Svi-ksri-chennai

Sriiraamakand-aamuutamuu

PDF Proofread

Front matter

॥ क्रय्यसंस्कृतपुस्तकानि । ... ॥ काव्यग्रन्थाः ।। अच्युतरायाभ्युदयः भर्तृहरिविरचितनीतिशतकम्-आंगानुवादसहितम् भर्तृहरिशतकत्रयम्-मूलम् श्रीकृष्णकर्णामृतम् आंग्लानुवादसहितम् मेघसन्देश:-मल्लिनाथीयव्याख्यासमेत: चेन्नपुरीयपञ्च- यप्पकलाशालोपन्यस्तृभिः जी. जे. सोमयाजुलु महाशयैः विरचितैस्सम्पूर्णपीठिकांगानुवाद- विपुलांगुटीकाविन्यासैः सहितः मेघदूतम्-मल्लिनाथव्याख्यासहितम् रघुवंशः-मल्लिनाथीयव्याख्यासमेत: रामकर्णामृतम् सुभाषितत्रिशती-भर्तृहरिप्रणीता रामचन्द्ररचित- व्याख्यानसहिता सुभाषितनीवी-(मूलमात्रम्) श्रीमद्वेदान्तदोशकविरचिता श्रीनिवाससूरिकृतव्याख्यानसहिता सांगानु- बादा प्रतिपदांगार्थसहिता च ॥ गद्यग्रन्थाः॥ हर्षचरितम्-उच्छासत्रयात्मकम् सव्याख्यम्-चेन्नपुरीय- पञ्चयप्पकलाशाला संस्कृतोपाध्यायः वि. अनन्ताचार्यैः विरचितेन प्रतिपदांगार्थानुवादन एम्. ए. एम्. एल्., अडकेट, नारायणायः विरचिताभ्यां भूमिकांगानु- बादाभ्यां सहितम्

2oko2
॥ श्रीरस्तु ॥
॥ श्रीरामचन्द्रपरब्रह्मणे नमः ॥
THE KUPTUJSWAMY SAGTR
RESEARCH INSTITUT
RH. ROAD. MADRAR.
श्रीमच्छङ्करभगवत्पादविरचितं
॥ श्रीरामकर्णामृतम् ॥
चेन्नपुर्याम्
वाविक रामस्वामिशास्त्रुलु अण्ड् सन्स्
इत्येतेः प्रकटितम् .
१९३३
All Rights Reserved.

Printed by
V. RAMASWAMY SASTRULU & SONS
at the “VAVILLA' PRESS
Madras.-1933.

206०२
श्रीरामचन्द्रपरब्रह्मणे नमः.
॥श्रीरामकर्णामृतम्॥
१
२
३
॥ मङ्गळश्लोकाः॥
मङ्गळं भगवान्विष्णुर्मङ्गळं मधुसूदनः ।
मङ्गळं पुण्डरीकाक्षो मङ्गळं गरुडध्वजः ॥
मङ्गळं कोसलेन्द्राय महनीयगुणाब्धये ।
चक्रवर्तितनूजाय सार्वभौमाय मङ्गळम् ।।
वेदवेदान्तवेद्याय मेघश्यामलमूर्तये ।
पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गळम् ॥
विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः ।
भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् ॥
पितृभक्ताय सततं भ्रातृभिस्सह सीतया ।
नन्दिताखिललोकाय रामचन्द्राय मङ्गळम् ।।
त्यक्तसाकेतवासाय चित्रकूटविहारिणे ।
सेव्याय सर्वयमिनां धीरोदात्ताय मङ्गळम् ॥
सौमित्रिणा च जानक्या चापबाणासिधारिणा ।
संसेव्याय सदा भक्त्या सानुजायास्तु मङ्गळम् ।।
६
७

८
९
श्रीरामकर्णामृतम्
दण्डकारण्यवासाय खण्डितामरशसवे ।
गृध्रराजाय भक्ताय मुक्तिदायास्तु मङ्गलम् ।।
सादरं शबरीदत्तफलमूलाभिलाषिणे ।
सौलभ्यपरिपूर्णाय सत्त्वोद्युक्ताय मङ्गळम् ॥
हनूमत्समवेताय हरीशाभीष्टदायिने ।
वालिप्रमथनायास्तु महाधीराय मङ्गलम् ॥
श्रीमते रघुवीराय सेतुलवितसिन्धवे ।
जितराक्षसराजाय रणधीराय मङ्गळम् ।।
आसाद्य नगरी दिव्यामभिषिक्ताय सीतया ।
राजाधिराजराजाय रामभद्राय मङ्गलम् ॥
विभीषणते प्रीत्या विश्वाभीष्टप्रदायिने ।
जानकीप्राणनाथाय सदा रामाय मङ्गळम् ।।
११
१२
१३

॥ श्रीरामकर्णामृतप्रारम्भः॥
श्रीरामं त्रिजगद्गुरुं सुरवरं सीतामनोनायक
श्यामाझं शशिकोटिपूर्णवदनं चंचत्कलाकौस्तुभम् ।
सौम्यं सत्यगुणोत्तमं सुसरयूतीरे वसन्तं प्रभु
वातारं सकलार्थसिद्धिसहितं वन्दे रघूणां पतिम् ॥
१
श्रीराघवं दशरथात्मजमप्रमेयं सीतापति रघुवरान्वयरत्नदीपम् ।
आजानुबाहुमरविन्ददळायताक्षं रामं निशाचरविनाशकरं नमामि ॥
श्रीरामं बलवैरिनीलचिकुरं स्मेराननं श्यामलं
कर्णान्तायतलोचनं सुरवरं कारुण्यपाथोनिधिम् ।
शोणाम्भोरुहपादपल्लवयुगं क्षोणीतनूजायुतं
राजत्कुण्डलगण्डभागयुगळं रामं सदाहं भजे ॥
३
श्रीराम जगदेकवीरममलं सीतामनोरञ्जनं
कौसल्यावरनन्दनं रघुपति काकुत्स्थवंशोद्भवम् ।
लोकानामभिराममङ्गळघनव्यापारपारायणं
वन्देऽहं जनघोरपापनिकरध्वंसं विभुं राघवम् ।।
श्रीराम जगदीश्वरं जनकजाजानि जनानन्दनं
जन्तूनां जनकं जनातिहरणं लोकेश्वरं शाश्वतम् ।
आबाल्यादि मुनीश्वरैः परिवृतं जाज्वल्यमानं सदा
जंघालं जमदग्निसूनुहरणं जातानुकंपं भजे ॥
४

w
८
श्रीरामकर्णामृतम्
श्रीरामो रघुनायको रघुवरो राजीवनेत्राञ्चितो
राजेन्द्रो रघुपुङ्गवो रघुकुलोत्तंसो रघूणां पतिः ।
रामो राक्षसनाशनोऽमितबलो राकेन्दुपूर्णाननो
राजत्किङ्किणिकङ्कणाङ्कितकरो रामस्सदा पातु नः ॥
६
श्रीरामचन्द्र करुणाकर राघवेन्द्र राजेन्द्र चन्द्र रघुवंशसमुद्रचन्द्र ।
सुग्रीवनेत्रयुगळोत्पलपूर्णचन्द्र सीतामनःकुमुदचन्द्र नमो नमस्ते ।।
श्रीरामं करुणाकरं गुणनिधि सीतापति शाश्वतं
पारावारगभीरमब्जनयनं प्रावृवनश्यामलम् ।
वीरश्रेष्ठमनामयं विजयिनं विश्वप्रकाशात्मकं
घोरारिप्रकराधिजप्रहरणं कोदण्डरामं भजे ॥
श्रीरामचन्द्रति सलक्ष्मणेति, नीलोत्पलश्यामलकोमलेति
आक्रोशयुक्ता त्वधुनैव जिह्वा, सीपापते राघव राघवेति ।। ९
श्रीरामचन्द्रे रमतां मनो मे रमाङ्गवामे विपदां विरामे
जितारिरामे प्रणतारिरामे गुणाभिराम भुवनैकरामे ॥ १०
श्रीरामचन्द्र रघुपुङ्गव राजवर्य राजेन्द्रराज सुरनायक राघवेश ।
राजाधिराज रघुनंदन रामभद्र दासोऽस्म्यहं च भवतश्शरणागतोऽस्मि।
श्रीरामं सरसीरुहाक्षममलं दूर्वाङ्कुरश्यामलं
विद्युत्कोटिनिभप्रभाम्बरधरं वीरासनाधिष्ठितम् ।
वामाङ्कोपरिसंस्थितां जनकजामालिङ्गय तां बाहुना
तत्त्वञ्चापरपाणिना मुनिगणानाज्ञापयन्तं भजे ॥
१
श्रीरामस्सकलेश्वरो मम पिता माता च सीता मम
भ्राता ब्रह्म सखा प्रभञ्जनसुतः पत्नी विरक्तिः प्रिया ।

INEERI AAYEnSin
RESEARCH INSTITUTS
BAR.H. ROAD. MADRAS
प्रथमाश्वासः
१३
१
विश्वामित्रविभीषणादिवशगा मित्राणि बोधस्सुतो
भक्तिः श्रीहरिसङ्गता रतिसुखं वैकुण्ठमस्मत्पदम् ।।
श्रीरामामलपुण्डरीकनयन श्रीराम सीतापते
गोविंदाच्युत नन्दनन्दन मुकुन्दानन्द दामोदर ।
विष्णो राघव वासुदेव नृहरे देवौघचूडामणे
संसारार्णवकर्णधारक हरे कृष्णाय तुभ्यं नमः ॥
राम लक्ष्मणपूर्वजं रघुवरं सीतापति सुन्दरं
काकुत्स्थं करुणाकरं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजत्कुण्डलमण्डिताननरुचिं रात्रिञ्चरध्वंसिनं
शंपाकोटिसमानकान्तिविलसन्मायामृगन्नं भजे ।।
रामं रत्नकिरीटकुण्डलधरं केयूरहारान्वितं
सीतालंकृतवामभागमतुलं सिंहासनस्थं प्रभुम् ।
सुग्रीवादिसमस्तवानरवरैस्संसेव्यमानं सदा
विश्वामिवपराशरादिमुनिभिस्संस्तूयमानं भजे ॥
रामस्सीतासमेतो निवसतु हृदये सानु राममीळे
रामेण क्षीणपापस्त्रिविधमपि कृतं कर्म रामाय दद्याम् ।
रामादन्यं न जाने न हि किमपि महारामनाम्रस्समानं
रामे पश्यामि विश्वं भुवनमनुदिनं पाहि मां रामचन्द्र ॥
राम राजशिखामणिं खुपति देवारिदीपहं
लोकानां हितकारिणं गुणनिधिं कारुण्यपुण्योदयम् ।
मुक्ताविद्रुमरत्नशोभिततनुं सौन्दर्यहस्ताम्बुजं
कौसल्यातनयं भजामि सततं श्रीजानकीनायकम् ।।
१६
१८

१
९
२०
श्रीरामकर्णामृतम्
रामं वीरासनस्थं हृदयगतकरोदञ्चितज्ञानमुद्रं
जानुन्यासक्तहस्तं क्षितिवरतनयाभूषितं वामभागे ।
षटकोणे व्याहरन्तं पवनसुतयुतं मानसे मानयन्तं
सुग्रीवे सेवमाने दृढशरधनुषा दक्षिणे लक्ष्मणेन ।
रामं सौमित्रिमित्रं रघुपतिममलं रामचन्द्रं रमेशं
रम्यं श्रीराघवेशं शुभललितमुखं शुद्धसत्त्वं सुवीरम् ।
सीतासौन्दर्यपात्रं सुरमुनिविनुतं नीरदेंदीवराभं
वन्दे वन्दारुपालं रजनिचरहरं रम्यकोदण्डरामम् ।।
रामं चन्दनशीतलं क्षितिसुतामोहाकरं श्रीकरं
वैदेहीनयनारविन्दमिहिरं सम्पूर्णचन्द्राननम् ।
राजानं करुणासमेतनयनं सीतामनोनन्दनं
सीतादर्पणचारुगण्डललितं वन्दे सदा राघवम् ।।
रामं श्यामाभिरामं रविशशिनयनं कोटिसूर्यप्रकाशं
दिव्यं दिव्यास्त्रपाणि शरमुखशरधिं चारुकोदण्डहस्तम् ।
कालं कालाग्निरुद्रं रिपुकुलदहनं विघ्नविच्छेददक्षं
भीमं भीमाट्टहासं सकलभयहरं रामचन्द्रं भजेऽहम् ।।
रामचन्द्रचरिताकथामृतं लक्ष्मणाग्रजगुणानुकीर्तनम् ।
राघवेश तव पादसेवनं संभवन्तु मम जन्मजन्मनि ।।
रामो मत्कुलदैवतं सकरुणं रामं भजे सादर
रामेणाखिलघोरपापनिहती रामाय तस्मै नमः ।
रामानास्ति जगत्त्रयैकसुलभो रामस्य दासोऽस्म्यहं
रामे प्रीतिरतीव मे कुलगुरो श्रीराम रक्षस्व माम् ।।
२१
२२
२३

प्रथमाश्वास: or श्रीरामचन्द्र तव कार्तिसुरद्रुमस्य तारागणस्सुमनसः फलमिन्दुबिम्बम् । मूलं फणाफणिगतं गगनञ्च मध्यं शाखा दिशो भुवनमण्डलमालवालम् ।। वैदेहीं मुदितोऽभियातपुलकां गाढं समालिङ्गयन् वामेन स्तनचूचुकं पुलकितं वामं करेण स्पृशन् । तत्त्वं दक्षिणपाणिना कलितया चिन्मुद्रया बोधयन् रामो मारुतिसेवितः स्मरतु मां साम्राज्यसिंहासने । वामाङ्कस्थितजानकीपरिलसत्कोदण्डदण्डं करे चक्रं चोर्ध्वकरण बाहुयुगळे शङ्ख शरं दक्षिणे। बिभ्राणं जलजातपत्रनयनं भद्राद्रिमूर्ध्नि स्थितं केयूरादिविभूषितं रघुपतिं रामं भजे श्यामलम् ।। वामे भूमिसुता पुरस्तु हनुमान्पश्चात्सुमित्रासुत- शत्रुघ्नो भरतश्च पार्श्वदळयोर्वाग्वादिकोणेष्वपि । सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान मध्ये नीलसरोजकोमलमधिं रामं भजे श्यामलम् ।। वैदेहीसहितं सुरद्रुमतले हैमे महामण्टपे मध्येपुष्पकमासने मणिमये वीरासने संस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ वैदेही परिरभ्य जातपुलका लज्जावती सुस्मितां काञ्चीनूपुरहारकङ्कणलसत्कणावतंसोज्ज्वलाम् । २८ २९

३१
३२
श्रीरामकर्णामृतम्
कस्तूरीघनसारचर्चितकुचां चन्द्राननां श्यामलं
कन्दर्पाधिकसुन्दरं रघुपति श्रीरामचन्द्रं भजे ॥
वैदेहीरमणं विभीषणविभुं विष्णुस्वरूपं हरिं
विश्वोत्पत्तिप्रपत्तिपोषणकरं विद्याधरैरचितम् ।
वैरिध्वंसकरं विरिञ्चिजनकं विश्वात्मकं व्यापक
व्यासांगीरसनारदादिविनुतं वन्दामहे राघवम् ॥
वैदेहस्य पुरे विवाहसमये कल्याणवेद्यन्तरे
सामोदे विमलेन्दुरत्नखचिते पीठे वसन्तौ शुभे ।
शृण्वन्तो निगमान्ततत्त्वविदुषामाशीर्गिरस्सादरं
पायास्तां सुवधूवरौ खुपतिः श्रीजानकी चानिशम् ।।
असितकमलभासा भासयन्तं त्रिलोकं
दशरथकुलदीपं दैवताम्भोजभानुम् ।
दिनकरकुलवालं दिव्यकोदण्डपाणिं
कनकखचितरनालङ्कतं राममीळे ॥
सुस्निग्धं नीलकेशं स्फुटमधुरमुखं मुन्दरभ्रूललाटं
दीर्घाक्षं चास्नासापुटममलमणिश्रेणिकादन्तपंक्तिम् ।
बिम्बोष्टं कठिनतरमहोरस्कमाजानुबाहुं
मुष्टिग्राह्यावलग्नं पृथुजघनमुदारोमजङ्घातिमीळे ।।
वन्दामहे महेशानचण्डकोदण्डखण्डनम् ।
जानकीहृदयानन्दचन्दनं रघुनन्दनम् ।।
जानाति राम तव नामरुचिं महेशो
जानाति गौतमसती चरणप्रभावम् ।
३
३४
३
३५

प्रथमाश्वासः
११
३७
जानाति दोबलपराक्रममीशचापो
जानात्यमोघपटुबाणगति पयोधिः ॥
दिव्यस्यन्दनमध्यगं रणरणच्चापान्वितं भीषणं
कालाग्निप्रतिमानबाणकलितं घोरास्त्रतूणीद्वयम् ।
सुग्रीवाङ्गदरावणानुजमरुत्पुत्रादिसंसेवितं
रामं राक्षसवीरकोटिहरणं रक्ताम्बुजाक्षं भजे ॥
ब्रह्माद्यामरसिद्धजन्म भुवनं यन्नाभिपङ्केरुहं
श्रीनिर्वाणनिकेतनं यदुदरं लोकैकशय्यागृहम् ।
यद्वक्षः कमलाविलासभवनं यन्नाममन्त्रं सतां
वासागारमखण्डमङ्गळनिधिः पायात्स वो राघवः ।।
३८
शृङ्गारं क्षितिनन्दनीविहरणे वीरं धनुर्भञ्जने
कारुण्यं बलिभोजनेऽद्भुतरसं सिन्धौ गिरिस्थापने ।
हास्यं शूर्पणखामुखे भयवहे बीभत्समन्यामुखे
रौद्रं रावणमर्दने मुनिजने शान्तं वपुः पातु नः ॥
३९
माता रामो मत्पिता रामचन्द्रो भ्राता रामो मत्सखा राघवेशः ।
सर्वस्वं मे रामचन्द्रो दयाळुनर्नान्यं दैवं नैव जाने न जाने ।
मूले कल्पद्रुमस्याखिलमणिविलसद्रनसिह्मासनस्थं
कोदण्डेनाशुगेनोल्लसितकरयुगेनार्चितं लक्ष्मणेन ।
वामांकन्यस्तसीतं भरतभृतमहामौक्तिकच्छत्रकान्ति
शत्रुघ्न चामराभ्यां सुविलसितकरे रामचन्द्रं भजेऽहम् ।।
वामे कोदण्डदण्डं निजकरकमले दक्षिणे बाणमेकम्
पश्चाद्भागे च नित्यं दधतमभिमतं साचितूणीरभारम् ।

