Svi-vmpl-machilipatnam

Kaavyamaalaa Navamoguchchhakan'

Durgaiprasaadena

PDF Proofread

Front matter

No text on this page.

KAVYAMALA.
A Collection of old and rare Sanskrit Kavyas,
Nâtakas, Champús, Bhânas, Prahasanas,
Chhandas, Alankâras &c.
PART IX.
EDITED BY
PANDIT SIVADATTA
AND
KÂS'INÂTH PÂNDURANG PARAB.
PRINTED AND PUBLISHED
BY
TUKÂRÂM JAVAJI
PROPRIETOR OF JAVAJI DADAJI'S "NIRNAYA-SAGARA" PRESS
BOMBAY
1893
Price 1 Rupee.

(Registered occording to Act XIV of 1867 ( All rights reserved by the publisher ) ॥श्रीः॥ काव्यमाला। नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन- च्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः । नवमो गुच्छकः। जयपुरवासिपण्डितशिवदत्तशर्मणा, परबोपाढेन पाण्डुरङ्गतनूभुवा काशीनाथशर्मणा च संशोधितः । मुम्बयां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः। PRO- १८९३ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरयन्त्रालयाधि- पतेरेवाधिकारः।) - मूल्यमेको रूप्यकः ।

अनुक्रमणिका। .... .... .... .... .... .... .... पृष्ठानि। १ आनन्दवर्धनाचार्यकृतं देवीशतकम् (कय्यटकृत टीकया समेतम्) १ २ अवतारकविप्रणीतमीश्वरशतकम् (सटीकम् ) ३१ ३ मधुसूदनकविप्रणीतमन्यापदेशशतकम् ४ लक्ष्मणाचार्यप्रणीता चण्डीकुचपञ्चाशिका ५ विद्यावागीशकविविरचितं कौन्तेयवृत्तम् ६ उत्प्रेक्षावल्लभकविरचितं सुन्दरीशतकम् ७ श्रीनारायणपण्डिताचार्यविरचिता शिवस्तुतिः ( सटीका). १०९ ८ श्रीमच्छंकराचार्यभगवत्पादविरचितं त्रिपुरसुन्दरीमानसिकोप- चारपूजास्तोत्रम् ११४ ९ श्रीसुन्दराचार्यकविनिर्मितं गीतिशतकम् १० श्रीसामराजदीक्षितविरचितं त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् १४० ११ श्रीशंकराचार्यविरचितं चतुःषष्टयुपचारमानसपूजास्तोत्रम् .... १५१ .... .... ....

काव्यमाला। श्रीमदानन्दवर्धनाचार्यकृतं देवीशतकम् । श्रीकय्यटकृतया टीकया सहितम् । नमोऽस्तु वागधीशाय हयग्रीवाय विष्णवे । कौमोदकीचक्रशङ्खकमलाड़ितपाणये ॥ प्रणम्य परमं धाम यत्प्रसादाज्ज्वलन्त्यमी। महामोहमहिम्नार्ता रविताराधिपानलाः ॥ सचिक्षिप्सुरल स्वबुद्धिरचितैः पर्यायशब्दैर्व्यधा- हीकां वल्लभदेव उत्तममतिस्मृत्यै भवानीस्तुतौ । पर्यायैः क्रियया समं कविकृतान्पाठान्पठन्कय्यट- श्चन्द्रादित्यतनूज इत्थमकरोत्तस्यैव नप्ता नवाम् ॥ आनन्दवर्धनकविप्रवरप्रणीतकाव्ये किमल्पमतिना क्रियते मयैवम् । कि वा पिपीलककुलानि न संश्रयन्ते मत्तेभदन्तपदपड्डिममेयसाराम् ।। विषमेऽत्र काव्यमार्गे सुरसे वा स्खलति मामकी धिषणा । बालेय निसरण (2) सप्राप्य शनैः शनैस्तदपि याति ॥ सर्वत्र काव्यारम्भे सबन्धाभिधेयप्रयोजनानि ज्ञातव्यानि । 'सिद्धिः श्रोतृप्रवृत्तीनां संब- न्धकथनाद्यतः । तस्मात्सर्वेषु शास्त्रेषु सबन्धः पूर्वमुच्यते ॥ सर्वस्यैव हि शास्त्रस्य कर्मणो १. ध्वन्यालोकीद्यनेकग्रन्थकर्ता श्रीमदानन्दवर्धनाचार्यः कश्मीरेषु ख्रिस्ताब्दीयनवम- शतकोत्तरभाग आसीदित्यसकृदुक्तम्. अयं देवीशतकटीकाकर्ता कय्यटोऽपि भीमगुप्तनरप- तिराज्ये तत्रैव ४०७८ मितेषु गतकलिवर्षेषु (९७८ ख्रिस्ताब्दै) टीका प्रणीतवानिति टीकासमाप्तौ विलोकनीयम्. अयं कय्यटश्चन्द्रादित्यसनुर्वैयाकरणकय्यटस्तु जय्यटात्मज इत्यस्माद्भिन्नः सटीकस्य देवीशतकस्य पुस्तकद्वयमासादितमस्माभिः. तत्रैक पुण्यपत्तनस्थ- राजकीयपुस्तकालयस्थं श्रीयुतभाण्डारकरपण्डितैः कृपया प्रहितमासीत्, तत्क-सज्ञकम्. अपर कश्मीरमहाराजाश्रितैयोतिर्विदुपाश्रीदयारामपण्डितैः प्रहितम् , तत्ख-सज्ञकम्. २. 'शङ्खचक्र' ख. ३. 'उन्नतमति' ख. ४. ख-पुस्तके 'बालेयनिसरण संप्राप्य' इत्यस्य स्थाने त्रुटिचिह्नमस्ति.

२ २ काव्यमाला। - वापि कस्यचित् । यावत्प्रयोजन नोक्त तावत्तत्केन गृह्यते ॥ इह तु देव्याः स्तोत्रेण स हाराध्याराधन संबन्धः । तदीयगुणकर्माणि चेहाभिधेयानि । तदभिधानद्वारकस्य च देव्या- यधनस्य दृष्टादृष्टफलभूता भोगापवर्गफलप्राप्ति प्रयोजनम् ॥ तत्रादौ कविः स्तोत्रं प्रारिप्सुः पञ्चभिः श्लोकैः कुलक चकार- अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम् । या च मातेव भजते प्रणते मानवे दयाम् ॥ १ ॥ नतापनीतक्लेशायाः सुरारिजनतापनी । न तापनी तनुर्यस्यास्तुल्या नादीनतापनी ॥ २ वक्रपद्मा विधेर्भान्ति यया सर्गलयो दया । या साक्षाद्या च जनितस्थितिसर्गलयोदया ॥३॥ याश्रिता पावनतया यातनाच्छिदनीचया । याचनीया धिया मायायामायासं स्तुता श्रिया ॥ ४ ॥ तमांसि ध्वंसमायान्ति यस्याः स्तुत्यादरेण वः । तस्याः सिध्यै धियां मातुः कल्पन्तां पादरेणवः ॥ ५ ॥ (कुलकम्) तस्या धियां मातुः पादरेणवो वः सिद्ध्यै कल्पन्ताम् । तस्या वर्णयिष्यमाणस्वरूपाया धियां मातुः प्रज्ञाजनन्याः सबन्धिनः पादरेणवश्चरणपांसवो वो युष्माकं सिद्ध्यै समीहितसंप- 'तये कल्पन्तां संपद्यन्ताम् । या वेधा न वेद । यां देवी वेधा ब्रह्मा न वेद न वेत्ति न जानाति । अपिशब्दोऽत्रार्थोऽवगम्यते । वेधा अपि न वेत्ति कोऽन्यो वराको ज्ञास्यतीति । यथा-'क्रोधावृतासौ क्षमते न धातुः। धातुः प्रजापतेरपि न क्षमते इत्यर्थः । कि- भूतां याम् । अनन्तमहिमव्याप्तविश्वाम् । अनन्तो भगवान्विष्णुस्तस्य महिमा माहात्म्य तेन व्याप्तं पूरितं विश्वं त्रैलोक्य यया ताम् । हरिमाहात्म्यवशेन हि भगवती जगदापूरय- तीत्यागमः । अथवा अनन्तैर्बहुभिरप्रमेयैर्महिमभिर्व्याप्त विश्व यया ताम् । अथ च या देवी मातेव जननीव प्रणते मानवे प्रह्ने भक्ते नरे दयां घृणां भजते पोषयति । यस्या अ. विज्ञेयस्वरूपाया अपि भक्तैर्भक्तिसुलभत्वमुक्त भवति । या वेधा अपि न वेद सा भक्त्या सुलभेति स्तोत्रोद्यमे साफल्यम् ॥१॥ अपरम् । यस्यास्तापनी तनुर्भानवी मूर्तिः न न तुल्या । सदृशैवेत्यर्थः । तपनस्येयं तापनी । किभूताया देव्याः । नतापनीतक्लेशायाः। नताना भक्तानामपनीता विनाशिताः क्ले. शा रागादयो यया तादृश्याः । कीदृशी च तापनी तनुः । सुरारिजनतापनी देवशत्रुमर्दनी। १. 'ऽतिसाफल्यम्' क.

देवीशतकम् । ३ सुरारिजनास्तापयतीति तच्छीलेति । देव्यप्येवभूतैवेति तयोस्तुल्यत्वम् । तथा अदीनतामौ- जित्यमापयति प्रापयत्यसावदीनतापनी । उच्छायप्रदा । इत्युभयो. समानम् ॥ २ ॥ यया देव्या वाग्रूपया विधेब्रह्मणो वऋपद्मा मुखनलिनानि भान्ति शोभन्ते । कीदृशाः सर्गलयः । ऋच एवालयः [भ्रमरा:] ऋगालयः वेदखण्डत्रयं सह तेन वर्तत इति । या च देवी साक्षाद्दया । दयामयीत्यर्थः । तथा या च देवी जनितस्थितिसर्गलयोदया जनिता विहिताः स्थितिसर्गलयाः पालनोत्पत्तिविनाशा येनासौ जनितस्थितिसर्गलयो भगवान्वि- गुस्तत उदयो यस्याः सा । भगवच्छक्तिरेव सा देवीति भावः । अथवा जनित उत्पादि- तः स्थितिसर्गलयानामुदयः प्रभवो यया ॥ ३ ॥ अन्यदपि । या पावनतया पवित्रत्वेनाश्रिता सेविता । पवित्रेत्यर्थः । तथा च या देवी यातनाछित् । यातना प्राग्विहितदुष्टकर्मविपाकः । अन्यच्च अनीचया अनूनया धिया प्र- ज्ञया मायाया आयामोऽविद्याप्रपञ्चस्तस्यायास उपपातो निवारणं त याचनीया प्रार्थनीया । तथा श्रिया लक्ष्म्या स्तुता ॥ ४ ॥ तथा यस्या देव्याः स्तुत्यादरेण स्मरणाभिनिवेशेन तमांसि मोहाबोधादयो ध्वंसं विना- शमायान्ति प्राप्तवन्ति तस्या एतादृश्या धियां मातुधिषणानां प्रसवित्र्याः संबन्धिनः पा. दरेणवश्वरणरजांसि वः सिद्ध्यै कल्पन्तामिति ॥ ५ ॥ ऋषीणां सादयामास या तमांसि त्रयीमयी। पायाद्वः सा दयामाधिच्छिदं जगति बिभ्रती ॥ ६ ॥ सा देवी वो युष्मान्पायाद्रक्षतात् । त्रयीमयी ऋग्यजुःसामरूपा ऋषीणां मुनीनां तमांस्यज्ञानानि सादयामास नाशयांबभूव । त्रय्यामुदितायामृषीणां हि तमांसि नष्टानि । तथा दयां करुणां बिभ्रती दधाना । किभूता दयाम् । जगति विश्वस्मिन्नाधिच्छिदं मन.पी- डाविनाशिनीम् ॥ ६॥ स्मरद्विषा या ययाचे यया चेयं विधेः क्रिया। यां चाच्युतोऽपि तुष्टाव तुष्टा वः सास्तु पार्वती ॥ ७ ॥ सा पार्वती हिमवत्कन्या वो युष्माकं तुष्टा प्रसन्नास्तु भवतु । या देवी स्मरद्विषा का- मशत्रुणा ययाचे प्रार्थिता । यया देव्या हेतुभूतया विधे प्रजापतेरियं प्रत्यक्षदृश्या सृष्टि- लक्षणा क्रिया सिद्धां । यां चाच्युतोऽपि तुष्टाव । हरिहरहिरण्यगर्भादिभि. स्तुतेत्यर्थः ॥७॥ या दमावनयागेन स्वाराधा नयसारया । हरिकैतवहास्याय सायामा विजिता यया ॥ ८ ॥ प्रतिलोमानुलोमत एवायं द्वितीय. श्लोकः- यायताजिविमाया सा यस्या हा बत कैरिह । या रसायनधारा स्वा न गेयानवमा दया ॥ ९॥ १. 'उत्तमया' क. २. 'स्मृत्यादरेण' ख. - काव्यमाला। सा बुद्धिरुत्तमालोकः सतामार्या पुनातु वः । यद्भक्तेरुत्तमा लोकः प्राप्नोत्येष विशुद्धताम् ॥ १० ॥ (विशेषकम्) सार्या पूज्या वो युष्मान्पुनातु पवित्रीकरोतु । या दभावनयागेन दम उपशान्तचित्त- ता तेनावन पालन तदेव याग इप्टिस्तेन स्वाराधा सुखमाराध्यतेऽभिमुखीक्रियते । यया नयसाध्या नीतिपरया हरिकैतवहास्याय हरेरिन्द्रस्य कैतवहास्याय व्याजोपहास्याय साया- माः सविस्ताराः कृतोद्यमा विजिताः पराभूताः । अभिमानवशेन शक्रमप्युपहास्याय के- चिदाक्रमन्ति तेऽप्यभिभूता ययेति भावः ॥ ८ ॥ या आयताजिविमाया आयते वितते आजौ सङ्ग्रामे विमाया विगतप्रपञ्चा । स्पष्टयुद्धा विविधमायाप्रपञ्चा वा । यस्याश्च देव्याः सा स्वा दया निजा करुणा अनवमा शोभना हा बत कैर्देवादिभिरिहास्मिञ्जगति न गेया न गातव्या । सर्वैरेव स्तुत्येत्यर्थः । हाबतशब्दौ द्वा- वपि विस्मये । यथा 'अहो बतासि स्पृहणीय वीर्य' इति । का च सा दया, या रसायनधा- रा पीयूषस्नुतिः । आह्लादकत्वात् ॥ ९॥ अन्यच्च । सतां साधूनां बुद्धिर्धीः । कीदृशी धीः । उत्तमालोक उत्कृष्टप्रकाशः । प्र- ज्ञाचक्षुर्हि अतरणिशशधरदहनमासोऽपि पश्यति न चर्मचारिति । रजस्तमोरहितप्रकाशरूपा हि या बुद्धिस्तद्देवीस्वरूपमाहुः । तथा च यद्भक्तेर्यदीयसेवनात् उत्तमा उत्खाततमाः वि- नाशितमोह. सन् उद्गततमा अपि वैष लोकोऽय जनो विशुद्धतामपगतकल्मषलमेति प्रा. प्रोति ॥ इत्यनुलोमोत्पन्नेन श्लोकेन सह श्लोकत्रयेण विशेषकमिदम् ॥ १० ॥ अयुद्ध साधुत्राणाय सामरा या सहारिणा । खड्नेन दीपा देवानां सामरायासहारिणा ॥ ११ ॥ चरणाघातनिहतकासरा च रणाजिरे । रराज या नयजयैरराजसजनानता ॥ १२ ॥ सावताद्वोऽम्बिकाभ्यय॑नामा नै न यशोऽभितः । तनोति प्रणतो यस्या ना माननयशोभितः ॥ १३ ॥ (इदमपि विशेषकम् ) साम्बिका जननी वो युष्मानवताद्रक्षतात् । या सामरा सदेवा सती । अथवा साम सान्त्व राति ददाति सामरापि मती साधुत्राणाय सज्जनपरिरक्षणायारिणा शत्रुणा समम- युद्ध युद्धमकार्षीत् । कीदृशी देवी। खड्गेन करवालेन दीपा उज्ज्वला । कीदृक्षण । देवा- नाममराणां सामरं सभामभवमायास क्लेशं हरति तच्छीलस्तेन सामरायासहारिणा । सा. झामिकक्लेशविनाशिनेत्यर्थः ॥ ११ ॥ १. 'नयन' क २. 'नयन' क.

देवीशतकम् । तथा या देवी नयजयैर्नीत्युत्कईं रराज शुशुभे । किभूता । रणाजिरे सङ्गमाङ्गने चर- णाघातनिहतकामरा पादाहतिव्यापादितमहिषासुरा । अन्यत् , अराजसजनानता । रजः- प्रतिषेधारतरे तमो निषिद्धम् । तत्सात्त्विकजनप्रणतेत्यर्थः । यथा च 'अरजस्काः परं पदम् ॥१२॥ अपर यस्या देव्या ना मनुष्यः प्रणतः प्रहो न नाभितः समन्ताद्यशः कीति तनोति विस्तारयति । अपि तु तनोत्येव । स च नाभ्यय॑नामा पूज्याभिधान । देवी वाभ्यों नामो नमन यस्या इति। अन्यच्च स पुमान्माननयशोभितः ।माननयाभ्यामलकृत इत्यर्थः॥१३॥ संयतं याचमानेन यस्याः प्रापि द्विषा वधः । संयतं या च मानेन युनक्ति प्रणतं जनम् ॥ १४ ॥ या दमानवमानन्दपदमाननमानदा । दानमानक्षमानित्यधनमानवमानिता ॥ १५ ॥ (मुरजबन्धः) सा रक्षतादपारा ते रसकृद्वौरवाधिका । सारक्षतादपारातेरसकृद्गौरवाधिका ॥ १६ ॥ (समुद्गकम्) (इदमपि विशेषकम्) सा देवी ते रक्षतादवतात् । यस्या द्विषा शत्रुणा संयतं सङ्ग्राम याचमानेन प्रार्थयमानेन वधः प्रापि मरणमलम्भि । या च देवी प्रणत प्रहं सयत जन यमनियमवन्त लोक मानेन युनक्ति पूजया सबध्नाति ॥ १४ ॥ या देवी दमानवमानन्दपदम् । दमेनेन्द्रियजयेनानवम श्रेष्ठो य आनन्दपद आनन्द- स्थानम् । विद्यया हि शमसुखलाभः । किं च, आननमानदा । आननस्य मुखस्य मान पूजां श्लाघारूपां ददाति प्रयच्छति । निरपभ्रंशपदभाषणान्मुख पूज्य भवति । एवं च पद- द्वयेन प्रकाशरूप वाप च.देव्या आगमोक्त प्रकाशित भवति । तथा दानमानक्षमानित्य- धनमानवमानिता । दानं सत्पात्रे धनसमर्पणम् । मान ज्ञानम् । क्षमा रोषोपघातः । ता एव नित्यमविनश्वरं धनं वित्तं येषां मानवाना पुसां तैर्मानिता पूजिता । दानादिभिरेव देव्यर्चिता यथा भवति न तथा पुष्पादिभिरित्यर्थः । एष मुरजबन्धः ।। १५ ॥ सा अपारा अपर्यन्ता गौर्वाक् अबाधिका अविघातिनी रक्षतात् । सारक्षतादुत्कर्षक्षतेः । असकृत्पुन:पुनः । रसकृत् रस राग करोति छिनत्ति च सा रसकृत् । अभिमत निरीह वा वस्तु रक्षतात् । कीदृशस्य ते । अपारातेनिःशत्रोः । किं च, गौरवाधिका गौरवेण पूजयाधि- कोत्कृष्टा । सर्वेषां गुरुरित्यर्थः । एष समुद्कबन्धः ॥ १६ ॥ १. 'अरजस्तं' क. २. 'मानन्द' क.

Rur काव्यमाला। अनुत्तमोहराशयो भवन्ति यामनाश्रिताः । अनुत्तमो हराशयो यया चिरं च रञ्जितः ॥ १७ ॥ अनन्तरागतापायास्तारयित्री भवापदः । अनन्तरागतापायाः सा वो गौरी हियात्क्रियाः ॥ १८ ॥ (संदानितकम्) सा गौरी वो युष्माकमनन्तरागतापायाः अनन्तरमविद्यमानान्तर कृत्वा आगताः प्राप्ता अपाया विना यासां ताः । अनिष्पन्ना एवोत्पन्नविनाशा याः क्रियाश्चेष्टा हियादप- हरतु । दुष्टक्रिया विनाशयत्वित्यर्थः । यां देवीमनाश्रिताः शरणं न प्राप्ता नरा अनुत्तमोह- राशयोऽप्रेरिताज्ञाननिवहा अविनाशिततमसो भवन्ति सपद्यन्ते । यया गौर्या अनुत्तमो- ऽविद्यमानप्रधानो हराशयो महादेवचित्तं चिरं बहुकालं रञ्जित आवर्जितः । तथा या देवी भवापदः संसारदुःखात् । भव एवापत् भवस्येति वा । कीदृश्या भवापदः । अनन्तोऽपर्य- न्तो रागतापः स्मरातिदाहो यस्यास्ततस्तारयित्री उद्ध: । भवापद इति कृद्योगे कर्मणि षष्ठी।अथवा अनन्ता ये रागजनितास्तापास्तानायस्यति क्षिपतीति देवीविशेषणम्॥११॥१०॥ यामायासजिदासक्तशोकजालस्य पातिनी । या माता सर्वदा भक्तलोकजालस्य पालनी ॥ १९ ॥ (गोमूत्रिकाबन्धः) सामरागमनायासं त्यक्त्वा साधै सुरारिभिः । सामरा गमनायासन्नुद्यता युधि यद्गणाः ॥ २० ॥ सामोदयाजया शातैः शस्त्रैः शत्रौ हते यया। सामोदया जयाशा तैर्गीर्वाणैर्गर्वतो जहे ॥ २१ ॥ ययायायाय्यया यूयं यो योऽयं येययैय याम् । ययुयायिययेयाय ययेऽयायाय याययुक् ॥ २२ ॥ साव्यादौरी सदा युष्मान्सदायुष्मान्समृध्यति । शरणं यां नरोगच्छन्न रोगच्छन्दमेति च ॥ २३ ।। (पञ्चभिः कुलकम्) सा गौरी गिरितनया युष्मान्भवतः सदा सततमव्यात्पायात् । या भक्तलोकजालस्य १. 'विघाता' क. २. 'अनिष्पन्नविनाशा याः' क. ३. 'विद्याप्रधानो' क. ४. 'उ- धरन्ती' ख. ५. 'जातस्य क. ६. 'ययो यो ख. ७. 'ये ये क. ८. 'जातस्य क.

देवीशतकम् ।
७
प्रणतजनसमूहस्य यामायासजित् । याममन्तककृतमायासमुपतापं जयत्यभिभवति । या
माता करुणापरा सती सर्वदा सर्वकाल च भक्तानामेवासक्तशोकजालस्य पातिनी । आस-
तानि संलग्नानि शोकजानि खेदोद्भवानि यान्यालस्यानि तानि पातयति निहन्त्यवश्य-
मिति । भक्तलोकस्य जाल समूहस्तस्य पालनी गोप्त्री च । गोमूत्रिकाबन्धः ॥ १९ ।।
तथा यद्गणा यस्याः संबन्धिनः पार्थकिकराः सुरारिभिः सार्ध दैत्यैः सह युधि सभामे
गमनायोद्यता प्रवेष्टुं साहंकाराः सामराः सदेवाः सन्त आसन्नभूवन् । किं कृत्वा । साम-
राग सान्त्वसक्ति त्यत्ता परित्यज्य । किभूतम् । अनायासमक्लेशम् ॥ २० ॥
यया चाजया जन्मरहितया सामोदया सहर्षया शत्रौ विपक्षे शातैः शस्त्रैस्तीक्ष्णैरायु-
धैर्हते निपातिते सति तैर्गीवाणैर्देवैः सामोदया जयाशा सान्त्वोद्भूता विजयाकाला गर्वतो-
ऽभिमानाज्जहे त्यक्ता । साम्न उदयो यस्या इति सामोदया ॥ २१ ॥
[यया आयाय अयि अया यूय यः यः ऽयं येयया एय याम् ।
ययुयायियया इयाय यये अयायाय या आययुक् ॥ २२ ॥ इति पदानि।]
अयि जनाः, यया देव्या हेतुभूतया यूयं भवन्तः आयायाविर्भूय अया विष्णुशरणा
भवत । अं भगवन्त वासुदेव यान्त्ययाः सपद्यध्वम् । प्रभवस्य हि हेतुर्देवीति भावः ।
यथा च-'गोविन्दभगिनी देवी तदन्ते तद्गतिप्रदा । भगवती' इत्यागमः । यः यः अयं लोकः
यामेय यां देवीं प्राप्य ययुयायियया इयाय । ययुभिरश्वैर्याति गच्छति तच्छीलो ययुयायी
सूर्यः त ययुयायिनं यातीति ययुयायियः रविमण्डलभेदी । मुक्त इत्यर्थः । तस्य या गतिः ।
यानं या । 'अन्यत्रापि दृश्यते' इति क्विप् । तया यययायियया सूर्यमण्डलभेदिगल्या ।
'विवन्तो धातुत्वं न जहाति' इति परिभाषावचनात् 'आतो धातो.' इत्याकारलोपे कृते
रूपमैतत् । इयाय जगाम । किमतया गत्या । येयया अवश्यप्राप्यया । यो यो जनस्तां
देवी शरणमेति स स सूर्यमण्डलभेदिगत्या गच्छति । मुच्यते इति तात्पर्यार्थः । अन्यच्च या
देवी अयायाय यये । अयो ज्ञान दैवमनुकूलं वा कथ्यते तस्यायः अयायः । अयनमायः
प्राप्तिः । तदर्थमयायाय ज्ञानप्राप्तये यये शिश्रिये । यस्माद्देवी आययुक् । आयेन ज्ञानेन
धनागमनेन वा युनक्ति सबध्नाति । अयनमायः । भावे घञ् । एय इति ईड् आट्-
पूर्वस्य ल्यपि ॥ २२ ॥
तथा यां देवी शरणं गच्छन्नरः प्रपद्यमानः पुनान् । सदायुष्मान् शोभनचिरजीवी सन्
समृद्ध्यति समृद्धिं संपत्ति प्राप्नोति । रोगच्छन्दं च नैति व्याधेर नुवर्तन च न प्राप्नोति ।
व्याधिवशादौषधपायी न जातु भवति । यो देवीं शरणमेति स आयुरारोग्यमैश्चर्य लभत
इति वाक्यार्थः ॥ २३ ॥
कृतास्पदा यया संपदघानि सुरवैरिषु ।
हन्ति या वाङ्मयी दूरादधानि सुरवैरिषुः ॥ २४ ॥

काव्यमाला। जितानया या नताजितारसाततसारता । न सावना नावसानयातनारिरिना तया ॥ २५ ॥ (सर्वतोभद्रः) मनोभवारातिमनोभिरामया जरामयापाकरणैकदक्षया । मदक्षयान्निर्मलतां ददानया सदा नयास्था क्रियतां तवार्यया॥२६॥ (विशेषकम्) तव भवतस्तया आर्यया गौर्या नयस्यास्था नीत्यवस्थितिः सदा सर्वकाल क्रियतां वि- धीयताम् । यया देव्या सुरवैरिषु देवशत्रुषु कृतास्पदा लब्धप्रतिष्ठा संपत्समृद्धिरघानि जन्ने हता । या च वाड्मयी परापश्यन्तीमध्यमावैखरीरूपा अघानि पापानि व्यसनानि वा हन्ति हिनस्ति । केन । सुरवैः साधुशब्दैः । सा च दूरहननादिषुरिवेषुः ॥ २४ ॥ या जितानया अविद्यमानो नयो नीतियेषां ते जिता यया। तथा या देवी नताजिता- रसाततसारता । नतानां भक्तानां आजितः सङ्ग्रामात् यस्तारस्तारणं विजयस्तत्र या सातता सविस्तारा । आततनमातत इति । सारता दृढता । बहुतरं दायं सा देवीत्यर्थः । न सावना न । सहावनेन रक्षणेन वर्तते इति सावना न न सावना कि तु सावनैव । भ- क्तानां सरक्षणा । कि च अवसानयातनारिः । अवसाने अन्तकाले या यातना दुष्कृति- विपाकास्तासामरिः शत्रुः विनाशिनी । इना स्वामिनी । सर्वतोभद्र एषः । बन्धस्तु प्रसिद्ध एव ।। २५॥ तया देव्या मनोभवारातिमनोभिरामया चित्तजन्मशत्रुचेतोनुकूलया त्रिनयनवित्तहा- रिया । तथा जरामयापाकरणकदक्षया जरा पलितं आमया व्याधयस्तेषामपाकरण ति- रस्कारः विनाशन तत्र दक्षया चतुरया । अन्यच्च मदक्षयादहंकारविधाता तोनिमलतां विरजस्कत्वं ददानया वितरन्त्या प्रयच्छन्त्या ॥ विशेषकमिदम् ॥ २६ ॥ समाययाविन्द्रहिताय या रणे समायया या न जितारिसेनया । स मा ययाचे हरमाश्रितः स्फुटं समा यया मुग्धतया मनोज्ञताः॥२७॥ सा भावक्षालवर्या नुतविभवितनुर्या वलक्षावभासा जानानस्याशयप्रा नवनलिनवनप्रायशस्याननाजा । सात वर्माननस्था रहसि रसिहरस्थाननर्मावतंसा पायादक्ता रणत्रा मतनमनतमत्राणरक्ता दयापा ॥ २८ ॥ (प्रतिपादं प्रतिलोमानुलोमः) (संदानितकम्) सा देवी अक्ता व्यक्ता पायादव्यात् । येन्द्रहिताय शक्रश्रेयोथै रण सभामं समाययौ समाजगाम । एवं व्यक्ताव्यक्तस्वरूपिणी देवीत्युक्तं भवति । या समायया सकपटयारि- देवीशतकम् । ९ सेनया शत्रुपृतनया न जिता नाभिभूता । अपि च मुग्धतया कृशतया युक्तः स माश्चन्द्रो हर महादेवमाश्रितः संश्लिष्टः सन् स्फुटं नूनं यया देव्याः समा तुल्या मनोज्ञता रामणीय- कानि ययाचे प्रार्थयामास । तत्समलावण्येच्छश्चन्द्रः स्फुट हरं याचते ॥ २७ ।। [या च देवी] सा भावक्षालवर्या । क्षालनं क्षाल: भावस्य चेतसः क्षालो नैर्मल्य तत्र च या वर्या श्रेष्ठा । तथा नुतविभवितनुः । नुता विभविनी महाप्रभावा तनुर्मतिर्यस्याः । वलक्षावभासा । वलक्षः शुद्धोऽवभास. प्रभा यस्याः । शुद्धप्रकाशरूपेत्यर्थः । कि च जानानस्य ज्ञानिनः आशयप्रा अभिलाषपूरणी । तथा नवनलिनवनप्रायशस्थानना । प्र. त्यग्रकमलखण्डतुल्यस्तुत्यमुखी । तथा अजा जन्मरहिता । कि चाननस्था मुखगता सती सातं वर्म श्रेष्ठः कवचः । सदैव सतां वाग्रूपेण परमं संनहनं सेत्यर्थः । तथा रहसि विजने रसी रसिको योऽसौ हरः शभुस्तस्य यानि स्थाने नर्माणि अवसरे परिहसितानि तानि अ- वतसः कर्णाभरणं यस्याः सा । रणत्रा सङ्ग्रामत्रायिणी । अपर मतनमनतमत्राणरक्ता ! अतिशयेन मतमभिप्रेतं नमन देवीप्रणामो येषां तेषां त्राणे रक्ता सक्ता । यतो दयापा। दयां करुणा पाति रक्षति आप्नोति वा । प्रणतानां दयापरेति भावः ॥ २८॥ उपासते कृष्टिकृतोदयां यां जना सदाराधनमीहमानाः । शंभोः प्रसिद्धा तनुतां वहन्ती गौरी हितं सा भवतां विधेयात् ॥२९॥ (अर्थत्रयवाची) सा गौरी मृडानी भवतां युष्माकं हितमनुकूलं विधेयाकुर्यात् । यो जना लोका उपा- सते सेवन्ते । यतः कृष्टिकृतोदयाम् । कृष्टीनां सूरीणां कृतो विहित उदय आविर्भावो यया ताम् । कीदृशा जनाः । सदा सततं सच्छोभनं वाराधनं संमुखीकरणं सेवामीहमानाः कान्तिः । किभूता देवी । शंभोः शर्वस्य तनुतां कायत्वं वहन्ती बिभ्राणा । प्रसिद्धा प्र. थिता ॥ अथ च सा गौर्वाणी इंहितमभिमत विधेयात् । कीदृशी । कृष्टिभिः सूरिभिः कृत उदयो विकासो यस्याः । शंभोर्ब्रह्मण अतनुतामकृशतां वहन्ती प्रसिद्धा ॥ तस्मिन्स्त्रीरूपे- णापि सुव्यक्ता स्थिता वागिति भावः । 'शंभू ब्रह्मेश्वरौ ज्ञेयौ' । यो जना उपासते। कीदृशाः । सतां साधूनामाराधनं चित्तग्रहणमीहमाना अभिलषन्तः ॥ अन्यच्च सा गौभः वः ईहितं विधेयात् । यो जना उपासते अधितिष्ठन्ति । कीदृशाः । सदाराः सकलत्राः। धन वित्तमीहमानाः प्रार्थयमानाः । कीदृशी क्षमाम् । कृष्टिभिः कर्षणैर्हलविलेखनै. कृत उदयः कृत्यागमः । देवी च वाङ्मयी (मही) मूर्तिरपीति वाक्यार्थः ॥ २९ ॥ यां सद्य एव त्रिदशैः पुमांसः समा नमस्यन्ति सदानभोगाः । अघानि यस्याः प्रणता विपक्षैः समानमस्यन्ति सदा नभोगाः ॥ ३० ॥ यस्याः प्रभावो युसदां विपक्षसेना वधानन्दयिताहरस्य मनोम्बुजस्यावहतु श्रियै वः सेनावधानं दयिता हरस्य ॥ ३१ ॥ (संदानितकम्) १० काव्यमाला। सा इना ईश्वरी हरस्य गिरीशस्य दयिता वल्लभा वो भवतां श्रियै लक्ष्भ्यर्थमवधान प्रयत्नमावहतु विदधातु । यां पुमांसो नराः सद्य एव प्रणतेः समनन्तरमेव त्रिदशैर्देवैः समास्तुल्या नमस्यन्ति प्रणमन्ति । कि च सदानभोगाः । सह दानेन त्यागेन भोगैर्विष- यानुभवैश्च वर्तन्ते ये ते । तथा यस्या देव्याः प्रणता प्रवाः नभोगा नभसि गता इति वि. पक्षः शत्रुभिः समानं सहाघानि पापानि सदा सर्वकालमस्सन्ति क्षिपन्ति ॥ ३० ॥ तथा यस्या देव्याः प्रभावो माहात्म्यं धुसदां सुराणां विपक्षसेना वधानन्दयिता अरि- वरूथिनीवधेन हननेनानन्दयिता परितोषयिता । कि चास्य मनोम्बुजस्य चेतःकमलस्य अहरिवाहः । विकासकत्वात् । एतद्देव्याः प्रभावस्य वा विशेषणम् ॥ ३१ ॥ सुरा जिता भावितदेवराजद्विपक्षमा यात रणादभीतम् । खापं न वो धाम हितं न नाम सदैवसेना भवतोहितानाम् ॥ ३२ ॥ सुराजिता भावितदेवराजद्विपक्षमाया तरणादभीतम् । स्वापन्नबोधामहितं ननाम सदैव सेना भवतो हितानाम् ॥ ३३ ॥ (महायमकम् सुरानिति द्वेषिजनैरभिद्रुतानुदाहरद्या स्वयमाहवोद्यता । शिवोऽद्य तापप्रशमस्तया तव प्रशस्तया तत्त्वदृशा विधीयताम् ॥३४॥ (विशेषकमिदम्) तथा देव्या प्रशस्तया मङ्गलभूतया तव भवत: अद्यास्मिनहनि तत्त्वदृशा सारज्ञानेन शिवः श्रेयाननुकूल:..... मसुख इति यावत्। तापप्रशम आध्यात्मिकाधिदैविकाधिभौतिक- दोषत्रयस्य प्रशमो विनाशो विधीयतां क्रियताम् । या देवी सुरान्देवान्द्वेषिजनैः शत्रुजनैर- भिद्रुतान्पलायितान्स्वयमाहवोद्यता सङ्ग्रामसंनद्धा सती इति वक्ष्यमाणप्रकारेणोदाहरदवो- चत् । कथमित्याह-है जिता अभिभूताः सुरा देवाः, रणात्सङ्ग्रामादभीत निर्भय कृत्वा यात गच्छत । मा भूद्भवतां सङ्ग्रामभयमित्यर्थः । भाविता देवराजद्विपस्य ऐरावणस्य क्षमा अशक्तता यैस्ते । अपर वो भवतां हितं धाम अनुकूलं स्थानं न न नाम स्वापम् । सुप्राप- मेवेत्यर्थः । अन्यच्च या देवसेना सह देवेन इनेन प्रभुणा च सुराजितमः सुष्टु भ्राजिता :- हितानां तर्कितानां चित्तविषयाणां शत्रूणां मध्ये भवतः सपत्"....."समस्तश्लोकयम- नान्महायमकमिदम् ॥ ३२ ॥ ३३ ॥ ३४ ॥ वकं बिभ्रत्युपहितचन्द्रायासं या संमोहप्रशमनसूर्याकारा । कारानीतामरमरिमाचिक्षेप क्षेपत्यक्ता रणभुवि सा वः पायात् ॥ ३५॥ (काञ्चीयमकम्) सा देवी वो युष्मान्पायात् । या उपहितचन्द्रायासं वक्र बिभ्रती स्वकान्त्यतिशयेनोप- हितो दत्तश्चन्द्रस्य शशाङ्कस्यायासो ग्लानिर्येन तादृशं वकं मुखं बिभ्रती धारयन्ती । तथा

देवीशतकम्।
११
संमोहो हार्द तमस्तत्प्रशमने विनाशने सूर्याकारा भानुतुल्या । सूर्यो यथा तमोविनाशने
दक्षस्तद्वद्धार्दतमोनिवृत्तये देवीत्यभिप्रायः । तथा या देवी क्षेपत्यक्ता भर्त्सनरहिता अनिन्द्या
रणभुवि आहवभूमौ कारानीतामरं बन्धनस्थापितदेवं अरि शत्रु आचिक्षेपाजुहाव। समरार्थ-
माहूतवतीत्यर्थः। काञ्चीवन्मेखलावत्स्तम्भनात्काञ्चीयमकम् । जलधरमाला नाम वृत्तम्॥३५॥
हितेहितेऽस्तु ते स्तुते जिताजितामितामिता ।
जयाजया जनोऽजनो यया ययावलं बलम् ॥ ३६ ॥
(आवलि म यमकमिदम्)
जयाख्या देवी ते तव हितहितेऽनुक्ले चेष्टितेऽस्तु भवतु । हितं च तदीहितामिति ।
त्वद्धितकार्ये वर्ततामित्यर्थः । कीदृशे । हितहिते स्तुते प्रशस्ते । कीदृशी देवी । जिताजिता
लब्धजयसमरतामिता गता । तथा अमिता अपरिच्छन्नस्वरूपा । अन्यत्, यया हेतुभूतया-
जनो लोक: अलमत्यर्थ बल] ययौ जगाम लेभे । कीदृश्या यया । अजया जन्मरहितया।
कीदृशो जनः । अजनः जन्मरहितः सन् । जनन जन इति कृत्वा नसमासः । प्राप्ततत्त्व-
ज्ञान इत्यर्थः । मुमुक्षुर्जनस्त्वत्प्रसादान्मोक्षावाप्तिसामर्थ्य लभत इत्युक्तं भवति ॥ ३६ ।।
सक्ति वः सुकृतार्जने विदधती सत्रा यतां त्रायतां
दुर्गा दुर्ग्रहदूषितोद्धतधियामायासदा या सदा ।
साधूत्साहविधानसक्तमनसां मुख्या ततां ख्यातनां
संस्मृत्यैव" "[मत्सरभरस्फीतापदां तापदाम् ॥ ३७ ॥
........ आयासदा क्लेशदायिनी ।तथा साधूत्साहविधाने सजनानामुत्साहकरणे
सक्तमनसामभिनिविष्टचेतसां लोकपालानां मुख्या प्रधानम् । अन्यच्च संस्मृत्यैव स्मरणेनैव
ततां विस्तीर्णा ख्याततां.....। मत्सरत(भ)रो द्वेषबाहुल्यं स एव स्फीतो विप्रलाप (१)
आपद्दौर्भाग्यं येषां तेषां तापदां खेदप्रदाम् ॥ ३७ ॥
या मूर्ति किमपि स्मरारिवपुषा धत्ते समायोजितां
यां दृष्ट्वैव विनाशमाप सहसा सुम्भः समायोऽजिताम् ।
या नद्रैः सुरसिद्धकिंनरनरैः खेदं विना शस्यते
सा हेतुर्भवतां त्रिलोचनवधूरश्रीविनाशस्य ते ॥ ३८ ॥
त्रिलोचनवर्हरपत्नी ते भवतः अश्रीविनाशस्यालक्ष्मीप्रतिघातस्य हेतुनिमित्तं भवता-
त्संपद्यताम् । या स्मरारिवपुषा मदनरिपुशरीरेण समायोजितां मिश्रितां मूर्ति तनु किमपि
केनापि हेतुना धत्ते धारयति । यां चाजितामपरिभूतां सुम्भाख्यो दैत्यः समायः सप्रपञ्चो-
ऽपि सन्दृष्ट्वैवावलोक्यैव सहसा झटित्येव विनाशं मरणमाप प्राप लेभे । तथा सुरसिद्धकि-
नरनरैर्देवसिद्धगन्धर्वपुरुषै. खेद विना आलस्यं विना शस्यते स्तूयते ॥ ३८ ॥

१२ काव्यमाला। सायासायात्रिलोक्याः शरणमकरुणक्षुण्णदैत्यप्रवीरा स्वैरं खैरंशस र्गहनतममहामोहहार्द हरन्ती । शस्याशस्याधाना सकलमभिहितं भक्तिभाजः स्मृतैव स्तादस्तादभ्रदोषा द्विषदुपशमनी सर्वतः पार्वती वः ॥ ३९ ॥ पार्वती वो युष्माकं सर्वतः समस्तादिग्देशकाविशदुपशमनी शत्रुमर्दिनी स्ताद्भवतात् । अस्ताः क्षिप्ता विनाशिता अदभ्रा महान्तो दोषा मूर्तामूर्त..."तथा सायासायाः सोप- तापायात्रिलोक्या भूर्भुवःस्वर्लक्षणायाः शरणमभयपदस्थानम् । अन्यचाकरुणं निर्दयं कृत्वा क्षुण्णा विनाशिता दैत्यप्रवीरा असुरप्रधाना यया सा । अपि च स्वैनिजैरंशसगैरव- यवप्रादुर्भावैः स्वैरं शनैः शनैः कृत्वा गहनतमो दुर्भेदो योऽसौ महान्हार्दो हृदयभवो मो- होऽविवेकस्तं हरन्ती निवारयन्ती । अन्यच्च भक्तिभाज: सेवासक्तपुंसः शस्याशस्य सम्य- क्स्तुत्याभिलाषस्य सतः स्मृतैव ध्यातमात्रैव सकलमशेषमभिमतमादधाना पोषयन्ती॥३९॥ सुरसुरचितचितनवनवभवभवनानादरादरायेये । लयलयचरणौ चरणौ न न मामि नतेन नमामि न ते ॥ ४० ॥ (निरन्तरावलियमकम्) हे देवि, सुरैर्देवैः सुरचितेन शोभनरचनाया चिता दृष्टा नवा अनन्यकृता नवाः स्तवा यस्याः सा सुरसुरचितचितनवनवा । तथा भवभवाः संसारसभूता ये नानादरा बहुप्रकारभयानि तन्निवृत्त्यर्थमादरेणौत्सुक्येन या आयेया आगन्तव्या । या भवभव- नानादादरायेया यातव्या । प्रथमार्धश्लोकेन (न) संधानम् । ते तव चरणौ पादौ लयो लीला विलासस्तस्य लयश्चरणं गमनं ययोस्तौ चरणौ नतेन नमनेन नमामि न मामि न पर्याप्तो भवामि । तृप्ति न गच्छामीत्यर्थः ॥ ४०॥ या विस्मयं स्मरभिदा चक्रेऽङ्कारोपिता नवं नारीणाम् । विदधे यच्चापस्य न च केंकारोऽपि तानवं नारीणाम् ॥ ४१॥ या हन्तां च प्रयाता विहायसा कंसमाह तारातिंबलेन । कृष्णस्तव परमाया विहाय साकं समाहतारातिबलेन ॥ ४२ ॥ तां नमत या च समरेष्वनेकशो भाति भद्रकाली नतया । ख्याति यया जनतोज्ज्वलविवेकशोभातिभद्रकालीनतया ॥ ४३ ॥ (कलापकम्) तां देवी नमत नमस्कुरुत या स्मरभिदा मदनहन्त्रा भर्ना हरेणाङ्कारोपिता उत्स- गमारोहिता सती नारीणां स्त्रीणां नवमपूर्व विस्मयमाश्चर्य चक्रे । तथा यच्चापस्य य- देवीशतकम् । १३ दीयधनुषश्च संबन्धी क्रेकारोऽपि ध्वनिरप्यरीणामरातीनां तानवं क्षयं न न विदधे अ- पि तु चक्रे । अपरं या तारा प्रकाशरूपिणी विहायसा आकाशेन प्रयाता गता सती कृष्णो भगवान्वासुदेवस्तव भवतः हन्तां हिसतु इत्यनेन प्रकारेण कंसाख्यं दैत्यमाहाबो- चत्स्म । कथमित्याह-परमाया विहाय द्विषत्कुस्तीः परित्यज्य अतिबलेन बाहुना समाह तारातिना निहतशत्रुणा बलेन भगवता सकर्षणाख्येन भ्रात्रा साकं सह । तथा या च भद्रकाली कात्यायनी समरेषु युद्धेष्वनेकशी बहुधा भाति शोभते । यया च देव्या नतया प्रणतया जनता जनसमूह उज्ज्वलविवेकशोमा प्रकृष्टज्ञानप्रभा सती अतिभद्रका- लीनतया अत्यर्थमङ्गल्यसपृक्ततया हेतुभूतया प्रशस्तया देवी भातीत्यर्थः । ख्याति प्रका- शते व्यक्तीभवतः (2) नमत इति संबन्धः ॥ ४१ ॥ ४२ ॥ १३ ॥ तां सरत या स्मृतैव हि मानवतामरसमानता राति बलात् । यत्प्रणतं श्रीः श्रयते मानवतामरसमान ताराति बलान् ॥ ४४ ॥ तां देवी स्मरत चिन्तयत । हि यस्माद्या मानवता ज्ञानिना स्मृतैव ध्यातैव सती अमरसमानता देवतुल्यत्वानि अमृतत्वादीनि राति ददाति । तथा यत्प्रणत यस्याः प्रखं मानवतामरस नरनलिनं आनतारातिबलात् आसमन्तानतं बन्धुरकंधर यदरातिबलं तत्प- रित्यज्य इति ल्यब्लोपे कर्मणि पञ्चमी तस्मादेत्य श्री: (बलात्) श्रयते सेवते ॥ ४४ ॥ अनवरागसमुद्भवदेहतामुपगता ददृशे गिरिशेन या । अनवरागसमुद्भवदेह तामवनतोऽस्मि जगत्प्रियतां सतीम् ॥ ४५ ॥ तां सती सतीसंज्ञां साध्वी वा अवनतोऽस्मि अहं प्रणतः । कीदृशीम् । या अनवरः सर्वोत्कृष्टो योऽसावगः पर्वतस्तत्समुद्भवदेहतां तजातशरीरत्वमुपगता जगत्प्रियतां च प्राप्ता सती गिरिशेन महादेवेन इहास्मिञ्जगति अनवरागसमुत् अनवेन चिरंतनेन रागेण प्रेम्णा समुत् सहर्षा ददृशे दृष्टा । तथा च कालिदासः-'सती सतीयोगविसृष्टदेहा' इति । तथा भवदा भवं संसारं द्यति खण्डयति ॥ ४५ ॥ मेने नूनमनेन माननमुमानाम्ना नु मेनोन्मना नुन्नेनोनमने निमानममुना नो नाम नानानुमे । मौनेनामममाननिम्नमननान्नानामिनानूनिमे मुन्मिन्नाननमा नमी मुनिमनोमानाननोन्नामिनि ॥ ४६ ॥ (अक्षरः) हे नुन्नेनोनमने देवि, नुन्नं प्रेरितं यदेनः पापं तदेव नमनं प्रणतिर्यस्याः । पापघा. तिनी यस्याः सेवेत्यर्थः । तामाहूय तुभ्यमित्यर्थादभ्यूद्यते तेन हे देवि, तुभ्यं नमः । वयं त्वां प्रणमाम इति भावः । तथा हे देवि, मेना हिमवन्महिला उन्मना सोत्कण्ठा सती अनेन तावकेन उमानान्ना उमेति संज्ञया नूनं निश्चितं मानन पूजनं मेने जज्ञे बु-

१४
काव्यमाला।
बुधे । नु वितर्के । हे नानानुमे, नानाविधा अनुमाः सज्ञा यस्था इत्यमुना अनेन च
नान्ना नो नाम निमान न पर्याप्तिः । नामशब्दोऽभ्युपगमे। एकेनोमानान्ना कतमा पूजा
भवेदित्यर्थः । तथा मौनेन तपसा पूताद्युपलक्षणोऽत्र मौनशब्दः । नियमत्र भावः । अमम-
माननिन्नमननान्नानामिनानूनिमे मममानं ममताज्ञानमहंकारस्तेन निम्नमल्पीभूतं मममान•
निम्नम् नसमासे कृते अमममाननिनं यन्मननं ज्ञानं तदेवान्नं शरीरवृत्तिर्येषां तपसा-
नहकारज्ञानवृत्तीनाम् इनानूनिमे उनस्य भाव उनिमा न अनिमा अनूनिमा । इना-
दादित्यादनूनिमा यस्याः । टाबन्ताया आह्वानं इनानूनिमे सूर्यसमाने । तथा हे मुन्मि-
नाननमाः मुदा हर्षेण मिनः स्निग्ध आननमा मुखचन्द्रो यस्याः । हे आन-
न्दमयीत्यर्थः । अन्यच्च हे मुनिमनोमानाननोन्नामः तदस्या अस्ति शीलं वेति तना-
मिनी । मुनिमनसामेषा ज्ञानमाप्याययतीति भावः । तस्य आह्वानमिति संबन्धः ॥ ४६ ॥
तां वन्देऽहं नवं देहं ज्ञानरूपं विधाय या।
सुधीरस्यति धीरस्य महामोहमयी त्वचम् ॥ ४७ ॥
तां देवीमह वन्दे प्रणतोऽस्मि या धीरस्य विषयानपहृतस्य सुधीः शोभनबुद्धिरूपा सती
ज्ञानरूपं बोधमय नव प्रत्यग्र देहं शरीर विधाय निर्माय महामोहमयीं महदज्ञानरूपां त्वचं
कृत्तिमस्यति क्षिपति नाशयति ॥ ४७ ॥
यां नुत्वा यान्ति हृद्यार्थसज्जायां गिरि शस्यताम् ।
नौम्यहं भक्तिमास्थाय सज्जायां गिरिशस्य ताम् ॥ ४८ ॥
तां गिरिशस्य जायां हरस्य पत्नी अहमस्मि भक्तिमास्थाय सेवां पुरस्कृत्य सत् शोभनं
कृत्वा वाङ्मनःकायैरिति नौमि स्तौमि यां देवी नुत्वा प्रणम्य हृद्यार्थसज्जायां मनोहरवस्तु-
प्रवणायां वाचि शस्यतां यान्ति प्रशंसां लभन्ते ॥४८॥
यदानतोऽयदानतो न यात्ययं नयात्ययम् ।
शिवे हितां शिवेहितां मरामितां स्मरामि ताम् ॥ ४९ ॥
तां देवी स्मरेण कामेनामितामपरिच्छिन्नामनभिभूतां स्मरामि चिन्तयामि ध्याये । य-
दानतो यस्याः प्रणतः पुमान् अयदानतोऽयो दैवमनुकूलं तस्य दानं क्षयः । दीड् आते
(धातोः ?) रूपम् । अतोऽयदानतो हेतोर्नयात्ययं नीतिविघातं न वाति न गच्छति । की-
दृशी देवीम् । शिव शंकरे हितामनुकूलाम् । तथा शिवं श्रेय.प्रदमीहित यस्यास्ताम् ॥४९॥
सर स्वतिप्रसादं मे स्थिति चित्तसरस्वति ।
सरस्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति ॥ ५० ॥
हे सरस्वत्याख्ये देवि, स्वतिप्रसाद सुष्टु अतिशयेन च प्रसाद सर गच्छ । स्वतिशब्दो
सुतरामर्थे । तथा मै चित्तसरस्वति चित्तमेव सरस्वान्समुद्रस्तत्र मनःसमुद्रे स्थिति पदं
कुरु विधत्स्व । क्षेत्रं शरीरं तदेव कुरुक्षेत्रसंज्ञं पुण्यस्थान तत्र नित्यावस्थानात्सरस्वती न-
दीव सरस्वती । तस्या आमन्त्रणम् । शरीरे नित्योदितवाग्रूपतया स्थितेति भावः ॥ ५० ॥

देवीशतकम् । १५ त्वद्भक्तिभावितधियो जगतामत्र ये त्रये । जन्मवत्तामहं मन्ये तेषामेवानृणां नृणाम् ॥ ५१॥ (विरोधाभासः) हे देवि, ये नरास्त्वद्भक्तिभावितधियस्त्वत्सेवाधिवासितधिषणा अत्रास्मिञ्जगति जगतां विष्टपानां त्रये त्रैलोक्ये ये सन्ति तेषामेव जन्मवत्तां सजन्मत्वमनृणां विनष्टऋणत्रयामहं मन्ये । अस्मिञ्जगति ऋषिपितृदेवानां ब्रह्मचर्यप्रजायज्ञैर्यदानृण्यं तद्देवीभक्त्या भवतीति भावः । अत्रये त्रये, अनृणा नृणां इति विरोधाभासित्वम् ।। ५१ ॥ जगतः सातिरेका त्वं गतिरस्य स्थिराधिका । तरस्यत्रासतारारेः सास्यत्रासरसस्थिति ॥ १२ ॥ (अर्धभ्रमोऽयम्) हे देवि, त्वमस्य जगतस्त्रैलोक्यस्य सातिरेका सातिशया गतिः परायणम् । श- रणमित्यर्थः । कीदृशी । स्थिरानपायिनी । अथाधिका । सर्वेषां गरीयसीति भावः । तथा- त्रास्मिञ्जगति असतारा सती अरेर्मोहात्तरसि । सह तारेण वर्तत इति सतारा । न सतारा असतारा । अनायासेन मोह नाशयसीत्यर्थः । कथम् । अत्रासरसस्थिति कृत्वा । त्रास- रसे अभिनिवेशे स्थितिः स्थानं न विद्यते यस्मिन् । सर्वतोभद्रापेक्षयार्धभ्रमणादर्ध- भ्रमः कथ्यते ।। ५२॥ त्वन्नामस्मरणादेव न लक्ष्मीश्चपलायते । सर्वतः पार्वति क्षिप्रमलक्ष्मीश्च पलायते ॥ १३ ॥ हे पार्वति गिरिजे, त्वन्नामस्मरणाद्भावकसंज्ञाचिन्तनादेव लक्ष्मीः श्रीन चपलायते चपलत्वं नाचरति । न चलतीत्यर्थः । तथा क्षिप्रं त्वरित सर्वतो दशदिक्क सर्वपदार्थे- भ्योऽलक्ष्मीर्दीर्भाग्यं पलायते दूरीभवति ॥ ५३॥ जयन्ति भक्ता वित्तेशसमरायस्तवाहवे । तुभ्यं नमस्त्रिलोक्यर्थसमरायस्तबाहवे ॥ ५४ ॥ हे देवि, तव भक्त्याः संबन्धिनो भक्ताः सेवका आहवे सङ्ग्रामे जयन्ति सर्वोत्क- फैण वर्तन्ते । परानभिभूयेत्यर्थः । कीदृशा भक्ताः । वित्तेशेन वैश्रवणेन समस्तुल्यो सध नं येषां ते वित्तेशसमरायः । तस्मात्तुभ्य भवत्यै नमः । कीदृशे । त्रयाणां लोकानां समाहार- स्त्रिलोकी तदर्थ त्रिलोकीरक्षणार्थ यः समरो ययुद्ध तत्रायस्ता आ समन्तात्सयत्ना व्यापृता बाहवो भुजा यस्या इति ॥ ५४ ॥ सत्त्वं सम्यक्त्वमुन्मील्य हृदि भासि विराजसे । द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ॥ ५५ ॥ (पुनरुक्तवदाभासः) .

