहपति- वैदेहिकतापसव्यञ्जनात्मकं पञ्चविधं चारवर्ग पञ्चवर्गशब्दवाच्यं तत्त्वतश्चिन्तयेत् । तत्र परमर्मज्ञः प्रगल्भछात्रः कपटव्यवहारित्वात्कापटिकस्तं वृत्त्यार्थिनमर्थनाभ्यामुपगृह्य रहसि राजा ब्रूयात् । 'यस्य दुर्वृत्तं पश्यसि तत्तदानीमेव मयि वक्तव्य'मिति प्रव्रज्यारूढपतित उदास्थितस्तं लोकेषु विदितदोषं प्रज्ञाशौचयुक्तं वृत्त्यार्थिनं कृत्वा रहसि राजा पूर्वववढ्यात्, बहूत्पत्तिकमठे स्थापयेत्प्रचुरसस्योत्पत्तिकं भूम्यन्तरं च तद्वृत्त्यर्थमुपकल्पयेत् । स चान्येषामपि प्रव्रजितानां राजा चारकर्मकारिणां ग्रासाच्छादनादिकं दद्यात् । कर्षकः क्षीणवृत्तिः प्रज्ञाशौचयुक्तो गृहपतिः व्यञ्जन- स्तमपि पूर्ववदुक्त्वा स्वभूमौ कृषिकर्म कारयेत् । वाणिजकः क्षीणवृत्तिः वैदेहिकव्यञ्जनस्तं पूर्ववदुक्त्वा धनमानाभ्यामात्मीकृत्य वाणिज्यं कारयेत्। मुण्डो जटिलो वा वृत्तिकामस्तापस- व्यञ्जनः सोऽपि क्वचिदाश्रमे वसन्बहुमुण्डजटिलान्तरे कपटशिष्यगणवृतो गुप्तराजोपकल्पित- वृत्तिस्तापस्यं कुर्यात् मासद्विमासान्तरितं प्रकाशं बदरादिमुष्टिमश्नीयाद्रहसि च राजोपकल्पित- माहारं कल्पयेत्। शिष्याश्चास्यातीतानागतज्ञानादिकं ख्यापयेयुस्ते च बहुलोकवेष्टनमासाद्य सर्वेषां विश्वसनीयत्वात्सर्वकार्यमकार्यं च पृच्छन्ति, अन्यस्य कुक्रियादिकं कथयंत्येवंरूपं पञ्चवर्ग यथावच्चिन्तयेत्, एवं पञ्चवर्ग प्रकल्प्य तेनैव पञ्चवर्गद्वारेण प्रतिराजस्यात्मीयानां चामात्यादीनां चानुरागविरागी ज्ञात्वा तदनुरूपं चिन्तयेत् । वक्ष्यमाणस्य राजमण्डलस्य प्रचारं 'कः संध्यर्थी को वा विग्रहार्थी'त्यादिकं चिन्तयेत् । तं च ज्ञात्वा तदनुगुणं चिन्तयेत् ॥१५४॥ - ....
७.१५४] व्याख्यानवकोपेता ११७ (४) राघवानन्दः । किंच कृत्स्नमिति प्रत्येकान्वयि । अष्टविधम् । 'आदाने च विसर्गेच तथा प्रैषनिषेधयोः । पञ्चमे चानुवचने व्यवहारस्य चेक्षणे । दण्डशुद्धयोः समायुक्त- स्तेनाष्टगतिको नृपः। अष्टकर्मा दिवं याति राजा शक्रादिपूजित' इति शुक्रोक्तः। तत्रादानं करादेः । विसर्गो दानं धनादेविप्रभृत्यादिभ्यः । प्रैषःप्रेरणादृष्टार्थानुष्ठाने। निषेधो ऽमात्यादीनां दृष्टादृष्ट- विरुद्धक्रियासु । अनुवचनं प्रजानां कार्यसंदेहे राजाज्ञयवासकृन्नियमनम् । व्यवहारस्य च वक्ष्य- माणस्य ऋणाद्यष्टादशविधस्येक्षणे। दण्डे विप्रतिपत्तौ पराजितानां दण्डेन' शास्त्रोक्तधनग्रहे शुद्धौ प्रायश्चित्ते स्वपरेषां पापकर्मणि ज्ञाते ‘यस्य चेच्छति पार्थिव' इत्युक्तेः । समायुक्तस्तत्तत्कर्म- निपुणः । विस्तरभयान्मतभेदाद्विरम्यते । पञ्चवर्ग यथा कापटिकदाम्भिकगृहपतिवैदेहक- तापसव्यञ्जनात्मकम् । तत्र राजाज्ञया धर्मज्ञोऽपि कपटेन व्यवहारेण प्रजानां धर्माधर्मों राज्ञ ज्ञापयतीति कापटिकः । एवं संन्यासारूढं पतितस्तं धनैः प्रलोभयंस्तद्वारा परकीयसंन्यासिव्याज- चाराणां वृत्तिं जानीयाद्येन स दाम्भिकः । पतितःसंन्यासी स एव दास आमरणान्तिक' इति याज्ञ- वल्क्योक्तेः। गृहपतिः पूर्वं स्वयं कृषक: दुरदृष्टवशात्क्षीणवृत्तिस्तमेव स्वभूमौ कृषि कारयेदिति। वैदेहकं वणिज क्षीणवृत्ति स्ववाणिज्ये नियोजयेदिति । तापसः मुण्डो जटिलो वा वृत्तिकामस्तमपि तादृशैः कपटतापसैरध्यापकत्वादिना संभाव्य तद्द्वारा परपक्षं कुबुध्दया प्रलोभयेदिति । तेन पञ्चवर्गद्वारेणात्मन्यमात्यानामनुरागं प्रति राज्ञोऽपराग द्वेषं चिन्तयेदित्यनुषज्यते । प्रचारं यथा कः संध्यर्थी को वा विग्रहार्थीति मण्डलस्य च वक्ष्यमाणस्य ॥१५४॥ (५) नन्दनः । अष्टविधं कर्म कामन्दकेनोक्तम् –'कृषिर्वणिक्पथो दुर्ग सेतुः कुञ्जर- बन्धनम्। खन्याकरवनादाने सैन्यानां च निवेशनम् । अष्टवर्गमिमं साधुः स्वस्थचित्तो विचिन्तयेत्।' पञ्चवर्गः कर्मारम्भोपायादिः पूर्वोक्तः,मण्डलं द्विसप्ततिप्रकृत्यकं वक्ष्यति। प्रचारःप्रवृत्तिः॥१५४।। नन्दनः। मण्डलप्रचारपरिज्ञानोपायमाह । श्रवणाटविकादयो वनचराः वने वनाधिपेषु चारपरंपराः कार्याः। श्रमणा वानप्रस्थाः॥१॥] [नन्दनः। तादृशाः श्रमणादिरूपिणः तादृशैः परमार्थश्रमणादिभिः परस्यैते चरा बोद्धव्याः। तेषां द्वैविध्यमुत्तरार्धेनोच्यते चारसञ्चारिणः गतागताभ्यां प्रवृत्तिज्ञापका इति यावत् । संस्थानामेकत्र स्थित्वा प्रवृत्तिहारयितारस्तेषामुभयेषां विशेषणम्, गूढाश्च गूढसंज्ञिता इति गूढाः सन्तोप्यगूढसंज्ञिता इति गूढत्वेन परिज्ञातास्ते द्विविधा बोद्धव्या इति ॥२॥] (६) रामचन्द्रः । द्विसप्ततिसंख्याकानि राज्याङ्गानि पञ्चभिराह । पूर्वं कृत्स्नमष्ट- विधं कर्म चिन्तयेत् । तद्यथा उशनसोक्तम् –'आदाने च विसर्गे च तथा औषनिषेधयोः । पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे । दण्डशुद्धयोः सदा युक्तस्तेनाष्टगुणिको नृपः । अष्टकर्मा दिवं याति राजा शक्राभिपूजितः।' इति च पुनः तत्वतः विचारेण पञ्चवर्ग चिन्तयेत् । कर्मणामारम्भोपायः पुरुषद्रव्यसंपत् विनिपातप्रतीकार: देशकालविभागः कार्य- सिद्धिरिति पञ्चवर्गः। कापटिकोदा स्थितगृहपतिवैदेहतापसव्यञ्जनात्मकः पञ्चवर्ग इत्यन्ये । अनुरागापरागौ परकीयाणां तथा मण्डलस्य स्वकीयस्य प्रचारं प्रवृत्ति चिन्तयेत् ॥१५४॥ (७) मणिरामः। अविजिगीषोर्यो भूम्यनंतरसंहताऽसंहतयोरनुग्रहसमर्थो निग्रहे चा- संहतयोः स मध्यमः । प्रज्ञोत्साहगुणप्रकृतिसमर्थों विजिगीषुः । अविजिगीषुः । मध्यमानां संहताऽसंहतानाम १ नुष्ठानं २ अनुष्ठितविशेषणं ३ कर्मफलं संग्रहः ४ साम ५ दान ६ भेद ७ . ।
११८ मनुस्मृतिः [७. १५४ दण्डा: एतदष्टविधं कर्म । अथवा । १ वणिक्पथ २ उदकसेतुबंधनं ३ दुर्गकरणं ४ कृतस्य संस्कार- करण ५ हस्तिबंधन ६ खनिखननं ७ शून्यनिवेशनं८दारुवनच्छेदनं चेति । तथा पञ्चवर्ग च तत्त्वतः चितयेत्। १ कापटिक: २ उदासीन' ३ गृहपतिव्यंजन ४ वैदिकव्यंजन' ५ तापसव्यंजन ६ स्त्पंच- वर्ग। कर्मज्ञः प्रगल्भशिष्यः । कपटव्यवहारित्वात् कापटिकः । प्रव्रज्याऽऽरूढपतितवदास्थितः उदासीनः । कर्षक: क्षीणवृत्तिः प्रज्ञाशौचगुप्तो गृहपतिव्यंजनः । मुण्डो जटिलो वा वृत्तिकाम- स्तापसव्यंजकः । ताभ्यां उपगृह्य रहसि राजा ब्रूयात् यस्य दुर्वृत्तं पश्यथ तं तदानीमेव मयि वक्तव्यमिति । तेपि गुप्तात्यत्रकुत्रचित्स्थित्वा राज्ञस्तात्पर्यं कुर्युः। एवं पंचवर्गद्वारेण प्रतिपक्षस्यात्मीयानां चाऽमात्यादीनां अनुरागविरागौ ज्ञात्वा वक्ष्यमाणस्य राजमण्डलस्य च प्रचारं संध्यर्थी विग्रहार्थी वाक् इत्यादिकं च ज्ञात्वा तदनुरूपं चितयेदित्यर्थः ॥१५४॥ (८) गोविन्दराजः। कृत्स्नमिति । अष्टविधं कर्मोशनसोक्तम्-'आदाने च विसर्गे च तथा प्रैषनिषेधयोः । पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे । दण्डशुद्धौ सदा युक्तस्तेनाष्टगतिको नृपः । अष्टकर्मा दिवं याति राजा शक्राऽभिपूजितः । तत्रादानं करादीनां, भृत्येभ्यो धनविसर्गः । प्रैषो यो दुष्टत्यागोऽधिकृतानां कामचारनिषेधो वर्णाश्रमिणां स्वकर्मसन्देहेऽर्थवदनं, प्रजानां धनादिविप्रतिपत्तौ व्यवहारेक्षणं, पराजितानां दण्डनं प्रमादस्खलिते प्रायश्चित्तं शुद्धिः इत्येतदष्टविधं कर्म चिन्तयेत् । तथा कार्पटिकोदास्थितगृहपतिवैदेहिकतापसव्यञ्जनात्मकं पञ्चपरिमाणं चारवर्ग यथावच्चिन्तयेत् । तत्र च परमर्मविदृष्टछात्रः कार्पटिक: व्यंजनस्तं वृत्त्यथिनं मत्वा अर्थमानाभ्यां स्वीकृत्य अन्यत् पूर्ववत्, रहसि राजा ब्रूयात् तं च पश्यसि तत्त- दानीमेवमपि वक्तव्यमिति प्रव्रज्यारूढपतितउदास्थव्यञ्जनस्तं प्रजाशौचयुक्तं वृयर्थिनं ज्ञात्वा रहसि राजा तं ब्रूयात् । त्वं च सर्वान्नोत्पादनयोग्यायां भुज्यन्तेवासिकर्म कुरु ततश्च भूमेरात्मनोऽन्येषाञ्च तत्प्रयुक्तानां प्रव्रजितानां अस्मदर्थव्यवहारिणां यथेष्टमाहाराच्छादनादि देहीति ब्रूयात् कर्षकक्षीणवृत्तिः प्रज्ञाशौचोपेतो गृहपतिव्यञ्जनस्तं पूर्ववदुक्त्वा यथोक्तायां भूमौ कृषि कारयेत् । शिष्टं पूर्ववत् । मुण्डो जटिलो वा वृत्तिकामस्तापसव्यञ्जनः पूर्ववदुक्त्वा उक्तपूर्ववद्भूमौ वणिक्कर्म कारयेत ।मुण्डो जटिलो वा वृत्तिकामस्तापसव्यञ्जनः पूर्ववद्राजाज्ञया नगरसमीपे अतिबहुमुण्डजटिलान्तरकपटशिष्यगणोपेतस्तापस्यं कुर्यात् । मासद्विमासानन्तरितं प्रकाशमिंगुदबदरादिमुष्टिमश्नीयात् । रहसि तु यथेष्टमाहारं राजापितं भुञ्जीत । लोके चास्यातीतानागतज्ञं तदन्तेवासिनः ख्यापयेयुः। तथायं लोकानां लाभपूजाचौरोपद्रवादि व्यादिशेत् । तद्राज्यप्रयुक्ताः छद्मचारिणः सत्याभिधायित्वजननार्थं सम्पादयेयुः। एवं सकल- जनोपसातास्वा (श्वा) समया सर्व एव कार्याकार्य संसिद्धिविजिज्ञासपस्तमागत्य पृच्छन्ति । वार्तान्तराण्यारिराधयिषया वर्तयन्तीत्येवं पञ्चवर्ग तत्त्वतश्चिन्तयेत् । एवं पञ्चवर्ग प्रकल्प्य ततस्तेनैव वर्गद्वारेण परराजस्यात्मीयांस्तांश्च मन्त्र्यादीनामनुरागापरागौ ज्ञात्वा तदनुचिन्तयेत् । वक्ष्यमाणस्य राजमण्डलस्य प्रचारं कः सन्ध्यर्थीत्येवमादिकं बुद्ध्वा तदनुगुणं चिन्तयेत् ॥१५४॥ (९) भारुचिः। अकृतारम्भमारब्धस्यानुष्ठानमनुष्ठितविशेषणकर्मफलसंग्रहः । तथा सामभेददानदण्ड . . . नाष्टविधं कर्म । अथा कृ (षि) वणिक्पथ उद (क) सेतुबंधनं कृतस्य वा तत्संस्कारचयः। अस्तु हस्तिबन्धेन खनिखननं शून्यवेशनं दारुवनच्छेदनं चेति । अपरे त्वाहुः 'आदाने च विसर्गे च तथा प्रेषनिसर्गयोः। पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे ॥
७.१५५] व्याख्यानवकोपेता ११९ नृपः। ) दण्डशुद्धयोः सदा युक्तस्तेनाष्टगतिको अष्ट (कर्मा) दिवं याति राजा शत्रुभिजितः॥' इत्यौशनसौ(श्लो? ) कौ । तद्विवरणमादानं बलिना भृत्येभ्यो धनविसर्गः । प्रैषो दुष्टत्यागः । अर्थाधिकृतानामतिप्रवृत्तिनिरोधो निषेधः । असंप्रवृत्तेरर्थवचनम् । वर्णाश्रमिणां स्वकर्मसंश्रये व्यवहारेक्षणं परस्पराभियोगे दण्डनिपातनं पराजितानां शुद्धिरात्मनोऽप्रमादस्खलिते तु यश्चित्तमित्येतदष्टवि...पञ्चवर्गः कापटिकोदास्थितगृहपति (वैदिक) तापसव्यञ्जनाः । परमर्मज्ञः प्रगल्भश्चात्र कापटिकः । तदर्थमानाभ्यामुपसंगृह्य मन्त्री ब्रूयाद्राजानं मां च प्रमाणीकृत्य तत्र यदकुशलं पश्येत . . .नयं त्वयेति प्रव्रज्याया: प्रत्यवसित उदास्थि (तः)। स च प्रज्ञाशौचयुक्तः सर्वान्नप्रदानसमर्थात् राजा प्रभूतनिरयोऽन्तेवासिनः कर्म कारयेत् कृषिक...वस्थान् प्रतिविदध्यात् । तेषां ये वृत्तिकामास्तानुप (जपेत्? ) एवमेतेनैव वृत्तेन राजार्थ (श्च)रितव्यो भक्तवेतनकाले चोपस्थातव्यमिति सर्वप्रत्र- मुपजपेयुः। कर्षको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो नृपगतिव्यञ्जनः स कृषिकर्म कुर्यात् । यथोक्तायां भूमाविति । वाणिजको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो वैदेहकव्यञ्जनस्य वणिक्कर्म कुर्यात्। वणिक् प्रदिष्टायां भूमाविति समानं पूर्वेण मुण्डो जटिलो वा वृत्तिकामस्तापसव्यञ्जनो नगराभ्याशे प्रभूतजटिलमुण्डान्तेवासी शाकं यवसमुष्टि वा मासद्विमासान्तरितः प्रकाशम- श्नीयात् । धर्मव्यञ्जनगूढं च यथेष्टमाहारं तापसव्यञ्जनश्चान्तेवासिनश्चैनं सिद्धयोगैरर्चयेयुः। शिष्याश्चास्योपदिशेयुः । लाभं निदानं चोरभयं दुष्टवधबन्धनं विदेशप्रवृत्तिमिदमद्यश्वो भविष्यतीदं वा राजा करिष्यति । तदस्य गूढाः सनिणस्तत्प्रयुक्तास्सम्पादयेयुर्ये चास्य राज्ञोऽ- वश्यं भर्तव्याः ते लक्षणविद्यामङ्गविद्यां जन्मकविद्यां मायागतमाश्रमधर्मं निमित्तज्ञानं चाधी- यमानाः सत्रिणः स्युः। तत्र चैताः पञ्चसंस्थाः एतैर्मन्त्रिभिः सह स्वविषये परविषये चावस्थाप- येत् । मन्त्रिपुरोहितसेनापतियुवराजदौवारिकांतर्वशिकादिषु श्रद्धेयदेशवेषशिल्पभाषाविदो जनपदोपदेशेन सत्रिणः सञ्चारयेत् । तथा कुब्जवामनकिरातमूकजडबधिरान्धछद्मनो नट- नर्तकगायनादयश्च स्त्रियश्चाभ्यन्तरचारं विद्युः । एवं पञ्चवर्गं परिकल्प्य परस्यात्मनश्चास्मादेवं च वर्गान् मन्त्रिपुरोहितादीनामनु- रागापरागौ विद्यात् । तथा राजा मण्डलप्रचाराः माण्डलिकः सन्धिविग्रहादौ तस्मिन् प्रचारे वर्तत इति ॥१५४॥ मध्यमस्य प्रचारं च विजिगीषोश्च चेष्टितम् । उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः ॥१५५॥ (१) मेधातिथिः । एतस्मिन्राजमण्डले इमाश्चतस्रो राजप्रकृतयो मुख्या भवनि विजिगीषुररिमध्यम उदासीन इति । तत्र च यो राजा प्रकृतिसंपन्नोऽहमेवंविधां प विजष्येऽभ्युत्थितः स विजिगीषुः उत्साहशक्तियोगात् । शत्रुस्त्रिविधः, सहजः, प्राकृतः, कृ' स्वभूम्यन्तर इति मध्यमः । अनयोररिविजिगीष्वोरसंहतयोनिग्रहसमर्थः न संहतयोरुर अरिविजिगीषुमध्यमानामसंहतानां निग्रहसमर्थः, न तु संहतानाम् ॥१५५।।
१२०
मनुस्मृतिः
[७.१५६
(२) सर्वज्ञनारायणः । तत्रापि चतुर्णां यत्नतोऽन्वेष्यः प्रचारोऽधिककार्यत्वादित्याह
मध्यमस्येति । अरिविजिगीषुमध्यवर्ती क्षुद्रोऽपि मध्यमोऽन्यतरप्रवेशेनान्यतरं बाधत इति
प्रतिसन्धेयः। विजिगीषोर्मण्डलमध्य उत्साहवतः उदासीनः सर्वतो बाह्यः, स तु सर्वानेवोत्थापयितुं
शक्त इत्यन्वेष्यः । एवमरिः सर्वानर्थमूलतया ॥१५५।।
(३) कुल्लूकः । अरिविजिगीषोर्यो भूम्यनन्तरः संहतयोरनुग्रहसमर्थो निग्रहे
चासंहतयोः समर्थः स मध्यमः, तस्य प्रचारं चिन्तयेत् । तथा प्रज्ञोत्साहगुणप्रकृतिसमर्थो
विजिगीषुस्तस्य चेष्टितं चिन्तयेत् । तथा विजिगीषुमध्यमानां संहतानामनुग्रहे समर्थो
निग्रहे चासंहतानां समर्थ उदासीनः तस्य प्रचारं चिन्तयेत् । शत्रोच त्रिविधस्यापि सहजस्य
अकृत्रिमस्य भूम्यनन्तरस्य च पूर्वापेक्षया प्रयत्नतः प्रचारं चिन्तयेत् ॥१५५॥
(४) राघवानन्दः । मण्डलमाह मध्यमस्येति । एतस्मिन् राजमण्डले विजिगीपुर-
रिर्मध्य उदासीन इति चतस्रो मुख्या राजप्रकृतयः । तत्र विजिगीषुर्यो राजा प्रकृतिसंपन्नोऽहमेवं-
विधां पृथ्वी जेष्यामीत्युच्छ्रितः। उत्साहयोगादरिरपि त्रिविधः सहज-कृत्रिम-स्वभूम्यन्तरित-
भेदेन कृत्रिभो भूम्याद्यपरिहारनिर्मितः । मध्यमः अरिविजिगीषोर्मध्यभूमिगत: संस्तयोः
संहतयोनिग्रहेऽसमर्थोऽसंहतयोनिग्रहे समर्थः । उदासीनस्त्वरिविजिगीपुमध्यमानामसंहतानां
निग्रहे समर्थः संहतानामसमर्थः । तेषां प्रचारं चिन्तयेदित्यनुषज्यते। प्रचारो नाम
प्रज्ञोत्साहगुणप्रकृतिसम्पन्नत्वम् । श्लोकोऽर्थक्रमात् व्याख्यातः ॥१५५।।
(५) नन्दनः । मण्डलं वक्तुं क्रमते मध्यमस्येति । प्रचार: मध्यमादीनां चतुर्णा
लक्षणत्वं वक्ष्यति । बोद्धव्य इति वचनविपरिणामः ।।१५५।।
(७) मणिरामः । ग्रहे समर्थो निग्रहे चाऽसंहतानां समर्थः स उदासीनः । शत्रोः
त्रिविधस्यापि सहजकृत्रिमभूम्यनंतरस्यापि । एतेषां चेष्टितं चिंतयेत् ।।१५५।।
(८) गोविन्दराजः । मध्यमस्येति । अरिविजिगीषयोभूम्यनन्तरं संहतयोरनुत्साहसमर्थो
निग्रहे वा संहतयोः सममध्यमस्तस्य प्रचारं चिन्तयेत् । तथा प्रज्ञोत्साहप्रकृतिगुणसंपन्नो
विजिगीषुस्तस्य चेष्टितं चिन्तयेत्-किमसौ चिकीर्षति। तथाऽरिविजिगीषुमध्यमायां यः
संहतानामनुग्रहसमर्थों निग्रह (हे) चासंहतानां स उदासीनस्तत्प्रचारं चिन्तयेत् । शत्रोश्च
सह कृत्रिमभूम्यनन्तरस्य त्रिविधस्यापि पूर्वेभ्यः प्रयत्नेन प्रचारं चिन्तयेत् ॥१५५।।
(९) भारुचिः । एतस्मिन् राजमण्डल इमाश्चतस्रो राजप्रकृतयो मुख्या भवन्ति,
विजिगीषुररिर्मध्यम उदासीन इति । तत्रैतेषामेव यो राजा प्रकृतिसम्पन्नोऽहमेवेमां पृथिवीं
जेष्य इत्यभ्युच्छिता स विजिगीषुरुत्साहशक्तियोगात् । शत्रुस्त्रिविध: सहजः कृत्रिमो
भूम्यनन्तर इति । मध्यमोऽनयोररिविजिगीषोरसंहतयोनिग्रहसमर्थः । उदासीनोऽरिविजिगीषुः ।
मध्यमानामसंहतानाम् ॥१५५॥
एताः प्रकृतयो मूलं मण्डलस्य समासतः।
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः॥१५६॥
(१) मेधातिथिः । एताः स्मृताः । एता मूलप्रकृतयो मण्डलस्य व्याख्याताः । अष्टौ
चान्याः। आसां चतसृणां प्रकृतीनामेकैकस्याः प्रकृतेमित्रममित्रं चेति द्वे द्वे प्रकृता एता अष्टौ
आद्याश्चतस्त्र एवमुभयतो द्वादश भवन्ति ॥१५६॥
७. १५६] व्याख्यानवकोपेता १२१ (२) सर्वज्ञनारायणः। एतदाह एता इति । प्रकृतयोऽवयवाः। मण्डलस्य मूलं प्रधानम्। अष्टावन्यामित्रप्रभृतयो द्वादशैव ताःप्रकृतयो मिलित्वा तदयं समुदायार्थः । मण्डलस्य मध्ये योधि- कलाभार्थं नित्योत्साहः प्रवर्तते स विजिगीषुस्तस्याग्रतोऽरिस्तदनन्तरो मित्रं तदनन्तरोऽरिमित्रं ततोमित्रमित्रं ततोऽरिमित्रमित्रं; पृष्ठे तु पाणिग्राहस्तत्पृष्ठे आक्रन्दः तत्पृष्ठे पाणिग्राहासारस्त- त्पृष्ठ आक्रन्दासारः । अरिविजिगीष्वोर्मध्यस्थः क्षुद्रो मध्यमः उदासीनः सर्वेभ्यः परतर इति द्वादशभिर्नृपैमण्डलमुच्यते। क्षुद्रोऽप्युभयोरन्यतरप्रवेशेनान्यतरेण सह विग्रहं कुर्वन्दुर्ग्रह इति मण्डले गम्यते । अत्र यः स्वापेक्षया विजिगीषुस्तमादाय स्वात्मानमन्तर्भाव्य द्वादशराजकमण्डलं प्रकल्प्यते तेषां द्वादशानां प्रवृत्तिरन्वेष्टव्येत्यर्थः ॥१५६।। (३) कुल्लूकः । एता मध्यमाद्याश्चतस्रः प्रकृतयः । संक्षेपेण मण्डलस्य मूलं अपरासाम- भिधास्यमानप्रकृतीनाममात्यादीनां मूलमित्युच्यते। अन्याश्चाष्टौ समाख्याताः; तद्यथा-'अग्रतोऽ- रिभूमीनां मित्रम्,अरिमित्रं, मित्रमित्रमरिमित्रमित्रं चेति एवं चतत्रः प्रकृतयो भवन्ति । पश्चाच्च पाणिग्राहः, आक्रन्दः, पाणिग्राहासार, आक्रन्दासार इति चतस्रः, एवमष्टौ प्रकृतयो भवन्ति । पूर्वोक्ताभिश्च मध्यमारिविजिगीषूदासीनशत्रुरूपाभिर्मूलप्रकृतिभिः सह द्वादशैताः प्रकृतयः स्मृताः ॥१५६॥ (४) राघवानन्दः। एता मध्यमाद्या चतस्त्रः प्रकृतयः संक्षेपेण मण्डलस्य मूलम् । अष्टौ चान्याः । अग्रतः स्वभूमीनां अरि: अरिमित्रं मित्रं उदासीनश्चेति चतस्रः । तथा पाणिग्राहः, आक्रन्दः, पाणिग्राहासारः, आक्रन्दासारः इति चतस्रः। एवमण्टौ उक्ताभिर्मध्यमविजिगीषू- दासीनशत्रुरूपाभिः सह द्वादश ॥१५६॥ (५) नन्दनः। मण्डलस्य द्विसप्ततिप्रकृत्यात्मकं श्लोकद्वयेनाह एताःप्रकृतयो मूलमिति । मध्यमो विजिगीषूदासीनः शत्रुरित्येताश्चतस्रः प्रकृतयः मण्डलस्य मूलं प्रकृतिरिति राजा । काः पुनरष्ट ताः प्रकृतयः? मित्रमरिमित्रं मित्रमित्रमरिमित्रं पाणिग्राहः आसारः आक्रन्दे आसारश्चेति एवन्तावद् द्वादश स्मृताः ॥१५६।। (६) रामचन्द्रः । एताश्चतस्र: प्रकृतयो मण्डलस्य मूलं प्रधानं समासतः संक्षेपत: अरिमित्रारिमित्रमित्रमित्रारिमित्रमित्रपाणिग्राहाक्रन्दपाणिग्राहासाराक्रन्दासारमध्यमोदासीन- विजिगीषुरुपद्वादशोत्पत्तिः। प्रथमो विजिगीषुः ततोऽरिस्ततो मित्रं ततोऽरिमित्रं ततो मित्रमित्रं ततोऽरिमित्रमित्रम् । पृष्ठे तु पाणिग्राहस्तत्पृष्ठे आक्रन्दस्तत्पृष्ठे पाणिग्राहासारस्तत्पृष्ठे आक्रन्दासारः। अरिविजिगीष्वोर्मध्यस्थः क्षुद्रो मध्यमः । उदासीन: सर्वेभ्यः परत इति द्वादश- मण्डलम् ॥१५६॥ (७) मणिरामः । एताः मध्याद्याश्चतस्रः। समासतः संक्षेपतः मण्डलस्य मूलं वक्ष्यमाणानां शाखासंज्ञकानामष्टप्रकृतीनां मूलमित्यर्थः । अन्याश्चाष्टौ। यथा स्वस्य अग्रे १ अरिः, २ मित्रं ३ अरिमित्रं मित्रमित्रं ४ चे ति चत्वारः । पृष्ठतश्च १ पाणिग्राहः २ आक्रंद: ३ पाणिग्राहासारः ४ आनंदासारश्चेति चत्वारः एवमष्टावन्याः प्रकृतयः। पूर्वोक्ताभिर्म- ध्यमादिभिश्चतसृभिः सह ताः प्रकृतयो द्वादश स्मृताः ॥