Allahabad University
Sri Arvinddarshanam
Front matter
श्रीअरविन्ददर्शनम् श्रीअरविन्ददर्शनम प्रणेता सत्यप्रकाशसिंहः अलीगढ़मुस्लिमविश्वविद्यालयीय- संस्कृत विभागप्राध्यापक: अलीगढ़नगरस्थं विवेकप्रकाशनम्
२०३२ विक्रमसवत्सरे
प्रथमतः प्रकाशितम
© सर्वऽधिकाराः प्रणेतृनिष्ठाः
मूल्यम् २०/- रूप्यकाणि
प्रकाशक:
विवेकप्रकाशनम्
अलीगढ़
मुद्रक:
संसार प्रिंटिंग प्रेस, अलीगढ़।
समर्पणम्
करैः क्लिन्नरन्जं रविधि दिनादौ हिमहतम
विधत्त' यो श्रीशं तदपि न हि चित्रं सुमनसः।
प्रकाशः यो सूर्यादनि भुवने मंगलमुरखा-
ज्जगन्नन्दं नन्दं कुलकपदलोक कलयते ॥
दलदरविन्दमरन्दे मुखमिलिन्दे सिवुहोनारामे।
तेनोहो यो तेने तेनोमा
सोदते नारम॥
विषयसूची
अध्यायाः
पृष्ठांकाः
प्राक्कथनम्
8
११
२५
३
अवतरणिका
१. सच्चिदानन्दः
२. चित्शक्तिः
३. अतिमानसम्
४. अवरोहप्रक्रिया
५. आरोहप्रक्रिया
६. अतिमानसज्ञानी
७. दिव्यजीवनम्
८. दुःखपापादिकारणनिरूपणम्
६. कर्मवादप्रतियोगिचैतन्यविकासवादः
१०. मायावाद निरासः
११. अज्ञानम्
१२. पूर्णज्ञानम्
१३. पूर्णयोगः
१४. वेदान्तपरम्परायां श्रीअरविन्दस्य योगदानम्
पारिभाषिकशब्दार्थसूची
श्रीअरविन्दप्रणीताः प्रमुखा ग्रन्थाः
१२२
१२७
प्राक्कथनम् भगवान् श्रीअरविन्दो वेदान्तनिष्ठाभिनवपूर्णाद्वैत दर्शनशास्त्रस्य प्रवर्तकोऽस्ति । तदर्शनं खलु परमयोगिलब्धात्मसंवेदनप्रतिष्ठितम् । नवनवोन्मेषशालिप्रातिभबुद्धिमव- लम्ब्य सुयुक्तिजालविसारेण स्वकीयाध्यात्मानुभूतिः दर्शनाकारेण प्रकटिता परमयोगिना । औपनिषदज्ञानातिक्रान्तः तद्दर्शनसारो न केवलमुपनिषदविरोधि, अपि च सुतरां तत्पोषकः । श्रीअरविन्दप्रवर्तितपूर्णब्रह्मवाद' खलु सर्वेषा दर्शनविद्योत्साहिनामन्वेषणीयः । श्रीअरविन्दस्य प्रमुखा ग्रन्था ऑग्लभाषाया विरचिताः। तदर्शनविषये देवभाषायां लिखितस्य ग्रन्थस्य अद्यावधि अभाव आसीत् । अथ दर्शनविद्यार्थिनः तत्प्रवर्तितपूर्णाद्वैतवादस्य ज्ञानं लब्धुमशक्ता आसन् । आचार्यप्रवर-श्रीमत्-सत्यप्रकाशमिह- महोदय-कृतेन ग्रन्थेनानेन तदभावो निराकृतः । तस्मात् विचक्षणो ग्रन्थकारः सर्वेषा दर्शनज्ञानान्वेषिणां प्रशंसापात्रम् । श्रीअरविन्ददर्शन विवरणमिदं भ्रमरहितम् ; अस्य भाषा प्रसादगुणसमन्विता, रचनाशैली च मनोहारिणी। विदग्धेन ग्रन्थकारेण इतरदर्शनगतैः कैरपि तत्त्वै. साकं पूर्णाद्वैतगतानां तत्त्वानां तुलनात्मिका समालोचना कृता । एतद्विषये सर्वे एव श्रीअरविन्ददर्शनाभिज्ञा ग्रन्थकारेण सहैकमत्य स्वीकर्तुं न शक्नुयुः । तथा पत्र प्रत्यभिज्ञादर्शनगतसदाशिवतत्त्वस्य पूर्णा- द्वैतगतातिमानसतत्त्वस्य चैक्यं दर्शितम् । एतयोः तत्त्वयोरितरेतराभ्या किञ्चित् सादृश्यमप्यस्ति, वैमादृश्यमपि । अस्मन्मते तु सदाशिवतत्त्वं श्रीअरविन्दप्रचारिताधिमान- सतत्त्वस्य निकटतरम । "श्रीअरविन्ददर्शनम्" इति नामधेयस्यास्य उत्कृष्टस्य ग्रन्थस्य विपुला: पाठका भवेयुरितीयं मे प्रार्थना । २०३२ विक्रमसंवत्सरे, मकरसक्रान्ती, पाण्डिचेरिनगरस्थे श्रीअरविन्दायमे श्रीअरविन्दवसुः अवतरणिका मानवत्वे भृश समुन्नते सत्यपीदानी जनजीवन सङ्कटापन्न दृश्यते । पुरा त्वेतत् सङ्कटग्रस्तं बभूवैव । किंतु तदानीन्तनं सङ्कटं भौतिकप्रायमासीत् । शीतातपातिवृष्ट्य- नावृष्टिरोगादिसक्लिष्टो मानव आत्मरक्षणाय परिदेवयांचकार किल । ततः पर भवन- वस्त्र-भेषजादीन्याविष्कुत्य यदा किञ्चित् विश्रामोन्मुखः सञ्जातः तदा जैवभयसंत्रस्तो बभूव । अन्योन्यविजिगीषयाऽऽकान्तोऽसौ इतरेतररक्तपातनिरतः सञ्जातः । वित् कलहः, क्वचिद् युद्धम् , क्वचिच्च सङ्ग्राम इत्येताभिविप्लवकारिणीभिर्घटनाभिनिखिलमपि मानवैतिह्य परिप्लाव्यमान ज्ञायते ।धार्मिक-मामाजिक-राजनैतिकाथिक-वैज्ञानिकविधिवि- धानसंयोजनपरिणामस्वरूप सम्प्रत्युभयविध कष्ट भृशमपचितं नाम । किंतु तयोः स्थाने अपरमिदानी वैचारिक कष्टं समापन्नम् । क्वचिदेको धर्मोऽन्यत्रापरो धर्मः क्वचित् समाजवादोऽन्यत्र व्यक्तिवादः, क्वचित् सत्तावादोऽन्यत्र च प्रक्रियावाद इत्येव जीववाद- मनोवाद-जडवाद-चैतन्यवादात्मवादानात्मवाद-सोद्देश्यवाद-निरुद्देश्यवाद इत्येतद्विधैर्वाद- शतैश्चङक्रम्यमाणा मानवमनीषा कदाचिदेकं मतमाश्लिष्यते, कदाचिच्चापरम् । एव बरीभ्रमन्ती साऽशरणा परिपतति, अनेकधा च विदीर्यते । तन्नीत मानवजीवनं सामञ्ज- स्यविहीनं जायते. समाजश्च विघटनबहुल । मन्ये यन्मानवविचारविकासार्थ मतमता- न्तरप्रचार आवश्यक इति । किंतु जीवनम्य जगतो वा पक्षविशेषमात्रमाश्रित्योपवृ- हिता विचारपरम्परा यदा सत्यसर्वस्वत्वेन गृह्यने तदा महद्विघटनकारिणी भवितु शक्नोति । एषैव वैचारिकी दुरवस्था साम्प्रतिके मानवसमाजे समुपस्थिता । क्वचिद् भौतिकविज्ञानविदो भूतमात्रस्य सत्यत्वं स्वीकृर्वाणा: तदितरपदार्थजातस्य भ्रमात्मक- त्वमुपपादयन्तो दृश्यन्ते । क्वचिदस्तित्ववादिनो निरुद्देश्यावयवसङ्घटनमात्रं व्यष्टि- मर्वस्वमिति प्रतिपादननिरताश्चेत् सन्ति तमुन्यत्रात्मवादिन आत्मव्यतिरिक्त वस्तुजातं भ्रमस्वरूपमिति प्रचारयन्तो लक्ष्यन्ते । व्यष्टिवादिनः समष्टिमुगेक्षन्ते, समाजवादिनश्च व्यष्टिम् । मनोविश्लेपणपरास्त्ववचेतनपरिष्कारमाने एत्र मानवकष्ट निवारणोपायं पश्यन्ति, अर्थपराश्चाथिकमाम्यमात्रे । तर्कपरायणास्तावत् ताकि कसामञ्जस्यमाञ एव सत्यं निश्चिन्वन्ति, प्रत्यक्षवादिनश्चेन्द्रिकप्रत्यक्षत्वमाः। एवमन्योन्यैर्द्वन्द्वापन्ना इदानी- न्तना विचारका न केवलमन्धजनस्पृष्टहस्तिवृत्तान्तं चरितार्थं कुर्वन्ति परं जनजीवन- गतसामञ्जस्यविघटनमपि ।
१२ श्रीअरविन्ददर्शनम् एवं सति, एतस्य वैचारिकसङ्कटस्य निवारणाय काचिदेतादृशी विचारव्यवस्था- ऽ वलम्बनीया या मानवोपलब्धसमस्तज्ञानसाधनप्रयोगोपजाता भवेत् निखिलजीवनजगद्- व्यापारसामस्त्यव्याख्यानममर्था च स्यात् । प्रचलेयुर्नाम नवनवविचारोन्मेपप्ररूढा विविधा वैचारिकाः प्रयोगाः । कितु यथा प्रयोगनिरतो विज्ञानवित् शिष्टाचार न विस्म- रति तथा विचारप्रयोगनिरता मानवजाति: तत्त्वसामस्त्य न विस्मरेत् । निखिलेऽपि जगति अद्यपर्यन्तोद्भावितेपु दर्शनसिद्धान्तेषु सर्वतत्त्वसामस्त्यपरत्वात् श्रीअरविन्ददर्शनं तावदे- नामावश्यकता पूरयित क्षममित्युपपादयितु शक्यते । इन्द्रियमनोगूढमान साधिमानसातिमा- नसाभिधाना मानवलभ्यसर्वज्ञानसाधनानामुपयोगपरत्वादेतद् दर्शन खलु ज्ञानप्रक्रियादृष्ट्या सर्वाङ्गसम्पूर्ण लक्ष्यते । व्यवहारेऽप्येतद् एकस्मिन् पक्षे जडचेतनवादौ समनुगमयति पक्षा- न्तरे अध्यात्मभौतिकवादी, तत. परं व्यष्टिसमप्टिवादी, जगदीश्वरवादी, व्यवहारपरमार्थ- वादी, सत्त्वप्रक्रियावादी, विकासावतारवादौ च । कि बहुना, व्यष्टिसमष्टिपरमार्थेति तत्त्व- यविषयकाणाम्, धर्मार्थकाममोक्षेति पुरुषार्थचतुष्टयाधिकृतानाम्. इन्द्रियमनोऽतिमानसे- ति ज्ञानसाधनत्रिवर्गगतानाम्, जडचेतनेति तत्त्वाभिव्यक्तिप्रकारद्वयसम्बद्धानाम्, पौर्वात्य- पाश्चात्येति संस्कृति विरूढानां सर्वामा समस्याना यादृश समाधान श्रीअरविन्ददर्शनेन प्रस्तूयते तादृशम् एकविचारसूत्रबद्ध समाधान केनचिदपि दर्शनान्तरेण नोपस्थाप्यते । एतस्मात् कारणात् तद्दर्शनशास्त्रं सविशेषमध्येयं विमृश्यं च । । श्रीअरविन्दमाहित्यस्य त्वॉग्लभाषोपनिबद्धत्वात्, तद्भाषावित्सु तदीयो विचारो- ऽनधिकायासेन देशदेशान्तरं प्रमरति । कितु संस्कृतभापा तन्मात्रविदश्चाधुनाऽपि तद- नभिज्ञप्रायाः । एषाऽनभिज्ञता च सहृदयजनास ह्या । कण्व-वामदेव-वसिष्ठ याज्ञवल्क्य- गौतम-कपिल -कणाद-शङ्करप्रभृतीना प्रातिभचक्षुषामृपिमुनीनां तांस्तान् सिद्धान्तान् स्त्रात्मन्युपनिबध्नन्ती संस्कृतभापा तस्यामेवार्षपरम्पराया समुद्भूतस्य अजूनप्रातिभचक्षु- षो महर्षेः श्रीअरविन्दस्यानभिजा स्यादित्यवगत्य कस्यैतद्भाषाविदो मनोन दूयेत ? वस्तु- तस्तु चेदेषा भाषा ऊपरीभूतत्वादात्मानं रिरक्षिपति तहि तया यथाकाल नवनवोत्पद्यमानः सर्वप्रकारको ज्ञानविज्ञानपादपः स्वोद्याने आरोपणीयः । तत्रापि तया सह महर्षे: श्रीअर- विन्दस्य विशिष्टः सम्बन्धो वर्तते। आंग्लभाषा-संस्कृति-विवारनिष्णायगौ मंग्कृत- भाषायां सवैशिष्ट्य शिक्षते स्म, तन्निबद्धानां वैदिक मंहितानामभूतपूर्वो मर्गजः संवृत्तः, तद्गतं विचारसारं विलक्षगरीत्योद्घाटितवान् । अपरं चासौ न केवल संस्कृतधेनुदोह- दक्ष एव संवृत्तः, अपितु तत्पोषणचिकीर्षुरपि । एषा भाषा कथं परिरक्षणीया संवर्धनीया चेत्येतस्मिन् विषयेऽवस्तादुद्धृतं तन्मतं मविशेषमवधेयम्- .
अवतरणिका ३ विद्वद्भाषारूपेण संस्कृतेन सम्प्रत्यपि भविष्योन्मुखेन भवितव्यम् । यस्मिन् दिवसे चैषा पुरातनभाषा लेखन विच्युता भाषणविरहिता वा भविष्यति असौ दिवसो भारताय हितकरो न भविता । परंतु चेदेषा भाषाऽऽत्मनो जीवितमत्त्व रिरक्षिषति तर्हि अनया स्वकीयह्रासयुगोपाजितेन दुर्घटसमासबाहुल्येन केशविदारणसन्निभातिगुरुपाण्डित्येन च सह कृत्रिमगौखमयी शैली सर्वथा परित्याज्या ।" * सस्कृतभाषाया वैशिष्ट्य तु तदभिज्ञाना विदिततरमेव । तथापि प्रसङ्गत: स्मारयितुं शक्यते यत् कस्याश्चिद् भाषाया अभिव्यञ्जनाशक्तिस्तावत् तस्याः सश्लेषो- न्मुखत्वे प्रयोगप्राचुर्ये च निहिताऽऽस्ते । मानसलक्षणसंश्लिष्टतत्त्वनिस्सृतत्वात् तदविचार- परम्परा खलु विकिरणशीलाऽपि सती सश्लेपोन्मुखी भवति । विकीर्णेषु तथ्येषु विचा- रेषु वा सङ्गतेः समन्वयस्य वाऽन्वेषणं तल्लक्ष्यम् । दर्शनशास्त्रमधिकृत्य त्वेषोक्तिः सविशेषं चरितार्था भवति । संस्कृतभाषा त्वनया दृष्ट्या निखिलेऽपि जगति विशिष्टतमा प्रतीयते । यथा परिभितविचारसूत्रेभ्यः सततं निस्सरन्तोऽसङ्ख्यका विचारलवाः सर्व- विधसमन्वितविचारमण्डलनिर्माणोन्मुखा भवन्ति तथैव परिमितसङ्ख्यकेभ्यो धातुभ्यो निस्सरन्तोऽसङ्ख्यकाः शब्दाः एतस्यां भाषायामन्योन्यसङ्ग्रथनशीला जायन्ते । एतस्या अभिनवपदनिर्माणशक्तिरनन्ता, सश्लिष्टविचाराभिव्यक्त्यर्थमपेक्षिता पदसश्लेषशक्तिरप्य- नन्ता । अपर चैषा भाषा एतद्विधसंश्लिष्टविचाराभिव्यक्ती अनेकसहस्रवर्षेभ्यः प्रयुञ्ज्य- माना विद्यते । ये ये विचारा: तदभिव्यञ्जकानि पदानि च साम्प्रतिकविद्वद्भिरितस्ततः तमसीव निर्वर्ण्यन्ते, ते ते विचाराः तदभिव्यञ्जकानि पदानि चास्या भाषायां प्रायश: पूर्वतरमन्निहितानि सन्ति । अथ तेषामभिव्यक्तिप्रकारोऽपि सुसश्लिष्टः सञ्जातः । कारण- त्वनिर्देशार्थकपञ्चम्यन्तपदप्रयोगसम्भावनाबाहुल्यादेषा भाषा प्रतिपदं कारणकार्यनिरू- पणपूर्वकं प्रसर्तुमर्हति । एतस्मात्कारणादेतस्या सतर्क समासेन च स्वल्पैरेव पदैविपुलमपि दार्शनिकमर्थं प्रकाशयितु शक्यते । एतद्वैशिष्ट्यमत्त्वादेषा भाषा खलु श्रीअरविन्दविचारसम्भार वोढुमर्हतमेति प्रतीयते । तद्विचारचक्रं हि सर्वविधचिन्तनसमन्वयपरत्वादतिसंश्लिष्ट बृहदाकारं च संवृत्तम् । प्रतिपदाभिनवविचारोन्मेषशीलं पञ्चदशसहस्रपृष्ठप्रायंतत्साहित्यं तावत् पुष्क- लसङ्ख्याकविचारसरणिसङ्कुलम् । एतत्सरणिजातं चेतस्ततः परिवृत्यान्ततोगत्वाऽज्योन्य- समन्वयोन्मुखं भवति । एतस्य चक्रममाणस्थ विचारजातस्य सम्यग्दिवृतिःसंस्कृतभाषाम- पेक्षते । श्रीअरविन्द सेन्टीनरी लाइबरी, अन्य संख्या १७, पृ० २६६.
१४ श्रीअरविन्ददर्शनम् एतदेव मनसि निधाय मया कृतिरेषा चतुर्वर्षपूर्व समारब्धा । श्रीअरविन्दमधिकृ. त्याँग्लभाषाया लिखितपूर्वेण मयाऽऽकलितमासीद् यदेषा कृतिरनतिदोर्घकालेनैव लेखबद्धा भविष्यतीति । परन्त्वेतद्विषयेऽस्य कार्यस्य प्राथमिकत्वाद् अनेक विधा दुस्तराः समस्याः कालक्रमेणाविर्भूताः । प्रथमे कल्पे तु तत्साहित्यवर्तिनामॉग्लपदाना सस्कृतपर्यायनिर्धारण- मेव दुष्करं जातम् । श्रीअरविन्दविचारसरणेरेकस्मिन् पक्षे वेदोपनिषत्प्रभृत्यार्षग्रन्थमूल- कत्वात्, पक्षान्तरे च साम्प्रतिकविचारव्यूहसंसृष्टत्वात्, तदभिव्यक्त्यर्थमहं यावदेक त्रार्ष- साहित्यवर्तिनां समुचितानां पदाना चयनभारेणाक्रान्तोऽभूम तावदन्यत्राभिनवपदनिर्माण- व्यापारेण । एतस्याः समस्यायाः समाधानक्रमेण मयैका शब्दसूची संकलिता या सम्प्रति ग्रन्थान्ते उट्ट किता वर्तते। एषा तावद् ऑग्लभाषावित्पाठकानांसाहाय्यप्रदायिनी भवेत् । द्वितीये कल्पे, तद्विचारचक्राभ्यन्तरत आर्षसाहित्यमूलानां तदितरसाहित्य- मूलानां स्वात्मानुभूतिमूलानां च विचारधाराणा विवेचनसमस्या समुद्भूता । एतद्गवे- षणाक्रमेण क्वचिद् वैदिकसंहिता अनुसंहिताः, क्वचिदुपनिपदः क्वचिच्च श्रीशङ्करा- चार्यप्रभृत्याचार्याणां विचारपरम्पराभिः तद्विचारसन्तोलनं सम्पादितम् । अनेनैव क्रमेण सापेक्ष्यतावादमनोविश्लेषणवादप्रभृतिमतमतान्तराणामपि चर्चा समुपकल्पिता । अथ समावेशितादृग्विमर्शजात एष ग्रन्थो न केवल श्रीअरविन्दविचारपरिचा- यक एव, परं तन्मूलगवेषणापरोऽप्यभिप्रेतः । किं तु गवेषणोन्मुखोऽपि सन्नेष क्वचिदपि खण्डनवृत्तिं न प्रयुङ्क्ते । तर्कमात्रप्रतिष्ठं दर्शनशास्त्रं हि सद्योऽपि खण्डनाह भवति, तन्निष्ठतात् प्रबलतरतर्काणां सद्य एवोपलभ्यत्वात् । अध्यात्मानुभूत्याधृत दर्शनशास्त्र तु स्वप्रामाण्याप्रामाण्यविवेकार्थ यावदेकतः तद्विधार्षमतमतान्तरैः सह सन्तोलनमपेक्षते तावदन्यत्रागामियुगोत्पत्स्यमानानुभूतिनिर्णयम् । एतस्वरूपत्वात् श्रीअरविन्ददर्शन- सिद्धान्तस्येदानीमप्यवगमनकाल एव विद्यते, खण्डनमण्डनकालश्च न समागत इत्यस्मन्मतिः। एष पुष्कलसम्भावनास मृद्धः । एतास्त्वत्र स्थाने स्थाने निर्दिष्टाः । समासेनैवं वक्त शक्यते यदस्मिन् ग्रन्थे ऐतिहासिकसमसामयिकालान्वेषण- पूर्वकं भाविसम्भावनानिर्देशपुरस्सरं च श्रीअरविन्दविचारचक्र तावत् सर्वाङ्गपूर्णसुव्य- वस्थितदर्शनसिद्धान्तरूपेणोपस्थापयितुं यतितम् । एतस्मिन् व्यवस्थापनयत्ने संस्कृत- भाषायाः संश्लिष्टता पुष्कलसाहाय्यप्रदायिनी सवृत्ता। तन्निबद्धत्वाद् एतद् दर्शनशास्त्रं यावदेकस्मिन् पक्षे व्यवस्थिततरं संवृत्त तावत् पक्षान्तरे भारतीयदर्शनपरम्परया सह सम्पृक्ततरत्वं नीतमिति विश्वसिमि । ग्रन्थेनानेन चेत् श्रीअरविन्दविचारधारावगाहने किञ्चित् सौकर्यमुत्पादितं तात्मानं सार्थकश्रमं मनिष्ये । - अवतरणिका मानवस्य स्खलनशीलत्वादेतस्यां कृतौ भाषाविषयकाणि विचारगतानि च कानिचिद् दूषणानि सम्भाव्यन्ते नाम । यत्सत्यं त्वेतेषां दूषणाना सङ्ख्या विपुलतराs- भविष्यच्चेन्मयतस्याः संशोधनकार्ये केषाञ्चिद, विद्वद वर्याणा स्वकीयाभिजनाना साहा- य्यं नावाप्तम् । एतन्नगरस्थधर्मसमाजमहाविद्यालयीय आचार्यः श्रीमनोहरलालगौडमहा- भागः, वाष्येयमहाविद्यालयीय आचार्यः श्रीबाबूरामयादवमहाभागः, अस्मद्विभागीय आचार्यः श्रीचिन्तामणिकेघेमहाभागः, आचार्यः श्रीरघुनाथपाण्डेयमहाभागश्चैतस्मिन् प्रसङ्ग सविशेषमुल्लेख्या धन्यवादाश्चि । वाष्ण्येय विद्यालयीयं आचार्य श्रीसुरेन्द्रपालसिंह- महाभागमपि विस्मर्तुं न शक्नोमि येन सुरुचिपूर्वकं मुखपृष्ठछविविलिखिता। अन्ततः श्री- अरविन्ददर्शनविच्छिरोमणेविश्वविश्रुतस्याचार्यस्य श्रीअरविन्दवसुमहोदस्याभारं कैः पदैरु- ल्लिखेयं येन प्राक्कथनं विधायैष ग्रन्थः समलङ्कृतः । इति २०३२ विक्रमसंवत्सरे, माघमासे, कृष्णपक्षपञ्चम्याम्, अलीगढ़नगरे सत्यप्रकाश:
- प्रथमोऽध्यायः सच्चिदानन्दः परमतत्वजिज्ञासापूर्विका तावद् दर्शनशास्त्रस्य प्रवृत्तिः, सा च जगदादिकारणा- ज्वेषणपरत्वेनात्मानं प्रकाशयति । किकारणं जगदित्यपेक्षायामसदुत्पन्नमेतदिति केचित् । कस्माच्चित् सत्तत्त्वात् तदुत्पत्तौ स्वीकृतायां तहेतुत्वेन तदन्तरस्य, ततोऽपि सदन्त- रस्यापेक्षितत्वात्, अनवस्थादोषः प्रसज्ये दिति तेषां तर्कः। जगत्कारणं सत्स्वरूप- मपि सन्ननिर्वाच्यमित्ति केचिदपरे। अतएव भगवता बुद्ध न जगतोऽव्याकृतकारणत्व- मङ्गीकृतम् । पुनश्च, अव्याकृतस्वरूपस्य तत्त्वस्य शून्यकल्पत्वं विमृश्य श्रीनागार्जुनाचार्य एतस्य शून्यस्वरूपत्वमेव प्रत्यपादयत् । अतः परम्, आदितत्त्वस्यानिर्वाच्यत्वम्, अनिर्वायत्वम्, शून्यकल्पत्वं चोपकल्ल्य कश्चिद् एतस्य निष्प्रयोजनत्वमेवो ष्टम् । जगत्कारणत्वं नाम जागतिकप्रक्रियामात्रव्याख्येयमिति तेषां संकल्पः । प्रक्रियापरम्परा- मात्रक जगद् बृहद्यन्त्रवत् स्वचालितमेव प्रवर्तते इति तेषां मतिः । एतन्मतं नाम सम्प्रति पदार्थविज्ञानविद्भिरुपपादितम् । नन्वेतदपि मतं निर्बाध न प्रतीयते । जडचेत- नात्मकस्य जगतो जडाशमात्रमेव यान्त्रिकत्वव्याख्यार्ह स्यात्, न तु कथमपि चेतनांशम् । चैतन्यतत्त्वस्य यान्त्रिकत्वेन व्याख्यातुमशक्यत्वात्, जगत्कारणत्वप्रसङ्ग यन्त्रवादी विपद्यते । जडचेतनयोरन्योन्यस्वभावप्रत्यनीकत्वं विमृश्य सांख्यप्रभृतयः केचिज्जग- चेतनात्मा पुरुषश्च । परन्त्वेते तत्त्वे कथं नामाग्योन्यसन्निकर्ष लभेते जगरकारणत्वं च मजेते इति व्याख्यातुमशक्यत्वात्, एतयोरन्यतरेणैष पारमाथिकेन भवितव्यमिति तर्कसंगतं प्रतीयते । एवं सति, प्रश्नोऽत्र विजृम्भते यदेतयोः तत्त्वयोः कतरत् प्रथम- तरमिति । अौतयोर्मध्येऽन्यतरस्यान्यतरव्याप्यत्वं निर्धारकत्वेनोपयोजयित्तु शक्यते । अनेन प्रकारेण प्राप्यते यत् सर्वत्र जडतत्त्वं चेतनतत्त्वव्याप्यं भवति, न तु चेतन- तत्त्वं जडत्त्वव्याप्यम् । व्याप्यव्यापकयोः तत्त्वयोर्मध्ये व्यापकस्यैव प्राथम्यादनुमीयते चेतनतत्त्वमेव प्रथमतरमिति । चेतनतत्त्वप्राथमिकत्वसिद्धान्तस्तावदीश्वरकारणत्वेना. विर्भवति । कश्चिच्चैतन्यमयोऽतिजागतिकः पुरुष आत्मशक्त्या जडचेतनात्मकं जगत् सृष्ट्वा स्वयं त्वेतस्मात् पृथक् स्थित इतीश्वरकारणवादिनां तावन्मूलभूता मान्यता। परन्त्वेवं सति, एतादृश ईश्वरस्य जगत्कारणत्वप्रयोजनमेव सन्दिग्धं भवति । दुःख- श्रीअरविन्ददर्शनम् विकारशून्यम्, बहुलं खलु जगत् । नन्वेतादृश जगत् कि जगद्बाह्य नेश्वरेण निष्प्रयोजनं सृष्ट मप्रयो. जनं वा ? निष्प्रयोज नत्वे तु तस्य चैतन्यमयत्व बाधितं स्यात्, सप्रयोज नत्वे च तस्य शिवत्वम् । एव चैतन्यमयत्वशिवत्वाभ्या विरहितस्येश्वरस्य तु स्वत्वमेव सदेहास्पद स्यात् । विप्रतिपत्तिमिमा मनसि कृत्वा वेदान्ताचार्यरत्र बहहापोहान्विता नानाविधा: परिकल्पना उपस्थापिताः । जडत्वं दुःखमयत्व च विमृश्च श्रीशङ्कराचार्येण जगतो ब्रह्मकृतत्वं निराकृत्य मायोद्भावितत्वमुपपादितम् ।' तन्मते न, ब्रह्म जगद्व्यतिरिक्तम्, अनिर्वचनीयं चास्ति । मायाप्रत्युपस्थापितोपाध्यवच्छिन्नं भूत्वा तत् ईश्वर- भाव व्रजति । एवंविध ईश्वरो मायायोगेन जगत्मृष्टिपरोऽपि सन् परमार्थतोऽसद्भुत एव मतः । २ अतः तत्सृष्टिभूतं जगदपि परमार्थतोऽसद्रूप मेव । श्रीरामानुजाचार्यस्तु जगतो ब्रह्मस्रष्टुत्वं स्वीकुर्वन्नप्येतस्य दु.खमयत्व पूर्वसर्गकालिकजीवकृतकर्मनिमित्तकम्, जडत्व चेश्वरशरीरभूताचित्तत्वजन्यमिति मन्यते । एतत्तत्त्वद्वयस्य प्रकारान्तर- व्याख्यानाशक्यत्वात् श्रीमध्वाचार्योऽद्ध तत्वं परित्यज्य ईश्वरजीवप्रकृतिरूपिणी तत्त्व- त्रयीमेवाङ्गीचकार । मूलतत्त्वानेकत्वं तु न कयमपि पारमार्थिकं भवितुमर्हति । परमतत्त्वविषयकाणामेतेपा मतानामेकदेशीयत्वमधिगम्य महर्षिणा श्रीअर- विन्देन स्वं मतमुपस्थापितम् । परमतत्त्वस्यानिर्वाच्यत्वं स्वीकृत्य तद्व्याख्याविरामो नाम दर्शनशास्त्रकृते स्वलक्ष्यच्युतिरित्यसौ मन्यते । परमतत्त्वमधिकृत्यैतत् शास्त्रं हि न त्वांशिकमतप्रतिपादनपरं स्यात्, नैव भ्रामकमतप्रतिष्ठापरम् । एतेन तु तादृग्विचार- वातायनः उद्घाट्यो येन सर्वाणि मतमतान्तराण्यात्मनिष्ठसदसदंशविवेकपूर्व काणि परिलक्षितानि स्युः, ताहशी परिकल्पना चोपस्थापनीया यया तथ्यजातं व्याख्यातं स्यात् । अनेन मापदण्डेन परिमितोऽनिर्वचनीयवादो निरर्थक इव प्रतीयते । तन्निस्सृतः शून्यवादोऽपि न तथा विवेकजननो यथा भ्रमोत्पादकः । अति- मानसचैतन्यमात्रावगम्यं तत्त्वं मानसेन चैतन्येन व्याचिख्यासित सन् निखिलव- शिष्ट्याक्रान्तमिव प्रतीयते इति श्रीअरविन्दमतम् । एषैव प्रतीतिब्रह्मविषयकाणा निर्गुण-निष्कल-निर्विकार-निर्वैयक्तिक-निष्क्रिय-शून्यानिर्वचनीयप्रभृति-प्रत्ययानामुद्भाव- यित्री । किन्त्वेतादृशं प्रतीयमानमपि पारमार्थिक तत्त्व पक्षान्तरे सर्वभावमयमिव ज्ञायते ।४ शुन्यत्वेन प्रथितं तदेव तत्त्वं निखिलायाः सत्ताया जनकत्वेन प्रसिद्ध्यति १. श्रीशङ्कराचार्यकृतब्रह्मसू त्रभाष्ये, १.१.४. २. तस्मिन्नेव, २.१.१४. ३. श्रीअरविन्द कृत-दि लाइक डिवाइन (पाण्डिचेरी, १९५५), पृ०६७८, ४. तस्मिन्नेव, पृ० ३७६. .
सच्चिदानन्दः १६ " तदेवानिर्वचनीयाभिधं तत्त्वं निखिलमपि वाग्विषयमुत्पादयति । एतस्मान्निश्चीयते शून्यत्वेन प्रतीयमानं पारमार्थिक तत्त्व न खल्वभावात्मकमिति । तस्याभावात्मकत्वं नाम सापेक्षिकम् । दिदृक्षितस्य पदार्थस्यादर्शने द्रष्टा निसर्गत एव तस्याभावात्मकत्व. मवधारयितुमर्हति । पदार्थानुपलब्धौ तददर्शनमत्र कारणम्, न तु तदभावः । वस्तुतस्तु परमतत्त्व भावाभावात्मकेन द्विविधेन मार्गेणोपगम्यते । अभावात्म- कस्प मार्गस्प निदर्शनं त्वौपनिषदीय -- "नेति नेति"-प्रक्रियायामुपलभ्यते । परमतत्त्वस्य निखिलजागतिकपदार्थवैचित्र्यमन्वीक्ष्य खल्वेषा प्रक्रियावलम्बिता स्यात् । परं त्वेता- वन्मात्रेणैव तस्य तत्वस्याभावात्मकत्व न साध्यते । निखिलजागतिकपदार्थकारण- त्वात् परमतत्त्वं भावात्मकमिति तु भावात्मकस्य मार्गस्य निष्कर्षः । न हि कथम- प्यभावात्मकं तत्त्वं भावात्मक जगदुत्पादयितु क्षममिति तु तदवलम्बिना तर्कः । परं त्वे- तावता नानुमित स्यात् परमतत्त्व सत्त्वं जागतिकपदार्थसत्त्वस्वरूपमिति । तथा सति तु सापेक्षिकोऽभावः परमतत्त्वव्यतिरिक्त' कारणान्तरापेक्षश्चानुमतः स्यात् । अतएव परमतत्त्वं जागतिकपदार्थस्वभावविमर्शनिष्पन्नाभ्या सदसत्प्रत्ययाभ्यामसम्यक निर्देश्यं सदपि तत्त्रतिष्ठा स्वरूपं तदनुगत तत्सत्त्वभूतं चेतिश्रीअरविन्दमतम् ।५ तन्मतेन, जगत् न त्वसदुद्भूतं नैवासत्प्रतिष्ठम् । एतत् त्वनन्तसत्ताकार्यविशेष स्यात्, तत्स्वरूप- मेव वा ।६ परमतत्त्वस्य शून्याभिधानत्व तु सर्वमानसप्रत्ययातीतत्वजन्यम् । अथ तेन तत्त्वेन सर्वविवास्तित्ववाचकमानसप्रत्ययातिशायिना भवितव्यम्, न त्वसत्त्वात्म- केन । ननु भावात्मकमपि सत् जगन्मूलकारणं यत्सत्यं सांयोगिकघटनानुक्रममात्रकमिष प्रतीयते । जगद्धि यावदेकतः स्थिरनियमानुसारि तावदन्यतः सांयोगिकघटनाबहुलम् । एतस्य सांयोगिकघटनाबहुलत्वं खल्वेतत्कारणत्वेन तादृक्तत्त्व लक्षयति यत् तांस्तान् पदार्थान् तास्ता घटनाश्चासम्बद्ध निरुद्देश्यं चोत्पादयति संयोजयति वा। एतस्या प्रक्रियायां या कापि नियमसंगतिह श्यते सा तु घटनापुनरावृत्तिशीलत्वजन्मा । अथ पदार्थास्तित्वबोधोऽप्येतज्जन्यो भवेत् । परंतु भवेयु मैता घटनाः कियन्मात्र. मपि सांयोगिक्यः, एतासामनवरतं सातत्यं त्वेतत्कारणत्वेन किमपि स्थिरं मूलभूत स्रोतो लक्षयति । एतत्स्रोतस्तु प्रकृतिशक्तिरेव स्यात् । अर्थतज्जायमानत्वाज्जगति ५. तस्मिन्नेव, पृ० ५६५-६. ६. तस्मिन्नेव, पृ० ३१७. ७. तस्मिन्नेव, पृ० ३४५.
२०] श्रीअरविन्ददर्शनम् सायोगिकत्वेन सार्धभूयसी नियमानुगतिरपि प्राप्यते । नन्वेषा नियमानुगतिः स्वकार- णस्य यान्त्रिकत्वं लक्षयितुमर्हति । तन्न । यान्त्रिकत्वं सन्देहास्पदमारोपयन्तः खलु बहवोऽन्ये दृष्टान्ता उपलभ्यन्ते । तथा हि, पुनरावृत्तिपरापि सती जागतिकी प्रक्रिया नवोन्मेषमयी दृश्यते । एतत् प्रक्रियानुगतं नवोन्मेपशालित्वं खलु जगद्विकासत्वेनो. पचीयते । एतस्या पृथिव्यामेव जडतत्त्वाज्जीवनतत्त्वस्य तस्माच्च मनस्तत्वस्य विकासोऽसम्भवः स्यात् चेज्जागतिकी प्रक्रियाऽवृत्तिमात्रपराऽम विष्यत् । अनेन प्रकारेण सायोगिकत्वनियतिपूर्वकत्वाभ्यां निष्पन्न जगतो विकासशीलत्वं तन्मूल- कारणस्य सायोगिकत्वमात्रत्वं यान्त्रिकत्वमात्रत्वं च निराकृत्य इतरस्वरुपकत्वं सूचयति । सम्प्रति तु जगद्विकासप्रक्रियायाः सुनियोजितत्व सुनिश्चितलक्ष्योन्मु. खत्वं च स्फुटतरे भवतः । एते त्वेतस्याः प्रक्रियाया बुद्धिव्यापारपूर्वकत्वमुपलक्ष. यतः । बुद्धावेव हि नियत्यनुगमनपूर्वकं नवोन्मेषशालित्वं सुनिश्चितलक्ष्योन्मुखत्वं च प्राप्यते । एतदेव मनसि निधाय कैश्चिन्मूलकारणत्वेन कश्चिदतिजागतिकः पुरुषः कल्पितो यो बुद्धिव्यापारपूर्वकं जगत् मृष्ट्वा चालयंश्च तस्य पृष्ठत आत्मानं तिरोधाय स्थितः, तन्मानसप्रत्ययभूतं पदार्थजातम्, तद्विहिता नियतिः, तदुत्पादिता विकल्पा. श्चेति । नन्वेतन्मतस्य जनमानस रोचकत्वे नास्ति कश्चित् संशयः । सामान्यजनः प्रागैतिह्यकालात् प्रायेणैतस्मिन्नेव मते श्रद्दधानो दृश्यते । परं त्वेतस्मिन् मते स्वीकृते सति पुनरेव प्रश्न उपजायते किमर्थ खल्वेतेन सर्वशक्तिमता सर्वज्ञेन चेश्वरेणैतदशिवप्रायं दुःखबहुलं च जगत् सृष्टमिति । एष प्रश्नस्तु तदैव समाधातुं शक्यते यदातिजागति- कत्वेन सह तस्य जगन्मयत्वमपि स्वीक्रियेत । ननु तस्यातिजागतिकत्वं जगन्मयत्वं च कथं संगच्छेताम् ? चेदसौ काचिद् व्यष्टिः, तस्य समष्टित्वं बाधितं भविष्यति; चेदसौ समष्टिभूतः, तस्य व्यप्टित्वम- पाकृतं भविष्यति । अगति तु व्यष्टिसमष्टी अन्योन्याश्रिते भवतः। एतस्मात् कारणात् जगन्मूलकारणेन' व्यष्टित्वसमष्टित्वोभयात्मकेन भवितव्यम् । एतेन सह तस्यातिजागति- कत्वं त्वपरिहार्यमेव । पुनश्च, नियतिसांयोगिकत्वसहकृतनवोन्मेषपूर्वकं सृष्टिविकासका- रित्वं तस्यापरं वैशिष्ट्यम् । अर्थतेषामन्योन्यविरोधिधर्माणी समन्वयस्वरूपत्वात्, सोद्देश्यकारित्वाच्च तेन कारणेन चैतन्यात्मकेन भवितव्यम् । - ८. तस्मिन्नेव. पृ० ३५७-८. है. तस्मिन्नेव, पृ० ३५८-६०.
सच्चिदानन्दः २१ मनु तच्चैतन्यमयत्वप्रत्यनीकभूतं प्रबलतमं कारणं जगतो जडप्राधान्यमस्ति । जगत् खलु कादाचित्कचैतन्यज्योतिरन्तरितं अडत्वप्रायमिव प्रतीयते । अत एवैतज्जड- त्वमयं ब्रह्मव्यतिरिक्त चेति श्रीशङ्कराचार्यो मन्यते । जीवव्यतिरिक्त निखिलमपि जगद- चिन्मयमिति श्रीरामानुजाचार्येणापि सिद्धान्तित्तम् । जडत्वमेव मनसि निधाय श्रीमध्वाचार्य एतस्य ब्रह्मभिन्नत्वं प्रत्यपादयत् । श्री अरविन्दस्त्वेतेभ्यः सर्वेभ्योऽपि मतेभ्यः पृथग्भूय जगतश्चैतन्यमयत्त्वमुपपादयति । तन्मतेन, कार्यधर्मः सर्वथा कारणधर्मानुवर्तीत्युपपादयितु न शक्यते । समवायिकारणस्य कार्यच्यापकत्वात्, कार्यधर्मेण स्वकारणे आत्मोत्पत्ति- प्रागप्यनुगतेन भवितव्यम् । अतश्चेत् कार्यगतः कश्चिद् धर्मः कारणेऽदृष्टो भवेत्, तावन्मात्रेण नानुमेय यदसौ धर्मः कादाचित्कमात्र एवेति । अनया रीत्या, जगति चैतन्यस्य जडतत्त्वोद्भवान्नानुमितं स्यादेतज्जडतत्त्वस्य कादाचित्को धर्म इति । प्रत्युत, जडतत्त्व. विकासापेक्षश्चैतन्याविर्भावश्चैतन्यस्य जडतत्त्वसारभूतत्वं सूचयति । अथ जडतत्त्वाच्चै- तन्योत्पत्तिः तदन्तहितधर्माविर्भावमात्रमेवेति स्वीकर्तव्यम् । यथा कश्चिच्चेतनः पुरुषो मूछितः सन् निश्चेतन इव लक्ष्यते, तथा तत्त्वतश्चेतनस्वरूप जगज्जडमिव प्रतीयते । एवं सति, जगत्कारणस्य चैतन्यमयत्व निधि भवति । ननु स्यान्नाम मूलकारणं सत् चिच्च, तत्प्रवर्तितस्य जगतो दुःखबहुलत्वं तु विमृश्य तत्खलु दुःखात्मकमित्येव प्रतीयते । एवमुपस्थापित्ते सति, श्रीअरविन्दो मूल- कारणस्यानन्दमयत्वेन प्रत्युपतिष्ठते । निरानन्दत्वे तु जगदेव न संभवेदिति तन्मतम् । सचेतनं सत्त्वजातं ह्यानन्दोन्मुखं भवति । सर्वेऽप्यस्माकं व्यापारा आनन्दमेवोद्दिश्य प्रवर्तन्ते। जडपदार्थेष्वपि सौकर्योन्मुखत्वं दृश्यते । सौकर्योन्मुखत्वं नाम नानन्दोन्मुखत्वविजातीयम् । एतावता खलु निखिलस्यापि जगत आनन्दोन्मुखत्वमुपपद्यते । अथ चेन्मन्येत मूलतो निरानन्दमेव सज्जगत् विकासक्रमेणैवानन्दोन्मुख भवतीति, तदपि न तर्कसंमतम् । परमतत्त्वं हि जगतो न केवलं मूलकारणम्, चरमलक्ष्य भूतमपि मतम् । एवं सति, यं प्रति निखिलमप्यानन्दोन्मुख जगत् प्रवर्तते तेनानन्दमयेनैव भवितव्यम् । पुनश्च, आन- न्दोन्मुखेन जगता न केवल स्वलक्ष्य प्राप्तावेवानन्दमयेन भवितव्यमपित्वात्मास्तित्वस्य यस्मिन् कस्मिन्नपि क्षणे । सोकर्यसिद्धान्तानुसारं च जगदनुत्पन्नमेवाभविष्यच्चेदेतद् दौष्कर्यबहुलमभविष्यत् । “को ह्य वान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्" इत्युपनिषदपि ।१० अनेन प्रकारेण जगतो ऽ दुःखबहुलत्वमानन्दोन्मुखत्व च तत्कारणस्यानन्दमयत्वं बोधयतः । श्रीअरविन्दो जगन्मूलकारणस्य सच्चिदानन्दत्वं तर्कबलेन सह योगानुभूति- १०. तैत्तिरीयोपनिषदि, १७. ।
२२ श्रीअरविन्ददर्शनम् बलेनापि साधयति । यत्सत्यम्, तस्मिस्तकर्को योगानुभूतिमनुवर्तते । योगबलेनोपाजिता मूलकारणविषयिण्यनुभूतिः तेन सतर्कमुपवृहिता । यावत् तर्को मानसव्यापारपर्यवसायी भवति, तावद् योगानुभूतिः सम्पूर्णाध्यात्मव्यापिनी । यावत् तर्केण मूलकारणस्य सच्चिदानन्दत्वं परोक्षतः साध्यते, तावद् योगानुभूत्या तत् प्रत्यक्षमनुभूयते । अन्तर्मा- नसाधिमावसाभिधसोपानयोरूर्व मूलकारणस्य सन्मयत्वम्, चिन्मयत्वम्, आनन्दमयत्व घेतरेतरपृथग्भावेनानुभवितु शक्यन्ते । तत्र कस्याञ्चिदनुभूत्या जगत् निविशिष्ट- सत्तोत्पन्नमिव प्रतीयते । तत्र सच्चिदानन्दस्य चिदानन्दमयत्वं सदन्तहित भवति । कस्याञ्चिदितरस्यामनुभूत्या मूलकारणं चिन्मयमेव प्रतीयते । तत्र मच्चिदानन्दस्य सदानन्दमयत्वं चिदन्तहितं भवति । शेषास्वनुभूतिषु तु तस्यानन्दमयत्वमेवानुभूयते, इतरपक्षद्वयस्य तस्मिन्नेवान्तर्भावात् । अथैतादृशीष्वनुभूतिषु तत्तत्सोपानोपल भ्यानुभव- भेदेन मूलकारणं सन्मानं चिन्मात्रमानन्दमात्र च प्रतीयते । पुनश्चतेपामनु भवाना संग्रहणेन योगी सच्चिदानन्दमप्येकपदे एवाधिगन्तु शक्नोति । एतत्सोपानी- यायामनुभूत्या सच्चिदानन्दः सत्-चित्-आनन्द-संयोग-निप्पन्न इव ज्ञायते । एतस्मान् सोपानादुत्थायातिमानसचैतन्ये प्रविष्टे सति त्वेतेषा पक्षाणामन्योन्यविभेदी निराकृतो भवति ।११ परिणामतोऽत्र सच्चिदानन्दस्याद्वैतत्वमनुभूयते । एतस्मिन् पक्षत्रयेऽद्वतत्व गते सति, ईश्वरमधिकृत्योपजाता वैयक्तित्व निर्व- यक्तित्वात्मिका समस्यापि समाहिता भवति । ईश्वरो वैयक्तिको निर्वयक्तिको वेत्येत- द्विवादः खलु पुरातनः । अतिमानस वैतन्याधिगम्यस्येश्वरतत्त्वस्यावरचैतन्यद्वारेणाधि- गमनप्रयासस्तावदेतद्विवादस्य कारणम् । अवरं चैतन्यं हि सामान्यविशेषयोः, व्यष्टिस- मष्ट्योः, वैयक्तिकत्व-निर्वैयक्तिकत्वयोर्वा मध्यगतं विभेदमपाकर्तुमक्षमम् । एष विभेदस्त्वेतच्चैतन्यप्रतिफलितसच्चिद्विभेदोद्भवः । सामान्यात्मिका निर्वैयक्तिकी च सत्ता । विशेषात्मकं वैयक्तिकं च चैतन्यम् । एतस्मात् कारणात्, अतिमानसे चैतन्ये सच्चितोरद्वैतत्वे प्रसिद्धे सति, एतद्वन्द्वान्तर्गतो विरोधः प्रविलीयते । परिणामत ईश्वरस्य वैयक्तिकत्वं निर्वैयक्तिकत्वं च युगपदेवानुभूयते । अनेन प्रकारेण निश्चीयते यद् वैयक्तिकत्व-निर्वैक्तिकत्व-निविशिष्टः, सामान्यविशेषोभयानुगतः, अतिमानसचैतन्यावगम्यः, सत्-चित्-आनन्दाढ तस्वरूपः, निखिल तोद्गम ईश्वर एव सच्चिदानन्द इति । एतदेव श्रीअरविन्दाभिमतं परमं तत्त्वम् । यत्सत्यमसौ सच्चिदानन्दादप्यतिशायिनः तत्त्वस्य सम्भावनां न निराकरोति । - ११. दि लाइफ डिवाइन, पृ० ३७३-४.
सच्चिदानन्दः - . अपरं च, भवेन्नामैतादृशं तत्त्वं तर्कानवगम्यम्, चैतन्यावगम्यं भवितु तु शक्यते एव । सच्चिदानन्दस्वरूपत्वाद्धि चैतन्यमतिमानसमप्यतिवर्तेत । अथ चेदतिमानसचैतन्यगतं तत्त्वं सच्चिदानन्दत्वेनावगम्यते, तर्हि विशुद्धसच्चिदानन्दीयचैतन्यगतेन तत्त्वेन सच्चि- दानन्दादप्यतिशायिना भवितव्यम् । परं त्वस्मदध्यात्मसंस्थायामेतादृशश्चैतन्यस्य वस्तुतो- ऽलभ्यत्वात्, अतिमानसचैतन्यपर्यन्तारोहण प्रागेतत्तत्त्वस्यानिर्वचनीयस्वरूप इव प्रतीय- मानत्वाच्च श्रीअरविन्द एतद्विषये तावन्मौनमेव वर मन्यते । तद्दर्शनस्य जगद्दिव्यी- करणप्रयोजनवत्त्वात्, एतस्य प्रयोजनस्य च सच्चिदानन्दमात्रसाध्यत्वात्, तदतिक्रान्त तत्त्व तेन सविस्तर नालोचितम् । अथोक्तस्वरूपः सच्चिदानन्द एतद्दर्शनस्य मूलभूत तत्त्वम् । एतदेव तत्त्वमाश्रि- त्यासो सम्पूर्णमपि स्वदर्शनप्रासाद निर्मिमीते । अत्र चेत् कश्चिदुत्तिष्टेन् प्राक्कल्पित- तत्त्वाश्रित दर्शनशास्त्रमतर्कसंगतमिति, तो नवगत-'दर्शन'-शब्दार्थेन तेन भवितव्यम् । एतच्छास्त्र हि सूक्ष्मदृष्ट्ये क्षिततत्त्वान्वीक्षणपूर्वकमेव जायते । सच्चिदानन्दस्य खलु सूक्ष्मचैतन्यहाट्य क्षितत्वात्, अन्वीक्षणोपबृहितत्वाच्च नास्त्यवकाशस्तत्रैतद्विधस्याक्षेपस्य । ऐतिहासिकमायाममधिकृत्यैतद्वक्त शक्यते यत् श्रीअरविन्दप्रतिपादिते सच्चिदा- नन्दतन्वे श्रीशङ्करप्रभृतिभिराचार्य प्रस्तावितानि चरमतत्त्वविषय काणि बहूनि मतानि ममाविष्टानि भवन्तीति । “अपास्तसमस्तविशेषमेव ब्रह्म' इति श्रीशङ्कराचार्यः । १२ एवं मतं ब्रह्म सत्-चित्-आनन्द-व्यतिरिक्तमनिर्वचनीयं च । श्रीअरविन्दोऽपि सच्चिदा- नन्दीयचैतन्यानभाव्यं ब्राँ तादृक्कल्पमिति मन्यते । परन्तु श्रीशङ्कराभिमतान्निखिलावर- तत्त्वोच्छेदशीलाद् ब्रह्मणो व्यतिरिक्त श्रीअरविन्दाभिमतं ब्रह्मानिर्वचनीयमपि सत् सच्चिदानन्दप्रभृतितत्त्वजातकारणमस्ति, अन्यथा त्वेतेषामव्याख्येयत्वप्रसंगः स्यात् । ननु ब्रह्म सच्चिदानन्दमयं सच्चिदानन्दस्वरूपं वेति प्रश्न उत्पद्यते । उपनिषत्सु तूभयरूपा: श्रु तयो दृश्यन्ते- "विज्ञानमानन्द ब्रह्म", "स एको ब्रह्मण आनन्दः", ''आनन्दं ब्रह्मणो विद्वान्' चेति । द्वितीयप्रकारकच तिप्रमाणेन श्रीरामानुजाचार्यो "व्यतिरेकनिर्देशाच्च नानन्दमात्र ब्रह्म, अपित्वानन्दि, ज्ञातृत्वमेव ह्यानन्दिवत्" इति मन्यते । १३ तन्मतानुसारम्, ब्रह्म न खलु सत्-चित्-आनन्दस्वरूपं प्रत्युत सत्-चित्- आनन्दमयमस्ति; सच्च चिच्चानन्दश्च तद्गुणभूताः; तत् त्वेतद्गुणविशिष्टम् । एतद्विधं ब्रह्मतेभ्यो गुणेभ्यः तथैवातिरिच्यते यथा कश्चित् पुरुष आत्मगुणेभ्य इति तन्मतस्वार- १२. ब्रह्मसत्रभाष्ये, ३६२६११. । India-neginner wromethine श्रीभा-ये, १११११.
