S.P College, Srinagar

Ishavasoupnishad

Patak Dharshastri · 2012

PDF Proofread

Front matter

PRAIAP
LLE GE
, SIC
છે S
LIBRARY
Class No.
! .22 ,
691܂
Book No.
66924
Accession No.

No text on this page.

No text on this page.

ge
ईशावास्योपनिषत् ।
प्रकाशिकासमता।
पं. श्रीधरशास्त्री पाठक
.
१८४३
मूल्यम्-१ रुप्यकम्

No text on this page.

Gee.MO:
७.94
ॐ
~
ईशावास्योपनिषत् ।
श्रीकूरनारायणकृतप्रकाशिकया
समेता
पं. श्रीधरशास्त्री पाठक
संस्कृताध्यापक डेक्कन कॉलेज
इत्येतैः
स्वनिर्मितया बालबोधिन्या समलंकृता
पुण्यपत्तनम्
१८४३
BAHARHI
7IN
LAHORE.
मूल्यम्-१ रूप्यकम्
109
L

प्रास्ताविक किंचित् । विदितमेवेदं मोहमयीस्थविश्वविद्यालयच्छात्राणां परागामिसंवत्सरद्वये परीक्षणीयत्वेन न्ययोजीशावास्योपनिषत् शाङ्करभाष्येण श्रीकूरनारायणकृत प्रका- शिकमा च सह । तत्र शाङ्करभाष्यमानन्दज्ञानकृतव्याख्यासहितं बहुयो मुद्रितं तेन विद्यार्थिनां तल्लाभः सुकरः । श्रीकरनारायणकृतप्रकाशिका तु द्वित्रपुस्तरेषु पुस्तकान्तरघटितत्वेन मुद्रिता । तेन मूस्यवाहुल्यात्तत्पुस्तकं दुर्लभमिव प्रतीयेत कैधित् । किं च यासौ द्वित्रपुस्तकेषु मुद्रिता प्रकाशिका सात्यन्ताशुद्धत्वेन पिपठि पूणामध्यापकानां च वरस्यं जनयेत् । किं च विशेषतो दूपते चेतो निवेदयितुं यदुपलब्धप्रकाशिकापुस्तके सप्तदशे मन्त्रे पंक्त्यष्टकात्मको ग्रन्थलोपोऽपि । क्यं विशेषज्ञोऽपीमं ग्रन्थलोपमपाकृत्य पाठयितुं प्रभवेदिति सुधियो विभावयन्तु । तदेत. सर्व ग्रन्थलोपादिकं पर्यालोच्य विद्यार्थि जनसौकर्याय प्रयतमानेनैतत्पुस्तक प्रकाशनाय प्रवृत्तेन पाठकोपाहरघुनाथात्मजश्रीकृष्ण शर्मणा संसूचितोऽहं श्रीकरनारायण कृत- प्रकाशिकापुस्तकं संशष्य महायासोपलन्धद्राविदलिपिपुस्तकानुसार पूर्वोक्तं ग्रन्थम- पूरयम् । एवं पूर्व प्रकाशिकापुस्तकं संस्कृत्य यथार्थनाम्न्या वालबोधिन्या समयो. मयम् । अत्र बालबौपिन्यां प्रकाशिकागृहीतानि मीमांसाधिकरणानि शानदीपिका- धिकरणमालानुरोधेन विवृतानि । तत्र तत्र जैमिनिस्त्राणि पूर्वमीमांसाप्रसिद्धान्यधि करणनामानि च दर्शितानि । तथा व्याकरणयोगब्रह्मसूत्राणां स्थलानि यथायथं प्रदर्य तदर्थीलेखश्च कृतः । प्रकाशिकायां गृहीतान्यभेदभेदवाद्यादिमतानि सवि. स्तरं निरूपितानि । तथान्ते विशिष्टाद्वैतिमतं, अतिविशिष्टादेतिमतविषयविभागम दर्शितः । तेन मन्ये पुस्तकमिदं विद्यार्थिनां विशेषत उपयोगाय भवेत् । प्रकाशिकापुस्तके पाठनिर्णये ग्रन्थलोपनिरासार्थ द्राविडलिपिपुस्तकोपलन्धौ च विशेषतः साहाय्यमासीत् बाक्रे इत्युपान्हानां महादेवशास्त्रिणां वुहल्सनकालेज. स्थाध्यापकपदं भूषयतां विदुषामतस्तदनुग्रहभरं सप्रमोदं वहामि । तदेतत्पुस्तक मुपयुज्य विद्यार्थिनः कृतकार्या भवेयुर्विद्वांसश्च विमर्शशालिनो विमत्सराः कृपयो- पलभ्यमानं मानुषशेमुषीसुलभं शास्त्राव्युत्पत्तिजन्यं वा प्रमादं दर्शयेयुस्तेन कृत. कृत्यतामानयेयमात्मानमिति मन्यमानः- भाषाढशुक्लैकादशी १८४३ पुण्यपत्तने. विद्वद्वशंषदः पाठकोपागस्त्यम्बकतनूमनुः श्रीधरशर्मा।

- जगत रामानुजमतम् (विशिष्टादैतमतम् ) विशिष्टाद्वैतशब्दार्थः-चिदचिद्विशिष्टस्य परमात्मनोद्वैतमथवा सूक्ष्मशरीराविशिष्टस्य कारणरूपस्य परमात्मनस्तथा स्थूलशरीरविशिष्टस्य कार्यरूपस्य परमात्मनश्चेत्युभयोर- दैतम् । पदार्यानिविधा अचिच्चिदीश्वरभेदेन । तत्र प्रकृतिकालशुद्धसत्त्वभेदेनाचित्पदार्थ. विविधः । तत्रापि प्रकृतिविधा सूक्ष्मसूक्ष्मतरसूक्ष्मतमेतिभेदेन । सा च क्रमेणाव्य काक्षर- तम इति संज्ञिका । ईश्वरः परमात्मा स एव ब्रह्मेत्यभिधीयते । चिचित् (जीवजड) पदार्थात्मकमीश्वरस्य शरीरं तच्छरीरमपि स्थूलसूक्ष्मभेदेन द्विविधं सूक्षा- शरीरयुतः परमात्मा स्थूलस्य उपादान कारणम् परमात्मन्य- प्राकृताः शब्दस्पर्शरूपरसगन्धाः शक्तिज्ञानानन्दादयश्च गुगाः सन्ति । स च सर्वाश्रयो पापकश्च तज्ज्ञानं शरीरमपि व्यापकम् । स च पंचवियः परव्यूहविभवान्तर्याम्यर्चाव- तारभेदेन । स एव सूक्ष्माचिदचित्पदार्थयुक्तो जगत उपादानं विशेषसंकल्पयुक्तश्च निमित्त. कारणं भवति । तथा कालाधन्तर्यामितया सहचारिकारणं च भवति । अयं परमात्मा सर्वेषां चेतनाचेतनवस्तूनां प्रेरकः कर्मानुकूलफलप्रदोप्युदासीनः सर्वजीवानां जडानां च नियन्ता कल्याणगुणपूर्णो हेयगुणप्रत्यनीकः सर्वान्तर्याम्यचिन्यशक्तिबलैश्वर्यवीर्यतेजःसंपत्रो भफिलभ्यश्चास्ति । जीवजडौ परमात्मनः शरीरभूतः । एतद्विशिष्टपरमात्नातिरिक्तं जगति किचिन्नास्ति । यद्यपि जीवजही विशिष्टपरमात्मनोनतिरिक्की तथापि केवलपरमात्मनस्तो मिन्त्री नित्यौ च । चिदपरपर्यायो जीवः स चाणु तु व्याः । स च चेतन ईश्वराधानकर्तृ- त्वगुणः स्वप्रकाशः सुखी नित्यः प्रतिशरीरं भित्रश्च । स च बमुक्तनित्यभेदेन त्रिविधः । ब्रह्मादिकीटान्ताः सर्वे संसारिजीवा बद्धाः । विमुक्तसंसाराः प्राकृतसूक्ष्म शरीररहिता वैकुण्ठे भगवत्संनिधिनिवासिन आविर्भूताटगुणा ये ते मुक्त जीवाः । मूलत एव संसार- संबन्धरहिताः परमात्मेच्छानुवर्तिनोसंकुचितज्ञाना येनन्तगरुडादयस्ते स नित्यजीवाः । जीवात्मानानन्ताः । जगत्प्रवाहवानादिः । नित्यजीवाः स्वेच्छया लीलाविभूतिध्ववतारं धारयन्ति । एतेषु नित्यजीवेषु ययाधिकारं तारतम्यं वर्तते । मुक्त जीवेषु तारतम्यं नास्ति। तेषां न कोप्यधिकारो नवा तेषामवतारधारणम् । मुक्तौ जीवैः परमात्मसादृश्यं लभ्यते न त्वैक्यम् । जीवो ज्ञातृस्वरूप आनन्दस्वरूपश्च तथा कर्ता भोका । तस्य शरीरं प्रकृ- तिजन्यं पाअभौतिकं स च स्वयं परमात्मनः शरीरभूतः ॥ जीवात्मा लिङ्गदेहो- पाधिना संसरति । सच लिङ्गदेहः प्राकृतोनादिश्च । उपाधिभूतलिङ्गदेहत्यागेन जीवेन मोक्षो लभ्यते । मोक्षावस्थायामपि जीवस्य ज्ञातृत्वं न हीयते । मोक्षार्थ जीवस्य ब्रह्म- विचारो विधीयते । तत्र पूर्ववृत्तं कर्म ब्रह्मज्ञानेङ्गभूतम् । न साधनचतुथ्य संपत्त्यानन्तर्य तत्रापेक्ष्यते । यत्रेश्वरनित्यजीवमुकजीवाश्च विविधभोगानुपभुजते । यत्र च कर्मरूपाविद्या न संभवत्यसौ देशः शुद्धसस्वमित्यभिधीयते । एतत्सत्त्वं प्राकृतसत्त्वगुणतो विलक्षणम् । ज्ञानं स्वप्रकाशं चेतनं व्यापकं बुद्ध्यपरपर्यायं चास्ति । जीवेश्वरी तदाधारभूनी तयोर्धों शानं तव स्वतः प्रमाणं पददशायां तत्कर्माच्छन्नं संकुचितं भवति मोक्षे तु तद्विकसितं भवति । प्रकृतिपदायों जडो नित्यध । तया परमात्मस्वरूपमारछादितं भवतीति कर्मवश्या यद्धजीवा मन्यन्ते । इयं प्रकृतिः सत्त्वरजस्तम इति गुणत्रयात्मिका चतुर्विंशतितत्त्वात्मिका च । तानि तत्त्वानि प्रकृतिमहत्तत्वमहंकारो माः पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च तन्मात्राणि पञ्च महाभूतानि चेति । एतेषु प्रथमतत्त्वं प्रकृत्याख्यं सर्वेषां जडानां मूलकार- णम् । एतदतिसूक्ष्मं सृष्टयादौ परमात्मन इच्छया प्रकृतौ परिणम्यमानायां यथा यथा सुक्ष्मता हीयते तथा तथावस्थान्तरं भवति । तत्र प्रथमावस्था तम इत्यभिधीयते । द्वितीयावस्थाक्षरं, तृतीयावस्थाव्यक्तं च। इदं तृतीयमव्यक्तं नाम कार्योन्मुख्यव्यतावस्था, अव्यक्तानन्तरं जायमानाः सर्वे परिणामा व्यक्तः । तत्र प्रथमपरिणामो महत्तत्वम् । अत्र गुणत्रयसाम्यं नास्ति । त्रिध्वन्यतमो गुणः प्रबलो भवति । महत्तत्वं ब्रह्मणः शरीरम् । अम्माज्जायतेन्तःकरणवृत्तिबुद्धिनानी निश्चयाख्या । महत्तत्वात्सत्वगुणप्राबल्येन जायमानः सात्विकोहंकारो वैकारिक इति कथ्यते । अस्मात्साचिकाहंकारात्पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनश्चोत्पद्यते । एतदेव मनः स्मृत्यादीनां साधनं सर्वेन्द्रियाणां प्रेरक संसारबन्धकारणीभूतं च। अचिद्वस्तूनां यथा महत्तत्वादिरूपेण परिणामा भवन्त्येवं जीवात्मनो ज्ञानधर्मसंकोचविकासादयोवस्था भवन्ति । तथात्मनोपि सृष्टयादिसंकल्पादयोवस्था भवन्ति । जडव्यापाराः सदा परबुद्धयवलम्बनेन संभवन्ति । परमात्मनः सर्वे व्यापाराः स्वबुद्धयव. लम्बनेन संभवन्ति । जीवस्य तु केचिदेव व्यवहारा ईश्वरबुद्धयवलम्बनेन केचित्स्वस्य परमे श्वरस्य चेत्युभयोर्बुद्धिमवलम्ब्य प्रवर्तन्ते । केवलमेव स्वबुद्धिमवलम्ब्य जीवेन व्यवहारः कर्तुं न शक्यते । जडपदार्थाः सदान्यस्य शरीरं भवन्ति । आत्मत्वं तु तेषां नास्ति । तयेश्वरः सदात्मैव शरीरत्वं तस्य नास्ति । जीवस्तु स्थूलदेहस्यात्मा । ईश्वरस्य शरीर• मित्युभयं भवति । अन्तर्नियामकत्वं चात्मशब्दप्रवृत्तिनिमित्तं तेन जीवः परमात्मेति द्वय- मप्यात्मशब्देन व्यवहियते । अन्तर्यामित्वस्थ पराकाष्ठा परमात्मेति । ज्ञानं द्विविधं स्वरूा. भूतं धर्मभूतं च । तत्र स्वरूपभूतज्ञःनं जीवाभिन्नं धर्मभूतज्ञानं तु ततः पृथक् । एवं च स्वरूपभूतज्ञानदृष्टया ज्ञानस्वरूपो जीवः । स एवामिति प्रतीत्या भासमानत्वाज्ञयोपि । तथा तादृशज्ञानवत्त्वात् स एव ज्ञ तृस्वरूपोपि । पञ्चीकृतपञ्चमहाभूतानि महत्तत्वमहंकार- श्चेति सप्त तत्वानि प्रकृतिश्चेत्यष्टभ्यः शरीरोत्पत्तिः। ततस्तच्छरीरं पञ्चज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनश्च भूपयति । भक्तिः प्रपत्तिश्चेति मोक्षसाधने । भक्तिर्भजनम् । अनन्य. भावेन परमेश्वरः शरणीकरणीय इति प्रपत्तिः । साधनक्रमश्वेत्थम्-कर्मज्ञानयोगौ भक्ति- कारणम् । साधनभक्तिः प्रपत्यङ्गम् । सा च प्रपत्तिर्यत्र देहे तद्देहपात एव मोक्षः । अत्र मस्ते प्रत्यक्षमनुमानमागमश्चेति प्रमाणत्रयम् । अन्य प्रमाणानामत्रैवान्तर्भावः । अत्र मते सख्यातिः । जीवन्मुक्ति स्ति । अत्र मतेद्वैतवाद्याहतो विवर्तवादः खण्ज्यते परिणामवादश्च स्वीक्रियते । तत्तात्पर्यमित्यम्-जगति विद्यमानानि सर्ववस्तूनि सत्यानि तानि मूलप्रकृति- परिणामभूतानि च । श्रुतिग गनि 'असत्यं ' 'नास्ति' इति पदामि न मिथ्यार्थबोधकानि किन्तु विनाशित्वबोधकानि । परिणामिपदार्थस्वरूपं तत्तदवस्थासु भिद्यतेतस्ते पदार्था असत्या विनाशिन इत्युच्यन्ते नतु मिथ्याभूतत्वं तेषामिति मन्तव्यम् । एवं व जगत्सत्य मिति राद्धान्तः।

ॐ रामानुजमतानुयायिनारायणकृतप्रकाशिकासमेता । ईशावास्योपनिषत् । - ॐ ईशा वास्यमिद५ सर्व यतिकंच जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १ ॥ अथ वाजसनेयिनां संहितान्तिमाध्यायो व्याख्यायते-सर्वेशानः सर्वभूतान्तरात्मा दोषानईः सर्वविद्यैकवेद्यः । कर्माराध्यः साध्यभक्येकल. भ्यः श्रीमान्व्यक्तो वाजिनां संहितान्ते ॥ रजस्तमःप्रचुरकरणकलेवरसृष्टि- विशिष्टत्वात्-ईश्वरोऽहमहं भोगी ( भ. गी. १६ । १४ ) इत्यादिभगवदुक्त. प्रक्रियया स्वतन्त्रोऽहं देवतान्तर परतन्त्रोऽहमिति च भ्राम्यतस्तत्त्वबुभुत्स. योपसन्नस्य शिष्यस्य स्वतन्त्रतात्मभ्रमादिनिवृत्यर्थ चिदचिदात्मकस्य प्रप. श्वस्य परमपुरुषायत्तस्वरूपस्थितिप्रवृत्तित्वमुपदिशति-ईशा वास्यमिति । नत्वा श्रीशंकर साम्बं बालव्युत्पत्तिसिद्धये । व्याख्यायते मया व्याख्या नारायणप्रकाशिका ॥१॥ ॐ भूधरभूजानिर्विजयतेतमाम् । आशीर्नमस्क्रियावस्तुनिर्देशात्मकं त्रिविधं मंगलं तन्मध्येऽत्र वस्तुनिर्देशात्मक मंगलमाचरिष्यन् चिकीर्षितमर्थ प्रतिजानाति. अथेति । वाजसनेयिनां संहितेति । वाजसनेयिनां पवदशशाखाः काण्वमाध्यन्दि. न्यादयः । तत्र प्रथमत्यागे मानाभावात्प्रथमा या काण्वशाखा तद्वतोपनिषद एवेदं व्याख्यानं प्रकाशिकाभिधम् । उपान्त्याध्यायपर्यतं कर्मकाण्डमभिधायान्तिमेनाध्यायेन ज्ञान काण्ड प्रति. पाद्यते। सर्वेशान इति । दोषानहः । कल्याणगुणगणविशिष्टत्वाद दोषा भगवति न सन्तीति भावः । साध्यभक्त्येकलभ्यः-केवलया साध्यभक्त्या प्राप्यमाणः। साध्यभक्तियुक्ताः श्रीपर- कुशादयः इत्युक्तं यतीन्द्रमतदीपिकायाम् । रजस्तम इत्यादि । रजस्तमःप्रचुरा रजस्तमो. गुणबहुला या करणानामिन्द्रियाणां कलेवराणां देहानां च सृष्टिस्सद्युतत्वात् । भगवदुक्तप्र. क्रियया-ईश्वरोऽहमित्यादिवाक्योक्तपद्धत्या । भ्राम्यतः-अहं स्वतन्त्रो न भगवत्परतन्त्रः। अथवा भगवदितरदेवता ब्रह्मशिव.दयस्तस्परतन्त्र इति च भ्रनसरूपम् । तत्वबुभुत्सया- परपरहस्यजिज्ञासया । उपसन्नस्य-शरणं प्राप्तस्य । स्वतन्त्रात्मभ्रमादिनित्यर्थ-आत्मा- देनेह जीवो गृह्यते । जीवः स्वतन्त्रो न भगवत्परतन्त्र इति व्यामोहनिरासार्थम् । चिद- चिदात्मकस्य-चित्पदेन जीवस्य अचित्यदेन जडस्य व ग्रहणम् । परमपुरुषायत्तेति।