१५६॥ (८) गोविन्दराजः । एता इति । एता मध्यमाद्याश्चतस्रः प्रकृतयः संक्षेपेण मण्डलस्य मूलमन्यासां प्रकृतीनां आभ्यः प्रसूतेरेता मूलमित्युच्यन्ते । अन्याश्चाष्टौ समाख्याताः । तद्यथा- १२२ मनुस्मृतिः [७. १५६ अग्रतो भूतानां मित्रममित्रं मित्रमित्रं, अरिमित्रं चेति । एवमन्याश्चतस्रो भवन्ति । पश्चाच्च पाणिग्राह आक्रन्द पाणिग्राहासार आक्रन्दासार इति चतस्र एवमष्टौ मूलप्रकृतिभिश्च तसृभिः सह द्वादश प्रकृतयः स्मृताः ॥१५६॥ (९) भारुचिः। एताः प्रकृतयो मण्डलस्य व्याख्याताः । अष्टौ चान्या आसां प्रकृतीन एकैकस्याः प्रकृते मित्रं मित्रमित्रं चेति द्वे द्वे प्रकृती उच्यते । एता अष्टौ चान्याः प्रसंख्याताः एवमुभयोरपि द्वादश भवन्ति ॥१५६।। अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः । प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः ॥१५७॥ (१) मेधातिथिः। अमात्यादयः पंच प्रकृतयः द्वादशानां प्रकृतीनां एकैकस्या भवन्ति अतः षट्वादशका द्विसप्ततिः ॥१५७।। (२) सर्वज्ञनारायणः। एवं तेषां या अङ्गभूता अमात्यकोशराष्ट्रदण्डदुर्गाख्याः प्रकृत यस्तासामपि प्रवृत्तिरनुसंधेयेत्याह अमात्येति। मण्डले प्रधानभूताश्चत्वार इतरे चाष्ट तेष द्वादशानाममात्यदुर्गराष्ट्रकोशदण्डाः प्रत्येकं पञ्चपञ्चेति षष्टिस्ते च द्वादशेत्येवं मिलित्व मण्डलावयवा द्विसप्ततिरित्यर्थः ॥१५७।। (३) कुल्लूकः । आसां मूलप्रकृतीनां चतसृणामप्टानां शाखाप्रकृतीनामुक्तानामेकैकस्या प्रकृतेरमात्यदेशकोशदुर्गदण्डाख्याः पञ्च द्रव्यप्रकृतयो भवन्ति। एताश्च पञ्च द्वादशानां प्रत्येव भवन्त्यो द्वादशगुणजाताः षष्टिरेव द्रव्यप्रकृतयो भवन्ति । तथा मूलप्रकृतिभिश्चतसृभिः शाखा प्रकृतिभिश्चाष्टाभिः सह संक्षेपतो द्विसप्ततिप्रकृतयो मुनिभिः कथिताः ॥१५७॥ (४) राघवानन्दः । तेषां प्रकृतानां प्रत्येकं पुनः पञ्च पञ्च प्रकृतयः सन्तीति सविनि गमनमाह अमात्येति । अमात्यः पुरोहितादिः। राष्ट्र देशः । दुर्गो गिर्यादिः। अर्थः कोशः दण्डयते पापी शत्रुर्वाऽनेनेति दण्डः पणग्रहणादिः सेनादिर्वा । तेन मूलप्रकृतयो मध्य माद्याश्चतस्रः मित्राद्याश्चतस्रः शाखाः प्रकृतयः तथा पाणिग्राहाद्याश्चतस्र इति द्वादश, तास प्रत्येकममात्यादि पञ्चेति षष्टिरिति द्विसप्ततिः प्रकृतयः ॥१५७।। (५) नन्दनः। आसु द्वादशसु प्रकृतिषु प्रत्येकममात्या राष्ट्रदुर्गार्थदण्डाख्याः पञ्ज प्रकृतयः सन्ति । अर्थ: कोशदण्डो बलं एता अनन्तरोक्ताश्चतस्रः अष्टौ च द्वादश दश पञ्चकानि च प्रकृतयो विस्तरेण कथिताः । संक्षेपेण द्विसप्ततिः संपद्यन्ते । एष मण्डलस्य विस्तार संक्षेपश्चेत्यर्थः ॥१५७॥ (७) मणिरामः। एता अपरा अमात्याद्याः पंच द्रव्यप्रकृतयो भवंति, ताश्च पंच पूर्वोक्ता नां द्वादशप्रकृतीनां प्रत्येकं भवंत्यो द्वादश गुणा जाताः षष्टिरेव द्रव्यप्रकृतयो भवंति, तथा मूल प्रकृतिभिः चतसृभिः शाखाप्रकृतिभि चाष्टाभिः सह संक्षेपतो द्विसप्ततिप्रकृतयो मुनिभिः कथिता यथा १ अमात्यमध्यः २ अमात्यविजिगीषुः ३ अमात्योदासीनः ४ अमात्यशत्रुः ५ अमात्यारि ६ अमात्य मित्रं ७ अमात्याऽरिमित्रं ८ अमात्यमित्रमित्रं ९ अमात्यपाणिग्राहः १० अमात्याऽऽक्रंद ११ अमात्यपाणिग्राहासारः १२ अमात्याकंदासारः इति द्वादश । तथा । १ राष्ट्रमध्य २ राष्ट्र विजिगीषुः ३ राष्ट्रोदासीनः ४ राष्ट्रशत्रुः ५ राष्ट्रारिः ६ राष्ट्रमित्रं ७ राष्ट्रारिमित्र र
७.१५८]
व्याख्यानवकोपेता
१२३
राष्ट्रमित्रमित्रं ९ राष्ट्रपाणिग्राहः १० राष्ट्रानंद: ११ राष्ट्रपाणिग्रहासार: १२ राष्ट्रानंदासारः
इति द्वादश । एवं दुर्गे द्वादश अर्थे द्वादश दंडे च द्वादश द्रव्यप्रकृतयो ज्ञेयाः । मिलित्वा षष्टि६०
शुद्धाः पूर्वोक्ताश्च मध्याद्या द्वादश योगे द्विसप्तति ७२ रित्यर्थः ॥१५७।।
(८) गोविन्दराजः। अमात्यराष्ट्रदुर्गार्थं दण्डाख्याः इति । आसां चतसृणां मूलप्रकृती-
नाञ्च शाखाप्रकृतीना मुक्तानां एकैकस्याः प्रकृतेरमात्यदेशदुर्गकोशदण्डाख्याः पञ्च द्रव्य-
प्रकृतयो भवन्ति । एवञ्च मूलप्रकृतयश्चतस्रः, शाखाप्रकृतयोऽष्टौ, द्रव्यप्रकृतयः षष्टिरित्येवं
संक्षेपतो द्विसप्ततिः कथिताः ॥१५७॥
अनन्तरमरिं विद्यादरिसेविनमेव च ।
अरेरनन्तरं मित्रमुदासीनं तयोः परम् ॥१५८॥
(१) मेधातिथिः। विजिगीषुभूम्यनन्तरमरिं विद्यात्तथाऽरिमित्रं मित्रं त्वेवमरि
भूम्यनन्तरं विजिगीषोर्मित्रं भवति । उदासीनस्तयोः परः । अरिमित्रलक्षणं च सहज-
कृत्रिमयोरपि द्रष्टव्यम् ॥१५८।।
(२) सर्वज्ञनारायणः। अमात्यादीनां च स्वाम्यधीनतया तन्मध्यगणनेन यदि
द्वादशैव प्राधान्येन गण्यन्ते तदा तत्रापि विवक्षितविवेके वस्तुतश्चत्वार एव स्युरित्याह
अनन्तरमरिमिति। अरिसेविनमरिमित्रादिमरिमेव विद्यात्। एवं चानन्तरस्य तत्संयुक्तस्य
चारित्वे पाणिग्राहतदासारारितन्मित्राणामरित्वमेव । एवमरेर नन्तरं तद्वैरिणं सर्वमेव
मित्रकोटिं विद्य त् । तथा उदासीनउभयप्रकाररहितो विजिगीषुश्च द्वावपि पृथगिति चातुर्विध्यं
तयोः परं ताभ्यामन्यं विजिगीषोश्चेति शेषः ॥१५८॥
(३) कुल्लूकः । विजिगीषोर्नृपस्यानन्तरितं चतुर्दिशमप्यरिप्रकृति विजानीयात्,
तथा तत्सेविनमप्यरिमेव विद्यात् । अरेरनन्तरं विजिगीषोर्नृपस्यैकान्तरं मित्रप्रकृति
विद्यात्तयोश्चारिमित्रयोः परं विजिगीषोरुदासीनप्रकृति विद्यात् । आसामेव प्रकृती-
नामग्रपश्चाद्भावभेदेन व्यपदेशभेदः । तत्राग्रवर्तिनोऽरिव्यपदेश एव । पश्चाद्वर्तिनस्त्वरित्वेऽपि
पाणिग्राहव्यपदेशः ॥१५८॥
(४) राघवानन्दः । उक्तार्थादिचतुष्टयस्य लक्षणमाह अनन्तरमिति । अनन्तरं स्वभूमेः
चतुर्दिक्षु वर्तमानं राजचतुष्टयरिं विद्यात् तथा अरिसेविनमप्यरिं विद्यादत एव तस्यापर-
पक्षनिक्षिप्तत्वादरिमित्रोदासीनपाणिग्राहाश्चतस्रः । तयोररिमित्रयोः परं बहिर्भूमौ वर्तमान-
मुदासीनं चिंतयेदित्यन्वयः। वस्तुतस्तु मध्यमस्येत्यादेरयमर्थः । मध्यमस्य मित्रमुदासीनोऽ-
रिविजिगीषुश्चेति चतस्रः प्रकृतयः । त एव नामभेदेनारिमित्रमित्रारिमित्रपाणिग्राहासाराक्र-
न्दासारतां प्रतिपद्यन्ते । न चैकस्य नामादिभेदादनेकत्वमदृष्टचरमिति वाच्यम् । एकचक्र चै-
काश्वः सवितेति श्रुतेर्भेदेन सप्तसप्तिवहः पद्मि (मी)ति स्मृतिदर्शनात् कृष्णाष्टम्या
एव जयन्त्यादिभेदेन फलभेददर्शनाच्च । अत एव 'अरिमित्रमुदासीनोऽनन्तरस्तत्परः
पर' इति याज्ञवल्क्यः। पाणिग्राहाक्रन्दासारादयश्चारिमित्रादिष्वन्तर्भवन्तीति याज्ञवल्क्य-
मिताक्षरावचनमपि संगच्छत इति स्वविषयस्याग्रवर्त्यरिः पश्चाद्वर्ती पाणिग्राहः। विषयान्तनरो
राजा शत्रुमित्रमतः परम् । 'उदासीनः परतरः पाणिग्राहस्तु पृष्ठत' इत्यभिधानात् ।
एवं चतुर्दिक्षु' द्वादशैव राजानः ॥१५८॥
१२४ । मनुस्मृतिः [७.१५९ (५) नन्दनः। मध्यमादीनां लक्षणं लोकद्वयेनाह अनन्तररि विद्यादिति । विजि- गीपोरनन्तरमरि विद्यात् अरिसेवित चारिमित्रं पाणिग्राहः आसार चेति चत्वारोऽरिसेविनः स्वयमरि चेति पञ्चारयः सम्पद्यन्ते । अरिप्रसङ्गान्मित्रलक्षणमुक्तम् । अरेरनन्तरम् मित्रमिति अरेरनन्तरं जातावेकवचनं, अरीणां पञ्चानामनन्तरममित्र विद्यादित्यर्थः । मित्रं मिवमित्रमा- क्रन्दं असार चेति चत्वारि मित्राणि संपद्यन्ते । तयोररिवर्ग मित्रयोः परं बहिःस्थितमुदासीनं विद्यादिति । उदासीनस्य लक्षणशेषमुत्तरत्न श्लोकेऽपि वक्ष्यते । 'विप्रकृष्टेऽध्वन्य धत्त उदासीनो बलान्वितः। विजिगीपुर्मण्डलार्थो यस्मिन्ज्ञेयः स मध्यम' इति । यो विप्रकृप्टेऽध्वनि स्थितो यत्नरहितः स उदासीनः। यो महाबलः स विजिगीषुमण्डलार्थो मण्डलस्य कृत्यमनिग्रहानुग्रहा- दिकं यस्मिस्तिष्ठति स मध्यमो ज्ञेयः । एतन्मण्डलप्रकरणं कामन्दकामतानुमारेण व्याख्यातं । तथा कामन्दकः 'संपन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः । जेतुमेपणशील च विजिगीपुरिति स्मृतः ॥१॥ अरिमित्रममित्र मित्रमित्रमतः परम् । तथारिमित्रमित्रञ्च विजिगीपोः परः स्मृतः ॥२॥ पाणिग्राहस्ततः पश्चादानन्दस्तदनन्तरम् । आगारावनया चेति विजिगीषोस्तु मण्डलम् ॥३॥ अरेश्च विजिगीपोच मध्यमी भूम्यनन्तरम् । अनुग्रहे संहतयोर्व्यस्तयोनि ग्रहे प्रभुः ॥४॥ मण्डलाहिरेतेपामुदासीनो बलान्वितः । अनुग्रहे संहतानां व्यस्तानाञ्चैव यो प्रभुः ॥५॥ अमात्यराष्ट्रदुर्गाणि कोशो दण्ड च पञ्चमः। एताः प्रकृतयस्तज्जैविजिगीपोरुदाहृताः ॥६॥ द्वादशानां नरेन्द्राणां पञ्च पञ्च पृथक पृथक् । अमात्याद्यास्तु प्रकृतीरामनन्तीह मानवाः ॥७॥ माला द्वादश वेता अमात्याद्यास्तथा च याः। सप्तविद्याधिकाचैपाः सर्वाः प्रकृतिमण्डलम्' ॥१५८॥ (७) मणिरामः । अनन्तरमरि विद्यात् विजिगीपोर्नृपस्य अनंतरं चतुर्दिशमप्यरिप्रकृति जानीयात् । तथा तत्सेविनामप्यरि विद्यात्। तयोः अरिमित्रयोः। अत्र अग्रवतिनो अरिसंज्ञाः पश्चाद्वर्तिनी अरे: पाणिग्राहसंज्ञाः ।।१५८।। (८) गोविन्दराजः। अनन्तरमरि विद्यादरिसेविनमेव चेति । विजिगीपो: समन्ता- न्मण्डलीभूतानां भूम्यनन्तरानरीन् जानीयात् । तथा तत्सेविनं चारिमेव विद्यादरे: पुनरनन्तरा- विजिगीयोः भूम्येकान्तरां मिवप्रकृति विद्यात् । तयो चारिमित्रयोः परामुदासीनमप्रकृति विद्यात्। तासामेवाग्रे पश्चात् भेदेनारिपाणिग्राहादिव्यपदेशभेदः ।।१५८।। तान्सर्वानभिसंदध्यात्सामादिभिरुपक्रमैः । व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥१५९॥ (१) मेधातिथिः । संदध्यावशीकुर्यात् । पौरुषनयो सामदण्डावेव । तत्र चोक्तं 'सामदण्डौ प्रशंसंतीति' ॥१५९।। (२) सर्वज्ञनारायणः। अभिसंदध्यात् आत्मीयान्कुर्यात् । उपक्रमरुपायैः। पौरुषेण दण्डकारणभूतेन' । नयेन च मतिकौशलेन सामदानभेददण्डकारणभूतेन ॥१५९।। (३) कुल्लूकः । तान्सर्वान्नृपतीन्सामदानभेददण्डैरुपायैर्यथासंभवं व्यस्तैः समस्तैर्वशी- कुर्यात् । अथवा पौरुषेण दण्डेनैव केवलेन नयेन साम्नैव वा केवलेनात्मवशान्कुर्यात् । तथा चोक्तम्- (७।१०९) सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये' ।।१५९।। -- १६०] व्याख्यानवकोपेता १२५ (४) राघवानन्दः । एतेषां ज्ञाने किं स्यात्तदाह तानिति । अभिसंदध्याद्वशीकुर्यात् स्तः साम्ना दानेन भेदेन दण्डेन' च कंचित् समस्तैः कंचित्सामभेददण्डैः। पौरुषेण दण्डेनैव न साम्नैव वा। तथोक्तम्-‘सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धय' इति ॥१५९।। (५) नन्दनः। पौरुषेण उत्साहेन ॥१५९॥ (६) रामचन्द्रः। सामादिभिरुपक्रमैश्चतुभिरुपायैः सामदानदण्डभेदैः समरतर्व्यस्तैर्वा सर्वानरिमित्रादीन्संदध्यात् संधिं कुर्यात् ॥१५९॥ (७) मणिरामः। तान्सर्वान् अरिमित्रमुदासीनान्नृपतीन् । समस्तैः सामादिभिर्व्यस्तै- तैः संदध्यात् वशीकुर्यात् । अथवा पौरुषेण दंडेनैव केवलेन'। नयेन साम्नैव वा केवलेन कुर्यात् । 'सामदंडौ प्रशंसंति नित्यं राष्ट्राभिवृद्धये' इति पूर्वोक्तत्वात् ॥१५९।। (८) गोविन्दराजः। तान्सनिभिसंदध्यादिति । तान्सर्वान्प्रकृतीन् सामदानभेद- डाख्यर्यथासंभवं व्यस्तैः समस्तैर्वा पौरुषेण वा दण्डेनैव केवलेन नयेन वा साम्नैव वा केवलेन पीकुर्यात् ॥१५९॥ संधिं च विग्रहं चैव यानमासनमेव च । द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा ॥१६०॥ (१) मेधातिथिः। तत्र हिरण्यादिदानोभयानुग्रहार्थः सन्धिस्तद्विपरीतो विग्रहः । कान्त तागमनं यानम्, उपेक्षायामासनम् । सन्धिविग्रहोपादानं द्वैधीभावः । परस्यात्मार्पण श्रःय । एते षड्गुणाः। एतेषां यस्मिन् गुणेऽवस्थितो मन्येताहं शक्ष्यामि दुर्ग कारयितुं, स्तनीर्बन्धयितुं, खनीः खनयितुं, वणिक्पथं प्रयोजयितुं, जतुवनं छेदयितु, अदेवमातृकदेशे त्राणि बन्धयितुमित्येवमादीनि, परस्य वित्तानि व्याहां, बुद्धिविघातार्थं गुणमुपेयात् ॥१६०॥ (२) सर्वज्ञनारायणः । संधिनसामादिनात्मीयताकरणम् । विग्रहो वैरोपदर्शनम् । नमुद्यम्य गमनम् । आसनमकिंचिदुक्तावधारणम् । द्वैधीभावोऽल्पस्य सैन्यस्य विभज्य धिनम् । संश्रयः स्वस्याबलत्वे बलवत्पराश्रयणम् ॥१६०॥ (३) कुल्लूकः। तत्रोभयानुग्रहार्थं हस्त्यश्वरथहिरण्यादिनिबन्धनेनावाभ्यामन्योन्यस्यो- कर्तव्यमिति नियमबन्धः सन्धिः । वैरं विग्रहाचरणाद्याधिक्येन' । यान शत्रु प्रति गमनम् । पेक्षणमासनम्। स्वार्थसिद्धये बलस्य द्विधाकरणं द्वैधीभावः, शत्रुपीडितस्य प्रबलतरराजा- राश्रयणं संश्रयः । एतान्गुणानुपका रकान्सर्वदा चिन्तयेत् । यद्गुणाश्रयणे सत्यात्मन उपचयः रस्यापचयस्तं गुणमाश्रयेत् ॥१६०॥ (४) राघवानन्दः । परस्यात्मसात्करणे षडुपायानाह सन्धिमिति । तत्र सन्धि- भाभ्यां हस्त्याद्यर्थं नापकर्तव्यमिति नियमबन्धः, द्वयोर्धारणपोषणयोर्हेतुत्वात् । विग्रहो वैरम् । लाधिक्येन शत्रु प्रति गमनं यानम् । उपेक्षासनम् । स्वार्थसिद्धये स्वस्य हस्त्यादिबलस्य च धाकरणं द्वैधीभावः । शत्रुपीडितस्य प्रबलतरराजाश्रयणमाश्रय इति ॥१६०॥ (६) रामचन्द्रः। षाड्गुण्यविधिमाह सन्धिमिति सप्तभिः। सन्धिः व्यवस्थाकरणं व्यसामादिना वशीकरणं, विग्रहः अपकारः, यानं शत्रु प्रति यात्रा, आसनं उपेक्ष्यावज्ञाकरणं, धीभावः स्वबलस्य द्विधाकरणं, संश्रयः प्रबलस्याश्रयः ॥१६०॥ . . -
१२६
मनुस्मृतिः
[७.१६२
(७) मणिरामः। षड्गुणानाह सन्धि चेति । आवाभ्यामन्योन्यस्योपकर्तव्यमिति नियम-
बन्धः संधिः । विग्रहः वैराचरणाधिक्येन शनु प्रतिगमनं यानं । उपेक्षणं आसनं । स्वकार्यार्थ
शत्रुसेनाद्विधाकरणं द्वैधीभावः। शत्रुपीडितस्य बलवत्तरराजांतराश्रयणं संश्रयः ॥१६०।।
(८) गोविन्दराजः। सन्धिमिति । 'द्वैधीभावं संश्रयं च पाड्गुण्यं चिन्तयेत्सदा।'
तत्रोभयानुग्रहकृत्परीबन्धः सन्धिः, अपकारो विग्रहः अभ्युदये सत्युपरि गमनं यानं,
उपेक्षणमासनम् । एकेन सह सन्धिरन्येन सह विग्रहो द्वैधीभावः। परमात्मार्पणं संश्रय इत्येतान्
षड्गुणानुपकारणा (का)न् सर्वदा चिन्तयेत् । पड्गुणाश्रयणे नात्मनोऽभ्युदयः परस्यापचयो
भवति तमेव गुणमधितिष्ठेत् ॥१६०।।
आसनं चैव यानं च संधिं विग्रहमेव च ।
कार्य वीक्ष्य प्रयुञ्जीत द्वैध संश्रयमेव च ॥१६१॥
(१) मेधातिथिः। एवं सति एकेन संवायापरस्मिन्याने शक्तं मृपा विगृह्णीयात् ।
एवमासनमपि संधाय विगृह्य च सर्वमेतत्कार्यं वीक्ष्य प्रयुजीत। नात्र नियतः कालः। यदैव
यद्युक्तं मन्येत तदैव तदाचरेत् । “यदि कालनियमो लक्षयितुं न शक्यते, उपदेशः किमर्थम्" ।
एवमाह न शक्यते। विशेषो दुर्लक्षः, सामान्यं तु सुलक्षणमेतदप्यबुधानामुपयुज्यते ॥१६१॥
(२) सर्वज्ञनारायणः। कार्य वीक्ष्य यत्र स्वप्रयोजनदर्शनं तदेव न तु सर्वसंभवे
यत्किचित् प्रयोज्यम् । संधाय च विगृह्य चेति पाठे संधाय यानं तथा आसनं वा विगृह्यापि
तथेत्यर्थः ॥१६१॥
(३) कुल्लूकः। संध्यादिगुणानां नैरपेक्ष्येणानुष्ठानमनन्तरमुक्तं तदुचितानुष्ठानार्थोऽय-
मारम्भः । आत्मसमृद्धिपरहान्यादिकं कार्य वीक्ष्य संधायासनं विगृह्य वा यानं द्वैधीभावसंश्रये च
केनचित्संधि केनचिद्विग्रहमित्यादिकमनुतिष्ठेत् ।।१६१॥
(४) राघवानन्दः । एतानि स्वार्थसमृद्धिपरपीडादिकार्यगौरवमालोच्य प्रयोक्तव्या-
नीत्याह आसनं चेति । प्रयुञ्जीत अनुतिष्ठेत् ॥१६१।।
(६) रामचन्द्रः । एतान् सन्धिविग्रहादीन कार्य वीक्ष्य प्रयुजीत ॥१६१।।
(७) मणिरामः। नो वृद्धिः परस्य हान्यादिकं कार्य। तद्वीक्ष्य ॥१६१।।
(८) गोविन्दराजः। आसनञ्चैव यानञ्च सन्धाय च विगुह्य चेति। आत्माऽभ्युदय-
परहान्यादिकं कार्यं वीक्ष्य सन्धायासनं विगृह्य वा यानं द्वैध वा संश्रयं वाऽनुतिष्ठेत, तत्र तद-
त्यायतिकालयोः परेण सह साम्याशङ्कायां सन्धि कृत्वाऽऽसीत। यदा तु तदात्वसाम्येऽप्यात्मा
प्रकृतीनां न विचलितत्वं परप्रकृतीनां चोपजापसहत्वं मन्येत तदा विग्रहमाश्रित्यासीत । यदा
पुनः परस्मादभ्युत्थितो भवति तथा कृतात्मराष्ट्रसन्धानो विगृह्य यायाद्विगृह्य यानहेत्वभावे
पाणिग्राहेण सह सन्धाय' यायात् तथा कार्यापेक्षया एकेन सह सन्धिमपरेण सह विग्रहमित्येवं
द्वैधं कुर्यात् । यदा तु दुर्बलः सन् वलवताऽऽक्षिप्तस्तदा तद्विशिष्टबलमन्यमाश्रयेत् ॥१६१।।
संधिं तु द्विविधं विद्याद्राजा विग्रहमेव च ।
उभे यानासने चैव द्विविधः संश्रयः स्मृतः ॥१६२॥
७.१६३] व्याख्यानवकोपेता . १२७ । (२) सर्वज्ञनारायणः। सर्वे गुणा द्विधा इत्यर्थः ॥१६२॥ (३) कुल्लूकः । संध्यादीन्षडेव गुणान्दिप्रकारान् जानीयात् । इत्यविवक्षार्थम् ।।१६२।। (४) राघवानन्दः । एतेषां द्वैविध्यं प्रतिजानीते सन्धि त्विति । सन्ध्यादिषट्कं प्रत्येक द्विविधमित्यर्थः ॥१६२॥ (६) रामचन्द्रः। राजा संधिविग्रहादीन् गुणान् द्विविधान्विद्यात् ॥१६२॥ (७) मणिरामः । संध्यादीन्षड्गुणान् द्विप्रकारान् जानीयात् ॥१६२॥ (८) गोविन्दराजः। संधिमिति । सन्धिविग्रहादीन् गुणान् सर्वानेव द्विप्रकारान् राजा जानीयात् इत्युत्तरं विपक्षार्थम् ॥१६२॥ समानयानकर्मा च विपरीतस्तथैव च । तदात्वायतिसंयुक्तः संधिज्ञेयो द्विलक्षणः ॥१६३॥ (१) मेधातिथिः । समानयानकर्मा । ‘यानफलं सहितौ तुल्यौ गच्छावः समानफल- भागितया, न च त्वयाऽहमुल्लङ्घनीयः। यत्ततो लप्स्यते तत्तव मम च भविष्यति' । अथवा 'त्वमन्यतो याह्यहमन्यत्र यास्यामी'त्येवमसमानयानकर्मा विपरीतः ॥१६२-१६३॥ (२) सर्वज्ञनारायणः। संधिद्विधा समानयानकर्मा किंचिद्रं यानं कृत्वा यः क्रियते । विपरीतः स्वस्थानस्थेनैव क्रियमाणः । स च द्विविध इति कश्चित्तदात्वसंयुक्तः सदैव देयफल: प्राप्यफलो वा। आयतिसंयुक्तः कालान्तरे सफलोदयोऽफलो वा ॥१६३॥ (३) कुल्लूकः। तात्कालिकफललाभार्थमुत्तरकालीनफललाभार्थं वा यत्र राजान्तरेण सहान्यं प्रति यानादिकर्म क्रियते स समानयानकर्मा संधिः यः पुनस्त्वमन याह्यहमन्त्र यास्यामीति सांप्रतिकोत्तरकालीनफलाथितयैव क्रियते सोऽसमानयानकर्मेत्येवं द्विप्रकारः संधितिव्यः ॥१६३॥ (४) राघवानन्दः । तत्र सन्धेद्वैविध्यं विशदयति समानेति । सप्रत्युदर्के वा यत्फलं तदर्थं राजान्तरेण सहैवान्यं प्रति यानादिकर्मकरणं तत्समानयानकर्मा सन्धिः, समानस्यैकफलस्य यावत् कर्मणोभयोरनुसन्धेयत्वात् । विपरीतः असमानकर्म 'त्वमत्र याहि अहमन्यत्र यास्यामीति सांप्रतिकोत्तरकालीनफलार्थितया वा गमनम् । तदेवाह तदात्वायतिसंयुक्त इति । तदात्वं तत्काल: आयतिरुत्तरकालः तयोः सम्यक्फलसिद्धये युक्तः साधुः स च सन्धेर्विशेषणम् ॥१६३।। (५) नन्दनः। लब्धसमानयानयोः समानं भवेदिति कृतसंयोगद्वयाद्यानयानसमर्थफलं कर्म युद्धादिकञ्च समानं यस्मिन्समानयानकर्मा । यदात्वायतिसंयुक्तत्वं वर्तमानः काल: आयतिर्भविष्यत्काल: क्रियमाणकरिष्यमाणयोः कार्ययोरित्यर्थः ॥१६३॥ (६) रामचन्द्रः। समानं यानकर्म यस्य स समानयानकर्मा शत्रो:समानयानहस्त्यश्वा- दीनि च पुनः विपरीतः हस्त्यश्वादिभिर्यदा हीनः । तदा तु आयतिसंयुक्तः भाग्ययुक्तः स सन्धिः द्विलक्षणो ज्ञेयः ॥१६३॥ (७) मणिरामः । सन्धेद्वैविध्यमाह समाने समानयानकर्मा एकः सन्धिः। असमान- यानकर्मा द्वितीयः । तदात्वं तत्कालः । आयतिः उत्तरकाल: तत्संयुक्तः समानयानकर्मा असमान- यानकर्मा च । तथापि तात्कालिकफललाभार्थ उत्तरकालीनफललाभार्थं वा यत्र राजांतरण
१२८
मनुस्मृतिः
[७.१६४
.