श्रीअरबिन्ददर्शनम् स्यम् । श्रीअरविन्दस्त्वेन विवादमवस्तुतन्त्रं मन्यते । तन्मतेनेषोऽवरकोटिकचैतन्यमिश्रिता- ज्ञानजन्मा । तथा हि, मानसे चैतन्ये विशेष्यविशेषणयोर्गुणगुणिनोश्चात्यन्तिको विभेदो मन्यते । अत्र गुणो भिन्नकोटिकः प्रतीयते गुणी च भिन्नकोटिकः । निर्गुणद्रव्येण सह निर्द्रव्यगुणस्य मिश्रणात् सगुणं द्रव्यमुपजायते इति मानसचैतन्यनिर्णयः । मानसचैतन्य- मात्रावसितो नैयायिको गुणद्रव्यविभागे एतन्मतं सम्यगुदाहरति । अधिमानसचैतन्ये त्वेष विभेदः परिक्षीणोऽपि सन् निरवशेषो न भवति । अतएवाधिमानसपर्यन्तारोही श्रीरामा- नुजाचार्यो ब्रह्मण्यपि मुणद्रव्य विभाग पश्यति । अतिमानसचैतन्ये त्वेतस्य विभागस्य निराकृतत्वात्, तदारोहिण औपनिषदर्षयो ददृशुर्यद् ब्रह्मोभयविधं सत्-चित्-आनन्दमयं, सत्-चित्-आनन्दस्वरूपं चेति । श्रीअरविन्दमतेन, तस्य सच्चिदानन्दमयत्वं जागतिकमस्ति, सच्चिदानन्दस्वरूपत्वं चातिजागतिकम् । तत्त्वतस्तु तद्गतजागतिकत्वातिजागतिकत्वयो- रन्योन्याभिन्नत्वात्, ब्रह्मणः सच्चिदानन्दस्वरूपत्वे सच्चिदानन्दमयत्वमन्तहितं मन्तव्यम्, सच्चिदानन्दमयत्वे च सच्चिदानन्दस्वरूपत्वम् । श्रीवल्लभाचार्येणापि ब्रह्मविषयकसगुणत्वनिर्गुणत्वयोर्मध्ये सामञ्जस्यं स्थापयितुं चेष्टितम् । “न चक्षुषा गृह्यते", "कश्चिद्धीरः प्रत्यगात्मानमैक्षत्"; "नापि वाचा"; "सर्वे वेदा यत्पदमामनन्ति" इत्यादीन्यौपनिषदवाक्यान्युदाहृत्य “न हि वस्तु द्विरूप सम्भवति; वाक्यद्वयमपि प्रमाणमि"ति विरोधाभासं चोद्भाव्य "यथा सर्पो ऋजुरने- काकारकुण्डलश्च भवति तथा ब्रह्मस्वरूपं सर्वप्रकारं भक्तच्छया स्फुरति" इत्यसो समाधत्त ।१४ ननु ब्रह्मणोऽन्योन्यविरुद्धधर्माश्रयत्वव्याख्यानाय भक्त च्छामात्रावलम्बनं तथैवापर्याप्तं यथा जगद्वैचित्र्यव्याख्यानाय मायाकारित्वोद्भावनम् । श्रीअरविन्दस्त्वेत- त्सर्वं ब्रह्मणोऽन्योन्यविरुद्धधर्माश्रयत्वं ज्ञातृचैतन्यान्तर्गतसोपानभेदमुखेन समाधत्त माया-भक्ति-प्रभृतीनामवान्तरसाधनानां स्थाने सर्वविधज्ञानस्रोतोभूतस्य चैतन्यस्याश्रयणं तत्कृतप्रयासस्यौचित्यां सूचयति । १४. अणुभाष्ये, ३२२१२३,२७, द्वितीयोऽध्यायः चितशक्तिः कारणद्वय कारणं त्रिविध भवति, समवाय्यसमवानिमित्तभेदात् । यत्कारण रूपान्तरीभूय कार्यरूपं गृह्णाति तत् समवायिकारणम् । यथा घटस्य मृद् समवायिकारणम् । असम- वायिकारणं तु समवायिकारणस्य कार्यत्वे सहकारिभूतम् । यथा मृदो घटत्वप्राप्ती चक्रचीवरादिकम् । निमित्तकारणं तु तद् यत् कार्यत्वपरिणामकारक भवति । यथा मृदो घटत्वपरिणामे कुम्भकारः । ननु चेज्जगत् कार्यम्, ता तेनैतत्कारणत्रयात्मकेन भवितव्यम् । एतदेवापेक्ष्य दर्शनविदः सुचिरकालाज्जगत्कारणत्वं विविधं व्याचक्षाणा दृश्यन्ते । तैः प्रायशोऽसमवायिकारण तिरस्कृत्य समवायिनिमित्ते एवोपस्थाप्यते । तैर्मन्यते यद स्ति किञ्चिन्मूलभूतं तत्त्वं यस्माद् उपादाय उपादाय कश्चित् कर्ता तथैव जगन्निमिमीते यथा कुम्भकारो भूमेमृत्तिकामादाय घटं करोति । अनया रीत्या महर्षिणा गौतमेन परमाण्वीश्वरात्मकम्, कपिलेन च पुरुषप्रकृत्यात्मक प्रस्तावितम् । परं त्वेतद्विधेषु मतेषु विप्रतिपत्तिर्जायते कथं तावदेते कारणे अन्योन्यमुपसरत इति । अपि निमित्तकारणमुपादानकारणमुपसरति, उपादानकारणं वा निमित्तकारण- मिति ? किं वा द्वे अपि कारणे अन्योन्याभिमुख समुपसरतः ? यस्मिन् कस्मिन्नपि विकल्पे स्वीकृते सति, प्रश्न उपजायते किं नु निमित्तमुपसरणस्येति ? किं द्वयोरन्यत- रमन्यतराश्रितं भवति, अन्यतरसाहाय्येनात्मानं तितर्पयिषति वा ? एतस्या कल्पना- यामन्यतरस्य कारणत्वस्वातन्त्र्यं बाधित भवति । अथ कैश्चिद्दर्शन विद्भिः कारण- दयस्यान्यतरः पक्षो विलुलोपयिषितः । तथा हि, श्रीशङ्कराचार्येण समवायिकारणं मायात्मकमिति निर्णीतम्; खिष्टेस्लामधर्मप्रवर्तकाभ्यां च समवाथिकारण निरवशेष निराकृत्य जगत ईश्वरेच्छामात्रकारणत्वमुपन्यस्तम् । ननु समवायिकारणस्य मायात्म- कत्वे स्वीकृते सति जगतोऽपि मायामात्रत्वमुपपद्यते । मायासमवायिकारणत्व खल्वस- त्वकल्पम् । जगतोऽसत्त्वोपपादकेन दर्शनशास्त्रेण तु क्वचिद् भ्रान्तेन भवितव्यम् । ईश्वरेच्छामात्रोपादाना सृष्टिस्त्वनन्योदाहरणा सती अतर्कपुष्टा भवति, अथ चाविश्वसनीया।
२६ श्रीअरविन्ददर्शनम् - ६ किञ्च शाङ्करप्रभृतीन्युक्तमतानि निमित्तकारण विशुद्धि रक्षणार्थमुद्भाबितानीव प्रतीयन्ते । सदोष खलु जगत् । परिवर्तनशीलन्वमेवास्य दोष इत्येते दर्शनविदो मन्यन्ते । परिवर्तनं तु गत्याश्रितम् । एतस्मात् कारणात्, स्वनिर्दोपत्वरक्षणाय जगन्निमित्तकारणेन गतिरहितेन भवितव्यम् । कि तु गतिहीनं कारण किञ्चिदप्युत्पादयितुमक्षमम् । एव- मनन्यगतिकाः सन्त एते दर्शनविदो मायावादप्रभृतीनि मतान्यवलम्बन्ते । उपर्युक्त षु मतेषु त त दोष प्रेक्षमाण. श्रीअरविन्दो जगत्कारण विषयिकी समस्यां प्रकारान्तरेण समाधत्त । गतिस्थितितत्त्वयोर्मध्ये तादृशमन्योन्यविरुद्धत्वमसौ न मन्यते यादृशमुपर्युक्ता दर्शनविदा । वस्तुतस्त, जागतिकेप्वपि पदार्थप्वेते अन्योन्यसमन्विते दृश्येते । तथा हि, दृप्टिभेदेन पृथिवी स्थितिशीलापि प्रतीयते गतिशीलापि । अथ चेद् गतिस्थितितत्त्वे पृथिव्यामपि महस्थे इवानुभवितु शक्य ते, तहि कथ न मच्चिदानन्दे ? पृथिवी खलु सान्ता । सच्चिदानन्दस्त्वनन्त । अथ चेत् मान्नोऽपि पदार्थोऽन्योन्य विरुद्ध- धर्माश्रयत्व गन्तु शवनोति, तर्हि कथ नानन्त' ?' अनन्तस्थानन्य ताकद देशकालविषय- कत्वेन सह गुणविषयक मपि स्यात् । एव सति मच्चिदानन्दान्तर्गते गतिस्थितितन्वे सहस्थे भवितु शक्नुतः । किन्त्वेतावता गतिस्थितितत्त्वद्वयसघानमात्र मेवासाविति न मन्तव्यम्, तत्त्वान्तराणामपि तस्मिन् सद्भावात् । वस्तुतस्त्वेते है अपि तत्त्वे तत्पक्षद्वयम् । अनौ त्वेते व्याप्नोत्यपि, अतिक्रामत्यपि । अपर च, जगत् परिणामात्मकमस्ति, सच्चिदानन्दस्तु सत्तात्मकः । परिणामात्मकत्वात्, जगति गतितत्त्व मौलिकमस्ति, स्थितितत्त्वा त तत्सातत्यबोधजन्यम् । सत्तात्मकत्वान्, सच्चिदानन्दे तु स्थितितत्त्वा मौनिकम्, गनितन्य तावत् तत्सहयोगिभूतम् । एतदेव सच्चिदानन्दान्तर्गत गनितत्त्वं श्रीअरविन्देन चित्शक्तिरित्यभिहितम् । चित्शक्तिस्तावच्चैतन्यम्वरूपिणी सत्यपि शक्त्यात्मिका । नन्वेतस्या एतत्स्व- रूपद्वयमन्तविरोधान्वित मिव प्रतीयते । जगति हि चैतन्यं शक्तिहीनम्, शक्तिश्च चैतन्यहीना । एतस्मात् कारणात्, अत्र चैतन्यं जडतत्वमापेक्ष भवति । सच्चिदानन्दीये चैतन्ये त्वेतादृशी स्थिति स्ति । एतस्मिन् हि मच्चितो न केवलं सहस्थे, अद्वयतन्व- पक्षद्वयभूते अपि भवतः । अतएवात्र सन् चिन्मयं भवति, चित् च सन्मयी। अथ सतः क्रियाभूता शक्तिरत्र चिन्मयी भवति । सच्चिदानन्दान्तर्गतशक्तिचैतन्ययोरेत- देवान्योन्याश्रितत्वं खलु चित्शक्तिप्रत्ययकारकम् । एषा शक्तिस्तु न केवलमनुमानावगम्या, योगावबोध्याप्यस्ति । बहुमोपानात्मको हि योगावबोवः । एकस्मिन् सोपाने तावत् तत्त्व जातं शान्त्यात्मकं प्रतीयते । अत्र "क्रियाशीलं चैतन्यं स्वक्रियया मह शान्तावन्तहितं भवति; अस्माकं कृते प्रकृतिः १. दि लाइफ डिवाइन, पृ ३६१. - चित्शक्तिः २७ सृष्टिश्चासद्भूते भवत' ।” सोपानान्तरे त्वात्यन्तिक सत् अद्वितीयपुरुषवदनुभूयते यस्मिन् तदीया शक्तिरन्तहिता भवति । एतस्मादप्यूर्वतरसोपानारोहा नन्तर वैयक्तिके सत्ये निर्वैयक्तिकेन सत्येन सह समन्विते सति, आत्यन्तिकस्य तत्त्वस्य द्विपक्षात्मकत्व- मनुभवपदमवतरति । एतयोरेक पक्षः आत्मा, अपर श्चात्मशक्तिः । एतावेव पक्षावी- श्वरशक्तियुग्म इति गृह्यते । ईश्वरस्तु मच्चिदानन्दारव्यः, शक्तिश्च चित्रशक्ति । एषाप्यनुभूतिरनेकसोपानात्मिका । अतिमानसचैतन्ये तावदात्मा तत्शक्तिश्चात्मन्येवैकत्व भजेते । अध्यात्मचैतन्ये त्वेतावेबेतरेतराभ्या विविक्तौ भूत्व। क्रियात्मको भवतः । अत्रात्मशक्तिरेव “माया', 'पराशक्ति.', ' चित्शक्तिरित्यादिभिर्पदै भिधीयते । सर्वातिशायिनोऽपि सच्चिदानन्दस्य जगद्व्यापकत्वात्, तत्शक्ति भूता चित्शक्ति- रपि यावदेकस्मिन् पक्षे सर्वातिशायिनी, तावत् पक्षान्तरे सर्वका रयित्री। एतेन सर्वाति- शायित्वेन साऽनभिव्यक्तस्वरूपात् सच्चिदानन्दादपृथग्भूतेव लिष्ट ति । यथा कस्यचित् प्राणिनो गमनशक्ति स्थितावनभिव्यक्तापि सती तत्त्वतः सद्भूता, तथैवानभिव्यक्तसच्चि- दानन्दशक्तिभूता चित्शक्तिः सृष्टिव्यापारप्रागात्मनिष्ठा भवति । एषव शक्ति सृष्टि- व्यापारोन्मुखी सती क्रियाशीलत्वात् प्रकृतिरित्यभिधीयते । प्रकृतिः किल चित्शक्तेः क्रियात्मकं स्वरूपम् । अवस्थाभेदेनैपाधि परापरात्मिकेति द्विविधा भवति । पराप्रकृतिस्तु मच्चिदानन्दस्य प्राथमिकी सिसृक्षा । एषैव क्रियात्मिका सती अतिमानसाभिधं तत्त्वमा- विर्भावयति । अतिमानमतत्त्वस्य विशुद्धज्ञानात्मकत्वेन मूच्यते यदेषा विशुद्धज्ञानस्वरूपि- णीति । पराप्रकृतेर्य पक्षोऽतिमानसेतरसृप्टिकारको भवति, सोऽपरा प्रकृतिरिति कथ्यते । अपरा प्रकृतिस्तावदज्ञानमिश्रिता भवति । अज्ञानमिश्रितत्वादेषा मनोजीवन भूतात्मिकां सृष्टि मुत्पादयति ।३ , यथा पराप्रकृतेर्माध्यस्थ्येन सच्चिदानन्दो व्यप्टिसमप्ट्यात्मकस्य जगतो रूपं गृह्णाति, तथा तन्माध्यस्थ्येनैवासावज्ञानमयजगद्रूपादुत्थाय ज्ञानात्मक स्वरूप प्राप्नुयात् । चेत् पराप्रकृतिवियोग एव तदीयाज्ञानावरोहस्य कारणम्, तहि तत्सयोग एव तदीयस्य ज्ञानाभिमुखारोहस्य कारण स्यात् । तत्प्रेरितानि मनोजीवनजडतत्त्वानि स्वस्वाधिष्ठाना- दुत्थाय ज्ञानोन्मुखीभवितुमर्हन्ति । अनेन क्रमेणैतान्यज्ञानं विसृज्य ज्ञानात्मिकां परां प्रकृतिमारोढुं शक्नुवन्ति अथवा तामेव प्रकृतिमात्मन्यवतार्य तत्संसर्गेणात्मानं परिष्कृत्य तन्मयानि भवितुमर्हन्ति । २. तरिमन्नेव, पृ० ४२२-३. ३. श्रीअरविन्दस्य, लेटर्स ऑन योग, प्रथम भागे पृ० २८७. दि लाइफ डिवाइन, पृ० ४२३-४. ४ , श्रीअरविन्ददर्शनम् -- - चित्शक्तिविशुद्धचैतन्यात्मिका भवति, आत्मनिष्ठा च । प्रकृतिस्तु ज्ञानाज्ञाना- त्मिका विकारशीला च । एतस्मात् कारणादेते अन्योन्यविरुद्ध प्रतीयते । यत्सत्यम्, नास्त्येष विरोधः कथञ्चित् पारमार्थिकः । विरोधे पारमाथिके सति त्वेते अन्योन्यो- च्छेदपरे स्याताम् । वस्तुस्थितिस्तु नैतादृशी। तथा सति हि, यावत् सृष्टिकाले स्थित्यात्मकः सच्चिदानन्द उच्छिन्नोऽभविष्यत् तावत् सच्चिदानन्दे स्वात्मस्थे सति जगदेवोच्छिन्नमभविष्यत् । वस्तुतस्तु प्रकृतिव्यापारमध्यगता अपि वयं स्थित्यात्मक स्वात्मनिरतं जगद्व्यापाराधारभूतं सच्चिदानन्दमनुभवितु शक्नुमः । एतस्माद् ज्ञायते यत् “परमार्थसत्ता न तु गतिशून्यस्य तत्त्वस्य शाश्वतिकमीदासीन्यम्, नैव गतिशीलस्य तत्त्वस्य शाश्वतिको व्यापारः, नैव कालक्रमापतितैतदवस्थाविपर्या- सभूतैवे" ति । चित्शक्त रेनां द्विरूपतां श्रीअरविन्दः तपसोपमिमीते । यथा कस्यचित् तपस्विनश्चैतन्यं समकाल मेवात्मनिरतं भवति जगदुन्मुखमपि, तथैव चित् शक्तिः सच्चि- दानन्दसन्निहितापि सती क्रियात्मिका भवति । तपस्विचैतन्यं नामोमयोरेवावस्थयोः ध्यानपर भवति । विभेदक तत्त्वं तु ध्यानप्रकृतिभेदमात्रम् । एवमेव चित्शक्तिरुभयो- रेवावस्थयोरेकामा भवति । एतस्या ऐकाग्यं नाम स्थितावात्मसंरक्षणपरं भवति, गतौ चात्मविसर्जनपरम् । यथा वा सप्रणालिके तडागे जलं समकाल मेव गतिशीलमपि भवति स्थितिशीलमपि, तथैव चित्शक्तिः समकालमेव गतिशीलापि भवति स्थितिशीलापि । सच्चिदानन्दस्येश्वरात्मापुरुषात्मकेन रूपयेणाभिव्यजितत्वात्, तत्शक्तिभूता चित्शक्तिरपि तदनुरूपं रूप त्रयं धारयति । ईश्वरसहचरीभूतैपा शक्तिरित्यभिधीयते । एतद्दशापन्नषा तथैवेश्वराभिन्ना भवति यथा शक्तिः शक्तिमत' । निखिल प्रपञ्चोद्- गमभूताप्येषा न तदूषिता भवति । प्रपञ्चः तदधीनो भवति, न त सा प्रपञ्चा- श्रिता । यथेश्वरः प्रपञ्चस्वामी, तथा सा प्रपञ्चस्वामिनी । एतद्रूपा सा सच्चिदा- नन्दस्थं जगद्बीज प्ररोहोन्मुखं करोति । जगबीजे प्ररोहोन्मुखे सति शक्तिः शक्तिमतो विभिद्यते, व्यष्टिश्च समष्टेः । अथाभिव्यक्तः द्वितीये चरणे चित्शक्तिर्मायारूपं गृह्णाति । एतद्रूपा सा सहचरी - - ५. तस्मिन्नेव पृ०६८५. ६. तस्मिन्नेव पृ०६८४. ७. तस्मिन्नेव पृ०६८१-२. ।
-- चित्शक्तिः [ २६ भवत्यात्मनः । अथासौ निखिलप्रपञ्चव्यापिन्यपि सती, अन्योन्यपृथग्भूताना व्यष्टीनां निर्माणपरा भवति; समष्टिगतापि सती, आत्मभिन्नेव प्रतीयते । तदवच्छिन्न आत्मा स्वात्मानं जगन्मूलमपि मन्यते, जगज्जातमपि, व्यष्टित्वमात्रावच्छिन्नमपि । अथासौ मायावशंगतः सन् नगण्यजीव इवाचरति, किन्तु तदध्यक्षत्वेन स्थित. सन् परतत्वसा- क्षाकारक्षमोऽपि भवति । आत्माभिव्यक्त : तृतीये चरणे तु सच्चिदानन्दः पुरुषाभिधो भवति, चित्शक्तिश्च प्रकृत्यभिधा । अत्र शक्तिशक्तिमतोनितान्त पार्थक्यं प्रतिभाति; आत्मनश्च सर्वगतत्वं व्यष्टिनिष्ठत्वमात्रे पर्यवस्यति; मायायाः सकल्पश्च वस्तुरूपं धारयति । संकल्पशक्तिहि माया, विधानशक्तिस्तु प्रकृतिः । प्रकृतिपुरुषयोरेष युग्मो जगन्मूलकारणमिति मन्यते सांख्यैः । तेषां मतेन पुरुष उदासीनवत् तिष्ठति प्रकृतिश्च क्रियाशीला भवति, पुरुषश्च- सन्यात्मको भवति प्रकृतिश्च जडभूता, पुरुषोऽनेको भवति प्रकृतिश्चैका । द्वावपेतावन्यो- न्याभ्यां स्वतन्त्राविति मन्यते तैः । श्रीअरविन्दस्त्वेतन्मतस्यापूर्णतामुद्घाटयति । प्रकृति- पुरुषयोरन्योन्यपार्थक्य तावदवान्त रविकाससोपानोद्भवमिति तन्मतम् । प्रकृतिहि चित्- शक्तः परवर्तिरूपं पुरुषश्च सच्चिदानन्दस्य । अथ द्वयोरप्येतयोः शक्तिशक्तिमतोरिवा- विनामावेन परस्परसम्पृक्तयोरवान्तराभिव्यक्तिभूतौ प्रकृतिपुरुषो कथं तावदन्योन्याभ्याम- त्यन्तभिन्नौ भवितु शक्नुतः ? एवं विचिन्त्य श्रीअरविन्दः प्रकृतिबद्धस्य पुरुषस्यानेकत्व- मप्यानुषङ्गिकमिति मन्यते । पुनश्च, साख्याभिमता प्रकृतिर्जडभूता, परन्तु श्रीअरविन्दा- भिमता सा चैतन्यस्वरूपिणी, तज्जडत्वं च पश्चादुद्भवम् । तस्याः पारमार्थिकचिदात्म- कत्वादेव विकासक्रमेण जडतत्त्वाच्चैतन्यमयं प्राणिजातमुत्पद्यते इति तदुपपत्तिः । अनेन प्रकारेण चित्शक्तिर्विविधानि रूपाणि धारयति । तत्त्वतस्तु सा चिद्रू- पिणी एकरूपा च । किन्तु विविधसृष्टिसोपानावरोहारोहक मेणासावचिद्रूपा, अनेकरूपा च भवति । अपि च सर्वगतसच्चिदानन्दसहचरीभूतापि सा प्रतिव्यष्टिमिन्नेव प्रतीयते ननु केन प्रयोजनेन प्रेरिताऽसावेतानि रूपाणि धारयति ? शाङ्करवेदान्ते तु मायायाः सृष्टिप्रयोजनं तावद् ब्रह्मोद्दिष्टकौतुकमात्रजननम् । रामानुजवेदान्ते च तत्प्रयोजन जीवकृतपुण्यापुण्यकर्मफलप्रदानमात्रम् । प्रकृतेः क्रियाशीलत्वं तावत् पुरुषमोक्षनिमित्त- कमिति तु सांख्यैनिश्चीयते । श्रीअरविन्दस्त्वेनां समस्यामन्यथैव समाधत्ते । सच्चिदा- नन्दस्तावन्नास्ति बद्धो यन्मोक्षार्थं चित्शक्तिः प्रवर्तेत । असौ जीवकृतकर्मनियन्त्रितोऽपि नास्ति यत्प्रेरणावशात् स्वशक्ति व्यापारयेत् । नृपवदसौ कष्टजीवनोऽपि नास्ति यद्विनोदार्थ सृष्टिमृगयाविहारी स्यात् । असौ त्वानन्दस्वरूप एव । तस्यानन्त्यात्, तदानन्दमयत्वेनाप्यानन्त्यविशिष्टेन भवितव्यम् । एवं सति, न खलु कल्प्या काचिदपि कृच्छ्रता तदानन्दमयत्वे यदपसारणार्थमसौ सृष्टिव्यापारे प्रवर्तत। प्रयोजनान्तरस्या- - श्रीअरविन्ददर्शनम् सम्भाव्यत्वात्, चित्शक्त: सृष्ट्युन्मुखीभावस्तु सच्चिदानन्दस्वरूपपरामर्शमुखेनैवान्वे- षणीयः । सच्चिदानन्दे खलु गतिस्थितितत्त्वयोमौलिकः सद्भाव इति त्वत्र स्मृतिपथ- मानेतव्यम् । अथ चेत् तन्निहित स्थितितत्त्वं स्थित्यानन्दात्मक मस्ति, तहि तन्निहितेन गतितत्त्वेन गत्यानन्दात्मकेन भवितव्यम् । अनेन गत्यान देन तावत् सच्चिदानन्दान्तहित गतितत्त्वं विकासोन्मुग्व क्रियते । स्थितितत्वादावि यैव गतितत्व विकासोन्मग्व भवितुमर्हति । अथ गन्यात्मकस्यानन्दस्य स्पाटावबोधार्थ सच्चिदान-दान्तहितगति- तत्त्वस्याविर्भावाकाक्षैव सृष्टि रूपेण प्रतिफलनीति श्रीअरविन्दो मन्यते। नन्वेतद्विधं श्रीअरविन्दमतमेकतो ग्रीमदेशीयेन प्नोटिनस्मतेन अन्यतश्च काश्मीर- शैवाभिनवगुप्तमनेन सन्तोलनार्हम् । मृप्टिरीश्वरीय पूर्णत्वाति रेकस्वरूपिणीति श्रीप्लोटिना मन्यते । ईश्वरीयं स्वातन्त्र्यमेव जगत्कारणमिति तु शैवमनम् । ईश्वरीय स्वातन्त्र्यं तु "अस्मादृक्प्राच्यपशुदशाविशेपासम्भाव्यमानातिदुष्करवस्तुसम्पादनं नाम ।" एनामेवेश्व- रीयस्वातन्त्र्यशक्ति श्रीअभिनवगुप्तो मायाशक्तिरित्यभिधत्ते । नन्वेवं विधमेत मतद्वयं यावदेकत ईश्वरीयं पूर्णत्वं स्वातन्त्र्यं च प्रतिपादयति, तावदन्यतः सृष्टिव्यापारस्य निष्प्रयोजनत्वमप्युपपादयति । तज्जन्मा निष्प्रयोजनता च सृप्टिव्यापारस्य नैरर्थक्य निगमयति । दर्शनशास्त्रप्रयोजन तु विवेच्य पदार्थमूल्याङ्कनम्, न च तन्नै रोपपादनम् । अपरं च, निखिले सृष्टिव्यापारे निरर्थके सति, अस्मज्जीवनव्यापारस्यापि नैरर्थक्यमुप- पद्यत । श्रीअरविन्दमतं तु निखिलसृष्टिव्यापारस्यानन्दोन्मुखत्वं प्रतिपाद्य तत्सार्थकत्वं, प्राणि कर्मणः प्रयोजनवत्त्वं च निरूपयति । 4 ननु काश्मीरशैवैश्चित्शक्तिप्रकल्पना श्रीअरविन्दात् सुचिरपूर्वतरमुपस्थापिता । तथा हि, वर्षसहस्राभ्याधिकमतिगतं वसुगुप्तोत्पलाभिनवगुप्तप्रभृतिभिशैबैरीश्वरशक्त - श्चित्शक्तिरित्यभिहितायाः । तस्त्वेषा शक्तिः तथैवेश्वरा भिन्ना निर्दिष्टा यथा तापोऽग्न्य- भिन्नः, शक्तिर्वा शक्तिमदभिन्ना । तैरेवं जगत्कारणस्या तत्वमुपपादितम् । परमत- त्त्वरूपेण यथा श्रीअरविन्दः सच्चिदानन्दं स्त्रीकरोति तथैवैते शैवा महेश्वरम् । महेश्वरस्य 'सोऽयम्" इत्येवंरूपत्वेन परामृशन्ती अध्यवसायशक्तिः' विमर्श न कथमप्येषा महेश्वरभिन्ना । तमिन्नत्वे ह्यात्मविमर्शनिमित्त काचिदपरा शक्तिरपेक्ष्येत । एवं त्वनवस्थादोषः प्रसज्येत । अपि च, महेश्वरभिन्नत्वे चित्प्रकाशभिन्ना सती, अप्रकाशमानत्वात्, एषानुपपाद्यसत्ताका स्यात् । “प्रकाशमानत्वे ८. श्रीअभिनवगुप्तम्य ईश्वर प्रत्यभिज्ञाविमशिन्याम्, २।३।१७. ६. श्रीअभिनवगुप्तस्य श्रीतन्त्रालोके १६६. १०. श्रीअभिनवगुप्तस्य ईश्वरप्रत्यभिज्ञाविमर्शियाम्, ११५।२०. इत्युच्यते ।१० . .
चित्शक्तिः अज्ञेयः खलु - तु प्रकाशैकात्म्यात्' एषा महेश्वराभिन्ना भवति । ११ अथैया महेश्वराभिन्ना विमर्शशक्तिः "ज्ञानशक्तित्वमासाद्य क्रियाशक्तिभावेन स्फुरति" । १२ महेश्वरः । ययात्मशक्त्यामावात्मान प्रकाशयति सा विमर्गशक्तिरित्यभिधीयते । यथा कश्चित् प्राणी "अहमिति' विमर्शपूर्वकम् “अह जानामी''ति प्रतीत्य "अह करोमी"ति क्रियो मुखो भवति, तथैव "अहमि''ति विमर्शानन्तरमात्मानं विषयत्वेन परिकल्प्य महेश्वरः तदनुरूप क्रियाशीलो भवति ।१३ अथ विमर्शशक्ति रेवानुक्रमेण तथैव ज्ञानशक्तित्व क्रियाशक्तित्व च प्रतिपद्यते यथा सच्चिदानन्दान्तहिता चित्शक्तिः तस्मादात्मान पृथक्कुर्नती मायारूप धारयति, तदनु च सर्जनशीला सती प्रकृतिरूपम् । अपि च, सृप्टिप्रयोजनमप्यधिकृत्यैते शैवाः श्रीअरविन्दपरिपाववर्तिन इव प्रतीयन्ते । एतेऽपि मन्यन्ते यद् "आनन्दोच्छलिता शक्तिः सृजत्यात्मानमात्मने''ति । एविधेन सन्तोलनेन ज्ञायते कियन्मात्रं काश्मीर शैवमत चित्शक्तिमधिकृत्य श्रीअरविन्दसन्निकृष्टमिति । एवं सति, चेत् कश्चिदाक्षिपेत् काश्मीरमतादेव श्रीअर- विन्देन स्वं मतं गृहीतमिति, तन्न सङ्गतम् । नैसर्गिकानुभूतिप्रसूते योगबलसधिते च तन्मते काश्मीरशैवमतं तदृष्टिपथं समायातमिति तज्जीवनैतिह्यविदः प्रमाणयन्ति । एन सति, शैवमतेन सह तन्मतैकरूप्य मतद्वयाधारभूतानुभूतेर्याथार्थ्यमुपपादयन्ति । ११. श्रीक्षेमराजस्य प्रत्यभिज्ञादये, ११ १२. श्रीभास्कराचार्यस्य भास्कर्याम, २११११. ११. श्रीअभिनबगुप्तस्य ईश्वरप्रत्यभिज्ञाविमशिन्याम १५:१५-३० २४. श्रीक्षेमराजस्य, स्तोत्रावली टीकायाम.
तृतीयोऽध्यायः अतिमानसम् केन प्रकारेण सर्वधर्मातिक्रान्तं निर्गुण निष्क्रियं प्रपञ्चातिशायि ब्रह्म सर्वधर्म- संवलितं सर्वगुणोपतं नानाविधक्रियात्मकं प्रपञ्च सृजतीत्येपा समस्या वेदान्ते मुहुर्मुहु- रुत्पद्यते । श्रीअरविन्दाभिमतः सच्चिदानन्दोऽपि जडत्वबहुलजगन्मूलोऽपि सन् विशुद्ध- चैतन्यस्वरूपः, नानात्वमूलोऽपि सन्नेकत्वपर: सर्वगुणोद्भवभूमिरपि सन् निगृहीतगुणा- भिव्यक्ति, जगत्कारणमपि मन् निग्विलप्रपञ्चातिशायी वर्तते । चित्गक्तिरपि सच्चिदा- नन्दशक्तिस्वरूपत्वात्, शक्तिशक्तिमतोरन्योन्याभेद्यत्वाच्च तद्धर्मिण्येव तेनैव सार्धमसावपि विशुद्धचैतन्यस्वरूपिणी, आत्मनिष्ठक्रियात्मिका, आनन्त्यविशिष्टाचास्ति । एवं सति, कथं नाम प्रक्रियापरं जडत्वप्रायं सान्तं नानात्वविजृम्भितमनन्तगुणगणैरहमह- मिकया बाध्यमानं जगत् तादृचित्शक्त्योपेतसच्चिदानन्दादुत्पद्यते ? । श्रीअरविन्दस्त्वेनां समस्यामतिमानसद्वारेण समाधत्त । अतिमानसमसौ सत्-चित्- आनन्दव्यतिरिक्त चतुर्थ सच्चिदानन्दीयं पादं मन्यते । सच्चिदानन्दे खलु सत्-चित्" आनन्दाः समन्विता भवन्ति । अथवैते त्रयोऽप्येकस्यैव तत्त्वस्य पक्षभूताः । सच्चिदान- न्दस्य सत्ता तावत् चिदानन्दमयी भवति, चैतन्यं सदान दमयम्, आनन्दश्च सच्चिन्मयः । जगति तु सत्ता चिदानन्दाभ्यां विरहिता भवति, चैतन्यं सदानन्दाभ्याम्, आनन्दश्च सच्चिदाभ्याम् । अतिमानसं त्वेतयोता तयोर्माध्यस्थ्यं करोति । आत्मनिष्ठसच्चिदा- नन्दाभ्यन्तहितमेतत् तदीयात्मचैतन्यप्रतीतिरित्यभिमतम् । ननु सच्चिदानन्दस्य सदात्म- कत्वात्, तत्प्रतीतिभूतेनातिमानसेनापि सदात्मकेनैव भवितव्यम् । श्रीअरविन्दस्त्वतिमान- सस्य सदात्मकत्वं स्वीकुर्वन्नपि सच्चिदानन्दीयसदात्मकत्वादेनं विविनक्ति । तन्मतेन यावत् सच्चिदानन्दीयं सदात्मकत्वं मूलत आत्मनिष्ठं भवति तावदतिमानसीयं सदात्म- कत्वं गत्युन्मुखं भवति, अतिमानसस्य गत्यु मुखसच्चिदानन्दाविर्भूयमानत्वात् । अथ प्रतीत्यात्मकत्वात्, गत्युन्मुखसदात्मकत्वाच्चैतत् सच्चिदानन्दीया विवेकशक्तिरिति मतम् । चेत् सच्चिदानन्दो ज्ञानोपेतः पुरुषः, चित्शक्तिश्च ज्ञानशक्तिः, तातिमानसं खलु तद्विवेकशक्तिरिति मन्तव्यम् । विवेकशक्तिस्तावद् ज्ञानावस्थिति-क्रियान्वितिभेदाद् पक्षद्वयात्मिका भवति । एवमेवातिमानसमपि द्विपक्षात्मकत्वेन पुरस्कृतम् । एकेन पक्षण अतिमानसम् ३३ तावत् तत् सच्चिदानन्दीयात्मप्रतीतिभूतं भवति, पक्षान्तरेण च तदात्मनिर्धारणशक्ति- भूतम् । एतयोः प्रथम पक्षः स्वरूपस्थितिभूतः, द्वितीयश्च क्रियान्वितिभूतोऽभिमतः ।। द्विपक्षात्मकत्वादेतदेकत एकत्वमूलमपरतश्च नानात्वोन्मुख निर्दिष्टम् । एतस्मिन् खलु सत्ता चैतन्यात्मिका दृष्टा, चैतन्य च सत्तात्मकम् । अतएवैतत् सत्यचिदित्यप्यभिहितम् । सच्चिदानन्दीयक्रियात्मकचैतन्यस्वरूपत्वादतिमानसं तु तदीयं "सङ्कल्पात्मक ज्ञानमित्यपि कथ्यते । एतत्स्वरूपं तन्निखिलमपि जागतिकं नानात्व स्वात्मन्येकीभूतमिव निदधाति । यथा कस्मिंश्चिन्मानवीये सङ्कल्पे बहवः कार्यक्रमा भावाश्चै कीभूताः तिष्ठन्ति, तथैव सच्चिदानन्दीयसङ्कल्पस्वरूपेऽतिमानसे निखिलमपि जागतिकं नानात्वमे- कीभूय विद्यते । अपरं च, यथैव स्मादेव मानवीयसङ्कल्पचैतन्याद् बहूनि कार्याण्याविर्भ- वन्ति, तथैवैकस्मादेवातिमानसात् सम्पूर्णमपि नानात्वमय जगदुत्पद्यते । सच्चिदानन्दीयविवेकस्वरूपातिमानसस्य माध्यस्थ्येनैवास्माकीना सृष्टिराविर्भावितेति वक्तु शक्यते । सच्चिदानन्दो हि निखिलसृष्टिबी जानामाकरः । तस्यानन्त्यादेष आकरो- ऽप्यनन्त एव स्यात् । एतस्मादाकरान्निस्सृत्य निस्सृत्य सृष्टिबीजानि पदार्थरूपेण परिण- मन्ते । एतेषां निस्सरणकारण तु चित्शक्तिः । तथैव प्रेर्यमाणान्येतानि बीजान्यात्मनिष्ठा परित्यज्य गतावात्मनः प्रक्षियन्ति । तस्यास्त्वानन्त्यात् तदीयया प्रेरणयाप्यनन्तात्मकया भवितव्यम् । अथ सृष्टिबीजाकरस्य चित्शक्तिप्रेरणायाश्चानन्त्यात्, तदुत्पन्नेन प्रत्येकेन पदार्थेनाप्यानन्त्यविशिष्टेन भवितव्यम् । एवं सति त्वस्मिन् जगति नैव काचिद् घटना घटितु प्रभवेत् नैव कश्चित् पदार्थ आविर्भवितु शक्नुयात्, सृष्टिश्चानन्त्याक्रान्ता सती विशीर्येत । अथ चेदेषा कथञ्चित् सम्भाव्येत नाम, तर्हि तादृशी नैवाभविष्यद् यादृश्यस्माकीना । निश्चिदाकारानुक्रमसम्बन्धविहीनपा अनन्तघटनानाम्, अनन्तपदार्थानां चानन्तसंयोगस्वरूपिणी सती सर्व थानन्त्यविशिष्टैव स्यात् । ३ एतस्याः सम्भावनायाः प्रतिकूलं त्वस्माकीना सृष्टिरस्ति सान्ता यस्यां च प्रत्येकं घटना सान्ता, प्रत्येक पदार्थः सान्तः, घटनापदार्थयोरनुक्रमसम्बन्धी च व्यवस्थितौ । अत्र प्रत्येक पदार्थोऽवशिष्ट- पदार्थजातसम्बद्धोऽपि सन् स्वीयां व्यष्टिं विविक्तभावेन धारयति । एतत्स्वभावा सृष्टिस्तावत् तादृशीं ज्ञानसङ्कल्पशक्तिमपेक्षते “या सम्भावनानन्त्यमध्यगता सती विशिष्टं विशिष्ट सम्बन्ध स्थापयति, बीजानि प्ररोहयति, सृष्टिविधानतरङ्गान्नुद्भावयति, शाश्वतिकानतद्रष्टुभ भावेन जगन्ति निरीक्षते, तद्विधशास्तृभावेन च शास्ति। १ दि लाइफ डिवाइन, पृ० ३७१. .. तस्मिन्नेव, पृ० १४४. 3. तस्मिन्नेव, पृ० ३१८-१. ४ः तस्मिन्नेव, पृ० ३१६.
३४ श्रीअरविन्ददर्शनम् अतिमानसं त्वेवं विधमेव । तत् खलु सच्चिदानन्दस्थानामनन्तमृष्टिबीजानां मध्यतः न्येव बीजानि प्ररोहोन्मुखानि करोति यानि तदमिरेता व्यवस्था प्रसारयितु शक्नुवन्ति; चित्शक्त्योपजन्यानामनन्तप्रेरणाना मध्यतः ता एव प्रेरणाः स्वीकरोति याः तदीय प्रयो- जनं साधयितुं क्षमाः । अतिमानसस्य सम्भावनानिर्धारणव्यापारो नाम नास्ति कादाचित्को नैव सृष्टि- बाह्यः । एष तु शाश्वतिकः, सार्वभौमः, सृष्टिप्रक्रियानुबद्धश्च स्ति । यदा किल सृष्टिः सच्चिदानन्दादाविर्भवति तदातिमानसमपि तयैव सह सर्वव्यापकत्वेनात्मान परितनुते । अथ निखिलसृष्टिशीर्षस्थमप्येतत् प्रतिवस्त्वभ्यन्तरमवतिष्ठति । जडजीवनमनस्तत्त्वमयी सम्पूर्णापि सृष्टिः तद्व्याप्ता । तत्सन्निधानादेव पदार्थाः तं तं प्राकृत विधानमनुसर- न्ति । परमाण्वभ्यन्तरं परिकम्यमाणाना तदवयवानामतिद्रुतापि सती सुनियता गतिर- नेनैव नियम्यते । एतस्यैव विवेको जडपदार्थेषु यान्त्रिकनिय तिरूपेण, सरीसृपकीट- पक्षिपश्वादिषु मूलप्रवृत्तिरूपेण, मानुषेषु च मनोरूपेण वर्तते । नन्वतिमानसेति पदेन नानुमेयमेतन्निर्दिष्टं तत्त्वं मनस एवोपहितं रूपमिति । मानसातिमानसयोर्मध्ये हि मौलिको भेदोऽस्ति । मनस्तु विभाजनशीलम् । तत्तत्पदार्थ- रूपेण, तत्तद्घटनारूपेण च विभज्यैवैतत् संपारं द्रष्टुं शक्नोति । खण्डन-प्रखण्डनपूत्रिक- वैतस्य पदार्थावगतिः । अवयवसङ्घातमात्र एव पदार्थ इत्येतन्निर्णयः । जगत् खलु परमाणुसङ्घातोद्भवमित्येतस्येदानीन्तनं मतम् । सच्चिदानन्दमप्यधिकृत्यैतदेवमेव चिन्तयितुमर्हति । असौ तावत् सत्-चित्-आनन्दाभिधानां तत्त्वानां सङ्घातमात्रमि- त्येतस्य चरमोऽवबोधः । अतिमानसं चैतन्य त्वेकत्वादेव बहूत्वोन्मुखं भवति । सच्चि- दानन्द एक एव सन्ननेकानि' रूपाणि धारयितुं क्षम इत्येतच्चैतन्यप्रतीति: । एव- मेवैतस्मिश्चैतन्ये जगत सच्चिदानन्दाविर्भूतमिति प्रतीयते, न तु परमाणुसङ्घातमात्र- सम्भूतमिति । पुनश्च, मनसो यथा देशावगतिराणविकी तथैव कालावगतिरपि वर्तमानक्षणमात्रपर्यवसायिनी । वर्तमानक्षणमात्रमेव हि मनोऽनुभूतिविपयं भवितु शक्नोति । एतत्कृते भूतकालजातं स्मृतिमात्रावशिष्टम्, भाषिकालजातं चानुमानमात्र- विषयकम् । एतत्कृता वर्तमानक्षणानुभूतिरपीन्द्रियप्रदत्तसंवेदनाश्रिता भवति । अनुभूतेः क्षणमात्रपर्यवसायित्वाद् आणविकत्वाच्च मनः पदार्थ तत्सम्बन्धं चानुमानेनैवावगच्छति, न चापरोक्षम् । प्रवृद्धमानसशक्तिषु भूतविज्ञानवित्स्वपि मनस एतादृश एव व्यापारो दृश्यते । एतावता ज्ञायते यदत्युत्कृष्टमपि सन्मन एनं स्वभावं विहातुं न क्षममिति । अतिमानसं चैतन्यं तु, मुतरां भिन्नस्वभावकम् । एतस्मिन् खलु न केवलं देशजात अतिमानसम् . युगपदेवानुभूयते, अपितु निखिलः कालक्रमोऽपि शश्वद्वत मान इव प्रतीयते । यथा कस्मिश्चित् चित्रफलके आलिखित्त कालत्रयव्यापकं घटनासर्वस्व युगपदेवदृष्टिगत भवति, तथैवैतस्मिश्चैतन्ये कालत्रयप्रसृता सृष्टिरेकपदे एव प्रतिफलति । अत्र तावद् देशकालयोः तात्त्विकोऽभेदः प्रत्यक्षदृष्टो भवति, न त्वनुमानमात्रविषयकः । अत्र देशो न वस्त्वाश्रयभूतः, कालच न घटनाश्रयभूनः । नैवैतौ वस्तु घटनासयोगजन्यौ, न चान्योन्यपृथग्भूतौ । एतौ त सच्चिदानन्दान्तहितसृष्टिसम्भावनाभिव्यक्त्यर्थ चित्श- क्त्यङ्गीकृतौ विशिष्टावभिव्यक्तिप्रकारौ। ननु यस्मिश्चैतन्ये देशः कालो जगच्चैववि- धान्यनुभूयन्ते, कथ नाम तेन मनस्स्वभावकेन भवितव्यम् ? मनसि तावदतिमानसीयाः केचिद् धर्म अन्वेष्टु शक्यन्ते । तथा ह्येतस्मिन्नप्येकत्वमूलाना गोत्वादिसमष्टीना प्रतीति- रुत्पद्यते । परन्त्वेतावता केवलमेतदेव सूच्यते यन्मनः यथाकथञ्चिदतिमानससम्बद्ध मिति । एष सम्बन्धस्तु, कारणकार्यात्मक इति श्रीअरविन्दो मन्यते । तन्मतेनसत्-चित्- आनन्द-अतिमानस-जडतत्त्वेन-जीवात्म-मनोभेदेन तत्त्वजातमष्टविधम् । एतेषु तत्त्वेषु सत् तु जडतत्त्वस्य कारणम्, चित् जीवनतत्त्वस्य, आनन्दो जीवात्मतत्त्वस्य, अति- मानसं च मनस्तत्त्वस्य । कि तु यावदतिमानसं ज्ञानात्मकमस्तितावन्मनोऽज्ञानात्मकम् । अज्ञानात्मकत्वान्मनो बैकल्पिकं भवति । ज्ञानात्मकत्वादतिमानस तु सत्तात्मक यथा- र्थभूत च । मनु केचित् शङ्कन्ते यत् श्रीअरविन्द प्रतिपादितमतिमानस नाम जर्मनदेशीयकाषि- दार्शनिकश्रीनीत्सेप्रकल्पितातिमानवसदृशः कोऽपि काल्पनिकः प्राणीति । एतादृशी शङ्का त्वविचारितपूविकेत्युपपादयितुं शक्यते । श्रीनीत्सेप्रकल्पितातिमानवो हि प्रवृद्धाहकारवान् कश्निन् प्राण्यस्ति । तच्छरीरमनोबुद्ध्यहंकारबलं नामेतरमानुषात् भृशं प्रवृद्ध मतम् । विशिष्टव्यक्तित्वाहंकारयोर्योगादेतादृशो जनः सर्वानपीतरान् जनानतिवर्तित प्रयत्नशील: सन् स्वल्पायासेन कृतकार्यः स्यात् । अथासौ प्रकृत्यैव सङ्घर्षपरः प्रभुत्वपरश्च भविता । श्रीअरविन्दस्त्वेतादृशः प्राणिन आविर्भावं मानवविकासप्रतिलोमं मन्यते । एतस्याः प्रकल्प- नाया: साक्षात्कारे सति मानवजातिः वर्तमानसस्कृतेरप्यपच्युत्म प्राक्कालीनासभ्यावस्था निवतिष्यते इति तन्निष्कर्षः । ५ अतिमानस तु नैतद्विधम् । एतस्मिन् त्वहंकारस्य सद्भाव एव नास्ति, का पुनर्वार्ता तद्वृद्धेः । एतस्मिश्च द्वित्वमेव नास्ति, का पुनर्वार्तान्य- तमेनेतरेषां दमनशासनयोः । “एतस्मिन् विस्तृते ज्ञाने किमपि स्वतन्त्र सत्ताकेन्द्र नास्ति, अस्मादृशः कश्चिद् वैयक्तिकोऽहंकारोऽपि नास्ति । एतस्मिन्नात्मचैतन्ये तु निखिलापि सत्ता सम्प्रसारात्मिका, एकत्वे एका, नानात्वे एका, सर्वत्र सर्वथा चैका । अत्र समष्टि- ५. तस्मिन्नेव, पृ० १२६६ .
श्रीअरविन्ददर्शनम् व्यष्टी समसत्ताके स्तः । व्यष्टिर्न लितराभिर्व्यष्टिभि वाद्वयतत्त्वेन सहात्मैकात्म्यत्रतत्यं जहाति, नापि हातु शक्नोति, अतिमानसचैतन्ये तदैकात्म्यस्य निप्ठत्वात् ।" पुरापि कैश्चिन्महर्षिभिरतिमानसं ज्ञातमिति श्रीअरविन्दो मन्यते । एतेषु महर्षिष्व सौ वेदर्षीन् सविशेषमुदाहरति । ऋचिदित्यपरमतिमानमाभिधानं तेन वेदादेव गृहीतम् । वेदेप्वेतत् 'तुरीय चैतन्य, इत्यपरनामधेयमित्यसौ मन्यते । अतिमानस- चैतन्यस्य तुरीयत्व रवल्ववरोहारोहो मयक्रमाभ्या मङ्गतम् । अवरोहकमापन्नं तुरीयत्वं नामैतस्य सत्-चित्-आनन्दपूर्वकत्वे वोध्यम्, आरोहकमप्राप्तं तुरीयत्व तु जड-जीवन- मनस्तत्त्वपूर्वकत्वे । 'उरु ज्योतिः', 'अभय ज्योतिः,' 'महज्ज्योतिः', परमे व्योमन्' इत्यादिभिर्बहुभिरन्यैऋ पिदैरप्येतदेव निर्दिष्टमित्यसौ निश्चिनोति । उत्तमज्योतिर्मयत्वात्, अनन्तरश्म्युद्गमभूमित्वाच्च ऋग्वेदीय. सूर्योऽपि तन्मतेनातिमानसमेव प्रतीकायते । अपरं त, ऋग्वेदीयपुरुषसूक्त पुरुषस्य ये चत्वारः पादा उल्लिखिताः तेषु यः त्रिभिरसावू- र्ध्वमुदैत् ते खलु सत्-चित्-आन दात्म का भवितुमर्हन्ति, येन तुरीयेन चासौ विष्वगभ- वत् स त्वतिमानस कल्पः प्रतीयते । अथैनेष्वतिमानस चैतन्यावबोधनिदर्शनेषु सत्सु, अनपलाप्यं स्याद् यद् वेदषिभिरतिमानपं चैतन्यमवगाहित मिति । परन्त्वेतादृग्विकीर्णम- केतव्यतिरिक्तम् अतिमानस चैनन्यावबोवस्त्र सुव्यवस्थितं लक्षण वेदेषु नगण्यप्रायमेव । एतस्माज् ज्ञायते यद् वेदर एतच्चैतन्यमवगाह्याप्यधस्तादवतारयितुं न शेकुरिति । अत्रैव श्रीअरविन्दः तेभ्यो विशिष्यते । असो न केवलमतिमानसं चैतन्यमारोह, पर च तद् भूमाववतारयितुमपि शशाक । परवति विचारधारायां काश्मीरशैवदर्शनशास्त्रे यत् सदाशिवतत्त्वस्य स्वरुप निर्दिष्टं तत् खलु श्रीअरविन्दाभिमतातिमानसस्यातिसन्निकृष्ट प्रतीयते । श्रीअभि- नवमुप्तो मन्यते यत् 'प्रकाशस्य यदात्ममात्रविश्रमणम् अनन्योन्मुखस्वात्मप्रकाशता- विश्रान्तिलक्षणो विमर्शः सोऽहमित्युच्यते" तत् शिवतत्त्वम्, यस्तु “अहमिदम्" इति विमर्शः स "सदाशिवनाथ इति ।" अहम्-इदं- तत्त्वसाम्यविशिष्ट एष द्वितीयो तस्मिन्नेव, पृ० १६४५. ७. तस्मिन्नेव, पृ० १३६ . तस्मिन्नेव, पृ० ३१६-२०. १. ऋग्वेदे, १०१३०३. १०. श्रीअरविन्दम्य, लेटर्स ऑन योग, द्वितीये भागे. पृ० १०२. .
अतिमानसम् ३७ विमर्शः "समवृततुलापुटन्याय" इति परिभाषितः । १ एतल्लक्ष ग एष सुतरामतिमानस- कलो मन्तव्यः । पर तु यावत श्रीअरविन्दोऽतिमानसतत्त्वं भूमाववतारणीय मन्यते तावदेते शैवाः सदाशिवतत्त्वं कैश्चिद् विशिष्टैः साधकैरेव प्राप्यं मन्यन्ते, न च कथ- मपि 'इदम्' तत्त्वे सामस्त्येनावतारणीयम् । एतावता ज्ञायते यद् सुदीर्घकालाद् भारतीय- विचारधारायामुद्भावितोऽतिमानसप्रत्ययः श्रीअरविन्ददर्शनशास्त्रे एव यथेष्ट वैशद्य. मवापेति। ११-श्रीअभिनवगुप्तग्य, ईश्वरप्रत्यभिज्ञाविमशि-याम्, ३.१.३.
चतुर्थोऽध्यायः अवरोहप्रक्रिया अस्मिन् युगे भौतिकविज्ञानेन स्थाप्यते जगद् विकासशीलमिति । विकास- क्रमेणात्र जडतत्त्वाच्चैतन्यस्याविर्भावो दृश्यते । जडचेतनतत्वे त्वेतरेतराभ्यामतिमिन्न- प्रकृतिके स्तः। एवं सति, कथ नाम जडतत्वाञ्चेतनतत्त्वमुत्पद्यते ? पूर्वतरं तु सर्वा- तिशयचैतन्यमय ईश्वर एव स्वेच्छ्या निम्पादान जगत् ससर्जेति मन्वानरीश्वरकारण- वादिभिरनायासेनैवैष प्रश्नः समाधित्सितः । इदानी देतस्य मतस्य ग्रहण न कथमपि सुकरम् । कार्यकारणसम्बन्धानुशीलनराहित्याध्ये तन्मतमतर्कसङ्गतं प्रतीयते । एतद्विषयेऽपरं मत भौतिकविज्ञान प्रस्तावितयन्त्रवादपरमस्ति । यथा सहकार्य- शीलानामवयवानां क्रियया किञ्चिद् यन्त्र शक्तिमुत्पादयति, तथैवात्मचालितया प्रकृत्यापि चैतन्यमुत्पादितं स्यादित्युपस्थाप्यते भौतिकविज्ञान विद्भिरनुमन्यते च कश्चिद् दर्शनविद्भिः । परमार्थतस्त्वेतन्मतं मिथ्यासादृश्याश्रय प्रतीयते । स्वावयवाना क्रियया स्वावयवव्यतिरिक्तस्य पदार्थस्योत्पादनं खल्वेतस्य सादृश्यस्याधार भूमिः । तत् यथा यन्त्रस्य परिचलनात् शक्तिरुत्पद्यते तथा जगतः परिचलनाच्चैतन्यमुत्पद्येत नाम । एतस्य सादृश्यस्य मिथ्यात्वं त्वेतद् यदस्मिन् कारणकार्ययोरैक्य विभेदावन व हितौ स्तः । तथा हि, यन्त्रोत्पन्ना शक्तिस्तत्त्वतो यन्त्रद्रव्य भिन्ना न भवति । घनीभूय स्थैय गता शक्तिहि जडपदार्थरूपेण परिणमते। अथ चेत् शक्तिपरिणामोपजातो जडपदार्थः पुनरेव शक्तिमुत्पादयेत् तहि किमाश्चर्यम् ? तत्कृते त्वेतत् नैसर्गिकमेव । चैतन्य तु न कथमपि यन्त्रोत्पन्नशक्तिसदृशम् । किञ्चिदपि यन्त्र कथमपि चैतन्यमुत्पादयितु न क्षमम् । वस्तुतस्तु यन्त्रशक्तिमादृश्यं चैतन्यस्य जडपदार्थजन्यत्वस्थाने जडपदार्थस्य चैतन्यजन्य- स्वमेव लक्षयति । यथा हि शक्तिजन्यत्वादेव यन्त्रनिर्माणविनियुक्तो जडपदार्थः शक्ति- मुत्पादयितु क्षमः, तथा चैतन्यजन्यत्वादेव जगता चैतन्योत्पादकेन भवितव्यम् । ननु जडपदार्थस्यामूलचैतन्यजन्यत्वस्वीकृति विनापि प्रकारान्तरेणैव तज्जन्यत्वं साधयितुं शक्यते । तथा हि प्लेटो इति नाम्ना ग्रीसदेशीयेन दार्शनिकेन जागतिक चैतन्यं व्याख्यातुं प्रतिबिम्बवादोऽवलम्बितः। यथा खलु सूर्यरहितं जलं सूर्यप्रतिबिम्ब- सद्भावात् सूर्य मयमिव प्रतीयते, तथासद्भूतं जगत् सत्तत्त्वप्रतिबिम्बं गृहीत्वा सन्मयं चिन्मयं च भवति । नन्वेष प्रतिबिम्बवादो जगन्मिथ्यात्वप्रतिपादनपरत्वादग्राह्यः ।
अवरोहप्रक्रिया ३ एषैवापत्तिः श्रीशङ्कराचार्यप्रतिपादितमद्वैतवादमप्यधिकृत्योपस्थापयितुं शक्यते । एना- मेवापत्ति परिवर्जयितुम् अरिस्टाटिल इति नाम्ना अपरेण ग्रीसदेशीयेन दार्शनिकेनाधः- स्थितजडतत्त्वस्योपरिस्थितेश्वराभिमुखमाकृष्टत्वात् तद्गुणानामात्मसात्करणाच्च जगतश्चैतन्यमयत्वमुपजायते इति प्रतिपादितम् । एतन्मतमपि मूलतत्त्वविभाजनपरत्वाद- ग्राह्यम् । एषैवापत्तिः सांख्यमतस्याप्यग्राह्यत्व दर्शयति । अपरं च, कैश्चिद् भौतिक- विज्ञानविद्भिर्वर्तमानशताब्द्याः प्रथमे चरणे पृथिवीस्थं जीवनतत्त्वमधिकृत्य परिकल्पितं यदेतस्यां जीवनोत्पादकतत्त्वस्यातिन्यूनत्वादेतद् ग्रहान्तरागतं स्यादिति । ग्रहान्तरागमन- काले एतत् तत्त्वं कथ खलु विनाशकेभ्यः किरणेभ्योऽभिरक्षितमित्येना समस्या समाधातु केचिद् विज्ञानविदोऽद्यापि प्रयत्नशीलाः सन्ति । ननु कथञ्चिदपि रक्ष्यमाण जीवनतत्त्व ग्रहान्तरागतं भवेत्, प्रश्नस्त्वेष यत् तस्मिन्नेव ग्रहे तत् तत्त्व कुतः समागत कथ वोत्पन्न मिति । एतस्मिस्तत्त्वे तस्मादेव ग्रहादुत्पद्यमाने सति पुनरेव प्रष्टु शक्यते कथं नाम तत्रैव जडतत्त्वाज्जीवनतत्त्वमुत्पन्न मिति । ग्रहान्तरागमनवादे स्वीकृते सति तु प्रश्नो जायते कस्माद् ग्रहान्तरात् तत् तत्रागतमिति । जीवनतत्त्व खलु चैतन्याश्रयभूमिः । अर्थतस्य तत्त्वस्य संक्रमणमुत्पत्तिश्च चैतन्यस्य सक्रमणमुत्पत्ति च लक्षयत: ।' अनेन विवेचनेन स्पष्टं भवति यत् चैतन्योत्पत्तिविषयको ग्रहान्तरागमनवादोऽपि तथैवासङ्गतो यथेतरे वादाः । क्वचिदपि स्थितं जडतत्त्व चैतन्यस्यात्यन्तिकं कारण भवितु न शक्नोति । अथ चेत् चैतन्य जडतत्त्वादुत्पद्यमान दृश्यते ना तेन तस्मिन् पूर्वसन्निविष्टेन भवितव्यम् । यद्धि यत्र नास्ति तत् तत आविर्भवितु न शक्नोति । अथ चेदेवं मन्येत यत् जडचेतनतत्त्वे परमार्थतोऽन्योन्यस्वतन्त्रे इति तदपि न ग्राह्यम्, द्वैतापत्तिप्रसङ्गात् । आत्यन्तिकस्य तत्त्वस्य द्वित्व ह्यज्ञानप्रसूतं स्यात्, न तु पारमार्थिकम् । अथ चेत् जडतत्त्वादेव चैतन्यस्यात्यन्तिकीमुत्पत्ति स्वीकुर्यात्, ताकतो यन्त्रसिद्धान्तः परिबाधितो भवेत्, अपरतश्च कारणकार्य सम्वन्धवादः । यन्त्र- सिद्धान्तस्तु प्रागेव निराकृतः । कारणकार्यसम्बन्धानुसारं तु यः पदार्थो यस्मात्पदार्था- दुत्पन्नो भवति असौ तत्पदार्थव्याप्योऽपि भवति । तथा हि, अब्जाता भूमिरव्याप्या भवति; तेजोजाता आपो तेजोव्याच्या भवन्ति; वायुजातं तेजो वायुव्याप्यं भवति; आकाश- जातो वायुराकाशव्याप्यो भवति । अन्यथा तु न भवति । एवं सति, जडतत्त्वं जीवन- तत्त्वव्याप्यत्वात् तदुत्पन्न स्यात्, जडजीवनतत्त्वे च चैतन्यव्याप्यत्वात् तदुत्पन्ने स्याताम् । ननु श्रीअरविन्दमतानुसारं सच्चिदानन्दस्वरूपं चैतन्यं किमर्थ कथं च जडतत्त्व- रूपेण परिणमते ? अत्र स्मरणीयं स्याद् यत् स्थितिगतितत्तद्वयातिक्रान्तत्वात् सच्चिदानन्द . - १. दि लाइफ डिवाइन, पृ०२२१.