काव्यमाला। हे देवि, विराजसे विगतरजोविकारे हृदि हृदये त्वं भासि शोभसे । किं कृत्वा । स- म्यग्विधिवत्सत्त्व चेतोगुणमुन्मील्य प्रकटीकृत्य । तथा द्विषां शत्रूणां संबन्धिनी वाहिनी चमूमरीणां सारवती सेनां सेश्वरां त्वमुदकम्पयः कम्पयांचकार कम्पितवती । भासि वि- राजसे, द्विषामरीणाम्, सेनां वाहिनीम्, उदकं पयः, इति पुनरुक्तभासनात्पुनरुक्तवदाभा- सोऽयं न तु पुनरुक्तः ॥ ५५॥ दूरागतरसा धन्यः सेवते यस्तव स्तुतीः । दूरागत रसाधन्यः कल्पन्ते तस्य सिद्धयः ॥ १६ ॥ हे देवि, यो धन्यः पुरुषः पुण्यवास्तव भवत्याः स्तुतीः प्रशसाः सेवते विदधाति तस्य पुंसः सिद्धयो मनोरथा अणिमाद्या वा कल्पन्ते सपद्यन्ते । किभूताः सि. द्वयः । दूरागतरसा दूरमत्यर्थमागतो रसः सक्तिर्यासु ताः । अभिलषणीया इति यावत् । तथा दूरागो दुष्टासक्तिस्ततस्तर उत्तरणं साधयन्ति संपादयन्ति तच्छीलास्ताः ॥ ५६ ॥ मोहं हत्वास्पदं यासि सात्त्वमम्ब रवासिना । या न संस्तूयसे केन सा त्वम्बरवासिना ॥ १७ ॥ हे अम्ब मातः, सा त्वं वक्ष्यमाणस्वरूपा केनाम्बरवासिना सिदा देवेन न स्तूयसे । सर्वैरपि देवैः स्तूयस इति भावः। सा त्वं का । या भवती रवासिना अनाहतखड्न मोहम- ज्ञानं हत्वा विनाश्य प्रकाशात्मकसत्त्वगुणमयमास्पद स्वकीय प्रकाशस्थानं यासीत्यर्थः । तथा चोक्तम्-'अनाहते पात्रकर्णे भग्नशब्दे सरिदुते (?) । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति' ॥ ५७ ॥ प्रकाश्य गृह्यपुंसस्यखेदच्छेदाम्बुदावली । प्रज्ञात्मनेनविमला स्थिता दृश्यसि विद्वताम् ॥ ५८ ॥ (अपशब्दाभासः) हे देवि, असि त्वम् । विद्वताम् वेदनं वित् ज्ञानं विद्यते येषां तेषां सबन्धिन्यां दृशि बुद्धौ प्रज्ञात्मना ज्ञानरूपेण विवेकात्मना प्रकाश्य प्रकटीकृत्वा इनविमला आदिस्यरूपा ति- ष्ठसीत्यर्थः । कीदृशी त्वम् । गृह्यास्त्वत्सेवोद्यता ये पुमांसस्त एव सस्य शालिस्तस्य खेद आयासस्तस्य च्छेदे विनाशेऽम्बुदावलीत्यर्थः । गृह्य, प्रज्ञात्मनेन, दृश्यसि, विद्वताम्, इ- त्यपशब्दवदाभासनादपशब्दाभासः ॥ ५८ ॥ भवानि ये निरन्तरं तव प्रणामलालसाः । मनस्तमोमलालसा भवन्ति नैव तु क्वचित् ॥ ५९ ॥ हे भवानि शर्वभार्ये, ये जना निरन्तरमविरत कृत्वा तव भवत्याः प्रणामलालसाः प्रणतिपरास्ते मनस्तमोमलालसा चित्तमोहकलङ्कनिःशोभा न क्वचिन कुत्रचिद्भवन्ति संपद्यन्ते ॥ ५९॥ sinh देवीशतकम् । १७ विभावनाकुला त्वयि क्रमेण देवि भावना । वपुष्पतिस्थिरेतरे नितान्तमेव पुप्यति ॥ ६ ॥ हे देवि, त्वयि विभौ व्यापिन्यां त्वद्विषये क्रमेण यथोक्तविधिना अनाकुला स्थिरा नि- श्चला भावना भक्तिः अतिस्थिरतरे अतिशयेन स्थिरादितरे विनश्वरे वपुषि शरीरे निता- न्तमेवात्यर्थ पुष्यति पुष्टा । प्रकृष्टेत्यर्थः । अस्थिरेऽस्मिन्ससारे त्वद्भक्तिरेव सारमित्यर्थः॥३०॥ महोऽदयानामवधी रणेन महोदयानामवधीरणेन । महोदयानामव धीरणेनमहोदयानामवधीरणेन ॥ ६१ ॥ (पादाभ्यासयमकम् ।। न दयन्ते रक्षन्तीत्यदया हिंस्त्रास्तेषामदयानां महस्तेजः रणेन सप्रामेण या त्वमहो आ- श्चर्य दयानामवधीरणेन तिरस्कारेणावधीः निहतवती । निर्दयतया हिस्रात्व समरं महोद- यानामुत्सवोत्पत्तीनामवधीरणेनावधिक्षपणेन निरवधिसुखोत्पादनेन महोदया महान्तो बृहन्त ये या अयो ज्ञानं दैवमनुकूलं वा । उद्गतश्चासावय उदयः । महान्त उदया येषां तेषां धीरणेनं धीरयतीति धीरणं धैर्यकर्तारमिनमीश्वर प्रभुमव रक्षस्व । महाज्ञानानां धैर्यकर्तार प्रभुं पालयेति यावत् ॥ ६१ ॥ न मज्जनेन तीर्थानां तदिह प्राप्यते शुभम् । नमज्जनेन तीर्थानां सेवया यत्तवाम्बिके ॥ ६२ ॥ हे अम्बिके मातः, तव भवत्याः संबन्धिनां तीर्थानामागमानां सेवया समाश्रयणेन नम- ज्जनेन प्रणतजनेन यच्छुभ फलं श्रेयः प्राप्यते लभ्यते तत्तीर्थानामृषिसेवितजलानां म- ज्जनेन न प्राप्यते ॥ ६२ ॥ प्रयाति मोहे निःसारभारतीव्रतमेत्ययम् । त्वत्प्रसादाजनः सारभारतीव्रतमेत्ययम् ॥ १३ ॥ हे देवि, अयं जनो लोकस्त्वत्प्रसादात्त्वदीयेन कारणेन सारभारतीव्रतं सारा प्रधाना चासौ भारती वाक् तद्रतं तत्परतामेति प्राप्नोति । पश्यन्तीस्वरूपं लभत इत्यर्थः । वा वित्रतये हि प्रधाना पश्यन्ती। तथा चोक्तम् -'अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा। स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥' कस्मिन्समये । मोहेऽज्ञानेऽत्ययं विनाशं प्र- याति गच्छति सति । कीदृशे मोहे। निःसारभारतीव्रतमे निःसारस्य दुर्बलस्य यथा भार आयासहेतुस्तद्वत्तीव्रतमे दृढतमे । अविषयायासद इत्यर्थः ॥ ६३ ॥ शास्त्रप्रभावहसिताः सतां या निर्मला गिरः । शास्त्रप्रभावहसितास्त्वमम्ब तिमिरच्छिदः ॥ ६४ ॥ हे अम्ब जननि, याः सतां साधूनां सूरीणां संबधिन्यः शास्त्रप्रभावेण पदवाक्यप्रमाणानां काव्यमाला। माहात्म्येन हसिता गिरो वाचो निर्भला अकलका निरपशब्दास्तास्त्वं शास्त्रप्रभा आयु- धदीधितयस्तिमिरच्छिदोऽन्धकारन्यो वहसि बिभर्षि धारयसि । निरपशब्दा वाचो मोह- ध्यस्तवायुधमित्यर्थः ॥ ६४ ॥ शमीह ते समानतो विभावितोऽत्रसन्न यः । विभावितोऽत्र सन्नयः शमीहते स मानतः ॥ ६५ ॥ हे देवि, ते तव समानतः सम्यक्प्रणतो य इह संसारेऽत्रसन्नविभ्यन्सन् न विभौ भग- वति वासुदेव्याख्ये ब्रह्मणि इत: न गतः । मोक्षं न प्राप्त इति भावः । शमी जितेन्द्रियः सन् सन्नयो विद्यमाननीतिः । अत्र ससारे विभावितो लक्षितो मानतो ज्ञानाद्धेतो सश्रयत ईहते चेष्टते यः । संसारसक्ततया भगवन्त विष्णुं न श्रितः सोऽपि त्वां प्रणतश्चेत्तद्विद्यमा- ननीतिः शमी च प्राप्तज्ञानो विश्व प्राप्नोतीति भावः ॥ ६५ ॥ मातरं त्वा पदं सद्य आश्रितास्ते कथं जनाः । मा तरन्त्वापदं सद्य आचं श्रेयः समाश्रिताः ॥ ६६ ॥ हे देवि, त्वां मातरमम्बिकां ये जना लोका आश्रितास्ते कथ केन प्रकारेण सद्यस्त- रक्षणमेव आपदं दुर्गति मा तरन्तु मा लड्यन्तु । दुःखमुत्तीर्य वर्तन्त इति भावः । त्वां की. दृशीम् । सत्पदं शोभनस्थानम् । जनाः कीदृशाः । आद्यमनिमं श्रेयः शिव समाश्रिता अधितिष्ठन्तः॥ ६६ ॥ भाति त्वत्तनुसंश्लेषे सत्यम्ब पुरनुत्तरम् । संसाराब्धौ सदाहुस्ते सत्यं वपुरनुत्तरम् ॥ ६७ ॥ हे अम्ब मातः, त्वत्तनुसंश्लेषे त्वत्कायसङ्गे सति पुरनुत्रिपुरारातिः शभु ति शोभते । ते तव संबन्धि च सत्सत्यं ध्रुवं वपुः पश्यन्तीवाग्रूप शरीरं ससाराब्धौ जगज्जलधौ सत्तरं शोभन प्लव अनुत्तरमविद्यमानापरमाहुर्बुवते । तत्त्वविद एव गायन्तीत्यर्थः । अविधातो. रम्बाशब्दसिद्धेः कथं केवलौष्ठयतया मकारः परमवर्णः (१) दन्त्योष्ठयोर्द्वयोरपीति य- मकस्याभङ्गः ॥ ६७ ॥ यच्छ मे नित्यसंसङ्गि यच्छमे तदिदं मनः। स्वच्छलो भक्तियोगस्ते स्वच्छलोकविवेकसूः ॥ ६८ ॥ हे देवि, यत् शमे विषयाणामसङ्गे मनश्चेतो नित्यसंसड्नि सततानुरक्तं तदिद तथावि- धमेतन्मे मम यच्छ देहि । यतस्ते तव संबन्धी यो भक्तियोगः सेवासङ्गः स स्वच्छल: सुष्ठ अविद्यमानच्छलो निच्छिद्रः सन् स्वच्छं निर्मलं लोकानां जनानां लोकयोर्वा इहामुत्र च विवेकं प्रकृतिपुरुषोत्तमोत्कर्ष सूते जनयति। अत एव इहात्र परत्र च स्वच्छता॥६॥ के वलन्ते वितन्वन्तकृतस्त्वत्प्रणता भवे । केवलं ते वितन्वन्त आसते विमलां धियम् ॥ ६९॥ .

देवीशतकम् । १९ हे देवि, त्वत्प्रणतास्त्वत्प्रह्वा जना वितन्वन्तकृतः वितनोरनइस्यान्तकृतो विनाशका- रिणो भवे संसारे के वलन्ते के आविर्भवन्ति । त्वत्प्रणता जितकामा विमुच्यन्त इति भावः । ते केवलमनन्यव्यापाराः सन्तो निर्मलाममोहां धिय बुद्धि वितन्वन्तो विस्तार- यन्त आसते तिष्ठन्ति । यावत्ससारस्तावद्विमोहः । भूयश्च त्वत्प्रणता भवे न निवर्तन्ते॥६९॥ देवि निर्दग्धकामस्य त्वं निरावरणात्मनः । हरस्य शुभसंतानं तेनासौ भ्राजते तथा ॥ ७० ॥ हे देवि, त्वं हरस्य गिरिवरतनयाधवस्य शिवस्य निर्दग्धकामस्य भस्मीभावितमीनके तनस्य तथा निरावरणात्मनः निर्गतमावरण परिधानमात्मनो यस्य आशाम्बरस्य दिग्वा- ससः शुभसतानं पुण्यप्रतानं श्रेयोविस्तारस्तेन कारणेनासौ हरस्तथा माहात्म्ययुक्तो भ्राजते शोभते । अत्र च क्रियां प्रत्याकाडैव नास्ति । विमृश्यमानश्वार्थों नान्वयः (१) एवं क्रि- याया अभावात् शुभसतानमिति द्वितीयानुपपत्तेस्त्वमिति प्रथमाया असामानाधिकरण्याच्च एतत्प्रतीयमानार्थसबन्धिनी क्रिया गोपिता भवति । अत्रैव च व्याख्यानाल्लभ्यते । तदा चान्वयो भवति-यथा देवि, निर्दग्धकामस्य निरभिलाषस्य तथा निरावरणात्मनः प्रक्षी- णक्लेशजालस्वभावस्य यतस्त्वमशुभसंतानमावरणसंतति हरसि निवारयसि तेनाशुभसंतान- हरणेनासौ तथा भ्राजते दीप्यते ॥ ७० ॥ द्विषद्भिया सपदि विमुच्यते यतस्तवानतो जननि जयाशया न कः । स्तवानतो जननिजया शयानकः करोति ते युधि मधुसूदनस्वसः ॥ ७१ ॥ हे मधुमथनभगिनि कात्यायनि जननि मातः, अतोऽस्माक्ष्यमाणाद्धेतोः कः पुमान् युधि सम्रामे जयाशयारिपरिभवाभिलाषेण स्तवान्स्तुतीन करोति न विदधाति । सर्वलोको जिगीषुस्तव स्तुतीविरचयतीत्यर्थः । यतो यस्मात्कारणात्तव भवत्या आनतः प्रहः जननि- जया लोकात्मीयया द्विषद्भिया शत्रुभीत्या का शयानकोऽपि निरुद्यमोऽपि सपदि तत्क्षणमेव प्रणामानन्तरमेव विमुच्यते त्यज्यते ततो हेतोरिति सबन्धः ॥ ७१ ॥ ज्यायोनिष्ठारिवर्याधिनियमनवरस्वैरदत्तायताज्ञा स्वाराधत्वासमध्यानियजनजननि ज्ञेयसुस्थावभासा । नानापुण्यागमस्था जननमनमयज्ञाननन्या वरा धी- र्याता नव्या विभुत्वं नुतसरलमनस्तामसस्यावहास्ये ॥ ७२ ॥ प्रतिलोमानुलोमतयात एवायं द्वितीयश्लोकः- स्येहाव स्या समस्तानमलरसतनु त्वं भुवि व्यानतार्या धीरा वन्द्या न न ज्ञा यमनमननजस्थामगण्या पुनाना ।

२० काव्यमाला। सा भावस्था सुयज्ञेऽनिनजनजयनि ध्यामसत्त्वाधरावा ज्ञातायत्तादरस्वैरवनमयनिधिर्या वरिष्ठानियोज्या ॥ ७३ ॥ (अनेन सह संदानितकम् ।) हे देवि, स्या समस्तानव । स्येति त्यदो रूप सत्वे कृते । तेन स्या त्वं सा भवती इहा- स्मिञ्जगति समस्तान्समग्रानव रक्ष । या त्वमित्यभूता ज्यायसां जगच्छ्रेष्ठानां निष्ठा परा कोटिः । तथारिवर्याणां शत्रुप्रधानानां आधीनां मनःपीडानां च नियमनाय निवारणाय वरस्याङ्गीकारस्य स्वैरं स्वातन्त्र्येण दत्ता वितीर्णा आयता दीर्घा अविनाशिनी आज्ञा शासनं यया । अथ वा दत्तं दानं यस्याः सा तथा । यताज्ञेति पृथगुक्तिः । स्वाराधत्वे- त्यादि । स्वाराधत्वेन सुखसेव्यतया समानि स्वप्रतिमानि ध्यानिनां योगिनां यानि यज- नानि यानाः (?) तानि जनयति या तस्या आमन्त्रणम् । ज्ञेये ज्ञातव्येऽर्थे सुस्थो निश्चलो- ऽवभासः प्रकाशो यस्याः सा ज्ञेयसुस्थावभासा । तथा नानापुण्यागमस्था नानाविधेषु बहु- प्रकारेषु पुण्यागमेषु धर्मशास्त्रेषु तिष्ठसि त्वम् । तथा जननमनमयज्ञाननन्या जनानां नमनमयं प्रणाममयं त्वत्प्रणामादागतं यज्ज्ञानं तेन नन्द्या। विद्यारूपा सती नन्दनीयेत्यर्थः । वरा श्रेष्ठा धीश्च त्वम् । तथा नुतसरलमनः नुतेन स्तवेन सरल मनश्चेतो यस्यास्ताशि देवि । तम एव तामसम् । प्रज्ञादित्वात्स्वार्थे णः । तस्य तामसस्य मोहस्यावहास्ये त्वं विभुत्वमीशत्वं याता गता नव्या स्तव्या । अपरं हे अमलरसतनु । अविद्यमानो मलरस आवरणं रागस्तनौ शरीरे यस्यातस्या आहूति: । त्वं भवती भुवि भूमौ व्यानता वि- धिवन्नमस्कृता । अर्या स्वामिनी । धीरा धैर्ययुक्ता । वन्द्या प्रणम्या । नन ज्ञा अपि तु ज्ञा सर्वदर्शिनी । यमनमननजस्थामगण्या च । यमेन अहिसास्तेयसत्यब्रह्मचर्यापरिग्रहादिवि- धिना, तथा मननेन ज्ञानेन जातं यत्स्थाम बलं तेन गण्या परिच्छेद्या । तथा पुनाना पवित्री- कुर्वाणा च सती हे सुयज्ञे शोभनयजने । तथा अनिनजनजयनि अनीश्वरलोकपरिभव- कारिणि । सा एवप्रकारा आयत्तादरस्वैः आयत्तो वश्योऽदरोऽभयः स्व आत्मा येषां तैः भावस्था आशयस्था ज्ञाता बुद्धा । तथा ध्यामसत्त्वाधरास्वा ध्यामानां धूसराणां तमो- मयानां सत्त्वाधरा......."आत्मीया । अवनमयविधिः पालनमय विधानम् । तथा व- रिधा श्रेष्ठा । अनियोज्या न केनचित्र्यते स्वतन्त्रेति भावः ॥ ७२॥ ७३ ॥ अलोलकमले चित्तललामकमलालये। पाहि चण्डि महामोहभङ्गभीमबलामले ॥ ७४ ॥ (भाषाषट्कसमावेशः ।) हे देवि चण्डि, पाहि रक्ष । अलोला अचपलापि त्व कमला लक्ष्मीः अलोलकमला। ताशि । तथा चित्तमेव ललामकमलं प्रधानपद्मं तदेवालयः कुलायो यस्याः । तथा महामोहस्य जन्मलक्षाव्यस्ताया अविद्याया भड्ने विनाशे भीममुग्रं बलं सामर्थ्य यत्तेना- मलेऽकलङ्के । अमलज्ञानरूपिणी सती अज्ञानं निहंसीति भावः । संस्कृतमहाराष्ट्रपिशा-

देवीशतकम् ।
२१
शाचमागधनरसेनापभ्रशात्मिकाः षडपि भाषा अत्र समाविष्टा यदा तदा भाषाषट्कसमा•
वेशोऽयम् । षण्णामपि भाषाणां साधारणा (2) न भियन्त इति वाक्यार्थः॥ ७४ ॥
दुर्गापि मातः सुलभासि भक्त्या भवानुकूलापि भवं क्षिणोषि ।
अध्येयतां यासि सदैव देवि ध्येयासि चित्रं चरितं तवैतत् ॥ ७५ ॥
हे देवि । तव भवत्याः संबन्धि चरितमाचारश्चित्रमाश्चर्यप्रदम् । यत' हे मातर्जननि,
दुर्गापि कात्यायन्यपि अविदितपरमार्थापि भत्तया सेवया सुलमासि । तथा भवानुकलापि
हरानुरक्तापि भव क्षिणोषि ससारं निहंसि । अपि च ध्येयापि चिन्तनीयापि सती अध्ये-
यतां पठनीयत्वं सदैव सर्वकाल यासि गच्छसि । अपिरिह सभावनायाम् । या दुर्गा दु-
र्गमा सा सुलभा, या भवानुकूला सा भवघ्नी, या ध्येया सा अध्येयतां यातीत्यपिशब्देन
विरुद्धवदाभासनाद्विरोधाभासोऽयम् ॥ ७५ ॥
महदेसुरसंधम्मे तमवसमासङ्गमागमाहरणे ।
हरबहुसरणं तं चित्तमोहमवसर उमे सहसा ॥ ७६ ॥
(संस्कृतमहाराष्ट्रभाषाश्लेषः।)
प्रकृतत्वात्संस्कृतशब्दार्थस्तावत्-हे देवि, महदे उत्सवदायिनि मे मम सुरसंध सुरा
देवाः संधिरवधिर्यस्य तम् आगमाहरणे शास्त्रार्जने समासग सम्यगासक्तिश्रद्धामव रक्ष ।
शास्त्रासक्तिर्देवैरपि न परित्यक्तेति भावः । यदुक्तम्-'तस्माच्छास्त्र प्रमाणं ते कार्याकार्य-
व्यवस्थितौ' इति । तथा हे उमे हे अगजे, हसनं हसः सह हसेन वर्तत इति सहसा
सामोदा सती अवसरे प्रसङ्गे बहुसरणमत्यन्तव्यापारं तं चित्तमोह चेतोजाड्य हर वि-
नाशय । कविवैचित्र्यरचितमहाराष्ट्रभाषाशब्दार्थोऽधुना--हे हरबहु शिववधु, धम्मे धर्मे
पुण्ये रसं रागं देसु देहि ददस्व विधत्स्व । तथा णे नः अस्माक गमागमा ससारातू
तमवस तमोवशां अविद्याप्रयञ्चायत्ता आसं आशा हर छिन्धि विनाशय । मोक्ष देही-
त्यर्थः । मह मम तं त्वं सरणं शरण परायणम् । सहसा झगित्येव चित्तमोहं मानसमज्ञानं
चित्तमोहं वा चित्रं नानाविधं मोहं मोघं विफलमर्थात्संसार अवसरउ अपसरतु प्रयातु
इतिक्रियात्रितयेन द्वितीयभाषाशब्दार्थः ॥ ७६ ॥
वन्द्या प्रभातसंध्येव सूर्यालोकप्रवर्तिनी ।
निवर्तयसि देवि त्वं महामोहमयीं निशाम् ॥ ७७ ॥
हे देवि, त्वं वन्द्या प्रणम्या । सूरीणां विदुषामालोकप्रवर्तिनी प्रकाशदायिनी ज्ञानदा
सती महामोहमयीमज्ञानस्वरूपां निशामविद्यां निवर्तयसि द्रावयसि । अत एव प्रभात-
सध्येव उषःप्रत्यूषयोरन्तरं यथा । सा हि संध्या सर्वेषा वन्द्या भवति तथा सूर्यालोकप्रव-
तिनी महान्धकारां निशां निवर्तयति ॥ ७७ ॥

२२ काव्यमाला । संवादिसारसंपत्तीसदागोरिजयेसुदे । तवसत्तीरदे सन्तु संसारे सुसमानदे ॥ ७८ ॥ (संस्कृतसूरसेनभाषाश्लेषः ।) तत्र संस्कृतशब्दार्थस्तावत्-हे देवि, असुदे प्राणदायिनि, तब संबन्धिन्यौ द्वे सत्ते । भावावित्यर्थः । तत्रैका विद्यमानता अपरा उज्ज्वलता ते सत्ते सद्विद्यमानमागोऽपराधो येषां तेषां सागसां सापराधानामरीणां शत्रूणां जयेऽभिभवे पराभवविषये संवादिसारसपत्ती संवादिनी ज्ञायमाना सारस्य बलस्य सपत्तिः समृद्धिर्ययोस्ते सत्ते।सापराधा अरयो यथा जनेन जीयन्ते तथा तव संनिधानमौज्ज्वल्यं च लक्ष्यत इत्यर्थः। तथा ते सत्ते द्वैभवसागरे सत्तीरदे शोभनपार- प्रदे। त्वयि सत्यां त्वत्प्रभावेण वा संसारसागरादुत्तीर्यत इति भावः । तथा सुसमानमपभ्रंशमानं ददतः । अथवा सुसमं ब्रह्मादिस्तम्बपर्यन्तं चतुर्दशविधे भूतसर्गे नित्योदिततया समत्वेन साधारणत्वेनावस्थितं शब्दं शब्दब्रह्म ददतः । तच्च संसारसागरसमुत्तरणप्लवम् । तथा च बाह्नची श्रुतिः-'ऋचे अक्षरे परमे व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः । यस्त न वेद कि- मृचा करिष्यति य एतद्विदुस्त इमे समासते ॥ इति । सूरसेनभाषार्थोऽधुना-हे गोरि हे गौरि, जयेसु जगत्सु त्रैलोक्यं दे ते तवसत्ती तपःप्रभावः सदा सर्वकाल संवादिसारसं- पत्ती शम्बातिसारसंप्राप्तिः शम्बवद्वज्रवदतिसारातिढा संप्राप्तिाभो यस्याः सा शम्बाति- सारसंप्राप्तिः। यदुक्तममरसिहेन-'हादिनी वज्रमस्त्री स्यात्कुलिश भिदुर पविः । शत- कोटिः स्वरुः शम्बो दम्भोलिरशनियोः ॥' इति । अनपायिनी त्वत्तपःशक्तिरित्यर्थः । कीशि गौरि । सत्ती रदे सत्त्वे रते चेतोविकारजयासक्त। कीदृशे सत्त्वे । शसारे श्रेयःप्र- धाने । तथा हे गौरि, सुसमानदे सुशमानते सुशमैः सुष्टुचित्तोद्रेकजयिभिरानते प्रणते । मुमुक्षवस्त्वां प्रणमन्तीति भावः । यतश्चित्तजय एव मोक्षः । यदुक्तम्-'चित्तमेव हि सं- सारं रागादिक्लेशदूषितम् । तदेव तद्विनिर्मुक्त मोक्ष इत्यभिधीयते ॥ इति ॥ ७८ ॥ आगममणिसुदमहिमसमसंमदकृदपरजस्सु । किर सविभयवदितो समय उजलभावसहस्सु ॥ ७९ ॥ संस्कृतापभ्रंशश्लेषः। द्विपथकाख्यं वृत्तम् । इहापि संस्कृतशब्दार्थस्तावत्प्रकृतत्वात्-हे देवि, अपरजःसु अपगतरजस्केषु गलितमोहेषु नृषु इतोऽस्मात्संसारादसमयेऽनवसरे आगममणिसुदमहि- मसमसंमदकृत् आगमाः शास्त्राणि त एव प्रकाशकत्वान्मणय इव मणयः तथा शोभनो यो दमश्चित्तोपशमः स एव निर्वापकत्वाद्धिमं तत्संबन्धी योऽसौ समोऽनाकुलः संमदो हर्षस्त कृन्तति छिनत्ति यत्तत्किर उत्क्षिप । अज्ञानं विनाशयेति वाक्यार्थः । कथम् । सविभयवत् सवो यज्ञोऽस्यास्तीति सवी यायजूकस्तेषां भयवद्भीतिवत् । यज्वनां यथा भयं किरसि तद्वदज्ञानं नाशयेत्यर्थः । तथा कीदृशेषु नृषु । उज्जलभावसहस्सु उद्गतो देवीशतकम् । २३ २ ३ योऽसौ जलभावो जडभावो जाड्य तत्र सहो बलं येषां तेषु । लडावेकरूपावित्या- नायः । अथ प्राकृतापभ्रशभाषार्थः । -जस्सु पर यस्य पर केवलं आगम मणि आगमाः शास्त्राणि मणि मनसि तथा सुदमहिम श्रुतमहिमा शास्त्रावबोधः, तथा सम शमः विषयनि- ग्रहः एते च सर्वे संमद साम्यदाः साम्यमनाकुलत्व ददानाः किर स वि किल सोऽपि भ- यवदितोसमय उज्जलभावसहस्सु भगवतीतोषमयमुज्ज्वलभावसहस्रम् । सहस्रशब्दो बाहु- ल्यार्थे । तदपि किल देवीपरितोषागत निर्मलपदार्थसहस्रमित्यर्थः । देवीप्रसादविलसित तत्तस्येति वाक्यार्थः ॥ ७९ ॥ अथ चक्रम्- त्वं वादे शास्त्रसङ्गिन्यां भासि वाचि दिवौकसः । तवादेशास्त्रसंस्काराज्जयन्ति वरदे द्विषः ॥ ८० ॥ (अप्रत्यभिज्ञायमकमिदम् ।) हे देवि वरदेऽभिलषितदायिनि, वादे स्वपक्षपरपक्षपरिग्रहे शास्त्रसङ्गिन्यां शास्त्रसज्जायां वाचि भारत्यां त्वं भवती भासि शोभसे । तथा दिवौकसो लेखा देवास्तव भवत्याः सब- न्धिन आदेशास्त्रसंस्कारान् आदेश आज्ञा तदेवास्त्र विनाशायाभिनिर्मित द्रव्य तत्सस्कारा- तद्भावनाबलाद्धेतोषिः शत्रून् जयन्त्यभिभवन्ति । वादे शास्त्रसमिति पञ्चाक्षरयमनेऽप्य- प्रत्यभिज्ञानादप्रत्यभिज्ञायमकमेतत् ॥ ८०॥ सदाव्याजवशिध्याताः सदात्तजपशिक्षिताः । ददास्यजत्रं शिवताः सूदात्ताजदिशि स्थिताः ॥ ८१ ॥ (गोमूत्रिकाबन्धद्वयेन जालाकारबन्धसंबन्धादयं जालवन्धः ।) हे देवि, अजस्रमनवरत शिवताः श्रेयस्त्वानि ददासि प्रयच्छसि । कीदृशीः शिवताः । सदा सर्वकालमव्याजैनिर्दम्भैर्वशिभिजितेन्द्रियैांताश्चिन्तिताः । तथा सच्छोभन कृत्वा आत्तजपैहीतमन्त्रावर्तनैः शिक्षिता अभ्यस्ताः ।अन्यच्च सूदात्ताजदिशि स्थिताः सुतु उदात्ता अर्जिताः प्रधाना या अजदिक् विष्णुस्थानं परं ब्रह्म तत्र स्थिताः । परब्रह्मण आगता इति भावः । अनन्तरप्रक्रान्ताप्रत्यभिज्ञायमकश्लोकेन सहामुना गोमूत्रिकाबन्धेन सह जाल- बन्धोऽयम् । केचित्त्वनेन (केवलेन) गोमूत्रिकाबन्धेन केवलेनैव जालाकृति विलिखन्ति तत्र यथानुरूपे युक्तायुक्तविचारे जालस्य प्रयोगतत्त्वविदश्चित्रकाव्यकरणकुशलाः कवयः प्रमाणम् ॥१॥ हरेः स्वसारं देवि त्वा जनताश्रित्य तत्त्वतः। वेत्ति स्वसारं देवित्वा योगेन क्षपिताशुभा ॥ ८२ ॥ हे देवि, जनता जनसमूहस्त्वा त्वां भगवती हरेः स्वसारं गोविन्दस्य भगिनीमाश्रित्य संसेव्य तत्त्वतः सत्यतः स्वसारं निजमुत्कर्ष वेत्ति जानाति । कथम् । योगेन चेतोवृत्तिनि- २४ काव्यमाला। रोधेन देवित्वा व्यवहृत्य क्षपिताशुभा विनाशितकिल्विषा । तथा च मनु:-'प्राणायामै- हरदोषान्प्रत्याहारेण संगतिम् । ध्यानेनानीश्वरान्भावान्धारणाभिश्च किल्बिषम् ॥ समस्ते- न्द्रियवृत्तिर्हि प्राणो वायुः प्रकीर्तितः । तज्जयादिन्द्रियाण्याशु विजितानि भवन्ति हि ॥ प्राणस्यैव जयो योगः प्राणस्यैव जयस्तपः । प्राणस्यैव जयात्सर्व प्राप्यते नात्र संशयः ॥' इति । तथा च छान्दोग्योपनिषदि-'यथा शकुनिः सूत्रे बद्धो दिशं 'दिश पतित्वान्यत्रा- यतनमलब्ध्वा बन्धनमेवोपाश्रयते एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वान्यत्रा- यतनमलब्ध्वा प्राणमेवोपाश्रयते । प्राणनिबन्धनं हि सोम्य मनः। तथा च बाहची श्रुतिः-'सप्त युञ्जते रथमेकचक्रमेकोऽश्वो वहति सप्तनामा । त्रिनाभिचक्रमजरमनवद्य य- त्रेमा विश्वा भुवनाधितस्थुः ॥ इति ॥ ८२ ॥ सदाप्नोति यतियॊतिस्तादृशं त्वत्प्रभावतः । प्रभावतः समो येन कल्पते मोहनुत्तितः ॥ ८३ ॥ हे देवि, त्वत्प्रभावतस्त्वन्माहात्म्यात् यतिश्चतुर्थाश्रमी संयमी वा तादृशं तथाविधं सच्छोभनं ज्योति प्रकाशमान्तर तेज आप्नोति लभते येन ज्योतिषा करणभतेन हेतुना वा मोहनुत्तितो मोहविनाशाद्धेतोः प्रभा दीप्तिर्विद्यते यस्येति तस्य प्रभावतः सूर्यस्य सम- स्तुल्यः कल्पते समर्थो भवति । संपद्यत इत्यर्थः । एव देव्या असकृन्नादरूपिणीत्वं प्रति- पाद्यानेन श्लोकेन बिन्दुरूपता प्रदर्शिता । परं ज्योतिर्हि बिन्दुशब्देनोच्यते । यदुक्तम्- 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यचन्द्रमसि यच्चानौ तत्तेजो विद्धि माम- कम् ॥' तथा चोपनिषत्सु ज्योतिःस्थानमसकृच्चागमेषु चोक्तम्-'नेत्रयोरुभयोर्मध्ये ना- शावशस्य मूलतः । हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥' इति ॥ ८३ ॥ त्वं सद्गतिः सितापारा परा विद्योत्तितीर्षतः । संसारादत्र चाम्ब त्वं सत्त्वं पासि विपत्तितः ॥ ८४ ॥ (अयं गूढचतुर्थः ।। हे अम्ब हे मातः, संसारादुत्तितीर्षत उत्तर्तुमिच्छोः पुंसस्त्वं सद्गति शोभनं परायण शरणम् । कीदृशी। सिता निर्मला । अपारा अपर्यन्ता । परा उत्कृष्टा विद्या तत्त्वज्ञाना- र्थदा । अत्र संसारे सत्त्वं प्राणिनं विपत्तित आपद आतेस्त्व पासि रक्षसि । चतुर्थोऽयं पा- दोऽत एव पादत्रयाल्लभ्यत इत्यस्य गूढचतुर्थता ॥ ८४ ॥ परमा या तपोवृत्तिरार्यायास्तां स्मृति जनाः । परमायात पोषाय धियां शरणमाहताः ॥ ८५ ॥ हे जनाः पुमांसः परमत्यर्थमादृताः सादराः सन्त आर्याया देव्याः संबन्धिनी तां स्मृतिं तत्स्मरणं शरणमायात आश्रयं श्रयध्वम् । स्मृति किविधाम्। परमा प्रकृष्टा तपोवृ- त्तिनियमव्रतवर्तनम् । देव्याः स्मरणमेव परमं तप इत्यर्थः । किमर्थ धियां बुद्धीनां पो- देवीशतकम् । घाय वृद्धये । अष्टप्रकारा बुद्धिरिति बहुवचन निर्देश. । यदुक्तम्-'शुश्रया श्रवण चैत्र ग्रहणं धारणं तथा । ज्ञानं विज्ञानमूहश्चापोहो बुद्धिः स्मृताष्टधा ॥' इति ॥ ८५ ॥ प्रवादिमतभेदेषु दृश्यस्ते महिमाश्रयः । भान्ति त्वत्रिशिखस्येव शिखानामसमाश्रयः ॥ ८६ ॥ हे देवि, प्रवादिना वारिग्मनां मतभेदेषु बुद्धिनानात्वेषु ते नव दृश आलोका भान्ति शो- भन्ते यान्येव प्रवादिनां भिन्नानि ज्ञानानि तास्त्वदीया एव दृष्टय इति तात्पर्यार्थः । कि- भूता दृशः । महिमाश्रयो माहात्म्यस्थानम् । त्वत्रिशिखस्येव भवत्रिशूलस्य यथा शिखानां कोटीनामसमा विषमास्तीक्ष्णा अश्रयो धारा भ्राजन्त एवम् । एतादृशा इत्यर्थः ॥ ८६ ॥ यच्चेष्टया तवे स्फीतमुदारवलु धामतः । यच्चेतो यात्यवहितमुदा रवसुधामतः ॥ ८७ ॥ (गोमूत्रिकाबन्धः । संदष्टयमकम्) हे देवि, तव भवत्याश्चेष्टया व्यापारेण श्रवणचिन्तनाध्ययनलक्षणेन इन्द्रियादिनियमेन वा । यत एषैव वागीशायाश्चेष्टा । यत उत्तम्-'मनस्युपरतं कुर्यादक्षग्राम बहिः स्थि- तम् । चित्तं बुद्धौ विनिक्षिप्य सा बुद्धिर्ज्ञानगोचरे ॥ ज्ञानभावनया कर्म कुर्याद्वा पारमा- र्थिकम् ।' इति । अत एव तया चेष्टया स्फीतं विकसित यच्चेतः अवहितं च सावधान संयतं मनः अत एवोदारवसु परमनश्वरं धनं तच्चेतो मुदा हर्षेणोपलक्षित सत् धामतो ज्योतिःस्थानान्मोक्षलक्षणात्स्थानात् रवसुधां शब्दामृत याति प्राप्नोति । शब्दब्रह्मोदयं लभत इत्यर्थः । यदुक्तम्-'ओमित्येकाक्षर ब्रह्म ।' तथा चोपनिषत्सु-'एतदेवाक्षरं ब्रह्म एतदेवाक्षरं परम् । एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥' गोमूत्रिकाबन्धोऽयं यमकश्च । प्रस्तारस्त्वेकदा दर्शितः ॥ ८७ ॥ सुरदेशस्य ते कीर्ति मण्डनत्वं नयन्ति यैः । वरदे शस्यते धीरैर्भवती भुवि देवता ॥ ८८ ॥ (अर्धगोमूत्रिकाबन्धयमकम्) हे देवि वरदे, अभिमतदायिनि, यैधीरैरविकृतचित्तैर्भवती वं भुवि भूमौ संसारे देवता शरणं शस्यते स्तूयते ते पुमांसः कीर्ति प्रथा सुरदेशस्य देवसदनस्य मण्डनत्वं भूषणत्वं नयन्ति प्रापयन्ति ॥ ८८॥ तत्त्वं वीतावतततुत्तत्त्वं ततवती ततः। वित्तं वित्तव वित्तत्वं वीतावीतवतां बत ॥ ८९ ।। (अक्षरः) हे देवि, वित विद्ये, बत आश्चर्य वीतावीतवतां सांख्यानाम् । वीतसंज्ञा अवीतसंज्ञा च सांख्यानाम् । प्रधानपुरुषसद्भावावेदकादेशहेतवः ते विद्यन्ते येषाम् । ततो हेतोस्तव भ. वत्या वित्तत्वं धनत्वं वित्तं ज्ञानम् । सार इत्यर्थः । ते हि ज्ञानादेव मोक्षमाचक्षते । य- २६ काव्यमाला। स्मात् तत् त्व तत्वं ततवती तद्भवती तत्त्वं परमार्थ परब्रह्मस्वरूपं ततवती विस्तारयन्ती । कीदृक्तत्त्वम् । वीतावतततुत् वीता विगता अवतता विस्तीर्णास्तुदो व्यथा यत्र तत् । सां- ख्यानां त्वमेव सर्वप्रधानमिति तात्पर्यार्थः ॥ ८९॥ तारे शरणमुद्यन्ती सुरेशरणमुद्यमैः । त्वं दोषापासिनोदग्रस्वदोषा पासि नोदने ॥ ९० ॥ (पादगोमूत्रिकाबन्धद्वयेन तूणवन्धः) हे तारे ताराभिख्ये विमले, त्व भवती शरणमुद्यन्ती आश्रितत्राणायोत्तिष्ठन्ती उदग्र- स्वदोषा उत्कटनिजबाहुना दोषापासिना दुरितविनाशकेन उद्यमैर्व्यापारैलॊदने प्रेरणे काले सुरेशरणं शक्रसंग्रामं पासि रक्षसि । पालिता देवा भवती शरणमेत्य पुनः सग्रामासक्ताः संपद्यन्त इति वाक्यार्थः । प्राक्तनेन 'सुरदेशस्य ते कीर्ति' इत्यनेनार्धन गोमूत्रिकाबन्धेन सहामुना पादेनावृत्तिगोमूत्रिकाबन्धेन तूणबन्धोऽयम् ॥ न्यासः ॥ तत्र प्रकारपञ्चकमत्र व्याख्यायते ॥ ९ ॥ सुमातरक्षयालोक रक्षयात्तमहामनाः । त्वं धैर्यजननी पासि जननीतिगुणस्थितीः ॥ ९१ ॥ हे सुमातः, शोभनजननि, जनानां लोकाना नीतेन॑यस्य गुणानां सच्चरितानां स्थिती: स्थैर्याणि पामि आयसे । विद्याप्रसादाद्धि जनाना नीतो गुणेषु च स्थैर्यमुत्पद्यते । शास्त्र- मार्गानुल्लकी व्यापारी नीतिः । गुणाः क्षमादयः। कीदृशी त्वम् । अक्षयालोकरक्षया शा- श्वतज्योतिस्त्राणेनात्तं गृहीतं महदुदारं मनश्चेतो यया । अविनाशप्रकाशरूपिणीत्यर्थः । प्रथा च धेर्यजननी धैर्यस्यानाकुलताया उत्पत्तिः ॥ ९१ ॥ ख्यातिकल्पनदहका त्वं सामय॑जुषामितः । सदा सरक्षसांमुख्यदानवानामसुस्थितिः ॥ ९२ ॥ (रेफविवर्तितकोऽयम्) है देवि, त्वं भवती इतोऽस्मिञ्जगति अनवानामकृतानां सामर्यजुषां त्रयाणां वेदाना मसुस्थितिः प्राणरूपा सती । वेदानां हि वागीशी प्राणरूपा जनानां च । तथा च बा बची श्रुतिः-‘चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधाबर वृषभो रोरवीति महो देवो मानाविवेश ॥' इति । अतः सदा सततं सरक्षसांमुख्यद। निरपभ्रंशाभिमुख्यदायिनी । ख्यातेः समृद्धेः कल्पने रचने दक्षा चतुरा । एका नापरा । वेदानां विपर्ययदोषरक्षिणी त्वमेवेति भावः । रेफविवर्तनेनायमपरोऽर्थः-सरक्षसां रक्षोभिः सहितानां मुख्यदानवानां सामग्र्यजुषां सामग्र्यं समग्रतां जुषन्ति सेवन्ते ये तेषाम् । स- मग्राणामित्यर्थः । सदा ख्यातिकल्पनदक्षा प्रथाछेदनचतुरा भवसीत्यर्थः । रक्षोदानवयोरत्र १. 'प्रकारपञ्चकं म्लिष्टत्वान्न लिखितम्' इति पुस्तकान्तरे.

देवीशतकम् । २७ भेदः । अथवा दासानि भृत्यानि अप्रधानानि यानि पक्षांसि तानि दासरक्षांसि । सह तै- वर्तन्ते ये ते सदासरक्षसः तेषा सदासरक्षसाम् । सपरिवाराणामित्यर्थः । अथवा सह दासैः रक्षोभिश्च वर्तन्ते ये तेषामिति । अत्र श्लोकेर्यवर्णस्थरेफस्स विपर्ययात् य इति जायते तेन रेफविवर्तकोऽयम् ॥ १२ ॥ सिता संसत्सु सत्तास्ते स्तुतेस्ते सततं मतः । ततास्तितैति तस्तेति सूतिः सूतिस्ततोऽसि सा ॥९३ ॥ (यक्षरः) हे देवि, सा असि सा त्वं ततो हेतोः सूतिः शोभना अतिः रक्षा । अवतः क्तिनिपा- तनाद्रपम् । यस्मात्ते भवत्याः सबन्धिन्याः स्तुते. नुतेः हेतोः सतः साधो सततं सदा स- सत्सु सभोसु सत्ता प्रशस्तता निर्मला आस्ते तिष्ठति । तथा तस्य सतस्तता अस्तिता एति विस्तीर्णा विद्यमानता आयाति । दीर्घमायुरारोग्यमैश्वर्य च लभते आविर्भवतीति भावः । कीदृशी अस्तिता । तस्तेतिसूतिः तस्ता क्षपिता ईतीनां व्याधीनां सूतिः प्रसवो य- म्याम् ॥ १३ ॥ त्वदाज्ञया जगत्सर्वं भासितं मलनुद्यतः । सदा त्वया सगन्धर्व समिद्धमरिनुत्तितः ॥ ९४ ॥ (गोमूत्रिकाबन्धोऽयम्) हे देवि, मलनुत् आवरणनिवारिणि, त्वदाज्ञया भवच्छासनेन जगत्सर्व त्रैलोक्य समग्रं (त्रैलोक्य)नानशक्तेरिच्छाशक्त्यात्मक भवतीति भावः । यतो यस्मात्कारणादरिनुत्तितः शत्रुप्रेरणाद्विपक्षनाशाद्धेतोः त्वया भवत्या समिद्ध संलब्धज्ञानं सगन्धर्व सदेवकुशीलवमेत- ज्जगद्भासितं प्रकाशितम् । मलं हि मासो विपक्ष त च त्व तुदसि । प्रस्तारोऽस्य प्रा- रवत् ॥ ९४ ॥ यतो याति ततोऽत्येति यया तां तायतां यतैः । मातामितोत्तमतमा तमोतीतां मतिं मम ॥ ९५ ॥ (श्लोकाध व्यक्षरम्) हे देवि, मति बुद्धि मम तायतां मे विस्तार्यताम् । कीदृशीम् । तमोतीतां विगततमस्काम्। पा मत्या यतो याति यतो निवर्तते ततोऽत्यति ततो विनश्यत इति भावः। कीदृशी मतिः। ता जननी । तथा अमिता अपरिच्छिन्ना । उत्तमतमा प्रकृष्टा ज्ञानमयी । एते षोडश- श्लोकाश्चक्रे षोडशाराः । एत एव च पुनरनुलोमतो लिखिता अन्ये षोडश एवं द्वात्रि- शदराः ॥ १५ ॥ महत्तां त्वं श्रिता दासजनं मोहच्छिदा वस । यच्छुद्धत्वं गतः पापमन्यस्य प्रसभं जय ॥ ९६ ॥ द्विप्रकारो दासजनः एको निवृत्तपापावरणः अपरः पापावृतः । तत्र मोहच्छित् अज्ञा- २८ काव्यमाला। - ननाशिनि देवि, त्वं भवती महत्तां श्रिता माहात्म्यमास्थिता सती यः शुद्धत्व दासजनो गतः नैर्मल्य प्राप्तः तमावस अधितिष्ठ । अन्यस्य सपापस्य पापं कल्मषं प्रसभं बलाज्जय निवर्तय ॥ ९६॥ त्वं साज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु । प्रज्ञा मुख्या समुद्भासि तत्पृथुत्वं प्रदर्शय ॥ ९७ ॥ हे मातस्त्रैलोक्यजननि, सुवर्मसु सन्मार्गविषयास्वाज्ञासु निरूपणासु त्वं भवती मुख्या प्रधाना प्रज्ञा बुद्धिः स्पष्टं ज्ञाता सुव्यक्त विदिता तदा तत्पृथुल प्रजापृथुत्व बुद्धिविस्तार समुद्भासि समुद्भासते यत् तत्प्रदर्शय प्रकटीकुरु ॥ ९७ ।। अस्मादेव श्लोकादक्षराण्युचित्येयमार्या भवति- आज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्मसु प्रज्ञा । भासि त्वं सा मुख्या समुत्पृथुत्वं प्रदर्शय तत् ॥ ९८ ॥ अर्थोऽस्याः-हे देवि, जगन्मातस्त्रिलोकजननि, शोभन वर्त्म मार्गों येषां पुसां तद्वि- पया या आज्ञास्तासु व सा ज्ञाता विदिता मुख्या प्रज्ञा भासि। स्पष्टं समुत् प्रकटमान- ब्दरूपं सत्पृथुत्व महिमानं प्रदर्शय ॥ ९८ ॥ हन्यो रुषः क्षमा एता सदक्षोभास्तमुन्नतः । सतेहितः सेवते ताः सततं यः स ते हितः ।। ९९ ॥ हे देवि, क्षमा एतास्त्व एताः प्रसिद्धा याः क्षान्तयो दर्पनिहतयस्ता भवती इति भावः। कीदृशाःक्षमाः। रुषो हव्यः क्रोधविनाशिन्यः । तथा सदक्षोभाः सत्याश्चाक्षोभाश्च । श्रेष्ठा अधिकाश्चेत्यर्थ । ताः क्षमाः सततमजस्रं य उन्नतः प्रधानपुरुषः सता ईहितः शो- भनेन मार्गेण व्यापारितः सन्सेवते आश्रयते स ते भवत्या हितोऽनुकूलः ॥ ९९ ॥ करोषि तास्त्वमुत्खातमोहस्थाने स्थिरा मतीः । पदं यतिः सुतपसा लभतेऽतः सशुक्लिम ॥ १० ॥ हे देवि, उत्खातमोहस्थाने, उत्खातान्युन्मूलितानि मोहस्थानानि मदादयो यया तस्या आहूतिः । यतस्त्व स्थिरा मती: मैञ्यादिका धिषणा अचलाः करोषि सपादयसि । अतो हेतोः यतिर्मुमुक्षः सुतपसा शोभनेन निर्दम्भेन व्रतादिना सशक्लिम शुक्लिमा शुक्लगुणत्वं तेन शु- क्लिन्ना सह वर्तते यत्तत्सशुक्लिम सत्त्वगुणसहित रजस्तमोरहित पदं स्थानं लभते प्राप्नोति । चत्वार एते नेमिश्लोकाः । एभ्यश्च प्रथम (प्रथममक्षरं) त्रीणि त्रीण्यक्षराणि लिखित्वा चतुर्थमक्षर श्लोकप्रान्ते च भवतीति नेमेद्वितीयमध मीलित भवति । एवमेव चान्तर्लि- खित्वा मध्यान्नाभिमीलन भवति । एव चक्रप्रस्तारः ॥ १० ॥ अत एव द्वात्रिशतो नेमिस्थानान्नामितो वा भ्रम दत्त्वा तृतीयं तृतीयमेकोनत्रिशमेको- देवीशतकम् । २९ नत्रिशं चाक्षरमादाय यथा लिखितदर्शनानुसारमङ्कचिदानि वीक्ष्य वर्णद्वात्रिशतः श्लो- कोऽयमुत्पद्यते- देव्या स्वप्नोद्गमादिष्टदेवीशतकसंज्ञया । देशितानुपमामाधादतो नोणसुतो नुतिम् ॥ १०१ ॥ इत्यङ्कश्लोकोऽयमुत्पद्यते । अर्थोऽस्यायम्-एतामेवमुक्तप्रकारा नुति स्तुति नोणसुतो नोणाख्यस्य कस्यचित्पुत्र आनन्दवर्धननामा आधाद्विहितवानकार्षीत् । कीदृशीम् । देव्या वागीश्वर्या स्वप्नोद्गमै निद्राविर्भावे आदिष्टा निरूपिता देवीशतकमिति सज्ञा तया देशिता- नुपमाम् । तल्लक्षणो देशो निदेश आना विद्यते यस्याः सा देशिनी तस्या भावो देशिता स्थानविशेषः तया देशितया अविद्यमानान्यप्रशसामनुत्तमाम् । देवीस्तोत्रतया सर्वातिशा- यिनीमिति भावः ॥१०१ ।। हार्दध्वान्तनियन्तृभास्वरवपुः स्वर्वासिनां सर्वतो दुर्वारारिपरिक्षयं विदधती ध्यातैव निर्वाणसूः । देहार्धे निहिता भवेन भुवनत्राणैकतानात्मना देवि त्वं त्वमिवापरा जगति का सत्केसरीन्द्रस्थितिः ॥१०२॥ (प्रहेलिकेयम्) हे देवि, त्वमिव जगति कापरा भवतीतुल्या त्रिभुवने कान्या विद्यते । त्वत्सदृशी - लोक्येऽपि नान्या विद्यत इत्यर्थ. । हार्दध्वान्त स्वहृन्मोहस्तस्य नियन्त प्रमाथि भास्वरं दीप्तिमद्वपुः शरीरं यस्याः सा तथाविधा । तथा स्वर्वासिनां दिवौकसां सर्वतः समन्तात् दुर्वारारिपरिक्षयमजेयशत्रुशमन विदधती कुर्वाणा। तथा ध्यातैव निर्वाणसूः चिन्तितैव निर्वाण मोक्षं सूते प्रयच्छति । अपर देहाधैं निहिता भवेन (देवेन द्योतनशीलेन) भवेन शिवेन शरीरार्धे नियोजिता स्वशरीवामभागे स्थापिता । हरेण प्रभुणा कीदृशेन । भुवन- त्राणेकतानात्मना भुवनानां त्रयाणां लोकानां त्राणे रक्षायामेकतान एकरसः सर्वदा प्र- मृत (प्रवृत्त) आत्मा प्रकृतिः स्वभावो यस्य तेन । त्वं च कीदृशी । सत्केसरीन्द्रस्थितिः शोभनसिंहराजे स्थितिवरस्थान यस्याः सा । अथ च त्वमिवापरा जगति का इति प्रश्न कृते सत्केसरीन्द्रस्थितिरित्युत्तरम् । त्वत्तुल्या का इति पृच्छायां भगवनृसिहमतिरित्युरदा- नात्प्रहेलिकेतीयमुच्यते । व्याख्या तु समाना सर्वत्र । केवलं देहाधै निहिताभवेनेत्यत्राका- रप्रश्लेषो व्याख्यायते । तथा अभवेनाविद्यमानसंसारेणाजेन भगवता विष्णुना देहार्धे शरी- रोपरिभागे निहितेत्येतावान्स्तुतिविशेषः । प्रहेलिकेयम् ॥ १०२ ॥ केशोन्माथकरी सतां भवहरानन्दैकहेतो गुरु- माता त्वं जगतां भवन्ति विधवाः सर्वे तवानुग्रहात् ।

३० काव्यमाला। दुर्गे न क्वचिदेव सीदति जनस्त्वद्भक्तिपूताशयः स्तुत्या भर्तुरभिन्नयेति विबुधैस्त्वं स्तूयसे श्रीरिव ॥ १०३ ॥ (चतुरर्थः) इतिशब्दः पूर्वोक्तप्रकारापेक्षायां वर्तते। भर्तुरभिनया पत्यु. सदृश्या स्तुत्या नुत्या त्व भवती विबुधैर्देवैर्मनीषिभिर्वा श्रीरिव लक्ष्मीरिव स्तूयसे नूयसे । अर्थवशाद्विभक्तिवचन- लिङ्गविपरिणाम इति लक्ष्मीर्यथा भर्तुरभिन्नया स्तुत्या स्तूयते तथा व स्तूयस इति । एवममूनि स्तुतिपदानि चतुर्णा भवभवानीकमलाकान्तकमलानां योज्यन्ते । तत्रोपमा- नयोः कमलाकान्तकमलयोस्तावत्स्तुतिप्रकारा व्याख्यायन्ते । हे श्री , भवहानन्दैक- हेतोः संसार(निवर्तक स्य भगवतो विष्णोरानन्दे चित्ताहादने एकहेतो एकनिमित्त- भूते, त्वं भवती सतां साधूनां क्लेशोन्माथकरी अविद्याविनाशिनी करीति आनुलोम्ये टचि डीप । तथा त्वं जगता त्रयाणां लोकाना गुरुः प्रधानम् । माता जननी। तथा विभवाः मर्वे ममृद्धिगुणाः सकलास्तवानुग्रहाद्भवत्प्रसादाद्भवन्ति सपद्यन्ते । अन्यत् , त्वद्भक्तिपूता- शयो जन' भवत्सेवापवित्रीकृतमना लोकः दुर्गे दुर्गतौ न क्वचिदेव न कुत्रचिदेव सी. दति मजति। भर्तुरभिन्नया स्तुत्योति तद्भर्तुः पक्षे योजना-हे भवहर संसारनिवर्तक विष्णो, বথা आनन्दैकहेतो, त्वं सतां क्लेशोन्माथे अविद्याविनाशने करी हस्ती। आनन्दैकहेतुत्वा- मोक्षप्रद इत्यर्थः । तथा वं जगतां गुरुः माता मापकश्च । त्रिभिः क्रमैरिति भावः । भवन्ति विभवाः सायुज्यादयः सर्वे तवानुग्रहात् । दुर्गे संसारबन्धने न कचिदेव सीदति जनस्त्वद्भक्तिपूताशयः। उपमेययोरधुना सबन्धः। तत्र भवान्यास्तावत्-सतां क्लेशोन्माथकरी भवालोमध्यम- पुरुषैकवचनमेतत् । हे दुर्गे विन्ध्यवामिनि, हरस्यानन्दैकहेतो । शिष्ट श्रीस्तुत्या समानम् । एतद्भर्तुगिरिशस्याधुना-हे भव हे हर हे आनन्दैकहेतो, वं जगतां गुरुः माता हिंसिता । त्रैलोक्यसहर्ता रुद्र इत्याम्नायः । मीनातेः कृतात्वस्य वृचि मातेति रूपम् । तवानुग्रहात्सर्वे विभवा अणिमाया ऋद्धयो भवन्ति । शिष्ट श्रीपतिस्तुत्या समानमिति । एवमर्थचतुष्टयवाची ॥ १०३ ॥ येनानन्दकथायां त्रिदशानन्दे च लालिता वाणी । तेन सुदुष्करमेतत्स्तोत्रं देव्याः कृतं भक्त्या ॥ १०४ ॥ अस्याप्ययमर्थः तेन कविना नोणतनयेनानन्दवर्धनेन एतदेवमुक्तप्रकारं स्तोत्रं नवनं भक्त्या सेवया आरिराधिषया कृतं दृब्ध रचितम् । कीदृश स्तोत्रम् । सुदुष्करं शो- भना दुष्कराश्चक्रबन्धादयो यत्र सुनु वा दुष्करं नान्येन केनचित्कर्तु शक्यमिति । केन कविनेत्याह-येनानन्दकथाया विषमबाणलीलायां त्रिदशानन्देऽर्जुनचरिते च वाणी भारती लालिता विनोदिता। विघमबाणलीलार्जुनचरितविरचयितुः कवेः कृतिरेतत्स्तोत्र- मिति वाक्यार्थः ॥

देवीशतकम् । ३१ वल्लभदेवायनितश्चन्द्रादित्यादवाप्य जन्मेमाम् । कय्यटनामारचयद्विवृति देवीशतस्तोत्रे ।। एव वागीश्वर्या स्वरूपमाख्याय यन्मयावाप्तम् । -पुण्यं तेन जगत्स्यात्प्रतिजन्मावाप्तपरबोधम् ।। वसुमुनिगगनोदधि(४०७८)समकाले याते कलेस्तथा लोके । द्वापञ्चाशे वर्षे रचितेय भीमगुप्तनृपे ॥ कर्मस्थानोदिता साहिमकरशशभृद्वह्निचक्रान्तरस्थ- क्षेत्रज्ञाद्वोधनाय प्रलयरविकराग्राभतेजोविगमा। नित्य मन्दालिघोषा कचटतपयशालापिनी मध्यवाहा बालाग्रात्सूक्ष्मरूपा त्रिभुवनजननी पातु वागीश्वरी वः ॥ एकायनस्याच्युततुल्यमूर्तराचार्यनारायणगर्तनाम्नः । शिष्येण दृब्धेयमनन्तशास्त्रवेत्तुः सदृक्षेण च कय्यटेन ॥ इति नोणात्मजश्रीमदाचार्यानन्दवर्धनविरचित कय्यटप्रणीतया टीकया समेत देवीशतकम् । काश्मीरिकश्रीमदवतारकविप्रणीतं ईश्वरशतकम् । सटीकम् । स वः पायायेन निन्ये वासुकिनिजहारताम् । तपोपायात्तनुं कोपाद्यः स्मरस्य जहार ताम् ॥ १ ॥ स वः पायादित्यादिग्रन्थारम्भे त्रिविधविघ्नोपघातार्थ कविना नमस्कारवाक्यवदुचित १. सटीकस्येश्वरशतकस्य प्रणेता श्रीमदवतारकविः कश्मीरेषु कदा समुत्पन्न इति न निश्चयः. कितु स्तुतिकुसुमाञ्जलिटीकाकर्तृ राजानकरत्नकण्ठस्य पितामहोऽप्यवतारना- मासीदिति 'सकलविपश्चिद्वर्यः प्रज्ञाजितवृत्रहामात्यः । अवतारोऽजनि तस्मात्पाण्डित्यस्या- वतार इव ॥ इति स्तुतिकुसुमाञ्जलिटीकासमाप्तिस्थायर्यातः प्रतीयते. रलकण्ठेन च स्तु- तिकुसुमाञ्जलिटीका १७३८ मिते विक्रमाब्दे प्रणीतेति तत्रैव स्फुटम् , अतोऽवतारोऽपि १६२२ मितख्रिस्ताब्दासनकाल आसीत्. यदि स एव सटीकस्यास्य शतकस्य निर्मा- तावतारकविः स्यात्तदा निर्णीत एव तत्सत्तासमयः, सटीकस्यास्य शतकस्य पुस्तकद्वय. मस्माभिरासादितम्. तत्रैक श्रीयुतभाण्डारकरपण्डितै' पुण्यपत्तनस्थराजकीयपुस्तका- लयात्कृपया प्रहितम्. अपर कश्मीरनगराज्ज्योतिर्विदुपाश्रीदयारामपण्डितैः प्रेषितम्. पुस्तकद्वयेऽपि प्रायो नास्ति भेदः, द्वयं च कश्मीरलिखितमिति समानमातकमेवेति प्रती- यते. एतदाधारेणैवैतन्मुद्रणमुपक्रम्यत इति शिवम्.