सह अन्य प्रतियानादिकर्म क्रियते स समानयानकर्मा संधिः । यः पुनः ‘त्वमत्र याहि अहमत्र
यास्यामी'ति संमतिं कृत्वा तात्कालिकोत्तरकालिकफलार्थमेव पृथग्गच्छति स असमानयानकर्मा
संधिरित्यर्थः ॥१६३॥
(८) गोविन्दराजः । समानयानकर्मेति । साम्प्रतिकफलयोगेनाऽऽगामिफलावष्टम्भेन
राजान्तरेण यात्राऽन्यं प्रति यानकर्म क्रियते स समानयानकर्मा संधिर्यः त्वनया ह्यहमनुयास्या-
मीति साम्प्रतिकः । आगामिफलाऽपेक्षयैव क्रियते सोऽसमानयानं कर्मसन्धिरित्येवं द्विप्रकार:
सन्धिविज्ञेयः ॥१६३॥
स्वयंकृतश्च कार्यार्थमकाले काल एव वा ।
मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥१६४॥
(१) मेधातिथिः। स्वयं विग्रहस्य काल: यदावश्यं स्वबलेनोत्सहते परं कर्षयितुमु-
त्साहयुक्त :, प्रकृतयः संहता विवृद्धाश्च स्वकर्मकृष्यादिफलसंपन्नाः परस्य, तान्यपहरिष्यन्ति
कर्माणि, क्षीणलब्धप्रकृतिः परः, शक्यास्तत्प्रकृतय उपजापेनात्मीयाः कर्तुं, स स्वयं विग्रहस्य
कालः । अकाल एतद्विपरीतः ।
तत्रापि विग्रहो मित्रस्यापकृते । यदि शत्रुणा तदीयं मित्रमपकृत तदा तद्विचिन्त्याकालेऽपि
विग्रहः कर्तव्यः । यद्यपि स्वयमपि शत्रोरनन्तरं मित्रं भवति, शत्रोस्तु शत्रुर्विषयानन्तरम् ।
पाठान्तरं 'मित्रेण चैवापकृते'। तेन यद्यसौ बाधितो भवति, तदाऽकालेऽपि विग्रहः कार्यः।
एतद्विग्रहस्य द्वैविध्यं स्वकार्यार्थं मित्रकार्यार्थं च । अथवाऽऽत्मनोऽभ्युच्छ्यादेकः प्रकारो
मित्रेणापकृते व्यसनिनि तत्रैव द्वितीयः॥१६४॥
(२) सर्वज्ञनारायणः । स्वार्थ कृतो मित्रार्थं चेति द्विधा, स च सर्वो विग्रहयोग्यकाले
हेमन्तादावपि क्रियते, अयोग्यकाले वर्षास्वपि अपकृतेऽपकारेऽन्येन कृते तदपकारार्थम् ॥१६४।।
(३) कुल्लूकः। शत्रुजयरूपयोजनार्थं शत्रोर्व्यसनादिकमाकलय्य वक्ष्यमाणमार्गशीर्षादि-
कालादन्यदा यथोक्तकाल एव वा स्वयंकृत इत्यको विग्रहः। अपकृतमपकारः मित्रस्यापकारे
राजान्तरेण कृते मित्ररक्षणार्थमपरो विग्रह इत्येवं द्विविधो विग्रहः । गोविन्दराजेन तु 'मित्रेण
चैवापकृते' इति पटितं, व्याख्यातं च । यः परस्य शत्रुः स विजिगीषोमिनं तेनापकारे क्रियमाणे
व्यसनिनि' शनाविति। तस्माल्लिखितपाठार्थों वृद्धैर्गोविन्दराजतः । मेधातिथिप्रभृतिभिलिखितौ
स्वीकृतौ मया ॥१६४॥
(४) राघवानन्दः। विग्रहो विरोधस्तद् द्वैविध्यं स्फुटयति स्वयमिति । काले
मार्गशीर्षादौ अकाले तद्भिन्ने कार्यार्थं शत्रुजयप्रयोजनार्थं तद्व्यसनादिकमाकलय्य स्वेन
संपादितो विग्रहः । अपरश्च मित्रस्यापकारे परेण क्रियमाणे तद्रक्षणार्थं द्विविधः । गोविन्दराजेन
'मित्रेण चैत्रापकृत' इति पठितं व्याख्यातं च । परस्य शत्रुः स विजिगीपोमिनं तेन मित्रेणापकृते
मित्रादेर्व्यसनिनि शत्रौ तन्निग्रहार्थो विग्रहः ।।१६४॥
(५) नन्दनः । स्वयं विजिगीषुणा मित्रे कृतः मित्रेण विजिगीषौ कृतश्चेति द्विविधो
विग्रहः ॥१६॥
3
७.१६६]
व्याख्यानवकोपेता
१२९
६) रामचन्द्रः। द्विविध विग्रहमाह स्वयमिति । अकाले काले वा कार्यार्थ स्वयं कृतं
स्वार्थ मित्रार्थ वा मित्रस्यापकृते अनेनापकारे कृते सति तदपकारार्थं क्रियते स
द्विधाविग्रहः ॥१६४॥
(७) मणिरामः । विग्रहद्वैविध्यमाह स्वयमिति । काले वक्ष्यमाणमार्गशीर्षमासादिकाले
अकाले उक्तकालान्यकाले वा कार्यार्थं शत्रुजयार्थं स्वयंकृतः एको विग्रहः अपकृतं अपकारः।
मित्रस्याऽपकारे राजांतरेण कृते मित्ररक्षार्थं द्वितीयो विग्रहः । एवं द्विविधो विग्रहः ॥१६४।।
(८) गोविन्दराजः । स्वयं कृत इति । “मित्रेण चैवापकृते द्विविधो विग्रहः स्मृतः।"
वक्ष्यमाणमार्गशीर्षादिकालादन्यत्र तस्मिन्नेव वा काले कार्यापेक्षया स्वयंकृत इत्येको विग्रहः ।
यश्च परस्य शत्रुः तद्विजिगोषोमित्रं तेनापकारे क्रियमाणे व्यसनिनि शत्रौ द्वितीय इत्येवं
द्विविधो विग्रहः स्मृतः ॥१६४॥
एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया ॥
संहतस्य च मित्रेण द्विविधं यानमुच्यते ॥१६५॥
(१) मेधातिथिः । एकाकिनो मित्रेण वा संहतस्य यानद्वैविध्यं यांनस्यासत्यां
शक्तावेकाकिनः, अन्यथा संहतस्य । 'आत्ययिकं कार्यं' परस्य व्यसनोत्पत्तिः। तदा
ह्यभिगमनीयतमो भवति । परतः कदाचिल्लब्धोच्छ्यो दुरुच्छेद्यः ॥१६५।।
(२) सर्वज्ञनारायणः । एकाकिन इत्येकयात्रा, मित्रसंहतस्येत्यपरा, सा द्विविधापि
स्वस्यात्ययिकं तत्कालाप्रतीकारेऽनर्थहेतुं कार्यमाकलय्य भवति । यद्वात्मनो बलवत्तामात्रमवेक्ष्य
यदृच्छयेति ॥१६५॥
(३) कुल्लूकः । आत्ययिकं कार्यं शत्रोर्व्यसनादिकं तस्मिन्नकस्माज्जाते शक्तस्यैकाकि-
नो यानम्, अशक्तस्य मित्रसहितस्यत्येवं यानं द्विविधमभिधीयते ॥१६५॥
(४) राघवानन्दः। यानद्वैविध्यं भिनत्ति एकाकिनश्चेति । आत्ययिके शत्रोर्व्यसनादिके
कार्ये सैन्यादिविक्रियातः क्षयादिके यदृच्छया अकस्मात् प्राप्ते शक्तस्यैकाकिनः अशक्तस्य संहतस्य
मित्रेण मिलितस्य शत्रु प्रति गमनमिति यानद्वैविध्यम् ॥१६५॥
(५) नन्दनः । आत्ययिके आवश्यके कार्ये परस्य व्यसनादीनि यदृच्छया प्राप्ते ॥१६५॥
(६) रामचन्द्रः । आत्ययिके आवश्यके तत्कालप्रतिकार्ये कार्ये प्राप्ते अनर्थहेतुमाकलय्य
यदृच्छया आत्मनो बलाबलमात्रमवेक्ष्य एकाकिनो राज्ञः यानमेकं यानम् । द्वितीयमाह-मित्रेण
सह मिलित्वा कार्य द्वितीयं यानम् ॥१६५॥
(७) मणिरामः। यानद्वैविध्यमाह एकाकिन इति । आत्ययिकं शत्रोर्व्यसनादिकं ।
तस्मिन्नकस्माज्जाते यदृच्छया स्वेच्छया समर्थस्य एकाकिनो यानं, अशक्तस्य मित्रेण
सहेति द्विविधं यानं ॥१६५॥
(८) गोविन्दराजः । एकाकिन इति । परस्य व्यसनादौ क्षिप्रप्रतीकारेऽकस्मात्कार्ये
प्राप्ते समर्थस्यैकाकिनो यानसमर्थस्य तु मित्रसहितस्येत्येवं यानमुच्यते द्विविधं ॥१६५॥
क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा ।
मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥१६६॥
१३०
मनुस्मृतिः
[७.१६७
(१) मेधातिथिः । आत्मसंवरणमासनम् । तदपि द्विविधम् । क्षीणस्य बलकोशोपनयेन
वृद्धस्यापि शत्रु प्रत्यपेक्षा । आसनं च मित्रानुरोधेन । यदि मित्रस्य क्षीणस्य शत्रुणा सह
सम्बन्धो नेदृशो भवति, तदीयेन' मित्रेण नायमुत्तम्भनीय इत्यतस्तदनुवृत्त्यासीत । स च
क्षयो दैवात्पूर्वं कृतेन वेत्यनुवादः । वृद्धिक्षयौ सर्वस्यतेन का रणेन' भवतः । तत्र 'दैव'
स्वकृतप्रमादः अतिव्ययशीलता, अप्रतिजागरणं स्वे बले, पूर्वकृतमशुभं कर्मापि। विपर्ययेण
वैतद्वयाख्येयम् । मोहादिति पाठान्तरम् । अर्थस्तु दैवशब्देन व्याख्यातः ।।१६६॥
(२) सर्वज्ञनारायणः।क्षयो द्विधा देवान्मारकादिनारिणि पूर्वकृतेन दण्डेन चेत्येकमेव
क्षीणासनं द्विविधम् । तथा मित्रस्यानुरोधेन' स्वस्य तं प्रति सामर्थ्यऽपि तेन स्वमिन्नस्य प्रति-
बन्दिभावेन पीडाकरणशङ्कया परम् ॥१६६॥
(३) कुल्लूकः । प्राग्जन्माजितेन दुष्कृतेनैहिकेन वा पूर्वकृतेन क्रमशः क्षीणहस्त्य-
श्वकोशादिकस्य समृद्धस्यापि वा मित्रानुरोधेन तत्कार्यरक्षार्थमित्येवं द्विविधमासनं मुनिभिः
स्मतम् ॥१६६॥
(४) राघवानन्दः। आसनद्वैविध्यं स्पष्टयति क्षीणस्येति । क्षीणस्य हस्त्यश्वकोशादि-
रहितस्य देवादृष्टवशात् पूर्वकृतेनैहिकेन' बलवच्छत्रुपीडादिकर्मणा वा मित्रस्यानुरोधेन मित्र-
रक्षानुरोधेन' वा आसनद्वैविध्यम् । आसीतेत्यासनम् । न चलेत्तदा स्वदेशत्यागे पराजयस्यैव
संभाव्यमानत्वादिति भावः । स्मृतः मुनिभिः ।।१६६।।
(५) नन्दनः । अस्मिन् जन्मनि साध्वकारिणोऽपि दैवात्क्षीणस्य पूर्वकृतेनास्मिन् जन्मनि
पूर्वसंवत्सरादिषु कृतेन कर्मणा वा क्षीणस्यापन्नस्य यदासनं, तत्प्रथमं देवपूर्वकृताभ्यां क्षीणस्य
मित्रस्यानुरोधेन यदासनं तद्वितीयमिति द्वितीयमासनम् ॥१६६॥
(६) रामचन्द्रः। क्षयो द्विविधः-दैवात् दैवकृतमरणादिना एकः, पूर्वकृतदण्डेन अरिणा
वा द्वितीयः । मित्रस्यानुरोधेन वा आसनं उपेक्षाकरणं द्विविधं स्मृतम् ।।१६६।।
(७) मणिरामः। आसनद्वविध्यमाह क्षीणस्येति । क्षीणस्य कोशादिना । मित्रस्य
चाऽनुरोधेन द्वितीयमासनमित्यर्थः ॥१६६।।
(८) गोविन्दराजः । क्षीणस्येति । प्राग्जन्माजितं कर्मवशेन ऐहिकेन पूर्वप्रमादेन
शनैः शनैः क्षीणभूम्यादिकस्य सर्वसमृद्धस्यापि वा मित्रानुरोधेन तत्कार्यरक्षार्थ इत्येवं
स्मृतम् द्विविधमासनं ॥१६६॥
बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये ।
द्विविधं कीर्त्यते धं षाड्गुण्यगुणवेदिभिः ॥१६७॥
(१) मेधातिथिः। बलस्य स्थितिः स्वामिनश्च भेदेन दुर्गस्वामिनः स्वल्पेन बलेन
सेनापतेरन्यत्र महता बलेन युक्तस्य । अथवा बलशपथानुग्रहार्थः कश्चित्कर्तव्यो हिरण्या-
दिलाभापेक्षया परस्त्वधिकेनाशु । "द्वैधीभावो नामायमुपायः । तस्यैतदेव रूपं यद्विधा
स्थितिलस्वामिनोरनैवंरूपस्य तस्यापरं द्वैधं वक्तव्यम् । न च तदनेन किंचिदुच्यते। केवलं
बलस्य स्वामिनश्च स्थितिरेतद्विविधं तत्र वक्तव्यं मायायां द्वैधीभावस्तस्येदं द्वैविध्यम्" ।
उच्यते-सामर्थ्यलभ्यमेतत्परानुग्रहार्थमेतत्कर्तव्यं, स्वकार्यार्थ चेत्येष द्विधाभावस्य
वैधीभावः ॥१६७॥
७.१६८]
व्याख्यानवकोपेता
१३१
"
।
(२) सर्वज्ञनारायणः। बलस्य सेनापत्यधिष्ठितस्य पुरोऽवस्थानं, स्वामिनस्तु
सैन्यैकदेशेन यानमित्येकं द्वैधमपरमेतद्विपर्ययात् । तथा षड्गुणस्य गुणसमुदायस्य गुणः
प्रयोजकता ॥१६७॥
(३) कुल्लूकः । साध्यस्वप्रयोजनसिद्धयर्थं बलस्य हस्त्यश्वादेः सेनाधिपत्यधिष्ठित-
स्यैकत्र शत्रुनृपोपद्रववारणार्थमवस्थानमन्यत्र दुर्गदेश राज्ञः कतिचिद्वलाधिष्ठितस्यावस्थान-
मेवं संध्यादिगुणषट्कोपकारज्ञैः द्विविधं द्वैधं कीर्त्यते ॥१६७।।
(४) राघवानन्दः । द्विधा भूत्वावस्थितिधं तत्स्फुटयति बलस्येति । बलस्य हस्त्य-
श्वादेः सेनापत्यधिष्ठितस्य शत्रुसंमुखावस्थितिः, अपरत्र दुर्गदेशे स्वात्मनः राज्ञः धनसहितस्या-
वस्थितिश्च ।' कार्यार्थसिध्दये शत्रुवारणार्थं मित्रस्येत्यनुवर्तते ॥१६७॥
(५) नन्दनः । 'बलिनोद्विषतोर्मध्ये वाचात्मानं समर्पयन् । द्वैधीभावेन वर्तेत काका-
क्षिवदलक्षितः' इति कामन्दकवचनानुगुण्यादयं श्लोको व्याख्येयः। बलस्य शत्रुभ्यामिति
युक्तस्य तदीयया भावनया द्विधाभूयावस्थानम् स्वामिनस्तस्यावस्थानमिति द्विविधं द्वैधीभावः
कीर्त्यते ॥१६७॥
(७) मणिरामः । द्वैधं वैविध्यमाह बलस्येति । कार्यार्थसिद्धी स्वप्रयोजनसिद्धया ।
एकत्र बलस्य सेनापत्यधिष्ठितस्याश्वादेः शत्रुत्वप्रजनितोपद्रववारणार्थं अवस्थितिः। अन्यत्र
दुर्गादिदेशे स्वामिनः कतिचिबलाधिष्ठितस्य राज्ञः अवस्थितिरिति प्रकारेण द्वैधं द्वितीयैषा
गुण्यगुणवेदिभिः कीर्त्यते ॥१६७।।
(८) गोविन्दराजः । बलस्येति । कार्यसिद्धयर्थं बलस्य हस्त्यादेः सेनापत्याद्यधिष्ठित-
स्यावस्थानमेकत्र कार्यम् । राज्ञश्च बलैकदेशयुक्तस्य दुर्गावस्थानमित्येवं द्विप्रकारं संध्यादिगुण-
षट्कोपकारज्ञैः हूँधं कीर्त्यते । एकेन सन्धिरन्येन सह विग्रहः, प्रत्येकरूपतयाऽवस्थानमित्येवं
द्वैधस्यापि पुनद्वैविध्यम् ॥१६७॥
अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः ।
साधुषु व्यपदेशार्थं द्विविधः संश्रयः स्मृतः ॥१६८॥
(१) मेधातिथिः । शत्रुभिः पीड्यमानस्य अर्थसंपादनार्थमन्यत्र संश्रयः । 'अर्थ'-
पीडानिवृत्तिस्तत्संपादनार्थं शक्तमन्यमाश्रयेत्। स्वदेशं हित्वा तत्र गच्छेत् । व्यपदेशश्चा-
पीडितेऽपि आगामिपीडापरिहाराय व्यपदेशार्थमन्यं संश्रयेत् । एषोऽस्य सहायको वर्तते, न
शक्योऽयमुपपीडयितुमिति व्यपदेशसिद्धिर्न केनचिदुपपाद्यते। व्यपदेशप्रयोजनसंश्रयो व्यपदेश-
शब्देनोक्तः, सामानाधिकरण्येन । पाठान्तरं 'व्यपदेशार्थमिति' । क्व पुनः संश्रयः कर्तव्यस्तदाह
साधुष्विति । ये साधवो राजानस्तेषामन्यतममाश्रयेत् । येभ्यः सकाशात्कुसृति शक्यते ।
साधुशब्देन परिभवताणसामर्थ्यादयो गुणाः प्रतिपाद्यन्ते ॥१६८॥
(२) सर्वज्ञनारायणः। पीड्यमानस्य सतो योऽर्थस्तस्य सिद्धयर्थमेकः, तथा स्वस्याल्पत-
याऽवश्यं कस्मिश्चित्संश्रयणीये संश्रयेण साधुषु कीर्तिर्भवतीत्यपर: संश्रयः ॥१६८॥
(३) कुल्लूकः । शत्रुभिः पीड्यमानस्य शत्रुपीडानिवृत्त्याख्यप्रयोजनसिध्दयर्थमसत्यामपि
वा तत्काले पीडायां भाविशत्रुपीडनशङ्कया अमुकमयं महाबलं नृपतिमाश्रित इति सर्वत्र
व्यपदेशोत्पादनार्थम् बलवन्तमुपाश्रयणमेवं द्विविधः संश्रयः स्मृतः ॥१६८॥
१३२ मनुस्मृतिः [७.१६९ (४) राघवानन्दः । संश्रयद्वैविध्यं विशदयति अर्थेति । अर्थसंपादनार्थं शत्रुकृतपीडायां सत्यां तन्निवृत्तिप्रयोजनार्थं असत्यां च शङ्कयमानायां सत्याममुकराजानमाश्रितोऽस्मीत्युद- निर्थनिवारणख्यापनार्थं यो व्यपदेशस्तदर्थं वा। साधुष्वित्यस्यायमभिप्राय:- साधूनामवक्र- बुद्धित्वाद्यथाश्रुतग्राहित्वाच्च साधुराजसु वा व्यपदेशो व्यपाश्रयणम् । यथान्यैराश्रितराजतो भीतैर्नाक्रम्यते तदर्थमिति भावः ॥१६८॥ (५) नन्दनः । शत्रुभिः पीड्यमानस्य विजिगीषोरर्थसंपादनार्थं शत्रुपीडानिवृत्त्यर्थं बलवदुपाश्रयणमेकः संश्रयः। शत्रुपीडाभावेऽपि साधुभिर्दृढमूलैः सह व्यपदेशार्थं भविष्यदनर्थ- परिहारार्थमिति यावत् । बलवदुपाश्रयणमपरसंश्रयः ॥१६८॥ (६) रामचन्द्रः। संश्रयं द्विविधमाह अर्थेति । शत्रुभिः पीड्यमानस्य योऽर्थस्तस्यार्थस्य संपादनार्थं सिद्धयर्थं बलाश्रय मित्राश्रय एकः । तथा साधुषु व्यपदेशार्थं स्वल्पीयतया अवश्य- शंसनीयेन साधुषु कीतिर्भवतीति द्वितीयः ॥१६८॥ (७) मणिरामः। संश्रयद्वैविध्यमाह अर्थेति । अर्थसंपादनार्थं शत्रुपीडानिवारणाथ बलवद्राजांतराश्रयणमित्येकः संश्रयः । असत्यामपि वा तत्काले पीडायां भाविशत्रुपीडाशंकया 'अयं महाबलं नृपतिमाश्रित' इति व्यपदेशोत्पादनार्थं बलवदुपाश्रयणं द्वितीयः संश्रयः॥१६८।। (८) गोविन्दराजः। अर्थसम्पादनार्थमिति । शत्रुभिरभिभूयमानस्य अभयनिवृत्त्याख्यः प्रयोजनसंपादनार्थमसत्यपि वा तदानीमभिभव आगाम्यभिभवाशङ्कयाऽमुकसंश्रितोऽयमित्येवं व्यपदेशार्थं साधुनृपसंश्रयणमित्येवं द्विविधः संश्रयः स्मृतः ॥१६८॥ यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः । तदात्वे चाल्पिको पीडां तदा संधि समाश्रयेत् ॥१६९॥ (१) मेधातिथिः । आयतिरागामी काल: । यद्येवं मन्येत समबलो ममायमप्येष न्यूनबलो वा, कालात्तु लब्धकृत्योपजापेन मित्रग्रहेण वा शक्नोम्येनमभिभवितुं तदा संधि कुर्यात्। आधिक्यमधिकबलता। ध्रुवं निश्चितम् । मोहादिति पाठान्तरम् । अर्थस्तु दैवशब्देन व्याख्यातः॥१६९।। (२) सर्वज्ञनारायणः । पीडां क्षति धनादेः ॥१६९।। (३) कुल्लूकः । यदा युद्धोत्तरकाले निश्चितमात्मन आधिक्यं जानीयात्तदात्वे तत्कालेऽ- ल्पधनाद्युपक्षयः तदा त्वल्पमङ्गीकृत्यापि सन्धिमाश्रयेत् ॥१६९॥ (४) राघवानन्दः। सन्ध्यादिषण्णां कदा किं कार्यमित्यपेक्षायामादौ सन्धेस्तदाह यदेति। आयत्यामुदर्के आधिक्यं बहुलोत्पत्ति तदात्वे तत्काले अल्पधनादिपीडामङ्गीकृत्यापि सन्धि समाश्रयेत्, स्वप्रकृत्याद्यवशतया पराजयस्यैव संभाव्यमानत्वात् ॥१६९॥ (५) नन्दनः। अथ षण्णां गुणानां प्रयोगकालं षड्भिः श्लोकैराह आयतिर्भविष्यत्काल- स्तदात्वं तत्काल: । अल्पिकामत्यर्थमल्पां, अविद्यमानामिति यावत् ॥१६९॥ (६) रामचन्द्रः । षाड्गुण्यस्य कालमाह यदेति । आयत्यां उत्तरकाले आत्मनो ध्रुव- माधिक्यं यदा अवगच्छेत् पश्येत् तदात्वे चाल्पिको पीडां धनादेः तदा सन्धि समाश्रयेत् ॥१६९।।
७.१७१]
व्याख्यानवकोपेता
१३३
(७) मणिरामः । संधिकालमाह यदेत्यादि । आयत्यां उत्तरकाले। तदात्वे च
वर्तमानकाले च । अल्पिको पीडां अल्पधनाद्युपक्षयः ॥१६९॥
(८) गोविन्दराजः। यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मन इति । यदागामिनि काल
आत्मनो निश्चितमाधिक्यं मन्येत, साम्प्रतिकचाल्प उपक्षयस्तदाऽपक्षयमनीकृत्याधि-
सन्धिमेवाश्रयेत् ॥१६९॥
यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृती शम् ।
अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम् ॥१७०॥
(१) मेधातिथिः। प्रहृष्टा उत्साहानुरागयुक्ता दानमानाभ्यामुपसंगृहीता आत्मीयाः
प्रकृतीरमात्यादिका मन्येत । अत्युच्छ्रितमात्मानं कोशहस्त्यश्वादिसंपदा । तदा केनचिदपदेशेन
संधिदूषणं कृत्वा विग्रहमाश्रयेत् ॥१७०॥
(२) सर्वज्ञनारायणः। अत्युच्छ्रितमत्यर्थबलम् ॥१७०॥
यदामात्यादिकाः सर्वाः प्रकृतीर्दानसंमानाद्यैरतीव तुष्टा मन्येत
आत्मानं च हस्त्यश्वकोशाद्यैः शक्तित्रयेणोपचितं तदा विग्रहमाश्रयेत् ॥१७०॥
(४) राघवानन्दः। विग्रहोचितावस्थामा यदेति । प्रहृष्टाः दानसंमाननाद्यैरतीवतुष्टा
अत्युच्छितं बलबुद्धिहस्त्यश्वकोशाद्यैः समृद्धमात्मानं मन्यतेत्यनुषज्यते तदा विग्रहं परराष्ट्र-
क्षोभादि कुर्यात् ॥१७०॥
(५) नन्दनः। प्रहृष्टाः स्वामिनि परितुष्टाः । प्रकृतीरमात्यादिकाः ॥१७०॥
६) रामचन्द्रः । सर्वाः प्रकृतीः भृशं प्रहृष्टाः हस्त्यश्वादिना आत्मानमत्युच्छ्रितं
कोशसमृद्धं यदा मन्येत तदा विग्रहं विग्रहकालं मन्येत ॥१७०॥
(७) मणिरामः। विग्रहकालमाह यदेति । हृष्टभावेन हर्षयुक्तम्। पुष्टधनादिना।
तत्त्वतः विपरीतं हर्षधनादिरहितं प्रहृष्टाः दानसंमानाद्यैरतीव तुष्टा उच्छ्रितं हस्त्यश्व-
कोषाद्यैः समृद्धं ॥१७०॥
(८) गोविन्दराजः। यदेति । यंदाऽमात्यादिकाः सर्वाः प्रकृतीः दानमाना-
दिनाऽत्यन्तं परितुष्टाः मन्येत, आत्मानञ्च प्रभूतमन्त्रोत्साहशक्त्यादिनोच्छ्रितं तदा विग्रह-
मध्यवस्येत् ॥१७०॥
यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् ।
परस्य विपरीतं च तदा यायाद्रिपुं प्रति ॥१७॥
(१) मेधातिथिः। भावो हर्षपोषकारणम् । बहुना धनेन संविभक्तता कृष्यादिकर्माणि,
फलितान्येषामित्यादि हर्षपोषयोः कारणम् । बलं हस्त्यश्वरथपादातम् । परस्य यदा विपरीतं
तदा शतुं प्रति यायादभिषेणयेच्छत्रुमित्यर्थः । न विग्रहकारणान्येव यानकारणानि, किं तहि?
तान्यपि अपचयश्च हर्षपोषयोः परस्य प्रकृतीनाम् ॥१७१॥
(२) सर्वज्ञनारायणः । भावेन मनसा । प्रहृष्टं पुष्टं यात्रोचितसहायादिपुष्टि-
युक्तम् ॥१७१॥
१३४ मनुस्मृतिः [७.१७ (३) कुल्लूकः । यदात्मीयममात्यादिसैन्यं हर्षयुक्तं धनादिना पुष्टं तत्त्वतो जानीया शत्रोचामात्यादिबलं विपरीतं तदा तं लक्षीकृत्य यायात् ॥१७१॥ (४) राघवानन्दः। यानस्य कालमाह यदा मन्येतेति । भावेन हर्षपोषादिहेतुना ध प्रहृष्टं हर्षितमत्युत्साहयुक्तमांसौदनादिना पुष्टं, स्वकमिति विशेषणात्परस्य शत्रोः विपरी पश्येदिति शेषः। यायात् यानं कुर्यात् ॥१७१।। (६) रामचन्द्रः । यदा स्वकं बलं हृष्टं तदा रिपून्प्रति यायात् यात्रां कुर्यात् । तथा याज्ञवल्क्यः 'यदा सस्यगुणोपेतं परराष्ट्रं तदा ब्रजेत् । परश्च हीन आत्मा च हृष्टवाहनपूरु इति ॥१७१॥ (७) मणिरामः। यानकालमाह यदेति, हृष्टं हर्षयुक्तं । पुष्टं धनादिना । भाटे तत्त्वतः। विपरीतं हर्षधनादिरहितं ॥१७१॥ (८) गोविन्दराजः । यदा मन्यतेति । यदा स्वकममात्यादिसैन्यं परितुष्टं धनादिना पुष्टं परमार्थेन जानीयात् , शत्रोश्च विपरीतं तदा तस्योपरि यायात् ॥१७१।। यदा तु स्यात्परिक्षीणो वाहनेन बलेन च । तदासीत प्रयत्नेन शनकैः सांत्वयन्नरीन् ॥१७२॥ (१) मेधातिथिः। वाहनं हस्त्यश्वरथम् । बलं पादातम् । गोबलीवर्दवभेदः । परिक्ष बले सति सान्त्वयनरीनासीत । सामोपप्रदानाभ्यामनुकूलनं 'सान्त्वनम्' ॥१७२।। (२) सर्वज्ञनारायणः । सान्त्वयन भाविफलप्रत्याशया ।।१७२।। (३) कुल्लूकः । यदा पुनर्वाहनेन' हस्त्यश्वादिना बलेन चामात्यादिविपत्त्यादिपा क्षीणो भवेत्तदा सामोपप्रदानादिना शवून्प्रसांत्वयन्प्रयत्नेनासनमाश्रयेत् ॥१७२।। (४) राघवानन्दः। आसनस्याश्रयकालमाह यदा त्विति । हस्त्यश्वादिचतुरङ्गेण बलेन कोशाखेन' शारीरेण वा। स्वयं शनैरभिमतग्रामादिदानेन अर त्वनेऽरीणामावश्यकमागमनं तदा महाननर्थः स्यादिति भावः ।।१७२।। (६) रामचन्द्रः। यदा वाहनेन बलेन सैन्येन परिक्षीणः स्यात्तदा रिपून् शन सान्त्वयन्नासीत स्थितो भवेदित्यर्थः ॥१७२॥ (७) मणिरामः। आसनकालमाह यदेति । सांत्वयन्. सामदानादिना ॥१७२।। (८) गोविन्दराजः। यदा त्विति । यदा पुनर्हस्त्यादिना भृत्यैश्च परिक्षीणः स्यात्त शनैः सामोपप्रदाना दिना शत्रून्सान्त्वयन् यत्नेनाऽत्युच्छ्यादासनमाश्रयेत् ॥१७२।। मन्येतारिं यदा राजा सर्वथा बलवत्तरम् । तदा द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः ॥१७३॥ (१) मेधातिथिः । अशक्यं संधानं वलवता रुद्धस्य, दुर्गसंश्रयणं च हितम, दुर्गं बलावस्थापनमेव द्वैधीभावात् । स च प्रागुक्तार्थः । बलीयानेव हि व्यसने बलं द्विधा करो इति दृश्यते ॥१७३॥ (२) सर्वज्ञनारायणः । सर्वथा बलवत्तरमुपायत्रयासाध्यं च ॥१७३।। परिक्षीणं वाह
७.१७४]
व्याख्यानवकोपेता
१३५
(३) कुल्लूकः। यदा राजा सर्वप्रकारेण बलीयांसमशक्यसंधानं च शत्रु बुध्येत्तदा
कतिचिद्वलसहितः स्वयं दुर्गमाश्रयेत्, बलैकदेशेन च शत्रुविरोधमाचरेत्, एवं द्विधा बलं कृत्वा
मित्रसंग्रहादिकं स्वकार्य साधयेत् ॥१७३॥
(४) राघवानन्दः । द्वैधेनावस्थानकालमाह मन्यतेति । उक्तद्विधावस्थितौ हठादरिणा
नाक्रम्यते। अरिः सेनायां पतति चेत्स्वयं तीर्णस्तमाक्रमितुं शक्तः स्वामिन्यापतति चेत्सेना-
पतिस्तमाक्रमितुं शक्त इति भावः ॥१७३॥
(५) नन्दनः। अरिं पुरस्थितं पाष्णि स्थितञ्च। कुत एतत् ? द्विधा बलं कृत्वेति
लिङ्गात्। बलिनोद्विषतोर्मध्ये वाचात्मानं समर्पयन् । द्वैधीभावेन वर्तेत 'काकाक्षिवदलक्षितः'
इति कामन्दकवचनाच्च ।।१७३।।
(६) रामचन्द्रः। यदा आत्मनः सकाशात् शत्रु सर्वथा बलवत्तरं मन्येत तदा
स्वबलं सैन्यं द्विधा कृत्वा कार्यं साधयेत् ॥१७३॥
(७) मणिरामः । द्वैधीकरणकालमाह मन्येतेति ॥१७३॥
(८) गोविन्दराजः । मन्यतेति । सर्वप्रकारेण यदाऽतिशयेन बलिनमशक्यसाधनं शन्नु
मन्येत तदा बलैकदेशसहितो दुर्गोऽपाश्रयोऽपरेण बलैकदेशेन तदुपघातमाचरन् एवं द्विधा बलं
कृत्वा मित्रसंग्रहादात्मनः कार्य साधयेत् ॥१७३॥
यदा परबलानान्तु गमनीयतमो भवेत् ।
तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम् ॥१७४॥
(१) मेधातिथिः । गमनीयतमोऽभिभवनीयतमो दुर्गस्थोऽहमिति मन्यते । तदा क्षिप्रं
दुर्गमुज्झित्वाऽन्यं संश्रयेद्धार्मिकम् । यतः कुसृति शङ्कयते, यस्य यशोमयी स्थिरप्रकृतिः ।
बलिनमित्येतेन तत्सुदर्शितम् ॥१७४॥
(२) सर्वज्ञनारायणः। गमनीयतमोऽभिगम्यः ।।१७४।।
(३) कुल्लूकः । यदा तु सैन्यानाममात्यादिप्रकृतिदोषादिनातिशयेन ग्राह्यो भवति बलं
द्वैधं विधाय' दुर्गाश्रयणेनापि नात्मरक्षाक्षमस्तदा शीघ्रमेव धार्मिकं बलवन्तं च राजान-
माश्रयेत् ॥१७४॥
(४) राघवानन्दः । संश्रयस्यापि कालमाह यदेति चतुभिः । गमनीयतमोऽवश्यमरिग-
मनविषययोग्यः स्वयम् । धार्मिकमित्यनेनोदर्कानर्थशङ्का वारिता ॥१७४॥
(५) नन्दनः । गमनीयोऽभिभवितुं शक्यो धार्मिक स्वयमेव एतमाश्रितः अग्निवदग्नि-
र्यदपीत्युक्तं धार्मिकम् ॥१७४॥
(६) रामचन्द्रः। गन्तुं शक्यो गमनीयः अतिशयेन गमनीयो गमनीयतमः परबलानां ग-
मनीयतमो यदा भवेत्तदा स्वबलं हीनं दृष्ट्वा बलिनं हस्त्यश्वादिभिर्बलिनं बलिष्ठं धार्मिक
शरणागतरक्षकं क्षिप्रं संश्रयेत् ॥१७४।।
(७) मणिरामः। संश्रयकालमाह यदेति । गमनीयतमः स्वाऽमात्या प्रकृतिदोषादिना
शत्रुसैन्यानां अतिशयेन ग्राह्यो भवति तदा ॥१७४॥
१३६
मनुस्मृतिः
[७.१७६
(८) गोविन्दराजः । यदेति । यदा शत्रुवलानां प्रकृतिकोपादिनाऽतिशयेन यातव्यो
भवति, तदा क्षिप्रमेव धार्मिकं परित्राणसमर्थं नृपमाश्रयेत् ।।१७४।।
निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च ।
उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा ॥१७५॥
(१) मेधातिथिः। बलिनमित्युक्तम् , कियता बलेन बलवान्भवतीत्येतदर्थमिदमुच्यते।
या दुष्टास्तदीयाः प्रकृतयो यश्च शत्रुरुभय या पि निग्रहे समर्थः स आश्रयितव्यः ।
स गुरुवत्परिसेवितव्यो मानमुज्झित्वा । नैवं मन्तव्यं 'महाराज एपोऽपि समत्वेन वर्तावह'
इति । प्रभुवदसौ सेवितव्यः। सर्वयत्नरुपायैः प्रियवचनैरवसरे समीपे संनिधानेन ।।१७५॥
(२) सर्वज्ञनारायणः । निग्रहणं प्रकृतीनां यदि स्वप्रकृतिभिरेव शत्रुरुत्थापितः ।।१७५।।
(३) कुल्लूकः। कीदृशं तं बलवन्तमित्याह निग्रहमिति । यासां दोघेणासौ गमनीय-
तमो जातस्तासां प्रकृतीनां, यस्माच्च शत्रुबलादस्य भयमुत्पन्नं तयोर्द्वयोरपि यः संश्रितो निग्रह-
क्षमस्तं नृपं सर्वयत्तगुरुमिव नित्यं सेवेत ।।१७।।
(४) राघवानन्दः । बलिनमिति विशेषणस्य कृत्यमाह प्रकृतीनां स्वकीयानां दुष्टानां
अरिबलस्य च भीत्या यस्याश्रयणं कृतं तस्य च । गुरुर्यथेति वित्तशाठयादिदोषं परिहत्येत्यर्थः
॥१७५॥
(५) नन्दनः । संश्रितस्य कृत्यमाह निग्रहमिति। प्रकृतीनाममात्यादीनामात्मीयादीनाम्,
अनेन सूचितं प्रतिक्षोभेऽपि बलीयान्समाश्रणीय इति ॥१७५।।
(६) रामचन्द्रः । यः अरिबलस्य तु पुनः प्रकृतीनां शत्रूत्थापकानाममात्यानां निग्रहं
कुर्यात्तं नृपः सर्वयत्नरुपसेवेत भजेत यथा सर्वयत्नैर्गुरुमुपसेवेत ।।१७५।।
(७) मणिरामः । संश्रयणयोग्यं नृपमाह निग्रहमिति । प्रकृतीनां यासां दोषेण
स्वयं शत्रुसैन्यग्राह्यो यातस्तासां स्वप्रकृतीनां ॥१७५।।
(८) गोविन्दराजः । निग्रहमिति । यत्सम्बन्धिदोषेणास्य गमनीयत्वमायातं तासां
प्रकृतीनां शत्रुबलस्य च येनासौ बलिभूतस्तयोरुभयोरपि स विजितः सन् यो निग्रहं कुर्यात्, तं
सर्वबलैर्गुरुवन्नित्यं सेवेत ।।१७५।।
यदि तत्रापि संपश्यदोषं संश्रयकारितम् ।
सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ॥१७६॥
(१) मेधातिथिः । यदि तस्मिन्नपि संश्रये संपश्येज्जानीयात्कञ्चिद्दोषं संश्रयकारितम्।
दोषदर्शनलिङ्गानि च । “दत्वाऽनुतापः कृतपूर्वहोमं विमानना दुश्चरितानुकीर्तनम् । दृष्टेरदानं
प्रतिकूलभाषणमेताच दुष्टस्य भवन्ति वृत्तयः ।।"
ततस्तत्रापि संश्रये दोषकारिणि विज्ञातेऽपिशब्दादाश्रये निर्दोषेऽसति सुयुद्धमेव तस्मिन्नपि
काले निर्विकारः कुर्यात् । न हि संश्रये विनाशो दृश्यते ह्यल्पबलेनापि महाबलो जीयमानः ।
अपि चान्त्यावस्थायामुभयथा गुणः ---विजये राज्यं पराजये ध्रुवः स्वर्ग इति। युद्धस्य तु
शोभनत्वं दर्शयिष्यामः। एकैकगुणाश्रयेण मण्डलविजयाय यायाच्छक्तः ॥१७६॥
७.१७७] व्याख्यानवकोपेता १३७ . (२) सर्वज्ञनारायणः। संश्रयकारितमाश्रीयमाणेन' कर्तव्यतया संभावितम् ॥१७६।। (३) कुल्लूकः। अगतिका हि गतिः संश्रयो नाम । तत्रापि यदि संश्रयकृतं दोषं पश्येत्तदा निःसंशयो भूत्वा शोभनमेव युद्धं तस्मिन् काले समाचरेत् । दुर्बलेनापि बलवतो जयदर्शनान्निह तस्य च स्वर्गप्राप्तेः ॥१७६॥ (४) राघवानन्दः । किंचान्यदित्याह यदीति । दोषं संश्रयकारितं संश्रये नृपतौ स्वबल- द्विधाकरणरूपभाषणपूर्ववैरानुरूपकीर्तनादिलिझैः कारितं प्रकाशितं दुष्टप्रकृत्यादिभिरि- वानेनापि कार्योऽयमस्मदर्थादिक्षयो भविष्यतीत्येवं कारितं संश्रये राजनि समर्पितं दोषजातं यदि वा संपश्येत् तत्रापि तस्मिन्सतीत्यर्थः । निर्वितर्कः जेष्यामीति कृतनिश्चयः ॥१७६॥ (५) नन्दनः । धार्मिकबलिसमाश्रयणे दोषान्तरं भविष्यतीति निश्चिन्वानस्य किं कर्तव्यमित्यपेक्षायामाह यदीति। तत्रापि धार्मिकबलिसमाश्रयणे दोषः नीचसमाश्रयप्रभवलोके कोशादिकं तत्रापि तेषु परबलेष्वात्मवधोद्योगिष्वपि सुयुद्धमाचरेत्, जये भूमिलाभात् मरणे स्वर्गलाभादित्यभिप्रायः॥१७६॥ (६) रामचन्द्रः । यदि तत्रापि तस्मिन् राज्ञि संश्रयकारितं आश्रयभूतेन राज्ञा कारितं दोषं पश्येत्स राजा युद्धमेव निर्वितर्क: निःशङ्कः सन्समाचरेत् ॥१७६॥ (७) मणिरामः । तत्रापि यत्र भयात् संश्रितस्तत्रापि ॥१७६।। (८) गोविन्दराजः । यदीति । सुयुद्धमेव तत्रापि निर्विकल्पः समाचरेत् । अगतिका हि गतिः संश्रयो नाम, तत्रापि च संश्रयकृतं दोषं यदि पश्येत्तदा निर्विकल्पो भूत्वा शोभनं युद्धमेव तस्मिन् काले समाचरेत् ; दुर्बलेनाऽपि बलवतः पराजयदर्शनात् निहतस्य च स्वर्गप्राप्तेः ।।१७६॥ सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः । यथाऽस्याभ्यधिका न स्युमित्रोदासीनशत्रवः ॥१७७॥ (१) मेधातिथिः। उपायवचनात्सामादिभिर्व्यस्तैः समस्तैर्वा। सर्वग्रहणात्तु येन शक्यन्ते संघादिनाऽपि । तथा कुर्यात् तेन प्रकारेण यतेत । नीतिज्ञः अर्थशास्त्रज्ञः, स्वाभा- विकप्रज्ञः नयाद्यभिज्ञो वा राजा यथा स्यात् । शक्तित्रयेणाभ्यधिका मित्रादयो न भवेयुस्तथा प्रकृत्यादिसमादिष्ट कर्मप्रवर्तने च तेभ्योऽधिकमात्मानं कुर्यात् । श्लोकानुरोधान्मध्यमग्रहणं न कृतम्। सोऽपि तु द्रष्टव्यो, न मित्रमित्युपेक्ष्यम् । व्यतिरेकेण मित्रं स्वप्रयोजननामाव्यव- स्थितं हि मित्रत्वाधिक्यमुपगतं स्वार्थगतिवशाच्च मित्रमप्यरिर्भवति। तथा च व्यास आह "न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः। सामर्थ्ययोगाद्विज्ञेया मित्राणि रिपवस्तथा' इति । एतैरुपायमण्डलैर्विचारयेत् ॥१७७॥ (२) सर्वज्ञनारायणः। मित्रमपि स्वस्याधिक्ये मैत्या प्रयोजनाभावान्मैत्रीं त्यजेदिति तस्याप्याधिक्यं खण्डनीयम् ॥१७७॥ (३) कुल्लूकः । सर्वैः सामादिभिरुपायैः नीतिज्ञो राजा तथा यतेत, यथाऽस्य मि दासीनशत्रवोऽभ्यधिका न भवन्ति । आधिक्य हि तेषामसौ ग्राह्यो भवति । धनलो मित्रस्यापि शात्रवापत्तेः ॥१७७॥ ..