श्रीअरविन्ददर्शनम् ३ उभयात्मक इति । अथ यावत् स्थितितत्त्वात्मकत्वादसौ सदानन्दस्वरूपः, तावद् गति- तत्त्वात्मकत्वात् परिणामानन्दोन्मुखः। तस्य परिणामानन्दो मुखत्वमेव सृप्टेः कारणम् । पर त्वेवं सत्यप्यसौ किमर्थमेताहगेव जगत् सृजति, नान्यप्रकारकम् ? अत्र श्रीअरविन्दः स्थापयति यत् सच्चिदानन्दस्यानन्त्यात् तदीयाभिव्यक्तिरप्यनन्तरूपाणि धारयितु शक्नोति । तत्कृते नानिवार्य यदसौ जडत्वमवरुह्य वात्मानं प्रकाशयेत् । असौ त्वेतद्विपरीतक्रममपि जगत् स्रष्टुमर्हति यस्मिन् तदीयमेकत्व चिन्मयत्वमानन्दमयत्व चाव्यवहितभावेनाभि- व्यञ्जितानि स्युः, यस्मिश्चित्शक्तिः स्वेनैव रूपेण क्रियाशीला स्यात्, न तु स्यात्, न तु जडशक्ति- रूपेण जीवनशक्तिरूपेण वा, यस्मिश्चातिमानसमारम्भत एव प्राधान्यं लभेत । २ दृश्यमानजगद्व्यतिरिक्तमेतादृगपि जगद् वस्तुतो विद्यते यस्मिन् सच्चिदानन्द आत्मानमव्यवहितरूपेणाविर्भावयति, यस्मिन् पदार्थजात ज्ञानमयं पूर्ण स्थित्यात्मक च भवति, यस्मिंश्चामिश्रित आनन्दोऽनुभूयते । वेदोपनिपत्स्वप्येतादृशो लोको बहुश उल्लिखितः। परं त्वेतादृशो लोक' सच्चिदानन्दस्यात्माभिव्यक्त्याकाडक्षा परिणामा- नन्दानुबुभूषां च सम्यक् पूरयितु न क्षमः । तस्यात्माभिव्यक्तिहि तदैव पूर्णत्वं गन्ता यदा गतितत्त्वं तद्विधं प्राधान्यं लभेत यद्विधं प्राधान्यमुच्चतरे लोके स्थितितत्त्वाय सुलभम्, तत्परिणामानन्दश्च तदैव चरमोत्कर्ष प्राप्तुयात् यदा सदानन्दः शून्यप्राय इव प्रतीयेत । एतन्निमित्तममौ स्वम् आनन्द निगनन्दत्वेन, चित जडत्वेन, सत चासत्त्वेन परिणयति । एनं विपर्यासं त्वभावात्मस्वरूपतिरोधानेनाभिगन्तुमर्हति । अथ यथा केनचित् समाध्यभिमुखन' योगिना स्वानीन्द्रियाणि मनसि निलीयन्ते, मनो बुद्धौ, बुद्धिश्चैतन्ये, चैतन्यमात्मनि, आत्मा चानात्मनि, तथैवावरोहाभिमुखेन सच्चिदानन्देन स्वीय आनन्दश्चिति बिलीयते, चित सति, सत चासति ।४ एव विलीयमानः सच्चिदानन्दः तादृशीमवस्थामवरोहति यस्यां तत्त्वजातमभावात्मकमिव प्रतीयते। तत्र चिदानन्दयोः, अपितु पतोऽपि लोपः प्रतिभाति । श्रीअरविन्दस्तु मन्यते यदेपावस्था ऋग्वेदीये नासदीये सूक्त सम्यग्विवृता वर्तते। एष सूक्तः सृष्टिपूर्वामवस्था सदसद्वि- लक्षणाम्, देशकालाभ्यामपरिच्छिन्नाम्, अज्ञानात्मिकाम्, निगुढाद्वैततत्त्वां च व्याचप्टे । एतस्याः तिरोहितनिखिलतत्त्वाया अवस्थाया जगत उत्पद्यमानत्वान्न कथञ्चिदनुमेयं - - न केवल 1 ર तस्मिन्नेव, पृ० १३७.८. ३. तस्मिन्नेव पृ० ८१२ ४. तस्मिन्मेव पृ० १३१-२. ५. ऋग्वेदे, १०११२६११-३.
अवरोहप्रक्रिया ४१ वा यदेषा परमार्थतोऽभावात्मिकेति । एतस्याः पारमार्थिकेऽभावात्मकत्वे तु जगत उत्पत्तिरेव न सम्भाव्येत । न हि कथञ्चिदमत: सदुत्पत्त मर्हति । सच्चिदानन्दस्यप व्यापारः प्रलयात्मकः प्रतीयमानोऽपि न कथमपि निरुद्देश्यो मन्तव्यः। न हि चिन्मयः सन्नसौ जडवदज्ञानिवद् वा निरुद्देश्य प्रवर्तितुमर्हति । तदीय आत्मतिरोभावस्त्वात्माभिव्यक्तिनिमित्तक इति बोद्धव्यम् । आत्माभिव्यक्तिनिमित्त तावदात्मलयो निसर्गापेक्ष्यः । एतादृशं सर्जनात्मकमात्मलयं श्रीअरविन्दः 'तप' इति पदेनाभिधत्ते । ब्राह्मणग्रन्थेष्वपि सिसृक्षो. प्रजापतेरात्मलयलक्षण तपश्चर्यते । सिसृक्षवः कवयः कलाकाराश्चापि सर्जनस्य प्रागात्मलीना भवन्ति । अथ यथा कश्चित् कविः कलाकारो वा आत्माभिव्यक्त्यै आत्मलीनो भवति, तथैव सच्चिदानन्दोऽप्यात्माभि- व्यक्तिनिमित्तमेवैतद्विध स्वरूपविपर्यास व्रजति । यथात्माभिव्यक्तिनिमित्तमात्मलीनस्य कवेः कलाकारस्य किञ्चिदपहीयते, तथैव सृष्ट्यर्थमात्म निविष्टस्य सच्चिदानन्दस्याप्येतेन व्यापारेण कश्चिदपक्षयो न भवति । यथा चात्मलीन: कविः कलाकारो वैतद्व्यापारपूर्वकमात्मनिहितान् भावान्नुद्घाट्यति, तथैवावरूढः सच्चिदानन्दोऽवरोहव्यापारपूर्वकमात्मनिष्ठा सम्भावना जगद्रूपेणाविर्भावयति । एषोऽवरोहव्यापारो नास्ति कादाचित्कः । सच्चिदानन्दस्तावदेकस्मिन् काले आत्मानं विस्माधिस्तादवक्षिपति, कालान्तरे च शनैश्शनैरुत्थापयतीति खलु नानु- मेयम् । तथा सति, अवरोहकाले आरोहव्यापारस्य परमार्थतत्त्वस्य चाभावः प्रसज्येत; आरोहकाले अवरोहव्यापारस्य परमार्थतत्त्वस्य च; परमार्थस्थितौ चावरोहारोहा- त्मकस्य जगतः । केचिद् वेदान्तिनस्त्वेवमेव मन्यन्ते । तथा हि, श्रीरामानुजाचार्यः कारणकार्यविभेदेन ब्रह्मणो द्विरूपत्वं प्रतिपादयति । तन्मतेन "सर्वात्मभूतं पर ब्रह्म कदाचिद् विभक्तनामरूपम्, कदाचिच्चाविभक्तनामरूपम् ; यदा विभक्तनामरूपम्, तदा तदेव बहुत्वेन कार्यत्वेन चोच्यते; यदा चाविभक्तनामरूपम्, तदा एकमद्वितीयं कारण- मिति ।'७ ब्रह्मणः कारणावस्थायाः कार्यावस्थायां विपरिणामममा परिणामममौ जीवकृतकर्म- फलभोगानिमित्तक मन्यते । ब्रह्म खलु जीवकृतकर्मफलभोगार्थजगत्सृजति, भोग- निवृत्तौ त्वेतत् स वृणोतीति तस्य सिद्धान्तः । तन्मतेन नासदीय यसूक्तगत "तम आसीत् तमसा गूढमने" इत्येतद् वाक्य तु प्रलयकालबोधकम् । अपरं चासावेतत्स्- क्तगतं 'सत्' इति पदं चिद्बोधकम्, 'असत्' इति च पदमचिद्बोधकं मन्यते । ६. श्रीमाध्ये, १२.१. ७. तारम-नेत, रा. तस्मिा नेवा ४२ श्रीअरविन्द श्रीअरविन्दस्तु 'सत्', 'असत्', 'तम'श्चेत्येतानि त्रीण्यपि पदानि न खलु जगतो विलया- वस्थाया वाचकानि प्रत्युत सच्चिदानन्दावरोहोपजातसृष्टिभूमिकाया वोधकानीति निश्चिनोति । एतस्मान्मतभेदाद् यावत् श्रीरामानुजाचार्यः प्रलयपरं मत प्रतिपादयति तावत् श्रीअरविन्दोऽवरोहपरम् । यावत् प्रलयो जागतिकविलयस्य बोधक' तावदवरोहः सच्चिदानन्दीय-सिसृक्षाया: । नासदीयमूक्तस्य प्रामुख्येन संसारोत्पत्तिविपयकत्वात्, श्रीअरविन्दप्रस्तावितं व्याख्यान सुष्टुतर प्रतीयते । एवं सति, कादाचित्कसृष्टिप्रलयवादः श्रु तिप्रामाण्य भावादनवकाशो भवति । अपरं च, कादाचित्कसृष्टिप्रलयवादे मते सति, ब्रह्मणः कालावच्छिन्नता आपतति । कालावच्छिन्न सदेव तत् कदाचित् स्रष्टुं कदाचिच्च सृष्टि विलोपयितुमर्हति । ब्रह्म तु कालानवाच्छिन्नमिति श्रुतिः । अथ तद्व्यापारजातस्य कालावच्छिन्नता नानिवार्या । कालानवच्छिन्नत्वाच्च तत् कालेऽप्यात्मानमभिव्यञ्ज- यितुमर्हति, अतिकालमपि । कालातीतत्वात् तु सृष्टिप्रवृत्तिः कालेनोच्छेत्तन शक्यते । अनेन प्रकारेण श्रु तितर्काभ्यामवरोहव्यापारस्य कादाचित्कत्वमपनुद्यते । सच्चिदानन्दीय- चित्शक्त रानन्त्यादेष व्यापारोऽप्यनन्तो निरन्तर : शाश्वतश्च मन्तव्यः । शिवतत्त्वात् सांसारोत्पत्तिनिरूपणक्रमेण काश्मीरैः शैवैरप्यवरोहव्यापारो- ऽवलम्बितः । तेषां मतेन शिवस्तावत् स्वतन्त्रः, चिन्मात्रः, पूण: निराकाङ्क्षश्च । एता- दृशोऽसौ बहिरुल्लसितुमिच्छन् यदा सर्वनिरपेक्षो भूत्वा अहमिति परामृगति तदा 'परमशिव' इत्युच्यते । तदीय एष परामर्शो वहिरुल्लसन् 'अहमिदमि' त्येतेन भावेन प्रस्फुटति । एतदवस्थं शिवतत्त्वं 'सदाशिव' इत्युच्यते । एतदनन्तरम् 'इदमहमि' ति- परामर्शो जायते । एतदवस्थं शिवतत्त्वम् 'ईश्वर' इत्यभिधीयते । एतेभ्यः शैवेभ्योऽपि पूर्वतर 'तत् सृष्ट्वा तदेवानुप्राविशत्' इत्यादिष्वौपनिषदवाक्येषु सृष्टिव्याख्यानक्रमेणा वरोहव्यापार उपाश्रित: । एतान्येव वाक्यान्याश्रित्य कैश्चिद्वेदान्ताचार्यैर प्यवरोह- व्यापारस्याभासो लब्धः। परं तु यावदेतैराचार्यैरव रोहारोहशीलयोस्तत्त्वयोः रज्जुसर्प- सूर्यरश्मि-आत्मशरीरप्रभृत्युदाहरणमुखेन द्वैताद्वैतनिर्धारणे एव प्रामुख्येन पर्यवसित, यावच्च शैवैरहमिदं प्रत्यययोरन्योन्यसम्बन्धमुखेनैषा प्रक्रिया किमप्युद्भाविता उपपादित च, तावत् श्रीअरविन्देन योगानुभूतिमाश्रित्य इतरदर्शनसिद्धान्तपरामर्शपूर्वकम्, सोपपत्तिकं चैषा सम्यकप्रकारेण सिद्धान्तकोटिमानीता। है. श्रीअभिनवगुप्तस्य, ईश्वर प्रत्यभिज्ञाविमशिन्याम्, पृ०१.२.
पञ्चमोऽध्यायः आरोहप्रक्रिया -- - अवरोहव्यापारे परां काष्ठां गते सति आरोहः प्रारभते । अवरोहपराकाष्ठा खलु निरानन्दलक्षणा, अचिन्मयी, असद्भूता च प्रतीयते । परमार्थतस्तु सच्चिदानन्दात्म- कत्वात् तयाप्यानन्दात्मिकया, चिन्मय्या, सद्भुतया च भवितव्यम् । अथावरोहस्या- रोहनिमित्तत्वात्, आत्मलीनमपि सत्-चिन्-आनन्दजातमिदानीमुन्मुख भवति। एतस्मिन्नुन्मुखीभावे त्वतिमानसं नेतृत्वेनोपकरोति चित्शक्तिश्च वाहकत्वेन । अन्तर्हित. मतिमानस हि सुषुप्तप्रायं तत्त्वजात स्वरूपोपलब्ध्यर्थमुद्बोधयति । अथ निगूढा चित्शक्ति- रुद्रुध्य सच्चिदानन्दं भाविविकासपथे उन्नेतुं यतते । चित्शक्तेरेष प्रयासः प्रथमं तावद् देशकालाकारत्वेन परिणमते। एतौ ह्यतच्छकते रात्माभिव्यक्त्या कारभूतौ, न तु स्वतन्त्रौ, आरोहारम्भपूर्वमेतयोरभावात्; नैव जडपदार्थतन्त्री, तदुद्भवप्रागप्येतयोः सद्भावात् । अनेन प्रकारेणारोहोन्मुखमवरूढं तत्त्व देशकालमात्राकारितं सन् निविशेषायामत्वेनाविर्भवति । एप आयामः किल वेदेष्ववरसमुद्ररूपेणोल्लिखित इति श्रीअरविन्दो मन्यते । एप च प्रामुख्येन सच्चिदानन्दान्तर्गतस्य सत्तत्त्वस्य विशिष्टाभि- व्यक्तिः । देशकालयोरत्रान्योन्याभ्यामविविक्तत्वादेष आयामोऽविच्छिन्नाकारो भवति । अथ यथा समुद्रामिजालमुद्गच्छति, तथैवैतस्मादायामाद् विकासक्रमेण शक्तिरुपजायते । चित्तत्त्वस्य सम्प्रत्ययनाभिव्यक्तत्वादेषा शक्तिस्तु जडत्वलक्षणा भवति । अथैकत्वानेकत्व- मध्यस्थमतिमानसं सच्चिदानन्देप्सितमनेकत्वमाविष्कर्तुमोनं जडशक्तिविस्तारं विच्छेदो- न्मुखं करोति । परिणामत एकरूपा जडशक्तिरनेकरूपानसंख्यान् परमाणून्नुत्पादयति । जडशक्तिजातोऽपि परमाणुः, तत्त्वतः सच्चिदानन्दमयत्वात्, कालक्रमेण स्वान्तस्तलाज्जीवनतत्त्वमुपजनयति । जडतत्त्वं तु सच्चिदानन्दान्तर्गतस्य सत्तत्त्वस्य प्रतिरूपम् जीवनतत्त्वं च तदीयचित्तत्त्वस्य प्रतिरूपम् । पुनश्च, कालान्तरे तस्मादेव जीवनतत्त्वात् चैत्यपुरुषाख्यं तत्त्वमुपजायते । चेत् परमाणवो जडतत्त्वमुपनिबध्नन्ति, वनस्पतयश्च जीवनतत्त्वम्, तमु वरप्राणिवर्गश्चैत्यपुरुषतत्त्वम् । चैत्यपुरुषतत्त्वं नाम सच्चिदानन्दान्तर्गतस्यानन्दतत्त्वस्य प्रतिरूपम् । अथ ज्ञायते यदारोहकमोऽवरोहक्रम प्रतिलोम इति । अवरोहकमे ह्यानन्दतत्त्वं तावत् सर्वप्रथमं तीयते तदनतरं चित्तत्त्वम् ४४ श्रीअरविन्ददर्शनम् अथ च सत्तत्त्वम् । आरोहकमे तु सत्तत्त्वं सर्वप्रथममाविर्भवति जडतत्त्वरूपेण, तदनन्तरं चित्तत्त्व जीवनतत्त्वरूपेण, अथानन्दतत्त्वं चैत्यपुरुपतत्त्वरूपेण । आरोहक्रमश्च चैत्यपुरुषतत्त्वानन्तर मनस्तत्त्वमुत्पादयति । यावच्चैत्यपुरुपतत्त्वमवरप्राणिवर्गेणोप- निबध्यते तावन्मनस्तत्त्वमुच्चप्राणिवर्गेण । मानवश्च मनस्तत्त्वस्य चरमाधिष्ठान- भूमिः । मनस्तत्त्वं त्वतिमानमतत्त्वप्रतिरूप मतम् । ननु सत्-चित्-आनन्दतिमानसेति पारमाथिके तत्त्वचतुष्टये जड-जीवन-चैत्यपुरुष- मनस् इति जागतिकतत्त्वचतुष्टयरूपेणाविर्भूते सत्येवारोहव्यापारः स्वीयं चरमं लक्ष्य स्पृशतीति कि न मन्यते ? वस्तुतस्तु मनो नाम विकासप्रक्रियायाश्चरम चरणमितीदानी विदुपां सामान्यं मतम् । अथ सर्वप्रकारेण मन एव परिपोषणीयं संवर्धनीय च; एतेनैव जन आत्यन्तिक हित साधपितु क्षम इति तेपा निर्णय । मनो नाम विकासस्य चरम चरण भवितु नाहंतीति तु श्रीअरविन्दः स्थापयति तन्मतेनैतत्त, केनचिच्चरणान्तरेण तथैवातिक्रमणीय यथा पुरा जडतत्त्वं जीवनतत्त्वेना- तिक्रान्तम्, जीवनतत्त्वं च मनस्तत्त्वेन । यथा कति ग्यलक्षवर्षपूर्व केनचिदपि पशुना नावगत यदस्यां पृथिव्यां मानवमदृशो विज्ञानविदुत्पत्स्यते इति तथैवेदानी सामान्यतः कोऽपि न प्रत्येति यदतः परं मनसोऽप्युन्नततरं तत्त्वान्तरमाविर्भवितेति । चेत् कतिपय- लक्षवर्षेष्वेवैतस्यां पृथिव्यां जडतत्त्वाउजीवनतत्त्वमुद्भूतं जीवनतत्त्वाच्च मनस्तत्त्वम्, तहि किमाश्चर्य यद्यागामिकाले मनसोऽप्युन्नततराणि तत्त्वान्याविर्भवेयुः । ज्योतिप- भूगर्भशास्त्र-जीवविज्ञान-नरविज्ञानेतिहासप्रभृतिशास्त्राणा परामर्शन ज्ञायते यज्जगद् विकासशीलमिति । विकासक्रमेण यथा साम्प्रतं नवनवतत्त्वानामुन्मेपः संजातः, तथैवानः परमपि स्यादिति तु निश्चितप्रायम् । एव सति, इदानी तु प्रश्न एतावन्मात्र एव यदागामिनी विकाससरणिः कीदृशी भवितेति । एतस्मिन् भाविविकाससरणिनिर्धारण व्यापारे मनसः स्वरूपपरीक्षा किमायबोध जनयितुमर्हति । मनस्तावन्न कविधम् । एतत्त्वनेक सोपानकम् । एतस्याघस्तनं सोपानं तु जडतत्त्वप्रधानं मध्यम सोपानं जीवनतत्त्वप्रधानम्, उपरितनं सोपान मानसतत्त्वप्रधानम् ननु केचिन्म यन्ते यदेते मनोविभागा युगपदुत्पन्ना इति । श्रीअरविन्दमतेन त्वेते खलु विकासानुक्रमोपजाताः ।' तथा सति, निष्कर्षोऽयं जायते यन्मनोऽपि विकासशीलमिति । एष विकासक्रमस्तु जडतत्त्वाज्जीवनतत्त्वोन्मुखः, जीवनतत्त्वाच्च मानसतत्त्वोन्मुखः स्यात्, तथैव प्राकृतविकास- क्रमप्रवृत्त: । नन्विन्द्रियाश्रितावाद् भौतिक मनो बहिर्मुखं भवति । जीवनतत्त्वप्रधान मन अंशतो बहिर्मुखमंशतश्चान्तर्मुखं भवति । मानसतत्त्वप्रधानं मनस्तु प्राधान्येनान्तर्मुन्वं १. दि लाइफ डिवाइन, पृ. ८५४-६. मन्यते, - आरोहप्रक्रिया ४५ भवति । मनसोऽन्तर्मुखता नाम जडचैतन्याभिमुखी प्रवृत्तिः । अतएव भाविविकासाशा तावद् अन्तर्मुखी, चैतन्याभिमुखी च भविता । नन्वेपाऽन्तर्मुखत्वलक्षणा चैतन्याभिमुखता मनस्सोपानादूर्ध्वमुत्थाय क्व गन्तेत्येतस्मिन् विपये श्रीअरविन्द: स्वां योगानुभूति निर्धारकत्वेनोपयोजयति । मामान्यजनसुलभमानससोपानातिक्रमणपूर्वकम सौ यान्यध्यात्म- सोपानान्यारोहति तान्युच्चतरमनः, प्रकाशमानमनः, अन्तर्ज्ञानम्, अधिमानसम्, अति- मानसमित्यनुक्रमेणाभिधत्ते । सामान्यजनसुलभ मनस्त्वज्ञानानुलिप्त भवति । एतस्मिन् खल्वज्ञानान्धकारा- दनुसन्धायानुसन्धाय ज्ञानलवा उपलभ्यन्ते, आलोचनप्रत्यालोचनाभ्या परीक्ष्य परीक्ष्य च परस्परं संश्लिष्यन्ते । अत्र ज्ञान तावदानुक्रमिकप्रत्ययन विधिलभ्यं भवति । उच्चतरं मनस्त्वज्ञानादुन्मिष्य ज्ञानाभिमुखं प्रवर्तते । अत्र ज्ञानं स्वयप्रकाशं प्रत्यक्षं च भवति । २ उच्चतरमनोऽतिक्रमणपूर्वकं तु प्रकाशमानमन उपलभ्यते । एतत् खल्वध्मात्मप्रकाशलक्षण मतम् । उच्चतरमनो नाम ज्ञानात्मकं सन्नपि प्रत्ययात्मक भवति । प्रकाशमानमनस्त्वति- प्रत्ययनविधिमुपयुङ्क्ते । एतावता पुनर्नानुमेयं यत् प्रकाशमानमनःस्संस्थितो जनश्चिन्तन- शून्यो भवतीति । चिन्तनं त्वत्रापि प्रचलति, किन्तु केवलमनुपङ्गण ।' प्रकाशमानमनस उपरिष्टादन्तर्ज्ञानाभिधमध्यात्मसोपानमुपलभ्यते । एतत तु निगूढतादात्म्यचैतन्यादकस्मादुत्थित ज्ञानम् । एतादृशं ज्ञानं तावद् विषय- विषयिचैतन्यसंयोग-निविषयात्मान्तर्दर्शन-परमतत्त्वसाक्षात्कारजन्यत्वात् त्रिविधम् एतेषु तादात्म्यावसरे वेतन स्फुलिङ्गवत सहसोज्ज्वलति ।४ संस्पर्शात्मकप्रत्यक्ष- जन्यत्वादेतत् चाक्षुपप्रत्यक्ष-प्रत्ययनाभ्या गहनतरं भवति । अतएवैतन्महद्- विप्रतिपत्तिविषय प्रतीयते । मनस्यवतीर्य त्वैतदनपेक्षितैस्तत्त्वैः सह व्यामिश्रीभूया- नेकविध रूपं धारयति। एतस्मात्कारणादस्य स्वरूपनिर्धारणं दुष्कर भवति । केचिद् धर्मप्रवत कास्त, व्यामिश्रितमन्त नमवलम्ब्य वैचारिकी ज्ञानपद्धति साकल्येन तिरस्कुर्वन्ति । निम्नकोटिकमनोगृहीतत्वादेतादृशमन्तर्ज्ञानं प्रायशो भ्रमोत्पादकं भवति । वैचारिकपरीक्षगविरहादेतत् क्रियान्वित भूत्वा जनाना कष्टायैव भवति । तदेन्तिान विश्वसनीयं क्रियायामन्वेयं च यत् खलु सविचारावधानं प्रकाशमानमनसि, उच्चतरमनसि चावतार्यते । २. तस्मिन्नेव, पृ०१२१६. ३. तस्मिन्नेव, पृ० ११२४. ४. तस्मिन्नेव, पृ०११२६.
४६ श्रीअरविन्ददर्शनम् अन्तनिस्याधिष्ठानादुपरिष्टात् त्वधिमानसनाम्नी अध्यात्मभूमिविद्यते । अन्त- निपर्यन्तमारोहण तावद् वैयक्तिक भवति । अधिमानसं प्राप्य त्वैतद् वैश्वरूपत्ववजति । अहंकारविलय', वैश्वचैतन्यविकासश्चैतत्प्रवेशसाधनम् । एतत् खल्वन्तान-प्रकाशमान- मन-उच्चतरननःस्थिनं निखिलं ज्ञानांश सपृह्योत्थापयति । अत्रागत्य सर्वा अप्यध्यात्म- सम्भावना यथार्थ्यं व्रज नि ।६ अधिमान नाम व्यष्टिसमष्टिमध्यगतः सेतुः । अज्ञान- मयमृष्ट्यपरार्धस्थिताना प्राणिना कृते ज्ञ न मयप रार्धद्वारोद्घाटनम्, तत्प्रवेशमामर्थ्य प्रदान चैतस्य कार्यम् । अधिमानसस्योपरिण्टादतिमानमनाम्नी भूमिविद्यते । अत्र तु ज्ञाता- ज्ञान-ज्ञेयानामभेदो जायते, व्यष्टिममष्ट्योरे कत्वानेकत्वयोः सच्चितोश्च निखिलो भेदो विलीयते । अथ मामान्यमनःपर्यन्तमुद्गत आरोहव्यापारोऽत परमनुक्रमेणैतास्वध्यात्मावस्था- सून्नेष्यते तदनुरूपां परिणति च लप्स्यते इति श्रीअरविन्दो मन्यते । नन्वत्र विप्रतिपत्ति- र्जायेत कथं नाम चैतन्यविषयक एप उत्कर्षोऽस्तित्वलक्षणस्यारोहव्यापारस्य पूर्वरूपमु- पस्थापयितुमविक्रियेतेति । एनां विप्रतिपत्ति श्रीअरविन्द एवं समाधत्ते । जगन्मूल- कारणभूते सच्चिदानन्दे सच्चितोरभेदात्, जगत्यप्येतयोस्तात्विकोऽभेद: स्यात् । कापि भेदप्रतीतिः सा त्वज्ञानजन्मा । अवरोहोन्मुखः सच्चिदान दस्तावत् सच्चितौ तिरोदधाति । आरोहोन्मुखस्त्वसौ सर्वप्रथम सत्तामाविर्भावयति ततश्चैतन्यम् । मनमि तु तादात्म्यबोधाभावादेते अन्योन्यविरोधशीले प्रतीयते । एषा विरोधप्रतीतिर्मनमि प्रबलतमा । अधिमानसचैतन्य भूमिकासु तु यथा यथाऽज्ञानजवनिकाऽपमार्यते तथा तथाऽन्योन्यपृथगिव प्रतीयमाने सत्ता-चैतन्ये अन्योन्यमुपसरतः । एषाऽन्योन्याभिमुखगमन- प्रक्रिया तावदतिमानसतत्त्वे परिणति प्राप्य पुनरेवैतयोस्तादात्म्यं सस्थापयति । तादात्म्य- प्रक्रियाया आनुक्रमिकत्वात्, निम्नास्वप्यतिमानमचैतन्यभूमिकासु यत्किञ्चिदनुभूयते तेनापि सत्तात्मकेन भवितव्यम् । भेदस्त्वेतन्मात्र एव स्पाद् यदेतास्ववरासु भूमिकास्व- नुभूतं चैतन्यमंशत एव सत्तात्मकं भवितुमर्हति । अपरं च, ज्ञानप्राचुर्यात्, एतद्गता अनुभूतयो मानमानुभूतिवद् भ्रम त्मिका भवितुं नाहन्ति । मनसि त्वज्ञानप्राचुर्यात्, तत्प्रतीत पदार्थजातं सत्तात्मकं भवितुं न शक्नोति । न खल्वस्मदीया भावनाः, कल्पनाः, विचाराः, स्वप्ना वा सर्वथा सत्तयाऽनुयुज्यन्ते । ऐतेप्वपि कश्चित् सद्-अंशो भवतीति त्वनपलाप्यम् । संकल्पविकल्पविवेकप्रभृतिभिर्मानमव्यापारैरेप एव सद्-अंशोऽन्विष्यते विविच्यते च । किं तु मानसचैतन्यगतः सद्-अंशस्तथैव यथा तममाच्छिन्नः कश्चित् ५. तस्मिन्नेव, पृ० ११३०. ६. तस्मिन्नेव, पृ० ११३०. . , आरोहप्रक्रिया ४७ स्पृहणीयः पदार्थ । उच्चतरमन.प्रभृतिपु उच्चतरमन.प्रभृतिषु चैतन्यभूमिषु तु शनैः शनैः प्रकाशेन तमसो- ऽपसृतत्वात्, सत्यान्वेषणमल्पतरयत्नसाध्यं भवति । अतिमानसचैतन्ये तु तमसो निश्शेषेणोन्मूलितत्वात् प्रकाशमात्रस्य चावशिष्टत्वात्, पदार्थोऽपि चैतन्यपरिणामविशेष इत्र ज्ञायते । मनोऽतिक्रमणपूर्वकमुच्चतरचैतन्यसोपानेष्वारोहणाद् आगामिविकाससम्भावनाव- बोचे जाते सति सम्प्रति विचारणीयं भवति कथं खल्वेष विकासक्रमो याथार्य गमि- ष्यतीति । एतस्मिन् प्रसङ्ग तावत् प्राक्तनैर्मनीषिभिनिदिष्टस्योपायस्य परामर्श उपादेयः स्यात् । योगिभिर्वेदान्तिभिश्च प्रायेण वैयक्तिको विकासो निर्दिष्टः । तथा हि, ये साधका अतिमानसीषु चैतन्यभू मिष्वारोक्ष्यन्ति ते व्यक्तिशः परमतावस्यैकत्वे स्थास्यन्ति यावद- वशिष्ट जगत् सृष्टि कालावसाने प्रलयगर्भनिलीनं भूत्वा प्रलयकालावसाने पुनराविर्भ- विष्यतीति तेषा मतम् । एतन्मतं तावदधोनिर्दिष्टासु तिसृषु प्राक्कल्पनास्वाधृतं प्रतीयते । (१) ज्ञानिनोऽज्ञानिनश्चैक त्रैवावस्थातु न शक्नुवन्ति । (२) प्रकृति वश्चान्योन्यविविक्तौ स्तः । (३) केवलं चैतन्यमेत्र विकासमुपगन्तुमर्हति, न चावशिष्ट जगत् । अत्र'नुक्तमेव स्पष्टं भवति यदेताः प्राक्कल्पना जगदैक्यमुच्छिन्दन्तीति । श्रीअरविन्दप्रदर्शिते मार्गे त्वेष उच्छेदः परिहियते । काचिद् व्याष्टिर्नाम मनोऽतिक्रमणपूर्वकमतिमानसपर्यन्तमा- रोढु शक्नोतीति तावदसावपि मन्यते । परं त्वेतादृशमारोहणम त्वपूर्णमिति तन्मतिः । जगद्धि नास्ति कथमप्यसम्बद्धानां पदार्थानां सङ्घटनभूमिः । अत्रत्यः प्रत्येक पदार्थ इतरैः सर्वैरपि पदार्थैः सह यथाकथञ्चित् सम्बद्धो विद्यते । अत्रत्या जीवा जडतत्त्वादुत्पद्यन्ते, जडतत्त्वं शक्त रुत्पद्यते, शक्तिश्चास्ति चिन्मयी । चित्तत्त्वस्या तस्वरूपत्वात्, जडतत्त्वं चेतनतत्त्वेन सहाविनाभावेन सम्बद्धं स्यात्, प्रत्येक जीवश्चेतरैः सर्वैरपि जीवैः । अथ कश्चिज्जीव एकाकी नुव अस्माज्ज जगतो निर्गन्तु न शक्नोति । तन्निर्गतिस्तु निखिलेन जगतैव सह सम्भाव्यते । नन्वेवं सति, मोक्षावस्थामारूढो जीवः किं करिष्यति ? श्रीअरविन्दमतेन विकासक्रमोपजाता भूमिस्तावत् पूर्णत्वं प्राप्तुं नार्हति यावदवरा भूमि किमपि नोत्थापयति । अथ मानसो विकासस्तावन्न पूर्णो भविष्यति यावज्जीवनभूमि- मनसः पावें नोत्थापयिष्यते । एवमेवातिमानसो विकासस्तावदपूर्णो भविष्यति यावन्मनो नोत्थापयिष्यते । उच्चतरसृष्टिसोपानस्य निम्नतरसोपानकृते' प्रतीक्षणं खलु विकास- प्रक्रियायाः सर्वांशसामस्त्य सूचयति । विकासक्रमोपजातानां विविधावस्थानामन्योन्या- श्रितत्वमन्योन्यापेक्षितत्वं सर्वांशसामष्ट्य चावबोधयितुं श्रीअरविन्द औपम्येनैतादृशं सैन्य- ७ तस्मिन्नेव, पृ० ११३७. .
श्रीअरविन्ददर्शनम् ४८ -- मुदाहरति यस्य यावद् विभागविशेषः पुरस्मरणपूर्व कमभिनवा भूमि स्वायत्तीकरोति तावन्मुख्यांश इदानीमपि तस्यामेव भूमौ बिद्यते या, विजितापि सती, अनधिकृतास्ते पुनर्योजनमाश्वासन चापेक्षते । विकासक्रमेण विलु कैश्चिजनै रवशिष्टाल्लोकादने प्रसृत्य, सुदीर्घमप्यध्यात्माध्वानमतिक्रम्य प्रचुरमात्रायामभिनया शूमिजेतु शक्यते । परं त्वेष जयः “विदेशीयभूमौ शिविर स्थापनमहगो विदेशीय राज्यव्यवस्था स्थापनमदृशो वा भविष्यति । न त्वेपोऽतिमानसस्वरूपोत्थापनार्थापक्षितः स्वीकरणाङ्गीकरणतादात्म्यी. करणलक्षणो व्यापारो भविष्यति।" सृष्टिगताना तत्त्वानामन्योन्यसम्बद्धत्वात्, अबरोहारोहव्यापारौ न केवलमानु- क्रमिकावपितु व्युत्क्रमपरावपि भवतः । तद्यथा, आरोहव्यापारस्य गिद्धयर्थ न केवलं प्राचीन एवावरोहोऽपेक्ष्यते, अपित्वर्वाचीनोऽपि । प्राचीनावरोहव्यापारेण तु मुण्टो जड-जीवनमन:- प्रभृतीनि तत्त्वानि निधीयन्ते । परं त्वेतेपाम तहिताना तत्त्वानामु-यापनार्थ तत्तत्तत्त्वस्या- चीनोऽप्यवरोहः सुतरामुपयोजनीयः । यथा जलप्रवाहाभिमुखममी तरन्ती नौरिष्टं लध्यं प्राप्तु जलेन सह नाविकमप्यपेक्षते, तथैव सन्निहितसर्वतत्त्वः, चित्शक्तिप्रेर्यमाणश्चागेह इष्टलक्ष्यप्राप्त्यर्थं तत्तत्तत्त्वस्यावर्वाचीनमप्यव रोहमपेक्षते । अथ जानत्वा जीवनतत्त्वा- विर्भावो दुस्साध्योऽभविष्यच्चेत् तस्मिन् जीवनतत्त्वस्यार्वाचीनोऽवरोहो नाभविष्यन् । एवमेव जीवनतत्त्वान्मनस्तत्त्व स्याविर्भावो दुस्माध्योऽभविष्यच्चेत् तस्मिन् मनस्तत्त्वस्या- र्वाचीनोऽवरोहो नाभविष्यत् । इत्थमेवागामिकालेऽपि मनस्तत्त्वादधिमानमप्रभृतीनामा- विर्भावार्थमेतेषामर्वाचीनोऽव रोहोऽनुक्रमेण तत्तत्सोपाने आवश्यकः स्यात् । किं त्वे- तावता किल नानुमेय यदर्वाचीनमवरोहं विनाऽऽरोह एव न स्यादिति । प्राचीनाव- रोहसन्निधापितारोहतत्त्वसद्भावादारोहस्त्ववश्यम्भाव्येव । केवलमर्वाचीनाव रोह विनाऽऽरोहपथः प्रकारान्तरो भविष्यति, आरोहगतिश्च मन्दा विप्यते । नाविक विनापि नौः प्रवाहशीले जले प्रवाहोन्मुखं तरत्येव । परं त्वेवं तरन्ती सा क्वचिदन- रुद्धापि भवितुमर्हति, वक्रेणापि पथा गन्तुम्, मन्दायितुमपि । नन्वर्वाचीनाव रोहनिहितानि तत्त्वानि किमलानीति जिज्ञासा सम देति । एतस्मिन् प्रसङ्ग ऽवधेयं खलु यत् श्रीअरविन्दमते नास्त्ययमेन लोकः, अपितु विविधितत्त्वाना प्राधान्यानुसारं विविधा लोकाः सम्भाव्यन्ते । एप लोकस्तु जडतत्त्वप्रधानः । एतस्मिन् खल्वाधारभूताज्जडतत्त्वादेवेतराणि सर्वाणि तत्त्वान्युत्पद्यन्ते । एवमेव तत्तत्तत्त्वप्राधान्या- ८. तस्मिन्नेव, पृ० ११३८, 8. श्रीअरविन्दस्य, अनि योग, प्रथमे भागे, पृ० १७. १०, दि लाइफ डिवाइन, पृ० ८४३.
अवरोहप्रक्रिया ४६ नुसारं कश्चिज्जीवनलोकः स्यात्, कश्चिन्मनोलोकः, कश्चिदधिमानसलोकः, कश्चिच्चा- तिमानसलोकः । ११ तत्त्वं खलु स्वरूपस्यप्रेप्सुर्भवति । अतएव तत्तत्तत्त्वमया लोका लोका- नरविकीर्ग स्वं स्वमंशं सगृहीतु यतन्ते । यथा किल सच्चिदानन्दः परिणामानन्द- स्वरूपाप्त्यर्थमात्मानं जगत्यवरोहयति, तथैव ते ते लोकाः स्वांशसङ्ग्रहणार्थ जगत्य- वरोहोन्मुखा भवन्ति । अतएव जीवनतत्त्वं स्वलोकादवतीर्य, एतस्मिल्लोके प्रविश्य च जडतत्त्वान्तहितं स्वांगभूतं जीवनतत्त्वमुदघाटितवत् । एवमेव मनस्तत्त्वेन मनोलोका- दवतीर्य जीवनतत्त्वान्तहितः स्वाग उद्घाटितः । इत्थमेवातः परमधिमानसातिमानसतत्त्वे स्वस्वलोकादवतीर्यंतल्लोकान्तहित स्व स्वमशमुद्घाटयितुमपेध्येते ।१२ पुनश्चोर्ध्व स्थितानां तत्त्वानामवतारणार्थमधःस्थिताना तत्त्वाना वैशद्यमावश्यक भवति ।१३ अस्यां पृथिव्यामेव जीवनतत्त्व तदैवाविर्बभूव यदा जडतत्त्वं सुविकसितं सजा- तम् । एवमेव जीवनतत्त्वे विशदीभूते एव मनस्तत्त्वमाविर्बभूव । अपरं च, अधस्तनस्य तत्त्वस्य वैशद्यमपि कारणद्वयसापेक्षम् । एषा कारणद्वयी स्ववरोहारोहव्यापारलक्षणा । सच्चिदानन्देन सहाऽवरूढा चित्शक्तिः खलु सृष्ट्य पनिबद्धानि तत्त्वान्यारोहोन्मुखानि- कुर्वती विशदीकरोति । अपरं च, अर्वाचीनावरोहकमोपलब्धानि तत्त्वान्यष्यवरुह्यमाण तत्त्व विस्तारयन्ति । चित्शक्तिमात्रप्रेरित आरोहव्यापारस्तु मन्दगत्या प्रसरति । किन्त्वनया मन्दगत्यापि विकासमानानि तत्त्वानि यदा किञ्चिदुत्थाप्यन्ते तदा शनैः शनैरवरहद्भिः तत्त्वैः परिगृह्यन्ते । एतस्मात् परिग्रहाद् विकासगतिर्दृततरा भवति । अथ परिगृहीतानि तत्त्वानि सत्वरं वैशद्यं प्राप्नुवन्ति । यद्यत्तत्वमवरुहभिः तत्त्वैः परिगृह्यते तत्तत्तत्त्वं तावदेकस्मिन् पक्षे स्वतः वैशद्य व्रजति, पक्षान्तरे चोपरितनं तत्त्वं परिणमयति, अध. स्तनं तत्व च वैशद्योन्मुखं करोति । एतस्मात् त्रिविधवैशद्याद् तु विकासक्रमो न केवल द्रुतगतिरेव भवत्यपित्वाकस्मिकोऽपि सञ्जायते ।१४ प्राचीनार्वाचीनावरोहयोभिन्न तृतीयं विकासब्यापारसाधक तत्त्वं तात्कालिक चैनन्यं बोद्वयम् । एतस्य चैतन्यस्य सन्निधानादारोहगतिद्रुततरा भवति, असन्निधा- नाच्च मन्थरा । अतएव जडतत्त्वाज्जीवनतत्वस्याविर्भावाय कोदिशोऽपि वर्षाण्यपेक्ष्यन्ते । जीवनतत्त्वस्यागमे सति तु विकासगतिद्रुततरा भवति । परन्त्विदानी कस्यचिदभिनवस्य - ११. तास्मन्नेव, पृ. ५७३-४, १२. तस्मिन्नेव, पृ०१०१७, १३. तस्मिन्नेव, पृ० ३०१ . १४. तस्मिन्नेव, पृ०८४८. .
श्रीअरविन्ददर्शनम् चैतन्यक्रमस्याविष्काराय प्रकृतिः तदाधारभूतं जडतत्वं परिणमयितुं यतते । अतएव कोटेभ्य आरभ्य मानवपर्यन्तमारोहकमेण तया जीवशरीरेऽसंख्याकाः प्रयोगा विहिताः । तत्रापि जीवनतत्त्वेतिहासस्य पूर्वार्ध शरीरपरिवर्तनगतिरुत्तराद्धपेिक्षया द्रुततरा किल बभूव । तस्मिन् युगे ह्यभिनवं चैतन्याविर्भावं वोढुमसमर्थानि जीवशरीराणि स्वल्पे स्वल्पेऽपि कालान्तरे तिरस्कृतानि बभूवुः । कालक्रमेण तु यथा यथा शरीरं चैतन्यानु- प्राणितं सञ्जातं तथा तथा तस्य स्थैर्यशक्तिरपि वृद्धि गता। अथेदानी मानवशरीरं सुविकसितं चैतन्यमुपनिबध्नत् सुदीर्घकालादेकस्मिन्नेवाकारे व्यवस्थितं विद्यते । अनेनैव शरीरेण किल बहुभिर्मनीषिभिरतिमानसीरिपि चैतन्यावस्था आरूढाः । एतस्माद् ज्ञायते यन्मानवशरीरे एवागामिविकासश्चरितार्थों भवितुं शक्यते इति । परन्त्वेतत् तदैव सम्भाव्यते यदाऽतिमानसो विकासो नातिविलम्बेन सङ्घटते । अतिविलम्बे तु मानव- शरीरमनिमविकासाथमपर्याप्त मन्वाना प्रकृतिरारोहवाहनान्तरमाविष्कर्तुमर्हति । अथैन- मनर्थकरं विलम्बं वारयितुं मानवेनारोहव्यापारे आत्मचैतन्यं योजनीयम् । एवं सति, सुदीर्घकालापेक्षी विकासक्रमोऽप्यल्पकालसम्पाद्यो भविता । तात्कालिकचैतन्ययोगो ह्यारोहणोपजातानि तत्त्वानि परिष्कृत्य विशदीकरोति, अर्वाचीनमवरोहं च द्रुततरं करोति । अर्थतस्य चैतन्यस्य योगेनारोहगतिर्भूयोऽपि द्रुततरा कर्तुं शक्यते ।१५ आरोहगतिस्त्वारुह्यमाणाधिष्ठान प्रकृतेरपि सापेक्षिणी भवति । श्रीअरविन्दो जडजीवनमनस्तत्त्वलक्षणं सृष्ट्य शमज्ञानप्रधान मन्यते, तवस्थमंशं च ज्ञानप्रधानम् । अज्ञानप्रधाने पूर्वार्धे तु प्राचीनावरोहलभ्यस्य चैतन्यस्य निगूढत्वात्, अर्वाचीनावरोह- लभ्यस्य चैतन्यस्य दुष्प्राप्यत्वात्, तात्कालिक चैतन्ययोगस्य च प्रथमं तावदभावात् ततः परं चातिक्षीणत्वात्, आरोहव्यापारोऽन्धे तमसि वर्तमानो डिम्भक इव शनैः शनैः पादं न्यस्यति । मानससोपानं प्राध्य त्वेष द्रुततरो भवति नाम । परन्त्विदानीमध्ये षोऽज्ञान- प्रवाने एव सृष्ट्यर्षे वर्तते । मानवस्तु सम्प्रत्येतदवस्थः । अतः परं च ज्ञानप्रधान सृष्ट्यर्थं प्रारभते । सुचिरकालाद् बहुषु महर्षिषु तत्प्रविष्टेष्वपि, प्राकृतजनस्तावादी- दानीमपि तस्मात् सुदूरमवस्थितः। परन्त्वेतादृग्जनस्यैषा स्थितिरपि निष्प्रयोजना न मन्तव्या। अग्रिमसोपानस्य मानससोपानाद भृशं मिन्नत्वातु, तत्प्रवेशःखलु पूर्ववति- सोपानस्यसम्यग्यवस्थितिमपेक्षते । एतदर्थमेव मानवव्यष्टिषु सुदूरमग्रेसरन्तीष्वपि, समष्टि: सुचिरकालात् पृष्ठत एव तिष्ठति । सम्प्रति तु मानवसमाजे विकासशृङ्ग आरुढे सति, अग्रिमः पादन्यासः सुतरां प्राप्तावकाशः । अत्र चेदतिमानसस्य साहाय्यं 1 १५. तस्मिन्नेव, पृ० ११०४.१०.