४४
४५
१२
श्रीरामकर्णामृतम्
वामेऽवामे लसद्भयां सहमिलिततर्नु जानकीलक्ष्मणाभ्यां
रामं श्यामं भजेऽहं प्रणतजनमनःखेदविच्छेददक्षम् ।।
अम्बोधरश्यामलमम्बुजाक्षं धनुर्धरं वीरजटाकलापम् ।
पार्श्वद्वये लक्ष्मणमैथिलीभ्यां निषेव्यमाणं प्रणमामि रामम् ।। ४३
कोदण्डदीक्षागुरुमप्रमेयं सलक्ष्मणं दाशरथिं दयाळुम् ।
आजानुबाहुं जगदेकवीरमनाथनाथं रघुनाथमीडे ।।
कर्पूराङ्गविलेपनं रघुवरं राजीवनेत्रं प्रभु
कस्तूरीनिकराकृतिं खरधृतिप्रध्वंसिनं श्रीहरिम् ।
कन्दर्पायुतकोटिसुन्दरतनुं कामारिसेव्यं गुरूं
कान्ताकामदमप्रमेयममलं सीतासमेतं भजे ॥
नीलाब्दबृन्दसदृशं परिपूर्णदेहं दिक्पालकादिसुरसेवितपादपद्मम् ।
पीताम्बरं कनककुण्डलशोभिताङ्गं सीतापति रघुपतिं सततं भजामि ।।
भर्गब्रह्मसुरेन्द्रमुख्यदिविजप्राञ्चकिरीटाग्रसं-
सर्गानेकमणिप्रभाकरसहस्राभं पदाम्भोरहे ।
दुर्गासन्ततसंस्तुताङ्गिकमलं दुर्वारकोदण्डिनं
गङ्गाविस्फुटमौळिमानसहरं कल्याणरामं भजे ॥
अग्रे प्राञ्जलिमाञ्जनेयमनिशं वीरञ्च तारासुतं
पार्श्व पंक्तिमुखानुजं परिसरे सुग्रीवमग्रासने ।
पश्चालक्ष्मणमन्तिके जनकजां मध्ये स्थितं राघवं
चिन्तातूलिकया लिखन्ति सुधियश्चित्तेषु पीताम्बरम् ।।
क्षीराम्भोनिधिमध्यवर्तिनि सिते द्वीपे सुवर्णाचले
रत्नोलासितकल्पभूरुहतले जाम्बूनदे मण्डपे ।
४८

प्रथमाश्वासः
तेजोभ्राजितवेदिके सुरुचिरे माणिक्यसिंहासने
हेमाम्भोरुहकर्णिकापरितले वीरासनस्थं भजे ॥
दोर्दण्डने च मण्डलीकृतमहाकोदण्डचण्डाशुगै-
निर्घाते रविकोटितुल्यनिशितैब्रह्मादिमुख्यस्तुतैः ।
सुग्रीवादिसमस्तवानरवरानाज्ञापयन्तं गिरा
दैत्यान ताडय ताडयेत्यनुपदं श्रीरामचन्द्रं भजे ॥
भूकम्पं जनयन्नभो विदळयन्नम्भोनिधि क्षोभयन्
देतेयांश्च विमर्दयन् गिरिवरान भिन्दन दिशः पूरयन् ।
वैदेहीमतिमोदयन् सकलगीर्वाणान् शिरःकम्पयन्
कल्याणो खुरामबाणविलसत्कोदण्डचण्डध्वनिः ।।
५१
विमलकमलनेत्रं विस्फुरनीलगानं तपनकुलपवित्रं दानवध्वांतमित्र ।
भुवनशुभचरित्रं भूमिपुत्रीकळत्रं दशरथवरपुत्रं नौमि रामाख्यमित्रम् ।।
जननी जानकी साक्षाजनको रघुनन्दनः ।
लक्ष्मणो मित्रमस्माकं को विचारः कुतो भयम् ।।
५३
जनको रामचन्द्रो मे जननी जनकात्मजा ।
हनुमत्प्रमुखास्सर्वे हरयो मम बान्धवाः ।।
जगति विशदमन्त्रं जानकीप्राणमन्त्रं
विबुधविनुतमन्त्रं विश्वविख्यातमन्त्रम् ।
दशरथसुतमन्त्रं दैत्यसंहारमन्त्रं
रघुपतिनिजमन्त्रं रामरामेति मन्त्रम् ॥
सीताया दक्षिणे पार्श्व लक्ष्मणस्य च पार्श्वतः ।
तन्मध्ये राघवं वन्दे धनुर्बाणधरं हरिम् ।।

१४ श्रीरामकर्णामृतम् चान्द्रोपमं मलयचन्दनचर्चिताङ्गं मन्दारपुष्पपरिपूजितपादपद्मम् । ब्रह्मेन्द्रवन्धमनिशं मुनिबृन्दसेव्यं वन्देऽरविन्दनयनं रघुरामचन्द्रम् ॥ इक्ष्वाकुनन्दनं सुग्रीवपूजितं त्रैलोक्यरक्षक सत्यसन्धं सदा । राघवं रघुपति राजीवलोचनं रामचन्द्रं भजे राघवेशं भजे ॥ ब्रह्मामृतानन्दफलप्रदायिनं वेदान्तविज्ञानसुगन्धपुष्पितम् । सीताशुभाङ्गाञ्चितबाहुशाखिनं श्रीरामकल्पद्रुममाश्रयामः ।। ५९ कनकनिकषभासा सीतयाऽलिङ्गिताङ्गो नवकुवलयदामश्यामवर्णाभिरामः । अभिनवयुतविद्युन्नन्दितो मेघखण्ड- श्शमयतु मम तापं सर्वदा रामचन्द्रः ।। ६० अलं शास्त्राभ्यासैरलमसकृदाम्नायपठनै- रलं तीर्थस्नानरलमखिलयागवतजपैः । अलं योगाभ्यासैरलमपि महापातकभिया यदस्माकं रामस्मरणमहिमा सा विजयते ॥ ६१ सीतामनोमानसराजहंस संसारसन्तापहर क्षमावन् । श्रीराम दैत्यान्तक शान्तरूप श्रीतारकब्रह्म नमो नमस्ते । ६२ कदा वा साकेते विमलसरयूतीरपुलिने समासीनश्श्रीमद्रघुपतिपदाब्जे हृदि भजन् । अये रामस्वामिन् जनकतनयावल्लभ विभो प्रसीदेति क्रोशनिमिषमिव नेष्यामि दिवसान् । कदा वा साकेते तरुणतुलसीकाननतले निविष्टस्ते पश्यन्नविहतविशालोयतिलकम् ।

प्रथमाश्वास:
१५
अये सीतानाथ स्मृतजनपते दानवजयिन्
प्रसीदेति क्रोशनिमिषमिव नेष्यामि दिवासान।
कदा वा साकेते मणिखचितसिंहासनतले
समासीनं राम जनकतनयालिङ्गिततनुम् ।
अये सीताराम त्रुटितहरधन्वन् रघुपते
प्रसीदेति क्रोशनिमिषमिव नेष्यामि दिवसान् ।
मार्गेमार्गे शाखिनां रत्नवेदी वेद्यांवेद्यां किन्नरीबृन्दगीतम् ।
गीतगीते मजुळालापगोष्ठी गोष्ठयांगोष्ठयां त्वत्कथा रामचन्द्र ॥
घृक्षवृक्षे वीक्षिताः पक्षिसङ्घाः सङ्घसङ्घ मञ्जुलामोदवाक्यम् ।
वाक्येवाक्ये मजुलालापगोष्ठी गोष्ठयांगोष्ठयां त्वत्कथा रामचन्द्र ।।
श्वेतपुष्पकमारुह्य सीतया सह राघव ।
सुग्रीवादिभवद्भक्तैर्मनोमध्ये रमस्व मे ।।
६८
दोर्भिः खड्गं त्रिशूलं डमरुमसिधनुश्चारुबाणं कुठारं
शङ्खचक्रञ्च खेटं हलमुसलगदाभिंडिवालञ्च पाशं ।
विद्युद्वह्नींश्च मुष्टिं त्वभयवरकरं बिभ्रतं शुभ्रवर्ण
वन्दे रामं त्रिनेत्रं सकलरिपुकुलं मर्दयन्तं प्रतापैः॥
दुरिततिमिरचन्द्रो दुष्टकञ्जातचन्द्रः
सुरकुवलयचन्द्रस्सूर्यवंशाब्धिचन्द्रः ।
स्वजनीनवहचन्द्रश्शत्रुराजीवचन्द्रः
प्रणतकुमुदचन्द्रः पातु मां रामचन्द्रः ॥
कल्याणदं कौशिकयज्ञपालं कलानिधिं काञ्चनशैलधीरम् ।
कञ्जातनेत्रं करुणासमुद्र काकुत्स्थरामं कलयामि चित्ते ।।
६

१६ श्रीरामकर्णामृतम् वाल्मीकिस्मृतिमन्दरेण मथितस्सीतारमासम्भव- स्सुग्रीवाङ्गदजाम्बवादिपतगस्सौमित्रिचन्द्रोदयः । वातोत्पन्नमणिविभीषणसुधः पौलस्त्यहालाहल- इश्रीरामायणदुग्धवार्धिरमलो भूयात् सुखश्रेयसे ॥ ७२ रघुनन्दन एव दैवतं नो रघुवंशोद्भव एव दैवतं नः । भरताग्रज एव दैवतं नो भगवान् राघव एव दैवतं नः ॥ ७३ उत्फुल्लानलकोमलोत्पलदलश्यामाय रामामन- श्चन्द्राय प्रशमाय निर्मलगुणारामाय रामात्मने । ध्यानारूढमुनीन्द्रमानससरोहंसाय संसारवि- ध्वंसायाद्भुततेजसे रखुकुलोत्तंसाय पुंसे नमः ।। राजीवायतलोचनं रघुवरं नीलोत्पलश्यामलं मन्दाराञ्चितमण्डपे सुललिते सौवर्णके पुष्पके । आस्थाने नवरत्नराजिखचिते सिंहासने संस्थितं सीतालक्ष्मणलोकपालसहितं वन्दे मुनीन्द्रास्पदम् ।। वल्लीप्रवालनवपल्लवपादप- कञ्जक्षणं जलदनीलसरोरुहाभम् । सीमन्तिनीनयनमोहनमूलमन्त्र रामं नमामि मुनिमानसराजहंसम् ॥ अलं विवादेन न मानुषोऽयं रामात्मना राक्षसमर्दनाय । भुजङ्गशय्यां परिमुच्य साक्षान्नारायणो भूवलमाजगाम ।। लोकत्राणानुकारी दशवदनशिरःपंक्तिविच्छेदकारी लङ्कालङ्कारहारी भृगुननयमनस्सर्वगर्वापहारी। सीतासीमन्तकारी मणिमयमकुटो दिव्यकोदण्डधारी श्रीरामः पापहारी शमयतु दुरितं भूमिभारापहारी ।।

प्रथमाश्वासः
१७
ब्रह्मादियोगिमुनिपूजितसिद्धमन्त्रं दारिद्यदुःखभवरोगविनाशमन्त्रम् ।
संसारसागरसमुत्तरणैकमन्त्रं वन्दे महाभयहरं रघुराममन्त्रम् ॥
शत्रच्छेदैकमन्त्रं सरसमुपनिषद्वाक्यसम्पूज्यमन्त्रं
संसारोत्तारमन्त्रं समुचितसमये सङ्गनिर्याणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं
जिह्वे श्रीराममन्त्र जप जप सफलं जन्मसाफल्यमन्त्रम् ।।
आकर्णमारूढधनुर्गुणाढ्यं ब्रह्मास्त्रमुण्डीकृतराक्षसेन्द्रम् ।
रथाधिरूढं रणरङ्गधीरं रामं भजे रक्तसरोरुहाक्षम् ॥ ८१
एतौ तौ दशकण्ठकण्ठकदळीकान्तारकान्तिच्छिदौ
वैदेहीकुचकुम्भकुङ्कुमलसत्पङ्कारुणालङ्कृती
विश्ववाणनिदानसाधुसवनप्रारम्भयूपौ भुजौ
देयास्तामुरुविक्रमौ रघुपते श्रेयांसि भूयांसि नः ।।
८२
वामाङ्कोपरिसंस्थितावनिसुतामामुक्तभूषोज्जुलां
पश्यन्तं परिपूर्णचन्द्रवदनं भ्राजकिरीटोज्जलम् ।
आसीनं नवरत्नराजिखचिते सिंहासने राघवं
सुग्रीवाङ्गदलक्ष्मणानिलसुतैरासेव्यमानं भजे ।।
८३
जानक्याः कमलामलाञ्जलिपुटे याः पद्मरागायिता
व्यस्ता राघवमस्तके तु विलसत्कुन्दप्रसूनायिताः ।
सस्ता श्यामलकायकान्तिकलिता या इन्द्रनीलायिताः
मुक्तास्ताश्शुभदा भवन्तु भवतां श्रीरामवैवाहिकाः ॥
८४
नित्यं श्रीराममन्त्रं निरुपममधिकं नीतिसुज्ञानमन्वं
सत्यं श्रीराममन्त्रं सदमलहृदये सर्वदारोग्यमन्त्रम् ।
R. K.2

१८
८७
श्रीरामकर्णामृतम्
स्तुत्यं श्रीराममन्त्रं सुललितसुमनस्सौख्यसौभाग्यमन्त्रं
पठ्यं श्रीराममन्त्रं पवनजवरदं पातु मां राममन्त्रम् ।।
व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं
दैत्योन्मूलकरौषधं भवभयप्रध्वंसनैकौषधम् ।
भक्तानन्दकरौषधं त्रिभुवने सञ्जीवनकौषधं
श्रेयःप्राप्तिकरौषधं पिब मनः श्रीरामनामौषधम् ।।
ध्याये प्रातस्सुरेशं रविकुलतिलकं रञ्जितानन्तलोकं
बालं बालारुणाक्षं भवमुखविनुतं भावगम्यं भवघ्नम् ।
दीव्यन्तं स्वर्णकृप्तैर्मणिगणनिकरैर्भूषणैरुज्जलाझं
कौसल्यादेहजातं मम हृदयगतं राममीषस्मितास्यम् ।।
मध्याह्ने रामचन्द्रं मणिगणललितं मन्दहासावलोक
मार्ताण्डानेकभासं मरकतनिकराकारमानन्दमूर्तिम् ।
सीतावामाङ्कसंस्थं सरसिजनयनं पीतवासो वसानं
वन्देऽहं वासुदेवं वरशरधनुषं मानसे मे विभान्तम् ।।
ध्याये रामं सुधांशु नतसकलभवारण्यतापप्रहारं
श्याम शान्तं सरेन्द्र सुरमुनिविनुतं कोटिसूर्यप्रकाशम् ।
सीतासौमित्रिसेव्यं सुरनरसुगमं दिव्यसिंहासनस्थं
सायाह्ने रामचन्द्रं स्मितरुचिरमुखं सर्वदा मे प्रसन्नम् ॥
केयूराङ्गदकङ्कणैर्मणिगणैर्वैरोचमानं सदा
राकापर्वणिचन्द्रकोटिसदृशं छत्रेण वैराजितम् ।
हेमस्तम्भसहस्रषोडशयुते मध्ये महामण्डपे
देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥
८८
८९
९०

20602
प्रथमाश्वासः
विहाय कोदण्डमिमं मुहूर्त गृहाण पाणौ मणिचारवेणुं।
मायूरबर्हञ्च निजोत्तमांङ्गे सीतापते राघव रामचन्द्र ॥
शुद्धान्ते मातृमध्ये दशरथपुरतः सञ्चरन्तं परं तं
काञ्चीदामानुविद्धप्रतिमणिविलसत्किङ्किणीनिक्कणाङ्गम् ।
फाले मुक्ताललामं पदयुगनिनद नूपुरं चारुहासं
बालं रामं भजेऽहं प्रणतजनमनःखेदविच्छेददक्षम् ।। ९२
सम्पूर्णचन्द्रवदनं सरसीरुहाक्षमाणिक्यकुण्डलधरं मकुटाभिरामं ।
चांपेयगौरवसनं शरचापहस्तं श्रीरामचन्द्रमनिशं मनसा स्मरामि ॥
इन्द्रनीलमणिसन्निभदेहं वन्दनीयमसकृन्मुनिबृन्दैः ।
लम्बमानतुलसीवनमालं चिन्तयामि सततं रघुवीरम् ॥
रामचन्द्र दयासान्द्र रघुवीर नृपोत्तम ।
लोचनाभ्यां कृपापूरपूर्णाभ्यां मां विलोकय ।।
गमेति वर्णद्वयमादरेण सदा स्मरन् मुक्तिमुपैति जन्तुः ।
कलौ युगे कल्मषमानुषणामन्यत्र धर्मे खलु नाधिकारः ॥
भक्तप्रियं भक्तसमाधिगम्यं चिंताहरं चिंतितकामधेनुं ।
सूर्येन्दुकोटिद्युतिभास्वरं तं रामं भजे राघवरामचन्द्रम् ।।
९७
सकल भुवनरत्नं सर्वशास्त्रार्थरनं समरविजयरत्नं सच्चिदानन्दरत्नं ।
दशमुखहररत्नं दानवारातिरत्नं रघुकुलनृपरत्नं पातु मां रामरत्नम् ।।
मातुः पार्श्व चरन्तं मणिमयशयने मजुभूषांचिताङ्गं
मन्दमन्दं पिबन्तं मुकुळितनयनं स्तन्यमन्यस्तनाग्रम् ।
अङ्गळ्यप्रैः स्पृशन्तं सुखपरवशया सस्मितालिङ्गिताङ्गं
गाढं गाढं जनन्या कलयतु हृदयं मामकं रामबालम् ॥ ९९

२०
श्रीरामकर्णामृतम्
रामाभिरामं नयनाभिरामं वाचाभिरामं वदनाभिरामं ।
सर्वाभिरामं च सदाभिरामं वन्दे सदा दाशरथिं च रामम् ॥ १००
जय जय रघुराम श्रीमुखांभोजभानो
जय जय रघुवीर श्रीमदभोजनेत्र ।
जय जय रघुनाथ
श्रीकराभ्यर्चिताङ्के
जय जय रघुवर्य श्रीश कारुण्यसिंधो ॥
जय जय वरशङ्खश्रीगदाचक्रधारिन्
जय जय निजदासप्रार्थितार्थप्रदायिन् ।
त्रिभुवनमयसर्वप्राणिभावज्ञ विष्णो
शरणमुपगतोऽहं त्वां शरण्यं वरेण्यम् ।।
वेदवेद्ये परे पुंसि जाते दशरथात्मजे ।
वेदः प्राचेतसादासीत् साक्षाद्रामायणात्मना ।
श्रीरामेत्येकदा वक्तुं मनो यस्य प्रवर्तते ।
वैकुण्ठवासिनस्तस्य कुलमेकोत्तरं शतम् ।।
१०४
राशब्दोच्चारमात्रेण मुखानियोति पातकाः ।
पुनः प्रवेशभीत्या च मकारस्तु कवाटवत् ।।
१०५
श्रीरामायणमादिकाव्यमृषिणा वाल्मीकिना निर्मितं
वेदान्तार्थविशारदैरनुदिनं स्तुत्यं सुरैरर्चितम् ।
श्रोतृणामघनाशनं सुरतरोस्तुल्यं तु मुक्तिप्रदं
ये शृण्वंति पठंति रामचरितं ते यांति विष्णोः पदम ।।
श्रीरामकर्णामृते
प्रथमाश्वासः
समाप्तः