१३८ मनुस्मृतिः [७.१७८ (४) राघवानन्दः। किंच सर्वेति । सर्वोपायैः क्वचिदानं क्वचिद्भेदः क्वचिद्युद्धं क्वचित्सामेति। अस्य क्षीणस्य राज्ञः 'छिद्रेप्वना बहुलीभवन्तीति न्यायान्मित्रमपि बलादिभिः पूर्ण धनलोभेन' क्वचिदेनं प्रत्यमित्रः स्यात्, एवमुदासीनेष्वपि ज्ञेयम्। तथा च व्यासः 'न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपु: । सामर्थ्ययोगाद्विज्ञेया मित्राणि रिपवस्तथेति' ।।१७७॥ (५) नन्दनः । अस्मात् स्वस्मादिति यावत् ।।१७७।। (६) रामचन्द्रः । नीतिज्ञः यथा अस्य राज्ञः मित्रोदासीनशत्रवःअधिका न स्युः सर्वो- पायैस्तथा कुर्यात् ।।१७७॥ (७) गोविन्दराजः। सर्वोपायरिति । नीतिकुशलो राजा सर्वैः सामादिभिरुपायैः तथा यतेत यथाऽस्य मित्रोदासीनशत्रुमध्यमा अधिका न भवन्ति । आधिक्ये हि तेषां सुतरां क्षोभ्यो भवति, धनगण मित्रस्य शानवापत्तेः।।१७७।। आयतिं सर्वकार्याणां तदात्वं च विचारयेत् । अतीतानां च सर्वेषां गुणदोपौ च तत्त्वतः॥१७८॥ (१) मेधातिथिः । कार्याणि कर्मणि प्रयोजनानि । तेषां सर्वेषामारिप्समानानामायतिः परिणाम्यागामिकालः । तदात्वं प्रारंभावस्थावर्तमानकालस्तं च विचारयेत् । तत्त्वतस्तत्त्वेन । अनेकमुखानि हि कार्याणि क्षणाच्चान्यथा भवन्तीति । तब येपामुभी काली न शुध्यतस्तानि कार्याणि कथमारभतेति तद्विचारार्थोपदेशः। अतीतानामतिक्रान्तानां च सर्वेषां गुणदोषी ततो विचारयेत् । अत्राप्यतीतानां गुणदोपौ बिचार्य यानि कर्माणि गुणवन्त्यतीतानि तान्येव कथं नाम पुनरारभतेत्यतीतकार्यगुणदोपतत्त्वविचारणोपदेश एवमर्थः ।।१७८।। (२) सर्वज्ञनारायणः । आयतिरागामिफलं । तदात्वं वर्तमानं । अतीतानां च कार्याणां गुणदोषौ चकारात्स्वरूपं च तच्चिन्तनेन च तत्साम्यादागामिन्यपि प्रवृत्तिनिवृत्तिर्वा प्रयोजनम् ।।१७८॥ (३) कुल्लूकः । सपा कार्यागामल्यानां बहूनामपि आयतिमुत्तरकालं गुणं दोषं विचारयेत् । वर्तमानकालं च शीघ्रसंपादनाद्यर्थ निवारयेत् । अतीतानां च सर्वकार्याणां गुणदोषौ किमेपां कृतं विघटितं कि वाऽवशिष्टमित्येवं यथावद्विचारयेत् ॥१७८।। (४) राघवानन्दः । राज्ञः कार्यान्तरं विधत्ते आयतिमिति । आयतिः उदर्के यत्फलं तदात्वं शीघ्र कार्यसिद्धये वर्तमानकालिकं च फलं । अतीतानामिति । दृष्टान्तार्थ एवं पूर्वकृतं तेन जयादिजातमन्यथा पराजयादिजातमिति गणदापी विचारयेत् ॥१७८।। (५) नन्दनः । आयति आगामिफललाभं तदात्वं तत्काल फलम् । सर्वेपामर्थानामिति । । शेषः ॥१७८॥ (६) रामचन्द्रः । सर्वकार्याणां आयति आगामिफलं तदात्वं वर्तमानं अतीतानां सर्वेषां गुणदोषौ तत्त्वतो विचारयेत् ।।१७८।। (७) मणिरामः । आयतिः उत्तरकाले गुणदोपं तदात्वं वर्तमानकालं च शीघ्रकार्य- संपादनार्थम् । अतीतानां सर्वकार्याणां गुणदोपौ किमेपां कृतं विघटित वा कि वाऽवशिष्टमिति विचारयेत् ।।१७८॥ .
७.१८०] व्याख्यानवकोपेता १३९ (८) गोविन्दराजः । आयतिमिति । सर्वेषां स्वल्पानामपि कार्याणां आगामिनि काले गुणदोषा इत्येवं विचारयेत् वर्तमानकाले च क्षिप्रसम्पादनार्थं सर्वेषां कार्याणां गुणदोषौ किमेषां कृतं विचारितं किं वाऽवशिष्टमित्येवं यावद्विचारयेत् ।।१७८।। आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः । अतीते कार्यशेषज्ञः शत्रुभिनाभिभूयते ॥१७९॥ (१) मेधातिथिः । एवं हि यो ह्यायत्यामागामिनि काले कार्याणां गुणदोषौ विजानाति नियमेनासौ विमृश्यकारीति स्वयं चारभते न सदोषं एवमर्थं हि ज्ञानम् । तदात्वे वर्तमाने यः क्षिप्रमवधारयति, कार्येन विलम्बते, तदात्वे क्षिप्रनिश्चयः क्षिप्रकारी भवति, गुणवत्करोति, न दोषवत्।' अतीते कृते सति कार्ये शेषतो यः कार्यमेव बुध्यते न तत्परिसमाप्तो लभत इति गुणवत्सर्वकार्यफलसंबन्धादभ्यधिकः । शत्रुभिर्नाभिभूयते । न हि धर्मशास्त्रे षाड्गुण्योप- देशः शक्यते कर्तुं दृष्ट इति दिङमात्रमुक्तम् ॥१७९॥ (२) सर्वज्ञनारायणः। गुणशेषज्ञो भाविगुणदोषविचारकः । क्षिप्रनिश्चयः शीघ्र कार्याकार्यत्वयोनिश्चेता । अतीते देवाद्विपन्ने कार्य कार्यशेषस्य तदेकदेशोद्धारोपायस्यापि ज्ञाता ॥१७९॥ (३) कुल्लूकः । यस्मात् आयेति । यः कार्याणामागामिकगुणदोषज्ञः स गुणवत्कार्य- मारभते दोषवत्परित्यजति । यश्च वर्तमानकाले क्षिप्रमेवावधार्य कार्यं करोति अतीते कार्ये यः कार्यशेषज्ञः स तत्कार्यसमाप्तौ तत्फलं लभते यस्मादेवंविधकालत्रयसावधानत्वान्न कदाचिच्छन्नु- भिरभिभूयते किं बहुना ॥१७९॥ (४) राघवानन्दः। विचारे किं स्यात्तत्राह आयत्यामिति । आयत्या गुणदोषज्ञो यतो विमृश्यकारी क्षिप्रनिश्चयश्चादीर्घसूत्री अतीते कृते दक्षिणादिदानवदवशिष्टसमापयिता स नाभिभूयते शत्रुभिरित्यन्वयः ॥१७९।। (५) नन्दनः। विचारस्य फलमाह आयत्यामिति ॥१७९॥ ६) रामचन्द्रः। आयत्यांगुणदोषज्ञः तदात्वे वर्तमाने क्षिप्रनिश्चयः अतीते कार्यशेषज्ञः देवाद्विपन्ने कार्यशेषस्य तदेकदेशोद्धारोपायस्य ज्ञाता एतादृशो राजा शत्रुभिर्नाभिभूयते॥१७९॥ (७) मणिरामः। विचारे फलमाह आयत्यामिति ॥ १७९॥ (८) गोविन्दराजः । आयत्यामिति । यः कार्याणामागामिकालदोषज्ञो गुणवत्कार्य- मारभते, दोषवत्परिहरति यश्च वर्तमानकाले क्षिप्रमेवावधार्य कार्य करोति, न दीर्घसूत्रो कार्ये यः कार्यशेषज्ञो भवति स तत्कार्यसमाप्तौ तत्फलं लभते । अत एवंविधकालत्रयसावधानत्वान्न कदाचित् शत्रुभिरभिभूयते ॥१७९॥ यथैनं नाभिसंदध्युमित्रोदासीनशत्रवः । तथा सर्व संविदध्यादेष सामासिको नयः॥१८०॥ (१) मेधातिथिः। यथा न तैस्तैः प्रयोगैरभिसंदध्युस्तथा कुर्यादर्जितैरितरैरिवो- पायरित्येष साङक्षेपिको न्याय' इत्युपसंहारः। षाड्गुण्यस्यातिसंधानविरोधश्चैवं न भवति ।
-- १४० मनुस्मृतिः [७.१८२ कृत्यानामुपजापरक्षणाद्व्यसनेषु प्रतिकारात्स्वमण्डलसंग्रहाद्गुणोपायानां सम्यक्प्रयोगात्कर्मस्व- भ्युत्थानमित्येवं द्रष्टव्यम् ॥१८०।। (२) सर्वज्ञनारायणः। अभिसंदध्युर्वञ्चयेयुः। सामासिकः संक्षिप्तः ॥१८०॥ (३) कुल्लूकः । यथैनं राजानं मित्रादय उक्ता न बाधेरन् तथा सर्वसंविधानं कुर्यादित्येष सांक्षेपिको नयो नीतिः ॥१८॥ (४) राघवानन्दः । राजा तु सर्वथाऽप्रमत्त: स्यादित्याह यथेति । एनं राजानं नाभि- संदध्युः नाभिभवेयुः । एष सामासिकः समासः संक्षेपस्तत्र भवः ॥१८०।। (५) नन्दनः। अत्रायमनुष्ठेयार्थ इत्याह यथैनमिति।।१८०॥ (६) रामचन्द्रः । यथा एनं शरणागतं मित्रोदासीनशत्रवः नाभिसंदध्युः न संधेयुः तथा सर्व संविदध्यात् कुर्यात् एषः सामासिकःसंक्षिप्तः नयः सामादिरूपाणां न्यायः ॥१८०॥ (७) मणिरामः । एनंराजानं । नाभिसंदध्युः न बाधेरन्। संविदध्यात् सन्निधानं कुर्यात् । सामासिको नयः साक्षेपिको नयः नीति:॥१८०-१८१।। (८) गोविन्दराजः । यथेति । यथनं राजानं मित्रादय उक्ता न वञ्चयेयुः तथा सर्व संविधानं कुर्यात् । इत्येवं सांक्षेपिको नयो नीतिः ।।१८०॥ यदा तु यानमातिष्ठेदरिराष्ट्र प्रति प्रभुः । तदानेन विधानेन यायादरिपुरं शनैः ॥१८॥ (१) मेधातिथिः। इदानीमभियास्यतः कर्माह । यदोपचिकीर्षत्यरिराष्ट्र प्रत्यभिमुखेन तदानेन विधानेन गच्छेदत्वरमाणः। वक्ष्यमाणोपन्यासः सुखावबोधनार्थः ।।१८१॥ (२) सर्वज्ञनारायणः । यानमातिष्ठेत् विग्रहार्थ यात्रामात्रार्थ वा ॥१८१॥ (३) कुल्लूकः ।यदा पुनः शक्तः सन् शत्रुराष्ट्र प्रति यात्रामारभेत्ताऽनन वक्ष्यमाण- प्रकारेण शत्रुदेशमत्वरमाणो गच्छेत् ॥१८१।। (४) राघवानन्द । कदारिपुरंगन्तव्यं , कथं वा योद्धव्यं, कुत्र वा कि कर्तव्यमित्यपेक्षायां तत्रादौ यानमनुवदन्नुचितकालमाह यदा त्विति त्रिभिः। मात्सर्यक्रोधाज्ञानैर्न गन्तव्यमित्याह यदा विति। प्रभुः सकलशक्तिसंपन्नः यानं यायादित्यत्र प्रकृतिः प्रत्ययोच्चारणार्था तेन यात्रां कुर्यादित्यर्थः । केन? अनेन वक्ष्यमाणेन, शनैर्यायान्न तु हठात् ॥ १८१।। (५) नन्दनः। अथ यात्रा प्रस्तौति यदेति । अनेन वक्ष्यमाणेन ॥१८१।। (६) रामचन्द्रः। प्रभुः अरिराष्ट्र प्रति यदा यानं गमनं आतिष्ठेत् गच्छेत्तदा अनेन विधानेन वक्ष्यमाणलक्षणेन अरिपुरं शनैः यायाद् गच्छेदित्यर्थः।।१८१॥ (८) गोविन्दराजः । यदेति । यदा त्वरिराष्ट्र प्रति यात्रामारभेत शक्तः संस्तदाऽनेन वक्ष्यमाणेन प्रकारेण शत्रुदेशे त्वरमाणो गच्छेत् ॥१८१॥ मार्गशीर्षे शुभे मासि यायायात्रां महीपतिः । फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥१८२॥ (१) मेधातिथिः । यातव्यापेक्षया बलापेक्षया दीर्घ योद्भुमिच्छन्बलप्रायः शारद- वासन्तिकसस्यप्रायं परराष्ट्र मार्गशीर्षे यायात् । अत्र हि गच्छन् शारदं फलं गृहादिगतं सुखं । - ७.१८३] व्याख्यानवकोपेता १४१ गृह्णाति, वासन्तं सस्यमुपहरति । कालश्च महान्दुर्गोपरोधादिकार्यक्षमो मार्गश्च प्रसिद्धवक्रपयो- पभृतका'शोदकवीरुधो न भवन्ति, कालश्न नात्युप्णशीतः । उपचितमपि न मस्यं नानाप्रयुक्त प्रियं सस्यत्रयोपघातकालविप्रकर्षापेक्षया । पर आश्रयं संधत्ते । उभयमस्योपघातावकर्षणं- सम्यक्कृतं भवत्यात्मनश्च बलापचय इति। उपघातमानचिकीर्पया परदेशादेरल्पकालसाध्ये वा यातरि, बलप्रायः फाल्गुनवैत्रयोर्यायात् वासन्तिकसस्यप्रायदेशम् । तदाप्यात्मनो यवमादि भवति, परोपघातक्षेत्रगतसस्योपघातात् । यथाबलमिति । येन प्रकारेण बलानुरूपं यायादित्यर्थः ॥१८२॥ (२) सर्वज्ञनारायणः। मार्गशीर्ष इति मुख्यः पक्षः, तत्कालेऽनबाहुल्यात् शुभे ग्रह- शुद्धयादियुक्ते । फाल्गुनं चैत्रमिति मध्यमः, तदापि यवान्नसंभवात् ॥ १८२।। (३) कुल्लू कः। यचतुरङ्गबलोपेतो राजा करिरथादिगमनविलम्बेन विलम्वितप्रयाण: तथा है मन्तिकसस्यबहुलं च परराष्ट्र जिगमिषुः समुपगमनाय शोभने मार्गशीर्षे मासि यात्रां कुर्यात् । यः पुनरश्वबलप्रायो नृपतिः शीघ्रगतिर्वा सर्वसस्यबहुलं परराष्ट्र यियातः स फाल्गुने चैत्रे वा मासे स्वबलयोग्य कालानतिक्रमेण यायात्, अत एव मन्वर्थव्यापारपरं संक्षेपेण याज्ञ- वल्क्यवचनम् (आचार. १३।३४८) 'यदा सस्यगुणोपेतं परराष्ट्रं तदा ब्रजेत् ॥१८२।। (४) राघवानन्दः । अत्र मार्गशीर्षादिर्व्यवस्थितविकल्पपरः । तत्र रथप्रधानः पार्थिवो मार्गशीर्षे गच्छेत् । चक्रवाताद्यभावे । अश्वप्रधानः फाल्गुने । पदातिप्रधानश्च ।।१८२।। (५) नन्दनः । यायात्कुर्यात् मासौ प्रतिमासयोरिति यावत् ॥१८२।। (६) रामचन्द्रः। फाल्गुनं वा चैत्रं वा एतौ द्वौ मासौ यात्रां प्रति शुभौ। यथाबलं स्वबलानुसारं यात्रांयायात् ॥१८२॥ (७) मणिरामः ।यानमासानाह मार्गशीर्ष इति ॥१८२।। (८) गोविन्दराजः। मार्गशीर्षे इति । यश्चतुरङ्गबलप्रायो महीपतिः स मार्गशीर्षे मासि शुभे प्रचुरतरयवसं धान्यरथमार्गोपेते तच्छुभे दीर्घकालमग्रतो वाऽऽसन्नसस्यप्रत्यासन्ने यात्रां कुर्यात् । यः पुनरश्वबलप्रायो वासन्तसस्यप्रायं देशं याति, अदीर्घकाल एव यस्य यात्रा स फालाने चैत्रे वा एवं स्वबलयोग्यकालाऽनतिक्रमेण यायात् ॥१८२।। अन्येष्वपि तु कालेषु यदा पश्येद्बुवं जयम् । तदा यायाद्विगृह्मैव व्यसने चोत्थिते रिपोः ॥१८३॥ (१) मेधातिथिः । एतद्व्यतिरेकेणान्येष्वपि प्रावृडादिकालेषु। यदा मन्येतात्मनोऽ- वश्यंभावि विजयं तदा यायात् । यदा हस्त्यश्वबलप्रायं वर्षास्वश्वबलं हस्तिबलं तदा हि स्वबल- कालप्रभावादेकान्तिको जयः । व्यसनं परस्य स्वबलकोशादिगतम् । तस्मिन्नुत्पन्ने स्वबलकाल- निरपेक्षो यायात् । व्यसनपीडितो हि शत्रुः साध्यो भवति । काष्ठमिव गुणोपयुक्तसन्नियोगमात्रा- देव विनश्यति । विगृह्येति यातव्यमेवावष्टभ्याहूय यायात् । महानस्मिन्नेवावगम्यते॥१८३॥ (२) सर्वज्ञनारायणः । अन्येष्वपीति । त्वधमः । कार्यविशेषोदयश्वान निमित्तं विगृह्य विग्रहं भाविनमुद्रुष्य कथंचि द्विग्रहज्ञानमात्रेण परस्य प्रणतिसंभवात् । रिपोर्व्यसने चोत्थिते न कालनियम इति तदा सर्व एव मुख्यः काल इत्यर्थः ।।१८३॥
१४२ मनुस्मृतिः [७.१८४ (३) कुल्लूकः । उक्तकालव्यतिरिक्तेषु यदात्मनो निश्चितं जयमवगच्छेत्तदा स्ववल- योग्यकाले ग्रीष्मादावपि हस्त्य वादिबलप्रायो विगृह्येव यात्रां कुर्यात् । शत्राश्चामात्यादिप्रकृति- गोचरदण्डपारुष्यादिव्यसने जातेऽरिपक्षभूतायां तत्प्रकृतावप्युक्तकालादन्यत्नापि यायात् ॥१८॥ (४) राघवानन्दः । नौगजप्रधानो बस्वित्याह अन्यप्वपोति । कर्दमनदीप्लवनादेरन्यै- रसाध्यत्वात् । विगृह्य विग्रहं करियामीति । उक्तव्यवस्थिति निराह व्यसने चोत्थित इति । दैवात्सैन्यामात्यादीनां दण्डपारुष्यादिना कोपे सतीत्यर्थः ।।१८।। (५) नन्दनः । कालेषु मासप्वित्यर्थः । व्यसने मित्रबलादीनां व्यापत्ती ।।१८।। (६) रामचन्द्रः । अन्येषु कालेषु ध्रुवं जयं यदा पश्यत्तदा विगृह्येव विग्रहं भाविनमुक्षुष्य कथंचिद्विग्रहज्ञानमात्रेण परस्य प्रणतिसंभवात् यावा यायात् । रिपोः स्वणनाध्यमने उत्थिते सति न संग्रामाहकालनियमः ।। १८३।। (७) मणिरामः। विगृह्मैव हस्त्यश्वादिबलं गृहीत्वैव ।। १८३॥ (८) गोविन्दराजः । अन्येष्विति । उक्तकालव्यतिरिक्तोवपि काला यदात्मनो निश्चितं जयमाशङकेत तदा हस्तिबलप्रायोऽवबलप्रायो, बविश्ववन्यप्राय हस्तिबलप्रायो ग्रीष्मे तदा विगृह्मैव यात्रां कुर्यात् । शन्नोश्र प्रकृतिकांपादी व्यसने उपपन्ने उक्तकालव्यतिरिक्तेऽपि काले यायात् ।।१८३॥ कृत्वा विधानं मूले तु यात्रिकं च यथाविधि । उपगृह्यास्पदं चैव चारान्सम्यग्विधाय च ॥१८४॥ (१) मेधातिथिः । 'मूल' स्वदुर्गराष्ट्र कुर्यादथ पाणिग्राहश्च । तत्र विधानं प्रतिविधानं कृत्वा दुर्ग तावत्प्रभूतधान्यादिकं सुसज्जयन्वप्राकारसरिखादि कार्यम् । राष्ट्रस्यापि----स्वबलं श्रेणीबलेभ्यो रक्षां विधाय कुर्याद्दानमानेभ्य उपसंयम्य प्रत्यन्तेषु प्रक्षेप्नव्यं पाणिग्राहं प्रति प्राह । तत्समर्थश्च बलैकादेशः स्वराष्ट्र स्थापयितव्यः । यावाप्रयोजनं यात्रिकं हत्यश्वादि- बलयोग्यं च प्रहरण धारणादिसज्जम् । यथाविधि परोपदेशं कृत्वा । आस्पदं प्रतिष्ठानम् । कि तीतोऽपरकीयाः क्रुद्धादयो द्रष्टव्यास्तानुपगृह्य स्वीकृत्याकारस्य पचिपये निवृत्तेस्त- ज्ज्ञानाय सम्यग्यथावद्विधाय प्रयुज्य । किमयं दृष्टोपसंग्रहं कर्नमारब्धमुत गनुपरिमण्डलं कोपयितुमथ मध्यममुदासीनं वा संश्रयितुम्, तथा मूलयात्रा वा हत कामी विधिवच्छेदं वा कर्तुकाम, इत्यादि यथा चैतदेवं तथा ॥१८४॥ (२) सर्वज्ञनारायणः । मूले स्थिरशिबिरे । यात्रिकं यात्रायोग्यं संनाहादि विधाय । आस्पदं शिबिरस्थानं गम्यदेशे परिगृह्य ।।१८४।। (३) कुल्लूकः । मूले स्वीयदुर्गराष्ट्ररूपे पाणिग्राहसंविधानं प्रधानपुरुषाधिष्ठितरक्षार्थ सैन्यैकदेशस्थापनरूपं प्रतिविधानं कृत्वा यानोपयोगि च बाहनायुधधर्म यात्राविधानं यथाशास्त्रं कृत्वा परमण्डलगतस्य च येनास्यावस्थानं भवति तदुपगृह्य तदीयान्भृत्यपक्षानात्मसात्कृत्वा रांश्च कापटिकादीञ्छत्रुदेशवाज्ञिापनार्थ प्रस्थाप्य मम्यक्तया जाङ्गलानूपाटविकविषय- भेदेन त्रिविधं पन्थानं मार्ग शोधिततरुगुल्मादिच्छेदनिम्नोन्नतादिममीकरणादिना संशोध्य तथा हस्त्यश्वरथपदातिसेनाकर्मकरात्मक पड्विधं बलं यथोपयोगमाहारीपधमत्कारादिना संशोध्य सांपरायिकं संपरायः संग्रामः तदुपचितविधिना शत्रुदेशमत्वरया गच्छेत् ।।१८४-१८५।।
- ७. १८५] व्याख्यानवकोपेता ૧૪૨ (४) राघवानन्दः। कथं प्रवेष्टव्यमित्यस्योत्तरमाह कृत्वेति चतुभिः। मूले स्वराष्ट्र प्रधानपुरुषाधिष्ठितं स्वराष्ट्ररक्षणक्षमं स्वसैन्यं स्थापयित्वा । आस्पदं येनास्पदेनावस्थानं भवति परकीयात्मसात्करणे तेषां परकीयभृत्यानां स्वकीयभृत्यवद्वस्त्रगृहान्नादि । चारान्प्रच्छन्न- दूतान्कार्पटिकादीन्पूर्वोक्तान शत्रुदेशज्ञापनार्थं विधाय नियुज्य ॥१८४॥ (५) नन्दनः । मूले पुरराष्ट्रलक्षणे विधानं संविधानम् यात्रायोग्यं यात्रिकं तण्डुल- मुद्गादिकम् आस्पदं निर्मितगृहादिकम् यायादित्येव ।।१८४।। (६) रामचन्द्रः। युग्मं । मूले स्थिरशिबिरे अग्रामे वसतिस्थाने विधानं रक्षां कृत्वा अरिपुरं शनैर्यायात् । किं कृत्वा? यात्रिकं संग्रामयोग्यं सन्नाहादिकं यथाविधि उपगृह्य आस्पदं शिबिरस्थानं उपगृह्य ॥१८४॥ (७) मणिरामः। मूले स्वीयदुर्गादौ विधानं कृत्वा रक्षार्थं प्रधानपुरुषाधिष्ठितसेन्यैकदेश- स्थापनरूपं । यात्रिकं वाहनयुद्धवर्मादिकं उपगृह्य । आस्पदं च उपगृह्य परमं इलगणस्य येनाव- स्थानं भवति तदुपगृह्य, तदीयभृत्यानात्मसात्कृत्येत्यर्थः । चारान् विधाय. शत्रुदेश- वार्ताज्ञानार्थं प्रस्थाप्य ॥१८४।। (८) गोविन्दराजः । कृत्वेति । संशोध्येति । पाणिग्राहसन्धानजनपददुर्गसंरक्षण- क्रुद्धादिवर्गोपदेशमनादिकं मूलमात्मदुर्गराष्ट्ररूपे संविधानं कृत्वा उपयोगिवाहनायुधचर्मम- न्त्रादिविधानं यथाशास्त्रं कृत्वा परमण्डलगतस्य येनास्पदमवस्थानं भवति तदुपगृह्य तदीयान् भृत्यपक्षानात्मसात्कृत्य परान् स्वकार्पटिकादीन् परमण्डलवार्ता च योधार्थं सम्यगवस्थाप्य, जाङ्गलानूपाटविकभेदेन त्रिविधं पन्थानं मार्गरोधकगुल्मादिच्छेदनिम्नोन्नतादिसमीक- रणोदपानखननादिना संशोध्य, तथा हस्त्यश्वरथपदातिसेनापतिकर्मकरात्मिकं षड्विधं बलं स्वकं, ययोपयोगमाहारौषधसत्कारपूरणादिना संशोध्य साङग्रामिकविधिना शत्रुदे- शमत्वरया व्रजेत् ॥१८४-१८५।। संशोध्य त्रिविध मार्ग षड्विधं च बलं स्वकम् । सांपरायिककल्पेन यायादरिपुरं शनैः॥१८५॥ (१) मेधातिथिः । त्रिविधः पन्था जाङ्गल आतप आटविक इति । केचिदाटविकस्थाने वनप्रक्षेपात् त्रिविध इति । अपर उन्नतो निम्नः सम इत्येवं त्रिविधेम्। संशोध्य मार्गरोधिवृ- क्षगुल्मलताविच्छेदेन स्थलनिम्नयोः समीकरणं नदीगर्त योस्तीर्थकरणं पथि रोधकव्यालसमुच्छेदः प्रवर्तकानामात्मीकरणं यवससेनादिमत्ता चेति । षड्विधं बलमिति केचित् । हस्त्यश्वरथ- पदातिसेनाकोशकर्मकरात्मकं षड्विधं बलमित्यन्ये । कोशस्थाने प्रक्षेपणमित्यपरे । मौलभू- त्यश्रेणिमित्रामित्राटविकबलभेदात् । सांपरायिकविधानेन । 'सांपरायिक'युद्धे कृच्छम्, तत्प्रयोजनं यस्य तत्सांपरायिकं दुर्गकल्पेन वा रिपुं प्रति यायात् । स च सैन्यनिवेशस्तेषु तेषु च स्थानेषु स्थावरजङ्गमदण्डो बहुमुखपरिघफलकशाखाभिः प्राकार इत्यादिस्तादृश- स्थापितः। विशेषतस्तु यात्रागतः॥१८५।। (२) सर्वज्ञनारायणः । त्रिविधं मार्ग जाङ्गलानूपाटविकमिति कश्चित् । ग्रामारण्यपर्वत- रूपमिति तु युक्तम् । षड्विधं बलं हस्त्यश्वरथपदातयश्चत्वारः हस्त्याद्यारोहकाः शस्त्रोपनायका-
१४४
मनुस्मृतिः
[७.१८६
श्रोत द्वाविति षड्विधम् । केचित्तु हस्त्यारोहकादय एकविधा वश्याः परेति षड्विधतामाहुः ।
सांपरायिककल्पेन संग्रामयोग्यन विधानेन । शनैर्यदि भध्ये परः सन्दध्यादित्याशया॥१८५।।
(४) राघवानन्दः । त्रिविधं जाङ्गलाटविकानपभेदेन तत्संशोध्य मार्गविरोधिततरु-
गुल्मनिम्नोन्नतादिच्छेदसमीकरणादिना तत्र जाङ्गलस्य लक्षणमुक्तम् । आटविकं अटवी वनं,
तत्प्रायमाटविकं तस्य छदैन । अनूपं जलप्रायं 'जलप्रायमनूपं स्या'दित्यभिधानात् । तस्य पूरणेन
षड्विधं हस्त्यश्वरथपदातिसेनापतिकर्मकारात्मकं संशोध्य च बलस्य च संशोधनमारोग्य-
भावादिचिकित्सा । सांपरायिककल्पेन संपरायः संग्रामः, तदुचितविधिना पूर्वापरानुसन्धानं
विना न गन्तव्यमित्याह शनैरिति ॥१८५।।
(५) नन्दनः । त्रिविधं जाङ्गलमनूपमाटविकञ्च बलस्य षड्विधत्वकामन्दकेनोक्तम्
'मौलं भृतं श्रेणिसुहृद्विषदाटविकं बलम् । षड्विधन्तु बलं व्यूह्य द्विषतोऽभिमुखं व्रजेदिति
सांपरायिककल्पेन युद्धाहसन्नाहेन आयुधौषधादिसंपादनेनेति यावत् ॥१८५॥
(६) रामचन्द्रः । मार्ग त्रिविधं जाङ्गलं आटविकं ग्रामारण्यपर्वतरूपम् । षड्विधं
स्वकं बलं संगृह्य षड्विधं हस्त्यश्वरथपदातयः हस्त्यश्वाधारोहकाः शस्त्रोपनायकाश्चेति ।
सांपरायिककल्पेन संग्रामयोग्येन विधानेन ॥१८५।।
(७) मणिरामः । त्रिविधो मार्गः जांगलमनूपाऽऽटविकदेशभेदेन त्रिविधं पंथानं
संशोध्य, तरुगुल्मादिछेदनिम्नोन्नतादिसमीकरणादिना । षड्विधं बलं. हस्त्यश्वरथपदाति-
सेनाकर्मकरात्मकं संशोध्य आहारौषधसंपादनादिना सांपरायिककल्पेन संपरायः संग्रामः
तदुचितविधिना अरिपुरं शनैः अत्वरया यायात् ॥१८५॥
शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् ।
गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥१८६॥
(१) मेधातिथिः। शत्रुसेविनि । गूढे प्रच्छन्ने मित्रे गतप्रत्यागते च युक्ततरः स्यात् ।
अभियुक्ततर आदृततरो भवेन्न विश्वसेदित्यर्थः । यस्मात्स कष्टतरो रिपुरन्येभ्यः क्रुद्धादिभ्यः ।
एवं च युक्ततरवचनात्कष्टतरवचनाच्च गतप्रत्यागतमग्राह्यमन्यस्येति गम्यते । स चतुर्विधः ।
कारणाद्गतस्ततो विपरीतकारणादागतो यथा दोषेण गतः पुनरागतो गुणमुभयोः परित्यज्य ।
कारणेनागत इति यः स त्याज्यो लघुबुद्धित्वाद्यत्किचित्कारीति । पुनरस्य प्रत्ययस्तु न
कार्यः। कारणाद्गत: कारणागतः, यथा स्वामिदोषेण गतः परस्मात्स्वदोषण गत इति
सत्कर्तव्यो यदि सङिगत्वादागतस्ततो ग्राह्यः । अथ परप्रयुक्तस्तेन वा दोषेणापकर्तुकाम इति
ततो नेति परराष्ट्र प्रत्य भिप्रस्थितः ॥१८६।।
(२) सर्वज्ञनारायणः । स्वस्य मित्रतामापन्ने विगूढे शत्रुसेविनि शङकितः स्यात्। तथा
गतप्रत्यागते रिपुसमीपं गत्वा पुनरागत्य प्रविष्टेऽत्र ।।१८६।।
(३) कुल्लूकः । यन्मित्रं गूढं कृत्वा शत्रु सेवते, यश्च भृत्यादिः पूर्वं विरागाद्गतः
पश्चादागतः तयोः सावधानो भवेत् यस्मात्तावतिशयेन दुर्निग्रहो रिपुः ॥१८६॥
(४) राघवानन्दः । किंच शन्विति । शत्रुसेविनि शत्रोरेवानुकूले युक्ततरोऽतिशय-
प्रयत्नवान् । तत्र हेतुर्गते गमनोन्मुखे मित्रवदाचरति प्रकटितद्वारादिनानुकूल: प्रत्यागते
प्रत्यागमनोद्यते तद्द्वारावरोधेन प्रतिकूल एव पुनरागमस्य तेनैवासंभवात् । गूढे शत्रुसेविनि मिने
मित्रवदाचरत्यपि शत्रुपक्षपातिनि अतः स हि रिपोरपि कष्ट तरः॥१८६॥
७. १८७] व्याख्यानवकोपेता १४५ (५) नन्दनः। शत्रुसेविनोति । द्वयं मित्रविशेषणं गतप्रत्यागते आत्मसकाशाच्छन्नु गत्वा तत्सकाशात् प्रत्यागते सति इति द्वयोः प्रत्येकं परामर्शः ॥१८६।। (६) रामचन्द्रः। शत्रुसेविनि मित्रे राजा युक्ततरः अतिशयेन युक्तो युक्ततरः, सावधान: भवेत् । च पुनः गतप्रत्यागते गमनागमने शत्रोः । स रिपुः कष्टतरः ॥१८६।। (७) मणिरामः। मित्रे गूढे शत्रुसेविनि मित्रं गूढं कृत्वा शत्रु सेवते तस्मिन्मित्रे गतप्रत्यागते च भृत्ये प्रथमतो गतः पश्चात्पुनरागतः तादृशे भृत्ये वा युक्ततरः सावधानो भवेत् । हि यस्मात् तावतिशयेन रिपू ॥१८६॥ (८) गोविन्दराजः । शत्रुसेविनीति । गतप्रत्यागते चैव तौ हि कष्टतरौ रिपू । यस्मि- न्मित्रं गृढं कृत्वा शत्रु सेवते, यश्च भृत्यादिः पूर्वं विरागाद्गतः पश्चादागतस्तयोः सावधानो भवेत् यस्मात्तावतिशयेन रिपू कष्टतरौ॥१८६॥ दण्डव्यूहेन तन्मार्ग यायात्तु शकटेन वा । वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥१८७॥ (३) कुल्लूकः । दण्डाकृतिव्यूहरचनादि दण्डव्यूहः एवं शकटादिव्यूहा अपि । तत्राने बलाध्यक्षो, मध्ये राजा, पश्चात्सेनापतिः, पार्श्वयोर्हस्तिनस्तत्समीपे घोटकास्ततः पदातय इत्येवं कृतरचनो दीर्घः सर्वतः समविन्यासो दण्डव्यूहस्तेन तद्यातव्यं मार्ग सर्वतो भये सति यायात् । सूच्याकारागः पश्चात्पृथुल: शकटव्यूहस्तेन पृष्ठतो भये सति गच्छेत् । सूक्ष्ममुखः पश्चाद्- भागः पृथुमध्यो वराहव्यूहः, एष एव पृथुतरमध्यो गरुडव्यूहस्ताभ्यां पार्श्वयोर्भये सति व्रजेत् । वराहविपर्ययेण मकरव्यूहस्तेनाग्रे पश्चाच्चोभयत्र भये सति गच्छेत् । पिपीलिकापङक्तिरिवाग्र- पश्चाद्भावेन संहतरूपतया यत्र यत्र सैनिकावस्थानं स शीघ्रप्रवीरपुरुषमुखः सूचीव्यूहस्तनाग्रतो भये सति यायात् ॥१८७॥ (४) राघवानन्दः। व्यूहे दण्डादिपदप्रक्षेपस्तदाकृतिसूचनार्थः । व्यूहस्तु सेनायाः संस्थान तेऽत्र सप्त तत्र । दण्डव्यूहो यस्याग्रे बलाध्यक्षो, मध्ये नृपतिः, पश्चात्सेनापतिः, पार्वे करिणस्तरस- मीपेऽश्वादयः, ततः पदातय इत्येवं रचनाविशेषो दण्डाकार इति सर्वतो भये मार्गे तेन व्यूहेन रिपो राष्ट्रं यायादित्यन्वयः । पृष्ठतो भये च शकटव्यूहः स च सूच्यग्रः पश्चात्पृथुः । वराहस्तु सूक्ष्ममुखः पश्चादपि तथा पृथुमध्यः स एव मकरोऽतीवदीर्घः, एतौ तु पार्श्वतो भयेऽपि । पिपीलिकापङिवतरू- पोऽग्रे दीर्घा वीरपुरुषप्रमुखाः पश्चाद्भागे संहता यत्र सैनिकाः । सूचीव्यूहः स एवाग्रतो भये । गारुडस्त्वग्रे पश्चाच्च सूक्ष्मः प्रसारितपक्षवद्दीर्घः पृथूदर इति तत्र समायां भुवि दण्डगरुडसूचीभिर्यायाद्विषमायां संकटायां शकटमकरवराहैरिति ॥१८७॥ (५) नन्दनः । दण्डगरुडादयो व्यूहा नामसदृशाः कार्याः ॥१८७।। (६) रामचन्द्रः। दण्डव्यूहेन दण्डशकटाद्याकृतिसाम्येन व्यूहभेदस्य गौणी संज्ञा । तेन मार्गेयायात् ॥१८७॥ (७) मणिरामः। व्यूहानाह दंडेति । दंडव्यूहः दंडाकारव्यूहः। शकटेन शकटाकारेण । एवमग्रेऽपि । तत्र अग्रे बलाध्यक्षः,मध्ये राजा, पश्चात्सेनापतिः,पार्श्वयोर्हस्तिनः, तत्समीपे अश्वाः, तदनंतरं पत्तयः, एवं दीर्घः सर्वतः समविन्यासो दंडव्यूहः, तेन व्यूहेन' सर्वतो भये सति यायात् । " . .