प्रकाशिकासमेता इदं ब्रह्मादिस्तम्बपर्यन्तं सर्वमीश्वरव्यतिरिक्तं भोक्तृभोग्यरूपम् । ईशा सर्पनियन्त्रा पुरुषेणेति यावत् । 'योऽसावसौ पुरुष: ' [ वृ० ५।१५।१] इत्यनुवदिप्यमाणत्वात् । स हि सर्वस्येष्टे । तथा च श्रुत्यन्तरम् – 'पति विश्वस्यात्मेश्वरम् ' [ म० ना० ११ । ३ ] इति। तेन वास्यं वसनीयं व्याप्यमिति भावः । यच्च किंचिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्न. बहिश्च तत्सर्व व्याप्य नारायणः स्थितः । [ म० ना० ११ । ६ ] इति श्रुतेः । यद्वा सर्वाधारे स्वस्मिन्नेव सर्व वास्यं प्रतिष्ठापनीयम् । स्मर्यते हि- सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥ इति । जगत्यां मह्याम् । इदं लोकान्तरोपलक्षणम् । जगद- न्यथात्वं गच्छत् । तत्राचिदंशस्य भोग्यत्वाय स्वरूपविकाररूपमन्यथा. त्वम् । चिदंशस्य तु भोक्तृत्वाय ज्ञानसंकोचविकासादिस्वभावविकारेणा. न्यथात्वमिति भेदोऽनुसंधेयः । ईशेनावास्यं किंचिदपि नास्तीति द्रढयितुं यतिकचेति जगद्विशेष्यते । जगत्यादिषु लोकेषु यत्किचिद्भोक्तृभोग्यरूपं जगदस्ति तदिदं सर्वमीशा वासुदेवेन वस्यं धार्य चेति वाक्यार्थः । इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्रं चिदचितां जीवजडानां जन्मादिद्वारा स्वरूपप्राप्तिः । रक्षणं गमनादिप्रवृतयश्च भगवदधीना इत्यर्थः । ब्रह्मादीति । स्तम्बस्तृणविशेषः । ब्रह्माणमारभ्य तृणपर्यन्तम् । ईश्वरव्यतिरिक्तमिति । ईश्वरस्तु स्वतन्त्रः । भोक्ता-जीवः । भोग्यं जडजातम् । अनु. वदिप्यमाणत्वादिति । ब्राह्मणं हि शतपथाख्यं वाजसनेयिंसंहिताव्याख्या रूपं तत्र वृहदारण्य कमीशावास्योपनिषद्वयाख्शनरूपं तत्र गृहीतेनार्थेन संहितान्तर्गतार्थो यथा संगतो भवेत्तथा व्याख्येयं व्याख्यात्रा। मया च तथानुष्ठितमिति प्रकाशिकाकृदाशयः। अर्थान्तरमाह- यद्वेति। अस्मिन्मक्षे स्वस्मिन्नेवेत्यस्याध्याहारः कः। तत्र प्रमाणमाह-स्पर्यत इत्या- दिना । लोकान्तरोपलक्षणमिति। जगतीपदेन भुवरादिलोका ग्राह्या एवं च भूरादि- सर्वलोकस्थमित्यर्थः । अन्यथात्वमिति । जगदिति यङ्लुइन्तसाधित पदप्रयोगः । तेन 'नित्यं कौटिल्ये गतो' ( पा. सू. ३।१।२३ ) इति पाणिन्यनुशासनात् अन्यथात्वं कुटि. लत्वं गच्छदित्यर्थः । तत्राचिदंशस्यति । अयं भावः । चिदचिद्विशिष्ट ईश्वर एव सर्व . मिति विशिष्टाद्वैतमतम् । तत्राचिदंशो भोग्यस्वरूपः । चिदंशस्तु जीवो भोक्तृस्वरूपः । अचिदंशे जडे स्वरूपविकाररूपमन्यथात्वम् । चिदंशे जीवे तु ज्ञानसंकोचविकासादिनान्य • थात्वम् । तच यथा देवादिजीवेषु बहुज्ञवाग्ज्ञानविकासः । मनुष्यादिजीवेष्वल्पज्ञवाज्ज्ञान- ।

वै ईशावास्योपनिषत्। क्षेत्रज्ञ एव च ॥ [म. मा. अ. वि. स. फ. १६ ] इत्याद्युपबृंहणानि बोध्यानि 'पृथगात्मानं परितारं च मत्वा [श्वे०१। ६ ] । ज्ञाज्ञौ द्वावजावीशानीशौ [ श्वे० १ । ९] । 'नित्यो नित्यानां चेतनश्चेतनानामे को बहूनां ये विदधाति कामान् [ श्वेः ६ । १३ ] इत्यादिपु श्रुतिपु प्रसिद्धो जीवे. श्वरयोरीशेशितव्यादिलक्षणोऽत्यन्तभेदोऽप्यत्र सिद्धः । ननु रूढियोगम- पहरतीति न्यायादीशोऽत्र रुद्रः स्यात् । मैवम् | ‘एको ह नारायण आसीन्न ब्रह्मा नेशानो नेमे द्यावापृथिवी न नक्षत्राणि न यमो नामिन सोमो न सूर्यः स एकाकी नर एव [म. ना. १.] । इत्यादिषु श्रुतिषु भग. वत्कार्यत्वेन कर्मवश्यत्वेन च संप्रतिपन्ने रुद्रे सर्वव्यापित्वसर्वाधारत्वादेर- न्वयासंभवेन विरुद्धार्थविषयतयैव रूढेभनत्वात् । एवं च जगत्कारणवादि- वाक्यावगताकाशप्राणादिशब्दन्यायेनाजः सर्वेश्वरः सिद्ध इत्यनवच्छिन्नैश्व- यतया प्रसिद्धेः सर्वेश्वरे यौगिक एवायमीशशब्दः प्रयेतव्य इति सिद्धम् । एवं मुमुक्षोरीश्वरपारतन्ध्यबाधमुत्पाद्य वैराग्यभूषितां वृत्तिमुपदिशति-तेन त्यक्तेन भुञ्जीथाः। तेन जगता भोग्यताभ्रमविषयेणेति भावः । त्यक्तेनाल्प. त्वास्थिरत्वदुःखमूलत्वदुःखभिश्रत्वदुःखोदकत्वदेहाभिमानमूळत्वास्वाभाविक ब्रह्मानन्दानुभवविरुद्धत्वरूपा ये विषयदोषाः सप्त तन्निरूपणपूर्वकं परित्यक्ते- संकोचः । उपबृंहणानाति । उपोद्वलकपुराणेतिहासवाक्यानि । इतिहासपुराणाभ्यां वेदं समुपवृंहयेदित्युक्तेः । उपवृंहणं नाम विदितसकलवेटतदर्थानां स्वयोगमहिमसाक्षात्कृतवेद तत्त्वार्थानां वाक्यैः स्वावगतवेदवाक्यार्थव्यक्तीकरणम् । इति रामानुजायश्रीभाष्य उपबृंहण- लक्षणमुक्त । सिद्ध इति । अभेदवादिमते जीवेश्वरयोरभेदस्तत्रिरासाथ जीवेश्वरयो- रत्यन्तभेदः सिद्ध इत्याइ । जीव ईशनीयत्वाद् भृयादिवत्परतन्त्रः। ईश्वरस्तु ईशत्वा- द्राजवत्वतन्त्रः। तयार्भेदाभावो न संभवतीत्यर्थः । ईशशब्दो स्ट्या रुद्रवाचकोऽ स्ति । ईष्ट इति व्युत्पत्त्या भगवद्रूपोऽस्ति । ततश्च रूढर्योगादलीयस्त्वेन कथमीशपदेन भगवतो विष्णोग्रहणमिति शंकते- नन्विति । अपहरति बाधते । रूढेर्भग्नत्वादिति । ‘एको ह वै ' इति ध्रुत्या रुद्रो भगवनिर्मितः स्वकृतकर्मवश्य- श्चेति बोध्यते । ततः कर्मतन्त्रे तस्मिन्सर्वव्यापित्वं सरसतया न घटते कर्मणस्तत्पूर्वभावि- स्वादेवं च रूट्येशपदेन रुद्रग्रहणे सर्वव्यापित्वाद्यभाववति तस्मिन् सर्वव्यापित्वादिकम. नेन मन्त्रेणोकं स्यात्तथा च मन्त्रस्य विरुद्धार्थप्रतिपादकत्वं प्रसज्ज्येत । अतो रूटिं भक्त्वा यौगिकार्थेन भगवद्रूप एवार्थे ग्राह्यः । तथा च न विरुद्धार्थतेत्यर्थः । जगत्का- रणवादीत्यादि । ब्रह्ममीमांसायां जगतः कारण समन्वयात् ब्रह्मैव नान्यदिति-तत्त ४ प्रकाशिकासमेता । नोपलक्षितः सःभुञ्जीथाः । भगवदुपासोपयुत्त देहस्य धारणमात्रौपयिकमन्न- पानादिकं यागदानहोमार्चनाद्युपयोगिपरिजनपरिच्छदादिकं च वर्ग भुञ्जीथा इत्यर्थः । यद्वा दोषसप्तकनिरूपणात्त्यक्तेन भोग्याभासेनोपलक्षितः सन्भु जीथाः । सर्वावासत्वेन प्रकरणप्राप्तं प्रकृतमुक्तदोषप्रतिभटं निरतिशय- भोग्यं वक्ष्यमाणोपायमुखेन भुञ्जीथा इति योज्यम् । तत्र ‘ भोक्ता भोग्यं प्रेरितारं च मस्वा' [ श्वे० १ । १२ ] 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यननमन्यो अभि- चाकशीति ॥ [ मुं० ३ । १ ] 'समाने वृक्षे पुरुषो निममोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीत. शोकः' [ मुं० ३ । २ ] इत्यादिभिः प्रपञ्चितस्तत्त्वत्रयविवेकोऽप्योति भावः । अनीशया भोग्यभूतया मायया प्रकृत्येत्यर्थः । जुष्टं प्रीयमाणम् । स्वस्मादन्यमीशमस्येशस्य महिमानमिति महिमानं चेत्यर्थः । तदेतिप्रतिनि- देशोऽध्याहार्यः । यदान्यमीशमस्य महिमानं च पश्यति तदा वातशोको भवतीत्यर्थः। मा गृधः कस्यस्विद्धनम् । कस्यचिद्धनं कस्यापि बन्धोरबन्धोर्वा समन्वयात् (व्र. सू. १।१।४) इति सूत्रेण साधिते आकाशप्राणादिभ्यो जगदुत्पत्तिरिति प्रतिपादकेषु वाक्येषु आकाशादिपदेन ब्रह्मैव ग्राह्यं न तु भूताकाशादिकमिति आकाश. प्राणाद्यधिकरणः ब्रह्ममीमांसाप्रथमाध्यायप्रथमपादस्थः साध्यते। तथा चाकाशाधिकर- णविषयवाक्यम्। छान्दोग्ये-सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते। आकाशं प्रत्यस्तं यन्ति । आकाशो वेभ्यो ज्यायान् । आकाशः परायणम् । इति । एवं चात्राकाशा- दिपदेन यथा ब्रह्मैव प्रतिपाद्यते तथात्रंशपदन निरवधिकैश्वर्यसंपन्नः परमात्मा यौगिकार्थेन प्रायः । न रुद्रादिः। अनवाच्छन्नैश्वर्यतया अप्रतिवद्धविभूतित्वेन । अल्पत्वास्थिरत्वेति। अल्पत्वादयो विषयदोषाः । दुःखोदकत्वं- दुःखसमाप्तिकत्वम् । एवं च विषया दुःखमूला दुःखमिश्रा दुःखावसानाश्चेति भावः । सर्वविषयत्यागस्य क व्यत्वेपि देहधारणार्थमावश्यक- मनपानादिकं त्वगीकर्तव्य देहस्य भगवदुपासनायामुपयुक्तत्वात् । तथा यागाद्युपयोगिपदार्थ- जातं स्वीकर्तव्यं यागादीनां चित्तशुद्धिसाधनत्वात् । दोषसप्तकनिरूपणादिति श्रल्यत्वादयः पूर्वोक्ताः सप्तदोषाः। प्रकृतमिति । ब्रह्मेत्यर्थः । प्रतिभट-विरोधि । वक्ष्यमाणोपायमुखेनेति । कुर्वन्नेवेह कर्माणाति द्वितीयमन्त्रायुक्तकर्मयोगरूपोपाथद्वार- त्यर्थः । तत्त्वत्रयविवेक इति । चिदचिदीश्वरेति तत्त्वत्रयम् । तदोति प्रतिनिर्देश- इति । यत्तदोनित्यसंबंधाद्यदेत्यनुगुणं देति पदमध्याहार्यमित्यर्थः । अर्थतृष्णामिति।

प्राप्त. ईशावास्योपनिषत् । धनं मा गृधः माभिकाङ्क्षीः । गृधु अमिकाङ्क्षायामितिधातुः । आह च यमः किंकरं पति-परमसुहृदि बान्धवे कलत्रे सुतवनितापितृमातृभृत्य. वर्गे । शठमतिरुपयाति योऽर्थतृष्णां पुरुषपशुनहि वासुदेवभक्तः । इति स्मृतेः । इदं च धनाशाप्रहाणं परमात्मव्यतिरिक्त कृत्सविषयवैराग्योपलक्ष णम् । परमात्मनि यो रक्को विरक्तोऽपरमात्मनि । इति स्मृतेः ॥ १ ॥ कुर्वन्नेवेह कर्माणि जिजीविषेच्छत५ सपाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म वि.प्यते नरे ।। २ ॥ एवं विरक्तस्य विदुषः फलसङ्ग कर्तृत्वादिरहितो ब्रह्मविद्याङ्गभूतः कर्मयोगो यावजीवमनुष्ठय इत्याह कुर्वन्निति । शतं समाः-शतं संवत्सरान् । कर्माणि नित्यनैमित्तिकानि । कुर्वन्नेवेह लोके जिजीविषेज्जीवितुमिच्छेत् । ब्रह्मविदोऽपि यावद्विद्यापति जीवितुमिच्छा भवतीति त्वात् । शतायुर्वं पुरुष इति श्रुतेर्यावज्जीवं नित्यनैमित्तिककर्माणि कुर्वीतेति विधिः संक्रामायितव्यः। यावज्ज्ञानयोगाधिकारं वर्मयोगः कर्तव्य इति मावः । न कदाचिदपि विद्याझं कर्म परित्यजेदित्येवकाराभिप्रायः । त्वयि । ईश्वरपरतन्त्ररूपज्ञानतया तदाज्ञापरिपालनरूपकर्मानुष्ठानेऽधिकारपूर्तिम- तीति भावः । एवमेवानुष्ठानमित्यर्थः । उक्तमर्थ व्यतिरेकेण दृढीकरोति. नान्यथेतोऽ:तीति । इतः कर्मानुष्ठानादन्यथा प्रकारान्तरं नास्तीत्यर्थः नान्यः पन्थास्तत्तोषकारणमिति स्मृतेः । नन्वीश्वरवेदिनोऽपि कर्मानुष्ठाना- दवश्यंभावी बन्धः स्याइित्याशझ्याह - न कर्म लिप्यते नर इति । ब्रह्मविद्याविरुद्धेषु कर्मफलेषु न रमत इति नरः । प्रस्तुतब्रम्हविदि नरे विद्याङ्गतया क्रियमाणं कर्म न लिप्यते न स्वर्गादिहेतु भवति प्रत्युत शुद्ध. परमसुहृद्ववान्धादीनां धने यो नरम्तृष्णां करोति स नरपशुरेव न भगवद्भक्त इति श्लोक. तात्पर्यम् । इदमित्यादि। न केवलं धनविषयकतृष्णव परित्याज्यापेितु भगवदितरेषु सर्वे. प्वपि वस्तुजातेषु तृष्णा न कर्तव्या । भगवद्विषये तु वैराग्यं न कर्तव्यमित्यर्थ ः ॥ १ ॥ नित्यनैमित्तिकानोति । अकरणजनित प्रत्यवायपरिहारार्थ नित्यनैमित्तिकानि कर्तव्यानि । काम्यनिषिद्धानि च परिदरणीय नीत्यर्थः। संक्रामयितव्य इति । कुर्वन्नेवेह कर्माणीत्यादिश्रुतिरेवरूपेण विपरिणमयितव्येत्यर्थः । तत्तोषकारणमिति । भगवत्संतोषकारणमित्यर्थः । नरशब्दस्य प्रकरणानुरोधेनार्थ दर्शयति-न रमत इति । ..

६ प्रकाशिकासमेता प्रत्यगात्मसाक्षात्कारमेवोत्पादयतीति भावः । यत्तु कुर्वन्नेवेह काणीत्ययं विघिरविद्वद्विषय एव नतु ब्रह्मविद्विषयस्तस्य विधिनिषेधशास्त्रवश्यत्वा. भावादिति व्याख्यानम् । तत्प्रकरणविरुद्धम् । ' विद्यां चाविद्यां च यस्त- द्वदोभय ५ सह ' [ ई. वा० । १ । १ । इत्याद्युपरितनविध्यन्तरविरुद्ध चेति न वेदविदो बहु मन्वते ॥ २॥ असुर्या नाम ते लोका अन्धेन तमसाप्ताः । तास्त प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥ एवं मन्त्रद्वयेन तत्त्वत्रयं विद्याङ्गकर्मानुष्ठानं चोपदिष्टम् । इदानी य आसुरप्रकृतयः शास्त्रविधिमुत्सृज्य यज्ञादि कर्म कुर्वन्ति निषिद्धकर्म चाचरन्ति ते आत्मघातिनो निरयपातिन इत्युपदिशत्याचार्य:- असुर्या इति । असुराणां स्वम्ता असुर्या अतिदारुणा इत्यर्थः । नामेति प्रसिद्धौ। असुरस्व |वानुभाव्या निरयसंज्ञिता लोकाः सन्तीति शास्त्रप्रसिद्धमिति भावः । तान्विशिनष्टि-अन्धेन तमसावृता इति । अन्धेनातिगाढन तमसान्धकारेणावृता व्याप्ताः । आलोकप्रसङ्गरहिता इति भावः । ये - रम्धातोरोणादिको उप्रत्ययः । साङ्करभाष्योक्तमुपक्षिपति-यत्त्विति । तत्र हि एवम त्म. विदः पुत्रायेषणात्रयसंन्यासेनात्मनिष्टतयामा रक्षितव्य इत्येप वेदार्थः । अथेतरस्याना- त्मज्ञतयात्मग्रहणाशक्तस्येदमुपदिशति मन्त्रः कुर्वनेवेति । प्रथममन्त्रो ब्रह्मविद्विषयो द्वितीयस्त्वज्ञानिविषय इति शांकराभिप्रायः विधिनिषेधशास्त्रवश्यत्वाभावादिति। अहरहः संध्यामुपासीत, ब्राह्मणो न हन्तव्यः इति विधिनिषेधौ वेदरूपशास्त्रे उक्ती । तदाज्ञावशंवदत्वं ब्रह्मविदोऽनुपपन्नं तस्य वेदा अवेदा भवन्ति ' इति वृहदारण्यकोक्तः । शास्त्रलक्षणं च-प्रवृत्तिा निवृत्तिा नित्येन कृतकेन च । पुं- येनोपदिश्येत तच्छास्त्रम- भिधीयते' इन्युक्तम् । प्रकरणविरुद्धमिति । ईशावास्येति संपूर्णोऽध्यायो मुख्यतो ज्ञानप्रतिपादकत्वाज्ञानप्रकरणं न कर्मप्रकरणमिति प्रकाशिकाकृदाशयः । विद्यां चेति। अस्यापि मन्त्रस्य व्याख्यायाः प्रकाशिकायाः शांकरभाष्ये भिन्नोऽर्थः । वेदविद इति । वेदार्थतत्वज्ञा रामानुजाचार्यादय इत्यर्थः ॥ २ ॥ उपदिएमिति । ईशावास्येत्यादिना प्रथममंत्रेण चिदचिदीश्वरेति तत्वत्रयमुक्त द्वितीयेन कर्वनितिमन्त्रेण विद्याभूतं निष्काम कर्मानष्टानमुपदिष्टम् । शास्त्रविधिमिति च शास्त्रोक्ता यज्ञाद्यनुष्टानोक्तामितिकर्तव्यतालवत्या यः शास्त्रविधिमुत्सृज्य'वर्तते कामकारतः। न स सिद्धिमवाप्नोतीति भगवदुक्तस्तस्य शिष्ट्यभावः । निषिद्धकर्म-सुरापानब्राह्मणहननादि- । असनेव स अनेजन्न कम्पमानम् । एज ईशावास्योपनिषत् । केचन देवा मनुष्या ब्राम्हणक्षत्रियादयो वात्महनः । भवत्यसब्रह्मेति वेद चेत् '। [तै० २।६।९।] इत्याम्नाता ब्रह्मज्ञानाविहीनाः काम्यनिषिद्धकर्मादिनिष्ठा इत्यर्थः । जना जनिमन्तः संसरन्त इत्यर्थः । ते प्रेत्य देहादुत्क्रम्य तानभितो गच्छन्ति । तान्पृथिव्यन्तरिक्षस्वर्गरौरवा. दिसंज्ञितान्निरयान्निरन्तरं गच्छन्तीति भावः ॥३॥ अनेनदेकं मनसो जवीयो नैनदेवा आप्नुवन्पूर्वमर्षत् । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥४॥ एवं विद्यायां शीघ्र प्रतिपत्तिसिद्ध्यर्थमविदुषामनर्थ उक्तः । अथ सर्वावासत्वेन प्रस्तुतस्येश्वरस्यानन्तविचित्रशक्तियोगं व्यञ्जयन्नुपदिशति- कम्पने । एकं प्रधानतमम् । प्रधान शास्त्र विदुषामिति रुद्रस्मृतेः । स्वाधिकसमानद्वितीयरहितमिति वा । 'न तत्सम श्चाभ्यधिकश्च दृश्यते ' [ श्वेः ६ । ८ । ] इतिश्रुतेः । परमसाम्यमापन्ना अपि मुक्ता ईशाधीना एवेति भावः । मनसो जबीयः-वेगवतो मनसो जवीयो वेगवत्तरम् । निष्कम्पं वेगवत्तरं चेति विरोधिः प्रतीयते । परिहा- रस्तु विभुत्वाद्वस्तुतो नैजति तत एव मनसो गोचरदेशे वर्तत इति मनसो जवीय इत्युपर्यत इति । किंच देवा ब्रम्हरुद्रादयः पूर्वमर्षत् । प्रागेव रुपम् । निरयः-नरकः । असुरस्वभावानुभाव्या इति । पूर्वोक्तासुरस्वभावैः पुरु. पैरुपभोग्या इत्यर्थः । आलोकप्रसंगरहिता इति । आलोको ज्ञान प्रकाशश्च तत्प्राप्ति- रहिताः। असन्नेवेति । ब्रह्म असद्रूपमेवास्तीति यो वेद सोसत्स्वरूपो भवतीति श्रुत्यर्थः । काम्यनिषिद्धकर्मादिनिष्ठा इति । काम्यं-इष्टापूर्तादि । निषिद्धं ब्राह्मण. हननादि । आदिपदेन शास्त्रोक्तसंध्यावन्दनादिकाले जलताडनादिरूपः स्वेच्छाचारो ग्राह्यः ॥३॥ प्रस्तुतस्येति। ईशावास्येत्यादिना प्रथममन्त्रेण भगवान् सर्वावास इत्युक्तम् । अनन्त- विचित्रेति । अनेजन्मनसो जवीय इति कथिताः परस्परविरुद्धशक्तयः । धजयन्- स्पष्टयन् । स्वाधिकसमानद्वितीयरहितमिति । स्वस्मादधिकः स्वेन समानश्च यो द्वितीयस्तद्रहितम् । न कोऽपि भगवत्तुल्यस्तदधिको वेत्यर्थः । परमसाम्येति । निर. जनः परमं साम्यमुपैतीति श्रुतेः । परमसाम्यमेव भवति न त्वभेद इति विशिष्टाद्वैतिमतम् । भेदे सत्यन्याधीनत्वं समञ्जसम् । प्रतीयत इति । एवं विरोधाभास इत्यर्थः। विरोधपरिहारस्तु ब्रह्मणो व्यापकत्वेन मनःप्राप्तेः प्रागेव तत्तस्थले सत्त्वान्ननसोपि वेगवत्तर. त्वम् । गोचरदेश इति । गाव इन्द्रियाणि चरन्ति यस्मिनि नेविग्रहः । मनसो गोचरदे।