श्रीरामचन्द्र परब्रह्मणे नमः. ॥श्रीरामकर्णामृतम् ॥ १ ।। द्वितीयाश्वासः॥ श्रीराम जनकक्षितीश्वरसुतावक्राम्बुजाहारिणं श्रीमद्भानुकुलाब्धिकौस्तुभमणिं श्रीरत्नवक्षस्स्थलम् । श्रीकण्ठाद्यमरोघरत्नमकुटालङ्कारपादाम्बुजं श्रीवत्सोजलमिन्द्रनीलसदृशं श्रीरामचन्द्रं भजे ।। श्रीरङ्गेशपदाब्जलग्नहृदयं श्रीशङ्खचक्रान्वितं श्रीमनिर्जरपादपस्फुटपदं श्रीसिंहपीठस्थितम् । श्रीवैकुण्ठसहस्रमस्तकलसद्भोगासने शायिनं श्रीभूमीसुतया युतं श्रितनिधिं श्रीराममूर्तिं भजे ॥ आनन्दनन्दमरुणाधरमम्बुजाक्ष- मापीतवस्त्रमतसीकुसुमोजलाङ्गम् । अक्षांतवर्णमकलङ्कममेयमाद्य- मत्याकृति रघुपति शरणागतोऽस्मि ॥ साकेते नवरत्नपंक्तिखचिते चित्रध्वजालङ्कृते वासे स्वर्णमये दळाष्टललिते पद्मे विमानोत्तमे आसीनं भरतादिसोदरजनैः शाखामृगैः किन्नरैः दिक्पालैर्मुनिपुङ्गवैपगणैरसंसेव्यमानं भजे ॥ ३ ४ ५ w ८ २२ श्रीरामकर्णामृतम् कन्दर्पायुतकोटिकोटितुलितं कालाम्बुदश्यामलं कम्बुग्रीवमुदारकौस्तुभधरं कर्णावतंसोत्पलम् । कस्तूरीतिलकोजुलं स्मितमुखं चिन्मुद्रयालङ्कृतं सीतालक्ष्मणवायुपुत्रसहितं सिंहासनस्थं भजे ।। वराभयं दिव्यरथाङ्गशङ्ख सकौस्तुभं वेष्टितपीतवस्त्रम् । किरीटहाराङ्गदकुण्डलाङ्गं श्रीवत्सचिह्न शिरसा नमामि ॥ दिगम्बरं किङ्किणिमेखलोजुलं ललाटपर्यंतविलम्बितालकम् । कलद्वचस्कं कमनीयनूपुरद्वयं शिशुं राममहं नमामि । मन्दारमूले मणिपीठसंस्थं सुधाप्लुतं दिव्यविराटस्वरूपम् । सबिन्दुनादान्तकलांततुर्यमूर्तिं भजे हं रघुवंशरत्नम् ।। अनर्घमाणिक्यविराजमानश्रीपादुकालङ्कृतशोभनाभ्याम् । अशेषबृन्दारकवन्दिताभ्यां नमो नमो रामपदाम्बुजाभ्याम् ।। ध्वजाम्बुजच्छत्ररथाङ्गशङ्खदम्भोलिपाशाङ्कुशमत्स्यचिह्न । ब्रद्रदेवादिकिरीटकोटिसङ्घर्षपादाम्बुजयुग्ममीळे ॥ ललाटदेशोजुलबालभूषणं सताण्डवं व्याघनखाङ्ककन्धरम् । दिगम्बरं शोभित बर्बरालकं श्रीबालरामं शिरसा नमामि ।। शताष्टदिव्यस्थलमूर्तिवन्दितं शतक्रतुब्रह्ममरुद्गणार्चितम् । शशाङ्कवैश्वानरभानुमण्डलस्थितं भजेऽहं रघुवंशवर्धनम् ।। कर्णातविश्रांतधनुर्गुणाङ्ककलम्बलक्षीकृतराक्षसेश्वरम् । वृद्धश्रवःस्यन्दनमध्यसंस्थं रूक्षेक्षणं राममहं नमामि ।। सुत्रामनीलोत्पलनीलमेघ श्रीनिर्जिताङ्गं सुतया धरण्याः । युक्तं सुरेन्द्रावनमानसं तं रामं भजे राक्षसवंशनाशनम् ।। ९ ११ १२ १३ १४

द्वितीयाश्वासः
२३
१५
राकाचन्द्रनिभाननं रतिपतिद्वेषिप्रियं राक्षसा.
धीशग्रीवविभेदनस्फुटपटुप्रख्यातबाणोज्जलम् ।
रत्नालङ्कृतपादुकांचितपदाम्भोज रमावल्लभं
रागद्वेषविहीनचित्तसुलभं रामं भजे तारकम् ॥
आलोलस्फुटरत्नकुण्डलधरं आविस्मितालङ्कृतं
आधारादिकचक्रमण्डलगतं आनन्दकन्दांकुरम् ।
आविर्भूतकृपान्तरङ्गजलधिं आक्षान्तवर्णाश्रयं
आपन्नातिनिदाघमेघसमयं रामं भजे तारकम् ।।
१६
साकेतान्तरतारमण्डपमहामाणिक्यसिंहासने
तन्मध्येऽष्टदळाम्बुजे स्फुटतरे चित्कर्णिके संस्थितम् ।
सौमित्राम्बुजमित्रसूनुभरतश्रीवायुपुत्रैर्वृतं
मुद्रालङ्कृतपाणिसारसमजं रामं भजे तारकम् ।।
विराजमानोज्जलपीतवाससं विशालवक्षस्थलकौस्तुभश्रियम् ।
भजे किरीटाङ्गदरत्नकुण्डलं नमस्तुलस्या वनमालयाङ्कितम् ॥ १८
मूलादिषट्सरसिजान्तसहस्रपद्मपवान्तराळनिलयं भवबन्धनाशम् ।
नादान्तचन्द्रगळितामृतसिक्तरूपं नादान्तनादमहिमास्पदरामीले ।
वन्दे वरप्रदमहावरदानगर्वलङ्काधिनाथकुलपर्वतनाशवज्रम् ।
तं रावणानुजमरुत्सुतभानुसूनुदिक्पालसोदरगणैः परिसेव्यमानम् ॥
अज्ञानगाढतिमिरापहभानुमूर्तिमारक्तचारुनयनाम्बुजमादिबीजम् ।
अम्भोधिमध्यवटपत्रशयानमादिमध्यांतशून्यमखिलास्पदरामचंद्रम् ॥
सुधासमुद्रान्तविराजमानद्वीपे सिते चन्दनपारिजाते ।
महासने पन्नगतल्पमध्ये निषण्णमीळे रघुवंशरत्नम् ।। २२

२४
श्रीरामकर्णामृतम्
स्मिताननं पद्मदळायतेक्षणं विनीलमाणिक्यजिताङ्गशोभितम् ।
जटाकिरीटं शरचापलांछनं नमाम्यहं भानुकुलाब्धिकौस्तुभम् ॥
प्रसूनबाणाङ्कितमिक्षुचापं चक्राब्जपाशांकुशवंशनाळम् ।
करैर्दधानं घननीलवर्ण श्रीकृष्णरूपं प्रणमामि रामम् ॥
बहुरुपादोदरवक्रलोचनं दीप्तप्रचण्डानलदुर्निरीक्षम् ।
अशेषबृन्दारकनागगोचरं भजामि ते राघव विश्वरूपम् ।।
२५
सहस्रनेवाननपादबाहुमनन्तवीर्य रविकोटितुल्यम् ।
स्रक्चन्दनालङ्कृतदिव्यदेहं भजाम्यहं ते हदिविश्वरूपम् ।।
कलम्बकोदण्डगदाब्जसंयुतं दंष्ट्राकराळाधनञ्जयाननम् ।
पीतांशुकस्वर्णकिरीटकुण्डलं भजामि ते राघव विश्वरूपम् ॥ २७
कोदण्डमिक्षुजनितं स्मरपञ्चवाणं शङ्ख रथावयवमङ्कुशपाशवेणुम् ।
हस्तैर्दधानममलद्युतिमुद्वहन्तं प्रद्युम्न कृष्णमनिशं भज रामचन्द्रम् ॥
सीतालोकनतत्परं मणिनिभं व्याख्यानमुद्राञ्चितं
वामे जानुविलम्बहस्तमनिशं वीरासने संस्थितम् ।
मूले कल्पतरोरनादिमुनिभिः ब्रह्मादिभिस्सेवितं
मुक्ताहारकिरीटकुण्डलधरं मूर्धाभिषिक्तं भजे ॥
२९
यदूपमानन्दकरं मुनीनां यद्वाण आखण्डलशत्रुनाशनम् ।
यदैवतं सर्वजनान्तरस्थं तत्सर्वरूपं रघुनाथमीले ॥
३०
नादं नादविनीलचित्तपवनं नादान्ततत्त्वप्रियं
नामाकारविवर्जितं नवधनश्यामाङ्गनादप्रियम् ।
नादाम्भोजमरन्दमत्तविलसद्भङ्गं मदन्तस्स्थितं
नादान्तध्रुवमण्डलाब्जरुचिरं रामं भजे तारकम् ॥
२

द्वितीयावासः २५ ३२ ३३ नानाभूतहृदब्जपद्मनिलयं नामोजलाभूषणं नामस्तोत्रपवित्रितत्रिभुवनं नारायणाष्टाक्षरम् । नादांतेंदुगळत्सुधाप्लुततनुं नानात्मचिन्मात्रकं नानाकोटियुगांतभानुसदृशं रामं भजे तारकम् ॥ खश्याम खगवाहनं खररिपुं खाद्यादिभूतात्मकं खातीतं खगमन्त्रतत्परपदं खद्योतकोट्युजलम् । खावाच्यं खगकेतनं खगमनं खाटशृङ्गालयं खाराध्यञ्च खरन्ध्रपीठनिलयं रामं भजे तारकम् ॥ वेद्यं वेदगुरुं विरिञ्चिजनकं वेदान्तमूर्तिं स्फुर- द्वेदं वेदकलापमूलमहिमाधारान्तकन्दाङ्कुरम् । वेदशृङ्गसमानशेषशयनं वेदान्तवेद्यात्मक वेदाराधितपादपङ्कजमहं रामं भजे तारकम् ।। मूलाधारधनञ्जयस्फुटपटुज्वालासमालिङ्गितं मूर्धन्यांतशशाङ्कमण्डलगतं क्षीराभिषेकप्रियम् । मुक्ताशोभितमौलिभिर्मुनिवरैराराधितं भावये प्रख्यात स्त्रिगणैर्जनाधिपगणैशाखामृगैर्दैवतैः ।। ताराकारविमानमध्यनिलयं तत्त्वत्रयाराधितं तबाधीश्वरयोगनिर्गुणमहासिद्धेस्समाराधितम् । तत्सङ्गं तरुणेन्दुशेखरसखं तारावयान्तर्गत तप्तस्वर्णकिरीटकुण्डलयुगं रामं भजे तारकम् ॥ तारं तारकमण्डलोपरिलमजयोतिरस्फुरत्तारका- तीतं तत्त्वमसीतिवाक्यमहिमाधारं तटित्सन्निभम् । ३

३७
३८
३९
श्रीरामकर्णामृतम्
तत्त्वज्ञानपवित्रितत्रिभुवनं तारासनान्तर्गतं
तारान्तध्रुवमण्डलाब्जरुचिरं रामं भजे तारकम् ।।
कस्तूरीघनसारकुङ्कुमलसच्छ्रीचन्दनालङ्कृतं
कन्दाधिकसुन्दरं घननिभं काकुत्स्थवंशध्वजम् ।
कल्याणांबरवेष्टितं कमलया युक्तं कलावल्लभं
कल्याणाचलकार्मुकप्रियसखं कल्याणरामं भजे ।।
मज्जीव मदनुग्रहं मदधिपं मद्भावनं मत्सुखं
मत्तातं मम सद्गुरुं मम वरं मोहान्धविच्छेदनम् ।
मत्पुण्यं मदनेकबांधवजनं मन्जीवनं मन्निधिं
मसिद्धिं मम सर्वकर्मसुकृतं रामं भजे तारकम् ।।
नित्यं नीरजलोचनं निरुपमं नीवारशूकोपमं
निर्भेदानुभवं निरन्तरगुणं नीलाङ्गरागोजुलम् ।
निष्पापं निगमागमार्चितपदं नित्यात्मकं निर्मलं
निष्पुण्यं निखिलं निरञ्जनपदं रामं भजे तारकम् ॥
ध्याये त्वां हृदयांबुजे रघुपति विज्ञानदीपांकुरं
हंसोहंसपरंपरादिमहिमाधारं जगन्मोहनम् ।
हस्तांभोजगदाजचक्रमतुलं पीतांबरं कौस्तुभं
श्रीवत्सं पुरुपोत्तमं मणिनिभं रामं भजे तारकम् ।
सत्यज्ञानमनन्तमच्युतमजं चाव्याकृतं तत्परं
कूटस्थादिसमस्तसाक्षिमनघं साक्षाद्विराट्नत्त्वदम् ।
वेद्यं विश्वमयं स्वलीनभुवनस्वाराज्यसौख्यप्रदं
पूर्ण पूर्णतरं पुराणपुरुषं रामं भजे तारकम् ॥
४२

द्वितीयावास:
२७
४३
रामं राक्षसवंशनाशनकरं राकेन्दुबिंबाननं
रक्षोरिं रघुवंशवर्धनकरं रक्ताधरं राघवम् ।
राधायात्मनिवासिनं रविनिभं रम्यं रमानायक
रन्ध्रान्तर्गतशेषशायिनमहं रामं भजे तारकम् ॥
ताराकारं निखिलनिलयं तत्त्वमस्यादिलक्ष्यं
शब्दावाच्यं त्रिगुणरहितं व्योममङ्गुष्ठमात्रम् ।
निर्वाणाख्यं सगुणमगुणं व्योमरन्ध्रान्तरस्थं
सौषुम्नांत:प्रणवसहितं रामचन्द्रं भजेऽहम् ।।
मुक्तेर्मूलं मुनिवरहृदानन्दकन्दं मुकुन्दं
कूटस्थाख्यं सकलवरदं सर्वचैतन्यरूपम् ।
नादातीतं कमलनिलयं नादनादान्ततत्वं
नादातीतं प्रकृतिरहितं रामचन्द्रं भजेऽहम् ॥
निजानन्दाकारं निगमतुरगाराधितपदं
परब्रह्मानन्दं परमपदगं पापहरणम् ।
कृपापारावारं परमपुरुषं पद्मनिलयं
भजे रामं श्याम प्रकृतिरहितं निर्गुणमहम् ॥
श्रीमद्वैकुण्ठनाभं सुरमुनिमकुटद्योतितस्वर्णपीठं
नीलाङ्गं चन्द्रवज्र मणिमयमकुटं बाणकोदण्डहस्तम् ।
पद्माक्षं पापनाशं प्रणवमयमहारत्नसिंहासनस्थं
श्रीसीतावामभागं श्रितजनवरदं रामचन्द्रं भजेऽहम् ।।
साकेते मणिमण्टपे सुरतरुप्रान्ते विमानान्तरे
पद्मे चाष्टदळोज्जले नुतमहासौधे सुधामान्विते ।
४५
30

४८
२८
श्रीरामकर्णामृतम्
सत्यं सूर्यजरावणानुजमरुत्पुत्रानुजैस्सेवितं
मध्ये वासवनीलकोमलनिभं रामं भजे तारकम् ।।
हृदयकुहरमध्यद्योतितन्मन्त्रसारं
निगमनियमगम्यं वेदशास्त्रैरचिन्त्यम् ।
हरिहरविधिवन्द्यं हंसमन्त्रान्तरस्थं
दशरथसुतमीळे दैवतं देवतानाम् ।।
४९
देवेन्द्रनीलनवमेघविनिर्जिताङ्गं पूर्णेन्दुबिंबवदनं शरचापहस्तम् ।
सीतासमेतमनिशं शरणं शरण्यं चेतो मदीयमभिवांछति रामचंद्रम् ।।
ओतप्रोतसमस्तवस्तुनिचयं ओंकारबीजाक्षरं
ओंकारप्रकृति षडक्षरहितं ओंकारकन्दांकुरम् ।
ओंकारस्फुटभूर्भुवस्सुपरितं ओघत्रयाराधितं
ओंकारोज्जलसिंहपीठनिलयं रामं भजे तारकम् ॥ ५१
साकेते धवळे सुरद्रुमतले सौधे विमानान्तरे
आदिक्षान्तसमस्तवर्णकमले दिव्ये मृगेन्द्रासने ।
ओंकारोज्जलकर्णिके सुरसरिन्मध्ये सदेवान्तरे
व्यासाद्यादिमुनीश्वराद्यभिनुतं रामं भजे तारकम् ॥
कोदण्डदीक्षागुरुमादिमूलं गुणाश्रयं चन्दनकुङ्कुमाङ्कम् ।
सलक्ष्मगं सर्वजनान्तरस्थं परात्परं राममहं नमामि ।।
मूलाधारसरोरुहे हुतवहस्थाने त्रिकोणान्तरे
कन्दे कुण्डलिकासुषुप्तिपटलीवासन्तवर्णाश्रये ।
बालार्कप्रतिमं पराभयकरं पाशाङ्कुशालङ्कृतं
भूतस्वाश्रयमादिपूरुषमजं रामं भजे तारकम् ॥