૧૪૬ मनुस्मृतिः [७.१८९ सूच्याकारागः पश्चात्पृथुल: शकट: तेन पृष्ठतो भये सति गच्छेत् । सूक्ष्ममुखपृष्ठः पृथुमध्यो वराहः । एष एव पृथुतरमध्यो गरुडः। ताभ्यां पार्श्वभये सति गच्छेत् । स्थूलमुखः पश्चाद्भागः सूक्ष्मव्योमकरः तेनाऽग्रे पृष्ठे च भये सति गच्छेत् । पिपीलिकापंक्तिरिव अग्रपश्चाद्भागेनासंहतरूपया यन सैनिकास्थानं स शीघ्रप्रवीरपुरुषमुखः सूचीव्यूहः तेनाऽग्रतो भये सति यायात् ।।१८७।। (८) गोविन्दराजः। दण्डव्यूहेनेति । दण्डाकृतिव्यूहरचना व्यूहः, एवं शकटादिव्यूहोऽपि । तत्राग्रे च बलाध्यक्षो, मध्ये राजा, पश्चात्सेनापतिः, पार्श्वयोर्हस्तिनः, तत्समीपे अश्वाः, ततः पदातयः, एवं कृतरचनो दीर्घः सर्वतः समविन्यासो दण्डव्यूहस्तेन तं यातव्यं मार्ग सर्वतो भये सति यायात् । सूच्याकाराग्रः पश्चात्पृथुः शकटव्यूहस्तेन पार्श्वतो भये सति व्रजेत् । वराहविपर्ययेण मकरव्यूहस्तेनाग्रे पश्चाद्भागे भये सति गच्छेत् । पिपीलिकापतिवत् अग्रपश्चाद्भागेना- संहतरूपतया यत्र सैनिकाऽवस्थानं स दीर्घप्रचार: पुरुषमुख: सूचीव्यूहस्तेनाग्रतो भये सति पायात् ॥१८७॥ यतश्च भयमाशङ्केत्ततो विस्तारयेद्बलम् । पद्मन चैव व्यूहेन निविशेत सदा स्वयम् ॥१८८॥ (१) मेधातिथिः । तस्मिन्पथि यस्मात्प्रदेशात्परहितकारिभ्यो भयाशङका स्यात्तेन प्रदेशेन पूर्वगृहाद्विस्तारयेद्बलम्, गव्यूतिमात्रमधिकं वा । यवसंपन्नदृढप्रहारविस्तीर्णशत्रुपुष्ट- परस्परमवरुद्धरथिकाश्वारोहकरिबलान्यवहितानि भवन्ति । समन्ताद्विभृतपरिमण्डलो मध्यनिविष्टविजिगीषुः पद्मव्यूहः । एवं नित्यं निविशेत्पुरान्निर्गच्छेद्ग्रामाद्वा ॥१८८।। (२) सर्वज्ञनारायणः । एषां च विकल्पेन करणे निमित्तमाह यतश्चेति । निविशेत शिबिरं कुर्यात् ॥१८८॥ (३) कुल्लूकः। यस्या दिशः शत्रुभयमाशङकेत् तस्यामेव बलं विस्तारयेत् समविस्तृत- परिमण्डलो मध्योपविष्टजिगीषुः पद्मव्यूहस्तेन पुरान्निर्गत्य सर्वदा कपटनिवेशनं कुर्यात् ॥१८८॥ (४) राघवानन्दः । कथं स्थातव्यमित्यस्योत्तरमाह यत इति । विस्तारयेत् गव्यूति- मात्रमधिकं वा युद्धे संपन्नगूढप्रहारिभिरिति । पद्मव्यूहस्तु समंततो विस्तृतसेनो मध्यस्थितनृपतिः । अनेन रिपुपुरं प्रविश्य निवेशं कुर्यात् । मेधातिथिस्तु समन्ताद्विस्तृतपरिमण्डलो मध्यनिविष्ट- विजिगीषुः पद्मव्यूह इति । आशंकेत भयं यस्मादिति च पारं करोति ॥१८८।। (६) रामचन्द्रः। यतो दिग्भ्यः भयमाशंछेत् ततः बलं सैन्यं विस्तारयेत् ॥१८८।। (७) मणिरामः। यतः यस्यां दिशि । समविस्तृतपरिमण्डलो रथोपविष्टो विजिगीषु: पप्रव्यूहः तेन पुरान्निर्गत्य सदा सर्वदा स्वयं निविशेत्. व्यूनिवेशनं कुर्यात् ॥१८८॥ सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् । यतश्च भयमाशङ्काची तां कल्पयेद्दिशम् ॥१८९॥ (१)मेवातिथिः । सेनापतिः, समग्रस्य धनस्याधिपतिर्बलाध्यक्षः, तयोर्बहुत्वाभावाद्- द्विवचननिर्देशाच्च सर्वदिक्षु तदसंभव इति, तत्पुरुषास्तच्छब्देनोच्यन्ते । तदीयपुरुषसन्निवेशाच्च सर्वदिक्षु तावेव सन्निवेशितौ भवतः । तेन भिन्नस्तुरगगजादिभिस्तत्प्रतिबद्धनिवेशानां संयोधनाय ७.१९०] व्याख्यानवकोपेता १४७ समन्ततो निवेश्य, गिरिं वनं गर्तं वा पृष्ठतोऽध्यक्षं कृत्वा । यतो भयमाशङ्केत् यया सा प्राची दिग्भवति । एवं निवेशं कुर्यादभिमुखनिर्गमार्थमिव विद्वद्भिः ॥१८९।। (२) सर्वज्ञनारायणः । सेनापतिः, सैन्ये प्रधानभूतः स्वयं योद्धा बलाध्यक्षो बलावेक्षकः । प्राची तामिति । तत्संमुखो निविशेतेत्यर्थः ॥१८९।। ३) कुल्लूकः । हस्त्यश्वरथपदात्यात्मकस्याङ्गदशकस्यैकः पतिः कार्यः, सच पत्तिक उच्यते । पत्तिकदशकस्यैकः पतिः सेनापतिरुच्यते । तद्दशकस्यैकः सेनानायकः । स एव च बलाध्यक्षः सेनापतिबलाध्यक्षौ समस्तासु दिक्षु संघर्षयुद्धार्थं नियोजयेत् । यस्याश्च दिशो यदा भयमाशङ्कत तदा तामने दिशं कुर्यात् ॥१८९।। (४) राघवानन्दः । अत्र कृत्यविशेषमाह सेनापतीति। अत्र च एकेभैकरथान्यश्वापत्तिः पञ्चपदातिकेति (?) । हस्त्यश्वरथपदात्यात्मकस्याङ्गदशकस्यैकः पत्तिःस पत्तिः पत्तिदशाध्यक्षः सेनापतिस्तद्दशाध्यक्षो बलाध्यक्ष इति तौ चतुर्दिक्षु निवेशयेत् । प्राची तां शङ्कास्पदां दिशं अग्रे कृत्वा तिष्ठेदिति भावः ।।१८९।। (५) नन्दनः । बलाध्यक्षो बलानुसन्धायकः । तां दिशं प्राची कल्पयेत् । तां दिशमभि- मुखो निविशेत् इत्यर्थः ॥१८९॥ (६) रामचन्द्रः । राजा सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् । यस्यां भयमा- शङ्केत्तां दिशं प्राची कल्पयेत् । प्राचीमिति । तत्संमुखो भूत्वा निवेशयेदित्यर्थः ॥१८९।। (७) मणिराम : । सेनापतिदशकस्य नायकः बलाध्यक्षः । तां भययुक्तां दिशम् । प्राची अग्रे कुर्यात्, प्रथमतस्तस्यां दिशि युद्धं कुर्यादित्यर्थः ।।१८९॥ (८) गोविन्दराजः । सेनापतिबलाध्यक्षाविति । हस्त्यश्वरथपदात्यात्मकस्याङ्ग- दशकस्यैकः पतिः कार्यः, स पत्तिक उच्यते । पत्तिकदशकस्यैकः पतिः स सेनापतिः। तद्दशकस्यैकः स नायकः । स एव च बलाध्यक्षः, तौ सर्वासु दिक्ष्वनेकप्रधानत्वे सति संघर्षयुद्धार्थं नियोजयेत् । यस्याश्च दिशो भयमाशङ्केत् तामग्रे दिशं कुर्यात् ॥१८९॥ गुल्मांश्च स्थापयेदाप्तान्कृतसंज्ञान्समन्ततः । स्थाने युद्धे च कुशलानभीरूनविकारिणः ॥१९०॥ (१) मेधातिथिः । गुल्मान्मनुष्यसमवायान् । केचित्साक्षात्समन्ततः सशङ्खपटहा, अन्ये विपरीतास्तत्र चोत्पन्नं दुश्चिकित्स्यं महते चानाय । गुणैर्विशेषयति आप्तानाप्तसदृशा- नित्यभेदार्थम्। कृतसंज्ञान् । कृता संज्ञा सम्बोधनाय यैस्ते कृतसंज्ञास्तानवसरे युद्धेषु शङ्खभेरी- नादध्वंजादिभिर्वाद्यैस्तूर्यमेवाहरिष्यामस्तदंपगमाशङ्कायां चैवमेव कुर्यात् । शङ्ख आहते ध्वजे वोच्छ्रिते पृथक्पृथगवस्थातव्यम्, एवं संहतैरेवं प्रहर्तव्यं, एवं व्यावर्तितव्यमित्यादि स्थितम् । स्थाने कुशलाः अन्यैः शूरैः शंक्यमागन्तुं समेतेन शक्यमस्मिन् वयमपृथक् परे पृथगित्यादि । युद्धे अनुसरणादौ कुशला भवन्तः संहतकर्योधनीयाप्रसारं कृत्वा प्रविष्टाः पृष्ठदेशात् प्रहारिणः चित्रं योजयितव्याः, भग्नानामनेकायनशतानां पृष्ठं ग्राह्यमित्यादि । अभीरवः अनेन विस्तीर्णसमेताः । अविकारिणोऽभेदात्मकयुक्तमपरस्य । एवमेतान्गुल्मान्समन्ततस्तिसृषु दिक्षु गव्यूतिमात्रव्यापी प्रत्यहमनियतदेशान् बहून् स्थपतेर्भयप्रतिबोधनार्थमवहिते भेदादरिजनो - ..
१४८ मनुस्मृतिः [७.१९१ विश्वस्तो भवति, दान मानकार्यदर्शनादिभिरपवृत्ते युद्धेऽमात्यादिभिः सह सर्वेषां स्वार्थः संग्रामो मम नाममात्र राजेति सर्वे वयं समानविभवोपभोगाय जय राज्यं पराजये स्वर्ग इति हेतुनाऽऽगताः ॥१९॥ (२) सर्वज्ञनारायणः । गुल्मान् गुल्मदेशस्थान्। कृतसंज्ञानेतत्संकेतज्ञस्यैव प्रवेशादय इति संकेतं कृत्वा। स्थाने गुल्मस्थानावस्थाने । युद्धे युद्धादिभूमिस्थाने । कुशलान् कृतानुभवान् । अभीरून् संग्राममरणादभीतान् । अविकारिणः आप्तत्वे सत्यपि कदाचिदागन्तुकविचार- रहितान् ॥१९॥ (३) कुल्लूकः । गुल्मान्सैन्यैकदेशानासपुरुषाधिष्ठितान् स्थानापसरणयुद्धार्थं कृतभेरी- पटहशङ्खादिसंकेतानवस्थानयुद्धयोः प्रवीणान्निर्भयानव्यभिचारिणः सेनापतिबलाध्यक्षान्दूरतः सर्वदिक्षु पारक्यप्रवेशवारणाय शत्रुचेष्टापरिज्ञानाय च नियोजयेत् ।।१९०॥ (४) राघवानन्दः । किंच गुल्मानाप्तपुरुषाधिष्ठितसैन्यैकदेशान् कृतसंज्ञान् युद्धोद्यम- सूचकभेरीपटहशङ्खादिसङ्केतान् सेनापतिबलाध्यक्षयोर्दूरतः स्थापयेदित्यन्वयः । कुशलान् अव- स्थानयुद्धयोः । अविकारिणो धनलोभादिना विकर्तुमशीलान् ॥१९०॥ (५) नन्दनः । सेनानिवेशविशेषो गुल्मः स्थानेऽपलायने । अविकारिणः अकृतापराधान् ॥१९॥ (६) रामचन्द्रः । सेनायाः समन्ततः कृतसंज्ञान् शिरस्युपरि । पत्रं पुष्पं धारयेदित्यर्थः । एतादृशान् गुल्मान् रक्षकान् आप्तान स्थापयेत् स्थाने युद्धस्थाने युद्धे च कुशलान् ॥१९०।। (७) मणिरामः । गुल्मान् सैन्यैकदेशान् । कृतसंज्ञान् स्थानापसरणवधज्ञानार्थंकृत- भेर्यादिशब्दसंकेतान् । स्थाने युद्धे च युद्धावस्थानयुद्धयोः कुशलान्। अविकारिणः अव्यभिचारिणः एतादृशान् सेनापतिबलाध्यक्षान् दूरतः सर्वदिक्षु शत्रुप्रवेशवारणाय शत्रुचेष्टाज्ञानाय च नियोजयेत् ॥१९॥ (८) गोविन्दराजः । गुल्मानिति । गुल्मान् स्थानकव्याप्तपुरुषाऽधिष्ठितान् स्थाना- पसरणयुद्धाद्यर्यकृतशङ्खभेरीपटहदिसङ्केतान् बनावस्थानप्रणीतान्निर्भयान् अव्यभिचारान समन्तात्स्थापयेत् ॥१९०॥ संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् । सूच्या वज्रेण चैवैतान्व्यूहेन व्यूह्य योधयेत् ॥१९१॥ (१) मेधातिथिः । असंहता हि बलवद्विस्तीर्ण बलमासाद्यावयवशो विध्वंसनाय वाहनाघात: क्षयं यान्ति तद्विनाशे चोत्पन्ना इमेऽतोऽल्पानात्मीयान्संहतान्योधयेदन्योन्यापेक्षया युध्यमानान- भिघ्नत । इतरेतरानुग्रहात्परस्परानुरागात्स्पर्धायां च परान्संहतान्सोढुं समर्था भवन्ति । कामं ययेष्टं कार्यार्थ बहून्विस्तारयेद्विप्रकीर्णान्योधयेदित्यादि मन्येत। भिन्नांस्तांश्चैतान्भयमेष्यति, परान्स्वान्वा बहून्दृष्ट्वा त्रासः स्यादिति । सूची पूर्वोक्तोऽक्षव्यूहभेदोऽग्रतः पृष्ठतश्च विधा व्यवस्थितः पार्श्वयोर्भेदनम् । तेन चात्मानं सूचिव्यूह विभज्य योधयेत् । सतां च सर्वव्यूहानां प्रतिष्ठाव्यूहनसमर्थाविति प्रतिगृहीतावेवं कारणात् । यदा तु परबले ह्येतावेव भवतस्तदा स्वे बले विपर्ययः कार्यः । तुल्यत्वे तु पुष्टिमत्त्वानुरक्तकुशलमाननप्रभूतैकार्थकारित्वादित्यतो विशेष ७.१९२] व्याख्यानवकोपेता १४९ । यथासंभववाक्यैः। योधयेदिति वचनाद्राजा स्वयं तत्प्रतिसंधानार्थ व्यूहदुर्गाद्यमश्वे प्रतिग्रह- भूतस्तिष्ठेत् । समानतन्त्रेणोक्तम् "द्वे शते धनुषां गत्वा राजा तिष्ठेत्प्रतिग्रहः । भिन्नसंघातनार्थं तु न युध्येताप्रतिग्रहः" ॥१९१।। (२) सर्वज्ञनारायणः । सूच्याल्पान् । व चण व्यूहेन ।।१९१।। (३) कुल्लूकः । अल्पान्योधान्संहतान्कृत्वा बहून्पुनर्यथेष्टं विस्तारयेत् । सूच्या पूर्वोक्तया वज्राख्येन व्यूहेन त्रिधा व्यवस्थितबलेन रचयित्वा योधान् योधयेत् ॥१९१॥ (४) राघवानन्दः । कथं योद्धव्यमित्यस्योत्तरमाह संहतानिति । संहतान्परकीयान्प्रति अल्पान्योधान्योधयेत् युद्धाय नियोजयेत् । अल्पान्प्रति वा बहूंश्चेद्विस्त रयेत् प्रदर्शयेत्। वजेणेति त्रिधा व्यवस्थितबलो वज्र इत्यभिधीयते ॥१९१॥ (५) नन्दनः । अल्पबलश्चेदल्पान्स्वकीयान्योधान् संहतान्कृत्वा योधयेत् । सूच्या व्यूहे- नाल्पबल: वज्रव्यूहेन बहुबल इति विवेकः ।।१९१॥ (६) रामचन्द्रः । संहतान् एकत्रस्थान् अल्पान् बहून्वा स्थापयेत् विस्तारयेत् योजयेत् ॥१९१॥ (७) मणिरामः । अल्पान् संहतान् एकीभूतान्यो धयेत् बहून् यथेच्छं विस्तारयेत् सूच्या पूर्वोक्तया वज्रण वज्राख्येन व्यूहेन त्रिधा व्यवस्थितबलेन, व्यूह्य व्यूह रचयित्वा.एतान् योवान् योधयेत् ॥१९१॥ (८) गोविन्दराजः। संहतानिति । अल्पान् योधान् संहतान् कृत्वा योधयेद्बहून् पुनर्यथेच्छं विस्तारयेत् । सूच्या पूर्वोक्तया वज्राख्येन' वा व्यूहेन त्रिधाऽवस्थितबलेन रचयित्वा योधनं धोधयेत् ॥१९१॥ स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा । वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥१९२॥ (१) मेधातिथिः। सेनानां देशस्य प्रक्लृप्त्यर्थमाह-समप्रदेशे रथैरश्वैश्च युध्येत। तत्र हि तेषामप्रतिघातः। अनूपः पानीयप्रायः । तत्राप्यल्पोदके हस्तिभिरगाधोदके तु नौभिः । तेषां हि तत्र सुखप्रचारता । वृक्षैर्गुल्मैश्च संछन्ने धनुभिः, तद्ग्रहणाच्च बलीवर्दगर्ताद्याकुलो गृह्यते, समानकार्यत्वात् । स्थलमिति पाषाणवृक्षलतागर्तादिरहितो देशस्तस्मिन्सिद्धिः । धार्यैः शरादिभिरायुधैश्च शक्त्यादिभिर्युध्येत आसन्नयुद्धत्वादेवं सामर्थ्यप्रदर्शनार्थत्वादस्य ॥१९२॥ (२) सर्वज्ञनारायणः । स्यन्दनाश्वः स्यन्दनैरश्वश्च । चापैरसिचर्मायुधैरिति पदाती- नामायुधकथनम् । अश्वादयो देशविशेषे, पदातयस्तु सर्वत्रेत्याशयः ॥१९२।। (३) कुल्लूकः । समभूभागे रथाश्वेन युध्येत, तत्र तेन युद्धसामर्थ्यात्तदानुगतोदके नौकाहस्तिभिः तरुगुल्मावृते धन्विभिर्गर्तकण्टकपाषाणादिरहितस्थले खड्गफलककुन्ताद्यैरायुधै- युद्धयेत॥१९२॥ (४) राघवानन्दः । यथाक्रमं युद्धोचितं देशमाह स्यन्दनेति । समे समस्थले, शुष्क इति यावत् । अनूपे अल्पोदकस्थले नावश्च द्विपाः करिणस्तैः । वृक्षाश्च गुल्मा वंशादयस्तैरावृते स्थले निम्नोन्नते ।।१९२॥
१५०
मनुस्मृतिः
[७. १९४
तत्र
(५) नन्दनः। अनूपः 'प्रभूतजलो देशः ॥१९२।।
(६) रामचन्द्रः। समे देशे स्यन्दनाश्वैर्यध्येत । अनूपे सजले देशे नौकाभिः युध्येत ।
तथा वृक्षगुल्मावृते देशे चापर्धनुभिः तथा असिचर्मायुधैः युध्येत ॥१९२॥
(७) मणिरामः । समे समभूमौ । अनूपे अनुगतोदके । स्थले गर्तकंटकपाषाणादि-
रहिते । आयुधैः कुंताद्यैः ।।१९२।।
(८) गोविन्दराजः । स्यन्दनाश्चैरिति । समभूभागे रथाश्चर्योद्धव्यम् ।
रथसामर्थ्यात्, तथानुगतोदके नौहस्तिभिर्वृक्षगुल्मव्याप्ते धनुभिः पाषाणकंटकगादिरहिते
खड्गफलकाख्यरायुधैः ॥१९२।।
कुरुक्षेत्रांश्च मत्स्यांश्च पञ्चालान् शूरसेनजान् ।
दीघाँलबूंश्चैव नरानग्रानीकेषु योजयेत् ॥१९३॥
(१) मेधातिथिः । किंच, कुरुक्षेत्र प्रसिद्धम् । मत्स्यसंज्ञो विराटदेशो नागपुरे पञ्चालाः।
उभये कान्यकुब्जा आहिछत्राश्च । शूरसेनजा माथुराः । क्वचिच्चात्र भावार्थे प्रत्ययो
लुप्तनिर्दिष्टः; एतद्देशजा हि प्रायेण महावाणो बलवन्तः पृथुवक्षसः शूरा अभिमानिनो
दुर्विषहा इत्यत्र येऽनीकस्थिताः परेषां भयहेतवो भवन्ति । दीर्घकायाध्यस्तानल्पदेशा
अपि दीर्घश्वासकरा महाकायत्वात् लघवस्तु मरणासमर्था निर्भयेन जनेन प्रच्छन्ना विद्धाः
प्रहरन्तोऽपकारासमर्था आदर्शभूताश्चैत इतरेषां भवन्ति ॥१९३।।
(२) सर्वज्ञनारायणः । लघून् शीघ्रम् । अग्रानीकेषु तेषामापततामधृष्यत्वात् ॥१९३।।
(३) कुल्लूकः। कुरुक्षेत्रभवान्मत्स्यान्विराटदेशनिवासिनः पञ्चालान्कान्यकुब्जाहिच्छ-
त्रोद्भवान् शूरसेनजान् माथुरान्प्रायेण पृथुशरीरशौर्याहङ्कारयोगात्सेनाने योजयेत् ।
तथान्यदेशोद्भवानपि दीर्घलघुदेहान्मनुष्यान्युद्धाभिमानिन: सेनान एव योजयेत् ॥१९३।।
(४) राघवानन्दः । मनुष्यसंनिवेशप्रकारमाह कौरुक्षेत्रांश्चेति । कुरुक्षेत्रादयो
देशविशेषास्तदुद्भवान् । लघून शरीरतो विक्रमतश्च । अग्रानीकेषु अनीकान् ।
सेनानामग्रेषु ॥१९३॥
(५) नन्दनः। कुरुक्षेत्रादिदेशजाः कृतज्ञाः शूरजाश्च तेष्वपि दीर्घाः प्रतिपक्षभीषणाश्च
तेष्वपि लघवः प्रवृत्तिक्षमाश्च अतस्तानग्रानोकेषु योजयेदित्यभिप्रायः ॥९९३॥
६) रामचन्द्रः । दीर्वान् नालसंघान् पश्चिमदेशनिवासिनः । लघून् पर्वत-
वासिनः ।।१९३..