प्रकाशिकासमेता
सर्वान्देवान्प्राप्नुवन्नित्यर्थः । एतत्प्रस्तुतं सर्वावासं ब्रह्म नाप्नुवन्नेतावन्तं
कालं न लेभिर इति भावः । पूर्वमेव प्राप्तं न प्राप्नुवन्निति च विरोधः ।
विभुतया प्राप्तमपि कर्मसंकुचितज्ञानाः क्षेत्रज्ञा माचार्योपदेशमन्तरेण स्व.
बुद्ध्या नामवन्तीति परिहारः । तथोक्तं छान्दोग्ये ' तद्यथापि हिरण्यनिर्षि
निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अह.
रहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्यनृतेन हि प्रत्यूढाः [ छा० ८ ।
३ । २ ] इति । ' अपि तद्धावतोऽन्यानत्वेति यः पृथिव्यां तिष्ठन् ।
[ बृ० ३ । ७ । ३ ] ' यात्मनि तिष्ठन् ' ।' यः सर्वभूतेषु तिष्ठन्
इत्यादिश्रुतेः । सर्वत्र तिष्ठदेव तद्ब्रह्म धावतोऽन्यान्देवादीनत्येति । तिष्ठतः
पुरुःस्य धावदतिक्रमणं न घटत इति विरोधः । जविनो यावद्यावद्धावन्ति
तावतस्तावत: परस्तादपि वर्तत इति तात्पर्यादविरोधः । तस्मिन्नपो मात.
रिश्वा दधाति । तस्मिन्सर्वावासेऽवस्थितो मातरिश्वा वायुः । अप इत्युप
लक्षणं पयोधरग्रह नक्षत्रतारकादिक बिभर्तीत्यर्थः । सर्वाधारभूतेन सर्वेश्वरेण
विधृतो वायुस्तत्सत्यैव विभर्तीत्यभिप्रायः । एष सेतुर्विधरण एषां
लोकानामसभेदाय [ वृ० ४ । ४ । २२ ] । द्यौः सचन्द्रार्कनक्षत्रा खं
दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ इ यादिषु
प्रसिद्धमेतत् ॥ ४ ॥
।
-मानसप्रत्यक्षज्ञायमाने देशे। कर्मसंकुचिताना इति। विरुद्धेन कर्मणा संकुचितं
ज्ञानं येषाम् । तद्यथापीति ।यथा हिरण्यनिधिं हिरण्यमेव पुनर्ग्रहणाय निधातृभिनिधीयते
इति निधिस्तं हिरण्यनिधि निहितं भूमेरधस्तानिक्षिप्तमक्षेत्रज्ञा निधिशास्त्रेनिधिक्षेत्रमजानन्त-
स्ते निधेरुपयुपरि संचरन्तोपि निधि न विन्देयुः शक्यवेदनमपि । एवमेवेमाः सर्वा इमाः
प्रजाः सुषुप्तिकाले यथोतं हृदयाकाशाख्यं वह्मले कमहरहर्गच्छन्त्योपि न लभन्ते । यतोनृतेन
हृताः । धावदतिक्रमणमिति । धावन्तं परुषमतिक्रम्य गमनम् । मातरिश्वति।
मातरि आकाशे वयति वर्दत इति विग्रहः । सेतुरिति। ' पिञ् बन्धने' इत्यस्य
रूपम् । विधरणः-धारकः । असंभेदाय-भेदाभावाय । सेतोरभावे जलानि यथा दूरदेशं
गच्छन्ति कुल्याद्वारेण सस्योपकाराय न भवन्ति तथा भगवद्रूपसेतोरभावे भूरादयो लोका
विनश्येयुर्न परस्परोपकाराय भवेयुरिति भावः । विधृतानीति । एतस्याक्षरस्य प्रशासने
गार्गि द्यावापृथिव्यौ विधृते तिष्ठत इति श्रुतेः ॥ ४ ॥

सर्वस्य तदु च ॥ ॥ ईशावास्योपनिषत् । तदेजति तत्रैजति तदुरे तदन्तिके । तदन्तरस्य सर्वस्यास्य वायतः ॥५॥ एवमुपदिष्टविचित्रशक्तित्वमादरेण मुखान्तरेण पुनरनुशास्ति-तदेज- तीति । भूयोभूयः प्रवचनं श्रवणं च कर्तव्यमिति पुनरनुशासनाभिप्रायः । तथा च श्रूयते-येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् [ मुं० १।२ । १३ ] इति । तत्त्वतः । अज्ञानसंशयविपर्ययनिरासो यथा भवति तथा प्रोवाच प्रकर्षेण ब्रूयात्पुनः पुनरुपदिशेदित्यर्थः । तदेजति तत्सर्वव्याप्तं ब्रझैजति कम्पत इव जवीय इवेति यावत् । तदु तदेव नैजति वस्तुतो न कम्पते । तद्रे च तदेवान्तिके च वर्तते । आसुरदैवप्रकृतिक- पुरुषभेदापेक्षया विभोरेव दूरान्तिकवर्तित्वव्यपदेशः । तथाह भगवा. शौनक:-पराङ्मुखा ये गोविन्दे विषयासक्तचेतसः ॥ तेषां तत्परमं ब्रह्म दूगद् दूरतरे स्थितम् । तन्मयत्वेन गोविन्दे ये नरा न्यस्तचेतसः ॥ विषय- त्यागिनस्तेषां विज्ञेयं च तदन्तिके ॥ इति । अपरमप्येकं वैचित्र्यमियाह तत्सर्वव्याप्तं परं ब्रह्मास्य सर्वस्य प्रमाणावगतस्य वस्तुनोऽप्यन्तर्भवति तदेव पुनस्तदानीमेव सर्वस्य बहिरपि भवतीत्यर्थः । तदितरेषां गृहान्त- वर्तिनां तदानीं बहिष्ठत्वं न संभवति बहिर्वसतां च नान्तर्वतित्वमिति ब्रम्हणि वैचित्र्यमिति भावः । यद्यप्यणुषु नान्तर्वतिता संभवति तथाप्यप्रति. घातादविभक्तदेशतया वर्तित्वमात्रेणान्तर्वतित्वोक्तिः। एवं बहियाप्तिरप्य- अज्ञानसंशयेति । स्थाणुर्वा पुरुषो वेत्युभयकोटिकं ज्ञानं शयः । विपर्ययः शुक्तिरजतवान्मथ्याज्ञानम् । पुनःपुनरुपदिशेदिति । श्रुतिः श्रोतृहितैषिणीति न्याया. छूतेरालस्यदोषाभावाच । क.म्पत इवेति । इवेत्यनेन वस्तुतः कम्पनं निषिध्यते । आसुरदैवेत्यादि। यद्यपि विभुत्वात्सर्वसमीप एव ब्रह्म तथापि आसुरप्रकृतीनां पुरु- षाणां तद्रस्थमिव भासते । दैवप्रकृतीनां तु समीपस्थमिव भासते । अतो द्रसमीपवर्ति. त्वेन कथनम् । शास्त्रोक्तविधित्यागपूर्वक निषिद्धसेवित्वमासुरप्रकृतित्वमिति प्रागेवोक्तम् । तद्विरुद्धत्वं दैवप्रकृतिकत्वं शौनकवाक्ये प्रथमश्लोकपूर्वार्द्ध आसुरप्रकृतीनां लक्षणम् । द्वितीये श्लोके देवप्रकृतीनां लक्षणम् । विशिष्टाद्वैतिमते नैयायिकादताः प्रायः पदार्था अङ्गीकियन्त । नैयायिकमते च परमाणवो नित्यास्तद्भेदो न संभवति ततश्च नित्यपरमाणो रन्तर्गतत्वं ब्रह्मणः कथमिति शंकते-यद्यपीति । द्यपि परमाणूना भेदाभावात्तन्मध्य- गमनेनान्तर्वतित्वं ब्रह्मणो न संभवति घटाकाश इव तथापि परमाणुभेदमकृत्वा ब्रह्म पर । २

१०
प्रकाशिकासमता
विभुद्रव्यापेक्षयैव । न तु विभुद्रव्यापेक्षयापीति द्रष्टव्यम् । तदिदं वैचित्र्यं-
तैत्तिरीयेऽप्युक्तम्-अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित इति ॥५॥
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥
एवं सर्वस्य ब्रह्मात्मकत्वमुक्तम् । अथ सर्व जगद्ब्रह्मात्मकमित्यनु-
संदधानस्यैहिक प्रयोजनमाह-यस्त्विति । यः परमात्मज्ञानाधिकृतः सर्वाणि
भूतानि ब्रह्मादिस्तम्बपर्यन्तान्यात्मन्येव परमात्मन्येवानुस्यूतानि पश्यति
ध्यायतीत्यर्थः । पृथिव्यादिध्रियमाणमपि तन्मुखेन परमात्मन्येव स्थितमि-
त्येवकारामिप्रायः । तुशब्देनास्याधिकारिणो माहात्म्यविशेषो द्योत्यते । किंच
सर्वभूतेषु चात्मानं परमात्मानं यः पश्यतीति । इदं व्याप्तिमात्रपरम् ।
परमपुरुषस्यानन्याधारत्वादिति भावः । यच्छब्दस्य स इति प्रतिनिर्देशो-
ध्याहार्यः । स उक्त विधज्ञानी । ततस्तेषु सप्तम्यर्थे तसिः । ब्रमात्मकतया
दृष्टेषु सर्वेषु भूतेप्वित्यर्थः । न विजुगुप्सते कुतश्चिदपि न बीभत्सते ।
स्वात्मविभूतिन्यायेन कचिदपि निन्दा न करोतीति भावः ॥ ६ ॥
माणुसमानप्रदेशे तिष्ठति । अत उभयोः परमाणुब्रह्मणोः समानदेशवर्तित्वाद्ब्रह्मा: परमा.
ण्वन्तर्गतत्वम् । अविभुद्रव्यापेक्षयवेति । आकाशकालादिव्यापकद्रव्यभिन्नपृथिव्यादि-
द्रव्यापेक्षया। आकाशकालदिगात्मानो विभुद्रव्याणि ॥ ५ ॥
अनुस्यूतानीति । ‘षिवु तन्तुसन्ताने' इति धातो रूपम् । यथा मणयः सूत्र-
स्यूतास्तथा भुतानि परमात्मस्यूतानि । तन्मुखेन-तद्वारा । अस्याधिकारिण इति । सर्व
भूतात्मदर्शिनो विदुष इत्यर्थः । व्याप्तिमात्रपरामिति । सर्वभूतेष्विति सप्तम्याधार-
योतिका । वैषयिक औपश्लेषिकोभिव्यापकश्चेत्याधारस्त्रिधा । तत्र तृतीयोभिव्यापकरूपो.
त्राधारो ग्राह्यः । यथा सर्वस्मिन्नात्मास्तीत्युदाहरणेभिव्यापकरूपाधारस्तेन च सर्वत्रात्मा
व्याप्त इत्यर्थः । तथात्रापि सर्वभूतव्याप्त आत्मेत्यर्थः । न तु कटे पुस्तकमितिवत् सर्व
भूताधिकरण आत्मा । तस्यान्याधिकरणकत्वाभावात् । स्वे महिनि ( छां. ॥२४।१ ) इति
श्रुत्यात्मन आत्मैवाधिकरणम् । अध्याहार्य इति । यत्तदोनित्यसंबन्धात् । ननु पञ्च-
म्यास्तसिरित्यनेन पञ्चम्यर्थे तसेविधानात्तत इत्यस्य तेष्विति सप्तम्यन्तः पर्यायशन्दः
कथमत आह-सप्तम्यर्थ इति । तसेः सार्वविभक्तिकत्वात्तथार्थपि नासमजसम् ।
विजुगुप्सत इति । गुपेनिन्दायामित्यनेन निन्दार्थे सन् । स्वात्मविभूतिन्याये.
नेति । ज्ञानिनः सर्वभुतमयचे कस्याप्यन्यस्य निन्दायां स्वस्यैव निन्दा स्यादिति
भावः ॥ ६ ॥

व ईशावास्योपनिषत् । ११ यस्मिन्सर्वाणि भूतान्यात्मैवाभूदिनानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥ एवं वैयधिकरण्येनोक्तं सर्वस्य ब्रह्मात्मकत्वं सामानाधिकरण्येनापि द्रढयंस्तदनुध्यानस्य सद्यः शोकनिवर्तकत्वमाह ---यस्मिन्निति । यस्मिन्प्र. णिधानसमये विजानत ईशा वास्यमित्यारभ्य ततो न विजुगुप्सत इत्यन्ते- नोपदिष्टं स्वतन्त्रं परतन्त्रं वस्तुभेदं यथोपदेशं विविच्य जानत इत्यर्थः । नन्वेवमत्यन्तभेदाभ्युपगमे सर्वाणि भूतान्यात्मैवाभूदिति सामानाधिकरण्यं भज्येतेत्याशङ्कावारणाय-यस्य पृथिवी शरीरम् । [ वृ० ३ । ७ । ३ ] यस्यापः शरीरम् [ ६० ३ । ७ । ४ ] इत्यादिघटकश्रुतिसिद्धसंबन्धवि- शेषमाह-एकत्वमनुपश्यत इति । आकृतिव्यक्त्यारिव गुणगुणिनोरिव चात्यन्तभिन्नयोरेव जगद्ब्रह्मणोरेकत्वं जगद्ब्रह्मणोरेकत्वं विभागानहसंबन्धविशेष पश्यतो विशदमनुध्यायत इत्यर्थः । रामसुग्रीवयोरैक्यं देव्यर्थं समजायत । इत्यादा- विवेहाप्येकशब्दस्य संबन्धविशेष एवार्थो विवक्षितुं युक्त इति भावः । एवमिति । पूर्वस्मिन् पष्ठमन्त्रे सर्वभूतान्यात्मन्येवानुपश्यतीति आधाराधेयभावेन भूतात्मनां भेदं प्रदर्य वैयधिकरण्यमुक्तम् । अस्मिन्मन्त्रे भूतान्यात्मवेति समानविभक्ति- कत्व त्सामानाधिकरण्यमुच्यते । प्रणिधानसमय इति। समाधावित्यर्थः । इत्यन्ते. नेति । षभिमन्त्रैः। स्वतन्त्रमिति । भगवान् स्वतन्त्रः । तदितरवस्तुसमुदायो भगवद- धीनत्वात्परतन्त्रः। विशिष्टाद्वैतिमते जगह्मणोरत्यन्ताभेदो न संगच्छते यतस्तन्मते हि चिद- चिदीश्वरेति पदार्थत्रयम् । ईश्वरस्य शरीरमचिच्चिदपरपर्यायं जीवपृथिव्यादिकम् । तत्र च प्रमाणं यस्य पृथिवी शरीरमित्यादिकं वृहदारण्यकवचनम् । तेन शरीरशरीरिणोर्विभागा- नईत्वरूपं सर्वाणि भूतान्यात्मैवाभूदिति सामानाधिकरण्यं ग्राह्यं न तु मुख्यं सामानाधिकरण्यं ग्राह्यमिति शंकासमाधानाभ्यां प्रतिपादयति-नन्वित्यादिना। आहेति । यस्य पृथिवी शरीरमित्यादिवाक्ये वोधितो यः संवन्धविशेषो जगह्मणोः शरीरशरीरित्वरूपः। तद्द्वारैक्यं जगद्रमणोर्न त्वत्यन्साभेद इति एकत्वमनुपश्यत इत्यनेन मन्त्र आह । आकृतिव्य- क्योरिवेति। यथा घटघटत्वयोर्जातिव्यक्त्योनीलघटयोश्च गुणगुणिनोरत्यन्तभि- प्रयोरप्यैक्यं वक्तुं शक्यं तद्वत् जगह्मणोः शरीरशरीरिणोरप्य वक्तुं सुक म् । विभागानहसंबन्धविशेषमिति । जातिव्यक्त्योर्गुणगुणिनोश्च विभागो यथा भवितुं नाईति अयुतसिद्धत्वेन समवायसंबन्धघटितस्वात्तथा शरीरशरीरिभूतयोर्जगह्मणोर्विभागो भवितुं नाईतीत्यर्थः । अन्यत्राप्यैक्यशब्दः संबन्धविशेषवाचकत्वेन प्रसिद्ध इत्याह- रामसुग्रीवयोरिति । यथा देव्यर्थ जानक्यर्थ रामसुप्रीवयोरक्यमभूदस्मिन् वाक्ये - प्रकाशिकासमेता एवं च सर्वाणि भूतान्यात्मैवाभूदिति सर्वभूतशरीरकः प्रतीतोऽभूदित्यर्थः । तत्रादौ प्रणिधामसमये को मोहः । स्वतन्त्रतादिभ्रमादिलक्षणो मोहो न संभवति । कः शोकः परमात्मविभूतितयावगते सर्वस्मिन्निर्ममत्वसिद्धौ पुत्रादिमरणराज्यादिहरणादावपि न कश्चिच्छोकः स्यादित्यर्थः । यथाह- यस्य मे चास्ति सर्वत्र यस्य म नास्ति किंचन । मिथिलायां प्रदीप्तायां न मे किंचन दह्यते ॥ इति । अत्र केचित्सर्वाणि भूतान्यात्मैवाभूदिति बाधा- यां सामानाधिकरण्यम् । तथा च सर्वाणि भूतान्यात्मव्यतिरिक्तानि न सन्तीत्यर्थः । यथा चोरः स्थाणुरिति । स्थाणुरेवायं न चोर इत्यर्थः तथेहापीत्याहुः । अन्ये तु नरपतिरेव सर्वे लोका इतिवदौपचारिकमिदं सामानाधिकरण्यम् । नरपत्यधीनाः सर्वे जना इति हि तन्निर्वाह स्तद्वदिहापि परमात्माघीनानि सर्वाणि भूतानीति भाव इति वर्णयन्ति । अपरे तु घट- शराबादयः स मृत्पिण्डा एवेतिवज्जगह्मणोरेक द्रव्यत्वं परिकल्प्यैवेदं ऐक्यमिति पदेन जानकीप्राप्तिरूपैककार्यकर्तृत्वमिति संवन्धविशेपो द्योत्यते न तु राम. सुग्रीवशरीरादिसर्वाभदः । तथा भूतान्यात्मैवाभूदित्यत्र शरीरशरीरित्वविभागायोग्यता. रूपो विशिष्टसंबंधो द्योत्यत इत्यभिप्रायः । स्वतन्त्रतादीति । अहं स्वतन्त्रो न भग. वत्परतन्त्र इति भगवानपि परतन्त्र इति च जीवभ्रमः । भ्रमादीत्यादिपदेन संशयवि- पर्ययमिथ्याज्ञानानां ग्रहणम् । पुत्रादिमरणेत्यादि । पुत्रराज्यादिकं सर्व भगवद्विभूति. रूपं न मदीयं तत्रास्ति किंचिदिति बुद्धौ दृढायां पुत्रमरणादिजन्यं दुःखं न संभवति । अत्रार्थ जनकान भवं संवादयति । यथेति । यस्य मे चास्ति सर्वत्रेति जनको याज्ञवल्क्यं प्रति स्वानुभवं निवेदयति । मतान्तराणि प्रदर्य खण्डयति-अत्र केचिदिति । केचिद' द्वैतमतानुयायिनः । ते हि-अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते-इति मत्वा शुक्त। रजतमिवाध्यारोपितं सर्वं जगह्मणि तत्-सर्वाणि भूतान्यात्मैवेति ज्ञानेन वाध्यते । एवं च यथा रजतं शुक्तिरेवेति तथा भूतान्यात्मैवेति बाधार्थ सामानाधिकरण्यं इति वदान्त बाधायामिति निमित्तार्थे सप्तमी । वाधनिमित्तं सामानाधिकरण्यामित्यर्थः । न चोर इत्यर्थ इति । चोरः स्थाणुरिति सामानाधिकरण्यघटित वाक्ये चोरं बाधित्वा स्थाणुरू- पार्थो यथा स्थिरीक्रियते तद्वद् भूतान्य त्मैवेति वाक्ये भूतानि बाधित्वा केवलं ब्रह्मरूपोर्थः स्थिरीक्रियत इति भावः। अन्य इति । भेदवादिन इत्यर्थः । तन्नतं हि जीवादिक सर्व भगवदधीनं, अभेदचौपचारिक इति । औपचारिक-लाक्षणिकम् । तन्निर्वाह इति। नरपत्यधीनाः सर्वे लोका इति हि नरपतिरेव सर्वे लोका इति सामानाधिकरण्यस्यार्थः। अपर इति । शुद्धाद्वैतवादिन इत्यर्थः । ते हि भगवान् सर्व जगजातं लीलार्थ स्वयमेव स्वस्मादुत्पादयति अमिविस्फुलिंगन्यायेन तदुत्पत्तिः श्रुती बोधितेति च वदन्ति । भास्कर.