२
९
५६
द्वितीयाश्वासः
स्वाधिष्ठानसरोरुहे प्रविलसद्वालान्तवर्णाश्रयं
ब्रह्मग्रन्थिमहोन्नते करतले श्रीकुण्डिकामालिकाम् ।
पीठे रत्ननिभं पराभयकरं वाणीयुतं बिभ्रतं
साक्षाद्वोधमनन्यमङ्गळकरं रामं भजे तारकम् ।।
डापान्त्याक्षरपङ्कजे दशदळे माणिक्यसंपूरिते
विष्णुप्रन्थिमये पराभयकरं आशङ्खचक्रान्वितम् ।
मार्ताण्डद्युतिमञ्जुलाभमतुलं पीतांबरं कौस्तुभं
सर्व सर्वगमिन्दिरासहचरं रामं भजे तारकम् ।।
हृत्पद्मे विलयार्ककोटिसदृशङ्काठान्तवर्णोजुले
प्राणान्तप्रणवान्तरे प्रविलसद्दोर्बाणपीठान्तरे ।
सूर्य हंसमयं सदाशिवपदं कोदण्डदीक्षागुरुं
वासं मोक्षरमासमेतमनिशं रामं भजे तारकम् ।।
साक्षात् षोडशदिव्यपत्रकमले जीवात्मसंस्थापिते
रुद्रग्रन्थिमये मनोन्मनिपथे जालन्ध्रपीठान्तरे ।
शुभ्रज्योतिमयं शरीरसहितं सुस्थं सुधाशीतलं
शब्दब्रह्मनिवासभूतवदनं रामं भजे तारकम् ॥
भ्रमध्ये निगमागमोजलपदे चन्द्रे त्रिमार्गान्तरे
निर्द्वन्द्व निखिलार्थतत्त्वविलसत्सूक्ष्मे सुषुम्रोन्मुखे ।
आसीनं प्रळयार्कभासुरवरं ज्योतिःस्वरूपात्मकं
वाभ्यञ्चितमोक्षलक्ष्मिसहितं रामं भजे तारकम् ।।
शीर्षाभोरुहकर्णिके निरुपमे श्रीषोडशान्ते शशि-
प्रख्यातामृतवार्धिवीचिलहरीनिर्वाणपीठान्तरे ।
५७
५८

६१
६२
३०
श्रीरामकर्णामृतम्
शब्दब्रह्मपरं चराचरगुरुं तेजःपरं शाश्वतं
सत्यासत्यमगोचरं हृदि सदा सीतासमेतं भजे ॥
साकेते रविकोटिसन्निभमहाहर्ये सुसिमासने
नानारत्नविनिर्मिते मुनिजनाकीर्ण सदानन्दने ।
देवाधीश्वरसंयुते निवसितं वामाङ्कसीतोज्जुलं
देवेन्द्रोपलनीलकोमलतनुं रामं भजे तारकम् ।।
साकेते नगरे समस्तसुखदे हर्येऽब्जकोटिद्युते
नक्षत्रग्रहपंक्तिलग्नशिखरे चान्तर्यपकेरुहे ।
वाल्मीकाविपराशरादिमुनिभिस्संसेव्यमानं स्थितं
सीतालङ्कृतवामभागमनिशं रामं भजे तारकम् ॥
वन्दे राममनादिपूरुषमजं वन्दे रमानायक
वन्दे हारकिरीटकुण्डलधरं वन्दे सुनीलद्युतिम् ।
वन्दे चापकलंबकोजुलकरं वन्दे जगन्मङ्गळं
वन्दे पंक्तिरथात्मजं मम गुरुं वन्दे सदा राघवम् ॥
वन्दे शौनकगौतमाद्यभिनुतं वन्दे घनश्यामलं
वन्दे तारकपीठमध्यनिलयं वन्दे जगन्नायकम् ।
वन्दे भक्तजनौघदेवविटपं वन्दे धनुर्वल्लभं
वन्दे तत्त्वमसीतिवाक्यजनकं वन्दे सदा राघवम् ।।
वन्दे सूर्यशशाङ्कलोचनयुगं वन्दे जगत्पावनं
वन्दे पवसहस्रपद्मनिलयं वन्दे पुरारिप्रियम् ।
वन्दे राक्षसवंशनाशनकरं वन्दे सुधाशीतलं
वन्दे देवकपीद्रकोटिविनुतं वन्दे सदा राघवम् ॥

३१
३
६७
द्वितीयाश्वास:
वन्दे सागरगर्वभङ्गविशिखं वन्दे जगज्जीवनं
वन्दे कौशिकयागरक्षणकरं वन्दे गुरुणां गुरुम् ।
वन्दे वाणशरासनोज्जलकरं वन्दे जटावल्कलं
वन्दे लक्ष्मणभूमिजान्वितमहं वन्दे सदा राघवम् ।
वन्दे पाण्डरपुण्डरीकनयनं वन्देऽब्जबिंबाननं
वन्दे कंबुगळं कराब्जयुगळं वन्दे ललाटोजुलम् ।
वन्दे पीतदुकूलमंबुदनिभं वन्दे जगन्मोहनं
वन्दे कारणमानुषोज्जलतनुं वन्दे सदा राघवम् ॥
वन्दे नीलसरोजकोमलमचिं वन्दे जगद्वन्दितं
वन्दे सूर्यकुलाब्धिकौस्तुभमणिं वन्दे सुराराधितम् ।
वन्दे पातकपश्चकप्रहरणं वन्दे जगत्कारणं
वन्दे विंशतिपञ्चतत्त्वरहितं वन्दे सदा राघवम् ॥
वन्दे साधकवर्गकल्पकतरुं वन्दे त्रिमूर्यात्मकं
वन्दे नादलयान्तरस्थलगतं वन्दे त्रिवर्गात्मकम् ।
वन्दे रागविहीनचित्तसुलभं वन्दे सभानायक
वन्दे पूर्णदयामृतार्णवमहं वन्दे सदा राघवम् ।।
वन्दे सात्त्विकतत्त्वमुद्रिततनुं वन्दे सुधादायक
वन्दे चारुचतुर्भुजं मणिनिभं वन्दे षडब्जस्थितम् ।
वन्दे ब्रह्मपिपीलिकादिनिलयं वन्दे विराड्विग्रह
वन्दे पन्नगतल्पशायिनमहं वन्दे सदा राघवम् ।।
आयेध्यपुरमण्डपे स्फुरितसिंहपीठे स्थितं
वसिष्ठशुकगौतमै गुशुकादिभिस्सेवितम् ।
६८
६९

७१
७२
७३
३२
श्रीरामकर्णामृतम्
दिनेशसुतरावणानुजसहोदराद्यावृतं
भजामि रघुनन्दनं प्रणवबीजसारात्मकम् ॥
विलोलमणिमण्डलं विमलचन्द्रबिंबाननं
विखण्डितदशाननं विततचापबाणोज्जलम् ।
विमोहितजगत्त्रयं विकचपद्मपत्रेक्षणं
विभीषणसुरक्षक विजयराममीळे हरिम् ।।
चलत्कनककुण्डलोल्लसितदिव्यगण्डस्थलं
चराचरजगन्मयं चरणपद्मगङ्गाश्रयम् ।
चतुर्विधफलप्रदं चरमपीठमध्यस्थितं
चिदंशमखिलास्पदं दशरथात्मजं चिन्तये ।।
सनन्दनमुनिप्रियं सकलवर्णवेदात्मकं
समस्तनिगमागमस्फुरिततत्त्वसिंहासनम् ।
सहस्रनयनाब्जजाद्यमरबृन्दसंसेवितं
समष्टिपुरवल्लभं दशरथात्मजं चिन्तये ।।
अनर्धमणिपूरकोल्लसितदिव्यतेजःपरं
अनाहतसरोरुहस्फुरितहंसनादान्वितम् ।
अनन्तदळपङ्कजस्फुटमृगाङ्कबिंबामृतं
प्लुताङ्गमखिलास्पदं दशरथात्मजं चिन्तये ।।
जाग्रत्स्वप्नसुषुप्तिकालविलसत्तत्त्वात्मचिन्मात्र
चैतन्यात्मकमाधिपापरहितं भूम्यादितन्मात्रकम् ।
शांभव्यादिसमस्तयोगकुळकं सांख्यादितत्त्वात्परं
शब्दावाच्यमहं नमामि सततं व्युत्पत्तिनाशात्परम् ।।

TA RH ROAD. MADRAS द्वितीयाश्वास: ध्याये त्वां नवविद्रुमस्फुटतनुं बोल्लसन्मेचक नासारञ्जितमौक्तिकं परिलसत्पीताम्बरं कौस्तुभम् । वेणूकंबुरथाङ्गपाशपरिघाप्राप्तक्षुचापाशुगं श्रीराम नवमन्मथाधिपमहं षट्कोणचक्रस्थितम् ॥ साकेते नगरे समस्तमहिमाधारे जगन्मोहने रत्नस्तंभसहस्रमण्टपमहासिंहासने सांबुजे । विश्वामित्रवसिष्ठगौतमशुकव्यासादिभिर्मोनिभिः ध्येयं लक्ष्मणलोकपालसहितं सीतासमेतं भजे ॥ एकांते कमले जले विकसिते चन्द्राकृतिस्थापिते स्थाने तारकमण्टपे तनुबिलव्याप्ते सुधामण्टपे । अब्जाऊनलमण्डलोपरिमहाश्रीषोडशांते सदा नादांते जनकात्जान्वितमहं रामं भजे तारकम् ।। साकेते मणिमण्टपे सुरतरुप्रांतेऽष्टवोल्लस- त्पत्रे तारककर्णिके प्रविलसत्कल्पप्रसूनांचिते । पद्मे वेदचतुष्कमण्डलसिते नादांतशय्यातले तं सेवे ध्रुवमण्डलेऽब्जविगळत्पीयूषधाराप्लुतम् ॥ ध्याये त्वां रविमण्डलेन्दुधवळे पद्मे निषण्णं हरि स्वर्णाभं करशङ्खचक्रललितं पीताम्बरं कौस्तुभम् । स्वर्णश्मश्रुनखालकं ललनया युक्तं किरीटाङ्गदं हारालंकृतवक्षसं पदयुगश्रीपादुकालङ्कृतम् ॥ वसान्ताक्षराख्ये चतुःपत्रपद्मे त्रिकोणान्तकण्ठे धरातत्त्वयुक्त । वराभीतिपाशाङ्कुशं विद्रुमाभं गजाश्वे निषण्णं भजे रामचन्द्रम् ।।८२ R. K. 3 ३४ श्रीरामकर्णामृतम् बलान्ताक्षरप्रान्तषटपत्रपद्मे लसत्तोयतत्त्वे वराभीतिहस्तम् । महाकुण्डिकांचाक्षमालां वहन्तं चतुर्वक्ररूपं भजे रामचन्द्रम् ॥ ८३ उपान्ताक्षराख्ये मणिबातपूरे रथाङ्गाब्जहस्तं महेन्द्रोपलाङ्गम् । लसद्वह्नितत्त्वे निषण्णं गदावं महाविष्णुरूपं भजे रामचन्द्रम् ॥ ८४ कठान्ताक्षराख्ये जगत्प्राणतत्त्वे पराभीतिहस्तं त्रिशूलं दधानम् । उमानाथ मब्जारिखण्डोज लाङ्गं सदाङ्गरूपं भजे रामचन्द्रम् ॥ ८५ विशुद्धाख्यपद्मे नभस्तत्त्वरम्ये अरूपं सुरूपं समस्तस्वरूपम् । विशिष्टं मनोगम्यमेकं त्वनादिं भजे जीवजीवात्मरामञ्च रामम् ।। द्विपत्राब्जमध्ये मनस्तत्त्वगम्ये जगत्कारणं ज्योतिरानन्दरूपम् । लसद्भावविष्णुं मनोभावदीपं परात्मस्वरूपं भजे रामचन्द्रम् ।। ८७ सदानन्ददेवे सहस्रारपद्मे गलचन्द्रपीयूषधारामृतान्ते । स्थितं राममूर्ति निषेवे निषेवे ऽन्यदैवं न सेवे न सेवे न सेवे ।। ८८ सुधाभासितद्वीपमध्ये विमाने सुपर्वानिवृक्षोज्जले शेषतल्पे । निषण्णं रमाकं निषेवे निषेत्रे ऽन्यदैवं नसेवे नसेवे नसेवे ॥ ८९ चिदंशं समानन्दमानन्दकन्दं सुषुम्नाख्यरन्ध्रान्तराळे च हंसम् । सचक्रं सशङ्ख सपीताम्बराङ्क परञ्चान्यदैवं नजाने नजाने । सुपर्वाळिवृक्षोजलस्वर्णपीठे वनौकादिभिर्मोनिभिस्सेव्यमानम् । स्थितं पुष्पवृष्ट्यावृतं राममूर्ति सदाभूमिजायुक्तमीळे हृदन्ते ।। ९१ करे दिव्यचक्र परे चारुशवंगळे तारहारं ललाटे ललामम् । भुजङ्गे निषण्णं परानन्दरूपं सदाभूमिजायुक्तमीळे हृदन्ते ।। ९२ चतुर्वेदकूटोल्लसत्कारणाख्यं स्फुरद्दिव्यत्रैमानिके भोगितल्पे । परन्धाममूर्ति निषण्णं निषेवे निषेवेऽन्यदैवं नसेवे नसेवे ।।

द्वितीयाश्वासः
३५
लसद्दिव्यशेषाचले योगपीठे सदानन्दवैमानिके मासहायम् ।
मुनीनां हृदानन्दमोङ्कारगम्यं सदाभूमिजायुक्तमीळे हृदन्ते ॥
मनस्स्थं मनोन्तस्स्थ माद्यन्तरूपं महाचिन्त्यवर्ज:च मध्यस्थमीशम् ।
मनोबुद्ध्यहङ्कारचित्तादिसाक्षिं परस्वप्रकाशं भजे रामचन्द्रम् ॥ ९५
परानन्दवस्तुस्वरूपादिसाक्षिं परब्रह्मगम्यं परंज्योतिमूर्तिम् ।
पराशक्तिमित्राऽप्रियाराधिताyि परन्धामरूपं भजे रामचन्द्रम् ॥
परं पवित्रं परवासुदेवं परात्परं तं परमेश्वराख्यं ।
गुणत्रयाराधितमूलकन्द मादित्यवर्ण तमसः परस्तात् ।।
साकेतेऽगरुगन्धधूपनिबिडे माणिक्यदीपान्विते
कस्तूरीघनसारकुङ्कुमरसप्राचुर्यसर्वोज्जले ।
नानापुष्पवितानपंक्तिरुचिरे सौवर्णसिंहासने
वासं मन्मथमन्मथं मणिनिभं रामं भजे तारकम् ।।
भङ्गोत्तुङ्गमयामृताब्धिलहरीमध्ये विराडिग्रहे
द्वीपे निर्जरपादपैः परिघृते कर्पूरदीपोज्जले ।
ओङ्कारान्तरमन्दिरे मणिमये शेषान्तराशायिनं
लक्ष्मीयुक्तमसारचित्सुखपदं रामं भजे तारकम् ॥
९९
वैकुण्ठे नगरे सुरद्रुमतले चानन्दवप्रान्तरे
नानारत्नविनिर्मितस्फुटपटुप्राकारसंवेष्टिते।
सौधेन्दूपलशेषतल्पललिते नीलोत्पलच्छादिते
पर्यके शयनं रमादिसहितं रामं भजे तारकम् ॥
वैकुण्ठे पुटभेदने मणिभयप्रान्तेन्दुसिंहासने
अक्षान्तान्तसरोरुहे शशिगळत्पीयूषवार्यन्तरे ।

३६
श्रीरामकर्णामृतम्
चन्द्रार्कानलभानुमण्डलयुते शेषाहितल्पांतरे
वासं वासवनीलकोमलनिभं रामं भजे तारकम् ॥ १०१
क्षीराब्धौ शशिशङ्खमौक्तिकलसद्वीपे सुधर्मान्तरे
बिन्दौ सार्थकळान्विते परिलसन्नागान्तरे संस्थितम् ।
कोटीराङ्गदहारकुण्डलमणिप्रैवेयहारोज्जलं
श्रीवत्साञ्चितमिन्द्रनीलसदृशं रामं भजे तारकम् ।।
१०२
साकेतेऽनलचन्द्रभानुविलसचिच्चक्रबिन्दुस्थितं
बालार्कद्युतिभासुरं करतले पाशाङ्कुशौ बिभ्रतम् ।
बाणं चापयुतं विशालनयनं स्मराननांभोरुह
स्त्रीपुंरूपधरं विलाससदनं रामं भजे तारकम् ।।
अर्ध रक्तपदाब्जनीलरुचिरं अर्धेन्दुचूडार्चितम्
अर्ध रत्नकिरीटकुण्डलधरं ताटकमधं धनुः ।
शङ्ख चक्रगदाब्जसंयुतकरं श्रेयोमयं वैष्णवं
पाशं चांकुशवाणसंयुतकरं रामं भजे तारकम् ।।
सहस्रपत्राम्बुजकर्णिकान्तर्योति:प्रकाशं परमादिमूलम् ।
तेजोमयं जन्मजराविहीनं श्रीराघवं नित्यमहं नमामि ॥
सकलभुवनरत्नं सच्चिदानन्दरत्नं सकलहृदयरत्नं सूर्यबिम्बान्तरत्नं ।
विमलसुकृतरत्नं वेदवेदान्तरत्नं पुरहरजपरत्नं पातु मां रामरत्नम् ।।
इक्ष्वाकुवंशार्णवजातरत्नं सीताङ्गनायौवनभाग्यरत्नम् ।
वैकुण्ठरत्नं मम भाग्यरत्नं श्रीरामरत्नं शिरसा नमामि ॥ १०७
निगमशिशिररत्नं निर्मलानन्दरत्नम् निरुपमगुणरत्नं नादनादान्तरत्नम् ।
दशरथकुलरत्नं द्वादशान्तस्स्थरत्नं पशुपतिजपरनं पातु मां रामरत्नम् ॥

द्वितीयाश्वासः शतमखसुतरत्नं षोडशान्तस्स्थरत्नं मुनिजनजपरत्नं मुख्यवैकुण्ठरत्नम् । निरुपमगुणरत्नं नीरजान्तस्स्थरत्नं परमपदविरत्नं पातु मां रामरत्नम् ।। सकलसुकृतरत्नं सत्यवाक्यार्थरत्नं शमदमगुणरत्नं शाश्वतानन्दरत्नम्। प्रणयनिलयरत्नं प्रस्फुटद्योतिरत्नं परमपदविरत्नं पातु मां रामरत्नम् ॥ निखिलनिलयमन्त्रं नित्यतत्त्वाख्यमन्त्रं भवकुलहरमन्त्रं भूमिजाप्राणमन्त्रम् । पवनजनुतमन्त्रं पार्वतीमोक्षमन्त्रम् पशुपतिनिजमन्त्रं पातु मां राममन्त्रम ॥ १११ प्रणवनिलयमन्त्रं प्राणनिर्वाणमन्त्रं प्रकृतिपुरुषमन्त्रं ब्रह्मरुद्रेन्द्रमन्त्रम् । प्रकटदुरितरागद्वेषनिर्णाशमन्त्रं रघुपतिनिजमन्त्र रामरामेतिमन्त्रम् ॥ दशरथसुतमन्त्रं दैत्यसंहारमन्त्रं विबुधविनुतमन्त्र विश्वविख्यातमन्त्रम्। मुनिगणनुतमन्त्रं मुक्तिमार्गकमन्त्रं रघुपतिनिजमन्त्रं रामरामेतिमन्त्रम्॥ संसारसागरभयापहविश्वमन्वं साक्षान्मुमुक्षुजनसेवितसिद्धमन्त्रम् । सारङ्गहस्तमुखहस्तनिवासमन्त्रं कैवल्यमन्त्रमनिशं भज राममन्त्रम् ।। जयतु जयतु मन्वं जन्मसाफल्यमन्त्रं जननमरणभेदक्लेशविच्छेदमन्त्रम् । सकलनिगममन्त्रं सर्वशास्त्रैकमन्त्रं रघुपतिनिजमन्त्रं रामरामेतिमन्त्रम् ।। अज्ञानसम्भवभवाम्बुधिबाडबाग्नि रव्यक्ततत्त्वनिकरप्रणवाधिरूढः । सीतासमेतमनुजेन हृदन्तराळे प्राणप्रयाणसमये मम सनिधत्ते ॥ ११६ श्रीरामकर्णामृते द्वितीयाश्वासः समाप्तः