(७) मणिरामः। मत्स्यान् विराटदेश निवासिनः । पांचालान् कान्यकुब्जदेशोद्भवान् ।
शूरसेनजान् माथुरान् । इतरान् अन्यदेशोद्भवानपि दीर्घान् लघून् दीर्घलघुदेहान् ॥१९३॥
(८) गोविन्दराजः। कौरुक्षेत्रानिति । कुरुक्षेत्रभवान् मत्स्यान् विराटदेशवासिनः
पाञ्चालान् कान्यकुब्जान् भृत्यान् शूरसेनजान् पृथुशरीरान्प्रायेण पृथुशरीरबलशौर्याऽभिमान-
योगात् सेनाग्रेषु योजयेत्, तथाऽन्यानपि दीर्घान् लघुमनुष्याँश्च ॥१९३॥
प्रहर्षयेद्दलं व्यूह्य तांश्च सम्यक् परीक्षयेत् ।
चेष्टाश्चैव विजानीयादरीन्योधयतामपि ॥ १९४॥
७.१९५]
व्याख्यानवकोपेता
१५१
८
(१) मेधातिथिः। व्यूह रचयित्वाऽस्त्रबले भृशं दर्शयन्किमेषां जीयते, जिता एवामी
युष्मत्प्रतापेनेत्येवं प्रहर्षयेत् । 'जये महानर्थलाभः, आश्रितोपाश्रितसुखम्, वधे वाऽपि स्वर्गो
भर्तृपिण्डनिर्यातनं च, पराजये त्रितयाभाव' इत्यादिनैमित्तिकोऽपि तदुपदेशः । तादृशनिमित्त-
नियमान्मानय सहस्वोावश्यंभावो यदि प्रधानपुरुषः स्वजनवधो राजा तदप्रतिग्रहव्याजेन
स्थितो भीरुत्वात् स्वयं युद्धं न कामयत इत्यादि । यत्र ये ब्रूयु तदेव स्वार्थ एवायमस्माकमन
वधः शस्त्रोपजीविभूतानां संग्रामविशेषधर्मोऽव्ययीभावः स्वधर्मायासोऽनर्थहेतुः, राजा सर्वप्रकार
रक्षणीयः। परिश्रान्तानां चास्माकमपरिश्रान्तसुखमनुग्रहं करिष्यतीत्येवमर्थं स्थित' इति
ताविशेषतो गृहणीयात् । जेतुः प्रशंसितुः परसंव्ययं वा कारयेयुस्तानुपग्रहैः परिष्वङ्गालङ्कार-
दानादिना च वशीकुर्यात् । चेष्टां चैवारीणां योधयतां विजानीयात् । कथं युद्धे चेष्टन्ते कोशा
बलं वा । केचिद् द्विधाहृदयाः केचित्तु पक्षान्त इत्यादिचिन्तानित्यत्वान्मनुष्याणामुपकुर्वतोऽपि
स्वार्थवशादुपकुर्वतीत्यत्र दुष्टानाप्तबलमध्ये विन्यसेद्यथारिदुर्गाश्रितो भवति ॥१९४॥
(२) सर्वज्ञनारायणः। परीक्षयेत् स्वयमनुसंदध्यात् ॥१९४।।
(३) कुल्लूकः । बलं रचयित्वा जये धर्मलाभः अभिमुखहतस्य स्वर्गप्राप्तिः, पलायने तु
प्रभुदुरितग्रहणं नरकगमनं च इत्याद्यर्थवादैर्युद्धार्थं प्रोत्सायेत् । तांश्च योधान्केनाभिप्रायण
हृष्यन्ति कुप्यन्ति वेति परीक्षयेत् । तथा योधानामरिभिः सह युद्धयमानानामपि सोपध्यनुपधि-
चेष्टा बुध्येत ॥१९४॥
(४) राघवानन्दः। किंचान्यत् प्रहर्षयेदिति । 'स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः
पार्थ लभन्ते युद्धमीदृशम् ॥ हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे मही मिति
(भ. गी. २।३२) । तथा. 'ग्रामं दास्यामि धनं दास्यामी'त्यादिना प्रहर्षयेत् योधानां
हर्षमुत्पादयेत् । योधयतां चेष्टाः स्वपरपक्षपातिकर्माणि विजानीयात्, दूतेनेति शेषः ॥१९४॥
(५) नन्दनः। तानग्रानीकेषु योजितान् योधयतां बलाध्यक्षाणाम् ॥१९४॥
(६) रामचन्द्रः। अरीन्योधयतां पुंसां चेष्टां विजानीयात् ॥१९४॥
(७) मणिरामः। जये धर्मलाभः स्वर्गप्राप्तिरित्यादिवाक्यैः प्रहर्षयेत् ॥१९४॥
अरिं दुर्गाश्रितमयुध्यमानं । यवसं घासः ॥१९४-१९५।।
(८) गोविन्दराजः। प्रहर्षयेदिति । 'चेष्टां चैव विजानीयादरीणां युध्यतामिति । बलं
रचयित्वा जये धर्मार्थो पराजये स्वर्गानृष्ये इत्येवमादिना युद्धार्थं प्रोत्साहयेत् । तांश्च योधान्
समीक्ष्य परीक्षयेत्। क एवमुक्त्वा हृष्यन्ति कुप्यन्ति चेति तथा योधानामरिष्वयुध्यमानानामपि
सोपधानयुद्धादिचेष्टाः विजानीयात् ॥१९४॥
उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् ।
दूषयेच्चास्य सततं यवसान्नोदकेन्धनम् ॥१९५ ॥
(१) मेधातिथिः। तदुर्गलंभोपायमाह-उपरोधस्तथा कर्तव्यो यथा न कश्चिन्निष्कामति
न किंचित्प्रविशति । राष्ट्र दुर्गाद्वहिर्देशस्तस्योपपीडनं स्वदेशापवाहोपमर्दनादिभिः । यवसादीनां
'दूषणं' विनाशनम्, असद्रव्यमिश्रणादिभिः ॥१९५॥
(२) सर्वज्ञनारायणः। इन्धनदूषणं जलेनार्द्रकरणादि ॥१९५॥
१५२
मनुस्मृतिः
[७. १९७
३) कुल्लूकः । दुर्गाश्रयमदुर्गाश्रयं वा रिपुमयुध्यमानमप्यावेष्ट्यासीत । अस्य च देश-
मुत्सादयेत्
। तथा घासान्नोदकेन्धनानि सर्वदाऽस्यापद्रव्यसंमिश्रणादिना दूषयेत् ॥१९५।।
(४) राघवानन्दः। अरिषु कृत्यान्तरमाह उपेति त्रिभिः। उपरुध्यावपीडयेल्लुण्ठ-
नाग्न्यादिदानेन । दूषयेत् भेदयेत् विषादिना वा ॥१९५।।
(६) रामचन्द्रः। नगरवेष्टनमाह उपरुध्येति त्रिभिः । अरिं शत्रु उपरुध्य वेष्टयित्वा
आसीत स्थितो भवेत् । अस्य राज्ञः राष्ट्र देशं उपपीडयेत् । च पुनः यवसान्नोदकेन्धनानि दूषयेत्।
यवसेन्धनमग्निना दायेत् । एतानि अन्नं क्षेत्रस्थं लुम्पेत् मार्गावरोधेन महाघु कुर्यात् ॥१९५।।
(८) गोविन्दराजः। उपरुध्येति । दुर्गापाश्रितमपि युध्यमानमरि दुर्गवेष्टनद्वारेणा-
वेष्टयासीत । अस्य च रात्रौ दुर्गाद्वहिर्देशं लुण्ठनादिनोपपीडयेत् । घासान्नोदकेन्धनानि वास्य
सर्वदापद्व्यसंमिश्रणादिना दूषयेत् ।।१९५॥
भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा ।
समवस्कंदयेच्चैनं रात्रौ वित्रासयेत्तथा ॥१९६॥
(१) मेधातिथिः। तडागग्रहणं सर्वजलाशयदर्शनार्थम् । तत्र तडागस्य सेतुबन्धेन
प्रयोजनभेदनम् । प्राकारस्य यंत्रविदारणं सुरङ्गया वा भङ्गः। परिखायाः पूरणेन पार्श्वभङ्गेन
वा। छिद्रेषु प्रवीरपुरुषैरवस्कंदयेत् । दुर्गे रात्रौ च वित्रासयेत् । अग्निकुंभशिरस्कैः शिवावद्रुतानि
कुर्वद्भिर्मनुष्यैः। ये नराः स्वयमुत्पतदर्जनाद्रात्रौ जाग्रति, जागरणावजीर्णो लोकः सुसाध्यो
भवति ॥१९६॥
(२) सर्वज्ञनारायणः । तस्मिश्च काले भूयो भूयः समवस्कन्दयेत् सौप्तिकेन
हन्यात् ।।१९६॥
(३) कुल्लूकः। शत्रोरुपजीव्यानि तडागादीनि नाशयेत्, तथा दुर्गप्राकारादी-
न्भिन्द्यात्तत्परिखाश्च भेदेन पूरणादिना निरुदकाः कुर्यात् । एवं च शत्रूनशङ्कितमेव सम्यगव-
स्कन्दयेत्तथा शक्ति गृण्हीयात् । रात्रौ च ढक्काकाहलिकादिशब्देन वित्रासयेत् ॥१९६॥
(४) राघवानन्दः। तडागानि जलाशयान् तथा परिखाः समन्ततो व्यापका अगाधा
जलशालिनीः खातस्वरूपाः भिन्द्यात् । समवस्कन्दयेत् शक्तितो गृण्हीयात् अग्निप्रक्षेपादिना चैन-
मरि शोषयित्वा त्रासयेत् रात्रौ च ढक्का दिशब्देन ॥१९६।।
(५) नन्दनः। समवस्कन्दयेत् सौप्तिकं कारयेत्। 'अवस्कन्दस्तु सौप्तिक'मिति
नैखण्डवाः। एनं शत्रुम् । रात्रौ वित्रासयेच्च ॥१९६॥
(६) रामचन्द्रः। च पुनः एनं राजानं ग्रामवासं अवस्कन्दयेत् सौप्तिकं हन्यात् ।।१९६॥
(८) गोविन्दराजः। भिन्द्यादिति । दुर्गोपस्थजीव्यानि तडागादीनि प्रभेदेन नाशयेत् ।
तथा दुर्गप्राकारान् भिन्द्यात् तत्परिखाच पूरयेत् । छिद्रकरणेन वा निरुदकाः कुर्यात् । एवञ्च
शत्रुमशङ्कितमेव सम्यगवस्कन्दयेत्, तस्योपरि निपतेद्रात्रौ वा दिवा वा शिवासितादिभिः
त्रासयेत् । इदानीं च मुहुर्मुहुः ॥१९६।।
उपजप्यानुपजपेद्बुद्धयेतैव च तत्कृतम् ।
युक्ते च दैवे युध्येत जयप्रेप्सुरपेतमीः ॥१९७॥
७.१९८]
व्याख्यानवकोपेता
१५३
(१) मेधातिथिः । तस्मिश्च काले भूयोभूयः उपजप्याः क्रुद्धारयः कुलीनाः स्वराज्या-
भिलाषिणस्तानुपजपेदिति हेतुः । कर्तरि कर्तव्यव्यपदेशमुपजपेदित्यर्थः । उपजपेद् ग्राहये-
दित्यर्थः। उपजाप आश्रयाद्विश्लेषात्महितानुष्ठानप्रतिपादनम् । तेन चारिणा सुकृतमप्यभि-
मतदुर्गस्थेन वा किञ्चित्प्रारब्धं बलाटविकपाणिंग्राहादिकोपनार्थ मध्यमोदासीनानामन्यतरेण
सह संधानमित्यादि बुध्येत । युक्ते च देवे विजिगीषोरनुकूलदैव इत्यर्थः । नक्षत्रग्रहदैवसुमुहूर्तेषु
साधकेषु दृष्टस्वप्नदर्शननिमित्तेषु चानुगुणेष्वनुलोमवातादिषु जयमिच्छन्निर्गतभयो दुर्ग-
स्थानानि यथाप्रथमं योद्धं गच्छेत् ॥१९७॥
(२) सर्वज्ञनारायणः । उपजप्यान् भेद्यान् । युक्तेऽनुकूले दैवे ग्रहादौ ॥१९७॥
(३) कुल्लूकः । तदानी चोपजापानि रिपुवंश्यान् राज्यार्थिनः क्षुब्धानमात्यादींश्च
भेदयेत् उपजपेनात्मीयकृतां च तेषां चेष्टां जानीयात्, शुभग्रहदशादिना शुभफलयुक्ते
दैवेऽवगते निर्भयो जयेप्सुयुध्येत ॥१९७।।
(४) राघवानन्दः । किंचान्यदुपेति । उपजप्यानरिवंश्यान् राज्यार्थिनः क्रुद्धान-
मात्यादींश्च उपजपेत् भेदयेत् । उपजपेनात्मसात्कृतानां तेषां चेष्टाः स्वपरपक्षपातान्
जानीयादिति । युक्तशुभफलदानाऽनुकूले दैवे ग्रहनक्षत्रादौ। जयप्रेप्सुः जेष्यामीति कृतनिश्चयः
अपेतभी: मरिष्यामीति वा गतभीः ॥१९७॥
(५) नन्दनः । तत्कृतं शत्रुकृतं । उपजापमिति शेषः। देवे युक्ते सुनिमित्तादिभि-
र्दैवानुकूल्ये सति ॥१९७॥
(६) रामचन्द्रः। उपजप्यान् भेद्यान् उपजपेत् भेदयेत् । च पुनः तत्कृतं बुध्येत
जानीयात् भेदकृत्कृतं कार्यं युद्धे जानीयादित्यर्थः । च पुनः युक्ते दैवे अनुकूले दैवे ग्रहादौ
चैवंविधो राजा भेदकृत्कृतं कार्य युद्धे जानीयादित्यर्थः । च पुनः युक्ते देवे ग्रहादौ चैवंविधो
राजा जयं प्रेप्सुः युध्येत ॥१९७।।
(७) मणिरामः । उपजप्यान्.रिपुवंश्यान् । राज्यार्थिनः क्षुद्रामात्यादींश्च उपजपेत्
भेदयेत् आत्मीयान्कुर्यात् । तत्कृतं आत्मीयकृतानां चेष्टितं युक्ते च दैवे शुभग्रहदशादिना
शुभफलयुक्ते दैवेऽवगते ॥१९७॥
(८) गोविन्दराजः। उपजप्यानिति । तदन्वयिनो राज्यार्थिनः क्रुद्धान्भृत्यां-
चोपजापानुपजपेत् । तत्कृतञ्च यत्तत्कृत्यं यत्तज्जानीयात् ग्रहसौम्यादिनाऽनुकूले दैवे
सति विजयेप्सुरपगतभयो युध्येत ॥१९७॥
साना दानेन भेदेन समस्तैरथवा पृथक् ।
विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥१९८॥
(१) मेधातिथिः । न सहसा युध्येत । एतावत्प्रथमं विशिष्टस्थापनोपदेशनं सुमुखं च
मिथो सहासनकथासहदारदर्शनादि । दानं विधानं द्रव्याणां हिरण्यादीनां प्रीत्युत्पादनार्थ
प्रतिपादनम्। भेदस्तत्कुलीनादेरुपसंग्रहः । ततो विशेषणाच्च तत्रावित्रासनमित्याद्य-
कारणम् ॥१९८॥
(२) सर्वज्ञनारायणः । कदाचन सामादिसंभवे ॥१९८॥
१५४
मनुस्मृतिः
[७.२००
(३) कुल्लूकः। प्रीत्यादरदर्शनहितकथनाद्यात्मकेन' साम्ना हस्त्यश्वरथहिरण्यादीनां च
दानेन तत्प्रकृतीनां तदनुयायिनां च राज्यार्थिनां भेदेन एतैः समस्तैर्व्यस्तैर्वा यथासामर्थ्य-
मरीजेतुं यत्नं कुर्यान्न पुनः कदाचिद्युद्धेन' ।।१९८॥
(४) राघवानन्दः । प्रकारान्तरेणारिवश्यत्वे युद्धं न कुर्यादित्याह साम्नेति । पृथक्
प्रत्येकं तत्र सामादि संबध्यते । समस्तै स्त्रिभिर्वा ॥१९८॥
(५) नन्दनः । एवमभियुज्य श→ सामदानभेदैः सादयेन्न युद्धेनेत्याह साम्ना
दानेनेति ॥१९८॥
(७) मणिरामः । युद्धे निषेधमाह साम्नेति ॥ ॥१९८॥
(८) गोविन्दराजः। साम्नेति । 'विजेतुं प्रयतेतारीन्न युध्येत कदाचन।' साम्ना प्रीत्या
वरदर्शनेन हितकथनाद्यात्मकेन दानेन च हिरण्यादीनां भेदनेन च तत्प्रकृतीनां तदन्वयिनाञ्च
विश्लेषणेनैवं तैर्व्यस्तैः समस्तैर्वा यथोपयोगं विजेतुमरीन्प्रयतेत । न पुनः कदाचिद्युध्येत ॥१९८॥
अनित्यो विजयो यस्माद्दश्यते युध्यमानयोः ।
पराजयश्च संग्रामे तस्मायुद्धं विवर्जयेत् ॥१९९॥
(१) मेधातिथिः । यस्मान्नायं नियमो दृश्यते यो जयति सोऽत्यन्तबलवानवश्यं, तेन
यश्च पराजीयते सोऽत्यन्तं दुर्बलश्चावश्यमित्यनित्यो विजयः ॥१९९।।
(२) सर्वज्ञनारायणः। पराजयश्च संग्रामे प्राप्तिकः दानाद्यैर्जयपराजयशङ्का पि ॥१९९॥
(३) कुल्लूकः । यस्माद्युध्यमानयोर्बहुलवलत्वाद्यल्पबलत्वाद्यनपेक्षमेवानियमेन
जयपराजयौ दृश्यते, तस्मात्सत्युपायान्तरे युद्धं परिहरेत् ।।१९९।।
(४) राघवानन्दः। न युद्धेनेति । तत्र हेतुरनित्य इति । पराजयोऽपीति ।।१९९।।
(५) नन्दनः । अत्र हेतुमाह अनित्यो विजय इति ॥१९९।।
(६) रामचन्द्रः। विजयः अनित्यः पराजयोऽपि संग्रामेऽनित्यः ॥१९९॥
(७) मणिरामः। निषेधे हेतुमाह अनित्येति ॥१९९।।
(८) गोविन्दराजः । अनित्य इति । युध्यमानयोर्यतो बलवदबलस्थानापेक्षायामेवा-
नियमेन जयपराजयौ दृश्येते । तस्मादुपायान्तरसंभवे सति युद्धं विवर्जयेत् ॥१९९।।
त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे ।
तथा युध्येत संपन्नो विजयेत रिपून्यथा ॥२०॥
(१) मेधातिथिः। सामादीनामसाधकत्वे संदिग्धेऽपि जये समानेऽपि, कि पुना रूपेण
सह तेन प्रकारेण युध्येत येन प्रकारेणात्मनो जयः स्यात् । जये राज्यं, वधेऽपि स्वर्ग इत्युभयथापि
जपः । परप्रत्यूहकल्पना कूटयुद्धादिप्रकारः अत्यन्तोच्छेदानुसरणपीडनाभ्यां सहसा निष्कार्यः ।
तथा च व्यास आह “पुनरावर्तमानानां निराशानां च जीविनाम्। न शक्येदग्रतः स्थातुं
शक्रेणापि धनञ्जय"॥ यदा संदिग्धं पराजयं तदाऽपक्रमणं युक्तम्। निर्गतो हि जीवो न
कार्यमासादयति, येन भद्राणि पश्यति, स्वर्गमर्जयति मृत इति ॥२०॥
(२) सर्वज्ञनारायणः। यथा येन प्रकारेण वञ्चनादिनापि विजयते । इति षाड्गुण्य-
प्रकरणम् ॥२०॥
७.२०१]
व्याख्यानवकोपेता
१५५
३) कुल्लूकः। पूर्वोक्तानां त्रयाणामपि सामादीनामुपायानामसाधकत्वे सति जय-
पराजयसंदेहेऽपि तथा प्रयत्नवान्सम्यग्युध्येत, यथा शत्रूञ्जयेत् । यतो जयेऽर्थलाभोऽभिमुखमरणे
च स्वर्गप्राप्तिः, निःसंदिग्धे तु पराजये युद्धादपसरणं साधीयो यथा वक्ष्यति (७।२१३)
'आत्मानं सततं रक्षेत्' इति मेधातिथिगोविन्दराजौ॥२००॥
(४) राघवानन्दः। अन्यथानुपपत्तौ तत्कार्यमित्याह त्रयाणामिति । त्रयाणां भेदान्तानां
परिक्षये सामादीनां अरिवश्यानुपायत्वे॥२००॥
(५) नन्दनः। उपसंहरति त्रयाणामपीति ॥२०॥
६) रामचन्द्रः। त्रयाणां उपायानां सामदानभेदानां परिक्षये। संयत्त: सावधानः ।
(७) मणिरामः। जयपराजयसंदेहे युद्धमाह त्रयाणामिति । तथाच निःसंदिग्धे पराजये
अपसरणमेव साधीय इत्यर्थः॥२०॥
(८) गोविन्दराजः। त्रयाणामप्युपायानां पूर्वोक्तानां परिक्षये। ततो युध्येत संयत्त इति ।
सामादिनां पूर्वोक्तानामुपायानामसाधकत्वे सति जयपराजयसन्देहे तथा सावधानो युध्येत
यथा शत्रून्विजयेत्। यदि नो जयेत्तदा स्वर्गनिःसंदिग्धे पुन: पराजये निःसरणं साधयेद्यथा
वक्ष्यति 'आत्मानं सर्वतो रक्षेदिति ॥२०॥
जित्वा संपूजयेद्देवान्ब्राह्मणांश्चैव धार्मिकान् ।
प्रदद्यात्परिहारांश्च ख्यापयेदभयानि च ॥२०१॥
(१) मेधातिथिः। येनकेनचित्प्रकारेण जित्वारिं लब्धप्रशमनमिदमतोऽस्मिन्पुरे
जनपदे देवब्राह्मणांश्च धार्मिकान्विहितानुष्ठायिनो यथा सामर्थ्यात्प्रतिषिद्धवर्ज कामात्स्वा-
तन्त्र्येणारीन् जित्वा साध्यप्रवृत्तादिकं गन्धधूपपुष्पद्रव्यं सविभागास्फोटनादिसंस्कारद्वारेण
यथार्हमभ्यर्चयेत्।
कुटुंबिनां परिहारार्थं स्थितिर्यथाप्रवृत्तिविशिष्टकरभारशुल्कप्रदेशानां प्रदानेन तथा
तया वा संवत्सरमेको द्वौ वा दद्यादुच्चानां च पौरजानपदबलानामातपादिडिण्डिमकगदापातेन
ख्यापयेत्तैर्यैः स्वाम्यनुरागादस्थानमपचितं तेषामप्यारक्षान्तं यथा स्वं स्वं व्यापारमनुतिष्ठं-
त्विति ॥२०१॥
(२) सर्वज्ञनारायणः। लब्धप्रशमनममाह जित्वेति । परिहारान् अग्रहारान् । अभय-
ख्यापनं यरस्माभिः सह प्राग्युद्धं कृतं तेषामधुनाऽभयमित्यादि ॥२०१॥
३) कुल्लूकः। परराष्ट्र जित्वा तत्र ये देवास्तान् धर्मप्रधानांश्च ब्राह्मणान् भूमि-
सुवर्णादिदानसमानादिभिः पूजयेत् । जितद्रव्यैकदेशदानादिनैव चेदं पूजनं । तदाह याज्ञवल्क्यः
(आ. अ. १३. ३२३) 'नातः परतरो धर्मो नृपाणां यद्रणार्जितम् । विप्रेभ्यो दीयते द्रव्यं
प्रजाभ्यश्चाभयं सदा' । तथा देवब्राह्मणार्थं मयैतद्दत्तमिति तद्देशवासिनां परिहारान्दद्यात्।
तथा स्वामिभक्त्या यैरस्माकमपकृतं तेषां मया क्षान्तमिदानी निर्भयाः सन्तः सुखं स्वव्यापार-
मनुतिष्ठन्त्वित्यभयानि ख्यापयेत् ॥२०१॥
(४) राघवानन्दः। जयोत्तरं यत्कर्तव्यं तदाह जित्वेति । देवाद्यर्चनं प्रतिपत्तिकर्मोत्तर-
जयसूचनार्थं वा। परिहारान्वस्त्रालंकारादीन् । तद्देशवासिभ्यः अभयानि स्वस्वव्यापारान-
नुतिष्ठन्तु मा भयं कुरुतेति ॥२०१॥
१५६ मनुस्मृतिः [७.२०२ (५) नन्दनः। सति विजय कर्तव्यमाह जित्वा संपूजयेदिति । परिहारान्करपरित्यागान् । तत्रत्यानामभयानि डिण्डिमघोषादिना ख्यापयेत् ।।२०१।। (६) रामचन्द्रः । ब्राह्मणान् परिहारान् अग्रहारान् प्रदद्यात्। च पुन: अभयानि स्थापयेत् यैरस्माभिः प्राग्युद्धं कृतं तेषामभयमिति भावः ॥२०१।। (७) मणिरामः । परिहारान् देवब्राह्मणार्थं मयैतद्दत्तमिति तद्देशवासिनां ग्रामादीन् ॥२०१॥ (८) गोविन्दराजः। जित्वेति । परराष्ट्र जित्वा तत्रत्यान्देवान् धर्मप्रधानान्ब्राह्मणांच दानमानादिभिः पूजयेत् । तथा श्रोत्रियादिगताऽवश्यदानेषु मयैतदनुज्ञातमित्येवं परिहारान् दद्यात् तथा स्वामिभक्त्याऽस्माकं यैरपकृतं तेषां मया क्षान्तमिदानीमाश्वस्ताः सन्तः स्वव्या- पारमनुतिष्ठन्त्वेवं अभयानि ख्यापयेत् ॥२०१॥ सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् । स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् ॥२०२॥ (१) मेधातिथिः । एवमनुग्रहे क्रियमाणेऽपि यदा पौरजानपदानामन्येषां वा स्वाम्यनुरागादहं वक्तृतैजसभावो बहुमतः स्यादिति मन्येत मदीयस्य दण्डोऽवस्थातुं न शक्नुयात्तदा एष पौरादीनामभिप्राय इति संक्षेपेण ज्ञात्वा---नैतदेवमिच्छति तत्कुलीनं कर्तुमिच्छत्ययमेव तस्मिन्देशे तद्वंश्यं मृदुमलं प्रियसुखकलत्रं तेन' संहततत्प्रकृतिभिश्च प्रधानादिभिः समयं कुर्यात् समकोशदानादि परिमाणं च भवता मम दैवाकारेण पापेन भवितव्यम्, कार्याकार्ये कालेन स्वयमुपस्थातव्यमुभयतो दण्डेन कोशेन चेत्यादि ।।२०२।। (२) सर्वज्ञनारायणः । एषां परराष्ट्र प्रकृतिभूतानां । समासेन समुदायेन । तद्वंश्यं शत्रोरेव वश्यं । समयक्रिया समयस्य क्रिया--न त्वयास्मानियमाञ्चलितव्यमिति ॥२०२॥ (३) कुल्लूकः । एषां शत्रुनृपामात्यानां सर्वेषामेव संक्षेपतोऽभिप्रायं ज्ञात्वा तस्मिन्राष्ट्र बलनिहतराजवंश्यमेव राज्येऽभिषेचयेत् । इदं कार्य त्वयेदं नेति तस्य तदमात्यानां च नियम कुर्यात् ॥२०२॥ (४) राघवानन्दः । परराज्ये स्ववंश्यान्नाभिषिचेदपि तु तद्वंश्यानित्याह सर्वेषामिति । सर्वेषाममात्यादीनां चिकीर्षितं स्ववंश्यपक्षपातित्वं तद्राज्यवंश्यपक्षपातित्वं वेति। समयक्रिया 'त्वयातः परमिदं कार्यमिदं ने ति नियमनम्। उपजप्य राज्यार्थितद्वंश्यस्थापनेन राज्यान्तरलाभ- संभावना दृष्टफलमिति भावः ।।२०२॥ (५) नन्दनः । एषां शत्रोरमात्यादीनाम् । तत्र शत्रुदेशे तद्वंश्यं स्थापनेन सह युद्धं वयञ्चैवं करिष्यामह इति। समयक्रियां कुर्यात् ॥२०२॥ (६) रामचन्द्रः। सर्वेषामेषां परराष्ट्रप्रकृतिभूतानां समासेन समुदायेन चिकीर्षितं विदित्वा तत्र तस्मिन्राज्ये तद्वंश्यं स्थापयेत् अविद्यमाने राजनि सति। च पुन: समयक्रियां कुर्यात् त्वयाऽस्माद्धर्मान्न चलितव्यमिति ॥२०२॥ (७) मणिरामः । समयक्रियां इदं कार्य त्वया कर्तव्यमिदं नेति तदमात्यानां च नियमं कुर्यात् ।।२०२॥ (८) गोविन्दराजः । सर्वेषामिति । तेषां परकीयानां सर्वेषां संक्षेपतोऽभिलषितं ज्ञात्वा -
७.२०४]
व्याख्यानवकोपेता
१५७
तस्मिन् जितराष्ट्रे जितराजाऽन्वयिनं अभिषेचयेत् । राज्ये इदं त्वया कार्यमिदं नेत्येवं तस्य
तदमात्यादीनां परिभाषणं च कुर्यात् ।।२०२॥
प्रमाणानि च कुर्वीत तेषां धान्यथोदितान् ।
रत्नश्च पूजयेदेनं प्रधानपुरुषैः सह ॥२०३॥
(१) मेधातिथिः । यत्प्रकारावस्थास्तेषामुपचिताः पूर्वप्रवृत्ताः ब्रह्मदेयामरवृत्तिदेव-
स्वव्यापारादयस्ताननुजानीयात्प्रमाणानि कुर्यादेवं ह्यस्मिस्तेषामनुरागो भवति । ये च तत्र
प्रधानाः पुरुषास्तत्र प्रतिज्ञास्वजनबहुत्वादिगुणैस्तैः सह राजानमेनं शस्त्रधनधान्यालङकार-
वाहनच्छत्रपीठिकादारपट्टबन्धादिभिः पूजयेत् ॥२०३॥
(२) सर्वज्ञनारायणः । तेषां धर्मान् देशधर्मान् । प्रमाणानि कुर्वीत न भिद्यात् ।
रत्नैः स्वीयैः एनं नूतनं नृपं तस्य प्रधानपुरुषैः सहे. तानपि पूजयेदित्यर्थः ॥२०३॥
(३) कुल्लूकः । तेषां च परकीयानां धर्मादनपेतानाचारान् देशधर्मतया शास्त्रेणाभ्यु-