अतिमानसम् । . लभ्यते हि प्रगतिः सुकरा द्रुततरा च भवेत् । श्रीअरविन्दस्तु मन्यते यदिदानीमप्य- तिमानसं मानसेऽवतीर्य तदुस्थापनपरं वर्तते । अथातः परं पूर्वावस्थायाः सुव्यवस्थितत्वात्, अतिमानसस्यावतीर्णत्वात्, आरोहकानां भृश चैतन्यमयत्वात्, विकासप्रक्रियायाश्च ज्ञान- प्रधानसृष्ट्युत्तरार्धप्रविष्टत्वात्, आरोहब्यापारः खलु सौकर्येण वैशद्य न च सम्पादयितु शक्यते। अपर च, अज्ञानप्रधानसृष्टवर्धगत आरोहः किल सङ्घर्षप्रायः । अत्रत्यः पदार्थः पदार्थान्तरेण सह सङ्घृष्यैव प्रसतु प्रभवति । एतस्मात् खलु कैश्चिन्निीयते निखिलो- ऽपि विकासक्रमः सर्बप्राय इति । वस्तुतस्त्वेतत् सङ्घर्षप्रायत्वमज्ञानभूयस्त्वज-यम् । तमसि तावद् बहवो जना अहमहमिकया सपद्येवाग्रेसरन्तोऽन्योन्यं निसर्गत एव सघृष्टु- मर्हन्ति । प्रकाशमागत्य त्वापातत एव सङ्घर्षप्रसङ्गो निराकृतो भवति । एवमेव ज्ञानप्रधानसृष्ट्युत्तरार्धप्रवेशसमकालमेवारोहव्यापारसुलभः सङ्घर्षों न्यूनत्वगाम्यवलो- क्यते । आरोहक़ मेणातिमानसं प्राप्य तु, अज्ञाने उन्मूलिते सति, अवशिष्टोऽपि सङ्घर्ष- प्रसङ्गोऽपसृतो भविष्यति । तदा खलु व्यष्टिरात्मसामष्ट्यं सम्यगभिज्ञाय प्रतिव्यष्टि- सन्निकर्षजन्यं सङ्घर्ष मनवाप्तावसरं करिष्यति ।१६ उत्थान-व्यवस्थान-तपोध्यानभेदादारोहप्रक्रियां श्रीअरविन्दः त्रिवृतां मन्यते । सच्चिदानन्दात्मकत्वात्, पदार्थजातस्य च स्वत्वोन्मुखीभावात् सृष्टिस्तावन्निसर्गत एव सच्चिदानन्दत्वं प्राप्नुमुन्मुखीभवति । एतदर्थमेव सा जडप्रभृतीनि तत्त्वान्युद्भावयति, अतिमानसतत्त्वमाह्वयति, विविध चेष्टमाना च वर्तते । सृष्टेरेष निखिलोऽप्यूवमुखो ध्यापार आरोहप्रक्रियामध्यगत उत्थानाभिधोऽशो मतः । परन्तु सामस्त्येनोत्थानशीला सत्यप्येषा न खलु प्रत्यं शं प्रत्यहं चोर्ध्वमुखी भवति । अस्याः केचिद् विभागास्तावदधी मुखा अपि दृश्यन्ते । एते विभागा न कथञ्चिदुत्थानप्रतिकूला मन्तव्याः, नैव निष्प्रयोजनाः, तेषां तूत्थानव्यापारवेशद्यप्रयोजनवत्त्वात् । अथोपरिष्टादधस्तावदवतीर्य ते न केवल स्वीयं पदमेव द्रढयन्त्यपित्वधःस्थितान् शेषान् विभागानप्युत्थापयितुं यतन्ते । व्यापारस्तु नानात्वलक्षणायाः सृष्टेः सामस्त्यमूलत्व सामस्त्योन्मुखीभावं च द्योतयति । आरोहप्रक्रियाया एषोऽशी व्यवस्थानाभिधो मतः । परं च, सच्चिदानन्दाभिप्रेतपरिणामा- नन्दनिमित्तप्रवर्तितत्वादेषा सृष्टिर्न केवलमात्यन्तिकानन्दोम्मुखी, अपितु प्रक्रियानन्दा- भिलाषिण्यपि मन्तव्या। अतएव सा सामस्त्योन्मुखत्वेन सह व्यष्टित्वपोषणशीलापि दृश्यते । तस्यां हि संसरणेन सह व्यष्टिनिर्माणमपि दृश्यते, न्यष्ट्युपभोगोऽपि । एतस्मात् १६. तस्मिन्नेव, पृ० ११२१-२, ५२ श्रीअरविन्ददर्शनम् . कारणात् सा स्थिरव्यष्टिसधातस्वरूपा इव प्रतीयते । जडतत्त्व तावद् दुर्भद्यपरमाणु. सवातरूपमिति तु विज्ञानविदोऽपि मन्यन्ते । ननु परमाणो द्यत्व तद्व्यष्टित्वस्य सुदृढत्वं सूचयति । उद्भूतजीवनतत्त्वः प्रत्येक प्राणी स्वा व्यष्टि रक्षितु व्यष्टिगतसुखानु- भूति लब्धं च यथाशक्ति प्रयतते । मनोऽप्यधिकृत्यैतदेवावितथ प्रतीयते । परन्तु यावत् परमाणुव्यष्टिः समष्ट्यं गमात्र त्मिका वैयष्टिकानुभूतेरभावात्, जीवनमनोव्यष्टी च प्रायशो वैयष्टिकमातात्मिक्यों सामष्टि कानुभूते गण्यत्र यत्वात्, तावदतिमानसी व्यधि- युगपदेव सामष्टिक्यपि भवति यष्टिक्यपि, उभयविधानुभूतेः प्रत्यक्षलभ्यत्वात् । एतावता शायते यदारोहप्रक्रिया समष्टिपरापि सती व्यष्टिनिष्ठा, व्यष्टिनिष्ठापि सती सामस्त्योन्मुख, सामस्त्योन्मुखापि सती क्रमिकोन्मीलनशीलेति । व्यरिटसमष्टिमात्रनिष्ठत्वं क्रमिकत्व चारोह, व्यारस्य तपोध्यामाज्जायते । यथा कश्चित् तपस्वी स्वा सम्पूर्णामपि शक्ति सन्निरुध्य तत्सा- मस्त्याभिज्ञोऽपि सन् ता लक्ष्यविशेपे स्वत एव अशतः अनुक्रमेण च नियोजयति आत्मनि- वा संवृणोति, तथैव स्वां चित्शक्ति सामस्त्येनाभिजानन्नपि परिणामानन्दोमुखः सच्चिदा- नन्दो वैयष्टिकत्वेनानुक्रमेण चोन्मीलयति, आत्मनि' वा संवृणोति । आरोहव्यापारस्यै- षोऽशः तपोव्यानमिति कथ्यते। तात्त्विकमामस्तिकैकानेकवस्तुनिष्ठत्वेन सच्चिदानन्दीय- मेतत्तपोध्यानमनेकविधं मतम् ।' अथ यावदुत्थानेन व्यष्टिः पुष्यते', व्यवस्थानेन च समष्टिः, तावत् तपोध्यानेन' व्यष्टिः, समष्टिः, उभयातिकान्तं तत्त्वं च सममेव पुष्यन्ते । अतएव सृष्टिwष्ट्यात्मिकापि प्रतीयते, समष्ट्यात्मिकापि, उभयव्यतिरिक्तापि; स्थिरापि, गतिशीलापि। pinath १७. तस्मिन्नेव, पृ०६६३० -- षष्ठोऽध्यायः अतिमानसजानी चैत्यपुरुष-जीवात्म-विज्ञानमयपुरुषभेदेनाऽऽत्मानं श्रीअरविन्दः त्रिविधं मन्यते । जडतत्त्वान्निस्सृत्य प्राणिनोऽन्तस्तत्त्वरूपेण, तम्माच्चोत्थाय मानसपुरुषरूपेण स्वरूपं निर्मिमाण आरोहव्यापारोपजात आत्मा चैत्यपुरुष इत्यभिहितः । जीवात्मा स्वसो यः सच्चिदानन्दस्य सांसारिकः प्रतिरूपः सन् चैत्यपुरुषेण सह सतत निवसति । किन्तु सांसारिकोऽपि सन्नेषः, चैत्यपुरुषवत् आरोहव्यापारोपजातो न भवति । एतयोभिन्नस्तु विज्ञानमयपुरुषः । चैत्यपुरुषः किल जडत्वनिष्ठतपोध्याननिष्पन्न:, जीवात्मा चाज्ञान- निष्ठतपोध्याननिष्पन्नः । परतु विज्ञानमयपुरुषोऽतिमानसचैतन्यनिष्ठतपोध्याननिष्पन्नः । चैत्यपुरुषः खलु जीवात्मना सह सयुज्याज्ञानात्मा भवति । यदा त्वेतस्मिन्नज्ञानात्मनि विज्ञान मयः पुरुषोऽवतरति तदा ज्ञानात्माऽऽविर्भवति । एष ज्ञानात्मलक्षणः पुरुषोऽति- मानसज्ञानीति कथ्यते । आरोहोन्मुखी सृष्टिर्यदाऽतिमानस चैतन्यमवतारयिष्यति तदा- तिमानसज्ञान्युत्पत्स्यते इति श्रीअरविन्दो मन्यते । यथा बहुभिः प्राक्तनैर्मनीषिभि- रुच्चतरमनःप्रकाशमानमनोऽन्तर्जानाधिमानसमार्गेण सशरीरमारुह्यातिमानसस्याप्याभासस उपलब्धः, तथानुमीयते मानवीये शरीरे एवातिमानस चैतन्यमवतारयितुं क्षममिति । एनन्वतन्यमयः पुरुष. कीदृशो भवितेति सम्प्रति विचाराहम् । अनिमान मचैतन्यस्याधस्ताद् विद्यमानं ज्ञानं तथैव विच्छिन्नं भवति यथा नै शान्ध. कारानुलिप्तः प्रकाशः । एषा विच्छिन्नता खल्वनेकविधा । प्रथम तावदत्र ज्ञाता-ज्ञान- ज्ञेयात्मको विच्छेदो दृश्यते । ज्ञाता हि ज्ञेयमात्मभिन्न मन्यते, ज्ञान चोभाभ्यां भिन्नम् । एपा भेददृष्टिस्तावज्जडचेतनयोविषयविषयिणोरात्मानात्मनोश्चान्योन्यविभेदेन प्रति- फलति । जडचेतनयोविभेदस्तु तदाऽऽविर्भवति यदा ज्ञाता, अजानसङ्कीर्णः सन्, जतत्त्वा- न्तहितं तात्त्विक चैतन्यं नावगच्छति । अतिमानसे चैतन्ये त्वज्ञानस्यासद्भावादेषा संकीर्णता निराक्रियते, तेन च सहैतयो ददृप्टिरप्यपैति । विषयविषयिणोविभेदस्तु ज्ञान- परोक्षत्वजन्यः । प्रत्यक्षज्ञानविषयत्वादेवात्मा विषयोति मन्यते, परोक्षज्ञानविषयत्वाच्चा- बशिष्टं जगद् विषय इति । अतिमानसचैतन्ये तु, सर्वविधज्ञानस्य प्रत्यक्षत्वात् विषय- विषयिविभेदो विलुप्यते । आत्मानात्मविभेदस्त्वहंकारजन्यो भवति । यत् बल्बहकार- - ५४ श्रीअरविन्ददर्शनम् परिविष्टं तदात्मेति मन्यते, यच्न तबहिर्भूतं तदनात्मेति । निरहकारस्वरूपेऽतिमानसे चैतन्ये उदिते सति त्वेषोऽपि विभेदोविलुप्यते । ज्ञाता-ज्ञान-विभेदस्त्ववर ज्ञानस्य वस्तु- विच्छिन्नत्वं संवेदनप्रत्ययजन्यत्वं चावलम्बते । एतज्ज्ञानं हि बहिः स्थिताना पदार्था- नामैन्द्रियकसंवेदनेभ्यः तज्जन्यप्रत्ययेभ्यश्च निष्पद्यते । अतिमानसं ज्ञानं त्वतीन्द्रियमति- प्रत्ययं वास्तविकं तात्त्विक च भवति । एतस्मात् कारणात् खल्वेतदेकतो ज्ञातृरूपमन्य- तश्च ज्ञेयरूप भवति । अथातिमानसज्ञानी ज्ञानात्मकः सन् ज्ञेयजात तादात्म्यभावेन प्रत्यक्षमवगमिष्यति ।' पुनश्चावरासु विकासावस्थासु, चैतन्ये एव द्वैधीभावो दृश्यते । मानससोपाने एवैकन्द्रियकसंवेदनजन्यं चैतन्यं भवति, अन्यत्र च शाश्वतकालानुसकान्तमन्तहितं चैतन्यम् । प्रथमकोटिक चैतन्यं तावदारोहव्यापारजन्य मन्यते, द्वितीयकोटिक चाव- रोहव्यापारजन्यम् । मानससोपाने तु प्रथमकोटिक चैतन्यं बलवत्तरं भवति, मनस उध्वं च शनैः शनैरवरोहजन्यं चैतन्यम् । अतिमानसं प्राप्य त्वारोहजन्यं चैतन्यं ताद्रूप्यं भजते । अथातिमानसज्ञा निन्यन्तर्बहिश्चैतन्ययोविभेदोऽयाकृतो भविष्यति । असावन्त- रात्मनि स्थित्वा शाश्वतानन्तनिगूढेश्वरेण सहैकात्म्यमनुभवन्नप्यात्मानं निखिलजगद्- व्याप्तमित्यनुभविष्यति, जगच्चात्मस्थितमिति । अतिमानसज्ञानिन एषा प्रतीतिस्तु क्रियात्मिका भविष्यति, न तु भावमात्रम् अवरचैतन्यभूमिकासु तु ज्ञानक्रिययोर्मध्ये विभेदो प्राप्यते । एतासु खलु यन्मनसा मनुते तत् क्रियान्वितं स्यादिति सर्वत्र न दृश्यते । प्रायशस्तु ज्ञानं निष्क्रियमेव भवति । यत्त ज्ञानं क्रियान्वित भवति तदप्यंशत एव । एष विभेदस्तावत् शक्ति चैतन्यान्तर्ग- तेतरेतरविभेदोद्भवः । आरोहकमेण चित्शक्त: शक्त्यशो जडतत्त्वरूपेणाविर्भवति चिदंशश्च चतन्यतत्त्वरूपेण । एतयोराविर्भावस्यानुक्रमिकत्वात्, पूर्वेषु विकाससोपानेष्वेते द्वे अप्यन्यो यपृथग्भूते प्रतीयेते। अतिमानससोपाने तु चित्रशक्त रविभक्तरूपेणाविर्भावा- देषा पार्थक्यप्रतीतिविगलिता मवति । असौं चित्शक्तिरत्र युगपदेवात्मान ज्ञानरूपेणापि व्यनक्ति क्रियारूपेणापि । अथ विशुद्धचित्शक्तिजन्यन्वादति मानसज्ञा निनो ज्ञानं निसर्गत एव क्रियान्वितं भविष्यति । ३ । १. दि लाइफ डिवाइन, पृ० १२६९-७०. .. तस्मिन्नेव, पृ०११६४. ३. तस्मिन्नेव, पृ० १२३५.
अतिमानसज्ञानी ४ अपरें विच्छेदकारण तावत् सत्तायाः त्रित्वम् । एतत्त, व्यष्टिसमष्टि- सर्वातिक्रान्तलक्षणम् । अवरासु चैतन्यभूमिकासु खल्बेतानि त्रीण्यपि तत्त्वान्यन्योन्य- पृथग्भूतानीव प्रतीयन्ते । व्यष्टिस्तावदात्मानं समष्टिभिन्नेति मन्यते । एवं मन्वाना सा वितरव्यष्टिजातनिरपेक्षत्वेनैव प्रवर्तितुमिच्छति । एनामेव व्यष्टिप्रवृत्ति परिलक्ष्य कैश्चिद् व्यष्टिस्वातन्त्र्यवाद: प्रवर्तितः । एषा व्यष्टिप्रवृत्तिस्तु भ्रमजन्या, व्यष्टिश्च मिथ्याभूतेति केचिदन्ये मन्यन्ते । श्रीअरविन्दस्त्वेतयो योरेव मतयोः सङ्कीर्णत्व- मुद्घाटयति । तन्मत्तेन ब्यष्टिर्न तु सर्व निरपेक्षा नैवासद्भूता। तस्याः सत्त्वं तावत् तदुपयोगित्वेनोपपाद्यते । जगद् हि व्यष्टिसङ्घातमिव परिलक्ष्यते, व्यष्टिमाध्यस्थ्येनैव च प्रचलति। व्यष्टिभिरेव किल अडतत्त्वाज्जीवनतत्त्वे प्रवेशः कृतः स्यात्, जीवन- तत्त्वाच्च मनस्तत्त्वे । काश्चिद् व्यष्टय एव तावदतिमानसीषु चैतन्यभूमिकास्वारूढा इत्यपि श्रूयते ।। अथ व्यष्टिम् ऋते जगत्प्रवाहो विराममुपगन्तुं शक्नोति, जगच्च शून्यभावम् । नन्वेतादृशं तत्त्वमसद्भूतं स्यादिति न तर्कसङ्गतम् । एतेन तु, समष्टिवत् सद्भूतेन भवितव्यम् । अथ यथा समष्टिः सच्चिदानन्दोद्भवा, तथैव व्याटिरपि स्यात् । परं च, सच्चिदानन्दोत्पद्यमानत्वात्, तया खलूत्पत्तः प्रागपि सच्चिदानन्दान्त- हितया भवितव्यम् । एवं सति, सा तावदात्यन्तिकतत्त्वभूता मन्तव्या । अथासौ न स्वसद्भूता नैव सर्वनिरपेक्षा, सच्चिदानन्दस्वरूपत्वात् समष्टिसापेक्षत्वाच्च । एवंरूपा सा न तु कस्मिश्चित् तत्त्वान्तरे आत्यन्तिकतया विनापयितुं शक्यते नैव सर्वनिरपेक्ष- त्वेन पूर्णत्व प्रापयितुम् । तस्याः पूर्णत्व तु स्वीयसच्चिदानन्दत्वान्वेषणे, समष्ट्या सहात्मसमन्वये च निहितं स्यात् । एतदर्थ खलु तयाऽऽत्मनिहितयोश्चैत्यविज्ञानपुरुषयो- रेकत्वमनुसन्धेयम् । चैत्यपुरुषस्योत्थापनेनासौ समष्ट्या सह समन्विता भविष्यति, विज्ञानपुरुषस्य चावतारेण चरमतत्त्वमात्मन्यवतारयिष्यति । ६ अवरचैतन्ये तावच्चर- मतत्त्वं व्यष्टिसमष्ट्यतिक्रान्तत्वात् तदुभयभिन्नमिव प्रतीयते । अतिमानसचैतन्ये त्वेतत् तदुभयव्यापीव ज्ञायते, एते च तदभिव्यक्तिस्वरूपिण्यौ । अनेन प्रकारेणैतानि त्रीण्यपि तत्त्वानि “अतिमानसज्ञानिनो जीवने आत्मसमन्वयस्यैकीभूतां परिपूर्ति प्राप्स्यन्ति ।"७ निरहंकारत्वादसौ निखिलेन ससारेण सहात्मतादात्म्यमनुभविष्यति, ४. तस्मिन्नेव, पृ० ११०२. ५. तस्मिन्नेव पृ०८२५ ६. तस्मिन्नेव, पृ० १०४-५. तस्मिन्नेव, पृ० ११५७ श्रीअरविन्ददर्शनम् अतिमानसज्ञानमयत्वाच्चात्मानं सच्चिदानन्दाभिव्यक्तिभूत ज्ञास्यति । "एतस्मिश्चैतन्ये- ऽधितिष्ठन्नसावतिशायिनि स्वातन्त्र्ये, पूर्णे आत्मानन्दे, समष्ट्या सहात्मतादात्म्ये, प्रत्येकजागतिकपदार्थोन्मुखस्वच्छन्दसहानुभूतिप्रवृत्तश्च निवत्स्यति ।" । ननु समष्ट्या सहात्मतादात्म्यमनुभूयमानस्यातिमानसज्ञानिनो व्यक्तित्व कीदृशं भविष्यति ? किमसौ भक्तिज्ञानादिवन्निर्वैयक्तिको भविष्यति, आहोस्विद् देशे विकीर्णः काले चानुक्षण परिवर्त्यमानः ? एतदधिकृत्य श्रीअरविन्द एव मन्यते- "अतिमानसचैतन्ये खलु व्यक्तित्वं निर्व्यक्तित्व चेतरेतरविरोधिप्रत्ययो न स्त.। एते त्वेकस्यैव सत्यस्याविच्छेद्यपक्षभूते । एतत् सत्य च सत्तात्मकमस्ति न त्वहकारात्मकम् । एषा सत्ता निसर्गत एव निर्वैयक्तिकी समष्टयात्मिका चास्ति । तथाप्येषाऽऽत्मोपादानेन- तादृश व्यक्तित्व निमिमीते यत् प्राकृतपरिवर्तनान्तर्गतं तदात्मस्वरूपं भवति ।" तन्मतेन व्यक्तित्वनिर्व्यक्तित्वे नाम मानमत्रत्ययमाने स्तः । मानससोपाने खलु प्रत्यय- प्रत्ययिनोरितरेतरतादात्म्याभावादाशिकोऽपि प्रत्ययः समस्तां सत्तामुद्दिष्टुमर्हति । अतएवास्मिन् सोपाने काचित् • सत्तौकान्ततो व्यक्तित्वलक्षणा भवितुमर्हति निर्व्यक्तित्व- लक्षणा वा। अतिमानसमोपाने तु सत्ता-ज्ञानयोरितरेतरतादात्म्यात्, अन्योन्य विरोधि- त्वेनापि प्रतीयमानाः मानसाः प्रत्ययाः तत्त्वतोऽन्योन्यपूरका इति ज्ञायन्ते । एवं सति, अतिमानमज्ञानिविषये व्यक्तित्वनिव्यक्तित्व विभेदोऽपार्थको भवति । तद्व्यक्तित्व खलु "आध्यात्मिक भविष्यति, न तु कतिपयगुणमङ्घातजन्यव्यवस्था विशिष्टं निश्चितचरित्र- विशिष्टं वा। समष्टेरतिक्रान्त सत्त यान सचेतनाभिव्यक्तिस्वरूपत्वादसावेतादृशो भवितु नार्हति ।१० असो तु "समष्टिमापकोऽपि सन् समष्टे: स्वतन्त्रो भविष्यति, वैयक्तिकोऽपि सन् पार्थक्यशीलेन व्यक्तित्वेन परिसीमितो न भविष्यति ।" ११ - । समष्ट्या सहात्मकत्वमनुभवन्नप्यतिमानसज्ञानी, व्यक्तित्वयुक्तत्वात, तद्विलीनो न भविष्यति । परन्त्वसौ समष्टयर्थमात्मविलय न करिष्यति । यथा किल प्राक्तन: कैश्चिन्महर्षिभिः परार्थं स्वार्थपरित्यागः कृतः, परजीवनार्थमात्मजीवन विसर्जनं च, अतिमानसज्ञानी तथा न करिष्यति । व्यष्टिसमष्ट्येकत्वाभिज्ञोऽसौ यथा व्यष्ट्यर्थ ८. तस्मिन्नेव पृ. ११५६-७. 8. तरिमन्नेव.पृ०११८१ १०. तरिमन्नेव, पृ० १९८२-३. ११ सुशीलकुमार मैत्रस्य. पेन इट्रोडक्शन टुद फिलॉसफी वि श्रीअरविन्द, पृ० ५८ अतिमानसज्ञानी - यदा समष्टिं न विमर्जयिष्यति तथा समष्ट्यर्थ व्यष्टिमपि । अज्ञानपरिपीड्यमानाना प्राणिना कृतेऽसावुत्सर्ग तावत् करिष्यति, किंतु न कथमप्यनुकम्पापूर्वकम् । अनुकम्पा नाम तदोपजायते यदा कस्मैचित् साहाय्यं प्रददत् कश्चिज्जन आत्मानं तस्माद् भिन्नम्, ज्ञानवत्तरम्, शक्तिमत्तरम्, महत्तर च मन्यते । अतिमानसज्ञानीत्वेवमन्यः कदापि न भविष्यति । ज्ञानाज्ञानोभयप्रधानसमष्ट्या सहात्मैकत्वेऽनुभूयमाने सति, तस्मिन् कथञ्चिदप्यात्मभिन्नत्वावसरो नोत्पत्स्यते । प्राण्यर्थकृतं तत्कर्मजातमात्म- निहितपरमसत्यप्रेरित भविष्यति । तेषा पीडा निवारयितुमसौ तथैव प्रयतिष्यते यथा कण्टक विद्धपादसाहाय्यार्थ हस्तौ प्रसरतः । १२ नन्वतिमानमज्ञानिनो मनः कीदृश भविष्यति, कीदृशं च शरीरम् ? एतस्य प्रश्नस्य समाधान तु पूर्ववर्तिविकासक्रमस्य परामर्शन कतु शक्यते । एतस्मात् परामर्शात्त ज्ञायते यत् किञ्चिदभिनव तत्त्वमाविर्भूय पूर्ववर्तितत्त्वे महत्परिणा- ममुत्पादयति । तथा हि जीवनतत्त्वे आविर्भूते सति जडतत्त्व सजीवत्वेन परिणमते । एवमेव जीतवनतत्त्वाभ्यन्तरतो मनस्तत्त्वमुपजायते तदा जडजीवन- तत्त्वद्वय न केवलं मनःमम्पृक्त मनसानुविद्ध च भवति, अपितु स्वत एव भृशं परिणमते। चराचरप्राणिशरीरक्रियाविभेदपरामर्शेन वेतस्य परिणामस्य मात्राऽऽकल- यितु शक्यते । अनयैव रीत्या, यदातिमानस चैतन्य मानवमनस्यवतरिष्यति तदा मनो- जीवनशरीराणि सुतरा परिवतिष्यन्ते । एतत् परिवर्तन तूच्छेदात्मक न भविष्यति । न हि जीवनतत्त्वे आविर्भूते सति जडतत्त्वमुच्छिन्न भवति, मनस्तत्त्वे आविर्भूते सति जीवन- तत्त्वं वा। एते तु स्वरूपवैशद्यमेव प्राप्नुतः । एवमेवातिमानसे चैतन्येऽवतीर्णे सति मनोजीवनशरीराणि स्वरूपवैशा प्राप्तुमर्हन्ति । यन्मन' सम्प्रत्यज्ञानस्थ सत् स्वपथ- मन्वेष्ट्रमितस्ततो भ्रमति, विकारोदभ्रान्तं सद् विकृति प्राप्नोति, दुःखं चानुभवति, तदेव मनोऽतिमानसचैतन्यानुबिद्ध सद् ज्ञानप्रकाशित पन्थानं सत्त्वरं यथातथ्यं च द्रक्ष्यति, ऋजुना मार्गेणाग्रे सरिष्यति, निरुद्ध ग च भूत्वा सङ्कल्पयिष्यति । तस्याहंकारिक "परमाण्वाकारत्वम्” खलु अहकारे विगलिते सति, अनन्ताकारत्वं प्राप्स्यति । यथाऽनुलिप्ते भले प्रक्षालिते सति दर्पण सर्वाण्येव वस्तूनि यथार्थतः प्रतिफल वितु शक्नोति, तथा जडजीवनमनस्तत्त्वानुलिप्तेषु विकारेष्वतिमानसचैतन्यसलिलेन प्रक्षालितेपु सत्सु मनः संसारयाथार्थ्य सुतरामवगयितु शक्ष्यति । का वार्ता स्थूलवस्तूनाम्, तस्मिस्तु सूक्ष्मा धर्मा अपि प्रतिफलिष्यन्ति । एवमेव जीवनतत्त्वमपि वैशद्यं प्राप्स्यति । साम्प्रतिक १२. दि लाइफ डिवाइन, पृ० ११६१, श्रीअरविन्ददर्शनम् मानवजीवनं त्वेकतो जडतत्त्वात्मिकया जडिम्नाऽवघृतमस्ति, अन्यतश्च मामससङ्कल्प- विकल्पाभ्यामितरेतरविरुद्धदिशोराकृष्ट सन्नात्मशक्ति क्षय नयति । पुनश्चाहंकारा- वच्छिन्नमनस्साहचर्याज्जीवनमपि शक्तिकृच्छत्वे तिष्ठति । अपरचेदानीमप्यदूरीकृतया पाशवप्रवृत्त्यैतद् दूष्यते । मनोद्वारावतीर्ण मतिमानस चैतन्यं त्वेतेभ्यः सर्वेन्योऽपि दोषेभ्यो मोचयित्वा जीवनतत्त्व विशदं करिष्यति । एव सति, तत्तत्त्वं खल्वहंकारोपजातमाशि- कत्वमुत्सृज्य चित्शक्त्यभिव्यक्तिस्वरूपावबोधजन्यं स्वमशित्व प्राप्स्यति । चित्शक्त्या चाव्यवहितत्वेनानुप्राणितमेतत् तथैव विशुद्धि वैशद्य च गमिष्यति यथा स्वल्पाम्भो नदो गाङ्ग य सलिलं प्राप्य विशुद्धि वैशद्य च गच्छति । जडतत्त्वेऽप्येताहशी विशुद्धिरुत्पत्स्यते । आरोहशीलं चैतन्य त्वेतस्मिन्नपि तत्त्वे वर्तते एव । एतेनैव चैतन्येन जडतत्त्वमारोहपथे प्रवर्त्यते । चैतन्यप्रवर्तितोऽप्यस्यारोहव्यापारो जडत्वप्राबल्येन मन्दीक्रियते । यथा यथा तु जडत्वप्राबल्य निराक्रियते तथा तथा शरीरे चैतन्यवृद्धिरुपजायते । तथाप्येषा मानस- सोपानपर्यन्त तावदाशिक्य व भवति । एतस्मिन् सोपाने हि शरीरमचेतनाव- चेतनाभ्यां प्रचाल्यते । अत्र तु चेतनमनः स्वल्पभाव भवति। अतएव मानसीवृत्तयोऽ चेतनावचेतने सम्यगवबोधुं न शक्नुवन्ति । अतिमानसं चैतन्य त्वेते उभे अपि मानस- सोपाने प्रकाशयितुम्, परिष्कर्तुम्, उत्थापयितु च शक्नोति ।१३ नन्वतिमानसचैतन्यचा- लितं शरीरं कियन्मात्र परिणति गमिष्यतीत्येतत् त्ववरमनसा सम्यगवबोधु न शक्यते । तथाप्येतावन्मात्र तु सुतरामनुमातु शक्यते यदतिमानसचैतन्यप्रच्छुरितं सत् तत् चित्- शक्त्यनुप्राणितं भूत्वा स्वं दौर्बल्य जडत्वं दुःखप्रायत्वं चोत्स्रक्ष्यति । १४ नन्वतिमानसज्ञानिनोऽवतारस्य च मध्ये को विवेकः स्यात् ? एतस्य प्रश्नस्थ समाधानात् प्राक, अवतार एव किंस्वरूप इति तावद् विचारणीयम् । श्रीअरविन्दस्त्वव- तारमधिकृत्य प्रचलितानि मतानि पूर्वपक्षत्वेन प्रस्तौति । तदुल्लेखानुसारं केचिन्मन्यन्ते यत् कस्यचित् सद्गुणस्य कस्मिश्चिज्जने विशिष्टप्रकर्ष एवावतारः, अपरे च मन्यन्ते यद् यः कोऽपि विशिष्टो जन उत्तमामध्यात्मकोटिमारुह्यश्वरेण सार्धमात्मतादात्म्य स्थापयति सोऽवतार इति । एते उभे अपि मते सदोषे इति त्वसावुपपादयति । तथा ह्यवतार इति शब्दस्य व्युत्पत्तिलभ्योऽर्थोऽवरोहप्रक्रियां सूचयति यावदेते उभे अपि मते आरोहपरे स्त इति तस्य प्रथम आक्षेपः । अपरं च, ये त्ववतार इति शब्देनेश्वरस्य यथार्थमवरोहमवगच्छन्ति तेऽपि तं विशिष्टजागतिकबाधानिराकरणनिमित्तकमेव मन्यन्ते । १३. तस्मिन्नेव, पृ० ११७२ १४. तस्मिन् नेव, पृ० ११७७.
अतिमानसज्ञानी ५९ ननु कादाचित्कबाधानिराकरणमप्यवतारप्रयोजनमिति स्वीकुर्वन्नपि तदेव तत्प्रयोजन- सर्वस्वमिति श्रीअरविन्दो नानुमोदते । तथा सति तु यं कमपि स्वरूपमवधार्यावतारो बाधा निराकुर्यान्नाम । असौ तु मत्स्य-कूर्म-वराह-सिंह-परशुराम-प्रभृतिविशिष्टप्राणिनामेव स्वरूपमवधार्याविर्भवति । एतैः स्वरूपैश्चासौ न केवलं तात्कालिकबाधामेव निराकरो- त्यपितु जनानां समक्षमेना सम्भावनामुपस्थापयति यन्मानवोऽपीश्वरत्वं प्राप्तु क्षमः, तथा च पशुष्वपि देवत्वमवतारणीयमिति । पुनश्चासौ स्वेन सुचरितेनैतस्याः सम्भावनाया मार्गमपि निर्दिशति । १५ परतु गतिरोधनिराकरणम्, आदर्शप्रस्तुतीकरणम्, मार्गप्रदर्शन चावतारलक्षण- सर्वस्वं भवितु नार्हन्ति । तथा सति तु प्रथितेभ्यो व्यतिरिक्ता अपि बहवो जना अव- ताराभिधां प्राप्तु शक्नुयः । एतावता चावतारत्वमतिव्याप्तिदूषितं स्यात् । अवतारभूतः पुरुषो जगति सामान्यजन इव व्यवहरन्नपि स्वेश्वरत्वाभिज्ञो भवतीति त्ववतारस्य मौलिक लक्षणम् । तत्त्वतस्तु ब्रह्माभिव्यक्तिस्वरूपत्वाद् यः कोऽपि प्राणी स्वमीश्वरत्वमभिज्ञातु शक्नोति । किन्तु विकासपथ सुतरामतिक्रम्यैव तेनैतत् कर्तुं शक्यते नाम । अतिमानसचैतन्यप्रवेशानन्तरमेव ह्यषा भूमिर्लभ्या। एतद्भूमि- प्रतिष्ठितो जनस्तु श्रीअरविन्देनातिमानसज्ञानीत्यभिहितः । अवतारिको जनस्तु यत्र क्वाप्यवस्थाय स्वमीश्वरत्वमनुभवति । तदीयमीश्वरत्वं नामावरोहजन्यम्, न त्वारोह, साध्यम् । अथ यावदवतारोऽवरोहप्रक्रियाजन्यस्तावदतिमानसज्ञान्यारोहप्रक्रियाजन्य:- यावदवतार एकाकी भवति तावदतिमानसज्ञानी सामूहिकः, यावदवतारः कादाचित्को भवति तावदतिमानसज्ञान्यविरतविकासजन्यः, यावदवतारः कादाचित्क परिणाममुत्पा- दयति तावदतिमानसज्ञानी सार्वभौम सार्वकालिक च, यावच्चावतारो विकासपथप्रदर्शको भवति तावदतिमानसज्ञानी विकासक्रमप्राप्तश्चरमपरिणामभूतः । . , श्रीअरविन्दपूर्व नीत्से इत्यभिधेन जर्मनदेशीयमनीषिणा विकासमानमानवत्व- चरमपरिणामत्वेनातिमानवस्य सम्भावनोपकल्पिता। श्रीअरविन्दस्त्वेतस्या उपकल्पनाया दौर्बल्यम्, भ्रामकत्व चोद्घाटयति । नीत्से महोदयस्यातिमानवविषयकमन्तदर्शनमवित- थमिति त्वसौ स्वीकरोति । तन्मतेन नीत्से "त शब्दमुच्चचार यं शुश्राव, तत् सत्यं पुरश्चकार यद् भास्वरनिर्वैयक्तिक-निर्धान्त-शाश्वतरूपेण ददर्श ।” परन्तु "अतिदूरस्थ- देववीणातरङ्गरूपेणोत्पद्यातिदूरस्थादनन्तात् स्यन्दमानोऽसौ शब्दो यावत् तदन्तश्श्रवणं १५ श्रीअरविन्द बर्थ सेम्टीनरी लाइब्रेरी, त्रयोदशतमे भागे, पृ० १४०.
६० श्रीअरविन्ददर्शनम् , प्राप्नोत् तावद् दोलापमानसमानान्त रविचारप्रवाहमम्मिश्रीभावात् स्वीयं पूतं मौलिक ध्वनिमधिकाशतः तत्याज ।'१६ यत्नत्यं तु खिष्टीयकारुण्यजुगुप्समानेन नीत्से महो- दयेन तत्प्रक्रियास्वरूप. तद्भिन्नाकारोऽतिमानवः प्रकल्पितः । अतएवैषोऽतिमानवः शरीरमनोऽध्यात्मशक्तिप्राबल्येनेतरेषा सर्वेषा मानवानामुपर्यधिष्ठातृरूपेण प्रस्तावितः । सर्वोत्कृष्टत्वमारोढुमसावितरेषा दमनमपि करिष्यति महदहकारोत्फुल्लोऽसावितरान् जनान् स्वोपभोगविषयत्वेनावगमिष्यति । अथ 'आत्मप्रकर्षप्रभुत्वयोनिमित्त तेन विभा- जनं विरोध इतरजनेच्छाजीवनयो. प्रतिरोधश्चापेक्षिष्यन्ते । असुर भूतोऽसौ भक्षणपूर्वक- मेकत्व स्थापयिष्यति, न तु समन्वयपूर्वकम् । पदार्थ जातमात्मप्रभावान्वित कर्तु स्वीय परिवेशमधिष्ठातु चासावात्मभिन्न मर्वमपि जेष्यति पादाहत च करिष्यति ।"१७ श्रीनीत्सेप्रकल्पितमेव विधम् “अतिमानवत्वं खलु सर्वविधमानवीयगुणातिलङ घिनोऽह- कारस्य दैवीकृतरूपाव्यतिरिक्तम् ।"१८ किन्त्वानिकत्वात्, विभाजनपरत्वात्, सङघर्ष- मूलकत्वात् आसुरशक्तिप्रवर्धकत्वाच्चैतद् दैवीकरण नाम विनाशकमिति मन्तव्यम् । खिष्टीयदिव्यत्वप्रतिरुन्धता श्रीनीत्से महोदयेनासुरशक्त्यधिष्ठानभूतोऽतिमानवः प्रकल्प्य भ्रमवशाद् दिव्यपदे प्रतिष्ठापितः । श्रीअरविन्दस्तु ख्रिष्टीय दिव्यत्वमप्यर्धसत्यात्मकमिति मन्यते । एतस्मिन् धर्मे ह्यासुरात् सत्यार्धान्नेत्रे निमीलिते । असौ तु देवासुरलक्षणाभेदेन सत्तामुभयविधा मन्यते । यथार्थ देवत्व नामैतयोरुभयोरेव शक्त्योः समन्वयोत्थापनाभ्यां लभ्यभिति तन्मतम् । शक्तिस्तावदजितव्या, न पुनरितरजनान् कारुण्यं गमयित्वा; व्यक्तित्व ताव- दुत्थापनीयम्, न पुनरितरा व्यष्टीः पीडयित्वा; ज्ञान तावजितव्यम्, न पुनरहकार- परिपोषणाय । यस्य ज्ञान त्वज्ञानान्धकारस्थाना प्रकाशनार्थम्, यस्य शक्तिस्त्वशक्ताना- मनुप्राणनार्थम्, यस्य व्यक्तित्वं च समष्टिसमन्वितमसावेवातिमानव इत्यभिधानार्हः नान्यः। Kondkekarinaam १६. तस्मिन्नेव, षोडशतमे भागे, पृ० २७५-६. १७. तस्मिन्नेव. पृ० २७८. १८. तस्मिन्नेव, पृ० २७५. १६. तस्मिन्नेव, पृ. २८१. .
, सप्तमोऽध्यायः दित्यजीवनम् मानवः किल सुचिरकालाद् देवत्वोन्मुखः । असौ देवत्वं च प्रायश सुदूरस्थम्, पार्थिवलोकभिन्न च मन्वान आस्ते । अतएव स्वर्गलोकः पृथिव्या एतावदूरस्थः, भिन्नप्रकृतिकश्च मतो यथा त लोकं सशरीरः कश्चिज्जनो यातु न पारयतीति सुदीर्घ- कालाद् विश्वस्यते । पार्थिवजीवनपर्यवसानपूर्वकमेव स्वर्गलोको लभ्य इति त्वनेकधर्म- प्रवर्तकानां मतम् । तथा हि मरणानन्तरं सर्वे जीवात्मनः कस्मिश्चित् स्थले एकत्रीभूय, प्रलयकाले आगते सति, ईश्वरस्य समक्ष प्रस्तूयन्ते, ततश्च पुण्यशीलाः स्वर्गलोक प्रेष्यन्ते शेषास्तु नरकमिति तावदिस्लामधर्मावलम्बिनो मन्यन्ते । ख्रिष्टमतमपि प्रायश एतादृशमेव । अत्रापि स्वर्गलोकवासः खलु निश्शेषपार्थिवजीवननिरसनपूर्वको मन्यते । सामान्यजनप्रचलिते हिन्दुधर्मेऽपि प्रायश एवमेव मन्यते । अत्र चेत् किञ्चिद् वैशिष्ट्यं तत् त्वेतस्या मान्यतायां यत् पुरा केचिज्जनाः सशरीरमपि स्वर्ग लोकमारोढ समर्था बभूवुरिति । अथ यावदिस्लाम-ख्रिष्टमतानुसारं जीवने दिव्यत्वे चात्यन्तिको विरोधः, तावद् हिन्दुमते एतयोर्मध्ये सामञ्जस्यापि सम्भावनोपस्थापिता । एनामेव सम्भावनामवलम्य श्रीअरविन्दो दिव्यजीवनसिद्धान्तं प्रतिपादयति । एतन्मते, स्वर्गो न केवलं जीवनविसर्जनपूर्वक लब्धु योग्यः, न च सशरीरं कश्चिद् विशिष्टैर्जन- रारोढु शक्यः, अपितु सम्पूर्ण जीवनतत्त्वे सुतरामवतारणार्हः । मानवः खलु विकासशीलः । स च पशुत्वादुत्थायैना समुन्नतिमानीतः । एषा समुन्नतिस्तु भौतिकी अप्यस्ति आध्यात्मिक्यपि । सम्प्रति त्वसौ बुद्धिविलासस्य परा कोटिमारूढः । एषा तु मानसविकासस्य पराकाष्ठा। नन्वत्र केषाञ्चिन्मतं यदतः परं सम्भावितं विकासजातं सर्वथा मानसमेव भविष्यति । एव मन्वानस्तु विस्मयते यज्जगन्न कदाचिदप्येकस्यां भूमिकायां गतिशून्यं भूत्वाऽवस्थितमिति । एतस्मिंस्तु जडतत्त्वाज्जीवनतत्त्वमुद्भूतम्, जीवनतत्त्वाच्च मनस्तत्त्वम् । अथ मन एव जगत्प्रवा- हस्यात्यन्तिक चरणं स्यादिति कथ नाम श्रद्धेयम् । मनसः पारे किञ्चिन्नेति न वाच्यम् । युगे युगे ह्यतादृशी मनीषिणो वभूवुर्यैर्मनसः पारं गत्वा तद्देशीयैः सन्देशैर्मानवलोक आप्यायितुमीप्सितः। एतैर्मनीषिभिः तदनुयायिभिश्च पृथिव्यां यद्यत् संशोधनमभि- श्रीअरविन्ददर्शनम् लषितं तत्तच्चरितार्थमेवाभूदिति तावन्न वक्तव्यम् । परन्त्वेतदपि नोपपाद्यं यत् तेषां प्रयासो नितरां निष्फलः सजात इति । एतैर्मनीषिभिर्हि पशुत्वान्मानवत्वाविर्भाव महदुपकृतं नाम । यत्सत्यम्, देवत्वसन्देशवाहकैरेतैर्मनीषिभिस्तावन्मानवत्वं देवत्वे न विपरिणीतम्, तथाप्येतदसन्दिग्वं यत् पशुत्वं न्यूनबमानीतम्, मानवत्वं दृढीकृतम्, देवत्वं चोदावितम् । चेत् ते पृथिव्यां देवत्वमवतारयितु कृतकार्या न' बभूवुः, तस्य तु द्विविध कारणम् । प्रथमे कल्पे, तैः सम्पङ् नावगत तत्त्व वस्तुत यद् विकासक्रमागतमवरसोपा. नीय उच्चतरसोपानीये तत्त्वे परिणेतु शक्यते इति । एतस्मात् कारणात् तैविबुद्धं यदेष मानवीयो लोकः कदाचिद्दीव्यीकरणाह इति । एतस्याः सम्भावनाया अभावे तैः खल्वेतस्मिन्नेव व्यापारे सन्तोषो मतः यद् याः काश्चिद् व्यष्टयोऽवबोधयितु शक्या ता एव मृत्योः पश्चाद् देवत्वं प्रापणीयाः स्युः । द्वितीये कल्पे, एष जागतिकविकास- सिद्धान्तः प्रतीयते यत् सोपान विशेषस्थितं तत्त्वं तावदग्रिमसोपाने अनुत्थापनीयं भवति यावत् तत् प्रस्तुतसोपाने सम्यङ् न व्यवतिष्ठते । यथा सोपानारोहणव्यापारे खल्वेकः पादस्तावन्नाग्रिम सोपाने उत्थापयितु शक्यते यावदपरः पादः पूर्वसोपाने सम्यङ्न्यस्तो न भवेत्, तथैव जागतिकविकासप्रक्रियायामपि देवत्वं खलु तावदारोढुं न शक्यते यावन्मनः स्वीये सोपाने सम्यग्व्यस्थित न भवेत् । सम्प्रति विज्ञानयुगे मनस्तावत् प्रभूतमुत्कर्षं गतम् । विश्लेषणपूर्वकं पदार्थावगतिरेव तत्कार्यम् । एतस्मिन् कार्य त्विदानी तत् सम्यग्व्यवस्थितम् । अथाधुनैतदग्रिमविकासमोपाने चरणन्यासाई संवृत्तमिति श्रीअरविन्दो मन्यते । अथ मनस ऊर्ध्व सङ्क्रमणाय पूर्वतरसङ्घटितारोहप्रक्रियानुसारमारोहलक्षणं व्यापारद्वयमपेक्ष्यते । आरोहलक्षणो व्यापारस्तु मनोनिहितसच्चिदानन्दतत्त्वस्य स्वत्वप्राप्त्यभीप्साप्रचोदितो भवति । अवरोहलक्षणो व्यापारश्च सच्चिदानन्दोन्मुखे मनस्यतिमानसचैतन्यावतारभूतः । एतयोरुभयोर्व्यापारयोः संयोगेनातिमानसः सोपानः प्रापणीयः। सम्भावितेनातिमानसविकासेन त्वान्तरवाह्यभेदेन द्विविधन भवितव्यम् । एतयोर्मध्ये आन्तरिको विकासस्तु प्राथमिकः एष तावत् सुचिरकालात् सम्पन्नप्रायो- ऽपि प्रतीयते । अनेकसहस्रवर्षेभ्यः किल मनीषिणः स्वर्गोन्मुखाः, अध्यात्मनि दिव्यत्व- दर्शिनश्च संवृत्ताः । अनेन प्रकारेण दिव्यीकरणस्यान्तरिको व्यापारः सुतरां पूर्वनिष्पन्न एव । इदानीं त्वसावेव व्यापारो बहिर्जगत्यपि सम्पादनीयः ।। । " १. श्री अरविन्दम्य, दि लाइफ डिवाइन, पृ० ११२.
दिव्यजीवनम् ६३ तु बाह्य जगतोऽपिदिव्यीकरण साधनं चैतन्यमिति श्रीअरविन्दो मन्यते । चित्शक्ती चैतन्य-शक्त्योरन्योन्याश्रितत्वात्, लोकेऽपि यादृशं चैतन्यं भवति तादृशी शक्तिरपि । मनःसोपाने खलु चैतन्यं विभोजनशील भवति । एतस्मात् कारणान्निखिलमपि जगदति- सूक्ष्मावयवसङ्घातभूतमिति मानवः सम्प्रति मन्यते । विभाजनपूर्वकमेवासौ प्रत्येक पदार्थ ज्ञातु चेष्टते । असावात्मान मितराभ्यो व्यष्टिभ्यः पृथक्करोति, ससाराच्च विविनक्ति । एतस्मादेव पार्थक्यभावादसावहंकारपरवशो भवति । अहंकारवशीभावाच्च सस्मिन् स्वार्थवृत्तिप्राधान्यं भवति । अथा सौ युयुत्सुर्भूत्वाऽऽत्मान महति कष्टे निपातयति । अनेन प्रकारेण मानसचैतन्योपजन्यमज्ञानम्, अन्योन्यभेदवृत्तित्वम्, अहकार- वशित्वम्, स्वार्थपरत्वम्, संघर्षोन्मुखत्वं च मानवजीवनस्य साम्प्रतिकानि कष्टमूलानि । एतेषां सद्भावान्मानवजीवनमिदानीमासुरीकृतं विद्यते । पुनश्च मानवजीवनस्येतरं कष्टमूलं जीवनतत्त्वमिति मन्तव्यम् । यान्त्रिकत्वलक्षणाज्जडतत्त्वादचिरोत्पद्यमानत्वा- देतत् तत्त्वं खलु यान्त्रिकचैतन्यमयमस्ति । एतद् यान्त्रिकनैतन्यमयत्वं सहज-मूलप्रवृत्त्या- त्मकक्रिययो रूपेणाभिव्यज्यते । एताभ्यां क्रियाभ्यामवनद्धत्वान्मानवः केनचिदुदात्तेन मार्गेण जिगमिषुरपि सन् प्रायशोऽसफली भवति । तज्जीवनान्तहितं यान्त्रिकत्वं तावद- चेतनरूपेण तच्चैतन्यमभिदूषयति । तन्निहिताऽर्धयान्त्रिकी मूलप्रवृत्तिश्चावचेतनं रूपम- वधार्य तदीयमुच्चतरं चैतन्यं परिसीव्यति । अतएव सुचिरकालादुदात्तचैतन्य महर्षिभि- र्मुहुर्मुहुरुपदिश्यमानोऽपि मानवोऽवचेतनाचेतन चक्रान्निर्गन्तु न शशाक । विश्वामित्र- वामदेव-वसिष्ठ-याज्ञवल्क्य - कृष्ण-जरथुस्त्र - बुद्ध-महावीर-कन्फ्यूसियस - खिष्ट-मोहम्मद- नानक-कबीर-रामकृष्ण-सदृशैर्मनीषिभिनिजिगमयिषितोऽपि मानवो जीवनतत्त्वदूषणकर्दमे इदानीमपि विचेष्टमानो दृश्यते । असौ तावदेतस्माद् दूषणान्निर्गन्तुमिच्छतीत्यत्र नास्ति कश्चित् सन्देहः । एतदर्थमेव तेन स्वर्गः प्रकल्पितः । किन्तु जीवनविसर्जनपूर्वकत्वात् स्वर्गमार्गस्तावदप्रशस्तः प्रतीयते । प्रशस्त उपायस्तु स यो जीवनतत्त्वविकासपूर्वकः स्यात् । जगतश्चैतन्यमूलकत्वात्, जागतिक विकासमोपानानां च चैतन्यव्यवस्थितत्वात्, तदनुरूप- चैतन्याविर्भावेनैव जीवनतत्त्वं संशोध्यम् । अथ जीवनमनस्तत्त्वयोः संशोधनार्थमतिमानसं चैतन्यमवतारणीयम् । एतदर्थ तावत् कैश्चिज्जनैर्मनोऽतिक्रमणपूर्वकमतिमानसीष्ववस्थासु प्रवेष्टव्यम् । कश्चिदप्यग्निमो विकासो हि व्यष्टिमुखेनैव प्रारभते । समष्टिस्त्वत्र व्यष्ट्यनुयायिनी भवति । यत्सत्यं "व्यष्टिर्नाम विकासकुञ्चिका। एषा ह्यात्मानमन्विष्यति सत्तां चावबोधयते । जनसमू- ६४ श्रीअरविन्ददर्शनम् हस्य गतिस्तु प्रायेणावचेतनामिका भवति ।"२ एता व्यष्टय : खल्वात्मोन्मुखीभूयानु क्रमेण मनः, उच्चतरमनः, प्रकाशमानमनः, अन्तर्ज्ञानम्, अधिमानसं चातिक्रम्यातिमानसं प्राप्स्यन्ति । अतिमानसप्रकाशेन तु मनःप्रभृतीनामज्ञानमामूलमपध्वस्त भविष्यति, तेन सह तेषा कल्मषजात च । एतेन व्यापारेण त्वानुक्रमिकेण भवितव्यम् । सान्निध्यात्, सूक्ष्मत्वाच्च प्रथमं तावदतिमातसप्रकाशेनाधिमानस प्रकाशितं भविष्यति । तदनन्तरमेष प्रकाशोऽनुक्रमेणान्तर्ज्ञानम्, प्रकाशमानमनः, उच्चतरमनश्च पावयिष्यति । अथैष जीवन- तत्त्वम् जडतत्व च प्रवेक्ष्यति । अतिम नस चैतन्यं तु दिव्यम् । अथ तदीय दिव्यत्व किल आजडतत्त्वं पदार्थजात दिव्यीकरिष्यति । अनया रीत्या कासुचिद् व्यष्टिषु दिव्यीकृतासु सत्सु, ताभिरेव समष्टिरपि दिव्यत्वोन्मुखी कारयिष्यते । द्वयोरपि सच्चिदानन्दोपजायमानत्वात्, व्यष्टिसमष्टी खल्व- न्योन्याश्रिते, अन्योन्याविष्कृते च भवतः । चेदारोहारम्भे समष्टियष्टिमुपजनयति, तर्हि तदनन्तरं व्यष्टिः समष्टित्व मुपजिगमिषति ! अतिमानसीये चैतन्येऽवतीर्णं सति तु, अज्ञान- निरासात्, व्यष्टिः सामष्ट्योन्मुखी भविष्यति । सामष्ट्योन्मुखोऽतिमानसज्ञानी खलु व्यष्टि- समष्टिविभेदमपाकरिष्यति। अमौ हि व्यष्टौ समष्टि द्रक्ष्यति, समष्टौ च व्यष्टिम् । अथातिमानसचैतन्योद्भासिता व्यष्टिः स्वं परिवेशमपि ताद्रूप्येणोद्भासयिष्यते । अनेन प्रकारेण बह्वीषु व्यष्टिषु स्व-स्व-परिवेशोभासनपरासु सत्सु निखिलमपि जगत् तच्चैत- न्योभासितं भविष्यति । अतिमानसचैतन्यस्य तु सदानन्दानन्यत्वात्, तस्मिन् सामष्ट- येनावतीर्णे सति जगदपि सदानन्दात्मक भविष्यति । ननु दिव्यीकृत जीवनतत्त्व किंविधं भविष्यतीति त्विदानी विचारास्पदम् । प्रथमं तावदेतावता नानुमेयमेतद्विधं तत्त्वं स्वत्वविहीन भविष्यतीति । तत्त्वान्तरवदेत- स्यापि तत्त्वस्य शाश्वतिकत्वात्, दिव्यीकरणानन्तरमप्येतन्नाम तथैव स्थास्यति यथेदानीम् । तद्गतः परिणामस्तु तस्य प्रकृती व्यापारेषु चौदात्त्यमाविर्भावयिष्यति । एतत्तत्त्वं यावदिदानी सहजक्रियया, मूलप्रवृत्त्या च प्रेर्यमाण प्रवर्तते, तावत् तदानीमति- मानसचैतन्यालोके प्रवर्तिष्यते । अतिमानसं चैतन्य प्राप्य सहजाः क्रियाः, मूलप्रवृत्तयश्च ज्ञानात्मिका भविष्यन्ति । फलतः अज्ञानलक्षणो व्यापारजातो विसृष्टो भविष्यति । काम- क्रोध-मद-लोभ-मोह-जुगुप्सा-युयुत्सा-भय-रागद्वेषप्रभृतिवृत्तय उन्मूलिता भविष्यन्ति । एतासां प्रवृत्तीनामुन्मूलनात्, जीवनविकासक्रमो निर्द्वन्द्वात्मको भविष्यति । . २. तस्मिन्नेव, पृ० १२४८, दिव्यजीवनम् - जीवनतत्त्वे दिव्यीकृते सति, शरीरतत्त्वमपि तदनुरूपं परिण मिष्यते । साम्प्र- तिकं मानवशरीरं त्वंगतो जीवनतत्त्वनिहितेन चैतन्येन चाल्यते, अशतो मनस्तत्व- निहितेन, अशतश्च स्वगतेन । एतच्चैतन्यत्रयं त्वनुक्रमेणावचेतनचेतनाचेतनाभिधम् । अतिमानस वैतन्ययोगात् त्वेतच्चैतन्यत्रयमपि सन्मयम्, आनन्दमय च भविष्यति । यथा खनु चित्तवृत्तीनामवस्तादचेतनावचेतनातिचेतनात्मकमतिबृहद्वैतन्यक्षेत्रमधिगम्यते, सम्मिलितरूपेण स्थूलशरीराभिधाना दैहिकव्यापाराणामधस्तात् सूक्ष्मशरीराभित्र देह- संस्थान प्राप्यते । एतत् शरीर तु स्थूलशरीरापेक्षया व्यापकतरम्, स्थिरम्, सुखदु ग्व- द्वन्द्वातीतं च भवति । अतिमानसचैतन्येन चेतनावचेतनाचेतनाभिरे चैतन्यत्रये प्रकागिते. विशदीकृते, उन्नीयमाने च सति सूक्ष्मशरीरसुलभा धर्माः स्थूलारीरेन्याविर्भविश्यन्ति परिणामतः, एतदपि नद्धान्वितं भविष्यति । ननु दिव्यीकृतमनोजीवनशरीराणां जनानां समाजः कीदृशो भविष्यति ? च्याप्टे: शाश्वतिकत्वादेतत् तूपपन्नप्रायमेव यत् तस्यामप्यवस्थाया तामा सद्भावो भविष्यति । अथासौ समाज एतासां व्यष्टीना सङघटनादुत्पत्स्यते नाम । परंतु स्वभावस्योन्नीय- मानत्वात्, व्यष्टीनामन्योन्य गतः सम्बन्धः स्वरूपोत्थापनं प्राप्स्यति । परिणामतः, अनेक- त्वविशिष्टास्वपि तास्वतिमानसचैतन्योद्भावितमेकत्वमनुभवपदभागमिष्यति । योन्यविभेदजन्यानि निखिलानि दूषणान्येतस्मात् समाजान्निर्मूलितानि भविष्यन्ति । अत्र राग-द्वेष-संघर्ष-जुगुप्सा-पशुन्य-हिसाप्रभृतयो वृत्तयोऽनवाप्ताबकाशा भविष्यन्ति । एतद्विधः समाजः तथैव सामञ्जस्यनिष्ठो भमिप्यति यथा रागभेदेऽपि किन्नत सङ गीतक समन्वितं भवति ।४ अपरं च, व्यष्टे: समाजस्य च सर्वासा क्रियाणा निमि- ताज्ञानपूर्वकत्वेन ज्ञाननिष्पादितत्वात्, अज्ञानजन्यमपि निखिल दूषणमपसार यिष्यते । अथ भ्रान्तिव्यामोहासाफल्यादीन्यपि निरस्तानि भविष्यन्ति । अन्ततः सर्वव्याट्रीना दुःखदैन्याशक्तिनिराशाद्यतीतत्वात् निखिलोऽपि समाज आनन्दाप्यायितो भविष्यति । नन्वेतादृशः परिणामः सपदि भविता, अनुक्रमेण वा? अतिमानसचैतन्य- सामस्त्यविमर्शात्त प्रथमो विकल्पो बलवत्तर: प्रतीयते । किं तु यथा सच्चिदानन्द एकोऽपि सन् नानेकत्वविरुद्धः, सद्भूतोऽपि सन् न परिणामविरुद्धः, एवमेव सामस्त्य- लक्षणमप्यतिमानसचैतन्यं नानुक्रमविरुद्ध स्यात् । यत्सत्यम्, अनुक्रमेणव तदधिमानस- प्रभृतिष्वध्यात्मतत्त्वेष्ववतरणशीलामति तदमिज्ञानां मतम् । एवं सति, सानुकममेव देन ३. तस्मिन्नेव, पृ० ३११. ४, तस्मिन्नेव, पृ० १२२७०८, - ६६ श्रीअरविन्ददर्शनम् मनोजीवनजडतत्त्वान्यनुव्याप्तानि स्युः । अनेन प्रकारेण, मनस्तत्त्वे दिव्यीकृतेऽपि जीवन- तत्त्वमदिव्यं स्यात्, जीवनतत्त्वे दिव्यीकृते च शरीरतत्त्वमदिव्यीकृतम् । दिव्यत्वमात्रा- यामपि न्यूनाधिक्यं भवितुमर्हति । सान्निध्यासान्निध्य भेदात्, एकस्मिन्नेव काले जीवन- तत्त्वं जडतत्त्वाद् दिव्यतरं भवितुमर्हति, मनस्तत्त्वं च जीवनतत्त्वात् । अथ दिव्यीकरण इति पदान्नानुमितं स्यान्निखिलमपि जगत् सर्वभावेन सपद्येव भिन्नस्वरूपकं भविष्यतीति । वस्तुतस्त्वेतस्यापि लोकस्य सच्चिदानन्दाभिप्रेतत्वात्, एतदुन्मूलनं कथमपि तदभिमतं न स्यात् । अतएवैतस्मिन् दिव्यीकृतेऽपि सति वस्तु-व्यापारयोर्नानात्वं सुतरां सम्भाव्यते । वैशिष्ट्य स्वेतन्मात्रं भविष्यति यज्जगति दिव्यीकृते सति वस्तून्य- ज्ञाननिमग्नानि न भविष्यन्ति, व्यापाराश्चाज्ञानप्रेरिताः। यथा जगति दिवापि तान्येव वस्तूनि ताश्चैव क्रिया भवन्ति यास्तु रात्री, कि तु सौरं प्रकाश प्राप्य वस्तूनि भिन्ना- काराणि भवन्ति, क्रियाश्च भिन्न विधाः, तथैव दिव्यीकृते जगत्यपि तान्येव वस्तूनि भविष्यन्ति ताश्चैव क्रियाः, किं त्वतिमानसं चैतन्यं प्राप्य तेषां प्रकृती तासां विधौ च महद्विपरिणाम उत्पत्स्यते । ननु श्रीअरविन्दप्रतिपादितो दिव्यजीवन सिद्धान्तो भारतीयचिन्तनपरम्पराया- मद्भुतः सन्निवेश इति प्रमाणीकर्तुं शक्यते । वेदेषु दिव्यजीवनविषयकाः केचन् सङ्केताः प्राप्यन्ते नाम, किन्त्वेतस्य तथ्यस्यावबोधोऽपि सर्वप्रथम श्रीअरविन्देनैव कारितः । पूर्ववर्तिनो भाष्यकारास्त्वेतादृशान् सङ्केतान् लोकान्तरमुखेनैव व्याख्यातवन्तः । एतस्य दीर्धकालपर्यन्तस्य भ्रमस्य कारणं त्वेतेषां सङ्केतानामल्पत्वम्, विकीर्णत्वं चेति मन्त- व्यम् । श्रीअरविन्देन तु न केवलमेते विकीर्णा ज्ञानलवा: सङ्कलिताः, अपितु सोपपत्ति- सिद्धान्तिताः, प्राशस्त्यं चोपनीताः । अपरं च, सम्प्रति वेदर्षि प्रतिपादितो देवत्वावतार- मार्गो विस्मृतप्रायः सजातः । श्रीअरविन्देन त्वेष न केवलं सुतरां स्मृतिपथमानीतः, अपितु प्रशस्तः सुगमश्च कृतः । वेदाभिमतस्य दिव्यीकरणमार्गस्याप्राशस्त्यात्, विस्मृतप्रायत्वाच्च परवर्तिनो वेदान्ताचार्याः तस्माद् विमुखीभूय तद्विरोधिनः संवृत्ताः । तथा हि, जीवनतत्त्वगतानि दूषणानि ब्रह्मतत्त्वं न प्रदुष्येयुरित्यनर्थ मनवकाशं प्रापयितुं श्रीशङ्कराचार्यः तद्दिव्यी- करणस्थाने जीवनतत्त्वमेव मायाकोट्यामवक्षिपति । तन्मनसि कदापि नोत्पन्नं यद् ब्रह्मयोगेन जीवनतत्त्वमेव ब्रह्मत्वं प्राप्त महतीति । ५ श्रीरामानुजाचार्यस्तु चिदचित्- तत्त्वे आत्मशरीरत्वेनोपकल्प्य, अर्थतयोरन्योन्यसहवासावसरमाविष्कृत्यापि, अन्योन्य- ५. श्रीशङ्कराचार्यस्य, ब्रह्मसूत्रभाष्ये, २११६.