॥ श्रीरामचन्द्र परब्रह्मणे नमः ।।
॥श्रीरामकर्णामृतम् ॥
तृतीयाश्वासा.
श्रीरामं शिवचापभङ्गनिपुणं सीताङ्गनावल्लभं
सुत्रामार्चितपादपद्मयुगळं सूर्येन्दुनेत्रोज्ज्वलम् ।
कर्पूराङ्गविलेपनं घनरुचिं कारुण्यपाथोनिधि
वन्दे कल्पतरुप्रवेशितलसत्सिंहासनाधिष्ठितम् ।।
श्रीराम स्सितिकन्धरस्य धनुष स्संभेदनप्रापितां
सीतां काञ्चनसन्निभां परिणता माकल्परत्नोज्ज्वलाम् ।
वामाकोपरि लज्जया नतसुखी मालोक्य दिव्यासने
श्रीमद्भानुशशाङ्ककोटिसदृशः पायात्स वो राघवः ।।
श्रीरामं भुवनैकसुन्दरतनुं धाराधरश्यामलं
राजीवायतलोचनं खुवरं राकेन्दुबिम्बाननम् ।
कोदण्डादिनिजायुधाश्रितभुजै भन्तिं विदेहात्मजा-
धीशं भक्तजनावनं रघुवरं श्रीरामचन्द्रं भजे ॥
आरामं वैभवानामभिनवसुपथं हारकेयूरकान्तं
हासोल्लासाभिरामं मणिमयमकुटं मङ्गळानां निवासम् ।
मन्दारारामसीमान्तरमणिभवनाधिष्ठितं शिष्टसेव्यं
सल्लापानन्दसिन्धुप्रणय मभिनिशं रामचन्द्रं भजेऽ हम् ॥
३

३९
६
तृतीयाश्वासः
रामं राजशिखामणि रघुवरं राकेन्दुबिम्बाननं
राजीवायतलोचनं रणहतानेकासुरं राघवम् ।
सीताचारुपयोधराश्चितलसत्काश्मीरगन्धाञ्चितं
राजत्कुण्डलमण्डितं शुभकरं रामाभिरामं भजे ॥
रामं कोमलनीलमेघविलसद्गात्रं पयोजाननं
काकुत्स्थं दशकण्ठबाहुविदळत्कोदण्डबाणान्वितम् ।
पापघ्नं विशदायताक्षियुगळं सौमित्रिसंसेवितं
भक्तानां परमौषधं मुनिवरैस्संस्तूयमानं भजे ॥
रामं श्यामलमेघकोमलरुचिं राकेन्दुबिम्बाननं
रक्षोन्नं रविजार्चितं रघुवरं रत्नोज्ज्वलत्कुण्डलम् ।
राजीवाक्षममानुपं रणबलोदनं रमानुग्रह
राजेन्द्रं रमणीयरूप मसकृद्ध्याये जगन्मोहनम् ।।
रामं रम्यगुणं रमापतिसमं राकाशशाङ्काननं
राजन्यं रमणीयरूपममलं रामाभिरामं हरिम् ।
राजाराधितपादपद्ममनिशं राजन्यसद्भासितं
राकेन्दुप्रतिमं रमाकुचयुगे विन्यस्तहस्तं भजे ॥
रामं कौशिकगौतमप्रियकरं सीतापतिं सानुजं
रक्षोघ्नं वनवासिनं गुणनिधिं विघ्ननमाप्तार्कजम् ।
सेतोबन्धनधीरवानरबलं धिकुंभकर्णेद्रजि-
स्पंक्तिग्रीव मवद्विभीषण मजं श्रीरामचन्द्रं भजे ॥
राम कोमलनीलनीरदनिभं नीलालकालंकृतं
कटयां शोभितकिङ्किणीझणझणध्वानै रुपेतं शिशुम् ।
८
९

११
१२
श्रीरामकर्णामृतम्
कंठालंबितरक्षुनिर्भलनखं काक्ष मब्जच्छविं
भास्वन्तं मकुटाङ्गदादिविविधाकल्पं सदाऽहं भजे ॥
रामं सीतासमेतं विमलरविशताभासमानं रसाई
श्यामं देदीप्यमानं स्मितरुचिरमुखं कुण्डलोद्भासगण्डम् ।
श्रीवत्सं श्रीनिवासं सुरतरुविलसद्रत्नसिंहासनस्थं
दिव्याकल्पोज्ज्वलाङ्गं दिविजपतिनुतं सन्ततं तं भजेऽहम् ।।
जलनिधिकृतसेतुं देवतानन्दहेतुं
दशमुखमुखरक्षोदारवैधव्यहेतुम् ।
मुनिजननिवहानां मुक्तिसौख्यादिहेतुं
रघुवरकुलकेतुं कीर्तये धर्महेतुम् ।।
सकलगुणनिधानं योगिभिस्स्तूयमानं
भजितसुरविमानं रक्षितेन्द्रादिमानम् ।
महितवृषभयानं सीतया शोभमानं
स्मरतु हृदयभानुं ब्रह्मरामाभिरामम् ।।
वरगुणमणिसिन्धु मैथिलीप्राणबन्धुः
कनकशिखरिधैर्यों भूतलाब्जातसूर्यः ।
दशरथनृपसूनुः देववक्राब्जभानुः
जयतु भुवनभद्रो सर्वदा रामभद्रः ॥
त्रिदशकुमुदचन्द्रो दानवांभोजचन्द्रो
दुरिततिमिरचन्द्रो योगिनां ज्ञानचन्द्रः ।
प्रणतनयनचन्द्रो मैथिलीनेत्रचन्द्रो
दशमुखरिपुचन्द्रः पातु मां रामचन्द्रः ॥
१३
१४

१७
तृतीयाश्वासः
स्वयुवतिकुचचन्द्रं बन्धुदुग्धाब्धिचन्द्र
सुजनकुमुदचन्द्रं वैरिवकाब्जचन्द्रम् ।
विकसितमुखचन्द्रं व्याप्तिसत्कीर्तिचन्द्र
सकलभुवनचन्द्रं संततं रामचन्द्रम् ।।
भेत्तारं दशकण्ठकण्ठकदळी: कन्दर्पदोपहं
श्रीकण्ठाकृतिमाप्नुवान ममलं घोरासुरप्राणदम् ।
बाणं प्रत्युपसंहरन्त मतुलं बाणासनोद्यत्कर
वन्देऽरातिभयावहं मुनिनुतं रामं घनश्यामलम् ॥
आकर्णान्तगुणोल्लसच्छरमजं कल्पान्तकालोपमं
नेत्रांतारुणतां वहन्तमनिशं प्रह्लाददं नाकिनाम् ।
पौलस्त्यासुरदृष्टिचञ्चलकरं शस्त्रास्त्रसन्धायिनं
बाणानेकविचित्रहस्तकुशलं श्रीवीररामं भजे ॥
नहि माता नहि तातो नहि मम तनयाश्च नैव सोदयः ।
इति मम निकटे मृत्यौ रघुपतिरयमेव बन्धुरासन्नः ।।
देवेन्द्रेण समर्पिते ध्वजयुते तत्स्यन्दने संस्थितं
सोत्कण्ठं सुरवैरिवीर्यविभवं ज्ञात्वा भुजास्फालनम् ।
कृत्वा सूतयुतं दशाननहरं तूणीरसंस्थं शरं
हृत्वा ज्यानिनदादरातिभयदं श्रीवीररामं भजे ॥
रुचिरमणिकिरीटं सुन्दरभ्रूललाटं
कनकरुचिरचेलं काशसद्भोगखेलम् ।
विमलजलदनीलं कुण्डलोद्भासिकर्ण
रघुकुल जनरत्नं सन्ततं चिन्तयामि ॥
१८
१९
२०
२१

२२
२३
श्रीरामकर्णामृतम्
श्रीवत्साङ्क मुदारकौस्तुभलसत्पीताम्बरालङ्कतं
नानारत्नविराजमानमकुटं नीलाम्बुदश्यामलम् ।
कस्तूरीघनसारचर्चिततर्नु मन्दारमालाधरं
कन्दीयुतसुन्दरं रघुपति सीतासमेतं भजे ॥
यन्नामैव सहस्रनामसदृशं यन्नाम वेदै स्समं
यन्नामाङ्कितवाक्य मासुरबलस्त्रीगर्भविच्छेदनम् ।
यन्नाम श्वपचार्यभेदरहितं मुक्तिप्रदानोज्जलं
तन्नामाऽलघुरामरामरमणं श्रीरामनामामृतम् ।।
रामं राक्षसमर्दनं रघुवरं दैतेयबिध्वंसिनं
सुग्रीवेप्सितराज्यदं सुरपते भीत्यन्तकं शाझिणम् ।
भक्ताना मभयप्रदं भयहरं पापौघविध्वंसिनं
सामीरिस्तुतपादपद्मयुगळं सीतासभेतं भजे ।।
रामं रक्तसरोरुहाक्ष ममलं लङ्काधिनाथान्तकं
कौसल्यानयनोत्सुकं रघुवरं नागेन्द्रतल्पस्थितम् ।
वैदेहीकुचकुम्भकुङ्कुमरजोऽलङ्कारहारं हरि
मायामानुषविग्रहं रघुपतिं सीतासमेतं भजे ।।
रामं हेमतटित्प्रभांशुकधरं वीरासने संस्थितं
बालं नीलमणिप्रभं मधुरिपुं दैत्येन्द्रगर्वापहम् ।
विश्वामित्रवसिष्ठवानरवरैस्संसेव्यमानं सदा
नित्यं भास्करचन्द्रकोटिसदृशं सीतासमेतं भजे ॥
शत्रुनो व्यजनाङ्कितोऽपि भरतः पार्श्वद्वये पश्चिमे
छने चामरसंयुतं कलितवान यं सेवते लक्ष्मणः ।
२४
२६

४३
२८
२९
तृतीयाश्वासः
मूले कल्पतरोर्विमानविलसन्माणिक्यसिंहासने
पद्मास्यं मुनिसेवितं रघुपतिं सीतासमेतं भजे ॥
वामाङ्कोपरि तप्तकाञ्चननिभं सीतासमालोकितं
हस्ताभ्यां धृतछत्रचामरमहासौमित्रिणा सेवितम् ।
नित्यं पूजितपादपद्मयुगळं देवैस्सुरेन्द्रादिभिः
सेव्यं मानुषराक्षसैः कपिवरैइश्रीरामचन्द्रं भजे ॥
कस्तूरीतिलकं कपीन्द्रहरणं कारुण्यवारांनिधिं
क्षाराम्भोधिसुतामुखाब्जमधुपं कल्याणसंपन्निधिम् ।
कौसल्यानयनोत्सुकं कपिवरत्राणं महापौरुषं
कौमारप्रिय मर्ककोटिसदृशं सीतासमेतं भजे ॥
विद्युत्कोटिदिवाकरद्युतिनिभं श्रीकौस्तुभालङ्कृतं
योगीन्द्रस्सनकादिभिः परिघृतं कैलासनाथप्रियम् ।
मुक्तारत्नकिरीटकुण्डलधरं ग्रैवेयहारान्वितं
वैदेहीकुचसनिवासमनिशं सीतासमेतं भजे ॥
विद्युत्कोटिसहस्रभानुसदृशं सिंहासने संस्थितं
मूले कल्पतरो महामणिमये भासं परेशं विभुम् ।
सुग्रीवाङ्गदजाम्बवादिहरिभिः संसेव्यमानं हरिं
शंभुब्रह्मसुरादिभिः परिवृतं सीतासमेतं भजे ॥
मेघश्यामल मम्बुजातनयनं विस्तीर्णवक्षस्थलं
बाहुद्वन्द्वविराजितं सुवदनं शोणात्रिपकेरुहम् ।
नानारत्नविचित्रभूषणयुतं कोदण्डबाणाङ्कितं
त्रैलोक्याऽप्रतिमानसुन्दरतनुं सीतासमेतं भजे ॥
३
०
३२

३४
श्रीरामकर्णामृतम्
दिव्यारण्ययतीन्द्रनामनगरे मध्ये महामण्टपे
स्वर्णस्तम्भसहस्रषोडशयुते मन्दारमूलाश्रिते ।
नानारत्नविचित्रनिर्मलमहासिंहासने संस्थितं
सीतालक्ष्मणसेवितं रघुपति सीतासमेतं भजे ॥
यत्पादाम्बुजसम्भवा त्रिपथगा भागीरथी मुक्तिदा
लोकानां हतकिल्बिषा भगवती मन्दाकिनी शाम्भवी ।
लोके भाति सरस्वती सुरनदी पुण्येन्दुकान्तिप्रभा
तं विष्णुं भरताग्रज रघुवरं सीतासमेतं भजे ॥
यत्पादाम्बुजरेणुना मुनिसती मुक्तिंगता यन्महः
पुण्यं पातकनाशनं त्रिजगतां भाति स्मृतं पावनम् ।
स्मृत्वा राघव मप्रमेय ममलं पूर्णेन्दुमन्दस्मितं
तं रामं सरसीरहाक्ष ममलं सीतासमेतं भजे ॥
वैदेहीकुचमण्डलामविलसन्माणिक्यहस्ताम्बुजं
चञ्चत्कङ्कगहारनूपुरलसत्केयूरहारान्वितम् ।
दिव्यश्रीमणिकुण्डलोजुलमहाभूषासहस्रान्वितं
वीरश्रीरघुपुङ्गवं गुणनिधिं सीतासमेतं भजे ॥
वैदेहीकुचमण्डलोपरिलसन्माणिक्यहारावळी-
मध्यस्थं नवनीत कोमलरुचिं नीलोत्पलश्यामलम् ।
कन्दर्पायुतकोटिसुन्दरतर्नु पूर्णेन्दुबिम्बाननं
कौसल्याकुलभूषणं रघुपति सीतासमेतं भजे ॥
वैदेहीयुतवामभाग मतुलं वन्दारुमन्दारकं
वन्दे प्रस्तुतकीर्तिवासिततरुच्छायानुकारिप्रभम् ।
३७
३

तृतीयाश्वास:
वैदेहीकुचकुङ्कुमाङ्कितमहोरस्क महाभूषणं
वेदान्तैरुपगीयमानमसकृत्सीतासमेतं भजे ॥
३८
वैदेहीस्तनकुम्भसम्भ्रमपरीरम्भादृतं सिन्धुगं
राकाचन्द्रनिभाननं खुवरं राजीवपवेक्षणम् ।
प्रावृण्मेघनिभद्युतिं स्मितयुतं हारावळीभूषितं
श्रीरामं प्रणमामि भक्तजनताचिन्तामणिं सन्ततम् ।। ३९.
वैदेहीरमणीहिरण्यतिलकं विश्वम्भरापालक
वर्धिष्णुं विविधायुधेषु निपुणं विद्वजनश्रीकरम् ।
विद्यावासगृहं वियञ्चरनुतं विद्युत्प्रकाशाम्बरं
विप्रत्राणविधेयमादिपुरुषं श्रीरामचन्द्रं भजे ।।
वैदेहीवशवर्तिनं रणजितं रत्नाकरागारिणं
पंक्तिपीवमदापहं पटु भुजं पद्माप्तकोटिप्रभम् ।
विष्णुं जिष्णुमवार्यशौर्यनिलयं नीलाम्बुदश्यामलं
रत्नालङ्करणान्वितं खुपति श्रीरामचन्द्रं भजे ॥
देवानां हितकारणेन भुवने धृत्वाऽवतारं ध्रुवं
राम कौशिकयज्ञविनदळनं तत्ताटकासंहरम् ।
नित्यं गौतमपनिशापदळनश्रीपादरेणुं शुभं
शम्भोरुत्कटचापखण्डनमहासत्वं भजे राघवम् ।।
राजीवनेत्र खुपुङ्गव रामभद्र राकेन्दुबिम्बसदृशानन नीलगात्र ।
रामाऽभिराम रघुवंशसमुद्भव त्वं श्रीरामचन्द्र मम देहि करावलम्बम्॥
मुकुररुचिरगण्डं पुण्डरीकाभतुण्डं
कारिकरभुजदण्डं रौद्रतेजोनिकुण्डम् ।
४२

४४ ४ श्रीरामकर्णामृतम् नमितभुवनषण्डं भेदितोग्रारिमण्डं गुणनिकरकरण्डं नौमि रामप्रचण्डम् ।। कोदण्डकाण्डविनिवेशितबाहुदण्ड माखण्डलाद्यमरवर्षितपुष्पवर्षम् । आयोधनस्थितरजःपरिधूसराङ्ग मप्यूर्जितं रघुवरेन्द्रमरिप्रभेदम् ।। सेव्यं श्रीराममन्त्रं श्रवणशुभकरं श्रेष्ठसुज्ञानिमन्त्रं स्तव्यं श्रीराममन्त्रं नरकरितदुरिनिर्यातमन्त्रम् । भव्यं श्रीराममन्त्रं भजतु भजतु संसारनिस्तारमन्त्रं दिव्यं श्रीराममन्त्रं दिवि भुवि विलसन्मोक्षरक्षैकमन्त्रम् ॥ आजानुबाहु मरविन्ददृशं शुभाङ्गं राजाधिराज मघराजितमःपतङ्गम् । श्रीजानकीमुखसरोरुहमत्तभृङ्गं श्रीनायकं हृदि भजामि कृपान्तरङ्गम् ।। एकेन बाणमपरेण करेण चापं हर्षा द्वहन्त मसमानजटाशिरस्कम् । सीतासहाय मनुजेन समं चरन्तं श्रीरामचन्द्र मनिशं कलयामि चित्ते। आमीलयन् दशशिरोवदनाम्बुजात- मुन्मीलयन् जनकजानयनोत्पले च । आनन्दयन् सकलजीवचकोरराशि श्रीरामचन्द्रविभुरस्तु मदीयचित्ते ॥ ४९ रामं पुराणपुरुष रमणीयवेषं राजाधिराजमकुटार्चितपादपीठम् । सीतापतिं सुनयनं जगदेकवीरं श्रीरामचन्द्रमनिशं कलयामि चित्ते ।। सिंहासनस्थं सुरसेवितव्यं रत्नाङ्कितालङ्कृतपादाम् । सीतासमेतं शशिसूर्यनेत्रं रामं भजे राघवरामचन्द्रम् ॥ ४७