पेतान् प्रमाणीकुर्यात् । एनं चाभिषिक्तममात्यादिभिः सह रत्नादिदानेन पूजयेत् ॥२०३।।
(४) राघवानन्दः । शास्त्राविरुद्धान्ब्रह्मदेयामरवृत्तिदेवश्च स्वानपहारादीन्धर्मान्
मातुलकन्यापरिणयमत्स्यभक्षणादींव परराष्ट्राचारान् प्रमाणीकुर्यादित्याह प्रमाणानीति ।
यथोदितान् तवत्यैर्यथावदुक्तान् । एनं तद्वश्यं प्रधानपुरुषैरमात्यैः सह तेऽपि पूज्या
इत्यर्थः ।।२०३॥
(५) नन्दनः । तैरक्तान्देशधर्मान्परिमाणान्कुर्वीत तथैव प्रवर्तयेदित्यर्थः ॥२०३।।
(६) रामचन्द्रः । तेषां यथोक्तधर्मान् प्रमाणानि कुर्वीत न भिद्यात् । च पुनः स्थापितं
रत्नैः पूजयेत् ॥२०३॥
(७) मणिरामः । तेषां परकीयानां। धान देशधर्मतया शास्त्रेणाभ्युपेतान् ॥२०३।।
(८) गोविन्दराजः । प्रमाणानीति । तेषां परकीयानां ये धर्मादनपेता देशधर्मतया
शास्त्रेणाऽभ्युपगता आचारास्तान्प्रमाणीकुर्यात् । एव (न)ञ्चाभिषिक्तं मन्त्र्यादिभिः सह
रत्नादिदानेन पूजयेद्यत्नात् ॥२०३।।
आदानमप्रियकरं दानं च प्रियकारकम् ।
अभीप्सितानामर्थानां काले युक्तं प्रशस्यते ॥२०४॥
(१) मेधातिथिः। कस्मात् पुनः प्रकृतिभ्यो रत्नादिदानमुच्यते । आदेयस्याप्रतिपादनं
नवस्य राज्ञोऽन्यस्य वाऽप्रियकरमप्रीते: कारणं हेतुः । दानं च प्रतिदानं प्रियकारकमेतदुभयं
बहुश एवं प्रसिद्धमपि क्रियमाणमभिमतानामर्थानां सुखावहं भवेदन्यथा च दुःखयतीत्यर्थः ।
कालयुक्तं कालोपपन्न प्रशस्यते। यस्मादपि क्वचित्काले किंचन प्रीति जनयति तदापि
नाल्पमशोभनं वा प्रीतिमुत्पादयति । तस्मात्कालमपेक्ष्य दानादाने कार्ये इति ॥२०४॥
(२) सर्वज्ञनारायणः। आदानं बलाद्ग्रहणम्। काले युक्तं दानकाले दानं कार्यं न
सर्वदा कोशक्षयापत्तेः । बलात् ग्रहणं तु न कदाचित्कार्यमित्यर्थः ॥२०४॥
(३) कुल्लूकः । यस्मात् आदानमिति । यद्यप्यभिलषितानां द्रव्याणां ग्रहणमप्रिय-
करं दानं च प्रियकारकमित्युत्सर्गस्तथापि समयविशेषे दानमादानं च प्रशस्यते,
तस्मात्तस्मिन्काल एवं पूजयेत् ॥२०४॥
(४) राघवानन्दः । यस्माद्ग्राह्यं स कथं सवः पूज्यस्तत्राह आदानमिति । ननु राज्यधनादिलोभेन परराज्यं गृहीतं तत्राह अभीप्सितानां गजाश्वादीनां काले विलम्बितं युक्तं योग्यं प्रशस्यते, हारमिति चेत्यन्वयः शेषः ॥२०४॥ (५) नन्दनः । तत्र तेभ्यो दानमादानञ्च कालयुक्तं कर्तव्यमित्यभिप्रायेणाह आदानमिति । लोके स्वल्पमीप्सितानामर्थानामादानं प्रियकरं दानञ्च प्रियकर तथापि तदुभयं कालयुक्तञ्चेत् प्रशस्यते ॥२०४॥ (६) रामचन्द्रः । अभीप्सितानामर्थानां आदानं बलाद्ग्रहणं अप्रियकरम् । तु पुनः अर्थानां दानं प्रियकारकं तस्मात्कालयुक्तं समयदातृत्वं प्रशस्यते ॥२०४।। (७) मणिरामः । काले समयविशेषे युक्तं प्रयुक्तं प्रशस्यते ॥२०४॥ (८) गोविन्दराजः । आदानमिति । ये अभिलषितानामर्थानामेव हरणमप्रियकरं दानञ्च तेषां प्रियजनकं इत्युत्सर्ग तथा कालवशेन दानमपि वा प्रशस्यते तस्मात्तस्मिन् काले एनं पूजयेत् ।।२०४॥ सर्व कर्मेदमायत्तं विधाने दैवमानुषे । तयोर्दैवमचिन्त्यं तु मानुषे विद्यते क्रिया ॥२०५॥ (१) मेधातिथिः । समर्थादर्थकर्मकार्यफलं कर्म । तत्सर्वमशेषमायत्तमधिकं क्वापि । विदधातीति विधानम् । कर्मफलं यद्दिशति तद्विशेषयति । दैवमानुषे देवधर्मादौ पूर्वकृतविहितप्रतिषिद्धविषये चात्मनः कार्यकर्मफलं यदि फलं कर्मक्रिया दृष्टार्था नयानययोः । तथा च श्रुतिः “विधिविधानं नियतिस्वभावः कालो ब्रह्मेश्वर: कर्म देवं भाग्यानि पुण्यानि भूतांतर्योगपर्यायनामानि पुराकृतस्य"। स्मृतिरपि “देवमात्मकृतं विद्यात्कर्मवत्पौर्वदेहिकम् । स्मृतः पुरुषकारस्तु क्रियते यदिहापरम् ॥” इति । दैवमानुषस्येति प्राप्ते मृतवशाईवे मानुषस्यापि कारणता विवक्षिता। अस्मिन्कार्य इदं क्रियाफलमायत्तम्। न दैवं पुरुषकाररहितं फलं ददाति। अवश्यं हितेन पुरुषप्रयत्नोऽपेक्षितव्यः । न च पुरुषकारो दैवेनेति । दैवाच्च पुरुषकारनिरपेक्षात्फलस्यापि पुरुषसन्निपातो भवेदपि गर्भस्य। असति गर्भे नियमैर्दैवसन्निपातात्फलसंभवोऽनुमेयः । एवं पुरुषप्रयत्नादपि यदि दैवनिरपेक्षा स्यात् । यतो व्यायाम सति सर्वदा सर्वेषां स्यात् । नैतदस्ति । तस्मादुभयं कारणम् । तथा च व्यास आह (महाभारते. सौ. प. २।२) "आरम्भा मानुषाः सर्वे निदानं कर्मणोर्द्वयोः । देवे पुरुषकारे च परतोऽन्यन्न विद्यते ॥"-इति । समानतन्त्रेऽपि “दैवं नयानययोर्मानुषं कर्मलोकं पालयति" इति । अत्र देवकारणा आहुः । “दैवमेवात्र कारणम् । दृश्यन्ते हि जडक्लीबपङग्वादयः कुणयोऽ- पुरुषकाररहिता अपि सुखिनो निष्प्रतीकारा अन्योपाधिककर्मफलं लभमानाः। तथालंप्रतीकारा अप्यव्यङगशूराः प्रवीणाश्च शास्त्रे दक्षाश्च दुःखिनो यतमानाश्च । तथा पुरुषकारनिरपेक्षं दैव- मात्राभिधानाद्धनाधिगमाशनिनिपातादिभिरिष्टानिष्टफलमुत्पाद्यमानमुपलभन्ते । एवं च कृत्वा परलोकहेतवः क्रियारम्भोपदेशा: सुतरामर्थवन्तो भवन्ति । तथा च यत्नेन पूर्वकृतानीहोप- भुजीमहे, इह कृतान्यपि परत उपभोक्ष्यामह इति विजानन्तोऽविचित्सिा मनुष्याः । धर्म एवं ७.२०५] व्याख्यानवकोपेता १५९ प्रयतितव्यम् । तथा चोदाहरन्ति “जानामि धर्म न च तत्करोमि पापं च जानामि न मे निवृत्तिः। धात्रा निसृष्टोऽस्मि यथा तथाऽहं नातः परं शासयिताऽस्ति कश्चित्” इति । पुरुषकारणिो ह्याहुः। “पुरुषकार एवात्र कारणम् । कृषित्वमनलसः कुर्वन् स्वव्यापारफलं कर्तृकरणकार्य कृष्यादिषुः प्राप्नुयात् । तथा चोक्तम् “कमैवेहानसाधूनामालभ्यानुपसेविता। कर्म कृत्वा हि पुरुषो भुङक्ते चैव न चात्ति न ।" सत्यपि चान्नसंभवे न ह्यभुञ्जन्तस्तृप्यन्ति। तदा तत्र चाभ्यवहारैर्यत्समनन्तरं च फलं तन्निमित्तफलोत्पाद इति न्यायः। तस्मादत्रा- दृष्टव्यापारः । एवं च कृत्वाऽर्थवन्त: क्रियारम्भोपदेशा भवंति । तथा चाहुः "प्रतिहन्ति मुनिर्येन दैवमापतितं क्वचित् । शीतोष्ण च तथा वर्षमुत्थापयति हन्ति च॥" एवमास्थितेभ्य उभयं कारणम्---अन्यतराभावे फलाभावात्-। क्वचित्तु केचित्प्राधा- न्येन वर्तन्त इति तत्परिगृह्यते। कृतोऽपि पुरुषकारो बलवता देवेनाभिभूतो विशीर्यते । आर्द्रमिव दार्वल्पाग्नौ प्रक्षिप्तं न ज्वलति । एवं यदि दुर्बलं दैवं महता यत्नेन पुरुषकारेण पुरस्कृतं फलति यथार्द्रमपि दारु महत्यग्निस्कन्धे प्रक्षिप्तम् । नाग्निस्तदापयाति । "देवं पुरुषकारेण दुर्बलं हयुपहन्यते । देवेन चेतनं कर्म विशिष्टेनोपहन्यते"। इत्येव परिकल्प्याह । तयोर्दैवपुरुषकारयोर्दैवमेवाचिन्त्यम् । तुशब्दोऽवधारणार्थः । अपरिज्ञातस्वरूपम्, कस्मिन्काले तन्निमित्तेन फलं दास्यतीत्येवमचिन्त्यम् । शास्त्रादृते चास्य परिज्ञानादेवाविचार्यत्वात्प्रयोक्तुमशक्यत्वादशक्यमिति । तत्र दैवं निष्फलं मनुष्येषु पुरुषकारो वक्ष्यते क्रिया, प्रकृतत्वात् । वित्तं च क्रिया मानुषे । किञ्चिज्ज्ञानं कृष्यादिभिः शक्यं चिन्तयितुमीदृशं मया कृष्यादि कर्तव्यमेतः साधनैर्दैवादिभिरेव च तस्य चेदृशं फलमिति । तदेवं प्रारब्धं यदारंभमध्यावसानेषु विवत्सते । तेन दैवं समाधेयम्, न विपन्नानामप्येवं कर्तव्यमिति । यावत्फलवेदनमित्यतो दैवस्याचिन्त्यत्वान्न तत्परेणासितव्यम् । मनुष्यकर्म चिन्तयित्वा यद्यत्कार्यं तदनुष्ठेयम् । यत्किञ्चनकारी हि विनश्यतीति। शक्तित्रययोगात्पुरुषकारेण च युक्तस्य परराष्ट्रविजयचिकीर्षा यत्र दैवमानुषसंपन्ना भवति सैव सर्वार्थसाधिका भवति । तथापि तस्यामतिशयं दैवं प्रवर्तते। अतिरिक्तः पुरुषकार एव भवतीत्यर्थः । न हि विजिगीषोर्दैवमन्तरेण, तदा यातव्यस्य व्यसनं दैवं मानुषं भवति । पौरुषं समं देवेन नातिव्यूह द्वयोर्वा समं तुल्यम् । किंच देवेन विधिनाऽयुक्तं मानुष्यं यत्प्रवर्तते ॥ परिक्लेशेन महता तदर्थस्य समाधकम् ।। तदयुक्तम् । दैवेन विधानेन पराङमुखे दैवमानुषे पुरुषकारः प्रवर्तते अष्टविधकर्मणि तन्महता क्लेशनार्थं फलं साधयति, निष्फलं वा भवति । अतः क्लेशेनाप्यसिद्धो वा देवापेक्ष भूत्वा न परितुष्येत् । पुरुषार्थस्तु दैवेन संयुक्तो यः प्रवर्तते अक्लेशेन स सर्वेषां मन्त्रार्थानामेव साधकः पुरुषार्थ पुरुषकारः । स एव यदाऽऽपंचगुणे दैवेऽनुष्ठीयते तदा क्लेशेन विनैकान्तेन समग्रफलसाधक भवति । अस्य दाढार्थमुदाहरणं श्लोकद्वयन १६० मनुस्मृतिः [७.२०५ "केचिद्युद्धमपि क्षेत्रं युक्तं पुरुषकर्मणा। दैवहीनाय तु फलं कस्यचित्संप्रयच्छति॥" "केचित्क्षेत्रस्य भृतमित्युक्तं पुरुषकर्मणा ॥" पुनःपुनर्दृष्टेषु शोधितं यथावच्चोक्तमित्याद्युपकारकलक्षणेन दैवेन हीनाय फलं न ददातीति। संयुक्तस्यापि दैवेन पुरुषकारेण वर्जितम् । विना पुरुषकारेण फलं क्षेत्रं प्रयच्छति॥ संयुक्तस्यापि दैवेनेति । दैवयोगस्तु तस्मात्फलादानादनुमीयते । एवं च पूर्वस्य तदाभावः दैवभावः । अन्ये त्वाहुः-दैवं यथाकालं पर्याप्तं दृष्टाद्युपलम्भादेव कृतत्वान्न कृतमिति यथा तत्पुरुषकाराभावं दर्शयति बीजवजितमित्यबीजम् । चन्द्रार्काद्या ग्रहा वायुरग्निरापस्तथैव च । इह देवेन साध्यन्ते पौरुषेण प्रयत्नतः॥ चन्द्रास्तिावद्ग्रहाः ॥२०५॥ (२) सर्वज्ञनारायणः। अचिन्त्यं पुरुषकारेण न तस्य प्रतीकारश्चिन्त्यः । क्रिया प्रति- क्रिया ॥२०५॥ (३) कुल्लूकः। यत्किचित्संपाद्यं तत्प्राग्जन्मार्जितसुकृतदुष्कृतरूपे कर्मणि दैवशब्दा- भिधेये तथेहलोकार्जितमानुषशब्दवाच्ये व्यापारे आयत्तं तयोर्मध्ये दैवं चिन्तयितुमशक्यं मानुषे तु पर्यालोचनमस्त्यतो मानुषद्वारेणैव कार्यसिद्धये यतितव्यम् ॥२०५॥ (४) राघवानन्दः । जयादेरदृष्टसाध्यत्वादलं प्रयत्नेनेति । तत्राह सर्वमिति । विधाने व्यापारे दैवमानुषे दृष्टादृष्टे तयोर्मध्ये ऐहिकभोगहेतुप्रबलादृष्टस्येदानीमसाध्यत्वेऽपि, दृष्टं तु शक्यसंपादमित्याह मानुषेति । क्रिया पुरुषकारः ॥२०५॥ (५) नन्दनः। एवं प्रतिपादितं नीतिमार्गमनुसृत्य राज्ञा पौरुषेण भवितव्यं न दैवमनुसृत्य तूष्णीभूतेनेत्यभिप्रायेणाह सर्वमिति । दैवमानुषे दैवपुरुषसंबन्धिनि । विधाने कर्मणि । सर्वमिदं कर्म कम्फलमिति यावत् । आयत्तमासनम् । तयोर्दैवमानुषयोर्दैवमचिन्त्यमनुकूल- मननुकूलं वेति निश्चेतुमशक्यं किन्तु मानुषे पुरुषकारे सति तस्य देवस्य क्रिया विद्यते ज्ञायते यत एवं तस्मात्पुरुषकारो विधातव्य' इत्यभिप्रायः ।।२०५।। (६) रामचन्द्रः। इदं सर्वं कर्म दैवे मानुषे आयत्तं अधीनं। 'अधीनो निघ्न आयत्त' इत्यमरः। तु पुनः तयोर्दैवमानुषयोर्मध्ये दैवमचिन्त्यं । पौरुषे पुरुषार्थे क्रिया प्रतिक्रिया विद्यते ॥२०५॥ (७) मणिरामः । सर्वं इदं कर्मयकतिचित्संपाद्यं । तत् दैवमानुषे विधाने आयत्तं । दैव विधाने.पूर्वजन्मार्जितसुकृतरूपे कर्मणि । मानुषे विधाने इहजन्मार्जितमानुषशब्दवाच्ये व्यापारे आयत्तंअधीनं । क्रियापर्यालोचनरूपा । अतो मानुषद्वारेणैव कार्यसिद्धये यतितव्यं ॥२०५।। (८) गोविन्दराजः । सर्वमिति । यत्किञ्चित्संपाद्यं तत्प्राग्जन्मशुभाशुभं उभे कर्मणि तदिहलोककृते च मनुष्यव्यापार आयत्तं तत्र तयोर्मध्ये दैवं चिन्तयितुमशक्यम् । मानुषे पुनः पर्यालोचनं भवत्येतद्द्वारेण कार्यसिद्धयर्थं यतितव्यं निरीहेन भाव्यम् ॥२०५॥ ।
७.२०७]] व्याख्यानवकोपेता ૧૧ सह वापि व्रजेधुक्तः संधिं कृत्वा प्रयत्नतः। मित्रं हिरण्यं भूमि वा संपश्यंत्रिविधं फलम् ॥२०६॥ (२) सर्वज्ञनारायणः। यदि युद्धं विनापि हिरण्यादि लभ्येत तदा युक्तउद्युक्तेऽपि, सह शत्रुणा सन्धि कृत्वा स्वदेशं व्रजेत् ॥२०६॥ (३) कुल्लूकः । एवमुपक्रमणीये न शत्रुणा युद्धं कार्यम् । यदि वा स एव मित्रं तेन च दत्तं हिरण्यं भूम्येकदेशो वार्पितमेतत्त्रयं यात्राफलम् । तेन सह सन्धि कृत्वा यत्नवान्द्रजेत् ॥२०६॥ (४) राघवानन्दः । प्रसिद्धोपक्रमे यदि प्रमत्तोरिस्तदा सन्धिरेव श्रेयानित्याह सहेति । सन्धि कृत्वा मित्रतामुत्पादयेदिति शेषः। भूमि भूम्येकदेशम् । फलं यात्राया इति शेषः॥२०६।। (५) नन्दनः। मित्रहिरण्यभूमिलाभे सन्धिः कर्तव्यो न शत्रुवधे निर्बन्ध इत्याह-सह वापि व्रजेदिति सन्धौ कृते ममायं शत्रुरन्यो वा मित्रं भवेत् हिरण्यं भूमि वास्मात्सोऽत्र इति त्रिविधं फलं संपश्यन्निश्चिन्वानस्तदात्वानुगुण्येन युक्तः प्रयत्नतः शत्रूणां सन्धि कृत्वा व्रजेत् स्वराष्ट्रं प्रत्याव्रजेत् ॥२०६॥ (६) रामचन्द्रः। रिपुणा सह वापि यदि युद्धं विना हिरण्यादिकं लभ्यत तदा युक्तो मिलित्वा तेन सह सन्धि कृत्वा स्वदेशं व्रजेत् कार्यस्यान्तं गच्छेत् । किं कुर्वन्? त्रिविधं फलं संपश्यन् । कीदृशं फलम्? मित्रभूमिहिरण्यादि ॥२०६।। (७) मणिरामः । एवमुपक्रमणीयेन शत्रुरणयुद्ध कार्यम् । यदि वा स एव मित्रं तव दत्तं हिरण्यं भूम्येकदेशो वार्पितः एतत्त्रयं यत्र फलं तेन सह सन्धि कृत्वा यत्नवान् व्रजेत् ॥२०६॥ (८) गोविन्दराजः। सह वाऽपि ब्रजेद्यस्त्विति । एवं यातव्येन सह युद्ध कार्य यदि वा स एव मित्रं हिरण्यं वा तेन दत्ते भूम्यकदेशो वा त्यक्त इत्येवं यात्राफलं मत्वा तेन सह सन्धिं कृत्वा यत्नवान् व्रजेत् ॥२०६॥ पाणिग्राहं च संप्रेक्ष्य तथाऽऽक्रन्दं च मण्डले । मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात् ॥२०७॥ (२) सर्वज्ञनारायणः । यदि पाष्णि गृह्णीयात् पृष्ठगः तदान्येनापि निवर्तितव्यं तदापि यदि स्वस्याक्रन्दस्तस्यापि पाणि गृह्णीयात् तदा पूर्वमरे: पश्चान्मित्रतामापन्नाद्धनं प्राप्य यद्वा अमिनाच्च स्वास्थितादेव प्राप्य निवर्ततेत्यर्थः ॥२०७॥ (३) कुल्लूकः। विजिगीषोररिं प्रति निर्यातस्य यः पृष्ठवर्ती नृपतिर्देशाक्रमणाद्याचरति स पाणिग्राहः। तस्य तथा कुर्वतो यो नियामकस्तस्यानन्तरो नृपतिः स आक्रन्दः तावपेक्ष्य यातव्यम् । मिनीभूतादमित्राद्वा यात्राफलं गृह्णीयात्तावनपेक्ष्य गृह्णन्कदाचित्तत्कृतेन दोषेण गृह्यते ॥२०७॥ (४) राघवानन्दः। तस्मान्मित्रादमित्राद्वा सन्धिरेवेष्टव्य इत्याह पाणिग्राहं चेति अरिं प्रति निर्यातस्य स्वदेशाक्रमणशील: पृष्ठवर्ती राजा पाणिग्राहस्तस्यानन्तरस्तनियामक आक्रन्दस्तौ संप्रेक्ष्य तावनपेक्ष्य यात्राफलं गृहंस्तत्कृतदोषेण युज्यते। अयमर्थ:-पाणिग्राहोरिरेव तत्पृष्ठगयोस्तु मित्रोदासीनत्वेन ग्रहणात् । यदि स चारिश्चाक्रन्देन' मित्रेण तत्पृष्ठगामिनाs-
१६२
मनुस्मृतिः
[७.२०८
.
भिभूतस्तदारि जित्वैवागन्तव्यमनभिभूतश्चेत्सत्वस्य विजिगीषो राज्यं नाशयतीति कृत्वा
यातव्यारिमपि मित्रात् मित्रत्वेन संभाव्यमानादुपगम्य । पाणिग्राहासाराक्रन्दासारौ तु पार्श्व-
देशवर्तिनौ राजानाविति ॥२०७॥
(५) नन्दनः। मित्रादिफलं प्राप्तव्यं तदाह पाणिग्राहं चेति । मण्डले द्वादशराजात्मके
पाणिग्राहमाक्रन्दमित्राण्यमित्रांश्च संप्रेत्य मण्डलस्थानां शत्रूणां क्षयं मित्राणाञ्च वृद्धि
समीक्ष्येत्यर्थः। यात्राफलं मित्रभूमिहिरण्यमवाप्नुयात् ॥२०७॥
(६) रामचन्द्रः। पाणिग्राहं पृष्ठे तत्पृष्ठे आक्रन्दं च मण्डले संप्रेक्ष्य मित्राद्वाऽमित्राद्वा
यात्राफलमवाप्नुयात् ॥२०७॥
(७) मणिरामः। नृपतिः देशक्रमागत्यां चरति स पाणिग्राहः । तस्य नियामकः तदनन्तरो
नृपो नृपतिः स आक्रंदः । तावपेक्ष्य यातव्यान्मित्रीभूतादमित्राद्वा यात्राफलं गृह्णीयात्,
तावनपेक्ष्य गृह्णन् कदाचित्तत्कृतेन दोषीभवेत् ॥२०७।।
(८) गोविन्दराजः। पाणिग्राहमिति । विजिगीषोररिं प्रति निर्यातस्य यो देशाक्रमणा-
द्याचरति स पाणिग्राहस्तथा कुर्वतः पाणिंग्राहस्य योऽकुशस्थानीयः स आक्रन्दस्तमपेक्ष्य
यातव्यान्मैत्रीभूतादमित्राद्वा फलं गृह्णीयात् तावदनवेक्ष्य गृह्णणन् कदाचित् तद्गतेन दोषेण
युज्यते ॥२०७॥
हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते ।
यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् ॥२०८॥
(२) सर्वज्ञनारायणः। तत्र तु मित्रलाभे संभवति नात्यन्तं धने यतितव्यमित्याह
हिरण्यमिति । आयतिक्षम भविष्यच्छक्ति ॥२०८॥
(३) कुल्लूकः । सुवर्णभूमिलाभेन तथा राजा न वृद्धिमेति यथेदानी कृशमप्यागामिकाले
वद्धियुतं स्थिरं मित्रं लब्ध्वा वर्धते ॥२०८॥
(४) राघवानन्दः। अरेरेव मित्रत्वेन लाभे महान्गुण इति स्तौति हिरण्येति द्वाभ्याम् ।
नैधते न हर्षमाप्नुयात् । कृशं तात्कालिकोपकारासमर्थम् । आयतिक्षममुदर्कोपकारकम् ।
तदुक्तम् । अधनं स्वर्णादिधनं धनमधनं च वाणिज्यम्, अतिधनमेतत्रितयं विद्या भूमिः
सुमित्रमिति ॥२०८॥
(५) नन्दनः। हिरण्यभूमिभ्यां मित्रफलं विशिष्टतरमित्याह हिरण्यभूमी इति ।
ध्रुवं स्थिरम् ॥२०८॥
(६) रामचन्द्रः । यात्राफलमाह। हिरण्यभूमि संप्राप्य पार्थिवस्तथा न' एधते न वर्धते
यथा ध्रुवं लब्ध्वा एधते। कृशमपि आयतौ उत्तरकाले क्षमं योग्यमिति । तथा योगेश्वरः
मित्रलब्धिर्वरा यतः ॥२०८॥
(७) मणिरामः। कृशं इदानीं कृशमपि आयतिक्षम आगामिकाले वृद्धियुतम् ॥२०८॥
(८) गोविन्दराजः। हिरण्यभूमिसंप्राप्त्येति। हिरण्यभूमिलाभेन राजा तथा न वर्धते
यथा सम्प्रति कृशमप्यागामिकाललब्धवृद्धयाद्युपेतं स्थिरं मित्रं प्राप्य वर्धते ॥२०८॥
७.२१०] व्याख्यानवकोपेता ૧૬૩ -- धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च । अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥२०९॥ (२) सर्वज्ञनारायणः। तुष्टप्रकृतिकं तोषितस्वप्रकृति । स्थिरारम्भमचलचित्तम् । लघुलघ्वपि क्षुद्रमपीत्यर्थः ॥२०९॥ (३) कुल्लूकः । धर्मज्ञं कृतोपकारस्य स्मर्तृ सानुरागमनुरक्त स्थिरकार्यारम्भ प्रीतिमत्प्रकृतिकं यत्तन्मित्रमतिशयेन शस्यते ॥२०९॥ (४) राघवानन्दः । तत्र मित्रं लक्षयति धर्मज्ञमिति । कृतज्ञं कृतोपकारं स्मर्तारम् । तुष्टप्रकृतिः तुष्टाधिकारिणः प्रकृतयोऽमात्यादयो यस्य । लध्वित्यनायाममाध्यता । स्वस्मा- न्यूनं वा अधार्मिकादेर्मित्रता दुःसंपाद्येति भावः ॥२०९।। (५) नन्दनः । प्रकृतिरमात्यादिः । लघुः शीघ्रकारी स्वस्मान्न्यूनमिति वा । एवं- विधपुरुषो मित्रं प्रशस्यते ॥२०९।। (६) रामचन्द्रः। मित्रलक्षणमाह धर्मज्ञमिति । धर्मज्ञादिकं मित्रं प्रशस्यते ॥२०९।। (७) मणिरामः। लघु प्रीतिमत्प्रकृतिम् ॥२०९॥ (८) गोविन्दराजः। धर्मज्ञमिति । धर्मज्ञमुपकारस्य दक्षमनुरक्तामात्यं सानुरागं स्थिर- कार्य दक्षं यत् तस्मिन्मित्रमतिशयनेष्यते ॥२०९।। प्राज्ञं कुलीनं शूरं च दक्षं दातारमेव च । कृतज्ञं धृतिमन्तं च कष्टमाहुररिं बुधाः ॥२१०॥ (२) सर्वज्ञनारायणः । धृतिमन्तं दुःखेष्वनुद्विग्नम् । कष्टं दुःखसाध्यम् ।।२१०॥ (३) कुल्लूकः । विद्वांसं महाकुलं विक्रान्तं चतुरं दातारमुपकारस्मर्तारं सुख- दुःखयोरेकरूपं शत्रु दुरुच्छेदं पण्डिता वदन्ति । तेनैवंविधशत्रुणा सह संधातव्यम् ॥२१०॥ (४) राघवानन्दः । तत्प्रतियोगितयाऽरेर्लक्षणमाह प्राज्ञमिति । अत्र प्राज्ञं कृतमुपकारं स्मर्तृशीलम् । कुलीनं दुरभिमानिनम् । दक्षं सततोद्यमम् । दातारमित्यनेन दृष्टादृष्टजयहेतुता सूचिता । धृतिमन्तं सिद्धयसिद्ध्योरेकरूपम् । कष्टं कष्टदम् । तेन तादृशारिणा सन्धिरेव कार्यों दुरुच्छेद्यत्वादेवंविधस्येति भावः ॥२१०॥ (५) नन्दनः। शत्रोर्गुणान्मित्रीकरणाय मित्रप्रसङ्गादाह प्राज्ञं कुलीनमिति । एवंविधं गुणवन्तमरिं कष्टमाहुः, दुर्जयमाहुरिति यावत् । तस्मात्तादृशमरिमपि मित्रं कुर्यादित्यभिप्रायः ॥२१०॥ (६) रामचन्द्रः । अरिस्वरूपमाह प्राज्ञमिति । एतादृशमरिं कष्टं बुधा आहुः ॥२१०।। (७) मणिरामः । प्राज्ञादिगुणयुक्तोऽरिः असाध्यः तेनैवंविधेनारिणा संधिरेव कार्येत्यभिप्रायः ॥२१०॥ (८) गोविन्दराजः। प्राज्ञमिति । प्राज्ञं महाकुलं विक्रान्तमुत्साहयुक्तमुदारम् । उप- कारस्य रक्षितारमानर्थयोरेकरूपं शदुरुच्छेदं विद्वांस आहुः। अतस्तथाविधं यत्नतः संदध्यात् ॥२१०॥ - ।
१६४
.