स ईशावास्योपनिषत् । १३ सामानाधिकरण्यं निर्वामित्याचक्षते । सिद्धान्तस्तु देवोऽहं मनुष्योऽहमि. त्यादिवच्छरीरात्मभावसंवन्धेनैव जगद्ब्रह्मणोः सामानाधिकरण्यनिर्वाहे संभ- वति सति बाधोपचारस्वरूपैक्यपक्षा वैदिकैबहिप्कार्याः ॥ ७ ॥ स पर्यगाच्छुक्रमकायमव्रणमस्नाविर * शुद्धमपापविद्धम् । कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोन्व्यिदधा- च्छाश्वतीभ्यः समाभ्यः ॥ ८॥ पुनरप्येनमीशेशितव्यवेदिनं वेदितव्येश्वरस्वहेयशोधनेन विशिष्ट- ज्ञानयोगादिकमप्युपदिशति--स पर्यगादिति । यः सर्वभूतान्तरात्मब्रह्म- दर्शी स पर्यगात्पाप्नुयादित्यर्थः । 'ब्रह्मविदाप्नोति परम्' [ तै० २।१।१] इति न्यायात् । यद्वा समाधिरब्धेनानुभवेन प्राप्नुयादिति सिद्धानुवादः । अत्र ब्रह्म समश्नुते ' । [ ६० ४ । ४ । ७ ] इतिवत् । शुक्रमवदातं स्वप्रकाशमित्यर्थः । अकायम् । सर्वशरीर कमपि कर्मकृतहेयशरीररहित- मित्यर्थः । न तस्य प्राकृता मूर्तिमासमेदोस्थिसंभवा । इति हेयशरीरस्यै- वान्यत्र प्रतिषेधदर्शनात् । न तु दिव्यमङ्गलविग्रहरहितमित्यर्थः । ' यते रूपं कल्याणतमं तत्ते पश्यामि ।' [ई० वा० १६] ‘य एषोऽन्तरा मतमप्येतद्भवितुमर्हति । सिद्धान्तस्त्विति । 'विशिष्टाद्वतिमतामित्यर्थः। दवाई मनुष्योहमिति वाक्ये शरीरसंबन्धेन देवत्वादिकमात्मनोभिलप्यते । शरीररहितात्मनस्तु देवत्वादिभावो दुर्घटः । व्यापित्वात्तस्य । एवमेव भूतान्यात्मैवेति सामानाधिकरण शरीरशरीरिभावेनाभिलप्यम् । बाधेत्यादि । वाध क्षोऽतिनाम् । उपचारपक्षो भेदवादि नाम् । स्वरूपैक्यपक्षःशुद्धाद्वतिनाम् । भास्करस्य च । बहिष्कार्या इति । वेदया- थार्थ्यविद्भिनीङ्गीकार्या इत्यर्थः ॥ ७ ॥ ईशेशितव्यवेदिनमिति। ईशो भगवान् । ईशितव्यं जगत् । तयोः शरीर- शरीरित्वेन यज्ज्ञानं तद्युक्तमित्यर्थः । वेदितव्येश्वरस्वहेयशोधनेनेति। वेदितव्ये. श्वरस्य यत्स्वं शुक्रमित्यादिरूपं हेयं वणनावादिविशिष्टत्वरूपं च तत्पृथक्कृत्येत्यर्थः । सर्व भूतान्तरात्मेति । सर्वभूतेषु चात्मानमित्युक्तेः । पर्यगादिति भूतकालबोधकरूपस्य प्राप्नुयादित्यर्थः कथमित्यत आह-इति न्यायादिति । 'व्यत्ययो बहुलम् ' (पा. सू. ३ । १ । ८५) इति पाणिनिसूत्रेण कालव्यत्ययस्यानुज्ञानात् ब्रह्मविदानाति परमिति वाक्ये अमोतीत्यस्य यथाप्नुयादित्यर्थस्तथात्रापीति भावः । सिद्धानुवाद इति । सिद्धस्यैव पुनः कथनमित्यर्थः । समश्नुत इत्यस्य समश्नुवीतेत्यर्थः । अस्मिन्मते ब्रह्मण- विचिदात्मकं शरीरमहीक्रियत एव । ततः कथमकायमित्यतो व्याख्यान- सर्वशरीर- - १४ प्रकाशिकासमेता भावः मथवा दित्ये हिरण्मयः पुरुषो दृश्यते ॥ ' [मै० ६ । १ ] आदित्यवर्ण तमसः परस्तात् [श्वे० ३ । ८ ] इत्याद्युपनिषत्प्रसिद्धस्याप्राकृतविग्रहस्य निषे. घायोगादिति भावः । अव्रणम् । कर्मजन्यशरीराभावादेवाक्षतम् । अस्नाविरं च स्नावाः शिरा यस्मिन्विद्यन्ते तत्स्नाविरम् । स्नाविरं न भवतीत्यस्नाविरम् । शुद्धम् । अनाघाताज्ञानादिदोषगन्धम् । अश नायादिषडूमिरहितं च । अपापविद्धम् । अज्ञानादेः कार्यकारणभूतैः पुण्यपापरूपकर्मभिरलीदमित्यर्थः । न शोको न सुकृतं न दुष्कृतम् [ छां० ८ । ४ । १] इत्यारभ्य 'सर्वे पाप्मानोऽतो निवर्तन्ते' इति पापशब्देनोपसंहारदर्शनात् । स्वर्गादिहेतुभूतविशेषस्यापीह पापशब्देन संग्रहणमिति एवमहे यहेयपत्यनीकं परमात्मानं स विद्वान्पर्यगादिति पूर्वेण संबन्धः । एवंरूप: परमात्मा प्राप्य: प्रापक उपास्यश्च यस्य तं ब्रह्मविदं विशिनष्टि कविः । व्यासादिवद्ब्रह्मस्वरूप रूपदिव्यगुणादिप्रकाशकप्रबन्धविशेषाणां निर्मातेत्यर्थः । क्रान्तदर्शी । कर्मयोगस्तु-कुर्वन्नेवेह कर्माणीति मन्त्रेण पुरस्तादेवोक्तः । ज्ञानयोगसाध्यपत्यगात्म साक्षात्कारहेतुभूतं जीवात्मयोगमाह- मनीषी मनस ईशित्री बुद्धिर्मनीषा, तद्वान्मनीषी भगवत्स्वरूपगुणस्मृत्य- भ्यासेन तदितरविषयवैराग्येण च प्रतिष्ठितप्रज्ञ इत्यर्थः । परिभू: काम- क्रोधादीन्परिभवतीति परिभः अनेन विरोधिनिवृत्तिरूपयोगाङ्गसेवन. मुक्तम् । योगाभ्यासफळमाह-- स्वयंभूः । अन्यनिरपेक्षसत्ताकः सुखरूप- कमपीति । यद्यपि ।चदचिदात्मकं सर्व ब्रह्मणः शरीरं तथापि देवदत्तादिजीववत्तस्य सुकृतदुष्कृतकर्मभोगानुकूलं हेयं शरीरं नास्तीत्यर्थः । निषेधायोगादिति । शाव्दप्रमा. णवादिभिदे प्रतिपादितभगवद्दिव्यमङ्गलशरीरं निषेध्दुं न शक्यत इति भावः । अशनायादीति । अशनाया-भोजनेच्छा । पडूमयश्च-श्रुत्पिपासे जरामृत्यू शोकमाहौ षमय इति व्यासोक्तः । कार्यकारणभूतैरिति। अल्पाच्तरत्वात्कार्यशब्दस्य पूर्व निपातः । पूर्वजन्मगतं सुकृतदुष्कृतमग्रिमजन्मगताज्ञानादीनां कारणं ततस्तजन्मगताज्ञाना- दीनां तदग्रिमजन्मगतदोषाः कार्यमित्यर्थः । अलीढं अव्याप्तम् । उपसंहारदर्शनादिति उपक्रमोसंहारयोरक्यस्यापेक्षितत्वात्पापशब्देनैवोपसंहारे सुकृतस्य ग्रहणं कर्तव्यमित्यर्थः । अहेयहेयेति। अहेयमनुप्रेक्षणीयं सुकृतमित्यर्थः । हेयममुपेक्षणाय दुष्कृतमित्यर्थः । ब्रह्मस्वरूपेत्यादि। ब्रह्मस्वरूपं सर्वव्यापकसर्वान्तर्यामितत्वम। रू-दिव्यमझल- अथ ईशावास्योपनियत् । १५ तया खात्मदर्शीति यावत् । याथातथ्यतः । यथावद्विविच्य । अर्थात्प्र ष्टव्यार्थान् । तस्य वाचकः प्रणवः (यो. सू. १।२७ ) तज्जपस्तदर्थ- भावनम् ( यो. सू. १।२८ ) इतिसूत्रोक्तान्व्यदधाबृदयेन धृतवानित्यर्थः । सर्वान्तरायप्रशमनार्थमिति भावः । यद्वा शुक्रमित्यादि द्वितीयान्तपदजातं परिशुद्धजीवपरम् । तमपि स परमात्मा पर्यगात्परितो व्याप्य स्थित इति प्रथमान्तपदजातं परमात्मपरं योजनीयम् । तथाहि कविः सर्वदर्शी श्रीपञ्च- रात्रादिप्रणेतेति वा । मनीषी मनःप्रभृतीनां जीवकरणानां नियन्ता । परितो भवतीति परिभः सर्वव्यापी । स्वयमेव संभवतीति स्वगंभूः । व- हुधा विजायत इतिश्रुत्युक्तपसिद्धावतारशाली । अत्र कविरित्यादिना कल्याणगुणविधानात् । छान्दोग्ये -'एष आत्तापहत गप्मा विरजो विमृत्युर्विशोको विजिघरसोपिपासः। [ छा० ८।१।५] इति हेयगुणान्प्र- तिषिध्य सत्यकामः सत्यसंकल्प इति कल्याणगुणविधानाच्च निर्गुणं निरञ्जनमित्यादिसामान्यनिषेधस्य हेयगुणविषयत्वं सुगमम् । याथातथ्यत इति । अर्थान्कार्यपदार्थाज्शाश्वतीभ्यः समाभ्यो यावद्विलयमवस्थातुं याथातथ्यतो यथावद्विविच्योत्पादितवान्न पुनरैन्द्रजालिकत्वेन बलं प्रका- शितवानिति भाव. ॥ ८॥ विप्रहः । दिव्यगुणाः-अनन्तकल्याणगुणाः । प्रवन्धविशेषाः-प्रन्थविशेषाः । तस्य वाचकः प्रणवः । तज्जपस्तदर्थभावनम् । इति सूत्रे। ईश्वरस्य वाचकः प्रणवः । ईश्वरः प्रणवस्य वाच्यः । इति प्रथमसूत्रार्थः । विज्ञातवाच्यवाचकभावेन योगिना प्रणवस्य जपः कार्यस्तथा प्रणवाभिधेयस्येश्वरस्य भावनं च कर्तव्यमिति द्वितीयसूत्रार्थः । तस्यास्य योगि. नः प्रणवं जपतः प्रणवार्थ भावयतश्चित्तमेकानं संपद्यते । तथा चोक्तं वैयासिक्यो गाथायाम् । खाध्यायाद्योगमासीत योगात्स्वाध्यायमासते । स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशत इति । अन्तरायाः - विघ्नाः । एतावता प्रबन्धेन शुक्रमित्यादिपदानिः नपुंसक- लिङ्गयुतत्वेन प्रथमान्ततया च ब्रह्मवाचकत्वेन व्याख्यातानि । परं तेषां स इत्यनेन पुंलिङ्गघटितपदेनान्वयो न घटत इत्यरुचेराह-यद्वेति । परिशुद्धजीवः-मुक्तावस्थागतो जीवः । पञ्चरात्रेति । नारदपाश्चरानादयो हि प्रसिद्धा आगमग्रन्थाः । करणानि- इन्द्रियाणि । विजिघित्स इति । तुमिच्छा जिघित्ता पातुमिच्छा पिपासा तदुभय- रहितः । सुगममिति । निर्गुणत्वमित्यनेन यो गुणनिषेधः कर्तव्यः स पाप्मरजआदीना हेयगुणानामेव न कल्याणगुणानां सत्यकामत्वादीनाम् । ध्रुतिविहितगुणविधानवैयऱ्यांपत्ते।

१६ प्रकाशिकासमेता अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ।। ९ ॥ एवं विचित्रशक्तिकपरमात्मविषयां कर्मयोमाद्यङ्गिका विद्यामुपदिश्यान. न्तरं त्रिभिमन्त्रः केवलकर्मावलम्बिनः केवलावेद्यावलम्बिनश्च पुरुषान्विनि- न्दन्वर्णाश्रमधर्मानुगृहीतया विद्ययैव निःश्रेयसावाप्तिमाह अन्धमिति । बृह- दारण्यके चायं मन्त्रः पठितः। ये भोगैश्वर्यप्रसक्ता अविद्यां विद्यान्यां क्रियां केवलं कर्मेत्यर्थः । विद्याविधुरं कसेंति यावत् । अविद्या कर्मसंज्ञान्यति स्मृतेः। उपासते अनुतिष्ठन्ति । अन्धं तमोऽतिगाढं तमोऽज्ञानमित्यर्थः । त्रिवर्गाभिसङ्गान्नान्तरीयं नरकमन्धं तमो वा । "प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्यो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति " ( मुं. १ । २ । ७ ) इति श्रुतेः । य उ विद्यायां रताः । उकार उतरपदेनान्वेतव्यः । स्वाधिकारोचितकर्मपरित्यागेन विद्यायामेव रताः । ते ततः कर्ममात्रनिष्ठाः प्राप्यादन्धतमसाद् भूय इव तमस्तदधिक- मज्ञानं प्रविशन्ति । इवशव्दस्तमस इयत्ताया दुहत्वं द्योतयति ॥९॥ निषेधस्य तु न वैयर्थं हेयगुणपरत्वेनोपपत्तेः । एन्द्रजालिकत्वेनेति । मायावादि- मतखण्डनमेतत् । ते हि माययोपाधिद्वारा भगवति गुणानां सत्त्वं त्रुवते । इन्द्रजालं-माया। तेन चरति स ऐन्द्रजालिकः । यथा मायावी वस्तुतोऽसन ।मप्यर्थजातं द्रष्दृष्टिभ्रमोपादानक- मुत्पादयति तद्वदुपाधिद्वारा भगवत्यविद्यमाना अपि गुणा भासन्त इति मायावाद्यभिप्रायः॥८॥ वर्णाश्रमधर्मानुगृहीतयेति । वर्णाश्रमधर्मानुष्टानसहितयेत्यर्थः । पठित इति । वृहदारण्यकं ब्राह्मणान्तर्गतत्वेनास्याः संहितोपनिषदो व्याख्यानम् । तत्र च प्रतीकरूपेण मन्त्रस्यास्य पाठः । विद्याविधुरं-विद्यारहितम् । त्रिवर्गाभिसंगादिति। धर्मार्थकामेष मोक्षरहितेख़ासक्तः । ब्रह्मलोकपर्यन्तसाधकान्यपि कर्माणि क्षयिफलतया प्लवा ह्येत इति श्रुत्या निन्द्यन्ते । श्रुत्यर्थश्च-पोडश ऋत्विजः । पत्नी यजमानश्चेत्यष्टादश कर्तृनाश्रित्य विहितमवरं फलाभिसन्धिमत्तया अश्रेष्टं कर्म येषु यजमानेषु वर्तते ते यज्ञ. प्रधानाः पुरुषा जीर्णनौका इव संसारार्णवसंतरणासमा इत्यर्थः । यद्वा, अष्टादश- स्मृत्युक्तं स्मात कर्म येषु श्रीतकर्मसु तदधिकारसंपादकत्वेनावरमंगभूतं भवात तान्यपि श्रौतानि यज्ञात्मकानि कर्माणि शोकाम्बुतरणे साधनानि न भवन्तीत्यर्थः । एतत्कर्म श्रेयःसाधनं मत्त्वा ये हृप्यन्ति ते जरामृत्युं च भूयोभूयो गच्छन्ति ॥ उत्तरपदेनेति। विद्यायामित्युत्तरपदेन उइत्यस्यान्वयः कर्तव्यः । उपदमेवार्थे । तदाह विद्यायामेवेति। स्वाधिकारोचितवर्णाश्रमादिकम परित्यज्य केवलं विद्यायामेव रता इत्यर्थः । दुर्घ. हत्वमिति । इयत्ता-मर्यादा । इयत्तम इति वस्तुं न शक्यत इत्यर्थः ॥ ९ ॥ - ॥