तृतीयाश्वासः
सुग्रीवमित्रं सुजनानुरूपं लङ्काहरं राक्षसवंशनाशम् ।
वेदाश्रयाङ्गं विपुलायताक्षं रामं भजे राघवरामचन्द्रम् ।। ५२
अनन्तकीर्ति वरदं प्रसन्नं पद्मासनं सेवकपारिजातम् ।
राजाधिराज रघुवीरकेतुं रामं भजे राघवरामचन्द्रम् ॥
पद्मासनस्थं सुरसेवितव्यं पद्मालयानन्दकटाक्षवीक्ष्यम् ।
गन्धर्वविद्याधरगीयमानं रामं भजे राघवरामचन्द्रम् ।।
अचिन्त्य मव्यक्त मनन्तरूप मद्वैत मानन्द मनादिगम्यम् ।
पुण्यस्वरूपं पुरुषोत्तमाख्यं रामं भजे राघवरामचन्द्रम् ॥
मन्दस्मितं कुण्डलगण्डभागं पीताम्बरं भूषणभूषिताङ्गम् ।
नीलोत्पलाङ्गं भुवनैकमित्रं रामं भजे राघवरामचन्द्रम् ॥
डिण्डीरहासमणिकुण्डलचारकर्ण दोर्दण्डशौर्यजितभण्डनशौर्य धीर ।
कोदण्डकाण्डपरिमण्डित पार्थिवेन्द्र वेतण्डयान जय राघवरामचन्द्र ।।
लोकान सप्त निनादयन् हरिहयस्याऽन्तर्भयं वर्धयन्
सप्तानां च भुवां प्रकम्प मुदयन् सप्तार्णवान घूर्णयन् ।
उन्मीलानि रसातलानि जनयन् सप्ताऽपि पृथ्वीधरान
सुश्रीराघवबाहुदण्डविदळत्कोदण्डचण्डध्वनिः ।।
५८
ब्रह्माण्डं दलयन् वियद्विदलयन भोगीशभोगस्थले
सन्त्रासं जनयन समुद्र पटलीतोयं समुद्वेल्लयन् ।
दिक्पालानपि क्षोभयन कुलगिरी दीर्णत्वमापादयन्
नक्षत्राणि च पातयन् विलसते शौरे धनुारवः ।। ५९
यश्चण्डगाम्भीर्यधनुर्विजेता भूमण्डलीपुण्यकृतावतारः ।
आखण्डलाधैरमरै रुपेतः कोदण्डपाणिः कुलदैवतं नः ।। ६०

४८ ३ श्रीरामकणामृतम् वैदेह्या सममेत्य राज्यमनिशं सौवर्णसिंहासने मन्दारद्रुमवाटिकान्तरमहाश्रीचन्द्रकान्तालये । कैकेयीतनयाञ्जनातनयसत्सौमित्रिसंसेवितं मेघश्याममुदारहासवदनं श्रीरामचन्द्रं भजे ॥ वैदेह्याः पुलकाङ्कुरार्चिततनुव्यालम्बहस्ताम्बुजो हस्ते मोदितरत्नकङ्कणरवः कल्पद्रुमाणां वने । पादाभ्यां मणिपादुकाद्युतिकरप्रेङ्घनखाभ्यां चर- निष्टालापसुधारसं दिशतु मे श्रीरामचन्द्रो हरिः ।। वामाङ्कस्थितजानकीकुचयुगे विस्रस्तहस्ताम्बुजं प्रोजृम्भाननपङ्कजोपरि लसद्विस्पष्टबिम्बाधरम् । सत्तारेण विशिष्टकङ्कणरवे चोङ्कारशब्दाश्रये भान्तं शारदचन्द्रहास मनिशं वन्दे सदा राघवम् ॥ वैदेहीसहितं च लक्ष्मणयुतं कैकेयिपुवान्वितं सुग्रीवं च विभीषणानिलसुतौ नीलं नलं साङ्गदम् । विश्वामित्रवसिष्ठगौतमभरद्वाजादिकान् मानयन रामो मारुतिसवितः स्मरतु मां साम्राज्यसिंहासने । रामः प्राञ्जलि मनतोऽनिलसुतं सौहार्द मादर्शयन प्रश्चचामरयुग्मभासितकरान् पश्चात् स्थले पार्श्वयोः वामाङ्केऽवनिजां विभीषणमुखान् संभावयन् बोधयन् धीमुद्राकरतत्त्वरूप मवतात् साम्राज्यसिंहासने ।। पौगण्डेहितबालकैः परिवृतः पूर्णेन्दुकान्तातनः प्रीत्याबद्धविचित्रहेमवसने संसक्तकाचीगुणः ।

तृतीयाश्वास: ४९ ६७ आजानुप्रविलम्बबाहुयुगळ इशयामाम्बुभृद्विग्रहो भ्रातृस्वानुचरश्चराचरगुरुः पायात्सदा राघवः ।। वैदेहीरमणीयवक्रवनजप्रद्योतखद्योतनं केळीसद्मनि रत्नदीपकळिकाकान्ते वसन्तं हरिम् । सौरभ्यप्रसवप्रयुक्तविलसच्छय्यान्तरे शायिनं श्रीमन्तं रघुवंशदीपकमणिं श्रीरामचन्द्रं भजे ॥ रामो बद्धपयोनिधिगुणनिधि गत्वा समं वानरैः लङ्कां प्राप्य सकुम्भकर्णदनुजं हत्वा रणे रावणम् । तत्र स्थाप्य विभीषणं पुनरगात्सीतापतिः पुष्पकं चारूढः पुनरागतस्स भृतवान् धात्रीमजः पातु नः ।। रत्नोल्लसजलितकुण्डलगण्डभागं कस्तूरिकातिलकशोभितफालभागम् । कर्णान्तदीर्घनयनं करुणाकटाक्षं श्रीरामचन्द्रमुखमात्मनि सन्निधत्ताम् ।। हेलाभग्नशशाङ्कशेखरधनुर्भूमण्डलाखण्डल- श्रेणीमौळिलसद्विनूनमणिभि दीप्तापिङ्केरुहः । कल्याणं जनयत्वखण्डविभवः कल्याणलीलोत्सवे मार्ताण्डान्वयमण्डनश्च भवतां रामस्सरामस्सदा ॥ विद्युत्स्फुरन्मकरकुण्डलदीप्तचारु गण्डस्थलं मणिकिरीटविराजमानम् । पीताम्बरं जलदनीलमुदारकान्ति श्रीरामचन्द्रमनिशं कलयामि चित्ते ।। ६९ R. K.4

७२
श्रीरामकर्णामृतम्
करतलधृतचापं कालमेघस्वरूपं
सरसिजदळनेत्रं चारुहासं सुगात्रम् ।
विचिनुतवनवासं विक्रमोदग्रवेषं
प्रणमत रघुनाथं जानकीप्राणनाथम् ॥
यः पृथ्वीभरवारणाय दिविजैस्संप्रार्थितश्चिन्मयः
सञ्जातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः।
निश्चक्रं हतराक्षसः पुनरगा ब्रह्मत्वमाद्यं स्थिरां
कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ॥
विश्वोद्भवस्थितिलयादिषु हेतु मेकं
मायाश्रयं विगतमायमचिन्त्यमूर्तिम् ।
आनन्दसान्द्र ममलं निजबोधरूपं
सीतापतिं विदिततत्त्व महं नमामि ।।
श्रीरामं नवरत्नकुण्डलधरं श्रीरामरक्षामणिं
श्रीरामं च सहस्रभानुसदृशं श्रीरामचन्द्रोदयम् ।
श्रीरामं श्रुतकीर्तिमाकरमहं श्रीराममुक्तिप्रदं
श्रीरामं रघुनन्दनं भयहरं श्रीरामचन्द्रं भजे ॥
रामचन्द्रचरणारविन्दयो रन्तरङ्गचरभृङ्गलीलया ।
तत्र सन्ति च रसा श्चतुर्विधा माकरन्दरसएव पङ्कजे ॥
रामः पातु सदैव मा मरिभया द्रामं सदा भावये
रामेणैव हृतं महत्तरतमो रामाय नित्यं नमः ।
रामा नास्ति परं पदं सुललितौ रामस्य पादौ भजे
रामे प्रीति रचञ्चलाऽस्तु मम हे श्रीराम मां पालय ॥
७
७६

तृतीयाश्वासः
राम मिन्दीवरश्यामं राजीवायतलोचनम् ।
ज्याघोषनिर्जिताराति जानकीरमणं भजे ॥
नानादिव्यास्त्रतेजस्स्फुरदमितभुज शत्रुसंहारधीरः
कौटिल्योहयोतमानभ्रकुटियुतमुखं धारयन्नम्बुदाभः ।
तूणीरप्रोत्थवेगोल्लसितशरवरं ताडयित्वा दशास्यं
वीरश्रीबन्धुराङ्ग त्रिदशपतिनुतः पातु मां वीररामः ॥
हत्वा युद्धे दशास्यं त्रिभुवनविषमं वामहस्तेन चापं
भूमा वारोप्य तिष्ठ नितरकरधृतं भ्रामयन बाण मेकम् ।
आरक्तोपान्तनेत्र शरदळितवपुः कोटिसूर्यप्रकाशो
वीरश्रीवन्धुराङ्ग त्रिदशपतिनुतः पातु मां वीररामः ।।
युद्धे सन्नद्धशस्त्रं कपिवरभयदं कुम्भकर्ण सुरारि
बाणेनैकेन सद्यः प्रकटितहुतभुग्विश्वरोषारुणाक्षम् ।
हत्वा कृत्वा प्रमोदं सुरकपिवितते मौनिवृन्दैकसेव्यो
वीरश्रीबन्धुराङ्ग स्त्रिदशपतिनुतः पातु मां वीररामः ॥ ८१
दैतेयोदग्रसेव्यं पटुतरविशिखं भीषणं घोरनादं
देवेन्द्रस्तूयमानस्फुरदरिनिकरानन्धकारांश्च हत्वा ।
दिक्पालान प्राप्तभोगान्मणिरुचिसुभगान् दिक्षु तान स्थापयित्वा
वीरश्रीबन्धुराग त्रिदशपतिनुतः पातु मां वीररामः ॥ ८२
कौसल्यावीरगर्भाम्बुधिधनविलसत्पूर्णचन्द्रप्रकाशो
मौनीन्द्रस्वान्तपद्मप्रविमलतरणि धर्मनैपुण्यरूढः ।
मारीचं राक्षसेन्द्रं निजशरदहनायाऽऽहुतिं कल्पयित्वा
वीरश्रीबन्धुराङ्ग त्रिदशपतिनुतः पातु मां वीररामः ॥ ८३

८४ । ८६ श्रीरामकर्णामृतम् यो दण्डकारण्यनिशाचरेन्द्रान कोदण्डलीलाविषयां चकार । वेदण्डशुण्डायितबाहुदण्डः कोदण्डपाणिः कुलदैवतं नः ।। तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौं । फलमूलाशिनौ दान्तौ तापसौ धर्मचारिणी रक्षःकुलविहन्तारौ भ्रातरौ रामलक्ष्मणौ ।। कल्याणानां निदानं कलिमलदहनं पावनं पावनानां पाथेयं मोक्षसिद्धिप्रथितसुपदवीप्राप्तये प्रस्थितस्य । विश्रामस्थान मेकं कविवरवचसा जीवनं जीवितानां बीजं धर्मद्रुमस्य प्रभवति भवतां भूतये रामनाम ।। कौसल्यानयनेन्दुं दशरथमुखारविन्दमार्ताण्डं । सीतामानसहंसं रामं राजीवलोचनं वन्दे । दीर्घबाहु मरविन्दलोचनं दीनवत्सल मनाथरक्षकम् । दीक्षितं सकललोकरक्षणे दैवतं दशरथात्मजं भजे ॥ सत्येन लोकान् जयति दीनान दानेन राघवः । गुरुं शुश्रूषया वीरो धनुषा युद्धशात्रवान् । भर्जनं भववीजानां मार्जनं सुखसंपदाम् । तर्जनं यमदूतानां रामरामेति कीर्तनम् ।। सकृत्प्रणतरक्षायां साक्षी यस्य विभीषणः । सापराधप्रतीकारः स श्रीरामो गति मम ।। न जाने जानकीजाने ! राम ! त्वन्नामवैभवम् । सर्वेशो भगवान शम्भु वाल्मीकि र्वेत्ति वा नवा ।। ८८ ८९ ९० ९१ ९२ ९३

५३
९४
९५
तृतीयाश्वासः
कृत्याकृत्यविवेकहीनमनसां हत्यादिभिर्जीविना-
मत्यन्तं बहुतारकं तनुभृता मत्यन्तशोकापहम् ।
सत्यानन्दमयं समस्तनिगमस्तुत्यास्पदं सम्पदा
स्थानं श्रीरघुरामनाम विमलं नित्यं स्मरन् मुच्यते ॥
साकेते स्वनिकेतने सुरतरो मूले लसद्वेदिके
पद्मं रत्नमयं दधान मपरं हस्ताम्बुजं जानुनि ।
सीतां पार्श्वगतां सरोरुहकरां विद्युनिभा राघवं
पश्यन्तं परिपूर्णचन्द्रवदनं भास्वकिरीटं भजे ॥
विद्युद्वर्णोपमाङ्गी विकचबिसमुखी विद्रुमाभाधरोष्ठी
वेदण्डौद्धत्यकुम्भप्रतिकुचयुगळां वेदिमध्यावतंसाम् ।
श्यामा संफुल्लपद्मच्छदनिभनयनां चारुहासां सुनासां
सीतां श्रीरामदेवीं श्रितजनवरदां चिन्तयेऽनन्तमूर्तिम् ॥
माणिक्यमञ्जीरपदारविन्दा रामार्कसंफुल्लमुखारविन्दाम् ।
भक्ताभयप्रापिकरारविन्दां देवीं भजे राघववल्लभां ताम् ।
जयतु विजयकारी जानकीमोदकारी
तपनकुलविहारी दण्डकारण्यचारी।
दशवदनकुठारी दैत्यविच्छेदकारी
मणिमकुटकधारी चण्डकोदण्डधारी ॥
चेतस्थितं चिन्तकचिन्तनीयं चिन्ताहरं चिन्तित पारिजातम् ।
अचिन्तनीयं बहुचिन्तयेऽहं तमेव रामं भुवनाभिरामम् ।।
साकेते शरदिन्दुकुन्दधवळे सौधे महामण्टपे
पर्यस्तागरुधूपधूमपटले कर्पूरदीपोजुले ।
९९

श्रीरामकर्णामृतम् सुग्रीवाङ्गदवायुपुत्रसहितं सौमित्रिणा सेवितं लीलामानुषविग्रहं रघुपति रामं भजे श्यामलम् ।। १०० रामः पिता राघव एव माता राम स्सुबन्धुश्च सखा हितश्च । रामो गुरु में परमं च दैवं रामं विना नाऽन्यमहं स्मरामि ॥ या कृपा मुनिसन्त्राणे या कृपा कपिनायके । या विभीषणरक्षायां सा राम मम दीयताम् ॥ १०२ दयानिधे राघव रामचन्द्र निरस्य पापानि ममाऽखिलानि । त्वय्येव भक्तिं सुदृढां प्रयच्छ सैव प्रसूते ह्यखिलानभीष्टान् ॥ अक्षीणबाणतूणीर स्समारोपितकार्मुकः । दशग्रीवशिरोहन्ता श्रीराम शरणं मम ॥ १०४ श्रीराम मे त्वं हि पिताच माता श्रीराम मे त्वं हि सुहृच्च बन्धुः । श्रीराम मे त्वं हि गुरुश्च गोष्ठी श्रीराम मे त्वं हि समस्तमेव ॥ पटुतरजलवाहध्वानमादाय चापं पवनजवन मेकं बाण माकृष्य तूणात् । अभयवचनदायी सानुज स्सर्वतो मे रणहतदनुजेन्द्रो रामचन्द्र स्सहायः ।। १०६ कौसल्यालसदालवालजनित सीतालतालिङ्गित- स्सिक्तः पंक्तिरथेन सोदरमहाशाखाभिरत्युन्नतः । रक्षस्तीक्ष्णनिदाघपाटनपटुच्छायाभि रानन्दय- अस्मद्वान्छितसत्फलानि फलतु श्रीरामकल्पद्रुमः ।। निगमशिखररत्नं नित्यमाशास्यरत्रं जननुतनृपरनं जानकीरूपरत्नम् ।

५५ तृतीयाश्वासः भुवनवलयरत्नं भूभुजामेकरनं रघुकुलवररत्नं पातु मां रामरत्नम् ॥ १०८ विशालनेत्रं परिपूर्णगात्रं सीताकछत्रं सुरवैरिजैत्रं । कारुण्यपात्रं जगतः पवित्रं श्रीरामरत्नं प्रणतोऽस्मि नित्यम् ॥ १०९ श्रीरामचन्द्र श्रितपारिजातः समस्तकळ्याणगुणाभिरामः । सीतामुखाम्भोरुहचञ्चरीको निरन्तरं मङ्गळमातनोतु ।। ११० इन्दीवरदळश्यामः पुण्डरीकनिभेक्षणः । धृतकोदण्डतूणीरो राम एव गतिर्मम ॥ १११ इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महता यान्तं रामं छत्रावृताननम् ॥ ११२ रामो नाम बभूव हुँ तदबला सीतेति हुं तौ पितु- र्वाचा पञ्चवटीवने विहरतम्तामाहरद्रावणः । निद्रार्थ जननीकथामिति हरे हुंकारत इशृण्वत- स्सौमित्रे व धनु धनु रिति व्यग्रा गिरः पान्तु नः ॥ ११३ श्रीरामचन्द्रति दयापरेति भक्तप्रियेति भवबन्धनमोचनेति नाथेति नागशयनेति सदा स्तुवन्तं मां पाहि भीत मनिशं कृपणं कृपाळो । रामचन्द्रचरितामृतपानं सोमपानशतकोटिसमानम् । सोमपानशतकाटिभिरीयाजन्म नैति रघुनायकनाम्ना ॥ ११५ राम राम दयासिन्धो रावणारे जगत्पते । त्वत्पादकमलासक्ति भवे जन्मनि जन्मनि ।।