दिव्यजीवनम् ६७ प्रभावकत्वप्रसङ्गाद् विमुखीभूतः। तन्मतेन "शरीरगतास्तु दोषा नात्मनि प्रसज्यन्ते, आत्मगताश्च गुणा न शरीरे ।"६ श्रीअरविन्दस्तु ब्रह्मणा सह जडजीवनतत्त्वयोरेकत्व- मुप गद्य त विधि प्रदर्शयति येनातिमानसं चैतन्यं खल्ववराणि तत्त्वजातानि स्वेन चैतन्य- प्रकाशेन प्रकाश्योन्तुमर्हति । चैतन्य-वल्लभ-शैवेषु जगद्दिव्यत्वप्रत्ययस्य केचिदाभासाः प्राप्यन्ते नाम । तथा हि, जगत् परमेश्वरस्य लीलाभूमिर्यत्रासौ जीवैः सह रममाण आस्ते, यत्र च जीवाः तेन सह रममाणाः शनैः शनैर्दिव्यत्वोन्मुखा इति श्रीचैतन्यो मन्यते । एवमेव “यमुना- पुलिननिकुञ्जगोवर्धनादि"स्थनी कुण्ठादप्यविकतरानन्दमयी: "विचित्रलीलाकारणा- दिति" श्रीवल्लभाचार्यः । ७ असौ तु "भक्तानां तु देहेन्द्रियादिकमपि मायातकार्यरहित- त्वेनानन्दरूपत्वेन च भगवदुपयोग्यतोऽपि तत् तथे" ति प्रतिपादयन् देहपर्यन्तमपि दिव्यीकरणब्यापारमनुभवति । अनेनैव प्रकारेण, चितितत्त्वे उन्मग्ने सति विश्व स्वरूपाभेदेन प्रतीयते इति प्रत्यभिज्ञाशास्त्रे मन्यते । एनामेव प्रतीतिमवलम्ब्य कश्मीरशैवाः "जगदानन्दम्" परिकल्पयन्ति । एतस्माज्ज्ञायते यत् श्रीअरविन्दपूर्वमपि भारतीयचिन्तनपरम्परायां जगतो दिव्यत्वमधिकृत्य यावदेकस्मिन् पक्षे महान् विरोध आविर्भूतः तावदन्यस्मिन् पक्षे यदा कदा केचिद् विचारलवाः प्रकटीकृताः । किं त्वेते सर्वे एव प्रायशो भक्तिभावोद्रेकभूताः, विशिष्ट- व्यष्टिचैतन्यमात्रनिर्भराश्च । अतएवैतस्मिन् दिव्यीकरणे चेत् किञ्चित् स्वरूपोत्थापनमपेक्ष्यते तत्तु विशिष्टव्यष्टिचैतन्यमात्रे, न तु सामान्यजगति । यदा काचिद् व्यष्टिर्भक्तिभावोद्रेकोन्नीयमाने चैतन्यसोपाने आरोहति तदा तस्यै वस्तुतः पूर्ववदेव स्थितं जगत् परमेश्वरलीलाभूमिरिव प्रतीयते, यावदन्येषाम- भक्तानां कृते तु तत् पूर्वस्वभावस्थमेव भवति । अथ यावदेतेषु मतेषु दिव्यीकरण वैयक्तिकम्, व्यष्टिभावमात्रनिर्भरं च भवति, तावत् श्रीअरविन्दमतेनैतद् व्यष्टिसमष्ट्य - भयव्यापकम् वास्तविकं च । ६. श्रीरामानुजाचार्यस्य, श्रीभाष्ये, २११६. ७. अणुभाष्ये. ४।४।१. ८ तस्मिन्नेव, ३.४१३८. ६.प्रत्यभिक्षाहृदये, सूत्र १५.
अष्टमोऽध्यायः दुःखपापादिकारणनिरूपणम् जगतो दिव्यीकरणे सर्वाधिकमन्तरायकारक तथ्यमेतस्यामङ्गलासुखादिमयत्व- मित्युपपादयितु शक्यते । अत्र पदे पदे दुःखमनुभूयते, पापं प्रत्यक्षीक्रियते, अशिवं चाशक्यते । मानवेतिहासस्यारम्भकालादेवैतत्सर्व विद्यमानं सन्नद्यापि प्रभूतमात्राया दृग्गोचरी क्रियते । कि बहुना, मानवेषु सततमपाकरणव्यापारसंलग्नेष्वप्येतदनुदिनं प्रवर्धमानमिव लक्ष्यते । पशुजीवने एतस्य सापेक्षिकं वैरल्यं मानवजीवने च बाहुल्यं विमृश्य कोऽपि विचारशीलः प्राणी दिव्यीकरणयोजनाया मिथ्यात्वं प्रतिपत्त मर्हति । अपरं च, दिव्यीकरणव्यापारभिन्नेष्वपि स्थलेषु सच्चिदानन्दपरायणा श्रीअरविन्ददर्शन- सरिद् दुःखपापाशिवादिशिलोच्चयप्रतिहता सती निरुद्धवेगेव प्रतीयते । ननु सच्चिदा. नन्दो जगन्मूलं चेत्, संसारेण दुःखादिशून्येन भवितव्यमिति प्रतितर्कोऽनायासमुपजृम्भते । श्रीअरविन्दस्त्वेना समस्यां कथं समाधत्ते इति सम्प्रति विचाराहम् । प्रथमं तावद् दुःखबहुलं प्रतीयमानमपि जगत् परमार्थतो न तथाविधमिति श्रीअरविन्दस्याधारभूतः सङ्कल्पः । जगदेतद् दुःखबहुलं चेत्, कोऽप्यत्रोच्छ्वसितुं नेच्छेदिति तस्य तर्कः। जनास्तु दुःखिता अपि, पापान्विता अपि, अशिवमाशड्कमाना अपि जिजीविषन्ति । केचिन्नगण्यसख्याका विक्षिप्तमनस एव प्राणधारणान्मृत्युं प्रियतरं मन्यन्ते । आकीटमानवव्यापृतां जिजिवीषां परामृश्य जगद्द :खबहुलमिति खलु नोररी- कर्तुं शक्यते। ननु भवेन्नाम दुःखं सुखादल्पतरम्, तथाप्येतद् बलवद् उद्भगकरमित्यत्र नास्ति संशयावकाशः । तथा ह्यनुत्पन्नदुःखो जनो न तथा सुखायते यथोत्पन्नदुःखो जनो दुःखायते । अथैतावतानुमातुं शक्यते जगति दुःखं बलवत्तरमिति । श्रीअरविन्दस्त्वे- तस्मिन् तथ्येऽन्य विधमेव रहस्यमनुसन्धत्ते । तन्मतेन, दुःखस्योद्वेजकत्वं खलु तदसा- मान्यत्वं निर्दिशति । सामान्यत्वेनानुस्यूतत्वात् सुखं तावदनुभूयमानमपि निविशेष प्रतीयते यावदसामान्यत्वाद् दुःखं नामोदवेजकं भवति ।' १. श्रीअरविन्दस्य, दि लाइफ़ डिवाइन, पृ० ११०. - दुःखपापादिकारणनिरूपणम् ननु भवेन्नाम दु:खमसामान्यं कादाचित्कं च, परं मौलिकः प्रश्नस्तु पूर्ववदेव बद्धमूलोऽवस्थितः। कस्माद्धेतोः सच्चिदानन्दमात्रकारणं जगत् तावन्मात्रमपि सन्मय न यथा पापं नोत्पद्येत, तावन्मात्रमपि चिन्मयं न यथाऽशिवं परिवर्जयेत्, तावन्मात्रं चाप्यानन्दमयं न यथा दुःखं नानुभवेत् ? सच्चिदानन्दमात्रपरिणामभूतमपि चेदेतदेत- द्विधम्, तहि दुःखादीनामल्पतरत्वमाधनमात्रेणैषा समस्या समाधानपथं नावतारयितु शक्यते ।२ केचित् पुनः कर्म सिद्धान्तमवलम्ब्यैनां समस्या समाधातु प्रयतन्ते । मच्चिदा- नन्दकल्पेश्वराज्जायमानमपि जगद् वस्तुतो जीवकृत कर्म फलोपादानम् । कर्मफलस्य च सुखदुःखाद्यात्मकत्वात्, जगदपि तादृश भवतीति तेषा मति:। श्रीअरविन्दस्त्वेतदपि समाधानं पर्याप्तं न मन्यते । कर्मफल नाम सुखदुःखलक्षणमित्यत्र नास्ति काचिद् विप्रतिपत्तिः । प्रश्नस्त्वेष किमर्थ खलु जीवा दुःखोत्पादकं कर्म कुर्वन्तीति । पूर्व जन्म- कृत कर्म कारणत्वेनोपयुजीत चेत्. किमर्थ तादृग्रूपेणैव तत् कृतमिति प्रश्न. समुल्ल- सति। एवं कार्यकारणपरम्परामवलम्ब्य कियन्मानमपि कि न प्रतिनिवर्तत, आद्य- कर्मणो दुःखाद्युत्पादकत्व स्वगतसमाधानार्ह कथमपि न भविष्यति । पुनश्चैतस्या कार्य- कारणपरम्परायां प्रेरकत्वेने श्वरेच्छायाश्चेत् सन्निवेशः कुर्यात्, तयैवाद्य कर्म तथाविध कारितमिति, तत्राप्याधः प्रश्न उत्पत्स्यते किमर्थ तथाविधेनेश्वरेण तथाविधं दुःखाधु- त्पादक कर्म कारितमिति । अपरं च, तथाविधं कर्म सकृत् कारयित्वा चेदसौ तस्मात् प्रतिनिवृत्तोऽभविष्यत्, तदपि क्षम्यं स्यात् । तेन तु न केवलं प्राथमिकी प्रेरणव प्रदत्ता, पर च कर्मसिद्धान्त एवं विधो विहितो यथा शाश्वतिको दुःखादिप्रवाह उत्पादितः । किमीश्वरे एव किञ्चद् दुःखादिमयत्व विद्यते येनासौ जीव तदुन्मुख करोति ? किन्त्वे- तादृश ईश्वरः किल स्वत्वच्युतो भविष्यति । 3 एतदेव काठिन्यमाकलय्य खलु केचित् तावद् दिव्यादिव्यभेदेन पारमाथिक कर्तारं द्विविधं मन्यन्ते । तेषां मतेन, दिव्यः कर्ता मङ्गलकारकः सुखप्रदश्च, अदि व्यश्च कर्ताऽशिवो दुःखोत्पादकश्च । एषोऽदिव्यः कर्ता तेपु तेषु मतेषु अह्निमन्- असुर-सैटन-प्रभृतिभिर्नामभिः प्रथितः । एतत् समाधान तु मामान्यदृष्ट्या सङ्गतं प्रतीय- मानमपि सत् विशिष्टतर्कदिशा, अनुभूत्या च परीक्षितं सत् स्वीयामसङ्गतिमुन्मीलयति । एतस्मिन् समाधाने स्वीकृते सति ह्यात्यन्तिकं सत्ताद्वित्व प्रसज्यंत । तर्कः, अन्तश्चैतन्यम्, अध्यात्मानुभूतिश्च समवेत्य निर्दिशन्ति यज्जगदतमत्तात्मकमिति । २. तस्मिन्नेव, पृ० १११. ३ तस्मिन्नेव, पृ० ११२. ४. तस्मिन्नेव पृ० ४७२.
७० दुःखपापादिकारणनिरूपणम् एवं सति, मूलप्रश्नः पुनरेवोत्तिष्ठति किमर्थ कथ चाद्वै तलक्षणः सच्चिदानन्दो दुःखादिमयं जगत् सृष्टवानिति । दुःखादिक खल्वभावलक्षणमिति तु श्रीअरविन्दः । सिसृक्षुः सच्चिदानन्दो यदाऽऽत्मतपसाऽऽत्मानमात्मनि विलीय सदसति तिरोधत्त, चिदचिति, आनन्दं च निरानन्दत्वे, तदा तत्तिरोधानफलस्वरूपम् असदचिन्निरानन्दत्वं चोपजायन्ते । एतानि तत्त्वानि तु न कथमपि सच्चिदानन्दबहिर्भूतानि, तस्याद्व तत्वात्; नैव तदात्मभूतानि, अतत्स्वभावकत्वात् । यथा खल्वन्धकारः पृथक्त्वेनानुभूयमानोऽपि परमार्थतः प्रकाशाभावमात्रमेव, तथैवासत्प्रभृतीनि तत्त्वानि पृथक्तत्वलक्षणानि प्रतीय- मानान्यपि परमार्थतः तिरोहितसच्चिदानन्दात्मकान्येव । तिरोधानक्रमेण त्ववरोहस्य पराकाष्ठामागत्य सच्च चिच्चानन्दश्च विलीयन्ते । आरोहकमेण चैतान्येव तत्त्वानि पुनरा- विर्भवन्ति । एतेषामाविर्भावश्चानुक्रमिको भवति । किञ्चिदपि तत्त्वं युगपदेव नोत्पद्यते । सत्तत्त्वम्याविर्भावः प्रथमं तावत् शक्तिस्वरूपो भवति, तदनन्तर च वस्तुस्वरूपः। एवमेव चित्तत्त्वस्यादिम आविर्भावो नाडीतन्त्रवाह्यमानक्षीणसंवेदनस्वरूपो भवति, तदनन्तरं तु शनैः शनैरैन्द्रियकसवेदनस्वरूपः, मानसज्ञानस्वरूपश्च । अनेनैव प्रकारेणानन्दस्यादिमाभि- व्यक्तिर्नाडीतन्त्रवाह्यमानसंवेदनस्वरूपिणी भवति । अनुकूला संवेदना तावत् सुखात्मिका भवति, प्रतिकूला च दुःखात्मिका। एते आनुकूल्य-प्रातिकूल्ये च नाडीतन्त्रसामर्थ्यजन्ये या सवेदना त्वेकस्मिन्नाडीतन्त्रे दुःखमुत्पादयति सैवान्यस्मिन्नाडीतन्त्रे सुखमुपजनयति । सामर्थ्यासामर्थ्यविभेदस्तावत् चित्शक्त्यभिव्यक्त्यानुक्रमिकत्वनिर्भरो भवति । यदा तु किञ्चिन्नाडीतन्त्र काञ्चित्संवेदनां वोढुं समर्थ भवति तदा सुखमनु- भूयते, यदा चासमर्थ तदा दुःखम् । एष एव नियमः सोपानान्तरेष्वपि परिलक्ष्यते । यस्मिन् ज्योतिषि दुर्बलदृष्टिः दुःखमनुभूयते, तस्मिन्नेव ज्योतिषि प्रबलदृष्टिस्तावत् सुखम् । यः शब्दः कस्यवित्कृते कर्णकटुर्भवति, स एवान्यस्य कृते कर्णमधुरः । एवमेव कस्याश्चिदपि भावनायाः सुखमयत्वं दुःखमयत्वं वा तद्ग्राहकस्वरूपमनसः शक्तिमात्रा- मवलम्बते । मनश्शक्तिवर्धनेन दुःखात्मिकापि भावना सुखात्मिकेत्यनुभवितु शक्यते । एष एव तर्कः पापविषयेऽप्युपयुज्यते । पापपुण्ये तावन्न जडपदार्थविषयभूते । न हि कमपि प्राणिन हत्वा प्रवातः कदाचित् पापभाग्भवति । कि बहुना, पापभावना खलु पशुपर्यन्तमप्यलब्धावकाशा। कस्यचिद् हिंस्रपशोः कृते पापीत्य क्तिर्न क्वचिद् व्यवहारपदवी गताऽवलोक्यते । पापभावना तु मनुष्येष्वेव चरितार्था भवति । मनुष्येष्वपि वर्गाद् वर्गान्तरं प्राप्यतस्या भावनाया मानदण्डो भिद्यते । यत्कर्म त्वेकस्मिन् जनसमुदाये पुण्यात्मकं भवति तदेव कर्म समुदायान्तरे पापात्मकमित्यवमन्तु शक्यते । किं बहुना, कालनिमित्तभेदेनैषा भावना प्रतिव्यष्ट्यपि विभिन्नकोटिकेन मानदण्डेन भेया भवति । भवतः ।
श्रीअरविन्ददर्शनम् - जनसंहारो नाम पापात्मक इति व्यवस्थितेऽपि, भगवद्गीताया “यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते, हत्वापि स इमॉल्लोकान् न हन्ति न निबध्यते' इति सानुमोदन प्रतिपादितम् ।५ आत्मज्ञानप्रतिष्ठितः "स्तेनोऽस्तेनो भवति भ्रूणहाऽभ्रूणहा चाण्डालो- ऽचाण्डाल: पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वागतं पुण्येनानन्वागतं पापेन" इत्युपनिषद्यपि श्रुतम् । ६ एतस्माज् ज्ञायते पापपुण्यभावना खलु मनुष्यानुगत- व्यावहारिकचैतन्यमात्रोपनिबद्धेति । यदा तु मानवव्यष्टिः समष्टिं प्रत्यात्मोत्तरदायित्व- मभिज्ञातुं प्रारभते तदा व्यष्टिसमष्ट्योरन्योन्यक्रियाप्रतिक्रियाभ्यां पापपुण्यभावनोपजायते । न त्वेतस्मादभिज्ञानात् प्रागेषा भावनोपजायते न च पश्चादेव । यथा पाशवप्र- वृत्तिनिमग्नो जन एतस्या भावनाया विरहितो भवति, तथैवातिमानसचैतन्यारूढ ऋषि- रेतस्या अतिक्रान्तः। ननु यस्या कस्याञ्चिदप्यवस्थायां दुःखमनुभूयताम्, पापकर्म क्रियताम्, अशिव चाशक्यता नाम, समस्या त्वेषा किमर्थ खलु सच्चिदानन्दजाते जगत्येतैरवकाशो लब्ध इति । अपि नाम सच्चिदानन्दो जीवान् दुःखितान्, पापक्लिष्टान्, अशिवोत्पीड्यमानाश्च दिदृक्षते ? एवं सति त्वात्मस्वरूपात् च्युतोऽसौ रागद्वेषान्वितस्य मानवस्य कोट्या निपतिष्यति । पुनश्चापरे केचिन्मन्यन्ते यज्जीवान् सत्पथे प्रवर्तयितु तैश्चात्मकर्तार स्मारयितुमीश्वरो दुःखपापाशिवादीनि विदधातीति । एवं सति तु यावदेकत ईश्वरस्य सर्वशक्तिमत्त्व बाधित भवति तावदन्यतस्तस्य स्वार्थपरत्वमभिव्यज्यते। मर्वशक्तिमत ईश्वरस्याशक्य नाम न स्याद् यदसौ दुःखादिदण्ड विनैव जनान् सत्पथे चालयेत् । जनैरात्मानं स्मारयितु दुःखादीनि विदधत् असावात्मप्रभावविस्तारचिन्तातरनृप इव प्रतीयते य आत्मनिमित्त जनान् क्लिश्नाति, दण्डयति, भाययति च । एतद्विध ईश्वरः खलु लोकदिशाप्यनैतिकः प्रतीयते । एवं प्राप्ते सति, श्रीअरविन्द एना समस्या मित्थं समाधत्ते । प्रथम तावत् सच्चिदानन्दस्यैव जगद्रूपेण परिणतत्वात्, यत्किञ्चिदपि जागतिक दुःग्वादिमयत्व तन्नाम तस्यानैतिकत्व साधयितुमक्षमम् । आत्मेतरानेव हि प्राणिनः पीडयन् कश्चिज्जनो- ऽनैतिकत्वाधिक्षेपमह ति, न त्वात्मानमेव । नन्विदानीमपि चेदाशयतां किमर्थमसा- वात्मानमेव पीडयतीति, तर्हि श्रीअरविन्द आरोहप्रक्रियान्तर्गतानुक्रमिकत्वमुखेन प्रत्युत्तरति । परिणामानन्दलिप्सुः सच्चिदानन्दो जगद्रूपेणात्मानं प्रस्तौति इति तु ५. भगवदगीतायाम् , १८११७. ६. बृहदारण्यकोपनिषदि. ४।३।२२. - ७२ श्रीअरविन्ददर्शनम् प्रागेव विवृतम् । अथ यावत् सदानन्दो योगपदिको भवति तावत् परिणामानन्द आनु- क्रमिकः । आनुक्रमिकत्वनिमित्त त्वानन्देन ससंयमाभिव्यजितेन भवितव्यम् । अभि- व्यक्तिगतः संयमस्त्वभिव्यक्तिविषयम्, देशकालनिमित्तसापेक्षतया, उच्चावचेनाविर्भवितु- मनुमन्यते । तथा हि, काव्यसर्जनप्रागेव साकल्येनास्वादितं मूलभूतं रस कविः साधारणी- करणनिमित्तमनुक्रमेणाभिव्यजितुमपेक्ष्यते । एतस्यामनुक्रमलक्षणायामभिव्यक्तौ त्वसौ मूलभूत रसास्वादादवतीर्य क्वचिदल्पसुखात्मकं दृश्यमुपस्थापयति, क्वचिदुःखात्मकमपि । अतएव काव्येषुल्लासादिभिः सह विषादादीनामपि योजना दृश्यते । अथ विषादाशमात्र- पाठकः काव्यविशेषं तु दुःखायैव सृष्टमित्यनुमातुमर्हति । सर्वाशपाठकस्तु सम्पूर्णमपि काव्यमानन्दप्रदमिति मन्यते, आनन्दमात्रस्यैव न्यूनाधिकमात्राया रूपभेदेनाभिव्यजि- तत्वात् । एवमेव सदानन्दभूतः सच्चिदानन्दो यदा परिणामानन्दनिमित्त जगत् सृजति, तदाऽऽत्मानन्दस्यानुक्रमिक्य भिव्यक्ति रपेक्ष्यते । एतावता तु नानुमेय यदसावानुक्रमिकाद् मिन्ने पथे प्रचलितुमसमर्थ इति. तस्य सर्वशक्तिमत्त्वात् । अतिमानसे लोके तावदात्माभि- व्यक्तेयोगपद्य मेव लक्ष्यते, आर्षप्रमागात् । अथैतावता केवलमेतदेव बोध्यते यदस्मिन् जगति, सच्चितोरभिव्यक्तिवत्, आनन्दाभिव्यक्तावप्यानुक्रमिकत्व प्राप्यते इति । अपर च, सानु- क्रमाभिव्यक्तेनानन्देनांशिकेन भवितव्यम् । आशिकश्चान द उच्चावचो भवति, उच्चावच- विशिष्टश्चानन्दः सुख-दुःखलक्षणः । सुखदुःखयोरनुभूतिस्तावद् वैयप्टिकी भवति । सम- ष्टिसापेक्षत्वं गता सत्येषैव पापपुण्यभावेन परिणमते । अथाभिव्यक्तिगतानुक्कमिकत्वोत्पन्न दुःखपापादिकम्, अंशतः पृथक्कृत्यालोचितं सत्, अस्पृहणीयम्, अदिव्य च प्रतीयते । एतदेव साकल्येनालोचितं सत् सच्चिदानन्दाभिप्रेतपरिणामानन्दपोषक त्वेन ज्ञायते । दुःखं खल्वा नन्दपोपकम्, पाप च चैतन्योबोध कमित्येन सिद्धान्तमुदाहर्नु श्रीअरविन्दो भाववैषम्यस्य सिद्धान्त पुरस्करोति । सृष्टि रहस्योन्मीलनार्थमेक सुलभं साधनं मानवस्वभाव इत्यसौ मन्यते । आत्मतिरोधानपूर्वकमात्मान्वेपण तावच्चैत- न्याय सर्वाधिकमानन्दप्रदमिति तन्मतिः। वियोगपूर्वकः सयोगो हि महत्तरमानन्द- मुपनयति । कस्यचिद् विजयस्यालादकत्वं च तन्निमित्तकृतायाससापेक्ष भवति । अज्ञानमपि, ज्ञानप्राप्त्यवसरप्रदायकत्वात्, आकर्षणमावहति । अतएव सच्चिदानन्द आत्मानमसति, अचिति, निरानन्दे च तिरोधत्ते । तिरोधानपूर्वकेणात्मान्वेषणेनासावात्म- विपरीते भावेऽन्विष्यात्मानं परिणामानन्दसमृद्ध करोति । अतएवासावेतादृशमारोहपथं - - , ७. तस्मिन्नेव, पृ० १२८, ८. तस्मिन्नेव, पृ० ४७६. ह. तस्मिन्ने पृ०४८७-८.
श्रीअरविन्ददर्शनम् , पापभावना- दु वृणुते यथा दुःखपापाशिवादीनामनुभूतिर्जायत । अर्थतस्माद् विवेचनादवगन्तु शक्यते कथं नाम दुःखादिभ्यो मुक्तिः स्यादिति । यदा जागतिकानुभूतेराशिकत्व तावद् दुःखादीना कारणम्, तदा तत्साकल्येन खल्वेतानि निवार यितव्यानि स्युः । एतदाशिकत्व च मानसचैतन्यविभाजकत्वजन्यमित्यवबोद्धव्यम् । एतस्य चैतन्यस्योदयनेव साधं दुःखादिकमुपजायते, एतस्य समुच्चयनैव सार्ध चोपचीयते । एतस्योदयसमकालमेव हीद्रियसवेदनया सह दु.खमात्रमनुभूयते; विकासपथे प्रसृत्य स्मृतावुपचितायाशिवम शक्यते; आसामप्ट्याक्गतिप्रादुर्भावाच्च ऽऽविर्भवति । अथाशिवानुभूत्यधिष्ठान भूतस्य मानसचैतन्यस्यातिव्र मणे व खादिक निराकर्तुं शक्यते इति श्रीअरविन्दस्य निष्कर्षः । भारतीयचिन्तनपरम्पराया श्रीअरविन्दपूर्व दुवादीन्य धिकृत्याने कानि मत।नि प्रतिपादितानि नाम । तथा हि, माख्यैर्दुःखादीनि खल्वज्ञानजन्यानीति मन्यते । अज्ञानं तु प्रकृतिपुरुषाविवेकलक्षणम् जगदप्ये तस्यैवाज्ञानस्य प्रसूति. । अथाविवेकलक्षणाज्ञान- जयत्वात्. एतदपि निसर्गत एव दुःखादिमयम् । अनेन प्रकारेण यावज्जगत् तावद् दुःखादिकम् । एवं सति, दुःखादेविमुक्तिस्तावज्जगद्विनाशपूर्वकमेव सम्भाव्यते । नन्वेषः साख्याभिमतो दुःखादिविनाशोपायस्तु रोगविनाशोद्दिष्टरुग्णविनाशोपक्रमतुल्यः । भगवान् बुद्धो ऽपि दुःखं तावत् ससारस्य प्राथमिकं धर्ममिति मन्वानो दु खादेनिवृत्त्यर्थ ससार- विनाशनमेवोपदिशति । वेदान्ताचार्या अपि न्यूनाधिकमेवमेव मन्यन्ते । तथा हि, श्रीशङ्कराचार्यो दुःखादीनां कारणं साधारण विशेषभेदेन द्विविधं मन्यते । साधारण कारणमीश्वरः, विशिष्टं तु जीवकृत कर्म । कर्मणा तावदुत्तरोत्तरं दुःखादिकमुत्पाद्यते । संसारस्यानादि- त्वात्, अत्रानवस्थायास्त्वप्रसङ्गः। जीवस्या शानोपहितत्वात्, तत्कृतं कर्म मलिनमथ दुःखादिजनकम् । ईश्वरोऽत्र तथैव साधारण कारणं यथा स्वस्वबीजेभ्यो जायमानाना बीहियवादीना पर्जन्यः माधारण कारण भवति । १° एतदुभयविधमपि कारण परमार्थतो- ऽविद्याजन्यम् । “यथा हि मविना नित्यप्रकाशरूपत्वाल्लोकाभिव्यक्त्यनभिव्यक्तिनिमित्तत्वे सति लोकदृष्टिविपर्ययेणोदयास्तमयाहोरात्रादिकर्तृत्वाध्यारोपभाग्भवत्येवमीश्वरे नित्य- विज्ञानशक्तिरूपे लोकज्ञानापोहसुखदुःखस्मृत्यादिनिमित्तत्वे सति लोकविपरीतबुद्ध्या- ध्यारोपित विपरीतलक्षणत्वं सुखदुःखादयश्च, न स्वतः ।"११ जीवस्यापि विशेषकारण- स्त्रम्, पञ्चकोशलक्षणोपाधिमात्रजन्यत्वात्, परमार्थतोऽविद्यात्मकमिति मन्तव्यम् । - १०. श्रीशडकराचार्यस्य. ब्रह्मसत्रभाष्ये, २१३२४२. १७. तम्यैव, कठोपनिषदभाध्ये ३११.
७४ श्रीअरविन्ददर्शनम् अथोभयविध कारणस्याविद्याजन्यत्वात्, तत्परिणामभूतं दुःखादिकमप्यविद्यात्मकमेव स्यात् । एव सति, विद्यया दुःखादिकं नाम तथै वापसार्य भवति यथा ज्योतिषा तमः । किंतु जगन्मूलकत्वात्, एतेषामात्यन्तिको विनाशस्तावत् तदैव भवितुमर्हति यदा जगदेव विनष्टं भवेत् । अथ शाङ्करमतेनापि दुःखादीना विनाशो जगद्विनाशपूर्वकमेव भवितुमर्हति । श्रीरामानुजाचार्यस्तावद् दुःखादिकस्य याथार्थ्य स्वीकरोति, तद्विशेषकारणभूत- कर्मणः, तदाश्रयभूत जीवस्य, तत्साधारणकारणभूतेश्वरस्य च । कि त्वसावेतद् याथार्थ्य- मीश्वरस्य जगतश्च मध्ये किमप्यतर्कसङ्गतं सम्बन्ध परिकल्प्यैवोपपादयितु क्षमते । तथा ह्यसौ जगत ईश्वरस्य च मध्ये एतादृश शरीर-शारीर-सम्बन्धमन्विष्यति यथा शरीरस्य व्यापारेण शारीरो मनागपि न संस्पृश्येत् । अथ "स्वशरीरभूतचिदचिद्वस्तुगतैर्दोषैः सर्वेश्वरो न सस्पृश्यते इति तस्य तर्को दुःखादिसाधारणकारणभूतेश्वरस्य दुःखाद्यस्पृ- श्यत्वसिद्धये । परं तु शरीर-शारीरमध्ये, अथ च जगद् -ईश्वरमध्ये एतादृशो व्यवधानस्य सन्निधान दुःखादिविषयकसमस्यायाः समाधानस्यानपेक्षितं सुमहत् प्रतिमूल्यं श्रीअरविन्दीय समाधान तु नैवैतादृशं व्यवधानमपेक्षते, न च कस्यचित् तत्त्वस्यासत्त्वसाधनमेव । अत्रैव तव शिष्ट्यम् । नाम । AJMD १२. श्रीभाध्ये, ११४२२, नवमोऽध्यायः कर्मवादप्रतियोगिचैतन्यविकासवादः भारतीयचिन्तनपरम्परायां कर्मवादस्तावत् चिरात् सुप्रतिष्ठित पद लभते । पूर्वतरकृतं कर्म नियतोपभोज्यं फल गृह,णातीत्येतस्य वादस्याधारभूतः सिद्धान्त । एतदनुसारम्, सत्कर्मणः फलं सद् भवत्यसत्कर्मणश्चासत् । अपर च, स्वकर्मानुसार मेव कर्ता पुरस्क्रियते दण्ड्यते वा । यत्सत्यं कर्माणि प्रत्यक्षत एव फलोद्वहानीव प्रतीयन्ते । परं बहूनि कर्माणि तु निष्फलानि विपरीतफनानि चाप्यनुभूयन्ते । ननु कर्मवाद आधारभूतश्चेत्, तर्हि कर्मजातेन सफलेनानुरूपफलेन च भवितव्यम् । एपा विप्रति- पत्तिस्तावत् पूर्वोत्तरजन्मसिद्धान्तमुखेनापाकतु चेष्टिता। अथ केचिन्मन्यन्ते यत् स्वकर्मानुसारं कर्ता देहपरित्यागानन्तरं स्वर्ग नरक वा गच्छति यत्रासौ जीवनकालेऽभुक्त' कर्मफलं भुङ्क्ते, भोगेन फले निवशेषे जाते चेश्वरसन्निधौ शाश्वतकालाय प्रतिष्ठाप्यते । बौद्धास्तु कर्मविपाकमेव जन्मजन्मान्तर- कारणं मन्यन्ते । तेषां मतेन देहावसानकाले भोगावशिष्टः कर्मसस्कार एव देहान्तर- निर्माणहेतुः । एपा जन्मजन्मान्तरपरम्परा किल तावन्न विरमति यावत् कारणकार्य- शृङ्खला सम्यज्ञानेन न विच्छिद्यते। वेदान्तसाव्यप्रभृतीतरेषु दर्शन सिद्धान्तेषु सचिन-प्रारब्ध-क्रिपमाणभेदेन कर्मणः वैविध्यं निरूपितम् । सञ्चित कर्म तु तद् यत् पूर्वजन्मकृत सदद्यपर्यन्त सुषुतभावेनावस्थायागामिकाले परिणामोन्मुख भवति । प्रारब्धकर्म त तद् यदिदानी फलति, यस्य च सद्भावाद् वर्तमान जन्म मम्भवति । क्रियमाणं कर्म च तद् यत् सम्प्रति कृतं सत् आगामिकाले परिणामं लप्स्यते । एव यावत् प्रारब्धकर्म वर्तमानजीवनव्यापार निर्धारयति तावत् सञ्चितक्रियमाणकर्मणी भाविजीवनक्रम नियच्छतः। तत्रापि सञ्चितकर्मप्रभावक्षेत्रमनेकजन्म जन्मान्तरव्यापीति मन्यते । अथ यानि कर्माणि साम्प्रतिके जीवने फलं गृह, णन्ति तानि सर्वाण्येवाव्यवहित- पूर्वजन्मकृतानीति खलु नानुमेयम् । एवमेव यानि कर्माणि त्विदानीन्तनानि, तानि सर्वाण्येवाव्यवहिताग्रिमजन्मनि फलं ग्रहीष्यन्तीत्यपि तावन्नाश्वासनीयम् । अनेन प्रकारेणानेकजन्मजन्मान्तरगतानि कर्माणि प्रारब्धकर्मरूपेण क्रियमाणं कर्म प्रभावयन्ति, क्रियमाणसञ्चितकर्मरूपाभ्या च भावि जन्म प्रादुर्भावयन्ति । अथ व्यष्टेनिखिलोऽपि जन्मजन्मान्तरक्रम कमरज्जुबद्धः सन् पूर्वनिर्वारित इति स्वीक्रियते । व्यष्टिसङ्घात- ७६ श्रीअरविन्ददर्शनम् - - स्वरूपत्वात्, समष्टिरपि कर्म रज्जुबद्धा सती यन्त्रवच्चालिता मुहुर्मुहुः सृष्टिप्रलयमध्ये भ्रमतीति मन्यते । व्यष्टिसमष्ट्याविभ्रमे प्राक्तनकर्म एव कारण मतम् । सत्य यद् ब्रह्मसूत्रे सृष्टिस्तावद् ब्रह्मलीलार्था मता। पर त्वेषा नाम व्यप्टिकुतकर्मफलसरणि- मनुसरन् कारणकार्यपरम्परया घटीयन्त्रवच्चाल्यते इति तदभिप्रायः । तथा हि सृष्टिप्रलयपरम्पराया अनादित्व स्वीकुर्वाः श्रीरामानुजप्रमुखा वेदान्ताचार्या व्यष्टिकृत- कर्मफलवासनाया: तृप्त्यर्थमेव जगत् सृज्यते इति प्रतिपादयन्ति । अथ तेषामभिमता समष्टिरपि व्यष्टिकृतकर्म फलापभोगक्षेत्रत्वेन कर्म रज्जुबद्धा भवति । एतस्माद् विवेचनात् किन दृष्टिपथमायाति यत् कर्मवादः प्रामुख्येन त्रिपादाधृतः । एते पादास्त, सृष्टेः पाप पुण्यात्मकत्वम्, पापपुण्ययोरन्योन्यविपरिणामशीलत्वम्, सृष्टेयन्त्रिकत्व च । नन्वतेपु विप्वपि पादेषु कोऽपि पादो निखिलसृष्टिव्यापको न प्रतीयते । तथा हि, यावत् पापपुण्यलक्षणकर्मोपजायमानत्वाज्जागतिकपदार्थजातेना- चारशास्त्रपरेण भवितव्यम्, तावत् पापपुण्यभावना, आचारशास्त्रीयो नियमो वैतस्य स्वल्पागमात्रमेव व्याप्नोति । मूर्य उदेति, पवनः प्रवहति, मेघो वर्षति, अग्निस्तपति, भूमिश्चलति न खलु किमपि पापमपा मपाक पुण्यं वाजित म् । वस्तु तस्त मानवचैतन्याश- विशेषव्यतिरिक्तः कोऽपि जागतिको व्यापारः पापपुण्यभावनोत्प्रेरितो न प्रतीयते । एवं सति, एतद्भावनोपर्याधृत आचारनियमः कथमपि निखिलसृष्टिव्यापारप्रेरवत्वेन नियाम- कत्वेन च ग्रहीतु न शक्यते ।' कर्मवादस्यापरः पादस्तावत् तैनिदर्शनैः प्रस्तूयते यत्र कश्चित् सज्जनः परिपीड्यते दुर्जनश्च सुखमयं जीवनं यापयति । एतद्विधनिदर्शनाश्रयेण मन्यते यदस्मिन् जन्मनि चेत् सत्कर्म कुर्वन्नपि सज्जनः परिपीड्यते, दुष्कर्म कुर्वन्नपि च दुर्जनः सुख- माप्नोति, तर्हि पूर्वजन्मनि तेन सज्जनेन किञ्चिद् दुष्कर्म कृतं स्यात्, दुर्जनेन च किञ्चित् सत्कर्म । ननु सज्जनस्य सम्पूर्णमपि वर्तमानजीवन दुःखमयं चेत्, दुर्जनस्य च सुखमयं, तहि समग्रेऽपि पूर्वजन्मनि सज्जनेन दुष्कारिणा भवितव्यम्, दुर्जनेन च सत्कारिणा। एवं सति, पूर्वजन्मन्येष सज्जनो दुर्जनो भवेत्, दुर्जनश्च सज्जनः । २ अत्र प्रथमं तावदे नदेवावधेयं यज्जगति सौजन्याद् दौर्जन्यपरिणामः, दौर्जन्याच्च सौजन्यपरिणामः कादाचित्क एव, न तु नियमपूर्वकः । अथ प्रस्तुतनिदर्शनेनाभिमतः परिणामोऽपि कादाचित एव स्यान् । एवं सति, कर्मसिद्धान्तस्तावदपवादरूपेणैव ग्रहीतु शक्यते, न तु नियमरूपेण । श्रीअरविन्दरय, लेटर्स ऑन योग, प्रथमे भागे, पृ० ४४१. २. तस्मिन्नेव, पृ० ४४४-५ .
कर्मवादप्रतियोगिचैतन्यविकासवादः छ अपर च, कर्ममिद्धान्तस्तु तदैव सृष्टि व्यापारस्य सर्वप्रधानः सिद्धान्तो भवितु- महति यदा जगत् सर्वथा यान्त्रिक भवेत् । जगत्त नैतत्प्रकारकम् । एतस्य जडाशस्तु यान्त्रिक इत्यत्र नास्ति सशयावकाशः । एतदेव यान्त्रिकत्वमवलम्ब्य हि भौतिक विज्ञान- विद्भिस्तावद् बहुविधानि यन्त्राण्याविष्कृतानि । परंतु चैतन्याशोऽपि यान्त्रिक इत्ये- तन्महत्सन्देहास्पदम् । यत्सत्यम्, आत्मविकासस्य प्रथमे चरणे चैतन्य यान्त्रिकत्वग्रस्तं भवति । किं तु ततः परमेतत् शनैः शनैः तद्विमुक्त्युन्मुखं जायते । निखिलचैतन्य- विकासक्रमाधिष्ठानभूते मानवाध्यात्मन्येव यावदचेतन प्रामुख्येन यान्त्रिकं भवति तावदव- चेतनं न्यूनत रमात्राया तथाविध भवति । न ह्यवचेतनोद्भूताः स्वप्ना यान्त्रिकाः । चेतन- मनस्तु यान्त्रिकत्व - स्वातन्त्र्ययोः समन्वयभूमिरिव प्रतीयते । एतस्माद् ह्य कतो भौतिक विज्ञानमुपजायते, अन्यतश्च सर्वाः कला आविर्भवन्ति । चेतनमनस उपरिष्टात्त यान्त्रिकत्वं नाम विलयोन्मुख भवति । अधिमानसप्रभृतिचैतन्यभूमिषु चैतद् विलीन- प्रायमेव । ननु जगतो जडांशो यान्त्रिकः, चेतनांशश्च स्वतन्त्र इत्येवं सति, विचिकित्सितु शक्यते किं स्विदेतस्याधारभूतं तत्त्व यान्त्रिकत्वमुत स्वातन्त्र्यमिति । श्रीअरविन्दविचार- परम्परायां पूर्वोक्तरीत्या चैतन्यस्य सर्वाधारत्वे उपपादिते सति, चैतन्यधर्मभूतं स्वातन्त्र्यमेव मूलतत्त्वरूपेण ग्रहीतव्यम्, न तु जडतत्त्वधर्मभूतं यान्त्रिकत्वम् । अनेन प्रकारेण निश्चीयते यान्त्रिकत्वाधृतस्य कर्मसिद्धान्तस्य वैश्वसिद्धान्तत्वेन गुणीभावत्वम् ।' गुणीभूतः सिद्धान्तस्तु न कथमपि चरमलक्ष्य नियामको भवितुमर्हति । अथ जगत् कर्मफलभोगभूमिमात्रमिति नोपपद्यते । एवं सति, तानि सर्वाणि मतानि निराक्रियन्ते यानि पूर्वसृष्ट्यन्तर्गतव्यष्टिकर्मफलभोगमेव वर्तमानसृष्टे: प्रयोजनमिति प्रतिपादयन्ति । व्यष्टिसमष्टी खलु परमतत्त्वाभिव्यक्तिध्र वद्वयभूते इति मन्वानः श्रीअरविन्दस्तु समष्टिगतान् सिद्धान्तान् व्यष्टिविषयेऽपि प्रयोगार्हान् मन्यते । एवं सति, जडांशे यान्त्रिकत्वावबद्धा व्यष्टिश्चेतनांशे स्वातन्त्र्यलक्षणा स्यात् । अथ कर्मसिद्धान्तेनापि चैतन्यस्वातन्त्र्यमूलस्य कस्यचिदपरस्य सिद्धान्तस्याथितेन भवितव्यम् । तत्सिद्धान्तानुसारं कर्मफलभोग एव जन्मान्तरकारणं न स्यात् । एतावता निश्चीयते यत् सृष्टिर्जन्मान्तरं च कर्मफलभोगव्यतिरिक्तप्रयोजने स्तः । ननु किं नाम तत् प्रयोजनम् ? मोयावादिनस्तु कर्मसिद्धान्तस्य भ्रमात्मकत्वमुपपाद्य तस्मान्मोक्षमेव जन्म- जन्मान्तरप्रयोजनमिति मन्यन्ते । तेषां मते, कर्म सर्वथा बन्धनायैव भवति । अथ तैर्मोक्षः १. श्रीअरविन्दस्य, लेटर्स ऑन योग, प्रथमे भागे, पृ० ४३६. .
७८ श्रीअरविन्ददर्शनम् सर्वकर्मपरित्यागसापेक्षो मतः । सर्वकर्मपरित्यागार्थ च ते संन्यासमुपदिशन्ति । संन्यास- कालोपजातकर्मसस्कारनिराकरणार्थ ते तत्त्वतः कर्माश्रयभूतजगत एव मिथ्यात्वमुप- पादयन्ति । तेषामभिमता सत्ता तु व्यवहार-परमार्थभेदेन द्विविधा । कर्मफलासत्तो जनस्तावद् व्यावहारिकसत्तायां भ्रमति, कर्मनिर्मुक्तश्च जनः परमार्थस्वरूपो भवति । जगत् खलु निखिलव्यप्टिसमवायकर्मानुसारमुत्पद्यते । एतादृशे जगति व्यष्टिस्तावदात्म- कर्मानुसारं विविधासु योनिपूच्चावच भ्रमति । एवं सर्वासु व्यष्टिषु परिवर्तमानास्वपि समप्टिरविकृतव तिष्ठतीति तेषां समासार्थः । श्रीअरविन्दस्त्वेतन्मतं नानुमोदते । व्यष्टिसमष्टी नामावतसत्ताध्र वद्वयीति मन्वानोऽसावेतत्स्वीकर्तु नोत्सहते यदेतयोरेका तूत्थानपतनशीला स्यादन्या विकारातीता । तन्मतेन, व्यष्टिश्चेदुत्थानपतनशीला, तहि समष्टि रपि तथैव स्यात् । ननु व्यष्टेर्जन्मजन्मान्तरगतिस्तावत् सामस्त्येनोत्थानपतनलक्षणेत्यत्रापि तस्य महती विप्रतिपत्तिः । कस्मिश्चिज्जन्मनि सत्कर्म कृत्वा काचिद्व्यष्टिरागामिजन्मन्युच्च- तरजीवकोट्यारूढा सती तज्जन्मकृतकर्मपरिणामस्वरूपमन्यस्मिन् जन्मनि पुनरप्यवरोढु शक्नोतीति तावत् सर्वे कर्मवादिनो मन्यन्ते । एतन्मतानुसारम्, कश्चित्पशुरने जन्मनि मानवरूपेणाविर्भवितुं शक्नोति, कश्चिन्मानवश्च पशुरूपेण । श्रीअरविन्दमतेनैषा जन्म- जन्मान्तरप्रचारप्रक्रिया खलु निष्प्रयोजना। कर्मानुसारं दण्डपुरस्कार विधानमेव ह्यस्या आधारत्वेनावशिष्यते । एतद् विधानं तु साधनमात्रमेव भवितुमर्हति, न तु साध्यसर्वस्वम् । शिशुरपि प्रयोजनान्तरमेवोद्दिश्य दुष्कर्मा सन् ताड्यते, सत्कर्मा च सन्' पुरस्क्रियते । व्यष्ट्यापि जन्मजन्मान्तरप्रचारे एवमेव भवितव्यम् । यथा शिशुर्जीवनपथे सम्यक्प्रकारे- णाग्रेसर्तुमेव दण्ड्यते पुरस्क्रियते वा, तथैव व्यष्टिविषयेऽपि भवितव्यम् । तस्मिन् व्यक्तित्वस्यैव सर्वप्राधान्यात्, शिशुस्तावत् तदर्थमेव दण्ड्यते पुरस्क्रियते वा। जन्म- जन्मान्तरसरणशीलव्यष्टौ त्वात्मचैतन्यस्य केन्द्रभूतत्वात्, तदर्थमेव दण्डपुरस्कार विधानं भवितव्यं नाम । अथात्म चैतन्यविकास एव जन्मजन्मान्तरप्रचारस्य चरमं प्रयोजन स्यात् । एवं सति, व्यष्टिस्तावज्जन्ममृत्युमार्गेणात्मचैतन्योत्थानदिश्युन्मुखा स्यात् । नन्वेषा चैतन्योत्थानप्रक्रिया किल महती क्षति प्राप्स्यति चेद् व्यष्टिः कदाचित्त पशुत्वादुत्थाय मानवत्वमारोहेत्, कदाचिच्च मानवत्वात्पशुत्वमवरोहेत् । अपरं च, एतन्मतावलम्बिभिः खलु स्वी कर्तव्यं यत् सृष्टिव्यापारप्रवर्तकं चैतन्यमेतावन्मात्र विमूढ- मस्ति यथैतत् कार्याकार्यमध्येऽपि विवेकं कर्तुमक्षमम् । परमेष निष्कर्षस्तु तच्चतन्य- स्वभाववैपरीत्यादग्राह्यः । पुनश्च, पशुमानवचैतन्ये खल्वेतावन्मात्रमन्योन्यविविक्त स्तो यथैकस्मिन्नेव जीवनमृत्य्वन्तराले एतयोरन्योन्य विपरिणामोऽसम्भाव्यः प्रतीयते । मन्ये कर्मवादप्रतियोगिचैतन्यविकासवाद: यदेकस्मिन्नेव जीवनकाले सुदीर्घसत्कर्मपरम्परापरिणामस्वरूपं चैतन्ये वैशद्यमुत्पत्त मर्हति, सुदीर्घदुष्कर्मपरम्परापरिणामस्वरूपं च सङ्कोचो नाम । परं त्वेते सङ्कोचवैशद्ये खल्वेता- वन्मात्रे भवितु नाहतो यथा मानवत्वात् पशुत्व प्रतिपादयेतां पशुत्वाद्वा मानवत्वम् ।४ चेदेतादृशः परिणामः क्वचिद् घटतेऽपि, असौ त्वपवादस्वरूप एव स्यात् । न चैतेनाप- वादेन विकास मिद्धान्तः कथञ्चिद बाध्यते । ननु व्यष्टयश्चेत् पुनर्जन्मद्वारेण चैतन्यविकासोन्मुख्यः क्रियन्ते, तहि समष्टि- व्यापारेणापि चैतन्यविकासपरेण भवितव्यम् । एष तर्कस्तावदनया पृथिव्यापि निदर्श्यते । कतिपयकोटिवर्षपूर्व निश्वेता सत्येषाऽनुक्रमेग वनस्पतिकीटपशु मानवचैतन्यमयी सजाता । एतस्मिन् महत्कालान्तराले खल्वसङ्ख्या मिळष्टिभिः स्वस्वजीवनकालकृते- नोद्योगेन मृत्युव्यवस्थापितपरिणामेन चैषा शनैश्शनैश्चैतन्यस्येमां कोटिमानीता। एतस्याः चैतन्यविकासपरम्परायाः पर्यालोचनानन्तरं दण्डपुरस्कारसिद्धान्तः खलु सुदुर्बल- तरः प्रतीयते । कस्माद् हेतोः कतिपयलक्षवर्षपूर्व पाशवव्यष्टय एव लोकान्तरादत्र प्रेषिताः ? शरीरसम्पत्तौ मानवः खल्वनेकपशुवर्गसदृशः । ननु तेषु तेषु पशुवर्गेषूत्पद्य- मानेष्वपि यन्मानवस्तदानीमत्र नोत्पेदे, तत्त विकासप्रक्रियागतविशिष्ट कारणवशं स्यात् । श्रीअरविन्दमतेन, विकासः खलु न केवल भौतिको भवति, अपितु चैतन्यमपि व्याप्नोति । तदानीं तु मानवशरीरसंवर्धनारे सत्यपीयं पृथिवी चैतन्यविषये मानवपर्यन्तं नागता भवेत् । कालक्रमेण तु शनैश्शनैः तत्सन्निकृष्टा सत्येषा मानवमप्यात्मगर्भात् प्रसूत- वती। मृत्योरूर्ध्व व्यष्टयस्तावत् स्वस्वकर्मानुसारं लोकाल्लोकान्तरं गच्छन्तीत्येतत्प्रति- पादकं लोकसामान्य मतमप्यशतोऽवितथमिति श्रीअरविन्दो मन्यते । तन्मतेन, कस्यचिद्- व्यष्टिचैतन्यस्य लोकाल्लोकान्तरगमनं नाम न तथा व्यष्टिकर्माश्रितं भवति यथा तच्चैतन्यकोट्याश्रितम् । पाशवचैतन्यस्य जडजीवनतत्त्वयोरसम्य निस्सृात्वात्, कश्चित् पशुः कियानपि सत्कर्मशीलः सन् पृथिव्या बहिर्गन्तुं न शक्नोति । मानवचैतन्यं तु, एताभ्यां तत्त्वाभ्यां सुतरां विविक्तत्वात्, आत्मविकासकोट्यनुरूपं लोकान्तरं प्रयातुं सर्वथा समर्थ भवति । लोकान्तराणि त्वनेकविधानि । ग्रहनक्षत्रतारकादिस्वरूपो दृश्यमानो लोकस्तु पार्थिवः । एतद्व्यतिरिक्ता विविधचैतन्यकोटिसमस्वभावका बहवोऽन्येऽपि लोका भवे- युर्नाम । एवं चैतन्यगतं कोटिभेदमाश्रित्य जीवनलोकमनोलोकोच्चतरमनोलोकप्रकाशमान- मनोलोकान्तर्ज्ञानलोकाधिमानसलोकातिमानसलोकपराधलोकाभिधा: लोकाः सम्भवेयुः । ४. तस्मिन्नेव, पृ. ४४५-६.
श्रीअनविन्ददर्शनम् अथात्मविकासानुरूप मानवचैतन्य तावत् पृथिव्या उत्थायेन रेपु पार्थिवलोकेष्वपि सङ्कमितु शक्नोति, एतेषु पार्थिवभिन्नेषु लोकेष्वपि । पार्थिवलोकान्तर्गतसक्रान्तिस्तावद् देशिक प्रयाण पपेक्षेत । जीवनप्रभृतिलोकाना पार्थिवलोकानुव्याप्तत्वात्, एतेपु सङ्क्रमणं तु निर्देशिकमपि भवितुमर्हति । अथैतस्मिन्ने बपार्थिवे लोके वर्तमानः सन् कश्चिन्मानव आत्मचैतन्यकोट्यनुरूपिणी लोकान्तरनिबामप्रतीति कतु शक्नोति ।५ एषा प्रतीतिश्च न कर्म मात्रावलम्बना भवितुमर्हति, उच्चतरेपु लोकेषु कर्मणश्चैतन्यरूपेण परिणतत्वात् । यथा खलु जडशक्तिसङ्घातभूतमन शरीरेणाड्जीवियमाणं सज्जीवनशक्तिरूपेण परिणमते, मनसाङ्गीक्रियमाण च सच्चैतन्यरूपेण, तथैव भौतिकी क्रिया जीवितशरीर- माध्यस्थ्येनाभिव्यता सती कर्मेत्यभिधीयते, मानमव्यापाररूपेण च परिणता सती चैतन्य- मिति । अथ सर्वेषामेव कर्मणा परिणतिश्चैतन्यरूपेण भवितव्या, चैतन्यादेव तेषामुद्भवात्, चैतन्योन्मुखमेव चारोहशीलत्वात् । ननु विविधप्रकारकाणा विकाससिद्धान्ताना मध्ये समन्वय उपस्थापयितुं शक्यते । तथा हि, यावद् भौतिकविज्ञानविदो भौतिके एव विकासे आस्थावन्तः, जीवविज्ञानविदो जैवशरीरविकासे एव जीवकर्तृत्वान्वेषणपरा दर्शनविदो जीवनकृतकर्मण एव विकासे, तावद् भूतादीनां चैतन्यपरिणामदर्शी श्रीअरविन्द एतान् सर्वान् विकाससिद्धान्तान् तत्तत्प्रदेशव्यवच्छेदेन यथार्थभूतान् स्वीकुर्वन्नप्यात्यन्तिकत्वेन चैतन्यस्यैव विकास- मुत्प्रेक्षते । aman-man- ५. दि लाइफ डिवाइन, पू० ६६२-७३.