काव्यमाला।
सूचितम् । येन भगवता स्वतन्त्रेण धराधराणयोग्यो वासुकिरितां नीतः। एतेन वि.
श्वाधारत्वं ध्वनितम् । तथा तपोपायात्संयमविघ्नविधायित्वात् न वीर्यया कोपात्तां वि-
श्वस्य प्रसिद्धां स्मरस्य तनुं जहार दिदाहेति प्रतीयते । तामित्यनुभवगोचराम् । अत एव
यच्छब्दोपादानं न कृतम् । यदाहुः-प्रक्रान्तप्रसिद्धानुभूतविषयस्तच्छन्दो यच्छब्दो-
पादान नापेक्षते' । तत्र नमस्कारः स्वातन्त्र्यकर्तृत्वाद्भगवतः सर्वातिशायित्वादर्थादेवा-
क्षिप्तः ॥ १॥
रक्षावतारं गम्भीरं भवमुग्रं हरेश्वर ।
नय नीतिगुणं तं तु ममताप्रियतामिमाम् ॥ २॥
है ईश्वरपरमात्मन, तदुक्तम्- 'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः'।
तत्संबोधनम् । भवं संसार गम्भीरं त्वं हर निवारय । कथंभूत भवम् । उग्रं कठिनम् ।
वं भक्तानामवतारमवतरणं भवात्पुन पुनरागमनं रक्ष। कविना च अवतारमवतार-
नामानं मां पाहीति स्वनाम ध्वनितम् । तु पक्षान्तरे । इमां प्रत्यक्षां सर्वेषां ममताप्रि.
यतामहंकृतिहेवाकितां त प्रसिद्धं लोकोत्तरं नीतिगुणं नय प्रापय । अत्र च रक्ष अव,
तारं गम्भीरं, भवं उग्रं, हर ईश्वर, नय नीति, गुण तन्तुं, अमत अप्रिय, इति द्वयो-
ईयोः शब्दयोरर्थस्य पौनरुक्त्यमिवावभासते। भिन्नार्थत्वात्तु पुनरुक्तवदाभासः । 'आमुखा.
वभासनं तु पुनरुक्तवदाभासम्' इति ॥ २॥
वदामि ते खं रमयन्नमोऽहं वहामि संसारमयं न मोहम् ।
तनुर्मुदायोगवता स्मितेन मुक्तः स्फुरद्योग बतास्मि तेन ॥ ३ ॥
अहं ते तुभ्यं नमो वदामि नमस्कार करोमि । अनेन कायवाक्वित्तानां प्रह्वीभावःसूचितः।
अत एव स्वमात्मानं रमयन्नानन्दयन्संसारमयं मोहमज्ञानरूपं न वहामि । यदुक्तम् --'आ-
नन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन' इति । हे भगवन्स्फुरद्योग, । बत आश्चर्ये । अहं
तनुस्तुच्छोऽपि मानुषादज्ञानात् मुदां हर्षाणां निरतिशयप्रीतिरूपान्ताम् आ समन्तात् योग
आयोगः तद्वता मुदायोगवता स्वानुभवैकगोचरेण स्मितेन अभिमतप्राप्त्या हसितेनोपल.
क्षितः सन्मुक्तोऽस्मि । यमकम् ॥ ३ ॥
सृष्टिस्थिती प्राग्भजता कृतापवर्गोद्यमेनाथ भवान्धकारे ।
धृतं त्वया विश्वमतो हतारिवर्गोऽद्य मे नाथ भवान्धकारे ॥ ४ ॥
हे नाथ हे अन्धकारे अन्धकासुररिपो, प्राक् सृष्टिस्थिती भजता कुर्वता त्वया अ-
थानन्तरं भवान्धकारे संसाररूपान्धकारे कृतापवर्गोद्यमेन कृतो भक्तानामपवर्गार्थमुद्यमो यन
तथाविधेन । त्रिविधकृत्यकारिणा त्वयैव विश्वं धृतम् । अतो ममापि अद्य हतारिवो भव।
हता अरयो मुख्याः कामादयो येन तादृशः । पादयमकम् ॥ ४ ॥
सज्जातसज्जाततलोचनाग्रे संध्यात संध्यातपसा सुरौघैः ।
माधीनमाधीनपरिग्रहेण कालेन कालेन हतं कृथा माम् ॥ ५ ॥

ईश्वरशतकम् ।
३३
सत् अकृत्रिमं जातं जन्म यस्य स सजातः सजः संनद्ध आततो विस्तीर्णो विश्वव्या-
पित्वाल्लोचनाग्निर्यस्य तदामन्त्रण सजातसजाततलोचनाग्ने । तथा सुरौधैर्ब्रह्मविष्णुप्रभृति-
भिर्देवसमूहैः सध्यातपसा त्रिसंध्यं समाधानेन संध्यात सम्यग्ध्यात । कालेन असितवर्णेन।
भयकरणेति यावत्। तथा आधीनपरिग्रहेण आधीनां मनःपीडानां ये इनाः स्वामिनो ज्वरा-
दयो रोगास्तेषां परिग्रहः परिवारो यस्य स तादृशेन कालेन मृत्युना हतं सन्तं मां माधीनं
कृथाः सपादय । (यद्वा) मायाः शोभाया आधीनमायत्तं माधीनम् । श्वेतराजर्षिवदित्यर्थः।
आदियमकम् ॥ ५॥
भवोत्सुकानामसमाधिभिन्नः कश्चिन्मदन्यो न समाधिभिन्नः ।
ये त्वां प्रशंसन्ति सदा सभार्यास्त एव जीवन्ति सदासभार्याः ॥ ६ ॥
त्व नोऽस्माकमुत्सुकानां सोत्कण्ठानामसमाधिभित् असमा अनल्पा ये आधयो म-
नोरुजस्तान्भिनत्तीति तादृक् भव संपद्यस्व । यतो मत्सकाशात् अन्यो जनः समाधिभि-
नश्चित्तैकाग्र्यबहिष्कृतो नास्ति। ये त्वां सदा सर्वकालं सभासु मध्ये अर्या निष्पापाः
प्रशंसन्ति स्तुवन्ति त एव सदासभार्याः सह दासैर्भार्यया च वर्तन्ते ये ते सपरिवारा
इत्यर्थः । जीवन्ति । पुनः संसारावृत्ति न लभन्ते । अनश्वरपदप्राप्तेः । अन्ये तु संसारिणो
नानाजन्मोपलब्ध्या जीवन्तोऽपि मृता एव । 'ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तको
जातनष्टाः' इति यावत् । आदियमकम् ॥६॥
दैत्यद्विषां त्वच्चरणावलीनामिवाम्बुजे भग्नरणावलीनाम् ।
स्तुवन्त्यतो निःशरणा वलीनां त्वन्मूर्तिमीतेः सरणावलीनाम् ॥७॥
दैत्यद्विषां देवानां त्वचरणौ अलीनां भ्रमराणामिवाम्बुजे पद्मे भवतः विश्रान्तिस्थानं म-
नोभिलषितप्राप्तेः स्त इत्यर्थः । कथंभूतानां दैत्यद्विषाम् , भग्नाः पराजिता रणावलयः सपा-
मसमूहा यैस्तथाविधानाम् । अतो हेतोः निःशरणा मादृशा अपि ईतेः संसारोपद्रवस्य सरणौ
मार्गे अलीनामश्लिष्टां त्वन्मूर्ति स्तुवन्ति । कथंभूताम् । वबयोरैक्यालिनामिनां स्वामि-
नीम् । तदधिष्ठात्त्वात् । सर्वपादान्तयमकम् ॥ ७॥
भवेति भिन्नः कुलपामराणां भवेऽतिभिन्नः कुलपामराणाम् ।
सदा सकान्ताय नमो हराय सदासकान्ताय नमो हराय ॥८॥
हे अमराणां देवानां कुलप, त्वं नोऽस्माकं कुलमध्ये पामराणामयोग्यत्वाद्वालिशाना-
मीतिभित् दुर्गतिनिहन्ता भव । अतस्त्वमेव भवे संसारेऽतिभिन्न उत्तीर्णः । सह दासर्व-
तते कान्तश्च यः । सर्वाभिलाषदायित्वात् । सदासकान्तः । तस्मै । तथा मोहं राति द.
दाति मोहरः अज्ञानदायी । न मोहरः तस्मै न मोहराय । सदा सर्वकालं सकान्ताय नि-
जशक्तिपरिवृताय हराय नमः । संपुटयमकम् ॥ ८॥

३४ काव्यमाला। राजते विष्टपाकारा राकापाहिफणावरा । रावणाराधिताक्षारा राक्षाताम्रात्ति तेऽजरा ॥ ९ ॥ पद्मबन्धः॥ तनुरद्रिसुताकान्त कान्तलावण्यवाहिनी । वाहिनीवामृतमयी मयीह विमलातनुः ॥ १० ॥ शृङ्खलायमकम् ॥ (युग्मम्) हे अद्रिसुताकान्त पार्वतीश, तव संबन्धिनी तनुर्मूर्तिः राजते । कथंभूता । विष्टपा- कारा विष्टपं जगत् तदाकारा । तथा राकापः पूर्णचन्द्रः तथा अहिफणाः ताभिर्वरा उ. स्कृष्टा । तथा रावणेनाराधिता सेविता । अक्षारा न क्षारा । (मधुरा) सौम्यस्वभावेत्यर्थः । तथा राक्षा लाक्षा तद्वत्तानमक्षि यत्रेति क्रियाविशेषणम् । राक्षाताम्राक्षि राजते इत्यर्थः । तथा अजरा जन्मादिरहितत्वात् । कान्तलावण्यवाहिनी अमृतमयी वाहिनी नदीव । अ- तनुर्बहला । युगलकम् । आद्यः श्लोकः पद्मबन्धः। द्वितीयः शृङ्खलायमकम् ॥९॥ १० ॥ दरवति वरदय भटभयदपण क्षणपथरथपर पुरशरसमरे । मदमयरणरय जय जय खमत क्षतमख सुरवरसुखद शिव ॥ ११ ॥ महादेवबन्धः । जागेश्वरबन्ध इत्यर्थः । हे शिव, त्वं जय जय । किविध । दरवति समये मादृशे वरदय वरा उत्कृष्टा दया यस्य । अन्धकादीनां विश्वकण्टकानामपि पुनर्दयया गाणपत्यप्रतिपादकत्वात् । तथा भ- टानां भयदः पणो व्यवहारो यस्य तादृशः । तथा क्षणं पन्था यस्य ताहग्यो रथस्तत्र पर उद्योगवान् तदामन्त्रणं भटभयदपणक्षणपथरथपर । तथा पुराणां त्रिपुराणां शरसमरे बाण- युद्धे मदमयः साहंकारो रणरयः सग्रामवेगो यस्य तदामन्त्रणम् । तथा खमत खानामि- न्द्रियाणां मताभिप्रेत । तदधिष्ठातृत्वात्सर्वेन्द्रियाणाम् । तथा क्षतो मखो दक्षाध्वरों येन । तथा सुरवराणां सुखं ददातीति तत्संबोधनम् ॥ ११॥ क्रूरा नराणां भवता शोधनीयाविभागतिः । चराचराणां भवता बोधनीया शुभा मतिः ॥ १२ ॥ करा दुःसहा संसारे रता नराणां भक्तानां भवता स्वामिना अविभागतिस्तामसी गतिः शोधनीया । चराचराणां जगमस्थावराणां शुभा मतिर्भवतैव बोधनीया । अयं गोमूत्रि- काबन्धः॥ १२ ॥ नरकं कालमालाभ रणा हि तरसा श्रिताः। नरककालमालाभरणाहितरसाश्रि ताः ॥ १३ ॥ काञ्चीगोमूत्रिकाबन्धौ समुद्यमकम् ॥

ईश्वरशतकम् । ततेतितति तातैता मम मा मामिमा ममाः । ललल्लोलालिलीलालैरुरुरोराररैररम् ॥ १४ ॥ पादैकाक्षरः ॥ यमवाराङ्गनाः कान्तरवसादरतापदैः । समं त्रस्ता भवभक्तिरवसादरतापदैः ॥ १५ ॥ त्रिभिः श्लोकैर्वाक्यार्थतिलकम् ॥ हे तात पूज्य, ता यमवाराङ्गना मृत्युत्रियो भवद्भक्तिरवसादरतापदैः भवति विषये यानि भक्तिरवाणां सादरता तस्याः पदानि वाक्यानि तैः त्रस्ता भीताः कान्तभिः समं सह । कथंभूतैर्भर्टभिः । अवसादरतापदैः अवसादं विनाशं रान्ति ददति तापं च ददति तादृशैर्भर्टभिः साकं त्रस्ता भीताः । भवदीयभाक्तजनस्तुतिवाक्यं श्रुत्वैव त्रस्ता इत्यर्थः । इमां मम संबन्धिनी मां लक्ष्मी मा एता न प्राप्ताः माशब्दो निषेधार्थः । अमा अश्रीकाः । पुनः कथंभूताः । तरसा बलेन हि निश्चयेन नरकं श्रिताः । तता विस्तीर्णा या ईतिततय ईतीनां विघ्नानां ततयः समूहा यत्र तथाविधं कृत्वा कालमालाभरणा कालस्य मा लक्ष्मी- स्तल्लाभार्थे रणो यासां तथाविधाः । पुनः कथम् । मरककालमालाभरणाहितरसात्रि । न. राणां कङ्कालमालाभिर्यान्याभरणानि तैराहितः रसाश्रिः रसपर्यन्तो यत्र तथा । पुनः क- थंभूतैर्भर्टभिः । ललल्लोलालिलीलालैः ललन्त उल्लसन्तो लोलाश्च तेऽलयस्तल्लीलां लान्ति कृष्णत्वात् ये तैः । उरुरोराररैः उरु बहुलं च तत् रोर दारिद्र्यं उरुरोरं तथा अरीणां समूह आरं उरुरोरं च आरं च तत् उरुरोरारं तं रान्ति ददति तथाविधैः । अरमत्यर्थम् । अत्र वाक्यार्थतिलकेन प्रथमः समुद्कयमकं काचीगोमूत्रिकाबन्धौ च । द्वितीयः पादैकाक्षरः । तृतीयः पादयमकम् ॥ १३ ॥ १४ ॥ १५ ॥ प्रलापिनं मा रसेनाभयप्रद यमाकुलम् । आगत्य त्वरितं तीव्रप्रभावोचितविग्रह ॥ १६ ॥ हे तीव्रप्रभ, तथा उचितविग्रह, अभयप्रद, त्वं मा कर्मभूतं अव रक्ष । केन । रसेनाद- रेण । मा कीदृशम् । यमाकुलं यमादाकुलम् । तथा प्रलपति तच्छील: प्रलापी तं प्रला- पिनम् । त्वरितमागत्य । गूढकर्मक्रियोऽयं श्लोकः ॥ १६ ॥ चिरातिचित्तेतिचितैरिताराच्चराचराचारचरित्रचार । रैचारुता चित्रतराचिरा रीतिं रतारैरुरुचौररोरैः ॥ १७ ॥ ज्यक्षरः॥ हे भगवन् चराचराचारचरित्रचार, चराचराणां जगमस्थावराणां यदाचारचरित्रं तत्र चारश्चरणं यस्य तत्सबोधनम् । रैचारुतायां धनानां चारुता ऐश्वर्य चित्रतरा साश्चर्या क्ष- ३६ काव्यमाला। णिकत्वादचिराचिषो विद्युतो रीतिमिता प्राप्ता । कैः हेतुभूतैः। उरवो बहला ये चौरास्तथा रोराणि दारिद्याणि (तैः) उरुचौररोरैः । कैः । रतारैः रतस्य चित्तविश्रान्तेराराणि अरि- समूहा इव तैः । पुनः कथंभूतैः । चिरं या आर्तिस्तथा चित्तेतिश्चित्तबाधा च तया चितै- याप्तैश्चिरातिचित्तेतिचितैः । आराद्दूरतः । त्र्यक्षरोऽयं श्लोकः ॥ १७ ॥ मुदात्तसारा धुसभासमाना सभासमानाङ्ग मुदात्तसारा । विभावसुस्थान भव प्रभा ते भवप्रभाते रविभावसुस्था ॥ १८ ॥ व्यावृत्तयमकम् ॥ हे भगवन् भव, विभावसोर्नेत्राश्रयस्य वह्नः स्थान आश्रव, भवप्रभाते संसारोदये सति ते तव संबन्धिनी प्रभा रविभाववत्सुस्था सामस्थ(स्वास्थ्य ?)वती । यतः मुदा हर्षेणात्तं सारं यस्याः मुदात्तसारा । युसभायां देवसदसि समाना सह मानेन पूजया वर्तते या । सभा- समानानि रुचिराण्यङ्गानि यत्र तथाविधं कृत्वा उदात्तमुद्भटं बलं यस्याः ॥ व्यावृत्तयम- कम् ॥१८॥ देहान्तकाले स्वरसेन पाहि यमात्प्रभो भास्वरलोचनाज । शमैकसर्वस्व सभूरिकामां मां यच्छ देवेश जहीहि मां मा ॥ १९ ॥ वज्रबन्धः॥ हे भास्वरलोचन धामत्रयनेत्र, अज अनादे, शमैकसर्वस्व उपशमैकसाधन, त्व मां देहान्तकाले मरणसमये स्वरसेन कृपया यमान्मृत्योः पाहि । तथा भूरयो बहलाः कामा मनोरथानि यस्यां सा तादृशीं सर्वाभीष्टप्रदां मां लक्ष्मी यच्छ वितर । मां च मा जहीहि । मा परित्यज ॥ वज्रबन्धः ॥ १९ ॥ तनुस्त्वदीया भगवन्सरारे रसासुखं मुक्तिमुखं सुसार । शुभावहा भक्तिपरायणानां सादान्तताकृत्तकृतान्तदासा ॥ २० ॥ हे भगवन् सुसार शोभनबल, स्मरारे, तव संबन्धिनी तनुर्मूर्ती रसायां सुखं लक्षणया भूतलस्थानां जनानां सुखदायिनी । तथा मुक्तिसुखम् । भौगमोक्षप्रदेत्यर्थः । अत एव भक्ति- परायणानां शुभावहा । तथा सादस्यावसादस्यान्तताविच्छेदस्तेन हेतुना कृत्ताश्छिन्नाः कृतान्तदासा यमभटा यया । त्वद्भक्तेभ्यस्ते निराशाः पलायन्ते नन्दिरुद्रवत् ॥ २० ॥ स्थिरासुरापक्षपरा सुरास्थिमालावरासन्नसरावलामा । वादे हिता मन्त्रमताहिदेवातिभाविता नुत्यनुता विभाति ॥ २१ ॥ प्रतिलोमानुलोमपादः । युगलकम् ॥ त्वदीया तनुरित्यनेन पूर्वश्लोकस्थेनान्वयः । त्वदीया तनुर्विभाति । कीदृशी । स्थिरा येऽसुरा अन्धकादयस्तेषामपक्षपरा प्रतिपक्षभूता । सुराणां ब्रह्मादीनां चास्थिमालादिभि-

ईश्वरशतकम् ।
३७
र्वरा उत्कृष्टा । तथा आसन्ना निकटा सरावा नादयुक्ता लामा उत्कृष्टरूपा देवता यस्यां
सा आसन्नसरावलामा । तथा वादे चतुर्दशविद्यास्थानविशारद (विचार)विषये हिता।
भक्तविद्वजनेभ्य इति शेषः । तथा मन्त्रैर्मननत्राणधर्मादिभिर्देवतोच्चारकपदैर्मता भाविता।
यदाहुः-मन्त्रमूर्तिस्तु देवता' इति । तथा अहिभिनागैर्देवैश्वातिभाविता अतिध्याता ।
तथा नुत्या स्तुत्या ये ब्रह्मादयस्तैरपि नुता नुत्यनुता । एवंविधा त्वदीया तनुर्विभाति ।
'अमत्रमता' [इति पाठे] अमत्रेभ्यः पात्रेभ्यो मता अहयः सर्प यस्यां तादृशी देवाति-
भाविता च । [इत्यर्थः] । युगलकम् । आद्यो युक्पादप्रतिलोमः । द्वितीयः प्रतिलोमानुलो-
मपादः॥ २१ ॥
तनोति ते तात नुतौ नितान्तं नूनं नतानां तनुतां न नीतिः ।
नेने ननो नूतनतां तु नीता तेनोन्नतानन्ततनो ततेतिः ॥ २२ ॥
ध्यक्षरः॥
हे भगवन् , तात पूज्य, उन्नतानन्ततनो, उन्नता अनन्ताः पृथ्व्यादयस्तनवो मूर्तयो
यस्य तत्संबोधनम् । ते तव संबन्धिनी नीतिः नतानां भक्तानां नुतौ स्तुतौ सत्यां नून
निश्चितं तनुतां लघुतां न तनोति । दाळमेव पोषयति । तु पक्षान्तरे । तेन हेतुना इने-
नार्थाद्भवता स्वामिना नोऽस्माकं तता विस्तीर्णा ईतिः ससारखाधा नूतनतां नवत्वं न
नीता । भवनुतिमात्रेण वयं मुक्ता इति सूचितम् । श्लोकोऽय अक्षरः ॥ २२ ॥
हर प्रभो परं वन्द्य रक्षोभागस्थिरो भव ।
प्रभावितदमो रोरं भोगातत्त्व सदस्थिप ॥ २३ ॥
अर्धभ्रमः ॥
हे प्रभो भव, त्व रोरं दारिद्यं हर निवारय । परमत्यर्थ वन्द्य वन्दनीय । कथंभूतस्त्वम्।
रक्षसां हिसापराणामपि भागे संविभागेऽस्थिरश्चञ्चलः । दानादावपि सर्वलो(प)कहित-
हेतुना कीलितः । पुनः कथंभूतः । प्रभावितः सर्वजनोपलक्षितो दम इन्द्रियजयो यस्य ।
तथा प्रभो कथंभूत । भोगातत्त्व भोगा अतत्त्व यस्य । आभासमानत्वात्। पुनः कथंभूत
प्रभो, सदस्थिप सन्ति शोभनान्यस्थीनि भूषणतया पाति रक्षतीति तादृश ॥अर्धभ्रमः॥२३
कार्येन भगवन्नास्ति तव कण्ठच्छवेः समा ।
कालिकाकालिकालालीलीलाका परवीरप ॥ २४ ॥
त्रिशूलबन्धः ॥
परा उत्कृष्टा ये वीरास्तान्पः पाति तादृश परवीरप । 'वीतरागभयद्वषो रहितः सर्व-
संशयैः । सर्वभूतानुकम्पी च वीर इत्युच्यते बुधैः ॥ इति । तव संबन्धिन्याः कण्ठच्छवेः
कान्या समा अस्ति । कीदृशी । कालिनाम (?) काकानामालयः पतयः तथा कालाना-
माली च तासामिव लीला विच्छित्तिर्यस्यास्तादृशी कृष्णत्वेन ॥ २४ ॥

काव्यमाला। मरुभैरुररिर्मारोऽमरारामोऽरमोऽरिरः । मुरारिरामा रोरोऽरमुमारामी ममोरुराः ॥ २५ ॥ व्यक्षरः ॥ मम मेरुः सर्वदेवताविधान्तिस्थानमपि मरुनिर्जलप्रायो देश इव नावर्जकः । मारः का- मोऽपि सर्वजनवल्लभोऽरिः शत्रुः । तथा अमराणां देवानामारामो विश्रान्तिप्रदो नन्दनादि- प्रदेशः सोऽपि अरमः शोभारहितः । अतएव अरिरः अरीन् रातीति असुखत्वाच्छत्रुद इव। मुरारेविष्णो रामा लक्ष्मीभगवती रोरो दारिद्यम् । अरमत्यर्थम् । उमारामी उमया सह योऽवश्यं रमते स पार्वतीवल्लभः स एव उरुराः महदुत्कृष्टं निधानभूतं धनम् ॥ २५ ॥ विहाय सस्यसंपन्नां सेव्यः स्वामी शिवं भवेत् । येनाप्यो दिवि पन्थानो राजेनत्वं च तिष्ठति ॥ २६ ॥ अपशब्दाभासः॥ नोऽस्माकं सस्यसंपन्नां धान्यादिसमृद्धिमत्त्वं विहाय स्वामी विश्वेश्वरः सेवनीयः । येन हेतुना शिवं कल्याणं भवेत् । दिवि च यः पन्थाः सचाप्यः प्राप्यः । राजेनत्वं राज्ञा मध्ये इनत्वं प्रभुत्वं च तिष्ठति । अत्र विहासस्य, संपन्नां, शिवं, स्वामी, सेव्यः, पन्थानः, आप्यः, राजेन, त्वं तिष्ठति इति सर्वेऽपि शब्दा अपशब्दा इवाभासन्ते अतोऽपशब्दाभासो- ऽयम् । अर्थान्तरप्रतीतौ निर्दोषः ॥ २६ ॥ न भासते ते समा न भाविताममता विभा । सता वदे देवतास ते मदेन नदेऽमते ॥ २७ ॥ सर्वतोभद्रः ॥ भग्ना वयं भवमये नोद्धृताः पशवस्त्वया । यास्त्ववस्था रुजां भामामाभाजां रुद्र ता हर ॥ २८ ॥ परशुबन्धः ॥ युगलकम् ।। द्वयोष्टीका-हेभगवन् देवतास, देवतानां ब्रह्मविष्णुप्रभृतीनामासनं स्थितिः रक्षणं क्षे- पण विनाशो वा यस्मात् तत्संबोधनम् । ते तव सभा न न भासते । अपि तु सर्वोत्तमा भासते एव । किंविधा । भावितानां नन्दिप्रभृतीनां अममता निरहकारता तया विभा दीप्तिर्यस्याम् । सता सत्यरूपेण ब्रह्मणा वदे । वदे इति 'संभासनोपसंभाषाज्ञानयत्लविमत्यु- पमन्त्रणेषु वदः' इत्याल्मनेपदम् । ते तव वयं मदेनाहंकारेण नदे भवमये अमते अनी, प्सिते दुस्तरे तडाके भग्ना बुडिताः सन्तः पशव इत्यज्ञानपरत्वात् त्वया नोद्धृताः । हे रुद्र- रुचां दुःखानां भामः क्रोधः अमा अलक्ष्मीस्तद्भाजां रुजां या अवस्थास्ता हर निवारय । इति युगलकम् । एकः सर्वतोभद्रो द्वितीयः परशुबन्धः ॥ २७ ॥ २८ ॥ कलिकालकलालीककेलिः कलकलाकुले । कालेऽलिकोकिलाकाले कोऽलं लोले कुले किल ॥ २९ ॥ घ्यक्षरः॥ ,

ईश्वरशतकम् ।
--
को नामालं समर्थों भवति । अपि तु न कश्चित् । कुले गृहे । शरीर इत्यर्थः । कुले श-
रीरे लोले अस्थिरे सति यतः कलिकाले याः कलास्ताभिर्यदलीकं तदेव केलि: खेलन
यस्य । तथा कलकलैर्नानाविधोत्कलिकाभिराकुले क्षुभिते । तथा काले मृत्यौ जाग्रती-
त्यर्थः । तथा अलयो भ्रमरास्तथा कोकिलाश्च तद्वत्काले तामसे ॥ २९ ॥
आभातिभाति भवतस्तव कालमार्कि
संचिन्तय सरहरोग्रतनुं कृशाङ्गम् ।
मां मास्य मुञ्च भव भीममलं कलङ्गं
हन्तातिकष्टममराधिप देव तेन ॥ ३० ॥
पुनरुक्तवदामासः सर्वपदाश्रयः ॥
हे स्मरहर, हे देव, है अमराधिप, हे भव, एतान्यामन्त्रणानि भीतोक्त्या च पुनरु-
तानि तवाभा शोभा अतिभाति अतिशयेन भाति । आकि उग्रतर्नु रौद्रशरीरं संचिन्तय।
कथभूतमार्किम् , कालमतिमलीमसम् । तथा भवतो जन्महेतोः मां कृशाङ्गमतिभीत्या क्षा-
मतर्नु संचिन्तय । अतिदयालुतयेति शेषः । तेन हेतुना हन्ता वधकः तादृशानामुप्रशरीरा-
णामपीत्यर्थः । त्वमस्य कालस्य भीम भयदायकमतिकष्टं कलई मा मुञ्च । कलङ्क सर्वथा
जहीत्यर्थः । अत्र च आमाति भाति, भवतः तव, कालं आर्कि, संचिन्तय स्मर, हर उग्र,
तनुं कृशाङ्गं, मां मा, अस्य मुञ्च, भव भीम, मलं कलङ्घ, हन्त अतिकष्ट, अमराधिप
देवतेन, इति सर्वपदाश्रयत्वं पुनरुक्तवदाभासस्य । देवतानामिनो देवतेनस्तदामन्त्रणम् ॥३०॥
यजने वर धीसाररसामानससारस ।
सरसासनमासाररसाधीरवने जय ॥ ३१ ॥
दक्ष दासवरासारनद मत्तकृतारव ।
वरताकृत्तमदन रसाराव सदाक्षद ॥ ३२॥ युग्मम् ॥
हे भगवन् , त्वं जय । किंभूत । यजने यज्ञे वर उत्कृष्ट । तथा धीसाराणां योगिनां या
रसा भूमिः सैव मानसं तत्र सारस हंस । तथा दक्ष निपुण । तथा दासानां निजभक्तानां
वरा एव आसारस्तत्र नद सरोविशेष । तथा मत्तेषु कामायुन्मादयुक्तेषु कृत आरावस्त्रा-
णवाद्देपो येन । तथा वरतया उत्कृष्टतया कृत्तो मदनो येन तादृश । तथा रसो रस-
युक्तः । अर्शआदित्वादच् । आरावः संजल्पो यस्य तदामन्त्रणम् । तथा सदा सर्वदा अ-
क्षान्भवपाशरूपान् द्यूतपाशकान् यति हन्तीति तादृश सदाक्षद । कस्मिन् । सरसासनमा-
सार रसाधीरवने । सरसमासनं स्थितियेषां ते माया लक्ष्म्याः साराः रसायां भूमौ ये धी-
रास्त्वदेकताना भावुकास्तेषां वनं समूहस्तत्र । युगलकम् ॥ ३१ ॥ ३२ ॥
तवैव मूर्तिः शिव धर्मराजसुहृत्समानामसृहत्समाना ।
शुभावहा तत्त्वजुषां निरस्तधनादराणां
निधनादराणाम् ॥ ३३ ॥

काव्यमाला।
हे भगवन् शिव, तवैव मूर्तिः असुहृत् प्राणहृत् भवति । केषाम् । धर्मराजसुहृत्समानां
यमसुहृत्सदृशानां तत्प्रियलोकानां तत्किकराणां वा । कथंभूता समाना सह मानेन पूजया
वर्तते या सा । पुनः किंविधा । निरस्तधनादराणां दूरीकृतधनाभिलाषाणां तत्त्वजुषां त्वदे-
कतानानां जनानां अराणामश्रिसमूहानां भवपाशरूपाणां निधनात्कर्तनाच्छुभावहा शुभदा।
युक्पादाद्यन्तयमकोऽयं श्लोकः ॥ ३३ ॥
भूयाद्भक्तिस्त्वय्युमाकान्त तीव्रासारा दक्षामोघमोक्षादरा सा ।
नो चेन्नैषा जीयते कालसेना या कालिम्ना नित्यनिम्नालिकाया ॥३४॥
युक्पादप्रतिलोमः॥
हे भगवन् उमाकान्त, त्वयि सा भक्तिर्मम तीब्रासारा अविच्छिन्ना भूयात् । पुनः
किंभृता । दक्षा निपुणा । पुनः किंभूता। अमोघः सफलो मोक्षे आदरो यस्याम् । नो चे.
द्भक्तिस्तव स्यात् तद्यैषा कालसेना मृत्युचमूर्जन्ममरणादिरूपा न जीयते । केनापीत्यर्थः ।
एषा कालसेना का । या कालिम्ना मलीमसत्वेन नित्यनिम्नोतिनीचोऽलिकायो भ्रमरकायो
यस्याः सा । भ्रमरकायादप्यत्यन्तमलिनेत्यर्थः ॥ ३४ ॥
न नानान्नानि नूनं नो न ना नीनानना न नः ।
नानु नानेन नुन्नैना ननु नेनाननेन नौः ॥ ३५ ॥ एकाक्षरः ॥
दृष्टेन लभ्या भवता नयनानलसाधुना ।
मुक्तिरूपा भवाब्ध्यन्ता नयनानलसाधुना ॥ ३६ ॥
पादयमकम् ॥ युग्मम् ॥
नूनं निश्चये नोऽस्माकं नानान्नानि नानाविधानि अन्नानि न भवन्ति । यतः नीनाः
निर्गत इनः स्वामी येषां ते नीनाः स्वामिरहिताः । अननाः अविद्यमाना अनाः प्राणा
येषां ते अननाः । निष्प्राणा एवेत्यर्थः । नानुना इत्यादि । अनेन हेतुना अनु अविद्यमाना
नौर्यस्मिन्कर्मणि तत् । अनु न भवति । काक्का भवत्येवेत्यर्थः । ना नरः स्वामी न भवति
केषाम् । नः । ननु निश्चये । इनाननेन इनस्याननं मुखं यस्य स इनाननो लक्ष्मीवान् नेनाननो
दरिद्रस्तेन नेनाननेन दरिद्रेणापि मुक्तिरूपा नौर्लभ्या । कदा । अधुना । केन हेतुना । भ-
वता । कथंभूतेन दृष्टेन । पुनः कथंभूतेन । नयनानलसाधुना नयनानलेन साधुः प्रष्टास्या:(१)
तेन । मुक्तिरूपा नौः कथरूपा ।भवाब्ध्यन्ता भवाब्धेरन्तो यस्याः सा । पुनः कथंभूताः ।
नयनामलसा नयने प्रापणे अर्थाद्भवोत्तारणे अनलसा सजा इति । मुक्तिरूपा नौः पुनः कथं-
भूता। नुन्नैनाः नुन्नं नोदितमेनः पापं यया (युग्मम्) इति भक्तजनं प्रति ।आयोक्तिः। (अ-
धुना इदानीम् ) आद्य एकाक्षरः द्वितीयं पादयमकम् । इह शब्दपौनरुक्त्यभ्रान्तिमिन्न-
लिङ्गत्वान्न ग्राह्यो । माघकाब्यकिरातार्जुनीयादिकाव्येषु बहुष्वपि पदार्थानां पौनरुक्त्य
दृश्यते तच्च पूर्वाचार्यैः समर्थितम्। यथा-'यमकश्लेषचित्राणां नातिपदक्षोदः कार्यः' इति ।
अस्य कवे. क्वचित्पौनरुक्त्यादिचमत्कृतेः (१)। चित्रकाव्यस्य दुष्करत्वात् ॥३५॥३६॥

ईश्वरशतकम् । ४१ सुसुररससभाभा खखदादाववक्र- क्रममनुनुततत्त्वा त्वाततप्रप्रजाजा। ननव वधधनानाञ्चञ्चला लाभभव्य- व्यस सततममन्दान्दाससङ्गङ्गते ते ॥ ३७ ॥ आवलिः ॥ मयि तनुमुचितां तां दर्शयस्वेदशी या रविजजविरणत्रा त्राणरक्तातिभाति । जय जय जगतस्त्वं तत्त्वतज्ज्ञोऽसि भासि- रसिक सदसदासस्ते भवे भर्ग भव्यः ॥ ३८ ॥ एतस्य श्लोकस्य प्रथमार्धेन त्रिशूलबन्धः, द्वितीयार्धेन गदाबन्धः । मा- लिनीवृत्ताभ्यां युगलकम् ॥ हे भगवन् भर्ग, न[नव नव्य आदि[भूत] लाभभव्यव्यस लाभेन हेतुनोत्कृष्टो व्यसो विशेषेणासनं त्यजनं यस्य हेतोः । पदार्थानामनन्तफलदत्वात् । तथाविध । हे भासिन् भासनशील रसिक भक्तजनप्रिय, ईदृशीं तनुं मयि ते तव दाससङ्घ गते आशु त्वरित दर्श- यस्व । या तव तनुरेवंभूतातिभाति सातिशया शोभते । कथंभूता । सुसुररससभामा सुष्ठ सुराणां रसा यस्यां तथाविधायां सभायामामा यस्याः । आदावादावेव स्वस्वदा मरु- त्तादिभ्यो भक्तेभ्यः स्वमात्मीयं स्वं धनं ददातीति तथा । अवक्रक्रमं कृत्वा अकौटिल्येन अनु पश्चान्नुतं तत्त्वं यस्याः सा । तु पक्षान्तरे आतता विस्तीर्णा प्रकृष्टा प्रजा प्रप्रजा सप्त- र्षिप्रभृतिसकलनिर्माणं यस्यास्तथाविधा । स्वयं पुनरजा जन्मरहिता । तथा वधधनानां हिसाजीवनानामसुरादीनां चञ्चलास्थिरा । सतत सर्वकालममन्दां नित्योयुक्ताम् । तां तनुमिति संबन्धः । तथा । या च ते तनुः रविजस्य यमस्य ये जविनो वेगवन्तः । अर्थाद्भटाः । तैः सह यो रणस्ततस्त्रायते तथाविधा । अत एव सर्वेषां त्राणरक्ता । अत एव त्वं जगतां तत्त्वविषये ये तज्ज्ञोऽसि विचारनिपुणः । जय जय । सदसतोर्नित्यानित्ययोर्य आस आ- स्थारूपस्ते तव भवे ससारे भव्य उत्कृष्टः । सतः सत्त्वेनः स्थितिर्भवता कल्पिता, अस- तोऽपि खपुष्पादेयंवधानायासत्त्वेन । यदाहुः–'कस्तु भवतत्वान्यत्वेन नातिकामति' इति । प्रमेयमनुरूपेण प्रमाणेन प्रमीयते प्रत्यक्षवत्प्रमाणमध्यपतितत्वादसतोऽपि व्यवस्थानादिसिद्धे- श्वरनिर्माणवैचित्र्यात् ॥ अत्र युगलके एक आवलिः । द्वितीयश्लोकस्याद्यार्धेन त्रिशूलब- न्धः । द्वितीयार्धेन च गदाबन्धः ॥ ३७ ॥ ३८ ॥ सुखदोनवमत्वेन सुवर्णाकृतिविग्रहः । नागरागप्रथात्यक्तो गिरीशो जयतादसौ ॥ ३९ ॥ अर्थत्रयवाचकोऽयम् ॥

४२
काव्यमाला।
असौ गिरीशो महादेवः, गिरीणामीशो मेरुः, गिरि वाचि ईशो बृहस्पतिश्चेति त्रय
उक्ताः । तत्राद्येऽर्थे-गिरीशो महादेवो जयति । सु शोभनानि खानि ददातीति सुखदः ।
तथा अनवमत्वेनोत्कृष्टत्वेन सु शोभनानां वर्णानां ब्राह्मणादीनामक्षराणां वा आ सम-
तात्कृतिः सृष्टियस्मात्स सुवर्णाकृतिस्तादृशो विग्रहः शरीरसंनिवेशो यस्य । नागराजादी-
नां प्रथया प्रसिद्ध्या त्यक्ती विरहितः सर्वाङ्गभूषणत्वात् । तत्सहित: । एकोऽर्थः ॥ मेरु
रपि-सु शोभनाः खदा गह्वराणि यस्य स सुखदः । नवोत्कृष्टा मा लक्ष्मीर्यस्य तद्भावे-
नोपलक्षित. । सुवर्णमयी आकृतिर्यस्य । विविधानां वस्तूनां ग्रहो ग्रहण यस्य च । न
अगराजप्रथायक्तः पर्वतराज एव । द्वितीयोऽर्थः ॥ बृहस्पतिः-नवमत्वेन सुखदः 'जीवः
सप्तनवद्विपञ्चमगतः' इति । तथा सुवर्णा शोभनवर्णाकृतिर्यस्य तथाविधो विग्रहः संनि-
वेशो यस्य । भासमानाकृतित्वात् । 'बृहस्पतिजस्व' इति श्रुतिः । विशिष्टो ग्रहो वा वि-
ग्रहः । नागरालस्य दन्तिनः प्रथया त्यक्तः । गजवाहनत्वात् । प्रथया अति अक्तो वा सर्वो-
त्कर्षेण वर्तनात् । इति तृतीयोऽर्थः ॥ ३९ ॥
भवभव्य भवातीत तत्त्वतज्ज्ञ तमोहर ।
रणे रक्त रसेनैहि हिताहिसहितार्थद ॥ ४० ॥
दयादक्ष दहापानि निन्द्यानि त्वं विरामय ।
यमायत्तं यतित्वाव वर वन्द्य वरेण्य माम् ॥ ४१ ॥
द्वाम्यां गदाबन्धः ॥ युगलकम् ॥
हे भवभव्य सर्वोत्कृष्ट । भव संसारमतीत निर्मुक्त । तत्त्वेन परमार्थेन तज्ज्ञ सम्यक्प-
रमार्थज्ञ तब्रह्म जानातीति तज्ज्ञ । तमोहर सर्वजनानामज्ञानध्वान्तन्न । रणे विश्वकण्टको-
द्धरणार्थ रक्त हेवाकिन् । भैरवत्वात् । रसेन कृपाविशारद आदरेण एहि । हितसर्वजनेभ्यः,
अहिभ्यः शेषादिभ्यः, सहितमरुत्तादिभ्यो भक्तेभ्योऽर्थद । दयायां दक्ष कुशल अघानि
पापानि दह शान्ति नय। निन्द्यानि पापानि विरामय अधःकृतोरग । यमस्यायत्त मां मरण-
धर्मित्वान्मर्त्यानां यतित्वा प्रयत्नपूर्व अव रक्ष । वर वन्य वरेण्य इत्यामन्त्रणपदानि॥४०॥४१॥
न तनुतां दधती तततोदिता तुदति नीतिनिधे निधने तनुम् ।
निधिदनाथ ततं ननु नूतनं नुतिधनं तदिदं निददानि ते ॥ ४२ ॥
तवर्गबन्धः ।।
हे निधिदनाथ कुबेरस्य स्वामिन् , हे नीतिनिधे, तततोदिता तोदा रोगाः । तततो-
दिता बहलरोगिता निधनेऽन्तसमये तनुं देहं तुदति व्यथयति । यतस्तनुतां न दधती ।
बहुलेत्यर्थः । ततोऽस्माद्धेतोरहं ते तुभ्यं नूतनमिद नुतिधनं स्तुतिरेव वित्तं निददानि ।
नीतेविश्वस्थितिरूपाया निधे आस्पद । ततं विस्तीर्णम् । ननु संमुखीकरणे । द्रुतविलम्बि-
ताक्षराभ्यां तवर्गबन्धः ॥ ४२ ॥

ईश्वरशतकम् । सा राजते तनुरलं वरदा परासा- सारापदारहित सन्महहासदासा । सादासहाहतभवोत्करकाविलासा सालाविकारपृथु साक्षततेऽजरासा ॥ ४३ ॥ अष्टदलपद्मबन्धः ॥ हे भगवन् , असारायोग्या चासावापत्तया रहित असारापदारहित, तथा सह अक्षतत्या. क्षमालया पाणिगया सह वर्तते यः स तदामन्त्रण साक्षतते, ते तव संबन्धिनी सा तनुः राजते । वरान्ददातीति वरदा । परानस्यतीति परासा । परेषां शत्रूणामास' कोपो वा यस्याः सकाशात् । सन्मह उत्कृष्टोत्सवो हासः प्रमोदो येषां तथाविधा दासाः सेवका यस्याः सा सन्महहासदासा । तथा सादं न सहन्ते इति सादासहा मृदवस्तेषामा समन्ताद्धतो भव एवोच्चैः करकाणां वर्षोपलानां विलासो बाहुल्यं यया सा सादासहाहतभवोत्करका- विलासा । कथम् । सालवदविकारपृथु निर्विकारप्राशु कृत्वा । तथा अजरासा न विद्यते ज- राया आसा आस्था यस्याः ॥ पद्मबन्धोऽय वसन्तवृत्तेन ॥ ४३ ॥ वरा सारवरासारपराभवपराभव। समुद्वृत्ता समुद्वृत्तातनुस्तव तनुस्तव ॥ ४४ ॥ यमकावली ॥ हे भगवन् भव, समुद्वृत्तातनुस्तव सम्यग् उच्चैर्वृत्तानि छन्दासि अनुष्टुप्प्रभृतीनि येषु तथाविध । अतनवो बहलाः स्तवाः स्तोत्राणि यस्य तादृश, तव सबन्धिनी तनुर्वरो- त्कृष्टा । तथा सारा मुख्या ये वरास्तेषामासारो बहलवर्षण तत्र परोद्युक्ता सारवरासार- परा । तथा अभवं मोक्ष पिपति पोषयति अभवपरा । तथा समन्तादुत्ता भैरव- त्वादुत्कटा ॥४४॥ साध्या मूर्तिर्गुणैर्या ते भावितत्वमतारसा । सारतानाधितविभा रविजस्य सदैव सा ॥ ४५ ॥ क्षुरिकाबन्धः ॥ सा तव मूर्तिर्यमनियमादिभिर्गुणैः साध्याराध्या । सा का । या भावितत्वेन मता प्रिया भावितत्वमता । तथा अरसा वीतरागा । तथा सारतयोत्कृष्टत्वेन बाधितोपशमिता विभा यया । कस्य । रविजस्य मृत्योः । सदा सर्वदैव ॥ इति क्षुरिकाबन्धः ॥ ४५ ॥ कुरवे काले साव यमारेऽरस सुकुमार सदानव देव । अनवदयाचित भव मदनारेऽचल मामुक्तियते मयि हेव ॥ ४६ ॥ संस्कृतकाश्मीरापभ्रंशश्लोकः ॥

काव्यमाला । हे भव, को भूमौ रवे सूर्यवत्प्रकाशद कुरवे, मदनस्यारे मदनारे, काले समये हे साव सहावेन रक्षणेन वर्तते यस्तत्संबोधनम् । अहं स्मरामि मद्भक्ति नयामि । परमां गतिमिति यावत् । यमस्यारे यमारे । अरस ससारवासनोज्झित । सदा नित्य नव तरुण । देव दिवु क्रीडाव्यवहारादिधात्वर्थवाचक । अनवदयया कृपया चित व्याप्त । अचल स्थिर । उक्तिषु यते उद्युक्ते उक्तियुक्ते मयि विषये । अत एव मामव । इति पुराणपुरुषसंस्कृतभा- पार्थः ॥ कुरवे काले कश्मीरभाषया सर्वे मारिताः। रससुकुमाराः सदा नवा देवाः । अनवद भाषया निरवधीत्यर्थः । याचितभव प्रार्थितसंसार इति मदनारे इति मदवहिना मुक्ताः । तादृशा अपि । इति कश्मीरभाषार्थः ॥ एवं संस्कृतकाश्मीरापभ्रंशभाषाश्लेषः ॥ ४६ ।। सा रसावर सारम्भ तरसावरसारता । तारसाररसा भक्तिस्थिर सावरसाभया ॥ ४७ ॥ उल्लसद्विजरानन्द शिव सद्विजराज यत् । मूर्तिराभाति ते भव्या सा स्थिराभातितेजसः ॥ ४८ ॥ अयं तूणबन्धः ॥ युग्मम् ॥ हे शिव, सद्विजराज चन्द्रभूषण, रसायां भुवि वरो मुख्यः सहारम्भेण वर्तते विश्वक- मणा वर्तते यस्तदामन्त्रणम् । तथा भक्तिस्थिर । तथा उल्लसन् विजरो जरारहित- स्तरुण आनन्दो निरतिशयप्रीतिलक्षणो मोक्षपर्यायो यस्य स तथाविध । तव सबन्धिनी सा मूर्तिभव्योत्कृष्टा आभाति । अतितेजसः परमानन्दस्याभा स्फुरत्ता । यदाहुः-- 'देवः स कोऽपि जगतीप्रकाशः' इति, 'तदलं स्वात्मावबोधं पुष्णाति तेजोमयोऽमृतमयः पुरु- षोऽयमेव सः' इत्यादि, 'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो- ऽयमग्निः। तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति॥' इति रीत्या 'सूर्यनिर्मल- परमेष्ठिभिः' इत्यादिभिः संवादैः सर्वदर्शनेषु परमात्मनः सर्वतेजास्यतिशय्य सर्वेश्वरत्व वि- श्वकर्तृत्वमिति सुसिद्धम् । इह काव्यमात्रप्रस्तावेन किचिवनितम् । अत्र विस्तरभयात्प्रक- तानुपयोगाच्च न वितत्य अपश्चितम् । दीप्तिः तरसा अव रसेष्ववगतरसेषु बालिशप्रायेषु अ- रतासक्ता । तारे संसारोत्तारणे सारः समर्थो रसो यस्याः सा तथाविधा । वरेषु साभया अभयदायिनी । एवंरूपा तवैवेति ।। द्वितीयस्तूणबन्धः ॥ ४७ ॥ ४८ ॥ चर्चाशिक्षितमत्रतत्त्वविभवोदारप्रतीतिर्भृशं स्मर्ता वन्द्यभवप्रदोऽसि विदितस्त्वं कृत्तवैरिन्भुवि । विश्वस्तुत्य हिताय ते दिवि नमो धूतार्यजेयध्वने नेत्राग्नौ च हुतस्मराय विभवे शर्वाय विद्यात्मने ॥ ४९ ॥ कविनामगर्भश्चक्रबन्धः ॥

ईश्वरशतकम् ।
'शिवस्तुतिरियमवतारकृता' इति श्लोकानिर्गच्छति ॥चर्चया पुनः पुनः पर्यालोचनया
अन्यैः स्वतः शास्त्र इति नीत्या पारम्पर्यक्रमेण यः शिक्षितो मन्त्राणां तत्त्वस्य परमार्थस्य
विभवः स्फाररूपो महिमा तेनोदारा प्रतीतिर्यस्य तथाविधोऽसि । विश्वगुरोर्गुरोः कविना-
मगर्भश्चक्रबन्धः 'शिवस्तुतिरियमवतारकृता' इति श्लोकान्निर्गच्छति स त्वं मानविशिष्ट-'इति
माघचक्रबन्धवद्वाहिस्तृतीयावर्ते 'शिवस्तुतिः' इत्यादि द्वादशाक्षरी निर्गच्छति। भवान्स्ववि-
मर्शो गुरुः । अतश्चर्चया, न तु शिक्षया ।भृशं स्मरति भृशं स्मर्ता । भक्तजनानां वन्य ज्ञा-
नयुक्त भव जन्मभुक्तिमुक्तिसाधक ददाति यः स तथाविधः । मनुष्यजन्मना हि बुद्धिब-
लेन सर्व साध्यते । अत एव भुवि सर्वजनानां विदितः सम्यग्ज्ञातः । हे कृत्तवैरिन्,
कृत्ता वैरिणः कामादय आन्तराः, बाह्याश्चान्धकासुरादयः । हे विश्वस्तुत्य विश्वस्मिन्सर्वो.
त्कृष्टत्वात्स्तुत्य तुभ्यं शर्वाय विभवे विश्वात्मने नमः । दिवि देवभूमौ अर्थात् स्थितेभ्यो
हिताय । सुराः सत्त्वप्रधानास्तदुपरि भगवतः सकृपत्वमुचितम् । धूता आकम्पिता अ-
रयो येन स धूतारिः । तथा अजेयो दुरवगाह्यो ध्वनि दरूपो यस्य स तथाविध ।
तथा नेत्राग्नी हुतः स्मरो येनैवंविधाय सर्वोत्कर्षवते । विद्या सम्यग्ज्ञानरूपाविद्यातिर-
स्कारिणी भगवतो रूपम् । 'विद्ययामृतमश्नुते । सर्वागमेषु च 'महाविद्या ज्ञानयोगः'
इति चतुष्टयं विद्या आत्मस्वरूप यस्य तादृशाय ते नमः ॥ ४९ ॥
मारासुघ्नाविपक्षादरवरवरदक्षापविघ्ना सुरामा
सामासक्ता रणत्रा रिपुरसुरपुरि त्राणरक्तासमा सा।
शापाकृष्टामृदुखा बत सरस तव स्वादुमृष्टा कृपासा
नामासत्या कृतज्ञा तनुरजर नुतज्ञातकृत्या समाना ॥ ५० ॥
प्रतिलोमानुलोमपादः ॥
हे भगवन् , सरस नित्यानन्दमय, अजर नित्यतरुण, बत आश्चर्ये तव संबन्धिनी तनुः
मारस्य कामस्य असून्हन्तीति मारासुन्ना । अविपक्षा प्रतिपक्षवर्जिता। तथा अदरं निर्भय
कृत्वा स्वातन्त्र्येण वरेभ्य उत्तमेभ्यो वरे दक्षा कुशला।अपविना निर्विघ्ना।सु शोभना रामा
पार्वती यस्यां सा । साग्निवेदे आसक्ता संनिहिता । रणात्रायते इति रणत्रा । असुराणां
पुरि नगर्या रिपुः । अत एव त्राणे सकलरक्षणे रक्तानुरागवती । असमा न विद्यते सम.
स्तुल्यो यस्याः । सा विश्वप्रसिद्धा । शापेनाकृष्टः अमृदूनां क्रूरात्मनां स्व आत्मा यया ।
स्वादुना मृष्टा सर्वजनरुचिदा स्वादुमृष्टा । कृपया आसः स्थितिर्यस्याः सा कृपासा ॥
अत्र चित्रकाव्ये शसयोरभेदः । न अमा अविद्यमाना मा यस्याः सा, अपि तु सश्रीका ।
सत्याविनश्वरा । कृतज्ञा भक्तानां सेवयान्तरज्ञा । अजराणां देवानां यन्नुतिः-
(तं) स्तुतिः तेन ज्ञातं कृत्यं यस्याः । अत एव सह मानेन वर्तते या समाना ॥ स्रग्धरा
वृत्तं प्रतिलोमानुलोमपादतः ॥५०॥

काव्यमाला॥
पिता सुराणां क्षपितासुराणां भवस्यनूनं विभवस्य नूनम् ।
खराजितानां मुखराजितानां सदशिव त्वं तु सदा शिवत्वम् ॥ ११ ॥
सर्वपादाद्यन्तयमकम् ॥
हे सदाशिव, त्वमेव तु सदा सर्वकालं क्षपितासुराणां मारितदैत्यानां सुराणां विष्णुप्र-
भृतीनां संबन्धिनो विभवस्यैश्वर्यस्य पिता निर्माता भवसि । नून निश्चितम् अनून कृत्वा
खे आकाशे राजितानाम् । तथा मुखरैर्निन्दापरैर्वाचालैः प्रतिपक्षरजितानां त्वमेव शिवत्वं
शिवस्य भावः शिवत्वं कल्याणभावः ॥ सर्वपादायन्तयमकम् ॥ ५१॥
अहीनभोगाभ रणादराय सदानयज्ञान्त कविग्रहाय ।
सुभूति चेतो हरवीरकाय वरायते सज्ज नमोऽक्षदाय ॥ ५२ ॥
अहीनभोगाभरणादराय सदानयज्ञान्तकविग्रहाय ।
सुभूतिचेतोहरवीरकाय वराय ते सज्जनमोक्षदाय ॥ १३ ॥
महायमकम् ॥ युग्मम् ॥
हे हरवीरकाय, तथा वर उत्कृष्ट, अहीनभोगादिषु राज्यादिषु आमा यस्मात्साऽहान-
भोगाभस्तदामन्त्रणम् । तथाविध । सर्वत्र भवद्दीप्तरेव स्फुरणात् । तदुक्तम्-'न
सा जीवकला काचित्संतानद्वयवर्तिनी । व्याप्त्री विश्वकला यस्यामधिष्ठात्री न विद्यते ॥'
इति । तुभ्य नमः । अक्षाणीन्द्रियाणि दयते पलायते । मनःप्रभृतीना सर्वेन्द्रियाणां बा-
ह्यपदार्थानां च तदधिष्ठानमन्तरेण ग्राहकत्वग्राह्यत्वासिद्धेः । यदाहु:-'आत्मा मनसा
युज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन' इति । रणादराय रणादैत्यसंग्रामाददरो निर्भयस्तस्मै
रणादराय सालब्धजयत्वात् । सदान: सदक्षिणः यज्ञान्तः यस्य हेतोः । सर्वयज्ञसपादन-
वेलायां रुद्रप्रीत्यर्थमेव दक्षिणादि यजमाना वितरन्ति । तावच्च यज्ञस्य पूर्णता न भवति ।
'मृतो यज्ञस्त्वदक्षिणः' इति नीत्या यजमानमूर्ते । क जलं मूर्तिविग्रहो यस्य तथाविधाय,
अष्टर्तित्वात् । शोभना भूतिरैश्वर्य यत्र तत् सुभूति ऐश्वर्येण भोगः समोक्ष ईश्वरेच्छया
प्राप्यते तथाविध कृत्वा । च समुच्चये । इतो लोकात् चेतः, इति पदच्छेदः । आयते
मुक्तिमार्गे सजभक्तजननिस्तारेण सनद्ध, ते नमः । अक्षदाय । एकोऽर्थः ॥ अर्थान्तरं
यथा-वराय वरार्थ सज्जनानां मोक्षदाय तुभ्यं अहीनामिना नागराजास्तेषां ये भोगाः
शरीरसनिवेशास्तदाभरणे आदरो यस्य । सदा सर्वकालं नयं संसारस्थिति जानाति यस्त-
त्सबोधनम् । अन्तकं प्रति विग्रहो विरोधो यस्य सः । तथा सुभूत्या भस्माङ्गरागेण चेतो.
हरो वीरको नाम गणो यस्य स तथाविधाय ॥ इति महायमकम् ॥ युग्मम् ॥५२॥५३॥
साध्यं सुकृतिभिर्यत्नैरमरैर्नुतमञ्जसा ।
साहसानां निधिं गम्यं न दुरासदतेजसा ॥ १४ ॥

ईश्वरशतकम् । ४७ साध्यार्चितं स्तुवे येन वरेयं भूषिता रसा । साधुवृत्तं साररूपं त्रिनेत्रमतिसादरम् ॥ ५५ ॥ द्वाभ्यां खगवन्धः ॥ युगलकम् ।। सुकृतिभिः सत्कर्मभिः साध्य यत्नैर्ध्यानधारणातपोभिः अमरैर्ब्रह्मादिभिर्नुत स्तुतम- असा स्पष्ट साध्यैर्देवविशेषैरचितं पूजितम् । येन भगवता इय रसा भूभूषिता । तथा साधु वृत्तं यस्य स तादृशम् । तथा सारं रूप यस्य तथाविधं त्रिनेत्ररूपं व्यक्त भक्तजनेषु मा- दर साहसानां त्रिपुरदाहादीनां निधिं स्थानम् । दुरासदेन तेजसा हेतुना सर्वैः कैश्चिदेव भक्तैरगम्यमेवविधं सर्वोत्तममहं स्तुवे ॥ इति श्लोकाभ्यां खड्गबन्धः ॥ युगलकम् ॥ सारज्ञं च सदाचारतापच्छिदमुमावरम् । रंहसा नौम्यधिपतारम्यं मुक्तिफलप्रदम् ॥ १६ ॥ मुसलवन्धः॥ सारं मुक्तितत्वं जानामीति तथाविधं सदाचाराणां समयिनां तापं त्रिविध छिनत्ति य- स्तमुमावल्लभत्वादुमावरं सर्वातिशायिनं रहसा त्वरया अधिपतया सर्वेश्वरत्वेन रम्यम् । तथा मुक्तिफल प्रददाति यस्तमहं नौमि ॥ मुसलबन्धः ॥ ५६ ॥ साधुचक्रनुतं वन्दे रेणुकोद्भवशौर्यदम् । दंष्ट्रा विपाटिता येन गजस्य विनिता रसा ॥ १७ ॥ धनुर्वन्धः ॥ साधुचरैर्नुतं नियमिसमुहैः स्तुतम् । रेणुकोद्भवो जामदग्न्यस्तस्य शौर्यदम् । शस्त्रास्त्र- कर्मशिक्षाप्रतिपादनेन । येन दुर्जयस्य गजासुरस्य दंष्ट्रा विपाटितोन्मलिता । अत एव रसा भूविजिता ॥ इति धनुर्बन्धः ॥ ५७ ॥ सावर्ता मित्रपरमाणवोऽपि कतमे स्थि(स्ति)सा (?) । सा भा नैकस्य तेभ्योऽपि देव मत्तनुरञ्जसा ॥ १८ ॥ शरबन्धोऽयम् ॥ संसारे पिटपुत्रधारसुहृत्प्रभृतयः सावर्ता भ्रमन्तो नवनवाः कतमे तावत् असंख्या विस्तारणायोग्यत्वादगण्याः, तेभ्यो मध्यान्मत्तनुः एकस्यापि न सा भा सा दीप्तिः, आ- त्मनो वा तेषां भवत्राणासमर्थेति (1) मित्रस्य वा परमाणवः ॥ ५८ ॥ सामर्थ्यद सुमूर्तिस्ते सदा जीयात्प्रभोऽरसा । सा रसासार सारास्थिस्थिरासा विदिता भुवि ॥ ५९॥ त्रिशलबन्धः॥

काव्यमाला। सामर्थ्य संसारसागरतरणयोग्यं ददाति यस्तथाविध, तव मूर्तिस्ते सर्वकालं जीयात् । रसासार रसायां मध्ये सार उत्कृष्ट, अरसा वीतरागा सारास्थि कृत्वा स्थिर आसः स्थिति- यस्याः । तथा भुवि विदिता ॥ इति त्रिशूलबन्धः ॥ ५९ ।। सा विडम्बकतां नीत्वाप्तवती क्रूरतां विभो । विसारे कुरुते कालसेना दोषं मयि स्थिरा ॥ ६० ॥ डमरुवन्धः ॥ कालसेना मयि विसारे दुर्बले विषये दोषं कुरुते । विडम्बकत्वं कृत्वा तामाप्तवती ॥ डमरुबन्धः ॥ ६०॥ सारा बन्धैर्नाज विभो भियार्ता मे मतिः परा । सा राजते विनैव त्वां भगवन्नेहि रंहसा ॥ ११ ॥ हलबन्धोऽयम् ॥ खड्गबन्धात्प्रभृतिभिः सप्तभिरमीभिर्बन्धैः कविनामगर्भश्चक्रवन्धः 'कृतं चक्रमिदं बन्धैरवतारेण सप्तभिः' इति निर्गच्छति ॥ हे अज भगवन् , इयं मे मतिर्नैव विराजते । बन्धैराणवमायीयकार्मणैः (१) पाशैर्यत उप- लक्षिता । सारा दुर्लभमनुष्यजन्मप्राप्त्या भव्या सती भिया यमभीत्या आता । परा उत्कृष्टा त्व रंहसा त्वरित एहि । मां पाहीत्यर्थः ॥ इति हलबन्धः ॥ 'कृत चक्रमिदं बन्धेरवतारेण सप्तभिः' इत्यक्षराणि चक्रादुचित्य निर्गच्छन्ति ॥ ६१ ॥ सो हेममग्गसग्गो सोहारोहक्खमो विसुद्धो सि । सिद्धो सुविमोक्खहरो हासोग्गो सग्गममहेसो ॥ ६२ ॥ प्रतिलोमानुलोमगाथा ॥ एतस्याः संस्कृतीकरणम्- 'स हेममार्गसर्गः शोभारूपक्षमो विशुद्धोऽसि । सिद्धः सुविमोक्षहरो हासोग्रः संगममहेशः ॥" स हेममार्गसर्गः मरुत्तं प्रति शोभारूपा क्षमा यस्य । सुविमोक्षः । वरः (?) । यस्य संबन्धी अट्टहास उग्रः । सङ्गमेत्यामन्त्रणम् ॥ ६२ ॥ पथेन साधुना माय कुसुमेषुस्यदक्षते । परमस्सै सतेजाय भोनमस्तेनमस्तव ॥ ६३ ॥ अपशब्दाभासः ॥ भो भगवन् , इन स्वामिन् , हे अनमस्तव न अमा अनमाः सश्रीकाः स्तवा यस्य ताह- ग्विध । अविद्यमाना मा लक्ष्मीर्येषां तेऽमाः । तथा कुसुमेषोः कामस्य यः स्यदो दर्पाति ईश्वरशतकम् । शयस्तस्य क्षते हानी अमाय निष्प्रपञ्च, सुकरत्वात् । साधुना पथा उपलक्षित, ते तुभ्यं नमः । अस्मै अनुभवगोचरत्वात्सविरेण वर्तमानाय । 'पथेन' इति, 'साधुनामाय' इति, 'कुसुमेघुस्य' इति, 'दक्षते' इति, ‘परमस्मै' इति 'नमस्ते नमस्तव' इति, एते आमुखे अपशब्दा भासन्ते इति अपशब्दाभासाः ॥ ६३ ॥ किन्ते कार्य भर्गभयं कामद काला- चिन्तेयं मे मन्युममेयं जनयित्री । व्य भालादग्निदलाभां तव दृष्टि- ( [नैनं मन्दमति] नैपुणतः किम् ॥ ६४ ॥ मत्तमयूरेण नन्दिकावर्तबन्धः ॥ हे कामद सर्वाभिलषितदायिन् , इयं मम चिन्ता अमेयं बहुल मन्यु जनयित्री । जन- विष्यतीत्यर्थः । इयं का । यत्कालाद्भय कार्य छिन्ते तव सबन्धिनी दृष्टि लाललाटात् अग्निदलाभा वहिखण्डद्युति व्यते प्रकाशयति सा दृष्टिरेन मन्दमति तुच्छहृदय नैपुणतो दायेन कि न भुते। किमिति भस्मसान्न करोतीत्यर्थः ।। मत्तमयूरेण नन्द्यावर्तबन्धः ॥६४॥ गिरिभिद्विधिजिद्विद्धि द्विषि च्छिन्द्धि स्थिति गिरि । श्रियि सिद्धिधियि विधिविच्छित्तिरिति चिद्भियि ॥ १५ ॥ इकारान्त एकस्वरः ॥ हे गिरिभिद्विधिजित् गिरिभिदिन्द्र', विधिर्ब्रह्मा तौ भुजस्तम्भेन शिरश्छेदेन च जितवान् । तत्सबोधनम् । लमिति विद्धि जानीहि । किम् । द्विषि वैरिणि या गीस्तस्यां स्थिति सनिधि छिन्द्धि विदारय । अत एव नोऽस्माक श्रियि सिद्धिः, धियि प्रज्ञाया वि- धिविधानम् । चिद्भियि चितोऽपरिमितज्ञानाद्या भीतिः ससारभ्रमणात् तस्यां विच्छित्ति- विच्छेदः । भवतीति सर्वत्र योज्यम् ॥ इकारान्तस्वरोऽयम् ॥ ३५॥ शर्व नयः शुभो वितरणे गुणे रत विभो तिष्ठति ते श्रियेऽजर परं चिरं परजये । तत्कृपया सुचारुरव मा क्षमावररुचा दर्शय सद्धिते परसुखं सुखं सुरपते ॥ ६६ ॥ स्फुरबन्धः ॥ हे शर्व विभो, गुणे रत, अजर जरारहित, ते तव नयो नीतिराचारः शुभस्तिष्ठति। वि- तरणे दानविषये परमत्यर्थ चिर श्रिये पर उत्कृष्टो यो जयस्तस्मिन्सति । तस्मात् हे सुर- १. आदर्शपुस्तकयोस्तु 'किन्ते' इत्येव पाठ उपलभ्यते, परंतु टीकायां 'छिन्ते' इति व्याख्यानस्योपलभ्यमानत्वात् 'छिन्ते' इत्येव पाठः स्यात.