११७
११८
श्रीरामकर्णामृतम्
श्रीराघवं रामचन्द्र रावणारि रमापतिम् ।
राजीवलोचनं रामं तं वन्दे रघुनायकम् ।।
यत्पादपङ्कजरज श्रुतिभि विमनं
यन्नाभिपङ्कजभवः कमलासन स्स्यात् ।
यन्नामसाररसिको भगवान् पुरारि-
स्तं रामचन्द्र मनिशं हृदि भावयामि ।।
यस्याऽवतारचरितानि विरिञ्चिलोके
गायन्ति नारदमुखाभवपद्मजाद्याः ।
आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा
वागीश्वरी च तमहं शरणं प्रपद्ये ॥
जातिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा
स्तेयी ब्रह्मनमातापितृवधनिरतो योगिबृन्दापकारी ।
ध्येयं कर्णामृतं यः पठति हि सततं रामचन्द्रस्य भक्तो
योगीन्द्ररप्यलभ्यं पदमपि लभते सर्वदेवश्च सेव्यम ।।
श्रीरामकर्णामृते
तृतीयाश्वासः
११९
१२०
समाप्तः

20602 श्रीरामचन्द्रपरब्रह्मणे नमः. ॥श्रीरामकर्णामृतम्॥ १ ॥ चतुर्थाश्वासः ।। श्रीराम जनकात्मजाकुचतटीश्रीगन्धसंगोल्लस- द्वक्षोवीथि मुदार माश्रितमुनिप्रादुर्भवत्कल्पकम् । ब्रह्मेशानमुखामरस्तुत मजं ब्रह्माण्डभाण्डाधिपं वन्दे कोसलकन्यकासुत महं वाराशिगर्वापहम् ॥ साकेते मणिनिर्मिते प्रविलसत्सौधायुतानां शते अन्तर्गेह मतीतभानुनिलये चञ्चत्पताकोजले । हवें भर्ममये घनाघनरवैघण्टाशते रावृते डोलाकल्पविहारिणं रघुपति सीतासमेतं भजे ॥ साकेते सौधबद्धध्वजशतमहिते राजमार्गे विशाले घण्टारावैरुपेते कनककुथयुते गन्धनागे वसन्तम् । दिव्याकल्पोजलाङ्गं रथगजतुरगैरावृतं सुप्रसन्न रामं श्वेतातपत्रावृतमुखकमलं चिन्तयाम्यन्तरङ्गे ।। साकेते मणिकोटिभिस्सुखचिते दिव्याम्बरालंकृते हेमस्तम्भसहस्रकोटिघटिते तारापथात्युनते । रम्यस्वर्णमये विचित्रभवने भुव्यन्तरिक्षे मुदा रामं स्मेरमुखाम्बुजं रघुपति सीतासमेतं भजे ॥ २ ३

६
५८
श्रीरामकर्णामृतम्
साकेते मणितोरणाश्चितलसद्वीथीशतप्राङ्गणे
सानन्दं भरतादिभिस्सहचरैरत्यन्तमोदाकरैः ।
क्रीडन्तं मणिकन्दुकैः करगतै रन्योन्य मत्युज्जलैः
पौरखीनयनोत्सवैः प्रतिदिनं पूज्यं भजे राघवम् ।।
साकेते कनकाद्रिशृङ्गघटिते कल्पद्रुमैरावृते
वैदूर्यादिमणीन्द्रकान्तिघटिते देवेन्द्रनीलोजले ।
कुर्वन्तं मणिनायकौ मणिगृहे माणिक्यपीठे भजे
पुत्रौ मन्मथसुन्दरौ कुशलवौ संसेव्यपादाविमौ ।।
साकेते जननीकरार्चितलसत्कस्तूरिकासुन्दरे
फाले मौक्तिकजालकं शशिनिभं स्वर्णाङ्कितं वर्तुलम् ।
चूडालम्बमनोज्ञहारकलितं विभ्राणमत्युज्जलं
रामं कोसलपुत्रिकावरसुतं सीतासमेतं भजे ॥
साकेते सरयूजलेऽतिविमले प्रोत्फुल्लपद्मांकिते
दिव्यस्त्रीशतकोटिनृत्यरुचिरे स्वर्गापगासुन्दरे ।
पश्यन्तीषु सुराङ्गनासु शपथं क्रीडन्तमुर्वीसुतां
बाहुभ्यां विमलोदकेन रुचिरं सीतासमेतं भजे ॥
कदा सुरतरुस्थले कनकमण्टपे पुष्पके
वरासनमुपेयुषं वसुदळारविन्दोजुले ।
करेण हृदयस्पृशा कलितमुद्रचिन्मुद्रिका
मम स्फुरतु वासना मनसि बद्धवीरासना ।।
नदीरमणबन्धनं मतिमतामुदारं धनं
जगद्धततरं धनं सकलकामनिष्यन्दनम् ।
८
९

५९
१०
११
१२
चतुर्थाश्वासः
विलिप्तहरिचन्दनं विनुतयातसंक्रन्दनं
भजामि रघुनन्दनं पवननन्दनस्यन्दनम् ।।
रक्ताम्भोरुहलोचनं कुवलयश्यामं कपोलं धनुः
कोटिन्यस्तकराम्बुजं धृततनुत्राणं जटामण्डितम् ।
जेतारं खरदूषणत्रिशिरसामाबद्धगोधामुळी
त्राणं मार्गणपूर्णतूणयुगळं कोदण्डरामं भजे ।।
श्रीमत्कल्पद्रुमूले सकलमणिमये मण्डपे पुष्पकाख्ये
तन्मध्ये सूर्यबिम्बद्युतिसरसिरुहे शोभमानाष्टपद्मे ।
पश्यन्निष्टाङ्गदीप्त्या जनकतनयया वामभागोपसेव्यः
सौमित्रिं भानुपुत्र पवनसुतयुतं पातु मां रामचन्द्रः ।।
विनीलजलदोपमं विमलचन्द्रविम्बाननं
विनिद्रमणिकुण्डलं विकचपुण्डरीकेक्षणम् ।
विभिन्नदनुजाधिपं विधृतबाणबाणासनं
विभीषणवरप्रदं विजयराममोडेऽनिशम् ।।
राजद्राजीवनेत्रं रघुकुलतिलकं रञ्जिताशेषलोकं
वामाङ्कारूढसीतं वरशरधनुषं कुण्डलोद्दीप्तगण्डम् ।
श्यामं शान्तं प्रसन्नं दरहसितमुखं वज्रसिंहासनस्थं
रामं राजकिरीटं रविशतविशदं राजराजेशमीडे ॥
भद्रव्याख्यानमुद्रां करसरसिरहे दक्षिणे धारयन्तं
सव्ये जानुन्युदार करमपि च मुदा धारयन्तं स्फुरन्तम् ।
पश्यन्तं वामभागे करघृतकमलां चित्रभूषाविशेषां
वदेही काञ्चनाढ्यां स्तनभरनमितां भावये रामचन्द्रम् ॥
१३
१४

६०
श्रीरामकर्णामृतम्
विबुधविटपिमूले जानकीलक्ष्मणाभ्यां
सहित मनिलवेगं बाणमादाय चापम् ।
बहुशरपटुतूणं रम्यपुष्पोपहारं
विबुधभरणचित्तं चिन्तये रामचन्द्रम् ।।
जानाति राम! तव तत्त्वगतिं हनूमान्
जानाति राम! तव सख्यगति कपीशः ।
जानाति राम! तव युद्धगतिं दशास्यो
जानाति राम! धनदानुज एव सत्यम् ॥
हेराम ! हेरमण! हेजगदेकवीर !
हेनाथ ! हेरघुपते ! करुणालवाल! ।
हेजानकीरमण ! हेजगदेकबन्धो !
मां पाहि दीन मनिशं कृपणं कृतघ्नम् ।।
अयोध्यानाथ ! राजेन्द्र ! सीताकान्त ! जगत्पते!।
श्रीराम ! पुण्डरीकाक्ष ! रामचन्द्र ! नमोऽस्तु ते
दक्षिणे लक्ष्मणो धन्वी वामतो जानकी शुभा ।
पुरतो मारुतिर्यस्य तं नमामि रघूत्तमम् ॥
रामं राक्षसमर्दनं रघुपतिं शक्रारिविध्वंसिनं
सुग्रीवेप्सितराज्यदं सुरपतेः पुत्रान्तकं शाङ्गिणम् ।
भक्तानामभयप्रदं भयहरं पापौघविध्वंसिनं
सीतासेवितपादपद्मयुगळं रामं भजे श्यामलम् ।।
भवभयहरमेकं भानुकोटिप्रकाशं
करधृतशरचापं कालमेघावभासम् ।
१८
२०
२१

६१
२३
२४
चतुर्थाश्वासः
कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं
कमलविशदनेत्रं सानु राममीडे ।।
रामं श्यामपयोदनीलममलं राजीवनेत्रं सदा
ऽहल्याशापनिवारणप्रणयपादाम्भोजमुर्वीश्वरम् ।
विद्युत्कोटिसहस्रदीधितिलसत्कोटीरमस्तोजुलं
ध्याये तारकराममीश्वरसखं दैतेयवंशापहम् ।।
दशरथसुत मीशं दण्डकारण्यवासं
शतमखमणिनीलं जानकीप्राणलोलम् ।
सकल भुवनमोहं सन्नुताम्भोददेहं
बहुलनुतसमुद्रं भावये रामभद्रम् ॥
सरयूतीरवने लतानिवसने सद्रनवेदीतटे
सुमपर्यङ्कतले विदेहसुतया सार्ध परिक्रीडते
कस्तूरीघनसारचन्दनमिळद्गन्धोल्लसत्पावनी
पायान्मूर्तिरनामया खुपतेर्भद्रात्मका नोऽनिशम् ।।
वैदेहीप्रियवल्लभं विजयिनं वातात्मजाधीश्वरं
वाणीवारिधिवानरादिविनुतं वन्दारुमन्दारकम् ।
विश्वामित्रवसिष्ठवासवशिवावाणीशशश्वन्नुतं
देवेशं विनतात्मजाभिविनुतं वन्दे सदा राघवम् ॥
विशालनेत्रं परिपूर्णगात्रं सीताकळत्रं सुरवैरिजैत्रम् ।
जगत्पवित्रं परमात्मतन्त्रं श्रीरामचन्द्रं प्रणमामि चित्ते ।।
सौमित्रमानार्णवपूर्णचन्द्र ! सीतालसल्लोचनपूर्णचन्द्र ! ।
सुरारिवाम्बुजपूर्णचन्द्र ! संरक्ष मां राघव ! रामचन्द्र ! ॥
-
२६
२८

२९
३०
३१
श्रीरामकर्णामृतम्
यस्य किश्चिदपि नो हरणीयं कर्म किश्चिदपि नो चरणीयम् ।
रामनाम च सदा स्मरणीयं लीलया भवजलं तरणीयम् ।।
रङ्गमाणमभितो गृहाङ्गणे भृङ्गनीलमलकावृताननम् ।
मङ्गलप्रदममङ्गळापहं संगृणे दशरथात्मजं हृदि ।
दनुजतिमिरभानुं तापसैश्चिन्त्यमानं
शमितकलुषवारं सेवके दुष्टदूरम् ।
दळितविषमतालं दण्डितारातिजालं
प्रणुतशिखरिशत्रु भव्यपाथोदगावम् ॥
हेगोपालक! हेदयाजलनिधे! हेसद्गुणाम्भोनिधे!
हेदैत्यान्तक! हेविभीषणदयापारीण! हेभूपते! ।
हेवैदेहसुतामनोजविहते! हेकोटिमाराकृते!
हेनव्याम्बुजनेत्र! पालय परं जानामि न त्वां विना ।।
साकेते प्रणवाब्जरत्नखचिते सिंहासने संस्थितं
विश्वामित्रवसिष्ठगालवमुखैराशीभिरञ्बजटैः ।
पूज्यं पार्श्वगताब्जचारनयनं विद्युच्चलच्चामरं
वन्दे कोमलसंस्मिताननमिलारक्षावतीर्ण हरिम् ।।
नित्यं निर्जितपङ्कसंभवमहानेत्रश्रियं राघवं
रामं पार्वणचन्द्रचारुवदनं दिक्पालकैस्सेवितम् ।
कर्पूरागरुचन्दनाईहृदयं मन्दारमालांकित
विद्युत्पुञ्जनिभाम्बराघृततर्नु रामं भजे झ्यामलम् ॥
श्रीरामः कुशिकात्मजस्य वचनेनाऽऽकृष्य बाणासनं
मारीचं च सुबाहुकं शरयुगेनैवाहवे लीलया ।
३२
३३
३४

३
चतुर्थाश्वासः
क्रामन सुन्दरकाकपक्षरुचिरस्सौमित्रिणा संस्तुतः
पायानः कमलाननस्सकरुणः कालाम्बुदश्यामलः ॥
३५
आनन्दरूपं वरदं प्रसन्नं सिंहेक्षणं सेवकपारिजातम् ।
नीलोत्पलाङ्गं भुवनैकमित्रं रामं भजे राघवरामचन्द्रम् ॥ ३६
युद्धेऽवसन्नघृणदद्भुतबाणवर्षे रामः प्रहारसमये रजनीचराणाम् ।
रक्षानुकूलसमयाय विभीपणाय लङ्काधिपत्यमदिशद्रघुरामचन्द्रः ।।
वेदान्तनाथं स्वकृतैकदानं हताभिमानं त्रिदशप्रधानम् ।
गजेन्द्रयानं विगतावसानं श्रीरामचन्द्रं सततं नमामि ।। ३८
श्रीरामचन्द्रं धृतचापसायकं नीलोत्पलाभं नलिनायतेक्षणम् ।
सौमित्रिणा सेवितपादपङ्कजं सीतासमेतं शरणं भजेऽनिशम् ॥ ३९
श्रीरामचन्द्र करुणाकर. दीनबन्धो! सीतासमेत! भरताग्रज! राघवेश!
पापार्तिभञ्जन भयातुरदीनबन्धो पापाम्बुधौ पतितमुद्धर मा मनाथम् ।।
इदं शरीरं श्लथसन्धिजस्रं पतत्यवश्यं परिणामपेशलम् ।
किमौषधं पृच्छसि मूढ! दुर्मते! निरामयं रामकथामृतं पिब ।। ४१
दशमुखगजसिंह दैत्यगर्वातिरह
कदनभयदहस्तं तारकब्रह्म शस्तम् ।
मणिखचितकिरीटं मन्जुलालापवाट
दशरथकुलचन्द्रं रामचन्द्रं भजेऽहम् ।।
लङ्काविरामं रणरङ्गभीमं राजीवनेत्रं रघुवंशमित्रम् ।
कारुण्यमूर्ति करुणाप्रपूर्ति श्रीरामचन्द्रं शरणं प्रपद्ये ॥
रामचन्द्रमनिशं हृदयस्थं राममिन्दुवदनं प्रविभासम् ।
भावयामि निगमान्तनिवासं भारतीपतिनुतं भववन्द्यम् ॥
४२
४४

६४ श्रीरामकर्णामृतम् कौमारो रामचन्द्रः कमलमृदुपदा शोभयन् भूमिभागं मातु श्वानन्दकारी मरकतनिकराकार इन्दीवराक्षः । उत्सङ्गे सन्निविष्टः पितुरमरवरैः स्तूयमानोपकारो नानालङ्कारभूषस्स्फुरतु मम सदा मायया राम ईशः ।। सन्नद्धः कवची खड्गी चापबाणधरो युवा । गच्छन्ममाग्रतो नित्यं रामः पातु सलक्ष्मणः ॥ सुग्रीवमित्रं परमं पवित्रं सीताकळत्रं नवहेमसूत्रम् । कारुण्यपात्रं शतपत्रनेत्रं श्रीरामचन्द्रं शिरसा नमामि ॥ श्रीराघवेति रमणेति रघूद्वहेति रामेति रावणहरेति रमाधवेति । साकेतनाथसुमुखेति च सुव्रतेति वाणी सदा वदतु राम! हरे ! हरेति॥ जयतु जयतु रामो जानकीवल्लभोऽयं जयतु जयतु राम श्चन्द्रचूडार्चिताङ्घिः । जयतु जयतु वाणीनाथनाथः परात्मा जयतु जयतु रामो नाथनाथः कृपाळुः ॥ ४९ वरं न याचे रघुनाथ ! युष्मत्पादाब्जभक्तिस्सततं ममाऽस्तु । इदं प्रियं नाथ ! वरं प्रयच्छ पुनःपुनस्त्वामिदमेव याचे ॥ अम्भोधिरोपादरुणायमाने नाथस्य दृष्ट्वा नयने रघूणाम् । मरुद्गणैस्तत्क्षणमाशशङ्के मन्दाकिनीमङ्गळसूवभङ्गम् ।। अम्भोधिस्मयवन्धनेन जगदानन्देन भूपुत्रिका- स्वान्ताम्भोभववान्धवेन नतरक्षायत्तचित्तेन मे । कर्णालम्बितकुण्डलेन दिविषत्वाणोद्यमेनाश्रित- श्रेयःकल्पनगेन मे मतिरियं रामेण संवर्धताम ||

६५
चतुर्थाश्वासः
आदौ रामजनिः कुमारगमनं यज्ञप्रतीपालनं
शापादुद्धरणं धनुर्विदळनं सीताङ्गनोद्वाहनम् ।
लङ्काया दहनं समुद्रतरणं सौमित्रिसम्मोहनं
रक्षस्संहरणं स्वराज्यगमनं चैतद्धि रामायणम् ।।
जन्मादौ क्रतुरक्षणं मुनिपतेस्स्थाणोर्धनुर्भञ्जनं
वैदेहीग्रहणं पितुश्च वचनाद्बोराटवीगाहनम् ।
कोदण्डग्रहणं खरादिमथनं मायामृगच्छेदनं
बद्धाब्धिक्रमणं दशास्यनिधनं चैतद्धि रामायणम् ॥
पूर्व रामतपोवनानुगमनं हत्वा मृगं काञ्चनं
वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् ।
वालेनिग्रहणं समुद्रतरणं लङ्कापुरीदाहनं
पश्चाद्रावणकुम्भकर्णवधनं चैतद्धि रामायणम् ।।
शान्तं शारदचन्द्रकोटिसदृशं चन्द्राभिरामाननं
चन्द्रार्काग्निविकासिकुण्डलधरं चन्द्रावतंसस्तुतम् ।
वीणापुस्तकसाक्षसूत्रविलसद्व्याख्यानमुद्राकरं
देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ।
कृष्टं भीमधनुः कठोरनिनदं ब्रह्मादिसंविस्मयं
भास्वद्वाजिगतेरमागमनिशं शम्भो शिशरःकम्पनम् ।
दिग्दन्तिस्खलनं कुलाद्रिचलनं सप्तार्णवोन्मीलनं
वैदेहीमदनं मदान्धदमनं बैलोक्यसम्मोहनम् ॥
कञ्जातपत्रायतलोचनाय कर्णावतंसोजलकुण्डलाय ।
कारुण्यपात्राय सुवंशजाय नमोऽस्तु रामाय सलक्ष्मणाय ।
५५
५८
R. K.5