दशमोऽध्यायः मायावादनिरासः भारतीयचिन्तनपरम्परायामुपनिषत्कालादेव प्ररोहोन्मुखो मायाबादः श्रीशङ्करा- चार्येण सुसिद्धान्तित इति तु विदितप्रायमेव । ततः परं श्रीरामानुजप्रभृतिष्वाचार्येषु तदुच्छेदपरेषु सत्स्वप्यसौ सर्वेषां वेदान्तसिद्धान्तानां मध्ये केन्द्रभूत इव विद्यते । एवं सति, कोऽपि वेदान्तसिद्धान्तप्रतिपादकः तदालोचनपरायणो बैनमुपेक्ष्याग्रेसतुं न शक्नोति । अथ श्रीअरविन्देना नमधिकृत्य सुदूरं पर्यालोचितम् । प्रथम तावदेतदेव विचारणीय कस्माद् हेतोरेष सिद्धान्तो विविधप्रकारेणापलापितोऽप्यद्यपर्यन्तमचलां प्रतिष्ठा लभते जनमानसे । मायावादः किल जगज्जीवननैराश्योद्गत इति तावत् श्रीअरविन्दस्य प्रथमः कल्पः । जगति हि यावदेकतः साफल्य प्राप्यते तावदन्यतोऽसाफल्यम् । तदुपरि साफल्यं विशेष यत्नसापेक्ष भवति, असाफल्यं च निसर्गसिद्धम् । एतत्त यथा व्यष्टिजीवनविषये सत्य तथैव समष्टिजीवनविषयेऽपि । तथा हि, सुचिरकालाद् विविधाभिर्व्यवस्थाभिः सुखशान्तिप्रभृतिभावान् उत्पादयितु कृतप्रयत्नोऽपि मानवोऽद्यपर्यन्तं स्वलक्ष्याद् दूरस्थ एवेति नास्ति कस्यचित्प्रबोधवतोऽविदित नाम । एषा वस्तुस्थितिः खलु केषुचिद् विचारशीलेषु जनेषु नैराश्योत्पादनपूर्वकं जगन्मिथ्यात्वबोधमुपजनयितुमर्हति ।' एतत्सामान्यावबोधव्यतिरिक्त योगजं ज्ञानमपि मायावादोद्भावक भवितुमर्हति ! निखिलबाह्यविषयेभ्यो दृष्टिं प्रतिनिवर्त्य, सर्वान् मनोगतान् सङ्कल्पान् चातिक्रम्याध्यात्मो- न्मुखो योगी समग्रामपि जागतिकी सत्तामसद्भूतो प्रत्येतुं शक्नोति । आध्यात्मिक चैतन्यं हि जागतिकावबोधनिराकरणपूर्वकमेवावगाह्मते । एतस्मिश्चैतन्येऽवगाह्यमाने सति चेत् कश्चिज्जागतिकोऽवबोधोऽवशिष्यते, सोऽपि तच्चैतन्यसापेक्षतयाऽसत्कल्प: प्रतीयते । वैयक्तिकत्वातिशायिन्येतस्मिश्चैतन्ये प्रविष्टो योगी सर्वा व्यष्टी मरूपमात्रा- वशिष्टाः, निस्सत्त्वभूताश्च मनुते । अत्र ज्ञानं चाज्ञाम च चैतन्ये विलीयेते, चैतन्य च मानससत्तास्वरूपं भवति । चरमबोधप्रत्यायकत्वेन सत्ताऽप्यत्रातिन्यून पदं प्रतीयते । १. श्रीअरविन्दम्य, दि लाइफ डिवाहन, पृ० ४६६-६ , मायावादनिरास: ऐकात्म्यप्रत्ययसारभूतब्रह्मव्यतिरिक्त पदार्थजातमत्रासदिव ज्ञायते । एताहग्बोधनिर्भरो मायावादो व्यष्टिसमष्ट्योरसत्त्वोपपादनपूर्वक ब्रह्ममात्रस्य सत्त्वं स्वीकरोति ।२ नन्वतिमानसचैतन्येऽसद्भूतमिव प्रतीयमानमपि जगत् कथं नाम वस्तुतोऽसत्त्वं गन्तुमर्हति ? कथं नामैतस्य सत्त्वमपलापयितुं शक्यते यदैतच्चक्षुषा दृश्यते, कर्णेन श्रूयते, घ्राणेनाघ्रायते, जिह्वयाऽऽस्वाद्यते, त्वचा स्पृश्यते, कर्मेन्द्रियैश्च प्रतिक्रियते ? मायावाद- प्रतिपादकास्त्वेतादृशः प्रश्नस्य समाधान स्वप्न-भ्रमज्ञानमुखेन प्रस्तुवन्ति । स्वप्नद्रष्टा खलु तत्कालपर्यन्तं स्वप्नस्य मिथ्यात्वं कथमपि नावगच्छति । उबुद्ध्य त्वसौ निखिल- मपि स्वाप्नं जगन्मिथ्याभूतमिति परामशति । एवमेव तमःस्थितां रज्जु दृष्ट्वाऽहिरि- दमित्यवगम्य तभीतः कश्चिज्जनः पलायितुमुपक्रमते' । कश्चिदन्यो जनो दूरात् शुक्ति दृष्ट्वा रजतमिदमित्यभिज्ञाय तं प्रति प्रवर्तते । मरीचिका दृष्ट्वा जलमिदमित्यवबुद्ध्य मृगः पानाय तामनुसरति । एतेषु सर्वेष्वेव भ्रमज्ञानोदाहरणेषु भ्रमकालपर्यन्तं प्रतीय- मानस्य पदार्थस्य सत्तायां कापि शङ्का नोपजायते । भ्रमोत्पन्नाः सर्वे एव पदार्था भ्रमकालपर्यन्तं सद्भूता इव तिष्ठन्ति । यथार्थावबोधे सजाते त्वेतेषां किमपि नावशिष्यते । अर्थतेषा मानससङ्कल्पमात्रत्वमभिज्ञायते । ननु सङ्कल्पमात्रेण कश्चिदसत्पदार्थः सदिति प्रत्याययितुं शक्यते चेत्, सदिति प्रतीयमान जगत् कथ न तत्त्वतोऽसद्भूतं भवितुमर्हतीति खलु मायावादिनां तर्कः। यथा हि व्यावहारिकचैतन्यविरुद्धत्वात् प्रातिभासिकचैतन्य- प्रतीतः पदार्थोऽसदित्यवगम्यते, तथैव पारमार्थिकचैतन्यविरुद्धत्वाद् व्यावहारिकचैतन्यप्रतीत जगदसदिति प्रत्येतव्यमिति तेषां निष्कर्षः।४ अनया रीत्योपपादितो मायावादस्तु श्रीअरविन्देनैवं निराकृतः । मायावादश्चे- ज्जीवनगतक्षणभंगुरत्वदुःखमयत्वासाफल्यभूयिष्ठत्वनिष्प्रयोजनत्वप्रभृतिधर्मेषु प्रतिष्ठापितः, तर्हि बालुकायां भित्तिन्यास इवास्थाने यत्नः कृतः । जगत्येते धर्माः प्राध्यन्ते इति तावदनपलाप्यम् । किं तु प्राप्तिमात्रेणवते जगत: तत्त्वभूताः स्युरिति तु कथमपि न स्वीकार्यम् । अध्यात्मचेतसा दृष्टा ह्मते धर्माः शाश्वतिकत्वानन्दमयत्वसाफल्यसप्रयोजन- त्वप्रमृतिस्वरूपा ज्ञायन्ते । यत्तु स्वप्नचैतन्यप्रतीतौ मायावादस्य प्रमुख निदर्शनमन्विष्टं तदधिकृत्य श्रीअरबिन्द एवं मन्यते । स्वप्नजाग्रच्चैतन्ये खलु मूलतो विभिन्नस्वरूपे स्तः । याव- २० तस्मिन्नेव, पृ० ५३८,१५७. ३. श्रीशङ्कराचार्यस्य, ब्रह्मसूत्रभा'ये २।१६, ४. सस्मिन्नेव, पृ० १।४।६. ५. दि लाइफ डिवाइन, पृ० ४६१. .
. श्रीअरविन्ददर्शनम् ज्जाग्रच्चैतन्ये पूर्वापराणामनुअवानां मध्ये पारस्परिकः सम्बन्धः, तारतम्यं च भवतः, तावत् स्वप्नचैतन्योपजाता अनुभवाः परस्परमसम्बद्धाः, अनन्विताश्च भवन्ति । तथा हि, यावत् पूर्वदिवसीयानुभवाना सातत्ये एवोत्तरदिवसीया अनुभवाः समागच्छन्ति, तावदुत्तररात्र्युत्पन्नाः स्वप्नाः पूर्वतररात्रिगतैः स्वप्नैः सह प्रायशोऽसम्बद्धा एव भवन्ति । अपरं च, यावज्जाग्रच्चैतन्यं जीवनपोतस्य कर्णधारभूतम्, तावत्स्वप्नचैतन्यं खल्वत्यल्पप्रभावकारकम् । इच्छाशक्तिपरिवेशबहिर्भावादेतत् किल प्राकृतेन स्वाच्छन्द्यन प्रेर्यते, न तु विकासमानेन प्राज्ञचैतन्येन । पुनश्च, सत्ताप्रतिबिम्बभावात् स्वप्नचैतन्यानुभवो जाग्रच्चैतन्यानुभवश्च प्रायेण तुल्याविति प्रतीयेते । स्वप्नचैतन्ये हि यथार्थोऽनुभवः स्वप्न- भावेन प्रतिबिम्बितो भवति । एते प्रतिबिम्बभूताः प्रत्ययास्तावत् तस्मिश्चैतन्ये वस्तूनीव प्रतीयन्ते । एवमेव - जाग्रच्चैतन्यानुभूताः पदार्था अपि तत्त्वतः सत्ताप्रतिबिम्बकल्पाः । ननु प्रतिबिम्बानामवास्तविकत्वात्, स्वप्नपदार्थवज्जाग्रच्चैतन्यप्रतिफलितं जगदप्यसद्भूतं स्यात् ? एतावुभयविधावपि पदार्थवन्योन्यविविक्ताविति तु श्रीअरविन्दो मन्यते । तन्मतेन, स्वप्नयतानि वस्तुप्रतिबिम्बानि प्रतिबिम्बत्वात् वस्तुभावमुपगन्तुं शक्नुवन्ति । ते जाग्रच्चैतन्येन वस्तुशून्यविकल्पवत् स्मर्यन्ते । जानच्चैतन्यगत्तानो पदार्थानां विकल्पत्वं निराकृतं भवति । "अत्र यद्यपीन्द्रियलब्धप्रतिबिम्बसंस्थानमात्रमेवास्मल्लभ्यं जागतिकवस्तुत्वप्रमाणं भवति, तथाप्येते प्रतिबिम्बास्तावच्चैतन्यस्थितेन केनचित् स्वतश्चालितेनान्तर्ज्ञानेन पूर्यन्ते, प्रमाणीनियन्ते, क्रमबद्धत्वं च नीयन्ते । एतज्ज्ञानं तु सद्य एवं प्रतिबिम्बान् मूलपदार्थेन सह योजयति, पदार्थ च प्रत्यक्षतोऽनुभावयति । अथ वयं न केवलं सत्तानुवादमात्रमेवा- इन्द्रियलभ्यप्रतिमा एव पश्यामः, अपित्वेताहप्रतिमाद्वारेण सत्तामेव प्रेक्षामहे ।" अर्थतादृशेषु नैसगिकेष्वन्योन्यविभेदेषु सत्सवपि चैतन्ययोः समीकरणम्, तन्मुखेन दर्शनसिद्धान्तोपपादनं च कथमपि तर्कसङ्गते न प्रतीयेते ! स्वप्नानुभूतिस्तावत् कासांश्चिदध्यात्मानुभूतीनां सादृश्यमुपस्थापयितुमौप- म्येनोपयुज्येत, न. पुनः सत्तास्वरूपनिर्धारणाय । परं च, मायावादप्रतिपादकैः स्वप्नचैनन्यस्य यत् स्वरूपमुदाहृतं तत्तु प्रतीयमान- मात्रमेव । वस्तुतस्त्वेतत् तस्मान् सुतरां यम्भीरतरम् । स्वप्नो नाम जाग्नच्चैतन्यगतानर- न तु . धीयामद्दे, स्वप्नजाग्र- . ६. तस्मिन्नेब, पृ० ४६४. तस्मिन्नेव, पृ० ५००. तस्मिन्नेव, पृ० ५०८. ह तस्मिन्नेव, पृ०९०६.
मायावादनिरास: , मनुभवानां निष्प्रयोजनम्, असम्बद्ध चानुवादमात्रमिति मतं तावद् भ्रमपूर्णम् । न चैतदुद्गमभूतमवचेतनं कथमपि जाग्रच्चैतन्यप्रतिद्वन्द्वि, तन्निराकरणजन्मा वा । एतत्त जाग्रच्चैतन्यस्याधारः, परिपोषकः, परिपूरकः, विश्रामभूमिश्चास्ति । मानवचैतन्यैतिह्य- विदः खलु जानन्ति कथमेतदारम्भकाले केवलं संवेगमयम्, मूलप्रवृत्त्यात्मकं चासीत् । कालक्रमेण शनैश्शनैश्चैतस्मिन् विचारपरम्परायाः प्रवेशः सञ्जातः। एतस्मादेव साम्प्र- तिकं जाग्रच्चैतन्यमाविर्भूतम् । विश्वविश्रुतमनोविश्लेषकेणध फ्रायडमहोदयेनावितवमेवोक्तं यज्जाग्रच्चैतन्यं तावदवचेतनस्यैकदेशभूत सत् तदुपरि तथैव तरति यथा समुद्रस्योपरि हिमखण्ड इति । यथा हिमखण्ड: समुद्रादेवोपजायते, समुद्रस्यैवोपरि तिष्ठति, समुद्रे एव च प्रविलीयते, तथैव जाग्रच्चैतन्य खल्ववचेतनादेवोपजायते, अवचेतनस्योपरि तिष्ठति, अवचेतने एव च प्रविलीयते । जाग्रच्चैतन्यं तु यावदवचेतननिमग्नं भवति तावत् स्वप्ना दृश्यन्ते, यावच्च तस्माद् विविक्तं भवति तावदेते तिरोहिताः तिष्ठन्ति । एवं खलु ज्ञायते स्वप्नशीलमवचेतनमेव स्वप्नचैतन्यमिति । स्वप्नचैतन्यस्य निर्माणं तु जीवोत्पत्त्यैव सह प्रारब्ध स्यात् । उत्पत्यनन्तरं जीवो विकासक्रमेण याभ्यो याभ्यो- ऽवस्थाभ्यो निर्गतः, ताभ्यस्ताभ्योऽवस्थाभ्यः संवेदना भावांश्च सगृह्य स्वप्नचैतन्यं संघटितमित्यनुमातुं शक्यते । अतएव खलु स्वप्नचैतन्ये तास्ता: प्रतिमाः ते ते च भावा आविर्भवन्ति येषां विषये जाग्रच्चैतन्यं तु नितरामनभिज्ञं भवति । परवतियुगीनत्वात् तदनभिज्ञं जाग्रच्चतन्यं तु स्वप्नचैतन्यं विशृङ्खलं मन्यते । अपरं च, श्रीअरविन्देन जाग्रत्स्वप्नव्यतिरिक्तमध्यात्मचैतन्याभिध तृतीयमपि चैतन्यप्रकारमभिमतम् । यथा खलु स्वप्नचैतन्यं स्वप्नावस्थायामवगा ह्यते, तथैवाध्यात्मचैतन्यं नाम समाधिप्रभृतिष्वति- मानसीष्ववस्थासु । पुनश्चाध्यात्मचैतन्यो ष्टात् सर्वातिक्रान्तं नाम चैतन्य विद्यते यत्तु इतरं त्रिविधमपि चैतन्यं व्याप्नोत्यपि, अतिक्रामत्यपि । परमार्थतस्तु यासु कास्वप्य- वस्थासु यः कोऽपि चैतन्यांशो विद्यते, असौ खल्वेतस्मादेव सर्वातिकान्ताच्चैतन्याद- वतरति । एतस्मिन् प्रविष्टे सति तु चैतन्यत्रयस्यापि वैयर्थ्य तथैवावबुध्यते यथा जलाशयोपलब्धौ जलपात्रनिहितस्य जलस्य । किं त्वेतावता खलु नानुमेयं चैतन्यत्रयम- सद्भूतमिति । वस्तुतस्तु चैतन्यत्रयानुगतेन चैतन्येनाप्यतिमानसमेव चैतन्यमभिव्यज्यते । १० एवं सति, स्वप्नचैतन्यस्य मिथ्यात्वजनकत्वमपाकृतं भवति; तेनैव साधं मायावाद आत्मनः प्रवलतमाया उपपत्तेवियुज्यते । भ्रमज्ञानस्यापि मायावादनिदर्शनत्वं तावत् तज्ज्ञानप्रक्रियाया अज्ञाने आश्रितमिति श्रीअरविन्दो मन्यते । भ्रमज्ञानं हि द्विपक्षात्मकं भवति । एतयोरेकः पक्ष आधारस्वरूपो १०. तम्मिन्नेव पृ० ५०७.८.
श्रीअरविन्ददर्शनम् भवतः। भवति, अपरश्चाधेयस्वरूपः । उभावपि पक्षावन्योन्यनिरपेक्षतया यथायौं रज्जुसर्पयोर्मध्ये रज्जुरपि यथार्थभूता, सर्पोऽपि । भ्रान्तिस्त्वेषा यत् प्रस्तुता रज्जुरप्रस्तुतसर्पत्वेन दृश्यते । एवमेव मृगमरीचिकायां वायोः कम्पनमेकं तथ्यम्, जलं चापरम् । भ्रान्तिस्त्वेषा यत् प्रस्तुतवायुकम्पनस्थानेऽप्रस्तुतो जलतरङ्गो दृश्यते । एवमेव शुक्तिरेक वस्तु, रजतखण्डं चापरम् । भ्रान्तिस्त्वेषा यत् प्रस्तुतायाः शुक्त स्थानेऽप्रस्तुतो रजतखण्डो दृश्यते । अथ मायावादप्रसङ्गन जगद्ब्रह्मणोरन्योन्यसम्बन्धमधिकृत्यैतेभ्यो निदर्शनेभ्यः कश्चिन्निष्कर्षो ग्राह्यश्चेत्, असौ तु जगद्ब्रह्मणोरितरेतरसत्तापार्थक्यस्वरूप एव भवितुमर्हति । तथा हि, जगत् खलु रज्जुसर्पवदिति मन्वानेन मायावादिना स्वीकृत स्याद् यद् रज्जुब्रह्मण्याक्षिप्तं सर्पजगत् तत्त्वतो ब्रह्मतिरिक्तमपर सत्यमिति । एवमेव जगत् खलु मृगमरीचिकाभूतमिति मन्वानेन मायावादिना स्वीकृतं स्याद् यद् वायु- ब्रह्मण्याक्षिप्त जलजगत् तत्त्वतो ब्रह्मव्यतिरिक्तमपरं सत्यमिति । परं त्वेव स्वीकृते सति तदद्वैतत्वमेव बाधितं भविष्यति यन्निमित्तं तावन्मायावाद आविष्कृतः। तैस्तु केवल ब्रह्म व सन्मतम्, जगत्त, मिथ्याभूतम् । नन्वेवं सति, ब्रह्माक्षिप्तस्य जगत्प्रत्ययस्य किं मूलम ? एष ब्रह्ममूलश्चेत्, एतानि निदर्शनानि निरर्थकानि भवन्ति । एष ब्रह्मतर- मूलश्चेत् , मूलतत्त्वस्याद्वैतत्वं बाधितं भवति । एतयोरुभयोरेव विकल्पयोरनपेक्षितत्वात्, एतैनिदर्शनैरुपपादितो मायावादो जगद्ब्रह्मसम्बन्धविषयेऽप्रयोज्य इति निष्कर्षः । एष तु केवलं तदैव प्रयोज्यो भवितुमर्हति यदाऽस्मदृष्टिर्मरुभूमिवायौ, रज्जौ वा किमप्यदृष्टपूर्व पदार्थ निमिमीत ।११ अथ खलु मायावादी तादृशेऽन्तविरोधे निपतति यस्मान्निर्गन्तु चेदसौ स्वनिदर्शनानि त्यजति, तर्हि निरुदाहरणत्वादात्ममतमुपपादयितु न शक्नोति; चेदेतान्यङ्गीकरोति, तहि तन्मत खलु भृशं संशोधनमपेक्षते । परं च, न केवलं स्वप्नभ्रमज्ञानयोरपितु प्रातिभप्रेरणायां कलात्मककल्पनाया च ते ते पदार्थाः सृज्यन्ते नाम । कि तु, पूर्ववदेतेऽपि मायावादापेक्षितानि निदर्शनान्यर्प- यितुं न शक्नुतः । सर्जनार्थमेताभ्यामुपयुक्त पादानेषु हि किमप्ये कान्ततोऽभिनवं न भवति । यत्सत्यम्, तेषु तेषु स्थलेषु विकीर्णाः पदार्थाः पदार्थलवाश्च परस्परं मिलित्वैवैतानि वस्तूनि निर्मीयन्ते । मायाकार्य तु नैतद्विधम् । एषा तु मौलिकी रचनाशक्तिः । एषा हि निर्माणहेतोर्न कमप्यनुकरोति, नैव किमप्युपादत्ते । वस्तुतस्तु मायावादिभिर्मायारुपिण्येतादृशी प्रहेलिकाऽऽविष्कृता या न केवलं मूलभूतायाः समस्यायाः समाधानेऽसमर्थेव, अपितु स्वत एव समस्यान्तररूपेण परिणता। मूलभूता समस्या त्वेषा कथं नाम ब्रह्मणो जगदुत्पद्यते इति । तथा हि, ब्रह्म सत्यम्, ११. तस्मिन्नेव. पृ. ५११.
मायावादनिरासः . , शाश्वतम्, अनन्तम्, ज्ञानस्वरूपम्, चिन्मयम्, निर्विकारम्, आनन्दरूपमित्युपनिषत्सु तावत् प्रतिपादितम् । जगच्च प्रत्यक्षत एव विनाशशीलम्, असन्मयम्, अज्ञानरूपम्, अचिन्मयम्, सविकारम्, अघमयम् दुःखप्रधानं च प्रतीयते । ननु किमर्थं कथ चैतादृश ब्रह्म तादृग्रूपे- णात्मान परिणणाम ? जगतः कारणं चेत् तन्न स्यात्, कारणान्तरकल्पनादद्वैतत्व बाधित भवेत् । स्वशक्त्यैवैतदात्मानं जगद्रूपेण परिणणामेति मतं स्याच्चेत्, तस्य सत्यत्वप्रभृतिधर्मा बाधिता भवेयुः । अनिच्छयैवैतत्सर्व तत् ससर्जेति मन्येत चेत्, तस्य चिद्घनत्व प्रतिहत स्यात् । एवंविधाः समस्याः प्रकारान्तरेण समाधातुमशक्ता मायावादिनः खलु मायानाम्नी- मेनां विषमा प्रहेलिकां पुरश्चर्ययो चिन्तने विवशतामयी विश्रान्तिः, क्रियायामकर्मण्यता, भावे च निराशोत्पाद्यते । अतएवैनां श्रीअरविन्दोऽतर्कपुष्टाम्, असम्यनिदर्शिताम्, अनपेक्ष्याम्, अनुपादेयां च मन्यते । ननु मायावादोद्भावकेषु तथ्येष्वन्यतम त्विद यत् कारणभूते ब्रह्मण्यविकार्येऽपि सति कार्यभूतं जगत् सततगतिशीलम्, विकार्य चास्ति । कथं ह्यपरिणामधर्मिब्रह्म परिणामि- जगद्रूपेणात्मानं परिणमते ? "न ह्य कस्य ब्रह्मणः परिणामधर्मत्वम्, तद्रहितत्वं च शक्यं प्रतिपत्तुमि''ति श्रीशङ्कराचार्यः । १२ श्रीअरविन्दस्त्वेतस्य परिणामापरिणामविरोधस्य कारणमेनं विश्वासं मन्यते यत् स्थितिशीलेन पदार्थेन गतिशून्येन भवितव्यम्, गतिमता च स्थितिशून्येन । सम्प्रति त्वेष विश्वासो भौतिकसापेक्षतावादेन निराकृतप्रायः । एतेनेदानीं सोपपत्तिप्रदर्शितं यद् गतिस्थिती न केवलं सहस्थायिन्यौ भवितु शक्नुतः, अपित्वन्योन्यपूरके अपि स्तः । तथा हि, पृथिवी गतिशीलापि सती स्थिरेव प्रतीयते, यावत् सूर्यः स्थिरोऽपि सन् गतिशीलः । ननु भौतिकसापेक्षतावादिनो गति सद्भूतां मन्यन्ते स्थिति तु भ्रमात्मिकाम्, यावन्मायावादिनः स्थितिमेव सद्भूता मन्यन्ते गति चासद्भूताम् । श्रीअरविन्दस्त्वेतयोर्मतयोरन्योन्यनिरसनशीलत्वमाशिकसत्यस्य पूर्ण- सत्यत्वेन स्वीकरणोद्भवं मन्यते । जडपदार्थेषूपलक्ष्यमाणा स्थितिस्तावदाशिकदृष्ट्या भ्रमात्मिकापि प्रतीयमाना सती परमार्थत: सद्भूतेति मन्तव्या, अन्ततोगत्वा सत एव जडपदार्थस्याप्युत्पद्यमानत्वात् । परं त्वेषा स्थितिर्गतितत्त्वोद्गमभूतापि स्वीकर्तव्या। गतिहि स्थितिसापेक्षा । यथा खलु स्थिरं जलाशयं विना जलप्रवाहोऽसम्मा व्यः, तथैव स्थिति विना गतिः । एवमेवांशतो भ्रमात्मिकापि प्रतीयमाना ब्राह्मी गतिः परमार्थतो ब्रह्माभिन्ना, अथ च सद्भूतेति मन्तव्या, ब्रह्मण्येव तद्भावात्, ब्रह्मणश्चाविर्भूयमानत्वात् । एतावता तु नानुमेयं यद् गतिः स्थितेरनुवतिनी, स्थितिविनाशिनी च । यत्सत्यं त्वेते उभे अपि युगपदेव स्थिते स्याताम् । "स्थितिस्तावद् गतिक्रियामात्मनि धारयति, क्रिया . - १२. ब्रह्मसनमाये, २११११४.
श्रीअरविन्ददर्शनम् च स्थिति न नाशयति ।"१३ अथान्तहितगतिः ब्रह्म गतितत्त्वाभिव्यक्तिद्वारेण जगद्रूप धारयित्वा किमप्यात्मप्रकृतिविरुद्धं करोतीति तावन्न प्रत्येतव्यम् । परमार्थतस्तु “गतिः, क्रिया, सृष्टिर्वा यत्किञ्चिदपि गत्यात्मक तत्सर्वमेव ब्रह्म' इति श्रीअरविन्दो मन्यते ।१४ अपरं मायावादोद्भावक तथ्य जगतोऽनेकात्मकत्वं ब्रह्मणश्चैकत्वमिति बोद्धव्यम् । श्रीशङ्कराचार्यस्त्वेनं प्रश्नं सविस्तर विमृशति । एनमधिकृत्यासौ पूर्वपक्षमेवं समुपकल्पते- "नन्वनेकात्मकं ब्रह्म । यथा वृक्षोऽनेकशाख एवमनेकशक्तिप्रवृत्तियुक्त ब्रह्म । अत एकत्वं नानात्व चोभयमपि सत्यमेव । यथा वृक्ष इत्येकत्व, शाखा इति नानात्वम् । यथा च समुद्रात्मनैकत्व फेनतरङ्गाद्यात्मना नानात्वम् । यथा च मृदात्मनैकत्व घटशरावाद्यात्मना नानात्वम् । तत्रैकत्वाशेन ज्ञानान्मोक्ष व्यवहारः सेत्स्यति, नानात्वांशेन तु कर्मकाण्डाश्रयो लौकिकवैदिकव्यवहारी सेत्स्यत इति ।१५ एतन्मत त्वसावेतस्मात् त्वसावेतस्मात् कारणादग्राह्य मन्यते यदुपनिषदि मृत्तिकातद्विकारयो- मध्ये "मृत्तिकेत्येव सत्यमि"ति श्रुतम् । एनामेव श्रुतिं सतर्क विमृशन्नसावेवं निर्णयति- “यथा घटकरकाद्याकाशानां महाकाशानन्यत्व, यथा च मृगतृष्णिकोदकादीना- मूषरादिभ्योऽनन्यत्व, दृष्टनष्टस्वरूपत्वात्, स्वरूपेणानुपारव्यत्वात्, एवमस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभाव इति द्रष्टव्यम् । १६ श्रीअरविन्दस्त्वेकत्वानेकत्वयोर्मध्ये एतादृशमन्योन्यविरुद्धत्व न पश्यति । कार्यभू जगन्नानात्मकमिति सत्यम् । कारणान्तरस्याभावादेतद् ब्रह्मोत्पन्न स्यादित्यप्यविथतम् । परं तु ब्रह्मणोऽविभाज्यत्वात् आत्मनश्च नानात्वमयत्वात् जगदमद्भूत मायामात्र वा स्यादिति मतं तावत् सामान्यदृष्ट्या समीचीन प्रतीयमानमपि सद् विशेषदृष्टयाऽविचारित- पूर्वमिव लक्ष्यते । प्रथमं तावदेतन्मतमङ्गीकुर्वता परमतत्त्वस्याद्वैतत्व विस्मायकत्वमेव सर्वस्वमिव पुरस्क्रियते । एव कुर्वता तेन त्वनन्त ब्रह्म कत्वपरिच्छिन्न कृत्वा सान्त क्रियते । यथा खलु गणितशास्त्रीयमनन्तमेकत्वानेकत्वे अतिक्रम्य सर्व व्याप्नोति, तथैवानन्तेन ब्रह्मणाप्येकत्वानेकत्वातिक्रमणपूर्वकं सर्वातिकान्तेन भवितव्यम् । तदानन्त्यात् खल्वेकत्वानेकत्वे तत्समाविष्टे भवेताम् । पुनश्च, नानात्वमयं जगत् कार्यत्वात् कारण- स्वरूपं सन्नप्यसदित्युच्येत चेत्, तदपि न तर्कसम्मतम् । चेत् “भाव एव कारणस्य १३. श्रीअरविन्दस्य, दि लाइफ डिवाइन, पृ०५४४-५. १४. तस्मिन्नेव, पृ० ५४७. १५. ब्रह्ममत्रभाष्ये, २।१११४. ४३. तरिम नेव, २।१११४.
मायावाद निरासः कार्यमुपलभ्यते," चेत् "प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्वमवरकालीनस्य कार्यस्य श्रूयते"....." चेत् “मृत्तिकाया एव च घट उत्पद्यते, न क्षीरात्", अतएव चेत 'कारणादनन्यत्व कार्यस्य"१७, तहि कारणस्य सत्त्वे कार्यस्यापि सत्त्वमनपलाध्यमिति स्वीकर्तव्यम् । विशिष्टात् कारणादेव विशिष्ट कार्यमुपजायते चेत्, कार्यामिधः पदार्थोऽभिव्यक्त कारणमेवेति निश्चीयते । एवं सति, प्रादुर्भावपूर्व जगतापि ब्रह्मस्वरूपेण भवितव्यम् । अथ ब्रह्मस्वरूपं जगत् कथमध्यसद् भवितु नार्हति । प्रादुर्भावमात्रेण कश्चित पदार्थः सत्त्वादसत्त्वे परिणमेदिति न तर्कसम्मतम् । न खलु प्रादुर्भावो नाम सत्त्वादसत्त्वपरिणामः । अपरं च, जगन्मायामयमिति स्वीकृते सति ब्रह्मज्ञानमपि मिथ्याभूतं स्यात् । 'अहं ब्रह्मास्मीति प्रतीतिस्तु संसारस्थितस्यैव प्राणिनो जायते । चेदसौ प्राणी माया- मात्रः, तर्हि तदीय ब्रह्मज्ञानमध्यसद्भूतमिति मन्तव्यम् । पुनश्च, यद् ज्ञानस्य परावरत्वमपि मायावादोपपादकत्वेनोपयुज्यते तदपि न न्यायसम्मतम् । परकोटिक ज्ञानमपरकोटिकस्य ज्ञानस्योच्छेदकमित्येतत् तथ्य न केवलं स्वप्नजागरणज्ञानयोर्मध्ये एव दृश्यते, अपितु जाग्रच्चैतन्यलब्धविविधज्ञानकोटिष्वपि । तथा हि, भौतिकविज्ञाने तावदेषा स्थितिनित्यश एवोत्पद्यते। अत्र खलु प्रचुरतथ्यनिर्भरे सिद्धान्ते उदिते सति, अल्पतथ्यनिर्भर: सिद्धान्तः परित्यज्यते । परं त्वेतावता भौतिक- विज्ञानवित् कथमपि न मन्यते परित्यक्तेन सिद्धान्तेन सह तदुपपादकानि तथ्यान्यस्य- सत्कल्पानीति । असौ तु पूर्वतरसिद्धान्तस्य भ्रामकत्वं तत्प्रतिपादकविज्ञान विदो ज्ञान- दौर्बल्यजन्यं मन्यते, न तु तथ्यानामसत्त्वजन्यम् । एवमेव सङ्कीर्णचैतन्यवता मनसा प्रकल्पिताः केचिज्जगद्विषयका प्रत्ययाश्चेद् विशुद्ध चैतन्ये उदिते सति सङ्कीर्णा भ्रामकाश्च प्रतीयन्ते, तावता नानुमेयं जगदेव भ्रमस्वरूपम्, मिथ्याभूत वेति ।' - १७. तस्मिन्नेव, पृ० ५५४-५. १८. तरिमन्नेव. ०५६३. - एकादशोऽध्यायः अजानम् ननु भवेन्नाम मायावादोऽतर्कपुष्टोऽसम्यनिदर्शितश्च, तथाप्यद्वैततत्त्वोपकल्पना- पूर्वकं जगद्वैचित्र्य व्याख्यातु मायास्थानीय किमपि तत्त्वान्तरमपेक्ष्यते एव । जगद्- वैचित्र्य तु चित्शक्तिकार्यमिति तावत् प्रागेव निर्दिष्टम् । ननु सच्चिदानन्दशक्तिभूता चित्शक्तिः कथ सच्चिदानन्दविरुद्धान् धर्मानुत्पादयतीति त्विदानीमपि व्याख्यानम- पेक्षते । तदर्थ श्रीअरविन्दः 'अज्ञानम्' उपयुनक्ति । अज्ञान नाम चैतन्य विषयकम् । अथ यथा सदानन्दाधिकृता' सर्वा. समस्या: सत्- आनन्दाभ्या समाधान प्राप्ताः, तथैव चैतन्याधिकृता समस्या चिवारेण समाधातव्या भवेत् । अपरं च, यथा खल्वितरसमस्याप्रसङ्गनावरोहारोहप्रक्रियाऽवलम्बिता तथैवात्रापि भवेत् । यत्सत्यम्, स्वरूपचैतन्यमात्रनिविष्ट: सच्चिदानन्द एतादृश जगत् कथमपि नोत्पादयेत् । अथ यथाऽमौ सत्तत्त्व तिरोधाय जागतिकी सत्तामुत्पादयति, आनन्दं च तिरोधाय जागतिकमनुभववैचित्र्यम्, तथैव चितिरोधानपूर्वकं जागतिक चैतन्यमुद्- भावयति । अतएवैतस्मिश्चैतन्ये आत्मोद्भवमपि जगदात्ममिन्नमिव प्रतीयते । भिन्नत्वप्रतीतेरूपजायमानत्वात्, सच्चिदानन्दो जगच्चेतरेतराभ्या स्वतन्त्रे इव लक्ष्यते । अपर च, ज्ञानस्याद्वैतपरत्वादेतयोरन्यतरमेव सद्भूतं प्रतीयते, अन्यतर चासद्भूतम् । पुनश्चानेन चित्तिरोधानेन न केवल सच्चिदानन्दस्य जगतश्चेतरेतरसम्बन्ध एवान्यथा- क्रियते, अपितु व्यष्टिगतोऽपि सम्बन्धो विक्रियते । परिणामतः सच्चिदानन्दाभिन्नापि सती व्यष्टिरात्मानं तद्व्यतिरिकाम्, जगद्व्यतिरिक्तां च मन्यते । तत्त्वतस्तु सा दिक्कालातीता, गतिस्थित्यतिक्रान्ता, निखिलसत्तात्मिका, अखण्डचैतन्यमयी, अमिश्रिता- नन्दमयी च। परं त्वेतस्मात् तिरोधानादेषाऽऽ-मानं दिक्कालपरिच्छिन्नां मन्यते । फनतोऽहमत्रास्मि, अन्यत्र नास्मि, इतराभ्यो व्यप्टिभ्यो भिन्नोऽस्मि, एतत्कालोऽस्मि, एतत्कालव्यतिरिक्तो नास्मीत्येतादृश्यः प्रतीतय उपजायन्ते । पुनश्चैतेन तिरोधानेन परिगृहीता व्यष्टिरात्मानमात्मसङ्कीर्णमपि मन्यते । अतिमानसचैतन्यस्य, निगूढ़चैतन्यस्य, अवचेतनमनसः, अचेतनमनसश्च तिरोहितत्वात्, साऽऽत्मानं चेतनमनोमात्रमवबुध्यते । आत्म- १० अज्ञानम् . अपर च चेतनमनसोऽपि सङ्कीर्णत्वात्, काचिद् व्यष्टिरात्मानं शरीरमात्र मन्यते, काचित् शरीरजीवनयुग्ममात्रम्, काचिच्च शरीरजीवनमन स्त्रितयमात्रम् । व्यष्टिचैतन्य- स्यैतन्मात्र परिच्छिन्नत्वात्, व्यष्टे: विचारजात सङ्कीर्ण वकं च भवति, भावजात सङ्घर्षदुःखशीलम्, व्यापारजातं चानृजुर्वैफल्यप्राय च । एष चैतन्य पच्छेिद एवाज्ञानमिति श्रीअरविन्दो मन्यते । सच्चिदानन्द-समष्टि- व्यष्टीनामन्योन्यसम्बन्धवैविध्यात्, एतदज्ञान खलु सप्तविधं मतम् । सच्चिदानन्दान- भिजानपूर्वक सत्ताशमात्रस्य प्रक्रियाशमात्रस्य वाऽऽत्यन्तिकतत्त्वरूपेण ग्रहण "मौलिका"- भिध प्रथममज्ञानम् । दिक्कालातीत-निर्विकार-शाश्वत-ब्रह्माज्ञानपूर्वकं वैश्वदिक्काल- ससरणस्यैव सत्तासर्वस्वेन ग्रहणं “वैश्वा' 'भिधं द्वितीयमज्ञानम् । वैश्वात्मनो वैश्वसत्ताया वैश्वचैतन्यस्य चाज्ञानपूवकमहकारमनोजीवनशरीरसङ्घातमात्रस्यैव स्वत्वसर्वस्वेन ग्रहणम् “आह कारिका'भिधं तृतीयमज्ञानम् । आत्मीयमनन्तकालव्याप्तं शाश्वत परिणाममनभिज्ञायातितुच्छदिक्कालावच्छिन्नस्यात्मजीवनस्यात्मास्तित्वसर्वस्वेन ग्रहणं "कालिका"भिध चतुर्थमज्ञानम् । चेतनमनोव्यतिरिक्तस्य निखिलस्याध्यात्मसस्थानस्य । विस्मरण "मनोवैज्ञानिका"भिधं पञ्चममज्ञानम् । आत्मास्तित्वस्य यथार्थ सर्जनरहस्य- मनवगम्य शरीरजीवनयोः शरीरजीवनमनसा वा सङ्घातस्य व्यष्टिसर्वस्वेन ग्रहण “सङ्घटनात्मका"भिध षष्ठमज्ञानम् । उपर्युक्तषड्विधचैतन्यव्यवच्छेदोद्भव जीवनविध्य- नुगतं चैतन्य विकारमसौ "व्यावहारिका"भिधं सप्तमज्ञानम् मन्यते ।' 'अज्ञान' इति पदस्य व्युत्पत्तिलभ्यमर्थं परामृशन्तः केचित् तावदज्ञानं नाम ज्ञानाभावमिति निर्णेतु शक्नुवन्ति । ननु भवेत् तावदेतादृशोऽर्थः तेषु दर्शनसम्प्रदायेषु येषु ज्ञानं नाम कश्चिदागन्तुको धर्म इति मतम् । तत्र त्वागन्तुकधर्मस्वरूपत्वादेषोऽभावमपि प्राप्तुमर्हति । एष ज्ञानाभावश्च तथैव पदार्थान्तर इव प्रत्येष्यते यथा ज्योतिरभावः तमो नाम पद थन्तिर इव प्रतीयते । श्रीअरविन्दमतेन तु, चिन्मयत्वात्, ज्ञानस्याभाव एव न सम्भाव्यते; अथ ज्ञानाभावस्वरूपमज्ञानमपि नोत्पत्तु शक्नोति । एवं सत्यपि तदुत्पद्यते चेत्, तर्हि तेन तावद् ज्ञानाभावस्वरूपेण न भवितव्यम् । नन्वज्ञानं चेन्न ज्ञानाभावस्वरूपम्, तर्हि किं ज्ञानस्यैव पक्षविशेषम् ? एवं स्वीकृते सति तु चैतन्यस्वरूपेण ज्ञानेनैव सह तस्यापि सद्भावः सच्चिदानन्दे एव स्यात् । श्रीअरविन्दस्त्वज्ञानं सच्चिदानन्दीयतपोध्यान मूलं मन्यते । यथा खलु कश्चित् तपस्वी सर्वभावेनात्मानं विजानन्नपि तपोध्यानक्रमेण चैतन्यबिन्दुविशेषव्यतिरिक्त निखिल- २ दि-लाइफ डिवाश्न, पृ० ७८०-१.
श्रीअरविन्ददर्शनम् ६१ मप्य त्मानं कालविशेषपर्यन्तं विस्मरति तथा च ध्यानोद्भव विशिष्टमानन्दं प्राप्नोति तथैव सिसृक्षुः सच्चिदानन्दोऽप्यात्मान तपोध्याने निमज्जयति । एतस्मान्निमज्जन- व्यापारात् तु तस्मिन् तात्त्विक सम्पूर्ण-समग्रनानात्मकाशनानात्मकभेदभिन्ना अवस्थ उपजायन्ते । चिन्मयाचिन्मयभेदात् तात्त्विक तपोध्यानं तु द्विविधम् । चिन्मयतपोध्यान निलीन ब्रह्माख्यं परमतत्त्व तु प्रत्ययातीतम् । अचिन्मयतपोध्याननिलीनः सच्चिदानन्दस्तु जड इव वर्तते । सम्पूर्ण तपोध्यान तु सच्चिदानन्दीय चिद् भवति । एकत्वानेकत्वे तावदत्र सतिष्ठते । अतिमानस चैतन्य त्वेतत्तपोध्यानावगतिसाधनम् । समग्रनानात्मवे तपोध्याने तु व्यष्टिसमष्टी अन्योन्य विविक्ते अपि भूत्वाऽन्योन्यविरुद्ध भवतः । अधि मानस चैतन्य त्वेतत्तपोध्यानावगतिद्वारम् । एतत्तपोध्यानोपजात. परमतत्त्व-ममप्टि व्यष्टिविभेद एवाज्ञानबीजनिधान मन्यते । अतः पर त्वशनानात्मक तपोध्यान भवति यस्मिन् समष्टेस्तिरोहितत्वाद् व्यष्टिरेव प्रमुखता व्रजति । एतद्ध्यानोपजाता व्यष्टि खल्वात्मान समष्टि केन्द्रभूतामिव मन्यते । एतदवस्थं तपोध्यान चाज्ञानमय भवति ।' मनस्त्वेतदाश्रयभूतम् । अथैतावता निश्चीयते यदज्ञानं तावन्मन आश्रित्य प्रवर्तते । अचिन्मयतात्त्विक तपोध्याननिलयभूते जडतत्त्वे त्वज्ञानस्यासद्भावः । जीवनतत्त्वे चैतन्यस्य संवेदनमात्र स्वरूपत्वादज्ञानमस्फुटं भवति । अतिमानमीष्ववस्थासु तु ज्ञानप्राबल्यादज्ञानं क्षीणप्रार भवति । तथा ह्यतिमानसचैतन्ये त्वेतन्निश्शेष भवति । अधिमानसचैतन्यस्य नानात्वो न्मुखीभावात्, तस्मिस्तावदज्ञान प्ररोहोन्मुख भवति । अथान्तर्ज्ञान किञ्चिदज्ञानमिश्रित भवति । प्रकाशमानमनसि त्वज्ञानस्यैषा मात्रा प्रबलतरा भवति । उच्चतरमनसि त्वेष ततोऽप्याधिक्यं व्रजति । किं त्वेवं सत्यप्येतास्ववस्थासु ज्ञानमेव प्रबलतरं भवति. एता. सामवस्थानामत्ररोहोन्मुखचैतन्यप्रकाशितत्वात् । आरोहावरोहप्रवृत्तचैतन्योपजायमानत्वा न्मनस्तावद् ज्ञानाज्ञानमिश्रणभूमिर्भवति । तत्राप्येतत् प्रामुख्येनारोहव्यापारोपजात मन्यते । अवरोहोन्मुख चैतन्य त्वेतस्मिन्नतिक्षीणमात्रायां निपतति, तदपि परोक्षेणैव तथैव यथा रात्रौ चन्द्रमाध्यस्थ्येन सौरज्योतिः । पर तु यथा चान्द्रज्योतिः कियन्मात्रमरि विततं भूत्वा रात्रि दिनरूपेण परिणमयितुं न शक्नोति, तथैव मनः कियन्मात्रम ज्ञानानुप्रविष्टं भूत्वा स्वमज्ञानमयत्व हातु न शक्नोति । २. तम्मिन्नेव, पृ० ४७८. ३. तम्मिन्नेव पृ० ३३३-४. ४. तस्मिन्नेव, पृ०६५ -३.
१२ अज्ञानम् मनसोऽजानमयत्वं तु विभाजनपरत्वेन तु विभाजनपरत्वेन प्रतिफलति । विभाजनव्यापारस्तु दिक्कालविभक्तिपूर्वक प्रवतते । दिक्कालौ च तत्त्वतोऽविच्छिन्नस्वरूपौ। एतयोविच्छेदो नाम मनोजन्यः । ज्ञानेन्द्रियद्वारेण यं कालं मनः माक्षादवगच्छति तं वर्तमान इत्यभिधत्ते, यमात्मनिहितस्मृतिमाध्यस्थ्येनावबुध्यति तं भूत इति, यं त्वेतद्व्यतिरिक्तभावेनानुमीयते त भविष्य दिति । अल्पशक्तिमत्त्वात्, मनसा तावत् स्तोकमेव कालाशं युगपदवबुध्यते । अतएव कालः क्षणादिभेदभिन्नो भवति । एतस्मात् कालविभेदाच्च जगतः सातत्यं विभक्तक्त भवति । मनसोऽल्पशक्तिमत्त्वमेव दिग्भेदस्यापि कारणम् । यो दिगशो यावन्मा- त्रायासपूर्वक मनसा ज्ञायते, तावन्मात्रमसो दूरस्थो मन्यते । चेन्मनो ज्ञानप्रबलम- भविष्यत्, तर्हि दूरत्व-समीपत्वजन्य दिग्विभाजनं नाभविष्यत् । दिग्विभाजनस्य चासद्- भावे पदार्थानामन्योन्यविभाजनमपि न स्यात् ।५ अनेन प्रकारेण, मानसज्ञानदौर्बल्याद् दिक्कालयोरमभ्यगवगतिभवति । एतस्मादवगत्यसम्यक्त्वाच्च दिक्कालाभ्यां भिद्यमानं जगत् प्रतिपदार्थविभाजनसङ्कीर्ण प्रतीपते । एषाऽवबोधसङ्कीर्णतेवाज्ञानमिति श्रीअरविन्दो मन्यते । । ६ अज्ञानस्य प्रयोजनं त्वेतद्विधसृष्टेरुत्पादनमित्यसावुपपादयति। अनन्तस्वरूपत्वात् सच्चिदानन्दः खल्वनन्तसम्भावनाभूमिः । एतत्सम्भावनाप्राकट्य साधनभूता चित्शक्तिरप्य- नन्तैव । अथ कारणद्वयम्यानन्त्यात्, कार्यमप्यनन्तस्वरूपं स्यात् । एतादृश्याऽनन्तस्वरूपया सृष्ट्या दिक्कालाभ्यामनवच्छिन्नया भवितव्यम् । ननु स्यान्नाम काचिदेतद्विधाऽपि सृष्टि: ; अस्माकीना तु नैतादृशी । एपा हि दिक्कालाभ्यामवच्छिन्नत्वात् सान्ता । अथ सान्तायाः सृष्टे: प्राकट्याथै कारणद्वयस्य परिच्छेदनमपेक्ष्यते । अज्ञानं त्वेतस्य परिच्छे- दनव्यापारस्य साधनत्वेनोपयोजितम् । तथा हि, कस्मिश्चित् क्षणेऽनन्तसम्भावनाभूमिभूते सच्चिदानन्देऽनन्तप्रेरणाशक्तिस्वरूपया चित्शक्त्या प्रेर्यमाणे सति अनन्तसङ्ख्याका: सम्भावनाः प्राकट्यार्थ सन्नद्धा भवितुं शक्नुवन्ति । अतिमानसेन त्वेतस्मात् सम्भावना- समुच्चयात् ता एव सम्भावना आविर्भवितुमनुमन्यन्ते याः सृष्टिप्रयोजनानुरूपा भवन्ति । शेषास्तु तिरोधीयन्ते । अज्ञानं नामैतस्यानपेक्षितसम्भावनासमुच्चस्य तिरोधानसाधनम् । अथानन्तस्य सान्तत्वपरिणामसाधनत्वात्, व्यष्टिभ्यः समष्टिनिरसनशीलत्वाच्चाजानं खलु "चित्शक्त महत् शक्तिभूतम्" इत्युक्तम् । सृष्ट्यर्थमेतत् तावत् तथैवानुपेक्षणीयं यथा कार्य- ५. तस्मिन्नेव, पृ०६०१ . ६ तस्मिन्नेव, पृ० ६१३-४. ७. तस्मिन्नेव, पृ०६६२.
श्रीअरविन्ददर्शनम् विशेषसम्पादनार्थमवधानानुषक्तमनवधानम् 15 नन्वज्ञानविषयक श्रीअरविन्दीयं मतमेतद्विषयकेण शाङ्करमतेन सह सामञ्जस्या- सामञ्जस्यविवेकमपेक्षते । श्रीशङ्कराचार्यस्त्वज्ञानमविद्यास्वरूप मन्यते । तदभिमता- ऽविद्या त्वमद्विषया, अथ च मायात्मिका। सैवासद्भूतस्य जगतः कारणम्, तथैव यथा "अप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यस्यन्ति ।'६ नन्वध्यास भूतेयमविद्या कुत उत्पन्ना ? ब्रह्मणस्तु सा नोत्पद्येत । न हि शाश्वतज्योतिस्वरूपं ब्रह्म कथमपि तमस्स्व- रूपाविद्याया आश्रयो भवितुमर्हति । पर च सा ब्रह्मव्यतिरिक्तापि भवितु न शक्नोति, तत्त्वान्तरस्यासद्भावात् । एवभूता सा रज्जुसर्पबत् निराश्रया, अनिर्वचनीया, सत्तत्त्वा- वगतिमात्रपर्यवसायिनी च मन्तव्या । अनेन प्रकारेणासावज्ञान जगत्प्रतीतिकारणभूतमाया- ऽभिन्नं मन्यते । एतस्मादभेदात्तु सृष्टिरज्ञानमयत्वमथ चासत्त्व व्रजति। श्रीअरविन्दस्तु सृष्टिव्यापार चित्शक्ती निवेश्य, तद्व्यापार नियामकत्वेनाज्ञान प्रस्तूय चैते उभे अपि तत्त्वे अन्योन्याभ्यामेव विविनक्ति यथा सृष्टे र पत्त्वप्रसङ्गः परिवर्व्यते। अपर च, यावत् श्रीशङ्कराचार्योऽज्ञानमनादिम्, सृष्टिसमवायिन च मन्यते तावत् श्रीअरविन्द एतस्या- नुषङ्गोद्भूत्युपपादनपूर्वकमतिमानसचैतन्यविनाश्यत्वं निर्दिशति । अतएव यावत् श्रीशङ्कराचार्याभिमता व्यष्टि: समष्टिपरित्यागपूर्वकमेव परमतत्त्वेन सहैकत्वमवाप्तु- मर्हति, तावत श्रीअरविन्दाभिमता साऽतिमानस चैतन्यमवतार्य तद्द्वारेणाज्ञान विनाश्य च निखिलां समष्टिमेव परमतत्त्वमयीं कर्तुं शक्नोति । पुनश्च, शाङ्करमते तावदज्ञानस्य मायास्वरूपत्वात्, सर्वा व्यष्टयो “नित्यशुद्धबुद्धमुक्तस्वभावे कूटस्थनित्य एकस्मिन्नसङ्ग परमात्मनि" व्योम्नि तलमलादिवत् परिकल्पिताः ।१० अथ ज्ञानेनात्मन उन्मुच्य ताः पूर्वभावमात्रं गन्तुमर्हन्ति । श्रीअरविन्दमते त्वज्ञानस्य व्यष्ट्याविष्करणपरिपोषणनिमित्त- प्रयोजितत्वात्, तद्द्वारेण व्यष्टयो न केवल समष्टिमुत्थापयन्ति, अपित्वात्मभावमपि परिपूरयन्ति । अनेन प्रकारेण, यावदज्ञानविषयकं शाङ्करमतं व्यष्टि-समष्टिनिराकरण- परम्, परमतत्त्वमात्रोपपादक चास्ति, श्रीअरविन्दमतं परमतत्त्वावतारणपूर्वकं व्यष्टिसमष्ट्योः परिपूरकमस्ति । एतस्मिन् विषये श्रीअभिनवगुप्तरतावत् श्रीअरविन्दप्रतिवेशीव प्रतीयते । असावपि मन्यते यद् "अज्ञानमिति न ज्ञानाभावः" | एवं सति त्वज्ञानमयं लोष्टादिकमपि तावत् तस्मिन्नेव, पृ० ४७८, ६. श्रीशङ्कराचार्य स्य, ब्रह्मसूत्रभाष्ये, उपोद घाते, पृ०२. १०. तस्मिन्नेव, १३१६.
अज्ञानम् संसरेदिति तत्तकः। अतो "ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मक ज्ञानमेव अज्ञानमिति'' शिवसूत्रमुखेनासौ स्व मत प्रतिपादयति । अज्ञान तु "द्वैतप्रथा''-स्वरूप- मित्यसो मन्यते । एतस्मात् स्पष्टं प्रतीयते यत् तन्मते सङ्कोचापन्न ज्ञानमेवाज्ञानाभि- धमिति । ज्ञानस्य सङ्कोचस्तु व्यप्टिं समष्टेः पृथक्करोति, व्यष्टिसमष्टी च परम- तत्त्वात् ।११ एतदेव ज्ञानसङ्कोचस्वरूपमज्ञानं प्रत्यभिज्ञाशास्त्रे मायीयमलमित्यभि- हितम् । १२ पर त्वेतत्पर्यन्तमागत्यापि श्रीअभिनवगुप्तः तदनुयायिनश्चैतस्य ज्ञानसकोच- स्वरूपाज्ञानस्य प्रतीयमानमात्रत्वं प्रतिपाद्य तदुद्भूतव्यष्टिसमष्ट्योरसत्त्वमुपपादितवन्तः । एवं कुर्वन्तः तेऽप्यज्ञानोपजातव्यष्टिसमष्ट्योः सत्त्वोपपादकनीअरविन्दात् पूर्वतरमेव विरमन्ति । pwalaA annadanion ११, श्रीअभिनवगुप्तस्य, श्रीतन्त्रालोके, प्रथमे भागे लो० २५, २६, ३७॥ १२, श्रीक्षेमराजस्य, प्रत्यभिशाहृदये, स. ६.