५० काव्यमाला। " पते, त्वं कृपया सुचारू रमणीयः । मा अव मामव रक्ष क्षमया सामर्थ्येन सा वरोत्कृष्टा या रक्तया सद्भयो हिते विषये यत्परमतिसौख्य तथाविधं सुख सुष्टु खानीन्द्रियाणि यत्र तदर्शय ॥ स्फुरबन्धोऽयं श्लोकः ॥ ६६ ॥ कालाक्रान्ता तनुरमरनुत त्रस्तेयं मे विदितहित दिवि । नश्यत्यग्रे तव सरस बत ग्लानिः सेयं वशिदमद शिव ॥ ६७ ॥ प्रतिलोमानुलोमपादाः ॥ हे अमरनुत, हे दिवि विदितहित, हे सरस लब्धात्मविश्रान्ते, हे वशिना जितेन्द्रि- याणां दमद सर्वसहत्वदायिन् , मम सबन्धिनीयं तनुः कालेनाक्रान्ता त्रस्ता। बत आश्चर्ये । तव प्रभोरग्रे नश्यति सेयं ग्लानिः शिव सर्वेषां श्रेयस्कर ॥ भ्रमरविलसित वृत्तम् ॥३७॥ दानासन्ना पवित्रानुतजनितरणत्रा रिपुत्वे न जेया माराभिख्यासचर्याविरतकृदरमद्यापि दक्षा पराका । शापाकृत्यायनज्ञावनमनजनिमुक्तारगत्यानपाया या सा रम्यागदत्वा शिवतनुरमदत्वातिहत्तापरासा ॥ ६८ ॥ सारापत्ताहृतित्वादमरनुतवशित्वादगम्यारसा या या पानत्यागरक्ता मुनिजनमनवज्ञा नयत्याकृपाशा । कारापक्षादपि द्यामरदकृतरविर्या च सख्याभिरामा याजेनत्वे पुरि त्राणरतनिजतनुत्राविपन्ना सनादा ॥ १९ ॥ प्रतिलोमानुलोमाभ्यां स्रग्धराद्वयम् ॥ (युग्मम्) सा शिवतनुः एवविधा सती मुनिजन भक्तलोकं कारापक्षात्संसारबन्धादपि द्यां न- यति । यतः । दाने आसन्नाभ्यर्णवर्तिनी । तथा पवित्रा। आ समन्तान्नुतं स्तवन येषां तथाविधैरानतर्भक्तजनैनितो यो रणो विपक्षैः सह कलहस्ततस्त्रायते आनुतजनितरणत्रा। रिपुत्वे सति असुरादिभिर्न जेया । मारस्य कामस्य याभिख्या रूपलावण्यकान्तिम- त्त्वाच्छोभा तया समानचर्या । तद्युक्तेत्यर्थः । विरुद्ध यद्रत रमण संसारासक्तिस्तत्वन्तति छिनत्तीति विरतकृत् । अरमत्यर्थ अद्यापि अविच्छिन्नप्रवाहेण दक्षा पञ्चकृत्यकुशला । परान् शत्रून् अकति कौटिल्येनोल्लङ्घयति पराका । शापोऽकृत्य यस्याः शापाकृत्या कु- पया वरदायिनीत्वात् । अयन मुक्तिगमन जानातीति अयनज्ञा । अवनमनेन नमस्कारेण जनेर्जन्मनो मुञ्चति अवनमनजनिमुक् । तारगत्या विस्तारकेणोपायेन अनपायाविन- श्वरी । एवंविधा या प्रसिद्धा सा रम्यमगदत्वमारोग्य यस्याः सा रम्यागदत्वा । तथा अ- मदत्व दीनतामतिशयेन हरति यस्तस्य भावोऽमदातिहत्ता तेजःप्रसादस्तेन परानस्थति क्षिपति परासा अमदातिहत्तापरासा एवंविधा । सारा बहला या आपटम्तामा भात.

ईश्वरशतकम् । सारापत्ता तस्या हृतित्व हरणभावस्तस्मात्सारापत्ताहृतित्वात् , तथा अमरनुतवशित्वा- त्सुरस्तुतजितेन्द्रियत्वादगम्या दुष्प्रापा । अरसा वीतरागा च । या च पाने रक्षणे त्यागे च भक्तजनाय इष्टदाने रक्ता हेवाकिनी । तथा अनवज्ञा न विद्यतेऽवज्ञा भक्तजनं प्रत्य- वहेला यस्याः । तथा आ समन्तात् कृपया आशा यस्याः सकाशात् । तथा-अरदः कृतो रविर्यया पूष्णो दन्तदलनादरदकृतरविः । या च तनुः सख्या सेवयाभिरामा भक्ता- नभिरमयति । या कारापक्षादपि अर्थात्संसाररूपात्कारागृहाद् द्या स्वर्ग नयति । या अजा आद्या शक्तिः । इनत्वे सति प्रभुत्वे सति पुरि भवने त्राणरता पालनोद्युक्ता या निज- तनुः क्षिन्यादिरष्टविधा तामपि त्रायते परेण रूपेणाधितिष्ठते । अत एव अविपन्ना क- ल्पादावप्यनश्वरी । सनादा सशब्दोल्लासा । यतः 'न सोऽस्ति प्रत्ययो लोके यः शब्दा- नुगमादृते । अनुविद्धमिव ज्ञान सर्व शब्देन भासते ॥' इति वचनाच्छव्दात्मकं पर ब्रह्म- रूपम् ॥ युगलकम् ॥ ६८ ॥ ६९ ॥ सुरद्विषां धामनिवारणाय तुभ्यं समिद्धामनि वारणाय । नमोऽस्तु भव्याय भवाकुलाय संसाररक्षाप्रभवाकुलाय ॥ ७० ॥ यमकम् ॥ हे भगवन् , तुभ्यं नमोऽस्तु । सुरद्विषां दैत्यानां धामनिवारणाय तेजोग्लापनाय । तथा समिद्धामनि वारणाय समिद्धामनि दन्तिनो(?) क्षोभकत्वात् । भव्याय सर्वोत्कृष्टाय । अ- कुलाय जन्मरहितत्वात् । ससाररक्षाप्रभवैगकुलाय व्यग्राय ॥ ७० ॥ रसारसासारसार सारसाररसार सा। रसा रसासारसारसारसाररसारसा ॥ ७१ ॥ मरुस्थलीत्वं त्वदृते मयीह सति धामनि । अतो मां यमसेनेामयी हसति धामनि ॥ ७२ ॥ अत्राद्यो ब्यक्षरो द्विस्वरोऽसंयुक्ताक्षरोऽर्धभ्रमः सर्वतोभद्रः, समुद्गय- मकम्, मालायमकम्, आवृत्तयमकम्, गूढचतुर्थः, गूढतृतीयः, गूढत्रिंश- दक्षरो वा, गोमूत्रिकादयश्च बहवो बन्धा अत्र श्लोके पृथक्प्रस्तार्य प्रेक्ष- णीयाः। द्वितीयः पादयमकः ॥ हे भगवन् , रसारस रमेभ्यः शृङ्गारादिभ्योऽरसो विमुखस्तदामन्त्रणं हे रसारस, तथा असारसार असारात्संसारात्सारः तादृश हे असारसार । अरीणा सम्हमारम्, सह आरेण वर्तते यत्तत्सारम्, सार च तत्सारं बलं तत्र रसो यस्य सः । तद्विधा सा लोको- त्तरा रसा भूमिः आर जगाम । मरुस्थलीत्वं मयि विषये धामनि स्वे तेजसि सत्यपि इह संसारे । यतः । कीदृशी भः । रसासारसारसारमाररसारसा । रसस्य जयस्य ये आसारास्ते , ५२ काव्यमाला। सागणि येषु तानि रसासारसाराणि, तथा सारसानां हंसानामारं गमन राति ददाति एवं- विधानि सारसानि सर:समूहा यस्यां वारुण्या जलपूर्णा तथाविधापि मां तापयतीति । अतो हेतोर्यमसेना ईर्ष्यामयी मां हसति । धामनि गृहे ॥ ७१ ॥ ७२ ॥ अक्षय्यं क्षीणसादं नृबुधहतभयं सत्फलं धीरचित्तं तुझं श्रीसाररक्षोसुरहतिरभसं त्वां सगङ्गं श्रितं वा । चर्यालक्षेण लोकक्षममलयमहासंक्रमं खैरसज्ज स्थाणो स्वाबद्धसर्वाहवगरिमगुणं के तु नेह स्तुवन्ति ।। ७३ ॥ अयं श्लोको गाथागर्भः ॥ हे स्थाणो, इह संसारे के त्वां न स्तुवन्ति, अपि तु सर्व एव । यतः अक्षय्य क्षेतुं शक्यः क्षय्यः न क्षय्यः अक्षय्यः, तादृशम् । 'जिक्षेः शक्ये' इति यः । तथा क्षीणः सादः संसारावसादो यस्मात् , तादृशम् । तथा नृणां बुधानां देवानां च हतं भयं येन स तादृश च । सतां फल भुक्तिमुक्तिरूप यस्मात् । धीर स्थिरं भक्तानुग्रहं प्रति चित्तं यस्य । तुङ्गमत्युन्नतं सर्वोपरिवर्तित्वात् । श्रिया सारा ये रक्षोसुरास्तेषां हतौ रभस आदरो यस्मात् । चर्यालक्षेण बहुलचर्याभिः सर्वदर्शनानां पृथक्प्रस्थापनत्वादाचारभेदैः श्रित सेवितम् । सगङ्ग गङ्गाधरम् । लोकेषु सप्तसु मध्ये तु क्षम सर्वसहम् । अलयोऽवि. नश्वरः महान् संक्रमो यस्य । स्वैरं स्वातन्त्र्येण सज्ज पञ्चकृत्यसंनाहम् । स्वेनात्मना आ. बद्धाः सर्वाहवेषु दैत्ययुद्धेषु गरिमगुणा येन दुरासदत्वात् । एवंविधम् ॥ गाथागर्भोऽयम् ॥ गाथा यया-'अय्यं णदबहभमलं रत्तन सारसुहरसासङ्गम् । तं चलणकमलमसमं रज्जं णो वसहगमण तुह ॥ इति । अस्य संस्कृतीकरणम्-'आर्य नतबुधभ्रमरं रक्ताङ्ग सारशु- भरसासङ्गम् । तव चरणकमलमसम राज्यं नो वृषभगमन तव ॥ इति । अस्या गाथायाः स्पष्टोऽर्थः ॥ ७३ ॥ सुरासुराजये जयेऽदरादरादमादमा । सदा सदारतारता विभो विभोगता गता ॥ ७४ ॥ आवलिः ॥ सुरासुराणामाजये संग्रामाय जये विषये अदरो निर्भय आदरो यथा तथाविध अद- रादर हे विभो विभोगता । विशिष्टभोगता इति यावत् । सदा सर्वकालं सदारतायां गार्हस्थ्ये रतासक्ता । अमा अविद्यमाना लक्ष्मीर्यस्याः [नि:]श्रीका म(!)........ गता ॥ आवली ॥ ७४ ॥ जय प्रसन्न तत्त्वद स्वतन्त्रसर्गतत्पर । जगत्रयप्रवर्धन क्षतस्मर प्रहर्षद ॥ ७९ ॥ अयमेकस्वरः श्लोकः ॥

ईश्वरशतकम् । ५३ ३ हे हर हर रोराही होरां रहोहरारिराहुहरे । रोहाहारैरहरहरहिहारेहाहरां हा हा ॥ ७६ ॥ अयं श्लोको अक्षरः ॥ आयोवृत्तम् ।। हे हर, अहि[हार वासुकिभषण, त्वं होरां लग्नस्थिति रोराह दारिद्र्यावहां हर निवा- रय । रहोहर रणे वेगहारो योऽरिः शत्रुः स एव राहुस्तस्य त्वमेव हरिः शिरोहरत्वात् । तदामन्त्रणं रहोहरारिराहुहरे, रोहाः कन्दमूलादयस्तेषामाहारैर्भक्षणैरहरहः प्रतिदिनम् । हा कष्टे । ईहां चेष्टां हरति तथाविधा होरां हर ॥ यक्षरः ॥ ७५ ॥ ७६ ॥ सारतास्थिरवरस्थिता रसाभारसौम्य गणगम्यसौरभा । राजते स्तुतिमतिस्तुतेऽजरा दक्ष मान्य धनधन्यमाक्षद ॥ ७७ ॥ स्वर्गमार्गद निरर्गलातनुः सा मतात्तकृतकृत्ततामसा । इन्दुमण्डितशिरःस्थजाह्नवीतीरभाव्यभयभव्य भारती ॥ ७८ ॥ प्रतिलोमानुलोमपादार्थः ॥ युगलकम् ॥ हे स्वर्गमार्गद, तथा हे इन्दुमण्डितं च तच्छिरस्तत्र तिष्ठतीति तादृशी या जाह्नवी तस्यास्तीरभावि यदभयं तेन भव्य उत्कृष्ट । तथा हे दक्ष सर्वत्र कुशल, हे मान्य पूज्य, तथा हे धनधन्यम धनेन मरुत्तादिभ्यो दत्तेन धन्या मा शोभा यस्य तादृश, तथा हे अक्षद अक्षाणि दिव्येन्द्रियाणि दूरदर्शनश्रवणयोग्यानि ददाति यस्तादृश, तथा हे ग्साभारसौम्य रसाभारे भूभारोबहने सति .........."असौ निर्विकारा ते तव भारती राजते । कीदृशी । सारतास्थिग्वरस्थिता सारतया स्थिगश्च ते वरास्तेषु स्थिता । पुनः कीदृशी । गणगम्यसौरभा गणैर्नन्दिप्रभृतिभिर्गम्य प्राप्यं सौरमं यशःपरिमलो यस्या तथा किंभूता । स्तुति(मतिः) स्तुतौ मतिर्यस्याः । तथा निरगला निर्निरोधा। अजरा नित्यतरुणा । पुनः कथंभूता । मतात्तकृतकृत्ततामसा । मतेन आत्तं च तत् कृतं पुण्यं तेन कृत्त छिन्न तामस यया । पुनः कीदृशी । अतनुरस्वल्पा ॥ रथोद्धता ॥ युग्मम् ।। ५७ ॥ ७८ ॥ समाधिकारा सुरसारसादरा समाधिकारासुरसारसादरा । समाधिकारासुरसा रसादरासमाधिकारासुरसारसादरा ॥ ७९ ॥ सुदर्शनस्येव युधि द्विषां वधे मतिः सुतीक्ष्णा भवतो जयत्यसौ । नमामि शंभो शमिमानवाभयं नयं भवानर्थजितं भवाततम् ॥ ८० ॥ आधः पादाभ्यासयमकम् । द्वितीयस्त्रिशूलबन्धः ॥ हे शंभो, कीदृश । समाधिकार समाधि चित्तैकाग्र्यं करोति समाधिकारस्तादृश, भवतो मतिरसौ सुतीक्ष्णा जयति । कथभूता । समाधिकारा सह मया वर्तते यः स समः स- श्रीकोऽधिकारो यस्याः सा । तथा किंभूता । सुरसारसादरा सुरसारेषु विष्णुप्रभृतिषु सादरा सानुग्रहा । पुनः कीदृशी । समाधिकारासुरसारसादरा समाधिकाराः तुल्यबलवीर्य, काव्यमाला। तथा अधिकः अरो गमन बाणादौ येषां तादृशा येऽसुरास्तेषां सारस्य बलस्य सादं राति ददाति तादृशी । तथा किविधा । [आ]सुरसा नतेषु [समन्तात् ] शोभनरसा । पुनः किविधा । रसादरा रसायां भूमौ अदरा निर्भया । तथा असमाधिकारासुरसार- सात् असमा आधयः तथा कारा बन्धनगृहं येषु ते तादृशा ये असवस्तेषु यो रसो हेवा- कस्तत्र आर अरीणां समूह आरं सर्वसारसपत्र आरसात् द्विषा वधेन तेषामेव अरा धारा सुदर्शनस्येव । सा च अरिभटानां वधे सुतीक्ष्णा सवास आरात्परिसमूहा इव अहं तव नयं नमामि । त्व कि शमिमानवा भयशमिनो मानवास्तेषां अभयमभयप्रदत्वात् । आयुध तमिति न्यायेन यतो भवानिर्जितः । नय कथंभूतम् । भवानर्थजितं संसारानर्थभेदिनम् । आततं विस्तीर्णम् ॥ ७९ ॥ ८॥ कृतानवतनुप्राज्ञ स्वाभासुरसमाधिकृत् । स्थिताज्ञाहिसितत्वाप्य दमासक्ताव मा व्यरि ॥ ८१ ॥ सुरमात्वस्थितिसम संतताथाद्वयस्वन । सरसारमना माक्षामतिसारतमोद्यम ॥ ८२ ॥ द्वाभ्यामष्टदलपद्मबन्धः ॥ (कुलकम्) हे कृतानवतनुप्राज्ञ कृता अनवा आद्यास्तनवः पृथ्व्यादयो येन तथाविधश्चासौ प्राजश्व तादृश । तथा हे स्वाभ शोभनदीप्ते । तथा असुरसमाधिकृत् । असुराणां समाधि कृन्तति छिनत्ति तद्विघ्नकारित्वात् । तथा हे स्थिताज्ञाहिसितत्व स्थिता आज्ञाश्चाह- यश्च सितत्वं च यस्य तद्विध । आप्य भक्तजनैः प्राप्य । तथा हे दमासक्त दमे आसक्त, मा मामित्यर्थः । त्वमव रक्ष। कथम् । व्यरि विगता अरयो यत्र तथाविधं कृत्वा । तथा हे सुर- मात्वस्थितिसम शोभनं यद्रमात्वमैश्वर्य तस्य या स्थितिस्तस्यां सम अनुद्रिक्त । तथा हे सं- तत अविनश्वर । तथा हे अद्वयस्वन अद्वयः स्वन आज्ञारूपः शब्दो यस्य स तादृश । तथा हे माक्षामतिसारतमोद्यम मया लक्ष्म्या तथा अक्षैरिन्द्रियैरा समन्तात् मतिसारतम उद्यमः कर्तव्यता यस्य तादृश । त्वं कथंभूतः सन् । रससारमना आदौ सुराचित्तः सन् ॥ युगलकम् ॥ ८१ ॥ ८२ ॥ वरतास्थिरसामन्त सारतातिसमाहित । सुकृताक्तासन खाज्ञादमाससुमतावसि ॥ ८३ ॥ त्वमद्य भव्य साज्ञत्वानुकृतप्राप्य सद्वर । नाम सुस्थिर मोक्षाय ममाधिरिति सा तथा ॥ ८४ ॥ एतदुक्तचतुरङ्गाश्वपादपूरणश्लोकयुगलकम् ॥ हे शंभो, वरतया प्राधान्येन स्थिराः सामन्ताः सेवका यस्य स तादृश वरतास्थिरसा- मन्त । तथा हे सारतातिसमाहित सारतयोत्कृष्टत्वेन अतिसमाहित । तथा हे सुकृता- १. 'समाधि' क-ख.

ईश्वरशतकम् । क्तासन सुकृतन धर्मणाक्त सेवितमासनं यस्य तद्विध । तथा हे स्वाज्ञादमाससुमत शो- भनाश्च ते आज्ञादमाश्च तेषां य आमस्तेन शोभना मता यस्य तादृश । अद्य | मामित्य- र्थात् । त्वमवसि रक्षसि । तथा हे [सा]जत्वानुकृतप्राप्य [सा जत्वस्य यदनुद्धतमनुकरणम् ।न- पुसके भावे क्तः । तेन प्राप्य । सतां वर । नाम संभावनायाम् । इत्यतो हेतोः मोक्षाय मम । तथा य आधिर्मनोरुक् । नय त्वमवसीति स्पष्टीकृत पुनः ॥ ८३॥ ८४ ॥ कृतानतज्ञसुरमाहितत्वाप्यवताद्वय । रसारक्षासारतम कृतज्ञ सुर माप्यव ॥ ८५ ॥ अष्टापदान्निर्गतसमञ्जसबोधो गूढचतुर्थः ॥ कृतमानतं जानन्ति ये तादृशाः कृतानतज्ञा देवा योगिनस्तेषां या सुरमा शोभना चासौ रमा लक्ष्मीस्तस्यै हितत्व यस्य तथाविध हे कृतानतज्ञसुरमाहितत्व, तथा हे आप्य भक्तिगम्य । तथा हे अद्वय । तथा हे रसायां रक्षतया सारतम कृतज्ञ हे सुर देव मा अपि मामपि त्वमव ॥ ८५॥ सुप्रज्ञानतसारज्ञ सकृतान्ततनुव्यय । रक्षावतारमद्य त्वमतिभासुर सुस्थिर ॥ ८६ ॥ अष्टापदनिर्गतः कविनाम्ना कुसुमोच्चयबन्धः ।। हे सुप्रज्ञ शोभनश्चासौ प्रज्ञस्तथाविध, तथा आनतसारज्ञ आनतानां भक्तानां मार- मुत्कर्ष जानाति यस्तद्विध, तथा हे सह कृतान्ततनुव्ययेन वर्तते तद्विध, अवतारं र- क्षेति कविराशास्ते आत्मनि । हे अतिभासुर दीप्तिमन् । हे सुस्थिर अविनश्वर ॥ अष्टा- पदानिर्गतकविनाम्ना कुसुमोच्चयबन्धः ॥ ८६ ॥ वेद वेदविदां वादविद्देवो दिवि दावदः । वादो वादेवदेवादिविद्यो वादिवदे विदम् ॥ ८७ ॥ एकान्तरितयक्षरः॥ है देवदेव, अहं वदे व्यक्तं वदामि । देवः देवादिवस्तुभावि देव जानातीत्यर्थः । वेदविदां मध्ये वादवित् दिवि दावमुपतापं दैत्यकृतं द्यति खण्डयति यः स दावदः । आदिवित् स- र्वज्ञत्वात् । देवीविदं अहं न झटित्यविदम् ॥ ८७ ॥ कथाभोगजडो मूढवया आरोषणामुखः । आद्या फलायदिशतो नाहं झटिति चाबुधः ॥ ८८ ॥ अपुनरुक्तव्यञ्जनः ॥ अह कथाभोगजडः, मूढ व्यर्थ वयो यस्य, आ समन्तात् रोषणतया आमुखः, अचै. रफलायासापदिशतः । अबुधश्च ॥ ८८॥ १. 'सारकृत' क-ख.

काव्यमाला।
स्थिर सुरवरसुप्रसाद क्षमोपेत हा मोघमोहातपे मोक्षद त्वामनं
दिवि भुवि च विभुं कृपादे(वे)शहीनाविमौ कालकामौ विनाहीशदेहाङ्गदम्।
जितरणगुणरत्न तौ रौरवीयाधिदौ मा किमादौ धिया वीररौद्रौ यतः
किमु भव भवभङ्गदोषागते पाशवे साधुसावेशपाते गदा घ्नन्त्यलम्।।८९॥
चण्डव्यष्टिप्रपातदण्डकेन नन्दिकावर्तबन्धः ॥
स्थिर अविनश्वर, सुरवरेषु ब्रह्मविष्णुप्रभृतिषु शोभनः प्रसादो यस्य तथाविध, क्षमोपेत
क्षान्तियुक्त, हा कष्टम् । मोघे निष्फले मोहातपे अज्ञानतापे मोक्षद, वामजं हि दिवि भुवि
च विभुं द्यावापृथिव्योः स्वामिनम्, अहीशानां नागराजानां देहा अगदा यस्य तथाविधम्,
विना इमौ तौ कालकामौ विना रौरवीयाधिदौ रौरवीया आधिः पीडा तत्प्रदौ, धिया
प्रज्ञया वीररौद्रौ कि मा मादोद्यता:(१) खण्डयतः । किमु तव जितरणगुणरत्न हे भव
भवभङ्गदोषागते पाशवे पशोरयं पाशवस्तस्मिन्पाशवे, तथा साधुसावेशपाते सति गदा रोगा
जरादयो नन्त्यलं तत्सर्व देवदेव देवो देवी वा इति ॥ चण्डव्यष्टिप्रपातदण्डकेन नन्दि-
कावर्तबन्धः ॥८९॥
तुभ्यं जगत्रयत्राणससंपज्जयते नमः ।
शिव संयत्सभाशील जय सज्जनवत्सल ॥ ९० ॥
'जय सज्जनवत्सल' इति चतुर्थः पादः समञ्जसेन प्रतिलोमेनैव पाठेन
निर्गच्छति भ्रान्तिसमञ्जसबोधो गूढचतुर्थः ।।
हे शिव, जगत्रयत्राणे सह संपद्भिरष्टाभिर्ऋद्धिमयीभिर्वर्तते यस्तत्संबोधनम् । जगत्र-
यत्राणससपद् तुभ्यं जयते सर्वोत्कृष्टाय नमः ॥ संयत्सभाशील सग्रामपर्षत्परायण सत्पुरुष-
वत्सल त्वं जय ॥ तुभ्यमित्यस्मात् 'जय सजनवत्सल' इति चतुर्थः पादः समजमप्र-
तिलोमेनैव पाठेन निर्गच्छति ॥ समञ्जसबोधो गूढचतुर्थः ॥ १० ॥
सुधीसारज्ञताभव्यजय मासामगक्षम ।
सुसाज्ञ भज मामक्षधीरताव्यय सागम ॥ ९१ ॥
प्रथमार्धादेकान्तरितान्यक्षराण्युच्चित्य
तृतीयपादः, शिष्टाक्षरैस्तथैव
चतुर्थपादः ॥
सुधिया शोभनप्रज्ञया या सारज्ञता तया हेतुभूतया भव्य उत्कृष्टो जयो यस्य तद्विध ।
मा शोभा तया सामगा सान्त्वगा क्षमा यस्य तद्विध, सर्वसहेत्यर्थः । सुसाज्ञ शोभनश्वासो
साज्ञश्च तदामन्त्रणम् । अक्षैर्या धीरता तया अव्यय । सागम सर्वांगमसम । [मा भज ।]
प्रथमार्धादेकान्तरितान्यक्षराण्युच्चित्य तृतीयपादः, शिष्टाक्षरैस्तथैव चतुर्थपादः ॥ ९१ ॥

ईश्वरशतकम् । नूनं नमन्मेनमनिम्नमेनमुमामनोमानननुन्नमौनम् । मानं मिमानं मुनिमानिनीनामनूननामानमिनं नमामि ॥ ९२ ॥ ब्यक्षरः ॥ अहमेनमिनं स्वामिनं अनूननामानं नमामि । अनन्ताभिधानम् । 'असख्यातः सह- स्राणि' इति वेदश्रुतेः । तथान्यत्रागमेऽपि -'नवकोव्यस्तु चामुण्डा तावद्रूपाणि शकर । कृतवास्तांश्च भजते पतिरूपेण भैरवः ॥' इति नीन्या भगवतोऽनूनानि नामानि] । नूनं निश्चितम् । नमन् प्रणमन् ] माया इनो मेनः लक्ष्मीपतिर्यस्य तथा । अनिम्नमत्युन्नतम् । तथा उमाया मनोमाननार्थ चेतोरञ्जनाय नुन्नं निवारितं मौनं येन तम् । मुनिमानिनीनां मानं भर्ट विषय[क] संयम मिमान हिसन्तम् । देवदारुवनप्रवेशात् ।। ९२ ॥ हृदि लसमान समा नो द्वियते ते] शाश्वती समान समानः । कान्न समानसमानः करोप्यतस्त्यान्धकास मानसमा नः ॥ ९३ ॥ पादान्तयमकम् ॥ सर्वेषां हृदि लसमान, 'तथा स्थानं हृत्पङ्कजसमुद्गकम्' इति नीत्या । हे अन्धकास, अन्धकदैत्यमस्यति यस्तत्संबोधनम् । कैश्चिदपि ते तव संबन्धिनी समान पूज्य शाश्वती समा अनन्तकालं न(नो) ह्रियते नापलप्यते । समः आनः आनन जीवन [यस्य तथा- विधः । कान् न समान् सश्रीकान् करोषि । यतः [अ]समानः अतुल्यः। नः] अस्मात मानसमा मानसस्य चेतसः मा शोभा मानसमा चेतःशोभा अतस्त्या अत आगता ॥ सर्वपादान्तयमकम् ॥ १३ ॥ चित्ते सद्धासमत्ते समिदपरमहोऽजो गदासंकरोसा- वाहेमासारवाही कदवरसमहामोहसत्तापहारी । पातादोजोगसत्तोऽविरलसुरणदोऽसञ्चलासोऽकलङ्को- ऽकाले कामेऽन्तको वोऽवितरततरसासज्जसंपत्तिदो वा ॥ ९४ ॥ अयं श्लोकः संस्कृतप्राकृताभ्यां भाषाश्लेषः ॥ असौ अकाले असमये । असंग्रामे इत्यर्थः । कामे विषये अन्तको वो युप्माक पाताद्र- क्षतु । अवितरः, विगतः तरः तरण यस्मात् स वितरः, न वितरः ततः अवितरतत. ! अथ च रसायां भूमौ सज्जा चासौ संपत्तिश्च, तां ददाति रसासज्जसंपत्तिदः । तथा ओजोगसत्तः । ओजोगानां तेजोगामिनां सत्ता अस्तित्व यस्य । परप्रकाशरूपत्वात् । तथा अविरलसुरणदः । अविरल कृत्वा सुतु शोभनान् सुखदायिनो रणान्ददाति । तथा असच्चलासः । असत्सु वेद्यादिषु चला अस्थिरा आसा आस्था यस्य । अत एव अकलङ्कः । १. 'सम्र्ते' क; 'ससत्ते' ख.

काव्यमाला। , चित्ते चेतसि सद्धासमत्ते सति सन् हासो विकासः तेन मत्ते सति । समिदपरमह. । समित्सु संग्रामेषु अपरः मह उत्सवः । भगवतः स्मरणाद्रणे सर्वेषां सकृल्लब्धजयत्वात् । अजः जन्मरहितः । तथा गदासकरः । न विद्यते गदैः सह संकरो यस्य । तथा आ समन्तात् हेनः सुवर्णस्य वर्षणं वहति । आहेमासारवाही। कदवरसमहामोहसत्तापहारी । कत् कुत्सितः अवरसो महामोहः तस्य सत्तां स्थितिमपहरतीति ॥ संस्कृतभाषाश्लेषः- [चित्रे श्रद्धासमाप्तौ शमितपरमखो यो गताशङ्करोषा- द्वाधे मासारवाहिः कृतवरसुमहामोघसत्ताप्रथारिः । पातायो योगसक्तो विरलसुरनतः सत्यलास्यः कलाङ्कः काले कामेऽन्तको वा वितरतु तरसा सदृशं प्राप्तिदो वा ॥] चित्रे आश्चर्यवति श्रद्धासमाप्तौ आदरनिवृत्तौ । शमितपरमखः [शमितः परमखो] दक्षाध्वरो येन । तथा गताशङ्करोषात् । वह्निबाधे सति मासारवाहिः, मया शोभया उपलक्षिताः सारवा अहयः वासुक्यादयो यस्य । तथा कृतवरसुमहामोधसत्ताप्रथारिः । कृतवरः सुमहा आत्मोत्सवात् मोघसत्ता या प्रथा तस्या अरिः । पातादो(दु)पनताद्धेतोः विरलैः कतिपयैः सुरैः ब्रह्मादिभिर्नतः सम्यक्प्रार्थनया नमस्कृतः। यदाहुः-पूजका बहवः सन्ति भक्ताः सन्ति सहस्रशः । प्रसादपात्रमाश्वस्ता द्वित्रा एव न पञ्चषाः ॥' इति नीत्या । योगसक्तः । सत्यलास्यः । सत्यं लास्यं नटनं यस्य स सत्यलास्यः । कल्पान्तादौ नृत्यति । तथा कलाङ्कः । कला चान्द्री अको यस्य सः । काले कामेऽन्तको वा । काले क्रमेण कोपः । वितरतु । तरसा वेगेन । संज्जसदृशं प्राप्तिदो वा । इति प्राकृतभाषाश्लेषण संस्कृतप्राकृतभाषाभ्यां श्लेषोऽयम् ॥ १४ ॥ कमलभ्यमलीकविधौ कमलं वय आननशोकमलं कमलम् । कुरुषे न विशङ्कमलं कमलं सवितेव लसत्कमलं कमलम् ॥ ९५ ॥ सर्वपादान्तयमकं तोटकवृत्तेन ॥ त्वं कं जलं गाङ्गमलभ्यं दुस्तरं अलीकविधौ मुकुटचन्द्रे, न तु नैर्मल्यात् । के ब- ह्माणं आननशोकमलं वयः सुखभगा (2) तथा कं न [कमल] जल कुरुषे । अपि तु सर्व सुखयसि । अलं विशङ्कं कृत्वा । कमिव । सविता रविः कमलमिव । कथंभूतम् । लसन्ती कमला लक्ष्मीर्यत्र तथाविधम् ॥ ९५ ॥ १. (सज्जसं) सदृशं' इति पाठो भवेत् . २. इतः प्राक् 'विभो प्रसन्नास्य निता- न्तदीप्तयोऽजां प्रपश्यस्यतुलप्रताप । धिया दरिद्रस्य कृतावसाद दयाई विश्वाधिपते प्रसीद ॥ इति श्लोको दृश्यते; स चाचमत्कारतया क्षेपक इति प्रतिभाति.

ईश्वरशतकम् । ५९ भीमारारा रामा मारा मारारारा मारारामा । [रामारारारारामा मारारारामामा मा मारा ॥ ९६ ॥ मारारातेराघाते सातेऽद्यासातेसा मा सेना । नादे नासादेनामानानादे सानाशादेशा ते ।। ९७ ॥ आद्यः श्लोकस्तुरगपदत्यक्षरः । द्वितीयो गजपदवन्धः । गजपदबन्ध- स्यासंयुक्तद्विखरत्वम् ॥ हे भीम भगवन् , रामा नायिका । अरा कुटिला आरा गतिर्यस्याः तयाविधा सती मारा मारण मारस्तत्सहितेत्यर्थः । मारणपरैव यतः । तथा मारस्य आराश्चक्रधाराः ता राति तादृशी मारारारा इत्यर्थः । मारारामा मारस्यारामा विश्रान्तिस्थान रामा भवति धनेनेति यतः आरामा । भीम कीदृश । रामारार । रामस्य जामदग्यस्य आरं शत्रुसमूहः तस्य आरः भौमः । नाशकत्वात् तत्सबोधनम् । मा लक्ष्मीस्तां रातीति तादृशी मारा] इत्यर्थः ॥ हे अनादे, तव सबन्धिनी सा भा दीप्तिः भासुरता मे मम मारा । अरातेवैरिण आघात गते सति । अनाश[:] अविनाश[] आदेश आज्ञा यस्याः सा । तथा सेना नादे सति सासास्था अद्यासा अद्यति(१) अस्यति निवारयति सह(१) आशया आदेशः तस्य आशा दिक् । तवादेशेन मुक्तिरित्याशयस्थानम् ॥ विद्युन्मालाभ्यां युगलकम् ॥१६॥१७॥ स्फूर्जन्महाः प्रसन्नास्ते क्षणादेव त्वयि स्तुते । स सन्महानमुत्रास्ते यस्त्वां देव नमोऽस्तु ते ॥ ९८ ॥ काञ्चीवन्धः॥ स्पष्टोऽर्थः ॥ ९८॥ 'निजजानि नुन्नानाजी नूनं नानाजनानजान्नानि(?) । निजानेनजानिनानुजजानूनानिजजनैः(?) ।। ९९ ॥ ब्यक्षरः ॥ हे इन स्वामिन् , ननु उनान् जनेर्जन्मनः हेतोः एतान् । कान् निजजानि स्वां भार्यो, तथा नुनानीन् (?) नाना जनान् सुभटान् अजाश्चन्द्रागा(१) अन्नानि च अननं जीवनम् । अजिनानि राङ्कवादीनि प्रावरणानि । अनुजाः स्वपरादयः निजा मित्रादयः । नून] नि- श्चितम् । ननु प्रश्ने । एतानि जनेः पुनः पुनः संसारभ्रमणात् । उनानुजनेनिः सरती- त्यर्थः(१) । त्वत्पादसेवां विनेति प्रतीतिः ॥ ९९ ॥ केन क्रौञ्चो विभिन्नः कमवनतगताः के दिनेशस्य तीक्ष्णा अन्तस्थाद्यक्षरं किं द्विजकुलमधिकां वक्ति का जातिमत्र्याम् । १. 'निजजानि ननु निजान्नून नानाजनानि न । जानेननाजिनान्नानि नुन्नेनो जननीजने. ॥' इति स्यात्.

BY
०
काव्यमाला।
भृत्यानां कुत्र भक्तिः किमुचितमजयन्क्ष्मां नरेन्द्राः किमर्थं
कस्मै भक्ता अजस्रं प्रविदधति नमः स्वामिने शंकराय ॥ १० ॥
प्रहेलिकान्तापिकाख्येनेति स्वामिने शंकरायेति पदच्छेदेनोत्तरम् ।।
यथा-केन क्रौञ्चः शैलो विभिन्नः । अत्रोत्तरम्-स्वामिना इति कुमारेण । कं
अवनतगताः । कं नत्वा गताः । लोकाः इति शेषः । अत्रोत्तरम्-ईशं महादेवम् ।
के दिनेशस्य वेस्तीक्ष्णाः । अत्रोत्तरम्-कराः रश्मयः । अन्तस्थानां आद्यक्षरं
किम् । अत्रोत्तरम्य इति । द्विजकुल ब्राह्मणवर्गः अधिकां श्रेष्ठामय्यां कां जाति
वक्ति । अत्रोत्तरम्-स्वाम् । भृत्यानां कुत्र भक्तिः । अत्रोत्तरम्-इने स्वामिनि । कि-
मुचितं. युक्तम् । अत्रोत्तरम्-श कल्याणम् । राजानः मां भूमि किमर्थमजयन् ।
-अत्रोत्तरम्-कराय प्रजाभ्यो ग्राह्यबल्यर्थम् । भक्ताः कस्मै नमः अजस्रं प्रविदधति ।
अत्रोत्तरमू-शंकराय महादेवाय । इति स्पष्टः प्रहेलिकार्थः ॥१०॥
रिपुरोपारोपपर प्रोरुपापपरैररम् ।
रोरैरपाररूपैरापपे पुररिपो पुरा ॥ १०१ ॥
ब्यक्षरः ॥
हे पुररिपो। कथंभूत । रिपुरोपारोपपर शत्रुकुन्तारोपणे उद्युक्त । पुरा पूर्व प्राग्जन्मनः
प्रभृति अपाररूपैः अनन्तैः दौर्गत्यक्लेशैः प्रोरुपापपरैः प्रकर्षेण उरूणि यानि पापानि ता.
न्येव पर परमार्थो यत्र तथाविधैः पापैः प्राकर्मवैचित्र्यादेव जन्मादिदोर्गत्योपलब्धेः। अर-
मत्यर्थम् ॥ १०१॥
अपरुषो गतनिर्विभवासवः स्वयमिनः श्रितसत्यकलादयः ।
क्षततमा असुहृत्कलितापदस्त्वमसि नाथ वयं [च] तवार्थिनः ॥ १०२॥
हे नाथ, त्वं अपरुषः, न परुषः अपरुषः । पारुष्यरहितः । वयं च संसारं प्रति अपग-
तरुषः । तेनैव बाधितत्वात् । त्वं गतनिविभवासवः, गतो निर्विभः निष्कान्तिः वासव
इन्द्रो यस्मात् । त्वत्सकाशाद्वासवः ...."स्तम्भनानिष्प्रतिभत्वं गतः । इन्द्र इत्यर्थः । वयं
च गतनिर्विभवासवः, गता अस्मभ्यं पशुभ्य इव इति शेषः । निर्विभवाः असवः प्राणा:
येषा ते । तथा त्वं स्वयमिनः सर्वेश्वरः । वय च स्वयमिनः । त्व श्रितसत्यकलादयः,
सत्यकला च दया च [श्रिते सत्यकलादये येन सः । वयं च श्रिताः सत्यकलादयः क-
चिद्व्यवहारार्थ सत्यं कचिच्च कलादयो यैः तादृशाः । तथा त्वं क्षततमाः, क्षतं तमो येन
सः । वयं च क्षततमाः, अतिशयेन क्षता. । त्व असुहृतां यमभटानां युद्धरूपेण कलिता-
पदं ददाति सः। वयं च असुहृद्भिरमित्रैः कलिता आपदो येषां तादृशाः । वयं च तवा-
र्थिनः याच्यापराः सेवकाः पालनीयाः इति प्रार्थयमाना विज्ञप्ति । इत्येकवचनबहुवचन-
श्लोकः । उक्त चालकारिकैः श्लेषलक्षणे-'वर्णपदलिङ्गभापाप्रकृतिविभक्तिवचनानाम
विधः श्लेषः ॥ १०२॥

ईश्वरशतकम् । . भाविदासहिते साररसा ते हि रमामय । यममारतनुत्यागगत्या नुत सदा विभा ॥ १०३॥ है रमामय लक्ष्मीमय, तव सबन्धिनी विमा सातिशया दीप्तिः भाविदासेभ्यः भाविभ्यो दासेभ्यो हिते सारः उत्कृष्टो रसो [यस्याः सा] यममारयोः तनुन्यागेन या गतिविच्छि- त्तिस्तया हेतुभूतया । सर्वेर्नुत स्तुत ॥ भद्रकावर्तबन्धः ॥ १०३ ॥ सादासन्ना रिपूणां परमुखसुरपक्षोतितस्वस्थिरासा सारास्थिस्वच्छभावा विभवनवभवित्राणभव्योत्तमासा । सामात्तव्यामरूपा तनुरमरनुतत्वात्पुरस्ताद्वलासा सालाद्विस्तारलाभातियजन जयति स्वःप्रसन्ना सदासा ॥ १०४ ॥ भद्रकावर्तबन्धः अष्टदलपद्मवन्धः, षोडशदलश्च ॥ हे अतियजन, तव तनुर्जयति । अतिगयितानि सर्वोत्कृष्टानि यजनानि यस्य तादृश । सर्वयज्ञेषु रुद्रस्य मुख्यत्वात् । कीदृशी । रिपूणा सादे विनाशे आसन्ना सादासन्ना । पुनः कीदृशी । परमुखे सुरपक्षे च तत्स्वन्तेन (2) स्थिरासा । सारः अस्ति(स्थि) स्वच्छभावो यस्याः । तथा विभवेन ऐश्वर्येण नवभविनां नूतनससारिणा त्राणे रक्षणे भव्या उत्कृष्टा अपरुषा । सामात्ता(?) आत्त व्योमरूपं यया । अमरनुतत्वात् । सर्वदेवस्तुतत्वात् । पुर- स्तानिहिता विलासा यस्याः । तथा सालाद् देवदारोरपि विस्तृता, सालप्रांशुः । स्वः देवाना प्रसन्ना। सह दासैवर्तते या सदासा ॥ १०४ ॥ भव जलवायुनभोजनरुचिकर- म(मृ)दनलराजरमा(सा)मयदेह । अव मामतिमोहकमारसहर हर नम इह ते पुरभयदेह ॥ १०५ ॥ हे भव, जलवायुनभोजनरुचिकर, म(मृ)दनलराज र[सा]मयदेह । जलधि(लादि) इसान्तानां चार्थे द्वन्द्वः । तेषामष्टानां मूर्तिरूपा या प्रकृतिस्तन्मयदेह । जनशब्दो यज- मानवाचकः । तद्रूपशरीर । त्वं मामव रक्ष । यतः कीदृश । अतिमोहकोऽय मारसो ल. क्षम्यभिलाषः तनिवारक । हे हर, इह सर्वत्र भुवनान्तरे ते तुभ्यं नमः । तथा कथं- भूत । पुरभयदेह, पुराणां भयं ददाति । तथा ईहा यस्य तत्संबोधनम् । इति संस्कृत- कश्मीरापभ्रंशाभ्यां श्लेषः ॥ १०५ ॥ 'विविधधररसासाभ भव्य व्यसासा- धुधुततनन सासादद ज्ञज्ञ सासा । १. मालिनीवृत्तगन्धि वृत्तान्तरमेततू.