१७ ईशावास्योपनिषत्। अन्यदेवाहुर्विद्ययान्यवाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्विचचाक्षिरे ॥ १० ॥ किं तर्हि मोक्षसाधनमित्यत्राह-अन्यदेवेति । विद्ययेति पञ्चम्यर्थे तृतीया । यथाश्रुतेऽन्यशब्दानन्वयादन्यदेवाहुः संभवादिति वक्ष्यमाणानु- रोधाच्च । तथा च विद्यायाः कर्मरहितविद्यातोन्यन्माक्षसाधनमिस्याहुः । उपनिषद इति शेषः । अविद्यया । अविद्यायाः। ब्रह्मविद्याविधुरकर्मणोन्यदेव मोक्षसाधनमित्याहुः । पूर्वपूर्वसंप्रदायसिद्धोऽयमर्थोऽस्माकमित्याह-इति शुश्रुमेति । ये पूर्वाचार्यास्ते प्रणिपातादिभिः सम्यगुपसन्नानामस्माकै तन्मोक्षसाधनं विचचक्षिरे विविच्योपदिदिशुः । तेषां धीराणां धीमतां पर- मात्मध्यानपराणां वचनमित्यध्याहार्यम् । यद्वा धीराणामिति पञ्चम्यर्थे षष्ठी । तेभ्यो धीरेभ्य इति योज्यम् । नटस्य शृणोतीतिवत् । इति शुश्रुम एवंप्रकारमश्रौषम् । ननु परोक्ष एवार्थे लिड्डिधानाच्छुश्रुमेत्युत्तमपुरुषो न घटत इति चेत्सत्यम् । ब्रह्मविद्याया दुरवगाहत्वेन निःशेषग्रहणमस्माभिने पञ्चम्पर्थे तृतीयति। मन्त्रगततृतीयां विपरिणमय्य पञ्चमी कर्तव्येत्यर्थः । तत्रापालकमाह-यथाश्रुत इति । अयं भावः । अन्यारादितरतें दिक्शब्दाञ्चूत्तर. पदाजाहियुक्ते (पा. सू. २।३।२९ ) इति पाणिन्यनुशासनादन्यत्पदसमीपे पञ्चम्या आवश्यकत्वं तेन तदनुरोधेन तृतीयास्थाने पञ्चमी कार्या । किंच प्रकरणानुरोधादप्यत्र पञ्चमी आवश्यकी यतोन्यदाहुरसंभवादिति समानार्थके त्रयोदशे मन्त्रे असंभवादिति पञ्चम्या एव कथनात् । शेष इति साहुरित्यस्य कर्तृपदमुपानेषद इत्यध्याहर्तव्यमित्यर्थः । पञ्चम्यर्थे षष्ठीति । नियम- पूर्व कविद्यास्वीकारे वक्तापादानसंज्ञको भवतीत्यर्थकेन-आख्यातोपयोगे (पा. सू. १।४।१९ ) इति पाणिनिसूत्रेणापादानसंज्ञायां अपादाने पञ्चमी (पा. स. २।३।२९) इत्यनेन धीरपदं पञ्चम्यन्तमपेक्ष्यत इत्यर्थः । पञ्चम्यर्थे षष्ठीत्यत्र दृष्टान्तमाह- नटस्यति । नटादुपयुक्तं नटसूत्रादिकं ऋगोतीत्यर्थो बोध्यः । उपयोगाभावे तु यथा. श्रुतं षष्टयन्तं साध्वेव । न घटत इति । या क्रिया परोक्षे जायमाना तत्र वाच्याय परोक्षे लिट् (पा. सू. ३।२।११५) इत्यनेन लिड्विधीयते । उत्तमपुरुषेतु चित्तविक्षे. पादिना पारोक्ष्यमिति व्याख्यानात् बहु जगद पुरस्तात्तस्य मत्ता किलाहमिति. वदत्रेति शुश्रुमेतिवाक्ये चित्तविक्षेपजन्य बोषितं ततश्चास्य वाक्यस्याप्रामाण्यापातः इति शङ्का तामङ्गीकृत्योत्तरयति-सत्यमिति। ब्रह्मविद्याया दुरवगाहत्वादुनिस्वादस्मा - ३ १८ प्रकाशिकासमेता कृतमित्यभिप्रायकत्वादुत्तमपुरुषप्रयोगस्येत्याहुः ॥ १० ॥ विद्यां चाविद्यां च यस्तद्वेदोभय ५ सह । अविद्यया मृत्युं ती विद्ययामृतमश्नुते ॥ ११ ॥ अन्यदिति सामान्येनोक्तं मोक्षसाधनं विवृणोति --विद्यामिति । कुर्वन्नेवेह कर्माणीति मन्त्रे कर्मयोगस्य प्रत्यगात्मदर्शनद्वारा परभक्युत्पाद- कत्वमुक्तम् । इह भक्तियोगेन विदुषा पूर्वोक्तकर्मयोग परित्यज्याहरहर- नुष्ठीयमानानां नित्यनैमित्तिककर्मणां कल्मषनिबर्हणद्वारा भक्युपचायकत्व- मुच्यते । सहशब्दस्वारस्यात् । अतो न पुनरुक्तता । यो यथावस्थितवि- द्योपदेशवान् । विद्यां ब्रह्मोपासनरूपां तदङ्गभूतकर्मरूपामविद्यां चैतदुभयं सह वेद । अङ्गाङ्गिभावेन सहानुष्ठेयं वेदेत्यर्थः । अविद्यया विद्याङ्गतया चोदितेम कर्मणा मृत्यु विद्योत्पत्तिप्रतिबन्धकीभूतं पुण्यपापरूपं प्राक्तनकर्म तीा निर्विशेषमुल्लध्य । विद्यया परमात्मोपासनरूपया। अमृतमश्नुते मोक्षं प्राप्नोतीत्यर्थः । तीत्वत्यत्रोपायविरोधितरणमुच्यते । अमृतमश्नुत इत्युपेयब्रह्मप्राप्तिविरोधिभूतेभ्यः सर्वपापेभ्यो मोक्ष इति भेदः । एवं च सति- इयाज सोऽपि सुबहून्यज्ञाज्ञानव्यपाश्रयः। ब्रह्मविद्यामधिष्ठाय ततुं मृत्युमविद्यया ॥ ( वि. पु. ६।६।१२ ) इति । ज्ञानव्यपाश्रयः शास्त्र- श्रवणजन्यब्रह्मज्ञानवान्स जनकोऽपि ब्रह्मविद्यां निदिध्यासनरूपामधिष्ठाय फट त्वेनाश्रित्येत्यर्थः । भक्तियोगोत्पत्तिं कामयमान इति यावत् । मृत्यु भक्युत्पत्तिविरोधि प्राचीनं कर्मजातम् । अविद्यया विद्यानकर्मणा तत् भिरपि सा निःशेषतया न गृहीतेत्येवं चित्तव्याघातादिना पारोक्ष्यं संपादनीयमिति भावः ॥ १० ॥ पूर्वोक्तकर्मयोगमिति । प्रत्यगात्मदर्शनद्वारा परमभक्युत्पादकं कर्मयोगमित्य- थः । नित्यनैमित्तिककर्मणामिति । अहरहः संध्यामुपासीतेति विहितानि नित्यक मर्माणि । राहूपरागे स्नायादित्यादिविहितानि नैमित्तिककर्माणि । कल्मषनिबर्हणं-पापनाशः। भक्त्युपचायकत्वं-भक्त्या समुच्चितत्वम् । न पुनरुक्ततेति । पूर्व भक्युत्पादककर्माण्यु- कानि । अधुना भक्तिसमुचितकर्माण्युच्यन्ते इति भेदात्पुनरुक्त्यभावः । अङ्गाङ्गिभावे- नेति । गुणप्रधानभावेनेत्यर्थः । उपायविरोधीति। उपायभुतं यद्विरोधिपदार्थस्य तरणमुलधनम् । उपायः-साधनम् । उपेयं-साध्यं ब्रह्मप्राप्तिरूपम् । तद्विरोधीनि सर्वपापानि तेभ्यो मोक्षः। झानव्यपाश्रय इति । ज्ञानमेव व्यपाश्रय आलम्बनं यस्येत्यर्थः ।

ईशावास्योपनिषत् ।
१९
व्यपोहितुं सुबहून्यज्ञाज्योतिष्टोमादिकानियाजाकरोत् । पाकं पचती-
तिवत् ॥ ११ ॥
अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते ।
ततो भूय इव ते तमो य उ संभूत्या रताः ॥ १२ ॥
एवं समाधिनिष्पत्तेनित्यनैमित्तिककर्मसाध्यत्वमुक्त्वाथ त्रिमिमन्त्रै-
निषिद्धनिवृत्तिरूपयोगाङ्गसाध्यत्वमाह । तत्र तावत्प्राग्वदेकैकमात्रं विनिन्दति-
अन्धमिति । 'एतमितः प्रेत्यामिसंभवितास्मि ' [ छ।०३।१४। ४ ]
'ब्रह्मलोकमभिसंभवामि (छा० ८ । १३ । १) इत्यादिषु ब्रह्मपाप्तिरूपा.
नुभूति : संभूतिशब्देनोक्ता । इह तु समाधिरूपा संभूतिशव्देनोच्यते । अ-
संभूतिशब्दस्तु समाध्यङ्गभूतां निषिद्धनिवृत्तिमाह । संभूतिं च विनाश
चेत्युत्तरत्र विनाशशब्देनासंभूतेरनुविधानात् । तथा च ये विद्याधिकारिणोs-
संभूतिमेव मानदम्भहिंसास्तेयादीनां योगविरुद्धानां निवृत्तिवोपासते निवृ
त्तिमात्रनिष्ठा इत्यर्थः । तेऽन्धं तमः प्रविशन्तीति पूर्ववदर्थः । ये पुनः समा-
धिरूपसंभूत्यामेव रतास्ते ततो भूय इव तमः प्रविशन्तीत्यर्थः ॥ १२ ॥
अन्यदेवाहुः संभवादन्यदादुरसंभवात् |
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥
कि तर्हि मोक्षसाधनमित्यत्राह- अन्यदेवेति । संभवात्संभूतेः ।
असंभवादसंभूतरित्यर्थः । केवलात्संभवादसंभवाच्चान्यदेव मोक्षसाधनमित्यु-
पनिषद आहुः । लिडुत्तमः पूर्ववत् । शिष्टं स्पष्टम् ॥ १३ ॥
आधिष्ठाय-अवलम्ब्य । अकरोदिति। यज् धातोः कथं सामान्यतोकरोदित्यर्थोतो दृष्टान्त.
माह - पाकं पचतीतिवदिति । विशेषणवाचकपदसमभिव्याहारे विशिष्टवाचकपदस्य
विशेष्यमात्रवोधकत्वमिति भावः । तथा च पाकं करोतीत्यत्र विक्लित्यनुकूलव्यापारवाचक-
पचेः ( पच्धातोः ) विक्लित्यर्थकपाकपदसमभिव्याहारायापारमात्रबोधकत्वं यथा भवति
तथा प्रकृते देवतोद्देशपूर्वकद्रव्यत्यागानुकूलव्यापारवाचकृयजेः ( यज्धातोः ) विशेषणीभू.
तदेवतोद्देशपूर्वकद्रव्यत्यागरूपार्थकयज्ञपदसमभिव्याहाराद्विशेष्यीभूतव्यापारमात्रार्थकत्वम् ११
समाधीत्यादि । नित्यनैमित्तिककर्माणि साधनम् । समाध्युत्पत्तिः साध्यम् ।
सैव समाधिनिषिद्धपदार्थवर्जनरूपण योगाङ्गेन साध्यते । अनुविधानादिति । पुनः
कथनादित्यर्थः ॥ १२ ॥
पूर्ववदिति । दशममन्त्रव्याख्याने एतद्विषयकशकोत्तरे व्याख्याते ॥ १३ ॥