६२
.
श्रीरामकर्णामृतम्
विगुन्निभाम्भोदसुविग्रहाय विद्याधरै स्संस्तुतसद्गुणाय ।
वीरावताराय विरोधिहन्त्रे नमोऽस्तु रामाय सलक्ष्मणाय ।
संसक्तदिव्यायुधकार्मुकाय समुद्रगर्वापहरायुधाय ।
सुग्रीवमिवाय सुरारिहन्त्रे नमोऽस्तु रामाय सलक्ष्मणाय ॥
पीताम्बरालङ्कृतमध्यकाय पितामहेन्द्रामरवन्दिताय ।
पित्रे स्वभक्तस्य जनस्य मात्रे नमोऽस्तु रामाय सलक्ष्मणाय ।।
नमोनमस्तेऽखिलपूजिताय नमोनमश्चन्द्रनिभाननाय ।
नमोनमस्ते रघुवंशजाय नमोऽस्तु रामाय सलक्ष्मणाय ॥
इमानि पञ्चरत्नानि त्रिसन्ध्यं यः पठेन्नरः ।
सर्वपापविनिर्मुक्तस्स याति परमां गतिम् ।।
श्रीरामः कल्पवृक्षो मे विराम स्सकलापदः ।
अभिरामस्त्रिलोकानां रामः क्षेमं करोतु नः ।।
हृदय सदयचित्तं चित्तनाथं गुणाना-
मुदधि मुरुगुणाढ्यं निम्नगालङ्कृताड्रिम ।
जनकपतितनूजास्वान्तकान्तोत्पलस्य
स्फुरणकिरणचन्द्रं रामचन्द्रं भजख ।।
वदतु वदतु वाणी रामरामेति नित्यं
जपतु जपतु चित्तं रामपादारविन्दम् ।
नमतु नमतु देहं सन्ततं रामचन्द्र
न भवतु मम पापं जन्मजन्मान्तरेषु ॥
चापवाणधर स्सीताकामदः कान्तिमा नरः ।
सीतालक्ष्मणसंयुक्तः पातु मां राघवेश्वरः ।।
६५

चतुर्थाश्वासः
प्रातस्मरामि रघुनाथमुखारविन्दं
मन्दस्मितं मधुरभाषि विशालफालम् ।
कर्णावलम्बिचलकुण्डलगण्डभागं
कर्णान्तदीर्घनयनं नयनाभिरामम् ॥
प्रात भजामि खुनाथकरारविन्दं रक्षोगणाय भयदं वरदं निजेभ्यः
यद्राजसंसदि विभिद्य महेशचापं सीताकरग्रहणमङ्गळमाप सद्यः ।
प्रात नमामि रघुनाथपदारविन्दं पद्माङ्कुशादिशुभरेखशुभावहं च ।
योगीन्द्रमानसमधुव्रतसेव्यमानं शापापहं सपदि गौतमधर्मपत्नयाः ॥
प्रात वदामि वचसा रघुनाथनाम वाग्दोषहारि सकलं कलुषं निहन्त ।
य पार्वती स्वपतिना सह भोक्तुकामा प्रीत्या सहस्रहरिनामसमंजजाप।
प्रातः श्रये अतिनुतां रघुनाथमूर्ति
नीलांबुदोत्पलसिनेतररत्ननीलाम् ।
आमुक्तमौक्तिकविशेषविभूषणाच्या
ध्येयां समस्तमुनिभि निजभृत्यमुख्यैः
७२
यः श्लोकपञ्चक मिदं नियतः पठेत
नित्यं प्रभातसमये पुरुषः प्रबुद्धः ।
श्रीरामकिङ्करजनेषु स एव मुख्यो
भूत्वा प्रयाति हरिलोक मनन्यलभ्यम ।।
७३
किं मंत्रै बहुभिश्च दुष्करफल रायासदै स्तद्विदां
किञ्चिल्लोपविधानमात्रविफल: संसारदुःखावहैः ।
एक स्सन्नपि सर्वमन्त्रफलदो दोषोज्ज्ञित स्सर्वदा
श्रीराम शरणं ममेति परमो मन्त्रोऽय मष्टाक्षरः ।।

७६ श्रीरामकर्णामृतम् रामभद्राश्रय स्साक्षा द्रामचन्द्रो न संशयः । तत्र कोदण्डतूणीरा वन दण्डकमण्डलू ॥ ७५ रघुनाथ ! पदारविन्दयो स्ते भ्रमरीभूत मघांधकारसूर्य ! । अपराधशतालयङ्कलौ मा मनुगृह्णासि हि मङ्गलैः कटाक्षैः ।। राम! राम ! तव नाम जपन्तः पामरा अपि तरंति भवाब्धिम् । अङ्गमङ्गिभवदङ्गळिमुद्रः किं विचित्र मतरत्कपि रब्धिम् ॥ श्रीरामनामामृतमन्त्रबीजं संजीवनं चेन्मनसि प्रतिष्ठम् । हालाहलं वा प्रळयानलं वा मृत्यो मुखं वा वितथीकरोति ।। हा कृष्णाच्युत! हा कृपालय! हरे! हा पाण्डवानां सखे! कासि क्कासि सुयोधनाद्यपगतां हा रक्ष मां द्रौपदीम । इत्युक्तोऽक्षयवस्त्ररक्षणतनु र्योऽरक्षदाशु क्षणे आतंत्राणपरायण स्स भगवान्नारायणो मे गतिः ।। इंदीवरदळश्याम मिदुकोटिनिभाननम् । कंदर्पकोटिलावण्यं वंदेऽहं रघुनंदनम ।। किं योगशास्त्रैः किमशेषविद्यया किं यागगङ्गादिविशेषतीर्थैः । किं ब्रह्मचर्याश्रमसञ्चरेण भक्ति नचे त्ते रघुवंशकीर्तयाम ।। हे रामभद्राश्रय! हे कृपाळो! हे भक्तलोकैकशरण्यमूर्ते! । पुनीहि मां त्वच्चरणारविन्दं जगत्पवित्रं शरणं ममाऽस्तु ।। ८२ श्रीरामभद्रे श्रितयोगिचन्द्रे प्रसन्न मूर्ती परिदृश्यमाने । तापत्रयं नाश मुपैति पुंसां ममांऽधकारं विनिहन्तु सद्यः ।। ८३ नीलादेह! निखिलेश! जगनिवास! राजीवनेत्र! रमणीयगुणाभिराम! श्रीदाम! दैत्यकुलमर्दन! रामचन्द्र! त्वत्पादपद्म मनिशं कलयामि चित्ते॥ ८० चतुर्थाश्वासः कुवलयदळनीलः पीतवासाः स्मितास्यो विविधरुचिरभूषाभूपितो दिव्यमूर्तिः । दशरथकुलनाथो जानकीप्राणनाथो निवसतु मम चित्ते सर्वदा रामचन्द्रः ।। सजलजलदनीलं सन्मुनिस्तुत्यलीलं सुगमनिगममूलं यातुधानान्तकालम् । दशरथनृपवालं सत्कृपापूर्णलोलं भजतु भुवनखेलं भक्तसंस्तुत्यशीलम् ।। दशरथवरपुवं जानकीसत्कळत्रं दशमुखहरदक्षं पद्मपत्रायताक्षम् । करघृतशरचापं चाम्मुक्ताकलापं रघुकुलनृवरेण्यं राम मीडे शरण्यम्।। रामं वीरासनस्थं विमलरविनिभं भासमानस्वरूपं श्याम सीतासमेतं स्मितरुचिरमुखं कुण्डलोद्दीप्तगण्डम् । श्रीवत्सं श्रीनिवासं सुरविटपितटन्यस्तसिंहासनस्थं दिव्याकल्पोज्जुलाङ्गं दिविजपतिनुतं ध्यानयज्ञेन यक्ष्ये ॥ ८८ श्रीरामभद्राश्रितसद्गुरूणां पादारविन्दं भजतां नराणाम् । आरोग्य मैश्वर्य मनन्तकीर्ति रन्ते च विष्णोः पद मस्ति सत्यम् । रणहतदनुजेन्द्रो राजराजात्मचन्द्र- स्समदरिपुमृगेन्द्र स्सन्मनोम्भोधिचन्द्रः । ललितघननरेन्द्रो लक्ष्मणानन्दसान्द्रो महितसुजनचन्द्रो मैथिलीप्राणचन्द्रः ।। ९० नमः कोदण्डहस्ताय सन्दीपितशराय च । दण्डिनाखिलदैत्याय रामायाऽऽपन्निवारिणे ।। ९१ ९२ ९३ ९५ श्रीरामकर्णामृतम् न जानन जानकीजानि रामं तत्त्व मपि प्रभुम् । धिक्कुर्या द्यमदूतान यो नर स्त त्तत्त्वमीहते ।। रामो मे हृदि सन्निधिं रचयतां रामं भजे दुष्कृतं रामेणाऽपहृतं नमो भगवते रामाय रामाच्छुभम् । लक्षे श्रीरघुनन्दनस्य सुकृते दासोऽस्म्यहं सर्वदा नित्यं कोसलकन्यकाप्रियसुते रामे मनो वर्तताम् ॥ कोदण्डनिर्मुक्तशराग्रखण्डनं प्रचण्डशश्वद्भुजदण्डहिण्डनम् । अखण्डचण्डांशुसमानभण्डनं भजामि रामं रणरङ्गमण्डनम् ।। सिंहासनस्थं मुनिसिद्धसेव्यं रक्तोत्पलालङ्कृतपादपद्मम् । सीतासमेतं शशिसूर्यनेत्रं रामं भजे राघवरामचन्द्रम् ।। दयारूपे भूपे रघुकुलकलापे सुहृदये भुजास्तम्भे दम्भेतरविजयगुम्भे विहरताम् । महावीरे धीरे दशरथकुमारे परिसर- द्गुणारामे रामे दशमुखविरामे मम मनः ।। गतेष्वनेकेषु भवेषु पापवतेष्वपूर्णेषु च योगतीर्थैः । वित्रस्तसर्वाघनृणां कुलेशे न जायते भक्ति रनन्त मीडे ।। श्रीरामभद्राश्रितयोगिवर्यपादाब्जयुग्मं सततं भजेऽहम् । यचक्षुषीधामघनप्रवेशे तच्चक्षुपी पश्यति यस्य चेनः ॥ न ग्रस्त स्तमसा न चाह्नि मलिनो दर्शन नो कर्शितो नैवास्तं गतवान न चाङ्किततनु पाक्षिकश्रीरपि । लोकालोकनगेन्द्रलङ्घनविधौ नो पङ्गुभावङ्गतो निर्दोषो गुणसागरायुपते स्तेजोयशश्चन्द्रमाः ।। ९७ ९८ ९९

चतुर्थाश्वासः
नागानामयुतं तुरङ्गनियुतं साधं रथानां शतं
पादाताइशतकोटि युद्धदळिता नृत्यत्कबन्धे रणे ।
एवं कोटिसहस्रनर्तनविधौ चञ्चच्छलझुण्टिका
यामा परमात्मनो रघुपतेः कोदण्डघण्टारवः ॥
१००
भजेऽहं सदा राम मिंदीवराभं भवारण्यदावानलाभाभिधेयम् ।
भवानीहृदा भावितानंदरूपं भवाभावहेतुं भवानीप्रसन्नम्
सुरानीकदुःखाँधनाशैकहेतुं नराकारदेहं निराकारमीड्यम्
परेशं परानन्दरूपं वरेण्यं हरिं राम मीशं भजे भारनाशम् ॥
प्रसन्नाखिलानन्ददोहप्रसन्नं प्रपन्नार्तिनिश्शेषनाशाभिधानम् ।
तपोयोगयोगीशभावाभिभाव्यं कपीशादिमित्रं भजे रामचन्द्रम ।
स्फुरद्रनकेयूरहाराभिरामं धराभारभूतासुरानीकदावम् ।
शरच्चन्द्रवकं लसत्पद्मनेत्रं दुरासाद्यपादं भजे रामचन्द्रम् ॥
सुराधीशनीलामनीलाङ्गकांतिं विराधादिरोगणानीकनाशम् ।
किरीटादिशोभं पुरारातिलाभं भजे रामचन्द्रं रघूणा मधीन्द्रम् ।।
लसच्चन्द्रकोटीप्रकाशादिपीठे समासीन मङ्के समाधाय सीताम् ।
स्फुरद्धेमवर्णोल्लसत्कंजपुंजं भजे रामचन्द्रं निवृत्त्यादितन्त्रम् ॥ १०६
सदा भोगभाजां सुदूरे विभातं मुदा योगभाजा मदूरे विभातम् ।
चिदानंदकन्दं सदा राघवेशं विदेहात्मजानन्दकन्दं प्रपद्ये ॥
१०७
महायोगमायाविशेषानुयुक्तो विभासीशलीलानराकारवृत्तिः ।
त्वदानन्दलीलाकथापूर्णकर्णा स्सदानन्दरूपा भवन्तीह लोके ॥
यस्य प्राणनिवारणावनकृते स्यातां निदाने विभो.
रैन्द्रध्वांक्षपतेः कृपाजलनिधेः कोपप्रसादौ मुदे ।

१०९
श्रीरामकर्णामृतम्
भूया द्वासवनीलसन्निभतनुर्वामाङ्कसीदद्वधूः
सोऽयं दुष्टनिशाटपाटनपटु इश्रीराघवो वस्सदा ॥.
दुष्टो वा कलुषात्मकोऽपि पिशुनो दुर्मार्गसञ्चारवान्
मातृघ्नोऽपि पितृघ्नवर्तनरत स्सन्मौनिनिन्दापरः ।
योऽदः श्रुत्यमृतं हितं मधुरसं वक्ता च श्रोता लिखन्
स प्राप्नोति निरन्तरैहिकसुखं निर्वाणसौख्यं ततः ॥
रघुकुलवरनाथो जानकीप्राणनाथः
पितृवचनविधाता कीशराज्यप्रदाता ।
प्रतिनिशिचरनाशः प्राप्तराज्यप्रवेशो
विहितभुवनरक्षः पातु पद्मायताक्षः ॥
श्रीरामकर्णामृते
चतुर्थाश्वासः
११०
समाप्तः
Printed by V. Ramaswamy Sastrulu & Sons, at the 'Vavilla' Press, Madras.

१ १ ... . or . DDO CHE KUSWWYS २ RESEARCH INSTITU 4.R.H. ROAD. MADRA: दशकुमारचरितम्-दण्डिविरचितम् सव्याख्यम् पूर्वपीलिका सांग्लानुवादप्रतिपदार्थम् भोजचरित्रम् भाषामञ्जरी विक्रमार्कचरित्रम् षेक्स्पियर नाटक कथावळी ८ मन्दारवती के. कृष्णमाचार्यविरचिता १२ ॥ नाटकग्रन्थाः ॥ महाकविबोधायनकृतभगवदग्जुकनाटकम्-पीठिकासहितम् . ६ मृच्छकटिका-शतावधानं श्रीनिवासाचार्यविरचितया व्याख्यया सहिता सांग्लानुवादा च ३ आंगानुवादरहिता २ पार्वतीपरिणयः-स्थूलाक्षरैर्मुद्रितः बाणभट्टकृतः सव्याख्यानांगानुवादः १ १२ अभिज्ञानशाकुन्तलनाटकम्-शतावधानम् श्रीनिवासा- चार्यविरचितया सभूमिकया व्याख्यया आङ्गानु- वादसहितया संस्कृतपदानुवादपूर्वाङ्गटिप्पण्या च समेतम् ३ मालविकाग्निमित्रम्-चेन्नपुरीयलायलाकलाशालोपन्यासकैः- ए.एस्. कृष्णाराव महोदयः (एम्.ए.) विरचिताभिः- आंगानुवादप्रति पदांग्लााग्लभूमिकाभिः सहितम् नागानन्दः १ बि. ए., बि. टि. एस्. नारायण- शास्त्रिविरचिताभ्यामांग्लानुवादांग्लप्रतिपदार्थाभ्यां सहितः १ १२ . एल., ...

१ १ ... . or . DDO CHE KUSWWYS २ RESEARCH INSTITU 4.R.H. ROAD. MADRA: दशकुमारचरितम्-दण्डिविरचितम् सव्याख्यम् पूर्वपीलिका सांग्लानुवादप्रतिपदार्थम् भोजचरित्रम् भाषामञ्जरी विक्रमार्कचरित्रम् षेक्स्पियर नाटक कथावळी ८ मन्दारवती के. कृष्णमाचार्यविरचिता १२ ॥ नाटकग्रन्थाः ॥ महाकविबोधायनकृतभगवदग्जुकनाटकम्-पीठिकासहितम् . ६ मृच्छकटिका-शतावधानं श्रीनिवासाचार्यविरचितया व्याख्यया सहिता सांग्लानुवादा च ३ आंगानुवादरहिता २ पार्वतीपरिणयः-स्थूलाक्षरैर्मुद्रितः बाणभट्टकृतः सव्याख्यानांगानुवादः १ १२ अभिज्ञानशाकुन्तलनाटकम्-शतावधानम् श्रीनिवासा- चार्यविरचितया सभूमिकया व्याख्यया आङ्गानु- वादसहितया संस्कृतपदानुवादपूर्वाङ्गटिप्पण्या च समेतम् ३ मालविकाग्निमित्रम्-चेन्नपुरीयलायलाकलाशालोपन्यासकैः- ए.एस्. कृष्णाराव महोदयः (एम्.ए.) विरचिताभिः- आंगानुवादप्रति पदांग्लााग्लभूमिकाभिः सहितम् नागानन्दः १ बि. ए., बि. टि. एस्. नारायण- शास्त्रिविरचिताभ्यामांग्लानुवादांग्लप्रतिपदार्थाभ्यां सहितः १ १२ . एल., ...

Sriiraamakand-aamuutamuu

Author
Not Available
Title
Sriiraamakand-aamuutamuu
File name
Sriiraamakand-aamuutamuu
Text
OCR done
Citation
1933
Publisher
V Ramaswamy Sastrulu , The Vavilla Press, Madras
Language
Sanskrit
Pages
75
Library
Svi-ksri-chennai
Classification
Religions Of The Indian Subcontinent
DLI number
368712
Barcode
5010010078689.00
Scanning centre
RMSC, IIIT-H
Rights
IN_COPYRIGHT
VMLT id
3v1gRuYVxHb
Download PDF

Sriiraamakand-aamuutamuu