६२ काव्यमाला। ततसुसुर रसासारर स्वस्व सासा- ववननररसासावव न्यन्यसासा ॥ १०६ ॥ जयसि जलमनन्तं नन्दनं चाम्बुधेर्वा नवमनमव धृत्वा देवदेवेशभृत्यः । जयसि जनमनन्तं नन्दयंश्चाविधेये अनवन नत कस्ते देवदेवेश भृत्यः ॥ १०७ ॥ आवली । युग्मम् । एकेन एकावली द्वितीयेन च्छत्रबन्धः । विविधधररसायां सर्वमयबहुरूपपर्वतभूमौ साभ सदीप्ते । भव्य उत्कृष्ट । व्यस विशेषेण असो गमनं यस्य । असाधूनां धुत धूतं तनन येन तथाविध । असादं समुद्धरणं ददाति तथाविध । ज्ञा देवास्तेषां मध्ये त्वमेव ज्ञः । देवदेव इति । सासा । सह आसेन आस्थया वर्तते सासा सास्था । एवविधा तनुर्जयति । ततसुसुराः [तताः] शोभन देवा येन हेतुना तद्विध । रसायां भूमौ सारं सुवर्णवर्षणं राति । सासौ सप्राणे । स्वस्व आ- स्मधन । अवनेन रक्षणेन नरेषु विषये रसो यस्याः । असौ । इयमेवेत्यर्थः । अवनौ भूमौ अन्येषु दैत्येषु विषयेषु विरुद्धेषु सासासासा सास्था ॥ हे अनवम उत्कृष्ट, देवानां मध्ये देव, स त्वं जयसि । गङ्गाजलमनन्तं यथा अम्बुधेः समुद्रस्य नवं नन्दनं चन्द्रं धृत्वा धारयित्वा अनन्तं जनं च नन्दयन् । अविधेये दैत्यस्वार्थे अनवन अरक्षण, नत । सर्वे त्वां नताः । त्वं न कचित् । इह हि तेनैव देवदेवेश भृत्यः ॥ छत्रबन्धो गोमूत्रिकाब- न्धश्च ॥ १०६॥ १०७॥ यमादजावद्भयमादिदेव वदेयमे यद्भवितार्थिनोऽज । जनोऽथिताविद्भविता ततो हि हितोऽव तावद्भवनादमाय ॥ १०८ ॥ यमागताकृत्यमवेहि येन नयेन वै सत्यसदासमेत । तमे सदासत्यनुते मिमान नमामि ते नुत्यकृतागमाय ॥ १०९ ॥ यदा तमोपेततया ज्ञ चारुरुचाज्ञया तत्त्वमतोवधान । न धावतोऽमस्तनुमोनतेन नते नमोनुत्तममोक्षदाय ॥ ११० ॥ यताकृते पर्वतजे निवासे सेवा निजेतर्वशताकृतेन । न ते कृताशंस(मान)मदा मयाभिभिया सदा सर्वपते कृताय ॥१११॥ चतुर्भिः श्लोकैः प्रस्तारः ॥ हे आदिदेव, मम यमाद्भयमस्ति । अजावच्छागलीवत् । दुर्बलवत् दुर्बलत्वात् । अ- पिनस्त्वामर्थयन्ते इति भावः । हे अज, यतः रणन्तो जनः अथिताविद्भविता ममत्वं ईश्वरशतकम् । प्रति अर्थित्वस्य अन्तरज्ञो भविष्यतीति । भवमात्संसारजात् । ततः तमव रक्ष । हितः सन् । अमाय मायावर्जित । सत्यानुतिर्यस्य तत्संबोधनम् । यम मिमान हिसन् । यमा- दागतं यदकृत्यं तदवेहि । येन नयेति, विचारयेत्यर्थः । तुभ्य नमामि । नुत्याकृता आ- गमाः सर्वजनोपदेशार्थ शास्त्राणि येन तस्मै । वै सत्ये चैश्वर्ये च । एत कर्बुवर्ण, हे भ- गवन् , ज्ञ अनन्त स्वामिन् । ततः सात्वतं(?) आज्ञया चारुरुचा मणिप्रदीप्त्यात्यर्थवधान । यमनियममयेत्यर्थः । अतो हेतोर्यदा समुत्तया यत्कारित्वेन क्षमैमत् (2) सतः सकाशा- द्धावतः भ्रमणात् अन्यः तनुमः अल्पश्रीकः नास्ति । तुभ्यं (न) ते नने विषये अनु- त्तममोक्षदाय उत्कृष्टमोक्षदायिने एवंविधाय नमः । है शर्व (सर्वपते) यताकृते संयुतात्मन् , निजेतः निःशेषेण जयनशील, इन स्वामिन् , मया वशताकृता आपत्तताकारिणा, पर्वतजे निवासे सेवा न कृता । अभितः समन्तात् भीर्यस्य तथाविधेन । सदा कृताय पुण्यसंचया- यार्थम् । न विद्यते मदो यस्यां तादृशसे व कमपि मां कृपया अवेति पूर्वोक्तवाक्यार्थः । चतुर्भिः कुलकम(कालापकम्) ॥ १०८ ॥ १०९ ॥ ११० ॥ १११ महामते मन्त्रपते परं पदं विना विभुं विन्दति कोऽतिभूतिमान् । कृपाकृते कृत्तयमाय मायते नमो नमो नम्रहिते हि पाहि माम् ॥११२॥ हे महामते विशुद्धरणे दक्ष, तथा मन्त्रपते 'ससप्ततिकोटीनां मन्त्राणां प्रभुरव्ययः इत्यागमे । त्वां प्रभुं विना परिहृत्य को जनः परं पदं मुक्तिरूपं विन्दति लभते । अति- शयेन भूतिमान् । अष्टविधैश्वर्ययुक्तः । नम्रहितप्राण ...."यदा त्वमेव मां पाहि रक्ष । (मा) यते, तुभ्यं कृपाकृते करुणापराय । कृत्त[य]माय छिन्नकालाय नमः । चतुर्महादेव- स्वस्तिकबन्धः ॥ ११२॥ भो भो भविभुमावीभविभावैभव भीभुवः । भवाव भववा भाविभवाभिभवभावभित् ॥ ११३ ॥ भो भो भव महेश्वर, भानां नक्षत्राणां विभुः चन्द्रः । जूटेन्दुरित्यर्थः । तस्य [आभा दीप्तयः, ताभिविंगता इभस्य गजासुरस्य विभा वैभवं यस्मात्तादृश, त्वमव रक्ष । मा- मित्यर्थः ।....."अर्थः प्रकरण लिङ्गम्' इत्यलंकारज्ञः । भावीयः भवाभिभवः संसारखली- कारस्तस्य यो भावः सत्ता तद्भित् । भव वाशब्दो विकल्पे । 'भो भोः' इति प्रधानाम- त्रणे । अव [र]क्ष । कृतान्तात् । भियो भयस्य (भवस्य) भूरुत्पत्तिस्थानम् ॥ यक्षरोऽयं श्लोकः ॥ ११३ ॥ इति श्रीमहाकाव्यवतारकृतमीश्वरशतकं सटीकं समाप्तम् ।

६४ काव्यमाला। श्रीमधुसूदनकविप्रणीतम् अन्यापदेशशतकम् । कालीयाहिफणाली क्रमणकरालीभवन्नघक्षाली । गोपालीकरतालीनर्तनशाली पुनातु वनमाली ॥ १ ॥ पद्मालयासादरलैंक्चकोरीरेपीयमानाननचन्द्रबिम्बः । विघ्नौघविध्वंसविधिं विधत्तां राधामयूरीमुदिरो मुकुन्दः ॥ २ ॥ विद्वन्मनोविनोदाय सद्युक्तिपरिशीलितम् । अन्यापदेशशतकं करोति मधुसूदनः ॥ ३ ॥ मर्यादानुपमैव शीलममृतोत्पत्त्यैव निर्वर्णितं नैर्मल्यं निजधर्म एव वचसां पारे तु गम्भीरता । किं वाच्यो महिमा तवार्णव रमाप्रेयानपि प्रार्थने तादृक्कौस्तुभभाजनेन भवता वैदग्ध्यमध्यापितः ॥ ४ ॥ हे पीयूषमयूख भूषणमणिः शंभोस्त्वमम्भोनिधे- रुत्पन्नोऽसि तवैव दैवतकुलं प्रीणाति साध्वी सुधा । विश्वेषामुपरि स्थितिर्ननु तनुस्तत्तत्कलाभाजनं किं वाच्या विभुता धराध्वरभुजां राजा त्वमाजानिकः ॥ ५ ॥ उन्मीलन्ति कियन्ति न क्षितितले पुष्पाणि नानाविधा- न्युन्मीलन्तु परंतु निर्भरमिदं किंचिद्वदामो वयम् । धन्यं जन्म तवैव चम्पकतरो यत्कोरकाणां पुरो हेम्नः श्रीरपि जायतेऽतिमलिना गण्या किमन्या रुचिः ॥ ६ ॥ भाभि सितमम्बरं वितिमिरं क्षोणीतलं निर्मितं चक्रे चक्रकुलव्यथाहतिरथादिष्टाः क्रतूनां क्रियाः । अम्भोजानि विकासितानि भवता सद्यो ननु द्योमणे निर्बीजं बत कैरवोपरि परिक्षिप्तं किमन्धं तमः ॥ ७ ॥ १. अस्य श्रीमधुसूदनकवेर्देशो मिथिला, जनकः पद्मनाभः, माता शुभदा, इत्युपान्त्य- श्लोकात् 'दुजती(उचिती) कुलम्' इत्यन्तिमश्लोकात्प्रतीयते. कालस्य तु न निश्चयः. २. अस्य काव्यस्य पुस्तकमेकमेव १८२२ संवत्सरलिखित श्रीमता डॉक्टर पीटर्सनेन मथुरात आनीय काव्यमालार्थ दत्तमिति तदाधारणेवास्य शोधनमकारीति ज्ञेयम् , अन्यापदेशशतकम् । लक्ष्मी लेभे मुरारिः समलभत सुधां स्वर्गिवर्गः समयां तत्तद्वस्तूनि वास्तोप्पतिरपि सहसैरावतादीन्यवाप । पाथोधे त्वत्त एव प्रमथपतिरथ प्रापदापत्करं य- क्ष्वेडं तद्युक्तमेवाजनि जनिदिवसादेष यद्वामदेवः ॥ ८ ॥ पाण्डित्यं त्वयि ताण्डवानि तनुते शेते स नारायण- स्त्वामध्यास्य कृतस्त्वदेककलया शीर्णः प्रलम्बासुरः। धन्योऽसि त्वमनन्त संततमसौ यत्रातिसौख्योदया- द्विश्रामं लभते चराचरभराक्रान्तान्तरा मेदिनी ।। ९ ॥ माकन्दा मकरन्दबिन्दुविधुरा व्यग्रो गजग्रामणी- रप्यन्तर्मदशोषदोषकलितं चक्रे हरेहुंकृतैः । त्वं हे कल्पतरो करोपि नहि चेदन्तः कृपाकोमलं कुत्रायं भ्रमरो मनागपि मनो विश्राममालम्बताम् ॥ १० ॥ त्वं तावन्निरुपाधिरम्बुद सुधासारानुकाराः पयो- धारा मुञ्चसि विश्वमोदजननीः सर्वत्र साधारणीः । द्वित्रा एव पतन्ति यत्पुनरमुष्यान्तर्मुखे बिन्दव- स्तगाढं जयतीह चातकशिशोर्दुर्दैवदुश्चेष्टितम् ॥ ११ ॥ चापल्यं परिमुञ्च चातकशिशो नैवार्तनादं वृथा कुर्याश्चिन्तय निश्चलेन मनसा धाराधरानन्वहम् । एषां जीवनमुन्नतिं च सहजामन्यार्थमेवासृज- द्धाता त्वं पुनरेतदेकशरणस्तद्धैर्यमालम्ब्यताम् ॥ १२ ॥ नोच्चैल्पति वारिदो यदधुना कासार तन्मा मनो- मालिन्यं समुपैहि हन्त महतां नैसर्गिकोऽयं क्रमः । काले कर्षितुमुद्यतो यदि भवेदेकक्षणार्धे तदा युष्माकं कियती तृषा त्रिजगती पूर्णा भविष्यत्यसौ ॥ १३ ॥ श्रीखण्डाचलगण्डशैलशिखरप्रान्ताटवीसंस्थिताः पाटीरा निभवन्ति शाल्मलिमुखा निःसारभूमीरुहाः ।

काव्यमाला।
मालत्याः त्रजि गुम्पितानि कुटजान्यप्याप्नुवन्ति स्फुटं
विद्वदृन्दशिरोधिरोहणकृतामुच्चैस्तरामुन्नतिम् ॥ १४ ॥
अङ्के किं न कलङ्कतामपि गतं धत्ते मृगं चन्द्रमाः
किं वा शल्यमिवान्तरा वहति नो मैनाकमम्भोनिधिः ।
त्रायन्ते तरवो दहन्तमनलं वृष्टेः स्थितं कोटरे
किं किं नाश्रितपालनाय सहते कष्टं शरण्यो जनः ॥ १५ ॥
स्फीता शीतांशुकान्तिर्मुदमथ कुमुदान्यापुराशा विकाशा-
नाजग्मुर्वारिमुग्भिः प्रखरमुखरता दूरतो द्रागपास्ता ।
नैर्मल्यं वारि भेजे शरदुदयदिनारम्भ युष्मप्रसादा-
स्रोतः स्रोतस्वतीनां कथय कथमहो क्षण्यमभ्येति भूयः ॥ १६ ॥
विश्वोपकारकरणाय गुरुप्रयत्ना-
सृष्टः सरोरुहभुवा स्फुटमम्बुवाहः ।
धाराः स्वयं पुनरयं परितो विमुञ्च-
कि नाभिषिञ्चति लतां विपिने विषस्य ॥ १७ ॥
चञ्चू चारुतरे चिराय विहिते मञ्जिष्ठरागारुणे
पक्षौ चापि कृतौ हरिन्मणिनिभौ दूर्वाद्रवालेपनैः ।
काकैवं भवता शुकस्य समता निर्बन्धतो निर्मिता
सा संसारमनोविनोदजननी वाणी व लभ्या पुनः ॥ १८ ॥
यस्मिन्नम्बुरुहाणि जातसुदृढप्रेमाणि यस्मिन्धना-
नन्दं विन्दति चक्रवाकपटली यस्मिन्प्रसन्ना दिशः।
तस्सिन्विश्वविकाशितेजसि रवौ रज्यत्युलूको न चे-
द्धानिः कैव तदा रवेः परमसौ हास्यास्पदं जायते ॥ १९ ॥
म्लानान्भूमिरुहोऽभिषिञ्च परितः : शुष्काः स्त्रवन्तीः पुन-
र्धाराभिः परिपूरय प्रतिदिशं संप्लावयोर्वीमिमाम् ।
अम्भोवाह परं त्वकीर्तिदमिदं पानीयपानाशया
स्तोकोऽसौ भवदेकवृत्तिरनिशं यद्रारटीत्याकुलः ॥ २० ॥

अन्यापदेशशतकम् । . उच्चैरुत्पथगा नदीः प्रकुरुषेऽनच्छं च नीराशयं पन्थानं मलिनीकरोषि परुषं मौखर्यमालम्बसे। प्रावृष्येव कियन्त्यहान्यधिकृतस्त्वं वारिदैवं क्रिया नो जाने चिरमेषि चेदधिपतां स्यात्कस्तदोपद्रवः ॥ २१ ॥ कान्तिः काञ्चनरूपदर्पदमनी सौरभ्यमभ्याहतं मध्यं चापि न धूलिधूसरतरं रोचिष्णुरुच्चैः स्थितिः। सर्वे विश्वविलक्षणास्तव गुणाः किं चम्पकैतावता नो चेत्त्वय्यनुरज्यते क्षणमपि क्षीणोऽपि पुष्पंधयः ॥ २२ ॥ कः संबन्धो यदभिरमते वीक्ष्य मेधं मयूरी कैवासत्तिर्यदमृतरुचौ सानुबन्धा चकोरी। को वा हेतुः पतति परितो यत्कृशानौ पतङ्गः प्रायेणैवं विधिपरवशा प्राणिनां चित्तवृत्तिः ॥ २३ ॥ मन्दारो विविदे व्यलोकि बकुलं संशीलितश्चम्पकः पर्यालोचनयावधारितमिदं वन्द्यस्तु चाम्पेयकः । येनैकेन विधीयते मधुभराकृष्टालिमालागरु- द्वातोडूतपरागसौरभभरैरामोदिता मेदिनी ॥ २४ ॥ कुन्दं वारिभिरुक्ष यच्छ सुमना(नो)मूले मृदं यूथिका- पर्यन्ते रचयावृतिं कुरु मुहुर्मल्लीतले कर्षणम् । मालाकार विशेषतः पुनरसौ सेव्यो रसालस्त्वया सर्वेषामुपयोगिनी फलवती वृद्धिर्यदस्यैव हि ॥ २५ ॥ दत्त्वा स्कन्धतले पदं विनमितां कृत्वा तु शाखाशिखां सर्वेषां कुसुमावलीमवचिनु स्वच्छन्दमुर्वीरुहाम् । किं त्वस्मिन्वनपाल केतकतरौ यत्नैनिदध्याः करौ स्यातां कण्टककोटिभिः कवलितौ नो तावदेतौ यथा ॥ २६ ॥ आरोहो निशिताङ्कुशेन कतिधा कुम्भं भिनत्ति क्रुधा पश्चाद्वंशचयैरयोमयमुखैनिघ्नन्ति चान्ये जनाः।

६
काव्यमाला।
क्वापि स्थैर्यमुपागतस्य सहजेनाग्रे पदान्यर्पितुं
स्वेच्छाचारपरस्य पेचकिपते रोमापि न स्पन्दते ॥ २७ ॥
फेत्कुर्वन्त्यपि फेरवोऽतिपरुषं चेत्पार्श्वयोराश्रिताः
काकाश्चेदुपरि स्थिताः प्रतिदिशं कुर्वन्ति कोलाहलम् ।
मन्दं मन्दमुपान्तमीलितदृशो मार्गे पदं न्यस्यतः
किं भेदं समुपैति कुञ्जरपतेर्मानोन्नता भ्रूलता ॥ २८ ॥
यधूथाधिपपालितेन भवतारण्या वने निर्जिता
हे दन्तावलडिम्भ किं भवति ते तत्कीर्तये पौरुषम् ।
यूथेशे समयेन कालवशतां प्राप्तेऽथ कुत्रापि चे-
त्किचित्सेत्स्यति ते बलं तदमलं कर्ता यशोमण्डलम् ॥ २९ ॥
चन्द्रस्तावदलंकरोतु रजनी भासां भरैर्मुद्वती
व्याधत्तां च कुमुद्वतीं विनयतु ध्वान्तोपरोधं दिशाम् ।
किं च क्लान्तचकोरचेतसि मुदं पुष्णातु किं तावता
यद्येता मलिनीकरोति पुरतस्ताराः सुदारानपि ॥ ३० ॥
माकन्दे कुरु मञ्जरीभिरशनं कर्णे सुधावर्षिणी
वाणी व्याहर किंतु कोकिल शुकस्पर्धा वृथा मा कृथाः ।
योऽसौ काञ्चनपञ्जरे परिलसन्नाकर्णितान्युच्चर-
न्देवीभिः समुपास्यते सविनयं दुग्धौदनप्राशनैः ॥ ३१ ॥
खच्छन्दं कलहंस संचर सुखं निद्राहि पारावत
त्वं चोच्चै रट हे शिखावल शिखामारुह्य भूमीरुहाम् ।
अस्माभिः शुक एव केवलमिहारण्ये समन्विष्यते
यस्मै राजनितम्बिनी स्पृहयति श्रोतुं गिरां पाटवम् ॥ ३२ ॥
अङ्गीकृतः प्रसवबन्धनतो वियोगः
सोढानि तानि करजक्षतिपीडितानि ।
उद्यानपाल तदिदं तु मनो दुनोति
प्रश्नासि यत्कुरुबकैः सह मालती माम् ॥ ३३ ॥

अन्यापदेशशतकम् । ६९ लवनि द्रागङ्गीकुरु सुरभितामाहर मन- स्त्वमप्यम्भोजश्रीः कुमुद मुदमाधेहि हृदये । नमस्या सा कापि स्फुरति पुनरन्यैव लतिका गतवीडं क्रीडन्पिबति मधु यस्यां मधुकरः ॥ ३४ ॥ कियत्यः श्रीमत्यः कुसुमकुलसौरभ्यसुभगा दृगानन्दं यूनां जगति जनयन्त्येव हि लताः । परं त्वासां मध्ये सफलजनिरेकैव सुमना विना सङ्गं यस्या दलति हृदयं हा मधुलिहः ॥ ३५ ॥ धन्याः स्पृशन्ति मधुपास्तव पल्लवाली- मन्तर्निविश्य मधु किंतु पिबन्ति पुष्पे । एतावतैव सफलं मम जन्म जात- माकस्मिकं यदिह मालति वीक्षितासि ।। ३६ ॥ रे काक कालवशतो यदि सौधपृष्ठ- मारूढवानसि तथापि हि काक एव । जम्बालजालपतितोऽपि मरालबाल: कैर्नाद्रियेत रमणीगमनोपमायाम् ॥ ३७ ॥ स्पर्धा जातिकृतां भजन्तु भवता साधै परे सागराः किंवा दुग्धपयोनिधे तव तुलामभ्येतुमेते क्षमाः । त्वं तादृङ्महिमालयो विजयते तत्तादृशं ते यशो देव्या सिन्धुभुवा समं यदुदरे निद्राति दामोदरः ॥ ३८ ॥ केऽमी दिक्करिणो रणोद्धुरतरश्चेदस्मि कस्सिंश्च वा शक्तिस्ताहगिहास्ति यस्य न भयं जागर्ति मद्दर्जिते । एवं केवलमात्मनैव गुरुतामात्मन्यभिद्योतय- न्साहंकारमितस्ततो विहरते कूपोदरे दर्दुरः ॥ ३९ ॥ द्वित्राम्भोधरवारिबिन्दुजटिले गर्ने स्थितः स्वां तनुं वीक्ष्य स्वर्णसमां किमित्यतितमा जल्मन्मुधा मोदसे ।

काव्यमाला।
रे रे बर्बर दर्दुर स्फुटमिदं जानीहि वर्षात्यये
यत्नेनापि गवेषितः कुतुकिभिः कुत्रापि न प्राप्यसे ॥ ४० ॥
तुङ्गः साहजिकोऽसि नम्रतरतामभ्येषि भूयः फलैः
पुष्पामोदभरेण कस्य न मनोमोदं विधत्तेतराम् ।
कस्ते हे बकुलान्यजन्मदुरितोद्रेको गरीयानयं
येनेयं वनितावितीर्णमदिरागण्डूषपानस्पृहा ॥ ४१ ॥
सोढा श्रीविगमव्यथातिविषमा कल्लोलकोलाहलै-
रन्तस्तापभरा न वाभिलपिता दत्ता मणीनां चयाः ।
उच्चैर्मन्दरमन्थनेन हृदये व्यालोलितेऽतीव भू-
मर्यादा न विलचिता तु भवता वन्द्योऽसि वारांनिधे ॥ ४२ ॥
यः सस्नौ सुरसिन्धुनीरनिकरे नित्यं निदाघादितो
हेमाम्भोजवनीपरागपटलैश्चके रजःक्रीडनम् ।
निःशङ्कं समवाप नन्दनवने स्वेच्छाविहारोत्सवं
सोऽयं कालविपर्ययात्करियुवा शुष्कं सरः सेवते॥ ४३ ॥
यत्राजायत कौस्तुभो हि ककुभो भासा समुद्दीपय-
नुत्पन्नो हिमदीधितिस्तरुवरो जज्ञेऽथ कल्पद्रुमः ।
शम्बूका अपि संभवन्ति शतशस्तत्रैव पाथोनिधौ
विख्यातस्त्रिजगत्सु तस्य महिमा किं तावता हीयते ॥ ४४ ॥
मा खेदं समुपेहि चेतसि सखे पद्माकरोष्मागमे
शुष्कोऽसीति मरीचिमालिजटिलज्वालानिपीतोदकः ।
भावी कोऽपि स वासरः पुनरपि प्रावृट्पयःपूरितो
यत्र त्वं भवितासि वारिजवृतो दृश्यो दृशां कोटिभिः ॥ ४५ ॥
अग्रे कूप इतीव लोकमुखतः श्रुत्वा निदाघार्दितः
पास्यामीह यथाभिलाषमुदकं पान्थः समुत्कण्ठितः ।
धावित्वाथ समागतोऽस्य सविधं हा हन्त कूपः पुनः
पाताले विनिवेश्य वारिपटलं व्यादाय वक्रं स्थितः ॥ ४६ ॥

अन्यापदेशशतकम् ।
७१
काकुं चातकपोत नाकुलतया कुर्या वृथा शारदे
यावद्वारिभरव्ययेन नितरां रिक्तीकृते वारिदे ।
त्वत्तृष्णा न विराममेष्यति परं काक्वा पयोविग्रुषो-
ऽप्युत्सर्गे हतशक्तिरेष भविता ब्रीडा बजः केवलम् ॥ ४७ ॥
स्थाने स्थाने सुमेरुप्रभृतिगिरिवराः सन्ति नोव्यौ कियन्तः
कि तैरेको....
......... मलय महिमा पूजनीयस्तवैव ।
चञ्चत्पाटीरवाटीप्रभवनवनवामोदसंपत्समृध्या
यस्त्वं शश्वत्समामोदयसि निरुपधिः सर्वतो दिङ्मुखानि ॥ ४८ ॥
सद्वृत्तोऽसि गुणान्वितोऽसि विमलच्छायोऽसि पृथ्वीपति-
त्रस्यच्चारुचमूरुशावकदृशामभ्येषि दन्तोपमाम् ।
मुक्ताहार परं त्वरंतुदमपि ब्रूमो वयं यद्भवा-
नन्तःशून्यतरोऽस्ति तत्प्रतिपलं चेतः समुत्ताम्यति ॥ ४९ ॥
भूयांसो जलबिन्दवो जलमुचा स्वातौ विमुक्ताः परं
निःपीताः खलु शुक्तिकाभिरिह ये ते बिन्दवो बिन्दवः ।
तद्गर्भे परिणामतः परिणता मुक्ता नृपप्रेयसी-
पीनोत्तुङ्गपयोधरोपरि सुखं खेलन्ति हारस्थिताः ॥ ५० ॥
भ्रातः षट्पद यत्र तत्र कुसुमे तृष्णातुरो न भ्रम
वल्पाहेन विराममेष्यति सरोजानां विपच्छैशिरी।
अन्तारूढबिसप्रसूनमुकुलामोदैरिदं सूच्यते
द्वित्रैरेव दिनैः प्रफुल्लकमलाकीर्ण सरः स्यादिदम् ॥ ५१ ॥
भ्रमर भ्रमतोऽपि केतकीनां विपिनं नैव कदाचिदप्युपेहि ।
रसलब्धिरिहास्तु वा न वास्तु नियतः कण्टकसंकटे निपातः ॥ १२ ॥
दूषणान्यपि महान्ति धीमतां संवृणोति समुपार्जितो गुणः ।
स्रग्विलुम्पति गुणेन केवलं मौक्तिकी प्रकटरन्ध्रमात्मनः ॥ ५३ ॥
मोहितो मधुप रूपसंपदा कर्णिकारकुसुमं किमीहसे ।
नेह सौरभसमागमस्तव व्यक्तिमेष्यति परं तु मूढता ॥ १४ ॥

७२
काव्यमाला।
सिन्धुबन्धुममुमम्बुलिप्सया सेवसे किमु निदाघबाधितः ।
सेवनस्य परिदेवनं फलं लप्स्यसे न कणमप्यपां पुनः ॥ ५५ ॥
यत्र नैव कलहंसकूजितं नाथ पङ्कजसमूहसंभवः ।
नापि कापि जलखेलनक्रिया तत्किमम्बुजलमुच्यते जलम् ॥ ५६ ॥
यद्विशालजघनाङ्गनागणस्नानधौतकुचकुङ्कुमारुणम् ।
उन्नदज्जलपतत्रिचित्रितं तत्सरोवरपयः पयः स्मृतम् ॥ १७ ॥
हंसैर्मोनमकारि वारिजकुलैरासादितं मुद्रणं
शोकः कोकमवाप कामपि दिशं भेजे दिनश्रीरपि ।
अस्ते भास्वति हा दिगम्बरतलं व्याप्तं तमोभिर्दिशो
भीमाः फेरवफू(पू)त्कृतिव्यतिकरैर्नृत्यन्त्यमी पेचकाः ॥ ५८ ॥
ज्योत्स्नाभिः ककुभो विभूषय तमोमालाजटालाम्बरं
द्रागुल्लासय वासयापि कुमुदामोदैर्महीं त्वं विधो ।
सर्व सम्यगिदं तथापि किमपि ब्रूमो वयं कुप्य मा
यादृक् श्रीर्जगतां रवौ न तु पुनस्तेनैव सा भाविनी ॥ ५९॥
वासन्ती न विलोकिता कमलिनी नालिङ्गिता नेक्षिता
यूथी नापि कुमुद्वती परिचिता नापेक्षिता मालती ।
युष्मदानसमीहया मधुलिहा हन्त त्वयायं पुन-
दूरादेव निवार्यते गजप किं कर्णस्य विक्षेपणैः ॥ ६ ॥
यावन्नृत्यं कलय(यि)तुमलं सज्जते नीलकण्ठे
यावच्चञ्चूमपि च विवृणोत्यम्बुने चातकोऽपि ।
संनद्धोऽयं वियति जलदस्तावदुत्पातवातै-
रागत्योचैरहह सहसा क्वाप्यपाकृष्य नीतः ॥ ६१ ॥
एकत्रैव कुलायकोषकुहरे वृद्धि परां प्राप्तयो-
रेकाकारजुषो रसालशिखरे साकं समासीनयोः ।
इत्थं कोकिलकाकयोः कथमहोत्पद्येत भेदग्रहो
नो चेन्जातिनियन्त्रितेह वचसा व्यक्तिर्भवेद्धेदिका ॥ ६२ ॥

७ अन्यापदेशशतकम् । यः प्रासूत सुतं सुधाकरमुमाप्राणेशचूडामणि लक्ष्मीर्यस्य सुता हरिप्रियतमा यः कालकूटाश्रयः । पातुं पाणिपुटे कृतस्य मुनिनागस्त्येन तस्याम्बुधे- र्जाताः केऽपि न रक्षणक्षमतमा दैवं ततो व्येतु कः ॥ ६३ ॥ यो दिङ्मण्डलमुद्धरत्युरुतमोग्रासादनायासतो येनानन्दमनिन्दितेन लभते चित्ते कुमुद्वानपि । यं चाश्रित्य जगज्जयत्यतनुरप्येवंगुणोऽसौ विधू राहोरास्यकरम्भतामुपगतः कस्मै किमावेद्यताम् ॥ ६ ॥ कैरविणीकुलबन्धो हिमकर सिन्धोरवाप्तजन्मासि । इति तव महदयशस्यं मलिनयसि यदम्बुजश्रेणिम् ॥ १५ ॥ संगम्य दुग्धनिवहैरविशेषबुझ्या किं वारिपूर बहुदूरमुपेहि मोदम् । दुग्धाभिलाषिणि विवेकिनि राजहंसे हा हा व यास्यति पदं भवतोऽभिमानः ॥ ६६ ॥ यो मन्दारमरन्दबिन्दुनिवहैः संवर्धितः शैशवे तारुण्ये मदमाचचाम बलभिद्वेतण्डगण्डस्थले । सोऽयं जीर्णतनुनिनीषति जनुः कार्पासपुष्पेष्वलि- दुर्दैवव्यवसायतोऽस्य तदपि प्रायोऽभवदुर्लभम् ॥ ६७ ॥ नादत्तेऽनुचरोपनीतकवलं सर्पिःसिताप्लावितं यत्नेनापि नं पातुमिच्छति मनोहारीणि वारीण्यपि । विन्ध्यासन्नवनीवियुक्तकरिणीचिन्तादुरन्ताधिवा- न्मूर्धानं विधुनोति बन्धनगतः स्तम्भेरमः केवलम् ॥ ६८ ॥ देशोऽयं मरुरुद्गतो विधिवशादस्मिंस्तडागोल्पक- स्तत्रैकाजनि मद्विधालिनिकरप्राक्पुण्यतः पद्मिनी । तामुन्मूलयितुं समुद्यतकरस्त्वं तावदुत्कण्ठसे हे दन्तावल ते कथं न वलते दृष्टिः कृपाकोमला ।। ६९ ॥

काव्यमाला कस्सै दैन्यमुपैतु काननतले कोऽन्यो गरीयानितो यं वालम्ब्य करेण कर्षति वपुस्तीरे न तादृक्तरुः । गृधैर्कोम्नि शिवागणैर्भुवि मुहुर्जिज्ञासितासुव्ययो हा धिक् पङ्कपराभवे निपतितो दन्तावलो हीयते ॥ ७० ॥ पस्पर्धेऽञ्जनपर्वतेन सह यस्तन्वा तदन्वाययौ साधय॑ श्रुतसप्तधामदपयःसारेण धाराभृताम् । दिग्दन्तावलराजिमाजिषु रदाघातैर्जिगायौजसा सोऽयं दैवनिबन्धनं विषहते दन्तावलो बन्धनम् ।। ७१ ॥ अजनि रजनिजानिर्यद्यपि क्षीरसिन्धो- रलभत पदमुच्चैर्मूनि कंदर्पशत्रोः । तदपि यदि जडात्मत्वात्कलङ्कावगुण्ठं वहति हृदयमध्ये कस्तदा किं करोति ॥ ७२ ॥ शरद्धने गर्नति वारिवाञ्छा कदापि रे चातक नैव कार्या । इदं तु नियूंढमवेहि तत्त्वं गर्नन्ति ये ते न फलोपलब्ध्यै ॥ ७३ ॥ रे काक किं रटसि कर्णभिदः कटूक्ती- चालता नहि विदग्धविनोदभूमिः । पश्येति कोकिलयुवा समये कदाचि- सूक्ति लपन्नभिमतो न जनस्य कस्य ॥ ७४ ॥ वैदग्ध्यमन्दिर मनोहररूपमात्रा- दिन्दिदिर भ्रमणमिच्छ न कर्णिकारे । अस्मिन्नुदेष्यति न कोऽपि रसोपलम्भः सौरभ्यदुर्भगमिदं जगति प्रसिद्धम् ॥ ७९ ॥ अकाले संनद्धो नभसि मुदिरो मेदुरतरः परीतस्तोयाशाविवृतवदनैश्चातकगणैः । तथानेनारब्धं किमपि चरितं येन करना- निपातैरेतेषां सपदिशितधाभिद्यत शिरः ॥ ७६

अन्यापदेशशतकम् ।
यद्यपि सन्ति बहून्यपि कुसुमानि तथापि वारिजं वन्दे ।
निशि निशि मधुपयुवायं यन्मधुने बन्धनं सहते ॥ ७७ ॥
तुल्यैव रूपरचना गणनापि धातु-
मध्ये समैव समता घटते तथापि ।
हेम्ना समं न दहने प्रविशारकूट
व्यक्तीभविष्यति यतो भवतो विशेषः ॥ ७८ ॥
द्रुमानतिक्रामति पल्लवश्रीः प्रवालशोभां हरति प्रसूनम् ।
तरोरशोकस्य तथापि नाभूदुर्दैवतः साधुफलोपलब्धिः ॥ ७९ ॥
नैव त्वत्सदृशी परागपटली कुत्रापि पुष्पान्तरे
नो वा सौरभमुग्रमीदृशमथो नैतादृशी सुच्छविः ।
अन्यस्मै स्पृहयन्ति किं मधुलिहो हित्वा भवन्तं तदा
भ्रातः केतक कण्टकैः कटुमुखैस्त्वं स्या न चेदावृतः॥ ८० ॥
स्निग्धं न वीक्षितमसिक्षितिलास्यमास्यं
मुग्धे मुधा हलिकनारि कुचेष्टितेन ।
अन्यानि तानि ललितानि विलासिनीनां
यैराहतानि हृदयानि हरन्ति यूनाम् ॥ ८१ ॥
एकः स एव धरणीधरचक्रवर्ती
भूभृत्सु वन्द्यमहिमा हिमवान्न चान्यः ।
योऽसौ तपोभिरधिगम्य सुतामपर्णा-
मर्थांचकार सुरसारमपीन्दुमौलिम् ॥ ८२ ॥
इतस्ततः श्रावणवारिवाह किमूषरे वारिभरव्ययेन ।
त्वमुर्वरां शश्वदिमां निषिञ्च जीवातुभूता जगतां यदेषा ॥ ८३ ॥
उपरि चरणपातं कुर्वती मौक्तिकानां
हरिहतकरिकुम्भप्रच्युतानां समन्तात् ।
वनमटति किराती चिण्वची(न्वती) स्रक्षु गुञ्जां
इसति किमु महत्त्वं येन मुक्तामणीनाम् ॥ ८४ ॥

७६
काव्यमाला ।
उच्चैविरौति परितो यदि सारमेय-
स्तस्मिन्भवन्ति किमु केऽपि कृतावधानाः ।
धीरे ध्वनत्यवनिभृत्कुहरे हरीन्द्रो
दिग्दन्तिनां सपदि शुष्यति दानधारा ॥ ८५ ॥
ध्वनति मधुरमम्भोमुक्शरद्येष भावी
झटिति जलनिपातोऽपीत्यनन्दत्कुमुद्वान् ।
तदिह पुनरनेनाकारि येनास्य जाता
रुचिरपि हिमरश्मेर्दुर्लभा सैव वृष्टिः ॥ ८६ ॥
कतिविधा विलसन्ति मधुप्लुताः कुसुमभारनता न लता
वने
कमलिनीविरहव्यथितो रतिं वितनुते किमु तासु मधुव्रतः ॥ ८७
नैवासन्कति सन्ति नैव कति वा के के न वा भाविनो
राजानो जनकस्य जातु किममी कर्तुं तुलामीशते ।
सीताकल्पलताप्रतिग्रहमिह क्षोणीभुजामग्रतः
स्वस्तीत्युक्तवते त्रिलोकपतये रामाय योऽयं ददौ ॥ ८ ॥
रे हंस संचर सरोरुहवृन्दमध्ये
त्वं चापि चक्र चर चंक्रमणं ततः किम् ।
योऽन्तर्निगूढमकरन्दरसोऽस्य हृयो
गृह्णाति तं परमसौ रसिको द्विरेफः ॥ ८९ ॥
वन्ध्ये किमन्ध शुक सीदसि काञ्चनारे
पुष्पश्रिये पटुरसौ न फलागमाय ।
उड्डीय गच्छ फलितं तरुमन्यमाशु
भ्रातर्न चेत्पुनरुपेष्यति तेऽनुतापः ॥ ९ ॥
एधन्तां त्वयि पीनमीननिवहग्रासैर्वका निर्भर
पङ्केरुट्फलमूलशैवलगणानश्नन्तु कारण्डवाः ।
अन्ये चापि चिरं चरन्तु विहगाः स्वच्छाश्च पद्माकर
भ्रातर्या पुनरभ्युदेति सुषमा हसरमीभिर्न सा ॥ ९१ ॥

अन्यापदेशशतकम् । ७७ कूपाय तृष्णातुरो स्थाने स्थाने विकचकमलश्रेणिगुञ्जविरेफा न भ्राजन्ते किमिह सलिलोदीर्णरागास्तडागाः । उत्प्लुत्यायं तदपि कुधियां दर्दुराणां समूहः कस्मात्कूपे निपतति वयं तत्र वीजं न विद्मः ॥ ९२ ॥ चेदेकदा न सरसीषु न वा नदीषु वारीण्यवाप दुरवग्रहदूषितासु । तत्कि तृषार्तिविभवाकुलितोऽपि तोय- पानाय कूपमनुधावति वारणेन्द्रः ॥ ९३ ॥ नास्सै हस्तिपते प्रसारय करं भावी नैव तव प्रसारितकरस्याप्यम्बुलामोऽप्यतः । द्वित्राणीह दिनानि धेहि हृदये धैर्य भविष्यन्त्यमी द्राग्धाराभिरितस्ततो जलमुचां पूर्णास्तु पद्माकराः ॥ ९४ ॥ किं गर्वमुद्वहसि कच्छप गाधतोये पद्माकरे समवहेलितदिव्यकूर्मः । स्यादेष चेत्पुनरवग्रहदोषशुष्क- स्तत्रावधारय विधि निजजीवनस्य ॥ ९५ ॥ निदाघे छायायै तरणिकिरणोत्तापिततनु- वटे यावद्विन्ध्येऽनुसरति समृद्धं करियुवा । तथा तुङ्गश्चायं दवदहनकीलैः कवलितो यथामूदामूलं दहनमहसा भस्मनिचयः॥ ९६ ॥ यदृच्छा जाताभूदुपवनतटे काचन शमी समृद्धि योऽघानाधिकृतपुरुषैः प्रापि कृपया । तथाकस्माद्यस्यां हुतभुगुदियायान्तरगतो यथाभूदासन्नद्रुमनिवहदाहाय कुशला ॥ ९७ ॥ संतोषयाहि मकरन्दभरेण भृङ्गा- नम्भोज संपदि वरो हि परोपकारः ।

काव्यमाला।
दोषागमोऽयमतिसंनिहितो यदस्सि-
कान्तिन तेन मधुना गमनं त्वमीषाम् ॥ ९८ ॥
अन्येऽपीह लसन्ति किं न कुसुमश्रेणीसमृद्धश्रिय-
स्ते ते चम्पककाञ्चनारबकुलाशोकादयो भूरुहः ।
हे माकन्द तथापि भेदविदुषामिन्दिन्दिराणां मनः
सान्द्रानन्दमहर्निशं रसवति त्वय्येव विश्राम्यति ॥ ९९ ॥
यज्जातोऽपि चतुःपथेऽत्र विषये निःशाखिभूमण्डले
शाखाभिर्निबिडाभिरुन्नततरच्छायोऽसि यत्त्वं पुनः ।
तं न्यग्रोधतरो सहख बहलच्छायाभिलाषाय त-
त्पान्थानामुपरोधखेदमधुना नैदाघमध्यंदिने ॥ १० ॥
विश्वेषां त्रिदिवौकसामपहरन्नाति हृदामन्वहं
यद्यप्याकुल एव तिष्ठति भवाञ्जानाम्यहं तत्त्वहो ।
हंहो कल्पतरो परोपकृतये सृष्टोऽसि यद्वेधसा
तत्त्वत्तोऽहमपीप्सितामुपकृतिं किंचित्समीहेतमाम् ॥ १०१ ॥
तिष्ठामो विपिने सरःसु सलिलं खैरं पिबामस्तृणा-
न्यो यद्यपि सर्वतो भयपराधीनाश्च वर्तामहे ।
निर्बीजं प्रहरन्ति हन्त तदपि व्याधा इमेऽस्मान्मृगा.
नीदृश्येव विधातृनिर्मितिव(र)तः किं कुर्म एते वयम् ॥ १०२ ॥
धन्या रोहणभूरियं सहजतो यस्यां मणिश्रेणयः
पर्यन्तेषु लुठन्त्यकुण्ठितरुचिव्यालिप्तदिग्मित्तयः ।
किं त्वस्याः पुनरन्य एव महिमा श्लाघ्यः समन्तान्मणी-
न्यो गृह्णाति निजेच्छयैव सरसं गृह्णातु ना संमतिः ॥ १०३ ॥
मातङ्गाश्चलताप्यतस्त्वमपि हे शार्दूल दूरं व्रज
त्वं चान्यत्र वराह निःसर पुरो यावत्स्थितं तत्स्थितम् ।
सोऽयं दीर्घकरीन्द्रकुम्भनखरकोडस्थमुक्तावली-
भासा दन्तुरयन्दिशो निविशते पञ्चाननः कानने ॥ १०४ ॥

अन्यापदेशशतकम् । चेदङ्गीक्रियते न मत्तकरिणा भृङ्गीयुवा गौरवा- द्भूयादस्य गुणालयस्य तदये चित्तव्यथा किं वृथा । सौरभ्यस्रवनिर्झरभ्रमदलिभ्राजत्प्रसूनप्रभा- स्तास्ताः सन्ति लवङ्गिकाप्रभृतयश्चेतोमुदे चेल्लताः ॥ १० ॥ करटिकठिनदन्तोल्लेखसंकर्षिताया- मविरलघनवारासारसेकाप्लुतायाम् । अपि सुभगमुहूर्ते यत्नतो बीजमुप्तं गिरिशिखरशिलायां रोहते किं कदापि ॥ १०६ ॥ एतस्यां वनसीम्नि यद्यपि वसत्युग्रोऽपि कण्ठीरवो निःशङ्कं करिशाव संचर तथाप्याकर्ण्य वार्तामिमाम् । अन्ये ते करिणो मदोत्कटकटस्थानभ्रमच्छ्यापद- श्रेणीगुञ्जितरञ्जितेषु हरयो येषु प्रहारप्रदाः ॥ १०७ ॥ रे रे शूकरयूथनाथ महता तारुण्यदर्पोष्मणा दन्ताभ्यामिह पातनाय यतसे शाद्रुमस्यास्य किम् । जग्मुर्यत्र कठोरपर्वतशिलातुल्यत्वचि प्रांशवो दन्ता निष्ठुरवज्रकोटिकठिना दिग्दन्तिनां कुण्ठताम् ॥ १०८ ॥ लेभे यं शुभदा तपोभिरमलैः श्रीपद्मनाभात्सुतं यद्देशो मिथिलाखिलावनितलालंकारचूडामणिः । तेनेयं(द) मधुसूदनेन कविना विद्यावता निर्मितं श्लोकानां शतकं मुदे सुकृतिनामन्यापदेशाह्वयम् ॥ १०९ ॥ निरवद्यमद्य शतमेतदतिप्रकटार्थवर्णपदसंवलितम् । दुज(उचि)तीकुलाम्बुजवनीरविणा मधुसूदनेन कविना रचितम् ॥ ११० ॥ इति मैथिलमधुसूदनकृतमन्यापदेशशतकं समाप्तम् ।

काव्यमाला। श्रीलक्ष्मणाचार्यप्रणीता चण्डीकुचपश्चाशिका। श्रियं नौमि देवी परां पारिजातां पदाम्भोजरेणूपसेवापराणाम् । यदाद्याक्षरस्याभिधेयेन शूली प्रलीढोऽपि मृत्युप्रजेता गरेण ॥ १ ॥ आशादासीभिरूज़ करविधृतचतुष्कोणभागाभखण्डैः खण्डैराढ्या पटानां विधुरविघटिता शुष्कतावासयेया । खात्मानाधः पतन्ती सजवमसकृदाकर्षणक्लान्तिपति- श्वासोद्धासौघपूर्णा हिमगिरिदुहितुः पातु वोऽपूर्वकन्था ॥ २ ॥ आसीद्विरिञ्चिवरदा सुरसार्थतीर्थ तेजोमयी मखभुजामखिलास्ति शक्तिः । एवं भविष्यति पुरोऽपि पुरारिपत्नी त्रैकालिकं यदिति तन्मह आद्यमीडे ॥ ३ मध्ये पीयूषसिन्धोधनकुसुमलसत्कल्पवृक्षान्तराले दिव्ये मण्यन्तरीपे त्रिदशपरिवृढप्रौढगीर्वाणवा । शर्वाणी पूर्णमण्याभरणरणरणत्पाणिनाभ्यर्णवाणी तूर्णं चिन्तामणेर्मामपि सदसि सदाश्लिष्य सिंहासनेऽस्ति ॥ ४ वन्दारुवृन्दारकसुन्दरीणां सीमन्तभृङ्गाञ्चितपादपद्मा । संस्तोतृपद्मापतिपद्मजन्मस्खारापिकाल्याभ्रगुणा विभाति ॥ ५ ॥ यत्रोदग्रहरिन्मणिप्रविलसत्सौधाङ्कुराणां गणै- रुद्वीणनिजगर्भतश्च चणकैः साम्यं गतानां नवैः । मुक्तानाममृतयुतेरपि भरं वीक्ष्य स्थितानां हृदि श्रान्त्याखू रभसोत्पपात हृदये सारङ्ग एतन्मुधा ॥ ६ ॥ १. राधावेणीमाधवयोस्तनूजन्मा सामगोपनामकोऽत्रिवशमुक्तामणिर्दाक्षिणात्यप्रकाण्ड लक्ष्मणाचार्यः सह्याद्रिप्रान्तवर्तिनि वांईसंज्ञके नगर आसीदित्यादि सर्व प्रकृतनिबन्धस्यै- कादशद्वादशत्रयोदशश्लोकैरुपसंहाराच्च व्यक्ततरमास्ते. भाति चायं नवीनः. २. अस्याः पञ्चाशिकाया एकं पुस्तकं राजगुरु-पर्वणीकरोपनामक-भट्टश्रीनारायणशास्त्रिभिः स्वहस्तेन विलिख्य काव्यमालार्थमस्मभ्यं दत्तम् , तदाधारेणैतन्मुद्रणमजनीति तेषां विद्वन्मणीनां महा- न्तमुपकारमुरीकुर्मः. ॥

चण्डीकुचपञ्चाशिका । पादारविन्दस्य पुरंदरोऽपि सेवां विधातास्म्यहमेव देव्याः । नाहस्त्वमस्मिन्निति वज्रपाणिर्व्याक्षिप्यते यत्र गणैर्विचित्रम् ॥ ७ ॥ बिडौजसि पदाम्बुजे निविडतेजसि त्र्यम्बक- स्त्रियाः प्रणतिमीप्सितप्रतिपदाप्तये निर्जरैः । हरावपि हरे विधौ प्रणतिकर्मकार्मीणके जयाम्ब जगदम्बिके जयजयेति यत्र ध्वनिः ॥ ८॥ तत्रैकदा निखिललोकचरित्रविद्भिः संप्रार्थिता भगवती प्रणिधीनवगैः । विज्ञाप्यमस्ति किमपीति रहस्यमस्म- दृग्यायिनः कविवरस्य कृतेविचित्रम् ॥ ९ ॥ किं कुङ्कुमोऽस्ति कलितामरभोज्यवीची- सारप्रसारवचसां प्रमुखः कवीनाम् । यत्काव्यमन्यकवितां विधुनोति जीर्णी जायामिवाभिनवमुग्धवधूस्तनश्रीः ॥ १० ॥ असह्यभरसह्यभूधरमणौ महाराष्ट्र के महाबलजटाट्यनिष्प्रथितकृष्णवेणी धुनी । तदम्बुलहरीप्लुता जयति वाञिसंज्ञा पुरी स लक्ष्मणकवीश्वरो वसति तत्र वृत्त्या स्वया ॥ ११ ॥ वेणीमाधव एव यस्य जनकः प्रख्यातकीर्तिस्तथा राधा यजमनी सती गुणवती रामोऽपि यत्सोदरः । अत्रिर्गोत्रपुमांश्च यस्य कविता चेतोहरा सामगो- पाहो यः किल राजते चरणयोर्देव्या भवान्याः स्वयम् ॥ १२ ॥ यस्य गुरुयों जातो दण्डकराभिन्नपर्वतान्वयतः । रघुनाथमन्दराद्रिर्मथितुं तर्कादिशास्त्रचयजलधिम् ॥ १३ ॥ स त्वसत्पदपङ्कजस्फुरदमन्दानन्दसंदोहद- स्यन्दन्म मरन्दसुन्दरमधुव्यालोलरोलम्बकः ।

काव्यमाला । सत्पोतेतरताविनीतवनितासंभोगशून्यः पुन- र्योऽसौ संप्रति कथ्यते मम गुणप्रौढिप्रबद्धात्मकः ॥ १४ ॥ तस्यैव चेकिमपि काव्यमकव्ययेच्छो- रस्मत्सभापरिसरे पठनीयमस्ति । यन्मत्पदाम्बुजमधुप्रतिषेचनेऽस्य मृद्वीकयापि न कयापि न मृद्विकासः ॥ १५ ॥ श्रुत्वादेशं दूतव भवान्या न्यासान्धन्यान्वीक्ष्य वाचः कवेस्तान् । न्यस्तो मूर्धा स्वामिनीपादपद्मे क.त्युक्तं तत्कृतेर्यत्कृतेऽत्र ॥ १६ ॥ सावधाना ततो देवी काव्यश्रवणकर्मणि । जातेत्यालोच्य सहगवगैः काव्यं प्रवर्ण्यते ॥ १७ ॥ यद्यपि पदनुतिरादौ कार्या मातुस्तथापि विश्वस्य । मुख्यमिति स्तनपानं लक्ष्मणबालेन तत्स्तुतिविहिता ॥ १८ ॥ प्रालेयशैलजनुषः सुहिरण्यवल्लया गौर्याः पयोधरविचित्रफलं पिबामि । यत्स्पर्शनादपि बभूव स शूलिनोऽपि मृत्युंजयत्वविभवैकपदेऽभिषेकः ॥ १९ ॥ कल्याणावलिमातनोतु नितरां कर्पूरापूराधिक- प्रालेयं तुहिनालिशैलदुहितुस्तुङ्गं तदङ्गं हृदः । येनाकारि पुरारिभालनयनज्वालाकरालावली- बाढोल्लीढतनुस्तदीयहृदि सोऽनङ्गोऽपि रङ्गे नदः ॥ २० ॥ आजीवं तदुपास्महेऽद्रिदुहितुः कर्पूरगौरं कुच- द्वन्द्वं नीलगलं सुचन्दनयुतं तत्प्राङ्नखेन्द्रङ्कितम् । यद्वीक्ष्यैव ममर्द किं नवमिदं जीवत्यशेषे मयि प्रारूढं शिवयुग्ममन्यदबलाहृन्मर्मणीतीर्ण्यया ॥ २१॥ प्रत्यूहावलिमालुनातु दयया यश्चार्धनारीकुच- प्रान्तोत्तुङ्गपटीरपङ्कमदनीमीनैकमुद्राङ्कुरः ।

चण्डीकुचपञ्चाशिका।
८३
यं कृत्वा स्वयमेव मन्मथरिपुः पाणिश्रितस्वेदतो
यातः सात्त्विकतां हि तत्कज इति ध्यात्वा स्मरातॊऽभवत् २२
शर्वाणीकुचकूलमूलविलसत्कर्पूरकस्तूरिका-
काश्मीरत्रितयावलेपरचनाचातुर्यचर्यावतात् ।
यामुद्दिश्य महेशमानसमहाहंसः प्रयागस्थिता
वेण्येवेत्यवधारयन्निव ममज्जानन्यवृत्तिश्चिरम् ॥ २३ ॥
नित्यं पाथादपायाज्जगदिह तु शरच्चन्द्रगौरप्रभासौ
गौर्या वक्षोजयुग्मद्वयशिखरचरत्तारहीरालिमाला।
चण्ड्या मे नाथचेतोविहरणनिपुणेतीjया तत्र बद्धां
गङ्गां निश्चित्य भर्गः करमपि च ददौ यत्पदे मोक्षकामः॥ २४ ॥
नुमोऽपरामस्थलहृदयकासारतटग-
प्रवल्गद्वक्षोजच्छलमिलितचक्राह्वयुगलम् ।
दरालोकाच्छंभोः शिशिरशशिरेखानखगता
स्मरन्ती सापत्यं व्यथयति नितान्तं यदिह सा ॥ २५ ॥
वन्दे तत्कुसुमायुधान्तकवधूतुङ्गस्तनाजद्वयं
दुग्धामन्दमरन्दमन्दिरमिदं चूचालिलीढं परम् ।
नित्यास्येन्दुविकासनान्मुकुलितं षड्डक्रवक्राम्बुजैः
पीतं कि किमितीश्वरस्य मनसो येनाभवद्विस्मयः ॥ २६ ॥
मल्लीस्त्रक्फणिभोगभूषणमणिश्रेणीविदूरोल्लस-
मैनाकाचलसोदरी कुचरसाधारद्वयी मञ्जुला ।
यस्याः स्पर्शनतस्त्रिलोचनमनोमानव्यपायोऽभव-
त्पायात्सा निखिलां हि विष्टपलतां संसारझञ्झानिलात् २७
तुषारगिरिकन्यकाकुचतटीपटीराटवी-
विपाटयतु कङ्कटोद्भवकठोरतापं हि सा ।
यदीयदरदर्शनादपि गरप्रलीढो हरः
सुखेन घनसारतिस्मररिपुर्नहोनः शिवः ॥ २८ ॥

८४ काव्यमाला। रचयतु शिवं वक्षोजन्मद्वयं द्रुहिणोज्ज्वल- कनककलशत्विबीजं तन्निशुम्भरिपोश्चिरम् । तदपि च मुहुर्दर्श दर्श कपालिकरोच्छ्रित- प्रखरनखरप्राञ्चच्चन्द्रोदयोऽपि भवत्यहो ॥ २९ ॥ दूरीकरोतु दुरितानि पुरारिदार- वक्षोजशैलमिथुनं जितमन्दराद्रि। येनाभवद्भवमनोऽर्णवतः प्रमोद- पीयूषमत्र हुतमन्मथजीवनाय ॥ ३० ॥ अपारां संपत्ति दिशतु कुचरत्नाक्षितिधरः समुत्तुङ्गस्थानं सुमनस उमे ते मम चिरम् । पदीये मूर्ध्नि श्रीगलकरनखालिद्युतिभर- स्फुरद्गाभङ्गा इह हि विहरन्त्येव सततम् ॥ ३१ ॥ तं कोल्सासुरविमर्दसमुत्थशोण- शोणाशोणितकणं स्तनमम्बिकायाः । बन्देऽमरेन्द्रकरिणः कृतशिल्पचित्रं यच्छंभुहृद्यपि कटं स्मरणीबभूव ॥ ३२ ॥ उद्दामद्विपकुम्भदर्पदमानं प्रालेयशैलाङ्गजा- वक्षोजद्वयमत्र सद्रमनिशं धत्तां ममाप्राकृतम् । यच्छ्रीकण्ठकठोरकोटिनखरश्रेणीसृणिस्थापन- प्रद्योत"धुभाजनं समभवत्पुष्पायुधायोधने ।। ३३. सौवर्णाचलसानुसंमितकुचद्वन्द्वं भवान्याः स्तुमः सेनानी स्फुरितद्विवेदरसनासंसर्पमञ्चायितम् । ईशो नैनकरोरुभूषणगणं मत्वेति भूयस्तरा- मीदातुं यतते यदीयशिखरप्राग्भारपाणिभ्रमः ॥ ३४ ॥ मालूरद्रुफलप्रदर्पशमनं प्रालेयभूमीधर- प्रत्युप्तप्रतिपक्षबीजमपरं दुर्गास्तनाद्रिद्वयम् ।

। चण्डीकुचपञ्चाशिका। यद्भोगैकदृशः पिशाचनृपतेर्वक्षःस्थले जाग्रती चित्रा कापि विसंस्थुला नमत तत्कण्डूरखण्डाभवत् ॥ ३५ ॥ दिग्दन्तावलकुम्भमौक्तिकमणिश्रेणीकमेणीदृशः शर्वाण्याः कुचगुच्छयुग्ममवतात्संसारतापाद्रुतम् । यस्योपान्तसमुत्पतत्पशुपतिव्यालोलसाभिस्फुर- ल्लीलापाङ्गतरङ्गभृङ्गसुभगैः शृङ्गाररङ्गायियत् ॥ ३६ ॥ स्मरारातः स्वान्तप्रकटकुमुदं मोदयति यो हृदाकाशस्थस्तदहननयनाजं मुकुलयन् । दषचं लक्ष्म प्रकटयति चक्रावयुगल निहन्त्वद्रेः कन्याकुचविधुरघध्वान्तपटलीम् ॥ २७ ॥ प्रालेयाचलकन्यकाकुचतटीपाटीरमोडायितां पापाटोपकठोरकष्टपटलान्यापाटयन्ती स्तुमः । यत्रापीनपिनाकपाणिकठिनोरःपीठकण्ठोल्लुठ- यालालीवलयावलेखमकरोदालिङ्गनेऽन्योन्यतः ॥ ३८ ॥ मातः पर्यभिवादये सुरपुरोधानान्तरालोल्लस- द्भूजन्यप्रसवासवावसथमुद्वक्षोजकोषद्वयम् । यस्यान्तः परमेश्वरस्य करतः संमदनव्यापृतौ पतिः संक्षरति क्षपापरिवृढार्भप्रेड्यचूडामणेः ॥ ३९ ॥ रिधामहिते कुचस्थली मणिकान्तिधुनदीनभःस्थलीम् । शिवपाणिनखेन्दुमण्डली निजमौलौ विनिधाय या स्थिता ॥ ४० ॥ मातुनौमि पयोधरौ त्रिजगतामारम्भकुम्भौ शुभौ भावत्को भुवि तौ भवप्रियतमे भाव्यक्षतौ भासुरौ । यौ श्रीकण्ठकरप्रवाललतिकामूर्धस्फुरत्पल्लवौ षडऋद्विरदाननाननवनोज्जन्माभिलीढौ चिरम् ॥ ४१ ॥ वक्षःपीठे पटाढ्यं स्मितविबुधधुनीनिझरैश्चाभिषिक्तं मातर्वक्षोजराज श्रितपविमणिरुक्चामरं ते नमामि ।

८६
काव्यमाला
छत्रं क्षीरं पिपासोनिटिलशशिकलां यत्र पुत्रस्य मत्वा
दुर्गाधीशो महेशः करमपि स ददौ तत्स्थमाराभिनुन्नः ॥४२॥
पटासक्तं वक्षोजनियुगमपूर्व गिरिपतेः
सुकन्ये मन्ये ते नवसुभगसारिद्वयमिति ।
यदुत्तुङ्गोत्सङ्गे मृगधरधराक्षानुसरणं
कराजव्यापारैः सममनिशमुन्मूलतितराम् ॥ ४३ ॥
धयत्येतौ धाता जगदखिलमेतद्रचयितुं
तथा पातुं विष्णुः पिबति हरजाये तव कुचौ ।
इति प्रेक्षं प्रेक्षं स्वयमपि हरो मर्दयति तौ
जगत्समयाभ्यसति किमु विद्यामभिनवाम् ॥ ४४ ॥
भवेतां क्षेमाय मरहरवधूरोजकरिणौ
ययोरेका रोमावलिकपटशुण्डाद्भुतकरी ।
महादेवस्वान्तप्रचुरतरकासारगतया
यया तव्यापाराम्बुजमपहृतं क्रीडनविधौ ॥ ४५ ॥
उदञ्चन्तौ मातस्तव कुचहरी हृद्दरिमुखा-
त्कुरङ्गानां तारौ शिवहृटवीसीमनिहताम् ।
निहत्यैनःश्रेणीमददुरधिरोहद्विपपति
प्रकुर्वाणौ मुक्तावलिमयमिदं यौ त्रिभुवनम् ॥ ४६५
तवेमौ वक्षोजौ वृजिनहरणौ दिव्यहरिणा-
वहं ध्याये मातदितिजतृणराश्यझरवरौ ।'
विरूपाक्षस्वान्तोपवनवरयात्रा चिरतरं
ययोरस्ति स्माराभिधशबरधाटीव्यतिकरे ॥ ४७ ॥
दृढं कूर्पासेन प्रतिपिहितमुधिरसुते
भवानि त्वद्वक्षोरुहयुगलमीडे तदनिशम् ।
सरन्तं वैरं तं स्मरमपरमासाद्य सुहृदं
स्थितं संलीयेति व्यथयति हरो यत्पटगहे ॥१८॥

चण्डीकुचपञ्चाशिका। वक्षस्तरावरसंस्थमुमे कुचं ते तं नीलकण्ठपरिलिङ्गितभोगमीडे । यत्रेश्वरस्य मनसस्तव रूपमेवे- त्याकल्पकल्पनमभूत्रविलोकनेन ॥ ४२ ॥ घनं वक्षोजं ते नव[न]वहिरण्याकृतिधरं नुमस्तं प्रह्लादावलिजनकमद्रीश्वरसुते । यदीयाभोगेऽस्मिन्ननुपमनखालिव्रणततिः स्फुरत्याकल्पं श्रीगलकपटकण्ठीरवकरैः ॥ ५० ॥ चर्धिष्णुर्वलिमस्तकस्थितपदो वक्षःकृतश्रीः सुखं कुर्यान्नस्तुहिनावनीधरसुते वक्षोजविष्णुस्तव । विष्णुः शंभुहृदीति वाक्यममलं सत्यं विधातुं स्वयं यस्तूर्णं कृतसंस्थितिर्विजयते तस्यैव हृन्मन्दिरे ॥ ११ ॥ मनस्तिमिरशान्तये प्रतिपदं कुचार्कद्वयं भवानि तव चिन्त्यते हृदयदेववर्त्मस्थितम् । विकासयति संततं शिवमनःसरोजं परं यदेव दिवसे कथं व्यथयतीह कोकानहो ॥ १२ ॥ स्मरान्तकरवल्लभे तव पयोधरश्रीफल- द्वयं स्मरति यो जनः स भवतीह सच्छ्रीफलः । इतीव किल बोधयन्स्मृतभवत्कुचश्रीः स्वयं समुद्रमथने पपावपि गरं हरः श्रीफलः ॥ १३ ॥ स्मृता तव कुचद्वयी तुहिनशैलबाले हर- त्यसावधभरं भवप्रियतमे नृभिः कैरपि । इतीव हृदि तां दधौ विधिशिरोविभेदोद्भवं प्रचण्डवृजिनावलीकवलितः कपाली ध्रुवम् ॥ १४ ॥ उच्चैरुच्चैः पदं या नयति गुरुतरं वर्धयत्येव भोगं भूभृत्सत्तां तनोति क्षितिधरतनये त्वत्कुचश्रीः श्रिये नः ।

काव्यमाला।
यद्दीक्षाभिः कपर्दी प्रथमपरिवृढो भैक्ष्यवृत्तिः कपाली
सोऽपि श्रीमान्विचित्रं सपदि च जगतामीश्वरोऽभूत्सुखेन ॥ ५५॥
वक्षःस्थं दितिजरिपोस्तवाभिवन्दे
तारुण्योदधिजमुरोजकौस्तुभं तम् ।
यत्स्थाने स्मरजनकं महो हि किंचि-
संमोहं सपदि महेशितुश्चकार ॥ १६ ॥
तारुण्याम्भोधिजन्मा दलितसुमकरः कामदने प्रकामं
कामं यच्छत्वपर्णे पृथुहृदयजनुः पारिजातद्रुजातः ।
दैत्यवातातपघ्नः पदगतजगतीं छायया स्वै रसौधै
रक्षस्तृप्तिं च कुर्वन्भवहृदयमहानन्दने नन्दते यः ॥ १७ ॥
मातः स्तन्यमधुस्तनस्थमनघं यच्छत्वजस्रं तव
प्रौढोल्लासमखण्डितं पशुजनुःपाशच्छिदं सुन्दरि ।
यत्पानं गणपे प्रकुर्वति शिशौ चेतोदृशौ पश्यतः
शंभोर्मुग्धमभूबभूवतुरहो व्यापूर्णिते च क्षणात् ॥ १८ ॥
शैलेलापालबाले नुम इह विबुधप्राणजीवातुमूर्ति
क्षीरोदन्वत्प्रभूतं भवगदहमुरोजन्मधन्वन्तरि ते ।
यस्योपास्तिप्रभावात्पितृगहनगतो वासुकि कालकूटं
कण्ठे विभ्रच्च शूली नयनगहुतभुक्सोऽपि मृत्युंजयोऽभूत्॥५५॥
चञ्चन्नीलाभचोलीसलिलदपटलीलीनमम्लानमाला-
लोलाल्पकं दधानं धरणिधरसुते नौमि ते तं कुचेन्दुम् ।
यस्यालोकैर्विनिद्रं भवति भवमन:कैरवं हर्षितं च
क्षीरासारामृतौघं रसवदनमुखैः पातुकामैश्चकोरैः ॥ ६ ॥
क्षीराशसंसकलकामदमावके ते
वक्षोजनुः सुरभिरूपमकं निहन्तु ।
यत्पातृषण्मुखगजास्यहरीन्द्रमुख्या
वत्सा रसस्थरसनावसनैविरेजुः ॥ ६१ ॥