२० प्रकाशिकासमेता संभूतिं च विनाशं च यस्तद्वेदोभय ५ सह । विनाशेन मृत्यु तीर्खा संभूत्यामृतमश्नुते ।। १४ ॥ अन्यादित्युक्तं विवृणोति-संभूतिमिति । संभूति समाधिरूपब्रह्मा- नुभूति विनाशं च योगविरोधिनां वर्जनं चेत्येतदुभयं यो विद्वानङ्गाङ्गि- भावेन सह वेद स विद्वान्विनाशेन निषेव्यमाणेनेति शेषः । विरोधिनिवृ. तिरूपयोगाङ्गसेवनेनेत्यर्थः । मृत्यु समाधिविरोधिपापं तीर्वापाकृत्य निष्प- नया संभूःयामृतमश्नुते ब्रह्मपाप्तिरूपां संभूतिमश्नुत इति भावः । अत्र सं. भूतिविनाशशब्दाभ्यां सृष्टिपल यविवक्षया कार्यहिरण्यगर्भस्याव्याकृतप्रधान- स्योपासनं विधीयत इति शांकरं व्याख्यानमनुपपन्नम् । मृत्युतरणामृतत्व- प्राप्तिरूपफलवचनानौचित्यात् ॥ १४ ॥ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषनपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥ एवं साङ्गभगवद्भक्तिमुपदिश्य तन्निष्ठस्यानुसंधेयमन्त्रद्वयमुपदिशति. हिरण्मयेनेति । हे पूषन्नादित्यान्तर्यामिन् । य आदित्ये तिष्ठन्नित्यारभ्य य आदित्यमन्तरो यमयति' [वृ. ३।७।९ ] इति शतपथश्रुतेः । शास्त्रदृ- अङ्गाङ्गिभावेनेति । योगविरोधिवर्जनमङ्गम् । समाधिरूपब्रह्मानुभवाङ्गी । शांकरं व्याख्यानमिति । शांकरभाष्ये प्रकृतश्चतुर्दशो मन्त्रो वक्ष्यमाणरीत्या व्याख्या- तः । यत एवमतः समुच्चयः संभूत्यसंभून्युपासनयोयुक्त एवैकपुरुषार्थत्वाचेत्याह-संभूति च विनाशं च यस्तद्वेदोभय सह । विनाशेन विनाशो धर्मो यस्य कार्यस्य स तेन धर्मिणा. भेदेनोच्यते विनाश इति । तेन तदुपासनेनानश्वर्यमधर्मकामादिदोषजातं च मृत्युं तीवी हिरण्यगर्भोपासनेन ह्यणिमादिप्राप्तिः फलम् । तेनानैश्वर्यादिमृत्युमतीत्यासंभून्याव्याकृतो. पासनयामृतं प्रकृतिलयलक्षणमइनुते । संभूतिं च विनाशं चेत्यत्रावर्णलोपेन निर्देशो द्रष्टव्यः । प्रकृतिलयफलश्रुत्यनुरोधात् ॥ मृत्युतरणेत्यादि । हिरण्यगर्भोपासनायाः फलं मृत्युत- रणमव्याकृतप्रधानोपासनायाः फलममृतत्वप्राप्तिरित्युभयविधफलं न घटतेतः शांकर- व्याख्यानमनुपपन्नमिति प्रकाशिकाकृदाशयः । वस्तुतः शांकरभाष्ये मृत्युपदेनानैश्वर्यादि- फलं गृह्यते तथामृतपदेन प्रकृतिलयात्मकं फलं गृह्यते तेन न पूर्वोक्तानुपपत्तिः। अतः स्पष्टप्रतिपस्यर्थ शांकरभाष्यं पूर्व संगृहीतम् ॥ १४ ॥ तनिष्टस्येत्यादि । भगवद्भक्तिनिष्ठेनैतन्मत्रद्वयं ध्येयमित्यर्थः । शतपथेति । शुक्लयजुर्वेदब्राह्मणमू । शास्त्रदृष्टयेत्यादिवैयासिकसूत्रस्यायमर्थः । प्रज्ञातजीवभावेनेन्द्रेण मामेव विजानाहीति य उपदेशः कृतः स ऐतदाम्यमिदं सर्वमिति शास्त्रदृष्टया सर्वात्म- । ईशावास्योपनिषत् । २१ ष्टया तूपदेशो वामदेववत् (७. सू. १।१।३१ ) इत्यादिन्यायाच्च । यद्वा पूषन्नाश्रितपोषणस्वभावेत्यर्थः । ' साक्षादप्यविरोधं जैमिनिः' [ब्रा- सू० १।२।२९ ] इति सूत्रानुरोधात् । सत्त्यस्य । सत्यशब्देन स्वरूपवि. काररहित जीवात्मोच्यते । सत्यं चानृतं च सत्यमभवत् [ छा० १।२।३ ] इत्यादिषु जीवेपि सत्यशब्दप्रयोगात् । तस्य मुखम् । मुखवत् । अनेके- न्द्रियावष्टम्भकतया मुखसदृशं मन. इत्यर्थः । हिरण्मयेन हिरण्यसदृशेन भोग्यवर्गेणेति यावत् । पात्रेण परमात्मविषयकवृत्तिप्रतिरोधकेनापिहित- माच्छादितम् । हृदि निहिते परमात्मनि निरुद्ध वृत्तिकं जातमित्यर्थः । तज्जीवस्य मुखस्थानीयं मनो हृषीकाणामीशस्त्वमपावृणु निरस्य तिरोधानं कुर्वित्यर्थः । ततस्य हेतोसत्राह-सत्यधर्माय सत्यस्य जीवस्य धर्मभू- ताय । दृष्टिदर्शनम् । त्वदर्शनायेति भावः ॥ १५ ॥ पूषनेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह । तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥ पुनरपि तया दृष्टया द्रष्टव्यं विशिषन्दर्शनं तत्साधनं चाभ्यर्थयते पूषन्नाश्रितपोषक । एकश्चासावृषिश्चैकर्पिः । भद्वितीयातीन्द्रियार्थद्रष्टा 'नान्योऽतोऽस्ति द्रष्टा' [बृ. ३।७।२३] इति श्रुतेः । यमो यमयति भावमवगम्य कृतः । यथा वामदेवः परस्य ब्रह्मणः सर्वान्तरात्मत्वं पश्यन्नहमिति स्वात्म शरीरक. परं ब्रह्म निर्दिश्य तत्सामानाधिकरण्येन मनुसूर्यादीन् व्यपदिशति तद्धत पश्यनृ- षिर्वामतः प्रतिपेदेहं मनुरभवं सूर्यश्च ( वृ० १ । ४ । १० ) इति ॥ तथा प्रकृते पूषात्मकत्वेन निर्देशः । साक्षादपीति सूत्रस्यार्थः - जैमिनिस्त्वाचार्यो वैश्वानरशब्दवदन शब्दस्यापि परमात्मन एव साक्षाव्यवधानेन वाचावे न कश्चिाद्वरोध इति मन्यते । तथा प्रकृते पूषन्शब्देन साक्षात्परमात्मनो वाचकत्वे न विरोध इत्यर्थः । स्वरूपवि. काररहितेति । जीवे गुणतो विकारा भवन्ति न स्वरूपतः । अचित्पदार्थषु स्वरूपसो विकारा भवन्ति । अवष्टम्भकं-बलप्रदत्वादाश्रयि । अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रीषमिति श्रुत्या मनःसाहित्येनैवेन्द्रियवृत्त्युत्पत्त्या तन्मन इन्द्रियाणामाथि । अतोवष्टम्भकमुच्यते। गोण्या वृत्त्या मुखपदेन ननो लक्ष्यते । आच्छादितमिति। हिर- ण्यादिभोग्यवर्गः परमात्मविषयां वृत्तिं रुणद्धि । हृषीकाणि-इन्द्रियाणि ॥ १५ ॥ विशिषन्निति । द्रष्टव्यपरमात्मानं पूनित्यादिविशेषणैः पूजयनित्यर्थः । पर- मेश्वरोद्वितीयोतीन्द्रियपदार्थानां द्रष्टेत्यर्थः । एकर्षिरित्यत्र- ऋषी दर्शने इति धातुः । सूर्य २२ प्रकाशिकासमेता सर्वानिति यमः । सर्वान्तर्यामिन् । 'यः पृथिवीमन्तरो यमयति ' [वृ०- ३।७३ ] ' य आत्मानमन्तरो यमयति ' [ बृ. ३।७।९] इत्यादिश्रुतेः । सूर्य स्वोपासकधियां सुष्ठु प्रेरक । प्राजापत्य प्रजापतिश्चतुर्मुखस्तस्य सुताः प्राजापत्यास्तेषामन्तर्यामिन् । यद्वा प्रजापतिरेव प्राजापत्यः । प्रजानां पति. रिति व्युत्पत्त्या प्रजापतिर्विष्णुः 'प्रजापतिश्चरति गर्ने अंतः ' [म० ना० १।१ ] इति श्रुतेः । व्यूह रश्मीन् । भवदीयदिव्यरूपदर्शनानुपयुक्तान्स्वो- ग्ररश्मीन्व्यूह व्यपोह विगमयेत्यर्थः। यत्ते दर्शनोपयिकं प्रभात्मकं तेजस्तत्स- मूह समूहीकुरु । तकिमर्थमित्याशङ्कय द्रष्टुमिच्छामि ते रूपमित्याह यदिति यत् । 'आदित्यवर्ण तमसः परस्तात् ' [श्वे० ३।८ ] इत्यादि- श्रुतिषु प्रसिद्धमित्यर्थः । ते। 'आनन्दो ब्रह्म' [तै ० ३।६ ] इति निरतिश- यभोग्यस्य तवापि । कल्याणतमं सौन्दर्यादिगुणातिशयेन कल्याणेभ्योऽति. शयितं कल्याणं शुभाश्रयमिति भावः । ते यदिव्यरूपं तत्पश्यामि पश्ये- यमिति लकारव्यत्ययश्छन्दसः । द्रष्टुमिच्छामीति भावः । ननु 'यत्ते रूपं कल्याणतमम् ' । ' य एषोऽन्तरादित्ये हिरण्मयः पुरुषः' । [छा० १- ६।६] ' ईशा वास्यमिद सर्वम् ' [ई० १] 'पतिं विश्वास्यात्मेश्वरम्' [म० ना० ११॥३] " सर्वकर्मा सर्वगन्धः । स्वाभाविकी ज्ञानबलक्रिया च' [ श्वे०६।८] 'तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति [छा ० ८।३।४ ] ' तस्योदिति नाम' [छा. १।६।७] इत्यादिभिः शास्त्रैर्गुणविग्रहादयो ब्रह्मणो विधीयन्ते। निर्गुणं निरञ्जनम् । ' सत्यं ज्ञानम् ' [ तै०२।१।१ ] ' अकायमत्रणम् ।' [ई०८ ] 'नेह नाना- स्ति किंचन' [ बृ०४।४।१९] 'निष्कलं निष्क्रियम् ।' [श्वे०६।१९] 'भगोत्रमवर्णम् । [ मुं० १।१।६ ] एवमादिभिः शास्त्रैर्गुणादयः प्रति इत्यत्र पूञ् प्रेरणे इति धातुः । उग्रप्रकाशो हि वस्तु दर्शनविरोधीत्यत आह- उग्ररश्मीन् व्यूहेति । छान्दस इति । व्यत्ययो बहुलम् (पा. सू. ३।१।८५) इति पाणिन्य. नुशासनात् । तत्र हि-सुप्तिङपग्रहालगनराणां कालहलचस्वरकर्तृय डां च । व्यत्ययामिच्छ- ति शास्त्रकृदेषां सोपि च सिद्धयति बाहुलकेन ॥ १॥ इति व्याख्यानादत्र व्यत्ययः । शास्त्रैरिति । वेदवाक्यरित्यर्थः। गुणविग्रहादय इति । सर्वकर्मकारित्वादयो गुणाः विप्रहः शरीरं हिरण्मयः पुरुष इत्यादिवाक्यरुक्तम् । प्रतिषिध्यन्त इति । निर्गुणमि- सत्या. ईशावास्योपनिषत् । विध्यन्ते । तथा विधिनिषेधयोः शास्त्रयोर्विरोधादन्यतरबाधोऽवश्यंभावी । तत्र निषेधस्य प्रसक्तिपूर्वकतया पश्चात्मवृत्तं प्रतिषेधशास्त्रमपच्छेदाधि- करणन्यायेन प्रबलम् । अतः प्रतिषेधबलेन गुणादिविधयः सर्वे बाधिताः। ततश्च अविद्याख्यदोषपरिकल्पितगुणविग्रहादयो मिथ्याभूता इति । तदि- त्यादिवेदवाक्यैर्गुगादयो ब्रह्मणि न सन्तीति प्रतिपद्यते । अभावज्ञान प्रति प्रतियोगि- ज्ञानस्य कारणत्वान्निषेयो यस्य तस्य पूर्व प्राप्तिरपेक्ष्यते । घटं मानयेति निषेधो हि घटानयनप्राप्तिपूर्वको यथा तथा ब्रह्मणि गुणनिषेधः प्रतिपाद्यमानः पूर्व गुणविधिरासीदिति दर्शयति । तथा च पूर्व गुणविधिशास्त्रं प्रवर्तते ततो निषेधशास्त्रम् । पश्चात्प्रवतमानं शास्त्रं पूर्वप्रवृत्ताच्छास्त्रात्प्रबलमिति हि शास्त्रकृत्समयः । यतः पूर्व- शास्त्रस्योत्पत्तिविधिरविरोधेनैव । तदानी विरोधिनः परस्याभावात् । परशास्त्रस्यो. त्पत्तिस्तु विरोधेनैव । तदानीं विरोधिनः पूर्वस्य सत्त्वादिति विशेधेनोत्पन्नं परमेव प्रवलं भवति : अपच्छेदाधिकरणन्यायेनेति । अपच्छेदो विच्छेदः । पञ्चविंजः समन्वारब्धाः सर्पन्ति । अध्वर्यु प्रस्तोतान्वारभते । प्रस्तोतारं प्रतिहत । प्रतिहार- मुद्गाता। उद्गातारं ब्रह्मा । ब्रह्माणं यजम.नः । ( आ. श्री. सू. १२।१।। सू ८.४।२२) इति विहितस्यान्वारम्भणस्य विच्छेदे प्रायश्चित्तमुच्यते । वहिष्य- वमानं प्रसर्पतां याद्गातापच्छिद्येत । अदक्षिणः स यज्ञः संस्थाप्यः । तेन पुनर्यजते तत्र दद्यात्पूर्वस्मिन्दास्यन्स्यात् । अथ प्रतिहर्तापच्छिद्येत सर्ववेदसं दद्यादिति । अत्रोद्गातृप्रति- होरेकास्मन् प्रयोगे युगपदपच्छेद उद्गातुः प्राधान्यात्तत्प्रायश्चित्तेनैव निर्वाहः । क्रमेणा- पच्छेदे तु पूर्वस्य प्रायश्चित्तशास्त्रस्य दौर्बल्यं परस्य प्राबल्यम् । अयमपच्छेदन्यायः पूर्व मीमांसायां षष्ठेध्याये पञ्चमपादे पौर्वापय पूर्वदौर्बल्यं प्रकृतिवत् ५४ याद्गाता जघन्यः स्यात्पुनर्यज्ञे सर्ववेदसं दद्याद्यथेतरस्मिन् ५५ अहर्गणे यस्मिन्नपच्छेदस्तदावर्तेत कर्मपृथ- क्त्त्वात् ५६ इति सूत्रत्रयेण दर्शितः। मिथ्याभूता इति । अविद्यादोषस्य मिथ्यात्वा- दित्यर्थः । इमं पूर्वपक्षं खण्ड यति-तदिदमिति । यद्यप्यपच्छेदन्यायेनोत्तरप्रवृत्तं शास्त्रं प्रवलं तथापि पूर्वोत्तरशास्त्रयोरेकविषयत्वेन विरोध एव तस्य न्यायस्य प्रवृत्तिः । अत्र तु गुणावधिनिषेधयोभिन्नविषयत्वेन विरोध एव न संभवति । तथा च विधीनां प्रतिषेधवाक्य- धिोनुपपन्नः । गुणविधिनिषेधयोभिन्नविषयता चेत्यम्-कल्याणगुणविषयकः सर्वकमस्या- दिविधिः । हेयगुणविषयको निर्गुणमित्यादिनिषेधः। भगवति कल्याणगुणाः सन्ति । हेयगुणा न सन्तत्यिर्थ इत्युत्तरपक्षाशयः । उत्तरपक्षस्य पशुच्छागनय उत्सर्गाप- पादनयश्चति न्यायद्वयमुपोद्वलकम् । पशुच्छागनयश्च पूर्वमीमांसायां षष्ठे- ध्यायेष्टमे पादे दशमाधिकरणेन छागस्यैवानांषोमीयपशुताधिकरणमित्याख्येन प्रतिपाद्यते । तत्र पूर्वपक्षसूत्रं-पशुचोदन यामनियमोऽविशेषात् ३० इति । उत्तरपक्षसूत्रम्-छागो वा मन्त्रवर्णात् ३१ इति । अस्याधिकरण- स्यार्थ:-ज्योतिष्टोमे श्रूयते । अग्नीषोमीयं पशुमालभेत इति । तत्र विहिते पशौ .

.0 प्रकाशिकासमेता । - दमनादरणीयम् । पशुच्छागनयेनोत्सर्गापवादनयेन च विधिनिषेधयोमिन- विषयत्वोपपादनेन तयोर्विरोधगन्धाभावाद्विधीनां प्रतिषेध माध्यतानुपपत्तेः। तदुक्तं तत्त्वसारे - यद्ब्रह्मणो गुणविकारशरीरभेदकर्मादिगोचरविधिपति- धवाचः । अन्योन्यभिन्न विषया न विरोधगन्धमईन्ति तन्न विधयः प्रतिषेधबाध्य ः ॥ इति : ॥ इति । अथान्तर्यामिणमहंग्रहेणानुसंधत्ते-योऽसावसौ पुरुषः सोऽहमस्मीति । असावसाविति वीपादरार्था । यद्वादःशब्दो विभज्य यत्तच्छब्दाभ्यामन्तव्यौ योऽसौ पुरुषः प्रसिद्धः सोऽसावहमस्मीति यद्यपि - पुरुषं प्रकृतिं चैव प्रधानपुरुषेश्वरः ॥ इत्यादिषु पुरुषशब्दो जीववा- चितया प्रसिद्धस्तथापि 'तेनेदं पूर्णं पुरुषेण सर्वम् ।' [श्वे० ३।९] इत्यादिश्रुत्या सर्ववेदपठितपुरुषसूक्तादिषु प्रसिद्धो महापुरुष एवेह पुरुष- शब्देन विवक्षितः । नन्वेवं योऽसौ पुरुषः सोऽहमिति कथं सामानाधि. विशेषाश्रवणाद्यः कोपि पशुगलब्धम्य इति चेत् । मैवम्। छा. स्य वपाया मेद- सोनुहोति मन्त्रे विशेपितत्वात् । तस्माच्छाग एवालब्धव्यः । अयमाशयः । अमी. षोमीयपशुः सामान्यतो यत्किचिजातीयो न ग्राह्यः किन्तु छागस्य वपाया इति मंत्रे विशेषितत्वाच्छागरूपो ग्राह्यः । एवं प्रकृते निर्गुणमितिपदेन सामान्यतो गुणनिषेधो न कर्तव्यः किन्तु गुणविधिनिषेधबोधकवचौवयर्थ्यान्यथानुपपत्त्या हयगुणनिषेधः कर्तव्यः । तदुक्तं-पामान्योक्तिः समानप्रकरणपठिता पर्यवस्येद्विशेषे ॥ र्गापवादनयेनेति । 'प्रकल्प्य चापवादविषयं तत उत्सर्गोभिनिविशते' इति हि परिभाषा । तस्या अर्थ:-अपवादविषचं परित्यज्योत्सर्गशास्त्रं प्रवर्तते । यथा मा हिंस्यात्सर्वा भूतानीति हिंसानिषेधकं सामान्यशास्त्रं, अग्नीषोमीयं पशुमालभेतेति यज्ञियमपवादविषयं परित्यज्य प्रवर्तते । ततश्च र ज्ञातिरिक्तहिंसाया एव निषेधः । एवं च विधिर्यज्ञियाहिंसाविषयकः । निषेधः सामान्यहिंसाविषयकः। तथा च यथा- त्रोत्सर्गापवादयोर्भिनविषयत्वं तत्र न बाध्यबाधकभावः । प्रकृतेपि निर्गुणभित्यादि. श्रुतिवाक्यैर्गुणानां सामान्यतो निषेधो न कर्तव्यः किन्तु हेयगुणानामेव । एवं च निषेधो हेयगुणविषयकः । विधिः कल्याणगुणविषयकः । तेन भिन्नविषयकत्वेन न विधिनिषेधयो- बांध्यवाधकभावः । अत्रार्थे सांप्रदायिकवचः प्रमाणयति-तदुक्तमिति । गुणविकार- शरीरभेदकर्मादिविषयकाः ये विधिप्रतिषेधास्तद्विषयाणि वचासि पूर्वोक्तरीत्या परम्पर मिनार्वषयत्वात् न विरुद्धान भवन्त्यता न विधयः प्रतियधैवाभ्यन्ते । अहंग्रहेणेति । अहमि त प्रहः तैलधारावदविच्छिन्नः प्रत्ययः। वी सा-द्विरुक्तिः। महापुरुषः-भगवान् विष्णुः । पुरुपशब्देन यदि भगवद्रूपोथी गृह्यते तहि जीवन सह तस्य सामानाधिकरण्यं कथमिति शकते-नन्विति । अहंशब्देन न जीवो गृह्यते किन्तु तदन्तर्यामी भगवान् उत्स- ईशावास्योपनिषत् । करण्यम् । अहंपदार्थस्य जीवस्य महापुरुषाद्भिन्नत्वादिति चेन्न । अहंशब्दे. नाप्यस्मदर्थान्तर्यामिण एवाभिधानेनाहं स इति निर्देशस्य सुसंगतत्वात् । ननु चाहंशब्दस्य प्रत्यगान्तर्यामित्वपरत्वे सोस्मीत्युत्तमपुरुषो न घटते । नहि तदन्तर्यामिपुरुषोस्मीत्यन्वयो युज्यत इति चेदुच्यते-मदन्तर्यामी- त्यादिशब्दान्तरेणोपस्थापिते प्रत्यगान्तर्यामिण्युत्तमपुरुषान्वयासंभवेप्य- हमित्यस्मस्पदोपस्थापिते तास्मन्नुत्तमपुरुषान्वयो युज्यत एव । तथा च सूत्रम्-अस्मयुत्तमः । ( पा० सू० १।४।१०७ ) इति । प्रत्यगर्थबोधका- स्मच्छब्दोपपद उत्तम पुरुषो भवतीत्यर्थः । न पुनरम्मच्छब्दस्य प्रत्यगर्थ- द्वारा परमात्मपर्यन्ततायामुत्तमनिवृत्तिरिति । आधिकं तु प्रविष्टं न तद्धानि- रिति न्यायात् । एवं तत्त्वमसीत्यादिष्वप्यसीति मध्य ध्यमपुरुषो निर्वाणः । त्वंपदेनाभिमुखचेतनद्वारैव तदन्तर्यामिणोभिधानाभ्युपगमात् । तत्रापि युष्म- द्युपपदे समानाधिकरणे स्थानिन्यपि मध्यम :।' (पा० सू० १ । ४ । १०५) तेन चाभयोर्भगवद्वाचकत्वात्सामानाधिकरण्यं घटत इति भावः। इति चेदिति । इलाकृतो- यमाशयः। अहंपदेन जीवान्तर्यामिभगवद्रूपोर्चा यदि गृह्यते तईि अस्मच्छब्दस्य प्रथम- पुरुषवाचकत्वादहमन्तर्यामिपुरुषोस्तीति प्रयोगः स्यान्न त्वहमस्मीत्युत्तमपुरुषप्रयोगः । अत्र तु तथा प्रयोगादहंपदेन प्रत्यगर्थो गृहीतुमशक्यः । उच्यत इति । अयमभिप्रायः । मदन्तर्यामी भगवान् इत्यादिशब्देषु यत्रान्तर्याम्यादिपदानि विशेष्यरूपाणि तत्र प्रथमपुरु- पोवश्यंभावी उत्तमपुरुषान्वयश्च न घटते । यत्र त्वस्मच्छब्देनान्तर्याम्यादिपदार्थबोध- स्तत्रास्मच्छब्दसामीप्यात्-अस्मद्युत्तमः (पा. सू. १।४।१०७) इति सूत्रेणोतमपुरुषो युज्यत एव । प्रत्यगर्थो जीवः । ' अस्मद्युत्तमः' इति सूत्रस्पायमर्थः-अस्मा उपदे समा. नाभिधेये प्रयुज्यमानेप्रयुज्यमानेप्युत्तमपुरुषो भवति । भस्मच्छन्द उपपदे उत्तमपुरुषो भवतीत्येवानेन सूत्रेण बोध्यते । अस्मच्छब्देनायमेवार्थो बोध्यते चेदुत्तमपुरुषः अन्यथा नेति तु नानेन सूत्रेण बोध्यते तथा चास्मच्छन्दनान्तर्यामिभगवद्पार्थबोधेपि अस्मच्छब्दो- पपदत्वान्नोत्तमपुरुषासंगतिः । अधिकार्थप्रवेशेपि नास्मच्छब्दत्वस्य हानिरित्यत्र न्याय- मुपोद्वलयति-अधिकं स्विति । कस्मिंश्चित्पदेधिकार्यस्याधिगमेपि न पूर्वार्थस्य हानिरिति न्यायस्यार्थः । निर्वाह्य इति । त्वंपदेन जीवो बोध्यते ततश्च ब्रह्मणा सामा. नाधिकरण्यं न स्यादतस्त्वंपदेन जीवान्तर्यामिभगवद्रूपोर्चा प्रायः । तेन यद्यपि सामाना. धिकरण्यं तथापि प्रथमपुरुषः स्वादिति शंकायां पूर्ववत् युध्मच्छब्दोपपदसंबन्धात् तस्वमसी- ति मध्यमपुरुषस्योपपत्तिः कर्तव्या। युष्मद्युपपद इति सूत्रस्थायमर्थः-युष्मद्युपपदे सति व्यवहिते चाव्यवहितेपि सति समानाधिकरणे समानाभिधेये तुम्यकारके स्थानिनि प्रयु.