द्वादशोऽध्यायः पूर्णज्ञानम् बुद्ध्योपार्जितं व्यवहारक्षम ज्ञानमेव ज्ञान सर्वस्वमिति तावदद्यतन सर्वप्रचलित ज्ञानविषयकं मतम् । बुद्धिस्वरूपस्य तव्यापारविधेश्च विमदेितन्मतस्य भ्रामकत्वं ज्ञायते । बुद्धिर्नामान्तःकरणचतुष्टयगतं निर्णायक करणम् । बाह्य जगत्सम्पृक्त रिन्द्रियैर्या याः संवेदना मनसि निधीयन्ते तास्ताः सङ्कल्पविकल्पपूर्वक मनो निर्णयार्थ बुद्ध्यै समर्पयति । बुद्धिस्त्वनया रीत्या सगृहीतान् तथ्यलवान् संयोजयति परामृशति च । एतदर्थ सा तावदेकतः पूर्वतरसंवेदनद्वारेणोपार्जितं स्मृतिरूपेण विद्यमान विशिष्टं ज्ञान- मुपयोजयति, अन्यतश्चात्मिक सामान्य ज्ञानम् । यत्सत्यम्, एतयोरुभयविधज्ञानयोनें कमपि बुद्धिजन्यं भवति । तथा हि, यावत् स्मृतिरूपं ज्ञानमिन्द्रियोपाजित भवति तावदात्मिक ज्ञानं बुद्धिव्यापारात् प्राक्तनम् । सा त्वेते उभयविधे अपि ज्ञाने केवल परस्परं संयोजयति । एतस्मान्निश्चीयते यत् सा परोक्षेणव सत्तया सह सम्पृक्तति । नन्वेताहग्बुद्ध्योपार्जितं व्यवहित ज्ञान कथं नाम ज्ञानसर्वस्वं भवितुमर्हति ? एतादृशो ज्ञानस्य व्यवहारक्षमत्वे तावन्नास्ति कश्चित् सन्देहः । निखिलं घद्यतनं भौतिक विज्ञानं बुद्धिव्यापारजम् । कि त्वेतावन्मात्रेण नानुमेयं सर्वमेव बौद्धिक ज्ञानं प्रामाणिकम्, यथार्थ वेति । अनुदिनं हि श्रूयते बुद्ध्याविष्कृतसिद्धान्तां परिमार्जन- चर्चा परित्यागसमाचारो वा। एतत्तु न केवलं भौतिकविज्ञानमेवाधिकृत्य चरितार्थं भवति, अपितु तत्त्वज्ञानमपि । बुद्धिपरा दर्शनविदो हि मूलतत्त्वमप्यधिकृत्यान्योन्य- विरुद्धानि मतानि प्रतिपादयन्तो दृश्यन्ते । तथा हि, जगत् सदिति केचिन्मन्यन्ते, असदिति केचित्, उभयात्मकमिति चापरे । जगतः कारणमेकमिति केचिद् वदन्ति, अनेकमिति च केचित् । विषयमानं सदिति केचिदुद्घोषयन्ति, विषयिमात्रमिति केचित्, उभयभिन्नमिति च केचित् । नन्वेतानि सर्वाण्येवान्योन्यविरुद्धानि मतानि सत्यभूतानीत्युपपाद्यमाना बुद्धिः कथं नाम ज्ञानसर्वस्ववाहिका भवितुमर्हति ? अथ ज्ञानसर्वस्वार्थ बुद्धिव्यतिरिक्त साधनान्तरमनुसन्धेम्, अवलम्बनीयं च । ननु कीदृशं तद् भवितुमर्हति, कुतश्च लभ्यम् ? श्रीअरविन्दाभितो जगन्मूलकारणभूतः सच्चिदानन्दो यावदेकस्मिन्पक्षे सत्स्वरूपोऽस्ति तावत् पक्षान्तरे चित्स्वरूपः। एतस्मात् पूर्ण ज्ञानम् कारणाद् यत्र यत्र मदस्ति तत्र तत्र चिदपि स्यात् । सत् तु जगद्रूपेणावरुह्य विविध- कोटिकसत्तास्वरूप धत्ते । अथ चिदपि तादृशमेव भवितव्यम् । एव सति चेत् कस्याञ्चि- मानवव्यष्टौ शरीर-प्राण-मन प्रभृतीनि तत्त्वान्युपनिबद्धानि, तर्हि तस्या तत्तत्तत्त्वानुगतं तत्तत्प्रकारक चित्तत्त्वमप्यनुस्यूत स्यात् । एना सम्भावनामुत्प्रेक्ष्यान्वेषणपरः श्रीअरविन्दो मानवाध्यात्मसस्था विविधसोपानीयेति प्राप्नोति । तदनुसारमेतस्याः सस्थाया निम्नतमो विभागोऽचेनाभिधोऽस्ति । अचेतन खलु दैहिक चैतन्यम् । अवरोहक्रमेण तिरोभूतं चित् आरोहकमेण जडतत्त्वादाविर्भूयमान सत् प्रथमे कल्पे ऽचेतनाभिध भवति । सुषुप्तिस्त्वे. तत्प्रवेशद्वारम् । आत्मज्ञानक्रमे एतत् त्वनुपेक्षणीयम् । सुषुप्तिगतं चैतन्य हि जागरणा- ननगरमात्मानं नवीभूतमिव मन्यते । यथा कश्चित्पादपो भूमे रसमाकृष्यात्मानं पुष्णाति, तथैवाचेतनाच्चिद्रसं गृहीत्वा चेतनं मन आत्मान सम्बलयितुमर्हति । अपर च, दैहिकी: क्रियास्तावदचेतनद्वारेणैव प्रत्यक्षीकर्तुं शक्यन्ते । अथ मनसः पोषणार्थ शरीरस्य च प्रत्यक्षावगत्यर्थमचेतनं नाम सम्यगनुसन्धेयम् । अचेतनोपर्यवचेतनाभिधोऽध्यात्मविभागो विद्यते । अवचेतनं तु द्विविधम् । एतयोरेकविधं तावदचेतनोद्भवम्, शेष च चेतनमनोजन्यामिः तृप्त्यनर्हत्वादधस्ता- न्निक्षिप्ताभिर्वासनाभिः सङ्घटितम् । वासनाजन्यमवचेतनं तु वैयक्तिक भवति । एतद् हि वर्तमानव्यष्टिजीवनोद्भवम् । अचेतनोद्भवमवचेतनं तु निर्वैयक्तिकं भवति । यदा जड़तत्त्वं प्राणसंवलितं जातं तदा सवेदनानां संस्कारजातं व्यष्टिनिविशेषत्वेन संयुज्यैतद- वचेतनं निर्ममे । अथावचेननं नाम प्राणकोटिक चैतन्यम् । अस्मिन् खलु समग्रमपि प्राणिविकासैतिह्यमनुसन्धातु शक्यते । एतदेवाश्रित्य गिशुः प्राणिविकासक्रममनुकरोति, पशवश्च मूलप्रवृत्तिलक्षण क्लिष्टाति क्लिप्टं कार्य निर्वर्तयन्ति । अज्ञातभावेनैतत् खल्व- स्माकीनमपि जीवनं सुतरां प्रभावयति । तथा ह्यतेनास्माकीनाः सुखदुःखावस्था भृशं नियम्यन्ते, क्रियाः कार्यन्ते, समस्याश्च निर्णीयन्ते । एतत् खलु मनश्शक्तिस्रोतोभूतम् । अर्थतस्मान्नयने निमील्य कश्चिज्जनः कदापि ज्ञानस्य पूर्णत्वमारोढ न शक्नोति । अवचेतनस्योर्ध्वं चेतनमनो नामापरोऽध्यात्मसंस्थाविभागो विद्यते । एतत् तु सङ्कल्पविकल्पात्मकं सत् मन इति कथ्यते, निर्णायक सत् बुद्धिरिति, चितिक्रिया च कुर्वत् चित्तमिति । एतस्य केन्द्रं त्वहंकारारव्यम् । चतुर्विधमपि चेतनमनः तावत्पर्यन्तमेव स्वतः सम्पूर्णमिव प्रतीयते यावच्चैतन्यसङ्घातस्योपर्युपरि परिवर्त्यते । अध्यात्मनो गभीरेषु सोपानेष्ववतरणपूर्वकं दृष्टं त्वेतद् भिन्नप्रकारकमेव लक्ष्यते । तत्र त्वेतदेकतो- ऽवेतनावचेतनाम्यामुपजायमानमिव प्रतीयते, अपरतश्चान्यस्माच्चैतन्यपुजात् कानिचित् तत्त्रानि ग्रह णन्निवावबुध्यते । - - पूर्णज्ञानम् मानसचैतन्यस्यापरस्रोतोभूतोऽयं चैतन्यपुजो निगूढचेतनामिधः । जडजीवन- मनस्तत्त्वद्वारेणारोहोन्मुखस्य चैतन्यस्योत्थापनार्थमवरुह्यमाणमतिमानस चैतन्यं खल्वा- रोहलक्षणेन चैतन्येन सह यस्मिश्चैतन्यसस्थाने मिलति तत् श्रीअरविन्देन निगूढचेतन इति प्रथितम् ।' अन्तश्चेतन-परिचेतनभेदेन निगूढचेतनस्तु द्विविधः । परिचेतनो नाम निर्वैयक्तिकः । एतस्मिस्तु निखिलमेव जगद् हस्तामलकवत् प्रत्यक्षं ज्ञायते । लोकान्तरमध्येतस्मिन् प्रतिफलति । एष खलु समुद्रवत् सर्वव्यापकः । निगूढचेतनस्य वैयक्तिक केन्द्रं तावदन्तश्चेतनाभिधम् । सच्चिदानन्दस्तु वैयक्तिकत्वेनाप्यात्मानं जगति परिणमयति निवैयक्तिकत्वेनापि । तस्य वैयक्तिक स्वरूप तावदज्ञानलक्षणेनारोहकमेण विकसति, निर्वैयक्तिक स्वरूपं च चैतन्यावरोहकमेणोपरिप्टादवतरति । अज्ञानलक्षणे मनसि तु विशेषानामवगतिः स्वभावतो भवति, यावत् सामान्यानामवगतिरुपरिष्टात् प्रतिफलति । किं त्वारोहावरोहलक्षणचैतन्यद्वयसम्मेलनभूमिभूते निगूढचेतने सामान्य- विशेषौ तावदितरेतरसमन्वितौ भरतः । एतस्मात् समन्वयादेव निगूढचेतनो यावदेकतः परिचेतनो भवति तावदन्यतोऽन्तश्चेतनः । अन्तश्चेतनस्तु निरहकारो भवति । एतस्मिन् खलु स्व-परविभेदो निराकृतो भवति । अतएव निगूढचेतनप्रविष्टो जन आत्मानं जगन्मयं पश्यति, जगच्चात्ममयम् । परं तु निगूढचेतनोऽपि चैतन्यप्रकाशस्य मूलस्रोतो नास्ति । एतन्निप्ठो हि योग्येतस्मादप्यूछतरदेशादाविर्भूयमाणं चैतन्यज्योतिः पश्यति । एतच्चरममध्यात्मसोपान त्वतिचेतनाभिधम् । एष खलु सूर्यवत् सर्वविधचैतन्यज्योतिप उद्गमः । अथ निगूढचेतना- बचेतनौ समुद्रेण प्रतीकायिसु शक्येते चेत्, तर्खा तिचेतन आकाशेन । “चेन्निगूढचेतनावचे- सनौ मनोव्यापारतरङ्गोत्पादकसमुद्र वदधिगन्तु शक्यौ, ती तिचेतन आकाशवत्-य आकाश: सोनिमालस्य समुद्रस्य निर्माता, आश्रयः, आवरणः, व्यापकः, नियन्ता चास्ति ।"२ अथैतावता ज्ञायतेऽस्मदध्यात्मसस्था कियविस्तृतेति। मनोबुद्धिचित्ताहकार- लक्षणेऽन्तःकरणे प्रतिभासितं चैतन्यं तु सम्पूर्णाध्यात्मचैतन्यस्योपरितनस्पन्दनमात्र प्रतीयते । यथा खलूमिजालमात्रगणनान्निखिल: समुद्रो न ज्ञायते, तथैवान्तःकरणमात्रा- वलम्बनात् तत्त्वजातमवबोद्ध न शक्यते । अथ चेत् तत्त्वजातं ज्ञातव्यम्, तहि सम्पूर्ण- मप्यध्यात्मसस्थानं तथैवोपयोजनीयं यथा समुद्रस्य सम्यग्ज्ञानार्थं तदीयं गभीरं जवं सलपर्यन्तमवगाह्यते । एतस्मिन् प्रसङ्ग ज्ञानस्य द्वैविध्यमध्यवधेयम् । प्रथमप्रकारकं ज्ञानं तावदुक्त- १. दि लाइफ डिवाइन, पृ० ६५३. २. परिमन्नेव, ०६६८. - , श्रीअरविन्ददर्शनम् , रीत्या व्यवहितं भवति । एतद् ह्यन्तर्बहिःकरणद्वयसाधनम् । ज्ञानेन्द्रियैाहीतम्, मनोबुद्धि- चित्ताहंकारैश्च सङ्कल्प-निर्णय-चितिपूर्वक स्वीकृतं शानमेतादृशं भवति । व्यवहितत्वात्, करणानां परिमितगक्तिमत्त्वाच्चैतद्विधं ज्ञानं ज्ञेयस्थ प्रतीयमानमेव स्वरूपं ज्ञापयति । द्वितीयप्रकारकं ज्ञानं त्वव्यवहितं भवति । यावद् व्यवहित ज्ञानं ज्ञेयस्य तटस्थलक्षणमात्रं बोधयति, तावदव्यवहितं ज्ञानं तत्स्वरूपमेवावगमयति । अथ ज्ञेयस्वरूपाबगत्यर्थ जिज्ञा- सुना खलु सर्वविधभेदबुद्धिनिरसनपूर्वकं तथैव तद्रूपेण भवितव्यं यथा क्रोधस्वरूपावगत्यर्थं मनसा तावदितरव्यापारपरित्यागपूर्वकं ऋद्धेन भूयते । अथ शेयजातस्याव्यवहितस्वरूप- ज्ञानार्थ जिज्ञासुना तत्तत्पदार्थसोपानीयमध्यात्मचैतन्यं प्रवेष्टव्यं नाम । एवं द्वे अध्यात्मसोपाने चेतनमनसोऽधस्ताद् विद्येते, द्वे चोपरिष्टात् । ननु मनोनिरोधपूर्वकं प्रथमं तावदधस्तात् प्रवेष्टव्यमुपरिष्टाद्वा ? श्रीअरविन्दस्तु प्रथमे कल्पेऽधोगमनाद वारयति । तन्मतेन, अवचेतनाचेतनप्रवेशः खलु गभीर स्वप्न-सुषुप्ति- प्रमोह-विक्षेपप्रभृतिष्ववस्थाष्वेव सम्भाव्यते । एता अवस्थाश्चाज्ञानात्मिकाः । एतद- वलम्बनादारोहव्यापारोपार्जितमपि चैतन्यमपहीयते। अतएव साम्प्रतिकमनोविश्लेषण- वादविरुद्धं श्रीअरविन्द उपर्यारोहणमेव चैतन्यविस्तारद्वारं मन्यते। निगूढचेतनातिचेतनप्रवेशस्य सुप्रसिद्धो मार्ग: समाधिरिति सुचिरकालात् सुप्रष्ठितं मतम् । समाधिमार्गः चिरप्रतिष्ठतः, उपादेयश्च सन्नप्यपूर्ण इति तु श्रीअरविन्दो मन्यते । समाधौ हीतरेषामध्यात्मसोपानानामपसारणपूर्वक निगूढचेतनातिचेतनौ प्रविश्येते, प्रत्यक्षमवगम्येते चेत्यत्र नास्ति काचिद् विप्रतिपत्ति म । पर तु व्युत्थानान- न्तरमेव चैतन्यं तावच्चेतनावचेतनव्यापारैरभिभूयते । परिणामतः समाध्यजित ज्ञानं व्युत्थानकाले प्रत्यक्षत्वं विहाय संस्कारावशेषमा भवति । एतद्विधं ज्ञानं तु चेतन- प्रवृत्तीरप्युत्थापयितुं न शक्नोति, किं पुनरवचेतनप्रवृत्तीः । अथ समाधिव्युत्थितो जनो दुर्विचारः, कुप्रवृत्तिः, विमूढश्चापि भवितुमर्हति । एतत् खलु न पूर्णज्ञानवत्त्वम् । न हि तत् कदाचित् पूर्णज्ञानाभिधानं लब्धुमर्हति यस्मिन्नशेषाध्यात्मसोपानवर्गः परस्परं न समन्वितः । समाधिजन्य ज्ञानं तु चौरवर्तिकाप्रकाशवद् दूरंगामी सन्नप्यज्ञानान्धकार- परिच्छिन्नं भवति, अनस्थिरं च । पूर्णज्ञानेन तु सौरप्रकाशवन्निराकृतनिखिलाज्ञानति- मिरेण, स्थायिना च भवितव्यम् । अथ मनोवृत्तिनिरोधपूर्वक निगूढचेतनमतिचैतनं च प्रविश्य व्युत्थानक्रमेण ततो मानससोपाने पुनरावरोहो न सम्यकारीति श्रीअरविन्दो मन्यते । तन्मतेन त्वारोहा- नन्तरं मनोऽप्युत्थाध्यं नाम । मनस्तावदहकारकेन्द्रितम् । अथ मनस उत्थापन महंकारो- पूर्णज्ञानम् 88 स्थापनपूर्वकमेव भवितुमर्हति । उत्थापितोऽहंकारस्तु निगूडचेतनान्तर्गतस्यान्तश्चेतनस्य ताद्रप्यं भजते । यावदाणविकमनःकेन्द्रभूतोऽहंकारः सर्वनिराकरणपरो भवति तावद वैश्वाकारनिगूढचेतनकेन्द्रभूतोऽन्तश्चेतनः सर्वसमावेशशीलः । अथाहंकारे तावदन्तश्चेतने विलीने सति मनो निगूढचेतनत्वमुत्थाप्यते । एनां स्थिति प्राप्य व्यष्टिरात्मान्तहितं सामष्ट्यमभिजानाति । अतः परं निगूढचेतनादुत्थायान्तश्चेतन आत्मत्वं प्राप्नोति, परिचेतनस्त्वतिमानसचैतन्यत्वम् । अत्रारूढा व्यष्टिात्मनः सामष्ट्यम्, सर्वातिकान्तत्वं च सपद्येव साक्षात्कुरुते । ननु निगूढचेतनातिचेतनाभ्यां सम्पृक्तं प्रकाशितं च मनोऽवचेतनाचेतनो कथं वशीकुर्यात् ? श्रीअरविन्दस्तु यावत् प्रथमे कल्पे मनःकृतमवचेतनाचेतनप्रवेणं वर्जयति तावद् द्वितीये कल्पेऽतिचेतनसम्बलितेन निगूढचेतनेनैतयोः प्रकाशनं परीक्षणं स्वरूपोत्था- पन च विदधाति । एतस्य विधानस्य पृष्टतस्तु कारणकार्यसम्बन्धोद्भवस्तर्कोऽनुसन्धयः । कार्य नाम कारणे विलयितुमर्हति, न तु कारणं कार्ये । मनस्तु मूलतोऽवचेतनकार्यम् । एतादृश तत् प्रविष्टं सद् एतयोविलयितुमर्हति । मनस्यवचेतनाचेतन विलीने सत्ति तु पाशवप्रवृत्तिरुपजन्या। मूलतोऽतिचेतनकार्यत्वान्निगूढचेतनस्त्ववचेतनाचेतनप्रविष्टः सन् तन्मयो भवितु नार्हति । प्रबलतरत्वात् त्वेष एतौ प्रकाशयितुं परिणमयितु च शक्नोति । एव सति, अतिचेतनस्थेन निगूढचेतनस्थेन वाऽऽत्मनाऽवचेतनाचेतनौ गवेषणीयौ, प्रकाव्यो, स्वरूपेणोत्थापनीयौ च । यदा खल्बात्मप्रकाश एतयोरुपरि सम्पतिष्यति तदा मूलप्रवृत्तयो निम्नाभिमुखत्व परित्यक्ष्यन्ति, दमितवासनाजन्यानि ग्रन्थीनि भिन्नानि भविष्यन्ति, अज्ञानान्धकारश्च तिरोभविष्यति । एवमज्ञानाश्रये उद्भिन्ने सति, पूर्णमनपलाप्य च ज्ञानमाविर्भविष्यति । एतद्विधज्ञानवान्पुरुषः प्रत्यक्षमप्रत्यक्ष वा, सचेतनोऽवचेतनो बा, मूलप्रवृत्त्या शिक्षितबुद्ध या वा कदापि कथमपि मुग्धः कुकर्मा कुदृष्टिरसभात्रो वा न भविष्यति । तच्छरीरप्राणमनोऽध्यात्मगतं विरोधजातं शममेष्यति । तदीयमचेतनाव- चेतनप्रभृत्यध्यात्मावयवजातं त्वेकसूत्रानुस्यूतमेकप्रकाशसन्दीप्तं च भविष्यति । तदध्यात्म- केन्द्रबिन्दुस्त्वात्मा भविष्यति, न चाहंकारः । तदात्मा तु वैश्वात्मरूपो भविष्यति । असो चात्मनि व्यष्टिसमष्ट योरतिक्रान्तिमपि द्रक्ष्यति । अत्रैव खलु ज्ञानस्य पूर्णत्वं मतम् । , परं तु वैयक्तिकी पूर्ण ज्ञानवत्ता तावत् श्रीअरविन्दाभिमतसिद्धेः पूर्वार्धमात्रमेव । व्यष्टिसमष्ट्योरन्योन्याश्रितत्वात पूर्णत्वाभिप्राप्त्यै समष्टिस्तु व्यप्टिमपेक्षते, व्यरिटश्च समष्टिम् । तत्राप्यात्म तिरोहितसच्चिदानन्दोपजायमानसमष्टिनिर्गताभिय॑ष्टिभिरेवा- स्माकं सृष्टिरारोहोन्मुखीति प्रत्यक्ष दृष्ट्रवा ज्ञायते यद् व्यष्टिसमष्ट्योरन्योन्याश्रितत्वेऽपि श्रीअरविन्ददर्शनम् व्यष्टिमुखेनैवैपाऽग्ने प्रसरतीति । अथ पूर्णज्ञानावतारणाभियानो नाम व्यष्टिमुखेनंब प्रवर्तनीयः। अवरोहारोहसिद्धान्तानुसारं तु जगत् स्वत एव पूर्ण ज्ञानोन्मुखमास्ते' । कि तु व्यष्टिसहयोगमवाप्यपा प्रवृत्तिस्तावद् द्रुततरा भवितुमर्हति । अथ पूर्णज्ञानवतीषु ध्यष्टिषु प्रकृतिव्यापारसहयोगोन्मुखीषु सत्सु व्यष्टिविशेषोपाजितं शानं नामानेकासु व्यष्टिपु प्रसरिष्यति । अनया रीत्या पूर्णज्ञानवतीनां व्यष्टीनां सङ्ख्योत्तरोत्तरवृद्धि गच्छन्ती कस्मिश्चिवागामिकाले विश्वव्यापिनी भविष्यति । तदा व्यष्टिः सामष्ट्यं प्राप्स्यति, समष्टिय॑ष्ट्यविरोधिनी भविध्यति, व्यष्टिसमष्टी सर्वातिशायितत्त्वस्याङ्गभूते भविष्यतः, जडतत्त्वं चैतन्यसमन्वितं भविष्यति, अहंकार आत्मान्वितो भविष्यति, आध्यात्म- संस्था सामस्त्येन प्रकाशिता भविष्यति, व्यष्टिश्च समाजमध्ये आत्मानुरूपं पदममि- ज्ञास्यति । एतस्यामेवावस्थायां पूर्णज्ञानस्य प्रतिष्ठेति श्रीअरविन्दो मन्यते । शानं नाम चैतन्यस्वरूपम्, चैतन्य सत्स्वरूपम्, सच्चैकरूपम् । सतस्त्वेकरूपत्वात्, ज्ञानेनाप्येकरूपेण भवितव्यम् । एक सति, असमन्वित ज्ञान तावदपूर्ण स्यात् । पूर्णे ज्ञाने तु निरपेक्षसत्सया सह सापेक्षसत्ता सामञ्जस्यं प्राप्स्यति, निर्गुणेन सह सगुणः, एकत्वेन सहानेकत्वम्, निर्वैयक्तिकत्वेन , सह वैयक्तिकत्वम् एष सामञ्जस्यव्यापारश्च कथमपि पक्षविशेषोपेक्षापूर्वको न स्यात्, प्रत्येकस्य पक्षस्य सत्स्वरूपत्वात् । पक्षाणाम- न्योन्यविरोधो वरचैतन्यदौर्बल्योपजातो भवति । उच्चतरचैतन्यारोहानन्तरं त्ववर- चैतन्यप्रतीतो विरोधो विगलितो भवति । यथा खल्ववरसङ्गीतग्रहणशक्तौ मूच्छिता विविधाः स्वराः परस्परमसमन्विताः प्रतीयन्ते, उच्चतरग्रहणशक्ती मूच्छितास्तु ते एव स्वरा एकस्वरत्वानुभूति सजनयन्ति, एवमेव श्रीअरविन्दोऽन्योन्यविरुद्धदिग्गामिज्ञान- सरणिध्वपि समन्वयोन्मुखत्वं पश्यति । तेन खलु सर्वेऽपि वैश्वज्ञानतन्तवः पूर्णज्ञानवीणायाँ विनेतुं चेष्टिताः। तन्मतेन हि- "विज्ञानवत्, तत्त्वज्ञानेऽपि तत् सर्वसामान्यभात्यन्तिक समाधान सर्वश्रेष्ठं भवितुमर्हति यत् खलु सर्वविधान्यनुभूत्यात्मकानि सत्यानि स्वात्मनि समाधत्ते, व्याख्यायते, तत्तत्स्थाने च प्रतिष्ठापयति । तदेव ज्ञानं सर्वोन्नतं पदं लब्धुमर्हति यत् सर्वविधाना ज्ञानतत्त्वानो प्रकाशकम्, संयोजकम्, समन्वयपरं चास्ति । ५ MANI है. श्रीअरविन्दग्य, दि सिन्थेसिल ऑफ योग, पृ० ४४०, ४. तस्मिन्नेव, पृ० ४८५. ५. दि लाइफ डिवाइन, पृ० ५५६.
पूर्णज्ञानम् १०१ ननु श्रीअरविन्दप्रतिपादित पूर्णज्ञानविषयक मतं तावत् सम्यग्ज्ञानविषयकेन शाङ्करमतेन सह तुलनामर्हति । श्रीअरविन्दवत्, श्रीशङ्कराचार्योऽपि तर्कमात्राश्रितानां सिद्धान्तानामन्योन्यविरुद्धत्वाद् विप्रतिपत्तिविषयकता प्रदर्शयति । तथा हि, केनचित् तार्किकेणोपपादितः कश्चित् सिद्धान्तः किञ्चित्कालपर्यन्तं सम्यग्ज्ञानमिव प्रतीयमानोऽपि तार्किकान्तरेणान्यथा व्युत्थाप्य तत्वाद् विचाल्यते । अथानमा रीत्याऽनेकरूपविपरि- वर्तमान ज्ञानं कथमपि सम्यग्ज्ञानास्पदाह न भवति । सम्यग्ज्ञानं तु त्रिकालव्यवस्थितम्, एकरूपं च भवति, अग्ने रोष्ण्यवत् ।६ तन्मतेनैतादृशं ज्ञान ताबद् वेदादेवोपलभ्यम् । अपर चैतद्विध ज्ञानममौ जगत्प्रपञ्चविलयकारकम्, मोक्षप्रदायक च मन्यते । जगत्प्रपञ्च- प्रविनयवि पवेऽसौ ‘अग्नित्रतापसम्पर्काद् घृतकाठिन्यत्रवि नय' इत्येनामुपमा पूर्वपक्षीकृत्य “एकस्मिश्चन्द्रे तिमिर कृतानेकचन्द्रप्रपञ्च"-प्रविलय इत्येनामुपमा स्वीकरोति, अन्यथा त्वेकस्या व्यष्टौ मुक्ताया “पृथिव्यादिशून्य जगदभविष्यत्' ।" -- एतावता ज्ञायते यत् श्रीशङ्कराचार्यस्य श्रअरविन्दस्य च मध्ये आत्यन्तिक ज्ञानमधिकृत्य त्रिविधो मतभेद इति । प्रथमं तावत् तर्कलभ्य ज्ञानस्यात्यन्तिकत्व ममवेत- स्वरेण निरसतोरप्येतयोर्मध्ये यावत् श्रीशङ्कराचार्योऽमन्मूलमेतदिति मन्यते, तावत् श्रीअरविन्द एतदपि सन्मूलमिति । स्वस्वमतानुरूपमेनं विभेदमनुसरतोरेतयोम ये यावत् श्रीशङ्कराचार्यः तर्कज्ञान सम्यग्ज्ञानत्वादपच्यावयते तावत् श्रीअरविन्द एतत् पूर्णज्ञाना- वयवत्वमुन्नीयते । एतदेवावचेतनप्रभृतिज्ञानसाधनैरुपाजितस्य स्वप्नप्रभृतिज्ञानस्य विषये- ऽपि वक्त, शक्यते । एतेषां त्यागात्यागाभ्या श्रीशङ्कराचार्यस्य श्रीअरविन्दस्य च मध्ये ज्ञानमधिकृत्य भृशमन्तरमुत्पद्यते । एतावुमावेव कस्यचिदात्यन्तिकस्य ज्ञानस्वरस्यान्वेपिणा- वित्यत्र नास्ति कोऽपि सन्देहो नाम । किं त्वेनं स्वर यावत् श्रीशङ्कराचार्यो निग्गिलाबर- ज्ञानस्वरोच्छेदसाध्यं मन्यते तावत् श्रीअरविन्दः सर्वस्वरसमन्वयजन्यम् । द्वितीय कम्पे, यावत् श्रीशङ्कराचार्यः सम्यग्ज्ञानं वेदभात्रोपलभ्य मन्यते तावत् श्रीअरविन्दः पूर्णज्ञानं जनमानसप्रयाससाध्यम् । ननु वेदमात्रोपलभ्यत्वात् सम्यग्ज्ञानं नाम सर्वथा परिनिष्पन्नम्, वैयक्तिकत्वेनाभ्यासार्हम्, वैयक्तिकमोक्षोपायत्वेनोपयोजनीयं चास्ति । जनमानमप्रयास- साध्यत्वात्तु पूर्णज्ञानं नाम सततविकासोन्मुखम्, व्यष्टिममष्टिभ्यां सममेवानुसन्धेयं चास्ति । उभाभ्यामनुसन्वेयत्वात्त्वेतदुभयोरेव मुक्तौ पर्यवसितुमर्हति । तृतीये कल्पे, - ६. श्रीशङ्कराचास्य, ब्रह्मसत्रभाध्ये, २११११. ७. तस्मिानेब, ३१२१.
श्रीअरविन्ददर्शनम् यावत् सम्यग्ज्ञानं पृथिव्यादिमयं जगद् व्यष्टिकृते प्रविलापयति, समष्टिकृते च प्राग- वस्थायां प्रहिणोति, तावत् पूर्णज्ञानं नाम व्यष्टेः समष्टेश्चोभयोरेव कृते एतस्मिन् दिव्य- त्वमवतारयति । एवं यावन् सम्यग्ज्ञानं व्यष्टिसमष्ट्यात्मकस्य जगत उच्छेदपरं तावत् पूर्णज्ञानं नाम व्यष्टिसमप्टिमध्यगतमज्ञानं निरस्यैतयोः सामञ्जस्यकारकम्, परमतत्त्व- ताद्रूप्ये उत्थापकं चास्ति।
त्रयोदशःऽध्यायः पूर्णयोगः पूर्णज्ञानसाधनत्वेन श्रीअरविन्दः पूर्णयोग प्रवर्तयते । तत्त्वस्वभावप्रवृत्त्यनुरूपचैतन्यं पयोजनमेव पूर्ण योग इति तन्मतम् । तत्त्वं तु ब्रह्म, तत्स्वभावश्च सच्चिदानन्दः सच्चिदानन्दस्य प्रवृत्तिश्चित्शक्तिः । चित्शक्त्यनुरूपचैतन्यप्रवर्तनं नाम पूर्णयोग इत्य समासार्थः । अवरोहारोहव्यापारोपजातस्य जगतः सच्चिदानन्दस्वरूपत्वात्, तद्गर प्रत्येकः पदार्थः तत्त्वतः सच्चिदानन्दभूत एव । तथा सति, प्रत्येकेन पदार्थेनान्तहितचित शक्तिमयेन भवितव्यम् । अथ प्रत्येकस्य पदार्थस्य शाश्वतो धर्मोऽस्ति यदसौ सच्चिद नन्दवद् वर्तेत, चित्शक्तिवत् स्वीयां शक्ति विनियोजयेच्च । अवरोहकमेण तिरोहितस्वरूपः सच्चिदानन्दस्तावदारोहोन्मुखः सन् प्रथं कल्पे सत्तामाविर्भावयति अथ चैतन्यम्, अन्ततो गत्वा चानन्दम् । अपरं च, यावत् सत्त चैतन्यविहीना भवति तावदारोहगतिर्मन्थरा भवति, यतः प्रभृति चैषा चैतन्यसम्बलित भवति ततः प्रभृति आरोहो द्रुततरः सजायते । अथैतावता ज्ञायते चैतन्यस्य जगद्विकास कारकत्वम् । तथा हि, यावत् कश्चित् पाषाणखण्डो जलप्रवाहादिबाह्यशक्तियोगेनाने सहस्राब्दपर्यन्तमुवेल्ल्यमानः सन्नेव किञ्चिद् विपरिणमते, तावत् कश्चित् प्राण आत्मचैतन्ययोगेनाभ्यन्तरतः प्रेर्यमाणः, भोजनादिग्रहणेनानुक्षणं वर्धमानन स्वल्पेनैव कालेन यथाभिलषितमाकारं भजते । तत्रापि चैतन्यतत्त्वस्यात्यल्पाविर्भावाद वरेषु प्राणिषु खलु विकासगतिर्मन्थरा भवति । स्वल्प वैतन्यवत्त्वात् तु ते जडप्रकृति निबद्धा भवन्ति । चैतन्ययोगेनैतस्याः प्रकृतेरात्मानमुन्मोच्य समग्रचित्शक्ति नये पर प्रवृत्तिरेव पूर्ण योग इति श्रीअरविन्दः प्रतिपादयति । आरोहकमेण मानवत्वमागत्य खलु सृष्टिरात्मचैतन्यसम्बलिता भवति एतच्चैतन्यं त्वेकस्मिन् पक्षे मानवं नियोजितक्रियाक्षमं कुरुते, पक्षान्तरे चात्मावस्था नाहम् । नियोजितक्रियाक्षमता तु तं जडप्रकृतेरग्रेसृत्यात्मकौशल प्रदर्शयितुं प्रवर्तयति पाषाणखण्डस्तु तथैवावतिष्ठति यथा प्रकृतिस्तमवस्थापयति । अतः परम्, आविर्भूतात्म विकासप्रवृत्तिरपि वनस्पतिः सर्वथा प्रकृतिमनुवत्यैवात्मलक्ष्यं प्राप्नोति । पशवस्त्वभ्यास १०४ श्रीअरविन्ददर्शनम् , बलेन किञ्चिन्मनुष्यवदाचरितु शक्नुवन्ति । एवं तेषु तावत् प्रकृतिबन्धविनिर्मुक्तिक्षमता प्ररोहोन्मुखी भवति । एपैव क्षमता मानवेषु पुनरानन्त्यं व्रजति । पशोरात्मचैतन्य तावदिदानीन्तनम् , आहारविहारमात्रपरिमितं च भवति । पर तु मानवीयमात्मचैतन्य सर्वदेशकालज्ञानक्षमम्, सर्वभूतव्यापकम्, परमतत्त्वावबोधकं च भवितुमर्हति । मानवेषु य एना सम्भावनां यावन्मानं साक्षात्कुरुते, तावन्मात्रमसौ विकासं भजते। अतएवैकतो वन्यजनस्यात्मचैतन्यं शरीरप्राणमनोमात्रकेन्द्रितं वर्तमानमात्रपरिच्छिन्न च भवति, अन्यतश्च महात्मन आत्मचैतन्यं निखिलजगद्व्यापकं भवति । मानवेष्वन्तहितैषा क्षमता क्रियायामप्यभिव्यज्यते । तथा ह्यकत्र बन्यजने पर्णकुटीनिर्माणपदातिगमनाग्निप्रज्वालनपा- षाणखंडप्रक्षेपणरूपाः क्षमता: विद्यन्ते, अन्यत्र च विज्ञानविदि तावदद्भुतभवननिर्माण-पर- माणुविस्फोटन-प्रक्षेपास्त्रसम्प्रेषण-नक्षत्रान्तरगमनरूपा: क्षमता आविर्भूताः । सत्य यदपरि- मितात्मचैतन्यवन्तो महात्मानः, अद्भुतक्रियानियोजन प्रवणाश्च विज्ञानविदोऽल्पसङ्ख्याका एव । किं त्वेतादृशो महात्मानो विज्ञान विदश्च नाभविष्यन् चेत्, मानवसस्कृतिः पृष्ठत एवावरुद्धाऽभविष्यत् । अथ चेदेषा द्रुततरज्ञान क्रियाक्षमता व्यापकं लक्ष्यमुद्दिश्य सुव्यवस्थितप्रकारेणोपयुज्येत, तर्हि जगतो महत्कल्याण भवेत् । द्रुततरज्ञानक्रियाक्षमताया उपयोगस्यादाहरणानि तावन्मानवेषु सुचिरकालात् प्राप्यन्ते । तया हि, अध्यात्मज्ञानविषो यदेतरे भारतवासिनो वैदेशिकाश्च प्राथमिका- वस्थायां न्यबसन् तदा केचिद् वेदर्षयः परमात्मना सममात्मनस्तादात्म्यमनुसन्दधुः । तेषामेतदनुसन्धानं खलु दर्शनशास्त्रान्तर्गतं चरमोपलब्धिकल्पमिति मन्तव्यम् । अद्य पर्यन्तं हि मानवमनीपा ततोऽग्रे प्रयातु नाशक्नोत् । परमेतद् ज्ञान तदानीं तु केपुचि- दृषिष्वेवाविर्बभूव । एनज्ज्ञानवत मृपीणा प्रतिवेशिन इतरे जनास्तु प्राथमिकेऽज्ञाने एवोषुः । का वार्ता पुर प्रतिशिनाम्, तवंशजेष्वपि केचिदेव तज्ज्ञान सम्बगवगन्तु समर्था बभूवुः । एवं सत्यपि तज्ज्ञानस्य परिसीमा कालक्रमेण शनैश्शन विस्तारमभजत् । अर्थतस्या विस्तारप्रवृत्तेः परामर्शात् सुतरामनुमातु शक्यते यत् कस्मिश्चिदागामियुगे एतज्ज्ञानं तावन्निखिलमानवसमाजसम्पत्ति वितेति । एतद्विधं ज्ञानं तु व्यवस्थाय कदाचित् सामान्यजनग्राह्य भविष्यतीत्येतस्मिन्न- नुमाने उदाहरणत्वेन भौतिक विज्ञानविकास रीतिः पराम्रष्टु शक्यते । तथा हि, अद्यतना बहवो विज्ञानसम्मताः सिद्धान्ता: प्राचीनयुगे एव विचारकै रन्विष्टाः । ईसवीये पञ्चमशतके एवं श्रीआर्यभट्टन प्रतिपादित यत् पृथिवी सूर्य परिकामतीति । ततोऽपि पूर्वतरं भगवता शाक्यमुनिना दृष्टं यज्जगस्थितं पदार्थजातमन्योन्यसापेक्षमिति । ततोऽपि पूर्वतरमौपनिषदर्षिणा दृष्टं यत् तत्त्वमक्षयमिति । किं त्वेतदाविष्कारजातं पूर्णयोग १०५ - सुदीर्घकालपर्यन्तं वैयक्तिकचिन्तनमात्रनिष्ठत्वादज्ञातप्रायमेव बभूव । वर्तमानयुगे तु, विज्ञानविताने सुव्यवस्थिते सति एते सिद्धान्ता: प्रामाण्यकोटिमानीय क्रियान्विता । विकीर्णानां विज्ञानसम्मताविष्काराणां फियान्वित्यर्थ तावत् प्रमाणपुष्टा, सामान्यजनग्राह्या सर्वसम्मता च विज्ञानरीतिरपेक्षिता। एषा रीतिस्तु वर्तमानयुगीनविज्ञानप्रवर्तकर्वैय- क्तिकस्वार्थपरित्यागपूर्वकमुपबृ हिता : एतद्विध एवादर्शोऽध्यात्मविज्ञान कल्पस्य योगस्यापि पुरस्तान्निधातु शक्यते । तथा हि याः काश्चिदध्यात्मज्ञानसरण्य इतस्ततो विकीर्णा विद्यन्ते ताः सर्वा अपि ततस्ततोऽन्विष्यैकस्मिन्नेव ज्ञानराजमार्ग विनेया. । एव सति, केऽपि तज्ज्ञानानुसन्धित्सवो यत्र क्वापि भविष्यन्ति ते सर्व एव स्वत्वाधिष्ठानोपलभ्या सरणिमवलम्ब्याग्रेसरन्तो निखिल सरणिजालकेन्द्रभूत लक्ष्य स्वस्व वेगानुरूपमनुक्रमेण प्राप्स्यन्ति । श्रीअरविन्दप्रतिपादित: पूर्णयोगस्तु सवविध योगभर णि िमलनोपबृ हित एतादृश एव जगद्विकास राजमार्गः । एतस्मिन् योगे खलु हठ-राज-ज्ञान-भक्ति-कम- प्रभृतीना सर्वेषा योगपथाना समन्वयो दृश्यते । - ननु प्रत्येको योगमार्गों मानवव्यष्टिनिहिता कामपि विशिष्टा शक्तिमवलम्ब्य प्रवर्तते । तथा हि, हठयोगस्तावत् प्राणमवलम्बते, राजयोगो मनः ज्ञानयोगो बुद्धिम्, भक्तियोगो रागम्, कर्मयोगश्च क्रियाम् । अथ जिज्ञासा समुत्पद्यते पूर्ण योगस्य क आधार इति । श्री अरविग्दस्तु पूर्ण योग निविशिष्टाधार मन्यते । आधा रत्वेन हि कस्याञ्चिद् विशिष्टाया शक्त्या स्वीकृतायां सति, इतरा: सर्वा एव शक्तय उपेक्षिता भविष्यन्ति । उपेक्षितेतरशक्तिस्त्वेष योगः पूर्णत्वादपस रिप्यति। अतएव पूर्ण योगस्याधा रत्वेन श्रीअर- विन्दो निर्विशिष्टं सम्पूर्ण मेव मानवस्वभावं स्वीकरोति ।' निखिलमानवस्वभावपरिष्कारपूर्वकमध्यात्मनि दिव्यभावस्यावतारणमस्य योगस्य तावत् प्रथमं लक्ष्यम् । साम्प्रतिको मानवस्वभावः खल्वज्ञानपितः । अज्ञानं नाम चैतन्यसङ्कोचलक्षणम् । अहकारस्त्वेतस्य सङ्कोचग्याश्रयः । अथ पूर्णयोगाभ्यासस्यारम्भ- बिन्दुरहंकारबन्धनशिथिलीकरणचेप्टव । अहकारग्रन्थे किनाटबन्धत्वं तु तदर्पित- मिथ्यात्मप्रतीतिजन्यम् एना प्रतीतिमपाकर्तु चाध्यात्मविषयक: तत्त्वद्वित्वसिद्धान्तः सम्यगभिज्ञेयः । अध्यात्मनि तावदेकत आरोहव्यापारोपजातमह- कारकेन्द्रितमुपरितनं मनः, अन्यतश्चावरोहकमोपलब्ध आत्मकेन्द्रितो निगूढ़चेतनो नाम ।२ कस्माच्चित् सोपानात् सोपानान्तरारोहणायारुह्यमाणसोपानीयावरोहस्यापेक्षि- - १ श्रीअरविन्दस्य, दि सिन्थेसिस ऑफ योग, पृ. ५२. २. दि लाइफ डिवाइन, पृ० २६२-३.
अ वन्ददर्शनम् - तत्वात्, साम्प्रतिकारोहार्थमहंकारबन्ध नशिथिलीकरणपूर्वकमूध्वंसोपानीयं तत्त्वमवतार- णीयम् । एतत् तत्त्वं त्वात्मा। अहकारम्यात्माभासम्वरूपत्वात्, आत्मनि ज्ञाते सति, अहकारः स्वत एव शिथिलबन्धो भविता । अथ यथाऽयोगावस्थाया सर्वे मनसा भावा अहंकाराय समय॑न्ते, तथैव योगावस्थाया ते आत्मने समर्पयितव्याः । एवं कुर्वता साधनान्ततोगत्वाऽनुभवितव्य मम सर्वाः चिन्तन-भावन-क्रियाशक्तयः खल्वात्ममूलाः, न चाहंकारमूला इति । एव सति, तदीय विचार-भाव-क्रियाजातं परिपूतं भविष्यति । अतः पर तु साधकस्य पुरस्ताद् द्वौ मागौं विद्यते, पुरुषमार्गः प्रकृतिमार्गश्च । एष मार्गभेदश्च शक्तिशक्तिमद्विभेदाश्रितः । शक्तिमन्मार्गानुसारिणा साधकेन त्वतः परं चैतन्यस्यात्ममूलत्वं पुरुषोत्तम मूनत्वं वाऽनुभूयते । शक्तिमार्गानुसारिणा साधकेन च चैतन्यस्य दिव्यमहाशक्तिमूलत्वमनुभूयते । एपा शक्तिः खल्वात्मन्यनन्ता सत्तां धारयति, निखिल सृष्टिवैलक्षण्य च सृजति । परं तु येन केनापि मार्गेण प्रवृत्तः साधक एनामवस्थां प्राप्य विभाजकप्रतिबन्धविलयात् पुरुषोत्तमे महाशक्तौ वाऽऽत्मलयमनुभवति । अत्र शक्ति-शक्तिननोरन्योन्यविभेदोऽपि विलीयते । परिणामत एतयो परस्पराश्रित- त्वमपि बोवगम्यं भवति । एषा शक्तिहि सैव चित्शक्तिर्या सच्चिदानन्दाश्रिता सती, आत्मान्तहितं क्रियाशीलत्वमुन्मीलयन्ती, एकाशेन केन्द्रीभूयातिमानसमुत्पादयन्ती, सच्चि- दानन्दमात्मतिरोधापयत्ती, पुनश्चाति मानसं प्रबोधयन्ती, सच्चिदानन्दमारोहमार्गेण संयोज्य चरमोत्कर्ष नीयमाना विद्यते । , शक्ति-शक्तिमतोक्यमनुभूय माधकः ताभ्यां सहात्मतादात्म्यमा भजानाति । एवमात्मवृथग्भावस्य विनयादसौ जगज्जननवारणोत्थानशीलं परं तत्त्वं तादात्म्येनाव- गच्छति । अनेन प्रकारेण व्यष्टिचैतन्ये परमात्मलीने सति, एकतः सर्वातिकान्त चरमतत्त्वं भवति, अन्यतश्च तदुपजायमान जगत् । केचिद् योगिनस्तावदेनां स्थिति चरमाम्, मोक्षलक्षणां च मन्यन्ते । श्रीअरविन्दस्त्वेनां पूर्णसिद्धेराद्यचरणमात्र स्वीकरोति । तदभिमतो सत्ता हि वैश्व-वैयक्तिक-सर्वातिक्रान्तभेदेन त्रिविधा । तिसृणामेव तात्त्विक- त्वात्, एतासु या कामप्युपेक्ष्यात्यन्तिकः समन्वयः स्थापयितुं न शक्यते। असावेव समन्वय आत्यन्तिकत्वाय कल्पते यस्मिन् खलु व्यष्टिः समष्टिश्च सम्यगभिज्ञाते परमतत्त्वेन च साकमवाप्तसामञ्जस्ये । अथात्यन्तिकसमन्वयार्थं समन्वेया समष्टि रपि परिशोधापेक्षा । एतदर्थमप्यारोहा- वरोहलक्षणमुपायद्वयमवलम्बनीयम् । आरोहमार्गारूढाभिर्व्यष्टिभिस्तावन्न केवलमात्म- विशुद्ध्यर्थमेव प्रयतितव्यमपित्वितरव्यष्टिनिमित्तमपि । एतदर्थ तु ताभिरितरेषां पूर्ण योग: जनानामाध्यात्मिकमुत्थापनं सम्पादयितु चेष्टितव्यम् । परं त्वारोहव्यापारमात्राश्रित- मुत्थापनमानन्त्यपर्यन्तं यातु नार्हति । आनन्त्याय त्ववरोहव्यापारोऽप्यवलम्बनीयः । एतन्निमित्त च परमतत्त्वमेव समष्टाववतारयेत् । यथा कश्चिद् विज्ञानवित् कञ्चित् प्राकृत सिद्धान्तमन्विष्य सामान्यजनजीवने वास्तविकत्वेनावतारयति, तथैवात्मप्रयासेन सम्यगभिज्ञाय पूर्ण योगसाधकः परमतत्त्वमेव समष्टाववतारयेत् । यथा च विज्ञानविदो गवेषणा तावत् पूर्णत्वं नोपगच्छति यावत् प्रयोगशालाया बहिरानीय लोके साक्षात्काराय नोपस्थाप्यते, तथैव पूर्णयोगसाधकस्य सिद्धिः तावत् पूर्णता प्राप्तु नार्हति यावन्निखिला- मपि समष्टि न व्याप्नोति । सृष्टिप्रक्रियावत् पूर्ण योगोऽप्यवरोहारोहभेदेन द्विविधोपायः । आरोहस्तु क्रियालक्षणो भवति । एतदवस्थ: साधकः शरीर-प्राण-मनोमयी त्रिगुणात्मिकामपरा प्रकृति साधनत्वेन विनियुङ्क्ते । ३ योगपथे एतस्याः प्रकृतेः साधनत्व तु परनैतन्या- यात्मसमर्पणस्वरूपमस्ति । अनेन समर्पणेन च शरीर-प्राण-मनोनिहितममामञ्जस्य- दौर्बल्यादिकल्मषजातं विगलित भवति । शरीरादेतत्सर्वस्य निराक रणाय तु प्राणशक्तिरपेक्ष्यते । एषा शक्तिश्च भौतिकस्य प्राणस्योद्भवभूमिः । एना साधयितुं हठयोगिनस्तावदासनं प्राणायामं च विधीयन्ते, परं श्रीअरविन्दस्तु विविधध्यानोपाय- मङ्गीकरोति । तन्मतेन, प्रथमे कल्पे, विशदीकृतां मानसीमिच्छाशक्ति वैश्व प्राणश तो विनियुज्य शरीरे उद्भावयेत् । द्वितीये कल्पे, एनामेत्र शक्तिमध्यात्मशक्तौ विनियुज्याति- मानसी प्राणशक्ति शरीरे निपातयेत् । तृतीये कल्पे, एवमवतीर्णातिमानसी शक्तिः शरीरमनुप्रविश्य संशोधयिष्यति, परिपोषयिष्यति च । प्राणतत्त्वस्यापि संशोधनार्थमवरोहारोहलक्षणो द्विविधोपायोऽपेक्ष्यते । आरोहो- पायेन तु प्राणशक्तिरूर्ध्वमुखी कर्तव्या । कि तु प्राणस्तावत् पूर्णरूपेणोत्थापयितु न शक्यते यावत् परचैतन्येन सह न संयुज्यते । पर चैतन्यमपि प्राकृते प्राणेऽवरोढुं न शक्नोति । अर्थतस्यामन्योन्यविरोधापन्नायामवस्थायामुभावप्युपायौ सममेवावलम्बनीयो । तथा ह्य कस्मिन् पक्षे मानसेच्छाशक्त्या प्राणशक्ति संशोधयेत् परिवर्धयेच्च, पक्षान्तरे चाध्यात्मेच्छाशक्त्याऽतिमानसीं चैतन्यशक्तिमवतारयेत् । मनस्तत्त्वस्यापि संशोधनार्थ द्विविध उपायोऽक्ष्यते । प्रथम तावन्मानसीविचार- भावेच्छाशक्तीः संशोधयेत् । अत्र मनसः सोपान त्रैविध्यमप्यवधेयम् । चेतनमनोऽधःस्थित- ३. दि सिन्थेसिप्त ऑफ योग, पृ० १७-८. ४. तस्मिन्नेव, पृ०८३७-८. ५. तस्मिन्नेव, पृ० ११७.
१०८ श्रीअरविन्ददर्शनम् स्यावचेतनस्य शुद्धि विना कोऽपि साधको योगस्थिरो भवितु न शक्नोति । अववेतनस्था वासना मूलप्रवृत्तयश्च तत्प्रगतिपथमबरुन्धन्ति । अत्र विवेकस्तावत् किमपि हितं साधयितुमहति । कि तु बुद्धिविमर्शमात्राश्रितो विवेक कथञ्चिदपि मनो विपरिणेतु न शक्नोति । सम्यङ्मानमविपरिणामार्थ त्वतिमानस चैतन्यं निर्व्यवधानमवतारणीयम् । एतस्य चैतन्यस्यैतादृशोऽवतारश्च मनस्समर्पणपूर्वकमेव सम्भाव्यते । एतत् समर्पणकर्म त्वहकारेण बाध्यते । अहकारस्त्वैहिक-पारलौकिक-मौक्षिक भेदेन त्रिविधः । कर्मकाण्डपरको वेदाशस्तावदैहिकाहकारविलयनपूर्वक परलोकविषयकमहंकारं पुष्यति, एव तल्लोक च प्रापयति । शाङ्करवेदान्तश्चैहिकपारलौकिका हकारद्वयविलयनपूर्वकं मौक्षिकमहकारं पुष्यति, मोक्षं च प्रापयति । पर पूर्ण योगस्त्वैहिकपारलौकिकमौक्षिकाहकारत्रयविलयन- पूर्वक जगतो दिव्यीक रणमुपदिशति । अत्र तदनुसार त्रिविबमप्यहकार विलयाहम् । एष विलयन्तु जगज्जन्मादिकारणाय परमतत्त्वार्यतस्य समपंणेन सम्भाव्यते । ७ समl- माणोऽहंकारस्तावत् परचैतन्येन सहानेकप्रकारान् सम्बन्धान् स्थापयितु तज्जातान् विभ्रमाश्वोत्पादयितुमर्हति । एष स्व तत्कारणत्वेन प्रस्तूय तं स्वकरणमिवोपयुयोजिपितु शक्नोति । एतस्य विभ्रस्य निवारणाय श्रीअरविन्दो निरपेक्षद्रष्ट्टत्वमुपदिशति । द्रष्टत्वभावप्रतिष्ठितः साधकस्त्वात्मकृतमात्मभावितमात्मचिन्तित सव मेवेशकृतमीश- भावितमीशचिन्तितमिति मन्यते । एपा स्थितिः खल्वह कारविलयकारिणी। परं त्वहकारविलय एव सर्वसाधनापर्यवमानमिति न मन्तव्यम् । अतः पर त्वहंकारस्थाना- पन्नस्य मानसपुरुषस्य परमात्मना सह नादात्म्पमनुभूयाधस्तान्निवर्तितव्यं जगच्चोत्था- पितव्यम् । ६ एष मानसपुरुष एवात्मसात्कारपूर्वक परचैतन्यज्योतिर्जगत्यवतारयन् विज्ञानमयपुरुष इत्यारव्यां ब्रजति । विज्ञानमयपुरुपः खल्वनन्तचैतन्य., विश्वव्यापकः, वश्वातिक्रान्तश्च । पूर्णयोगस्त्विष्टदेवताः, अवतारान्, गुरुश्चापि साधनत्वेनोपयोजितुमर्हति । एतेषामुपयोगेन साधनासौकर्य जायते नाम । परं त्वहंकारसम्मिश्रणादेतान्येव साधनानि योगवैशद्यबाधकत्वेनाप्युपस्थातुमर्हन्ति । अहकारवशीभूतः कश्चित् साधकोऽस्मिन् प्रसङ्ग “ममेश्वरः, ममावतारः, मम देवदूतः, मम गुरुर्वेति" ब्रवीति चेत्, तद्योगस्य ६. तस्मिन्नेव, पृ०५०६. ७. तस्मिन्नेव, पृ० ८१७४. ८. तस्मिन्नेत्र, पृ० ८७६-७ है. तस्मिन्नेव. पृ. ८७३. १०. तरिमन्नेव, पृ० ५५८.