चण्डीकुचपञ्चाशिका।
विचित्रालेखाढ्यं समरदसुचातुर्यकलितं
दधे मातस्तं ते हृदि हृदयरावणमहम् ।
यदीयाञ्चद्रोमावलिकपटशुण्डा शिवमनः-
सरोजं तच्चक्षुः सरसि परिविश्यैव हरति ॥ ६२ ॥
भगवति तव वक्षोजन्मरम्भास्वरूपं
शुकहृदि सुफलस्य भ्रान्तिदं दर्शनेन ।
दिशतु मम शिवं तन्नृत्यतीशस्य चेतः
कमलमिव सुधर्मा दिव्यदेशे चिरं यत् ।। ६३ ।।
उद्गग्रीवं वेऽविरलमसृणं नौमि गिरिजे
सुवृत्तं हीरोद्यन्मणिरुचमुरोजेन्द्रतुरगम् ।
पयः पातुं श्लिष्टद्विरदमुखषड्डक्रवदना-
न्यपश्यत्सप्तेशो गणपतिपिता यत्र सहसा ॥ ६४ ॥
दितिजजनविनाशकं नमस्ते भगवति कुचकूटकालकूटम् ।
यदिह हृदि हरस्य कण्ठलग्नं किमिति मदन्यदितीर्ण्ययावतस्थे ॥६५॥
कर्पूरकुङ्कुमसुनाभिजचित्रलेख
मन्ये कुचं वलयितं जननीन्द्रचापम् ।
यस्योद्भवे स्मररिपोः प्रववर्ष शंभो-
रानन्दजाश्रुसलिलं नयनाम्बुवाहः ।। ६६ ।।
शर्वाणि ते तरुणिमोद्गमसिन्धुजातं
मन्ये कुचं दरमहं वृजिनावलिघ्नम् ।
यं कुर्वतो निजकरे शशिशेखरस्य
जातः स्मरैकजनकत्वपदेऽभिषेकः ॥ १७ ॥
धराधरसुते सुतत्रिदशपेयमाशामहे
तव स्तनजनुःसुधारसमसारसंसारहम् ।
स्मरामि नयनोज्ज्वलज्ज्वलनजालदग्धोऽप्यसा-
वनङ्ग इह यत्पदे कृतपदेन संजीवितः ॥१८॥

९०
काव्यमाला।
अलमलममलोहैः श्लोकजालैः कवेस्तै-
यदिदमखिलमेतैः क्रीतमेवास्मदीयम् ।
पुनरपि यदि चैवं वर्ण्यते तहिं स्यां
तदपि भवतु चेत्कि पारितोषीयमस्य ॥ ६९ ॥
इत्याकर्ण्य वचो विचार्य च चमत्काराञ्चितं चेतसि
श्रीदेव्याश्चकिताः प्रभोः प्रणिधयश्चक्रुस्तथा तैः परम् ।
भूयः किंचिदुदञ्चितस्तबकया वाचेदमन्विष्यते
यच्चोक्तं किल पारितोषिकमिति स्यात्कि तदुक्तं वद ॥ ७० ॥
स्तो गृहीतमनवं स्तनपाललक्ष्म्या
शुल्कं मदीयमखिलं हि मयास्य दत्वा ।
शिष्टाहमस्मि मदभेदमनर्घमेतं
दास्यामि तस्य परितोषणिकं सुखेन ॥ ७१ ॥
एतदेव कविराजमानसे काङ्कितं लसति संततं किल ।
अन्यदेकमपि दीयते स्वतः श्रूयतामनुचरेश्वराः स्फुटम् ॥ ७२
इति स्तनघटस्तवं पठति यस्तु चण्ड्या मम
प्रसन्नहृदयः प्रियो भवति मे सदा सूनुवत् ।
कविर्भवति भूमिपस्तुतवचःप्रपञ्चः क्षितौ
लभेत किल वाञ्छितं सहृदि सुन्दरीणां सरः ॥ ७३
मदीयचरणाम्बुजे भवति भक्तिभाजां प्रभुः
क्षितीशमुकुटस्थितप्रसवपूज्यपादाम्बुजः ।
अनेकनवपद्मिनीस्तनगिरीन्द्रकान्तिच्छटा-
जटालहृदयान्तरो(रः) [सद]सि संस्थितो राजते ॥ ७४ ॥
यः श्रद्धया मम घनस्तनकुम्भलक्ष्म्या:
स्तोत्रं पठेत(?) किल संशृणुयात्सलोकः ।
गीर्वाणवामनयनानयनारविन्द-
जालप्रभासरणिकज्जलतामुपैति ॥ ७५ ॥

चण्डीकुचपञ्चाशिका।
पृथिव्यां भूपालो भवति नववामोरुनयन-
प्रफुल्लाम्भोजन्मधुमणिरपि वाचा सुरगुरुः ।
निरस्तप्रोच्चण्डाखिलरिपुगणो मत्कुचतटी-
स्तवं कुर्वन्नित्यं जयति निजलक्ष्म्यापि धनदम् ॥ ७६ ॥
यश्चित्ते मम कुचसंस्तवं दधाति
प्रावीण्यं सकलकलासु सोऽयमेति ।
आम्नायस्मरणमपीह मामकीने
पादाम्भोरुहयुगले लमेत भक्तिम् ॥ ७७ ।।
स्मापि सदने सदा कृतपदा मुदा दासव-
द्रिपुर्भवति मित्रवधुवतिसंगमो मोक्षवत् ।
अवागपि कवीशवद्भवति पातकं पुण्यव-
यशोभिरमला दिशो दश भवन्ति यस्तं पठेत् ॥ ७८ ॥
चण्डीकुचपञ्चाशत्संज्ञमिमं यः स्तवं नवं पठति ।
स नरो न पुनर्जनुषे भवति हि निःश्रेयसाय मे दयया ॥ ७९ ॥
तथास्तु किल तत्परं तव जयन्तु मातः प्रभो
पदाम्बुजमधुच्छदाः कविवरस्य मौलौ वरम् ।
यतो हि कवितामृतं पिबति यः स मुक्तः श्रुत-
स्ततः स भविता न किं जगति मुक्तिकान्तापतिः ॥ ८० ॥
इत्युक्तवत्यनुचरेन्द्रगणे पुरस्ता-
दम्बापदाम्बुजनुषो(जनिता) मकरन्दधारा ।
या स्यन्दिता शिरसि मे कविलक्ष्मणस्य
खप्नोत्थितस्य तु पुनातु पुनस्त्रिलोकीम् ॥ ८१ ॥
यावच्छिवार्धगतमस्ति वपुस्त्वदीयं
यावत्त्वदनिकमलं च पुनाति विश्वम् ।
तावत्तवाम्ब चरणाम्बुजयोनिपत्य
याचाम्यहं(महे)किमपि यः शयनोत्थितस्त्वाम् ॥ ८२ ॥

९२ काव्यमाला। वाक्कायचित्तकरणप्रकृतिखभाव- बुद्ध्यात्मभिः सदसतोरपि संगमेन । यद्यत्कृतं यदपि भाव्यमशेषमात- यद्यत्करोम्यखिलमस्तु तवार्पणं तत् ॥ ८३ ॥ इति श्रीमदत्रिगोत्रमाणिक्यसामगोपनामकवेणीमाधवाचार्यसुतरसालकारपा- रावारपारीणलक्ष्मणाचार्यकृता श्रीचण्डीकुचपश्चाशिका संपूर्णा ॥ १ श्रीविद्यावागीशकविविरचितं कौन्तेयवृत्तम् । प्रथम. सर्गः। दिश्युत्तरस्यां निकषा हिमाचलं चकास्ति शैलः किल गन्धमादनम् । अन्वर्थमुद्रां निजनाम्नि योजयन्प्रसूनसंपत्तिविसारिसौरभैः ॥ १ ॥ सिञ्चन्ति चेतः सुखवृत्तिधारया यत्कन्दराम्यन्तरवासिनश्चिरम् । मुञ्चन्ति किं चानुचिताः सनातनीनिरन्वयं बन्धनवासनाः समाः॥२॥ सदा सदारैरनुदारमानसैर्मुदा यदारामविहारसादरैः। सनादनालोकितभानुभानुभिर्विद्याधराद्यैरतिनीयते तपः ॥ ३ ॥ गाढं परिष्वज्य रसासुन्दरीरासां पिबन्तो रदनच्छदामृतम् । हिमागमे यत्र हि मायता दरीरध्यासते धन्यतरा निरन्तरम् ॥ ४ ॥ अधिश्रयन्तो यदधित्यकावनं न शाखिनः किं परिणाहशालिनः । करम्बितास्तारकमौक्तिकश्रिया स्फुरन्ति नित्यं निशि पुष्पिता इव शृङ्गाणि यस्मिन्निशि भान्त्यनारतं विचित्ररत्नप्रचुरागि कानिवित् । विसृत्वरैरूर्ध्वमुखं मरीचिभिः किरीरयन्त्यन्तिकतारकागणम् ॥ ६ ॥ १. अस्य श्रीविद्यावागीशकवेर्देशकालौ न ज्ञायते, परंतु समाप्तिलेखे 'माधवभट्ट- तनय' 'भट्टाचार्य' इति त्रुटिपूरणस्योपलभ्यमानत्वेन भट्टाचार्यपदस्य वङ्गेषु प्रसिद्धत्वेन वङ्गदेशः कदापि भवेत्. मातापितरौ तु सर्गसमाप्तौ 'रमामाधवौं' स्वयमेव स्तवीति. २. अस्य काव्यस्य पुस्तकमेकमेव शुद्धप्रायं सप्तपत्तात्मकं प्राचीनं श्रीकृष्णचन्द्रभट्टैः काव्यमालार्थ प्रत्तमिति तेषामुपकारवर्णनेऽशक्तास्तांश्चिरायुष्वाशिषा योजयामः. ३. सर्वा इत्यर्थः. ४. सदा इत्यर्थः.

कौन्तेयवृत्तम् । यत्रास्त किंचित्पुरुषायितश्रमास्तल्पान्तमध्यास्य शरन्निशान्तरे । सलीलमिन्दावरविन्दनालकैः पिबन्ति पीयूषरसं सुराङ्गनाः ॥ ७ ॥ प्रभिन्नसप्तच्छदगन्धिभिर्मदनिरस्तविन्यस्तपदैरपि क्रमात् । यस्मिन्मदान्धद्विपदर्शनोत्सुका मार्ग मृगेन्द्रा मृगयन्ति मानिनः ॥ ८ ॥ पञ्चापि पार्थास्तु विना धनंजयं पञ्चालभूपालजया जयान्विताः । तीर्थाश्रमारामगतिप्रसङ्गतो गिरीन्द्रमेनं समया समाययुः ॥ ९ ॥ संभेदमुन्नादतरं तरङ्गिणं वनानि मञ्जून्यवनानि नेत्रयोः । निरूपनन्तस्तदुपत्यकासु ते सुतेजसस्तत्र विचेरुरश्रमाः ॥ १० ॥ विचित्रधातुवनिर्झरस्फुरन्नानामणीनिर्मितरामणीयकम् । अन्तर्विलोकोत्कलिकासमाकुलैस्तद्धर्मराजादिभिरारुरुक्षितम् ॥ ११ ॥ अथैकमत्या मिलिता जितश्रमाः प्रपातभागानपहाय ते समान् । अकृत्रिमेणैव गतागताध्वना नगं तमारोढुमुषोपचक्रमुः ॥ १२ ॥ अथाञ्जसा स्वेदमूषन्तिसंतति मुक्तामणिश्रेणिमिवातिमञ्जुलाम् । शिरीषमृद्वी स्तनभारमन्थरा बभार मालाभरणं नितम्बिनी ॥ १३ ॥ स्त्रवत्सुधे वऋविधौ तथाविधे चलाञ्चले श्वासबलादुरःस्थले । सकम्पयोः किं च तदूरुदण्डयोHदुश्रियोः शोणपदारविन्दयोः । समाधिमन्तः स्तिमितातिकातराः पेतुश्चतुर्णी मसृणा हगंशवः ॥ १४ ॥ विलासिनीनामिव चारुवीरुधामथाङ्गहारानुपशिक्षयन्निव । वाधिदेव्या मृदुचञ्चलीकृतात्कि तालवृन्तादुपलम्भमागतः ॥ १५ ॥ समीरण:-शीकरंसारमुद्रिन्पराङ्गसङ्गी मकरन्दमेदुरः । आनन्दयामास नितम्बिनीमिमां विश्रान्तिमेतेऽपि वितेरुरन्तरा ॥ १६ ॥ तामाश्रयन्तीमथ मन्थरां गति तथानुकुर्वन्ननुरागसागरः । धर्मात्मजन्मा प्रथमामधित्यकां जगाम यामेन समं सहोदरैः ॥ १७ ॥ १. अस्तः क्षिप्तः; नष्ट इति यावत्. २. जयेनान्विताः, अजयायोनिजया वा. नदीसंगममित्यर्थः. ४. पृषन्तिशब्दोऽपि रायमुकुटे स्वीकृतः. ५. आदर्शे सार्ध श्लोके- काव्यमाला। विधूनयद्भिस्तिमितांस्तनूरुहान्विहंगमैरन्तिकतो निवेदितम् । अन्विष्य तस्यां विमलापमाप सा सुधारसं पञ्चतयी सरोवरम् ॥ १८ ॥ अतिप्रकाशेन तलावलम्बिनीं विलोकमानेन कणामणीयसीम् । तटस्थलीमाश्रयताप्यनाविलं क्षणं न साक्षात्क्रियते यदासा ॥ १९ ॥ अजस्रचक्षुःप्रसरावरोधिनो निखातभूमीवदनावलम्बिनः । चकासतः स्फाटिकपट्टकस्य यत्तुलामुपास्ते चतुरस्त्रताभृतः ॥ २० ॥ समस्तमन्तर्गतमस्तसंशयं निवेदयन्नुल्लसितप्रभाप्रभम् । जानाति मन्ये जनता सरस्तया समीरणान्दोलितसंवरेण यत् ॥ २१ ॥ विराजिकादम्बनितम्बिनीगिरं रथाङ्गनारीरतिकेलिमन्दिरम् ।। पङ्केरुहस्तोमतिरोहितान्तरं तदन्तिके भाति वरं ससेऽन्तरम् ॥ २२ ॥ नितान्तदीव्यत्कलहंसकध्वनिः प्रतीकचञ्चन् कुरॉर्जुनोमिका । मनो हरन्ती रुचिरेव पंद्मिनी रसोत्तरेयं सरसी विराजते ॥ २३ ॥ सदारविन्दद्युतिकृत्सरोहिता समुल्लसच्चञ्चलचारुपुष्करा । तिग्मातपोत्तापतिरस्कृतिक्षमा कादम्बिनी सा सरसीति निश्चयः ॥२४॥ उमेव गौरीयमथापि पार्वतीश्रिया युता किंच हरेस्तनूरिव । द्विजैरुपास्यारुणशोणपुष्करा प्रभातवेलेव विभाति निर्भरम् ॥ २५ ॥ लसन्ति चास्यां कमलानि मङ्गलं मृगेक्षणाया वदनं विलोकितुम् । तद्देवतायाः कृतमूर्तिसंततेः समुद्तानीव मुखानि कौतुकात् ॥ २६ ॥ यः सूचयन्नस्य नगाधिराजतां दधाति शैलस्य किलातपत्रताम् । सोऽयं विशालोन्मुखसुन्दराग्रणीरन्तस्तयोरस्ति पुराणरोहिणः ॥२ निःसंधिसौगन्ध्यसमृद्धिशालिना पर्यन्तविस्तारिपटीरशाखिना । निरन्तरं सौरभसारसंक्रमान्निसर्गगन्धां निजभङ्गमापितः ।।२८॥(युग्मम्) अस्ति प्रशस्तोपलजालकल्पिता तन्मूलमालम्ब्य विशालवेदिका । संक्रान्तलक्षच्छदगर्भशोभया विभाति गारुत्मतनिर्मितेव या ॥ २९ ॥ १. संवरं जलम्. २. हंसाः, कटकाश्च. ३. मुकुरा बकुलाः, आदर्शाश्च. ४. अर्जुनः ककुभवृक्षः, धवलश्च. ५. उर्मिकास्तरङ्गाः, अगलीयकं च. ६. पद्मिनी स्त्रीविशेषः, क- मलवती च. ७. कृत् कारिका, नाशिका च. ८. सरोहिता सरोभ्यो हिता, रोहितेन स- हिता च. ९. पुष्करो मेघः, जलं कमलं वा.

कौन्तेयवृत्तम् । of अथो मृणालानि मृदूनि कानिचिन्मरन्दसाराणि सरोरुहाणि च । आदाय मध्येऽहनि विश्रमाय ते निषेदुरध्यासितसाधुवेदिकाः ॥३०॥ आहर्तुकामो विहितेन हेतुना समानुमत्यात्तरसं रसोत्तरम् । भव्ये मृगव्ये विनिधाय मानसं जगाम जङ्घालतयार्जुनाग्रजः ॥ ३१ ॥ महीरुहच्छायमदभ्रमाश्रितं युवानमेकं तृणतृप्तमंसलम् । सकृष्णसारं शरपातसंमितां महीमतीत्य स्थितिमन्तमैक्षत ॥ ३२ ॥ स यावदिप्वासनिषङ्गसङ्गिनं विभाव्य भीमं वलते पलायितुम् । संधाय वाणं पवमाननन्दनो जगाम तावत्तदुपान्तिके जवात् ॥ ३३ ॥ प्रस्कन्दमानं वसुहस्तपातिनं पश्यन्तमत्यन्तमधीरया दृशा । आलक्ष्यलक्ष्यं चलमेनमञ्जसा विभेद भीमो निशितेन पत्रिणा ॥ ३४ ॥ तेने ततस्तेन तदेतदद्भुतं गुणावतंसेन विसारि सौरभम् । विचित्रचेतोहरमाधुरीभरं करम्बितं नूनमनूनतेमनैः ।। ३५ ॥ विभज्य भोज्यं मृदुमेदुरोज्ज्वले शिलातले वल्लभयोपकल्पितम् । आस्वाद्य सर्वेऽपि विधाय विश्रमं विहारकासारमुपेयुरुत्सुकाः ॥ ३६॥ यथोचितं तान्यवचित्य कौतुकाददूरपद्माकरवारिजानि ते । प्रसन्नवारिण्यवसन्निषद्वरे सरोवरे चिक्षिपिरे विलासिनः ॥ ३७॥ तस्मिन्भवं ते भजमानमञ्जसा योगेन पद्माकरनामधेयताम् । आश्लेषलेशादपि तापभञ्जनं शनैः शनैरेव सरो जगाहिरे ॥ ३८ ॥ एस्मेभिरुच्चैः करतालचालितैः पाणिद्वयीयन्त्रविनिर्गतैरपि तो सारसासारसिकेलिसंगरं जायापती विभ्रमतो वितेनतुः ॥ ३९ ॥ तदा रसाइँण हृदा कृतादरावनेकजातीयजलादिकेलिषु । श्रियं दधानौ रतिपञ्चबाणयोगन्ति जाने जयतः स जम्पती ॥४०॥ तत्रारविन्दच्छदभाजि वक्षसा भुजक्षिपाभिश्चरणप्रचारणैः । निमग्नभङ्गया शयनीयशीलनैस्तेरुः कलाकौशलकल्पनैरमी ॥ ४१ ॥ निर्गम्य तस्मात्सरसो रसोत्तरास्ताम्रारविन्दच्छदचारुचक्षुषः । आयासनिश्वाससमीरसंगमैरभ्यासमामोदमयं विधायिनः ॥ ४२ ॥ १. अंसलं पुष्टमू.

काव्यमाला। हर्षावगाहोद्भवदेहलाघवाः खेलासमारम्भनिबद्धमध्यमाः । विश्रामकामां दयितामपीदृशीं निपीयमानाः सुदृशं विशश्रमुः ॥ ४३ ॥ मुदं दधानेन तपानुबन्धिना दिनेन तेनेत्थमुदित्वरश्रियम् । सीमानमुल्लङ्घय निसर्गनिर्मितां पराबभूवे कतमो न वासरः ॥ ४४ ॥ चित्रार्चिषो रोचिरुदञ्चयन्करैः संकोचयन्कंचन भानुसंचयम् । अचण्डचञ्चद्रुचियुग्विरोचनश्चुचुम्ब चूलं किल पाश्चिमाचलम् ॥ ४५ ॥ आसन्नविश्लेषमलीमसश्रियां विश्वासमाधातुमिहाम्बुजन्मनाम् ।। समाचरन्सत्यमिवात्मसंगमे दधार मध्येऽग्नि करं स रागवान् ॥ ४६ ॥ दिवाधिकारादपनिद्रपद्मया जगान्ते संतोष्य चरत्करश्रिया. दैवादियं संकुचतीति भावयन्नदृश्यतां नूनममन्यतोचिताम् ॥ ४७ ॥ जपावसाने जगतीविलोचनं बद्धवा विवस्वन्तमुपासितुं मुदा । काले तदा कुड्मलदम्वुजन्मनां(तां) दधुस्तला(मा)मञ्जलयो द्विजन्मनाम् ॥ निर्गम्य माहेन्द्रमहीध्रकंदरादुद्दामभास्वन्मणिमौलिमञ्जुना । निपीतकिंचित्पयसा पयोनिधौ न्यमज्ज्यताहीनदिनेन पश्चिमे ॥ ४९ ॥ प्रसादयन्निर्भरमम्बरस्पृशा करेण माहेन्द्रदिगङ्गनामुखम् । ततश्चिरोत्कण्ठचकोरचक्षुषामासेचनश्चारु चचार चन्द्रमाः ॥ ५० ॥ ततः प्रसन्ना मुदिते कलानिधौ कुमुदती योषितमात्ममन्दिरात् । पद्मासना सत्वरमेत्य संमुखी शृङ्गारयामास मुदेव नन्दिनी ॥ ११ ॥ श्रीसंनिधानत्रपया तया समं न प्राप साक्षात्परिरम्भसंभ्रमम् । प्रभाभिरेनां परिरम्य निर्भरं प्रमोदयामास परं कलानिधिः ॥ १२ ॥ नीलैकमागं तदखण्डमण्डलं प्राकल्पि लोकैः किल शुक्तिसंपुटम् । गलन्ति यत्तारकवृन्दकैतवात्समौक्तिकानीति गृहीतयुक्तिभिः ॥ ९३ ॥ ते कौमुदीसंगतचन्द्रकान्तस्रवत्सुधानिर्झरमञ्जुनादम् । निपीयमानाः किल कीरकण्ठीमालापयन्तो मधुरेति हान्तः॥ ५४॥ यामान्तरोज्जृम्भितवत्रचन्द्राः प्रमीलदम्भोरुहचारुनेत्राः । तयापि तादृग्विधया समेतास्तिरस्कृतोद्यद्रतिकामदर्पाः॥ ५५ ॥ १. चित्राचिषो वढे..

कौन्तेयवृत्तम् ।
मन्दं वहत्युत्पलगन्धवाहे समन्ततश्चन्दनकाननान्तः ।
शिलामिलत्पल्लवतूलिकायां निद्रामवापुः प्रमदाईचित्ताः ॥ १६ ॥
गोपीकान्तपदारविन्दयुगलीरोलम्वशीलान्तरौ
यं मातापितरौ हितोन्नतिपरौ श्रीमद्रमामाधवौ ।
स्निग्धाशीमिरपुप्यतां मधुभिदो भृत्येन तेनाहिते
काव्येऽस्मिन्प्रमदाङ्गवत्यवसितः सर्गोऽयमोपक्रमः ॥ १७ ॥
इति श्रीविद्यावागीशकृतौ कौन्तेयवृत्ताभिधाने काव्ये स्नेहविहारो नाम प्रथमः सर्गः।
द्वितीयः सर्गः।
अथ सुप्तोत्थितानेतानसेवत समीरणः ।
केंहारकारसुरभिधीरो नीरेणुरौत्तरः ॥ १॥
तदीयसौरभमरैरुत्तरोत्तरपीवरैः ।
अनाघ्रातचरैस्तेषामञ्जसा हृतचेतसाम् ॥ २ ॥
आनन्दोच्छ्सदङ्गानां दर्शनोत्कलिकावताम् ।
विषयात्तरसंचारं मनागपि न विभ्रताम् ॥ ३ ॥
दत्तसादरदृष्टीनामुत्तरायतवम॑नि ।
कथंचित्सहमानानां तदालोकविलम्बनम् ॥ ४ ॥
कियतापि क्षणेनेदमभून्नयनगोचरः ।
अभ्यासमेष्यदानीतमनुकूलेन वायुना ॥ ५॥(पञ्चभिः कलापकम्)
जघनाभोगभारेण मत्तवारणगामिनी ।
मनोरथेनाभिययौ द्रुतं द्रुपदनन्दिनी ॥ ६ ॥
उत्पक्ष्मणैकलक्षेण चक्षुषा वीक्षमाणया ।
करद्वये तदूर्वाग्रे जगृहे महदेतया ॥ ७ ॥
सौगन्धिकमदो रेजे तन्वङ्गया करधारितम् ।
विकासिनीव राजीवे स्मेरं सरसिजान्तरम् ॥ ८॥
प्रकृत्या पुण्डरीकेण सदृशं पाणिपल्लवे ।
धार्यमाणमिदं सद्यो दधे कोकनदद्युतिम् ॥ ९ ॥
तन्मुखाम्भोजकहारमन्तरा दृग्द्युतिच्छटा ।
रेजे द्विरेफराजीव राजीवद्वयसंगता ॥ १० ॥

काव्यमाला।
अनुजैः पूजितायेदं प्रेयसे धर्मजन्मने ।
ददौ स्मेराननं सुभ्रूर्मुदा मदिरलोचना ॥ ११ ॥
इदमात्तवतस्तस्य दत्तं दयितया तया ।
विचकास हृदम्भोजमुखाजनयनाम्बुजम् ॥ १२ ॥
न स्पर्शेन न रूपेण न सौरभभरेण च ।
तथा तं प्रीणयामास तद्वितीर्णतया यथा ॥ १३ ॥
अथ सौगन्धिकैरेव विहर्तु विहितस्पृहा ।
स्मितेनासिञ्चधरं विवक्षास्फुरितं प्रिया ॥ १४ ॥
प्रेम्णातिशयमग्नेन धर्मराजेनसां प्रति ।
समुन्नीतविवक्षेण वचश्चतुरमाददे ॥ १५ ॥
यत्ते स्मितसुधासिक्तं स्फुरत्यधरपल्लवम् ।
तदिन्दुवदने किंचिद्विवक्षन्तीव लक्ष्यसे ॥ १६ ॥
निजाधीने जने सुभ्रूः किंच संकोचमञ्चसि ।
विपञ्चीवाणि कल्याणि विकासय तदाशयम् ॥ १७ ॥
विन्यस्यन्ती भरं भीमे दृशा कर्णान्तिकस्पृशा ।
जगाद मधुरस्निग्धं तमवन्ध्यमनोरथा ॥ १८ ॥
नाथ निर्मातुमिच्छामि साधुसौगन्धिकस्रजः ।
कान्त कामं मम स्वान्तमेतैः खेलितुमीहते ॥ १९ ॥
दृशैवाशयमुन्नीय तस्या धर्मानुजन्मना ।
वितेने सूनृता वाणी मन्वानेनात्मनो जयम् ॥ २० ॥
चारुकहारसंभारं मुदे हृदयदेवते ।
अहं समाहरिष्यामि हंसमालासमत्विषम् ॥ २१ ॥
इत्युक्त्वा वन्दमानस्य पवमानात्मजन्मनः ।
गदायुद्धप्रसिद्धस्य बलसंपत्तिशालिनः ॥ २२ ॥
प्रस्थानं भीमसेनस्य प्रयुञ्जानः शुभाशिषम् ।
अनुमेने धर्मसूनुः सत्यवादिधुरंधरः ॥ २३ ॥

कौन्तेयवृत्तम् । अथ प्रतस्थे परितः पादपान्प्रक्षिपन्पदा । पार्थः पन्थानमपथे प्रथयन्पवनोपमः ॥ २४ ॥ कियङ्करमतिक्रम्य स शूरस्तनिताकृतिम् । निरुध्य सरणिं सन्तं हनुमन्तमलोकत ॥ २५ ॥ मुञ्च पन्थानमित्युक्तो नाहं चलितुमुत्सहे । त्वमेव मामितः क्षिप्रं क्षिपेति छद्मनाब्रवीत् ॥ २६ ॥ गिरं गृहीत्वा भूतार्थी यत्नैः क्रमविवधितैः । मनागपि स्पन्दयितुं न क्षमः प्रणनाम तम् ॥ २७ ॥ गम्भीरकरुणाम्भोधेः प्रकाशितनिजाकृतेः । तस्माद्विदितवृत्तान्तः श्रीदपद्माकरं ययौ ॥ २८ ॥ अन्तरायतया प्राप्ता यक्षा रक्षाधिकारिणः । क्षणेन भीमसेनस्य गदया विकलीकृताः ॥ २९ ॥ तमुपद्रवमाकर्ण्य धनदः प्राहिणोन्मुहुः । कटकं तमहो भीममरुत्तृण्यामिवाक्षिपत् ॥ ३० ॥ अथ स्वयमुपायातः कुबेरः परिचिन्त्य तम् । पूजयामास संपत्त्या तत्कार्य चान्वमन्यत ॥ ३१ ॥ अवन्ध्यवीक्षणास्त(त्त)स्मादधिगम्य प्रभाविताम् । सौगन्धिकान्युपादाय यथेच्छमथ सोऽभ्ययात् ॥ ३२ ॥ ततस्तेन समागम्य त्रयस्ते पाण्डुनन्दनाः । पाञ्चाली प्रमदं पूर्णमवापुः सिद्धलालसाः ॥ ३३ ॥ गोपीकान्तपंदारविन्दयुगलीरोलम्बशीलान्तरौ यं मातापितरौ हितोन्नतिपरौ श्रीमद्रमामाधवौ । स्निग्धाशीर्भिरपुष्यतां मधुग्दिो भृत्येन तेनाहिते काव्येऽस्मिन्प्रमदाङ्कवत्यवसितः सर्गो द्वितीयः शुभः ॥ ३४ ॥ इति श्रीविद्यावागीशकृतौ कौन्तेयवृत्ताभिधाने काव्ये सौगन्धिकाहरणो नाम द्वितीयः सर्गः। समाप्तमिदं कौन्तेयवत्ताभिधानं काव्यम् ॥

काव्यमाला। श्रीमदुत्प्रेक्षावल्लभकविरचितं सुन्दरीशतकम् । जयति विलासवतीनां नेत्रप्रान्तावलोकनप्राणः । वदनेन्दुद्युतिसदनः स्मितमाध्वीमेदुरो मदनः ॥ १ ॥ सहृदयहृदयग्राह्यं मदनमहीपालशासनादेव । विरचयति सुन्दरीशतमुत्प्रेक्षावल्लभः सुकविः ॥ २ ॥ चन्द्राधिकरुचयोऽपि क्षालनशुचयोऽपि चन्द्रकान्तेन । सुन्दरि तव नखमानी न ज्यो यत्तापयन्ति मनः ॥ ३ ॥ वरवणिनि तव चरणौ कस्य न हृदयानुरञ्जनं कुरुतः । परमेष्ठिनोऽतिनिष्ठुरपाणितलस्पर्शतस्ताम्रौ ॥ ४ ॥ सुन्दरि जङ्घायुगमिदमुपासनस्तम्भविभ्रमं धत्ते । इषुभिरतनोर्मनो मे विद्धं यलग्नमात्रमिह ॥ ५ ॥ सुन्दरि काञ्चनकदली कर्पूरोत्पत्तिशालिनीत्यनया । चन्द्रोद्वर्तनसुरभिस्तवोरुरुपमीयते कविभिः ॥ ६ ॥ विपरीतरतसमुद्यमपुलकप्रथमानमांसलाभोगम् । सुरतसुखैकनिधानं सुन्दरि जघनस्थलं जयति ॥ ७ ॥ वलिभिर्वन्धमकस्मादुपेत्य मध्यस्तनूभवत्यस्याः । आनन्दीति नितम्बः समुन्नतिं निर्भर धत्ते ॥ ८ ॥ अम्बरचुम्बिनमेनं नितम्बमधिरुह्य मुग्धनयनायाः । दूरात्पश्यति यूनां मनांसि पाटच्चरो मदनः ॥ ९ ॥ १. अस्य कवेर्देशो न ज्ञायते. गोकुलनाम्नश्चास्योत्तमकाव्यनिर्मित्या 'उत्प्रेक्षावल्लभ' इति नाम जातमिति चरमश्लोकतो ज्ञायते. आदर्शपुस्तकसमाप्तौ 'चिन्तामणिभट्टानामिद पद्यम्-'अनलशररसधराङ्के वर्षे माघस्य शुक्लशुभषष्ठयाम् । गुरुवारे रेवत्यां संपूर्ण सुन्दरी- शतकम् ॥' इत्युपलभ्यते. तथा च विक्रमसंवत् १६५३ (ख्रिस्ताब्दाः १५९४) कालः स्फुट एव. २. अस्य काव्यस्य पुस्तकं त्वेकमेव शुद्ध जीर्ण प्राप्तम्. तच्च कदाचित्कर्ट- समयलिखितमेव भवेत.

सुन्दराशतकम् ।
अस्मिन्प्रकृतिमनोज्ञे लग्ना प्रायेण मान्मी दृष्टिः ।
सुन्दरि यतो भवत्याः प्रतिक्षणं क्षीयते मध्यः ॥ १० ॥
या तव गात्रे यौवनतपनरथारोहनेमिनवरेखा ।
सुन्दरि सैव जनानां जनयति रोमावलिभ्रान्तिम् ॥ ११ ॥
स्मररविपुरःसरीकृतयौवनमायातमभिमुखं सुतनोः ।
आलक्ष्यते यदेषा रोमालिच्छद्मतश्छाया ॥ १२ ॥
सुतनोरियप्रदेशे तिष्ठतु नवरोमराजिभुजगीति ।
निवलित्रिसत्यरेखा वयःफणिग्राहिणाकारि ॥ १३
क्षति-सुमुखि भवत्या मनोहरं कान्तिमण्डलं जयति ।
भ्रामितमभिनववयसा कामनृपादेशचक्रमिव ॥ १४ ॥
वयसा कुम्भकृतास्याः परिभ्रमत्कान्तिमण्डलच्छलतः।
अभ्रमि किमुरसि चक्रं कुचकुम्भं कर्तुकामेन ॥ १५ ॥
कृतचन्दनाङ्गरागो मदनसखः श्रीफलद्वेषी ।
सुन्दरि सुवर्णवर्णों वक्षोजः कीदृशो रुद्रः ॥ १६ ॥
करनखललितभुजायाः पल्लवकुसुमाभिरामलतिकायाः ।
अनयोर्विशेषदर्शी सुन्दरि कुसुमेषुरेवैकः ॥ १७ ॥
यस्य स्वरेण विजितः प्रिये पिकोऽभूद्वनप्रियः सपदि ।
उपमामुपैतु शङ्खः कण्ठे तस्मिन्निधित्वेन ॥ १८ ॥
वदनमिदमृतमयमिति न तर्कितं किं तु तत्प्रमितम् ।
मुग्धे दग्धरतिप्रियजीवनमेव प्रमाणमिह ॥ १९ ॥
इन्दोरखण्डमण्डलनिर्यत्पीयूषमृष्टरसनो यः ।
अधरदलं तव सुन्दरि वर्णयितुं कल्पते यदि सः ॥ २० ॥
सुन्दरि तव दृक्तुलनामारोढुं विकसितं सरोजेन ।
विधिना तदैव दत्तं परागविषतो मुखेऽस्य रजः॥ २१ ॥
लोचनयोः श्रीभृतयोः कर्णान्तिकवासिनोः पृथुक्रमयोः ।
अनयोस्तन्वि किमुचिता वद परहृदयापहारिणी रीतिः ॥ २२ ॥

काव्यमाला ।
सुन्दरि तव नयनाम्बुजभालकलानाथखण्डयोर्मध्ये ।
अन्योन्यकलहशान्त्यै भ्रुकुटिभ्रमरावली व्यरचि ॥ २३ ॥
तव नयनवारिरुहयोः संकोचो भालचन्द्रमुवीक्ष्य ।
मा भूदिति कमलभुवा भ्रूलेखा व्यरचि किं मध्ये ॥ २४ ॥
तव निर्मलौ कपोलौ सौन्दर्यासारसुन्दराभोगौ ।
किं वर्णयामि सुन्दरि चुम्बनयोग्याकृती कृतिनः ॥ २५
सीमन्तिनि तव कुटिलस्निग्धायतमेचकः कटाक्ष इव ।
हा हन्त केशहस्तो हृदयं हस्ताद्विहस्तयति ॥ २६ ॥
युवजनमारणशाला सुन्दरि वेणीकृपाणिकोपेता ।
तव चरममङ्गमेतत्कवयित्वा पातकी कः स्यात् ॥ २७ ॥
कुसुमशरनृपनिदेशात्सुतनौ चकितं नवं वयो विशति ।
नवसेवक इव पार्थिवसद्मनि दत्तप्रवेशोऽपि ॥ २८ ॥
शरणमिव याचमानं क्वचित्क्वचिवाल्यमङ्गेषु ।
भ्रमति मनोजनिदेशादधिकारिणि यौवने भवति ॥ २९ ॥
कुसुमशरनृपतिशासनमभिनवसौन्दर्यसारसौभाग्यम् ।
युवजनमनोविनोदो जयति प्रथमं वयस्तस्याः ॥ ३० ॥
जयति मितप्रकारः स्फुरदधरोपान्तविश्रमस्तस्याः ।
कुसुमाञ्जलिरिव दत्तो नवेन वयसा रतीशाय ॥ ३१ ॥
सुन्दरि तव स्मितेन स्फुरिताधरपल्लवाङ्कमिलितेन ।
मकरध्वजनृपहस्ते वद कस्य मनो न विक्रीतम् ॥ ३२ ॥
अङ्गं कोमलमङ्गादधरोऽधरतोऽपि चन्द्रमुखि वचनम् ।
वचनादपि सितं ते तत्कथमन्तर्भिनत्ति मम ॥ ३३ ॥
अधरदलोपरि निहितं मुक्काचूर्ण दरस्मितं तस्याः ।
आखाद्योच्छूनमिदं मनो मम स्नेहमभिलषति ॥ ३४ ॥
ससितमुखमवधीरितचेलाञ्चलमीषदानतग्रीवम् ।
तिर्यग्विलोकयन्त्या कोऽपि कृती लक्षितः क्रियते ॥ ३५ ॥

सुन्दराशतकम् ।
तरुणि तरलनयनान्तं वलितग्रीवं वधूतचेलान्तम् ।
भवनद्वारि विशन्त्यास्तव दृष्टं द्रष्टुमुत्कण्ठे ॥ ३६ ॥
पश्यत्यसंमुखं मां मयि पश्यति साथ संमुखीभवति ।
स्मरमेकतोऽवरोहैः श्रमयति कोटिद्वये मौर्वी ॥ ३७ ॥
तव सुन्दरि मधुरस्मितमेदुरमच्चक्षुरभिमुग्वं चक्षुः ।
शरदिन्दुकिरणतुन्दिलकुमुदोन्मुखमधुपमनुहरते ॥ ३८ ॥
सुन्दरि विवृत्य दृष्टः कष्टमपाङ्गेन भुजगेन ।
अधुरामृतेन जीवति सोऽयमुपायान्तरासाध्यः ॥ ३९ ॥
कुम्चन्मूढुकरशाखाकृष्टाञ्चलकोणतिर्यगुल्लसितः ।
लक्षीकरोति धन्यं सुन्दरि दीर्घः कटाक्षस्ते ॥ ४० ॥
निष्ठुरपञ्जरकोषे नवसंयमितस्य खञ्जनस्येव ।
गुरुजनसमक्षमक्षियापारो जयति मुग्धाक्ष्याः ॥ ४१ ॥
तव नयनपुण्डरीकात्प्रिये कटाक्षकमा विराजन्ते ।
विकसितविचकिलकुसुमात्कुसुमानीवावतीर्णानि ॥ ४२ ॥
किंचिदुदञ्चय चञ्चलमञ्चलमचिरेण लोचनांशुकयोः ।
सुन्दरि कर्णवतंसः कैरवमिन्दीवरं भवतु ॥ ४३ ॥
चक्षुरपाङ्गमपाङ्गः कर्ण कोऽपि दूतिकावचनम् ।
अवधत्ते मम तपसामुदारसारः क्रमः सोऽयम् ॥ ४४ ॥
कातरनयननिवेदितनिर्दयकंदर्पवेदनातिशयम् ।
दृष्टं निखातमन्तः प्रियया प्रस्थानवेलायाम् ॥ ४५ ॥
संसदि सखीजनानां गोष्ठी कर्तुं पुरः प्रवृत्तायाः ।
गोत्रस्खलनविलक्षं सुन्दरि मुखमीक्षणीयं ते ॥ ४६ ॥
अरविन्दद्युतिशोणं लोचनकोणं सरोजाक्ष्याः ।
प्रणमति मय्यथ सदयं हरिहरि(१) हृदयं न विस्मरति ॥ ४७ ॥
सागसि मयि मन्दपदं पश्चादेत्य स्थिते सरोजदृशम् ।
मुकुरं प्रदर्शयन्त्या तत्सख्या किमिव नोपकृतम् ॥ ४८ ॥

सस्मितमरुणकपोलं रचितभ्रूभङ्गमञ्चितत्रीडम् ।
संपृक्तभावरुचिरं वदनं तस्याः स्मरामि सखे ॥ ४९ ॥
ज्ञातासि गृहजनैरिति कथिते संभ्रान्ततारकं दूत्या ।
अरुणमपि मानवत्याः स्मरामि पाण्डूभवद्वदनम् ॥ ५० ॥
प्रेमासवोन्मदिष्णोः प्रणयतनीयांसि तानि वचनानि ।
करणीयानि न हृदये दयिते यदयं दयावसरः ॥ ११ ॥
तव विरहानलतप्तं स्नेहकटाहं मदन्तरात्मानम् ।
सुन्दरि चन्दनशाखे शीतलय स्पर्शमात्रेण ॥ १२ ॥
सहचर कुशलं तस्याः कुशलक्ती कथय किमपि संदिष्टम् ।
कं संदिशतु कृशाङ्गी न तंत्र मरुतोऽपि यद्गमनम् ॥ १३ ॥
अवधिदिवसप्रयाणाः प्रियतम तस्या मृगीदृशः प्राणाः ।
तिष्ठन्ति कतिपयाहं कृत्वा प्रस्थानमधिकण्ठम् ॥ १४ ॥
गच्छति वर्षाकाले जलधरपटली यथा यथा रिक्ता।
वर्षति लोचनयुगली तथा तथा पुण्डरीकदृशः ॥ ५५ ॥
नदति कलापिकलापे नवजलदच्छायशान्तसंतापे ।
संशयदोलारूढं जीवितमस्याः स्मरेण कृतम् ॥ १६ ॥
किं वा कृतैः प्रयत्नैरेतैस्तुहिनोपचारसमवेतैः ।
उष्णीभवति यदस्याः परितः शीतोऽपि संचरन्पवनः ॥ १७ ॥
अग्निश्चन्दनलेपो विषममृतं मरणमेव जीवातुः ।
सुन्दरि विरहिजनानां काचन लोकोत्तरा रीतिः.५८ ॥
विरहार्तिदलनमौषधमेकं चेष्टासु तासु तादात्म्यम् ।
सुन्दरि यस्मिञ्जाते ब्रह्मानन्दोऽपि नाकावयः ॥ १९ ॥
सुन्दरि रहस्यमालिषु कल्याणी स्फूर्तिरेव तव वेद ।
गोत्रस्खलनभयेन त्यक्ता यगौरवी संसद् ॥ ६०
सुन्दरि वसन्तपथिकान्रजनिभुजङ्गी यथा यथा दशति ।
तद्विषसंक्रान्तिवशात्तथा तथा क्षीयते दैर्ध्यात् ॥ ६१ ॥

सुन्दरोशतकम् । १०६ पुन्दरि समुदितशशिकरधौततमा नेयमष्टमी रात्रिः । विरहिजनमसितभुजगी विदृश्य परिवर्तितोत्ताना ॥ १२ ॥ पर्यङ्कपार्श्वलग्नां गलदश्रुप्लावितैकभुजमूलाम् । अञ्चलसंवृतवदनां तामन्तश्चिन्तयामि चिरम् ॥ ६३ ॥ अश्रुप्लुतमतिकातरमनिमिषमस्पन्दतारकं तस्याः । लोचनयुगलं स्मरतः स्मरतो मम केवलं भीतिः ॥ ६४ ॥ प्रत्येकमिन्द्रियाणामास्तां भिन्नैव देवतान्यस्य । परिणमति मम तु सैका सकलेन्द्रियदेवतात्वेन ॥ ६५ ॥ अयि पथिक रक्ष जीवं परिहर दूरेण केतकीकुसुमम् । इह वसति पुष्पधन्वा सरहरनयनान्निरातङ्कः ॥ ६६ ॥ तव रथ्या राजगृहं प्रेमधनं किं च परिजनो बन्धुः । सख्यो मूर्ताः प्राणाः सुन्दरि किमतो ममाकाट्यम् ॥ ६७ ॥ साहसभवनमदूतिकमवलोकनदानवर्धमानमिदम् । जयति क्वचिदपि धन्ये सुन्दरि सहनं तव प्रेम ॥ ६८ ॥ शितिकण्ठकण्ठकान्तिप्रतिमल्ले स्फुरति सर्वतस्तिमिरे । धन्याय वदति सुन्दरि तवागमं परिमलोत्कर्षः ॥ ६९ ॥ मन्त्रो मनसा द्वेषश्चन्द्रमसा हन्त परिचयस्तमसा । सुन्दरि तवाभिसारे परिपाटी काचिदन्यैव ॥ ७० ॥ आसारस्नपिते यत्प्रयासि पथि दुस्तरे पयोदजलैः । प्राक्तनमुपासतपः फलोन्मुखं कस्यचित्कृतिनः ॥ ७१ ॥ द्विगुणीकृतान्धतमसं वर्षति रुद्धानिलं पयोवाहे । आकस्मिकमागमनं कान्त्यानुमितं सखे तस्याः ॥ ७२ ॥ अतिमन्दवर्षदम्बुदशीकरशिशिराईसान्द्रवसनायाः। आकस्सिकागतायाः कण्ठग्रहणं फलं जनुषः ॥ ७३ ॥ सितवसनमौक्तिकावलिचन्दनचर्चासहायशालिन्याः । ज्योत्स्नाभिसारिणि तव च्छाया परिपन्थिनी भवति ॥ ७४ ॥ १४

काव्यमाला।
यावत्पतति न चरणं छाया दुरिवैरिणी शिरसि ।
ज्योत्स्नाभिसारवेषः सहचरि नेशः कृतार्थयितुम् ॥ ७५ ॥
वचनरचनैः कृतं तव कितवप्रणिपातमात्रसाध्यायाः।
अस्या मानकदल्याः फलावसानः परीपाकः ॥ ७६ ॥
भ्रूभङ्गभङ्गिभुग्नं तिर्यक्चललोचनं मुखं दधती ।
सुरतप्रार्थनवेलाकृतावहेला वधूर्जयति ॥ ७७ ॥
विश्लथयति किमपि नीवी कलकण्ठि रतस्य कूजितं यत्ते ।
शिक्षाविस्मृतिरेषा गुरोरभक्तिं निवेदयति ॥ ७८ ॥
मधुधौतमधुरमधुरं धृतधम्मिल्लं धके धयति ।
कवलयति किमपि कम्पितकान्ताकरकंकणक्वणितम् ॥ ७९ ॥
अर्चितचण्डीचरणप्रसादफलमन्यदुर्लभं तरुणः ।
सुन्दरि हसितकरम्बितमखण्डपुण्येन खण्डयत्यधरम् ॥ ८॥
स्मेरानने मुखं तव सुधानिधर्मण्डलेन तुलयन्तम् ।
एनं निजाधरसुधादानेन न कि विलक्षयसि ॥ ८१ ॥
निबिडीकृतोरुबन्धं वेल्लितवदनेन्दुनिगुतोच्छ्वासम् ।
तस्याः स्मरामि सुरतं तत्करभररुद्धमन्नामि ॥ ८२ ॥
सस्मिततिर्यग्वेल्लितमुखपर्यन्तप्रकीर्णकबरीकम् ।
अतिभाग्यवान्भवत्याः सुन्दरि पुरुषायितं लभते ॥ ८३ ॥
प्रतिपणितमेकवारं पातुं द्यूते जितं पिबन्नधरम् ।
आवृत्तिद्वयभीत्या नायं निश्चूषते धूर्तः ॥ ८४ ॥
आश्लेषोऽधरदानं चुम्बनमनिमेषवीक्षणं सुरतम् ।
इत्येकैकपणेन क्रीडति मिथुनं जितान्योन्यम् ॥ ८५ ॥
संस्पृष्टपद्मिनीको यथा यथार्कः करान्प्रसारयति ।
सुन्दरि मानवतीयं संकुचति तथा तथा छाया ॥ ८६ ॥
प्रातः पृच्छति निभृतं सखीजने रजनिकेलिवृत्तान्तम् ।
मन्दसितादजायत रहस्यभेदः सरोजाक्ष्याः ॥ ८७ ॥

सुन्दराशतकम् ।
१०७
दोरान्दोलनसुभगं नितम्बभरमन्थराभिविन्यासम् ।
तव गजगामिनि गमनं कुरुते यतिचित्तसंयमनम् ॥ ८८ ॥
चरणक्रममनुविलसद्भूयुगविन्यासमानतग्रीवम् ।
नृत्यन्नितम्बबिम्बं गतमस्याः कं न मोहयति ॥ ८९ ॥
चरणतलगलदलतकवलत्पदं वम चकितनयनायाः ।
अनुरागबन्धपद्धतिरियतीति परं निवेदयति ॥ ९ ॥
नतवदनमुन्नतभ्रूः पश्यन्ती वदनमूर्मिकामुकुरे ।
सुन्दरि मृदु मयन्ती कस्य न नयनं कृतार्थयसि ॥ ९१ ॥
अधरोत्तरासमथै मदनपुमर्थ सितेन परिपुष्यत् ।
कस्य न करोति कदनं वदनं दष्टाधरं तस्याः ॥ ९२ ॥
त्रिवलीतरङ्गतरलितनखाङ्कमीनं झषाङ्ककैवर्तः ।
तस्यां सुधासरस्यां वलयति रोमालिबडिशेन ॥ ९३ ॥
सुन्दरि तव रोमावलिमुखाग्रजाग्रन्नखाङ्कलेखेयम् ।
प्रत्यग्रविधृतभुजगी दंष्ट्राकोटिश्रियं वहति ॥ ९४ ॥
दरविकसदम्बुजास्या भाति रवेः संमुखस्थिता नलिनी ।
हिमकरकरोपनीतां कदर्थनां वक्तुकामेव ॥ ९५ ॥
सौधशिखराधिरूढा मन्दानिलकम्पमानवसनान्ता ।
कस्यापि धन्यजनुषः पुण्यपताका परिस्फुरति ॥ ९६ ॥
पुनरुक्तभूषणानां हृदयाभिन्ने निवेद्यमानानाम् ।
सुन्दरि तक चरितानां कथमपि कथया न तृप्यामि ॥ ९७ ॥
अङ्कगतस्तव कुमुदिनि मत्तो मधुपः प्रसुप्त इति मन्ये ।
संभावयति सरोजं यन्न विनिद्रं समागत्य ॥ ९८॥
अपकृतये तव पद्मिनि सहवासो भवति हन्त कुमुदिन्याः।
त्वयि निशि निशि स्वपत्यामनया यन्नीयते मधुपः ॥ ९९ ॥
त्वमधिकगुणासि मालति मल्लीलवलीलवङ्गलतिकाभ्यः ।
सकललतिकानुसारी यया निबद्धः षडभिरपि ॥ १० ॥

१०८ काव्यमाला। मधुकर तवैव धन्यं जनुरभितो वन्यमन्यदुत्सृजतः । यस्य प्रेमाबन्धो मालत्यां यत्र तस्याश्च ॥ १०१ ॥ किं कृतमनेन मरुता माधविकाकुसुमसौरभं वहता । आश्लिष्टभ्रमरीकोऽप्यौत्कण्ठ्यं मधुकरो नीतः ॥ १०२ ॥ स्थास्यति कुवलयकलिका कर्णे तव तावदेव कमलाक्षि । विकसति न यावदेषा चन्द्रकरस्पर्शदुर्ललिता ॥ १०३ ॥ आश्लिष्य जिघ्र पिब मधु मधुकर तोषोदयाय मालत्याः । निर्दय सुगन्धिवल्लीरेताश्चरणैः किमाक्षिपसि ॥ १०४ ॥ ईशस्याप्युपकुरुते क्वचित्कलावान्निसर्गकुटिलोमि- भूर्भवति चन्द्रलेखा सुन्दरि शंभोस्तृतीयदृशः ॥ १०५ ॥ केतकि तव यदि न कृतं परिशीलनमादरान्महेशेन । इयता न कापि हानिः सौरभ्याकृष्टमधुपायाः ॥ १०६ ॥ प्रकटितकपटाचारं रथ्यामुखरचितमन्दिरद्वारम् । युवतीहृदयस्तेनं युवानमेनं नमस्कुर्मः ॥ १०७ ॥ कति कति नात्र युवत्यो जडीभवन्ति स्खलन्ति वेपन्ते । इदमुदवसितोपान्तं तत्साध्व्यो दूरमुज्झन्ति ॥ १०८ ॥ अधिभवनमुच्चपीठे पामरवध्याहृते सुखासीनः । अभिलषितमुत्तमर्णः कटाक्षयंस्तामवाप्नोति ॥ १०९ ॥ कुसुमेषुशास्त्रचर्चा सरसहृदां भावनीयं यत् । तद्व्यरचि........सुन्दरमुत्प्रेक्षावल्लभेनेदम् ॥ ११० ॥ भारत्यैव क्रियते स्तोत्रैः संतुष्टया द्विजद्वारा । श्रीगोकुलस्य सुकवेरुत्प्रेक्षावल्लभेत्यभिधा ॥ १११ ॥ इति श्रीमदुत्प्रेक्षावल्लभकविरचितं सुन्दरीशतकं समाप्तम् ।

शिवस्तुतिः। १०९ श्रीमल्लिकुचिसरिसनुनारायणपण्डिताचार्यविरचिता शिवस्तुतिः। (सटीका ।) स्फुटं स्फटिकसप्रभं स्फुटितहाटकश्रीजटं शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् । तरावरकृत्तिमद्भुजगभूषणं भूतिम- त्कदा नु शितिकण्ठ ते वपुरवेक्षते वीक्षणम् ॥ १ ॥ भवस्यान्तः समासीनं भवतापनिवारकम् । संकर्षणं समानस्य व्याकरिष्ये शिवस्तुतिम् ॥ स्फुटमिति। हे शितिकण्ठ, मे वीक्षणं ते वपुः कदा न्ववेक्षत इत्यन्वयः । शितिः कण्ठे यस्यासौ शितिकण्ठः तस्य संबुद्धिर्हे शितिकण्ठ नीलकण्ठ। 'शिती धवलमेचकौं' इत्यमरः। मे मम वीक्षतेऽनेनेति कर्तृ ते तव वपुः शरीरं कर्म कदा नु कस्मिन्वा समये स्फुटं यथा भवति तथा । क्रियाविशेषणमेतत् । अवेक्षतेऽवेक्षिष्यते । करणे त्यो(कर्तृत्वो)पचारः । कीदृशं वपुः । स्फटिकसप्रमं तत् । पुनः । स्फुटितहाटकश्रीजटं स्फुटितं (तत्) संतप्तं तत् हाटकं च सुवर्ण तस्य श्रीरिव श्रीर्यासां ता एवंविधा जटा यस्य तत् । पुनः । श- शाङ्कदलशेखरं शशाङ्कस्य दलं शशाङ्कदलं खण्डं शेखरे यस्य शिरोभूषण यस्य तत् । पुनः । कपिलफुलनेत्रत्रयं कपिलं पिगलं विकसित नेत्रत्रय यस्य तत् । पुनः। तरक्षु- वरकृत्तिमत् । तरक्षोर्व्याघ्रस्य वरा श्रेष्ठा या कृत्तिश्चर्म तद्यस्यास्तीति । तद्यथा-'व्या. घ्रचर्मपरिधानम्' इति रुद्राध्याये । पुनः । भुजगभूषणं भुजगाः सर्पाः ते भूषणमलंकारो यस्यास्तीति । पुनः । भूतिमत् । 'भूतिभस्मनि संपदि' इत्यभिधानम् ॥ त्रिलोचन विलोचने लसति ते ललामायिते सरो नियमघस्सरो नियमिनामभूद्भस्मसात् । खभक्तिलतया वशीकृतवती सतीयं सती खभक्तवशतो भवानपि वशी प्रसीद प्रभो ॥ २ ॥ त्रिलोचनेति । त्रीणि लोचनानि यस्यासौ त्रिलोचनः तस्य संबोधन हे त्रिलोचन । ते तव विलोचने ललामायिते रत्नवदाचरिते विशिष्टे तृतीयनेत्रे लसति भासमाने सति स्मरः कामः भस्मसात्कृतः भस्म संपद्यत इति भस्मसात् अभूत् । किंलक्षणः । नियमिना निय- मवतां नियमस्य घस्मरो नाशकः । इयं सती साध्वी सती उमा स्वभक्तिरेव लतानया त्वां वशीकृतवती वशीचकार । भवान् वशी स्वतन्त्रः तथापि स्वभक्तवशतः स्वकीया भक्तास्तेषां वशतोऽधीनत्वतः त्व मह्य प्रसीद प्रसन्नो भव ॥

११०
काव्यमाला।
महेश महितोऽसि तत्पुरुष पूरुषाय्यो भवा-
नघोर रिपुघोर तेऽनवम वामदेवाञ्जलिः ।
नमः सपदिजात ते त्वमिति पञ्चरूपोऽञ्चितः
प्रपञ्चय च पञ्चवृन्मम मनस्तमस्ताडय ॥३॥
महेशेति । हे महेश, महितोऽसि पूजितोऽसि । इन्द्रादिभिरिति शेषः। हे तत्पुरुष, तस्य
परमात्मनः पुरुषो दासः तस्य संबुद्धिः । हे वामदेव, वामः सुन्दरो देवो यस्यासौ वामदेव ।
भवान् पुरुषेषु अत्र्यः श्रेष्ठः । हे अघोर भक्तानामभयंकर । हे अनवम न अवमस्तस्य सं-
बुद्धिः । हे वामदेव तथोक्तसंबुद्धिः । अनवमश्चासौ वामदेवश्चानवमवामदेव इत्येकं पदं वा ।
'वामः सव्ये प्रतीते दक्षिणे वाथ सुन्दरे' इत्यभिधानम् । ते तुभ्यमञ्जलिरस्तु । हे सपदिरात
सद्योजात, ते तुभ्यं नमः । इत्यनेन प्रकारेणाञ्चितः पञ्चरूपस्त्वं पञ्चवृत् 'मनो बुद्धिरहंकार-
श्चित्तं चैतनम्' इति पश्चप्रकारमित्यर्थः । एवं मनोऽन्तःकरणं प्रपञ्चय विस्तारय । पञ्च-
वृत् पञ्चप्रकारम् । तमोमोहमहामोहतामिस्त्रमिति पञ्चधा भिन्न तमोऽविद्यां ताडय नाशय ।
अत्र श्रुति:-'ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम्' इति, 'तत्पुरुषाय विद्महे' इति,
'अघोरेभ्योऽथ घोरेभ्यः' इति, 'वामदेवाय नमः' इति, सद्योजातं प्रपद्यामि' इति ॥
रसाधनरसानलानिलवियद्विवस्वद्विधु-
प्रयष्टषु निविष्टमित्यज भजामि मूर्त्यष्टकम् ।
प्रशान्तमुत भीषणं भुवनमोहनं चेत्यहो
वपूंषि गुणपुंषि तेऽहमहमात्मनोऽहमिदे ॥ ४ ॥
रसाधनेति । हे अज हे महारुद्र । 'अजा विष्णुहरच्छागाः' इत्यभिधानम् । रसा पृथिवी,
घनरसं जलम्, अनलोऽग्निः, अनिलो वायुः, वियदाकाशम्, विवस्वान् सूर्यः, विधुश्चन्द्रः,
प्रयष्टा सोमयाजी, तेषु निविष्टं मूर्त्यष्टकमहं भजामि । प्रशान्तं मनोहरमुत अन्यत् भीषण-
भयंकरं भुवनमोहन भुवनशब्देन तन्निष्ठो जनो लभ्यते । जनव्यामोहमहंकारमित्यर्थः
गुणपुंषि ज्ञानभक्तिवैराग्यादिगुणपूर्णादीनि वपूंषि रूपाणि चाह भजामि । कथंभूतस्य तव ।
अहमात्मनः अहमित्यव्ययमहंकारवाचकम् । अहकारस्यात्मा अभिमान्यहमात्मनः ।
कस्मै प्रयोजनाय अहंभिदे देहादावहंममत्वलक्षणाभिमाननिवृत्तये ॥
विमुक्तिपरमाध्वनां तव षडध्वनामास्पदं
पदं निगमवेदिनो जगति वामदेवादयः ।
कथंचिदुपशिक्षिता भगवतैव संविद्रते
वयं तु विरलान्तराः कथमुमेश तन्मन्महे ॥ ५ ॥