२६ प्रकाशिकासमेता इत्येतावदेव हि स्मर्यते । न तु युष्मन्छब्दस्य स्वाभिमुखचेतनद्वारा तदन्तर्यामिपर्यन्सत्वे मध्यमनिवृत्तिरिति । ये तु तत्त्वमसि सोऽइमस्मीत्या- दिष्वहत्वमादिशब्दैर्युष्मदस्मदर्थपरित्यागेन निर्विशेषचिन्मात्रस्वरूपैक्यमेव वाक्यवेद्यमित्याहुः । तानेव तत्त्वमसीत्यादिवाक्येष्वसिरिव सोहमस्मीति वाक्यस्थास्मिरपि खण्डयति । श्रोतर्यनुसंधातरि च युष्मदस्मत्ते हि तैः परित्यक्ते न तेषामसिना कश्चित्पतिबोधनीयोस्ति न च कश्चिदस्मिना विशिष्यानुसंधेयः । ननु प्रकृते युष्मदस्मदोरविवक्षायामपि तयोर्युत्पन्नयु. ष्मदस्मच्छब्दोषपदमात्रोपजीवनेनास्मत्पक्षेपि त्वमहमिति मध्यमोत्तमयोः संपत्तिरिति चेत् । ततोप्यपरित्यक्तपवृत्तिनिमित्तकस्यास्माकं निर्वहणस्यै- ज्यमानेप्यप्रयुज्यमानेपि मध्यमपुरुषो भवति। मध्यमनिवृत्तिरितीति । अधिकं तु प्रविष्टं न तद्धानिरिति न्यायादन्तर्यामिपर्यन्तस्यार्थस्याधिक्येपि न मध्यमपुरुषे वाधक. मित्यर्थः । अद्वैतवादिमतमनूद्य दूषयति - ये स्वित्यादिना । अद्वैतमतानुयायिनो हि तत्त्वमसीत्यत्र स्वंपदेन सोहमस्मीत्यत्राहंपदेन च युष्मदस्मदर्थो यो जीवरूपस्तस्य त्यागं कृत्वा जहदजहलक्षणया चैतन्यपरत्वमादाय पूर्वोक्तवाक्ययोनिर्विशेषं चैतन्यस्वरूपैक्य एव तात्पर्यमिति वदन्ति । तेषां मते युष्मदस्मदर्थस्य संपूर्णतया त्यागा. दन्याथस्यैक्यरूपस्य प्रहणात् उभयोरपि वाक्ययोः प्रथमपुरुषो दुर्वार इत्याह- तानेवेत्यादिना स्त्रण्डयतीत्यन्तेन । असिरिव खड्ग इव । अस्मिरपीति । अस्मदर्थपरित्यागादुत्तमपुरुषो न घटत इत्यर्थः । श्रोतर्यनुसंधातरीति । अयं भावः । तत्त्वमसीति वाक्ये श्वेतुकेतसंज्ञकः श्रोता युष्मत्पदेन यदा गृह्यते तदा स बोध्येतासिपदेन त्वं ब्रह्मरूपोसीति । तथैव अहंब्रह्मास्मीत्यत्र ब्रह्मणोनुसंधाता यदास्मच्छब्देन गृह्यत तदा सोस्मिपदेन ब्रह्मानुसंधानकर्तृभूतो बोध्येत । अत्राद्वैतिमते युष्मदस्मदोरर्थस्य जीवस्य त्यागाद्युष्मदस्मत्ते परित्यक्ते तेन न कश्चिद्बोधनीयः श्वेतकेतुप्रभृतिरसिपदेन । न वा केनापि ब्रह्मानुसंधानं कर्तव्यं यदर्थमस्मिपदप्रयोगः । श्रोतर्यनुसंधातरीति विषयसप्तमी। तथा च श्रोतृविषयको युष्मच्छन्दः । अनुसंधातृविषयकोऽस्मच्छब्द इत्यर्थः । इयमनुपपत्तिरद्वति. मतेपि परिहर्तुं शक्येत्याह-नन्विति । पूर्व युष्मद्युपपद इत्यादेः, अस्मद्युत्तम इति सूत्रस्य चार्थों दर्शितस्तत्र युष्मदस्मदोरयमेवार्थोऽपेक्ष्यत इति तु नास्ति केवलं युष्म- दस्मदुपपदत्वमपेक्ष्यते मध्यमोत्तमपुरुषविधौ । तथा चाद्वैतिमते चैतन्यमात्ररूपार्थेऽपि युष्मदस्मदोरुपपदत्वानपायान्न काप्यनुपपत्तिरित्यर्थः । न्युत्पन्नयुष्मदस्मदिति । प्रकृतिप्रत्ययसाधिते युष्मदस्मदी । अद्वैतवादिदर्शितामुपपत्तिमङ्गीकृत्यास्मत्पक्षे लाघवमिति दर्शयति-ततोपीति । प्रवृत्तिनिमित्तं नाम अर्थः । कम्युग्रीवादिमत्त्वनिमित्तेन घट इति पदं तस्मिन्नर्थे प्रवर्तते । एवं च कम्बुग्रीवादिमत्त्वं प्रवत्तिनिमित्तं घटपदस्य । तथा प्रकृते २७ ईशावास्योपनिषत् । वानुसर्तुमुचितत्वात् । अपर आह योसावसौ पुरुषः सोहमस्मीत्यत्र पुरु. षशब्देन परमपुरुषो न विवक्षणीयः। तथा सत्युत्तमपुरुष इत्याख्यायाः सोऽ- हमिति सामानाधिकरण्यस्य च क्लेशेन निर्वाह्यत्वात् । अतो वरमत्र पुरुष शब्दस्य परिशुद्धजीवात्मपरत्यमाश्रयितुम् । एवं च सति यः पुरुषो मुक्तिदृश्यभाव्याकारः परिशुद्धजीवात्मा सोहमस्मीत्यन्वयादुत्तम पुरुष इ- त्याख्यायाः सामानाधिकरण्यस्य चातिस्वरसेन निर्वाह इति । नायं पक्षः साधुः । तथा हि-भवत्वेवमिह निर्वहणं तथापि तत्त्वमसीत्यत्र तत्पदस्य त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसीत्यादिषु त्वंपदस्य च परदेवता- वाचकत्वे त्वदुक्तनिर्वाहस्यासंभवात् । अकामेनापि तत्रास्मदुक्तनिर्वाहस्य समाश्रयणे तत्समानन्यायादत्रापि तस्यैवानुसर्तुमुचितत्वादिति । स्यादेतदेवं त्वं वा अहमास्म भगवो देवते अहं वै त्वमसीत्यत्र कथं पुरुषव्यवस्था त्वमहंशब्दयोरुभयोरपि श्रवणात् । उद्देश्यविषयकमेव युष्मदादिपदमुपपद- त्वेन पाणिनिसूत्रामिप्रेतम् । यथा चोद्देश्यसमर्पकोपपदवशादेवात्र मध्यमोत्तम योर्व्यवस्था सिध्यतीति चेत् । अस्त्वेवमिह समाधानं तथापि तत्त्वमसी- युष्मदस्मच्छब्दयोः प्रवृत्तिनिमित्तं प्रत्यगर्थो जीवः । तस्य चाद्वैतिमते त्यागः कर्तव्यः । अस्मत्पक्ष किन्तु अन्तर्यामिपर्यन्तमधि- कार्थग्रहणम् । ततश्चार्थत्यागपूर्वकं केवलं युष्मदस्मदुरपद वेन निर्वाहः कर्तव्योऽ- द्वैतिमते । अस्मन्मते त्वर्थत्याग विनैव निर्वाहस्ततश्च लाघवघटितत्वादस्मत्पक्षानुसरणमेव न्याय्यं नार्थत्यागरूपगौरवघटितस्तत्पक्ष इत्यर्थः । रामानुजमतानुयायिनः कस्यचिदेक. देशिनो मतमनूद्य खण्डयति-अपर आहेति। पुरुषपदस्य परमपुरुष इत्यर्थकरणे लक्षणा- अयितव्येति लक्षणाश्रयणस्य दोषत्वात् । इत्याख्याया इति। उत्तमः पुरुषस्त्वन्यः परमा. मेस्युदाहृत इति भगवद्गीतोक्तेः । क्लेशेनेति । पूर्वोक्तलक्षणाश्रयणं सोहमित्यत्रान्तर्यामि. पर्यन्तार्थस्य स्वीकारश्चेति क्लेशः । असंभवादिति । तत्वमसीत्यत्र परिशुद्धजीवात्मप्रह णस्यानुपपत्तेरित्यर्थः । अकामेनापीति। तत्राम्मदुक्तनिर्वाहस्य गले पतितत्वादिति भावः। स्यादेतदिति । अयं पूर्वपक्ष इत्यर्थः । त्वं वा अहमस्मि अहं वै त्वमसीत्यत्र युष्मदस्म. दोरुभयोरुपपदत्वेन मध्यमोत्तमयोर्विकल्पः प्राप्नोति न नियमेनोत्तमपुरुषो मध्यमपुरुष- एवेति । न चोद्देश्यानुसारं व्यवस्था स्यात्तथा चोद्देश्यसमर्पकोपपदवशाद्यवस्था स्यादिति वाच्यम् । त्वं वा अहमस्मि, अहं वै त्वमसीति वाक्ययोरुद्देश्यस पर्पकत्वेन व्यवस्थासिद्धा. वपि तत्त्वमसीत्यत्र विकल्पस्य दुर्निवारत्वात् । तत्त्वमसीति वाक्ये त्वंपदयोगवत्तत्पदयोगो वर्तते तेन तत्त्वमसीत्यपि वाक्यं प्रसज्येत। न चात्राप्युद्देश्यसमर्पकोपपदवत्त्वेन व्यवस्थेति तु न त्यागः प्रकाशिकासमेता त्यत्र पुरुषव्यवस्था न घटते तत्र त्वंपदयोगवत्तत्पदयोगस्यापि सत्त्वात् । तथा चासीतिवदस्तीति प्रथमपुरुषस्यापि प्रसङ्गः । नह्यत्रापि त्वंपदमुद्देश्य समर्पकम् । येन त्वंपदमेव पुरुषनिमित्तं न तु तत्पदमपति व्यवस्था स्यात् । तथा च तत्त्वमसीतिनिरूपणावसरे भाष्यम् -नात्र किंचिदुद्दि- श्य किमपि विधीयत इति । तस्मात्तत्त्वमस्तीति प्रामो दुर्वार इति । अत्रोच्यसे-तत्त्वमसीत्यत्रापि त्वंपदार्थ उद्देश्य एव । ततश्चोद्देश्यविषय- कयुप्मत्पदवशात्तत्र मध्यम एवेति न प्रथमपुरुषप्रसङ्गः । नच भाष्यविरोधः। भाष्यस्य विधेयांशमात्रनिषेधपरतयोद्देश्यांशनिषेधकत्वाभावात् । तथा हि न येवं भाष्याभिषायः । नात्र किंचिदुद्दिश्यते । न च किंचिद्विधीयत इति । अपि त्वेवमभिप्रायः। त्वंपदेन किंचिदुद्दिश्यत एव किंतूद्दिष्ट तत्र न किंचिदपि विधीयत इति । कथमवगम्यत इति चेत्प्राप्तस्यैवोपसंहारत्वोपपाद- कभाष्येणैव विधेयांश एव निषिध्यत इत्यभिप्रायस्य व्यक्तत्वात् । अन्य आह त्वं राजास्यहं राजास्मीत्यादिवत्तादधीन्यादुपचारविवक्षया तत्त्वम. सि सोहमस्मीत्यादिषु मध्यमोत्तमसामानाधिकरण्यानां सामञ्जस्यमिति । तदप्युपेक्षणीयमेव । लोकवेदयोश्चेतनपर्यन्तं देवमनुष्यादिव्यवहारबलेन जातिगुणशब्दवन्मुल्यस्यैव संभव उपचारकल्पनत्यान्याय्यत्वात् ॥ १६ ॥ बाच्यम् । भाष्योक्त्या त्वंपदस्योद्देश्यसमर्पकत्वाभावात् । इति पूर्वपक्षाशयः। समाधत्ते- अत्रोच्यत इति । भाग्यस्येति । भाप्ये हि न विधीयते किंचिदित्यंशः प्रतिपाद्यः । न तु न किंचिदुद्दिश्यत इत्युद्देश्यनिषेधांशः प्रतिपाद्यः । वाक्यभेदप्रसंगात् । तेन नात्रो- देश्योशो निषिध्यते ततश्चोद्देश्यसमर्पकयुष्मदुपपदघटितत्वात्तत्त्वमसीति ‘प्रयोगः साधुः । भाष्याभिप्रायं प्रतिपादयति-तथाहीति। प्राप्तस्यैवेति । ऐतदात्म्यमिदं सर्वमित्यनेनैव प्राप्तस्येत्यर्थः । उपसंहारत्वोपपादकभाग्येणेवेति । इदं हि श्रीभाष्ये प्रथमाध्याय- प्रथमपादप्रथमसूत्रे स्पष्टम् । तथाहि-तस्वमसीत्यत्रोद्देश्योपादेयविभागः कथमिति चेत् नात्र किंचिद्दिश्य किमपि विधीयते। ऐतदात्म्यमिदं सर्वमित्यनेनैव प्राप्तत्यात् । अप्राप्ते हि शानमर्थवत् । इदं सर्वमिति सजीवं जगनिर्दिश्यैतदात्म्यमिति तस्यैष आत्मेति तत्र प्रति- पादितम् । एकदेश्यन्तरमतमाह-अन्य आहेति । त्वं राजासीत्यस्य यथा त्वं राजाधीनो. सीति तादधीन्यं तत्स्वाधीनत्वं लक्षणया वोध्यते तेन राजपदस्य लाक्षणिकत्वाद्यथा तत्र सामानाधिकरण्यं तथा प्रकृतेपीत्यर्थः । उपचारविवक्षया-लक्षणाश्रयणेन । उपेक्षणीय. मेषेति । शक्यार्थाबाथे लक्षणाश्रयणस्यान्याय्यत्वात् । तद्विवृणोति-लोकवेदयोरिति। लोके वेदे च सर्वेषां चेतनानां देवमनुष्यादीनां व्यपहारोऽसत्यामनुपपत्तौ मुख्य एव भवति ईशावास्योपनिषत् । वायुरनिसममृतमथेदं भस्मान्त शरीरम् । ॐ क्रतो स्मर कृत ५ स्मर क्रतो स्मर कृत स्मर ॥ १७ ॥ एवं परावरतत्त्वविवेकं परमनिःश्रेयससाधनभूतसांगभक्तियोगं तनिष्ठस्यानुसंधेयमन्त्रद्वयं चोपदिश्येदानी मक्तियोगे ज्ञानशक्त्यादिशून्य तया शरणागतिमवलम्बमानानां तदनुष्ठानमन्त्रावुपदिशति । यद्यप्यागमे आचारिमौ शरणागतिमन्त्राविति रहस्यत्वात्कण्ठरवेण नाभिहितौ तथापि प्राज्ञानामर्थसामर्थ्याद्यथा तत्परत्वावगमः सुशकस्तथा तयोः श्लोकयोरर्थ- वर्णनं कृतम् । अभाषि चेत्थमन्ते-व्यक्ताव्यक्ते वाजिनां संहितान्ते व्याख्या मित्थं वाजिवक्त्रपसादात् । वैश्वामित्रो विश्वमित्रं व्यतानीद्विद्वच्छात्री. तये व्यंकटेशः ॥ इति ॥ अत्र विद्वच्छात्रप्रीतय इत्यनेन स्वप्रवन्धस्य निगूढाभिप्रायत्वं व्यञ्जितम् । एवमाचार्याभिप्रायविषयत्वाच्छरणागति- परतया मन्त्रद्वयं व्याख्यास्यते । तत्र वायुरनिलमिति प्रथम श्लोकः पूर्व- खण्डसमानार्थकः अग्ने नयेत्यादि चापरलोक उत्तरखण्डसमानार्थकः । तथा च -प्राप्यस्य ब्रह्मणो रूपं प्राप्तुश्च प्रत्यगात्मनः । प्राप्त्युगायं फलं प्राप्तेस्तथा प्राप्तिविरोधि च ॥ १ ॥ इत्येवमाद्याः पूर्वोत्तरखण्डयोर्विशोधिता न गौण इत्यर्थः । ब्राह्मण इति जातिशब्दः । शोण इति गुणशब्दः ॥ १६ ।। एवमिनि। ईशावास्यमित्यादिना प्रथमन्त्रेण परावरतत्वत्नयवेक. उक्तः । ततः परं कुर्वन्नेवेत्यादि द्वितीयमारभ्य संभूतिमिति चतुर्दशमन्त्रपर्यन्तं निःश्रेयससाधनीभूतभक्ति- योगः प्रोक्तस्तस्मिन्भक्तियोगे निष्ठा यस्य तादृशस्योगसकस्य हिरण्मयेन पात्रेणेति पञ्चदशः 'पूषन्नेकर्षे ' इति षोडशव मन्त्रोनुसंधेयत्वेनोच्यते । एत दाह-अनुसंधेयमन्त्रद्वय- मिति । पूर्व चेदान्ताचार्यव्यंकटेशायरियमीशावास्योपनिषद्याख्याता तत्र कुतो नेनो मन्त्रावनुयत्वेनाभिहितावित्याह-यद्यपीति । रहस्यत्वादिति । रहस्यं गुरुसंप्रदायत एव ज्ञेयं न तु तदप्रन्थे स्फुटं वक्तव्यमित्याशयः । प्राज्ञानामिति । प्राज्ञा हि प्रन्यतास- यज्ञतया यथा तदर्थ जानीयुस्तथान्ते वेंकटावर्णनं कृतमित्याह-अभाषीति। विश्व- मित्रं जगद्धितकारी वैश्वामित्रो व्यक्ताव्यक्ते व्यक्तं च तदव्यक्तं च किंचित्स्फुटं यदति. रहस्यं तदव्यकमस्फुटं चेकवान् । यदतिरहस्यत्वादस्फुट तद्विद्वच्छात्रः स्वयमेव जानीयुः किंचास्फुटं गुरुवाक्यमस्माभितिमिति प्रीता अपि ते भवेयुरिति वोधनायाद्द. विद्वच्छात्रप्रीतय इति । व्यजितमिति । विद्वांस एव निगूढाभिप्रायं मत्प्रवन्धं जानीयुगिते वेंकटार्याशयः। पूर्वखण्डलमानार्थक इति। प्रापस्य ब्रह्मणो रूपं प्राप्तुश्च पत्यगात्मनः । इति पूर्वार्धन समानार्थको वायुरनिलमिति मन्त्रः । प्राप्त्युपायं 10 प्रकाशिकासमेता ये पदार्था ये च वाक्यार्थभेदास्ते सर्वेपीह पूर्वोत्तरयोः श्लोकयोरनुसंधेयाः। सर्वोपायविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् । एतज्ज्ञानं च योगश्च शेषोन्यो ग्रन्थ वन्तर इत्यादिशास्त्रैः प्रोक्षणादिमिः समिदादिकमिव परिशुद्धस्वरूपयाथात्म्यज्ञानेन संस्कृत्यात्महविः समर्पणीयमित्युक्तत्वा- दिहापि शरीरेन्द्रियादिभ्योतिरिक्त स्वात्मानं प्रथम विशोध्य तं ब्रह्माणि समर्प्य स्वाधिकारानुगुणमर्थयते-- 'भोक्ता भोग्यं प्रेरितारं च मत्वा' [श्वे० १।१२ ] इत्यादिश्रुत्यन्त प्रसिद्धचिदचिदीश्वरतत्त्वत्रयमिहापि द्रष्टव्यम् । वायुः विद्या कर्मानुगुणमगवत्संकल्पवशेन तत्र तत्र गन्तृत्वाद्वा वायुः । अनेन जीवस्याणुपरिमाणत्वं परमात्माधीनत्वं च सिध्यति । चा गतिगन्ध. नयोरिति धातुः । निलयरहितत्वात् कचिदपि व्यवस्थितत्वाभावाच्चानिलः । ममृतम् । नियमाणेपि देहसंताने स्वयममृतं स्वरूपतो धर्मतश्चाविनाशीत्यर्थः । 'अविनाशी वा अरेयमात्मानुच्छित्तिधर्मा ' [ वृ० ४ । ५। १४ ] न विज्ञातुर्विज्ञातेविपरिलोपो विद्यते ' [ बृ० ४ । ३ । ३० ] न विद्यत उच्छित्तिविनाशो यस्य सोनुच्छितिनित्य इत्यर्थः । अनु- च्छित्तिर्धर्मो यस्यासावनुपिछत्तिधर्मेति पुनर्बहुव्रीहिः । नित्यज्ञान- वानिति भावः । आहुश्च यामुनमुनयः-तदेवं चित्स्वभावस्य पुंसः स्वाभाविकी चितिः । नानापदार्थसंसर्गात्तत्तच्चित्तत्त्वमश्नुते ॥ इति । तदमृतत्वम् 'अपहतपाप्मा विरजो विमृत्युः।' [छा० ८ । १ । ५] इति फलं प्राप्तस्तथा प्राप्तिविरोधि च ॥ इत्युत्तरार्धन समानार्थकः - अग्ने नयेत्यादिमन्त्रः। प्राप्युपाय:- भूयिष्ठां ते नमउक्ति विधेमेति । फलं-अग्ने सुपथा नयेति । प्राप्तिविरोधि- युयोध्यम्मज्जुहुराणमेन इति । ग्रन्थविस्तर इति । अतोन्यत्तत्र तात्पर्य नास्तीत्यर्थः। इत्यादिशास्स्रारति . आत्मस्वरूपयाथार्थ्यज्ञानेनात्महविषः संस्कारं कृत्वा तत्समर्पणीयं ब्रह्मणि । हविःसंस्कारे दृष्टान्तः प्रोक्षणादिभिरिति । होमद्रव्याणां समिघृतादीनां प्रोक्षणावेक्षणानुमन्त्रणानि यथा संस्कारास्तथात्महविषः परिशुद्धस्वरूपयाथात्म्यज्ञानं संस्कार इत्यर्थः । अतिरिक्तमिति । 'भस्मान्तः शरीरम् ' इत्युक्तेः। शरीरमि. न्द्रियादीनांमुपलक्षणम् । वायुरिति । जीवो हि स्वविद्याकर्मानुसारिभगवत्प्रेरणा- सर्वगत्वाद्वायुरणुपारमाणः । अनिल इति । निलयं गृहं तद्रहितत्वेन कुत्रापि स्थितेरभावाजीवोनिल इत्यभिधीयते। अमृतमिति। जीवधूतदेहानां प्रारधनाशात् विनाशप जीवो न वशात्तत्र तत्र वस्तुषु गमनशीलोतो वायुरुच्यते।