पूर्णयोगः पूर्णत्वमेवापहीयते । पूर्णयोगसाधकस्तु “तावत् तुष्टि न लप्स्यते यावत् सर्वाणि देवना- मानि देवरूपाणि च स्वीये देवप्रत्यये समाविष्टानि न करिष्यति, स्वा देवनामितगम सर्वाषु देवताषु न द्रक्ष्यति, सर्वान् अवतारांश्चावतारकारणभूते परमात्मनि नकीकरिष्यति ।११ अनेन प्रकारेण पूर्णयोगस्य पूर्णत्व खलु विविधयोगसम्प्रदायानां विचारमरणीना च समन्वये निहितमास्ते । ज्ञानमक्तिकर्मयोगिनस्तावदन्योन्यतिरस्कार पूर्वक स्व स्वं मत सर्वोत्कृष्टत्वेन प्रस्तूयन्ते । श्रीअरविन्दस्त्वेनां विचारपद्धतिमतर्कसम्मता, अनर्थ- कारिणी च मन्यते। तन्मतेन, ज्ञानमस्मान् परचैतन्यशृङ्ग उ नीयते चेन्, भक्तिस्ताबन् तेन शृङ्गण सहास्माकीनं तादात्म्यं स्थापयति । तादात्म्यमावपरिणतमेव ज्ञानमात्यन्ति- कत्वाय कल्पते । अपरं च, ज्ञानस्य सदनन्यत्वात्, सतश्च परिणामाविम्त्यान, ज्ञानस्य पूर्णत्वाय क्रियात्मका परिणतिरप्यावश्यकीया । एतस्मात् कारणात् कर्मयोगोऽपि पूर्णयोगाङ्गत्वेनानुपेक्षणीयः । एवम् “एते त्रयोऽपि मार्गा अन्योन्यनिराकरणशीलत्व विहाय पूर्णयोगे समन्विता भवन्ति, किंवान्योऽन्येभ्य आविर्भवन्ति । मनोमयकोशयि मुक्का- स्मानो वयं परतत्त्वे निवसामः; भक्तिद्वारेण च चरमप्रेमानन्दै कत्व प्रविशामः । कर्मयोगेन स्वस्मत्सत्तायाः सर्वाः शक्तय एकस्यां शकौ समुत्थाप्यमानाः, अस्मदिच्छाशक्तिः क्रियाश्न. कस्य इच्छाशक्त्यै समय॑माणाश्च दिध्यप्रकृतेर्गत्यात्मक पूर्णत्वमुपन मन्से ।"१२ पूर्णयोगमार्गस्थमन्यविरोधस्थानं हठयोग-राजयोगान्तर्गतमिति मन्यते । हठ- योगिनस्तावत् प्राणवशीका रपूर्वक चरमतत्त्वमधिगन्तुमिच्छन्ति, परं राजयोगिनस्तु मनोवशीकारपूर्वकम् । एतस्मात् प्रक्रियानुगतभेदवशादेती खल्वन्योन्य प्रत्यनीक भूतो सवृत्तौ । प्राणश्च मनश्चोभयमेव वशीकरणापेक्षमिति तु श्रीअरविन्दो मन्यते । सन्मसे चैतन्यं खलु शक्तिभूतम् । यथा शक्तिहिकतन्तुमाध्यस्थ्येन प्रवहति तथा चैतन्यमपि । यथा प्रवाहसोकर्याय प्रवाह्यमाणशक्तिमात्रानुरूपशक्तिमत्प्रवाहतन्तु रपेक्ष्यते तथैव चैतन्य- स्याप्यध्यात्मप्रवाहाय तदनुरूपाणि मनःप्राणनाडीतन्त्राण्यपेक्ष्ये रन् । सामान्य जनसुबम चैतन्यसंस्थानं तु सामान्यमानसचैतन्यप्रवाहक्षममा भवति । परचैतन्य तु भृशं बलवत्त- रम् । अथ नैसर्गिके चैतन्यसस्थाने परचैतन्यावतारणं भयावह भवितुमर्हति । एतस्य भयस्य निवारणाय चैतन्यसस्थानस्य संशोधनम्, परिपोषणं चानिवार्ये । हठयोग- राजयोगी त्वेतदर्थमतीवमहत्वपूर्णी मतो । एतस्मात् कारणात् पूर्णयोगप्रक्रियायां - Mine ११. तस्मिन्नेव, पृ० ७४. १२. सस्मिन्नेव, पृ० ११६-७.
११० श्रीअरविन्ददर्शनम् श्रीअरविन्द एतावुभावपि समावेशयति । तन्मतेन पूर्णयोगाभ्यन्तराभ्यस्त वेतौ चरम- लक्ष्यप्राप्तौ सौकर्यमुत्पादयितुमर्हतः । १३ परं तल्लक्ष्यप्राप्तेरात्यन्तिकसाधनत्वेनैतावुभावपि मिलित्वा न पर्याप्तौ स्तः, का च वाततयोरन्यतरस्य । अथ हठयोग-राजयोगौ सममभ्य- स्यतापि साधकेन पूर्णत्वाय ज्ञान-भक्ति-कर्मलक्षणाना योगपथानामाश्रयण मनिवार्यम् । शरीरप्राणमनासि हि तावद् विशुद्धीभूय दिव्यशक्तिग्रहणसक्षमानि भवितु नाहन्ति यावद् दिव्यशक्तिरेवैतानि परिगृह्य न तु सशोधयति नैव परिपोषयति । संन्यासयोगोऽपि पूर्णयोगे समन्वयार्हः । अद्वैतब्रह्म व सदित्यस्य योगस्याधारभूतः सिद्धातः । नन्वेवं मते सति, ब्रह्मव्यतिरिक्तस्य जगज्जातस्य मिथ्यात्वं स्वत एव सिद्ध यति । अथानेन योगेनजगन्मिथ्यात्वसाधनपूर्वकं सर्वविधक्रियाव्यापार निरोध उपदिष्टः । एनमुपदेशमनुसरन्तः संन्यासयोगिनस्तावत् सर्वाभ्यः नियाभ्यो विरन्तुमिच्छन्ति । एतदर्थ ते गृह त्यक्त्वा वन- माश्रयन्ते, भिक्षाचर्य च चरन्ति । केचित् संन्यासिनस्त्वेतस्यामवस्थायामपि निश्शेषक्रिया- व्यापारपरित्यागस्यासम्भाव्यतामनुभूय यन्त्रवदनिच्छापूर्वकं कर्म चिकीर्षन्ति । एवं कर्म कुर्वन्तोऽपि 'वयं खलु निष्क्रिया' इति ते आत्मानं समाश्वासयितुं यतन्ते । सर्वाणि कर्माणि हि प्रकृत्या क्रियन्ते, सा चाब्रह्मस्वरूपेति तेषा मतम् । अपर च, प्रकृतिस्तु पुरुपोत्तम- शक्तिभूता, तद्गत कर्मजातं च तत्त्वतः पुरुषोत्तमगतमिति निर्धारयन्ती भगवद्गीता तावत् फलपरित्यागपूर्वक कर्माचरणमुपदिशति । श्रीअरविन्दस्तु सन्यासयोगगतासंगति- निराकरणपरमेतद् भगवद्गीतामतमात्मसिद्धान्तानुरूपं विस्तारयति । चित्शक्तेः सच्चिदा- नन्दक्रियाशक्तिभूतत्वान्, तत्कृतं कर्मजातं तत्त्वतः सच्चिदानन्दगतमिति तु तन्मतेन सिद्धम् । अथ निखिलमेव कर्म भागवतमित्यघि निश्चीयते । स्वार्थबुद्ध यापि कृत कर्म परोक्षमावेन शनैश्शनरन्ततोगत्वा सच्चिदानन्दं प्राप्नुयात् । किं तु तदेव भागवतबुद्ध या कुर्याच्चेत्, तो परोक्षभावेन सद्य एव तभुपगच्छेत् । एवमनुचिन्त्य पूर्णयोगसाध केना- हंकारविसर्जनपूर्वकं भागतबुद्ध या कर्मजात कर्तव्यम् । अत्र पुनरवधेय यन्निरहंकारत्वं तावत् कदाचिदौदासीन्यजनक न भवेदिति । क्रियाया अपि सच्चिदानन्दस्वरूपत्वात्, तच्छीलत्वे न स्याद् योगिनः काचिद् हानिः । असौ त्वेतेन सच्चिदानन्दस्यैव प्रयोजन साधयति । अमुष्मात् तु केवलमेतदेवापेक्ष्यते यदसौ क्रियाव्यापार केन्द्रबिन्दुत्वेनाहंकार- मुत्सृज्य सच्चिदानन्दमेव प्रतिष्ठापयेत् । एवं कुर्वन्नसौ न केवलं परमतत्त्वमेवाप्नोतु शक्नोति, अपितु जगदपि ताद्रूप्येण परिणमयितुमर्हति । अथ यावत् संन्यासयोगो व्यष्टेः परमतत्त्वताद्रूप्यमात्रे परिणमते तावत् पूर्णयोगः समष्टिमपि परमतत्त्वमयीं कर्तुं यतते । १३ तस्मिन्नेव, पृ० ८३६.
पूर्ण योग: १११ "ईश्वरस्य जगद्व्यापकत्वेन तदतीतत्वेन च साक्षात्कारश्चेत् सर्वोत्कृष्टं ज्ञानम्, तर्हि तत्माक्षात्कारपूर्वकं सत्तासोपानारोहावरोहलक्षणां स्वाधीनां शक्तिमुपायं जगदवतरण- शक्तिमत्त्वं तद्व्याप्तिमत्त्वं च पूर्ण योग इति नामधेयम्" ।'४ योगव्यतिरिक्ता भौतिक विज्ञान-मनोविज्ञान - समाजविज्ञान - धर्मशास्त्र- कलाशास्त्रप्रभृतिबह व्योऽन्या ज्ञानमरण्यो विद्यन्ते । एताभिरपि जगत् सुतरा विकासो- न्मुखं नीयते इति नास्ति कस्यचिदविदितं नाम । परं त्वेताः सरण्यस्तावत् सङ्कीर्णाः । एता ह्यन्तःकरणोपस्थापितं व्यवधानमतीत्य कदाचिदेव प्रवर्तितु शक्नुवन्ति । यथा पाषा- णादावुत्कीर्णा गीति जन्मबधिर: साङ्केतिकत्वेनैवावबुध्यते, न कदापि ध्वन्यात्मकत्वेन, तथैव विज्ञानवित् तावज्जगत् प्रतीकत्वेनैवावगच्छति, न च तत्त्वतः । १५ एतस्म त् कारणाद् ज्ञानान्तरमनपेक्ष्य भौतिक विज्ञानं कदापि तत्त्वावबोधकं भवितु न शक्नोति । पूर्णयोगांगत्वेन त्वेतदपि सत्तत्त्वज्ञानसाधनं भवितुमर्हति । सच्चिदानन्दीय क्रियाशीलत्वाभि- व्यक्तिभूतजगवैचित्र्यान्वेषणायैतद् विज्ञानमद्वितीयं साधनमित्यत्र नास्ति काचिद् विप्रतिपत्तिः । एवमेव मनोविज्ञानमपि स्वत एव सत्तत्त्वान्वेषणव्यापारे निरर्थकमिति स्वीकर्तव्यम् । पूर्णयोगांगभूतं त्वेतदध्यात्मान्वेषणव्यापारे भृशं सौर्य मुत्पादयितुमर्हति । एतेन हि सूक्ष्माध्ययनपूर्वकं परिष्कृतानीन्द्रियान्तःकरणप्रभृतीनि ज्ञानसाधनानि परचैतन्य- ग्रहणााँनि विधातु शक्यन्ते । समाजविज्ञानं नाम समाजस्य सूक्ष्मममध्ययनं विदधाति । परं तत्कृतमेतदध्ययन प्रक्रियापरं भवति, न तु मूल्यपरम् । मूल्यहीना प्रक्रिया च नैरर्थ्य- प्राया भवति । एतस्मिन्नध्ययने मूल्यानुप्रवेशस्तु पूर्णयोगेन कारयितु शक्यते । धर्म- शास्त्रेण तावत् परतत्त्वं जिज्ञास्यते । परतत्त्वोन्मुखीभावादेतेन खलु जगति महत् शैष्ट्यमुत्पादितम् । परं त्वतर्कभूयस्त्वादेतेन भृशमन्धविश्वासम्, अज्ञानम्, क्रौर्य चाप्या- नीतम् । पूर्णयोगपरिष्कृतं त्वेतत् परमार्थज्ञानस्योपादेयं साधनं भवितुमर्हति । कलाश्चा- तितर्कभावानुबोध्य तन्वारेण सत्यस्याविष्काराय यतन्ते । भावशक्तिस्तु तर्कशक्तेाप- कतरा । तर्कबुद्धिव्यतिरिक्तं निखिलमपि मानससंस्थानं खलु भावप्रधानम् । अपरं च, भावात्मिका प्रतीतिस्तावद् विषय-विषयितादात्म्यजन्या भवति । अथ व्यापकतरत्वात्, तादात्म्यपरकत्वाच्च भावा: खल्वतर्कावगम्यं जगद्रहस्यमभिज्ञापयितु शक्नुवन्ति । एव भावविन्यासपरकत्वात्, कलापि तत्त्वान्वेषणसाधनत्वेनोपयुज्यते नाम । पर तु चेतनाव- चेतनमनोमात्रपरिच्छिन्नत्वात्, तद्व्यतिरिक्ताध्यात्मकोट्यववोध रहितत्वाच्चैषाप्यवबोध- साधनत्वेन स्वतोऽपूर्णा सती पूर्णत्वाय पूर्णयोगाङ्गीभावमपेक्षते । पूर्णयोगावतारितमति- १४. तम्मिानेव, पृ० ११ बण्ड रसेन, ५ वी सी ऑफ रिलेटिवटी (लेन एण्ड अन दिन, लन्दन. १९५८), पृ. १३७.
११२ श्रीअरविन्ददर्शनम् चेतनप्रकाशमुपलभ्यैपा परिष्कृता, उन्नमिता च भवितुमर्हति । पूर्णयोगसाधकश्च कलाद्वारेण भावात्मके चेतनाचचेतनमनमि प्रविश्याल्पप्रयासेन तत्परिष्कारं सम्पादयितु शक्नोति । अनेन प्रकारेण यथा सर्वामा भौतिकज्ञानसरणीनां संशोधनेन सङ्ग्रहणेन च भौतिकविज्ञानं राजमार्गत्व नीतम्, तथैवा विभूताधिदैवाध्यात्मविषयकाणा ज्ञानसरणीनां सशोधनेन सङ्ग्रहणेन च योगो नाम देवमार्गत्व नेतु शक्यते, यमनुसृत्य जगद् दिव्यीभावं प्राप्तुमर्हति । अत्रैव खलु योगस्य पूर्णत्वम् ।
चतुर्दशोऽध्यायः वेदान्तपरम्परायां श्रीअरविन्दस्ययोगदानम् . भारतीयदर्शनशास्त्रेपु वेदान्तस्तावत् प्राचीनतमः, निरन्तारतमः, व्यापकतमश्चे- स्यत्र नास्ति कश्चिद् विवादः । एतस्य वैशिष्ट्यस्थ कारण तु, प्रथमे कल्पे, एतदाधारभूत- श्रौतज्ञानगाम्भीर्यमेवावबोध्यम् । आत्मावबोधस्य गभीरतमे सोपानेऽवतीर्थ ऋषिभिर्या दर्शनाधारशिला न्यस्ता सा कालक्रमोपजायमानैर्मतमतान्तरैरुत्खन्यमानापि सती हिम- वानिव न केवलमनिभिन्नैव, अपितूत रोत्तरमुपचीयमानेव दृश्यते । उपनिषद्वाक्य- स्वारस्यभूतब्रह्मसूत्रव्याख्यानपरैरच्याचार्यवर्यैरभिनवोत्थापितमतमतान्तरैरेतदर्शनशास्त्र भृशं समृद्धतरें कृतम् । एतासु व्याख्यासु च सर्वाधिक विस्मयकारकं तथ्यं स्वेतद् यद् अद्वैत-विशिष्टाद्वैत-द्वैतप्रभृत्यन्योन्यनिरसनशीलमतमतान्तरप्रतिपादयन्त्योऽप्येता उपनिषद्- वाक्यैः साकमात्मतारतम्य स्थापयन्ति । काले काले उत्पद्यमानाभिरेताभिः धावदेकस्मिन् पक्षे उपनिषदो व्याख्याताः, तावत् पक्षान्तरे किञ्चिदभूतपूर्व मतमपि प्रतिपादितम् । ननु तद्व्याख्यानप्रतिपादितमतजातं साकल्येन उपनिषत्सु पूर्वसन्निहितं भवेच्चेत्, तर्हि तद् युगपदेवाभिव्यञ्जितं स्यात् । अथ चेत् तत् त म पूर्वसन्निहितं न स्यात्, तदा कियत्या ऽपि उपपत्त्या ततः साधारं निर्गमयित्तं शक्ष्यं न भवेत् । एतस्माद ज्ञायते यद् वेदान्त- शास्त्रं यावदेकस्मिन् पक्षे उपनिषत्प्रतिपादित सिद्धान्ताऽऽधृतम्, तावदन्यत्र तत्तत्कालो- पजायमानयुगधर्मस्वारस्योपबृहितम् । बत्सत्यम्, मानवचैतन्य प्रतिफलितमूलतत्त्वालोके ससारस्थानों व्यापाराणां वस्तूनई च सम्यक् परीक्षणमेव दर्शनशास्त्रप्रयोजनम् । ननु मूलतत्त्वेष्वविकार्येषु सत्स्वपि व्यापारवस्तून्यनुक्षणमभिनवोन्मेषशीलानि । कि चे, जगत्स्वरूपिण्ये तेषां समष्टिरेव स्वत्वनिर्वाहपूर्वकं सततमभिनवा भवति । अतएव मूलतत्त्वाविष्कारक्षमोऽपि कश्चिद् ऋषिः सार्वकालिक जागतिक सत्य युगपदेव परिभाषितु न शक्नोति । अभिनवोत्पद्य- मानानि ब्यापारवस्तूलि स्वस्थानुरूपमभिनवं व्याख्यानमपेक्षन्ते । अतएव तात्त्विकज्ञानाऽऽ- धता अपि दर्शनसिद्धान्ता अभिनवविकासोपजातान् व्यापारान् वस्तूनि च सम्यक्- प्रकारेण व्याख्यात समर्थाः स्युरित्येतदर्थ विकासल मोत्पन्नाभिनवतत्त्वग्रामे उपचिते सति ११४ श्रीअरविन्ददर्शनम् परिवर्धनापेक्षा भवन्ति । एवं सति, यत्तु भिन्नभिन्नदेशकालोत्पन्नैवेदान्ताचार्य: तत्तद्देशकालानुगतवस्तु व्यापारानुरूपं शाश्वतिकमप्योपनिषदसिद्धान्तं पुनः पुनाख्यातं तदुचितमेव । अत्रौपनिषदसिद्धान्तस्य शाश्वतिकत्व तावदेतद् यत् पुनः पुनो व्याचक्ष्यमाणो ऽप्येष न केवलं स्वत्वमेव निर्वहति, अपितु तत्तद्व्याख्यानसम्भावनामपि प्रस्तूयते । कस्यचिद् व्याख्यानस्य चौचित्यमेतद् यत् स्वदेशकालप्राप्ताभिनववस्तुव्यापारग्रामविषयक विश्लेषणं प्रस्तूयमानमप्येतन्मूलश्रुते पच्युतं भवति, परं च तच्छ तिमाध्यस्थ्येनाधि- काधिक देशकालक्रमोपजातमभिनवं वस्तुव्यापारग्राम ब्याचष्टे । एतयोद्धयोरपि क्षेत्रयोः वेदान्तशास्त्राय श्रीअरविन्दस्य योगदानं तु भृशम् । प्रथमे कल्पे तावदसौ न केवल वेदान्तश्रुतेरनुसारी, अपितु तदायामस्याभूतपूर्वो विस्तारको ऽपीति स्वीकार्यम् । वेदान्त इति पद तु न केवल वेदान्तर्गतचरमविभागस्य वाचकम्, अपितु तद्रहस्यस्यापीति तावत् सर्वसम्मतम् । अतएष वेदान्ताचार्यैः प्रमाणत्वेन न केवलमुपनिषद एव स्वीकृताः, अपितु सम्पूर्णमेव वेदमङ्गीकृतम् । तैहि यथास्थानं प्रमाणार्थ समनाया एव श्रुतेरुद्धृतम् । अपरं च, उपनिषदोऽपि आत्मप्रतिपादितानां सिद्धान्तानां मूलं काले काले संहितासु निर्दिशन्ति । ईशनाम्न्युपनिषत्तु सहिताया एवान्यतमो विभागः । एवं सत्यपि तैराचार्यः स्वस्वसिद्धान्तप्रतिपादनक्रमेण केवलमुष- निषद्भ्य एव प्राधान्येनोद्धृतम् । यत्र क्वापि तैश्चेत् संहिता निर्दिष्टा, तत्त पूर्वनिर्णीत- सिद्धान्तोपपादनार्थं प्रमाणान्तरयोजननिमित्तमेव । अथ श्रीअरविन्द एव सर्वप्रथम आचार्यो येन तु वेदान्तशास्त्ररहस्योन्मीलनार्थ सहिता अधीताः, प्रतीकजालान्तरालाच्च तत्त्वतो ऽवबुद्धाः । अथ तेन यावदेकस्मिन् पक्षे संहितास्वज्ञातपूर्वमर्थनिचयमन्विष्टम्, ताक्तू पक्षान्तरे तदाश्रयेण विनियोजित स्वदर्शनस्वरूपमभिनवं सिद्धान्तरत्नं वेदान्तशास्त्राय प्रदत्तम् । तथा हि, तत्प्रतिपादितमतिमानसं नाम तत्प्रदत्तसिद्धान्तरत्नेष्वन्यतमम् । न तावदेतत् कस्माच्चिद् वैदेशिकात् स्रोतसो गृहीतम् । ऋग्वेदीयम् "ऋत्-वित" एवास्याधारभूमिः । किं तु यावद् ऋत्-चित् तस्मिन् वेदे यत्र तत्र विकीर्णभावेनोल्लिखितं तावदतिमानसं तु तत्त्वस्वरूपमिति श्रीअरविन्देन विवृतम् । एतस्मिन् विवृतिव्यापारे च तेन महर्षिणा स्वीयाऽतलस्पर्शिनी योगानुभूतिविनियुक्ता । अर्थतेन सिद्धान्तेन वेदान्तशास्त्रान्तर्गता ब्रह्मजगतोरन्योन्यसम्बन्धविषयिकी दुरारूढा समस्या समाधापिता। तथा हि, ब्रह्म-जगन्मध्यगतं महदन्तरमुत्प्रेक्ष्य प्रत्यक्षतो व्याख्यातुमपारयन्तः पूर्वे वेदान्ताचार्या विविधप्रकारकाणि तत्त्वानि तत्त्वाभासानि वा पुरश्चकः यानि तावन्न वेदान्तपरम्परायां श्रीअरविन्दस्य योगदानम् . केवलमपेक्षित सम्बन्ध व्याख्यातुमसमर्थानि, अपितु स्वत एबैतच्छास्त्रकृते दुरुहसमस्या- रूपेण परिणतानि । एतदर्थ मेव श्रीशङ्कराचार्येण मायेत्यभिधः प्रत्यय आविष्कृतो यस्तु भ्यायक्रमव्यतिरिक्तत्वात्, स्वरूपवैचित्र्याच्वाग्राह्यो नाम् । एतस्य स्वरूपवैचित्र्यं तु, अबोधगम्यत्वात्, जगदेवासत्त्वं प्रापयति । एतस्य सम्बन्धस्य व्याख्यानाय श्रीरामानुजा- चार्येण कर्म सिद्धान्त आश्रितः । पूर्वसृष्ट्यन्तर्गताना प्राणिनां कर्मसस्कारस्य फलीभावा- यैवैषा सृष्टिरुषजातेति तन्मतिः। पर कर्मसिद्धानतस्तु यान्त्रिक प्रक्रियापरः । जगच्च नैतावन्मात्रम् । अशतो यान्त्रिक सदप्येतत् सामष्ट्येन तद्व्यतिरिक्तम् । चैतन्यनियोजन- शीलत्वादेतच्चैतन्यप्रणुदिन स्यात् । श्रीभास्कराचार्यस्तु कस्यचिद् व्यवस्थितस्य सिद्धान्तस्य स्थाने सूर्यस्य तदश्मेश्च, जलस्य तद्भूतत रङ्गस्य चान्योन्यसादृश्यमुखेनैतत् सम्बन्धं व्याख्याति । न खलु जयत्सदृशोऽतिगूढो व्यापार एतद्विधेन सादृश्यमात्रेण सम्यग्व्याख्यातु शक्यते । एतन्निमित्तं त्वेतद्विध तत्त्वमपेक्ष्यते यत् सत्तात्मकमपि स्यात् चैतन्यात्मकपि, मानसमपि अतिमानसमपि, यान्त्रिकमपि सर्जनात्मकमपि, व्यष्टि- परमपि समष्टिपरमपि । श्रीअरविन्दप्रवर्तितमतिमानस त्वेतद्विधमेब । एतद् हि तादृशं सत्तात्मक चैतन्य यत् क्वचित्तु यान्त्रिकपुनरावृत्तिरूपेणाचरति क्वचिच्च सर्जनात्मक- स्वातन्व्यरूपेण, क्वचिद् वैयष्टिकत्वेन क्वचिच्च सामष्टिकत्वेन । अर्थतस्य तत्त्वस्य स्वीकरणात् जगद् एकतो मायामात्रत्वाद् विमुच्यत्ने, अन्यत्र च कारण कार्यमध्यगतानन्त- पुनरावृत्तिमात्रत्वात् । एवमेव तस्य सामष्टिकप्रयोजनमात्रत्त्वं चैयष्टिकप्रयोजनमात्रत्व च निराकृते भवतः । स्वेन वैयष्टिकत्वानुगते न सामष्टिकत्वेन ह्य तद् व्यष्टिभावमपि ध्याचष्टे समष्टिभावपि । सृष्टिव्यवपारान्तर्मतावरोहारोहस्वरूपप्रक्रियाद्वयविवेकस्तावद् वेदान्तशास्त्राब श्रीअरविन्दस्यापरं महद् योगदानम् । संहितासु उपनिषत्सु च मुहुर्मुहुरुल्लिख्यमानेष्वषि अवरोहारोहविषयकेषु निर्देशेषु, पूर्वतरैराचार्यैः कदापि एतदधिकृत्य गाम्भीर्येण नाव- हितम् । तथा हि, ऋग्वेदीये नासदीयाभिधे सूक्त उक्त यत् सृष्टेः प्राक् सदसद्व्यति- रिक्तमेतादृशमेकं तत्त्वमासीद् यदबातमेव स्वधयाऽऽनीत्, यच्च तदनन्तरं गहनतमे तमसि आत्मानं तिरोदधे, अथ कथञ्चिदुत्थाय आत्मानं जगद्रूपेण परिणमयांचकार । एवमेव पुरुषसूक्त श्रूयते यत् सृष्टिपूर्ववर्तिपुरुष आत्मनोंऽशत्रयेण तावदमयो भवति, चतुर्थाशेन चात्मानं जगद्रूपेण परिणमयति । ननु यावत् श्रीशङ्कराचार्य एतादृशीः श्रुतीर्मायावाद- परिपोषणार्थ विनियुङ्क्ते, श्रीरामानुजाचार्यश्चैतासु सृष्टि-प्रलययोर्विपर्यासं पश्यति, तावत् श्रीअरविन्द एतासु स्वीयभवरोहारोहसिद्धान्तं न्यस्यति । एतेन सिद्धान्तेन वितर- सम्प्रदायोत्पादिता वेदान्तशास्त्रगता बहवो दोषा निराक्रियन्ते । तथा ह्य तादृशस्तर्कसम्म श्रोअरविन्ददर्शनम् तस्य सिद्धान्तस्याभावे एव श्रीशङ्कराचार्यो मायावादमाश्रयांचकार । मायावादाश्रयणं च तस्य सर्जनात्मकव्यापारस्यानभिज्ञत्व पिशुनयति यमवलम्ब्य परमतत्त्वं जगद्पेण परिणतम् । एवमेव ब्रह्मकत्वेऽपि जगन्नानात्वसिषाधयिषुः श्रीभास्कराचार्यो जलतरङ्गयोः सूर्य रश्म्योश्चैकत्वानेकत्वोदाहरणत्वोपपादने एव स्वीयां निखिला प्रतिमा विनियुञ्जन् मनागपि विचारयितु न प्रावर्तत यदेतस्य व्यापारस्य पृष्ठे कश्चिन् न्यायसम्मतः सिद्धान्तः सम्भवेदिति । निदर्शनं नाम सिद्धान्तपरिपोषकं भवितुमर्हति, न तु कथञ्चित् सिद्धान्त- प्रतिरूपम् । श्रीरामानुजाचार्येण तावत् तर्कसम्मतप्रकारेण प्रदर्शितं यदेकस्मादेव ब्रह्मण एकस्मिन् पशेऽनेका जीवा उत्पद्यन्ते, पक्षान्तरे चैका प्रकृतिर्जायते । एवं सत्यपि तेन निखिलमपि सृष्टि कारणं जीवव्यष्टि प्वेव न्यस्तम् । एतस्मिन् मते खलु सृष्टिप्रक्रियागतं जीवव्यष्टिव्यापारं सम्यगभिज्ञातम् किं न्येतदेव समष्टिविपत्रे उपेक्षितम् । सृष्ट्यवयवत्वेन समप्टिश्चेद् व्यष्टेरनूनतरा, तहि सृष्टिप्रेरणाया तया व्यप्टेरनूनसहयोगिन्या भवितव्यम् । एवं सति, वैयष्टिकेन साक किञ्चित् सामष्टिकमपि जगत्प्रयोजनं भवितव्यम् तदनुरूप च काचित् सामष्टिकी सृष्टिप्रक्रिया । श्रीअरविन्दप्रतिपादिताऽवरोहारोहप्रक्रिया त्वेतत्सर्व तर्कापेक्षितं तत्त्वमात्मन्युपबध्नाति । तथा हि, तदभिमतैपा सच्चिदानन्दाभिलक्षित. परिणामानन्दोद्दिष्टा सती यावदेकस्मिन् पक्षे व्यष्टीर भावयति, संवर्धयति, पूर्णत्व च नयते तावत् पक्षान्तरे व्यष्टिमुखेनैव समष्टिमप्युन्नीयते । अपरं च, वर्तमानयुगीनवैज्ञानिक- रीत्याऽपि प्रमाणीक्रियते यदारोहो नाम सृष्टिप्रक्रियायाः तात्त्विकाङ्गभूत इति । पुनश्चारोहस्तु अवरोहपूर्व एव सम्भवति । अथावरोहारोहप्रक्रियानुवर्तिजगत् स्व प्रातिभासिकत्वम्, वैयक्तिकहे तुमात्रचरितार्थत्वम्, लीलामात्रवशादेकत्वबहुत्वान्तर्गत- दोलायमानत्वं च परित्यज्य यथार्थत्वम्, व्यष्टिसमष्टिपरमेश्वरस्वरूपतत्त्वत्रथनिमित्तत्वम्, सुनियोजितसंसरणशीलत्वं च धारयति । अवरोहारोहव्यापारकारणत्वेन गतिस्थितिस्वरूपतत्त्वद्वयसभावसिद्धान्तस्या- विष्करणं नामापरं श्रीअरविन्दीयं विशिष्टं योगदानम् । ब्रह्म व जगत्कारणमिति तावत् सर्वे वेदान्ताचार्या ऐकमत्येन स्वीकुर्वन्ति । परं तु वैकारिक जगदुत्पाद्यापि कथं नाम तन्निविकारमास्ते इत्येवरूपां समस्या समाधातुं तैस्तावदन्यान्यमतान्युपकल्पितानि । तथा हि, श्रीशङ्कराचार्य एतदर्थ मायावादमाविष्करोति । ननु पूर्वतरोक्तरीत्या ज्ञायते यन्मायावादपोषणार्थमुदभावितस्तर्क : स्वत एवात्मनं हन्ति । श्रीरामानुजाचार्यश्चनां समस्या विशेष्यविशेषणसम्बन्धद्वारेण समाधातुं यतते । तदुपकल्पितं ब्रह्म जगत्सृष्ट्वाऽपि तथैव निर्विकारमास्ते यथा विशेषणविशिष्टमपि दिशेप्यं पूर्ववदेव विद्यते । अतएव तेन वेदान्तपरम्पराया श्रीअरविन्दस्य योगदानम् जीवात्मा जगच्च ब्रह्मविशेषणत्वेन गृहीते । ननु प्रत्यक्षत एवैतत् समाधानं गुणद्रव्ययोरा- त्यन्तिकविभेदेऽवलम्बितम् । एतत्सिद्धान्ताभिमत द्रव्य निर्गुणमपि भवितुमर्हति, सगुण- मपि । अथ जगद्गुणक ब्रह्म सृष्टिकाले सगुणं भवितुमर्हति, प्रलयकाले च निर्गुणमिति श्रीरामानुजाचार्य उपसहरते । किं तु श्रीरामानुजयुगे प्रामाणिकमिव प्रतीयमानमप्येतत् समाधानम् ईसवीये अष्टादशशतके आग्लदेशीयेन ह्य म इति नाम्ना दार्शनिकेन गुण- द्रव्यमध्यगते एतादृशे सम्बन्वे निराकृते सति विशेष्यविशेषणसम्बन्धावलम्बितमेतत् समाधानं स्वत एक निर्मूल भवति । अपर च, एतस्मिन् सापेक्षत्वयुगे गुणद्रव्ययोरन्योन्य- पृथक्पदार्थत्वेनोपकल्पन नामातर्कसङ्गतम् । भौतिकपदार्थप्रकृतिश्चेत् पारमार्थिकपदार्थ- स्वरूपनिर्धारणे कथञ्चिदुपादेया, तर्हि सम्प्रत्येषा समस्या गुणद्रव्ययोरितरेतरपार्थक्य- स्थाने मतिस्थितितत्त्वयोरितरेतरविवेकद्वारेण, वास्तविकत्वसम्भाव्यत्वप्रत्ययमुखेन वा समाधेया। श्रीअरविन्दप्रस्तावित समाधान त्वेतद्विधमेव । स्थितिर्गतिश्च परमार्थतः तत्त्वस्यैव स्वरूपद्वयभूते इत्यसौ प्रतिपादयति । एतयोर्मध्येऽन्योन्यप्रत्यनीकत्वोपकल्पन तु तत्त्वस्वरूपाज्ञानमात्रपरिचायकम् । स्थितिस्तु रतिमर्मा भवति, गतिश्च स्थित्युन्मुखी । यावत् स्थितिः सम्भावनाऽऽनयभूता, तावद् गति. तवास्तवीकरण साधन- भूता । स्थिति बिना चेद् गतिर्न सम्भाव्यते, तहि गति विना स्थितिनिष्प्रयोजना भवति । सच्चिदानन्दस्वरूपट्टयभूतत्वादेते द्वे अपि शाश्वतिके स्तः, अन्योन्यव्यापिन्यौ च । उभाभ्यामतीतत्वात्तु सच्चिदानन्दः एतयोविपरिणामेन न कथञ्चिद् विकृतो भवितुमर्हति . जगद्दिव्यीकरण सिद्धान्तश्चान्यत् श्रीअरविन्दयोगदानम् । अस्य सिद्धान्तस्य बीज- मन्त्रस्तु जडजीवनमनस् इति तत्त्वत्रयस्य सततोत्थानोन्मुखीभावः । सम्प्रत्येतत्तु सन्देहा- तीतं यदस्मिन् जगति जडतत्त्वाज्जीवनतत्त्वमुत्पन्नम्, जीवनतत्त्वाच्च मनस्तत्त्वम् । ननु मनः काञ्चिदतिमानसान विचारान्, प्रत्ययान्, भावान्, प्रवृत्तीश्च विकासयद् दृश्यते इत्यपि नाविदितम् । एतस्माज् ज्ञायते यत् कालक्रमपरिणतानि जगदवयवभूतान्येतानि त्रीणि तत्त्वान्यतिमानमचैतन्यालोकितानि भवितार इति । एनामेव सम्भावना पुरस्कृत्य श्रीअरविन्देन जगद्दिव्यीकरणसिद्धान्तः प्रतिपादितः । एतावता तु नानुमेय यदेप सिद्धान्तः सर्वथा वेदान्तशास्त्रस्याज्ञातपूर्व इति । तथा हि, संहितासु ऋषिभिर्मुहुर्मुहुराकांक्ष्यते यत् तास्ता देवता मनः, जीवनम्, शरीरावयवान, अथवा सर्वाण्येव जागतिकानि वस्तूनि व्याप्नुवन्त्विति । अथ जडजीवनमनस्तत्त्वविषयामुक्तप्रवृत्तिम्, एनामार्षाकाक्षां च परामृश्य श्रीअरविन्द आत्मयोगानुभूतिबलेनैनं सिद्धान्त प्रत्यपादयतेति निश्चीयते । एतस्य श्रीअरविन्ददर्शनम् । सिद्धान्तस्य वेदान्तशास्त्रान्तर्गतमभिनवत्वं त्वेतस्मिन् तथ्ये निहितमास्ते यत् सहितान्त- गतेष्वेतद्विषयकेषुल्लेखेषु सत्स्वपि नैकेनापि पूर्वतरेण वेदान्ताचार्येणैतत् सम्यगवहितम्, का वार्ता पुनः सिद्धान्तरूपप्रदानस्य । तथा हि, जगन्मिथ्यात्वप्रतिपादक: श्रीशङ्कराचार्य- स्तावत् तदुत्थानाय कमप्यवसरं प्रदातु न शक्नोति । तन्मतेन, मायामात्रविजृम्भितत्वात्, जगत उत्पत्तिः खल्वनिर्वचनीयप्रयोजनास्ति । केवलमीश्वरदृष्ट्यैवैषा लीलास्वरूपा । "लोकवत्तु लीलाकैवल्यमिति" सूत्र च तेनेश्वरदृष्ट्यैव व्याख्यातम् । परमार्थदृष्ट्या तु "न चेयं परमार्थविषया सृष्टिश्रुतिः, अविद्याकल्पितनामरूपव्यवहारगोचरत्वात् ।' एवमेव श्रीरामानुजाचार्यो जीवोद्धारकृते भृशं विचिन्तयन्नपि जगदुद्धारविषये सिद्धान्ततो- ऽक्षिनिमीलनमेव करोति । तदभिमतं चित्तत्त्वं तावत् शाश्वतम्, एकरूपम्, सत्स्वरूपम् च; किं तु अचित्तत्त्वम्, परिवर्तनशीलत्वात्, असद्रूपम् । अतएवाचित्तत्वस्येश्वर- शरीरस्वरूपत्वं स्वीकुर्वाणोऽप्यसौ जीवकृतेऽवहेयत्वं प्रतिपादयति । ईशभक्तिमार्गेण जगतः पलायनमेव श्रेयस्करमिति तदुपदेशः । ईश्वरशरीरभूतत्वादचित्तत्त्वमपि, चित्तत्त्ववत्, शोधन-पोषण-परिवर्धनाहमिति तद्विचारपथे नागतम् ।२ चित्तत्त्वात्मको जीवो- ऽचित्तत्त्वात्मकाज्जगत: परमार्थतः पृथक् सन् केवलमज्ञानवशात् तत्सम्पृक्त इति मन्वानः श्रीरामानुजाचार्यों जगतः तत्पार्थक्यमेव मोक्ष इत्युपसहरते। सच्चिदानन्दस्वरूपत्वात् अचित्तत्त्वमपि शोधन-पोषण-परिवर्धनाहमिति तु श्रीअरविन्दमतम् । चैतन्य-वल्लभ- शैवैस्तावद् दीव्यीकरणस्य केचित् पूर्वाभासाः प्रस्ताविता इति तु सन्देहातीतम् । कि तु भक्तिभावोद्रेकस्वरूपत्वात्, व्यष्टिमात्रनिष्ठत्वात्, प्रतीतिमात्रजन्यत्वाच्चैतद्विध दिव्यीकरण खलु भृशं वास्तवीकरणम्, विशदीकरण चापेक्षते । एततु श्रीअरविन्देनैव सम्पा- दितम् । का वार्ता जडतत्त्वस्य, पूर्ववर्तिभिर्वेदान्ताचार्यैस्तु जीवनतत्त्वमपि त्याज्यकोट्यां निक्षिप्तम् । पूर्वतरकर्मफलोपजायमानत्वात् एतत्खल्वात्मन्यज्ञानावरणमिति मन्वानास्ते एतन्निर्मूलनमेव वरमित्युपदिशन्ति । एतस्मादेव कारणात् तैर्जीवनमरणप्रक्रिया कर्म- परत्वेन व्याख्याता। कर्म नाम जीवनहेतुः। जीवनस्य त्याज्यत्वात् कर्मापि सर्वथा परित्याज्यम् । अतएव तैः संन्यासः समाश्रितः। सर्वैरपि जनैनिखिलकर्मपरित्यामस्तु समाजविध्वंसकारकः स्यादित्याशङ्कय भगवद्गीतामनुसरद्भिः कश्चित् तावत् कर्मफल- परित्याग उपदिष्टः । श्रीअरविन्दस्त्वेतद्विषये एनस्या निषेधात्मकविचारकोटे स्त्थाय १. श्रीशङ्कराचार्य न्य, ब्रह्मसूत्रमाये, २११३३. २. श्रीमाध्ये, १११.
वेदान्तपरम्परायां श्रीअरविन्दस्य योगदानम् ११६ स्वीकारात्मक मतमुपस्थापयति । तेन तु चैतन्योत्थापन नाम निखिलविकासक्रमलक्ष्य- त्वेनोपपादितम्, जीवनतत्त्व च तदाश्रयत्वेन, कर्म च तत्साधकत्वेन । अनया रीत्या कर्मसहकृतं जीवनतत्त्व तावदात्माभ्यन्तरतश्चैतन्यमुत्पाद्य परिपोष्य चेमा विकासकोटि नीतवान् । अथैतदतः परं अतिमानसचैतन्यज्योतिरुरीकृत्य स्वात्मनि दिव्यत्वपरिणाम- मुत्पादयितु शक्नोति । एव दृष्ट जीवनतत्त्व तावद् दिव्यत्वोत्थापनसम्भावनामुपार्जयति, कर्म च तत्साधकत्वपदमारोहति । अपरं च, दिव्यीकरणसिद्धान्तेन श्रीअरविन्दो वैयक्तिकमोक्षस्पृहा निराचकार । एषा स्पृहा त्वहकारजन्ये ति तन्मतिः । अथानेन सिद्धान्तेनासौ वेदान्तमार्गस्य परवतियुगो- पजायमानमहंकारपरत्वं समूलमुच्चरवान । परं तत्कृतवैयक्तिकमोक्षसिद्धान्तखण्डनान्ना- नुमेय यदसौ कञ्चिद् व्यष्टिविरोधीति । प्रत्युत यादृशं महत्त्वं मा श्रीअरविन्ददर्शने प्राप्नोति नादृश महत्त्व तस्यै केनापि पूर्वतरेण वेदान्ताचार्येण न प्रदत्तम् । तथा हि, वैयक्तिकमोक्षोपदेशपरोऽपि श्रीशङ्कराचार्यो व्यष्टि तावदसद्भूता मन्यते । एवमेव श्रीरामानुजाचार्याभिमता व्यष्टिस्तावदीश्वरशरीरभूताऽपि यती बस्तुतोऽहंकारमूलैव प्रतीयते । असौ हि संसारस्था सती स्वकर्मबलेन स्वत्व रक्षति, परमार्थस्था सती चेश्वरभक्तिमात्रेण । श्रीभास्कराचार्योऽप्येनाम्, सूर्य र हिमवत्, सृष्टी समष्टिपृथग्भूतां प्रलयकाले च निरस्तसत्त्वां मन्यते । श्रीमध्वाचार्यश्चैना परमार्थत ईश्वरभिन्नत्वेन प्रतिगाद्य जगति ईश्वर-समष्टिभ्यां माकम् अव्याख्येयमम्बन्धा प्रमाणीकरोति । अथैनादृशी व्यष्टि: सत्तासामस्त्यान्तर्गतं किमपि सुनिश्चितं पदं लब्ध नार्हति । श्रीअरविन्दमते तु व्यष्टि वासद्भूता न चाहंकाराश्रिता । एषा तु सच्चिदानन्दीयनानात्वाश्रिता मती सर्वथा तात्त्विकी । आत्माभिव्यक्तिपरः सच्चिदानन्दस्तावदेकन : समष्टि मजति, अन्यतश्च व्यष्टिम् । समष्टिस्तु तदेकत्वजन्मा, ब्यष्टिश्चानेकत्वोदभवा । अमौ त्वानन्त्यस्वरूप- त्वादेकत्वानेकत्वयोरुभयोरेवातिरिच्यते अभिव्यक्तिप्रकारदयस्यान्यतमस्वरूपत्वाद् व्यष्टिर्नाम तथैव मद्भूता यथा ममष्टिः । अतएव ममटिम्तावद् व्यष्ट्य आधार प्रददाति, व्यष्टिश्व समष्टिमारोहमार्ग नयति । एवमेकत्वाने क-बाभ्यां सह सचिनदानन्द- स्वरूपत्रय्यन्तर्गतान्यतमस्वरूपभूता व्यष्टिः, तात्त्विकत्वान्, दिव्यत्व प्राप्ताधि स्वत्वं हातु नार्हति । अनेन प्रकारेण, यदा वितरेषु वेदान्नाचार्येषु केचित् सर्वातिगायिनीमेव सत्ता सद्भूतेति मन्यन्ते शेषाश्च तथा सार्ध समप्टिमात्राम्, तदा श्रीअरविन्द एनाभ्यां समं व्यष्टिमपि सच्चिदानन्दस्वरूपत्वेनोपपाद्य सर्वतत्त्वमामञ्जस्य स्थापयति । - - , ३. ब्रह्मसूत्रभा ये, ११३।१६.
१२० श्रीअरविन्ददर्शनम् श्रीअरविन्दप्रकल्पितं पूर्णज्ञानमपि वेदान्तसिद्धान्त वैशद्यका र कम् । ईशोपनिषदि तावद् विद्याऽविद्ये उभे अपि वेद्ये इति श्रूयते । पर तु परवतिवेदान्तशास्त्रे परैव विद्या ज्ञानसर्वस्वत्वेनाङ्गीकृता, अपरा च विद्या निन्दाकोटि नीता । अथ ब्रह्मज्ञानव्यतिरिक्त- मितरं सर्व विधमेव ज्ञान तिरस्कृतप्राय सञ्जातम् । फलत इतरज्ञानविज्ञानविस्मरणपूर्वक ब्रह्मानुभूतिरेव ज्ञानसर्वस्वमिति स्वीकृता । एतस्मात् कारणाद् यावदेक स्मिन् पक्षे भारतीया मनीषा ब्राव्यतिरिक्तनिखिलज्ञानविज्ञान विमुखी सजाता, तावत् पक्षान्तरे वेदान्तशास्त्रं खलु विकासाद् विरम्य रूढ्युन्मुखं बभूव । श्रीअरविन्देन तु गभीर योमानु- भूतिद्वारेण तादात्म्यज्ञानप्रत्ययपुरस्कारपूर्वकं मूलभूतं वेदान्तज्ञानं सुसिद्धान्तितम्, अथ च भौतिकविज्ञानप्रभृतिज्ञानविधीन् तत्त्वज्ञानाङ्गत्वेन स्वीकृत्य बेदान्तशास्त्रस्य क्षेत्र भृश विस्तारितम् । तद्विस्तारिते वेदान्तशास्त्रे च सर्वप्रकार क नान यथोचित पद लभते । अभूतपूर्वज्ञानविज्ञानविस्तारकेऽस्मिन् युगे तावद् दर्शनशास्त्रेण सर्वविधज्ञान विज्ञान- सामञ्जस्यकारकेण भवितव्यम् । मानवज्ञानकरणप्रतिफलिततत्त्वजातविषयकत्वाद् ह्य तत् शास्त्रं कालक्रमप्राप्तजानविज्ञानविस्तारानुसारं सततं विस्तारोन्मुख स्यात् । साम्प्रदायि- काना तु, गतानुगतिकप्रियत्वात्, अभिनवो जातञानविज्ञानं प्रति प्रायश औदासीन्यमेव दृश्यते । अथ कस्याञ्चिदपि दर्शनपरम्पराया काले काले एतादृशो मनीष्यपेक्ष्यते यस्तामभिनवोपजातज्ञानविज्ञानसामञ्जस्यमयीं कारयेन् । नन्वैतम्मिन् युगे विवेकानन्द- रामतीर्थ-शिवानन्दप्रभृतयः केचिन मनीषिण आविर्बभूवुः यैः खलु भौतिकी-गणित-जीव- विज्ञानप्रभृतिभौतिकविज्ञानोपाजितेन ज्ञानेन वेदान्तशास्त्रं भृशं संवर्धितम् । पर तु तैः सम्पादितपा सवृद्धिः प्रायेण निदर्शनमाऋपराऽस्ति । तथा हि. भौतिकविज्ञानेन सह वेदान्तशास्त्रस्य वैचारिकादानप्रदानसम्भावनामा ऋमितस्तत एतै मनीषिभिः सङ्केतितम् । अथ तेषां कृतिः वेदान्तस्योपरि विज्ञानसम्मता टिप्पणीव प्रतीयते । श्रीअरविन्देन तु निखिला वेदान्तविद्या, निखिलमपि यथोपलब्ध विज्ञानं समाहृत्य, बृहद्योगानुभूतिकटाहे सुदीर्घकालपर्यन्तं सम्पच्य, एकरसीभूतं च कृत्वा पूर्णज्ञानरूपेणोपस्थापितम् । अथ तदीया कृतिः वेदान्तस्योपरि विज्ञानभाध्यमिव संस्तोतुमर्हति । . - अपरं च, इत्थं निष्पन्ने एतस्मिन् भाप्ये न केवलं वेदान्तस्य विज्ञानानुसारिणी विकाससम्भावना निहिता, अपितु विज्ञानस्यापि वेदान्तानुसारिणी विकाससम्भावना निर्दिष्टा । विज्ञानं हि दर्शनने भवति । अतीतकाले सर्वे मूलभूता वैज्ञानिका विष्काराः तत्तदर्शनसिद्धान्तमेवाधृत्योपजाता इति तु विज्ञानविदा सम्मतिः । सम्प्रति बैनों विकास कोटिमारूह्य विज्ञानं नाम सुचिरविभ्रमानन्तरं पुनरपि दर्शनोन्मुखं सजातम् ।
वेदान्तपरम्परायां श्रीअरविन्दस्य योगदानम्
१२१
.
अथ भाविविकासार्थमेतत् किमपि विज्ञानप्रवणं व्यापकं दर्शनसिद्धान्तमपेक्षते । ननु
विज्ञानसम्मतत्वात्, अध्यात्ममूलकत्वात्, सर्वविधज्ञानसमन्वयपरत्वात्, अद्भुतयोगहष्टि-
सम्पन्नत्वाच्च श्रीअरविन्ददर्शनसिद्धान्त एनामावश्यकता पुष्कलतया पूरयितुमलमित्यपि
वक्त शक्यते ।४
----
४.
दि लाईफ डिवाइन, पृ०१३५.
पारिभाषिकशब्दार्थसूची Assimilation Inconscient Superconscient Extra-cosmic Superman Supermind Gnostic Bcing Overmind Spiritual Consciousness Spiritual Being Multiple Intuition अङ्गीकरणम् अचेतनः अतिचेतनः अतिजागतिकः अतिमानवः अतिमानसम् अतिमानसज्ञानी अधिमानसम् अध्यात्मचैतन्यम् अध्यात्मसंस्थानम् अनेकवस्तुनिष्ठ अन्तर्ज्ञानम् अन्तर्मानसम् अन्तर्मुखः अन्तश्चेतनम् अर्वाचीनावरोहः अवचेतनम् अवतार: अवरोहः अव्यवहितज्ञानम् आत्मतिरोभावः आत्मनिष्ठा आत्माभिव्यक्तिः आनन्त्यम् me Inner Mind m Introvert Intraconscient Descent froin ahead Subconscient dom- -- Incarnation - Descent - Knowledge by Identity Self-concealment Self-existence Self-expression Infinity - आणविक: Atomic आनन्दः Delight Dunension आयामः - Ascent आरोहः आहकारिकाज्ञानम् इन्द्रियलभ्यप्रतिमा उच्चतरमनः - ऋत्-चित् कादाचित्कः कालिकाज्ञानम् ख्रिष्टीयकारुण्यम् गतितत्त्वम् - Igois!ic Ignorance Sensory Image Higher Mind Truth-Consciousness Adventitious Temporal Ignorance Christian Compassion Dynamis Complex Event Comprehension Consciousness Consciousness-Force ग्रन्थिः Consciousness Psychic Being Matter - Life घटना चिति चित् चित्शक्तिः चैतन्यम् चैत्यपुरुषः जडतत्त्वम् जीवनतत्त्वम् जीवात्मा तत्त्वज्ञानम् तपोध्यानम् तात्त्विकः दमितवासनाः दिव्यीकरणम् नाडीतन्त्रम् निगूढचैतन्यम् निगूड वेतनम् Soul AmA Metaphysics Exclusive Concentration Essential Suppressed Desires Divinization Nervous System Subliminal Consciousness The Subliminal - yws ound- १२४ Rea Efficient Cause निमित्तकारणम् निर्णयः निर्वैयक्तिकः - Decision निषेधात्मकम् Im personal Negative Absolute Circumconscient mom परमतत्त्वम् परिचेतनम् परिणामः परिणामानन्दः पारमार्थिक: पूर्णज्ञानम् पूर्णयोगः प्रकाशमानमनः प्रक्रिया प्रतिबिम्बवादः Becoming Delight of Becoming Real Integral Knowledge Integral Yoga Illumined Mind Process प्रत्ययः - - प्रत्ययनम् प्रत्ययात्मकम् प्राचीनावरोहः प्रातिभप्रेरणा बहिर्मुखः भावात्मकम् भावानन्दः भ्रमज्ञानम् मनस्तत्त्वम् मनोविश्लेषणम् मनोवैज्ञानिकाज्ञानम् मूलप्रवृत्तिः मौलिकाज्ञानम् यन्त्रवादः यान्त्रिकम् Theory of Reflection Concept Conceptualization Conceptual Involution Inspiration Extrovert Positive Delight of Becoming Illusion Mind Psycho-analysis Psychological Ignorance Instinct Original Ignorance Mechanistic Theory Mechanical NO -- - युगपद योगपद्यम् वस्तु वास्तविकम् वास्तवीकरणम् विकासवाद: WA- - बिज्ञानमयपुरुष विपर्यासः विशेषः वैयक्तिकः वैश्वचैतन्यम् वैश्वाज्ञानम् Simultaneously Simultaneity Object Actual Actualization Theory of Evolution Self Reversal Particular Personal Cosmic Consciousness Cosmic Ignorance Integration Separative Knowledge Individual Practical Ignorance Premise Constitutional Ignorance Sensation Existence Existential Truth-Consciousness Delight of Being Material Cause Universal Possibility Transcendent Integrality Reflex Action Theory of Relativity व्यवस्थापनमू व्यवहितं ज्ञानम् व्यष्टि: व्यावहारिकाज्ञानम् सङ्कल्पः सङ्घटनात्मकाज्ञानम् संवेदना सत् सत्तात्मकम् सत्यचित् सदानन्द: समवायिकारणम् समष्टिः सम्भावना सर्वातिशायी - - - - सर्वाशसामष्ट्यम् सहजक्रिया सापेक्षतावादः -
सामष्टिक:
Integral
General
सामान्यः
सायोगिकः
सूक्ष्मशरीरम्
सोद्देश्यकारित्वम्
सौकर्यसिद्धान्तः
स्थितितत्त्वम्
स्वरूपोत्यापनम्
Fortuitous
Subtle Body
Teleology
Theory of Ease
Stasis
m
ama
Transformation
श्रीअरविन्दप्रणीताः प्रमुखा ग्रन्थाः
दर्शनशास्त्रमधिकृत्य
1. Evolution
2. Heraclitus
3. The Hour of God
4. The Life Divine
5. The Problem of Rebirth
6. The Riddle of this World
7. The Superman
8. The Supramental Manifestation upon Earth
बेदादिकमधिकृत्य
1. Hymns to the Mystic Fire
2. Secret of the Veda
3. The Upanishads
4. Essays on the Gita
मोगमधिकृत्य
1. Bases of Yoga
2. Letters of Sri Aurobindo
3. Letters on Yoga
4. Lights on Yoga
5. More Lights on Yoga
6. The Mother
7. The Synthesis of Yoga
8. Uttarapara Speech
9. Yoga and its Objects
संस्कृतिमधिकृत्य
1. Foundations of Indian Culture
2. Significance of Indian Art
3. The Human Cycle
4. Ideal of Human Unity
साहित्यमधिकृत्य
1. 'I he Future Poetry
2. Kalidasa
3. Letters on Savitri
4. Vyasa and Valmiki
#TETTF!
1. Savitri
2. Collected Poems
3. Ilion
4. Poems Past and Present
5. Last Poems
6. More Poems
नाटकम्
1. Conversations of the Dead
2. Eric
3. Vasavadatta