शिवस्तुतिः । विमुक्तिपरमेति । प्रसिद्धा निगमवेदिनो वामदेवादय ऋषयः भगवतैव ज्ञानमुक्तिवैरा- ग्यादिगुणवतैव त्वया उपशिक्षिताः सन्तो विमुक्तिपरमाध्वनां विमुक्तौ परमा असक्ता एते- घामध्वनामागमभूतानां घडध्वनां षड्दर्शनानामास्पदं विषयत्वेनाश्रयीभूतं तव पद पद्यत इति पदं ज्ञेयं परं ब्रह्मतत्त्वरूपं वा कथंचिन्महतायासेन यथाकथंचित् केनचित्प्रकारेण न तु सामस्त्येन संविद्रते जानन्ति । 'समो गम्वृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः' इति विदे- रात्मनेपदम् । 'वेत्तेर्विभाषा' इति रुट् । यद्वा सविद्रते संविदि ज्ञाने रतिर्यस्य स संविदति- स्तस्य संबुद्धिः तदा जानन्तीति शेषः । हे उमेश विरलान्तराः विरलमल्पविषयमन्तरं मनो येषां ते विरलान्तरा वयं तु विशेषेण तत् परं ब्रह्म तव स्वरूपं कथं मन्महे जानी- महे । यदा विज्ञा वामदेवादयो भवदुपदिष्टाः सन्तस्तदुपास्यं परं ब्रह्म त्वत्स्वरूपं वा का- स्न्येन ज्ञातुमशक्तास्तदाल्पज्ञा वयं कथं विशेषेण सामस्त्येन जानीमहे इति भावः ॥ कठोरितकुठारया ललितशूलया बाहया रणड्डुमरया स्फुरद्धरणया सखट्वाङ्गया । चलामिरचंलाभिरप्यगणिताभिरुन्नृत्यत- चतुर्दश जगन्ति ते जय जयेत्ययुर्विस्मयम् ॥ ६ ॥ कठोरेति । हे महेश, कठोरितकुठारया कठोरितः कुठारो यस्यां सा तया । ललितं शूलं यस्यां सा तया । रणड्डमरो यस्यां सा तया । स्फुरद्धरणया । एवंविधया बाया । जातावेकवचनम् । बाहाभिर्बाहुभिश्चट भिश्चञ्चलाभिरचलाभिः स्थिराभिरगणिताभिर. संख्याभिः । अतिनर्तनवृत्तिभिरिति विशेष्यपदाध्याहारो बोद्धव्यः । उन्नृत्यत उच्चैर्नर्तनं कु- र्वतस्ते तव चतुर्दशजगन्ति चतुर्दशभुवनानि तन्निष्ठा जना वा युवत् (!) जय जयेति न- दन्तो विस्मयमयुः प्रापुः॥ पु(प)रत्रिपुररन्धनं विविधदैत्यविध्वंसनं पराक्रमपरम्परा अपि परा न ते विस्मयः । अमर्षबलहर्षित क्षुभितवृत्तनेत्रोज्ज्वल- ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् ॥ ७ ॥ पुरेति । हे महारुद्र, पु(प)राणामन्याभेद्यत्वेनोत्कृष्टानां त्रयाणां पुराणां रन्धनं भस्मी- करणम् । विविघदैत्यविध्वंसनम् । इत्याद्याः परा अपि पराक्रमाणां परम्परा अपि ते वि- स्मयो न आश्चर्यों न । हे अमर्षबलहर्षित, अमर्षबलाभ्यां कोपसामर्थ्याभ्यां हर्षितो हर्षे प्राप्तः। लोकानां भुवनानां त्रयं तव क्षुभितवृत्तनेत्रोज्ज्वलज्वलज्ज्वलनहेलया क्षुभितं क्षोभ- युक्तं वृत्तं वर्तुलं यन्नेत्रं तत्सामर्थ्यादुज्ज्वलः प्रकाशमानो ज्वलन् दहन् ज्वलनोऽग्निस्तस्य हेलया ज्वालाविलासेन 'हेला विलासे-' इत्यभिधानम् । शलभितं हि शलभवत् संजातं हि । यथा शलभोऽसौ प्रविष्टो भस्मीभवति, तावद्भस्मीभूतमित्यर्थः ॥

११२ काव्यमाला। . सहस्रनयनो गुहः सहसहस्ररश्मिर्विधु- बृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः । भवत्पदपरायणाः श्रियमिमां ययुः प्रार्थिनां भवान्सुरतरुदृशं शिव(दिश) शिवां शिवावल्लभ ॥ ८ ॥ सहस्रति । हे रुद्र, सहस्रनयन इन्द्रः, गुहः स्कन्दः, सहस्र रश्मयो यस्यासौ सह- स्ररश्मिः सूर्यः, तेन सहवर्तमान एवं भूतो] विधुश्चन्द्रः, बृहस्पतिः। उतशब्दोऽप्यर्थः । अप्पतिरपां पतिर्वरुणः, शक्राद्या इति शेषः(१) । ससुरसिद्धविद्याधराः सर्वे तत्तद्योगजना भवत्पदं भवदुपास्यं ब्रह्म परमयनमाश्रयो येषां ते भवत्पदपरायणाः सन्त इमा तद्योग्यां श्रियं संपदं ययुः प्रापुः । यतो भवान्प्रार्थिनां सुरतरुः कल्पवृक्षः । सुचिन्तितमनोरथ- प्रदः । हे शिवावल्लभ उमाकान्त, त्वं मह्यं शिवा मङ्गलां दृशं दृष्टिं दिश देहि । तव प्रियतमादतिप्रियतमं सदैवान्तर पयस्युपहितं घृतं वयमिव श्रियोवल्लभम् । विभिद्य लघुबुद्धयः खपरपक्षलक्ष्यायितं पठन्ति हि लुठन्ति ते शठहृदः शुचा शुण्ठिताः ॥ ९॥ तवेति । लघुबुद्धयः क्षिप्रबुद्धयः । सूक्ष्मार्थदर्शिन इति यावत् । 'लघु क्षिप्रमरं द्रुतम्' इत्यमरः । एवंविधाः पण्डिताः तव प्रियतमावस्तुतोऽतिप्रियतम निरुपाधिविषयम् एका- न्तभक्तत्वात् । तदुक्तम्-'एकान्तानां न कस्यचिदर्थे नारायणो देवः सर्वमन्यत्तदर्थ- कम्' इति । सदैव स्वपरपक्षयोः पूर्वपक्षसिद्धान्तयोः लक्ष्यवत् आचरितमान्तरमन्तरे व- र्तमानं कथमिव पयस्युपहितं स्वयं स्वेच्छया रतं घृतमिव श्रियो वल्लभं लक्ष्मीकान्तं वि- भिद्य वेद्य । तन्मीमांसा यथा क्षीरे तत्स्थितं घृतं क्षीरादिविवेक्षण(केन) जानन्ति तथा त्वदन्तर्गत ब्रह्म ज्ञात्वा पठन्ति । शिष्येभ्य उपदिशन्तीति भावः । शठहृदः परव- ञ्चनचित्ताः ये के ब्रह्मवादिनस्ते शुचा शोकेन शुण्ठिताः स्तम्भिताः सन्तोष नित्य निरये पतन्तीत्यर्थः । उक्तं च श्रीमद्भागवते-‘एवं तत्समुपासीना_न मुंखे. शुचार्पिताः' इति । तथा जीवात्मभेदज्ञानमेव मोक्षसाधनं नाद्वैतज्ञानमिति भावः ॥ निवासनिलयश्चिता तव शिरस्ततिालिका कपालमपि ते करे त्वमशिवोऽस्यनन्तर्धियाम् । तथापि भवतः पदं शिव शिवेत्यदो जल्पता- मकिंचन न किंचनावृजिनमस्ति भस्मीभवेत् ॥ १० ॥ निवासेति । हे महेश चिता श्मशानभूमिः तव निवासनिलयो निवासस्याश्रयः, शिर- स्ततिः शिरःपरम्परा तव मालिका, ते करे कपालमपि विद्यते, त्वमनन्तर्धिया बहिर्द- शिवस्तुतिः । ११३ टीनां पामराणामशिवोऽमङ्गलोऽसि । यद्यप्येवम्, तथापि हे अकिंचन अविद्यमानकिचन, किमप्यासमन्ताद्वर्तमानं पापं नास्ति । कि तु सर्व भस्मीभवेदिन्यर्थः ॥ त्वमेव किल कामधक्सकलकाममापूरय- न्सदा त्रिनयनो भवान्वहसि चात्रिनेत्रोद्भवम् । विषं विषधरान्दधत्पिबसि तेन चानन्दवा- विरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥ ११ ॥ त्वमेवेति । हे विरुद्धचरित, त्वमेव कामं कन्दर्प दहतीति कामधा किल सकलानां योग्यानां काममभिलाषमापूरयन्वतसे । अत्र शव्दमात्रसामान्येन विरोधभावः । अर्थ- भेदाद्विरोधपरिहारः । सदा त्रिनयनत्रिनेत्रः, अत्रिनेत्रोद्भव चन्द्रं वहसि च । विषधरान् दधत् सन् विषं पिबसि तेन विषपानेनानन्दवांश्च भवसि । हे जगदधीश, ते भिक्षुता न्याय्या । अत्र विरोधाभासोऽलंकारः ॥ नमः शिवशिवाशिवाशिवशिवार्ध कृन्ताशिवं नमो हर हराहराहरहरान्तरी मे दृशम् । नमो भव भवाभवप्रभव भूतये ते भवन् नमो मृड नमो नमो नम उमेश तुभ्यं नमः ॥ १२ ॥ नमः शिवेति । हे शिव शिव, शिवानां योग्यजीवानां शिवं करोतीति (शिवं भव- तीति) शिवः अस्य संबुद्धिः शिव । 'तत्करोति तदाचष्टे' इति णिजन्ताच्छिवयतेः सु- ब्धातोः 'अप्रत्ययात्' इति अप्रत्ययः (१) । हे अशिवाशिव, अशिवानामयोग्यजीवानाम- शुभोऽशुभकरस्तत्संबुद्धिः । नमस्तुभ्यमिति शेषः । हे शिवार्ध, शिवा अर्धे यस्यासौ त- थोक्तः तत्संबुद्धिः त्व मम अशिवममङ्गलं कुन्त नाशय । हे हर हर । आदराष्ट्विरुक्तिः। यं नमः । अहरहः निरन्तरं वीप्सायामव्ययीभावः (१) । अन्तरोऽन्तरे सर्व यस्य रं- २) इत्यन्तरो विष्णुस्तत्संबन्धिनी दृशं ज्ञानं मह्यमाहर देहि । हे अभव, तुभ्यं नमः । हे अभवप्रभव । अभवस्य प्रभव उत्पादको यस्य सोऽभवप्रभवस्तत्संबुद्धिः तुभ्यं नमः । हे भवन् , मद्भूतये भवेति । हे मृड, तुभ्यं नमो नमः । अत्रादरनैरन्ताभ्यां नमो नमः कर्तव्यमिति पुनः पुनरुक्तिः ॥ सतां श्रवणपद्धति सरतु संनतोक्तेत्यसौ शिवस्य करुणाङ्कुरात्प्रतिकृतात्सदा सोदिता । १. अस्य 'स्त्रियाम्' इत्यघिकारे विधानाचिन्त्यमिदम्, तस्मात्पचादेराकृतिगणत्वादच्- प्रत्ययो बोध्यः. .

काव्यमाला। इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवां लिकुचिमूरिसूनुः सुधीः ॥ १३ ॥ सतामिति । मानौ शिवस्तुतिः सतां साधूनां श्रवणपद्धति कर्णमार्ग सरतु गच्छतु । किंभूता । संनतोक्ता सनता (तेन) नम्रेणोक्ता । पुनः । प्रतिकृतात् शिवस्य करुणाकुरा- त्सदोदिता । उक्ता । नारायणो नाम लिकचिसूरिमनुरिमा शिवां शिवस्तुति व्यधित कृ- तवान् । किभूतः । प्रथित ख्यातं मानस यस्य सः ॥ इति श्रीलिकुचिसूरिसृनुनारायणपण्डिताचार्यविरचिता सव्याख्या शिवस्तुतिः समाप्ता । श्रीमच्छंकराचार्यभगवत्पादविरचितं त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । मम न भजनशक्तिः पादयोस्ते न भक्ति- नं च विषयविरक्तिर्ध्यानयोगे न सक्तिः। इति मनसि सदाहं चिन्तयन्नाद्यशक्ते रुचिरवचनपुप्पैरर्चनं संचिनोमि ॥ १ व्याप्तं हाटकविग्रहर्जलचरैरारूढदेवत्रजैः पोतैराकुलितान्तरं मणिधेरैर्भूमीधरैर्भूषितम् । आरक्तामृतसिन्धुमुद्धरचलद्वीचीचयव्याकुल- व्योमानं परिचिन्त्य संततमहो चेतः कृतार्थीमलव ॥ २॥ तस्मिन्नुज्ज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः । उच्चैः शृङ्गनिषण्णदिव्यवनितावृन्दाननप्रोल्लस- द्गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्वहे ॥ ३ ॥ जातीचम्पकपाटलादिसुमनःसौरभ्यसंभावितं हींकारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम् । आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं चञ्चच्चञ्चलचञ्चरीकचटुलं चेतश्चिरं चिन्तय ॥ ४ ॥ १. 'शक्तिः' का 'भक्तिः' ग, २. 'कुल' क.

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । ११५ परिपतितपरागः पाटलक्षाणिभागा विकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः । अलिशुकपिकराजीकूजितैः श्रोत्रहारी स्फुरतु हृदि मदीये नूनमुद्यानराजः ॥ ५ ॥ रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभ- स्फूर्जत्तोरणभारहारकमहाविस्तारहारयुते । क्षोणीमण्डलहेमहारविलसत्संसारपारप्रद- प्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः॥ ६॥ उद्यत्कान्तिकलापकल्पितनभः स्फूर्जद्वितानप्रभः सत्कृष्णागुरुधूपवासितवियत्काष्ठान्तरे विश्रुतः । सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् ॥७॥ क्वापि प्रोद्भटपद्मरागकिरणबातेन संध्यायितं कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् । मध्यालम्बिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि- न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ।। ८ ॥ उत्तुङ्गालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला- न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया । नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्माते- वल्गावल्गितहस्तमस्तशिखरं कष्टैरितः प्राप्यते ॥ ९ ॥ मणिसदनसमुद्यत्कान्तिधारानुरक्ते वियति चरमसंध्याशङ्किनो भानुरथ्याः । शिथिलितगतकुप्यत्सूतहुंकारनादैः कथमपि मणिगेहादुच्चकैरुच्चलन्ति ॥ १० ॥ १. 'सुर' क-ग. २. 'धारक' क. ३. 'मण्डपं क. ४. 'मण्डलीमालो' क.

१ काव्यमाला। भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिना किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् । आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते शंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः ॥ ११ ॥ विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै- निर्वद्धहस्तसंपुटैः प्रयत्नसंयतेन्द्रियैः । विरञ्चिविष्णुशंकरादिभिर्मुदा तवाम्बिके प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः ॥ १२ ॥ ध्वनन्मृदङ्गकाहलः प्रगीतकिंनरीगणः प्रनृत्तदिव्यकन्यकः प्रवृत्तमङ्गलक्रमः । प्रकृष्ट सेवकव्रजः प्रहृष्टभक्तमण्डलो मुदे ममास्तु संततं त्वदीयरत्नमण्डपः ॥ १३ ॥ प्रवेशनिर्गमाकुलैः स्वकृत्यरत्नमानसै- बहिःस्थितामरावलीविधीयमानभक्तिभिः । विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैः सदा करोतु मङ्गलं ममेह रत्नमण्डपः ॥ १४ ॥ सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि- गृहीतहेमयष्टिभिनिरुद्धसर्वदैवतैः । असंख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितो मदीयमेतु मानसं त्वदीयतुङ्गतोरणः ॥ १३ ॥ इन्द्रादीश्च दिगीश्वरान्सहपरीवारानथो सायुधा- न्योषिद्रूपधरान्वदिक्षु निहितान्संचिन्त्य हृत्पङ्कजे । शङ्ख श्रीवसुधारया वसुमतीयुक्तं च पसर- कामं नौमि रतिप्रियं सहचरप्रीत्या वसन्तं भजे ॥१६॥ १. 'इन्द्रादीन्दिगधीश्वरा' क. २ नियता' क. ३. 'रक्तं' क.

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । ११७ गायन्तीः कलवीणयातिमधुरं हुंकारमातन्वती- राभ्यासकृतस्थितीरिह सरस्वत्यादिकाः पूजयन् । द्वारे नौमि मदोन्मदं सुरगणाधीशं मदेनोन्मदां मातङ्गीमसिताम्बरां परिलसन्मुक्ताविभूषां भजे ॥ १७ ॥ कस्तूरिकाश्यामलकोमलाङ्गी कादम्बरीपानमदालसाङ्गीम् । वामस्तनालिङ्गितरत्नवीणां मातङ्गकन्यां मनसा स्मरामि ॥ १८ ॥ विकीर्णचिकुरोत्करे विगलिताम्बराडम्बरे मदाकुलितलोचने विमलभूषणोद्भासिनि । तिरस्करिणि तावकं चरणपङ्कजं चिन्तय- करोमि पशुमण्डलीमैलिकमोहदुग्धाशयाम् ॥ १९ ॥ प्रमत्तवारुणीरसैर्विघूर्णमानलोचनाः प्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः । उपोढकजलच्छविच्छटाविराजिविग्रहाः कपालशूलधारिणीः स्तुवे त्वदीयदूतिकाः ॥ २० ॥ स्फूर्जन्नव्ययवाङ्कुरोपलसिताभोगैः पुरः स्थापितै- दीपोद्भासिशरावशोभितमुखैः कुम्भैनवैः शोभिना । स्वर्णाबद्धविचित्ररत्नपटलीचञ्चत्कपाटश्रिया युक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणीमन्दिरम् ॥ २१ ॥ आस्तीर्णारुणकम्बलासनयुतं पुष्पोपहारौन्वितं दीप्तानेकमणिप्रदीपसुभगं राजद्वितानोत्तमम् । धूपोद्गारिसुगन्धिसंभ्रममिलद्धृङ्गावलीगुञ्जितं कल्याणं वितनोतु मेऽनवरतं श्रीमण्डपाभ्यन्तरम् ॥ २२ ॥ कनकरचिते पञ्चप्रेतासनेन विराजिते मणिगणचिते रक्तश्वेताम्बरास्तरणोत्तमे । कुसुमसुरभौ तल्पे दिव्योपधानसुखावहे हृदयकमले प्रादुर्भूतां भजे परदेवताम् ॥ २३ ॥ १. 'मधिकमोहमुग्धाशयाम्' क. २. 'द्वीपोद्भा' क. ३. 'राञ्चितम् क.

काव्यमाला । सर्वाङ्गस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां जृम्भामञ्जमुखाम्बुजां मधुमदव्याघूर्णदक्षित्रयाम् । सेवायातसमस्तसंनिधिसखीः संमानयन्ती दृशा संपश्यन्परदेवतां परमहो मन्ये कृतार्थ जनुः ॥ २४ ॥ उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृम्भिते भक्तैर्भूमिविलग्नमौलिभिरलं दण्डप्रणामे कृते । नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम् ॥२५॥ पाचं ते परिकल्पयामि पदयोरयं तथा हस्तयोः सौधीभिर्मधुपर्कमम्ब मधुरं धाराभिरास्वादय । तोयेनाचमनं विधेहि शुचिना गाङ्गेन मत्कल्पितं साष्टाङ्गं प्रणिपातमीशदयिते दृष्टया कृतार्थीकुरु ॥ २६ ॥ मातः पश्य मुखाम्बुजं सुविमले दत्ते मया दर्पणे देवि स्वीकुरु दन्तधावनमिदं गङ्गाजलेनान्वितम् । सुप्रक्षालितमाननं विरचयन्निग्धाम्बरप्रोञ्छनं द्रागङ्गीकुरु तत्त्वमम्ब मधुरं ताम्बूलमाखादय ॥ २७ ॥ निधेहि मणिपादुकोपरि पदाम्बुजं मज्जना- लयं ब्रज शनैः सखीकृतकराम्वुजालम्बनम् । महेशि करुणानिधे तव गन्तपातोत्सुका- विलोकय मनागमूनुभयसंस्थितान्दैवताम् ॥ २८ ॥ हेमरत्नवरणेन वेष्टितं विस्तृतारुणवितानशोभितम् । सज्जसर्वपरिचारिकाजनं पश्य मज्जनगृहं मनो मम ॥ २९ ॥ कनककलशजालस्फाटिकस्नानपीठा- धुपकरणविशालं गन्धमत्तालिमालम् । स्फुरदरुणवितानं मञ्जुगन्धर्वगानं परमशिवमहेले मजनागारमेहि ॥ ३० ॥ १. 'समभ्युच्छ्रितां' क.

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । पीनोत्तुङ्गपयोधराः परिलसत्संपूर्णचन्द्रानना रत्नस्वर्णविनिर्मिताः परिलसत्सूक्ष्माम्बरप्रावृताः । हेमस्नानघटीस्तथा मृदुपटीरुद्वर्तनं कौसुमं तैलं कङ्कतिकां करेषु धतीर्वन्देऽम्ब ते दासिकाः ॥ ३१ ॥ तत्र स्फाटिकपीठमेत्य शनकैरुत्तारितालंकृति- नींचैरुज्झितकञ्चकोपरिहितारक्तोत्तरीयाम्बरा । वेणीवन्धमपास्य कङ्कतिकया केशप्रसादं मना- कुर्वाणा परदेवता भगवती चित्ते मम द्योतताम् ॥ ३२ ॥ अभ्यङ्गं गिरिजे गृहाण मृदुना तैलेन संपादित काश्मीरैरगरुद्रवैर्मलयजैरुद्वर्तनं कारय । गीते किंनरकामिनीभिरभितो वाद्ये मुदा वादिते नृत्यन्तीमिह पश्य देवि पुरतो दिव्याङ्गनामण्डलीम् ॥ ३३ ॥ कृतपरिकरबन्धास्तुङ्गपीनस्तनाढ्या मणिनिवहनिबद्धा हेमकुम्भीर्दधानाः । सुरभिसलिलनिर्यगन्धलुब्धालिमालाः सविनयमुपतस्थुः सर्वतः स्नानदास्यः ॥ ३४ ॥ उद्गन्धैरगुरुद्रवैः सुरभिणा कस्तूरिकावारिणा स्फूर्जत्सौरभयक्षकर्दमजलैः काश्मीरनीरैरपि । पुष्पाम्भोभिरशेषतीर्थसलिलैः कर्पूरपाथोभरैः स्नानं ते परिकल्पयामि गिरिजे भक्त्या तदङ्गीकुरु ॥ ३५ ॥ प्रत्यङ्गं परिमार्जयामि शुचिना वस्त्रेण संप्रोञ्छनं कुर्वे केशकलापमायततरं धूपोत्तमै—पितम् । आलीवृन्दविनिर्मितां जवनिकामास्थाप्य रत्नप्रभं भक्तत्राणपरे महेशगृहिणि स्नानाम्बरं मुच्यताम् ॥ ३६ ॥ पीतं ते परिकल्पयामि निबिडं चण्डातकं चण्डिके सूक्ष्मं स्निग्धमुरीकुरुष्व वसनं सिन्दूरपूरप्रभम् । १. 'हृता क. २. 'स्थाय रम्यप्रभा क.३. 'चन्द्रानकं' क.

१२० काव्यमाला। मुक्तारत्नविचित्रहेमरचनाचारुप्रभाभास्वरं नीलं कञ्चकमर्पयामि गिरिशप्राणप्रिये सुन्दरि ॥ ३७ ॥ विलुलितचिकुरेण च्छादितांसप्रदेशे मणिनिकरविराजत्पादुकान्यस्तपादे । सुललितमवलम्व्य द्राक्सग्वीमंसदेशे गिरिशगृहिणि भूषामण्डपाय प्रमाहि ॥ ३८ ॥ लसत्कनककुट्टिमस्फुरदमन्दमुक्तावली- समुल्लसितकान्तिभिः कलितशकचापबजे। महाभरणमण्डपे निहितहेमसिंहासनं सखीजनसमावृतं समधितिष्ठ कात्यायनि ।। ३९ ॥ स्निग्धं कङ्कतिकामुखेन शनकैः संशोध्य केशोत्कर सीमन्तं विरचय्य चारु विमलं सिन्दूररेखान्वितम् । मुक्ताभिग्रंथितालकां मणिचितैः सौवर्णसूत्रैः स्फुटं प्रान्ते मौक्तिकगुच्छकोपलतिका प्रश्नामि वेणीमिमाम् ॥ ४० ॥ विलम्बिवेणीभुजगोत्तमाङ्गस्फुरन्मणिभ्रान्तिमुपानयन्तम् । खरोचिषोल्लासितकेशपाशं महेशि चूडामणिमर्पयामि ॥ ४१ ॥ त्वामाश्रयद्भिः कबरीतमिस्त्रैर्बन्दीकृतं द्रागिव भानुबिम्बम् । मृडानि चूडामणिमादधानं वन्दामहे तावकमुत्तमाङ्गम् ॥ ४२ ॥ स्वमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलं विलम्बिमौक्तिकच्छटाविराजितं समन्ततः। निबद्धलक्षचक्षुषा भवेन भूरि भावितं समर्पयामि भास्वरं भवानि भालभूषणम् ॥ ४३ ॥ मीनाम्भोरुहखञ्जरीटसुषमाविस्तारविस्मारके कुर्वाणे किल कामवैरिमनसः कंदर्पबाणप्रभाम् । माध्वीपानमदारुणेऽतिचपले दीर्घ गम्भोरुहे देवि स्वर्णशलाकयोजितमिदं दिव्याञ्जनं दीयताम् ॥४४॥ १. 'विलसत्सिन्द' क. २. 'स्वनद्धमध्य हाटक' क, त्रिपुरसुन्दरीमानमिकोपचारपूजास्तोत्रम् । १२१ मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां दैवाद्भार्गवजीवमध्यगरवेर्लक्ष्मीमधः कुर्वतीम् । उत्सित्ताधरबिम्बकान्तिविसरैभौमीभवन्मौक्तिका मद्दत्तामुररीकुरुप्व गिरिजे नासाविभूषामिमाम् ॥ ४५ ॥ उडुकृतपरिवेषस्पर्धया शीतभानो- रिव विरचितदेहद्वन्द्वमादित्यबिम्बम् । अरुणमणिसमुद्यत्प्रान्तविभ्राजिमुक्तं श्रवसि परिनिधेहि स्वर्णताटङ्कयुग्मम् ॥ ४६ ॥ सकतवरपद्मरागहीरोत्थितगुलिकात्रितयावनद्धमध्यम् । विततविमलमौक्तिकं च कण्ठाभरणमिदं गिरिजे समर्पयामि ॥ ४७ ॥ नानादेशसमुत्थितैर्मणिगणप्रोद्यत्प्रभामण्डल- व्याप्तैराभरणैर्विराजितगलां मुक्ताछटालंकृताम् । मध्यस्थारुणरत्नकान्तिरुचिरां प्रान्तस्थमुक्ताफल- वातामम्ब चतुष्किकां परशिवे वक्षःस्थले स्थापय ॥ ४८ ॥ अन्योन्यं प्लावयन्ती सततपरिचलत्कान्तिकल्लोलजालैः कुर्वाणा मज्जदन्तःकरणविमलतां शोभितेव त्रिवेणी । मुक्ताभिः पद्मरागैर्मरकतमणिभिनिर्मिता दीप्यमानै- नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां नः ॥ १९॥ करसरसिजनाले विस्फुरत्कान्तिजाले दिलसदमलशोभे चञ्चदीशाक्षिलोभे । विविधमणिमयूखोद्भासितं देवि दुर्गे कनककटकयुग्मं बाहुयुग्मे निधेहि ॥ ५० ॥ व्यालम्बमानसितपट्टकगुच्छशोभि स्फूर्जन्मणीघटितहारविरोचमानम् । मातर्महेशमहिले तव बाहुमूले केयूरकद्वयमिदं विनिवेशयामि ॥ ११ ॥ १६

१२२
काव्यमाला।
विततनिजमयूखैनिर्मितामिन्द्रनीलै-
विजितकमलनालालीनमत्तालिमालाम् ।
मणिगणग्वचिताभ्यां कङ्कणाभ्यामुपेतां
कलय वलयराजी हस्तमूले महेशि ॥ ५५ ॥
नीलपट्टमृदुगुच्छशोभिताबद्धनैकमणिजालमञ्जुलाम् ।
अर्पयामि वलयात्पुरःसरे विस्फुरत्कनकतैतृपालिकाम् ॥ १३ ॥
आलवालमिव पुप्पधन्वना बालविद्रुमलतासु निर्मितम् ।
अङ्गुलीषु विनिधीयतां शनैरङ्गुलीयकमिदं मदर्पितम् ॥ १४ ॥
विजितहरमनोभूमत्तमातङ्गकुम्भ-
स्थलविलुलितकूजत्किङ्किणीजालतुल्याम् ।
अविरतकलनादैरीशचेतो हरन्ती
विविधमणिनिवद्धां मेखलामर्पयामि ॥ ५५ ॥
व्यालम्बमानवरमौक्तिकगुच्छशोभि-
विभ्राजिहाटकपुटद्वयरोचमानम् ।
हेना विनिर्मितमनेकमणिप्रवन्धं
नीवीनिवन्धनगुणं विनिवेदयामि ॥ १६ ॥
विनिहतनवलाक्षापङ्कवालातपौधे
मरकतमणिराजीम मञ्जीरघोषे ।
अरुणमणिसमुद्यत्कान्तिधाराविचित्र-
स्तव चरणसरोजे हंसकः प्रीतिमेतु ॥ ५७ !!
निबद्धशितिपट्टकप्रवरगुच्छसंशोभितां
कलक्वणितमञ्जुलां गिरिशचित्तसंमोहनीम् ।
अमन्दमणिमण्डलीविमलकान्तिकिर्मीरितां
निधेहि पदपङ्कजे कनकधुमुरूमम्बिके ॥ ५८ ॥
विस्फुरत्सहनरागरञ्जिते शिञ्जितेन कलिता सखीजनैः ।
पद्मरागमणिनूपुरद्वयीमर्पयामि तव पादपङ्कजे ॥ १९ ॥

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । दाम्बुजमुपासितुं परिगतेन शीतांशुना कृतां तनुपरम्परामिव दिनान्तरागारुणाम् । महेशि नवयावकद्वभरेण शोणीकृतां नमामि नखमण्डली चरणपङ्कजस्थां तव ॥ ६ ॥ नारक्तश्वेतपीतस्फुरदुरुकुसुमैश्चित्रितां पट्टसूत्र- देवस्त्रीभिः प्रयत्नादगुरुसमुदितैयूं पितां दिव्यधूपैः । उद्यद्गन्धान्धपुष्पंधयनिवहसमारब्धझांकारगीतां चञ्चत्कलारमालां परशिवरसिके कण्ठपीठेऽर्पयामि ॥ ६१ ॥ गृहाण परमामृतं कनकपात्रसंस्थापितं समर्पय मुखाम्बुजे विमलवीटिकामम्बिके । विलोकय मुखाम्बुजं मुकुरमण्डले निर्मले निधेहि मणिपादुकोपरि पदाम्बुजं सुन्दरि ।। ६२ ॥ आलम्ब्य स्खसखीं करेण शनकैः सिंहासनादुत्थिता कूजन्मन्दमरालमञ्जुलगतिप्रोल्लासिभूषाम्बरा । आनन्दप्रतिपादकैरुपनिषद्वाक्यैः स्तुता वेधसा मच्चित्ते स्थिरतामुपैति(तु) गिरिजा यान्ती सभामण्डपम् ॥६३॥ चलन्त्यामम्बायां प्रचलति समस्ते परिजने सवेगं संयाते(?) कनकलतिकालंकृतिभरे । समन्तादुत्तालस्फुरितपदसंपातजनितै- झणत्कारैस्तारैझणझणितमासीन्मणिगृहम् ॥ ६४ ॥ चञ्चत्रिकराभिरङ्गविलसद्भूषाम्बराभिः पुरो- यान्तीभिः परिचारिकाभिरमरवाते समुत्सारिते। रुद्धे निर्जरसुन्दरीभिरभितः कक्षान्तरे निर्गतं वन्दे नन्दितशंभु निर्मलचिदानन्दैकरूपं महः ॥ ६५ ॥ १, 'दिव्यस्त्रीभिः' क. २. 'कलितललितालंकृतितरे' क. ३. 'रणत्कारैस्तारैर्गु- णगुणितमा' क. ४. 'समुद्गीरिते' क.

१२४ काव्यमाला। वेधाः पादतले पतत्ययमसौ विष्णुर्नमत्यग्रतः शंभुर्देहि दृगञ्चलं सुरपति दूरस्थमालोकय । इत्येवं परिचारिकाभिरुदिते संमाननां कुर्वती दृग्द्वन्द्वेन यथोचितं भगवती भूयाद्विभूत्यै मम ॥ १६ ॥ मन्दं चारणसुन्दरीभिरभितोयान्तीभिरुत्कण्ठया नामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितान् । वेगादक्षिपथं गतान्सुरगणानालोकयन्ती शनै- लिप्स(दित्स)न्ती चरणाम्बुजं पथि जगत्पायान्महेशप्रिया॥६७॥ अग्रे केचन पार्श्वयोः कतिपये पृष्ठे परे प्रस्थिता आकाशे समवस्थिताः कतिपये दिक्षु स्थिताश्चापरे । समदै शनकैरपास्य पुरतो दण्डप्रणामान्मुहुः कुर्वाणाः कतिचित्सुरा गिरिसुते दृक्पातमिच्छन्ति ते ॥६॥ अग्रे गायति किनरी कलपदं गन्धर्वकान्ताः शनै- रातोद्यानि च वादयन्ति मधुरं सव्यापसव्यस्थिताः । कूजन्नूपुरनादमञ्ज पुरतो नृत्यन्ति दिव्याङ्गना गच्छन्तः परितः स्तुवन्ति निगमस्तुत्या विरच्यादयः ॥१९॥ कसैचित्सुचिरादुपासितमहामन्त्रौघसिद्धिं क्रमा- देकमै भवनिस्पृहाय परमानन्दस्वरूपां गतिम् । अन्यस्सै विषयानुरक्तमनसे दीनाय दुःखापहं द्रव्यं द्वारसमाश्रिताय ददती वन्दामहे सुन्दरीम् ॥ ७० ॥ नम्रीभूय कृताञ्जलिप्रकटितप्रेमप्रसन्नानने मन्दं गच्छति संनिधौ सविनयात्सोत्कण्ठमोघत्रये । नानामन्त्रगणं तदर्थमखिलं तत्साधनं तत्फलं व्याचक्षाणमुदग्रकान्ति कलये यत्किचिदाचं महः ॥ ७१ ॥ १. 'मन्दोच्चार' ख-ग. २. 'सानन्दं शनकैरपि स्वपुरतो' क. ३. 'किनरीकुलमिदं' क, ४. '-निलये क.

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । १२५ तव दहनसहौरीक्षणैरेव चक्षु- निखिलपशुजनानां भीषयद्भीषणास्यम् । कृतवसति परेशप्रेयसि द्वारि नित्यं शरभमिथुनमुच्चभक्तियुक्तो नतोऽस्मि ॥ ७२ ॥ कल्पान्ते सरसैकदासमुदितानेकार्कतुल्यप्रभां रत्नस्तम्भनिबद्धकाञ्चनगुणस्फूर्जद्वितानोत्तमाम् । कर्पूरागुरुगर्भवर्तिकलिकाप्राप्तप्रदीपावली श्रीचक्राकृतिमुल्लसन्मणिगणां वन्दामहे वेदिकाम् ॥ ७३ ॥ स्वस्थानस्थितदेवतागणवृते विन्दौ मुदा स्थापित नानारत्नविराजिहेमविलसत्कान्तिच्छटादुर्दिनम् । चञ्चत्कौसुमतूलिकासनयुतं कामेश्वराधिष्ठितं नित्यानन्दनिदानमम्ब सततं वन्दे च सिंहासनम् ॥ ७४ ॥ वदद्भिरभितो मुदा जय जयेति वृन्दारकैः कृताञ्जलिपरम्परा विदधती कृतार्था दृशा । अमन्दमणिमण्डलीखचितमहेमसिंहासनं सखीजनसमावृतं समधितिष्ठ दाक्षायणि ॥ ७५ ॥ कर्पूरादिकवस्तुजातमखिलं सौवर्णभृङ्गारकं ताम्बूलस्य करण्डकं मणिमयं चैलाञ्चलं दर्पणम् । विस्फूर्जन्मणिपादुके च दधतीः सिंहासनस्याँभित- स्तिष्ठन्तीः परिचारिकास्तव सदा वन्दामहे सुन्दरि ॥ ७६ ॥ त्वदमलवपुरुद्यत्कान्तिकल्लोलजालैः स्फुटमिव दधतीभिर्बाहुविक्षेपलीलाम् । मुहुरपि च विधूते चामरग्राहिणीभिः सितकरकरशुभ्रे चामरे चालयामि ॥ ७७ ॥ १. 'दवदहन' ख-ग. २. 'शलभ' क. ३. 'नमामि' क. ४. 'सरसै ख-ग. ५. 'दीप्रक. ६. 'कृतां तनु' क. ७. संबन्धसामान्यविवक्षया षष्ठी. ८. 'यदमलपुनरुवत्का' क. ९. 'अर्पयामि' क.

१२६ काव्यमाला। प्रान्तस्फुरद्विमलमौक्तिकगुच्छ जालं चञ्चन्महामणिविचित्रितहेमदण्डम् । उद्यत्सहस्त्रकरमण्डलचारु हेम- छत्रं महेशमहिले विनिवेशयामि ॥ ७८ ॥ उद्यत्तावकदेहकान्तिपटलीसिन्दूरपूरप्रभा- शोणीभूतमुदग्रलोहितमणिच्छेदानुकारिच्छवि । दूरादादरनिर्मिताञ्जलिपुटैरालोक्यमानं सुर- व्यूहैः काञ्चनमातपत्रमतुलं वन्दामहे सुन्दरम् ॥ ७९ ॥ संतुष्टां परमामृतेन विलसत्कामेश्वराङ्कस्थितां भेपूजितां भगवतीं त्वां वन्दमाना मुदा । स्फूर्जत्तावकदेहरश्मिकलनाप्राप्तस्वरूपाभिदाः श्रीचक्रावरणस्थिताः सविनयं वन्दामहे देवताः ॥ ८॥ आधारशक्त्यादिकमाकलय्य मध्ये समस्ताधिकयोगिनीं च । मित्रेशनाथादिकमत्र नाथचतुष्टयं शैलसुते नतोऽसि ॥ ८१ ॥ त्रिपुरासुधार्णवासनमारभ्य त्रिपुरमालिनी यावत् । आवरणाष्टकसंस्थितमासनषट्कं नमामि परमेशि ॥ ८२ ॥ ईशाने गणपं स्मरामि विरद्विग्नान्धकारच्छिदं वायव्ये बटुकं च कज्जलरुचिं व्यालोपवीतान्वितम् । नैऋत्ये महिषासुरप्रमथिनी दुर्गा च संपूजय- नाग्नेयेऽखिलभक्तरक्षणपरं क्षेत्राधिनाथं भजे ॥ ८३ ॥ उड्यानजालंधरकामरूपपीठानिमान्पूर्णगिरिप्रसक्तान् । त्रिकोणदक्षाग्रिमसव्यभागमध्यस्थितान्सिद्धिकरान्नमामि ॥ ८४ ॥ लोकेशः पृथिवीपतिर्निंगदितो विष्णुर्जलानां प्रेभु- स्तेजोनाथ उमापतिश्च मरुतामीशस्तथा चेश्वरः । १. 'विनिवेदयामि' क. २. 'रपि' क. ३. 'विलस' क. ४. 'औड्यान' क. ५. 'पति' क.

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । १२७ २ आकाशाधिपतिः सदाशिव इति प्रेताभिधामागता- नेतांश्चक्रबहिःस्थितान्सुरगणान्वन्दामहे मादरम् ॥ ८५ ॥ तारानाथकलाप्रवेशनिगमव्याजागतासुप्रथं(जाद्भुताशप्रभं) त्रैलोक्ये तिथिषु प्रवर्तितकलाकाष्ठादिकालक्रमम् । रत्नालंकृतिचित्रवस्त्रललितं कामेश्वरीपूर्वकं नित्याषोडशकं नमामि लसितं चक्रात्मनोरन्तरे ॥ ८६ ॥ हृदि भावितदेवतं प्रयत्नाभ्युपदेशानुगृहीतभक्तसंघम् । स्वगुरुक्रमसंज्ञचक्रराजस्थितमोघत्रयमानतोऽस्मि मूi ॥ ८७ ॥ हृदयमथ शिरः शिखाखिलाये कवचमथो नयनत्रयं च देवि । मुनिजनपरिचिन्तितं तथास्त्रं स्फुरतु सदा हृदये षडङ्गमेतत् ।। ८८ ॥ त्रैलोक्यमोहनमिति प्रथिते तु चक्रे चञ्चद्विभूषणगणत्रिपुराधिवासे । रेखात्रये स्थितवतीरणिमादिसिद्धी- मुद्रा नमामि सततं प्रकटाभिधास्ताः ॥ ८९ ॥ सर्वाशापरिपूरके वसुदलद्वन्द्वेन विभ्राजिते विस्फूर्जत्रिपुरेश्वरीनिवसतौ चक्रे स्थिता नित्यशः । कामाकर्षणिकादयो मणिगणभ्राजिष्णुदिव्याम्बरा योगिन्यः प्रदिशन्तु काङ्कितफलं विख्यातगुप्ताभिधाः ॥ ९० ॥ महेशि वसुभिर्दलैलसति सर्वसंक्षोभणे विभूषणगणस्फुरत्रिपुरसुन्दरीसद्मनि । अनङ्गकुसुमादयो विविधभूषणोद्भासिता दिशन्तु मम काङ्कितं तनुतराश्च गुप्ताभिधाः ॥ ९१ ॥ लसद्युगदृशारके स्फुरति सर्वसौभाग्यदे शुभाभरणभूषितत्रिपुरवासिनीमन्दिरे । स्थिता दधतु मङ्गलं सुभगसर्वसंक्षोभिणी- मुखाः सकलसिद्धयो विदितसंप्रदायाभिधाः ॥ ९२ ॥ १. 'दुपदेशा' क. २, 'चित्रितं क. ३. 'भिधानाः' क.

काव्यमाला। बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः । कुलकौलाभिधाः पान्तु सर्वसिद्धिप्रदायिकाः ॥ ९३ ॥ अन्तःशोभिदशारकेऽतिललिते सर्वादिरक्षाकरे मालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः । नानारत्नविभूषणं मणिगणभ्राजिष्णु दिव्याम्बरं सर्वज्ञादिकशक्तिवृन्दमनिशं वन्दे निगर्भाभिधम् ॥ ९४ ॥ सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्विते । रहस्ययोगिनीनित्यं वशिन्याद्या नमाम्यहम् ॥ ९५ ॥ चूताशोकविकासिकेतकरजःप्रोद्भासिनीलाम्वुज- प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निमितान् । रम्यं पुप्पशरासनं सुललितं पाशं तथा चाङ्कुशं वन्दे तावकमायुधं परशिवे चक्रान्तराले स्थितम् ॥ ९६ ॥ त्रिकोण उदितप्रभे जगति सर्वसिद्धिप्रदे युते त्रिपुरयाम्बया स्थितवती च कामेश्वरी । तनोतु मम मङ्गलं सकलशर्म वज्रेश्वरी करोतु भगमालिनी स्फुरतु मामके चेतसि ॥ ९७ ॥ सर्वानन्दमये समस्तजगतामाकाङ्किते बैन्दवे भैरव्यौ त्रिपुराद्यया विरचितावासे स्थिता सुन्दरी । आनन्दोल्लसितेक्षणा मणिगणभ्राजिष्णुभूषाम्बरा विस्फूर्जद्वदना परापररहः सा पातु मां योगिनी ॥ ९८ ॥ उल्लसत्कनककान्तिभासुरं सौरभस्फुरणवासिताम्बरम् । . दूरतः परिहृतं मधुव्रतैरर्पयामि तव देवि चम्पकम् ॥ ९९ ॥ वैरमुद्धतमपास्य शंभुना मस्तके विनिहितं कलाच्छलात् । गन्धलुब्धमधुपाश्रितं सदा केतकीकुसुममर्पयामि ते ॥ १०० ० ॥ चूर्णीकृतं द्रागिव पद्मजेन त्वदाननस्पर्धिसुधांशुबिम्बम् । समर्पयामि स्फुटमञ्जलिस्थं विकासिजातीकुसुमोत्करं ते ॥ १०१॥ १. त्रिपरमालिन्या. २. त्रिपुरासिद्धया चक्रेश्वर्या. ३. त्रिपुरभैरव्या.

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । १२९ अगरुवहलधूपाजनसौरम्यरम्यां मरकतमणिराजीराजिहारिस्रगाभाम् । दिशि विदिशि विसर्पगन्धलुब्धालिमालां बकुलकुसुममालां कण्ठपीठेऽर्पयामि ॥ १०२ ॥ ईकारोवंगविन्दुराननमधोविन्दुद्वयं च स्तनौ त्रैलोक्ये गुरुगम्यमेतदखिलं हार्दै च रेखात्मकम् । इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय- न्नानन्दाम्बुधिमज्जने प्रलभतामानन्द) सज्जनः ॥ १०३ ॥ धूपं तेऽगरुसंभवं भगवति प्रोल्लासिगन्धोद्धुरं दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम् । रत्नस्वर्णविनिर्मितेषु परितः पात्रेषु संस्थापित नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि ॥ १०४ ॥ जातीकोरकतुल्यमोदनमिदं सौवर्णपात्रे स्थितं शुद्धान्नं शुचि मुद्गमाषचणकोद्भूतास्तथा सूपकाः । प्राज्यं माहिषमाज्यमुत्तममिदं हैयंगवीनं पृथ- पात्रेषु प्रतिपादितं परशिवे तत्सर्वमङ्गीकुरु ॥ १० ॥ दुर्गे रोहितखण्डमण्डजपलं कौर्माजखाङ्गं पृथ- क्षट्विशन्ति(?) सुसाधितानि मृदुना सयञ्जनान्यग्निना । संपन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता- न्यग्रे ते विनिवेदयामि गिरिजे सौवर्णपात्रबजे ॥ १०६ ॥ माषव्यञ्जनजातमुत्तमतमं मुद्गप्रकारान्बहू- न्हारिद्रक्वथिकारसैविलुलितापूपांस्तथा चाणकान् । मांसं सर्पिषि साधितं बहुतरं शूलाकृतं मारिचं मत्स्यांश्चैव सुसंस्कृतान्परशिवे संस्थापयाभ्यग्रतः ॥ १०७ ॥ १. 'शिम्बीसूरणशाकबिम्बबृहतीकूष्माण्डकोशातकीवृन्ताकानि पटोलकानि मृदुना संसाधितान्यग्निना' ख.

१३० काव्यमाला । निम्बूकाकचूतकन्दकदलीकौशातकीकर्कटी- धात्रीबिल्वकरीरकैविरचितान्यानन्दचिद्विग्रहे । राजीभिः कटुतैलसैन्धवहरिद्राभिः स्थितान्पातये संधानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते ॥ १०८ ॥ सितयाञ्चितलड्डुकत्रजान्मृदुपूपान्मृदुलाश्च पूरिकाः । परमान्नमिदं च पार्वति प्रणयेन प्रतिपादयामि ते ॥ १०९ ॥ दुग्धमेतदनले सुसाधितं चन्द्रमण्डलनिभं तथा दधि । फाणितं शिखरिणी सितासितां सर्वमम्ब विनिवेदयामि ते॥११०॥ अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमङ्गीकृतं ज्ञात्वा तत्त्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततः। देवीं त्वां परिशिष्टमम्ब कनकामत्रेषु संस्थापितं शक्तिभ्यः समुपाहरामि सकलं देवेशि शंभुप्रिये ॥ १११ ॥ वामेन स्वर्णपात्रीमनुपमपरमान्नेन पूर्णा दधाना- मन्येन स्वर्णदर्वी निजजनहृदयाभीष्टदां धारयन्तीम् । सिन्दूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकाङ्गी तिष्ठन्तीमग्रतस्ते मधुमदमुदितामन्नपूर्णी नमामि ॥ ११२ ॥ पतयोपविष्टान्परितस्तु चक्रं शक्त्या स्वयालिङ्गितवामभागान् । सर्वोपचारैः परिपूज्य भक्त्या तवाम्बिके पारिषदान्नमामि ॥११३॥ परमामृतमत्तसुन्दरीगणमध्यस्थितमर्कभासुरम् । परमामृतपूर्णितेक्षणं किमपि ज्योतिरुपास्महे परम् ॥ ११४ ॥ दृश्यते तव मुखाम्बुजं शिवे श्रूयते स्फुटमनाहतध्वनिः । अर्चने तव गिरामगोचरे न प्रयाति विषयान्तरं मनः ॥ ११५ ॥ त्वन्मुखाम्बुजविलोकनोल्लसत्प्रेमनिश्चलविलोचनद्वयीम् । उन्मनीमुपगतां सभामिमां भावयामि परमेशि तावकीम् ॥११॥ चक्षुः पश्यतु नेह किंचन परं घ्राणं न वा जिघ्रतु श्रोत्रं हन्त शृणोतु न त्वगपि न स्पर्श समालम्बताम् ।

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । जिह्वा वेत्तु न वा रसं मम परं युष्मत्स्वरूपामृते नित्यानन्दविघूर्णमाननयने नित्यं मनो मज्जतु ॥ ११७ ॥ यस्त्वां पश्यति पार्वति प्रतिदिनं ध्यानेन तेजोमयीं मन्ये सुन्दरि तत्त्वमेतदखिलं वेदेषु निष्ठां गतम् । यस्तस्मिन्समये तवार्चनविधावानन्दमान्द्राशयो यातोऽहं तदभिन्नतां परशिवे सोऽयं प्रसादस्तव ॥ ११८ ॥ गणाधिनाथं बटुकं च योगिनीः क्षेत्राधिनाथं च विदिक्चतुष्टये । सर्वोपचारैः परिपूज्य भक्तितो निवेदयामो बलिमुक्तयुक्तिभिः।। ११९।। वीणामुपान्ते खलु वादयन्त्यै निवेद्य शेषं खलु शेषिकायै । सौवर्णभृङ्गारविनिर्गतेन जलेन शुद्धाचमनं विधेहि ॥ १२० ॥ ताम्बूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका- जातीपूगलवङ्गचूर्णखदिरैर्भक्त्या समुल्लासितम् । स्फूर्जद्रत्नसमुद्गकप्रणिहितं सौवर्णपात्रे स्थितै- दीपैरुज्ज्वलमन्नचूर्णरचितैरारार्तिकं गृह्यताम् ॥ १२१ ॥ काचिद्गायति किंनरी कलपदं वाचं दधानोर्वशी रम्भा नृत्यति केलिमञ्जुलपदं मातः पुरस्तात्तव । कृत्यं प्रोज्झ्य सुरस्त्रियो मधुमदव्याघूर्णमानेक्षणं नित्यानन्दसुधाम्बुधि तव मुखं पश्यन्ति हुँष्यन्ति च ॥१२२॥ ताम्बूलोद्भासिवस्त्वदमलवदनालोकनोल्लासिनेत्रै- श्चक्रस्थैः शक्तिसंवैः परिहृतविषयासङ्गमाकर्ण्यमानम् । गीतज्ञाभिः प्रकामं मधुरसमधुरं वादितं किंनरीभि- वीणाझंकारनादं कलय परशिवानन्दसंधानहेतोः ॥ १२३ ॥ अर्चाविधौ ज्ञानलवोऽपि दूरे दूरे तदापादकवस्तुजातम् । प्रदक्षिणीकृत्य ततोऽर्चनं ते पञ्चोपचारात्मकमर्पयामि ॥ १२४ ॥ १. 'मुक्ताचित्रचतुष्कशालिनि महासौवर्णपात्रे स्थितैः' ख. २. 'सुस्थीकृत्य मनोऽपरा' ख. ३. 'हृष्यत्त्वचः' ख. ४. 'विमलीकृते मुहुश्चित्प्रतिविश्वानन्दनाथचरणेन । मम हृदयदर्पणेऽस्मिन्प्रतिपालिता भावना तेषाम् ॥' इत्यधिका.

काव्यमाला। यथेप्सितमनोगतप्रकटितोपचारार्चितां निजावरणदेवतागणवृतां सुरेशस्थिताम् । कृताञ्जलिपुटो मुहुः कलितभूमिरष्टाङ्गकै- नमामि गवल्यहं त्रिपुरसुन्दरि त्राहि माम् ॥ १२५ ॥ मे सुमहता यत्नेन ते संनिधि अतारवाह वर कांदिशीकमधुना मातनं दूरीकुरु । प्राप्तं मामिधिने व्यभिचरेदृग्वा च मे चित्तं त्वत्पदभाव सर्बधान न यथा भूयो विनिर्गच्छति ॥ १२६॥ तत्सौम्ये स्वगुणमिले मखिलैरेकान्तभक्तैः स्तुतं जातु चे- काहं मन्दमतिः क चदा ध्यातं देवि तथापि ते खमनसा श्रापापुतापूजनम् । कादाचित्कमदीयचिन्तनविधौ संतुष्टया शर्मदं स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने ॥ १२७ ॥ नित्यार्चनमिदं चित्ते भाव्यमानं सदा मया । निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी ॥ १२८ ॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमच्छकराचार्यविरचित श्रीत्रिपुरसुन्दरी- मानसिकोपचारपूजास्तोत्रं समाप्तम् । श्रीसुन्दराचार्यकविनिर्मित गीतिशतकम् । कि देवैः किं जीवैः कि भावैस्तेऽपि येन जीवन्ति । तव चरणं शरणं मे दरहरणं देवि कान्तिमत्यम्ब ॥ १॥ अरुणाम्बुदनिभकान्ते करुणारसपूरपूर्णनेत्रान्ते । शरणं भव शशिबिम्बद्युतिमुखि जगदम्ब कान्तिमत्यम्ब ॥ २ ॥ कलिहरणं भवतरणं शुभभरणं ज्ञानसंपदा करणम् । नतशरणं तव चरणं करोतु मे देवि कान्तिमत्यम्ब ॥ ३ ॥ १. गीतिशतकमिदं तिरुनेल्वेलिडिस्ट्रिक्टप्रदेशवर्तिकीलपुत्तनेरिनिवासिभिः जयपुरि- कृष्णमाचार्यैः श्रीनिवासाचार्यैश्चास्मत्संनिधौ प्रेषितमिति तेषामुपकारगौवं बिभ्रमः.