ईशावास्योपनिषत्। ३१ श्रुतेः । अनिलममृतमिति पुंलिङ्गत्वेन विवरणीयं वायुरिति पुंलिङ्गत्वेनो- पक्रमात् । अत्र विशिष्ट वृत्त्या योगतो वा परमात्मविषयत्वं न शङ्कनीयम् ] नश्वरदेहस्यानन्तरवचनेन तव्यावृत्त्या प्रत्यगात्मपरत्वस्यैव न्याय्यत्वात् । क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः [श्वे. १।१०] इति श्रुतावमृतशब्दस्य जीवे प्रयोगात् । स्वभोग्यतया प्रधानं हरतीति हरो जीव इत्यर्थः । एवं प्रत्यगात्मनोमृतत्वमभिधाय तच्छरीरस्य मृतत्व- मवश्यमित्याह-- अथेदं भस्मान्तं शरीरमिति । प्रकृतादर्थादर्थान्तरविव- क्षायामथशब्दः । इदं शरीरमिति विशेप्यमीश्वरशरीरव्यवच्छेदार्थम् । कर्म- वश्यशरीरं भस्मान्तमित्यर्थः । ब्रह्मादिषु प्रलीनेषु नष्टे स्थावरजंगमे । एक- स्तिष्ठति सर्वात्मा स तु नारायणोव्ययः । इत्युक्तः । भस्म शब्दो दाहा- त्यसंस्कारपरः सन्खननादेरप्युपलक्षकः । अत्रात्मशरीरयोरमृतत्वमृतत्वोक्त्या भेदः समर्थ्यसे । रसायनादिसेवया शरीरस्य नित्यत्वसंदेहोपाक्रियते । स्व- देहवैराग्यं कार्यमिति च सूच्यते । शीघ्रं मोक्षोपाये प्रवर्तितव्यमित्यादिकं द्योत्यते । एवं चिदचिद्विवेकमुक्त्वा प्रेरितारं महापुरुषं प्रणवेनोपादते- ॐ मिति । उक्तं च योगानुशासने । क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुष- विशेष ईश्वरः । (यो० सू० १ । २४ ) तस्य वाचकः प्रणवः । ( यो. नश्यति । विवरणीयमिति । वायुरितिमंत्रारंभस्थपुंलिंगघटितपदानुसारादनिलामृतपदे पुंलिंगघटितत्वेन विपरिणमय्य व्याख्येये । अत्रेति। वायुरित्यादिशब्दानां परमात्माओं न ग्राह्यः किन्तु जीवरूप एव अथेदं भस्मान्त शरीरामिति तदनन्तरं शरीरस्य ग्रहणात्। जीवा. दनन्तरं नश्वरशरीरोक्तिर्घटत एव । प्रत्यगात्मा-जीवः । अथशब्द इति । अथ शन्दो हि प्रस्तुतार्थादिनस्यार्थस्य वोधने प्रयुज्यते । इदमिति । इदमस्तु संनिकृष्टे इत्यादिवचनादिदं. शब्देन समीपवर्ति कर्मवश्यशरीरं बोध्यते । खननादेरिति । अनद्विवर्ष निखनेदिति याज्ञवल्क्यस्मृत्या द्विवर्षोनवयस्कस्य प्रेतस्य खननं विहितम् । आदिपदात् प्रेतशरीरवि- भागानां चतुर्दिक्षु प्रक्षेपो जलप्रक्षेपादिकं ग्राह्यम् । स्मयते हि परमहंसस्य शवं चतुर्धा विभज्य चतस्षु दिक्षु क्षेप्तव्यमिति यातदेहस्य च जले प्रक्षेपः । आयुर्वेदे रसायन युक्तं तेन शरीरं न विनंक्ष्यतीति कस्यचिन्मतिस्तामपाकरोति-रसायनादिसेवयेति । योगानुशासन इति । पातञ्जले योगशास्त्र इत्यर्थः । क्लेशकर्मत्यादिसूत्रस्यार्थः-अविद्यादयः क्लेशाः । कुशलाकुशलानि कर्माणि । तत्फलं विपाकाः । तदनुगुणा वासना आशयाः। ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते स हि तत्फलस्य भोकेति । यो धनेन भोगेनापरा. मृष्टः स पुरुषविशेष ईश्वरः । तस्य वाचक इति सूत्रस्यार्थः-ईश्वरस्य वाचकः प्रणवः ।

३२ प्रकाशिकासमता सू० १ । २७ ) आह च सर्वज्ञो महादेवः--ओमित्येवं सदा विप्राः पठध्वं ध्यात केशवम् । इति द्रष्टव्यम् । यद्वा शरीरमात्मानं च विविच्य विविक्तमात्मानमोकारवाच्ये परमपुरुषे समर्पयत्योमिति । प्रणवस्यात्मस- मर्पणपरत्वम् 'ओमित्यात्मानं युञ्जीत'। 'प्रणयो धनुः शरे ह्यात्मा ब्रह्म तल्ल. क्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् । [ मुं० २ । २ । ४ ] इत्यादिषु प्रसिद्धम् । अथ ऋतुरूपिणं विष्णुं ज्ञानयज्ञगोचरमभिमुखीकुर्व. स्तदनुग्रहं प्रार्थयते- क्रतो स्मर क्रतो ज्योतिष्टोमादिक्रत्वात्मक । ' अहं क्रतुरहं यज्ञ इति वचनात् । यज्ञः पञ्चमहायज्ञात्मक इत्यर्थः । स्मर स्मरणानुग्रहया बुद्धया विषयीकुरु । अहं स्मरामि मद्भक्तं नयामि परमां गतिम् । इति भगवद्वचनम् । अत्र स्मरामि नयामीति पद- द्वयस्य को स्मरामे नयेति प्रार्थनाद्वयापेक्षया प्रतिवचनत्वावगमात् । कृतं स्मर यत्कृतं यत्किचिदानुकून्यमनुसंधाय कृतज्ञस्त्वं मां रक्षेति वा । एतावदन्तं त्वत्कृत्यतयानुकूल्यं प्रतिसंधाय त्वमेव शेषपूरणं कुर्विति भावः । उक्तार्थ आदरातिशयात्क्रतो स्मर कृतं स्मरेत्यावृत्तिः ॥ १७ ॥ अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्ति विधेम ॥ १८ ॥ बृहदारण्यके पञ्चमेध्याये यदा वै पुरुषोस्माल्लोकात्प्रेति स वा- युमागच्छति [वृ. ५।१०।१] इत्यादिनार्थिरादिकं पन्थानमुपदिश्य पश्चा. दध्यायावसाने हिरण्मयेन पात्रणेत्याद्याश्चत्वारो मन्त्राः क्रमेण पठिताः । अमेभिशरीरक-यस्यामिः शरीरम् इति श्रुतेः । यद्वा-साक्षादप्यवि. रोध जैमिनिः [ब्र० सू० १।२।२८ ] अग्रं नयतीत्यमिः । अग्र- नयनादिगुणयुक्त नय प्रवर्तयेत्यर्थः । सुपथा शोभनेन मार्गेणार्थिरादिना । अर्चिरहःसितपक्षानुदगयनान्दौ च मारुतार्केन्दून् । अपि वैद्युतवरुणेन्द्र- ईश्वरः प्रणवस्य वाच्यः । प्रतिवचनत्वावगमादिति । श्रुतो क्रतो स्मरेत्युक्तं यत्तस्य स्मृतावहं स्मरामीत्युत्तरम् । अग्ने नयेत्यस्य च नयामि परमां गतिमित्युत्तरमित्यर्थः । शेषपूरणमिति । अवशिष्टकर्तव्यमागस्य पूरणमिति भावः ॥ १७ ॥ साक्षादपीति । अस्य सूत्रस्यार्थः--जैमिनिस्त्वाचार्यो वैश्वानरशब्दवदग्निशब्द. स्थापि परमात्मन एव साक्षाव्यवधानेन वाचकवे न कश्चिद्विरोध इति मन्यते ॥

ईशावास्योपनिषत् । ३३ प्रजापतीनातिवाहिकानाहुः । इत्यभियुक्तसंगृहीतेन मार्गेणेति भावः । राये धनाय ब्रह्मणः प्राप्यत्वाद् ब्रह्मैव सुस्थिरमनन्तवनं तस्मै हिरण्मय- पुरुषाय त्वस्पाप्तये इति भावः । अस्माननन्यप्रयोजनान् अनम्यगती- श्वेत्यर्थः । न केवलं मामपि त्वनुबन्धिजनानपीति बहुवचनस्या- भिप्रायः । देव मम बुद्धौ धोतमान । 'तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षु शरणमहं प्रपद्ये । (श्वे० ६ । १८) इति श्रुतेः । विश्वानि बयुनानि । चतुर्विधपुरुषार्थोपायान्यथावद्विद्वांस्त्वमस्मान्नेतुमर्हसीति भावः । 'यो वैवे. दांश्च पहिणोति तस्मै ( श्वे० ६ । १८ ) इति श्रुतेरिति भावः । मुमु. भुवै शरणमहं प्रपद्य इति मन्त्रगतं मुमुक्षपदं विवृण्वन्नाह -युयोध्यस्मज्न. हुराणमेन इति । हुर्छा कौटिल्ये । जुहुराणं कुटिलं बन्धात्मकमित्यर्थः । एनः अकृत्यकरणकृत्याकरणादिरूपं त्वदुपासनोत्पत्तिप्रतिबन्धामित्यर्थः । त्वत्प्राप्तिप्रतिबन्धकामिति वा । एन इति जात्यभिप्रायकम् । अस्मदस्मतः । युयोधि पृथक् कुरु । एतावदेव याचे त्वां जुहुराणमेनोस्मतः प्रथम वियो. जयेति तत्पश्चाद्यथामनोरथं विनाशय पुरुषान्तरे संक्रामय वा न तत्रास्माकं निर्बन्ध इति भावः । भूयिष्ठाम् । अनन्यगतित्वेनावृत्तितो भूयसीम् । नम- उक्म् ि। ते आप्तकामतया निरुपाधिकस्वामितया च नमउक्तिम् । निर- पेक्षाय ते विधेम विदध्महे । हे अमे देव विश्वानि वयुनानि विद्वांस्त्वं जुहु- राणमेनोस्मतो युयोधि सुपथास्मात्राये नय वयं ते भूयिष्ठां नम- आतिवाहिकानाहुरिति । अर्चिरादयो हि देवताविशेषा आतिवाहिकास्ते परम- पुरुषेण विदुषामतिवाहे नियुक्ताः । अतिवहनं हि गन्तॄणां गमयितृत्वम् । तच्च तत्पुरुषो- मानवः स एनान् ब्रह्म गमयति (छां. ४।१५।५-५।१०।२) इति श्रुतम् । अचिरह:- शुक्लपक्षोत्तरायणसंवत्सरमारुतार्केन्दुशब्दा अर्चिराद्यात्मभूतानां देवताविशेषाणां वायकाः । अनुबन्धिजनानिति । अनुयायिलोकानित्यर्थः । अकृत्येति । अनिहितस्य करणं विहितस्याकरणं चेत्यर्थः । जात्यभिप्रायकमिति । प्रतिबन्धकसामान्यमित्यर्थः । इति भाव इति । पापान्यस्मतो वियोजय तत्प्रतिपतिक तु भवदिच्छया किमपि भवतु न तद्विषयविशेषेस्माकमारह इत्यर्थः । अध्यायार्थमुपसंहरति-एवमिति। भगवद्गीतायाः प्रतिपाद्यविषयकोन्तिमः श्लोकः- सर्वधर्मान्परित्यग्य मामेकं शरणं मज ॥ अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ (भ. गी. १८१६६) इति । अतः परं-य इमं परमं गुह्यम् । (भ. गी. १८६५) इत्यादयः फलश्रुत्यादिप्रति: ५ ४ प्रकाशिकासमेता उकिं विधेमेत्यन्वयः । नित्याञ्जलिपुटा हृष्टा नम इत्येवंवादिनो भवाम इति भावः ॥ १८ ॥ एवमास्मिन्नध्याय आदितो मन्त्राष्टकस्य तु परतत्त्वं ततो मन्त्रा. एकस्य परमपुरुषविषयकं भक्तियोगरूपं साक्षात्साधनमवशिष्टमन्त्रद्वि- कस्य सर्वफलसाधनप्रपदनं प्रधानप्रतिपाद्यम् । एवं च भगवद्भीताध्यायष- दकं प्रथमं प्रथमाष्टकस्योपबृहणं द्वितीयषटकमुपरितनाष्टकस्य चरमश्लोकस्य पूर्वाधं वायुरनिलममृतमन्त्रोक्तानुष्ठानविधायकमुत्तराधं तु युयोध्यस्मज्जु हुराबमेन इति प्रार्थयमानानां प्रार्थनापूरण संकल्पपूर्वकं शोकप्रतिक्षेपकं चरमश्लोकोप्यस्य मन्त्रद्विकस्योपबृंहणमिति बोध्यम् । इति रामानुजमतानुयायिकूरनारायणकृतप्रकाशिका- समेतेशावास्योपनिषत् । पादकाः श्लोकाः । अस्मिन् सर्वधर्मानित्यादिश्लोकस्य पूर्वार्धन वायुरनिलमिति सप्त- दशस्य मन्त्रस्य तात्पर्यमुक्तम् । उत्तरार्धेन चाष्टादशस्य ' अग्ने नय' इत्यस्य तात्पर्य मुकम् ॥ १८॥ इति श्रीपाठकोपाव्हव्यम्बकतनूजनुःश्रीधरशास्त्रिकृता श्रीमदीशावास्योपनिषत् प्रकाशिकाव्याख्या वालबोधिनी समाप्ता ।

१ । । ९ अद्वैतविशिष्टाद्वैतयो।लक्षण्यस्य स्थलानि । १ आत्मरूपमेकमेव अन्यन्नास्त्येव । १ चिदचिद्रूपशरीरविशिष्ट आत्मक एव । तच्छरीरादन्यत्किचिन्नास्ति । २ आत्मा निर्विशेषो निर्गुणश्च । २ आत्मा सर्वज्ञत्वादिविशेषयुक्तः । अन- न्तकल्याणगुणाश्रयः । तत्र हेयगुणा न सन्ति। ३ आत्मा ज्ञानस्वरूपो न ज्ञानगुणवान् । | ३ आत्मा ज्ञानस्वरूपोप ज्ञानगुणाश्रयः । अतएव तस्य न वस्तुतो ज्ञातृत्वम् । वस्तुत एव तस्य ज्ञातृत्वम् । ४ आत्मा स्वरूपेण कूटस्थनित्यः । तेनैव | ४ परमात्मा स्वरूपेण कूटस्थनित्यः । चिद- रूपेणाद्वितीयश्च । चिद्रूपशरीरविशिष्टरूपेण तु परिणामिनित्यः। विशिष्टरूपेणेवाद्वितीयः। ५ परमात्मन एव मायोपाधिकमीश्वरत्वम- | ५ परमात्मैवेश्वरः। तच्छरांरभूतो जीव- विद्योपाधिकं जीवत्वम् । जडं तु प्रातिः | वर्गा जडवर्गव । ततो भिन्न एवेति विद भासिकं मिध्यवेत्यकमेव तत्त्वम् । चिदीश्वररूपं तवत्रयम् । ६ परमात्मनः सकाशादभिन्नापि भिन्नेव | ६ परमात्मनः सकाशाद्वस्तुतो मित्रं त्रि. त्रिगुणा परमात्मशक्तिरज्ञानादिपदवाच्या | गुणात्मकं प्रधानं जगतो मूलप्रकृतिः । तदुपहितः परमात्मा जगतो मूलप्रकृतिः । ७ अस्मिन्मते विवर्तवादः । अज्ञानेन पर ७ अस्मिन्मते परिणामवादः प्रधानमेवान्त- मात्मन्येवेदं जगद्भासत इत्येवरूपः । अत्र र्यामीश्वरसांनिध्याज्जगदाकारेण परिणमत रज्जुसर्पदृष्टान्तः । इतिरूपः । अत्र पयोदधिदृष्टान्तः । ८ परमात्मविवर्तभूतं प्रातिभासिकमिदं जग ८ प्रधानपरिणामभूतं चेदं जगत्सत्यमेव निमध्येव । ९ अन मतेऽनिर्वचनीयख्यातिः । अनिर्वच ९ अत्र मते सख्यातिः । वस्तुतः सत्यमेव नीयं चेदं जगदज्ञानदोषेण भासत इतिरूपा । जगत्प्रतीयत इतिरूपा । १० शुक्तिरजतस्थले स्वप्नादौ चानिर्वचनीया १. शुक्तिरजतस्थले स्वप्नादो च सत्या एवार्था भासन्ते । एवार्थाः प्रतीयन्ते । ११ तत्त्वमस्यादिशास्त्रमपि जगदन्तर्गत. ११ तत्त्वमस्यादिशास्त्र सत्यमेवात एव तत्त. वादसत्यमेव । तथापि तत्त्वज्ञानसाधनं स्वज्ञानसाधकम् । भवत्येव । स्वाप्नपदार्थवत् । १२ प्रमाणानि पद्। प्रत्यक्षानुमानोपमा-| १२ प्रमाणानि त्रीणि । प्रत्यक्षानुमानागम. नागमार्थापत्त्यनुपलन्ध्याख्यानि । रूपाणि । १३ परमात्मनोऽभिन्ना जीवाः । तेषां परमा- १३ जीवाः परमात्मनः सकाशाद्भिनास्त- स्मवदेव ज्ञानस्वरूपत्वं नतु वस्तुतो ज्ञाना- च्छरीरभूता अपि ज्ञानस्वरूपा ज्ञानगुणका- प्रयत्वं किन्त्वन्तःकरणोपाधिकं ज्ञातृत्वम् । श्रेति तेषां वस्तुत एव ज्ञातृत्वम् । १४ जीवो व्यापकः। १४ जीवोणुरूपः। १५ जीवो ब्रह्मस्वरूपत्वादेक एव । तदने- १५ जीवा वस्तुत एव नानाविधाः । जीवा कत्वं त्वौपाधिकम् । द्वैतं तु प्रकाराद्वैतम् । १६ साधनचतुष्टयसम्पत्त्यनन्तरं ब्रह्मजि- १६ कर्मस्वरूपज्ञानानन्तरं व्रजिज्ञासा । ज्ञासा

१७ तत्त्वमस्यादिमहावाक्यरात्मसाक्षात्कारे-। १७ तत्त्वमस्यादिमहावाक्यजन्योपासनादा.
ऽविद्यानिवृत्या शरीरस वेपि जीवशायां येन परमात्मा प्रमन्नो भवति । तथापि
मुक्तिः।
यावच्छरीरं सुखदुःखानुभवावश्यकत्वान्न
जीवद्दशायां मुक्तिः ।
१८ प्रारब्धकर्मणां भोगेन क्षये शरीरत्यागे १८ प्रारब्धकर्मक्षये लौकिकशरीरत्यागे
स्वस्वरूपेवस्थितिरूपा विदेहमुक्तिः । दिव्यदेहप्राप्त्या परमात्मना सह परमं
साम्यं भवति । इयमेवास्मिन्मते मुक्तिः ।
१९ मुक्ती जीवब्रह्मणोदो नास्ति । १९ मुक्तावपि जीवब्रह्मणो दोस्ति ।
२० मुक्तावस्थायां न लेशतोपि दुःखं न २० मुक्तावस्थायां दुःखलेशेनाभिन्नं सुखा.
सुन्वं भवति ।
धिक्यमनुभूयते ।

No text on this page.

Ishavasoupnishad

Author
Patak Dharshastri
Title
Ishavasoupnishad
File name
Ishavasoupnishad
Text
OCR done
Citation
1843
Published
2012
Publisher
Motilal Banarasi Das Book Seller, Lahore
Language
Sanskrit
Pages
46
Library
S.P College, Srinagar
Classification
Language. Linguistics. Literature
DLI number
242026
Barcode
99999990879773.00
Scanning centre
Allama Iqbal Library, University of Kashmir
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
4Fb68aPGw1L
Download PDF

Ishavasoupnishad