मनुस्मृतिः
[७.२१२
आर्यता पुरुषज्ञानं शौर्य करुणवेदिता ।
स्थौललक्ष्यं च सततमुदासीनगुणोदयः ॥२११॥
(१) मेधातिथिः । पुरुषाणां प्रकृतधर्माधर्मसंज्ञकेन' देवेन' सुखदुःखोपभोगनिमित्तं
साध्यते। अनिष्टस्थानप्राप्ताश्चापौरुषेण शान्त्यादिकारणप्रकारेण समतामापद्यन्ते। इह
स्थानस्थिता अव्यभिचारानुगुणाः क्रियन्ते । पुरुषज्ञानलोकज्ञानपुरुषविशेषज्ञोऽनुरूपमुपकारी
भवति । अनुवर्तते शूरः कार्यक्षमो भवति। कारुण्यगुणस्मयेन करुणावेदी दयालुमना लोभेन
परिरक्षति । स्थूललक्षः प्रभूतस्याप्यर्थमेषां सर्वकालं क्षमते॥२११॥
सर्वज्ञनारायणः। आर्यताऽशठता। पुरुषज्ञानमयं योग्योऽयं नेति ज्ञानम् ।
करुणवेदिता करुणास्थानज्ञानम् । स्थौललक्ष्यं दातृत्वम्। एतेषु सत्स्वेवोदासीनता संभव-
त्यन्यथा कस्याप्यरिः कस्यापि मित्रमित्यवश्यं स्यादित्यर्थः ॥२११॥
(३) कुल्लूकः। साधुत्वं पुरुषविशेषज्ञता विक्रान्तत्वं कृपालुत्वं सर्वदा च स्थौललक्ष्यं
बहुप्रदत्वं अत एव । 'स्युर्वदान्यः स्थूललक्ष्यदानशौण्डा बहुप्रदे' इत्याभिधानिकाः ।
स्थौललक्ष्यमर्थेऽसूक्ष्मशित्वमिति तु मेधातिथिगोविन्दराजयोः । पदार्थकथनमनागमम्। एत-
दुदासीनगुणसामग्यं तस्मादेवंविधमुदासीनमाश्रित्योक्तलक्षणेनाप्यरिणा सहयोद्धव्यम्॥२११॥
(४) राघवानन्दः । उदासीनलक्षणमाह आर्यतेति । आर्यता अवक्रता । पुरुषज्ञानं
पुरुषविशेषज्ञता । करुणवेदिता कृपालुत्वम् । स्थूललक्षं बहुप्रदः ॥ स्युर्वदान्यस्थूललक्ष्यदान-
शौण्डा बहुप्रदे इत्यभिधानात् ॥ मेधातिथिगोविन्दराजयोः सूक्ष्मदर्शित्वाव्याख्या । स्थूलवत्सूक्ष्म
लक्षयतीति । एतान्येवोदासीनगुणस्योदयः प्रकटता तद्धतवः । एवंविधमुदासीनमाश्रित्यारिणा
योद्धव्यमिति भावः ॥२११॥
(५) नन्दनः । उदासीनस्य च गुणान्मित्रीकरणार्थं मित्रप्रसङ्गादाह आर्यता पुरुष-
ज्ञानमिति । स्थौललक्ष्यं बहुप्रदत्वम्, गुणोदयो गुणोत्कर्षः । गुणवन्तमुदासीनमपि मित्रीकुर्यादि-
त्यभिप्रायः॥२११॥
(६) रामचन्द्रः। उदासीनस्वरूपमाह। आर्यताऽशठता। पुरुषज्ञानमयं योग्योऽयं
नेति ज्ञानम्। करुणवेदिता करुणस्थानज्ञानम् । स्थौललक्ष्यं दातृत्वम् । गुणोदयः एतेषु सत्स्वेव
उदासीनता संभवत्यन्यथा कस्यापि मित्रमित्यवश्यं स्यादित्यर्थः ॥२११॥
(७) मणिरामः। उदासीनलक्षणमाह आर्यतेत्यादि । आर्यता साधुता। पुरुषज्ञानं
पुरुषपरीक्षकम् । स्थौललक्ष्यं बहुदत्वम्। 'स्थूललक्ष्यदानशौंडबहुप्रदेत्याभिधानिकाः,' तस्मादेवं-
विधमुदासीनमाश्रित्य बलवतापि रिपुणा सह योद्धव्यम् ॥२११॥
(८) गोविन्दराजः। आर्यतेति । साधुत्वं पुरुषविशेषज्ञता शौर्यं दयालुत्वं सर्वदा च
स्थूललक्षमर्थेषु सूक्ष्मदर्शित्वमिष्यते । स्थूललक्षं सततमुदासीनगुणसामग्यमत एवंविधं
उदासीनमाश्रित्य उक्तलक्षणेनाप्यरिणा सह योद्धव्यम् ॥२११॥
क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि ।
परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥२१२॥
७.२१३] व्याख्यानवकोपेता १६५ (१) मेधातिथिः । तादृशीमपि भूमिमविलम्बमानः परित्यजेत् । क्षेम्या आटविकादिभिरनभिभवनीया । नित्यमस्य प्रधानमुभयम् । बहुसस्याऽदेवमातृका च पशुवृद्धिकरी च जाङ्गलरूपत्वादबहुफलपत्रतृणत्वाच्च । एवंगुणा हि भूमिर्वणि- क्कृषीवलबहुला भवति, दुर्भिक्षव्याधिरहिता कान्तारमनुष्यात्मभरणा चेति । चतुर्थ्या प्रकृतिपरित्यागे चोभयं न ततो ज्ञापयति न सहसायुधानां प्रकृति परित्यजेत्तस्यामवस्थायाम्, किन्तु तां परित्यजेद्यां मन्येत साक्ष्ये शेषां प्रकृतिभिः प्रत्यादातुमिति । यथा तु न मित्रकोशदण्ड- परित्यागे नाविशेष प्रतिक्षणं यां मन्यत तदा गुणवतीमपि भूमि त्यजेत् ॥२१२॥ (२) सर्वज्ञनारायणः। क्षेम्यां शक्यक्षम्याम् । आत्मार्थं यदि तत्त्यागेनैवात्मनिस्तारः ॥२१२॥ (३) कुल्लूकः। अनामयादिकल्याणक्षमामपि नदीमातृकतया सर्वदा सर्वसस्यप्रदामपि प्रचुरतृणादियोगात्पशुवृद्धिकरीमपि भूमिमात्मरक्षार्थमविलम्बमानो राजा निजरक्षा- प्रकारान्तराभावात्परित्यजेत् ॥२१२॥ (४) राघवानन्दः। भूमिमित्युक्तम् कथं विजिगीषुलिप्सिता भूर्देयेति चेत्तत्राह क्षेम्यामिति। क्षेम्यां योगक्षेमकरीमपि। सस्यप्रदां नदीमातृकाम् । पशुवर्धिनी चतुर्दिक्षु तृणोदकसंपन्नाम्। चात्मार्थं देहरक्षार्थम् ॥२१२॥ (५) नन्दनः । अभियुक्तं प्रत्याह क्षेम्यां सस्यप्रदामिति । क्षेम्यां रक्षितुं सुकराम्॥२१२॥ (६) रामचन्द्रः । एतादृशी भूमिमात्मार्थमविचारयन्नृपः परित्यजेत् ॥२१२॥ (७) मणिरामः । क्षेम्यामनामयादिकल्याणक्षमाम्। आत्मरक्षार्थं प्रकारान्तरेण रक्षाऽसंभवे ॥२१२॥ (८) गोविन्दराजः । क्षेम्यामिति । परित्यजेन्नृपो भूमिमात्मार्थमवधारयन्। रक्षा- क्षमामपि नदीमातृकतया सर्वदा सस्यप्रदामपि बहुतृणपत्रादियोगात् पशुवृद्धिकरीमपि भूमि- मात्मरक्षार्थमवलम्बमानो राजाऽनन्यगतिकः परित्यजेत् ॥२१२॥ आपदर्थे धनं रक्षेदारान् रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥२१३॥ (१) मेधातिथिः । कृच्छप्रकारसाध्योऽयं नियमो भवति । आपदर्थे । यथा मशकार्थे धूमो मशकानपनेतुमिति ज्ञायते । तन्निमित्तं धनं रक्षेन्नान्यत्र धनरक्षायाः कार्यमस्ति । दत्तभुक्तफलं हि धनमिति । तथा हि तेन प्रतीक्ष्य यानमासनं दण्डं बिभर्ति । उपजप्यानुपगृह्णातीति। धनेनापि दारा रक्ष्याः। दारग्रहणं प्रणिधिसंबंधिप्रत्युपलक्षणार्थम् । आत्मा तु रक्ष्यः। अन्येन प्रकारेणात्मानं रक्षितुमसमर्थः सर्वस्वं दत्त्वा दारानपि काले परित्यज्य वाग्यतः स्थितो दारधनादि वर्जयित्वा धर्मं करिष्यति । ये तु धनदारानुरोधेन विनश्यन्ति न तेषां धनदारादि दृष्टं नाप्यदृष्टं धर्माधर्मानाचरणात्। न च कौमारदारत्यागित्वम् । न त्यागप्रतिषेधस्यार च वा जयति। राजधर्मप्रकरणेऽपि नायमुक्तो दृष्टार्थत्वादन्यस्यापि द्रष्टव्यः । “ननु च राज राज्यं प्राप्य महाधनोऽश्वमेधादि करिष्यत्यतुलं च सुखमनुकरिष्यत्यतस्तु लोकः संक्रुष्टं वि करिष्यति।"
१६६
मनुस्मृतिः
[७.२१४
नैष दोषः । अल्पस्यापि पावनानि कर्माणि सन्त्यधनस्यापि जपादयः। विशेषनिमित्तानि
धनान्येव । न चेदमस्यामवस्थायां लोकसंक्रुष्टमिति । न च सहसैतत्कार्यम् ॥२१३॥
(२). सर्वज्ञनारायणः । आपदः प्रकृतिकोपबलक्षयरोगादयः। धनैर्भूम्यादिभिः ॥२१३॥
(३) कुल्लूकः । यस्मात्सर्वविषयोऽयं धर्मः स्मर्यते आपदर्थमित्यादि । आपन्निवारणार्थं
धनं रक्षणीयं धनपरित्यागेनापि दारान्रक्षेत्। आत्मानं पुनः सर्वदा दारधनपरित्यागेनापि
रक्षेत्। 'सर्वत एवात्मानं गोपायीत' इति श्रुत्या शास्त्रीयमरणव्यतिरेकेणात्म-
रक्षेत्युपदेशात् ॥२१३॥
(४) राघवानन्दः । आत्मना चेज्जीवति प्रधिनागादिति श्रुतिसंमतमर्थवादमाह आप-
दर्थमिति । आपदर्थमापत्तिवारणार्थं मशकार्थो धूम इतिवत्। दारान स्त्रियं धनैः धनदानेनेति
शेषः । एवमुत्तरत्र । आत्मना देहेन चेज्जीवति गतप्रधिना धनेनेति श्रुतेरर्थः ॥२१३॥
(५) नन्दनः । गुणवद्भूमिपरित्यागेनाप्यात्मा रक्षितुं दुःशक्यश्चेद्दारपरित्यागे-
नात्मा रक्षितव्य इत्याह आपदर्थमिति । आपदर्थमापन्निवृत्त्यर्थम् ॥२१३।।
(७) मणिरामः। धनैः धनत्यागेनापि । आत्मानमुभयत्यागेनापि रक्षेत् ।।२१३॥
(८) गोविन्दराजः । यतः सकलपुरुषविषयोऽयं धर्मः स्मर्यते आपदर्थइति ।
आपन्निवृत्त्यर्थं घनं रक्षणीयम् । धनपरित्यागेनापि दाराः संरक्षणीयाः । आत्मा पुनर्धनदारादिना
सर्वपरित्यागेनापि संरक्ष्यः । यत्तु राजव्यतिरेकेणान्यस्य दारार्थमात्मत्यागो न्याय्य
इत्याहुस्तदसत्। सर्वत आत्मानं गोपायेदिति अशास्त्रितमरणस्य निषिद्धत्वान्न च सहसैव
धनदारपरित्यागः कार्यः ॥२१३॥
सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् ।
संयुक्तांश्च वियुक्तांश्च सर्वोपायान्सृजेद् बुधाः ॥२१४॥
(१) मेधातिथिः। आपदो दैवमानुषाणि व्यसनानि, तानि प्रकृतिविषयाणि युगपदु-
पजातानीत्यर्थमपि यथा स्युस्तथा संयुक्ताश्च सामपुरस्सरंदानं सामपूर्वकं भेदं सामदानभेदसहितं
दण्डमेव वा दानमेवेत्यादिकान्सर्वोपायान्विसृजेद् बुध इति । यत्र यत्प्राप्तं तत्समीक्ष्य विचार्य
प्रयुञ्जीतेत्यर्थः। न तु विषण्ण आसीत ॥२१४॥
(२) सर्वज्ञनारायणः । संयुक्तान् मिलितान् । सर्वोपायान् सामादीन् ॥२१४।।
(३) कुल्लूकः । कोशक्षयप्रकृतिकोपमित्रव्यसनादिकाः सर्वा आपदो युगपदतिश-
येनोत्पन्ना ज्ञात्वा न मोहमुपेयादपि तु व्यस्तान्समस्तान्वा सामादीनुपायाञ्छास्त्रज्ञः
संप्रयुजीत ॥२१४॥
(४) राघवानन्दः। किंच सहेति। सह सर्वाः कोशक्षयप्रकृतिकोपाविकृतव्यसनादिका:
समीक्ष्योपलभ्य सर्वोपायान् सामादीन् व्यस्तान् सृजेत् प्रयुंज्याच्च न तु मोहमुपेयादत आह।
बुधः पण्डितः॥२१४॥
(५) नन्दनः । सह सर्वाः समुत्पन्नाः युगपत्सम्भूताः । सृजेत्प्रयुज्यात् ॥२१४॥
(६) 'रामचन्द्रः। सर्वोपायान्सामादीन् संयुक्तान् मिलितान् वियुक्तान् एकैकमेव वा
बुधः सृजेत् कुर्यात् ॥२१४॥
७.२१५]
व्याख्यानवकोपेता
१६७
(७) मणिरामः। सर्वाः आपदः कोषक्षयादिकाः। सह समुत्पन्नाः युगपदुत्पन्नाः।
प्रसमीक्ष्य ज्ञात्वा। न मोहं प्राप्नुयात् किंतु संयुक्तान् समस्तान्। वियुक्तान् व्यस्तान् वा।
सर्वान् सामादीन् । उपायान्सृजेत् ॥२१४॥
(८) गोविन्दराजः। यस्मात्सहेति । प्रकृतिकोपकोषक्षयमित्रव्यसनादिका युगपत्सर्वा
आपदोऽत्यर्थमुत्पन्ना ज्ञात्वा न मोहमुपेयादपि तु व्यस्तान्समस्तान्वा सामादीनुपायान्त्सर्वान्वा
प्राज्ञः प्रयुञ्जीत सर्वथा ॥२१४।।
उपेतारमुपेयं च सर्वोपायांश्च कृत्वशः ।
एतत्त्रयं समाश्रित्य प्रयतेतार्थसिद्धये ।।२१५॥
(१) मेधातिथिः । कथमित्यपेक्षायामाह ‘साधयेत्कार्यमात्मन' इति पाठान्तरम् ।
तत्रोपेतारमात्मानं प्राप्य कार्य मित्रवत्साधयेत् । सर्वोपायाः समस्ता व्यस्ता एव । अयमपि
उपेयसामान्यनिर्देशमाह । समाश्रित्याङ्गीकृत्य समर्थचिन्तनेनैतत्समावृतं भवति । किमर्थमुपायाः
समर्थे नानुमताः समर्थस्तथा कि युक्तमिति विचार्येयता केनोपायनैषामिदं प्राप्नुयादिति ।
कृत्स्नश इति त्रयविशेषणं कृत्स्नमित्यर्थः। एवं च यो यदुपायसाध्यो यदा यथा युक्तस्तत्र तदा
तथा प्रयुञ्जीत, स्वकार्यसिद्ध्यर्थम्। उपाय एतानामवस्थानां चानन्त्यात्सर्वं तन्त्रणाशक्यं
वक्तुमिति समासेनोक्तमतः परीक्षामुपाचरेत् । उपेत्य विशेषभावतोऽप्याह
"स तु युक्तो हि संधत्ते युक्त आत्मपराक्रमः ।
तावुभौ नयसंपन्नौ स्तेनोऽप्ययसमन्वितः ॥” इति ॥२१५॥
(२) सर्वज्ञनारायणः। उपेतारं आत्मानमुपायस्रष्टारम् । उपेयमुपायसाध्यम् ।
समाश्रित्य मनसा बलाबलादिद्वारा निश्चित्य ॥२१५॥
(३) कुल्लूकः। उपेतारमात्मानमुपेयं प्राप्तव्यं उपायाः सामादयः सर्वे ते च परिपूर्णा
एतत्त्रयमवलम्ब्य यथासामर्थ्य प्रयोजनसिद्धये यत्नं कुर्यात् ॥२१५।।
(४) राघवानन्दः । किंचोपेति । उपेतारमात्मानं उपेयं प्राप्तव्यं सर्वोपायांश्च समा-
श्रित्य किं त्याज्यं कि नेति विचार्य आत्मसिद्धये आत्मरक्षार्थं प्रयतेत । उपेता चेज्जीवति सर्व
भविष्यतीति भावः ॥२१५॥
(५) नन्दनः । एवं प्रतिपादितां नीति विजिगीषां संक्षिप्य निगमयति उपेतारमिति।
उपेतारममात्यादिकं वर्गम् । उपेयं भूत्यादिकम् । सर्वशब्देन मायापेक्षयेन्द्रजालानां ग्रहणं
कृत्स्नशः समाश्रित्य न्यूनमधिकं च ॥२१५।।
(६) रामचन्द्रः। उपेतारमुद्यमफलयुक्तमात्मानमुपायस्रष्टारम् । उपेयमुपायसाध्यम् ।
सर्वोपायांश्च सामादीन् मनसा बलाबलादिद्वारा निश्चित्य एतत्त्रयमाश्रित्य सिद्धये
प्रयतेत ॥२१५॥
(७) मणिरामः। उपेतारमात्मावमानम् । उपेयं प्राप्तव्यम् । सर्वोपायाः॥२१५॥
(८) गोविन्दराजः। उपेतारमिति। एतत् त्रयं समाश्रित्य प्रयतेतात्मसिद्धये।
उपेतात्मा उपेयञ्च प्राप्तव्यं सर्वे च सामादय उपायास्ते च परिपूर्णा इति तत् त्रयसामर्थ्य
सति आत्मसिध्यर्थं यतेतेत्युपसंहारः ॥२१५॥
मनुस तिः १६८ [७.२१७ एवं सर्वमिदं राजा सह संमन्त्र्य मन्त्रिभिः । व्यायम्याप्लुत्य मध्याह्न भोक्तुमन्तःपुरं विशेत् ॥२१६॥ (१) मेधातिथिः। एवं यथोक्तं राजा वृत्तमिदं सर्वमापद्यनापदि वाऽऽत्मशक्त्यपेक्षया वा कस्यामवस्थायां किं कर्तव्यमिति मन्त्रिभिः सह विचार्य मध्यंदिनमुक्तकालं मध्यंदिनं व्यायामं कृत्वोपचार्य स्नानं च। स्नानमक्रमोक्तमपि पुना राज्यार्थमुच्यते मङ्गलाचारे युक्तानाम् । राजा स्नानपरिग्रहार्थं भोजनादियुतं तद्गृहे पूर्वं स्नानापेक्षयाऽन्तःपुरं यायादिति विशेषार्थमुपसंहारः। विविक्ते देशे ॥२१६॥ (२) सर्वज्ञनारायणः। एवं सर्वमिदमिति यदुक्तप्रकारमिदं सर्वमित्यर्थः। व्यायम्या- स्त्याभ्यासेन शमं लब्ध्वा ॥२१६॥ (३) कुल्लूकः। एवमुक्तप्रकारेण सर्वराजवृत्तं मन्त्रिभिः सह विचार्यानन्तरमायुधा- भ्यासादिना व्यायामं कृत्वा मध्याह्न स्नानादिकं माध्याह्निकं कृत्यं निर्वाह्य भोक्तुमन्तः- पुरं विशेत् ॥२१६॥ (४) राघवानन्दः। राज्यमुपसंहरति एवमिति। व्यायम्य युद्धाधुपयोगिव्यायामं कृत्वा आप्लुत्य स्नात्वा भोक्तुं विशेदित्युक्तम् ॥२१६॥ (५) नन्दनः । इदमुक्तं व्यायम्य' हयारोहणादिव्यापारं कृत्वा आप्लुत्य स्नात्वा ॥२१६॥ (६) रामचन्द्रः । एवं व्यायम्य विचार्य । आप्लुत्य स्नात्वा ॥२१६॥ (८) गोविन्दराजः। एवमिति । एवमुक्तनीत्या सर्व राजा मन्त्रिभिः सह विचार्य तदनु धनुरादिना व्यायामं कृत्वा स्नात्वा च मध्याह्न काले अन्तःपुरं भोक्तुं प्रविशेत् ॥२१६।। तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः । सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः ॥२१७॥ (१) मेधातिथिः। तत्रान्तर्गतगृह आत्मरक्षाभूता आत्मसमाः कालज्ञा वयोविशेषा- वस्थादिप्रतिनियतकाले भक्ष्यभोज्यदानादिविशेषज्ञाः । अहार्या अभेद्या विश्वसनीयाः । परि- चारकाः स्वरवैद्यादयः । एतैर्गृहीतं सर्वं परीक्षितमदनीयमन्नाद्यमद्यात् । परीक्षा कुशलैवैद्यैरग्निचकोरादिभिः कर्तव्या । विषादिसंसृष्टस्य शुष्कस्याशुद्धता भवति वैवयः सुगन्धोपधातश्च अतिम्लानताऽग्नौ प्रक्षिप्तस्य वेति । वेति शब्दः वैवर्ण्यज्वालासु ईक्षिते च तस्मिन्वयसां विपत्तिः । दर्शनेन म्रियते यत्र कोकिल:, ग्लायति जीवंजीवकः, चकोर- स्याक्षिणी विनश्यतो विषं प्रदापि, भवति मुष्कस्यावग्रहः स्वेद इत्यादि। मन्त्रैश्च विषापहै: परिजपेव्द्यापादिकासु ॥२१७॥ (२) सर्वज्ञनारायणः। कालज्ञैर्यदा यन्द्यञ्जनादि देयं तद् रभेद्यैरनुपजप्यैः। अहाय- रिति पाठेप्ययमर्थः । विषापहैश्चकोरादिभिर्मन्त्रैश्च सुपरीक्षितं यत्परिवारकैस्तद्दद्यात्॥२१७॥ (३) कुल्लूकः । तत्रान्तःपुरे आत्मतुल्यैर्भोजनकालवेदिभिरभेद्यैः सूपकारादिभिः कृतं सुष्ठु च परीक्षितं चकोरादिदर्शनेन । सविषमन्नं दृष्ट्वा चकोराक्षिणी रक्ते भवतः विषापहै- मन्त्रैर्जपितमन्नमद्यात् ॥२१७॥ ।
७.२१९]
व्याख्यानवकोपेता
१६९
(४) राघवानन्दः। तत्र प्रकारमाह तत्रेति। भोजने कर्तव्ये आत्मभूतैर्देहवत्प्रियतमैः
अहार्यर्धनादिलोभेनाभेद्यैः सूपकारादिभिः । विषापहर्मन्त्रितमन्नम् ॥२१७॥
(५) नन्दनः । अहार्यैः अभेद्यैः ॥२१७।।
(६) रामचन्द्रः। तत्र अन्तःपुरे आत्मभूतैः पुत्रैः कालज्ञैः तद्वयञ्जनादिकं यत्तद्देयमिति
तज्जैयोतिर्विद्भिः अहार्यैः अनुपजप्यैः तथा परिचारकैः विषापहमन्त्रैरुपलक्षितमन्नाद्यं
सर्वमद्यात् भक्षयेदित्यर्थः ॥२१७।।
(८) गोविन्दराजः। तत्रेति । तत्रान्तःपुर आत्मतुल्यैर्भोजनकालवेदिभिरभेद्यैः सूप-
कारादिभिर्यत्कृतमन्नाद्यं सुष्ठ च परीक्षितमग्निप्रक्षेपचकोरादिदर्शनेन अग्निहि सविषान्न-
प्रक्षेपे सति चटचटायते चकोरस्याक्षिणी रक्ते भवत इत्येवमादिना परीक्षितं विषापहारैश्च
मन्त्रैर्जप्तमद्यात् ॥२१७॥
विषनैरुदकैश्वास्य सर्वद्रव्याणि शोधयेत् ।
विषघ्नानि च रत्नानि नियतो धारयेत्सदा ॥२१८॥
(१) मेधातिथिः। विषघ्नैरुदकैश्चास्य सर्वद्रव्याणि राजौपयिकानि वस्त्रादीनि
विशोधयेत्। विषघ्नानि रत्नानि गरुडोदीर्णनागदमणिप्रभृतीनि । नियतः प्रत्यये नित्यं भोजन-
कालादन्यदाऽपि धारयेत् ॥२१८॥
(२) सर्वज्ञनारायणः। अगदैरोषधैर्नेजयेत् क्षालयेत् । नियतः शुचिः ॥२१८॥
(३) कुल्लूकः। विषनाशिभिरौषधैः सर्वाणि भोज्यद्रव्याणि योजयेत् । विषहरणानि
च रत्नानि यत्नवान्सर्वदा धारयेत् ॥२१८॥
(४) राघवानन्दः। तद्भुत्याञ्छिक्षयति विषघ्नरित्यर्धेन । अगदैरौषधैः विशिष्टानि
द्रव्याण्यन्नपानादीनि शोधयेत्। अस्य राज्ञः। शत्रुतो विषदानादिभिया तन्नाशकं रत्नं धारये-
दित्याह विषघ्नानीति। सदा विषघ्नानि नियतो धारयेदित्यन्वयः ॥२१८॥
(५) नन्दनः। नेजयेत्प्रक्षालयेत् ॥२१८॥
(६) रामचन्द्रः। विषघ्नैरगदैरौषधैः अस्य राज्ञः द्रव्याणि भक्ष्यपदार्थादीनि चतुर्विधानि
चोष्यलेह्यभक्ष्यभोज्यानि नेजयेत् प्रक्षालयेत् ॥२१८॥
(८) गोविन्दराजः। विषघ्नरिति । विषघ्नैरौषधप्रयोगैः सर्वद्रव्याणि भोगभोज्या-
दीनि लक्षयेत् । विषघ्नानि च रत्नानि गरुडोद्गीर्णनागमणिप्रभृतीनि यत्नवान् सर्वदा
धारयेत् ॥२१८॥
परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः ।
वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥२१९॥
(१) मेधातिथिः। परीक्षिता विचारिता उपधाभिः शीलशौचाचारैः स्त्रियो दास्यः
परिचारिका व्यजनोदकधूपनैः करणभूतैः संस्पृशेयुरुपचरेयुर्वेषादिसंयुक्ताः सुवेषाः। स्नानेन
कृत्वा। समाहिता अप्रविक्षिप्तमनसः । वेषाभरणः। कपटवेषः केशनखाद्येवं विचार्य। कदा-
चित्तत्रायुधानि कृत्वा विश्रब्धं हन्युः। आभरणानि च विषदिग्धराभरणैः स्पृशेयुरिति ॥२१९॥
१७० मनुस्मृतिः [७.२२१ (२) सर्वज्ञनारायणः । व्यजनोदकधूपनैः स्पृशेयुरस्य समीपमागच्छेयुः ॥२१९॥ (३) कुल्लूकः। स्त्रियश्च गूढचारद्वारेण कृतपरीक्षा गुप्तायुधग्रहणविषलिप्ताभरण- धारणशङ्कया निरूपितवेषाभरणा अनन्यमनसः चामरस्नानपानाधुदकधूपनैः एनं राजानं परिचरेयुः ॥२१९॥ (४) राघवानन्दः। तस्यैव स्त्रीविषयनियममाह परीक्षिता इति। स्त्रियश्च दुष्टहृदयाः कदाचिदस्त्रविषादियुक्ताः स्युरिति भयात् भर्तृष्वेताविकुर्वत इति न्यायात् परीक्षिता महिला- दिभिः धम्मिल्लादौ क्षुरं दध्युपुरादौ तथा विषमिति तत्राह । वेशाभरणसंशुद्धाः विशत्यासु चित्तं यूनामेभिरिति वेशाधम्मिल्लकुचनितम्बालकवस्त्राणि आभरणानि कटककङ्कणहारनू- पुरादीनि तेष्ववलोकनेन सम्यक् शुद्धाः ॥२१९॥ (५) नन्दनः । व्यजनोदकधूपनैः संस्पृशेयुः । ॥२१९॥ (६) रामचन्द्रः। एनं राजानं एतादृशःस्त्रियः स्पृशेयुः आलिङ्गनं कुर्युः ॥२१९।। (८) गोविन्दराजः। परीक्षिता इति । स्त्रियश्च दास्यो धर्मार्थकामोभयविषये चारप्रयोगादिद्वारेण कृतपरीक्षाः गूढायुधग्रहणविषलिप्ताभरणधारणाशझ्या संशुद्धवेषाऽ लङ्करणाः अनन्यमनस्काश्चामरस्नानाधुदकधूपैरेनं राजानं परिचरेयुः ॥२१९।। एवं प्रयत्नं कुर्वीत यानशय्यासनाशने ॥ स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥२२०॥ (१) मेधातिथिः । एवं विषोदकाञ्चनादिनादौ प्रयत्नं कुर्यात् । स्नानं शिरःस्नानम् । गन्धो रोचनादि आसनमत्र प्रदर्शनार्थम् । तत्र ह्युपविष्टो यथा तत्र महान्यत्नः क्रियते एवं यानादावपि कर्तव्यः ॥२२०॥ (२) सर्वज्ञनारायणः । एवमिति यानादिष्वलंकरणान्तेषु विषशस्त्रादिशङ्कया प्रयत्न- विधानम् ॥२२०॥ (३) कुल्लूकः। एवंविधपरीक्षादिप्रयत्नं वाहनशय्यासनाशनस्नानानुलेपनेषु सर्वेषु चालङ्करणार्थेषु कुर्यात् २२०॥ (४) राघवानन्दः। पुत्रादपि धनभाजां भीतिरिति न्यायमाश्रित्य सर्वत्र भयना- शनार्थं प्रयत्नं विधत्ते। एवमिति । प्रसाधने केशादिसंस्कारे सर्वालंकारिकेषु कुत्सितमपि देहमलंक्रियते भूष्यते एभिरिति कटकमुकुटकङ्कणवस्त्रादयस्तेषु ॥२२०॥ (५) नन्दनः । एवं विषादिप्रयोगरक्षणे यत्नं कुर्वीत । स्नाने स्नानीय प्रसाधने गन्ध- पुष्पादौ ॥२२०॥ (८) गोविन्दराजः। एवमिति । एवंविधपरीक्षादिप्रयत्नं वाहनशयनासनभोजन- स्नानानुलेपनेषु सर्वालङ्कारार्थेषु कुर्वीत ॥२२०॥ भुक्तवान्विहरेच्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥२२१॥ (१) मेधातिथिः । तस्मिन्नेवान्तर्गृह आत्मविनोदाय स्त्रीभिर्नवोढभार्यादिभिर्यथासुखं क्रीडेत् । यथाकालमिति यावद्विहरणकालमिति चोत्तरेण सम्बन्धनीयम् । विहृत्य विश्रान्तः ।
७.२२३]
व्याख्यानवकोपेता
१७१
कालोपपन्नानि कार्याण्येकाकी मन्त्रिभिश्च सह पुनर्विचारयेत् ॥२२१॥
(२) सर्वज्ञनारायणः। विहरेत् क्रीडेत् ॥२२१॥
(३) कुल्लूकः । कृतभोजनश्च तत्रैवान्तःपुरे भार्याभिः सह क्रीडेत् । कालानतिक्रमेण च
सप्तमे दिवसस्य भागे तत्र विहृत्याष्टमे भागे पुनः कार्याणि चिन्तयेत् ॥२२१॥
(४) राघवानन्दः । दिवाभोजनमनुवदन् कार्यान्तराणि विधत्ते । भुक्तवानिति ।
स्त्रीभिः सहेत्यन्वयः । विहारोत्र चित्तप्रसाधनं मैथुनवर्ज दिवामैथुननिषेधात् ॥२२१॥
(८) गोविन्दराजः। भुक्तवानिति । कृतभोजनः सन् तस्मिन्नेवान्तःपुरे भार्याभिःसह
क्रीडेत् । कालातिक्रमेण च सप्तमे दिवसस्य भागे तत्र विहृत्याष्टमे भागे पुनः कार्याणि
चिन्तयेत् ॥२२१॥
अलंकृतश्च संपश्येदायुधीयं पुनर्जनम् ।
वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ॥२२२॥
(१) मेधातिथिः। अन्तःपुरान्निष्क्रम्यालंकृत आयुधीयं पश्यत्तस्याच्छायिकां दद्यात् ।
पुनरिति वचनात्पूर्वाह्ने दृष्टमपि नित्यं दर्शनीयम् । आयुधजीविनामायुधादौ यत्नो भवति ।
सर्वाणि च वाहनानि । तेषां दर्शनमप्युपचय विज्ञानार्थम्, नियुक्तांना च तत्र विशेषाधानार्थम् ।
दण्डप्रधानं जीविभृत्यावेक्षणमभीक्ष्णमुभयतस्ततः ॥२२२॥
(२) सर्वज्ञनारायणः। आयुधीयं जनं प्रातर्दृष्टमेव पुनः पश्येत् ॥२२२।।
(३) कुल्लूकः। कृतालङ्कारः सन्नायुधजीविनं वाहनानि हस्त्यश्वादीनि सर्वाणि च
शस्त्राणि खगादीन्यलङ्काररचनादीनि पश्येत् ॥२२२॥
(४) राघवानन्दः। आयुधीयमायुधजीवनम् । आभरणानि चर्मादीनि ॥२२२॥
(६) रामचन्द्रः। आयुधीयं जनं पाणिग्राहकं पुनःपुनः पश्यदित्यर्थः ॥२२२॥
(८) गोविन्दराजः। अलङकृत इति । अलङकृतश्च सन्नायुधजीविनं पुनर्जनं वाहनानि
चाश्वादीनि सर्वाणि खड्गादीनि च शस्त्राण्यलङ्करणानि च संपश्येत् ॥२२२॥
संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् ।
रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥२२३॥
(१) मेधातिथिः । वैवर्णिकस्योक्तमपि सन्ध्योपासनमुच्यते । प्रजाकार्य पुनः
कञ्चित्कालमतिक्रामेदिति । उत्तरक्रियानन्तर्यार्थं वा। अन्तर्वेश्मनि । रहसि प्रासादादौ भवम् ।
तस्याख्यायिनः पौरा वा केचित्प्राप्तप्रणिधयस्तेषां चेष्टितम्। चेष्टा व्यवहारः। कि
दृष्टं श्रुतं कृतं चेति तेषां चास्मिन्काले दर्शनमिष्यते । परैरनवबोधनार्थं स्वस्थस्य
चार्थकार्यकालनियमेनापतितं वर्तेत।
"यथा चोत्पादितं कार्य संपश्यन्नोऽभितापयेत् ।
कृच्छ्रसाध्यमतिक्रान्तमसांध्यं वाऽपि जायते॥” इति ॥२२३॥
(२) सर्वज्ञनारायणः। शस्त्रभृत् चारेभ्यः स्वरक्षार्थं रहस्याख्यायिनाममात्यादीनां
प्रणिधीनां चराणाम् ॥२२३॥
॥छ।। १७२ मनुस्मृतिः [७.२२५ (३) कुल्लूकः। गत्वेति ततः संध्योपासनं कृत्वा तस्मात्प्रदेशात्कक्षान्तरं विविक्त- प्रकोष्ठावकाशमन्यद्गत्वा गृहाभ्यन्तरे धृतशस्त्रो रहस्याभिधायिनां चराणां स्वव्यापार शृणुयात्। ततस्तं चरं संप्रेष्य परिचारिकास्त्रीवृतः पुनर्भोक्तुमन्तःपुरं विशेत् ।।२२३॥॥२२४॥ (४) राघवानन्दः । राज्ञोपि सन्ध्याकरणे न प्रतिनिधिरित्याह । सन्ध्यामिति । स्वयं- शस्त्रभृत् प्रच्छन्नभूतः । प्रणिधीनां चराणाम् । रहस्याख्यायिनां एकान्तेऽनुभूतार्थादिचेष्टाभि- धायिनाम् ॥२२३॥ (५) नन्दनः। रहस्याख्यायिकानां वाक्यानीति शेषः ॥२२३॥ इति श्रीनन्दनार्येण विरचिते मानवव्याख्याने सप्तमोऽध्यायः॥ ॥छ।। (६) रामचन्द्रः । रहस्याख्यायिनां चाराणां प्रणिधीनां अमात्यादीनां चेष्टितं शृणुयात् ॥२२३॥ (८) गोविन्दराजः। संध्यामिति । ततः संध्योपासनं कृत्वा गृहाभ्यन्तरे भृतशस्त्रो रहस्यामिधायिनां स्वव्यापारं शृणुयात् ॥२२३॥ गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् । प्रविशेद्धोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः ॥२२४॥ (१) मेधातिथिः । तस्माद्गृहान्ते कक्षान्तरं गत्वा तं च रहस्याख्यायिनं विसृज्य स्त्रीभिः परिचारिकाभिः परिवृतोऽन्तःपुरं पुनः प्रविशेत् ॥२२४॥ (२) सर्वज्ञनारायणः । कक्षान्तरं कक्षाविशेषमन्तःपुरस्य ॥२२४।। (४) राघवानन्दः । किंच गत्वेति । कक्षान्तरं विविक्तकोष्ठावकाशम् । तं जनं चारभूतम् । स्त्रियः परिचारिकाः ताभिर्वृतः तत्र तासामेव प्रवेशात् ॥२२४॥ (८) गोविन्दराजः । गत्वेति । तस्मात्प्रदेशादन्यद्विमुक्तं प्रदेशान्तरं गत्वा चारजनं संप्रेक्ष्य परिचारिका दिभिः स्त्रीवृतः सन् पुनर्भोक्तुमन्तःपुरं प्रविशेत् ॥२२४॥ तत्र भुक्त्वा पुनः किंचित्तूर्यघोषैः प्रहर्षितः । संविशेत्तु यथाकालमुत्तिष्ठेच गतक्लमः ॥२२५॥ (१) मेधातिथिः । किंचिदित्यव्ययम् । तूर्याणि वेणुवीणापणवमृदङ्गभेरीशंखादीनि । तेषां घोषैर्मृदुभिः श्रुतिसुखैः प्रहर्षितो यथाकालं संविशेत्, य उचितकालस्तं तन्नयेदिति । गतक्लमो विगताशेषदुःखः कार्यदर्शनायोत्तिष्ठेत् ॥२२५॥ (२) सर्वज्ञनारायणः । किंचित् अल्पभुक् ॥२२५॥ (३) कुल्लूकः । तत्रान्तःपुरे वादिनशब्दः श्रुतिसुखैः प्रहर्षितः पुनः किंचिद् भुक्त्वा नातितृप्तः कालानतिक्रमेण गतार्धप्रहरायां रात्रौ स्वप्यात् । ततो रात्रेः पश्चिमयामे च विश्रान्तः सन्नुत्तिष्ठेत् ॥२२५॥ (४) राघवानन्दः । संविशेत् शयीत। सालसो नोत्तिष्ठेदित्याह गतक्लमो गताजी- र्णादिश्रमः ।।२२५॥ (८) गोविन्दराजः। तत्र भुक्त्वा पुनः किञ्चित्तूर्यघोषैः प्रहर्षिभिः। संविशेच्च यथा- ।
७.२२६]
व्याख्यानवकोपेता
१७३
कालमुत्तिष्ठेद्विगतज्वरः । तत्रान्तःपुरे किञ्चिन्नातितृप्तं वादिवशद्वैः श्रुतिसुखैर्युक्ते भुक्त्वा
कालानतिक्रमेण गतार्धरात्रप्रहरायां रात्रौ सुप्यात् । सुप्त्वा च पश्चिमे यामे उत्तिष्ठेत् ॥२२५।।
एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः ।
अस्वस्थः सर्वमेतत्तु भृत्येषु विनियोजयेत् ॥२२६॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां राजधर्मो नाम सप्तमोऽध्यायः॥७॥
(१) मेधातिथिः । एतदिति यदनुक्रान्तं "मध्यंदिनर्धरात्रे वेति" तस्याप्येवं
वृत्तं व्यापारस्तेन स्वयमुपतिष्ठेत् । अस्वस्थो भृत्येषु विनियोजयेद्वियुञ्जीतेत्यर्थः ।
यावच्छक्नुयात्तावदेव । एवं प्रतिविहितस्वतन्त्रकृतात्मरक्षाव्यापारः प्रजानामात्मनश्च कार्य
करोति ॥२२६॥
इति श्रीभट्टमेधातिथिविरचिते मनुभाष्ये सप्तमोऽध्यायः ॥
(२) सर्वज्ञनारायणः । एतद्वृत्तं चेष्टितम् ॥२२६॥
इति श्रीसर्वज्ञनारायणकृतौ मन्वर्थविवृतौ सप्तमोऽध्यायः ॥७॥ राजधर्मसंकीर्तनं नामायं
समाप्तश्च ॥
(३) कुल्लूकः । एतद्यथोक्तप्रकारप्रजारक्षणादिकं नीरोगो राजा स्वयमनुतिष्ठेत् ।
अस्वस्थः पुनः सर्वमेतद्योग्यश्रेष्ठामात्येषु समर्पयेत् ॥२२६।।
इति श्रीकुल्लूकभट्टविरचितायां मन्वर्थमुक्तावल्यां सप्तमोऽध्यायः ॥७॥
(४) राघवानन्दः । परमप्रकृतमुपसंहरन्प्रतिनिधि विधत्ते एतदिति । विधानमनुष्ठेयं
दृष्टादृष्टार्थं षाड्गुण्याग्निहोत्रादिकम् ॥२२६॥
इति श्रीराघवानन्दविरचितायां मन्वर्थचन्द्रिकायां सप्तमोऽध्यायः ॥७॥
(६) रामचन्द्रः । अस्वस्थः दुःखितः राजा एतत्सर्वं राजमन्त्रादिकं भृत्येषु मन्त्रिषु
नियोजयेत् स्थापयेत् ॥२२६॥
इति मानवे धर्मशास्त्र सप्तमोऽध्यायः ॥७॥
(८) गोविन्दराजः । एतदिति । अरोगो राजतदनुत्क्रान्तं प्रजारक्षणादि स्वयमनु-
तिष्ठेत् । अस्वस्थः पुनः सर्वमेतदमात्येषु समर्पयेत् ॥२२६।।
इति श्रीभट्टमाधवात्मजगोविन्दराजविरचितायां मनुटोकायां मन्वानुसारिण्यां राजधर्मों
नाम सप्तमोऽध्यायः॥७॥