गीतिशतकम् ।
१३३
अमितां ममतां मम तां तनु तां तनुतां गतां पदालं ते ।
कृपया विदितो विहितो यया तवाहं हि कान्तिमत्यम्ब ॥ ४ ॥
मम चरितं विदितं चेदुदयेन्न दया कदापि ते सत्यम् ।
तदपि वदाम्ययि कुरु तां निर्हेतुकमाशु कान्तिमत्यम्ब ॥ ५ ॥
न बुधत्वं न विधुत्वं न विधित्वं नौमि किं तु भृङ्गत्वम् ।
असकृत्प्रणम्य याचे त्वच्चरणाजस्य कान्तिमत्यम्ब ॥ ६ ॥
अभजमहं कि सारे कंसारे वीपदेऽपि संसारे ।
रुचिमत्तां शुचिमत्तामहह त्वं पाहि कान्तिमत्यम्ब ॥ ७ ॥
मामसकृदाप्रसादादुष्कृतकारीति मावमन्यस्व ।
स्मर कि न मया सुकृतं वर्धितमिदमद्य कान्तिमत्यम्ब ॥ ८ ॥
करुणाविषयं यदि मां न तनोषि यथा तथापि वर्तेऽहम् ।
भवति कृपालुत्वं ते सीदामि मृषेति कान्तिमत्यम्ब ॥ ९ ॥
अतुलितभवानुर गिणि दुर्वर्णाचलविहारिणि मयि त्वम् ।
समतेय॑या प्रसादं न विधत्से किं नु कान्तिमत्यम्ब ॥ १० ॥
द्यां गां वाभ्यपतं यदि जीवातुस्त्वामृतेऽन्ततः को मे ।
हित्वा पयोदपति स्तोकस्य गतिः क्व कान्तिमत्यम्ब ॥ ११॥
कं वा कटाक्षलक्ष्यं न करोष्येवं मयि त्वमासीः किम् ।
कि त्वामुपालभेऽहं विधिगरीयान्हि कान्तिमत्यम्ब ॥ १२ ॥
तनुजे जननी जनयत्यहितेऽपि प्रेम हीति तन्मिथ्या ।
पटुपेक्षसे त्रिलोकी माती देवि कान्तिमत्यम्ब ॥ १३ ॥
निन्दामि साधुवर्ग स्तौमि पुनः क्षीणषड्गसंसर्गम् ।
वन्दे कि ते चरणे किं स्यात्प्रीतिस्तु कान्तिमत्यम्ब ॥ १४ ॥
गीर्वाणवृन्दजिह्वारसायनस्वीयमाननीयगुणे ।
निगमान्तपञ्जरान्तरमरालिके पाहि कान्तिमत्यम्ब ॥ १५ ॥
त्रिनयनकान्ते शान्ते तान्ते खान्ते ममास्तु वद दान्ते ।
कृपया मुनिजनचिन्तितचरणे निवसाद्य कान्तिमत्यम्ब ॥ १६ ॥

काव्यमाला।ला धुतकदने कृतमदने भृशमदने योगिश्चैतावभक्तानाम् । मणिसदने शुभरदने शशिवदने पाहि शरि कान्तिमत्यम्ब ॥ १७ ॥ गिरितनुजे हतदनुजे वरमनुजेद्धाभिधे पाङ्ग च हर्यनुजे । गुहतनुजेऽवितमनुजे कुरु करुणां देवि रे कान्तिमत्यम्त्र ॥ १८ ॥ गजगमने रिपुदमने हरकमने कृप्तपापकृते च्छमने । कलिजनने मयि दयया प्रसीद हे देवि मा कान्तिमत्यम्ब ॥ १९ ॥ यन्मानसे पदाजं तव संविद्भावदाभयान मेगाति । तत्पाददासदासकदासत्वं नौमि कान्तिमय भूयाम्ब ॥ २० ॥ दुष्करदुष्कृतराशेर्न विभेमि शिवे यदि प्रसक्त दस्ते । दलने दृषदां टङ्कः कल्पेत न किं नु कान्तिमत्वमा २१ ॥ कोमलदेहं किमपि श्यामलशोमं शरन्मृगाङ्कमुखम् । रूपं तव हृदये मम दीपश्रियमेतु कान्तिमत्यम्ब ॥ २२ ॥ किंचनवञ्चनदक्षं पञ्चशरारेः प्रपञ्चजीवातुम् । चञ्चलमञ्चलमक्ष्णोरयि मयि कुरु देवि कान्तिमत्यम्ब ॥ २३ ॥ अञ्चति यं त्वदपाङ्गः किंचित्तस्यैव कुम्भदासत्वे । अहमहमिकया विवुधाः कलहं कलयन्ति कान्तिमत्यम्ब ॥ २४ ॥ किमिदं वदाद्भुतं ते कस्मिंश्चिल्लक्षिते कटाक्षेण । वहादीनां हृदयं दीनत्वं याति कान्तिमत्यम्ब ॥ २६ ॥ प्रायो रायोपचिते मायोपायोल्वणासुरक्षपणे । गेयो जायोरुबले श्रेयो भूयोऽस्तु कान्तिमत्यम्ब ॥ २६ ॥ करणं शरणं तव लसदलकं कुलकं गिरीशभाग्यानाम् । सरलं विरलं जयति सकरुणं तरुणां हि कान्तिमत्यम्ब ॥ २७ ॥ शंकरि नमांसि वाणी किंकरि दैतेयराड्भयंकरिते । करवै मुरवैर्यनुजे पुरवैर्यभिकेऽद्य कान्तिमत्यम्ब ॥ २८ ॥ तव सेवां भुवि के वा नाकाङ्क्षन्ते क्षमाभृतस्तनये । त्वमिव भवेयुर्यदि ते भजन्ति ये यां हि कान्तिमत्यम्ब ।। २९ ॥

गीतिशतकम् ।
भवदवशिखाभिवीतं शीतलयेमी कटाक्षविक्षेपैः ।
कादम्बिनीव सलिलैः शिखण्डिनं देवि कान्तिमत्यम्ब ॥ ३० ॥
त्वद्गुणपयःकणं मे निपीय मुक्तेरलंक्रियां गिरतु।
चेतःशुक्तिर्मुक्तां भक्तिमिषां देवि कान्तिमत्यम्ब ॥ ३१ ॥
गुणगणमहामणीनामागमपाथोविजन्मभानां ते ।
गुणतां कदा नु भजतां मम धिषणा देवि कान्तिमत्यम्ब ॥ ३२ ॥
पाटीरचर्चितस्तनि कोटीरकृतक्षपाधिराट्कलिके ।
वीटीरसेन कविताघाटीं कुरु मेऽद्य कान्तिमत्यम्ब ॥ ३३ ॥
नुव क्रूणां कि ब्रूमस्त्वामप्येषानवेक्ष्य तूप्णीकाम् ।
ऊरीकरोति पापिनमपि विनतं देवि कान्तिमत्यम्ब ॥ ३४ ॥
ईशोऽपि विना भवती न चलितुमपि किं पुनर्वयं शक्ताः।
किमुपेक्षसे प्रसीद क्षितिधरकन्येऽद्य कान्तिमत्यम्ब ॥ ३५ ॥
मन्मानसाम्रशाखी पल्लवितः पुष्पितोऽनुरागेण ।
हर्षेण च प्रसादाल्लघु तव फलिनोऽस्तु कान्तिमत्यम्ब ॥ ३६ ॥
ध्यानाम्बरवसतेर्मम मानसमेघस्य दैन्यवर्षस्य ।
पदयुगली तव शम्पा लक्ष्मी विदधातु कान्तिमत्यम्ब ॥ ३७ ॥
कलितपनभानुतप्तं चित्तचकोरं ममातिशीताभिः ।
जीवय कटाक्षदम्भज्योत्स्नाभिर्देवि कान्तिमत्यम्ब ॥ ३८ ॥
ज्योत्स्नासध्रीचीभिर्दुग्धश्रीभिः कटाक्षवीचीभिः ।
शीतलयानीचीभिः कृपया मां देवि कान्तिमत्यम्ब ॥ ३९ ॥
रुष्टा त्वमागसा यदि तर्जय दृष्ट्यापि नेक्षसे यदि माम् ।
बाल इव लोलचक्षुः शरणं यामि कान्तिमत्यम्ब ॥ ४० ॥
विभवः के किं कर्तुं प्रभवः करुणा न चेत्तवान्तेऽपि ।
नोच्छसितुं कृतमेमिस्त्वामीश्वरि नौमि कान्तिमत्यम्ब ॥ ४१ ॥
जित्वा मदमुखरिपुगणमित्वा त्वद्भक्तभावसाम्राज्यम् ।
गत्वा सुखं जनोऽयं वर्तेत कदा नु कान्तिमत्यम्ब ॥ ४२ ॥

काव्यमाला।
.
अखिलदिविषदालम्बे पदयुग्मं देवि ते सदालम्बे ।
जगतां गोमत्यम्ब क्षितिधरकन्येऽद्य कान्तिमत्यम्ब ॥ ४३ ॥
अत्रैव कल्पवल्लीचिन्तामणिरस्ति कामधेनुरपि ।
वेझि न कि यदि बुधता पुंसा लभ्येत कान्तिमत्यम्ब ॥ १४ ॥
नाहं भजामि दैवं मनसाप्यन्यत्त्वमेव दैवं मे ।
न मृषा भणामि शोधय मानसमाविश्य कान्तिमत्यम्ब ॥४
खेदयसि मां मृगं कि मृगतृष्णेव प्रसीद नौमि शिवे ।
मोदय कृपया नो चेत्क नु यायां देवि कान्तिमत्यम्ब ॥ ४६ ॥
कार्य स्वेन स्वहितं को नाम वदेदयं जनो वेत्ति ।
त्वं वा वदसि किमस्माद्गतिस्त्वमेवास्य कान्तिमत्यस्क ।। ४७ ॥
धन्योऽस्ति को मदन्यो दिवि वा भुवि वा करोषि चेत्करुणाम् ।
इदमपि विश्वं विश्वं मम हस्ते किं च कान्तिमत्यम्ब ॥ ४८ ॥
तरुणेन्दुचूडजाये त्वां मनुजा ये भजन्ति तेषां ते।
भूतिः पदाजधूलिधूलि तिस्तु कान्तिमत्यम्ब ॥ ४९ ॥
त्वामत्र सेवते यस्त्वत्सारूप्यं समेत्य सोऽमुत्र ।
हरकेल्यां त्वदसूयापात्रति चित्राङ्गि कान्तिमत्यम्ब ॥ ५० ॥
चित्रीयते मनस्त्वां दृष्ट्वा भाग्यावतारमूर्ति मे ।
किंच सुधाब्धेलहरीविहारितामेति कान्तिमत्यम्ब ॥ ५१ ॥
किरतु भवती कटाक्षाञ्जलजसदृक्षानसेन तादृक्षान् ।
कृतसुररक्षान्मोहनदक्षान्भीमस्य कान्तिमत्यम्ब ॥ १२ ॥
मानसवाधिनिलीनौ रागद्वेषौ प्रबोधवेदमुषौ ।
मधुकैटभौ तवेक्षणमीनो मे हरतु कान्तिमत्यम्ब ॥ ५३ ॥
मञ्जुलभाषिणि वञ्जलकुडलललितालके लसत्तिलके ।
पालय कुवलयनयने बालं मां देवि कान्तिमत्यम्ब ।। ५४
पुरमथनविलोलाभिः पटुलीलाभिः कटाक्षमालाभिः ।
शुभशीलाभिः कुवलयनीलाभिः पश्य कान्तिमत्यम्ब ॥ ५५ ॥
करुणारसाईनयने शरणागतपालनैककृतदीक्षे ।
प्रगुणाभरणे पालय दीनं मां देवि कान्तिमत्यम्ब ॥ १६ ॥

गीतिशतकम् ।
१३७
नरजन्मैव वरं त्वद्भजनं येन क्रियेत चेदस्मात् ।
किमवरमेवं नो चेदतस्तदेवास्तु कान्तिमत्यम्ब ।। ६७ ॥
यहुर्लभं सुरैरपि तन्नरजन्मादिशो नमाम्येतत् ।
सार्थय दानाद्भक्तेर्व्यर्थय मान्येन कान्तिमत्यम्ब ॥ १८ ॥
जीवति पञ्चभिरेभिर्न विनास्त्येभिर्जनस्तनुं भनते ।
तदपि तदासीना त्वां दरमपि नो वेत्ति कान्तिमत्यम्ब ।। ५९॥
यत्प्रेमद्विपवदने षड्वदने वा कुरुष्व तन्मयि ते ।
जात्वपि मा भूभेदः स्तोकेष्वस्मासु कान्तिमत्यम्ब ॥ ६ ॥
शम्बररुहरुचिवदने शम्बररिपुजीविके हिमाद्रिसुते ।
"अम्वरमध्ये बम्बरडम्बरचिकुरेऽव कान्तिमत्यम्ब ॥ ६१ ।।
मन्मानसपाठीनं कलिपुलिने क्रोधभानुसंतप्ते ।
सिञ्च परितो भ्रमन्तं कृपोर्मिभिर्देवि कान्तिमत्यम्ब ॥ ६२ ॥
यमिनः क वेद मुकुटान्यपि भवती भावयन्ति वा नो वा ।
यद्येवं मम हृदयं वेत्तु कथं ब्रूहि कान्तिमत्यम्ब ॥ ६३ ॥
क्लिश्यत्ययं जनो बत जननाचैरित्यहं श्रितो भवतीम् ।
तत्राप्येवं यदि वद तव किं महिमात्र कान्तिमत्यम्ब ।। ६४ ॥
वृजिनानि सन्तु किमतस्तेषां धूत्यै न किं भवेद्वद ते ।
सरणं दृषदुत्क्षेपणमिव काकगणस्य कान्तिमत्यम्ब ॥ ६५ ।।
प्रसरति तव प्रसादे किमलभ्यं व्यत्यये तु किं लभ्यम् ।
लभ्यमलभ्यं किं नस्तेन विना देवि कान्तिमत्यम्ब ।। ६६ ॥
-किं चिन्तयामि संविच्छरदुदयं त्वत्पदच्छलं कतकम् ।
घृष्ठं यदि प्रसीदेदृदयजलं मेऽद्य कान्तिमत्यम्ब ॥ ६७ ॥
विभजतु तव पदयुगली हंसीयोगीन्द्रमानसैकचरी ।
संविदसंवित्पयसी मिलिते हृदि मेऽद्य कान्तिमत्यम्ब ॥ ६८ ॥
कियदायुस्तत्राधैं स्वप्ने न हृतं कियच्च बाल्याद्यैः ।
कियदस्ति केन भजनं तृप्तिस्तव केन कान्तिमत्यम्ब ॥ ६९ ॥
वेझि न धर्ममधर्म कायक्लेशोऽस्त्यदो विचारफलम् ।
जानाम्येकं भजनं तव शुभदं हीति कान्तिमत्यम्ब ॥ ७० ॥

१३८
काव्यमाला।
स्निह्यति भोगे द्रुह्यति योगायेदं वृथाद्य मुह्यति मे ।
हृदयं किमु स्वतो वा परतो वा वेत्ति कान्तिमत्यम्ब ॥ ७१ ॥
न विभीमो भवजलधेर्दरमपि दनुजारिसोदरि शिवे ते ।
आस्ते कटाक्षवीक्षातरणिर्ननु देवि कान्तिमत्यम्ब ।। ७२ ॥
चिन्तामणौ करस्थेऽप्यटनं वीथीषु किं ब्रुवे मातः ।
वद किं मे त्वयि सत्यामन्याश्रयणे न कान्तिमत्यम्ब ।। ७३ ॥
नरवर्णनेन रसना परवनितावीक्षणेन नेत्रमपि ।
क्रौर्येण मनोऽपि हतं भाव्यं तु न वेनि कान्तिमत्यम्ब ।। ७४ ॥
त्रासितसुरपतितप्तं तप्तं कि धर्ममेव वा कृप्तम् ।
किमपि न संचितममितं जिनमये किं तु कान्तिमत्यम्ब ॥ ७५॥
पापीत्युपेक्षसे चेत्पातुं कान्या भवेद्विना भवतीम् ।
किमिदं न वेद्मि सोऽयं बकमन्त्रः कस्य कान्तिमत्यम्ब ॥ ७६ ॥
वञ्चयितुं वृजिनाचैर्मुग्धान्भवतीं विनेतरान्नेक्षे ।
किमतः परं करिष्यसि विदितमिदं मेऽद्य कान्तिमत्यम्ब ।। ७७ ॥
वञ्चयसि मां रुदन्तं बालमिव फलेन मां धनाढ्येन ।
मास्तु कदापि ममेदं कैवल्यं देहि कान्तिमत्यम्ब ॥ ७८ ॥
त्रय्या कि मेऽद्य गुणे तव विदिते यो यतस्तु संभवति ।
आस्तां मौक्तिकलाभे सति शुक्क्या किं नु कान्तिमत्यम्ब ।। ७९।
अद्भुतमिदं सकृद्येन ज्ञानावाश्रियो दिशस्येभ्यः ।
ये खलु भक्तास्तेभ्यः कैवल्यं दिशसि कान्तिमत्यम्ब ॥ ८० "
सुरनैचिकीव विबुधान्कादम्बिनि केव नीलकण्ठमपि ।
प्रीणयसि मानसं मे शोभय हंसीव कान्तिमत्यम्ब ॥ १ ॥
कर्तुं मनःप्रसादं तव मयि चेतिक करिष्यति वृजिनम् .
जलजविकासे भानोः परिपन्थितसो नु कान्तिमत्यम्ब ॥ ८२॥
तव तु करुणा स्त्रवन्त्यां प्रवहन्त्यां स्तोकता गतेति मया ।
लुठति स्फुटति मनो मे नेदं जानासि कान्तिमत्यम्ब ॥ ८३ ॥
शोधयितुमुदासीना यदि मां पात्रं किमस्य पश्याहम्
मादृशि का वा वार्ता दासजने कान्तिमत्यम्ब ॥ ८४ ॥

गीतिशतकम् ।
अभजमनन्यगतिस्त्वां किं कुर्यास्त्वं न वेदयतःप्रभृति ।
अवने वानवने वा न विचारो मेऽस्ति कान्तिमत्यम्ब ॥ ८६॥
किं वर्तते ममास्मान्निखिलजगन्मस्तलालितं भाग्यम् ।
यमिहृदयपद्महंसी यत्त्वां सेवेऽद्य कान्तिमत्यम्ब ।। ८६ ॥
कर्तु जगन्ति विधिवद्भर्तु हरिवगिरीशवद्धर्तुम् ।
लीलावती त्वमेव प्रतीयसे देवि कान्तिमत्यम्ब ॥ ८७ ॥
केचिद्विदन्ति भवती केचिन्न विदन्ति देवि सर्वमिदम् ।
त्वत्कृत्यं वद सत्यं किं लव्ध तेन कान्तिमत्यम्ब ॥ ८॥
शाखाणि कुक्षिपूर्फे स्फूत्यै निगमाश्च कर्मणां किं तैः
किं तव तत्त्वं ज्ञेयं यैस्त्वत्कृपयैव कान्तिमत्यम्ब ॥ ८९ ॥
किं प्रार्थये पुनः पुनरवने भवती विना विचारः स्यात् ।
कस्याः क इति विदन्नपि दूये मोहेन कान्तिमत्यन्त्र ॥ ९० ॥
विदुषस्त्वां शरणं मे शास्त्रश्रमलेशवार्तयापि कृतम् ।
करजुषि नवनीते किं दुग्धविचारेण कान्तिमत्यम्ब ॥ ११ ॥
प्रणय निषन्निगमागमयोगिमनस्विवातितुङ्गेषु ।
भाहि प्रभेव तरणेमम हृदि निम्नेऽपि कान्तिमत्यम्ब ॥ ९२॥
स्फुटितारुणमणिशोभं त्रुटिताभिनवप्रवालमृदुलत्वम् ।
श्रुतिशिखरशेखरं ते चरणाजं स्तौमि कान्तिमत्यम्ब ॥ ९३ ॥
तव चरणाम्बुजभजनादमृतरसस्यन्दिनः कदाप्यन्यत् ।
स्वोऽपि किंचिदपि मे मा स भवदेवि कान्तिमत्यम्ब ॥ ९४ ॥
विस्मापनं पुरारेरस्सादृग्जीविकां परात्परमम् ।
सुषुमामयं स्वरूपं सदा निषेवेय कान्तिमत्यम्ब ॥ ९५ ॥
मङ्गलमस्त्विति पिष्टं पिनष्टि गीः सर्वमङ्गलायास्ते।
वशितजयायाश्च तथा जयेति वादोऽपि कान्तिमत्यम्ब ॥ ९६ ॥
आशासितुर्विभूत्यै भवति भवत्यै हि मङ्गलाशास्तिः ।
स्वामिसमृद्धयाशंसा भृत्योन्नत्यै हि कान्तिमत्यम्ब ॥ ९७ ॥

१४० काव्यमाला। निगमैरपरिच्छेचं व वैभवं तेऽल्पधीः क्व चाहमिति । तूप्णीकं मां भक्तिस्तव मुखरयति स्म कान्तिमत्यम्ब ॥ ९८ ॥ अनुकम्पापरवशितं कम्पातटसीम्नि कल्पितावसथम् । उपनिषदां तात्पर्य तव रूपं स्तौमि कान्तिमत्यम्ब ॥ ९९ ॥ जय धरणीधरतनये जय वेणुवनाधिराप्रिये देवि । जय जम्भमेदिविनुते जय जगतामम्ब कान्तिमत्यम्ब ॥ १०० ॥ गुणमञ्जरिपिञ्जरितं सुन्दररचितं विभूषणं सुदृशाम् । गीतिशतकं भवत्या क्षयतु कटाक्षेण कान्तिमत्यम्ब ॥ १०१ ॥ वप्ता यस्य मनीपिहारतरलः श्रीवेङ्कटेशो महा- न्माता यस्य पुनः सरोजनिलया साध्वीशिरोभू श्रीवत्साभिजनामृताम्बुधिविधुः सोऽयं कविः सुन्दरः देव्या गीतिशतं व्यवत्त महितं श्रीकान्तिमत्या मुदे ॥१०२॥ इति तिरुनेलवेलिसप्रदेशवर्तिविठ्ठलपुरनिवासिभिः, अष्टगोत्रं तिरुमलैनल्लान्चक्रवर्तिश्रीवात्स्य- वेङ्कटेशविद्वन्मणितन्जैः, श्रीसुन्दराचार्यकविभिरभिनिमितं गीतिशतकं संपूर्णम् । श्रीसामराजदीक्षितविरचितं त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । अमृतजलधिमध्योल्लासिरत्नान्तरीप- प्रस्मरकिरणालीकल्पितोद्यानशोभे । सुरतरुनिकुरम्बस्पृष्टवातायनान्त- श्चलदलिपटलीभिः कृप्तधूपादिकृत्ये ॥ १॥ मणिमयभवनेऽन्तःप्रौढमाणिक्यशाला- मधिवसति विशाला कापि ते रत्नवेदी । १. अस्य कवेः स्थान श्रीमथुरा. समयश्च ख्रिस्तीयषोडशशतकोत्तरार्धम्. अनेन च पूजारत्नादयोऽनेके ग्रन्थाः कृताः. एतस्य पुत्रपौत्रादयोऽपि दीक्षितकामराजवजराजा- दयो महाकवयो ग्रन्थकर्तारश्चासन्. एतस्य वंश्यो दीक्षितबालकृष्णशर्माद्यावधि मथु- रायां वर्तते. एतत्सर्व तत्कृतग्रन्थेभ्योऽवगम्यते.

१४१ त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । तदुपरि कृतवासं दत्तवालाकहासं दिशतु शुभमनन्ते देवि सिंहासनं ते ॥२॥ तदुपरि धृतनानाहेतिभूपाश्मरश्मि- व्यतिकरपुनरुक्तीभूतरम्योत्तरीयाम् । गलदमलदयाम्भःसिक्तभक्तप्ररोहां प्रणवनलिनभृङ्गी भावये ज्ञानभङ्गीम् ॥ ३ ॥ द्रुहिणहरिहराणां मौलिसंचारशीलं मणिघटितविभूषारश्मिनिर्णेजितं च । निजमतिदृषदाहं भक्तिगङ्गापयोभिः पैदयुगममलं ते देवि निर्णजयामि ॥ ४ ॥ गरुडमणिमयूखस्पर्धिदुर्वासनाथैः कुंशशिशुपरिजुष्टैः स्फीतसिद्धार्थसाथैः । उपहितसितगन्धैः साक्षतर्वारिभिस्ते जननि चरणपझे पाद्यमाद्यं ददामि ॥ ५ ॥ फलकुसुमसनाथं नूनरत्नप्ररोहं मलयजरसदिग्धं स्निग्धमुग्धाक्षतं च । दरनियमितभक्तानीकवाञ्छाप्रदाने करसरसिरहेऽस्मिन्नऱ्यामध्ये ददामि ॥ ६ ॥ शिशिरकिरणजातीपत्रदेवप्रसून- स्फुटितदलनवैलाक्रान्तककोलगन्धम् । शिशिरममलमेतद्बद्धपीयूषसख्यं सलिलमखिलमातस्त्वं प्रसन्नाचमेथाः ॥ ७ ॥ नवमणिहयपीठे प्रेतपद्मस्थितापि प्रपदतरलशोभास्पृष्टसद्विष्टरश्रि । दधिमधुघृतमिश्रं त्रिविराजोपनीतं शशिमुखि मधुपर्क त्वं मुखान्तनयेथाः ॥ ८ ॥ १. कुशशिशवो नूतना दर्भाः.

काव्यमाला ।
पुनराचमनं कार्यं जगज्जननि मुनते ।
त्वच्छिक्षितेन मार्गेण यतो लोकः प्रवर्तते ॥ ९ ॥
त्वरितसहचरीभिर्दत्तहस्तावलम्ब
चरणनलिनमेतत्पादुकास्थं विधाय ।
प्रविश विविधशालं स्नानगेहान्तरालं
पशुपतिसहितैवाभ्यङ्गमङ्गीकुरुष्व ॥ १० ॥
अपि रसिकविगीतं भक्तचित्तानुमत्यै
सदयहृदयभावे स्नाहि पञ्चामृतेन ।
शशिमृगमदमुस्तागौरसिद्धार्थचूर्णैः
कुसुमजलविमित्रैः खैरमुद्वर्तयाङ्गम् ॥ ११ ॥
परिजनपरिमृष्टे त्वच्छरीरे न याव-
च्छिशिरसलिलधारां कापि चिक्षेप तावत् ।
उदयिनि जनमातः सीत्कृते बद्धभावै.
स्त्रिपुरमथनहासैीडितं क्रीडितं ते ॥ १२ ॥
अथ विमलितरत्नस्वर्णदुर्वर्णकुम्भै-
स्त्रिभुवनगततीर्थीनीतपानीयपूर्णैः ।
स्नपयति सुरनारीवृन्दमेतत्तथापि
प्रणयजलमिदं नः स्नानकृत्यं करोतु ॥ १३ ॥
विमलधवलचीनप्रच्छदप्रावृताङ्गया-
स्तव शिरसिरुहेभ्यो निहरेऽम्बाम्बुविन्दून् ।
अगरुशकलधूपै—प्यतां चाङ्गमङ्गं
सह पशुपतिना त्वं याहि वासोगृहान्तः ॥ १४
नवविमलविचित्रे वाससी नूत्नरत्न-
द्युतिकृतपुनरुक्तायामसंशोभिनी ते ।
अथ कुचपरिणाहाच्छादिनी शंभुनेत्र-
त्रितयभवदसूयां कञ्चुकीमर्पयामि ॥ १५ ॥

१४३ १ त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । नहनमपि कचानां कङ्कतीभिर्विधाय ग्रथितमणिविभूषां देवि वेणी करोमि । निहितनवकिरीटालम्बिमुक्तालताभि- स्ततवहलमयूखां चन्द्रलेखां विदध्याम् ॥ १६ ॥ अलिकतलविलम्बिस्फीतमीमन्तमुक्ता- सरणिघटितहीरास्पष्टचन्द्रात्ततन्द्रे । विविधमणिगणाङ्कोत्तंससंश्लिप्यदश्मा श्रवणयुगविभूषा देवि तोषाय भूयात् ॥ १७ ॥ विविधविरचनाभिभिन्नभिन्ना विभूषा जनयतु तव कण्ठे देवि कामप्यभिख्याम् । गुणिनमपि गिरीशश्लेषदत्तान्तरायं कठिनकुचयुगाने हारमारोपयामि ॥ १८ ॥ दरतरलविलम्बिवर्णसूत्रान्तगुच्छे जननि तव दिशेतामङ्गदे शर्मकर्म । अथ वलयमणीनां रश्मिसंभिन्नमुद्रां जनयतु पुनरुक्तां शृङ्खलामन्तरीणाम् ॥ १९ ॥ मणिमयरशनाधःक्षुद्रघण्टानिनादा मणितगुणनिकानां स्मारकाः स्युः शिवस्य । मरकतमणिजातं मामञ्जीरयुग्मं रचयतु शशिमौले रञ्जनं सिञ्जितेन ॥ २० ॥ अरुणमणिकृतानामङ्गुलीभूषणानां प्रभवतु पदमुलाक्षया रञ्जितं ते । मृगमदरचितायां पत्रभङ्गीलताया- मनुभवतु दृगन्तो बन्धनं भूतभर्तुः ॥ २१ ॥ भज जननि हरिद्रां दत्तहारिद्रमुद्रां कुसुमसलिलतैलाक्रान्तकाश्मीरकोशाम् । १. किरणैः .

काव्यमाला। अथ नसि कुरु मुक्तां दन्तवासोनुपक्तां स्मितरुचिपुनरुक्तां नन्दितानेकभक्ताम् ॥ २२ ॥ सहजनलिननीले खञ्जने खञ्जनानां भवनिगडगतानां मोचने लोचने ते । जननि गिरिशचेतोरञ्जने मन्दमन्दं मसृणिमसृणितैस्तैरञ्जनैरञ्जनेयम् ॥ २३ ॥ प्रणतिभिरुपनीतं दीप्तलालाटनेत्र- प्रतिभटमिव शंभोर्मृत्युबाधाविरोधि । शशिन इव मुखेन्दोर्भेदकः कोऽपि धर्मो जनयतु मुदमुच्चैः कुड्डुमं रकुनेत्रे ॥ २४ ॥ युगपदुपगतेन्द्रोपेन्द्ररुद्रादिमौलि. स्थलमुकुटविघट्टच्चण्डदण्डाभिघातैः । कृतसरणिरजस्रक्रुद्धदौवारिकैस्ते जननि भव विभूषा प्रेतपद्मासनस्य ॥ २५ ॥ अहमहमिकयाधः पातुकानां सुराणां प्रपदमपि शरीरे देवि संयोज्य शीघ्रम् । करुणरसमयीनां लोचनान्तश्छटानां कतिपयवलनाभिर्देहि पूजावकाशम् ॥ २६ ॥ अगुरुघुसृणचोरीशीरगोरोचनाभि- मलयजमृगनाभिस्फीतकर्पूरपूरैः । कुसुमसलिलघृष्टैः कल्पयित्वाङ्गरागं पटुतरपटवासैसिये तेऽङ्गकानि ॥ २७ ॥ कमलकुमुदमल्लीमालतीकुन्दजाती- बकुलकनकनीपाशोकचाम्पेयकाद्यैः । मरुबकतुलसीभिः केतकीबिल्वपत्रै- दमनकशतपत्रैरर्चये त्वत्पदाजम् ॥ २८ ॥ १. मृगविशेषनयने.

त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । हारशेखरवतंसशाटिकाप्रच्छकातुलितकञ्चुकीमुग्वैः । मण्डपैर्जवनिकाभिरुच्चकैः कौमुमैस्तव मुई कदम्बये ॥ २९ ॥ कनकमयहसन्तीकोटिमध्यस्थितानां मृदुपवनधुतानां दीप्तवैश्वानराणाम् । अगरुमुपरि हुत्वा गुग्गुलुं सर्जग्वण्डा- न्धृतजतुपरिमिश्रं त्वां शिवे धूपयामि ॥ ३० ॥ धूपवर्तितरुमन्तरान्तरा गन्धतैलपरिपूर्णदीपिकाः । आवहन्तु तव पार्श्वयोस्तरामम्बिके जवनिकापटश्रियम् ॥ ३१॥ सुरसुरभिजसर्पिःपूरिते रत्नपात्रे हिमकिरणरजोभिर्लोडितां तूलवर्तीम् । तरुणदहनयुक्तामम्ब कृत्वा ददेयं निरयनिरसनाय प्रस्फुरन्तं प्रदीपम् ॥ ३२ ॥ रजतकनकहीराद्यश्मपात्रेषु मात- विविधरससनाथैश्चोप्यलेह्यप्रपेयैः । उपहितबहुभक्ष्यैर्व्यञ्जनैश्चारुखायै- र्जठरदहनतृप्ति नित्यतृप्ते चरेथाः ॥ ३३ ॥ परस्परकुतूहलैः कवलदानरूपैः शिवे पुराणतरुणौ युवां चरतमत्र लीलाशितम् । सुगन्धि सलिलं तथा पिबतमेणनाभीरसैः सकेसरनिशाकरै रचयतं करोद्वर्तनम् ॥ ३४ ॥ पर्नसकदलजम्बूकर्कटीहारहूरा- मलकबदरनिम्बूदुम्बरैर्बीजपूरैः । अमृतलकुचबिल्वैर्दाडिमीनालिकेरै रुचिरुचितफलैस्ते वर्धतां बद्धरागा ।। ३५ ॥ शशिकरधवलानां नागवल्लीदलानां क्रमुककदरजातीचन्द्रसंयोगभाजाम् ।

१४६
काव्यमाला।
मृगमदसुरसूनुस्फीतचूर्णावृतानां
भजतु जननि रागं त्वन्मुखाम्भोजमेतत् ॥ ३६ ॥
कनकभरितपृथ्वीं मानुषानन्दमाह-
स्तदुपरि शतकोटिकामुकानन्दमाहुः ।
जननि तव ददेयं दक्षिणां कां तथापि
प्रथय मयि दृगन्तं दक्षिणावीक्षणेन ॥ ३७ ॥
त्रिभुवनकुहरेऽस्मिन्पूरिते वेणुवीणा-
पटुपटहकझिल्लीतालघण्टानिनादैः ।
उरगसुरवधूभिर्गीयमानं समन्ता-
जनयतु पदमुच्चैदेवि नीराजनं ते ॥ ३८ ॥
प्राणेषु पञ्चसु निधाय षडात्मवृत्ति-
वर्तीश्चिदग्निपरिचुम्बितजातशोभाः ।
नीराजयामि भवती भवतीव्रताप-
निर्वापहेतुमधुना मधुनालसाक्षि ॥ ३९ ॥
उरगतुरगहंसीकेकिशालूरभृङ्गी-
मदकलकलविङ्कीश्येनपारावतानाम् ।
गतिभिरुपचितोऽयं मौलितः पादमूलं
हरतु दुरितजातं देवि कर्पूरदीपः ॥ ४० ॥
जय देवि जय देवि जय विश्वाधारे
दीनानाथोद्धरणप्रवणे जनसारे ।
त्वत्पदपझे पझे विधृतव्यापारे
मयि दीने कुरु करुणां करुणामृतपारे ॥ ४१ ॥
अमृतोदधिमध्यस्थितनवरत्नद्वीपे
विष्वग्विकसितसुरतरुनवचम्पकनीपे ।
नानाकुसुमामोदिनि विधुतागरुधूपे
चिन्तामणिभवनेऽङ्गनतिष्ठत्सुरभूपे ॥ ४२ ॥

त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । माणिक्योज्ज्वलचत्वरसिंहासनशोभे शवपञ्चकमञ्चेऽञ्चितजनलोचनलोभ । सुश्वेतातपवारणचलचामरदम्भे ध्याये भवतीमनिशं कृतजगदारम्भे ।। ४३ ॥ दलितजपाकुसुमोपमवसनच्छन्नाङ्गी तरुणारुणकरुणप्रदकिरणावलिभङ्गीम् । दधती रचनां नयने यमुनातारङ्गी कलयन्ती कुचकोशे सुषमा नारङ्गीम् ।। ४४ ॥ शरपञ्चकवाणासनसृणिपाशोल्लसितां मलयानिलपरिवाददमुखपद्मश्वसिताम् । बालामृतकरमण्डितचूडातटमहितां ज्योतिस्त्रितयालंकृतनयनत्रयसहिताम् ॥ ४५ ॥ पशुपतियन्त्रणपटुतररोमावलियूपां मन्मथतस्करगुप्तिक्षमनाभीकूपाम् । प्रपदालम्बिशिखामणिवृन्दारकभूपां कमलासनहरिहरमुखचिन्त्यामितरूपाम् ॥ ४६ ॥ काली बगला बाला तारा भुवनेशी वाराही मातङ्गी कमला वचनेशी । छिन्ना दुर्गा गङ्गा काशी कामेशी त्वत्तो नान्यत्किचित्त्वं चिद्रसपेशी ।। ४७ ॥ त्वं भूमिस्त्वं सलिलं त्वं तेजः प्रबलं त्वं वायुस्त्वं व्योम त्वं चित्तं विमलम् । त्वं जीवस्त्वं चेशस्त्वं ब्रह्मास्यमलं सत्यानृतयोरन्यत्त्वत्तः किं सकलम् ॥ ४८ ॥ कुलकुण्डे त्वं कुरुषे शयने प्रस्ताप स्वाधिष्ठाने मिहिरायुतदीधितितापम् ।

काव्यमाला। नीला नाभौ कण्ठे शशिभा हृतपापं वर्षस्यमृतं बिन्दावानन्दावापम् ॥ ४९ ॥ त्वत्पदपद्मे चित्तं त्रिपुरे मे रमतां तत्रैव प्रतिवेलं मौलिमें नमताम् । यातायातक्लेशः सद्यः संशमतां याचे भूयो भूयो भवता मे भवताम् ॥ ५० ॥ नृत्यति गायति सुरसं सुरनारीवृन्दे करतालीदानोत्सुकसुरविततानन्दे । नीराजनकाले तव मुनिजननुतवेदे चरणानतसम्राजः परिहृतभवखेदे ॥ ११ ॥ मिलदलिपटलीभिः केवलं घातपूर्वः स्फुटितकुसुमगर्भः स्वैरसंचारिणीभिः । उपहितपटवासः पुष्पधूलीकदम्बैः प्रभवतु पदपाती देवि पुष्पाञ्जलिस्ते ॥ १२ ॥ सकृदपि विनताङ्ग्रिस्त्वां परिक्रम्य मात- र्भवति मखफलेषु क्षीणलोभं मनो नः । सरसिजमकरन्दावादतृप्तो मिलिन्दः क्वचिदपि पिचुमन्दे चित्तवृत्तिं तनोति ॥ १३ ॥ जननि खलकपोतन्यायतः पातुकाना- मधिपदकमलं ते मन्दवृन्दारकाणाम् । भवतु नयनयोस्ते गोचरः क्वानतिर्मे न लसति पुनरुच्चैः स्वैरमुद्रीविका चेत् ॥ ५४ ॥ विमलमुकुरबिम्बं पुण्डरीकातपत्रं शिशिरकरसमाने चामरे चामरेशि । करितुरगकदम्ब शक्तिभिर्दिश्यमानं जनय सफलमञ्चल्लोचनालोचनाभिः ॥ ५५ ॥ १.शिवता.

१४९ त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । अथ कृतपरिवाराभ्यर्चनं ते समर्य स्तुतिभिरनुपमाभिः पावये खां रसज्ञाम् । यदपि न रविरश्मिः स्वोपकारं विधत्ते तदपि कमलमालाम्लानहानि तनोति ॥ ५६ ॥ श्रवसि विशति यस्य त्वन्मनोरेकवर्णः सकृदपि विधियोगादम्बिके मानवस्य । लघुतरफलमेतद्यत्रिवर्गाश्रयत्वं परिचरति पुरस्तात्पूरुषार्थश्चतुर्थः ।। ५७ ॥ हृदयकमळमध्ये त्वां समानीय मातः पवनभरितनाडीरन्ध्रमुद्राविधिज्ञाः । दधति परमधन्याः कुण्डलीस्पर्शहृष्य. च्छशिगलदमृतौघप्लावजन्यप्रमोदम् ॥ ५८ ॥ वदति विधिकलत्रं त्वां शिव कोऽपि कश्चि- त्रिपुरमथनपुण्यं श्रीपतेः कोऽपि भाग्यम् । प्रकृतिमिति परेऽपि प्रौढविज्ञानमेके निखिलनिगममूलं मन्महे बोधमेव ॥ १९ ॥ कदा तव पदाम्बुजस्मरणजातरोमोद्मः सदाशिवमदालसे जननि मातरित्युद्गिरन् । निलीनकरणक्रियस्त्रिदशगर्वसर्वकषा- मखर्वपदवीं भजे हरिहरादिभिर्भाविताम् ॥ ६ ॥ त्वदीयमुखचन्दिरे चलितलोचनेन्दिन्दिरे प्रसादकुलमन्दिरे स्थगितपद्मचन्द्रेन्दिरे । प्रभापटलतन्तुरे ललितहावकेलीपुरे हृतस्सरहरान्तरे धृतमतिर्भवं संतरे ॥ ६१ ।। त्वदीयं यद्रूपं जनजननि बिन्दुत्रययुतं स्मरन्नन्तर्योगात्रिदिवपतितामाप सुरपः ।

१५०
काव्यमाला।
इदं को जानीते क्षणमपि हरार्ध प्रजपतां
हसाधै व्यालम्ब्य प्रतिफलति हंसः परिणतिः ॥ ६२ ॥
जननि निभृतं यत्ते रूपं वदत्यतिशाश्वतं
लसतु हृदि नो दीपप्रायः स कोऽपि हसात्मकः ।
स्मरणविषये येन स्वैरं स्वरेण विजृम्भता
त्रिपुरमथनः प्रापेशत्वं तदात्मकतां गतः ॥ ६३ ॥
ऋचामाचार्यासि स्तुतिशतजुषां चापि यजुषां
महाधाम्नां साम्नां प्रथितयशसोऽथर्वशिरसः ।
हरिब्रह्मेशाद्याः प्रपदकिरणोत्तंसमुकुटा-
स्तवातस्त्वां स्तोतुं जनजननि को वा प्रभवतु ॥ ६४ ॥
त्रस्यत्खञ्जनगञ्जनव्यसनिनीमुन्माथिनी माद्यतो
जीवजीवकुलस्य भृङ्गपटलीन्यक्कारबद्धव्रताम् ।
रङ्कच्छङ्कुविधायिनी च नलिनश्रीगर्वसर्वकषां
कारुण्यामृतवर्षिणीं मयि शिवे दृष्टिं मनामोटय ॥ ६५ ॥
रिङ्गट्टङ्गकदम्बडम्बरपरिष्वङ्गप्रसङ्गाकुल-
प्रत्यूषस्फुरमाणपङ्कजवनीसौभाग्यसर्वकषः ।
दृक्कोणः करुणाङ्कुराङ्किततनुः कोऽप्यद्रिजे मद्वपुः-
पान्थत्वे तरसा भवेत्परिकरी धन्यस्तदा स्यां न किम् ॥६६
समुद्यन्मार्तण्डप्रसृमरकरालीमसृणया
पदद्वन्द्वानन्दप्रणयिजनरिङ्गत्करुणया ।
ललल्लीलाभाजा परशिवपरिष्वङ्गपरया
धिया चेतः कालं नय गतनय त्वं क्षणमपि ॥
वेदैरझिभिरुज्ज्वलोपनिषदां वृन्दैरधःकल्पितैः
शास्त्राद्यैरपि तिर्यगूर्ध्वकलितैरोंकारमार्गेण च ।
विष्वङ्मात्रनिबन्धनैः परिचितेऽस्मिन्वाङ्मये पञ्जरे
कीरी काचन चेतनैकविभवा चित्ते चकास्ताच्चिरम् ॥६॥

चतुःषष्ठ्युपचारमानसपूजास्तोत्रम् । तरुणारुणप्रतिमरम्यरुचिं कुसुमेपुचापसृणिपाशकराम् । त्रिगुणात्परां त्रिगुणरूपमयीं भवतीमहर्निशमहं कलये ॥ ६९ ॥ इति निनमतिवैभवानुरूपामकृत कविर्भुवि सामराजनामा । समयिजनमुदेऽम्बिकासपर्याममृतसुखात्मकताविकासपर्याम् ॥ ७० ॥ इति श्रीसत्यानन्दनाथापरनामधेयसामगजदीक्षितविरचिते पूजारत्ने स्थितं त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । श्रीशंकराचार्यविरचितं चतुःषष्ट्यपचारमानसपूजास्तोत्रम् । उपसि मागधमङ्गलगायनैझटिति जागृहि जागृहि जागृहि । अतिकृपाकटाक्षनिरीक्षणैर्जगदिदं जगदम्ब सुखीकुरु ॥ १ ॥ कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् । मणिमयगृहमध्यमेहि मातर्मयि कृपया हि समर्चनं ग्रहीतुम् ॥२॥ कनककलशशोभमानशीर्ष जलधरलैंम्बि समुल्लसत्पताकम् । भगवति तव संनिवासहेतोमणिमयमन्दिरमेतदर्पयामि ॥ ३ ॥ तपनीयमयी सुतूलिकाकमनीया मृदुलोत्तरच्छदा । नवरत्नविभूषिता मया शिबिकेयं जगदम्ब तेऽर्पिता ॥ ४ ॥ कनकमयवितर्दिस्थापिते तूलिकाब्ये विविधकुसुमकीर्णे कोटिबालार्कवर्णे । भगवति रमणीये रत्नसिंहासनेऽस्सि- नुपविश पदयुग्मं हेमपीठे निधेहि ॥ ५ ॥ मणिमौक्तिकनिर्मितं महान्तं कनकस्तम्भचतुष्टयेन युक्तम् । कमनीयतमं भवानि तुभ्यं नवमुल्लोचमहं समर्पयामि ॥ ६ ॥ १. अस्य स्तोत्रस्य पुस्तकद्वयं समासादितम् . तत्रैकं क-चिहितं जयपुरराजगुरुश्री- नारायणपर्वणीकराणां नवपत्रात्मकम् .अपरंख-चिदितं चातुर्वैदिकोपाख्यगौडरामचन्द्रशर्म- तनूजनाथूनारायणशर्मणां चतुर्दशपत्रात्मकं समासादितम् . २. 'हेमपूर्णकुम्भ' क. ३. 'मण्डपमेतदेहि' ख. ४. 'चुम्बि' ख.

१५२ काव्यमाला। दूर्वया सरसिजान्वितविष्णुकान्तयापि सहितं कुसुमाढ्यम् । पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ॥ ७ ॥ गन्धपुप्पयवसर्षपदूर्वासंयुतं तिलकुशासतमिश्रम् । हेमपात्रनिहितं सह रत्नरर्थ्यमेतदुररीकुरु मातः ॥ ८ ॥ जलजातिना करेण जातीफलकङ्कोललवङ्गगन्धयुक्तैः । अमृतैरमृतैरिवातिशीतैर्भगवत्याचमनं विधीयताम् ॥ ९ ॥ निहितं कनकस्य संपुटे पिहितं रत्नपिधानकेन यत् । तदिदं भवतीकरेऽर्पितं मधुपर्क जननि प्रगृह्यताम् ॥ १० ॥ एतच्चम्पकतैलमम्बं विविधैः पुष्पैर्मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्धमद्भिर्वृतम् सानन्दं सुरसुन्दरीभिरभितो हस्ते धृतं तन्मया केशेषु भ्रमरप्रभेषु सकलेश्वङ्गेषु चालिप्यते ॥ ११ ॥ मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः । केशानामलकैर्विशोध्य विशदान्कस्तूरिकाद्यचितैः स्नानं ते नवरत्नकुम्भविधिना संवासितोष्णोदकैः ॥ १२ ॥ दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः । स्नपयामि बताहमादृतो जननि त्वां पुनरुष्णवारिभिः ॥ १३ ॥ एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै- माणिक्यद्रवमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरा- स्नानं ते परिकल्पयामि जननि स्नानं त्वमङ्गीकुरु ॥ १४ ॥ बालार्कद्युति दाडिमीयकुसुमप्रेस्पर्धि सर्वोत्तम मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् । मुक्ताभिम्रथितं सुकञ्चकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १५ ॥ 1. 'केसरम्' ख. २. 'सुकुसुमैः' ख. ३. 'क्यामृत' ख. ४. 'मान्त्रिकान्' ख. ५. 'सस्पर्षि' क. ६. 'च कश्रुक' ख.

चतुःषष्ठ्युपचारमानसपूजास्तोत्रम् । १५३ नवरत्नमये मयार्पिते कमनीये तपनीयपादुके । सविलासमिदं पदद्वयं कृपया देवि तयोनिधीयताम् ॥ १६ ॥ बहुभिरगुरुधूपैः सादरं धूपयित्वा भगवति तव केशान्कङ्कतैर्जियित्वा । सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा झटिति कनकसूत्रै—टयन्वेष्टयामि ॥ १७ ॥ सौवीराजनमिदमम्ब चक्षुषोस्ते विन्यस्तं कनकशलाकया मया यत् । तन्यून मलिनमपि त्वदक्षिसङ्गाद्ब्रह्मेन्द्राधभिलषणीयतामियाय ॥ १८ ॥ मञ्जीरे पक्ष्योर्निधाय रुचिरां विन्यस्य काञ्ची कटौ मुक्ताहारमुरोजयोरनुपमा नक्षत्रमालां गले । केयूराणि भुजेषु रत्नवलयश्रेणी करेषु क्रमा- त्ताटके तव कर्णयोविनिदधे शीर्षे च चूडामणिम् ॥ १९ ॥ धम्मिल्ले तव देवि हेमकुसुमान्याधाय भालस्थले मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् । मातमौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूमिकाः कट्यां काञ्चनकिङ्किणीविनिदधे रत्नावतंसं श्रुतौ ॥ २० ॥ मातर्भालतले तवातिविमले काश्मीरकस्तूरिका- कर्पूरागरुभिः करोमि तिलकं देहाङ्गराँगं तव । वक्षोजादिषु यक्षकर्दमरसं सिक्तासु पुष्पाक्षतैः पादौ कुङ्कुमलेपनादिभिरहं संपूजयामि क्रमात् ॥ २१ ॥ रेमाक्षतस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्वैः । अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ २२ ॥ जननि चम्पकतैलमिदं पुरो मृगमदोऽयमिदं पटवासकम् । सुरभिगन्धमिदं च चतुःसमं सपदि सर्वमिदं प्रतिगृह्यताम् ॥२३॥ सीमन्ते ते भगवति मया सादरं न्यस्तमेत- सिन्दूरं ते हृदयकमले हर्षवर्षे तनोतु । १. 'युते' ख. २. 'मञ्जीरान्' क. ३. 'विराजिहेमलतिका' ख. ४. 'रागात्ततः' 5.५. 'भयं पटवासकः' ख. ५ काव्यमाला। बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ति- रैन्तर्वान्तं हरतु सततं चेतसा चिन्तयामि ॥ २४ ॥ मन्दारकुन्दकरवीरलवङ्गपुप्पै. स्त्वां देवि संततमहं परिपूजयामि । जातीजपाबकुलचम्पककेतकानि नानाविधानि कुसुमानि च तेऽर्पयामि ॥ २५ ॥ मालतीबंकुलहेमपुप्पिकाकाञ्चनारकरवीरकैतकैः । कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः ॥ २६ ॥ पारिजातशतपत्रपाटलैमल्लिकाबकुलचम्पकादिभिः । अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः ॥ २७ ॥ लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः कर्पूराकलितैः सितामधुयुतैर्गोसर्पिषा लोडितैः । श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि- धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ २८ ॥ रत्नालंकृतहेमपात्रनिहितोसर्पिषा दीपितै- दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः । आताम्रज्वलदुज्ज्वलज्वलनवद्रत्नप्रंदीपैः सदा मातत्स्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ २९ । मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकाः सूपापूपसिताघृतैः सवटकैः सक्षुद्ररम्भाफलैः। एलाजीरकहिङ्गुनागरनिशास्तूरिकासंस्कृतैः शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यम्बिके ॥ ३० ॥ सापूपसूपदधिदुग्धसिताघृतानि सुस्वादुभक्ष्यपरमान्नपुरःसराणि । १. 'रन्तान' क. २. कुरण्ट' क. ३. 'अम्बुजैश्व कुसुमैश्च' ख. ४. 'जननी ध क. ५. सर्पिषोद्दीपितः' क. ६. 'प्रदीपैस्तथा' ख. ७. 'कुस्तुम्बरीसंस्कृतैः' ख. ' चतुःषष्ठयुपचारमानसपूजास्तोत्रम् । शाकोल्लसन्मरिचजीरकवाल्हिकानि भक्ष्याणि भेक्ष जगदम्ब मयापितानि ॥ ३१ ॥ क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदमुत्तमं मधु । मातरेतदमृतोपमं त्वया संभ्रमेण परिपीयतां मुहुः ॥ ३२ ॥ उप्णोदकैः पाणियुगं मुग्वं च प्रक्षाल्य मातः कलधौतपात्रे । कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन ॥ ३३ ॥ अतिशीतमुशीरवासितं तंपनीयावपने निवेदितम् । पटपूतमिदं जितामृतं शुचि गङ्गामृतमम्ब पीयताम् ॥ ३४ ॥ -जैम्ब्वानरम्भाफलसंयुतानि द्राक्षाफलाक्रोडसमन्वितानि । सनालिकेराणि सदाडिमानि फलानि ते देवि समर्पयामि ।। ३५ ॥ कॅलिङ्गकोशातकिसंयुतानि जम्बीरनारङ्गसमन्वितानि । सबीजपूराणि सेवादराणि फलानि ते चाम्ब समर्पयामि ॥ ३६ ॥ कपूरेण युतैर्लवङ्गसहितैः कङ्कोलचूर्णान्वितैः सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः । मातः केतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनीयमतुलं ताम्बूलमङ्गीकुरु ॥ ३७ ॥ एलालवङ्गादिसमन्वितानि कङ्कोलकर्पूरसमिश्रितानि । ताम्बूलवल्लीदलसंयुतानि पूगानि ते देवि समर्पयामि ॥ ३८॥ ताम्बूलवल्लिदलनिर्जितहेमवर्ण वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् । रत्नस्थगिस्थितमिदं खदिरेण युक्तं ताम्बूलमम्ब वदनाम्बुरुहे गृहाण ॥ ३९ ॥ महति कनकपात्रे स्थापयित्वा विशाला- ण्डमरुसदृशरूपान्बद्धगोधूमदीपान् । बहुघृतमथ तेषु न्यस्य दीपानुकम्पा- भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ ४० ॥ १. 'भुइक्ष्व' ख. २. 'तपनीयाचमनिवे०' ख. ३. 'आताम्र' ख. ४. 'कुष्माण्डी' ख. ५, 'सजाम्बवानि' ख. ६. 'देवि' ख. ७. 'मिन्दुरुचिभि' क. ८. 'सार्ध' ख.

काव्यमाला। सविनयमथ दत्त्वा जानुयुग्मं धरण्यां सपदि शिरसि धृत्वा पात्रमारार्तिकस्य । मुखकमलसमीपे तेऽम्ब साधै त्रिवार भ्रमयति मयि भूयात्ते कृपाः कटाक्षः ॥ ४१ ॥ अथ बहुमणिमित्रैर्मोक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः । मिलितविविधमुक्तादिव्यलावण्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ ४२ ॥ मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् । भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम्॥४३॥ शरदिन्दुमरीचिगौरवर्णैर्मणिमुक्ताविलसत्सुवर्णदण्डैः । जगदम्ब विचित्रचामरैस्त्वामहमानन्दभरेण वीजयामि ॥ ४४ ॥ मार्तण्डमण्डलनिभो जगदम्ब योऽयं भत्त्या मया मणिमयो मुकुरोऽपिंतस्ते । पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय- मस्मिन्विलोकय विलोलविलोचने त्वम् ॥ ४५ ॥ इन्द्रादयो नतिनतैर्मुकुटप्रदीपै- राजयन्ति सततं तव पादपीठम् । तस्मादहं तव समस्तशरीरमेत- न्नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६॥ प्रियगतिरतितुङ्गो रत्नपल्लाणयुक्तः कनकमयविभूषः स्निग्धगम्भीरघोषः । भगवति कलितोऽयं वाहनार्थ मया ते तुरगशतसमेतो वायुवेगस्तुरंगः ॥ ४७ ॥ १. 'धारण्यां' क-ख, २. जननि तव प्रकुर्वे नित्यमारातिकं ते ख. ३. 'प्रीत्यै स्वहस्ते' ख. ४. 'पर्यत' ख. .

चतुःषष्ठयुपचारमानसपूजास्तोत्रम् । १५७
मधुकरवृतकुम्भे न्यस्तसिन्दूररेणुः
कनककलितघण्टः किङ्किणीशोभिकण्ठः ।
श्रवणयुगलचञ्चच्चामरो मेघतुल्यो
जननि तव मुदे स्तान्मत्तमातङ्ग एषः ॥ ४८ ॥
द्रुततरतुरगैर्विराजमानं मणिमयचक्रचतुष्टयेन युक्तम् ।
कनकमयमहं वितानवन्तं भगवति ते हि रथं समर्पयामि ॥ ४९ ॥
हयगजरथपत्तिशोभमानं दिशि दिशि दुंदुभिमेघनादयुक्तम् ।
अतिबहुचतुरङ्गसैन्यमेतद्भगवति भक्तिभरेण तेऽर्पयामि ॥ ५० ॥
परिखीकृतसप्तसागरं बहुसंपत्सहितं मयाम्ब ते ।
विपुलं धरणीतलाभिधं प्रबलं दुर्गमिदं समर्पितम् ॥ ११ ॥
शतपत्रयुतैः स्वभावशीतैरतिसौरभ्ययुतैः परागपीतैः ।
भ्रमरीमुखराकृतैरनन्तैर्व्यजनैस्त्वां जगदम्ब वीजयामि ॥ १२ ॥
भ्रमरलुलितलोलकुन्तलाली विगलितमाल्यविकीर्णरङ्गभूमिः ।
इयमतिरुचिरा नटी नटन्ती तव हृदये मुदमातनोतु मातः ॥ १३ ॥
मुखनयनविलासलोलवेणीविलसितनिर्जितलोलभृङ्गमालाः।
युवजनसुखकारिचारुलीला भगवति ते पुरतो नटन्ति बालाः॥५४॥
रुचिरकुचतटीनां नाट्यकाले नटीनां
प्रतिगृहमथ तत्र प्रत्यहं प्रादुरासीत् ।
धिमिकितिधिमिधिद्धी धिद्धिघिद्धीधिमिद्धी
धिमिकितिधिमितत्ताथेयथेयेति शब्दः ॥ ५५ ॥
भ्रमदलिकुलतुल्या लोलधम्मिल्लभारा
सितमुखकमलोद्यदिव्यलावण्यपूरा ।
अनुपमतमवेषा वारयोषा नटन्ती
परभृतकलकण्ठी देवि धैर्य तनोतु ॥ ६६ ॥
डमरुडिण्डिमझुझुरभल्ली मृदुरवाईघटाघटाहयः।
झटिति झाङ्कृतिभिर्जगदम्बिके मुहुरिमे हृदयं सुखयन्तु ते॥ ५७॥

काव्यमाला।
विपञ्चीषु सप्त स्वरान्वादयन्त्यस्तव द्वारि गायन्ति गन्धर्वकान्ताः ।
क्षणं सावधानेन चित्तेन मानः समाकर्णय त्वं मया प्रार्थितासि ॥२८॥
अभिनवकमनीयैतनैनतकीनां
क्षणमथ रमयित्वा चेत एवं त्वदीयम् ।
स्वयमहमपि चित्रैर्नृत्यवाद्यप्रगीतै-
भगवति भवदीयं मानसं रञ्जयामि ॥ १९ ॥
तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः ।
तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः ॥ ६० ॥
पदे पदे या परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति ।
तां सर्वपापक्षयहेतुभूतां प्रदक्षिणां ते परिकल्पयामि ॥ ६१ ॥
रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।
अशेषवृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥ ६२ ॥
चरणनलिनयुग्मं पङ्कजैः पूजयित्वा
कनककमलमालां कण्ठदेशेऽर्पयित्वा ।
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देवि हर्षे तनोतु ॥ ६३ ॥
अथ मणिमयमञ्चकाभिरामे द्युतिमति पुष्पवितानराजमाने ।
प्रसरदगरुधूपधूपितेऽस्मिन्भगवति वासगृहेऽस्तु ते निवासः ॥६५॥
तव देवि सरोजचिह्नयोः पदयोर्निजितपद्मरागयोः ।
अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम्.।। ६९ ॥
अथ मारुतशीतवासितं निजताम्बूलरसेन रञ्जितम् ।
तपनीयमये हि पट्टके मुखगण्डूषजलं निधीयताम् ।। ६६ ॥
एतस्मिन्मणिखचिते सुवर्णपीठे त्रैलोक्याभयवरदे निधाय पादौ ।
विस्तीर्णे मृदुतरलोत्तरच्छदेऽस्मिन्पर्य के कनकमये निषीद मातः ॥६७॥
क्षणमथ जगदम्ब मञ्चकेऽस्मिन्मृदुतरतूलिकया विराजमाने ।
अतिरहसि मुदा शिवेन साधै सुखशयनं कुरु मां हृदि सरन्ती ॥६॥

चतुःषष्ठयुपचारमानसपूजास्तोत्रम् । मुक्ताकुन्देन्दुगौरां मणिमयमुकुटा रत्नताटङ्कयुक्ता- मक्षस्रक्पुप्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् । नानालंकारयुक्तां सुरमुकुटमणिद्योतितस्वर्णपीठां सानन्दो सुप्रसन्नां त्रिभुवनजननी चेतमा चिन्तयामि ॥ ६९ ॥ एषा भन्या तव विरचिता या मया देवि पूजा स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व । न्यूनं यत्तत्तव करुणया पूर्णतामेति सर्व सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ७० ॥ पूजामिमां पठेत्प्रातः पूजां कर्तुमनीश्वरः । पूजाफलमवाप्नोति वाञ्छिनार्थं च विन्दति ॥ ७१ ।। प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत् । वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् ।। ७२ ॥ पूजामिमां यः पठति प्रभाते मध्याहकालेऽप्यथवा प्रदोपे । धर्मार्थकामान्पुरुषोऽभ्युपैति देहावसाने शिवतामुपैति ।। ७३ ॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमच्छकराचार्यविरचितचतुःषष्ठगुपचार- मानसपूजास्तोत्रं समाप्तम् ।

No text on this page.

Kaavyamaalaa Navamoguchchhakan'

Author
Durgaiprasaadena
Title
Kaavyamaalaa Navamoguchchhakan'
File name
Kaavyamaalaa Navamoguchchhakan'
Text
OCR done
Citation
1893
Publisher
Tukaram Javaji,bombay
Language
Sanskrit
Pages
165
Library
Svi-vmpl-machilipatnam
Classification
Literature
DLI number
368849
Barcode
5010010032861.00
Scanning centre
RMSC, IIIT-H
Rights
OUT_OF_COPYRIGHT
VMLT id
4X8VCqNOHSt
Download PDF

Kaavyamaalaa Navamoguchchhakan'